Tms
Kaavyamaalaa
Front matter
No text on this page.
नाम- नानाविधमाचीनकाव्यनाटकचम्पूमा च्छन्दोलंकारादिसाहित्यग्रन्यानां संग्रहः। तृतीयो गुच्छकः। जयपुरमहाराजाश्रितेन पण्डितव्रजलालसूनुना महामहोपाध्याय पण्डितदुर्गाप्रसादेन, मुम्बापुरवासिना परबोपालपाण्डुरङ्गात्मजकाशीनाथशर्मणा च संशोधितः। द्वितीयं संस्करणम् । मुम्बग्यो निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीतः। १८९९ (अस अन्यस पुनर्मुद्रणादिविषये सर्वथा निर्णयसागरमुद्रायत्रालयाधिपते. रेवाधिकारः)
अनुक्रमणिका ।
पृष्ठम् ।
....
१. गोकुलनाथविरचितं शिवशतकम्
२. पञ्चस्तवी..
३. दामोदरगुप्तविरचितं कुट्टनीमतम्
४. रुद्रभट्टकृतं शृङ्गारतिलकम्
१. माधवकविप्रणीतं दानलीलाकाव्यम्
....
....
९
३२
१११
१५२
काव्यमाला। महामहोपाध्यायश्रीगोकुलनाथविरचित शिवशतकम् । विततविविधसंप्रदायशाखाव्यतिकरवेष्टितमूर्तये नमोऽस्तु । बहुतरजगदण्डबीजपूरप्रसवफलेग्रहिपादपाय तुभ्यम् ॥ १ ॥ न धरणिसलिलानला न वायुर्न खमत एव न खानि नापि वर्म । न समयककुभौ न चिन्न चित्तं पुरुषपुरंदर पूरुषस्तवासि ॥ २ ॥ अविरतपरिवृत्तदण्डकाष्ठाकुलमतुलव्यतिवर्तमानवेगम् । भ्रमयसि जगदण्डगोलमालाकलशकलापकुलाल कालचक्रम् ॥ ३॥ भुवनपुटकुटीरहट्टयन्त्रभ्रमणसहध्रुवतर्कतः क्रमेण । सृजसि समयसूत्रमत्र मायामयपटवानविधानतन्तुवायः ॥ ४ ॥ निगमवनवनस्पते प्रसूषे कति जगदण्डमयान्युदुम्बराणि । दधति बहलजन्तुजालमन्तः पुनरपि तानि लयं त्वयि प्रयान्ति ॥ ५॥ बहुतरजगदण्डमारमतुर्नहि महिमानमहं तवावयामि । मशक इव शलाटुगर्भजन्मा विटपबृहत्त्वमुदुम्बरद्रुमस्य ॥ ६ ॥ प्रविशति मम चित्तवेश्म सर्वेन्द्रियविकलः श्रुतिशिष्यमाणवा । विधिगृहतिलबिन्दुजालबहीं गलितवपुः प्रपितामहः प्रजानाम् ॥ ७ ॥ विगलितवपुषं विकारवार्तारहितमनिन्द्रियमक्रियं पुराणम् । त्वमसि तदिति चेतनाविशेषं निजपितरं निगमाः प्रबोधयन्ति ॥ ८॥ १. अयं पण्डितः खिस्तसंवत्सरीयवतमानशतकप्रारम्भ एव बभूवेत्येके, पूर्वशतक. पूर्वार्ध इत्यन्ये, किंतु पादोनवर्षशतद्वयान प्राचीनः. अयं च मिथिलादेशान्ततिनि 'मगरौनी संज्ञकामे विद्यानिधिपीताम्बरपण्डिताज्जन्म मे इति मैथिलाः. अद्या- वधि ज्ञाता एतत्कृता प्रन्यास्त्वेते-(१)दीधितिविद्योतः (शिरोमणिटीका), (२)न्याय- सिद्धान्ततत्वम्, (१) पदवाक्यरत्नाकरः, (४) मासमीमांसा, (५) मिथ्यात्वनिरुक्तिः, .
२
काव्यमाला।
जगदिदमुपदीपयत्यविद्यातिमिररिपौ त्वयि न खमप्यवैमि ।
प्रतपति तपनातपे तपौँ भजति यदान्ध्यमसावुलुकलोकः ॥९॥
विषमनिगमकाननान्तशाखाततिषु निलीय परानिरीक्षमाणः ।
परिणतिविदलज्जगत्कपित्थप्रसनकपे सुचिरान्निरूपितोऽसि ॥ १० ॥
सकलमपि मया खकर्मबीजं त्वयि वृषवाह समर्पयांबभूवे ।
तव मम च न चेत्फलं प्रसूते कथमधुनाप्यहमेव दोषभूमिः ॥ ११ ॥
नट इव वशगो भवामि यासामहमपहस्तितसर्वभूतपूर्वः ।
प्रकृतिचरितनाट्यसूत्रधार प्रमयसि मामियतीषु भूमिकासु ॥ १२ ॥
भवदभिरुचितासु मे क्रियासु व्यवहरतोऽनुदिनं हिताहितासु ।
जनननिधनबन्धमोचनेषु प्रभुरसि भूतपते तवास्मि दासः ॥ १३ ॥
भवदभिमतमेव सेवमानो हितमहितं च त्वया वृथास्मि बद्धः।
तदपि कतममाश्रये शरण्यं बत परवानितरः पतिस्त्वमेव ॥ १४ ॥
वरमुपहसनीयवर्णकोऽयं विविधविकारविडम्बितस्वरूपः ।
तदपि कृतकहासमात्रतोविरम निवारय निःसहोऽस्मि मायाम् ॥ १५ ॥
क जगति कतमाहि कस्य हेतोरहमिह बद्ध इति त्वमेव वेत्थ ।
त्वमपि यदि न चेतये न च त्वां मम करुणामय तत्र कोऽपराधः ॥१६॥
अविदितगतिना प्रमादनिद्रामुषितमतिः कितव त्वयास्मि बद्धः ।
कथमपि मम दृष्टिवर्त्मवर्ती भव पथतस्करबन्धने प्रभुः स्याः ॥ १७ ॥
बहुविधभवभूमिकाभिरामिनटयसि नाथ यथा तथा नटामि ।
कृपण गमयिता भवानविद्याजवनिकयान्तरितः कियन्त्यहानि ॥ १८ ॥
वपसि विगतभोगभाग्य दूरान्मयि वृषवाह तवाहमुर्वरास्मि
स्वपदमुपदधासि यत्र तस्मिन्भवति कडङ्गर एव कर्मबीजम् ॥ १९ ॥
प्रभवति मतये पदप्रबन्धो न तव निरत्यय नित्यचेतनस्य ।
न भवति करुणा सतो(?) पुरारे मम कृपणैः परिदेवितप्रपञ्चैः ॥ २० ॥
सरसमपि वरं न भोक्तुमीहे हर मम शम्बलसंचयं गृहाण ।
उपदिश कतरद्धि दूरयात्राश्रमशमनं भववर्त्मनोऽवसानम् ॥ २१ ॥
शिवशतकम् ।
३
मम भवपथिकस्य कर्म भोग्यं प्रलयनिशि त्वमवेक्षथाः शयालोः ।
त्वयि सकलमकिंचनो बुभूषुः प्रहरकवेतनमेतदर्पयामि ॥ २२ ॥
श्रुतिजनक रटत्यसौ कुमारी तव दुहिता बहिरेत्य नेति नेति ।
व्यवहित निकटस्थितेऽपि तस्मात्त्वयि मिलितेऽपि ममातिथेः क भोगः॥२३॥
अपरिमितविभागभूमिरेकस्त्वमसि ततो जगदण्डबिन्दुरासीत् ।
इति भुवनभरैकधुर्य जाने दश ककुभो गणितक्रमेण सिद्धाः ॥ २४ ॥
कथय क इव दिग्विपर्ययेऽपि प्रभवति गन्तुमतः क संसरेयम् ।
भव भवपथिकस्य कोऽप्यपूर्वस्त्वमहमिति प्रसृतो मम प्रमोहः ॥ २५ ॥
मयि परमविभौ विशुद्धसत्त्वे यदिह शरीरतदात्मतामधासीः ।
निगमपुरुष तत्प्रतिक्रियायै त्वयि निदधामि समस्तवस्त्वभेदम् ॥ २६ ॥
निबिडजडतदात्मताप्रमोहं विमलयति त्वदभेदविभ्रमो माम् ।
प्रकृतिमुपनयन्ति वारिधानी कतकरजांसि रजोन्तरापकर्षात् ॥ २७ ॥
पुरि पुरि विहरामहे भ्रमन्तः पुरहर पश्यसि भोगवञ्चितोऽस्मान् ।
किमिति न विहरेम नाथवन्तो वयमितरे त्वमनाथ एक एव ॥ २८ ॥
स्वपिषि न परकर्मसु प्रसक्तः परमुपभोजयतस्तव क भोगः ।
परचरितमवैषि निर्निमेषः प्रकृतिदरिद्र न कोऽपि पश्यति त्वाम् ॥ २९ ॥
प्रकृतिचटुल सूक्ष्मभूतशेषे प्रकृतिविकारनिकोचभाजि काले ।
अविरतपरिवृत्तिखेदखिन्ने स्वपिति जने प्रतिबुध्यसे त्वमेकः ॥ ३० ॥
प्रलयदहनदग्धशेषपीलप्रकरशिलोञ्छपवित्रवृत्तिरादौ ।
घटयसि भुवनानि तेषु जीवप्रकृतिचलैः परमाणुभिः शरीरम् ॥ ३१ ॥
जनशरण शरीरिणां प्रसृप्तैः करणगणैरुपलभ्यचेतनानाम् ।
कतिचन जनुरन्तरानुभूतिप्रसृमरवासनया स्मृतीः प्रसूषे ॥ ३२ ॥
अतिशयितविबुद्धवत्पुराणः स्मरति मुनिनिगमं हिरण्यगर्भः ।
गगनपवनसंनिपातकर्ता कथमसि वा करुणानपेक्ष एव ॥ ३३ ॥
अथ कृतककलेवरद्वयेन व्यवहरता च निदेशदायिना च ।
अवगमितपदप्रवृत्तिमादौ कवयसि लोकहिताय संप्रदायम् ॥ ३४ ॥
४
काव्यमाला।
हितविधिकपटान्निसर्गमूढप्रकृतिरसावहितान्निवर्तनीयः ।
इति विषमतमेऽपि संविधाने गणयतु कस्तव नाथ कौशलानि ॥३५॥
भवतु विधिरपूर्वकार्मतत्त्वाशयहितसाधनताभिधासु कश्चित् ।
तदपि मुषितदोषमन्तरा त्वां न भवितुमर्हति चोदना प्रमाणम् ॥ ३६ ॥
प्रभवति परमाप्तयो दुरन्तादपसरणाय हिते प्रवर्तनाय ।
मह चरति चतुभिरर्थवादैनिगमकवे स तवैव सूक्तसारः ॥ ३७ ॥
अजिनमुसलवेदियूपशम्यादृषदुपलस्फ्यहविःकपालशूपैः ।
अथ गुरुयजमानगातृहोतृप्रभृतिभिरध्वरकर्मसु त्वमिज्यः ॥ ३८ ॥
विकिरति परितो घनावलीव श्रुतिरमृतानि तवाशयादुदस्य ।
विलयमयमुपैति चित्समुद्र त्वयि जगतो निगमस्य चित्प्रवाहः ॥ ३९ ॥
अभिसरति परं परं पुरारे विषयमनेकमपास्य पूर्वपूर्वम् ।
वरुणनिलयमापगेव यावद्भजति भवन्तमसौ न चित्तवृत्तिः ॥ ४० ॥
गुणगणमपनीय चित्तकूपे मम निगमैः सहसा निपातितोऽसि ।
अमृतकलश तिष्ठ तिष्ठ मन्ये पुनरपि जीवनमुद्धरिष्यसे नः ॥ ४१ ॥
प्रथमसमयसंगमाय नैतज्जगदुपजीवति केवलं भवन्तम् ।
भवतु सततसन्तमन्तरा त्वां कथमनिदंप्रथमापि वस्तुसत्ता ॥ ४२ ॥
प्रवहपवनवेगपट्टितोऽपि स्खलति न यजगदण्डपिण्डभारः ।
लघुगुरुतुलनातुलाप्रकाण्ड दृढिमगुणः स भवद्गुणत्रयस्य ॥ ४३ ॥
त्वमखिलजगदीश षड्भिरङ्गैरुपचितवेदमजीजनः षडङ्गम् ।
कथय कथमसावुपैत्वसत्तां सततसतो भवतः स्वतः प्रपञ्चः ॥ १४ ॥
विशकलितमनुव्रजन्निचित्य स्थपतिरिव त्वमजीघटः प्रपञ्चम् ।
विभुरसि न च युज्यसे विकारैस्त्वयि समवैतु कथं स भूतसर्गः ॥ ४५ ॥
न जगदिदमहेतुतो न शून्यादवधिमतां कथमुद्भवोऽस्त्वकस्मात् ।
प्रकृतिरियमधर्मधर्मरूपा पुरुषगुणः कथमारभेत विश्वम् ॥ १६ ॥
स्वपरपरिचयान्ध्यहेतुमेतं शिव भवदावरणीयमन्धकारम् ।
शमयति जगदण्डबिन्दुवृन्दाम्बुद भवदेकपदा विवेकविद्युत् ॥ ४७ ॥
शिवशतकम् ।
मरसि कथमनन्यदेव वृत्तां प्रभवकथाविधुरां निजामवस्थाम् ।
पुनरपि न चिराजनार्दन त्वां न परिचरिष्यति चेतनो द्वितीयः ॥ १८ ॥
निमिषपरिचितो हरे समूलं हरसि विशेषगुणव्रजं परस्य ।
प्रथयसि खलतामिमामपूर्वी कथयसि यद्विगुणत्वमात्मनोऽपि ॥ १९ ॥
अलमवगलितेन्द्रियप्रवृत्तेस्तव जरतः पुरुषस्य जागरेण ।
अयमहमधुना प्रबुद्ध्यमानः पुरुषविकारकरी निहन्मि मायाम् ॥ ५० ॥
असकृदनटदस्मिता नटी मे निहितपदा मशके मतङ्गजे च ।
ध्रुवमुपरि तवाघिरोक्ष्यतीयं भव महतोऽपि महानणोरणीयान् ॥ ११ ॥
विलयमुपजगाम चेदखण्डस्त्वयि जरठो जगदण्डगुल्मपिण्डः ।
क्षपयसि तदपि क्षपामनिद्रः कतिभिरसौ हि बुभूषति प्ररोहैः ॥ १२ ॥
विकिरति परदृष्टिवञ्चनाय त्वदुपरि विष्टपसर्षपानविद्या ।
तदपि निमिषमात्रनिर्गतोऽपि प्रविशति भूतगणो भवन्तमेव ॥ १३ ॥
असकृदुदरमद्भिरकभेदैर्नटगणनिष्क्रमणाद्विविक्तरङ्गः ।
अविदितमुखसंधिरामुखान्तो निगमकवेस्तव नाटकप्रबन्धः ॥ १४ ॥
भ्रमयसि जगतस्त्वमेव संज्ञापरिचयसंस्कृतिरूपवेदनाभिः ।
सदसदतदपोढवस्तुचिन्ताकृतिरिति कल्पयसे विवेकवेद्यम् ॥ ५५ ॥
त्वममृत विषयप्रवेशभूमौ भवसि दृशः पथि यस्य स द्वितीयम् ।
जगति न परिपश्यति स्म जिला स्मरहर दृष्टिविषाधिका गतिस्ते ॥१६॥
द्रुहिणभवनपद्मबीजमालामणिपरिवर्तनतत्परात्मनस्ते ।
प्रसितुमखिलमेव जन्तुजातं विजनयतो विदिता बिडालवृत्तिः ॥ १७ ॥
अपरिमितकृतेनिराश्रयस्य भ्रमरहितस्य निरस्तचेष्टितस्य ।
दृषदुदरदरीषु दर्दुराणां घटनपटोस्तव कीदृशं शरीरम् ॥ १८ ॥
भुवनभवनमासनप्रदीप न्यपतदसौ त्वयि चेतनापतङ्गी ।
क्षणमधिकमदीप्यत ज्वलन्ती पुनरजहात्प्रथमामपि खसत्वाम् ॥ १९ ॥
ध्रुवमियमपवर्गरात्रिसंध्या भवति यतस्त्वयि निर्भरोऽनुरागः ।
रुचिमय चरमोऽयमञ्जलिस्ते ननु नचिरादविता भवानदृश्यः ॥१०॥
aur
काव्यमाला।
यदपि तव वशे ममेन्द्रियाणि श्रुतिविषयावधिवर्तमानदृष्टेः ।
मुखमसि जगतस्तथापि नाथ श्रुतिमुकुरेण विना न वेदितासे ॥११॥
मतिधनमितरे सुदीर्घनिद्राप्रणवधियस्त्वयि निक्षिपन्त्यतन्त्रे ।
उपहरणसुसंचितो न जातु व्ययमुपगच्छति चेतनानिधिस्ते ॥ १२॥
कचिदपि विषमे त्वया नियुज्य स्थितिमनवाप्य चिरस्य संसरामि ।
भवगिरिसरिदस्मि चित्समुद्र खमपि जहामि तदा लमे यदि त्वाम् ॥६३॥
भगवति नियते विदूरयात्रासह""संसरणाध्वनोऽयमन्तः ।
जरति विरम निःसहासि संविनगरमतःपरमद्वयोपभोग्यम् ॥ ६४ ॥
विलिखतु कथमक्षराणि भाले स विधिरदृष्टपदार्थलेखदक्षः ।
मम हि मिलितमक्षपादपादप्रणिपतनेन ललाटसीमि चक्षुः ॥ १५ ॥
उडुनि मयि वे प्रकाशलेशं व्यवधिवशादपरीक्षितो न्यधासीः ।
तमपहरसि संनिकर्षमेत्य त्वदुपरि तर्हि निजं वपुस्त्यजामि ॥ १६ ॥
भवपथपथिकोऽमि वाटपाटचर मिलितोऽसि विलुण्ठ्य संपदो मे।
अहमपि भवदन्तरं प्रविश्य ध्रुवमचिरेण हरामि ते विभूतीः ॥ १७ ॥
श्रुतिरसि पुरुषार्थसंनिबद्धस्तव चरमे प्रथमे विरौमि वत्सः ।
अमरगवि स दोग्धि कस्य हेतोरमृतमभोक्तरि पूर्तिभाजि भाण्डे ॥ १८ ॥
शिव तव मम चान्तरालभूमौ विविधविधां व्यवधां व्यधाद्विधाता ।
तदपि हि भवतोऽहमेव भित्तिर्भवति वृतिः सदनस्य नाजिरस्य ॥ १९ ॥
अवधिरुपरंराम भूर्विभक्ता प्रभवसि गूढमतिर्न मां प्रहर्तुम् ।
उदहमहमिकाहृदेकशेषावधिरधुना ध्रुवमावयोर्विमर्दः ॥ ७० ॥
न धरणिरुपरि प्रयाति नाधः पतति न च प्लवते न बम्श्रमीति ।
न च दिवि वसति खशक्तियोगादपि तु भवानचलास्थिरत्वहेतुः ॥७१॥
अविषमचतुरस्रषडिभागां न सृजसि कन्दुकनिस्तलां न सूषे ।
पटयसि पृथिवीमिमां खचक्रभ्रमणकुलाल विशालदर्पणाभाम् ॥ ७२ ॥
कुरहर परदृष्टिदोषशान्त्यै कति जगदण्डकगण्डकान्बिमर्षि ।
वदुपरि परिपातयन्ति दृष्टिं विजहति सर्वमकिंचना भवन्ति ॥ ७३ ॥
शिवशतकम् ।
परपुरमभिविश्य सर्वलोकं अमयसि सर्वदिनेषु भूतवर्गः ।
भवपितृवनवाटबोधिवृक्ष प्रलयनिशासु निलीय सेवते त्वाम् ॥ ७४ ॥
ग्रहगृहसरसीरुहस्य राहुभ्रमरविमर्दसहार्ककर्णिकस्य ।
भ्रमणमिदमभिव्यनक्ति लीलां तव घटितां ध्रुवनालघट्टनाय ॥ ७ ॥
सकलगुणगणो ममोर्णनाभेविलयमुपैति वितायते च भूयः ।
पटुजनजडतापहारहेतोः क्षणमपि न क्षमसे क्षयं गुणानाम् ॥ ७६ ॥
न खलु विघटिताः पुनर्घटन्ते न च घटिताः स्थिरसङ्गतां श्रयन्ते ।
पिपतिषुमवशं रुजन्ति वंश्यास्तटतरुमाप इवापगाणकस्य(?) ॥ ७७ ॥
विगतविपरिलोपदृष्टि पश्यन्वशयसि यां पुरुषप्रकाण्ड मायाम् ।
प्रकृतिचपलया तया विकारैर्बहुविधवर्णिकया वशीकृतोऽस्मि ॥ ७८ ॥
प्रकृतिचपलपीलुबीजवर्गे दलति खगोलकुशुलविप्रकीर्णम् ।
अघटितमितरेतरेण कल्पक्षयरजनौ समचीकलस्त्वमेकः ॥ ७९ ॥
खपुटपटलमभ्यजीर्यदाशावृतिरदलन्निरवादविप्रदीपः ।
प्रलयमवनिवास्त्वगात्तथापि व जगदगारगृहस्थ निश्यवात्सीः ॥ ८॥
प्रसरति विषयेषु येषु रागः परिणमते विरतेषु तेषु शोकः ।
त्वयि रुचिरुचिता नितान्तकान्ते गुणपरिपाकशुचामगोचरोऽसि ॥ ८१ ॥
प्रतिगृहमतिथिर्गृहीतदण्डो धृतजगदण्डकमण्डलुप्रकाण्डः ।
भुवनवहन पात्रमात्रशेषं सतृणमिमं जगदत्ति कालभिक्षुः ॥ ८२॥
प्रसभनिविशमानकालसर्पप्रतिहतनिर्गमने खगोलनीडे ।
बहुविधगतयो विविक्तजायासुतजननीतनवः खगा भ्रमन्ति ॥ ८३ ॥
अभिलपितमथानुचिन्तितं यो हृदयगुहाशयितः शृणोत्यकर्णः ।
तमिममवचनं च वाग्मिता च प्रभवति मन्त्रयितुं त्रयीभुजंगम् ।। ८४ ॥
परिपिबति पयो भवाध्वनीनस्तनयकराजननीपयोधराच ।
व्यपगतमधुना तदाशयापि प्रसभवशादयमाशयः शुशोष ॥ ८५ ॥
स्तनकलशमुखेन वा जनन्यास्तनयकराङ्गुलिमध्यकुल्यया च ।
चपल पिब पयांसि यावदायुर्भवति न चेतसि चेतनासमुद्रः ॥ ८६ ॥
काव्यमाला।
विधिवशमिलितो भवाध्वयात्रां हरसि जगत्तिलपेषतैलिकोऽसि ।
न तव पशुपते विदन्ति पाशं पिहितदृशः पशवः परिप्रमन्ति ॥ ७ ॥
मयि फलकधिया त्वया कियत्यः प्रतिकृतयो लिखितास्तथा विलुप्ताः ।
विरम बत निसर्गनिर्मलस्य प्रमृज रजो मम पश्य दर्पणोऽस्मि ॥ ८ ॥
क्षितिबिलपतितं जरायुपेशीस्थगितमथाण्डसमुद्के निगूढम् ।
अविवृतमपि धातुसंचयं ते भव भवता हृतविग्रहो हरामि ॥ ९ ॥
परिमित[सुखदं] कषायपाकं विरसतरं विषयान्तरं विहाय ।
निरवधिमधुरे समे समन्तात्त्वयि पुरुषोत्तम विश्रमोऽस्तु वाचाम् ॥९० ॥
अपगतपदपाटवोऽपि गर्भादुपनिषदामधुनोत्थितः प्रबन्धः ।
जनयतु तव कौतुकं कलेन प्रतिपदविस्खलितेन जल्पितेन ॥ ९१ ॥
कृतिमलिनमृक्षलक्षलिक्षाचयचितमम्बरचीवरं वसानम् ।
प्रकटितबृहदण्डमत्रपं त्वां पुरुषमुदीक्ष्य हसामि चोल्लसामि ॥ ९२ ॥
व्यरमदवसरः स यत्र कर्मप्रकरमकार्षममर्त्यलेह्यलोभात् ।
न पुनरपि पिबामि सोमपात्रामृतदधि राहुबिडालपीतशेषम् ॥ ९३ ॥
स्वयमयमवलेढि होतुराज्यं तदनु तमाशयते सुधाम्बुबिन्दून् ।
अजनि तु जननीपयस्तृषार्तिक्षयमवमुञ्चति याज्यमिज्यवर्गः ॥ ९४ ॥
अमयसि नवधा खमण्डलानि द्रढयसि सप्तपुटानि भूतधात्र्याः।
उपदिशसि च षड्गतीम्रहाणां ध्रुवमसि तद्धवयोरपि ध्रुवस्त्वम् ॥ ९ ॥
गुणमपि तव निर्गुणत्वपक्षे भ्रमयति दोषकुलाकुलं प्रबन्धः ।
मलिनयति नवेन्दुसुन्दराणि स्फटिकशिलाशकलानि काचसङ्गः ॥ ९ ॥
किमपि निविशति प्रकाशराशौ त्वयि यमुनेव रवौ विधाविवाहः ।
असिततनु चतुर्भुजस्वरूपं यदरतरा(?) हृदयं हरन्ति वामाः ॥९७ ॥
इदमपरपुरं तदेव यस्मिन्नसकृदहनिरगानिशि प्रविश्य ।
विगलितवरणाहहिविहीनात्कथमधुना सदनादितो निरीयाम् ॥ ९ ॥
यदभिलपसि पुद्गलानजीवासुरवरनिर्जरजीवबन्धमोक्षान् ।
नयसि च यदनावृतान्विहंगप्रकृतिमतस्तदुपास्यसे जिनेन्द्रः ॥ ९९ ॥
पञ्चस्तवी। प्रकृतिरियमनश्वरस्वरूपा सृजति महान्तमसौ यतो विकारम् । अविकृतमपि पश्यतः सतस्ते सह रमते बनया सखा त्वदीयः ॥ १०॥ यदि मम सहसा तवाभिसारात्कुलगुरुभिर्निगमैर्निवारितासौ । खयमभिसर तर्हि वाचमेनां परपुरुषं निगमो न पश्यति त्वाम् ॥ १०१॥ मम वचनजलानि कर्णशुक्तौ तव पतितानि गतानि मौक्तिकत्वम् । विगुणविललितानि लाजबुद्ध्या रसयतु कुण्डलकुण्डलिप्रकाण्डम् ॥१०२॥ अपटुभिरभिधित्सितार्थबुद्धावनभिमतानपि बोधयद्भिरर्थान् । पुरमथन पराहतैरमीभिः कथय कदा विहसिष्यसि प्रलापैः ॥ १०३ ॥ न तव पुरि शिलादपुत्रवेत्रप्रततिनिरुद्धतया लभे प्रवेशम् । शिवसहचरि गौरि गोपुरेभ्यो बहिरुपविश्य वसामि नौमि च त्वाम् ॥ १०४ ॥ न दहति सगरान्वयं न पादात्प्रभवति नाप्यलिकादुदेति चक्षुः । न च किमपि शृणोति नेत्रवर्गो मम कथमस्तु तव स्तवेऽधिकारः॥ १०५॥ इति महोपाध्यायश्रीगोकुलनाथविरचितं शिवशतकम् । पञ्चस्तवी। लघुस्तवः । ऐन्द्रस्येव शरासनस्य दधती मध्येललाट प्रभा शौक्लीं कान्तिमनुष्णगोरिव शिरस्यातन्वती सर्वतः । एषासौ त्रिपुरा हृदि द्युतिरिवोष्णांशोः सदाहःस्थिता छिन्द्यान्नः सहसा पदैस्त्रिभिरघं ज्योतिर्मयी वाङ्मयी ॥ १ ॥ १. दृष्टेषु बहुष्वपि पश्चस्तवीपुस्तकेषु रचयितुः कवेर्नाम न प्राप्तम्. किं तु प्रा- चीनोऽयं कश्चन कविवरः, यतः सरखतीकण्ठाभरणे पञ्चमपरिच्छेदे अत्रत्यतीयस्त- वस्थः 'लक्ष्मीवशीकरणचूर्णसहोदराणि' इत्यादि श्लोको भोजराजेनोदाहृतः. अथ च तृतीयस्तवस्थ एव 'आनन्दमन्थरपुरंदरमुकमाल्यम्' इत्यादि श्लोकः कुवलयानन्दे सं. सृष्टिप्रकरणे, अस्यैव श्लोकस्य पादाम्बुजं भवतु मे विजयाय मनु-' इत्याद्युत्तरार्धे का- व्यप्रकाशे दशमोल्लासे च वर्तते. लघुस्तवनानः प्रथमस्तवस्य द्वित्राष्टीका अपि समु- पलभ्यन्ते, ताश्च सर्वा अपि तत्रशास्त्रानुसारिण्य इत्यनुपयुक्ता इत्यस्माभिर्न गृहीताः. तत्रैको नित्यानन्दनामा लघुस्खवटीकाकारः 'लघुस्तवकर्ता धर्माचार्यः' इति वदति.
काव्यमाला।
या मात्रा त्रपुसीलतातनुलसत्तन्तुस्थितिस्पर्षिनी
वाग्बीजे प्रथमे स्थिता तव सदा तां मन्महे ते वयम् ।
शक्तिः कुण्डलिनीति विश्वजननव्यापारबद्धोधमा
ज्ञात्वेत्थं न पुनः स्पृशन्ति जननीगर्भेऽर्भकत्वं नराः ॥२॥
दृष्ट्या संभ्रमकारि वस्तु सहसा ऐ ऐ इति व्याहृतं
येनाकूतवशादपीह वरदे बिन्दुं विनाप्यक्षरम् ।
तस्यापि ध्रुवमेव देवि तरसा जाते तवानुग्रहे
वाचः सूक्तिसुधारसद्रवमुचो निर्यान्ति वाम्बुजात् ॥ ३ ॥
यन्नित्ये तव कामराजमपरं मन्त्राक्षरं निष्कलं
तत्सारखतमित्यवैति विरलः कश्चिहुधश्चद्भुवि ।
आख्यानं प्रतिपर्व सत्यतपसो यत्कीर्तयन्तो द्विजाः
प्रारम्भे प्रणवास्पदप्रणयितां नीत्वोच्चरन्ति स्फुटम् ॥ ४ ॥
यत्सद्यो वचसां प्रवृत्तिकरणे दृष्टप्रभावं बुधै-
स्ताीयं तदहं नमामि मनसा त्वबीजमिन्दुप्रभम् ।
अस्त्वौर्वोऽपि सरखतीमनुगतो जाड्याम्बुविच्छित्तये
गोशब्दो गिरि वर्तते स नियतं योगं विना सिद्धिदः ॥ ५॥
एकैकं तव देवि बीजमनघं सव्यञ्जनाव्यञ्जनं
कूटस्थं यदि वा पृथकूमगतं यद्वा स्थितं व्युत्क्रमात् ।
यं यं काममपेक्ष्य येन विधिना केनापि वा चिन्तितं
जप्तं वा सफलीकरोति सततं तं तं समस्तं नृणाम् ॥६॥
वामे पुस्तकधारिणीमभयदां साक्षसजं दक्षिणे
भक्तेभ्यो वरदानपेशलकरां कर्पूरकुन्दोज्वलाम् ।
उज्जृम्भाम्बुजपत्रकान्तनयनस्निग्धप्रभालोकिनी
ये त्वामम्ब न शीलयन्ति मनसा तेषां कवित्वं कुतः ॥ ७ ॥
ये त्वां पाण्डुरपुण्डरीकपटलस्पष्टाभिरामप्रभां
सिञ्चन्तीममृतद्रवैरिव शिरो ध्यायन्ति मूर्ध्नि स्थिताम् ।
अश्रान्तं विकटस्फुटाक्षरपदा निर्याति
वाम्बुजा-
तेषां भारति भारती सुरसरित्कल्लोललोलोमिवत् ॥ ८ ॥
पञ्चस्तवी। ११ ये सिन्दूरपरागपुञ्जपिहितां त्वत्तेजसा द्यामिमा- मुवीं चापि विलीनयावकरसप्रस्तारममामिव । पश्यन्ति क्षणमप्यनन्यमनसस्तेषामनङ्गज्वर- क्लान्तास्त्रस्तकुरङ्गशावकदृशो वश्या भवन्ति स्फुटम् ॥ ९ ॥ चञ्चत्काञ्चनकुण्डलाङ्गदधरामाबद्धकाञ्चीसजं ये त्वां चेतसि तद्गते क्षणमपि ध्यायन्ति कृत्वा स्थिराम् । तेषां वेश्मसु विभ्रमादहरहः स्फारीभवन्त्यश्चिरं माद्यत्कुञ्जरकर्णतालतरलाः स्थैर्य भजन्ते श्रियः ॥ १० ॥ आर्मव्या शशिखण्डमण्डितजटाजूटां नृमुण्डस्रजं बन्धूकमसवारुणाम्बरधरां प्रेतासनाध्यासिनीम् । त्वां ध्यायन्ति चतुर्भुजां त्रिनयनामापीनतुङ्गस्तनी मध्ये निमवलित्रयातितनुं त्वद्रूपसंवित्तये ॥ ११ ॥ जातोऽप्यल्पपरिच्छदे क्षितिभुजां सामान्यमाने कुले निःशेषावनिचक्रवर्तिपदवीं लब्ध्वा प्रतापोन्नतः । यद्विद्याधरवृन्दवन्दितपदः श्रीवत्सराजोऽभव- देवि त्वच्चरणाम्बुजप्रणतिजः सोऽयं प्रसादोदयः ॥ १२ ॥ चण्डि त्वच्चरणाम्बुजार्चनविधौ बिल्वीदलोल्लुण्ठन- त्रुट्यत्कण्टककोटिभिः परिचयं येषां न जग्मुः कराः । ते दण्डाङ्कुशचक्रचापकुलिशश्रीवत्समत्स्याङ्कितै- र्जायन्ते पृथिवीभुजः कथमिवाम्भोजप्रमैः पाणिमिः ॥ १३ ॥ विप्राः क्षोणिभुजो विशस्तदितरे क्षीराज्यमध्वासवै- स्त्वां देवि त्रिपुरे परापरमयीं संतl पूजाविधौ । यां यां प्रार्थयते मनः स्थिरधियां तेषां त एव ध्रुवं तां तां सिद्धिमवाप्नुवन्ति तरसा विनरनिम्नीकृताः ॥ १४ ॥ शब्दानां जननी त्वमत्र भुवने वाग्वादिनीत्युच्यसे त्वत्तः केशववासवप्रभृतयोऽप्याविर्भवन्ति स्फुटम् । १. अत्यादरेण.
२ काव्यमाला। लीयन्ते खलु यत्र कल्पविरमे ब्रह्मादयस्तेऽप्यमी सा त्वं काचिदचिन्त्यरूपमहिमा शक्तिः परा गीयसे ॥ १५ ॥ देवानां त्रितयं त्रयी हुतभुजां शक्तित्रयं त्रिःखरा- त्रैलोक्यं त्रिपदी त्रिपुष्करमथो त्रिब्रह्म वर्णास्त्रयः । यत्किचिजगति त्रिधा नियमितं वस्तु त्रिवर्गादिकं तत्सर्वं त्रिपुरेति नाम भगवत्यन्वेति ते तत्त्वतः ॥ १६ ॥ लक्ष्मी राजकुले जयां रणभुवि क्षेमंकरीमध्वनि क्रव्यादद्विपसर्पभाजि शबरी कान्तारदुर्गे गिरौ । भूतप्रेतपिशाचजम्बुकभये स्मृत्वा महाभैरवीं व्यामोहे त्रिपुरां तरन्ति विपदस्तारां च तोयप्लवे ॥ १७ ॥ माया कुण्डलिनी क्रिया मधुमती काली कलामालिनी मातङ्गी विजया जया भगवती देवी शिवा शांभवी । शक्तिः शंकरवल्लभा त्रिनयना वाग्वादिनी भैरवी ह्रींकारी त्रिपुरा परापरमयी माता कुमारीत्यसि ॥ १८ ॥ आईपल्लवितैः परस्परयुतैर्द्वित्रिक्रमाद्यक्षरैः काद्यैः क्षान्तगतैः खरादिभिरथ क्षान्तैश्च तैः सखरैः । नामानि त्रिपुरे भवन्ति खलु यान्यत्यन्तगुह्यानि ते तेभ्यो भैरवपत्नि विंशतिसहस्रेभ्यः परेभ्यो नमः ॥ १९ ॥ बोद्धव्या निपुणं बुधैः स्तुतिरियं कृत्वा मनस्तद्गतं भारत्यास्त्रिपुरेत्यनन्यमनसा यत्राद्यवृत्ते स्फुटम् । एकद्वित्रिपदक्रमेण कथितस्तत्पादसंख्याक्षरै- मन्त्रोद्धारविधिर्विशेषसहितः सत्संप्रदायान्वितः ॥ २० ॥ सावद्यं निरवद्यमस्तु यदि वा किं वानया चिन्तया नूनं स्तोत्रमिदं पठिष्यति जनो यस्यास्ति भक्तिस्त्वयि । संचिन्त्यापि लघुत्वमात्मनि दृढं संजायमानं हठा- त्त्वद्भक्त्या मुखरीकृतेन रचितं यस्मान्मयापि ध्रुवम् ॥ २१ ॥ इति पश्चस्वव्या लघुस्तवः प्रथमः ।
पञ्चस्तवी। चर्चास्तवः। सौन्दर्यविभ्रमभुवो भुवनाधिपत्य- संकल्पकल्पतरवत्रिपुरे जयन्ति । एते कवित्वकुमुदप्रकरावबोध- पूर्णेन्दवस्त्वयि जगजननि प्रणामाः ॥ १॥ देवि स्तुतिव्यतिकरे कृतबुद्धयस्ते वाचस्पतिप्रभृतयोऽपि जडीभवन्ति । तस्मानिसर्गजडिमा कतमोऽहमत्र स्तोत्रं तव त्रिपुरतापनपनि कर्तुम् ॥२॥ मातस्तथापि भवती भवतीव्रताप- विच्छित्तये स्तवमहार्णवकर्णधारः । स्तोतुं भवानि स भवच्चरणारविन्द- भक्तिग्रहः किमपि मां मुखरीकरोति ॥ ३ ॥ सूते जगन्ति भवती भवती बिभर्ति जागर्ति तत्क्षयकृते भवती भवानि । मोहं भिनत्ति भवती भवती रुणद्धि लीलायितं जयति चित्रमिदं भवत्याः ॥४॥ यस्मिन्मनागपि नवाम्बुजपत्रगौरि गौरि प्रसादमधुरां दृशमादधासि । तस्मिन्निरन्तरमनङ्गशरावकीर्ण- सीमन्तिनीनयनसंततयः पतन्ति ॥५॥ पृथ्वीभुजोऽप्युदयनप्रभवस्य तस्य विद्याधरप्रणतिचुम्बितपादपीठः । यच्चक्रवर्तिपदवीप्रणयः स एष त्वत्पादपकजरजःकणजः प्रसादः ॥६॥ १. उदयनसूनोर्नरवाहनदत्तस्य. नरवाहनदत्तकथैव बृहत्कथाया मूलभूता.
