Ramkrishna Mission Institute Of Culture, Golpark

Mitragoshthi Patrika (1905-06) Vol. 2, No. 3 -11

Mahacharjya, Bidhushekhar, Ed. · 2006/04/19

PDF Proofread

Front matter

No text on this page.

No text on this page.

No text on this page.

मित्रगोष्ठी-पत्रिका।
(मासिकं संस्कृतपत्रम् ।)
तृतीय वर्षम् ।
१८२८शकाब्दाः।
श्रीविधुशेखरभट्टाचार्येण सम्पादिता ।
341
वाराणस्याम् ।
श्रीताराचरणभट्टाचार्यण
मित्रगोष्ठी कार्यालयात् प्रकाशिता च ।
P
धार्षिक मूल्यम्
सार्थकरूप्यकम्।
FAR

900
050,
V
Sarkarket.2.2.33
tot.tt
gan
आनन्दकाननयोतिकाशीयन्त्रालयऽमल ।
सन्तोषिका सुमनसां पत्रिकेयं सुमुद्रिता ॥

..................htrare.mar प्रबन्धलेखकानां नामानि- महामहोपाध्याय पण्डित श्रीराममिश्रशास्त्री, महामहोपाध्याय प० श्रीयादवेश्वरतरत्नः, पं० श्रीमहेशचन्द्रतकचूडामणिः पं० श्री स- त्यव्रतसामश्रमी, पं० श्रीजयचन्द्रसिद्धान्तभूषणः, पं० श्रीम- धुसूदनविद्यावाचस्पतिः, पं० श्रीरामावतारपाण्डेयः एम. ए. साहित्याचार्यः, पं० श्रीनीलकण्ठशास्त्री, पं० श्रीअप्पाशर्म- विद्यावाचस्पतिः, पं० श्रीगणपतिशास्त्री, पं० श्रीवामन- रामजोशी, पं० श्रीगिरिजाप्रसादीद्ववेदी, पं० श्री- रमेशचन्द्रवेदान्तसागरः, पं० श्रीचारुचन्द्रवन्धोपा- ध्यायः वि. ए., पं० श्रीप्रियरत्नभिक्षुः, पं० श्री- रामप्रसन्नग्रह्मचारी, पं० श्रीपरमानन्दः, पं० के० वासुदेवशर्मा, पं० श्रीसन्तोषकुमारमजु- मदारः, पं० श्रीयोगेन्द्रनारायणस्मृति- तीर्थः, कविरत्नं श्रीज्ञानसुन्दरी, श्रीविधुशेखरभट्टाचार्यश्च । .. -- 2-4-4.-...-

No text on this page.

१८२८ शकाब्दे प्रकाशितायाः मित्रगोष्टीपत्रिकायाः अकारादिक्रमेण विषयमूची । पृष्ठम् . . ३३ १७० . . . १७५ ३०३ १८९ विषयाः १. अपत्यविक्रयः २. आत्मानुशीलनम् ३. आमेरिकायात्रिणः पत्रम् ४. कालपरिणामः (पद्यम्) ५. काव्यतत्त्वावली ६.कि त्यमकरिष्यः ७. कौलिन्यप्रथायाः परिणाम ८. क्षुतकथा ९. जयपराजयम् १०. जयपुरवेधशालालोचनम् ११. जयप्राणीयवनिता १२. तथागतगुह्यका १३. तानूनप्त्रम् १४. ते नराः स्वर्गगामिणः (पद्यम्) १५. दीनकन्यका (पद्यम्) दुर्मतदम्भोलिः धम्मचक्कप्पवत्तनसुत्तम् १८. धर्माचरणं मीमांसादर्शनश्च १९. नववर्षे मङ्गलाशंसनम् ३५. नैराश्यम् (पद्यम्) पुस्तकपरिचयः २३९ २४ ३०१ १३१, १५२, १८९ ३१२ . . २५७, २७८ २ . ७७, १६४, २८५, ३२० .

पृष्ट -- . . १ . [ २ ] विषयाः २२. प्रश्नोत्तरम् १६, ५०, ११८, २००, २२५, २६७, ३०६, ३४ २३. प्रार्थनापरिपाकः (पद्यम्) २४. बद्धविहगः २५. बहुविवाहनिरोधप्रयासः तद्वैफल्यंच २६. बौद्धग्रसङ्गः २१ २७. बौद्धानांक्षणिकवादः १ २८. भद्सोमा २९. भाषातत्त्वम् २ ३०. भारतवैभवम् ३ ३१. म. म. पं० महेशचन्द्रन्यायरत्नः सि. आइ. इ. . ३२. मिलेन्द्रप्रश्नः . ३३. यत्किञ्चित्प्राप्तकालम् ४६, ९०,१ ३४. वर्षावैभवम् (पद्यम्) ३५. वसलसुत्तम् । ३६. विधवाविलापः (पद्यम्) ३७. विवाहेवरपरीक्षा ३८. वैदिकवृत्तान्तः ३९. वैमनस्यनिरसनम् (पद्यम्). ४०. शरणप्रपत्तिषटकम् ४१. श्रीवाणेश्वर विद्यालङ्कारः ४२. श्रीभारतधर्ममहामण्डलम् . ४३. सामयिकपत्रसारः ४४. सामयिक साहित्यम् ४५. सायंसूर्यः (पद्यम्) . ४६. स्त्रीचरित्रम् ४७. स्त्रीकविः ४८. स्वदेशहितचिन्तनम् ५१. - . .

मित्रगोष्ठी-पत्रिका। (मासिकं संस्कृतपत्रम् ।) "संगलचं संवरच संघो मनांसि आनताम्" । ग्राग्वेदः। तृतीये वर्षे] १८२८ शकान्दाः, वैशाखः। [प्रथमसंख्या नववर्ष मंगलाशंसनम् । 'प्रीमो हेमन्त ऋतषः शिषा नो, घर्षाः शिवा अभया शरम्नः । संवत्सरोऽधिपतिः प्राणदो नोऽ होरात्रे कृणुतां दीर्घमायुः॥ १ ॥ शाम्सा पृथिवी शियमन्तरीसं, चौनों देव्यभयं नो भस्तु । शिषा दिशः प्रदिश उहिशो न आपो विपुतः परिपान्तु सर्वतः ॥ २ ॥ भापो मरीची प्रधाहन्तु नो धियो धाता समद्रो षष्ठन्तु पापं । भूत भविष्यदमयं विश्वमस्तु में ब्रह्माधिगुप्तः स्वाक्षराणि स्वाहा ॥ ३ ॥ संगच्छवं संवदध्वं सं वो मनांसि जानताम् । दंघा भागं यथा पूर्व संजानाना उपासते ॥ ४ ॥ । * यूय सर्वे संगता भवत, परस्पर विरोध परित्यज्यकाविधमेव वाक्य दत, युप्माकं मनांसि एकरूपमेवार्थमवगच्छन्तु-यथा खलु प्राचीना वा ऐकमत्यं प्राप्ताः हविर्भागं स्वीकुर्वन्ति ॥४॥ ऋग्वेदः. १०म. ०९ सू. १म.

२ मित्रगोष्ठी-पत्रिका। समानो मन्त्रः समितिः समानी समानं मनः सह चित्तमेषां समान मन्त्रमाभिमन्त्रये वः समानेन वो हविषा होमि ॥ ५ समानी व आफूतिः समाना हृदयानि यः। समानमस्तु यो मनो यथा वः सुसहासति ॥ ६॥" नैराश्यम् । कितेषामाशाकुहकपतिता पश्यसि मुख, न खल्वेते कुर्युः किमपि तव मातर्हितकरम् । रशोर्धारां गाढां जहिहि, ननु दूरीकुरु तथा धराधूलीपात वद तव किमेभिः सुतवरैः ॥१॥ इमे विशम्मन्याः प्रमदमीदरामतमतयः सुखस्वमालोके भ्रमविलासिते वा काचिदपि । न किश्चिद्यच्छन्ति, क्षणमपि न चेच्छन्ति भवती, मुधैवाशां मातर्मनसि बत तां तां कृतवती ॥२॥ निनादैाग्भंग्या गगनतलमेते ध्वनयितुं समर्थास्ते पुत्रा न तु किमपि कर्तुं स्वमुचितम् । अथर्ववेदेऽस्य मन्त्रस्य प्रथमांशे "संजानीध्वं सं पृच्यध्यसि पाठो दृश्यते अस्यार्थः-यूयं समानशानयुक्ता भवत, तथा सन् परस्पर संसृष्टकाया भवतेति"। एषां जनानां मन्त्रः समानोऽस्तु, समितिः समानास्तु, अन्तःक च समानमस्तु, चित्तं च-विचारजं शानमेषां परस्परस्यैकार्थेन स नमस्तु; अहं युष्माकमेकविधमेव मन्त्रमभिमन्त्रये--ऐकविध्याय सं रोमि, तथा युष्माकं साधारणेन हविषा जुहोमि ॥ ५॥ अथर्षयेदे तु 'मन' इत्यत्र 'घत' मिति पटितम् । कर्मनामैतत्, च कर्माप्येषां समानमस्त्विति तत्रार्थः । अथर्व.७ अ०६४ सू.२ म. युष्माकमध्यवसाय एकविधोऽस्तु, युष्माकं हृदयान्येकविध सन्तु, युष्माकमन्तः करणमेकविधमस्तु-यथा खलु युष्माकं सर्व भयनि॥६॥ तत्रैघमः।

वादक वृत्तानः। ३ पुनः वचस्यन्यरचेतस्यपरमितरत् कर्मणि सदा यषां, तेभ्यो भवतु तव लभ्यं किमिव नु ॥३॥ नुवन्त्येते शश्वज्जननि तव सेवा समुचिता विधेयं दौर्गत्यप्रशमनमथो देयमिति च । गतः कालो गच्छत्यपिच विपुलस्तस्य वचसो विसंवादाघ्रातं नतु किमपि सम्प्रत्यपि कृतम् ॥४॥ - वैदिक वृत्तान्तः। विश्वोत्पत्तिः। परिदृश्यमानस्यास्य स्थावरजंगमात्मकस्य जगत उत्पत्तिः कदा न कुतो वा विहितेति साधारणोऽयं विषयोऽस्मदीयानां दर्शनपुरा- णादीनां शास्त्राणाम् । एतादृगपरः कश्चित् दुरवगाहो विषयोऽस्ति न वेति संशयास्पदमेव । कियदस्य दुरवबोधत्वमितीदं सर्वदर्शिनांपूज्य- पादानामृषीणामेव वचनं सुष्ठु प्रतिपादयति- "इयं विसृष्टिर्यत आबभूव यदि वा दधे यदि वा नं । यो अस्याध्यक्षः परमे व्योमन् सों अंग वेद यदि वान वेद" इति॥ ऋग्वेद १०. १२२. अस्मदीयानां शास्त्राणां वेद एवैकं मूलम् , तत्प्रामाण्यनैव हमीषां माण्यम् । यद्वेदे सूक्ष्मसंक्षिप्तम् , तदेवैतेषु युक्तितर्कादिविविधवचनो- यासैः प्रश्चितमिति वदन्ति । अतो विश्वोत्पत्तिविचारस्य वेदे किं खलु सूत्रमाधिगत्यार्वाचीनाः शास्त्रकारास्तानि तानि मतानि प्रका- मासुस्तदेवेह किञ्चित् प्रदर्शयिष्यते । वेदस्य बहुषु मन्त्रेषु सृष्टिं प्रति सूर्यस्य कारणत्वमवगम्यते । एवैकस्मिन् मन्त्रेऽयं स्थावरस्य जंगमस्य चात्मत्वेन वर्णितः । * * "सूर्य आस्मा जगतस्तस्थुषश्च" इति क्र. १. ११५. १.

मित्रगाष्ठी - पत्रिका। बहुकार्यकारणत्वादेव चायमेकोऽपि बहुमिर्नामभिर्व्यपदिश्यते ।(१) स्मादेव च 'विश्वकर्मति'शब्द उत्पन्नइति ध्रुवन्ति । विश्वकर्मदैवत्यं सू वयम् ऋग्वेदे दृश्यते तत एव किञ्चित् उग्रत्येह प्रदर्शयामः, येनाच र्याणामृषीणां सृष्टितत्वचिन्ता कथमिवासीदित्यस्य परिचय उपलभ्ये लोके हि घटं चिकीर्षन् कुलालो गृहादिकं किञ्चित् स्थानमधिष्ठा मृदूपेणारम्भणद्रव्येण चक्रादिरुपैरुपकरणे घंटं निष्पादयति। जग सटेः पूर्वमीश्वरस्य तु न तत्सर्व किश्चित्सम्भवतीति वक्ष्यमाणेषुमन ध्याक्षिप्य समाधानादिकं विधीयते । तद्यथा-[ऋग्वेद १०. ४१.] "घावापृथिव्योरुत्पादनवेलायामीश्वरस्य किमधिष्ठानमासीत तथा तयोरारम्भणद्रव्यं कतमत् कथं वा भवेत् ? यस्मादधिष्ठानादा म्भणद्रव्याच्च सर्वद्रष्टा विश्वकर्मा परमेश्वरो महिम्ना भूमि जनर दिषं सृष्टवान्" । (२) "सर्वतो व्याप्तवदननयनबाहुचरणः परमेश्वर एक एव द्यावा व्यौ जनयन् बाहुभ्यां दिवं पादैश्च पृथिवी संधमति” । (३) यस्मात् वनात् ये वृक्षमादाय तक्षणेन द्यावापृथिव्यौ निष्पादि तवन किं नाम तथा कस्तारशो महान् वृक्षोऽभूत्। हे मणीषिणः इन्द भय जिशासायुक्तेन मनसा पृच्छतः किञ्चेश्वगे भुवनानि धारयन् र स्थानमध्यातिष्ठत् तदपि पृच्छत । (४) (१)"इन्द्रं मित्र वरुणमनिमाहरथो दिव्यः स सुपर्णो गरुन्मान । एकं सद्विप्रा बहुधा वदयान यम मातरिश्वानमाहुः॥" ऋ.१.१६४.४६ (२)फिस्विदासीदधिष्ठानमारम्भण कतमत् स्वित् कथासीत् । यतो भूमिं जनवन् विश्वकर्मा विद्यामौणोन्महिना विश्वचक्षा (३) विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहु-रुतविश्वतस्पा स बाहुभ्यां धमति सं पतत्रैवाभूमी जनयन् देव एकः ॥ (५) एतेन सृष्टिकर्तु रद्भतासीमशक्तिशालित्वं द्योत्यते । किं स्विद्ध क उ स वृक्ष आस यतो द्यावापृथिवी निष्टतक्षुः । मनीषिणो मनसा पृच्छतेदु तथदध्यतिष्ठद्भवनानि धाग्यन् ।

वैदिक वृत्तान्तः। "यो विश्वकर्मास्माकं पालयिता' अस्माकमुत्पादयिता च यध र्वस्य जगतोऽप्युत्पादकःयो देवानां तेजःस्थानानि वेद किंबहुना यश्च वाणि भूतजातानि वत्ति, यश्च देवानां नामधेयं विहितवान्, स क इति न्यानि भूनजातानि पृच्छति" ॥ * १०. ८२. ३. य इमानि भूतजातानि जनितवान् हेनराः, तं विश्वकर्माण यूयं न जा- थ बुद्धमिति यत्सन्निहितं वः प्रतिभाति, स खलु ततो मिम एव वति। सर्वे जना नीहारेण (कुहेलिकारूपेणाक्षानेनेति भावः) प्रावृताः न्तिो यत् किश्चिज्जल्पन्ति, केनाप्युपायेन प्राणांस्तर्पयन्ति च, वस्तु. स्ते पारमेश्वर तत्त्वं न किञ्चित् विचारितवन्तः” ॥ ३॥ + य. खलु सृष्टिकतॊक्तेषु मन्त्रेषु विश्वकर्मेत्युक्तः स एवान्यत्र (१० १) 'हिरण्यगर्भ' इत्युक्तः एपामपि द्वित्रा इहोद्धियन्ते । एतषा प्रागां देवता 'कः'। को नाम प्रजापति रिति ब्राह्मणानुसारिणः सूत्र- व्यकारादयो वैदिका बुवन्ति । नव्यास्तु पाश्चात्त्याः केचित्प्रतीच्या- दुः-पषु मन्त्रेषु सर्वत्रैव "कस्मै देवाय हविषा विधेम” इतीह स्मै" इति पदं न प्रजापतिवाचक- 'क'- शब्दस्य रूपम्, अपितु नाम 'कि' शब्दस्यैव । एतस्पैवार्थस्यात्र चारुतर युज्यमानत्वात्। अत्रेदं कौतुकावहं सारश्यं यद ग्रीकदर्शनेषु पूर्व भूलोपादानं धायतुं वनार्थक एव शब्दः प्रयुक्त आसीदिति- "It is an interesting coincidence that "wooil" the rm here used was regularly employed in Greek phipophy to express original matter (húté).” Macdonell’s Sanskrit Literature p. 131. * यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा । यो देवानां नामधा एक एव तं संप्रश्न भुवना यान्त्यन्या ॥ ऋ.१०.८२.३. न तं विदाथ य इमा जजानान्यत् युष्माकमन्तरं बभूव । नोहारण प्रावृता जल्या चासुतृप उक्थशासश्चरन्ति ॥ - ६ मित्रगोष्ठी-पत्रिका। अतः किंशब्दवाच्योऽर्थ एवात्र देवता यत्स्तूयते सा देवतेति न्यायात् ततश्च को नाम देवोऽर्थनीय इति प्रश्नस्य यावत्सम्भाव्यं समाधान कतमिह ऋषिभिरिति । ते खलु मन्त्रार्था यथा- "कं देवं वयं हविषा परिचरेम? यस्य प्रभावाज्जना आत्मलाभ- मधिगतवन्तः, यो जनानां बलदाता, यस्यानां विश्वे प्राणिनो देवाश्चो. पासते, अमृतत्वं य छायावदनुवर्तते मृत्युश्च यस्याधीनस्तिष्ठति" ॥१ "के देवं हविषा परिचरेम?--यो हि महत्त्वेन प्रश्वसतः अक्षि- पक्षमसञ्चालनं कुर्वतश्च जंगमस्य प्राणिजातस्याद्वितीयो राजा भवति, यश्च द्विपदस्य मनुष्यस्य चतुस्पदस्य गवादेशो भवति" ॥२ "कं देवं हविषा परिचरेम?--हिमवत्प्रभृतय इमे दृश्यमानाः सर्वे पर्वताः नदीभिः सह सर्वसमुद्राश्च यस्येश्चर्यमिति सृष्टितत्त्वविद आहुः प्राच्यादयो दिशो विदिशश्च यस्य बाहुस्वरूपाः" ॥ ३ "के देवं हविषा परिचेरम? येन समुभता द्यौः पुथिवी च स्थिरी- कृते, स्वर्गव येन स्तब्धीकतो-यथा नाधः पतति तथोपरि स्थापितः आदित्यश्च येन तथैव स्थापितः, यश्चान्तरीक्षे सलिलस्य निर्माता" ॥४ सत आहिस्विदसतः सदुत्पद्यत इति दर्शनेषु महान् विवादो दृश्यते उपनिषत्स्वपि तद्विचारस्य नाल्पः प्रचारः। एतन्मूलकेषु मन्त्रे. स्वपि न खलु न तत्सूत्रमुपलभ्यते । तत्र देवानामुत्पत्तिकथनावकाशे (ऋग्वेद १०. ३२. २) असतः सयजायतेति दृश्यते यथा- "यथा कारः प्रज्वलनार्थमा भस्त्रयोपधमति, तथा ब्रह्मणस्पति १ य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः। यस्य छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम ॥ २ यः प्राणतो निमिषतो महित्वैक इद्राजा जगतो बभूव । य ईश अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम ॥ ३ यस्येमे हिमवन्तो महित्वा यस्य समुद्रं रसया सहाहुः । यस्येमा प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम ॥ ४ येन चौरुणा पृथिवी च हल्हा येन स्वः स्तभितं येन नाकः । यो अन्तरीक्षे रजसो विमानः कस्मै देवाय हविषा विधेम ॥

वादक वृत्तान्तः। देवानामादिसृष्टी तेषां जन्मानि सम्पादितवान् । तदा असत. सद- जायतेति"। १ पर्व तत्रैव [३]- "देवानामादिसृष्टिसमये असतः सदजायत, तदनु दिशोऽजायन्त, दनु वृक्षा उदपद्यन्तेति"। २ असतः सदुत्पत्तिरनयापि श्रुत्या समर्थ्यते- "असा इदमप्र पासीत्, ततः सदजायतेति"। दूषिता पुनरियमेतया छान्दोग्यभुत्या [२] "कथमसतः सज्जायते"त्युपक्रम्य सदेव सोम्येदमग्र आसीदित्यादि- कया वेदान्तिभिः सांख्यैश्च महानिह शास्त्रार्थ आरभ्यत इति शायत- एव दार्शनिकैः पाउकैः । विस्तराभिया नेह वयं तदुद्धर्तुं प्रभवामः । वक्ष्यमाणं सृष्टिसूक्तं नितान्तं हृदयंगममिति सहदयेभ्योऽनुपायनी- कृत्य विरन्तुं न युक्तमिति तत् क्रियते । सृष्टितत्वमीमांसायामिदं सूत्र परमवलम्वनमस्माकं दार्शनिकानाम् । सृष्टिपूर्वावस्था च कथमतिम- हिं धार्णिता वैदिकर्षिभिरिति द्रष्टव्यमत्र । यच्चेह तत्त्वमस्फुटमिव देव परस्तात् उपनिषत्नु, ततश्च दर्शननिबन्धेषु क्रमेण स्फुटतरं स्फु- तमञ्च संवृत्तम् । इदं तदास्वाद्यतां श्रीमद्भिः- तदानीं सष्टेः पूर्व प्रलयावस्थायाम् 'असत्' नासीत् , 'सदपि' सीत् ; पृथिव्यावयो लोका नासन् , अन्तरीक्षमपि नासीत् , अन्त- क्षतोऽप्युपरिवर्त्तमाना गुलोकप्रभृतयोऽपि नासन् । [अधवा वायुर्ना- १ ब्राह्मणस्पतिरेता सं कार इवाधमत् । देवानां पू] युगेऽसतः सदजायत ॥ २ देवानां युगे प्रथमेऽसतः सदजायत । तदाशा अन्वजायन्त तदुत्सानपदस्परि ॥ अय चान्य आथर्वणो मन्त्रस्तुलनीयः- असति सत्प्रतिष्ठितं सति भूतं प्रतिष्ठितम् । भूतंह भव्य आहितं भव्यंभूते प्रतिष्ठितं तवेद विष्णो बहूनि वीर्याणि॥ अथर्षवद १३का. १अ. १स् । - - मित्रगोष्ठी - पत्रिका । सीत् , तदुपरिषर्तमानमन्तरीक्षमपि नासीत् ] किं नामावरकमासीत् कुत्र वा कस्य वा कृते तदासीत् ? गहनग़म्भीर सलिलं किं तदानी मासीत् ? (१) तदानी मृत्युर्मासीत् , अमरणमपि नासीत् दिनस्य निशाया शानं नासीत् [सूर्याचन्द्रमप्लोरेवभाषादिति भावः]; तदानीं केवल मेक तत् (परमात्मरूपं) वस्तुं स्वात्ममात्रमाश्रित्य प्राणितवत् ; तस्म स्पर नान्यत् किञ्चिदासीत् । (२) तदानीं तम एव तमसा समाच्छन्नमासीत् सर्वमपीई तस्मिन काले सलिलमयम् अप्रशायमान चासीत् । यत्पूर्व तुच्छेन [असत अशानेन वा] वस्तुना अपिहितमासीत् , तपसः प्रभाषेण तवेधैकम आयत । (३) सृष्टेः प्रागवस्थायाम् ईश्वरस्य मनसि [जगत्सृष्टिविषयकः] काम ऽजायत, यो हि सृष्टे(जभूतोभूत् । अतिक्रान्तदर्शिनः कवयो कृति निरुद्धया बुद्ध्या सतो वस्तुनो हेतुमसति वस्तुनि विज्ञातवन्तः ।(४ इयं विविधा मृष्टिः कस्मादुपादानकारणात् कस्माश्च निमित्तकार णात समन्ताज्जातेत्यभय कः सम्यग्वेद, को वा विस्तरेण वक्तं शन यात् । देवता अपि अस्या भूतभौतिकसृटेराचीनाः । तथाविधास्ता कथं स्वोत्पत्तेः पूर्वकालीनां सृष्टिं जानीयुः? यतो जगदिदं जातं; तत्वं जानाति? (५) (१) नासदासीनो सदासीत्तदानीं नासीद्रजो नो व्योमा परं यत् । किमावरीवः कुह कस्य शर्मन्नम्भः किमासीदहनं गभीरम् ॥ (२) न मृत्युरासादमृतं न तर्हि न रात्र्या अहन आसोत्प्रकेतः । आनीदवातं स्वधया तदेकं तस्माद्धान्यन्न परं किञ्चनास ॥ (३) तम आसोत्तमसा गूळ्हमप्रेऽप्रकेत सलिलं सर्वमा इदं । तुच्छेनाभ्वपिहितं यदासीत् तपसस्तन्महिनाजायतकं (४) कामस्तदने समवत्ताधि मनसो रेतः प्रथमं यदासीत् । सतो बन्धुमसति निरविन्दन् हृदि प्रतीच्या कवयो मनीषा ॥ (५) को अद्धा वेद क इह प्रवोचत् कुत आजाता कुत इय विमृष्टिः। अर्वाग्देवा अस्य विसर्जननाथा का वेद यत आधभूव ॥ ॥ ॥

काव्यतत्वावली। on यत इयं सृष्टिर्जाता यदि वा केनापीयं कृता नैव वेति स एवैको जानीयात य अस्या अध्यक्षः परमे व्योमन्यवतिष्ठते, अथवा सोऽपि न गनीयात । ६ । श्रीम्याकडोनेल साहिबः अस्य सूक्तस्य सौन्दर्यमुपवापि किञ्चि- ह आत्मनो मतं प्रकाशितवान, यद्धि अस्माकं दार्शनिकैरवश्यं द्रष्ट- म । तद्यथा- "किन्त्वत्रापि भारतीयदर्शनानां केषाञ्चित्प्रधानभूता- दोषाणां परिचयो लभ्यते, यथा स्पष्टत्वस्य संगतश्चाभाव श्शब्दमात्रे हेतुप्रदर्शनस्य निर्भरत्वं शब्दतः केवलंहेतुः प्रदाते, नत्वर्थतोऽपी- [भावः। श्रीमान् म्याकडोनेलः संस्कृतश इति नास्त्यस्माकंलेशतोऽपि सन्दे- । परन्त्वस्य सेयमुक्तिः सत्येति नास्माकं प्रतिभाति । न चात्र तेन ञ्चित्प्रमाणमुपन्यस्तम् । निष्प्रमाणकं च वचनं कथमुपादेयं परी- कैः ? अस्माकं दार्शनिकाः पुनः किं मन्यन्ते ? विधुशखरशर्मा काव्यतत्त्वावली। इदानीमभिज्ञानशकुन्तलस्य उत्तरचरितस्य च सामान्यतो गुण- षो कथयामः। । अभिज्ञानशकुन्तलस्य भाषा माधुर्यगुणसम्पन्ना, तादृशी भाव ट्रकादेरनुकूला विप्रलम्भकरुणरसयोरप्यनुगुणा भवति । यथा उक्त "इयं विसृष्टि र्यत आबभूव यदि वा दधे यदि वा न । यो अस्याध्यक्षः परमेव्योमन् सोंग वेद यदि वान वेद ॥” ६ *“But evenhere may be traced some of main defects Indian philosophy-lack of clearness and consistency th tendency to make reasoning depend on mere orks." SANSKRIT LITERATURE, p. 137. २ १० मित्रगोष्ठी-पत्रिका। काव्यप्रकाशे “आप्रल्हादकत्वं माधुर्य शृगारे द्रुतिकारणम् । करुणे विप्र लम्भेतच्छान्तेचातिशयान्वितम्" "इति ८म उल्लासः।२०।२१ कारिका एवं साहित्यदर्पणेऽपि “चित्तद्रवीभावमयोल्हादो माधुर्यमुच्यते सम्भोगे करुणे विप्रलम्भे शान्तेऽधिकं क्रमात् ॥” इति ८मः परिच्छेद ६०८/६०९ कारिका॥ माधुर्यगुणव्यक्ती च- मूर्ध्नि वर्गान्त्यवर्णेन युक्ताष्टठडढान् विना । रणौ लघू च तदव्यक्ती वर्णाः कारणतांगताः । अवृत्तिरल्पवृत्तिर्वा मधुरारचना तथा ॥ इति ॥ यथा अभिज्ञानशकुन्तले- इतः प्रत्यादिष्टा स्वजनमनुगन्तुं व्यवसिता स्थिता तिष्ठेत्युच्चैर्वदति गुरुशिष्ये गुरुसमे । पुनदृष्टिं वाष्पप्रकर करकलुषामर्पितवती मयि क्रूरे यत्तत् सविषमिवशल्यं दहति माम् ॥ इत्यादौ सर्वत्र दीर्घसमासरहिता रचना यथा अनुतापविप्रलम् व्यञ्जिका तथा नाटकस्यापि अनुकूला । उत्तरचरितस्य भाषा तु दीर्घदीर्घसमासबहुला उद्धतवर्णसंकुर चेति करुणरसस्य विप्रलम्भरसस्य च प्रतिकूला नाटकादेरपि प्रा कला उक्त हि साहित्यदर्पणे ९म परिच्छेदस्यान्ते “क्कचित्तु वक्त्रा चित्यादन्यथारचनादयः। प्रबन्धौचित्याद्यथा नाटकादौ रौद्रेऽपि अभि यप्रतिकूलत्वेन न दीर्घसमासादयः" इति । यदा रौद्रादौ रसेऽपि दीर्घसमासादयो निषिद्धास्तदा विप्रल करुणादौ तु अत्यन्तमनुचिता एव ते ॥ इत्यनौचित्यं नाम रसस्य दोषोऽयम्॥ यथा उत्तरचरिते द्वितीयांके- "इह समदशकुन्ताक्रान्तवानीरवीरुत्- प्रनवसुरभिशीतस्वच्छतोया वहन्ति ।

- ---- काव्यतत्वावली । ११ फलभरपरिणामश्यामजम्बूनिकुञ्ज- स्खलनमुखरभूरिस्रोतसो निर्झरिण्यः॥" इत्यत्र समदेत्यारभ्य 'तोया' इत्यन्त एकः समासः फलेत्यारभ्य तस इत्यन्तोऽपरः समास इति दीर्घसमासा उद्धता वर्णाश्च । तिष्ठतु वित् पद्ये दीर्घसमासः प्राकृतभाषायामपि दीर्घसमासो दृश्यते यथा तीये अंके सांता । “दिआि कहं पहादचन्दमण्डला पण्डरपरि खामदुर्वलेण आआरेण निअसोम्मगम्भीराणुभावमेत्त पच्चभिजा ज्जो एश्व अज्जउत्तो होदि' इत्यादौ । इत्थमुत्तरचरिते प्रायण ख़िदीर्घसमासा उद्धताश्च वणा दृश्यन्ते इति । स नाटकस्य दोषः उत्तरचरिते अर्थदोषोऽपि सामान्यत उक्तएव । उत्तरचरितस्य अ. हि प्रायेण प्रौढोक्तिसिद्धा एवेति प्रागेव उक्तम् । क्वचिदर्थयोर्विरोधोऽपि दृश्यते तथाहि भवभूतिना वाली नाम वा. राजो रावणमातामहन माल्यवता रामस्य वधार्थमनुरुद्धः प्रेषितश्च ली च रावणस्य मैत्री स्मरन् तस्या निष्क्रयार्थ रामवधं कर्तुमभ्यु जगाम । अथ प्रवृत्ते संग्रामे रामेण प्रकाशमेव एकेन शरेण निहतो ली पपात ममार च इति । उत्तरचरिते पुनर्लवश्चन्द्रकेतुमुवाच यथा पञ्चमे अके- वृद्धास्ते न विचारणीयचरितास्तिष्ठन्तु हुं वर्तते, सुन्दस्त्रीमथने- प्यकुण्ठयशसालोके महान्तो हि ते। यानि त्रीण्यकुतोभयान्यपि पदान्या इन खरायोधने, यद्वा कौशलमिन्द्रसूनुनिधने तत्राप्यभिशोजनः ॥ इत्यत्र द्रसूनोलिनो निधने यत्कौशलं प्रच्छन्नेन रामेण शरक्षेपणं तत्रापि नोऽभिज्ञ इति यदुक्तं तन्महावीरचरितस्य विरुद्धमिति पूर्वापरवि "शोऽयमर्थ: । ननु लवेन रामायणमेवाधीतमतस्तत्रोक्तं वालिवधस्य छलं लधेनोक्तमिति को दोष इति चन्न यदाभवभूतिना धीरोदात यकस्य रामस्य कपटतादोषस्पर्शशंकया दनिराकरणाय रामायणस्प योन्यथा 'कल्पितस्तदा उत्तरचरितपि आत्मन उतिरेषानुससंध्या ली १२ मित्रगोष्ठी-पत्रिका। नतु रामायणस्य । एवञ्चमहावीरचरितेन सह उत्तरचरितस्योता विराध एवेति पर्यालोच्यतां सहृदयैः ॥ किश्च उत्तरचरितस्य अर्थकल्पनायाम् असंगतिरपि दृश्यते तथाहि बाल्मीकेस्तपोवन तमसानधास्तीरे तमसानदी च हिमवत उत्पद्य गंगायां प्रविष्टा। आत्रेयी नदी तु विन्ध्यपर्वताज्जाता दण्डकारण्य प्रविवेश सुतरां वाल्मीकेस्तपोवनस्य समीपे आत्रेय्या नद्या गन्धोपि नास्ति परन्तु दण्डकारण्यस्य वनदेवतया वासन्त्या आत्रेयी पृष्टा- आर्ये आत्रेयि, कुतः पुनीरहागम्यते किंप्रयोजनो दण्डकारण्योपवर प्रचारः? आत्रेयी । अस्मिन्नगस्त्यप्रमुखाः प्रदेशे भूयांस उद्गीथविदो वसन्ति । तेभ्योधिगन्तुं निगमान्तविद्या वाल्मीकिपा दिह पर्यटामि ॥ इत्युत्तरं ददौ । इयं कल्पना कथं संगच्छते यदि वस्तुतएव आत्रेयी तमसातीरस्थात् बाल्मीकितपोवनात् प्रवृत्त्य दण्डकारण्यप्रवेशमकरि ध्यत् तदा 'बाल्मीकिपादिह पर्यटामीति' उक्तिरपि समगमिष्यत वाल्मीकेस्तपोवनच तमसातीरे इत्यपि उत्तरचरिते उक्तं वाल्मीकि हि स्नातुं तमसानदी गच्छन् व्याधेन विद्धं क्रौञ्चं दृष्ट्वा "भा निषाद प्रतिष्ठांत्वमित्यादिना पद्येन व्याधं शशापेति। सेयमर्थस्य असंगतिरिति नन्विय मात्रेयी न नरूपा परन्तु देवतैव सुतरां दिव्यप्रभावोद रश्यायास्तस्या वाल्मकिपावादागमने नास्त्यसंगतिरिति चेन्न नदी- रूपाया आत्रेय्याएव अधिष्ठात्री देवता सेयमात्रेयी एवञ्च नदीरूपा आत्रयो यतःप्रदेशात् यत्र जगाम तदधिष्ठात्री देव्यपि ततः प्रदेशात तत्र गतेति कल्पनैव युक्तियुक्ता भवति न पुनः तदन्यथा कल्पनापीति विचार्यतां सुधीभिः॥ मम्प्रति उत्तरचरितस्य अभिज्ञानशकुन्तलस्य च वस्तु (इतिवृत्त) मामेण समालोच्यते- ।

काव्यतत्वावली। १३ नाटकेषु कार्यस्य पञ्च अवस्थाः सन्ति। ताश्च आरम्भः१। यत्नः२। प्रत्याशा ३ । नियताप्तिः प्राप्तिनिश्चय इत्यर्थः ४ । फलागमः फलो रः५॥ तासामवस्थानां मध्ये मुख्यफलसिद्धये यदौत्सुक्य सा आ. भावस्था, उक्तं हि साहित्यदर्पणे "भवेदारम्भ औत्सुक्यं यन्मुख्यफल द्धिये" इति ॥ उभयोरेव नाटकयोर्मुख्यं फल नायकयोः पनीपुत्रलाभः। उत्तर- रेते नायकस्य रामस्य सीताकुशलवप्राप्तिः। अभिज्ञानशकुन्तले च पकस्य दुष्मन्तस्य शकुन्तलासर्वदमन (भरत) प्राप्तिः । उत्तरचरितस्य आरम्भावस्थायामष्टावक्र ऋष्यशृंगाश्रमादागत्य शेष्ठस्य सन्देशं राममुवाच जामातृयज्ञेन वयं निरुद्धास्त्वंवालएवासि श्वराज्यम् । युक्तःप्रजानामनुरञ्जनेस्यास्तस्माद्यशो यत्परमधनवः॥' तत्श्रुत्वा रामः “यथासमादिशति भगवान् मैत्रावरुणिः, स्नेहं दया जौख्यं च यदिवाजानकीमपि। आराधनायलोकस्य मुंचतो नास्ति मे " इति यदुवाच तस्य फलं सीता निर्वासन ॥१॥ ततः स्वच स्य चित्रदर्शनप्रसंगे जृम्भकास्त्राणि दृष्ट्वा सीतां यदुवाच “सर्वथा नीं त्वत्प्रसूतिमुपस्थास्यन्तीति" तस्य फलं कुशलवयोर्जातमात्रयो भकास्त्रलाभः ॥२॥ ततो गंगायाचित्रं दृष्टवा यदुवाच " सात्व स्नुषायामरुन्धतीव सीतायां शिवानुध्यानपराभवेति" तस्य फलं याः प्रसवकाले प्रसूतिधारण समाश्वासनं रक्षा च ॥ ३॥ अथ याः परित्यागकाले पृथिवीं यदुवाच "भगवति वसुन्धरे सुश्लाघ्यां तरमवक्षस्व जानकी” मिति तस्य फलं सीतयाप्रसूतयोः पुत्रयोरेक प पृथिव्या धारणं प्राणपरित्यागव्यवसायात् सीताया निवारण ४॥ इत्येते चत्वारः फलोदयेन सह आरंभावस्थायाः संबन्धाः॥ तु मुख्यफलसिद्धये औत्सुक्यं आरंभावस्थाया लक्षणमुक्तं । अत्र पुनः लाभार्थं तत्पुत्रलाभार्थ वा औत्सुक्यं नास्स्येव प्रत्युत तद्विपरीते . १४ मित्रगोष्ठी-पत्रिका। सीतानिर्वासने एव निश्चयोदृश्यते निर्वासनमपि पुनः प्राप्त्याशारहि मेव यतोरामः निद्रितायाः सतिायाः पादौ शिरसिधृत्वा" अयं पश्चिर स्ते वामशिरसि पादपंकजस्पर्श" इति रुदन्नुवाच । पश्चिम इति वि षणेन इतः पश्चात् तवचरणस्पर्श न प्राप्स्यामीति सूच्यते सुतरांमुरु फलसिद्धरारंभावस्था इयं न युज्यते ॥ इत्येतञ्चिन्त्यम् ॥ द्वितीयेचांके आत्रेय्या नद्या सह दण्डकारण्ये वनदेवताया वासन्त उक्तिप्रत्युक्तिरूपेण विष्कम्भकेण भूतवर्तमानभविष्यद्वत्तान्ताः सूचित तेच रामाज्ञया लक्ष्मणेन परित्यक्ता सीता गंगायामात्मानं चिक्षेप त वान्तर्जले द्वौ पुत्रौ प्रसूतवती, तौच गंगापृथ्वीभ्यां धृतौ सीता च सर श्वासिता पाताले त्रयस्ते रक्षिताश्च । रामोऽपि अश्वमेधयज्ञाय मध्यम मुमोच तस्य रक्षकश्च लक्ष्मणस्यपुत्र श्चन्द्र केतुरश्वमनुसरन् परिभ्र ति । अथ रामः शम्बूकं शूद्रतापसं हन्तुं पुष्पकेण विमानेन तमन्विष्ट पृथिवीं पर्यटति, शंवूकस्तु दण्डकारण्यएव तपस्यतीत्यतारामस्य दप कारण्ये पुनरागमनं संभवेदित्येतावंतो वृत्तांताः॥ अथ रामो दण्डर रण्यं प्रविश्य शंबूकं हत्वा तस्य दिव्यतां प्राप्तेन आत्मना आलप्य अगर स्य आदेशं च तन्मुखात् श्रुत्वा अगस्त्यमाभवादायतुं तदाश्रमं जगामे द्वितीयांकस्य वस्तु । अस्मिन् वस्तुनि मुख्यफलस्य सीतालाभस्य । लाभस्य वा उपाये रामस्य यत्नगन्धोपि न व्यज्यते सुत नेयं यत्नावस्था;सहि प्रयत्नस्तु फलावाप्तौ ब्यापारोतित्वरान्वित इति यदि च चंद्रकेतुना सहलवस्य युद्धंभविष्यति तत्र राम आगत्य कुशल पुत्रौ प्राप्स्यति इति परंपरया फलोदयेन सह संबंधो वर्तते तथापि पु लाभाय रामस्य नासीत् कश्चित् यत्न. । पुत्रलाभस्तु इच्छांविनैव का तालीयन्यायेन देवात् सम्पन्नः॥ रामस्य दण्डकारण्यगमनेन र फलोदयस्य पुत्रलाभस्य अंगांगिभावश्च न प्रतीयते । द्वितीयतृतीययो योर्वस्तुभिः सह उपसंहारसंधेः कश्चित् संबंधोपि कविना न दर्शि येन प्राप्त्याशावस्था शायेत उक्तं हि उपायापायशंकास्यं प्राप्त्याशापा संभवः । इति । रामस्य सीताप्राप्तौ पुत्रप्राप्तौ वा कापि नालीदार रामोहि भपुनर्ग्रहणाम सीतां निरवासयत् । भतएव सृतीयांके काव्यतत्वावली। १५ के "कथं तूष्णीं सहयो निरवधि रिदानींतु विरहः"। इति विललाप ताया अपि तेनैव विलापेन रामप्राप्तेराशाभग्ना । तथाहि सीता 'वहु. 'णिदह्मि पूर्वविरहे। निरवहित्ति हा हदह्मि इत्युवाच।' अतः सीताया पे प्राप्त्याशानासीदिति निश्चीयते । अपिच रामो यदि सीताप्राप्तेरा मकरिष्यत् तदा अश्वमेधयागार्थ सीताया हिरण्मयी प्रतिकृतिं ना रेष्यत् सुतरां गर्भसंधिरपि न सुश्लिष्टः। विमर्षसंधौतु नियताप्तिरव नियताप्तिश्च प्राप्तर्निश्चयः । अदृश्यया सीतया रामे स्पृष्टे सति वासंती ते रामेण यदुक्तं “सखि किमन्यत् । पुनरपि प्राप्ता जानकीति" तदेव दे नियताप्तिरूपावस्था स्यात्तदा विमर्षसंधिः संगच्छते परंतु बादेव राम उवाच "व्यक्तं नास्त्येव कथमन्यथा वासन्त्यपि न प- त् । अपि खलु स्वप्न एष स्यात् ? नचास्मि सुप्तः कुतो रामस्य निद्रा थापि सएवैष भगवाननेकवारकल्पितो विप्रलंभः पुनःपुनरनुवनाति म्" । इति यदुवाच तेन नियताप्तर्विरोधो दृश्यत इति चिंत्यताम् । च आरंभयत्नप्राप्त्याशा नियताप्तयश्चतस्त्र एव रामकार्यस्य अवस्था रचरिते न सुसंगच्छंते परंतु फलयोगावस्था अतीव मनोहारिणी। त उपसंहारसंधिरुत्तरचरितस्य मनोहरः । स हि नाटकस्य मध्ये रेण नाटकेन अभिनीयत इति चमत्कारविशेषमावहति । रसदोषोऽप्युत्तर चरिते दृश्यते तथाहि तृतीयांके सीताया रामस्य पुनःपुन मूर्छा वर्णिता । प्रथमतो रामस्य कृशं पाण्डुमाकारं दृष्टवा ताया मूर्छा, ततो रामस्य मूर्छा, ततो वासन्त्या मोहः। अथ रपि रामस्य मूर्छ । ततश्च सीताया अपि मूर्छा । इति रामस्य पुना रसस्य दीप्तिः सीतायाश्च पुनः पुना रसस्य करुणविप्रल- त्य दीप्तिः कथिता, स एवायं रसदोषः। उक्तं हि साहित्यदर्पणे यप्रकाशे च "अकाण्डे प्रथनच्छेदौ तथा दीप्तिः पुनःपुनः ॥” उदा- च दर्शितं कुमारसम्भवे महाकाव्ये रतिविलापे रत्याः पुनः पुन- कस्य दीप्तिः, तद्वदनापि दृश्यतां सहृदयैः । श्रीमहेशचन्द्रशर्मा। .

१६ मित्रगोष्ठी-पत्रिका। प्रश्नः। * वर्तमानलोकस्थित्यर्थ धर्मसंस्कारस्य प्रयोजनमस्ति न वा । उत्तरम् । वंगवेदविद्यालयाचार्यस्य वैदिकधुरन्धरस्य पण्डितवर- श्रीसत्यव्रतसामथमिमहाशयस्य । प्रयोजनमस्ति परमिदानी प्रायः सर्व एव पण्डितम्मन्या, अपणि ता न दृश्यन्ते, तथा सर्व एवोपदेशकम्मन्या उपदेश्या न रश्यन एवं सर्व एव शास्तृमानिनः, शासनीया नदृश्यन्ते तत्कथंकार सम् वेद्धर्मसंस्कार इत्यतोऽत्रास्माकं मौनावलम्बन मेव श्रेयः । वाराणसेय-महामहोपाध्याय-सर्वतन्त्रखतन्त्र-श्रीराममिश्रशास्त्रिणः- धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः । तस्माद्धर्मो न हन्तव्यो मा नो धर्मो हतोऽवधीत् ॥ इदानीं धर्मसंस्कारोऽत्यन्तावश्यकः । इतरथा मन्दमतयो जना धत्बे वैदिकधर्ममतिसुकरानुष्ठानमपि दुरनुष्ठानं मन्यमानास्त्यजे रुच्छिन्ाश्च शाश्वतिकी भारतेऽत्रचलितसनातनधर्ममर्यादा मधोऽ गच्छेयुश्च नरकेषु । किञ्च कृश्चनमतप्रवर्तका धर्मच्छिद्रमितस्तत गवेषयन्तः स्वमतं देशे प्रवेश्य वैदिकमध्वानं भ्रंशयेयुः। ते हि नग प्रामोपवनखवटेषु अटाट्यामचरन्तो जनमानसानि वैदिकधाद्विमुख यन्त उपमृद्रीयु रिमामस्मदीयां पूर्वपुरुषनिषेवितामाब्रह्मणोऽहराग प्रारब्धां धर्ममर्यादां कुर्युश्च न केवलं वर्णानां सांकऱ्या, किन्तु सर्वथ च्छेदम् । एवं च धर्मस्यावश्यसँस्करणीयत्वे सर्वप्रथमतो विदेशयात्र सँस्कारः कार्यः । इदानीन्तनाः स्वस्वधर्म नाचरन्ति, किन्तु तन्नान परमतमाक्षिपन्ति, तेन स्वयमाक्षेपविषयतामुपयान्ति, कदाचित्तु त * पार्ता द्रष्टव्या।

प्रश्नोत्तरम् । वैवादेषु भवन्ति तादृशा दुराभियोगा येषां शमनं राजधर्माधिकर- भवति, न ततःप्रागिति देशे तादृशी शिक्षाप्रणाली प्रचालनीया, अयं लोकः स्वधर्मानुष्ठानपरायणः परधर्माणामनाक्षेपकश्च भवेत् तः शिक्षाप्रभावतश्च । ततः परं सामाजिकव्यवहारमार्गशोध- विश्यकं, यथा यज्ञोपवीतविवाहश्राद्धादिक्रियासु लोका वृथा- कुर्वन्ति शास्त्रीयावश्यकद्रव्यव्ययस्थानेषु च संकुचन्ति । मूखैः पुरोधोभिरुपरुध्यन्ते कर्माणि, एवं च बहुव्ययं कुर्वाणा, लोकेषु कामयमाना. पारलौकिकसुखभ्रष्टा इह लोके ऋणभारग्रहि- वन्तीति अत्रापि विषये धर्मसंशोधनमुचितमावश्यकं च । . बंगेषु रंगपुरवास्तव्यस्य महामहोपाध्याय पंडितराज श्रीयादवेश्वरतरत्नमहाशयस्य-- वेधिना विनिषिद्धो लोकस्थितये अनुष्ठीयतां तावद्वयवहारो नोचे- ष्ठीयतां लोकस्थित्यर्थमपीति । समुद्रयात्रायां म्लेच्छदशगमने वा तिः श्रूयते चेत्-श्रुतेः स्मृतेः तन्त्रात् पुराणाद्वा, सर्वथा परि- यं कर्त्तव्यकर्मनिरतैरपि तत्तत्कर्म । वृहन्नारदीयपुराणवचने यत् ते समुद्रयात्रानिषेधः, स खलु न तावत् समुद्रेण यात्रां ज्ञापयति- पति तु मरणार्थ समुद्रप्रवेश-जलप्रवेशमिति, सकर्मकगमनार्थ- 'धातोरकर्मकत्वविवक्षायां मानाभावात् । वचनेऽस्मिन्नादित्यपु. चनान्तरे च भृग्वग्न्यादिमरणनिषेधो ब्राह्मणानां मरणान्तिकप्रा- तनिषेधोऽपि श्रयते, तत्र तत्र तत्तदर्शनेनं तथा कल्पनीयं; वाक्य- या। “समुद्रयात्रा"पदमप्युपलक्षयत्यग्निप्रवेशं भृगुपतनादिक- मन्यामहे 'होलाकाधिकरण'न्यायेन । यत्तु 'समुद्रयायिनः' हव्य- नहणीयत्वमुक्तं साक्षात् श्रुत्यर्थमवगच्छता भगवता मनुना मनु- सायास्तृतीयाध्याये “समुद्रे यो वहित्रादिना द्वीपान्तरं गच्छती". म्यते च कुल्लूकभव्याख्यानं, तदपि प्रख्यातनामधेयानां प्रथित ३ १८ मित्रगोष्ठी-पत्रिका। यशसां प्राचीनपाण्डितानां मतम् अतस्समीचीनमिदमित्यखण्डनीर चीनैः पराचीनैरपरिचितशास्त्रार्थैरस्माभिः । तथापि क्षत्रियाण श्यानां शूद्राणां च न निषिध्यते तेन वचनन, तेन व्याख्यानेन च स द्रयायित्वं । ये खलु दैवे पैत्रे च कर्मण्यहणाऱ्या भवन्ति तेषामेव लं निषिध्यते तथात्वं ब्राह्मणानां । येत्वापदि वैश्यवृत्तिमनुसरन्त तिष्ठन्ति च, तेषामपि न निषिध्यते ब्राह्मणानां । पतितानामादौ । कव्यानहयित्वमुल्लिख्य 'समुद्रयायि' पदस्य पुनरुल्लेखनादना समुद्रयायिनां ब्राह्मणानां युद्धाचार्याणां वशिष्ठ-द्रोण-कृपाणामिव कित्सकानामिव च पतितत्वमपि नापतितम्, उपपादितमुपपातकमि इतः कान्याह्यस्ति ब्राह्मणानामापत् ; यया किल कलेोरेऽस्मिन् । केवलमुदरभृत्यर्थ भृत्यतारूपमवलम्वमाणैः स्वेच्छाचारैम्लेंच्छचर पानच्चुम्वनचतुरैश्चतुर्णा वर्णानामाराध्यैरपि म्लेच्छभाषाध्यायि प्रोज्ज्वलज्वलनप्रतिमभृगुप्रभृतिमहर्षिमहसः उद्भूतैरपि ततो ना काचित्प्रपद्यते पद्या ! महापद्यापतितः को नामोपायः अपायमुरु प्रधावद्भिस्तैरेव ब्राह्मणः खसमुद्धरणाय समुद्रेण पथा द्वीपान्तर नमन्तरेण । 'द्वीपानतरगमन मिति फलमुल्लिख्य "फलनिरपक्षा ति:" कथं घटत इति स्वयमेव विवेद सुगृहीतनामा कुल्लूकभट्टः "फलनिरपेक्षाप्रवृत्तिस्ताच्छिल्यामिति” वैयाकरणानां परिभा म्लेच्छदश-गमने तूपपातकसमुत्पत्ति, नंच समुत्पत्तिर्भवत्यतिप कस्य, महापातकस्य, तथानुपातकस्य वाः यस्य यस्य संद पातित्यं जनयति जनस्य । तदेव समर्थयते "म्लेच्छदेशगमना भिनिमित्तै” रित्यादि श्राद्धतत्त्वीयालिखनमपि स्मार्त्तमहाम पाध्यायस्य रघुनन्दनभट्टाचार्य्यस्य ।भुवोमण्डनभूतानामिलंडानां, तपुरुषप्रोथितकतनानां प्राङनागराजनिकेतनानामामरिकाणां, तथे तिसोपानानां जापानानांसंसर्ग:साधयत्यैहिकवर्गद्वयस्य सर्ग। नर प्रजायन्ते प्रजासमृद्धयस्तत्तत्संबंध विना वृद्धीभूताः। नतु विश्र वेलाभूमिषु भवति प्रत्यूहां स्तरंगभंगानुलंध्य पोतानामपूतानां स्वच्छ .

प्रश्नोत्तरम् । १९ रिणां खेच्छाहारविहाराणां म्लेच्छानां संसर्गेण । स्वच्छचरिता र्या अप्यनार्यचरिता. स्वच्छन्दचारिणोभवन्ति,म्लेच्छाचारा भव- त, विचारशून्याभवन्ति पोतमारुह्य । न तत्र विद्यते म्लेच्छपक्कानं ना कोऽप्याहारः । तेषु तेषु देशेषु विद्याव्यपदेशेषु गच्छन्तो भुत्ते लु स्वच्छन्दमेव म्लेच्छछन्दानुवर्तिनोम्लेच्छान्नं तेषां स्वदेशमागता- कृतप्रायश्चित्तानां पूतचित्तानां ब्राह्मणादीनां व्यवहार्यत्वं भवति ति जिज्ञासायामुत्तरयति सन्दहाकुलमुत्तरं "प्रायश्चित्तरपैत्येनो शानकृतंभवेत्। कामतो व्यवहार्यास्तु वचनादिह जायते” इति हवल्क्यवचनं । अप्रतिहतशासनोरघुनन्दनः शूलपाणिरिव ज्ञानतो पातकमनुतिष्ठता तत्क्षयकामेन कृतमपि प्रायाश्चत्तं न तावद. वहार्यत्वमानयति, प्रापसारयति केवलं तस्य नरस्य नरकेऽवतारण व्यभिप्रायमुररीकृत्य याज्ञवल्क्यवचनस्थ “कामतोव्यवहार्य" इत्यत्र कारस्य सत्तामाचख्ये । न तथा चख्यिरे प्रख्यातनामानः प्रांचः चितचरणा जिकनभवदेवभट्टादयः। तेषांमते तु कृतप्रायश्चित्त आर्य- याचार्य्यव्यवहार्यो भवति, न प्रभवति तु नरकेऽवतारणं वारदि- गत्मनः सः । शूलपाणिरघुनन्दनकृतसिद्धान्तः सिद्धस्य साधयति मुनर्योगीन्द्रस्य याज्ञवल्क्यस्य वल्कलावृतत्वं प्रहेलिकायाइव बनस्य। ऋषीणामाचार्याणां च नषारीतिरीतिरेषा ऋषीणामस्तु नवा न्यवचनसंवादेन शूलपाणिरघुनन्दनसिद्धान्तः, सुसिद्धोदृढभूमिः प्रसिदधविद्याधुरन्धरैर्धराधन्यैर्मान्यै विद्वद्भिरनुमोदितः प्रतिभाति । "नास्यास्मिन् लोके प्रत्यासत्तिर्विद्यते कल्मषन्तु निहन्य ते" इति मिताक्षराधृतापस्तम्बवचनन्तव्यवहारनिरोधकस्तम्भः ॥ शरणागतवालस्त्री हिंसकान् संवसेनतु । चोर्णवतानपि सदा कृतघ्नसहितानिमानिति" ॥ ते याज्ञवल्क्यवचनान्तरमपि व्याख्यापयति “कामतो व्य- र्यस्त्वि" त्यशे तस्य याशवल्क्यवचनस्य । न केवलमयं पाणि-रघुनन्दन-मतसिधः सिद्धान्तः, संस्कर्ता बौद्धसृष्टाचार २० मित्रगोष्ठी-पत्रिका। प्रच्यवते पुनः। " संसृष्ट वैदिकाचाराणां, परिष्कर्ता कुतर्कजालावद्धशास्त्रपद्धतीन माविष्का विवतवादानां, कावेदान्तभाष्याणां, त्रयीनिधारा वावतारः शिवावतारस्तारको नराणां नरकेभ्यः, सर्वगुरुः सर्वदशी ब्रह्मसुखस्पर्शी, विद्यामृतवर्षी, बौद्धनिग्रहकारी, ग्रहपतिरिव देदीप्य मानोबहुमानस्तत्रभवान् भगवान् शंकराचार्योऽपि तमेव सिद्धान्तमु निनाय, नायमन्यविधविधानमवदधे, नायमभिदधे न तथादध्यौ च वेदान्तदर्शनस्य तृतीयाध्यायस्य “वहिस्तूभयथापि स्मृतेराचाराच्चे ति"त्रिचत्वारिंशत्तमसूत्रस्य व्याख्यानावसरे"शिष्टस्तेवहिः कर्तव्याः” आरूढो नैष्ठिकं धर्म यस्तु प्रायश्चित्तं न पश्यामि येन शुध्येत् स आत्महा ॥” इति आरूढपतितं विष मण्डलाच विनिःसृतम् । उद्वद्धं कृमिदच स्पृष्ट्वा चान्द्रायणं चरेत् ॥" इति निन्दाशयस्मृतिभ्यः शिष्टाचाराश्च । महि यशाध्ययनविवाहादी तैः सहचरन्ति शिष्टाः। लिखितभिति तेन भाष्यकारेण षण्णा दर्शनान प्रामाणिकटीकाकारो महामहोपाध्यायो भूबृहस्पतिर्वाचस्पतिमिश्रो महामतिीमत्यां तदेव मतं भाष्यव्याख्याव्याजेन व्याजहार "निषिद कर्मानुष्ठानजन्यमेनो लोकद्वयेप्यशुद्धिमापादयति वैधं । कस्यचिदेनसे लोकद्वयेप्यशुद्धिरपनीयते प्रायश्चित्तैरेनोनिवर्हणं कुर्वाणैः कस्यचि परलोकाशुद्धिमात्रमपनीयते प्रायश्चित्तैरेनो निवर्हणं कुर्वाणैः इह लोके शुदिचस्त्वेनसापादिता न शक्यापनेतुं यथा स्त्रीवालघातिनां यथा "विशुद्धानपि धर्मतो न सम्पिवेदिति”। तथाच "प्रायश्चित्तैरपैत्येने यदशानकृतं भवेदिति"। कामतः कृतमपि, वालमादिस्तु कृतनिर्णज ऽपि वचनादव्यवहार्य इह लोके जायते । वचनञ्च "वालनाचे त्यादि । तस्मात् सर्वमवदातम् ॥ ये खल्ववदातचरिता अपि पाश्चात विद्याविशारदास्तस्य वचनस्य रघुनन्दनकृतव्याख्यानं प्रपश्यन्तः सन्त क्रोधकषायितविलोचनाः शास्त्रालोचनपराङमुखाःगह माविष्कुर्वन्त हणार्ह रघुनन्दनं प्रति, ते पामेव सन्तोषमुत्पादयितुमाचार्यस्य मिनल .

प्रश्नोत्तरम् । २१ । सन्दर्भः प्रदार्शतोऽस्माभिः । क्रियेत चेद्वचनस्यान्यथा व्याख्यान ष्ठेिना तथा राजयक्ष्मरोगप्रस्तेन च कृतप्रायश्चित्तेन प्रसज्येत ताव गणां तथाविध-व्यवहारः । उच्येत चेदस्तु तेषां व्यवहार्यत्वं, शास्त्रमायुर्वेदस्तु तत्र वाधामापादयति । कुष्ठिनां यश्मिणामव्य- गर्यत्वे सुतरामेव साक्षादतिपातकं वा, महापातकंवा, तथानुपातक कुर्वतामद्यव्यवहार्यत्वं न निवार्यते, स्मर्यते तत्र विषमशिष्टिदोष दाव इति । ये खलु धनिनो युवानो यौवनोहामोत्साहसिका आत्म- श्वत-पितृसञ्चितधनराशनुित्सादयन्त्यदम्यवासनावशेन, ये वान्ये- वंशधराणां धराधौरेयाणां तथातथाचरणं विलोकयन्तोऽपि दृढ- हमञ्जूषासु सुदृढकपाटवद्धासु रक्षन्ति वक्षःशोणितानीव धनराशीन् वा राजानः श्वेतवपुषां राजपुरुषाणां सेवायामेव व्यापृता अहर्निश- हस्त्रं सहस्रं सहस्रमर्थराशीनां विनिक्षिपन्ति तेषामुपानत्समीपे ते ते लिभिदैन्यखलितैरस्माभिरचनेत्रर्याच्यन्ते, महामहिमानो मह- चरिताः श्रीमन्तो धनवन्तोऽत्रभवन्तोभवन्तो दयापरवशेन श्रीम- वापेक्षिणां भारतवर्षाणां प्रवर्षणेन केषाश्चिद्दविणानां स्थितिरूपा तिरूपामुपकृति प्रकुर्वन्तु ; येन तावत् जयपुरराजइव स्वच्छन्दमा- वारेण पोतमारुह्य समुद्रमुत्तीर्य म्लेच्छभूमिषु विचरन्तु पार्थिव द्याभ्यासनिरताश्चत्वारो वर्णाः, आचरन्तु च भारतभुवि भूयोऽव- में देशहितव्रता देशहितग्रतानि । प्रथमप्रभस्योत्तरमिति लोकोत्तर- रेतानां शंकरवाचस्पतिशूलपाणिरघुनन्दनप्रभृतीनां प्रामाणिका- संदर्भेण दर्भजलप्रेक्षितमिव प्रेक्षावद्भिः पवित्रतममुत्प्रेक्ष्यत इति ॥ -- जयपुराधीश्वर-सभास्तारस्य परमपण्डितस्य श्रीमधुसूदनशर्मणः-- अस्ति प्रयोजनमधिकतरं धर्मसंस्कारस्य । यावता धर्मसंस्कारो स्यान तावदस्माकमभ्युदयेन योगः सम्भाव्यते । संस्कृतस्यैव धर्म- 90023. THEMAMAKRINTIN05108 INSTITUTE NATURE २२ मित्रगोष्ठी-पत्रिका .. स्याभ्युदयसिद्धि प्रति साधनतायाः साधनीयत्वात् । अन्यथा कारण सत्त्वे कार्य्यावश्यम्भावनैयत्यादिदानीन्तनाः सर्वेऽपि धार्मिकाः श्रेय सैव सर्वथा युज्यरेन् । किन्तु तद्विपर्ययेणेदानी “यतोऽभ्युदयनिःश्रे यससिद्धिः स धर्म" इति स्मृत्याभ्युदयसिद्धि प्रत्यसाधारणकारण त्वेन प्रतिपादितस्य धर्मस्य भूयसानुष्ठानेपि भूयसा कृच्छ्रेणैव युक्त दृश्यते । तस्मात् व्याभिचारदर्शनाधर्मस्याभ्युदयकारणत्वं मा व्याह न्यतामित्यवश्यं संस्कारविशेषसंस्कृतस्यैव धर्मस्याभ्युदयसाधन वाच्यम् । न चैतावता पारत्रिकाभ्युदयं प्रत्येवास्य धर्मस्य कारणत्व मस्तीति भ्रमितव्यम् । ऐहिकयावदभ्युदयार्थवादेन प्रवर्तमानानामा स्माकीनधीवधीनां सर्वथा प्रत्यक्षविरुद्धाभ्युदयं प्रत्येव कारणत्वा तिपत्तेरश्रद्धेयत्वात् । तस्मान्मन्यामहे-संस्कारसंस्कृता धर्मा ऐहि कामुष्मिकसविधाभ्युदयसंसाधनाः सन्ति, असंस्कृताःपुनरिमे प्राये कालक्षेपणमात्रफला अनर्थायैव प्रभवन्तीत्यतोऽस्माकमभ्युदयसिद्धर धर्मसंस्कारः परमावश्यकः प्रतिभाति । स च संस्कार कीरशोएं क्ष्यते इति चेत्सत्र घूमः। द्विविधः खलु संस्कारोपेक्ष्यते दोषनिरासा सहकारिसंपत्तिश्चेति। तथाहि-वर्तमानावस्थायामस्मिन् धर्मस्वरू तदनुष्ठानेऽपि वा विद्यते कश्चन दोषसंबन्धः सहकारिन्यूनता चेत्य एव कारणतावच्छेदकरूपालाभादभ्युदयानुत्पत्तिरुपपद्यते। तत्रानुष्ठा तावदेशकालद्रव्यपात्रविधिक्रमादिनियमशैथिल्य विधर्मिसमुत्थापि तकुतर्कानिस्ताराच्छद्धोत्सादश्च भूयान् दोषः प्रतीयते धर्मखरूपे धर्मध्वजिभिर्धनगृध्नुभिर्मूर्खतमैः पौरोहित्याचधिकारपदारूढाह्मण भासैः प्रकल्पितप्रवेशितकतिपयासारभागत्वं महान् दोषः । इमे दोषा धर्मेणाभ्युदये जनयितव्ये प्रतिबन्धका. परिरश्यन्ते । एवमेव द्वे खलु धर्मस्य सहकारिण्यौ भवतो विद्या च नीतिधेति। यथाहि-'किं नु मे स्यादिदं कृत्वा किं नु मे स्यादकुर्वत.। इति संचिन्त्य मेधावी कर्म कुर्वीत वा न वा ॥ इत्येवं लौकिके कर्मणि कार्यकारणविद्योपयोगस्तथैव खलु नित्याय प्रश्नोत्तरम् । २३ पेपि धर्मे विद्याया भूयांसमुपयोग पश्यन्ति । तथाच श्रूयते-'नाना विद्या चा विद्या च, यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव य॑वत्तरं भवतीति'।वेदादधर्मो हि निर्वभाविति स्मरतामपि विद्याया- व पक्षपातः नीतिविदाप्याहुः । 'हात्वा कर्माणि कुर्वीत ना शात्वा किश्चिदाचरेत् । अशानेन प्रवृत्तानां स्खलन स्यात् पदेपदे'॥ इति ॥ स्माद् विद्यासहयोगस्य कुतर्कादिप्रतिबन्धकानुत्थानाय तनिरासाय विश्यकत्वं प्रतीयते। एवं धर्मस्वरूपसंसिद्धयै धर्मनीति म काचित् विस्थापि नितरामपेक्ष्यते। अन्यथा तत्तदधिकारिभेदभिन्नानामनक- पाणां धर्मावान्तरभेदानां व्यवहारसांक-धर्ममर्यादा व्युच्छिद्ये- व । तस्मादधर्मे प्रवृत्तये प्ररोचना,मधर्माश्च निवृत्तये द्वेष, मर्यादानि- प्रभंगदोषे शासनभयं च लोकसमाजे समुत्पादयितुं निग्रहानुग्रहा- पक्रियाविशेषरूपाया राजनीतेरप्यावश्यकत्वं प्रतीयते । तादृशनी- में संग्रहाभिप्रायेणैव स्मरन्त्याचा-:-'धर्मो राजकृतश्च यः' इति। इत्थं विद्यया व्यवस्थितप्रक्रियया च संसाधितात् प्रतिवन्धकासह- धर्मादधश्यमभ्युदयोत्पत्तिर्भवतीति सिद्धान्तः। तथा च धर्म यफलसंसिदथै विद्यानीत्यो:सहयोगसाधनं निरुक्तदोषनिरासश्चेति विधो धर्मसंस्कारो नितान्तमुपयुज्यते इति पश्यामः ॥ .- "विज्ञानचिन्तामणि"-सम्पादकस्य पण्डितवरस्य श्रीमतः पु० नीलकण्ठशर्मणः- धर्म एष खलु लोकस्थितेर्मुख्य कारणम् । आर्यकुलदैव (त?) वायम्। सचाधुना पण्डितम्मन्यानां केषाञ्चनकृतिभिस्वप्रतिपाद- स्त्रस्य दुर्व्याख्यानयाकुलीमधिकमध्यगच्छदिति निर्विवादमेतत् धुना पुनः संस्क्रियमाणे प्रचुरप्रचारे च तस्मिन् यथावदवास्थिति- ते लोकस्येति ।

२४ मित्रगोष्ठी-पत्रिका। तथागतगुह्यकः। "क्षणपरिवर्तिनो हि भावा ऋतचितिशक्ते"रिति दुर्वारेण नियमेनाप रापर इव सुनिर्मलो बौद्धो धर्मोपि देशाद्देशान्तरं पर्यटन् परं पर्यव तत। अस्य धर्मस्योत्पत्तिस्थानं साम्प्रतं "विहार" इति प्रसिद्धो मगध देशः। ततश्चायं वीरणतृणसंस्थानल इव पश्यत एव महता वेगे प्रसर्पन सिंहल-ब्रह्म-श्यामादिषु दक्षिणदिग्विभागेषु नेपाल-तिब्बत चीन-जापानादिषुत्तरादिदिग्विभागषु चोपागमत् । अस्मिंश्च समर मूलत एकस्यापि तस्य स्थानभेदादिमाहम्ना तथा परिवर्तनमुत्पन्नं ये तत्र तत्र विभिन्ननाम्ना व्यपदिश्यमानोऽयं विभिन्नाकारएव संवृत्त इत्थमूदीच्यवस्थितोऽयं बौद्धधर्म उदीच्य बौद्ध महायानम्' 'उत्तरया नम्' चेति अवाच्यवस्थितैस्तु हीनयानम्' 'दक्षिणयानम्' चेत्युच्यते महायानहीनयानयोर्मध्ये हीनयानमेव साम्प्रतमपि कथञ्चिन्मूलतोऽ विकृतं निर्मलञ्च तिष्ठति; महायानन्तु सर्वथा विकृतम् अविशुद्धत च संवृत्तम् । वर्तमान-पेशावर-(Peshawar) नामकनगरवासी 'असंगो नामकः कश्चित् सन्न्यासी नेपालादिप्रदेशेषु रक्तमांसादिभिर्देवोपहार कुर्वाणान् पिशाचादिपूजकान् कांश्चिदसभ्यान् जनान् बौद्धधर्मग्राहणेन वस्तुतोऽभ्युदयं गमयितुमनुग्रहबुद्ध्या तदनुकूल मेव कमपि पन्थान माविश्चकार । यत्र भागतो बौद्धो धर्मो भागतश्च तेषामसभ्यानां तदा नीन्तनो धर्मः संगृहीतोऽभूत् । येन खल्वेतैः स्वकीयधर्मस्येषत्पारिव र्शनमात्रमालोक्याभिनवधर्मस्वीकारे न किमपि वैमत्यं सम्भावितमा सीत् । असंगने विरचितस्य तद्धर्मप्रतिपादकस्य ग्रन्थस्य नाम “यो गाचारभूमिशास्त्रम्” । असंगोऽस्मिन् ग्रन्थे तदानीं तद्देशप्रचलितबाद शास्त्रोपवर्णितस्य 'अवलोकितेश्वरस्य' भगवतोबुद्धस्य चोपासकत्वे स्त्रीपुरुषोभयरूपाःकाश्चिद्देवताः परिकल्प्य महता कौशलेन तामसभ्या विकृतरूपमपि तादृशं बौद्धधर्ममानेतुं प्रामवत् यद्यप्येते मद्यमांस तथागतगुखकः। २५ । रादिभिवोपहारं तत्सेवन न परित्यक्तवन्तः यद्यपि च ते नां प्रसिद्धनाष्टांगिकमार्गेण न कमपि सम्बन्धमधिगतवन्तः न प्रचारितस्तैश्च स्वोकृतोऽयं धर्मः कालेनाभिचारिककर्मभूयि- मायेन्द्रजालादिसंकुलेम विविधध्यानसमाधिप्रभृतिपरिपूर्णेन त्रक' नाम्ना प्रसिद्धन धर्मण पर्यणमतेत्यैतिहासिका वदन्ति । तान्त्रिकयोधर्मयोरन्योन्य कर्थ संमिश्रण जातमिति नेपालात् तानां बौद्धग्रन्थानामालोचनयैव ज्ञातुं शक्यते । केषाश्चिदेषां नां संक्षिप्त विवरणं बहुपूर्व डा० श्रीराजेन्द्रलाल मित्रेण 'नेपाला- । संस्कृत बौद्धसाहित्यम्' इति नाना ( The Sanskrit Bud- | Literature of Nepal, 1882) प्रकाशितम् । एते हि ग्रन्था श्रममंगीकृत्य श्रीमता हडसन् महाशयेन (Brain Houghton gson ) नेपालात् समगृह्यन्त । तेषु ग्रन्थेषु साम्प्रतं प्रकाशिताः उभ्यन्ते। कुतूहलिभिः पाठकैः Asiatic Society of Bengal या परिषदा प्रकाशितं 'बृहत् स्वयम्भू पुराणम्' आनीय द्रष्टव्यं हेन्दुपौराणिकधर्मेण बौद्धधर्मः कथं संमिलित इति । अद्यतु केण धर्मेणायं कथमिव सीमश्रित इति किञ्चित्प्रदर्यते । 'तथा- गुह्यक' मालोचयतां जनानां नूनमिदं चेतस्येकत उदियात् यत्प- रुषार्थाधिगमाय नास्ति खलु लोके तकिमपि सम्भवति, सम्भवेद द्धि उपासकेनानुष्ठातुं न शक्यमिति, अन्यतस्त्विदमपि तस्य प्रतिभायाद् यदमानुषाोचतानां, कथनतोऽप्यतिभैरवं पाप्मान- अस्मद्वन्धुना 'कावागुचि' नामकेन केनापि जापानीय बौद्धपुरो- (यः खलु साम्प्रतं वाराणस्यां संस्कृतमधीते) नेपाल-तिब्बत- सुबहुदिनंपरिभ्रम्य बहवो बौद्धग्रन्थाः स्वदेशनयनार्थ संगृहीताः- पत्रे 'मिलिन्दपरिपृच्छा' दीनां केषांचित् पुस्तकानां नामानि ।, यानि डा. राजेन्द्रलालमित्रकृतोक्तग्रन्थे न धृतानि । साम्प्रत पुस्तकानि पारेसमुद्र गच्छन्ति तत् तदधिगमार्थ भारतमधुना कप्रसादमुदीक्षमाणं तिष्ठतु ! ४

२६
मित्रगोष्ठी - पत्रिका।
H
,
मुत्पादयतां कर्मणां यावत्कल्पनं शरीरिणा सम्भाव्येत तावत्, त
ऽप्यधिकं वा तत्र कृतमिति । तथागतगुह्यको गद्यपद्याभ्यां संस्क
गाथाभाषया चोपनिबद्धः,गाथाभाषा नाम संस्कृतापभ्रंशसंमिश्रणरु
या हि पद्यांशेषु ललितविस्तरे प्रागुक्तवृहत् स्वयम्भू पुराणादौ
प्रयुक्ता।
अपरापरतन्त्रवत् ग्रन्थोऽयं 'पटल' नामधेयरष्टादशभिः परिच
विभक्तः। तत्र प्रथमे समाधभेदाः, द्वितीये बुद्धध्यानप्रकरणं, तृतं
चतुर्थे च पूजासमये विहितानि यन्त्रमण्डलादीनि पञ्चमे रहस्यपू
विधिः, अत्रैव चायं विधिरुक्तो योहि मनस्यपि कर्तुं न शक्यते-
"मातृभगिनीपुत्रोश्च कामयेद्यस्तु साधकः ।
स सिद्धि विपुलां गच्छेन् महायानामधर्मषु॥” इति
षष्ठे तन्त्रेषु बोजमन्त्रवत् केचित् दुर्बोधा मन्त्रा उक्ताः । अ
पूजानिरतस्य साधकस्य भोज्यत्वेनेदमुक्तं, यत्रान्नभोजनं निषित
दृश्यते-
"हस्तिमांसं हयमांसं श्वानमांसं तथोत्तमम् ।
भक्षयेदाहारकृत्यर्थ नचानन्तु विभक्षयेत् ॥"
सप्तमपटले सिद्धिलाभोपाया वर्णिताः।
तत्रेदमतिसुन्दरं तत्त्वं दृश्यते-
"दुष्करैनियमस्तोत्रः सेव्यमानो न सिध्यति ।
सर्वकामोपभोगैस्तु सेवयंश्चाशु सिधयति ॥
अत्र चातिबीभत्सं किञ्चिदुपदिष्टम्-
"भगे लिंग प्रतिष्ठान्य बुद्धविश्वविभावयदिति ॥"
अष्टमे रत्नकेतुनिर्मित भगवतः स्तोत्रं, तत्पूजाप्रकारश्च ।।
वज्रधरस्य पूजाविधिः, तत्रापेक्षितयन्त्र-मन्त्र-ध्यानप्रकाराश्च । ।
तथागतवज्रधरसंवादः, यव वज्रधरण 'महासिद्धिप्रदायक-ना
रहस्यमन्त्रेण सार्ध सविस्तरं पूजाविधिवर्णितः। एकादशे तथागते

तथागतगुह्यकः। २७ इत्यस्य मन्त्रस्य रहस्यं व्याख्याय तयवहाराः प्रदर्शिता द्वाः- ध्यानविशेषेष्वनुष्ठेयानां कृत्यानामुपदेशः, तदधिगमफलकीर्तनञ्च वेह वर्णित यदनुसृते विहिते नियमे सर्वजातीयाः सर्व एवजनाः मायामधिक्रियन्त इति। त्रयोदशे चतुदशेच जपविधय उक्ताः येहि वाङ-मनो-रागादिभिभिन्नाः । पञ्चदशे स्त्रीसेवनेन बुद्धपूजनं स- विहितम् । तत्प्रसङ्गादेवोक्तम्- "द्वादशाब्दिका कन्यां चण्डालस्य महात्मनः । सेवयेत् साधको नित्यं विजनेषु विशेषतः ॥" अस्मिन्नेव पटले कानिचिदाभिचारिकानि ऐन्द्रजालिकानि च ने वर्णितानि। मन्त्राश्चैतेषामुक्ताःयेहि सामान्येन “ॐ, हु, हः " देरूपाः षोडशे रहस्यपूजाविशेषाः, तेषां मन्त्र-यन्त्र-स्थानोपहारा क्ताः, यत्र करणीये होमे आहुतिद्रव्यमित्थमुक्तम्- | "विन्मूत्रमांसतेलाचैराहुति प्रतिपादयेत् ॥” इति ॥ अन्तिमयोस्तु पटलयोर्दुरवगाहाणां विविधानारहस्यानां वर्णनम्, तो बुद्धस्य वज्रधरस्य वज्रपाणेः बोधिसत्त्वानांचान्योन्यं संवा- , यत्र खलु प्रतिपाद्यधर्मविषयकाणि विविधानि तत्त्वान्युक्तानि; धारणा-मुद्रा-न्यास-साधनादीनि च तत्रोपदिष्टानि, स्तोत्रकवचा- च तन्त्रविवोपनिबद्धानि। अत्र च तथागत गुह्यककारेण असन्तु- | स्वकीयेषु प्रागुक्तेषु विधानेषु यदतिजुगुप्सनीयमुक्त तदपि | पाठक:- "समयचतुष्टयं रक्ष बुद्धशानोदधिप्रभोः । विन्मूत्र सदाभक्ष्यमिदं गुह्यं महाद्भुतम् ॥ विन्मूत्रशुक्ररक्तानां जुगुप्सां नैव कारयेत् । भक्षयेद् विधिना नित्यमिद गुह्यं त्रिवज्रजम् ॥ अन्नं वा अथवा पानं यत् किञ्चिद् भक्षयेद् ब्रती । विन्मूत्रमांसयोगेनं विधिवत् परिकल्पयेत् ॥” इति ॥ - .. मित्रगोष्ठी-पत्रिका। परित्यक्तम् । केनचिदा “ अहंवैष्णवः ''अन्यान् देवान् न भजेमिति कृत्वा परित्यक्ता पित्रादिभिः कृतापि वार्षिकी दुर्गापूजा । पितृपिता- महान् अज्ञातवैष्णववर्मान् कथयन् स प्रकारान्तरेण पूर्वपुरुषान् मू- नि मन्यते । अन्ये च निधनाजाताः व्ययाशक्त्या पूजायज्ञादिकं परि त्यजन्तोति यजमाना हसन्ति कं याजयित्वा पुरोधा धनमर्जयेत् । येऽपि यजन्ते तेपि पुरोधला दक्षिणां बहुमत्वा तां हसयन्ति; एकरजतस्थाने गरजतं पादोनरजतं वा कुर्वन्ति एवंदक्षिणापि क्रमशोहसति । या. जनस्यैतावत्यवस्था जाता अध्यापनायाअपि अवस्था सम्यग् हीना, अ- पे एव विद्यार्थिनः संस्कृतं पठन्ति, स्वयं व्ययेन पठितु न शक्नुवन्ति द- रिद्रबालकाहि संस्कृतं पठन्ति येतु समर्थास्ते आङ्गलभाषामधीयते । सुतरां संस्कृतविद्यार्थिनः स्वव्ययेन भोक्नुमप्यसमर्थाः कथंकारं दक्षि- णां दधुः । यदिवा ददति तदा वित्राणि रजतान्येव इति अध्यापनाया अवस्था ज.ता। किं तया धमार्जनं कुर्युरध्यापकाः। प्रत्युत जीवि- कार्य भैश्याणि उपार्जयितु धावन्तः क्वचिददचन्द्र कचिद्वा तिरस्कार प्राप्नुवन्ति । पुरा दशसहस्राण्यपि विद्यार्थिनाममदानेन पुष्णन् मुनिः कुलपतिरासीत् । प्रतिग्रहोऽपि प्रायेण विरलएव यदि कश्चिद्ददाति तदा प्रतिग्रहःसम्भवेत् परन्तु दानमेवं कश्विन करोति कथं दानपात्रं प्रतिगृह्णीयात् । तथाचोकतं कविना- दानं नो कुरुते करोति यदिवा श्रद्धाविहीनं तदा श्रद्धाधयदिवा करोति तदपि प्रायोऽनुतापावहम् । दत्त्वा नाप्यनुतापमृच्छति यदि श्लाघां विधत्ते तदा दाता दोषविनाकृतोन सुलभीयानालधुत्वेन किम् ।। सुतरां दोषशून्यस्य दातुर्दुभत्वात् प्रतिग्रहोऽपि दुर्लभइति । अय वङ्गोषुधनिनोऽभ्युदयकाले अंत्येष्टिकाले वा ब्राह्मणपण्डितान नि- मन्ध्य किञ्चित् किश्चिद्ददति परन्तु तदानमपि पूर्वापेक्षया अल्पतरं जातं क्रमेणाल्पतममपि भवेदिति शङ्कामहे वयम् । तथापि पुरानवदी- संस्कृतभाषा। पाध्यापकानां विसर्जनं द्विवशतान्यासीत् इदानोतु तन पञ्चाशदेष प्र- भूतं विसर्जनं मन्यन्ते दातारः। अपिच पूर्व यावन्तो ब्राह्मणपण्डिता निमन्त्रिता अभवन सम्प्रति तावता मद्धऽपि निमन्त्रितान भवन्तीति कष्टः बलु प्रतिग्रहः । इत्थं पण्डितानां जीविकाकष्टंविलोक्य विद्यार्थिनः सं- स्कृताध्ययनमवज्ञाय आङ्गा लोविद्यामधीयतइति । यद्यपीदानीमने के धनिनः संस्कृतविद्यार्थिनां भोजनादीनि दत्त्वा, अध्यापकेभ्यश्च वृत्ति दत्त्वा विद्यालयांश्च संस्थाप्य छानानध्यापयन्ति तथापि पण्डिता भूत्वा ते किंकुर्वन्तु इति कोऽपि न भावयति । तदहं मन्ये यदि पण्डिताना कश्चित् द्रव्यार्जनोपायो जायते तदा वहवएव छात्राः संस्कृतं पठेयु- रिति । स चोपायः पण्डितानां वृत्तिशालिनि कस्मिंश्चितकर्मणि नियोजनमेव । पुरा हि हलायुधभट्टादयः पण्डिताः केचन सान्धिविग्र- हिका: केचन गणनाध्यक्षाः अन्येचान्यस्मिन्नु मतपदेऽधिकृता आस- नितिन तादृशे कर्मणि दास्यशङ्का कतव्या । यद्यपीदानी तादृशा राजानो न सन्ति तथापियाहशानिनो रा- जान उच्यन्ते तादृशैरेव निजामात्यपदेषु पण्डिता नियोजयितु शक्यन्ते । ये ये धनिनो विद्यालयान संस्थाप्य संस्कृतविद्यामध्याप्य विद्यार्थिनः पण्डितान कुर्वन्ति ते यदि स्वतः परतोवा तेषां वृत्त्युपायं किञ्चित् कम तेभ्योदत्त्वा दापयित्वा वा तान् सुस्थितान् कुर्युस्तदा संस्कृतविद्याया उन्नतिः संस्कृतपण्डितानाच स्थितिः सम्भवति । यदा पण्डिताः पञ्चदश विंशति वा रजतानि मासिकी वृत्तिं प्राप्य विद्यालयेषु शिक्ष- कत्वं कुर्वन्ति तदा धनिनः पञ्चदश विशति वा रजतानि तेभ्योदत्त्वा कम कारयितु न शक्नुवन्तीति दूरापेतमेतत् । परन्तु ते विद्यार्थिनः यथा गणनां विषयकर्माणिच विद्यालयेषु शि- क्षितु महन्ति तथाव्यवस्था कर्तव्या अपिचाङ्ग ल भाषा मपि यथा अध्येतु पारयेयुस्तथा यत्नोऽपि कर्तव्यः । आग लविद्या यदि सखीव संस्कृतविद्यायाः सहकारिणी स्यात् तदा मणिकाञ्चनयोगाय संस्कृत- ।

मित्रगोष्ठी-पत्रिका। विद्यापि परमशोभना भवेदित्यसमाकं मतम्। जीविका च तया सं. तविधया सुकरा भवेत्। (क्रमशः) श्रीमहेशचन्द्रतर्कचूडामणिः । :०:-- . मत्स्यामस्य मुकरः । * ( जापानीयोपकथा) पहुपूर्वम् 'इचिगो' विषये 'मत्सुयाम' नगरे कश्चिदनुगुणः परि- धारोन्यवसत् तस्मिन्नेको भद्रो गृहपतिः, तत्सहधर्मिणी, तयोश्चैका शिशुटुंहिता भासन्। अयं खलु परिवारकर्ता कदाचित कस्मैचिदधजनीयाय कर्मणे तमगरं परित्यज्य गन्तु प्रयतोऽभवत् । साम्प्रतं तन पर्यटनस्य लौहवर्मादयो बहवः सुखोपाया विद्यन्ते परन्तु पुरातनसमयेषु नैतादृशं पर्यटनसौकर्यमासीत् । तदानी किल 'इचिगो -विषयात् तस्य तदानीन्तनी राजधानी क्योटो' नगरी बहुभिर्दिवस: पद्भ्यां गन्तव्याभूत् । अतो न केवलः पथिकः स एव, किन्तु तद्वियोगमापद्यमाना तस्य पत्नी कन्यका चेति सर्वेऽपि ते चित्तोगपरीता अभवन् । पतिरवोचत-"यथासम्भवं त्वरितमहं प्रत्यावतिष्ये, सर्वमे- पाहं ममास्यामनुपस्थितौ तुभ्यं विसृजामि आशंसेच-त्वं तथा प्रय- तिष्यसे, यथास्माकं बहुमतेयं वत्सा न क्लिश्यत इति"। दयिताया नयने अश्रु भिः प्लवमाने संवृत्ते । उक्त तया "प्रिय- स्यात्मनः कृते तुया यावत् सम्भाव्यं यत्नः समास्थ्यः, अन्य कर्मणः सम्पत्त्यनन्तरं नैकमप्यधिकं दिनं तत्र त्वयावस्थेयमिति'। * "The Mirror of Matsuyama” (Jwaya's Fairy Tales Old Japan. बस्यानुवादः ।

. मत्मयामस्य मकरः। ३७ अथ तद्वियोगदुःखं सर्वथानवबुध्यमाना तयोः सा मुग्धस्वभाषा शिशुकन्यका अपरापरशिशुरिष पितुः परिच्छदान्तं गृहीत्वा परि- बजमाना तं तदानीमवदत्-"तात, तवेह वियोगसमये काममा सुशीला तिष्ठेयं, तत् त्वया मदर्थं किञ्चिदुपायनमानेयम्' । पति हादगन्तुमुदयुक्त। पत्नी तनयामक निधाय प्रवेशद्वारप- पंन्तं तमन्वगञ्छत, अपश्यञ्च यावत्तदुष्णीषं दूरकुहेलिकया नावियत । माताकथयत्-" भद्र वत्से, पिता तावत् ते प्रयातः, त्वमिदानी जनन्या सह सुशीलशिशुरिव गृहं रक्षिष्यसि"। "एवं, परन्तु प्रत्यावृत्ते ताते, उपायनमेक मे प्रदातुन त्वं जननि तं प्रार्थयिष्यसे ?" 'नूनमहं प्रार्थयिष्ये, कांचिन्मनोरमां शालभञ्जिकामानेतु दृढ. सङ्कल्पार्थ माता ते पितरं याचितवती; स तां तत्कृते ध्रुवमानेष्यति''। अहो कमिदं शोभनं ! कमिदं शोभनम् !" दुहिता विल. सत् स्ववदनमण्डलं पश्यन्त्या मातुद्वि गणं प्रियासीत् । सा खल्यव. काशसमये सुतया सह कदाचित केलिपुत्रकेभ्यो भोजनोत्सवप्रदानेन कदाविद्वा तस्यै चेतोरञ्जनेन प्राचीनकथाकथनेन गच्छत्सु विप्रयो- गदिवसेषु आत्मानं विनोदयितु किञ्चिदालम्बन भिवाध्यगच्छत् । पतिः स्वकृत्यं सम्पाद्य 'क्योटो' नगरात् त्वरितं प्रत्यावर्तत । टूरपर्यंटनेन तस्य पाणिपादं वदनं च सूर्यकिरणेन तथा दग्धमिवाभूद यथा यदा स प्रत्यागतः, तदा तत्सम्बन्धिनो जनान् विना नान्यः को- ऽपि प्रथमं तं प्रत्यभिज्ञातुमशक्नोत् । तावन्तं दीर्घकालं सानुरागं चिन्तयन्ती तु तस्य पत्नी कन्यका च निसर्गतस्तत्क्षणमेव तमभ्यजा- नीताम् । स तयोरेका दक्षिणतः, अपरां च वामतः संस्थाप्य कुशल- प्रश्नमपृच्छत् । तेऽपि तस्मै तस्य स्वास्थ्य, विघ्नविरह वाजिज्ञा. सताम् । अथ स ताभ्यां विश्रामगेहविशत् । तत्र क्षणं विश्रम्य स समानीतां चर्मपेटिकामपावृत्य काश्चिद रुचिरा शालभलिको बहिरकरोत. अवदाच कन्यकायै इतं कथयि- . . ३८ मित्रगोष्ठी-पत्रिका। त्या--' वत्से, त्वदमियमानीता; पुरस्कारोऽयं ते, यरवं मदनुप. स्थितौ गेहार्थ शोगनं यत्नमास्थितवतीति' । ताहशीमुत्तमां पुत्तली तत्र तत्पूर्व जात्वपि अनालोकितवती सा कन्यका पितरं प्रत्यतितमा सन्तुष्यन्तो कराभ्यां तां गृहीत्वा तत्सौन्द- यंवशीकृतेव अभिष्यन्दमानेनेवानन्दरसेन तस्मिन्, स्थाने उपाविशत् । ततः स तच्चमपेटिकातो गृहीतैकमुकुरः प्रियामुपसृत्य “तवाय- मुपहार'' इति समार्पयत् । सापि समुचितादरपूर्वक स्वीकृत्यैनमप. श्यत् । परन्तु सा खल्बजाताभ्युदयेषु दिवसेषु "इचिगो" प्रदेशे ( अनुन्नते ) लालिताभवदिति नैतत्पूर्व मुकुरमिव पदार्थ कदाचिदै. क्षत । अतोऽत्यन्तमौत्सुक्येन किमेतेन क्रियत इति दयितमजिज्ञा. सत। हसन् स प्रत्यवोचत-"अयं मुकुरो नाम, लोकरयं स्वप्रति. विम्बदर्शनार्थ व्यवहियते; असिमन्निव प्रदेशे यावर किमेषोऽभिल- ष्यताम्, परन्तु न कथमपि लभ्यते। नियतमहमश्रौषं यत् 'क्योटो' प्रदेशेऽयं प्राप्यते; मचिन्तयं च तदानी तत्र वर्तमानोऽहं यत्तत्संग्र- हार्थ स एवावसर इति; तेन चाहमेनमानयम्, आशंसे त्वमेतत्कृते यत्नमाधास्यसीति"। पत्नी मुकुरागमवृत्तान्तमाकण्यं परं प्रमोदमापना "यतोऽयं महाधः, ततोऽहमेनम् आत्मानमिवावधारयिष्यामि, तथा च करिष्यामि यथायं न क्षीयत" इत्युक्त्वा असकृन्मूद्धनि निधाय ( आचारोऽयं जापानी पानां कृतज्ञत्वप्रदर्शने ) सयत्नं तं पेटिकायामरक्षत् । अथास्मात्प्रख्यातात पर्यटनात् कानिचिद्वर्षाण्यतीतानि, महार्घा मणिरिव चाद्रियमाणा तयोर्दुहिता बाल्यमत्यवर्त्तत । दुःखाकरभिदं वर्णयितु यत्तस्या जननी सपदि प्रकाम व्याधि- मापा । सा हि प्रकृत्या नितान्तं स्नेहशोलेति जनन्यां पीडिताया मतितमाम उत्कण्ठामभजत। दिवा वा रात्रौ पा न जातु सा मातुः शय्यापार्श्वमत्यजत् । सा हि मातरं भेषजपानार्थ प्रेरयन्ती, मन्दमन्द पृष्ठे करतलपरामर्शन व्याधिवेदनोपशमनार्थ प्रयतमाना, भन्यांश्च - - - मत्सयामस्य मकरः। ३९ विविधान् स्नेहोचितानुपायान् अनुतिष्ठन्ती निद्रालाभार्थं सर्वथाऽसम. भिवत् । तथैवं यथाशक्ति कृतायामपि मातुः परिचर्यायां क्रमेणामयो मन्तरी भवितुमारभत, भिषग्भियवस्थापितं भेषजं च सम्यग् निष्फलमदृश्यत । यदा ते प्रत्यक्षीकर्तुमारभन्त यत् सर्वं खलु चिकित्सकैर्विहिताः प्रतीकाराः, सर्वाश्च परिचर्यास्तयोः,-यौ हि रुमां तां नितरामाद्रि- येते, वैफल्यमभजन्त, तदैकस्मिन् दिवसे जननी कन्यकां स्वोपधान. मगीपे माकृष्य, गृहीत्वा च तस्याः कर क्षणं निःस्पन्दमाना, निनिमे- पाभ्यां नयनाभ्यां तद्दनमण्डलमालोकयन्ती आसीत् ; अथ सकष्टं निःश्वस्यावादीत-"वत्से, जानेऽहं साम्प्रतं स्वल्पापि ममाशा नास्ति; उपरतायां मयि, अहमिच्छामि, स्वपितरं प्रीणयितु सुखयितु च पावत्सम्भाव्यं त्वमितोऽप्यधिक प्रयतिष्यस इति" । ततः सा का. श्चितक्षुद्रमञ्जूषां या हि नियतमेव तस्याः शिरः समीपेऽविद्यत, आ- कृष्य 'मया किश्चित्ते देयमस्तीति' कथयन्ती पूर्वोक्त मुकुरं ततो व. हिष्कृत्यावदत्-“ अहमिमं मुकुरम् उपहार इति पूर्व ते पितुः सका- शात् प्राप्नवम्-यदा स 'क्योटो' नगरमगच्छत् । मह्यमेव समर्पयि- तुमनसा तेनेदं दुर्लभतरं वस्तु समानीयत। अहं ते पश्चिमदानत्वे- नेदं ददामि । यदि त्वं कदाचिन्मामालोकयितु बलवदिच्छेः तदेदं गृहीत्वा द्रष्टव्यम् एवं कृते नियतमेव त्वं मां यत्र कापि समये द्रष्टु भ्यसि"। एवमुक्त्वा सा तं मुकुरं दुहिने समापंयत्, अचिन्तयच यत् ना- न्यत् किञ्चित्तस्याः परित्यज्यमानेषु शोचनीयमस्तीति । एतदनन्तरमेव सावसीदन्ती अपरं किञ्चन कथयितुमसमर्थानियत । •भर्तुः, विशेषतस्तु दुहितुस्तदुःखं व्यावृत्तमभवत् । कञ्चित् कालं तौ शोकतापनात्मानमप्यजानन्तौ । तच्छवोपरि अरुदताम् । अथ कोण हृदयं पर्यवस्थाप्य तौ तस्या अन्त्यष्टिसंविधानं समपादयताम् । कालो गन्तुमारभत परन्तु बालिकाया जननी प्रत्यनुरागातिरेको प्रियो मत . मित्रगोष्ठी-पत्रिका। न ममागप्युपशान्तः। यथा तथास्तु, सर्वावस्थायामेव सा प्रिया मातरमस्मरत, स्मृत्वा चाविश्राममरोदीत् । एकदा सा सपदि स्वमनसि मातुश्वरमं वचनमस्मरत-पद यदो- तरदानत्वेन जननी मे त मुकरमदात्, तयोक्तमासीत-यदानी मेवाएं तां द्रष्टुमिच्छेयं, नियतमेव तन समां भवेयं यद्यस्य मुकुरस्याभ्य- न्तरमालोक्येत, दुःखाफ्रान्तहृदयया तु मया सर्वमेवेदं विस्मृतम् । यथास्तु, भहमेनं वहिष्कृत्य पारमेकं तत्र प्रयतिष्य इति । अथ लात पेटिकातो हिरानीय निनिमेष मघालोकयत् । तत्र चाद्भुतं यत् तया तरुणे वयसि वर्तमानाया आत्मनो जनन्या पदनमण्डलं तस्यै किञ्चित् कथयितुमुन्मुग्नमिवारश्यत। चित्रीयमाणापि साचिन्तयत् " अस्मि- भादर्श मे मृताया मातुरात्मा विदरते, सा मदर्थ करुणामनुभवति; यदा यदाहं तां द्रष्टुन क्षमेयं, तदा मदिच्छया सैवमा द्रष्टुमागमि- यति अहो, धन्यास्मि, भयमेवानन्द इति"। एवं सा प्रमोदस्य सी- मानमत्यगच्छत् । ततः प्रभृति प्रतिदिनं प्रभाते प्रदोषे च सा तन्मुकुरतलं विलोक- यन्ती स्वस्यकं विनोदनमवाप्नोत् । काले तन्मातुमृत्योः सांवत्सरिको विधिः पर्यावर्तत। पिता च स्व बान्धवानामुपदेशमनुसरन् पुनरानग्रहीत; सापि तपस्विनी क- न्यैकं विमातरमलमत । सपत्नोतनयापि मधुराकुटिलप्रकृतिः सा विमातरं प्रति नास्यामपुष्यत् अपि तु आत्ममातेति तस्या निदेशानु. वर्तिनी मङ्गलानुष्ठायिनी चाभूत् । परिवारेषु न कश्चिद विसंवाद उत्थित इति पिता तस्याः परां निवृतिमलभत वस्तुतत्त्वानुसारेण तु तत् क्षणिकमेवाभवत् । स्त्रियः बलु नियमेन नोदारहृदया भवन्ति । समयेन विमाता सा सपनीतनयायां दुव्र्यवहारमाचरितु प्रावर्तत; काले काले च भर्तुः सकाशे सर्वप्रकारेण तां प्रत्यभियोगमानयत् दयितस्तु विमातर्नैसर्गिकों बैरवृत्ति पर्यालोच्य न तवावधानमदात, प्रत्युत दुहितर्यवात्मनोऽनु- " मत्मुयामस्य मुखरः। कम्प प्रदर्शयन् पूर्वाधिक तामाद्रियत। सोऽयं भर्तुव्यवहारो दपि. ताया नितान्तमसुखावहो जातः । वाचाऽकथितेऽपि तयेशे स्वहद- यभावे सेदमैच्छद यद् यथाकथमप्यस्तु, सा कन्यका तस्याः स्वकीय- गृहेऽवस्थानादवश्यं विरमेदिति । कदाचिद् विमातासौ छन्मना नयनयुगलमार्जनपूर्व रुदती भार- मुपगम्य काम कातरावसन्नेन प्रकारेणावोचत्-"प्रार्थये, अदर प्रभृ- ति भवन्तं परिहातु मामनुजानीहीति"। तथेदमतक्तिमभूद यथा तदाकण्यं तस्या दयितः सर्वथा चकितः समवादोत्-"किं कथयसि-तथेदमनभिमतं नाम ते मदगृहाव- स्थानं, येन त्वमेकमपि दिवसमविलम्ब्य मां परित्यक्तु मिच्छसि ?" प्रत्युक्त तया “न तादृशं किञ्चित् " त्वया सामवस्थानं स्वप्नेऽपि मे नानभिमतम्, किन्तु वर्तमानायामवस्थायामस्मिन् निवासे विपन्नं मे जीवनम्, अतः सर्व विविच्य साम्प्रतल्वामापृच्छयगम नमेव युक्ततरमिति चिन्तितवती" । उक्तिरियं रोदनाश्रु सलिलै- रनुगता; पतिश्च तामवज्ञातु/नाक्षमत। "किं जीवनं ते विपन्नम् नन्वेतत् सर्वं विवरीतु- महसि"। "एवं, विवृणुयामहम् ", तदानीमपि रुदती सावदत् “ अहं ते दुहितुः केवलं विमातेति सा मामात्मनः सुखप्रतिबन्धं मन्यते । सा मां कदाचिदिनाशयिष्यति। तदर्थं च सा पूर्वप्रभृत्येव नियतमात्मनः प्रकोष्ठमध्यासीना तत्रैकस्मिन् दारुणि मन्मूर्तिमुत्कीयं आभिचारिकान् मन्त्रान पठन्ती वर्तते । सम्भावयामि तदन्ते सा मां मजीवनतो वञ्चयिष्यत इति"। पतिः साभिनिवेशमिदमशृणोत् विषमूलकमेवेदमिति तदालो- चनमनिच्छतोऽपि तस्य सपदि मनस्युत्थितं यत् यतः कुतश्चित कारणाद् भवतु-दुहिता तस्य सर्वदेव स्वमातु हे तिष्ठन्ती प्रायो नान्यं जनमवालोकयदि ति । अतो विमातुर्वचनानि न निष्फलान्या- सोऽकथयत, .

