Bharatiya Vidya Bhavan Library, Mumbai
Swarajya Vijaya
Front matter
पण्डिता सौ.क्षमा राव
साहित्यचन्द्रिका
जन्म:४-७-१८९०
मृत्यु:२२-४-१९५४
॥ श्रीगणेशाय नमः ।।
स्वराज्य-विजयः
presented by the Ministry of Eduation
and Soclal Welfars Governme-t of dia.
पण्ठिता सौ. क्षमा राव
प्रथमावृत्ति : १९६२
न.
मा. त्रिपाठी, प्रा. लि.
प्रिन्सेस स्ट्रीट, मुम्बापुरी २
प्रथमावृत्तिः
३० जान्युआरि १९६२
१० माघ १८८३
0 लीला राव दयाल १९६२
मूल्यं : पपकम्
रु.६००
याळकृष्ण गणेश दयळे, इत्यनेन
चिरापाजार, मुम्बापुर्यो
फनाटक-मुद्रणालये मुद्रिता ।
गला गर दयाल, रत्येतया
२०, न्यू मरिन लाइन्ग
मुम्बापुरी ., इत्यत्र प्रकाशिता ।
अनुक्रमः प्रथमोऽध्याय द्वितीयोऽध्याय तृतीयोऽध्याय चतुर्योऽध्याय पञ्चमोऽध्याय पाठोऽध्याय सप्तमोऽध्याय अष्टमोऽध्याय नवमोऽध्याय दशमोऽध्याय एकादशोऽध्याय द्वादशोऽध्याय त्रयोदशोऽध्याय चतुर्दशोऽध्याय पञ्चदशोऽध्याय पोडशोऽध्याय सप्तदशोऽध्याय अष्टादशोऽध्याय नवदशोऽध्याय विशोऽध्याय एकविंशोऽध्याय द्वाविंशोऽध्याय त्रयोरिंशोऽध्याय चतुर्दिशोऽध्याय पञ्चरिंशोऽध्याय पदिशोऽध्याय सप्तविंशोऽध्याय अष्टाविंशोऽध्याय देशखण्डनम् । सेवाग्रामवृत्तवर्णनम्। सन्याग्रहोपदेश.। विश्वयुद्धसमाप्ति । शान्तिसन्देश । वेवलोपन्यास । सिमटासमेलनम् । वन्दीमोक्ष । हिन्दसैनिक-वधमोचनम् । गान्धिवगापिप-सलाप । आन्युस्मारकस्थापनम् । आन्धस्तवनम् । छात्रसदेश । हरिजनशिक्षावेश्मोद्धाटनम् । नाविक-कार्यनिग्रह । मदुरायात्रा। पहीग्रामसम्मेलनम् । रामनाममहिमावर्णनम् । हरिजनसहवासानुमोदनम् । गान्धिनिमन्त्रणम् । मन्त्रिसमन्त्रणम् । मन्त्रिसन्धानवैकल्यम् । रामराज्यवर्णनम् । नवविधानवर्णनम् । मसूरीयात्रावर्णनम् । मन्त्रिनियोजनम् । आकस्मिकोद्घात । कल्कत्ताविप्लव ।
अनुक्रमः प्रथमोऽध्याय देशखण्डनम् । द्वितीयोऽध्याय सेवाग्रामवृत्तवर्णनम् । तृतीयोऽध्याय सत्याग्रहोपदेश । चतुर्थोऽध्याय विश्वयुद्धसमाप्ति । पञ्चमोऽध्याय शान्तिसन्देश । पठोऽध्याय वेवलोपन्यास । सप्तमोऽध्याय सिमलासमेटनम् । अष्टमोऽध्याय बन्दीमोक्ष । नवमोऽध्याय हिन्दसैनिक-वधमोचनम् । दशमोऽध्याय गान्धिवगाधिप सलाप । एकादशोऽध्याय आयुस्मारकस्थापनम् । द्वादशोऽध्याय आयस्तवनम् । प्रयोदशोऽध्याय छात्रसदेश । चतुर्दशोऽध्याय हरिजनशिक्षावेश्मोद्घाटनम् । पञ्चदशोऽध्याय नाविक-कार्यनिग्रह । पोडशोऽध्याय मदुरायात्रा। सप्तदशोऽध्याय पलीग्रामसम्मेलनम् । अष्टादशोऽध्याय रामनाममहिमावर्णनम् । नवदशोऽध्याय हरिजनसहवासानुमोदनम् । विशोऽध्याय गान्धिनिमन्त्रणम् । एकाविंशोऽध्याय मन्त्रिसमन्त्रणम् । द्वाविंशोऽध्याय मन्त्रिसन्धानवैकल्यम् । ज्योरिंशोऽध्याय रामराज्यवर्णनम् । चतुर्दिशोऽध्याय नवविधानवर्णनम् । पञ्चविंशोऽध्याय मसूरीयात्रावर्णनम् । पावशोऽध्याय मन्त्रिनियोजनम् । सप्तविंशोऽध्याय आकस्मिकोद्धात । अष्टाविंशोऽध्याय कलकत्ताविप्लव ।
.. एकोनत्रिंशोऽध्यायः श्रीगान्धिजन्मोत्सवः । त्रिंशोऽध्यायः विदर्भविप्लवः । एकत्रिंशोऽध्यायः श्रीगान्धेः कल्कत्ताप्रस्थानम् । द्वात्रिंशोऽध्यायः गान्धिप्रवर्षणम् । त्रयस्त्रिंशोऽध्यायः नवखालीप्रयाणम्। चतुस्त्रिंशोऽध्यायः वनग्रामपर्यटनम् । पञ्चत्रिंशोऽध्यायः गान्धिप्रयासः । पट्त्रिंशोऽध्यायः ग्रामपर्यटनम् । सप्तत्रिंशोऽध्यायः राधामुकुन्दमूर्तिस्थापनम् । अधात्रिंशोऽध्यायः ग्रामाठनम् । नयत्रिंशोऽध्यायः स्वराज्योद्घोषणा। चत्वारिंशोऽध्यायः आसियासम्मेलने गान्धिप्रवचनम् । एकचत्वारिंशोऽध्याय. कोराणपठनाक्षेपनिरासः। द्वाचत्वारिंशोऽध्यायः राम-रहीमसाम्यनिदर्शनम् । त्रयश्चत्वारिंशोऽध्यायः महात्मानुशासनम्। चतुश्चत्वारिंशोऽध्यायः गान्धेरनुशासनम् । पञ्चचत्वारिंशोऽध्यायः लोकसान्त्वनम् । पट्चत्वारिंशोऽध्यायः देशखण्डनम् । सप्तचत्वारिंशोऽध्यायः काश्मीरप्रस्थानम् । अएचत्वारिंशोऽध्यायः स्वराज्यलाभः । नवचत्वारिंशोऽध्यायः दिल्लीविलयः । पञ्चाशोऽध्यायः शरणार्थिसान्त्वनम् । एकपञ्चाशोऽध्यायः अन्तिमप्रायोपवेशनम् । द्वापञ्चाशोऽध्यायः श्रीगान्धेरूपरि बम्भारक्षेपणम् । निपञ्चाशोऽध्यायः महामनो निर्वाणम् । चतुःपञ्चाशोऽध्यायः अन्योपमहारः ।
पृष्टम् श्लोकांकः ९ ९ २४ ૨૮ २९ ९ २१ २५ २६ २९ ४९ ९ १ शीर्षकम् १६ १८ १० ४८, ४९, ५१ शुद्धिपत्रम् । अशुद्धम् शुद्धम् जेतणां जेतृणां पूजितास्तेऽद्यःवध- पूजितास्तेद्य वध- पर्यटन पारद् क्वचिन्महा कचिन्महा- वीरपैर्दघ्या वीरैयुद्ध्वा सर्वथवै सर्वथैव विनमयमिति विनिमेयमिति पक्ष्यास्तथापि पक्षास्तथापि त्यक्तस्याप्यखिलजनैः त्यक्तस्याप्यखिलैजनैः पत्रिकान्दचतुष्ठायात् -चतुष्टयात् पल्लीग्राम- पल्लीग्राम- नामसाहस्त्रादेक नामसाहस्रादेक- तमुपश्रत्य तमुपश्रुन्य बिला दीयेच्छां बिर्ला मदीयेच्छा "पविद्रोह द्वेषविद्रोह द्यत द्यूतं सर्वे निमुक्तो निर्मुको भोगलोलुपाा भोगलोलुपाः दास्यभावमुपाश्रितः दास्यभावमुपाश्रितः परिवृत्त्याभवेद् ध्रवम् परिवृत्या भवेद् वम् वैभिनृपते त्वेभिनृपते- पर तु परंतु कल्लक्त्ता- कल्कत्ता- यदिस्लामश्रतो यदिस्लामश्रुतौ कचिदन्यश्चै कचिदन्यैश्च ब्राहि नः भूहि नः वाताभिवव्ही या भिव्ही- अरसितोऽभवन् अवमितोऽमवत् ---मनयालखमेक -मनयल्लेखमेवं राधाकुमुन्द राधामुकुन्द २ २ ३ ३ ७५ १२ २६ ३२ २० २२ ३ १ ६ २२ शोकम् श्लोकांकः शीर्षकम् . अशुद्धमू ख्यां यः सदृशत- सख्यां वः शत- आसिया सम्मेलने असियासम्मेलने मानुषव्यतीराता मानुषव्यक्तीरार्ता कथं स्थातु कथं स्थातुं कोराण. रामरहीमसाम्यनिदर्शनम्। कल्पेताम् कल्पताम् गन्थोपसंहारः ग्रन्थोपसंहारः २८ शीर्षकम् १४ शीर्षकम् १४८ १७६
॥ श्रीः॥
प्रथमोऽध्यायः
देशखण्डनम्।
यो भूत्वापि निराकृतिर्वसुमतीमुद्धर्तुमात्मौजसा
स्वीचके मनुजाकृति कलियुगे साक्षात्परः पूरुषः ।
तं लीलानरविग्रहं समर्श सेवैकवद्धादरम्
सत्याहिंसननित्यपूतमनसं प्रेम्णाभिवन्दामहे ॥१॥
अथ सन्धानसंवादः प्रवृत्तो गान्धिजिन्नयोः ।
पाकिस्थानं समुद्दिश्य सर्वथाऽभून्निरर्थकः ॥ २॥
जिन्नः प्रतिनिविष्टोऽभूत्स्वसमीहितसाधने ।
तं विचालयितुं गान्धिर्न शशाक दुराग्रहात् ॥ ३॥
सेवाग्रामाश्रमं यावदध्युवास महामुनिः ।
नाना दिग्देशतो लेखास्तावत् तत्करमापतन् ॥ ४ ॥
विभाजनाजन्मभूमेरनर्थान् सम्भविष्यतः ।
ध्यायन्तो देशजा लोका बिभ्यति स्म निरन्तरम् ।। ५ ।।
तस्मात्प्रार्थयमानास्ते लिखन्ति स्म दिने दिने ।
"मा सर्वथाऽनुमोदस्व भारतस्य विभाजनम् ॥ ६ ॥
सुख हि भवदायत्तं सर्वभारतवासिनाम् ।
जिन्नस्तु निजपक्ष्याणां केवलं शुभमिच्छति" ॥ ७॥
इत्यादि लिखितं प्रेक्ष्य परमानर्थशकिनाम् ।
ददौ प्रत्युत्तरं गान्धिर्वृत्तपत्रेषु तद्यथा ॥ ८ ॥
"अयि भो बान्धवा मा स्म भैष्टास्मिन् प्रस्तुते मनाक् ।
प्राणेभ्योऽपि हि मे प्रेयान् मातृभूमेः सुखोदयः ॥ ९॥
खण्डन स्वशरीरस्य करिष्येऽहं सहस्रशः ।
न तु स्वप्नेऽपि विच्छेदं चिन्तयिष्ये जनुर्भुवः ॥१०॥
स्वराज्य-विजयः
यावन्नकीभविष्यन्ति भारते हिन्दुमुस्लिमाः ।
तावत्स्वराज्यसम्पत्तिः सर्वथा नोद्भविष्यति ॥११॥
इत्याहुः शासका आंग्लाश्चिरादपि पुनः पुनः ।
मुस्लिमास्त्वनुवर्तन्ते सदा जिन्नस्य शासनम् ॥ १२ ॥
अतो मासद्वयात्पूर्व तत्सन्धानसमुत्सुकः ।
जिन्नेन मासपर्यन्तमकार्य साधु मन्त्रणम् ॥ १३ ॥
तथाऽभूत् तथाप्यत्र न भग्नाशोऽस्मि निश्चितम् ।
भगवत्कृपया जह्याद् जिन्नोसौ स्वदुराग्रहम् ॥ १४ ॥
जन्मभूमिर्विभक्ता चेद् विपद्ग्रस्ता भविष्यति ।
इति स्वयं प्रतीतः स्यात्स विचारपरः पुनः ॥ १५ ।।
इत्यहं परमात्मानं प्रार्थये च दिवानिशम् ।
स एव सत्यं सत्यं च परमात्मेति मे मतिः ॥ १६ ॥
स एव सङ्कटेऽस्माकं भविता मार्गदर्शकः ।
सारे सत्याग्रहस्यास्मिन् जीवितं मेऽवलम्बितम् ॥ १७ ॥
राजकीयगतिप्टम्भादद्य वित्रासितो जनः ।
यथा न जनयेत्क्षोमं तथा रक्ष्या हि शान्तता ॥ १८ ॥
इष्टसिद्धिर्भवत्येवेत्यस्ति मे प्रत्ययः सदा ।
अत्यन्तविषमे कालेऽप्येष मे हृद्यभासत ॥ १९ ॥
न चाक्षुषप्रमाणेन तदस्तित्वसमर्थनम् ।
विधातुं शक्यते दिव्यः प्रकाशः प्रत्ययो हि सः ॥ २० ॥
अस्मिन्नजीकृत कार्ये मम नास्ति पराजयः ।
भवेयमन्यथा ध्यायन् देवविश्वासघातुकः ॥ २१॥
मत्पुरोऽस्ति हि यत्कार्य तद्विधेयं मया मुदा ।
किमीयं च कुतस्त्यं चेत्यादिचिन्ता न मां स्पृशेत् ॥ २२॥
'देशखण्डनम् ।
यो भवेदप्रमेयोऽर्थस्तत्परामर्शसाहसम् ।-::
न कुर्यादिति जानीमो विवेकोद्भवया धिया ॥२३॥
सत्याभासग्रही नाहं न महात्मा न वा बुधः।
अस्म्यहं भूमिजश्चान्यप्राणियद्दोपभागपि ॥ २४ ॥
मादृशास्तु विनश्यन्तु शतशोऽपि शरीरिणः ।
मा पुनः सत्यलोपो भून्मद्विधानां परीक्षणे ॥२५॥
निरन्तरमहं यत्नात्सत्यस्यान्वेपणे रतः ।
न पुनर्लब्धमद्यापि तत्सत्यं स्वस्वरूपतः ॥२६॥
न मत्पराभवः कार्य मम धैर्य विनाशयेत् ।
स पियं तनुते शुद्धां धीः शुद्धा मार्गदर्शिनी ।। २७ ।।
परमात्मनि विश्वासाद्विश्वासो मे नरेष्वपि ।
नरेष्वपि च विश्वासाद्विश्वासः परमात्मनि ॥२८॥
ईश्वरेच्छापरिज्ञानं ममैकस्य न केवलम् ।
सर्वस्यापि नरस्यैपा स्फुरत्यन्तर्दिने दिने ॥२९॥
वयं न शृणुमस्तस्याः सूक्ष्मनादं प्रमादिनः ।
अन्धा इव न पश्यामो ज्वालास्तम्भं पुरोगतम्" ।।३०।।
इति बोधामृतं वर्षन् सान्त्वयित्वा स्वदेशजान् ।
राज्ञः प्रतिनिधि द्रष्टुमैच्छत्संधित्सया यतिः ॥३१॥
स प्रभुर्वेवलो नाम तत्संधानपरामुखः ।
न्यपेधीदागर्म साघोरसकृत्सिमलाचलम् ॥ ३२॥
अथ श्रीकस्तुराम्बायाः स्मारकत्वाय सञ्चितः ।
यः परः कोटिरूप्याणां राशिरासीदवस्थितः ।। ३३ ।।
वृद्धये तस्य तत्सर्व महात्मा न्यस्तवान्धनम् ।
राजकोशेऽमवद्येन लाभो राज्यस्य शासितुः ॥ ३४ ॥
४ स्वराज्य-विजयः रिक्तीभूते धनागारे महायुद्धमहाव्ययात् । वृद्धिसम्पादकं गान्धिमभ्यनन्दत्सदुक्तिभिः॥३५॥ मुहुः प्रत्यादिशद्दयो गान्धेर्निजदर्शनम् । सम्राटप्रतिनिधिः सोऽयं तं दिलीपुरमायत् ।।३६॥ शान्तां राष्ट्रोयमज्वालामुद्दीपयितुमुत्सुकः । प्रभोः श्रीवेवलस्यागापा सन्धित्सया मुनिः ॥ ३७॥ हिन्दुमुस्लिमबैमत्यादाग्लराज्यं सुरक्षितम् । तिष्ठतीति विवेदासौ सम्राटप्रतिनिधिदृढम् ॥ ३८ ॥ अप कौटिल्पमाश्रित्य जिनपक्षीयतां गतः । हिन्दुमुस्लिमलोकानां महद्वैरमजीजनत् ॥ ३९ ॥ एकतो देशविच्छेदे स जिनं प्रोदसाहयत् । अन्यतः पक्षयोरक्यं विना नैव स्वतन्त्रताम् ॥ ४० ॥ कदापि प्राप्नुयुर्लोका इति श्रीवेवलो ब्रुवन् । प्रशशंसाग्रतः श्रीमगान्धेर्भारतखण्डनम् ॥४१॥ हिन्दुमुस्लिमलोकानामनैक्यं प्रतिबन्धकम् । भारतीयाभिकाहाया इति स्पष्टमवोचत ॥४२ ।। वादोत्तरं महात्माऽथ प्रत्यगाद्वरधापुरम् । विसृज्य राज्यसूत्रस्य ग्रन्थिमेताममोचिताम् ॥४३॥ . इति सौ. क्षमायाः कृतिषु स्वराज्यविजये देशखण्डन नाम प्रथमोऽध्यायः ।
द्वितीयोऽध्यायः
सेवाग्रामवृत्तवर्णनम्
बाणाब्धिग्रहचन्द्राङ्के वत्सरे यदुपानमत् ।
तदत्र चरितं पुण्यं वर्ण्यते श्रीमतो मुनेः ।। १ ।।
अथ राष्ट्रसभा तस्थौ शासकेभ्यः परामुखा ।
यावदासीन्महायुद्धं प्रचण्डमधिकाधिकम् ॥ २॥
गतकार्तिकमारभ्य सेवाग्रामे वसन् सुखी ।
महात्मा सहसा शीतकासग्रस्तोऽति विव्यथे ॥ ३॥
संभाषणश्रमो मा भूदिति वैद्यैर्नियोधितः ।
द्वित्रानधारयन्मौनं सप्ताहान्नियमास्थितः ॥४॥
नित्यमागन्तुकैः सार्धमात्मसंदर्शनोत्सुकैः ।
लेखनेन कथालापमकरोद्वद्धवाड्मुनिः ॥५॥
आसीदेकः प्रकोठेऽस्य वर्णमालामयः पटः ।
तन साङ्गुलिनिर्देशं चके प्रश्नोत्तराणि सः ॥ ६ ॥
अनायासो महात्मायमेकाक्षरवच.पटुः ।
स्वयोगक्षेमनिर्वाहे शान्तबृचिरपारयत् ॥७॥
स्थिति तादात्विी देशे ध्यायता तेन निश्चितम् ।
संविः कार्यों मयैवाय शर्मणे पक्षयोरिति ।।८।।
मियं सर्वयत्लेषु कृतेष्वपि महात्मना ।
संधानं चेन्न कुर्यातां द्वा पक्षी धिक्तयोमतिम् ॥ ९॥
कातर्यमतिजाव्यं च ताभ्यामाविष्कृतं भवेत् ।
इत्यूचुः पक्षयोरेव मूयिष्ठाः सद्विवेकिनः ॥ १०॥
अयामेरिकसण्डस्य येलविद्यालयात् सुधीः ।
सेरामामं समायातो देहिसन्नुपनाममारु ॥११॥
६ स्वराज्य -विजयः स जगाद विना गान्धिं नास्त्यन्यः पुरुपो भुवि । स्वधर्मनियमासक्तः संगरेणाप्यवाधितः ॥ १२ ॥ शतवोत्तरं रूस्वेल्ट्चचिलस्टालिन्मुखानान् । विस्मृत्य जगती गान्धेर्नामघोषं करिष्यति ॥ १३ ॥ समर्हेत्साभिधश्चान्यो लेखकोऽमेरिकोद्भवः । स्वप्रबन्धेऽलिखच्छान्तिमार्गदर्शकनामनि ॥ १४ ॥ इतिहाससुसंस्कृत्योरध्यात्मविपयेऽपि वा। भारतादधिकः कोऽपि न देशः शान्तिवत्सलः ॥ १५ ॥ राष्ट्रिय भारते कृत्यं गान्धिना यत्प्रवर्तितम् । वर्धिष्णोः प्राच्यखण्डस्य सहकाराय कल्पते ॥ १६ ॥ जगद्रूपमहासंस्थां संप्रविश्याथ भारतम् । सर्वराष्ट्रियमेलेपु पदं योग्यमवाप्स्यति ।।१७।। क्रमेण गान्धिरुल्लाघः संवृत्तोऽभवदासा । सूत्रनिर्माणयज्ञं च कर्तुमारब्धवान्पुनः ॥ १८॥ रोमारोलांसमाख्यस्य मृतिवाती सुहृन्मणेः । श्रुत्वा न तत्र विश्वासमकरोदप्रवीच सः ॥ १९॥ वृत्तमेतदसत्यं स्याद्यथोदन्तः पुराभवत् । न श्रद्धेयमिदं हन्त भूयान्मित्रं निरामयम् ॥ २० ॥ इति सौ. क्षमायाः कृतिषु स्वराज्यविजये सेवाग्रामवृत्तवर्णनं नाम द्वितीयोऽध्यायः॥
तृतीयोऽध्यायः।
सत्याग्रहोपदेशः
माघस्यान्तिमसप्ताहे स्वातन्त्र्यदिवसोत्सवम् ।
पुनरुद्धोपयन्नूचे श्रीमान् गान्धिः शुचिवतः ॥१॥
"आ-दास्यबन्धनिर्मुक्तेरा-स्वातन्त्र्यफलोदयम् ।
नास्ति भो मम विश्रान्तिः प्राणेभ्यो जन्मभूः प्रिया ॥२॥
इति ब्रतग्रहादब्दा मम पञ्चदशात्ययुः ।
यत्सिद्धथै प्रार्थयेऽनन्तप्रभावं परमेश्वरम् "॥३॥
इत्युद्धोषयति प्राज्ञे सेवाग्रामान्महात्मनि ।
गृहीताः शतशो दिल्लयां राष्ट्रध्वजकरा जनाः ॥ ४ ॥
स्वातन्त्र्यदिवसे जोपं सेवाग्रामेऽपि शोधकरः ।
खनित्रमार्जनीहस्ताः पथि यान्ति स्म वृन्दशः ।।५।।
असांग्रामिकशखानप्यादिशन्पुररक्षिणः ।
श्रेणीभूयं न गन्तव्यं गम्यतां तु पृथक् पृथक् ॥ ६ ॥
अवमत्य तदादेशं मार्गशोधकमण्डलम् ।
तस्थौ तत्रैव निःशब्दं निश्चलं च निराकुलम् ॥ ७ ॥
प्रसंग तं समुद्दिश्य प्रदोपप्रार्थनोत्तरम् ।
साभिनन्दं प्रहृष्टात्मा तपस्वी सोऽब्रवीद्यथा ॥ ८॥
सन्त्यत्र निखिलाः संघा मदीयादेशवर्तिनः ।
अहमेव ततो वाच्यस्तेषामखिलकर्मसु॥९॥
पुरा नैमोणिका कार्यक्रमोऽशिक्ष्यत वो मया ।
सत्याहिंसात्मकान्नान्यः पन्थाः स्वातन्त्र्यलब्धये ॥१०॥
सायुधै रक्षकैर्मार्गे तर्जिता अपि निर्भरम् ।
न विपर्यासमापन्ना इति स्तुत्याः स्थ सर्वथा ॥ ११ ॥
८ स्वराज्य-विजयः असांग्रामिकशस्त्राश्चेदगमिष्यत तद्वशम् । न सत्याग्रहिणोऽमस्ये हन्त वः कातरान् पुनः ॥ १२ ॥ स्थैर्यगाम्भीर्यवृत्तीनां युष्माकं पुरतो ह्यमी । सशस्त्रा अपि संजाता रक्षका निष्प्रयोजनाः ॥१३॥ यदि कोपवशं यूयं दुर्दैवादगमिष्यत । तदाग्नेयास्त्रवर्षे तेऽकरिप्यन् पुररक्षकाः ॥१४॥ हृदन्तःप्रेरणा काचिजाता वो मार्गदर्शिनी । यत्सत्यं परमात्मा सा मया हि व्यपदिश्यते ॥ १५ ॥ अस्ति मुख्याधिकारी नः स्वराज्याप्तिः स्वजन्मतः । मन्त्रोऽयं तिलकाद्यैः प्राक् पवित्रः समुदीरितः ॥ १६ ॥ सत्येनाहिंसयैवाद्य मन्त्रसिद्धिरवाप्स्यते । नैर्माणिकक्रियोद्योगे हन्त ग्रामीणकोटिभिः ॥१७॥ उत्सैकं न भजध्वं मोः सास्त्ररक्षकनिर्जयात् । उत्सेको हि विनाशाय नम्रता निकपोऽस्तु वः" ॥१८॥ इति सौ. क्षमायाः कृतिपु स्वराज्यविजये मार्गशोधकानां सत्याग्रहोपदेशात्मकः तृतीयोध्यायः ।
चतुर्थोऽध्यायः
विश्वयुद्धसमाप्तिः ।
करोति स्म महायुद्धं जगतीं तमसावृताम् ।
तावद्धिष्टुरवीरस्य मृतिवार्ता विशुश्रुवे ॥ १ ॥
विश्वयुद्धप्रसंगेन कृत्वात्यन्तधनव्ययम् ।
आङ्गभारतस्याभूणग्रस्ताधिकाऽधिकम् ॥ २॥
अवर्धत विपज्जालमाड्ग्लभूमेर्दिने दिने ।
अत्यन्तशोचनीयाऽऽसीदाग्लानां हि गृहस्थितिः॥ ३॥
भयानकमिदं युद्धं पभिरब्दैः प्रवर्तितम् ।
समाप्सिमगमज्येष्ठे मासि दैवानुयोगतः ॥ ४ ॥
फ्रान्साम्लामेरिकारूसीप्रदेशेषु जितारिपु ।
दिक्षु दिक्षु समश्रावि प्रहर्षस्य महाध्वनिः ॥ ५ ॥
जेतणां शुश्रुचे यावज्जयघोपप्रतिध्वनिः ।
हाहाकारः श्रुतस्तावच्छार्मण्येतालिदेशयोः ॥ ६॥
ये सेनापतयः पूर्व गोरिंगकैटलादयः ।
शार्मण्यैः पूजितास्तेऽद्य वधदण्ड्या मताः परैः ॥ ७॥
परस्त्रीलोलुपः पूर्व दुरधुद्धिर्दशाननः ।
न केवलं स्वयं नष्टः स्वं कुलं च व्यनाशयत् ॥ ८॥
प्रभावोत्कर्पगृध्नुः सन् कृत्स्नविश्वजिगीपया ।
हिट्लरोऽपि विनष्टासुर्मातृभूमि व्यनाशयत् ॥ ९॥
अहो यूरोपदेशीयाः ख्रिस्तधर्मानुयायिनः ।
विस्मरन्ति गुरोर्वाक्यं तदेतत्कलिचेष्टितम् ॥ १० ॥
यदहिंसात्मकं धर्ममनादृत्याभवन्निमे ।
देशसंरक्षणव्याजाद्रिपुरक्तपिपासवः॥ ११ ॥
स्वराज्य-विजयः समातेऽपि महायुद्धे पाश्चात्यावनिमण्डले । जापानामेरिकायुद्धं दिशि प्राच्यां प्रचक्रमे ॥१२॥ समाप्रो विश्वयुद्धेऽस्मिन् जयोदयफलं भवेत् । संयुक्तानेकदेशानां न परं भारतावनेः ॥१३॥ भारतीयाश्च वीरा हि युध्यमानाः सहस्रशः। रणभूमौ जहुः प्राणान् पाश्चात्यानां विमुक्तये ॥१४॥ शार्मण्येतालिदेशीयरणक्षेत्रेवमी भटाः । प्रापुः सेनापतेः श्लाघां सर्वत्र बहुमानिताः ॥१५॥ पुत्ररत्नेषु नटेषु दुःखार्ता भारतावनिः । विमुक्तिं चेन्न विन्देत धिग्दुरन्तं महामृधम् ॥१६॥ स्वातन्त्र्य भारतायाभला नोचेद्दद्युस्ततोऽचिरात् । भविष्यति ततोऽहिंसासंगरारम्भघोयणा ॥१७॥ इति सौ. क्षमायाः कृतिषु स्वराज्यविजये विश्वयुद्धसमाप्सिर्नाम चतुर्थोऽध्यायः ।
पञ्चमोऽध्यायः शान्तिसन्देशः। प्रकृति प्रतिपन्नोऽथ महात्मा निर्गतो गदात् । सानुगैश्चैत्रमासान्ते सेवाग्रामाद् विनिर्यया ॥१ अहानि कतिचिन्मोहमय्यां पुण्यपुरे तथा । जनायोपादिशत्कार्य प्रकृते राजसङ्कटे ।। २ ।। ततश्च ग्रीष्मविश्रात्त्य विहाराय समुद्यतः । महाबलेश्वरं शैलं जगामाऽऽयासवर्जितः ॥३॥ सा च शैलस्थली पूता तत्पादाम्बुजरेणुभिः । स्वागतं हर्म्युला चके शकुन्तमधुरस्वनैः ॥ ४॥ पश्यन् प्रकृतिसौन्दर्य क्रीडां च मृगपक्षिणाम् । संलपन् कृपकैर्वन्यैरनपीदिवसान् सुखम् ॥ ५॥ ततः पञ्चगणिक्षेत्रे कश्चिन्कालं वसन्मुनिः । वभूव वृत्तपत्रेभ्यो लेखने व्यापूतः सदा ॥ ६ ॥ लिखित्वांग्लभुवोमुख्यमन्त्रिणे चर्चिलाय सः । पत्रं संप्रेषयामास राजप्रतिनिधेहम् ।। ७ ।। किञ्चित्कालोत्तरं राज्ञो मुख्यामात्यानुमोदितः । प्राकाश्यमनयल्लेखमुपकर्तुं स्वदेशजान् ॥८॥ (महात्मनः पत्रम्) अयि प्रेमासदामृताचचिलायी इदं वचः।। युष्मान् पञ्चगणीशैलादभिनन्द्य ब्रवीम्यहम् ॥ ९॥ श्रूयते यद्भवद्भिः प्राङ्मुग्धोऽयं नग्न भिक्षुकः । तमिच्छामि विनिष्पेष्टुमिति मां प्रति घोपितम् ।। १० ।।
१२
स्वराज्य-विजयः
तां मम्यारोपितां संज्ञां मन्येऽहमतिदुर्लभाम् ।
भिक्षुकस्य पदं लब्धं प्रयते हि मया भृशम् ॥११॥
भिक्षुको हन्त विश्वस्य जनोऽयमुपयोज्यताम् ।
आवयोर्देशसौख्यार्थं तद्वारा जगतस्तथा ॥ १२ ॥
अथामेरिकखण्डे सान्फ्रान्सिस्कोनाम्नि पत्तने ।
अखण्डजगतः शान्त्यै मेलनीया महासभा ॥१३॥
इति दिक्षु समस्तासु लोकमुख्यैर्विनिश्चिते ।
प्रार्थित गान्धिना कार्यत्रयं संसारशान्तये ॥१४॥
यद्यखण्डजगच्छान्तिरुद्दिष्टा परमार्थतः ।
तर्हि वक्ष्यामि तत्कार्य येन सिद्धिर्भवेद् ध्रुवम् ॥ १५ ॥
भवतु प्रथमं पूर्णस्वातन्न्यं भारतावनेः ।
अथ सन्धिविना द्वेषं तथाऽन्योन्यं विशस्त्रता ॥ १६ ॥
स्वातन्त्र्य भारतस्य प्राकू ततो विश्वप्रशान्तता ।
इति विश्वपृचं सम्यगू यदुक्तं विज्ञकोटिभिः ॥१७॥
विमुक्त्या भारतीयानां विश्वस्युरितरे जनाः ।
दासीकृताः समीपे नः स्वातन्त्र्यमित्यपेक्षया ॥१८॥
अहिंसाधर्ममाश्रित्य चिरात्स्वातन्त्र्यलब्धये ।
प्रयस्यापूर्वसंसिद्धि प्राप भारतभूरियम् ॥ १९॥
समस्तजगतः शान्ति तस्मात्पोषयितुं क्षमा ।
इति हेतुर्द्वितीयस्तत्स्वातन्त्र्यस्य यशस्करः ॥ २० ॥
न्यायतोऽधिगता शान्तिरस्ति शान्तियथार्थतः ।
न पुनर्दण्डतः सिद्धा न प्रतीकारनिश्चयात् ॥ २१ ॥
ततः सबैर्विमज्येत देशे शान्तिफलं समम् ।
एवमेव कृते शत्रुमिनीमति सर्वथा ॥ २२ ॥
शान्तिसन्देश जितारिनष्टसर्वस्वी मैत्रपक्षोऽवलेपतः। देशौ जापानशाhण्यौ कदाचिन्नावमानयेत्॥ २३ ॥ आझलभूशान्तितत्त्वानि प्रतिपयेत चेत्तदा । भारतप्रातिनिध्यस्य स्वच्छन्दकरणं त्यजेत् ॥२४॥ आंग्लसाम्राज्यदर्पण प्रजासंमतिमन्तरा। यत्कृतं प्रातिनिध्य तत्सर्वथा हि निरर्थकम् ॥ २५ ॥ स्वजनैः प्रातिनिध्याहीरतेन नियोजितः । भारतं व्यपदिश्येत न सम्राट्क्कैः पुनः ॥ २६ ॥ बलवन्तो विजेतारो न भवन्ति जिघांसवः । शत्रुदेशेऽपि संस्थाप्य शान्तिं मित्रीभवन्ति ते ॥ २७॥ नायुधैः स्थापयेच्छान्तिं प्रदेशे हि निरायुधे । साम्ना निर्वाहयेत्सर्वान्नियमान् पुररक्षकः ।। २८ ।। स्वातन्त्र्यमथ सम्प्राप्य प्रभविष्यति भरतम् । प्रौढानां विश्वसंस्थानां स्थापने ख्यापने ध्रुवम् ॥ २९।। अन्यर्देशैश्च संभूय स्वस्वातन्त्र्यप्रभावतः । तत्तद्राष्ट्रियकार्येषु साहाय्यं वितरिष्यति" ॥३०॥ इति सौ. क्षमायाः कृतियु स्वराज्यविजये शान्तिसन्देशो नाम पञ्चमोऽध्यायः ।
पष्ठोऽध्यायः वेवलोपन्यासः । अथ प्रत्याययावांग्लदेशतो केवलः प्रभुः । नवोपन्यासमादाय राष्ट्रतन्त्रनिवन्धनम् ॥ १॥ विधित्सुः पक्षयोरैक्यं सम्राट्प्रतिनिधिस्ततः । उभयो यकप्रष्ठौ सिमलादि समाहृयत् ॥ २ ॥ महात्मा तत्समाहूतो बहुमानपुरःसरम् । अङ्गीकृत्य समाहानं प्रस्थितः पुण्यपत्तनात् ॥३॥ प्राप्य मोहमयीं पुण्यां प्रार्थनोत्तरमब्रवीत् । "नकागजेन्द्रमोक्षस्य कथा ख्यातां पुरातनीम् ॥४॥ गजेन्द्रस्येव नोऽद्यत्वे परं दोलायते दशा ! कथेयमुत्तमा नीतिं बोधयत्यखिलान् जनान् ॥५॥ राष्ट्रतन्त्रं समुद्दिश्य प्रदित्सुर्वेवलः प्रभुः । नृपादेशादुपन्यासानिति विश्रूयतेऽधुना ॥ ६ ॥ तत्प्रशंसाऽथवा निन्दा न कार्याऽस्माभिरय भोः । यतस्तन्निर्णयाथै नः पर्याप्ता नास्ति सङ्गतिः ॥७॥ तदुपन्यासनिर्दिष्टं विमर्शाहं न वैत्यमी । निर्णयन्तु यथाकालं राष्ट्रसंघाधिकारिणः ॥ ८॥ प्रसङ्गेऽस्मिन् परेशस्य साहाय्यं प्रार्थयामहे । स एव संकटेऽस्माकं सन्मार्ग दर्शयिष्यति" ॥९॥ इत्याश्वास्य वचोभिस्तान् जनान् प्रौढार्थगतिः । प्रतस्थेऽध तुपाराद्रिं धूमयानेन संयमी ।।१०।। या राष्ट्रसमाध्यक्ष श्रीमौलानामहोदयम् । सम्प्रासं सिमलाशैले सोऽप्रवीद् येवलं प्रमुम् ।। ११ ।।
चेवलोपन्यासः। राष्ट्रसंघस्य नेदानी प्रातिनिध्यं वहाम्यहम् । नोपतिष्ठेयमायैतां सभां प्राङ् निश्चितं यथा ॥ १२ ॥ अवस्थास्ये तथाप्यत्र सभा यावत्प्रवर्तते । मन्त्रणाय हि सर्वेपां भवतोऽपि यदीष्यते ॥ १३ ॥ अनुमोद्य वचस्तस्य प्रोवाच वेवलः प्रभुः । आ समाकार्यसम्पूर्तेः कृपया स्थीयतामिति ॥ १४ ॥ आहूतो मन्त्रणायासौ राजप्रतिनिधेर्गृहम् । ययौ स्वमन्त्रिणा प्यारेलालनाम्ना समन्वितः ॥ १५ ॥ प्रासमानो महाद्वारि प्रासादस्याभवन्मुनिः । जनानां शिविकारूढः सहस्रैः परिवेष्टितः ॥ १६ ॥ प्रोचैरुरोपितस्तैश्च हयं प्राविशदासा । तं च संभावयामास राज्ञः प्रतिनिधिसुदा ॥ १७ ॥ मिथः संलपतो राष्ट्रसूत्रग्रन्थिविमुक्तये । तयो)राद्वयी याता क्षणवद् वस्तुगौरवात् ॥ १८॥ अथ चास्तमये भानोनिर्गच्छन् हर्म्यतो पहिः । महाद्वारि जनौधेन वेष्टितोऽभूत्पुनर्मुनिः ॥ १९॥ इति सौ. क्षमायाः कृतिषु स्वराज्यविजये चेवलोपन्यासात्मकः पष्ठोऽध्यायः ।
-
सप्तमोऽध्यायः
सिमलासंमेलनम् ।
ज्येष्ठमासावसानेऽस्यां मिलितायां च संसदि ।
स वक्तव्यप्रमेयाणि वर्णयामास वेवलः ॥१॥
तानि श्रुत्वाऽवधानेन मुख्यवक्तात्र मेलके ।
श्रीमानाझादमौलानः चचक्षे प्रौढवाग् यथा ॥२॥
'पूर्णस्वराज्यसंप्राप्तिर्देशस्य परमा गतिः ।
इति निश्चितमेवासीत् प्रागितोऽब्दचतुएयात् ॥३॥
परभेभिरुपन्यासैः कोऽपि तात्कालिको विधिः ।
न ग्राह्यत्वेन निर्दिष्टो मूलोद्देशविरोधतः ॥४॥
नास्ति स्वतन्त्रतावार्ता पक्षयारक्यगन्तरा ।
भवदीयो विधिस्तावत्पार्थक्यमवलम्बते ॥५॥
ये तु न्यायविधायिन्याः सदस्याः सदसः कृताः ।
तत्संख्याप्यथवा जाती राष्ट्रसंघ न बाधते ॥ ६॥
ज्ञातुमिच्छति संघस्तु कथङ्कारं जना इमे ।
संसदि सम्प्रवेशाय प्रातिनिध्यमवाप्नुवन् ॥७॥
अतोऽपनीयतामार्या राष्ट्रसंघचहिष्कृतिः ।
मुच्यन्तां राष्ट्रनेतारस्तथाऽन्ये वन्धनादिति"॥८॥
प्राह मुस्लिमसंघाचे बाह्यास्ते मुस्लिमा मया।
यधुचपदमहेंयुद्यन्त इति वेवलः ॥९॥
तादृशान् मुस्लिमान् जिन्नो मनुते परिपन्थिनः ।
तस्मात्प्रत्यरुणत्तेषां प्रवेश मन्त्रिमण्डले ॥१०॥
चत्वारिंशत्प्रतिशतं मत्संघादेव मुस्लिमाः ।
मवद्भिर्न नियुक्ताश्चेत्तटस्थो गवितास्म्यहम् ॥११॥
सिमलासंमेलनम् । एवं समयबन्धेन जिन्ने प्रतिवदत्यपि । राजप्रतिनिधिर्दिष्टया वेवलोऽनान्वमोदत ॥१२॥ राजसूत्रमहाग्रन्थेरुत्सुकोऽपि विमोचने । सद्यःसमाप्तिमनयत्समितिं वेवलः प्रभुः॥१३॥ कालः प्रतीक्ष्यतां तावदित्युक्त्वा संयमी जनान् । नातिहृष्टो न भमाशः सिमलाद्रेरखातरत् ॥ १४ ॥ अथ राष्ट्रस्य नेतारो नेहरूप्रमुखाः किल । वर्पद्वयेन कारासु प्रेपितास्ते पृथक पृथक् ॥१५॥ युद्धं प्रजाधिपत्याय कृतमित्यवदन जनाः । स्थितः प्रतीक्षमाणोऽभूद्वन्धनात्तद्विमोचनम् ॥ १६ ॥ मोचने प्रार्थितेऽप्येयां भारतीयैः पुनः पुनः । शासितानेडमूकोऽसौ स्थितः साम्राज्यदर्पतः ॥१७॥ प्रायशो विस्मृतं तेन स्वातन्त्र्याय विनिश्चिताः । पीडनादधिकं रुष्टा भविष्यन्ति जना इति ॥ १८ ॥ साम्राज्यस्य महामन्त्री चर्चिलाख्यः प्रहर्पुलः । राष्ट्रसङ्घो मृतप्रायस्तिष्ठतीति व्यचिन्तयत् ॥ १९॥ ति सौ. क्षमायाः कृतिषु स्वराज्यविजये सिमलासम्मेलनं नाम सप्तमोऽध्यायः ।
सप्तमोऽध्यायः
सिमलासंमेलनम् ।
ज्येठमासावसानेऽस्यां मिलितायां च संसदि ।
स वक्तव्यप्रमेयाणि वर्णयामास वेवलः ॥१॥
तानि श्रुत्वाऽवधानेन मुख्यवक्ताऽत्र मेलके ।
श्रीमानाझादमौलानः चचक्षे प्रौढवाग् यथा ॥२॥
पूर्णस्वराज्यसंप्राप्तिर्देशस्य परमा गतिः ।
इति निश्चितमेवासीत् प्रागितोऽब्दचतुष्टयात् ॥३॥
परमेभिरुपन्यासः कोऽपि तात्कालिको विधिः ।
न ग्राह्यत्वेन निर्दिष्टो मूलोद्देशविरोधतः ॥४॥
नास्ति स्वतन्त्रतावाती पक्षयोक्यमन्तरा।
भवदीयो विधिस्तावत्पार्थक्यमवलम्बते ॥५॥
ये तु न्यायविधायिन्याः सदस्याः सदसः कृताः ।
तत्संख्याप्यथवा जाती राष्ट्रसंघ न बाधते ॥ ६ ॥
ज्ञातुमिच्छति संघस्तु कयङ्कार जना इमे ।
संसदि सम्प्रवेशाय प्रातिनिध्यमवाप्नुवन् ।।७॥
अतोऽपनीयतामार्या राष्ट्रसंघबहिष्कृतिः ।
मुल्यन्तां राष्ट्रनेतारस्तथाऽन्ये वन्धनादिति"॥८॥
प्राह मुस्लिमसंघाये याह्यास्ते मुस्लिमा मया ।
यधुच्चपदमहेयुग़द्यन्त इति वैवलः ॥९॥
तादृशान् मुस्लिमान जिन्नो मनुते परिपन्थिनः ।
तस्मात्प्रत्यरुणत्तेपां प्रवेशं मन्त्रिमण्डले ॥१०॥
चत्वारिंशत्प्रतिशतं मत्संधादेव मुस्लिमाः ।
भवद्भिर्न नियुक्ताश्चेत्तटस्थो भवितास्म्यहम् ॥ ११ ॥
१७ सिमलासंमेलनम् । एवं समयबन्धेन जिन्ने प्रतिवदत्यपि । राजप्रतिनिधिर्दिष्टया वेवलोऽजान्वमोदत ॥१२॥ राजसूत्रमहाग्रन्थेरुत्सुकोऽपि विमोचने । सद्यःसमाप्तिमनयत्समितिं वेवलः प्रभुः ॥१३॥ कालः प्रतीक्ष्यतां तावदित्युक्त्वा संयमी जनान् । नातिहृष्टो न भमाशः सिमलादेवातरत् ।। १४ ।। अथ राष्ट्रस्य नेतारो नेहरूप्रमुखाः किल । वर्पद्वयेन काससु प्रेपितास्ते पृथक् पृथक् ॥ १५ ॥ युद्ध प्रजाधिपत्याय कृतमित्यवदन् जनाः । स्थितः प्रतीक्षमाणोऽमूद्वन्धनात्तद्विमोचनम् ॥१६॥ मोचने प्रार्थितेऽप्येपां भारतीयैः पुनः पुनः । शासितानेडमूकोऽसौ स्थितः साम्राज्यदर्पतः ।। १७॥ प्रायशो विस्मृतं तेन स्वातन्त्र्याय विनिश्चिताः । पीडनादधिकं रुष्टा भविष्यन्ति जना इति ॥ १८ ॥ साम्राज्यस्य महामन्त्री चर्चिलाख्यः प्रहर्पुलः । राष्ट्रसङ्घो मृतप्रायस्तिष्टतीति व्यचिन्तयत् ॥ १९ ॥ इति सौ. क्षमायाः कृतिपु स्वराज्यविजये सिमलासम्मेलनं नाम सप्तमोऽध्यायः ।
अष्टमोऽध्यायः
बन्दीमोक्षः।
प्रापदौद्योगिकः पक्षो राज्यभारमिहान्तरे।
मन्त्रिमण्डलमप्यासीन्नूतनं परिकल्पितम् ॥१॥
स्वस्वाधिकारपदवीं तत्यजुश्चर्चिलादयः ।
मन्त्रिणामभवन्मुख्यः श्रीमानादीति विश्नुतः ॥२॥
अथौद्योगिकपक्षीयां भवेयुरुपकारिणः ।
भारतस्येष्टसिद्धयर्थमित्याशास्यत सर्वतः ॥३॥
समक्ष मन्त्रिमुख्येन समालोचयितुं स्वयम् ।
स्वदेशं प्रति चके श्रीवेवलश्च गतागतम् ॥४॥
अत्रान्तरे विमुच्यन्तां नेतारो बन्धनादिति ।
श्रूयते स्मान्वहं देशे भूयो भूयो जनध्वनिः ॥५॥
आंग्लामेरिकदेशेषु शुश्रुवे च प्रतिस्वनः ।
तत्तदैनिकपत्राणां द्वारतोऽपि दिने दिने ॥६॥
बन्धनं देशनेतृणामिदमन्याय्यचेष्टितम् ।
अपकीर्तिकरं च स्यादित्यांग्ला विशशङ्किरे ॥ ७॥
अथो अमेरिकाखण्डे वर्पपट्वादितः पुरा ।
निरमाय्यणुभिघोरमस्त्रं वैज्ञानिकोत्तमैः ॥ ८॥
असंख्यद्रविणस्यासीत्तन्निर्माणे कृतो व्ययः ।
पञ्चपष्टिसहस्तन्निरमीयत शिल्पिनाम् ॥९॥
अप्यलं भविता तस्य राक्षसीयवलं क्वचित् ।
सर्वथा भस्मसात्कर्तुं जगत्कृत्स्नं क्षणादिति ॥१०॥
मुखेभ्यः श्रूयमाणोऽपि प्रश्नोऽयं तद्विमर्शिनाम् ।
कम्पयेत्प्रज्वलज्ज्वालाप्रसार इव कातरान् ॥ ११ ॥
घन्दीमोक्षा।
अथ भाद्रपदे मासि महोत्पातकरं यत ।
अभूतपूर्वमग्न्यत्र नभःपृथ्व्यौ व्यघूर्णयत् ॥१२॥
कुतोऽपि रभसाऽपास्तं जापानावनिमण्डले ।
हिरोशीमाभिधस्याहो नगरस्यान्तरेऽपतत् ॥ १३ ॥
निमेषाद्रमणीयं तत्पत्तनं भस्मसात्कृतम् ।
हरनेत्राग्निनाक्रान्तं स्मराङ्गमिव सुन्दरम् ॥ १४ ॥
योजनादधिकं दूरादग्निदाहो व्यलोक्यत ।
पुरी भस्मीकृता तस्थौ पार्श्वभूश्च मरुस्थली ॥१५॥
जगत्यां वर्तते नान्यदस्त्रं घोरतरं क्वचित् ।
प्रापो पत्रमपीन्द्रस्य ततः पर्षवहीयते ॥१६॥
भावियुद्ध पुनस्तादृगस्त्र यधुपयुज्यते ।
तदा जगद्विनाशस्य साधनं स्यादिति ध्रुवम् ॥ १७॥
अहो बतायुधस्यैवममोपत्वे निदर्शिते ।
भविष्यत्येव लोकानामाहवेच्छाऽधिकाधिका ॥ १८॥
उपयुजीत रक्षायै धियः पाटवमात्मनः ।
त्यक्त्वा च युद्धसंकल्पं जगद्ध्वंसं निवारयेत् ॥ १९ ॥
न चिरादथ जापानदेशस्य बहुविश्रुते ।
नागासाकीपुरेऽकस्मादाणवास्नं न्यपात्यत ॥ २० ॥
अथ गत्यन्तराभावादङ्गीकृत्य पराजयम् ।
जापानीयाः स्वरक्षायै जयिनः शरणं ययुः ।। २१ ॥
ततः सेनापतिः श्रीमान्माकार्थरसमायः !