V काव्यमाला। त्वत्पादपङ्कजरजःप्रणिपातपूर्वैः पुण्यैरनल्पमतिभिः कृतिभिः कवीन्द्रैः । क्षीरक्षपाकरदुकूलहिमावदाता कैरप्यवापि भुवनत्रितयेऽपि कीर्तिः ॥ ७ ॥ कल्पद्रुमप्रसवकल्पितचित्रपूजा- मुद्दीपितप्रियतमामदरक्तगीतिम् । नित्यं भवानि भवतीमुपवीणयन्ति विद्याधराः कनकशैलगुहागृहेषु ॥ ८॥ लक्ष्मीवशीकरणकर्मणि कामिनीना- माकर्षणव्यतिकरेषु च सिद्धमन्त्रः । नीरन्ध्रमोहतिमिरच्छिदुरप्रदीपो देवि त्वदझिजनितो जयति प्रसादः ॥९॥ देवि त्वदभिनखरत्नभुवो मयूखाः प्रत्यग्रमौक्तिकरुचो मुदमुद्वहन्ति । सेवानति व्यतिकरे सुरसुन्दरीणां सीमन्तसीमि कुसुमस्तबकायितं यैः ॥ १० ॥ मूर्ध्नि स्फुरत्तुहिनदीधितिदीप्तदीप्तं मध्येललाटममरायुधरश्मिचित्रम् । हृच्चक्रचुम्बि हुतभुक्कणिकानुकारि ज्योतिर्यदेतदिदमम्ब तव वरूपम् ॥ ११ ॥ रूपं तव स्फुरितचन्द्रमरीचिगौर- मालोकते शिरसि वागधिदैवतं यः। निःसीमसूक्तिरचनामृतनिर्झरस्य तस्य प्रसादमधुराः प्रसरन्ति वाचः ॥ १२ ॥ सिन्दूरपांसुपटलच्छुरितामिव यां त्वत्तेजसा जतुरसम्नपितामिवोर्वीम् ।
पञ्चस्तवी।
१५
यः पश्यति क्षणमपि त्रिपुरे विहाय
व्रीडां मृडानि सुदृशस्तमनुद्रवन्ति ॥ १३ ॥
मातर्मुहूर्तमपि यः स्मरति खरूपं
लाक्षारसप्रसरतन्तुनिभं भवत्याः ।
ध्यायन्त्यनन्यमनसस्तमनङ्गतप्ताः
प्रद्युम्नसीमि सुभगत्वगुणं तरुण्यः ॥ १४ ॥
योऽयं चकास्ति गगनार्णवरत्नमिन्दु-
र्योऽयं सुरासुरगुरुः पुरुषः पुराणः ।
यद्वाममर्धमिदमन्धकसूदनस्य
देवि त्वमेव तदिति प्रतिपादयन्ति ॥ १५ ॥
इच्छानुरूपमनुरूपगुणप्रकर्ष
संकर्षिणि त्वमभिमृष्य यदा विभर्षि ।
जायेत स त्रिभुवनैकगुरुस्तदानीं
देवः शिवोऽपि भुवनत्रयसूत्रधारः ॥ १६ ॥
ध्यातासि हैमवति येन हिमांशुरश्मि-
मालामलद्युतिरकल्मषमानसेन ।
तस्याविलम्बमनवद्यमनन्तकल्प-
मल्पैदिनैः सृजसि सुन्दरि वाग्विलासम् ॥ १७ ॥
आधारमारुतनिरोधवशेन येषां
सिन्दूररजितसरोजगुणानुकारि ।
दीप्तं हृदि स्फुरति देवि वपुस्त्वदीयं
ध्यायन्ति तानिह समीहितसिद्धसाध्याः ॥ १८ ॥
ये चिन्तयन्त्यरुणमण्डलमध्यवर्ति
रूपं तवाम्ब नवयावकपङ्कपिङ्गम् ।
तेषां सदैव कुसुमायुधबाणभिन्न-
वक्षःस्थला मृगहशो वशगा भवन्ति ॥ १९ ॥
काव्यमाला। त्वामैन्दवीमिव कलामनुभालदेश- मुद्भासिताम्बरतलामवलोकयन्तः । सद्यो भवानि सुधियः कवयो भवन्ति त्वं भावनाहितधियां कुलकामधेनुः ॥ २० ॥ शर्वाणि सर्वजनवन्दितपादपद्मे पद्मच्छदद्युतिविडम्बितनेत्रलक्ष्मि । निष्पापमूर्तिजनमानसराजहंसि हंसि त्वमापदमनेकविधां जनस्य ॥ २१ ॥ उत्तप्तहेमरुचिरे त्रिपुरे पुनीहि चेतश्चिरंतनमघौघवनं लुनीहि । कारागृहे निगडबन्धनयन्त्रितस्य त्वत्संस्मृतौ झटिति मे निगडास्त्रुटन्ति ॥ २२ ॥ त्वां व्यापिनीति सुमना इति कुण्डलीति त्वां कामिनीति कमलेति कलावतीति । त्वां मालिनीति ललितेत्यपराजितेति देवि स्तुवन्ति विजयति जयेत्युमेति ॥ २३ ॥ उद्दामकामपरमार्थसरोजखण्ड- चण्डद्युतिद्युतिमपासितषडिकाराम् । मोहद्विपेन्द्रकदनोद्यतबोधसिंह- लीलागुहां भगवती त्रिपुरां नमामि ॥ २४ ॥ गणेशबटुकस्तुता रतिसहायकामान्विता स्मरारिवरविष्टरा कुसुमबाणबाणैर्युता । अनङ्गकुसुमादिभिः परिवृता च सिद्धैस्त्रिभिः कदम्बवनमध्यगा त्रिपुरसुन्दरी पातु नः ॥ २५ ॥ कद्राणि विद्धुममयी प्रतिमामिव त्वां ये चिन्तयन्त्यरुणकान्तिमनन्यरूपाम् ।
पञ्चस्तवी। १७ तानेत्य पक्ष्मलदृशः प्रसभं भजन्ते कण्ठावसक्तमृदुबाहुलतास्तरुण्यः ॥ २६ ॥ त्वद्रूपैकनिरूपणप्रणयिताबन्धो दृशोस्त्वद्गुण- प्रामाकर्णनरागिता श्रवणयोस्त्वत्संस्मृतिश्चेतसि । त्वत्पादार्चनचातुरी करयुगे त्वत्कीर्तनं वाचि मे कुत्रापि त्वदुपासनव्यसनिता मे देवि मा शाम्यतु ॥ २७ ॥ त्वद्रूपमुल्लसितदाडिमपुष्परक्त- मुद्भावयेन्मदनदैवतमक्षरं यः । तं रूपहीनमपि मन्मथनिर्विशेष- मालोकयन्त्युरुनितम्बतटास्तरुण्यः ॥ २८ ॥ ब्रह्मेन्द्ररुद्रहरिचन्द्रसहस्ररश्मि- स्कन्दद्विपाननहुताशनवन्दितायै । वागीश्वरि त्रिभुवनेश्वरि विश्वमात- रन्तर्बहिश्च कृतसंस्थितये नमस्ते ॥ २९ ॥ यः स्तोत्रमेतदनुवासरमीश्वरायाः श्रेयस्करं पठति वा यदि वा शृणोति । तस्पेप्सितं फलति राजभिरीब्यतेऽसौ जायेत स प्रियतमो मदिरेक्षणानाम् ॥ ३० ॥ इति पञ्चस्तव्यां चर्चास्तवो द्वितीयः । घटस्तवः। आनन्दमन्थरपुरंदरमुक्तमाल्यं मौलौ हठेन निहितं महिषासुरस्य । पादाम्बुजं भवतु मे विजयाय मञ्जु- मञ्जीरशिञ्जितमनोहरमम्बिकायाः ॥ १ ॥ देवि त्र्यम्बकपनि पार्वति सति त्रैलोक्यमातः शिवे शर्वाणि त्रिपुरे मृडानि वरदे रुद्राणि कात्यायनि ।
काव्यमाला।
भीमे भैरवि चण्डि शर्वरि कले कालक्षये शूलिनि
त्वत्पादप्रणताननन्यमनसः पर्याकुलान्पाहि नः ॥२॥
देवि त्वां सकृदेव यः प्रणमति क्षोणीभृतस्तं नम-
त्याजन्मस्फुरदकिपीठविलुठत्कोटीरकोटिच्छटाः ।
यस्त्वामर्चति सोऽर्च्यते सुरगणैर्यः स्तौति स स्तूयते
यस्त्वां ध्यायति तं स्मरातिविधुरा ध्यायन्ति वामध्रुवः ॥३॥
उन्मत्ता इव सग्रहा इव विषव्यासक्तमूर्छा इव
प्राप्तप्रौढमदा इवार्तिविरहग्रस्ता इवार्ता इव ।
ये ध्यायन्ति हि शैलराजतनयां धन्यास्त एवाग्रत-
स्त्यक्तोपाधिविवृद्धरागमनसो ध्यायन्ति तान्सुभ्रवः ॥४॥
ध्यायन्ति ये क्षणमपि त्रिपुरे हृदि त्वां
लावण्ययौवनधनैरपि विप्रयुक्ताः ।
ते विस्फुरन्ति ललितायतलोचनानां
चित्तैकभित्तिलिखितप्रतिमाः पुमांसः ॥ ५ ॥
एतं किं नु दृशा पिबाम्युत विशाम्यस्याङ्गमङ्गैनिजैः
किं वामुं निगराम्यनेन सहसा किं वैकतामाश्रये ।
तस्येत्थं विवशो विकल्पललिताकूतेन योषिजनः
किं तद्यन्न करोति देवि हृदये यस्य त्वमावर्तसे ॥६॥
विश्वव्यापिनि यद्वदीश्वर इति स्थाणावनन्याश्रयः
शब्दः शक्तिरिति त्रिलोकजननि त्वय्येव तथ्यस्थितिः।
इत्थं सत्यपि शक्नुवन्ति यदिमाः क्षुद्रा रुजो बाधितुं
त्वद्भक्तानपि न क्षिणोषि च रुषा तद्देवि चित्रं महत् ॥ ७ ॥
इन्दोर्मध्यगतां मृगाङ्कसदृशच्छायां मनोहारिणी
पाण्डूत्फुल्लसरोरुहासनगतां निग्धप्रदीपच्छविम् ।
वर्षन्तीममृतं भवानि भवतीं ध्यायन्ति ये देहिन-
स्ते निर्मुक्तरुजो भवन्ति विपदः प्रोज्झन्ति तान्दूरतः ॥८॥
पञ्चस्तवी।
१
९
पूर्णेन्दोः शकलैरिवातिबहलैः पीयूषपूरैरिव
क्षीराब्धेर्लहरीभरैरिव सुधापकस्य पिण्डैरिव ।
प्रालेयैरिव निर्मितं तव वपुर्ध्यायन्ति ये श्रद्धया
चित्तान्तर्निहितार्तितापविपदस्ते संपदं बिप्रति ॥ ९॥
ये संस्मरन्ति तरलां सहसोल्लसन्ती
त्वां ग्रन्थिपञ्चकमिदं तरुणार्कशोणाम् ।
रागार्णवे बहलरागिणि मजयन्ती
कृत्स्नं जगद्दधति चेतसि तान्मृगाक्ष्यः ॥ १०॥
लाक्षारसस्नपितपकजतन्तुतन्वी-
मन्तः स्मरत्यनुदिनं भवतीं भवानि ।
यस्तं स्मरप्रतिममप्रतिमखरूपा
नेत्रोत्पलैर्मुगदृशो भृशमर्चयन्ति ॥ ११ ॥
स्तुमस्त्वां वाचमव्यक्तां हिमकुन्देन्दुरोचिषम् ।
कदम्बमालां बिभ्राणमापादतललम्बिनीम् ॥ १२ ॥
मूर्धान्दोः सितपङ्कजासनगतां प्रालेयपाण्डुत्विषं
वर्षन्तीममृतं सरोरुहभुवो वक्रेऽपि रन्ध्रेऽपि च ।
अच्छिन्ना च मनोहरा च ललिता चातिप्रसन्नापि च
त्वामेवं स्मरतः स्मरारिदयिते वाक्सर्वतो वल्गति ॥ १३ ॥
ददातीष्टान्भोगान्क्षपयति रिपून्हन्ति विपदो
दहत्याधीन्व्याधीशमयति सुखानि प्रतनुते ।
हठादन्तर्दुःखं दलयति पिनष्टीष्टविरह
सकृद्ध्याता देवी किमिव निरवद्यं न कुरुते ॥ १४ ॥
यस्त्वां ध्यायति वेत्ति विन्दति जपत्यालोकते चिन्तय-
त्यन्वेति प्रतिपद्यते कलयति स्तोत्याश्रयत्यर्चति ।
यश्च त्र्यम्बकवल्लभे तव गुणानाकर्णयत्यादरा-
तस्य श्रीन गृहादपैति विजयस्तस्यापतो धावति ॥ १५ ॥
२० काव्यमाला। किं किं दुःखं दनुजदलिनि क्षीयते न स्मृतायां का का कीर्तिः कुलकमलिनि ख्याप्यते न स्तुतायाम् । का का सिद्धिः सुरवरनुते प्राप्यते नार्चितायां कं के योगं त्वयि न चिनुते चित्तमालम्बितायाम् ॥ १६ ॥ ये देवि दुर्धरकृतान्तमुखान्तरस्था ये कालि कालघनपाशनितान्तबद्धाः । ये चण्डि चण्डगुरुकल्मषसिन्धुममा- स्तान्पासि मोचयसि तारयसि स्मृतैव ॥ १७ ॥ लक्ष्मीवशीकरणचूर्णसहोदराणि त्वत्पादपङ्कजरजांसि चिरं जयन्ति । यानि प्रणाममिलितानि नृणां ललाटे लुम्पन्ति दैवलिखितानि दुरक्षराणि ॥ १८ ॥ रे मूढाः किमयं वृथैव तपसा कायः परिक्लिश्यते यज्ञैर्वा बहुदक्षिणैः किमितरे रिक्तीक्रियन्ते गृहाः । भक्तिश्चेदविनाशिनी भगवतीपादद्वयी सेव्यता- मुन्निद्राम्बुरुहातपत्रसुभगा लक्ष्मीः पुरो धावति ॥ १९ ॥ याचे न कंचन न कंचन वश्चयामि सेवे न कंचन निरस्तसमस्तदैन्यः । लक्ष्णं वसे मधुरमझि भजे वरस्त्री- देवी हृदि स्फुरति मे कुलकामधेनुः ॥ २० ॥ नमामि यामिनीनाथलेखालंकृतकुन्तलाम् । भवानी भवसंतापनिर्वापणसुधानदीम् ॥ २१ ॥ इति पश्चस्तव्यां घटस्तवस्तृतीयः । अम्बास्तवः। यामामनन्ति मुनयः प्रकृति पुराणी विद्येति यां श्रुतिरहस्यविदो वदन्ति ।
पञ्चस्तवी। २१ तामपल्लवितशंकररूपमुद्रां देवीमनन्यशरणः शरणं प्रपद्ये ॥ १ ॥ अम्ब स्तवेषु तव तावदकर्तृकानि कुण्ठीभवन्ति वचसामपि गुम्फनानि । डिम्भस्य मे स्तुतिरसावसमञ्जसापि वात्सल्यनि हृदयां भवती घिनोतु ॥२॥ व्योमेति बिन्दुरिति नाद इतीन्दुलेखा- रूपति वाग्भवतनूरिति मातृकेति । निःस्यन्दमानसुखबोधसुधाखरूपा विद्योतसे मनसि भाग्यवतां जनानाम् ॥ ३॥ आविर्भवत्पुलकसंततिभिः शरीरै- निःस्यन्दमानसलिलैनयनैश्च नित्यम् । वाग्भिश्च गद्गदपदाभिरुपासते ये पादौ तवाम्ब भुवनेषु त एव धन्याः ॥ ४॥ वक्त्रं यदुद्यतमभिष्टुतये भवत्या- स्तुम्यं नमो यदपि देवि शिरः करोति । चेतश्च यत्त्वयि परायणमम्ब तानि कस्यापि कैरपि भवन्ति तपोविशेषैः ॥५॥ मूलालवालकुहरादुदिता भवानि निर्भिद्य षट्सरसिजानि तडिल्लतेव । भूयोऽपि तत्र विशसि ध्रुवमण्डलेन्दु- निःस्यन्दमानपरमामृततोयरूपा ॥ ६ ॥ दग्धं यदा मदनमेकमनेकधा ते मुग्धः कटाक्षविधिरङरयांचकार । धत्ते तदाप्रभृति देवि ललाटनेत्रं सत्यं हियैव मुकुलीकृतमिन्दुमौलिः ॥७॥ ३ २ काव्यमाला। अज्ञातसंभवमनाकलितान्ववायं भिक्षु कपालिनमवाससमद्वितीयम् । पूर्व करग्रहणमङ्गलतो भवत्याः शंभुं क एव बुबुधे गिरिराजकन्ये ॥८॥ चर्माम्बरं च शवभसविलेपनं च भिक्षाटनं च नटनं च परेतभूमौ । वेतालसंहतिपरिग्रहता च शंभोः शोभां बिभर्ति गिरिजे तव साहचर्यात् ॥ ९॥ कल्पोपसंहरणकेलिषु पण्डितानि चण्डानि खण्डपरशोरपि ताण्डवानि । आलोकनेन तव कोमलितानि मात- लास्यात्मना परिणमन्ति जगद्विभूत्यै ॥ १० ॥ जन्तोरपश्चिमतनोः सति कर्मसाम्ये निःशेषपाशपटलच्छिदुरा निमेषात् । कल्याणि देशिककटाक्षसमाश्रयेण कारुण्यतो भवति शांभववेधदीक्षा ॥ ११ ॥ मुक्ताविभूषणवती नवविद्रुमाभा यच्चेतसि स्फुरसि तारकितेव संध्या । एकः स एव भुवनत्रयसुन्दरीणां कंदर्पतां ब्रजति पञ्चशरीं विनापि ॥ १२ ॥ ये भावयन्त्यमृतवाहिभिरंशुजालै- राप्यायमानभुवनाममृतेश्वरीं त्वाम् । ते लयन्ति ननु मातरलङ्घनीयां ब्रह्मादिभिः सुरवरैरपि कालकक्षाम् ॥ १३ ॥ यः स्फाटिकाक्षगुणपुस्तककुण्डिकाब्यां व्याख्यासमुद्यतकरां शरदिन्दुशुभाम् ।
पञ्चस्तवी।
२३
पद्मासनां च हृदये भवतीमुपास्ते
मातः स विश्वकवितार्किकचक्रवर्ती ॥ १४ ॥
बर्हावतंसयुतबर्बरकेशपाशां
गुञ्जावलीकृतघनस्तनहारशोभाम् ।
श्यामा प्रवालवदनां सुकुमारहस्तां
त्वामेव नौमि शबरी शबरस्य जायाम् ॥ १५ ॥
अर्धेन किं नवलताललितेन मुग्धे
क्रीतं विभोः परुषमर्धमिदं त्वयेति ।
आलीजनस्य परिहासवचांसि मन्ये
मन्दस्मितेन तव देवि जडीभवन्ति ॥ १६ ॥
ब्रह्माण्डबुहुदकदम्बकसंकुलोऽयं
मायोदधिर्विविधदुःखतरङ्गमालः ।
आश्चर्यमम्ब झटिति प्रलयं प्रयाति
त्वद्ध्यानसंततिमहावडवामुखाग्नौ ॥ १७ ॥
दाक्षायणीति कुटिलेति गुहारणीति
कात्यायनीति कमलेति कलावतीति ।
एका सती भगवती परमार्थतोऽपि
संदृश्यसे बहुविधा ननु नर्तकीव ॥ १८ ॥
आनन्दलक्षणमनाहतनानि देशे
नादात्मना परिणतं तव रूपमीशे ।
प्रत्यङ्मुखेन मनसा परिचीयमानं
शंसन्ति नेत्रसलिलैः पुलकैश्च धन्याः ॥ १९ ॥
त्वं चन्द्रिका शशिनि तिग्मरुचौ रुचिस्त्वं
त्वं चेतनासि पुरुषे पवने बलं त्वम् ।
त्वं स्वादुतासि सलिले शिखिनि त्वमूष्मा
निःसारमेव निखिलं त्वहते यदि स्यात् ॥ २० ॥
२४ काव्यमाला। ज्योतींषि यदिवि चरन्ति यदन्तरिक्ष सूते पयांसि यदहिर्धरणिं च धत्ते । यद्वाति वायुरनलो यदुदर्चिरास्ते तत्सर्वमम्ब तव केवलमाज्ञयैव ॥ २१ ॥ संकोचमिच्छसि यदा गिरिजे तदानी वाक्तर्कयोस्त्वमसि भूमिरनामरूपा । यद्वा विकासमुपयासि यदा तदानीं त्वनामरूपगणनाः सुकरा भवन्ति ॥ २२ ॥ भोगाय देवि भवतीं कृतिनः प्रणम्य भ्रूकिंकरीकृतसरोजगृहासहस्राः । चिन्तामणिप्रचयकल्पितकेलिशैले कल्पद्रुमोपवन एव चिरं रमन्ते ॥ २३ ॥ हर्तुं त्वमेव भवसि त्वदधीनमीशे संसारतापमखिलं दयया पशूनाम् । वैकर्तनी किरणसंहतिरेव शक्ता धर्म निजं शमयितुं निजयैव वृष्ट्या ।। २४ ॥ शक्तिः शरीरमधिदैवतमन्तरात्मा ज्ञानं क्रिया करणमासनजालमिच्छा। ऐश्वर्यमायतनमावरणानि च त्वं किं तन्न यद्भवसि देवि शशाङ्कमौलेः ॥ २५ ॥ भूमौ निवृत्तिरुदिता पयसि प्रतिष्ठा विद्यानले मरुति शान्तिरतीतशान्तिः । व्योमीति याः किल कलाः कलयन्ति विश्वं तासां हि दूरतरमम्ब पदं त्वदीयम् ॥ २१ ॥ यावत्पदं पदसरोजयुगं त्वदीयं नाङ्गीकरोति हृदयेषु जगच्छरण्ये ।
पञ्चस्तवी। तावद्विकल्पजटिलाः कुटिलप्रकारा- स्तर्कग्रहाः समयिनां प्रलयं न यान्ति ॥ २७॥ यद्देवयानपितृयानविहारमेके कृत्वा मनः करणमण्डलसार्वभौमम् । याने निवेश्य तव कारणपञ्चकस्य पर्वाणि पार्वति नयन्ति निजासनत्वम् ॥ २८ ॥ स्थूलासु मूर्तिषु महीप्रमुखासु शंभोः कस्याश्चनापि तव वैभवमम्ब यस्याः । पत्या गिरामपि न शक्यत एव वक्तुं सासि स्तुता किल मयेति तितिक्षितव्यम् ॥ २९ ॥ कालाग्निकोटिरुचिमम्ब षडध्वशुद्धा- वाप्लावनेषु भवतीममृतौघवृष्टिम् । श्यामां घनस्तनतटां सकलीकृतौ च ध्यायन्त एव जगतां गुरवो भवन्ति ॥ ३० ॥ विद्यां परां कतिचिदम्बरमम्ब केचि- दानन्दमेव कतिचित्कतिचिच्च मायाम् । त्वां विश्वमाहुरपरे वयमामनामः साक्षादपारकरुणां गुरुमूर्तिमेव ॥ ३१ ॥ कुवलयदलनीलं बर्बरस्निग्धकेशं पृथुतरकुचभारकान्तकान्तावलग्नम् । किमिह बहुभिरुक्तैस्त्वत्स्वरूपं परं नः सकलजननि मातः संततं संनिधत्ताम् ॥ ३२ ॥ इति पश्चस्तव्यामम्बास्तवश्चतुर्थः । सकलजननीस्तवः। अजानन्तो यान्ति क्षयमवशमन्योन्यकलहै- रमी मायाग्रन्थौ तव परिलठन्तः समयिनः ।
२६
काव्यमाला।
जगन्मातर्जन्मज्वरमयतमःकौमुदि वयं
नमस्ते कुर्वाणाः शरणमुपयामो भगवतीम् ॥ १ ॥
वचस्तांगम्यस्वरसपरमानन्दविभव-
प्रबोधाकाराय द्युतितुलितनीलोत्पलरुचे ।
शिवस्याराध्याय स्तनभरविनम्राय सततं
नमस्तस्सै कसैचन भवतु मुग्धाय महसे ॥ २ ॥
अनाद्यन्ताभेदप्रणयरसिकापि प्रणयिनी
शिवस्यासीर्यत्त्वं परिणयविधौ देवि गृहिणी ।
सवित्री भूतानामपि यदुदभूः शैलतनया
तदेतत्संसारप्रणयनमहानाटकसुखम् ॥ ३ ॥
ब्रुवन्त्येके तत्त्वं भगवति सदन्ये विदुरस-
त्परे मातः प्राहुस्तव सदसदन्ये सुकवयः ।
परे नैतत्सर्व समभिदधते देवि सुधिय-
स्तदेतत्त्वमायाविलसितमशेष ननु शिवे ॥४॥
लुठद्गुञ्जाहारस्तनभरनमन्मध्यलतिका-
मुदञ्चद्धर्माम्भ.कणगुणितनीलोत्पलरुचम् ।
शिवं पार्थत्राणप्रवणमृगयाकारगुणितं
शिवामन्वग्यान्तीं शबरमहमन्वेमि शबरीम् ॥५॥
मिथः केशाकशिप्रधननिधनास्तर्कघटना
बहुश्रद्धाभक्तिप्रणयविषयाः शास्त्रविधयः ।
प्रसीद प्रत्यक्षीभव गिरिसुते देहि शरणं
निरालम्ब चेतः परिलुठति पारिप्लवमिदम् ॥ ६ ॥
शुनां वा वहेर्वा खगपरिषदो वा यदशनं
कदा केन केति कचिदपि न कश्चित्कलयति ।
अमुष्मिन्विश्वासं विजहिहि ममाहाय वपुषि
प्रपद्येथाश्चेतः सकलजननीमेव शरणम् ॥७॥
पश्चस्तवी। २७ तडित्कोटिज्योतिद्युतिदलितषड्ग्रन्थिगहनं प्रविष्टं खाधारं पुनरपि सुधावृष्टिवपुषा । किमप्यष्टत्रिशकिरणसकलीभूतमनिशं भजे धाम श्याम कुचभरनतं बर्बरकचम् ॥ ॥ चतुष्पत्रान्तःषड्दलभगपुटान्तस्त्रिवलय- स्फुरद्विद्युद्वह्रिद्युमणिनियताभद्युतियुते । षडसं भित्त्वादौ दशदलमथ द्वादशदलं कलासं च यासं गतवति नमस्ते गिरिसुते ॥९॥ कुलं केचित्माहुर्वपुरकुलमन्ये तव बुधाः परे तत्संभेदं समभिदधते कौलमपरे । चतुर्णामप्येषामुपरि किमपि प्राहुरपरे महामाये तत्त्वं तव कथममी निश्चिनुमहे ॥१०॥ षडध्वारण्यानीं प्रलयरविकोटिप्रतिरुचा रुचा भस्मीकृत्य खपदकमलप्रहशिरसाम् । वितन्वानः शैवं किमपि वपुरिन्दीवररुचिः कुचाभ्यामानग्रस्तव पुरुषकारो विजयते ॥ ११ ॥ प्रकाशानन्दाभ्यामविदितचरी मध्यपदवीं प्रविश्यैतद्वन्द्वं रविशशिसमाख्यं कवलयन् । प्रविश्योव नादं लयदहनभस्मीकृतकुल: प्रसादाते जन्तुः शिवमकुलमम्ब प्रविशति ॥ १२॥ मनुष्यास्तिर्यञ्चो मरुत इति लोकत्रयमिदं भवाम्भोधौ मनं त्रिगुणलहरीकोटिलुठितम् । कटाक्षश्चेदत्र कचन तव मातः करुणया शरीरी सद्योऽयं व्रजति परमानन्दतनुताम् ॥ १३ ॥ प्रियङ्गुश्यामाङ्गीमरुणतरवासःकिसलयां समुन्मीलन्मुक्ताफलबहलनेपथ्यसुभगाम् ।
काव्यमाला।
स्तनद्वन्द्वस्फारस्तबकनमितां कल्पलतिकां
सकृद्धचायन्तस्त्वां दधति शिवचिन्तामणिपदम् ॥ १४ ॥
षडाधारावर्तेरपरिमितमन्त्रोमिपटलै-
लसन्मुद्राफेनैर्बहुविधचलदैवतझषैः ।
क्रमस्रोतोमिस्त्वं वहसि परनादामृतनदी
भवानि प्रत्यग्रा शिवचिदमृताब्धिप्रणयिनी ॥ १५ ॥
महीपाथोवहिश्वसनवियदात्मेन्दुरविभि-
र्वपुर्भिम्रस्तांशैरपि तव कियानम्ब महिमा ।
अमून्यालोक्यन्ते भगवति न कुत्राप्यणुतमा-
मवस्था प्राप्तानि त्वयि तु परमव्योमवपुषि ॥ १६ ॥
कलां मायां प्रज्ञां समयमनुभूति समरसं
गुरुं पारम्पर्य विनयमुपदेशं शिवकथाम् ।
प्रमाणं निर्वाणं प्रकृतिमतिभूतिं परगुहां
विधि विद्यामाहुः सकलजननीमेव मुनयः ॥ १७ ॥
प्रलीने शब्दौघे तदनु विरते बिन्दुविभवे
ततस्तत्त्वे चाष्टध्वनिवपुरुपाधिन्युपगते ।
श्रिते शाक्ते पर्वण्यनुकलितचिन्मात्रगहनां
स्वसंवित्तिं योगी रसयति शिवाख्यां परतनुम् ॥ १८ ॥
परानन्दाकारां निरवधिशिवैश्वर्यवपुषं
निराकारां ज्ञानप्रकृतिमपरिच्छिन्नकरुणाम् ।
सवित्री लोकानां निरतिशयधामास्पदपदां
भवो वा मोक्षो वा भवतु भवतीमेव भजताम् ॥ १९ ॥
जगत्काये कृत्वा तदपि हृदये तच्च पुरुषे
पुमांसं बिन्दुस्थं तमपि वियदाख्ये च गहने ।
तदेतज्ज्ञानाख्ये तदपि परमानन्दगहने
महाव्योमाकारे त्वदनुभवशीलो विजयते ॥ २०॥
पञ्चस्तवी। २९ विधे वेद्ये विद्ये विविधसमये वेदगुलिके विचित्रे विश्वाचे विनयसुलमे वेदजननि । शिवाज्ञे शूलस्थे शिवपदवदान्ये शिवनिधे शिवे मातर्मह्यं त्वयि वितर भक्ति निरुपमाम् ॥ २१ ॥ विधेर्मुण्डं हृत्वा यदकुरुत पात्रं करतले हरि शूलपोतं यदगमयदंसाभरणताम् । अलं चक्रे कण्ठं यदपि गरलेनाम्ब गिरिशः शिवस्थायाः शक्तेस्तदिदमखिलं ते विलसितम् ॥ २२ ॥ विरिञ्चयाख्या मातः सृजसि हरिसंज्ञा त्वमवसि त्रिलोकी रुद्राख्या हरसि विदधासीश्वर दशाम् । भवन्ती नादाख्या विहरसि च पाशौघदलनी त्वमेवैकानेका भवसि कृतिभेदैगिरिसुते ॥ २३ ॥ मुनीनां चेतोभिः प्रमृदितकषायैरपि मना- गशक्यं संस्प्रष्टुं चकितचकितैरम्ब सततम् । श्रुतीनां मूर्धानः प्रकृतिकठिनाः कोमलतरे कथं ते विन्दन्ते पदकिसलये पार्वति पदम् ॥ २४ ॥ तडिद्वल्ली नित्याममृतसरितं पाररहितां मलोत्तीणी ज्योत्स्ना प्रकृतिमगुणग्रन्थिगहनाम् । गिरां दूरां विद्यामविनतकुचां विश्वजननी- मपर्यन्तां लक्ष्मीमभिदधति सन्तो भगवतीम् ॥ २५ ॥ शरीरं क्षित्यम्भःप्रभृतिरचितं केवलमिदं सुखं दुःखं चायं कलयति पुमांश्चेतन इति । स्फुटं जानानोऽपि प्रभवति न देही रहयितुं शरीराहंकारं तव समयबायो गिरिसुते ॥ २६ ॥ पिता माता माता सुहृदनुचरः सम गृहिणी वपुः क्षेत्रं मित्रं धनमपि यदा मां विजहति ।
काव्यमाला ।
तदा मे भिन्दाना सपदि भयमोहान्धतमसं
महाज्योत्स्ने मातर्भव करुणया संनिधिकरी ॥ २७ ॥
सुता दक्षस्यादौ किल सकलमातस्त्वमुदभूः
सदोषं तं हित्वा तदनु गिरिराजस्य दुहिता ।
अनाद्यन्ता शंभोरपृथगपि शक्तिर्भगवती
विवाहाज्जायासीत्यहह चरितं वेत्ति तव कः ॥ २८ ॥
कणास्त्वद्दीप्तीनां रविशशिकृशानुप्रभृतयः
परं ब्रह्म क्षुद्रं तव नियतमानन्दकणिका ।
शिवादि क्षित्यन्यं त्रिवलयतनोः सर्वमुदरे
तवास्ते भक्तस्य स्फुरसि हृदि चित्रं भगवति ॥ २९ ॥
पुरः पश्चादन्तर्बहिरपरिमेयं परिमितं
परं स्थूलं सूक्ष्मं सकुलमकुलं गुह्यमगुहम् ।
दवीयो नेदीयः सदसदिति विश्वं भगवती
सदा पश्यन्त्याख्यां वहसि भुवनक्षोभजननीम् ॥ ३० ॥
प्रविश्य त्वन्मार्ग सहजदयया देशिकदृशा
षडध्वध्वान्तौघच्छिदुरगणनातीतकरुणाम् ।
परामाज्ञाकारां सपदि शिवयन्तीं शिवतनुं
खमात्मानं धन्याश्चिरमुपलभन्ते भगवतीम् ॥ ३१ ॥
मयूखाः पूष्णीव ज्वलन इव तद्दीप्तिकणिकाः
पयोधौ कल्लोलाः प्रतिहतमहिनीव पृषतः ।
उदेत्योदेत्याम्ब त्वयि सह निजैः सात्त्विकगुणै-
भजन्ते तत्त्वौधाः प्रशममनुकल्पं परवशाः ॥ ३२ ॥
विधुर्विष्णुर्ब्रह्मा प्रकृतिरणुरात्मा दिनकरः
खभावो जैनेन्द्रः सुगतमुनिराकाशमनिलः ।
शिवः शक्तिश्चेति श्रुतिविषयतां तामुपगतां
विकल्पैरेभिस्त्वामभिदधति सन्तो भगवतीम् ॥ ३३ ॥
पश्चस्तवी। शिवस्त्वं शक्तिस्त्वं त्वमसि समया लं समयिनी त्वमात्मा त्वं दीक्षा त्वमयमणिमादिर्गुणगणः । अविद्या त्वं विद्या त्वमसि निखिलं त्वं किमपरं पृथक्तत्त्वं त्वत्तो भगवति न वीक्षामह इमे ॥ ३४ ॥ त्वया यो जानीते रचयति भवत्यैव सततं त्वयैवेच्छत्यम्ब त्वमसि निखिला यस्य तनवः । गता साम्यं शंभोर्वहति परमं व्योम भवती तथाप्येवं हित्वा विहरति शिवस्येति किमिदम् ॥ ३५ ॥ असंख्यैः प्राचीनैर्जननि जननैः कर्मविलया- स्कृते जन्मन्यन्ते गुरुवपुषमासाद्य गिरिशम् । अवाप्याज्ञां शैवीं क्रमतनुरपि त्वां विदितवा- नयेयं त्वत्पूजास्तुतिविरचनैरेव दिवसान् ॥ ३६ ॥ यत्षट्पत्रं कमलमुदितं तस्य या कर्णिकाख्या योनिस्तस्याः प्रथितमुदरे यत्तदोंकारपीठम् । तस्मिन्नन्तः कुचभरनतां कुण्डलीतः प्रवृत्तां श्यामाकारां सकलजननी संततं भावयामि ॥ ३७॥ भुवि पयसि कृशानौ मारुते खे शशाङ्के सवितरि यजमानेऽप्यष्टधा शक्तिरेका । वहति कुचभराभ्यां यावनम्रापि विश्वं सकलजननि सा त्वं पाहि मामित्यवश्यम् ॥ ३८ ॥ इति पश्चस्तव्यां सकलजननीस्तवः पश्चमः । . इति पञ्चस्तवी समाप्ता ।
१२ काव्यमाला। श्रीदामोदरगुप्तविरचितं कुहनीमतम् । स जयति संकल्पभवो रतिमुखशतपत्रचुम्बनभमरः । यस्यानुरक्तललनानयनान्सविलोकनं वसतिः ॥ १॥ अवधीर्य दोषनिचयं गुणलेशे संनिवेश्य मतिमार्याः । कुट्टन्या मतमेतद्दामोदरगुप्तविरचितं शृणुत ॥ २ ॥ अस्ति खलु निखिलभूतलभूषणभूता विभूतिगुणयुक्ता। मुक्ताभियुक्तजनता नगरी वाराणसीनाम ॥ ३ ॥ अनुभवतामपि यस्यामुपभोगान्कामतः शरीरवताम् । शशधरखण्डविभूषितदेहलयः किल न दुष्मापः ॥ ४॥ . १. अयं दामोदरगुप्तकविः कश्मीरमहीपतेर्जयापीडस मन्त्रिप्रवर आसीत्. 'सदा. मोदरगुप्ताख्यं कुट्टनीमतकारिणम् । कविं कविं बलिरिव धुर्य धीसचिवं व्यधात् ॥' (४।४९५) इति राजतरङ्गिणी. भासंश्च तत्सभायामन्येऽपि महाविद्वांसो महाकवयश्च. खयं च जयापीडनृपतिः पण्डित भासीत्. 'क्षीराभिषाच्छन्दविद्योपाध्यायात्संभृतश्रुतः। बुधैः सह ययौ वृद्धि स जयापीडपण्डितः ॥' (४१४८८) इति, "देशान्तरादागमय्य व्याचक्षाणः क्षमापतिः । प्रावर्तयत विच्छिन्नं महाभाष्यं खमण्डले ॥' (४८५) इति, 'अवस्थावेदकास्तत्र प्रथिताः पृथिवीभुजा । आन्तिःकरणैः श्लोकाः स्मर्यन्तेऽद्यापि सूरिभिः ॥' (४।५४८) इति, विद्वान्दीनारलक्षेण प्रत्यहं कृतवेतनः । भोऽभूदुद्भट- स्तस्य भूमिभर्तुः सभापतिः ॥' (४१४९४) इति, 'मनोरथः शवदत्तश्चटकः संधि- मांस्तथा । बभूवुः कवयस्तस्य वामनाद्याश्च मन्त्रिणः ॥' (1४९६) इति च राजतर- ङ्गिणी. स जयापीडमहीपतिः ७५५ मिताखिस्तवत्सरादारभ्य ७८६ मितवत्सर- पर्यन्तं कश्मीरवसुंधरा बुभोज. अयं प्रन्थस्तु लुप्तप्राय एवासीत्. पूर्वतरे वर्षे डॉक्टर्. पीटर्सनेनैकं तालपालिखितमेतत्सुखकं खम्भातनगरादविगतम्, पूर्ववर्षे च जीर्ण पुस्तकद्वयमस्माभिरप्यधिगतम्. किं त्वेतानि त्रीण्यपि पुस्तकान्यसमाप्तान्यशुद्धानि च सन्ति. संपूर्णस्य शुद्धस्य च पुस्तकस्य लाभे निराशा वयमस्सातिदुर्लभप्राचीनमनोहरप्र. न्थस्य मूलच्छेदो मा भूदिति तादृशस्यैव मुद्रणं कर्तुं प्रवृत्ताः सः. माशास्महे च विक- लस्याप्यस्य प्रन्थस्य खण्डेन्दोरिव विलोकनं मनागपि मनोविनोदावह भविष्यति सह- दयानाम्. २. 'शम्मलीमतम्' इति पूर्वोकतालपत्रपुस्तके नाम वर्तते. शम्भली कुटनी च पर्यायशब्दो.
कुट्टनीमतम् । चन्द्रविभूषितदेहा भूतिरताः सर्दुजंगपरिवाराः । वारस्त्रियोऽपि यस्यां पशुपतितनुतुल्यतां याताः ॥५॥ अतितुङ्गसुरनिकेतनशिखरसमुत्क्षिप्तपवनचलितामिः । मञ्जरितमिव विराजति यत्र नभो वैजयन्तीभिः ॥ ६ ॥ अविरतसंचरदबलाचरणतलालक्तकद्रवारुणितम् । स्थलकमलवतीलक्ष्मी बिमति वसुधातलं यत्र ॥ ७ ॥ यत्र च रमणीभूषणरवबधिरितसकलदिभोमागे । शिष्याणामाचार्यैर्नावचं वार्यते पठताम् ॥ ८॥ दिव्यधराधरभूरिव या राजति मैत्तवारणोपेता । बहुलनिशीथवतीव प्रोज्ज्वलधिष्ण्योपशोभिता या च ॥९॥ यतिगणगुणसमुपेता या नित्यं छन्दसामिव प्रचितिः । वनपतिरिव संशाला तुरुष्कसेनेव बेहुलगन्धर्वा ॥ १० ॥ तारागणोऽकुलीनः प्रियदोषां यत्र कौशिकाः सततम् । गद्ये वृत्तच्यवनं परगृहरोधस्त क्षेषु ॥ ११ ॥ शुलभृतो ध्यानस्थाः (१) पदेवेदिषु यत्र धातुवादित्वम् । सुरतेष्वबलाक्रमणं दानच्छेदो मदच्युतौ करिणाम् ॥ १२ ॥ तीव्रकरत्वं भानोरविवेको यत्र मित्रसुहृदानाम् (8)। योगिषु दण्डग्रहणं संधिच्छेदः प्रगृह्येषु ॥ १३ ॥ १. चन्द्रः खणे भूषणविशेषो वा; (पक्षे) हिमांशु. २. भूतिरैश्वर्य भस च. ३. भुजंगाः षिङ्गाः। (पक्षे) सर्पाः. ४. मत्तवारणः प्रासादवीथीनां वरण्डकः; मत्तगजः. ५. कृष्णपक्षरात्रिरिव. ६. धिष्ण्यानि गृहाणि; (पक्षे) नक्षत्राणि, ७. य- तिगण: संन्यासिसमूहः; (पक्षे) यतिः पाठविच्छेदस्थलम्, गणाश्चाष्टौ मगणाद्याः, तगुणेन समुपेता. ८. सप्राकारा सगृहा वा; (पक्षे) सवृक्षा सवृक्षविशेषा वा. ९. सगा- यना साश्वा च. १०. अकुलीनः, न भूमिलीनः, आकाशस्थित इति यावत् (पक्षे) अस- स्कुलोत्पन्नः. ११. दोषा रात्रिः; (पक्षे) दुर्गुणाः. १२ उलूकाः. १३. चारित्रमः (पक्ष) छन्दोमा.. १४. अष्टापदक्रीडायाम्. १५. वैयाकरणेषु. १६. धातवो भूवादयः; (पक्षे) पारदादीनां धात्वन्तराणामप्यौषधप्रक्षेपेण ये कलधौतत्वं संपादयन्ति ते धातुवादिनः. ते च प्रायो वचका भवन्तीति तात्पर्यम्. १५.नारीणाम्; (पक्षे) दुर्बलस्य. १८. संधिच्छेद- चौरकृतं संधिमेदनमः (पक्षे) संधिप्रश्शौ व्याकरणप्रसिद्धौ. .
३१ काव्यमाला। छन्दःप्रस्तारविधौ गुरवो यस्यामनार्जवस्थितयः । वीणायां परिवादो द्विजनिलयेष्वप्रसन्नत्वम् ॥ १४ ॥ अनुरूपवृत्तघटना सत्कविकृतरूपके च लोके च । रमणीवचने यस्यां माधुर्य काव्यबन्धे च ॥ १५ ॥ यस्यामुपवनवीथ्यां तैमालपत्राणि युवतिवदने च । नखरप्रहाररणितं तन्त्रीवाद्येषु सुरतकलहेषु ॥ १६ ॥ नन्दनवनाभिरामा विबुधवती नाकवाहिनीजुष्टा । अमरावतीव यान्या विश्वसजा निर्मिता जगति ॥ १७ ॥ तस्यां खगपतितनुरिव विलासिनां हृदयशोकसंजननी । आकृष्टेश्वरहृदया पालेयनगाधिराजतनयेव ॥ १८ ॥ संसक्तभोगिनेत्रा मन्दरधरणीभृतो यथा मूर्तिः । उपरि गता झूलानामन्धासुरगात्रलेखेव ॥ १९ ॥ समुवास वाररामा मानसवसतेः शरीरिणी शक्तिः । निःशेषवेशयोषिद्विभूषणं मालती नाम ॥ २० ॥ (विशेषकम्) पेशलवचसा वसतिर्लीलानामालयः स्थितिः प्रेम्णः । भूमिः परिहासानामावसथो वक्रकवितानाम् ॥ २१ ॥ सा शुश्राव कदाचिद्धवलालयपृष्ठदेशमधिरूढा । केनापि गीयमानां प्रसङ्गपतितामिमामार्याम् ॥ २२ ॥ 'यौवनसौन्दर्यमदं दूरेणापास्य वारवनिताभिः । यत्नेन वेदितव्याः कामुकहृदयार्जनोपायाः ॥ २३ ॥ १. छन्दःशाने गुर्वक्षरव्याकरेखा वका क्रियते. २. प्रसन्ना सुरा. ३. तापिच्छवृक्षः; (पक्षे) तिलकम्. ४. नन्दनं मनोहारि वनम् (पक्षे) तमामकं वनम्. ५. विबुधाः प. ण्डिता देवाश्च. ६ गङ्गा ७. विले आसत इति बिलासिनः सर्पाः; (पक्ष) विलसन- शीला भोगिनः शेषे ववयोरभेदः, ८. पार्वतीव. ९. संसक्तानि भोगिनां कामिनां ने. त्राणि लोचनानि यस्याम् ; (मन्दराचलपक्षे तु) संसक भोगिरूपं सर्परूपं नेत्रं मन्यनर- ज्जुर्यस्याम् १०. शूलानां पण्यत्रीणाम् ; (पक्षे) त्रिशूलानाम्, अन्धकासुरशरीर महादे- वेन शूलोपरि स्थापितमिति पुराणम्. ११. 'वक्रकथिकानाम्' इति पाठान्तरम्. १२. 'देवालय-' इति पा०. १३. 'गायमानाम्' इति पा०.
कुट्टनीमतम् । श्रुत्वाथ विपुलजघना मनसीदं मालती चकार चिरम् । अतिसांप्रतमुपदिष्टं सुहृदेवानेन साधुना पठता ।। २४ ॥ तद्गत्वा पृच्छामो विकराला कलितसकलसंसाराम् । यस्याः कामिजनौषो दिवानिशं द्वारमध्यास्ते ॥ २५ ॥ इति मनसि सा निवेश्य द्रुततरमवतीर्य वेश्मनः शिखरात् । विकरालाभवनवरं परिजनपरिवारिता प्रययौ ॥ २६ ॥ अथ विरलोन्नतदशनां निमहर्नु स्थूलचिपिटनासाग्राम् । उल्बणचूचुकलक्षितशुष्ककुचस्थानशिथिलकृत्तितनुम् ॥ २७ ॥ गम्भीरारक्तदृशं निर्भूषणलम्बकर्णोली च । कतिपयपाण्डुरचिकुरां प्रकटशिरासंततायतमीवाम् ॥ २८ ॥ सितधौतवसनयुगलां विविधौषधिमणिसनाथगलसूत्राम् । तन्वीमङ्गुलिमूले तपनीयमयीं च बालिकां दधतीम् ॥ २९ ॥ गणिकागणपंरिकरितां कामिजनोपायनप्रसक्तदृशम् । आसन्धामासीनां विलोकयामास विकरालाम् ॥ ३० ॥ (कुलकम्) अथ सा विधाय दूरात्क्षितिमण्डललीनमौलिना प्रणतिम् । परिपृष्टकुशलवार्ता समनुज्ञातासनं भेजे ॥ ३१ ॥ अथ विरचितहस्तपुटा सप्रश्रयमासनं समुत्सृज्य । इदमूचे विकरालामवसरमासाद्य मालती वचनम् ॥ ३२ ॥ विदधासि हरिमकौस्तुभमहरिं हरिमगजनाथममरेन्द्रम् । अद्रविणं द्रविणपति नियतं मतिगोचरे पतितम् ॥ ३३ ॥ अयमेव बुद्धिविभवं हृतविभवस्ते पटच्चरावरणः । कामुकलोकः कथयति सत्रागारेषु भुञ्जानः ॥ ३४ ॥ उपसंहृतान्यकर्मा धनवर्मा नर्मदाङ्गियुगलस्य । सकलसमर्पितसंपद्यदुपेतः पादपीठत्वम् ॥ ३५ ॥ १. 'तदृद्धाम्' इति पा०. २. "विकरालीम्' इति पा०.३. 'विकरालीभवन-' इति T०. ४. 'पाल' इति पा०.५. संनतायत- इति पा.. ६. 'परिकलिताम्' इति IT०.७. आसन्या वेत्रासने इत्यर्थः.
१९
काव्यमाला।
यदुपगतो नयदत्तः सागरदत्तस्य मध्यमः पुत्रः ।
प्रीणाति मदनसेनां विधाय पितृमन्दिरं रिक्तम् ॥ ३६ ॥
यल्लीलार्पितचरणौ मञ्जर्या भट्टपुत्रनरसिंहः ।
परितोष व्रजति परं मृदु मृद्गन्पाणियुगलेन ॥ ३७ ॥
यनिःशेषितविभवो दीक्षितभवदेवपुत्रशुभदेवः ।
निर्भसितोऽपि नोज्झति केशवसेनागृहद्वारम् ॥ ३८ ॥
अन्या अपि कामिजनं साधारणयोषितो यदाक्रम्य ।
विदधति कर्पटशेषं विलसितमेतत्तवोपदेशानाम् ॥३९॥ (कुलकम्)
हीनान्वयजन्मानो गुणहीना रोगिणो निराकृतयः ।
उपसेविता मयापि प्रकटीकृतरागसौष्ठवं पुरुषाः ॥ ४० ॥
मातः किं विदधामो हतधातुमिताभियोगेन ।
नासादयाम दृश्यं निजतनुपण्यप्रसारकेणापि ॥ ४१ ॥
तत्कुरु मातरनुग्रहमभिधत्व ममापि देहिनो भोग्यान् ।
तेषां च वेशचेष्टितमनसिजशरजालपातनोपायान् ॥ ४२ ॥
इति गिरमुदीरयन्ती सप्रेमामृश्य पाणिना पृष्ठे ।
रुचिरवचो विकराला रुचिराकृतिमालतीमूचे ॥४३॥ (कुलकम्)
अयमेव दह्यमानस्सरनिर्गतधूमवर्तिकाकारः ।
चिकुरभरस्तव सुन्दरि कामिजनं किंकरीकुरुते ॥ ४ ॥
अयमेव ते कृशोदरि मन्दोल्लसितश्रुविधमाधारः ।
अधरीकरोति धीरान्मधुरस्मितसुभगवीक्षितविशेषः ॥ ४५ ॥
इयमेव दशनकान्ती रतिकान्ताकूतमतितरां कुरुते ।
श्रुतिपथमप्युपयाता नियतं तव कामिनां मनसि ॥ १६ ॥
इयमेव दशनपती रुचिराचिरकान्तिदामसमकान्तिः ।
उत्पादयति नितान्तं तव मन्मथदाहवेदनां पुंसाम् ॥ १७ ॥
इदमेव समुल्लपितं लीलावतिविजितपरभृतध्वनितम् ।
तव निःशेषभुजंगव्याकर्षणसिद्धमन्त्र उच्चरितः ॥ १८ ॥
कुट्टनीमतम् । इदमेव मकरकेतननिकेतनं स्तनयुगं तवाभोगि । भोगवति भोगसाधनमपरोपायग्रहो व्यर्थः ॥ ४९ ॥ इदमेव बाहुयुगलं मृणालतनुसुन्दरं तवाभोगि । कस्य न जनयति मदनं कनकाङ्गदभूषणं सुतनु ॥ ५० ॥ अयमेव मध्यदेशः कंदादेशकरणचतुरस्ते । प्रकृशोऽपि शरीरवतो दशमी प्रापयति मन्मथावस्थाम् ॥ ११ ॥ इयमेव रोमराजिः संकल्पजचापयष्टिगुणशोभाम् । दधती विदधाति तव स्मरसायकशल्यविक्लवान्यूनः ॥ १२ ॥ इदमेव च पृथुजघनं कलधौतशिलातलाभिरमणीयम् । तव तरुणि वशीकरणं यतिसंयतिनाशकारि करभोरु ॥ १३ ॥ इदमेव तवोरुयुगं रम्भास्तम्भोपमं मनोहारि वद सुन्दरि नाभिमतं मदनज्वरशान्तये कस्य ॥ १४ ॥ यौवनकल्पतरोस्ते कनकलताविभ्रमं सुवृत्तमिदम् । जङ्घायुगलं नेच्छति कामफलप्राप्तये क इह ॥ ५५ ॥ निर्जितदाडिमरागं विजितस्थलकमलिनीविलासमिदम् । तव तरुणि चरणयुगलं कस्य न मानसमलंकुरुते ॥ १६ ॥ रुपयति वारणेन्द्रं हंसं हसति प्रयातमिदमेव । तव लीलावति ललितं यूनां हृदयानि मनाति ॥ १७ ॥ तदपि यदि ते कुतूहलमवधानं संविधाय तनुमध्ये आकर्णय कथयामि स्वबुद्धिविभवानुसारेण ॥ १८ ॥ खीकुरु तावत्प्रथमं नृपसेवकभट्टसूनुमतियत्नात् । खाधीनामतिविपुलां यदि संपदमीहसे सुतनु ॥ १९ ॥ प्रत्यासन्नग्रामे खयं प्रभुः पितरि नित्यकटकस्थे । भट्टसुतश्चिन्तामणिराकृष्टो भवति नियमेन ॥१०॥ शृणु तस्य चारुहासिनि वेषग्रहणं च चेष्टितं चैव । निपतति तथा च तूर्ण प्रियसुरभिशरासनप्रसरे ॥ ११ ॥ १. 'पृथुलजघनम्' इति पा०. २. 'संनिधाय' इति पा..
काव्यमाला। स्थूलस्थापितचूडः पञ्चाङ्गुलमात्रकेशविन्यासः । लम्बश्रवणनिवेशितकरपत्रकघटितदन्तपतिश्च ॥ १२ ॥ करशाखार्पितमुद्रिकचामीकरकण्ठसूत्रिकाभरणः । परिमृष्टगात्रकुङ्कुमकिंचित्पिञ्जरितसर्वाङ्गः ॥ १३ ॥ प्रविलम्बिकुसुमदामकगलमण्डनजातरूपकृतशोभः । अन्तर्निविष्टसिक्थकतौरुष्किकखुम्भिकादिचरणत्रः ॥ ६४ ॥ नानावर्णविवेष्टितबहलदशापाशबद्धततकेशः । एकस्मिन्दलवीटकमपरस्मिन्सीसपत्रकं कर्णे ।। ६५ ॥ उच्चण्डकनकगर्मितकुङ्कुमपिञ्जरितसनपरिधानः ।. स्थूलतरकाचचर्चकमालां च गले दधानेन ॥ १६ ॥ वृश्चिकरञ्जितकररुहकरमूलनिबद्धशङ्खचक्रेण । प्रथमवयस्त्वं भजता ताम्बूलकरङ्कवाहिनानुगतः ॥६७|| कुलकम्) श्रेष्ठिवणिग्विटकितवप्रधानरङ्गस्य सुमहतो मध्ये । शूलापालस्थापितकतिपयबद्धोरुपीठिकासीनः ॥१८॥ उत्सङ्गार्पितखङ्गैरयथातथभाषिभिर्मदौद्धत्यम् । बिभ्राणैरनुजीविभिरविष्ठितः पञ्चषैः पुरुषैः ॥ १९ ॥ चतुरतरसेवकार्पितपृष्ठपरिक्षिप्तपूर्वदेहोंशः । अन्तर्धतताम्बूलश्चोच्छूनकपोलकलितकरपर्णः ॥ ७० ॥ अनपेक्षितप्रसङ्गः पुनः पुनः पठति सोन्नतद्रूकः । गाथां श्लोकप्रायां भावितचेता यथातथाधीताम् ॥ ७१ ॥ विस्मयलोलितमौलिः पार्श्वगतांस्ताडयरसावेगात् । हा कटु साध्विति वादैरन्तरयति परसुभाषितश्रवणम् ॥ ७२ ॥ १. 'दशनपतिश्च' इति पा०. २. 'पिअरितवसनसंवीतः' इति पा०. ३. सिक्थस्ती- रुष्किकखुम्भिकादिचरणान्तः' इति पा. ४. 'विचेरित' इति पा०. ५. 'वनपरिधानः' इति पा०. ६. पुस्तकान्तरे 'विशेषकम्' इत्यखि. ७. देहाधः. ८. 'ताम्बूलपोत्कुलकपो- लगलित' इति पा..
३ कुट्टनीमतम् । इदमुक्तो रहसि रुषा तातेन नृपो नृपेण तातोऽपि । इति पितुराविष्कुरुते महीभृतः प्रणयविश्वासौ ॥ ७३ ॥ पत्रच्छेदमजानञ्जानन्वा कौशलं कलाविषये । प्रकटयति जनसमाजे बिभ्राणः पत्रकर्तरी सततम् ॥ ७९ ॥ ब्रमोक्तनाट्यशास्त्रे गीते मुरजादिवादने चैव । अभिभवति नारदादीन्प्रावीण्यं भट्टपुत्रस्य ॥ ७९ ॥ वसुनन्दचित्रदण्डकमुग्धायुधखड्गधेनुबन्धेषु । त्यजति पुरतोऽस्य नित्यं भार्गवतां परशुरामोऽपि ॥ ७६ ॥ वात्स्यायनमयमबुध बाह्यान्दूरेण देत्तकाचार्यान् । गणयति मन्मथतन्त्रे पशुतुल्यं राजपुत्रं च ॥ ७७ ॥ प्रपलायनैकहृदये यो विक्रममातनोति हरिणेऽपि । सिंहस्य तस्य शौर्य त्रपाकरं भवति भट्टपुत्रस्य ॥ ७८ ॥ आखेटकेऽपि कौतुकमस्त्येव जयश्च चललक्ष्ये । भट्टतनयेन खेलति भट्टसुतः किं त्वतिप्रकटम् ॥ ७९ ॥ इति निजसेवकनिगदितरमणीयवचःश्रवणपरितुष्टा । अन्तर्मुदिता ब्रूते मामेव खलीकरोतीति ॥ ८० ॥ (संदानितकम्) कतमत्कतमल्लमं प्रस्थाने का च नर्तकी भर्ता । विटखटके का नृत्यति कोहलभरतोदितक्रियया ॥ ८१ ॥ कीदृक्षो नयमार्गे धेनुकरचिते च तालके कीदृक् । प्रेक्षणकादावेवं पृच्छति नृत्योपदेशकं यत्नात् ॥ ८२ ॥ १. कामसूत्रकर्ता वात्स्यायनः प्रसिद्ध एव. २. कामशास्त्राभूतस्य वैशिकसंज्ञक- स्य षष्ठाधिकरणस्य पृथकर्ता दत्तकाचार्यों वात्स्यायनादपि पूर्वकाले पाटलिपुत्रनगरे ब- भूवेति वात्स्यायनीयकामसूत्रतो जयमालाल्यतडीकातश्च ज्ञायते 'दन्तिलाचार्यान्' इति पा०. ३. राजपुत्रोऽपि कश्चन कामशास्त्राचार्य एव स्यात्, किंतु नाद्यापि ज्ञातः, ४. 'न्वति' इति पा०. ५. 'परितुष्टया' इति पा०, ६. कोहलो नाम कश्वन ना- व्यशास्त्राचार्यः. तद्वन्यस्थाः केचन श्लोका मुरारीनाटकादिटीकासूपलभ्यन्ते. भरतस्तु प्रसिद्ध एव. ७. 'ईदृक्षे' इति पा.. ८. 'तानके' इति पा..
काव्यमाला। सुमनोमालां कण्ठात्सादरचेता ददाति नर्तक्यै । अपनीय सताम्बूलामनवसरे साधुवादं च ॥ ८३ ॥ भुजपतनमात्रसंस्थितिलालित्योद्वहनपार्श्ववलितानि । अनयैव निर्मितानि स्थानकशुद्धिश्च चातुरश्यं च ॥ ८४ ॥ प्रविभक्तैर्भावरसैरैभिनयभक्त्या परिक्रमैश्चित्रैः । रम्भामप्यतिशेते किमुतेतरनर्तकीलोकम् ॥ ८५ ॥ इत्यपसारकविरतादविरतमुच्छलितकण्ठमत्युच्चैः । वर्णयति भावितामा लक्षितपदमात्रया पातम् ॥ ८६ ।। प्रायेण भट्टतनयो भवतीदृशवेषचेष्टितो भद्रे । तं मदनवागुरान्तः पातयसि यथा तथा ब्रूमः ॥ ८ ॥ चतुरा प्रागल्भ्यवती परचित्तज्ञानकौशलोपेता। योज्या तस्मिन्दूती वक्रोक्तिविभूषिता प्रयत्नेन ॥ ८ ॥ समुपेत्य तयावसरे ताम्बूलं सुमनसश्च दत्त्वत्थम् । अभिधातव्यः सुन्दरि मकरध्वजदीपकैर्वचनैः ॥ ८९ ॥ जन्मसहस्रोपचितैः पुण्यचयैरद्य फलितमस्माकम् । यस्त्वं नयनानन्दन नयनावसरं समेतोऽसि ॥ ९ ॥ चाटुक्रममनुरागं प्रणयरुषौ विरहजनितशोकार्तिम् । प्रकटयति वाररमणी नटीव शिक्षाभियोगेन ॥९१ ॥ प्रवयसि यौवनशालिनि हीनकुले सत्कुलप्रसूते च । रोगवति दृढशरीरे समचित्ता योगिनश्च गणिकाश्च ॥ ९२ ॥ उपचरिताप्यतिमात्रं पण्यवधूः क्षीणसंपदः पुंसः । पातयति दृशं व्रजतः स्पृहया परिधानमात्रेऽपि ॥ ९३ ।। इत्थं दृढतरवासितमनसां पुंसामसांप्रतं पुरतः । वेशविलासवतीनामशरीरशरव्यथाकथनम् ॥ ९४ ॥ (कुलकम्) . 'वातुरश्म्यश्च' इति, 'चातुरस्यं च' इति च पा०. २. 'अभिनव' इति पा.. बातम्' इति पा०. ४. इदम्' इति पा०. ५. 'चाटूकि सानुराग' इति पा०. विदधाति' इति पा.. ७. 'गणिका च' इति पा०. ८. 'युकम्' इति पा.. .. इति पा..
कुट्टनीमतम् । केवलमगणितलाघवदूरपरित्यक्तधीरताभरणा । मुखरयति मां दुराशा दग्धवती तेन कथयामि ॥ ९५ ॥ हृदयमधिष्ठितमादौ मालत्याः कुसुमचापबाणेन । चरमं रमणीवल्लभ लोचनविषयं त्वया भेजता ॥ ९६ ॥ क्षणमुत्कण्टकिताङ्गी क्षणमुल्बणदाहवेदनायत्ता । क्षणमुपजातोत्कम्पा खेदावपुः क्षणं भवति ॥ ९७ ॥ दूरविभावितकार्या मुहुरुज्झितधीरभावमत्युच्चैः । रोदिति गायति हृष्यति मुद्दति च स्तम्भिनी भवति ॥ ९८ ॥ पतति मुहुः पर्यके मुहुरके परिजनस्य मुहुरवनौ । किसलयकल्पिततल्पे मुहुरम्भसि मुहुरनङ्गसंतप्ता ॥ ९९ ॥ महिषीव पङ्कदिग्धा हंसीव मृणालवलयपरिवारा । सुभग मयूरीवासौ भुजंगविद्वेषिणी जाता ॥ १० ॥ कदलीचम्पकचन्दनपढेरुहनीरघनसारम् । सुन्दर शशधरकान्तं नो शान्त्यै मदनहुतभुजस्तस्याः ॥ १०१ ॥ अपसारय घनसारं कुरु हार दूर एव किं कमलैः । अलमलमालि मृणालैरिति वदति दिवानिशं बाला ॥ १०२ ॥ संकल्पैरुपनीतं त्वामन्तिकमुल्लसन्मनोवृत्तिः । दृढमालिङ्गति पश्चात्वभुजापीडेन याति वैलक्ष्यम् ॥ १०३ ॥ कुसुमामोदी पवनः पिककूजितभृङ्गसार्थरसितानि । इयमियती सामग्री घटिता 'विधिनैव तद्विनाशाय ॥ १०४ ॥ १. 'हृदयम्' इत्याचार्या काव्यप्रकाशे दशमोल्लासेऽतिशयोकिप्रकरण उदाहृतास्ति. तत्र काव्यप्रकाशटीकाकाराणां प्रायो भ्रम एव जातः. मालतीमाधवस्थामिमा जानन्कमला- करभट्टो व्याख्यातवान् . 'मालत्याः' इत्यस्य स्थाने 'मालव्या' इति पाठं कल्पयित्वा माल. विकामिमित्रस्थामिमां कलयन्महेश्वरो व्याख्याति स्म. एवमन्येऽपि. २. 'बजता' इति पा०. ३. 'मुहुरविभावितहास्या' इति पा०. ४. 'रोदिति गायति च पुनः पुनश्च मौनाव. लम्बिनी भवति' इति पा०. ५. भुजंगाः सी विटाश्च. ६. 'घनसाराः' इति पा.. ७. 'कान्ता' इति पा०.८. उदाहतेयमार्या काव्यप्रकाशस्याष्टमनवमोल्लासयोः. १. देवेन' इति पा.