. सन्ः . . मित्रगोष्ठी-पत्रिका। पितापि ततः प्रभृति कन्यां प्रति सन्दिग्धहदयः सजातः । अस्यामवस्थायां, यथा कथञ्चिदस्तु, तद्गृहसुपगम्य स्वयमेवैन विषयं सम्यक् परीक्ष्य निश्चेतुमिच्छुः स यावत्सम्भाव्यं निःशम्म तत्रोपगन्तु समकल्पयत्। दुहिता तु सा तत्त्वतो विमातृत्वेऽपि मातरमेव वाममन्यत, ततध तयोर्मध्ये वैरोत्पत्त्यनुगुणं न किञ्चिदन्वतिष्ठत् । एवं तया विमातुः स्नेहभिलषन्त्यामपि, सातु विमाता न तामदयत। नैतावदेव, परन्तु यदा सावुध्यत यद् विमाता पितुः सकाशे तस्याः परीवादान् कीर्तयति, तदानी तस्या निर्दयत्वं चिन्तयन्ती दिवानिशमरोदीत् । एवं सर्वथा जननीस्नेहविनाकृता विषीदन्ती सा न केवलं प्रभाते प्रदोषे वा, किन्तु क्षणमयकाशे लब्ध एव स्वगृहमुपेत्य मुकरं गृहीत्वा हृदयेन निर्निमेषां दृष्टिं तत्र पातयन्त्यतिष्ठत् । कदाचिदेवमुन्मनायमाना सा यदा स्वस्थानमागत्य दर्पणतलं प. श्यन्त्यासीत्, तिरस्करणी तु गृहस्य भ्रमादपावृतैवाभवत् तदा कश्चित् तद्गृहं प्राविशत् । कोऽयनिति लोचने परावृत्य अतर्कितागमनेषु लोकेषु पितरमेशागतं विलोक्यासौ तु मुग्धहृदया मुकुरं तं स्वपरि- च्छदवाससा आच्छादयितुमत्वरत; पिता च नयनदुःखायहेनाकारण " किं त्यमिह नियतमेकाकिनी करोषी' 'त्यब्रवीत् । तयोक्तम् "किमिति"? अतिकठोरण स्वरेण सोऽजिज्ञासत-" यत्तदस्तु, किं त्वमत्र घसनेनाच्छादर्यास"? भोतिविधुरा सा न तावत् किञ्चित् प्रतिवक्तुमशक्नोत् । मौन तस्याः पितुः क्रोधमवद्धयत् । स च तां प्रकामं निरभसंयत् । अथो. च्चैः स तामवदत्-"पल्या मे वचनं सत्यमेव प्रतिभाति तन्मरण- साधनार्थ रहसि त्वमाभिचारिकी क्रियामनुतिष्ठसि । यद्यपीयं न ते वस्तुतो माता, परन्तु नियतमेवाहं त्वामयोचं यत्त क्षेव त्वमस्यामा- मत्स्यामस्य मुकुरः। देशानुवर्तनम सम्मानप्रदर्शनेन व वर्तेथा इति । भाः ! भकायचे, कथं त्वमीरशी दुतासि साता !!" सा तु तददुहिता अस्मिन् विषये सर्वथा निरपराधासीदिति म तूष्णी स्थातुमपारयत्। अग्निरिव पितास्याः क्रोधेनाज्वलत् सा तु करयुगलेन तश्चरणं गृहीत्वावादीत-"ननु तात, न मा निर्वयमधि. क्षेप्तुमर्हसि । यावत् किं नाहं मूढा भवेयं, परन्तु नाहं स्वप्नेऽपीडशं भीषणं वृत्तमचिन्तयम् । अयं मे निश्चयो यत् त्वं केनापि निर्मूलमेव किश्चित् कथयित्वा पञ्चितोऽसि" नाङ्गीकृतमिदं तस्याः स्वापराध. क्षालनं जनकेन । सोऽवदत् "तहि किमिति त्वमेतावन्ति दिनानि स्वगृहे आत्मानं गोषयन्ती तिष्ठसि ? न चैतदेष । साम्प्रतमेव त्वं मामालोक्य, मन्ये, त्वरितं किञ्चिद वाससा प्रच्छादितवत्यसि; किं तद ? बहिष्कृत्य प्रदर्शय'। सा खलु तदानीमप्यात्मनि पितुःसंशयमवबुध्य विविच्य च यदा- मूलतः सर्ववृत्तान्तप्रकाशनमन्तरेण नान्यत् तत्र किमपि साहायकाया- स्तीति तदेव वरीमति वसनमध्यान्मुकुरं वहिष्कृत्य पितुः पुरतः स्था- पयित्वाकथयत्-"तात, तदिदं यदालोकयन्ती यावददर सर्वान कालानहमयापयम्"। श्रु त्वैतजनकस्तस्या विरुद्धतर इवाभवत् । उक्तं तेन-"तदयं मुकुरः, यो हि मया क्योटोनगरादानीय उपायन मिति त्वनमात्रे सम- पितः। परमेतदालोकनेन कालातिवाहने ते किं कारणम् ! "अस्त्येव तत्र कारणमिति सा एकमपि वर्णमपरित्यज्य जम- युक्त सर्व वृत्तान्तं तसमै अश्रावयत् । एवमप्यजातनिश्चयेन जनकेनोक्तम्-"सर्वथेदमप्रत्ययाई यत्ते मातुरात्मा मुकुरेऽस्मिन् वर्तते, त्वं च यदा यदेच्छसि, तदा तदैव नन्मुकरदर्शनेन तो द्रष्टुं शक्नोषीति"। तात, अहं ते निश्चयेन दृढं कथयामि यन्नेह मया मिथ्यो- व्यते। अथासिमंसते संशयः। ननु स्वयमेवायं दृश्यताम्" इत्युक्त्वा .

मित्रगोष्ठी-पत्रिका। सा मुकुरमात्मसाम्मुण्येन (यथा तनमुखप्रतिविम्बस्तन निपतेत् ) धार- यन्ती पुनरपि दाढंग्नावदत-सेयं मे जननी, इतोऽपि ते सं- शयः स्यात् ?" भाकण्यैतद आनन्दोल्लसितो जनकः करतालिकया अवदद-भद्र पत्से- अहं कथयामि भक्तिमता चारित्रेण त्वमत्यादरणीयासि । दर्प- णफलके प्रतिविम्बितं वदनन्तु तवैव, न पुनस्तव मातुः । स्पष्टमिद, ततश्च यजनन्या सह ते महत्सादृश्यमस्तीति; सायदैवेच्छेः तदेह मुकुर मां पश्येरिति तुभ्यं कथयित्वा तथा कौशलमिदमारचितवती यथा त्वमद्यापि तत्र श्रहधाना मातुरेवेदं मुखं मुकुरे श्यत इति सन्तुष्यन्ती विवानिशं तदालो मनेन मातरं प्रत्यात्मनो गरीयसी भक्ति प्रकाशयसि । वत्से, काममहं त्वां प्रशंसामि । विमातुसते वचस्यव- धानेन निष्कारणमेव त्वामवजानन्, अभियुञ्जानचाहं नितान्त जिहू मि पत्ले, प्रसन्ना त्वं पितरं क्षन्तुमहसि'उक्त्वेदं स स्त्रीजन इवारोदीत्। कियत्क्षणपूर्वमेव तत्र कथं तद वृत्तं सम्पद्यत इति दिक्षुर्विमाता गृहजवनिकावृतशरीरासीत् । सा तु तत्सर्व तथालोक्य नाहमिद पूर्वमशासिषमिति चिन्तयित्वा द्र तपदं गृहाभ्यन्तरमुपागमत् । तत्र च करपुटं सबहुमानं दुहितुः पुरतः स्थापयित्वा सौत्सुक्यमवा- वोत्-“अहो वत्से काममहं घस्तुत एव लजितास्मि । अहं ते धर्म्या प्रकृतिमन्यथैवाजानाम् । असत्येव ते दुष्कृते, असत्यपि च दुरभिलाषे तथाहं त्वयि सासूयहृदयाभवं, यथा त्वां सम्यगवज्ञातव- त्यसिम। दर्पणफलके मायाविन्या इव ते स्थिरदृष्टिपातदर्शनेनैवाह तत्सर्व विरुद्ध विन्तयन्ती पितुः सकाशे ते परीवादानुश्रुष्य तस्यापि चेतोविकृतिमनयम् । स्वीकरोमि-अहमेवास्मि दुवृत्तेति । परं- त्वितः क्षणादारभ्य में प्रकृतिः परिवर्तेत । स्वात्मजामिवातिप्रीत्या त्वामादरिष्ये । अतीतं वृत्तमिदं कृपया समुद्राम्भसि निक्षिप । स्व- कीयामिव मातरं मां मन्यस्व । अहमपि च ते ताहश्येव जननी स्यामिति"। .

प्रतीच्यविज्ञानविन्दुः। पल्यास्ताहशेन स्वापराधस्य मर्षणप्रार्थनेन पतिः समतुष्यत, माता दुहिता च ततः प्रभृत्यन्योन्यमैकमत्यमवलम्ब्य एकस्मिन्नेव गृहे यवसताम्, परिवारश्च सोऽभ्युदयमध्यगच्छत् । - प्रतीविज्ञानविन्दुः । १। कुडेलिकाया निवृत्तिः-कुहेलिकाया बहवो दोषाः-शरी. स्वास्थ्यहानिः, स्थले अश्यादिशकानामन्योन्यमाघातः, जले दि- ग्विभ्रमः, पोनिमज्जनं, लण्डनादिषु च स्थानेषु कदाचिन्मध्यन्दिने- ऽपि अतिनिविडत्वात्तस्या दीपालोकं विना गतागतसौकाभावः । अतस्तस्याः प्रतीकाराय कानिचिद्वर्षाणि पण्डितः सविशेषं तत्त- स्वमन्विष्यते । तत्फलेनेदं ज्ञातं-जलीयः बाप्पः शैत्यसंयोगात् कुहे. लिका भवति । वायौ स्थिता धूमधूलिकणाः कुहेलिकोत्पत्तौ सहाया:- न्यूनशैत्यसंयोगऽपि धूमधूलिकणाश्रयेण जलीयबाष्पं कुहेलिकारूपेण परिणमते । नगरापेक्षया प्रामपल्लीषु धूमधूली अल्पे इति तत्र कुहे. लिकापि नगरतोऽल्या भवति । अमेरिकावासी पण्डितः 'लज '-महाशयः कुहेलिकानिवृत्तः कमप्युपायं निर्णीतवान् । पूर्व किल इलैण्डीयपण्डितेन “टिण्डाल"महाशयेन दृष्टम्-धू- लिमये वायौ, कुहेलिकायां वा रक्षितस्य अत्युष्णीकृतस्य वस्तुनश्चतुः पायेंषु धूलिया कुहेलिका वा न तिष्ठतीति । अत्र हेतु निर्णतुन कश्चित् तदानी सम्यक् प्राभवत् । अनुमीय तु कैश्चिदुक्त यत् तद्- स्तु नस्तापेन सनिकृष्टा धूलिः, कुहेलिका वा दह्यत इति । नातिचिर लड-रेले, 'लज्' च इत्येताभ्यां तत्कारणं निर्णीतम्,- तप्त वस्तुनि समुत्पमा तडित् कुहेलिकां स्वसमीपादपसारयति । प्रसिद्धमेवेदं-सजातीयडितपूर्ण वस्तुनी परस्परतो दूरं गच्छत इति । एतत्परीक्षार्थ लधुरयमुपायः सर्वैः कतुं शक्यते-कौशेयष- .

. ४६ मित्रगोष्ठी पत्रिका। स्वघर्षणेन लाक्षावसिकायां तडित्पद्यते । ईदृशी कापि तडिदुरता लाक्षायत्तिका क्षुद्रक्षुद्राणां पत्रादिखण्डानामुपरिवार्यते चेत्, पवन ण्डानि तडित्प्रभावेण लाक्षायत्तिकायां संसक्तानि स्युः । इस्थ संसर्गेण पत्रखण्डान्यपि तडिदुक्तानि भवेयुः । अथलाक्षावर्तिकातो. ऽपाकृत्य तानि पत्रखण्डानि पुनस्तत्ति कासमीपे नीयेरंश्चेत् तर्डि दृश्येत-पत्रखण्डानि पत्तिकातो दूर एव स्थातु चेष्टन्त इति । एवं, धूलिः, कुहेलिका वा तस्य तप्तत्य वस्तुनः संसर्गेण तडितोऽश- मादाय ततश्च सजातीयतडिदयुक्ता सती तत्समीपाद दूरं गच्छति । अतएव तप्तवस्तुसमीपे धूलिः, कुहेलिका वा स्थातु न शक्नोति । एतन्मूलमवलम्ब्य 'लज्'-महाशयेन कुहेलिकानिवृत्यर्थ यन्त्र- मेकं निर्मितम् । एतेन शयनादिगृहतो धूलिकुहेलिकापसारणं सुष्टु सम्पद्यते । अमेरिकायां यन्त्र कार्यालयेषु नियतमुद्यतधूमः कार्य- निर्वाहकाणां स्वास्थ्यं नश्यतीति तेष्वपि त्रिचतुरेषु तव्यन्त्रेण धूलि धूमधापसायते। दूर-दूरतरस्थानस्थितः २। ज्योतिस्तत्त्वम्-अनन्तेऽस्मिन् वियन्मण्डले क्षुद्राणि च म- हान्ति च बहूनि नक्षत्राणि सन्ति, नैतानि गणयितु शक्यन्ते । मन. स्युदेति-किं तर्हि अम्बरस्यास्य सर्वत्रव नक्षत्रं विद्यते । पण्डितैः प्रत्युच्यते-नाकाशस्य सर्व स्थानं व्याप्य नक्षत्रमस्ति, तथा सति असंख्यैनक्षत्रैगंगनमण्डलं नियतमुज्वलितं ह- श्येत । यथा वने अन्योन्यव्यवधानस्थिता अपि वृक्षाः दूरस्थस्य संहता इव दृश्यन्ते, तद्वत् । पभिनक्षत्रवियन्मण्डलस्य कियस्थानमधिकृतं 'निउकम्ब'-महाशयेन तनिर्दिष्टम् । तेनोच्यते-वत्सराणां निशद्भिर्वर्षेरालोको याबह रं गन्तु शक्नोति, तावत्स्थानं गगनस्य नक्षत्रमण्डलैरधिकृतमिति । आलोक एक-'सेकेण्ड' समयेन (होरायाः षट्त्रिंशच्छततमभागमितेम)१३,००० कोशान् गच्छति । अतस्तत स्थान कियदिति चिन्तयन्तु भवन्तः ।

- ४७ । प्रतीच्यविज्ञानविन्दुः। एतेनेदं ज्ञायते यद तिबहुत्वेऽपि नक्षत्राणां संख्या परिमिता, तद- धकृतस्थानंच परिसितम्। अनायमनुयोगः सम्भवति-किं त्रिचतुराणि विना सर्वांण्येव नक्ष- हाणि स्थिराणि ? अनापि तेनैवोक्तम्- अम्बरमण्डले परिभ्रमत्सु नक्षवेषु केषांचिदपरैनक्षत्रैः प्रतिबन्धो संभाव्यः । कदाचिद्भवत्येवेदम् । दूरवीक्षणयन्त्रेण स्वस्वकक्षासु प्रमतां नक्षत्राणां गतिः, कदाचिश्च तेषु कयोधिदन्योन्यमाघातो दृश्येत श्वेति । ३ । एन्-रे ( N-Rays ) फान्सदे शीयेन पण्डितेन (दलो-महा. शयेनोच्यते केभ्यश्चित प्रस्तरेभ्यो नियतमेव किमपि तेजो निगच्छति; वृण्मये काचमये च पात्रेऽप्याहते तत्तेजो दृश्यते, किमधिकं पत्रखण्डे- ऽपि तत्तेजोलक्षणमालोक्यते । अस्यैव तेजसो नाम 'एन-रे'। एतत्सर्वमालोच्य ज्ञायते यत् पदार्थपरमाणूनामाघातेन चाञ्चल्ये सम्पादित एव तत्तेजो बहिर्गच्छतीति । एतेन किञ्चित् प्रयोजनं साधयितु केचिदयतन्ते । शरीरेषु मा- नां कृत्यं दुर्विज्ञेयम्, कदा नाम सहसोहीप्ता का स्नायुः किं करो- नीति नादापि केनापि सम्य निर्णतु शक्यते। कैश्चिदुच्यते यदि जस्त्यागं प्रति तत्पदार्थस्योत्तेजनमेव हेतुः, तहिं कथञ्चित् स्नायूनां चने ( Photograph ) गृहीते सहैव तत्तेजस्त्यागप्रकारस्यापि चित्रं गृहीतं भवेत् । ततस्तश्चिन्नदर्शनेनैव का नाम स्मायुः कथं कियत्कृत्यं रोतीति विज्ञायेत । 'एन्-रे-तेजस इहैवोपयोगश्रिन्त्यते जर्मनि-इलण्ड-देशीयः पण्डितैस्तु नैतत्सत्ता स्वीक्रियते । अत्र जर्मनि-पण्डिताः तत्तेजो दृष्ट्वापि कथयन्ति यन्न केवलं दर्शनेनै- वास्य सत्त्वं स्वीकतुं शक्यते, भ्रान्तमपि तद भवेत् कामं सम्भाव- पामः अस्मदृष्टिदोष एवास्य भ्रमस्य कारणमिति । श्रीजगदानन्दरायः। । :0:-- दुःखाकर यत् किश्चित् प्राप्तकालम् । विदितं सर्वैः साम्प्रतं खलु शिक्षासंस्कारमधिकृत्य कानिचिद्दि नानि जनानां चेतःसु कीदृशं महदस्थैर्यमुत्पन्नमिति । परन्त्विदमति यत तपस्विन्याः संस्कृतशक्षायः कृिते न कश्चित् किमा कुर्वन्नद्यापि केनचिनिरीक्ष्यते । ये हि संस्कृतभाषायाः प्रधानावलम्या भूताः तेषामेवास्मदीयानां पण्डितमहोदयानां परमौदासीन्यमत्रालो कयामः, अन्यतस्तु विस्मयावहं प्रमोदकरञ्चेदं यद यैः साद्धमस्य नवीनः संस्तवः, त एवास्या अभ्युनतये यतन्ते । किंबहुना सर्वथ अस्मत्कृत्यजातं विधिना तेषामेवोपरि विन्यस्तम् । वयन्तु केवलं व्यर्थे- रभिमानैरापूरित हृदयकन्दराः चापलवचनप्रपञ्चैदिगन्तरं ध्वनयामः अध्ययनाध्यापनाभ्यां सर्वमप्यायुःकालं संस्कृतार्थ नियोजितव- द्भिरपि तत्रभवद्भिः पण्डितमहाशयः केनोपायेन तच्छिक्षादानं पुष्क लाय पारलौकिकाय लौकिकाय वा लाभाय भवेदिति न मनागपि चिन्त्यते । साम्प्रतं जनानामायुहू सति, विषयास्तु वेद्याः क्रमेणैव पद्धन्ते । पूर्व यद्धि सूत्रस्वरूपन्यायादिदर्शनं कियदिनपाठयमासीत्, तवैवेदानी पर:शता ग्रन्था उत्पन्नाः, उत्पदमन्ते, काले चोत्पत्स्यन्ते । इत्थं निखिलेनाध्यायुः समयेन न्यायदर्शनमप्येकमामूलाग्रम् अधिकर्तुं कश्चित् न शक्नुयात्, किमुतान्यत् । अन्येषामपि शास्त्राणामियमेव गतिः किमन विधेयमिति विचार्यम् । यदरकः स्वजीवितकालमेकस्यैव शास्त्रस्याधिगमायातिवाहयेत, न चापराणि शास्त्राण्यालोचयेत, तर्हि स वस्तुतः पण्डितपदमर्हन्ति न वेति बहव एव संशेरते। दृश्यते साम्प्रतं न्यायशास्त्रमधीयाना विद्यार्थिनः, तद्धापयन्तः परां प्रति- ष्ठामधिगता अध्यापकाच, ये हि सर्वमायुयायशास्त्रकृते यापयन्तोऽपि प्रियोजनकं न्यायशास्त्रमिति न सम्यग जानन्ति । नहि अनुमान- मात्र निर्णय एव प्रयोजनं न्यायशास्त्रस्य, न वा केवलं समितिसमरेषु सिंहनादोश्चारणम् प्रायो होदानी न्यायशास्त्राध्येतारी व्याप्तादि- ।

. यत् किश्चिस्मातकालम् । ४९ कतिपयपदार्थनिर्वचनपूर्वम अनुमामनिर्णयमेव न्यायशास्त्रस्य पर पुरु- पार्थ मन्यमानाः, तन्मात्रज्ञानेनैव त्रिभुवनमेवास्माभितिमिति प्रौ- वाहताराः सर्वमन्यच्छास्त्रं तृणमिवावगणयन्तो भ्रमेणाऽपि शास्त्रा- तरादानं कर्त्तव्यमिति नावबुध्यन्ते । कि बहुना कार्यकारणभावादि- साधनं यदनुमानस्यप्रयोजनं तदपि तैरसुलभम् । न हि ते कस्मिंश्चिद- द्भुतेवस्तुनि हष्टे केनं द्रव्येण कथं तनिर्मितमित्यादि पाश्चात्यविदा- सइवानुमातु शक्नुवन्ति महदद्भुतं-येषां हि तस्य शास्त्रस्य कृते जीवनमेवातिक्रान्तं तेऽपि तस्मिन् शास्त्रे कियन्तः, कीडशाः, किं- कत्तुंकाच प्रन्थाः सन्तीत्यपि न जानन्ति । अपरेषां शास्त्राणां तु कथैव नास्ति । शास्त्राध्येतृणामिमामेवावस्थामालोक्य साईद्विशत वत्सरेभ्यः पूर्व मनस्विना श्रीमता घेङ्कटाध्वरिणा विश्वगुणादर्श इशानु- मानोगन्धर्वस्य मुखेन नैयायिकान् प्रत्युक्तम्- नजिघ्रत्याम्नायं, स्पृशति न तदङ्गान्यपि सकृत पुराणं नाधीते, न गणयति किञ्चित् स्मृतिगणम् । पदन् शुष्कं तक परपरिभवार्थोक्तिभिरसौ मयत्यायुः सर्व निहतपरलोकार्थमधनः"॥ इति । भतपय चान्येनापि केनचिदुक्तम्- मीमांसा पठिता न यैरुपनिषन्नैव श्रुता तत्त्वतः, श्रीमच्छङ्करभाष्यतो भगवती गीताप्यधीता न यैः । सिद्धान्तापगतं शिरोमणिमतं ज्ञात्वापि किञ्चित्ततो भट्टाचार्यपदं गताः कथमहो लज्जा लभन्ते न ते"। जानीमो वयं न्यायगुणान् दुरपहवाश्च ते। पया बेटाध्वरिणैव वि- वापसुमुखेनोक्तम्- मोहं रुणद्धि, विमलीकुरुते च बुद्धिम्, सूते च संस्कृतपदव्यवहारशक्तिम् । शास्त्रान्तराभ्यसनयोग्यतया युनक्ति, तर्कश्रमी न तनुते किमिहोपकारम्" ।

५० । । मित्रगोष्ठी-पत्रिका। यदि निराधमोहप्रसरया विमलया बुख्या कर्तव्यं न क्रियते, तर किं तया प्रयोजनम् । समुहीतत्वेऽपि दीपस्य यद्यसौ पदार्थोद्रासमाय म विनियुज्यते, तर्हि किं तेन स्थितेनास्थितेन वा? नास्माभिनैयायिका निन्धन्ते, भपितु प्रचलन्ती संस्कृतशिक्षाप- इतिरेवेति पाठकैनै विस्मर्तव्यम् । यथा नैयायिकाः, तदपरेऽपि दार्शनिकाः भन्येच वैयाकरणादयः । प्रायो येकदर्शनाध्यायी दर्शनान्तर नालोचति । सत्स्वपि घेदान्तदर्शनस्य बहुषु भाष्यषु एकाधिकमा- ज्यानुशीलयिता विरलप्रचार एव तत्रापि बहवश्चतुःसूत्रीमात्राभ्यास- कृतिनः । बौद्ध-प्रत्यभिज्ञादिदर्शनकथा तु समुद्रोदरं प्रविष्टा । नास्ति. कत्वेन बौद्धजैनादिदर्शनमसेव्यमित्ययं पादस्तु बालप्रलाप इव सर्वथा विचारासहः। किंच जैनेभ्योषौद्धभ्योषा द्रव्यलाभे सर्वथा तेषां मत. मनुशीलनीयं नान्यथेति सांप्रतिकविदुषां सिद्धान्तः। लोके संस्कृतमेवैकं घेध नापरमिति की नाम वक्तु साहसमा. दध्यात्। अस्त्येवैतद् यत् संस्कृतभाषा भाषान्तराणां जननीभूता श्रीमतां मोक्षमूलारभट्टादीनां मतेन लाटिनादिभाषाणां ज्यायसी स्व- लावेति । न तावता संस्कृतमात्राध्ययनेनैव सर्व विदितं भवति, तस्या एव वा घस्तुतो रसास्वादो जायते, तन्मुखेन च तस्याः श्रेयस्त्वं वा गम्यते । नहि दुग्धसम्भूतानामपि दधिधृतनवनीतादीनां रसनमन्तरेण तेभ्यो दुग्धस्य माधुर्य प्रशस्यतरं नवेति ज्ञायते; न पा केपलं दुग्धा- स्वादमात्रेणैवं दधिधृतनवनीतादीन्यवबुध्यन्ते । अतो यदि केनचित् संस्कृतसाहित्यं कियन्मनोरममिति सम्यग् ज्ञातुमिप्यते, अवश्य तेनापरभाषीयमपि साहित्यमालोच्यम् उभयो हि साहित्ययो विवेचने- नान्यतरस्य उत्कृष्टापकृष्टतरत्वं निश्चीयते। तवकृत्वापि भस्मसाहित्य- मेव जगत्यां सर्वातिशायीति महाभिमानेन कथयन्तोऽपि पर्यन जि- होम इति चित्रमेतत् । आस्ता तावद भाषान्तरानुशीलनं, तेन व स्वसाहित्यस्योरकर्षा- यत् किश्चित्मासकालम् । ५१ पकर्षविवेचनम्, बहुकालापेक्षं दुष्करं च तत्। परं प्रकाममिदमहु- तं, .( यथा न्यायदर्शनमधिकृत्य पूर्वमेषोक्तम् ) यत् खसाहित्य- मपि सम्यनालोचयामः । बहवः साहित्यप्रग्थाः संस्कृतभाषायां सन्ति, परं विद्यार्थिभिः कियन्तो नाम तेष्वालोच्यन्ते ? कियता क- वीना ते नामानि जानन्ति ? परीक्षायां ये प्रन्या निर्दिष्टाः, तेभ्यस्ति- चतुराण्यप्यधिकानि काव्यानि कश्चिदालोचयति नतिसंशयास्पदम्। स्यते-प्रायेण हि विद्यार्थिनः परीक्ष्यकाव्यान्यधीयानाः, तेषां पद- पदाथालङ्कारनिर्णयमात्रेणैव तुष्यन्ति । वस्तुतः काव्यस्य क वैषिज्य- मिति मातुमिच्छापि तेषां न जायते । अभिज्ञानशकुन्तल सर्वोत्तम पोधिति कर्णाकणिकाया कथञ्चिजानन्तोऽपि ते कथं तदित्यनु- युक्ता मौनमेव सेवन्ते । तत्रभवत आदिकाल्मीको श्रवणरसायनं रामायणं भगवतो व्यासस्य च अधरितामृतं महाभारतं साहित्यविद्या- थिभिः स्पृश्यते न वेति को ब्रवीतु । अस्मदधन्यतया तिसृणां (वारा. णसी-पञ्चनद-कलिकातास्थिताना ) राजकीयानाम, अपरासां च (नवद्वीपादिस्थानीयानां) संस्कृतपरीक्षाणां नैकस्यापि साहित्यपरी- श्यपुस्तकेषु रामायणस्य वा महाभारतस्य वा नामधेयमधिगम्यते । धन्यवादाहीः काशिक-रणवीरसंस्कृत विद्यालयाध्यक्षाः यैः सर्वासु परीक्षासु रामायणभारतयोरंशाअध्येयत्वेन निर्णीताः। धर्मशास्त्राध्येतारः न्यायविषादबहुलान् रघुनन्दनशूलपाण्याच- चीनविद्विरचितान निबन्धानेव प्रायेणालोचयन्ति । अनधिका अपि मन्वादिसंहिताः, आश्वलायनादिश्रौतगृह्यसूत्राणि मीमांसाद- शंन च प्रायः बल तैनाधीयन्ते । नवीनप्रन्थनिषष्टयस्ते प्राचीन- शास्त्रोक्तानविकृतान् धनान् बोडुन क्षमन्ते । तेषु तेषु समयेषु कथं केनाचारेण पा समाजेन वा तेऽसत्पूर्वपुरुषा उन्नतिमवनतिं वा प्रतिपेदिरे इति केवल तत्तच्छास्त्रपाठेनैव ज्ञातुं शक्यम्, न त्वी. चीननिबन्धपाठतः । धर्मशास्त्रवेत्तार एवं केवलमपक्षपातमामूलं सर्व विध्य तत्तत्स्थानेषु यथोचितं व्यवस्थापयितुमईन्ति न केलं .

. । - मित्रगोष्ठी-पत्रिका पक्षरशुकैरिव पाश्चिदश्यस्तानामक्षराणामुच्चारणेनैव धर्मवेतृण कृतकृत्यत्वमिति मन्यामहे। "घेदोऽखिलो धर्ममूलम्" इत्यस्माकम् उच्चैराघोषः । तदभ्य- पनमिदानी विलुप्तम् । कालिदासेनोक्त " श्रुतौ तस्करता स्थि तेति," अयन्त्वद्य ब्रूमः " श्रुतौ घेदज्ञता स्थितेति" । समग्र भारतमन्विष्यताम्, पञ्चषा अपि वेदव्युत्पन्नाः पण्डिताः लभ्येरन् । घेति महान् संशयः । नानीमो धयं वाराणस्यादिषु वेदज्ञा दृश्यन्त- एषेति । परन्तु प्रायेणैव ते स्वरमा जानन्ति । सुदुलभा अर्थज्ञा नराः । भस्मनि हविविसर्जनमिव विनार्थज्ञानमध्ययनं निरर्थकमेष पतदेवोक्त यासकधृतया श्रु त्या- " स्थाणुरयं भारहारः किलाभू- पधीत्य वेदं न विजानाति योऽर्थम् । योऽर्थज्ञइत् सकलं भद्रमश्नुते नाकमेति ज्ञानविधूतपाप्मा ॥ यदगृहीतमविज्ञातं निगदेनैव शब्द्यते । अनग्नाविव शुष्कंधो न तज्ज्वलति कहिचित्"॥. पस्पशायां पतञ्जलिनोक्त ब्राह्मणेन निष्कारणो धर्मः षडङ्गो दो ऽध्येयो शेयश्चेति । अद्यत्वे तु घरमब्राह्मणा वेदमधीयानाः तदर्थ जान- न्तश्च बहव उपलभ्यन्ते, न तु षयं ब्राह्मणा अथवा ब्राह्मणत्रु धाः। पूर्वम् । श्रीमदहिफेनानन्दविद्याम्बुधिना "यक्षयुधिष्ठिरसंवाद"-नामके प्रवन्धे उक्त यत् प्रतिशतकं नवतिरेप घेदविषये इयदनभिज्ञाः, येन ते धर्मशास्त्रवेत्तारः, संस्कृतज्ञा ब्राह्मणा इति विज्ञाय विस्मय पवोत्य. . . • इयं श्रुति: पस्पशायामपि धता । + गतवर्षीयाश्विममासीय पत्रिकाया। श्रोत्रियत्वं कथं भवतीति यक्षप- युधिष्ठिरसखेन "वेदाचत्वार इत्येतावन्मालज्ञानेनैव श्रोनियत्व भवतीति" प्रकाशितम् । पवितथसक्त तेग । अयममविश्वासः निर्मूलक एव याचचेत्, परं प्रमोदाप भवेत्।

. . यत् किश्चित्माप्तकालम् । पते । कोमन्त्रः, किं श्रामणे, किमारण्यक, कोपनिषत्, कि श्रौतसून किं.धर्मसूत्रम्, कियती वैषां संख्येति प्रश्ने बहूनामेवाधरोष्ठो निःरूपन्द तिष्ठति । किं तेषु षणितमित्यादिज्ञानस्य तु कथैव नास्ति । गुणगृह्याः पाश्चात्या विपश्चितो वेदार्थमालोचयन्तो गौरवमधिग- छन्ति, न तु षयं येषां वेदो नित्यमध्येय इति नियमः । धिक कष्टम्, पदद्य भारतीयाः पाश्चात्यानां वचनमाकण्यं वेदस्य गौरवमवबुध्यन्ते; न तु संस्कृतपण्डिताना, घेदपुस्तकान्यपि तैरेव प्रकाशितानि पश्य- न्ति । न स्वयमालस्येन ते लिखितु प्रकाशयितुवाशक्नुवन्ति ये हि समाजस्य संरक्षणाय तच्छिरस्थानमध्यारोहिताः । साधुवादास्तेभ्यः मोक्षमूलरप्रभृतिभ्यः प्रतीच्यसंस्कृतक्षेभ्यः, येषां प्रयत्नेन बहवो वैदि. कप्रन्थाः प्रकाशमापना दिशि दिश्याचार्याणां कीर्तिगाथामुद्गायन्ति, श्रीमता मोक्षमूलरेण वेदार्थमधिगत्य भारताकृष्टहृदयेन सता भारत प्रति निर्मूलकदुरभिप्राय पोषयतां प्रतीच्यानां हृदयस्था बुद्धिं तिर- स्कर्तुं कियान प्रयत्नः कृत इति “भारतं किमसमान शिक्षयितु शक्नो. तीति" ( India : What can it teach us. ) ग्रन्थे निबद्धस्तदीयैया- ख्यानैः सुष्टु प्रतीयते । एतद्विषये विस्तर प्रकाशयिष्यामः । अत्र तु कीटै क्षणमेवपुस्तकसयपरममुहश्यम् नविद्यार्थियोपि तस्यप्रकाश- नम्। 'मूर्खान्धकूपपतनादिवपुस्तकानां व्यर्थ गतं पत परोपकृति- प्रतत्वम् ' नैषधे। यथा चैतत्कर्मार्थ पाश्चात्या विद्वांसोऽस्माभिः प्रशस्याः, तथा घेदाद्यर्थविषये अस्मन्मतविरुद्धवादित्वात् नूनं ते निन्द्याइति ध्रुवं भवन्तो घदेयुः। पाश्चात्यानां शिक्षाप्रकारः साधीयस्त्वेन प्रसिद्ध- तरः। उत्तम पा अधर्म घा, यत् ते कुर्वन्ति, तत्रैव प्रायेण जनानां श्रद्धा जायते । भारतीया अपि तेषामेव मतं युक्तमिति स्वीकुर्वन्ति, तेन च भारतीयसंस्कृतक्षेषु शिथिलश्रद्धा जायन्ते । अत्र न तेषा मपराधः । वयमेव सर्वथापराध्यामः । स्वयमेपास्माभिर्वेदार्थो नाप- बुध्यते, कथं नु खल्वत्र तेऽववोध्यन्ताम् पाश्चात्या यदन्ति, हेयमपि . - ५४ मित्रगोष्ठी-पत्रिका। ज्याच्चेत्तत, तस्य प्रत्याश्यानायामा शक्तिनास्ति । मतोऽस्मत्तः प्रतिवचनमलभमानास्ते किं कुर्वन्तु । पाश्चात्त्येषु रोथ- (Roth) नामकेन केनविद प्राग्वेदस्य व्याख्यान कृतम् । तत्र का रीतिरवलम्बितेति तद्धनमेव श्रूयताम- " Therefore we do not believe, as H. H. Wilson does that Sayana better understood the expressions of the Veda than any European exegete; on the contrary we believe that a conscientious European exegete may understand the Veda much more correctly and better than Sayana." "विल्सन इव न वयं विश्वासमो यत् सायणः युरोपीयव्याण्या- कारापेक्षया घेदार्थ सुष्ठुतरमबुभ्यतेति । अयं चास्माकं विश्वासो यद विचारक्षमः कश्चिद युरोपीयव्याख्याकारः सायणादपि शुबतरम् कृष्टतरं च वेदार्थ बोचु शक्नोतीति"। अन्यदपि अयताम्- .". We do not consider it the immediate purpose to obtain that understanding of the Veda which was current in India some centuries ago, but we search for the meaning which the poets themselves gave to their songs and phra. ses. We consequently hold that the writings of Sayana and of the other commentators must not be an authority to the exegete, but merely one of the means of which he has to avail himself in the accomplishment of his task."-Rudloph Roth's Preface to his great Sanskrit Wurterbuch. "भारते कियद्वत्सरपूर्व घेदस्य योऽर्थः प्रचलितः, न वयं तं प्रार्थयामहे, परन्तु वैदिक ऋषिभिर्येनार्थेन वेदो विरचितः, स एषा- स्माभिरनुसन्धीयते । अत: सायणादिव्याख्याकाराणामुक्तिः प्रामाणि- कत्वेनावश्यं स्वीकार्येति नास्माभिग्रहीतु शक्यते । तास्तु व्याख्याः अरुमव्याख्याकाले केवलं किञ्चित् साहाय्यं करिष्यन्तीति" । अवितमिदं-यदद्यत्वे आलोच्यानां शास्त्राणां यार्थ प्राधुर्य जातं, तत्र तत्र च याहग गम्भीरोऽश्चिन्तितः, तेन एकसिमन जन्म- नि सविशेष सर्वशास्त्राधिगमो न कस्यापि सम्मावपितु शक्यत- पत् किश्चित्मातकालम् । इति । तथापि नैतापमानं शालान्तरानधिगमे हेतुभंवितुमर्हति । इदमस्माभिरभिप्रेयते -सत्यं साम्प्रतम् एकैकस्मिाऽपि शास्त्र बहवो प्रन्थाः उत्पमा उत्पदान्ते चेति परन्तु सर्वेऽपिते प्रन्थाः सविशेष पठनीया इति न सम्भवति, कथमनाहत्य,वात्स्यायनपत अलिप्रभृतीन शिरोमणिनागेशादयआदतव्याः। अवश्यं हि प्रन्थेषु केचिदुत्तमाः के. केचिदा मधमाः सन्ति । तत्रोत्तमेभ्योऽधमा विभज्यानुपादेयाः। शि. ष्टेषत्तमेषु पुस्तकेषु यदि सर्वांण्यपि सम्यगालोचयितुन शक्येरन्, तथापि तेषां साराकर्षणं नातिदुष्करं भवति। दुर्भधतीशानां परि- त्यागपूर्वकं सिद्धान्तावगमो नात्यायासकरो भवेदिति सम्भावयामः । कथं पठनीयमिति सांप्रतिकविज्ञानमूलप्रवर्तकेन पाश्चात्येन बेकन- मनीषिणोक्तम्- "Some books are to be tasted, others to be swallowed, and some few to be chewed and digested."-Bacon. कानिचित् पुस्तकानि आस्वादनानि, कानिचिद् गलाध:करणीयानि, अन्यानि तु चयितव्यानि जीर्णीकर्तव्यानि च; स्पष्टार्थस्तु कानिचित पुस्तकानि भागतः पठनीयानि, अपराणि पठनीयानि परंतु न तथा कौतूहलेन, अन्यानि तु सामप्ररेण साभिनिवेशं सश्रमं च पठनीयानि"। अनाहते चास्मिन् प्रकारे प्रन्थबहुले वर्तमाने किमिवान्यद् गत्य- न्तरमस्तीति न ज्ञायते। इदन्त्वन बोध्यम्-यदेकेन तावदेकतमं शा- स्त्रमवश्यं यथोचितमध्येयम्, तत्र च समीचीना व्युत्पत्तिः साधनीया; अपरापरं शास्त्रं तु यावच्छक्यमुपादेयमिति । परं पाठारम्भप्रभृत्य- दमवश्यं सङ्कल्पनीयं यद यथा न्यायाध कैकशास्त्रचिन्तनं, तथैवा- परशास्त्रालोचनमपि च अवश्यकर्तव्यमेवेति । इदं च लक्षणीयं यत् सर्वमायुरेकस्यैव शास्त्रस्यागमे नात्येतीति । निरर्थकशुष्कतक- प्रपञ्चेषु परित्यक्तेषु साम्प्रतं दुर्विगाहत्वेन प्रसिद्वानामपि शास्त्राणा. मधिगमः कामं सुगमो भवेदित्युक्तमेव । तथाच तदर्थमपि नातिबहु- कालस्यापेक्षा स्यात् ।

. मित्रगोष्ठी-पत्रिका। दार्शनिका" इति प्रसिद्धरप्यसमाभियदि दर्शनान्तरवार्तायामुप. स्थितायां तूष्णीमेव स्थायेत न कि तीदमस्माकम् अतितमां गौर- वहानाय भवेत् । वस्तु तो दर्शनान्तरतत्वमजानद्भिरपि यद्यसमाभिः केवलं प्रौढिवादमाश्रित्य सभामण्डवेषु तदर्शनाधिकारिणो वादिनी विजयाय प्रगल्भ्यते, किं तमाम भवद्भिर्युक्ततमं विषिष्येत ? संस्कृत- विद्वांसो वयमिति सर्वेऽस्मान् यथोचितं मानयन्ति । परन्तु कीडशी आर्याणां जीवविद्या आसीत्, कोदृशं तेषां रत्नतरवम्, किंविधा शिल्पविदा, का वस्तुविदया, किं भाषाविज्ञानं, किम्प्रकारम् मनो- विज्ञानमित्यादिकं पृष्टैरस्माभिर्यदि न किञ्चित् प्रत्युत्तरयितु शक्यते त किमस्माकं यावजीवं संस्कृतपाठेन ? प्रागुक्ता अपरे च बहवो हृदयविन्यालोचिता विषया अस्मदीयैः प्राचीनैराचार्यैः सुपरिशीलिता उपनिबद्धाच तेषु तेषु ग्रन्थेषु । केवलमनन्वेषणदोषादेव मतान् वयं ज्ञातु प्रभवामः । यथा वेदशाखासु विप्रकीर्णा धर्माः स्मृतिकारैः स्वस्वसंहितासु संगृहीताः, तद् इदानीमपि यदि तत्र तत्र निगमा. गमेषु विप्रकीर्णास्ते ते विषया इतिवृत्तरूपेणैकत्र संगृह्येरन् यदि वा साहित्यदर्शनधर्मशास्त्राणां नातिबहुसमालोचनपूर्वम् इतिवृत्तरूपेण संग्रहो विधीयते, यदि वा वैदिकग्रन्थानां तेषां तेषामवश्यविज्ञयानां विषयाणां सरलसन्दर्भण इतिवृत्तविधयैव संक्षेपो विरच्येत, तर्हि संस्कृतशिक्षायाः कियानुपकारो भवतीति भवन्त एव विचारयन्तु । याषच्चेत्थं न क्रियते, तावद वस्तुतः संस्कृतभाषाया अभ्युदयाशंसा न कर्तुं शक्यते । श्रीमन्तः, इतोऽपि नामान्यत् श्रोतव्यमस्ति ? परन्तु किं केवलं श्रवणेन । सकृदयनधीतसभाष्यऋग्वेदः कथं नाम कोपि भारतीयः शतशोऽभ्यस्तसमस्तवेदतन्त्रानालोचितानेकभाष्यनिरुक्तादीन्सर्वानी. णधैदिककोशप्रणेतृनेतान्पाश्चात्यविदुषः किमपि प्रतिवक्तु प्रभवेत् । पाश्चात्या अस्माकं धर्मसमाजशास्त्रादिविषये यद यद्वदन्ति प्रका- शयन्ति च वसुमत्येवेयं समग्रा तत्सर्धमाकर्णयति । तेन चास्माकं . D . पाश्चात्यदर्शनम् । साधुत्वमसाधुत्वं या नियते जनः । कः सन्देहः तेषामेव प्रभाण प्राचीनभारतगौरवमद्य दिगन्तेष्वपि श्रयते इति । दौर्भाग्यं चेदमतितमामस्माकं यद वेदार्थग्रहणाभिलाषे उत्पन्नेऽपि कैधित, वेदप्रन्थ एव नोपलभ्यते । 'मुम्बई' नगरादिषु दिनेषु स्था- नेषु ऋग्वेदो मुद्रितः, श्रीमता मोक्षमूलरेणापि स प्रकाशितः। पर न स सर्वसुलभः । ६० षष्ठिरूप्यकव्ययं कर्तुं कियन्तो नामास्मासु ईशते । सामादिवेदविषयेऽपि इयमेव वार्ता । यावत् प्रन्थसौलभ्यं न जायते, तावत् वेदानुशीलनाशा भारते पराहता । दृश्यते सर्वैः साम्प्रतं भगवदगीतालोचनं भारते कथं प्रसृतमिति । दशवत्सरपूर्व नेत्थमासीत् । विविधप्रकारेण गीताग्रन्थस्य मुद्रणं, तस्य सौलभ्य- सम्पादनम्, प्रथमं किञ्चित्प्रयासेन लोकेषु तस्या उपादेयत्वबोधन- चेति त्रिभिः कारणैरेव गीताध्ययनमित्थं समृद्धप्रचारमिति सम्भा- घयामः । वेदविषयेऽपीयं पद्धतिरनुसरणीया। तथास्य सौलभ्यं घि. धातव्यं येन नितान्तं दरिद्राणामपि गृहं तेन खलु रत्नेनाल ङ्कतं भवेत विधुशेखरशर्मा। पाश्चात्त्यदर्शनम् । समवासनगरे एव परमानदस्य शिष्योमालीशनामा (Melissus) ब. भूव।प्रकृतिवादिनां प्रत्याख्यानपरोऽस्य यत्नः । एकमखण्डममूर्तमचलं सदेव तत्त्वम्। अनेकप्रतीतिरिन्द्रियजन्योभ्रम इतिचास्य मतम् । ऐलेय (Elea)वासी जिनाख्यः (Zeno) कश्चिद्वीरोनीतिज्ञ आसीत् । अयं वाद- वित्सुप्रथमः। प्रतिवादिनां मते विरोध प्रदश्यं स्वमतं व्यवस्थापितवान् । बहुत्वस्य,भूतानां,गतश्व स्वीकारे व्याहतत्वं तेन दर्शितम्। बहुत्वस्य वा. स्तवत्वस्वीकारे एकमेव वस्तु परिच्छिन्नमपरिच्छिन्नं च स्यादिति वि-- रोधः संख्ययाहि तदन्येभ्यः परिच्छिन्नं स्यात् असंख्यभागसमवेतत्वाचा- परिच्छिन्नम्। भूतानां भावस्य वास्तयत्वेऽपि स भाषः सघशात्सरशी- - ५८ मित्रगोष्ठी-पत्रिका। स्पत्ति रूपोवा विसहशाद्विसदृशोत्पत्तिरूपोवा । प्रथमपक्षे कार्योद्भवो- भ्रममा सर्वथा सादृश्ये कार्यकारणयोर्भेदाभावात् । बैसादृश्ये त्वसंभा- व्यख्यासत्कार्यवादस्य प्रसङ्गादभावाद्भावोत्पत्तिस्वीकार: । एवं गते. रपि वास्तवत्वासंभवः गच्छन्नपि हि वाणोवस्तुतः प्रतिविन्दु वियति स्थिर एव । किंचाकाशस्यैव गमनाधिकरणत्वं स्वीकार्यम् विनाह्याकाशं गतेरसंभवः तचाकाशमसिद्ध, किमधिकरणकं हि तदाकाशं स्यात् । आकाशान्तराधिकरणकं चेदनवस्थाप्रसङ्गः । अनाधारं च न संभवति ताशस्य वस्तुन उत्प्रेक्षाया अप्यसंभवात् । एवं विभागस्य निरोधहेतूनामभावात्परमाण्वन्तो विभाग इत्यपि भ्रममात्रम् ।परमाणूना. मपि परतोविभागल्यावश्यंभावित्वात् विभागस्य चापरिच्छिन्नत्वात् । इत्थं द्रव्याद्रव्यविभागः पृथुगौरीयरेकानेकविभागरूपेण ऐलेयैश्च भावाभावरूपेण स्वीकृतोऽभूदिति स्फुटम् । अयमत्र संग्रहश्लोकः- संख्यां पृथुगौरीया जनफणिपरमानदौ सत्ताम् । प्रतिपेदाते तत्त्वं मालीशजिनौ सदैवैकम् ॥ इत्थं केपि यवनदार्शनिकाः प्रकृतिवादिनः परेचात्मवादिनइति व्या- ख्यातम् । ततोऽप्यन्ये यवनदार्शनिका बभूवुर्य उभयवादित्वेन तवा- वित्वेन वा प्रसिद्धाः । एषां प्रथमोहरकलिताख्य: Heraclitus )सम- भूत् । कूटस्थसत्तावादिनामलेयानां प्रतिपक्षीभूय परिवर्तनशील भावाभावस्वरूपं सकलं जगदिति प्रथयाम्बभूव प्रथमोऽयं द्वैतवादिना- म्। परस्परविरोधरूपं सर्वं जगत् । शान्तिः केवलं मृतौ संभाव्या। सूक्ष्माणां भेदानां विरोधानां चाप्रमेयत्वात् इन्द्रियजन्यं ज्ञानं हरकलित- स्य मते सर्वदाऽनिश्चित प्रायश्वाश्रमेयम् । काले सर्वं जगत्प्रतिष्टितं दाहशक्तिरेव च मुख्या जगति', त्यैव सकलपरिवर्तसंभवात् । अन्यश्च वैज्ञानिकः संपदाकराभिधान: Enpedocles ) सुशैलप्रदेशेषु * सारख्यानों वेदान्तिनां च सहकार्य वादन पश्चोत्रानुसंधेयः ।

KRISHNA MISSION INSTITUTE #vy 1 CALCUTIA पाश्चात्यदर्शनम् । ( Sicily) जातः । ऐलेयैः सममसौ कूटस्थां सत्ता स्वीकरोति । किंतु बहुत्वं द्रव्यस्य, भावरूपत्वं च सत्तायाः प्रथयअयं कूटस्थानि चत्वारि तस्वान्यङ्गीचकारेति भेदः। मैत्रीविरोधाख्यशक्तियेन सर्व जगदे- भिरेव चतुर्भिस्तत्वैनिर्मितम् । नियत्या दैवेन वा तच्छक्तियमितरेत- रेण नियतसम्बद्धम् । प्रथममिदं सर्वं जगच्चक्रमेकं सद्रूपमासीत् अनेनैव चोपरिवर्णितेन शक्तिद्वयेनेदं वर्तमानं रूपं प्रापितम् । सर्वथा द्रव्याभावश्चास्य मतेऽसंभाव्यः । सर्वं जगमित्यं द्रव्यमयं च । ततः परं केचित्परमाणुवादिनो दार्शनिकाबभूवुः । एषां प्रथमो- लवकृपाभिधानः ( Leucippus ) अभूत कि तु तस्य लेखादि नोपल- भ्यतइति दामक्रीताभिधस्य ( Democritus ) तच्छिष्यस्यैव मतं प्रथ- ममुपन्यस्यते । अयं महता व्ययेन सर्वेषु शातप्रदेशेषु गत्वा तत्रत्यं वि. ज्ञानमादाय स्वदेशमेत्य महती प्रतिष्ठामासादितवान् । परमाणुवा. दिनां द्रव्यमविभाज्यैरखण्डैः सूक्ष्मपरिमाणैः परमाणुभिर्निर्मितम् । अनन्तमाकाशं सर्वं जगद्व्याप्य तिष्ठति । अस्मिन्नाकाशे शून्यरूपे असं- ख्यानां जगतां स्थितिः । इमानि च जगन्ति वर्णैः पुस्तकानीव परमा- णुभिग्रथितानि सन्ति । एषामणूनां मध्ये न गुणकृतः कोपि परस्परं- भेदः । केवलं परिमाणकृतआकृतिकृतश्च भेदोस्ति । शून्यं विना परि- घर्तस्यासंभवात जगतो नित्यत्वापत्तेरेभिःपरमाणुवादिभिः शून्यरूप- माकाशं स्वीक्रियते । परिवर्ते हि संयोगविभागाभ्यामेव सर्वं जगत्प- रमाणुभ्यः समुद्भवति । एतौ च संयोगविभागौ नियत्या नियमितौ। पाण्डेयः श्रीरामावतारशर्मा। LIBRARY - कमशः If OF CULTURE . साहित्यरत्नावलो। माधवः। चतुर्दशशतके विजयनगरेश्वरस्य वीरयुक्नृपतेस्तदनन्तरं हरिहरस्य च सभायां समस्तवेदवेदाङ्गपारगोमाधवाचार्यभासीत् । तस्य भ्राता लायनाचार्यइति प्रसिद्धः।उभयोबहवो ग्रन्था उपलभ्यन्ते । अयं सर्वज्ञ- विष्णोः शिष्यासीदिति सर्वदर्शनसंग्रहे दृश्यते । माधवस्य चतुर्था- श्रमे विद्यारण्यनाम्ना प्रसिद्धिः संजाता। अनेनैव माधवेन वेदान्त- गुरोभंगवतः शंकरस्य * चरितं शंकरविजयाभिधं प्राणायि । ग्रन्थ. शैलीसमालोचनेन शंकरविजयस्य प्रणेतामाधवः कोप्यन्य एवेति केचित् । अस्य ग्रन्थस्य प्रणयने माधवेन 'अभिनवकालिदास' नाम्ना स्वस्य व्यपदेशः कृतः । प्राधान्येन दार्शनिकत्वादस्य कवितायां बहवो दोषादृश्यन्ते तथापि विषयस्यापूर्वस्वाद बहूनां गुणानां च सद्भावादस्य काव्य प्रायोतीव मनोरमम् । अस्य ग्रन्थशैली च प्रायोनवीना। न क- स्याप्यनुकरणमस्य बहुमतम् । एकाक्षराणां खादिशब्दानां प्रयोगैः शंकरमण्डनयोः शास्त्रार्थेऽश्लीलादिदोषेण ईदृशैरन्यैश्च दोषैः क्वचि- कचिन्नातिरम्येऽपि शंकरविजये प्रसादादिगुणैः प्रायोहृदयमाकृष्यते बलाञ्चपठितु प्रवृत्तिभवति । आनन्दज्ञानेन ( आनन्दगिरिणा) अन्यः शङ्करविजयाख्यःप्रबन्धःप्राणीयत । गद्यपद्योभयात्मकस्य तस्यैव प्रबन्धस्य विषयः केवलपद्य माधवेन ग्रथितः । प्रायश्चानन्दगिरीय- प्रबन्धानुसार्येव सकलं माधवीयं काव्यम् । अत्र च शंकरमण्डनयो दिः परमरमणीयइति सएवात्र विनोदाय सहृदयानां विन्यस्यते । शङ्करविजये- अथप्रतस्थे भगवान्प्रयागासं मण्डनं पण्डितमाशु जेतुम् । गच्छनखसृत्या पुरमालुलोके माहिष्मती मण्डनमण्डितां सः ॥ अवातरद्रनविचित्रवां विलोक्य तो विस्मितमानसोसौ । * श्रीशंकराचार्यः केरलेषु रामशतके संजातः ॥

साहित्यरत्रावली। - पुराणवत् पुष्करवर्तनीतः पुरोपकण्ठस्थवने मनोजे ॥ प्रफुल्लराजीववने.विहारी तरङ्गारिङ्गत्कणशीकराद्रः। रेवामरुत कम्पितशालमालः श्रमापदायकृतं सिषेवे ॥ तस्मिन्सविश्रम्य कृताहिकः सन् खस्वस्तिकारोहणशालिनीने गछमसौ मण्डनपण्डितौको दासोस्तदीयाः सददर्श मार्गे ॥ कुनालयो मण्डनपण्डितस्येत्येताः सपप्रच्छ जलाय गन्त्रीः । ताश्चापि दृष्ट्वाद्भुतशंकरं तं सन्तोषवत्यो ददुरुत्तररुवम् ॥ स्वतःप्रमाणं परतःप्रमाणं कीराङ्गनायत्र गिरः किरन्ति । द्वारस्थनीडान्तरसंनिरुद्धा भवेहि तन्मण्डनपण्डितोकः ॥ फलप्रदं कर्म फलप्रदोऽजः कीराङ्गानायत्र गिरः किरन्ति । द्वारस्थनोडान्तरसनिरुद्धा अवेहि तन्मण्डनपण्डितौकः ॥ जगदध्रुवं स्याजगदध्रु वंस्यात् कीराङ्गनायत्र गिरः किरन्ति । द्वारस्थनीगन्तरसंनिरुद्धा अहि तन्मण्डनपण्डितौकः ॥ पीत्वातदुक्तीरथतस्य गेहाङ्गत्वा यहिः सम्भकपाटगुप्तम् । दुर्वेशमालोक्य सयोगशक्त्या व्योमाध्वनावातरदङ्गणान्तः ॥ तदा सलेखेन्द्रनिकेतनाभं स्फुरन्मरुश्चञ्चलकेतनाभम् । समग्रमालोकत मण्डनस्य निवेशनं भूतलमण्डनस्य ॥ सौधाग्रसंछन्ननभोवकाशं प्रविश्य तत्प्राप्य कवेः सकाशम् । विद्याविशेषात्तयशःप्रकाशं ददर्श तं पनजसंनिकांशम् ॥ तपोमहिम्नैव तपोनिधानं सजैमिनि सत्यवतीतनूजम् । यथाविधि श्राद्धविधौ निमन्त्र्य तत्पादपमान्यवनेजयन्तम् ॥ अथोपसंस्पृश्य जलं सशान्तः स संभ्रमं मण्डनपण्डितोपि । व्यासाज्ञया शास्त्रविदर्चयित्वा न्यमन्ध्ययद्भक्षकृते महर्षिम् ॥ सचाब्रवीत्सौम्य विवाद भिक्षामिच्छन्भवत्संनिधिमागतोस्मि । सान्योन्यशिष्यत्वपणा प्रदेया नास्त्यादरः प्राकृतभक्तभैक्षे॥ मम न कि चिदपि ध्रु धमीप्सितं श्रुतिशिरःपथविस्तृतिमन्तरा। भवहितेन मखेष्ववधीरितः सभवता भवतापहि-दुपतिः ॥

६२ मित्रगोष्ठी पत्रिका । जगति संप्रति तं प्रथयाम्यहं सममिभूय समस्तविषादिनः । त्वमपि संश्रय मे मतमुत्तमं विवद वा बद कास्मि जितस्त्विति इति यतिप्रवरस्य निशम्य तदचनमवदागतविस्मयः । परिभवेन नवेन महायशाः सनिजगौ निजगौरवमास्थितः ।। अपि कदाचितुदेष्यति कोविदः सरसवादकथापि भविष्यति इति कुतूह लिनोमम सर्वदा जयमहोयमहो स्वयमागतः ॥ ततः समादिश्य सदस्यतायां समिणी मण्डनपण्डितोपि सशारदा नाम समस्तविद्याविशारदां पादसमुत्सुकोभूत् ॥ श्रीरामावतारशर्मा। उदानवर्गः। उदानवोहि भगवता बुद्धेन कथिताना नीतिमालानां संप्रहर पोबौद्धोग्रन्थः । एषस्खलु भागचतुष्टयेन विभक्तः ऊननवत्यधिकन शतश्लोकमयश्च (९८९)- तद्यथा प्रथमभागे द्वादशाध्यायाः षष्टयधि द्विशतश्लोकाः ( २६०)। द्वितीयभागे द्वादशाध्याया ऊनपञ्चाशः धिकद्विशतश्लोकाः ( २४९ ) तृतीयभागे षडध्यायाअष्टचत्वारिंशः धिकद्विशतश्लोकाः (२४८) चतुर्थभागे च द्वात्रिंशदधिकद्विशतश्लोक ( २३२ ) वर्तन्ते । श्लोकोगाशवेति " उदान " इत्यस्य अभिधेयम कचित्तु स्तोत्र मित्यस्मिन्नर्थेऽपि पदमिदं व्यवहियते । प्रन्थेऽसिम यारशाः श्लोका दृश्यन्ते, भगवता गौतमेन कथिताना मुपदेशमाला शेषभागे तादृशा एवावलोक्यन्ते, अनुमीयते चैतेन यधर्मश्रोतृ प्रति कथितोपदेशानां स्थिरांशं बोधयितु लीलयैव स्मरणा ः कति पयैः श्लोकैरुपदेशानां सारनीतीभंगवान् बुद्धः संग्रथितवानिति बौद्धधर्मप्रतिष्ठापयित्रा श्लोकानामतेषामतीव प्रयोजनीयता शिष्य भ्योदर्शिता समर्थितश्च सविशेष लौकिकेषु कर्मसु तेषां प्रयोगः । तेने तदनुमीयते पद बौद्धमनीषिणोबोधप्रकर्षोत्पादकान् बौद्धसम्प्रदाय स्याभिमततमांध बुद्ध कथितानुपदेशान संकलयितु सोधमा आसन् इत्थमेव कालेन उत्तरमहायानदक्षिणमहायान (Northrn and Souther । उदानवर्गः। anons ) नामकानि बहूनि पुस्तकानि समपद्यन्त। उत्तरमहायान- किलितेषु प्रन्थेषु हिचत्वारिंशदध्यायात्मक सूत्रम्, उदानवर्गः, कति. 'यान्यन्यानिच पुस्तकानि प्रसिद्धानि, दक्षिणमहायानसंग्रथिताना निधानां च धर्मपदं (धम्मपद), सूत्रनिपातश्चंतिग्रन्थद्वयं प्रख्यातम् । धर्मपदस्थैः श्लोकैरुदानवर्गस्य त्रिशतमिताना(३००)श्लोकानां प्राये- करूपता, सार्धशतस्यच समधिकं सादृश्यं लक्ष्यते । पुनरुदानवर्गस्य वंशतिःश्लोकाः सूवनिपाते दृश्यन्ते । अपिच प्रायसतत्संख्यकानामे- । श्लोकानां सूत्रनिपातस्थेन श्लोकनिवहेन सह भागतो ऽभेदः सम- गम्यते । तेनहि उदानवर्गस्य प्रायेणार्द्धसंख्यकाः श्लोकादक्षिणमहा- नान्तर्भूते धर्मपवे सूत्रनिपाते च प्राप्तव्याइति सिद्धान्तितम् । तेन पुनरेतदनुमीयते यत्स्थाविरगाथा-स्थाविरोदानप्रभृति- पुस्तकेषु परीक्षितेषु तिवतीयपुस्तकस्य (Tehd-du-brjod-pai troaes नामकस्य ) बहवः श्लोकास्तेष्वेव प्राप्तव्या इति । अनूदिते तिवतीयग्रन्थे पालिपुस्तकेन तुलिते प्रथमपुस्तकस्य यंतएव पालिग्रन्थादीषत् प्रभेदोलक्ष्यते । अनुवादकसय पालि- आषायां सम्यग् व्युत्पत्तेरभाषपचास्य मूलमित्युपपन्नम् चीनदेशीय- स्तकेऽपि उदानवर्गस्य श्लोकाटश्यन्ते। उदानवर्गस्य संकलयिता धर्मनातोनामेति चीनग्रन्थस्य मतम् । विच धर्मत्रातोवसुमिनस्य पितृव्यइति सपवग्रन्थो वर्णयति । कनिष्कस्य शासनसमये या बौद्धपरिषत् समाहूता, अयमेव वसु मेवः परिषदस्तस्याः सभापतिश्चेद् भवेत् तदासौ हृष्टजन्मनः क् प्रथमशताब्द्यामेव ( First Century R. C. ) वर्तमान आसोदि- ग्नायासेन स्थिरीक्रियते। तारानाथेन तु“वैभाषिकनायकानां कश्चित् थविरधर्मत्रातीनामाग्रणीरासीद, अयं स्थविरधर्मत्रात उदानवर्गस्य किलयिता धमत्रातश्च द्वावेतौनाभिन्नपुरुषाविति" मतमुपन्यस्य सरलं 'त समाधानं कुटिलीकृतम् । चन्द्रकीर्तिनावि " स्थविर" "भवन्त" ति विशेषणव्येनान्वितौ दावेव धर्मवातौ निर्णीती। सम्भाव्यं यद- ।

(३) अप्रियः ६४ मित्रगोष्ठी-पत्रिका। दावेतौ पुस्तकानि रचितवन्ताविति । पथावा भवतु परमेत मस्मन्मतं वी० पू० ७५ तमाब्दे उदानवाविरचित इति । लण्डदेशवासिना उलियम् रहिल नाम्ना केनचित बौद्धधा तत्त्वानुसन्धायिना स्वभाषाया मनूदितस्योदानवर्गख्य भूमिकायाः रु क्षिप्तोनिष्कर्षोयम् । अतः पर मस्माभिः पाठकानां चित्तविनोदनाय आंगलभाषाय मदितेषु उदानवर्गश्लोकेषु केषांचित संस्कृतानुवादाइह लिख्यन्ते. (१) फलानां परिपकानां यथा पातभयं सदा । जाताना खलु जीवानां भयं मरणतस्तथा ॥ उ०५०३ पृ ११ श्लो (२) कामादुत्पद्यते दुःखं कामादुत्पद्यते भयम् । न जानाति भयं दुःखं, काममुक्तस्तु यो नरः॥ ९ पृ०२ श्लो. : सह संयोगाद वियोगाच प्रियः :समम्। यावज्जीवं जनो दुःखं जनयत्यात्मनो महत् ॥ २५ पृ० ६ श्लो० (४) कायेन मनसा वाचा धर्ममाचरतीह यः । स जनः सुखमाप्नोति परत्रह च जन्मनि ॥ ३४ पृ०६ श्लो. (५) भूतले गगने वापि सिन्धौ वा गिरिगहरे। न स्थानं, यत्र कर्तारं मागच्छेत् कर्मजं फलम् ॥ ४ पृ०५ श्लो. (६) पुण्यं कर्माथवा पापं, यत् किञ्चित् कुरुते नरः । नैकमप्यनयोबन्ध्यं तत् ॥४० पृ० ८ श्लो. (७) धर्म प्रवृत्तिः परमा च निष्ठा, वदान्यता लोभ-विहीनता च अमी गुणा यस्य जनस्य सन्ति, सर्वत्र सर्वैः खलु पूज्यते सः ॥ ४४ पृ०८ श्लो. (८) जयेत् कोषमकोपेन, शुभेन चाशुभं जयेत् । औदार्येण जयेल्लोभं सत्येन चानृतं जयेत् ॥ ८९ पृ० १८ श्लो. (९) वार्यते मरणं येन मरणं च निषिध्यते संसारान्मुच्यते येन तज्ज्ञानं ज्ञानमुच्यते ॥ ४१ पृ० ३ श्लो. श्रीहरिचरणविद्याभूषणः, संस्कृताध्यापकः ब्रह्मचर्याश्रमः, ( बोलपुर ) शुभाशुभकर हि .

मित्रगोष्ठो-पत्रिका।
(मासिकं सस्कृतपत्रम् ।)
साध्वं संवदध्वं सं पो मनांसि जानताम्"।
ऋग्वेदः।
द्वितीय वर्षे } १८२७ शकाब्दाः, आषाढः। { तृतीयमख्या
काव्यपरिमलः।
मानस्थापनयाय नम्रशिरसः शम्भोजटामस्खलत-
साधीशशिरोमगिद्यु तिशिखानीराजनाराजितम् ।
देव्याः श्रीचरणारविन्दयुगलं त्वां पातु साधो विरम,
प्रातस्त्यारुणरागरजित मिव प्रह्वानुराग प्रदम् ॥ १ ॥
महता धिरहे क्षुद्रोऽप्युपास्यः कार्यसिद्धये ।
निशायो मष्टसूयेन्दौ प्रदीशेऽपि तमोपहः ॥९॥
कृष्णः पक्षो निशेयं घनतिमिरमुखो कापिलीनः शशाह:
शा वान्तात सशक्तः शरणमुपगतः सूर्यदेवस्य पादान् ।
যা নিড়ান্ত হীনবলম্বয়ানীবাওবামঘব-
राज्यो योऽयदीपावलति यदि मरुत् सोऽपि लोयेत तहिं ॥३॥
उदये शतां याति पुष्टिं गच्छति च क्षये।
छायव सवितुः पत्यु हिणी व्यभिचारिणी ॥४॥
जडाशयोऽप्येष तवानुवत्सर,
प्रतितोऽद्भिः परिरक्षति प्रजाः ।
पयोद तलिन धिमुखस्त्वमय चेत,
निरागस स्तहिताः शरीरिणः ॥५॥

६६ मित्रगोष्ठी-पत्रिका। मण्डूक मूकोभव लम्फझम्पम विमुञ्च, किञ्च व्यपयाहि तूर्णम् । स्कयं लेलिहदुज्ज्वलाक्षः सोऽय मेति त्वयि बद्धलक्ष्यः ॥६॥ श्रीमहेशचन्द्र तकचुडामणिः। दिनाजपुरम इत-सिं। साम्प्रतं मि० ताकाकासुर्नाम "इत-सिं"-नामकस्य कस्यचिचीन देशीयस्य पर्याटकस्य भ्रमणवृत्तान्तं प्रकाशितवान् । “फाहियान्"- "हुयेन्-सां"-प्रभृतीनामिवास्य नाम नास्माभिः परिचितमासीत् । परन्त्वनेन भारतवर्षस्य तस्मिन् समये प्रचलितानां रीतिनीतिव्यवहा. रानुष्ठानादीनां यादृशमविकृत चित्रमङ्कितं तेन तद बौद्धकालस्ये. तिवृत्तसंग्रहार्थं महामूल्यम्। सुप्रथितस्य परिव्राजकस्य "हुयेन सां" इत्यस्य मरणानन्तरं खी० ६७३ तमेऽब्द 'इत्-सिं'-महाशयो भारतमा. जगाम । तदानी सुप्रसिद्धायां भागीरथीतटर्वातन्यां 'ताम्रलिप्ति'-न. गर्या पोतादवतीक्यं बहुना क्लेशेन "नालन्द' नाना प्रख्यातं बौद्ध. विहारमुपागच्छत् । तदा भारते नालन्दविद्यालय एवैकः सर्वोत्कृष्ट आसीत् । प्रायो दश सहस्राणि विद्यार्थिनोत्र बौद्धशास्त्रग्रहणाधम. तिष्ठन् । न केवलं भारतस्य निखिलप्रदेशेभ्यः, अगितु चीनेभ्यो यव. सुमात्रादिभ्यो दोपेभ्यश्च बौद्धशास्त्राध्ययनायिनोऽत्रागच्छन् । 'इत्. सिं'-महाशयोऽस्मिन् षोडश वत्सरान् संस्कृतं पालि च भाषामधोत्य 'विनयपिटक'-प्रभृतीनां बौद्धधर्मग्रन्धानां प्रायः ५०,००० पञ्चाशत सहस्राणि श्लोकान् संगृह्य स्वदेशमनयत् चीनभाषया च तेषामनुवाद मकरोत् । भस्मिन् सन्दर्भ तेन स्वयं लिखिताद भ्रमणवृत्तान्तात् तत्कालप्रचलितं श्रमणानामतिथिसरकारप्रकारमुद्धृत्य पाठकेभ्य उप- शुक्तिरजतम् । ६७ हियते। इत-सिं महाशयः समाजव्यवहारादौ भारतमेव भावीकृत्य प्रचलितव्यमिति स्वदेशीयान् शिक्षयितु भारतीयानामाचारादिप्रकार सविशेषमवर्णयत्। अस्मिन् प्रन्ये सर्वत्रैव भारत प्रत्येतस्य महाननु. रागो दृश्यते । सोऽयमस्माभिरुपजिहीर्षितस्तल्लिखितः अतिथिस. कारप्रकारो भारतस्य " परिचितो वा अपरिचितो वा, शिष्यो वा विद्यार्थी पा, पयसा ज्येष्ठो वा, कनिष्ठो वा, यः कोऽप्यस्तु, मागन्तु दृष्ट्वा भिक्षुरभ्युद्गम्य स्वागतं पृच्छेत् । समायाते अतिथौ भिक्षुः तत्करात भिक्षापात्रं, जलपात्रं च गृहीत्वा नवदीक्षितं तं वापि निर्जने स्थाने, वृद्धन्तु वहिःस्थिते गेहे उपवेशयेत् । अभिवादनार्हस्यातिथेः पादग्रहणं, देहे करतलपरामर्शनं च, अताशस्य कनीयसः पथक्लमाप. नोदनाथ पृष्ठे मन्द मन्दं पाणितलेनाघातं च भिक्षुः कुर्यात् । सव- यसा सह व्यवहारे तु न कश्निनियमः । शिक्षार्थी आगन्तु को दूरीकृते पथनमे, पाणिपादं प्रक्षाल्य पूज- नीयस्य जनस्य पादग्रहणं कुर्यात् । सोऽपि विद्यार्थिन: पृष्ठे स्कन्धे च कर स्थापयित्वा कुशलं पृच्छेत् । विद्यार्थी तं प्रश्नमुत्तर यित्वा स. विनयं तदेकपाश्व उपविशेत् । घृतेन, मधुना अपश्चाहाय्यः पानीयैश्वातिथेः सत्कारः करणीयः। * * पथि जनसंघ वा साक्षात्कार मस्तकं मनागवनम्य 'वन्दे" इत्युचार इत्युश्चार्यमिति"। 'इत्-सिं'-वर्णिता भारतस्यापरेऽपि वृत्तान्ता यथाकालं प्रकाश- यिष्यन्ते । कश्चिद अध्यापकः, ब्रह्मचर्याश्रमः, ( पोलपुर ) शुक्तिरजतम् । ( पूर्वानुवृत्तम् ) किं नाम व्यावहारिकं वस्तु किं वा प्रातिभासिकमिति पूर्वमुक्तम् । व्यावहारिकस्य पदार्थस्य याशमुपादानं प्रातिभासिकस्य न तारशं मित्रगोष्ठी-पत्रिका। भवति । समाने हि उपादाने, व्यावहारिकत्वेन प्रातिमासिकत्वेन म्योन्यं भेद एव न स्यात्। यदि घटस्येव पटस्थापि मुयोपादानं भवेत नसहि तौ अन्योन्यं भिद्य याताम् । अतो व्यावहारिकात् प्रातिभासि कस्य मित्रमेयोगदानं वक्तव्यम् । उकमधस्तात्-शुकिरजतस्थले चकचिक्यादिसन्दर्शनसमुदवी धित-पूदृष्टरजतसंस्कारसहित शुक्तित्वरूपविशेषांशस्य अज्ञानमे रजतरूपेण परिणमत इति । अतः मज्ञान मेव प्र.भि.सिकस्य तसा (जतस्योपादानम् । यति येनात्मना परिणमते तदेव तस्योगदानम पथा घटरूपेण परिणममाना मृद घटस्योपादाममः यथा पा दधिरूपे परिणममानं दुग्धं वन उपादानम् । भज्ञानम्, अविचति नार्थान्तरम भविधा हि विविवशक्तिः-अघटनघटनपटीयसी। न किञ्चित् तय दुष्कर नाम । तस्मात् प्रातिभासिकपदार्थोत्पत्तौ सर्वच अज्ञानम्- भवियवोपादानम् । अथ द्रष्टव्यं शुक्तिरजतस्य कतमस्मिन् पदार्थेऽन्तर्भाव इति । य दस्तु न जातु केनापि ज्ञानेन बाध्यते (विनाश्यते), तत् सत, यथा- संसारदशायर्या घटपटादिकम्, न हि संसारदशायामन्ति शिक्षिा तारशं ज्ञानम, येन घटण्टादिकं बात। न तावत शुक्तिरजत सदस्तु, 'इदं रजतम्' इति मानोत्तर भाविना 'नेदं रजतम्' इति शानेन तस्य माध्यमानत्वात् । नहि "नेदं रजतम्" इति शानोत्पती रजतस्य तव समोपलभ्यते। पस्य खलु अतीतानागतवर्तमानरूपेषु कालवितयेषु न कापि स- रखम, तद वस्तु असत, यथा-गगनकमल-बमयापुत्र-शशटङ्गादयः महि कदाचिद गगनकमलादय आसन्, सन्ति, भविष्यति पा। म • यदापि एतन्मते बम नापरं किश्चित समवस्तु, तथापि संमारा- बस्यायो घटपटादीनामपि चानान्तरेण पाध्यत्वादर्शनात् । सेऽपि सादपस्तत्व प्रत्यम्त एव परदेटुम् अतएव अभ्याख्याख्यानावका वाचतिमिमाः-- "परम-विवादो परमार्थपती" याहुः । * शुक्तिरजतम् । पास्माकं शुक्तिरजत तथा, कियन्तं कालं तस्योपलम्भात् । मतोन तदसत्। नापि सदसत् तेजस्तिमिरयोरिव सस्थासरवयोयुगपत् एकत्र विरोधात् । ये किल वदन्ति-वं रजतम्' इत्यादौ रजतत्वांशे देशान्तरीय. रजतस्य स्मृतिः, इइन्वांशे तु इन्द्रियादिदोषेण पुरोवर्तिपदार्थस्य सामान्यांशग्रहो भवतीति । तन्मतेऽपि शुक्तौ परिदृश्यमानं रजतं, शुक्तिर्वा भवेत्, देशान्तर- इथं रजतं वा भवेत्, नैतयोस्योरन्यत् । यदि तावत् शुक्तिरेय स्यात्, तदा 'शुक्तिकेयम्' इत्येव ज्ञ.नं स्यात्, न तु 'इदं रजतम्' इति । भय देशान्तरस्थं रजतमा तहिं 'देशान्तरे रजतम्' इति शानं स्यात्, न तु 'अस्मिन् रजतम्' इति । अथ कथयसि देशान्तरस्थितत्वेऽपि रजतस्य तद्देशान्तरं न मयंत इति । तथापि न युज्यते, तथा सति 'रजतम्' इत्येव मानं स्यात्, न तु 'अस्मिन् रजतमिति' । अतः शुकिरजतं न सहस्तुत्वेन, न असदस्तुत्वेन नापि सदसद् स्तुत्वेन निबंपतु शक्यत इति तद् "मनिर्वचनीयम्' एव किमपि पदार्थान्तरमिति क्षेयम् । . सम्भवतीह केषाञ्चित् संशयावकाशो यद यदि नामैतन्मते ब्रह्मैव सत्, तदभिन्नं तु निखिलमेव असत् स्यात् कथं तहि जगद 'भनिव. चनीय' सम्भवतु इति । अत्र पञ्चपादिकायां श्रीपनपादाचार्येरेव प्र. युक्तम्-"ननु सबमेवेदम् असदिति भवतो मतम् ? ( उत्तरयति) • एतन्मते शुक्तिरजनमिव निखिलोऽपि जगप्रपञ्चः 'अनिर्वचनीय' एष । पदि नाम जगत् सत् स्यात्, न तदा तस्य बाधा भवेत्; "तत्तुमसी"त्यादि गयोत्पन्न-निर्विचिकित्मचामोदये तु तदपि बाध्यत एव । नापि जगदप- व भवितुमर्हति, गगनकमलादिवद अत्यन्नाप्रतीत्यापत्तेः । न च वा सदसत् पयोर्विरोधात् । तस्माद् अनिर्वचनीयम् एवेति युक्तम्। अतएवेदं मतम 'यनिर्वचनीयवाद" इत्युच्यते । अयमेव वेदान्तिना सिद्वान्तः ।

मिस्रगोष्ठी-पत्रिका क पधमाह अनिर्वचनीयादरविवारमकम् इत्युद्धोषितममाभिः। मा पुनर्विद्योदये विदनाया निरुपाख्यतामङ्गीकृत्य असरवमुच्यते, काम मभिधीयताम् इति"। कथितम्-इन्द्रियेण पुरोवत्तिंपदार्थस्य समिकर्षे सति इन्द्रियदोष हेतुना अधिष्ठानस्य सामान्यांशमानं गृह्यतइति । भत्र बहवो बहुध विप्रतिपद्यन्ते । केचिद् अध्यासं प्रति अधिष्ठानज्ञानस्य कारणत स्वीकुर्वन्ति, अन्ये न । केचिद अधिष्ठानारोप्ययोः सादृश्यमपेक्षणीय मेधेति वदन्ति, अपरेन। इत्येवमन्येऽपि केचन किञ्चित् विभिन्नमेर स्वस्वाभिमतं पुरस्कुर्वन्ति । एतदपि समासतो दयिष्यते। उक्तपूर्व- शुक्तिरजतस्य अचानमेव उपादानमिति । शुक्त इन म्त्व-शुक्तित्वांशयोमध्ये इदन्त्यांशस्य शानात्, तदंशस्यैवाशानं विनिय संते, न तु शुक्तित्वांशस्यापि । यद्विषयकं ज्ञानं, तद्विषयकमेषाशान नश्यति; न तु अन्यविषयकाद शानादन्यविषयकमशानम् इति नियमः ततश्च शुक्तित्वांशस्य अशानमेव रजतस्योपादानकारणम्। अनुभव एवात्र प्रमाणम्. दृश्यते हि शुक्तिशाने न रजतमध्यसयते, तदभावे तु अध्यसयत एवेति । अतः शुक्तित्वांशाशानमेव रजतोपादानम् इति युक्तम। अतएवामी बदन्ति- रजतस्य शुक्तित्वांशोऽधिष्ठानम् इदन्त्यांश आधारः रजतादिसम्पादकस्य अशानस्य विषयः अधिष्ठानम् । यत पुनः रजतादिभिश्नमपि तदभेदरूपेण प्रतीयते, स आधारः । प्रकृते व तादृशस्य अज्ञानस्य विषयः शुक्तियांश पवेति सोऽधिष्ठानम् । इदन्त्यांशस्तु भिन्नोऽपि रजतात् तदभेदरूपेण प्रतीयत इत्याधार इति केचित् । अस्ति तावत् शुक्तौ रजताध्यासे 'इदं रजतम्' इति सानं भवती. ति। तसिंध शाने इदत्त्वांशे रजतत्वांशेन अभेदेन प्रतीयत इति इदं. स्वांशाशानमेव रजतस्योपादानकारणं वक्तव्यम् अनाऽयं घालस्यापि अनुयोगः सम्भवति-यदि प्रथमम् इदन्त्वांशस्य बानमेव उत्पन्न, बौद्रानाम् आमेरिकाविष्कारः। कृतस्तदा तद्विषयकमक्षानम् । नहि हानाहानयोः सामानाधिकरण्य भवति । अत्रेदं प्रतिवचनं-पुरोवर्तिनि पदार्थे नयनसभिकर्षे सति अन्तःकरणे इदमाकारा काचन वृत्तिर्जायते। सा च वृत्तिरिदत्वांश- मानस्य आवरणशक्ति विनाशयन्याप विक्षेपशक्ति विनायितुन प्र. भवति । ( नयनस्य काच-कामलादिदोष एवात्र कारणम् ।) मत इद- स्वाशविषयकस्य अशानस्य विक्षेपशक्तिरेव रजतस्योपादान कारण- मित्यन्ये।. क्रमशः। विधुशेवरशर्मा। :0- बौद्धानाम् आमेरिकाविष्कारः । यस्य खलु विविधयशोदुन्दुभिध्वानेनाध समग्रमपि दिगन्तराल- पूर्यते, आमेरिकाभिधेयस्य तस्य महादेशस्य नामापि पञ्चशतवर्ष- केनापि नाज्ञायत । अथ स्त्री० १४९२ तमाब्दे अङ्गीकृतसमुद्रयात्रा- वेदेन श्रीमता 'कलम्बस्'-महाशयेन प्रथमं तमाविष्कृत्य तदरशोमा- लकया स्वोरःप्रदेशः परिशोभित इति सर्वेऽपि जानन्ति । तिरोभूत- मवेदानी तस्य तद गौरवम्। अध्यापकेन श्रीमता फायर-( Fryer ) महाशयेन आमेरिकायाः कमिथिन् मासिकपत्रे “बौद्धानामामेरिका. विष्कार" इति प्रबन्धे । सुष्ठु प्रतिपादितं यत् कलम्बसतोऽपि बहुपूर्व-१४०० वत्सराणामपि प्राक बौद्धाचार्यैः उत्तरामेरिकाप्रदेश अज्ञानस्य हे शक्ती-यावरणशक्तिः विपशक्तिश्च । यथा रङ्गमषः खस्थितया प्रतीसौरया स्वाभ्यन्तरस्थम् अमिनेटगणम् श्राकृणोति; तदपसा- णेन च स प्रकाशते अज्ञानमय वं शक्तिविशेषदारा ज्ञानमाणोति; अज्ञा. स्य.यं शक्तिः 'यावरणशक्तिः' इति गीयते। अपरया च कयाचित् शक्तया प्रशानस्य रमतत्वाभावेऽपि शुक्तिकायाः, सा रजवरूपेण प्रतीयते । अचान. ग्यं शक्तिः 'विक्षेपशक्तिः' इति प्रसिद्धा। + " The Buddhist Discovery of America" Harper's magazine * । भागाद मित्रगोष्ठी-पत्रिका।। माविष्कृतः। वृत्तान्तोऽयं पाठकानां चित्तं विनोदयेदिति "चौबधम मामके प्रन्ये संगृहीतस्तस्सार पवाबोधियते । विशेषतो बुभुत्व स्तत्पनमानीय द्रष्टव्यम्। पाठकैमर्मानचित्रे दृष्टं स्थान 'मासिया' महादेशस्योत्तरपूर्वति तकामटकारका-( Kamatschaska) प्रदेशतः, मामेरिकायाः पश्चिम सरस्थित भालास्का-( Alaska) प्रदेशो 'रि' (Berhing strai प्रणाल्या व्यवधीयते। एतन्मध्ये 'एल्युसियादयः' दीपश्रेणयः ( AI utian Isles ) क्रमेणैता दीपश्रेणीरतिक्रम्य नातिक्लेशेन आलिया अमेरिकायां गन्तु शक्यत इति बहुभिः प्रमाणैतिं यत् प बौद्ध भिक्षवः प्रागुक्त न पथा प्रशान्तमहासागरमुसीयं आमेरिकामगा न् । मेसिको-( Mexico) वासिनां तत्सलिहितानाञ्च प्राचीनानि वासिनाम् इतिवृत्तं, धर्मः, - आचारः, प्राचीनकोतिचिह्नादिक तवृत्तस्य सत्यत्वं प्रमाणयति । पुरातनेषु चीनप्रन्येषु "फुसम् मामकस्य कस्यापि पूर्वदिकस्थितस्य देशस्य नाम ज्ञायते, तहशोर मस्य वृक्षविशेषस्य नाना तस्य देशस्य तदभिधेयम् । वर्णनतः 'प सम्' वृक्षस्य आमेरिकायां 'मेलिको'-प्रदेशीयस्य 'मागुये' -('माणु था ) नामकस्य वृक्षस्य भूयः सादृश्यमधिगम्यते । चीनेषु 'हुइसेन-भ्रमणवृत्तान्तो' नाम कधिर प्रन्योऽस्ति त ज्ञायते हुइसेनः कावुल-नगर-( आफगानिस्थान )-वासी आसीत ४९१ तमे खीष्टाब्दे 'यु-आन' नामकस्य सम्राजः साम्राज्यसमये । 'फुसं'-देशतः किञ्चन राजधानीमगमत् । तेन 'फुसं'-देशतो या विधानि द्रव्याण्यानीतानि, तन किमपि क्षीमवस्त्रमासीत, तस्य सूत्र मतिदृढं बहुभारसहनं च । मेक्सिको प्रदेशस्य 'मागुये' वृक्षा सूत्रमपि तादृशमेष भवति । अपरेषु द्रव्येषु तेन कोऽपि दपंण मानी तः, यस्यानुरूपो दर्पण: मेसिको-प्रदेशे व्यवयिते । हुइसेना भ्रमणवृत्तान्ते अन्यदपि ज्ञायते । . .

बौछानाम् आमेरिकाविष्कारः। पुरा किल 'फुसंदेशीया बौद्धधर्म नाजानन् । भथ खी० ४५८ माहे बंशीयस्य 'ता-मि' नामकस्य सम्राजः लमये कावुलनगरात् विबौद्ध भिक्षवः 'फुसं-देशमुपगम्य बौद्धधर्म प्रचारयामासुः । तत्र बहवस्तसिन् धर्मे दीक्षिता आसन् । तत्कालप्रभृति च तेषामाचा- राविशुधिरारभत । ते खलु परिव्राजका भिक्षवः कामटकासकातः कथं केन पथा तत्रोपगताः तसत्यानाश्च कोडशो व्यवहारः, इत्येतत्सर्व तस्मिन् मन्थे वर्णितमस्ति । फुसं वृक्षस्य गुणदोषौ, तहल्कलतः सूम- निम्मीणं, तेन च घसनवयनं, लिखनार्थ पत्ननिर्माणं चापि तत्र सम्य- गणितम् । तस्मिन् देशे द्राक्षाफलस्य प्राचुर्यमिति च लिखितम् । विश्व तत्र ताम्र प्राप्यते, लौहस्त्रनिर्नासीत् स्वर्ण रूप्यकं च न व्यवा- हिपत विक यद्रव्याणां मूल्यस्थैर्य्य व नाभवत् । तत्रत्यानां राज्यत- न्त्रम्, रीतिः, नीतिः, विवाहः, अन्त्येष्टिफ्रिया, नगरम्, दुर्गम्, इत्येव. मादीनां विषयाणां यादृशं वर्णनमस्ति, तेन तेषां प्राचीनामेरिकायाः, विशेषतस्तु-मेक्सिको-प्रदेशस्य तैस्तैद्रव्यैः सह विस्मयावहमैक्य- मुपलभ्यते। मेक्सिकोप्रदशे कापि जनश्रु तिरस्ति-कधित् श्वेतकायः शुभ्र- वसनो दीर्धकाचुको वैदेशिकः पुरुषः तत्रागमत् । तेन तत्रत्येभ्यः पापपरिहाराय, न्यायसत्यव्यवहाराय, शिष्टमिताचाराय च धर्मोप- देशाः प्रवत्ताः । अथ कदाचित् स साधुः पुरुषः लोकैरुत्पीडितो जीवितभयेन सपदि कापि जगाम । नातः परं केनापि तत्र तदर्शनं लब्धम्। कस्यचित् पर्वतस्य पाषाणमण्डे तत्पदचिह्न निपतितमा. सीत् । तत्स्मृतिरक्षणार्थ 'भ्यागडालिना'-नामके प्रामे तस्यैका पाषा- गमूर्तिनिर्मिता। तमाम 'उइ-सि-पेकोको' । सम्भाव्यतेऽयं शब्दः 'हर-सेन-भिक्षुः' इत्यस्यापद्मशः । मन्येऽपि केचिद वैदशिका भिक्षवः स्वानुचरैस्तत्र प्रशान्तमहासागरतीरमागमन् । त पते प्रागुक्ताः पञ्च भिक्षव एव भवेयुः । तैभिक्षुभिस्तन यो धर्म उपविष्टः, भूयः साम्यं तस्य बौद्धधर्मेण । 'स्पेन'-(Spaln) देशीयः भामेरिकाविज- २ ७४ मित्रगोष्ठी-पत्रिका। पसमये तस्य देशस्य मध्ये भागे मेक्सिकोप्रदेशे च पो धर्मः, पन्मतं, यादृशं शिल्पं, गृहनिर्माणकौशलं, मासगणनपरत्यादीनि च निरीक्षितानि, तैः साम् आसियादशवासिनो धर्मस्य, सभ्यत्वस्य पात्यन्तं विसमयाव सादृश्यमुपलभ्यते। एतच तयोर्देशयोः परस्पर समागम विना न कथञ्चित सम्भवति अन्यदपि किञ्चित्प्रमाणमधिगम्यते-भाषाविषयकं हि तत्। भग- वान् बुखद वः किञ्च 'गौतम' इति 'शाक्य' इति च नाना प्रसिद्ध भासीदिति सर्वेषां विदितम्। तावेतौ शब्दो, तदपभ्रशश्च मेक्सि- कोप्रदोशे प्रचलिताः सन्ति । तदेतदुपरिणात् स्पष्टीभवति । तस्मिन् देशे 'ग्वातेमाला' 'हुयातामो' इत्यादयः शब्दाः, स्थान- विशेषबोधकाः। तत्र 'ग्वातेमाला' शब्दः गौतमालय इति शब्दस्या. पभ्रश इति स्पष्टमेवावबुध्यते; 'हुयातमो' शब्दोऽपीडश एव । . न्ति तत्र 'शाकाटापेक' 'ओयास्काका' 'जाकाटेकास' 'शाकापुलास' इत्यादयः शब्दाः । एषां मध्ये "शाक्य" इति पदस्य भूयः सारश्यं श्यते। 'मिस्टेको' स्थानीयस्य प्रधानपुरोहितस्य नामधेयम् - 'ताय-साका' इति; 'शाक्यमनुष्य' इति तदर्थः । 'पाले' नामके स्थाने बुद्धस्य मूतिरेका विद्यते; तमाम "शाक्-मोल" ( शाक्य- मुनिः)। कोलोरोडा-नदीसमीपे कापि क्षुद्रद्वीपे कश्चित् पुरोहितो न्यवसत्, तस्य नाम 'गोतु-शाक्का' (गौतम-शाक्यः ) आसीत् । मेलिको-दशीयस्य पुरोहितस्य नाम 'लामा', तिब्बतदेशे बौद्ध- पुरोहितस्य नाम 'लामा', इत्येतयोः सारश्यम् । 'मेक्सिको' इति तह शस्य नाम तत्रत्यस्यैव कस्यचित् पादपस्य नाम्ना जातम् अतो यदि 'हुइ-सेनः' तह शोपगतः स्यात्, तर्हि तस्यापि फुसं वृक्षस्य माना तहशस्य नामकरणमगि युज्या एव । अन्यच आमेरिका केचित्पदार्था उपलब्धाः, ये स्पष्टमेव तन यौनधर्मप्रचारः प्रमीयते । यथा ध्यानस्थस्य बुद्धदेवसय, समया- सिनो बौद्ध भिक्षोः, हस्तिनध (न भामेरिकादशीयस्येव ) मूतिः - बावृत्तान्तः । निदेशीय-'पागोडा'-( Pagoda-दवालयः) सहशो देवालयः, चीरगात्रेषु चिनम्, उदृङ्किता शिला, स्तूपो, विहारः गलकारा- यध। एभिः प्रमाणैः श्रीमता फायर-महाशयेन प्रतिपादितं पत् पत् १५०० वत्सराणामपि पूर्व बौद्ध भिक्षवः आमेरिकामगमन्निति । विधुशेखरशर्मा। -::- बौद्धवृत्तान्तः । भूमिका। अद्यत्वे प्राच्यप्रतीच्यानामुभयेषामपि शिक्षितानां समाजेषु बौद्धानां धर्मस्य साहित्यदर्शनादीनां चानुशीलनं सविशेष प्रवृत्तम् । सहदया. नां हृदयरञ्जनसमर्थानि बहूनि तत्त्वानि तेनाविभूतानि आविभवन्ति च । अस्माकं संस्कृतपण्डितमहोदया नाद्यापीह तदनुशीलनमिच्छन्तो दृश्यन्ते अतोऽस्मिन् सन्दर्भ तान् प्रति समासतो दिवाणि वचनानि धक्नुमुचितानीति तत्र प्रवृत्ताः समः। किमितीहास्माभिरुदास्यत इति न वयं तत्कारणं जानीमः । साहसेनेदं शक्यते कथयितु यत् सन्ति खलु बौद्धग्रन्थेषु तादृशं साहित्यम्, तादृशो नीतिवादः, तादृशं दर्श- नतत्त्वं, तादृशाश्नापरे शिक्षणीया विषयाः, यत्र तत्तदध्ययनशीलानां सर्वेषामेव मानसमतितमा प्रीणितं स्यात । बौद्धानां साहित्यमश्वघो- पप्रणीतं बुद्धचरित कालिदासकाव्यप्रतिस्पद्धि, एतद्ग्रन्थविषये कै. श्चिदिदमप्युच्यते यत् कालिदासेन बुद्धचरिताद बहवः श्लोकाश्चोरिता इति । तदिचारस्य नेवस्थानमिति यातु तत् । बौद्धानां दर्शनं कीम् गम्भीरमिति अस्माकं दर्शनग्रन्थेषु तत्र तत्र कणशो विक्षिप्त क्षणभ- जवाद * शारीरकभाष्यादौ मात्रया विज्ञानवाद चालोच्यैव मास्मा. * सर्वदर्शनसंग्रह, आत्मतत्तविवेक, कुमारिलबार्तिके, प्रशस्तयाभाषप्रादौ च । .