स्वायत्तीकर्तुमारेमे जापानावनिमण्डलम् ॥ २२ ।।
तत्प्रकल्पितलेखं च स्वदेशध्वंसशंसिनम् ।
राजमुद्राङ्कितं चक्रे चक्रवर्ती पराजितः ॥ २३॥
२० स्वराज्य -विजयः चतुःशतपदीसंज्ञां चतुःशतपदात्मकः। स लेखः प्राप शान्तिश्च सर्वतः स्थापिता पुनः ॥ २४॥ भूपतिः सूर्यवंशीयो हिरोहित इति श्रुतः । धृतदिव्याम्बरो हान्निर्ययौ विपदाकुलः ॥ २५ ॥ भ्रातृभ्यां चक्रवर्तिन्या मन्त्रिभिश्च समन्वितः । टोक्योपुरस्थमोजस्वी पुण्यभूमित्रयं ययौ ॥ २६ ॥ प्रविश्यागारमेकैकं शोचनीयतमे क्षणे । पितॄन संबोधयन् राजा निजगाद सगद्गदम् ॥ २७॥ हन्त भोःपितरोऽद्याहं हठादरिवशीकृतः । राजलक्ष्म्या परित्यक्तो गतिहीनोऽस्म्यनाथवत् ॥ २८ ॥ देशः समृद्ध एवासीत्तथाप्यधिककाम्यया । युयुत्सुरभवल्लोको गृध्नुतात्र हि दोपभाक् ॥ २९ ॥ त्रिसाहस्रेण वर्षाणां जन्मभूर्या स्थिता हि नः । पापिना सा मयाऽरिभ्यः सम्प्रतीह समर्पिता"॥३० ।। इत्युक्त्वा निर्गतो मौनी शनैः प्रासादमात्मनः । पद्भ्यामेव ययौ पाण्डुवदनोऽपि समाहितः ॥ ३१ ॥ इति सौ. क्षमायाः कृतिषु स्वराज्यविजये बन्दीमोक्षो नामाऽष्टमोऽध्यायः ।
नवमोऽध्यायः
हिन्दसैनिक-वधमोचनम् ।
सिमलाद्रो समाशायां सभायां वेवलः प्रभुः !
जगामांग्लभुवं भूयो मन्त्रणायाऽऽङ्गलमन्त्रिभिः ॥१॥
स्वराजकीयकार्येषु बहुधा व्यामृता अपि ।
खवाण्योद्योगपक्षीयाः शशंसुः शासका यथा ॥२॥
'यथाशक्ति यतिघ्यन्ते अस्मत्पक्षीयमन्त्रिणः !
प्रजानां भारतीयानामाशु स्वातन्त्र्यसिद्धये ॥३॥
विमोक्ष्यन्ति च तन्नेतॄन् सानुगान् बन्धनालयात् ।
अपनेष्यन्ति चाहाय राष्ट्रसंघयहिष्कृतिम् ' ॥४॥
अत्रान्तरे समाकर्णि मृतिवार्ताऽऽकुलैजनैः।
सुभाषचन्द्रवीरस्य पतनेन विमानतः॥५॥
अदूरे किल संवृत्तमिदं टोक्योपुरोत्तमात् ।
तदीयरक्षणे यत्नो भिपजां निष्फलोऽभवत् ॥ ६॥
स्वातन्त्र्याय स्वदेशस्य श्राम्यन्नागतयौवनः ।
अहिंसायुधमोघत्वं प्रत्यपद्यत निश्चयात् ॥ ७॥
अनिवेद्य स्वबन्धुभ्यो जापानविपयं गतः ।
उपांशु न्यवसद् ध्यायन् दास्यादेशविमोचनम् ॥८॥
कञ्चित्कालमुपित्वाऽत्र जलान्तर्गामिनौकया ।
प्रतीच्यां गन्तुमारेभे जापानजनसाह्यतः ।।९।।
शार्मण्यं देशमासाद्य ज्ञात्वा तस्य परिस्थितिम् ।
-जनैः परिचयं चने कैश्चिदुच्चपदस्थितैः ॥ १० ॥
२३ हिन्दसैनिक-वधमोचनम् । वधदण्डमवाप्स्यन्ति युवानोऽनपराधिनः । इत्याप्तैः शङ्कितेऽप्यत्र स्थिता धीरा निराकुलाः ॥ २३ ॥ राजप्रतिनिधि पूज्यो गान्धिः प्रार्थितवानथ । दण्ड्यकूटाद्विमोच्यन्तां निर्दोपाः देशसेवकाः ॥ २४ ॥ वेवलः प्रार्थनामेतामनुमोद्य महात्मनः । न चिराद् बोसमित्रादीन् कांश्चिदेव च्यमोचयत् ॥२५॥ श्रीदेसाईति विख्यातो सुधीरो न्यायवित्तमः । वादेन तरुणानन्यान्मृत्युवक्त्राद् व्यमोचयत् ॥ २६ ॥ अभिनन्दनमालाभिर्मण्डितास्तरुणा जनैः। स्तुतिभिर्धन्यवादैश्च पूजिताश्च प्रशासकाः ॥ २७॥ इति सौ. क्षमायाः कृतिपु स्वराज्यविजये हिन्द-सैनिकवधमोचनं नाम नवमोऽध्यायः ।
૨૨
स्वराज्य-विजयः
कमेण हिटुरेणापि सत्कृतश्चाभिनन्दितः ।
संगृह्य देशजान् सर्वान् हिन्दिसेनामकल्पयत् ॥ ११ ॥
महती लालसाऽस्यासीजिताझलान् सेनयाऽनया।
निष्कास्य देशतश्यामून्स्वराज्यं प्राप्नुयामिति ।। १२ ॥
अतस्तन्मरणोदन्तं श्रुत्वाभूदुःखितो जनः ।
केचिद्विशश्वसुवृत्तमन्यथाऽन्ये तु मेनिरे ॥ १३ ॥
अथामेरिकदेशीयो वृत्तपत्रप्रकाशकः ।
सेलर्नामा महात्मानं विनीतो व्यलिखद्यथा ॥ १४ ॥
मन्मुखाद् ज्ञातुमीहन्ते महात्मन् मम देशजाः ।
किं साद्यं देयमस्माभिर्युष्मरस्वातन्त्र्यसिद्धये ॥ १५॥
सन्त्यत्र बहुमन्वाना युष्मदीये मनोरथम् ।
तत्सिद्धये च साहाय्य सर्वथा वश्चिकीर्पवः ॥१६॥
तदन विपये श्रीमन्नादेशस्ते प्रदीयताम् ।
येन जागृतिमादध्युरमी कृच्छ्रेषु भारते" ॥ १७ ॥
(महात्मनः प्रत्युत्तरम् ।)
अभीष्टसाधने यूयं साहाय्यं चेत्प्रदित्सवः ।
तद्विधेयान युप्माभिः भूतार्थस्य प्रचारणा ॥ १८ ॥
युप्माभिः पक्षमुत्सार्य परमार्थः प्रकाश्यताम् ।
निरुध्यतां च निपैरसत्योक्तिप्रसारणा ॥ १९ ॥
मासद्वयादयो हिन्दीसेना-ग्रौढाधिकारिणः ।
नीताः दिल्लीपुरे हन्त वधाहीं इव घोपिताः ॥ २० ॥
कुरुपाण्डवकालीने वृहदुर्गे पुरातने।
शोणदुर्गमिति ख्याते तस्थुर्वन्दीकृता इमे ॥ २१ ॥
तेऽमी हन्त महावीरा देशभक्त्यैकपातकाः ।
राजद्रोहापराधेन शासकैरभियोजिताः ॥ २२ ॥
दशमोऽध्यायः
गान्धिवंगाधिप-संलापः।
राज्यतन्त्रमथो यावद् ग्रन्थिलं पर्यवस्थितम् ।
तदन्तरे महात्माऽसौ न्यवसत्पुण्यपत्तने ॥१॥
अविच्छिन्नतया ध्यायन्स्वदेशस्य परिस्थितिम् ।
परिश्रान्तोऽत्र विश्रान्तिचिकित्साया गृहं गतः ॥२॥
रोगस्योपशमायेदृसंस्था स्यादुपकारिणी ।
अकिञ्चनानां लोकानामित्यसौ समचिन्तयत् ॥३॥
मन्दिरस्य बभूवास्य स्वामी म्हेताभिधो भिषक् ।
स मेने धन्यमात्मानं संसर्गेण महात्मनः ॥४॥
संस्थापयितुमिच्छन्तं संस्थां तत्सदृशीं मुनिम् ।
उवाच स्वीकुरुष्वैतां क्रियतां च यथेप्सितम् ॥५॥
इत्थमभ्यर्थितः श्रीमान् निर्यास्यन्पुण्यपत्तनात् ।
हर्षेण गान्धिराहूय नियुक्तानगदज्जनान् ॥ ६॥
अकिञ्चनोपयोगार्थ गृहमेतत्समर्पितम् ।
तदावश्यकमेवान क्रियते परिवर्तनम् ॥७॥
चिकित्स्यन्तेऽत्र मासोवं दीना न धनिकाः पुनः ।
दीनानां परिशुश्रूपा प्रिया भवतु वः सदा ॥८॥
इत्याकर्ण्य वचः सर्व तथेत्येतैः प्रतिश्रुते ।
गान्धिः सूक्ष्मदृया पश्यन् पर्यटद् रुग्णमन्दिरे ॥ ९॥
सहते न हि मालिन्यं नैतिकं वापि भौतिकम् ।
इति सम्यक्परिज्ञातमासीद् रुग्णनिकेतने ॥ १० ॥
आसीत्केसीति विख्यातो वगानां शासकप्रभुः ।
सोऽन्तरङ्गकथालापं चिकीर्षुर्गान्धिमाह्वयत् ॥ ११॥
गान्धिवंगाधिप-संलापः।
स च पुण्यपुरादाशु प्रतस्थे नरपुङ्गवः ।
देशस्य शुभमाशंसुमन्त्रणेनाधिकारिणा ॥ १२ ॥
कल्कत्तानगरं यास्यन् ददर्श पथि संयमी ।
जनौधेनाऽऽकुलं सर्व लोहमार्गनिवेशनम् ॥१३॥
सहस्रशः समाजग्मुः पुरुषार्भकयोषितः ।
नानादिग्देशतोऽप्यारात्तत्संदर्शनलालसाः ॥१४॥
जयशब्दैर्महात्मानमुद्धोष्य समुदैरयन् ।
जय हिन्द जयहिन्देति दिल्ली प्रचलिता वयम् ॥ १५ ॥
इति कण्ठीरवाध्वानविडम्बी तजयध्वनिः ।
सर्वतो रोदसी व्याप्य प्रतिध्वनिमजीजनत् ॥ १६ ॥
आ सायंप्रातरारभ्य घोपणां तां मुहुर्मुहुः ।
शृण्वन् गान्धिः परिश्रान्तः शयालुरमवनिशि ॥१७॥
निद्राणेऽथ सुखं तस्मिन् शब्दं मन्दीकरिष्णवः।
गवाक्षान् पिदधुर्यानप्रकोष्टस्य सहानुगाः ॥१८॥
आनिशीथ तथाप्यायुर्लोहाध्वसदन जनाः।
देहि दर्शनमित्युच्चैः प्रार्थयन्त मुहर्मुहुः ॥ १९ ॥
जातोत्साहपराकाष्ठः संमर्दोऽभूनिरङ्कुशः ।
हा स्वयंसेवकोऽप्येको मूच्छितोऽमूनिवारयन् ।। २० ॥
गान्धिस्तोपाय लोकानामादिदेशानुयायिनः ।
एकमेव गवाक्षं मोः क्षिप्रमुढाथ्यतामिति ॥२१॥
कन्याहस्तस्तदा लोकान् दर्शनेनाम्यनन्दयत् ।
तेभ्यो हरिजनायार्थ प्रतिजग्राह चादरात् ॥ २२ ।।
साक्षाद्भागवती मूर्ति मन्यमानो जनश्व तम् ।
कन्यायां न्यक्षिपद् द्रव्यं सर्पमानः परस्परम् ॥ २३॥
२६ स्वराज्य-विजयः कटेनानोपसर्पन्ती वृद्धा काचिदकिश्चना । प्रणिपत्य महात्मानमाणकद्वयमार्पयत् ।। २४ ॥ धूमयानं यदा प्रातीण्डाख्ये व्यरमत्पुरे । श्रेष्ठी कश्चिदुपानपीन्मुनये रूप्यभाजनम् ॥ २५ ॥ तच गान्धिर्निचिक्षेप सार्वलौकिकविक्रये । रूप्यकाणां धनी कश्चित्क्रीत्वा सार्धशतेन तत् ॥२६॥ आर्पयन्मुनये पात्रं व्यकीणीत स तत्पुनः । इत्थं पञ्च सहस्राणि रूप्यकाणामवाप सः ॥ २७ ॥ दिष्टया हरिजनद्रव्यमारभ्य ग्रामनिर्गमात् रूप्यकाणामगाद्वृद्धिं सहजैः सार्धसप्तभिः ॥ २८ ॥ कल्कत्तानगरात्साधक्रोशद्वयविदूरतः । ग्रामे शुद्धपुराभिख्ये पुराऽभूदाश्रमो महान् ॥ २९ ॥ सोऽभवत्पावितो गान्धेश्चरणाम्बुजरेणुभिः । मेने च धन्यमात्मानमाश्रमस्थोऽखिलो जनः ॥ ३०॥ यन्त्रयानं समारूढस्स्वराज्यध्वजमण्डितम् । हयं वङ्गाधिपस्यागान्महात्मा दीनवत्सलः ॥ ३१ ।। बन्धनाद्वङ्गदेश्यानां चिरात्कारानिवासिनाम् । तो विमोचनमुद्दिश्य चक्रतुर्मन्त्रणं मिथः ॥ ३२ ।। प्राप्त मन्त्रयतोरेवमग्रिमे सोमवासरे । मुनिौनी लिखन्पत्रे प्रश्नानामुत्तराण्यदात् ।। ३३ ॥ इति सौ. क्षमायाः कृतिपु स्वराज्य-विजये गान्धिवंगाधिपसंलापो नाम दशमोऽध्यायः।
एकादशोऽध्यायः आन्धुस्मारकस्थापनम् । बाणाब्धिग्रहचन्द्राङ्कवत्सरे मासि चान्तिमे । राष्ट्रकार्यस्य नेतृणां समित्यैवं प्रकाशितम् ॥ १ ॥ शतकार्धाधिकाद्राष्ट्रसंघः स्वातन्त्र्यलालसः । प्रयस्यतितरां भड्डे मातृभूदास्यशृङ्खलाम् ॥ २ ॥ पलवान् लब्धवर्णश्च राष्ट्रसंघोऽद्य तिष्ठति । स्वातन्त्र्यस्य जनुर्भूमेरिव मूर्तिः सचेतना ॥३॥ स्वातन्त्र्यसंगरेऽस्माकमसंख्यवनितानरैः । तत्पताक समाश्रित्य सोढा क्लेशपरम्परा ॥४॥ अहिंसकायुधो राष्ट्रसंघो जित्वा विरोधिनः । सम्प्राप्तापूर्वसामो जगत्यां बहुमानितः ॥५॥ भारतस्य जनः सर्वः स्वमतं वक्तुमीश्वरः। तथा साम्ना सदुद्दिश्य सभाः कर्तुं निरायुधः ॥६॥ न्यायदृष्टया समाः सर्वाः प्रजाः सन्तीह भारते । न जातिर्न मतं धर्मों न वा लिंग हि गण्यते ॥ ७ ॥ वापीकूपतटाकादौ सर्वगम्यस्थलेषु च । पुरद्रव्येऽपि पौराणामधिकारः समो भवेत् ॥८॥ यत्र क्वापि प्रजा देशे स्थातुं च चरितुं क्षमाः । यथेष्टं चानुवर्तेरन्वृत्तीस्तदपि ताः समाः ॥९॥ गते सार्धशतेऽदानां निरुद्धः परशासकैः । देशस्याभ्युदयोऽस्माकं जनितं चातिसङ्कटम् ॥ १० ॥ आस्ते भारतभूरय पराधीना न केवलम् । अपि त्वधोगतिं नीता धर्मविद्यार्थसंग्रहे ॥ ११ ॥ * १९४५ सिस्तान्दे स्वराज्य-विजयः स्वाथैकपरवृत्तीनां शासकानामतिक्रमैः । देशे समजनि क्षामडमरव्याधिसङ्कटम् ॥ १२ ॥ नास्त्युपायो विपज्जालाद्विमुक्तयमन्तरा । तद्दास्यशृङ्गलाच्छेदः स्वातन्त्र्याधिगमस्तथा ॥ १३ ॥ उपायः प्रथमं चिन्त्यो देशदारिद्यशान्तये । जनताजीवनौदार्यसिद्धये चाविलम्बतः ॥ १४ ॥ चिकीर्षुरथ कल्याणं जनताया विशेषतः । तदभ्युदयकार्येषु राष्ट्रसंघस्सदोद्यतः ॥१५॥ तदुद्यमेषु विनश्चेदापतेदन्तरान्तरा । तदा स शीघ्रमुत्सार्य इति संघस्य निर्णयः ॥ १६ ॥ तस्माप्रार्थयते संघो मतदानाधिकारिणः । आगामिवरणे दधुः संघाय स्वमतं ध्रुवम् ॥ १७॥ भारतीयैः प्रतिज्ञा प्राक् कृता स्वातन्त्र्यलब्धये । सा च निस्तरणीयेति स्मरणीयं हि कारणम् ॥ १८ ॥ इदं वरणमस्माकमाद्यं लघुपरीक्षणम् । अग्रे महार्थलाभाय सज्जीकरणसम्भ्रमः ॥ १९ ॥ स्वातन्त्र्यलालसाः सर्वे श्रद्धावीर्ययुता वयम् । उत्तीर्णवरणा यामः सह निर्मुक्तभारतम् ॥ २० ॥ उद्योगपक्षनेताभूच्छ्रीमान्लास्कीति विश्रुतः । स च कचिन्महागोष्ठयामकरोद्भापणं यथा ॥ २१॥ "अलं भारतभूरद्य निर्वोढुं निजशासनम् । प्रान्तीयवरणं तस्माक्षिप्रमेव प्रवर्तताम् ॥ २२॥ राजप्रतिनिधेः कार्यनिर्वाहकसमा ततः । देशजैरेव संयुक्ता प्रायः कर्तुं हि शक्यते ।। २३ ॥
आन्न्युस्मारकस्थापनम् । " प्रजाधिपत्यरक्षायै प्रवृत्ताः समरे क्यम् । भारतस्य महायोधाश्चक्रुः साहाय्यमाहवे ॥ २४ ॥ कैश्चित्प्राणव्ययेनापि वीरयुर्दध्वा रणाङ्गणे । अपूर्वजयसंसिध्धै कृतं साहायकं महत् ॥ २५ ॥ जनसत्ताकराज्याथ संपरायः प्रचालितः । इत्येतत्कृतमस्माभिः सर्वथवै स्फुटं भुवि ॥२६॥ तथापि भारतीयास्ते स्वातन्त्र्येप्सापराधिनः। बद्धाश्च ताडिताश्चेति न चिन्त्यं मनसापिन: ॥ २७॥ अथ पूर्वोक्तवर्षान्त्यमासस्यैकोनविंशके । प्रतस्थे दिवसे श्रीमान् गांधिः शान्तिनिकेतनम् ॥२८॥ आसीत्तत्र जनैरान्योर्विदुपः स्मृतिकारकम् । रुग्णगेहं विनिमयमिति प्रागेव निश्चितम् ॥ २९॥ वास्तुकर्म महात्माऽसौ कर्तुमाकारितो ययौ । तत्प्रसङ्गादुपाजग्मुः कल्कत्तानगराजनाः ।। ३० ।। श्रीमानान्धुर्हि सर्वत्र दीनबन्धुरिति श्रुतः । प्रकृत्या ग्रामलोकानामुपकारी विशेषतः ॥३१॥ अतो ग्रामान्तरायातो जनस्तोमो महानभूत् । माह सर्वान्महात्मैवं भगवत्प्रार्थनोत्तरम् ॥३२॥ पभूव गुरुदेवोऽन द्विजराजः सुपक्षवान् । वेगात्तुङ्गपदारोही स्वपक्षाश्रितरक्षकः॥३३॥ काव्यरत्नैः कवीतैः सदुद्योगान्तरैस्तथा । भारतस्य प्रतिष्ठा हि स्थापिताऽस्ति जगत्तले ॥३४॥ स च सर्वो निधिस्तेन स्वदेशाय समर्पितः । कृतज्ञैश्च विनीतैश्च प्रतिग्राह्योऽस्ति नः सदा ॥३५॥ :
३० स्वराज्य-विजयः द्विजेन्दोगुरुदेवस्य सुपक्षणाभिरक्षणम् । न पुनर्लभ्यमस्माकमिति दोदूयते मनः ॥३६॥ भाज्यं तदात्मनानैव प्रशान्तेनाश्रमे क्वचित् । इति मे हृदये भूयो भूयः स्फुरति भावना ॥ ३७॥ इति सौ. क्षमायाः कृतिषु स्वराज्य-विजये आन्धुस्मारक- स्थापनं नाम एकादशोऽध्यायः ।
दादशोऽध्यायः आन्धुस्तवनम्। वास्तुमूलामविन्यासं स्मारक स्वसुहन्मणेः । स्वयं विधाय संतुष्टो महात्मा पुनरनवीत् ॥ १॥ दीनवन्धोममाप्यन्ताप्ररूढा प्रेमवल्लरी। देशसेवारसासेकैर्वर्धते स्म निरन्तरम् ॥ २ ॥ दीनर्निर्मातुमिष्टस्य तत्स्मृत्यै रुग्णवेश्मनः । मया मूलशिलाबन्धः कृतोऽद्य प्रीतचेतसा" ॥ ३ ॥ इति संक्षिप्तमाख्याय न्यवर्तत मुनिस्ततः । क्रोशदूरे च पादाभ्यां कुटीरं प्राप लीलया ॥४॥ पत्रे हरिजने श्रीमानलिखद्गान्धिरेकदा । पुरुषायुषमुद्दिश्य व्यञ्जयन् स्वमतं यथा ॥५॥ 'अब्दाञ्जीवितुमिच्छामि शतोवं पञ्चविंशतिम् । न हि मेऽजनि कामोऽयं विना सूक्ष्मविवेचनम् ॥६॥ पवित्रोपनिषन्मन्त्रान् परिशीलयतो मम । दीर्घायुः प्राप्त्युपायानां रहस्यं बुद्धिमागमत् ॥७॥ तत्रैको मन्त्र आख्याति यदायुः स्पृहयेन्नरः । निष्कामसेवया जीवच्छतं मर्त्यः समा इति ॥८॥ सपादशतसंख्या हि शतेनाप्युपदिश्यते । पोडशेनापि मद्रेपु मन्ये संख्याप्यते शतम् ॥९॥ तत्रैको रूप्यकाणां मे शतं दत्तमिति शुवन् । ऋजुः समार्पयद्रव्यं तदासीत् पोडशाधिकम् ॥१०॥ .
स्वराज्य-विजयः निष्कामा लोकशुश्रूपा न कर्मफलमीक्षते । तासेवामकुर्वन्न कामयेत शतं समाः ॥११॥ सपादशतमन्दानां जीवितुं न हि पारयेत् । मनुष्यो विपयासक्त इति मे नास्ति संशयः ॥ १२॥ यस्तु स्वार्थकवृत्तिः संश्चिरं मर्यो जिजीविषेत् । जीवन्मृत इति ज्ञेयो भुवो भारः स केवलम् ॥ १३ ॥ सत्येवं जगदीश स प्रार्थयेतैकनिष्ठया। विमुक्तिं जीवनात्सद्यो नायति तु निजायुपः ॥ १४ ॥ वपुर्नृणां हि सेवार्थं न तु सौख्योपभुक्तये । सुखं सञ्जायते त्यागात् त्याग एव हि जीवितम् ॥ १५ ॥ अनादृतफलाकाङ्क्षी परसेवापरायणः । सपादशतमब्दानां नरो जीवितुमर्हति ॥१६॥ निःशेषजीवन तागू अर्पयेद्दीनसेवने । त्यागस्यास्य सुखं कोऽपि परिहर्तुं न पारयेत् ॥१७॥ हृदन्तस्सुखमुद्भुतं त्यागात्पुष्णाति जीवितम् । त्याग एव हि जीवातुस्तं विनाऽऽयुर्निरर्थकम् " ॥१८॥ इति सौ. क्षमायाः कृतिषु स्वराज्यविजये आन्धुस्तवनं नाम द्वादशोऽध्यायः ।
त्रयोदशोऽध्यायः छात्रसंदेशः। रसाब्धिखेचरक्षमाझे वत्सरे यन्महात्मनः । वभूव चरिते वृत्तं तदाचक्ष यथाक्रमम् ॥१॥ खिस्तसंवत्सरारम्भे मृत्युवक्त्राद्विमोचिताः। सुभाषचन्द्रसैनाया नैकराष्ट्रीयसैनिकाः ।।२।। श्रीदेसाईति विख्यातो न्यायवित् तान् यशस्विनः । सुवादेन वधस्तम्मादरक्षद्देशवत्सलान् ॥३॥ भारते सर्वतश्चापि हिन्दिसैनिकरक्षणात् । प्रहृष्टैर्विहिता गोष्ठयो लोकैस्तानभिनन्दितुम् ॥४॥ मृत्युवक्त्रादसौ धीमान्धन्दीनां परिरक्षकः । श्रीदेसाईमहाभागः सत्कृतोऽभून्महाजनैः ॥ ५ ॥ प्राह न्यायपटुः सायं मोहमय्यां सभाजनान् । स्वराज्यद्वारि सम्प्राप्ता वयमद्येति निश्चितम् ॥६॥ व्यवहारोऽयमन्याय्यः परिहासकरः परम् । इत्यनेकैरभिप्रेतमांग्लैनिष्पक्षपातिभिः ॥ ७॥ अथ प्रयातुमुधुक्तो विदर्भान् प्रति सत्वरम् । छात्रवर्गमुपादिक्षत्कल्कत्तानगरे मुनिः ॥८॥ (महात्मनः सन्देशः ।) श्रूयतां मदचस्तावदयि विद्यार्थिनः प्रियाः । राजकीयविवादेभ्यो दूरतः स्थीयतां सदा ॥९॥ विद्यार्थी नानुकुर्वीत निजोद्योगपरामखान् । विना हेतुविशेषेण स्वाध्यायं न परित्यजेत् ॥ १०॥ * १९४६ खिस्ताब्दे स्व. वि.३ ३४ स्वराज्य-विजयः प्रेपितेपु वधस्तम्भ धीरेप्यनपराधिषु । दैनिकाध्ययनोद्योगाद् विरमेदनुकम्पया ॥ ११॥ धार्य विद्यार्थिभिर्वासः खद्दरं ग्रामनिर्मितम् । क्रेतव्यं न विदेशीयं वस्त्रं वा वस्तु वाऽपरम् ॥ १२ ॥ विद्यार्थी प्रत्यहं कुर्याद्यज्ञवत्तन्तुनिर्मितिम् । तन्तुचक्रमपि स्वच्छं ' स्थापयेत् ' सुव्यवस्थितम् ॥ १३ ॥ न चलानाहयेहदन्यान् विमुखान् राष्ट्रकेतनम् । वन्दे मातरमित्याद्यां राष्ट्रीयां गीतिकामपि ॥१४॥ राष्ट्रध्वजस्य संदेशं विद्यार्थी पालयेत्स्वयम् । अस्पृश्यत्वं न वा जातिभेदं जातु विभावयेत् ॥१५॥ सहविद्यार्थिभिः सख्यं कुर्यादन्यमताश्रितः । तथा हरिजनै न्यान् हठादेवं तु कारयेत् ॥१६॥ साहाय्य वितरेन्नित्यं क्षताङ्गप्रतिवेशिनाम् । कुर्यात्संमार्जन पार्श्वग्रामेषु प्रतिवासरम् ॥१७॥ ग्रामस्यारोग्यरक्षार्थ शुचित्वकलनास्वपि । बालाः वृद्धाश्च ग्रामीणा योजनीयाः प्रयत्नतः ॥१८॥ राष्ट्रभाषामधीयीत हिन्दुस्थानीति विश्रुताम् यत्नेन करणीयश्च तत्प्रसारोऽपि सर्वतः ।। १९ ।। पठन् प्राप्य नवोदन्तं स्ववाचा परिवर्तयेत् । क्रमात्तदनुवादं च ग्रामे ग्रामे प्रसारयेत् ॥ २० ।। संयमेनात्मनः कुर्यादगुप्तं शुचि जीवनम् । भयं निरस्य संरक्षेदुर्वलान्सहपाठिनः ॥२१॥ अवसानोन्मुखे युद्धे विहायाध्ययनालयम् । भवेदुद्योगवानाशु जन्मभूमेर्विमुक्तये ।। २२ ॥
छात्रसंदेशः। याः स्त्रियः सहपाठिन्यस्तासु निदोपमाचरेत् । प्रसङ्गे सति रक्षेत्ताः सर्वदा मानयेदपि ॥ २३ ॥ न वाच्यमुक्तकर्माणि कर्तुं नावसरोऽस्ति नः । जाने कालव्ययो व्यर्थों युष्माभिः क्रियतेऽलसैः" ॥ २४ ॥ अथ प्रस्थानतः पूर्व प्रति मद्रपुरं यतिः । जगाम प्रेक्षितुं वन्दीबद्धाः कारासु शासकैः ॥ २५॥ अहिंसाश्रेष्ठतामुक्त्वा धीरान्कारालयस्थितान् । तदात्वे मिलितामेकां ययौ शुद्धपुरे सभाम् ॥ २६ ॥ भापणानि यहून्याङ्ग्लभापया चकिरे जनैः । श्रुत्वोवाच महात्मैतानांग्लगीस्त्यज्यतामितः ॥ २७॥ मदने यदि वः किञ्चिद्वक्तुमिच्छा भवेत्तदा । उच्यतां हिन्दिवाचा चा नोचेत्तैलिङ्गभापया ॥२८॥ अथासीद्गच्छतो मार्गे विशाखानगरे सभा । सत्कर्तुमेतं महती स च तत्राब्रवीजनान् ॥ २९॥ स्वराज्यप्राप्तये नूनं देशस्यावश्यकं त्रयम् । पूर्वमस्पृश्यताव्याधेर्निर्मूलनमशेषतः ॥३०॥ द्वितीयं सर्वजातीनामैकमत्येन वर्तनम् । तृतीयमादिवासिभ्यः समभोगाधिकारिता ॥३१॥ ऐन्द्रजालिक्युक्त्या चेत्स्वराज्यश्रीः समेष्यति । अस्थिरां हि तदा नैतां शक्नुमः परिरक्षितुम् ॥ ३२ ॥ सत्येनाहिंसनेनैव प्राप्स्यामस्तद् वयं ध्रुवम् । इति युष्माभिरुद्भुष्टं किल प्राग्वर्पविंशतः" ॥ ३३ ॥ एवं स्मारयति प्राज्ञे तथा तात तथेति वाक् । उञ्चैरश्रावि लोकानां दूराचास्याः प्रतिध्वनिः ॥ ३४॥ इति सौ. क्षमायाः कृतिपु स्वराज्य-विजये छात्रसंदेशो नाम त्रयोदशोऽध्यायः।
चतुर्दशोऽध्यायः हरिजनशिक्षावेश्मोद्घाटनम् । ययो मद्रपुरं काचिद्गान्धिना सह गच्छता । आंग्लयोपिद गाथाख्या हारिसन्नाख्यवंशजा ॥१॥ मार्गेऽस्य कठकेन्दूरवलरामपुरादिपु । संनिपेतुर्जनास्तत्तल्लोहमार्गनिवेशने ॥२॥ ददुहरिजनस्यार्थे केचिद्व्यं महात्मने । केचिदाभरणान्यन्ये मुक्तहस्तं समापयन् ॥३॥ सौवर्णकङ्कणे काचिद् व्यतरद्वनिता मुदा । रत्नच्छुरितकेयूरमपरा प्रत्यदापयत् ॥४॥ कृत्वा प्रावरण सूक्ष्मः स्वयं निर्मिततन्तुभिः । काचिदने न्यधादस्य प्रणता पादपद्मयोः॥५॥ चेजवाडाधयोमार्गगृहेष्वेनं दिक्षुभिः । लोकैस्तारस्वनैरासीत्सकल्लोलो जनार्णवः ॥ ६ ॥ धूमयानप्रकोष्ठस्य द्वारि तिष्ठन् स्मिताननः । आददेऽनेकसंस्थाभ्यः स्वागतोक्तीर्धनानि च ॥७॥ नादसंवर्धिनीद्वारा तत्संदेशः स्थले स्थले । तैलिङ्गभाषयाऽपाठि जनान् प्रोत्सायन् यथा ॥ ८॥ अपि भो देशसंवृध्यै स्वराज्यप्राप्तये तथा। नित्यं नैर्माणिकोद्योगक्रमः सोऽनुविधीयताम् ॥९॥ अथ सा विस्मितांग्लेयी जगादेत्थं सहाध्वगा । न कदापि मयैतावाञ्जनस्तोमोऽवलोकितः ॥१०॥ + Agatha Harrison
हरिजनशिक्षापेश्मोद्घाटनम् ।
'नायको न हि कोप्यन्यो विद्यते जगतीतले।'
प्रेम्णा यस्य वशीभूता लोकाः स्युरनुयायिनः ॥ ११ ॥
युद्धान्ते गान्धिसाहाय्यं भवेदावश्यकं हि नः ।
प्रशमाय विवादानां 'शान्तिसंस्थापनाय'च"॥ १२॥
अथ मद्रपुरं प्राप्तः प्रदोषप्रार्थनोत्तरम् ।
हिन्दिप्रसारसदसो भवनस्यान्तिकाङ्गणे ॥१३॥
अग्रे जनसहस्राणां प्रार्थनाया जगत्पतेः।
महिमानं समुद्दिश्य वभापे हिन्दिभापया ॥१४॥
(महात्मोवाच ।
“अयि मोः सर्वकार्येषु मानवस्यास्ति जीवने।
कार्य मुख्यतमं नित्यं प्रार्थना जगदीशितुः॥१५॥
हिन्दुवी पारसी कैस्तः सिक्खो वा मुस्लिमो ऽपि वा।
प्रार्थनायाः स्वकर्तव्यं चिन्तयेजीविताधिकम् ॥१६॥
चहून्यहानि हित्वाऽन्नं नरः शक्नोति जीवितुम् ।
भगवत्प्रार्थनां हित्वा दुर्भरं तस्य जीवितम् ॥१७॥
प्रतिज्ञा क्रियतां कर्तुं हिन्दिवाचैव भापणम् ।
गरीयस्तदिदं कार्य भवेत्सत्याग्रहादपि ॥१८॥
अपरं कयये सौम्या नास्ति धर्म सनातने।
अस्पृश्यत्वाग्रहादन्यत्सातकं हि महत्तरम्" ॥१९॥
सौमनस्यसमाजोऽध प्रापदालेयदेशतः।
तेन संभापणं चके महात्मा रढनिश्चयः॥२०॥
(महा मोगाच)
भारतांग्लभुवोर्मध्ये सौहार्द परिरक्षितुम् ।
स्वातन्त्र्य भारतीयानां पूर्णमुद्धोपयेन्नृपः ॥ २१ ॥
३८ स्वराज्य-विजयः " विलम्बेन भविष्यन्ति प्रकृतार्थाः समाकुलाः । सुमनस्कत्वसौहार्दै देशयोश्च विनक्ष्यतः ॥२२॥ भारतायाऽऽड्लराजेन स्वातन्यस्योपपादनम् । तुल्यायैव हि तुल्येन नावराय वरीयसा ॥ २३ ॥ घोषणा यदि पूर्वोक्ता शीघ्रमेव विधीयते । x राजाङ्गविधिनिर्माणगोष्ठी च स्थाप्यते नवा ॥ २४ ॥ आंग्लदेशस्य संकल्पस्तदा लौकैः प्रतीयते । परमार्थोऽयमित्येपां श्रद्धा भविता तदा ॥ २५ ॥ श्रुत्वेदं नायकस्तस्य समाजस्याब्रवीन्मुनिग् । मद्वचः श्रूयतामार्याः प्रतिजाने दृढं हि वः ॥ २६ ॥ स्वात्मलभ्यं स्वयं युष्मद्देश एव प्रसाधयेत् । यत्तेन निर्मितं तन्त्रमादर्शो जगते भवेत् ॥ २७ ॥ स्वातन्त्र्य भारतीयानां भविता श्रेयसे भुवः । बलायस्तु परस्येप्टे तस्यात्मा न हि विद्यते ॥ २८॥" अथैकस्मिन् पुरे त्यागराजनाडिति विश्रुते आसीद्धरिजनोद्योगशिक्षावेश्म चिकीर्पितम् ॥ २९॥ तस्य भूलेष्टिकान्यासं कर्तुमामन्त्रितो मुनिः । स्थापयामास हस्तेन चेष्टिकाः पञ्चपास्ततः॥३०॥ निदधे प्रहसन्नुचैरेकैकां सुव्यवस्थिताम् । लोकानां समवेतानां विनोदाय महीयसे ॥३१ ।। अथ मद्रपुरे गान्धिः सभां कर्मकृतां गतः । लोकानामधलक्षस्य पुरस्तादब्रवीद्यथा ॥ ३२ ॥ x Constituent Assembly
हरिजनशिक्षायेश्मोद्घाटनम् ।
'काले कर्मकरोऽप्येको वृत्तो योग्यतया जनैः ।
भूयाद्राष्ट्रसभाध्यक्ष इत्याशासे विचिन्तयन् ॥ ३३ ।।
अद्भुतं किं सभाध्यक्षो भवेत्कर्मकरोऽपि चेत् ।
आंग्लभापापरिज्ञानं नापेक्ष्यं तत्पदाप्तये ॥ ३४ ॥
यद्यप्याझ्लवचोऽभिज्ञः श्रीमौलानामहोदयः ।
हिन्दुस्थानीवचो हित्वा भापते नान्यभाषया ॥ ३५ ॥
राज्ञः प्रतिनिधि याति सोऽनुवादकृदन्वितः ।
तद्वारा कुरुते सर्व व्यवहारं च लीलया ॥३६॥
अस्ति भारतभूः कृत्स्ना नूनमेकैव वस्तुतः ।
तथा समष्टिभावेन समाः कर्मकरा अपि ॥ ३७॥
कृपकः थाम्यति क्षेत्रे वाहकस्तु यतस्ततः ।
इति वैयक्तिको भेदः परं कर्मकरावुभौ ॥ ३८॥
शिल्पयन्त्रालयेऽन्यस्य यः श्राम्यति दिवानिशम् ।
स एव वस्तुतः स्वामी नेतरस्तेन रक्षितः ।। ३९ ।।
सर्वकर्मकरेभाव्यं सत्यशीलैः सुशिक्षितैः ।
प्रशान्तमानसैथापि स्वकार्यपरिनिष्ठितः ॥ ४० ॥
हिन्दुस्थानीवचोऽधीध्वं येनेदं भापणं मम ।
सर्वेषां स्यात्सुयोधाय युष्माकं मद्रवासिनाम् ।। ४१ ।।
मिलितेप्वन युष्मासु कति सन्ति कलाविदः ।
इति श्रुत्वोर्ध्वहस्तानां महात्मा पुनरब्रवीत् ।। ४२॥
कला हि जीवनं सत्याहिंसनाभ्यां पुरस्कृतम् ।
अनेकवत्सरेतैरभ्यस्ता सा कला मया ॥४३॥
एतावत्स्वपि युप्मासु कलावित्सु कथं यत ।
स्वराज्यद्वारमयापि न प्राप्ता मारतावनिः ॥४४॥
४० स्वराज्य-विजयः कला स्वराज्यसम्प्राप्तेः कलानां महती कला । सत्याहिंसनयोरा सा ध्रुवं सिद्धिमेष्यति' ॥४५॥ सर्वतो राष्ट्रसंघस्य प्रान्तीयवरणे जयम् । अवलोक्यांग्लसौहार्दमण्डलप्रमुखोऽब्रवीत् ॥४६॥ 'साधैकमासमत्रस्थैः प्रान्तीयवरणेक्षकैः । आसेतोरातुपारादि सर्वपक्षावलम्बिनः॥४७॥ त्यज भारतमित्येतां घोषणामैकमत्यतः । पुरस्कुर्वन्ति सर्वेऽपीत्यस्माभिरवलोकितम् ॥४८॥ सन्ति भिन्नमताः पक्ष्यास्तथापि निखिला अमी। स्वातन्त्र्यसुखमासाद्य संपुज्यन्ते न संशयः ॥४९॥ अथ मद्रपुरात्पुण्यव्रतः पुण्यपुरी ययौ । विविक्तमागाखानेन श्रीमता मन्त्रणाय सः ॥५०॥ उपायमैकमत्याय हिन्दुमुस्लिमपक्षयोः । समालोचयतामार्यों संलपन्तौ निराकुलम् ॥ ५१ ।। अथाऽऽगाखानगेहस्य महात्मा विधिनाऽङ्गणे । समाधि कस्तुराम्बाया महादेवस्य चातनोत् ॥५२॥ इति सौ. क्षमायाः कृतिषु स्वराज्य-विजये हरिजनशिक्षावेश्मोद्घा नाम चतुर्दशोऽध्यायः ।
पञ्चदशोऽध्यायः नाविक-कार्यनिग्रहः । अथाऽऽकाशगिरा चक्रे नवोदन्तस्य घोषणां । यथाऽऽङ्ग्लदेशतो मन्विनय भारतमेष्यति ।। १ ॥ रैंसाधिग्रहचन्द्रावत्सरे मासि चाऽऽदिमे । सन्धिलेखं समादाय पश्चाद्विजेयविस्तरम् ॥२॥ तैः स्वाराज्योपहारोऽपि प्रायो देशाय दास्यते। सन्धिरार्थिकवाणिज्यव्यवहाराय कल्प्स्यते ॥३॥ सच हस्ताक्षरङक्यो गान्धिप्रमुलनेतृभिः । तथा मुस्लिमसंपेन श्रेयः प्राप्तुमभीप्सुभिः ॥ ४॥ श्रीमान्हरिजने पत्रे व्यलिखगान्धिरेकदा । लेखं पाठकबोधाय निजानुभवशंसिनम् ।। ५ ॥ तथाहि 'नास्ति मे श्रद्धा वचनेप्वधिकारिणाम्। इति मद्वचसा कश्चित्सुहृत्प्रोत्साहितोऽलिखत् ॥ ६ ॥ संगवानप्यहं मन्ये श्रीमन्नात्मानमेककम् । इत्येवं भावयन्तं मे लेखो विस्मापयेदमुम् ॥ ७॥ नात्मानं चिन्तयेद्भक्तः कदाप्येकाकिन खलु। परमात्मा स्वभक्तस्य सदा जागर्ति संनिधौ ॥ ८॥ एवं सति कुतचिन्ता त्यक्तस्याप्यखिलर्जनैः । हार्दिको यदि विश्वासः श्रधातु तदा स्वयम् ॥ ९ ॥ अरिप्वपि यदि प्रीतिः सा ग्रीतिः पारमार्थिकी। अविश्वास्या अपि प्रीतिमईन्ति प्रातिदेशिकाः ॥१०॥ पहुमिः कारणैः श्रद्धा न मे ऽ स्त्याङ्ग्लाधिकारिपु । तथाप्येतेषु मे प्रीतिरस्त्येवाऽर्जशालिनः ॥११ ।। * १९४६ पिस्तान्दै
स्वराज्य-विजयः
यावजनेपु विश्वासः स्नेहस्ताचदमीपु चेत् ।
किमीङ्नश्वरप्रेम्णा व्याजमात्रावलम्बिना ॥१२॥
तस्करा अपि विस्रम्भान्मिथः स्निह्यन्ति कारणात् ।
लुप्तविश्वासमानास्तु विद्विपन्ति परस्परम् ॥१३॥
चिन्त्यता मोहमय्यां यदुतेदानी प्रवर्तते ।
लुण्ठनं गृहदाहश्च स्वैरमांग्लविनिन्दनम् ॥१४॥
मृतायाः किमहिंसायाः सा पुरी स्याच्नशानभूः ।
मार्गावस्कन्दिधूर्तानामेतदस्ति विचेष्टितम् ॥ १५॥
आंग्लराज्यावसानेऽपि धूर्तास्ते ऽमी यथापुरम् ।
देशेऽस्मिन्नवतिष्ठन्ते तर्जन्तो हि विनिर्बलान् ॥१६॥
न ते ऽस्माभिस्तु निन्द्याः स्युस्त्यक्तव्या रूढिरीशी ।
अस्माभिर्खाल्यते ऽङ्गारः स धूर्तरुपयुज्यते ॥ १७ ॥
कियन्मौर्यमहो तेपां धान्यापणविलुण्ठने ।
उपयोगाय तद्धान्यं क्षुधार्तानां हि रक्षितम् ।।१८।।
वणिग्दुरुपयोगं चेद्धान्यस्य कुरुते तदा ।