काव्यमाला। अबलां बलिना नीतां दशामिमा मकरकेतुना रक्ष । आपद्यबलोद्धृतये भवति हि शुभजन्मनां जन्म ॥ १० ॥ नो गृह्णन्ति यथार्थानयिंजनैनिगदिता गिरः प्रायः । मालत्या गुणलेशं शृणु धृष्टतया तथापि कथयामि ॥ १०६ ॥ आस्फालयतो नूनं धनुरतनोः कौसुमं रजः पतितम् । संगृह्य सा सुगात्री विश्वसृजा निर्मिता तेन ॥ १०७ ॥ उपहसति गिरिसुताया लावण्यं येन सततलमेन । न द्रवतामुपनीतं भोगीन्द्रविभूषणस्य देहार्धम् ॥ १०८ ॥ शशधरबिम्बार्धगतां छायामिव सैहिकेयवदनस्य । अलिपटलनीलकुटिलामलकावलिमलिकसंनिधौ वहति ॥ १०९ ॥ सरसिजमस्थिरशोमं विनमरहितं च मण्डलं शशिनः । केन समेतु समत्वं हृदयप्रिय मालतीवदनम् ॥ ११० ॥ अलिरुपरि तदीक्षणयोर्मान्त्वा सौगन्ध्यसूचितविशेषः । निपतति कर्णाम्बुरुहे निर्गुणताप्यवसरे साध्वी ॥ १११ ॥ बिभ्राणेऽरुणिमानं सहज जितबन्धुजीवरुचिमधरे । यदलक्तकविन्यसनं तत्तस्या मण्डनक्रीडा ॥ ११२ ॥ चित्रमिदं यदि कृशता तस्या बलिपरिगृहीतमध्यस्य । अथवा नो विधिविहिता महताप्यपनीयते तनुता ॥ ११३ ॥ आस्तामपरस्तावत्तस्याः सरसतिपृथुतरनितम्बः । लथयति कपिलमुनेरपि दृक्पथपतितः समाधानम् ॥ ११४ ।। तस्या रम्भावपुषो रम्भोपममूरुयुगलमवलोक्य । मकरध्वजोऽपि सहसा निजसायकलक्ष्यतां याति ॥ ११५ ॥ जघनभरालसयाता नोयाता सा विलोचनावसरम् । तिष्ठति तेन मनोहर शरजन्मा ब्रह्मचर्येण ॥ ११६ ॥ १. 'आपत्पतितोद्धृतये' इति पा०.२. 'संहृत्य सा सुमध्या विश्वसजा निर्मिता जगति' । पा०, ३. "निहिता' इति पा०. ४. 'वसतिः' इति पा०. ५. 'नो याता' इति .. ६. कार्तिकेयः.
३ कुट्टनीमतम् । यदि कथमपि मधुमथनः पश्यति तामसमबाणसर्वखम् । तेदसारभारभूतामिव लक्ष्मीमुरसि विनिहितां मनुते ॥ ११७ ॥ यदि पतति सा कथंचिद्वीक्षणविषये हरस्य तदवश्यम् । त्रिभुवनमशिवं कुरुते वामेतरदेहभागमासाद्य ॥ ११८ ॥ सौन्दर्य तत्तादृशमशेषयोषिद्विलक्षणं सृजतः । यन्निष्पन्नं धातुस्तन्मन्ये काकतालीयम् ॥ ११९ ॥ सहजविलासनिवासं तस्या वपुरनभिवीक्षमाणस्य । मन्ये नाकाधिपतेः सहस्रमपि चक्षुषां विफलम् ॥ १२० ॥ शिथिलयतु कुसुमचापं क्षिपतु शरान्बाणधौ मनोजन्मा। संसारसारभूता विचरति भुवि मालती यावत् ॥ १२१ ॥ वात्स्यायनमदनोदयदत्तकविटपुत्रराजपुत्राद्यैः । उल्लपितं यत्किचित्तत्तस्या हृदयदेशमध्यास्ते ॥ १२२ ॥ भरतविशाखिलदन्तिलवृक्षायुर्वेदचित्रसूत्रेषु । पत्रच्छेदविधाने भ्रमकर्मणि पुस्तसूदशास्त्रेषु ॥ १२३ ॥ आतोद्यवादनविधौ नृत्ते गीते च कौशलं तस्याः । अभिधातुं यदि शक्तो वदनसहस्रेण भोगिनामीशः ॥ १२४ ॥ (कुलकम्) परिगलदालोलांशुकमपयन्त्रणमुरसि मालती रभसात् । निपतति नापुण्यवतां रतिलालसमानसा रहसि ॥ १२५ ॥ रतिरसरभसास्फालनचलवलयनिनादमिश्रितं तस्याः । तत्कालोचितमणितं श्रुतिपथमुपयाति नाल्पपुण्यस्य ॥ १२६ ॥ इत्थमभिधीय नानः शुभमध्ये यदि भवेदुदासीनः । एवं ततोऽभिधेयः संदर्शितकोपया दूत्या ॥ १२७ ।। किं सौभाग्यमदोऽयं यौवनलीलामिरूपतादर्पः । सहजप्रेमोपनतां मालतिकां न बहु मन्यसे येन ॥ १२८ ॥ १. 'तदसारभूतमेव स लक्ष्मीवपुरुरसि विनिहितं मनुते' इति पा०. २. "विषयम्' इति पा०. ३. वात्स्यायनादयः कामशास्त्रकारा:. ४. 'विप्रपुत्रेषु' इति पा०.५. 'उपरि' इति पा०. ६. 'मणितं रतिकूजितम्'. 'भणितम्' इति' 'रणितम्' इति च पा..
CC काव्यमाला। न गणयति या कुलीनान्द्रविणवतः शस्त्रवेदिनः प्रणतान् । सा भवदर्थे शुष्यति कुस्थाननिवेशितं धिगनुरागम् ॥ १२९ । कमलवती तीव्ररुचौ बहुभमनि शंभुशिरसि शशिलेखा । सा च त्वयि पशुकल्पे यदभिरता तेन मे कृशता ॥ १३० ॥ असरलमरसं कठिनं दुर्घहमस्निग्धमाश्रिता खदिरम् । यदुपैति वाच्यपदवीं मौलतिका तत्किमाश्चर्यम् ॥ १३१ ॥ अथवा कः खलु दोषो यदतुल्यतयोपजनितवैलक्ष्यः । खाधीनामपि सरसां परिहरति मृणालिकां ध्वासः ॥ १३२ ॥ मात्र करिष्यसि खेदं निष्ठुरमुक्तोऽसि यन्मया सुभग । यूनां हि रक्ततरुणीसुहृदमिहितपरुषमाभरणम् ॥ १३३ ॥ चन्द्रमसेव ज्योत्स्ना कंसासुरवैरिणेव वनमाला । कुसुमशरासनलतिका कुसुमाकरवल्लभेनेव ॥ १३४ ॥ मदलीला हलिनेव स्तनयुगलेनेव हारलता । रम्यापि सा सुगात्री रम्यतरा भवतु संगता भवता ॥ १३५ ॥ किं बहुना यदि यूनामुपरि विधातुं समीहसे चरणम् । तत्कुरु रमणीरनं प्रेमोज्ज्वलसंगतं तूर्णम् ॥ १३६ ।। अथ तद्वचनश्रवणप्रविजृम्भितमदनभट्टदायादः । उपचरणीयः सुन्दरि निजवसतिमुपागतस्त्वयाप्येवम् ॥ १३७ ॥ दूरादभ्युत्थानं प्रणमनमात्मासनप्रदानं च । प्रविधेयमञ्चलेन प्रस्फोटनमशिन्युगलस्य ॥ १३८ ।। ईषदयनप्रकटितकक्षोदरबाहुमूलकुँचयुगलम् । संदर्य झटिति यास्यसि नायकदृग्गोचरातूर्णम् ॥ १३९ ॥ अथ पर्यसनाथं दीपोज्ज्वलकुसुमधूपगन्धाढ्यम् । विततवितानकरम्यं प्रवेशितो वासकागारम् ॥ १४० ॥ १. अलसम्' इति पा०, २. मालतीनाम लताविशेषः- ३. मा-अत्र. ४. 'हारलतिका च' इति पा०. ५. 'साधुगात्री' इति पा०. ६. 'श्रवणात्परिचु- म्बितमदन-' इति पा०. प्रविजृम्भितमदनवासी भट्टदायादो भसुतः. ७. 'कुचभागम्' इति पा०. 6. 'दृग्गोचरा तूर्णम्' इति पा०. ९. 'वासकावासम्' इति पा..
कुट्टनीमतम् । मात्रा ते गुरुजघने सादरमवतारणादिकं कृत्वा । अभिनन्दनीय एभिर्वचनविशेषैः प्रयत्नेन ॥ १४१ ॥ (कुलकम्) अद्याशिषः समृद्धाः परितुष्टा इष्टदेवता अद्य । कल्याणालंकारो यदलंकृतवानिदं वेश्म ॥ १४२॥ अनुरूपपात्रघेटनं कुर्वाणस्याद्य कुसुमबाणस्य । सुचिराहत संजातः शरासनाकर्षणश्रमः सफलः ॥ १४३ ॥ विन्यस्य शिरसि चरणं सुभगा गणिकाजनस्य सकलस्य । सौभाग्यवैजयन्ती संप्रति वत्सा समुत्क्षिपतु ॥ १४४ ॥ दुहितर एव श्लाघ्या घिग्लोकं पुत्रजन्मसंतुष्टम् । जामातर आप्यन्ते भवादृशा यदमिसंबन्धात् ॥ १४५ ॥ दृढपरिचया गुणज्ञा भवद्विधा मानदा यदपि । तदपि हृदयाभिनन्दन दुहितृस्नेहादहं वक्ष्ये ॥ १४६ ॥ सहजप्रेमोपनता न्यस्ता त्वयि मालती तथा कार्यम् । न यथा भवति वराकी त्वद्विप्रियजन्मनां शुचां वसतिः ॥ १४७ ॥ मृदुधौतधूपिताम्बरमग्राम्यं मण्डनं च बिभ्राणा । परिपीतधूपवर्तिः स्थास्यसि रमणान्तिके सुतनु ॥ १४८ ॥ सस्नेहं सवीडं ससाध्वसं सस्पृहं च पश्यन्ती। किंचिदृश्यशरीरा प्रविरलपरिहासपेशलालापा ॥ १४९ ॥(युग्मम्) मातरि निर्यातायां परिजनमुक्ते च वासकस्थाने । अभियुञ्जाने रमणे वामाचरणं क्षणं कार्यम् ॥ १५० ॥ रतिसंगरविहितमतावाकर्षति रभसतः पुरस्तस्मिन् । कुट्टमितमाचरन्ती जनयिष्यसि किंचिदङ्गसंकोचम् ॥ १५१ ॥ १. 'मात्रा ते गुरुलाघवसादरमपवारणं कृत्वा' इति पा०. २. 'घटनाम्' इति पा०. ३. 'अचिरात्' इति पा०. ४. 'शरासनस्य श्रमः' इति पा०. ५. 'वेश्याजनस्य' इति पा०. ६. 'परितुष्टम्' इति पा०. ७. 'नार्थनार्हाः स्युः' इति पा०. ८. 'च नयनानन्दन' इति पा०. ८. 'वच्मि' इति पा०. १०. 'रमणे निजे' इति पा०. ११. 'पुनः' इति पा०. १२. 'केशाधरादिग्रहणे मोदमानेऽपि मानसे । दुःखितेव बहिः कुप्येद्यत्र - मितं हि तत् ॥' इति. ५ काव्यमाला। प्रारब्धे सुरतविधौ क्रमदर्शितचित्तयोनिसंवेगा । अपशङ्कमर्पयिष्यसि निर्व्याजं पुत्रि गात्राणि ॥ १५२ ॥ यावद्वाञ्छति हन्तुं यद्रष्टुं यच्च विलिखितुं गात्रम् । तत्तदपसारणीयं सावेगं ढौकनीयं च ॥ १५३ ॥ दंशे सव्यथहुंकृतिमाम विविधकण्ठरसितानि । नैखविलिखने च सीत्कृतिमाघातेषूल्बणं कणितम् ॥ १५४ ॥ खायासश्वासान्मुञ्चन्ती पुलकदन्तुरशरीरा । खद्यर्सेकलावयवा प्रकरिष्यसि रागवृद्धये पुंसाम् ॥ १५५ ॥ (युग्मम् ) परभृतलावकहंसकपारावततुरगहृदयनिःखनितम् । अनुकार्यमुचितकाले कलकण्ठि रुतैस्त्वया रसतः ॥ १५६ ॥ मा मा मामतिपीडय मुञ्च क्षणमदय नो समर्थास्मि । इति गद्गदास्फुटाक्षरमभिधातव्यस्त्वया कामी ॥ १५७ ॥ अनुबन्धमानुकूल्यं वामत्वं प्रौढ़तामसामर्थ्यम् । सुरतेषु दर्शयिष्यसि कामुकभावं खयं बुद्धवा ॥ १५८ ॥ असमञ्जसमश्लीलं दूरोज्झितधैर्यमविनयप्रसरम् । व्यवहारमाचरिष्यसि वृद्धिमुपेते रसावेगे ॥ १५९ ॥ अविचेतितनखरक्षतिरामीलितलोचना निरुत्साहा । नायककार्यसमाप्तौ स्थास्यसि शिथिलीकृतावयवा ॥ १६ ॥ झगिति नितम्बावरणं निःसहतनुतां स्मितं सवैलक्ष्यम् । खेदालसां च दृष्टि जनयिष्यसि मोहनच्छेदे ॥ १६१ ॥ वृत्ते रताभियोगे स्पृष्ट्वा सलिलं विविक्तभूभागे। प्रक्षाल्य पाणिपादं स्थित्वा क्षणमासने समूब कचान् ॥ १६२ ॥ १. चित्तयोनिः कामः. २. 'संयोगा' इति पा०. ३. 'नखरक्षतेषु सीत्कृतम्' इति पा०. ४. 'सर्वावयवा प्रचरिष्यसि रागमृद्धये' इति पा०. ५. 'निःश्वसितम्' इति पा०, ६. 'प्रौढभावसामर्थ्यम्' इति पा०. ७. 'स्फुटम्' इति पा०. ८. 'रतावसरे' इति पा०. ९. 'भावेदित' इति पा०.१०. 'समात्ये' इति पा०, ११. मोहनं सुरतम्. १२. 'वि. कृष्टभूभागे' इति पा०.१३. 'समार्य' इति पा०.
कुट्टनीमतम् । उपयुक्तरदनवासा शय्यामारुह्य दर्शितप्रणया। इति वक्ष्यसि तं रमणं दृढतरमालिङ्गय रभसतः कण्ठे॥ १६३॥ (युग्मम्) भेट्टसुत नूनमिष्टा तव जाया यदनुरक्तहृदयस्य । जनयति परितुष्टिमलं नापररामापरिष्वङ्गः ॥ १६४ ॥ सफलं तस्या जन्म स्पृहणीया सैव सकलललनानाम् । गौरी तयैव महिता सुभगंकरणं तपस्तया चरितम् ॥ १६५ ॥ सैवैका गुणवसतिस्तस्या एवान्वयः सैदा श्लाघ्यः । यस्याः शुभशतभाजः पाणिग्रहणं त्वया विहितम् ॥ १६६ ॥ तिष्ठतु सा पुण्यवती वंशद्वयभूषणं वरारोहा । या नापयाति भवतो लक्ष्मीरिव नरकवैरिणो हृदयात् ॥ १६७ ॥ पातयसि कुवलयनिभे कौतुकमात्रेण लोचने यासु । ता अपि सत्यं सुन्दर हर्षोच्छलिता न मान्ति गात्रेषु॥१६८॥ (संदानितकम्) तनुरपि नाथप्रणयः प्रायो मुखरीकरोति लघुमनसः । स्वार्थनिवर्शितचित्ता कैरोमि तेऽभ्यर्थनां तेन ॥ १६९॥ तीव्रस्मरतारुण्याच्चापलतः कौतुकेन घृणया वा। मद्भाग्यसंपदा वा दूत्या वा कौशलाखभावाद्वा ॥ १७० ॥ योऽयं प्रेमलवांश. प्रदर्शितोऽस्मासु जीवनोपायः । बाधा नात्र विधेया गणिकाजनभावमन्यथा बुद्धा ॥ १७१ ॥(युग्मम्) येन स्नेहः क्रोधः शाठ्यं दाक्षिण्यमार्जवं व्रीडा । एतानि सन्ति तास्वपि जीवद्धर्मोपनीतानि ॥ १७२ ॥ निर्व्याजसमुत्पन्नप्रबलप्रेमाभिभूतहृदयानाम् । दयितविरहाक्षमाणां गणिकानां तृणसमाः प्राणाः ॥ १७३ ॥ १. 'वदन' इति पा.. २. अधिरुह्य' इति पा.. ३. 'भद्रसुत' इति पा.. ४. 'जाया ते' इति पा०. ५. 'सदा' इति पुस्तकान्तरे नास्ति. ६. "तिष्ठति' इति पा०. ७. हर्षोल्लसिता' इति पा०. ८. 'अर्थ' इति पा०. ९. 'प्रकरोम्यभ्यर्थनाम्' इति पा०.१०. 'प्रणयाद्वा' इति पा०. ११. 'हृदयम्' इति पा०. १२. 'यत्र' इति पा..
काव्यमाला। अत्राकर्णय साद्भुतमाख्यानं वर्णयामि यद्वृत्तम् । अद्यापि बिभर्ति वटो विशेषणं यदभिसंबन्धात् ॥ १७४ ॥ 'अस्ति महीतलतिलकं सरस्वतीकुलगृहं महानगरम् । नाना पाटलिपुत्रं परिभूतपुरंदरस्थानम् ॥ १७ ॥ त्रिभुवनपुरनिष्पादनकौशलमिव पृच्छतो विरिश्चस्य दर्शयितुं निजशिल्पं वर्णकमिव विश्वकर्मणा विहितम् ॥ १७६ ॥ अश्रेयोभिरनाश्रितमभिभूतं नाभिभूतिदोषेण । ने स्वीकृतमुपसर्गः कलिकालमलैरनालीढम् ॥ १७७ ॥ पातालतलं भोगिभिरम्भोधिविविधरत्नसंघातैः । सुरसदनं विबुधगणैर्द्रविणोपचयैः पुरं कुबेरस्य ॥ १७८ ॥ महिलाभिरसुरविवरं कटकं हि हिमाचलस्य गन्धर्वैः । हरिनगरं ऋतुयूपैः शमविभवैर्मुनिजनस्थानम् ॥ १७९ ॥ तिष्ठन्तु सकलशास्त्रव्यालोकनविमेलबुद्धयो विषाः । सदसद्गुणनिर्णीतौ ललना अपि निकषभूमयो यत्र ॥ १८ ॥ कलिकालोदितभीत्या ऋतुहुतवहधूमकम्बलावरणः । तिष्ठन्निभृतोऽपि वृषश्चरितैरनुमीयते यत्र ॥ १८१ ॥ अपहरति पिधातुमिव स्वकलङ्कं शशधरः प्रसार्य करान् । रात्रौ यत्र वधूनां लावण्यं वदनकोषेभ्यः ॥ १८२ ॥ तिमिरपटलासिताम्बरमपहरदभिसारिकाजनौघस्य । निजतनुकान्तिवितानं वल्लभसंभोगविहितये यत्र ॥ १८३ ॥ यत्र नितम्बवतीनां विचलन्नयनान्तशितशरैर्बणितः । शिथिलयति पथिकलोकः स्वकलत्रसमागमोत्कण्ठाम् ॥ १८४ ॥ यत्र च कुलमहिलानामल्पत्वं वचसि पाणिपादे च । स्वच्छत्वमाशये च व्यालोलत्वं विशालनेत्रे च ॥ १८५ ॥ १. न्यग्रोधवृक्षः. २. 'अखीकृतम्' इति पा०. ३. "निचयैश्च' इति पा०. ४. 'रम. णीभिः' इति पा०. ५. 'शुद्ध' इति पा०. ६. धर्मः. ७. विहितये' इति, विहतये' इति च पा०. ८. विचलनयनांशु' इति पा०. ९. 'आशयेषु' इति पा०.
कुट्टनीमतम् । ४९ स्तनजघनचिकुरभारे घनता जीवेशसहजरोगे च । कुलदेवतार्चनविधौ बलिशोभा मध्यभागे च ॥ १८६ ॥ गम्भीरता स्वभावे चेतोभवबाणतूणनाभौ च । विस्तीर्णता नितम्बे गुरुजनपूजानुरक्तचित्ते च ॥ १८७ ॥ हरिणायतेक्षणानां विच्छित्तिः कोषहरणमस्त्रेषु । कुटिलत्वमलकपडौ बालानां कामचेष्टितं यत्र ॥ १८८ ॥ संयमनमिन्द्रियाणामिनोपघातग्रहस्तमिस्रस्य । स्तब्धत्वं तालतरौ हारलतास्तरलसंगता यस्मिन् ॥ १८९ ॥ भुजगाः पररन्ध्रदृशः खण्ड्यन्ते प्रियतमाधरा यत्र । सूचीव्यथानुभूतिर्नृत्याभ्यासप्रवृत्तानाम् ॥ १९० ॥ नतवपुरप्यतिसरला मन्थरगमनापि नर्मदा यस्मिन् । गुरुजनशास्त्ररतापि स्वभावसुभगाङ्गनाजनता ॥ १९१ ॥ तस्मिन्मखशतपूतः पुरुहूत इव द्विजन्मनां प्रवरः । गुरुरिव विद्यावसतिर्वसति स पुरंदरो नामा ॥ १९२ ।। धर्मात्मजस्य सत्यं त्रिपुररिपोर्विजितकुसुमचापत्वम् । हरिनाभिपङ्कजभुवो नियतेन्द्रियतां जहास यः सततम् ॥ १९३ ॥ न्यकृतवृष इति शर्वे याचक इति कौस्तुभाभरणे । पीडितवसुधासुत इति कपिले न बभूव यस्य बहुमानः ॥ १९४॥ मार्गानुगतौ लुब्धो यः प्राणिवपुर्विनाशविमुखोऽपि । परिहृतपरदारोऽपि स्वाकासितगुरुजनप्रमदः ॥ १९५ ॥ यस्यान्वये महीयसि सरसीव समस्तसत्त्वनिजवसतौ । सच्चरितजन्मभूमौ विनिवारितकलिमलप्रसरे ॥ १९ ॥ १. 'पीनपयोधरमारे' इति पा०. २. 'रागेषु' इति पा०. ३. 'मध्यदेशे च' इति पा०. ४. 'भब्जेषु' इति पा०. ५. 'सूची तु सीवनद्रव्येऽप्यालिकाभिनयान्तरें' इति मेदिनी. ६. 'प्रथमः' इति पा०. ५. 'चरितेन पङ्कजभुवो जितेन्द्रियत्वम्' इति पा०. ८. 'मार्गानुसृतौ' इति पा० (पक्षे) मार्गस्य मृगसमूहस्य. लुब्धो व्याधः.
काव्यमाला। . पितृतर्पणप्रसङ्गे खड्गग्रहणं न शौर्यदपे च । त्रुटनं मेखलिकानां वटुकजने नो रतामिसंमर्दे ॥ १९७ ॥ श्रुतिभेदेषु विवादो नो रिक्थविभागमन्युना कलितः । तेजखिता हविर्भुजि न शमैकरतेषु भूमिदेवेषु ॥ १९८ ॥ जरतामेव स्खलनं जपतामेवाधरस्फुरणम् । यजतामेव समिद्रुचिरेणाजिन एव कृष्णसंपर्कः ॥ १९९ ॥ तस्याभूत्सकलकलोद्भासितपक्षद्वयस्य सुत एकः । नामा सुन्दरसेनः कच इव वैचसामधीशस्य ॥२०॥ पशुपतिनयनहुताशनभस्मितमवधार्य यं वपुष्मन्तम् । अपरमिव कुसुमचापं रतिरतये निर्ममे धात्रा ॥ २०१॥ तिष्ठन्तु तावदन्याः कुलललना यस्य रूपमवलोक्य । सापि महामुनिदयिता कृच्छ्रेण ररक्ष चारित्रम् ॥ २०२ ॥ कलधौतफलकशोभां बिभ्राणं यस्य पृथुतरं वक्षः । दृष्ट्वा चिराय लक्ष्मीर्हरिहृदये दुःस्थिति मेने ॥ २०३ ॥ केथमार्द्रता दिनकृतः शशिशकलैरथ कृतः कथं व्यथकः । इत्थं यमीक्षमाणो निर्णयमगमन्न कामिनीसार्थः ॥ २०४ ॥ यो जग्राह हिमांशोः प्रसन्नमूर्तित्वमचलतः स्थैर्यम् । जलधरत उन्नतत्वं गाम्भीर्य यादसां पत्युः ॥ २०५॥ यो विनयस्य निवासो वैदग्ध्यस्याश्रयः स्थितेः स्थानम् । प्रियवाचामायतनं निकेतनं साधुचरितस्य ॥ २०६ ॥ यो मदनः प्रमदानां तुहिनकरः साधुकुमुदखण्डस्य । निकषोपलो गुणानां मार्गतरुः पथिकलोकस्य ॥ २०७ ॥ १. गण्डकाख्यप्राणिविशेषशृङ्गनिर्मितपात्रेण पितृतर्पणं कुर्वन्ति. २. 'विभागजनि. मन्यूनाम् ' इति पा०. ३. 'पठताम्' इति पा०. ४. एघसा युद्धानां चाभिलाषः. बृहस्पतेः पुत्रः कचः. ६. अरुन्धत्यनसूया वा. ७. 'शकलशोभाम् ' इति पा०. . 'मनुते' इति पा०. ५. 'कथमीहग्यदि न कृतः' इति पा०. १० 'प्रियवचनाम् ति पा०.
- . कुट्टनीमतम् । सज्जनगोष्ठीनिरतः काव्यकथाकनकनिकषपाषाणः । प्रणयिजनकल्पवृक्ष लक्ष्मीलीलाविहारभूमिश्च ॥ २०८ ॥ जलधिरिव तुहिनभासः सहवृद्धिपरिक्षयः सुहृत्तस्य । सकलोपधाविशुद्धो बभूव गणपालितो नामा ॥ २०९ ॥ तेन समं स कदाचित्तिष्ठन्रहसि प्रसङ्गतः पतिताम् । केनापि गीयमानामशृणोदार्यामिमां सहसा ॥ २१० ॥ 'देशान्तरेषु वेषखभावभणितानि ये न बुध्यन्ते । समुपासते न च गुरून्विषाणविकलास्त उक्षाणः ॥ २११ ॥ आकर्ष्याथ तमूचे वचनमिदं सुन्दरः सुहृन्मुख्यम् । शोभनमेतद्गीतं गुणपालित साधुनानेन ॥ २१२ ॥ साधूनामाचरितं खलचेष्टां विविधलोकहेवाकान् । नर्म विदग्धैर्विहितं कुलटाजनवक्रकथितानि ॥ २१३ ॥ गुरुगूढशास्त्रतत्त्वं विटवृत्तं धूर्तवञ्चनोपायान् । वारिधिपरिखां पृथ्वीं जानाति परिभ्रमन्पुरुषः ॥ २१४ ॥ (युगलकम्) अत उज्झित्य गृहस्थितिसुखलेशं विविधलीभपरिणामे । स्थापय गमनारम्भे वयस्य हृदयं मया सहितः ॥ २१५॥ इत्थं निगदितवन्तं सुहृदुत्तरलाभलालसात्मानम् । ऊचे सुन्दरसेनं लज्जित इव सहचरो वचनम् ॥ २१६ ॥ अभ्यर्थनानुबन्धो लज्जाकर एव मादृशां किं तु । आकर्णय कथयामः पथिकानां यानि दुःखानि ॥ २१७ ॥ कर्पटकावृतमूर्तिराध्वपरिश्रमावसितशक्तिः । पांसूत्करधूसरितो दिनावसाने प्रतिश्रयाकासी ॥ २१८ ॥ मातर्भगिनि दयां कुरु मा मैवं निष्ठुरा भव तवापि । कार्यवशेन गृहेभ्यो निर्यान्ति प्रातरश्च पुत्राश्च ॥ २१९ ॥ १. 'कथासार' इति पा०. २. 'रहिताः' इति पा०. ३. अभिलाषानित्यर्थः न्यासान्' इति पा०. ४. 'गुरुगेहशास्त्रचर्या वृटवचने' इति पा०. ५. 'उत्सृज्य' पा०.६. 'लाभरत्नानि' इति पा०. ७. 'कथयामि च' इति पा..
काव्यमाला। किं वयमुत्पाख्य गृहं प्रातर्गन्तार ई.गेव सताम् । भवति निवासो यस्मिन्निज इव पथिकाः प्रयान्ति विश्रामम् ॥ २२० ॥ अद्य रजनी नयामो यथाकथंचित्तवाश्रमे मातः । अस्तं गतो विवखान्वद संप्रति कुत्र गच्छामः ॥ २२१॥ इति बहुविधदीनवचाः प्रतिगेहद्वारदेशमधितिष्ठन् । निर्भय॑ते वराको गृहिणीभिरिदं वदन्तीभिः ॥ २२२ ॥ न स्थित इह गेहपतिः किं रटसि वृथा प्रयाहि देवकुलम् । कथितेऽपि नापगच्छति पश्य मनुष्यस्य निर्बन्धम् ॥ २२३ ॥ अथ यदि कथंचिदपरः पुनः पुनर्याचितो गृहस्वामी । निर्दिशति सावधीरणमत्र खपिहीति जीर्णगृहकोणे ॥ २२४ ॥ तत्र कलहायमाना तिष्ठति गृहिणी विभावरीं सकलाम् । अज्ञाताय किमर्थ वासो दत्तस्त्वयेति सह भर्ना ॥ २२५ ॥ ईदृगयं सरलात्मा किं कुर्मो भगिनि तावको भर्ता । स्थास्यसि गेहेऽवहिता भ्रमन्ति खलु वश्चका एवम् ॥ २२६ ॥ इति भाजनादियाच्यां बुद्धौ विनिधाय निकटवर्तिनो गेहात् । नारीजनः समेत्य ब्रूते तामाप्तभावेन ॥ २२७ ॥ (युग्मम् ) गृहशतमधिकमटित्वा कलमकुलत्थाणुचणमसूरादि । एकीभूतं भुङ्क्ते क्षुषोपतप्तोऽध्वगो भैक्षम् ॥ २२८ ॥ परवशमशनं वसुधा शयनीयं सुरनिकेतनं सद्म । पथिकस्य विधिः कृतवानुपधानकमिष्टिकाखण्डम् ॥ २२९ ।। इति निगदितवति तस्मिन्सुन्दरसेनस्य चोत्तरावसरे । इयमुपगीता गीतिः केनापि कथाप्रसङ्गेन ॥ २३ ॥ 'निजवरभवनं सुरगृहमुर्वीतलमतिमनोहरं शयनम् । कदशनममृतमभीप्सितकार्यैकनिविष्टचेतसां पुंसाम् ॥ २३१ ॥ १. 'खयम्' इति पा०. २. 'इह रहे वसतिम्' इति पा०.३. 'यथाकथंचिद्वदाशु हे मातः' इति पा०. ४. 'शीर्ण' इति पा०. ५. 'प्रहरम्' इति पा०. ६. भोजनादि' इति पा०. ७. 'निकटवर्तिगृहात्' इति पा०.८, 'नारी समभ्युपेता' इति पा..
कुट्टनीमतम् । च श्रुत्वा सुहृदं पौरंदरिरिदमुवाच परितुष्टः । मम हृदयगतं प्रकटितमेतेन सहैव गच्छामः ॥ २३२ ॥ अथ सहचरद्वितीयः क्लेशसमुद्रावतरणकृतचित्तः । निरगात्सुन्दरसेनः कुसुमपुरादविदितः पित्रा ॥ २३३ ॥ पश्यन्विदग्धगोष्ठीरभ्यस्यन्नायुधानि विविधानि । शास्त्रार्थानधिगच्छन्विलोकयन्कौतुकान्येनेकानि ॥ २३४ ॥ जानन्पत्रच्छेदनमौलेख्यं सिक्थपुस्तकर्माणि । नृत्यं गीतोपचितं तत्रीमुरजादिवाद्यभेदांश्च ॥ २३५ ॥ बुध्यन्वञ्चकभैङ्गीविटकुलटानर्मवक्रकथितानि । बनाम सुहृत्सहितः सुन्दरसेनो महीमखिलाम् ॥२३६ ॥(कुलकम् ) अथ विदितसकलशास्त्रो विज्ञाताशेषजनसमाचारः । निजगृहगमनाकासी स शिलोच्चयमबुंदं पाप ॥ २३७ ॥ तत्पृष्ठदेशदर्शनलोलमति सुन्दरं परिज्ञाय । गुणपालितो बभाषे विलोक्यतामद्रिराज इति ॥ २३८ ॥ एष सुतः सानुमतः स्यन्दच्छीताच्छसलिलसंपन्नः । लोकानुकम्पयेव प्रालयमहीभृता मरौ न्यस्तः ॥ २३९ ॥ शिशिरकरकान्तमौलिः केटकस्थितपवनभोजनः संगुहः । विद्याधरोपसेव्यो बिभर्ति लक्ष्मीमयं शंभोः ॥ २४०॥ अत्र तरुशिखरसंगतसुमनस इति जातविस्मयो मन्ये । अभिलषति समुच्चेतुं तारा निशि मुग्धकामिनीलोकः ॥ २४१ ॥ आश्चर्य यदुपान्ते तिष्ठन्त्येतस्य सप्त मुनयोऽपि । अथवा कस्याकर्ष न करोति समुन्नतिर्महताम् ॥ २४२ ॥ १. 'समुपश्रुत्य च' इति पा०, २. 'सकलानि' इति पा०. ३. आलेखम्' इति पा०. ४. 'वृत्तीः' इति पा०. ५. 'शैलोच्चयनाथमर्बुदम्' इति पा०. 'आबू' इति नाना प्रसिद्ध पर्वत प्रापेत्यर्थः. ६. 'लोलमलम्' इति पा.. ७. 'स्यन्दत्स्फीताच्छ-' इति पा०. ८. मरुदेशे 'मारवाड' इति प्रसिद्धे. पुस्तकान्तरे 'मरौं' इति नास्ति. ९. कटकेषु नितम्बेषु स्थिताः पवनभोजनास्तपश्चर्यार्थ वातमात्राहारा ऋषयो यस्य; (पक्षे) कङ्कणी- कृतसर्पः. १०. गुहाभिगुहेन च सहितः.
५४ काव्यमाला। अवलम्ब्य निरवलम्बनमम्बरमार्ग पतंगतुरगाणाम् । अयमवनिधरो मन्ये विश्रान्त्यै वेधसा विहितः ॥ २४३ ॥ इममाश्रित्य हिमांशोरोषधयः संनिकर्षमुपयाताः । प्रत्यासत्तिः प्रभुणा प्रायोऽनुग्राहकवशेन ॥ २४४ ॥ सेक्तुमिवाशाकरिणो विसृजत्ययमवनिधरणपरिखिन्नान् । निर्झरसलिलकणौघान्भवति हि सौहार्दमेककार्याणाम् ॥ २४५ ॥ हारीताहितशोभो मुदितशुको व्यासयोगरमणीयः । विश्रान्तभरद्वाजः समतामयमेति मुनिनिवासस्य ॥ २४६ ॥ अस्मिन्निःसङ्गा अपि परलोकप्राप्युपायकृतयत्नाः । गन्धवहभोजना अपि न हिंसकाः फलभुजोऽपि न प्लवगाः ॥ २४७॥ शुभकर्मैकरता अपि षट्कर्मण्यायता अपि स्ववशाः । अनभिमतरौद्रचरिताः श्रितप्रिया अपि वसन्ति शमनिरताः २४८ (कुलकम्) मूर्तिरिव शिशिररश्मर्हरिणवती सप्तपत्रकृतशोभा । सरणिरिव चण्डभासः पलाशिनी यातुधानजायेव ॥ २४९ ॥ सोत्कण्ठेव समदना वासकसज्जेव कृततिलकशोभा । बहुहरिपीलसनाथा नरनाथद्वारभूमिरिव ॥ २५० ॥ अर्जुनबाणवातैः कुरुनाथवरूथिनीव संच्छन्ना । ऋक्षसहस्रोपचिता लक्ष्मीरिव गगनदेशस्य ॥ २५१ ॥ ध्वजिनीव दानवानां मिष्टंकसमधिष्ठिता(?) त्रियामेव । उद्यातरोहिणीका रम्येयमुपत्यका भाति ॥ २५२ ॥ (कुलकम् ) १. 'अवगम्य' इति पा०. २. 'संनिधानम्' इति पा०. ३. यतोऽयमप्यवनीधर इति भावः. ४. हारीतशुकभरद्वाजाः पक्षिविशेषाः, व्यासो विस्तारः; (पक्षे) हारी- तशुकव्यासभरद्वाजाख्या मुनयः प्रसिद्धा एव. ५. 'निःशङ्काः' इति पा०. ६. 'फल. भुजोऽपि शमनिरताः' इति पा०. ७. इयमार्या पुस्तकान्तरे नास्ति. ८. सूर्यस्य वाहनभूतैः सप्ताश्वैः कृतशोभा (पक्षे) सप्तपत्रो वृक्षविशेषः. ९. सूर्यस्य. 'चण्डभानोः' इति पा०. १०. हरिरश्वः, पीलुर्हस्ती; (पक्षे) हरिर्वानरः, पीलु क्षविशेषः. ११. अर्जु. नबाणौ वृक्षविशेषौ तत्समूहै.. १२. ऋक्षाणि नक्षत्राणि; (पक्षे) ऋक्षा भल्लूकाः १३. 'सृष्टाङ्क-' इति, 'अक्षाङ्क- इति च पा.. , कुट्टनीमतम् । इति दर्शयति वयस्से सुन्दरसेने च पश्यति प्रीत्या । स्वप्रस्तावोपगता गीतिरियं केनचिद्गीता ॥ २५३ ॥ 'अतिशयितनाकपृष्ठं पृष्ठं ये नार्बुदस्य पश्यन्ति । बहुविषयपरिभ्रमणं मन्ये क्लेशाय केवलं तेषाम् ॥ २५४ ॥ आकर्ण्य च स बभाषे महात्मनानेन युक्तमुपगीतम् । शिखरिशिरः पश्यामो वयस्य रम्यं समारुह्य ॥ २५५ ॥ अथ गिरिवरमारूढो विलोकयन्विविधविबुधभवनानि । वापीरुद्यानभुवः सरांसि सरितश्चचार विस्मेरः ॥ २५६ ॥ अचिराभामिव विघनां ज्योत्स्नामिव कुमुदबन्धुना विकलाम् । रतिमिव मन्मथरहितां श्रियमिव हरिवक्षसः पतिताम् ॥ २६७ ॥ हेस्त्वोलकं विधातुः(?) सारं सकलस्य जन्तुजातस्य । दृष्टान्तं रम्याणां शस्त्रं संकल्पजन्मनो जैत्रम् ॥ २५८ ॥ विकसितकुसुमसमृद्धि शृङ्गाररसापगैककलहंसीम् । लीलापल्लववल्ली वतिनामवधानवर्मणां भल्लीम् ॥ २९९ ॥ विचरन्नुपवनमण्डपपुष्पप्रकराभिरामभूपृष्ठे । रममाणां सह सख्या ललनामालोकयामास ।। २६० ॥ (कुलकम्) अवलोकयतस्तस्य स्मरसायकवेध्यतामुपगतस्य । इंदमभवन्मनसि चिरं विस्मयभाराभिभूयमानस्य ॥ २११ ॥ केदं खलु विश्वसृजः कौशलमत्यद्भुतं जातम् । येन विरुद्धानामपि घटितैकत्र स्थितिस्तथाहीयम् ॥ २६२ ॥ ललितवपुर्निर्दोषां स्फुरदुज्ज्वलतारकाभिरामा च । निर्वाच्यवदनकमला जितवीणा 'कणितवाणी च ॥ २६३ ॥ १. 'जातविस्मेरः' इति पा०. २. 'हस्तोच्चयो' इति, 'अस्तौव्वये' इति च पा०. ३. 'अस्त्रम्' इति पा०. ४. 'विलसित-' इति पा०. ५. 'शृङ्गारसरोवरैक-' इति पा०. ६. 'पुण्य' इति पा०. ७. 'द्वयम्' इति पा०, ८. 'आसीत्' इति पा०, ९. 'भावा- भिभूतस्य' इति पा०. १०. 'समुपजातम्' इति पा०. ११. 'भनिदोषा' इति पा. १२. 'कलितवाणी' इति पा०.
११ काव्यमाला। प्रकटितविग्रहसंस्थितिरतिशोभाघटितसंधिबन्धा च । उन्नतपयोधराव्या शरदिन्दुकरावदाता च ॥ २६४ ॥ अभिमतसुगतावस्थितिरमिनन्दितचरणयुगलरचना च । अतिविपुलजघनदेशा विध्वस्तशरीरविहितशोभा च ॥ २६५ ॥ आविर्भवदनुरागे तस्मिन्नथ वलितलोचना सहसा । सापि बभूव मृगाक्षी हस्तगता कुसुमचापस्य ॥ २६६ ॥ तरुमूलमाश्रिताया विस्मृतसकलान्यकर्मणः सपदि । तस्या गात्रलतायामङ्कुरितं सात्त्विक वैः ॥ २६७ ॥ सैवोपवनसमृद्धिस्तस्मिन्नेव क्षणे स्मरं समाश्रित्य । तां व्यथयितुमारेभे प्रेभोहि कृत्यं करोति खलु सर्वः ॥ २६८ ॥ गात्रसिरासंधिभ्यः प्रस्वेदजलं विनिर्ययौ तस्याः । अन्तर्वलितमनोभवहव्यभुजा दह्यमानेभ्यः ॥ २६९ ॥ कुसुमशरजालपतिता मुहुर्मुहुर्विदधती विवृत्तानि । अनिमेषं पश्यन्ती मत्स्यवधूमनुचकार सा तन्वी ॥ २७० ॥ स्तब्धत, सोत्कम्पा पुलकवतीं स्वेदिनीं सनिःश्वासाम् । विदधे तामसमशरः क्रीडति हि शठो विशिष्टमासाद्य ॥ २७१ ॥ उच्छ्रासरुल्लसनं कुचयुगले सौष्ठवं विलसितानि । अभिलषितेन प्रेम्णा स्निग्धं वचनं मनोहारि ॥ २७२ ॥ अनुरक्त्या वेचनरुचिं वचसि च गमने च साध्वसस्खलनम् । तस्या मदनः कुर्वनुपनिन्ये चारुतामवधिम् ॥ २७३॥ (युग्मम्) पार्श्वगतेऽपि प्रेयसि कामशरासारताब्यमानापि । न शशाक साभिधातुं चित्तगतं प्रणयभङ्गतो भीती ॥ २७४ ॥ अथ विदितचित्तवृत्तिः सक्तदृशं प्रियतमे समाकृष्य । मदनेन दह्यमानां विहसितविशदं जगाद तामाली ॥ २७५ ॥ १. 'कलावदाता' इति पा०. २. 'चरणरचनशोभा च' इति पा०.३. 'मासितायाः' इति पा०. ४. 'प्राप्य' इति पा०. ५. प्रभवत्रन्यम्' इति पा०. ६. 'गानसरसेन्ध. नेभ्यः' इति पा०. ७. 'विलासानाम्' इति पा०.८. स्निग्धत्वं चक्षुषोः' इति पा.. ५. 'वदनरुचिम्' इति पा०. १०. 'अधिकाम्' इति पा.. ११. 'भीला' इति पा..
कुट्टनीमतम् । अयि हारलते संहर हरहुंकृतिदग्धदेहसंक्षोभम् । सद्भावजानुरक्तिर्नहि रेम्या पण्यनारीणाम् ॥ २७६ ॥ . अवधीरय धनविकलं कुरु गौरवमकृशसंपदः पुंसः । अस्मादृशां हि मुग्धे धनसिद्धयै रूपनिर्माणम् ॥ २७७ ॥ अभिरामेऽभिनिवेशं विदधाना विविधलाभनिरपेक्षा । उपहस्यसे सुमध्ये विदग्धवाराङ्गनावारैः ॥ २७८ ॥ येषां श्लाघ्यं यौवनमभिमुखतामुपगतो विधिर्येषाम् । फलितं येषां सुकृतैर्जीवितसुखितार्थिता येषाम् ॥ २७९ ॥ तेऽवश्य स्वयमेव त्वामनुबध्नन्ति मदनशरमिन्नाः । नहि मधुलिहः कृशोदरि मृग्यन्ते चूतमञ्जर्या ॥२८०॥(युगलकम्) इति गदितवतीमाली कामशरासारमिन्नसर्वाङ्गी । अव्यक्तस्खलिताक्षरमूचे कृच्छ्रेण हारलता ॥ २८१ ॥ सखि कुरु तावद्यनं पेटुतरमतिवेदनाप्रतीकारे । कोडीकृता विपत्त्या न भवन्त्युपदेशयोग्या हि ॥ २८२ ॥ अखायत्तः प्रेयान्मृदुपवनः सुरभिमास उद्यानम् । इयती खलु सामग्री भवति क्षीणायुषामेव ॥ २८३ ॥ मत्वा मदनाशीविषविषवेगाकुलितविग्रहामालीम् । समुपेत्य शशिप्रभया पौरंदैरिरभिदधे कृतप्रणतिः ॥ २८४ ॥ यदि नाम रुणद्धि गिरं गणिकाभावोपजनितवैलक्ष्यम् । तदपि कथनीयमेव स्निग्धापदि नहि निरूप्यते युक्तम् ॥ २८५ ॥ एतावति संसारे परिगणिता एव ते सुजनाः। आपन्नपरित्राणे व्याकुलमनसः स्फुरन्ति ये बुद्धौ ॥ २८६ ॥ १. 'पध्यम्' इति पा०. २. 'विनिवेशम्' इति पा०. ३. 'मधुलेहाः सुन्दरि' इति पा०. ४. 'सिक्सर्वाङ्गी' इति पा.. ५. 'बहुमतम्' इति पा०. ६. 'इयमियती' इति ७. सुन्दरसेन इत्यर्थः. ८. 'कथितव्यम्' इति पा०. १. 'सुजन्मानः' इति पा०. १०. 'आपत्सु परित्राणव्याकुल- इति, 'मापनपरित्राणे कोमल-' इति च पा.. पा..
काव्यमाल्या यस्मिन्नेव महूर्ते यदवधि दृष्टोऽसि मे सख्या । तत एवारभ्य गता विधेयतां दग्धमदनख ॥ २८७॥ रोमोद्गमसनहनं भित्त्वान्तर्विग्रहं परापतिताः। तस्या मानससंभवकोदण्डविनिर्गता इषवः ॥ २८८ ॥ किं वा वदतु वराकी कुत्र समाश्वसितु यातु कं शरणम् । पीडयति भृशं येसान्नित्यं शुचिदक्षिणो मृदुः पवनः ॥ २८९ ॥ वचसि गते गद्गदतामुज्झितमौनव्रताश्चिराय पिकाः । हृष्टा व्यथयन्ति सखीं जातावसरा निरर्गलं विरुतैः ॥ २९० ॥ स्खलिताकुलिते गमने तन्वया अगणितश्रमा हंसाः । सुचिरालब्धावसराः कुर्वन्ति गतागतानि परितुष्टाः ॥ २९१ ॥ उष्णोच्छ्रसितसमीपे विदह्यमानोऽपि मधुकरस्तस्याः । अलककुसुमं न मुञ्चति कृच्छ्रेष्वपि दुस्त्यजा विषयाः ॥ २९२ ॥ नो वारयति तथा मां सांप्रतमिति कथयतीव मधुलेहः । निःसहवपुषः कर्णे श्रुतिपूरकपुष्पसंगतो गुञ्जन् ॥ २९३ ॥ प्रशिथिलभुजलतिकायास्तस्याः पतितस्य हेमकटकस्य । यत्प्रापणं पृथिव्यास्तस्मिन्खलु मुक्तहस्तता हेतुः ॥ २९४ ॥ रशनागुणेन विगलितमेकपदे तनितम्बतश्चित्रम् । पतनाय नियतमथवा निषेवणं गुरुकलत्रस्य ॥ २९५ ॥ अङ्गीकृत्य मनोभवमुरसि तथा लालितोऽपि हतहारः । तापयति सखी तत्क्षणमन्तमिन्नात्कुतः कुशलम् ॥ २९६ ॥ वक्षसि तत्स्वेदजलं कजलमलिनाश्रुवारिणा मिश्रम् । कुचतटपतितं तस्याः प्रयागसंभेदसलिलमनुकुरुते ॥ २९७ ॥ पिकरुतमलयसमीरणसुमनःस्मरभृङ्गदहनपरिकलिता । पञ्चतपश्चरति भवत्परिरम्भणसौख्यलम्पटा बाला ॥ २९८ ॥ १. 'अस्मिन्' इति पा०. २. 'मुहूर्ते चक्षुविषयोऽसि मम सख्या' इति पा. ३. 'तस्याम्' इति पा०. ४. किं विदधातु' इति पा०. ५. 'यसा नित्यधुचिर्द क्षिणः पवनः' इति पा०. ६. 'परपुष्टाः' इति पा.. .. 'यथा' इति पा०. .. 'य. स्मिन्' इति पा०. १. 'मिन्नार्जवः' इति पा. १०. संमेदो नदीसंगम इसका कुट्टनीमतम् । न परापतति वराकी दशमी यावन्मनोभवावस्थाम् । त्रायख सुभग तावच्छरणागतरक्षणव्रतं महताम् ॥ २९९ ॥ अथ तद्वचसि कृतादरमुबूतमनोभवं समवधार्य । अवगीतिभीतचेता ऊचे गुणपालितः सुहृदम् ॥ ६०० ॥ यद्यपि मारप्रसरो दुर्वारः प्राणिनां नवे वयसि । चिन्त्यं तदपि विवेकिभिरवसानं वारयोषितां प्रेम्णः ॥ ३०१ ।। वारस्त्रीणां विनमरागप्रेमाभिलाषमदनरुजः । सहवृद्धिक्षयभाजः प्रख्याताः संपदः सुहृदः ॥ ३०२॥ तामिरवदातजन्मा कैरोति सङ्गं कथं यासाम् । क्षणदृष्टोऽपि प्रणयी रूढप्रणयोऽपि जन्मनोऽपूर्वः ॥ ३०३ ॥ प्रद्युमः प्रद्युमो विरूपकः खलु विरूपकः सततम् । सुस्निग्धः सुस्निग्धो रूक्षो रूक्षस्तु गणिकानाम् ॥ ३०४ ॥ यासां जघनावरणं परकौतुकवृद्धये न तु त्रपया । उज्वलवेषी रचना कामिजनाकृष्टये न तु स्थितये ॥ ३०५ ॥ मांसरसाभ्यवहारः पुरुषाहतिपीडया न तु स्पृहया । आलेख्यादौ व्यसनं वैदग्ध्यख्यातये न तु विनोदाय ॥ ३०६ ॥ रागोऽधरे न चेतसि सरलत्वं भुजलतासु न प्रकृतौ । कुचमारेषु समुन्नतिराचरणे नाभिनन्दिते सद्भिः ॥ ३०७ ॥ जघनस्थलेषु गौरवमाकृष्टधनेषु नो कुलीनेषु । अलसत्वं गमनविधौ नो मानववञ्चनाभियोगेषु ॥ ३०८ ॥ वर्णविशेषापेक्षा प्रसाधने नो रँतिप्रबन्धेषु । ओष्ठे मैदनासङ्गो नो पुरुषविशेषसंभोगे ॥ ३०९ ॥ या बालेऽपि सरागा वृद्धेष्वपि विहितमन्मथावेगा। क्लीबेष्वपि कान्तदृशः साकासा दीर्घरोगेऽपि ॥ ३१० ॥ १. मरणरूपामित्यर्थः. १. 'उद्धतचेतोभवम्' इति पा०. ३. 'वेशयोषितः' इति पा०. ४. 'कुर्वीत समागमम्' इति पा०. ५. 'वेषावरणम्' इति पा... 'विनोद' हति पा०, ७. 'रतिप्रसोधु' इति पा०. ८. मदनः कामः; (पो) मधूच्छिष्टमित्यर्थः. १. 'रोगेषु' इति पा० काव्यमाला। खेदाम्बुकणोपचिता ने चार्द्रता निजनिवासमनसश्च । आविष्कृतवेपथवो वज्रोपलसारकठिनाश्च ॥ ३११ ॥ जघनचपला अनार्याः परभृतयः कृतकनेत्ररागाश्च । सर्वाङ्गार्पणदक्षा असमर्पितहृदयदेशाश्च ॥ ३१२ ॥ न कुलसमुत्पन्ना अपि अँजंगदर्शनसुवेदनाभिज्ञाः । कंदर्पदीपिका अपि रहिताः स्नेहप्रसङ्गेन ॥ ३१३ ॥ उज्झितवृषयोगा अपि रतिसमये नरविशेषनिरपेक्षाः । कृष्णैकाभिरता अपि हिरण्यकशिपुप्रियाः सततम् ॥ ३१४ ॥ मेरुमहीधरभुव इव किंपुरुषसहस्रसेवितनितम्बाः । नीतय इव भूमिभृतां सुपरिहृतानर्थसंयोगाः ॥ ३१५ ॥ बहुमित्रकरविदारणलब्धाभ्युदयाः सरोरुहिण्य इव डाकिन्य इव च रक्तव्याकर्षणकौशलोपेताः ॥ ३१६ ॥ प्रतिपुरुषं संनिहिताः कृत्यपरा विविधकरणकोपचिताः । बहुलार्थग्राहिण्यः प्रकृतय इव दुर्ग्रहा गणिकाः ॥३१७॥ (अर्थचतुष्टयमत्र) सादरमाकृष्य चिरं कुसुमस्तबकं च नरविशेषं च । रिक्तीकर्तुं निपुणाः क्षुद्राः क्षुद्राश्च चुम्बन्ति ॥ ३१८ ॥ परमार्थकठोरा अपि विषयगतं लोहक मनुष्यं च । चुम्बकपाषाणशिला रूपाजीवाश्च कर्षन्ति ॥ ३१९ ॥ पुरुषाक्रान्ताः सततं कृत्रिमशृङ्गाररागरमणीयाः । आहन्यमानजघनाः करेणवो वारयोषाश्च ॥ ३२० ॥ उचितगुणोत्क्षिप्ता अपि पुरतोऽपि निवेशिते सुवर्णलवे । झगिति पतन्ति मुखेन प्रकटप्रमदा यथा च तुलाः ॥ ३२१ ॥ .. 'अनार्द्रता' इति पा०. २. जघनचपला आर्या, छन्दोभेद इत्यर्थः. ३. 'भुजंगद- शनकृतवेदनामिज्ञाः' इति पा०. ४. हिरण्य सुवर्णम्, कशिपुस्त्वन्नमाच्छादनमित्यर्थः. ५. 'विविधविकरणोपेताः' इति पा०. ६. 'अर्थचतुष्टयवाचिनीयमार्या' इति पा०. ७. 'माश्लिष्य' इति पा०८. मधुमक्षिका इत्यर्थः. वेश्या इत्यर्थः. १०. लोह- मिव पुरुषम्. ११. 'चये' इति पा०. १२. 'कलाधिकाश्च तुलाः' इति पा०.