मित्रगोष्ठी-पत्रिका। कोनैर्शिनिकैरवबोद्ध शक्यते । प्रतिपक्षरसदाचार्यैौखदर्शनस्य दुर्बला भागा एव उद्धृत्य दूषिताः, तानेवावलोक्य बौद्ध दर्शनं न कि. चिदिति वयं गणयामः, पर चित्रमिदं यत्तस्य तावतोऽपि चातुर्य. स्योपलम्भेऽपि न वयं तस्य अपरानंशानवलोकयितु भ्रमेऽपीच्छामः । तेषां नीतिवादोऽपि अस्मनीतिवादतो मापि नाम श्रेयस्त्वं भजता परं तु स खलु यनितान्तमानन्दमुत्पादयति, न तन लेशतोऽपि सन्दे. हः। धर्मपदादयो प्रन्थाः सुष्टु अत्र साक्ष्यं दद्यात् । श्रीशङ्करभगवत्पादान विज्ञानवादेन रौद्धविज्ञानवादल्य कीडश- मतिमहत् सादृश्यमस्तीति तदालोचयितृणां नाविदितम् बौद्धानां ध. म्मेण अस्मधर्मस्य मात्रयैव विसंवादः । हिंसाप्रधानवैदिकयागादीना प्रत्याख्यानेन वेदप्रामाण्यास्वीकारादेव बौद्धधर्मास्योपरि कुमारिलभट्ट. पादः श्रीशङ्करभगवत्पादैश भीषणो मुद्गरो निपातितः। अथ भग. वता बुद्धेन वेदप्रामाण्यमङ्गीकृत्यैव सायदर्शनवत् वैदिकयागादयो न्यषेधिष्यत, तर्हि मन्यामहे, बौद्धधर्मस्य स्वोत्पत्तिस्थानाद भारतान निर्वासनदण्डो नाभविष्यत्। वैदिकधर्मविषये अस्महाशनिकैय- दुक्त, वैदिकयागादिकं निषिध्यापि भगवता बुद्धदेवेन न किञ्चित् ततोऽधिकं कथितम् । तथाहि-यदि ईश्वरतत्त्वस्यापलापकमपि, देवतानां मूर्त्तस्तिरस्कारकमपि मीमांसादर्शनम्, विशुद्धसत्वस्य केव. लं शानेनैव मोक्षः, न तस्य वैदिककम्मापेक्षेति कचित् क्वचिद् वैदिक- यागादीनामविधायकमपि शाङ्करदर्शनम्, स्पष्टमेव ईश्वरस्याभावं, वै. दिककर्मणामफलोपधायकत्वं च कथयदपि साङ्मयदर्शनम्, वेदपुराणे- तिहासप्रसिद्धम् इन्द्रस्य वृत्नासुरेण युद्धं न वास्तवम्, अपितु रूपक- मात्रम् इति कण्ठत एव प्रकाशयदपि निरुक्तशास्त्रं च यदि नामास्मा. कं सादरं समालोचनीयं स्यात्, तहिं बौद्ध शास्त्रं नात्यन्तमपराध्यति अस्माभिरेव स पन्थाः प्रदर्शितः। इदन्तु तदाविकारकेण स्वलितं यत्तेन स्वधर्मः वस्तु ती वेदमूलकोऽपि कण्ठतस्तत्प्रामाण्यम् अनङ्गी. कृत्य प्रतिष्ठापितइति । वस्तुतस्तु असमधर्मेण बौद्धधर्मस्य यारशं ७७ बौद्धवृत्तान्तः। भूयः सारश्वमास्त, तनासौ बहुवेवांशेषु अस्मधर्मस्य परिपोषक एव । जिशासवस्तत् स्वयं परीक्ष्य ज्ञातुमर्हन्ति । किञ्च यदि विषादपि अमृतम्, अमेध्यादपि काञ्चनम्, बालादपि सुभाषितं, अमिवादपि च सदवृत्तं प्राथमिति यत् किञ्चिन्मनुरववत्, तद भेषजम्" इति श्रुतिप्रख्यापितमाहात्म्यस्य धर्मशास्त्रकारस्य भग- वतोमनोरादेशः ख्यात, * तहिं तवभवतां कुमारिलभट्टानां श्लोकवात्ति. कोक्त पचनमिदमसमाभिः नयने निमील्यैव कथञ्चित् श्रोतव्यम्, न वनुसरणीयम् । तद्यथा-मीमांसादर्शनकृता "शिष्टाकोपेऽविरुद्धम्", "न शास्त्रपरिमाणत्वात्", "अपि पा कारणाग्रहणे प्रयुक्तानि प्रतीयेर- " इति त्रीणि सूत्राणि ( मी० द० १४० ३पा० ५-७ ) उक्तानि । भ. यार्थ भाष्यकारः शबरस्वामी आह-"वेदं कृत्वा वेदिं करोतीति" भूयते । इत्येवमादिषु स्थानेषु क्षुतादिनिमित्त प्राप्ते “चान्तेन कत्र्तव्यम् ", " यज्ञोपवीतिना कर्त्तव्यम्", "दक्षिणाचारेण कत्र्तव्यम्" इत्येवमादीनि स्मृत्या विधीयन्ते । अत्र वेदं कृत्वा वेदि करोतीति श्रुत्या वेदवेदिकरणयोरानन्तर्या प्रतीयते; यदि हि एतन्मध्ये पुनरा- चमनादिकमनुष्ठीयेत, तहिं श्रुत्युक्तकालयाधः स्यात् । तस्मात् पूर्वो- दाटता स्मृतिः ('आचान्तेने त्यादिः) मप्रमाणम्-इति पूर्वपक्षे प्राप्त उच्यते-यथा वेदवेद्यादयः पदार्थाः श्रुत्युक्ताः एवमाचमनादयः स्मृ. त्युक्ताः । वेदवेदिकरणक्रमस्तु पदार्थनिष्ठो धर्मः । न च धम्मार्थ धर्मि-( आचमनादि ) बाधो युक्तः । तस्माद वेदवेदिकरणमध्ये क्षुता- दिनिमित्ते जाते कर्तव्यमेवाचमनम् । तस्मात् स्मृतिः प्रमाणमेव । * श्रद्दधानः शुभ विदामाददीतावरादपि । अन्त्यादपि परं धर्म खो- एनं दुधकुलादपि ॥ विषादप्यम्टतं ग्राह्य, बालादपि सभाषितम् । अमिता. दपि सदत्तम्, अमेध्यादपि काचनम् ॥ थियो रतमान्यथो विद्या धम्मः शौ- पं सुभाषितम् । विविधानि च शिल्पानि समादेयानि सर्वतः॥"मनुसंहिता। + "वेदो नाम दर्भमयं सम्मानसाधनम्, वेदिः आहवनीयगाहपत्यम- ध्यवर्तिनी चतुरङ्ग लखाता भूमिरिति” ग्यायमालाषितरे माधवाचार्याः ।

७८ मित्रगोष्ठी-पत्रिका। पातिककार: कुमारिलभट्टस्तु तेषां सूत्राणां तात्पर्य मित्थमाह- "ब्रह्मचर्यम्, महिंलां च, अपरिग्रहं च सत्यं च यत्नेन रक्षेत्" इति श्रुत्या विधीयते । “बौद्धा" अपि ब्रह्मचाहिंसादीनि तथैव कत्त- व्यत्वेनामनन्ति। न च एताहश्या बौद्धस्मृत्याः श्रुतिविरोधः। त- सात को दोषस्तया बौद्धस्मृतेः प्रामाण्ये-इति पूर्वपश्ने प्राप्त माह यथाहि गङ्गोदकं (केचित्तु गोक्षीरमित्याहुः ) पवित्रमपि वतिस (कुक्कुरचर्मपुटकमध्यगतम् ) अग्राह्यं भवति, एवमेव अहिंसादिक- मुपादेयमपि बौखस्मृतिसम्बन्धेन अग्राह्यमेव । न प्रमाणमस्ति बौद्धशा- स्त्रोक्तो धर्मः फलं साधदिति । अस्माकन्तु "वेदोऽखिलो धर्म- " इत्यादि बहुप्रमाणमस्तीति । माधवाचार्यकृत-शङ्करदिग्विजयपाठकानां नैतदविदितं यद बौ- खानां समूलोन्मूलनार्थमेव कुमारिलभट्टस्यावतार इति । बौद्धान प्रत्य. स्य कीरशो विप आसीदिति प्रागुक्तमीमांसासूत्राणां शयर स्वामि- कृतस्य एतत्कृतस्य च व्याख्यानस्यालोचनादेव स्पष्टीभवति । बौद्ध. सिद्धान्तो महता प्रतापेन विचूर्णितस्तेन । अतएव माधवाचार्य आह- " कुमारिल मृगेन्द्रण हतेषु जिनहस्तिषु । निष्प्रत्यूहमवद्धन्त श्रुतिशाखाः सहस्रशः" ॥इति॥ कृतमतिविस्तरेण । बोद्ध शास्त्रमस्माकमनुशीलनाई न वेति मन्याम पतदिपयेऽस्माभिः संगृह्य क्रमेण प्रकाश्यमानः सन्दर्भः सचेतसोऽरू पाठकमहाशया विशातुप्रभवेयुः । अथ बुद्धदेवस्य नीत्युपदेशः। मूलम्" २ भगवता बुद्धदेवेन स्वानुचरान् प्रति कीदृशा नीत्युपदेशाः प्रद साः, तदेवाध समासतोऽस्मत्पाठकमहाशयेभ्य उपहर्तुमिच्छामः । . तत्र पञ्च धम्मीदेशाः-("सूननिपात''स्य "म्मिकसूत्ते-सूवनि पातस्यधार्मिकसूत्रे ) १ प्राणिहिंसा न कर्त्तव्या, २ अदत्तं द्रव्यं न प्रा ह्यम्, ३ कामेषु मिथ्याचारात ( व्यभिचाराद ) विरमणीयम् , ४ भनेर बौद्धवृत्तान्तः। म भाषणीयम्, ५ मयं न पेयम् एते पञ्च धम्मादेशाः “पञ्चशीलम्" इत्यपि कथ्यन्ते । “पञ्चशील"मिदम् अविशेषेण भिक्षुकैगृहस्थैचा- नुष्ठेयम्। अत्रैव अपरस्मिन् नियमनये संयोजिते सर्व मिलितम् “भष्टशील- म्" इति गीयते । अयमत्र विशेषः-पञ्चशीलमध्ये तृतीयनियमे व्य- भचारो निषिद्धः। अत्र तु अष्टशीले तृतीयनियमे मैथुनं सर्वथा नि. पेचम्-"अब्रह्मचरिया घेरमणी"-अब्रह्मचर्य्याद विरमाणीति । रतनियमवयं यावच्छक्यं सर्वैरनुष्ठातु यतनीयम् तद्यथा-१ विका. भोजनं न भोक्तव्यम्, २ माल्यं गन्धद्रव्यं च न धायें, ८ उच्चशयने यहाशयने वा ( उच्चपल्यंके, तूलग दिशय्यायां वा) न शेतव्यम् । अत्रापरे नियमये योजिते, तत् सर्व “दशशीलम्" इति नाना- रयायते । यथा-१ नृत्य-गीत-वादिवोत्सवदर्शनं न कर्त्तव्यम, २ स्वर्ण रजतं च न धायें । 'दशशीलम्' भिक्षुभिरवश्यानुष्ठेयम्, गृहसथाना ‘पञ्चशीलम् । एव अवश्यानुष्ठेयत्वेन विहितम्, अन्यत् सर्वं तु यथाशक्ति कर्त्तव्यम् दुतियम्पि-(द्वितीयमपि ) अहं भन्ते, पञ्चसीलं धर्म याचामि, अनुगाहं कत्वा शीलं देथ मे भन्ते"। . * ध्यान प्रसङ्गात पञ्चशीमादिकं बौछः कया परियाया गृह्यत इति कि- चिदुच्यते । यही भिक्षुसमीपं गत्वा नि: प्रार्थयेत-अहं भन्त , तियरीन सह पञ्च- लोल धर्म याचामि । प्यनुगाई कत्वा मौलं देथ मे भन्त । स. अहं प्रभो, त्रिशरणेन सह पश्चशीलं धर्म याचामि । अनुग्रहं कृत्वा शीलं देहि मे प्रभो। बौछे : प्रतिदिनं बुद्धस्य, बुद्धप्रवर्तितस्य धर्मस्य, तम्मानुसारिणां च 'संध' इति प्रसिद्धानां स्तुतिः क्रियते । एतत्वयं “त्रिशरणम्" इति च गीयते । तदित्यम्--युद्ध शरणं गच्छामि, धर्म शरणं गच्छामि, संघं पारणं गच्छामि यत्र विस्तरो वक्षाते।

८. 4 मित्रगोष्ठी-पत्रिका। ततिस्पि-( तृतीयमपि ) अहं भन्ते, पासीलं धर्म याचार अनुगाई करवा लीलं देथ मे भन्ते। अष्टशीलादिप्रार्थनासमयेऽपि इयमेव रीतिः। केवलं "पश्चसील म्" इत्यत्र यथा प्रयोजनम् “अष्टशीलम्", "शशीलम् " वेरि पाठनम् । भिक्षुः- यदहं वदामि, तं वदेहि। (ल. पदहं वदामि, वद)। गृही-आम भन्ते । मां प्रभो। मतः परं गृही भिक्षुमनु वदेत्- १। "पाणातिपाता वेरमणी सिक्खापर समादियामि"। स०-प्राणातिपाताद विरमाणीति शिक्षापदं समाददामि । २ । “अदिनादाना रमणी सिक्खापदं समादियामि"। स०-अदत्तादानाद विरमाणीत्यादि । ३ । “कामेसु मिच्छाचारा घेरमणी सिमापदं समादियामि। स०-कामेषु मिथ्याचाराद -इत्यादि । ४। "मुसायादा वेरमणी सिक्खापदं समादियामि"। स०-मृषावादाद ... इत्यादि । ५। “सुरा-मेरय-मज-पमाद छाना बेरमणी सिख्खापदं समाि यामि"। -मद्य-प्रमादस्थानात विरमाणीत्यादि । ६। “विकालभोजना घेरमणी सिक्खापदं समादियामि। स-विकालभोजनाद् ( असमयभोजनात-रात्रिभोजनात् ) विरमा णीत्यादि। ७। माला-मन्ध-विलेपन-धारण-मण्डन विभूसन-ट्ठाना-घेरमण सिक्खापदं समादियामि । ( स्पष्टम् ) ८। उच्चासयन-महासयना धेरमणी सिक्खापदं समादियामि । ९ । नश्व-गीत-वादित-विसूक-दस्सना वेरमणी समादियामि । स०-नृत्य-गीत-वादिनोत्सवदर्शनाद विरमाणोति स०- -सुरा-मैरय-मः 5 । पौषवृत्तान्तः। ८१ "जातसप-रजत-परिपाहणाघेरमणी सिमापदं समादियामि। स-जातरूप-रजत-प्रतिग्रहणाव विरमाणीत्यादि । भथ भिक्षुर्वदेत-"तिसरणेन सह पञ्चसीलं धम्म साधुकं पु. रक्सितं कत्वा मप्पमादेन सम्पादेतत्त्वम् "-त्रिशरणेन सह पच. शीलं ( एवमष्टशीलं दशशीलं वा) धर्म साधु सुरक्षितं कृत्वा अप्र. मादेन सम्पादयितव्यम् ) गृही-"माम भन्ते"। (आं प्रभो।) प्रागुक्तम् अष्टशीलं पश्यमाणाभ्यां पालिगाथाभ्यां संग्रहीतम् :- "पाणं नहाने, म चादिनमादिये, मुसान भासे, न च मञ्जपो सिया। भनमचरिया विरमेय्य मेथुना, रतिं न भुजेच पिकालभोजनम् ।। मालं न धारे, म च गन्धमाचरे, मचे छमायं वलयेथ सन्यते। ..."॥ सा-प्राणिनं न हन्यां, नचादत्तमादधाम्, मृषा न भाषेय, नव मद्यप: स्याम्। मम्रप्रचार विरमेय मैथुनाद, रात्रौ न भुञ्जीय विकालभोजनम् ॥ मालां न धयं न च गन्धमाचरेयम्, मञ्चे क्षमायां वा शयीय सन्ततायाम् ॥ शीलप्रशंसापरा बहवः श्लोका विद्यन्ते । तेभ्यो मनोरमतमा दिना उमाहिगन्ते- "नतं सजलदा पाता, न चापि हरिचन्दन । मेष हारा न मणयो न चन्द्रकिरणकरा ॥ समयन्तीह सत्तानं परिलाह, सुरक्षितं । यं समेति इदं भरियं सील मचन्त सीतलम् ॥ स०-न तं सजलदा पाता, न चापि हरिचन्दनं । नैव हारा, न मणयो, न चन्द्रकिरणाराः। शमयसीह सरवानां परिवाह, सुरक्षितम् । यं शमयति सम्भार्य शीलमस्यन्तशीतलम् ॥ । - मित्रगोष्ठी-पत्रिका। सुरक्षितमिदमार्य शीलं जनानां यं दाह शमयति, जलदपवमचन्द्र- चन्दनहारादयो न तं शमयितु प्रभवन्तीति तदर्थः। एतदकरणे दो. षोऽपि प्रदर्शितो यथा- यो पाणमतिमापेति मुसापादं च भासति । लोके मदिन्न भादिपाति परदारं च गच्छति ॥ सुरामेरयपानं च यो नरो अनुयुञ्जति । बधेऽवभेसो लोकस्सिं मूलं खनति अत्तनो ॥ स-यः प्राणमतिपातयति मृषावादश्चभाषते । लोके भदत्तमाददाति परदारांध गच्छति ॥ सुरामैरयपानञ्च यो नरो ऽनुयुनक्ति । इह एवमेष लोकेऽस्मिन् मूलं खनति मात्मनः ॥ धम्मपदं-मलघगो। "लिगलोवद सूत्त"-नामके • (शृगालवादसूने) प्रन्थे गृहस्था. नां बहवो नियमाः प्रपञ्चिताः । पिनादीनां प्रति पुनप्रभृतिभिः कथं व्यवहर्तव्यम इत्यादिकं तत्र सुष्ठु प्रदर्शितम्। तत एव किञ्चित्प्र- दश्यते।:- पितरौ पुत्रश्च। पितरौ-१। पुत्रान् पापेभ्यो रक्षेताम, २। तेभ्यो धमानुशासन कुर्याताम, ३ । तेभ्यो विर्धा विज्ञानं च शिक्षयेताम; ४। अनुरूपया पत्न्या (कन्यापक्षे भा) तेषां विवाह स- म्पादयेताम्, ५१ तेभ्यः स्वधनादेरुत्तराधिकार याताम् । पुत्रस्तु-प्रतिजानीयादिदम्- १ याभ्यां पोषितोऽस्मि तावहं पुष्णीयाम, २ । पारिवारिक बुद्धदेवो यदा राजगृहान्तर्गते (राजगह मगधदेशस्य प्राचीना राज- धानी ) 'वण पने' आमीत्, तहा कम्मिंश्चिदहनि भिक्षाटनार्थ गछन् गथि "शूगाल"नामानं कमपि दिक्षु प्रणामेन पिट न तर्पयत रहस्य यानुपदेशान 'शृगाल मूत्र' निवडा: सन्ति। . प्रादात ते सर्वे बोकृत्तान्तः। कृत्यं, यत् खलु तयोरुपरिस्थितं, तदहं सम्पादयेयम् ३ । तयोः सम्पत्तिं ( धनादि ) रक्षेयम्; ४ । तयो यादीभवि- तुमहमात्मानं तदुचितं कुर्य्याम, ५। उपरतयोस्तयोः सम. रणानुबन्धेन तावहं सम्मानयेयम् ॥ २। अध्यापकः, अन्तसदन । मन्तेसदः स्वाध्यापकमित्थं सम्मानयेत्-१। अध्यापके समागते मा- सनादुत्थानेन, २ । तदपेक्षितसम्पादनेन, ३। तचनानु. पत्तनेन, ४। तदुपदेशे मनोऽभिनिवेशदानेन, ५। तस्य परिचर्यया च। अध्यापकोऽपि अन्तसदाय स्वस्नेहमित्यं प्रदर्शयेत- १। सर्वेषु साधुविषयेषु तस्यानुशासनेन, २ । त्वरित ज्ञान- मुपायितु तस्मै शिक्षाप्रदानेन, ३ । ज्ञान-विज्ञानशिक्षया, ४। तस्य सुहृदनुचरादिसमीपे तस्य साधुवादकथनेन, ५। सर्वाभ्यो विपदभ्यस्तस्य रक्षणेन च । ३ । पतिः, पत्नी च। पतिः पत्नी पालयेदित्यम्-१। ससम्मानव्यवहारेण, २ । सदयव्य- वहारेण, ३। तो प्रत्यात्मनो विश्वास्यत्वेन (परदारागमनेन), ४। यथा तामन्येऽपिसम्मानयन्ति, तथा करणेन, ५। तस्यै मनुरूपवस्त्राभरणदानेन च । पन्यपि पति प्रत्यात्मनोऽनुरागं प्रकाशयदित्यम्:-१ । गृहसामग्री यथास्थानं सभिवेशनेन, २। पातिव्रत्येन, ३। नात्यधि. कव्ययेन गृहकर्मसम्पादनेन, ४ । सर्वेषु गृहकृत्येषु श्रमाङ्गी- कारण कौशलप्रदर्शनेन च, ५। परिवारेषु तदुचितसत्का- रविधानेन । ४। बन्धपः, सहचराच। न्धुजनः स्व सहचरानित्यं सेवेत-१। उपहारप्रदानेन, २ । मधुर- सम्भाषणेन, २। तेषां कल्याणलाधनेन । तान् प्रत्या.

. मित्रगोष्ठी-पत्रिका। स्मसमानत्वेन व्यवहारेण, ५ः साई सौभाग्यभोगलेपने छ । इमेऽपि तं प्रति स्वरदयानुरागमित्थं प्रदर्शयेत्-१-२॥ सति तस्य प्रमादे तत्पर्यवेक्षणेन, तस्य धनसम्पत्तिरक्षणे- न च ३-४ । समागतायां विपत्तौ तस्मै माश्रयप्रदानेन, त. स्पक्षावलम्बनेन च, ५। तत्परिवारषु प्रीतिप्रदर्शनेन च । ५ । प्रभुभृत्यश्च । प्रमुस्तदाश्रितानां भृत्यामा मालमित्थं साधयेत्- । तेषां तत्सा. मोचित कर्मनु विनियोगेन, २। मनुआपाहार्यवेतन. प्रदानेन, ।। व्याधिसमयेषु तेषामुपधरणेन, "। तेभ्योऽ. मुलभस्वादनमागप्रदानेन, ५। अन्तरारतरा कर्मणोऽस- काशप्रदानेन च। सेऽपि प्रभुप्रति खानुरागमित्थं दर्शवेयुः-१। प्रभोः पूर्वमेव शय- नारथामेम, २ । प्रभोः परं शयनेन, ३। यतेभ्यो पत्तं ते. नैव सन्तोषाधिगमेन, । सानन्दं कर्मणां सभ्य सम्पा. दनेन, ५। प्रभोः प्रशंसापादेन च । ६ । गृहस्थः ( अदीक्षितः) सन्यासी च । प्रहस्थो जनो भिनून् बामगाश्चेत्थं सेवेत-१ १-२.३ । कर्मणा मनमा वाचा च तेभ्यो भक्तिप्रदर्शितेन, ।। तेषां सधः स्वागतप्रश्नेन, ५ । जीवितार्थापेक्षितद्रव्यदानेन च । इमेऽपि तस्मै स्वानुरागमित्थं प्रकाशयेयुः-१ । तस्य पापाधिवत्तनेन, २ । सदाचारे प्रेरणेन, ३ । तं प्रति करुणानुभवेन, ४ । ध- र्मोपदेशेन, ५ । संशयनिरसनपूर्व स्वर्गपथप्रदर्शनेन च । श्रीमन्तः पाठकाः, तत्रभवता बुखदेवेनोपविष्टान् गार्हस्थ्यधमी. नेतान् समालोच्य कस्य नाम हृदयं नानन्दस्फीतमुपजायते ? पित्री- स्तनयस्य विद्या-धर्म-नीति-सुख-सम्पादनार्थ प्रायासः, पुत्रस्य च पित्रो: परिपोषण, सम्माननं, स्मृतिसंरक्षणं च, अभ्यापकान् प्रति भन्तेखदानां सामानो व्यवहारः, मायापकानां च तान्प्रति स्नेहानु. ।

पापा सम्पादकाभिमायाबा प: । पत्युः परयो ससम्मानः, सकरणः, सस्नेहवाचारः, पल्या- अपि च तस्मिन् पातिवरयं, रद्धानुरागः, गृहकर्मनैपुणादिकं च, न्धूनामन्योन्यं तारशः समुदारः सदाचारः, प्रभुभृत्ययोस्ताहक रस्परं सदयः सानुरागध व्यवहारः, गृहस्थप्रवजितयोश्च मिथस्तद- मनोडं वृत्तं न कस्य मानसमाकर्षयुः। सर्वेऽप्येते मनोरमा आचा. । भस्मधर्मशास्त्र भसकृद उश्यन्ते। तत पर्वते संगृहीता बौद- सवपि इदं सर्वमवलोक्य मन्दमतिरपि बौद्धधर्मस्य दयाम- घेतुप्रभवति । (शिष्टम) कश्चित् पत्रिकामियः। वार्ताः सम्पादकाभिप्रायाश्च । श्री शिक्षा-कतिचिदिवसानि भारते शिक्षासंसकारालोबनेन नामां वित्त व्यापृतम् । न केवल विश्वविद्यालयशिव तदालोचन. अपयः, अपितु शिल्पविज्ञानशिक्षामप्यधिकस्य सर्वत्रैव भारते अनाना चन्तनं दृश्यते । मूनमिदं साम्प्रतं भारतस्य प्रमोदावहम् । भयं च हानानन्दो यत तनभवान् धर्माधिकरणिकः श्रीसारदाचरणमिन- होदयः स्वचिन्तितं स्त्रीशिक्षाप्रकार पुरस्कृत्यास्मिन् क्षेचे समुप. थित इति । कलिकातायां महाकालो पाठशालेति प्रसिद्धस्य पा- काविद्यालयस्य बालिकाभ्यः पुरसकारप्रदानावकाशे स्त्रीशिक्षा- पये स खलु मधुर व्याक्यानमकार्षीत् । तचिन्तितः स्त्रीशिक्षा- कारः वर्तमानस्य समाजस्य समुचितः। अद्य यावत् यहषा स्त्रो- आमा नाधिकतराणां जनानां हृदयमाकष्टुं समर्था, इदमेव तस्य रणं यत् स्त्रीणां शिक्षया यजनैरभिलषितं, न तत्प्राप्यत इति । धर्माधिकरणिक महाशयेनाभिप्रेयते समाजस्य मानायामवस्थायां वस्यैव देशसप, अथवा अन्ततस्तु भारतस्य पुरुषाणां जीवन स्त्रो. | जीवनावश्यं भिनमेष भवेत् । एकस्य कृत्यमपरस्य कृत्याद ८६ मित्रगोष्ठी-पत्रिका मिद्यत एव । मतो बालकाना बालिकाना चाविशेषेण एकस्मिन् पथि विचरणं भ्रममूलकमेवेति । तन्मते मनदीयानां वालिकाम पावद द्वादशं वर्ष साधारण विद्यालये पाठसमयः । तत्र पञ्चमा सप्तमं वर्षे यावत् साम्प्रतं प्रचलिते सामान्यप्रकारेण 'किग्डारगार्टेन प्रभृतिना लिखन-पठन-चित्रानशिक्षा देया। अष्टमाद दादशं ष यावस्तु पाठा दूधा विभक्त' भवेत्-एक विश्वविद्यालयशिमारि छन्तीनाम्, अपरन्तु यासां प्रायो द्वादशे वर्षे विवाह एव पाठः समाः प्यते। एताभ्यः खल्वन्तिमाभ्यो बालिकाभ्यः भारतीयम् इतिवृत भारतीयं भूगोल, प्राथमिक गणितम्, चित्राकनं, स्वास्थ्यतरथम पाकविद्या,............. प्रदेयानि । यासतु स्वल्पा बालिका विश्व विद्यालयशिक्षामिच्छन्ति, अष्टमवर्षप्रभृत्येव तासामपि पाठव्यवस्थ कर्तव्येति । परिवारेषु परिवारकीणां गृहिणीनां समुविता शिक्षा मन्तरेण कीदृशं महदनिष्टमुत्पद्यत इति कस्य नाम नायिदितम् परिवारष्वस्मयालिका यथा सुष्ठुतरं गृहिणोपरमधिगन्तु' शक्नुयात तथावश्यं सर्वैर्यंतनीयम् । उक्त मनुना-"स्त्रियः श्रियश्च गेहेषु । विशेषोऽस्ति कश्चनेति" ईदृश्यः स्त्रियश्चेदपेक्ष्यन्ते, तर्हि ताभ्यः शिक्षादानाद ऋते को नामापर उपायोऽस्तीति न जानीमः । श्रीमता मित्रमहोदयेन बालिकानां प्रथमशिक्षार्थ योऽयमुपाश्चिन्तितः, सर्वथा स मनोरमः । वित्तवृत्तेरिव शरीरस्याप्युनतये शिक्षा आवश्यकी। पितुरिव मातुरवि शरीरस्वास्थ्यदोषात् उत्पन्नस्य शिशोः स्वास्थ्य विहन्यते। अतो बालकरिव बालिकाभिरपि शरीरोमतये कश्चिन्म दुर्व्यायामः सेवनीय एवेति प्रतिभाति । दृश्यत एवेयं रीतिर्देशान्तरेषु। जापानस्योमतिः -वैदेशिक पत्रिकान्तरे जापानस्योमतिकारण- विषये तस्यभूतपूर्वेण मन्त्रिणा कोऽपि प्रबन्धः प्रकाशितः । तत्र बहुषु ज्ञातव्येषु दिवा एवेह लिख्यन्ते। जापानस्य पूर्वमभिमान भा- तवत्यं सर्वमेव उत्तमम्, देशान्तरोयन्तु सर्वमेवापकृष्टम्, भतोऽनुपादयमिति । यावत् तस्यायं मिथ्याभिमान मातीत, न तेन । । सीत् यत् ८७ वाचा सम्पादकाभिमायाश्च । वित् किञ्चित् कर्तुं प्राभूयत । अथ यदा स निर्मूलकत्वेन तेनावधा- तः, तदाप्रभृत्येव वैदोशिकेषु यद्यदुत्कृष्टं, तत्संप्रहाय जापानीयैः भ्यक प्रयतितम् । अस्सह शेऽपि बहुलमिवायमभिमानोऽस्ति तेन न्धाः सन्तः स्पष्टं प्रकाशमानमपि वैद शिकानां गुणमहिमानं क- प्रत् कचिदपि दृष्ट्वाप्यपश्यन्त इवापहोतुमिच्छामः । काचित् कि- पत् सर्वथा नूतनमेवाविष्कृतं तत्त्वं तैः, न तथात्वेनाङ्गीकत्तुमभिल- मिः । श्रूयते-विद्यु दात्यं न पाश्चात्यानां प्रथमा राष्टिः, भारतीयै. पायैः सृष्टपूर्वा सेति वैदिकवचनोपन्यासेन प्रमाणयितु केनापि दब्रुवेण किर्याहनपूर्व प्रायत्यत । मलमुक्त न स खलु पश्चादुपहसित वाभवदिति । अत ईदृशं दुरोद वृथाभिमानं दूरतोऽपसायं घस्योत्कृष्टं, तदेव निकृष्टादपि तस्मादादेयम् । जापानोमतेरपर रणं तवत्या शिक्षा । अयं तस्मिन्नुपनिबद्धो नियमो यत् प्राप्त षष्ठे मैं वयसि अविशेषेण सर्वेऽपि बालका बालिकाश्च साधारणविद्यालये सामधिगच्छेयुरिति । एतत्परिपाकेन दृश्यते साम्प्रतं जापाने प्रति. तकं १३. ७८ बालकाः, ८१.८ बालिकाश्च विद्यागारेषु शिक्षा भन्ते । भारते तु शिक्षमाणा बालकाः प्रतिशतकं २० विंशतिः, बा- कास्तु प्रतिशतकं २ दे । लन्ति केचिदमदशे, ये हि प्रवत्तमानां शिक्षापद्धतिं दूषयन्तोऽपि न तावत् स्वोद्भावितामपि तामनुस- त अन्यानेव वा तत्र प्रवर्तयन्ति । अस्मादपि शिक्षमाणेभ्यो बाल. भ्यो तासां बालिकानां संख्या न्यूना । उद्भिविद्यायाश्चरमोत्कर्षः-आमेरिकायां कालिफाणियानिवासि. श्रीमता लुथार बरण्याङ्क-( Luther Burbank ) महाशयेन उद्भि- द्याया इत्थमभिनवं तस्त्रमाविष्कृतम्, भाविष्क्रियते चाचापि, येन विषामेव हृदयं चित्रीयने । मानवैरशक्यं नाम किश्चिदस्तोति न द विजानतश्चेतस्युदेति । आमेरिकामरुषु अस्मद शोयस्नुहीवृक्ष- काण्डपत्रादिषु सर्वतः काटकाकीर्णः, अतएव च नरवत् पशुभि- व्यनुपादेयः कश्चित् 'क्याकटास' नामा ( Cactus ) पादपोऽस्ति । ।

८८ । मित्रगोष्ठी-पत्रिका। पय वर्षाणि परिश्रम्य पारस्याहमहाशयेन तस्य पक्षस्य पवस्या सुस्वादुरवं, पुष्टिकरत्वं च सम्पादितं, का कथा फलस्य । साम्प्रतं तर कण्टकसंपर्थोऽपि नास्ति । तेनोच्यते-यैरुपादानः क्याकटास् वृक्षय कण्टकादयोऽनुपदिया: मंशा उत्पदान्त, तान्येव हि तत्प्रभावेण भो. ज्यमंशमुत्पादयन्तीति । श्रीमता पारव्यान क्याकटास् वृक्ष ब्ल्याकबेरी-(Blackberry) वृक्षोऽपि निकण्टकीकृतः । साम्प्रतं ते पाटल-(गुलाब) वृक्षस्यापि कण्टकापाकरणाय यत्यते। मामेरिकाया- मेव कस्मिंधित प्रदशे पादपाना पसन्तसमयशेषे तुषारपातेन महा. नपचयो जायते । पारस्याङ्कप्रभावेणेदानी कुसुम मुकुलादिषु तुषार संहतेष्वपि पुनः सूर्यकिरणसंयोगे तेभ्य एष फलोदगमो भवति। डालिया-( Dahlia ) कुसुमं दुर्गन्धं, तेनासिमन् म्याङ्गोलिया-(Mang: olia) कुसुमस्य सौरभ सम्पादितम् । अनेन क्षुद फलं बृहत, बृहस क्षुद्र कत्तुं शक्यते । अष्ट्रेलियायाः नक्षत्र-कुसुमस्य-(Star-flower) तथाभ्युदयः सम्पादितः, येन सहाकारेण गुणोऽपि तस्यावता- शुष्कस्यापि तस्य वर्ग-सौकुमार्यवैलक्षण्यं न जायते । बारम्याजमहाश. येनापराण्यपि बहून्यद्भुतानि सम्पादितानि सम्पादयन्ते च । वार्षिकोत्सवः-मतीते 'ने' मासे प्रयागस्थिताया 'हिन्दुधर्म- प्रवद्धिनी सभाया' द्वितीयो वार्षिकोत्सवो महता प्रमोदन सम्पन्नः। तव काशिमहामहोपाध्यायैः श्रीराममिश्रशास्त्रिभिः, इटावावासिमित पण्डितः श्रीलक्ष्मीप्रशानशमंभिश्च सभापते पसनमलंकृतमासीत् । सभायां सुप्रसिद्धर्वाग्मिभिः पण्डितश्रीदीनदयालुशमव्याख्यानवाच. रूपतिभिः, पण्डितश्रीमदनमोहनमालवीयैः, 'सुरर्शन'-सम्पादकैः थोमहादेवप्रसाद मिश्रप्रभृतिभिश्च चेतोहरं व्याख्यानं कृतम् । सभार्थ सभास्थापितसंस्कृतपाठशालार्थ च तस्मिन्नेव स्थाने पञ्चलहस्राणि रुप्यकाणि संगृहीतानि ।

मित्रगोष्ठो-पत्रिका। (मासिकं संस्कृतपत्रम् ।) सङ्गच्छध्वं संवदध्वं संवो मनांसि जानताम्"। ऋग्वेदः। द्वतीये वर्षे } १८२७ शकाब्दाः, श्रावणः { चतुर्थसंख्या काव्यपरिमलः। काव्यप्रशस्तिः। कीर्ति वढापि भावमहती स्थैर्य न धत्ते चिरम्, कालस्रोतसि लीयते रघुपतेरालीव पाथोनिधौ। साचेत् स्थेयसि वज्रकोपसदृशे रामायणाभे कवे- ग्बिन्धे विनिधीयते नहि तदा स्याद यातयामा क्वचित् ॥१॥ द्रवत्वं पाषाणानपि नयति दीप्तानपि शमम्, मृतानप्युच्चैयंत पुनरपि समुज्जीवति च । कवीनां जिह्वाग्र स्फुरति तदिदं किश्चिदमृतम्, यदिन्दौ वा सिन्धा वमृतमिति तन्नूनमनृतम् ॥२॥ सुरारीणां वारुण्यमृतममराणां हिमरुचि- दिरेफाणां पौष्पं मधुच हुतशेषः क्रतुमताम् । पिपासाक्षामाणामुदकमपवर्गश्च यतिनाम्, सचित्तानान्त्वेकं परमममृतं सत्कविवचः ॥ ३ ॥ नोवीरैरसिपाणिभि नं करुणाशील नं दानव्रतै- नों वा धर्मधनै नै तर्कनिपुणैजय्यं जगन्मण्डलम् । मुक्ति युक्तिमती लसनवरसा कान्तेव तु प्रेयसी, वक्त्रं चुम्वति यस्य तेन कविना मन्ये त्रिलोकी जिता ॥४॥ श्री महेशचन्द्र शर्मणः। १ संस्कृतभाषा। ( पूर्वतो ऽनवृत्ता) भारतवर्षवासिभिस्तु संस्कृतशिक्षा अवश्यकत्र्तव्या । भारत- वर्षेहि यावत्यो भाषाः सन्ति, तावत्यः सर्वा एव संस्कृतादुत्पन्नाः, संस्कृतसदृश्यः, संस्कृतगाधयो वेति संस्कृतमूलकाः। संस्कृतच भारतवर्षस्य साधारणीभाषा, इत्यतः संस्कृतमेव भारतीत्युच्यते। तथाच "ब्राह्मी तु भारतीभाषा गोर्वाग वाणी सरस्वती" त्यमरः । भारतस्येयमित्यणप्रत्ययान्तभारतशब्दात् स्त्रीत्वात् नीष । भारतवर्ष- भुक्तौ याः प्राकृतभाषाः सन्ति तासां सर्वासामेव मूलं संस्कृतभाषा अतएव भारतवर्षभुक्ततत्तद्देशवासिमिः स्वस्वमातृभाषासंशोधनाय संस्कृतमवश्यशिक्षणीयम् । संस्कृतज्ञा हि संस्कृतस्येव तत्तदंशभा. षाणामपि गुणदोषान् सूक्ष्माणुसूक्ष्मानियमांश्च जानन्ति संस्कृताध्य- यनं विना प्राकृतभाषाणामपि निखिलान् गुणदोषान् कृत्स्नानियमांश्च सम्यक् ज्ञातु कोऽपि न शक्नोति । अतः प्राकृतानां प्राकृतभाषासु विविधा दोषा दृश्यन्ते । भाषादोषान् संशोधयितु भद्रवंश्यै रवश्यं संस्कृतं किञ्चिदध्येतव्यम् । अन्यथा भद्राणां मुखे अशुद्धां भाषां श्रुत्वा पण्डिता उपहसन्ति तांश्च असभ्यान्मन्यन्ते । उच्चारणशुद्धिरपि संस्कृतमविदुषां भद्राणामपि प्रायेण न जायते, वहवो भद्राः कर्मेति वक्तव्ये कम्मेति, अग्रहायणेति वक्तव्ये अघ्रान् इति, गौरवेति वक्तव्ये गैरवेति ब्रुवन्ति । दीर्घान् वर्णान् हस्वान्, हूस्वांश्च दीर्घानुञ्चारयन्ति, किंबहुना, अकुतोभयमिति वक्तव्ये, अ- कुतो साहसमिति उक्त्वा पण्डितानामुपहसनीया भवन्ति तदवश्यं भद्रः संस्कृतमध्येतव्यम् । अपि च धम्मो यथा ऐकमत्यस्थापनस्य उपाय स्तथा भाषापि ऐकमत्यस्थापनस्योपायइति यदि सर्वै भंद्रः संस्कृतमधीयेत तदा एक- भाषा सूत्रेण घयं सर्वएव भारतवासिनो निबद्धा भवेम। इत्थं यदि अस्माकं शास्त्रार्थः। भारतवर्ष समस्तमेव ऐकमत्येन निबद्धं भवेत् तदा कियानानन्दो ऽनु भूयेतेति वितयंता सहृदयै रित्यलं विस्तरणेतिशम् । श्रीमहेशचन्द्र शर्मा। दिनाजपुरम् । -:0: -- अस्माकं शास्त्रार्थः। शास्त्रार्थशब्देन किमुच्यत इति कस्य खल्वविदितम् । सभायां समवेतेषु संस्कृतशेषु कैश्चित् पूर्वम्, अपरैरुत्तरम् अन्यैर्माध्यस्थ्यम्, इतरश्च श्रोतृत्वमवलम्ब्य आयंशास्त्रविषये यदालोच्यते स एव 'शास्त्रार्थी' नामेति वदन्ति । यया रीत्या तु साम्प्रतं तैस्तदनुष्ठोयते तेन तद् वस्तुतस्तदभिधेयमहति न वेति महान् सन्देहः । शास्त्रार्थो नाम न खल्वहन्तु निःसारैवंचनप्रपञ्चेः प्रतिपक्षस्य हृदय विदारणम्, न च सिंहनादमपि तिरस्कुर्वाणैः कण्ठम्वनिभिदि. गन्तरालवाचालनम्, महाकाशोदरप्रपूरणम्, श्रोतृश्रवणविवरप्रस्फोटनं वा । अथेश एव स भवेत्, तहि किमिति शास्त्रविद एव तत्राधि. क्रियन्ते, किमपराद्धं प्राकृतः यत्र नानुसत्र्तव्यं शास्त्रम्, न कत्र्तव्यो विनयः, न रक्षितव्या महतां मर्यादा; न स्मरणीयं शीलम्, न द्रष्टव्यो धर्मः, न वापेक्षणीयो न्यायः अपि तु प्रकाश्यो दम्भः उच्चार्यो दुर्वादः, कर्तव्यः क्रोधः सेव्यो दुराग्रहः, प्रच्छाद्य सत्यं तिरस्कार्य तव्यं स्वेच्छामनुसृत्य न तु शास्त्रम निर्णेयो वादिविजयो न तु शास्त्र. सिद्धान्तः, स्थापनीयं च यथाकथञ्चित् स्वोक्तम् न तु शास्त्रोक्तम् । प्रियाः पाठकाः, कोऽपर उपालभ्यताम, भाग्यवैभवमेवास्माक मीह- शम्, अन्यथा येषां हि प्रत्यक्षरमेव धर्मस्य रक्षणमरक्षणं वा सम्भवति, यान् खल्वयलम्ब्याधापि कथञ्चिद् सनाथोऽयं भगवान् धर्म इति शक्य- ते कथयितुम्, कथं हन्त त एवेह दुनिबन्धमात्र प्रणोदिताः सभामण्ड. ऐषु प्रागुक्त न प्रकारेण शास्त्रार्थकरणकैतवेन वस्तुतोऽशास्त्रार्थंकरण . तत्वम् व- - . . ९२ मित्रगोष्ठी-पत्रिका ।। एव प्रवर्तन्ते । इमेऽपि चेत् तामेवासजनोचितां पद्धतिमाश्रयेरन् तहि महाकवेर्वचनेन वक्तव्य मस्माभिः- "त्रिलोकनाथेन सदा मखदिषस्त्वया नियम्या ननु दिव्यचक्षुषा। स चेत् स्वयं कर्मसु धर्मचारिणां त्वमन्तरायो भवसि च्युतो विधि:" को वैतादृशात् शास्त्रार्थादमीषां लाभो जायत इति न विद्मः। स्वप्रतिभाविष्करणमुखेन यशोध्वजाधिगम एव स इति चेदभिप्रेयते, तर्हि अत्रापि तावत पृच्छामः-किमङ्ग प्रतिभामाविष्कृत्य यशोऽधि- गमस्य नान्यः कश्चिद विशुद्धः पन्थाः पृथुतरायामस्यां पृथिव्यामुप. लब्धः, येन हन्ताधम्र्योऽपि स सेवनीय: स्यादिति ? कीदृशं कि. यद्वा तस्माद यशोऽधिगम्यत इत्यपि विविच्य द्रष्टव्यम् । कथयन्तु भवन्तः, कः स मनोषी "शास्त्रार्थ"-कारी यः खलु कश्चिद ग्रन्धादि. कार इस बहु पूर्व मृतोऽपि साम्प्रतं केवलं तद्यशोऽनुसन्धानेन केन- चिदपि मर्यंत इति । तदिदं प्रार्थयामहे-यदि वस्तुत एव केवलं कीर्तिपताकायै “शास्त्रार्थस्य" करणीयता, तहिं त्यज्यतां स दुरोदक प्रकारः, अवलम्ब्यतां च कश्चित्तदनुरूपोऽपर उपायः । अन्यथा की- तिलाभाद वरं तस्मादकीतिरेवोपाज्यंत इत्यन्यानपि तावत् शिक्षित- सम्प्रदायान् अनुयुज्य ज्ञायताम् । अथवा कोन्विदं नो विनयवचनमाकणयतु । नायं पूर्वैः क्षुण्ण; पन्थाः परित्यक्तु शक्यते । निधीयतां दृष्टिः प्राचीनेष्वपि ग्रन्थेषु, तेषामप्यनवद्यानि पृष्ठानि एतादृशस्यैव "शास्त्रार्थ' नामप्रसिद्धस्य अशास्त्रार्थस्य प्रकाशनसमथैवंचनकलार्मालिन्योपहतानि संवृत्तानि । श्रीमच्छङ्कराचार्यभगवत्पादः श्रीमण्डनमिश्रस्य प्रसिद्धः शास्त्रार्थः क. थमिव सम्पन्न इति श्रीमाधवाचार्येण शङ्करदिग्विजये वर्णितम् । तत्र वादिप्रतिवादिभ्यामन्योन्यं कथं सम्भाषणं कृतमित्यपि ज्ञातु शक्यतो तदिह तत एष किश्चिदुद्धृत्य प्रदर्यते मण्डन:-स्थितोऽसि योषितां गर्भ ताभिरेव विवद्धितः । अहो कृतघ्नता "मूर्ख", कथं ता एव निन्दसि ॥ . . - अस्माकं शास्त्रार्थः। यासां स्तन्यं त्वया पीतम, यासां यातोऽसि योनितः। तासु “पूर्वतम" स्त्रीषु पशुवद रमसे कथम् ॥ कथम् ॥ इति॥ ८/२४-२५ श्रीशङ्करमण्डनाविव विवरेण्यावन्योन्यसंवादे मूर्खमूर्खतमादीनि पदानि प्रयुक्तवन्ताविति न तावदस्मश्चित्तं प्रत्येतुमिच्छति । न च षामिव पण्डितप्रकाण्डानामीहशो जघन्यतमः शास्त्रार्थप्रकार: ल्पयितुमपि शक्यते । सकलशास्त्राधिकारिणा दृष्टलोकमर्या- इन माधवाचार्येणेव च पण्डितेन कथमयं तत्रभवतां शङ्कराचार्यभग- उत्पादादीनां वस्तुतोऽपकर्षप्रकाशकः तादृशदुर्षादकलङ्कितः 'शा- त्रार्थो' निबद्ध इति न ज्ञायते । एतेन स्पष्टमेव प्रकाशेत यदस्य सा- प्रतिकस्य शास्त्रार्थस्य माधवाचार्यादीनां समयेऽपि पूर्णैव मात्रासी- दिति । शास्त्रार्थे करणीये भगवन्तः श्रीशङ्कराचार्यभगवत्पादाः मण्डनमि- अमिव प्रतिवादिनं न जातु 'मूर्खतम' इति सम्भाषेतेति पूर्वमुक्तम्; परन्तु महदिदमस्माकं हृदयं दुनोति यत् तेषामपि ग्रन्थेषु क्वचित क. चिदपि प्रतिपक्षेषु दुर्विपहान्युपलम्भवचनान्यधिगम्यन्त इति । वेदा- तिदर्शने शारीरके भाष्ये बौद्धान् प्रत्युक्तम- "निरङ्क,शत्वात् ते तुण्डस्यैवं ब्रवीषि, नतु युक्त्युपेतं ब्रवीषि" इति । २ अ०२पा। एवं बृहदारण्यकोपनिषदभाष्ये तार्किकान् प्रति- "अहो अनुमानकौशलं दर्शितमपुच्छौस्तार्किकवलीवर्दै रि- ति" ॥ इति २०१ ब्राह्मणम् । श्रीमन्तः शङ्करभगवत्पादाः केन नामासमासु शिरसा नाच्च्यन्ते, कः खल्वकामेनापि तेषामद्भुततरमतिमहश्च शास्त्रवैशारद्य न स्वीकु- ति, परन्तु यत्तदस्तु, स्वग्रन्थषु तादृशानां दुवंचनानामुपनिवन्ध- मेन युक्तमेव तैः कृतमिति न जातु वयं कथयितु प्रभवामः । दौर्भा- - मित्रगोष्ठी-पत्रिका । ग्यमेवेदमस्माकं यत्तेषामपि ग्रन्थेष्विदं द्रष्टव्यं भवतीति । अन्येषां प्रन्थकृतां तु कथैव नास्ति । न वयं तदुदाहरणेन सन्दर्भस्य शरीर वृद्धिमिच्छामः । यदि दुर्वादैरेव प्रतिपक्षा विजेतव्याः, तर्हि शास्त्रे. भ्यो, युक्तिभ्यस्तर्केभ्यश्च किमिति निवापाञ्जलयो न प्रदीयन्ते ? न च युक्तितर्का अपि दुर्वांदसाराः स्युरिति केनापि मुनिना भाषितम् । अस्मदधन्यतया ब्राह्मणग्रन्थेष्वपि वर्तनस्य शास्त्रार्थप्रकारस दोषकलङ्करूपर्शो दृश्यत इव । तदिदं वक्ष्यमाणाख्यायिकातो विज्ञा. येत । वृहदारण्यकोपनिषदि ३१० १,१० प्रा०- जनको ह वैदेहो बहुदक्षिणेन यशेनेजे । तस्य ह जनकस्य वैदे. हस्य विजिज्ञासा बभूव-(१)कः स्विदेषां ब्राह्मणानामनूचानतम इति (२)। स ह गवां सहस्रमवरुरोध; दश दश (३) पादा एकैकस्याः गन्योराबद्धा बभूवुः।" "तान् होवाच ( जनकः)-'ब्राह्मणा भगवन्तः, यो वो ब्रह्मिष्ठः स एता गा उदजताम् ( उत्कालयतु स्वं गृहं प्रति नयतु ) इति" । इदमाकर्ण्य न तावत् कश्चिद् ब्राह्मणेषु आत्मनो ब्राह्मष्ठतां प्रख्या- पयितु शशाक । अथ तेषु तथाभूतेषु अप्रगल्भभूतेषु तिष्ठत्सु याज्ञव- क्यः स्वान्तवासिनं ता गाः स्वगृह नेतुमकथयत, तेन चात्मनो व्र- मिष्टत्वं प्रख्यापितवान् । याज्ञवल्क्यस्य तेन कृत्येन सर्वे ब्राह्मणाः चु- क्रूधुः ।। अथ तेषु जनकस्य होता आश्वलः त्वं नु खलु नो याशवल्क्य, ब्रमिष्ठोऽसीति कथयित्वा तेन सह विदितुमारभत पर्याजीयत च । इत्थमेव आत्तंभागादिभिरपरैरपि कैश्चित् शास्त्रार्थ विजयमधिगम्य शाकल्यनामकेन केनापि पुनः पुनरनुयुक्तः प्रत्युत्तरयन् कोपमापनो याज्ञवल्क्यः तमपृच्छत- "तं त्वौपनिषदं पुरुषं पृच्छामि, तं चेन्मे न विवक्ष्यसि (कथयिष्य- - (१) 'कः खित्'-को नु खलु । (२) अनचानः-साङ्गवेदविचक्षणः । (३) सुवर्णस्य पलचतुर्थभागः पादः । पञ्च पञ्च सुवर्ण पादा एकेकस्मिन शृङ्ग बहाः।

. अस्मार्क शास्त्रार्थः। सि ), मूर्धा ते विपतिष्यतीति" । "तं ह न मेने (विशातवान् ) शाकल्यः तस्य ह मूर्धा विपपात' ! सम्पूर्णः शाकल्यस्य शास्त्रार्थः ! तत्प्रभावात् प्राणैरपि स तपस्वी वियुक्तः ! साम्प्रतिके शास्त्रार्थ कालवैभवादा, राजशासनमाहात्म्यादा प्राण- वियोगं विना सर्वमेवान्यदस्तीति केन न दृश्यते । यदि कश्चिदीशं शास्त्रार्थ स्वप्रतिभया विरचयितुमशक्तः स्यात्, हि अवश्यं तदुपायं स बोधनीय इति कोऽपि महाजनो गुरुश्रम- पङ्गीकृत्य तमुपनिबद्धवान् । उक्त तेन- " तत: संरम्भसम्भारगम्भीरारम्भनिर्भराम् । विपक्षं क्षिप्रमाक्षिप्य वाचमुचारयेदिमाम् ॥ यन्मया सह दुर्बुद्ध, वाग्युद्धं कर्तुमिच्छसि । तत्पङ्ग टङ्गमुत्तुङ्ग मेरोरारोदुमिच्छसि ॥ सुप्तसिंहसटाकृष्टिमष्टापदपदच्छिदाम् । व्याघ्राय शीध्रमाघ्रातु शशकः सत्यमीहसे ॥ शुकशावः शशादस्य चञ्चुचुम्वितुमिच्छसि । सर्प सदर्पमध्रिभ्यां निष्पेष्टु दुष्ट वाञ्च्छसि ॥ त्वया दुर्वचनैरद्य दुर्वासाः परिकोपितः। कालिका दंष्ट्रया कण्डूरपनेतुमिहेष्यते ॥ सुखसुप्तस्त्वया सिंहः पादाघातेन बोधितः । यदहं वादवचनाटोपेन परिकोक्तिः ॥ लक्षणे मम दक्षत्वं, साहित्य संहता मतिः । तके कर्कशतात्पर्य, क शास्त्र नास्ति मे श्रमः ॥ इत्थं सुव्यथकैर्वाक्यैरस्य दद्धिमुद्धरेत् । अर्द्ध च दशमयेद वादी युक्तियुक्तैर्वचःक्रमः ॥ इति ॥ कविकल्पलता, वादितजनम् । इतोऽपि किश्चिद गुरुभिः शिष्येभ्यः शिक्षणीयं सम्भाव्यते ! ईदृ. * * .- . ॥ 1 मित्रगोष्ठी-पत्रिका। शमेव शास्त्रार्थ वर्णयितु दूयमानहृदयेन केनचित् महात्मना गोतो. ऽयं श्लोकः- व्यासादीन कविगुणवाननुचितैर्वात्यैः सलील हस. न्नुच्चजल्प निमील्य लोचनयुगं, श्लोकान् सगर्व पठ । काव्य धिक् कुरु यत्परैविरचितं, रूपद्धस्व सार्च बुधै- यंद्यभ्यर्थयसे श्रुतेन रहितः पाण्डित्यमाप्तु' बलात् ॥ इति ॥ श्रीमता नीलकण्ठदीक्षितेन चैतद्विषये सुष्ठु खल्वात्मनोऽभिप्रायः झटिति प्रतिवक्तव्य सभासु विजिगीषुभिः । असंभ्रमो विलजत्वमवज्ञा प्रतिवादिनि । हासो राज्ञस्तवश्चेति पञ्चैते जयहेतवः॥ उच्चैरुद्धोष्य जेतव्य मध्यस्थश्चेदपण्डितः। पण्डितो यदि तत्रैव पक्षपातोऽधिरोप्यताम् ।। लाभो हेतुर्धनं साध्य, दृष्टान्तस्तु पुरोहितः । आत्मोत्कर्षों निगमनमनुमानेष्वयं विधिः ॥ अलभ्यं लप्स्यमानेन, तत्त्व जिज्ञासुना चिरम् । जिगीषुणा हियं त्यक्त्वा कार्यः कोलाहलो महान्" इति। कलिविडम्बनम्.१-५ श्लो० अतः परं नास्माकं किमपि वक्तव्यमवशिष्यते । एतादृशेन शा- स्त्रार्थेन कियान् कश्चोपकारोऽपकारी वा सम्भाव्यत इति भवन्त एव विचारयन्तु भोः पाठकमहाशयाः; कुर्वन्तु च यत् खलु तनभ- वयो रोचते । इदन्तु सविनयं सविस्रम्भं सनिर्वन्धं च प्रार्थयामहे यत् तथा कृपया कर्तव्य श्रीमद्भिः, यथा संस्कृतविदुषां न कश्चित तद्विषयकः कलङ्कारोऽस्माकं श्रवोरन्ध्र प्रविशेदिति। अतितमां खल्वनेन वयं दृयामह इति शिवम् ॥ विधुशेखर शर्मा।

ततः उत्त- नीतितत्त्वम्। (ETHICS) प्रायेण खल्वमद्देशे नीतितत्त्वस्यानुशीलनं न दृश्यते । पाश्चा- स्यैस्तु साम्प्रतमिदं सविशेषमालोच्यते । कि बहुना विज्ञानेष्ववेद- मत्युत्तमत्वेन तैः परिगृहीतम् । तत्र किमिदं " नीतितत्त्वम् " नामेति संक्षेपेण किञ्चिदिह तत्परिचयः प्रदीयते । 'इदमुत्तमम्', 'इदमुत्कृष्टम्' इति किमुच्यत इति बुध्यत एवास्मा- भिः;-यदिष्टं तदेव यस्मादनिष्टं जायते, न जातु तदुत्तम भवतीति । 'स्वास्थ्यमुत्तमम्', 'अस्वास्थ्यमधमम्', 'धनं सत्', दारिद्रयमसद्' इति इष्टानिष्टपदार्थेषु अस्माभियंवहियते । परन्तु कथमेकमुत्तमम्, कथं चान्यदधममिति न सम्या विषिच्यते । पत्वम् अधमत्वं चेदमापेक्षिकं भवतीति पश्यामः; यथा-अनयोरि- हम् 'उत्तमतरम्', एषु इदमुत्तमतमम्' इत्यादि। भवति चेत्थं किञ्चिन्- नरपेक्षमपि उत्तमम्, अधमं.वा । यथा मुक्तिवादिनां मुक्तिनिरपेक्षो- मा । अतो निरपेक्षापेक्षिकयोः उत्तमाधमत्वयोः ( Relative nd absolute good ) कश्चिद भेदोस्तीति स्फुटम् । तत्र यदापेक्षि- म् उत्तमम् अधमं बोच्यते, वस्तुत एव तत्तथा भवेन्नवेति न यते । तद्धि कदाचित् कस्यापि प्रयोजनस्य सिद्धये भवतीति हि त्तमं विविच्यते, न त्वन्यथा । स्वास्थ्येन वयं स्वकर्मसाधनाय भवाम इति हि 'स्वास्थ्यमुत्तमम्' इति ब्रमः । निरपेक्षोत्तमं (absote good) वस्तु तु नेटशम्, तद्धि स्वयमेव तथा । यधु च्यते सर्वमध्युतममापेक्षिकमेव, न तु किञ्चिनिरपेक्षमप्य- ति, तर्हि कोऽपि भ्रम आपतेत् । तथाहि-'इदमापेक्षिकमुत्त. ।' इत्युक्त किमपेक्षया तदुत्तममित्यवश्यं वक्तव्यं भवेत; एवं यापि तस्यापीति पारिशेष्यान् निरपेक्षस्य कस्याप्यनङ्गीकारे अन- थापातः । ततश्च निरपेक्षस्य कस्याप्युत्तमत्वस्थास्वीकारे आपेक्षि- तमत्वमपि न सिध्यतीति निश्रयः । अथ किं तमिरपेक्षमुत्तम- . । मित्रगोष्ठी-पत्रिका मिति निर्णेतु पाश्चात्यैर्वहून कालान प्रयत्यते। तेषां प्रयत्नस्य संक्षि. समितिवृत्तं श्रीमता पण्डितानां प्रीतिप्रदमेव भवेदिति सम्भावयामः। निरपेक्षोत्तममेकमेव, न तु द्वितीयम् । सर्वेषामपि मानवाना प्रयत्नस्य इच्छायाश्च स एव विषय इति व्यक्तिविशेषाणामिव व्यक्ति सामान्यानामपि तदुत्तमम् । तत्र सामान्यविशेषकृतः कोऽपि भेदो नास्ति। पाधात्यैशि निरस्य खलु निरपेक्षोत्तमत्वस्य कीदृशं तत्वमा. विष्कृतमिति लिख्यते । सामान्यतो दार्शनिकानां मतानि धा विभक्तु शक्यन्ते । १प्रथम मतम्-सुखमेव निरपेक्षोत्तमम् ( Hedonism ); २ द्वितीयम्-स्वा. भाविकेनैव ज्ञानेन नीतिनियमो ज्ञातु शक्यते, तेन च यद्यथा, अवश्य तत्तथानुष्ठेयम्, तदनुष्ठानमेव च निरपेक्षोत्तमम्, यथा-दुःखमुत्पद्यते चेटुत्पद्यताम्, तदवश्यं सहनीयमिति ( Rigorism ); ३ तृतीयम्- यत्प्रवृत्या प्रार्थते, यच्च परमार्थ ज्ञानेन निवेद्यते, एतयोद्योः सा अस्थविधानमेव निरपेक्षोत्तममिति, ( Eudemonism)। समासतः प्रागुक्त मतत्रयमेव पाश्चात्त्यपण्डितेषु दृश्यते । एतद पान्तरभेदा अपि बहवः सन्ति । स्व सुखमेव सुखमिति केचित (egoistic Hedonism); परसुखमेव सुखमित्यपरे, ( Altruistic He donism ) एवमन्येऽप्यन्यदेव वदन्ति । क्रमेण तत्सर्व प्रकाशयिष्यते आलोच्यमानोऽयं विषयः (Ethics) 'नीति विज्ञान मिति (Ethics Science) गीयते । परन्तु विज्ञानादस्य भेदोऽस्ति । “Ethics' (नीतितत्वम् ) इयस्य न तथा कश्चिद् विग्योऽस्ति; परन्तु क इव स भवितुमर्हतीत्येव कश्चिद विषयत्वेन स्वीक्रियते । औचित्य खलु यत्र सर्व विवायं ते, तत्र अपरापरविज्ञानेष्धिव सर्वमेव श्रवण- नयनगोचरमानीयेत इति न सम्भाव्यम् । अतोऽसय विषयस्य नीति. विज्ञानम् इत्यस्मात् " नीतितत्त्वम्" "नीतिदर्शनम्" वा ( Ethics Philosophy ) इत्येव नामधेयं युक्तम् ।

. नीतितस्वम् । अत्रेदं वक्तु युज्यते 'बेन्थम्' ( Bentham ) प्रभृतिभिः पण्डितः मोतितत्त्वे किमनुसन्धेयमिति विस्मृतम्, ते कथयन्ति “औचित्य- मिति" यकिञ्चिदस्ति, नीतितत्त्वात् तदपाक्रियतामिति । इत्थं सति नीतितत्त्वम् किमवलम्ब्य तिष्ठतु ? यदि सुखमेव जीवनस्य प्रयोजनं स्यात्, तहिं सर्व सुखं कामयन्त इति नीतितत्त्वेन न निर्णेतव्यम्, अपितु सुखं प्राप्तुमुचितम् इत्येतावदेव । इदं च द्रष्टव्यम्-नीतितत्वषद मनोविज्ञानेनापि (Psychology) मानवानां कर्तव्यमुपदिश्यते तत्र कस्तावदेतयोः सम्बन्ध इति । हद- पस्य, बुद्धिवृत्तेः, इच्छाशक्तगदेश्च नेकविधैर्दुविगाहै स्तत्वैः परिपू. (यद्भिः पाश्चासैः पण्डितैर्विचानमिदं जनानां पुरत उपस्थापितम् । नीतितरवस्य मनोविज्ञानाद भेदोऽसित,-मनसि किं कथं वास्ति नास्तीत्येतावन्मानं मनोविज्ञानेन निर्णीयते, नीतिविशानन्तु तत्कृतं निर्णयमेवावलम्ब्य स्वविषये प्रसरति । सत्यमिदं यन्मनोविज्ञानं विना नीतितत्त्वम् पदमपि गन्तु न शक्नोतीति। किं नाम मानवस्योक्तम- मिति ज्ञातव्ये प्रथमं हि मानवस्य मन एव किमित्यवश्थं शेयं भवति । पनसश्च ज्ञातव्यत्वे तदीयाः प्रवृत्तयो ज्ञातव्या भवन्ति । प्रवृत्तिमा- नानन्तरं च तदनुसरणेन 'इदमुत्तमम्. 'इदमधममिति' नीतिविशानेन नेरुप्यम् । आगामिसंख्यायां मनोविज्ञानविषये किश्चिन्मया कथनीयम् । तत्र वृत्तिसम्बन्धानि पञ्चषाण्यपेक्षितानि वाक्यान्यालोच्य नीतितत्त्वा- लोचनायां विशेषतः प्रवत्स्य॑ते । तावन्तं कालं भवतां किञ्चिद धैर्य थंयाम। गम्भीरोऽयं हि विषय इति । श्रीअजितकुमार चक्रवर्ती, वि, ए, आंग्लोसाहित्याध्यापकः, ब्रह्मचर्याश्रमः, (बोलपुर)।

लेखः । श्री प्रभावतोदेव्या श्रीमन् सम्पादकमहाशय, अहमसिम काचिदन्तःपुरिका। नग- रतो दूरवर्तियां कस्याञ्चित् पल्ल्यांमस्माकं निवासः, यत्र नायापि नागरिकभावो जनानां चेतःसु सम्यक् स्फुरणावकाशमलभत । अतो मादृश्याः कुलीनाङ्गनायाः वृत्तान्तपत्रिकासु किञ्चिलिखनं नाम अ. तितमा साहसमिति न खलु नाहमपि विजानामि, तथाप्यद्य कारण- गौरवादिह प्रवृत्तास्मि। मन्ये नेदं जातु श्रीमतामुद्वेगजनकं भवेत् । तपस्विनीषु स्त्रीयु अस्ति खलु तत्रभवतां कश्चित् पक्षपात इति भव. सम्पादितां पत्रिका गृहकोणावस्थानेन पठन्त्या मया नाविदितम्। अन्यच कन्यकानां विषये किञ्चिदद्य मया कथनीयम् । तत्र च पाषा- णकर्कशहदयानां वः पुरुषाणामेकान्तेनैव अनुत्साहमालोक्य श्रीमतां करुणाकणां कामयमानैः स्त्रोजनरस्माभिः अगतिकगतित्वेन याव- च्छक्यं स्वयभेव किश्चिदनुक्ता किं नामापरं क्रियतामिति भवन्त एव विचारयन्तु। सम्पादकमहाशय, यूयं खलु पूरुपा अस्माकमाश्रयाः, माश्रिताः यूयमुपजीव्याः, वयमुपजीविन्यः, किं बहुना सर्वथा युष्मा- कमेव करतलायत्तमसमाकं जीवनमपि । तथा सति यदेते यूयमस्मासु अनुचितमाचरथा-अवज्ञानदृष्ट्यास्मान् पश्यथ, अकथनीयमपिच कथयथ, तत् किमेतद धर्मस्य षा, शिक्षाया घा विद्याया ज्ञानस्य वा, सभ्यत्वस्य वा विलसितमिति न ज्ञायते । सम्पादकमहाशय, किमस्माभिः स्त्रीभिः पुरुषाणां वो वदनविव- रादोदनकवलम् आच्छिद्य गृह्यते, आहोस्वित् पाकोन्मुखानां शालीक लमानां क्षेत्रेषु पुनरप्यकाण्डे हलसञ्चारः क्रियते; यद हन्त आश्रिताः अपि वयं युष्माकं दहनदृष्टौ निपतिताः । जीवानां पुरुषत्वेन स्त्री. त्वेन वा जन्मग्रहणं नाम न जातु तदायत्तम्, कर्म वा ईश्वरी पात्र प्रभ- पति । एवञ्च कोऽयमस्माकमपराधो येन अपत्यत्वे समानेऽपि तनय स्त्रियो वय- श्री प्रभावती देव्या लेखः। व पितुः स्नेहसम्भारमधिकरोति, न तु कन्यका । पुत्रजन्मनि पितु- हर्षातिशयः शरीरेऽपि न मीयते, कन्योत्पत्ती तु वज्रणेव मस्तक पीड्यमानं भवति, दिशः शून्याः प्रतिभान्ति, जगञ्च सर्व विषादपरि- पूरितमिव दृश्यते । पृथिव्यपि कन्यकाया भारेण साईत्रिहस्तमधो- छितीति वदन्ति । किमुच्यते कन्यकाया मृत्युरपि पितुहर्षायैव स- पद्यत इत्यपि पश्यामः । अहो कष्ट, गृहपालितस्य कस्यचिद् विहङ्गा- यापि मरणेन गृहाधिपतेः कातयं दृश्यते, न तु कन्यकानाम् ! तिर्य- भ्योऽपि कन्यकाया जोवनमतिहेयम् ! सम्पादकमहाशय, असमान प्रति पुरुषाणां यदतितमा विद्वषो- स्ति न तत्प्रमाणाभावः । शास्त्रमिदं सर्व तेषामेव वशंवदम् । यस्य स्याप्येकस्य तदप्रन्थस्य यत् किमप्येकं पनमुद्धाट्य दृश्यताम्, तत्रै- समाकं हृदयमर्मभेदिनो निन्दावादा उपलभ्येरन् । आवेदमासाहित्यं प्र सर्वत्रैवास्माकं विगानम् ! क्षणं नेत्रमुन्मोल्य दृश्यताम्-ऐतरेय- आह्मणे महता प्रबन्धेन पुत्राणां गुणराशिमुपवयं व्यर्थमेवास्माकं न्य कानां हृदये सपदि निशितं शूलं प्रवेशितम् । तद्यथा-महर्षि- रिदो हरिश्चन्द्रण " किंस्वित् पुत्रेण विन्दत" इत्याद्य कया गाथया ष्टो दशभिर्गाथाभिः पुत्रगुणान् कथयन् अकाण्डे अवोचत्- "अन्नं ह प्राणः, शरणं ह वासो, रूपं हिरण्यं पशवो विवाहाः । सखा ह जाया, कृपणं ह दुहिता ज्योति पुत्रो परमे व्योमन्"। दृष्टं सम्पादकमहाशय, “कृपणं ह दुहितेति;"-दुहिता हि केवल ःखकारित्वाद दुःखहेतुर्भवति । इत्थमेव तद्वाक्यस्यार्थ इति श्रीसा- णाचार्योऽभिप्रैति । दुहितॄणां दौर्भाग्ये । दुहितॄणां दौर्भाग्य भन्यदपि स्मयंते- "सम्भवे स्वजनदुःखकारिका, सम्प्रादानसमयेऽर्थहारिका। यौवनेऽपि बहुदोषकारिका, दारिका हृदयदारिका पितुः''॥इति॥ * ऐतरेयब्राझणम् तीयेऽध्याये प्रथम खम् । + अत्रैव सायणेन धृतोऽयं शोकः ।

१०२ मित्रगोष्ठी-पत्रिका दुहितॄणां पितृधनाधिकारोऽपहतो युष्माभिः शास्त्रानुशासनव्या- जेन तावतापि श्रीमतांन सन्तोषः। यदस्माभिरन्तरान्तरा पितृसकाश किञ्चित् प्रार्थ्यते, तत्रापि युष्माकमक्षमा। तदिदमवलम्ब्य उपहास- तुमपि यूयं न विरमथ । तेन हि “दुहितृ" पदस्यापि युष्माभिरमि. नवोऽर्थः कल्पितः । उक्त' यास्केन-“दुहिता-दुर्हिता-दूरेहिता, दोग्धेति'।* तदिह दोग्धेरिति सूत्रमवलम्ब्य युष्माभि रुच्यते-"सा हि ( दुहिता ) नित्यमेव पितुः सकाशात् द्रव्य दोग्धि, प्रार्थनापर. त्वात्,” + अतो दुहितेति । अहो ये खलु पितुः सर्वं धनमधिकुर्वन्ति, न ते पितुर्दोग्धारः, परन्तु ता एव तपस्विन्यः, या हि लवंधनश्चिता अन्तरान्तरा द्वित्र वसनखण्डादिकं प्रार्थयन्ते । जन्ममात्र एवासमाकं पिता गुरुणेष भारेण दूयमानो महाननः प्राप्त इति शङ्कमानः यथाकथमप्यस्तु, गेहतोऽस्मानयहिष्कतु मिच्छति तेनैव हि तस्य चेतसः प्रसत्तिः। तथा च जन्मदिनप्रभृत्येव कुत्रा नयामीति पिता नः खिद्यते । तेन चास्माकं 'कन्येति' मपरमेकम- भिधेयमुत्पन्नम्- "कन्या-क्वयं नेतव्या भवतीति" युष्माभिरेवेद . निर्वचन कृतम् । अपरोऽपि कश्चिद युष्मासु कथयति- जातेति कन्या महती हि चिन्ता कस्मै प्रदेयेति महान् वितकः। दत्ता सुखं यास्यति वा नति कन्यापितृत्वं खलु नाम कष्टम् ॥ पार्वतीपरिणयकारणाप्ययमेव प्रतिध्वनिः कृतः-"कन्यापितृत्वं बलु गृहमेधिनामधिकतरं दुःखमावहतीति" । * नि. ३ . १ पा.४ ख. | + निरुक्तम् ३ अ. १ पा०, ४ ख. दुर्गाचार्यः ययाख्या + निरुक्तम् ४ अ. श्या० ३ ख. -कम्या कमनीया भवति, केयं मेतवाति वा कनतेर्वा स्यात् कान्तिकर्मणः ।

- भा प्रभावती दव्या खः। १०३ सम्पादकमहाशय, विवाह एवास्माकं सर्वानर्थमूलम् । कन्यकानां परलाभार्थमेव पितरो दूयन्ते । तेनैव चैषामस्मासु वैमनस्यं दृश्यते किन्तु पृच्छामि-किं नु खलु कन्यका धेवात्रापराध्यन्ति ? जानीषेयत्र कापि धनिकाय वा, विज्ञाय वा मूढाय ना, सुरूपाय वा कुलीनाय वा अनुमताय वा अननुमताय वा यस्मै कस्मैचिदपि प्रदीयमानापि न मातु युष्माकं कन्यका प्रकाशं किञ्चिदन्यथा ब्रवीति; न सा विवाह- समये इयद्धनं देयमिति निबन्धेनापि पितुधनमधिकर्तुमिच्छति, सा स्खलु युष्मनियोगेन भावाल्यं परिचितानि आत्मीयत्वेनाभिमतानि सर्वायपि वस्तूनि सपदि परिहाय कस्मिंश्चिदचिन्तितपूर्व प्रदेशे सर्वथापरिचित रभिनवैजनैः चिरंस्थातुमपि गच्छति । किं बहुना पदेव किश्चिजनक इच्छति, तदेव कन्यका करोति । एवमपि न प्रसो- इति वो हृदयमिति सर्वथा दुःखसंवेदनायैवास्माकं जीवनम् । पति- गृहे तावत् सुखं भवेनवेति दूरमास्ताम, हन्त पितृगृहेऽप्यवस्थाने तास्माकं सुखम् । अस्मद्विवाहसम्पादनमारखिन्नानां विषादकलि- प्रवदनानां पित्रादीनां चिन्ताजनितांग्लानिमालोक्य कस्य नाम चेतास सुखमुदतु । सम्पादकमहाशय, ईदृश एवं युष्माकमस्मासु अनुग्रह- प्रकारः। अथवा अलं विस्तरेणेति शिवम् । श्रीमती प्रभावतीदेवी। श्री प्रभावती देव्या लेखे अस्मदभिप्रायः। कन्यकानां समाजे कीदृशं स्थानमिति श्रीमत्या प्रभावतीदेव्या बलु रूपष्टमेव लिखितम् । वस्तुत एव तत्तथैव । अन्येषु : कस्मिं- श्वत परिवार भकाण्डे तिनः कन्यका मम रिकया मृताः इमां वार्ता- गाकण्यं कश्चिदस्मद्यस्येषु विस्मयरसमिवानुभवन् सानन्दमवादीत---- कमुच्यते, एकस्मिम् गृहे तिस्रः कन्यका मृता इति परं भाग्यं तस्य हपतेः, अन्यथा कापि विवाहात्पूर्व युगपत् कन्यानयं नियत इति त्सित्यं न दृष्टपूर्व मयेति । इदमन वक्त मुचित-सोऽयं वयस्यो मे १०४ मित्रगोष्ठी-पत्रिका ।। चतसृणां कन्यकानां जनक इति । दृश्यतेऽपि च प्रार्येण मृताय दुहितरि "शान्तं पाप, प्रतिहतममङ्गलम्" इति बुद्धिजनानां चेत स्युदेतीति । कन्यापितृत्वस्य कष्टावहत्वं वैधा। प्रथमतः स्नेहसर्वस्वभूतायाः कन्याया अकाण्डे विच्छेदात; द्वितीयतस्तु तस्याः पाणिग्राहकसंग्रह- स्थासौकर्यात् । तत्र श्रीप्रभायतीदेव्या विवाह एवास्माकं सर्वान मूलमिति' पदन्त्या द्वितीयहतुप्रपञ्चनमुखेन पुरुषा आक्षिप्ताः। प्रथम- हेतुविषये तु तया गजनिमीलनं कृतम् । अतस्तत्रास्माभिः किञ्चिद्वक्त व्यम् । येन पुरुषाणामुपरि न्यस्तस्य दोषस्यांशतः क्षालनं भवेत्। अभिज्ञानशकुन्तले शकुन्तलायाः पतिगृहगमनसमये कण्यसय हृदय- वृत्तिः कीदृशी आसीदिति "यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमु. कण्ठयेत्यादि" पठितवत्या देव्या प्रभावत्या नाविदितम् । तत्र च- "अर्थो हि कन्या परकीय एवेति' वचनमपि कण्वस्य कन्यवां प्रति नावशां प्रदर्शयति, प्रत्युत तथा खलु संसारस्य स्थितिरिति दुःखमेव घोतयति । अतएव हर्षचरितेऽपि बाणभट्टन तत्तथैव पणितम्। मनोरमः स ग्रन्थभाग इति पाठकेभ्य उपहियते-"कदाचित्तु राज' ( हर्षस्यजनकः)......गीयमानामार्यामिमामशृणोत्- उद्वेगमहावर्त पातयति पयोधरोन्नमनकाले । सरिदिव तटमनुवर्ष विषधंमाना सुता पितरम् ॥ तां च श्रुत्वा पाश्वस्थितां महादेवीमुत्सारितपरिजनो जगाद- देवि तरुणीभूता वत्सा राज्यश्री; एतदीया गुणवत्तेव क्षणमपि हृदयाना पयाति में चिन्ता । यौवनारम्भ एव कन्यकानामिन्धनीभवन्ति पितर सन्तापानलस्य ।............केनापि कृता धा नाभिमता मे स्थिति रियं-यदङ्गसम्भूतानि, अकलालितानि अपस्त्यिाज्यान्यपत्यानि अकाण्ड एवागत्य असंस्तुतै!यन्ते। एतानि तानि खल्वङ्कनस्था- नानि संसारस्य। सर्वाभिभाविनी शोकाग्ने शक्तिः-यदप.

अस्मदाममाया। त्यत्वे समानेऽपि जातायां दुहितरि दूयन्ते सन्तः। एतदर्थं जन्म- काळे एव कन्यकाभ्यः प्रयच्छन्ति सलिलमश्रुभिः साधवः। एत- यादकृतदारपरिग्रहा: परिहतगृहवसतयः शून्यारण्यायधिशेरते मु- नयः । को नाम सहते विरहमपत्यानामिति" उ०। अतएव भट्टनारायणेनाप्युक्तम्- "यास्यति सजनहस्तं रमयिष्यति तं भवेश्च निर्दोषा। उत्पादितयापि कविस्ताम्यति कथया दुहित्रैवेति' ॥ मन्यामहे पूर्वोदाहतवचनदर्शनेन श्रीमती प्रभावतीदेवी निवि- चिकित्समवगच्छेद यन्न स्वभावतः पुरुषाणां कन्यकाः प्रति हृदयं वि. दिष्टम्, प्रत्युतातितमा स्निग्धमेव; कथं नु बलु कन्यकानां सत्परिग्र- हीतृलाभेन सुखं भवेदित्येव चिन्तया ते खिद्यन्ते, खिद्यमाना अपि च नानुरूप पात्रं लभन्त इति हि ते कन्यापितृत्वं कष्टकरमिति वदन्तीति। श्रीमत्या प्रभावतीदेव्या ऐतरेयब्राह्मणस्य " कृपणं ह दुहितेति," "सम्भवे स्वजनदुःखकारिका, सम्प्रदान समयेऽर्थहारिकेत्यादि'' वचन चोदाहृत्य दैन्यहेतुत्वात् कन्यकानामनादरास्पदत्वमुक्तम् । सर्वथा वयमिदं स्वीकुमः । एतदर्थं च यदमी वयं पुरुषा नितान्तं गणीयाः, न तन स्तोकोऽपि सन्देहः । स्वयमेव वयं स्वदैन्यमुत्पादयामः। न हि कन्यकाः पुरुषान् शिक्षयन्ति यद भवद्भिः पाणिग्रहणकृते कन्यापित. सकाशात सहस्राणि रूप्यकाणि शुल्कत्वेन ग्रहणीयानि । स्वस्वर्धान- कत्वसाधनार्थ स्वयमेव चयममुमुपायमुद्भावितवन्तः। नान स्त्रियो- ऽपराध्यन्ति । परन्त्वहो कष्ट दुर्विपाकः पुनरस्य तासामपि परा पीडा प्रशस्योऽस्माकं प्रज्ञाप्रकर्षो, यतः स्वबुद्ध्यपराधेन दिनाहिनं जामातुः शुल्कपरिमाणं वचंयन्तो मूर्तीमिव स्नेहरसवल्ली स्वां स्वां कन्यको दैन्यहेतु विवेचयामः, तेन च हन्त मृत्युमपि तस्याः श्लाध्यमेव गणयामः । सत्यमेवोक्त बाणभट्टन-"अपत्यत्वे समानेऽपि जातायां दुहितरि दूयन्ते सन्त' इत्यादीनि । परन्तु तन्मते तत्कारणं विरहशोकाग्निरा- जनयति । ३ १०६ मित्रगोष्ठी-पत्रिका ।। सीत् । अधत्वे तु न विरहभयात् पितरोऽश्रुभिः कन्यकाभ्यः सलिल प्रयच्छन्ति । भिन्ममिदानी तत्कारणम् । साम्प्रतं हि केवल जामात शुल्कसंग्रहालमत्वमेव कम्पापितॄणां मयमयोर धारामुत्पादयति । क प्टं भोः कष्टमिदानी सुशिक्षितस्य जामातुरनुप्रहेण वासगृहमप्युच्छि- धते श्वशुरस्य ! दिनाहिनं ब्रह्माण्डकटाहसहोदरं जामातृपितुदरवि. परमियता धेगेन वर्धते, येन स विक्रीयापि कन्याजनकः तदमि- लषितशुल्कार्थप्रदानेन न तत्पूरयितुं शक्यते । न च तावन्तमर्थ विना पुत्रजनकः स्वपुत्रं विवाहेऽनुमन्येत। सोऽयं साम्प्रतं शिक्षाया अह. एचरः प्रभावः प्रादुर्भूतः। सर्वे खल्विदानी शिक्षिताभिमानिनः सं. हत्य देशाभ्युदयार्थ विविधान् प्रयासानातिष्ठन्ति । परं प्रतिदिन स्वयमेवेदमनुतिष्ठन्तोऽपि जानन्तोऽपि चास्य न्यायधर्मविहितस्वं नैतस्माद विरमन्तीति धिगेतेषां शिक्षाम् । पूर्व कन्यापितर एव वरेभ्यः शुल्कप्राहिण भासन, मद्यत्वेऽपि तिष्ठतामप्येषां संख्या प्रतिदिनमेव क्रमेण इसति । परं तु लोऽयं शुल्कमहोऽद्य बहुगौरवबुद्ध्या पुत्रपितृभिरङ्गीकृतः समुद्रसलिलपूर व सिते पक्षे महारहसा घर्धते इति यत्सत्यं सर्वदा सनाथोऽयं शुल- प्रहः । अस्य महानर्थकारित्वं पर्यायेण सब पवानुभवन्ति । अनुभूय च न्यायमर्यादारक्षणायेव मन्तरान्तरा कनिचित् तदपाकरणार्थ व्या. क्यानैः सन्दर्भश्च यत्नमपि मनागारचयन् । अन्ये च किञ्चित्प्रयरूप फलमनधिगच्छन्तो राजकीयशासनसहायतामैच्छनित्यपि दृष्टम् । तविदमालोच्य कस्य मामायधर्मश्रद्धालोहदयं न येत। यदि अनु- चितमिति धर्मश्च न्यायश्च कमत्येन कथयतः, बुद्धिरपि च यत् तथा. त्वेनैव गृह्णाति, हन्त तस्यैवानुष्ठानार्थमिदानीमस्माकं राजकुलं शरणं भवेदिति महदिदमद्भुतम् । कथं न्वहो चिन्तनेऽप्यस्य न वयं जिहीम इति को ब्रवीतु । अथवा भारतीयानां सर्वमेव सम्भाव्यते। इत्थं चास्माकं समाजस्थितौ कन्यापितृत्वं नाम यदतितमां दु:- बाघ, कः खलु तम स्वीकृति ? हन्त न जानीमः कदा खल्लम भट्टशिवस्वामी। १०७ तपास्वन्या पाया. रैः सह समानमासनमधितिष्ठेयुः, कदा पा भारतीयानां "कन्यापितृत्वं बलु नाम कष्टम्" इतीदं वचनं केवल न्यकानां विरहमूलकमेव भवेत्, नतु विवाहसम्पादनासौकर्यमूल. कप्रिति । समाजस्य नियमनभारः पुराकिलास्माकं धर्मशास्त्रविदां पण्डित- महोदयानामेवोपरि आसीत्। इदानीमपि समाजव्यवस्थार्थ तानेष ना आश्रयन्ति । सम्प्रत्यपि च तेषां प्रभाषः समाजस्य सर्वत्रैवानुभूयत स्व-यद्यप्ययं क्रमेण हलति । तथदीह सामाजिकानामधयें अन्याय्ये वाचारे समाजशीर्षस्थानमद्याप्यधितिष्ठन्तः पण्डितमहाशयाः सर्वे बलु सम्भूय प्रत्यवतिष्ठेरन्, मनागिप च यद्यमी विषयेऽस्मिन् चेतसो मवलम्बरन् तवंयमस्माकं द्रढ़ीयान् विश्वासः-पश्यत एष विच्छिन्नानविलायं विलीयेतैष दुरोदकः शुल्कग्रहव्याधिः । श्रीमन्तो भारतीयसंस्कृतविद्वांसः, सर्वथा भवन्त एवास्मिअगदङ्काराः। कत. मतोऽपि कालातिपातेन, प्रसीदन्तु, चिन्तयन्तु कृपया भवतामेघेवं त्यमिति, विरचयन्तु च यथोचितं प्रयत्नमिति सविनयं सबहुमान बनिबन्धं च तत्रभवतः स्मारयामः । अन्यथा इन्त, हतो तोऽयं पिस्वी कन्यकाजनः इति सर्वमवितथमुक्त श्रीमत्या प्रभावतीदेव्या ति। -:: भट्टशिवस्वामी। औचित्यविचारचचादिषु प्राचीननिबन्धेषु शिवस्वामितत्वेनो- हताः श्लोका अनेके समुपलभ्यन्ते । तत्र कः शिवस्वामी, कवत्यः, वा बभूव, का चास्य कृतिः इत्यादिकं यथामति किचिदिषिच्य वि. हाप्यते मित्रगोष्ठी-पत्रिका-पाठकमहाशयेभ्यः । 'मुक्काकणः शिवस्वामी कविरामन्दवर्धनः । प्रथा रमाकरधागात्साम्राज्ये ऽवन्तिवर्मणः"।

- मित्रगोष्ठी-पत्रिका इति राजतरङ्गिणी-श्लोकात् (५त ॥ ३४ श्लो॥) अयमवन्ति मंणः सभाभूषणमिति ज्ञायते । अवन्तिवर्मा च विस्ताब्दीयनवमशत कोत्तरार्धे ( ८५५-८८५) काश्मीरान्पालयामालेति राजतरङ्गिणीपञ्च मतरङ्गादवसीयते। तत्सभाभूषणस्यास्य कवेरपि ताव देशकालौ। भरुय च कृतिः कप्फणाभ्युदय इति महाकाव्य विंशतिसगरम कम् अस्यादिमः श्लोको यथा- सर्वज्ञतादिगुणगोचरमाययौ यो ध्येयो यतोऽपि यतिबन्धुर.. बोधिः । मानाय निश्चितचतुर्विधवित्तमूर्तिः मूर्तिदिशा दिशतु दाशवलिः शिवं नः ॥ दशवलनमसकारात्मकाद एतन्मङ्गलश्लोकात् ग्रन्थोपसंहारश्लो केभ्यश्चायं कविर्षोंछो बुद्धमताचार्यस्य चन्द्रमित्रस्य शिष्य इति म स्पष्ट प्रतीयते। कोसलाधीशं श्रावस्तीनगरवासिनं प्रसेनजितं जेतुं प्रस्थितर पक्षिणापथाधीशस्य लीलावतीपत्तनवासिनः कन्फणस्य दण्डयात्रा विस्तरेण वर्णिता। एकाक्षरश्लोक-बन्धश्लोक-संस्कृतप्राकृतसमावेशादिकं चान पष्ठ सगैकोनविंशसर्गयोस्समीचीनरीत्या निबद्धमिति प्रौढ़ोयं महाकविः। भन्तिम चविशे सर्गे करुणस्य बौद्धसिद्धान्ते आस्था जातेति अभ्यु. श्यलाभ इति अवर्णयत् । पथाक्रमं तत्तत्सर्गीयप्रमेय ज्ञानार्थ तत्तत्सर्गविषया लिण्यन्ते । - था-१ नगरीनरेन्द्रवर्णना, २ चारविक्षेपविन्यासः, ३ सभासंक्षोभ, ४ राजवाक्यं, ५ दूतीसंप्रेषणम्, ६ पर्वतवर्णना, ७ शिविरसंनिधेशः, ८ सर्वर्तुवर्णना, ९ कुसुमावचायः,१० जलक्रीडा, ११ दिनान्तवर्णनम् १२ चन्द्रोदय प्रसाधनम्, १३ मधुपानवर्णनम्, १५ सम्भोगवर्णनम्, १५ प्रदोषवर्णनम्, १६ सैन्यप्रस्थानम्, १७ संकुलयुद्धम्, १८ युद्ध- वर्णनम्, १९ प्राकृतसमावेशः, २० अभ्युदयलाभः । , भट्टशिवस्वामी। कवित्वशैलीपरिज्ञानार्थ कप्फणाभ्युदयात्केचन श्लोकाउदाष्ट्रियन्ते- 'अपसदसि समस्तायस्तु भूपालचक्र प्रकटितगुरुकोपारभ्मसंरम्भजृम्भे । पहति विलसितानि प्रस्तुतानि प्रचण्ड- प्रलय-जळद-जालाडम्बरै रभ्यरन्धि ॥१॥ इत्थं तास्ताः माधरवस्तुस्तुतिगर्भाः श्रुत्वा श्राव्या विश्रु तविद्याधरवाचः । शैलोत्सङ्गाश्रीपरिभोगस्पृहयालुः स प्रास्तावीत्संस्तुतिमाक्रीडविहारम् ॥ २ ॥ अथ वनगहनागिरीय पृथ्वी- तलबिलनिगंतनागनायिकाभाः । अभिनवदिनकृत्करालताप- क्लमवशमन्थरमन्थरं ययुस्ताः ॥३॥ मथसुदृशां प्रियप्रणयविभ्रमभावनया सममुदियाय शनैः सुरतोत्सवसस्पृहता। रपिरपिसाहार करडम्बरमम्बरतः फलमभिवामिछतानुपदभावि हि भव्यघियाम् ॥ ४ ॥ संलापयन्त्या दयितस्य दूती पवा विभूषां च निवेशयन्त्याः । प्रसन्नता कापि मुखस्य जशे षधिया नु प्रियवातंया नु ॥ ५ ॥ मनोविकीर्णनिभृतप्रणयादिवाक्य. पुष्पाञ्जलिः सरलविभ्रमसूत्रधारः । प्रस्तावनां दयितसन्धिरसैः समाप्य सिद्धिव्यधत्त रमणीरतनाटकस्य ॥६॥ घदननिहिते तांबूलांशेश्रितेरति बीजता कुवलयरशः प्रत्याजथे सरागतरुस्तदा ।

-- मित्रगोष्ठी-पत्रिका। ११० किसलयरुचो यस्य च्छायामुपाश्रितयोस्तयोः विषमविषमः कास्न्ये नास्तगतो विरहक्लमः ॥ ७॥ . समजनि न तत्प्रेम त्यक्त यदीषदपीर्थया स्मरसुखसखी नासावीयांविना कलहेन या । न खलु कलहः सोऽन्योऽन्यं या प्रसादनवर्जितः प्रसदनविधिनासौबाला नयेन विलिलियरे ॥८॥ गुणमयोऽपि स दोष इव कचित् भवति यत्कमलाकरसारसाः। समुदये ऽम्बुमुचामभवागत क्लमनुदामनुदारमनो मुदः ॥९॥ रसरभसया रागस्थित्यामुहुः प्रियलालसं चिरपणितयामाना वृन्त्यामुहुः पिहितस्पृहम् । मधुमदमुदालेभेलभ्यं न दुर्लभवल्लभो निधुवनविधि क्रीडालम्वं नितम्बवती जनः ॥ १० ॥ गणरत्नमहोदधिव्याख्यायां 'वामनभोजमुख्याः' इति श्लोकव्या- ख्याने मुख्यशब्दस्यादिवचनत्याच्छिवस्वामि-पतअलिकात्यायन-प्रभृ- तयोलभ्यन्ते इतिवधमानः । धातुवृत्तौ यमधातुव्याख्याने उपायच्छतेकन्यकामिति प्रघट्टके अत्र वृत्तिकारशिवस्वामिभ्यामिदं भाष्योक्त" इति, पाणिग्रहणविशिष्ट स्वकरणंशिवस्वामि जयादिति च माधवः । एवं माधववर्धमानाभ्यां प्रामाणिकत्वेनोदाहृतः शिवस्वामी कप्फ णाभ्युदयकर्तुभिभएकोवेति कालान्तरे विमर्शमहति । वेंकटरङ्गनाथस्वामी विशाखापत्तनम् । ( भिजागापटम् ) ।.

.. त् प्रश्न:। साम्मलं कीहशीसंस्कृतशिक्षा अपेक्ष्यते ? उत्तरम्। शिक्षा हि नाम मानवस्य दैहिकं मानसिक सामाजिकं च श्रेय वहति । सा च गीर्वाणवाण्या आपांशुलपादहालिकात् सर्वस्यापि नस्य वा भवितुमर्हति । तत्र आध्यात्मिकी शिक्षा विधातुमिच्छु: ववाणीमेव प्रायेण शरणं प्रयाति; गौड़ीयादिषु दर्शनशास्त्र-ग्रन्था- नाम् इदानीमपि वहुलप्रचाराभावात् । वाह्यप्रयोजनादिकं सम्पाद्य गौडीयादिनापि कथं कथमपि अभिलषिसिद्धिः स्यादेष । स्तुतस्तु जड़विज्ञानादिषु आधुनिकगणित प्रभृतिषु पुरावृत्तप्रभृतौ प्रवेशमिच्छुः सर्वथा आंगलभाषामेव सरणिं कुर्वीत । अशक्तश्चेत् डीयादिकेनापि समीहितसिद्धि रीषत्करी, संस्कृतेन तु कथमपि विज्ञानादिषु प्रवेशो न भवति । अतएव कस्मै अर्थाय अधुना स्कृतं पठाते इत्यस्य अनिर्धारणे "कीदृशी संस्कृतशिक्षा भपेक्ष- या" इत्यस्य किमपि न सम्यगुत्तरं सम्भवति । धार्थ पठयते चेत् ? वेदादिकं गुरोविधिवदध्ययनीयम् । तद- क्षिततया षडङ्गानि मीमांसे च पठनीयानि । सूत्रभाष्याधात्मक- आय-वैशेषिक-सांख्य-पातंजलानि च अध्येतव्यानि । नत्र नव्यन्या. स्य तदुद्भावितरीतिमवलम्ब्य निबद्धस्य वा अपरदर्शनस्य काचिद- वत्तंते प्रत्नतरवाधिगमाय अध्यवसाय इति चेत् सर्वएव संस्कृतनिबद्ध थाः यूरोपप्रदर्शितदिशा मध्येयाः। सा च रीतिः किंस्वरूपा इति श्ने, पदामा प्रथमंतावत् कस्यायं प्रन्थः? कोऽस्य प्रणयनकालः ? इतः म् अस्मिन् विषये कानि पुस्तकानि आसन् ? तैः सहास्य कः स. धः? अस्मिन् हि प्रतिपादितो विषयः ग्रन्थकारण स्वमतिमहिना दावितः उत पूर्वतनेभ्यो प्रन्थेभ्य उद्धृतः। पदि उद्भावितः कियदु- वितं कियदा पूर्वाचार्येभ्यो गृहीतमिति । मत्रोदाहरणत्वेन काव्य- क्षा मित्रगोष्ठी-पत्रिका। प्रकाशो गृह्यते कुत्रत्योऽयं मम्मटः ? तत्पूर्वम् के अलङ्कारप्रन्थका आसन् ? तेषां प्रन्थेभ्यः कोऽर्थः किञ्च वाक्यं उमृतम् ? दृष्टान्तत्वे गृहीताश्च श्लोकाः केन प्रणीताः । काव्य प्रकाशस्य साहित्यदर्पण दिना सह कः सम्बन्धः ? इत्यादिकमपि सम्यग् बोद्धव्यम् । केवर सटीककाव्यप्रकाशार्थावगमे कृतकृत्यता न ख्यादेव । काव्यप्रकाश पाठयः तट्टीका अपेक्षिता चेत्पाठया । किन्तु एतदेव न पर्याप्तम अलङ्कारस्य इतिहासादिकमपि मलङ्कारशास्त्रपाठस्यान्तर्भवति किम पिशास्त्रं न नित्यम् अपितु सर्वमेव उत्पत्तिमत्, वृद्धिमच्चेति पाश्चा श्यानां सिद्धान्तः अत एव ते मन्वादि-शास्त्राणामपि प्रणयन काला विष्कारे सर्वथा सयत्नाः। बुद्धिसौम्यसम्पादनाय परिश्रम इतिचेत नव्यन्याय शास्त्रमे पाठपम् । किञ्च नव्यन्याये न्यायदर्शनप्रतिपाद्यविषयस्य ताशगौर. पाभावेऽपि तदेव भाषामहिना करटदन्तानुधावनेन च सर्वेषां दर्शना नां दुर्योधतम मिव प्रतिभाति । अपरञ्च वेदान्तिनोऽपि अर्वाचीना मधुसूदनादयः नव्यन्यायोद्भावितामेव भाषामवलम्ब्य मतसि ध्यादिकं प्रणिन्युः । अतएव अधुना नव्यन्यायमद्वारीकृत्य अन्यो दर्शनेषु सम्यग् व्युत्पत्तिदुर्लभा । अतश्च सर्वथा सः अध्येतव्यः किञ्च अधुनापि नैयायिकवराः पञ्चषाः प्राणन्ति । नवीनाश्च अन्तेवा. सिनः सर्वेऽपि तावत् सुकरणोपायेन विद्या प्रसिसादयिषवो नव्य न्यायं च दीर्घकालनैरन्तयंसेवापेक्षं मन्यमानाः तदध्ययनात्पराजय न्ते। गौड़ीयानां नव्यन्याय एव पाण्डित्यमस्खलितं पुनयंथा भर तथा यतनीयम् । इयं हि विद्या गौड़ीयानामेव मतिपाटवेन ईदृशी परिपुष्टिं गताऽपि यदधुना तै न सेव्यते तदतीव दुःखाकरम् । महामहोपाध्यायेषु न्यायपारगतेषु जीवत्सु एव अध्यापकेषु अध्यापन समर्थेषु यथास्यशास्त्रस्य पुनः प्रचारोभवेत् तथा सर्व यंतितव्यम् पञ्चषा अध्यापकाः यदि परलोकभाजो भवेयु स्तदा न्यायशास्त्रमे लोपं गच्छेत् । समासेनायं मदभिप्रायः- अतं -- पाश्चात्यदर्शनम्। ततः परं केचिदर्शनभृतका विद्वांसोऽभवन् ये किल वेतनमगी. कृत्य दर्शनाध्यापनादिकार्य विदधिरे । वेषां प्रथमः प्रोतगोरः ( Protagoras ) दामक्रीतस्य मित्रमासीत् । दृश्यमानं सर्व जगत् परिवति', इन्द्रियाणि च प्रत्यक्षगोचराण्येव वस्तूनि दर्शयितु शक्नुवन्ति नाप्रमेयां शाश्वती सत्तामिति हरकलितः। मनोपीन्द्रियविषयमात्र- गोचरं नातीन्द्रिये प्रवतंतइति दामक्रीतः। ततश्चातीन्द्रियतया दाम- कीतोक्ताः परमाणवः संपदाकरीतानि तरवानि वरुत्वन्तराणि वा जग. मूलत्वेन दार्शनिकान्तरैः सिद्धान्तितानि कल्पनामात्राण्येव । नाती. न्द्रियं किमप्यस्तीतिवक्तुं शक्यते। इन्द्रियजन्यंच ज्ञानमत्यन्तं मिथ्येति- भवितुयुक्त,शुक्ल हि वस्तु कैश्चिद्विभाषितं पीत्तोपहतस्य पीतमाभाति, म्यमेकस्यारम्यमन्यस्य जायते इत्यादिवैषम्यदर्शनादकस्य यादृशं यद्- तु प्रतिभाति, तादृशं तस्यैव, तन्नान्यस्य नच वस्तूनां किंचित्सा- शान्यं रूपादि वचते । दर्शनानि मिथ्यावादपराणि । तथाच दार्शनिका- प्रश्नान्विहाय न्यायनीत्यलङ्कारादितत्त्वाभ्यासपरैः सर्वैभवितव्यमिति तगौरस्य मतम् । इदमहम्प्रत्ययगोचरयोविषयविषयिणो दः प्रथम ॥श्चात्येषु प्रोतगौरेणैव सूचितः । प्रोतगौरस्यैव समये सुक्रतुनामा (Socrates) पाश्रात्येषु प्रसिद्ध- मो विद्वान्बभूव । आस्थाननगरे ( Athens ) रथ्यासु भ्रमन्यं कंचि. संभाषणायाहूय दर्शनतत्वानि पादद्वाराऽयमुपदिशतिस्म । स्ववाद- ौशलेनच मृषा पण्डितंमन्यानां मूर्खतामुद्भाव्य, जगन्मूलाधन्वेषण मसु रमफलंचेति प्रमाणैः प्रतिपाद्य, निजाचारशोधने एव सर्वेयंतः का- इत्ययं सर्वान् शिक्षयामास । कोन्यायः, किं सत्यं, किं वास्तवसुस्त्रम्, : सदाचारइत्यादिनेवप्रश्नाभरश्चिन्तयेदित्युपदिश्य प्रथमोयं नीतियः चात्येष्वभवत् । प्रतिव्यक्ति सुखादे वादेकरूपं नीतितत्वं नेतरेषु भाव्य मिति प्रोतगौरादयः । सुक्रतोस्तु व्यक्तिभेदे दृश्यमानेपि सत्य- 1 संस ११४ मित्रगोष्ठी-पत्रिका। ज्ञानसुखादेर्वास्तवमैकाप्यमेवेतिमतम् । शारीरदुःखादिकमनुभूय न सर्वथा निर्वेदः कार्य:, लेन्द्रियं हिशरीरमेव निगृहीतं सच्छ यसेकल्पते। हृदयमेव नराणां धर्माधर्मादौ प्रमाण । शुभाशुभं सर्वेषां वस्तुतएकरूप हृदयसाक्षिकंच केवलं कामक्रोधाधु परागात्कस्यचिच्छुभमशुभमिवा- शुभंच शुभमिव प्रतिभाति सुक्रतोरेवमतांशानवलम्ब्य सुखमेवपुरुषार्थहति कैरोणदेशीयो- ऽरिष्टपः ( Aristippus of Cyrene ) सुखेषु शारीरेभ्यो मानससुख- प्रशस्यतरम्। निगृहीतेन्द्रियैनरैः क्षणिकेषु सुखेषु वीतस्पृहैचिरकाल के. भ्यः सुनेभ्यः स्पृहणीयमिदृशान्सुनवादाननुसरन्तः केचिदार्शनिकास्तु सारमुखस्य क्षणिकत्वं सुनान्तरसपचानुपलम्भं पश्यन्तो जीवनान्म- रणमेववरमितिनिर्वेदपरा बभूवुः । अन्तस्थानाख्यः ( Antisthanes ) अपरः सुक्रतुमतानुसारी धर्मो धर्मार्थमेव सेव्यः स एवच परमः पुरुषार्थो न सुखेन बुद्धिमतः कार्यमितिमेने । तस्यशिष्यास्तु न केवलं सुखेन पुरुषार्थः किंतु महद नर्थमूलमिति कायिकवाचिकमानसानां त्रिविधानां सुखानां सर्वथ परित्यागमुपादिशन् । उत्कलिताभिधः ( Uclides ) परोदार्शनिकस्तु परमानदमतमनुः सृत्य सत्तामेकामीकुवन् निःश्रेयसं सद्र पं मेने । इत्थंजगन्मूलान्चे षणादिप्रश्ना स्तिरस्कृत्य यवनदार्शनिकाः सुक्रतुमनुसृत्याध्यात्मतत्त्वा न्वेषणपरा बभूवुरिति सूचितम् । तेषुच केचित्संविदादिनः, परे द्रव्यवादिनः, इतरेच कर्मवादिनोऽभवन एषां पृथक् कीदृशानि मता नीत्यनुपदं स्फुटीभविष्यति ॥ क्रमशः पाण्डेय श्रीरामावतार शर्मा - :: - ११५ वातीः सम्पादकाभिप्रायाश्च । (श्रीमन्तः पाठकमहोदयाः सविनयनिबन्ध प्रायन्ते यत्ते अनुग्र- बुद्धया स्वस्वावगतं प्रकाशोचितं संस्कृतभाषा-समिति-विद्यालया- देगतंवृत्तान्तं संगृह्य पत्रिकायां प्रेषयितु महन्तीति ।) पण्डितसभा-न्यायविकिविहारनिकेतने नवद्वीपे महामहोपा- याय-श्रीराजवष्णतकंपञ्चानन महाशय-प्रमुखानां तत्रत्यानां पण्डितानां विद्वीपाधिदैवतायाः श्रीमत्या विदग्धजननी-देव्याः पुरतोऽनतिचिरं कमपि सम्मेलनं संवृत्तम् । 'कायस्था यज्ञोपवीतं ग्रहीतुमर्हन्ति न ति' तन विचार्यमासीत् । तत्रभवद्भिविद्वद्भिरैकमत्येन सिद्धान्तितं त् कायस्था न क्षत्रिया अपितु शूद्राः, ततश्च न तेषां यज्ञोपवीत- पारणेऽधिकार इति। विधवोद्वाहः-उत्कलेषु पार्वतीपुरनामके जनपदे श्रीमतः श्रीव. सपाण्डेयस्य ( B. A.) समुद्योगेन कश्चिद विधवोद्वाहः सम्पन्नः,-यत्न धूवरावुभावपि ब्राह्मणजातीयौ। उत्कलप्रदेशे ब्राह्मणापश्चजाप्तिषु वधवोदाहस्यायमेव प्रथमोऽवतारः। विवाहोत्सवे तनत्यानां शिक्षि- नामपि जनानामुपस्थितिरासीत् । विधवाश्रमः- यते तस्मिन्नेव स्थाने विधवानां कृते आश्रम. कं स्थापयितु 'प्रजाबन्धु'-पत्रिका-सम्पादकेन यत्यते । तदर्थ मद्भिर्मयूरभञ्जमहाराजैः १५०० रूप्यकाणि, श्रीमता श्रीवत्सपाण्डेय- हाशयेन च १०० रूप्यकाणि दातु प्रतिश्रु तानि । स्मारकत्तिः-परलोकमुपगतानां तत्रभवतां महामहोपाध्याय- दवीभाजां श्रीमतां समरचन्द्रशेखरसिंह महोदयानां स्मारकत्वेन उत्क- सम्मिलन्या चत्वारिंशद्र प्यकरूपैका मासिकवृत्तिः स्थापिता । हृत्ति- यमाङ्गलोविद्यार्थिनामेव महोत्सवाय सम्पन्ना । संस्कृतविद्यार्थिनां तेऽस्याःस्थापने तु युक्ततरमभविष्यदिति विवेचयामः, कस्यचित् स्कृतस्य हि स्मृत्यर्थ सोत्पन्नेति ।

मित्रगोष्ठी-पत्रिका। अभिनवा संस्कृत साप्ताहिकपत्रिका-वृत्तान्तोऽयं पाठकानांचे तसः परां प्रीतिमुत्पादयिष्यति यत् प्रथिततमः संस्कृतचन्द्रिकाया सहकारिसम्पादकः श्रीअप्पाशास्त्रि-विद्यावाचस्पतिमहाशयः आगामि विजयादशमीमारभ्य 'सूनृतवादिनीति' कांचित् साप्ताहिकी वृत्तान्त पत्रिका संस्कृतभाषया प्रकाशयितुमिच्छतीति । श्रीमता विद्यावाच- स्पतिना सम्पादिता सा खलु पत्रिका चारुतमा भविष्यतीति सुदृढी. ऽस्माकं विश्वासः। योग्येनैव जनेनेदं प्रस्तुतम् । इदन्तु तेन स्वप. সিদ্ধান্ত মাহির যন্ত, যাৰঘুননঃ বহুমবি সাঙ্গাকান सम्पद्यते न तावत्सा प्रकाशयिष्यत इति अतो ये खलु सचेतसस्ता पत्रिका जिक्षन्ति, तेनच संस्कृतभाषायां भूर्यासं प्रचारमभिल. ष्यन्ति, तेन तत् त्वरितत्वरितं श्रीमान् विद्यावाचस्पति महाशयो वि. सापनीयः। अस्याश्च वार्षिक मूल्यम् प्रेरणव्ययेनसह रूप्यकत्रयम् । दातुः कर्णस्य चरम दानम्- -आमेरिकावासिनः प्रसिद्धस्य दान- वीरस्य कर्णस्य ( Mr. Andrew Carnejie ) दानगौरवेण पूर्वमेव जग- दीदं चमत्कृतम्। साम्प्रतम् पुनरप्यतेन महाभागेन यदानं कृतं तेन तस्य विवेचकत्वं सुष्ठु खलु प्रतीयते। ये हि अध्यापका वृद्धत्वेन शरीरास्वास्थ्यतया वा अध्यापनाद विरमन्ति, वृत्त्यन्तरग्रहणालम- तया धनहीनेस्तैर्जीवनधारणार्थ महान् क्लेशोऽनुभूयत इति दयाद्रह- दयेन श्रीमता कर्णेन तत्प्रतीकारार्थ ३,१२,५०००० मप्यकाणि तानि । 'इउनाइटेड-इष्टेट्' 'क्यानेडा' 'निउफाउण्डलण्ड' इत्येतेषु स्थानेषु तादृशेभ्योऽध्यापकेभ्यः तदरूप्यकतः साहायकं दीयेतेति तस्य खलु बदान्यधुरन्धरस्याभिप्रायः । श्रयतामिदमस्माभिर्भारतीयैः। अध्यापकानां श्रमः-इलैण्डप्रभृतिषु स्थानेषु अध्यापकैः प्रति- सप्ताहं छात्राध्यापनाय प्रायेण १५ घटिकाः परिश्रम्यते । अन्नासन्तु- टैस्तत्रत्यैः तत्प्रतीकाराय फाम्स-जर्मणि-प्रभृतिदेशस्थानाम् अध्या- पकानां पाठनकालपरिमानमुदाहृत्य प्रयत्यते । फान्सादिदेशीया अध्या. प्रद.