न तद्वारयितु शक्यं लुण्ठनेनापि सर्वथा ॥१९॥
ये जनाः प्रेरयामासु—ान्विप्लवकारिणः ।
उदर्कस्तैर्न विज्ञातो धूर्ताश्चर्यथोदितम् ॥ २० ॥
चौरिचौरापुरे पूर्वं घोरवृत्तोत्तर मया ।
यदाचरितमासीत्तत्तुल्य नाचर्यते ऽध किम् ।। २१ ॥
इत्थमाकारिणो घूयामीश्वरप्रेरणा ऽस्ति चेत् ।
करिष्ये ऽवश्यमेवाहं तन को मां निवारयेत् ॥ २२॥
भूयोऽपि प्रतिजानेऽहं देशजेऽस्ति यथा जने ।
तथैवाग्लेऽपि मे स्नेहो मानुष्यं हि द्वयोः समम् ॥ २३ ॥
नाविक-कार्यनिग्रहः ।
तथापि भारतस्याद्य जनतायाः सुखाप्तये।
आधिपत्यं स्वदेशीयमतिमात्रं हि कामये ।। २४ ॥
मोहमय्यां च कल्कत्ताकराचीपुरयोस्तथा ।
वर्तमानदुराचाराहुःसाध्य तद्विभाति मे ॥२५॥
मोहमय्यां निजोद्योगाद्विरतिर्नाविकैः कृता ।
आलाधिकारिसम्पन्नतिरस्कारादिकारणात् ॥ २६ ॥
प्रान्तेष्वन्येष्वपि क्षोभः समकालमजायत ।
राजकीयार्थसंवन्धं सर्वमेतदसूचयत् ॥ २७॥
लोका आड्याश्च दीनाश्च भारतीयाश्च सैनिकाः ।
देशस्वातन्त्र्यमिच्छन्तीत्यासीव्यक्तमिदं ततः ॥२८॥
निर्मिता लोहमित्तिः प्रागन्तरा जनसैन्ययोः ।
निपत्य शकलीभूता साम्प्रतं सत्यभूत्स्फुटम् ॥ २९ ।।
सैनिकेपु हि भूयिष्ठा आसन् कर्षकसंभवाः ।
विविदुस्ते किलांग्लानां नैतिकार्थिकसम्पदः ॥ ३० ॥
यत्सार्थकशतेनाब्दैश्वलति स्माङ्ग्लशासनम् ।
तदद्यावसितप्रायं भूतपूर्वमिव स्थितम् ॥ ३१ ॥
अतो वाणिज्यसौकय स्वतन्त्रीभूतभारतान् ।
लभ्येत कियदस्माभिरित्यांग्लाश्चिन्तनं व्यधुः ॥ ३२ ॥
पारुष्यलेशमप्येते कृत्वा मनसि भारतात् ।
गच्छेयुर्यदि तत्संगं त्यजेयुर्देशजास्तदा ॥ ३३ ॥
अथाऽमेरिकलोकेषु काचिनीतिजमण्डली।
श्रेयः कामयमानाऽऽसीद्वारतस्य सदाऽऽदरात् ॥ ३४॥
आंग्लभूमेरमात्याय नाम्नाऽट्लीति श्रुताय सा ।
तन्त्रीद्वारेण संदेशं प्रेषयामास तद्यया ॥ ३५॥
स्वराज्य-विजयः निरोधप्रतिरोधाम्यामुद्विग्ना भारतावनिः । मन्त्रिभिः क्रियतां हृष्टा स्वातन्त्र्यप्रतिपादनात् ।। ३६ ।। विलम्बो न हि कार्योऽत्र कालः शीघ्र प्रघावति । स्फुलिंगः सहसा कोऽपि भारते चेत्समुद्भवेत् ॥ ३७॥ उत्पाद स महादाहं सर्वानप्युपतापयेत् । नैतिकव्यवहाराय क्षणोऽयं परमोत्तमः ॥ ३८॥ इति सौ. क्षमायाः कृतिपु स्वराज्यविजये नाविक- कार्यनिग्रहो नाम पञ्चदशोऽध्यायः ।
पोडशोऽध्यायः मदुरायाना। नियन्त्रिता पुराऽऽसीद्या पत्रिकाऽब्दचतुष्टायात् । नाम्ना हरिजनाख्या सा पुनरुद्वोधिताऽभवत् ॥१॥ पाठकैमग्यते स्मेयं भारतीयैर्न केवलम् । आंग्लाऽमेरिकलोकैश्य पुनस्तां द्रष्टुमिच्छभिः ॥२॥ हिटुरादिप्रवीराणां महायुधि पराभवे । अहिंसासत्यमा श्रीगान्धि पप्रच्छ कश्चन ॥३॥ कृत्स्ना विकृतिमापन्ना रणोत्पातोद्भवान्मही । अप्यद्यापि स्थितोऽसि त्वं सत्याहिंसे समाश्रितः ॥४॥ अपि घोराणवानेण श्रद्धा ते न निराकृता। इत्येतद् ज्ञातुकामं मां ब्रूहि सर्व जगद्गुरो' ॥५॥ अत्तो हरिजनस्याके व्यलिवन्मुनिरग्रिमे। श्रद्धा मे द्विगुणीमूता सत्याहिंसनयोरिति ॥६॥ श्रीमान्मद्रपुरागान्धिर्गमिष्यन् वरषापुरम् । अपश्यननसन्दोई मदुरानगरे पथि ॥७॥ पत्रे हरिजने त्यक्तलोहमार्गनिवेशनः । निजानुभवमुद्दिश्य धूमयानेऽलिखन्मुनिः ॥ ८॥ प्रायः संख्या जनस्यासीदन्यूना लक्षपश्यकात् । आ दिगन्तं मनुष्याणामाकृतिपथे स्थिता ॥ ९ ॥ अगम्यः सर्वमागाऽमृत्सकुलः स्त्रीपुममेकैः । जनानां ववृधे संख्या पुनश्च प्रार्थनागणे ।। १० ।।
४६
स्वराज्य-विजयः
नादवर्धकयन्त्रेषु स्थितेष्वपि वचो मम ।
शके पर्यन्तलोकानां नाभवच्छुतिगोचरम् ॥ ११॥
स्वयंसेवकवृन्दं च जनसंघातमीदृशम् ।
नियन्तुं न कृताभ्यासमासीदित्यभवत्स्फुटम् ॥ १२ ॥
दूरग्रामपुरीलोकैः सम्पतद्भिर्जनाम्बुधौ ।
जनिता ध्वनिकल्लोलाश्चण्डसंघट्टनं व्यधुः ॥१३॥
तत्पूर्वमभवद्व्यर्थ मम सत्याग्रहवतम् ।
जनस्य किमिवाश्चर्य यदि सत्याग्रहो वृथा ॥१४॥
भृश संमद्यमानोऽपि पृष्ठभागस्थितैर्जनैः।
मदग्रतो जनस्तोमः स्थितो निःशब्दनिश्चलः ॥१५॥
कोलाहलः ससंमदः पृष्ठतो मेऽभ्यवर्धत ।
ततोऽहं वेदिकापीठादवतीर्य विनिर्गतः ॥१६॥
अथाहं साञ्जलिर्भूत्वा लोकान्प्रार्थितवानिदम् ।
गम्यतां भो गृहान् सौम्या नोत्सहे वक्तुमय वः ॥ १७ ॥
इत्येवमुक्तमात्रोऽसौ जोषमास्त क्षणाचनः ।
सर्वस्थापगमं यावत्तत्र स्वप्तुमचिन्तयम् ॥ १८॥
तावन्मामप्रवीत्कानुस्तात निर्गम्यतामितः ।
नातिदूरमितस्त्वां हि यन्त्रयानं प्रतीक्षते ॥१९॥
न रोत्स्यन्ति जना मार्गमिति श्रुत्वा तथेत्यहम् ।
पीठादवातरं यावत्तावदेव पुनर्जनः ॥ २० ॥
अभिधापन्निनादेन रोदसी समपूरयत् ।
पहुधा दर्शितस्नेहो मयि स्वस्वविचेष्टितैः ॥ २१ ॥
सोऽहं मूर्तिरिख प्रेम्णस्तैः सर्वैर्भावितोऽपि सन् ।
प्रेमाविष्कारचेष्टास्तास्तदीया नाभ्यरोचे तु ॥२२॥
८ मदुरायात्रा। तत्र चेत्किञ्चिदस्थास्यं तदाऽवेत्स्यन्नमी जनाः । सारं निर्वचनप्रेम्णः संयमस्यापि चात्मनः ।। २३ ।। पत्नीपुरे जनव्यूहो महान् सुचरितोऽभवत् । तर्कये तत्सुचारित्रं मदुरावृत्तशिक्षितम् ॥ २४ ॥ मदुरायां तथाप्यत्र निन्दा)ऽभून्न कश्चन । न च तत्र किमप्यासीद्वानिवृत्ते अपास्पदम् ॥ २५ ॥ , इति सौ. क्षमायाः कृतिषु स्वराज्य-विजये मदुरायात्रा नाम पोडपोऽध्यायः ।
सप्तदशोऽध्यायः पल्लीग्रामसम्मेलनम्। एकोनविंशशतके पट्चत्वारिंशदुत्तरे। अब्दे तृतीयमासस्य प्राप्ते सप्तमवासरे ॥१॥ विश्वयुद्धजयस्यासीदुत्सवो हस्तिनापुरे । महाविजृम्भणेनाऽऽङ्ग्लसम्राङ्दीनुरोधतः॥२॥ आसन् जयोत्सवस्यास्य वह्वः परिपन्थिनः । नगराम्यन्तरे तैश्च कृतोऽभूद् घोरविप्लवः ॥३॥ जनता पीडिता यस्मिन् प्रागितोन्दचतुष्टयात् । श्मशानमिव तज्जातं चांदिचौकचतुष्पथम् ॥४॥ विप्लवे क्रियमाणे च हिंसादहनलुण्ठनैः । पातिता गुलिकावृष्टिर्जनौघे पुररक्षकैः ।।५॥ अनेनाभ्यधिकं कुद्धाः प्रतीकारं चिकीर्षवः । दुर्गे सांग्रामिकं यानं शिलाभिः प्राहरञ्जनाः॥६॥ द्वौ हतौ गुलिकास्त्रेण भारतीयकुमारको । शवयुग्मं तयोर्निन्ये श्मशान जनयात्रया ॥७॥ जनवैद्युतसंयोगाध्छिन्ना दीपाश्च नाशिताः । भूयिष्ठा नगरी रात्रौ तमसाऽत्यन्तमावृता ॥८॥ परेयुरापणाः पाठशालाभित्रालयास्तथा। पूर्णविश्रान्तिमासाद्य पिहिता अवतस्थिरे ॥९॥ जनताया मनोवृत्तिरांग्लेषु परुषा स्थिता । तज्जयान्न जना हृष्टाः परं सर्वे परामुखाः ॥ १० ॥ .
पल्लीनामसम्मेलनम्।
अथ मद्रपुराद् यास्यन् मार्गे पल्निपुरे यतिः ।
प्रशान्तां जनतां दृष्ट्वा तोपितस्तागुपादिशत् ॥११॥
(महात्मोवाच।)
अस्पृश्यतानिवृत्तिश्चेत्स्पर्शमात्रनिवन्धना ।
तदा सा काष्ठतुल्या स्यात् स्पृश्यतायां गुणैर्विना ॥१२॥
विद्वानपि दुराचारो यदि स्याद्राह्मणस्तदा ।
ब्राह्मणाख्यापि तस्यैपा सर्वथा नोपपद्यते ॥१३॥
यः खलु ना जानाति स एव प्राह्मणः मतः ।
शीलेन न पुनर्वृत्त्या स्वरूपमवधार्यते ॥१४॥
समाजे हि समानः स्याद् द्विजेन मलशोधकः ।
पदमहेत्स मौलानाऽऽजादस्यापि यशस्विनः ॥१५॥
स्ववृत्तिमाचरन्नेप यदि राष्ट्रपतिर्भवेत् ।
तदिनं दन्त मे भूयात्परमानन्ददायकम् ॥ १६ ॥
अस्मदन्तस्तथा रूढो गाढमस्पृश्यतावणः ।
ययाऽस्मजीवितं व्याप्य नाना भेदमजीजनत् ।। १७॥
अयं हि माझणः सोऽन्यो भवति प्राह्मणेतरः ।
अयं मे धर्म इत्यन्यस्तवेति च कृता मिदा ॥१८॥
कुतो या दुपयेदस्मानिदमस्पृश्यताविपम् ।
एकस्यैव कुटुम्बस्य न वयं किमु जातकाः ।।१९।।
मनुष्यकुलसंमूता वयं सर्वे सहोदराः।
एकस्यैर विशालद्रोन किं शाखा इव स्थिताः॥२०॥
अस्मिन्नस्पृश्यतव्याधी सर्वयोन्मूलिते सति ।
दिनस्पन्ति पुराभेदाः स्पाप्यते च समानता ॥ २१ ॥
५०
स्वराज्य-विजयः
परोपयुक्तिः स्वार्याथ क्रियते न ततः परम् ।
सहकारस्तु सर्वत्र भविष्यति जनप्रियः॥२२॥
अलमस्पृश्यताऽऽलापर्वक्ष्यामि प्रस्तुतं परम् ।
तथा हि मां जनः शैले देवस्थानं निनीपति ॥ २३॥
मया सह प्रतिष्ठासुर्यदि लोको भवेत्तदा ।
गिरि षट्शतसोपानमारोदं न क्षमोऽस्म्यहम् ॥ २४॥
न च साऽधित्यका चोढुं पर्याप्ता तावतो जनान् ।
न मे सिध्येच यात्रेति शङ्का मय्युदभूदद्रुतम् ॥ २५ ॥
विचिन्तन् प्रभावेऽहं मूर्तीनां श्रद्धयान्वितः ।
प्रेरितोऽस्मि स्वयं तासां दर्शनायेति सर्वथा ॥२६ ।।
यद्यदारोप्यते भक्तैर्मूर्ती संभाव्यते च यत् ।
तत्तदेव भवत्येपा शक्तिहीना स्वरूपतः ।। २७॥
यदा हरिजना देवमन्दिरेभ्यो बहिष्कृताः ।
तदैव मे स्वतःसिद्धा प्रतिमानामशक्तता ॥२८॥
मीनाक्षीमन्दिरं पूर्व समुपेत्यापि नाविशम् ।
यावद्धरिजनस्तत्र निषिद्धोऽभूत्प्रवेशतः ॥२९॥
प्रविशेयं कथं देवसदनं तत्सुविश्रुतम् ।
मलशोधकमात्मानं स्वयमाख्यापयश्चिरात् ॥ ३० ॥
समक्षेत्रेषु विश्वात्मा यः समं जीवकोटिभिः ।
वर्तते स हि देवः स्याद्वारतस्येति मे मतिः ॥ ३१ ।।
कतिभिर्भारते लोकैरासायेत हिमाचलः ।
परं तु कोटयो यान्ति लीलया पल्निपत्तनम् ॥३२॥
प्रार्थना मेऽद्रिमूलेऽपि देवेन श्रूयतेतराम् ।
न तथा किल भक्तानां शैलाग्रसुरमन्दिरे ॥ ३३ ॥
पल्लीग्रामसम्मेलनम्। जानाति हृदयं नृणामीश्वरस्तस्य लक्षकः । बहिः प्रदर्शन न्यय कार्य चेन्नान्तरात्मनः ।। ३४ ॥ पर्याप्त हि ममासीद्यत् प्रवेष्टुमनुमोदिताः । पूजार्थ देवगेहेऽस्मिन् दिष्टया हरिजना इति ॥ ३५॥ भापमाणे मयि स्थेयान् जोपमासीजनार्णवः। अनायिपि गिरेः शृङ्गमासन्यामासितस्ततः ॥ ३६॥ जनौषो मम पन्थानं न किश्चिदुपरुद्धवान् । पत्नीसुरालयं यावद्यात्राऽऽसीद्विघ्नवर्जिता ॥३७॥ एकेन कलविकेन ग्रीष्मकालो न गम्यते । उक्तप्रसंगमात्रेण तस्माद्बहु न तर्कयेत् ॥३८॥ मुख्यामात्यस्तदा श्रीमानुदघोपयदाटलिः मन्त्रिवृन्दं ममाऽऽदेशाद्धारतं प्रति यास्यति ॥ ३९ ॥ यादृशो राज्यमारोऽद्य भारतीयैरपेक्ष्यते । नेतृमिस्तद्विनिर्णेयं तत्र साद्यकृतो वयम् ॥४० मृगये सहकारित्वं पक्षयोर्विपमे क्षणे। जातिधर्ममतेप्चेपां विवादा जटिलाः स्थिताः॥४१॥ भारतं यदि सम्पूर्णामस्मदिच्छेत् स्वतन्त्रताम् । तदा निप्पायतेऽस्माभिः शरणमार्गेण तत्कमः ॥ ४२ ॥ सर्वधा नांग्ललामाय विलम्योऽत्र करिष्यते। यदि ताग्विलम्वेन हानिः स्याद्वारतावनेः ।।४३ इति सी. क्षमायाः कृतिपु स्वराज्यविजये पत्नीग्रामसम्मेलनं नाम सप्तदशोऽध्यायः।
अष्टादशोऽध्यायः
रामनाममहिमावर्णनम् ।
अथ वैद्यवरः कचिन्महात्मानं व्यजिज्ञपत् ।
यदायुर्वेदशास्त्रेषु पहुबाप्युपलभ्यते ॥१॥
आमयोपशमे रामनामैकान्तिकसाधनम् ।
वैशिष्ट्यं चापि विश्रान्तिचिकित्साया निरूप्यते ॥ २ ॥
तन्निवेदनमुद्दिश्य वैद्यस्यास्य विपश्चितः ।
पत्रे हरिजनेऽलेखीन्महात्मा स्वमतं यथा ॥३॥
प्रणिन्थुवैद्यकग्रन्थान् यदा प्राग्वाग्भटादयः ।
तदा विष्णोर्न रामस्य नाम ह्यासीजनप्रियम् ॥४॥
अहं श्रीतुलसीदासे भक्तिमान् शैशवादपि ।
सर्वदा रामनाम्नैव परमात्मानमार्चयम् ॥५॥
प्रभोरोङ्कारमारभ्य यदि नामावलिः श्रुता ।
तदा नामभिदा स्पष्टा प्रवृत्तिस्तु जने समा ॥६॥
जगदीशस्तदाज्ञा च द्वयोर्नास्ति भिदाऽनयोः ।
उत्तमोपासना तस्मात्तदीयाज्ञानुवर्तनम् ॥७॥
तदाज्ञाबद्धभावस्य भक्तस्य परमात्मनः ।
रामनामोचपठनं न कदाचिदपेक्ष्यते ॥८॥
स्वभावाद्वेत्ति स ध्यायन्नाज्ञां श्वासगतिं यथा ।
चिकित्सा तस्य नास्त्यन्या रामनामप्रकीर्तनात् ॥९॥
शुकवत्पठनं रामनाम्नः स्पष्टं व्यनक्ति यत् ।
न वेत्ति पठिता देवं सर्वानिष्टनिवारकम् ॥१०॥
अयं परमजीवातुर्मिपम्भिर्विविधैरपि ।
स्वयमश्रद्धयोपेतैरातुरेभ्यो न दीयते ॥११॥
५३ . रामनाममहिमावर्णनम् । लभ्य भागीरथीमूलं प्रतिगेहमिति कचित् । यदि स्वीकुर्वते वैद्यास्तदा स्युनप्टजीविकाः॥१२॥ अतो गत्यन्तरामावाचूर्णपेयादिकं हिते। परमौपधमित्याहू रोगिणामुपशान्तये ॥१३॥ नाम्नोऽद्भुतप्रमावे चेत्स्वयं वैद्यो न विश्वसेत् । वृयैव स्यात्तदादिष्टं रोगिणे नामकीर्तनम् ॥ १४ ॥ न्यायानां पाठनं शक्यं न्यायलेखनपुस्तकैः । नानुभूतेविना शक्यं रामनाम्ना चिकित्सनम् ॥१५॥ विष्णोहि नामसाहलादेकस्यापि जयी नरः । सर्वरोगविमुक्तः स्यादितीड्या चरकस्य वा।। १६ ।। कालेऽस्मिन्दक्षिणे देशे कश्चिन्निर्माय मन्दिरम् । मूर्ति महात्मनस्तत्र प्रतिष्ठाप्य समार्चयत् ।। १७॥ वृत्तान्तं तमुपश्रत्य महात्मा विजुगुप्सितः । वृत्तपत्रे तमुद्दिश्य योधनामलिखद्यथा ॥१८॥ कीदृशीयमहो लोके मूर्तिपूजा विलक्षणा । कस्मान्मन्दिरनिर्माणे कृतस्तेन वृथा व्ययः ॥१९॥ ग्रामिकाश्चापथं नीता अहं चाप्यपमानितः । मदुक्तः पूजनस्याओं विपर्यासमवापितः ।।२०॥ उधरेगस्तन्तुनेण सन्तुरकस्य पूजनम् । तञ्च स्वराज्यलाभाय जीविकाप्राप्तयेऽयवा ॥२१॥ गीतोक्तधर्मचर्यंव गीतायाः किल पूजनम् । न पुनः शुकवत्पाठः पठिनुः कण्ठशोपकः ॥ २२॥ अनुवृतिर्मनुष्यस्य मनुष्यस्यापि पूजनम् । सा च तद्गुणमाहात्म्ये न तु तद्दोपलाघवे ।। २३ ।। 4 स्वराज्य-विजयः जीवतः पुरुषस्यास्मिन्पूजया क्लृप्तमन्दिरे । अपनश्यन्ति सर्वेऽपि हन्त धर्माः सनातनाः ॥२४॥ साधुरित्युच्यते मृत्योः प्रागेव न नरः क्वचित् । प्रशस्यते गुणोद्रेकैः पूज्यते मरणोत्तरम् ॥ २५॥ जानाति भगवानेव मनुष्यस्य हृदोऽन्तरम् । जीवन्तं वा मृतं तस्मान्मनुष्यं न समर्चयेत् ॥ २६ ॥ सर्वदा पूजयेत्पूर्ण सत्यं यदभिधीयते । तचाहुः पण्डिता नित्यं परमात्मानमाश्रितम् ॥ २७॥ अतोऽयं मन्दिरस्वामी प्रतिमामपनीय मे । कर्तुमर्हति तद्नेहं केन्द्र सूत्रविनिर्मितेः ॥२८॥ वेतनप्रासये केचित्परे यज्ञमनीपया । कुर्वन्तु सूत्रनिर्माण वसानाः खद्दराम्बरम् ॥ २९ ॥ इत्थं हि. कर्मणा गीता भविष्यति निदर्शिता । तस्याश्च मम चाप्येतद् वस्तुतः पूजनं भवेत् ॥३०॥ इति सौ. क्षमायाः कृतिपु स्वराज्य विजये रामनाममहिमावर्णनं नाम अष्टादशोऽध्यायः।
नवदशोऽध्यायः हरिजनसहवासानुमोदनम् । अथोलिग्राममुत्सृज्य गमिष्यन्हस्तिनापुरम् । पत्रे हरिजनेऽलेखीन्महात्मा स्वमनोगतम् ॥१॥ किमर्थ वस्तुमिच्छामि चाण्डालवसताविति । संभ्रान्ताः सुहृदः केचिदन्ये चापि हि विस्मिताः।।२।। समजायत काझेयं कुतो मम हृदन्तरे । इति मां यदि पृच्छेयुस्तानत्र प्रतिवम्यहम् ॥३॥ भाव्यमस्माभिरस्पृश्यैरथवा मलशोधकैः । इत्युक्तं यन्मयाद्यापि कर्मणा न निदर्शितम् ॥४॥ तदेतद् घ्यायतः पार्थ भूयश्चिन्ताकुलस्य मे। गुजरेभ्यः समानीता कैश्चिद्वाती हि सा यथा ॥५॥ एकैव तत्र वाप्यासीदेक एव सुरालयः । ययोर्नागरिकैरासन्नस्पृश्याः सहमागिनः ॥६॥ अस्पृश्यैस्सहवासेच्छां तट्टत्तमुददीपयत् । अचिरात्सफलीकर्तुमेतां च सममून्मतिः ॥७॥ टूरे हरिजनेभ्यश्चेन्निवसेयं स्वयं तदा । विनिन्द्याः स्युः कथं लोका अस्पृश्यत्वं समाश्रिताः॥८॥ इति भावनयाऽऽक्रम्य कर्म कर्तुं प्रणोदितः। वस्तुं हरिजनावासे निश्चय कृतवानहम् ॥९॥ श्रीमान् पिला दीपेन्छ ततो विज्ञापितो मया। मोहमय्यां च दिलयां च निवासं पर्यकल्पयत् ॥१०॥ नाई हरिजनान् स्वैरमुपरोर्बु समुत्सहे। स्वमध्यवर्तिनं नो चेन्मर्पयेयुरिम जनम् ।।११।।
स्वराज्य-विजयः
4
.
नानादेशप्रदेशेषु महात्मा भारतावनेः ।
श्रुतविप्लववृत्तान्तो व्यथितात्माऽलिखद्यथा ॥१२॥
"अहो वायुरिव व्यापी द्वेपः सार्वत्रिकोऽजनि ।
अत्यधा हि हिंसेयं भारतस्य न युज्यते ॥१३॥
न द्वैपः प्रेमरूपेण पर्यवस्यति कर्हिचित् ।
इति हिंसाता लोका विवदन्ते दुराग्रहात् ॥१४॥
सत्याहिंसात्मक युद्ध वयं स्वातन्त्र्यलधये ।
विधास्याम इति प्रोचैः कृताऽस्माभिर्हि घोषणा ॥१५॥
महायुद्धानलाङ्गारो योऽद्य निर्वापितः स्थितः ।
द्वेय विद्रोहनैष्फल्यं जगते घोपयत्यसौ ॥१६॥
विद्वेष्टा न हि विद्वेष्टि विद्वेपस्यैव कारणात् ।
स्वदेशाकिन्तु विद्विष्टानिष्कासयितुमिच्छति ॥१७॥
अतो हिंसात्मकं युद्धं दूरीकृत्य जनोऽधुना ।
अहिंसासाधनेनैव स्वाभीष्टं खलु साधयेत् ॥१८॥
वर्षाणां पञ्चविंशत्या स्वेच्छयाऽनिच्छयाऽथवा ।
जनतां समुपादिक्षद्राष्ट्रसंघः पुनः पुनः ॥१९॥
आसेतोरातुषारादि ग्रामे ग्रामे पुरे पुरे ।
अहिंसासाधनेनैव त्र्यं प्राप्नुयादिति ॥२०॥
इदमाशुतरं पूर्वापेक्षयाऽन्तःस्थलेष्वपि ।
चेतांसि भूककोटीनां दिष्टया स्पष्टुमपारयत् ॥२१॥
बहवस्तु निगूह्यान्तहिंसां हन्त स्वचेतसि ।
अहिंसां मुखमात्रेणोद्घोषयन्त उपादिशन् ॥२२॥
तथापि मुग्धचेतोभिर्जनैरानवशालिभिः ।
वक्तृणामाशयो गूढः सुतकरुपलक्षितः ॥२३॥
" हरिजनसहवासानुमोदनम् । अहिंसाधनसम्पत्तिः प्रयत्नेन महीयसा । रक्ष्यतां बान्धवास्तस्मादिति भूयोऽनुशाम्यहम् ॥२४॥ विषयं स्वयमज्ञात्वा न हि स्वैरं ब्रवीमि वः । परं स्वानुभवामि वर्षषष्टिमितादहम् ॥२५॥ अत्यन्तविपमः कालो भारतेऽध हि वर्तते । दीनानां मूककोटीनां मुमूर्पूणां बुभुक्षया ॥२६ ।।' पत्रे हरिजने श्रीमानलिखद्गान्धिरेकदा । पुरुषायुपमुद्दिश्य व्यञ्जयन् स्वमतं तथा ॥२७॥ शताब्दान् पंचविंशत्याऽधिकान् या मे जिजीविषा । प्रस्तुता हि मया पूर्व सा प्रगल्भार्थगर्मिता ॥२८॥ कुर्वन्नेवेह कर्माणि जिजीविपेच्छतं समाः ! इतीशावास्यमन्त्रेण कामना मे प्रमाण्यते ।। २९॥ शतस्य पञ्चविंशस्य शतमस्त्युपलक्षणम् । इति व्याख्यातमस्ति प्राग्भाष्यकारेण केनचित् ।। ३० ॥ पोडशोर्ध्वशतेनैव शतसंख्योपलक्ष्यते । इति मद्रप्रदेशेषु चिराय श्रूयतेतराम् ॥ ३१ ॥ सङ्गवर्जितसेवा हि न कर्मफलमीक्षते । ताहक्सेवामकुर्वन्न कामयेत शतं समाः॥३२॥ दीर्घायुष्यमिद त्यागाद्विना नैवोपलभ्यते । तेन त्यक्तेन भुञ्जीथा इतीशावास्यडिण्डिमः॥३३॥ यदि जातु फलासक्तो नरो जीवेदियश्चिरम् । उजीवितशवप्रख्यः सर्वेषां मार एव सः ॥ ३४ ॥ वरं स प्रार्थयेतेशं शीघं देहविमुक्तये। स एवास्य परो धर्मो न दीर्घायुष्यकामना ।। ३५ ।।
५८ स्वराज्य-विजयः देहः परोपकाराय न पुनर्भोगभुक्तये । सुखं संजायते त्यागात् त्याग एव हि जीवितम् ॥ ३६॥ अकासितफलस्तस्मात्परसेवनतत्परः । सपादैकशतं मर्त्यः समीहेत समाः सदा ॥३७॥ फलमेकान्ततस्त्यक्त्वा सेवां सर्वात्मना चरन् । सुखमन्यादृशं विन्देकोऽपि हर्तुं न तत्क्षमः ॥ ३८॥ हृदयस्य वहत्यन्तस्तत्सुखामृतनिर्झरः । अन्तरा तादृशाहादं दीर्घायुः स्यान्निरर्थकम् ॥ ३९॥ इति सौ. क्षमायाः कृतिषु स्वराज्यविजये हरिजनसहवासा- नुमोदनं नाम नवदशोऽध्यायः ।
.
विंशोऽध्यायः
गान्धिनिमन्त्रणम् ।
अथ कश्चिन्महात्मानं पत्रसम्पादकोऽलिखत् ।
पठितस्ते मया ग्रन्थस्तात गीतार्थबोधकः॥१॥
द्यतं छलयतामस्मि मद्विना न शुभाशुभम् ।
इत्यादिकं विभोर्वाक्यं विचिकित्सां व्यधान्मम ॥ २
किमिति प्रतिबध्नाति दुष्कर्माचरणं विभुः।
कथे च पापकर्माणं दण्डयेत्करुणार्णवः ॥३॥
अप्येतदर्थमेवासीद्विधात्रा निर्मितं जगत् ।
अप्यशक्य मनुष्याणां प्रशान्त्या जीवितु भुवि ॥४॥
(महात्मा प्रत्युवाच ।)
अनिष्टसंभवं लोके भगवाननुमन्यते ।
इति श्रोत्रप्रियं न स्याद्वचनं हि शरीरिणाम् ॥ ५॥
तथापि परमात्मैव यदि सर्वेष्टदायकः ।
तदा स्वयमनिष्टानामपि स्यात्खलु वारकः ॥६॥
यद्वितीयबलं दत्त्वा रावणाय स्वयं विभुः।
न किं ते वधदण्डेनायोजयत्पापकारिणम् ।।७।।
पायोऽव बुद्धिसोहस्य तिदान स्यादविज्ञता।
अप्रमेयस्वरूपस्य तत्त्वतः परमात्मनः ॥८॥
स एवं न्यायनिर्माता न्यायश्च न्यायसाधकः ।
न कोऽप्येतादृशीं शक्तिमात्मीयां कर्तुमीश्वरः ॥९॥
आत्मीयत्वे भवेनिन्द्यो निरङ्कुश इव प्रमुः।.
जगदीश्वरनिष्ठेव पूज्यते शक्तिरीशी ॥१०॥
६० स्वराज्य-विजयः यदा जगति वास्तव्यं कुरुते निखिलो जनः । निश्चयं जीवितुं शान्त्या तदा शान्तिः स्थिरा भवेत् ॥११॥ साधोर्हि निखिलो लोकः साधुरेव भविष्यति । चिन्तयेद् विपरीतं यः स वृधा दर्पदूपितः ॥१२॥ * रसाब्धिग्रहचन्द्राब्दे नृपतेर्मन्त्रिणस्त्रयः । वसन्तसमये रम्ये पिकगीतमनोहरे ॥१३॥ प्रफुल्लकुसुमामोदमाजग्मुर्हस्तिनापुरम् । राष्ट्रिय जटिलग्रन्थिं विमोचयितुमिच्छवः ॥१४॥ अध्यक्षो मण्डलस्यासीद्राजनीतिविचक्षणः । पेथिक्लोरेन्सिति ख्यातो ज्येष्ठो बुद्धिमतां वरः ॥१५॥ सोऽयं भारतवर्षस्य प्रजाः सर्वा नभोगिरा । निजागमसमुद्देशं बोधयामास तथा ॥१६॥ राज्यभारं हि निर्वोढुमादौ कार्यः सुसंविधिः । अचिरादारतं येन पूर्णस्वातन्त्र्यमाप्नुयात् ॥१७॥ यत्कार्य भारतीयानामात्मस्वातन्त्र्यसिद्धये । तत्र साहाय्यकर्तारः सन्निकृष्टा वयं स्थिताः ॥१८॥ अस्माकं नान्यदेतस्मात्कार्यमत्र हि विद्यते । हन्ताऽऽनोतु निजस्थानं जगद्राष्ट्रेषु भारतम् ॥१९॥ महर्जिगतो राज्यवहारान्किन्वत्ती। लप्स्यतेऽभ्युदयं शीघ्र स्वतन्त्रा भारतावनिः ॥२०॥ न किश्चिदपि वाञ्छामः साहाय्यस्य कृते वयम् । परं सौहार्द मिच्छामः सर्वैर्भारतवासिभिः' ॥२१॥ *१९४६ खिस्तान्दै
गान्धिनिमन्त्रणम् ।
*
प्रान्तराज्यविभागानामधिपैरालमन्त्रिणः ।
पूर्व मिथः समालोच्य निश्चिक्युर्गान्धिमीक्षितुम् ॥२२॥
मन्त्रिणामग्रणीस्तस्मात्प्रेषयामास गान्धये ।
आदरेण समाहानं दिल्लीमागम्यतामिति ।। २३ ।।
उलीग्रामे तदा तिठन्मुनिः पुण्यपुरान्तिके ।
तत्पार्धमागमदूतः सुधीरो नाम मन्त्रिणाम् ॥ २४॥
ऊरीकृत्य तदाहानं सद्यवस्थासमुत्सुकः ।
महात्मा तत्क्षणादेव प्रतस्थे हस्तिनापुरम् ॥२५॥
मोहमय्यामसो मार्गे तत्प्रयाणमखण्डयत् ।
कालं हरिजनैः साध कियन्तं नेतुमिच्छ्या ॥ २६ ॥
मोहमय्या उपान्तस्थे वर्लिनामनि पत्तने ।
महानपिनिवेशोऽभूचाण्डालानां चिरादपि ॥२७॥
तेऽमी हरिजनाः ख्याताः केचिदेषां समुद्यताः।
खलीकर्तु महात्मानं लोहमार्गस्य संक्रमे ।। २८॥
अनुजग्मुर्महात्मानममी वर्लिपुरावधि ।
तत्कुटीरे शिलावर्ष चासजन्नीचयुद्धयः ॥२९॥
दग्धुं तस्य फुटी दुष्टा यावदासन् समुद्यता:
तापन्निवारयामासुः सुधीराः प्रातिवेशिकाः ॥ ३० ॥
कृतघ्नत्वपराकाष्ठामहो धिक पापशालिनाम् ।
यदमी हन्तुमुधुक्ताः स्वमिनमुपकारकम् ।। ३१ ।।
नैकवर्पाण्यहोरान प्रायस्यद्दीनवत्सलः ।
उद्धर्तमन्त्यजानेतान्सर्वलोकैस्तृणीकृतान् ॥ ३२
अस्पृश्यत्वकलङ्कस्य प्रायतिष्ट प्रमार्जने ।
प्रायोपवेशन(मान् सुनतेधाऽऽफलोदयम् ॥ ३३ ॥
स्वराज्य-विजयः अन्त्यजानां परित्राता दीनानां च सुहृन्मणिः । कथं नामापमान्येत वचसा कर्मणापि तैः ॥ ३४ ॥ अवादीबहुवर्षेग्यः पूर्व कश्चित्सुहन्मुनिम् । यदर्यमुपवासादियज्ञा अयि कृतास्त्वया ॥३५॥ न करिष्यन्ति तेऽनिष्टमित्याशासे भृशं सखे । अन्नदातुः करं पूर्व यथा श्या दृष्टवानिति ॥३६ ।। दिष्ट्या तस्यागमात्पूर्व तत्सायं बर्लिपत्तने । रक्षकैः शमितः क्षोभः शान्तिश्वासीत्प्रतिष्ठिता ॥ ३७॥ कुटीरं परितो गान्धेस्तद्रक्षायै नियोजिताः। तस्थुः पञ्चशतं रात्री सशस्त्राः पुररक्षकाः ॥३८॥ तं रिरक्षिपवः पञ्चविंशतिश्चाधिकारिणः । अरुन्धन् यास्यतो लोकान् संमुखीनमहाङ्गणम् ॥ ३९॥ धिकृतोऽपि महात्माऽसौ प्रकृत्या दीनवत्सलः । न विदूनो न च क्रुद्धः पापानां दुष्टचेष्टितैः॥४०॥ इति सौ. क्षमायाः कृतिषु स्वराज्यविजये गान्धि निमन्त्रण नाम विशोऽध्यायः ।
एकविंशोऽध्यायः
मन्त्रिसंमन्त्रणम् ।
गन्धिदिल्लीमथ प्राप्य लोहमार्गनिवेशने ।
ग्रामीणैः कैश्चिदेवासीजयघोषेण सत्कृतः॥१॥
कृष्णध्वजकराः केचिद्राष्ट्रसङ्घमहात्मनोः ।
निकृष्टिकरवाक्यानि प्रोचकैरुदघोषयन् ॥२॥
चिक्षिपुः प्रस्तरान्याने केचिदन्ये महात्मनः ।
दिष्टया निष्कासयामासुस्तान् स्वयंसेवकाः खलान् ।।३।।
वाल्मीकिमन्दिराख्येऽसौ चाण्डालशिघिरे मुनिः।
कृतावासोऽनयीत्सायं दैनिकमार्थनोत्तरम् ॥४॥
अहो अस्पृश्यता नाम कलङ्कोऽयं महत्तमः ।
हिन्दुधर्मात्प्रमाव्यो देशकल्याणमिच्छुभिः ।।५।।
साकं हरिजनैः स्निग्धैर्वसन्नश्नन् स्वपंश्चरन् ।
गृहस्यारोग्यसंरक्षां शिक्षयिष्ये शनैरमून् ॥६॥
अन्त्यजानामधोगत्यै स्वयं वाच्योऽस्मि यत्ततः ।
किमाश्चर्य यदि क्रुद्धा मयि स्युः केचिदन्त्यजाः ॥७॥
मथान्येधुर्लघुव्याख्यां प्राकाश्यमनयन्मुनिः ।
मुञ्च मारतमित्युक्तरर्थसर्वस्वबोधिकाम् ॥ ८॥
मुञ्च भारतमित्युक्तं यदहिंसात्मकं वचः ।
अमोनाकन्दनिघोंपः सहजः सोऽन्तरात्मनः ॥९॥
एतेन परदेश्यानां प्राभवस्य निवर्तनम् ।
सूच्यते न पुनस्तेषामस्माभिरवसादनम् ॥ १० ॥
विदेश्यान्प्रति विद्वेपो नास्त्यस्मिन्संविधानके।
या वयं तथा तेऽपि मनुष्या इति मन्महे ॥ ११ ॥
६४
स्वराज्य-विजयः
भयमेव विदेशीयाद्विद्वेषस्य हि कारणम् ।
गते भये न विद्वेपस्यावकाशोऽपि विद्यते ॥१२॥
परिवर्तनतस्तस्य भवेन्नः परिवर्तनम् ।
गते च नोऽपि नीचत्वे गतैव स्यात्तदुञ्चता ॥१३॥
तस्य शस्त्रास्त्रसद्धातो महागारेषु रक्षितः ।
आणवं परमास्त्रं च नास्माकं जनयेद्भयम् ॥१४॥
चिरेणान्योन्यसातङ्काः शासकाश्च प्रजा अपि ।
सुखेनोच्छ्वासनिघासावपि प्रायो न कुर्वते ॥१५॥
अतः स्वातन्त्र्यलाभेऽपि सुचिरक्लेशनाजनः ।
रुद्धश्वास इव प्रायः प्रारम्भे न सुखायते ॥१६॥
यदि स्वातन्त्र्यमागच्छेद्विना हिंसां तदा हि तत् ।
जगतो निखिलस्यापि भवेन्नूतनशिक्षणम् ॥१७॥
परेधुः समुपेत्यासौ नृपतेर्मन्त्रिमण्डलम् ।
तेन संमन्त्रयन् सार्थ घटिकाः पञ्च नीतवान् ।। १८॥
अब्रवीत्स च निर्व्याज प्रदोषप्रार्थनोत्तरम् ।
अश्रद्धा मन्त्रिवृन्देऽस्मिन् परं कापुरुषोचिता ॥१९॥
आंग्लभूमेरमी प्राज्ञाः प्राप्ता निर्व्याजवृत्तयः ।
न जातु भारतीयानां भविष्यन्ति प्रतारकाः ॥ २० ॥
देयामहति कार्येऽस्मिन्नावको सुमतिं विभुः।
भूयात्सन्निहितश्चापि सर्वदा मार्गदर्शकः ॥ २१ ॥
हिन्दूनां प्रार्थनेपा च मुस्लिमानामथेशी ।
इति लोकस्य भेदोक्त्या मम दोदूयते मनः ।। २२ ।।
अल्ल इत्याख्यया कैश्चिदीश इत्यपरैर्जनैः ।
कृत्स्नस्य जगतः कर्ता भगवान् व्यपदिश्यते ॥ २३ ॥
मन्त्रिसंमन्त्रणम् । -- न मजामः कथावीरं राम दाशरथिं नरम् । परं तदाख्यया,देवं विश्वव्यापिनमीमहे ॥२४॥ इत्युक्त्वा स ययौ श्रीमान्द्रष्टुं भूपालमन्त्रिणः । प्रत्यगात् पररात्रे च पुनर्वाल्मीकिमन्दिरम् ॥ २६ ॥ इति सौ. क्षमायाः, कृतिपु स्वराज्यविजये मन्त्रिसंमन्त्रण नाम दएकविंशोऽध्यायः । A - र 5
7
द्वाविंशोऽध्यायः
मन्त्रिसन्धानवैकल्यम्।
राज्यमारं पुनर्वोढुं राष्ट्रसघोऽन्वमन्यत ।
प्रतिराष्ट्रविभागं च नियुक्ता मन्त्रिणस्ततः ॥१॥
प्रान्त्यानामधिपाः सर्वे तदेतदुघोषयन् ।
राजकीयसमाचारपत्रेषु स्वस्वनामतः ॥२॥
तदाल एव निमुक्तो बन्धनान्नेहरूबवीत् ।
उद्बोधयन्नुपायातां मण्डलीमांग्लमन्त्रिणाम् ॥३॥
परस्परानुमत्येन स्वातन्त्र्यं यदि नैष्यति ।
तदा देशे ध्रुवं भावी विक्षोभः परमोत्कटः॥४॥
नान्यो हेतुर्हि साम्नोऽस्ति प्रभुत्वपरिवर्तनात् ।
नैवानुमोदते राष्ट्रसंघो देशविभाजनम् ॥५॥
यद्यपि प्रतिपधेरन्नेतस्मिन्नांग्लमन्त्रिणः ।
तथापि राष्ट्रसंघस्तत्प्रतिरोत्स्यति सर्वथा ॥६॥
जिन्नः श्रीमानथोवाच पाकिस्थानेऽनुमोदिते ।
प्रवेष्टुमेप सज्जोऽस्मि राज्यशासकमण्डलीम् ॥७॥
तर्जयेद्राष्ट्रसंघद्रक्तपातेन मुस्लिमान् ।
तदा मुस्लिमसंघोऽयं तटस्थो नावतिष्ठते॥८॥
नास्मसंघ विना राज्यभारस्तिष्ठेदिनद्वयम् ।
अनिवार्यों हि संघाने पाकिस्थानस्य निर्णयः ॥९॥
अभवन् राज्यसूत्रस्य ग्रन्थिविश्लेपकर्मणि ।
निष्फला मन्त्रिणां यत्ना जिन्नस्यैव दुराग्रहात् ॥१०॥
आंग्लपञ्चममासेऽथ निश्चिक्ये वेवलः प्रभुः।
सिमलाद्रौ समाह्वातुमेकं त्रैपक्षिकं सदः ॥११॥
-
.