कुट्टनीमतम् । बहिरुपपादितशोभा अन्तस्तुच्छाः खभावतः कठिनाः । वेश्याः समुद्रिका इव वणन्ति यन्त्रप्रयोगेण ॥ ३२२ ॥ बध्नन्ति येऽनुरागं दैवहतास्तासु वारवनितासु । ते निःसरन्ति नियतं पाणिद्वयमग्रतः कृत्वा ॥ ३२३ ॥ इंदमुपदिशति वयस्से सुन्दरसेने च मन्मथव्यथिते । प्रस्तावार्दुपगातुं गीतित्रयमभ्यधायि केनापि ॥ ३२४॥ 'तरुणीं रमणीयाकृतिमुपनीतां स्मृतिभुवा वशीकृत्य । परिहरति यो जडात्मा प्रथमोऽसौ नालिको विना प्रान्तिम् ॥ ३२५ ॥ इदमेव हि जन्मफलं जीवितफलमेतदेव यत्पुंसाम् । लैंडहनितम्बवतीजनसंभोगसुखेन याति तारुण्यम् ॥ ३२९ ॥ सुमनोमार्गणदहनज्वालावलिदह्यमानसर्वाङ्गयः । प्रबलप्रेमप्रवणाः प्रमदाः स्पृहयन्ति नाल्पपुण्येभ्यः ।। ३२७ ॥ एंवमुपश्रुत्य वचः समुवाच पुरंदरात्मजः सुहृदम् । मम हृदयादिव कृष्ट्वा गीतमिदं साधुनानेन ॥ ३२८ ॥ तेदतनुसायकविकलां हारलतां हरिणशावतरलाक्षीम् । आश्वासयितुं यामो गुणपालित किं विकल्पितैर्बहुभिः ॥ ३२९ ॥ अथ तत्र कापि गणिकागंणयन्ती परिचितं हृतद्रविणम् । प्रविशन्तमेव मन्दिरमाव्याजेन निरुरोध ॥ ३३० ॥ काचिद्वश्चकदत्तं पुंजीकृतजीर्णवसनमवलोक्य । वेश्या विषीदति स्म क्षपाक्षये व्यर्थकर्तव्या ॥ ३३१ ॥ दैवस्मृत्या पतितं दृष्टिपथं भग्नमूल्यविटमेको । ज्वलिता रुषा भुजिष्या जग्राह जवेन धावित्वा ॥ ३३२॥ १. 'भणन्ति' इति पा०. २. 'इत्युपदिशति' इति पा०. ३. 'उपजातम्' इति पा.. ४. मूर्ख इत्यर्थः. ५. मनोहरयुवतिरमणविनोदेनेत्यर्थः. ६. 'मार्गणमार्गण-' इति पा०. ७. 'अथ समुपश्रुत्य वचः समुवाच पुरंदरानुजः' इति पा०.८. 'गीतिरिय केनचिद्गी- ता' इति पा०. ५. 'तदसमबाणसमर्पितहारलताम्' इति पा०. १०. 'गणयन्ती कापि' इति पा०. ११. 'लुण्डीकृत्य' इति पा०. १२. 'विटमेकम्' इति पा..
२ १२ काव्यमाला। अन्तःस्थितकामिगृहद्वारगतं लुप्तवित्तनरमन्या । समुवाच कुट्टनी व्रज कल्लोलाकल्पदेहेति ॥ ३३३ ॥ प्रकटितदशननखक्षतिरमिदधती राजपुत्ररतियुद्धम् । अपरा पुरः सखीनां वारवधूराततान सौभाग्यम् ॥ ३३ ॥ अन्या कामिस्पर्धावर्धितभाटी समुत्सुका चण्डी। सौभाग्यगर्वदपै समुवाह विलासिनीमध्ये ॥ ३३९ ॥ एकगणिकानुबन्धे कोषोद्यतशखकामिनोः कापि । संभ्रमतो धावित्वा निवारयामास कुट्टनी कलहम् ॥ ३३६ ॥ धनमाहृत्य बहुभ्यो भुज्यत एकेन केनचित्सार्धम् । इति धनवन्तं कामिनमावर्जयति स्म वारवधूः ॥ ३३७ ॥ गायन्मात्रागाथा द्विपदिकया सौष्ठवेन विट एकः । बभ्राम पुरो दास्या विदधद्विकृतीरनेकविधाः ॥ ३३८ ॥ कश्चित्पण्यस्त्रीणां विभवोपचितान्यपुरुषयोजनया । विदधाति स्माराधनमधनत्वमुपागतः कामी ॥ ३३९ ॥ त्वयि सक्तेन मया गृहमुज्झितमधुना परेव जातासि । इति दौकमलभमानः कश्चिद्गणिकामुपालेभे ॥ ३४० ॥ उषितामपरेण समं वृद्धविटानां पुरः पराजित्य । त्याजयति स्म भुजंगं कश्चिद्वैणिकां द्विगुणभाटीम् ॥ ३४१ ॥ दृष्ट्वा वया विशेषकवलयकलापी शशिप्रभाभुजयोः । बाढं भण भण कीहक्कानु तरः सोमया दत्तः ॥ ३४२ ॥ अद्य चतुर्थो दिवसश्चित्राम्बरयुगलकस्य दत्तस्य । तदपि परुषाभिधाना वद मदनक किं करोम्यत्र ॥ ३४३ ॥ स्नेहपरा मयि केली कलहंसक किंतु राक्षसी तस्याः । माता नात्मीकर्ते वर्षशतेनापि शक्यते पापा ॥ ३४४ ॥ १. 'समुच्छ्रिता' इति पा०. २. 'योजयति' इति पा.. ३. 'गणिकाद्विगुणभाटी' ४. 'कानुतरः सोमया दत्ता' इति पा०. ५. 'खिनाम्बर' इति पा० ६. किंनरी तस्याः' इति पा.. इति पा..
कुट्टनीमतम् । सुमनः कुकुमवासः सज्जीकुरु किमिति तिष्ठसि विचिन्तः । अद्य तव दयितिकायाः किंजल्कक नर्तनावसरः ॥ ३४५ ॥ यदि नाम पञ्चदिवसांस्त्वयि कुरुते प्रेम धनलवं दृष्ट्वा । तदपि न रोगवती सा कंदर्पक किं वृथा गर्वः ॥ ३४६ ॥ जीवन्नेव विलासक परिहर दूरेण मूढ हरिसैनाम् । बद्धावेशस्तस्यां व्यापृतपुत्रो महाविषमः ॥ ३४७ ॥ केसरया क्षणदत्तं कृत्वांशुकमुपरि कामिजालस्य । स्तब्धग्रीवं भ्रमतश्चन्द्रोदय पश्य माहात्म्यम् ॥ ३४८॥ कौमारकं विहन्तुं रतिसमये मदनसेनायाः । इच्छामि किं तु तस्या मात्रातीव प्रसारितं वदनम् ॥ ३४९ ॥ विभ्रम कियतस्तपसः फलमेतबदुपभुज्यते मदिरा । खकरेण पीतशेषा मदघूर्णित मदनसेनया दत्ता ॥ ३९० ॥ कुवलयमालानिलयो लीलोदय किमिति संप्रति त्यक्तः । किं विदधामस्तस्मिन्भ्रातर्दास्या विना मूल्यम् ।। ३५१ ॥ मुषिताशेषविभूतेरिन्दीवरकस यामिनी याति । संवाहयतः संप्रति मञ्जीरक तिलकमञ्जरीचरणौ ॥ ३५२ ॥ अद्यापि बालभावं निखिलं न जहाति बालिका तदपि । प्रौढिना मकरन्दक सकलां ललनामधः कुरुते ॥ ३५३ ॥ कुने गत्वा वक्ष्यसि तं निर्दयचित्तनर्तनाचार्यम् । हारा सुकुमारतनुः किमियं संमर्दकारिता भवताम् ॥ ३९४ ॥ नि:सारोऽभिनिवेशः शुकशावकपाठने सुरतदेवि । तिष्ठति बहिरुपविष्टः प्रतीक्षमाणस्तव प्रेयान् ॥ ३१५ ॥ वीणावादनखिन्ना पतितास्ते वासभवनपर्यो । उत्थापयतां त्वरित स्मरलीलां मत्त आयातः ॥ ३१६ ॥ १. 'विचित्तः' इति पा०. २. 'रगवती' इति पा०. ३. 'व्यावृतपुत्रो' इति पा०. ४. 'केशवया' इति पा०. ५. 'विहातुम्' इति पा०. ६. "किमिति श्रममद्य कारिता' इति पा०. ७ "निःसरको' इति पा०. ८. 'भपुत्र आयातः' इति पा०. . .
कानमाला। किमिदं यथास्थितत्वं तव माधवि यन्मुहुर्बदन्त्या मे । परिषत्से नाभरणं श्रीविग्रहराजसूचना दत्तम् ॥ ३५७ ॥ ईडक्शून्यमनस्त्वं किं कुमों मातरिन्दुलेखायाः । पानक्रीडासक्त्या पतितापि न चेतिता कनकनाडी ॥ ३५८॥ नकुलः प्रयो न पायित इति रोषवशादियं हि दुःशीला । नाभाति कामसेना पुनः पुनर्याच्यमानापि ॥ ३५९ ॥ श्रीबलसुतपरिपालित ऊर्णायुः किमनया विजेतव्यः मुकुला मुक्तसुखस्थितिरहनिशं मेषेपोषणे लमा ॥ ३६० ॥ आताम्रतां समुपगतमुच्छूनं करतलं च तव ललिते । मा पुनरतिचिरमेवं प्रविधास्यसि कन्दुकक्रीडाम् ॥ ३६१ ॥ अभिराम कनकभाटी प्रथममियं गृह्यते समुत्पन्ने । मेहे तु कुसुमदेव्यास्त्वं प्रभवसि जीवितस्यापि ॥ ३१२ ॥ ग्रहणकमर्पय तावद्यदि कौतुकमुपरि चन्द्रलेखायाः । निर्वतितकर्तव्यो दास्यसि किंचिद्यथाभिमतम् ॥ ३६३ ॥ न परमदाता मातः सूनुरसौ वासुदेवभट्टस्य । निर्लजः शठवृत्तिः पुनः पुनर्वार्यमाणोऽपि ॥ ३६४ ॥ क्षपयति वसनानि सदा हठेन सकलानि सुरतसेनायाः । न ददात्येकामूर्णा रणः परमत्ति कर्पासम् ॥ ३६५ ॥ (युग्मम्) भगिनि न मुञ्चति वेश्म क्षणमपि पटराजपुत्रोऽसौ । भेमान्यतरासको नमेनाधिष्ठितं तीर्थम् ॥ ३६६ ॥ इत्थंप्राया वाचः शृण्वन्विरकुट्टनीसमुद्गीर्णाः । तं वेशसंनिवेशं पश्यन्प्रविवेश दारिकावेश्म ॥ ३६७ ॥(कुलकम्) आकृष्टमिवोत्कतया सपितमिव स्निग्धचक्षुषः प्रसरैः । तमुपागतमत्यन्तं हारलता पूजयामास ॥ ३६८ ॥ १. 'रामसेना' इति पा०. २. 'नैष' इति पा०. ३. 'उपगतं प्रोच्छ्रनम्' इति पा.. ४. मेष इत्यर्थः. लौकिकोक्तिरियम्. ५. 'ममान्यनरावसरः' इति पा०. ६. 'अत्यर्थम्' इति पा..
कुटनीमतम् । सुविहितसमुचित्तसंखितिरवनतशिरसा प्रणम्य तत्सख्या। इदमभिदषेऽतिननं सुन्दरसेन शुभावसरे ॥ ३६९ ॥ प्रियदर्शन किं बहुमिः स्मरपीडनवचनचाटुसंदर्भः । इयमास्ते हारलता जीवनमस्यास्त्वदायत्तम् ॥ ३७० ॥ नियन्त्रकेलिविशदं सहजप्रेमानुबन्धरमणीयम् । कार्यान्तरान्तरायैरपरिहृतं यातु यौवनं युवयोः ॥ ३७१ ॥ निर्दयमविरतवान्छं सस्तत्रपमव्यवस्थितावरणम् । उपचीयमानरागं सततं भूयाद्भवत्सुरतम् ॥ ३७२ ।। इति दत्त्वाशिषमन्तनिर्याते परिजने तदङ्गेषु । विसम्भविविक्तरसो ववृधे कुसुमायुधः सुतराम् ॥३७॥ (विशेषकम्) यदमन्दमन्मथोचितमनुरूपं यत्तथानुरागस्य । यद्यौवनाभिरामं यच्च फलं जीवितव्यस्य ॥ ३७४ ॥ अविनय एव विभूषणमश्लीलाचरणमेव बहुमानः । निःशङ्कतैव सौष्ठवमनवस्थितिरेव गौरवाधानम् ॥ ३७५ ॥ केशग्रहणमनुग्रह उपकारस्ताडनं मुदे दंशः। नखविलिखनमभ्युदयो दृढदेहनिपीडनं समुत्कर्षः ॥ ३७६ ॥ विगलल्लोलं चुम्बनमवयवनिष्पेषनि:स्पृहो मर्दः । अन्तः प्रवेशमिच्छनिर्भरपरिरम्भणं यस्मिन् ॥ ३७७ ॥ यदनरिव विहितं रागैरिव दीप्तिमत्त्वमुपनीतम् । प्रेमभिरिव निस्खलितं शृङ्गारैरिव विकासमानीतम् ॥ ३७८ ॥ अप्रागल्भ्यं व्यसनं धैर्यमकार्य विवेक उपघातः । हेपणमगुणो यस्मिस्तत्सुरतं प्रस्तुतं ताभ्याम् ॥३७९ ॥ (कुलकम्) प्रारम्भ एव तावत्प्रज्वलितो धगिति मनसिजो यस्मिन् । तस्य विशेषावस्था वक्तुमशक्याः प्रवृद्धस्य ॥ ३८० ॥ १. 'आर्यान्तरान्तरायः' इति पा०. २. 'आचरणम्' इति पा०. ३. 'मन्मथोदित' इति पा०. ४. 'सस्पृहः' इति पा०. ५. 'प्रवेशनेत्यम्' इति पा.. ६. 'पिहितम्' इति पा०. ७. 'वसनम् इति पा०.
काव्यमाला। सहजरसेन जडीकृतमिति यूनोः कामशास्त्रनिर्णीतौ । नानाकरणग्रामे लालित्यमियाय पाण्डित्यम् ॥ ३८१ ॥ अभिधेयमनाख्येयं प्रविचार्य छादनीयमविषधम् । न बभूव तयोस्तस्मिन्नारब्धे सुरतपरिमर्दे ॥ ३८२ ॥ अत्यभ्यस्ता यान्या सुरतविधौ विविधचाटुपरिपाटी । तामालूनविशीणी चकार सहजः स्मरावेगः ॥ ३८३ ॥ सद्भावरागदीपितमदनाचार्योपदिष्टचेष्टानाम् । कः परिगणनं कर्तु रतिचक्राविष्टरमणयोः शक्तः ॥ ३८४ ॥ बाला मृदुगात्रलता दृढपुरुषाक्रान्तविग्रहा न परम् । न व्यथिता मुदमाप प्रभवति खलु चित्तजन्मनः शक्तिः ॥३८॥ किं रमणीं रमणोऽविशदुत रैमणं सा न जानीमः । खावयवावगमस्वैप्रकाशमगमत्तयोस्तदा निपुणम् ॥ ३८६ ॥ तस्या निमीलितदृशो निस्पन्दतनोर्बभूव सुरतान्ते । लिङ्गमैनङ्गच्छायाजीवितसत्तानुमानेन ॥ ३८७ ॥ श्रमजलबिन्दूपचिता वृत्तस्मरणेन जातवैलक्ष्या । सा शुशुभे विपरीता पर्याकुलकेशभूषणा नितराम् ॥ ३८८ ॥ निर्व्याजार्पितवपुषोनिवृतिमयमेव गणयतोर्विश्वम् । क्षणदा विरराम तयोरक्षीणाकारयोरेवम् ॥ ३८९ ॥ मोहनविमर्दखिन्ना विजृम्भमाणा स्खलद्गतिर्मन्दम् । निद्राकषायिताक्षी हारलता वासवेश्मनो निरगात् ॥ ३९० ॥ 'परिचितपार्श्वगताहं तेन समं पानभोजनं कृत्वा । नीता निशा कथामिमोहनकायै च यत्किंचित् ॥ ३९१ ॥ अविदग्धः श्रमकठिनो दुर्लभयोषिधुवा जडो विप्रः । अपमृत्युरुपक्रान्तः कामिव्याजेन मे रात्रौ ॥ ३९२ ॥ १. 'अधाप' इति पा०. २. 'प्रत्यभ्यस्तायान्यम्' इति पा०. ३. 'रमणमिति न जा. नीमः' इति पा०. ४. 'तु प्रकाशम्' इति पा०. ५. 'अनावस्था' इति पा०. ६. 'मा- नेऽस्य' इति पा०. ७. 'रतविरतौ' इति पा.. .. 'दोलविमर्द' इति पा.. .
कुट्टनीमतम् । १७ नेच्छाविरतिः क्षणमपि न च शक्तिर्वस्तुशून्यरतियथैः । केवलमलमद्याहं कदार्थता वृद्धपुरुषेण ॥ ३९३ ॥ मद्यवशादभियोकरि मृतकल्पे तल्पभागममायाः । अविरोधितनिद्रायाः सुखेन मे यामिनी याता ॥ ३९४ ॥ सुकुमारसंप्रयोगः पेशलवचनः सवनपरिहासः । कुशलवशेन समेतो मम सखि रमणो मनोहराकारः ॥ ३९५ ॥ पैल्यकाङ्कनिलीनः पराङ्मुखो मुक्तमन्दनिःश्वासः । मैद्याचनया नितरां निःखेदः खेदसलिलसंसिक्तः ॥ ३९६ ॥ पर्यस्तमितानङ्गोऽप्यपगतनिद्रः क्षपाक्षयाकाही । ग्रामोषितः प्रहीणो निष्प्रतिपत्तिः स्थितोऽद्य सखि मनुजः॥३९७॥(कुलकम्) शृणु सखि कौतुकमेकं ग्रामीणककामिना यदध कृतम् । सुरतरसमीलिताक्षी मृतेति भीतेन मुक्तास्मि ॥ ३९८ ॥ अविदितदेशप्रकृतेः शठात्मकाहुर्विदग्धतोऽस्माभिः । अनुभूतो राजसुतादैघि भाण्डविडम्बनावेशः ॥ ३९९ ॥ प्रियसखि लोकसमक्षं नगरप्रभुणा हठेन नीतास्मि । ऎवं तु नो कदाचिद्विर गार्थप्रार्थने कृतोऽन्यायः ॥ ४०० ॥ आकर्षन्ती जघनं व्रजसि यथा विलिखिता नखैस्तिलशः । मन्ये तथोपभुक्ता केरलि केनापि दाक्षिणात्येन ॥ ४०१॥ अधरे बिन्दुः कण्ठे मणिमाला स्तनयुगे शशप्लुतकम् । तव सूचयन्ति केरलि कुसुमायुधशास्त्रपण्डितं रमणम् ॥ ४०२ ॥ इति शृण्वन्नुषसि गिरो निवृत्तनिशाभियोगगणिकानाम् । सोऽपि यथाक्रियमाण प्रविधातुं निर्जगाम कर्तव्यम् ॥ ४०३ ॥ १. 'पर्यडू' इति पा०. २. 'मद्यादनया' इति पा०. ३. 'अवभाण्डविडम्बनाविलेशः' इति पा०. ४. 'एवं तु ननु' इति पा०. ५. 'बजति पथा' इति पा०. ६. इयमार्या कविकण्ठाभरणे क्षेमेन्द्रेणोदाहृता. बिन्दुमणिमालादीनां लक्षणानि कामसूत्र प्रसिद्धान्येव. ७. 'नियोग' इति पा..
काव्यमाला। खरुचितरागोपचितेः खीकृतमनसस्तया समं तस्य । यौवनसुखमनुभवतो जगाम संवत्सरः सार्धः ॥ ४०४ ॥ विसम्भकथाः कुर्वन्विचरन्नुद्यानवेदिकापृष्ठे । सहचरकरसक्तकरः सुन्दरसेनः किल कदाचित् ॥ ४०५ ॥ स्थूलघनतन्तुसंततितोलिततूलाम्बरावरणम् । यष्टिप्रान्तनियत्रितदलवृन्तककुतुपतुम्बिककटित्रम् ॥ ४०६ ॥ त्रुटितचरणत्रसंगतसंस्फुटिताभ्यक्तपादमलिनतनुम् । त्वरितगतिलेखवाहकमारादायान्तमद्राक्षीत् ॥ ४०७ ॥ (कुलकम्) प्रत्यासन्नीभूतं क्रमेण पौरंदरिः परिज्ञाय । साकूतमना ऊचे वयस्य हनुमानयं प्राप्तः ॥ ४०८॥ अवनितललीनशिरसा कृतनतिना तेन विनिहितं भूमौ । उत्क्षिप्य झटिति लेखं सुन्दरसेनस्तु वाचयामास ॥ ४०९ ॥ 'खस्तिश्रीकुसुमपुरात्पुरंदरः सुन्दरं समभिधत्ते । अन्तर्जुम्भितशोकप्रस्ताविस्पष्टवर्णपदम् ॥ ४१० ॥ कुलमकलकं न गणितमवधीरितमग्रजन्मनामुचितम् । नावेक्षितमवगीतं शठसेवितवम॑नि त्वया पतता ॥ ४११ ॥ वंशेऽकुटिलगतीनां द्विजिह्वतादोषरहितचरितानाम् । अपरविनाशरतानामुत्पन्नः कथमसि भुजंगः ॥ ४१२ ॥ क्क पुरोडाशपवित्रितवेदपदोद्गारगर्भवदनं ते । क च मदि सववासितवारवधूमुखरसाखादः ॥ ४१३ ॥ क कुशविपाटनजन्मा सहसोदितवेदनाचमत्कारः । क्व च दासीरतसंगरनिर्दयनखरक्षतिः प्रीत्यै ॥ ४१४ ॥ क्व त्रेतानलधूमक्षोभितनयनाम्बुधौतवदनत्वम् । कच गणिकानिर्भर्त्सनशोकभरायातबाष्पसलिलौषः ॥ ११५ ॥ १. 'तोनितताम्बरा' इति पा०. २. 'स्फुटिताभ्यक्तान्त' इति पा०. ३. 'नापेक्षित' इति पा०. ४. 'वंशेऽमलवर्णानाम्' इति पा०.
१ ९ कुट्टनीमतम् । क वषटारध्वानः सत्कर्मविभूषणश्रवणपूरः । क च साधारणवनितारतिमणिताकर्णनौत्सुक्यम् ॥ ४१६ ॥ क्वाचार्यप्रतनुलताताडनसंक्षोभसंभवः कम्पः । क च कुपितवारललनानिष्ठुरपादप्रहारविषहत्वम् ॥ ४१७ ।। क हरिणचर्मावरणं स्मृतिशास्त्रनिवेदितं व्रतं चरतः। क च पण्यस्त्रीगात्रस्पृष्टाम्बरधारणेषु बहुमानः ॥ ४१८ ॥ समिधामेव च्छेदनमभ्यस्तं शैशवात्समारभ्य । शठवनिताधरखण्डन उत्पन्नं कौशलं कुतो भवतः ॥ ४१९ ॥ शुश्रूषणमेव गुरोः परिशीलितमचलचेतसा सततम् । कुटिलमतयो भुजिष्याः कथं त्वयाराधिता निर्गुणाः ॥ ४२० ॥ आमायपाठ एव स्फुटतरपदसौष्ठवं तव ख्यातम् । प्रकुपितवेश्यानुनये व शिक्षितं वचनचातुर्यम् ॥ ४२१ ॥ अथवा किं क्रियतेऽस्मिन्नवदातकुलेऽपि लब्धजन्मानः । सदसंस्तुता भवन्ति प्रागुपचितकर्मदोषेण ॥ ४२२ ॥ त्वयि विनिवेश्य कुटुम्ब परलोकहितार्जनकविहितास्थः । स्थास्यामीति समीहितमनुदिवसं तद्विसंवदितम् ॥ ४२३ ॥ इत्यवगतलेखार्थे सुन्दरसेने विधेयसंमूढे । आर्यामगायदन्यः स्वावसरे गीतिपरिकलिताम् ॥ ४२४ ॥ 'विषयतिमिरावृताक्ष्णामवटे पततामदृष्टमार्गाणाम् । पुंसां गुरुजनवचनद्रव्यशलाकाञ्जनं शरणम् ॥ ४२५ ॥ उद्वेजयति तदात्वे सुखसंर्वृद्धि करोति परिणामे । कटुकौषधप्रयोगो गुरुनिगदितकार्यनिष्ठुरं वचनम् ॥ १२६ ॥ लैब्ध्वा वचसोऽवसरं मित्रमवादीपुरंदरापत्यम् । पुनरपि नहि खिद्यन्ते प्रियजनहितभाषणे सन्तः ॥ ४२७ ॥ १. 'रणित' इति पा०. २. निपुण' इति पा०. ३. 'विहिताशः' इति पा०.४. 'सं- वृत्तिम्' इति पा०. ५. 'लब्ध्वापि वचोऽवसरम्' इति पा..
७० काव्यमाला। अगणितसहचरवचसो दुर्व्यसनमहाब्धिममवपुषस्ते । मन्युव्यथितस्य पितुर्यदि परमवलम्बनं वचनम् ॥ ४२८ ॥ निजवंशदीपभूतः कृतचरितालंकृतो महासत्त्वः । सुन्दर संप्रति तातः स्पृष्टो दुष्पुत्रदोषेण ॥ ४२९ ॥ पुत्राभावः श्रेयान कुसुतता पुत्रिणः कुलीनस्य । अन्तस्तापयति भृशं सच्चरितकथाप्रसङ्गेन ॥ ४३०॥ सांव्यवहारित एव प्रायो लोके गुणः सुखानियतः । येन तु सुतेन जननी वन्ध्यात्वं श्लाघते स पापीयान् ॥ ४३१ ॥ विफलं शास्त्रज्ञानं गुरुगृहसेवापि नोपकाराय । नियतिवशीकृतमनसो न्याय्यं पन्थानमुत्सृजतः ॥ ४३२ ॥ जीवन्नेव मृतोऽसौ यस्य जनो वीक्ष्य वदनमन्योन्यम् । कृतमुखभंङ्गो दूरात्करोति निर्देशमङ्गुल्या ॥ ४३३ ॥ नोपनिहन्तुं विषयाः शक्याः सत्यं तथापि निपुणधियः । अभिधेयतां न गच्छन्त्यपवादविशेषिताभिधानस्य ॥ ४३४ ॥ गुरुपरिचर्या जाया गुणोन्नता स्निग्धबन्धुसंपर्कः । ब्राझे कर्मणि सक्तिोंकद्वयसाधनं सुधियाम् ॥ ४३५ ॥ सुलभा तस्य विभूतिस्तस्य गुणा यान्ति जगति विस्तारम् । बहु मनुते तं सुजनस्तस्मै स्पृहयन्ति बान्धवाः सततम् ॥ ४३६ ॥ नासादयति य एकः सत्सेवितमार्गतः परिस्खलनम् । मण्डयति चान्ववायं स निवासः शर्मनामशेषाणाम् ॥ ४३७ ॥ (युग्मम्) स भवति विनयाधारो युक्तायुक्ते विवेकिता तस्य । वृद्धोपदेशवाचः श्रवणोदरपूरणं सदा यस्य ॥ ४३८ ॥ प्राक्तनकर्मविपाकः क्षुद्रासु शरीरिणां यदासक्तिः । आयतनं तु सुखानां संसारभुवां कुलोद्गता दाराः ॥ ४३९ ॥ १. प्रसिदेयमार्या शाईघरपद्धत्यादिषु. १. 'भाम्' इति पा.. ३. 'कुलोद्गता' इति पा..
कुट्टनीमतम् । निविण्णे निविण्णा मुदिते मुदिता समाकुलाकुलिते । प्रतिबिम्बसमा कान्ता संक्रुद्धे केवलं भीता ॥ ४४० ॥ यावद्वाञ्छितसुरतव्यायामसहाविरुद्धसंपर्का । चित्तानुवृत्तिकुशला पुण्यवतामेव जायते जाया ॥ ४ ४ १ ॥ सद्भावप्रेमल""संवलयावलि ईदृक्कोऽप्यनुबन्धो यस्य विपाकोऽप्रतीकारः ॥ ४४२ ॥ (संदानितकम्) परुष यदभिहितासि प्रणयरुषाशहितेन नर्मणि वा । सुदति न तत्स्मरणीयं दुर्भाषणकीर्तनोद्धाते ॥ ४४३ ॥ तव हृदये हृदयमिदं विन्यस्तं न्यासपालनं कष्टम् । यत्नात्तथा विधेयं स्थानभ्रंशो यथा न स्यात् ॥ ४४४ ॥ अथ विरतवचोदयितं बाष्पभराश्लिष्टवर्णपदयोगम् । इति कथमपि हारलता संमूछितवर्णभारतीमूचे ॥ ४४९ ॥ अविशुद्धकुलोत्पन्ना देहार्पणजीविका शठाचरणा । काहं रूपाजीवा क भवन्तः श्लाघनीयजन्मगुणाः ॥ ४४६ ॥ यत्त्वं विषयविलोकनकुतूहलादागतोऽसि विश्रान्तः । इयतो दिवसानस्मिंस्तन्मम परजन्मसुकृतफलम् ॥ ४४७ ॥ गुरुसेवा बन्धुजनं स्वदेशवसतिं कलत्रमनुकूलम् । अनुषङ्गदृष्टपरिचित आस्थां प्रविधाय कः परित्यजति ॥ ४४८ ॥ यौवनचापलमेतद्यन्मादृशि भवति कौतुकं भवताम् । यत्तु सुखमनवगीतं तस्य स्थानं निजा दाराः ॥ ४४९ ॥ मधुराः परिहासास्ता वक्रगिरः स वामतासमयः । नो हृदये कर्तव्यो रहसि क्षेमार्थिना भवता ॥ ४५० ॥ लाघवतो यन्महतः प्रणयाद्वासाधु येन्नवाचरितम् । प्रतिकूलं तत्र मया नाथाञ्जलिरेष विरचितो मूर्ध्नि ॥ ४५१ ॥ दुःसंचारा मार्गा दूरे वसतिर्विसंष्ठुलं हृदयम् । गुणपालित तव सुहृदा भवितव्यमतोऽप्रमत्तेन ॥ ४५२ ॥ १. संदानितकादप्रे किंचित्रुटित भाति. पुस्तकद्वयेऽप्येवमेव वर्तते. २. 'यत्र' इति पा०. ते ७२ काव्यमाला। हृदयद्वय एकत्वं याते यूनोवियोगजं क्लेशम् । अनुभवतोरपरेण प्रसङ्गतः पठ्यते पथ्या ॥ ४५३ ॥ 'अन्योन्यगूढचेष्टितसद्भावस्नेहपाशबद्धस्य । विच्छेदकरोर्मृत्यु/राणां वा परिच्छेदः ॥ ४५४ ॥ अथ तच्छ्रवणानन्तरमस्निग्धं दयितिके व्रजामीति । अभिधाय याति सुन्दरसेनेऽपि विवर्तितंग्रीवम् ॥ ४५५ ॥ वटशाखालम्बिभुजां श्वसितोष्णसमीरशुष्यदधरदलाम् । पर्यस्तां विप्राणां तन्मार्गविलोकनानिमेषदृशम् ॥ ४५६ ॥ लोलायमानवेणीतिर्यकृतकण्ठभूषणविशेषाम् । गलदश्रुवारिपूर्णी पतितां संशुष्कनिःसहाङ्गलताम् ॥ ४९७ ॥ रुन्धानामिव हृदयं स्फुटदितरकरेण कुचयुगाश्रयिणा । परिशोषितां विलासैरुत्सृष्टां जीवलोककर्तव्यः ॥ ४५८॥ अङ्गीकृतां विपत्त्या वशीकृतां मर्मघट्टनैर्विषमैः । हारलतामपि रिक्तामन्तः परिकृष्यमाणभारत्या ॥ ४५९॥ मा मा तावद्यात क्षणमे यावदेष निष्करुणः । वनगुल्मैन तिरोहित इत्यभिदधतीं जहुः प्राणाः ॥ ४६० ॥ (कुलकम्) अथ वर्मनि समुपेतं पप्रच्छ पुरंदरात्मजः पथिकम् । दृष्टा शोकव्यथिता निवर्तमाना वराङ्गना भवता ॥ ४६१ ॥ स उवाच वटतरोरध उव्यो पतिता विनिश्चलावयवा । तिष्ठति वनिता नान्या नयनावसरं गतामाकम् ॥ ४६२ ॥ इति तद्वचनास्त्रहतो विह्वलमूर्तिः पपात भूपृष्ठे । उत्थापितश्च सुहृदा सोऽभिदधे तेन शोकविकलेन ॥ ४६३ ॥ भवतु कृतार्थस्तातस्त्वमपि सुमित्रात्र सांप्रतं प्रीतः । समकालमेव मुक्ता पापेन मयासुभिश्च हारलता ॥ ४६४ ॥ हा हा हाव हतोऽसि ध्वस्ता लीला विलास किं कुरुषे । उच्छिन्ना विच्छित्तिर्मम विभ्रम दशदिशो निराधारः ॥ ४६५ ॥ १. परिच्छेदो विवेक इत्यर्थः. २. अग्रे किंचित्रुटितमिव भाति.
कुट्टनीमतम् । किलकिञ्चित गच्छ वनं मोट्टायितमशरणत्वमुपयातम् । कुट्टमित प्रव्रज्यां गृहाण बिब्बोक विश भुवो विवरम् ॥ ४६६॥ ललितमनाथीभूतं विहृतस्य गतिर्न विद्यते कापि । शशधरबिम्बद्युतिमुषि यातायामन्तकस्यान्तः ॥ ४६७ ॥ विनिवृत्त्य यामि दग्धुं मद्विरेहात्त्यक्तवल्लभप्राणाम् । भवतु वराक्यास्तस्याः सप्ताचिर्दानमात्रमुपकारः ॥ ४६८॥ गत्वाथ तमुद्देशं यस्मिन्सा पञ्चभावमापन्ना । विललाप मुक्तकण्ठं विलुठन्भुवि सहचरेण धृतमूर्तिः ॥ ४६९ ॥ एते वयं निवृत्ता मुश्च रुषं देहि कोपने वाचम् । उत्तिष्ठ किमिति तिष्ठसि भूमितले रेणुरूषितशरीरा ॥ ४७० ॥ विनिमील्य दृशौ कस्मादप्रतिपत्त्या स्थितासि शुभवदने । त्वद्वारितगमनविधेरपराधितया न मेऽस्ति संयोगः ॥ ४७१ ॥ नाकाधिपतिपुरस्त्रीरभिभवितं त्वयि दिवं प्रयातायाम् । सत्स्वपि शरेषु पञ्चसु निरायुधः सांप्रतं मदनः ॥ ४७२ ॥ वश्चकवृत्ता वेश्या इत्यपवादो जनेषु यो रूढः । अपनीतोऽसौ निपुणं त्वया प्रिये जीवमोक्षेण ॥ ४७३ ॥ वर्ण्यः सद्रत एकस्त्रिपुरान्तकनन्दनो महासेनः । हृदयं यस्य स्पष्टं न मनागपि वामलोचनाप्रेम्णा ॥ ४७४ ॥ मन्येऽभीष्टवियोगं निमेषमपि दुःसहं समालोक्य । हरिणा वक्षसि लक्ष्मीविधृता गौरी हरेण देहार्थे ॥ ४७५ ॥ अयि लोकपाल सा भुवि ललामभूता तया विना शून्यम् । विश्वमिति किं न चिन्तितमात्मस्थानं प्रियां नयता ॥ ४७६ ॥ भगवन्हुतवह मा मा लावण्यसमुद्रसारमुद्धृत्य । कथमपि विहितां धात्रा धक्ष्यस्येनां जगद्भूषाम् ॥ ४७७ ॥ इति विलपन्तं बहुविधमैवधीर्य सुहृत्पुरंदरस्य सुतम् । काष्ठविरचय्य चितां तामकरोदग्निसागणिकाम् ॥ ४७८ ॥ १. 'मुखि' इति पा०. २. 'विरहे मुक्त' इति पा०. ३. 'अवधार्य' इति पा..
काव्यमाला। तस्मिन्निद्धहुताशनविनिपतने कृतमतौ शुचा कलिते। मनसि स्फुरितामायो पपाठ कश्चित्प्रसङ्गेन ॥ ४७९ ।। 'अनुमरणे व्यवसायं स्त्रीधर्मे कः करोति सविवेकः । संसारमुक्त्युपायं दण्डग्रहणं व्रतं हित्वा ॥ ४८० ॥ श्रुत्वा सुन्दरसेनः सुहृदमवोचद्वयपेतवैक्लव्यः । प्रतिबोधितं मनो मे धीरेणानेन युक्तमुपदिशता ॥ ४८१ ॥ क्षणदृष्टनष्टवल्लभजन्मजराव्याधिमरणपरिभूते । परिवर्तिनि संसारे कः कुर्यादाग्रहं मतिमान् ॥ ४८२ ॥ यातु भवान्कुसुमपुरं वयमप्यन्त्याश्रमे समाश्रयणम् । अङ्गीकुर्मोऽविद्यापहाणसंसिद्धये नियतम् ॥ ४८३ ॥ सोऽवददभिजातजनो बाल्यात्प्रभृति त्वया न मुक्तोऽस्मि । संन्यसनबुद्धिरधुना कथमुज्झति विषयनिःस्पृहं सुहृदम् ॥ ४८४ ॥ एवमिति सोऽभिधाय स्थिरमतिनियमैस्तपोधनैर्जुष्टम् । गुणपालितेन सहितः सुन्दरसेनो जगाम वनम् ॥ ४८५ ॥" एवं भवन्ति वेश्याः स्वार्थैकरता व्यपेतसद्भावाः । अभिलषितविषयसिद्धेः का हानिस्तदपि युष्माकम् ॥ ४८६ ॥ रमणहृदयानुवर्तनचतुरचतुःषष्टिकर्मकुशलानाम् । न स्पृशति तत्त्वचर्चा पण्यवधूनां विदग्धचेतांसि ।। ४८७ ॥ वलितप्लुतचित्रगतिस्थितिबोधैश्चोदनानुवृत्त्या च । रागस्पर्शेन विना विशति मनः सादिनां तुरगः ॥ ४८८॥ गन्धोऽपि कुतः प्रेम्णः परभृतहारीतगृहकपोतानाम् । उज्ज्वलयन्त्यसमेषु विरुतविशेषैस्तथापि ते यूनाम् ॥ ४८९ ॥ आहितमुक्ताहार्यः सम्यक्सकलप्रयोगसंपत्त्या। भावविहीनोऽपि नटः सामाजिकचित्तरञ्जनं कुरुते ॥ ४९० ॥ येऽपि धनक्षयदोषं पश्यन्ति जडा विलासिनीश्लेषे । प्रष्टव्यास्ते भवता किमकृतकशिपुव्यया दाराः ॥ ४९१ ॥ १. 'जने' इति पा०, २. 'युकाहार्यः' इति पा..
कुट्टनीमतम् । न च लाभ एक एव प्रवर्तते कारणं मनुष्येषु । बाणादयोऽपि(?) तासां वैशेषिकशास्त्रवेदिभिः कथिताः ॥ १९२॥ का वा विभूतिराप्ता सुन्दरसेनात्तया तपखिन्या । यद्विरहकुलिशभिन्ना मुमोच या जीवितं क्षणार्धेन ॥ १९३॥ उत्तमतरुणप्रकृतिः पुलकादिकसूचितान्यतरशक्तिः । स्फुटसंनिहितविभावो निवार्यते केन शृङ्गारः ॥ ४९४ ॥ अन्तःकरणविकारं गुरुपरिजनसंकटेऽपि कुलटानाम् । जानन्ति तदभियुक्ता भ्रूभङ्गापाङ्गमधुरदृष्टेन ॥ ४९५ ॥ अन्या विहाय पतिगृहमविचिन्तितकुलकलङ्कजनगेहाः । रागोपरक्तहृदया यान्ति दिगन्तं मनुष्यलाभाय ॥ ४९६ ॥ अपमानः पतिविहितो गुरुपरिकरतीव्रता गृहे दौःस्थ्यम् । शीलक्षतये यासा तासामतिरागतोऽन्यनरसक्तिः॥ ४९७ ॥ या अप्यचलितवृत्ता भर्तुश्चरणाजतत्पराः #मदाः । ता अपि रागविमुक्तास्तिष्ठन्त्यौचित्यमात्रेण ॥ ४९८ ॥ तस्मादात्माभिगमनविविधनिमित्तं विधार्यते केन । निजपरपण्यस्त्रीणां रागाधीनं तु हृदयनिर्वहणम् ॥ ४९९ ॥ एवंविधदृष्टान्तरुपपत्तियुतैस्तथेशैर्वात्यैः । अन्यैरपि चाटुपदैरावर्जितमानसं गम्यम् ॥ ५०० ॥ विहितखापरबोधं किंचित्प्रकटीकृतश्रमं दाक्ष्यात् । उत्पादितजृम्भिकया परिरभ्य घनं निशापगमे ॥ ५०१॥ विघटितविनिमुद्रदृशा विलोक्य ककुभः सुदीर्घनिःश्वासम् । वक्तव्यमिति भवत्या रजनि खले किं प्रभातासि ॥ ५०२ ॥ अबला विषहेत कथं दृढशक्तिममुष्य रतिरसप्रसरम् । मदनतुलितानुरागो न विदध्यायदि बलाधानम् ॥ ५०३ ॥ १. 'कथितम्' इति पा०. २. 'बुध्यन्ति' इति पा०. ३. 'भासाच' इति पा०. ४. 'कुलप्रमदाः' इति पा०.५. 'अवशा' इति पा..
काव्यमाला। चक्रावधूप्रियतमसंघट्टनसमयसंप्राप्त्या । शशिना वियुज्यमाना कुमुदिनि किं क्षीणपुण्यासि ॥ ५०४ ॥ विकसितसुरभिमनोहरसंस्थानं कुसुममप्राप्तम् । न करोति तथा पीडामाखादितविच्युतिं यथा भृङ्गः ॥ १०५ ॥ विज्ञापयाम्यतस्त्वां रचिताञ्जलिमाविधाय नतिम् । परिचारकजनमध्ये गणनीयाहं प्रसादेन ॥ ५०६ ॥ (युग्मम्) अथ दीपितरागाङ्गैरपहस्तितमार्गसंभ्रमोपचितैः । मृदुभिश्चित्रानुगतैरुपचारैः पातितस्य विश्वासे ॥ १०७ ॥ अवलोकितोऽसि लम्पट किमपि वदन्कर्णसंनिधौ नियतम् । संकटसेनाधाच्या अद्य मया जालमार्गेण ॥ ५०८ ॥ मालत्या सह किंचिदभिदधासि सखे ममेति न विरोधः (१) । यत्तु चिरं स्निग्धशा पश्यसि तां तत्र मे शङ्का ॥ ५०९ ॥ त्वामागता न वीक्षितुमनुबध्य न याचितः प्रयत्नेन । आहूय वद किमर्थ ताम्बूलं ग्राहिता कमलदेवी ॥ १० ॥ कञ्चकमपकर्षन्त्याः प्रकटीभवदंङ्गकुचपार्श्वम् । साभिनिवेशं दृष्टं भवता किं कुन्दमालायाः ॥ ५११ ॥ परिहासेन गृहीता यद्यंशुकपल्लवे त्वया रामा । आच्छिद्यापक्रान्ता किं त्वामवलोक्य पृष्ठतः सहसा ॥ ५१२ ॥ विज्ञानेन ख्यातां कुसुमलतां त्वं तु वर्णयस्यनिशम् । नृत्यन्ती मृगदेवीं विस्फारितलोचनः पश्यन् ॥ ५१३ ॥ कारणमत्र न वेद्यहमृजुपन्थानं प्रसिद्धमुत्सृज्य । वक्रेण यदेषि सदा माधवसेनागृहाण ॥ ५१४ ॥ इति सेोपन्यासैरन्यैश्चामर्मवेधिलघुकोपैः । प्रणयप्रभवैर्विहिते क्षामोदरि गूढरागत्वे ॥ ५१५ ॥ १. 'वधूः' इति पा. २. 'विच्युतं तथा भृशाः' इति पा०. ३. 'शंकरसेना' इति पा०. ४. 'भंसकुच इति पा..
७७ कुट्टनीमतम् । श्रुतिविषयेऽन्तरिततनुर्जनितस्थितिरायताक्षि सह मात्रा । परुषगिरा त्वं कुर्या इत्थं मिथ्यावचः कलहम् ॥५१६ ॥ (अन्तःकुलकम्) अक्लेशोपनतधनः प्रेमप्रबो निरर्गलत्यागः । भट्टानन्दस्य सुतो निधिभूतोऽभव्यया त्वया त्यक्तः ॥ ५१७ ।। व्यसनोपहतविवेको दानैकरतिः खदारविद्वेषी । मामविगणय्य मूढे निर्भसित एव केशवखामी ॥ ५१८ ॥ अगणितराजापायोऽविच्छिन्नायः स्वभावतस्त्यागी। स्वकरेण परित्यक्तो वामधिया शौण्डिकाध्यक्षः ॥ ५१९ ।। पितुरेक एव पुत्रस्तृतीयवयसो गदाभिभूतस्य । द्रविणवतः प्रभुरातो निराकृतो भूरिकामया सोऽपि ॥ ५२० ॥ स्वकरेण परित्यक्ता त्वया विभूतिः करोमि किं पापा । सर्वभरेणोपनतं वसुदेवमनादरेण पश्यन्त्या ॥ २१ ॥ पुरुषान्तरसंघर्षात्प्रोत्साहितचित्तवृत्तिनिरपेक्षम् । वसु विसृजति यो रभसात्तस्य न वार्ता त्वया पृष्टा ॥ ५२२ ॥ चित्रादिकलाकुशलः स्मरशास्त्रविलक्षणो वृषप्रकृतिः । उपकुर्वन्नपि सर्वो विद्वेषिगणे त्वया क्षिप्तः ॥ ५२३ ॥ चन्द्रवतीमाभरणं दत्तं मधुसूदनस्य पुत्रेण । पश्यन्ती बिभ्राणा मयि रागिणि किं न हीतासि ॥ ५२४ ॥ ग्रामोत्पत्तिमशेषां पश्यन्ती सिंहरागविनियोगात् । मन्मथसेनावासे लघयति ते रूपसौभाग्यम् ॥ ५२५ ॥ आस्तामपरो लाभो भट्टाधिपर्नन्दिसेनतनयेन । शिवदेव्या उपचारः क्रियते यत्नेन पर्याप्तम् ॥ ५२६ ॥ पश्येदं धवलगृहं पाशुपताचार्यभावशुद्धेन । कारितमनङ्गदेव्या विभूषणं पत्तनस्य सकलस्य ॥ ५२७ ॥ आपणिकार्थस्य कुतो राजा लभते चतुर्थमपि भागम् । हट्टपतिरामसेनप्रसादतो नर्मदा यमुपभुते ॥ ५२८ ।। १. 'नन्दिषेण' इति पा..
काव्यमाला। पुंस्त्वाख्यापनकामो न स्त्री न पुमान्किल प्रभुस्वामी । अनुबधन्नुपहसितस्त्वया जडः स्वार्थमनपेक्ष्य ॥ ५२९ ॥ वाजीकरणैकमतिर्नरनाथानुग्रहेण विख्यातः । प्रत्याख्यातः स तथा रविदेवः किंकरत्वमाकान् ॥ ५३० ॥ किं कंदर्पकुटुम्बे जातोऽसावुत वशीकरणयोगात् । कामप्यवैति सिद्धि येनाकृष्टासि सर्वभावेन ॥ ५३१ ॥ बाल्ये तावदयोग्या पश्चादपि वृद्धभावपरिभूता । तारुण्ये रागहृता यदि गणिका भ्रमतु तद्भिक्षाम् ॥ ५३२ ॥ उपनय भाण्डकमेतद्यदर्जितं मामकेन देहेन । विदधामि तीर्थयात्रामाःस्व सुखं प्रेयसा सार्धम् ॥५३३॥ (अन्तःकुलकम्) आर्यजननिन्दितानां पापैकरसप्रकाशनैकनारीणाम् । एतावानेव गुणो यदभीष्टसमागमो निरावरणः ॥ ५३४ ॥ नो धनलाभो लाभो लाभः खलु वल्लभेन संयोगः । अक्षिगतादाप्तिनं भवति मनसः प्रसादाय ॥ ५३५ ॥ गाढानुरागभिन्नं तारुण्यसुखामृतेन संसिक्तम् । न भजति सहृदयहृदयं विभवार्जनसंभवा चिन्ता ॥ ५३६ ॥ लाभः स एव परमः पर्याप्तं तेन तृप्तासि । विनिवेश्य यदुत्सङ्गे निक्षिपति मुखे स ताम्बूलम् ॥ ५३७ ॥ सुरतश्रमवारिकणान्परिमार्टि निजांशुकेन गात्रेषु । यदुरसि निधाय पञ्जस्तस्य न मूल्यं वसुंधरा सकला ॥ ५३८ ॥ शिथिलितनिजदाररतिमयि सक्तमना अनन्यकर्तव्यः । यदसौ जितनलरूपस्तिरस्कृतं तेन गाणिक्यम् ॥ १३९ ॥ बहुकुसुमरसास्वादं कुर्वाणा मधुकरीव विधियोगात् । ईदृक्पुरुषविशेष लभते खलु येन भवति कृतकृत्या ॥ ५४० ॥ १. 'जडे' इति पा.. २. द्वेष्यादित्यर्थः, ३. 'सगस्तस्य' इति पा०. ४. 'मधुकरी विधिनियोगात्' इति पा०.
कुट्टनीमतम् । अयि सरले तावदिमा उपदेशगिरो वसन्ति कर्णान्तः । यावन्नान्तर्भूतं तच्चेतसि मामकं चेतः ॥ ५४१ ॥ श्रीरस्तु दुर्गतिर्वा वेश्मनि वासो भवत्वरण्ये वा। स्वर्लोके नरके वा किं बहुना तेन मे सार्धम् ॥ ५४२ ॥ इदमास्तेऽलंकरणं दुर्जननि गृहाण किं ममैतेन । तेनैव भूषिताहं गुणनिधिना भट्टपुत्रेण ॥ ५४३ ॥ उचितस्थाननियुक्तान्यपनीय विभूषणानि सावेगम् । एवमभिधाय यास्यसि मातुः पुरतः समुत्सृज्य ॥५४४॥ (कुलकम्) इति रागात्स श्रुत्वा चेतसि कुरुते कदाचिदेवमिदम् । स्नेहाधिष्ठितमनसामविधेयं नास्ति नारीणाम् ॥ ५४५ ॥ जननी जन्मस्थानं बान्धवलोकं वसूनि जीवं च । पुरुषविशेषासक्ताः सीमन्तिन्यस्तृणाय मन्यन्ते ॥ ५४६ ॥ रणशिरसि हते वज्र वज्रोपमयन्त्रनिर्गतग्राव्णा । प्राणान्मुमोच दयिता न मन्त्रविधिना कृतानुयारामा (8)॥५४७॥ कालवशेनायासीत्पञ्चत्वं दाक्षिणात्यमणिकण्ठः । प्रेमोपगता वेश्या तेनैव समं जगाम पंञ्चत्वम् ॥ ५४८ ॥ भास्करवर्मणि याते सुरवसतिं वारितापि भूपतिना । तदुःखमसहमाना प्रविवेश विलासिनी दहनम् ॥ ५४९ ॥ ज्वालाकराठहुतभुजि नमाचार्यः पपात नरसिंहः । तस्मिन्नेव शरीरं निजमजुहोच्छोकपीडिता दासी ॥५९० ॥ प्रीतिभराक्रान्तमतिस्त्रिदशालयजीविकां मोपगताम् । अङ्गीचकार मुक्त्वा जीर्णा खलु मिश्रपुत्रमा मृत्योः ॥ १५१ ॥ देशान्तरादुपेता प्रसादमात्रेण वीक्षिता वनिता । तत्याज न पादयुगं समरे निहतस्य वामदेवस्य ॥ १२ ॥ १. 'कृतानुयागमा' इति पा०. २. 'भस्मत्वम्' इति पा०. ३. 'क्रमोपनताम्' इति पा०. ४. 'भट्टपुत्रम्' इति पा..