। वाती सम्पादकाभिमायाश्च । ११७ पकाः प्रतिसप्ताह पश्चघटिकामात्र छात्रानध्यापयन्ति । शिष्टस्तु काल तैस्तत्तद्विषयाणां 'गवेषणानुशीलनाद्यर्थं नियोज्याध्याप्यो विषयश्छा- यो यावत्सभाव्यं विवियते। अस्महशे अध्यापकानां विशेषतस्तु स्कृताध्यापकानां प्रतिसप्ताहं कियान कालो गच्छतीति प्रत्यक्षमेव वेषाम् । 'कलेज' संज्ञकेषु विद्यालयेषु अध्यापकः प्रतिसप्ताहमन्यूनां चतुर्विशति घटिका अध्यापयन्ति । ये पुनरध्यापकाः स्वगृहएव छात्रान् पाठयन्ति प्रतिसप्ताहं तदर्थं तेषां प्रायेण चत्वारिंशतोऽप्य- धका घटिका अपेक्ष्यन्ते। इत्थं च भूयसां कालाना मित्थमेव विनि- गान्नैते तषिये नवनवं तत्त्वमनुशीलयितु क्षमन्ते, न च तेन ठयमपि यथोचितं परिष्कर्तुं शक्नुवन्ति । ये तु केवलमेकमेव शास्त्र सर्वदाध्यापयन्ति, तेषां विषये पूर्वोक्त न युक्तियुक्तमिति वयमपि मः । परन्तु अभिनवरहस्याद्यनुशोलने तैरपि दुर्लभ एव काल इति नश्चितमेव । अन्यस्मिंश्च पक्षे ये खल्वध्यापका बहुषु शास्त्रेषु अध्या- ना कुर्वन्ति, प्रायेण ते न सर्वत्रैव सर्वथा व्युत्पन्नाः। अतोऽध्या- यानां तादिषयाणां सम्यगवयोधनार्थमवश्यं तैः स्वयं साधुतरमध्ये- व्यम् । अध्यापनमात्रे च तावति कालेऽतीते कुतः कथं वाधीय. म् । ततश्च येऽध्यापका कापि विद्यालयेऽधापयन्ति, तेषां श्रमला- विाय विद्यालयाधिकारिभिः अधिकतराध्यापकविनियोगेन यतनी- न्; बहुशास्त्राधापकैश्च वृथाकीर्तिलाभमानं पुरुषार्थं परित्यज्य स्वशक्त्यनुसारेण) एकं त्रीणि वा शास्त्राध्यापनीयानि तत्त- दषयं सर्वथा बोधयितु विद्यार्थिनः शक्यन्ते न वेति स्वयमेवा. तरात्मानं पृष्ट्वा अध्यापकमहाशया ज्ञातु प्रभवन्ति। छात्राणां यथा स्तकं न चयंते तथावश्यमेव विद्यादानाधिकारिभिः कर्तव्यमिति तीन जानाति । शिक्षार्थ दाने भारतीयः पाश्चात्याश्च-अतीते आंग्लोशतके रतीयैः शिक्षार्थ यद्यत् दानं प्रधानतया कृतम्, तत्सर्वं निर्दिश्यते, ११८ मित्रगोष्ठी-पित्रका। : ... ... ... ... ... दाता दत्तंधनम् १ तातामहाशयः २० लक्षाणि २ प्रेमचाद-रायचाँदः २ लक्षे ३ मुन्सी कालीप्रसादः ५ लक्षाणि ४ पं० गदाधरशास्त्री अग्राकालेजार्थ वार्षिक द्वाविंशति सहस्रायो. चिता सम्पत्तिः ५ पाचेझ्याप्पा मुदालियरः ६ लक्षाणि ६ महम्मदमोहसीन: (प्रतिवर्षम् ) ५१ सहस्राणि ७ भूदेवमुखोपाध्यायः १,६०,००० षष्टिस- हस्राधिकमेकं लक्षम् ८ सार मङ्गलदास नाथु भाइ ३॥ लक्षाणि। ९ सार दयालसिंहः भारते उक्तेभ्योऽपरं किमपि प्रधानं दानं विगते शतके जात. मिति नास्माभिर्जायते; भवेदपि वा कदाचित् । साम्प्रतं पाश्चात्येषु अमेरिका-युक्तप्रदेशस्य एकवर्षेऽधिगतं शिक्षाविषयकं दानमुदाहिय. ते;-१८१८ तमेऽज्दे तद्देशीयैधनिकै विद्यालयार्थं यद्धनं प्रदत्तं, तत्सं. ख्या-२०,८९,००,००० रूप्यकाणि । एतद्विना पुस्तकालय-चित्रप्रदर्श नगृहाद्यर्थं धनं चत्वारिंशलक्षाधिकैकादशकोटितोऽप्यधिकमासीत् । साम्प्रतमपि वैदेशिकपत्रेषु अमेरिकास्थानां धनिकानां शिक्षादिविषये कीदृशं दानमिति सर्वेषामपि नयनसरणिमापतति । सत्यमिदमस्म- हशेषु न तथा धनिनः सन्तीति; परं तु ये सन्ति तेषामपि कि जातु स्वप्नेऽपि ईदृशं किञ्चिन्महत कृत्यमस्तीति चेतस्युदति उदियादा ? ... १५ लक्षाणि :०: शोकस्थानम् –शोकाकुलितचेतसो वयं प्रकाशयामो यद आषा- दस्य अतीतायां पूर्णिमायां कलिकाता-राजकीय-संस्कृतविद्यामन्दि- रभूषण महामहोपाध्यायपदवीला उन; श्रीमत्पण्डितप्रकाण्डो गोवि. दशास्त्रिमहोदयःपृष्ठव्रणरोगाक्रान्तो हन्त ! अकाण्डे एव चिरपरि.

? वर्ताः सम्पादकाभिमायाश्च । ११९ चितान् चिराय परित्यज्य परलोक मुपागमत् । आषाढ़पुर्णिमे, सुद- नापि दुर्दर्शनासि सवृत्ता ! अहह ! अपहृतं खलु दुरन्तेन काल- इतकेन भारतस्य किमपि रत्नम् । भयि मातर्भारति प्रस्थितं भवत्याः केनापि सुपुत्रेणेति किं न व्यसे ? साम्पतं कीशो संस्कृतशिक्षा अपेक्ष्यते ? इत्यत्नविषये भारतस्य उत्तलदेशवासिना पण्डितधोरयाणां मतानि असमाभिः संगृह्मन्त; काश्यन्तेच यथासमय पत्रिकाया मल्याम् । अतः प्राध्यन्ते पण्डित- काण्डा यते स्वस्वमतमस्मिन् विषये प्रकाश्य अस्मत्समीपे प्रेष- न्विति । किच तन्मतं यथापत्र नयादूई न भवेत् तथा लेखक पतितव्यम। भूकम्पादभयम् –जापानीयो भूतत्त्ववित् श्रीमान् भोमटि म पञ्च. नदेषु भूकम्पतत्त्वज्ञानार्थमागतः । तेनोच्यते साम्प्रतं द्विशतवर्षमध्ये उत्तरभारते भूकम्पाद विशेषभयं नास्ति; अन्तारान्तरा नु क्वचित् किमपि स्थानं मनाग विचलेदपि । इदानी पारस्यदेशे महान् भूकम्पो भवेदिति सम्भाव्यत इति । अहो कौशलम्; लण्डनगरे कस्याश्चित प्रथितार्या सभायां स्त्री. शेक्षाविषयकालोचने प्रसङ्गन " लेडि इलियट"-नाम्न्या कयापि सभ्यया स्त्रीस्वाधीनत्वमवलम्ब्य इदमुक्तम्-भारतीयान्तः पुरिकाणा- अवरोधदूरीकरणार्थ नास्माभिस्तावान् आयासः स्वीकर्तव्यः; भस्मा- कमध्यापनगुणेन यदा खलु ताः सुशिक्षिताः स्युः, तदानीमेव गृहद्वार नेरगल भवेत, धीरपदक्षेपं च ता बहिरागच्छेयुः क्व तदानीमवरोध. इन्धनं तिष्ठेदिति। परासीकानां शवसत्कार:-पारसीकैमृतदेहो नाग्निसात् कि- ते, न वा भूमौ निखन्यते, अपितुयमदुर्गाभिधेये(Tower of Silence) कस्मिंश्चित स्थाने निमिप्यते । शवमांसं गृध्राणाम् महोत्सवं साध- रति । अथास्थिसञ्चया जले क्षिप्यते । साम्प्रतमीडशे शयसंस्कारे

१२०
मित्रगोष्ठी-पत्रिका।
पारशीकेषु वैमत्यमुत्पमम् । केचित् शबाना दाहमिच्छन्ति, अपरे।
पूर्वामेवपद्धति सनिबन्धं रक्षन्ति ।
समालोचनम् ।
जयपुरनगरात् “ संस्कृतरत्नाकर" इति कापि संसकृतभाषामर्य
मासिकपत्रिका वत्सरात् प्रभृति प्रकाश्यते इति अस्माकं महार
प्रमोदविषयः । भारतेषु यत्र यन वाहुल्येन संस्कृतभाषाया-मालो
चनं भवति, जयपुरं तेषु अन्यतमम्, तत्रत्या पत्रिका विशेषेण उत्कर्ष
पदवी गमिष्यति इत्यत्र कः सन्देहः । परन्तु दुःखाकरमेतत् वर्षे
ऽतिकान्तेऽपि उग्स्याः कलेवरपुष्टिः न भवतीति, अथवा संस्कृतभा-
रत्या एव दौर्भाग्यमेतद् यत् तत् सेविनः पोषयितु तत्-सन्तानेषु
नास्ति कोऽपीति।
प्रहेलिका।
अपि स्वभावान्मलिना स्पर्शेऽपि बहुदोषकृत् ।
सद्भिः का गृह्यते पाणी पात्रेऽपि प्रतिपादिता ॥
प्रश्नकर्ता
श्रीमहेशचन्द्र शर्मा
केषाश्चिदाग्रहेणेतःप्रभृति पत्रिकायामन्तरान्तरा प्रहेलिका प्रका-
शयिष्यते । कुतूहलिभिः पाठकमहाशयै यथासमयं तदुत्तरं देयमिति
प्रार्थयामहे । उत्तरप्रदातॄणां नामान्यपि प्रकायिष्यन्तइति कृतमुक्तेन।
मि. प.स.

मित्रगोष्ठो-पत्रिका। (मासिकं संस्कृतपत्रम् ।) सङ्गच्छध्वं संवदध्वं संघो मनांसि जानताम्"। ऋग्वेदः। . द्वितीय वर्षे } १८२७ शकाब्दाः, भाद्रः { पश्चम संख्या शुक्तिरजतम्। ( पूर्वानुवृत्तम् ) शुक्तिरजतस्योपादानकारणम् अज्ञानमेवेति प्रतिपादितम् । निमि. सकारणं तु अस्पष्टालोकः, दूरत्वम, नयनदोषः, आरोप्याधिष्ठानयोः सादृश्यज्ञानमित्येवमादिकम् । अधिष्ठानारोप्ययोः सादृश्यशानं वस्तुतः कारणं न वेति बहवोऽत्र विप्रतिपद्यन्ते। तत्र ये तत्कारणतां स्वी- कुर्वन्ति, तेषामयमभिप्रायः (१)- आरोप्याधिष्ठानयोः सादृश्यमानं न चेदध्यासं प्रति कारणं स्यात, कथं तर्हि शुक्तिकायामेव रजतमध्यस्यते न पुनवंटादौ, कथं वा रज्ज्वा- मेव सर्प आरोप्यते न तु घटादौ। क्रिमन वीजम् ? किञ्च यदि साह- यज्ञानमध्यासे नापेक्ष्येत, अङ्गारेऽपि रजताध्यास: प्रसज्येत । अथो- च्यते-आरोप्याधिष्ठानयोः सादृश्यमेव कारणमस्तु, न पुनस्तज्ज्ञान- मपि, अतएव नाङ्गार रजताध्यासः प्रलज्येत, तत्र सारश्यस्यैवाभावात, शुक्तिकायां च सादृश्यसद्भावादेव रजताध्यास इति । नेदं युक्तम् । तथाहि-यदि सादृश्यमात्रस्यैव कारणता, न. पुनस्तानस्यापि, तहि जलधिजले नीलशिलाध्यासो न स्यात् (२)। नहि अधिष्ठानभू- (१) एतन्मते पुरोवत्तिपदार्थ नयनसंयोगानन्तरम् इदम अस्य अधिष्ठाना- रोप्ययोः सादृश्यस्य च ज्ञानमुत्पद्यते; पञ्चायासः । (२) समुद्रतीरमधितिष्ठतो दूरस्थ स्थिरगम्भोरं समिणं नौमशिलेव १ मत्रगोष्ठी-पत्रिका। सेन जलेन सह भारोप्यस्वरूपाया नीलशिलाया मनागपि सारश्य- मस्ति । अतोन सादृश्यमात्र कारणम् अनि तु तज्ज्ञानमपि। एवञ्च न तदोषावकाशः । तथाहि सादृश्यज्ञानं भ्रमप्रमारूपेण धापि सम्भवति। तत्र (समुद्रोदके नीलशिलाध्यासस्थले ) प्रमाणसादृश्प ज्ञानाभावेऽपि भ्रमरूपं सादृश्यज्ञानं सम्भवत्येव । तथा च न किञ्चि- दसमञ्जसमा ननु दृश्यते हि--अतिशुभ्ररजतपात्रस्थे स्वच्छे सलिले, मुक्ता- फले च, योरपि स्थानयोः समानेऽपि नीलिमसादृश्याभावे, रजतपा- प्रस्थसलिल एवं नीलिमाध्यस्यते न तु मुक्ताफल इति; तत् किमेतस्य कारणमिति चेत् ? अत्र केचित्,-अस्ति खलु रजतपात्रस्थसलिलस्य तादृशः कश्रिदनन्यसाधारणः स्वभावो, येन तत्रैव नीलिमाध्यस्येत, न तु मुक्ताफलादौ। एवं शुक्तिकाया अपि स्वभावविशेषसद्भावादेव तत्र रजताध्यासः, न तु अङ्गारादिषु, तेषां ताशस्वभावविशेषविर- हात्। तस्मात न सादृश्यं, न वा सादृश्यज्ञानम् अध्यासकारणम, अपि तु अधिष्टानगतः स स स्वभावविशेष एवेति । घस्तुतस्तु नेदमपि युक्तम् । सादृश्यज्ञानस्य अध्यासकारणता अन्वयव्यतिरेकाभ्यामेव प्रमीयते । पश्यामः खलु -न तावत् पुरोनि- पतिते वसनखण्डे कमलकोरकबुद्धिर्जायते । अथ यदि तदेव वसन- खण्डं यथोचितं निकृत्य मुकुलाकारं क्रियते, सद्य एव तस्मिन्मुकुल- कलिकाज्ञानं समुत्पद्यते । तस्मात् कथमुच्यते सादृश्यज्ञानं नाध्यासे कारणमिति । यदि नाम वस्तुनः स्वभाव एवाध्यासकारणं स्यात्, कथं तहि कतनादिना वसनखण्डस्य मुकुलाकारकरणात् प्रागेव-पुण्डरीकि- मुकुलाध्यासो न जात इत्यपरे । अन्येत्वाहुः,-अध्यासो द्विविधः, विशेषज्ञाननिवर्तनीयः, तदनि- वर्तनीयश्च, तत्त्र प्रथमे अधिष्ठानतत्त्वज्ञानोदये अध्यस्तं वस्तु निव- प्रतिभाति । सर्वेषु पि एघु मतेषु सजिलस्य रूपं धवलम् । अतो म तेग नौम्म पिनायाः किमपि सादृश्यम् । ।

. - शुक्तिरजतम् । संते। पथा शुक्तिरजते-शुक्तितवमाने सति मध्यस्तं रजतं निव- संते,-यावच शुक्तितस्वज्ञानं नो जायते, तावदेव रजतमुपलभ्यते, मतु ततःपरमपि । द्वितीये अधिष्ठानतरवज्ञानोदयेऽरि अध्यस्तं न निवत्तंते; यथा स्फटिके लौहित्याध्यासः, कस्यचिनिमलस्य सफटि- कोपलस्य सन्निधौ जवाकुसुमे गृहीते तत्प्रतिविम्वेन 'लोहितः स्फ- टिक' इति स्फटिके लौहित्याध्यासो भवति। तत्र अयं स्फटिकः धेत इति सत्यपि विशेषज्ञाने, अध्यस्तं लौहित्यं नापगच्छति, भवति हि तदानोमपि शानम्-स्फटिकोऽयं लोहित इति । पीतः शाः, तिको गुड इत्यादावपीत्थमेव बोध्यम् । नयने पित्तदोषे समुत्पन्ने श्वेतोऽपि शः पीत: प्रतिभाति । तदानीम् ' अयं शङ्कः श्वेत' इति सत्यामपि बुद्धौ शाऽध्यस्तः पीतिमा न निवर्तते। जिह्वायां पित्तेन दूषितायो मधुरोऽपि गुडस्तिको भाति । तदा च 'गुडो मधुर' इति बानोत्पत्तावपि तदध्यस्त तिक्तत्वं नापगच्छति तस्मात् सारश्यज्ञानस्य अध्यासं प्रति सत्यपि कारणत्वे, न सर्व- वरि अध्यासेषु तत्कारणम्, अपितु शुकिरजतरज्जुसत्यादिषु विशे- पज्ञाननिवत्तंनीयेष्वेव । 'तितो गुड़ः', 'पीतः शत' इत्यादिषु विशेष. मानानिवत्तंनोयेषु अध्यासेषु तु सादृश्यमानस्य कारणत्वं वक्तुन युज्यते । न हि 'पीतःशा' इत्यादौ शङगेतिम्नोरस्ति किञ्चित् साहश्यम । (२) शुक्तौ रजताध्यासे शुकितत्वज्ञानम् यथा प्रतिबन्धकम्, एवं शुतिज्ञानसामग्यपि प्रतिबन्धिका । शुक्तौ रजताद ये किल केचन विशेषाः (नीलपृष्ठत्वप्रभृतयः ) सन्ति, त एव शुकिज्ञानस्य सामग्री तथाच सारश्यज्ञानस्य अध्यासे कारणत्वास्वोकारेऽपि न क्षतिः । (१) अमिन हि मते दुष्टेन्द्रियसंयोग एवं अधाासकारणम् । काचादि- दोष घितेन नयनेन शुक्तिकादिसग्निकर्षे सत्येव 'इदं रगतमिति' ज्ञानमुत्य- हाते। तितो गुडः, 'पौत. श' त्यादावपि न कविडाधः, तबपि पित्ता- दिदोषाषितरमने नियमनिकरुयेव । .

१२४ मित्रगोष्ठी-पत्रिका मनु सादृश्यज्ञानस्य कारणत्वास्वीकारे कथम् अङ्गारेऽपि रजत नाय. रूयतामिन्युक्तम् इति चेत् ? न तत्रापि अङ्गारस्य नैल्यादिरूपविशेष- दर्शनसानग्य व रजताध्यासय प्रतिबन्धकतां करोति क्रमशः श्रीविधशेखर शर्मा। बौद्धवृत्तान्तः। बुद्धदेवस्य नीत्युपदेशाः । साम्प्रतं बोद्धानामाचारपरम्पराप्रदर्शनतो विरम्य बुद्धदेवस्थाप- रानपि काश्चिदुपदेशवादान प्रदर्शयामः ! उक्त भगवता बुद्धन- "अमोधन जिले कोधं, असाधु साधुना जिने । जिने करियं दानेन सच्चेन अलिकवादिनम्।। धम्मपर, कोधवग्गो३ स०-अक्रोधेन जयेत् क्रोधम् , असाधु साधुना (मुकर्मणा) जयेत् । जयेत् कदयं ( कृपणं ) दानेन, सत्येनालीकवादिनम् ।। सुसुखं वत जीवाम वेरिनेषु अवेरिनो घेरिनेषु मनुस्सेतु विहराम अवेरिनो"|| धम्मपत, सुनवग्गो.१. स-सुसुखं वत जीवाम वैरिषु अवैरिणः ( सन्तः । । बैरिषु मनुष्येषु अवैरिणः ( सन्तः ) विहरामः ।। "न हिवरेन वरानि सम्मन्तीध कदाचन । भवरेन च सम्मति एस धम्मो सनातनो।।५॥यमकवगोधम्मपदं" * बुद्धदेवस्य निर्वाग लाभानन्तरमेव राजगृहे बौद्वाना महत सम्मेलनमा- सीत् । तस्मिन्नेव समये घम्मपदं' रचितमिति वदन्ति । 'धम्मपदस्य टीका. कार: खो पञ्च मातको यमो बुद्द घोषो नाम स्वटीकायामवोचत्-यद् भग- पतो बुद्धस्योक्तिरेव धम्मपदे मंगृहीतेति । बुडघोषेण प्रतिशोक व्याख्याया- मेकैका कथापि संयोजिता । इयमपि कथा बुद्धदेवनेव वर्णितेति तदुक्तिः !

बौद्धवृत्तान्तः। १२५ स.-नहि रेण वैराणि शाम्यन्तीह कदाचन । मवैरेण तु शाम्यन्ति एष धर्मः सनातनः ।। श्रूयते युद्धदेवेनेदं दृष्टान्तेनापि दृढीकृतम् । अत्रेयं कथा-कदा- चिद भिक्षूणां मध्ये मिथो महान् विसंवाद उत्थितः। तन्मीमांसार्थ ते सर्वे श्रावस्तीनगरमधितिष्ठन्तं बुद्धदेवमुपजग्मुः । अथ स भगवान् तेषां विवाद निरासायेमां कथामारभत-पुरा फिल वाराणस्यां ब्रह्म- दत्तो नाम महाधनसम्पन्नो विपुलसैन्यसाहितो महीपतिरासीत् । कोशलप्रदेशे च दीर्घतिर्नामापरः कोपि क्षीणशक्तीराजाऽभवत् । प्रायो पथा बलीयान दुर्बलं बाधते, तथा काशीराजोऽपि दीर्घते राज्यमव. रुरोध । तेन साकं योद्धुमसमर्थो दोघंतिः स्वराज्यात् सह महिष्या अपमृत्य गुप्तवेशेन बहुस्थानं परिभ्रम्य वाराणयां कस्यचित्कुम्भकारस्य गृहमाश्रयत् । राझ्या तत्रैकः सुतः प्रसूतः । तस्य “दीर्घायु" रित्यभि- धानं जातम् । अथ वाले बद्धिते सति तदनिष्टाशङ्कया दीर्घतिस्तं दूर प्रेषयत् । इतो वाराणसोश्वरोऽज्ञासोद यत्तदीयो वैरी तमगर एव तस्य कुम्भकारस्य गृहमधिवसतीति । ज्ञात्वैवेद स दीर्घतेस्तत्पत्न्याश्च पधदण्डमादिदेश। दैववशात्तु दीर्घायुः पिनो मरणसमये तत्समी- पमागमत् । स्व जीवितोत्क्रमणकाले जनकः पुनमुपदिदेश-"वत्स, नाधिक पश्येः, नाल्पं पश्यः, किश्च- नहि वरेन वेरानि सम्मन्तीध कदाचन । अबेरेन तु शम्मन्ति एस धम्मो सनातनो"॥ भिक्षवः, अथ स दीर्घायुर्वनमुपेत्य पित्रोः कृते कानिचिदिनानि रोदनेन यापयित्या वाराणसीपतेव्रह्मदत्तस्य हस्तिरककृत्यं स्वीचकार । परेधु : स प्रत्यूष एव शयनादत्थाय वीणया अतिमधुरं फिश्चि- वगायत । तस्य खलु तद्गीतिमाधुर्यमित्थं मनोरमतरमासीद येन स महीपतिरपि मुग्धचित्तः कः स इत्यजिज्ञासत । तदनुज्ञया तत्समीपं नीतो दीर्घायुः प्रीणितेन तेन स्वपाश्वचरत्वेन न्ययुज्यत । । । ..

. "घरल, १२५ मित्रगोष्ठी-पत्रिका कदाचिन्नरपतिव्र प्रदत्तो मृगयार्थ सह दीर्घायुषा नगराद, दूरम- गम । तयास्थितस्य तु तस्य दोर्घायुषं विना नान्यः कश्चित् पाय- चास्त दानों तत्राभूत् । अब स श्रान्तशरीरो दीर्घायुषोऽङ्क शिरो- देशं संनिवेश्य निद्रां सिषेवे। अचिन्तयद दीर्घायुः-नरेन्द्रणानेन असमासु महदनिष्टमाचरि- सम्-पितरो पिनाशितो, तदराज्यं चापहतम् । तस्यं प्रतिवरराव- सर इति । ततश्च तदनुष्ठानार्थ करवाल कोषत उन्मुच्याधारयत् । परन्धलिन्नेव क्षगे दीर्घायुषः स्वजनकेन मरणकाले प्रात्तं तत बलु वचनं स्मृतिपथमारूढम्- नाधिकं पश्य, नाल्पं पश्य- नहि वेरेन वेरानि सम्मन्तीह कदाचन । अवरेन तु सम्मन्ति एस धम्मो सनातनो" ॥ इति ॥ नरपतिरपि कमप्यतिघोरं दुःस्वन विलोक्योदबुध्यत, दीर्घायुषा तत्कारणं पृष्टोऽकथयञ्च-"न जातु मे सुख स्वायो जायते, सर्वदेव स्वमसमावेशे दृश्यते मया--यदहं दीर्घायुगेऽङ्क शिरः संस्थाप्य स्वपीमि, स तु सहसा मां करवालेन छेत्तुमुपक्रमते” इति । स तु दीर्घायुस्तदाकण्यं वामेन पागिना राशो मस्तकं दक्षिणेन च खड्गं धारयन्नवोचत्-"पश्य राजन , अपमेवारिस स दीर्घायुः । बहव- वयासमाकमपकारा:कताः। तदयं तस्यावकाशः प्रतिहिंसानलस्येति। असहायो महीपतिः सभयमवादीत्.-" ननु दीर्घायुः स्वप्राणान- हमध त्वां प्रार्थये, प्रसीद, न मामिह प्राणैवियोजय,-त्वं मां रक्षेति" प्रत्युक्तं तेन-"राजन् कथमिदं सम्भाव्यते, ननु यन ममापि प्राणा विपन्नाः? अथ त्वं मेऽभयवचनं प्रयच्छेः, अहमपि ते प्राणान् रक्षेयमिति'। राज्ञा तदङ्गीकृत्योक्तम्--" त्वं मे प्राणान् रक्ष अहमपि तेऽभय- वचनं दरामीति"। .

- बौद्धवृत्तान्तः। १२७ मथ तयोरन्योन्यं शपथपूर्व सम्पग्ने मैत्रीयन्धने दीर्घायुः; मात्मनः सर्व वृक्षान्तं प्रकाशयामास । ब्रह्मदत्तस्तदाकोवाच दीर्घायुः, पत्रा ते मरणसमये तुभ्यं "नाधिकंपश्य, नाल्पं पश्य;-नहि धेरण- राणोत्यादि यदुक्त तस्य कोऽर्थः" ? सोऽवदत्-" नाधिकं पश्य"-दीर्घकालं यावद वैरवृत्तिमनसि । रक्षणीयेति;-नाल्पं पश्य"-नालपकारणेन मैत्रीविच्छेदः कत्तव्यः, नहिवैरणे' त्यादेरयमर्थ:-त्वया मे पितरो विनाशितो, तद यद्यह- पि तदर्थ त्वां हन्यां, तर्हि त्वदीया जना मामपि प्रतिहन्तु यतेर- अति पश्य, न वैरं वैरेण शाम्पति । त्वया साम्प्रत मे प्राणा रक्षिताः, यापि च तवेति पश्य, अधैरेणैव वैरं शान्तमिति । ब्रह्मदत्तस्तदाकण्यं दीर्घायुषे हतपूर्व तपितृराज्यं सर्वमेव समा- यत्, स्वदुहितरंच तस्मै परिणयविधिना सम्प्रादात् । हे भिक्षवो यदिनामेदृशं वृत्तं धृतदण्डास्त्राणां राज्ञामपि सम्भा- ते, तहि भिक्षयो, ये खलु यूयं धर्म जीवितमपलम्बितवन्तः, तैस्तु पश्यनेवेयं क्षमा समाश्रयणीया । अन्योन्य विनयप्रणयप्रदर्शनेन पनिवलत, नान्योन्यं विच्छेदं जनयत, अयमेव ममोपदेशः । आ- से-गृहस्था अपि भिषगां वः शीलसरणिमनुसरन्तः सुखिनो चन्वीति । ( महायग्गो-१०.२० ) * मन्यापीदृशी काचिन्मनोरमा कथा श्रयते-- कदाचित् कोऽपि श्रावस्तीनगरादूरस्थ -प्रणन्दपुर'-वास्तव्यो धी. :: कुतोऽगिच्छन्नध्वनि नद्या 'अविरवत्या'स्तीर कानिवित् कच्छ- ण्डानि प्राप्य श्रावस्यां कस्यापि स्व सुहृदो गेहे केवलमेकं विना कथेचं भागत: Civilization in Ancient India नामकाद्, भागत इधर्म' नामका वङ्गभाषाग्रन्थात् संग्रहीता।

१२८ मित्रगोष्ठी-पत्रिका। सर्वाण्यण्डानि बन्धुपरिवारैः सहाभक्षयत् । शिष्टन्तु तत् तद् हिने प्रदत्तम् । सा खलु कन्यका तदण्डरसास्वादेन विरसमिवान्यं भोज्यं परित्यज्य ततः प्रभृति स्वगृहस्थिताया: कुक्कुट्या भण्डं प्रतिदिनं स्वयमेव पक्त्वा भोक्तुमारभत । सा तु कुक्कुटी प्रत्यहमेव निजाण्डानां समालोक्य तस्यै कन्य- कायै असूयन्ती भगवन्तमभ्यर्थयत यत्सा त्वरित प्रेत्य मांसाशिजन्तु- वेनोत्पद्य तस्याः कन्यकायाः पुत्रादीन् विनाशयेदिति । कुक्कुटी मृत्वा तमिन्नेव गृहे विडालरूपेणाजायत । कन्यका च स्वमातुरेव गृहे मरणानन्तरं कुक्कुटीत्वेनोदपद्यत। कुक्कुट्या प्रसू. तान्यण्डानि विडालोऽनुदिनमेव खादितुमारभत । अथेत्यमेव गच्छति काले सा कुक्कुटी देवं प्रार्थयत-यद् भविष्यजन्मनि सा तस्य विडा- लस्य सन्तति विनाशयेदिति। कुक्कुटीरूपा कन्यका सा उपरम्प चित्रव्याधरूपेण विडालश्च स हरिणरूपेणोदभवताम् । हरिणेन शाव: प्रसूतः, व्याघ्रस्तु तमनसत् । इत्थमेव पञ्चशतवत्सराणि यावत्तयो. बैरं प्राचलत् । तयोरन्तिमे जन्मनि ऐको 'विलम्'. रूपेण अन्यस्तु मानवकन्या. स्वरूपेण श्रावस्त्यां सम्भूतौ । बुद्धदेवस्त दानी 'जेतवन'-विहारे ताभ्या-मिदमुपदिदेश “अनेन मे क्षतिरुत्पादिता, अनेनाहं विजितो. ऽति, अनेनाहं प्रहितोऽस्मि, अनेन वाह मुषितोऽस्मीति न कश्चिद- न्यस्मै दुवेत, यदि तथा कुर्यात्, तर्हि तयोर्वैरमुत्तरोत्तरजन्मस्व- प्यावत्स्यते । अथ न तत क्रियेत, वैरं शाम्यदिति"। इदमाकण्य 'विलम्' 'शरणगमनम्' + उच्चायं आश्रित्य च पञ्चमहादेशान . शब्दोऽयंब्रह्मदेशीयः मांसाशिजन्तुविशेषस्त्रीति तदर्थः। + 'सरणगमनम्'-विशरणम-बुद्ध पारणं गच्छामि, धमें शरणं ग कामिचं शरणं गच्छामोति प्रागुक्तम्।

विवाहे कन्यायाः परीक्षा। १२९ ( पञ्चशीलरूपान् पूर्वोक्तान ) वैरदुःखादमुच्यत । कन्यका च सा 'सीतापत्ति'-मागमभजतेति ।। बुद्धदेवेनेदशा मनोरमाः परःशता उपदेशाः प्रदत्ताः । कश्चित् पत्रिकामियः। * -:0: न केवल विवाहे कन्यायाः परीक्षा। साम्प्रतमध्यसाद शेषु लक्षणेन कन्यायाः शुभाशुभत्वं विविच्य विवाह्यत्वं निर्णीयत इति दृश्यत एव । प्राचीनग्रन्थालोचनेन ज्ञायते यत् सेयं प्रथा बहुतियादेव कालात् प्रचलितास्तीति । मन्वादिप्रणीतासु संहितासु, किन्तु एतेभ्योऽप्यतिप्राचीनतमेषु गृह्य- सूत्रेषु तत्परिचय उपलभ्यते । कीदृशीव सा परीक्षासीदिति पाठ- कानां कुतूहलविनिवृत्तये तत्तदग्रन्थेभ्यः संगृह्येह उपहियते । सोऽयं परीक्षाविधिहुष्वेव गृह्यसूत्रेषु दृश्यते, अस्माभि- स्त्विह गोभिलगृह्यसूत्रादुद्धियते। तत्र द्वितीयप्रपाठकस्य प्रथमका- ण्डकायामुक्तम् :- पुण्यनक्षत्रे दारान कुर्वीतेति" ॥१॥ कीरशान् दारानित्यत आह- लक्षणप्रशस्तान कुशलेनेति" ॥ २ ॥ ' 'सोतापत्ति'-बौद्धशास्त्र क्रमेण निर्वाणप्रापकाश्चत्वारोमार्गाः कथान्ते था 'सोनापत्तिमग्गो' ( सोत आपत्तिमार्गः ), मकदागामिमगगो सकदा. मि मार्गः ), 'अनागामिमग्गो' ( अनागामिमार्गः ), 'अरहत्तमगगो अहन्मार्ग:) च। विस्तर उपरिछात्प्रकाशयिषाते। | बुद्धघोघेण धम्मपदयाख्याने या कथा निबद्धाः, तामा काविष्ट ब्रह्म- शीय भाषातोऽनुद्दा आंगभाषया Buddhaghosha's Parables नाना न्य न Capt. T. Rogers महाशयम प्रकाशिताः । तत एवेयं कथा मंग- ता। ७ २ - . १३० मित्रगोष्ठी-पत्रिका। कुशलेन स्त्रीलक्षणविदा लक्षणदर्शनेन ये प्रशंसिताः, तानित्यर्थः मथ कदाचिलक्षणज्ञो न लभ्यते, तदा कि कार्यामति सूत्रकारस्तदुपार्य कथयति- "तदलाभे पिण्डान् इति " ॥ ३॥ कुशलस्य स्त्रीलक्षणविदोऽलाभे काश्विन मृत्पिण्डान कुर्यादित्यर्थः। मृदस्तु वक्ष्यमाणेभ्यः स्थानेभ्यः संग्राह्या:- "वेद्याः, सीताया, हूदाद, गोष्ठाच, चतुष्पथाद, आदेवनाद आदहनाद, ईरिणात्" ॥ ४ ॥ ( वेद्याः यज्ञवेदितः सीतायाः-लागलपद्धतितः, -कृष्टक्षेत्रादि त्येके, आदेवनाद-आदहनात्-श्मशानात्, ईरिणात्-उपरभृमित इत्यर्थः।) तथाचैतेभ्योऽष्टाभ्यः स्थानेभ्यो दमाहृत्य पृथक्त्वेन अष्टौ समाना पिण्डा निर्मातव्याः, सर्वाभ्यो मृभ्योऽल्पाल्पं संगृह्य अपरश्चैक इस नव पिण्डाः स्युः । ते च पिण्डास्तथा चिह्निताः कर्तव्या, यथा दृष्ट विज्ञायेत यदयं पिण्डो यज्ञवेदिनिर्मितः, अयं च सीतामृदुत्पर इति, एषमपरापरोऽपीति नेयम् । तदुक्तम् "सर्वेभ्यः संगृह्य नवमम्" ॥५॥ समानकृतलक्षणानिति" ॥६॥ अथ तान् पिण्डान वक्ष्यमाणेन मन्त्रेण कुमारो मुपनयेत् :- "ऋतमेव प्रथमम् ऋतं नात्येति कश्चन । ऋत इयं पृथिवी श्रिता, सर्वमिदमलो भूयात " ॥इति॥ अथ कुमारी यादेषामेकं गृहाणेति । सा चेत पिण्डेषु आद्यार चतुर्णामेकतमं गृह्णीयात, तर्हि तामुपयच्छेत् । नवमस्यापि पिण्डस (सर्वमृनिर्मितस्य) ग्रहण कन्या विवाह्या भवतीति केचित् तदुक्तम्: "पूर्वेषां चतुर्णा गृह्णन्तीमुपयच्छेत् ॥ ८ ॥ अत “ असी" इत्यत कन्याया नाम निवश्यम् । * विवाहे कन्यायाः परीक्षा। "सम्भार्यमिरयके" ॥ ९ ॥ इति गोभिलपुत्रकृतस्य गृह्मासंग्रहस्य द्वितीय प्रपाठके कुमार्या एकै- कपिण्डग्रहणे कीदृशं शुभाशुभत्वं प्रकाशत इति वर्णितम् । तद्यथा:- वेदिपिण्डात क्रियावती, सीतायाः फलते कृषिः । अक्षोभ्या च हूदे शेया, गोष्ठे भवति गोमती ॥ २१ ॥ चतुष्पथे प्रकीणा : स्याद धूतस्थाने कलिप्रियो । श्मशाने म्रियते भर्ती बन्ध्या भवति चोषरे ॥ २२ ॥ नवमे सर्व एवैते कन्यायाः परिगृह्यते" ॥ २३ ॥ शाखान्तरेत्वयं फलवादः (विनाष्टमं पिण्डम् ) कन्याया अपत्य- गत्यत्वेनोपलभ्यते । यथा: 'गृहाना वेदि पिण्डं च प्रसूते याज्ञिकान् सुतान् । सीतापिण्डन्तु गृहाना सुतान् सूते कृषीवलान् ॥ सर्वकामसमृद्धांश्च तृतीयस्य परिग्रहात् । गोष्ठपिण्डग्रहाचापि गोमिनः सुखिनस्तथा ॥ इतश्चेतश्च गन्तारः पञ्चमेनास्थिताः सुताः । पष्ठेन तु गृहीतेन भवन्ति धू तसेविनः । श्मशानपिण्डग्रहणात् विधवा जायते ध्रुवम् । बन्ध्या या विधवा सास्यादष्टमग्रहणादपि । मिश्रमेतद्भवेत् सर्वं यतः पूर्वोदितं फलम् । नवमस्य ग्रहस्तस्मात् शुभो वा यदि वाऽशुभः" ॥इति॥ विधुशेखरशर्मा। * तेत्तिरीय गृह्यसूत्रेऽप्ययं विधिः ईघद् भेदेन दृश्यते। यथा-"शक्ति विषये दयाणि प्रतिच्छनानि उपनिधाय ब्र यादुपस्प शेति" । "नाना विधानि मदृष्टानि वेद्याः पासून इत्यादि । पूर्व घामुयस्पर्णने यथालिङ्गस्ट द्धिरिति” । ३ ख. १५-१७ सू.। वाभिचारिणी।

१३२ भारतस्य वर्णमाला वर्णलिपिश्च । व्यव- कलिकाताविश्वविद्यालयपत्रिकायाः आंग्लवर्षीय-'जुलाइ' सं. ख्यायां प्रकाशित कस्मिंश्चित् प्रबन्धे साधूक्त मे प्रियसुहृदा सुविदुषा पण्डितश्रीसतीशचन्द्रविद्याभूषण एम. ए.-महोदयेन-"भारते हतानां विभिन्मानां भाषाणां संख्या पृथिव्या अवशिष्टांशेषु प्रचलिताना भाषाणां संख्यातो गरीयसी। कश्चिद यूरोपोयः आंग्लवर्णमालाज्ञान- साहाय्येन नातिक्लेशेन यूरोपामेरिकादेशयोः सर्वतः परितु प्रभवति, परं कस्यचिद् भारतवासिनः पक्षे प्रादेशिकभाषाविशेषस्य लिपि. ज्ञानसाहाय्येन प्रदेशान्तरे गमनं बह्वायाससाध्यम् । यदि कश्चिद वनवासी विहारभूमिं गच्छेत, तहि स तत्र निलिपिप्रकारादभिन्न नूतनमेव कंचित् लिखनादर्श पश्येत् । एवमेव स्याद् यद्यसौ उत्कले दाक्षिणात्ये वा भ्रमणं कुर्यात्' । इति । लेखकनानेन आदौ वर्णमालान विशेषतोभारतप्रचलितानां विभिन्नानां लिपिप्रकाराणां संक्षिप्तं स- म्पूर्ण च इतिवृत्तं दत्तं, पश्चात मन्तव्यत्वेनोक्त यत् काले देवनागर- वर्णलिपिरेव निखिलहिन्दूनां साधारणलिपिभविष्यति इयत्र सम्भा- व्यता विद्यतइति । अस्मिन् प्रबन्धे अहमिदमेवमतं विशदीकर्तु, दृष्टान्तेन च स्पष्टीकतुमस्यैव च अवश्यस्वीकार्यान् उपसिद्धान्तान् तत्र भवतां पाठकमहोदयानां पुरतः स्थापयितु प्रतिष्ये । नाहं प्रनतस्ववित्, नचाहं भारतस्य वहिरन्तः प्रचलितानां वर्तमानानां विभिन्नलिपिप्रकाराणाम् इतिवृत्त-विकाशसंबन्धिगवेष- णाफलानां पुनरुक्त्या भवतां धैर्धच्युतिं जनयितुमिच्छामि । ज्ञानं सर्व- दैव हितम्। काठिन्यसंशयाभ्यामुपहतमपि च तत् मनोहारि भवितु- महति। परं व्यवहाराजीवित्वेन प्राकृतनागरिकत्वेन चाहं केवलम उल्लिखितपण्डितवरप्रदर्शिताया एव . अवस्थायाः प्रयोगजविधानां अपाकरणोपायाविष्काराय यतिष्य। विश्वविद्य लशिक्षामधिजग्मुषो मे कलिकाता-प्रधानविद्यामन्दि.

भारतस्य वर्णमाला वकिपिश्च । त्यागात् कतिपयवर्षानन्तरं भारतीयभाषासु रोमकलिपेः ( Roman character ) बहुलप्रैचारसंसाधनार्थ काचित् समितिः प्रतिष्टापिता आंग्ल-फरासि-शर्मण्यदेशनयप्रकाशितेषु ग्रन्थेषु रोमकाक्षरैलिखि- तानां संस्कृत-पालि-जेन्दभाषामयविषयाणां पाठस्य नवीनत्वं तदापि । मनसि अम्लानमेवासीत् । तदाहं सेमिटिक-( Semitic) लिपी प्रत्नतत्त्वविदा मते तु 'फिनीशीय'-( Phoenician ) मूलकवर्णमाला- लिप्योः) मुद्रितस्य पारसीकस्य पाठाय भृशं यतमानासम् । भसम्पूर्णीयाः पुनरुक्तिदोषदुष्टायाश्च रोमकवर्णमालायाः स्वरूपाणां idiosynerains ) व्युत्पत्तिलाभायकृतोद्यमेन मया भृशं काठिन्यमनु- मृतम् । देवनागरवणैः संजातपरिचयेषुभारतवासिषु इयं वर्णमाला केवलं कतिपयदिन्दुसमष्टिरिव प्रतिभायात् । अहन्तु आशैशवम् भांग्लवर्णमालायां सुपरिचित आसम् । अतोऽहं तदानीन्तना बहवो घुवान इव अमन्ये यद् भारतीयभाषासु सर्वासु प्राच्यभाषासु च मकलिपिप्रवर्तनेन बहवो वाद्याः असौकर्यप्रकारा अपगताः स्युरिति अतश्चाहं ब्राउन-ग्रियासनमहोदयाभ्याम् आमन्त्रितः सपदि तत्समिति गविशम् । तदाहं संस्कृतवर्णमालाया मूल्यं सौन्दयं च, भारतीय. पापासु देवनागरलिपिपद्धते रुपयोगित्वं च न सम्यग उपलब्धवान् भासम इति कृतं कथनेन । तदा मया न ज्ञातं यद एषैव लिपिः वेभिन्नैराकारैः सिंहल-तिब्बतब्रह्म-श्यामप्रभृतिषु भारतप्रास्थितेषु शेष अन्येषु च सुदरमाच्येषु व्यवहियते इति । समितेः केचित् ग्यतराः सभ्या इव अहमपि कंचित् कालं रोमकवर्णलिपिप्रवर्तनाय ठोरम् यतमानोऽभवम् । प्रभुमण्डलं ( Government ) विषयस्यास्य सम्पादनमारमग्रहीत भारतस्य विभिन्नप्रदेशेषु रोमकलिपेः प्रवर्तने महान् यत्नः आधीयत जनैः । विगतशतकस्य प्रथमाशीतिवर्षषु चिनद-प्रभुमण्डलं अस्याःप्रचाराय प्रायतत, खीष्टधर्मप्रचारकाश्च पत्र यत्र अन्यस्याः कस्या अपि लिपेः सुप्रचलनं तैर्न परिलक्षितं तत्र पत्र एतां प्रावर्तयन् । परं पञ्चनद-प्रभुमण्डलं न सफलकाममभवत् १३४ मित्रगोष्ठी-पत्रिका। रोमकलिपिप्रचारसमितिरपि तत्वतो न किंचित संसाधितपती समितिरसौ अचिरञ्जीवा विस्मृतिसागरेनिमन्ना भन्ये भूपसा पाठक महोदयानां श्रुतिपथमपि नागतवतीति । 'ए'-'बी'-'सी'-'डी'-त्यादिवर्णमालासमेता रोमकलिपिः तय परिचितैः यूरोपीयैः आमेरिकावासिभिश्च स्पृहणीया भवेदेव । पर आधुनिकीनां यूरोपीयभाषाणां पले यद भवतु तद भवतु, भारतीय भाषाणां पक्षे तु एषा पुनरुक्तिदोषदुष्टा विकलाङ्गो चेति नोपादेय अपिच तस्याः रचना न विज्ञानसम्मता, फिनीशीयमूलकस्य मौलिक रूपस्य ( crudeness) अद्यापि तत्र दर्शनात् । संस्कृतवर्णमालाय यद विज्ञानसौष्ठवं बाहुल्येन विद्यते न तत् कदापि प्रागुक्तायां लिप अविद्यत । आधुनिक भाषाविज्ञानं संस्कृतव्याकरणमूलकमेव योहि “Grimm's Law"-(ग्रीम्स् ल ) इति प्रसिद्धो ग्रन्थः २ संस्कृतव्याकरणीय- शिवसूत्र 'स्यैव यूरोपीयवेशेनविपरिणमनम् अन्यच संस्कृतवर्णमाला स्वतः पूर्णा । शीतप्रधानदेशप्रभवाण भाषाणामन्तर्भूतान् ऊष्म-वर्णोच्चारान् ( hissing sounds )विहाय अन्र यतिविधाः मानवस्वराः सम्भवन्ति ते सर्वे एव संस्कृतवर्णेषु अभि व्यञ्जिताः । अतः सर्वथा निरवकाशेयं कल्पना यद भारतीयाः संस्कृ तलिपिस्थाने रोमकलिपिं गृह्णीरन् इति। अतः स्वाभाविकमेतत् यः ब्राउन-प्रियासन महोदयाभ्यां प्रतिष्ठापिता समितिः विलोपं गता इति परं रोमकलिपिप्रवर्तनकल्पना न सम्यग् विलुप्ता। उग्धुना तस्याः समर्थकाः विद्यन्ते। सत्यपि तस्याः सम्पूणे अनुपयोगित्वे सत्स्वपि च तस्य बहुषु सुस्पष्टेषु दोषेषु, यत तेषां निजस्वं तस्मिन तेषां ध्रुवो विश्वासो वर्तते । परम् एतत ते विस्मरन्ति यत् रोमक लिपेः आंग्लभाषायां व्यवहारोपयोगित्वापादनाय कानिचिद रूपान्त राणि स्वरगतपरिवर्तनानि च साधितानि, भारतीयभाषानिकराणा उपयोगित्वापादनाय पुनः केषांचिद वर्णानां परिवर्जनम्, भपरेष भारतस्यवर्णमाला वर्णलिपिश्च । १३५ वानां प्रवर्तनमपि प्रयोजनीयं स्यात् । अयमपि रोमकवर्णमाला प्रच- लने अपरोऽन्तराया। किंच वर्ण-(letter) स्थाने पदांश-(Syllable ) व्यवहारकलाना मे सम्मता । तथा कृते 'स्व'-इति एक वर्ण व्यवहतव्ये 'Kha' इति प्रणत्रयं व्यवहियेत, 'ख'-'घौ'- इति महाप्राणवर्णद्वयस्थले तालव्य श' इतिसंयुक्तध्वनिस्थले च द्वौ रोमकवौँ भपेक्ष्येताम् । विसर्गस्येव बद्ध महाप्राणवर्णस्य ध्वनिः 'b' व्यतिरिक्तेन भन्येन केनापि वर्णेन न प्रदर्शयितु शक्यः स्यात् । रोमकवर्णमालायां एताः वाधा स्फुटा एव । सत्यमेतत् प्राच्यभाषातत्त्वविदः पाश्चात्याः रोमकवर्णमालायाः दोषाणां दूरीकरणाय कांश्चिद वर्णान कल्पितवन्तः(coined) भूयिष्ठं कृतकार्याश्च धभूवुः। परं पाश्चात्यविदुषामनुसरणम् किमेकान्ततः प्रयोजनीयम् ? लिखितभाषामपक्षमार्णा सभ्यतावस्थाम् अनारूढवताम् आदिमवासिनां मध्ये ख्रीष्टधर्मप्रचारकैःसंसाधितेन रोमक-वर्णमालाप्रवर्तनेन तस्या उपयोग: उत्कर्षों वान प्रमाणीकृतो भवति । यत् खासियापवंत- पालिषु सान्तालवासिषु च रोमकलिपेः प्रचलनं जातं तत् शिक्षका- णामेव अनभिज्ञतायाः जाति स्वभावस्य वा फलम् । यत्र यव रोमक- लिपिः प्रवर्तिता तन तत्र तत्स्थाने भारतमूला कापि वर्णमाला अनाया. सेनैव प्रयोक्तु शक्या। भारतीयभाषासु रोमकलिपिव्यवहारे अपरा विद्यते महती आप- तिरस्माकं जातीयगर्वमूला। इयं हि भावप्रधाना । ( sentimental ) परमस्माकं बहुषु कार्येषु भावस्य (sentiment) महान प्रभावः दृश्यते । अतः स भावः कथमपि न उपेक्षणीयः । सत्यपि हितवाद-(Utilitarianism ) पक्षे बहु समर्थिते, विशुद्धस्य उपयोगस्य ज्ञानं न सर्वदा जनान कर्मणि प्रवर्तयति । अस्माकं जातीयगों वैदेशिकवर्णमालाग्र- हणप्रतिकूलः। अधुना तु भारते वैदेशिकभाव-शब्द-रीतीनां महान उत्कर्षों दृश्यते । परं सर्वस्यैव वस्तुनः कश्चिद अवधिः वर्तते ।

. मित्रगोष्ठी-पत्रिका। एतन्मया निश्चितं यद बहव एव में स्वदेशवासिनो यथा कारणा. न्तरात तथा जातीयभावातोश्च भारतीयलिपीनां स्थाने रोमक लिपिप्रवर्तनं प्रतिकूलमिष्यन्तीति । इष्टं मया विगतवर्षस्य सेप्टे. म्बरमासस्य सप्तदशदिवसे प्रकाशिते 'पाइओनियर'-( Pioneer) प; पञ्चनदप्रदेशे रोमकलिपेः प्रवर्तनसमर्थनम् । अयं च हेतुः प्रदर्शितस्ता यत प्रतिशतं त्रय एव नराः वर्णप्रयोगं आनन्ति । न च तेषां काचित निर्दिष्टा वर्णलिपिर्वतते । परं यः सिद्धान्तः कृतः स न अपरिहार्य त्वेन कल्पनीयः ( necessary) एको हि प्रबलः अंशस्तत्र उपेक्षितः स च विदेशीयलिपिप्रतिकूलो भावो जनानाम्, यो मया जातीयभाव इत्यभिहितः। या तु विप्रतिपत्तिः ( Contest ) उत्थापिता तन, सस उद्-रोमकयोः एकतरस्य उत्कर्षप्रतिष्ठापनविषयिणी । अहं तुम पश्यामि कथम् उदुमुपेक्ष्य रोमकम् अवलम्बितव्यम् इति । उभावेव समप्रभवौ । उभावेव च सर्वथा अविज्ञानमूलो समदोषयुक्तौ च । आई तु 'अ'कारोच्चारणाभिशापने 'ए'-(a) आलिफ-(alif ) इतिवर्णव्यतः अकारस्यैव श्रेयस्त्वं स्वीकरोमि सुगमतरत्वात् युक्ततरत्वात् यथार्थ- स्वाञ्च अकारस्य । किं च 'ए'-(a) वर्णस्य एतावन्ति उच्चारणानि वि. द्यन्ते यत् तेषां प्रदर्शनार्थ बहूनां शब्दानां प्रयोजनं भवति । एवं रोमकलिपिप्रवर्तनप्रस्तावः सर्वथा निरस्तः। एतेन, रोम- केण सह एकमूलकं तैरेव दोषैर्युक्त तयैव च अविज्ञानमूलया रचनया ( arrangement ) समन्वितम् आरवीय-पारसीकेतिभाषायमपि नि रस्तम्। भारतीयसम्प्रदायस्थेषु केषुचित् पारसीक प्रवर्तने रोमक विर्षायणी जातीयभावरूपा आपत्तिनं प्रयुज्यत । परं बहुप्वेव आर वीय-पारसीकेषु रोमकेणैव तुल्यविरोधविषयः। अपि च भूयसामः मतं सर्वत्र जयेत, संस्कृतवर्णमाला च सर्वांभ्यो योग्यतरा। अत साधारण-मते गृहीते, तस्या एव अनुकूल मतं प्रभविष्यति इत्यद नास्ति मे संशयः। अहं तु संस्कृतलिपेरेव पक्षं दृढं समर्थये इति कृतं कथनेन । इयमेव वर्णमाला प्राचीनचीनवासिनोवजयित्वा अन्यत्र - भारतस्यवर्णमाला वर्णलिपिश्च १६७ समग्र पूर्व-(एशिया-) भूभागे प्रचलिता । संस्कृतवर्णमालायाः श्रेष्ठ- पक्षे नाह बहु प्रपञ्चयितुमुत्सहे। परमेतद्विषये कांचिद घटना माख्यांतु मिच्छामि । एतत्तु प्रयादत्वेन परिणतम् यद् बाक्ये जना पहुभाषिणः किंचित् आत्मश्लाधिनश्च भवन्ति । अहमपि एतस्य व्य- विचारत्न न मन्तव्यः । १८७० तमें आंग्लवर्षे अहंकालिकाताविश्व- विद्यालयस्य एम. ए. परीक्षायामुत्ता! भूत्वा उपाधि लब्धवान् । पतनु मया अध्यापकसाहाय्यं पिनैव साधितम् । कस्माश्चिदनुकूलात् कालगणनाप्रमादात हेतोः बि.ए. परीक्षायाः आगमपत्न-(Certificate) प्राप्तः पूर्व वाहं एम. ए. उपाधिना भूपितोऽभवम् । मदीयः कश्रिद धन्धुश्च मदशापन्नो ऽभूत् । तस्य च बन्धो: अकालमृत्यगतस्य कति- पवर्षाणि समतीतानि । उभायेव आयां १८७० वर्षे कलिकातावि- श्वविद्यालयस्य तदानीन्तनानाम् आधुनिकानां च विषयाणां सुगमतमे विषय आंग्ल साहित्ये परीक्षार्थिनौ अभवाव । परीक्षायाः प्रथमचतुएं दिनेषु उभावेव आवां शोभनं लिखितवन्तौ । अधुना इव तदापि पञ्च- दि .से परीक्षाविषयो भाषाविज्ञानमासीत् । परीक्षामन्दिरमुभी एकल गच्छेच इति मे बन्धुः नियतकालात् प्रागेव मत सकाशमा:- च्छत । अहं तम्म इंशस्य अकालागमनस्य कारणमच्छम् । स च विषयवदनो रुदन्निव उवाच । नाहं - Grimms' Lav' ('नीरस ल') लार ग्रन्थं सम्यक् अधीतु मपारयम, अतोऽहम् अद्यतनपरीक्षा- पाम उपस्थितो भवितु नेच्छामि इति । दौर्भाग्यवशात् बि.ए. परी- सासमये, सत्यपि तदानी संस्कृतभाषायाः अवश्यपठनीयपिपर पु परिगणितत्वे, नासो व्याकरणं साभिनिवेशम् अधीतवान् । सत्यमसी भाशैशवं संस्कृतमपठत् । परं संस्कृतवर्णमालायाः वैज्ञानिकी भित्तिं पंस्कृतव्याकरणस्य च शिवसूत्रं न तत्त्वतः उपलब्धवान् । रवि- हयातः शर्मण्य-( German) पण्डितः प्रदर्शितं वर्णविनिमयतत्त्वं तस्मै aliacadabra ( वर्णसमावेशप्रकाविशपः ) इव दुर्बोधं प्रला- सात । अहं तु त नैराश्यपरिहारायोपदिष्टवान्, अस्माकं वर्णमालायाः t मित्रगोष्ठी-पत्रिका। शिवसूत्रस्य च रचना ( arrangement ) तं स्मारितवान् । मुहूर्तपः मेष स 'क्लाक'-( Clarke ) महोदयकृत-व्याकरण-तत्वविचार-( Com, parative Grammar) नामकप्राथे मोक्षमूलरप्रणीत-भाषाविज्ञानग्रन्थे. ( Science of Languages ) च उपनिबद्धं स्वरविनिमयतखम् अव- बोलु कण्ठस्थं कर्तुं च समर्थोऽभूत् । अधंघटिकान्यूनकाले एवम तस्य वदनमण्डलं प्रीतिप्रफुल्लमजायत नैराश्यंच अपगतम् । एषम् 'Grimm's Law' 'प्रीमस् ल'-ग्रन्थस्य वाद्यकाठिन्यबहुलत्वेसत्यपि समावेषावा परीक्षायामुत्तीर्णी अभवाव । मधुना सब्रह्म-सिंहलस्य विशालस्यास्य भारतमहादेशस्य का नाम एकाकारा ( Uniform ) वर्णमाला भवितुमर्हति इत्येतत् निर्णेतव्यम् । (क्रमशः) श्रीसारदाचरण मिनः। कृषिविज्ञानम्। साम्प्रतं पुरुषार्थतया ये ये विषया मानवैः प्राय॑न्ते, तेषु को गरिष्ट इति प्रश्न अर्थपव स इति सर्वे ऐकमत्या उत्तरयन्ति । तदुपार्जनं हि अधुना मानवानां मूलं मन्त्रं, तेनैव जीवनमतिवाहयितु केऽपि कुण्ठिता न भवन्ति। यतोऽधुना अस्माकं सुखं, दु:खं, जातीया दैशिकी च उमतिरनेनैव परिचालिता भवन्ति । तदधुना विचार्य कोनाम गरी यानुपायोऽस्माभिग्रहणीयो येनास्माकं जातीयदरिद्रता अचिरादेव विलीयेत । तत्र प्रधानतो मूलंधनं श्रमः क्षेनं च यथा दारिद्रहानाय भवतिन तथा किमपि । प्राचीनकालात सर्वएव जानन्ति 'रत्रप्रसूः पृथ्वीति' । परिश्रमे धमितिसूत्रस्य प्राधान्येन भूमिभूमिरेष, मत्रैवहि परिश्रमस्यफलं ति ष्ठति । भयं खलु सिद्धान्तस्य निष्कर्षः यतोऽपि धनागमो भवतु तर । कृषिविज्ञानम् । १३९ सर्व पृथिव्याएव आयाति इति । प्राक्तनाः मल्या माहात्म्यं सम्यग- वगतवन्त भासन् । सभ्यतायाः प्रथमोदयाच कृषिः साधुतरमालो. विता आसीत् । कृषिरेव भारतीयानां प्रधानतमा उपजीविकासीदिति आवेदेभ्यः सर्वाण्यपि शास्त्राणि प्रतिपादयन्ति । अपिच अस्य भारतवर्षस्य प्रकृति समालोच्य इदमेव प्रतिभाति, कृषिका-य यथा तापादिकमपेक्षते तत्सर्वमत्रैव अनायासलभ्यमिति । सर्वएव मानवाः प्रकृतिमनुसृत्यैव जीवनोपायान मन्विच्छन्ति । प्रकृति:भारते एव कृषे रनुकूलां शक्ति बहुतरं ददाति अत: पूर्वतएव भारतीयाः कृषि- व जीविकानुकूलत्वेन आश्रितवन्तः । परन्तु महहु :खाकरमिदं यत तथैव प्रधानावलम्वत्वेन निर्दिष्टा- मपि कृषिविद्यां वानरः कण्ठापितां मुक्तावलीमिय सर्वेवयमधुनाऽ. नादरचक्षुषा पश्यामः । अस्यच महद निष्टकर फलं पश्यतामपि म. हमाकं चक्षुषि नोन्मील्यन्ते नवाऽस्माकं चैतन्यं समुदेति । प्रतिवर्ष भिक्षेण रत्नप्रसोर्भारतस्य बहु सहस्र मानवाः जठरज्वालाभिर्दग्धाः रामनातिथित्वं भजन्ते, वयन्तु तेषां वक्षःषु लीलयैव साहंकारंपदं नि. क्षिप्य उच्चैःकण्ठं घोषयामः -राज्ञः भनियतकरभारप्रपीड़िताएव एते मृत्युपथं गता इति । अस्मिन् हि दौर्भाग्यसङ्कलेदेशे प्रतिशत सप्त- तिरेव कृषकाः,अपिच यत्र पृथ्वी प्रकृत्यैव उर्वरा प्रकृतिश्च सर्वथासर्व- शस्यानुकूला तन दुर्भिक्षं नित्यमेव आयाति, किन्तु यत्र मानिप्रदेशे कृषकाणांसंख्या प्रतिशतं पञ्चदशतोऽपि न्यूना भूमिश्च नीरसतमा तत्र कोपि दुर्भिक्षस्य नामापि न जानाति। मन्ये अत्र मृत्तिकाया उर्व- रतैव दुर्भिक्षवृक्षस्य सम्यकपुष्टः कारणं भवति । अस्यकारणं-भारते प्रतिशतं सप्ततिः कृषका यावन्ति शस्यानि उत्पादयन्ति माकिन् दशीयाः पञ्चदशसंख्यका अपि ततो द्विगुणंफलं लभन्ते असंतृप्तास्तेन्क्रमशः कृषकसंख्या पद्धयितु यत्नवन्तो दृश्यन्तइति । १८७० स्वीष्टीयादे तत्र ३४ लक्षपरिमिता:कृषीवला आसन् अधुनातु तेषां संख्या कोटिपरिमिता । दृष्ट्वा चैतत् कृषिकर्मणि उदासीनानां . । इतोऽपि १४० मित्रगोष्ठी-पत्रिका। इलण्डीयानामपि चेतश्चिन्तासङ्कलं जातम् । किंचाधुना अध्यापक 'मूरो' गाषितां रीतिमवलम्ब्य अमेरिका समधिक शस्यशालिनो भात प्यतीत्यत्र नास्तिमन्देहस्य लेशोऽपि पथमस्माकंदेशे उर्वरतमेऽ पिक्षेत्र समधिकसंख्यकामपि कृपका न नयाशस्यान्युत्पादयितु पारयन्ति कथं वा शस्यश्यामलेभारतप्रान्त खुशिक्लिष्टानां मानवानामाविर्भाव इति सुनिपुणं चेद विचाय्यंत सदा एतदेय अस्मान प्रतिभाति यदत्र कृषिकार्य्यस्य प्रणाली न समी चाना यतः श्रमानुरूपं फलं न प्राप्यते । एतत्तु पाश्चात्यकृषिविज्ञान पयालोचनयागि विस्पष्ट भवति । अतोऽस्माकं कृषिप्रथा आमूलत संशोधनमहंतीतिघ्र वम् । यः खलु कृषिकायादेव विशेषतो धनागमं वाञ्छति तेन प्रायने जन्य मृत्तिका सम्यक् परीक्ष्या, तत्र उद्भिन्मलं अनायासन अन्तः प्रयेष्टु शक्नोति नवा सा च तत्र दृढमूलाभविष्यति नवेति । अप्रवि. मला भूमीपतिता च उद्भित कदापि न फलदायिनी भवति इयतः सैरते प्रस्तरमयेच स्थाने शस्योत्पत्ति सम्भवति । मृत्तिकायाः शस्य. शारित्वे जलावरोधक वशकिरपिविशेषतोऽक्षते परन्तु कठिनक- मात् (IFard clay) जलेन वयुना च अनतिक्रम्मा मृत्तिका शस्योत्पा. द कदाचिदुपयोगिनी न भवति । यतो जलं वायुश्च उद्भिदामाहारस्य सनिजपदार्थविशेपत्य च संग्रहकर्ता । एवं वायुना जलेन शिशिरेणच तिका स्वभावतः कृष्टा भवति उर्वरतांच गच्छति सा चेदवर्षणाधि- पन सम्यग धौताभवेत् । अतएव जलवायु नञ्चारार्थ क्षेत्रं वर्पणमपे- क्षो। कर्पणहि शस्य लाभे मुख्य निदानम् । उशिामू नृत्तिकातोरसमाकृष्य देहल्य सर्वत्र विकिरति रातो- ऽस्य सारं स्वप्ठ्यर्थमादाय अनारोज लीयांश: पत्रतो बाप्पाकारण परित्यजति । अहम सा सूर्यकिर साहाय्यन अम्लजं ( Oxyzen ) प.परित्यज्य अङ्गारक संघ स्वटि विदधाति । खनिजं वस्तु या कि उद्भिदृश्शने नत् मूलैरेव मृतिकात आकृष्टम् । वृक्षस्य कपिविज्ञानम् । १४१ अमेव प्रायः पाककृत्य सम्पादयति, अतपय अन्यत उत्तोल्य रोपि. तस्य वृक्षकस्य आदौ पत्राण्येव शुष्कतां व्रजन्ति तस्मात्तदा पाकाग्ने- त्यर्थ आवरणेन तानि यत्नतः संरक्ष्याणि। पत्रहीना उद्भित् पाक- स्थलीहीनजीववत् कदानि जीवितु न शक्नोति । वृक्षस्य नाशे अय- व सुगमोपायः । उत्पत्तिकाले एव पुनःपुनः पत्रस्य शुङ्गकस्य छेदनेन अहितकारिणं यं कमपि वृक्षं नाशयितु सर्वएव शक्नुवन्ति । यत्न यस्य वृक्षस्याहार्य वत्तंते सा भूमिस्तस्यैव उपयोगिनी। वृक्षस्य खाद्य प्रायः अम्लज यवक्षारज अङ्गारकमिश्रञ्च जलजं वाप्पं (Oxyzen, Nitrozen, Hydrozen Compound of Carbon ) एतत्तु यः ज ठाद बायोश्च संगृहीतंभाी। वृक्ष य विंशतितमोशः खनि- अपदार्थः । क्षेत्रञ्चेत् प्रजपालकाम् लक्षारचणकादिभिः ( Phosphoric 1crd, Patush, Line ) खनिजपदार्थ विहितमपि कर्पणयोग्यं स्यात्, दाधुना मानयोऽनायासेनैव क्षेत्रं तद्युक्त कृत्वा तयोर्वरतां वयितु शांति । प्रायः सुधया सुधाकारणकपदार्थनच भूमेः सारोभवति । यद्यपि तथाविधनारप्रयोगस्य आनन्त्यं सम्भवति, तथापि अन 'मर'महोदयेनोदभावितः सारो जनानां नितरामाश्चर्य मावहति । शस्य- वाजेन सह विकोणे तस्मिन्सारे भूमिः स्वतएव वायुतः प्राचुर्यण आहायं संगृह्य प्रायः षोडशरणाधिकानि शस्यानि उत्पादयति । पोन मृतिकायाः पूर्वश्चितस्य सारस्य कापि हानिनं भवति अपितु नतोऽपि तया उर्वरता बद्धतएव । यद्यपि कतिभिः शस्यधीजैः सह अल्य प्रयोगात फलं न भवति,तथापि तानि वीजानि अव्यवहित द्वितीये ..' मम्मक फलप्रदानि भवन्ति । तदयथा-गोधनेन चेदस्य लारभ्य लिदा प्रमेऽयलर व माया स सारः प्रयोज्यः द्वितीयेऽ. वन विनानारेणैव गोधूमे उपो साधिकाललाभो भविष्यतीति । दोध जालं यावद कष्ट क्षेलं प्रा उर्वर भवतीति प्रायोक्तम् । योग पद्दीजस्पानुपणगि तत् तदुपयोगिमृत्तिकया प्रणेन सम्यक ..

१४२ मित्रगोष्ठी-पत्रिका। तत फलप्रभवेदित्यत्र नास्तिसन्दहः । यथा मानवः एवं विधनाने पायैः क्षेत्रस्य उर्वरता सम्पाद्य यथेष्ट शस्य लन्धु शक्नोति, तर पत्ने कृते एकजातीयवृक्षस्य फलं विभिमास्वादविशिष्ट विभिभावय धं च कर्तुं शक्नोति । मन्ये अस्माकं देशे एवं परिवर्तनविद्यया — Hs brid, Grafting etc.) परिचिता बहवएव आसन् । श्र यते च विश्वा मित्रादीनां नूतनतरफलोद्भावनम् । मन्ये नारिकेलगुवा कादय एकजा तियोद्भिदपि तयोः फलस्यैव विभिन्ना परिणतिः, परन्त्वेतत् सर्वच ध्येयम् । अत्रतु नास्ति सन्देहो यदस्माभिव्यवहतः पुष्पफलादि मा यशो वन्यावस्थायाः चरमं संस्करणम् । धन्यं पनसं आम्रश्च समीर एतत् सर्वएव विवेचयितु प्रभवन्ति । यत्ने कृते पलपरिमितं फल माढकपरिमितं कर्तुं अनेके प्रभवः। यस्याः क्षुद्रतराया भण्टाक्या, व्यासपरिमाणं भद्धहस्तमपि न गच्छति तस्याएव व्यास: अमेरिका- युक्तप्रदेशे हस्तपरिमितमभूत् । तत्रापितु कृषकैरेतदवश्यं स्मर्तव्यं-परिमितक्षेत्रे तदनुरूपेणार्थन तत्परिमितेन च श्रमेण यथा लाभो भवति तव अत्यधिकव्ययेन परिमि- तातिरिक्तश्रमेण च न ततोऽपि अधिकतरलाभो भवतीति, प्रयोजना- नुसारेण द्रव्यमुत्पाद्यमितिच । एतयोनियमयोः सम्यक् प्रतिपाल- नेनापि सम्पूर्णफललाभो भवतीति न नियमः, अस्ति हि तन शस्याना महानन्तरायः क्षुद्रः कीटः। तथाच "एपिस्' नामा क्षुद्रकीटो यथा शस्यस्य अनिष्ट साधयति न तथाऽन्यत् किमपि । एतन्तु रक्तवीज- मिव न कदापि कोऽपि आमूलतोनाशयितु शक्नोति । एकोहि कीट अशीतिकोटिपरिमितानि अण्डानि प्रसूते तथानवमपुरुषपर्यन्तं एके- नैव संसर्गेण सर्वषामधस्तनकीटानां प्रसवकार्य मव्याहत चलति । भतएव भाधुनिकप्रथया तनिवारणचेष्टा सर्वथा कर्तव्या एतदर्थव कोटविज्ञानम् ( Entromology ) अवश्यमध्येतव्यम् । भारतीया अधुना नानाधिकारणपरम्पराभिः दरिद्राः, मन्नाभा- धेनन क्षोणसामर्थ्याः, मतः कृषिकाव्य वलोवद एव तेषां प्रधान- .

कृषिविज्ञानम् । सुपकरणम् । परन्त्वहो ! अधुना पथायुक्तपालनाभाधेन प्राचा भार- ीयानां तत् प्रधानतमा सम्पत्तिः गो-कुलं जीर्ण शीर्ण कथमपि कृषि- कार्योपयोगि भवति अतः का नाम माशान कृषरुपयुक्तफललाभस्य ? पपिच या धेनुरत शरावपरिमितदुग्धदाने कातरा, सैव पाश्चात्यः लनप्रणालीविशेषैः 'वेल्जियम्' देशे द्रोणपरिमितं पयो दुह्यते । येतु थानमाहात्म्यात् तथाभवतीति प्रतिवदन्ति तैरतान्तर्भूत हिसार- गरे गत्वा द्रष्टव्यं भस्माकं देशेऽपि पालनकोशलेन गो पयोवृद्धिः सम्भवति नवेति। अन्यच कृषकः पशुचिकित्सा सम्यगध्येतव्या । पुरा या विद्या हरेवादिभिः राजकुमारैः सम्यगधीतासीत् । पदिच साधुना भारते लुप्ता तथापि पाश्चात्येषु वर्तते, ततएव शिक्षणीया अन्यथा पीडिते शौ संक्रामकरोगाक्रान्ते पशुपाले बहुतरा क्षतेः सम्भावना विद्यते । च कृषकस्य कृषियन्वसंसकारेऽपि पटुत्वमपेक्षत एव । तरधुना प्रेयांसो भारतीया भ्रातरः, पश्यत यूयं; पदविज्ञान स्माभिः निरक्षरस्य पाशुलपादिकख्य हालिकस्य स्कन्धे निक्षिप्त च्चेत् भारतीयाना मवलम्वनं उगते कारणं द्रष्टु मस्माभिरियत दा पाश्चात्यानामुद्भिविद्यायां ( Botany ) भूमिविज्ञाने ( Geology ) शुचिकित्सायां ( Veterinary science ) पशुविज्ञाने ( Zoology ) सायने ( Chemitary ) कीटविज्ञाने ( Entromology ) क्षेत्रविद्यायां I ( Survey ) कृषकाणां प्रवेशः सर्वथा अपेक्ष्यते । श्रुत्वाचेदं नासिका. ।कुञ्च्य येस्खलु कथयिष्यन्ति महो कलेर्माहात्म्यं ! यदधुना बाह्मणत- योऽपि एतावदविज्ञानमधिगत्य हालिकोभविष्यति इति तान्प्रतिष- व्यं नैतत् कले महिमा यत् हालिकस्यापि विज्ञानपाण्डित्यमपेक्ष्यते रन्तु काल-महिमवशादेव निरक्षरस्यैव हस्ते भस्माकमुन्नतेः प्रथम पानंवर्तते । मासीय पुरा शिक्षितानामेव इयं कृषिविद्या, ये खल 'दाधिकारिणः येच भकादिशास्त्रवेत्तारः वानिज्यकर्मकुशलाः तएव मित्रगोष्टी-पत्रिका। वैश्या:कृषिकर्म क्वन्तिस्म नतु तदानोन्तना मसभ्या निरक्षराः शुद्धा. इति । तदधुना वृथा जात्यभिमानं परित्यज्य 'सर्वएव शिक्षिताः हालिका भवेयुश्चेत् तदा यथार्थोनतेः स्वल्पा भाशा भवेत् । श्री भीमचन्द्र शर्मा। -:0: वार्ताः सम्पादकाभिप्रायाश्च । संस्कृतविद्वांसः भारतीयद्रव्यव्यवहारश्च-वत्तमानेन भारतशाः सकेन वङ्ग भ्यो जनपदरूपाणि तदीयानि कानिचिदङ्गान्याच्छिद्य साद्ध. मासामभूखण्डैः " पूर्ववङ्गासाम" नाम्ना कधिन्नूतनो विभागः प्रजानां हितकाम्यया विनिर्मितः । वङ्गायैस्तु सर्वैरै कमत्येन तस्य निकामं दुरोदकत्वम् विविध कृतोऽपि महान् प्रतिवादो नाद्यापि किमपि फलं प्रसूते । एतेन नितान्तं विमनायमार्गस्तैभरि तस्य दिनादिनमः द्भयन्ती दुर्विपहां भाकरीमपनतिमालोक्य विद्यमानेन चेतसा इद सङ्कलिला यत् क्रियतां नाम स्वैरमधेनेवास्मद दुःखमपश्यता भारत- शासकेन तरधीनानां निग्रहः, किमस्माभिः कन्तुं शक्यम् । परन्त्वयं नो निश्चयः, भवतु नाम यद्भवेत, न वर्यामतः प्रभृति आत्मादर पूरयितु वैदशिकानां करुणाकटाक्षं वीक्षेमहि; अवश्यमेवास्माभिः साम्प्रतं यावल्लभ्यं स्वदेशोत्पन्नान्येव द्रव्याणि संग्रहीतव्यानि । वैदे. शिकद्रव्याणामावश्यकत्वेऽपि इलैण्डीयं तु न कथमप्यादे यमिति । न केवलं बगीयैः, अपित्व परापरप्रदेशवासिभिाप्ययं सङ्कल्पः सबहु- मानमगीकृत:-अङ्गीक्रियते, तदुचितं चेप्स्यते च । परिपाकरमणीयोऽयं सङ्कल्पः कथं नाम दरिद्राणां साधारणजनाना चेतःसु स्वल्पव्यया स्थिरं पदमादध्यादिति देशहिताभिलाषुकरि- दानी रानिन्दिवं चित्यते । एप्वव सुगृहीतनाम्ना राजनीतिज्ञधुर- धरण श्रीमता सुरेन्द्रनाथ बन्योपाध्यायमहाशयन कस्यापि लखकास्य वात्तः सम्पादकाभिप्रायाश्च । १४५ दुखेन स्वसम्पादितायां पत्रिकायां यदुक्त, तदस्माकं विशेषालोचन- यहतीति उपरिष्टाद विन्यस्यतेः • अस्मत्समाजे धनिकस्य वा निधनस्य वा, ब्राह्मणस्य वा शूद्रस्य वा स्यचिद हिन्दोरुपरि प्रभाव विस्तारयितु विद्यते खलु द्वो समर्थों मम्प्रदायो । तौ हि विद्वद्भिश्च, निरक्षरैश्च, पुरुषैश्च स्त्रीभिश्च समं ज्येते, वचनं च तयोस्तैगृह्यते । तौ खलु सम्प्रदायावस्मदीयानां वित्राणां गुरूणां पुरोहितानां च । एकैको गुरुः, एकैकश्च पुरोहितो यवस्थापनाणां दानसमये तेभ्यो वैदेशिकानि द्रव्याणि बहिष्करी तु । कैकस्तयोः शिष्ययजमाना सन्दर्शनसमये मातरं जन्मभूमि प्रति रुपाणां स्त्रीणां पा कर्तव्यानि, स्वदेशीयानां द्रव्याणां व्यवहारोपयो. गत्वम्, ऐक्यस्य शक्तित्वं, नियमविरोधस्य हेयत्वं, सुरापानस्य च पित्वं कीर्तयतु । उपदेष्टव्या च तेन शान्तिः, ऐकमत्यं चेति" मन्यामहे, पाठकानां स्मृतिपथमागच्छेत, उक्तपूर्वमेवेदमसमाभिः पत्रिकाया अतीतायां संख्यायां समाजस्य नियमनभारः पुरा किलास्माकं धर्मशास्त्रविदां पण्डितमहोदयानामेवोपरि आसीत् । *"There are yet, two most powerful sections in our community who wield grcat influence upon a Hindu, be he rich or poor, Brahmin or Sudra. They are respected and heard by the ducated and illeterate and by inen and women alike. They tre our Spiritual gurus and Purohits. Let cvery Guru or very Purohit when giving Vyavasta-Patras rigidly exclude from them all articles of foreign inake. Let every Guru and every Purohit when he visits and on every occasion he visits his Shisyas or yajamanas recite the duties of a man and a woman to his or her mother Country, thc utility at the use of country made articles, that unity is strength, litigation in an évij and drinking is a sin. lle should also preach peace and harinony".--The Bengalee, September 6. 1905. ( Bi-w :ekly Edition ) मित्रगोष्ठी-पत्रिका इदानी मपि च समाजव्यवस्थार्थ ताने जमा माश्रयन्तीति"। मन प्युपन्यस्तसन्दर्भलेखकेन तदेवाभिहितम्। सर्वथा भवितमिदम् पदि सम्प्रत्यपि पूर्वमिव प्रभूतेनोत्साहेनास्मदीयैः गुरुभिर्गुरुणा' मे कृत्यं क्रियेत, पुरोहितैश्च 'पुरोहिताना मेव, व्यवस्थापकैश्च पण्डित 'व्यवस्थापकामामेव, तहि मुक्तकण्ठं बाहूत्क्षेपश्चोद्धोषयामः, नातिथि रमेवास्माकं समाजस्य देवस्य च स्फुरन्ती भूयसी कल्याणपरम्परा- मालोकयेम । यद्यप्यमी इदानी स्वबुद्धिदोषेण पा, स्वकर्मापराधन वा, प्रसादपराजमुखाया भगवत्या भवितव्यतायाः कोपेन वा जनाना " much neglected class" (तत्रैव, अत्यन्तमवज्ञाता श्रेणी) तथापि, न केवलं तेषु निसर्गपक्षपातिनो वयमेव, अपि तु यैः खलु तेऽवज्ञायन्ते, तेऽपि सम्भावयन्ति, ससाहसं प्रकाशयन्ति च यद वा. प्रणपण्डितै रतस्य महोपकार आशास्यत इति । यावत् किं नालो. व्यतां जनैस्तेषां विरुद्धम्, परन्तु दुर्लभ एव सः, यो हि प्राप्ते काले तेषां प्रभुत्वं नाङ्गीकुर्यात, तेषामादेशं न गृह्णीयात, तेषां मतं वा ना- नुसरोदिति। ईशा हि नरा मनास कुप्यन्तोऽपि राजनियमिववा- मतेन माद्यापि तेषामनुशासनं वहन्त्येव अत: साम्प्रतं तेषां जनाना- मसन्तोषकारणं, युक्त चेत् परित्यज्य, भयुक्त चेत् , तदुपादेयत्वं तेभ्यः प्रतियोध्य पुनरपि प्रागिव देशस्य समाजस्य च स्थितये देश- कालाधनुरूपं ब्राह्मणपण्डितैरैकमत्येनोद युज्यताम् । त एवात्र विशे- घेणाधिक्रियन्ते । धर्मप्राणा हि भारतीयाः । क्षीणोऽपि नाद्यापि विर एस्तेषां चेतःसु धींकरः । धर्मोपदेशककथास्ववैते निकामं श्रद्दध ते। तत्प्रदर्शितमेव हि पन्थान ते भक्तिपूर्वमाश्रयन्ते तेषामेव पचनेन प्राणा अप्येतैस्तुणाय मन्यन्ते । भतो महद्गौरव मधिष्ठितान तत्रभवतां पण्डितानां गुरुणां, पुरोहितानां च वचनेन जनैः स्वदेशा नुरागस्य, स्वदेशीय द्रव्यव्यवहारोपयोगादे, समाजप्रविष्टानां तत्ते दोषाणां संस्कारस्य च शिक्षा यनितान्तं सुकरा भवेत्, कस्तत्र स्तो कमपि संशयमाशङ्कत । भसमा देशस्य समाजस्य च वर्तमाना वार्ता सम्पादकाभिमापाथ। स्था यदि निपुणं चिन्त्येत, तर्हि तस्य चिन्तयितुश्चेतसि ध्रुवमिद- दियाद यद ब्राह्मणपण्डिताना समाजादिव्यवस्थापनभारम् मन्य. नि:क्षिप्प निभिन्तं द्राधीयोनिद्रासेवनस्य नायमवकाश इति । शरःसु नवद्वीपे पण्डितसमाजः, 'न्यायसिन्धु'च--मनतिचिरं नवदीप- वैः संस्कृतपण्डितः पङ्गीय लेफ्टनाण्ट-गवर्णर-महाशयाय 'न्याय- गन्धु'रित्युपाधिरलं प्रदत्तम् । मत्रासन्तोषमावधानः कैभिद धगी- वृत्तान्तपत्रः नवदीपपण्डितेभ्यः सुदुःसहा दुर्वादा उक्ताः, विगानो. आदिका गाथाश्च काश्चिद विचिताः । संस्कृतभाषाया भाश्रयभू- नां पण्डितमहोदयाना मी निन्दावादैः साधारणानां जनानां स्कृतभाषां प्रत्येव क्रमेण वैमनस्य मुदति। प्रायः खलु सामाजिकैः ह मिथः संवादसमये ईप्सतामपि गुणश्रवणं, दुर्भागधेयानामस्माक वोविवरं पण्डिा नां दोषवादध्वनिरेव प्रविशतीत्यही महत् कष्ठम् । शासकेन प्रवत्तितां वङ्गानामुपागतामवस्थां पर्यालोच्य नवद्वीपी. : पण्डितैस्तस्य स्खलु महात्मनः को नु नाम 'न्यायो' विलोकितः, न स सपदि तादृशस्योपाधेभोज.नतामुपेत इति तेषां पत्राणामभि. यः। यदि वस्तुत एव घनशासकस्य कोऽपि ताहग गुणः स्यात, हिं तस्य प्रकाशनेन नवदीपस्थाः पण्डिता आरोपितात् कलङ्कादा- आनं' मोचयितुमर्हन्ति । अन्यथा अतिरभसतानां ईशां कर्मणां ल्यतुल्येन विपाकन सह तैरस्माकमपि हृदयं बलवद्विध्यते । किच पाधिदानपि तैः किञ्चिदविविच्य वस्तुतस्तद्योग्यायैव कर्तामति विनयं सविनम्भं च निवेदयामः । दृष्टः खलु पूर्वमपि तेषामपानेऽपि पाधिविनियोगः । संस्कृत शिक्षार्थ दानम्-अन्येषु : कलिकातायाः प्रधानन्याया- करणे धर्माधिकरणिकस्य पुरतः केनापि व्यवहाराजीविना इद आर्थितं यत्-बलाइचांददत्ताभिधेयेन केनापि धनिकेन स्वगृहे को- पसंस्कृतविद्यालयः स्थापनीय इति स्वदानपत्रे उक्तम्, परन्तु कथं आय व्ययनिर्वाहो भवेदिति नोक्तमासीत् । एतत्परमेष स मृतः, सहधर्मिण्यपि तस्य महात्मनः श्रीमती निस्तारिणो दासी नामा मित्रगोष्ठी पत्रिका। '१४८ . पतिलोकमुपागात्। अनया तु महाभागया समादिष्टं-५१,५०, रूप्यकाणि संस्कृतशिक्षार्थ देयानि मे सम्पत्तिकार्यकारकैरिति ते विनियोगस्तु यया रीत्या समीचीनः स्यात तदपि कार्यनिर्वाह कर्तव्यमिति च । एतैमहाशयः प्रतिमासं १५० रूप्यकव्ययेन विंशत: संस्कृतविद्यार्थिनां भोजनव्ययः समपाद्यत, साम्प्रतं तेषां सम्मत्या तानि ५१,५००, रूप्यकाणि श्रीमत्या निस्तारिणीदास्याः को. पात बङ्गीशिक्षाविभागाध्यक्षसमीपं पञ्चविंशविद्यार्थिनां भोजन. व्ययार्थ गच्छन्विति । साधुवादास्तस्मै पूतशीलाय दत्तमहाशयाय, तस्यचानुरूपायै सहधर्मिण्यै महाभागायै निस्तारिण्यै । दातुरिच्छाया विरोधेन न वयं किमपि विवक्षामः । परन्तु यदीयद्भिर्धनैः संस्कृत- विद्यार्थिनां कृते द्वे गवेषणावृत्ती ( Research Scholarship ) स्था. प्टता, तदा वरं भवेदिति सम्भावयामः । एतदर्थं संस्कृतोत्साहि- भिधीनजनैः प्रयतनीयम् । वङ्गविभागशिक्षाध्यक्षेण कीदृशाय अ. प्राय भोजनार्थयुक्ता वृत्तिदास्यत इति दिदृक्षामहे । वेदज्ञस्य गौरवम् । जम्बू-काश्मीराधिपतेमहाराजस्य 'रघुनाथ- पाठशालायां' कतिचिदध्यापकाः अपेक्ष्यन्ते । तत्र काव्यव्याकरणाद्य ध्यापकानां मासिक वेतनं त्रिंशद रूप्यकाणि, चतुगी वेदाध्यापकानां एकैकं पञ्चविंशतिरिति निर्धारितम् । युक्तमेवेदं पाठशालाध्यक्षेप कृतम् । जडानां छान्दसानां तदेव बहु ! हा भगति वेद विद्य हतासि। वृत्तिस्थापनम् - ज्ञायते साम्प्रतं चीनेषु प्रोषितैः श्रीमद्भिः जे मी. दत्त-प्रमुखैः कैश्चित स्वदेशहितैषिभिर्भारतीयैः भारतीयानां शि- कदिक्ष साहायकाय स्वामि-श्रीदयानन्दसरस्वती प्रभृतीनां केषाञ्चित सुप्रथितानां पुरुषाणां नाम्ना कतिचिद वृत्तयः स्थापिता इति । प्रश- स्यतरोऽयमेषां महाभागानां समुदयोगः ।

वार्ताः सम्पादकाभिप्रायाश्च । १४९ अनावृष्टिः --अस्मिन् वर्षे पञ्जाव प्रभृतिषु देशेषु अगापि वृष्ट- मापि न श्रुतं तद्देशवासिभिः । फैव कथा शत्योत्पत्तेः ? हाहा. निरपि समन्ततः श्रयते। किञ्च बङ्गोषु प्रायः सर्वत्र एतावज्जल. पावनं सञ्जातं येन यावन्ति शस्यानि नष्टप्रायाणि । अहो। विचित्रा बलु ऐश्वरोकी लीला । भारतवर्षे एव एकत्र जलाभावेन मानवाः कण्ठगतप्राणाः अपरत्रच प्रभूतजलेनोदिग्नाः ॥ वैदेशिक लवणम्-कलिकातास्थ 'हितवादि' नामके साप्ताहिक- वृत्तान्तपत्रे केनचित् लवणव्यवसायि-कार्याध्यक्षेणेदं विज्ञापितं यत तेन कदाचित् स्वोचितकार्याय 'शालिखा' नामकस्थाने ( यन्त्र विदे. शेभ्यो लघणपूर्ण-धूमयानान्यायान्ति ) गत्वा तेभ्यो लवणनिष्काशनं प्रत्यक्षीकृतम् । अथ तन लवणाभ्यन्तरे कोऽपिपदार्थः लवणविज. ड़ितो दृष्टः पर मनुभवितुनशक्त तत्किमिति । साभिनिवेशं निरूप्य यत् तेनावलोकितं तत्तु प्रकाशयितुमपि अस्माकं लेखनी वेपमाना अग्रतोनैकपदपि उपसर्पति ! अहो । स खलु लवणविजड़ितः पदार्थः कस्यचिद् गोः पाददेश आसीत् । तदवलोक्य स खलु महाशयः पोताध्यक्षं अपृच्छत् किमिति । तेनोक्त-अनेनैव प्रकारेण अस्माभिर्यावतीयपशुमांस माहारार्थमस्माकं आनीयते । लवणमिश्रितं मांसादिकं कालविलम्वेन नष्ट न भवतीत्यतएवास्माभिरेषः पन्थाः समाश्रित इति । अहह ! इतः परमपि किं श्रोतव्यमस्ति ? कथं नास्माकं श्रवण विवरं बधीर जातम्, यस्य नामाप्यस्माभि !ञ्चायते तन्मिश्रितं लवणं वैदेशिक प्रभावात् असमाकमुदत्तिं भनि ? धिगस्मान् ? सत्यपि देशीय सैन्धवे कथं अस्माभि स्तत् अपवित्रतम वस्तु व्यवहियते। न केवलं हिन्दूनां महम्मदीयाना मपि तत् सर्वथा परित्यज्यम् । शूकरमांसस्यापि तत्र सत्त्वमस्त्येव । अतः प्रार्थये ज्ञात्वा कदापि एवं विध मनुचितं कर्म नानुष्ठेमिति । शोकस्थानम्-घङ्गभाषायां सुप्रसिद्ध साप्ताहिकवृत्तान्तपत्रिकायाः १५. मित्रगोष्ठी-पत्रिका वहभा सम्पादक: स्वत्वाधिकारीच भीमान योगेन्द्र चन्द्र वसुः चिराय प्रालि छत इति नितगं दुनोत्यस्माकं चेतः । स खलु महोदयः पायाः महतिः संसाधिता। भपि च संस्कृत ग्रन्थानां यथा साधा रणेषु प्रकाशो विहित स्तेन न तथा केनाध्यन्येन । एतादृशस्य महो दयस्य स्वर्गमने वसुन्धरायाः वनभाषायाश्च महतीक्षतिः सञ्जाता सन्धिः- -श्रूयते कस-जापानयोः सन्धिः संजातंति सुखाकरमेव अल्पशक्ति सम्पन्ना भषि जापान-देशीयाः या विक्रमं प्रदर्शित वन्त स्तादृशं न कुत्रापि केऽपि दृष्टवन्तः । जापानानां पराक्रम वि. लोक्य सः एव यूरोपोया वज्रहता इव संजाताः । यातु, वयं शान्ति- प्रियाः अतः शान्तिमेव प्रार्थयामः । जयारे गीर्वाणवाण्यालयः-उन सर्वप्रकाराणि संस्कृतभाषा- मयानि पुस्तकानि मुद्रितानि हस्तलिखितान्यपि संगृहीतानि वर्तन्ते । साधुः खलु संकल्पोऽस्य प्रवर्तकस्य । वय मस्य सर्वथा समर्थका।। आशास्महे च अनुदिनमेवायं उमति गमिष्यतीति । नूतनं मंस्कृतपत्रम्-श्रूयते मथुरात: 'संस्कृतभास्करे ति नाम्ना किमपि पाक्षिक संस्कृतपत्रं भागामि-बसन्तपञ्चमीमारभ्य प्रचलिष्य. तीति । परं यावदस्य ग्राहकाणामद्धसाहन न सम्पद्यते ताव अप्रच. लिता भवेत् अत स्तदलिकः तूर्ण तस्य सम्पादकः पण्डितश्रीराम- लालशर्मा विज्ञापनीयः। पत्रादि प्रेषणस्थानम-सतघरा, मथुरा- नगरम् । अस्यच वार्षिक मूल्यम् सार्द्धयरूप्यकं भविष्यति । प्रचार दोपो नास्ति परं स्थायित्व सन्दिह्यन्ते बहवः। वर्य संस्कृतपत्रिकाणां बहुलप्रचार सदैव अभिलषामः सनातनधर्ममहासभा-श्रीमन्मदनमोहनमालवीय श्रीकृष्णजोषी. स्येताभ्यां महोदयाभ्याम् आगामिति माघमासे कुम्भमेलावसरे श्रीप्र- यागधाम्नि "सनातनधर्ममहासभा'' इति काचित् हिन्दुधर्मविषयिणी परिषदाहता भविष्यति ।

वाचाः सम्पादकाभिप्रायाथ । एतानिर्मक्षेपेण तस्या महासभाया उद्देश्यानि- (क) हिन्दुधर्मस्याधुनिकी शोचनीयामवस्थाप्रति हिन्दुसाधार- गानाम् (हिन्दूनाम् ) अवधानाकर्षणम् येन च तेषां धर्मस्य स्वार्था भक्षुण्णाः तिष्ठेयुः तद्विषये समवेतयत्नस्यावश्यकत्वप्रदर्शनम् । (ख) भारतस्य विभिन्नांशेषु हिन्दूनाम् आचार-सम्प्रादायाते पा- क्ये सत्याप थर्मविश्वासः अभिन्न एव इत्यस्यप्रदर्शनम् । (ग) हिन्दूनां शास्त्रग्रन्थेभ्यो भारतस्य निखिलप्रदेशवास्तव्याना पण्डितप्रवराणां साहाय्येन प्रसिद्धानां धर्मसमाजाध्यक्षाणां श्रुति-स्मृ- तिपुराणमतानुसारिणाञ्च विभिन्नसम्प्रदायानांसम्मतान् इहा मुत्रपरम- कल्याणसाधकान् तत्वोपदेशसारान् संगृह्य कस्यचित् लघुप्रन्धस्य प्रणयनं परिग्रहणं च। (घ) तस्य ग्रन्थस्य संस्कृते भारतस्य प्रधानासु देशभाषासुच प्रकाश्य वितरणार्थम, आधुनिक्या उदारशिक्षया सह धर्मग्रन्थज्ञा- नस्य संयोजन कुशलानां धर्मशिक्षकाणां विनयनार्थच कस्याचित् समितेः स्थापनम् । इदं प्रस्तावितं यत् अस्याः परिषदः माघकृष्णैकादशीमारभ्य मा- घशुक्लपञ्चमी यावत् ( आंलजानुयारीमासस्य विशदिवसात् ऊन- शदिवसं यावत् ) दशदिनानि प्रयाग गङ्गातीरे अधिवेशनं भवेत् । तस्यां महासभायां ये खलु पण्डिता, मठस्वामिनश्च आहूताः भवि. यन्ति तेभ्य: सभाया न्यून्यतो मासपूर्व कश्चिद लघुग्रन्थः वितरिष्यते। सभायाः उहश्यं महत् । अस्माकमपि तस्याः सहानुभावो विद्यते