मन्त्रिसन्धानवैकल्यम् ।
प्रमुखान् राष्ट्रसंघस्य तथा मुस्लिमसंसदः।
श्रीगान्धिं च महात्मानं सदस्यान् स न्यमन्त्रयत्॥१२॥
असकृन्मन्त्रणं चक्रे महात्मा मन्त्रिभिः सह ।
तत्तु सर्व वृथैवाऽऽसीविफला च सभाऽजनि ॥१३॥
उभयोः पक्षयोः संधि विधातुमभिलाषुकः
पशिधं वाङ्मुखं चक्रे नूतनं सचिवाग्रणीः ॥१४॥
अध्याये तु प्रयोविंशे विस्तरेणोपवर्ण्यते । ।
तदेतच्छ्रीमतो गान्धेस्पोद्घातपुरस्सरम् ॥ १५॥
श्रीमान् गान्धिरुवाच प्राक प्रस्थानासिमलाचलम् ।::
लोकविप्लवमुद्दिश्य दैनिकप्रार्थनोत्तरम् ।। १६ ।।
सत्यार्थाः परिगण्यन्ते लोकैर्वृत्तान्तपत्रिकाः ।
कुराणमगवद्गीतास्तवेदोक्तयो यथा ॥१७॥
तत्तद्देशस्य पत्रेपु यद्यद्वृत्तं प्रकाश्यते ।
विश्वसन्ति जनास्तस्मिन् निर्विचारं श्रुतिष्विव ॥ १८॥
तथा हि वृत्तपत्रेषु प्रागेवैतत्प्रकाशितम् ।
यद्भविष्यति सर्वत्र न चिराद् घोरविप्लवः ॥१९
ईदृग्वार्ताभिरास्तेऽद्य संत्रस्ता जनता किल ।
येषां भगवति श्रद्धा तेषां वासो न युज्यते ।। २०॥
यदि जातु मवेश्वोमो मियेरन् यहोपि वा ।
ततः किमिति भेतव्यं जातस्य मरणं ध्रुवम् ॥२१॥
प्रविश्य निर्मयं लोकैः संमः क्षोभकारिणाम् ।
पापान्निवर्तनीयास्ते समाधानपुरःसरम् ॥२२॥
कश्चिदाह जनाः क्षुब्धैईन्यन्ते पामरेरिति ।
अस्मिन् व्यतिकरे निन्द्याः शिक्षिता न तु पामराः ॥२३॥
३८ स्वराज्य-विजयः सामाजिका हि ते केचित्प्रशस्तपदवीधराः। प्रवर्तयन्ति,तानज्ञान्विविक्त घोरकर्मणि ॥२४॥ अतो निवारणीयास्ते शिक्षित. पापकर्मणः । निजप्राणव्ययेनापि प्रसगे सति तादृशे ।। २५॥ बालिकाप्युपसयैतान् निहन्तन्याचितुं क्षमा । कृपया क्षिप्रमेवार्या विरमन्तु वधादिति ॥ २६ ॥ विरमेयुरमी प्रायो हिंसेयुरथवापि ताम् । मृता चेदमरी नित्यस्मरणीया च सा भवेत् ॥ २७॥ इति सौ. क्षमायाः कृतिषु स्वराज्यविजये मन्त्रिसन्धानवैकल्य नाम द्वाविंशोऽध्यायः ।
त्रयोविंशोऽध्यायः
रामराज्यवर्णनम् ।
रामराज्यमिति ख्यात स्वाराज्ये यद्धव गतम् ।
चक्रे हरिजने व्याख्यां महात्मा तस्य तद्यथा ॥१॥
व्याख्यातु बहुमिलॊकैराहूतोऽस्मि स्वतन्त्रताम् ।
रामराज्यदशा सेति व्याचक्षेऽद्य समासतः ॥ २ ॥
रामराज्य न हि स्वर्गतुल्यमस्तीति मे मतिः ।
स्वर्गो हि दूरतः स्थायी तद्वृत्तालोचनेन किम् ।। ३ ।।
भविष्यद् दूरदृश्यं हि नाभिलष्यामि वेदितुम् ।
यदि स्याद्रम्यताद्यत्वे भवेद्रम्यैव चायतिः ॥४॥
तस्मात्स्वातन्त्र्यमेष्टव्यं नैतिकार्थिकधार्मिकम् ।
स्वातन्त्र्य नैतिक सिध्येदांग्लसेनाव्यपोहतः ॥ ५॥
कनिष्ठश्रेष्ठयोर्मध्ये तदा हि समता भवेत् ।
स्वातन्त्र्य धार्मिक सिध्येद्रक्षासैन्यविवर्जनात् ।। ६ ।।
आंग्लसैन्यस्थले राष्ट्रसेना यदि नियुज्यते ।
स्वायत्तो न मवेदेशः स्वसैन्येनाप्यधिष्ठितः ॥ ७॥
स्वसैन्यदमिते राष्ट्रे न शन्नोत्यतिदुर्षलः ।
क्रमेणापि समारोदुमाध्यात्मिकसमुन्नतिम् ॥ ८॥
यदि मानुष्यक सर्व निवर्तेत जुगुप्सया ।
युद्धस्यात्याहितनातात्तदा हानिन विद्यते ॥ ९॥
रक्तपातोऽपि न व्यर्धस्तेन चेच्छिक्षितो जन ।
स्वरक्तोत्सर्जन श्रेयः परासग्यातनादिति ॥ १० ॥
ययांग्लमन्त्रिणां कूटः स्वातन्त्र्य प्रतिपादयेत् ।
तदा भारतमल्पिष्ठ स्थापयेत्सैन्यमात्मनः ॥११॥
So स्वराज्य-विजयः इत्थं तद्भुवि राष्ट्राणां पञ्चमं वर्गमाश्रयेत् । नेच्छेत्सांगामिकख्याति मुधा सर्वस्वनाशिनीम् ॥ १२ ॥ अहिंसानीतिमेवारें विदध्याच्छुद्धिमत्तराम् । क्रमेण चाग्रिमं राष्ट्र भूत्वा संमानमाप्नुयात् ॥ १३ ॥ स्वातन्त्र्यं भारतं भूरिश्रमेण समुपार्जितम् । जगद्वारं लघूक प्रयोजयति सम्भवे ॥१४॥ समाप्तविजयाप्येषा विश्वयुद्ध हि मेदिनी। नानाविधेन भारेण क्षुण्णपृष्ठेव वर्तते ॥ १५ ॥ इति सौ. क्षमयाः कृतिषु स्वराज्यविजये रामराज्यवर्णनं नाम त्रयोविंशोऽध्यायः ।
चतुर्विशोऽध्यायः
नवविधानवर्णनम् ।
अथामात्यः प्रजागोष्ठयामाटलिः सन्यवेशयत् ।
मुख्यानि षड् विधानानि राज्यमाराय भारते ॥१॥
प्रथमं तावदांग्लेयभारतान्तनिवेशयेत् ।
निखिलाश्रितसंस्थानसमुदाय यथाक्रमम् ॥२॥
विदेशव्यवहाराणां स्वराष्ट्रवाणकर्मणाम् ।
यानवातादिकार्थानामीष्टे संयुक्तभारतम् ॥ ३ ॥
त्रयाणां च कृते वित्तं यावदावश्यकं भवेत् ।
तावतः संग्रहं कर्तुमधिकार वहेदपि ॥४॥
द्वितीयगय संयुक्तभारतं रचयेद् द्वयम् ।
समिति कार्यकर्तृणां समां च न्यायकारिणीम् ॥ ५॥
शेषाः सर्वेऽधिकाराः स्युस्तत्तत्प्रान्त्यप्रयोजिताः ।
इति मुख्यविधानेन तृतीयेन प्रकाशितम् ।। ६ ।।
चतुर्य च यथापूर्वममिरक्षयुरात्मनः ।
प्रभुत्वाधिकृतीः सर्वाः संस्थानान्यखिलान्यपि ॥७॥
पचमं च भवेत्यान्त्यैः प्रातिनिध्यं सुरक्षितम् ।
समयोः कार्यकर्तृणां तथा न्यायविधायिनाम्
पठं च राज्यमारः स्यात्कल्पितश्चान्तरालिकः ।
प्रत्यन्ददशकं चापि कुर्यादेवं ततः परम् ॥ ९ ॥
अथाऽऽकाशगिरा श्रीमान् किप्सः साम्नोदधोपयत् ।
अध सर्वात्मनाऽध्यासे यत्कृत्स्नर भारतप्रजाः ॥ १० ॥
अङ्गीकृत्य विधीनेतान् सहोयोगचिकीर्पया।
मासा(म्यन्तरे फुर्यरान्तरास्कियासनम् ॥ ११ ॥
स्वराज्य-विजयः --- परेधुरवदगान्धिः प्रदोषप्रार्थनोत्तरम् । आंग्लामात्यस्य समयान् प्रशंसन् प्रीतमानसः ॥ १२ ॥ कविः कश्चित्पुराऽवादीधद्वयं हि निवासिनः। देशस्य शोकदुःखाभ्यामस्पृष्टा इति तत्त्ववित् ॥१३॥ चिरात्पर्यटताऽप्यस्मिन् सर्वत्र पृथिवीतले । न मया लक्षितो देश' शोकदुःखविवर्जितः ॥१४॥ हृदि यस्तत्त्वतः शुद्धः शोकदुःखे न तस्य हि । ईमनुष्यकोटीनां मनोवृत्तिस्तु दुर्लभा ॥१५॥ तथाऽपि मम कामोऽयं यदेपा भारतावनिः । सुखैकभाजनं भूयात् कविना वर्णितं यथा ॥ १६॥. गतेऽहनि मया प्रोक्तं यास्त्वमात्येन सूचनाः । देशस्य राज्यभारार्थे मन्त्रिद्वारा प्रकाशिताः॥१७॥.. विमृश्यन्तामिमाः सर्वाः सूक्ष्मदृष्टिप्रभावतः । श्रेयसेऽखिलराष्ट्रस्य न त्वाकुंचितया दृशा॥ १८॥ स्वाभिप्रायं प्रदास्थामि निशम्य भवतां मतम् । प्रस्तुत हि विमर्टव्यं स्वयमेव जनैः पृथक् ॥ १९॥ एकीकर्तुमुभी पक्षी प्रयत्नः सुमहान् कृतः। प्रभुणा वेवलेनात्र मन्त्रिभिश्च वृथा किल ॥२०॥ श्रीमताऽऽटलिना तस्माद्विधयः कल्पिता नवाः । स्वीकुर्यादिति तानेतान्न्यायतन्त्रकृतां सभा ॥ २१ ॥ परिवर्तयितुं कांश्चिनिराकर्तुमुत क्वचित् । संशोधयितुमेषां वा प्रभवेन्मन्त्रिमण्डली ॥ २२॥ गृहीत वा जद्दीतेति नामात्यः कुरुते हठम् । नान्यथा तन्ननिर्माणसमा स्यादेशमुक्तये ।। २३ ।। . .
नवविधानवर्णनम्। यतः सा प्रतिबन्धैश्वेदीशैनिगडीकृता । स्वतन्त्रराज्यतन्त्राणां निर्माणे प्रभवेत्कथम् ॥ २४ ॥ वैकल्यमन्तरा किञ्चिद् ग्राह्याः पडियो हमी । नियुक्तमन्त्रिवृन्दं च समहत्यभिनन्दनम् ॥ २५ ॥ केचिदाहुरमी आंग्लाश्चरितुं धर्म्यमक्षमाः। नैवं मन्ये यतस्तेऽपि देवभीता यथा,वयम् ।। २६ ।। स्पष्टं यावदनिर्णीतममुकोऽसत्यवागिति । न तावदभिजातस्य सन्देग्धुमुपपद्यते ॥ २७॥ सर्वात्मना बभूवांग्लः श्रीमानान्तुर्महोदयः । स हि प्राणाजही श्राम्यन् शर्मणे भारतावने ॥२८॥ अतिमात्रमधयं स्याद्यदि संशेमहे वयम् । तद्देश्यानां च सर्वेषां चारित्रे सहसाऽधुना ॥ २९ ॥ । कामं कृतमनिष्टं नो बहुधाऽप्यांग्लशासकैः । स्वातन्त्र्यस्याऽगमोऽथापि श्रद्धयो मन्त्रिवाक्यतः ॥ ३० ॥ अस्ति वीज तदन्तःस्थं येनेदं शुष्कभारतम् । मवेदुज्जीवितं भूयः शोकदुःखामिवर्जितम् ॥ ३१ ॥ इति सौ, क्षमायाः कृतिषु स्वराज्यविजये अवविधानवर्णनं नाम तुर्विंशोऽध्यायः । 4
पञ्चविंशोऽध्यायः
मसूरीयात्रावर्णनम्।
अथ वैशाखमासान्ते ग्रीष्मचण्डोष्मणाऽऽकुलः ।
विश्रान्त्यै सानुगो गान्धिर्मसूरीगिरिमबजत् ॥१॥
शीतवातैस्तुपाराद्रेर्मन्दमन्दैः सुगन्धिभिः ।
सेव्यमानोऽनयत्कांश्चित्सुखेन दिवसान्मुनिः ॥२॥
धनाच्या नैकदेशेभ्यः समेता भोगलोलुपाा ।
तुङ्गसौधान्हिमक्ष्माभृत्यध्यवात्सुः सवैभवम् ॥ ३॥
नृत्यमिष्टान्नपेयेषु कुर्वाणास्ते धनव्ययम् ।
पस्पधिरे किलाऽन्योन्यं स्वस्वदम्भप्रदर्शने ॥४॥
अत्र कर्मकरा दीनाः कर्पन्तो यानसञ्चयम् ।
मलीमसकुटीरेयु कृच्छ्रेणासूनधारयन् ॥५॥
भटतो हस्ववीथीपु पश्यतो निधनालयान् ।
शृण्वतश्च कथां दीनामन्तरात्माऽद्रवन्मनः ॥६॥
धनिकान् सुहृदः कांश्चिन्महात्मा न्यगदद्यथा ।
मसूरीमागतोऽस्म्यत्र स्वयं सामान्यलोकवत् ।। ७॥
मत्सौल्यस्य न युष्माभिश्चिन्ता कार्या मनागपि ।
ईश्वरं हि विना नान्यो रक्षकः पृथिवीतले ॥८॥
तदाश्रयोऽस्ति पर्यासः स रक्षेद्वा विनाशयेत् ।
स क्वचिद्रक्षणायैव मन्ये नाशयति कचित् ॥ ९ ॥
प्रागेवागमनादन कथितोऽस्मि सुहृजनैः ।
धनिकानां यथाचारा विलसन्तीह लौकिकाः १०॥
अस्त्यसी पर्वतीयोऽत्र प्रदेशः सिमलादिवत् ।
मोगार्य धनिनामेव न पुनर्निर्धनोचितः ॥ ११ ॥
मसूरीयात्रावर्णनम्। सेव्यध्वे पामरैयूँयं दास्यभावमुपाश्रितः । धूर्व हैरिव दोभ्यां तैर्यानमाकृष्यते च वः ॥१२॥ अधिष्ठितानि यानानि पुष्टपीवरविग्रहैः । कर्पतामार्तनादो मे चेतो विध्यति शूलवत् ॥ १३ ॥ न वच्म्येतदुपालन्धुं परं स्मारयितुं हि वः । युष्मामिविस्मृतप्रायां दीनानां दुरवस्थितिम् ॥ १४ ॥ नियोजन वराकाणां पशुवदारवाहने । भवतामपि चात्मानं दूनयेन्नास्ति संशयः ॥ १५ ॥ विचिन्त्यं शोचनीय तत्कार्पण्यं सुस्थितैर्जनैः । विधेयश्च प्रयत्नोऽपि तज्जीवनपरीक्षणे ।। १६ ।। नागतोऽस्मि विहाराय न च शीतानिलेप्सया। प्रासोऽस्मि भिषगादेशाद्विशेषात्सेवितुं च वः ॥१७॥ न लम्योऽद्रिविहारोऽयं सामान्यजनकोटिभिः । समभूमिस्थले जातैर्यावज्जीवं च निर्धनैः॥१८॥ अयि भो दीयतामाशीः प्रशान्तो व्याप्रिये क्वचित् । निजकार्ये निराबाधं ध्यायेयं च जगत्पतिम् ॥१९॥ इत्युक्त्वा न विशश्राम दीनसेवापरो मुनिः । परेधुः स्म पुनः प्राह प्रदोपप्रार्थनोत्तरम् ॥ २०॥ रमणीयप्रदेशेऽस्मिन्लेकमावश्यकं गृहम् । यत्र वायुगुणप्रीता दीनाः स्युः सुखवासिनः ।। २१ ।। स्वयमेवात्मसंमत्या जातो हरिजनोऽस्म्यहम् । दीना हरिजना यत्र निवस्तुं तत्र कामये ॥२२॥ प्रायो हरिजनो वर्ण प्रत्याख्यायात्स्वजन्मनः। न शक्नोमि तु तत्कर्तुं स्वयं हरिजनो भवन् ।॥२३॥ .
६ स्वराज्य-विजयः यदि हिन्दुमतं रक्ष्यं विनाशात्पृथिवीतले । तर्हि जात्यभिमानाख्यव्रणं निर्मूलयेद् द्रुतम् ॥ २४ ॥ निर्भयं सर्वहिन्दुभ्यः पूर्व मित्थमसूचयम् । यदवश्य मितो यूयमतिशूद्रा भविष्यथ ।। २५ ।। शैले हरिजनावासो भवेदत्रैव चेत्तदा । निवसेयमहं तत्र मुदा हरिजनैः सह ॥ २६ ॥ इति सौ. क्षमायाः कृतियु स्वराज्यविजये मसूरीयात्रा- वर्णनं नाम पंचविंशोऽध्यायः । .
.
पडविंशोऽध्यायः
मन्त्रिनियोजनम् ।
मसूर्याश्य परावृत्तो दिल्लीमधिवसन्मुनिः ।
जगाद जनसन्दोहं दैनिकप्रार्थनोचरम् ॥१॥
स्तधर्माश्रितस्यापि शासनं परशासितुः ।
यीशुखिस्तगुरोर्वाक्याद् विपरीतं तु विद्यते ॥२॥
नामधेयं प्रजाः सर्वाः स्वीचक्रुजगदीशितुः ।
शासिता तु पिशाचेशं दिव्यसिंहासने व्यधात् ॥ ३॥
स्तुवन्ति बहुभिाँतैः श्रीनिस्तं प्रार्थनालये ।
तस्य धर्मोपदेशास्तु शासको नानुवर्तते ॥४॥
यदीस्लामस्य यीशोर्वा भवेदत्र प्रशासनम् ।
तद्धर्मव्यत्ययामावादनुवर्तेय तन्मुदा ॥५॥
श्रीरामस्य च काले तु शशास प्राग् दशाननः ।
इदानीं मानुषस्थाने पिशाचः शास्ति भारतम् ॥६॥
उत्कोचग्रहणारिष्टं सर्वतो दृश्यतेतराम् ।
क्लिश्यन्ति कोटयो नृणामन्नवनविवर्जिताः ॥७॥
आन्तर्यराज्यभारस्य स्थापनायाऽऽयत्प्रमुः।
नायकान् वेवलः पक्षद्वयस्यापि चतुर्दश ॥८॥
नेहरू-राजगोपाल-जिन्न-मैताब-नेशराः ।
बलदेव-जगजीवन्पटेलप्रमुखा ह्यमी ॥९॥
मैतावं तु परित्यज्य शरच्चन्द्रं नियोजयेत् ।
इति प्रार्थितवान् सद्यो राष्ट्रियः शासकाधिपम् ।।.१० ।।
अथ कर्तव्यमुद्दिश्य वैमत्ये समुपस्थिते ।
महात्मा राष्ट्रसइस्य कार्यकर्तृनवोचत ॥११॥
७८
स्वराज्य-विजयः
तथाहि राष्ट्रसङ्घोऽसौ प्रायस्यद्वर्षविंशतिम् ।
राष्ट्रियत्वसमुत्कर्ष सर्वथा परिरक्षितुम् ॥ १२ ॥
माहूतस्य परित्यागाल्लुप्तवैशिष्टघलक्षणः ।
हिन्दुभिः केवलैर्युक्तो राष्ट्रसद्धो भविष्यति ।। १३ ।।
अन्तराभवराज्यस्य परीतुं मन्त्रिणः पृथक् ।
प्रभवेद्राष्ट्रसङ्घोऽयं नवेत्यादौ विनिर्णयेत् ॥ १४ ॥
अधिकारे सति स्वैरं जातिधर्मानपेक्षया ।
नियोज्या राष्ट्रसङ्घन निर्वाधं निजमन्त्रिणः ॥ १५ ॥
मेताबस्य हि यत्स्थाने शरच्चन्द्रनियोजनम् ।
समतां तत्स्थिरीकुर्याद् हिन्दुमुस्लिमपक्षयोः ॥ १६ ॥
तथा राष्ट्रसभा कुर्यान्मुस्लिमानां गणे यथा ।
राष्ट्रियो मुस्लिमश्चापि प्रातिनिध्याय गण्यते ॥ १७ ॥
राज्यभारविपिलः प्राक्तने सद्धनिर्णये ।
अन्तर्भवति वा नेति परीक्ष्य क्रियतां हि तत् ॥ १८॥
इत्युक्त राष्ट्रसस्य केचित्कार्याधिकारिणः ।
प्रस्तुते विषयेऽन्योन्यं तस्थुवैमत्यमाश्रिताः ॥१९॥
स्वीकर्तुं तमुपन्यास केचिदैच्छन्महात्मनः ।
प्रतिकूलमताश्चान्ये सांधिका अवतस्थिरे ।। २०॥
अग्रहीष्यद्विधानं चे राष्ट्रसंघो यथास्थितम् ।
अदास्यत्संघसंबन्ध महात्मेति न संशयः॥ २१ ॥
श्रीमाननान्तरे जिन्नोऽकययद्वेवलं प्रभुम् ।
न कोऽपि मुस्लिमो ग्राह्यो पहिर्मुस्लिमसंघतः ॥ २२ ॥
संघोऽयमविशेपेण मुस्लिमप्रातिनिध्यमा ।
मवेलुसाधिकारोऽसौ राष्ट्रियैरन्यमुस्लिमैः ॥ २३ ॥
मन्त्रिनियोजनम् ।
राष्ट्रसंघसदस्येषु मुस्लिमश्चन्नियोज्यते ।
नैव मुस्लिमसंघस्तच्छासनं स्वीकरिष्यति ॥२४॥
क्रिप्साख्यः सचिवो गान्धि ययाचे सादरं ततः ।
नामावलिनियुक्तानां नान्यथा क्रियतामिति ॥ २५ ॥
कारण चाह यन्नाम्नः परिवृत्त्याभवेद् ध्रवम् ।
अग्रे मुस्लिमसंघेन व्यवहारोऽतिदुष्करः ॥२६॥
समितिः कार्यकर्तृणां निश्चित्याय न्यवेदयत् ।
मन्त्रिणामनुमोदाय त्रिविधं परिवर्तनम् ॥ २७॥
तत्रासीत्प्रथम स्थाने मेतारस्य नियोजयेत् ।
श्रीशरचन्द्रवोसाख्यं नूतने मन्त्रिमण्डले ॥ २८ ।।
द्वितीयं च नियुञ्जीत तत्रैकं देशवत्सलम् ।
पारसीकं न साम्राज्ये योऽभवन्नृपकिङ्करः ॥२९॥
तृतीयं चाधिकारोऽस्ति स्वतःसिद्धः स्वसंसदः ।
वरीतुं कञ्चनाभीष्टं मन्त्रित्वाय स्वभागतः ।। ३० ॥
श्रुत्वैताः परिवताक्तीः संतुष्टो मुनिरप्रवीत् ।
दास्यामि पूर्णसाहाय्यं यद्यांग्लैरनुमोदिताः॥ ३१ ॥
परिवर्तनमेतत्तु राष्ट्रसंघेन वान्छित्तम् ।
नान्वमोदि परं त्वेभिनृपतेर्मन्निभित्रिभिः ॥ ३२॥
राष्ट्रसंघो निराचक्रे तैरुपस्थापितं विधिम् ।
राज्यभारक्रमो नूलो न चासीत्परिकल्पितः ।। ३३ ।।
आसाद्यांग्लभुवं भूयः करिष्यामोन्ययोजनाम् ।
इत्याश्चुत्य विमानेन डिडियरे मन्त्रिणस्त्रयः ॥ ३४ ॥
स्वराज्य-विजयः ततः संस्थापयामास सम्राइप्रतिनिधिः स्वयम् । राज्यभारक्रमं भूयो रक्षार्थ हस्तिनापुरे ॥३५॥ इति सौ. क्षमायाः कृतिषु स्वराज्यविजये मन्त्रिनियोजनं नाम पर्विशोऽध्यायः ।
सतविंशोऽध्यायः आकस्मिकोद्घातः। पथि पुण्यात्मनः पुण्यपत्तनं व्रजतो मुनेः । अभूदाकस्मिकोद्वातो नेरलग्रामसन्निधौ ॥१॥ तथाहि निहिता धूर्ताहमार्गे महाशिलाः। यामिः संघट्टमासाद्य धूमयानं व्यचाल्यत ॥२॥ सानुगो रभसाघातागान्धिरासीद्विकम्पितः। दिष्टया न कोऽपि तत्रासीदुद्धाते क्षतमाग्जनः ॥३॥ दैवान्निवारितेऽनर्थे धूमयानं चलजवात् । कृसकालमतीत्याऽगात्सुचिरात्पुण्यपत्तनम् ॥ ४ ॥ अवतीर्याथ मध्याह्ने महात्मा धूमयानतः । उज्ज्वलप्रतिभं यानयन्तारमसभाजयत् ॥५॥ पूर्ववज्जनसन्दोहस्सायं तद्गृहमागतः । तमुवाचाऽऽत्मनो भक्तान् समाप्य प्रार्थनामसौ ॥६॥ रामनाममहिम्नैव भगवत्कृपयापि वा। युष्मदग्रे स्थितोऽस्म्यद्य रक्षितः प्राप्तसंकटात् ।।७।। गतरात्री हि निद्राणो धूमयाने स्थितोऽभवम् । निशीथेऽत्याहितं वृत्तं तच दैवान्निवारितम् ।।८।। अन्तरा कर्जतग्रामं नेरलं लोहवर्मनि । प्रागेव मूढधीः कश्चिन्न्यक्षिपद् बृहतीं शिलाम् ॥९॥ यन्त्रसारथिना कृच्छ्रे रक्षितं धैर्यमात्मनः । अन्यथा हि रथश्रेणी प्रच्यवेत स्वमार्गतः ॥१०॥ इदानीं कः सजीवः स्याद् वाती कथयितु स्वयम् । इति को नुविजानीयात्परमेश्वरमन्तरा ॥११॥ स्व. वि.६
८२
स्वराज्य-विजयः
अनिच्छतीश्चरे कोऽपि न जातु बलवानपि ।
हिंसितुं प्रभवेदन्यं तदिच्छा हि नियामिका ॥१२॥
इयचिरं जीवतापि न मया कोऽपि पीडितः ।
न जाने किमिति प्राणान्हर्तुमिच्छेज्जनो मम ॥१३॥
ईगर्थी अन्यत्रापि प्रवृत्ताः किल भूरिशः ।
मारतेऽपि तथैव स्यादित्यत्र विस्मयः कुतः १४॥
पूर्वेयुः सप्तमं वारं विपदैवान्निवारिता ।
यथा जीवेयमन्यार्थे पञ्चविंशं समाः शतम् ॥१५॥
किं पुनर्वहुभिर्वाक्यैर्दैवे श्रद्धा विधीयताम् ।
असलं सरलीकर्तुं स एवालं न चापरः॥ १६ ॥
तस्मिन्नेव क्षणे जातो विप्लवोऽतिभयङ्करः ।
अम्दावादपुरे नातिदूरं पुण्याश्रमान्मुनेः ॥१७॥
हस्ताहस्ति शिलाघातैस्तुमुलश्चातिदारुणः ।
हिन्दूनां मुस्लिमानाञ्च सम्प्रहारो व्यजृम्भत ॥ १८॥
राजमार्गास्तथा स्वल्पं वीथिकाश्थोपवीथिकाः ।
मृतक्षतार्घजीवानां च्यकीर्यन्त कलेवरैः॥ १९॥
प्रत्यहं मासपर्यन्तं स्त्रीपुमर्मकवर्मभिः ।
बलिदानमिवाकारि कालाय क्षोमकारिभिः ॥२०॥
अथ व्यतिकरे तस्मिन् पुरं प्रेपितवान्मुनिः ।
श्रीमुरार्जिरितिख्यातमादिशन्मन्त्रिणं यथा ॥२१॥
यादि स्थापयितुं शान्ति मा भैपीमरणादपि ।
विप्लवं प्रशम नीत्वा निवर्तस्वेह जित्वरः ।।२२।।
प्रपस्यन् हन्यसे चेत्त्वं यया वीरास्त्रयः पुरा ।
मात्मरक्षामनारत्य मृत्योरभिमुखे मर ॥२३॥
आकस्मिकोद्धातः। . रक्षिसाहायकापेक्षा हीकरी क्षोभशान्तये। आह्वानं सैनिकानां तु ततोऽप्यस्ति पावहम् ॥२४॥ अहो बत स्वराज्यश्रीर्यदा संनिहिता स्थिता । तदान्योन्यसमाघाते प्रवृत्ता हिन्दुमुस्लिमाः ॥२५॥ एक एव हि मार्गोऽस्ति तेषां कष्टनिवृत्तये । पैशाचभावमुत्सृज्य यतितव्यं प्रशान्तये ॥२६॥ अथ पञ्चगणीशैले दिनानि गमयन्मुनिः । लेखं हरिजने पत्रे प्राकाश्यमनयद्यथा ॥२७॥ अम्दाबादपुरे रम्ये गुर्जरावनिमण्डले । सप्ताहैर्यहुभि|रो नरध्वंसः प्रवर्तते ॥२८॥ तद्वहिष्ठो न जानाति को नु स्याद् दोपभागिति । निर्देष्टुं घातुकं प्रायो नेच्छन्त्येवाधिकारिणः ॥ २९॥ नयमेत समाश्रित्य राष्ट्रसंघीयशासकाः । अभिरक्षन्ति मौनित्वं केनाप्युचितहेतुना ॥ ३० ॥ द्वयोरेकतरः पक्षो विरमद्यदि हिंसनात् । स एव शान्तिसम्प्राप्तेरुपायः परमोत्तमः ।। ३१ ।। एकदा बन्धुमित्रं मे विपण्यां शैशवे मम । चिक्रिये निभृतं भंगामुभाम्यां प्राशिता च सा ।। ३२ ॥ अथोन्मादान्तपर्यन्तमावाभ्यां हि विलक्षणम् । अन्योन्याभिमुखं प्रोचैईसद्भयां बहु चेष्टितम् ।। ३३ ।। परेयुरुपशान्तौ च स्मृत्वा प्राक्तनचेप्टितम् । अन्योन्यसंमुखे स्थातुं नाशक्नुव त्रपाकुलौ ॥ ३४ ॥ उपर्युक्तः प्रसंगोऽयं निप्पेदे निरुपद्रवः । अम्दावादपुरोन्मादस्त्वतिकाम्यति वाक्पथम् ॥ ३५।।
स्वराज्य-विजयः
विसृष्टास्तरुणैः प्राणा ज्वालानिर्वापणोधतः ।
नालं भवति किं धीरैः प्राणयज्ञः कृतस्त्रिभिः ॥३६॥
अभविष्यत्प्रशान्तोऽग्निर्वयं यदि विवेकिनः ।
अशान्तेऽपि स्वसुत्यागो वृथेति न विचिन्तयेत् ॥ ३७॥
कर्तव्यस्तादृशो यज्ञस्ततश्चाप्यधिकैर्जनः ।
यावत्प्रशाम्यति ज्वाला कल्पोऽयं हि प्रशस्यते ॥ ३८ ॥
नोचेत्पक्षद्वयं हन्त गुलिकास्त्रहति सहेत ।
कारातिथ्यमियुः केचिद्वधस्तम्मसुखं परे ॥ ३९॥
एवं निर्वापितोऽप्यग्निः पुनरुद्दीप्यते ध्रुवम् ।
विक्षोभज्वालया भूयो जनध्वंसं करिष्यति ॥ ४० ॥
शान्ति प्रत्याहरेयुश्चेदक्षिणः सैनिका अपि ।
वर्धते दास्यमस्माकं पौरुषं चातिहीयते ॥ ४१ ॥
न कोऽपि धार्मिकग्रन्थो ह्यनुशास्ति मिथःकलिम् ।
इति प्राक् कविरिक्वालः सूक्तिरत्नमुदैरयत् ॥ ४२ ॥
सैनिका हि प्रयोक्तव्या भारतस्य प्रशासकैः ।
देशस्य शुद्धिरक्षायै क्षेत्राणां कर्षणाय च ॥ ४३ ॥
रक्षिणश्चोपयोक्तव्याश्चौराणां निगृहीतये ।
परं तु नोभयेऽप्येते प्रयोज्याः क्षोभशान्तये ॥४४
त्यजन्तु रक्षिसाहाय्यमम्दावादनिवासिनः ।
विपत्काले हि धीराणां कातयं नोपयुज्यते ॥४५॥
पापिष्ठास्ते परं धूर्ता ये तु विप्लवकारिणः ।
अतिदुष्टानि कर्माणि तैः क्रियन्ते परोक्षतः ॥ ४६॥
विध्यन्ति पृष्ठतो झेते प्रायशो न तु वक्षसि ।
नीचकातरइन्तम्यस्तादृशेभ्यः कुतो भयम् ॥४७॥
आकस्मिकोद्धातः। विरमेयुः स्वयं जाल्माः परप्राणापहारतः । इत्याशास्य प्रवीरेण स्थातव्यं मृत्युसंमुखे ॥४८॥ यदि मृत्योरसौ भीतस्तर्हि विप्लवकारिभिः । पौरुषेण प्रयुध्येत स्वात्मानमभिरक्षितुम् ॥ ४९ ॥ इति सौ. क्षमायाः कृतिषु स्वराज्यविजये आकस्मिकोद्धातो नाम सप्तविंशोऽध्यायः ।
अटाविंशोऽध्यायः
कलकत्ताविप्लवः ।
अथ प्रत्यागते तस्मिन् सेवाग्रामं महात्मनि ।
श्रीनेहरूप्रमुखाः केचिन्नतारोव समाययुः ॥१॥
अमात्यः सूचितं यत्प्रागन्तराभवशासनम् ।
तत्प्रकप्लनसंबद्धाश्चक्रुश्चर्चाः विचक्षणाः ॥२॥
अथाऽमी राज्यभारं तं स्वीचक्रुः संघनायकाः ।
आसीदवसितं सद्यः स्वयंरक्षकशासनम् ॥ ३॥ .
एकीभूय स्थिताः सर्वे सिक्खाः सङ्घस्य नेतृभिः ।
मुस्लिमास्तु निरुत्साहाः स्थिताः संतुष्टयभावतः ॥४॥
श्रीमालिन्नः समाहूतोऽप्यान्तरालिकशासनात् ।
विमुखः स्थितवानांग्लान्मन्वानः पक्षपातिनः ॥ ५॥
ततो मुस्लिमसंघस्य स्वयंनिर्वाह निश्चयात् ।
महान् विप्लवदावाग्निः कल्कत्तायां समुत्थितः ॥६॥
दैवासुरं पुरा युद्धं स्मारयत्येप विप्लवः ।
निजघ्नुर्मुस्लिमा हिन्दून् हिन्दवश्चापि मुस्लिमान् ॥७॥
निपेतुरुभयेऽप्यातीः शतशश्च सहस्रशः ।
अविच्छिन्नतया वृत्ते संप्रहारेऽतिदारुणे ॥८॥
निर्गता रक्तवाहिन्यः प्रसनुः सर्वतः पुरे ।
भूयिष्ठासु च रथ्यासु राशीभूय स्थिताः शवाः ॥ ९ ॥
स्त्रीयालवृद्धलोकानां निरस्तानां निजालयात् ।
मर्माविधा वियुक्तानां शुश्रुवे परिदेवना ॥ १० ॥
अनाथाः शिशवो दैवाद्रक्षिताः सानुलोचनाः ।
अत्याहितकथाः शत्रोरूचुम्लिप्टार्धवाक्यतः ॥ ११ ॥
कल्कचाविष्टयः।
.