काव्यमाला। भट्टकदम्बकतनये याते वसतिं परेतनाथस्य । चक्रे देहत्यागं रणदेवी वारयोषितां मुख्या ॥ १५३ ॥ अस्यामेव नगयों द्रविणमदात्कालसंचितमशेषम् । प्रेम्णाकृष्टा गणिका मिश्रात्मजनीलकण्ठाय ॥ ५५४ ॥ इयमपि विहितास्था मां मातृवचःकलुषिता के गता । त्यक्त्वाभरणं सर्व.परिवर्धितमन्युसंवेगा ॥ ५९५ ॥ उत्सृष्टालंकरणां परिशेषितमातृमुक्तपरिवाराम् । संतर्पयामि संप्रति सर्वस्वेनापि हरिणाक्षीम् ॥ १५६ ॥ गेहेन किं प्रयोजनमन्यैरपि बन्धुदारपरिवारैः । संसारग्रहकारणमेका खलु मालती मम हि ॥ ११७ ॥ अमृतकरावयवैरिव घटिता या दृढतरं परिष्वक्ता । चेतो नयति समत्वं ब्रह्मण आनन्दरूपस्य ॥ ५५८ ॥ आविर्भवदात्मभवक्षोभक्षतधीरताद्य धृतरभसा । विगलितकुचयुगलावृतिरालिङ्गति मालती धन्यम् ॥ ५६९ ॥ निर्दयतरौष्ठखण्डनसव्यथहुंकारमूर्छितं सुरते । अहहेति वचस्तस्या अपुण्यभाजो न शृण्वन्ति ॥ १६० ॥ स्मृतिजन्मजनितविकृतिव्रततिच्छन्नं करोति संसारम् । आबद्धसुरतसंगरविमर्दसंक्षोभिता दयिता ॥ ५६१ ॥ गाढतराश्लिष्टवपुर्भजते कान्ता प्रमोदसंमोहम् । शिथिलीकृता तु किंचिद्विविधविकारं समुच्छसिति ॥ ५६२॥ सन्त्यन्या अपि सत्यं पुरुषोचितकर्मपण्डिता वेश्याः । सृष्टानया तु नियतं विपरीतरतक्रियागोष्ठी ॥ १३ ॥ तन्त्रीवाद्यविशेषादुद्दामानन्यजन्मनस्तस्याः । कुहरितरेचितकम्पितसंपादननैपुणं करोति रुजम् ॥ ५६४ ॥ १. दत्तववीत्यर्थः. २. 'मद्यत्मज' इति पा०.३. 'तुगता' इति पा.. ४. 'घन- रमसान् इति पा०.५. 'तया' इति पा..
कुट्टनीमतम् । ललिताङ्गहारजृम्भितवलितस्मितवेपनानि मालत्याः । पश्यञ्जहाति कामो रतिमोहनचेष्टितेषु बहुमानम् ॥ ५६५ ॥ न ग्राम्यं परिहसितं नाविभ्रमतरलिताक्षिविक्षेपः । सुरतानुद्योगविधौ दोहददानं न पुष्पबाणस्य ॥ ५६६ ॥ नार्थपरो नयनरसो न पराशयवेदने विचक्षणता । नासौष्ठवं प्रसङ्गे न चान्यगुणकीर्तनेषु भारत्याः ॥ ५६७ ॥ नापरपुरुषश्लाघा न त्यागः कालदेशवेषस्य । वैदग्ध्यजन्मभूमेर्गुरुजघनभरेण मन्दयातायाः॥५६८॥ (विशेषकम्) चक्राहपरिष्वजनं हंससमाश्लेषनकुलपरिरम्भम् । पारावतावगूहनमाचरति सुमध्यमा यथावसरम् ॥ ५६९ ॥ तद्वक्रवदनहास्यव्यवहृतिहृतमानसस्य जायन्ते । अनुकूलसुन्दरा अपि भरणीयाः केवलं दाराः ॥ ५७० ॥ सूचयति पृथक्करणं भ्रातृणां वक्ति विषमशीलत्वम् । विवृणोति गृहविसंस्थामभिनन्दति पितृकुलस्य गुणवत्ताम् ॥५७१॥ अन्यसुतपक्षपातं कथयति मातुस्तिरस्करोति पतिम् । पार्श्वनिमग्नां जायां मानयति विमुच्य कामुकं मदनः ॥ १७२ ॥ एवं कृतेऽपि सुन्दरि यदि तिष्ठति नायकः प्रकृत्यैव । इत्थं पथि परिमोषस्त्वत्सख्या नैपुणेन वक्तव्यः ॥ ५७३ ॥ गृहकार्यव्यग्रतया चित्तग्रहणाय वा कुलस्त्रीणाम् । नायाते भवति सखी प्रावृड्धनकलुषिते दिशां चक्रे ॥ ५७४ ॥ प्राग्नीवकशयनगता स्फारीभवदात्मसंभवविकारा । त्वद्वर्त्मनिहितनेत्रा गीतामन्येन गीतिकामशृणोत् ॥ ५७५ ॥ 'यदि जीवितेन कृत्यं संभावय विरहिणि प्रियं तूर्णम् । घनरसितस्य हि पुरतः कदलीदलकोमलः कुलिशपातः ॥६७६ ॥ १. 'सुरतावुद्योगविधौ' इति; 'सुरतोद्योगनिधौ' इति च पा०. २. 'वा' इति पा०. ३. 'वित्तग्रहणाय' इति पा०. ४. 'नायाता' इति पा.. - २२ काव्यमाला। आकर्ण्य मामवादीद्वन्यास्ता युवतयः सखि कठोराः। या विषहन्ते दीर्घप्रियतमविरहानलासारम् ॥ ९७७ ॥ मम तु दिनान्तरितेऽपि प्रेयसि लब्ध्वा सहायसामग्रीम् । विदधाति मकरकेतन उत्कलिकाविधुरितं हृदयम् ॥ ५७८ ॥ उत्कण्ठयति नितान्तं समीरणो बकुलकुसुमसंनाहः । प्रच्यावयन्ति धैर्यान्मधुरध्वनिभिः कलापभृतः ॥ ९७९ ॥ सतडिन्मिलठ्ठलाकामसिताम्बुधरावली समुद्यन्तीम् । उत्सहते सा वीक्षितुमैविरलमालिङ्गितो यया कान्तः ॥ ५८० ॥ खेच्छागमनलघुत्वं बैंहुलापायं निशासु पन्थानम् । न विचारयन्ति महिला अभीष्टजगसंगतावुत्काः ॥ ५८१ ॥ क्रियतां भूषणशोभा त्वरयति मे मानसं मनोजन्मा। रञ्जयति मनो नितरां कलधौननिवेशितं रत्नम् ॥ ५८२ ॥ घनजलदावृतककुभि प्रदोषसमये प्रदोषगमनाय । विदधानया कुबुद्धिं रागान्धे किमिदमारब्धम् ॥ ५८३ ॥ वचनप्रपञ्चसारं जायाश्रितमन्यदेशसंबन्धम् । पुरुषमभिगन्तुकामा नवेयमभिसारिका दृष्टा ॥ ५८४ ॥ जलधौततिलकरचनां गलदम्भोलुलितकेशान्ताम् । तिम्यत्तनुलीलावृतिचण्डानिलसलिलपातकण्टकिताम् ॥ ५८५ ॥ अविभावितसमविषमप्रस्खलदहि सहायकरलग्नाम् । पुरतोऽध्वनः प्रमाणं मुहुर्मुहुः साध्वसेन पृच्छन्तीम् ॥ ५८६ ॥ अन्यस्त्रीपु च पत्यौ व्यग्रे कृच्छ्रेण कथमपि प्राप्ताम् । तत्कालयोग्यपरिजननिवेदितामिति विकल्पसदृशविधौ ॥ ५८७ ॥ किं प्रेम्णोऽयं महिमा किमुतात्यन्तं धनप्रलोभस्य । किं वान्यतः प्रवृत्ता प्रवेपिता वातवर्षेण ॥ १८८ ॥ १. 'अनलासगम्' इति पा०. २. 'संवाहः' इति पा०.३. 'अविरतम्' इति पा०. ४. 'बहुलापं ये' इति पा०. ५. अन्यस्मिन्प्रेतपतौ' इति पा०.
कुहनीमतम् । संनिहितकलत्राणामनुचितमिति बाबलोकसंवदनात् । अन्यस्मिन्नुदवसिते विसर्जितामिष्टमालतीकेन ॥ ५८९ ॥ लोकेन हास्यमानां बिभ्राणं वाससी जलक्लिने । रूपमदमुत्सृजन्तीं वैलक्ष्याद्विहसितेन नतवदनाम् ॥ ५९० ॥ पश्चात्तापगृहीतां कण्टकदर्भाग्रभिन्नपादतलाम् । अस्मद्वचः स्मरन्ती द्रक्ष्यन्त्यभिसारिकां सुकर्माणः ॥ ५९१ ॥ इति परुषमभिदधानां मातरमवधीर्य युष्मदभ्याशम् । चौरहतका व्रजन्तीं विद्रावितरक्षिणः सुखीं मुमुषुः॥१९२॥ (महाकुलकम्) एषा प्रपञ्चरचना यदि भवति वृथा पुरस्तस्य । वणिगिदमुपेत्य वक्ष्यति सहायसंचोदितो भवतीम् ॥ ५९३ ॥ पूर्व दत्तस्योपरि मुक्ताहारस्य केदरास्त्रिंशत् । परिचारिकयानीता अन्यानपि मृगयते वैयस्यकृते ॥ ५९४ ॥ यत्तु धनसारकुङ्कुमचन्दनधूपादि मुक्तकं दत्तम् । तत्संपुटके लिखितं शृणु पिण्डलिकां करोमि ते पुरतः ॥ ५९५॥ एतावन्तं कालं नावसरेऽत्यथिता मया त्वमसि । रिक्तं भाण्डस्थानं सांप्रतमिति याचनं क्रियते ॥ ५९६ ॥ एवंवादिनि तस्मिन्किचिल्लज्जानतेक्षणं दृष्ट्वा । प्रियपूर्व प्रश्रितया वाचा वाच्यः सवैलक्ष्यम् ॥ ५९७ ॥ हारस्तवैव तिष्ठतु मध्यस्थस्थापितेन मूल्येन । शेषं ततो यदन्यत्तदिवसैः पूरयिष्यामि ॥ ५९८ ॥ इयमपि कपटप्रथना पूर्वसमा चेत्तदेदमभिधेयम् । आशन्तेऽनिष्टं कातरहृदया हि योषितः प्रायः ॥ ६९९ ॥ अपटुशरीरे खामिनि विज्ञप्ता भगवती मया गत्वा । भवतु निरामयदेहो जीवितनाथस्तव प्रसादेन ॥ ६०० ॥ १. केदर इति नाणकविशेषस्य संज्ञा इति भाति. 'केदाराः' इति पा०. २. 'य एष कृते' इति पा०. ३. 'नाचष्टे' इति पा०.
काव्यमाला। संपन्नवान्छितार्था बल्युपहारेण पूजयिष्यामि । सामग्रीविरहेण तु न वितीर्ण तत्र मे शशा ॥६०१॥ (विशेषकम्) अस्मिन्व्यर्थीभूते रिक्तीकृतशून्यवेश्मनो दाहम् । उत्पाद्य मन्दगामिनि सर्वविनाशः प्रकाशमुन्नेयः ॥ ६०२ ॥ स्निग्धत्वमलं बुद्धा सहभोजनशयनवसनलिङ्गेन । एभिरुपायद्वारै तिविरक्तस्त्वया कार्यः ॥ ६०५ ॥ वोधूषिककदर्थनया भोगध्वंसात्सहायवचनैर्वा । अवधारितेऽपि निपुणं वरगात्रि विलुप्तसारत्वे ॥ ६०४ ॥ परुषवचोनिर्धारणमावल्यासाहठोपघातीनि (8)। यत्नादमी विधेया गम्यस्य विमोक्षणोपायाः ॥ ६०५ ॥ पृथगासननिर्देशः प्रत्युत्थानादिकेऽपि शैथिल्यम् । सासूयसोपहासा आलापा मर्मवेधि परिहसितम् ॥ ६०६ ॥ तत्प्रतिपक्षश्लाघा तदधिकगुणरागकीर्तनावृत्तिः । वेदति प्रियमाभीक्ष्णं बहुप्रलापिस्वदूषणाख्यानम् ॥ ६०७ ॥ वचनान्तरोपघातैस्तत्प्रस्तुतसंकथासमाक्षेपः । तद्व्यवहारजुगुप्सा सव्यपदेशस्तदन्तिकत्यागः ॥ ६०८ ॥ व्याजेन कालहरणं स्वापावसरे विवर्तनं शयने । निद्राभिभवस्वापनमुद्वेगः संमुखीकरणे ॥ ६०९ ।। गुह्यस्पर्शनिरोधः स्वभावसंस्थापना योगेषु । चुम्बति वंदनविकम्पनमालिङ्गति कठिनगात्रसंकोचः ॥ ६१० ॥ असहिष्णुत्वं प्रहणनकररुहदशनक्षतिप्रसङ्गेषु । दीर्घरते निर्वेदः खपिहीति रताभियोजके भूयः ॥ ६११ ॥ तदशक्तावनुबन्धो वैदग्ध्यविनाशने तथा हासः । रात्र्यवसानस्पृहया पुनः पुनर्यामिकप्रश्नः ॥ ६१२ ॥ १. 'दाहात्' इति पा०. २. वृद्धयाजीवी वणिग्वाधुषिक इत्युच्यते. ३. 'अवधीरित' इति पा०. ४. 'मां हतोपघातीनि' इति पा.. ५. 'तदति' इति पा०. ६. 'शइया इति पा०. ७. 'नियोगेषु' इति पा.. ८. 'वदनवियोजन' इति पा०. ५. 'रतानि यो- जके' इति पा..
कुहनीयतम् । निःसरणं वासगृहादुषसि समुत्थाय तसतस्त्वरया । सरमसमुदीरयन्त्या निशा प्रमाता प्रभातेति ॥ ६१३ ॥ उभयेच्छया प्रवृत्तं निरुपाधि प्रेम भवति रमणीयम् । अन्योन्यसमासक्तौ संस्खानमिवामिजातमणिहेमोः ॥ ११ ॥ यस्त्वेकाश्रयरागः परिभवदौर्बल्यदैन्यनाशानाम् । स निदानससंदिग्धं सीता प्रति दशमुखस्येव ॥ ६१५ ॥ यानि हरन्ति मनांसि च ललितमितवीक्षितानि रक्तानाम् । तान्येव विरक्तानां प्रतिभान्ति विवर्तितानीव ॥ ६१६ ॥ विदधातु किमपि कथमपि निगृह्यमाणा मुहूर्तमासिष्ये । इति यत्र मनः स्त्रीणां तत्रापि रमन्त एव पशुतुल्याः ॥ ६१७ ।। यत्र न मदनविकाराः सद्भावसमर्पणं न गात्राणाम् । तस्मिन्मुद्रितभावे पशुकर्मणि पशव एव रज्यन्ते ॥ ६१८ ॥ अवधीरणयोपहतः प्रतिदिवसं हीयमानसद्भावः । अभिमानवान्मनुष्यो योषितमूढामपि त्यजति ॥ ११९ ॥ साक्षिनिकोचं सख्याः पाणितलं पाणिना समाहत्य । यन्नरमुपहसति स्त्री ददातु तस्मै मही रन्ध्रम् ॥ ६२० ॥ पुरुषान्तरगुणकीर्तनमन्योद्देशेन चात्मनो निन्दाम् । शृण्वन्नपि यः खस्थः खस्थोऽसौ कालपाशबद्धोऽपि ॥ ६२१ ॥ अवगम्याभिप्रायं खामिन्याः परिजनोऽपि यं पुरुषम् । अवहसति तिरस्कार्य तस्य न मूल्यं वराटिकाः पञ्च ॥ ६२२ ॥ तत्त्वातत्त्वसमुत्थव्यवहृत्योर्योऽन्तरं न जानाति । स्थानं भवति स पशुपतिरपसंशयमर्धचन्द्रलाभस्य ॥ ६२३ ।। क्रम:शितगौरवांशो रिक्ततया लाघवं परापतितः । अप्राप्तपरिच्छेदः प्लवतेऽसौ युवतिसरिति कुमनुष्यः ॥ ६२४ ॥ १. 'अवधारण-' इति पा०.२. विवाहितापीत्यर्थः.३.'अप्रियम्' इति पा०. ४.'व्य- वहरति' इति पा०. ५. 'तत्त्वावहासमुग्धव्यवहृतयोः' इति पा०. ६. 'हसित' इति पा०. 3 काव्यमाला यत्नेन कपटघटितान्शृङ्गारोद्दीपनार्थमनुभावान् । रतिशिल्पजीविकामिर्मूढास्तत्त्वेन गृहन्ति ॥ १२५ ॥ या धनहार्या नार्यो निर्यादाः खकार्यतात्पर्याः । सह तामिरपीहन्ते बत मन्दाः संगतमजर्यम् ॥ १२६ ॥ अपरोक्षधनो गम्यः श्रीमानपि नान्यथेति निर्दिष्टम् । कंदर्पशास्त्रकारैः कुतः कथा लुप्तविभवस्य ॥ ६२७ ॥ व्यासमुनिनापि गीतौ द्वावेव नराधमौ लोके । धर्मः परो न विहितः कामकलायां मतिः स्थिरा यस्य ॥ ६२८ ॥ कामनवाभिनवगुणवल्लिः खस्य मदनरोगवतः । अर्थोऽनर्थवतोऽभिगमकामः समरतनरोपभोगेन (१) ॥ ६२९ ॥ यस्तु न धर्मप्राप्त्यै नार्थाय न कामसाधनोपायः । स पुमान्सच्चरितनरैः पर्यनुयुक्तः किमाचष्टे ॥६३०॥ (संदानितकम्) कामोद्वेगगृहीतं धूर्तरुपहस्यमानशृङ्गारम् । दारिद्यहतं यौवनमबुधानां केवलं विपदे ॥ ६३१ ॥ व्यपगतकोषे रागिणि याति लयं पानमात्रलाभकृते । क्षुद्रामधुकरिकाले न तु गणिका चिन्तितखार्थे ॥ ६३२ ।। यासां कार्यापेक्षा सकटाक्षनिरीक्षणेऽपि वेश्यानाम् । दर्शनमात्रक्षुभितैर्वच्यन्ते ताः कथं पुरुषैः ॥ ६३३ ॥ क्लेशाय दुर्भगानां मानस्तुतिगात्रभङ्गविन्यासः । गणिकाभिनयचतुष्टयमाकृष्टयै खापतेयपुष्टानाम् ॥ ६३४ ॥ किं धक्ष्यति भौमोऽपि ज्वलनः खलु तादृशं कुलाङ्गारम् । यो दह्यते नै विरसं विरक्तदासीतिरस्कारैः ॥ १३५ ॥ गृहमेतदीश्वराणां कान्तारं दुष्प्रवेशमन्येषाम् । फूत्कृतमिदं सभुजया न मालती कामसत्रदानपरा ॥ १३६ ।। १. 'गुणवानिःखस्य' इति पा०. २. 'सत्वरितनरैः' इति पा०. ३. 'कामोद्वेगि. इति पा०. ४. 'लाभहते' इति पा०. ५. धनवतामित्यर्थः. ६. 'वक्ष्यति' इति पा.' ७. 'अतिविरसम्' इति पा०. .
कुट्टनीमतम् । इति तूदितनिजचेटीनिगदितकटुकाक्षराण्यकृतलक्ष्मा ()। आकर्णयतो वाचो दैवोपहतस्य मर्मरुजः ॥ ६३७ ॥ एवमभिधीयमानो बुध्यति यदि नो पशुनराकारः । तदिदं सुन्दरि वाच्यः प्रश्रितवचसा त्वया कामी ॥ ६३८ ॥ प्रीयत एव तवोपरि हृदयं मे किं तु गुरुजनाधीना । मातृवचोगतिक्रमणं न समर्था संविधातुमहम् ॥ ६३९ ॥ अर्हसि तावदतस्त्वं गन्तुमितः कतिपयान्यपि दिनानि । पुनरपि भवतैव समं भोक्तव्यं जीवलोकसुखम् ॥ ६४० ॥ निर्वासितेऽपि तस्मिन्यः कामी पूर्वमुज्झितोऽभूत्ते । तस्य प्राप्तविभूतेयुक्तिरियं भिन्नसंधाने ॥ ६४१ ॥ उपवनलीलाविहरणहावोज्ज्वलमञ्जुलस्य सह तेन । वर्णनमितिवृत्तस्य स्मरजविकाराश्च वीक्षिते तस्मिन् ॥ १४२ ॥ इदमुपवनमतिधन्यं निर्भरमालिङ्गितं सुरभिलक्ष्म्या । मत्कण्ठाश्रितपाणिर्बभ्राम स यत्र जीविताधीशः ॥ ६४३ ॥ सख्य इतो अमरकुलत्रासितया प्रियतमो मया सहसा । वक्रीभवत्पयोधरमुपगूढो धीरसीत्कारम् ॥ ६४४ ॥ रॅणदिन्दिन्दिरवन्दे कूजत्कलकण्ठवॉररमणीये । अत्रातिमुक्तकगृहे मरुदीरणविततकुसुमसंछन्ने ॥ ६४५ ॥ मयि जाताधिकरागो बलवति मदने सहायसामग्र्या । कान्तः पल्लवशयने नो तृप्तिमगाद्विविक्तकार्येषु ॥ ६४६ ॥ प्रेङ्क्षत्प्रहरणयुक्त्या विध्यन्पार्श्वद्वयं नखैर्वृतः । चक्रे मां मदनमयीं व्रतपुङ्खमिमां समधिरूढाम् (१) ॥ ६४७ ॥ स्पृहणीयोऽयमशोकः स्पृष्टो यदुर्लभेन हस्तेन । अस्मदवतंसकाथै नूतनदलपल्लवान्विचारयता ॥ ६४८ ॥ १. 'कामम्' इति पा०. २. 'भुते' इति पा०. ३. 'संरागे' इति पा०. ४. शब्दा. यमानश्रमरकुले इत्यर्थः. ५. वारः समूहः.
काव्यमाला। अमिन्सहकारतले तस्योत्सङ्गे सलीलमासीना । अशृणवमहमिति वाचः पश्यन्ती विलसितानि तरुणानाम्॥६४९॥ उत्थापय मानवशे दयितं चरणाग्रनिपतितं तूर्णम् । अत्याकृष्टं त्रुट्यति सुदृढमपि प्रेमबन्धनं मूढे ॥ ६९० ॥ उत्तिष्ठन्नपि यातः किं तेन निवारितेन सखि पशुना । यामीति निष्पकम्पा विनिःसृता यस्य साधरे वाणी ॥ ६५१ ॥ आयुःसारं यौवनमृतुसारः कुसुमसायकवयस्यः । सुन्दरि जीवितसारो रतिभोगरसामृतखादः ॥ ६५२ ॥ रम्यं कुसुमस्तबकं कुरु मे प्रिय कैहिरातमवतंसम् । तिष्ठतु वा किमनेन प्रत्यग्रमशोककिसलयं चारु ॥ ६५३ ॥ आस्तामास्तामेतत्प्रापय मां सिन्दुवारमभिरामम् । नहि नहि राजति सुतरां चूतद्रुममञ्जरी कर्णे ॥ ६९४ ॥ धिक्तारुण्यमकान्तं धिक्कान्तं यौवनेन रहितं च । धिक्तद्यमपि मन्मथशास्त्रविकास विना सुरतम् ॥ ६५५ ॥ जनितोऽप्यपराधशतैर्वामे तस्मिंश्चिरप्ररूढोऽपि । अधिगतमधुना सख्या तव सत्त्वमतीत्य वर्तते मानः ॥ ६५६ ॥ वर्षशतस्य हि सारः कलेवरः प्रथममेलकस्थानम् । सचकितमागच्छन्ती सोत्कलिकैर्यत्र दृश्यते रमणी ॥ ६१७ ॥ किं निर्मितोऽसि धात्रा नवोऽपरः किमु वसन्तगुण एषः । कुमुमशरपूर्णता॑णः किमुताभवदन्य एष कंदर्पः ॥ ६५८ ॥ नो पश्यसि यदि ककुभः प्रचुरोद्दलकुसुमसुरभिरमणीयः । परभृतकूजनमित्रं न शृणोषि यदि द्विरेफझंकारम् ॥ ६५९ ॥ गन्धं यदि च न लभसे वासितदिग्व्योम सुमनसो हृद्यम् । अनुभवसि यदि स्पर्श नो शीतलदाक्षिणात्यपवनस्य ॥ ६६० ॥ १. 'सीनाम्' इति पा०. २. 'तरुणीनाम्' इति पा०. ३. वसन्त इत्यर्थः. ४. रकाम्लानपुष्पनिर्मितमित्यर्थः. ५. 'सत्यम्' इति पा०. ६. 'एव' इति पा०. ७. 'तूर्णः' इति पा०... 'एव' इति पा०.
कुट्टनीमतम् । वसने स्त्रियैकशेषः खल पश्चार्यो गुणेन परिभूतः (8)। नार्हसि तदिति त्यक्तो निजाश्रमं गन्तुमन्यतो नितराम् ॥६६॥ अस्मिन्सरसि सलीलं करयन्त्रविनिर्यदम्बुधाराभिः । दयितेन ताडिताहं मयाप्यसावाहतो मृणालिकया ॥ ६६२॥ पुनरन्तर्जलमनो मामुपगम्याविभावितः सहसा । उच्चिक्षेप सहासं हासितसंनिहितपरिवारः॥ ६६३ ॥ संसक्तावरणं जघनं ननु पश्यतस्तदा तस्य । प्रथमाकाङ्क्षाकूतं भेजे संभोगशृङ्गारम् ॥ ६६४ ॥ कालप्रदेशभोगव्यापारस्थितिविशेषघटनाभिः । चिररूढोऽपि हि यूनां नवत्वमुपनीयते रागः ॥ ६६५॥ सादरमर्पयतोऽङ्गं गोत्रस्खलनापराधिनस्तस्य । सख्यः स्मरामि सहसा विलक्ष्यतां क्लिष्टहसितस्य ॥ ६६६ ॥ प्रत्यग्रनखव्रणितस्तनान्तरे स्पृशति लोचने स्पृहया । प्रेमसिताच्छादनमकरवमहमजिनीपत्रम् (१) ॥ ६६७ ॥ क्षिप्वातर्कितमम्भो गर्मितनलिनीपलाशपटभावात् । आहतया यद्विरुतं खस्थधिया नैव शक्यते कर्तुम् ॥ ६६८ ॥ सुश्लिष्टो दूरविधिर्मदनालसगात्रजृम्भितं ललितम् । गूढस्थानप्रकटनमङ्गुलिविस्फोटनं स्मितं सुभगम् ॥ ६६९ ॥ नीवीबन्धविमोक्षो मुहुर्मुहुः केशपाशविश्लेषः । खाधरदशनग्रहणं बालकपरिचुम्बनं रतोत्सुकता ॥ ६७० ॥ साकासितं क्षिपन्त्या तरलायतलोचनं मुहुः कान्ते । उद्दिश्य तद्वयस्यकमिति शोकग्रस्तवर्णशिरः ।। ६७१ ॥ एकीभावं गतयोर्जलपयसोर्मित्रचेतसोश्चैवे व्यतिरेककृतौ शक्तिहसानां दुर्जनानां च ॥ ६७२ ॥ येन तदा मा भूवुः (१) परिजनमुत्सार्य विधृतनटमन्युः । दर्शितहितखरूपः परपीडाकरणपण्डितः प्रथमः ॥ ६७३ ॥ १. 'कृष्ट' इति; 'धृष्ट' इति च पा०. २. 'च तथा' इति पा०. ३. 'वा' इति पा..
९. काव्यमाला। ........ अतिकोमलमतिपरिमितवणे लघुतरमुदाहरति शठः । परमार्थतः सहृदयं दहति पुनः कालकूटघटित इव ॥ ६७४ ॥ अविदितगुणान्तराणां नो दोषः प्राप्तदेशवासानाम् । खाधीनकुङ्कुमा अपि यद्विदधति बहुमतिं नीले ॥ ६७५ ॥ क्व महीतलरम्भात्वं न्यकृतचन्द्रप्रभा खदेहरुचा । मित्रलता व वराकी नीचैरुपसेवितारोहा ॥ ६७६ ॥ यस्या न खलु विगणिताः प्रहात्मानो महाधनाः कुलजाः । सोऽद्य हृदयेन तस्यां त्वयि तिष्ठति बाह्यवृत्तेन ॥ ६७७ ।। तामेव समाचरणां सद्भावेन प्रवर्तितां निपुणाः । विन्दन्ति तत्र कुशलाः स्नेहविरूपे प्रभेदेन ॥ ६७८ ॥ भवतु विरूढप्रेम्णः सत्कर्मविवेचने मनोवृत्तिः । मारोहतीति सैवं निवेदितं परिजनेन".. ॥ ६७९ ॥ इति दुर्जनाभिनिःसृतवागभिदूषितसमस्तवपुषो मे । ईर्ष्यारुषः प्रवृद्धाश्चिररूढप्रणयखण्डनप्रभवाः ॥ ६८० ॥ लघुहृदयतया तस्मादुर्भाषितवज्रपातविहतानाम् । वर्त्मविशेषवितों न स्पृशति प्रायशो मनः स्त्रीणाम् ।। ६८१ ॥ प्रियमपि वदति दुरात्मा क्षिपति विपक्षखश्वनुधारे । आसाद्य प्राणहतो मृतये परिलेढि जिह्वया रवहम् (१) ॥ ६८२ ॥ हितमधुराक्षरवाणीव्यवहारमनुप्रविश्य तन्मानम् । सरला दुराशयानामुपघानं फलत एव विन्दन्ति ।। ६८३ ।। परसंतापविनोदो यत्राहनि न प्रयाति निष्पत्तिम् । अन्तर्मना असाधुन गणयति तदा सुखोमध्ये (?) ॥ ६८४ ॥ दिवसांस्तानभिनन्दति बहु मनुते तेषु जन्मनो लाभम् । ये यान्ति दुष्टबुद्धेः परोपतापाभियोगेन ॥ ६८५ ॥ विकसितवदनः पिशुनः प्रोत्फुल्लविलोचनस्तथा भ्रमति । मन्ये यथा नराणां परहितकरणे श्रमो वन्ध्यः ॥ ६८६ ॥ १. 'नोद्देशः' इति पा०. २. 'बहुमतिलीन' इति पा०. ३. 'परिचयेन' इति पा०, कुट्टनीमतम् । शठमृगयुः कुसूतिशतैरज्ञातप्रतिविधीन्साधुमृगान् । अभ्यस्तलक्ष्यवेधः सनिश्चये परिश्रमं व्रजति (!) ॥ १८७ ॥ अनुकूलवरपुरंध्रिषु पुरुषाणां बद्धमूलरागाणाम् । नयति मनो दुःशीलः कुसुमास्त्रो हीनपात्रेषु ॥ ६८८ ॥ सावरणं व्रजतोऽन्यान्कौतुकदृष्टया प्रसङ्गतो दयितान् । बुद्धापि विदग्धधियो वर्तन्ते नाद्य धर्मेण ॥ ६८९ ॥ सत्यं प्रेमणि वृद्धे व्यथयति हृदयं मनागपि स्खलितम् । अवहृतनिजमाहात्म्यास्तथापि धीरा न मुह्यन्ति ॥ ६९० ॥ खच्छन्दः पिबतु रसं श्रान्त्वा नानावनानि कुसुमेषु । अनुभूतगुणविशेषः पुनरेष्यति मालती मधुपः ॥ ६९१ ॥ मालत्यां गुणवाती नो सम्यग्वेत्ति मधुकरस्तावत् । अनुभवमेति न यावत्सुमनोन्तरसंगमाखादे ॥ ६९२ ॥ कोमलमानकदम्बां भजमानो भजति दीप्ततामधिकाम् । संचाल्यमानदारुः पावक इव सुप्रभः स्नेहः ॥ ६९३ ॥ यः पुनरतिकोपानलसंतापवशेन दूरमाकृष्टः । काचमणिः खलु स यथा परिणामं खण्डखण्डमुपयाति ॥६९४॥ वेतनलाभाबहवः सेव्यन्ते सौष्ठवेन पञ्चजनाः। विश्राम्यति यत्र मनः स तु दुष्प्रापः सहस्रेषु ॥ ६९५ ॥ मन्वादिमुनिवरैरपि कालत्रयवेदिभिः सुदुर्जेयम् । तत्सुकृतं यस्य फलं रभसागतवल्लभाश्लेषः ॥ ६९६ ॥ यातेऽपि नयनमार्गे प्रेयसि यस्याः स्मृतिळलीकेषु । मन्ये तां प्रति नियतं कुण्ठितशरपञ्चको मदनः ॥ ६९७ ॥ जीव्यत एव कथंचिद्धिग्वृत्तिमिमां महद्भिरवगीताम् । विजहाति यन्न गणिका तद्वाछितरमणलाभलोभेन ॥ ६९८ ॥ १. 'नाद्य' इति; 'नाव्य' इति च पा०, २. 'तदपि न धीरा विमुह्यन्ति' इति पा.. ३. 'भ्रान्त्वा भ्रान्त्वा वनानि' इति पा०. ४. 'संतप्तश्वासदूरमाचष्ट' इति पा०. ५. पुरुषा इत्यर्थः.
काव्यमाला। कण्टकिनः कटुकरसान्करीरबदरादिविटपतरुगुल्मान् । उपभुजाना करभी दैवादाप्नोति मधुरमधुजालम् ॥ ६९९ ॥ का स्त्री न प्रणयिवशा का विलसितयो मनोभवविहीनाः । को धर्मो निरुपशमः किं सौख्यं वल्लभेन रहितानाम् ॥ ७०० ॥ खाच्छन्द्यफलं बाल्यं तारुण्यं रुचिरसुरतभोगफलम् । स्थविरत्वमुपशमफलं परहितसंपादनं च जन्मफलम् ॥ ७०१ ॥ अभिदधतीमिदमालीमवगम्य गृहीतयौवनभृतेन । यौवनसुखेन साधै तनयरेध गृहपरिच्छिन्नाः (१) ।। ७०२ ॥ अधुनाशु (१) तापपावकमध्यगता पच्यमानसर्वाङ्गी। निष्फलजन्मप्राप्ति वत्युच्छ्रसितमात्रेण ॥ ७०३ ॥ स्थानेषु येषु युष्मत्संगत्या क्रीडितं चिरं धृत्या । तानि खलु वीक्षमाणा भवामि कण्ठस्थितप्राणा ॥ ७०४ ॥ अन्यवप्सेना विसंज्ञा कृतभूषणवस्त्रपत्रसंचारा । दारुमयीव प्रतिमा विदधामि विडम्बना बह्वीः ॥ ७०५ ॥ यदि नामोदरभरणप्राप्त्यै कुरुतेऽन्यपुष्पसंश्लेषम् । तदपि न पुष्टि ङ्गया अपिबन्त्या मधुरवृन्दमकरन्दम् ।। ७०६ ॥ आस्तामपरो लोक क्रीडापेक्षापरो यदि प्रीतिः । व्यसनान्तरे पतन्ती न वारिता परिजनेनापि ॥ ७०७ ॥ किं वा बहुभिः कथितैः संप्रति हि मयापि नियमिता बुद्धिः । स्थास्यामि संनियुक्ता भवद्गृहे प्रेष्यभावेन ॥ ७०८ ॥ इति नेत्रादिविकारैर्वशमुपनीतं प्रलीनधैर्यस्य । सारग्रहाभिभूतं परिमृष्टप्राङिराकृतिस्मरणम् ॥ ७०९ ॥ प्रादुर्भूतरिरसं क्षणे क्षणे जघनदेशगतदृष्टिम् । पक्वानमिव विमोक्ष्यसि पूर्ववदावूष्य निःशेषम् ॥ ७१० ॥ १. 'काश्मीरप्रणयिवशा' इति पा०. २. 'सार्ध नयैव गृह्यम्' इति पा०. ३. 'धृत्वा इति पा०. ४. 'वशेन' इति पा०. ५. 'पुष्ट' इति पा०. ६. 'क्रीडापेक्षी परा यदि प्रीतः इति पा०. ७. 'प्रादुर्भूतं नितराम्' इति पा०.
कुट्टनीमतम् । अशरीरामिषदिग्धं चक्रमितदृष्टिपातमस्खलितम् । प्रक्षिप्य क्षिप्रतरं स्फुरणेन विवर्जितं सुपरिपुष्टम् (1) ॥ ७११ ॥ हस्तद्वयान्तरागतमुपचारय येन सत्कृत्य (8)। भुक्त्वा यावन्मांसं त्यक्ष्यति चर्मास्थिशेषितं मत्स्यम् ॥ ७१२ ॥ शृणु सुश्रोणि यथास्मिन्कमलेश्वरपादमूलमञ्जर्या । प्रवराचार्यदुहित्रा राजसुतश्चर्वितश्च मुक्तश्च ॥ ७१३ ॥ "आसीच्छ्रीसिंहपटो नामा नृपतिर्महीयसां श्रेष्ठः । तस्यात्मजोऽधितस्थौ निवेशनं देवराजसंबद्धम् ॥ ७१४ ॥ स कदाचिद्वृषभध्वजदिदृक्षया परिमिताप्तपरिवारः । अनुवर्तमान आगात्तारुण्योदीर्णवेशचरितानि ॥ ७१५ ॥ पूर्वत्रिभागसंस्थितबृहदम्बरचीरकेशसंयमनः । अल्पतररागसान्द्रो घनकुङ्कुमलिप्तकर्णकेशायः ॥ ७१६ ॥ सिद्धार्थबीजदन्तुरललाटतिलकोपयुक्तताम्बूलः । श्रवणनिवेशितकुण्डलटिट्टिभकपायकंधराभरणः ॥ ७१७ ॥ केयूरस्थानगतसुवर्णभृतमन्त्रगर्भजतुगुडकः । मणिबन्धनविन्यस्तपंचलाङ्कुरजातरूपमणिमालः ॥ ७१८ ॥ धृतवेत्रदण्डकूर्चकपरिवेष्टितसासिधेनुखड्गश्च । मृदुतरपटिकावरणः शब्दोल्बणचुचुराकचरणान्तः ॥ ७१९ ॥ गम्भारेश्वरदास्यां नमं किल तर वयस्य को वीरः (१) । प्राप्स्यति सापि दुराशा वर्षत्रितयेन यन्मया प्राप्तम् ॥ ७२० ॥ दर्शयति दिशः फलिता अमृतगभस्ति करेण वारयति । सुरतकृतिचन्द्रवमा निर्वर्णकवाक्प्रपञ्चेन ॥ ७२१ ॥ त्वामनुयान्तं संप्रति यामि कुरङ्गाक्षि वसुशेषम् । अनुरूपिका भविष्यसि विषमं गुडजिहिका तस्य ॥ ७२२ ॥ १. 'जडम्' इति पा०. २. 'संकृत्या' इति पा०. ३. 'निदेशनरदेवसंबद्धम्' इति पा०. ४. 'विषमध्वज' इति पा०. ५. 'वरणः' इति पा०. ६. 'प्रबला' इति पा०.७. 'वुq. रातचरणत्रः' इति पा.. ८. 'कोवारः' इति पां०. ९. 'तारयति' इति पा०.१०. 'वर्मा' इति पा०.
काव्यमाला। वञ्चयति जनं योऽसौ हरिनिहतो मूर्लतामिमानेन । लिखति शुभं दशवृद्धया स निमजति तरलिकावतें ॥ २३ ॥ गृह्णासि यत्पटान्ते मम पश्यत एव मन्द मदिराक्षीम् । अत आवयोरवश्यं सा वक्ष्यसि नोक्तमन्तरं भवता ॥ ७२४ ॥ योऽयं गृहीतभूमिः कुमुदाकों विधृतदेण्डकाषायः । लोकस्य सा शशाका कृतावसरो विलोकयन्पार्थे () ॥ ७२५ ॥ कुर्वाणो मौनव्रतसमुत्पादितसकलवैष्णवप्रीतिः । हरिशासनं प्रपन्नस्त्रिपुरान्तकदर्शनापदेशेन ॥ ७२६ ॥ (अन्तर्विशेषकम्) स्त्रैणं पश्यति युक्त्या साकाझं वर्जितान्यजनदृष्टिः । कुमुदिनि मम हृदयगतं भवितव्यं व्याजलिङ्गिनानेन ॥ ७२७ ॥ पश्यत्यदृश्यमानो निरीक्षितो वीक्षते परां ककुभम् । ब्रूते किंचित्सस्पृहमभियुक्तो भवति कीलितध्वानः ॥ ७२८ ॥ न जहाति समासन्नं नोत्सहते पार्श्वगोचरे स्थातुम् । एष मनुष्यो मन्ये निष्प्रतिभः साभिलाषश्च ॥ ७२९ ॥ (अन्तयुगलकम् ते नीता दिवसाः खलु क्रियते नर्म त्वया समं येषु । अधुनाचार्याणीत्वं पाशुपताचार्यसंबन्धात् ॥ ७३० ॥ भ्रमसि यथेष्टं तावत्कुर्वाणो युवतिपल्लवग्रहणम् । लोलिकदासतया च द्रविणकुलं पाशिकां विशति ॥ ७३१ ॥ एवं प्रकामवाम्यप्रसक्तविटवीटिकासमाकीर्णम् । सेवाचतुरपुरःसरविजनीकृतधर्मदेवकुलम् ॥ ७३२ ॥ उत्पादितहरपूजो निष्ठुरयाष्टीकनियमिते लोके । त्वरितनियोगिस्थापितमध्याप्रसमरतत्त्वसंपूर्णम् (2) ॥ ७३३ ॥ अग्रोपविष्टनर्तकमंशिग्राहप्रकाशयुवतिगणः । श्रेष्ठिप्रमुखवणिग्जनदौकितताम्बूलकुमुदपटवासः ॥ ७३४ ॥ 1. 'णिहतो भूर्नता' इति पा०, २. 'वक्षसि' इति पा.. ३. 'दण्डकोषो ३ इति पा०. ४. 'प्रथयन्' इति पा०. ५. 'नमक्रिया' इति पा०.६. 'यासनया' इति पा कुट्टनीमतम् । विविधविलेपनखराटित्कचक्रकघरखड्गधारिणाशून्यः (१) । पृष्ठत आत्तकृपाणैः शिरोभिरक्षश्च विश्वस्तैः ॥ ७३५ ॥ ताम्बूलकरभृता संदंशगृहीतवीटिकाग्रहणे । ईषत्पृष्ठं कुर्वन्मन्दं खटकामुखेन वामेन ॥ ७३६ ॥ पार्थावस्थितनर्मप्रियसचिवन्यस्तपूर्वतनुभागः । पृच्छंश्च कुशलवाती सवणिग्जननर्तकप्रभृतीन् ॥७३७॥(चक्कलकम्) अथ वैतालिक उच्चैरुपसंहृतलोककलकले धीरम् । अभितुष्टाव तमित्थं प्रसन्नगम्भीरया वाचा ॥ ७३८ ॥ जय देव परबलान्तक गुरुचरणाराधनैकशुभचित्त । वरवनिताजनमोहन दारित्र्यतमःप्रचण्डकरदाम ॥ ७३९ ॥ रणवीरवंशभूषण गुरुवसुधादेवपूजनप्रह । शरणागताभयप्रद हितबान्धवबन्धुजीवकामार्गस्त्वम् ॥ ७४० ॥ तादृक्प्रतापदहनः स तावको व्याप्तगगनदिक्चक्रः । दृष्टो जलावसानो रिपुवनितातिलकशोभासु ॥ ७४१ ॥ एष विशेषः स्पष्टो वहेश्च त्वत्प्रतापवहेश्च । अङ्कुरति तेन दग्धं दग्धस्यानेन नोद्भवो भूयः ॥ ७४२ ॥ श्रीफलभुक्पत्रवृतो विग्रहरसिको विमुक्तशस्त्ररतिः । राज्यस्थिति न मुञ्चति हृतलक्ष्मीकोऽपि तव विपक्षगणः ॥७४३॥ ददतो वाञ्छितमर्थ दाने रक्तस्त तव गृहं त्यक्त्वा । स्त्रीचापलेन कीर्तिनमासक्ता गता ककुभः ॥ ७४४ ॥ भवतो भवतो धैर्य तेन हि भिन्नोऽन्तको रिपुः प्रणतः । मुक्तास्त्वयेति बहवो रिपवस्तु प्रेक्षका समरे ॥ ७४५ ॥ अटता धात्रीमखिलामिदमाश्चर्य मया परं दृष्टम् । धनदोऽपि नयननन्दन परिहरसि यदुनसंपर्कम् ॥ ७४६ ॥ १. खटकामुखो हस्तविन्यासविशेषो भरतशास्त्रप्रसिद्धः. २. 'सदनुरक्त' इति सुभा- षितावलिमुद्रितपाठतु छन्दोमगदूषितः. ३. शिवादित्यर्थः.
काव्यमाला। इदमपरमद्भुततमं युवतिसहसैविलुप्यमानस्य । वृद्धिर्भवति न हानिर्यत्तव सौभाग्यकोषस्य ॥ ७४७ ॥ अपरं विस्मयजननं धवलत्वं नोपयाति यद्भवतः । ललनालोचनकुवलयदलत्विषा शबलितस्यापि (1) ॥ ७४८ ॥ हृदयेषु कामिनीनामेकोऽनेकेषु वससि येन त्वम् । जनकः कुसुमास्त्रभृतस्तेन त्वं विश्वरूपोऽसि ॥ ७४९ ॥ कि वहसि वृथा गर्व प्रियोऽहमिति योषितां नराधीश । कान्ति स्म मुरारि षोडशगोपीसहस्राणि ॥ ७५० ॥ कार्पण्येन ययाचे मखसमये यो बलिं हृषीकेशः । न स भवति समो भवता दानैकनिषण्णहृदयेन ॥ ७५१ ॥ भूमिभृतामुपरिस्थित उन्नतये सकलजीवलोकस्य । दृष्टः संतापहरो मेघवदासारदानदक्षस्त्वम् ॥ ७५२ ॥ बहुमार्गो भद्रयुतः कुसृतिपरो गोत्रभेदकरणपटुः । गङ्गाजलप्रवाहः पूज्यदिशा केवलं तव समानः ॥ ७५३ ॥ दुर्व्यवहारोत्पत्तिौग्ध्यप्रसरो विवेकिताप्रसहः । एकस्त्वं दोषज्ञः कृतीकृतो येन कलिकालः ॥ ७५४ ॥ सुगतोऽपि नाजिविमुखो वृषध्वजोऽपि न विषादितायुक्तः । उद्यतशस्त्रोऽपि रिपौ कथमसि संधासिको जातः (१) ॥ ७१५ सन्मणिरर्थकभोगो गुरुतारहः स्थिरात्मता स्थाने (!) । नरदेव चित्रमेतद्यदशेषगुणैस्त्वमाश्लिष्टः ॥ ७१६ ॥ प्रकृतिलघोर्येन कृता जघन्यवर्णस्य गौरवापत्तिः । जघनचपला यदार्या स पिङ्गलस्ते कथं तुल्यः ॥ ७१७ ॥ कस्य न जाति त्मा नात्मज्ञानं न मानसे प्रैशमः । भवसि भवसार न त्वं केन द्वयवादिना सदृशः ॥ ७१८ ॥ तत्रापि वृद्धियोगस्तस्मिन्नपि पुरुषगुणगणस्योक्तिः । परिभाषा तत्रापि व्याकरणान्नातिरिच्यते तेन ॥ ७५९ ॥ १. 'कथमपि' इति पा०. २. 'अपि चार्या' इति पा०. ३. 'प्रेम' इति पा०.
कुट्टनीमतम् । निर्व्याजस्तवनोऽपि त्यक्ताक्षेपोऽपि निरुपमानोऽपि । संज्ञापकजातिगुणैर्नाथ त्वं गामलं कुरुषे ॥ ७६० ॥ अन्यैव वर्णनैषा दूराल्लोकान्तरास्थिता कापि । वामो यथैव शत्रुषु मित्रेषु तथैव वामोऽसि ॥ ७६१ ॥ पूजयसि येन गुरुजनमभिनन्दसि येन साधुचरितानि । प्रीणयसि येन विप्रान्नृपनन्दन तेन वृषभस्त्वम् ॥ ७६२ ॥ दैन्यमिदं यच्छापा क्रियते ते रक्षसापि न समस्य । न स बलमकरोद्योषिति भवांस्तु भुङ्क्ते प्रसह्य रिपुलक्ष्मीम् ॥७६३॥ लावणिका चाटुवचस्तवनं पल्लाभहेतुरस्माकम् । उत्पातितिखरूपे यां नीतः सन्तु सो खामी (1) ॥ ७६४ ॥ श्रुत्वोत्तरमवदत्तं बन्दिनमभिनन्द्य साधुवादेन । अस्ति किमाकुलता ते यास्यसि तुष्टो मया प्रहितः ॥ ७६५ ॥ पुनरपि पठ तयुगलं गीतिकया यत्पुरा पठितम् । कक्षान्तरितेन मम स्थितस्य कुलपुत्रिकारामे ॥ ७६६ ॥ त्वयि वदति साधुवादं वागियमुन्मुद्रिता बुधसमाजे । अभिधायेति पपाठ त्रिस्थानविशुद्धनादेन ॥ ७६७ ॥ एका खण्डनकुपिता विरसान्या गेयभङ्गवैलक्ष्यात् । काचिन्निकटतरासनमप्राप्य बिभर्ति निर्वेदम् ॥ ७६८ ॥ अन्या कलहान्तरिता नवपरिणयलज्जया परा सहिता । रमणीगणमध्यगतः सरातुरः किं करोतु बहुजानिः॥७६९॥(संदानितकम्) अभ्युपपत्त्यवबोधकमस्तकलनं विधाय विकृतभूः । नृत्याचार्यमवादीदेतस्मिन्कि नु संगीतम् ॥ ७७० ॥ सोवाचतवो वणिग्जने नेतरोपनपात्राणि । गाथायनं दास्यास्ये तत्र कुतः सौष्ठवं नाव्ये (1) ॥ ७७१ ॥ १. 'रामणिका' इति पा०. २. 'नयनाल्लोभ-' इति पा०. ३. 'यानीनः सत्रु सौ- खानि' इति पा०. ४. 'स्मरातुरोऽपि' इति पा०. ५. 'वलनम्' इति पा०. ६. 'ततो ववणिजौते नेतरो' इति पा०७. 'दास्यम्' इति पा०.
९८ काव्यमाला। काचिद्वलिना क्रान्ता काचिन्न जहाति कामिनं रुचिरम् । अन्या पानकगोष्ठयां नयति दिनं प्रीतकैः सार्धम् ॥ ७७२ ॥ नोत्सृजति सततमेका पुरुषागमनाशया गृहद्वारम् । लापालः कथयति लब्धोत्कोचो रजखलामपराम् ॥ ७७३ ॥ रङ्गगतापि क्षुद्रा शृणोति यत्परिचितं गृहायातम् । उद्दिश्य चापि कार्य व्रजति ततः प्रकृतमुत्सृज्य ॥ ७७४ ॥ आतारुण्योद्भेदात्कान्ते दृष्टिर्यथा न्यस्ता । सामाजिकमध्यस्था कथमन्या समुपयाति परभागम् ॥ ७७५ ॥ चेतोन्तरा स सत्त्वं सत्त्वे सति चारुता प्रयोगस्य । न भवति सा वेश्यानामल्पापि पुरुषहृतहृदयानाम् (१) ॥ ७७६ ॥ वयमपि देवनिकेतनमनङ्गहर्षे गते त्रिदिवलोकम् । अश्रितवन्तो गत्वा तीर्थस्थानानुरोधेन ॥ ७७७ ॥ इह तु कदाचित्किंचिद्वृत्ति निरोधाभिशङ्कया निरुत्साहा । रत्नावल्यामेता विदधति करपादविक्षेपम् ॥ ७७८ ॥ वत्सेश्वरभूमिकयोर्द्वयमनुकुरुते नरेश्वर वयस्यः । वासवदत्ताद्वितयप्रयोगमेषा विडम्बयति ॥ ७७९ ॥ श्वसमादिष्वेवं शोभातिशयेन मदनुबन्धेन (?) । अनया प्रसिद्धिराप्ता सिंहलराजात्मजानुकृतौ ॥ ७८० ॥ विविधस्थानकरचनापरिक्रमं गात्रवलनलालित्यम् । काकुविभक्तार्थगिरो रसपुष्टिं वासनास्थैर्यम् ॥ ७८१ ॥ सात्त्विकभावोन्मीलनमभिनयमनुरूपवर्तनाभरणम् । मिश्रामिरे नाव्ये लयच्युति वर्णयेच्च मञ्जर्याः ॥ ७८२ ॥ एषाभिधानकीर्तनगुणितखशरीरकुसुमशररोषा । सहसोद्भिन्नमनोभवभावदशा सिन्दुवारविवरेण ॥ ७८३ ॥ १. इतः प्रभृति श्रीहर्षदेवकृतरत्नावलीनाटिकावर्णनम्, २. 'एषो' इति पा.. ३. 'उच्चसमादित्येव वशाच्छोभा-' इति पा०.