मित्रगोष्ठी-पत्रिका।
काशोस्थ रणवीर संस्कृतपाठशालोयपरोक्षाफलम्-
१८२७ शकाब्दे निम्नलिखिता श्छात्राः काशिक-रणवीर-पाठशाली
वैभागिकीपरीक्षाया मुत्तीर्णा:-
शास्त्रि-परीक्षायाम न्याये-२ य विभागे
द्वारिकानाथ काव्यतीर्थः।
घेदे-प्रथम विभागे-
विद्याधर गौड़ः॥
साधारण द्वितीयविभागे मध्यमपरीक्षायां पा-३ य विभागे-
सिद्धेश्वर भट्टाचार्य:. टीकाराम पाण्डेयश्च ।
साधारण प्रथविभागे प्रथमपरीक्षायां वारय विभाग.-
विद्यादत्त भट्टः।
३य विभाग
१। पूर्णानन्द त्रिपाठी
२। धर्मदत्त त्रिपाठी।
३ । पुरुषोत्तम त्रिपाठी।
बेदे प्रथम परीक्षायां २ य विभागे-
खुसीराम गौड़ः।

मित्रगोष्ठो-पत्रिका। ( मासिकं संस्कृतपत्रम् ।) सङ्गच्छध्वं संवदध्वं सं वो मनांसि जानताम्"। ऋग्वेदः। द्वतीये वर्षे } १८२७ शकाब्दाः, आश्विनः { षष्ठ संख्या वैदिककालः। मित्रगोष्ठीपत्रिकायाः पञ्चमसंख्यायां वैदिककालनिर्णये नाना- धानि मतान्युलिख्य अस्मद्देशीयसंस्कृतपण्डितानां मतानां शु. प.पि विज्ञापिता मित्रगोष्ठीसभ्यः। अतस्तत्र विषये यथामति चिद्वक्तुमिच्छामः । अन्यथा “नापृष्टः कस्यचिद ब्र या " दिति षेधस्य उल्लंघन स्याद् विशेषतश्च तादृशि गहने विषयेऽस्माक- समतीनाम् अनुचितएव लेखनी प्रयोगः । गरीयसां मीमांसकादीनां केषाञ्चित् प्राचां मते वेदानामुत्पत्ति रेव स्ति । सुतरां तस्याः कालनिर्णयोऽसङ्गत एव । परन्तु वेदान्तभा- पकाराणां शङ्कराचार्य पादानां नैयायिकानाच मते वेदाना मुत्पत्ति- स्ति सातत्पत्तिः संसारसृष्टेः प्रागेव बभूव । भगवान् हिरण्यगर्भो हि दद्वारा कार्याकार्य मुपदिश्य संसारं ससति तेषां मते युकिः । गि सा युक्ति रस्माकं शिरसा धार्या तथापि हृदयङ्गमा न भवति र्वेषामित्यतो लौकिकी युति मनुसरामः । घेदप्रकाशस्य बहवः कालाः श्रूयन्ते, बहुकृत्वो हि वेदानां सम्प्र. योऽलुप्यत । एकदा पुरा लुप्ते वेद सम्प्रदाये अत्रि-वंशजो 'दत्त' 'मा मुनिरुत्पद्य समृत्वा लुप्तान् वेदान् प्रकाशयामासेति शिशुपालवधे हाकाव्ये चतुदशसर्गे ७९ श्लोकेन महाकविना माघनोक्तम्-यथा- - . १५४ मित्रगोष्ठी-पत्रिका। " सम्प्रदाय निगमा दुयुपी रेप नाशमविनाशिनिग्रहः । मर्नुमप्रतिहतमतः श्रुती- दत्त इत्यभयदानगीनजः । ॥ इति । एतेन दत्तात्रेय समयेऽपि वेदानां लिपिवद्धानन्था नामनि सम्भाव्यते अन्यथा ''श्र तीः स्म तुमभाव' दित्युक्ति नै सङ्गच्छते श्रूयते आचार्या दिति व्युत्पत्त्या श्रुतिशब्दोऽपि श्रवणेन ज्ञातत्ययो धको भवति । भागवतेऽपि दत्तात्रेयोपाख्याने लुप्तानां वेदानां पुन सम्प्रदायप्रवर्तकत्वात दत्तात्रेयो विष्णो रवतार इत्युक्तम् । तस्मात दत्तात्रेयम्य कालो वेदप्रकाशस्य काल इति ज्ञायते । स दत्तालेयः कदा जन्म लेभे कराया वेदान् सस्मारेति पण्डितैनिीयतां स समयः। तदनन्तरं पुनरपि वेदसम्प्रदायोऽलुप्यत । लुप्ते वेदसम्प्रदाये भा- वान् कृष्णद्वैपायनो नानास्थानेभ्यः संगृह्य श्रु तीः सहस्रण शाखाभि विभेजे इत्यत एव 'वेदव्यासेति' तस्य ख्यातिबभूव । ततः प्रभृति वेदा लिपिवद्धा वभूरिति सम्भाचयामः । इत्थं ततः प्रभृति वेदान लिपिबद्धा ग्रन्था अजायनि निर्णयता पण्डितवदव्यासस्य वेद विभागसमयः। ततः पुनरपि वेदानां सम्प्रदायोऽलुप्यत, शिष्योप- शिष्येभ्यो मिथः प्रदानम् अर्थात् शब्दोच्चारणपूर्वमुपदेशः सम्प्र- दायः। लुप्त तस्मिन् वदसम्प्रदाये 'बाजिरावपेशवा'' नामकः सुगृ. हीननामा कश्चिन् महाराष्ट्रीयो राजा घेदसम्प्रदायम् पुनः प्रवत्र्तया- मास, स एव सम्पदायो विस्तीर्णः सन्नद्यापि तत्र तत्र देशे वर्तते। अतः म समयी निर्णयतां पण्डितः। एवं त्रयः काला वेदसम्प्रदा. यस्य प्रवत्तका इति । एकविधो वेदकाल निर्णयः यदि च वेदसम्प्रदायप्रवृतिकाला इत्थं नियन्ते तथापि वेदो- त्पत्तेः कालः क इति प्रश्नस्तरवस्थ एवास्ति, न तस्य किञ्चिदुत्तर जातमिति चे दुच्यते---यदिच ब्रौव वेदान् प्रणिनाय उपदिदेश वा तथापि वेदद्रष्टुन् ऋपीनेव वयं वेदप्रणेतुन मन्यामहे । ऋपयो हि शुक्तिरजतम् । १५५ वामित्रादयः परोक्षेण दिव्येन ( ज्ञानमयेन) चक्षुषा ब्रह्मणः सका- त वेदान् ददृशः ततस्ते तान् वेदान मनुष्येषु प्रकाशयामासुरिति य ऋषिभ्यो वयं ऋणिनः । तदृणञ्च वेदोपदेशग्रहणमेव, स्वा- येन तस्मटणाद् वयं मुक्ति लभामहे इति तानेव ऋषीन वेदक- हुन् वयं व्रमः । एवञ्च वेदानां कर्त्तारो बहव एव ऋषयः न तु क- धदकः । यस्य मन्त्रस्य यः ऋपिः तस्य मन्त्रस्य तमेव कारं प्रणे. वारं वा जानीमः। यथा ग.यच्या विश्वामित्रऋविरिति गायत्रीम- त्रस्य विश्वामित्रमेव प्रणेतारं कर्तारं वा कथयामः । गायत्री च च्छन्दसा ( वेदानां ) माता। श्रीमहेश चन्द्र शर्मा। .. शुक्तिरजतम्। (५यताऽनुवर्तते ) न च रजतमपि शुक्तिकायाः समनघप्यंशष्वध्यस्यते, न हि शु- क्तकाया नीलादिभाऽपि नयनसोगे रजत मारोपते;--यतः शुक्ति- स्वरूपविशेषज्ञानसामग्री नीलपृष्टादिस्तत्र रजताध्यास प्रतिवन्धकता करोनि ! अथ शुक्तश्वाकचिक्यादिविशिष्टे भागे चक्षुः सयुज्यते, भवदेव ध्यासः, नहि तद्भागे तदाना शुक्तित्वरूपविशेषज्ञानसाम- अगस्ति । ननु चाकचिस्यादिगिशिष्टभागे यदा नयनं सन्निकृष्यत, तदापि शुक्तिनानविशेषसामग्यूस्ति ततश्च यथा नोलादिभाग नयन- सम्बन्धे नाध्यासः, तदिहाती मास्तु-इति चेत् ? इदमन समाधा- नम्-यदि च तत्र चाकवियादिकं न शुकिज्ञानस्य प्रतिबन्धक, अपितु तत्सामग्यव--भवति हि तादृश वाकचिक्यसद्भाव एव शक्ति- ज्ञानम्, तथाीि दूरत्यास्पष्ट लोकादिदोषेण शुक्तित्वाभिव्यञ्जकनी ठ- पृष्टांश नयनासंयोगन च, न तादृश चाकविक्यादिमात्रं शुक्तिज्ञानता- भग्री, ततश्च रजताध्यासे न कोऽपि बाध इति ।

१५६ मित्रगोष्ठी-पत्रिका। अयमेव न्यायः समुद्रोदके नीलशिलाध्यासस्थले । तत्रापि यो दकस्य शुक्लरूपात्मकं जलराशित्वादिरूपं च विशेषदर्शनं नीलशिला तलाध्यासस्य प्रतिबन्धकम, एवं शुक्लरूपदर्शनसामग्री जलराशिया पविशेषदर्शनसामग्री च प्रतिबन्धिके। जलराशित्वरूप विशेष दर्श सामग्री च तरङ्ग दिरेव । तन दूरत्वादिना इन्द्रियदोषादिना । तरङ्गादिन गृह्यते । अतो जलराशित्वादिरूपविशेषदर्शनसामग्यभाः वात् नीलशिलाद्यध्यासे न कश्चिद विरोध: विस्तृतवस्त्र खण्डे वस्त्र- विस्तारकंपविशेषदर्शनसामग्री-सद्भावादेव न प्रथम पुण्डरीकमुकुला- ध्यासः । अथ कर्तनादिना तदेव वस्त्रखण्डं मुकुलाकारं क्रियते, ततः प्रतिबन्धकाभावाद भवेदेव पुण्डरीकाध्यासः। पूर्वोक्तेषु निखिलेष्वपि मतेषु अविद्यापरनामकाद अज्ञानादेष जगदुत्पद्यत इति स्थितम् । एतादृशं रजतं प्रातिभासिकनाम्ना ख्यायते। यावद्धि 'नेदं रजतमिति' ज्ञानं नोदेति, तावत् सत्यरजतात तस्य रजतस्य न कोऽपि भेद उपलभ्यते। यथा सत्यरजत दर्शनेन हर्षगल- कादय आरिभवन्ति, प्रातिभालिकरजतदर्शनेऽपि तथैव भवन्ति । श्यांस्तु तयोर्भेदः-प्रातिभासिकस्थले त्वरितमेव विशेषज्ञानेन म ज्ञानं निवत्तंते, अज्ञाननिवर्तनाच तत कार्य रजतमपिनिवर्तते, नच चिरं प्रतिभासिकेन पदार्थनास्माकं व्यवहारः सिध्यति । सत्यरजत- स्थले तु (व्यावहारिके ) न तथा शीघ्र तत्वज्ञानोदयः,अत एव तना. धिककालपर्यन्तं व्यवहारः क्रियते । वस्तुतस्तु यथा प्रातिभासिक रजतं मिथ्या-अनिर्वचनोयम्, सत्यरजतमपि तादृशमेव । भेद. स्त्वयं यदेकस्य किश्चित् पूर्वम् अपरस्य तु किञ्चित्परं निवृत्तिरिति । अयमेव अनिर्वचनीयवादिनां वेदान्तिनामभिप्रायः। मीमांसकास्त्वाहुः-'इदं रजतम्' इति नेदमेकं ज्ञानम्, अपितु ज्ञानद्वयमात्र वर्तते । एक स्मृतिरूपम्, अपरमनुभवरूपम् । अत्रापि 'इदमंशो'ऽनुभवः; 'रजतांश'स्तु स्मृतिः। काचकामलादिनयनदोषेण पुरोमिनि शुक्तिपदार्थे चक्षुःसंयोगे सति शुक्तिकाया इदन्त्वांश- । . NUSHI HRS 'mi शुक्तिरजतम् । १५७ वं गृह्यते, न तु शक्तत्वांशोऽपि । तस्मिंश्च गृहीते शुक्तिकाया रज- न सादृश्यसद्भावात् रजतविषयिणी स्मृतिर्जायते । यद्विषयिणी इतिः, तत्खलु पूर्वमनुभूतमित्यवश्यं सा स्मृतिः प्रकाशयेदेष तारश व हि तस्याः स्वभावः प्रकृ तु नयनादिदोषप्रभावेण स्मृतिनं तथा काशयितुं शक्नोति । अतो रजतत्वांशे वसतुतः स्मृतिरूपमपि ज्ञानं मृतित्वेनाप्रकाश्य अनुभवरूपेण प्रकाशते । ततश्च इदन्त्वांशज्ञानम् अनुभवः) रजतत्वांशज्ञानं ( स्मृतिः) चान्योन्यं भिन्नपि उक्तेन कारण न भिन्नमिव भाति । भतो युज्यत एव 'इदं रजतमिति' अनु. विरूपं ज्ञानम् । स्थलतोऽयं खल्वेषामाशयः-शुक्तिकायां चक्षुःसंयोगे सति, यनदोषवशेन शुक्तिरूपविशेषांशस्य ज्ञानं नोदेति, किन्तु इदन्त्यांश- वस्यैव । तेन च ज्ञानेन रजतस्य स्मृति जर्जायते । रजतस्य ज्ञान मृतिरूपमपि दोषादेव न तथात्वेन प्रकाशते, अपि त्वनुभवरूपमेष ति । तारशं ज्ञानं च सम्मिलितं सत् 'इदं रजतम्' इत्याकारक वति। ततश्चोपपत्र एव ततो निखिलो व्यवहारः । अयमेव भख्यातिवाद' इत्युच्यते । नैयायिकास्तु अनन्ति-न किञ्चित् प्रातिभासिकं रजतमुत्पद्यते, पि रजतस्य स्वृतिः न वा तस्याः स्मृते षिवशेनाभानम्, किन्तु तिकायां नयनसंयोगे सति नयनदोषदरवास्पटालोकाद्यपराधेन क्तिकायाः शुक्तित्वको धर्मो न गृह्यते, कल्पते च तत्र तत्र साह- पादरजतत्वरूपं धर्मान्तरम् । तथाच शुक्तिकैव रजतत्वरूपेण कल्प्यते ति। अयमेव 'अन्यथा ख्यातिवादः' । भवापराण्यपि मतान्तराणि यथावकाशं प्रदर्शयिष्याम इति । विश्पोखर शर्मा। । - - KRISHANA LIBRARY CULTURE of... PLAN . नामपदानामुत्पत्तिः। गौरश्व: पुरुषो हस्तीत्यादीनां नामपदानां पूर्व कथमुत्पत्तिांत कथं नु गोगोरुच्यते, नत्यश्वः, कथं वावः अश्वएयोच्यते, न तु में रिति विदुषां कश्रिा सपिशंषानुशीलनविषयो भवितुमर्हति । तेन प्रथमं तत्तत्पदप्रयोक्तृणां तत्तद्वस्तुविषये किं कियद्वा चिन्तनमासी दिति बोद्ध शक्यते । आरब्धे सन्दर्भ तदेव किञ्चिदालोचयिष्यते नेयं चिन्ता नवीना, नैरुकावयाकरणश्च बहुपूर्वमेवायं विपर्याय न्तितः। तंपामेव मतानीह प्रदश्यन्ते । आचार्यस्य शाकटायनस्य यास्कादीनां नैरुक्तानां च मते नामा विशेषेण आख्यातपदोत्पन्नानि । तथाच भावप्रधानमाख्यातम्" इति यास्कोक्तेः क्रियाप्रधानानि पचतीत्यादीनि पदानि आख्यातानि । एतेश आख्यातेभ्य एव सर्वेषां नाम्नामुत्पत्तिः । एवं च यस्मिन् वस्तु या क्रिया दृष्टा, तक्रियानुसरणेन तयैव क्रियया तम्य वस्तुनो ना क्रियते, यथा पचतीति पचनक्रियया तत्कतुः पाचक इति नाम यथाचेदं तथापराण्यपि सर्वाणि नामानि तादृशरीत्या आख्यातजा तानीति तेपामभिप्रायः । अयं च सिद्धान्तो वैयाकरणेष्वपि केषाञ्चित् सम्मनः, अपरस्त वैयाकरणः, नैरकोनापि सता गायेण च न तन्मतमाद्रियते । एतन्म नामपदानां कनिचिदेव आख्यातजानि, न तु सर्वाग्याप । अतएवै. भिरुच्यते: सत्यं, तानि खल नाम पदानि युप्माकमिव अस्माकमपि मते भाख्यातजानि, यंपां वक्ष्यमाण लक्षणमस्ति । तथाहि- विविधानि खलु नामानि दृश्यन्ते-कानिचित प्रत्यक्षक्रियाणि, यथा--कारको, हारका इति; अपराणि प्रकल्प्यक्रियाणि, यथा-डि- स्थो, डवित्थः, अरविन्दोऽर्वाङ, इति । एवं सति, येषु नामसु उदा. तादिः स्वरः, प्रतिप्रययौ च लक्षणेशास्त्रविहितया उपपत्त्या युक्ताः, धातुना चानुगताः, तानि नामानि भाख्यातजानि न त्वेभ्योपराण्यपि । .

, , . नामपदानामत्पत्तिः। १५९ थाविशेषेण सर्वषामेव नाम्नामाख्यातजत्वं स्वीधिकीयंते, तहि स दी तत्पक्षऽस्माभिः प्रदर्शितान् दोपानुद्धरतु । १ । सर्वपां नाम्नामाख्यातजत्व-यया क्रियया एकस्य वस्तुनो म क्रियते, यदि सैव क्रिया अन्यस्य कस्यापि स्यात्, तहि तस्यापि तुन: तयैव क्रियया नामकरणमापद्यते । एवं च यदि अध्वानम- त' इति तत्कः प्राणिनः · अश्व' इति नाम स्यान, तमि अनश्वो- प यदि कश्चित्प्राणी अध्वानमश्नवीत, तदा सोऽपि 'अश्व' इति यनीयः स्यात् । न तु कथ्यते । इत्थं, यदि तदन क्रियायोगात् गस्य 'तृण' नाम, तहिं यः कश्चित तृन्द्यात स एव तृणपदवाच्यो पतु न तु भवति । तथा च एकक्रियायोगादनेकेषाम् एकनामधयत्व- नङ्ग इत्येको दोषः। २ । अन्यश्च, क्रियाहेतुके हि नामधेयप्रतिलम्भे यावतीभिः कि. भिरेक द्रव्यं संयुक्तं स्यात्, तावाभिरेव क्रियाभिस्तस्य नाम यात् । तथा च येयं गृहस्य स्थूणा, सा खलु 'दरे ( गत्तं ) शेते' इति स्या "दरशयेति' नाम भवितु युक्तम् । एवमस्यां वंशः सज्यत ति सानाति नाम धेयं भवतु । न तु भवति । तथाच आकक्रिया. गादकस्य अनेकनामधेयप्राप्तिप्रसङ्ग इत्यागेदोपः । ३ । किञ्च, पुरुषाश्चादीनां नामपदानां यो खलु प्रकृतिप्रत्ययो यायलक्षणानुगतो, ताभ्यामेव प्रकृतिप्रत्ययाभ्यां यथानियमं तानि हानि कथनीयानि-यथा हि तेषां पदानामर्थः सुबोधो भवेत । एवं व, 'पुरि शंते' इति निमित्तमादाय पुरुष: 'गुरुपी' भातीति युष्मा- भरुच्यते; परन्तु गुरुप' इति कथिने, तस्य वयवार्थः न स्पष्ट प्र. काशते, अतः 'पुरुष' इत्यनुक्त्वा “रिशय' इत्येव कथनीयम, तथा- वार्थबोधलोकर्य भवेत् । एवम्, 'अध्यानमश्नत' इति 'अश्व' इत्य- सुस्त्वा' अष्टा' इत्येव वाच्यम्; तृणमित्यकथयित्वा तद्दन' मिति उक्तव्यम् । न तु कश्चित्कथयति । न च तेषु तेषु पदेषु विद्यमानाना- पि क्रियाणां परोक्षीकरणे किमपि कारणं दृश्यते । .

r १६० मित्रगोष्ठी-पत्रिका। ४ । भपिच, शाकटायनादयो हि निष्पन्नपूर्व नामधेये कतमय धातोः कतमेन प्रत्ययेन तनिष्पमिति विचारयन्ति, 'पृथिवीति । मधयं पूर्वमेवोरणनम्, अथ तैरस्य प्रकृतिप्रत्ययादिकमविष्यते, थ्यते च प्रथनात् पृथिवीति'। मन जिज्ञासामहे-यदीयं प्रथना पृथियो, तर्हि पूर्वमस्याः प्रथनं नासोत, अथ केनापि प्रथनं कृतमिश याति । तत्र कोनामास्याः प्रथनमकरोत, किमाधारश्वायमासोत्ता मीम, नहि तदा कश्चिदख्याधारः सम्भवति । ततश्च प्रथनस्यैया भावेन प्रधनादिक्रियामूलकान्येतानि नामपदानोति न शक्यते वक्ता ५ । अयं चापरोऽद्भुततरः पद संस्कारः शाकटायनेन प्रदर्शित 'सत्यम्' इति किमपि पदमस्ति । तदिदं तेनेत्थं साध्यते-अस्ते. र्धातो: 'सत्' इति, एतेश्च ( रणगतौ ) ण्यन्तं रूपं कृत्वा 'य' कारमार गृहीत्वा 'सत्' इत्यस्योत्तरं स्थाप्यते । ततः 'सत्यम्' इति पदं जाय अर्थश्व स्य–'सन्तम् अर्थम आययति-प्रत्याययतीति'। तदनेन दृश्यत शाकटायन एकैकस्मात् पदात् पदान्तराद्धीन संस्कृतवानिति,-या खल्बर्थो न शब्देनानुगतः, यत्र च शब्दोऽपि न धातुना सम्यक सा- धयितुं शक्यते । एतादृशेषु स्थानेषु 'सर्वाणि नामान्याख्यातजानीति केवलमा.नः प्रतिज्ञा रक्षितु काशकुशालम्वमिव कृतं श.करायनेन ६। अन्यदगि, अभियुक्तरुच्यते-क्रिया नामेयं किमपि सस. माश्रित्य तिष्ठति; अत: क्रियात: पूर्वमेव सत्त्वस्य सद्भावो वक्तव्यः भन्यथा तदभावात किमाश्रित्येयं क्रिया तिष्ठतु । तथा च यदि क्रिया- तः पूर्वमेव सत्त्वस्य स्थितिः प्रमाणसिद्धा, तदा अपरकालीनया कि- यया पूर्वधर्तिनः सत्त्वस्य संज्ञा कथं नाम सङ्गच्छेत ? संज्ञा खल्विय द्रव्य त्योत्पत्तिसहभूता, क्रियानिरपेक्षया हि संज्ञया अभिसम्बन्धमेव द्रव्यमुत्पद्यते। अतो नेदमुपपद्यते सर्वाणि नामान्याख्यातजानीति । * अयं चानातमो हेतुरीश्वरनिराकरणे मौमांसकानाम् । दृश्यता- मौमांस शोकवार्तिकम्, ( सम्बन्ध क्षेपपरिहारः), एवं मित्रगोष्ठी-पत्रिका १ वर्षे १११२ मीमामादर्शने ईश्वरवादः"। .. . .

- . नामपदानामत्यत्तिः। शाकटायनानुगायिभिः नैरुक्त श्चैत अक्षेपा इत्थं प्रतिक्षिप्यन्ते :- ।। सर्व नामपदं क्रियामित्युक न कश्चिदोषः सम्भवति । यत्तु थसि--'सर्वपां नानामाख्यातजत्वे यया क्रियया एकस्य वस्तुनो म क्रियत' इत्यादीति, न तत् किश्चित् , पश्यामः,-समानकर्मणामपि नानां तेन कर्मणा केपाश्चिदेव नामधेयप्रतिलम्भो भवति, न त्वन्ये- म् । तद्यथा--तक्षन् कश्रित तक्षोच्यते, तक्षन्नप्यन्यो न तक्षोच्यते; रिव्रजन् कोऽति परिव्राजको भवति, अपरो न भवति; भूम्यां जातः isपि भूमिजोऽभिधीयते, नान्य इति। न च तावता तक्ष्णः तक्षण- मित्तं नामधेयं न भवतीति; न वा परिव्राजकादीनां परिव्रजनहेतु - म्। किमन कारणनिति चेल् लोकमेव पृच्छ, तमेवोपालभस्व । ना. भिरयं नियमः कृतः । अथवा क्रियातिशयकृत एष नियमो भवे ।। हि यदतिशयन करोति, अनेकक्रियावत्वेऽपि तस्य तयैव क्रिया मधेयं भवति । विद्यमानयाप्यनया क्रियया अपरस्य तन्नामामा- 'प, क्रिययैव हि कयाचित् तत्स्थितया तदभिधेयं भवति । तथाच क्रियायोगादनेकेषाम् एकनामधेयत्व सक्तिरूपो दोषो नास्ति २। एतेन अनेकक्रियायोगादे कस्य अनेकनामधेयत्वासङ्गरूपः शितो द्वितोयो दोषोऽपि प्रयु को वेदितव्यः । सतीष्पप्यनेकासु या परिव्राजकस्य परिव्रजन क्रियामन्तरेण नान्यया नामधेयप्राप्ति- पति। ३ । यदन पमानामर्थबोधनौकर्यार्थ 'पुरुष' इत्यनुक्त्वा " - {" इति काव्यम, तृपि च वक्तव्ये तदनमिति, तत्रोच्यत यमस्माकमपराधी न वा शस्त्रस्य; प्राक् प्रयुक्तस्य हि शब्दरप वाख्यानं शास्त्रानुसरणन क्रियतेऽस्माभिः। तत्र येन प्रथम प दः प्रयुक्तः तस्येयापराधी भवेत् । प्रयोक्त्रा हि तथा केचित् शब्दः काः, यथा ने सर्वेषां प्रतीताय भान्त, अन्ये तु केचिदप्रती- याः । ता अप्रतीतार्थानां शब्दानां प्रतीतार्थत्वं क्रियत एव शा- ण। यथा नाट्यः, अटणारः, जागरूक इत्यादयः-जाट्य:,-जा- १६२ मित्रगोष्ठी-पत्रिका वान्,* माटणार:-अटनशीलः, + जागरूकः--जागरणशील इति ४। यथोक्त-यदि प्रथनात् पृथिवी, तह कस्तस्य प्रथनकत्त किमाधारश्च स आसीदिति, तदप्यकिञ्चित्करम् मा नामेयं केना प्रथिता भवतु, तथापि पृथुत्वदर्शनादेवास्याः पृथिवीतिनाम, न कर सर्वैश्यमानमस्याः पृथु त्वममहोतु शक्यम् । अथापह्न येत, सर्वदृष्ट हानं प्रसज्येत । नचैतदिष्टम् । ५ । यदुक्तं-शाकटायनेन शब्देनानुगतेऽर्थे पदेभ्यः पदान्तरा णाम ः संस्कृताः, यथा “सत्यम्" इत्यस्मिन् पदे, तश्चायुक्तमिति तत्र व्रमः-यः खलु शब्देन अननुगते अभिधेयेऽर्थे पदं संस्करोति स पुरुषः तादृशेन संस्कारेण गहणीयः न पुनरयम् आचार्य: शाकटा यनः, योऽर्थानुगतैरेव धातुभिः पदं संस्कृतवान् । सन्तमर्थम् आययः ति-गमयतीति सत्यम इत्यस्त्येव शब्दानुगतोऽर्थः। दृश्यते च ब्राह्मा प्रन्थेष्वपि कढिमनुसृत्य पदव्युत्पादनम् । यथा शतपथब्राह्मणे-- तदेतत् व्यक्षरं हृदयमिति; ह इत्येकमक्षरम्, अभिहरन्त्यस्मै स्वाश्चान्ये च य एवं वेद; द इत्येक- मक्षरम्, ददत्यस्मै स्वाश्चान्ये च य एवं वेद, य इत्येकमक्षरम्, पति स्वर्ग लोके य एवं वेद इति"। (१४.८.४.१) पधं च हरतेदंदातेरेतेश्च धातुभ्यो हृदय शब्दः । ६ । यदप्युक्त-पूर्वोत्पन्नस्य सत्त्वस्यापरकालीनया क्रियया नाम- धेयं न सम्भवतीति । तदप्यचारु । पश्यामो वयं पूर्वमुत्पन्नानामपि केषाञ्चित् पश्चात्कालीनयापि क्रियया नामधेयं भवति केषाश्चिञ्च न भवतीति, यथा कश्चिद विल्वं भक्षयिष्यतीति भविष्यन्त्या क्रियया • "रूपादाहत प्रशंसयोर्यप" (पा. ५.२.१२.) इत्यत्र 'अन्येभ्योऽपि ध्यत' इति विधानात् मत्वर्थीययम् । +पा• ४.१. १३० द्रश्यम्। * "या० ३.१. १६५." -- नामपदानामुत्पत्तिः। ल्वादो नाम भवतीति । तस्माद युक्तमेवैदं यत् सर्वाणि नामान्या- जातजानीति । नामपदानामुत्पत्तिविषये श्रीमता यास्केन स्वकीये निरुक्ते, श्री- ता दुर्गाचार्येण च तदव्याख्याने यदुक्तं, तदेवास्माभिः संक्षिप्याध- न संनिवेशितम्। गाग्यस्य तन्मतानुमोदिनामुक्तानां वैयाकरणानां च मते 'कर्ता, रकः, पक्ता पाचक इत्येवमादीनां प्रत्यक्षक्रियाणां नामपदानामाख्या. देवोत्पत्तिः । प्रकल्प्य क्रियाणां गौः, पुरुषः, अश्व इत्येवमादीनाम्, विद्यमानक्रियाणां च डित्थ-डवित्थादीनां नाण्यातत उत्पत्तिः; त्वत्र अर्थप्रत्यायनार्थ क्रियानरपेक्ष्येण केवलं शब्दव्यवहार एवं यते। केवलमश्वादिपदव्युत्पादनार्थम् अशनक्रियोत्प्रेक्ष्यते । न तु सतुतोऽपि अशनक्रियायोगाद मश्व: अश्वोभवतीति । नैरुक्तयाकरणैकद शिभिश्च अविशेषेण सर्वेषामेव नानामाख्या- जत्वं धुष्यते । यद्यपि केषुचित्पदेषु नामधेयहेतुभूता क्रिया स्पष्टं न तिभासते, तत्रापि यावच्छक्यं सोत्प्रेक्षणीया। न हि केनचित्तदश. यत्वे क्रियापि तत्र न स्यादिति । पुरुषाशक्तिः खल्वेषा। प्रथममु- |द्यमानो हि स स शब्दः क्रियात एवोत्पन्न इति विज्ञायते । गाग्र्येण शाकटायनपक्षे ये नाम दोषा आशङ्किताः, अनुयुक्तः 'नरुक्तः शाकटायनानुयायिभिस्ते समाहिताः। युक्तयन ता: समी- नाः। गाग्यपक्षे तु येषां नाम्नामाख्यातजत्वं तैर्नाङ्गीक्रियते, तेषा- त्पत्तौ किमपि कारणं नोपलभ्यते । अवश्यमयमनुयोगविषयो यत थं न्वयमश्वः 'अश्व' इत्युच्यत इति । गाग्यपक्षेत्र न कापि हृदय- 'मा प्रत्युक्तिरस्ति । मन्त्रब्राह्मणात्मकस्य वेदस्य प्रथम मन्त्रभागः, तो ब्राह्मणभागः। ब्राह्मणं विना नापरं किञ्चिन्मन्त्राणां प्राचीनतम पाख्यानमस्ति, तञ्च ब्राह्मणं शाकटायनपक्षमेव समर्थयते । मन्त्रस्थि- नां नामपदानां व्याकरणावकाशे ब्राह्मणेन शाकटायनादिधृतव प- ति: प्रदर्शिता। उदाहृतं शतपथब्राह्मणवचनं तत्स्पष्टीकरोति ।

१६५ धा, मित्रगोष्ठी-पत्रिका। अन्यच्च-"यदसर्पत, तत्सपिरिति," “यन्नवनीतमभवदिति" चेल दीनि पर:शतानि नामपदनिर्वचनानि ब्राह्मणप्रन्थेषु दृश्यन्ते । य क्रियायोगात् सत्वानां नामधेयप्रति लम्भो नार्भावष्यत, तहिं वेदाः माष्यभूतेषु ब्राह्मणग्रन्थेषु तादृशं निवचनं नाद्रक्ष्यत । वैदिकशब्दानामालोचनयाप्ययमर्थः स्पष्टीभवेत् । तदानी किल त्यन्तप्राचीनसमये तत्रभवद्भिपिभिर्यस्य वस्तुनो या क्रियोग तयैव तन्निहि टम् । यदा खलु तैरालोकितम् आलोचितं यमदी मनुष्य इव सरतीति, तदा तैस्तस्याः सरणवत्तृत्वेन दिति नाम कृतम्, एवं यदा नद्याः प्रवाहध्वनिराकर्णितः, तदा ध्या कर्तृत्वेन 'धुनीति,' 'नदीति' वाभिधेयं जातम् । यदा च तस्या हरु वद गमनं बीक्षितं तदा 'सीरीति' हलनाम्नैव साभिहिता । यदा भात्रेव पुत्राणां तया क्षेत्राणां पालनं कृत, तदा सा 'माते त्येव कीर्तिता । इत्थं यदि प्राचीनतमानि नामपदान्यालोच्यरन, ता तपामाख्यातजत्वं चारुतरं विज्ञायेत । एषां पदानामुत्पत्तिसमये मन्त्र णामाविर्भावकाले श्रीमद्भिनषिभिरात्मसादृश्येन तदानी परिदृश्य मानेषु पदार्थषु तत्तत कियादर्शनात्, तत्तत्कतृत्वेनैव हि तेषामभिधे कृतम् + । क्षणमालोचननवदं सर्वेषां प्रतिभायात । तदिदं संख्या न्तर दिदीयषामः। विधशेखर शर्मा। * सरित, नद्यः, धुनयः, साराः मातर इत्यादयः शन्दा नहानामम निघण्टो पठिताः। १य. १३ख | + If we want to know, for instance, what the ancients tho ught when they spoke of a river, the answer 19, they thought o it exactly what they called it, and they called it, as we knoy in different ways, either the runner ( मरिन ), or the noisy (नर्द or 17:); or if it llowed in a straight line, the plougher o the plough ( मोरा-नहीं, मौरा-इलम् ), or the arrow; or if it see ined to nourish the fields, the inother (HHT), or if it separater and protected one country froin another, the defender (मिन्द froin मि, सेधति, to keep off )"-Max Muller's The Hibber Lectures on ongin and growth of Religion. P. 191. "Everything named as active" ibid. P. 192. + , भारतस्य वर्णमाला वर्णलिपिश्च। (पूर्वतोऽनुवर्तते ) संस्कृतवर्णमाला सर्वाभ्यो योग्यतमा इति स्वीकृतेऽपि अक्षरम- तिरेण को निर्णयः स्यात् ? अस्य प्रश्नस्योत्तरं न सुकर', जनप्रकोपश- झासम्पर्कात तस्य । जनप्रकोपश्च पैशुन्येन नित्यसंबद्धः। संग्रामो- त्र भारतप्रचलितविभिन्नलिपि सम्बन्धी। ताश्च लिप यः प्रायः सर्वा कवर्णमालाकाः। भारतस्य साधारणवठपिः कथं वङ्गलिपिरेव पवितुमहेत् न कैथीया गुजरोया वा इत्यस्मिन् विषये कोऽपि विशेषहेतुर्नास्ति । भवेनाम वङ्गभाषा साहित्यसमृद्धया सौभाग्यवती, तथापि वङ्गलिपिः तेलेगुलिपेः तामिलाद, भिन्नाया अन्यस्याः कस्या- चिल्लिपे वा न विशिष्यते। आदर्शः सर्वासामेक एव । आकृतिभेदा गुर्वर्थाः । यान् खलु हेतूनबलम्ब्य रोमकारबीयाभ्यां वर्णमालाभ्यां संस्कृतवर्णमालायाः श्रेयस्त्वं प्रतिपादयामो वयं ते तु हेतवो विभि- भारतीयलिपीनां तारतम्यविचारे न प्रयुज्यन्ते । यो मया भावा- मको हेतुः पूर्वम् प्रदर्शितः स समर्थितपक्षं लिपिविशेपं वयित्वा प्रन्यासा सर्वासां लिपीनां विरुद्ध गच्छेत् । अत्र हि वयं न कस्यापि साधारणशत्रोः प्रतिपक्षा: इति वक्तव्यम् । वर्षशतकात् पूर्व भारते बहुसंख्यका लिपयः प्रचलिता आसन्। १८७७-तमे आंग्लवर्षे द्वाषष्टिः आदा: संगृहीताः अभवन् । अधुना प्रर्चालत नां लिपीनां मुख्यास्तु उडू- Uriya ) वङ्गोय-कैथी-नागरो- लिगु-तामिल-कानरीय-महाराष्ट्रीय--गुर्जरीय-गर्मुखी--गुण्डीत्या ख्या: 'लपयः । एतदव्यतिरिक्ता भारतस्य वहुप्रदेशेषु प्रचलिता विशेषतः 'लन्धु-पश्चनद-युक्तप्रदेश-विहारेषु प्रचलिता महम्मदीयैश्च समग्रं पारने व्यवहृता पारसीका च अन्यतमा । भालामाकृतिभेदाः परि- फुटाः परं सादृश्यमपि स्फुटम् । ब्रह्म-सिंहल-प्रचलिते लिपी अपि स्मिन्नेव संस्कृताधिकरणे अन्तर्निवरायेयम् । लिपीनां साहित्यानांच तादृशस्य भेदबाहुल्यस्य एतदेव कलमभूत यद यद्यपि आंग्लशास.

तु , १६६ मित्रगोष्ठी-पत्रिका। नाधिकार प्रादेशिकसाहित्यानि क्रमशोषर्धमानानि सन्ति, तथापि तानि परस्परस्वतन्लाण्येव, विभिन्न प्रदेशवासिनश्च स्वेतरप्रदेशसा. हित्यस्य हिन्दीसाहित्यस्य वा उन्मतिविषये स्तोकमेव जानाति । तर मयमेव हे यत् भवत्पुरतः द्वौ अन्तरायौ विद्य ते एको भाषास- म्बन्धी । यदि कश्चिद हिन्दीभाषामालपेत, तर्हि भवान् ताम् मनाया- सेनैवावधोद्ध तयैव चासम्यक् आलपितुम् अपि शक्नुयात, परं वि. हारवासिभिः व्यवहतायाः कैथि-लिपेः पठने भवान् भृशं क्लेशमनु- भवेत्। यदि भवतः ( वङ्गवासिनः ) पञ्चनदवासी कश्चिदबन्धुः स्वस्यां मातृभाषायां परं वङ्गाक्षरैलिखितं भवते कामपि लिपि प्रेष. येत्, तहिं भवान् तां पठितु शक्नुयात् । किं च, घनाक्षराभिज्ञाय तसौ घङ्गभापया प्रत्युत्तरं दातुप्रभवेत् । एवमुभावपि भवन्तौ परस्पर भाषयोः किंचिज्ज्ञौ चेत् परस्परस्याभिप्रायं बोद्ध शक्नुयाताम् । पर लिपि ( अक्षर )-भेदः ईशे परस्परभावविनिमये महान अन्तरायः। तदभावे परस्परसंव्यवहारः सुकरः स्यात् । 'पारी' प्रवासी कश्चिद मांग्लपुरुषः अनभिज्ञोऽपि 'फान्स'देशभाषायां तनत्यानां रथ्यानां प्र. सिद्धस्थानचयानांच नामानि गृहनिर्णयार्थाः संख्याश्च पठितु समों भवेत् । परं काशी गन्तुकामः कश्चिद वङ्गवासो 'प्टेशने' ( यानवि. रतिस्थाने ) दृष्ट्वापि 'काशी' -नामाङ्कितं फलकं लिपिज्ञानाभावात् न तत् नाम पठितु शक्यात, येनासौ अविलम्बमवतीर्य विश्व नाथमहादेवपूजने त्वरमाणः स्यात् । प्रायो वयं भारतीयभाषा मपेक्ष्य यूरोपीयभाषासु अधिकतरम भिक्षा भवामः । अपि पश्चिमभारते उत्तरभारत वा वनभाषोत्कर्षसा धकयोः विद्यासागराक्षयकुमारयोरिव महापुरुषयोराविर्भावोऽभूर भपि वा वङ्किमचन्द्रसदृशाः ग्रन्थकाराः (लेखकाः) मधुसूदनसडश वा कवय उत्पन्नाः? बहव एवास्माकम् एतेषां प्रश्नानाम् उसरं दातु मसमर्थाः । अशतायाश्चास्माकम् एतदेव कारणं यत् प्रदेशान्तरप्रच लितभाषाणां नवीनायाः कस्याश्चित् लिपेर्वा शिक्षायां नास्माकं प्रव यानाद, भारतस्य वर्णमाला वकिपिश्च । १६७ सविधते । भाषाणामपेक्षया वलिपयः अधिकतरगतिकुठनस्था- नि। वहवो वयं देवनागराक्षरलिखितां हिन्दी पठितु शक्नुमः परं । तथा शक्नुमः कौथि लिपिलिस्त्रितां हिन्दी पठितुम् । अर्थप्रत्यार्थप- समर्थकवृत्तिम् उपजीवतो मे बहुवर्षाण्यतीतानि, परमधुनापि केन चेत् पठितां हिन्दीम् उह भाषां वा यथान्यायम् अवबोद्ध समर्थोऽपि धि-पारसीकाक्षरलिखितानि अधिकरणले ख्यानि नाहं पठितु तोमि । प्रायः सर्वेष्वेव यूरोपामेरिकयोरन्तवर्तिषु देशेषु एकैव वर्णमाला विच वर्णलिपिः प्रचलितास्ति। अन्न तु भारतवर्षे तयोः संख्या अतिमहती। अयं किं नास्माकं साधारणलिपि निश्चेतु समयः ? येत्यत्र भवन्तः प्रतिवश्यन्ति इत्येष मे निश्चयः। सा च साधारण- लपिः देवनागरी भवितुमर्हति इति मे मतम् । सब्रह्म-सिंहले भारते याम-जापानदेशयोश्च तादृशमेव अस्याः स्थानं भवितुमर्हति यादृशं स्थानमधिगता रोमकलिपिः युरोपामेरिकयोः । पुरा देवनागरीलिपिरपि वङ्गोत्कल-गुर्मुखी-गुजरलिपि-निकरवत् देशिक्येवासीत् इति सम्भवति । प्राकालीनविषयकोविदाः वदन्ति पत् पुरासौ प्रादेशिक्यासीत्, देवन गरपदेन पूतनगरी वारा- सी बोध्यते, तन प्रचलिता लिपिः देवनागरीति व्युत्पत्तिदर्शनात् ति तत् सत्य भवेत्। सम्भवत्येतद यद वाराणसीस्थाः पण्डित- महोदयाः भारतस्य पवित्रलिपिस्वरूपामेतां चतुर्दिक्षु प्रचारितवन्त- ति । एतत्तु न सम्भवति यद अन्यासां भारतीयलिपीनामियं मूलाद- रूपा इति । परं हिन्दूनामयं विश्वासो यत् एषा देवानां लिपि- रिति । अस्यां लिपी अधुनास्माकम् अत्युत्कृष्टानि संस्कृतपुस्तकानि लिखितानि सन्ति । यूरोपामेरिकाभ्याम् एषैव लिपिः संस्कृतग्रन्थानां प्रथालिपित्वेन परिगृहीता। भारतेऽपीयं यथार्थसंस्कृतलिपित्वेन स्वीकृता। आधुनिकतत्स्वानुसन्धानैस्तु अन्यथैव प्रतिपाद्यते । अशो. सय राज्ञः शिलालेखाश्च तदेव समर्थयन्ति । परमयमपि भूतार्थो देवनागरी १६८ मित्रगोष्ठी-पत्रिका। नापलपितु शक्यो यत् कलिकाता-वाराणसी-मुम्बानगरीषु संस्कृतम् स्तकप्रचारव्यवसायिभिः देवनागरी लिपिरेव युक्ततमेति परिगृहीता एतेन संस्कृतपाठकानां भूयान लाभोऽभूत्। यदि भवान् लिपि जान ति तहि अनायासनैव कलिकाताप्रकाशितामिष मुन्यात क.शिामपि सटीका मगुसंहितां पठितु भवान् समर्थः स्यात् । पर घङ्गबु बहर एा शास्त्रपारदर्शिनः पण्डिताः कदापि देवनागरी । शिक्षो । यान् खलु मूलग्रन्थान्, यानि च भाष्यादीनि काव्यानि र ते अधीतवन्तः तानि सर्वाण्येव वङ्गाक्षरमुद्रितानि । अतस्ते अधुना- प्रकाशिताल संस्कृतग्रन्थान् पठितु न शक्नुवन्ति । महान् एष परिता. पविषयः । परम् ईडक नायिष्यत यदि सर्वत्र एकैवलिपिदेवनागरी प्रचलिताभविध्या । वस्तुतः भारतीयान् प्राक्कालीनविषयकोविदान विहाय सर्वेषामेव देवनागरी लिपिरनुमोदिता। किमस्या देवनागरी लिपेर्मूलम् इत्यनुसन्धाने नास्माकं समयो वा प्रवृत्तिवर्तते इति तु मया भवद्भःपूर्वमेव कथितम् । साहित्यसमा. जे अधुना असयाः कीदृशो सिथतिरिति तु वयं पश्याम एव । कथं तहि न वयमेतामेव लिपिम् अधुनाप्रचलितानां भारतीयभाषाणां संगता लिपिरिति प्रयुज्महे। अधुना वर्णलिपीनां विषमवाहुल्यमपहाय सर्वे वयमैकमत्येन देवभाषालिपि देवनागरीमेव समग्रभारतस्य भारतहेतु कसभ्यतानां देशनिकराणां च साधारणलिपित्वेन गृह्णीयाम । नूनमय शेषोतो विदेशमम्पकी विचारो न अस्मदायत्तः । निजस्वमन्तरेण सर्व एव कंचित् अभिमानमनुभवन्ति । तच्च युक्रमेव । अनेनाभिमानेन वशीकृतहृदयाः बहव एवं भवन्तः ( वङ्गमालिनः ) आत्मोयायाः वङ्गलिपेः स्थाने कैथिलिपे गुज्जरलि- पर्वा प्रवत्तनं नानुमोदयेयुः । परमीदृशाः जात्यभिमानभानाः देवना. गरोप्रवर्तने न कामपि वाधां जनयितुमर्हन्ति । तेलेगु-तामिलभाषिणां पः अस्माकं प्रतीच्यभारतीयभ्रातॄणां पक्षे च एवमेवस्यात् । यदा उच्चतरलक्ष्याधिगमाय पतद अक्षितं भवति यत एकप्रभुमण्डलशा- १६९ - भारतस्य वर्णमाला वर्णलिपिश्च । धीनानाम् एकाकांक्षाप्रणोदितानां च विभिनजातीयानां जनानां धारणः कश्चित् साहित्यमा': निर्णतव्यः तदा प्राचीनमतसंसक्ति- तिशयं कार्पण्यं व्यञ्जयत्येव । सर्वथा व्यक्तिगतः स्वार्थः दाह- पे वृहत्तरे च लक्ष्ये निमज्जेत् । यदि पनयमक्षराणि तूलयम तहिं पश्येम यत् प्रस्तावस्यास्य रणेन नास्माकं काचित क्षतिभवेत् यतः देवनागरीलिपेः अन्यासां रतीलिपीनां च भेदः केवलं शाब्दिको न तु वास्तवः। कतिपय- र्व मम श्रद्वेयोबन्धः सुविद्वान् श्रीगुरुदासवन्द्योपाध्याय के लि. इ. इ'-महोदयः कांचित् पुस्तिकां प्रकशित गन् । तस्यां तेन प्रद- त यत् वङ्ग-देवनागरी-लिप्योर्यो भेदी दृश्यते सः स्तोक एव, लि. चेयं देवनागरी अनायासेनैव शिक्षितु शक्यः इति । एकत: कैथि- राष्ट्रीय-गुर्जर-तेलेगतामिललिपयः प्रत्येकम् अन्यतो देवनागरी- पि: अनयारुभयो दाग तथैवाकिंचित्करः । देवनागरीलिप्यर्थ T: सर्वा अनायासेनैव त्यक्तु शक्याः । एतद्विषये मन्मतं दृष्टान्तेन रचयितुमहम् ऐच्छम् । परमधुनातस्य समयो नास्ति, आशङ्क- हिं भवानत्र ममयाँ भातां व्ययित एव । यथावसरं पियोऽयं विस्तर वर्णावष्यते। यदि सब्रह्मसिंहले भारते सर्वत्र सस्कृतलिदः धारणलिपिहन ग्रहणं सकृत अनुमोद्य त, तर्हि तस्याः प्रवर्तन न करं भवत् । प्रायः सर्व एव कृतविद्या भारतीया देवनागरी लिपि नन्ति । अधुना इदमव विचार्य कथं केनोपायेन च तस्याः प्रचलन कृतजनानपि प्राप्नुयात् इति । नाहं प्रस्तौमि यत् एकदैव सर्वाः प्र. लिलिपयः परित्यक्तव्याः । तद्धि नितरामसम्भवमेव । ईडशमम. विं प्रस्तावं भवन्तो गृह्णीयुरिति च नाहमिच्छेयम् बहुवर्षाणि देवना. लिपः पाश्वं तासामपि स्थानमव्याहतं तिष्ठतु ततः क्रमेण सां परिहारो लोपश्च साधनीयः। प्रारम्भेतु प्रदेशीयभाषासु नि. द्वा ये ये साहित्यविषयका विज्ञानविषयकाच ग्रन्था विद्याते ते सर्व षनागरीठिपौ प्रकाशितव्याः । सत्प्रस्तुतेन नववेशपरिग्रहेणानेन ३ तप १७० मित्रगोष्ठी-पत्रिका। ग्रन्थकारमहोदयानां न काचिद हानिः सम्भवेत् पाठकमण्डलस्य अचिरप्रसार आशस्यत । ये नाम ग्रन्थक.रस्य गौरवभावहन्ति येत वर्तमानानां भविष्याणां च सन्तानानां श्लाघाविषयाः ते रस-भाव- लाना-प्रौढ़ि-चारुतादयो ग्रन्धरणा: यथा प्रदेशीयायां लिपौ दवन गरीलिपावपि अविकृतस्फुटाः स्युः । रसज्ञानां रसिकता कवो. नां च करुणरसो यथा अधुना तथा तदार तानेर भावान जनयित विकासयितु च प्रभवेत् । विभिन्नदेशीयानां लिपीनाम इतिवृत्तमस्मार प्रत्यायर्यात यत् देवनागरोपाच्छदप्रवर्तनेन लेखकमहादयानां । कापि हानिः संभवेत् । अतः परं शिशवस्नेनैव प्रकारेण देवनागरीवर्णमालां शिक्षितुमा- रभेरन येन प्रकारेण विशालस्यासय साम्रज्यस्य विभिन्न प्रदेशीया लिपोस्ते शिक्षन्ते । लेखकार्य दवनागरीव्यतिरिक्तानामन्यासां लिपीन व्यवहारः क्रमण लघुतां प्रापणोयाः। अनेन च प्रकारेण स्वलो. रेव वर्षे समग्रभारते एक लिपिः प्रवर्तिता स्यात् । विश्वविद्यालयतथ्यसंग्रह लमितिः संस्कृतप्रश्नोत्तरेषु देवनागरी- लिपिव्यवहारमनुमोदितातो। एतस्यानुमोदनस्य सर्वेषु विश्वविद्या. लयेषु परिग्रहणन अभिप्रायाऽस्माकं भूयला सुसिद्धः स्यात् । विद्या- लयच्छात्राः सर्व एव तदा देवनागरीयाक्षरैरनायासेन लिखितु शिक्ष यिष्यन्ते। श्रयते मया एलाहाबाद-लाहोर-माद्राज-गोम्व-विश्वविद्य लयेषु देवनागरोलिपिरवश्यं शिक्षणीयेव । कलिकाताविश्वविद्या लयस्तु अधुनापि अस्मिन् विषये पराङ्मु ख एव दृश्यते । यहुद र्षेभ्यः प्राक् श्रीमदगुरुदास पन्धोपाध्यायमहोदयः कलिकाताविश्ववि. चलो अवश्यमेषा प्रवर्तितव्योति निबन्धेन प्रायतत । एतदर्थ कश्चि- नियमोऽपि कल्पितः । परम् अद्यापि तन्नानुष्ठितम् । तदानीमहं स्वयं देवनागरीलिपिप्रवर्तनस्य प्रतिकूलपक्षम् अभजम् । अयं च तत्र हेतुः मया चिन्तिता अनेन प्रकारेण संस्कृतपरीक्षापये नूतना निक्षिप्ताः स्युः एतत्तु मया न विचारितं यत विषयोऽयम् अभ्यासा- यत घाघा भारतस्य वणमाकावणालापथा क्षिः । स चाभ्यासी यदि शैशवाद अर्जितो भवेत तर्हि शीघ्रमेव ते हल्पिता अन्तराया अन्तहिताः स्युरिति । एकपदे तस्या आवश्यक यवहारः अभीष्टफलजनक: स्यात इत्यतो यदि उपक्रमसाधनत्वेन पंषटकपरिमितः समयो दोयेत तर्हि मन्ये परीक्षार्थिनः परीक्षासु कमप्यसोकर्ष नानुभवेयुः । वर्तमानकालस्य प्रयोजनानि सम्यक आ- होचितवता मया पूर्वमतमधुना परित्यक्तम् । अधुना एष मे दृढनिश्च- तो यत् सर्वेषु प्रदेशषु एकस्या एव वर्णमालायाः एकस्याश्च वर्णलिपः विनिमेव विभिन्न देशेषु भावनियमस्य भित्रदेशीयसाहित्यपाठस्य च सुगमतम उपाय इति। सम्भवत्यतत् यद देवनागरीलिपे: प्रवर्तनं भारतीयभाषानिकरेंषु स्कृतशब्दाना बहुलप्रवेशस्य अलक्षितसाधनं स्यात् । घणभाषायां स्कृतमूलकानां शब्दानां बहुलप्रयोगः सुप्रतिष्ठितः। अयं हि प्रधा- तस्तस्याः वर्तमानसोप्ठवस्य हेतुः। तस्यां दिशि अधुना हिन्दीभा-- पि द्रुतपदविक्षे चालतुमारब्धा । अतश्चाधुनिकी हिन्दी विशेषतो राणसीप्रचलिता हिन्दी संस्कृतायिता । आधुनिक-यूरोपीयभाषाणां पष्टिपथा ग्रीकलाटिनेति-प्राचीनमुख्यभाषामूलकानां शब्दानामुपक- पनेन साधिता तथा भारतीयभाषान्तराणामपि सौष्ठवं तासु संस्कृत- लकशब्दानामनुप्रवेशमपरिहार्यत्वेनापेक्ष्यते । एतन्मे विदितं यत् रतवर्ष एवं जातीया कंचित चिन्तका लेखकाश्च विद्यन्तं ये आधु- नकानां भारतीयभाषाणां वैभवसाधनाय साकल्येन प्राचुर्यण वा संस्कृ. लाहाय्यग्रहणं नेच्छन्ति, इच्छन्ति च लिखितभाषाणामपि कथितभा- नुरूपत्वापादनम् इति । अनत्थाप्य तद्विषयम अप्रविश्य वा ताद- किं मन्येऽहमेकस्मिन् विषये सर्वेषामस्माकमैकमत्यं विद्यते। सच वषयः अयं यद याः खलु भारतीयभाषाः संस्कृतमूलकास्तासामियं संस्कृतभाषा चिरमेव शब्दानों मुख्यतमो निझरो भाण्डागारं चेति धातु प्रभवेत्। संस्कृतस्य शब्दकोशो धातुगणश्च घर्तमानभाषाणां शागामिव तिष्ठेताम् यस्मात् ताः स्वेषां रुचिरोन्नतभावानामनुरूप .

नाधिकमा- १७२ मित्रगोष्ठी-पत्रिका। घेशं ग्रहीतु शनयुः । यथा यथा लघु वयमेतत्, मलवस्तु उपसरेंग यथा यथा चास्मात बाहुल्येन शब्दमन्थनं कुर्याम तथा तथा त्वरित वयं साहित्यानामस्माकं विकाश साफ लभमहि । अस्ति च मे अ. शंसा यत् दुरोत्तर क ले संस्कृतकोषात् प्रदेशीयभाषासु एतावत शब्दवैभवं संप्रवक्ष्यति यद ईदृशं संस्कृतशब्दमन्थने पुनः वश्यक भविष्यतीति । एवं संस्कृतभाषिकाणां तदभाषाम् लकानांच शब्दानां बहुलप्रयोगेन देवनागरी लिपिप्रवर्तनेन च भारतीयभाषानि- कराः परस्परम् अधिकतरंसन्निकृष्टसंस्पृष्टाः स्युः। विभिन्न प्रदेशवा- सिनश्च भाषाभेदे सत्यपि वर्तमानापेक्षया अधिकत शीघ्र परस्परमा- घान् गृह्णीयुः । परस्परभाषालु च ते अधुनापेक्षया अल्पायासेन अ. ल्प समयेन च व्युत्पत्तिलाभे समर्थाः स्युः । संस्कृतज्ञानलबसाहाय्ये. नाहम् अनायासेनैव हिन्दी विशेषण आधुनिकी हिन्दी पठितु' कृतविद्य न हिन्दीभापिणा भद्रजनविशेषण सह सलापे स्वाभिप्राय प्रकटयितुच शक्नोमि । हेतुश्वान परिस्फुट एव-उभयोरेवावयोः शब्दसम्पत संस्कृतकमूला । एकमेव बहूनामवास्माकं पक्षे वतते । जानाम्यहं कल्पनामिमां भवतां प्रवासिनां च मे देशबन्धूनां विचा- रार्थम उपन्यसनं अहं वादयुद्ध मामन्त्रयमाणोऽस्मि । तच्च वादयुद्ध बहुसमयव्यापि भवेत् उत स्वलाकालस्थायि तन्न जाने। परमेषास्ति मे गाढ़ाशंसा यत् तर्ककालं कटुभाषा सर्वथा परिवर्जिता स्यात् इति । संस्कृतसाधारणमूलानां संस्कृतेन च भूरिपोपितानां विभिन्नानां भ.पाणां लिपोनां च प्रयोक्तृणां देशवन्धूनां मध्ये मानसिकस्य साहि- त्यिकस्य च आदानप्रदानस्य प्रवर्तनं प्रोत्साहनं च प्राधान्येन में लक्ष्य. विषय इत्यस्य कथनं नावश्यकम् । संस्कृतस्य दर्शनसाहित्यरूपं समृ. द्धममूल्यं च भाण्डारम् अस्माकं साधारणाधिकारविषयः । एवं पाश्चात्याधिगत विदयापि । नाय गरीयानर्थः यदि कश्चिद भार तवासी त्रिचन्द्रनगरात ढाकानगरातो वा अस्मान् अभिनन्दतु । स च वयं च घनवासिनः अस्माकं सुदूरसिन्धुमुम्बाप्रदेशागताश्च भारतस्य वर्णमाला वर्णलिपिश्च । १७३ धिवः कालिदास-भवभूति-(Shakespeere)-सेक्षपोयर(Tennyson). निसन प्रमुखानां कवीनां गुणदोषविचागनुभवादिषु किर्माप मा. रणसहानुभवबन्धनम् अनुभवामः । घङ्ग भ्यो बहिः कति भारतीया मिग्रन्थानाम् आंगुभाषायाम अनन्दितान स्वल्पसंख्यकान ग्रन्थान् जयित्वा शिष्टान् पठितवन्तः ? कतिसंख्यका वयं वङ्गवासिनः 'दाल- प्राइ'-' Dalpatrai ) नाम्ना सुप्रसिद्धस्य गुर्जरकवनाम श्रु तवन्तः ? भाषाविषयाद यहिरस्मई शोयानां मनोवृत्तविकासः कोटश इत्ये. त परिमातु नास्ति कश्चिदुपायः । देशाभिमानः अधुना उत्तरोत्तरं सपन्नस्ति, तस्य मूलानि च गभीराद गभारतरं बध्यमानानि सन्ति । धुना सर्वे वयं पाश्चात्यप्रभावाधीनाः संजाता: स्वीकुमश्चप्सहर्ष स्वा- तिं प्रति अस्माकम ऋणाधिक्यम् । कथं न काचित् स्थानिकस्य का- कस्य च प्रभावस्य विनिमयव्यवस्था क्रियेत येन दाक्षिणात्यसाहित्य साहित्योपरि वङ्गसाहित्यं च मद्रलाहित्योपरि प्रभावं प्रवर्तयेत् । शबन्धनस्माकं गाद ज्ञातुन वयं समर्थाः स्याम यावत तेषां साहित्यं न जानीयाम । न च साहि यजनितात् सहानुभव त अधिकतरः हतिसाधकः स्वार्थभावरहितश्व सहानुभावोऽन्यो विद्यते । एतन्मे नीतं मतं यत् कस्याश्चित् साधारण्याः वर्णमालाया वर्णलिपश्च रग्रहः तस्यैव महतो लक्ष्यस्य साधने प्रवर्तकः स्यात् । यत्पथाव- बनेन मन्मते उद्देशश्य तस्य साधन स्वलान्तरायः सम्भवत् तदपि । निवेदितमं । लाभस्त्वतेन अन्तरायाचं न एंका- न दुरतिक्रमाः प्रतीयेरन् । अहो तद्दिनं भारतस्य कोहग गौरवकर विष्यति यदा सर्वा भारतीया भाषा एकामेव लिपि व्यवहरिष्यन्ति, प्रदेशीयं साहित्यं च प्रदेशान्तराणां सहजबोध्य भविष्यति । भंस्य सौकर्यस्य चे तुलनया परिश्रमो व्ययश्च ईदृक् अल्पो तीये- तां। भवत्पुरतो मया स्थापितस्य प्रस्तावस्यास्य अन्तिमं विचार- लं सविश्रम्भमहं प्रतीक्षिष्ये। श्री सारदाचरणमित्रः। महान् स्यात् वाराणस्यां शारदचन्द्रः । ( काव्यम् ) वाराणस्या भगवत्या भागीरथ्यास्तटभूमावेव पवित्रं नारदती तत्र बहुभिः सुहृद्भिबहुभिविनोदालापैः, बहुभिः प्रमोदैश्च बहवः काल अतोताः । परन्त्वीदृशं सुख दिनम्, एतादृशश्च शान्तिसमयो न जानु महाया भागधे नाश्त, कदाचित् पुनरपि द्रष्यत इत्यपि नाशात्ति ह्यः किल सकलकलस्य शारदशशाङ्कय निर्मलतमैः किरणप्रवाई, समुद्भासितावयवा भुवननयनमोहिनी राकारजनी काञ्चिदभुतपक्ष सुषमासम्पत्तिमाविरकात् । अद्य तु प्रतिहृदयपट तस्या एव निर, पममुखमयी परमकोमला शरीरिणीव मधुरता कापि स्मृतिलेखा समङ्किता। तिथिरथ कृष्णा प्रतिपन्नाम । चन्द्रमसः समागमेनाद्यापि जगता रिपूतं भवेदिति पश्चिमसन्ध्यायाः पूर्वमेव भवनसोधस्य छदोपरि सर्वोच्च स्थानमध्यतिष्ठम् । पश्यत एव वियन्मण्डलं क्रमेणास्फुटान स्फुटतरेण लोहितरागेण रक्तीभवितुमारभत । सुदरतः पूर्वाकाशा- न्तात तिमिररंखापि धीरधीरमात्मनोऽपरिस्फुटां मलिना छायां प्रका- यित्न व्यरमत् । नेत्रं चित्तं च मे ऐकाग्येण तामेव दिशमभ्यधा. चताम् । जाह्नव्या अपरस्मिंस्तटे विशालः सिकतास्तूपः, ततः प्रस- आभिः शश्यपरम्परराभिः श्यमला सुविस्तीर्णा प्रान्तरभूमिः; ततान समुन्नताग्राणां विधानां पादपानामधिरलसंस्थाना नयनाकर्षणनि- पुणा श्रेणी। अहं तंषामेघ गगनचुम्बिनी विटपिन शिखरप्रदेशमन- लक्ष्य निर्निमेषाभ्यां नयनाभ्यां जडइव तूष्णी मतिष्ठम् । प्रादोषिकमारुण्यं गगनपटं विहाय गच्छद्गच्छदपि किञ्चिद् वि. भाव्येव न गच्छति, तिमिरं भुवनाक्रमणं कुर्वत कुर्वदपि परावत्तंत इव अनन्तस्याक शस्य सपदि क्वचिदेकैकं क्षीणं नक्षत्रं स्फुरितस्फुरितमपि कुतोऽपि वीडया निवत्तंत इव, पुनरागतागतमपि चान्योन्यं गप्तान्वेध. । .

वाराणस्यां शारदचन्द्रः। .. . किलिप्रवृत्तमिव सृध एवान्तधंत्तइव, अचिन्तयं त्रिदिवगङ्गायाः कन. सलिलस्य द्वित्रा विन्दवः पतितपतिता अपि न पतन्ति, क्रीडाकौतु- कन्या गगनलक्ष्भ्याः कबरीमाल्यस्तरकतो वा स्खलितस्खलितान्यपि मानिनित कुसुमानि न स्खलन्ति सा च तानि वा धृत्वा धृत्वापि न नर्धत्तुं शक्नोतीति । अधस्ताश्चानतिविस्तीणीया अतिक्षुद्रायाश्च भगव-या अमरस्रोत- वत्या अनाविलं सलिलं न धवलं, न कृष्णं न वा लोहितम अपित्व- मेब कमपि वर्णमाधाय वाराणस्याश्चरणप्रान्तं प्रक्षालययत् नाति- दुना नातितीवेण च धेगेन निःशब्दमनारतं प्रवहति । नगर्या कतिषु दक्षु कियन्तो नामानन्दाः, कियन्तो विषादाः, कियन्तो वा कोलाहला त्पद्यन्ते; कियत्सु देवालयेषु नीराजनसमयाध्मायमानानां शङ्खघण्टाडि- ण्डमादीना वाद्यभाण्डाना माङ्गलिको निनादो नगरस्यैकस्मादपरं प्रान्त ॥वत प्रतिसोधान्तः प्रतिहन्यमानः ररुगम्भीरमांसलाकारेण पधना- व्यां न व्यगाहत । मम तु लोचनं वा हृदयं वा तत्सर्व ज्ञात्वापि नजा- ति, श्रु त्यापि न शृणोति, बुद्धवापि च न बुध्यतः केवलमेकया दृष्ट्या, एकंनैव च भावेन जाह्नव्या अपरोक्कलस्थितस्य खल्लभ्रभेदिनो मही. हवृन्दस्योन्नतं चुडादेशमवलम्व्य निश्चलान:रूपन्दं निर्जीववत्, चि- आर्पितवधातिस्थिर मतिष्ठत् । तया चावस्थया तदानी तत् खल में मोचनं हृदयं च सापरामित्र, कृतदुष्कृतमिव, च अपहृतपरस्वमिव ॥ भीतभीतं निःशब्दं विविक्त देशमाश्रयताम्। यदस्तु, मनो मे मद्य एव चन्द्र उदेष्यतीति गाढयोतकण्ठया महतावेगेन, प्रबलेनी. साहेन प्रभूतया चाशया पर्यपूर्यत । नातः परं तद्विलम्बः सह्यते । तिदि चन्द्रस्यागमने स्तोकः कालातिपातो भवेदेवेति ज्ञात्वापि न नामीव-अथवा ज्ञातु नेच्छामीव व्यस्मरमिवास्य तत्त्वस्य अचिन्त- म-- अतिनिष्ठुरः,-अतिनिह योऽयं चन्द्रमाः; अहं कियतोत्सुक्येन कयताग्रहेण, कियता चानुरागेण भगवंश्चन्द्र, त्वामाकारयामि, कि- बहो कष्टम्, न त्वं तत् किञ्चित् पश्यसि, न किञ्चिद विवेचयसि, १७६ मित्रगोष्ठी-पत्रिका। न वा किञ्चिचिन्तयमि; अतएव कथयामि त्वमत्यन्तमसहृदयः, न स्व. परमालोकयसि, धमन्यस्य दुःखं वेरिम न वा तत् प्रतिकरोषीति अथ परस्मिन्नेव क्षणे विजानमिव मे औत्सुक्यम, चिन्तयन्निव हृदयस्य विगाढमुद्वगम्, पश्यन्निव का स्वकीयं युक्त समयं शारदो विधुरुदयशैलशिलातल मधिष्ठातुम् उपाक्रमत । अहो सा काचिदपूर्वा सुषमा ? अहो किं तदेकं नयनयोरमृतमयं रसाञ्चनम् ! न तद वणगी. यम्, म तद्बोधनीयं, न वो तत् श्रावणीयम् । यदि नयन स्यात, हा स्यात्, हृदयस्य घा भावः स्यात्, हि सकृनयनमुन्मील्यताम्, हदा च क्षणार्धं तदभिगच्छतु, नातः परं किमपि ते करणीयं भवेत,-नात परं त्वया मनागपि प्रयतितव्यम, अभिलषितं ते सेत्स्यति, इयत्कालम- विष्यमानं धनमधिगमिष्यसि, यदवयम्-अबोध्यम्-अश्राव्यमित्यः घोचम, स्वयमेव तत् त्वं घेत्स्यसि, स्वयमेव तदरसं रसयिष्यामि स्वयमेव च तन्मर्माण्युदघाटयिष्यसि,-किं खलु तदेकमद्भुतं द्रव्य मिति स्वयमेव त्वं साधु ज्ञास्यसि । तस्य किलोद गच्छतः शारदेन्दोः सुकुमारैः पाटलपाण्ड्रैः किर णकलापः पूर्वगगनांङ्गनस्याधस्तलं परित्यज्य किञ्चिदुपर्युपरि परिए नितुमारभ्यत, अपश्यम्-वासवाशायामाकाशमूले काचिदनतिदी र्धा अनतिनिपिडा नातिकृष्णा नातिधवला च जलदलेखा प्लवमाने मलिनफेनविण्डपंक्तिवियदुदधेः सुविशालाया वेलाभुव एकस्मिन्नं मारुतवेगेन संलग्नेति । कामं पुनस्तस्या एवोपरि किञ्चित्स्थानं व्यक धाय तादृश्यवापराप्येका मेघपंक्तिरात्मनश्चतुष्वपि पाश्र्वेषु चन्द्रमस कनककिरणरेखया मदर्प स्वसौन्दर्य प्रकटयन्ती व्यराजत । अमृतदी धितेमयूखमालानां माधुर्यसम्पत्तिः क्रमेणैव स्फुटतरीभवितुभारभत किन्त्वहो किमिदमापतितम् ? क्वाहमुदयादेव शारदशशाङ्कस्य मो. हिनी कान्तिं पश्येयम्, क न हन्त प्रारम्भ एव जलवदर्शनम् ! नया चञ्चलमभवत् । उत्साहहीनं हृदयमभज्यत । चतसृभ्यो दिग्भ्यो घि श्वस्येव विषादो मामावृणोत् । जलदखण्डाविव समागतं मालिन्यं । !

. वाराणस्यां शारदचन्द्रः। १७७ पलं वदनमण्डलं, हृदयस्पाभ्यन्तरमपिच परिव्यामोत् । कात- ऽभवम् । चिरमुत्पनो मे सङ्कल्पः पूर्णपूर्णोऽपि न पूर्णः ! पाणिभ्यां धृतोऽपि सुधांशुः न पुनर्धत्तु पारितः । कियन्मे कष्टमुत्पन्नमिति त्वं जानीयाः ? उदयन्निन्दुः क इव मया मन्यत इति न त्वं वे- । किमुच्यते, निबल इवाहं तदानीमभषम्, शिरासु शोणित- तो रुद्ध मिव भवितुमारभत । किं कुर्य्याम् ? नास्ति कश्चित् प्रती. र दैवायत्तं खल्विदम् । नहि कश्चित् देवस्य प्रभवति । सर्वप्रभु दम् । दुःखविनोदस्य न कोऽप्युपायस्तदासोत् । अतोऽहं सुलभ. भिनिन्दागीतिभिर्विधातुः कर्माणि समालोचयितु प्रावतें । हन्त किमिदम् ! किमिदमहं कतुंमारभे ! कमहमनिन्दम् ! कि- fवा अनिन्दम् ? मेघलेखा ? किमेषा मे अपकृतवती ! अहन्त्वद्य शं नैकमपि सुहृव पश्यामि, नैकमप्येतादृशं परमं सहायं विजा- म। अहो मेघलेखे, धन्या त्वम्, धन्यं ते परोपकारव्रतम, धन्यं च जीवनम् अपि चाहमप्यद्य अतितमां धन्यः, यो हि अपारस्य ते हण्यसिन्धो जनत्वमधिगन्तुसमर्थः । चन्द्रमास्तदानीम् अति- नाकाशवर्तिन्याः प्रथमाया मेघमालाया मन्द-मन्दमात्मनो भुवन- मोहनं सुकुमारं वदनविम्ब प्रदर्शयितुमुदयुक्त। तत् खलु जलध- ण्डमुदयशैलशिखरस्य विशालस्य शिलापट्टस्य कृत्यमसाधयत् । पन्यस्मिन् यदालोकनं न जात्वाशंसे न वाशंसितु शक्नोमि,-प्रभू- सुकृतेनाद्य परिदृश्यमानस्यामुष्य जलधरशकलस्य प्रसादात त. चोदयशैलस्य कश्चिदाभासमध्यगच्छम् । इन्दुरुद गन्तु मारभत । दानी स निवार्यताम् । इदानीमहमेनमालोक्य आत्मनोऽपि व्य- म्। चन्द्रः प्रथमां मेघपंक्तिमनतिगच्छन्नेव स्तोकस्तोक द्वितीयां वशत । हन्त तामेतां शोभा नाहं कदाचिदवालोकयम, न कुतो- शृणवम्, न क्वापि काव्यनिबन्धेऽप्यपठम्, न वा कस्मिंश्चिञ्चित्र- ऽप्यपश्यम् । कौशल कवयितुः, वैचक्षण्यं वा चित्रकरस्य न तत्सी. गन्तु मर्हति । सा हि केवलं चक्षुषा गृह्यते, मनसा च बुध्यते ।

१७८ मित्रगोष्ठी-पत्रिका साम्प्रतं हि चन्द्रमसः प्रान्त यं तयोः किल पुवमानयोजलदलेखयो, मलिनया छाययाऽदृश्यं संवृत्तम् केवलं मध्यभाग एव लोहितलोदि तया स्निग्धप्रसनोज्वलया हृदयङ्गमया आभया परिभासते से उत्पाटितमिव कवधारया पार्श्वयमस्य तदानीमभवत् । अबको कयत एव, न ज्ञायते केन नाम सुकृतपरिपाकेण अपरा काप्यनालो कितपूर्वा, अनाकणितपूर्वा, अचिन्तितपूर्वा च शोभासम्पत्तिव्यंका सीत् । शारदः शशी क्रमेणोद्गच्छमधोमेघरेखां सवर्थात्यगच्छतु, द्वितीया तु सा साम्प्रतं तस्य मध्यदेशमशोभयत । तदानी किल भुक्वं क्षणार्द्ध युगपदधचन्द्रद्वय मालोक्य स्वजन्मसार्थक्यं समपादयत्। चन्द्रमण्डलमध्यवर्तिनी विलम्बमाना सा खलु मेघपंक्तिनं तदानी तथात्वेन विभावयितुमशक्यत । सा हि सुनिर्मलस्य नमसः प्रसन्न नीलिम्ना अपार्थक्येन प्रत्यभासीत् । लोचनयमेतावन्तं कालमहम्प. बिकया एकमेव शशाङ्कमद्राक्षीत, साम्प्रतं तु सपनायासमखेदव द्वौ खलु विलोक्य स्वस्वधनत्वेनैकैकं दृढतरमगृह्णात् । प्रफुल्ल चितं प्रफुल्लतरमभवत् । कमप्यलौकिक प्रमदसञ्चारमन्वभवम् । सांसा. रिकै एव्यानां निरवशेषाणामपि सौन्दयाणा मेकस्मिन्नेव सन्निवेश- मवलोक्य कियत्सुखं मे समुदपद्यत इति न शक्यते प्रकटीकर्तुग। श्रीमन् पाठक, न खलु तस्याः सुषमायाः काचिदुपमा वा, उत्प्रेक्षा वा, निदर्शना या तुल्ययोगितावास्ति । न मे तादृग् वागविभवो ये वो निवेदयेयं कीडशी सासीदिति । सा हि मालङ्कारिकाणां रस पैदान्तिकानां च ब्रह्म । सा हि स्वयं शेया, सहृदयवेद्या च । यावद शनवं, क्षामकण्ठश्चातक इवोद्धवदनस्तामेव पश्यनासम् । लोचन मचञ्चलम, हृदयं सुधीरम्, शरीरश्चास्पन्दम् । ततश्चाहं तदानी प्रह गृहीत इय, पिशाचपीडित इव, चित्तापित इव, उत्कीर्ण इव, मच्छिर व चातिष्ठम् कांधित क्षणानित्थमेवायापयम् । कियान् स काल: ? अत्य रूपः-खल्पादपि स्वल्पतरः-सूक्ष्मादपि सूक्ष्मतरः । स खलु सुख मे . .

ध्यगच्छम, . वाराणस्यां शारदचन्द्रः। १७९ मय आसीत् । महि सुखसमयश्चिरं तिष्ठति । दुःलाकरः संसारः । इयत्समयमिह सुख माशास्यताम् । पूर्वक्षण एवाहं कियन्तं नामानन्द परसिमन्नेव तु क्षणे कापिस व्यलीयत; केवलं तु कोम- रा तस्यैका स्मृतिरेखावशिष्टा । जन्मन्यस्मिन् न जातु पुनरस्थान- 'स्यानुभयो भवेत, स हि केवलमात्मनः स्मरणचिह्नत्वेनैव कामपि वृतिलेखां प्रदाय चिरायान्तहितः । अचिन्तयम-भगवंश्चन्द्र, त्वमेव धन्यः । त्वमेव विधातुराधा ष्टिः । एकतस्त्वम्, अपरतो जगतो निखिला अपिरोचनाः पदार्थाः सारस्य त्वं कीदृशं वस्विति साम्प्रतमेघाहमासिषम् । अपश्यम- यत्ते सौन्दर्यम्, कियत्ते माधुयम, किर्यास्त प्रसादः, किया था ते लास इति । अस्थिते त्वयि जगजीर्णमरण्यं,-शन्यं मरु । जडस्य गतस्त्वमेव किञ्चिद गौरवं रक्षसि । त्वमेवास्यामिमानपदम् । देष धांशो, इदं मे किमपि वक्तव्यम् । एतावन्तं कालं यत्खलु भातः 'तेसन्दर्शनमेष मनस्युद्भय महान्तमुद्दे गं मे समुदपादयत, बहुति- कालेष्वतीतषु तस्याद्य याथायमुपलब्धु समर्थोऽस्मि । अद्य में शुभदिनम् । अद्याहमवबुध्ये-काव्येषु किमर्थं ते इयानत्यादर- त,-किनिति वा तत्र ते इयती प्रतिपत्तिरिति । अवगच्छाम्यद्य- रीषमु कुमारेषु कविहृदयेषु केन रूपेण त्वं प्रतिभाससे इति। वि- नाम्यद्य-भगवत्या परमप्रगल्भया कल्पनया को नाम ते गुणवैभवो लोकितो, येन त्वं कविहृदयेषत्कीर्णोऽसीति । इयत्कालं प्रतिदिवस तेकाव्यमेव ते भूयोवर्णनमालोक्यतो मे चेतसि त्वां प्रति परा रतिरेवोत्पन्नासीत् । न तत्साहित्यमपश्यं यत्र त्वया सह कविना न कमपि क्रीडितम् । नाहं तदानी मजानां किमिति त्यमित्थं तैरा- यसे इति । एवमपि तु अन्तरान्तरा तत्सर्याध्ययनेन परां प्रीति भवम् । भगवन्, कुमुदबान्धव, किमन्यद ब्रूयाम, अद्यवाहं ज्ञातो 'म त्वं कवीनां कियत्प्रिय इति,-तेन सह ते कः सम्बन्ध इति,- व नयनेन च स त्वां पश्यतीति । योऽसौ ते उरसि कल करेखा परि- १८० मित्रगोष्ठी-पत्रिका। दृश्यते, न सा कविहदयेन सोढुं शक्यते । कविः किलामु कला कलक कथयति । सोह्यस्फुटोऽकहनेन वियव्यापिषु सुनिम किरणकलापेषु ते निमजितः। निमज्जत्येवैको दोषो गुणसनिया म च स ते निःसोमस्य सौन्दर्यस्य कणामपि तिरस्करोति, प्रा घद्धयत्येव, रम्यमेव हि शैवलेनावविद्धं सरसिजम् । इत्थमेवाहं स्वचंतसि चिन्तयंस्तिष्ठामि, एतदन्तर एव न जान केन नाम सप्रसन्नेन ग्रहेण, केन नाम पाकोन्मुखेन प्राक्तनेन म्भारण, कया वा अत्यनुकूलया भवितव्यतया सपद्यपरमेक तर लोचनमाकपत्। अवालोकयम्-भागीरथ्या मृदुस्रोतोमधुरस्यान स्थिरचपलस्य शान्तगम्भीरस्य सलिलस्योपरि प्रतिविम्विता शश किरणधारा सिकतासुन्दरात पूर्वतरात सोपानशोभितं पश्चिम यावत लम्बमाना। उपविष्ट आसम, उदतिष्ठम् । पूर्वी दशममि भासोधप्रान्तप्राचीरमगच्छम् । नातः परं किश्चिदकार्षम् । अहं र गुस्थिरः । अपश्यम-गङ्गायाः स्फटिकविशदेन सलिलप्रक संमिश्रितश्चन्द्रमसः स्निग्धस्वच्छः सुकोमल: किरणपूरी धीरचा लहरीमालामु प्लवमानः स्वकीयं निसर्गमाधुर्य सहस्रगुणमवर बहुषु दिनेषु बहुषु स्थानेषु, बहुषु च जलाशयेषु, किंबहुना वाः सीवाहिन्यां वाराणस्यामपि शशाङ्करश्मे विलासलीलामपश्यम, तनिखिलमपि दृश्यम् इयत्म गलकरम, इयन्नयनाभिरामम, इयश्च । रूपासीत् । आपूर्वपश्चिमं शोभमानस्य भागोरथ्याः कौमुदीम कनकलि ठस्योपरि अन्तरान्तरकैका क्षुद्रक्षुद्रा तरणी मन्द नृत्यन्ती दर्शकानां मुग्धं हृदयं मुग्धतरमकार्षीत् । क्षणानन्तरमे सा तं खलु हिरण्मयं गङ्गाप्रवाह मत्यकामत् । इत्थमेव जह्न नन्दि चन्द्रकिरणसम्यनै कविधां सौन्दर्यपरम्परां निरीक्षितुमभितो सञ्चारयतो मे यदृच्छया 'रामनगरदुर्ग' दृग्विषयता-मुपागच्छन् अ दूरतः प्रकाशमानः कश्चित्क्षीणालोकस्तस्य दुर्गस्यास्तित्वं सृ तीति । दुर्गाधीशस्य महाराजस्य धारापास्यधिपतेः प्राक्तनाना ।

वाराणस्यां शारदचन्द्रः। १८१. कोत्तीनां शौयंसाराणां महीपतीनां कियन्तो वृत्तान्ताश्चेतस्युद्गच्छन् । क्षणाद हर्ष, क्षणाच विषादमन्वभवम् । ततः प्रत्यावृत्तं नयनं क्षण- मुपरिष्टादुद्दीपितदिगन्तरालं मधुरिमैकागारं चन्द्रमसम्, क्षणाचाध- स्तात् समुल्लसन्तमुजमलं मन्दाकिन्या प्रवाहमालोकयितु प्रवृत्तम् । इत्थमेवानन्तरमपि मे कश्चित्समयोऽतीतः । यद द्रष्टव्यम, यज्ज्ञा- तव्यम्, यदा भावयितव्यम्, अहं तत्सर्वं पश्यन् जानन् भावयंश्च ति- ठामि । किं दुःखमिति व्यस्मरमिवाहं तदानीम् । अचिन्तयं किमिति जना मुधैव संसारं निन्दन्ति । संसार: सुखस्याकरो न तु दुःखस्येति स्पष्टं प्रत्यक्षोकृतं तदा वाराणसीयासिभिः । पस्मिन्नीहशी शरत्, ईदृशो जलधरः, ईदृशश्चन्द्रः, ईशस्तश्य किरणकलापः, ईतशी मन्दाकिनी, ईदृशभ तस्य सलिलपुरः, सोऽपि नाम संसारो दुःख- प्रयः ? यः खल्विदपि दु:खमाह, न स जानाति किं सुखमिति, जानतोऽपि वा तस्य तदनुभवसामर्थ्य नास्ति । मम सुखं जायते, न तु तवेति किमस्य तत्वमिति न सोऽवबुध्यते । बस्तुस्वभावो हि स स्यात् ?-वस्त्वेव सुखदुःखात्मकम् ? * कि नु भो एतदेवावितथम् ? किं खलनलश्च सलिलञ्चैकस्मिन् युगादेव तिष्ठेताम् । अपि नाम जस्तिमिरयोः सामानाधिकरण्यं भवेत् ? आन्तरं हि सुखं दुःखं च । थामेमे बहिःपदार्थे तिष्ठेताम् ? त्वं खलु स्वापराधमन्यस्मिन्नारोप- पसि ? नात्मनो दोषं स्वीचीकोर्षसि ! अतिमधुरम् ! परदोषानुस- धानमतिमधुरम्, अतिप्रीतिप्रदश्च । मन्ये, निज्जरसां पीयूषधारापि रेयन्मधुरिममयीति। तत एव त्वमात्मगुणमनालोकयन जगह खाक- मित्युद्धोषयितु साहसमाधत्से । नेदं वेरिस यत्त्वं स्वापराधेनैव शु- तिका रजतं करोषि, रज्जु सर्प पश्यसि, स्थाणु च पिशाच जाना- सीति । अन्धस्त्वं स्थाणु न पश्यसीति स्थाणोरष दोषः ? अत एक ? * .. सुखदुःखमोहात्मकं सर्वमते चितिशक्त रिति साङ स्यसिद्धान्तः । [सनाभेदादेवकरसाहस्तुनः सुखं, दुःखं मोहो बानुभूयत इति वेदान्तिनः ।

१८२ मित्रगोष्ठी-पत्रिका। त्वं सत्ययस्मिंश्चन्द्रमसि, सत्यध्यमिन् नभोमण्डले, सत्यप्यस्मिन्म- दाकिनीपूरे सत्स्वपि च वाराणसीसशेषु स्थानेषु संसार त्वं खाकर कीर्तयसि ? यदि सुखमीहसे, हृदयं हृदयमिव सम्पाय 'सहृदयो' भव । ततस्त्वं किं दुःखमिति न पुनर्मास्यसि, न च ज्ञा. स्थलि घस्तुतो दुःखनाम्ना किश्चिदासीनवेति । ज्ञास्यसि अभित- स्त्वां सुस्न-पारावारः संस्फुरतीति । ततध चिराय “सा निष्ठा सा परा गति" भवेदिति । प्रकृत्यास्तादृशेन सौन्दर्येण मुग्धचित्तवृत्तिरहम् इत्थं कियत् किम- चिन्तयम्, किया प्रश्न उत्थितः, फियत्प्रतिवचनं जातम कियतीयुक्तिः प्रदर्शिता, कियान दोषो विलोकितः, पुनश्च स विखण्डितः । नापर किमपि कृत्यमासीत् । केवलं कामपूर प्रकृत्या विहतोपमं माधुर्यं वि- लोकयनासम् । निशीथिन्याः कियन्तं कालमित्थमतिष्ठमिति न स्म. रामि। परन्तु तत् खल्वे मे सुखदिवसमतिकान्त, यदि मृत्योः प्राक्क्षणं यावच्चेतसि मे सुरूपष्टपङ्कितं स्यात, यथाहं न जातु वि. स शक्नुयाम् । श्री प्रकाशानन्दशर्मा। :0:- महामङ्गलसुत्तम्। पालितोऽनुदितम् महामङ्गलसूत्रम्। एवं मया श्रुतम् -एकसिन् समये भगवान् श्रावस्त्यां विहरति जेताने (१) अनाथपिण्डिकस्य आरामे । अथ खलु अज्ञतरा देवता (१) जेतानाम राजः प्रसेनजितः पुत्रः, अनाथपिलिकेननाम्ना केनापि धनिकेन ताकाशात स आरामः क्रौत्वा युद्धदेवाय प्रदत्तः, तदेव सवनम्। अनाथ पिडिकः कदाचिद् अनाथ पिडदनाचा दृश्यते ।

महामङ्गलमत्तम् । १८३ अभिक्रान्तायां रात्रौ अभिक्रान्तवर्णा केवलकल्पं जेतवनमयभास्य येन तेनोपसमकस्त; उपसंक्रम्य भगवन्तमभिवाद्य एकान्ते अ- स्यात् । एकान्ते स्थिता खलु सा देवता भगवन्तं गाथाभिरभाषिष्टः- भगवान् १ बहवो देवा मनुष्याश्च मङ्गलानि अचिचिन्तयन् । माकान्तः सोडानम्,' (१) धूहि मङ्गलमुत्तमम् ॥ २ असेषना च बालानां (२) पण्डितानां च सेवनात् । पूजा च पूजनीयानाम्-एतन्मङ्गलमुत्तमम् ॥ ३ प्रतिरूपदेशवासश्च पूर्वं च कृतप्रज्ञता। आत्मसम्यक्प्रणिधिश्च,-एतन्मङ्गलमुत्तमम् ॥ बहु सत्यं च शिल्पं च विनयश्च सुशिक्षितः । सुभाषिता च या वाचा, (३) एतन्मङ्गलमुत्तमम् ॥ ५ मातापित्रोरुपस्थानं पुत्रदाराणां संग्रहः (६) । अनाकुलाश्च कर्मान्ताः, (४)-एतन्मङ्गलमुत्तमम् ॥ ६ दानञ्च धर्मचर्या च ज्ञातकानां (५) च संग्रहः (६) । अनवद्यानि कर्माणि, एतन्मङ्गलमुत्तमम् ॥ (१) अस्य शब्दस्य संस्कृतं नाधिगम्यते 'स्वस्ति' शब्द; पालो' सोठि' य च्यते । तस्मादेवेदं पदं जातमिति सम्भाव्यते। ततश्च सखमस्या इति लिविदो वदन्ति। (२) मूर्खानाम्। (३) वाक् । (४) वृत्तिः, व्यवसाय इत्यर्थः। (५) ज्ञातीनाम् । (६) रक्षसमितिभावः ।

१८४
मित्रगोष्ठी-पत्रिका।
(१) आरतिविरतिः पापात. मदरपानाच संयमः ।
भप्रमादश्च धर्मेषु-एतन्मङ्गलमुत्तमम् ॥
गौरवं च "निवातो" (२) च सन्तुष्टिश्च कृतज्ञता।
कालेन धर्मश्रवणम, एतन्मङ्गालमुत्तमम् ॥
१
शान्तिश्च सुवचस्ता, च (३) श्रमणानां च दर्शनम् ।
कालेन धर्म-साकच्चा (४)-पतन्मजमुत्तमम् ॥ .
१०
तपश्च ब्रह्मचर्या च आर्यसत्याना (५) च दर्शनम ।
निर्वाणसत्यक्रिया च,-एतन्मणालमुत्तमम् ॥
११
स्पृष्टस्य लोकधर्म: चित्तं यस्य न कम्पते ।
अशोक विरजं क्षेमम्-एतन्मङ्गलमुत्तमम् ॥
१२
एतादृशानि कृत्वा सर्वार्थमपराजिताः ।
सवत्र स्वस्ति गच्छन्ति; तेषां मङ्गलमुत्तमम् ।।
विधुशेखरशर्मा।
--
.
(१) प्रारतिशब्दोऽत्र त्यागार्थो वोधाः ।
(२) संस्कृतं नाधिगम्यते । अर्थस्तु 'विनयः'-'नम्रकृत्तिः' ।
(३) सुभाषितेत्यर्थः ।
(8) 'साकच्चा' शब्दस्य संस्कृतं दुलभम्, तदर्थस्तु 'बालाय' इति ।
(५) दुःखम् दुःखलमुत्यः (दुःख कारणम् ), दुःख निरोधः, दुःखनिरो
धोपायच ति बौदानां चत्वारि आर्यसत्यानि ।

मित्रगोष्ठो-पत्रिका। (मासिकं संस्कृतपत्रम् ।) "सङ्गच्छध्वं संवदध्वं सं वो मनांसि जानताम्" । ऋग्वेदः। द्रनीये वर्षे } १८२७ शकान्दाः, कार्तिकः { सप्तम संख्या वेदवृत्तान्तः। विजानीमो वयं परमपण्डितेन श्रीमता मोक्षमूलरभट्टेन ऋग्वे- स्य प्रथम प्रकाशनसमये पाश्चारयानां विदुषां वेदानुशीलने प्रवृत्ति- त्पादयितु कियनाम प्रयतितमिति । उक्त तेन क्वचित-" असक- हं पृष्टोऽभवम् यत्, कोऽयं वेदो नाम ? किमर्थमयं प्रकाशनीयः ? : स्नलु प्रन्थः प्रायश्चतुःसहस्रवर्षपूर्व निबद्धः, यश्च प्रथमत एव मूर्ति- जकानां वन्यानां ( Savages ) कस्याभिदशिक्षितायाः जातः कृते ञ्छितोऽभूत्, यश्व स्वयं भारतीयैरपि न जातु प्रकाशितः, यद्यप्येनं इम्प्रतं ते आत्मनो धर्म, नीतौ, दर्शने च परं प्रमाणत्वेन स्वीकुर्वन्ति, स्मादपि ग्रन्थाद अस्माकं कि नाम शिक्षणीयं सम्भाव्यते ? अपि [म वयम् इलैण्डीयाः अथवा युरोपीया जना; धर्म-नीति-दर्शन-स. धीयेषु प्रश्नेषु ब्राह्मणानां प्राचीनाभ्यो गीतिभ्यः कमपि नुतनमा- किं प्राप्नुयामेति सम्भाव्यते ? अध्ययं तथा सुदृढी निश्चयोऽस्ति, था नायं ग्रन्थो भारतीयाना कापि नवीना प्रवचनाभवेत, येन न वलमस्माभिः प्रयुक्तः श्रम एव विनष्टः स्यात्, अपितु चतुराणां 'रतीयानाम् उपहासकारणतां वयं न गच्छेमेति ? एषाम्, ईशाना- परेषां च बहूनां प्रश्नानां प्रतिवचनं मया सटीकस्य ऋगवेदस्य प्र- . १८६ मित्रगोष्ठी-पत्रिका। काशनारम्भात् पूर्व प्रदेयमासीदिति"* । श्रीमान् मोक्षमूलरभट्टा हाशयः कैः कैः प्रकारैस्तान् प्रश्नान् प्रत्युक्तवानिति सम्यक् प्रकार यितु क्षुद्रशरीरेयं पत्रिका न कथमपि शक्नोति । केवलं दिनार्थ तद्वचनानीह उदधियन्ते:-अतोऽहं पूर्वोक्तेषु प्रश्नेषु कांधिता युत्तरयितु, कथितानां च संशयाना कांश्चिभिरसितुमित्थं भवतो को धयन् यतिष्ये यत् प्रथमं तावद् वस्तुतो वेदः क इति, द्वितीयत किं तेन प्रयोजनं न केवल भारतीयानामेष, किन्तु अस्माकं युरोपीया नामपि,-तत्रापि न केवलं प्राच्यभाषाध्यायिनामेव, मपितु एकैकस विद्यार्थिनो यो हि धर्म पा, पुरावृत्तं पा, दर्शनं पाधीत;-पककर मनुष्यस्य, यो हि मानवजाते महतश्चिन्ताप्रवाहस्यान्वेषणानन्दमनुभूत घान् ..एकैकस्य च विद्यार्थिनो यो हि यथार्थनामधेयाया 'मानव जातित' उत्पन्न इति" +। श्रीमन्तः पाठकमहाशयाः, नूनं प्रशस्यतमोऽयं महाभागो मोक्ष मलरः, अन्ये चैतादृशः पाश्चात्या विद्वांसः, ये हि आत्मप्रभावेन रम + सत्रैव . Max Müller: Chips from a German Workshop Vol. I. P.1 " I shall endeavour, therefore, as far as thi is possible within the limits of one lecture, to answer som of these questions, and remove some of these doubts, by ex plaining to you, first, what the veda really is, and, secondly what importance it possesses, not only to the people of India but to ourselves in Europe,--and here again, not only to the student of oriental languages, but to every student of history religion, or philosophy; to every man who has once felt the charm of tracing that mighty stream of huinan thought of which we ourselves are floating on ward, back to its distant mountain-sources; every one who has a heart for whatever has once filled the hearts of millions of human beings with their noblest hopes, and fears, and aspirations;-to every student of mankind in the fullest sense of that full and weighty word."