क्लिपन्त्योऽङ्गनाः काश्चिद्वर्णयामासुरस्फुटम् ।
शिशूनां खण्डशनछेदं हन्त साक्षाद्विलोकितम् ॥ १२ ॥
मन्दिरे पश्यतां पुंसां क्वचित्पुत्री कचित्स्नुपा ।
चलाप्रथर्पिता नीचरपजहे निवासतः ॥१३॥
वदन्ति स्म कथाः काश्चिद्वधानां मर्मकृन्तनीः ।
पितामहपितापुत्रपौत्राणां युगपत्क्षणात् ।। १४ ।।
गृहा भस्मीकृताः केचिच्छतशोऽन्ये विलुण्ठिताः ।
असंख्या नटसर्वस्वा जनास्तस्थुर्मुमूर्पवः ॥ १५ ॥
अग्न्यनगुलिकाक्षेपे कृतेऽपि पुररक्षकैः ।
न लुण्ठनवधादिभ्यो विरेमुः क्षोभकारिणः ॥ १६ ॥
या प्रासादमयी रम्या कल्कत्तानगरी पुरा ।
सेदानी प्रतिमाति स्म साक्षात्प्रेतपुरी यया ॥ १७ ॥
विप्लवेऽष्टौ सहस्त्राणि धर्मराजः शरीरिणाम् ।
सादरं परिजग्राह निजातिथ्याय भूयसे ॥१८॥
नहेष्वय सहसपु समाप्रतिनिधि तम् ।
राजधानीमुपागन्तुं वंगाधिपतिमाहयत् ॥ १९॥
चिरं तेन समालोच्य प्रस्तुतं विपयं ततः ।
राजप्रतिनिधिः शीघ्र कल्कत्तानगरी ययौ ॥२०॥
सप्ताहाभ्यन्तरे भूयः क्षोभोऽजनि भयहरः ।
पृधमोहमयीमध्ये घजोत्यापनकारणात् ।। २१ ।।
निमत्यमास्यातुमन्तरामवशामने ।
कृष्णध्वजकरा हसालू रप्यामु मुस्लिमाः ॥२२॥
गोलपीठाभिधस्यानेऽप्युफ्तेि हिन्दुमुस्लिमः।
हिन्दवो वनमुत्थाप्य पशुः क्षोमइतरः ॥२३॥
स्वराज्य-विजयः
प्रवृत्तं तुमुलं युद्धं शतशो लुण्ठिता गृहाः ।
भस्मसाच्च कृतं क्षुब्धैरेकं संग्रामवाहनम् ॥ २४ ॥
सार्वलौकिकयानेषु स्तम्भीभूतेषु सर्वतः।
संत्रासानेहतो लोका न सञ्चेलुः कचिदहिः॥२५॥
अग्न्यस्त्रगुलिकाक्षेपे कृतेऽपि पुररक्षकैः ।
साधैकमासपर्यन्तं विरराम न विप्लवः ॥२६॥
तदात्वे राज्यभारस्य पारेभे नूतनक्रमः।
स्वराज्यस्य महाद्वारं दिव्यमुद्घाटितं तदा ।। २७॥
अभिनन्ध शुभैरुक्त राज्यतन्त्रप्रतिष्ठितिम् ।
सानन्दमब्रवीत्सायं महात्मा प्रार्थनोत्तरम् ॥२८॥
बहुवर्षापयहोरात्रं सोढ्या क्लेशपरम्पराम् ।
भारतीयाश्चिरादेत प्रत्यक्षन्त दिनं शुभम् ॥ २९ ॥
प्राक्तनः कलहोऽस्माकमांगलराज्येन तिष्ठतु ।
निर्व्याजः प्रत्ययस्त्वेपामभिनन्दनमर्हति ॥३०॥
श्रीनेहपमुखैर्देशो मन्त्रिभिः सेव्यते यदा।
पूर्णस्वतन्त्रतालक्ष्मीरुपैष्यति न संशयः ॥ ३१॥
भारतस्येतिहासेऽयं स्मरणीयोऽपि वासरः ।
हर्पान्नाराधनीयोऽसौ भोज्यदीपोत्सवादिभिः ॥ ३२ ॥
सकण्टककिरीटानि धारयन्तीव मन्त्रिणः ।
महोन्नतपदं राज्ये स्वीकृत्य नवकत्पिते ॥३३ ।।
ये मुस्लिमसंघीयास्तिष्ठन्ति विमुखा इति ।
अस्मजन्मभुवो जातास्ते हि नः सन्ति सोदराः ।। ३४ ।।
प्राहुर्मुस्लिमसंघीया हिन्दुमिर्वश्चिता वयम् ।
दिनमेतदतोऽस्माकं विलापदिनमीर्यते ॥ ३५॥
कल्कत्ताविप्लवः। किं नामापकृतं तेषां हिन्दुभिर्यजना इमे । ब्रुवाणा अहितान् हिन्दून् भवन्ति परिपन्थिनः ॥ ३६ ॥ विद्वेषोऽयमहो कस्मात्कियते सोदरेष्वपि । नैतदिस्लामधर्मस्य क्वाप्येवमनुशासनम् ॥ ३७॥ अखण्डभारतस्यापि सम्पादयितुमिच्छया । स्वातन्त्र्यं राष्ट्रसंघोऽयं स्वीचक्रे नवशासनम् ॥ ३८॥ इदं व्यनक्ति धीमलं प्रजासत्ताभिरक्षिताम् । मानुष्यकेनुकम्पा च राष्ट्रसंघगुणत्रयम् ॥ ३९ ॥ मन्यन्ते यद्यनादेयं मुस्लिमाः शासनं नवम् । तन्मतं वितथीकुर्युः शासकाः सत्यवर्तनैः ॥४०॥ इति सौ. क्षमायाः कृतिषु स्वराज्यविजये कल्कत्ताविप्लवो नामाऽष्टाविंशतितमोऽध्यायः ।
एकोनत्रिंशोऽध्यायः श्रीगान्धिजन्मोत्सवः अथ श्रीगान्धिनाऽऽसायां शरदामष्टसप्ततौ । विधीयते स्म सर्वत्र तस्य जन्मदिनोत्सवः ॥ १ ॥ मङ्गलेऽहनि लोकानामुत्साहोऽभूदनुत्तमः । सन्निकृष्टे स्वराज्ये तदीर्घश्रमफलायिते ॥ २॥ स्वभावान्निरहंकारः श्रीगान्धिस्तद्दिनं शुभम् । स्वयमाकारयामास चरखोत्सववासरम् ॥ ३॥ लोकांश्च प्रार्थयामास दिनेऽस्मिन्दौनकोद्यमः । युष्माभिः खादिनिर्माणे द्विगुणीक्रियतामिति ॥४॥ तदेतत्तान्तवं नृणां कर्मणो वक्ति गौरवम् । समत्वं चाढ्यदीनानामित्यमून्प्रोदसाहयत् ॥५॥ दिनेऽस्मिन्नेहरुराजेन्द्रप्रसादप्रमुखैरपि । विदधे तान्तवो यज्ञः सूत्रनिर्माणतत्परैः ॥ ६ ॥ जगन्नेनसमाकपी तापसोऽयं सावतेः। प्रजाराज्यसमारम्भ वत्सरान्ते व्यलोकयत् ॥ ७॥ वयसाऽशीतिमप्राप्तो भवेत्पूर्णमनोरथः । इति स्वदेशजाः सर्वे प्रतीक्षाश्चक्रिरे जनाः॥८॥ परं तु विजयोत्साहस्तेपां विप्रकृतोऽभवत् । प्रचण्डक्षोभसम्भूत्या जातिद्वेपसमुत्थया ॥९॥ सुदीर्घपारतन्त्र्यस्य यहुकुत्सितलक्षणैः । जनितः परिपाकोऽयं परिहार्यः कथं भवेत् ॥ १०॥ वत्सरेम्यो यहुभ्यः प्रागासीदेस महामुनिः । मुस्लिमानां च हिन्दूनामैक्यसम्पादने रतः ।। ११ ।।
श्रीगान्धिजन्मोत्सवः । अयमेव हि हिन्दूनां प्रथमो देशनायकः । योऽभून्मुस्लिमकोटीनां भक्तिविश्वासमाजनम् ॥ १२ ॥ लभेत यदि संसिद्धिमैक्यसम्पादनोद्यमे । कृतकृत्यं किलात्मानमसौ मन्येत जीवने ।। १३ ।। स्वकर्तव्यमिदं जानन् दिल्लयां तावदयं स्थितः। राजप्रतिनिधिश्चके यावजिन्नेन भाषणम् ।। १४ ।। मुनौ मुस्लिमसंघस्य हितैषिणि सदा स्थिते । तस्य वाचोविधेयः स्याद्राष्ट्रसंघोऽप्यसंशयम् ॥ १५ ।। दीनानां दीनदीनेपि कारुण्यं गाढमातनोत् । तेनैव सममात्मानं मेने सर्वात्मना च सः ॥ १६ ॥ ईदृशैर्जीवनं तस्य गुणरत्नरलतम् । सरलं व्रतकल्पं च शाश्वतीमर्हति स्मृतिम् ॥ १७॥ इति सौ. क्षमाया:-कृतिषु श्रीगान्धिजन्मोत्सवो नाम एकोनत्रिंशोऽध्यायः ।
त्रिंशोऽध्यायः
विदर्भविप्लवः।
अत्रान्तरे जनक्षोभो मोहमय्यामवर्धत ।
केनचिन्निर्ममे ग्राम्यं चम्भास्त्रं निभृतं क्वचित् ॥१॥
सहसा तब पुस्फोट घोरध्वानकर पुरे ।
व्यक्षिपज्ज्वलनज्वालाः सर्वतश्च भयङ्कराः ॥२॥
पुरुषा योपितो बाला निर्दग्धा वह्वो मृताः ।
तूलरक्षागृहाः सिवीप्रदेशे भस्मसात्कृताः ॥३॥
कल्कत्तानगरे क्षोभवदियोऽभूत्समुत्थितः ।
मुस्लिमैस्तत्र हिन्दूनां सहस्राणि निजप्निरे ॥४॥
निहतानां च भूयिष्ठा बभूवुस्ते विदर्भजाः ।
अतस्तद्वन्धुमित्राणि विदर्भेषु क्रुधाऽज्वलन् ॥५॥
ढाकादिनगरेप्चेते प्रतीकारपरायणाः ।
मुस्लिमानामशेषाणां विध्वंसं विदधुः क्षणात् ॥६॥
अथ मुस्लिमभूयिष्ठे नवकालीति विश्रुते ।
नगरे घोरविक्षोभः सहसाभूत्समुत्थितः ॥७॥
मुस्लिमा नवकालीस्था हिन्दूनां क्रूरकर्मभिः ।
संक्रुद्धाः समजायन्त तच्छोणितपिपासवः ॥८॥
नवकालीपुरारे कोशानां पञ्चविंशतौ ।
क्षणाद्विचूर्णिताः खङ्गैर्हिन्दवः पुरवासिनः ॥९॥
भस्मीकृता गृहास्तेपां योपितश्च हृता पलात् ।
जातिधर्म परित्याज्य मुस्लिमैः परिणायिताः ॥१०॥
अदृष्टश्रुतपूर्वेऽस्मिन् विप्लवेऽतिभयङ्करे ।
ददृशे दहनचाला पुराकोशं विदूरतः ॥११॥
९३
विदर्भविप्लवः।
सप्ताहाभ्यन्तरे गान्धिरश्रुपूर्णाकुलेक्षणः ।
प्रार्थनोवं जनान् सायं निजगाद सगद्गदम् ।। १२ ।।
"निशम्यानिष्टवृत्तान्तान् विदर्भावनिसंभवान् ।
मददेव विदूनः स्याज्जनोऽवेति न संशयः ।। १३ ॥
प्रवाहात्कामरूपेषु विनेशुः शतशो जनाः ।
अन्ये सहस्रशो लोका बभूवुश्च निराश्रयाः ॥ १४ ॥
स त्वाधिदैविकस्तापः परिहार्यों न मानवैः ।
प्राच्यवंगेयु यदुत्तं तन्मनुष्यविचेष्टितम् ।। १५ ।।
न चर्णयितुमिच्छामि वृत्तमश्रव्यविस्तरम् ।
मद्वाक्ये मन्दविश्वासाः सम्प्रति प्रायशो जनाः ॥ १६ ॥
तथापि निजकर्तव्यमित्यमून् वक्तुमुत्सहे ।
शृण्वन्तु वा न शृण्वन्तु चिन्ता मे नास्ति लेशतः ॥ १७॥
ऊस्तमुस्लिम हिन्दूनां न कदापि परस्परम् ।
भेदः कृतो मया ह्येते सर्वेऽपि मम सोदराः ॥१८॥
एकस्या एव सम्भूता जन्मभूमेरमी समे ।
अपत्यानि कुटुम्बस्याप्येकस्येव भवन्ति हि ॥ १९ ॥
पर तु भ्रातरो दृष्टा युध्यमानाः परस्परम् ।
यथा चण्डक्रुधा पूर्व कौरवाः सह पाण्डवैः ॥ २०॥
तथैवाद्यतने काले जना विस्मुत्य अन्धुताम् ।
द्वेपोन्मादपराभूताः प्रवृत्ता दारुणे रणे ।। २१ ॥
कल्लकत्तायामराक्प्लावं विदर्भपूनमारणम् ।
नवकाल्यां वर्ष घोरं श्रुत्वा जीवन्मृतोस्म्यहम् ॥ २२ ॥
विपद्वार्ताभिभूताय विमूढप्रतिपत्तये ।
भगवानेव मे मार्ग सटे दर्शयिष्यति ॥ २३ ॥
त्रिंशोऽध्यायः विदर्भविप्लवः। अत्रान्तरे जनक्षोमो मोहमय्यामवर्धत । केनचिन्निर्ममे ग्राम्यं पम्भास्त्रं निभृतं क्वचित् ।।.१ ।। सहसा तच पुस्फोट घोरध्वानकर पुरे । व्यक्षिपज्ज्वलनज्वालाः सर्वतश्च भयङ्कराः ॥२॥ पुरुषा योपितो बाला निर्दग्धा बहवो मृताः । तूलरक्षागृहाः सिनीप्रदेशे भस्मसात्कृताः ॥३॥ कल्कत्तानगरे क्षोभवह्निोऽभूत्समुत्थितः । मुस्लिमैस्तत्र हिन्दूनां सहस्राणि निजनिरे ॥४॥ निहतानां च भूयिष्ठा बभूवुस्ते विदर्भजाः । अतस्तद्वन्धुमित्राणि विदर्भेयु क्रुधाऽज्वलन् ॥५॥ ढाकादिनगरेष्वेते प्रतीकारपरायणाः । मुस्लिमानामशेषाणां विध्वंसं विदधुः क्षणात् ॥६॥ अथ मुस्लिमभूयिठे नवकालीति विश्रुते । नगरे घोरविक्षोभः सहसाभूत्समुत्थितः ॥७॥ मुस्लिमा नवकालीस्था हिन्दूनां क्रूरकर्मभिः । संक्रुद्धाः सम यन्त तच्छोणितपिपासवः ॥८॥ नवकालीपुरादूरे क्रोशानां पञ्चविंशतौ । क्षणाद्विचूर्णिताः खगहिन्दवः पुरवासिनः ॥९॥ भस्मीकृता गृहास्तेषां योपित्तश्य हृता पलात् । जातिधर्म परित्याज्य मुस्लिमः परिणायिताः ॥१०॥ भदृष्टश्रुतपूर्वेऽस्मिन् विप्लवेऽतिभयङ्करे । ददृशे दहनज्वाला पुरात्कोशं विदूरतः ।।११।।
." विदर्भविष्ठकः। सप्ताहाभ्यन्तरे गान्धिरश्रुपूर्णाकुलेक्षणः । प्रार्थनोवं जनान् सायं निजगाद सगद्गदम् ॥ १२ ॥ " निशम्यानिष्टवृत्तान्तान् विदर्भावनिसंभवान् । मदेव विदूनः स्याज्जनोऽनेति न संशयः ॥१३॥ प्रवाहात्कामरूपेषु विनेशुः शतशो जनाः । अन्ये सहस्रशो लोका वमृत्श्च निराश्रयाः ॥ १४ ॥ स त्वाधिदैविकस्तापः परिहार्यों न मानकैः । प्राच्यवंगेपु यद्वृत्तं तन्मनुष्यविचेष्टितम् ।। १५ ।। न वर्णयितुमिच्छामि वृत्तमश्रव्यविस्तरम् । मद्वाक्ये मन्दविश्वासाः सम्प्रति प्रायशो जनाः ॥ १६ ॥ तथापि निजकर्तव्यमित्यमून् वक्तुमुत्सहे । शृण्वन्तु वा न शृण्वन्तु चिन्ता मे नास्ति लेशतः ॥१७॥ स्तमुस्लिमहिन्दूनां न कदापि परस्परम् । भेदः कृतो मया ह्येते सर्वेऽपि मम सोदराः ॥१८॥ एकस्या एव सम्भूता जन्मभूमेरमी समे। अपत्यानि कुटुम्बस्याप्येकस्येव भवन्ति हि ॥१९॥ पर तु भ्रातरो दृष्टा युध्यमानाः परस्परम् । यथा चण्डक्रुधा पूर्व कौरवाः सह पाण्डवैः ॥ २० ॥ तथैवाद्यतने काले जना विस्मृत्य चन्धुताम् । द्वेषोन्मादपराभूताः प्रवृत्ता दारुणे रणे ॥ २१ ॥ कल्लकत्तायाममुक्प्लावं विद पूग्रमारणम् । नवकाल्यां वधं घोरं श्रुत्वा जीवन्मृतीस्म्यहम् ।। २२ ॥ विपद्वार्ताभिभूताय विमूढप्रतिपत्तये । भगवानेव मे मार्ग सङ्कटे दर्शयिष्यति ॥२३॥ ..
स्वराज्य-विजयः हिन्दुभिनवकालीस्थैर्मुस्लिमेष्वपकारियु । न विद्वेषविषं धार्य चेतसा जातु सर्वथा ॥ २४ ॥ अहिंसा राष्ट्रसंघस्य धर्मसारं चिरास्थितम् । संनिकृष्टस्तथैवासीदस्मत्प्राप्यमनोरथः ॥२५॥ आंग्लेषु सा प्रयुक्ताऽऽसीदुपायत्वैन केवलम् । हिंसैव नः फलायेति मन्यते किं जनोऽथवा ॥२६॥ राष्ट्रसंघजनैः सर्वैः शिक्षितं दीर्घकालतः । परहिंसामकृत्वैव मर्तुं धैर्यमुपाश्रितः ॥ २७॥ नास्त्येवान्यतरोपायः समापयितुमीदृशम् । विग्रहं यत्र हन्यन्ते पितरोऽपि क्रुधा जनैः ॥ २८॥ तैरेभिगन्तुमभ्यस्तं नि त्या बन्धनालयम् । न तु हिंसामकृत्वैव मर्तुमद्यापि शिक्षितम् ।। २९ ।। बद्धश्रद्धा अहिंसायां शिक्षयेयुर्जना अमून् । स्वकीयाचरणेनैव मार्गमेतमनुत्तमम् ॥ ३० ॥ अद्यप्रभृति नान्योन्यं हिंसिध्याम इति ध्रुवम् । प्रतिज्ञा कर्तुमर्हन्ति सार्जवं हिन्दुमुस्लिमाः ॥ ३१ ॥ अन्यथाऽहं गृहानेम्यः कारयिष्यामि घोपणाम् । स्वातन्त्र्यमध न प्राप्तं प्राप्स्यते न च जात्विति ॥ ३२॥ न हि स्वातन्त्र्यमर्हन्ति जगत्यां पशुवृत्तयः । पशुवृत्यैव ते दासा जज्ञिरेऽक्चरवंशजाः ॥ ३३॥ आश्रितः पाशवीं वृत्तिं सार्वभौमोऽपि रावणः निजम्ने नष्टसर्वस्वस्तदीया दासतां ययुः ॥३४॥ अत्रान्तरे दिवानक्तं संदेशाः शुन्दयन्त्रतः । प्राप्ता वंगप्रदेशेभ्यो मुनेरादेशकाङ्क्षया ॥३५॥ " विदर्भविप्लवः। विप्लवाग्निरसंख्यानां विदर्भावनिमण्डले। नराणामाददे प्राणानाहुतीरतिघस्मरः ॥३६॥ स्त्रीपुमकवृन्दानामसंख्यानां निरागसाम् । चक्रे निवर्हण दुष्टैर्विविधास्त्रप्रयोगतः ॥ ३७॥ प्राहिणोत्स सुधीराख्यं प्राच्यवंगावनौ मुनिः । विप्लवव्यथितान् देशान्नवकाली विशेषतः ॥ ३८॥ आदिशच परीक्षस्व सम्यग् देशपरिस्थितिम् । निवृत्याऽऽशु च मे वार्ता निवेदय यथायथम् ।। ३९ ।। इत्युक्तः प्रथम प्राच्यवंगानासादयधुवा । नवकालीं गतः श्रीमत्कृपलानीसमन्वितः ॥४॥ कामिला-त्रिपुरादिभ्यः संत्रस्तैः शरणार्थिभिः । कल्कत्तानगरी नृणां सहस्रैः समपूर्यत ॥ ४१ ॥ इति सौ. क्षमायाः कृतिषु स्वराज्यविजये विदर्भविप्लवो नाम त्रिंशत्तमोऽध्यायः।
एकत्रिंशोऽध्यायः श्रीगान्धेः कल्कत्ताप्रस्थानम् । आसीदत्रान्तरे क्षोभो वङ्गान्तरधिकाधिकः । नीचाः प्रायुञ्जत स्वैरमग्न्यस्त्राणि शरानपि ॥१॥ कदाचिन्नगरीमध्ये बम्भास्त्राणि प्रचिक्षिपुः । अन्यदाम्लद्रवक्षपैरन्धीचक्रुर्जनान्यहून् ॥ २ ॥ कृतेजन्यस्त्रप्रहारेऽपि कल्कत्तापुररक्षिभिः । न विरेमुर्नृणां हत्या गृहदाहाश्च लुण्ठनाः ॥३॥ प्रतिरुध्य कचिद्भूमयानान्यक्रमकूटगैः । निहताः केचिदध्वन्याः केचिदन्ये च लुण्ठिताः ॥४॥ उदन्तमेतमाकर्ण्य दुःखितात्माऽब्रवीन्मुनिः । सायं प्रस्थानतः पूर्व कल्कत्तानगरं प्रति ॥ ५ ॥ अपकारप्रतीकारस्पृहा साहाय्यमार्गणम् । देशप्रभोः सकाशाच स्वातन्त्र्येण विरुध्यते ॥६॥ जनताहृदयादेव शाश्वती शान्तिरेष्यति । स्वस्वचेतोचलेनैव रक्ष्यते ह्यखिलो जनः ।। ७॥ नापमानः स्पृशेद्वीरं न च धीरमनादरः । दुर्जनस्य स्वभावोऽयमपकारे प्रतिक्रिया ॥८॥ यदि कश्चन मां हन्यात्तदा मदपकारिणम् । प्रतीकारधिया हत्वा न किश्चित्फलमाप्यते ॥ ९ ॥ वित्त गान्धि विना कोऽपि हन्तुं गान्धि न पारयेत् । अविनश्वरमात्मानं को वा नाशयितुं प्रभुः ॥ १०॥ प्रतीकारधियस्तस्माद्विनिष्कास्या हृदन्तरात् । स्वातन्त्र्य प्रति वः शक्या तदा हि त्वरिता गतिः ।। ११ ।।
श्रीगान्धेः फल्कत्ताप्रस्थानम् । वाल्यशिक्षानुरोधेन यदसत्तन्न मे प्रियम् । असत्कती न मे द्वेष्यः स तावप्रिय एव मे ॥ १२ ॥ हिन्दूनां श्रुतयः प्राहुः क्षमा हि परमो गुणः । किञ्च सालऽङ्कृतियोया राजते धीरचेतसः ॥ १३ ॥ परेधुर्मुस्लिमः कश्चित्पण्डितो मे न्यवेदयत् । यदिस्लामतो पूतं समानमनुशासनम् ॥ १५ ॥ यदि कश्चिदुराचारो हन्यादनपराधिनम् । वहेत्सर्वसमाजस्य पापभारं स मस्तके ।। १५ ॥ चपेटेन प्रहर्तारं न क्षमेत जनो यदि । स तस्मै तत्क्षणं दद्यात्स्वैरं प्रतिपेटिकाम् ॥ १६ ॥ पलायिते तु जाल्मेऽस्मिन् यद्यसौ ताडयेजनः । तदीयवान्धवान्क्रोधात्सा नृजन्मविडम्बना ॥ १७ ॥ कन्यामपहरेत्तस्य दुर्जनो यदि कश्चन । तत्पत्नी मिनकन्यां वा नापहर्तु हि युज्यते ॥ १८॥ शत्रुणा पीतरक्तस्य या तृष्णा शत्रुशोणिते । पाशवीं तामहं मन्ये नराणामयशस्करीम् ॥ १९ ॥ अपकारप्रतीकारो महामारतसंमतः । इति प्राहुर्जनाः केचिदन्यथाऽहं तु भावये ॥२०॥ खङ्गेन विजयस्तावद्विजयो नास्ति वस्तुतः । पाण्डवानां जयो नाम शून्यकल्पो निदर्शितः ॥२१॥ परिपुष्येदतः कृत्स्नजगता सह सौहृदम् । किन मानुष्यक सर्व गणयेत्स्वकुटुम्बकम् ।। २२॥ इति सी. क्षमायाः कृतिषु स्वराज्यविजये श्रीगान्धेः कल्कत्ताप्रस्थान नाम एकत्रिंशोऽध्यायः । स्प, पि, " द्वात्रिंशोऽध्यायः गान्धिप्रधर्षणम्। याति दिलीपुरादान्धी कलकत्तानगरी प्रति । धूमयानप्रकोष्ठेऽस्य शिलाः केचित्प्रचिक्षिपुः ॥१॥ तदा निजासने तत्र ध्यानमग्नः स्थितो मुनिः । दैवालक्ष्यच्युतिर्जाता सानुगश्च सुरक्षितः ॥२॥ कलकत्तानगरं प्राप्य प्रदोपप्रार्थनोत्तरम् । मिलितान् वंगदेशीयान् प्रतीतः सोऽब्रवीद्यथा ॥३॥ इदं मे यौवनारम्भादेव कार्यतया स्थितम् । यद् द्वयोरपि संधानं कलहायितपक्षयोः॥४॥ ततोऽहमाफ्रिकादेशे न्यायवादित्वमाचरन् । एकीकर्तुभुभौ पक्षौ प्रायते व्यवहारिणौ ॥५॥ हिंदुमुस्लिमयोस्तस्मादैक्यसंस्थापने पुनः । आशाङ्कुरः समुत्पन्नो हृदये मे प्रकाशते ॥६॥ प्रार्थयेऽहं प्रमाथोऽयमन्योन्यो विरमेद् द्रुतम् । एकीभूय समाजौ च भवेतामेकमानसौ ॥ ७॥ अखण्डस्थापनं किं वा भारतस्य विभाजनम् । कार्यमन्योन्यसंमत्या बलात्कारान्न शक्यते ॥८॥ श्रीराजेन्द्रप्रसादोऽथ घोपणां पाटलीपुरे । चकार यन्महात्माऽसौ स्वप्रतिज्ञानुरोधतः ॥ ९ ॥ प्रायमासिध्यते क्षोमो न शाम्येद्यदि वासरात् । इत्याकर्ण्य जनाः केचित्तूष्णीकमवतस्थिरे ।। १० ॥ परं तु पाटलीपुन्ने मोरे च गयादिषु । जनक्षोमदशात्यन्तं मयोद्वेगकरी स्थिता ।। ११ ।।
a.
गान्धिप्रधर्षणम् ।
सरायीनामनि ग्रामे समाकान्ते विलुण्ठकः ।
ररक्षुहिन्दवो धीरा मुस्लिमान्ग्रामवासिनः॥१२॥
निष्कासितेयु जाल्मेषु ग्रामाद्विक्रम्य हिन्दुमिः ।
विश्रब्धा मुस्लिमारत्यक्तुं नैच्छन् ग्रामटिकां निजाम् ॥ १३ ॥
समकण्ठं च तवत्या हिन्दवः प्रतिजज्ञिरे ।
रक्षितुं संकटात्सर्वान्मुस्लिमान् प्रातिवेशिकान् ।। १४ ।।
नवखालीपुरं यास्यन्महात्मा नौकयाऽध्वनि ।
गोलण्डाख्यपुरेऽपश्यजनौचं दर्शनोत्सुकम् ॥१५॥
महात्मा नौतलादेव तान् लोकान् समबोधयत् ।
चकर्ष च मनस्तेषां तद्वाचोयुक्तिपाटवम् ॥ १६ ॥
(गान्धिरुवाच ।)
अयि भो आगतोऽस्म्यत्र युष्माभिः समदुःखमाक्।
नवखाल्यां प्रतिग्रामं गन्तुमिच्छाम्यहं स्वयम् ॥१७॥
आश्वासयितुमिच्छामि क्षताङ्गान् मन्दभागिनः ।
तथा प्रमा?मन्येषामणि व्यथितात्मनाम् ॥ १८॥
प्रतीकारसनित्यं युष्माभिः कलहायिते ।
हिन्दुमुस्लिमयोर्धौं सर्वथा ध्वंसमेष्यतः ॥१९॥
यद्विदर्भेषु संवृत्तं पापिष्ठमचिरादितः ।
तजगत्यां हि धर्मेण न केनाप्यनुमोद्यते ॥ २० ॥
तच मुस्लिमशिक्षार्थ व्यधायीति ब्रवीति यः।
स नूनं मूढधीरेव प्रमत्तश्च न संशयः ॥ २१ ॥
विहारविपयेणोप्रैर्दुष्कृतैरयशस्करैः ।
दुपितं भारतस्याद्य नाम वंगभुवा यथा ॥ २२ ॥
१०० स्वराज्य-विजयः स्वैरं हरत में प्राणान्न तु स्पृशत मुस्लिमान् । इत्युक्ता हि विदर्भीयाः पुरा पण्डितनेहरुणा ॥ २३ ॥ अथ सैनिकसाहाय्यात् क्षोभश्चदुपशाम्यते । कविका राज्यभारस्य राजप्रतिनिधि प्रजेत् ॥ २४ ॥ यदि सप्तसहस्राणि मुस्लिमानां दुरात्मनाम् । आस्कन्ध स्वल्पसंख्याकान् हिन्दून् स्वप्रातिवेशिकान् ॥ २५॥ विलुण्ठेयुहांस्तेषां हरेयुश्चाङ्गना बलात् । तदा तैनूनमिस्लामधर्मः स्याद्विनिपातितः ॥ २६ ॥ यावदेकीभविष्यन्ति पुनस्ते हिन्दु मुस्लिमाः । तावदत्रैव वङ्गेपु स्थास्यामि हितकाम्यया ॥२७॥ इति सौ. क्षमायाः कृतिपु स्वराज्यविजये गान्धि- प्रधणं नाम द्वात्रिंशतमोऽध्यायः ।
त्रयस्त्रिंशोऽध्यायः
नवखालीप्रयाणम् ।
नवखाली प्रयास्यन्त किवीनाम्न्याऽथ नौकया ।
लेखकोऽमेरिकावासी मुनिमाह सहाध्वगः ॥ १ ॥
'महात्मन् पञ्चवर्षाणि देशोऽयं क्षोभपीडितः ।
क्वचिन्नौकाधिकारिभ्यः कचिद्राष्ट्रियसैन्यतः ॥ २॥
कचिन्मुस्लिम हिन्दुग्यः कचिदन्यश्चै कारणैः ।
सत्येवं ब्रूहि मे विद्वन्यदहिंसामतं तव ॥३॥
तदेतदूढमूलं वा भवदेशेऽद्य वर्तते ।
अथ वा निष्फलं भूत्वा प्रजाभिः परिवर्जितम्' ॥४॥
(महात्मा प्रत्युवाच ।)
'यत्त्वयाऽभिहितं सौम्य हिंसाख्यां नूनमर्हति ।
अहिंसा निष्फलाऽद्येति निश्चतुं न हि युज्यते ॥५॥
परिवर्तयित्तुं प्रायो जनसामान्यमानसम् ।
नोपलब्धं मयाऽद्यापि कौशल्यं यदपेक्षितम् ॥६॥
ग्रामाणां सप्तलक्षाणि यानि तेषां निवासिभिः ।
हिंसनं यत्त्वया प्रोक्तं प्रतिजाने न तत्कृतम् ॥७॥
अहिंसा रुढमूलाऽभून्न वेति भरतावनौ ।
निणेतुं पारयेल्लोको मदीयनिधनोत्तरम् ' ॥८॥
(पान्थः पप्रच्छ !)
द्वितीयं ब्रूहि तावत्किं कुर्यादैनिकजीवने ।
अहिंसायाः प्रवीरस्य क्रमेण प्राप्तये नरः ॥९॥
स्वराज्य-विजयः (महात्मोवाच ।) वीरयोग्यामहिंसां यो नरः शिक्षितुमिच्छति । निरस्येत्स हि कातर्यमाचरेचानुगुण्यतः ॥१०॥ अहिंसोपासको भीतिं त्यजेदुच्चाधिकारिणः । अकोपश्च परित्यक्तुं सन्जितः स्यानिज पदम् ।।११।। स्वामिना नटसर्वस्वोऽप्यस्मै चेन्न हि कुष्यति । सिद्धवीरोचिताहिंसः प्रोच्यतेऽसौ तदा व्रती ॥१२॥ तर्जयेदध्वगः कश्चित्महतु मत्सुतं यदि । अनुनेतुं यतिष्ये ते पुत्रस्य क्षेमचिन्तकः ॥१३॥ बलवत्ताडितस्तेन न कोपं प्राप्नुयां यदि । मया वीरोचिताऽहिंसा तदा हि स्यात्प्रदर्शिता ॥ १४॥ सर्वथा नियतामर्पः प्रहारविमुखोऽस्मि चेत् । प्रयाति परिपुष्टिं मे वीरोचितमहिंसनम् ।। १५॥ अहिंसा तादृशी कापि मोधार्थी न भविष्यति । येपा प्रवलवैमत्यं तेऽपि तत्सारवेदिनः"॥१६॥ आंग्लैकादशमासस्य पूर्वार्धे गतवान्मुनिः। चौमुहान्यभिधं ग्राम नवकालीपुरान्तिके ॥१७॥ अगमत्स इतो ग्रामान् देशस्याभ्यन्तरान् बहून् । पत्रसंपादकैः सार्धमात्मनश्वानुयायिभिः ।। १८ ॥ तदाले तस्य चाहारो नारिकेलजलं परम् । नारङ्गस्य रसश्वासीत्तेनासौ कृशतां ययौ ॥ १९ ॥ अत्रान्तरेऽभवत्याच्यवंगदेशे समन्ततः । अमानुपैराचारैः शोचनीया परिस्थितिः ।। २० ॥
इति सौ. क्षमायाः निपुग्दपमालीप्रमाणं नाम प्राणपण्यमिव स्त्रीणां व्यधीयन मामा 40 नवखालीप्रयाणम् । योपितः शरणार्थिन्यः समेत्याश्रयमन्दिरम् । सवाष्पं कथयामासुर्निजक्लेशपरम्पराम् ।।२१।। हन्यमानान् पतीन् काश्चिदन्याश्च पितरौ निजी । अद्राक्षुः स्वशिशून् काश्चिच्छिद्यमानांश्च खण्डशः ॥२२॥ तपस्विन्यस्ततो धर्म यावनं ग्राहिता हठात् । मुक्तकण्ठं रुदन्त्यश्च पर्यणीयन्त घातुकैः ॥२३॥ स्त्रीत्वलिंगावशेपोऽयं विलुप्ताकारसौष्ठवः । विपद्धस्तो मृतप्रायः स्त्रीवर्गों ददृशे वत ॥ २४ ॥ वराकिन्यो निरक्ष्यन्त नष्टचैतन्यदृष्टयः । प्रयस्य रक्षितुं पुंसः काश्चित्क्षतकलेवराः ॥ २५॥ योपितोऽपहृता गेहान्नवोढा इव मुस्लिमः । परित्रातुं वृथा चक्रुः प्रयत्नानधिकारिणः ॥ER सुखिताऽत्र गृहेऽस्मीति नाश्वासयमिकन्छ। ध्वंस्यते त्वत्कुलं कृत्स्नमित्यासीत्तर्दिवादन इस्लामधर्मनिष्ठाऽपि धेनुमांसाशनं ना। प्रयधिमा
.