कुट्टनीमतम् । ९९ पश्यन्ती वत्सेश्वरमनुकार्याकृतिरमन्दपरितोषम् । साधुध्वनिमुखराननसामाजिकजनमनःसु विदधाति ॥७८४ ॥ (युगलकम्) वत्सपतिमालिखन्ती कामावस्थाक्रमेण भजमाना । . वेपथुपुलकखेदैरावहति विसंष्ठुलं हस्तम् ॥ ७८५ ॥ सदृशेऽप्यनुभावगणे करुणरसं विप्रलम्भतो भिन्नम् । दर्शयति निरभिकासितसौख्यं ननु गोचरापन्ना ॥ ७८६ ॥ अस्मिन्दर्शयतीत्थं मञ्जरिकां सामिलाषमवलोक्य । पस्पर्श राजपुत्रः किमु मामिति वेत्रदण्डेन ॥ ७८७ ॥ बुद्धवाथ तस्य भावं संशमयन्युवतिसंकथाकेलिम् । न्यकुर्वन्वारवधूः सचिवः प्रशशंस बन्धकीगमनम् ।। ७८८ ॥ दाररतिः संततये व्याधिप्रशमाय चेटिकाश्लेषः । तत्खलु सुरतं सुरतं कृच्छ्प्राप्यं यदन्यनारीषु ॥ ७८९ ॥ खव्यापारैकमतिः परवित्तार्था न काचिदप्यस्ति । पश्यन्त्यास्त्वामीदृशमद्य तु मे मानसं व्यथितम् ॥ ७९० ॥ यदि वेनि तस्य वसतिं सामर्थ्य यदि भवेत्ततोऽप्यधिकम् । तद्गत्वा दग्धविधि न शुभैः (१) संचूर्णयाम्यधुना ॥ ७९१ ॥ वपुरिदमनुपममीदृग्यदि विहितं तेन ते धात्रा । अधुनापि रमणविरहात्किमिति कृतं वन्ध्यजन्मफलम् ॥ ७९२ ॥ शैशवमस्तु जरा वा व्याधिlोन्द्रियप्रणाशो वा । आकाराज्ञारुण्यं (१) न तु कुपति कदर्थनाग्रहस्तम् ॥ ७९३ ॥ केलिः प्रदहति मंज्ञः शृङ्गारोऽस्थीनि चाटवः प्राणान् । न करोति मनस्तुष्टिं दानमभव्यस्य गृहभर्तुः ॥ ७९४ ॥ कुत आगतासि कस्मिन्वेलामियती स्थिता किमर्थमिति । पृच्छन्नखस्थमना जनयति रोगी शिरःशूलम् ॥ ७९५ ॥ १. 'परिपोषम्' इति; 'परिमोषम्' इति च पा०. २. 'सत्त्वम्' इति पा०. ३. कि- मसाविति' इति पा०. ४. 'प्रसारयन्' इति पा०. ५. 'वश्वळागमनम्' इति पा०. ५. 'कण्डूप्रशमाय' इति लोकप्रसिद्धः पाठः. ७. 'ते हि ते' इति पा०. ८. 'लज्जाम्' इति पा०. ९. 'कटवः' इति पा०.१०. 'गेही' इति पा..
१०० काव्यमाला। यदि भवति दैवयोगाच्चक्षुर्विषयः समुज्ज्वलस्तरुणः । तत्रात्मानं क्रशयति जायां च रटन्गृहस्वामी ॥ ७९ ॥ सविवादे परलोके जनापवादे च जगति बहुवादे । दैवाधीने प्रणये न विदग्धा हारयन्ति तारुण्यम् ॥ ७९७ ॥ दुर्मर्तृकरास्फालनमलिनीक्रियमाणशोभमनुदिवसम् । तुङ्गमपि पतितकल्पं स्तनशालिनि तत्पयोधरद्वन्द्वम् ॥ ७९८ ॥ पर्यकः खास्तरणः पतिरनुकूलो मनोहरं सदनम् । तुलयति नहि लक्षाशं त्वरितक्षणचौर्यसुरतस्य ॥ ७९९ ॥ सहसा संकटवर्त्मन्यवितर्कितसंमुखागतेनापि । अभिलषितेनोद्धृष्टकमनन्यशुभकर्मणा लभ्यम् ॥ ८०० ॥ प्रीतिः किल निरतिशया नेदैः (१) परलोकचिन्तकैर्गदिता । तस्यास्तु जन्मलाभो हृदयेप्सितपुरुषसंयोगात् ॥ ८०१ ॥ अतटस्थस्वादुफलग्रहणव्यवसायनिश्चयो येषाम् । ते शोकक्लेशरुजां केवलमुपयान्ति पात्रतां मन्दाः ॥ ८०२ ॥ किं प्रतिकूला ग्रहगतिरुत परिणतमात्मदुश्चरितम् । स्वानुष्ठानव्यसनं किं वा तस्यात्मयोनिहतकस्य ॥ ८०३ ॥ येन वरस्त्रीए युवा स्तौति शरीरं त्वदङ्गसंस्पृष्टम् । त्वत्पादाक्रान्तभुवे स्पृहयति ककुभं त्वदीप्सितां नमति ॥ ८०४॥ ध्यायति युष्मद्रूपं त्वन्नामकमन्त्रमालिकां जपति । एकात्मीकृतचेतास्त्वदङ्गतः सौख्यसिद्धिमभिकाहुन् ॥ ८०५ ॥ (अन्तर्युगलकम्) उत्सृज्य सकलकार्य तिर्यग्ग्रीवं विलोकयन्भवति । कुरुते गृहापरथ्यां यातायातैः शतावर्ताम् ॥ ८०१ ॥ १. 'संकाशं' इति पा०. २. उदृष्टकमालिजनविशेषो वात्स्यायनादिकामशास्त्रप्रसिद्धः. ३. 'नीतिः' इति पा०. ४. 'दुः' इति पा०. ५. 'गदितः' इति पा०. ६. 'प्रपातस्त्वतटो भृगुः' इसमरः. ७. 'स युवा' इति पा०. ८. 'उत्सृष्ट' इति पा०. ९. 'भवति' इति पा..
कुट्टनीमतम् । १०१ दृष्टोऽसि तया सुचिरं गेहाभ्याशे परिश्रमन्स्पृहया । संदेश एष दत्तः प्राभूतमेतत्तया दत्तम् ॥ ८०७॥ शुष्यति सालभमाना भवत्कृते वेश्मनिर्गमावसरम् । इति चतुरशठस्त्रीभिर्विलुप्यते त्वदपदेशेन ॥ ८०८॥ (अन्तर्युगलकम्) किंवा कथितैरधिकैरस्थानाविष्टचेतसस्तस्याः । अनुतिष्ठ यथायुक्तं शोभा शठ जीवरक्षा च ॥ ८०९ ॥ (दूतीवचनं महाकुलकम्) कुलपतनं जनगही नरकगति प्राणितव्यसंदेहम् । अङ्गीकरोति तत्क्षणमबला परपुरुषममियान्ती ॥ ८१० ॥ स तु लिखति दासपत्रं त्यजति कुटुम्बं ददाति सवै च । यावन्न भवति पुरतः परयुवतिः प्रोज्झितावैरणा ॥ ८११ ॥ दृष्टं यद्रष्टव्यं व्यपयातं कौतुकं विदितमन्तः । इति याति मनसि कृत्वा विहितविधेयस्ततस्तूर्णम् ॥ ८१२ ।। सापि च्छिन्नाच्छोटनगृहीतमुक्ता विलोकयन्त्याशाः । विशति गृहं संत्रस्ता सर्वत आशक्तिा सवैलक्ष्यम् ॥ ८१३ ॥ नवचारित्रमंशा सुरचितकुलटोदितेषु नो निपुणा । पृष्टा क गतासि त्वं न कचिदिति संभ्रमाते ॥ ८१४ ॥ मितदोषे बहुरोषाः पुरुषा आपे चपलकौतुकायाः। त्वं च ग्रहेण लमा कार्यविमूढात्र तिष्ठामि ॥ ८१५ ॥ इति दोलायितहृदया स्थिरीकृता न्यस्तकर्मणा दूत्या । दृष्टाभिशकमाना पदे पदे चलति पर्णेऽपि ॥ ८१६ ॥ अनुदिक्षु विक्षिपन्ती पदे पदे चकिततरलिते नेत्रे । प्राप्ता संकेतभुवं शतगुणितमनोरथाकृष्टा ॥ ८१७ ॥ भयशृङ्गारव्रीडामिश्रीभूतानुभावसंदेहम् । जनयन्ती लोलांशुकधृतकृतिकृष्टा सकुचनाभिः ॥ ८१८ ॥ १. 'त्वया' इति पा०. २. 'तस्य' इति पा०. ३. 'त्वनोना शश्वत्' इति पा०. ४. 'सर्वखम्' इति पा०. ५. 'चरणा' इति पा०. ६. 'जनयंलोलांशुक-' इति पा०.
१०२ काव्यमाला। नीवीश्लथनारम्भे निरुन्धती तं न यामि यामीति । निहितास्फुटाभिधानैः पल्लवयन्ती स्मरस्य कर्तव्यम् ॥ ८१९ ॥ नयतीवालेविनयं (1) असमाने वार्धसर्वगात्राणि । संश्लिष्यतेऽन्ययोषा तिक्तं तस्यामृतं पुरतः ॥ २० ॥ (नायिकावचनमहाकुलकम्) न कृतं तव रहसि पुरो वा तो वा विवृतकैम्पया वाचा (४) । गेहखामितिरस्कृतिनिष्पादितदुःखवेगनिर्वहणम् ॥ ८२१ ॥ उपधानीकृत्य भुजावन्योन्यं निर्विशङ्कमावाभ्याम् । संवैरितोरु न सुप्तं शिथिलाङ्गं रतिविमर्दखिन्नाभ्याम् ॥ ८२२ ॥ आत्मगृहादानीतं प्रच्छाद्य खादुभोजनं विजने । खकरेण मया दत्तं निर्वृतहृदयेन नाशितं भवता ॥ २३ ॥ न कृता चरित्ररक्षा न च भुक्तं मच्छरीरपर्यन्तम् । दृष्टादृष्टभ्रष्टा क यामि किं वा करोमि दुर्जाता ॥ ८२४ ॥ अवगुण्ठननयविरति (८) खैरालापं च मन्दसंचारम् । संप्रति मम पापायाः करपिहितमुखा हसन्ति तत्त्वज्ञाः ॥ ८२५॥ यासामासीत्सख्यं मया समं समवयःकुलस्त्रीणाम् । ता वारयन्ति मत्तः कुसंगतिं तन्नियन्तारः ॥ ८२६ ॥ धिग्वादान्परिजनतः सहमाना मुहुरथाप्यधोवदना । तिष्ठामि निरभिमाना निजनिर्मितदोषदौर्बल्यात् ॥ ८२७ ॥ सद्भिर्विधीयमानं प्रसङ्गपतितं पतिव्रतास्तवनम् । हृदयेन दूयमाना मूढा सीदामि शृण्वन्ती ॥ ८२८ ॥ आसन्न उपविशन्तीं मां दाक्षिण्यान्नियन्तुमसमर्थाः । अन्योन्यमीक्षमाणा ज्ञातिजनाः संकुचन्ति भुञ्जानाः ॥ ८२९ ॥ प्रकटीकृतास्त्वयैवं क्षणमात्रमुमुञ्चता गृहोपान्तम् । अस्मान्सुदृशां मध्ये प्रेमनिग्धाननुद्धरता ॥ ८३० ॥ १. 'निहता' इति पा०. २. 'कण्ठया' इति पा०. ३. 'संछादितोक' इति पा०. ४. न अशितं न भुक्तमित्यर्थः.
१०३ कुट्टनीमतम् । परगृहविनाशपिशुनाः सुभगंमन्यामिरूपकृतदर्पाः । कृकलासतुल्यभागा भवन्ति युष्मद्विधा एव ॥ ८३१ ॥ अनभीष्टव्यवहारप्रभवरुषा पीडिताक्षरा इत्थम् । सोपालम्भा वचनं (2) धन्याः शृण्वन्ति बन्धकीवाचः ॥८३२॥ (कुलकम्) परतरुणीसंभारस्नेहार्पितनयनभागदृष्टस्य । वेश्यारचितविलासाः कथिताः पुरतः पुराणतृणकल्पाः ॥ ८३३ ॥ उपनयति रतिमहोत्सवमाराधितदेवताविशेषाणाम् । वचनमपि प्रेमा खैरिण्याः श्रवणमेति पुण्यवताम् ॥ ८३४ ॥ का गणना विषयवशे पुंसि वराके वराङ्गनास्पृहया । व्याजेन वीक्षमाणा ध्यानधियां स्पृशति सज्ज्ञानम् ॥ ८३५ ॥ शिरसा रचिताञ्जलयो दधति निदेशं त्रिविष्टपे गणिकाः । परदाररसाकृष्टस्तथापि भेजे शचीपतिरहल्याम् ॥ ८३६ ॥ अप्सरसः किं न वशा वैदग्ध्यवतां च किं न धौरेयः । येन चकारासक्ति गोविन्दो गोपदारेषु ॥ ८३७ ॥ त्रैलोक्यगता वेश्याः स्वाधीना यातुधानस्य । तदपि जहार कलत्रं दशरथतनयस्य रामभद्रस्य ॥ ८३८ ॥ अथ मञ्जर्या जननी निजपक्षसमर्थने कृतोत्साहा । आक्षेप्तुमाचचक्षे नृपसुतसचिवाश्रितां वाचम् ॥ ८३९ ॥ घटयुवतिषु प्रगल्भः सागरिकादशनहृतपुंस्त्वः । ग्रामोषितोऽविदग्धो निन्दति गणिकां भवद्विधोऽवश्यम् ॥८४ ०॥ नार्दयति मनः पुंसामवगाहितमीनकेतुना स्त्रीणाम् । नखदशनक्षतहीनं जीवत्पतिबन्धकीसुरतम् ॥ ८४१ ॥ स्थापय घटकं तावत्कुरु भूमितले तृणैः समास्तरणम् । सुरतोपक्रम ईदृग्ग्रामीणकतरुणमिथुनानाम् ॥ ८४२ ॥ बहलोशीरविलुप्तस्थितजूटककरुणमल्लिकामाल्यः । पामरनार्या दृष्टः स्मरोऽहमिति मन्यते विटग्राम्यः ॥ ८४३ ॥ १. 'रामदेवस्य' इति पा..
काव्यमाला। गृहकर्मकृतायासां प्रखिन्नां सलिलकार्यनिर्याताम् । उपपतिरुपैति हर्षानिशागमे पामरी प्राप्य ॥ ८४४ ॥ कूपक्षिप्तघटाया नार्यास्तत्काष्ठनिहितचरणायाः । वलितग्रीवं वीक्षितमुन्नमति ग्रामवासिनो यूनः ॥ ८४५ ॥ लग्नोऽसि यत्र गाने कथमपि दैवेन देवयात्रायाम् । अद्यापि तन्न मुञ्चति पुलकोद्गमकण्टकं तस्याः ॥ ८४६ ॥ उच्चैतुं कार्पासं प्रविष्टया शून्यवाटिकागहनम् । टंकारितेन संज्ञा कृता तया त्वं च वेत्सि नो मूर्खः ॥ ८४७ ।। आलिङ्गितमुसलायास्त्वय्येव निविष्टचेतसस्तस्याः । आवृत्त्या प्रमति पुरो जातः खलु शालिकण्डने विघ्नः ॥ ८४८ ॥ त्वां लोष्टमाक्षिपन्तं पार्श्वस्थैः स्तूयमानसामर्थ्यम् । गृहकर्तव्यं त्यक्त्वा पश्यति सा द्वाररन्ध्रेण ॥ ८४९ ॥ त्वयि मार्गनिकटवर्तिन्यविचेतितखेदया तया सुभग । प्रत्यासन्नगृहेष्वपि कृतः प्रसह्य मरातुरो लोकः ॥ ८५०॥ इति चतुरदूतिकोदित उपचितसौभाग्यगर्वपूर्णस्य । ऊर्मिसहस्रोल्लसितं भवति मनो ग्राम्यखिजस्य ॥ ८५१ ॥ विनिर्वाय तत्प्रवर्तितवाच्यविकासं नतोत्तमाङ्गेन । श्रीसिंहभटस्य सुतः समुवाच वचोऽथ नर्तकाचार्यम् ॥ ८५२ ॥ नायकभूमौ भवतः कुशीलवाः कोहलादयो मुनयः । अप्सरसः स्त्रीलास्ये गान्धर्वे कमलजन्मनस्तनयः ॥ ८५३॥ सुषिरखरप्रयोगे प्रतिपादनपण्डितो मतङ्गमुनिः। यदि रञ्जयति भवतो भूमि स्पृशतां कुतः शक्तिः ॥ ८५४ ॥ अभ्यधिकं धृष्टत्वं प्रायेण हि शिल्पजीविनों भवति । आश्रितनर्तकवृत्तेविशेषतो विजितरङ्गस्य ॥ १५ ॥ विज्ञापयाम्यतस्त्वां नरेन्द्रनाट्यप्रजासदृशम् । अवलोकयाइमेकं मा भवतु मम श्रमो वन्ध्यः ॥ ८५६ ॥ १. 'खण्डने' इति पा०. २. 'स्पृशतः' इति पा०. ३. 'जीविताम्' इति पा०.
कुट्टनीमतम् । १०५ इति कथयन्नरमतुः पुत्रेण स चोदितो भुवोन्नतया । रचिते सकलातोघे नियोजयामास स प्रकृतम् ॥ ८५७ ॥ वांशिकदत्तकस्थानकतद्भावितभिन्नपञ्चमे सम्यक् । प्रावेशिक्यवसाने द्विपदीग्रहणान्तरे विशति सूत्रीम् ॥ ८५८ ॥ उत्साहभावयुक्तः सामाजिकहृदयरञ्जनं कुर्वन् । कविनैपुणवत्सेश्वरचरितस्य विधेयदाक्ष्यसामग्र्या ॥ ८५९ ॥ अष्टकलापरिमाणां ध्रुवां च परिकल्प्य तानलययुक्ताम् । आहूय नटीं कृत्वा तया समं खगृहकार्यसंलापम् ॥ ८६० ॥ सूचितपात्रागमनः किंचिद्गत्वा पदानि निपुणानि । निश्चक्राम गृहिण्या साध निःसरणगीतेन ॥ ८६१ ॥ आश्रित्य पदोद्धा प्रविवेश ततः सविस्मयोऽमात्यः । दुर्घटघटनेन क्षितिनाथस्योदयं नमुद्दिश्य (8) ॥ ८६२ ॥ प्रासादमारुहन्तं कुसुमायुधपर्वचर्चरीं द्रष्टुम् । निर्दिश्य वत्सराजं समनन्तरकार्यसिद्धये निरगात् ॥ ८६३ ॥ विस्मयति स्म नरेन्द्रः प्रासादगतः समं वयस्येन । अवलोकयन्प्रगाढं समुदितचेताः खसैन्यसंपत्त्या ॥ ८६४ ॥ विस्मयभावाकृष्टः प्रोत्फुल्लविलोचने ततो विसृजन् । नृत्यति पौरजनौधे प्रोवाच वयस्य पश्येति ॥ ८६५ ॥ तुल्यशिशुतरुणवृद्धं समगुप्तागुप्तयुवतिसविचेष्टम् । अगणितवाच्यावाच्यं क्रीडन्ति जनाः प्रवृद्धहर्षेण ॥ ८११॥ पिष्टातकपिञ्जरितं रुचिरोच्छ्रितविविधकुसुमनि!हम् । गात्रायाससमुत्थितबहुनिःश्वासप्रकीर्णपटवासम् ॥ ८६७ ॥ तूर्यरवव्यामिश्रितकरतालैरनुजनं प्रनृत्यन्तम् । मुहुरुपवत्सवलनं संदर्शितदा सौष्ठवं सुचिरम् (१) ॥ १८ ॥ १. 'प्राभृतम्' इति पा०. २. इतः प्रभृति श्रीहर्षदेवकृतरत्नावलीनाटिकानुकूल- व्यवर्णनम्. ३. अमात्यो यौगन्धरायण इत्यर्थः. १.
काव्यमाला। अस्तु वसन्तः सततं खाधीनाभीष्टजनसमाक्षेषात् । इति गायन्ती रभसादालिङ्गति मदवशातरुणी ॥ ८१९ ॥ क्रीडन्त्या श्रमरहितं शृङ्गकसलिलेन ताडितस्तरुणः । सीमन्तिन्या गायति हृष्टात्मा सुभगमात्मानम् ॥ ८७०॥ ममे लज्जासेतो पर्वावसरेण कुलवधूवदनात् । अग्लानोक्तिजलौषो निर्यातः केन वार्यते प्रसरन् ॥ ८७१ ॥ तुल्यव्यापारगिरां ललनानां देवनप्रसक्तानाम् । आर्यानार्यावगमं मदनावृतिजापिका कुरुते ॥ ८७२ ॥ अथ सहचरनिर्दिष्टे मदंघरणघटितानिनयना (1)। वासवदत्ताप्रहिते नृत्यन्त्यौ प्रविशतश्चेव्यौ ॥ ८७३ ॥ दर्शितसरोजवर्तनगात्राभिनये शरेक्षिनेतव्ये (1)। निदधाने वीरदशामायुधमात्रां समाश्रित्य ॥ ८७४ ॥ चलितनयनवृत्तिः कौतुकहतमानसो नराधिपतिः (१)। निजगाद निर्भरमहो क्रीडितमनयोविलासिन्योः ॥ ८७९ ॥ करपीडनोपमर्दव्यतिकरसमकदर्यमानोऽपि । खनमण्डले स्थितोऽहं त्वं पुनराकृष्य कुत्रचित्क्षिप्तः)॥ ७९ ॥ अधुना त्वरयसि मामिति कोपादिव वाणवारमभिरामाम् । वर्णचित्रपदन्यासर्वदन्त्याहन्तिहार उच्छलितः ॥ ८७७ ॥ चूतलताधम्मिल्लखानच्युतशेखरेन्दवे श्लाघ्यम् । अधृतपतनियुहं न च समदनिकां वाणीम् ॥ ८७८ ॥ खनमारावनतस्य प्रतनोर्मध्यस्य नास्ति तेऽपेक्षा । इत्थमिव पादलमौ क्रीडन्त्या नूपुरौ रसतः ॥ ८७९ ॥ वहति स यानि तत्त्वं सपाणिकृच्छ्रेण मन्दसंचारम् । कलयति तन्नूनमयं जयति मनोजन्मनो महिमा ॥ ८८० ॥ अतीवाशुद्धमेतत्सर्वम् , पुस्खकद्वये समानं च.
कुट्टनीमतम् । १०. उदयनसमनुज्ञातो नयमन्तन वसन्तकोऽपि मुदितात्मा । दास्योन्नयामिरामं चर्च रिकान तन्मध्ये ॥ १॥ धीरोद्धतललितपरैः क्रीडित्वा ते चिराय नरनाथम् । प्रद्योतस्य सुतायाः संदेशमथोचतुः समुपगम्य ॥ ८८९ ॥ आदिशति देव देवीत्योंके सलजमन्योन्यम् । अवलोक्य मुखं नहि नहि विज्ञापयति प्रणम्य विनयेन ॥४३॥ मकरध्वजस्य पूजां त्वत्पादसरोजसंनिधौ कर्तुम् । पृथिवीमण्डलमण्डन समीहते मे मनोवृत्तिः ॥ ८८४ ॥ प्रियरतिभोगो मदनो दयितवसन्तो मदसिवसनाम् । भावेन भवान्सृष्टो लोकस्थित्या नु कुसुमशरपाणिः ॥ ८८५ ॥ इति दत्त्वा संदेशं प्रकृतिवयःकालसमुचितं भ्रान्त्वा । ते मदमदनाविष्टे बभूवतुर्जवनिकान्तरिते ॥ ८८६ ॥ अपनीततिरस्करिणी ततोऽभवन्नृपसुता समं चेव्या । अविदितरवावल्या पूजोदितवस्तुहस्तयानुगता ॥ ८८७॥ अथ बुद्धा सागरिकां प्रमादतः परिजनस्य निन्दित्वा । काञ्चनमालामवदन्नृपमहिषी जातसंक्षोभा ॥ ८ ॥ प्रेषय कन्यामेनामवरोधं त्वं गृहाण कुसुमादि । यावन्न भवति विषये वीक्षणयोभूमिनाथस्य ॥ ८४९ ॥ उपगम्य ततश्चेटी तामभ्यवदत्किमर्थमायाता । मेधाविनीं विमुच्य व्रज तमिन्मा विलम्बख ॥ ८९० ॥ विहिते देव्यादेशे मनसीदं संविधाय सा तस्थौ । विहगी सुसंगताया हस्ते दत्ता मनोभवसपर्याम् ॥ ८९१॥ १. 'कृत्वा अञ्जलिमयाविष्टे' इति पा०, २. मेधाविनी नाम काचित्सारिका रत्ना- ल्या प्रसिद्धा.
काव्यमाला। अवलोकयामि तावत्तिरोहिता सिन्दुवारविटपेन । तातान्तःपुरिकाभियथार्च्यते किं तथैतदुत नेति ॥ १९२ ॥ पिण्डीकृतमिव रागं हृच्छयमिव लब्धविग्रहोत्कर्षम् । समुपेत्य वत्सराज जगाद सा जयति देव इति ॥ ८९३ ॥ परिमुक्तमपि नवत्वं शृङ्गाररसं मदनपर्वणा नीतम् । भजमानो भजमानां खागतवचसाभिनन्ध तामूचे ॥ ८९४ ।। भर्गविलोचनपावकदाहात्यधिकां मनोभवो मन्ये । प्राप्स्यति तव करसंगमसुखविरहसमुत्थितां पीडाम् ॥ ८९५ ।। सा मन्मथमभ्यर्च्य क्षितिनाथं तदनु साधिकं तस्याम् । परमां मुदं वहन्त्यां विग्रहवन्मनसि कन्यायाम् ॥ ८९६ ॥ शृङ्गाररससमुद्रं सोत्कलिकं निपतिते तथा नृपतौ । तारमधुरस्फुटाथै नग्नाचार्यः पपाठ नेपथ्ये ॥ ८९७ ॥ नयनानन्दमखण्डितमण्डलमभिरामममृतरश्मिमिव । सायंतन आस्थाने क्षितिपतयः सन्त्युदयनं द्रष्टुम् ।। ८९८ ॥ उच्चारितेऽन्यनानि त्रिदशपतौ तत्क्षणाच्युतपदायाम् । उत्पन्नविस्मयपरा मानं दधे नरभर्तुरात्मजा हृदये ॥ ८९९ ।। अयमुदयनः स राजा तातः सत्कृत्य मां ददौ यस्मिन् । हन्त परप्रेषणमपि न निष्फलं सांप्रतं जातम् ॥ ९०० ॥ यावन्न वेत्ति कश्चित्तावदितस्त्वरितमेव निर्यामि । इति कथमपि नायकतो हृत्वा दृशमुत्ससर्ज रङ्गभुवम् ॥९०१ ॥ कंदर्पमहमहोत्सवहृतहृदयैर्नावधारितोऽस्माभिः । संध्यातिक्रमकालः पश्य त्वं प्रियवयस्यक तथा हि ॥९०२॥ उदयनगान्तरितमियं प्राची सूचयति दिङ् निशानाथम् । परिपाण्डुना मुखेन प्रियमिव हृदयस्थितं रमणी ॥ ९०३ ॥ १. 'आखण्डलम्' इति पा०. २. 'परतिमि' इति पा०. ३. 'अथ उदयनः' इति पा.. ४. रत्नावलीस्थितैवेयमार्या गृहीता.
कुट्टनीमतम् । देवि त्वन्मुखपद्मं पद्मान्विदधाति पश्य विच्छायान् । अलयोऽपि लज्जिता इव शनैः शनैस्तदुदरेषु लीयन्ते ॥ ९०४ ॥ एवमभिधाय चित्रैश्चरणन्यासैः परिक्रमं कृत्वा । निष्कामपादुकया विनिर्ययौ नायकोऽपि सह सर्वैः ॥ ९०५ ॥ अ जातसमाप्तौ गीतातोद्यध्वनौ च विश्रान्ते । प्रेक्षणकगुणग्रहणं नृपसूनुः प्रववृते कर्तुम् ॥ ९०६ ॥ नाट्यप्रयोगतत्त्वे मतयो न विशन्ति माहशां प्रायः । वाहनयानपदातिप्रामादिककार्यदत्तहृदयानाम् ॥ ९०७ ॥ आस्ते ह्यालिखितोऽयं गृहाण सर्व प्रदेशबहुभूमिम् । वासय तत्रावासं भवसि ततन्नकुरो(?) दिवसैः ॥९०८ ॥ कृतजीवनसंस्थो हि त्वमपि किमर्थं करोषि विज्ञप्तिम् । अर्पय वा यदि नेच्छसि कुरु स्थिति हस्तदानेन ॥९०९ ॥ न च पत्तयो न सप्तिर्न च पोष्यजनस्तथाप्यसंतुष्टः । लभमानेऽपि स दायं चिरंतनत्वाभिमानेन ॥ ९१० ॥ विज्ञप्तिकोन्मुखत्वं दूरत एवावधारितं भवतः । तूष्णीं क्रियतामस्माच्छ्रोष्यसि कार्य प्रतीहारात् ॥ ९११ ॥ यूयं कुटुम्बमध्ये व गम्यते गोत्रपुत्रसामान्याः । आदाय संविभागं गृह एव स्थीयतां यथा सौख्यम् ॥ ९१२ ॥ अभ्यन्तरव्ययार्थेन विलम्बो यो महांस्तुङ्गः (१) । अत्रापि न न वचो मे नो जाने किं करोमीति ॥ ९१३ ॥ प्रथमं चरमविकल्पितमन्मपि कलजीवनप्रदेशस्थम् । अद्यापि ते न यातं नियोगितानां मदन्तरताम् ॥ ९१४ ।। एवं प्रायैरनुदिनलाभोदयमोहकारिभिर्वचनैः । फलशून्यैरनुजीवी प्रतारितः कः कियत्कालम् ॥ ९१५ ॥ १. 'पिदधाति' इति पा०. २. अत्रैव रत्नावलीप्रथमाकसमाप्तिः. ३. 'भवति न स्य कुरो' इति पा०. ४. इतः प्रभृत्यशुद्धमस्ति पुस्तकद्वयेऽपि. .
काव्यमाला। एतद्विषम नैपुणमत्र तु भूमीभृतां समाश्रित्य । मुखरतया कथयामो जडमिव सामाजिकोचितं किंचित् ॥९१६ ॥ समाश्रयः स महात्मा सशरीरस्त्रिः प्रमाणपरिमाणे । यत्नाद्विलोक्य धृष्टो व्यस्तसमस्तैत्रिभिर्विनिष्पाद्यः ॥९१७ ॥ खर्गसाराधिक्यक्रियदुपरञ्जकरञ्जितो विविधवृत्तिः । आदाय त्वममत्यैर्भावः संपादितः प्रयोगोऽयम् ॥ ९१८ ॥ गम्भीरमधुरशब्दं परिबृंहितगीतविविधमङ्गयुतम् । दर्शयते वैचित्र्यं तद्रथवाहकस्तलकालः ॥ ९१९ ॥ अविभक्ततद्यानम्य काकुपरस्यास्फुटापदम् । अभिरामाविश्रान्तं पठितं निरवद्यभाषासु ॥ ९२० ॥ नियमितदीपनगमनं द्रुतमध्यविलम्बि तानलययुक्तम् । तमवखगेययनं तत्साम्यं सादिभिर्विहितम् ॥ ९२१ ॥ प्रकृतिविशेषावस्थाप्रतिपादकवेषरचनसामग्र्या । अभिनयकरणे नीता सिद्धिद्वयसंपदाचारम् ॥ ९२२ ॥ नवसुरतैरुपदिष्टं क्षितिपतिजनुषावबोधकाराणाम् । ता अपि नाट्ये सर्वाः शोभासंदोहसादृशं नापुः ॥ ९२३ ॥ आश्लिष्टसंधिबन्धं सत्पात्रसुवर्णयोजितं सुतराम् । निपुणपरीक्षकदृष्टं राजति रत्नावलीरत्नम् ॥ ९२४ ॥ एवंविधगुणकथनं यसदादिविभावितार्था तं पतये । पठति मार्यामन्यः स्मृतिविषयमुपागतां प्रसङ्गेन ॥ ९२५ ॥ संग्रामादनपसृतिः प्रेक्षाभिज्ञा सुभावनाभिरतिः । आच्छोटनाभियोगः कुलविद्या राजपुत्राणाम् ॥ ९२६ ॥. एतद्वस्तुनि जाते स्तुतिभाजां नृपतिनन्दनो रमसात् । आरभ्य कथाच्छेदकमाखेट वो.... ॥९२७॥ १. एतावानेव प्रन्यः प्राप्तः शृङ्गारतिलकम् । श्रीरुद्रभट्टकृतं शृङ्गारतिलकम् । प्रथमः परिच्छेदः। शृङ्गारी गिरिजानने सकरुणो रत्यां प्रवीरः स्मरे बीभत्सोऽस्थिभिरुत्फणी च भयकृन्मूाद्भुतस्तुझ्या । रौद्रो देशविमर्दने च इसकृनमः प्रशान्तश्चिरा- दित्यं सर्वरसाश्रयः पशुपतिर्भूयात्सतां भूतये ॥१॥ आख्यातनामरचनाचतुरस्रसंधि सद्वागलंकृतिगुणं सरसं सुवृत्तम् । आसेदुषामपि दिवं कविपुंगवानां तिष्ठत्यखण्डमिह काव्यमयं शरीरम् ॥२॥ काव्ये शुभेऽपि रचिते खलु नो खलेभ्यः कश्चिद्गुणो भवति यद्यपि संपतीह । १. अयं रुद्रभट्टः पञ्चतन्त्रसंग्रहकर्तुविष्णुशर्मणः प्राचीनः, यतः, अत्रत्यप्रथमपरिच्छे- दस्थः 'सार्धं मनोरथशतैस्तव धूर्त कान्ता' इत्यादिश्लोकः पञ्चतन्त्रस्य लब्धप्रणाशनाम्नि चतुर्थे तन्त्रे वर्तते. विष्णुशापि खिस्तसंवत्सरीयाष्टमशतकमध्यमागतो न प्राचीन:. यतः, कुट्टनीमतग्रन्थस्य 'पर्यः खास्तरणः' इत्याद्यार्या पञ्चतन्त्रस्य प्रथमे तन्त्रे दृश्यते. महारतिलककर्ता रुद्रट इति तु बहूना भ्रमः. केषुचित्पुस्तकेष्वपि तथैव लिखितमस्ति. किं तु ग्रन्थसमाप्तौ 'त्रिपुरवधादेव गतामुल्लासमुमा समस्तदेवनताम् । शारतिलकवि- धिना पुनरपि रुद्रः प्रसाधयति ॥' इत्येतस्यामार्यायां शृङ्गारातलककर्ता रुद्रः, न तु रुद्रटः, इति स्फुटमेव. केषुचित्पुस्तकेष्वियमार्या न वर्तते. अस्मल्लब्धेष्यतिप्राचीनपुस्तकेष्व- स्त्येव. शृङ्गारतिलकटीकाकर्ता गोपालभोऽपि टीकाप्रारम्भे 'आशीरूपं माल निव- भाति रुद्रकविः-शृङ्गारीति ।' इति वदति. तस्माद् एव शृङ्गारतिलककर्तेति ज्ञेयम्. 'त्रिपुरवधादेव गताम्' इत्याचार्यया 'त्रिपुरवध'नामकः कोऽपि ग्रन्थो रुद्रभट्टेन कृत इत्यपि सूच्यते. शाधरपद्धति-सूक्तिमुक्तावलि-साहित्यदर्पणादिष्वपि शृङ्गारतिलकश्लोका लभ्यन्ते. गोपालभाता रसतरङ्गिण्याख्या कारतिलकस्य व्याख्यापि वर्तते. सा चास्माभिः संपूर्णा न लब्धा. २. 'दक्षविमर्दनेन'. ३. 'सर्वरसात्मकः'. ४. 'सुरसम्'. ५. 'संप्रति यद्यपीह'.
काव्यमाला। कुर्यां तथापि मुजनार्थमिदं यतः किं यूकाभयेन परिधानविमोक्षणं स्यात् ॥३ सानन्दप्रमदाकटाक्षविशिखैर्येषां न भित्रं मनो यैः संसारसमुद्रपातविधुरेष्वन्येषु पोतायितम् । पैनिःसीमसरस्वतीविलसितं द्वित्रैः पदैः संहृतं तेषामप्युपरि स्फुरन्ति मतयः कस्यापि पुण्यात्मनः॥४॥ प्रायो नाव्यं प्रति प्रोक्ता भरतायै रसस्थितिः। यथामति मयाप्येषा काव्यं प्रति निगद्यते ॥५॥ यामिनीवेन्दुना मुक्ता नारीव रमणं विना । लक्ष्मीरिव ऋते त्यागानो वाणी भाति नीरसा ॥ ६ ॥ सत्यं सन्ति गृहे गृहे सुकवयो येषां वचश्चातुरी खे हम्र्ये कुलकन्यकेव लभते जातैर्गुणैर्गौरवम् । दुष्मापः स तु कोऽपि कोविदपतिर्यद्वाग्रसग्राहिणां पण्यस्त्रीव कलाकलापकुशला चेतांसि हर्तु क्षमा ॥७॥ तस्माद्यत्नेन कर्तव्यं काव्यं रसनिरन्तरम् । अन्यथा शास्त्रविगोष्ठयां तत्स्यादुद्वेगदायकम् ॥ ८॥ शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः । बीभत्साद्भुतशान्ताश्च नव काव्ये रसाः स्मृताः ॥९॥ रतिसिश्च शोकश्च क्रोधोत्साहौ भयं तथा । जुगुप्साविसयशमाः स्थायिभावाः प्रकीर्तिताः॥१०॥ निर्वेदोऽथ तथा ग्लानिः शङ्कासूया मदः श्रमः । आलस्यं चैव दैन्यं च चिन्ता मोहो धृतिः स्मृतिः ॥११॥ बीडा चपलता हर्ष आवेगो जडता तथा । गर्वो विषाद औत्सुक्यं निद्रापसार एव च ॥ १२॥ 'सानन्दम्'. २. 'नाव्ये.
१ परिच्छेदः] गृङ्गारतिलकम् । मुख प्रबोधोऽमर्षश्चाप्येवहित्था तथोग्रता । मतिाधिस्तथोन्मादस्तथा मरणमेव च ॥ १३ ॥ त्रासश्चैव वितर्कश्च विझेया व्यभिचारिणः । प्रयस्त्रिंशदिमे भावाः प्रयान्ति च रसस्थितिम् ॥ १४ ॥ खम्भः खेदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः । वैवर्ण्यमश्नु प्रलय इत्यष्टौ सात्त्विकाः स्मृताः ॥ १५॥ भावा एवातिसंपन्नाः प्रयान्ति रसताममी । यथा द्रव्याणि भिन्नानि मधुरादिरसात्मता ॥ १६ ॥ संभवन्ति यथा वृक्षे पुष्पपत्रफलादयः। तद्वद्रसेऽपि रुचिरा विशेषा भावरूपिणः ॥ १७ ॥ प्रायो नैकरसं काव्यं किंचिदत्रोपलभ्यते । बाहुल्येन भवेद्यस्तु स तवृत्त्या निगद्यते ॥ १८ ॥ कैशिक्यारभटी चैव सात्वती भारती तथा। चतस्रो वृत्तयो ज्ञेया रसावस्थानसूचकाः ॥ १९ ॥ धर्मादर्थोऽर्थतः कामः कामात्सुखफलोदयः । साधीयानेष तत्सियै शृङ्गारो नायको रसः ॥ २० ॥ चेष्टा भवति पुनार्योर्या रत्युत्थातिरक्तयोः । संयोगो विप्रलम्भश्च शृङ्गारो द्विविधो मतः ॥ २१ ॥ संयुक्तयोश्च संयोगो विपलम्भो वियुक्तयोः। प्रच्छन्नश्च प्रकाशश्च पुनरेष द्विधा यथा ॥ २२ ॥ 'मदनकुञ्जरकुम्भतटोपमे तनयुगे परितः स्फुरिताङ्गुलिम् । सकरजक्षतवाममपि प्रिया दयितपाणिममन्यत दक्षिणम् ॥' १. 'खप्नावबोधौ'; 'सुप्तं विबोध'. २. 'अवहित्यम्'. ३. अस्माच्श्लोकादने केषुचि- न्मूलपुस्तकेष्वन्यच्छोकद्वयं दृश्यते-'विभावेनाहितो योऽर्थस्त्वनुभावैश्च गम्यते। वा. गासत्वामिनयैः स भाव इति संज्ञितः ।। बहवोऽर्था विभाव्यन्ते वागङ्गाभिनयाश्रिताः । अनेन यस्मात्तदयं विभाव इति संज्ञितः ॥'. ४. 'कौशिकी' इति केषुचित्पुस्तकेषु पाठः प्रामादिक एव. ५. 'सूचिकाः'. ६. 'मतः'. ७. 'कुचयुगे'.
काव्यमाला। 'संतप्तः सरसंनिवेशविवशैः श्वासैर्मुहुः पश्चमो- द्वारावर्तिभिरापतद्भिरमितः सिक्तश्च नेत्राम्बुमिः । एतस्याः प्रियविप्रयोगविधुरस्त्यक्त्वाधरो रागिता संप्रत्युद्धतवहिवारिविषमं मन्ये व्रतं सेवते ॥ 'कान्ते विचित्रसुरते क्रमबद्धरागे संकेतकेऽपि मृगशावदृशा रसेन । तत्कूजितं किमपि येन तदीयतल्यं नाल्पैः परीतमनुकूजितलावकौधैः ॥ 'किंचिद्वक्रितकण्ठकन्दलदलत्पीनस्तैनावर्तन- व्यायामाञ्चितकञ्चुकं मृगदृशस्तस्यास्तदालोकितम् । वाचस्ताश्च विदग्धभावचतुराः स्फारीभवन्मन्मथा हंहो मानस किं सरस्यभिमताः सिद्धचन्ति पुण्यैः क्रियाः ।। त्यागी कुलीनः कुशलो रतेषु कल्पः कलावितरुणो धनाढ्यः । भेन्यः क्षमावान्सुभगोऽभिमानी स्त्रीणामभीष्टस्त्विह नायकः स्यात् ॥ २३ ॥ तस्यानुकूलदक्षिणशठधृष्टा इत्थमत्र चत्वारः। भेदाः क्रिययोच्यन्ते तदुदाहतयश्च रमणीयाः ॥ २४ ॥ अतिरक्ततया नार्या सदा त्यक्तपराङ्गनः। सीतायां रामवत्सोऽयमनुकूलः स्मृतो यथा ॥ २५ ॥ 'अस्साकं सखि वाससी न रुचिरे अवेयकं नोज्ज्वलं नो वक्रा गतिरुद्धतं न हसितं नैवास्ति कश्चिन्मदः । १. 'अनुशब्दित-'. २. 'स्तनोद्वर्तन-'. ३. 'मुग्धमधुराः'; 'भावमधुराः'. ४. एतच्छोकचतुष्टयं क्रमेण संभोग-विप्रलम्भ-प्रच्छन्नसंभोग-प्रच्छन्नविप्रलम्भानामुदाह- रणम्, ५. 'भव्यः क्षमी स्थिररुचिः सुभगोऽभिमानी श्रीणां मतः शुभवचा इह नायकः स्यात् । अयं पाठः केषुचित्पुस्तकेषूपलभ्यमानोऽपि पूर्वार्धस्य भिन्नवृत्तत्वादुपेक्ष्यः. ६. 'इत्यमुत्र'. ७. 'अनुकूलतया'.
१ परिच्छेदः] शृङ्गारतिलकम् । ११५ किं त्वन्येऽपि जना वदन्ति सुभगोऽप्यस्याः प्रियो नान्यतो दृष्टिं निःक्षिपतीति विश्वमियता मन्यामहे दुःखितम् ॥ यो गौरवं भयं प्रेम सद्भावं पूर्वयोषिति । न मुश्चयन्यचित्तोऽपि ज्ञेयोऽसौ दक्षिणो यथा ॥ २६ ॥ 'सैवास्स प्रणतिस्तदेव वचनं ता एव केलिक्रिया भीतिः सैव तदेव नर्म मधुरं पूर्वानुरागोचितम् । कान्तस्याप्रियकारिणी चे भवती तं वक्ति दोषाविलं किं स्यादित्थमहर्निशं सखि मनो दोलायते चिन्तया ॥' प्रियं वक्ति पुरोऽन्यत्र विप्रियं कुरुते भृशम् । हातापराधचेष्टश्च कुटिलोऽसौ शठो यथा ॥ २७ ॥ 'सहजतरले आवां तावद्वहुश्रुतिशालिनी पुनरिह युवां सत्यं शिष्टं तदत्र कृतागसि । प्रणयिनि पुनर्युक्तं रन्तुं न वेति बतावयो- ध्रुवमुपगते कौँ प्रष्टुं कुरङ्गशो दृशौ ।' अपि च । 'कोपात्किचिवुपानतोऽपि रभसादाकृष्य केशेष्वलं नीत्वा मोहनमन्दिरं दयितया हारेण बद्धा दृढम् । भूयो यास्यसि तगृहानिति मुहुः कण्ठापरुद्धाक्षरं जल्पन्त्या श्रवणोत्पलेन सुकृती कश्चिद्रहस्ताब्यते ॥' निःशङ्कः कृतदोषोऽपि विलक्षस्तजितोऽपि नो। मिथ्यावाग्दृष्टदोषोऽपि धृष्टोऽसौ कथितो यथा ॥२८॥ १. 'दुःखितम्'. २. 'इति'; 'इव'. ३. 'मुक्तापराधचेष्टस्तु शठोऽयं कथितो यथा'. ४. 'धावाम्'. ५. केषुचित्पुस्तकेषु नास्ति. ६. 'उपागतोऽपि'. ७. 'कोपात्कोमल- लोलबाहुलतिकापाशेन बद्धा दृढं नीत्वा मोहनमन्दिरं दयितया सायं सखीनां पुरः । भूयोऽप्येवमिति स्खलन्मृदुगिरा संसूच्य दुश्चेष्टितं धन्यो हन्यत एव निहुतिपरः प्रेयान्रु. दत्या हसन् ॥ इत्यस्यामरुलोकस्य च्छायाभूतोऽयं श्लोक. ८. 'तर्जितो हसन्', 'तचितोऽपि सन्'. ९. 'अयम्'.
काव्यमाला गृहात्याशु करं करेण 'जल्पन्त्याः परुषं रुषा मम बलाचुम्बत्यसावाननं बहुशः संताध्यमानोऽपि सन् । आलीनां पुरतो दधाति शिरसा पादप्रहारानतो नो जाने सखि सांप्रतं प्रणयिने कुप्यामि तस्मै कथम् ॥ अपि च। 'धिक्त्वां धूर्त गतत्रप प्रणयिनी सैव त्वयाराध्यता यस्याः पादतलाहति तव हृदि व्याख्यात्यसौ यावकः । इत्युक्तोऽपि न नाम मुञ्चति यदा पादावयं दुर्जनो मिथ्यावादविचक्षणः किमपरं कुर्यां वयस्ये तदा ॥ गूढमन्त्रः शुचिर्वाग्मी भक्तो नर्मविचक्षणः । स्थानमसचिवस्तस्य कुपितस्त्रीप्रसादकः ॥२९॥ पीठमर्दो विटश्चेति विदूषक इति त्रिधा । स भवेत्पथमस्तत्र नायिकानायकानुगः ॥३०॥ एकविद्यो विटः प्रोक्तः क्रीडापायो विदूषकः । खवपुर्वेषभाषाभिर्हास्यकारी च नैर्मवित् ॥ ३१ ॥ एषां प्रबन्धविषयो व्यवहारः प्रायशो भवेत्लचुरः। प्रसेकमुदाहृतयस्तथापि काश्चिनिगद्यन्ते ॥ ३२ ॥ 'विमुञ्चामुं मानं सफलय वचः साधु सुहृदां मुधा संतापेन ग्लपयसि किमङ्गं स्मरभुवा । प्रियं पादप्रान्तप्रणतमधुना मानय भृशं न मुग्धे प्रत्येतुं प्रभवति गतः कालहरिणः ॥' 'प्रणयिनि भृशं तस्मिन्मानं मनखिनि मा कृथाः किमपरमितो युक्तायुक्तैर्विना पमुना तव । १. पीठमर्दः. २. 'नायको नायिकानुगः'. ३. कर्मवित्'. ४. 'खकर्मविषये ५. 'प्रसादे वर्तख प्रकटय मुदं संत्यज रुषं प्रिये शुष्यन्त्यकान्यमृतमिव ते सिञ्चतु वचः निधानं सौख्यानां क्षणमभिमुखं स्थापय मुखं न मुग्धे प्रत्येतुं प्रभवति गतः कालहरिणः । अतिप्राचीनस्य कश्मीरदेशोद्भूतचन्दककवरयं श्लोकः.
परिच्छेदः] शृङ्गारतिलकम् । अयमपि भवेत्संप्रत्येव क्षयानलसंनिभः सरसबिसिनीकन्दच्छेदच्छविर्मगलान्छनः ।। 'दूरात्कन्दलितैर्हृदि प्रविततैः कण्ठे लुठद्भिहठा- द्वके संकटनासिकातरलितैर्निर्यद्भिरत्यूष्मभिः । निःश्वासैः पृथुमन्मथोत्थदवथुक्कं तवावेदितो मिथ्यालम्बितसौष्ठवेन किमतः कोपेन कान्तं प्रति । स्वकीया परकीया च सामान्यवनिता तथा। कलाकलापकुशलास्तिस्रस्तस्येह नायिकाः ॥ ३३ ॥ पौराचाररता साध्वी क्षमार्जवविभूषिता । मुग्धा मध्या प्रगल्भा च स्वकीया त्रिविधा मता ॥३४॥ मुग्धा नववधूस्तत्र नवयौवनभूषिता । नवानगरहस्यापि लज्जापायरतिर्यथा ॥ ३५॥ 'गतं कर्णाभ्यणे प्रसरति तथाप्यक्षियुगलं कुचौ कुम्भारम्भौ तदपि चिबुकोत्तम्भनरुची । नितम्बप्राग्भारो गुरुरपि गुरुत्वं मृगयते कथंचिन्नो तृप्तिस्तरुणिमनि मन्ये मृगदृशः ॥' 'यथा रोमाञ्चोऽयं स्तनभुवि लसत्स्वेदकणिको यथा दृष्टिस्तिर्यक्पतति सहसा संकुचति च । तथा शेकेऽमुष्याः प्रणयिनि दरास्वादितरसं न मध्यस्थं चेतः गुणरमणीयं न च दृढम् ॥' 'विरम नाथ विमुञ्च ममाञ्चलं शमय दीपमिम समया सखी । इति नवोढवधूवचसा युवा मुदमगादेधिकां सुरतादपि ॥ १. 'प्रथममरुणच्छायस्तावत्ततः कनकाकृतिः प्रभवति ततो ध्वान्तक्षोदक्षमः क्षण. दामुखे। तदनुविरहोत्ताम्यत्तन्वीकपोलतलद्युतिः सरसबिसिनीकन्दच्छेदच्छविमंगला- ञ्छनः ॥' अयमपि प्राचीनः श्लोकः. २. व्यक्तः. ३. एतच्छ्योकत्रयं पीठमादीनां क्रमेणोदाहरणम्. ४. 'तस्येति'. ५. 'जाने'. ६. 'सगुण'. ७. 'इयम्'. ८. समीपे. ९.'अधिकम्'.१०.लोकत्रयं क्रमेण नवयौवन-नवानगरहस्य-लज्जापायरतीनामुदाहरणम्.
काव्यमाला। सकम्पा चुम्बने वक्त्रं हरत्येषोपहिता । परावृत्य चिरं तल्प आस्ते रन्तुं च वाच्छति ॥ ३६॥ 'अपहरति यदास्यं चुम्बने शिष्यमाणा वलति च शयनीये कम्पते च प्रकामम् । वदति च यदलक्ष्यं किंचिदुक्तापि भूयो रमयति सुतरां तच्चित्तमन्तनवोढी ।। मुग्धामावर्जयत्येष मृदूपायेन सान्त्वयन् । नातिभीतिकरै निबन्ध लभीकैः ॥ ३७॥ 'सरति सरसस्तीरादेषा प्रमद्रमरावली सुमुखि विमुखी पद्मे मन्ये तवास्यपिपासा । इति निगदिते किंचिद्रीत्या विवर्तितकंधरा वदनकमले भ; बाला चिरं परिचुम्बिता ॥ अन्यां निपेवमाणेऽपि यदि कुप्यति सा प्रिये । रोदित्यस्याग्रतः स्वल्पमनुनीता च तुष्यति ॥ ३८॥ 'मैन्यौ कृते प्रथममेव विकारमन्यं नो जानती नववधू रुदती परं सा । धूर्तेन लोचनजलं परिमृज्य गाढं संचुम्ब्य चाधरदले गमिता प्रसादम् ॥' आरूढयौवना मध्या प्रादुर्भूतमनोभवा । प्रगल्भवचना किंचिद्विचिंत्रमुरता यथा ॥ ३९ ॥ १. 'सलज्जा'. २. 'अवगृहिता'. ३. अस्माच्छोकादने ‘दृष्टा दृष्टिमधो र कुरुते नालापमाभाषिता' इत्यादि नागानन्दनाटकतृतीयाङ्कस्थश्लोकः केषुचिन्मूल केषु सटीकपुस्तके च वर्तते. ४. 'चित्र'. ५. 'भीषितैः'. ६. 'इदमपास्य हि परागिणीरलिकदम्बकमम्बुरुहां ततीः । स्तनमरेण जितस्वबकानमन्नवलते । ऽभिमुखं तव ॥ इति शिशुपालवधे (119) माघः... 'प्रथमजनिते मन्यौ विकारमजानती कितवचरितेनारोप्याई विनम्रमुखैव सा । चिबुकमलकं चोनम्यों त्रिमवित्रमा नयनसलिलस्यन्दिन्योष्ठे रुदत्यपि चुम्बिता ॥ इति कस्यचिर ८. "विराजद्विभ्रमा'.