? आगतः वेदवृत्तान्तः। यतराभिर्वायोयुक्तिभिः सर्वथा विमुखानपि प्रतीच्वान् सविशेष मार्थालोचनायां प्रतितवन्तः, तेन च लुप्तप्रायां भारतीयार्यकीर्ति- पां दूराद दूरतरेऽपि प्रतीच्याकाशे सम्प्रसारितवन्तः। दृष्ट' श्रीम- हर्मोनमूलरभट्रेन कोदृशाः प्रश्नाः प्रतिवचनीया आसन्निति ? भारते नायं दशाविपर्यास (ईश्वरः प्रसीदतु, यथा नाप्यागच्छेत) ह वेदो वञ्चनोपायो न धेति सन्दिह्यतेऽपि केनचिद भारतीया- ।। परन्तु इत्थं वयमधः पतिताः, यथा सर्वविपयेषु वेदस्य प्राधा- मुद्घोषयन्तोऽपि न स्वयं तदालोचने प्रवर्तामहे, न वा अन्यमपि वत्तयितु यतामहे । "कृतस्नो वेदोऽधिगन्तव्यः सरहस्यो द्विजन्मना" ॥ मनु.२.। १६५. "योऽनधोत्य द्विजो वेदमन्यत्र कुरुते श्रमम् । सजीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः मनुः, २ अ० १६८. श्लोक "योऽन्यत्र कुरुते यत्नमनधीत्य श्रति दिजः । स संमूढो न सम्भाव्यो वेदवाह्यो दिजातिभिः ।। अधीत्य विधिवद वेदं वेदार्थ न विचारयेत् । स सान्वयः शूद्रकल्प: पात्रतां न प्रपद्यते" ॥ म्म पु० उप.वि. १३ अ०. इतीदृशं वचनशतं न खलु नास्माभिरसकृद विलोक्यते ? नेदं न ज्ञायते यद्दे दानध्ययनेन सर्वथा परिहरणोयं शूद्रत्वमपि सम्पद्यत- । परन्तु मुग्धचेतोवृत्तिभिरस्माभिः स्वयमेवात्मनो मस्तिष्क ग चर्वितं यथा तदर्थपर्यालोचनायाः शक्तिरपि नास्ति । यद्धि सर्व हायापि पठनीयम्, यस्य च बलेनैव बलवद्भिरस्माभिः सभामण्ड- साटोपमटाट्यते, येन विना च पदमानमपि गमने दुरोद पाप- पद्यत इत्युच्चस्तरामारटामः, हन्त नदेवाचास्माभिर्नादियते, तस्यै- ध्ययनमिदानी निष्फलमिति विविध्यते तस्यैव चानुशीलनं जदत्त्वं २८८ मित्रगोष्ठी-पत्रिका। जनयतीति लिखितुमपि न विरम्यत इत्यहो अस्माकं मुलोच्छे पाण्डित्यप्रकर्षः । मन्यामहे, वेदे वस्तुतः किमस्तीति सविशेषज्ञानाविषया षणिता तेषां मधुरिमाणं रसयितु कस्य नाम वित्तं न चाञ्चल्यमधिगच्छेते किल भारतीयैरायः कथमीश्वरतत्वम्, आत्मतत्त्वं वा मनुशी लितम् कथं कैश्च द्रव्यैर्यज्ञादिकमनुष्ठितम्ः कथं युदरीतिरासीद युद्धेषु कानि नामास्त्राणि व्यवाहियन्त; कीटशी यानव्यवस्था; कई पाणिज्यम्, किंरूपं गृहनिम्माणम्, किं प्रकारः कन्यकानां विवाह कीदृशी समाजस्थितिः, कीदृशमाहार्य्यम, कीदृशी चिकित्सा, को. दृशं कृषिकार्यम्, पूर्तकार्यम् अन्त्येष्टिविधिः स्वर्गादिकं च, का वा पुराणादिप्रसिद्धानामाख्यायिकानां मूलमित्यादयो बहवो विषय घेदादेवैकस्माज ज्ञातु शक्यन्ते । भाषातवाद्यनुशीलनमपि वेदना- नादेव सुकरं भवति । कि बहुना, स्वयमालोचयन्तु भवन्तो वेदार्थम्, जानन्तु च तस्मात् कीद गिव प्रमोदाङ्क र उत्पद्यत इति । इदं चहा- वश्यं वक्तव्यम्-यत सरसा इव नीरसा अपि वेदस्यांशाः सन्ति। तदर्थ मनाग धैर्यमवलम्बनीयम् ।. घयमपि चेतः प्रभृति नियमेन सचेतसा चित्तविनोदनानुकूला घेदांशान पत्रिकायां प्रकायितुमिच्छामः । तत्र तावत् सपत्नीद- षस्य वेदे कीदृक् परिचय उपलभ्यते तदेवाद्य कुतूहलिनां पाठकान पुरत उपस्थाप्यते- - १ सपनीद्वेषः। अयं सपत्नीद्वेष ऋग्वेदसंहितायां सूक्तव्ये वर्णितः। तत्राप सूक्तमित्थम् :- वदनडादिशब्दाः संस्कृते संप्रसिद्वाः । प्राचीनेष्वपि ग्रन्थेषु इत्थं श्यते। यथा-विक्रमोर्वश्याम-“अस्याः सर्गविधा"वित्यादिशोके "वेदाभ्या सगड" इति । एवमन्यत्र । वेदस्य स्वरमात्रज्ञान प्रतीयसतिर्न त्वचा प्रतीति सम्भावयामः।

घेदवृत्तान्तः। १८९ १०म० १४५ सू. देवता-सपत्नीबाधनम्, ऋषिः-इन्द्राणी।. "इमा खनाम्योषधिं वीरुधं बलवत्तमाम् । यया सपत्नी बाधते यया संविन्दते पतिम् " ॥ १ ॥ भतिवीर्यवती लताकपामिमाम् भोषधिम् + अहम् उन्मूलयामि यया (वधूः ) सपत्नी बाधते, भर्तारं च सम्यक् ( असाधारण्येन ) लभत इत्यर्थः। "उत्तानपणे सुभगे देवजूते सहस्वति । सपत्नी में पराधम पति में केवलं कुरु" ॥ २॥ हे ऊमुखपविशिष्टे, सौभाग्यहेतुभूते, देवप्रेरिते, बलवति, ओषधे, मम सपत्नी परागमय (दूरीकुरु), पतिं च ममासाधारणं कुरु । उत्तराहमुत्तर उत्तरेदुत्तराभ्यः । अथा सपनो या माधरासांधराभ्यः"॥३॥ हे भोषधे, त्वमुत्कृष्टासि, त्वत्प्रसादेनाहमुत्कृष्टा भवेयम्; लोके या उत्कृष्टाः सन्ति, ताभ्योऽप्यहम् उत्कृष्टतरा भवेयम् । मनन्तरं मम या सपत्नी, सा निकृष्टाभ्योऽपि निकृष्टतरा भवतु । नास्या नाम गृभ्णामि, नो अस्मिन् रमते जने । परामेव परावन्तं सपत्नी गमयामसि ॥४॥ महमस्याः सपत्न्या नामापि नोच्चारयामि, नो स्खलु कापि सपती. जने रमते । सपनीमतिशयेन दूरदेश मेव गमयामः-भर्ना भति- शयन वियोजयामः। "महमस्मि सहमानाथ त्वमसि सासीहः। उभे सहस्वती भूत्वी सपत्री मे सहाब?" ॥५॥ * येन सूक्त न यत्प्रतियादाते, तस्य सूक्तस्य सा देवता भवति । अनेन सक्त ग सपतीबाधनं प्रतिपाद्यत इति तदेवाव देवता। यस्य सूक्तं म ऋघि- रिति नियम; तथा च सूक्तमिदम् इन्द्राण्या इति । तस्या एषान ऋषित्वम् । + पाठेति प्रसिताम् इत्यापस्तम्बमतेन मायणः ।

मित्रगोष्ठी-पत्रिका। हे ओषधे, महमभिभव की मस्मि, स्वमपि भभिभवित्री भवसि । मत आवामुभे अभिभविश्यौ भूत्वा मम सपनीम् अभिभवाव । "उपतेऽधो सहमानामभि त्वाधा सहीयसा। मामनु प्र ते मनो वत्सं गौरिव धावतु पथा पारिव धावतु" ॥६॥ हे पते, अभिवित्रीमिमामोषधिं तव शिरस उपधानं करोमि। अभिभवितृतरेण तेनोपधानेन त्वामभितो धारयामि । यथा गौवत्स प्रति, यथा वा जलं निम्नेन पथा वेगेन धावति, तथा तव मनो माम- नुलक्ष्य प्रधावतु। भगवता आपस्तम्बेनास्य सूक्तस्य कस्मिंश्चित् सपत्नीन प्रयोग- विशेषे विनियोगः प्रदर्शितो यथा- त्रिःसप्तयवैः पाठां परिकिरति-"यदि वारुण्यसि धरुणात् वा निष्क्रीणामि, यदि सौम्यसि सोमात त्वा निष्क्रीणामीति" । वो भूत उत्तरयोत्थाप्य, उत्तराभिस्तिसृभिरभिमन्य, उत्तरया प्रतिच्छा हस्तयोरायध्य, शयनकाले बाहुभ्यां भत्तीरं परिगृह्णीयात् उपधानलि- जया, घश्योभिवति सपत्नीबाधन चेति भयमर्थ:-प्रथममेकविंशतिं यवान् पाठानामिकां लतां परितः "यदि वारुण्यसीत्यादि"मन्त्रेण किरेत् । ततः प्रभाते आदरया ऋचा "इमा खनामी"त्यादिकया सा पाठा उन्मूलनीया । ततः "उत्ताने". स्यादिभिः तिसृभिरग्भिः सा मभिमन्त्रणीया पञ्चम्या ऋचा आ ज्छादर हस्तयो स्तां बनीयात, अन्तिमया तु बाहुभ्यां भर्तारमाश्लि येत्, तेन स पश्यो भवति, सपत्न्याश्च बाधनं भवतीति । द्वितीयं सूक्तम्-१० म० १५९ सू०. देवता पौलोमी शची, ऋषिरपि सैव। . . - "पुलोमतमया चौ अनेन सूक्तेनात्मानमस्तोत् । अतः सेवर्षिः, संवई वता। इति कात्यायनरूत- "सर्वानुक्रमा"नुसारी सायणः ।

घेदवृत्तान्तः। १९१ उदसौ सूर्यो भगाबुदर्य मामको भगः । अहं तद्विइला पतिमभ्यसाक्षि विषासीहः" ॥१॥ यदसौ दुग्लोकस्थः सूर्य उद्गात, तन्ममेदं सौभाग्यमुदगात् । तदहं ज्ञातवती । अहं लपत्न्या अभिभवित्री सती भरिमपि भभि- भूतवती-यथा वशीकृतोभा मय्येव चिरं पत्तंते, तथाकामिति भावः। महं केतुरई मूर्धाहमुना विवाचनी। ममेदनु तु पतिः सेहानाया उपाचरेत् ॥ २ ॥ भार सर्व जामामि, "अहं मर्धा"-सर्वेष्ववयवेषु शिर इव प्रधान- भूता भषामि; अहमुना सती मां प्रति पतिं प्रियवचनभाषिणमेव रोमि, सपत्नीनामभिभवकारिण्या ममैव वुद्धिं (कर्म पा ) भनु- इत्य पतिरुपागच्छेत् । मम पुत्राः शत्रुहणोऽथो मे दुहिता विराट् । उताहमस्मि संजया पत्यौ मे श्लोक उत्तमः ॥ ३ ॥ ममैव पुत्राः शत्रुनाशका भवन्ति, ममैव कन्या विशेषेण राजते; भपिचाई सपत्नीनां सम्यग् जेत्री मस्मि ; पत्युः सकाशे च ममैव यश उत्तमम् । येनेन्द्रो हविषा कृत्यभवद दुधमन्युत्तमः । इ८ तक्रि देवा असपत्ना किलाभुवम् ॥ ४ ॥ येन हविषा इन्द्रः ( ममभर्ता) कर्मणां कर्ता, येन च त यशस्वी ( भन्नधान् घा) उत्तमश्चाभवत, हे देवाः, अहमपि तदकार्षद, भत एवाहं शत्रुहिता अभवम् । भसपना सपत्ननी जयन्त्यभिभूवरी। भावृक्षमन्यासा वक़ राधो अस्थेयसामिव ॥ भहं शत्रुरहिता, अहं शत्रुहन्मि, जयामि, मभिभवामि च । अ- स्थिरतराणां जनानामिव अन्यासांसपत्नीनामहं धनं तेजश्व बण्डयामि। .

१९२ मित्रगोष्ठी-पत्रिका। समऔषमिमा मह सपनीरभिभूवरी। यथाहमस्य वीरस्य विराजानि जनस्य च ॥६॥ भभिभवकारिण्यहम् इमाः सपत्नी स्तथा सम्यग जितवती, यथा- हमस्य धोरस्य (इन्द्रस्य-पत्युः), तदीयस्य परिजनस्य चोपरि विराजिता भवानि । "एतेनैव कामेन ( सपत्नीवाधनरूपेण ) उत्तरेणानुवाकेन सदादि. त्यमुपतिष्ठत" इति सूत्रयता भगवता आपस्तम्खेन इदमपि सूक्त सप. स्नीनाशने सूर्योपस्थाने विनियुक्तम् । पूर्व बहुविवाहपद्धतिरासीदिति उदाहृताभ्यो सूक्ताभ्यां रूपष्टमेव प्रकाशत इति पाठकैलक्षणीयमिति । विधुशेखरशर्मा। संस्कृतसाहित्यं पाश्चात्त्य विद्दांसश्च । १ पामात्यैः संसकृतपण्डितैः संस्कृतसाहित्यविषये बहु खलूक्त, ते. पामुक्तिराङ्ग लोप्रभृतिभाषानिबद्धत्वाद अस्मदीयैः संस्कृतविद्यार्थिभि नसुबोधा, ज्ञातव्या तु सावश्यमेवेति माधुकरी वृत्तिमवलम्बमानेन मया इतः प्रभृति पत्रिकायां तेषां विदुषां मतं समासेन संगृह्य प्रदर्श यितुमिष्यते । इदञ्चाशास्यते-श्रीमन्तो विद्यार्थिनः विद्यांसाध तत्सर्व- मालोच्य उपादेयं गृह्णीयुः, अनुपादेयं तु युक्त्या साधारणजनानां पुरतः प्रकाशयेयुः,-यथा हि पावास्यानां भ्रान्तर्वचनैर्भारतीयानाम् अपरेषा च न मोह उत्पद्यते । अवयं खल्विदं कृत्यमापतितमिदानी भार. तीयानां विदुषामिति मन्यामहे । अद्य तावद विक्रमादित्य समयप्रभृतिप्रचलितानां साहित्याना तत्कादीनां च समयः पाश्चात्त्येषु प्रथिततमस्य श्रीमता मोक्षमूलरस्य मतेन स्थूलतः प्रदश्यते ।

मंस्कृतसाहित्य पाश्चात्य विद्वांसश्च । विक्रमादित्यः कदोत्पन्न इति तमाम्ना 'संवत्' इति प्रचलितमब्द- नमेव प्रकाशयति, साम्प्रतं विक्रमाब्दस्य १९६२ तमो वत्सरो वर्तते तेन खीष्टजन्मतः ५६ वत्सरपूर्वमेव विक्रमादित्य सीदिति ज्ञा- ते। किन्तु मोक्षमूलरेणापरैश्च पुरातत्वविद्भिर्नेदमङ्गीक्रियते । ते दन्ति-साम्प्रतं विक्रमनाम्ना प्रसिद्धोऽब्दो वस्तुतो न विक्रमेण पत्ति:, किन्तु खीष्टपूर्वभाविना केनापि प्रवर्तितः स नीष्टत: बह्व- चिोनेन विक्रमेणात्मनात्मनाम्ना कृत इति । ( अत्र विस्तरः सन्दर्भा- रेण पक्ष्यते ) अतो मोक्षमूलरेणेत्थं कालो निर्णायते :- ष्टतः परम्-५५०, विक्रमादित्यो हर्षः उज्जयिन्यधिपतिः ५३१-५७९ खोसरुनुसिरवान् पारस्यराजः । अय मात्म- मश्चिकित्सक 'बारजई-नामानं प्रसिद्धस्य पञ्च- तन्त्रस्यानुवादाय भारतं प्राहिणोत् । कोरारयुद्धम्, अस्मिन् युद्धे विक्रमादित्येन म्लेच्छाः सम्यक पराभूताः । अस्मिन्नेवाब्दे तान् पराभूय विक्रमादित्यः प्राक् प्रचलितमब्द- विशेष संवदिति स्वनाम। कृतवान् । जैनः सिद्धेश्वरसूरिस्त्रत्र विक्रमस्य साहाय- कमकरोत् । मातृगुप्तः--काश्मीरशासकः, भन्नु मण्ठश्चै- तत्समकालीनौ। कालिदासो दिङ्गागस्य बौद्धेषु सुप्रथितन- न्थकारयोरसङ्गस्य वसुबन्धोश्च समकालीनः । कालिदासो भारविणा सह ६३४ तमाब्दी- यानुशासनलेख उक्तः। षष्ठशतकोत्पन्नेन दण्डिना कालिदासस्य से- तु काव्यप्रशंसितम्। कालिदासेन भासस्य सौमिलेच नामनी गृहीते। ५४४ २ ܫܝ . पिता जिण्णुः। मित्रगोष्ठी-पत्रिका। खीष्टतः परम्-५८७ वराहमिहिरो मृतः । अनेन ४७६ तमाद त्पन्नस्यार्यभट्टस्य नाम गृहोतम् । एते च ग्रम धृताः, यथा-५०५ तमाब्दोत्पम-श्रीसेनका रोमकसिद्धान्तः, पौलुस-अल-युनानीकृतः लिशसिद्धान्तः, विष्णुचन्द्रकृतो पसिष्ठसिया न्तः, सौरसिद्धान्तः, पैतामहंसिद्धान्तश्च । ५६१-५६६ चीनभाषया अमरकोषोऽनूदितः । ज्योतिषिक-ब्रह्मगुप्तस्य दिङनागस्य मतमुद्योतकरण-(न्याय वात्तिर कृता)समालोचितम् । उद्योतकरः सुबन्धुना(था सवदत्ताकारण),सुबन्धुश्च बाणभट्टेन कीर्तितः ५५०-६०० शिलादित्यः प्रतापशीलः (मालवाधीशः) प्रभाकरवद्धनः, एतस्य परिषदि माधवगुप्तः तारकः, सुषेणश्वासन् । राज्यवद्धनः-प्रभाकरवद्धनस्य ज्येष्ठः पुत्रः अनेन मालवराजो जितः ': स्वयन्तु गौडाधिपेन गुप्तेन, कर्णसुवर्णेश्वरेण शशाङ्कन वा पराभूतः। चीनदूतः फेइ-तु (Fei-tu) ६१०-६५० शिलादित्यो हर्षवर्द्धनः प्रभाकरवचनस्य क- निष्ठः पुत्रः। अस्य स्वसा राज्यश्री म प्रहव- मंणे दत्तासीत्।ग्रहवर्मा मालपाधीशेन मारितः हर्षस्य मन्त्री भाण्डि म । प्राग्ज्योतिषपुराधि- प-कुमारेण भास्करवर्मणा तस्य मैत्री आसीत्। महाराष्ट्रपतिना द्वितीय पुलकेशिना युद्धम् । अयं चीनपरिबाजकस्य 'हुयेनस्यां' इत्यस्य सम- कालीन: (६२९-६४५) काव्यादर्शदशकुमारचरितकारो दण्डी। .. ६०५ साम्पत कीदृशीसंस्कृतशिक्षाऽपक्ष्यते । सुबन्धुर्वासवदत्ताकारः। बाण:--हर्षचरित-कादम्बरी--चण्डीशतक प्रणेता *। मयूरः, भक्तामरस्तोत्रकारो मानतुनः, नारा- यणः, आढपराजः। भत्तृहरिमृतः (५५० ) जयादित्यः (काशि- काकारः) मृतः (६६०) ब्रह्मगुप्त उत्पन्नः (६६०) प्रदर्शितायामस्यां समयक्रमपरिपाट्यामद्यापि क्वचित् कचित् सन्दे- विद्यत एवेति मोक्षमूलरेणोक्तम् । श्रीसंग्राहका - ::- - “साम्प्रतं कीदृशोसंस्कृतशिक्षाऽपेक्ष्यते ?" उत्तरम्- श्रीमहेशचन्द्र तर्कचूड़ामणेः । अस्य प्रश्नस्योत्तरदानात् प्रागेव जिज्ञासूनां तात् पयंग्रहः कर्तव्यः । न्यथास्योत्तरदानं दुष्करमेव, तथाहि प्रश्नघटकस्य "अपेक्ष्यत" इत्य- पदस्य कत्र्तृपदमूहनीयं भवति । कीदृशैर्जनै रपेक्ष्यते, इतिप्रश्नकर्तुं- परन्तु तदनुक्त्या ग्रन्थकाराशयः सम्यङनाववुध्यते धकारमुत्तरं दीयेत ? तथापि मन्यामहे कस्यचिदाङ्गलविद्याध्यायि- ऽयंप्रश्न इति, यदि तस्यैवप्रश्नः स्यात्तदाऽऽतलविद्यार्थिभिश्छा. ङ्गलविद्यासहकारित्वेन कीदृशीसंस्कृतशिक्षाऽपेक्ष्यतइति प्रश्नस्या- शय उन्नेतव्यः । तादृश आशये सत्युत्तरं सुकरमेव, डिग्रीपरीक्षा- । कव्यमासोत् परन्तु * पार्वतीपरिणयनाटकं बागोन कतमिति मोचमूलरेणोक्तम् । तदसाम्य रोचते।

१९६ मित्रगोष्ठी-पत्रिका। अत्वेन निर्धारितासंस्कृतशिव साम्प्रत मपेक्ष्यत इत्युत्तर देय अथ यदि तारशं तात्पर्य न स्यात् तदापि वृटिशा मतानुस संस्कृते या या विद्याः सन्ति तासां सर्वासामेव स्थूल ज्ञानं यथास तथैव संस्कृतशिक्षाऽपेक्ष्यत इत्युत्तरं दातव्यम् । प्राचां पुनरकाविद्यासुशिक्षितेति मतमासीत् इदानीन्तु सर्वात विद्यासु प्रवेशः कत्र्तव्याति यहूनां मतं श्र यते । तदनुसारेण सब विद्यानां सामान्यतः शिक्षाऽपेक्ष्यत इत्युत्तर देयम् । विशेषशिः दीर्घकालव्यापिनी दुःसाध्याचेति सा नेदानीन्तनानां हृदयङ्गमा। ल्पीयसा कालेन यथाकथञ्चित् किञ्चित् किञ्चिच्छास्त्रमधीत्य यदि मर्थमुपायत स एव पुरुषो धन्यः स एव सार्थकजन्मा तस्यैव सि पुरुषार्थाः इत्यतः शास्त्रं यथा यथा संक्षिप्नं संक्षिप्ततरं संक्षिप्ततमं । लभ्यते तथा तथा विद्यार्थिनां तदुपादेयमुपादेयतरमुपादेयतमं : भवतीति प्रायेण संग्रहग्रन्थानामेवाध्ययनप्रवृत्तिदृश्यते । एक व्याक णमेव पश्यन्तु भवन्तः पाणिनिं त्यक्त्वा कातन्त्रमधीते तदपि हित मुग्धयोधं तच्च परिहत्य सारस्वतचन्द्रिका पठतीति सर्वेषां शास्त्र णामीदृश्यध्ययनव्यवस्था, ज्योतिष स्मृतिशास्त्र दर्शनशास्त्र । प्राञ्जलं कोऽपि नेच्छत्यध्येतु अत एव केनचित कविनोक्तम्- जातव्याकरणं हतं तदखिलं श्रीवोपदेवेकवौ गङ्गशप्रभृतौ च नष्ट मधुना न्यायादिशास्त्रं परम् । श्रीमद्भागवते कुविन्द कविनाख्याते पुराणं हतं जातेश्रीरथुनन्दने कलिघरे तद्धर्मशास्त्रं हतम् ॥ इति । तदिदानी बहूनामपि शास्त्राणां किञ्चित् किश्चिदध्ययन मेवा क्ष्यत इति जानीमः । अस्माकं पुनर्मतं शब्दशास्त्र तथाध्येतव्यं यः संस्कृतं वक्तु बोद्ध लिखितुश्च शक्यते, अन्येषां शास्त्राणान्तु साम् न्यतो ज्ञानमपि शोभते व्याकरणस्यतु न तथा “उक्त शव्य का स्वन्धइति" प्रयोजनविशेष श्चेदपेक्ष्यते तदा विशेषत एव तत्त स्लमध्येत व्यमित्यलं विस्तरेणेति ।

वार्ता सम्पादकाभिप्रायाश्च । वङ्गेषु दुर्गोत्सवः। बजावु शारदो दुर्गोत्सव इवापरः कश्चिन्महानुत्सवो घनावसुन्ध. रया ( अथवा भारतवसुन्धरयैव ) नेदानीमालोक्यते, पुराप्यालोक्यत न वेति न जानीमः । चत्वारि दिनानि पुण्यमालदुन्दुभिनिनादेन पङ्गगगनमण्डलं परिपूरितमभवत् । प्रतिगृहं प्रमोदप्रवाह उदति- छत् । समं महम्मदीयैहिन्दूना पुरतः कानिचिद्दिनानि मूर्त इव सुख- सन्दोह आविरासीत् । दुःखबहुलख्य संसारस्य सेवनादतितमां ग्लानस्य मन्दीभूतोत्सा- होद्योगस्यान्तःकरणस्य विश्रमणाय पुनरुहीपनाय चान्तरान्तरा प्रमो- दहेतुरुत्सवो विहितोऽसदीयविचक्षणैः शास्त्रकृद्भिः । नान्तरान्तरा अगृहीतयवसकवलः, असे वितसलिलश्वाश्ववरोऽपि शकट नियुक्तः सअविश्रामं धावितु शक्नुयात् । स चायं शास्त्रविहितो भारतीयो- सवो न केवल प्रमोदैकप्रयोजनः । धयः खल्वयं, शिक्षितव्यानि चात्र बहूनि सन्ति । अन्यथा सुरापान-वेशसेवनादिभिरपि प्रीतिला. भस्य सौकर्य कस्य नामाविदितम् ? तदिह महति दुर्गोत्सवे किम- स्माकं शिक्षणीयमस्ति, किमर्थवात्र सधनाश्च निधनाच, पण्डिताश्च बालिशाश्च, सजनाश्च पामराश्च वैष्णवाश्व, शाक्ताश्चाविशेषेण परमा- कृष्यन्ते, किमिति चायमुत्सवः शास्त्रेषु • नित्यत्वेनाप्यङ्गीकृत इति निसर्गत एवामी प्रश्राभिचन्तयितु श्चेतस्युत्तिष्ठेयुः तत्समाधानमेघेह समासेन पाठकेभ्योऽस्माभिरूपहर्तुमिष्यते । सर्वैरेव हि सेवनीयोऽय- मुत्सवः। दुर्गोत्सवेऽय॑मानेयं देवी दुर्गा केति निर्णीत एव तेषां प्रश्नानां निरवद्यमुत्तरं लभ्येत । ज्ञायत एव सर्वैरस्या देव्या महीमयी मुतिः विविधास्त्रशस्त्रोल्लसितैः क्वचिञ्चतुर्भिः, क्वचिद दभिः, कचित् पो. संयोगपृथक्तम्यायेन काम्यनित्योभयरूया दुर्गापूजे ति मार्ताः । । * दृष्ट्वना वस्तुतो- मित्रगोष्ठी-पत्रिका। शभिः क्वचिच्चाष्टादशभिर्भुजैनिमीयते, सिंहाधिरूढा महिषासुरम- ईनोद्धता च सेति । युद्धदेवतेयमिति बुध्यते । ऽपि तत्तथैव । पुरा किल युद्धविजिगीषुभिर्महीपालैरेव साराध्यासीत, प्रयोजनं च तस्य शत्रुविनिपातनमासीत् । देव्या बोधने प्रयुक्त मन्त्र. जातमेवेदं द्योतयति । तद्यथा:- "शण संबोध्य च राज्यमाप्त यथा, तथा प्रतिबोधयामि । यथैव रामेण हतो दशास्य- स्तथैव शत्रून विनिपातयामि" । इति बोधनविनियुक्ता अन्येऽपि मन्त्रा आलोचनीयाः। अतएव हि राज- भिराश्विनसितसप्तम्यादि दिन चतुष्टयेषु महता सम्भारेण देवीमेता मर्चयित्वा विजयप्रस्थानमक्रियत। अस्या देव्याः पूजनाव्ययहित. परं युद्धयात्राव्यवहितपूर्व च अपराजितेति अन्यापि काचिदयुद्ध- देवता राजभिरच्चनीयति दृश्यते । अस्या उपरिस्थितयो भुंजयोद. क्षिणे खड्ग, घामे चर्म; अधःस्थयोदक्षिणे वरः, वामे त्वभमिति । "शरीरारोग्यमैश्वर्य विजये संप्रयच्छ मे” इति सा प्राय॑ते । प्रस्थाने सहैव देवीसापराजिता गच्छेदितीव तस्या मूर्तिरूपाया 'अपराजि- तेति' प्रसिद्धाया लताया वलयधारणमपि विधेयं दृश्यते अयं तन्मन्त्रः- केधावि पाठकानां कृते दुर्गादेव्या धधानमन्त्रात् किचिदिहोवि थतेः - * * * विभङ्गस्थानसंस्थानां महिषासुरमर्दिनीम् । टणालायतसंस्पशंदशबाहु समन्वि- ताम् । त्रिशूलं दक्षिणे धेऽयं, खड्गं चक्र क्रमादधः। अधम्ताम्महिषं तद- द विशिरस्क प्रदर्शयेत् । शिरच्छेदोद्भवं तहदानबं खडगमाणिनम् । हृदि- शूलेन निर्भिन्न निर्यदन्त विभूषितम् । रक्तरक्तौकताङ्गच रक्तविस्फरितक्ष- णम् । शपाशवामहस्त न धृनकेशं च दुर्गया। वम धिरवक्तं च देयाः सिंह प्रद शयेत् । देयास्तु दक्षिणं पादं सम सिंहोपरिस्थितम् ॥ .. * इत्यादि।

- वार्ता सम्पादकाभिप्रायाश्च । " जयदे परदे देवि दशम्यामपराजिते । धारयामि भुजे दक्षे जयलाभातिवृद्धये" ॥ इति ॥ देवी महिषासुरमहिनी दुर्गाम्, अपराजितां च पूजयित्वा । दशम्यां राजभिर्विजययात्रा क्रियते इति हि सा तिथि 'विजया दशमीति गीयते । न कथञ्चित्तिथिरसौ विजयार्थिना राज्ञोल्लङ्घनीया। कार्य- गौरवादसमर्थपक्षे विधानमाह राजमार्तण्ड:- कार्यवशात् स्वयमगमे भूभर्तुः केचिदाहुराचार्याः छत्रायुधाद्यमिष्टं वैजयिक निर्गमे कुर्यात् " ॥ इति इत्थं च यत्पूजनं पुरा किल शत्रुविनिपातनेच्छूनां राज्ञामेवाभूत, मन्या- महे, तस्य सर्वत्रैव महोपकारकत्वं पर्यालोच्य मणीषिभिः सर्वेषा- मेव कत्र्तव्यत्वेन तदिहितम् । कारण मन क्रमेण प्रपञ्च्यते । यदि कश्चिद्यथार्थपुरुषार्थस्य सिद्धिमर्थयेत, लौकिको वा पार- लौकिको वास्तु तस्य स पुरुषार्थः, सर्वत्र ऐक्यं तेनावश्यमेव सेवि- तव्यं स्यात् । यद्यस्यैक्यबुद्धि।त्पद्यत तर्हि प्रतिपदं तस्य विपत्तिः। पारलौकिके तावद वेदान्तदर्शनमेवोच्चैस्तराम ऐक्यज्ञानमुद्घोषयति- "आत्मैवेदं सर्वम्, ब्रह्मैवेदं सर्वम्,''"ऐतदात्म्यमिदं," सर्वम् मृत्योः स मृत्युमाप्नोति, य इह नानेव पश्यति" इत्यादिभिः परःशताभिरत- तत्त्वप्रतिपादनपरायणाभिः श्रुतिभिः । लौकिके तुशास्त्रानुसन्धानस्य प्रयोजनमेव नास्ति, स्वयं सर्व प्रत्यक्षीक्रियताम् । प्रदर्शयतु भवान् को नाम स्वजनविरोधमापनः परां श्रियं, कुशलसम्पत्तिं वाधिगच्छतीति। स्वस्वपरिवारवर्ग एव किं दृष्टि सञ्चारयतु भवान् यदि नामैकैकः परिवारेषु परस्परं भिद्यते, तर्हि कियत सुखमुत्पद्यते इत्याबालं जर्वत्र प्रसिद्धम् । अस्मादेव हेतोः आ पञ्चतन्त्राद आ च वेदात् सर्व- स्मन् खल्वमुमेवार्थ गीयमानं पश्यामः । उपदिष्टा अस्मच्छिशवो गीतिविर्येण:- अल्पानामपि वस्तूनां संहतिः कार्यसाधिका ।

२००
मित्रगोष्ठी-पत्रिका।
तृणैर्गुणत्वमापन्नध्यन्ते मत्तदन्तिनः ॥
संहतिः श्रेयसी पुसों स्वकुलैल्पकैरपि ।
तुषेणापि परित्यक्तान प्ररोहन्ति तण्डुलाः" ॥
अस्यैवार्थस्य मूलं चित्र ऋग्वेदसूक्तिग्रन्थनकृता सर्व वेदं श्रावयि-
त्वोपसंहरणसमये सर्वशास्त्रनिर्यासस्वरूपमिव प्रदर्शितम् -
"संगच्छध्वं संवदध्वं संवो मनांसि जानताम्" । इति *
एतस्यैवोभयलोकश्रेयस्करस्यैक्यस्य शिक्षणार्थमेव भगवस्या
दुर्गायाः पूजनस्य प्रवृत्तिः तदुक्तं देव्यैव-+
"एकैवाहं जगत्यत्र द्वितीया का ममापरा ।
पश्यैता दुष्ट, मय्येव विशन्त्यो मविभूतयः" ॥ इति
यदस्मिन् वाक्ये संक्षिप्तं, तदेवान्येषु सुविशदं प्रपश्चितम् । अवधा.
यंतां का नामेयं भगवती महिषासुरमहिनी, अस्ति न पानया राज्ञा.
मिवापरेषामपि प्रयोजनमिति । इयं हि दुर्वारभुजवीर्यण दुरात्मना
महिषासुरेण स्वर्गानिराकृतानां त्रिदिवाधिवासिनां तत्प्रतिघातार्थ
सम्मिलिता शक्तिः, तेषामेकस्मिन् समागतं तेजः, न त्वपरं किञ्चित् ।
तद्यथा-
"इत्थं निशम्य देवानां वांसि मधुसूदनः ।
चकार कोपं शम्भुश्च ध्र कुटीकुटिलाननौ ॥
ततोऽतिकोपपूर्णस्य चक्रिणो वदनात्ततः ।
निश्चक्राम महत्तेजो ब्रह्मणः शङ्करस्य च ॥
अन्येषां चैव देवानां शक्रादीनां शरीरतः।
निर्गतं स महत्तेज स्तच्चैक्यं समगच्छत" ॥
ऋगुदस्य दशममण्डलान्तिममुक्त अयमेवार्थो बहुधा प्रपषितः।
+ अतः परमधुतग्रन्थादिनामानि वचनानि मार्कण्डयपुराणान्तर्गतस्य
'देवीमाहात्मा' स्यसि बोधाम्। इदं देवीमाहात्मामेव 'दुर्गासप्तशती' 'प.
डी'ति च नाम्ना प्रसिद्धम् ।
.
॥

वार्ता सम्पादकाभिमायाब। २०१. पिच- * * . * . अतुलं तत्र तजः सर्वदेव शरीरजम् । एकरूयं तवभूमारी व्याप्तं लोकत्रयं त्विषा । पदभूच्छाम्भवं तेजस्तेनाजायत तन्मुखम् । पाम्येन चाभवन् केशा बाहवो विष्णुतेजसा" * ॥ इत्यादि। व पृथगवस्थिते देधैर्यः शत्रुर्विनिपातयितुमशक्योऽभूत, सर्वेषां श- हीनां सम्मेलने कृते तु स एव लीलया विनाशितः। अस्याः समष्टि- उक्तेरीदशमुपकारित्वं विविव्यैव देवीमाहात्म्यवका मुनिवरेण मेध- प्रोक्तं-दुर्गादेव्याश्चारित्र- संघातभेदे च नृणां मैत्रीकरणमुत्तममिति"। या महाशक्त्या पश्यत एव दुर्धर्षा महिषासुरशुम्भनिशुम्भादयो दैत्या वनाशिताः, देवताश्च परमामृद्धि प्रापिताः, सापि या पास्या न यात, हि केव सा भवतु । शत्रुविजयवदन्यान्येष्वपि सांसारिकेषु अस्या महाशक्त्या आव- यकत्वमिति हि राजभिरिव अपरैरपि तस्याः पूजाविधातव्यति नयमः । इयमेवारुमाकं सर्वा विपत्तिमपाकमीष्टे । परस्परम- क्ये पदपि गन्तु घयं विपद्य महि । विपत्तिं विनाशयतीत्यस्मात् गा दुर्गति कीत्यते । तदुक्तम् :- * एवं शुम्भनिशुम्भवधे- एतसिवन्तरे भूप विनाशायामरहिषाम् । भवायामरसिंहानामतिवीर्यबलान्विताः । प्रक्षेशगुहविष्णनां तथेन्द्रस्य च शक्तयः । भरौरेभ्यो विनिक्रम्य तह पश्चण्डिका ययुः ॥ यस्यदेवस्य यद्र पं यथाभूषणवादनम् । सरदेव जितकक्तिरसरान हन्तुमाययौ। -- - . १६ . मित्रगोष्ठी-पत्रिका। "विपत्तिवाचकोदुर्ग भाकारो नाशवाचकः। तं ननाश पुरा तेन बुधैर्दुर्गा प्रकीर्तिता"॥ इति अतो दियं शक्तिः 'सर्वमङ्गलमङ्गल्या' 'सर्वार्थसाधिका,' 'सपि स्थितिविनाशानां हेतुभूता' च न तन स्तोकोऽपि संशयावकाशः अतएवास्या देवीमाहात्म्योक्त चारित्र- " श्रुतं हरति पापानि तथारोग्यं प्रयच्छति'। अतएव च तस्या युद्धेषु यददुष्टदैत्यनिवहणं चरितम्- "तस्मिन् श्रुते वैरिकृतं भयं पुसां न जायते"। अतएवास्या महामहोपकारित्वात सकलकुशलनिदानभूतत्वाच उप निबद्धतन्माहात्म्याया दुर्गासप्तशतिकायाः पाठो विहितः । परन्त्वा वत्सरान्तेऽपि सकृयं सविशेषं पर्यालोच्य सप्तशती न पठामः नहि युक्तार्थानुसन्धान विना सहस्रकृत्वोऽप्यक्षराणामुच्चैरुच्चारणं समीहितसिद्धिर्भवति । अत एव वयं तस्या महाशक्तः प्रसादेन । श्चिताः, अत एव च सा रुष्टा सती सकलानभीष्टान् कामानपहन्त त्यही भाग्यं येन हि पुरःस्थितमपि रत्नं न पश्यामः, दृष्ट्वापि वा गृहीमः, गृहीत्वापि वा हृदयेसंस्थाप्य न यथोचितं सम्मानयाम तदागच्छन्तु भोः श्रीमन्तो भ्रातरः, आगच्छन्तु सर्वे वृथाविरोर्धा देषादिबीजं दूरमपहाय परमाभ्युदयार्थ तामिमां महाशक्ति देवी सकृत साष्टाङ्गन विधिना प्रणिपत्य प्रसादयाम:- "देवी प्रपनातिहरे प्रसीद, प्रसीद मातजंगतोऽखिलस्य । प्रसीद विश्वेश्वरि, पाहि विश्वं, त्वमीश्वरी देवि, चराचरस्य ॥ विश्वेश्वरी त्वं परिपासि विश्वं, विश्वात्मिका धारयसीति विश्वम् । * अपरापर निर्वचनार्थे भन्दकल्पद्रुमो दृश्यः । तत्रापि अयमेव उपलभ्य त। . - . .

वार्ताः सम्पादकाभिमायाय । विश्वेशवन्या भवतो, भवन्ति- विश्वाश्रया, ये स्वयि भक्तिनम्राः ॥ . - स्वावलम्वनम् । किं सुखं, किं वा दु:खमिति संक्षेपेणेदं मीमांसितमस्माकं सक- स्तत्वनिष्णातैारतीयमणीषिभिः- "सर्च परवशं दुःखं, सर्वमात्मवशं सुखम् । एतद्विद्यात् समासेन लक्षणं सुखदुःम्नयोः" ॥ इति । स्वल्पाक्षरं वाक्यमिदम्, अर्थस्त्वस्य महान् गम्भीरः परमोपकारकश्च । लौकिकालौकिकेषु सर्वेष्वेव भारतीयशास्त्रषु अयमेवार्थस्तैस्तैःप्रका. चिन्तितः प्रश्चितश्च । परन्त्वसकृदेनं वचसोचारयन्तोऽपि न कि- श्चित् कर्मणा कत्तु प्रभवाम इति धिगसमाकं शिक्षाम् । मनस्यन्यत्. कर्मण्यन्यच कुर्वाणा वयं दुरात्मनः समः संवृत्ताः । परमुखापेक्षिणः कस्य नाम सुखप्रत्याशा ? परतन्त्रजीवनस्यान्धस्य दुःखपूर्ण जीवितं केन चक्षुष्मता न प्रत्यक्षीकृतम्–यायत्तस्य कश्चिदनुग्रहयुद्धगा तद्- पेक्षितां यष्टि प्रदाय न स्वयं गच्छति न तावत् स पदमपि गन्तुप्र- वति; यावत्तस्मै पानीयं न दीयते, तृष्णाक्षामकण्ठोऽपि निर्गच्छ- प्राणोऽपि च स न कथञ्चित्तदुपादातु शक्नुयात् । एवमेव सर्वत्रापि । स्माकमपीयमेवावस्थोपस्थिता । सांसारिकेषु कृत्येष्वपेक्षितानां व्याणां संग्रहे वयमियत् परापेक्षिणो यदस्य भीषणां परिपाकमालो. यतो महदुःखमुत्पद्यते। तुच्छेष्वपि कर्मसु साम्प्रतं वैदेशिकामाम- ग्रहं विना नास्त्यस्माकंगत्यन्तरमत्र । पश्यत एव ते कौशलेन तथा- माकं गेहमाकान्तवन्तो यत् तत्र नयनं सञ्चारयतो वैदेशिकान्येव व्यायभित आलोक्येरन, धर्मकृत्येष्वपि तान्येव व्यवाहियन्ते, गृह- भाकराणि तान्येव मन्यन्ते, विलासोचितानि तान्येव गण्यन्ते, गौर. वहानि च तान्येव विचायन्ते । न केवलं कुटिलकलाप्रवीणैदेशिक ।

। २०४ मित्रगोष्ठी-पत्रिका। गृहमेवास्माकमधिकृतम्, हदयपि नस्तेषामेवाधीनं सम्पन्नम् यथा ते नत्तयन्ति, तथैव नृत्यामः, साधुषा मसाधु वा कथय न्ति, यन्त्रपुत्तलीवत् तत्प्रतिध्वनि मेवाविष्कुमः। तेषामेव कल्याणे सुन्दरमपि स्वदेशशिल्पं चरणावताडनेन दूरतः क्षिपामः, वस्तुतं वैदेशिकादुत्तमतरमपि स्वदेशोयं द्रव्य मुक्तकण्ठं निन्दामः । भार तंतिवृत्ताक्षराणि भारतभाग्यदोषेण साधारणेवप्रकाशितान्यपि ना धापि विलुप्तानि । किश्चित्परिचिताक्षरैरपि तान्यनुसन्धाय द्रष्ट शक्यन्ते देशहितचिकीर्षुभिर्विहितानि विधीयन्ते च साम्प्रतं तानि सु लभानि, तदालोचना ज्ञायते यद-यद्भारतमद्य वैदेशिककरुणा कटाक्ष मन्तरा वसनाभावेनात्मनो लजानिवारणसमर्थं सम्पन्नम्, तर नातिपूर्व देशान्तराणां लज्जां विनिवार्य विलासवस्तुसम्भार वस म्पाय परोलक्षाणि धनान्युपाज्जयित् परं समर्थमासीत्, यद्गारतेऽर समुद्रोपलवत्तिषु नगरेष वैदेशिकानां वाणिज्यपोतानां समुच्छिनै. गुणवृक्षकैगंगनमण्डलं समाकीर्णम् तदेवानतिपूर्व महासमुद्रमुत्तीय अपरापरदेशानुपस्थाय न खलु हीनतरं गौरवमध्यगच्छदिति । आ. मोदरं कथमिव पूरयितु शक्यत इति भारतं नानभिज्ञमासीत; निस. गोह्ययं, यत्स्वोदरपूरणं नाम, तियंञ्चोऽप्यन नापरमपेक्षन्ते, किमा पुनर्भारतं ताहशमभूदिति सम्भावयितुमपि शक्यते परन्त्वहो काल- प्रभावः ! हन्त च शिक्षाप्रकारो भारतीयानाम्, येनासम्भाव्यमपि स. म्भवति, अचिन्त्यमपि च स्पष्ट पुरतो दृश्यते । तिर्यग्भिरपि या क्रियते, हन्त भोः मुग्धं भारतं कतिचिद वर्षाणि बहुगौरवबुद्धा तठेवानुसरति । अथवा कृतमतीतचिन्तया । भूतं यद्भवितव्यमासीत् वर्तमानमि- दानीमालोच्यताम् । अयमयम् उदयशै शिखर मधिरूढ इव भगवान भारताभ्युदयसहस्रकिरणः । प्रकाशिता इव दृश्यन्ते समुद्योगकिरण- मालिकया अन्धतामिस्रमया भारतीयहदयाकाशभागाः । अवहतीवा- नुकूलः सुभगो मातरिश्या । अपहतकण्टका इव समुउज्वला भान्ति . । - पासी सम्पादकाभिमायाश्च । पन्धानः । उच्चस्तिष्ठन्तीय प्रहगणाः प्रसीदतीय व भगवती भषि- शव्यतापि । तदलं विलम्बितेन, उत्तिष्ठन्तु आगच्छन्तु च सर्वे, याव. छक्यं प्रयतेमहि वयं पुनरपि प्रसादयितु देवी भारतलक्ष्मोम् । सङ्कल्प्यतां सः नं पयमितः प्रभृत्यात्मोदरं पूरयितुपरकरुणाकटाक्ष- मीक्षेमहि । न किं पैदेशिकानामिवैव अस्माकमपि तदेव चक्षुः, तदेव प्रोत्नम्, तदेव च पाणिपादमस्ति ? न वयं गाव इव घासकवलं चवं. यामः । न खलु नास्माकं बुद्धिः शास्त्रेषु पा शिल्पेषु वा यथोचित क्रमते । न वा नासदारते सम्प्रत्यपि स्वल्पत्वेऽपि शिल्पादिव्ययवह- नोचितं धनमस्ति। न वा नास्ति देहबन्धेऽपि तदह सामथ्र्यम् । केवलं यदभावादिदं दौगत्यं सा हि 'इच्छा' नाम । यदीयम् इच्छा स्यात्, तहिं सत्स्वप्यपरेषु साधनेषु किमित्यस्मत्-समीहितं न सि- द्धत् ? पश्यत, यदेते तन्तुबाया स्तुरीधेमादीनि वयनसाधनानि दूर परिवज्यं भिन्नामेव जीविकामाश्रित्य स्वावश्यकवसनोत्पादनेऽप्यस- मर्थाः सन्तः साम्प्रतं पुनरपि प्रागिव सोत्साहं प्रतिदिनं प्रभूतानि व. स्त्राणि बयन्ति, किमन कारणम् ? कारणम्-पूर्व वयं तस्य तप- स्विनः कुपिन्दस्य सुन्दरमपि वस्त्र चरणाघातेनापाकाम, इदानीन्तु तत्सादरं स्वीकुम इति । इत्थमस्माकमेवापराधेन भारतशिल्पावि मन्दी भूतानि । अद्य तावत्तद विरोधेव योऽयं देशव्यापक उद्योग मारब्धः तेन शिशुरपि सम्भावयति तूर्णमेव भारतं प्रतिदिनापेक्ष सकलमेव वस्तु सम्पादयितुप्रभविष्यतीति । यः पुरुषः 'महं भार- तीय' इति स्वल्पमप्यभिमानं पुष्णीयात, तस्य निरुद्योगावस्थानस्य नायमवसरः 1 यावच्छक्यं सोत्साहं सर्वैरेव वैदेशिक परित्यज्य मन्द- तरमपि स्वदेशीयमेव द्रव्यमाद्रियताम् । नात्र लेशतोऽपि संशयो यत यद्धि भारतीयं द्रव्यमिदानी वैदेशिकापेक्षया किश्चिद्धीनतरम् अधि- कमूल्यं वा प्रतीयेत, स्वल्पैरवाहोभिस्तचारुतरम् अतिसुलभं च सम्प स्यत इति । नहि वैदेशिकादि द्रव्याणि प्रथमत एव इत्थं सुलभान्या- सन्; क्रमेण हि तेषां सौलभ्यं जातम् । भारतोयद्रव्येऽपि स एव नि.

२.६ मित्रगोष्ठी-पत्रिका यमो न विस्मरणीयः । भारतयन्त्रोत्पन्नं यद्यपीदानी वैदेशिकापेक्षया स्थूलं भवति, भवतु नाम तत् तथा, न तेन किश्चित्, स्थूलमेव तद्वं गृह्णीयाम । नहि स्थूलवसनेन अजाक्षतिरुत्पत्स्यते, न पा तेन गौरव- हानाशङ्का । कस्त्वां निन्दिष्यति ? गृहीतस्थूलवसना हि सर्व एव वयं समानाः । काले चेदमेव स्थूलं वसनं सूक्ष्मतया परिणस्यते । अध नितान्तं सूक्ष्मवसनेच्छा, किञ्चिदधिक मूलरामप्यताम्, ढाका-- न्दनगर-शान्तिपुराध त्पानि सुबहूनि सूक्ष्मतमानि रमणीयानि वसनान्युपलभ्येरन् । भारतं हीदं न इलैण्डादिसदृशं स्थानम् । अ. स्मिन् हि अस्य अवश्यापेक्षं सर्वमेव वस्तु लन्धुशक्यते इलैण्डं तु परदेशोत्पन्न शस्यं विना प्राणितुमेव न प्रभवेत् । यद्वि पसनादिवस्तु भारते विदेशेभ्य आगच्छति, मुलोपादानन्तु तस्य प्रथम भारतादेव संगृह्य तत्तत्स्थानेषु प्रेयते । मूढा वयं यदीदृश्या सर्वसुखमय्या भारत वसुन्धरायां स्थित्वापि हन्त कुक्कुरा इव प्रभूणां वैदेशिकानां सदयां दृष्टि पश्यामः, तेन च शयनासनविहरणादिषु सर्वत्रैव परतन्त्राः सन्तो दुःखमपि सुखमिति घारयामः । इदानी चक्षुरुन्मीलितं, चैतन्य चोदितम् अवधीयतां-यथा बहुकोशलकुशलैदेशिकैरुपच्छन्दिता ववं मधुविषानमिव वैदेशिकानां द्रव्यं न गृहोम इति । स्मयंताम्- "सर्व परवशं दुःखं, सर्वमात्मवशं सुखम्” इति । । - . :: " अनकलो गलहस्तः"। एतावन्ति वर्षाणि तावता श्रमेण तावता चार्थव्ययेन स्वदेशहित चिकीर्षवो वाग्मिनः पत्रिकासम्पादकाश्च जनानां हृदयेषु यं खलु स्व- देशप्रेमाणं जयितु नाममन्त, स एवाद्य सपदि वङ्गव्यवच्छेदकपं निमित्तमुपादाय प्रबलेन रंहसा स्वत एव समुत्पन्नः । वङ्गानामेकस्या अपरां सीमानं गच्छ, पश्येः बालस्य घा तरुणस्य वा, प्रौढस्य वा थपिरस्य वा स्त्रीजनस्य वा, सर्वेषामेव हृदयं स्वदेशप्रेम्नो रमणीयेन वार्ताः सम्पादकाभिप्रायाश्च । मधुरिम्णा स्फीततरमुल्लसति, सर्वेषामेव वदनं स्वदेशोन्नतिमेवाल- पति, सर्वेषाञ्च प्रयासः तद्विषयक एव भवनभितः प्रस्फुरतीति । न केवलं वङ्गानामेवायं भावः; योऽसौ महान् प्रवाहो बङ्गककोणे समुज्जृम्भितः, पश्यत्स्येव सर्वेषु स प्रचुरेण वेगेन समग्रमेव भारत- माप्लावयन् देदीप्यते। सर्वेष्वपि देशेषु गृहाम्तर्वा यहिर्वा समानमेव चित्रं प्रतिभासते। सर्वत्रैवैक एव व्यवहारः-परित्यक्तवैदेशिका- स्तुव्यवहारा वयं स्वदेशोत्पन्नमेव सर्वं गृह्णीयाम अप्राप्यं च स्वयमु- शादयामेति । ये हि धनिनः पूर्व नयनधारिणोऽप्यनयना श्व मनसा भारताहितमबबुध्यमाना अप्यबुद्धा इव भारतोन्नतये न किञ्चिद- कार्युः, त एवेदानीमग्रणीत्वमवलम्ब्य वस्त्रादिसम्पत्तये यन्त्रादिकं स्थापयन्ति, यथोचितं च तांस्तानुपायान् विदधति । कैनिद आज लोपत्रिकासम्पादकैः कतिभिश्चान्यैस्तत्पदानुसारिभिर्भारतविषकः भारतीयानामयमुद्योगः सायज्ञमुपहसितः न तदानी तैरदूरदर्शिभि- रुत्प्रेक्षितमासीद यद् भारतोया अन्योन्यमैकमत्येन इयदगुरुतरं कृत्य- मनायास लीलान्यायेनैव कत्तुं क्षमेरनिति । साम्प्रतं तु नयनसम्मुख- मेष तदिदमचिन्तितचरं वृत्तमालोकयतां तेषां विस्मयरसपरीतमिव हृदयमण्डलं संवृत्तम् । दुरोदकोऽपि वणव्यवच्छेद पवैतस्य निखि- लस्य परिवर्तनस्य बीजम् । अतएव कथयामःसोऽयं भारतीयानाम- "अनुकूलो गलहस्त" एवेति । ऐक्यमत्रबन्धनम्। भारतशासकमतेन सौराश्विनस्य त्रिशे दिवसे (१६ अक्टोबर, १९०५) वङ्गानां कांश्चिद् भागानाच्छिद्य साम् 'आसाम-प्रदेशेन भारते कोऽप्यभिनवो विभागो भारतीयानां हृदयममव्यथया सह सृष्टः। अनिच्छतामपि पूर्वोत्तरवाधिवासिनां भ्रातृणां परस्परं विच्छदबी. जमुप्त तस्मिनहनि भारतसम्राटप्रतिनिधिना । विभक्त ऽपि बङ्गभूमि- मण्डले न घयं हृदयेन भिन्ना इतीदं तु मिथो निवेदयितुमेकैकैः पूर्व ०८ पित्रगोष्ठी-पत्रिका वनाधिवासिभिः पश्चिमवाधिवासिभ्यः, एतैम तेभ्यस्तस्मिनदिने पीतरागरञ्जितं सूत्रमेकं प्रहितम् । ऐक्यबन्धनसूचकमिव तत्सूत्र सबै प्रकोष्ठे धृतमासीत् । स्वस्वविभागस्थितैरपि पङ्गीयैरन्योन्यमिय पीतसूत्रविनिमयः कृतः । तदानी तेषां परस्पर हृदयानुभूतस्यैक्यस्य घदनमण्डलसूच्यमाना मनोहारिणो छविः कस्य नामप्रेक्षकस्य नातित- मामानन्दमुदपादयत् । प्रतिवर्षमेवेदमैक्यसूत्रबन्धनं क्रियेत। श्रेयो हृदयैक्यं स्थानैक्यात्। स्वदेशद्रव्य व्यवहारे वङ्गीय पण्डितानामुयोगः । घजीयानां संस्कृतपण्डितानां समाजसंस्कारे देशाभ्युदये चैता. वन्तं कालं वर्तमान दुरन्तमौदासीन्यं क्रमेण विलीयमानमिव लक्ष्यते। स्मृतमिव साम्प्रतं तैयंत् निधनानामपि तेषां प्रयासेन देशसमाजादी. नामनन्यसाधारण प्रभूतं कल्याणं साधयितु शक्यत इति । अमित एव श्रूयते-पण्डितमहोदयैः समितिषु सम्मिल्य शास्त्रीयप्रमाणोप- न्यासपूर्वकं वसनलवणशकरादीनां देशान्तरागतानां द्रव्याणामव्यवहा- र्यता उच्चैस्तरामुक्षुष्यते, स्वयं प्रतिज्ञाय चान्येऽपि तद्जनं प्रतिज्ञा- प्यन्ते चेति । इदमप्यस्मकर्णगोचरमागतं यत् केऽपि पण्डिता एव. मेवार्थ व्याख्यातु स्थानात् स्थानं पर्यटन्तीति । जानीमो वयम् - "यद्यदाचरति श्रेयास्तत्तदेवेतरो जनः । स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते" ॥ इति । अतः श्रेयोभिः पण्डित महाशयै सतदाचयंतां, तञ्च प्रमाणं क्रियता येन ताननुवर्तमाना लोकाः श्रयसो न परिभ्रश्येयुः; अनर्थ च न - च्छेयुः। असन्दिग्धमिदं यद् यदीत्थं ते कानिचिदिनानि प्रयासमा. वध्युस्तहिं तेषु निसर्गश्रद्धालवः साधारणजना न पुनदेशिकवस्तुव्य- वहारस्य नामापि मुखतो गृह्णीयुरिति । संस्कृतविदुषां तमिमारम्भ वयं हृदयेन समर्थयामहे । प्रसीदतु भगवान् विश्वम्भरः, प्रपूरयतु च भारतम् अनन्यनिरपेक्षं स्वकीयमुदरम् । .

मित्रगोष्ठो-पत्रिका।
( मासिकं संस्कृतपत्रम् ।)
सङ्गच्छध्वं संवदध्वं सं वो मनांसि जानताम्" ।
ऋग्वेदः।
द्वितीय वर्ष } १८२७ शकाब्दाः, अग्रहायणः। { अष्टम संख्या
वेद वृत्तान्तः।
२
चूतत्वनम् ।
ऋग्वेदस्य दशममण्डलीयं चतुस्विंशं सूक्त सुष्ठु खलु घतका-
राणां परिणाम प्रदर्शयति । अस्मिन् सूक्त १४ चतुर्दश ऋच: सन्ति ।
नत्र १,७,९,१२,१३ ऋक्षु अक्षकृषिप्रशंसा, अपरासु तु अक्षकितव.
निन्दा । अस्य सूक्तस्य ऋषिः कषष ऐलुषो नाम, मौजवान् वा ।
हुषु वैदिकसूक्त'षु घू तदेवनपरिचय उपलभ्यते। इदन्तु सूक्त नि-
मन्तं मनोरममिति भावार्थन पाटकानां पुरत उपस्थाप्यते :
"प्रावेया या बृहतो मादन्ति प्रवातेजा हरिणे ववृतानाः ।
सोमस्येव मौजवतस्य भक्षो विभीदको जाविमा मच्छान” ।
बृहतोऽक्षा यदा पाशकाधारे तत इत: सञ्चरन्ति, तदा ते मां
कामं मादयन्ति । मूजवत्पवंतोत्पन्न-सोमलतारसास्वादनवत
भीदककाष्ठनिर्मिता अक्षा मामुत्साहन्ति प्रीणयन्ति च ।
२
"न मा मिमेथ न जिहीथ एषा शिवा सखिभ्य उत मद्यमासीत् ।
अनस्याहमेकपरस्य हेतोरनुव्रतामप जायामरोधम्" ।
* मूजवान नाम कोऽपि पर्वतः। तत्र सोमलतोत्पाते।
१

२१० मित्रगाष्ठा-पत्रिका। एषा में पत्नी द्य तदेवनातोनं कदापि मामखेदयत, म वामन यत, सा खलु मां वा, मम पन्धन वा प्रति शिवैवासीत् । महन्तु के पलमल्यातिप्रियस्य अक्षस्य हेतोस्तामनुव्रताम् अवधीरितवान् । ३ "दृष्टि श्वश्रूरप जाया रुणद्धि न नाथितो विन्दते मद्धितारम् । अश्वस्येव जरतो वस्य नाहं विन्दामि कितनस्य भोगम् " ॥ धु तकारं तस्य श्वश्रू ष्टि, जाया च परित्यजति । स हि याच. मानोऽपि न कुतोऽपि किञ्चिदधिगच्छति, विक्रयाथमुपस्थापितस्य वृद्धस्याश्वस्येव नाहं कितवस्य कमप्युपयोगं पश्यामि । ४ " अन्ये जायां परिमृशत्यस्य यस्यागृधदने वाज्यक्षः । पिता माता भ्रातर एनमाहुन जानीमो नयता वद्धमेतम्" । यस्य अश्वरूपोऽक्षो धनगृच भवति, अन्ये जनास्तस्य जायां स्पृ- शन्ति ( सा व्यभिचारिणी भवतीति भावः ) पिता माता भ्रातरच कथर्यान्त-"नैनं वयं जानीमः, बद्ध में नयत ( पुरुषाः)'। . यदादीध्ये न दविषाण्येभिः परायद्भयोऽवहीये सखिभ्यः । न्युप्ताश्च बभ्रवो वाचमकतँ एमीदेषां निष्कृतं जारिणीव" ॥ यदाहं चिन्तयामि नैभिः क्रीडासहचरैरक्षान् देविष्यामोति, तदा फ्रीडार्थ गच्छद्भिः सखिभिस्त्यक्तः सत्रहं तिष्ठामि। किन्तु यदा पश्यामि पिङ्गलवर्णा अक्षाः पाशकाधारोपरि निक्षिप्ताः शब्दायन्ते, तदा नाहं स्थातु शक्नोमि-व्यभिचारिणीव स्त्री स्वोयपतिम् एषां सखीनां समीपेऽहं द्रुतं गच्छामि । ६ "सभामेति कितवः पृच्छमानो जेष्यामीति तन्वा शुशुजानः । अक्षासो अस्य वितिरन्ति काम प्रतिदीब दधत आकृतानि" ॥ कितवः किं भी जेष्यामीति' पृच्छन् शरीरेण वर्चमानः ( सरूप- बेद वृत्तान्तः। म् ) समां प्रविशति । परन्तु अक्षाः प्रतिपक्षाय एतदीयं धनादि समर्पयन्त । एतस्या भिलाषं व्याहतं कुर्वन्ति । . "भक्षास इदं कुशिनो नितोदिनो निकृत्वानस्तपनास्तापयिष्णवः । कुमारवेष्णा जयतः पुनहणो मध्वा संपृक्ताः कितवस्य बहणा' । अक्षाः स्खलु अङ्क शयुक्ता इव, निच्छेदका स्तपना स्तापप्रदानशी: लाच । एते हि जेतृजनाय प्रथम किञ्चिदालोचितं कीडनक प्रदाय पश्चात प्रन्ति । एवमप्यतेऽक्षाः कितवजनानां मधुसंपृक्ता इव प्रतिभान्ति । ८ "त्रिपञ्चाशः क्रीलति व्रात एषां देव इव सविता सत्यधर्मा। सप्रस्य चिन्मन्यवे ना नमन्ते राजा चिदेभ्यो नम इन करोति' ।। एषां त्रिपञ्चाशत्संख्यकानामक्षाणाम् एष समूहः सत्यधर्मा सवि- तेव शोभमानः क्रीडति । उग्रस्यापि जनस्य मन्युना नैते वशीभूता भवन्ति । किं बहुना राजाप्येतान् नमस्करोति । or . "नीचा वर्तन्त उपरि स्फुरन्त्यहस्तासो हस्तवन्तं सहन्ते । दिव्या अङ्गारा इरिणे न्युप्ताः शीताः सन्तो हृदयं निहन्ति" ॥ एतेऽक्षाः क्षणं नीचा वर्तन्ते, क्षणाश्वोपरि स्फुरन्ति । यद्यषां हस्तो नास्ति, तथापि हस्तवन्तं जनं पराभवन्ति । पाशकाधारे निक्षिप्ता एते दिव्या अङ्गाराः ( अक्षरूपाः ) शीतला अपि मनाना हृदयं दहन्ति । । "जाया तप्यते कितपस्य हीना माता पुत्रस्य चरतः कस्वित् । ऋणावा विभ्यद्ध नमिच्छमानोऽन्येषामस्तमुप नक्तमेति ॥ कितवस्य जाया हीना सती तप्यते, यत्र कापि चरतः कितषस्य पुत्रस्य मातापि तप्यते । उत्तमणः प्रदत्तं धनं तस्मात कितवात् पुनः २१२ मित्रगोष्ठी-पत्रिका। प्राप्येत न घेति विभेति । स्वयं च ल कितवो सासार्थ रानावन्येष पृहमुपसपंति। . "स्त्रियं दृष्ट्वाथ कितवं ततापान्येषां जायां सुकृतं च योनिम् । पूर्वाह्न अश्वान्ययुजे हि बसन्तसो अग्नरन्तं वृषलः पपाद''। धूतकारो यदा पश्यति तस्य स्वकीया स्त्री दुर्दशाग्रस्ता, पर. कीयास्तु स्त्रियः सुसमृद्धाः, परकीयाणि च गृहाणि सुन्दराणीति, तदा नितान्त निन्नी भवतीति । स हि घ तकारः पूर्वाह पिङ्गलार भवान् ( मक्षरूपान् ) अयुनक, किन्तु क्रीडान्युपशमे स दीन इव व्यचरत । "यो वः सेनानीमहतो गणस्य राजा वातस्य प्रथमो बभूव । तस्मै कृणोमि न धना रुणध्मि दशाहं प्राचीस्तहतं वदामि" ॥ युष्माकं महतो गणस्य मध्ये यः सेनानीः यश्च युष्माकं वातस्य मध्ये राजा, तत्पुरतोऽहं दशाङ्ग लिभिरञ्जलिं बध्नामि, नाहं मदीयं ग्लहं रुध्मि इतीदमहं सत्यं वदामि । "अक्षर्मा दीव्यः कृषिमित् कृषस्व वित्ते रमस्व बहुमन्यमानः । तत्र गावः कितव तत्र जाया तन्मे विचष्टे सवितायमायः" ।। हे धुतकार, अक्षर्मादीव्य कृषिमेव कुरू, तदपाजितं वित्तं बहु- मन्यमातस्तस्मिन्नेव रमस्व । कृषिकर्मणव गावो भवन्ति, तेनैव च जाया। अयमायः सविता मे इदमाह । १४ "मित्रं कृणुध्वं खलु मृड़ता नो मा नो घोरेण चरतामि धृष्ण । नि घो नु मन्युर्विशतामरातिरन्यो वभ्र णां प्रसितौ वस्तु' ॥ तुजनीयम्-"यलमसे निजकर्मोपात्त, वित्ततेन विनोदय चित्तम्"। "विधिवशात प्राप्तन मन्तुधाताम्" इति प्रदरः ।

.. घेद ताम्तः। हे भक्षाः, असमाकं भित्राणि कुरुत, सुखयत चास्मान् । मास्मान स्वकीयेन तीव्रण कुहकेन मोहय; अस्मान प्रति युष्मदीयो मन्युका- शाम्यताम, अपरः कोऽप्यरातिः पिङ्गलवर्णानामक्षाणां घी वागुराया निपततु। श्रीमन्तः पाठकाः, विचार्यवां भवद्भिः कीदृ माधुर्यमस्य सूक्तस्य। यावत्सम्भाव्यं सर्वमेवास्मिअतिसुन्दरं वर्णित छु तस्य । यत्सत्यमे- सदाचयतामस्माकमपरं किञ्चित् तदर्णनमवशिष्यत इति न चेतस्यु- देति। घतकारस्य पल्या दौर्गत्यम्, मातुधैया कुली' गितुर्भ्रातृणां धैमनस्यम्, परिवाराणां नहाभावः स्वस्य च तास्ता अवस्थाः कस्य नाम पाठकस्य हृदयं नानन्दतुन्दिलं कुर्युः ? धुतकारो देवनेच्छा रु- धानोऽपि तदर्थं समागतान् बन्धून प्रत्याचक्षाणोऽपि च पाशकाधारे सञ्चलतः शब्दायमानान् अक्षानाकण्यं तामिच्छां रोद्धमसमर्थो द्रततर सभां गच्छतीति 'यदादीध्ये नेत्यादिभिः (५) कथं हृदयङ्गमं वर्णि- तम्। * नजानीमो धयमस्य सूक्तस्य कतमामृचं प्रति पाठकानां सवि. शेषानुरागमाकर्षाम इति । तुलनीयम् - स्टच्छकटिके दितीयाङ्क संवाहके दशसुवण दाना क्षमतया भयाद्देवमन्दिर प्रविश्य स्थिते ज्ञाते च तथात्वन माथरयत काराभ्याम्-- "धतकारः । कथं काठमयो प्रतिमा ? माथुरः। अरे नहि नहि, शैलप्रतिमा। (इति बहुविधं चालयति, संज्ञाप्य च) एवं भवतु, एहि तं क्रीडावः । (बहुविधं दमतं क्रीडतः) संवाहकः (हातेछ। विकारसंवरणं बहुविधं कृत्वा स्वगतम् ) अरे ! कत्ताशब्दो निर्मानक स्य हरति हदयं दरिद्रस्य । काशब्द इव नराधिपस्य भष्टराज्यस्य । जानामि न क्रोडियामि मुमेरुशिखरयतनस्वरूपं दातम्। तथापि खलु कोकिलमधुरः कत्ताशब्दो मनो हरति । घत। मम पाठः, मम पाठः।

मित्रगोष्ठी-पत्रिका। घ तदेवनस्य तैस्तैः प्रकारैर्दुरीदकत्वं प्रतिपाद्य परमर्षिण वषेण- अर्मा दोव्यः कृषिमित कृषस्व वित्ते रमस्व षगुमन्यमानः । तत्र गावः कितव तन जाया तन्मे विचष्टे सवितायमायः॥ इत्युपसंहृतमिति यत्सत्यमतितमा रमणीयानि बल्घेतान्यक्षराणि । कियत्सरलं कियञ्च नैसर्गिकमिमिति सचेतस एव विचारयन्तु। एनारशैः परोलोनिरुपमै रत्नैरुपशोभितमपि घेदं षयं नास्ति तत्र किञ्चिदालोच्यमिति मन्वाना इव यत्रानुशीलयामस्तदेव नितान्त दुःखमुत्पादयति । विधशेखर शर्मा। :0: , । महानाटकम्। मस्ति किलेयं किंवदन्ती-महानाटकं नाम ग्रन्धं किष्किन्धाधि- पतेः सुप्रोवस्य सहचरो हनूमान् निर्मितवान् इति । भतएव 'हनुम- भाटक'मित्यस्यापरं नामधेयम्। इदं च प्रसिद्धमस्ति यद हनूमता महानाटकीयाः श्लोका आदौ पाषाणफलके उत्कीर्णाः, ततः कारण- विशेषेण काले तेषु प्रस्तरफलकेषु समुद्रनिमग्नंषु तत उद्धृत्य मधु- सूदनेन कविना प्रन्थाकारेण ते सजीकृता इति । यद्भवतु, कोऽयं हनुमान कविरिति विचार्यम् । किमयं त्रेतायुगावतारी दशवदनदहन कारी भगवतो रामभद्रस्य सेनानीः उत तदाख्यः कश्चिन्मनुष्य एवेति संशयः सामाजिकानां चेतसि भवितु युक्त एव । नहि शास्त्रामृगल्य काव्यनिर्माणे शक्तिरस्ति । इदन्तु ध्येयम्-यदि भगवतो वाल्मीकेव- धनं सत्यत्वेन स्वीक्रियेत, तहि शाखामृगस्यैव महानाटकनिर्मातृत्व- माधुरः। न खलु, मम पाठः, मम पाठः । संवाहकः । ( अन्यतः सहसोपहत्य) ननु मम याठः" । सर्वेषां बोधमोकार्थमत्र संस्कृतमेव सनिवेशितम् ।

समस्यावसथावर्णनं सीतायास्तत्र विश्वासोत्पादनं च सङ्गच्छतु । मस्तु । अन्यथा मानुषी जानको प्रति तस्य दूतत्वं नितान्तमसङ्गात- व प्रतिभाति । कथं नु तस्य स्त्रोजनप्रतिपत्तिकारिणी वाक, कथं । । प्रथ वाल्मीकेवंचनं न तथात्वेनाङ्गीकृतं भवेत, तर्हि कश्चित्तदाख्यो मानुषः कविरेष तत्प्रणेतास्तु । सुग्रीवसहचरस्य हनूमत एतत्काव्यनि- तित्वे त्रेतायुगीयं तदिति वक्तव्यम् । अपरस्मिंस्तु पक्षे कालिदास- श्वभूत्यादिभ्योऽर्वाचीनमेवेति कथनीयं स्यात् । यथा चेदं तथोपरि- गात् स्पष्टो भवेत्। महानाटकमिदं कलिकातायां मुम्बानगर्या च प्रकाशितम् । उभयोः पुस्तकयोरकसमावेशे वृद्धिहासावनुभूयेते । कलिकाता पुस्तके नवा- मात्रं दृश्यते, मुम्बापुस्तके तु चतुर्दशाङ्काः । किञ्चादिमे पुस्तके प्रत्य- समाप्तो–“एष श्रीलहनुमता विरचिते श्रीमन्महानाटके, श्रीमधु. सुदनेन कविना सन्दभ्यं सजीकृत...'' इत्यादिश्लोकदर्शनात् प्रागुक्ता किंवदन्ती समयंते,मधुसूदनकवेश्च श्लोकानां ग्रन्थाकारेण सजीकर. णमधिगम्यते । अन्तिमे तु दामोदरमिश्रः सन्दर्भकार इति लिखितम्। मन्यच्च सन्दर्भकारी काव्यान्तरेभ्यः संगृह्य कांश्चित् श्लोकान् महानाटके संनिवेश्य किं तेषां काव्यानां मूलकविरेव प्रणेता, अपरे वा केचि- दिति संशयमुत्पादयतः । एतश्च किश्चिदनुपदमेव प्रदर्शयिष्यामः । आलोच्य काव्यमिदं महानाटकसंज्ञयाभिहितं भवति, परं न जानी- महे कथमस्य नाटकत्वं स्यादिति । नाटके यान्युचितानि, विहायाङ्क प्राय एव तानि न सन्त्यत्र । 'पञ्चादिका दशपरा' हीहाङ्का इष्यन्ते, मुम्बापुस्तके तु चतुर्दशेऽङ्क ग्रन्थसमाप्तिदृश्यते । प्रवेशनिष्क्रमणा- दिकमप्यत्र नास्ति। यद्यप्यत्र अन्तरान्तरोक्तिप्रत्युक्तिदृश्यते, न त- थापि तावन्मात्रेण किमपि नाटकं भवितु मर्हति । प्रवेशकविष्कम्भ- कादीनां नामापीह न कृतं ग्रन्थता। न निवेशितं पताकास्थानम् । नोक्ताः सन्धयः । न प्रयुक्ता च नाटकरीत्या स्त्रीणां नीचपात्राणां च पाकृतभाषा । अत एतन्नाटकत्वादपि हीयते, कुतः पुनरस्य महत्ववि- .

२५६ मित्रगोष्ठी-पत्रिका। शेषणं सङ्गच्छताम्? एवमप्यस्य नाटकत्वस्वीकारे अव्यकाव्यानां रघु- वंशादीनामपि तथात्वप्रसङ्गाः। दृश्यश्रव्ययोश्च काव्ययोर्भेदो न स्यात अन्थेऽस्मिन् पद्यन, कदाचिच्च गद्य न रामचरितं घणितम्। अतो गद्यपद्योभयरूपत्वादस्य 'चम्पू'-नाम्नैव युक्तो व्यपदेशः । तदुक्त दर्पणकृता- "गद्यपद्यमयी वाणी चम्पूरीत्यभिधीयते" । इति । 'महानाटक मिति नाम तु संज्ञामानं, न तु नाटकत्वेनेति साधीयान सिद्धान्तः। अस्य ग्रन्थस्य कतिचिच्छोका ग्रन्थान्तरेष्वपि दृश्यन्ते, मतो म- न्यामहं तथाविधः श्लोकः तद ग्रन्थकलेवरवृद्धिं कृत्या सन्दर्भकारैरा- त्मनोऽदूरदर्शित्वं ग्रन्थान्तरानभिज्ञत्वंच दर्शित मिति, मथवा सन्द- भ्यंमाणस्य ग्रन्थस्य सौन्दर्यविधानाय तैरन्यकत्तु कत्वं ज्ञात्वैव तेषां ग्रहणं कृतमिति । पठित्वैव च ज्ञायते न तेषां श्लोकानां मूलकविः प्रणतेति। तथाहि-हरधनुर्भङ्ग श्रुत्वा आगत्य च परशुरामो राम- चन्द्र कथयति- "येने स्वां विनिहत्य मातरमपि क्षत्तात्रमध्वासव- स्वादाभिज्ञपरश्वधेन विदधे निःक्षत्तूिया मेदिनी । यद्वाणवणवम्ना शिखरिणः कोञ्चस्य हंसच्छला. दद्याप्यस्थिकणाः पतन्ति, स पुन: ऋद्धो मुनिर्भार्गवः॥ स्त्रीषु प्रवीरजननी जननी तवैव, देवी स्वयं भगवता गिरिजापि यस्यै त्वद्दोवंशीकृत विशाखमुखावलोक- क्रीडा विदोर्णहृदया स्पृहयाम्बभूव'' ॥ इति "जातः सोऽहं दिनकर कुले क्षत्तियः, श्रोत्रियेभ्यः" । रामः। तथा - पुगेजन्मा नाद्य प्रभृति मम रामः स्वयमहम्, न पुत्तः पौत्तो वा रघुकुलभुवां च क्षितिभुजाम्" । इति ।

- - महानाटकम् । २१७ मे सर्वेऽपि श्लोका मुरारिमिश्रकते मनधरायवे सन्ति । किश "रोऽभिचारिचरुभाण्डमिव स्तनं यः" । स्पादिः श्लोकोऽनधराघवस्थ एष । तत्र 'रक्षोऽभिचारचाभार- मितीडशः पाठः । मन्यतुल्यम् । 'जाति मानय मानुषीमभिमुखो रष्टस्त्वया हैहयः'। इत्यादिश्लोकोऽप्यनधराघवीय पप । किं बहुना प्रायः प्रत्यक- वानर्धराघवीयः श्लोको दृश्यते । न केवलं मुरारेरेव श्लोका महा- आरके, किन्तु कालिदासभवभूत्योरपि । यथा- "चूडाचुम्बित ककपत्रमभितस्तूणी दयं पृष्ठतो। भस्मस्निग्धपवित्रलाञ्छनमुरो धत्ते त्वचं रौरवीम्' ।। त्यादिश्लोक: प्रियसमासस्य महाकवेभवभूतेः । एव मुत्तरचरिते- "वृद्धास्ते न विचारणीयचरितास्तिष्ठन्तु किं वयंते, सुन्दस्त्रीदमनेऽप्यखण्डयशसो लोके महान्तो हि ते"। इत्यादिश्लोकेऽपि 'किं वयंताम्' इत्यत्र 'हुपत्तताम्' इति पठित्वा महानाटके रावणाङ्गदसंवादे धृतः । अपिचाभिज्ञान शकुन्तले- प्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने दत्तदृष्टिः, पश्नार्धन प्रविष्टः शरपतनभयाद्यसा पूर्वकायम् शप्पैरविलीद्वैः श्रमविवृतमुखभ्र शिभिः कीर्णवर्मा पश्योदग्रल तत्वाद्वियति बहुतरं स्तोकमुव्यां प्रयाति ॥ ययं श्लोको महानाटके रामकृतमारीचवर्णने धृतः। यद्यपीवं वर्णन रलतया मनोहारितया चास्य कवेः सम्भवति; तथापि नाप्रप्रन्ये संगच्छते, वनवासिनो रामचन्द्रस्य कुतस्तदानी स्यन्दनाधिगमो वितु, येन स मृगः स्यन्दने दत्तदृष्टिः स्यात् । अतः सथा महा- वेः कालिदासस्यैवायं श्लोकः । इत्थं मधुसूदनादि सन्दर्भकारेण ग्धान्तरेभ्यः श्लोका उद्धृत्य महानाटके संनिवेशिताः । काव्यमिदमालोचयतां नः प्रतिभाति यन्मूल कविनादौ केधि- छोका एव प्रणीता आसन्, ततः काले सन्दर्भकारेणापरैरपि मधुरैः २८ - २१८ मित्रगोष्ठी-पत्रिका। लोकः सन्दभ्य ते पुस्तकाकारण प्रकाशिता इति । पथा वा भवतु। काव्यमि रसालकारादीनामाकरभूतं । सरलतया च व्युत्पादक शि- शूनामपि, रचनानैपुण्येन च विनोदर्याप्त चेतः सचेतसाम् । विरल- प्रचारमीरशं पुस्तकरत्नमिति कः सन्देहः । परीक्षापाठेरषु भस्य प्रह. णाय पाठशालाध्ययंतनीयम् । एतत्काव्यं चेम पठन्ति विद्यार्थिनः, तहि विफलं तेषां विद्यार्थित्वम्; निष्फलश्च तेषां संस्कृतशिक्षा अमः। भास्वायता रसिकैरस्य अन्धस्य किञ्चित् कवितामाधुर्य, परीक्ष्यता चेदं कीदृशमिति- प्राचीभागे सरागे धरणिविरहिणीक्लान्तवको समुद्र, निद्रालौ नीरजालौ विकसति कुमुदे निर्विकारेचकोरे । भाकाशे सावकाशे तमसि शममिते नागलोके सशोके, कन्द मन्दवर्षे वितरति किरणान् शर्वरीसार्वभौमः ॥१॥ हे गोदावरि, रम्यवारिसुभगे, दृष्टा त्वया जानकी ? साऽऽह कमलानि किं गतवती, याता विनोदाय था ? इत्येवं प्रतिपादपं प्रतिपथं प्रत्यापगं प्रत्यगम्, प्रत्येणं प्रतिवणिं तत इतस्ता याचते मैथिलीम् ॥२॥ परवन्नवसमानकान्ति सलिले मग्न तदिन्दीवरम, मेधैरन्तरितः प्रिये ! तवमुखच्छायानुकारी शशी। पेऽपि त्वद्गमनानुकारिगतय स्ते राजहंसा गताः, त्वत्साहश्यविनोदमानमपिमे दैवं नहि शाम्यति ॥ राम, राम, तव नाम जपन्तः पामरा मपि तरन्ति भवाब्धिम् । भक्तिभवदा लिमुद्रः किन्नुचित्रमतरत्कपि- रब्धिम् ॥ इति ॥ श्रीचन्द्रधर शर्मा। .

काशिकावृत्तिः । पाणिनि व्याकरणस्य काशिका नाम वृत्तिः सर्वत्र सुप्रसिद्धा काशि- कराजकीयपाठशालाध्यापकस्य तत्रभवतः श्रीमतो बालशास्त्रिणः प्रसा. देन साम्प्रतं सर्वसुलभा च । एतद्विषयकमेवाद्य किञ्चिचिन्तयिष्यते। इयं काशिकावृत्तिः धामनो जयादित्यश्चेति द्वयोः पण्डितयोः कृतिरिति तदावरणपृष्ठालोकनेनैव प्रतीयते । कदेयमुत्पन्नेति बहुभि- भिन्तितम् । अध्यापको बोधलिङ्गो महाशयः ( Prof. Boethlingk ) स्वप्रकाशितस्य पाणिनिव्याकरणस्य भूमिकायां (४५ पृ०) प्रायो- ऽष्टमे शतके (खी०) सा ख्यादित्युक्तवान् । इदं तत्प्रमाणम्-काश्मी- रेतिहास-राजतरङ्गिणी-कारण श्रीमता कल्हणपण्डितेनोक्त यत् का. इमीरराज्याधीश्वरी महाराजो जयापीडोऽत्यन्तं संस्कृतानुरागी मा- सीत् तेन स्वराज्ये व्याकरणाध्ययनस्य सविशेषप्रचाराय परं प्रयति- तम्, तस्य सभायां बहवः पण्डिता आसन, तेषां नामानि यथा:- कृष्णः ( अयमेव धातुतरङ्गिणीकार इति बलर-( Buhler )महाशयः), दामोदरगुप्तः, मनोरथः, शमदत्तः, चाटकः, सन्धिमान, पामन- श्चेति । अयमेव वामनः काशिकावृत्तेरन्यतरो प्रन्थकार इति । जया- पीडश्चाष्टमे शतके अभूदिति । अत्रेदं विवेच्यं-यदि जयापीडस- भास्थो वामन एव काशिकावृत्तेरन्यतरः कर्ताभविष्यत, किं तर्हि कल्हणपण्डितो न तन्महदवृत्तमवर्णयिष्यत, किमिति वा तेन अपरा. पर पण्डितानां नामान्युलिख्य प्रसिद्धतरस्य वामनस्य नामधेयमावं सर्वशेपे सनिवेशितमिति । श्रीमान् विल्सन महाशयः( Wilson, Asiatic Researches, xv. P. 55 ) कथयति-जयापीडसभास्थो वामनः काव्यालङ्कारसूत्रवृत्ति व्यरचर्यादति । वामनकृत-काव्यालङ्कारवृत्तेः प्रकाशकेन श्रीमता कप्पेलरमहाशयेन तु ( Dr. Capp ller ) तद्भूमिकायामुच्यते-वामने न काव्यालङ्कारसूत्रं तवृत्तिश्चेत्युभे एव विरचिते; तत्र च तेनैतेषा . : .

२२० मित्रगाष्ट्री-पत्रिका . . नामानि धृतानि-शूद्रको-मृच्छकटिककारः, कालिदासः, भमरुः, भवभूतिः, माघः, हरिप्रभः, कविराजः, कामन्दकीनीतिः, नाममाले. त्यादयः। अत्र यद्ययं कविराजो राघवपाण्डवीयकारावभिन्नः स्यात- 'यो हि शमशतकोत्तरवर्सीति निर्णीयते, तहि काव्यालङ्कारसूत्र तिकारो वामनोऽवश्यमेव दशमशतकोत्तरवर्ती भवेदिति । अष्टम- शतकोत्पन्न जयापीडसभास्थो वामनः कथमस्मात् कान्यालङ्कारसूत्र. काराद वामनादभित्रो भवत्विति । कप्पल्लरमहाशयो विचारेण काव्यालङ्कारसूत्रवृत्तिकृतं वामनं द्वा- दशशतकोत्पन्नत्वेन निीय कथयति यदयमेव वामनः काशिकावृत्ति- कार इति । कपपल्लरमहाशयेन श्रीबालशास्त्रिणो मतमेव प्राधान्येन स्वीकृतम् । तत्रभवान् श्री बालशास्त्री माह-१५९५तमशकाने (१६७३वी०) वामनो नाम कश्चित् “लोकोत्तरललितकाव्यनिमाता" महाराष्ट्र भाषाकविरासीत, काशिकाकारो घामनस्तस्माद वामनात् पञ्चवर्ष- शत्या प्राचीन इति । तथाच काशिकाकारो वामनो द्वादशशतकोत्पत्र मासीदित्यायाति । अत्र तेन 'नवनीत'नामके महाराष्ट्रभाषीयकाव्य. संग्रहे तत्सम्पादकेन यदुक्तं तदेव किश्चिदल्लिख्य स्वीकृतम् । का. व्यालङ्कारसूत्रवृत्तिकारेण आलङ्कारिकेण वामनेन काशिकाकारस्य पै. याकरणस्य वामनस्य कोऽपि सम्बन्धोऽस्ति न वेति न किमप्युक्ततेन। मध्यापको गोल्डष्टुकारोऽपि (Professor Goldstucker, Panini, P. 89 ) सविशेषं प्रमाणमनुपन्यस्यैव सिद्धान्तकौमुदी-नागेश-पुरुषो- तमादिसमकालीनैव (प्रयोदशशतकादप्यर्वाचीना ) काशिकावृत्ति. रित्यभिहितवान् । एतन्मीमांसायाः पूर्वमिदमेव तावनिर्णेयं किमियं काशिका केवल थामनेनैव विरचिता, आहोस्विजयादित्येनापीति । कोलन क-( Cole. brooke, Sanskrit Grammar P.9) महाशयस्य मते काशिका वाम- मेन अथवा धामनजयादित्येन नाम केनचिदेकेनैव रचितेति । 0 कोशिकाद्वात्तः। . - श्रीमता बालशास्त्रिणा प्रथमं तावद वामनजयादित्यनामा एक एष पुरुषः काशिकाकार इति मतं (काशीस्थ-पण्डित'-पत्रे, १८७८ ई०, जुन, पृ० २०) प्रकाश्य काशिकाप्रकाशसमये वामनजयादित्यौ पर- हपरं भिसाविति सप्रमाणं प्रदर्शितम् । तदिदं "भट्टोजिदीक्षितकृत- 'प्रौढमनोरमायां" तद्धितप्रकरणस्य-बह्वल्पार्थाद् इति ( ५४५२ ) सोपतत्सर्व जयादित्यमतेनोक्त, वामनस्तु मन्यत' इति तयोः पा- धक्येन प्रदर्शनात, 'प्रथमद्वितोयपञ्चमषष्ठा धामनकृतवृत्तयः, इतरे जयादित्य कृता इत्यभियुक्ता' इति, तत्रत्यशब्दरत्नग्रन्थाच्चेतरतरं भि- मावेव (वामनजयादित्यौ) इति"। अध्यापको देवदत्तापराख्यः अक्टमहाशयः ( Professor Aufechet ) स्वप्रकाशितस्य सुसंस्कृतस्य 'उणादिसूत्रस्य' भूमिकायां बालशास्त्रिणः परं मतं पूर्वमेव प्रदर्शितवान् । श्रीमता बालशास्त्रिणोक्त यत् काशिकायाः प्रथम-दितीय-पश्च- -षष्ठाध्याया वामनकृताः अपरे तु जयादित्यकृता इति । किन्तु डा० श्रीमता बूलरेण ( Dr. Buhler ) काश्मीराधिगते प्राचीने हस्त- लिखितपुस्तके ज्ञायते यदादिमाश्चत्वारोऽध्याया जयादित्यकृताः, म- न्तिमास्तु चत्वारो वामनकृता इति । यथा वास्तु, वामनजयादित्या- क्योन्यं भिन्नाविति निश्चय एव । शब्दकोस्तुभे, मनोरमायां चायं श्लोक उपलभ्यते :- बोपदेवमहाग्राहग्रस्तो वामनदिगगजः । कीर्तरेव प्रलङ्गन माधवेन विमोचितः” ॥ इति ॥ पतेन काशिकाकारो धामनो वेदार्थप्रकाशकभाष्यकाराद माधवात, ततोऽपि प्राचीनाद बोपदेवाश्च प्राचीन, इति स्पष्टमेवावबुध्यते । श्री. मान मोक्षमूलरमहाशय उदाहृतश्लोकस्य याथार्थ्यं स्वप्रकाशितस्य See Journal of the Bombay Branch of the R. A. S. 1877. P72 and Professor Kiclhorn's Kátyayana and Patanjali. P. 12 mote.

मित्रगाष्ठा-पातका । अग्वेवस्य भूमिकायाम् (२९ पृ०) समाहितवान् यद् अगभार्थ माधवेन बोपदेवो न कुत्रापि धृतः, वामनस्तु सकृदपि धृत इति । सायणधातुवृत्तौ वामनोऽसकृदेव धृतः माधयः १३५० तमा, बोपदेवश्च द्वादशशतके आसीदिति धामनो दादशशतकात्प्राचीन इति सिद्धम् । अस्माश्च वामनो माधवादिभ्यः प्राचीनः, यतः साय- पोन काशिकाव्याण्या-'पदमञ्जरी'-कारो हरदत्तः, न्यासापरनामधेय- 'काशिकावृत्तिपञ्जिका'-कारो 'न्यासकार' इति प्रसिद्धो जिनेन्द्र धृतौ । योपदेवकृत-काव्यकामधेनु'-व्याख्याकारेण चेयं 'काशिका- बत्तिपञ्जिका धृता । ततश्च व्याख्याकाराद व्याख्येयग्रन्थकारो यत् प्राचोन एव भवेदिति किमु वक्तव्यम् । इदं विविच्यैव काशिकावृत्तिः द्वादशशतकपूर्ववत्तिनीति कैश्चित ( Burnel प्रमुखैः),कैश्विध (Buhler प्रभृतिभिः)सेयं नार्याचीना कृति रिति पूर्वमुक्तम् । वस्तुतस्तु कस्मिन् काले सोत्पन्नेति न निर्णीतम् । उभावपि वामनजयादित्यौ बोद्धौ जैनौ वेति प्रमाणतोऽवबुध्यते। प्रतिपादितमिदं श्रीमता बालशास्त्रिणा । यथा-आस्तिकैग्रन्थारम्भे आशीर्नमष्क्रियादिरूपं मङ्गलाचरणं क्रियते, काशिकावृत्तो तु न तह, श्यते, 'वृत्ती भाष्य' इत्यादावत्रत्यश्लोके “समाहत्यान्यतन्त्राणी" त्यमरश्लोकसमानच्छायोपलभ्यते, एताभ्यां केषाश्चिद् अप्रसिद्धान पदानां साधनार्थ पाणिनिसूत्रं परिवर्तितम्-यथा 'प्रामजनबन्धु भ्यस्तल' (४.२.४३ ) इतीदं सूत्रं 'ग्रामजनबन्धुसहायेभ्यस्तल' इति कृतम्, नहि कश्विदास्तिक एवं कुर्यात् । अपराण्यपि प्रमाणानि सन्ति विशेष जिज्ञासुभिस्तस्य शास्त्रिणः काशिकाया भूमिका द्रष्टव्या । भासीत किल तदानों बौद्धानां वैयाकरणानां बहुलः प्रवारः; यथा न्यासकार-जिनेन्द्रबुद्धिप्रभृतयः । भट्टोजिदीक्षित-हरिदीक्षित-नागेश- भट्टप्रभृतिभिस्तु परसिमन् काले तेषां कृतिः पराभूता । यथा वा भवतु। उभावपि वामनजयादित्यौ यदबौद्धी, उभावपि च काशि. कायाः कर्ताविति, सर्वैरेव तत्स्वीक्रियते । .

काशिकावृतिः। इदानी विचार्यंत कदैतावुत्पमाविति । चैनिकपर्याटकस्य श्रीमतः त-सिं'-नामकस्य किञ्चित् परिचयः पत्रिका पाठकैः पूर्वमेवाधिगतः। अयं महाभागः प्रायः ६३५ तमान्द चीनदेशे जातः, भारतागमनार्य तस्मात् ६७१ तमेऽन्दे निष्क्रम्य ताम्रलिप्तिनगरे ( वर्तमानतमलुक ) ६७३ तमान्ने आजगाम, इतश्च नालन्दविहारे बहुविद्यामधिकृत्य बहूनि बौद्धतखादीनि विज्ञाय ६१५ तमाब्द चीनदेशं प्रतिनिवृत्तः, मथ ७१३ तमाब्द परं लोकं भेजे । अनेन स्वकीये भ्रमणवृत्तान्ते भारतवर्षस्य सुसूक्ष्मा माचारव्यवहारा उपनिबद्धाः, तदानीन्तनी पठ- पाउनरोतिरपि तस्मिन पुस्तके तेनोपवर्णिता । श्रीमता 'इसि-महाशयेन स्वग्रन्थस्य ३४ परिच्छेदे भारतीय. शिक्षापद्धतिरालोचिता। अनापि शब्दविद्या-विषयकमेव तेन पह- कम् । शब्दविद्याध्ययनमनेन पञ्चधा विभक्तम् । अयमाह-पड्वर्षीयै- लकैः प्रथम "मूलसिद्धान्तः" ( Elementary Sidhānta ) मधी. यते, 'सिद्धिरस्त्विति' च तस्य प्रारम्भे वर्त्तते । इमं सिद्धान्तं मूलतो महेश्वरोऽशिक्षयत् । षड्भिर्मासैलिका एनं सम्यगधिकुर्वन्तीति । 'इत्-सिं-कथितोऽयं सिद्धान्तो' 'माहेश्वराणि सूत्राणि' स्यादिति सम्भाव्यते । परन्तु तत्प्रदत्तं वर्णनमेतद्विरोधि । तथाहि तेनोक्तम्-त. मिन सिद्धान्ते ४१ अक्षराणि सन्ति, तरक्षरैः १०,००० दशसहस्रतो- ऽप्यधिकाः शब्दाः एतैः शब्दनिर्मिताः ३०० श्लोकाः, प्रतिश्लोकं च ३२ अक्षराणीति द्वितीयं व्याकरणपुस्तक 'पाणिनिसूत्रम्' । स कथयति मात्र १२०० श्लोकाः द्वात्रिंशदक्ष रेकैकश्लोकगणनयेतिभावः विद्यन्ते पालरष्टमे वर्षे तत्पठनमारभ्य भष्टाभिर्मासैः सम्पाद्यत इति । तृतीयं व्याकरण पुस्तकं धातुः । भन्न १,००० श्लोकाः भयं कधि- शानुपाठो भवेत्। चतुर्थस्त्रेधा विभक्तः खिलप्रन्थः-(१) अष्टधातुः, भत्र १,००० श्लोकाः, (२) मञ्चाः ( Man-ka )-मत्रापि १,००० श्लोकाः;-(३) ) । ।

। २२४ मित्रगोष्ठी-पत्रिका। उणादिः, इहापि १,००० श्लोकाः । बालदंशमे वर्षे अन्यत्रयीमेना पठितुमारभ्य विभिवः समाप्यते । अत्रत्यो द्वितीयो प्रन्थः 'मञ्च' इति इत्-सिं महाशयेनोक्तम्, परन्तु कोऽयमिति प्रकामं प्रयतमानैः पाश्चात्यैरपि विद्भिनिणेतुन प्रभूयते। जापानीयविदुषा मि० कासवरेणोक्त 'मञ्च-शब्दोऽयं 'मण्डो' भवे. दिति सम्भाव्यते इति । एवमपि न कश्चिनिर्णयः । न हि तामा प्रसिद्धः कोऽपि व्याकरणग्रन्थोऽस्ति । वहालोचनतत्परेण मोक्षमूल- रेण तदेव सूत्रमधिकृत्य सम्भाव्यते यद यदि 'मञ्चो' पस्तुतो 'मण्डः' स्यात् तर्हि स शब्दा मण्डूकार्थे प्रयुक्त इति शक्यत भाङ्कितुम् । यतो माण्डू केयाः व्याकरणविद्यायामतिप्रसिद्धा आसन् । • तेषामेव कापि कृतिः कृदन्तपठनसमये इत्सिं-महाशयेन ‘मञ्च' सब्देन धृता स्यादिति । । अस्मत्पर्याटकस्प पञ्चमो व्याकरणप्रन्धः पाणिनिसूत्रव्याख्यारूपं वृत्तिसूत्रम् । तेनोक्त बहुषु व्याख्यासु तदेव श्रेष्ठम्। तत्र १८,००० श्लोकाः ( अक्षरतः ) सन्ति । सूत्रस्थं पदमादाय सुष्टु तत्र व्याख्या- तम् । पञ्चदशवर्षेलकैस्तत्पठनमारभ्य पञ्चभिवर्षेः सम्पूर्यते । अस्य प्रन्थस्य कर्ता 'जयादित्यो' नाम । तस्य प्रतिभा अत्यन्तं तीक्ष्णासीत्। स किमपि सदाकण्यैव सम्यगववो समर्थोऽभवत् । यथोचितं धर्मकृत्यानुष्ठानं तेन कृतम् । प्रायस्त्रिंशद वर्षाणि जातानि स मृत इति। अन यदि प्रागुक्तानुसारेण इत्सिंमहाशयस्य स्वकीयभ्रमणवृत्तान्त. प्रथविरचनकालो न्यूनतः : ६९० तमान्दो ध्रियेत ( सहि ६९५ तमादे चोनं प्रतिगतइति प्रागुक्तम् ) तहि पूर्वोक्तपाणिनिसूत्रवृत्तिकारस्य 'जयादित्यस्य' मृत्युः ६६० तमाब्द संघटित इति शक्यत एव वक्तुम् । उल्लिखित-पाणिनिमूत्र-विषये इत्सिंमहाशयेन यदुक्तम् काशि- • See Max Muller's History of ancient Sanskrit Literature P. 146.

काशिकावृत्तिः। प्रवृत्तिस्तद्भाजनतामईति। मतो नेदमयुक्त विषेचनं यत् काशिका. त्तिरेव तेन पर्याटकेन वर्णितेति अथेदं महत् सङ्कटमापतितम्-एकतः श्रीमता इत्सिं-महाभागेन यादित्यः तत्तिकार इत्युक्तम, धामनस्य नाम तेन न धृतम् । एतद. सारेण जयादित्यसमयः सप्तमशतकम् ( ६६० ) इति वक्तव्यम् । अन्यतः काश्मीराधीश-जयापीडस्य (७५५-६६) सभास्थो धाम- रोऽष्टमे शतके ऽभूदित्युक्तपूर्वम् । न चासमात् प्राचीनः कोऽपि वामन- पलभ्यते । कथं नु जयापीडसभास्थोऽर्वाचीनो वामनः एकशतक. पूर्ववत्तिना जयादित्येन सह प्रन्यं विरचयतु ? इत्थं काशिकासमयस्य सूक्ष्मरीत्या निर्णयस्य दुःशकत्वेऽपि स्थूलत इदं शक्यते कथयितु यत् सा सप्तमशतकान प्राचीना, म चाष्टम-श. तकादर्वाचोनेति । तत्रेदं प्रमाणम्- काशिकावृत्तौ "ऋतूफ्थादिसूबान्ताहक" ( ४.२.६० ) इत्यस्मिन् सूत्रे 'तदधीते तद इत्यस्मिन् विषये' 'आख्यानाख्यायिकेतिहासपु. राणेभ्यटक' इति वार्तिकमुल्लिख्य आख्यायिकोदाहरणे ‘पासवदत्तिक' इति दृश्यते । वासवदत्ताख्यायिकाकार: सुबन्धु म सप्तमे शतके बभूवेति वदन्ति । अतः सप्तमशतकीयग्रन्थोल्लेखको न ततः प्राचीनो भवति । न च वैयाकरणो जयादित्यो धामनो वाष्टमशतकोत्तरी कपिलभ्यते । काव्यालङ्कारसूत्रवृत्तिकारस्तु वामनः काशिकाकारो भवितु नातीति पूर्वमुक्तम् । काशिकाविषये यावदुपलब्धं प्रदर्शितं मया, साम्प्रतं सचेतसः संस्कृतविद्वांसः सुष्ठुतरं मीमांसन्तामिति प्रार्थयामहे । कश्चित् संग्राहकः। ३ मम गृहरहस्यम्। महं श्रीविश्वेश्वरशिरोमणिः। ना स्वयमेव पण्डितः, पितृपि- तामहा अपि मे परमपाण्डित्येन देशेषु सुप्रथिता आसन् । अहं धर्म- शास्त्रज्ञः, धर्मशास्त्रमेव चाहमन्तेसदानध्यापयामि । मदन्तवासिनः साम्प्रतं प्रचलन्तीषु परीक्षासुन निकृष्ट स्थानमधिकर्वन्ति । कि बहुना आभिजात्येन वा देशमध्ये न मे मन्दं गौरवमस्ति । अधाहमपृष्ट एव स्वगृहवृत्तं किमर्थं वक्तुमुत्सहे, नाहं न जानामि यन्मतिमता जनेनात्मनो वित्तं, गृहच्छिद्र, दुश्चरितं च न प्रका- श्यानीति बहूनामेवेदं चेतसि समुत्तिष्ठेत् । इदमेव मे तनोत्तरम्- सह्यं मया तल्लाघवं, यद्धि गृहवृत्तप्रकाशेन सम्भाव्यते, मम तु मह- त्याशास्ति यन्मदीयेन वृत्तेन बहूनामेव शिक्षा स्यात, बहुवेव परि- पारेषु च अशान्तिपिशाचिकायाः प्रवेशो निषिद्धो भवेदिति । इदानीमहमतीतपश्चाशद्वर्षोऽस्मि । केशकलापः शारदाकाशश्व. तिमानमाश्रयति । चर्माणि लोललोलानि, इन्द्रियाणि शिथिलानि, शरीरबन्धश्च दुर्बलतरः। पुत्रमाग्यं नितान्त मन्दम् । प्रथमपत्नी मे निर्दयहृदयेव किमपि पुत्ररत्नमनुपहृत्यैव स्वल्पे वसि मम दीर्घाशया सहैव स्वर्गलोक प्रयाता। संसारधर्मरक्षणेच्छुरहं द्वितीयां पर्यंणयम् । तस्याः कतिचि- त्पुत्रा दुहितरश्च जाताः । दुहितरः सर्या भगि युक्तेभ्यः पात्रेभ्यः सम्प्रदत्तः । तासु प्रायः सर्वासामेव पुत्तूकन्या उत्पन्नाः। नतारो ममैव गृहे तिष्ठन्तः पाठशालास्वधीयते । मम मन्दभाग्येन पुत्तोपुतु दावेवाशिष्यते, अन्येतु विमातुरेव पन्थानमनुगता अभूवन् । इमा- वपि जीवेतामिति कः कथयितु प्रभवेत् ? प्रतिपदमेघाहं तयोरनि- एमाशङ्क । भाग्येन हि पुत्तूरन तिष्ठति । मम तु माग्यं नितान्तं अन्यथा कथं मे तारशी पतिव्रता प्रथमा पत्नो अकाण्डेऽत्रि- यत; कथं पा इन्त द्वितीयापि प्रथमाया एव पदवीमनुस्ता स्यात् । मन्द, मम गृहरहस्यम् । बीभ्यां विराय विरतोऽहं कांकां दर्या मागच्छम् । किमुच्यते परण्यमिव शून्यमिव चाहं तदानी सर्वचिन्तयम् । गृहिण्येव हि हस्य लक्ष्मीरिति वदन्ति । धर्मशास्त्रज्ञोऽहं मनुसंहितायां रष्टवान्- "स्त्रियः श्रियश्च गेहेषु न विशेषोऽस्ति कश्चनेति" । दानी लक्ष्मीविरहितस्य मे शान्ति म केति सर्वथा विस्मृतमिवा- वित, दृश्यमस्थिरमासीत्, पदनमण्डलं च नियतं चिन्ताग्लानमति- केवल पत्नीवियोग एव ममास्याः कष्टावस्थायाः कारणमा- गीत । अपरापि महोयसी-चिन्ता मामतितमामदुनोत् । प्रतिक्षणमेव मिशास्त्रस्य महाश्लोकश्चेतस्युत्थाय विधुरमपि मां विधुरतरीका- आरभत । नाहमजानां कथं नु इष्टा अपि बहवः पुस्ता मया लभ्येर- मिति । पयो मे इदानीमधिकं जातम्, नाहं कस्मैचित् स्पष्ट कथ- यितुमशनवं शास्त्रमर्यादारक्षणार्थमहं पुनरपि दारान् ग्रहीतु मिच्छा- मीति । भस्मत्सधर्माणः केचिद वृद्धा ग्रामे सम्प्रत्यपि सन्त्येव, परन्तु तेषां वचनं नाद्यत्वे तथा प्रमाणं भवति, यथा साम्प्रतिकशिक्षितानां तरुणानाम् । एते हि स्रिया इव पुरुषस्यापि द्वितीयं विवाहं न युक्त- तयाभिमन्यन्ते मम तु दग्धभागधेयस्य साम्प्रतं तृतीयस्यावकाश. इति तत्कथापि नावसरं प्रामोति। श्रुतिपथमागतम्-मम पुनर्वि- चाहजनश्रुतिमाकर्णयतोः कृतयौवनपदार्पणयोः पुत्रयोमहद, वैमन- स्यमुत्पन्नम् इति । उच्छृङ्गल लपितमिव पुत्रयोवंचनमहमवाजानाम् । मन्मतविरुद्धं किमपि शृण्वतो मे महान क्रोधोऽभवत् । इतः साम्प्र- तमपि तत इतः परिभ्राम्यन्तः पिशाचापरमत्तय इव दिवा घटकाः सुन्दरीणां कन्यकानां वाती स्वेष्टदेवतामन्त्रमिव कर्णयोः पूरयितु मारभन्त । महंतु पुत्तूयोरन्येषां च वस्तुतो मद्धितैषिणां वचनमवद्वाय स्थिरसङ्कल्पमकार्षे पुनरहं दारान् गृह्णीयामिति । अचिरमेव सर्व सम्पन्नम् । शास्त्रमर्यादारक्षणार्थ पुनमया दारा परिगृहीताः ।शून्यं गृहं मे पूर्णमभवत्, निर्गतालक्ष्मी: पुनस्तन समा गतवतो मनसा कियन्ति नाम सुखचित्राण्यऋयितुमारभे । ।

लावण्य . २२८ मित्रगोष्ठी-पत्रिका। नवपरिणीता पनी कमला नामासीत, कमलस्येवैध तस्याः सौ. न्वयंमभवत्। गृहाद गृहान्तरं गच्छन्ती प्रतिवरणक्षेपमेव कहरीलेखामाविष्कुर्वाणा सा कस्य नाम मानसं नाहार्षीत् । तस्या वि. लासविनमं दर्श दर्श सुभगम्मन्योऽहं परं गवंमध्यगच्छम् । सार्थका संसार इतोदं तदानीमचिन्तयम् महो स्पृहणीयायाश्चन्दनलताया भुजगसंसर्गो मे मूढस्य मनसि न जातु तदा प्रमेऽपि समुदित आसीत प्रथमं कानिचिदहानि- "दृष्टा दृष्टिमधो ददाति, कुरुते नालापमाभाषिता, शय्यायां परिवृत्य तिष्ठति, बलादालिङ्गिता वेपते । निर्यान्तीषु सस्त्रीषु वासभवनामिगन्तुमेवेहते, जाता वामतयैव मेऽद्य सुतरां प्रीत्यै नवोढा प्रिया' ॥ इत्यादि बहुविधं स्मरतो मे नवोढा 'वामा' प्रिया प्रीतव एवासीत, परन्तु नातः परम् । वामत्व मस्या क्रमेण पचितुमारभत । वृद्धोऽह प्राणेभ्योऽपि गरीयस्यास्तरुण्या भार्यायाः प्रसादनपरायणः क्रमेण स्व- गौरवं हारयन् किङ्कर इव तत्करुणाकटाक्षं निरीक्षमाणः कालेन मनु. चनामानह इव सञ्जातोऽभवम् । सामदानभेददण्डात्मकाधत्वारोऽ. प्युपायाः प्रयुक्तप्रतिहताः । यदहं कथयामि, चण्डी कमला तिष्ठत्सु प्राणेषु न तत्कुर्यात, प्रत्युत विरुद्धमाचरेत् । क्रोधमूतिरिव सादीप्यत. कस्यैषा शक्तियया तत्सकाशमपि गन्तुप्रभूयेत। कथं कामवाय तत्समीपेऽभवम । तामेवाहमन्वसरम्। न पुनः सा माम् । सीताया साविश्या अरन्धत्यादीनां व चारित्रमसकृदश्रावयम्, न तु सा किञ्चित शृणुयात् । अकथयमहं तस्यै- "नेभेत् पति करदृष्ट्या श्रावयेन्नैव दुर्वचः । माप्रियं मनसा वापि घरत पत्युः पतिवता" ॥ इति मा तु भाकण्यैतत् तद्विपरीतं कर्तुमारभत । तस्याः स्वभाव ए। - * • महानिर्षाव तम्बम् । ८.