चतुस्त्रिंशोऽध्यायः
वङ्गयामपर्यटनम् ।
प्राप्तमात्रः स पूर्वोक्त चौमुहान्यभिधं स्थलम् ।
ग्रामप्रतिनिधीस्तत्र स्वीचकार समागतान् ॥१॥
कृत्वा स्थलीयसंस्थाभिः प्रस्तुतार्थविचारणाम् ।
खिन्नः शुश्राव तैरुतां नानाक्लेशपरम्पराम् ॥२॥
रक्षितुं न क्षमा आान् रक्षका वाऽपि सैनिकाः ।
स्वयमेव विधेयं तद् ग्रामीणैरात्मरक्षणम् ॥ ३॥
इति ग्रामजनं गान्धिरनुशिष्याप्रवीत्पुनः ।
नापनीता इतो यावत्सायुधा आंग्लसैनिकाः ॥ ४ ॥
तावत्क्षोभानलज्वालाः प्रशमं नैव यान्त्यमूः ।
प्रज्वलेयुः परं यावद्भस्मीभवति भारतम् ॥ ५॥
यदा सैनिकसाहाय्यापेक्षया लजिता जनाः।
यदा चाहिंसनस्यामी सारं स्वानुभवाद्विदुः ॥ ६ ॥
तदा हि प्रशमं याति ज्वालाजालं भयङ्करम् ।
पूर्ववच पुनः सर्व प्रकृतिस्थं भविष्यति ॥७॥
भिया ये हि प्रवर्तन्ते स्वात्मनस्ते न केवलम् ।
परं चिराश्रितस्यापि हानि पक्षस्य कुर्वते ॥ ८ ॥
यदि स्वे नानुतप्यन्ते मौWहिंसे विदर्भजैः ।
मुस्लिमा हि तदा नित्यं स्थास्यन्ति विमनायिताः ॥९॥
उपवासो मया योऽये कर्तव्यत्वेन निश्चितः ।
स तावत्प्रार्थये युप्मान्माऽस्तु केनाप्यपोहितः ॥१०॥
अथासौ चौमुहानीतो महात्मा समुपाययो ।
दत्तपाराभिधं ग्रामं विभान्तिममिलापुकः ॥ ११ ॥
१०५
चङ्गग्रामपर्यटनम् ।
तन्न प्रौढगिरा धीमान् यभाये दीनवत्सलः ।
पुरस्तादग्रामलोकानां प्रदोपप्रार्थनोत्तरम् ॥ १२ ॥
नवखाल्या घोरवृत्तै रोपिताः सन्ति हिन्दवः ।
क्रियन्ते तु महायत्नाः समीकर्तुं परिस्थितिम् ॥ १३ ॥
शमनं दुष्करं प्रायः कलहस्य द्वयोरपि ।
तच्चेत्परः सहस्राणां सुतरां दुष्करं खलु ॥ १४ ।।
अलमत्यद्भुतं कर्तुं परेशः सर्वशक्तिमान् ।
मानवस्तु स्वकं मार्ग तमसीव परामृशेत् ॥१५॥
प्रमादानपि स प्रायः कुर्यात्तदपि सुबतः ।
श्रद्धया चेत्प्रवर्तेत सर्व साधु भवेत्तदा ॥१६॥
अथ लक्ष्मीपुरग्रामे गृहस्रष्टागतान्मुनिः ।
आर्तानाम्वासयन्सौम्यवचनैः समवोधयत् ॥१७॥
निवसाम्यहमचैव यावदावश्यकी स्थितिः ।
हास्यामि नवखाल्यर्थे प्राणानपि न संशयः ॥१८॥
श्रीमानाजादमौलानो मुस्लिमानां कृते स्वयम् ।
पुनः स्वस्वगृहान् गन्तुं सर्वान् हिन्दूनुदैरयत् ।। १९ ॥
जाने तत्सुकरं वक्तुं न पुनः कर्तुमिच्छ्या ।
निवसेयुः क ते प्रप्टा दग्धलुण्ठितमन्दिराः ॥२०॥
इयमिच्छा हि सर्वेषां यत्समाजावुमावपि ।
स्वस्वधर्मे विभिनेऽपि प्रशान्ती सह जीवताम् ॥ २१ ॥
विध्वंसं सर्वतो पोरं प्रत्यक्षीहतवानदम् ।
प्रस्तातोकेन लोकानां मम दुद्राव मानसम् ।। २२ ॥
भयं निष्कास्य भोः सीम्या निवर्तध्यं गृहानिजान् ।
भगवन्नाम न स्याज्यं मुखं जीपिनुमिन्रता ॥२३॥
स्वराज्य-विजयः स्मरामि * जलियन्वालाकाण्डे पुंसः सुमांसलान् । कुक्षिणा सर्पयामास यथांग्लयुवकद्वयम् ॥ २४ ॥ वीथिकायाममी पण्डाः ससृपुर्यत्र कुक्षिणा । सा ततः प्रभृति प्रोक्ता कुक्षिसर्पणवीथिका ॥ २५ ॥ सन्त्यत्र नगरारक्षा ग्रहीतुं चौरलुण्ठकान् । परैराक्रमणाद्देशं रक्षितुं चापि सैनिकाः ॥ २६.॥ न युद्धात्सैनिका युष्मान् निवर्तयितुमीशते । न वा शिक्षयितुं शक्ताः भ्रातृवत्सहजीवनम्" ॥२७॥ ययो लक्ष्मीपुरागान्धिग्रीम काजिखिलाभिधम् । भूयांसो मुस्लिमा यत्र समेयुः सायमीक्षितुम् ॥२८॥ दृष्टा मुस्लिमसंदोहं बहु प्रीतोऽभवन्मुनिः । तृपितास्तेऽपि च श्रोत्रैस्तस्य वागमृतं पपुः ॥२९॥ यदि न भ्रातृवद्भूयो भवेयुर्हिन्दुमुस्लिमाः । नवखालीपुरे प्राणान् विहास्यामि न संशयः ॥ ३० ॥ इति मंदस्वरेणोक्तस्तदीयो दृढनिश्चयः । तत्र मुस्लिमवृन्देन तदेकाग्रतया श्रुतः॥ ३१ ।। ततः स रामगजाख्यं ग्रामं गान्धिः समासदत् । न्यवेदयजनांश्चात्र निजागमनकारणम् ॥ ३२ ।। तचेदं मुस्लिमानां च हिन्दूनां चैक्यसाधनम् । न कस्मादपि भेतव्यमन्यत्र परमेश्वरात् ॥ ३३॥ इतीदं मनसा धार्य सर्वदेत्युपदिश्य सः । जो काझिविले ग्राम निनाय दिवसान्मुनिः ॥ ३४ ।। * अमृतसरमिसरियन्वारा नाम प्रसिद्धमुद्यान यतते यमाग्दै गुंलियापातेनानागमो वयो भारतीया हताः ।
वनप्रामपर्यटनम् ।
विहारार्थ गतः प्रातीर्घकालोत्तरं पुनः ।
नारिकेलझुमारामैरावृतेनाध्वनाऽभितः ॥ ३५॥
भस्मीभूतं ततः सौधं ददर्श श्रेष्ठिनः क्वचित् ।
परश्शतानि चान्यानि नाशितानि गृहाणि सः ॥ ३६॥
संमिमेल जनस्तोमः पाठशालामहाङ्गणे ।
श्रद्धया केचिदन्ये च जग्मुवाग्मित्वकौतुकात् ।। ३७ ।।
(महात्मोवाच।)
"महत्यासीन्ममाशंसा सौम्याः पूर्वमिहागमात् ।
नियाजमनसा कर्तु मुस्लिमैः सह संकयाः ॥ ३८ ॥
दुष्कर्मणोऽनुतप्येरन्वारयेयुश्च निर्गमात् ।
हिन्दून्स्वस्वगृहेभ्यश्चेत्याशया चिन्तितं मया ॥३९॥
हार्दिकः सोऽनुतापश्चदभिज्ञाय तदार्जवम् ।
हिन्दवः पुनरेतेपु विश्वसन्तीत्युदीक्षितम् ॥ ४०॥
परं तु दूयते चेतः प्राच्यवङ्गेपु यजनी ।
उमौ च पद्धविद्वेपो तिष्ठतः कारणैरलम् ॥ ४१ ॥
पभूवुर्धर्पका मादौ प्राच्यवगेषु मुस्लिमाः।
ध्वंसयन्तः सुरागारसीधविद्यालयादिकम् ॥४२॥
अपजहुर्यलानारीयंपनीचकिरे च ताः ।
इत्यतैदिगुणीचके दुराचारः स्वपातकम् ॥४३ ।।
अतः प्राणमयं तेभ्यः कलयन्ति हि हिन्दवः।
मयोत्पादनमन्येषु मनुष्यस्य प्रपाकरम् ।। ४४ ॥
पशवोऽपि रितन्वन्ति मनी मिमीमपन्यु हि।
कि महे मनुप्यागां चरितं देवरूपिनाम् ॥ ४५ ॥
स्वराज्य-विजयः उपकुर्यानरस्तस्मादपकारिणि सर्वथा । अमोघीकर्तुमिच्छेच्चेत्पृथिव्यामात्मजीवितम् ॥४६॥ इस्लामधर्मशास्त्रस्य सर्वथा नैव सम्मतः । प्रमादासु दुराचारो जातिभ्रंशस्तथा चलात् ॥४७॥ किं कल्मापठनेन स्याज्जनश्चेदन्तरात्मनि । इस्लामोदारधर्मस्य वर्ततेऽति पराङ्मुखः॥४८॥ प्रष्टव्या मुस्लिमैस्तस्मादवश्यं निजनायकाः । हिन्दुभिः सह सौहार्द वैरं वा श्रीयतामिति ॥४९।। द्वेष चेदभिलष्येयुरादिशेयुस्तदा द्रुतम् । हिन्दूनां प्राच्यवंगेभ्यः साकल्येन विसर्जनम् " ॥५०॥ इति सौ. क्षमायाः कृतिषु स्वराज्यविजये वङ्ग-ग्रामपर्यटनं नाम चतुस्त्रिंशोऽध्यायः।
.. पञ्चत्रिंशोऽध्यायः गान्धिप्रयासः अथासाध क्रमादग्रामं श्रीरामपुरनामकम् । प्राकाश्यमनयलखं प्रगल्भार्थमसौ यथा ॥१॥ अत्युक्त्यसत्ययोर्मध्ये मम दोलायते मनः । उपलब्धुमतः सत्यमक्षमोऽस्म्यत्र सर्वथा ।।२।। समीक्ष्यते मया ग्रामे ग्रामे पर्यटताऽधुना मिथो भीकृदविश्वासः पूर्वमैत्री गतैव सा ॥३॥ अहिंसा या मया पाटया वत्सरैः परिसेविता। साऽद्य मे प्रतिभात्येपा मोधीभूतप्रयोजना ॥४॥ अहिंसाया अमोघत्वमात्मानं वा परीक्षितुम् । इतो ग्राम प्रयास्यामि सीतारामपुराभिधम् ॥५॥ चिरं सिपेविरे ये मां त्यक्त्वा यान्त्वनुयायिनः । विहाय चंगमापाश-लघुसङ्केतलेखको ।।६।। आगता ये मया सार्थ गच्छन्तु सहकारिणः । नवखालीप्रदेशस्य ग्रामे ग्रामे पृथक पृथक् ॥७॥ प्रत्येक स्वस्वघोपेपु विघटय्य परस्परम् । साधयन्तु यथाशक्यं पक्षयोस्सुसमाहितिम् ॥८॥ प्रेष्यतां मुस्लिमो धीरः सरलो मन्त्रिभिट्टतम् । प्रतिग्रामं समायातुं हिन्दुना तुल्यवृतिना ॥ ९॥ शरणाभ्यर्थिहिन्दूनां गेहं प्रत्यागमिष्यताम् । रक्षणे लग्नको ती हि स्यातां प्राणव्ययादपि ॥ १० ॥ न जाने पक्षयो, कदा वा शान्तिमेष्यति । तावच प्रायवतेभ्यः करिष्ये न पहिः पदम् ।।११।।
११० स्वराज्य-विजया यावद्भवति विश्वासो हिन्दुमुस्लिमयोमिथः । यावद् ग्रामजनो भूयः श्रयते रूढजीवनम् ॥१२॥ तावत्प्रयतनं कार्य न खल्वैक्यं विना भवेत् । पाकिस्थानं न वा हिन्दुस्थानं वा भारतावनौ ॥१३॥ रामगञ्जपुरं गान्धेगच्छतो जलमार्गतः । सकन्दपुष्पगुच्छेषु विलग्ना तस्य नौः स्थिता ॥१४॥ गच्छता तेन मार्गेण मुस्लिमद्वितयेन सा । रोधनान्मोचिता नौश्च प्रवृत्ता चलितुं पुरः ॥१५॥ प्रत्याजगाम तद्रात्रौ सीतारामपुरीं मुनिः । ईश्वरप्रार्थनां सायं नौकायां वै चकार सः ॥१६॥ अथैकदा किल श्रीमानहः कतिपयोत्तरम् । प्रदोपप्रार्थनां चक्रे ग्राममुस्लिममन्दिरे ॥१७॥ अर्धसाहस्रकं तत्र मुस्लिमानां समाययो । तेन कोरानपठनं चैकाग्रमनसा श्रुतम् ॥१८॥ पठ्यते स्म हि स ग्रन्थो बुधवयण मोल्विना । प्रार्थनाङ्गात्मकः सोऽयं गान्धिनाऽऽसीअकल्पितः ॥१९॥ अन्येन केनचिचापि सुस्वरेणाभ्यगीयत । हिन्दुमुस्लिमयोरक्यं बोधयन्ती सुगीतिका ।।२०।। तत्र संमिलितानां च पुरो ग्रामनिवासिनाम् । सूक्तिमुक्ताः समुत्पेतुर्मुखाम्मोधेर्महात्मनः ॥२१॥ तथा हि श्रूयतां सौम्या वचः सत्यं ब्रवीमि वः । कथयिष्याम्यहं युप्मानागमस्य प्रयोजनम् ॥ २२॥ नोत्पादयितुमस्म्यत्र विरोध पक्षयोईयोः । परं तु सुदृढीकतु प्रेमयन्धं तयोः पुनः ।।२३।।
गान्धिप्रयासः तयोर्मध्ये न भेदोऽयं विधिना परिकल्पितः । कल्पयेत्तु नरः कस्मात्सर्वशस्तुल्यजीवनम् ॥ २४ ॥ यावदावश्यकी तावत्प्राच्यवंगेपु मे स्थितिः । भविष्यत्ययवा यावजीवमेवापि सा भवेत् ॥ २५॥ यथाशक्ति यतिष्येऽहमेकीकर्तुमुभावपि । तौ हि वर्पशतान्यास्तां भ्रातृवत्सहजीविनी ॥ २६ ॥ कुरुते केवलं यत्नान् सप्रयासं नरो भुवि । कार्यसिद्धिः परं तस्य परमात्मनिवन्धिनी ॥ २७॥ एकदा व्रीहिकेदारे पादचारेण गच्छतः । मुनेईपथमाजग्मू रुदत्यो दुःखिताङ्गनाः ।। २८ ।। कथाः सर्वस्वनाशस्य निवेद्यामूर्महात्मने । ग्रहि नः किन्नु कर्तव्यमित्यपृच्छन् सगद्गदम् ॥ २९॥ हस्तेन निर्दिशन्नूज़ नभः पर्यश्रुलोचनः । सोऽग्रवीत्यार्थ्यतामीशो यिभीतास्मान्न चान्यतः ॥ ३०॥ इति सौ. क्षमायाः कृतिषु स्वराज्यविजये गान्धिप्रयासो नाम पञ्चत्रिंशोऽध्यायः ।
.. . पदात्रिंशोऽध्यायः ग्रामपर्यटनम् । * शैलाम्बुधिग्रहेन्द्रको वत्सरी भारतावनौ । ऐतिहासिकवातीभिबहीभिर्वहु विश्रुतः ॥१॥ अटितुं प्रत्यहं ग्रामाद्नाम गान्धिः सुनिश्चितः । श्रीरामग्रामतः प्रातर्ययौ चांदपुरं प्रति ॥२॥ अथ प्रस्थास्यमानोऽयं ग्रामात्प्रातस्तरां व्यधात् । भगवत्प्रार्थनां तन ऊस्तान्दस्याग्रिमेऽहनि ॥३॥ क्रिस्तजन्मोत्सवे मन्त्राः पठिताः स्तशास्त्रतः । केचिन्मनीपिणा प्रोञ्चैर्निर्मलाख्येन केनचित् ॥ ४ ॥ प्रार्थनोवं कृतज्ञोऽसौ परमोदारचेतसा । जगाद मिलितान् लोकान्महात्मा सौम्यया गिरा ॥ ५ ॥ अत्र मेऽवस्थितेः कालः सौम्या अवसितोऽभवन् । अटितुं ग्रामतो ग्राम प्रस्थास्ये न चिरादहम् ।। ६ ।। गृहे यत्र कृतावासो गृहिणा तत्र सत्कृतः । कृतज्ञोऽस्मि तदाथित्यात्सौजन्याच निवासिनाम् ।। ७॥ जनैरस्मि प्रयाणं मे विलम्बयितुमर्थितः । परं नोपेक्षणीयं मे विधेयं प्राविनिश्चितम् ॥ ८॥ प्रतिष्ठासु पुरा दाण्डी लक्षशो मां जनोऽन्वगात् । इदानीमद्वितीयस्तु ग्रामाझाममटाम्यहम् अध वक्ष्यामि कार्याणामस्य दैनन्दिनक्रमम् । मासस्यारम्भदिवसाद ग्रामान् पर्यटतो मुनेः ॥१०॥ " * १९४७ सिस्तान्दः ।
ग्रामपर्यटनम् । स हि प्रातर्विधीन् कृत्वा प्रस्थितः प्रार्थनोत्तरम् । घटिकापञ्चकेनेव द्वितीयं ग्राममासदत् ।।११।। आमध्याह्रमभूत्तस्य गात्रसंवाहनावधिः । अथाल्पाहारमासेव्य होराध व्यत्रमत्सुखम् ।। १२ ।। ततश्च ग्रामिकैस्तत्तद् ग्रामेषु परिवेष्टितः । यज्ञिये तन्तुनिर्माणे कश्चित्कालं निनाय सः ॥१३॥ स्वल्पाहारमयादाय नारङ्गादिरसात्मकम् । ईश्वस्त्रार्थनां चके ग्रामीणैः समुपस्थितैः ॥ १४ ॥ संध्याकालं ततोऽनपीद ग्रामीणानां गृहे गृहे। पुरुषार्भकयोपाभिः कथालापप्रसङ्गतः ॥ १५ ॥ इत्थं होराद्वयं नीत्वा ग्रामलोकैर्मुनिर्मुदा। कुटी प्रत्याययौ रात्रौ सुप्रीतस्तत्समागमात् ॥१६॥ तृणपर्णादिसञ्छन्ना तदर्थे जङ्गमा कुटी। निर्मिता पूर्वमेवासीद्वहनीया विना श्रमम् ।।१७।। सजगमकुटीरेण नापेक्ष्यत महात्मना । आश्रयो निशि गेहेषु विश्रान्त्यै ग्रामवासिनाम् ।। १८॥ ग्रामाध्यक्षः प्रतिग्रामे समाजस्थितिशंसिनीम्। सजीकृत्य ददौ तस्मै पुरस्तादेव पत्रिकाम् ।। १९ ।। अथ चांदपुरग्रामे नीत्वा दिनचतुष्टयम् । अटनं ग्रामतो ग्राममारेभे निश्चितात्मना ॥२०॥ ग्राममेकं दिवा गत्वा निशि विश्रम्य तन च । ग्रामान्तरं परेधुश्च व्रजन्नेव ददर्श सः॥ २१॥ एकमासान्तरे ग्रामानष्टाविंशतिमित्वरः। अध प्राकाश्यमनयल्टखमेकं च तद्यथा ॥२२॥ व वि ८ ११४ स्वराज्य-विजयः न कदाप्यन्धकारोऽयमनुभूतो मया क्वचित् । प्रतिभान्ति तमस्विन्यः सुदीर्घाश्च तथाप्यहम् ॥ २३ ॥ न भग्नाशो न चोद्धान्तः संवृत्तोऽस्मीति तुष्यते । यद्भावि तद्भवत्वेव सजितः स्थितवानहम् ॥ २४ ॥ क्रियतां म्रियतां चेति वाक्यस्याथोऽयमुच्यते । बद्धसख्या प्रशान्तौ च जीवेतां हिन्दुमुस्लिमौ ॥ २५ ।। तदेतत्साधनीयं मे साधने मृतिरस्तु वा । जाने परं तु सर्वस्मादीश्वरेच्छा बलीयसी ।। २६॥ नोद्वेगस्यावकाशः स्याजीविते हि विवेकिनः । स्वार्थचिन्ताविहीनस्य परार्थाय प्रयस्यतः ॥ २७॥ अतीव जटिलं कार्यमिदमत्यन्तदुष्करम् । तथाप्यस्मि क्षमो गातुं सत्यपूर्णामिमां गिरम् ॥ २८॥ अन्धकारमयी रात्रिहाददूर स्थितोऽस्म्यहम् । त्वमेव शरणं नाथ मार्गदर्शी सदैव मे ॥ २९॥ स्वयमेव पवित्रेऽस्मिन् कार्ये मग्मा ममानुगाः । यः पराजयते कार्यात्स निर्यातु स्वकामतः ॥ ३० ॥ एकाकी स्वेच्छया ग्रामं वृत्तवान् हि पृथक् पृथक् । स्थितोऽस्म्यहं च दुःखार्ते ग्रामेऽस्मिन् दूरवर्तिनि ॥ ३१ ॥ इति सौ. क्षमायाः कृतिषु स्वराज्यविजये ग्रामपर्यटनं नाम पदत्रिंशोऽध्यायः ।
सप्तत्रिंशोऽध्यायः
राधाकुमुन्दमूर्तिस्थापनम् ।
अथ चांदपुरात्सायं संप्राप्तं भाटियापुरम् ।
श्रेष्ठी कश्चिन्महात्मानं जगाद प्रार्थनोत्तरम् ॥१॥
ग्रामोऽयं पावितः श्रीमन्भवत्पादाजरेणुभिः ।
मन्येऽहं धन्यमात्मानं दर्शनेन पवित्रितम् ॥ २॥
स्मारकं तव हस्ताभ्यां स्थापनायान प्रार्थये ।
प्रतिष्ठापयितुं मूर्तियुग्मं राधामुकुन्दयोः ॥ ३ ॥
अनुमोद्य मुनिस्तस्य श्रेष्ठिनोऽभ्यर्थनां शुभाम् ।
स्वकुटीरसमीपस्थं प्राविशत्सुरमन्दिरम् ॥ ४ ॥
रम्याः सजः सुपुष्पाणामानिन्युः काश्चिदशनाः ।
अन्याश्चन्दनलेपादीनितराश्च कुशागुरान् ॥ ५ ॥
ध्मायमानेषु शोपु श्रेष्ठिनः कुलदेवयोः ।
महात्मा प्रतिमायुग्मं स्थापयामास मन्दिरे ॥६॥
निर्गन्छन्तं महात्मानं न चिराद्देवतागृहात् ।
मुस्लिमप्रमुखाः केचिन्नमस्कृत्यानुवन् यथा ॥७॥
पुनः स्थापितयो यो: श्रेष्ठिनः कुलदेवयोः ।
रक्षणाय भविष्यामः सर्वदा लग्नका वयम् ॥ ८॥
प्रत्युवाच महात्मा तान् इषदेव हि वालिम् ।
हिन्दुभिः स्वल्पसङ्ख्या न्यत्किञ्चिन्मनागपि ।। ९ ।।
ततो निवर्तमानं ते विहारान्ते कुटी मुनिम् ।
तरमा मुस्लिमाः केचित्तमुपेत्यानुवन् यथा ॥ १० ॥
नवसालीपुरे श्रीमन्यत्कार्य भवता यनम् ।
तस्मात्सर्वे फुलमाः स्मः कोऽन्यः कुर्यामुवीयम् ॥११॥
स्वराज्य-विजयः
यद्यत्पुरा हि संवृत्तं न तद्भूयो भविष्यति ।
ग्रामवास्तव्यहिन्दूनां रक्षाप्रतिभुवो वयम् ॥ १२ ॥
(महात्मोवाच ।)
तुष्टोऽस्मि भो भवद्वाक्यं हृदयादागतं यदि ।
न पुनर्वदनादेव तदाऽस्य महिमाऽद्भुतः ॥ १३ ॥
यतस्तस्य फलं सद्यो न परं भारतावनौ ।
अपि त्वशेषराष्ट्रपु पृथिव्यां प्रसरिष्यति ॥ १४ ॥
भाटियापुरतो गान्धिनारायणपुरं ययौ ।
मुस्लिमा यत्र भूयांसः समीयुः प्रार्थनाङ्गणम् ॥ १५ ॥
ततो जगाम स ग्रामं रामदेवपुराभिधम् ।
भगवत्प्रार्थनोवं च प्राह संमिलितान् यथा ॥ १६ ॥
सन्ति जिज्ञासवः केचिन्मन्मतं मुस्लिमा इह ।
द्वित्रानेषामहं प्रश्नान्प्रतिवक्ष्यामि साम्प्रतम् ॥ १७ ॥
(प्रथमः प्रश्नः ।)
ऐक्यं यवनहिन्दूनां त्वया चेदभिलप्यते ।
सिक्कसभ्यास्तदा कस्मात्कामरूपजनास्तथा ॥ १८ ॥
राज्यतन्त्रसभास्थानाद्वहिः स्थातुं प्रयोधिताः ।
भवदीयोपदेशोऽयं विरुद्धः प्रतिभाति नः ॥१९॥
(द्वितीयः प्रश्नः ।)
अद्य मुस्लिमसंघीयाः प्रवेणु किमु शक्नुयुः ।
राज्यशासननिर्माणसभा सम्प्रति कल्पिताम् ॥ २० ॥
(महामोवाच ।)
आयौवनादविच्छिन्नमन्दपष्टेः किल स्थितम् ।
.ऐक्यं यवनहिन्दूनामुद्देश्य जीवितस्य मे ॥२१॥
राधामुकुन्दमूर्तिस्थापनम् ।
न पश्यामि मदुद्देश्यविरोधं तत्रयोधने ।
यथेष्टं कर्तुमुक्तास्ते नोपरोपो मया कृतः ॥२२॥
पीनामकाद् ग्रामान्नग्नपादो ययौ मुनिः ।
शालिक्षेत्रेषु रम्येषु मञ्जरीमिः पुरस्कृतः ॥ २३ ॥
रामदेवपुस्ग्रामे सोऽध्वनि व्यरमत्कचित् ।
तत्रास्य मुस्लिमः कश्चित्केनचित्परिचायितः ॥२४॥
सोऽयं महमदाख्यातो येन मार्गः परिष्कृतः ।
यथान्यग्रामसञ्चारः सुगमः स्यान्महात्मनः ॥ २५॥
शुभाशीर्वचनैरेतमभिनन्य स्मिताननः।
अटाखोराभिधं गान्धिर्ययौ ग्रामं चतुर्दशम् ॥ २६॥
आदरेण महात्मानमवादीकोऽपि मुस्लिमः ।
अस्माभिः सफलीकार्यः सर्वथा भवदुद्यमः ॥२७॥
भयोचुर्मुस्लिमाः सर्वे विस्मरामः पुराकृतम् ।
प्रतिजानीमहे ग्राने सहास्माभिर्निवासिनाम् ॥२८॥
अल्पसंख्याकदिन्दूनां यत्नतः परिरक्षणम् ।
तथा तेषां गृहारामक्षेत्राणामप्यनाशनम् ॥ २९॥
विलुण्ठितधनं क्षेत्रे क्षिसं वा गोपितं क्वचित् ।
प्रत्याहृत्य पुनः सर्वं हिन्दुभ्यस्ते समापयन् ।। ३० ।।
पर्कोटीपत्तने गान्धिशुश्रूपासंघसेवकान् ।
उदारवचनैः श्रीमान्बोधयामास तया ॥३१॥
खङ्गस्य सङ्गतो दण्डः सुकरः किन्तु निष्फलः ।
कुर्याद्धिसामयत्यागः स्यां वः सशतशोऽधिकाम् ॥ ३२॥
इत्याकण्यामवीदेकः स्वयसेवकमण्डलात् ।
वयं न खलु भीताः स्मो यदा सर्वे सद्द स्थिताः ॥३३॥
स्वराज्य-विजयः
(महात्मोवाच ।)
"भीता एकाकिनो यूयमिति स्पष्टं भवद्भिरा ।
न स्वयंसेवकः क्वापि बिभीयादेककोऽपि सन् ॥ ३४ ॥
यद्वा भवल्लसौ नैव कदापि नमयेच्छिरः ।
भयापमानयोनॆव तथा परवशो भवेत् ॥ ३५॥
ग्रामलोकोपयुक्तेषु कर्मस्वेव व्यवस्यत ।
तथा संगच्छत भ्रातृभावेन सह मुस्लिमैः ॥ ३६॥
न हि दण्डप्रहारेण विजेतुं शक्यते परः ।
परं तु प्रेमभावेन सुजेयः स भविष्यति ।। ३७ ॥
इत्युक्त्वाऽथ महात्माऽसौ स्वयंसेवकमण्डलम् ।
प्राह हिन्दुस्त्रियः काश्चित्स्वदर्शनसमुत्सुकाः ॥ ३८ ॥
नवखालीपुरे यद्यवृत्तं तदैवशापतः ।
तद्ग्रस्ता न परं वङ्गा अपि त्वखिलभारतम् ॥३९॥
अन्योन्यव्यवहारेषु युष्माकमपि जीवने ।
कालानुगुण्यतः किञ्चित्परिवृत्तिरपेक्ष्यते ॥४०॥
अन्यामिहिन्दुयोपिद्भिराचरेत्समभावतः ।
मुस्लिमप्रमदाभिश्व भगिनीकृतिमाश्रयेत् ॥४१॥
यूयं चेन्मुस्लिमस्त्रीषु स्वस्वत्पूर्वतः स्थिताः ।
नवखालीपुरानीस्तदा स्युरिता भृशम् ॥४२॥
न कार्य सावकाशत्वे युष्माभिः कालयापनम् ।
नियतां सूत्र निर्माण सफलो भवति श्रमः ॥४३॥
मुरेमाख्यं ततो ग्राम नारायणपुराधयौ ।
तस्य पर्यटतश्चैप ग्रामो नवदशोऽभवत् ॥४४॥
सदण्डः पादचारेण लिन्नक्षेनेपु सश्चरन् ।
सम्प्राप्याध्यवसद्ने मुस्लिमस्य पुरोधसः ॥४५॥
राधामुकुन्दमूर्तिस्थापनम् । सोऽयं मौल्वीहवीबुल्ला वटारीवंशसम्भवः । मेने धन्यं किलात्मानं दर्शनेन महात्मनः ॥४६॥ जनाः परस्सहस्राश्च दूरग्रामनिवासिनः । सन्निपेतुर्महोत्कण्ठाः प्रदोपप्रार्थनासमाम् ॥४७॥ सहस्रद्वयमेतेपामागात् त्रिपुरनीतः। वृन्दं पुमर्मकस्त्रीणां महत् तद्दर्शनोत्सुकम् ।। ४८ ॥ नवखालीप्रदेशस्य न्यायाधीशः समाययौ । मानेरीतिसमाख्यातः पद्यां क्रोशचतुष्टयम् ।। ४९॥ ग्रामं पञ्चगडं गान्धिनग्नपादस्ततो ययौ । शालिक्षेत्र तथा मार्गे क्रममाणः सकण्टके ॥ ५० ॥ ग्रामीणा मुस्लिमाः श्रुत्वा तत्कष्टं हेपिता भृशम् । वर्मनः परिशोधाय बभूवर्दुतमुद्यताः ॥ ५१ ॥ सायं निवर्तमानोऽसौ कुटी पन्चगडान्मुनिः । महान्तं विस्मय प्राप वर्मनः परिवर्तनात् ।। ५२॥ यनिताः पुरुपा पाला मार्गस्योमयपार्श्वयोः । महात्मानं पुरस्कर्तुं क्रोशत्रयमवस्थिताः ॥ ५३ ॥ प्रमाष्टुं स्वाम्परान्तेन तत्पादाम्बुजरेणुकाः । सर्वमाना मिथो गान्धिं प्रमदाः समुपाययुः ।। ५४ ।। शिशयो वन्यपुप्पलपाणयस्तं स्मिताननम् । वर्धमानपरिस्पर्धाः कुनुकात्पर्यवेष्टयन् ।। ५५ ।। श्रीकृष्णायेव मूर्ताय नालिकेगण्यदुः पुरे । स तु नान्यद्भवम्णो वान्छामीत्यप्रवीदमन् ॥ ५६ ॥ इति सौ. क्षमायाः कृतिपु स्वराज्यविजय राधामुकुन्दमनिस्थापनं नाम समप्रिंशोऽध्यायः ।
अष्टात्रिंशोऽध्यायः
ग्रामाटनम् ।
नवग्रामाभिधं ग्राममाससाद मुनियंदा ।
तमागमत्पुरस्कर्तु संदोहः क्षेत्रजीविनाम् ॥१॥
त्रिभागाख्यविवादस्तैः कृषिकैः संप्रवर्तितः ।
तृतीयांशद्वयं स्वैः स्वैः प्राप्यं क्षेत्रफलादिति ॥ २॥
श्रावितग्रस्तुतार्थस्तन्मतं जिज्ञासुभिजनैः ।
अभिनन्द्य महात्मा तान् समुदीरितवान् यथा ॥३॥
क्षेत्रं क्षेत्रपतेर्न स्वं परं तु जगतीपतेः ।
तस्माद्यैः कृष्यते क्षेत्रं स्वामिनोऽस्य भवन्ति ते ॥४॥
युष्मान्प्रबोधयाम्यत्र न हिंसा न चलात्कृतिः ।
प्रयोज्या खलु युष्माभिस्तद्विवादप्रशान्तये ॥ ५ ।।
इत्युक्त पादयोः कश्चिन्निपत्य प्रवया मुनेः ।
सबाष्पः कथयामास तस्मै मर्माविधाः कथाः ॥६॥
श्रीमन्मम हता भार्या हता कन्या हतः सुतः ।
हताश्च धन्धवः स्वं मे लुण्ठितं हा करोमि किम् ॥ ७॥
निशम्यैतद्रवीभूतहृदयः स्वोत्तरीयतः ।
परिमृज्य तदणि सान्त्वयामास तं यथा ॥ ८॥
अलं दुःखेन मद्भातर्विनप्टेऽप्यखिले कुले ।
जीवचक्र भ्रमत्येवं मा धैर्यात्प्रन्युतो भव ॥ ९॥
इति तत्पाणिमादाय स्कन्धे तमुपगूह्य च ।
प्रार्थितो मन्दिरे तस्य निनाय निखिलं दिनम् ॥ १० ॥
स्नातमुक्तं ततो गान्धिममाक्षीत्काचिदङ्गना ।
किं जनः स्वमतं त्यक्त्वा परधर्म समाश्रयेत् ॥ ११ ॥
ग्रामाटनम्।
१२१
( महात्मोवाच ।
स्वधर्मस्य कृते प्राणांस्यक्तुं नेच्छति यः पुमान् ।
मानुपो न स वक्तव्यः पशुरेव नराकृतिः ॥ १२ ॥
ग्रामेऽस्मिन्मुस्लिमः कश्चिन्महात्मानमयाचत ।
परिकल्पितसम्भारमलङ्कतु निजालयम् ॥ १३ ॥
पुरस्कर्तु च तं गेहाद्धहिनिर्मितमण्डपे ।
समेतो जनसंदोहस्तस्य दर्शनकाझ्या ॥ १४ ।।
नारङ्गपूर्णमञ्जूपां स्वीकृत्य व्यभजन्मुनिः ।
फलानि पालकेभ्यो ये परितस्तमवस्थिताः ॥१५ !!
गृहीत्वा च ततः शेपमेकं हस्तेन पृष्टवान् ।
गृहिणं किमिदं देयं वैदर्भाय मया न वा ॥१६॥
उक्त्वैवं सविनोदं श्रीतघवंशाभिधं मुनिः ।
निर्दिदेश स्वयाङ्गुल्या पृष्ठभागस्थितं जनम् ।। १७ ।।
अयं युष्मद्रिपुः किन्तु मया धर्मप्रसारिणा ।
सर्वथाऽरातिभिः साधं मिनत्वं साधयिष्यते ॥१८॥
इत्यूर्ध्वफलहस्तोऽसौ जहास प्रोभकैर्मुनिः ।
गृहिणे चान्यलोकाय विनोदमुपपादयन् ॥१९॥
स्तधारीयाभिधं ग्राम सम्पातेऽथ महात्मनि ।
मासपर्यटनार्धस्य समातिरभवत्तदा ॥२०॥
अटनस्य द्वितीयांशं प्रामे साधुर्खिलाभिधे।
प्रारेभे सह युग्मेन पुरोक्तेनानुयायिनाम् ॥ २१ ॥
प्रसादपुरमासाद्य प्रदोपप्रार्थनोत्तरम् ।
अग्रवीद्वान्धिरुद्दिश्य विपयं शरणार्थिनाम् ॥ २२॥
अन्नदानं समुद्दिश्य लोकाय शरणार्थिने ।
स्थलीयप्राइपिवाको ह्यः पृष्टवान् मन्मनोगतम् ॥ २३ ॥
स्वराज्य-विजयः उत्सारः कन्दपुष्पाणां समीकरणमध्वनाम् । परिष्कृतिश्च केदारभुवं गृहविनिर्मितिः ॥ २४ ॥ इत्यादियोजनास्तेन ग्रामीणानां सुखाप्तये । गृहभ्रष्टागतैः कार्या इति प्रागेव निश्चितम् ॥२५॥ उद्यमानां किमप्येकं कुर्याचेच्छरणागतः । समर्हेत् स तदा पूर्णमन्नदानस्य पात्रताम् ॥ २६ ॥ घटनेयं भवेजाने सर्वेपामुपकारिणी । दत्तमासावधिश्वासौ वृणोतु स्वेच्छयोद्यमम् ॥ २७॥ मासान्ते न वृणीयाचेदनुकूलं समुद्यमम् । अन्नमस्मै तदा नैव प्रदातव्यं भविष्यति ॥२८॥ साञ्जलिः प्रार्थये तस्माच्छरणार्थिजनानहम् । कुरुध्वं सर्वथोद्योग सह राष्ट्राधिकारिभिः ॥२९॥ अतोऽन्नग्रहणापेक्षा कायिकत्रममन्तरा । न योग्या मानिने पौरजनायेति नियोधत ॥३०॥ सर्वेऽपि यदि जीवेयुः स्वश्रमैः शरणार्थिनः । तदेयं मेदिनी सर्वा स्वर्गतुल्या भविष्यति ॥ ३१ ॥ देहश्रमेण सर्वोऽपि निजान्नं चेदुपार्जयेत् । तदा वैद्यादयः स्वार्थं हित्वा स्युरुपकारिणः ॥ ३२ ॥ स्वार्थत्यागेन ते वृत्ति वितन्वन्ति यथा यथा । भूयसी धनसम्पत्तिर्भवत्येषां तथा तथा 1॥३३॥ प्रसादपुरतो गान्धिर्ययो हेमच्छडीपुरम् । विजयं नगरं पश्चात्कपिल्तलमनन्तरम् ।।३४॥ रोगिणां शिविरं तत्र समालोक्य कपिल्तले । पादचारी ययौ प्राच्यकेरोवावनिमण्डलम् ।। ३५॥ इति सी. क्षमायाः कृतिषु स्वराज्यविजये ग्रामाटनं नाम अष्टात्रिंशोऽध्यायः । " नवत्रिंशोऽध्यायः स्वराज्योघोपणा। अत्रान्तरे स्वाधिकारान्निवृत्तो देवलः प्रभुः। मौण्टवेटन्निति ख्यातः समारूढश्च तत्पदम् ॥१॥ स चाशास्ते स्म यद्देशादाङ्ग्लनिर्गमवासरे। ख्यापिते सत्युभौ पक्षी विवादं निस्तरिष्यतः ॥२॥ इत्यसी महतीमास्यां कलयनीतिकोविदः । रूपयौवनशालिन्या भार्यया प्राप देहलीम् ।।३।। अमात्य आटलिः श्रीमान्नभोवाण्योदघोपयत् । यदिने निश्चितेऽस्माभिराधिपत्यं प्रदीयते ॥४॥ साम्नवाधिकृतिः सर्वा प्रजासु प्रतिपाद्यते । आग्लानां निर्गमायापि ख्याप्यते निश्चितं दिनम् ॥ ५॥ इत्थमुद्धोपणाज्जातः प्रजासु प्रत्ययो महान् । यदाग्लेषु निवृत्तेपु पक्षावेतौ प्रशाम्यतः ।। ६॥ अवश्यं च तयोरक्यं भविष्यत्यात्मसम्मतम् । अन्यथा हि निमनः स्याद्देशो विप्लवसागरे ।।७।। इति प्रत्यायिता लोका मेनिरे भापिनी दशाम् । अपरे संशयापन्ना विकल्पांश्चक्रिरे यहून् ॥८॥ चूजना करम्हावासियोपमा रोति केचन । अन्धगर्तनिपातोऽयमित्यन्ये मयशदिनः ॥९॥ प्रगल्भनीतिकौशल्यमिदमित्यपरे जनाः । प्रत्याशा व्यदधुः केचिदन्ये नैराश्यमाश्रयन् ॥ १०॥ अयामृतसर:पुर्या पिप्लवोऽमन्मुदानमः । दुराचारैर्यदा मार्गे धूमयानं न्यरुप्यत ।। ११ ॥
१२४
स्वराज्य-विजयः
अमी तक्षशिलापुर्या लोहमार्गनिवेशने ।
अवस्कन्ध हठात्पान्थान् कुठारैः प्राहरन् बहून् ॥ १२ ॥
अथांग्लवाहिनीयुग्मं प्राप्यामृतसरःपुरम् ।
अग्न्यस्त्रमोचनं चके विना पूर्वनिवेदनम् ॥ १३ ॥
प्रहर्तुमुपयोज्यं यत्किञ्चिद्यस्य करे स्थितम् ।
स वध्यो गुलिकास्त्रेण निर्दोषोऽप्यभवरक्षणात् ॥१४॥
स्वर्णदेवालयख्याते पुण्येऽस्मिन्नगरे पुरा ।
न कदापि जनक्षोभः समभूदीगुल्वणः॥१५॥
न केवलं जना नेशुर्विप्लवेऽस्मिन् सहस्रशः ।
कृताश्च भस्मसाच्चित्रशालाहापणव्रजाः ॥१६॥
शतशो निर्धनानां च ययुरुद्भूलने गृहाः ।
गता विध्वंसमेतस्माद् धनस्य दशकोटयः ॥१७॥
अथ फाल्गुनमासादौ कृतग्रामपरिभ्रमः ।
श्रीगान्धिः पाटलीपुत्रमाससाद मुदे नृणाम् ॥१८॥
पौराणामधतोत्साहो मुस्लिमानां विशेषतः ।
पुनरागमनात्तत्र संसेव्यस्य महात्मनः ॥१९॥
स्वयं स प्रार्थनां कृत्वा तत्र हिन्दून्विदर्भजान् ।
हृदयङ्गमया वाचा सर्वान्प्रावोधयद्यथा ॥ २० ॥
युष्माभिरुपयोक्तभ्यो भविष्यन् होलिकोत्सवः ।
मुस्लिमः सह सत्यस्म पुनरुज्जीवनायकः ॥२१॥
इति साधूपदेशोऽस्य पभूवाभीष्टसाधकः ।
दर्शित फिल सौहार्द पक्षयो)लिकोत्सवे ॥२२ ।।
अथासो पाटलीपुने महात्मा स्वयममजत् ।
पिप्ठवे नाशितप्रायान्प्रदेशान्द्रएमुत्सुकः ॥ २३ ॥
.. स्वराज्योद्घोषणा। विध्वस्तमखिलं प्रेक्ष्य दुष्कृतैः क्षोमकारिणाम् । परावर्तितनेत्रोऽसौ स्थितवान् खिन्नमानसः ॥ २४ ॥ नवखालीकृतध्वंसप्रतीकारो विदर्भजैः । हिन्दुभिः कृत इत्युक्तं महात्मा नान्वमोदत ॥ २५॥ स तूवाच न युक्तोऽयं प्रतीकारक्रमः कृतः । आत्महत्यासमानेयं वैरबुद्धिः परस्परम् ।। २६ ।। ईदृम्भावनयाऽस्माकं दास्यमेव स्थिरीभवेत् । दासश्च पशुभिस्तुल्यः पशुत्वान्मरणं वरम् ॥२७॥ पर्यन्ते गणयेत्सर्वो विपरीतधियाऽनया । सर्वतोऽप्यधिकां स्वीयग्रामस्यैव स्वतन्त्रताम् ॥२८॥ अयोधयच ग्रामीणान् मुस्लिमेभ्यः प्रदीयताम् । ततो विलुण्ठिते द्रव्यं गृहक्षेत्रादिकं च यत् ॥ २९॥ छिन्नभिन्नविकीर्णानां वस्तूनां राशयोऽखिलाः । अपसार्याश्च युष्माभिर्मार्जनीयाश्च वीथिकाः ॥ ३० ॥ यथा सद्यः परावृत्य स्वस्वगेहानि मुस्लिमाः । रक्षिता निर्भयं ग्रामे निवसेयुः सुखं पुनः ॥ ३१ ॥ मृदा गर्ताश्च संपूर्य विपमोद्धातिभूतले । रचयध्वं विहाराय वाटिका ग्रामवासिनाम् ॥ ३२ ॥ इति सौ. क्षमायाः कृतिषु स्वराज्यविजये स्वराज्योद्घोपणा नाम नवविंशोऽध्यायः ।
चत्वारिंशोऽध्यायः आसियासम्मेलने गान्धिप्रवचनम् । अथाखण्डासियाखण्डदेशानां महती सभा । प्रारम्भ चैत्रमासस्य मिलिता देहलीपुरे ॥१॥ त्रयस्त्रिंशज्जनाङ्गानि स्वस्वप्रतिनिधीसभाम् । प्रसिद्धान्प्रेषयामासू राजनीतिविशारदान् ॥ २॥ घभूवादृष्टपूर्वस्य सदसोऽस्याधिवेशनम् । कुरुपाण्डवयोः कालाच्छोणदुर्गाभिधे स्थले ॥३॥ सभाध्यक्षपदं पूज्यं वाग्मिनी श्रीसरोजिनी । अलञ्चकार निस्सीमनिजवाग्विभवोचितम् ॥४॥ महाङ्गणेऽस्य दुर्गस्य मण्डपो निरमीयत । यदन्तः सुखमासीरन्नर्धलक्षमिता जनाः ॥५॥ त्रयस्त्रिंशत्पताकाश्च परितः पीठवेदिकाम् । उच्छ्रिता मण्डपं चक्रुर्नेत्रासेचनकं परम् ॥ ६॥ ततः स्मृतिपथं नीत्वा प्रेक्षकाणां सरोजिनी । महाभारतकाव्यस्य कथाः काश्चिदवर्णयत् ॥ ७॥ अयं प्राचीनदुर्गस्य शिलाभित्तिचयो धनः । साक्षीचकार यः पूर्व कुरुपाण्डवसंगरम् ॥ ८ ॥ स एवाय हि वर्षाणामसंख्यशतकोत्तरम् । प्रत्यक्षीकुरुते कार्य नूनं संमेलनस्य नः ॥ ९ ॥ इत्यादिमापणं कृत्वा निजवाक्यामृतेन सा । नन्दयामास चेतांसि सर्वेषां विवुधोत्तमा ॥१०॥ पीण्यासन् सभ्यवृन्दानि प्रस्ताव्यविपयक्रमात् । प्रथमं जातिसम्बद्धचर्चाविषयगोचरम् ।।११।।
१२७
यासिया सम्मलने गान्धिप्रवचनम् ।
द्वितीय स्वस्वराष्ट्रस्य व्ययाल्पीकृतिचिन्तकम् ।
तृतीयं प्राच्यसंस्काररक्षाभ्युदयसाधकम् ॥१२॥
पूर्वखण्डजनाः प्राप्ता देहली नगरोत्तमाम् ।
सस्मरुः प्राप्तमात्मानं साक्षात्स्वातन्त्र्यदेहलीम् ।।१३।।
गान्धिः प्राप्तः सभामादौ न चक्रे तत्र भापणम् ।
परं प्रतिनिधीभूतैः कथालापं चकार सः ।।१४ ।।
'जगदैक्यं समुद्दिश्य महात्मन् ब्रूहि ते मतम् ।'
इति केनापि पृष्टः सन् प्रत्युवाच मुनिर्यथा ।। १५ ।।
'भवितम्यं न चेल्लोके जीवितुं नोत्सहे भुवि ।
मयि जीवति स स्वप्नः स्पृहये सफलीभवेत्॥१६॥
पप्रच्छ चीनदेशीयः कश्चिदू हान्लिवुनामकः ।
समुद्दिश्यासियासंख्याविनिर्माण मुनेर्मतम् ॥१७॥
(महामोगाच)
धन्यं नितान्तमात्मानं भारतं मन्यते किल ।
महती परिपद्यस्मादियं संमिलितान वः ॥१८॥
स्वातन्त्र्यगृहदेहत्यामिदानी मारतं स्थितम् ।
स्वयं प्रमुत्वमिच्छामः प्रमुमन्यं न सर्वथा ॥१९॥
नानादिग्देशतो यूयं सोत्साहमिह संगताः ।
प्रत्यन्दं चेद् मवेदीघट्मेलनं तद्धितावहम् ।।
स्वदेश नीयतामस्य मेलनस्य स्मृतिः प्रिया ।
प्रयतथ्वं च निर्मातुं सत्यदैवतमन्दिरम् ॥२१॥
किमिमे प्रान्यदेशीयाः संगता योद्धमिथ्या !
सद्द परिश्रमखण्डस्थैः किं वाऽमेरिकभूजनः ।। २२॥
इति कांधन जिज्ञासुनुवाचानर्थशकिनः ।
नैवं मोः सर्वथा नेवमिति मे साग्रहं वचः ॥२३॥
१२८
स्वराज्य -विजयः
.
नास्त्येवं भारतस्यात्र व्यवस्था न च वाञ्छितम् ।
ध्येयं चेत् तादृशं तस्य भवेयमतिदुःखितः ॥२४॥
अहिंसयैव संप्राप्य स्वातन्त्र्यं भारतावनिः।
न स्वप्नेऽप्युपयुञ्जीत तदन्यस्य नियन्त्रणे ॥२५॥
यथा हि स्वस्वलाभाय पाश्चात्यैः पूर्वखण्डजाः ।
नियन्त्रिताः प्रजा वह्वयस्तथा नात्र भविष्यति ॥२६॥
पूर्वखण्डमिदं कार्य महत् पाश्चत्यराष्ट्रवत् ।
इति सर्वैर्विनिश्चित्य सभास्थानं विसृज्यताम् ॥२७॥
प्राच्यसंमेलनं भूपानियमेनात्र भारते।
इत्याशास्याभिवन्दे वः पुनर्दर्शनकामुकः ॥२८॥
द्वितीयेऽथ दिने गान्धिरुपस्थायासियासभाम् ।
प्रगल्भं भापणं चक्रे सर्वोत्रमनोहरम् ॥२९॥
अयि प्राज्ञा विदेशीयगिरा यद्यपि भापणम् ।
करिष्यामि तथाप्यादौ न प्रार्थ्या खलु वः क्षमा ॥३०॥
विदितं किल सर्वेषां यदग्लिगिरमन्तरा।
दृश्यते नापरा भाषा सर्वराष्ट्रप्रसारिणी ।।३१।।
दूरासीना इतः सभ्या यदि स्युः श्रोतुमक्षमाः।
दोपभागत्र भविता यन्त्रं नादाभिवर्धकम् ॥३२॥
यथास्थितं न युप्माभिर्मारतं यवलोकितम् ।
न देशाम्यन्तरग्रामान्यूयमद्यापि संगता ॥३३॥
मद्रमोहमयीदिल्ल्यः कल्कता लवपुर्यपि ।
एताः पाश्चात्यसंस्कारर्वतन्ते परिवर्तिताः ॥३४॥
तत्ववियदेशीयः पुरासीदाफ्रिकामुवि ।
मित्रं मे स्वल्पसंख्याकलोकानां पक्षपोपकः ॥३५॥
१२९ आसियासम्मेलने गान्धिप्रवचनम् । न केवलमहं हीनपक्षस्यन्तार्गतोऽभवम् । अपि च न्यायवादी सन् मृतिमुग्वृत्तिमाश्रितः ॥३६॥ प्रथमो ह्यहमेवासं भृतकन्यायवादिनाम् । प्रायो भृतकशब्दार्थों युष्माभिरवगम्यते ॥३७॥ अथैकदाप्रवीन्मित्रं शृणु फ्रेञ्चकथामिमाम् । त्वदर्थमाङ्ग्लभाषायां मया सेयमनूदिता ॥३८॥ फ्रान्सदेशात्पुरा जग्मुः केचिद्वैज्ञानिकास्त्रयः। सत्यस्यान्वेषणार्थाय पाच्यदेशान् पृथक् पृथक् ॥३९॥ आलैराकमणात्पूर्व प्राङ्गोगल्कालतोऽपि च । तेपामेकतमोऽभ्यागात्पर्यटन्भारतावनिम् ।।४० । स च सूक्ष्मदृशाऽपश्यदुचजातिसमुद्भवान् । पुमर्मकाङ्गनालोकान्वृथा सत्यगवेपकः ॥४१॥ स किङ्कर्तव्यतामूढो ग्रामादग्रामं परिभ्रमन् । काश्चिद्मामटिकां प्राप्य जगाम क्षुल्लकोटजम् ॥४२॥ श्वपचस्य कुटीरेऽस्मिन् विदेशीयोऽवसत् सुखम् । अन्विष्यमाणसत्यं च तत्र साक्षाचकार सः ॥४३॥ द्रष्टकामा भनन्तश्चेद् भारतं निजरूपतः । श्वपाकस्य कुटीरे तद् ग्रामस्य द्रष्टुमईथ ॥ ४४ ॥ ग्रामाणां सप्त लक्षाणि तादृशां सन्ति भारते । तत्र जीवन्ति दीनानामष्टानिशच कोटयः ॥४५॥ पश्येद्यः कोऽपि युष्माकं यदि ग्रामान् यदृच्छया । स तेषां दर्शनान्नूनं मोहितो न मरिष्यति ॥ ४६ ॥ न स्वर्गीयप्रदेशास्ते यमर्जातुचित्पुरा । इदानी तु भवन्त्येते परं कचरराशयः ॥४७॥ स्वपि १३० स्वराज्य-विजयः नासीत्तेषां दशा पूर्वमीदृशीति ब्रवीम्यहम् । स्वदीर्यानुभवादेव नैतिहासिकवर्णनात् ॥४८॥ आसेतोरातुपारादि भारते पर्यटश्चिरात् । अद्राक्षं मानुषव्यक्तीराता निष्प्रभलोचनाः ।। ४९ ॥ अत्रैव भारतं दृश्यं नगरेषु न दृश्यते । अन नीचकुटीरेषु मलराशिभिरावृतः ॥ ५० ॥ दीनो धारयति प्राणान् विनीतो मलशोधकः । तन्निरूपणतो ज्ञेया दशा देशस्य वास्तवी ॥ ५१ ॥ अपरं च भयाधीता ग्रन्था आंग्लैः प्रकल्पिताः । यत्रैतिहासिकैलॊकचारित्रमुपवर्णितम् ।। ५२ ।। आंग्लैर्विनिर्मितेभ्यश्च ग्रन्थेभ्यो हि वयं चिरात् । न तु मूलप्रवन्धेभ्य इतिहासमधीमहे ॥ ५३॥ अयं भारतवर्षस्य विजयः पूर्वसंस्कृतेः । यदेपा किल पाश्चात्यहीता च प्रसारिता ॥ ५४॥ किञ्च वर्पसहस्रेभ्यः पूर्वमध्यात्मसंस्कृतिम् । ग्राच्याः पाश्चात्यलोकाय ज्ञानिनः प्रत्यपादयन् ॥ ५५ ॥ बभूव प्रथमस्तेषां झरध्रुष्टाभिधो बुधः । अन्वगात्तं च सिद्धार्थः पूतात्मा गोतमो मुनिः ।। ५६ ॥ मोझसोऽभूत्ततः किस्तोऽनन्तरं च महम्मदः । यैः सर्वः पाविताः प्राच्यभूमयः स्वस्वजन्मना ॥ ५७॥ श्रीरामकृष्णयोस्तद्वदन्येषां जानतेजसाम् । नामानि न गृहीतानि लोकेप्यल्पप्रसिद्धितः ।।५८॥ * यहदीनामधेयम्।
आसियासम्मेलने गान्धिप्रवचनम् ।
न कोऽपि भूतलेऽद्यापि समाकर्णि मया नरः ।
पूर्वोक्तः पञ्चभिस्तुल्यः प्राच्यखण्डसमुद्भवः ॥ ५९॥
स्तधर्मस्तु वैरूप्यं प्राप पाश्चात्यभूमिगः ।
इति वक्तुमहं दूये तदुत्तरधिकैरलम् ।।६०॥
नगरेपु स्वरूपेण भारतं न विलोक्यते ।
इति योधयितुं युष्मान् प्रसङ्गात्सर्वमीरितम् ।।६१।।
प्रचलन्पुरतोऽस्माकं संहारोऽस्त्यतिगर्हितः ।
भारताद्वहिरेतस्य संस्मृतिर्न तु नीयताम् ॥६२॥
संदेशः पूर्वखण्डस्य ज्ञातव्यः पृथगेव वः।
नाणुस्फोटानुकाराद्वा न वा पाश्चात्यदृष्टितः ।।६३।।
भवन्तो यदि सन्देश पाश्चात्येभ्यः प्रदित्सवः ।
प्रेमसत्यप्रधानेन तेन भाव्यं हि सर्वथा ॥६४ ।।
प्रजाधिपत्यसापेक्षे साम्प्रतं जगति स्थिते ।
रुढो भवति संदेशो दीनानामपि चेतमि ॥६५॥
वैरबुद्धिं विनिर्धूय विवेकधिपणायलात् ।
भारतं लप्स्यते पूर्ण विजयं पश्चिमोपरि ।। ६६ ।।
संदेशः पूर्वमस्मभ्यं यो दत्तः प्राच्यकोविदैः ।
समस्तैस्तदहस्यं चेदस्माभिरवम्यते ॥६७॥
यदि चानुमरिष्यामः स तत्मानमोधनाम ।
तदा भरतवर्षस्य विजयः पूर्णतामियात् ।।६८॥
आस्मारुरिजयेनते नूनं पाश्चात्यदेशनाः ।
स्वयं प्रीना भपिप्यन्तीन्यस्ति में प्रत्ययो रदः ॥६९॥
प्राज्ञवादानिमे पोतुमुन्मुकाः मन्ति माम्प्रतम ।
अम्बयप्रगुणीमावाहुप्ता हि ते म्यिताः ॥७॥
स्वराज्य-विजयः * आण्वास्त्रं तच पाश्चात्यदेशान् सर्वान्न केवलम् । समस्तधरणीं चापि क्षणादुन्मूलयेद् ध्रुवम् ॥७१ ।। तथैवं सति यः स्तवेदोक्तः प्रलयो भुवः। स एव कार्यतः सिद्धो बभूवेति वितर्कयेत् ॥७२॥ युष्यामिर्जगते वाच्यं तत्पापं तदुरात्मता । अयमेव हि नः पन्था दर्शितः पूर्वशिक्षकैः ॥ ७३ ।। इति सौ. क्षमायाः कृतिषु स्वराज्यविजये आसियासम्मेलने गान्धिप्रवचनं नाम चत्वारिंशत्तमोऽध्यायः ॥ Atom Ilornb +
..