। परिच्छेदः] शृङ्गारतिलकम् । 'तरत्तारं चक्षुः क्षपयति मुनीनामपि दृशः कुचद्वन्द्वाक्रान्तं हृदयमहृदः कान कुरुते । गतिर्मन्दीभूता हरति गमनं मन्मथवता- महो तन्व्यास्तुल्यं तरुणिमनि सर्व विजयते ॥ 'दृष्टिः मिति निर्भरं प्रियतमे वैदग्ध्यभाजो गिरः कामं कुन्तलमालिकाविरचने त्यक्तान्यकर्मा करः । वक्षः संवियते पुनःपुनरिदं लीलालसं गम्यते जाता सुनु मनोरमा तव दशा कस्मादकस्मादियम् ॥ 'सुभग कुरबकस्त्वं नो किमालिङ्गनोक्तः किमु मुखमदिरेच्छुः केसरो नो हृदिस्थः । त्वयि नियतमशोके युज्यते पादघातः प्रियमिति परिहासात्पेशलं काचिदूचे ॥ 'कान्ते तथा कथमपि प्रथितं मृगाक्ष्या चातुर्यमुद्धतमनोभवया रतेषु । तत्कूजितान्यनुवदद्भिरनेकवारं शिष्यायितं गृहकपोतशतैर्यथायोः । गाढं व्याप्रियते कान्तं पिबतीव रतावियम् । विशतीव तदङ्गेषु मुह्यतीव मुखे यथा ॥ ४०॥ 'कृत्वानेकविधां रसेन सुरते केलिं कथंचिच्चिरा. साप्तान्तःसुखमीलिताक्षियुगला स्विद्यत्कपोलस्थली । सुप्तेयं किल सुन्दरीति सुभगः स्वैरं तथैवास्वज- गाढानङ्गविमर्दनिःसहवपुर्निद्रां सहैवागतः ॥' सा धीरा वक्ति वक्रोक्त्या पियं कोपात्छतागसम् । मध्या रोदित्युपालम्भैरधीरा परुषं यथा ॥ ४१ ॥ १. 'कर्माप्रह'. २. 'तत्कूजितं मृदु. ३. 'गृहशकुन्त-'. ४. एतच्छोकचतुष्टयं क- मेणारूढयौवना-प्रादुर्भूतमनोभवा-प्रगल्भवचना-विचित्रसुरतानामुदाहरणम्, ५, 'वदति'.
१२० काव्यमाला। 'उपेत्य तां दृढपरिरम्भलालसश्चिरादभूः प्रमुषितचारुचन्दनः । धृताञ्जनः सपदि तदक्षिचुम्बनादिहैव ते प्रिय विदिता कृतार्थता 'यत्रार्कायितमिन्दुना सरसिजैरङ्गारपुजायितं क्रुद्धायां मयि नाथ ते कदलिकाकाण्डैरलातायितम् । कालोऽन्यः खलु कोऽपि सोऽमृतमयो जातो विषात्माधुना धिक्त्वां धूर्त विनिर्यदश्रुरबला मोहं रुदन्ती गता ।' 'साथै मनोरथशतैस्तव धूर्त कान्ता सैव स्थिता मनसि कृत्रिमभावरम्या। अस्माकमस्ति न कथंचिदिहावकाश- स्तस्मात्कृतं चरणपातविडम्बनामिः॥ लब्धायतिः प्रगल्भा स्यात्समस्तरतिकोविदा । आक्रान्तनायिका बाढं विराजद्विभ्रमा यथा ॥ ४२ ॥ 'सेयं पङ्कजिनी मृणाललतिकामादाय यस्याः प्रियो हारं मे कुरुते पयोधरतटे प्रत्यग्रतारारुचम् । बन्धुकं च तदेतदालि विदलद्यत्तेन सीमन्तितं सर्वाशाविजिगीषुपुष्पधनुषो बाणश्रियं धास्यति ॥ 'यत्र स्वेदलवैरलं विलुलितैालुप्यते चन्दनं स्वच्छन्दैर्मणितैश्च यत्र रणितं निहूयते नूपुरम् । यत्रायान्त्यचिरेण सर्व विषयाः कामं तदेकाग्रता सख्यस्तत्सुरतं भणामि रतये शेषा तु लोकस्थितिः ॥ 'स्वामिन्मकुरयालकं सतिलकं भालं विलासिन्कुरु प्राणेश त्रुटितं पयोधरतटे हारं पुनर्योजय । इत्युक्त्वा सुरतावसानसुखिता संपूर्णचन्द्रानना स्पृष्टा तेन तथेति जातपुलका प्राप्ता पुनर्मोहनम् ॥ १. धीरा-मध्या-धीराणां क्रमेणोदाहरणत्रयम्. २. 'तदेतदेव विलसत्'. ३. च्छेदैः'. ४. 'धृतये'. ५. 'भकुरितालकम्'. ६. 'पयोधरयुगे'. ७. 'इत्यु ८. 'मुषिताप्यापूर्ण- परिच्छेदः) शृङ्गारतिलकम् । १२१ 'मधुरवचनैः सभ्रूमझैः कृताङ्गुलितर्जनै- रलसवलितैरङ्गन्यासैर्मनोभवबन्धुभिः । असकृदसकृत्स्फारस्फारैरपाङ्गविलोकितै- त्रिभुवनजये सा पञ्चेषोः करोति सहायताम् ॥ निराकुला रतावेषा द्रवतीव मियाजके । कोऽयं कास्मि रतं किं वा न वेति च रसाचया ॥४३॥ 'धन्यास्ताः सखि योषितः प्रियतमे सर्वाङ्गलमेऽपि याः प्रागल्भ्यं प्रथयन्ति मोहनविधावालम्ब्य धैर्य महत् । अस्माकं तु तदीयपाणिकमलेऽप्युन्मोचयत्यंशुकं कोऽयं का वयमत्र किं नु सुरतं नैव स्मृतिर्जायते ॥ कृतदोषेऽपि साधीरा तस्मिन्नाद्रियते रुषा। आकारसंवृतिं चापि कृत्वोदास्ते रतौ यथा ॥ ४४ ॥ 'यद्वाचः प्रचुरोपचारचतुरा यत्सादरं दूरतः प्रत्युत्थानमिदं स्वहस्तनिहितं यद्भिन्मप्यासनम् । उत्पश्यामि यदेवमेव च मुहुर्दृष्टि सखीसंमुखीं तच्छके तव पङ्कजाक्षि बलवान्कोऽप्यप्रसादो मयि ॥ 'यत्पाणिर्न निवारितो निवसनग्रन्थिं समुद्रन्थय- न्भूभेदो न कृतो मनागपि मुहुर्यत्खण्ड्यमानेऽधरे । यनिःशवमिवार्पितं वपुरहो पत्युः समालिङ्गने मानिन्या कथितोऽनुकूलविधिना तेनैव मन्युर्महान् ॥' मध्या प्रतिभिनत्येनं सोत्कण्ठं साधुभाषितैः । अधीरा पेरुपैईन्ति संतj दयितं यथा ॥ ४५ ॥ 'कृतं मिथ्यावादैविरम विदितं कामुक चिरा- मियां तामेवोचैरभिसर यदीयैर्नखपदैः । १. लब्धायत्यादीनामुदाहरणचतुष्टयम्. २. अनुकूलरतावेगाद्रपतीष तदा'. ३. 'काहम्'... 'साग्रहम'. ५. 'च रुषा'.
काव्यमाला। विलासैश्च प्राप्तं तव हृदि पदं रागबहुलै- मैया किं ते कृत्यं ध्रुवमकुटिलाचारपरया ॥' 'सा बाढं भवतेक्षितेति निबिडं संयम्य बाहोः सजा भूयो द्रक्ष्यसि तां शठेति देयितं संतj संतय॑ च । आलीनां पुर एव निहुँतिपरः कोपाद्रणनूपुरं मानिन्या चरणप्रहारविधिना प्रेयानशोकीकृतः ।। एकाकारा मता मुग्धा पुनर्भूश्च यतोऽनयोः। अतिसूक्ष्मतया भेदः कविभिनं प्रदर्शितः॥४६ ॥ मध्या पुनः प्रगल्भा च द्विषा सा परिभिद्यते । एका ज्येष्ठा केनिष्ठान्या नायकमणयं प्रति ॥४७॥ उपरोधात्तथा स्नेहात्सानुरागोऽपि नायकः । चेष्टते तां प्रति प्रायः कलासु कुशलो यथा ॥४८॥ 'त्वदक्षिणी कुवलयबुद्धिरेत्यली रुणम्यहं तदिति निमील्य लोचने । ततो भृशं पुलकितगण्डमण्डलां युवा परां निभृतमचुम्बदङ्गनाम् ॥' संपत्तौ च विपत्तौ च मरणेऽपि न मुश्चति । या स्वीया तां प्रति प्रेम जायते पुण्यकारिणः ॥ ४९ ॥ अन्यदीया द्विधा प्रोक्ता कन्योढा चेति ते प्रिये । दर्शनाच्छ्रवणाद्वापि कामाते भवतो यथा ॥ ५० ॥ 'किमपि ललितैः स्निग्धैः किंचित्किमप्यतिकुञ्चितैः किमपि 'वलितैः कंदपून्हसद्भिरिवेक्षणैः । अभिमतमुखं वीक्षां चक्रे नवाङ्गनया तथा ललितकुशलोऽप्यालीलोको यथातिविसिस्मये ।' . १. 'परुषं संभद्म', 'दयितं संभवं. २. "निडुतपरम्'. ३. 'एकाकार ४. 'द्विधासो'; द्विविधा'. ५. 'कनिष्ठा च नायक-;'कनिष्ठा स्यानायिका-..ग 'मरणे . ८. 'पुण्यकारिणाम'. ९. 'चापि'. १०. 'अनिकृवितैः'. ११. 'चति १२. 'ललन'; 'कलन'.
१. परिच्छेदः] शृङ्गारतिलकम् । 'निशमय्य बहिर्मनोहरं खरमैक्षिष्ट तथापरा यथा । तिलमात्रकमप्यभून्नहि श्रवणेन्दीवरलोचनान्तरम् ॥ 'कस्याश्चित्सुभग इति श्रुतश्चिरं यस्तं दृष्ट्वाधिगतरतेनिमीलिताक्ष्याः । निस्पन्दं वपुरवलोक्य सौविदल्लाः संतेपुर्विधुरधियो निशान्तवध्वाः ॥ 'कायजागरसंतापान्यः करोति श्रुतोऽप्यलम् । तमेव दुर्लभं कान्तं चेतः कस्माद्दिदृक्षसे ॥' साक्षाचित्रे तथा स्वप्ने तस्य स्याहर्शनं त्रिधा । देशे काले च भङ्गयां च श्रवणं चास्य तद्यथा ॥ ५१ ॥ 'सत्यं सन्ति गृहे गृहे प्रियतमा येषां भुजालिङ्गन- व्यापारोच्छलदच्छमोहनजला जायन्त एपीटशः । प्रेयान्कोऽप्यपरोऽयमत्र सुकृती दृष्टेऽपि यसिन्वेंपुः स्वेदोज्जृम्भणकम्पसाध्वसमुखैः प्रामोति कांचिद्दशाम् ॥' 'चित्रं चित्रगतोऽप्येष ममालि मदनोपमः । समुन्मूल्य बलालज्जामुत्कण्ठयति मानसम् ॥ 'मुग्धा स्वप्नसमागते प्रियतमे तत्पाणिसंस्पर्शना- द्रोमाञ्चार्चितया शरीरलतया संसूच्य कोपोत्किल । मा मां वल्लभ संस्पृशेति सहसा शून्यं वदन्ती मुहुः सख्या नो हसिता संचिन्तमसकृत्संशोचिता प्रत्युत ॥' 'स्कारस्फुरत्प्रदीपं सौधं मधु सोत्पलं कलं गीतम् । प्रियसखि सकलमिदं तव सफलं खलु यदि भवेत्सोऽत्र ॥ 'विकसति कैरवनिकरे सरति च सरसीसमीरणो सुंतनु । चुम्बत्यम्बरमिन्दौ तव तेन विना रतिः कीदृक् ।' 'अजननिरस्तु दृशोस्तेव कुचयोरभवनिरलं भवतु । यदि दृश्यते न स युवा निर्भरमालिङ्गयते नो वा ।' ... 'मनोगतं चिरम्'. १. 'तस्य'. ३. 'नियतम्'. १. 'मुहुः'. ५. 'कम्पात'. ६. 'सचित्रम्'. ७. "विफलं यदि नो भवेत्सोऽत्र'. ८. 'सुभ्र'. ९. 'ते'. १०. 'सुमुखि यदि दृश्यते न स'.
१२४ काव्यमाला। द्रष्टुं वक्तं च नो कन्या रक्ता शकोत्यमुं स्फुटम् । पश्यन्तमभिजल्पन्तं विविक्तेऽपि हिया यथा ॥ ५२ ॥ 'कामं न पश्यति दिक्षत एव भूमा नोक्तापि जल्पति विवक्षति चादरेण । लज्जास्सरव्यतिकरण मनोधिनाथे बाला रसान्तरमिदं ललितं बिभर्ति ॥ विज्ञातनायिकाचित्ता सखी वदति नायकम् । नायको वा सखी तस्याः प्रेमाभिव्यक्तये यथा ॥ ५३॥ 'कण्टकिततनुशरीरा लज्जामुकुलायमाननयनेयम् । तव कुमुदिनीव वाञ्छति नृचन्द्र बाला करस्पर्शम् ॥' 'संतापयन्ति शिशिरांशुरुचो यदेते 'संमोहयन्ति च विनिद्रसरोजवाताः । यत्खिद्यते तनुरियं च तेदेष दोषः सख्यास्तवैव सुतनु प्रचुरत्रपायाः ॥' अपश्यन्तं च सा कान्तं स्फारिताक्षी निरीक्षते । दादालोकयत्येवें सखी स्वजति निर्भरम् ॥ ५४॥ निनिमित्तं हसन्ती च सखीं वदति किंचन । सव्याज सुन्दरं किंचिद्गात्रमाविष्करोति च ॥५५॥ सख्यादि स्थापितां माला काश्यादि रचयेत्पुनः । चेष्टा च कुरुते रम्यामङ्गभङ्गः शुभैर्यथा ॥ ५६ ॥ 'अभिमुखगते तसिन्नेव प्रिये बहुशो वद- त्यवनतमुखं तूष्णीमेव स्थितं मृगनेत्रया । अथ किल वलल्लीलालोलं स एव तथेक्षितः कथमपि यथा मन्ये दृष्या कृतं श्रुतिलखनम् ॥' १. 'मां मोहयन्ति'. २. स एष'. ३. 'अपश्यन्ती तु सा कान्तं स्फुरिता 'एषा' ५. 'बाला'. ६. 'पुरतः'. ७. 'वलज्जीवं यातः'.
१ परिच्छेदः] शृङ्गारतिलकम् । १२५ 'तिर्यग्वर्तितगात्रयष्टिविषमोद्वृत्तस्तनास्फालन- त्रुट्यन्मौक्तिकमालया सपुलकखेदोल्लसद्दण्डया । दूरादेव विलोकयत्यभिमते तद्वक्त्रदत्तेक्षणं दुर्वारस्मरतापया सहचरी गाढं समालिङ्गिता ॥' 'अनिमित्तं यद्विहसति निष्कारणमेव यत्सखीं वदति । दयितं विलोक्य तदियं शंसति तदधीनमात्मानम् ॥ 'प्रादुष्यद्भुजमूलकान्तिललितामुद्यम्य दोल्लरी वलगत्पीनपयोधरस्थललैलन्मुक्तावलीसुन्दरम् । अङ्गुल्या प्रचलत्कराप्रवलयखानोपहूतस्मरं तन्व्याः कुञ्चितलोचनं विजयते तत्कर्णकण्डूयनम् ॥ सजोऽवतंसं रशनां च किंचित्मियं समालोक्य समासजन्ती। पुनस्तरां सा सुहृदो ददाति प्रत्यङ्गमावासमिव सरस्य ॥ ५७॥ 'व्याजृम्भणोल्लसितदन्तमयूखजाल- व्यालम्बिमौक्तिकगुणं रमणे मुदैव । ऊव मिलद्भुजलतावलयप्रपञ्च- सत्तोरणं हृदि विशत्यपरा व्युदास ॥ अन्योढापि करोत्येव सर्वमुद्धतमन्मथा । दुरवस्था पुनः कान्तमभियुक्ते स्वयं यथा ॥५८ ॥ 'उल्लङ्घयापि सखीवचः समुचितामुत्सृज्य लज्जामलं हित्वा भीतिभरं निरस्य च निजं सौभाग्यगर्व मनाक् । आज्ञा केवलमेव मन्मथगुरोरादाय नूनं मया त्वं निःशेषविलासिवर्गगणनाचूडामणे संश्रितः ॥ चक्षुर्मीलति सानन्दं नितम्बः प्रस्रवत्यपि । वेपते च तनुस्तंन्वी तस्यास्तदर्शने यथा ॥ ५९ ॥ 1. 'स्फालनानृत्यन्. २. 'गल्लया.' ३. 'चलन्'. ४. 'अहुल्यप्रचलत'. ५. 'सम भवकर्णस्य'. ६. 'रमणम्'. ७. 'अपराध्युवास'. 4. 'दुःखावस्था'. 'मित्त्वा'.
१२१ काव्यमाला। 'मीलन्मन्थरचक्षुषा परिपतत्काञ्चीग्रव्यग्रया गाढानगभरसंवजघनया कम्पोपरुद्धाङ्गया । सर्वाङ्गं चटुकारकोऽप्यबलया संकेतके कौतुका- दास्तां रन्तुमहो निरीक्षितुमपि प्रेयान संभावितः ॥' नाभियुके स्वयं कन्या मुग्धत्वादुःस्थितापि तम् । तदवस्था तु कान्ताय तत्सखी कथयेद्यथा ॥६॥ 'निश्वासेषु स्खलति कदलीवीजनं तापसंप- बेत्राम्भोभिश्छमिति पतितैः सिच्यते च स्तनान्तः । तस्याः किंचित्सुभग तदभूत्तानवं वद्वियोगे येनाकस्माद्वलयपदवीमङ्गुलीयं प्रयाति ॥' अनन्यशरणा स्वीया धनाहार्या पैराङ्गना । अस्यास्तु केवलं प्रेम तेनैषा रागिणां मता ॥ ६१ ॥ सामान्यवनिता वेश्या सा वित्तं परमिच्छति । निर्गुणेऽपि न विद्वेषो न रागोऽस्या गुणिन्यपि ॥६ तत्स्वरूपमिदं प्रोक्तं कैश्चिद्रुमो वयं पुनः । वर्णयन्त्यनया युक्त्या तासामप्यनुरागिताम् ॥ ६३ । काराभास एव स्यायदि ता रागवर्जिताः । तयापारोऽथवा तासां स्मरः किं भक्षितो बकैः॥६ तस्मात्तासामपि कापि रागः स्याकि तु सर्वथा । धनार्थ कृत्रिमै वैम्यं व्यामोहयन्ति ताः॥६५॥ लिङ्गी प्रच्छन्नामश्च नरंमन्यश्च षण्डकः । मुखमाप्तधनो मूर्खः पितृवित्तेन गैर्वितः ॥६६ ॥ इत्यादीन्मयम ग्राम्यासात्वाकृष्य च तद्धनम् । अपूर्वा इव मुञ्चन्ति तानेतास्तापयन्ति च ॥६७॥ १. 'श्रवद्रमणया'. २. 'स्थगिति'. ३. 'ताम्यते'. ४. 'त्वद्वियोगात्'. ५. 'वर ६. 'बलवत्यानया'. ७. 'भाराभाव'. ८. 'भाव'. ५. 'दर्पितः'. १..' प्रथम ज्ञात्वा सम्यकर्षति तदनम्-तस्मादेता विषोपमाः'.
१ परिच्छेदः] शृङ्गारतिलकम् । १२७ किं तु तासां कलाकलिकुशलानां मनोरमम् । विस्मारितापरस्त्रीकं मुरतं जायते येथा ॥ ६८ ॥ 'गाढालिङ्गनपीडितस्तनतट विद्यत्कपोलस्थलं संदष्टाधरमुक्तसीत्कृतमभिप्रान्तनु नृत्यत्करम् । चाटुपायवचो विचित्रमैणितं घातै खैश्वाङ्कितं वेश्यानां धृतिधाम पुष्पधनुषः प्रामोति धन्यो रतम् ॥ ईर्ष्या कुलस्त्रीषु न नायकस्य निःशङ्ककेलिर्न पराङ्गनासु । वेश्यासु चैतद्वितयं प्रसिद्ध सर्वस्वमेतास्तदहो स्मरस्य ॥ ६९ ॥ कुप्यत्पिनाकिनेत्रानिज्वालामस्मीकृतः पुरा । उज्जीवितः पुनः कामो मन्ये वेश्याविलोकितैः ॥ ७० ॥ आनन्दयन्ति युक्त्या ताः सेविता नन्ति चान्यथा । दुर्विज्ञेयाः प्रकृत्यैव तस्माद्वेश्या विषोपमाः ॥ ७१ ॥ खाधीनपतिकोत्का च तथा वासकसज्जिका । "संधिता विपलब्धा च खण्डिता चाभिसारिका ॥ ७२ ॥ प्रोषितप्रेयसी चैवं नायिकाः पूर्वसूचिताः । ता एवात्र भवन्त्यष्टाववस्थाभिः पुनर्यथा ॥ ७३ ॥ यस्या रतिगुणाकृष्टः पतिः पार्थ न मुञ्चति । विचित्रविभ्रमासक्ता साधीनपतिका यथा ॥ ७४ ॥ 'लिखति कुचयोः पत्रं कण्ठे नियोजयति सज तिलकमलिके कुर्वन्गण्डादुदस्यति कुन्तलान् । इति चटुशतैर्वारं वारं वपुः परितः स्पृश- विरहविधुरो नास्याः पाच विमुञ्चति वल्लभः ॥ उत्का भवति सा यस्याः संकेत नागतः मियः। तस्यानागमने हेतुं चिन्तयन्त्याँकुला यथा ॥ ७५ ॥ १. 'किंचित्'. २. 'नृणाम्'. ३. 'मणितैः'. ४. 'रुतैः'. ५. 'अभिसंधिता'; अतिसं. धिता'. ६. 'सा खाधीनपतिः'. ७. 'कुण्डलम्'. ८. 'आकुलेशणा'.
१२९ काव्यमाला 'कि रुद्रः प्रियया कयाचिदथवा सख्या योद्वेजितः किंवा कारणगौरवं किमपि यन्नाबागतो वल्लभः । इत्यालोच्य मृगीदृशा करतले संस्थाप्य वाम्बुजं दीर्घ निःश्वसितं चिरं च रुदितं क्षिप्ताश्च पुष्पसजः ॥' भवेद्वासकसज्जासो सन्जितारतालया। निश्चित्यागमनं भरेक्षणपरा यथा ॥ ७६ ॥ 'दृष्ट्या दर्पणमण्डले निजवपुर्भूषां मनोहारिणी दीपार्चिःकपिशं च मोहनगृहं त्रस्यत्कुरङ्गीदृशा । एवं नौ सुरतं भविष्यति चिरादयेति सानन्दया कामं कान्तदिदृक्षयातिललिता द्वारे हगारोपिता ॥' निरस्तो मन्युना कान्तो नममपि यया पुनः । दुःस्थिता तं विना सातिसंधिताभिमता यथा ॥ ७७ ॥ 'यत्पादप्रणतः प्रियः परुषया वाचा स निर्वारितो यत्सख्या न कृतं वचो जडतया यन्मन्युरेको धृतः । पॉपस्यास्य फलं तदेतदधुना यश्चन्दनेन्दुद्युति- प्रालेयाम्बुसमीरपडजविसर्गात्रं मुहुर्दयते ॥ प्रेष्य दूतीं स्वयं दवा संकेतं नागतः प्रियः । यस्यास्तेन विना दुःस्था विपलब्धा तु सा यथा ॥ 'यत्संकेतगृहं प्रियेण कथितं संप्रेष्य दूतीं स्वयं तच्छून्यं सुचिरं निषेव्य सुदृशा पश्चाच्च भमाशया । स्थानोपासनसूचनाय विगलत्सान्द्राञ्जनैलोचनै- भूमावक्षरमालिकेव लिखिता दीर्घ रुदत्या शनैः ।। कुतश्चिनागतो यस्या रचिने वासके प्रियः । तदनागमसंतप्ता खण्डिता सा मता यथा ॥ ७९ ॥ १. 'मम'. २. 'सज्जिताड़ा रतालये'. ३. 'ऊचे ४.'कविता'. ५. ६. 'गत्वा'. ७. 'ध्यातम्'.
परिच्छेदः] कारतिलकम् । 'सोत्कण्ठं रुदितं सकम्पमसकृयातं सवाष्पं चिरं चक्षुर्दिक्षु निवेशितं सकरुणं सख्या समं जल्पितम् । नागच्छत्युचितेऽपि वासकविधौ कान्ते समुद्विमया तत्तत्किंचिदनुष्ठितं मृगहशा नो यत्र वाचां गतिः ॥' या निर्लज्जीकृता बाढं मदने मदनेन च । अभियाति प्रियं साभिसारिकेति मता यथा ॥८॥ 'नो भीतं तडितो दृशा जैलमुचा तद्दर्शनाकाडया नो गर्जिर्गणिता भृशं श्रुतिसुखं तद्वाचि संचिन्त्य च । धारापातसमुद्भवा न च मता पीडा तदालिङ्गनं वाञ्छन्त्या दयिताभिसारणविधौ तन्व्या परं तत्परम् ॥' कुतश्चित्कारणाद्यस्याः पतिर्देशान्तरं गतः । दत्त्वावधि भृशार्ता सा पोषितप्रेयसी यथा ॥ ८१ ॥ 'उत्क्षिप्यालकमालिकां विलुलितामापाण्डुगण्डस्थला- द्विश्लिष्यद्वलयप्रपातभयतः प्रोद्यम्य किंचित्करौ । द्वारस्तम्भनिषष्णगात्रलतिका केनापि पुण्यात्मना मार्गालोकनदत्तदृष्टिरबला तत्कालमालिङ्गयते ॥' नेःश्वाससंतापसखीवचोतिचिन्ताश्रुपातादियुताः सखेदाः। च्या प्रलब्धागतकोत्कातिसंषिताः खण्डितया सहात्र ॥८२॥ विचित्रमण्डना हृष्टा भवेत्स्वाधीनभर्तृका । तथा वासकसज्जोपि सा किं त्वागन्तुकमिया ॥ ८३ ॥ कुलजान्याना वेश्या त्रिधा स्यादभिसारिका। यथैवोक्तास्तथैवान्याः खाधीनपतिकादयः ॥ ४॥ कुलजा संवृता जस्ता संबीडा च द्रुतं व्रजेत् । नायक परनारी च समन्तादनवेक्षिता ॥ ४५ ॥ १. निर्लज्जा कृता'. २. 'खयम्'. ३. 'जलमुचा'; 'जडमुचाम्'. ४. 'मता'. ५. विलिया. ६. 'वचोमिः'. ७. 'वाण्या.. ८. 'अभिसंचिताः'. १ .... 'सबीड तहम्'. ११. 'सदान्यैरप्यवीक्षिता'.
११० काव्यमाला। . सखीयुक्ता मदाधिक्यात्स्फारिताक्षी न शक्ति सशब्दाभरणा कामं वेश्या सरति नायकम् ॥ त्रयोदशविषा स्वीया द्विविधा च पराङ्गना। एका वेश्या पुनश्चाष्टाववस्थाभेदतोऽत्रं ताः ॥ पुनश्च तास्त्रिधा सर्वा उत्तमा मध्यमाधमा । इत्यं शतत्रयं तासामशीतिश्चतुरुत्तरा ॥ ८ ॥ दोषानुरूपकोपा यानुनीता च प्रसीदति । रज्यते च भृशं नाथे गुणहार्योत्तमेति सा ॥ ८९ 'कान्ते किं कुपितासि कः परजने प्राणेश कोपो भवे. त्कोऽयं सुभ्र परस्त्वमेव दयिते दासोऽसि कस्ते इत्युक्त्वा प्रणतः प्रियः क्षितितलादुत्थाप्य सानन्दया नेत्राम्भःकणिकारिते स्तनतटे तन्व्या समारोपितः दोषे स्वल्पेऽपि या कोपं धत्ते कष्टेन मुंश्चति । प्रयाति कारणादागं मध्यमा सा मता यथा ॥९ 'विस्फारस्फुरिताधरापि विकसद्गुण्डस्थप्रस्खल- सम्भःकणिकापि भङ्गुरतरभ्रूभेदभूषाप्यलम् । पादान्तप्रणते प्रिये प्रकटयत्यन्तः प्रसादं प्रिया केशानूपुरमण्डलीषु वलितानुन्मोचयन्ती शनैः ॥ या कुप्यति विना दोष नियत्यनुनय विना । निर्हेतुकमवृत्तिश्च चलचित्तापि साधमा ॥ ९१॥ 'यंत्राधःकृतकामकार्मुककैथो प्राम्यद्भुवोविभ्रमः सद्यः प्रोद्तचन्द्रकान्तिजयिनी यस्मिन्कपोलच्छविः यत्र खेदकणावलुप्तमहिमा हारोऽप्युरोजस्थले कोऽयं मानिनि मत्प्रणामविमुखः प्रत्यग्रमानग्रहः ॥ १. 'यथा' २. 'पुनस्वास्त्रिविधाः'. ३. 'तुष्यति... 'प्रस्फार-'. ५.. 'बलयितान'. ६. 'दोषैः'. ७. 'चलचित्तेति'. ८. 'यः क्रुद्धः'. 'कथोड १०. 'प्रोम्भितचन्द्रबिम्ब'. ११. 'कणावलिप्त-'.
परिच्छेदः] शृङ्गारतिलकम् । १३१ जातिकालवयोवस्थामावकंदर्पनायकैः । इतरा अप्यसंख्याः स्युनॊक्ता विस्तरभीतितः ॥ ९२ ॥ इत्यादि सकलं ज्ञात्वा स्वयं चालोक्य तद्विदाम् । कवीनां च विशेषोक्त्या ज्ञातव्याः सकला इमाः ॥ ९३ ॥ रोमाञ्चवेपथुस्तम्भवेदनेत्राम्बुविभ्रमाः। वाच्याः संयोगशृङ्गारे कविना नायिकाश्रिताः ॥ ९४ ॥ संबन्धिमित्रद्विजराजतीक्ष्णवर्णाधिकानां प्रमदा न गम्याः । व्यङ्गास्तथा प्रव्रजिता विभिन्नमत्राश्च धर्मार्थमनोभवः ॥९॥ अनेन मार्गेण विशेषरम्यं संभोगशृङ्गारमिमं वितन्वन् । भवेत्कविर्भावरसानुरक्तो विदग्धगोष्ठीवनितामनोज्ञः ॥ ९६ ॥ इति श्रीरुद्रमविरचिते शृङ्गारतिलकाभिधाने काव्यरसालंकारे संभोगशृङ्गारो नाम प्रथमः परिच्छेदः । द्वितीयः परिच्छेदः । विप्रलम्भाभिधानोऽयं शृङ्गारः स्याचतुर्विधः । पूर्वानुरागो मानाख्यः प्रवासः करुणात्मकः ॥ १ ॥ दंपसोर्दर्शनादेव समुत्पन्नानुरागयोः। ज्ञेयः पूर्वानुरागोऽयमप्राप्तौ चे दशा यथा ॥२॥ 'किं चन्दनै रचयसे नु मृणालशय्यां मा मा ममालि कुरु कोमलतालवृन्तम् । मुञ्चाग्रहं विकचपङ्कजयोजनेषु तत्संगमः परमपाकुरुते स्मरामिम् ।। 'यत्सारैरिव पक्कजस्य घटितं यच्चन्द्रगर्भादिव प्रोत्कीर्ण यदनङ्गसायकशिखाभासेव संवर्धितम् । यत्संसिच्य सुधारसैरिव रतेरास्थानभूमीकृतं तद्भूयोऽपि कदा सरोरुहदृशः पश्यामि तस्या मुखम् ॥ १. 'जातिरूपकला-'. २. 'संयोग'. ३. 'करुणा यथा'. ४. 'प्ररूढगुरुरागयोः' ५. 'या'. ६. 'रचय मुश्च'. ५. 'धुनु'. ८. 'दर्शनेषु'.
मृणालकदलीचन्द्रचन्दनाममुरुहादिकम् ।
तत्रानयोः सरावाशान्तये नैव सेवितम् ॥
आलोकालापसंबहरागाकुलितचेतसो।।
तयोर्भवेदसंपातौ दशावखा मरो यया ॥
अभिलाषोऽथ चिन्ता सात्स्मृतिश्च गुणकीर्त
उद्वेगोऽथ प्रलापा स्यादुन्मादो व्याधिरेव च
जडता मरणं चैव दशम जायते भुवम् ।
असमाप्तौ भवन्त्येतास्तयोर्दश दशा यथा ॥
व्यवसायो भवेद्यत्र वा तत्संगमाशया ।
संकल्पाकुलचित्तत्वात्सोऽभिलाषः स्मृतो यथ
'प्रविशति यथा गेहेऽकस्साहहिश्च विचेष्टते
वदति च यथा सख्या साधै सहासमिहोत्सुका
दयितवदनालोके मन्दं यथा , चलत्यसौ
मृगशि तथैतस्यां मेन्ये स्मरेण कृतं पदम् ॥'
कथं स वल्लभः प्राप्यः किं कुर्यामस्य सिद्धये ।
कथं भवेदसौ वश्य इति चिन्ता मँता यथा ॥
'सत्यं दुर्लभ एष वल्लभतमो रागो ममास्मिन्पुनः
कोऽप्यन्योऽस्ति गुरुर्न चातिनिपुणाः सख्योऽस्य
संचिन्त्येति मृगीहशा प्रियतमे दृष्टे लथां मेखला
बनन्त्या न गतं स्थितं न च गैलद्वासो न वा सं
द्वेषो यत्रान्यकार्येषु तदेकाग्रं च मानसम् ।
श्वासैमनोरथैश्चापि चेष्टास्ताः सरणं यथा ॥९
'इन्दु निन्दति पद्मकन्दलदलैस्तल्यं न वा मन्यते
कर्पूरं किरति प्रयाति न रति प्रालेयधारागृहे ।
१. 'कन्द'. २. 'संगमाशयः' ३. 'यथाकस्माद्रेहम्'. ४. 'प्रचलति
१. 'तुष्टये'. ७. 'भवेत्'. 6. "एवं'. १. 'तथा'. १५. 'लसत्'. ११.
'कन्दकदली.
परिच्छेदः] शृङ्गारतिलकम् । श्वासैः केवलमेव खेदिततनुर्ध्यायत्यसौ बालिका यत्तत्कोऽपि युवा ध्रुवं स्मरसुहृच्चेतस्यमुष्याः स्थितः ॥' सौन्दर्यहसितालापर्नास्त्यन्यस्तत्समो युवा । इति वाणी भवेद्यत्र तदित्यं गुणकीर्तनम् ॥ १० ॥ 'तद्वकं हसितेन्दुमण्डलमिति स्फारं तदालोकितं सा वाणी जितकामकार्मुकरवा सौन्दर्यमेतस्य तत् । इत्थं संततमालि वल्लभतमध्यानप्रसक्तात्मन- श्वेतश्चुम्बितकालकूटमिव मे कस्मादिदं मुह्यति ॥ यस्मिन्रम्यमरम्यं वा न च हर्षाय जायते । मद्वेषः पाणितव्येऽपि स उद्वेगः स्मृतो यथा ॥ ११ ॥ 'अग्न्यागारं कलयसि पुरश्चक्रवाकीव चन्द्रं बद्धोत्कम्पं शिशिरमरुता दबसे पद्मिनीव । प्राणान्धत्से कथमपि चिराद्गच्छतः शल्यतुल्यां- तत्केनासौ सुतनु जनितो मान्मथस्ते विकारः ॥' बम्भ्रमीति मनो यस्मिन्रत्यौत्सुक्यादितस्ततः । वाचः प्रियाश्रिता एव स प्रलापः स्मृतो यथा ॥ १२ ॥ 'इत्थं तेन निरीक्षितं न च मयाप्येवं समालोकितं तेनोक्तं सुभगेन तत्र न मया दत्तं वचो मन्दया । तत्सत्यं कथयालि कि ससुभगः कुंप्येत मय्युच्चकै- रित्युक्त्वा सुदृशा कयापि वलितग्रीवं दृशौ स्फारिते ॥' श्वासपरोदनोत्कम्पवसुंधोल्लेखनैरपि । व्यापारो जायते यत्र स उन्मादः स्मृतो यथा ॥ १३ ॥ 'देवीवानिमिषेक्षणा विलिखति क्षोणी श्वसित्युच्चकैः किंचिध्यायति निश्चला च बलवद्रोमाञ्चिता कम्पते । १. "खिद्यति तनुर्याता'. २. 'सखि'. ३. 'यद्वक्त्रम्'. ४. 'संचित'; 'चर्वित'. ५. 'वत्र'. ६. 'किंचन'. ७. 'प्राणानामिव संदेहः'. ८. 'कस्मान्मुग्धे मनसि विषम- खन्यतें विप्रयोगः'... 'समालोकितः'. १०. 'कुप्येन मधं गते'.११. 'वसुधालेखनैः'. १२. 'दीपे वानिमिषेक्षणा'. १३. 'चलचलद्रोमाञ्चिता.
१३४. काव्यमाला। रोंदित्यङ्कगतां विलोक्य सुचिरं वीणामपि व्यापृता खल्पैरेव दिनैरियं वरतनुः केनापि संशिक्षिता । संतापवेदनमायो दीर्घश्वाससमाकुलः । तन्कृततनुर्व्याधिरष्टमोऽयं स्मृतो यथा ॥ १४ 'तापः शोषितचन्दनोदकरसः श्वासा विकीर्णोत्पलाः कर्पूराभिभवप्रचण्डपटिमा गण्डस्थले पाण्डिमा । म्लायद्वालमृणालनालललिता प्राप्ता तनुस्तानवं तन्वङ्गयाः कैथितः स्मरेण गुरुणा कोऽप्येष कष्ट अकाण्डे यत्र हुंकारो दृष्टिः स्तब्धा गता स्मृतिः श्वासाः समधिकाः कार्य जडतेयं मता यथा ॥ 'दृष्टिनिश्चलतारकाधरलं श्वासैः कृतं धूसरं प्राप्तं वासरचन्द्रबिम्बपदवीं वकं विनष्टा स्मृतिः । हुंकारः परमेक एव वचनस्थाने स्थितः सांप्रतं मन्येऽस्याः कुसुमायुधः सशिविरः प्रत्यङ्गर्मीवासित उपायैर्विविधर्नार्या यदि न स्यात्समागमः । कंदर्पशरभिन्नाया मरणं जायते ततः ॥ १६ ॥ पुंसोऽपि हि भवन्त्येता दशावस्था मनोभवात् । मरणं किं त्वसौन्दर्यात्तयोः कश्चिन बध्यते ॥ १७ अन्ये तदपि बनन्ति प्रत्युज्जीवनकालया। वृत्तानुवादे तच्छस्तमुत्पाचे प्रायशो नहि ॥ १८ ॥ एकस्मिंस्तु मृतेऽप्यन्यो यदि जीवेत्कथंचन । का स्नेहगणना तत्र म्रियते चेष संगमः ॥ १९ ॥ पूर्व नारी भवेद्रक्ता पुमान्पश्चात्तदितिः । ततः संभोगलीलेति स्वभावसुभगा स्थितिः ॥२० १. 'वीणामति'. २. 'अष्टमो जायते'. ३. 'कुपितस्मरेण'. ४. 'स्मृता'.' ६. 'आवेशितः'... 'जनितैः'.. 'गयते'. ९. 'वाञ्छया. १०. 'न सम परिच्छेदः] शृङ्गारतिलकम् । अन्यथापि न दोषः स्याद्यदि प्रेम समं वयो। रक्तापरक्ता वृत्तिश्चेच्काराभास एव सः॥२१॥ अयं च प्रायशस्तरित्यं हास्येषु बध्यते । निद्रव्येण मया साधं वेश्ये मानय यौवनम् ॥ २२ ॥ अनुरक्तो भवेद्यस्यां नायकस्तत्सखीजनम् । साना मानेन दानेन बाढमावर्जयत्यसौ ॥ २३ ॥ तस्याग्रे तत्कयां कुर्वन्वाभिप्रायं प्रकाशयेत् । तदभावे. प्रेयुजीत काश्चिमवजितादिकाः ॥ २४ ॥ तहारेण समाख्यातस्वभावो ज्ञाततन्मनाः। उपचारैः परैलेंखें साधयेत्तामतन्द्रितः ॥ २५ ॥ ततो दृष्ट्वा विविक्ते तामिन्द्रजालकलादिभिः । प्रयोगैर्ललितः स्वैरं विस्मयं परमं नयेत् ॥ २६ ॥ धात्रीसखीवेश्मनि रात्रिचारे महोत्सवे तीव्रतमे भये च । निमन्त्रणे व्याधिमिषेण शून्ये गेहे तयोर्नूतनसंगमः स्यात् ।।२७॥ यदा रागो गुरुः सा च लभ्यते नैव याचिता। क्षीणोपायस्तदा कन्यां नायकः साधयेदिति ॥ २८ ॥ परस्त्रीगमनोपायः कविभिर्नोपदिश्यते । सुन्दरं किं तु काव्याङ्गमेतत्तेन निर्दयते ॥ २९ ॥ वामता दुर्लभत्वं च स्त्रीणां या च निवारणा । तदेव पञ्चबाणस्य मन्ये परममायुधम् ॥ ३०॥ बहुमानाद्भयाद्वापि नृणामन्यत्र योषिति । प्रच्छन्नकामितं रम्यं सतामपि भवेद्यथा ॥३१॥ १. 'तयोः'. २. 'अनुयुञ्जीत'. ३. किंचित्प्रवजितादिकम्'; 'कांचित्प्रवजितादिकाम्'. ४. 'समाख्याताः खभावज्ञातमन्मथः'. ५. 'दोषैः'. ६. 'तीव्रभये वने च': 'तीव्रतमे वने च'. ७. 'मिषाच'. ८. 'नारी साधयेत्तामतन्द्रितः'. ९ निर्दिश्यते'. ... 'या तु निवारणम्'. ११. 'ता एव'. १२. 'तासामपि.
१६६ काव्यमालो। मुहुः शङ्काकुला केवलं 'जीणे तार्णकुटीरक निवसनं तल्पीकृतं खण्डिले नीरन्ध्र तिमिरं किरन्ति सलिलं गर्जन्त एते घर गच्छामीति वदत्यसावपि चेतश्चित्रमहो तथापि रमते संकेतके कामिनाम् स मानो नायिका यस्मिनीग्रंया नायक प्रति धत्ते विकारमन्यस्त्रीसङ्गदोषवशायथा ॥ ३२ ॥ 'किंचिद्वाष्पजलावलेपललिते नेत्रे समाकुञ्चिते रागो विस्फुरणानुबन्धरुचिरः संदर्शितो गण्डयोः कम्पश्चाधरपल्लवे विरचितः कामं कुरङ्गीडशा नो जाने किमयं प्रिये प्रकटितः कोपोऽभिलाषोड स प्रायशो भवेत्रेधा कामिनीनां मियं प्रति । अवेक्ष्य दोषमेतस्य गरीयान्मध्यमो लघुः ॥ ३३ प्रतिनार्या गते कान्ते स्वयं दृष्टे नखाङ्किते । तद्वासोदर्शने गोत्रस्खलिते च गुरुर्यथा ॥ ३४ । 'बिम्बोष्ठः स्फुरति प्रयाति पटुतां गण्डस्थले शोणिमा यातस्तिर्यगमू दृशौ च बलवद्भूयुग्ममुद्भाम्यति । इत्थं चण्डि तथा तवैष रुचिरः कोपक्रमो जृम्भते जातोऽयं प्रणतीरपास्य सुतरामेतद्दिदृक्षुर्यथा ॥' दृष्टे प्रियतमे रागादन्यया सह जल्पति । सख्याख्यातेऽथवा दोषे मानोऽयं मध्यमो यथा 'वाचो वाग्मिनि किं तवाद्य परुषाः सुश्रु ध्रुवोर्विभ्रमो- ऽप्युद्धान्तः कुत एष लोळनयने किं लोहिते लोच नास्त्यागो मयि किं मुधैव कुपितेत्युक्ते पुरः प्रेयसा मानिन्या जलबिन्दुदन्तुरपुटा दृष्टिः सखीष्वाहिता १. 'अपि'. २. 'तथा'. ३. 'स्थात्'. ४. 'भ्रमो विनमो भ्राम्यति एष नयने'.
र परिच्छेदः] शृङ्गारतिककम् । १३७ सविलासं स्फुरचक्षु वीक्षमाणे परी प्रिये । किंचिदन्यमनस्केव जायते स लघुर्यथा ॥१६॥ 'मामेव ताडय नितम्बिनि यद्यकरमा. कोपो भवेत्तव मुखं तु निजं किमेतत् । आनीयते शशधरानुकृति कपोल- पालीप्लुतेन घनकजलनेत्रवारा ॥ देशकालबलात्कोपः प्रायशः सर्वयोषिताम् । जायते सुखसाध्योऽयं कृच्छ्रसाध्यश्च कामिभिः ॥ ३७ ।। प्रज्वलितोज्वलदीपं रतिगृहमिन्दूज्वलं च सौधतलम् । मधुविधुरीकृतमधुकरमधुरध्वनिबोधितं च कमलवनम् ॥ ३८ ॥ इत्यादिषु प्रदेशेषु मानिनीनामसंशयम् । मन्युर्गुरुतरोऽप्याशु मुखसाध्यो भवेद्यथा ॥ ३९ ॥ 'दृष्ट्वा चन्द्रमसं मनोभववधूकेलिक्रियाकन्दुकं प्रोन्मीलन्नवमालतीपरिमलं चाघ्राय मानौषधम् । दीपार्चिःकपिशां विविक्तवलभीमालोक्य लोलदृशा मानिन्या चटुमात्रकेण रमणे मानो मनाङमन्दितः ॥' मधुसमयशशधरोदयकंदर्पमैदाधिकेषु कालेषु । मानो मनस्विनीनामतिसुखसाध्यो भवेद्भूना ॥ ४०॥ 'चन्द्रश्चन्द्रमुखीक्ष्यतां क्षणमियं संभाव्यतां मञ्जरी चूतस्य स्मरविद्विषि प्रियतमे कोपेऽपि केयं रतिः । इत्युक्ते रुचिरेऽपि तत्करतलं पादाप्रसंवाहने धुन्वन्त्याः सुदृशो बलात्पुलकिते जके च दोर्वल्लरी ॥' दूतीजनस्य पुरतो लघुरपि दोषो गुरूयते मायः । अभिनवदोषावसरे तथैव वनिताजनस्य यथा ॥ ४१ ॥ १. 'प्रायः सर्वोऽपि'. २. 'माध्यस्तु कामिनाम्'. ३. 'मधुरी-'. ४. 'मधुरध्वनि योषितावचनम्'.५.'च चित्रवडभी-'.६. 'मात्रकेऽपि'. ७. महादिकेषुः' 'मदादिकेषु ८. 'इत्युक्त्वा रुचितेन'. १. 'संवाहनासम्बन्त्याः'.
काव्यमाला।
'चरणपतनात्पत्युमन्यौ मनाक्शिथिलीकृते
त्यजति च किमप्युत्कम्पत्वं घनस्तनमण्डले
तदपि विसरत्सारङ्गाक्ष्या चिरानुनयेच्छया
कथमपि पुरो दृष्ट्वा दूतीं पुनर्भुकुटी कृता ।
'चतुरवचनैर्गाढाश्लेषैर्हठात्परिचुम्बनै-
रलकवलनैर्वारं वारं गतोऽप्यतिमन्दताम् ।
अपरवनितासङ्गाल्लग्नं विलोक्य विलेपनं
कुवलयदृशः कोपः कान्ते पुनर्नवतां गतः ॥
साम दानं च भेदः स्यादुपेक्षा प्रणतिस्तथा ।
तथा प्रसङ्गविध्वंसो दण्डः शृङ्गारहानये ॥ ४२
तस्याः प्रसादने सद्भिरुपायाः षट् प्रकीर्तिताः।
मुन्दरास्ते निदर्श्यन्ते सहोदाहृतिभिर्यथा ॥ ४६
अविनीतोऽपि पाल्योऽहं त्वया मुभ्र क्षमाभृता
इति वाणी भवेद्यत्र तत्सामेति निगद्यते ॥ ४४
'सत्यं भामिनि दुर्जनोऽस्मि दयिते पाल्यस्तथापि त्वया
यो दोषः स लघुर्मंगाक्षि नियतं दीनस्य मे क्षम्य
इत्थं जल्पति वल्लभे मृगदृशा चक्षुर्जलं संवृतं
रक्तत्वं विरलीकृतं च वदने दत्तं च किंचिद्वचः
अलंकारादिकं दैद्यान्नायको यत्र तुष्टये ।
उद्दिश्य कारणं किंचिदानं लुब्धासु तद्यथा ॥
'प्रणयिना निजहारलता खयं किल नवेति निवेश्य कुचस
पुलकमाजि पुरा कुपिताप्यसौ कृतकचग्रहणं परिचुम्बिता
यस्मिन्परिजनं तस्याः समावर्ण्य प्रसादतः ।
तेनैव लभते कान्तां कान्ताभेदः स उच्यते ॥ ४
१. 'किमप्युकं पत्रम्. २. 'चतुरचतुरैः'. ३. 'चुम्बितैर्मधुरवचनैः',
५. 'गलत'. ६. 'विमली-'. ७. 'कुर्यात्'. ८. 'कुच-'...'प्रसादितम्'.
.
। परिच्छेदः] शृङ्गारतिलकम् । 'धुन्वाना करपल्लवं विदधती दृष्टि रुषा रागिणी तन्वाना वचनानि निष्ठुरतरं मा गाः शठेत्थं मुहुः । दूरादायतिभीतिमत्यभिमते खैरं खसंज्ञाकृता पूर्वावर्जितया चकोरनयना सख्यैव संबोधिता ॥ प्रसादनविषिं त्यक्त्वा वाक्यैरन्यार्थसूचकैः । यस्मिन्मसाद्यते योषिदुपेक्षा सा मता यथा ॥४७॥ 'एतत्कि ननु कर्णभूषणमैयं हारः स काञ्ची नवा बद्धा काचिदियं त्वयाद्य तिलकः श्लाघ्यः प्रिये कल्पितः । प्रत्यङ्गं स्पृशतेति तत्क्षणभवद्रोमाञ्चमालाञ्चिता तन्वी मानमुपेक्षयैव शनकैधूर्तेन संमोचिता ॥ केवलं दैन्यमालम्ब्य पादपातानतिर्मता । अभीष्टा सा भृशं स्त्रीणां ललिता च भवेद्यथा ॥४८॥ 'कुङ्कुमार्द्रकुचकुम्भलिङ्गितं वीक्ष्य पृष्ठमपराङ्गनाश्रयम् । शंसदूनरसमाशु सा मुदं प्राप पादपतितस्य कामिनः ॥' अकस्माज्जायते यत्र भयहर्षादिभावना । सोऽयं प्रसङ्गविध्वंसः कोपभ्रंशात्मको यथा ॥ ४९ ।। 'कथं ममोरसि कृतपक्षनिःखनः शिलीमुखोऽपतदिति जल्पति प्रिये । निवृत्त्य किं किमिदमिति ब्रुवाणया ससाध्वसं कुपितमलोकि कान्तया ॥ यथोत्तरं बलीयांस इत्युपायाः प्रसादने । आद्यास्त्रयो घनं कार्या विदग्धैः पश्चिमाः कचित् ॥ ५० ॥ नातिखेदयितव्योऽयं प्रियः प्रमदया कचित् । मानश्च विरला कार्य प्रणामोत्सवसिद्धये ॥५१॥ इत्युपायान्मयुञ्जीत नायिकापिं प्रियं प्रति । कुलजा नेष्यते किं तु तत्रान्यत्कारणं भवेत् ॥ ५२ ॥ १. 'प्रसाधन-'. २. "प्रसाध्यते'. ३. 'इयं हार च'. ४. 'ललिताः श्लाघ्या:'. ५. "विम्बितम्'. ६. 'साभूतरसम्. ५. 'विभ्रंश'. ८. 'अगलतू'. ९. 'अमोचि'. ...'प्रसाधने. 11. 'प्रमदमानसः. १२. 'कुलं नोपेक्षते'.