मम गृहरहस्यम् । २२९ पर्यवर्तत; यदहं कथयेयं तद्विरुद्धाचरणे धर्म इव तस्या नितान्तमा- अहोऽदृश्यत । पत्नी पत्यु-धमायुः कामयेत, इयन्तु प्रतीक्षणमेघ मन्मू- त्युमेष प्रार्थयत । पतिव्रतया अस्मिन् जन्मनि यः पतिः स्यात् न- मान्तरेऽपि स एव प्राय॑ते । अनया तु किं कृतमिति गृहदासी में न्यवेदयत्-कासुचिद् अन्तःपुरिकासु कदाचित् सावित्रीवतालोचन- तत्परासु 'सावित्रीव्रतेन किं फलं जायते' इत्यनयापृष्टे 'वसंमानज- मनः पतिरेव जन्मान्तरेऽपि लभ्यत इति' प्रतिवचनं श्रुत्वावोचद- यदि वर्तमानजन्मन: पतिजन्मान्तरे न स्यात्, तर्हि अहमपि सावित्री ब्रतं कुर्याम् इति इयं गर्षिता पक्षी केन चक्षुषा मामपश्यदिति तावतेव मुस्पष्टम्। । पन्याः सन्तोषमाधित्सुरहं पुत्तादिपरिवारस्य विभिन्ने गेहेऽव- स्थानं व्यवस्थाप्य तयैव न्यवसम्। यदेव किञ्चिद अकथयत्सा तदे. पाहमन्यत् किञ्चिदविचारयन्नन्वतिष्ठा । परन्तु मदादेशविरुद्धाचर- णस्य लेशतोऽपि हासो नादृश्यत । यद्यहं किञ्चिजलं प्रार्थयेय, तहि कुद्धा सा जलपात्रं बलवनिक्षिप्य द्धिा कुर्यात् । यदि कदाचिदपर दिनापेक्षया पूर्वमेष रन्धनाय प्रार्थिता स्यात, तहि तख्यास्तस्मिन हनिनिशीथे रन्धन सम्पन्नं भवेत् कदाचिश्च बिलम्बितभोजनापेक्षायां प्रातरेव रन्धनं सम्पाद्य मामुच्चैराह्वयेत् । यदि जातु धर्मकृत्याय प्रणु- देयम्, तत्क्षणमेव सा प्रत्युत्तरयेत्-'न मे तेन किञ्चित्प्रयोजन- मिति'। इत्थं यदहमिच्छेयं, न जाने कथं, ब्राह्मणी तद्विरुद्धमेवाच- रेत् । काम तामहमन्वनयं, न तु सा स्वप्नेऽपि मे कदाचिन्मृदुला वाणी श्रावितवती । सा मत्समीपमेव नागच्छेत् । ब्राझण्या अनभि- मतेन किमपि कर्तुमपि न मे शक्तिरासीत् । अथ कदाचित् पितुः संवत्सरश्राद्ध दिवसं सन्निहितमभवत् । पूर्व पूर्वस्मिन् वर्षे श्राद्धघासरे ब्रामण्या यद्यत् कृतं तदालोचयतो मे हृद- यमकम्पत। सर्वं सुसहं, पितुः श्राद्धं त्वयज्ञातं द्रष्टुन सह्यते । इत्थं चाहं हस्तपदविहीन इवाभवं यत् तस्यै किमपि कथयितु शक्ति मित्रगोष्ठी-पलिका। में नासीत् । एवमहं व्याकुलहश्चिन्तयंम्तिष्ठामि, अस्मिन्नेव सम कश्चिन्मम प्रत्युत्पन्नमतिपयस्य: सतीर्थ्यश्चागत्य पूर्व किञ्चिदुपा सन्नुपायमुपादिशन- 'ब्राह्मणी मया कथनीया यदस्मिन् वर्षे पित श्राद्धं न करियामीति सातु स्वभाववामा तद्विरुद्धमेवाचरेदिति फल मेऽभीष्टमेव सम्पन्न स्यादिति सतीर्थो विज्ञाप्य प्रस्थितः। अहर्मा तन्मत माश्रित्य ब्रामण्यै न्यवेदयमस्मिन् वर्ष पितृश्राद्धं न करिष्यामि कार्यान्तराय स्थानान्तरं मया गन्तव्यम्, न च श्राद्ध करणे किञ्चिरफर दृश्यते, किमर्थ सञ्चितधनव्ययं कुर्याम् इति । निसर्गवामा बामर्ण 'अवश्यं श्वशुरस्य श्राद्धं करणीयम्, अहं तत्त्वां कारयेयमिति दृढम- क्तवती । अहमप्यधीरोत्तरैस्तस्यास्तां प्रवृत्तिमुद्दोपयननिच्छयेष पितृ श्राद्ध कत्तुं स्वीकृत्यावीचं यद् यदि नितान्तमेव ते श्वशुरश्राद्ध सम्गा दनायाभिलाषः तहि मूढा, दुश्चर्माणो, दन्तुराः हीनाङ्गाः, अधिका- गाः श्वित्रिणः कुनखिनश्च ब्राह्मगा आहूयन्ताम्, तेषां मोजनार्थच यत किचिन्मलिनतरतण्डुलादिकं क्रीयताम् ; दधिदुग्ध-घृतश करा: लड़, कमण्डकादीनि दुर्लभतराणोति कृतं तैः, दक्षिणयापि किमपि प्रयो- जनं नास्तीति । ब्राह्मणी तु मति कर्णमनिपात्य स्नातकान, यतीन, गृहस्थान, साधून, श्रोत्रियान, अनवधान् वृद्धांश्च श्राद्धे निमन्त्रित वती, बहुविधसूप सुरभितरमा पक्कवती, प्रचुराणि लड़क ण्डकमोदकादीनिमित जिलादीनि च नैकप्रकाराणि सुस्वादुनि भोज्यानि सम्पादितवती मां व पुपला विहितवता । अहमेत. दालोक्य फलतः स्वाभीयोव नाणं गा प्रमोदभ्रान्तचित्तः पूर्व वृत्त सपदि विस्मरन् गृहिणीमाययम्-प्राणि पितुम श्राद्धपिण्डः विप्रेभ्यो वा, गोभ्यो वा देयं, अथवा सलिलमध्ये विसर्जनीयइति । प्रतिकूला गृहिणी स्वभावत एव तदकृत्वा हन्त अमेध्यद्रव्य कुण्डे तं श्राद्धपिण्डं निक्षिप्त पती। मम पितृश्राद्धमित्थं सुसम्पन्नम् ! अवज्ञानु तापलज्जादिभिर्विदायव मे वृदयमण्डलम् । विग्रहिणीमिव नृत्य- म्ती' पिशाची प्राणी पश्यतो में केन प्रकारेण दिन गन्तीति वार्ताः सम्पादकाभिमायात्रा तोऽन्यो मा विना विज्ञानातु । पृद्धस्य तरुणी माया कमिष भव- ति ज्ञायते मयेदानीम् । श्रीविश्वेश्वरशिरोमणिः। -:०: वार्ताः सम्पादकाभिप्रायाश्च । भारते द्यूतम् । .. वर्षेऽस्मिन् सह केषाञ्चिविभवेन तिथिदूंगतप्रतिपनाम कियत्का- लार्थ तिरीहिता । तदानी प्रतिवत्मैव विकटमारटतां स्पद्धमानानां जयतां कितवानां सुदुःसहै: कोलाहले वाराणस्यभ्यन्तरं प्रतिध्वनितम- भवत् । बालवृद्धनिर्विशेष बहव एव तस्मिनदिने स्वं स्वं भाग्य परीक्षित. वन्तः । राजशासनेन निषिद्धऽपि द्य तदेवने तत्रत्यानां पौरजनानां सु- इदमनीयेन निबंधेन केवलं तहिनार्थ कथञ्चित् तदनुमोदितं भवति । अन्यत्राप्यन्येद्यु : पठितं, स्मरामो, मुम्ब प्रदेशेषु कतिचित कितवा राजद्वारे ऽभियुक्ता अभूवनिति । मजान्तर-प्रविष्टमिवेदं द्य तदेवनं भारतीयानां विशेष स्तूत्तरभारतीयानाम् । न तैस्तत् सर्वथा परित्यक्तु शक्यते । आवैदिककालात खस्विदं प्रचलितं भारते । यथा चेदं तथास्यामेव संख्यायामन्यत्र प्रकाशितो वैदिकवृत्तान्तः (द्य तदेवनम्) कायष्यति । द्य तं मामेदं यदतिप्राचीनं नवभिनवं क्रीडनमिति तत एव विज्ञायेत। अपरापरजातीनामपि आचाराद्यनुशीलनेनास्य प्राची. मत्वं तु तदसूक्तमवलोकयता न कचिन्निहोतु शक्यम् । अथ कश्चिदस्य नवीनया पद्धत्या प्रक्षिप्तत्वमाचक्षोत, शृणोतु स महाभागः परमाप्तत्वेन मन्यमानस्य मोक्षमूलरस्यात्राभिप्रायम्-"येहि प्राचीन- समाजविज्ञातारः पुरुषानिःशमुद्घोषयन्ति यन्नेहश्व चोऽकृत्रिमा मित्रगोष्ठी-पत्रिका। भवितुमहन्तीति, यदि ते तत्तथैव प्रमाणयितुमशक्ष्यन् तहिं वयं तेषु कृतज्ञतमा अभविष्याम इति ।* प्राचीनभारते रतमित्थं प्रचलितमालीधर आकृषीबलाद आच महीपालात् सर्वैरेव तदसेव्यत । । मन्त्र ब्राह्मणसूत्रसंहितापुराणेति. हासेषु सर्वव मतपरिचय उपलभ्यते । राजसूययझे राज्ञां दूत- क्रीडा प्रसिद्धा। प्राचामियती दूतासक्तिरासीयत्तत्र विजयलाभार्थ- शास्त्रीयानुष्ठानमप्युभाषितम् । दृश्यते हि स्मृतिषु तिथिविशेषेषु श्राद्धकरणे दूपते विजयो लभ्यत इति यथा-"दूरततिः षष्ठवाम" इतिगोभिलनाम्ना प्रसिद्धं गृह्यपरिशिष्टम् । “गतविजयं षष्ठयामिति" विष्णुः। एवमन्येष्वपि सूत्रग्रन्थेष्वधिगम्यते, ब्रह्मपुराणे कार्तिक शुक्लप्रतिपदि दूरतदेवनमित्थं विहितम्:- शङ्करश्च पुरादूनतं ससर्ज सुमनोहरम् । कात्तिके शुक्लपक्षे तु प्रथमेऽहनि भूपते ॥ जितश्च शङ्करस्तत्र जयं लेभे च पाती। मतोऽर्थाच्छङ्करो दुःखी गौरी नित्यं सुखोषिता ॥ तस्मादयूतं प्रकत्र्तव्य प्रभाते तत्र मानवैः । तस्मिन् दूरते जयो यस्य तस्य संवत्सरः शुभः ॥ पराजयो विरुवश्च लब्धनाशकरो भवेत् ॥ इति ॥ । - "Some people who know all about primitive Society declare whithout hesitation that such verses can not be genuine. If they would prove it, we should feel most graetful" Max. Muller, Physical Religion. P. 77. +ऋगवेदस्य सूक्तान्तरे स्ति "चतुरश्चिद्दमानाद विभौयादानिधातोः। न दुरताया सहयेत्' । १.३.२३.६. यथा दातक्रीडां कुर्वतोः कितवयोर्मधे। एकस्मिन्न परमे किश्चिद् धार यित्वा कोडामारभमाणे सति, यावश्यं धारितं धनं न शोधयति, सावदपरो वार्ताः सम्पादकाभिमायाश्च । २३३ दयतस्य असिंहासनराज्योपमत्वाद यथास्योपदेयता तत्र तत्राधि- गम्यते, एवं महानिष्ठकारित्वादनुपादेयतापि तेष्वेव ग्रन्थेषु न दु- लभा । दूरतसेवनात्पाण्डवानां कियद्दोगत्यमासीदिति महाभारतीयो वृत्तान्तः कस्याविदितः। यथा-विराट पर्वणि- "किं ते यतेन राजेन्द्र बहुदोषेण मानद । देवने बहवो दोषास्तस्मात्तत्परिवर्जयेत् ॥ श्रु तस्ते यदि वा दृष्टः पाण्डवो हि युधिष्ठिरः । स राज्यं सुमहत्स्फीतं भ्रातृ श्च त्रिदिवोपमान् ॥ दूपते हारितवान् सर्व तस्माद दूतं न रोचयै ॥ इति । अत एवेदं व्यसनमध्ये गणितम् । यथा- "मृगयाक्षी दिवास्वप्नः परिवादः स्त्रियो मदः । तोयंत्रिकं वृथाढया च कामजो दशको गणः" ॥ इति । चेदं मनुना सविशेष निषिद्धम्-- "दूयतं समाह्वयं चैव राजा राष्ट्रान्निवर्तयेत् । राजान्तकरणावेतो द्वौ दोषो पृथिवीक्षिताम् ॥ प्रकाशमेतत्तास्कर्य यह वनसमाह्वयो । तयोनित्यं प्रतिघाते नृपतियत्नवान् भवेत् ॥ यतं समाह्वयं चैव यः कुर्यात् कारयेत वा । तान् सर्वान घातयेद राजा शूद्रांश्च दिलिखितः ।। जन किमयं जघाति न वति' अस्माट निभात, तरद दास विमाधान, नामा म्प हयेदिति तद्भावार्थः । (निरुतं ३ २.४. दर. जम् । अन्यत्रापि--- “याभातेव पुंम एति प्रतीची गर्तामगिव मनाये धनान । धि बरगद २१२. अन्न गत्तांग गिवे' त्यादे व्यायामाह याम्कः ( ३१५ ) 7. जाभाव दक्षिणाजी। गर्ता, मभाम्या :, ..तं नव या गला या मा पनि, तां नलाक्षराधन्ति, मा रिकथं तभत इति । प्रतएव एवमन्यतापि बहुमुक्त घु।

२३४ मित्रगोष्ठी-पत्रिका। अप्राणिभियंत् क्रियते कोके तहत मुख्यते । प्राबिभिः क्रियते यस्तु स विज्ञेयः समाजयः ॥ • बतमेतत् पुगकल्पे सष्टं वैरकर महन् । तस्मादातं न सेवेत हास्यार्थमपि बुद्धिमान्" ॥ इति। पुरा दूधकाराणां कीहग दण्डो विहित मासीदित्युपरिशाद विन्यस्य- मानो मृच्छकटिकश्लोक एवं प्रकायिष्यति- “यस्तब्ध दिवसान्तमानतशिरा नास्ते समुल्लम्बितो, यस्योद्धर्षणलोटकैरपि सदा पृष्ठे न जातः किणः । यस्यैतश्च म कुक्कुरैरहरहजङ्घान्तरं चव्यंते, तस्यात्यायतकोमलस्य सततं यतप्रसङ्गन किम्" ॥ इति । - :0:-- वार्ताः सम्पादकाभिप्रायाश्च । भारते अक्षरैक्यम् । नेदमनङ्गीकर्तुं शक्यते यद्धारते अक्षराणामनैफ्याम्महद निष्ठ मायत इति । भारतीयानामन्योन्यमनैक्ये भाषाभेदधदक्षरभेदोऽप्यपर कारणम् । एतद्विषये धम्माधिकरणिकेन श्रीमता सारदाचरणमिन- महोदयेन यश्चिन्तितम्, पत्रि कायामख्यां प्रकाशितपूर्वस्तदीयः सन्दर्भ एव तत्प्रकटीकरोति तन्मसमनुमोदामहे वयम् । नागराक्षरस्यैव अक्ष. रान्तरापेक्षया भारते बहुलः प्रचारीऽस्तीति स्वीकत्तव्यमेव । अतो यदि नाम भारते अक्षरैक्यसम्पादनमवश्यकरणीय स्यात, तहि नागराक्षरमेघ सर्वैग्रहीतव्यम्, इदमेव हि सुकरमिति निर्व्याजम- स्माभिः कथनीयं भवेत् । भारतस्य भविष्यन्तमभ्युदयमनुचिन्त्य * तिरश्चामन्योन्यं योधनमित्यर्थः । समायोज्यौदानी क्रियत एव । वड़ोदाराव्ये तोरस्य महती समायभूमिरस्ति । महाराजेन सको यपशूनामेव योधर्म क्रियत इति शणमः । युरोपेऽपि पुरा किलायं व्यवहार पासी वार्ताः सम्पादकाभिमायाश्च । २३५ खस्वप्रदेशवासिभिः दरोदकः स्वस्वाक्षराभिमानो दूरतः समुत्सा- रणोय इत्यपि बमः। । जगत्पुराश्रमः। जगत्पुरं चग्रामप्रदेशे । तत्र शैलङ्गस्योपरि कश्चिदाश्रमो विद्यते । अयमेव जगत्पुराश्रम इति कथ्यते । आश्रमाध्यक्षस्तषभवान श्री पूर्णानन्दस्वामी माम। अस्मिन् पुमांस इव स्रियोऽपि तिष्ठन्ति । आश्रमपदं कियद्भिवंदुभिरपि समलङ्कतं दृश्यते । तत्र संस्कृतं विमा भाषान्तरस्य नावकाश: अ यते, पञ्चवर्षोय: शिशुरपि कश्चित् केनापि दर्शकेन सह संस्कृतेनैवालापमकार्षीदिति । अपरः कश्चिदे कादशव- यो वटुर्निरगलेन संस्कृतेन व्याख्यानं कत्तुं शक्नोति । स्त्रियोऽपि तत्र न निरक्षराः । वासन्ती माम काचिदेतासु कलिकातायाः 'तीर्थ- परोक्षां ।( व्याकरणविभागे) सम्यगुत्तीर्णवती । उत्तीर्णसांख्यदर्शन- मध्यमपरीक्षामेनामचिरेणैव कालेन ‘सालयतीर्थ'-पदवीपरिशोभिता द्रक्ष्यामः । मन्याप्येका हेमाङ्गिनी नाम सामयदशमस्य प्रथमपरीक्षा- उत्तीर्णा । इदं सर्वमालोच्य हन्त प्राचीन समयेषु तत्तदाश्रमस्थि- नां गार्गी-मैत्रेयी-प्रभृतीनां स्मरामः । प्रधानाध्यापकः पण्डितश्री- 'मेशचन्द्रशर्मा । अयं चतुषं विषयेषु कलिकातायास्तोर्थपरीक्षामु- तामः । आश्रमवासिनः सर्वे नैष्ठिकं ब्रह्मचर्यमनुतिष्ठन्ति । विलास- सम्भोगस्य लेशोऽपि तस्मिन्नोपलभ्यते । शयनभोजनादिषु कठिन- रो नियमः । न तु तेन कस्यापि शरीरक्षयो दृश्यते कथं वा भवेत्, हि संयतेन्द्रियस्य योगस्थितस्य दोबल्यं नाम किञ्चिदस्ति । आ. मस्थै रोपनिषदो धर्मोऽमुष्ठीयत इति सम्भावयन्ति । सर्वथा पक्ष- आतिनो वयमेवंविधानामाश्रमाणाम् । एतद्वार्तामधिगम्य कियन्तं मानन्दमनुभवाम इति यत्सत्यं हृदयमेव केवलं तद्विजानाति । भग. नस्याश्रमस्य कुशलं विदधातु । ।

मित्रगोष्ठी-पत्रिका। वङ्गोयरेखाक्षरम् । आमदभापायां रखाक्षरस्य ( Short hand writing ) उद्भावने तस्याः किया- तुकारः सञात इति कस्याविदितम् ? तद्भाषयात्वरित त्वरित किञ्चिालखित साम्प्रतमयमेवापायोऽपलम्ब्यत । भारतीय भापा नकवापीयं रीतिरतावन्तं कालं कनाप्याविष्कृता । अब महता हपणदं प्रकाशयितुमस्माकं साधीयानवसर आगता यद वङ्ग भाषायामियमाविभूतति आविर्भावको चङ्गषु सुप्रथितनामधेयः प्रा. च्यप्रतीच्याभयदर्शनतत्त्वनिष्णातो गाणितिकः सुगृहीतनानोमहर्षे श्रीदेवन्द्रनाथठक्कुरस्य ज्यायानात्मजः श्रीद्विजेन्द्रनाथठक्कुरो साधारणध्वप्रकाशित मपि रेखाक्षरमिदं कैश्चिदुत्साहिभिस्तरुणैरनु- शील्यते । अस्माभिरपीदं विलोकितम्। परमोपयोगित्वमस्य कः खल्व- पातु क्षमेत नातिचरमेवैतद प्रकाशयिष्यते इति सम्भावयामः । अक्षरेषु हिन्दीप्रभृतीनां भाषाणां वङ्गभाषया वर्णसाम्यमस्तीति तासा- अपि पाणां स्यादेवोपकारोऽन्न बङ्गभाषोयरेखाक्षरेण । नाम। 40 नीचा महत्त्वं गताः"। येषां छायारूपोऽपि पापर्कामवाय॑म्मन्याह्मणव वैरस्माभिः म्व- नऽपि जान नचिकाप्यते, तेषु केपाश्चित् शबरादिजातीयानामेवाद्य विस्मयावह किमपि वृमिह प्रकटीकर्तुमुत्सहामहे । भिलसन्ताला दिजातानाम अमेध्यभोज्यभोजनं, कुत्सिताचारादिक च सर्वादि- तम् । अद्य तु सर्वमेवेदं परिवृत्तम् । सविशेष जानामो वयम--- व. गप गौडमण्डले (जि० मालदह) हरिश्चन्द्रपुराभिधग्रामसमीपे कंचित सन्तालादिदेशोया निवसन्ति; तेः सर्वैरैकमत्येन दृढ़तरं प्रतिज्ञात यन्त्र ते मद्य वा, मत्स्यं वा, मांसं वा सेवेरन्, न ते अस्नात्वा वा, अन् कृत्वा देवतोपासनम, अपरिष्कृत्य वा गेहम, अनुन्मृज्य वा उच्छिष्ट- जिसपत्रादिकं किञ्चिद भुञ्जीरन्, रविवासरे च हविष्यं गृह्णीयुरिति । कृषिरव हि तेषां जाविका भवदित्याप निर्णीतम् । तेषां सजातीय एव .

वार्ताः सम्पादकाभिप्रायाश्च । कश्चित्तेषु प्रागुक्त धर्म प्रचारितवान् । श्रयते अन्यत्राप्येतजातीये. रयमेव पन्था गृहीतः। अथ वयं पुनः किं कुर्मः ? यत्तैः क्रमेण परि- वज्ज्यते, तदव समीचीनतमिति सादरमङ्गीकुम: सपंथा सनाथो- ऽयमनाचारः! निरवलम्बस्य शरणार्थिन एतस्याश्रयादानात् पापमेवा- स्माकमभविष्यदिति यत्सत्यं परं धर्मज्ञा वयम् । एतद्विजानतामपि प- ण्डिताभिमानिनां धदनकुहरात 'नीचा महत्त्वं गता' इति कालमहि- मौद्धोपणं विना नान्यत् किमपि श्रोतु शक्नुमः न वा किञ्चित्प्राप्तकालं करणीयं तेषां द्रष्टुप्रभवाम इत्येव परं दुःखमावहति । देशीय विश्वविद्यालयः। भारते राजकीयेषु विश्वविद्यालयेषु प्रचलितेन प्रकारेण वस्तुतः समीचीना शिक्षा नाधिगम्यत इति यद्धमूलोऽयं संस्कारः कतिपय- दिनप्रभृति भारतीयानां महान्तमसन्तोपमावहंस्तिष्ठति । एतदर्थम- सान्निवेदितैरपि तदधिकृत राजपुरुषैनिष्प्रयोजनमितीव नास्मिन् वि- पये ऽद्यापि किञ्चित् प्रतिकृतम् । साम्प्रतिकंप विश्वविद्यालयेषु केवलं फोनिद 'भृत्या:' ज्यन्ते, न चैतेगो देशस्य कश्चिदुपकारः सम्भाव्यते अथवा कृतं तावद्दशनामोदाहरणेन, पते खल्वात्मनोऽपि ऋते दास्या दन्यत् किञ्चिद वस्तुतः कशलं भावयितुं शक्नुवन्तीति पुष्णन्ति विश्वास सर्व भारतीयाः । यदि नाम भृया विज्ञापितैगि शिक्षाधि- ऋत राजगुरुप यं दोषोऽपाक्रियते, तहि स्वयमेव प्रयतनं विना कि- मगरं कत्तुं शभ्यम्: नहि शिरलि पतन्तं शस्त्रसंघातमन्यो न निरा- करीतीति आत्मनापि हस्ताभ्यां स न निराकरणीय इति वस्तुस्वभाव उपदिशेत । इतीदं विविच्य बद्धोत्साहपरिकरैरस्माकं वङ्गीयबन्धुभिः 'देशीय-विश्वविद्यालयः" ( National University ) इति नाम्ना को- ऽप्यभिनवो 'विश्वविद्यालयो' राजकीयसाहायकापेक्षा दूरतो परि- त्यत्य स्वयमेव स्वमनोरथानुरूपं संस्थापयितु महान् प्रयास आस्थी- २३८ मित्रगोष्ठी-पत्रिका। यते। साम्प्रतं वङ्ग प्येकतः श्रमशिल्पाभ्युदयसाधनेम स्वदेशीयन- व्योत्पादनप्रसारणादिषु अन्यत श्चैतादृशविश्वविद्यालयस्थापनपरि. चालनादिषु च विशेषतो जमानां चित्तवृत्तिः समाकृष्टा दृश्यते । सर्व. त्रैव च सर्वभ्यस्तदालोचनमेवाकर्ण्यताम् । कृतेऽपि विश्वविद्यालये छानान विना निष्फल एवायमिति कियन्तो मामान्तवासिनो राज- कीयं विश्वविद्यालयं विहाय नवीमेऽस्मिन पाठमङ्गीकरिष्यन्तीति तेषां सम्मतिगृह्यते । विश्वविद्यालयाध्येतारः सानन्दं सोत्साहञ्चाह म्पूर्विकया स्वस्वनामधेयं कीर्तयन्ति । दुलंभास्ते छाता, येा. स्मिन्महत्यारम्भे चैमुख्यमादधति । विश्वविद्यालयापेक्षित-व्ययसम्प- त्तये नातिचिरमेव बहुलक्षाणि धनानि संगृहीतानि संगृह्यन्ते च। सफलयतुसङ्कल्पमिमं घगीयबन्धूनामनुकूलोभगवांस्त्रिभुवनाधीश्वरः, भवतु च भारतं समुनासितं भूयोऽपि तदुचितेनाभ्युदयेन । ::०: स्वदेशीयवस्तुव्यवहारे षङ्गानामवस्था । स्वदेशाभ्युदयनाटकस्य प्रथमसूत्रधाराणां वङ्गीयानां छात्ताणामु- परि तदुद्योगानुचिताचार-व्यथितचित्तस्य शासनाधिकृतस्य रोपस- षितलोचनानलसन्निपातः संवृत्तः । उद्घोषितमनेन यद्यदि कश्चिद राजकीविश्वविद्यालयान्तर्गतपाठशालीयश्चात्तः यथा कथमपि 'स्व. देशीयव्यापारे' संसृज्येत, दण्डनीय एव स भवेदिति । छात्वैस्तु श्रुत्वापीदं न श्रूयते, उचितमिति यतन्त एष ते तैस्तैः प्रकारैः स्वदे. शाभ्युदयाय । अनासन्तुष्टेन 'रङ्गपुर'-जनपदाधिकृतेन तनत्यराज- कीय विद्यालयान्तेसदानां प्रत्येक रूप्यकपश्चकदानरूपो दण्डो विहितः, आज्ञप्तंच यावत् स दण्डो नाङ्गीक्रियेत, न तावत तेषु कश्चिद्विद्या- लये प्रवेश्यो भवेदिति । हविषा कृष्णवमवद भूय एव वृद्धिमापन्नेन स्वदेशोत्साहन गृहीतकमत्याः ( विहाय त्रयोदश ) सवें बालका राज- कीयविद्यालयं पयंत्यजन् । अनुपदमेव तंषां यथोचितमध्यापनव्यवस्था सम्पादितैव स्वदेशहितैषिभिः । नूतन एवैको विदयालयः स्थापितः वार्ताः सम्पादकाभिप्रायाश्च । अत्रे वक्त मुक्ति राजकीयविदयालये यथापूर्व स्थितानां पालकानां केषिन् राजपुरुषचरणाश्रितामां तनया इति । क्रमणान्यान्येष्वपि जन-- पदेषु रङ्गपुरीयस्याभिनयस्य प्रसारः सम्पदयते । डाकानगर्यामपि छात्रैराजकीयविदयालयः परित्यक्तः । यत्सत्यं शशासनाधिकृतानामोशेनानुशासनेन यलोयछात्रसमाजेतिभै- [वं वैमनस्यमुत्पन्नम्। वङ्गषु स्वदेशद्रव्यव्यवहारार्थ यतमानानां जनपदानां वरिशाल'- |मकमेवाग्रामासनं लभते । मूर्त्तव स्वदेशप्रीतिरवतीर्णा तत्र । क्षी- कण्ठामा बालानामपि कण्ठेभ्यो 'वन्दे मातरमिति' स्वजन्मभूमिमुहि- यमधुरमन्द्रो धनिर्नियतमेव वियन्मण्डलमवगाहते, सकृदुचरिते त- सन् विदुरन्महिम्नेव जनानामन्तःकरणं बळवदाकृष्यते । पांशुलच. रणानां हालिकानामपि साम्प्रतं नाविदितं यददेशिकवस्तुव्यवहारण कियनामापकार उज्जृम्भत इति। प्रस्फुटितमिवंदानी सर्वेषां प्रज्ञा त्रम्, कुटिलमप्तयो राजपुरुषास्तु हन्तामोपां नेममुद्योगं सहन्ते । वन्देमातरमितिशब्दो द्रुत इवायोधानुदहत्येतेषां श्रवणविपरम्, विदारयति चान्तः प्रविश्य निशितकच इव हृण्मर्माणि । जनानां शान्तिघंसो हि तेम भवतीति तेषामाशयः । अतएव यथाविवेक- मुपायप्रयोगेण तत्प्रशमन विधीयते, बहुष्वेव स्थानेषु राजादेशो घोपितो यन केनापि 'वन्देमातरमित्यस्य लेशतोऽपि रक्षणीयः सम्पर्क:, न च प्रकाशे रहास वा समिति / द्वित्रः संमिल्य गोष्टी- विनोदालापो न करणीय इति । स्वदेशोतये धरिशाल'-जनपदया सिनामुत्समहातिरेको राजपुरुषाणां सर्वथैवारुचिकर इति तेषां तस्मात् प्रसह्य विरमणार्थ शतद्वयं समुचितास्त्रसमुसितं 'गुरखा'-नामधेयं दुधर्ष सैन्यं तत्र नियुक्तम् । एभिः समुत्पादितैर्विविधैरुपद्रवैः पर कष्टावस्था 'परिशाल'-वासिना मुपस्थिताः। शृणुमो न तथापि ते स्वदेशीयवस्तुव्यवहासद विरं-स्यन्तीति ।

मित्रगोष्ठी-पत्रिका। मूढतरिख ) चिश्व स्पप्रमेव राजपुरुषैः स्वदेशीयवस्तुत्यागाद शपूर्व वैदेशि- कानामेव तेषां व्यवहार जना आज्ञाप्यन्तं । क्वचिद वा कश्चिदेतेपु सप्तमे ऽटमे वा वत्सरे वर्तमाना: शिशवोऽपि 'वन्दे मातर- मिति' शब्दोच्चारणमात्रदोषेण दण्डयन्ते । अन्यत्र च क्वन्ति शान्ति भङ्गभीरुभिस्तवृयव अनपेक्षितानां दण्डविधायक--रक्षापुरुषाणां ( pitute. 1Parliate ) नियांगन दरिद्राणामगि प्रजानामुपरि गुरुतरस्त- व्यवहनभारी निपात्यते । अयन्त्वत्र रमणीयो विशेषो यद एतत खलु व्ययवहतं तत्रत्यहिन्द भिरेव कर्त्तव्यभ, न तु महम्मदीयेरपाति शान्तिभङ्गव्याधिचकितै रङ्गपुराधिकृतस्तत्रत्या कंचिद वहुमान या महान्तो जना:-येपामन्यतमः कोऽपि सुप्रतिष्ठितो 'महामहा. ध्यायः,' विशेषरक्षापुरुषत्वेन नियाल्यावमानिताः । किं बहुना सर्वथा राजपुरुषाणां दुर्विपह दहनदृष्टी निपतिता इदानी वङ्गायाः । . वाराणसी। सन्निहितः कालो वर्तमान वत्सरे राष्ट्रीयमहासभाया वाराणस्या भाविनः सम्मेलनस्य, तत्संष्टाया देशीयद्रव्यप्रदर्शन्याश्च । श्रीमन्महा. राजः काशीनरेशः प्रदर्शन्या द्वारमपावरिष्यति । महाराजन तदुन्नत 1: सहस्राणि रूप्यकाणि बिताणानि । प्रदर्शन्यां बहुभिः प्रा शि.पादिविषय माविना प्रबन्धाः पठिष्यन्ते, व्याख्यानानि च करि प्यन्तं । श्र या राष्ट्रीय महासभामण्डप एव निवृत्तषु तकन्य 'श्रीभारतधर्ममहामण्डल-परिषदः मम्मल भाष्यतीति मित्रगोष्ठो-पत्रिका। (मासिकं संस्कृतपत्रम्।) सङ्गच्छध्वं संवदध्वं सं वो मनांसि जानताम्"। ऋग्वेदः। द्वितीय वर्षे } १८२७ शकान्दाः, पोषः। { नवम संख्या मनः शिक्षा। मनस्त्वत् सकल्पाजगदिदमुदति भ्रमकर समासक्तिश्चषाऽनृतविषयमार्गानुसरणे । ततस्तत्वज्ञानप्रविहतिरविष्मिजनिक- लये तस्यापायः सकलजगतः शान्तिकरणः ।।१।। यतस्त्वं दुःखानां भवगतिकृतानां प्रभवक- ततस्तेषां शान्त्यै प्रकृतिचपल, त्वां सुवचनैः । विहातु दौर्जन्यं कुविषयविषङ्गात्मकमिदं दिशाम्येषोऽहं तत् सफलय विना कालहरणम् ॥ २ ॥ जलोपाधे: कापात्तरणिरविकम्पोऽपि हि यथा मनुष्यैरज्ञानविचलनयुतः कल्प्यत इह । तथा त्वत्सल्पात्तव च विषयेषु प्रचरणा- दनासङ्गोऽप्यात्मा भवति भवधर्मैयुत इव ॥ ३ ॥ त्वमेवाधिष्ठाता करणानचयानां नृप व प्रवृत्तौ तेषाञ्च त्वमसि पर कारणमिति । समालोच्यैवं त्वामहमिदमतिप्रौढ़विनयाद प्रवीमि स्थैर्य वंश्रय निखिलरागोपशमनम् ॥ ४ ॥ १ मित्रगोष्ठी-पत्रिका। सदा धावद्धावद्विषयमलपूर्णाध्वनि कथं श्रमं नामीषि त्वं यत उपशमं यासि न ततः। विचित्रं चारित्रं तव नहि विजानामि हृदय- स्वभावो दुयः बलु खलजनानामपि बुधैः ॥५॥ पतङ्गो दीपस्य ध तिमतितरां वीक्ष्य सहसा प्रलुब्धो वेगेन प्रपतति शिखायां ज्वलति च । मृगोऽपि व्याधस्य श्रुतिमधुरमाकण्यं निन सुवंशीरन्ध्रोत्थं प्रमुदितमना बध्यत इह ॥ ६॥ तथा जिनन् सूरात् कमलमधुगन्धं मधुकरः समागस्यावेगामियमनदशां तत्र लभते । करी चाङ्गस्पर्शोच्चसित हृदयो हन्त सुचिर करिण्याः संसर्गानरपतिगृहे बन्धनगतः ।। ७ ॥ सुभक्ष्यास्वादाशातरलितमना मीनविसरः सशङ्को संविधो वड़िशवदने याति निधनम् । विलोक्यकै कस्यानुसरणविधौ दुर्गतिमिमा कथं न बासस्ते भवति सकलानामनुसृतौ ॥ ८॥ सतो हृत्पद्मस्थेऽमितसुखनिधाने द्यु तिमये विशुद्ध वुद्ध्यादीन्द्रियनिचयसाक्षिण्यकरणे । परात्मांशं सत्ये चिति निखिलसारेऽखिलमये समाविश्य क्लेशं क्षपय भवसन्तानजनितम् ॥१॥ श्रीरामप्रसन ब्रह्मचारी। राजगञ्ज वर्धमानः। ::

वेदवृत्तान्तः। ३ कृषिकर्म । . ह प्रियाः पाठकाः, अतीतायां संख्यायां वैदिकसूक्तमुवाहत्य पूत- वनस्य सुदुःसहोदकत्व प्रदर्शनावकाशे तत्परित्यागपूर्व कृषिरेव कर- येति पीयूषनिष्यन्दसहोदरस्तन भवतामार्याणामुपदेशउदाहियत- अर्मा दीव्यः कृषिमित कृषस्व वित्ते रमस्व बहु मन्यमानः । तत्र गावः, कितव, तन जाया, तन्मे विचष्टे, सवितायमय:॥इति* पद्य तु सैव कृषिः कीदृश्यासीत्तेषामिति तवृत्तान्तबहुलं सूक्तमक संक्षिप्तनाथेनेह प्रकाश्यते। इदं हि सूक्तम् ऋग्वेदस्य दशममण्डले, नवमाध्याये एकाधिक- ततमम् । अस्य ऋषिः सोमपुत्रो बुधः, देवता विश्वे देवाः, ऋत्वि. स्तुतिर्वा । तदुक्त सर्वानुक्रमणिकायां शौनकेन-" उदद्यध्वं, धः सौम्यः, ऋत्विकस्तुतित्यादीति"। अस्य सूक्तस्य मन्त्रेधार्याणां विषय एतद विज्ञातु शक्यते, यत् षां कर्णदण्डयुक्ताया नौकायाः; (२मन्त्रे) सीरस्य, युगस्य, दावस्य ३,४,),चर्मभयरज्या:(५.६); जल सेचनार्थ कस्यापि पाषाणनिर्मितस्य क्रिस्य (७), गवां मनुष्याणां च जलपानार्थ दारुमयस्य पात्रस्य ५,६), लौहमयस्य पात्र विशेषस्य, जलादितरलद्रव्यरक्षणार्थ समस- मकभाजनस्य (८), पाषाणमयस्य कस्यापि याशो' नामकस्य छेदन. धिकस्य यन्त्रस्य (१०) + व्यवहारा विदिता बभूवुः। किञ्च कस्मि- धत्स्थान उपगत्य गोष्टविरचनपूर्व गृहनिर्माणं, तत्र चायसपात्राणां हिष्करणं, तेषां स्थानात्स्थानान्तरगमनं सूचयति (८) कृषिकर्मणि ऋग्रेद. १०.३४.१३ +मन्यामहे, अद्यत्वे नौहमयी वास्य व सदानौं घर्षणकतधारपाषाय- एहरु पामोदिति।

२४४ मित्रगोष्ठी-पत्रिका! तैरवोऽपि नियुक्त इति गम्यते (७) । एकाधिकविवाहप्रथासीदिनी ज्ञायते ('द्विजानिः'); प्राचीनार्येषु केचित कृषिकारिणोऽभवन्मितिः पदन्ति तेषामिद सूक्त मन्यतमं प्रमाणम् । अत्र 'द्रोणेति' (३), ' यतेति' (५), 'नयाणमिति' (७) चेतेषु शब्देषु भाषातस्वगतम किञ्चिचिन्तयितव्यमस्ति । परंतु तदिह पाठकानां धैरस्यापादक मा दिति न किमप्यधुना वक्त मिच्छामः । इदं तत्सूक्तम्। उदवुध्यध्वं समनसः सखायः, सममिमिध्वं बहवः सनीळाः । दधिक्रामग्निमुषसं च देवीमिन्द्रावतोऽवसे नि हये वः॥ हे अन्योन्यं कर्मानुकूला बन्धवो, यूयमुदबुद्धा भवत, सर्वे एकस्मिन्न स्थाने वर्तमानाश्च सन्तः अग्निं सम्यगुहीपयत अहमपि युष्माकं रह णाय दधिकानामिकां देवताम्, उषसम्, अग्निं चेन्द्रण सहाहयामि १ २ किञ्च हलयुग "मन्द्रा कृणुध्वं, धिय मातनुध्वं, नावमरित्रपरणी कृणुध्वम् । इष्कृणुध्वंमायुधारं कृणुध्वं प्राञ्च यज्ञं प्रणयता सखायः" । हे सखायः, गम्भीराणि स्तोत्राणि कुरुत कर्माणि विस्तारया अरित्रेण ( कर्णन) परपारप्रापणीयां नावं च कुरुत; दीनि कृषिसाधनान्यायुधानि निर्मलीकुरुत, तथा प्रागर्चनीयम प्रणयत। ३ युनक्त सीरा वि युगा तनुध्वं कृते योनौ वपतह बीजम् । गिरा व श्रुष्टिः समरा असनो नेदीय इत्सृण्यः परमेयात् ॥ हे सखायः, हलानि वृपैयुध्वम्, तदर्थ युगानि विस्तारयध्वम्, सीतायां कृताया-क्षेत्रे कृष्टे बीजं घपत । अस्माकं स्तोत्रेण सा • 'सप्त ग्राम्याः करे, सप्तारण्या घर इत्यापसम्वोत. बार क्षेत्र जमाघौह्यादौनि सप्तग्राण्याथि अरे तु वेणुश्यामाषनीवारादौनिस रण्यानि बीजानि वपनीयानीति बोधाम्।

साकमन्नं पूर्ण भवतु, तथा अस्माकं दात्राणि *: वेदत्तान्तः। २४५ स्यस्तम्बेषु पतन्तु। युगा वितन्वते पृथक। सीरा युञ्जन्ति कवयो धीरा देधेषु सुन्नुया ॥ शोभमानेषु (क्षेत्रेषु ६१) बुद्धिमन्तो मेधाविन ऋत्विजः सुखेन लागलानि योजयन्ति, तथा युगानि पृथक कुर्वन्ति । ( अथवा केचित् हलं चालयन्ति, केचिच विश्रामेच्छया युगकाष्ठानि पृथक् कुर्वन्ति )। निराहावान् कृणोतन संवरना दधातन । सिञ्चामहा अवत मुद्रिणं वयं सुषेक मनुपक्षितम् ॥ हे सत्रायः गवां जलपानसाधनानि द्रुममय पात्राणि कुरुत, च- मंमयरज्जूश्च धारयत, घयं सुखेन सेफ्तु शक्यम्, उद्कोपक्षयरहितं गर्त सिञ्चामः। ६ इष्कृताहावमवतं सुवरत्नं सुषेचनम् । इद्रिणं सिञ्चं अक्षितम् ।। गवां जलपानपात्रसंस्कृतम्। शोभनचमरज्जुयुक्त, सुषेचनम् अक्षीणं गर्त सिञ्चामि । ७ प्रीणीताश्वान् हितं जयाथ स्वस्तिवाहं रथमित् कृणुध्वम् । द्रोणाहावमवतमश्मचक्रमसत्रकोशं सिश्चता नृपाणम् ।। सखायः, अश्वान् यथोचितघासोदकादिप्रदानेन प्रीणयत, यथा क्षेत्रकर्षणाय प्रभवन्ति, ततः कृषिरूपं हितं कर्म जयत, कुरुत च है . सविवाणि, 'कास्त' 'इला' 'कोयता' इति खातानि । + पसन्या एव चोर्थ रह पुनरक्तः ।

२४६ मित्रगोष्ठी-पत्रिका। सुखधाहकं हलरूपं रथं । हे ऋत्विजः कमनेतृणां पुरुषाणां पानयोग्यं सन्निहितद्रुममयपानपात्रं, निम्नभूतम, अश्मचक्रयुक्त गर्त सिञ्चत । वजं कृणुध्वं स हि वो नृपाणो धर्म सीव्यध्वं बठुला पनि । पुरः कृणुध्वमायसीरधृष्टा मा यः सुस्रोश्चमसो रहतातम् ॥ हे सखायः, गोष्ठं कुरुत, स खलु युष्माकं पयःपानसाधनम् भवति, बहुलानि विस्तीर्णामि च गृहाणि + कुरुत, लौहमयानि पात्राणि दृढीकुरुत, यथा तेभ्यो जलादिनचुतं भवेत् । १ ॥ आ वो धियं यज्ञियां धत्तं ऊतये देवा देवी यजता यज्ञियामिह । सा नो दुहीयद यवसेव गत्वी सहस्रधारा पयसा मही गौः हे देवाः, अस्मदरक्षणार्थ, युष्मत्सम्बन्धिनीमस्माकं कर्तव्यत्व- बुद्धिमसकृदालोचयामि । यथा यवसानि भक्षयित्वा गौः सहस्रधारा- भिर्दुग्धं ददाति, तथा सापि बुद्धिरस्माकं कामान् प्रपूरयतु । मा तू पिंच हरिमी द्रागुपस्थे वाशीभिस्तक्षताश्मन्मयीभिः । परिष्वजध्वं दशकक्ष्याभिरुभे धुरौ प्रति वह्नी युनक्त । हरितवर्णमेनं सोमं दारुमये पात्रे निधाय शिलासारभूताभि वा. शीभिः (तक्षणसाधनैः) छिन्त । अथ सोमपूर्णपात्रं दशभीरज्जुभिः शकटे आवध्य वाहको बलीवौं योजयत । * अन मायणेनाश्वशब्दस्य बलौषर्दोऽर्थः क्लत: उदाष्ट्रियमाणस्य मुक्तस्य देवता ऋत्विकस्तुतिः, विश्व देवा वत्युक्तम् । वैदेवपचे तु वाच्यार्थ एव राहीमः। कामिन् पचे ऋगियं सांगामिकार्थपरतया याख्यायते । श्रीमता यास्केन निरक्त (५.४.८) इत्यमेव प्याख्यातम् सायणेनापि तदेवानुस्तम्। विस्तरभिया मास्माभिस्तरप्रदश्यते। + केषाश्चिम्मते धर्मशाग्दो मिघण्टौ रहनाममध्ये पठात इति तस्य वास चारतरत्वबुडया म सायणमतं गृहीतम्। .

छानचर्या। २४७ उभे धुरौ पहिरापिब्दमानोन्तोनेघ चरति द्विजानिः । धनस्पतिं धन अस्थापयध्वं नि षू दधिध्वमखनन्तउत्सम् ।। यथा कश्चिद योर्भाययो रमते, तथा यस्य लाङ्गलस्य धुगद्वये बाहको बलीपदः शब्दायमानो भवति, गप्रदेशमखनन्ती यूयं काष्ठ- निर्मितं तल्लागलं प्रार्थनीय क्षेत्र एवावस्थापयध्वम् । १२ कृपार कृपथमुद्दधातन चोदयत खुदत वाजसातये निष्टिप्रयः पुत्रमा च्यावयोतय इन्द्र संबाध इह सोमपीतमे ।। हे नेतारः, भयमिन्द्रः सुखदाता। अतोऽनलाभायैनं प्रति सोमं प्रेरयत, प्रसाद चास्योत्पादयत । हे पीडिता ऋत्विजः, इन्द्रः निग्रियः अदितः पुत्रः, तस्य सोमपानार्थम् अस्माकं च रक्षणार्थ तामागमयत। विधुशेखरशर्मा। :०: छात्रचर्या । * वेदाभ्यासनिरन्तरव्यतिकर प्रत्यूदितप्रार्थित- स्वैरालापविहारभोगजनितक्लेशासहा भारती। नानाभावरसोज्वलान बुधगणानाश्लिष्य तृप्ताप्यलं साध्वो भक्तजनेषु वत्सलतरा देयान्ममाभीप्सितम् ।। न्यायाधनेकशास्त्रार्थतत्वज्ञानमधूज्वले । चञ्चरीकतु चेतो मे श्रीमदगुरुपदाम्बुजे । * प्रबन्धोऽयं स्यानन्द रपुरस्थ-( Trivendram) राजकीय-संस्कृत विद्या- मन्दिरे वार्षिक परीक्षोत्तोचानपारितोषिकदानमहोत्सवाय C. S. I., F. M. U., M. R. A. S., F. R. H. S, इत्यादबनेकविरुदशालिना श्रीमत् केरनवर्मदेवनाधिष्ठित समाणे पठितः ।

अयि भोः सामाजिकाः, श्रीमतां तत्रभवतां समक्षं छात्रचर्यामधि- कृत्योपन्यसितु प्रवृत्तस्य यत्सत्यं कम्पत इव मे दयम, इदश्च नाति. चित्रं, यतः। । आहूतापि पुरः पदं न ददती, प्राप्तोपकण्ठं हठात, पृष्टा न प्रतिवक्ति कम्पमयते स्तम्भसमालिङ्गति वैवर्ण्य स्वरभङ्गमञ्चति बलादालिङ्गिता वेपते कष्टं भोः प्रतिभावतोप्यभिसभं वाणी नवोढायते"॥ इति अथापि श्रीमता मादेशरूपं महानुग्रहं शिरसा विभ्राणः । "पात्र विशेष न्यस्तं गुणान्तरं व्रजति शिल्पमाधातुः। जलमिव समुद्रशुक्तौ मुक्ताफलतां पयोदस्य' । इत्यस्मिन्नर्थ च श्रद्दधानो मचनं नीरसमपि रसिकजनमनसि निधीयमानं समुदितरसपोषं भविष्यतीति धैर्येण यत्किञ्चिजल्पितु समुधु क्तोऽस्मि । अतस्तत्रभवतामवधानं दीयमानमभ्यर्थये । इह किल जगति समुग्मिषत्स्वपि व्यासकपिलकणादादिष्विव, कुलझमागतानेकानवद्यहविद्याधरीकृतविद्याधरेषु, निखिलमहीवतु- लमुखतिलकायमानेषु, पदवाक्यप्रमाणपारावारपारीणेषु विमणि- मुकुटेषु परस्सहस्रषु प्राचीनसम्प्रदायवित्सु विद्यमानासु च यावदपेक्ष नानाविधसामग्रीसम्पत्तिषु जाग्रत्सुच विद्यामभ्यस्यत्सूपपराद्धेषु प्रच- लत्सुच तत्र तत्राध्ययनाध्यापनादिषु न तारशीमवाप्नुवन्त्यभ्यासपरि- पाटोमिदानीन्तना माणवकाः, याश्या किल सर्वातिशायिज्ञानोत्कर्ष- मधिगम्यास्माकं पितृपितामहाद्या महानुभावाः प्रायोऽद्यतनैर्दुरवगा- हानपि विषयान् अस्माकमनजिघृक्षया महाप्रवन्धरूपेण प्रथन्ति स्म । अप्रचेतावन्माप्रतारतम्यहेतुभूतं किमिति पर्यालोच्यमाने छात्रचर्या वैकल्यमन्तरा न किश्चित्कारणमन्यदस्तीति प्रतिभाति । अतस्तादश- च्छात्रचर्यामधिकृत्य किञ्चिदविचारयामः ! छवं गुरोर्वैगुण्यावरणं शीलमेषामिति छानाः, शीलमित्यधिकारे छत्रादिभ्योऽण इत्यण प्रत्ययः तेषां चर्या छावचर्या । अनेन च यथा उत्र .

छात्रचया। २४९ वायमानान् शरीरस्य जायमानान, वृष्ट्यातपादिदोषान् आवरणेन पारयति, तेन शरीरिणस्तजन्यक्लेशो न जायते, तद् गुरुक्लेशवारकत्वाच्छी- हस्य छत्रत्वं, तहत्वाच छात्राः । तथा च गुरोर्येनकेनापि प्रकारेण खेन वारयितु शक्यांश्च दोषान् वारयितु बद्धदीक्षाः कायेन मनसा पाचा च गुरुमेवानुवर्तमानाः स्वप्नेपि तस्याहितमना- रन्तः सर्वदा दाक्षिणात्या इव तद्धितप्रयोगकाङ्गिणो, नागरिका इव रित्यक्तग्राम्यधर्माः, तदाज्ञालिप्सया तन्मुखावलोकनपरास्तस्य स- गाव्यमानानपि दोषान् वाचानुश्वारयन्तो, मनसाप्यचिन्तयन्तः काये- गि तस्य गतिभाषितेगितादीन्यननुकुर्वाणाः, परेण च क्रियमाणानि रिवादादीन्यमाकणंयन्तस्स्वकरणीयैकतत्पराश्व छात्राइति फलितम् । पाञ्च स्वोद्दिष्टविद्याभ्यासपरिसिद्ध्यर्थ यामियान्यवश्यमनुष्ठेयानि नोह छानचर्यापदार्थः। तत्र च छात्राणां स्वरूपमप्रतिपाद्य तच्चर्याया निरूपयितुमशक्य- प्रथमं तेषां स्वरूपं निरूप्यते । छात्राणां स्वरूपं तन्त्रसारे यथा- "शान्तोविनोतश्शुद्धात्मा श्रद्धावान् धारणे क्षमः । समर्थश्व कुलोनभ प्राज्ञस्सच्चरितो धनी ।। एवमादिगुणैर्युक्तश्छानो भवति नान्यथा। गुरुता शिष्यता वापि तयोर्वत्सरमात्रतः॥ सदगुरुरवाश्रितं छात्रं वर्षमात्र परीक्षयेत् । वकेन भवेद्योग्यश्छानो गुणसमन्वितः" ॥ इति द्याभ्यासाय प्रवृत्तस्य हि शिष्यस्य तदननुकूलविषयान्तरव्यावृत्त- त्तत्त्वरूपं शान्तत्वमावश्यकम् । अन्यथाभ्यासवेलायां विषयान्तर- पृतचित्तस्य गुरुभिरतिप्रयत्नेनापि उपदिश्यमानोर्थो मरुवृष्टिरिर करमा अपि फलाय प्रकल्पते । नहि विषयान्तरव्यापृतचित्तस्य मनो दुभिघोपमपि विषयीक प्रभवति । अतएवोक्तं कविकुलसावं. मेण श्रीहर्षेण- - २ मित्रगोष्ठी-पत्रिका "धरातुरासाहि मदर्थयाचना । कार्या न कार्यान्तरचुम्बिचित्ते" ॥ इति । अतः शान्तत्वमत्यावश्यक विद्यामधिजिगांसूनांबालानाम । एवं विक योप्यावश्यकः, विनयो नाम गुरोस्सकाशादात्मनोऽपकर्षप्रकाशनम्। तद्धि गुरुहृदयावर्जकं भवत् गुरोमनःप्रसादहेतुतामापन्नं विद्याम्य सवृक्षस्यालवालतां भजते तादविनयप्रदर्शनप्रकारश्च प्रतिपादिने मनुना, यथा-- "शरीरश्चैव वाचश्च बुद्धीन्द्रियमनांसि च । नियम्य प्राञ्जलिस्तिष्ठेदीक्षमाणो गुरोर्मुत्रम् ॥ नित्यमुद्धृतपाणिस्स्यात् साध्वाचारस्सुसंयतः । आस्यतामिति चोक्तस्तन्नासीताभिमुखं गुरोः।। होनान्नवस्त्रवेशस्स्यात सर्वदा गुरुसन्निधौ । उत्तिष्ठेत्प्रथमञ्चास्य चरमञ्चैव संविशेत् " ॥ इति । एतादविनयावलोकनाीकृतान्तःकरणः परमदयालुरुषाध्यायः सबै. भ्योपि धनेभ्यः प्रधानभूतं विद्याख्यं धनं देशकालावच्छेद नापि विल- यरहितं तदभिलाषिणे छात्राय सम्प्रदाति। अहो ! परमकारुणि- कत्वं विनयवशाकृतहृदयस्य गुरोः, पश्यत, इह किल जगति प्राकृत- मपि धनं कः खलु पुमान् परं प्रापयितु समुधु ङ्क्त । न खलु सहो- दरा अपि समुद्युञ्जते अत एवाह श्रीहर्ष:- "मा धनानि कृपणः खलु जोवन तृष्णयार्पयतु जातु परस्मै तन नैष कुरुते मम चित्रं यत्तु नापयति तानि मृतोपि" ॥ इति । प्रत्युत परकीयस्य धनसय स्वायत्तीकरण एव प्रयतन्ते, तदर्थञ्च कल- हायन्ते । एवं स्थिते सबंधनेभ्योऽपि सघप्रकारणोत्कृष्टतमस्य- "न चोरहार्य नच राजहार्य न भ्रातृभाज्यं न करोति भारम् । व्यये ते वर्धत एव नित्यं विद्या धनं सबंधनात्प्रधानम्" ॥ इत्युक्तलक्षणस्यास्य धनस्य प्रतिपादनं परमपाव्यतिरेकेण का संघटताम् कथन्तराच- - छात्रचर्या । "तृष्णां छिन्धि, भज. क्षमा, जहि मदं, पापे रतिं माथा, सत्यं ब्रू ह्यनुयाहि साधु पदवी, सेवस्व विद्जनम् । मान्यान्मानय, विद्विषोप्यनुनय, प्रख्यापय प्रश्रयं, कीर्ति पालय दुःखिते कुरु दयामेतत्सतां चेष्टितम्" । इत्याधु पदेशश्च बहुमूल्यप्रदानेनाप्यसुलभं वितरतु गुरुः नहि भ उपदेश ईदृशः, येन पुमान् पौरुषं प्रपद्यते। अत उक्तं पिन- यावश्यक इति। - एतादृशगुणविशिष्टत्वं शिष्यस्यैकेन द्वाभ्यां त्रिभिर्वा दिवस वितु क्यं, तथापि तस्य छात्रीभवनयोग्यता अस्तिवा नवेति वत्सर- परीक्षणीयम्, नहि केनाप्यवगन्तु शक्यं दिवैदिवसः प्रज्ञाव पि। तस्य प्रथम तथाविधगुणाभावेऽपि समनन्तरं तदीयसंस- । तत्प्रवृत्तिदर्शनेन तदीयोपदेशेन वा पूर्वोक्तगुणोत्पत्तिसम्भधेन मं तत्परित्यागायोगात् । नहि स्वस्यापेक्ष्यमाणान् गुणानादायैव तो जायमानो जनिष्यमाणो वा समुपलक्ष्यते लोके । नापीदमस- वि यत्सजनोपदेशप्रवृत्तिसंसर्गादिभिरपेक्ष्यमाणा गुणाः सम्भव- ति यथाह भर्तृहरिः- "जाड्य धियो हरति, सिञ्चति घाचि सत्यं, मानोअति दिशति पापमपाकरोति । चेतः प्रसादयति दिक्षु तनोति कीर्तिः सत्सङ्गतिः कथय किनकरोति पुंसाम्" ॥ इति । पद्याभ्यासाय समुपागतस्य च गुणविशेषपरीक्षा. तावदत्यावश्यका सरमात्रेणापि । अन्यथा भविनयालस्यादिदोषग्रस्तश्चेच्छात्रो विति, तदा तदीयाविनयादिदोषेणार्जिताना दोषाणां गुरुरेहि पात्र विति; तथाच स्मयंते- "राज्ञि चामात्यजो दोषो भार्यादोषस्स्वभरि । तथाशिष्पार्जितं पापं गुरुः प्राप्नोति निश्चितम्" ॥ इति ।

- ३५२ मिनगोष्ठी-पतिका। न केवलमेवंविधो दोषः, अपितु स्वकीयपुत्रा अपि तत्संसर्गेण तदी. यवृत्तमनुकुर्वन्तः समानवयस्कतया तदुपदेशमेव महामन्त्रं म. न्वानाः स्वेनोपदिष्टमपि गजनिमीलितेनावधीरयन्तो दुर्मार्गकपरायणाः प्रातिवेशिकांश्च माणवकान् ललितललितै रुपदेशवचनैः समावजय- तस्तद्धृदयञ्च निर्मलमपि कलुषोकुर्वाणाः ग्रामपनिपतितविषकण इव ग्रामीणान् सर्वानपि बालान दूषयन्तः स्वयं दुष्टपदवाच्यतां भजे. रन् । किंवा इतोप्यन्यत्कटतरमस्ति लोके । बालानां हि हदयं बाल- लसामिवातिकोमलम्, अन्यत्नप्रवत्यमानमनायासेन प्रवर्तते, नाति तदा कृत्याकृत्यविवेचनक्षमा तेषां बुद्धिः । अन्यत्र प्रवर्तमानञ्च हृदयं समासक्त सदा कड्यक्षिप्तपाषाणस्नण्डमिव तत्रैव विलीयते तस्मात बाल्य एवं बालानां हृदयं यथा सदिषय एव प्रवर्तेत, तथा यतनीयम्। तत्रच बाला यथा दुप्टैस्सह न संसृज्येरंस्तथा पर्यवेक्षायाः। भतश्च छात्राः परीक्ष्यैव छानत्वेनोपकल्पनीया इति सिद्धम्। भात- एवोक्तम् । "गुरुता शिष्यता पापि तयोवत्सरमात्रतः। सदगुरुरुस्वाश्रितं छावं वर्षमान परीक्षयेदिति" ॥ पघंविधानाञ्च छात्राणामवश्यकरणीयम्वन्यतमानि चर्यापरपर्या- याणि कृत्यानि निरूप्यन्ते। अध्ययनवेलायां रसमागच्छन्त्या विरहम- सहमानया कामिन्येव निद्रया परिहासिकयेव नयनेपिदधत्या समा- लिङ्गयमानोपि बलादेनां दूरीकृत्य सश्रद्धमाकणयेद गुरूपदिश्यमाना. नर्थान् । पुस्तकावलोकनवेलायां पठनवेलायाञ्च प्रायस्सर्वेषामपि निद्रा समायातीत्यतिरोहितमेव किल महाभागानाम् । निद्रायमाणे जामुष्मिन् अतिप्रयासेन गुरुभिरुपदिश्यमाना अपि विषया अरण्य- रुदितायमाना न किञ्चित प्रयोजनमावहन्ति, कण्ठशोषः परमवशिष्यते गुरूणाम् अतो ऽध्ययनवेलायामपगतनिद्रः सोत्साहैर्भाव्यम् । अतएवोक्त नारदशिक्षायाम्- "हयानामिव जात्यानामद्धरात्राद्धशायिनाम् ।

२५३ तदुप- छानचर्या नहि विदार्थिनां निद्रा चिरं नेत्रेषु तिष्ठति ॥ ८।२३ दत पुस्तकवाद्य च नाटकेषु च सक्तिका। स्त्रियस्तन्द्रा च निद्रा च विद्याविनकराणि षट्" ॥ ८१२; एवं श्रद्धाप्यावश्यिका श्रद्धा नाम गुरूपदिष्टविषयेषु विश्वासः, गुरु- मम दोषलेशमपि नोपदिशेत, प्रत्युत मम यथा श्रेयस्सम्पद्यत, गथा च कृत्याकृत्यविवेचनक्षमो भवेयम्, यथा वा मृगप्रायां वृत्तिं स- त्यज्य गृहीतस्यास्य मनुष्यजन्मनस्साफल्यं सम्प्राप्नुयां, तथा दीक्षा- क्षणदक्षिणो भगवान् देव एव मामनुजिघृक्षुर्गुरुरुसंवृत्त इति दिष्टेषु विश्वसनीयम्, अविश्वासो यदि जायेत तदा तद्वाक्येऽप्रामा- ग्यज्ञानोदयेन न तद्वाक्यं शृणुयात् नापि तथा प्रवर्तेत । नहि रजतं दृष्ट्वा रजतमिदमित्युक्तेपि तत्राप्रामाण्यज्ञानवान् मामयं प्रतारयतीति- बुद्धया तद्वाक्यं शृणोति शृण्वन्नपि वातदग्रहीतु प्रवंतते अतो ऽधि- वासं दूरीकृत्य गुणो वा दोषो वा, सर्वं तदायमिति अचञ्चलाच- तेन भाव्यम् । एवं सश्रद्धमधीताश्च विषया अध्ययनव्यतिरिक्तेषु समयेषु पुनः पुनरनुचिन्तनीयाः, अन्यथा पठनवेलायां सम्यगवगता मपि विषया विस्मृताः सन्तोऽनधीतसमकक्ष्यतां भजेरन् । अतोवि. द्यायाः साफल्यमिच्छुभिर्बालनैरन्तर्येणाभ्यासः कार्यः, न तु कदाचि- यग्रतामवलम्ब्य कदाचिचौदासीन्यपरिग्रहेण कञ्चित्कालमन्यं विष- यमम्यस्य तञ्च विहाय, कश्चिकालं विषयान्तरस्य परिशीलनेन च वृथा कालो यापनीयः । युगपनानाविविषयविचारे हि क्रियमाणे, न कस्यापि विषयस्य कूलङ्कषबोधो जायते । अतो युगपन्नानाविषयबुभु- सापिशाचिकानाविष्टवित्तो भूत्वा स्वयमतिमन्दोऽपि पिपीलिकासपं. णात्पाषाणोपि निम्नी भवेदिति न्यायंसार्थकयितुकामः सुप्रसन्नचित्ती यदि प्रतिदिनमल्पमप्यधीयीत, तदा स नूनं विचक्षणो भवेदित्यत्र न कस्यापि विशयल्यावकाशः। एतदेवोपदिक्ष नारदशिक्षायाम्- "शनैविधां, शनैरानारोठेत् पर्वतं शनैः ।

- २६४ मित्रगोष्ठी-पत्रिका। शनैरध्वसु वत्तेत योजनानि परं व्रजेत् ।। योजनानां सहस्राणि शनैर्याति पिपीलिका । अगच्छन् वैनतेयोऽपि पादमेकं न गच्छतीति ॥ ८॥१५-१६ एवं प्रतिदिनं प्रातरुत्थाय स्नात्वा, स्वस्व कुलाचारानुसारेण कर- णीयं कृत्यमपि त्वरितं परिसमाप्य, पूर्वेदुः पठितान् पाठान सम्यगा- भ्यस्य, तस्मिंश्च दिने ऽध्येतव्यान पाठान सकृदालोक्यालोच्य च यावदवगतं, क्लुप्तसमयेषु पाठशाला गत्वा, नियतप्रदेशेषु चोप- विश्योपाध्यायेषु समागच्छत्सु उत्थाय विनयपूर्व तदाज्ञानुरोधेन पुन- रुपविश्य पाठस्समारम्भणीयः। विद्याभ्यासश्च बाल्य एव करणीयः, निसर्गरमणीये हि बालभावे ऽपगते अनेकविलासभरमन्थरे च सम्प्राप्ते यौवने प्राणिनः खल्वविनीतेन मन्मथहतकेन समुन्माद्यन्ते, तरलीक्रि- यते चान्तरङ्गमेतेषाम् निराक्रियते च कार्याकार्यविवेचनसामर्थ्य, कार्यते च पदमपथेऽपि कुतः खल्वननवागुरानिपतितमनोमृगस्य हृदया- हुादनशिशिरकामिनीसंलापामृतास्वादनपरस्य च विदयाभ्यासो नाम; दूरापेतमेतत्। अतश्चापरिमितमूल्यस्य बालभावस्यानन्तरं दुरधिगमत- या तारुण्येन दुस्सम्पादेवेघविधेववश्यकरणोयेज्वेव व्ययः कार्यः । निरन्तरव्यवसायो हि नराणां कामधेनुरिवाभीष्टफलप्रदायकः सर्वोत्कर्षप्राप्तिहेतुश्च भवति, नखलु जगति तद्दृष्ट यदि व्यवसायेन दुरधिगमम् । तथाचोक्तम् । "नात्युच्चशिखरो मेरु नातिनिम्नं रसातलम् । व्यवसायसहायानां नातिपारो महोदधिः" ॥ इति । एवं निरन्तरमभ्यासे हि क्रियमाणे वासना द्रढीयसी जीवितावधि ततोप्यधिकं वानुवर्तमाना स्मृतोपनता परिचारिकेवावश्यकार्याणि साधयितु नियोगप्रतीक्षा भवति । एवञ्च जागरूकता, व्यवसाय:, सम- यस्य यथायोग्यं विनियोगश्च अत्राणामत्यावश्यकाल कृत्यानि, तथाहि परमकारुणिकेन भगवता वितीर्णाया विलक्षणबुद्धयथावटुपयोगी छात्रचर्या। २५५ जागरूकतामन्तरेण न सम्भवति, पथावदनुपयुक्तायाञ्च तस्यां कृत- ङ्गतां गलहस्तयता बालेन कृतप्रतायाश्च हस्तावलम्बो दत्तस्स्यात् तादृशमहापराधजन्येन चैनसा परमुपलिप्येत, उभयतो भ्रष्टश्च भवेत् । अतोजागरूकता तावदत्यावश्यिका बालानाम् एवं सकलविधसुखानुभ- पनिदानेन व्ययसायेन विनाकृतो ऽलसपुरुषः सत्स्वपि सुखानुभवसा- धनेषु नैव सुखमनुभवितुं प्रभवति । अलसता हि सुखानुभवविरो- धिनी, भारोग्यनिर्मूलयित्री निर्गुणं निधनं निस्तेजसञ्च पुरुषमुपजन- यति, अतस्तारशी मारोग्यपरिपन्थिनी मलसता निराकृत्य व्यवसाय एव शरणीकरणीयो बुद्धिमद्भिर्खालकः । एवं पाठशालामुपगतैरुपा- ध्यायस्य सतीर्थ्यानां पा वैमनस्यमजनयद्भिः सविनयैस्सम्यगनवगतान् विषयान उपाध्यायात्सच्छात्रेभ्यो वा ऽवधारयद्भिः स्वस्वकृत्यपरैभवि- तव्यम। एवं विद्याभ्यासस्यारोग्यमन्तरा विधातुमशक्यतया विद्यया सहा- रोग्यस्य प्रधाननिदानं व्यायामोप्यवश्यं करणीयः। अतः प्रतिदिनं नियताध्ययने निवृते वितीर्णायाञ्च गुरुणा गृहगमनानुज्ञायां, वयस्यै- स्सार्द्ध कञ्चित्कालं किमपि देहायासप्रदं कर्म कर्तव्यम् अव्यायामशीलो हि जनो येन केनापि व्याधिना प्रस्तो ऽलसस्सन परिक्षीणसकलावय- वशक्तिः महापण्डितोऽपि परस्यात्मनो वा न किञ्चिदप्युपकर्तुं प्रभ- पति । अतः प्रतिदिनं येनकेनाप्युपायेन शरीरदाढर्गपादने यतित- व्यम् व्यायामेन हि असह हेषु वर्तमानानां चलनहेतुभूतानां मांस- पचुराणों भागाननं यथावदुपयोगेन पुष्टिर्जायते शरीरञ्च दृढं भवति तदुक्त वाग्भटेन- "विभक्तघनगात्रत्वं व्यायामादुपजायते” इति । केञ्चदेहस्यह्यायासे जायमाने निश्वासोच्छ्वासा अधिकाधिका भं- न्ति, तदाच शुद्ध वायनामन्तस्सर्वत्र प्रचारेण रक्त परिशुद्धं तत् । एवं शरीरे शीघ्रसञ्चारेण बलवत्तरकर्मानु- डानेन वा जायमानं हि स्वेदजलं त्वग्हारेण दुष्टांशान् बहिनिष्काश. - सर्वेष्वयवेषु प्रसरति २५६ मित्रगाष्ठा-पालका। यत शरीरं सुस्थिर करोति । जाठराग्निश्च प्रवृद्धोभूत्वाऽमितमध्याहार क्रियमाणं भस्मसात्करोति । परन्तु व्यायामो हित इस्यालोच्य कर. णीयान्तराणि परित्यज्य पाठमप्युपेक्ष्यातिशयेन क्रियमाणः शरीरस्या- स्मनश्च दोषाय । केचिद्धि बालाः परीक्षार्थ बलवत्परिश्राम्यन्तो व्या- यामलेशमप्यकुर्वाणा अहर्दिवं परीक्ष्यकोटिप्रविष्टानेव विषयान मुहू- मुंहुरनुशीलयन्तोऽध्ययन एव स्वकीयं यावत्समय बिनियुञ्जाना मह- तोनऽर्थाननुभवन्ति। उत्तेजनीया हि बुद्धिरनुकूलं तक्षादिनेव वास्या- दीनि, अतोयथोचितं व्यायाम कुर्वद्भिरव्यायाममतिव्यायामंवा कुर्वाः जैश्च न भवितव्य श्रेयस्कामैविधायाससाफल्यमिच्छुभिर्वालः । एवं विद्याभ्यासावस्थायां निर्दिष्टग्रन्थभिन्नग्रन्था अपि यथावसर पर्यालोकनीयाः, नतुसर्वेऽपि ग्रन्था गुरुमुखत एवाध्ययनोया इति दु- राशा कार्या । नहि केनापि शक्यं वर्षसहस्रणापि गुरुमुखेन सर्वानपि ग्रन्थानभ्यस्य सर्वांनप्यर्थानवगन्तु किन्तु मार्गमात्रप्रदर्शनं कर्तुं शक्यं गुरुभिः अतो यथावसरं ग्रन्थान्तरपर्यालोकनमपि न दोषाय परन्तु ग्रन्थान्तरपर्यालोकनमपि मितं सदमितं फलमादधाति, नत्वमितं तन्मितमपि गुणं जनयेत् । प्रत्युत सर्वकषार्थबोधासम्भवेन ज्योति- रिङ्गणप्रभायमानझाना यथावसरमधीतं चरितार्थयितुमक्षमाः पाम रजनसाधारणा विद्वजनविगीं भाजनं सम्पद्यरन् अतो ग्रन्थान्तर- पर्यालोकनमपि प्रकृतप्रत्यवायाजनकंयाव दात्महिताय कल्पते तावदे. वानुसरणीयम् । एवं अध्ययनकाले स्वचापलप्रयुक्तविलक्षणविजिगीषया कस्मिं- चन विषये प्रतिपाद्यमान मात्मनः प्रतिभापकर्ष मन्वानः कथमप्वयं पराजेतव्य इति “कश्चित्कान्तान्यायेन" अपूय॑नाकर्णयन्तोऽपि अन्तरा आक्षिप्य तस्मिंश्च क्षमावता गुरुणा समाहित समाधानेऽन्य- माक्षेपमुद्भावयन्त आक्षेपसमाधानपरम्परया वृथाकालं यापयन्तो गुरो. मंहमनस्यं जनयन्तः तेन च सप्रयत्नमधीयाना अपि नकिञ्चिदपि फलमाप्नुप्रभवन्ति । अनुग्रहः किल गुरोमहच्छे यस्साधनं छात्राणाम् । - गुरुः छात्र। . २५७ अधीतानां पाठानां मुहुरनुचिन्तने सन्ति चेत्सहपाठिनोऽप्यभ्य- रीकरणीयाः, नहि गुरुणा निष्पक्षपातिना सामान्येनोपदिष्टमप्यर्थ स- घोपि समग्र ग्रहीतु प्रभवति । एक एकमर्थं सम्यग्गृह्णाति अपरश्चा- न्यमर्थम्। एकेन गृहीतीर्थोऽन्येन ग्रहीतुन शक्यते अन्यतमश्च तं सम्पूर्ण गृङ्गाति । अतस्सर्वेपि मिलिता अधीतान् विषयान् सम्यक् चवंयन्त- स्तकंयन्तश्च सन्दिग्धमर्थ निमत्सराससमानयोगक्षेमा भवेयुः। परन्तु अधीतविषयपरिशीलनार्थ मिलितैससरसालापादिकं कुर्वाणैवृथाकालो न यापनीयः । स्वभावः खल्वयं यद्वयस्यानां सानिध्यं सरससंल्लापप्र. वक भवतीति। एवं प्रतिदिनं नियतपरिश्रमा: स्वस्वकृत्यमावव्यापृता गृहकृत्या- दिवनभियुक्ताश्छात्राः परं पाण्डित्यमुपगम्यह चामुत्र च कृतकृत्या भवेयुरित्यत्न न कश्चित्सन्देहः । पर्व स्थिते, आधुनिकाः केचिदबालाः गुरूपदेशाकर्णनमात्मनः परं परिभवास्पदं मन्यमानाः, गुरोरवमानमेवा- वश्यकतव्यकृत्यजातप्वन्यतमं मन्वानाः, अध्ययनवेलायामपि तारयितु परं पुस्तकमवलोकयन्ती, मनसा चान्यत्कार्यजातमालोच- यन्तो ऽन्यदा च गुरुदषणभाषणभूषणा दयस्यपाशैस्सा, वृथा तत इतस्सञ्चरन्तः, पाठशालायामपि गुरौ कार्यान्तरेण किञ्चिदिवा- पमन कलकलरवेटिंगन्तरालमापूरयन्ती, नानादेशवृत्तान्तावजिगमि- पया च नानादेशादागतावार्तापत्रिकास्समालोकयन्तः तद्गतांविष- यान सच्छात्रानन्यांश्च बोधयन्तः, सुशीलानपि दुःशीलयन्तः, कलहाय च रन्ध्रान्वेषिस्त्रिशङ्कपातं पतन्तश्छात्रापसदा: स्ववेदग्ध्यप्रशंसा- शंसनतमोभूयिष्टहृदयकन्दगः समुल्लसन्ति धरातले । किसाम खलु तेषामसाम्प्रतम, ये ने कर्तव्यो विनयः, न रक्षितव्या महतां मर्यादा, नस्मरणीयं शीलं, न द्रष्टव्यो धर्मः, नानुमतव्यो न्यायः, नवा भेतव्यम् गुरुजनात अपितु सम्पादनीयो दुष्टैस्सह सहवासः, प्रकाश्यो दम्भः, काव्यः कलहः,श्चार्यो दुर्वादः, प्रच्छाद्य सत्यम्, वक्तव्यं स्वेच्छा- मनुसृत्य यत्किश्चित, प्रकाशनीयोगुरोरवमान: विधेयोऽध्ययनवेलायां ३ गुरुन प्र- . ३३ २५८ मित्रगोष्ठी-पत्रिका। गुरुभिस्सह वादः, स्थापनीयञ्च यथाकथञ्चित् स्वोक्तम् । अपरे च के. चिच्छाना न्यायशास्त्राद्यध्येतारः कतिपयपदार्थनिर्वचनपूर्वक व्याप्त्या. दिज्ञानमात्रेण त्रिभुवनमेवास्माभितिमिति प्रोढाहङ्काराः सर्वमन्य- च्छास्त्रं तृणमिवावगणयन्तः कार्यकारणभावादीनाप सम्यगजानन्तो- ऽपि चापल वचनप्रपञ्चैदिगन्तरं धनयन्तः पारलौकिकाय लौकिकाय घा लाभायाप्रविष्णवः समितिसमरेषु सिंहनादोच्चारणमेव परं पार्थ मन्यमाना: निर्दिष्टग्रन्थानामपि पदपदार्थान् सम्यगनवबुध्यमाना अधरितामृतानां महाभारतादीनां सकृदालोकनेपि पराङ्मुखाः स्व- मायुः केवलं ह्रसयन्तो भुमेारभूता दृश्यन्ते अन्येतु केचन छानाप- सदा मासिकतनं दत्त्वाकिलास्माभिरधीयते, अतो न मनागपि गुर- वोऽनुसरणीयाः. अपित्वस्माकमेव वचनमनुसरणीयं गुरुभिरिति तद्- चन मनाद्रियमाणाः स्ववचनमेव गुरुननुसारयितु प्रयतमानाः, अन- नुसरन्तश्च गुरोः, केसरकलापगतयूकादय इव सिंहस्य क्षुद्रोपद्रव- कारिणो दैनन्दिनांश्च पाठानचिन्तयतः परीक्षायाञ्च सन्निहितायां रा. त्रिन्दिवं परिशोलयन्तस्तेनच रोगिणःलम्पद्यमानाः, परीक्षायाञ्च परा- जयं प्राप्नुवन्तः पित्रार्जितं धनं वृथा व्यययन्तो नकिञ्चिदपि फलं प्रा. प्नुवन्ति । अतएव ह्यद्यतना बाला ईदृशचर्या विकलाः पण्डितमहाश. यानामिवाभ्यासरि पाटोमलभमानाः स्वोपजीवनायाप्यप्रविष्णवो भ. वन्ति । एतादृशीञ्च दुरवस्थां कतिपयानापि निरासयितुकामविबुध- गणमणिमुकुटै रसभरमेदुरेण पीयूषमप्यधरीकुर्वता स्वकविताप्रपञ्चन विद्वज्जनानामन्येषाञ्चातितरामाहादं जनद्भिः, नानाविरुदलाच्छि- तैमहामहिमशालिभिः केरलवर्मदेवैः प्रोत्साहितेन सकलध लेनाव- थनाम्ना परमकारुणिक श्रीमूलकमहाराजेन सच्छात्रवृत्त्यधिष्ठापिताया- मस्यां पाठशालायामधीयाना वयं कृतज्ञतासूचकमपरं कर्तुमक्षमाः केवलमिदमाशास्महे- श्रीमत्केरलवमदेवनिपुणप्रज्ञासमालोचित- श्रेष्ठारम्भगृहीतधय॑धिषणस्सन्त्रायमाणा भुवम् । ..

आलवकमत्तम् । २५९ सुत्रामेवं दिवं बृहस्पतिमतिप्रक्रान्तधर्मात्करः श्रीमान् मूलकभूपतिर्विजयतामाचन्द्रतारं सुस्त्री ॥ पद्मनाभशास्त्री। त्रिवेन्द्रम्, त्रिवक, रम् । :: आलवकसूत्तम् । * ( आडवकमूत्रम् ) मूल पालिभाषातः प्रत्यक्षरानुवादरूपम् । नमस्तस्मै भगवते अहंते सम्यक् सम्बुद्धाय । एवं मया श्र तम्:- एकस्मिन् समये (१) भगवान् आलव्याम् (२) विहरति आलय. कस्य यक्षस्य भवने । अथ खलु आलवको यक्षो येन भगवान् तेनोप- संक्रान्तः उपसंक्रम्य भगवन्तमेतदवोचत "निष्काम श्रमणेति'। "साधु बन्धो" (३), इति भगवान निष्क्रान्तः। "प्रविश श्रमणेति"। * इदं सूत्र "सूत्रनियात"नाम्ना प्रसिद्धस्य ग्रन्थस्य 'उरगवर्गान्तर्गतम् । यालयको नाम कश्चिद यक्षः प्रथम बुद्धदेवममीघयत्। ततो बुद्धदेवन तस्य थुचित प्रश्न प्रत्यक्तेयु स बौद्धधर्ममगृहात । तदेवट वणितम् + "पाडवक” इति संस्कृतं सम्भवति । (१) मूले दितीयान्त: पाठोऽस्ति । १२) नगर्याम् । (३) याला "प्रावुसो" इति वर्तते। अयं शब्दः प्राचायण शिंघाम्, उमा- कादिना च परमी सम्वोधयितुं प्रयुज्यते । तस्य च “सुहृद्. बन्यो" इत्यादि पेण पालिभाषाविहिरनुवादः क्रियत । दुर्लभमस्य संस्कृतम् । - २६० मित्रगोष्ठी-पत्रिका। "साधु, बन्धो" इति भगवान् प्राविक्षत । द्वितीयमपि खलु आलवको यक्षो भगवन्त मेतदवोचत:- "निष्काम श्रमणेति। "साधु बन्धो" इति भगवान् निष्क्रान्तः । "प्रविश श्रमणेति'। "साधु, बन्धो” इति भगवान प्राविक्षत् । तृतीयमपि स्खलु आलवको यमो भगवन्तमेतदेवावोचत् :- "निष्काम श्रमणेति' "साधु, बन्धो" इति भगवान् निष्क्रान्तः । "प्रविश श्रमणेति" "साधु, बन्धो," इति भगवान् प्राविक्षत । चतुर्थमपि खल्वालवको यक्षो भगवन्तमेतदेवायोचत्:- "निष्काम श्रमति” । "न खलु पुनरहं बन्धो निष्क्रमिष्यामि, यत्ते करणीयं तत्कुरु"। "प्रभूत्वां श्रमण, प्रक्ष्यामि, स चेन्मे न व्याकरिष्य सि, चित्तं या ते क्षेप्यामि, हृदयं वा ते फालयिष्यामि (१) पादेषु वा गृहीत्या पार गङ्गायाः क्षेप्स्यामीति'। "न खल्वहं तं बन्धो, पश्यामि सदेवके लोके समारके (२) सब्रह्मके, सश्रमणब्राह्मणायां प्रजायां सदेवमनुष्यायां, यो में चित्तं वा क्षिपेत, हृदयं वा फालयेत्, पादेषु वा गृहीत्वा पारं गङ्गायाः क्षिपेत् । अपि च त्वं बन्धो पृच्छ यदाकायसीति'। - (१) विधा करिषमामि, छत्मग्रामीत्ययः । (२) बौद्धग्रन्थ मारो नाम कश्चिद् दुई तो देवयोनिविशेषः; स खलु नियत मिन्द्रियमुखपरायणः, नराणां साधुकार्येषु विघोत्पादकः, बौद्धशास्त्र- परिवानां धण्णण कामदेवलोकानां प्रथमोऽधिपतिश्च । विधः सन्दर्भान्तरेण प्रकाशयिषाते आलवकमूत्तम् । २६१ १ "किं स्विदिह वित्तं पुरुषस्य श्रेष्ठ, किंस्वित् सुचरितं (१) सुखमावहति । कि स्विद ह वै साधुतरं रसानां, कथं जीवि-जीवित माहुः श्रेष्ठम् ।। २ श्रद्धेति वित्तं पुरुषस्य श्रेष्ठ, धर्मः सुचरितः सुखमावहति । सत्यं ह वै साधुतरं रसानाम्, प्रज्ञांजीविजीवितमाहुः श्रेष्ठम् ॥ ३ कथं स्वित् तरति ओघं, कथं तरति अर्णवम् (२)। कथं स्विद् दुःखमत्येति, कथं स्वित परिशुध्यति ।। श्रद्धया तरति ओघम, अप्रमादेन अर्णवम् । वीर्येण प्रज्ञया परिशुध्यति ॥ दुःखमत्येति, कथं स्विल्लभते प्रज्ञा, कथंस्विद विन्दते धनम् । कथं स्वित् कीर्ति प्राप्नोति, कथं मित्राणि ग्रथनाति (३)। अस्माल्लोकात परं लोकं कथं प्रेत्य न शोचति ॥ ) मूले पुंलिङ्गान्तः पाठोऽस्ति । ) अत्राप्रस्तुतेन जल वेगवाचिना योघशब्द न धर्मोपदेशालोचनप्रकर- संसारदुःखादि, प्रणवशब्देन च संसारो बोध्यत इति प्रतिभाति । ) आत्मनेति भावः ।

२६२ मित्रगोष्ठी-पत्रिका। . ६ श्रदधानोऽहंतां धर्म निर्वाणपत्त्या (१) । शुभ षमाणो लभते प्रशामप्रमत्तो विचक्षणः ।। प्रतिरूपकारी धुरावान् व्युथितो विन्दते धनम् । सत्येन कीर्ति प्राप्नोति, ददन्पित्राणि प्रश्नाति । अस्माल्लोकात परं लोकमवं प्रेत्य न शोचति । यस्यैते चत्वारो धर्माः सश्रद्धस्य (२) गृहमेधिनः । सत्यं धर्मो धृतिस्त्यागः स वै प्रेत्य न शोचति ॥ "इछ'' (३) अन्यान् पृच्छ पृथक श्रमणब्राह्मणान् । यदि सत्याद धर्मात त्यागात क्षान्त्या भूयाऽथ विद्यते ॥ कथं न्विदानी पृच्छेयं पृथक श्रमणब्राह्मणान् । सोऽहमद्य विजानामि सोऽर्थ: साम्परायिकः (४) ।। अर्थाय वत में युद्धो वासाय आलावीम् (५) आगतः । सोऽहमद्य विजानामि यत्र दत्तं महाफलम् । सोऽहं विरिष्यामि ग्रामाद ग्रामं पुरात्पुरम् । नमस्यन् सम्बुद्धं धर्मस्य च सुधर्म तम् ॥ इति आलघकसूत्रम्। विधुशेखरशर्मा। (१) निर्वाण प्राप्तिकारण। (२) “सद्धस्स" इति मूले स्ति। (३) अस्य शब्दस्य संस्कृतं नाधिगम्यते। अध्ययमिदम, अनुनयार्थे च प्रद 'ज्यत इति तु निर्णायत। 'इङ ध व महाराज कलसिगामं चिन्त हि' (Buddhist Nirvan. I. xlii. ) इङ व ते गणापेथ' (धम्मपदं २२३ शो०) इत्यादौ तस्य वार्थस्य प्रतिभासमानत्वात् । ४) पारलौकिकः । (५) तस्य यक्षस्य नगरीम् । A आर्याणामादिमो निवासः । (पाश्चात्त्यानां मतिनिर्द शपूर्वकं श्रीमतो बालगङ्गाधर- तिलकस्य मतम् ) अस्मदोया: पूर्वपूरुषा भारतस्य नादिनिवामिनः ते नलु सहस्रवत्सरपूर्व स्थानान्तराद् इहागत्य अत्रत्यानादिमान निवा- न: पराभूय प्रथमं पञ्चनविभागे वसतिं चकः, क्रमेण च सह यविस्तारेण भारतस्य नैकप्रदेशेषु समागताः । इम आर्य-नाना- नमभिहितवन्तः । भापातत्त्वविदो विद्वांस · आसियायां' संस्कृत-पारसीक्योः, । च ग्रीक-लाटिन-जमाणादिपु भाषासु सम्बन्धवाचकानां, यावाचकानां, सर्वनाम्नां, कंपांश्चित्प्रतिदिनव्य रहार्यवस्तु नां, बहना पायाच कानां च पदानां सादृश्यमधिगच्छन्ति । वदोपलब्ध- तानां नामधयैः सह ग्रीक रोमण-प्रभृतिजातीनां दंवतानाना. । प्रभूत सादृश्यमुपलभ्यते । विभिन्नासु भाषासु शब्दानामित्थ- उपरिक्षात् कि चत्तत्प्रकारः प्रदश्य ते । भूयांम: पब्दाः उपलभ्यन्त; हरमन को विपुलो ग्रन्थ एव भवत्- सन् व्यावस्तिकम् पारसौकम् ग्रीकम् लाटिनम् जामायणम् मादर माटर सते पंतर पटर पाटर फातेर बातर फाटिया फाटर त्रु दर दोखतर स्थतेर च्यम् मा (बहुवचन) तुम तू थ टु दम् दो डयो इयो ट्रस.. यहि अस्तम्,हेस्तम् एस्मि माटर पाटर बादर घघर. थगाटर तिसरी द्राइस.. वाद सम मित्रगोष्ठी-पत्रिका। मैकरूप्यमुपलभ्य साम्प्रतिकैः पण्डितैः सिद्धान्त्यते यद इमा जार पूर्वमेकरूपाएवासन्, एकस्मिन्नेव चं क्वापि स्थाने न्यवसन, त जनसंख्याधिक्याद वा नैसर्गिकेण कारणविशेषेण वा तस्य स्थान निवासानहत्यसम्पादनादा, अन्यस्मादेव कुतोऽपि कारणादा, तसा परित्यज्य अभितो विकीर्णा बभूवः। साम्प्रतं दूरविच्छिन्ना में विभिन्न देशस्थिता अपि चैता 'आय' इत्येकेनैव नाम्नाभिधीयन्ते अस्थाः खलु प्राचीनाया आर्यजातेः प्रथमो निवासः कुत्रेति प्र विदुषां बहवो मतभेदा दृश्यन्ते । नाद्यापि केचिदत्र सुस्थितः । द्वान्तः प्रदर्शितः । प्रायोऽसम्भाव्यमेवास्य प्रश्नस्योत्तरमिति ना शयोक्तिर्भवेत् । आरब्धे सन्दर्भऽस्माभिरध तानि मतानि, तत्यो काणि प्रमाणानिचोदाहरिष्यन्ते । तत्र तावत्प्रथमम् इदं मतमुत्थितम्:-आसिया-मध्यभूभागे वा मानयोः 'वेतार्ग'--'मुसताग'-नामकयो: पर्वतयोः पश्चिमपाश्च त्तिन्युश्चतरा भूमिरेव प्राचामार्याणामवस्थितिस्थानमिति । ३ प्रमाणम्-(१) आसिया-वासिनो युरोपं गत्वा तत्र न्यवसन्निति सद प्रसिद्धम् । (२) ग्रीका रोमकाश्च पूर्वोत्तरभूभागाद् यथाक्रमं ग्रो इतालो च गताः इत्यैतिहासिकैरनुमीयते । किश्चित्परवत्तिन्य काले भासिया-मध्यभागादेव बहिर्गत्वा हूणादयस्तत्तद शानधिक तत्र तत्रैव स्थिता इति, (३) भारतीयार्याणां पारमीकानां च प्राची प्रन्थेषु उत्तरदिग्विभागादेव आर्याणामागमनस्य परिचय उपलभ्यत तस्यामेव च दिशि तेषां देवनिवासस्य स्वर्गारोहणस्य च प्रशस्त पन्धाः। (४) 'बोखारा'-प्रदेशीया भाषा संस्कृत-परासीकसुसावद आर्यभाषा च। . यामि यहि शेष पिट हस्ति, अस्ति रस्सि, न्यायस. एस. तिउन डिएसपिटर पाटर जुपिटर आर्याणामादिमो निवासः। २६५ अपरे तु केचिदुक्तः प्रमाणैः आसियामध्यभाग एवार्याणामादिमा हासभूमिरिति निर्णातवन्तः। इदमेव मतं कान्यपि दिनानि पण्डितैः समाहतमासीत् । परन्तु सन्ति केचन तद्विरुद्धवादिनः पुरातत्त्व- विदः, येषां मते युरोप एवार्याणां प्रथमावस्थानमभूदिति दृश्यते । अत्र तैरिदं प्रमाणमुपन्यस्तम्-आर्यजातीनां भूयस्यो युरोप पव साम्प्रतं दृश्यन्ते, मतस्तदालोक्य स्वयमेव मनस्युदेति यदियं समग्रा जातिस्तत्रैवासोत्, शास्त्राविशेषस्तु कश्चित् कारणान्तरेण तत भासियामागत्य प्रस्तइति । पौराणिकोपाख्यानेतिवृत्तभाषालोचनेन कमप्यव्यभिचारिणं सिद्धान्तमुपगन्तु नास्ति कश्चिदुपायः । अनुमान मात्रं हि तत्खलु, यद आसियामध्यभाग भार्याणां प्रथमो निवास - लीदिति । तत्संवादाय न किञ्चिदुपलभ्यते। भासियायामेव मान- धानां प्रथममुत्पत्तिरिति बहुदिनात्प्रचलितः कश्चिजनानां संस्कारः, तेनैव तेषामासियामध्यांश एवार्याणां प्रथमावस्थिति प्रतिष्ठापयितु. माग्रहः । इतस्तु युरोपे भूस्तरेषु बहूनि प्राचीनमानवानां वासचिह्ना- याविष्कृतानि । अतो न स वादः साम्प्रतं युज्यते । संस्कृत-पार- तीक-युरोपीय-भाषासु गार्हस्थ्य सम्बद्धानां केषाञ्चित्पशूनां प्राकृतिक- वस्तूनां च वाचकानां शब्दानां सारश्यमस्तीति प्रमाणेन यदा अद्यत्वे वभिन्नानामपि जातानां मूलत ऐक्यं निर्णीयते, तदा, यदि नामेशं केश्चिद् वस्तु स्याद, यस्य नामधेयमुभयोर्भाषयोनेकरूपम्, अपितु [थक पृथक, तीदम् अनुमातु शक्यते यत्तस्य परिचयः तद्भाषा- पिणामन्योन्य विच्छेदानन्तरं जात इति । सिंहव्याघ्रोष्ट्रहस्तिप्र- तोनां नामानि उभयो षयोविभिन्नानि । यदि आसियायामव आ- गंणामादिमो निवासोऽभविष्यत्, तर्हि उभयो पयोस्तेषां नाम्ना आतुगतं किञ्चित्सादृश्यं नूनमस्थास्यात् । आसियायां हि सिंहादयो श्यन्ते न तु युरोपे अन्यच । प्राचीनया वर्णन्या वर्तमानेन च वि- ॥रेण आर्याः श्वेतांना एव बभूवुरिति ज्ञायते । श्वेतागायजातिस्तु ।

- २६६ मित्रगोष्ठी-पत्रिका। युरोपे दृश्यते, न पुनरासिंयायाम् । किञ्च युरोपीयजातीनां शारी. रकप्रकृतेः, दीर्थजीवनस्प, दुर्धर्षत्वस्य च पर्यालोचमयापि विज्ञायेत नामार्यजातेः प्राचीनतमं गभीरतमं च मूलमभूदिति । एतैरुष्यते ते हि आर्याः पुरा किल युरोपस्योसरांशेऽवस्थिताः, ते बलु पसमा नायाः फिनजातेः (फिनलैण्डस्थायाः) प्रतिशिन मासन्, यतः यद्यपीयं जाति आर्यश्रीयन्तर्गता, तथापि तद्भाषायां बहुतराणां संख्यावाचकाना, पारिवारिकसम्बन्धवाचकानां सर्वमानां च शब्दाना सादृश्यमार्यभाषायामधिगम्यते । इदमेवात्र तत्कारणं वक्तव्यं यत्तयो- आत्योः कचिदतिप्राचीनकाले मिथ: सन्त्रिकर्ष मासीदिति । मथ वयं तत्रभवतः पण्डितप्रकाण्डस्य श्रीमती बालगाधर- तिलकमहोदयस्य 'धे आर्याणामादिमो निवास' इत्येतविषयकं पु- स्तकं किश्चिदालोचयिष्यामः । अस्य मते उत्तरमेरुप्रदेश एवार्याण प्रथमो पास मासीत् । घेदेभ्यः, 'आवेस्ता'-नामकात् पारसीकधमप्र- ग्यायोवृतेन पचनेन प्रमाणितमनेन यद मन्तस्तुषारकसमये ( inter glacial period ) उत्तरमेरुप्रदेश पवार्या अवस्थिताः। मथ यदा नैसर्गिकेण कारणेन तुषारावृतत्वात् सा भूमिसानहरे संवृत्ता, तदा ते तां विहाय क्रमेण मासियायां युरोपे च प्रसूता इति । यथा यु. क्या येन च प्रमाणेन तेनेदं मतं समयंते, तदुलिस्पते- तेन प्रथम मेरोः, तत्सविहितप्रदेशस्य च प्राकृतिक्यवस्था प्रद- शिंता, ततो वेदवचनेन प्रमितं यत्सा खल वैदिकर्षिगणानां विदिता- सीदिति । मेरुप्रदेशे दिवामानं रात्रिमानं च षण्मासात्मकम् । देव- तानां दिवसरजन्योरप्ययमेव विभागः । न केवलं भारतीयानां, पार. सीकानां वा अपितु युरोपीयाणामपि विश्वासो यह पानां षण्मासा दिनम्, षण्मासाच रानिरिति । ऋग्वेदे उषःशब्दः प्रायेण बहुवचना- तो दृश्यते। तेन बहनामुषसामेकत्राविर्भावो बुधाते मन्यत्र च वेदेषु उपस: शिदित्वस्ति । कचिचोपः प्रथमविकाशसूर्योदययोः , आर्याणामादिपो निवासः। २६७ व्यवधानं वर्णितम् । कचित्रोक्तम् उषाधक्रवदायत्तते । पतत्सर्व मेरु- प्रदेश एव सम्भवति, नत्वन्यन । अग्वेदे बहुकालन्यापिनो दिवसस्य, तादृश्याराने:, पश्चर्नुपरिमितस्य वत्सरस्य चोल्लेखोऽस्ति । तदानी किल वार्षिको पज्ञः नव भिवंशभिर्वा मासैरपर्यंत, न तु साम्प्रतमिव द्वादशभिः किञ्चतदानीन्तनः शनिशासाध्यो यज्ञोऽपि सुदीर्घकाल- यापिन्या रजन्यामेव समपद्यत । दीर्थतयसः, भदितेः पुत्राणाम्, अप- रापरेषां चोपाख्यानतः प्रमीयते यदयं सर्वो विषयो वैदिकऋषीणां विदित मासीदिति वत्सराचकालव्यापी दिवसः, ताहशी रजनी. तावन्तं कालं व्याप्यावत्तंमानउषस्समयः ततधावतमानमिव नक्त- न्दनमित्येतत् सर्वे मेरु-तत्सनिहितप्रदेशानामेव सूचकम् । घेदेषु परापरेष्वायंप्रन्येषु चोपलभ्यमानं तेषां वर्णनमिदमेष प्रमाण- ति यद, यदा खलु भार्याणां तत्स्थानत्यागात्परं बहुकालानन्तरं वै. इषिभिस्तत्सर्वं वर्णितं तदा नूनं तदनुस्तजनश्रुतीनां तेषां परिचितमासीदिति । श्रीमता तिलकमहाथयेन पारसीकधर्मग्रन्थाङ आवेस्तानामकात् ) मप्येतत्प्रमाणीकृतम् । विस्तरभिया मास्माभि- दुनियते । एतेन स्वमतं समर्थयितु वेदतः, आधेस्तातच हिन्दु- रसीकयोः पौराणिकोपाख्यानान्युलियोक्त यत् तेषामिदमेबैक -वैदिकयुगस्यापि बहु पूर्व मेह-तत्सनिहितप्रदेशेषु तन- वन्त आर्या अवस्थिता भासमिति । उक्तपूर्वमेवेदमस्माभि यंद पातरवेन भूस्तराविष्कृतप्राचीनमानवधासचिह्नादिभिश्च प्रमाणे- पीयाः पण्डिता युरोपोत्तरदेशेष्वाणामवस्थिति रासीदिति निणं- तीति । इदानी रश्यते श्रीमता तिलकमहाशयेन आर्याणां तदास- पानं ततोऽपि किञ्चिदुपरि निर्दिष्टमिति । साम्प्रतमिदमेव विचार्यम्-अयत्वे नियत-निविडतुषारावृतत्वान् प्रदेशो मनुष्यवासानहं इति ज्ञायते । तत्कथं नु तत्र प्राचीना- णां वासः सम्भवेदिति। भूतत्वविदां विदुषां मतमनुसरता श्री .