एकचत्वारिंशोऽध्यायः
कोराणपठनाक्षेपनिरासः ।
समाप्य भाषण गान्धिः श्वपाकशिबिरं ययौ ।
यथाकालमनुष्ठातुं प्रदोपोपासनाविधिम् ॥१॥
अथ कोराणपठने प्रतिकूलमतिभृशम् ।
पतिरोढुं युवा कश्चित्सहसाभूत्समुद्यतः ।। २ ।।
निष्कासितेऽङ्गणात्सद्यः कुमारे कैश्वनानुगैः ।
मुहूर्तमकरोद्गान्धिविरामं प्रार्थनाविधेः ॥३॥
झोरास्त्रभगवद्गीता-श्रीमद्रामधुनादिषु ।
पठितेष्वब्रवीद्वान्धिः किश्चित्खिन्नमना यथा ॥४॥
हिन्दुना यत्कृतं यूना तदयोग्यं न केवलम् ।
सभानियमधर्मस्य व्यतनोच्च व्यतिक्रमम् ।।५।।
ईद प्रवर्तयेत्कृत्यमत्याहितपरम्पराम् ।
विदर्भनवखाल्यादिप्रदेशेषु यथा पुरा ॥६॥
विनिश्चितधिया तस्मात् त्यजेदुष्टविचेष्टितम् ।
कालेऽस्मिन् विषमे शान्तिं रक्षेत्राणव्ययादपि ॥७॥
श्राव श्राव विदर्भाणां घोरकृत्यपरम्पराम् ।
मुस्लिमान् प्रति दूनोऽहं लजानतशिराः स्थितः ॥८॥
वैरशुद्धिरिवेदानी तस्याः पयनदावनी।
क्षोमाग्निः पक्षयोर्मध्ये प्रज्वलत्येव घस्मरः ।। ९॥
अस्ति मित्रं सहायश्च मृत्युरथ शरीरिणाम् ।
ते हि धन्याः प्रवीरा ये कृतान्तातिथ्यमागताः॥१०॥
ये तु कृत्वापि पापिष्ठं कर्म जीवन्ति पापिनः ।
दूप्यास्ते दण्डमईन्ति सर्वज्ञात्परमेश्वरात् ॥ ११ ॥
१३४
स्वराज्य-विजयः
वृत्तिवन्यशरारूणां त्यज्यतां परहिंसनम् ।
क्रियतां हिन्दुभिः प्रीतिर्विश्वासो मुस्लिमैः पुनः ॥ १२ ॥
अन्तर्गतविरोधेन हिन्दुमुस्लिमयोमिथः ।
भारतं न किलात्मानं कलङ्कयितुमर्हति ॥ १३॥
परेद्यवि च विक्षेपो व्यधायि प्रार्थनाविधेः ।
कैश्वित्कोराणपाठस्य द्विवलोकैर्निषेधकैः॥१४॥
भवानधिकृतः केन हिन्दूनां देवमन्दिरे ।
कोराणपठनायेति पर्यपृच्छन्नमी मुनिम् ॥१५॥
(महात्मोवाच ।)
'अन्त्यजानां समाजस्य भवत्येप सुरालयः ।
न तैराक्षिप्यते कापि ममान प्रार्थनाक्रमः ॥१६॥
अस्म्यहं समजातीयः स्वैरं च मलशोधकः ।
अधिकारोऽस्ति मे तस्माद्यथेटप्रार्थनाविधौ ॥१७॥
निषेधन्तो जना नेते भवन्ति मलशोधकाः ।
भवितुं वा न चेच्छन्ति तत्किमुक्तेन भूयसा ॥१८॥
परेछुः प्रार्थनाभूमौ भक्तान् गान्धिरभापत ।
पत्रद्वारादिशत्कश्चिन्मामज्ञातचरो जनः ॥१९॥
जहीहि म्लेन्छगीतानां पाठ भो धर्मकन्युकिन् ।
नोचेनिर्गम्यतां सद्यो वाल्मीकिभवनादिति ॥२०॥
अतः पृच्छामि वः सौम्याः किमस्मिन्मेलके जनः ।
कोराणपठनाक्षेसा ग्रूत यः कोऽपि विद्यते ॥२१॥
इत्युक्ते बहवः प्रोनुः क्षणादुच्छ्रितपाणयः ।
इस्लामग्रन्यपाठो नः सर्वथा नास्ति सम्मतः ॥२२॥
माक्षेपवचनं श्रुत्वा संयमी स निराकुलः ।
प्रार्थनाविधिमुत्सृज्य मिलितानप्रवीद्यया ॥२३॥
कोराणपठनाक्षेपनिरासः । 'अयि सौम्या मयोक्तस्य पूर्वेयुः प्रार्थनोत्तरम् । कञ्चिदग्राहि युग्माभिः सत्यता चारुतापि वा ॥२४॥ वालेनापि कृताक्षेपस्त्यजामि प्रार्थनामहम् । तदेतन तु युप्माभिः कातर्यमिति मन्यताम् ॥ २५॥ हिंसायाः परिहाराय प्रार्थना त्यज्यते मया । आबाल्यावलवदुद्धा मया हिंसापिशाचिका ॥२६॥ नाहं निहन्यमानोऽपि विरमेयं कथंचन । रामस्य रहिमस्यापि दिव्यनाम्नोः प्रकीर्तनात् ॥२७॥ तयोरकीर्तयन्नाम्नी कथं स्थातु हि शकुयाम् । हिन्दुमुस्लिमयोरग्रे नवखालीविदर्मयोः ॥२८॥ न कुर्यात्कोपविद्वेपौ प्रार्थनाप्रतिरोधिषु । केवलं दयनीयास्ते क्रुद्वेपौ धर्महिंसको' ॥ २९ ॥ निर्यातुं सदनं यावन्महात्माऽभवदुयतः । जनौधे विमतस्थानां कलहस्तावदुत्थितः ॥ ३० ॥ तिष्ठन्नेबानवीगान्धिः कोपावेशो निरर्थकः । पन्चाम्नुविप्लवज्यालाशमोपाय विधीयताम् ।। ३१ ।। परेछुः प्रार्थना सायं निर्विघ्नं समवर्तत । अतः प्रीतमना गान्धिरमवीन्मिलिनान् जनान्॥३२॥ 'इमे हरिजनाः सर्वे भवन्ति प्रातरो मम । मयैवानेकशः प्रोक्तं यदस्मि मलशोधकः ।। ३३॥ मलस्य मानं धर्मो हिन्दूनामविशेषतः । न केवलं निमामानां मनमां च धियामपि ।। ३४॥
स्वराज्य-विजयः सत्यं धर्मेषु सर्वेषु हिन्दुः पश्यति सात्विकः । सारं कोराणपद्यानां सर्वधर्मेषु दृश्यते ॥३५॥ अनादिकालती वेदास्तथोपनिपदां गणः । विद्यन्ते न त्वमी ज्ञाताः साङ्गोपाङ्गतया जनैः ॥ ३६ ।। हिन्दुधर्मो महानेप तितिक्षागुणशेवधिः । सर्वार्थक-बलीकार-सामर्थ्यादैक्यसाधकः ॥३७ ।। आसीत्काचित्पुरा साध्वी धर्मनिष्ठाऽन्त्यजागना । पृच्छकं प्रत्यवादीत्सा युवानं चैकदा यथा ॥ ३८ ॥ भगवानखिलव्यापी नियन्ता मनसो नृणाम् । भाषादिनिरपेक्षोऽयं पूज्यो ।काग्रचेतसा ॥ ३९ ॥ अतः कोराणगीतीनां विरोधी नोपपद्यते । प्रतिपेधो ह्यधर्म्यः स्याद् हिन्दुधर्मानुसारिणाम् ॥ ४० ।। कृतज्ञतां वहाम्येप श्रीकोराणविरोधिषु । प्रदत्तोऽवसरस्नैहि हृदन्तःशोधनाय मे॥४१॥ यदेतान्न समाधातुमशकं तब्यचिन्तयम् । हृदये किल्वियं मे स्याद्यत्किञ्चित्तद्विरोधकम् ॥ ४२ ॥ भजनस्य रहस्यार्थमवेदिय्यन्नमी यदि । साक्षाद्दिव्योपहारं तदमस्यन्त तदा ध्रुवम् ॥४३॥ नाम्नोर्युगपदुचारं रामस्य रहिमस्य च । कुर्वाणं यदि मां हन्युनिधनं स्यान्मुदे मम ॥४४॥ सर्वमेव शुभ हि स्याकोधमत्सरवर्जनात् । कुतः पाप्माऽरवीगाचा मगवन्नामकीर्तने ॥ ४५ ॥ अज्ञातदिव्यवेदायों हिन्दुधर्म न दुपयेत् । यथेष्टं पूजयेदीशमित्यादिशति हि श्रुतिः ।। ४६ ॥
कोराणपठनाक्षेपनिरासः । सेवकः सन्महेशस्य तदादेशं विना कचित् । न पियामि न वानामि नान्यत्किञ्चित्करोमि वा ॥४७॥ जनः सम्यक्त्तरां विद्यात्कालेन मदनुष्ठितम् । तावत्करोमि कर्तव्यमीश्वरप्रेरणा यथा'॥४८॥ इति सौ. क्षमायाः कृतिपु स्वराज्यविजये कोराण-पठनाक्षेप- निरासो नाम एकचत्वारिंशतमोऽध्यायः ।।
-
दाचत्वारिंशोऽध्यायः
राम-रहीमसाम्यनिदर्शनम् ।
पञ्चमेऽथ दिने नासीत् प्रदोपप्रार्थनाङ्गणे ।
प्रार्थनारीतिमुद्दिश्य कश्चिदन्यो वितण्डकः ॥१॥
प्रार्थनादिवसे पष्ठे कीर्तनञ्च व्यधीयत ।
रामस्य रहिमस्यापि कृष्णस्य करिमस्य च ॥२॥
तथा च रामधुन्गीतं रमणीयमगीयत ।
प्रीतचेता मुनिस्तस्मात्तदुद्दिश्याबवीत्तदा ॥३॥
श्रावं श्रावमिदं रामधुन्गीतं सुमनोहरम् ।
नवखाल्याः शुमालोकं प्रत्यक्षीकृतवानहम् ॥४॥
अगीयत हि तत्रैतद्भजनं प्रार्थनाङ्गणे ।
ग्रामाग्राममटश्थापि जगौ रामधुनं जनः ॥५॥
अद्यानुष्ठीयते देशे प्रजाभी राष्ट्रियोत्सवः ।
यज्ञियैस्तन्तुनिर्माणैरुपवासैश्च पूजनैः ॥ ६ ॥
रामस्य रहिमस्यापि नामनी प्रार्थनोत्तरम् ।
हृदये चेन्निरूढे वस्तदेतत्परमं शुभम् ॥७॥
केचिनिन्दन्ति मां लोका भारतच्छेदकारणात् ।
अनवाप्योत्तरं मतो दृतं मां मन्वतेऽपरे ॥८॥
चारुपश्चनदे क्षोभवह्निना प्रज्वलत्यपि ।
सुस्थितोऽस्यत्र देहत्यामित्यन्ये चाऽऽक्षिपन्ति माम् ॥ ९॥
पञ्चाम्बुविपयस्थानां नेत्रवारि मिमार्जिपुः ।
मित्रैराहूतमात्रोऽहं तत्र यास्यामि निश्चितम् ।।१०।।
महामारतकाव्ये प्रारु कवीन्द्रेण हि वर्णितम् ।
कुरुपाण्डवयोर्युद्धमन्योन्यक्रोधहेतुकम् ॥११॥
कोराणपटनाक्षेपनिरासः । आहवे तुमुलं तस्मिन्नवसानमुपागते । अवाशिष्यन्त सप्तैय वक्तुं घोरकथां भुवि ॥१२॥ हिन्दुमुस्लिमसिक्केषु जिघांसुपु परस्परम् । महाभारतयुद्धेन तुल्यो भाति च विप्लवः ॥ १३॥ मृत्योरपरिहार्यत्वं स्मरन्तः सर्वदेहिनाम् । नियन्ते यद्यमी कुर्युहिन्दुस्थान हि नूतनम् ॥१४॥ सूक्तिरत्नानि हि प्राहुर्गीताध्याये द्वितीयके । यथा सत्पुरुषो जीवेद्यानि कर्माणि चाचरेत् ॥ १५ ॥ उपदेशं च गीतायाः पठित्वा परिशीलयेत् । अवगत्य च तत्सारं दृढं चेतसि धारयेत् ।।१६।। ततो वेद्यं भवेत्प्राप्तुं स्वातन्त्र्यं पात्रतास्ति नः । संप्राप्य रक्षितु तच्च प्रभवेम न वेत्यापि ॥१७॥ इति सौ. क्षमायाः कृतिषु स्वराज्यविजये रामरहीमसाम्यनिदर्शनं नाम द्वाचत्वारिंशोऽध्यायः॥
त्रयश्चत्वारिंशोऽध्यायः महात्मानुशासनम् । अथैकदामवीद्गान्धिः पार्थनोत्तरभाषणे । देशच्छेदोद्भवान् कांश्चिद् भाव्यनर्थान् वितर्कयन् ॥१॥ " देशद्वारमनुप्राप्ता साम्प्रतं नः स्वतन्त्रता । तथापि स्थितवान् लोकः सर्वथोत्साहवर्जितः ॥२॥ देशस्य खण्डनं मन्ये तन्मनोहतिकारणम् । तेन राष्ट्रद्वयं हि स्यात्पृथक्सैन्यसमुद्यतम् ॥३॥ सेनाविभजने यत्ना दृश्यन्ते किल सर्वतः । सामान्या देशरक्षायै न स्यात्सेनेति निश्चितम् ॥४॥ सैन्यमन्योन्यहत्यायै वृथा तत्पोषणव्ययः । उत्कर्पः पुरुषार्थों वा को भवेद्देशखण्डनात् ॥ ५ ॥ सति लोके निरानन्दे भारतस्य स्वतन्त्रता । किमपेक्ष्या चिराभीष्टप्रियार्थत्यागसिद्धये ॥ ६ ॥ त्रिंशत्संवत्सरस्थायिस्वातन्त्र्याहवनाटके । एप मुख्यनटो भूत्वा करोम्यन्तर्गवेपणम् ॥ ७॥ अत्युदार इति ख्यातः पूर्णस्वातन्त्र्यसंगरः । किं नु पर्यवसानेऽयं जायतामयशस्करः ॥ ८॥ इत्युक्त्वा न्यगदद्भूयः श्रौतमार्पमिदं वचः । तमसो नय देवास्मान् परं ज्योतिः प्रसीद नः ॥ ९॥ ततो मासद्वयं श्रीमान् गान्धिश्चके गतागतम् । विदर्भपाटलीपुत्रनवखालीपुरादियु ॥ १० ॥ क्षोमाग्नेर्दामानेम्यः सर्वतो दारुणार्चिभिः । विदर्मवंगदेशेभ्यो नैच्छद्गन्तुं यहिमुनिः ॥११॥ अभ्यर्थितोऽपि विधान्तिचिकित्सालयसेवकः । थाहानमुरलीपञ्चगणयोः स निराकरोत् ।। १२ ॥
१४६ महात्मानुशासनम् । अथ वैशाखमासान्ते कल्कत्तानगरे वसन् । श्रीमता नेहरुणाहूतः पुनदिल्ली समासदत् ॥ १३॥ वल्लभायैस्तदा नेहर्यवसन् मसुरीगिरौ । सेवमानोऽल्पविश्रान्ति मन्दशीतानिलाञ्चिते ॥ १४ ॥ ग्रीष्मचण्डोष्मणा तप्तां दिल्ली तात त्यजाधुना । एहि तावदिमं शैलमिति नेहाचते स्म तम् ॥ १५ ॥ न यावत्पक्षयोर्मध्ये सौहार्दमुदितं पुनः । न तावदुत्सहे वत्स सेवाक्षेत्रान्निवर्तितुम् ।। १६ ॥ न त्यजन्ति मिथो यावद्विद्वेपं हिन्दुमुस्लिमाः। चिन्तयिष्ये न विश्रान्ति तावदित्यत्रवीद्यतिः ॥१७॥ प्रत्यहं वृद्धिमायान्ती विप्लवानेः प्रचण्डता । मुनेः शान्तिप्रियस्यासीद्वलान्मर्मनिकृन्तनी ॥१८॥ निजस्वास्थ्यमनात्य जनानातीन् सिपेविषुः । अमाशो निजगादेत्थं कचिन्मित्रं प्रशान्तधीः ।।१९।। भस्मीकृतोऽस्मि यन्नाई ज्वालाभिर्वेष्टितोऽपि सन् । किमीशस्य प्रसादोऽयमथवषा विडम्बना ॥२०॥ अद्यत्वे भारते हन्त स्थान मे न हि विद्यते । पचविंशं शतं वर्पाण्युत्सहे नैव जीवितुम् ।। २१ ॥ जीवेयं वत्सरी प्रायो नाधिकं किल कामये । मारते विप्लवग्रस्ते कथं वा प्रियतां वपुः ॥ २२ ॥ अधुना च्याप्ते देशे संग्रामायुधनिर्मिती । का गतिमिशिल्पानामहिंसाचिदरक्षिणाम् ।। २३ ॥ इति सौ. क्षमायाः कृतिषु स्वराज्यविनये महात्मानुशासन नाम त्रिचत्वारिंशोऽध्यायः ।।
चतुश्चत्वारिंशोऽध्यायः गान्धेरनुशासनम् । क्षणेऽस्मिन् पाटलीपुत्रे विप्लवः पुनरुत्थितः। दुःखान् सेवितुं तत्र ययौ गान्धिश्च सत्वरम् ॥ १॥ प्रान्तीयमन्त्रिणा साकं ग्रामादग्रामं परिभ्रमन् । विध्वंसविकृतीक्ष्यि व्यथितात्माऽभवद्भशम् ॥ २॥ अनुशिष्य जनानानिहिंसामेव रक्षितुम् । विश्रान्त्यै पाटलीपुत्रं प्रत्यगात्सोमवासरे ॥३॥ मौनव्रतदिने तस्मिन् प्रार्थनामेलने मुनिः। लेखेनाकथयत्स्पष्टमानुशासनिकं वचः॥४॥ अस्त्येतदुष्कृतां राज्यं परिवेवेष्टि यच्च नः । प्रतिरोद्धं तदेवाद्य चिन्तयेऽहं दिवानिशम् ॥ ५॥ शोचनीयदशा सेयं न परं भारतेऽधुना। जगत्यामखिलायां च रूढमूलाऽवतिष्ठते ॥६॥ सर्व नः सम्यगस्तीति मन्यन्ते यदि हिन्दवः । तदा नूनममी भ्रान्ताः कुर्वन्त्यात्मप्रतारणाम् ॥७॥ हिन्दुधर्मे परां श्रद्धां वहन्नेप प्रवीम्यहम् । यद्वयं हास्यतां यामस्तादृशैमूर्खचिन्तनैः ॥ ८॥ परैराकान्तराज्यस्य पुनः स्वीकरणोद्यमे । न खलु स्वैरवृत्तानां दुप्कृतिः स्यादुपक्रमः ॥९॥ भगवत्प्रार्थनाभूमौ कृतं यत्प्रतिपन्धनम् । तदेव स्वैरवृत्तानां दुष्कृतेः पूर्वसूचनम् ॥१०॥ प्रोक्तं दुष्कर्मणां मूलं परधर्मासहिष्णुता । जायन्ते व्याधयः सर्वे पहनर्यकरास्ततः ।।११।।
गान्धेरनुशासनम् । १४३ हिन्दवो मुस्लिमाश्चापि विमृशन्तु मनीपया। समक्षमेव यत्सर्व प्रचलत्यत्र सर्वतः ॥१२॥ स्वातन्त्र्याप्तेः पुरैवैतद्विनाशोपायशिक्षणम् । अस्माभिः क्रियते स्मेति मा वोचन्वंशजा इतः ॥ १३ ॥ आशासेऽध्यापकाः सर्वे विमुक्ताः परशासकैः। स्वधर्ममभिरक्षेयुर्निजप्राणव्ययादपि ।।१४ ।। दिष्टथा तेऽधिकृता यूनां शुभसंस्कारकल्पने । धामुत्पादयेयुस्ते प्रवृत्तिं तेषु सर्वथा ॥ १५॥ इति सौ. क्षमायाः कृतिषु स्वराज्यविजये गान्धेरनुशासनं नाम चतुश्चत्वारिंशत्तमोऽध्यायः॥
लोकसान्त्वनम् । " ध्यायं ध्यायं स्वदेशस्य महात्मा भाविखण्डनम् । शक्षितात्याहित वक्ति दैनिकप्रार्थनोत्तरम् ।। १२ ।। अयि भोः श्रूयतां तावदचो मे बुद्धिपूर्वकम् । अनुशास्मि स्वदेशस्य प्रजानामेव शर्मणे ॥१३॥ कृच्छ्रे गत्यन्तरामावात्स्वीकृतो राष्ट्रनायकैः । भारतस्याङ्गविच्छेदः सम्राटतन्त्रेण निश्चितः ॥१४॥ राष्ट्रसङ्घाय न द्रुद्देशजस्तस्य कारणात् । यद् दैवादनिवार्य तत्परिहर्तुं न शक्यते ।।१५।। हठाद्धि राष्ट्रसंघस्ता प्रापितोऽभूत्परिस्थितिम् । इत्यस्माभिर्न विस्मयं तदधर्मोऽस्य निन्दनम् ॥१६॥ लघूकर्तु भवत्केशं फलितार्थ ब्रवीमि वः । हिन्दुमुस्लिमसिक्कानां न कस्यापि क्षतिस्ततः ॥१७॥ राज्ञः प्रतिनिधिर्यद्यत्कृतवानिह तत्पुनः । जनैरन्योन्यसंमत्या शक्येत कर्तुमन्यथा ॥ १८ ॥ पक्षयोरुभयोर्मध्ये कृतसन्धानसाहसः । सम्राट्यतिनिधिषीमानभिनन्दनमर्हति ॥ १९ ॥ विफलीभूतयत्नोऽसौ सौंपायथमैरपि । निश्चिकाय तदेव स्यादनुकूलं विधानकम् ॥२०॥ भनायकत्वादोन भारत न करक्षा । प्रयत्नानकरोत्सर्वानीदृशान्राजवल्लमः ॥२१॥ श्रीलमद्यानुनेष्यामि जिन्नं सिद्धमनोरथम् ! अन्यपक्षान् समाहातुं तथा राष्ट्रसमासदः ।। २२।। यथा सर्व समालोच्य विनैवाझ्लनियन्त्रणाम् । कल्पयिष्यामहे नूनं राज्यमारकर्म स्वतः ॥ २३ ॥ म्द चि..
स्वराज्य-विजयः कालक्रमेण भूयोऽपि विभागौ द्वावपि स्वयम् । आशासे भारतस्येमौ संयुक्तौ संभविष्यतः ॥२४॥ हिन्दूनामाधिपत्यं स्याद्वारते न चिरादिति । विशङ्कन्ते प्रमादेन हन्त मुस्लिमसांधिकाः ॥२५॥ ये जना अन संजाताः पोपिताः शिक्षितास्तथा । जन्मभूमिरियं तेषां सर्वेषां भारतावनिः ॥२६॥ न किं पञ्चनदः सिकहिन्दुक्रिस्तानुयायिनाम् । यहूदिपारसीकानां जन्मभूः स्वनिवासिनाम्" ॥२७॥ इति सौ. क्षमायाः कृतिपु स्वराज्यविजये लोकसांत्वनं नाम पश्चचत्वारिंशोऽध्यायः ॥ ~~ पट्चत्वारिंशोऽध्यायः देशखंडनम् । आसीन्महात्मनो यस्मात्परेधुमौनवासरः । तस्मादपाठि तल्लेखः सायं सदसि तद्यथा ॥१॥ "स्वीकृतं राष्ट्रसङ्घन हन्त देशस्य खण्डनम् । तदेतन्न मया रुद्धमत्र वक्ष्येऽद्य कारणम् ॥ २॥ ज्ञात्वा प्रतिनिधिद्वारा भूयिष्ठानामसंमतिम् । प्रातिकूल्यमहं देशविच्छेदे प्रागधोपयम् ॥३॥ दृश्यते त्वद्य विच्छेदे संमतिः सार्वलौकिकी । नोत्सहे स्वमतं तस्माल्लोकान् ग्राहयितुं हठात् ॥४॥ जयेदसत्यं सत्येन तथा हिंसामहिंसया ! अक्षमा क्षमयोष्णं च शीतेनेत्यनुशासनम् ।।५।। यदब्दै स्त्रिंशताभ्यस्त देशजैस्तद्धि विस्मृतम् । इदानी ते निजच्छायामपि दृष्ट्वा विशक्षिताः ॥६॥ अग्रणीस्त्वं भवास्माकं भारतच्छेदरोधने । इति मामवदन् केचित्कारणान्तरमाश्रिताः ॥ ७॥ मूलतो मद्विभिन्नस्तैरहं सङ्गमवर्जयम् । तेजस्तिमिरवप्रेमद्वैपो नैकत्र तिष्ठतः ॥८॥ अथामेरिकदेशीयस्तरकाले कोऽपि नाविकः । संदिक्षुर्महात्मानं चाण्डालशिविरं ययौ ॥९॥ स च हस्ताक्षरं गान्धेजिघृक्षः प्रार्थनोत्तरम् । उपेत्य पुस्तिकापाणिस्तं ययाचे कुतूहली ॥१०॥ अग्रवीत्सोपहासं श्रीगान्धिरागन्तुकं तदा । विंशत्या मद्र मुद्राणां तदेतत्केतुमर्हसि ॥ ११ ॥ " स्वराज्य-विजयः कृते हरिजनस्याई संजिघृक्षुर्धनं सदा । सर्वहस्ताक्षरार्थिभ्यो विक्रीणेऽहं वणिक्क्रियः ॥ १२ ॥ निशम्य वचनं तस्य विदेशीयः स्मिताननः । उद्धृत्य कोशतो द्रव्यमर्पयन्मुनयेऽब्रवीत् ॥१३॥ धनं मे केवलं देहि यातुं मोहमयों पुरीम् । महात्मन्नवशिष्टं ते विनियोगाय कल्पताम् ॥ १४ ॥ रूप्यकान् गणयित्वाथ तेम्यः पञ्चदशाग्रहीत् । प्रत्यदादवशिष्टं च तरुणाय धनं मुनिः ॥१५॥ गान्धेर्हस्ताक्षरं लब्ध्वा युवा प्रमुदितान्तरः । निर्ययौ देशजेभ्यस्तत्प्रदर्शयितुमुत्सुकः ॥१६॥ इति सौ. क्षमायाः कृतिषु स्वराज्यविजये देशखण्डनात्मकः पटचत्वारिंशोऽध्यायः ।
सप्तचत्वारिंशोऽध्यायः
काश्मीरप्रस्थानम् ।
सप्ताहानन्तरं गान्धिरवादीप्रार्थनोत्तरम् ।
"स्थेयं मया विदर्भेषु नवखालीपुरेऽथवा ॥१॥
विप्लवेऽस्मिन्नतिक्लिष्टान् तत्तद्देशनिवासिनः ।
सेवितुं वाऽथवा मर्तु प्रतिज्ञाऽद्य कृता मया ॥२॥
नवखाली द्रुतं यातुं भूयादवसरो मम ।
इत्येवं परमात्मानं प्रार्थये टेकनिष्ठया ॥३॥
चह्निकुण्डेऽप्यवस्थाय भुपोऽनृत्यद्यथा पुरा ।
प्रभवेयं तथैवाहं सन्तप्ते तत्र नर्तितुम्" ॥४॥
धनक्षेत्रादि सर्वस्वसमभागित्ववादिनरम् ।
सभामथ समुद्दिश्य प्रोक्तवानेकदा मुनिः ॥५॥
सर्वशस्समसत्तेति पदं श्रोत्रमनोहरम् ।
जगत्यां हि समाः सर्वे नोचः कोऽपि न चावरः ॥६॥
शरीरशिखरस्थित्या नास्ति प्रोचतरं शिरः ।
न वा पादतले हीनतरे भूमितलस्पृशी ॥७॥
शरीरस्य यथाङ्गानि भजन्ति समतां मिधः ।
तथा सामाजिकाः सर्वे समाना निर्विशेषतः ॥८॥
समसत्ताप्रसझेऽस्मिन् धर्मद्रतं न विद्यते ।
सार्वलोकिकमेकत्वं सप्टमस्मात्प्रहश्यते ॥९॥
अहिंसासत्यधर्माम्यां यदा पूतप्रवृत्तयः ।
अवाप्स्यन्ति तदा सिद्धिं सममागित्वकाक्षिण:"॥१० ।।
अयासी ज्येष्ठमासान्ते यया दिलीपुरामुनिः ।
चिरात्प्रतीक्ष्यमागः श्रीनगरं काश्मिरावनी ॥११॥
स्वराज्य-विजयः नगरे तत्र सोऽवादीत्साक्षादिन्द्रपुरोपमे। नरेन्द्रप्रमुखान् लोकान् तथा राष्ट्रसभासदः॥१२॥ न चिराज्जम्मुकश्मीरौ भगवत्कृपयोभयौ। सम्पूर्णमधिगन्तारौ स्वातन्त्र्यं चिरकासितम् ॥ १३ ॥ अचिरस्थायिनी सेयं भविष्यति दशा यतः । पाकिस्थानेन तौ देशौ संयोज्यौ भारतेन वा ॥ १४ ॥ साहाय्यं वः सदा कर्ता राष्ट्रसङ्घ इति प्रजाः । समाश्वास्य ययौ गान्धिः कश्मीरनगरोत्तमात् ॥१५॥ कल्कत्तानगरं प्राप्तस्तृतीयेऽहनि सानुगः । अग्रहीद्वसर्ति श्रीमांस्तत्र सिद्धपुराश्रमे ॥१६॥ पुरे प्रावर्तत क्षोमो मुनिस्तदकरोन्मतिम् । निर्गम नगरात्किञ्चिद्विलंवयितुमात्मनः ॥१७॥ दर्श दर्श स विध्वंसं विहितं हिन्दुभिर्मुनिः। श्रावं.श्रावं च दुर्वार्ताम्रपानतमुखोऽभवत् ॥१८॥ इति सौ. क्षमायाः कृतिपु स्वराज्यविजये काश्मीरप्रस्थानं ना सप्तचत्वारिंशोऽध्यायः ॥
अष्टचत्वारिंशोऽध्यायः
स्वराज्यलाभः ।
अथाब्दस्याप्टमे मासि शुभे पञ्चदशेऽहनि ।
पूर्णस्वराज्यमार्तण्डः समुदैदारताम्बरे ॥१॥
देशाङ्गच्छेदतो राष्ट्रयुगलं समजायत ।
पाकिस्थानाभिचं ह्येकमन्यत्संयुक्तभारतम् ॥ २॥
सिंधुपश्चिमपश्चाम्बुप्राच्यवंगीयभूमयः ।
पश्चिमोत्तरदेशश्च पाकिस्थाने निवेशिताः॥३॥
अवशिष्टं विहायतान् विशालावनिमण्डलम् ।
अवतस्थे यथापूर्व विपयो भारताङ्कितः ।।४।।
मङ्गले सर्वतस्तस्मिन् स्वातन्त्र्यप्राप्तिवासरे।
आसेतोरातुपारादि व्यजृम्भन्त महोत्सवाः ।।५।।
दिल्लीमोहमयीमद्रकल्कत्तानगरादिषु ।
गेहे गेहे त्रिवर्णोऽभूद्राष्ट्रकेतुः समुच्छ्रितः ॥६॥
कार्यालयाश्च हाणि दीनानां मन्दिराणि च ।
दीपोज्वलान्यमासन्त दीपावल्युत्सवे यथा ॥ ७॥
नगरे नगरे ग्रामे ग्रामे च दिवसत्रयम् ।
स्वराज्यस्य महो देशे चलति स्म सवैभवम् ॥८॥
स्त्रीपुमर्मकवृन्दानि पर्याटुः शतशो निशि ।
राजमार्गाल्परप्यासु द्रष्टुं दीपमहोत्सवम् ॥९॥
युवकाच समारूढा यन्त्रयानमकृतम् ।
उदीरयन्तः सञ्चरुः स्वातन्त्रस्य जयध्वनिम् ॥१०॥
वितेनुर्जयघोपं च भूयो भूयो महात्मनः ।
वन्दे मातरमित्यादि राष्ट्रगीतं जगुः परे ॥११॥
स्वराज्य-विजयः
हर्पोत्साहपराकाष्ठां प्राप्य चेलुः सहस्रशः ।
पद्धयामेव जनाः स्वैर विमुक्ता दास्यशृङ्खलात् ॥ १२ ॥
देशच्छेदात्समुद्भूता तेषां या प्राग्विषण्णता।
निमग्ना निखिलाप्येपा स्वातन्त्र्यानन्दसागरे ॥१३॥
अथ गान्धिनिराहारोऽनैपीत्स्वातन्त्र्यवासरम् ।
सूत्र निर्माणयज्ञेनाभ्यर्चयन् परमेश्वरम् ॥ १४ ।।
ईदनामनि दिष्टयान मुस्लिमानां महोत्सवे ।
पूर्ववत्पुरि संयुक्ताः सस्नेहं हिन्दुमुस्लिमाः ॥१५॥
कल्कत्तानगरे तावत्प्रायतन्त महाजनाः ।
पक्षयोर्घन्धुवात्सल्यं संवर्धयितुमुत्सुकाः ॥१६॥
अथ मौनदिने किञ्चिद्वृत्तमुद्दिश्य संयमी ।
गुर्वर्थगर्भित लेखं प्राकाश्यमनयद्यथा ॥१७॥
दूये यद्गतरात्रौ मे मन्दिराङ्गणमाययुः ।
वहन्तस्तरुणाः केचित्पुरुपं मुस्लिमैः क्षतम् ॥ १८॥
समुद्घाटयितुं द्वारं यतमानेपु केपुचित् ।
आह्वयत्सु च मां तारं निर्घोपोऽभ्यधिकोऽभवत् ॥१९॥
प्रबुद्धः सहसा गेहदेहली गतवानहम् ।
अयते च मुधैवैताननुनेतुं कुमारकान् ।। २० ।।
वातायनकपाटानाममी काचानचूर्णयन् ।
शिलां मय्यक्षिकां पार्थ सात्वताडयत् ॥२१॥
रक्षकैन चिरायूनां वृन्दमेतनियन्त्रितम् ।
क्षण जोपमवस्याय निर्जगाम गृहाङ्गणात् ।। २२ ।।
नवसालीप्रयाणस्य चिन्ता दूरीयता मया ।
आहूतयास्मि पाश्चात्यपचाम्युक्षितियासिभिः ॥२३॥
स्वराज्यलाभः। वनेषु श्रूयते भूयो विप्लवस्य समुद्भवः । वृत्तमेतद्भवेत्प्रायोऽतिशयोक्तिकलङ्कितम् ॥ २४ ॥ दीयमानमतः पो रैरभयं प्रतिपालये। आशासे न पुरी भूयो विनाशपथमाश्रयेत् ॥ २५ ॥ यन्न साधयितुं शक्यमसकृद्धोधनैरपि । तदेतदुपवासो मे साधयेदिति तर्कये ॥२६॥ उपोषणमहं रात्रावारभेऽद्याटवादने । धारयिष्ये मतं चैतदाप्रशान्तिफलोदयम् ॥ २७॥ अथ द्विनदिनैरेव विप्लवः शमितोऽभवत् । सुहृद्भिरनुनीतः सन् जहौ गान्धिरुपोपणम् ॥ २८॥ उपवासव्रतत्यागात्पूर्व तानबवीन्मुनिः । "उद्भवेञ्चेत् पुनः क्षोमः सज्जोऽस्मि प्रायमासितुम् ।। २९ ।। आलस्याद्रक्षितु पौरान सजनान् शान्तिवत्सलाम् । प्रोत्साहयितुमप्येतान् धृतमासीद् व्रतं मया ॥३०॥ क्षोमः पञ्चाम्पुदेशेऽय वर्धमानो दिने दिने। समासाद्य परां काष्ठां प्रत्यभाप्रलयोपमः ।। ३१ ।। तनाल्पतरसंख्याकजनानां दारुणव्यथाम् ! स्फुटं वर्णयितुं शक्तिर्न स्यादादिकवेरपि ॥ ३२ ॥ तेपां क्षेनरिनाशेन सर्वस्वनिलयादपि । लक्षोपलक्षसन्ताना निर्धनत्वमुपागताः ॥ ३३ ॥ एकयर निशीथिन्या मृताः फिल सहस्रशः । हिन्दवः सिक्लोफाथ ममा पुनयान्धनाः ॥ ३४ ॥ गेदामरणयानानि त्यक्त्वा श्रीला: पलापिताः । स्वदेहानाहुतीचमुर्दाना पिष्टयपावके ।। ३५॥
१५४
स्वराज्य-विजयः
अन्ये निर्वासिता मार्गे शेरते स्म च लक्षशः ।
समाह्वानं कृतान्तेन शङ्कमानाः प्रतिक्षणम् ॥ ३६ ।।
असंख्यजनसंदोहस्त्यक्त्वा स्वस्वजनुर्भुवम् ।
वज्राज पादचारेण दिल्लीमभि शनैःशनैः ॥ ३७॥
आसीकोशायता श्रेणिस्तेपामध्वनि सर्पताम् ।
यमक्षेत्रं प्रतिष्ठासुर्या त्रिकाणां चमूरिव ॥ ३८ ॥
तत्रासन् क्षेत्रसम्पन्नाः कृपिकाः श्रमजीविनः ।
शिल्पिनो भिक्षुकाश्चापि सर्वेऽपि शरणार्थिनः ।। ३९ ॥
विमानेनाथवा धूमयानेन सकुटुम्बकाः ।
प्रागेव स्वेच्छया जग्मुः श्रीलाः संयुक्तभारतम् ॥ ४० ।।
पुरा पंजाबदेशस्य भोगभूमिर्वभूव या ।
सेयं लवपुरीदानी ददृशे प्रेतभूरिव ॥ ४१ ।।
कौशेयाभरणानां च सुगन्धद्रव्यसम्पदाम् ।
आमोदिकुसुमानामप्यापणाः पिहिताः स्थिताः ॥ ४२ ।।
कार्यालयास्तथा पानगृहाणि च महापथे ।
लुण्ठिताशेषवस्तूनि पिहितान्यवतस्थिरे ॥ ४३ ॥
मुक्त्वा संग्रामयानानि तथा च पुररक्षिणः ।
प्रायशो राजमार्गोऽत्र जनशून्य इवाभवत् ॥ ४४ ॥
योऽवशिष्टोऽभवलोकः संविग्नो मुस्लिमेतरः ।
उत्पश्यन्नम्यवस्कन्द स चकम्प प्रतिक्षणम् ॥४५॥
यथा यथाऽऽपलायन्त लक्षशः सिक्कहिन्दवः ।
तथा तथाऽगमन्नानादिग्भ्योऽन्ये शरणार्थिनः ॥४६॥
श्रूयते च हताः शेखपुरे लोकाः सहस्रशः।
रक्षकैर्गुलिकारनेण द्वियरेव दिनैरिति ॥४७॥
स्वराज्यलाभः। पुरेभ्यो झङ्गचिन्योतप्रभृतिभ्यस्तथा कथाः । श्रोतुं भयानका पयः समायाताः प्रतिक्षणम् ॥४८॥ अल्पसंख्याकलोकानां शोणिताप्रतवर्मणाम् । साहाय्यप्रार्थना सर्घिकृता पुररक्षिभिः ॥ ४९ ।। पर्याप्तवाहनामावादासीदत्यन्तदुष्करम् । प्रेपणं सिक्कहिन्दूनां प्रान्त्यं जनपदान्तरम् ॥ ५० ॥ पूर्वपश्चिमभागाभ्यां यत्तु पञ्चाम्थुखण्डनम् । तेनासन्राजकार्याणि विपर्यस्तानि सर्वशः ॥ ५१ ॥ इति सौ. क्षमायाः कृतिषु स्वराज्यविजये स्वराज्यलाभो नाम अष्टचत्वारिंशत्तमोऽध्यायः ।।
नवचत्वारिंशोऽध्यायः
दिल्लीविप्लवः ।
अथ प्रस्थानतः पूर्व कल्कत्तानगरान्मुनेः ।
आसीदिलीपुरी ग्रस्ता सर्वतो विप्लवामिना ॥१॥
दाहहत्याबलात्कारगेहलुण्ठनपूर्वकात् ।
भाविनोऽत्याहिताल्लोकः कम्पते स्म प्रतिक्षणम् ॥ २॥
मुलिमाः पुरवास्तव्याः प्रत्यहं शतशो हताः ।
बभूवुश्च ततः शेषाः कान्दिशीकाः सहस्रशः ॥३॥
यदा तु विप्लवावेगः परां कोटिमुपास्पृशत् ।
तदा स्वस्वगृहाल्लोका निर्गन्तुमपि तनसुः ॥४॥
सार्वलौकिकयानानि यान्यधावन् पुरा पुरे ।
दृक्पथातानि नष्टानि मुस्लिमैः स्वामिमिनिजैः ॥ ५॥
स्वामिनोऽश्वरथानां ये न दिल्ली परितत्यजुः ।
नष्टास्ते वाहनैः सर्वे यानशून्या पुरी स्थिता ॥ ६ ॥
मुस्लिमेयु विनऐपु कौटिकेष्वखिलेष्वपि ।
मासिकव्यवहारोऽत्र विपण्यां विरतिं गतः ॥ ७॥
गेहक्षेत्राणि संत्यज्य विसृष्टस्वस्ववृत्तयः ।
शाकविक्रयिणस्वस्ता मुस्लिमेभ्यः पलायिताः ॥ ८ ॥
दुग्धविकयिणश्चापि प्रायशो हिन्दवोऽखिलाः ।
स्वग्रामान् गोनः सार्ध साध्वसावजु तम् ॥ ९॥
अय कैश्चन सप्ताहैः पुनर्दिलीमुपागतम् ।
महात्मानं जनाः प्रोचुः शोचनीयां पुरीदशाम् ॥ १० ॥
शरणार्थिभिराकान्ते वाल्मीकिशिविरेऽखिले।
बिरलामन्दिरे रम्ये स्थेयमासीन्महात्मना ॥ ११ ॥
दिल्लीचिप्लयः। आरम्यागमनादिल्लीमशृणोत्स दिवानिशम् । विप्लवस्य यहूदन्तानतिथीभत्सदारुणान् ॥१२॥ क्रियतां नियतां वेति कार्यपंक्तिमनुस्मरन् । आक्षोमप्रशमं दिल्लयामेव वासमरोचत ।। १३ अथ तत्रोपितो नित्यं शिविराच्छिविरं ययौ। वासिता यत्र पञ्चाम्बुदेशीयाः शरणार्थिनः ॥१४॥ अनुकम्पाकुलः सर्वमृदुवार व्याहरन्मुनिः । अत्युदारगिराऽकापीद् व्यथितानां च सान्त्वनम् ॥१५॥ एकदासी कुरुक्षेने शिविरं शरणार्थिनाम् । समाश्वासयितु सौम्यवचसाऽऽर्तजनान् ययौ ॥१६॥ मालिन्य वर्णनातीतं दृष्ट्वावाऽभूज्जुगुप्सितः । किन्तु गत्यन्तराभावादसौ निर्वचनः स्थितः ॥ १७॥ शिविरस्याधिकारी चेदभविष्य यदृच्छया । धृत्वा खनिनशोधन्यौ पर्यमाक्ष्य मुदा स्थलम् ।। १८ ॥ यावत्पूर्ण विशुद्धिं तत्प्रतिपद्येत सर्वतः । इत्येवं स विशुद्धात्मा निर्गमिष्यन्नचिन्तयत् ॥ १९॥ जीवनप्रदवृष्टयः पतने मधुरस्वनः । तं श्रुत्वाऽचिन्तयद्रात्रौ बहिः स्थण्डिलशायिनः ।। २० ॥ शयितोऽस्मि सुखं गेहे क्लिश्यन्ति भ्रातरो बहिः । नरस्य फरहस्तेन त्याजिताः प्रसभं गृहान् ॥ २१ ॥ स्त्रीपुमभंकसन्दोहा हढाच्छतसहस्रशः । वस्त्रहीना निराहारास्तिष्ठन्त्यद्य निराश्रयाः ॥ २२ ॥ अनिवार्य तदाऽऽसीत्किमिति चिन्तयतो मुनेः । सर्वथा नेति नेतीति हृदन्तर्दत्तमुत्तरम् ।। २३ ।।
स्वराज्य-विजयः एकचिन्तापरो रात्रौ जोषमात्मानमब्रवीत् । अहो लोकाः किमुन्मत्ताः संजाता नष्टबुद्धयः ॥ २४ ॥ विलुप्तमानुषत्वास्ते संवृत्ताः श्वापदोपमाः । यदेते न प्रमोदन्ते स्वातन्त्र्योदयवैभवात् ॥२५॥ न्यायकाही जनोऽन्यस्मात्स्वयं न्यायपरो भवेत् । न शक्यः करतालः स्यादेकेनैव हि पाणिना ॥२६॥ सर्वान्निर्वासितान् शीघं मुस्लिमान् सिक्वहिन्दवः । प्रार्थयन्तां पुनर्दिल्लीगृहानागम्यतामिति ॥२७॥ ईदृग्विश्वासकृत्येन भविष्यन्ति न केवलम् । पाकिस्थानस्य पूजार्हाः परं कृत्स्नावनेरपि ॥२८॥ रक्षितारी भवेदिल्ली भारतं च कलङ्कतः । अचिन्त्यं सर्वजातीनां स्थानान्तरनिवासनम् ॥ २९ ॥ इति सौ. क्षमायाः कृतिपु स्वराज्यविजये दिल्लीविप्लवो नाम नवचत्वारिंशोऽध्यायः ॥
पञ्चाशोऽध्यायः शरणार्थिसान्त्वनम् । अथ मालिन्यमुद्दिश्य वासानां शरणार्थिनाम् । प्रार्थनावसाने श्रीमानभ्यधागान्धिरेकदा ॥१॥ कुतः संमार्जनं सर्वः परहस्तेन काम्यते । शरणार्थी स्वयं कुर्यादात्मगेहस्य मार्जनम् ॥२॥ अस्पृश्यत्वकलरेन हिन्दुधर्मोऽस्ति पितः । सर्वः संमार्जकैर्भाव्यं तदपोहनसिद्धये ॥३॥ आरोग्य शिविराणां चेद्रक्ष्यतेऽत्र निवासिभिः । तदा रम्यतमा दिल्ली भविष्यति महापुरी ॥४॥ तुच्छमेतदनुद्योगावाप्सान्नस्य भक्षणम् । शरणार्थी ततः कुर्याद् व्यवसायं यथैप्सितम् ॥ ५॥ स भवेत्सूत्रनिर्माता तन्तुवायोऽथ सौचिकः। वर्षकिर्वाऽन्यशिल्पी वा यथाऽस्मै रोचते तथा ॥६॥ निमग्नाः किल कार्येषु विस्मरन्ति निजव्यथाम् । उद्योगिनमुपैति श्रीरुद्योगः शान्तिदायकः ॥७॥ वियदि प्रार्थयन्ते ये प्रसादं परमात्मनः । ते विपत्तिमतिक्रम्य प्राप्नुयुः शुभमात्मनः॥८॥ रोपाविष्टाः पुनः केचिक्लिश्यन्ति शरणार्थिनः । रामनाम हि जीवातुः सर्वक्लेशनिवृत्तये ॥९॥ राम एवं गतिर्नृणां परेशो हि निराकृतिः । लोकैस्तु विविधाकारो गृह्यते ध्यानसिद्धये ।।१०।। ये च रामाकृतिं द्रष्टुमिच्छन्ति परमेश्वरम् । तैरन्तईष्टिभिर्भाव्यं विहाय कलहान्मिथः ।।११।।
स्वराज्य-विजयः
"
मुस्लिमेवध वर्तन्ते शत्रुवसिक्वहिन्दवः ।
एते च मुस्लिमैर्भूयः क्लेशिता वैरशुद्धये ॥ १२ ॥
कृता देवालयाः सर्वे यवनप्रार्थनागृहाः ।
हिन्दुभिावनागारैः कारिताश्च सुरालयाः ॥१३॥
एवमन्योन्ययोधर्मः कलहादुपमर्दितः।
इत्थं कालक्रमेणोभौ नूनं धौं विनङ्ख्यतः ॥१४॥
दीपावलिदिने सायं संयमी प्रार्थनोत्तरम् ।
वभापे मिलितान्लोकानभिनन्दनपूर्वकम् ॥ १५ ॥
दिनं विक्रमवर्षादेविशिष्टत्वेन गण्यते ।
तद्रात्रौ क्रियते लोकैर्दीपावलिभिरुत्सवः॥१६॥
रामरावणयोर्युद्धं सदसदलविग्रहः ।
तत्र पूर्वः पराजिग्ये द्वितीयं क्लेशमन्तरा ॥ १७ ॥
जेत्रा च रामराज्येऽथ स्थापितेऽभून्महोत्सवः ।
रामराज्यमिदानी तु भारते न हि विद्यते ॥१८॥
निर्वत्यैत कथं तस्मादस्माभिर्विजयोत्सवः ।
स एव ह्युत्सवं कुर्याद्यस्य रामो हृदि स्थितः ॥१९॥
प्रकाशयति तच्चेतः स रामः परमेश्वरः।
तत्प्रकाशोत्सवेनासौ नन्दति प्रेमभाग्जनः॥२०॥
ये व्रजन्ति निशि द्रष्टुं प्रकाशं कृत्रिम नराः।
हृदि प्रेमप्रकाश ते दिवं रक्षन्तु सन्ततम् ॥ २१ ॥
अभिनन्दनमर्हन्ति ताध्या हि न संशयः ।
दिव्यदीपोत्सवाते स्यू रामराज्यप्रवर्तकाः ॥ २२ ॥
सोदरानिव मन्यध्वं जातिभेदनिरादराः ।
परः सहस्रलोकांस्तानत्यातीन्मन्दमागिनः ॥२३॥
शरणार्थिसान्त्वनम् । सदसद्गुणसहर्षः कविना सार्वकालिकः । रामरावणयुद्धेन सफलः सम्प्रदर्शितः ॥२४॥ निर्मयाश्च पुनयावन्नायास्यन्त्यत्र गुस्लिमाः । दीपावल्युत्सवस्तावत्सर्वथा न हि शोमते ॥ २५ ॥ न च यावत्पुनर्यान्ति स्वगृहान् सिक्खहिन्दवः । न पाकिस्थानभूस्तावत्समृद्धिमुपयास्यति ॥२६॥ इति सौ. क्षमायाः कृतिपु स्वराज्यविजये शरणार्थिसान्त्वनं नाम पञ्चाशोऽध्यायः ॥
" एकपञ्चाशोऽध्यायः अन्तिमप्रायोपवेशनम् । अथ कार्यक्रमे गान्धेर्दिल्लयां मासचतुष्टयम् । व्यतीतं नष्टसर्वस्वलोकानां सान्त्वनादिपु ॥१॥ क्रिस्तजन्मोत्सवे सायं दैनिकोपासनोत्तरम् । कैस्तधर्माश्रितान् गान्धिरभिनन्द्याब्रवीद्यथा ॥२॥ अयि भोः क्रिस्तभक्तानां दिवसोऽयं सुमङ्गलः । यथा सर्वत्र हिन्दतां दीपावलिमहोत्सवः ॥ ३ ॥ आशासे सर्वतः पृथ्व्यां क्रैस्तधर्मावलम्बिनः । सर्वात्मनानुवर्तेरन् शासनं निजसद्गुरोः" ॥४॥ आंग्लाब्दाग्रिममासस्य महात्मा द्वादशेऽहनि । अब्रवीत्संगतान्भक्तान् सखेदं प्रार्थनोत्तरम् ॥ ५ ॥ इतः पाश्चात्यपञ्चाम्बुविषयं गन्तुमुत्सुकः । अहंमागतवान् दिल्ली पूर्व मासचतुष्टयात् ॥६॥ दैवेन त्वन्यथा हन्त न्ययोजिपि किलेति में । विदितं प्राप्तमात्रस्य लोहमार्गनिवेशनम् ॥७॥ पुरानन्दप्रफुल्लासीन्नगरी या मनोरमा । साऽद्य भाति निरानन्दा पितृकाननसंनिमा ॥८॥ अथ कार्य विधास्यामि मरिष्याम्यन्यथापि वा। इति निश्चित्य पश्याम्युप्रयाणं त्यक्तवानहम् ॥ ९॥ शान्तिरापाततो भाति सैनिकरुपपादिता । द्वेपामिस्तु विलीनोऽन्तस्तिष्ठत्यौर्य इवाम्बुधी ॥ १० ॥ को जानाति कदा सोऽयं सहसैव धगद् ज्वलेत् । नाविकोऽपि सुनिष्णातो न त्योवामिसम्ममम् ॥ ११ ॥ "
१६३
अन्तिमप्रायोपवेशनम् ।
इयतैव प्रतिज्ञा मे फलितेति न मे मतिः ।
नित्यमित्रादवेन्मृत्योस्तात्विकी शान्तिरेव माम् ।। १२ ।।
चिरात्पदत्तसंज्ञोऽपि दिव्यवाचा हृदन्तरे ।
स्थितः पिहितकणीऽहमात्मदौर्बल्यशङ्कया ॥ १३ ॥
चिन्तयेदितरोपायान्पूर्व सत्याग्रहनती ।
अशस्त्रस्यान्तिमोपायो नान्यः प्रायोपवेशनात् ॥ १४ ॥
अत्रान्तरेऽस्मि दौर्बल्यचिन्तया नित्यपीडितः ।
उपवासे समारब्धे जाने सा विनिवर्तते ॥१५॥
तदेव ध्यायतस्त्रीणि दिनानि स्फुरितो हृदि ।
निर्णयः प्रायमाऽऽस्स्वेति दिव्योक्त्या सप्टमीरितः ॥ १६ ॥
हन्त मे परमानन्दमातनोति स निर्णयः ।
प्राणेभ्यो नापरं दानं महीयः शुद्धचेतसः ॥ १७॥
भूयाचित्तविशुद्धिर्मे पर्याप्ता व्रतपालने ।
इति सर्वात्मना भूयः प्रार्थये परमेश्वरम् ।। १८ ।।
भूयाच युष्मदाशीभिः सफलं मे समीहितम् ।
मत्कृते प्रार्थ्यतामीशः स्वीकृतव्रतसिद्धये ॥१९॥
अथ श्वः प्रातरारभ्य करिष्येऽहमुपोपणम् ।
भाव्य कियचिरं तेनेत्यद्यापि न हि निश्चितम् ॥ २० ॥
न, यावत्सर्वपक्षीयाः परनिर्बन्धमल्लार !