११.
काव्यमाला।
स्नेहं विना भयं न स्यान्मन्मयो नेयया वि
तस्मान्मानप्रकारोऽयं द्वयोः "प्रीतिसंवर्धनः ।
मियमुभगर्दयितवल्लमनाथखामीशकान्तचन्द्रमुख
दयित मनोरम रमणीजीवित इत्यादि माम स्या
प्रीतौ भर्तरि मुहशामप्रीतौ पुनरमूनि शठधृष्टौ ।
निर्लजदुराचारौ निष्ठुरदुःशीलवानादि ॥ ५५
गर्वायसनत्यागाद्विप्रियकरणाच निष्ठुरालापान
लोभादतिप्रवासात्स्त्रीणां देष्यः मियो भवति ॥
परदेशं जेद्यस्मिन्कुतश्चित्कारणात्मियः ।
म प्रवास इति ख्यातः कष्टावस्थो द्वयोरपि ॥५
'दृष्टं केसरधूलिधूसरमिदं व्योम क्रमाद्वीक्षिताः
कच्छान्ताश्च शिलीन्ध्रकन्दलभृतः सोढाः कदर
सख्यः संवृणुताश्रु मुञ्चत भयं कस्मान्मुधैवाकुला
एतानप्यधुनापि वज्रघटिता नूनं सहिष्ये घना
'कामं कर्णकटुः कुतोऽतिमधुरः केकारवः केर्किनां
मेघाश्चामृतधारिणोऽपि विहिताः प्रायो विषस्यन्दिन
उन्मीलनवकन्दलावलिरसौ सहाप्यसबायते
तत्कि यद्विपरीतमत्र न कृतं तस्या वियोगेन मे
कार्य जागरमालिन्यचिन्ताचं यत्र जायते ।
अवस्था विविधाः स्त्रीणां मृत्युश्चेदवधेः परः॥
'अचैव यत्प्रतिपदुद्गतचन्द्ररेखा-
सख्यं त्वया तनुरियं गमिता वराक्याः ।
कान्ते गते कुसुमसायक तत्नभाते
बाणावली कथय कुत्र विमोक्ष्यसि त्वम् ॥'
१. 'प्रीतिप्रकाशक'. २. 'सचिर'. ३. "निष्ठुरारपणाद. ४. 'गतः
श्चिन्'. ५. 'अधुनावि-'. ६. 'कामिनाम'. ७. 'प्यौप्यसबापते. ८.
एस. परिच्छेदः] श्रृङ्गारतिडकम् । 'निःश्वासैः सह सांप्रतं सखि गता वृद्धि ध्रुवं । साध लोचनवारिणा विगलितं यत्प्राक्तनं प्राणाशा तनुतामुपैति च मुहुर्नुनं तनुस्पर्धया कंदर्पः परमेक एव विजयी यातेऽपि कान्ते स्थितः ।। 'नीरागोऽधरपल्लवोऽतिमलिना वेणी दृशौ नाजिते म्लायद्वालमृणालिकाधवलतामालम्बतेऽङ्गच्छविः । इत्थं सुझु विसंस्थुलापि विरहव्यापद्विमर्दादियं सख्येव स्थिरशोभया दृढतरं प्रत्यङ्गमालिजिता ।' 'किं तत्र नास्ति रजनी किं वा चन्द्रो ने सुष्ठुरुचिः । येन सखि वल्लभामपि न स्मरति स मां विदेशरुचिः ॥' 'प्रसर शिशिरामोदं कौन्दं समीर समीरय प्रकटय शशिनाशाः कामं मनोभव जृम्भताम् । अवधिदिवसः पूर्णः सख्यो विमुञ्चत तत्कयां हृदयमधुना किंचित्कर्तु ममान्यदिहेच्छति ॥ इत्यादिविरहावस्थाः पुंसोऽपि हि भवन्ति ताः। कंदर्पशरपोताचा मा भूवन्वैरिणामपि ॥ ५९॥ यत्रैकस्मिविपन्नेऽन्यो मृतकल्पोऽपि तद्गतम् । नायकः प्रलपेत्सेम्णा करुणोऽसौ स्मृतो यथा ॥६॥ 'दग्धा स्निग्धवधूविलासकदली वाणी समुन्मूलिता पीता पश्चमकाकली कवलिता शीतयुतेः कौमुदी । प्लुष्टः स्पष्टमनेकरत्ननिचयो नाहं रतिः केवलं कंदपै दहता हरेण भुवनं निःसारमेतत्कृतम् ॥ 'वक्रं चन्द्रमसा दृशौ मृगगणैः केशाः कलापिनजै- तिङ्गैः स्तनमण्डलं अजयुगोल्लासो मृणालैरपि । १. 'यत्प्राकनैः कंकणैः. २. 'व्यालम्बा तु मृणालिकाधरलता', 'व्यालम्बालक- मालिकाधवलता'. ३. 'सुष्टु'. ४. 'न किं च सोऽप्यरुचिः'. ५. 'घातात. ६. 'मृते- ऽप्यन्यो'. ५. 'मीलिता'. ८. 'भुजलतालासश्चलत्पल्लवैः', 'भुजलतोलासो लतामण्डपैः 'भुजलतोलासलतामण्डपैः. १३
सौगन्ध्यं मलयानिलेन बलिना तन्वी विभज्येति सा
सर्वैनिष्करुणैर्हता ध्रुवमहो देवेन किंचिन मे ।।
'इयती सुभगावस्थां गतोऽसि यस्याः कृते स्मरावा
मूछी हरामि सा तव गतपुण्या नयनसलिलेन ।'
'पाशो विपाशित उपाहित एष सान्द्रः
कर्पूररेणुरुपगूढमुरो नतालि।
पापेन येन गमितेति दशाममुष्मि-
न्मू विरामललितं मयि घेहि चक्षुः ॥
ग्लानो मुक्ताश्रुरुद्विमः सस्ताको मुक्तचेतनः।
सचिन्तो दैन्यभागसिनेप्रायो जनो भवेत् ।।
केषांचित्करुणभ्रान्तिः कारुण्यादैत्र जायते ।
एतस्य मिथुनावस्था विस्मृत्य रतिमूलजाम् ॥
स्त्रीपुंसयोर्भवेदेष सापेक्षः संगमे पुनः ।
शृङ्गारवचनमायः करुणः स्यात्स चान्यथा ॥
तस्माच्छुकार एवायं करुणेनानुमोदितः।
सौन्दर्य मुतरां धचे निबद्धो विरलं बुधैः ॥६
कारुर्दासी नटी धात्री प्रतिवेश्या च शिल्पिनी
वाला प्रजिता चेति स्त्रीणां यः सखीजनः ।
कलाकौशलमुत्साहो भक्तिश्चित्तता स्पतिः ।
माधुर्यं नर्मविज्ञानं वाग्मिता चेति तद्गुणाः ॥६
विनोदो मण्डनं शिक्षोपालम्भोऽथ प्रसादनम् ।
संगमो विरहावासः सखीकर्मेति तयथा ॥ ६७
'मया कोऽयं मुग्धे कथय लिखितः सत्वरसखी-
वचः श्रुत्वेत्युचैर्विनिहितहशा चित्रफलके ।
१. 'दुतम्'. २. 'उपासितः'. ३. 'इह'. ४. 'विस्मारयति गूढताम्।
भवत्येष'. ६. 'साक्षेपः'. ७. 'भकारवचने'.
है परिच्छेदः] शृङ्गारतिलकम् । न वक्तुं तन्वनया शकितमय चोदामविदल- कदम्बाकारेण प्रिय इति समाख्यायि वपुषा ।' 'प्रत्यङ्ग प्रतिकर्म नर्मपरया कृत्वातिसढस्मरा- दौत्सुक्यं प्रविलोक्य मोहनविधौ चातुर्यमालोक्य च । सख्या यावकमण्डनं विरचितं पादे कुरङ्गीदृशा समेरं विशदच्छदे च शयने दृष्टिः समारोपिता ॥ 'नीरन्ध्र परिरभ्यते प्रियतमो भूयस्तरां चुम्ब्यते तबाढं क्रियते यदस्य रचितं चाटूश्चकैस्तन्यते । सख्या मुग्धवधूरियं रतिविषौ योन संशिक्षिता निर्धान्तं गुरुणा पुनः शतगुणं पुष्पेषुणा कारिता ॥ 'सुभग भवता हृद्येतस्या ज्वलत्सरपावके- ऽप्यमिनिविशता प्रेमाधिक्यं चिरात्प्रकटीकृतम् । तव तु हृदये शीतेऽप्येवं सदैव सुखाप्तये मम सहचरी सा निःनेहा मनागपि न स्थिता ॥ 'कोपं विमुञ्च कुरु नाथ वचो मदीय- माश्वासय मरकृशानुकृशां कृशाङ्गीम् । एकाकिनी कठिनतारकराजकान्त्या पञ्चत्वमाशु ननु यास्यति सा वराकी ॥' 'अमुं दधेऽशुकमहमत्र पादपे युवामलं निभृतमिहैव तिष्ठताम् । रहःस्थयोरिदमभिधाय कामिनोः स्वयं ययौ निपुणसखी लतान्तरम् ॥ 'स्फुरति यदिदमुच्चैर्लोचनं तन्वि वाम स्तनतटमपि धत्ते चारुरोमाञ्चमालाम् । कलयति च यदन्तःकम्पतामूरुकाण्ड ननु वदति तदद्य प्रेयसा संगम ते ॥ १. 'चातुर्यमस्साः पुनः'. २. 'कुरशीदृशः'. ३. 'रुचिरं चाटुत्वमातन्यते'. ४. 'ता. रकनाथ-'. ५. 'रहस्तयोः'. ३. 'पुरः'. ७. 'अभिवते.
काम्पमाला। इत्यादि विविषं सख्यो व्यापारं कुर्वते सदा योषितां मत्रसर्वस्वनिधानकलशोपमाः ॥६ इत्यं विरचनीयोऽयं शुमारः केविमिः सदा अनेन रहितं काव्यं पायो नीरसमुच्यते ॥ इत्यं विचार्य प्रचुरपयोगान्योऽमुं निषधाति रस तत्काव्यमारोप्य पदं विदग्धवकेषु विश्वं परिवम् इति श्रीरुद्रमविरचिते शृङ्गारतिलकाभिधाने काव्यरसार विप्रलम्भो नाम द्वितीयः परिच्छेदः । तृतीयः परिच्छेदः। विकृतात्वचा कृत्यवेषेभ्यो जायते रसः। हाँस्योऽयं हासमूलत्वात्पात्रत्रयगतो यथा ॥ १ किंचिद्विकसितैर्गण्डैः किंचिद्विस्फारितक्षेणैः। किंचिल्लक्ष्यद्विजैः सोऽयमुत्तमानां भवेद्यथा ।। 'पाणौ करणमुत्फणः फणिपतिर्नेत्रं ज्वलत्पावकं कण्ठः कुण्ठितकालकूटकुँटिलो वस्त्रं गजेन्द्राजिन गौरीलोचनलोभनाय सुभगो वेषो वरस्पेति मे गण्डोल्लासविभावितः पशुपतेर्हासोद्गमः पातु वः मध्यमानां भवत्येष विवृताननपकजः। नीचानां निपतद्वाष्पः श्रूयमाणध्वनिर्यथा ॥ ३ 'मुग्धे त्वं सुभगे न वेत्सि मदनव्यापारमद्यापि तं नूनं ते जलजैषिणायमलिना दृष्टो न भर्नाधरः संख्यैवं हसितं वधू प्रति तथा सानन्दमाविर्भव- द्वक्त्रान्तर्गतसीधुवासरसिकैम॒ज्ञैर्यथा धावितम् ॥ १. 'योषितामत्र सर्वखं निधानकलशोपमम्'. २. 'कविना'. ३. ध्वस्माच्छोकावले 'तव नावानुरागोऽयं मद्विधः कपमुच्यते । येनका पश्चत्वं पुण्यकारिणा ॥' अयं लोको वर्तते. ४. 'हासः'. ५. 'ईक्षणः' ७. 'पाण्योः'; 'बाही'. ८. 'घटित'... 'ते जलवेक्षणेयम्', 'वे १०. 'सख्येत्यम्'. ११. 'बकान्तर्षन-वकान्तनव- परिच्छेदः] शृङ्गारतिलक 'त्यक्त्वा गुञ्जफलानि मौक्तिकमयी भूषा खनेष्वाहिता स्त्रीणां कष्टमिदं कृतं सरसिजं कर्णे न बर्हिच्छदम् । इत्थं नाथ तवारिधामि शबरैरालोक्य चित्रस्थिति बाष्पार्दीकृतलोचनैः स्फुटरवं दारैः समं हस्यते ॥ अस्मिन्सैखीकरापातनेत्रोल्लासावर्तनम् । नासाकपोलविपन्दो मुखरागश्च जायते ॥४॥ शोकात्मा करुणो शेयः प्रियभृत्यधनक्षयात् । तत्रेत्यं नायको दैवहतः स्याहुःखभाजनम् ॥५॥ 'भर्ता संगर एव मृत्युवसातै प्राप्तः समं बन्धुमि- यूनों काममियं दुनोति च मनो वैधव्यभावाद्वधूः । बालो दुस्त्यज एक एव च शिशुः कष्टं कृतं वेधसा जीवामीति महीपते प्रलपति त्वद्वैरिसीमन्तिनी ॥' भूपातो दैवनिन्दा च रोदनं दीननि खनः। शरीरताडनं मोहो वैवर्ण्य चात्र जायते ॥६॥ क्रोधात्मको भवेद्रौद्रः प्रतिशत्रूनमर्षतः । रक्षामायो भवेदत्र नायकोऽत्युग्रविग्रहः ॥७॥ 'यैः प्राणापहतिः कृता मम पितुः क्षुदैर्युधि क्षत्रिय रामोऽहं रमणीविहाय बलवनिःशेषमेषां हठात् । भाखत्प्रौढकुठारकोटिघटनाकाण्डत्रुटत्कंधरा- स्रोतोऽन्तःसुतविस्रशोणितभरैः कुर्या क्रुधां निवृतिम् ॥ मुखरागायुधोत्क्षेपखेदकम्पाघरग्रहाः। शक्तिशंसा करापातो भृकुटी चात्र जायते ॥८॥ उत्साहात्मा भवेद्वीरो दयादानाजिपूर्वकः । त्रिविधो नायकस्तत्र जायते सत्त्वसंयुतः ॥९॥ १. 'बर्हच्छदम्'. २. 'लोचनम्'. ३. 'सखि. ४. 'निःस्पन्दः'. ५. 'प्रौढानाम निशम्'. ६. 'लाभात्'. ५. 'भाषणम्'. ८. अमर्षणः'. ९. 'कुद्धप्रायः'. १०. 'गुरोः' ११. 'कुधः काव्बमाला। गाम्भीयौदार्यसौन्दर्यशौर्यधैर्यादिभूषितः । आवर्जितजनो जन्यनिhढमौढविक्रमः ॥ १० 'अयि विहंग वराक कपोतकं विसृज धेहि धृति मम मेद शिबिरहं भवता विदितो न कि सकलसत्त्वसमुद्धरणक्षमः 'सुखितोऽसि हरे नूनं भुवनत्रयमात्रलब्धितोपेण । बैलिरर्थितदोऽसि यतो न याचितः किंचिदप्यधिकम् 'यत्रैरावणदन्ततीव्रमुसलैरेरण्डकाण्डायितं वज्रेणापि विकीर्णवहिततिना मार्णालनालायितम् मद्वक्षस्यवलम्ब्य किंचिदधुना तद्विस्मृतं वज्रिणा युद्धं यद्यवलम्बते स तु पुनः सजोऽस्म्यहं रावण धृतिगौदैत्यमतिस्मृतिरोमाशा भवन्ति चामुष्मिन् । विविधा वाक्यक्षेपाः सोत्साहामर्षवेगाध ॥ ११ ॥ भयानको भयस्थायिभावोऽसौ जायते रसः। शब्दादेविकृताडो बालखीनीचनायकः ॥ १२ 'श्रुत्वा तूर्यनिनादं द्वारे भयचकितललितबाहुलतः । धन्यस्य लगति कण्ठे मुग्धशिशुधूलिधूसरितः ॥' 'प्रणयकलहसङ्गान्मन्युभाजा निरस्तः प्रकटितचटुकोटिः पादपमानतोऽपि । नवजलधरगर्जेीतयासौ कयाचि. त्रुटितवरलहारं सखजे प्राणनाथः ॥' 'कम्पोपरुद्धसागलखेदोदविन्दुमिः । त्वया रुदैर्महीपाल वैरिमिर्वनितायितम् ॥ वैवर्ण्यमच संत्रासो इस्तपादादिकम्पनम् । खेदास्यशोषदिक्मेशासंभ्रमाच प्रकीविवाः ॥१५ १. 'बाढम्. २. 'बहिरषितोऽसि नियतम्'. ३. 'यत्ररावततीबदन्त त्सुक्य-'. ५. 'गाउम्. ६. 'चालित-'... 'सर्वाजगत्-'... 'थवा , यारब्ध.
परिच्छेदः] शृङ्गारतिलकम् । जुगुप्साप्रकृतिज्ञेयो बीभत्सोजबदर्शनात् ।। श्रवणात्कीर्तनाद्वापि पूत्यादिविषयायया ॥ १४ ॥ 'लुठत्कृमिकलेवरं सवदसृग्वसावासितं विशीर्णशवसंततिप्रसरदुअर्गन्धान्वितम् । प्रमत्प्रचुरपत्रिकं त्रिकविवर्तिनृत्यक्रिया- प्रवीणगुणकौणपं परिवमौ परेताजिरम् ।। नासापच्छादनं वक्त्रकूणनं गात्रसंवृतिः । निष्ठीवनादि चात्र स्यादुद्वेगादुत्तमेष्वपि ॥ १५ ॥ विस्मयात्माइतो ज्ञेयो रसो रसविचक्षणैः । मायेन्द्रजालदिव्यस्त्रीविपिनायुद्भवो यथा ॥ १६ ॥ 'सत्यं हृता त्वया हंस वनितानामियं गतिः। अमन्येतास्तथाप्येतदिन्द्रजालं तदद्भुतम् ॥ गद्गदः साधुवादश्च खेदः पुलकवेपथू । दृष्टोनिश्चलतारत्वं विकासश्चात्र जायते ॥ १७ ॥ सम्यग्ज्ञानोद्भवः शान्तः समत्वात्सर्वजन्तुषु । गतेच्छो नायकस्तत्र तमोरागपरिक्षयात् ॥ १८॥ 'धनमहरहर्दत्तं स्वीयं यथार्थितमर्थिने कृतमरिकुलं नारीशेषं स्वखनविजृम्भितैः । प्रणयिनि जने रागोदिक्ते रतिविहिता चिरं किमपरमतः कर्तव्यं नस्तनावपि नादरः॥ निरालम्ब मनो क्षेत्र वाढमात्मनि तिष्ठति । मुखे नेच्छा तथा दुःखेऽप्युद्वेगो नात्र जायते ॥ १९ ॥ अष्टावमी रसाः पूर्व में प्रोक्तास्तत्र निश्चितम् । प्रत्यनीको रसौ द्वौ द्वौ तत्संपर्क विवर्जयेत् ॥ २० ॥ १. 'गन्ध्यादितम्'... 'नृत्यक्रियाप्रवीणकुणपं परम्'. ३. 'गतेयः. ४. 'यथाययम्'. ५. 'खबाहु-'. ६. 'यत्र'. ७. 'प्रोकाखन विनिश्चितम्'; 'यथोकास्तत्र निषितम्'.
काव्यमालग।
शृङ्गारवीभत्सरसौ तथा वीरभयानको ।
रौद्राइतौ तथा हास्यकरुणौ वैरिणौ मियः॥
हास्यो भवति शृङ्गारात्करुणो रौद्रकर्मतः।
अद्भुतश्च तथा वीराद्वीभत्साच भयानकः ॥२'
यौ जन्यजनकावेतौ रसावुक्तौ मनीषिभिः।
युक्त्या कृतोऽपि संभेदस्तयोर्बाद न दुष्यति ॥
केचिद्रसविभागेषु भावाः पूर्व प्रदर्शिताः।
स्वातन्त्र्येणेह कीर्त्यन्ते रम्यास्ते कृतिनां मताः।
रत्यादय इमे भावा रसाभिप्रायसूचकाः।
पश्चाशत्स्थायिसंचारिसाचिकास्ताभिवोधत ।।
शृङ्गारादिरसेष्वेव भावा रत्यादयः स्मृताः।
प्रत्येक स्थैर्यतोऽन्ये च त्रयस्त्रिंशचराः स्मृताः।
प्रायोऽनवस्थिते चित्ते भावाः संकीर्णसंभवा ।
बाहुल्येन निगद्यन्ते तथाप्येते यथा स्थिताः॥
शकासूया भयं ग्लानिर्व्याधिश्चिन्ता स्मृतितिः
औत्सुक्यं विस्मयो हर्षो ब्रीडोन्मादो मदस्तया
विषादो जडता निद्रावहित्यं चापलं स्मृतिः।
इति भावाः प्रयोक्तव्याः शृङ्गारे व्यभिचारिणः
श्रमश्चपलता निद्रा खनो ग्लानिस्तथैव च ।
शङ्कास्यावहित्यं च हास्ये भावा भवन्त्यमी ॥
दैन्यं चिन्ता तथा ग्लानिनिर्वेदो जडतास्मृतिः।
व्याधिश्च करुणे श्रेया भावा भावविशारदैः॥
हर्षोऽसूया तथा गर्व उत्साहो मद एव च ।
चापल्यमुग्रता वेगो रौद्रे भावाः प्रकीर्तिताः॥३
१. 'धर्मतः'. २. 'हो'. ३. 'ये'.. 'यथा'. ५. 'मतिः. ६. 'भ्रम
हों ग्लानिः'. ८. 'अस्ताविः', 'जडता मृतिः'... 'पाच्या'.
परिच्छेदः] शृङ्गारतिलकम् । अमर्षः प्रतिबोषश्च वितर्कोऽय मतितिः । क्रोषोऽसूया संमोह आवेगो रोमहर्षणम् ॥१५॥ गर्यो मदस्तयोगत्वं भावा वीरे भवन्त्यमी । संत्रासो मरणं चैव वचनीयं भयानके ॥ ३४ ॥ अपस्मारो विषादश्च भयं वेगो मतिर्मदः । उन्मादश्चेति विज्ञेया भावा बीभत्ससंभवाः॥ ३५॥ आवेगो जडता मोहो विस्मयो हर्षणं मतिः । इति भावानिवनन्ति रसेऽस्मिबद्भुते बुधाः ॥ ३६ ॥ एवं संचारिणो भावा ज्ञेयाः प्रतिरसं स्थिताः। सात्त्विकास्तु भवन्त्येते सर्वे सर्वरसाश्रयाः ॥३७॥ या नृत्यगीतप्रमदोपभोगवेषाङ्गसंकीर्तनचारुबन्धा। माधुर्ययुक्ताल्पसमासरम्या वाणी स्मृतासाविह कैशिकीति ॥३०॥ राकारहास्यकरुपरसानां परिदृद्धये । एषा वृत्तिः प्रयोक्तव्या प्रयत्नेन बुधैर्यथा ॥ ३९ ॥ 'सौन्दर्य शंशलान्छनस्य कविमिर्मिथ्यैव तद्वर्ण्यते सौभाग्यं क नु पङ्कजस्य रजनीसंभोगर्भमत्विषः । इत्यालोच्य चिराय चारु रुचिमत्रस्यत्कुरङ्गीदृशो वीक्षेते नवयौवनोन्नतमुखौ मन्ये स्तनावाननम् ॥' 'हस्तेषुः कुसुमायुधस्य ललितं रागश्रियो लोचनं सौभाग्यैकगृहं विलासनिकषो वैदग्ध्यसिद्धिध्वजः । साक्षीदं मदबान्धवस्य निभृतं कस्यापि लीलानिधेः कक्षान्त खमण्डनं सखि नवं पच्छाद्यतां वाससा ॥' १. 'प्रतिवेगश्च'. २. 'अथ सहर्षः'. ३. 'चोकमर्षणम्'; 'शोकहर्षणम्'. ४. 'इति'. ५. 'सर्वरसस्थिता'; 'सर्वरसान्विताः'. ६. असाच्छोकादमे 'कैशिक्यारमटी चैव' इत्यादि प्रथमपरिच्छेदागतः श्लोकः केषुचिपुस्तकेषु दृश्यते. ७. 'भोगैर्देशा'. ८. 'कारुण्यरसातिशयसिद्धयें. ९.'प्रयत्लेन प्रयोज्या विबुधैर्यथा'. १०. 'मृग-'. ११. 'शोमैव', 'शोमेटक'. १२. 'मिन-'. १३. 'भोगस्यैव प्रहम'. १४. 'मधु-'. १६. 'लीलावधिः'. १६. 'संगच्छताम्'.
काव्यमाला।
तुलसत्काञ्चनकुण्डलोज्ज्वलप्रमापि तापाय बभूव येवल
विलासिनीरम्यमुखाम्बुजन्मसु प्रजज्वलुस्तेष्वकृशाः कृशान
या चित्रयुद्धभ्रमशस्त्रपातमायेन्द्रजालटुतिलचिताख्या ।
ओजखिर्वक्षरबन्धगादा लेया बुधैः सारभटीति वृत्तिः
रौद्रे भयानके चैव बीभत्से च विचक्षणैः।
काव्यशोभाकरी त्तिरियमित्यं प्रयुज्यते ॥ ४१
'शस्त्रोद्दारितकुम्भिकुम्भविगलद्रक्ताक्तमुक्ताफलं
स्फारस्फूर्जितकान्तिकल्पितबृहचञ्चतुष्कायितम् ।
क्रोधोद्धावितधीरधोरणलसत्खलाप्रमुग्राग्रह
युद्धं सिद्धवधूगृहीतसुभटं जातं तदा दुर्धरम् ॥'
'नायं गर्जिरवो गभीरपुरुषं तूर्य तदीयं त्विदं
नैते भीमभुजंगभोगरुचयो मेघा इमे तद्गजाः ।
इत्थं नाथ नवाम्बुवाहसमये त्वत्सैन्यशक्षाकुला
म्लायद्वक्ररुचो विरोधिवनितास्त्रस्यन्ति नश्यन्ति च
'पिबन्नसृस्वदन्मांसमाकर्षनन्त्रमालिकाम् ।
कबन्धसंकुले कोष्टा भ्रमत्येष महारणे ॥
हर्षप्रधानाधिकसचर्टत्तिस्त्यागोत्तरोदारवचोमनोज्ञा ।
आश्चर्यसंपत्सुभगा चे या स्यात्सा सात्वती नाम मतात्र नि
नातिगूढार्थसंपत्तिः श्रव्यशब्दमनोरमा ।
वीरे रौद्रेऽद्भुते शान्ते वृत्तिरेषा मता यथा ॥ ४३
'लक्ष्म्यास्त्वं जनको निधिश्च पयसां निःशेषरत्नाकरो
मर्यादानिरतस्त्वमेव जलधे ब्रूतेऽत्र कोऽन्यादृशम् ।
किं त्वेकस्य गृहं गतस्य वडवावहेः सदा तृष्णया
सान्तस्योदरपूरणेऽपि न सहो यत्तन्मनामध्यमम् ॥
१. 'केवलम्'. २. 'वर्णाद्भुतदुर्विगाढा'; 'गुर्वक्षरदुर्विगाता'. ३. 'रीतिः'
कार्चितम्'. ५. 'मुक्कामहम्'. ६. 'बदन्मासम्. ५. 'नदति'. ८. 'वृत्त
शास्त्रा'. १०. 'यशब्दा'. ११.'कान्तस्य'.
परिच्छेदः] शृङ्गारतिलकम् । 'स्फारितोत्कटकठोरतारकाकीर्णवहिकणसंततिः क्रुषा । दुनिमित्ततडिदाकृतिर्बभौ दृष्टिरिष्टसमरांशुमालिनः ।। 'अत्यद्भुतं नराधिप तव कीर्तिवलयन्त्यपि जगन्ति । रक्तान्करोति सुहृदो मलिनयति च वैरिवदनानि । 'निवृत्तविषयासङ्गमधुना सुचिराय मे । आत्मन्येव समाधानं मनः केवलमिच्छति ॥ प्रधानपुरुषमाया सद्क्रोक्तिनिरन्तरा। भारतीयं भवेबृत्चिीरहास्या वाश्रया ॥४४॥ 'जन्मदेहवधबन्धनादिकं तुल्यमेतदितरैः समं सताम् । यत्तथापि विपुलाचलाः श्रियः साहसैकपरतात्र कारणम् 'यशोदाकृतरक्षस्य शासितुर्भुवनगुहाम् । बाल्ये निभृतगम्भीरो हरेर्हासः पुनातु वः ॥ 'निर्भयोऽप्येष भूपालस्तद्ददाति द्विषां युधि । असतेषु यशः शुभ्रमादत्ते चेदमद्भुतम् ॥ इत्यादि रम्याः प्रविलोक्य वृत्तीदृष्ट्वा निबन्धांश्च महाकवीनाम् । आलोक्य वैचित्र्यमिदं विदध्यात्काव्यं कविः सजनचित्तचौरम् ४५ विरसं प्रत्यनीकं च दुःसंघानरसं तथा । नीरसं पात्रदुष्टं च काव्यं सद्धिर्न शस्यते ॥ ४६ ॥ विहाय जननीमृत्युशोकं मुग्धे मया सह । यौवनं मानय स्पष्टमित्यादि विरसं मतम् ॥ ४७ ॥ प्रबन्धे नीयते यत्र रस एको निरन्तरम् । महती वृद्धिमिच्छन्ति नीरसं तच्च केचन ॥४८॥ नखक्षतोच्छलत्पूतिप्लुतगण्डस्थलं रतौ । पिबामि वदनं तस्याः प्रत्यनीकं तदुच्यते ॥ ४९ ॥ १. 'स्पष्टितोत्कट. २. 'मधुरम्'. ३. 'वेदनादिकम्'. ४. 'विपुलाश्चलाः श्रियः'; 'पाटला वरप्रिया', 'विपुलाचलाश्रयः'. ५. 'यशोदाहित-'. ६. 'आलोच्य चौचित्य-'. ५. 'यथा'. ८. अयं श्लोकः केषुचित्पुस्तकेषु नास्ति. ९. 'उल्लसत्पूतिप्नुया'. १०. 'स्म- रामि'. ११. 'प्रत्यनीकमिदं भवेत्'; 'प्रत्यनीकरसं यथा'. .
काव्यमाला। तामेवानुचितां गच्छ ज्वलिता सत्कृते तु या। किं ते कृत्यं मया धूर्त दुःसंघानरसं त्विदम् ॥५० दुर्जनो दयितः काम मेनो म्लानं मनोभवः । कुशो वियोगतसायास्तस्या इत्यादि नीरसम् ॥ ५१ मुग्धा व्याज विना वेश्या कन्येयं निपुणा रवौ । कुलस्त्री सर्वदा धृष्टा पात्रदुष्ट विदं मतम् ॥५२॥ अन्येष्वपि रसेष्वेते दोषा वा मनीषिभिः । यत्संपर्कान यात्येव काव्यं रैसपरम्पराम् ॥५३॥ इति मया कथितेन पथामुना रसविशेषमशेषमुपेयुषा । ललितपादपदासदलंकृतिः कृतधियामिह वाग्वनितायते ॥ शृङ्गारतिलको नाम ग्रन्थोऽयं अथितो मया। व्युत्पचये निषेवन्तु कवयः कामिना ये ॥ ५५॥ कान्या काव्यकथा कीडग्वैदेग्धी को रसागमः । किं गोष्ठीमण्डनं हन्त शृङ्गारतिलकं विना ।। ५६ ॥ त्रिपुरवधादेव गतामुल्लासमुमा समस्तदेवनताम् । शृङ्गारतिलकविधिना पुनरपि रुद्रः प्रेसादयति ॥५ इति श्रीरुद्रमविरचिते शृङ्गारतिलकाभिधाने काव्यरसालंकारे हास्यादिरसनिरूपणं नाम तृतीयः परिच्छेदः । भेट्टश्रीमाधवकविप्रणीतं दानलीलाकाव्यम् । अस्ति स्वस्तिकरी समस्तजगतां निर्वाणगर्वापहा क्षोणीमण्डलमध्यभूषणमणिः काचित्पुरी माधवी । १. 'अत्र'. २. 'मानम्लानः', 'गतो ग्लानिम्'. ३. 'कविपरम्पराम'. ४. ५. 'वैदग्ध्यम्'. ६. 'मण्डलम्'. ७. "तिलकाहते'. ८. 'विबुधनुताम्'. ९.'प्र केषुचिपुस्तकेषु 'त्रिपुरवधादेव' इत्याधान्तिमार्या नास्ति. १०. कवेर्देशकाल स्फुटावेव. प्रणयिमाधवचम्पू.सुभद्राहरणादिप्रन्थकर्तुमणालेश्वरमन्सूनोर्मा भिन्नो माधवमः.
दानलीलाक रम्या कृष्णतरङ्गिणीसहचरी क सत्यानन्दचिदात्मनोऽनवर स्निग्धच्छायतरुपसूनविलसन्माधुर्यलोमx त्कालिन्दीपुलिनोपवर्ति पवनप्रालेयितप्राङ्ग ब्रह्मेन्द्रादिसुरेन्द्रमृग्यमहिम प्रेमैकलभ्यं परं पूर्णब्रह्मरहोविहारभवनं तत्रास्ति वृन्दावनम् ॥ २ ॥ नित्यानेकफलप्रवालसुमनःशीतोष्णवर्षादिभि- यस्मिन्कालगुणैस्त्रिकालविदुषां याता मतिर्मुग्धताम् । श्रीराधामुखकर्णभूषणलसन्माणिक्यचन्द्रांशुम- नित्योद्यत्किरणैः क एष समयो निर्णेतुमित्यञ्जसा ॥३॥ ये राधारतिकान्तकोमललसत्पादारविन्दद्वय- प्रस्यन्दन्मकरन्दपानमुदितखात्मेन्द्रियेन्दिन्दिराः । धर्मादित्रितयं चतुर्विधमपि श्रेयस्तृणीकुर्वते तेषामेव परं मनः सुकृतिनां यस्मिन्नरीनृत्यते ॥ ४ ॥ क्रीडाकौतुकमीक्षितुं भगवतः सर्वे सुनन्दादयो ब्रह्मामर्त्यमुनीन्द्रसिद्धविबुधा नन्दवजानन्दिनः । भूत्वा चन्द्रकिकीरकोककलरुत्कादम्बमुख्यद्विजा यस्मिन्कृष्णमृगादयो मृगवरा निर्वैरमध्यासते ॥ ५ ॥ तत्र श्रीरमणः कलिन्दतनयातीरोल्लसन्मालती- वल्लीपल्लवमल्लिकावलयितद्योतनिकुञ्जालिषु । वंशीवादविनोदनोदितमनोजन्मोपनीतव्रज- क्षामाङ्गीमिषवेदशेखरगिरां वृन्दैरलं क्रीडति ॥ ६ ॥ तल्लीलेक्षणविस्मृतेक्षणगणैरेणाझ्यानादिव भ्रश्यद्भिर्भगणैरनगरभसादेणीगानन्दिनः । त्रुध्यन्मौक्तिकदामकाञ्चनरणत्काञ्चीवणपुरैः संसत्कुन्तलमल्लिकादिसुमनःसंधैर्बभौ केलिभूः ॥ ७ ॥ इत्वं मझुतरखलीषु नलिनीगेहेषु कल्लोलिनी- कूलान्तःपुलिनेषु च प्रमदयन्सोऽरीरमद्रात्रिषु ।
काव्यमाला। माला। तामेवानुचितां गच्छ ज्वलिता भावैरनेकैर्मुहु- किं ते कृत्यं मया धूर्त दुःसंधानतः कंदर्पदर्पापहः ॥ ८॥ दुर्जनो दयितः कार्म मेनो. परिवृतो वृन्दं गवां चारय- कृशो वियोगतमारण्यपुरंदरोऽरुणभुवस्तीरे मनोहारिणि । मुग्धा व्याजाबर्हदलपसनविहितप्रत्यङ्गभूषोत्सवो गायन्वेणुरवैर्दिवापि कृतिनः संलालयन्क्रीडति ॥९॥ एकस्मिन्दिवसेऽवजगजपति!पात्मजैरन्वितः प्रातर्नैव कृताशनो मुरलिकामापूर्य रम्यं वनम् । तत्र मैत्य वनस्थलीषु विहरन्प्रत्यग्रनानाविध- खेच्छाकल्पितकेलिभिर्विलसति प्रेमैकलभ्यो हरिः ॥ १ ऊचुर्गोकुलपालकाः क्वचिदमुं कृष्णं क्षुधासंप्लुताः किंचिच्चिन्तय तत्र तान्नजपतिः प्रत्यब्रवीत्पश्यत । विक्रेतुं व्रजसुन्दरीर्दधिपयो यान्तीः पुरं चेत्तदा याचध्वं पुरतः करं यदि न ता दास्यन्त्यथो लुण्ठत । श्रुत्वैवं वचनानि गोकुलपतेरारुध केचिट्ठमा- न्दूरादेव विलोक्य गोपयुवतीर्मन्द्रक्वणन्नूपुराः । धम्मिल्लग्रथितप्रसूननिकरैर्वीथीरलंकुर्वती- !स्तन्यामृतपूर्णभाजनलसन्मौलीमुदावातरन् ॥ १२ वक्रोक्तिप्रखराः खभावचपला नन्दात्मजं संश्रिता- स्तस्थुर्गोकुलयोषितां तत इतः संवृत्य केचित्पुरः । पन्थानं प्रतिरुध्य कण्टकिलताकीर्णद्रुमैः संकुलं बहोत्तंसवनप्रसूनसुभगा वेत्रैकहस्तास्ततः ॥ १३ ॥ तावन्मुग्धवधूजनः कलरवं गायन्यशः श्रीपतेः काञ्चीनादविभिन्ननूपुररणत्कारैर्मुनीनामपि । अन्तः पञ्चशरानुगं विरचयन्नन्योन्यहासोक्तिभि- हस्तान्दोलनतालिकाभिरभितः खेलम्शनैरभ्यगात् ॥ १. यमुनातटे. २. अन्तःकरणम्, दानलीलार . आयान्तीजसुन्दरीः कलपदं र गायन्तीः प्रतिवीथि गोपपृथु. वल्गन्तश्च मुहुः सहासशपथं संत्रासयन्तश्च धावन्तश्च ततस्ततो रुरुघिरे प्रत्येकमत्युद्धताः ॥ काश्चित्वापि निलिलियरे तत इतो निर्गत्य काश्चिद्ययुः काश्चित्संभ्रमवीक्षणाश्च चकिताः काश्चित्पुनः प्रत्ययुः । सर्वास्ताः प्रतिषिध्य काश्चन पुनस्तानब्रुवन्निर्भया रे रे ब्रूत निरुन्ध केन युवतीः के कस्य वान्तर्बजे ॥ १६ ॥ किं प्रश्नैर्बहुभिर्वयं विधिकराः सूनोजाधीशितु- दोनीनस्य विहारिणो वनभुवि खैरं रस""ऽमुना । आदातुं दधिदुग्धयोः करमितः सर्वे वयं प्रेषिता- स्तगृहीत सुखेन गोपवनिता दत्त्वा स्वकीयान्पथः ॥ १७ ॥ तच्छ्रुत्वा परिहस्य ता अपि मिथः संवीक्ष्य तानूचिरे तिर्यकुञ्चितकंधेरैः करतलैर्दत्त्वासकृत्तालिकाः । एतैरेव मुखैरभीप्सथ पयः पातुं दधि खादुम- तत्प्रक्षाल्य निजान्यमूनि न चिरादागच्छतागच्छत ॥ १८ ॥ काचिद्गोपनितम्बिनी निजकरेणोद्धृत्य किंचिद्दधि खीयं पश्यत जक्षतेति वचनं व्याहृत्य वक्रान्तिकम् । गत्वा गण्डतले विलिप्य झटिति प्रत्यागमत्खान्तरं दृष्ट्या तज्जहसुभृशं करतलैरुच्चैरदुस्तालिकाः ॥ १९ ॥ काचित्पाणितलेन कंचिदपरं हत्वा कपोलस्थले निर्भत्स्यैष करं ग्रहीष्यति मुखं शक्तिं च पश्यन्त्विति । जल्सन्ती पुरतः कैराङ्गुलिपति संदर्शयित्वा मुहुः सर्वामिः सममन्यतः प्रचलिता मार्ग परित्यज्य तम् ॥ २० ॥ गच्छन्तीरपथेन वीक्ष्य जहसुः संकूर्य गत्वा पुरो याता यूयमिति प्रजल्प्य शिरसः पात्राणि चापाहरन् । सानिनो प्रभोः. २. अङ्गुष्ठम्.
काव्यमाला। पसाला। म. रा तामेवानुचितां गच्छ ज्वलिता समानो जानीथ दासीस्तदे- किं ते कृत्यं मया धूर्त दम परिवृतो.नुषः किं वा न तां पश्यत ॥ दुर्जनो दयिता वारण्यपुरंदर मौक्तिकसरैर्नानावतंसैरपि शाबर्हदल्यङ्ग वलयैः सुवर्णलशुनै रत्नाङ्गुलीयैरपि । हारैः काञ्चनचन्द्रकार्यविधुभिः सीमन्तसंदर्भित- आजच्चम्पककुड्मलैश्च तिलकैरुद्दीपयन्ती मरम् ॥ : नानारत्ननिबद्धकाञ्चनलसत्पर्णच्छदैमञ्जुलै- र्मुक्ताभिः परितो लसत्तनुतरं चित्राञ्चलं बिनती। अन्तः कृत्रिमपुत्रिकाविरचनैहे मैश्च रौप्य रसै राजन्नीलदुकूलमुत्कलयती नीवीं करेण क्वचित् ।। खेलत्खञ्जनलोचना नैसि लसन्मुक्ताग्ररत्नान्तर- प्राजिष्णु प्रसरत्सुवर्णकुसुमा बन्धूकरम्याधरा । संसर्पदशनांशुभिर्दश दिशोऽप्युद्भासयन्ती मिथः क्रीडन्ती ललितादिभिः प्रियसखीवृन्दैः समं सस्मिा केशग्रन्थिसुरङ्गदोरकमिलत्सौवर्णपथ्यामणि- द्योतन्मौक्तिकगुच्छवेल्लितगतद्योतन्नितम्बाम्बरा । अन्तः सेयमथाविरास शनकैर्मजीरमञ्जुस्वनै राधा माधवमाकुलं कलयती नेत्राञ्चलान्दोलनैः ।। (चतुर्भिः मौलौ चन्द्रकशेखरं श्रवणयोरर्कप्रभे कुण्डले मुक्ता नस्यलिके ललामतिलकं कण्ठे मणि कौस्तु पाण्योः कङ्कणमङ्गदं च हृदये हारं तथा मौक्तिक कौशेयं कनकप्रमं कटितटे बिभ्रत्वणत्काञ्चिकम् दृष्ट्वा तां निजवल्लभामतिरसादागत्य धृत्वाञ्चलं नीलेन्दीवरकान्तकोमलतनुः किंचिल्ललल्लोचनः । शिअन्नपुरमञ्जुलैर्निजपदैरुल्लासयन्भूसलं सर्वाङ्गे वनमालया विलसितः समेरमूचे हरिः॥ १.नासिकायाम.
दानलीलान
मुग्धे त्वं बहुभिर्दिनैरसि मया !
नित्यं यासि सहालिमिर्दधि
विज्ञेयं कमलाक्षि तत्परमतो मत्तेमकुम्भ
त्वां मुञ्चामि तदैव सुन्दरि यदा सर्वस्य दय,
इत्याकर्ण्य कृशोदरी कलपदं मन्दाक्षमन्दाक्षरं
प्रत्यूचे वचनानि सस्मितमुखी त्वं तस्करो वा वयम् ।
तज्जानासि न किं त्वमेव जननीबद्धो यदोलूखले
त्वां किंचिन्नवनीतचोरमजहात्तत्किं त्वया विस्मृतम् ॥ २९ ॥
रे रे चञ्चल मुञ्च मेऽञ्चलमलं किं लोचने नर्तयेः
सख्यः पश्यत धाष्टमस्य महितां यन्नात्मनो रक्षति ।
इत्युक्त्वा करतोऽपहृत्य वसनं वंशीं च गत्वा द्रुतं
पश्चादेहि गृहाण चेत्यभिदधे साङ्गुष्ठदर्शस्मितम् ॥ ३० ॥
किं कुर्मः सखि नन्दगोकुलपतिआत्याभिजात्यादिमि-
ायांस्तत्तनयस्ततोऽप्यतितरां मान्यो ह्ययं मादृशम् ।
इत्यालोच्य मयानपाश्रितमते रागोऽस्य संस्थीयते
नो चेदद्य तथा क्रियेत पुनरप्येवं न कुर्याद्यथा ॥ ३१ ॥
तत्तस्याः प्रसमीक्ष्य हेलनममी लज्जानमत्कंधरं
गोविन्दं मितरोषसुन्दरमुखं तिर्यक्चलल्लोचनम् ।
दृष्ट्वा चोद्तमन्यवः कृतधियस्तन्नोदिता लुण्ठितुं
धावन्तः परितः पुरंधिनिचयं संतर्जयांचक्रिरे ॥ ३२ ॥
जक्षुः केचन नव्यगव्यमितरेऽमत्राणि जगुस्ततः
श्रीदामाद्यनुगा ब्रजेशजनुषो व्यातेनिरे बल्लवीः ।
इत्थं संभ्रमिता बृहत्कलकलैरूचेऽथ काचिद्वधू-
रायाता किमु लुण्ठितुं करमुतादातुं समादत्त तत् ॥ ३३ ॥
वाचो नः शृणुतान्यतोऽस्त्यपि करो गव्यस्य जातु कचि-
द्रोतिः काचन कल्पिता नवनवा युष्माभिरत्रैव वा ।
कस्तूरीघनसारकं मलयजं चैलालवङ्गादयो
विद्यन्तेऽत्र करं ग्रहीष्यति पुनः कस्यात्र तत्कथ्यताम् ॥३४॥
मान
अमाला।
काव्यमाला।
। द्रव्यं च गव्यं परं
परिवृतोष यत्तनैव युक्तं ततः ।
अरण्यपुरंदरोवचित्कलपदं गायन्ति लोलेक्षणा
गुलाबर्हदलपातु च बिनति कचिदहो गत्वाञ्चलं योषिताम् ॥ ३५
गाखों तद्वचनानि गोकुलपतिः प्रत्यब्रवीत्सस्मितं
दत्त्वा यात करं मदीयमखिलं गत्वा नृपस्याग्रतः ।
ब्रूताहं न ततो बिभेमि दलिका चूर्णस्य चैषास्ति व-
स्तस्यापि त्वरितं प्रयात कुरुत खंखं मनोभावितम् ॥ ३६
ऊचेऽन्याथ तदा त्वमेव नृपतिः साधूच्यतां तत्करः
कस्यायं च कियान्ब्रजेश वनिताहृल्लोचनानन्दन ।
कर्णाभ्यां परिपीय तत्कलगिरः संजातरोमोद्मा
तस्यापाङ्गतरङ्गभङ्गिजनितानङ्गातुराङ्गी वधूः ॥ ३७ ॥
मौलौ गुम्फितमल्लिकासुमनसां नेत्राञ्जनानां तथा
कर्णस्वर्णजपर्णयोश्च मधुनो बिम्बाधरस्यन्दिनः ।
हारस्यापि च मौक्तिकस्य लुठतः कण्ठे कटिप्रकण-
किंकिण्याश्च करं प्रयच्छत रणन्मञ्जीरयोः कोटिशः॥३८
तद्भावं मनसावगाह मदनेनाविद्धचित्ता भृशं
मेरास्या न च भाषितुं समशकंल्लज्जानमत्कंधराः ।
ईषत्कुञ्चितलोचनाञ्चलशरैर्भन्त्यो मुहुर्माधवं
धृत्वा धैर्यमवोचिरे कुचपटैरावृत्य किंचिन्मुखम् ॥ ३९ ॥
श्याम श्यामतमालमञ्जुलतनो दास्यस्खवाज्ञापय
खच्छन्दं तदशान गोरसमिमं साकं स्वकैः किंकरैः ।
अन्यच्चापि यदीप्सितं तव हि तद्वक्तुं न शक्ता वयं
गन्तुं चापि भवत्पदाम्बुजरजः कावामहे केवलम् ॥ ४०
नीलेन्दीवरलोचनः स भगवानाकर्ण्य तत्सादरं
ताभिर्दत्तमथाजजक्ष सखिभिः साकं दषि स्वादुमत् ।
एतस्या मदमत्तवारणगतेः स्निग्धं निरम्बूज्ज्वलं
मृष्टं नैव तवेति संपरिहसन्नानाविनोदैविभुः ॥ ११ ॥
दानलीलाका भुक्त्वा तद्दधि मञ्जुकुञ्जसदनं ग कृत्वा तल्पमनल्पकल्पकुसुमै पीत्वा च खरतोऽप्यरीरमदलं धृत्वा हृदा श्रित्वा मन्मथकोटिजित्वरवपुर्तृत्वा नितम्बाम्बर रसावेशादेषा धृतसुभगवेषा वरतनु- वरं वारंवारं विततनयना बल्लववधूः । निरीक्ष्य प्रक्षुभ्यन्मदनकदनक्लान्तवदना न रन्तुं गन्तुं वा गृहमलमभूद्विस्मृतगतिः ॥ ४३ ॥ इत्थं तन्महदद्भुतं ब्रजभुवां भाग्योदयं वीक्ष्य ते ब्रह्मेन्द्रप्रमुखाः सुराः सुमनसां वृन्दैर्मुदावाकिरन् । एतैः किं चरितं तपः श्रुतिशिरःसंगीततत्त्वेन य- स्वच्छन्दं विहरन्ति जन्म सफलं कुर्वन्ति चेत्यस्तुवन् ॥४४॥ धन्येयं धरणी ततोऽपि मथुरा तत्रापि वृन्दावनं तत्रापि व्रजवासिनो युवतयस्तत्रापि गोपाङ्गनाः । तत्राचिन्त्यगुणैकधामपरमानन्दात्मिका राधिका लावण्याम्बुनिधिस्त्रिलोकरमणीचूडामणिः काचन ॥ ४५ ॥ सौभाग्यं भगवत्प्रियापि नियतं वक्षःस्थलस्थायिनी मुक्तिश्चापि पदारविन्दमधुनः सौगन्ध्यमाकाङ्क्षति । यस्याश्चोपनिषद्रहस्यमपि तद्ब्रह्माद्वयं केवलं विज्ञानात्मकृपावलोकनमतस्तां वर्णितुं कः क्षमः ॥ ४६ ॥ मदनरसिकमौलेबल्लवीभिः सहैवं विविधललितलीलाकौतुकालापितानि । भगवति रतिमन्तः शृण्वतामादरेण ब्रजविपिननिवासं संविदध्युर्जनानाम् ॥ ४७ ॥ तपनतनयातीरे गुञ्जन्मधुव्रतमञ्जुल- प्रसवनिकरै जस्कुलेऽम्बुजद्युतिरञ्जिते ।
माला। न्तां मुहुः कुसुमाकरे यामे मनो रमतां सताम् ॥ ४८॥ पटविद्यावनवसतिरभूद्विष्णुशर्मा द्विजन्मा सोमेनेष्ट्वा च येनोत्तरवयसि पुनर्मुक्तिदामेत्य काशीम् । शंभोनिर्वाणसमन्यनुपमविधिभिः कीर्तिमास्थाप्य लोके संन्यस्याशेषकर्माध्यगमि पदमहो नैति यस्मिन्मनोऽपि ॥ ४९॥ अजनिषत तनूजास्तस्य षड् यः कनीया- नखिलगुणगरीयांस्तत्र यज्ञेश्वराख्यः । अजनि च तनयोऽस्माद्वाचिदेवोऽस्य चास्ता- मगणितगुणधामा लक्ष्मणो माधवश्च ॥ १० ॥ आद्यो वंशावतंसः सुरुगुरुसदृशः प्रज्ञया विष्णुदेवः ख्यातो यश्चक्रवर्तीत्यनुपमकवितालब्धकीर्तिः कवीनाम् । वृन्दारण्येन्दुनन्दात्मजपदनलिनद्वन्द्वनित्यानुवृत्त्या प्राप्तान्तःप्रेमभक्तिप्रमुदितहृदयो नन्दनो माधवस्य ॥ ११ ॥ तस्यासंस्तनयास्त्रयोऽपि सुधियो रामः क्षमाचन्द्रमाः श्रीमान्विश्वपतिश्च माधव इति ख्याता गुणाम्भोधयः । तत्राकारि कनीयसा सुकृतिना चेतश्चमत्कारकं काव्यं कृष्णकृपाभिलाषमनसा श्रीदानलीलाभिधम् ॥ ५२ । वसुकररसेन्दु(१६२८)वर्षे पक्षे शुक्ल चतुर्दश्याम् । चन्द्रे तपसि कृतेयं वारीग्रामे सुराज्ञि शूरजने ॥ १३ ॥ इति श्रीमद्वृन्दावनचन्द्रचरणारविन्दमकरन्दाखादमृदितमनोमधुकरेण भश्रीमन्माधवेन कृतं दानलीलामिधं काव्यं समाप्तम् ।
No text on this page.