स्वयमेकीभविष्यन्ति न तावत्तत्त्यजाम्यहम् ॥ २१॥
एवं कृते गता कीर्तिर्देशस्य पुनरेष्यति ।
प्रामवं चासियाखण्डस्योपरि स्यात्प्रतिष्ठितम् ।। २२ ।।
भारते वाऽथ दिल्लयां वा कर्मण्यत्राखिलो जनः ।
अनुकूलं प्रवृत्तश्चेदुपवासोऽन्तमाप्नुयात् ॥ २३ ॥
१६४ स्वराज्य-विजयः फलं शुद्धोपवासोऽपि दत्ते कर्तव्यधर्मक्त् । केवलं तु फलप्राप्त्यै बद्धाशो न स्थितोऽस्म्यहम् ॥ २४ ।। अवश्यमेव कर्तव्यं मयैवेत्यवधार्य तत् । व्रतं गृहीतवानस्मि विकल्पः कोऽपि माऽस्तु वः ॥ २५ ॥ शान्तेन मनसा देहं त्यजेयमनुमोद्यताम् । इति बद्धाञ्जलिः सर्वान् प्रार्थये देशबान्धवान् ॥ २६ ।। विमुक्तिः स्पृहणीया सा या भवेनिधनेन मे । अन्यथाऽहं निबद्धः स्यां दुरीक्ष्यक्लेशबन्धनैः ॥ २७ ॥ तथा हि भारतस्यास्य नाशं नेक्षितुमुत्सहे। हिन्दुमुस्लिसिक्खानां धर्माणां च विशेषतः ॥ २८ ॥ पाकिस्थानं न चेत्कुर्यात्प्रजासु समदर्शिताम् । नानामताश्रितानां च प्राणवित्ताभिरक्षणम् ॥ २९ ॥ भारतं चानकुर्याचेत्तद्देशस्य व्यतिक्रमान् । भविता सर्वधर्माणामाशु नाशो न संशयः ।। ३० ।। इस्लामधर्मनाशः स्याद्भारते न तु तद्वहिः । न चास्ति हिन्दुसिक्खानां प्रचारो भारताद्वहिः ॥ ३१ ॥ ईदृग्यतधरः पुनो भारतस्याहमेककः । स्थितोऽस्मि रक्षितो दिष्टया विशुद्धदृढमानसः ॥ ३२ ॥ शुद्धिदावविहीनद्वारः स्यां केवलं भुवः । वरमाशु विनश्येयं शुद्यै देशपरिस्थितेः ॥ ३३ ॥ प्रायोपवेशनस्यास्य हेतुः शोधनमात्मनः । यजियोपोषणस्यास्य संप्राप्नोतु फलं जनः ॥ ३४॥ : इति सौ. क्षमायाः कृतिपु स्वराज्यविजये अन्तिमप्रायोपवेशनं नाम एकपञ्चाशोऽध्यायः ॥
द्वापञ्चाशोऽध्यायः
श्रीगान्धेरुपरि चम्भास्त्रक्षेपणम् ।
उपवासवत तीव्र धारयन्नपि संयमी।
प्रतिसायममापिष्ट प्रार्थनोवं यथापुरम् ॥१॥
द्विववासरपर्यन्तमलमासीद्धलं मुनेः ।
ततोऽतिमाननिस्सत्वः सन्नमन्थरवागभूत् ॥ २॥
तथापि शयितो मञ्चे नादवर्धकयन्त्रतः!
भापितुं प्रायतिष्टाल्पं मिलितान् बहिरङ्कणे ॥ ३ ॥
अथास्य देहदौर्बल्यादत्यन्तानिष्टशविनः ।
आसेतोरातुषाराद्रिं लोकाश्चिक्लिशिरे भृशम् ।। ४ ।।
अथार्चनाङ्गणे सायं लक्ष्यीकृत्य तमेकदा ।
सहसा पाक्षिपत्कश्चिद्धम्भास्त्रं मानवाधमः ॥५॥
भगवत्कृपया गान्धिर्नाभवत्तेन विक्षतः ।
शान्तेन मनसा कृत्स्ना प्रार्थनां निरवर्तयत् ॥६॥
परेधुश्च विशुद्धात्मा प्रदोषप्रार्थनोत्तरम् ।
उद्दिश्य पापिनः कृत्यमुदारां गिरमब्रवीत् ॥७॥
" बम्भास्त्रे स्फुटितेऽभ्यर्णेऽप्यहमासं निराकुलः ।
इति मामभिनन्दन्ति बहवः सुहृदो हि मे ॥८॥
प्रार्थनोत्तरमेवाहं यम्मास्त्रमिति बुद्धवान् ।
अभिलक्ष्य च मामेतत् क्षिप्तवान्कश्चिदित्यपि ॥ ९॥
भगवानेव जानाति व्यधास्यं यदहं तदा ।
यद्यस्त्रमस्फुटिष्यन्मे पुरतस्तद्विजानतः ॥१०॥
पातितोऽप्यहमस्नेण तिष्ठेयं चेत् स्मिताननः ।
क्षेप्तरि द्वेपहीनश्च तदा स्यां स्तुतिभाजनम् ॥ ११ ॥
स्वराज्य -विजयः
युवाऽसौ कापथं नीतो यम्भास्त्रक्षेपको मयि ।
तथापि प्रार्थये वः स एष मा भूत्तिरस्कृतः ॥१२॥
अस्ति शत्रुरसौ गान्धिर्हिन्दुधर्मस्य वस्तुतः ।
इति प्रायः प्रतीतो मां जिघांसुरभवधुवा ।। १३ ॥
स्वस्माद्भिन्नमतग्राही जनः सर्वोऽपि दुर्जनः ।
इत्यसौ नैव मन्येत सर्वथैव कुमारकः ॥१४॥
प्रेषितोऽस्मीश्वरेणाहं दण्डनाय दुरात्मनाम् ।
इति तावत्स्ववैशिष्टयं नाभिमन्येत कश्चन ॥१५॥
श्रूयते यत्स्थलाभावादिस्लामप्रार्थनालये।
निवासमग्रहीदेष परोक्षमधिकारिणाम् ॥१६॥
इस्लामध्यानगेहेभ्यो लोकेषु पुररक्षकैः ।
निष्कासितेपु रुष्टोऽभूत्तरुणोऽयं निराश्रयः ॥१७॥
अधयं कृतवानेप श्रित्वेस्लामनिकेतनम् ।
दोषोऽस्य द्विगुणीभूतोऽनादरादधिकारिपु ॥१८॥
कृत्ये प्रोत्साहितोऽस्मिन् यैर्युवा तान् प्रार्थये जनान् ।
अधादीदृशोद्योगारिक्षप्रमेव विरम्यताम् ॥१९॥
हन्त नाय किलोपायो हिन्दुधर्माभिरक्षणे ।
मया निर्दिष्टमार्गेण शक्यतेऽसौ हि रक्षितुम् ॥ २० ॥
अभ्यस्तहिन्दुधर्मोऽहं सर्वदा शैशवादपि ।
भीतो राम भजस्वेति प्राह धात्री पुरा हि माम् ॥ २१ ॥
काले संसर्गतः कैस्तेस्लामप्रभृतिर्मिणाम् ।
तत्तद्धर्मान्परामृश्य हिन्दुधर्मेऽस्मि सुस्थिरः ॥२२॥
यथा पाल्ये तदानीं श्रद्धाचारप्रवर्तिनम् ।
हिन्दुधर्मस्य मामीशी करिष्यत्येव रक्षकम् " ॥ २३ ॥
श्रीगान्धेरुपरि बम्भास्त्रक्षेपणम् । अथ दिल्लीपुरे दिष्टया पुनः शान्तिर्व्यराजत । व्यापृताश्च स्वकार्येषु बभूवुर्हिन्दुमुस्लिमाः ॥ २४ ॥ अदूरे नगरादासीन्महोलीनामनि स्थले । समाधिः कस्यचित्साधोः खिस्तिनाम्नः सुविश्रुतः ॥२५॥ विप्लवे स दुराचारैर्वभूवातिविरूपितः । शलाकावृतिरस्यासीद्रमणीया विनाशिता ॥२६॥ तस्य नष्टसमुद्धारं विधातुं गान्धिनार्थिताः । प्रयत्नान्महतश्चक्रू राष्ट्रसङ्घीयमन्त्रिणः ॥२७॥ प्रतस्थे स्वानुगैः सार्ध महात्मा प्रातरेकदा । पर्यवस्थापित द्रष्टुं तत्समाधिनिवेशनम् ॥ २८ ॥ तमेनं दिवसे तस्मिन्ननुजग्मुश्च मुस्लिमाः। यहवो हिन्दवश्वापि ये साधौ श्रद्धयान्विताः ॥ २९॥ नमस्कृत्यान साष्टाङ्गमिस्लामाचारमाश्रितः । प्रार्थनां मनसा चके महात्मा मन्दिराग्रतः ॥ ३०॥ हिन्दुभिलघुचेतोभिवृथाक्षेपविधायकैः । अनिन्द्यततरामेतन्निाजचरितं मुनेः ॥ ३१ ।। परमानर्थमेतेपाममर्पः क्षुद्रचेतसाम् । न चिराजनयामास धिगत्यन्तमयावहम् ।। ३२ ।। इति सौ. क्षमायाः कृतिपु स्वराज्यविजये श्रीगान्धेरुपरि यम्मान- क्षेपणं नाम द्वापशाशोऽध्यायः ॥
त्रिपञ्चाशोऽध्यायः महात्मनो निर्वाणम् । इतः पूर्वं द्विसाहस्राद्वत्सरेभ्यो निजैर्जनैः । येिसुस्तत्रभवान् क्रिस्तो जघ्ने विद्धकलेवरः ॥ १ ॥ घोरकृत्यमभूदेतदेकस्मिन् भृगुवासरे । स्मरन्ति तद्दिनं भक्ताः शोकेन प्रतिवत्सरम् ॥ २ ॥ *वस्वब्धिग्रहचन्द्राब्दाग्रिममासान्तपूर्वगे । निशेऽहनि भृगोरे पिर्लाहर्म्यमहाङ्गणे ॥ ३ ॥ बभूवुर्मिलिताः सायं प्रायः पञ्चशतं जनाः । गान्धौ चिरायिते किञ्चिदमी तस्थुः समुत्सुकाः ।। ४ ।। तापञ्चांसी समालम्ब्य स्वपौत्र्योश्शनकैर्मुनिः । निर्गतो बिरलाहात् स्मयमानमुखाम्बुजः ॥ ५ ॥ घद्धाञ्जलिपुटः सौम्यः प्रचक्राम पुरो यथा । सभां प्रति ददुर्गन्तुमवकाशं तथा जनाः ॥ ६ ॥ संनिकर्पत्यसौ यावत्योचं प्रवचनासनम् । तावत्कोऽपि जनस्तोमादुत्पत्य सहसा युवा ॥ ७॥ स्पष्टुकाम इवास्याडी नमिताङ्गः शनैः स्वयम् । अब्रवीदद्य गान्धे त्वं विलंयं कृतवानिति ॥ ८ ॥ निवारितोऽपि पौत्रीभ्यामपास्य रमसादुमे । द्विवारमुत्ससर्जासौ गुलिकास्त्रं महात्मनि ॥ ९॥ घातुको नाथुरामाख्यः स्थितोऽयं निश्चलस्ततः । घूर्णनत्रान्तरे गान्धी रामरामेत्युदैरयत् ॥ १० ॥ : t Jesus Christ *१९४८ सिस्तान्दे
महात्मनो निर्वाणम् ।
पौत्र्येका तं पतिष्यन्तं सावधानमधारयत् ।
उपविश्यावनौ चान्या स्वाङ्के तन्मस्तकं न्यधात् ।। ११ ।।
हाहाकारेऽथ संजाते जनस्य प्रार्थनाभुवि ।
स्रवद्रक्ताम्बरो गान्धिर्मन्दिरान्तरनीयत ॥ १२ ॥
अथ पिर्लागृहारामपालकः क्रोधमूञ्छितः ।
अस्त्रमाहृत्य हन्तारमकरोदक्षिणां वशे ॥१३॥
अनाथवजनेचैर्विलपत्सु महागणे ।
गान्धिः स्वशयनागारे पर्यङ्के शायितोऽभवत् ॥ १४ ॥
ददृशेऽत्र स पुण्यात्मा मुग्धमन्दस्मिताननः ।
वद्धाञ्जलिश्च हन्ता मे क्षान्तोऽस्तीति वदन्निव ॥१५॥
समाप्य नश्वरी यात्रामैहिकी राष्ट्रजन्मदः ।
शाश्वती घटिकार्थेन दिव्ययात्रामुपाददे ।। १६ ।।
वृत्तान्तोऽयं दुरन्तस्य वडवाग्निरिवोदधौ ।
प्रससार पुरे तस्मिन् न चिराद्धारतेऽखिले ॥ १७॥
सर्वकार्यालयाश्चिनशालाः पानगृहारतथा ।
आपणाः सकलाश्थापि बभूवुः पिहिताः क्षणात् ॥ १८॥
विहाय स्वस्वकार्याणि श्रीनेहरूवल्लभादयः ।
मर्माविधा शुचा रस्ता बि मन्दिरमाययुः ॥१९॥
विशालमरणं प्रोचैक्लिपद्धिः सगगदम् ।
प्राये परम्शतैः पौरैरासीनिविडसालम् ॥ २० ॥
अभितः शयनीयं च यत्र गान्धेर्वपुः स्थितम् ।
पुमा पभूचुरासीना: पायथान्ये च पान्धयाः ॥२१॥
गतेऽस्य परमे वासे ययास्तेऽमांशुरन्तिमः ।
पठितु भगनदीतामारमन्तानुयापिनः॥२२॥
स्वराज्य-विजयः
अन्ये गद्गदकण्ठेन जगुर्गीतं मुनिप्रियम् ।
"वैष्णवेजनतो तेने" इत्यादिपदगुम्फितम् ॥२३॥
राजप्रतिनिधिः श्रीमान् सजानिमोण्टबाटनः ।
मन्त्रिणश्चान्यदेशानां बिर्लागेहं समाययुः॥ २४ ॥
अत्रान्तरे जनस्तोमो महान्समिलितः स्थितः ।
अन्नोदकं परित्यज्य विशाले प्रार्थनाङ्गणे ॥२५॥
गम्यतां स्वस्वगेहानीत्यर्थितोऽपि तदा जनः ।
स्थितोऽत्र चिरयन्नेव गान्धिमीक्षितुमुत्सुकः ॥२६॥
जीवत्यद्य महात्मेति केनचित्समुदीरिते ।
अभ्यद्रवजनो गेहं प्रविविक्षुर्बलादपि ॥ २७ ॥
श्रीमान्नेहरुरिदं दृष्ट्वा निर्गत्य सदनारहिः ।
स्वयं न्यवेदयत् सास्रो ‘गान्धिरुत्कान्तजीवितः' ॥२८॥
तच्छ्रुत्वा व्यलपन् केचिदपरे व्यलुठन्मुवि ।
केचिदास्फोटयन्वक्षः पाणिभ्यां शोकमूछिताः ॥२९॥
स्नापितालनलिप्तं तच्छुभ्रखदरवेटितम् ।
अनीयत मुनेः पूत मन्दिराग्रतलं वपुः ॥३०॥
तत्रोपवेशित पीठे सोपधानं समुन्नते ।
यभूव सर्वलोकानामधस्ताद् दृष्टिगोचरम् ॥३१ ।।
भवनायतलं रेजे दीपमालासमुज्ज्वलम् ।
सचेतन इव श्रीमान् पभौ गान्धिः स्मिताननः ॥ ३२ ॥
जीयागान्धिरिति प्रोथैर्जनाकन्दस्तदीक्षणात् ।
उत्थितो जनयामास रिट्रेऽपि प्रतिध्वनिम् ॥ ३३॥
अपनीते पुनः प्रेतकायेऽधस्ताप्रकोटकम् ।
बिलपन्तो जना जग्मुः शनकैः स्वस्वमन्दिरम् ॥ ३४॥
૨૭૬
महात्मनो निर्वाणम् ।
चान्धवाः परितो गान्धि सर्वरात्रमजागरुः ।
आर्द्रयन्तोऽश्रुधाराभिः प्रेतशय्यां मुहुर्मुहुः ॥ ३५॥
कोणे चास्य प्रकोष्ठस्य केचित्तस्यानुयायिनः ।
भगवद्गीतिकापाठं व्यदधुः सततं निशि ॥ ३६॥
परेयुः प्रत्युपस्येव स्नपितं लिप्तककुमम् ।
तद्वपुः पुत्रपौत्रीभिर्वहिनिन्ये प्रकोष्ठतः ।। ३७॥
ततस्तत्स्थापयामासुः खद्दराम्बरवेष्टिते ।
साक्षामिके वृहद्याने पुष्पमाल्यैरलङ्कृते ॥ ३८ ॥
अग्रभागेऽस्य यानस्य स्थितौ पुत्रौ महात्मनः ।
पार्श्वयोरुपविष्टौ च नेहसारवल्लभो ॥ ३९ ॥
ततो महति मध्याह्ने प्रेतयात्रा महीयसी।
पिर्लागृहागणाजोपं प्रातिष्ठत शनैः शनैः ॥ ४०॥
अनुजग्मुः सहस्राणि लोकानां जयघोषिणाम् ।
तथा च नरनारीणां रुदतीनां सगद्गदम् ॥ ४१ ।।
गायन्तो रामधुन्गीतं प्रियं गान्धेः सुहृजनाः।
शोकाकुलितकण्ठेन प्रजन्ति स्म समूहशः ॥ ४२ ॥
सैन्यनौकाविमानानां पुष्टाः प्रौढाधिकारिणः ।
पुष्पराशिमय याने प्रेतस्य चकृपुः शनैः ॥४३॥
विदेशमन्त्रिणः सर्वे राजधान्यां प्रतिष्ठिताः ।
शोकानुरूपनेपथ्या अन्वयुः स्वरथः
: प्रथरु॥४४॥
सिक्खवीराः सितोष्णीपा मुरसाः खर्वपीवराः।
महाराष्ट्रमटा राजपुप्रयोषाध्य सायुधाः ॥ ४५ ॥
समाप्रतिनिधेरगरक्षका धृततोमराः ।
नौकाविमानपत्तीनामधिपाः पृष्ठतोऽन्वयुः ॥४६॥
१७२
स्वराज्य-विजयः
.
ततः पश्चाजनश्रेणी क्रोशैर्बहुभिरायता ।
लक्षोपलक्षसङ्ख्याका शुचाकान्ताऽगमन्छनैः ॥४७॥
राजमार्गतरुश्रेणी मुनेर्दर्शनकाक्षिणाम् ।
शाखाधिरूढलोकानां गुरुभारादभून्नता ॥४८॥
सपादघटिकाकाले प्रेतयात्राजनार्णवः ।
राजधान्याः पुरावृत्तविश्रुतं प्राप गोपुरम् ॥ ४९ ।।
विसौः सुमनोवः प्रतिगेहं प्रतिक्षणम् ।
ददृशे पुष्पवाटीव प्रेतशय्या सिताम्बरा ।। ५० ॥
ये जनास्तु समारुह्य स्थिता भारतगोपुरे ।
बभूव सुलभं तेषां यात्रायाः पूर्णदर्शनम् ॥ ५१ ।।
सव्यापसव्यशाखाभ्यां द्विधाभूते महापथे ।
भवति स्म जनस्तोमः सान्द्रसान्द्रो मुहुर्मुहुः ।। ५२ ।।
चक्रमुर्गोपुरस्याधः प्रदेशेषु धृतायुधाः ।
गुर्खवीरा जनौषस्य रक्षणे समवेक्षिणः ॥ ५३ ।।
चरम दर्शनं गान्धेर्चहुभिः कर्तुमुत्सुकैः ।
विसृष्टोऽत्र महानासीत्पादनोद्यरथमजः ॥ ५४ ॥
मौनमैकान्तिकं लोका यात्रायामभ्यरक्षिषुः ।
अतिमात्रव्ययो घासीद्भयानकवधाजनः ॥ ५५ ॥
अपायानपि संमाव्यान् निवारयितुमिच्छया ।
सनितान्यग्नियन्त्राणि चलन् रुग्णालयोऽपि च ।। ५६ ॥
जीयागान्धिर्महात्मेति क्रन्दद्विस्तु जनैर्मुहुः ।
निश्शब्दता बिनप्टाऽभूधानिकाणां पदे पदे ॥ ५७ ॥
धृतकृष्णध्वजाः शोकाबनमध्ये प्रचक्रमुः।
हिन्दुमुस्लिमसिक्खाग्नपारसीकादयो जनाः ॥ ५८॥
१७३
महात्मनो निर्वाणम् ।
यस्तु पञ्चमजाजोख्यभूपतेर्विग्रहो महान् ।
तस्याधः शोमनं यात्रादिदृक्षणामभूत्स्थलम् ॥ ५९॥
विग्रहं परितोऽस्त्येका गाधा कृत्रिमदीर्घिका ।
तामुत्तीर्य परं पारमासेदुर्चहवो जनाः ॥६॥
आरुह्य प्रतिमामूलं तस्याः स्तम्भावलम्बिनः ।
तस्थुः परश्शता लोका यात्रालोकसमुत्सुकाः ॥ ६१ ॥
राजधान्या बहिरं प्रेतयात्रा यदासदत् ।
भूयो भूयो विमानेभ्यो निपेतुः पुष्पवृष्टयः ।। ६२ ।।
गायत्सु मगवद्गीतामनुगेषु महात्मनः ।
प्रोचकैस्तजयाकारं कलयत्सु जनेषु च ॥ ६३ ॥
महाकारालयं दिल्याः प्रेतयात्रा समासदत् ।
पपात सुमनोवृष्टिर्यत्र पर्जन्यवर्पवत् ॥ ६४॥
चमूव कोटिसंख्याकः प्रेतयामागतो जनः।
नेदृशी महती यात्रा दृष्टपूर्वाऽत्र मारते ॥६५॥
न पुरा न च वाऽद्यत्वे कृत्स्नेऽपि जगतीतले ।
मानितः सार्वभौमोऽपि ताशप्रेतयात्रया ।। ६६॥
अथ सा प्राप पर्यन्ते यमुनासस्तिस्तटम् ।
दिगन्तव्यापिनी यत्र दृशे जनसंहतिः ।। ६७ ।।
पद्धौनाः स्थिताः सर्वे क्षण माविप्रतीक्षया ।
ततो गान्धर्जयाकन्दैः पूाजक्रिो दिशः॥१८॥
मानोरस्तमयापूर्व प्रेतप्रवदणाद्वपुः ।
अपनीतं तदा गान्धे राजपट्टाख्यसक्रमे ।।६९॥
अय हस्तप्रयायामवेदिकायां सुहृजनः।
प्रागेव निर्मितायां सा प्रेतशय्या न्यधीयत ॥७०॥
१७४ स्वराज्य-विजयः धृतचन्दनकर्पूरनालिकेरादिपूरिता । चिता शुद्धात्मनः साऽभूदुचिता चक्रवर्तिनः ॥७१ ।। अभिपिच्य वपुस्तीर्थजलेनादौ महात्मनः । चिताध्यारोपितं विप्रैश्य मन्त्राग्निसंस्कृतम् ॥ ७२ ॥ श्रीमन्नेहरुस्ततो जोपं सवाष्पः समुपेत्य तम् । जानुपातं नमस्कृत्य चुचुम्न चरणौ मुनेः ॥७३ रामदासस्ततः श्रीमान् ज्येष्ठपुत्रो महात्मनः । यथाविधि चिताराशिमिन्धाञ्चके विदूनधीः ।।७४।। धूमराशिः क्षणान्छुण्डीशुण्डादण्ड इवोस्थितः । देवलोकं प्रतिष्ठासुं द्रष्टुमिच्छन्निव स्वयम् ।। ७५ ।। अथार्केऽस्तमिते गान्धेर्भस्मीभूतकलेवरम् । तथाप्यस्य यश कायस्तिष्ठत्येव निरन्तरम् ॥ ७६ ॥ ततो भूयिष्ठलोकेषु निगतेषु निजालयान् । तत्रैव बहवस्तस्थुः समिपि निशीथिनीम् ।। ७७॥ केचिचन्दनखण्डानि केचित्पुष्पदलानि च । अन्विप्यन्तो निशां निन्युर्भस्मराशी पुनः पुनः ॥७८॥ अथ राष्ट्रपितुमॉर्वार्ता पूर्वयुरेव सा । श्रुताऽभूवने सार्थघटिकाद्वितयान्तरे॥ ७९ ॥ तन्त्रीद्वारांग्लभूपेन्द्रः प्राहेत्थं शोकमात्मनः। कम्पितोऽस्मि सभार्योऽहं श्रीगान्धेमृतिवार्तया ॥ ८०॥ हानिरप्रतिसन्धेया मारतस्य न केवलम् । परं मानुष्यकस्यैव दुर्दैवात्समजायत ।। ८१॥ ईविपदि लोकानां सानुकम्पोक्तिरावयोः । मम प्रतिनिधिद्वारा प्रेपिता गृक्षतां जनैः ॥८२ ।।
महात्मनो निर्वाणम् । टूमन्नामा अथाऽमेरिकखण्डस्य प्रजाधिपः। प्रेपयामास संदेशं दर्शयन् शोकमात्मनः ।। ८३ ।। शान्तिसोदर्यताहेतोः परिश्राम्यन्निरन्तरम् । गतासुः पतितो गान्धिः स महान्पुरुपर्पमः ।। ८४ ॥ आसीच्छ्रीमानसौ नेता भुवो राष्ट्रहितैषिणाम् । वशीचक्रे नृणां कोटीरेप बोधैश्च कर्मभिः ॥८५।। जीवनं चरितं चास्य स्थास्यतः स्मृतिरक्षिणी । लोकोत्तरमहिम्नोऽस्य नित्यं युगयुगान्तरे' ।। ८६ ॥ अथान्ये शोकसंदेशाः प्राच्यपाश्चात्यखण्डतः । तन्त्रीद्वारा समाजग्मुः शतशो देशमन्त्रिणाम् ॥ ८७॥ इति सौ. क्षमायाः कृतिषु स्वराज्यविजये महात्मनो निर्वाणं नाम त्रिपञ्चाशत्तमोऽध्यायः॥
स्वराज्य-विजयः
धृतचन्दनकर्पूरनालिकेरादिपूरिता ।
चिता शुद्धात्मनः साऽभूदुचिता चक्रवर्तिनः ॥७१ ।।
अभिषिच्य वपुस्तीर्थजलेनादौ महात्मनः ।
चिताध्यारोपितं विप्रैश्चके मन्त्राग्निसंस्कृतम् ॥ ७२ ॥
श्रीमन्नहरूस्ततो जोपं सवाष्पः समुपेत्य तम् ।
जानुपातं नमस्कृत्य चुचुम्ब चरणौ मुनेः ।।७३
रामदासस्ततः श्रीमान् ज्येष्ठपुत्रो महात्मनः ।
यथाविधि चिताराशिमिन्धाञ्चक्रे विदूनधीः ॥ ७४ ॥
धूमराशिः क्षणाच्छुण्डीशुण्डादण्ड इवोत्थितः ।
देवलोकं प्रतिष्ठासु द्रष्टुमिच्छन्निव स्वयम् ।। ७५ ॥
अथाऽस्तमिते गान्धेर्भस्मीभूतकलेवरम् ।
तथाप्यस्य यशःकायस्तिष्ठत्येव निरन्तरम् ।। ७६ ॥
ततो भूयिष्ठलोकेषु निर्गतेषु निजालयान् ।
तत्रैव पहवस्तस्थुः सर्वामपि निशीथिनीम् ॥ ७७॥
केचिचन्दनखण्डानि केचित्पुष्पदलानि च ।
अन्विष्यन्तो निशां निन्युर्मस्मराशौ पुनः पुनः ॥ ७८॥
अथ राष्ट्रपितुर्मृत्योर्वार्ता पूर्वद्युरेव सा ।
श्रुताऽभूर्भुवने सार्धघटिकाद्वितयान्तरे॥७९॥
तन्त्रीद्वारांग्लभूपेन्द्रः प्रादेत्य छोकमात्मनः।
'कम्पितोऽस्मि सभार्योऽहं श्रीगान्धेर्पतिवार्तया ।। ८०॥
हानिरप्रतिसन्धेया भारतस्य न केवलम् ।
परं मानुष्यकस्यैव दुर्दैवात्समजायत ।। ८१॥
ईग्विषदि लोकानां सानुकम्पोक्तिरावयोः ।
मम प्रतिनिधिद्वारा प्रेपिता गृह्यतां जनैः ॥८२ ॥
. महात्मनो निर्वाणम् । अथाऽमेरिकखण्डस्य टूमन्नामा प्रजाधिपः । प्रेषयामास संदेशं दर्शयन् शोकमात्मनः ।। ८३ ॥ 'शान्तिसोदर्यताहेतोः परिश्राम्यनिरन्तरम् । गतासुः पतितो गान्धिः स महान्पुरुपर्पमः ॥ ८४ ॥ आसीच्छीमानसौ नेता भुवो राष्ट्रहितैपिणाम् । वशीचक्रे नृणां कोटीरेप बोधेश्च कर्मभिः ॥८५।। जीवन चरितं चास्य स्थास्यतः स्मृतिरक्षिणी । लोकोत्तरमहिम्नोऽस्य नित्यं युगयुगान्तरे' ॥८६॥ अथान्ये शोकसंदेशाः प्राच्यपाश्चात्यखण्डतः । तन्त्रीद्वारा समाजग्मुः शतशो देशमन्त्रिणाम् ॥ ८७॥ इति सौ. क्षमायाः कृतिषु स्वराज्यविजये महात्मनो निर्वाणं नाम त्रिपञ्चाशत्तमोऽध्यायः॥
चतुःपञ्चाशोऽध्यायः
गन्थोपसंहारः।
किं भूयोलेखनेनास्य चरितस्य महात्मनः ।
मृतोऽपि यः सजीवोऽन्तः सर्वदा ध्रियते जनैः ॥१॥
धन्याः किल वयं सर्वे युगेऽस्मिन् प्राप्तसंभवाः ।
चरन्तः क्ष्मातलं तस्य पावितं पादरेणुभिः ॥२॥
परस्सहस्रवोल स्मरिष्यन्ति जनाः किल ।
महात्मानमिमं गान्धिं जनांश्व समकालिकान् ॥३॥
स महापुरुषो लोकैः पूजितः सकलप्रियः ।
निजम्ने देशजेनेति भारतस्य पाकरम् ॥४॥
तत्रापि हिन्दुनैकेन हिन्दुष्वपि महत्तमे ।
उद्यतो हस्त इत्येप कलको वागगोचरः ॥५॥
स्तुवन्ति सद्गुणान् पद्यैः पदलालित्यमण्डितैः
यशस्विनां च साधूनां कवयोऽनादिकालतः॥६॥
परं त्वलोकसामान्यभूतप्रकृतिनिर्मितम् ।
अप्रमेयगुणोत्कर्ष का स्तुवीयात्कवीश्वरः ॥७॥
महिमा जीवतोऽप्यस्य सर्वातिशयितोऽभवत् ।
कृत्स्नेन जगताप्यद्य पूज्यते स्वर्गतोऽपि सः
महतां सुप्रसिद्धानां कल्प्यन्ते स्मृतिरक्षकाः ।
शिलाकांस्यमयाः लोकैःप्रोचसुन्दरविग्रहाः ॥ ९॥
दिव्यतेजोभृतो गान्धेः सन्ति नावश्यका इमे ।
तस्य स्मृतिकरी मावः स्वयं यत्नेन निर्मितः ॥१०॥
सत्याऽहिंसात्मकः सोऽयं मावो भाविप्रजाततेः ।
शाश्वतस्मृतिरक्षा प्रभवेचलरक्षितः ॥११॥