बभूव . यद २६८ मित्रगोष्ठी-पत्रिका। मता तिलकमहाशयेनेत्थं स प्रश्नः समाधीयते :-शैशिरिकयुगस्य ( Glacial period) पूर्वं यदा पृथिव्या अनेकमेव स्थानं समुद्रसलिल- मग्नम् आसीत, तदा मेरुप्रदेशस्य प्राकृतिकावस्था न वर्तमानेष सा खलु तदानी नातिशीतोष्णत्वान्माननिवासोपयोग्येवावर्तत। अथ यदा शैशिरिकयुगे सावस्था परिवृत्ता, तुषारावरणं च सर्वतः सम्पन्नं, तदानीमार्यास्तं प्रदेशं परित्यज्य क्रमेणान्यन जग्मुः। आये. स्ता-ग्रन्थे तुषारप्राचुर्यणादिमवासभूमेः समुच्छेदोऽधिगम्यते । पण्डि. ताप्रगणनीयेन श्रीमता तिलकेन ज्योतिषशास्त्र प्रमाणोपन्यासेन वैदि- कयुगीय नक्षत्रमण्डलानाम् अवस्थितिगणनया तत्कालं नियोक्त भूतत्वः पण्डितैः शैशिरिकयुगस्य यः समयो निर्दिष्टः, तेनास्य व- स्तुतो विरोधो न भवतीति इत्थमुदाहतैः प्रमाणप्रयोगैमरुतत्सन्निहितप्रदेशेषु प्राचीनानामा- र्याणां वासस्थानं निरूप्यायं प्रश्न उत्थापितः श्रीमता तिलकेन यद उत्तरमेरोः कस्यां दिशि आर्याणां वास आसीत-किं युरोपस्य, आ- होस्विद आसियाया उत्तरस्यां दिशीति। इत्थं तेनात्र स्वयं प्रत्यु- क्तम् :-नान किश्चिनिश्चयेन वक्तु शक्यम्, तथापि वेदे आधेस्ता- प्रन्यं च यत् प्रमाणं लभ्यते, तेन भासियाया एवोत्तरस्यामार्याणां वासभूमिः सम्भवतीति मन्यामहे । उपसंहारावकाशेऽस्माकमिदं वक्तव्य यत तत्रभवतः तिलकस्येयं युक्तिः साम्प्रतं जगतः पण्डितमण्डलानां पुरतः स्थिता, समालोच्या च। त एवास्या उपादेयत्वमनुपादेयत्वं वा निरूपयिष्यन्ति । वयन्तु केवलं समासेनैनां प्रदर्शितवन्त इति । - . श्रीमुषोधचन्द्रमजमदारः ब्रह्मचर्याश्रमः, ( बोलपुर) वार्ताः सम्पादकाभिप्रायश्चि। संस्कृतपत्रिकाः, संस्कृतविद्वांसश्च । अत्रत्याया अस्मत्सहयोगिन्याः 'सूक्तिसुधायाः' प्रथमखण्ड- द्वादशसंख्यायां तदीयेन सम्पादकेन केपाश्चित् संस्कृतविदुषामुपरि सकप्टमारोपितमभियोगमालोचयतां नो लजया, खेदेन, क्षोभेण च नितान्तं व्याकुलीभूतमन्तः करणम् । उक्त तत्र-“केचित् पुनर्विले- ख्यापि ग्राहकश्रेण्यां स्वयमेव स्वाभिधानं, स्वोकृत्यापि प्रतिमास- मिमां, स्तोकतममप्यस्या मूल्यं मुहुः प्राय॑माना नोत्तरमपि वित. रन्ति, दरतस्तु मुमति" । एवमेव विज्ञानचिन्तामणि'-सम्पाद. केनापि निवेदितं, यथा-यदेते चिन्तामणयेऽस्मै दयनीयाय धारयन्सो "बहुवर्ष"मूल्यं बहुविधव्ययमात्रसाध्यमेतत्प्रचारणमारोपयन्ति संश- यपदवीमिति कष्टात् कष्टतरम्वैतत् ।......इदं पुनरतीव चिनतरं यत केचन सुहृदो निस्नपा इव स्वात्तयावत्सञ्चिकानां मूल्यमनपंयन्तः पुनरागच्छन्तीः सञ्चिकाः प्रत्याचक्षते, निवेदयन्ति चेतः परं न प्रेष्यतां चिन्तामणिरिति"-(पु. १८, स.१.) अन्यावणि संस्कृत- पत्रिकास्वयमेव ध्वनिरन्तरान्तरा श्र यते । न घयं निपुणमपि चिन्त- यन्तोऽवबोद्ध प्रभवामः-कथं नु स्वयं धर्मशास्त्रज्ञाः, धर्मोपदेश- कपदाधिष्ठिताः सकलजनादर्शभूताः संस्कृतपण्डितमहाशया पन्थान- मिममनुसरन्तीति । वृत्तान्त पत्रिका प्रकाशितनेदृशेन निन्दावादेन कियद :खं,-कियती वा लजामनुभवामो वमिति नास्मल्लेखनी प्रकाशयितु समर्था । आशास्महे नातिचिरमेव अभियोक्तृणां तत्त- पत्रिकासम्पादकानां नातः परं किमप्यभियोगकारणं स्यात, नच श्रीमान् सूक्तिसुधासम्पादकोऽपि “विरस्यामि निरर्थकात प्रत्युत हानिकरादस्माद व्यापारादिति" खेदेन त्रु वनपि स्वपत्रिकाप्रचार णाद विरंस्यतोदि। :):

• "Brahman is an ant's nest ऐतिहासिकम्मन्यस्य भारतविषिणो मिल्महोदयस्य उल्षणहाला. २७० मित्रगाडा-पासका। बपि भारतीया अनृतवादिनः ? न तावहःखं तदानीमन्वभवाम, यदानभिज्ञातलोकचारियम of lies and impostures " + इत्यादीनि सुदुर्विषहाणि प्रलपितानि नय. नपदवीमध्यानढानि, न वा तस्मिन्नपि समये तावदुःसमुद्भूतं यदानी' सम्प्रत्यपि भारतसम्राटप्रतिनिधिपदधितिष्ठता ममनुशीलितभार- तीयजनचरित्रेणेव श्रीमता लडंकज्जनमहोदयेन ( येन हि "The Far East" नामकस्य स्वकोयग्रन्थस्य प्रथम संस्करणे स्वयमात्मनो पक्ष- नाव्यापार उपनिबद्धोऽपि द्वितीय संस्करणे ऽपाकृतः) भमन्तरातीते कलिकाताविश्वविद्यालयोपाधि प्रदानोत्सवे ( Convocation )भारती. यामां सत्यमर्यादानभिज्ञत्वमुद्घोषितम्, यावत्सल्यपरेणु : मुम्बानगी 'इन्दुप्रकाशाभिधेये वृत्तान्तपत्रे साम्प्रतं फान्सदेशप्रवासिना केनापि सहदयपारसोकयुवकेन प्रकाशितस्य तदीयस्य लेखस्यालोकनेनोप- अम् । अनभिज्ञास्ते भारतीयानां चरित्रस्येति क्षीवाणामिव मिल- प्रभृतीनामप्युक्तिः कथञ्चित् तृष्णीमेवास्माभिः सोढासीत् । तस्य तु पारसीकयुवकस्य पत्रमधीयानानां नः सहस्रधेव हृदयं व्यदीयंत । अयं तत्पत्रिकायाः सार:-कृतभारतभ्रमणः कश्चित्फान्सदेशीयो देश- पर्याटक: फान्सराजधान्यां पारिस-नगर्या भारतविषये तदव्याख्या. नावसरे श्रीमतोरामकृष्णगोपालभाण्डारकरमहोदयस्य नामधेयमुदा. हत्य कथितवान् यद भाण्डारकरमहोदयेन मिथोमाषणसमये तस्मा उक्त-"भारतीया वयं नियतमनृतवादिन'' इति-" We Indians always lie." अनुकूलभागधेयवैभवेनास्माकं तस्यां परिषद स खल्व. स्मदीयः पारसीकतरुणो दर्शकानामन्यतम मासीत् । कस्य नाम स्वजात्यवज्ञानवादो न मर्माणि निकृन्तेत ? व्यथितचित्तोऽयं गृहमा- • Mill's History of British India, * भारतीयबामणा मियाप्रतारणापूर्ण इति तद्भावार्थः ।

वार्ताः सम्पादकाभिमायाथ। २७१ त्य लेखेन तं व्यास्यातारमजिज्ञासत पत्स डा. भाण्डारकरस्योक्ति मयारूपं व्याख्यातवान् न घेति । मध्यापकभाण्डारकरसाशः कधि. पण्डितस्ताहशेन प्रकारेण स्वजातिमवमानयेदिति न विश्वसितुश. यते, तथा च तस्मिन् मिथः संवाद वक्तृयोद्धव्ययोनमेकस्य गन्तिः स्यादिति तदभिप्राय मासीत् । पृष्टेन तेन व्याख्यात्रा सोऽयमस्मत्पारसीकतरुणः सादरमाहूयोक्तो यदा. भाण्डारकरण स्मै यदुक्तं तदेव तेन व्याख्यानावकाशेऽनूदितम्, न तत्र कापि आन्तिरस्तीति । अथानेनेदं सर्वम् 'इन्दुप्रकाशे' प्रकाशितम् । भार. तीयेषु ये नामेदानी पाश्चात्त्यरीत्या संस्कृतादिप्राच्यविद्यालोचनेन सह धास्यैः प्राच्यविद्याविदाम् ( Orientalist ) मासनमध्यासते, विर- प्रचाराणां तेषामन्यतमोऽयं महाभागः डा. श्रीभाण्डारकरमहाशयः । वन्तयितुमपीदं वयं न शक्नुमो यतेन स्वजात्यपकर्षकं पचनमिदमुक्त यादिति । डा. भाण्डारकरेणैतत्सर्वं विज्ञाय मुम्बानगरीयपत्रिका- अषये यदुक्त, तस्यायं सार:-"त्रिचतुरदिनपूर्व केनापि बन्धुनाई नेदितो यदनतिचिरं केनापि फ्रान्साधिवासिना कृते व्याख्याने मामोल्लिस्येदं कथितं पदहमवदम्-भारतीया निसर्गतोऽनृतमेष 'दन्ति सत्यन्तु कदाचिदेव, युरोपीयास्तु स्वभावतः सत्यवादिनः दाचिदेवानृतं कथयन्तीति । अत्रे-सुष्टु खलु स्मरामि बहुषत्स. रपूर्व कोऽपि फान्सीयसजन: ( Sir Raymond West ) इत्यस्य सका- शात परिचयपत्रिका ( Introduction) गृहीत्वा मत्सकाशमागतः, इदं चात्यल्पं स्मराम्यपरोऽपि कश्चित्फान्सीयो मन्मित्रस्य(M. Senart ) इत्यस्य परिचयपविकया मामपश्यदिति । परन्तु स्वल्पतममात्रमपि स्मरणं नास्ति यदहमेतयोरेकस्मा अपि तदुक्तवानिति । न चाहमित्यं वक्तुमपि शक्नोमि। नहि मे विश्वास आसीत्, न वा सम्प्रत्यष्यस्ति, यद् भारतीया निसंगतो ऽनृतमेव कथन्ति कदाचित्तु सत्यम्, अन्य- तस्तु युरोपीया स्तविपरीता इति"। भस्माकं पाठरत लभ्येत त २७२ मित्रगोष्ठी-पत्रिका। यद् डा. भाण्डारकरस्योपरि यो दोष भारोपितः, नासौ तेन कृतः सुस्पष्टम स्वीकृतः । तद्विषये न तेन किञ्चिदिदानों स्मयंत इति तेनोक्तम् । स्पष्टमस्वीकार एवेह तस्यास्माभिः शुश्रू पित आसीत यत्तु फान्साधिवासिनस्तस्य महामागस्यैतेनैव न्मुखबन्धनं भवेन्न संशयावकाश इति । भारतीयाः सत्यमर्यादां जानन्ति न वा, ते हि अनृतवादिनोव सूनृतवादिनो वेति "प्रतिदिन मयं वेत्ति वसुधा" । ननु भो नेदानी. मप्युत्सना वेदसूक्तयः, न सम्प्रत्यपि विलुप्तान्यार्वाणामेषामपराण्यपि शास्त्राणि, प्रतिगृहं प्रतिदिनं चाद्यापि जीयन्त एव पीयूषाकरभूतानि रामायण-महाभारतयोः सुभाषितानि साहित्यानि किंबहुना, न खलु न भारतीयाः साम्प्रतमुच्छ्सन्ति । तत्प्रथममागम्यतां, विलोक्यता विचार्यतां च अथोच्यतां भारतीया वस्तुत एवानृतवादिनो न वेति पुनरङ्ग अविचार्योक्तवतस्ते वचसि कश्चित् परीक्षकः श्रद्दधीत । जानोमो वयं सर्वो ह्यात्मानं कान्तं पश्यतीति ।न तथापि नास्माकं सत्यैकप्राणत्वे प्रमाणपरम्परास्ति । न वय मरुमाकं वेदादिग्रन्थेभ्यः प्रमाणमुपन्यस्य स्वपक्षं समर्थयितु मभिलषामः । नयनमुन्मील्यालो- क्यता भूवलयस्यापरापरजातिभिरपि भारतीयानां चारित्रं प्रशंसितं न वति। विद्यमानायामप्यनवद्यायां दर्शनशक्ती मास्म भवान केवळ मस्मद्विषयेऽन्धोभूत । युवराजागमनम्- फेब्रुअरीमासस्य १८ दिवसे नगरीषु प्राचीनतमायामस्यां वारा- णस्यां श्रीमान युवराजः पदं निधास्यतीति नगरीयं विविधैरुपचारै- रलंक्रियते नागरिकः । चितमेवैतत्सर्वथा राजभक्तानाम् । शोकस्थानम् - पूर्ववङ्ग कभूषणं महामहोपाध्यायः पण्डितो रामनाथसिद्धान्त- पञ्चाननमहाशयो ज्वराक्रान्तः परलोकमुपागमदिति विदीर्णमिव नो हृदयेन । आश्वस्यतां तत्परिजनैरिति प्रार्थयामहे भगवन्त मुमाधवम् । न . -

मित्रगोष्ठो-पत्रिका
(मासिक संस्कृतपत्रम् ।)
"सान्छवं संवदचं संवो मनांसि जानताम्" ।
ऋग्वेदः।
द्वतीये वर्षे } १८२७ शकाब्दाः, माघः। { दशमसंख्या
मीमांसासिद्धान्तसंग्रहः।
प्रथमाध्यायः।
हरिस्थित्यम्त करिमवाङ मनसगोचरम् ।
यसान परमं किचित् पुरुषन्तमुपास्महे ।
कपालेशं विना यस्याः पुरुषः केवखं पशुः ।
मुदुर्बोधार्थबोधाय तां नमामि सरस्वतीम् ।
पिलो गुरूणा मङघोंच प्रणमामि सहुर्मुहुः ।
यत्प्रसादेन मन्दस्य मम बोधलयोदयः ।
मौर्मामासूत्रसन्दर्भप्रणेतारं महासनिम्।
जेमिनिं मनसा वाचा कायेन च नमाम्यहम् ।
शधरस्वामिनं भाष्यकारमाराध्य सादरम।
क्रियते तन्मतेनायं मया सिद्धान्तसंग्रहः ।
अथातो धर्मजिज्ञासा कर्तव्याप्लवनं ततः ।
चोदनालक्षणोधर्थो धर्मो ऽध्यक्षं न तत्रसा॥
विद्यमानोपलम्भत्वात् तन्मूलाश्चानुमादयः
सत्संप्रयोगे पुरुषस्याक्षाणां बुद्धिजन्मयत् ॥
तद्धि प्रत्यक्षमाख्यातं भविष्यास्य गोचरः ।
भौत्पत्तिकस्तु संवन्धः शब्दस्यार्थन युज्यते ॥
उपदेशो हि भवति ज्ञानं तस्या विपर्यायः ।
प्रमाणमनपेक्षत्वाद्धर्मे शब्दस्ततो मतः॥

२७४
पित्रगोष्ठी-पत्रिका।
न संबन्धयिता कश्चित् शब्दस्यार्थेन पूरुषः ।
मानाभावावस्मृतेश्च तथाप्यर्थावबोधतः॥
दर्शनस्य परार्थवादास्थया शब्दनित्यता ।
सयन यौगपचाच संख्याभाषाच गम्यते ॥
सर्वे प्रत्यभिजानन्ति स एवायभिति स्फुटम् ।
कारणं ज्ञायते नास्य पदिनाशाद्विनश्यति ॥
न वायुठेतुकः शब्दः पटे तन्तुरिवेक्ष्यते ।
न शब्दे वाय्ववयवः स्याच्चेत्तत् स्पर्शनं भवेत् ॥
किञ्च शब्दस्य नित्यत्वं ज्ञायते लिङ्गदर्शनात् ।
प्रयत्नो व्यञ्जकस्तस्य नोत्पादक इतिस्थितिः॥
दर्शनन्तु समं तन सतः परमदर्शनम् ।
अभिव्यञ्जकसंयोविभागानागमाद्भवेत् ॥
अतएव चानुवातं सदरा दुपलभ्यते ।
आदित्यवद योगपद्य वर्णोऽन्यो नतु विक्रिया ॥
शब्दो न वद्धते किन्तु नाद पर विवद्धते ।
सद्भूतानां क्रियार्थेन समाम्नायो हि लक्ष्यते
अर्थस्य तन्निमित्तत्वात, लोके सन्नियमात् पुनः ।
प्रयोगसन्निकर्षः स्यात्, पुरुषाणा मलौकिके ॥
वाक्यानि चोपसंहाँ सामर्थ्य नास्त्यतीन्द्रिये ।
पूर्व शब्दः परा सृष्टि स्ततोऽसौ शब्दपूर्विका ॥
অ্যাসনুনান বি সুবিধামান্যমান।
परस्परण सम्बद्ध समानानं हि दृश्यते ॥
भविष्यति कथ ोतवालोन्मत्तप्रलापवत ॥
इति मीमांसासिद्धान्तसंग्रहे प्रथमाध्यायस्य प्रथमः पादः ।
॥

२७५
पीमांसासिद्धान्तमप्रहः।
विधिवाक्य क्रियार्थत्वावर्थवत् तस्तुवार्थतः ।
तेनैकवाक्यता हेतो रथंपादोऽथवान् भवेत् ॥
साम्प्रदायिकता तुल्या न सर्वत्र विरोधिता
प्रयोगे हि विरोधः स्याद गुणवादस्तु कुत्रचित् ॥
रूपात स्तेनं मनो वाक् च प्रायादनृतवादिनी।
गौणोक्ति दूरभूयस्त्वात् स्व्यपराधात सपुत्रता ।।
अज्ञानवचनं गौणं तथैवानवक्तृप्तगीः ।
विद्याप्रशंसा शोभोक्तिः सर्वत्वञ्चाधिकारिकम् ॥
॥
कर्मणः फलनिष्पत्तेः कर्मणां परिमाणतः ।
लोकवत
तत्फले
तावद विशेषः परिकल्प्यते ।
अभागिप्रतिषेधाने भवेनित्यानुवादता (१)।
विधिवन्निगदानान्तु
वाक्यशेषत्व मिष्यते
क्वचिद्विधे निरर्थत्वा दुत्कर्षस्याप्यकल्पनात् ।
विधीच वाक्यभेदः स्यात (२) हेतुवन्निगदास्तथा ॥
स्तुत्यर्थाः शब्दपूर्वत्वात् नच दादि चोदना ।
वर्तमानापदेशश्व स्तुतावेवोपपद्यते ॥
निकृष्टमन्नकरणमपेक्ष्य स्तूयते ह्ययम् ।
लोकवद परशब्दोऽयं परत्रात प्रयुज्यते ॥
विधौ परोन शब्दार्थो नासौ हेतुविधिस्ततः ।
हेतौ च व्यवतिष्ठेत निर्देशस्यार्थवत्ततः ॥
अव्यवस्था विधीनां स्यात सामान्यस्य व्यपाश्रये (३)।
विशिष्यते न खल्वर्थ: पदानां लोकवेदयोः॥

मिलगाष्ठा-पत्रिका
लोकवत् भवितु युक्तः स धेऽपि विवक्षितः।
प्रकाशयन्ति तन्मन्त्राः यमं यहाज मेवच ॥
मन्त्रैर/प्रकाशस्तु नियमादृष्टकल्पनाः ।
पुनः श्रुतिगुंणार्थेन चतुःसंख्यान्वितोप्रहः ।।
इत्यश्वरशना मेवं संबन्धो रशनाग्रहे।
प्रथमं स्तोतुमन्येन प्राप्तो मन्त्रो धनुद्यते ॥
पदानां नियमोऽप्यर्थविवक्षायां न दुष्यति ।
जातेऽपि कार्यताझाने काले स्मृत्या प्रयोजनम् ।।
अभिधानेऽर्थवादः स्याद नुणात् स्यादविरुद्धता।
उधारयत्यवहन्ति मन्त्रं मानवकस्तु यत् ।।
अवहन्तौ पूर्णिकायाः सोक्षराभ्यास इष्यते ।
दुग्रहत्वासदभ्यासः सुकरं हि प्रकाशनम् ॥
न तत्र यज्ञसंयोगो न तदर्थ प्रकाशनम् ।
सतः परमविज्ञानं लिञ्चाप्युपदिश्यते ॥
जहश्च विधिशब्दाच मानमर्थविवक्षणे (४) ।
इतिमीमांसासिद्धान्तसंग्रह प्रथमाध्यायस्य द्वितीयः पादः ।

२७७
मीमांसासिद्धान्तसंग्रहः
स्मृतयः कत्तुंसामान्यात प्रमाणमनुमानतः (१)।
विरोधे त्वनपेक्षाः स्युः (२) दृष्टमूलास्तथैव च ॥
पदार्थाः प्रपलास्तेषां क्रमो दुर्वल इष्यते ।
गुणत्वावुत्तरे काले क्रमः प्राप्नोति नान्यथा ॥
कालोऽपि च प्रयोगात पदार्थस्योपकारकः ।
शौचादयः सर्वशेषा नैव ते व्यवधायकाः (४)॥
पदार्थाः शास्त्र सिद्धास्तु प्रायाः (५) तदविरोधतः ।
मोहप्रसिद्धा अपि ते ग्रहणीया भवन्त्यपि ॥
स्वतःप्रमाणं नो कल्पा: स्वराभावान वेदता।
वाक्यशेषो नचात्यस्मिनादरो नान्तरीयकः ॥
क्वचित् शास्त्रविरुद्धञ्च वचस्तनावगम्यते (७) ।
होलाकादिः सर्वधर्मो विधेस्तन्न्यायतो यतः ॥
-
न चैषां नियतं लिङ्ग आख्यादेशस्य योगतः।
स्याद, योगाख्या माथुरवत् देशस्याप्यव्यवस्थितिः ॥
शिखाकल्पव्यवस्था तु दर्शनादेव जायते (८)।
साधुशब्दाः प्रयोक्तव्या अपराधादसाधवः ।।
एकोहनादिः सहशा मपभ्रंशा स्ततः
परे
अभियुक्तोपदेशाध साधुत्वं शक्यनिश्चयम् ॥
अशक्त्यापनशयुक्तिः सादृश्यादथंधीस्ततः।
गवादिशब्दस्मरणं भवेद गाव्यादिदर्शनात् ।।
उपलब्धे येकदेशे समुदायस्मृति भवेत् (९) ।
य एव लौकिकार शन्दा ये चार्था वैदिकाधते ॥

२७८
..
मिलगोष्ठी-पत्रिका।
अविभागाद भवत्येवं प्रयोगस्य हि चोदना । ।
स्तुत्यर्थेनार्थवादः स्यादुत्तानबहुलादिकम् ॥
नच प्रसिद्धि रेतेषां वाक्यभेदोन्यथा भवेत् (१०)
क्रियार्थत्वादाकृतिस्तु शब्दस्यार्थोऽन्यथा भवेत् ॥
न केनचित्प्रकारेण क्रिया श्येन चिदादिषु ।
ब्रीहीनित्येवमादी तु सैवस्वाद व्यक्तिलक्षणा ॥
व्यक्तः शब्दार्थता मां हि न स्याद व्यक्त्यन्तरे मतिः
सर्वथा त्वाकृति स्तावत् शब्दादेव प्रतीयते ॥
व्यर्था व्यक्ती शब्दशक्ति स्तया संबध्यते हि सा (११) ।
इति मीमांसासिद्धान्तसंग्रहे प्रथमाध्यायस्य तृतीयः पादः ।
::
-

मीमांसासिद्धान्तसंग्रहः।
२७९
उद्भिदादिकशब्दानां कर्मणो नामधेयता।
करणत्वेन निर्देशात समानाधिकरण्यतः ॥
श्रुत्या तस्योपपत्तौ न न्याय्या न त्वर्थलक्षणा ।
शब्दसामथ्यलक्ष्यत्वा दनुवादा हि ते मताः ॥
गुणफलोपबन्धेन त्वर्थवन्तो भवन्ति ते (१) ।
तथा चित्रादिशब्दाच शक्यभेदोऽन्यथा भवेत (२)॥
अग्निहोत्राघारपदं नामधेयश्च कर्मणः।
तत् प्रख्येनास्य शास्त्रेण प्रजापतिनिषेधनम् ॥
न शक्य मग्निविधितः स निषिद्ध यतोऽक्षमाः ।
प्रजापते निषेधे च तद्विधान मनर्थकम् ॥
आघारो देवताद्रव्यसंयोगाद यतिमतः (३) ।
श्येनादिपदमप्येवं तैमतो व्यपदिश्यते ॥
यजतिर्जातिशब्दानां सादृश्याद यागवाचिता (४) ।
वाजपेयपदञ्चैवं भवेत्तुल्यं क्रियाद्वयम् ॥
दर्शनं दीक्षोपसदा मेवमेवोपपद्यते
पक्षान्तरे ऽभिधानं हि स्वार्थवच्च पराय वत्
यजेतेत्यस्य शब्दस्य यतो विप्रतिषिध्यते (५) ।
आग्न यादौ गुणविधि रविभक्ता यतो गुणाः ॥
कर्मणो हि विधानार्थं तद्धितान्ते पदे मताः ।
अष्टाकपालः सिद्धोऽस्ति तस्यानाम्नेयताविधिः॥
संबन्धस्य विधाने हि भवेत् संबन्धिनो विधिः (६) ।
वहिं रादिजातिवाच शब्दलाभादसंस्कृते (७) ।।
प्रोक्षण्यादि पदानि स्यु यौगिकान्यर्थयोगतः (८) ।
तथा निर्मन्थशब्दोऽपि जातिसंस्कारतो नतु (९) ।
॥

३८.
.
मित्रगोष्ठी-पत्रिका।
वैश्वदेवो नामधेयं प्रत्यक्ष तिचोदिताः।
अग्न्यादयो देवता हि वाक्येमान्या विधित्सिता ।।
तयो विकल्पो ह्यन्याय्य स्तत्रामिक्षा च ताशी।
ततो यागगणो लक्ष्यो नैवं गुणविधित्सिता ॥
परार्थच गुणो यागं नावर्तयितुमहति (१०) ।
वैश्वानरेष्टवष्टत्वादीनां स्या दर्थवादता ॥
विधौ संख्यां विद्ध्यहि पुरोडाशकपालगाम् ।
नतु यागप्रयोगस्य विधातु शक्नुवन्ति ते॥
प्राप्ता यागस्य वाक्येन यद द्वादशकपालता।
प्रयोगेऽनय का स्तस्यु स्ततो लक्षणया स्तुतिः ।।
स्याद द्वादशकपालस्य न विभक्ता हि तत्र ते ।
दृश्यतेऽवयवस्तुत्या समुदायस्य च स्तुतिः ॥
कामाय विधयश्चेत् स्यु वाक्यभेदस्तदा भवेत् ।
संबध्यन्ते हेतुतया पूतत्वादाविमे स्फुटम् (११) ॥
प्रस्तरादिकसंस्तुत्यै यजमानपदादिकम् ।
प्रोच्यते गुणवादेन तस्य कार्यकरो ह्यसौ (१२) ।।
आग्नेयादिक शब्दानां गुणवादात् स्तवार्थता (१३) ।
मादित्यो यूप इत्यादौ साकप्यादर्थवादता (९४) ।
अपश्वादिकशब्दैस्तु गवादीनां प्रशंसनम् (१५) ।
सृष्ट्यसृष्ट्योः सृष्टिशब्दो भून्ना स्तुत्ययं मुच्यते (१६) ।।
समवायाञ्च लिङ्गस्य तथा प्राणभृदादयः ।
अनुवादाः (१७) वाक्यशेषात् सन्दिग्धार्थ विनिर्णयः (१८)।
सामर्थ्यादवदानादौ न घादीनां व्यवसिथतिः (११) ।
इति मीमांसासिद्धान्तसंग्रहे प्रथमोऽध्यायः ।

। । स्मार्तचूड़ामणि-रघुनन्दनभट्टाचार्यः । "हरि यथैकः पुरुषोत्तमः स्मृतः, महेश्वर स्यम्बक एवनापरः" तथा स्मात्तं इत्युक्त रयमेव महात्मा इदानी पादेथे निर्मिती प्रवति । देशेऽस्मिन् सर्वैरेव ब्राह्मणपण्डितै स्तस्य प्रन्थाः पठयन्ते, वीक्रियते च तन्मतं सबहुमान प्रमाणत्वेन । परमसौ महाभागः कश हस्मिन् स्थाने प्रादुरभूत, कुतोवा शास्त्राण्यधीतवान्, इत्यादयो विष. पास्तवमन्थाध्यायिनोऽप्यनेके न जानन्ति । अतोऽद्य तदिषयमधिवष्य कश्चित्पाठकेभ्य उपहियते । पञ्चदशशततमाब्दात् पूर्व • मिथिलैव संस्कृतशिक्षायाः प्रधान थानमासीत् । तदानी न्यायशास्त्राध्यापना तत्रैव भवतिसम । न दा नवद्वीपाः पण्डितभूयिष्ठत्वेन प्रख्यातो ऽभवत् । येन महापुरुषेण थिमं नवदीपे चतुष्पाठी स्थापिता, यस्य चाध्यवसायेन नवदी- स्य महिमा उत्तरोत्तर प्रवृद्धः, प्रख्यातनामा स पण्डिताप्रणीः न्दनभट्टाचार्यस्योपाध्यायो घासुदेवसार्वभौमः (१४८०-१४९० अ- देषु) मिथिलायां गत्वा जयधरोपाध्यायापराभिधानात् स्वनामप्रसि- दात् महामहोपाध्याय-पक्षधरमिश्रात् न्यायशास्त्रमधीत्य नवदीपा- नि-विद्यानगरप्रामे चतुष्पाठी स्थापयामास, स्वयञ्चाध्यापकपद म- घतष्ठौ। बहवो विद्यार्थिम स्तस्यासन् । तेषु प्रसिद्धाः पञ्च- थुनाथशिरोमणिः, २। हरिदाससार्वभौमः, ३॥ रघुनन्दनभट्टाचार्य:, ॥श्रीचैतन्यदेवः, ५। श्रीपादगोस्वामी च । १४८५ तमाब्दे श्रीचैतन्यदेवः प्रादुरासीत् । रघुनन्दनमट्ठाचार्यध त्रिभवतः सतीथ्यः । तेमास्यापि जन्मकालः स एवेति निधीयते । • बन्दोन खौटीयः॥ चितुष्पाठी शब्द न बङ्ग पण्डितानां ससरहान्तर्गतम् शाखाध्य- ध्यापनमन्दिर सध्यते ! रखनम्हनः ओपेतम्यदेवात परवत्तौति रामलाल मिमः । . ६ २ २८२ मित्रगोष्ठी-पत्रिका रघुनन्दनः कस्मिन् स्थाने जन्म लेभे इत्यद्यापि न ज्ञायते । परम अध्ययनकालतः परं नवदीपावस्थिति स्तस्य सर्वैरेप स्वीक्रियते । जनकोऽख्य हरिहरवन्धोपाध्यायः स्थानान्तरादागत्य नवदीपे वसति चंकारेति च केचित कथयन्ति । रघुनन्दनस्याविर्भावात् प्राक् देशेऽस्मिन् पाचस्पतिमिश्र-जी- मूतवाहन-शूलपाणि-भवदेवभट्टप्रभृतीनां मतानुसारेण कर्माणि म्याधमानान्यासन् । असौ तु महात्मा स्वप्रणीत अष्टाविंशतितसे पूर्वेषां मतानि निराकृत्य नैयायिकयुक्तिवलेन स्वमतं स्थापितवान् । इदानी उपनयनादिसंस्कारव्यतिरिक्त सर्वमेव कर्मजातं तन्मतेनैव वङ्गीय रनुष्ठीयते । उपनयनादिसंस्कारे तन्मतानादरकारणत्वेन किन म्वदन्तीयं श्रयते-प्रचारितेऽपि सर्वत्र तदीये मते कोऽपिप्रतिवेशी ब्राह्मणः नूतनतया तन्मतमनादृत्य पूर्वेषां पद्धत्यैव स्वपुत्रमुपनीतवान् । तद् दृष्ट्वा कुपितो रघुनन्दनः 'कुमारः स पुन: संस्कार्य' इति तकवलेन स्थापयामास । ब्राह्मणोऽपि अधनासहायतया भृशंश मनुषभूष। तदवलोक्य रथुनन्दनस्यौद्धत्यमसहमाना तजननी तमाहूय प्रोपाच- "तव पिता प्राचीनमतेनैव त्वामुपनीतवान्, त्वञ्च कथयसि पूर्वमतो. पनीतः पुनः संस्कार्य इति, अतः संस्कार स्तवैवादौ विधेयः। स्वयमसिद्धः कथमन्यं साधयतु ?" श्रुत्वैतत् जातचैतन्यो रघुनन्दन उपनयनादिसंस्कार स्वमतस्थापनं शिथिलीचकारेति । स्मातंचूड़ामणि रसौ न केवल स्मृतौ, तपा अभिज मासीता अपितु मीमांसा-वेदान्त-पुराण-ज्योतिषप्रभृतीनाञ्च शास्त्राणां पार मगमत् । शारीरकादिशालमतं तेन स्वग्रन्थे उदृतम्। बहुशान- दर्शित्वञ्च तस्य तद्ग्रन्थटीकाकृता काशीरामवाचस्पतिनाऽपि कथि- तम्-"मीमांसादिमानाशास्त्रपारहवा श्रीरघुनन्दनभट्टाचार्यः प्राची. नविचक्षणगणनानाविधव्याख्याजनितसन्दोहस्य स्मृतिशासनस्य मुग्ध न्तरवधायुक्तियां तत्वं निर्णीय इदानीन्तममुसबोधाय निवासका 1NDI स्मार्तचूडामणि रघुनन्दनभट्टाचायः। २८३ ति"। तदीये प्रन्थे काल-माधवीय-भुजबलभीम-हरिभक्ति पितृद- पितादोनां प्राक्तनस्मृतिनिबन्धानां नमानि दृश्यन्ते । रघुनन्दनप्रणीतेषु अष्टाविंशतितत्वेषु मलमासतस्वमेवादौ लिकि मा तस्मिन्नेव तत्वे लिखियमानानां तत्त्वानां नामान्युक्तानि- मलिम्लुचे दायभागे संस्कार शुद्धिनिर्णये। प्रायधिसे विवाहेच तिथौ जन्माष्टमीवते दुर्गोत्सवे .व्यवहता कादश्यादिनिणये। तड़ागभवनोत्सर्गे वृषोत्सर्गे बये व्रते। प्रतिष्ठायां परीक्षायां ज्योतिषे वास्तुयज्ञके। दीक्षाया माहिके कृत्ये क्षेत्रे श्रीपुरुषोत्तमे । सामाखे यजुश्राखे शूद्रकृयविचारणे । इत्यष्टाविंशतिस्थाने तत्वं वक्ष्यामि यततः॥" तदतिरिक्तानि संकल्पचन्द्रिका-रासयानापद्धति-त्रिपुष्करशान्ति- ख-दादशयानाप्रमाणतरवानि तस्कृतित्वेन प्रसिद्धानि पस्तु तत्पिता हरिहरेणैव निबद्ध इत्यनुमीयते कैश्चित् । गोस्वामिसम्प्रदायिनो वैष्णवा रघुनन्दनस्य एकादश्यादिग्रतव्यप. पनि समीचीनां मन्यन्ते। ते हि श्रीमद गोपालभट्ट-श्रीमत् सना- नगोस्वामिपादमीमांसानुसारेण एकादश्यादिव्रतानि कुर्वन्ति । ताश्च प्रायेण सर्वे स्मार्गमतानुयायिनः । तेषां कोऽपि "गोस्वा- मित शाक्तमतम्" इति कथयन्ति । ते खलु जानन्ति शाक्त एव बुनन्दनः, अतस्तन्मतमेवाल्माकं प्राह्य मिति । एष भाषः केवलं स्त्रिहीनेषु न पुन जानिषु दृश्यते । शक्तिवद वैष्णवा अपि केऽप्य निमः मातमतं शाकमतं वदन्ति । वस्तुतस्तु रघुनन्दनो वैष्णव बासीत् । तत्मणीतानां सर्वेषामेष तरवानां प्रारम्भे तेन विष्णुदेव. नमस्कारः कृतः। तदेव हि तस्य "स्वेष्टवक्तामा समयप्र- - AL L - " २८४ पित्रगोष्ठी-पलिका। रघुनन्दनस्मृतिटीकाकृतौ दावेष प्रसिद्धौ, काशीरामवाचस्पति राधामोहनगोस्वामीच । काशीरामस्य जम्मकालः, पासस्थान के मास्माभिज्ञायते । तत कृतटीकातः केवळ मेष एव तस्य परिचय ज्ञायते- प्रास्त समस्तथास्तनिपुणश्रीरानकृष्णात्मजः। श्रीराधोत्तरवल्लभास्य सुकृती सङ्गीतचूड़ामणिः ॥ तेन श्रीयुतकाशिरामकृतिना यत्नेन निष्पादिता। टोका नापि मुबलापि कृतिभिः सानुप्रो र श्यताम्" ॥ मपरच टीकाकुट राधामोहनगोस्वामी श्रीमद् भवताचार्यप्रभुपाद. वंशे शान्तिपुरे अजायत । शान्तिपुरस्थ पचासौ नवदीपराजाना कृष्णचन्द्र-शिवचन्द्रेश्वरचन्द्राणाम् (१७१०-१७८२ ) सभापण्डि- तस्व मकार्षीत् । अवाप्यस्य वंशः शान्तिपुरे विद्यते । “एतद् गृह गोस्वामिभट्टाचार्यवाटीति" नाना प्रसिद्धम् । श्रीकृष्णतत्वामृत- श्रीकृष्णभक्तिरसोदय-भागवत-तरवसार-तस्वसंग्रहाश्च ग्रन्था अनेनैप गोस्वामिना प्रथिताः । तस्वशास्त्रसंग्राहकः कृष्णानन्दश्च रघुनन्द. नसमसामयिकः। असावपि नवदीपे एव स्थिति लेभे। केऽप्यमु रघुनन्दनस्य भ्रातृत्वेन निर्दिशन्ति । कृष्णकेशवगोस्वामी। -:: नि- यत् किश्चित्प्राप्तकालम् । नवयं तदिदं भ्रान्तं मतं पुष्णीमो यत् यत्सल्वल्माकमस्ति, विशेषेण सर्वमेव तदुत्तम, यस्यन्येषां तदधममिति । सन्ति हि का 'निधिद, यानि नामास्माकमेव भस्थितप्रतिस्पर्बीनि, सन्ति चापरा- ग्यपि कामिविद, यानि खल्वपरेषामेवोत्तमानि 1, इत्थं स्थिते, उत्सा- रितमात्सरायमतिभिः सबमालोच्य मरालैरिव क्षीरं पानीयाकुपा षोडश एव निखिलेभ्यः संप्राणीयः । नहि कमिण्डलार्थी तुधान, २८५ पत् किशिमाप्तकालम् । मांसार्थी वा मत्स्यस्य शल्ककण्टकादीन्युपाददान: समीहितसिद्धिम- धिगच्छति। श्यन्ते, साम्प्रतमभितः सञ्चरन्तः केचित्परप्रत्ययनेयाः पुरुषा- पसदाः, ये हि प्रायेण लोकार्यातकपक्षनिक्षिप्तचित्तवृत्तयः प्राचीने. ध्वपि निरन्तराच्चनीयेषु तत्रभवत्सु ब्राह्मणेषु कटाक्षविक्षेप मारच. यन्तः प्रतिदिनानुष्ठेयानि सन्ध्यावन्दनकर्माणि निरर्थकान्येवेति परि- त्यजन्तीति । नायममीषामाचारस्तथातितीव्रतरं दुःखाकरोत्यस्मान, यथा हन्त तत्पदवीमनुगच्छन्तः कोमलमतयः केचित्तारुण्यसुलभस्व. भावचपला विद्यार्थिनः। सत्यं, न वयं सन्ध्यावन्दने प्रत्यक्षरं वाचोयुक्ति प्रदर्शयितु प्रभ- वाम इति । तथापि नेदं सोदु शाको न वा तस्य नापि बुद्धि- मत्प्रकाण्डेनोत्प्रेक्षितं कारणमपि किया पर गमः, यह ध्यावन्दनं सर्वथा निरर्थकमेवेति। न वयमद्य श्रुतिस्मृतीतिहासापादिभ्यः परःसहजाणि वच- नान्युदाहृत्य सन्ध्यापासनस्योपादेयत्वं प्रातपिपादयिषामः । कथं नु तदश्रद्दधानान प्रति तस्यैवोक्तिः प्रामाण्यकोटिमवगाहेत ? अतो लौ. किकीमेव युक्तिमनुसरामः, कथयामश्च सविनयम्-स्वयमेव श्रीमन्तो विचारयन्तु, पश्यन्तु चास्ति तत्र किञ्चिल्लभ्यं न वति। न हि वि- विच्यैव स्वमतिचापलाद यत् किञ्चित्कुर्वाण: प्रशस्ाते शोभते था। अस्मच्छास्त्रेषु, अथवा अस्मद्देशेषु चारित्नमेकं सर्वगुणाधिकम्। पशुरेष हि सोऽधन्यः, यो हि घिनाकृतश्चारित्ररत्नन। चारित्रमय हि नरस्य नरत्वं रक्षति । मत एव विष्णुशणा बालेभ्य उक्तम्:- "सर्वस्यैव परीक्ष्यन्ते स्वभावा नेतरगुणाः । भतीत्य हि गुणान् सर्वान् स्वभावो मूनि वर्तते" ॥ इति ॥ मतपघास्माकं महाभारतादौ, बौद्धानां विसुद्धिमग्गो' प्रभृतो, जैनानां च 'उखासगदसाभो'-प्रमुख्ने अन्धे शीलवर्णनं तत्तत्प्रकारेण तम्।

२८६ मित्रगोष्ठी-पत्रिका। पापाचरणेन हि शीलं कलुषीक्रियते । पापाचरणं च कर्मणा, मनसा वाचाचेति वेधा करोति मस्यः । यावच्चेदं पापानुष्ठामं सर्वथा नापाक्रियते क नु खलु तावत् शीलवैमल्यमधिगम्यताम् । तब तदैव दूरीकत्तुं शक्यते, यदाजनो जानीयादयन्मयेद मित्थम् पातकमुपाज्यंत इति । एतज्ज्ञानमपि अन्तरान्तरा कृतकर्मानुचिन्तनं विना न सम्भ- वति । कृतकर्मालोचनमपि च युक्त एव काले क्रियमाणं यथाभिल- षितं फलं प्रसूते। तत्तत्काले विहितमस्माकं सन्ध्यावन्दनमपि तद- थमेवेति सकृदपि तावदालोच्यतामिदं निमंत्सरेणान्तरात्मना । चञ्चलानि हीन्द्रियाणि; असंयतेभ्य इव वाजिभ्यः सुलभस्तेभ्यो विनिपातः । संयतेभ्यः सुपथप्रस्थापितेभ्यस्तु तेभ्यो, विनीतेभ्य व पाजिभ्यः त्वरित मेवाधिगन्तव्यम् अधिगम्यते । यथा सादिषरी दिवसे कमप्यश्वं विनीय समयान्तरे तस्य गुणदोषं पर्यालोच्य पर- स्मिनहन्यपि तस्य तुरङ्गमस्य स एव दोषो यथा नोत्पद्यते, तथा प्रयतमानः स्वमनोरथं प्रपूरयति; मनुष्योऽपि तद् रात्रिकृतानि कर्माणि दिवसारम्भे, दिवसकृतानि च कर्माणि रानिमुखे एवालोज्य तेषु तेषु कर्मसु इच्छयानिच्छया धानुष्ठितान् दोषानर्वाहतेन चेतसा संस्मृत्यं तेषामपुनरनुष्ठानाय हदयं द्रढयेत, कृतानां च तेषां परिक्षयार्थ भगवन्तं सर्वेश्वरं प्रार्थयेत, स एव होकोऽस्मान् सर्वेभ्यः पाप्मभ्यो मोधयितुमीशानः । वासरारम्भे माझे मुहूर्ते हृदयमनाविलमक्षोभ प्रसन्नतरं च तिष्ठति; जीवननगरस्यान्यतमं पन्थान मषतरीतुमुपस्थि- तस्तदानी मवसरः । अषधीयतां भो यथा नेहापि पूर्वमिव विनिपा. तपरिपाका: सुलभप्रचारास्ते ते दोषा अनुष्ठीयन्ते, स्मयंता मूढ, स्मयंतां किं त्वया कृतं किं पा साम्प्रतं कर्तुमुधु ज्यत इत्येवायं, बन्धवः, सण्यावन्दनविनियुक्तो वैदिकमन्त्री बोधयतिः- "सूर्यध मा मन्युध मन्युकृतेभ्यः पापेभ्यो रक्षन्ताम् । यद गण्या- पापमकार्षम् मनसा, वाचा, हस्ताभ्या, पदनाम्, उदरेण शिक्षा (शिश्ना) रात्रिस्तदवलुम्पतु ।, पत् किम्च दुरितं मयि दमामयत: - यत् किचित्माप्तकाळम् । पोनो सूर्य ज्योतिषि परमात्मनि जुहोमि स्वाहा"। तैत्तिरीयारण्य. कम्.प्र ६, मनु २५. 'उपक्रान्तस्य दिवसस्याधिपतिः सूर्य:, अन्तःकरणम्, प्राणादयः चक्षुरादयध तत्तत्सङ्कल्पकृतभ्यः, तत् कारणेभ्यो धा दुरितेभ्योऽ. समान रक्षन्तु-यथा नातःपरं पापं कर्म करोमि, तथा कुर्वन्तु । किच मतीतायां निशायां यत्खलु पापमहं प्रतिषिद्धचित्तनादिभि- मनसा, या प्रतिषिद्धोधारणादिभिर्वाचा, यच हिंसादिभिहस्ताभ्यां या प्रतिषितम्याक्रमणादिभिः पद्भगम्, पद्भवम्, यशाभोज्यभोजनादि. मिकवरेण, यश वागम्यागमनादिभिः शिश्नेन कृतवान्, रात्रि तत्सर्व पापं नाशयतु । तदभिन्नमपि अश्रोतव्यश्रवणादिभिमंयि यददुरित- मस्ति, तदिदमहम् अमृतकारणे. सत्ये ज्योतिषि दिवसाधिपतौ सूर्ये निक्षिपामि, स खलु सर्व तददहत्वित्यर्थः । पथा चेदतिक्रान्तराध्यनुष्ठितदुरितानां वासरमुखे पर्यालोच- नया स्मिनहनि तेषामपुनरनुष्ठानाय क्रियते, रजनीमुखेऽपि तथैव तहिनकर्मजाताना दोषादोषपरीक्षणार्थ करणीयमिति स एव मन्त्रः प्रदोषकालोचितत्वेन किञ्चित् परिवत्यं पठते । एवं च उपसि पूर्वनिशाकृतपापालोचनया आगच्छदिवसे पापाननुष्ठानार्थ रढोक- तस्य हृदयस्य पुनः प्रदोषे दिनकृतकमचिन्तनेन सम्यक परीक्षा सम्पद्यते । असकृदेष परीक्षितं हृदयं कालेन सर्वथा पापाद विरम- ति । तेन च शीलं. सुषिमलं भवति । ततश्च यथार्थ मनुष्यत्वं विधे- चकत्वं विज्ञत्वमुपजायते । भयं च मध्यन्दिने सन्ध्याकर्मणि विनियुक्तो मन्त्र:- 'यंचच्छिष्टमभोज्यं च यदा दुश्चरितं मम । सर्व पुनन्तु मामापोऽसतां च प्रतिग्रहं स्वाहा" ॥ तैत्तिरीयारण्यकम्. प्र. ६. मनु २३. • "मनुषधाः कमातमत्वा कर्माणि चौथनीति" याखोक्तः (नि... २.१.) विमषाकारी विवेचक एव मनुषधरति लभ्यते । ।

२८८ मित्रगोष्ठी-पत्रिका सुगमोऽस्थार्थः । इदन्त्यत्र लक्षणीयम्-संसारयात्रानुवर्तनस्य दिव. सभाग एव श्रेष्ठः समयः । तदानोमेव वित्तमुपाज्यते। तब लोम- प्राबल्यादसदभ्योऽप्युपादीयत इति तदिदं प्रतिषिध्यते-'असतो च प्रतिग्रहमिति' । संसारयात्रार्थ दिवसे बहूनि दुष्कर्माण्यनुष्ठीयन्त इति मध्यन्दिनेऽपि सकृत्तदनुपादेयत्वं मार्यते 'दुश्चरितमिति । न केवलममी द्वित्रा एष मन्त्राः सन्ध्योपासनस्येदं चित्र प्रकट यति । अपरेऽप्यभुमेवार्थ स्पष्टयन्ति। सर्वथा चरित्रनमल्यसाधना- थमेव यदस्योपासनस्य विधिरिति स्फुटमेव तत्तेभ्योऽवगम्येत । स. पावयवेयं पत्रिकेति दिवानेवान्यानपि मन्त्रान् प्रदर्शयामः। परी- क्ष्यतां श्रीमद्भिः- "इदमापः प्रयहत यत् किंच दारितं मयि । पदाहमभिदुद्रोह यदा शेप उतानृतम्"। ग्वेदसहिता १म. २३सू. २२, पवं १०म. एस्. सू. 'हे आपः, मयि यत्किञ्चित् अज्ञानतं दुरितमस्ति, अथवा यदई सर्घतो बुढिर्वकं द्रोहं कृतवानस्मि, अथवा पदह कमपि शप्तवानसि, यदहमनृतमुक्तवानस्मि, तदिदमपराधजातं मत्लकाशा दपनयत,- सर्वथा तेभ्यः पापेभ्यो मामुद्धरत । अयं चान्यः श्रयताम्:- क्रत्वः समह दीनता प्रतीमं जगमा शुचे । मृळा सुक्षत्र मृळय" ॥ ऋग्वेदसंहिता. ७म. ८९सू ३३. 'हे सधन, स्वभावतो निर्मल वरुण, दीनतया-मशक्ततया बल्बई ( न त्वारेण कारणेन ) कर्त्तव्यत्वेन विहितस्य कर्मणः प्रतीपं--प्रति- कूलं गतवानस्मि,-अनुष्ठेयं कर्म नाहमनुष्ठातुम मशक्कषम् । भवः हे शोभनधन वरुण मां सुखय । भपरधः- .

संस्कृतशिक्षा। २८९ यत् किञ्चेदं वरुण दैव्ये अनेऽभिद्रोहं मनुष्याचरामसि । अचित्तो यत्तव धर्मा युयोपिम मानस्तस्मादेनसो देव रीरिषः। ऋग्वेदसंहिता. ७म. ८९सू. ५. 'हे वरुण देवसमूहरूपे अने मनुष्या षयं यत् किम्चनापकारमातम् भाधरामः, मपि च यदज्ञानेन हेतुना तव कर्म वयं मानुष्ठितवम्तः, तस्मात् पापावेतोरस्मान मा हिंसी:'। कियनामास्माभिरुदाहियताम् । श्रीमन्तः पाठकमहाशयाः, स्वय. मेव भवद्भिषिक्त देशे सुस्थिरेण चित्तेन सदपि तावचिन्त्यताम, ततभोव्यताम, अस्ति किञ्चित्समध्यावन्दनस्य सार्थक्यं न घेति । पदीदमपि निरर्थकमेव मन्येत, तहिं म जामीमः क इव वित्तवियो. धनोपाया भवतामभिमतः स्यादिति । न केवल वैदिकमन्त्राणामुधा (णमायणैव कृतं यत्कर्तव्यमिति । अर्थ: बलु तेषामनुसन्धातव्यः, उदर मुल्य च क्रमेणोत्पथप्रस्थितविसमसमताजः सन्मार्गमवतार- यतव्यः । इत्थं यदि कशित्प्रतिदिनं सन्ध्यावन्दनं नियमेनानुतिष्ठेत, हि न जातु तदवदनविवरादाकण्यंत यत्तविफलमेवेति ढ़ी- गनस्माकं विश्वासः। विधुशेखरा। . - :: संस्कृतशिक्षा*। मासीत किल कश्चित्कालः, यदा समाजनियमनभारो प्राधणप- ण्डतेषु न्यस्तोऽभवत् । तदानी बलु अपरापरया: अपरापरकृत्या- सर्व समयम् आलोचयन्तः शास्त्राणि, ध्यापयन्तः शिष्यान, चिन्तयन्तः प्राप्तकालं, व्यवस्थापयन्तश्च दिनुकूलानेव धान, जनानां लौकिकं पारत्रिकं च श्रेयः सम्पाद- मिनगोष्याश्चतुर्थ वार्षिकोत्सवे विधुशेखरभट्टाचार्येव पठितोऽयं पेवाचिन्तयन् । व्र.प्रणास्तु . "बन्धः। ३ मित्रगोष्ठी-पत्रिका यितु सन्ततमेव पक्षप्रयत्ना आसन् । यथा हि दुन्तिोऽपि हये निपुणेन यन्त्रा सन्मार्गमामीयते, ब्राह्मणपण्डितैरपि तथैष तेषु समयेषु तत्तनुपायेम उत्पथप्रस्थितोऽपि समाजः सम्यङ न्ययम्यत । सर्व एव तदानी बवालयः शिरला तेषां निदेशमङ्गीचक्रः। तद्धि तेषामा- देशप्रतिपालनं न तथा भयाद, यथा भक्तिसम्भारादभवत् । अद्यत्वेऽपि न खल न सन्ति लाम्येव, तेभ्योऽपि चारुतमानिय शास्त्राणि, न खलु नालोक्यन्ते तेषामेव सुगृहीतनामधेयानां साक्षा- स्कृतधर्माणां समाजकुशलचिन्तनतत्पराणां महापुरुषाणां वंशकरी- राः। परन्त्वमीन तथा शास्त्राण्यालोचयन्ति, न तथा शिष्यानध्या. पयन्ति न तथा देशकालाधनुरूपान् धर्मान् व्यवस्थापयन्ति, न घा तथा समाजस्य मङ्गलं चिकीर्षन्तोऽपि न किञ्चिद वस्तुतः कुर्व- न्ति। अत एषायमधःपतितसमाजो दिनादिनमधस्तरां गच्छन् वि. श्वतोमुखममङ्गलं चोत्पादयन् निशितक्रकयधाराप्रवचिन्तयतां चतःसु सुदुःसहां खेदपरम्परामुत्पादयति । यन क्वापि गम्यताम, दृश्येत प्रायेण हि जना धर्मानुरागहीनाः, ईश्वरचिन्तनपराठा खाश्च भूता, भवन्ति च । तियंञ्च इव केवलं स्व. स्वोदरपूरणमात्रेणैव चरितार्थम्मन्यास्ते मोहमयो' प्रमोदमदिरा परिपिषन्तः कालान नयन्ति। न त्वन्यत् किञ्चित् करणीयं तेणं वि- लोक्यत इति । येषां हदयं नेश्वरोपासनरसिकं न वा धर्मानुरागसरस, व्यर्थमेव तेषां जीवितम् । न लेशतोऽप्यस्ति पशुभ्योऽमीषां भेदः । परन्त्वसमधन्यतया साम्प्रतं क्रमेणैतेषामेव सरभसप्रचारः परिवर्धत। मानीमः सोऽयं सर्वशी महोपालयः कियता कालेनोपशाम्यविति। यावच्चेयमवस्था न विलीयते तावदुच्चस्तरी शास्त्राध्ययनध्वनिना सहस्रकृत्वो मुनरीक्रियमाणेऽपि दिगन्तराले कुतो नाम यथार्थस्या- भ्युदयस्य, पुष्कळल्य च शान्तिसुखसम्भारस्यावकाशः समधिगम्य ताम्।

मंस्कृतशिक्षा। २९१ हृदयं नाम स्वभावचपलम्, प्रायेणेदमुत्पथपथिकमेव भवति । परन्तु नहि नास्यापि दमनोपायो विद्यते, माविर्भावयितुं वा शक्यते। सत्यप्येवं न खलु सर्व एव इत्थं समर्था भवन्ति । सर्वेष्व काले चिदेव तारशा महापुरुषास्तिष्ठन्ति, ये हि यथोचितं प्रवस्य समुचि. तेनोपायेन स्वयमप्रपदवी मधिकर्वाणा अन्येषामपि हदयमावयितु प्रभवन्ति, तेन चैकैककमेण भूयसां मङ्गलं विदधाना समाजस्य प्रभ- तमुपकुर्वन्ति । परन्त्वहो को नामेदानीम् भने सरन् तो पदवी प्रद- येत् । पुरा किल विचक्षणवर्याणां ब्रामणपण्डितानामेवेदं कर्तव्य मासीत् । अयत्वे तु ते सामगौरवं धारयन्तोऽपि न तत्कृत्यमनु छातुमिच्छन्तीत्येव परं तुःसमावहति । बैदेशिकसंसों हि साम्प्रतं कञ्चित्प्रतिबन्धमारचयतीति सत्यमे- चैतत् । परन्तु न तावन्मानेणास्माकम् अपराधकलङ्कमयः सम्भवति । भवेतदेवं, यदि रश्येत सर्वथा हि जनाः स्वधर्म परित्यज्य धर्मान्तरं परिग्रहीतुमभिलवन्तीति । न त्वेतदस्ति। सधैरेष हि स्वकीयधर्म- तत्त्वं द्रढ़ीयसानुरागेणाकर्णयितु काम्यते । न तु वयं तान् श्रापितु प्रभवामः । अतएष धनन्यतिकास्ते पैदेशिकमुखेभ्योऽस्मधर्म श्रोतु प्रद्रयन्ति । वयन्तु पश्यन्तोऽप्यपश्यन्त इवेदं सुनासिकया वृथा वाग- बालविरचनैः कालानसिवाहयामः, अन्तरान्तरा च गृहकोणेषु विरा- जन्त: 'ज्ञानलवदुर्विदग्धास्ते दुरात्मानो हन्त सनातमं धर्म सर्वथा विध्वंसयन्तीत्यादिभिः आश्रमबहिगतेढुंर्वादशतकैरात्मनो धर्माभिमान प्रकाशयामः । यदि कधिदुपेत्यास्माननुयुञ्जीत-श्रीमन्, अरुमधर्मसाहित्या दिविषयकंम्यो प्रन्येभ्यः किमिति शिक्षितजनाः प्रायेण पाश्रयायैषिहि- तविधीयमानेभ्य एका ऽधिकतरं स्पृहयन्ति, असमदुक्त च दूरतः परि. यज्यस्मदीयशास्त्र व वैदेशिकानामेव मतान्यनुरुध्यन्त इति । तर्हि जानीमः किमत्र प्रतिवचनं प्रतिपत्तव्यमिति । अथवा साम्प्रतमस्मा- शास्त्रव्याख्यानपावं तिरोहितमित्येतदिना किमपरं वक्तुशक्यते ।

। मित्रगोष्ठी-पत्रिका भानातसंस्कृतगन्धस्यापि पण्डितामिमानिनः कण्ठकहरामांस लोऽयं निनादो गगनमध्यमवगाहते-'पाश्चात्यहतकः कुव्याख्यानश- तप्रणयेन शास्त्रमेषेदमस्माकं व्यक्रियत, विक्रियते चेति । परन्तु द. लभः-अथवा भतिदुर्लभ पर्वताहशो विद्यौरेयः, यो हि पाश्चा- त्यानामसदुक्तिं युक्तिपरम्पराभिनिरवशेषं निरस्य अधन्यस्य भारतस्य शतोऽप्युपकुर्यात् । अथवा कस्तावदियन्तं श्रममनोकरोतु। सुख. पक्तिकाधिशयन मेव हि तावदरम् । संस्कृतप्रन्यस्य त्रिचतुराणि पृष्ठान्यालोक्यैष कैधिद अस्मदीये- पिचाथिभिः मोक्षमूलरादयः पाश्चास्याः संस्कृतविद्वांसः 'न किश्चित्ते संस्कृतशास्त्रस्य विजानन्तीति' प्रौढवपंसंसूचकैनिःसारैवचनप्रपञ्चैः गयन्ते । परन्तु दुःखाकरं यत्ते भ्रमेऽपि न तेषां पुस्तकानामेकामपि पंक्ति पठित्वा, न केवलं तानेव, मपित्यस्मानप्यनुग्रहीतु कदाचित्- प्यभिलप्यन्तीति । साम्प्रतममहशे मोक्षमूलरादिसदृशः कश्चित्स. स्कृतपण्डितोऽस्ति मधेति संशयास्पदमेवेति निर्व्याज वक्तव्यम् । सम्मरीत्या पदपदार्थयोजने, व्याख्यानादि करणे वा सर्वथा प्रतिहत. प्रतिपक्षा एव भारतीयाः पण्डिताइति को नाम न स्वीकुर्यात् । परन्तु यया रीत्या पाश्चात्यपण्डिता प्रस्थाननुशीलयन्ति, तेभ्यश्च सारा आकर्षन्ति, तत्सर्व विरलप्रचारमेव भारतीयेषु संस्कृतपण्डितविति रश्यते । भिन्नैष हि काचिदध्ययनाध्यापनबोधनशैली पाश्चात्यानाम् ते निरवशेष सारमुपादाय ग्रन्थान् निष्पीडितालक्तक वन त्यजन्ति । साहित्य वा दर्शने वा अन्यत्र वा अस्मदोयान्येव शास्त्राण्या- लोज्य पाश्चास्यैमणीषिभियंदवत्तत्वमाविष्कृतानि आविष्क्रियन्ते च सत्सर्व कस्य नामानन्दं नोत्पादयति । सत्यमेवैतद् यत्तेषां ग्रन्थेश्व- भतरातरा स्खलितानां नाविरलः प्रचार इति । तथापि तत्र तन्नाम्मार्क यदनकानि शिक्षितव्यानि सन्तीति नापलगितु शमयम् । म्याकडलेन- मोक्षमूलर-वेधरादिभिः पण्डितैः संस्कृतसाहित्यादिविषये पुस्तकानि पिरचितानि, भपि नाम भारतीयभाषाणामेकत्राप्येकमपि तादृशं यया खल ।

संस्कृतशिक्षा। गुस्तकं विद्यते ? हेन्त भो यानि स्खलु ग्रन्थनिकुरम्बकाम्यालोचयन्तः पाश्चात्यपण्डिता भारतीयानाम्, अथवा समनाया मानवजातरेव विवि- धाशतवृत्तान्तपरिपूर्णम् इतिवृत्तं प्रकाशयन्ति, वयं तु तान् न पठितु- मिच्छामः, पठित्वापि वा न विचारयामः, विचार्यापि वा न किञ्चि- प्रकाशयामः। अस्माकं धर्मसमाजाचारतिवृत्तादिजिज्ञासायां साम्प्रतं पाश्चा- स्या एव.न: शरणम् । तेषामेव ग्रन्थं पठित्वाचास्माभिस्तत्सर्व विशे. यम् । अस्मद्देशे यैः खल्बीदृशं पुस्तकं विरचनीयम्, न तेऽद्यापि प्रबुध्यन्ते । शास्त्रार्थनाम्ना प्रसिद्ध वाग्युद्धेऽवतीय श्रोतृणां श्रवोरन्ध्र- भेदनमेव पुरुषार्थ इति हि तेषां बुद्धिरिति धिगस्माकं दग्धभागधेय- म् ! मथान्य एव परिश्रम्य ताहक किञ्चित् पुस्तक प्रकाशयेत्, न बलु सकृदपि तदालोचनायावकाशं प्राप्नुमः । कर्णाकर्णिकया तु यत् किश्चिद अधिगम्य, अनधिगम्यैव वा केवलं वैदेशिककनु कत्व श्रव- णमात्रेण हेयं तदिति निर्लजमनमाणं मतं प्रकायितु न घिरमाम इत्येतादृशमेवास्माकं पाण्डित्यम् । ब्राह्मणा वयं, पण्डिता वयम् इत्यरमाक मभिमानः । परन्तु सह- नकृत्वोऽप्यन्विष्टेऽस्माकं ज्ञानभाण्डागारे लेशतोऽपि वेदज्ञानं न ल- न्येत । हा भगवन् वेद, सर्वथा त्वमनाथोऽसि । पाश्चात्त्याः खलु वामाद्रियन्ते; यैः सामभिनवस्त सम्बन्धः कहिपत, आविष्कृतो वा, १ लु बयम, येषां नित्यमाराध्योऽमि । ब्रह्मयज्ञे मन्त्र चतु याचार- बमभनमावि ते पटनस्य फल लतिरुपतीय ! न जमामोऽद्य ब्रह्मपविधानस्य किनु प्रयोग नलित, अथवा तेऽपि नाम कियन्तः न्युः, हिमतिदिन शानिगा नहाय- हमनुतिष्ठन्ति, सः शास्त्र विहाय त्वमेव भगवन् वेद, पठनीयोऽसो. गनुदिनं पर सहस्त्राणि वचनान्यालोकयामः, पश्चिापदिशाम:, परन्तु तादृश्येव काचिदस्माकं प्रतिः, यया त्वं दरं परित्यज्यसे। मन्धिष्यताम्, साम्प्रतं प्रायः सामान्येन सर्वेषामेव शिक्षितानां गृहें .

२९४ मिक्षगोष्ठी-पत्रिका। खोटोयधर्मपुस्तकं ( Bible ) परिदृश्येत, न तु दः । अथवा बल घेदनाम्ना, वैदिकानां साहित्यानामपि साम्प्रतमस्मद्गेहेषु प्रचागे निषिद्धप्रायः । इदानीमीहशा एवं संस्कृतपण्डिता भूयिष्ठाः । अथवा किमत्राश्चर्य, पटोयसी हीयम् अस्माकं रसना 'महो कलिकाल' इति कालमहिमानमुद्धोषयितुम् । म विमो भारतेन प्राक कियत्पुण्यमुपार्जितमासीत्, यद बलेन पावास्यः प्राच्यविद्या विद्भिः ( Orientalist ) सहास्य संस्तवः संवृतः। येन घेदप्रन्थः साम्प्रताप किञ्चितुच्छ्सन् स्वीकृतेषदायासेन पुरु घेण लाधु शक्यते । भन्यथा चिररात्रायेव सुविषमान्धतमसा- मोऽयं काप्यन्तहितोऽभविष्यत् । किमुच्यते, मन्त्रप्राधणारण्यकस्- प्रादीनां भूयांख्येव महता श्रमेण पाश्चात्त्यैरेष पण्डितः प्रथम प्रका- शितानि, ततः परञ्च कालेन प्राच्यैरपि । इत्थति तथास्महौर्भाग्यं यत्प्रायेण वैदिकसाहित्यमालोचयितु मनानां प्रवृत्तिव नोत्पद्यते । न च तदर्थ प्रयत्न विदधानोऽपि कधि- महापुरुषो वोक्ष्यते । कचित् कचिद वेदाभ्यासार्थ प ठशालास्ति । स्वरमा तु तत्र शिक्ष्यते । उपदिश्यमानश्वार्थो न सरसतयोपदि- श्यते। अतएव हि विद्यार्थिनः स्वरसंयोगेन कानिचित्सूक्तान्यधिक त्यैव ततो विरमन्तो न पुनवेदतत्त्वमनुशोयितु प्रवर्तन्ते, न पश्यमपि मणिम् ममणिवित तत्तत्वम् अवबुध्य तस्मिन् रमते स हि काच इति तं दूरतश्चरणेन ताडयति । भूयः सल्यस्मिन विषयेऽस्माभिरुक्तम्. उच्यते च न ज्ञायते पुनरपि किन्ति दिनानि यावर घश्यते वा । यापश्च वैदिकसाहित्यं पण्डितैनालोच्यते, तायद सम्पूर्णैव तेषां शिक्षा पाण्डित्यं च यथार्थ तेषां नोपजायते । नेदं स्वल्पं त्रेदमावहति यददिकभित्पृच्छेत् को वेदः? मन्त्रः ? किं ब्राह्मणम् ? किमारण्यकम् ? कोपनिषत् ? किं कल्पसूत्र! किं श्रौतसूत्रम् ? कि गृह्यसूत्रम् ? किं धर्मसूत्रम् ? किं वा प्रतिशास्य- म् ? कियन्ति वा तानि ? किं किं वा तेषु तेषु वणितम् ? कोर. . क ? ?

वार्ताः सम्पादकाभिमायाश्च । शस्लदानी धर्म मासीत् ? इदानीमनुष्ठीयमानानां धर्माणां कीदर्श मूलम् ? कदा कदा कथं च सामाजिकावस्थासीत् ? कथं नु तत्तदमः मूलम, दर्शनमूलं च प्राचीनेषु प्रन्थेषुपनिषद्धम् ? कथं कदा चैषां परिवृत्तिरारभ्यत ? कथं वा भाषातख मित्यादीति, तहिं मन्यामहे, बहूनामेष विद्यार्थिनां पदनं तूष्णी तिष्ठेदिति । न चेहशः कश्चिदि. दानी प्रन्थोऽपि दृश्यते, परपाठेन तत्सर्व विज्ञायेत। 'आयविद्या- सुधाकर' इयस्ति किमपि पुस्तकम्, परन्तु न तेन सम्यक समोहितं सिति । बहु खलु वक्तव्यं तत्र नोकम् । न च तस्य भाषापि तथा सरला। न चाभिनवानि मनानि तत्र समालोचितानि, एकदेशदर्श. मन्तु तस्मात् सम्भवत्येव । पाठयमेवेदं पुस्तकं संस्कृतविद्यायिभि- रित्यभिप्रेमः। परन्तु साम्प्रतं ताहक कोऽपि प्रन्थोऽपेक्षितः यन समा नाघेदाद आचार्वाचीनात्साहित्यात सर्वस्य प्रसिद्धग्रन्थस्या- पश्यशेया निखिला वृत्तान्ता उपनिषध्यरन् । न चैतावानेव तद प्रन्यो. पकारः। कस्मिन् शास्त्रे किं कथमस्तीति सामान्यतो विज्ञाय कि- चिदधिगतरसस्तविशेषज्ञानायापि हि शिक्षार्थी प्रवत्स्यते । (शिष्टम) ::०:- वार्ताः सम्पादकाभिप्रायाश्च । वाराणस्यां हिन्दुविश्वविद्यालयः। नेदमविदितपूर्वमस्मत्पाठकैर्यत् प्रयागधर्माधिकरणे सुप्रथित- यायवादी स्वदेशहितचिकी: पण्डित श्रीमदनमोहनमालवीयः हानिविर्षाणि पाराणस्यां भागीरथ्यास्तटे कपि संस्कृतविश्वविद्या- यं प्रतिष्ठापयितु यथोचितं प्रयतते; तदर्थ चातीते वत्सरे श्रीमत: काशीनरेशस्य मुद्राशालायां सुप्रतिष्ठितबहुभिः पण्डितैरुपशोभिता भाप्येका समपद्यत,-यत्र समापनेरासनं श्रीमद्भिः काशीमहीपालैः पया समलमक्रियतेति। सोऽयं सल्पितपूर्व: संस्कृतविश्वविद्या- मित्रगोष्ठी-पत्रिका। लय' एव साम्प्रतं 'हिन्द विश्वविद्यालय' इत्यभिधेनं जनानां पुरत भा. विभरितु गच्छतीति सप्रमोदं वयमद्य प्रकाशयामः । अतिक्रान्त-राष्ट्रीयमहासभायां सम्मेलनार्थमागतः कुशलमति- भिमहाभागैम्तदानी “हिन्दु विश्वविद्यालय"-स्थापनार्थ काचित्समि. तरकारि, सिद्धान्तितं च तन तस्यावश्यकत्वम् । माननीयेन श्री. मता मालकीयमहोदयेन प्रतिष्ठापयिष्यमाणस्य विश्वविद्यालयत्य कृत्य- कलापव्यवस्थापुस्तकं प्रकाशितम् , यस्य खलु निष्कर्षोऽनुपदमेवोप. रिटात् पाठकेभ्यः प्रदश्यते। विश्वविद्यालयार्थ रूप्यककोटिरगेश्यते तत्रास्माकं महनीन मित्रेण माननीय श्रीममधवलालेन नीणि लक्षाणि दत्तानि अन्यान्यां च सुगृहीतनामधेयाभ्यां कान्याश्चिमहामतिभ्यां प्र. सेक त्रीणि लक्षाणि दातुप्रतिश्रुतानि । तस्या समिती राष्ट्रीयमहा. सभाधिष्टा णां हिन्द विश्वविद्यालयाथ महाननुगमोऽश्यत । सुन- ताभिधयः श्रीमद्भिः सुरेन्द्र नाथायोध्यायः, बालगङ्गाधति- लक, अध्यापक-भजेकाभिः, सुब्रह्मण्य-आयरैश्च तदर्थ यावच्छ- कर प्रयत्नमाधातुमाहतम् । यथा चेयमवस्था, तथा सम्भावयाम नानिचिरं फलिप्यतेऽस्मन्मनोरथद् मेति । प्रसन्नो भारतीयानां वि धिस्तथैव विधेयात् । मन्यामह, न खल्वे कोऽपि स कश्चिद हिदुसमाजेषु नयमविषय- तामागच्छेत् यो हि संकल्पितविश्वविद्यालयस्य प्रस्तुतां कृत्यव्यय स्थांन मुक्तकण्ठं प्रशंसमिति । प्राचीनसमयेषु यदान किलास्माव महत्तर रमणीयतरं चासीन, तस्य सवस्य रक्षणं, साधारणानां पुरत स्तस्य रोचनत्वसम्पादनं च संस्कृतशिक्षयवैकया सम्भवति । संस्कृत शिव हि सा, यदधिगमेन ते ते महामतयः ससन्तोषं साधारणजी विकां भजमाना अपि दुधिंगाहगम्भीरान् तांस्ताप विषयांश्चिन्तया मासुः, अनुबभूवुश्च परमानन्दं परोपकारप्रतसेवनादिना । नवसं स्कृततो भिन्ना नाम सा कापि भाषा, यया किल प्रवचमानाभिनव .

वाताः सम्पादकाभिप्रायाश्च । २९७ विज्ञानादिविविधषिद्यानां सङ्कलनेन प्रादेशिकभाषाणां संवद्धनं सु- ठुतरं सम्भाव्यताम् । अत ईदृश्याः संस्कृतभाषायाः सविशेषानुशी. लन व्यवस्थापयन्तो हिन्दविश्वविद्यालयप्रवर्तका मणीषिणः कस्य नाम भारतीयस्य न खलु परःसहस्राणां साधुवादानां भाजनीभवन्ति । प्रस्तुते हिन्दु विश्वविद्यालये इमान्यन्तभवेयुः-१ एकः संस्कृत- विदयालयः,-यत्र ज्यातिषशास्त्रस्य नभोविज्ञानशास्त्रस्य च मानम- न्दिरे (astronomical and meteorological observatories ) ति- प्ठेताम्,--२ एको रासायनिकपरीक्षागृहेण, उद्भिदिदगाविषयकोद्या. नेन च सहितः ( with laboratories and botanical gardens) आ- युर्वेदीयविदद्यालयः, ३ एकः अर्थशास्त्रविदयालयः, यस्य रासायनिका- दय स्त्रयो विभागाः स्युः, ककैकस्मिश्च विभागे तदुचितयन्त्रपरीक्षा- दिगृहाणि भवेयुः, ४ एक: कृषिविदयालयः, ५ एको गान्धविदया- लयः; ६ एकच आङ्गलप्रभृतिवैदेशिकभाषाशिक्षार्थ भाषाविषयक- विदयालयः ( Linguistic College )। अध्यापकानां विदयार्थिनां च निवासार्थ गृहाणि च निर्मायेरन्, यत्र ब्रह्मचर्य सपिशषं छात्रै रक्ष. . णीयं स्यात् । ये विद्यार्थिनो हिन्दु शास्त्राध्यापका आयुर्वेदाध्यापका वा भवि- तुमिच्छेयुः, तेभ्यः संस्कृतेन च तापता,-यावता ते प्रदत्तां धर्मशि- शां ग्रहीतु शक्नुयुः। कृतविदरभ्यो विदयार्थिभ्य: 'स्नातक' इत्युपाधि दीयेत। यः पुनः स्नातकः विश्वविदयालय एष वा, ततो बहिरेव क्वापि वा, शास्त्राण्यनुशीलयन विज्ञानविशेषं विदधाविशेषं वाधिकु- र्यात् स खलु 'आचार्य' इत्युपाधिना पुरष्क्रियेत । यस्तु शिल्पादि विषये यथोचितमधिगतविदय: स्यात्, स हि 'अधिकारी' इत्युपाधि . लभेत। ४ भारतीयमित्रराज्याधीश्वरा अपि परमिति मन्यतां कीरशमस्य ३९८ मित्रगोष्ठी-पत्रिका। विश्वविदगलयो यया परिचालकमण्डल्या पर्यवेश्येत, तत्र खल गौरमिति । पदि नाम पश्यतामेव जनानाम, महम्मदीयानाम् आलिगडनगर. स्थो विदालयः ( M A.O. College at Aligarh) एताह शो मुस- तिमधिगच्छेत, तहिं हिन्दु विश्वविदगलयोऽयं न तथा भवेदिति ना. हमषितं कथमपि प्रत्येतुमिच्छति । कः सन्द हो दरिद्रयं साम्प्रतं तपस्विनी भारतवसुमतीति । तथापि या खलु भक्तमा वा भीत्या घा व्यर्थमेव राजपुरुषाधिष्ठातृकेषु स्थापनीयेषु स्मारकचिह्न षु अहम्पूर्वि- कया परोलक्षं धनं समर्पयितु शक्नोति, सैवेदानी परिपाकरमणीयस्य कत्सकुशलसम्पादनोचितस्य यथार्थाभ्युदयविधानबद्ध परिकरस्य हि- न्दु विश्वविदयालयस्य कृते अपेक्षितमर्थं वितरीतु कथं नाम पश्चात्य- दमादधीतेति द्रढीयानस्मविश्वासः । लघी मानेयं कोटिमुद्रा नाम भारतीयनृपाणाम् । :::. D शारदामण्डलम् । धर्मोपतये विहितविधीयमानविविधप्रयत्नेन श्रीभारतधर्ममहाम- ण्डलेन विचिन्तितं यत् प्राचीनेषु शास्त्रेषूपदिष्टानों व्यवहाराणामनु- सरणाहते भारतीयानामार्याणां न वस्तुतोऽभ्युदयः सम्भाव्यते, तब मंस्कृतशिक्षा विना सर्वथाऽशक्यसम्पादनमिति । शतः श्रोभारतध- ममहामण्डलपरिषत् संस्कृतशिक्षायाः भूयःसमुन्नत्ये 'शारदामण्डल' नाम स्वकीयापरविभागरूपमपत्यं प्रसूतवतीति विदित एवायं वृत्ता- न्तः पाठकानाम् अध षयं केवलं तदीयचिकीर्षितकृत्यपरिपाटीगता- न्येध दिवाणि वचनानि प्रकायिष्यामः ।

शारदामण्डलं वाराणस्यामेव प्रथमं सस्कृतशिक्षाप्रदानस्य तदि. पापा एकानुशीलनकर्मणश्च ( research work ) व्यवस्था करिष्यति, क- च काश्मीर-श्रीनगरे, नवदीपे, काञ्च्या, पुण्यपत्तने (पुना ), वन्तिकायां ( उज्जेन ) मिथिलासु, मथुरासु, अपरेषु च प्रसिद्धषु वदयापीठेषु संस्कृतविदयामुज्जीयिष्यति । विदगर्थिनां वागणस्यां मिव कष्टमिति मित्रगोष्टा असकृत् पूर्वमुक्तम् शारदामण्डल. यापीह नयनमाकृष्टम् । तदिदं तेषां दुःखापनोदनार्थ छात्रनि- सं स्थापयितु सङ्कल्पते । भारतस्य स्थाने स्थाने ब्रह्मचर्याश्रमान् चकीर्षता मण्डलेन महत्कृत्यमनुष्ठातु व्यवसितम्। असे वितब्रह्मचर्य गारतमुत्सन्नम् । ब्रह्मचर्यस्य रमणीयं परिपाकं पुनरप्यवलोकयितु दा नाम मुग्धस्यैतस्य प्रज्ञानेनमुन्मीलेदिति भगवानेव जानाति । शारदामण्डलेन अत्रैव प्रथमं सविशेषं च यतनीयमिति युक्त मन्या- हे । साहित्यदर्शन विज्ञामादि विविधविषयाणां गवेषणार्थ काशिक: |ण्डितैयथा प्रदेशान्तरीयाणां पण्डितानां सम्मेलनं स्यात, तथा करि- यते शारदामण्डलेन । प्रथमं तु वाराणस्यामेव तदारभ्येत । मण्डल. मदं परीक्षाविधिना संस्कृतविदयालयानां शोधनमिच्छति, पत्रिका को प्रकायिष्यति, यत्र मण्डलस्य कार्यविवृत्या सह विविधविष- काः सन्दर्भाः स्युः। विस्तरस्तु मण्डलेनोपरिणात्प्रकाशयिष्यते । यं सर्वथास्य कुशलं कामयामहे । मित्रगोष्ठ्याश्चतुर्थवार्षिकोत्सवः । अतीते पौषे मित्रगोष्ठयाश्चतुर्थो वार्षिकोत्सवः कुचविहारमहा- जानां कालीमन्दिरे महतारम्भेण निष्प्रत्यूह सम्पन्नः। पण्डितवरः महामहोपाध्यायः श्रीराखालदासन्यायरत्नभट्टाचार्य: सभापतेरासनं गरिशोभितमासीत् । सभायां काशिकाः जयपुरादिस्थानान्तरागताश्च बहवो विद्वांसोऽध्यापकाश्च विदार्थिनश्चादृश्यन्त। स्थानाल्पत्वात् तेषां नामधेयानि प्रकायितुमपारयन्तो वयं विषीदामः । -::

मित्रगोष्ठी-पत्रिका। प्रथमं गीतायां मङ्गलगीतिकायां गोष्ठया अन्यतमेन मिनधुरीणेन न्यायाचार्य पण्डितश्रीवामाचरणतकभूषणभट्टाचार्यग गोष्ठपास्मृता- यघार्षिक कार्यविवृतिः पठिता । तदालोचनेन ज्ञायते यत्तया गृही. तानां कार्याणां यर्याप नाभिलषितरूपा सिद्धिर्जाता, तथापिकालन तथैव भविष्यतीति न खलु न द्रढीयस्याशास्ति । आलोच्ये वर्षे सु- दूरे सिंहलद्वीपे गोष्ठयाः कियन्ति मित्राणि जातानि, येषामधिकान्येव बौद्धमतानुगानि । पारसीकस्याप्येकस्य मिनश्रेण्या नाम दृश्यते । एतच्चान्यच्च पर्यालोच्य निश्चेतु सुशकं यन्मित्रगोष्ठी सुष्टु खल मैत्रीसुखमनुभवतीति । स्थानाल्पत्वाम्म विस्तर श इह तत्सर्व प्रका शयितु पारयाम इति क्षम्यतां सहृदयः पाठकमहाशयैः । अथ संस्कृतशिक्षाविषये वाचितवति किश्चित् ( यद हि पत्रिकायामन्यत्र प्रकाशितम् ) पत्रिकासम्पादकमहाशये, संस्कृतचन्द्रिकासम्पादकन श्रीमता जयचन्द्रसिद्धान्तभूषणमहाशयेन कीर्तितगुणवैभवः सौम्यसु- जनः संस्कृतन्द्रिकासहकारिसम्पादकः श्रीअप्पाशमं विद्यावाचस्प. तिमहाशयः मित्रगाप्ठया उद्देश्यजातमवलम्ब्य तुमधुरं व्याख्यानं विहि- तवान् प्रतिपादितयांश्च गोष्टी प्रति सर्वेपामनुरागादि प्रदर्शनोनि- त्यम् । अथ बहुविश्र तेन अद्भतशतावधानशक्तिशालिना श्रीश्रीराम- शास्त्रिणा नाट्यशास्त्रविषयक व्याख्यान प्रक्रम्य निरर्गलं निगच्छद्धिः स्ववचनजातैः सचेतसामसकृत् सस्मितानन्द उत्पादितः । ततः प्रकाशित सभापतिमहाशयस्याभिप्राये सम्पन्न सभाकृत्यम् । इतश्च संस्कृतेनैव तत्न वेणीसंहारनाटकमभिनेतु गृहोतगृह्यमाण. भूमिकेषु अभिनेतृषु तदारम्भसूचको मांसलमधुरातोयध्वान उत्क- र्णयन् सामाजिकान्, पूरयन् श्रवणविवराणि, नन्दयन् हृदयानि, ध्वन. यंश्च रङ्गमण्डपं गगणमण्डलमगाहत । पश्यत्स्वेव च दर्शकनिवहेषु यथोचितं नान्दीपूर्वकं प्रारब्धमभिनयकर्म, अभितीतं च समग्रमेव नाटकम् । श्रोतृजनसुखार्थ मलनाटकस्य किश्चित्परित्यक्तम; अपरं नूतन किञ्चित् सभिवेशितमासीत् । अभिनेतारः सर्व एव वङ्गीय वार्ताः सम्पादकाभिप्रायाश्च । अभवन् । वङ्गीयानां संस्कृतोश्चारणं देशान्तरीयाणां तेन किश्चिद भिद्यते । अतो वहीयेतराणां सामाजिकानां श्रवणयोस्तेषामुच्चारणं यन्नातिरुचिकरमभून्न तन सन्देह शोऽपि । सत्यप्येवं प्रदर्शितोऽभि- मयः समर्थ एवासीत सचेतसामानन्दोत्पादनायेति तेषां तदानीन्त- नानि पचनान्येव प्राकाशयन् । वाराणसी। वसन्तपञ्चम्युत्सवे वाराणस्यां सुविश्रु तानां बहुश्रुतानां विदुषा- मेका महती समितिरासीत् । यत्न किश्चिन्नूतनं युक्ततरं च कृत्यं तैः सम्पादितम् । श्रीमतोमाननीयस्थ माधवलालमहोदयस्य संस्कृतो- अतये प्रयत्नातिशयः कस्य नामाविदितः । तेनैव परितुष्टहृदया वारा- णसे या विद्वांस आशीर्वचनैरमु महाभागं सभाजयितु तस्मिन्नहनि सममिलन् । सभायामादौ महामहोपाध्यायेन श्रीमता शिवकुमार- मिश्रण केचनाशीर्वादसूचका: श्लोकाः पठिताः । अथ महामहो- पाध्यायेन सि. आई. ई. इत्यपरोपाधिधारिणा श्रीमता गङ्गाधरशास्त्रि- णा माधवलालमहाभागस्य तांस्तान् गणान व्याख्याय ग्रन्थात्मकाश्चतु- रो वेदाः सहान्यैः कश्चिद् धर्मग्रन्थस्तस्मै तेषां रक्षणार्थ समप्यन्त । सोऽपि महाशयः कृतशेन हृदयेन परमश्रद्धान् ितान ग्रन्थान शिरसि संस्थाप्य कालोचितैर्मधुरै ाख्यानै स्सर्वेषामेव हृदयं वलपदावजयत्। वाराणस्यां पण्डित श्रीगदाधरशिरोमणेः सारस्वतोत्सवः प्रसिद्ध एव । अतीते सरस्वतीपूजनदिवसे तदुत्सवे कैश्चित्संस्कृतपण्डितै विद्यार्थिभिन वेणीसंहारनामक नाटकं संस्कृतेनाभिनीतम् । त एषा- मी अभिनेतारो किल मित्रगोष्टयामभ्यनयन् । परोऽभिनयश्चारुतर आसोदिति दशंका मन्यन्ते । सोऽयम् अभिनयसम्प्रदाय इतः परं मृच्छकटिक नाम प्रकरणं प्रयोक्ष्यत इति । अस्य प्रसादेन यहूनामेव ३०२ मित्रगोष्ठी-पत्रिका। रूपकाणां प्रयोगी वाराणसेयानां नयनगोचरीभविष्यतीति सम्भावया. मः । कियषपूर्वमेभिरेषाभिनेतृभिः चण्डकौशिकं, वेणीसंहार प्रयुक्तमासीत् । पद्धतामेषां प्रयासः । :0: नववर्षे महामहोपाध्यायोपाधिः । श्रुतमिवास्माभिश्चलत्सु कथाप्रसङ्गषु, प्रवत्तमानेषु च गोष्ठोसु- खालापेषु कस्यचित महत्तरस्य महामहोपाध्यायस्य सखेदं वचनम्- 'हन्त भोः किमिदमायातम्, मन्यामहे, साम्प्रतमयमुपाधिः (महामहो. पाध्यायः ) उदगीण एव शोभत इति' । न जानीमः सोऽयं महाभा. गो वर्तमानवर्षीयोपाधिप्राप्तजननामसूचिका पत्रिकामालोक्य किं नाम कर्णपुटपेयं वचनमुक्तवानिति । न बुध्यामहे कथमिव तत्रभवता दुर्म. नायितमिति, यतो नेदमविदितं तेन यत् पतन खलु चन्द्रकि गः प्रासाद इव कुटोरेऽपि पततीति । तत्र यदि प्रासादस्तेनैवात्मानं धन्यं मन्येत, तर्हि तस्यैवायमपराधः। स खलु चन्द्रकिरणं प्राप्नोतु मैव वा, किं तेन तस्य छिद्यताम्, दुरपया हि तस्य सहजधु तिः । कुटीरस्य तु स्पर्धमानस्य तावदेव शोभा, यावत्स चन्द्रकिरणो न व्यवधीयते । अन्यञ्च प्रसिद्धमेवास्ति-"काचः काचः, मणिमणि- रिति", ततः कृतं तस्य वैमनस्येन । कृतं चैतेषामपि नैराश्येन, ये हि यथोचितमनधीतिनोऽपि शास्त्रेषु केवलमुपाध्यलङ्कारेण पण्डित- समाजेष्वात्मानं प्रख्यापयितुमिच्छन्ति। अपि नामैतद्विलोक्यापि य- थार्थपण्डितानाम् उपाधिलाभलोभो न खलु समूलमुन्मूलितो भवेत् ? . शोकः। वङ्गषु विक्रमपुरमण्डलं पाण्डित्यगौरवेण नवदीपान न न्यून स्थानमधिकरोति । अद्य हि तत्र त्यस्यैव सर्वश्रेष्ठस्य वर्षीयसो नैया- यिक स्य तत्रभवतो महामहोपाध्यायपद टाच्छनस्य रामनाथसिद्धा- न्तपञ्चाननमहाशयस्य देवभूयाधिगमवृत्तान्त श्रावयतामस्माकं दीर्यंत वार्ताः सम्पादकाभिप्रायाश्च । . वहदयं शोकसम्भारेण । न केलं पाण्डित्येन, अपितु पण्डितज- नोचितेन कारुण्यसारल्यादिना विविधेन गुणकलापेनाप्यतितरां मोहित आसीत्स प्रदेशस्तेन । सर्वथा हतासिव भूमि, या त्वमीदृशेन पण्डि- तरलेन चिराय विनाकृतासि । श्लाघनीया चासि त्वमेव, यत्र ता. सशस्य पण्डितप्रकाण्डस्य चरणरेणवो निपतिताः। शोकहतस्य परि- धारस्य भगवान् स्वस्ति विदधात्विति प्रार्थयामहे । - :: "* प्राचं दासवशीकरणम् । दासो यदि प्रभुवश्यो न स्यात्, तहिं तदर्थ प्राचीनैर्भारतीयैरायः कीटश उपायोऽवलम्बित इति गृह्यसूत्रेपलभ्यते । पाठकानां क्षणं तदिनोदावहं भवेदित्युदाहरामः । पारस्करगृह्यसूत्रस्य तृतीये काण्डे " उतुलपरिमेहः इत्युप. कम्योक्तम्- "स्वपतो जीवविषाणे स्वमूत्रमासिच्यापसलमेव त्रिः परिषिञ्चन् परीयादिति"। अयमर्थः-दुविनीतो दासो यदानी सुप्तः स्यात्, तदा स्वकीयं मूत्रं जीवतः पशोः शृङ्ग आसिच्य तेनैव तं दासमप्रदक्षिणं त्रिवार परि- षिञ्चन परिभ्रमदिति । तत्रायं मन्त्रः- "परि त्वा गिरेरहं परिमातुः परिस्वसुः परिपिटीश्व भ्रात्रीश्च सख्येभ्यो विसृजाम्यहम् । उतुल परिमीढोऽसि, परिमीढः क गमिष्यसीति" ॥ अयमर्थ:-हे दुविनीत दास, ( यत्र क्वापि त्वं गच्छ ) पर्वतादमि मातुः सकाशादपि पितुः समीपादपि, स्वसुर्या भ्रातुर्वा सहदो वा सनिकर्षादपि त्वामहमाकृष्य मयि विशेषेणानुरक्त करोमि त्वं मन्त्र- • उतलस्य-दुर्विनौतस्य दासस्य परि समन्तात्, मेहः सेचनं वशीक. रणभिषेकं इति यावदिति" तवयं इरिहरभाषाम् ।

मित्रगोष्ठी पत्रिका। शक्तया सेचनरूपैः पाशैबंद्धोऽसि, तथाभूतस्त्वमिदानों क गमिष्य. सीति । अर्थतेनापि प्रकारेण स चेद् वशीभूतो न स्यात्, तहि यत कत व्यं, सूत्रकारस्तदुपदिशति- "स यदि भ्रम्याहावाग्निमुपसमाधाय घृताक्तानि कुशेण्ड्वानि जुहुयादिति” । अयमर्थः-प्रागुक्त कर्मणि कृतेऽपि दासी यदि स्वेच्छया विचरेत प्रभुवयो न भवेत् तदा दावाग्निं स्थापयित्वा धृताक्तानि कुशकुण्डलानि जुहुयादिति । तत्रायं मन्त्री विनियोक्तव्यः- परि त्वा हलनो हल निवृत्तेन्द्रवीरुधः । इन्द्रपाशेन सित्या मह्यं मुक्त्वाथान्यमानयेदिति" ॥ अयमर्थ:-" हे चञ्चलदास इन्द्रवीरुधो निर्गस्य समन्तात् स्थितोऽय- मग्निस्त्वामन्यं मोचयित्वा इन्द्रपाशेन बद्धा च मत्सकाशमानयेदिति । सूत्रकारः कथयति इत्थमनुष्ठिते स दासो वश्यो भवेदेव- "क्षेभ्यो ह्येव भवतीति"। -

मित्रगोष्ठो-पत्रिका।
(मासिकं संस्कृतपत्रम् ।)
सङ्गच्छध्वं संवदध्वं सं वो मनांसि जानताम्"।
ऋग्वेदः।
द्वितीये वर्षे } १८२७शकान्दाः, फाल्गुनः। {एकादशसंख्या
यावत् तावत्।
१
यावत्ते द्रढयेयुरुज्झितलया बन्धो भृशं बन्धनं,
तावत्तावदिदं ब्रजेच्छिथिलतामस्माक मुच्चस्तराम् ।
यावत्ते नयनं रुषा विषमया कुर्युमहालोहितं,
तावद्धन्त भवेत्तु तत्स्वतितमामस्माकमुन्मीलितम् ।।
२
यापत्ते ध्वनयेयुरम्बरतलं भ्रातर्मुहुहुँकतै-
गच्छेत्तावदियं लयं सपदि नस्तन्द्रा दुरन्ताग्रहा।
यावत्ते विघटेयुरन रभसात् ताद्धि पहेत तद,
गाढं नो घटनं पररूपरमनः प्रीतिप्रकर्षापहम् ॥
३
प्राप्तः सम्प्रति कर्मणामवसरोऽस्माकं समालोक्यतां,
स्वापः पापविलासवन्नयनयोरं समुत्सायंताम् ।
भ्रातीतिरिहोज्यतां विभुपदं भक्तरोत्तमं ध्यायतां,
यसवें सशं च यत्स्वजनुषस्तसूर्णमातन्यताम् ॥
३९
१

३०६ ३ मित्रगोष्ठी-पत्रिका। प्रातः।। १ उन्मसोऽसाविति यदि सखे वक्ति कश्चित्कदाचिन्, नायं वाच्यः किमपि सदसत् तत्र ते भोः कथञ्चित् । दद्यादध त्वयि तृणरजःसन्तति योऽवजानन्, नूनं प्रातः स खलु कुसुमेरचयेद्भक्तितस्त्वाम् ॥ २ नागच्छेद्यदि कोऽपि गौरवभरैव्य॑थै हिँ सार्धं त्वया, पल्यङ्कस्य सुकोमलं तलमयं सेवेत यद्यद्य वा। कामं तिष्ठतु दुर्मतिनंनु तथा, पान्यो न किञ्चिस्वया, प्रातस्त्वेष पदाब्जयोस्तव समागच्छेद ध्रुवं द्रश्यसि ॥ एककः। ॥ माहाने श्रुतिगोचरेऽपि ननु ते नायाति कश्चिद्यदि भातस्तिष्ठतु, मा शुच:, सरभसं याहि त्वमेवैककः। सर्वे भीतिवशंवदाः सकितं वनं परावत्यं चेद, एकाकी प्रकटीकुरुस्व सकलं तत्वं त्वमेव स्फुटम् ॥ २ ३ कान्तारं वत दुर्विगाहमधुना त्वय्युद्यते गाहितु', धैमुख्येन सखे न कश्चिदपि चेत् कुर्वीत साहायकम् । यावच्छक्यमपाकुरु क्षतमुखप्रस्यन्दिरक्तच्छटा- पूर्णेनाघ्रियुगेन कण्टकचयान्मार्गात् त्वमेवैककः ॥ विध हंगेतितदिष्ा खे श्रुतिपुटोद्भिन्दानवतस्वने, सम्झावातविकम्पिते परिपतद्धाराम्बुपूर्णस्थले । गर्जदारिधरे निशीथसमये सर्वैजनै रुध्यत द्वारं चेत्पधिकस्य ते समर सुखं मृत्यु त्वमेधेककः ॥ विधुशेखर शर्मा।

. :कथानां भ्रमणम्। ला फण्टेन ( La Fontain ) नामकस्य कस्यापि फान्सदेशीयस्य कथा ( Fables ) युरोपे सविशेष प्रसिद्धाः । तत्रैकत्यम्:-'पेरो- र'-नामिका काचिद्गोपबाला दुग्धविक्रयाय नगरं गच्छन्ती 'आशा- मोदकचर्वण'-न्यायेन मनस्यकल्पयद यत्सा तन दुग्धं विक्रीय तेन किञ्चिद्धनमुपाजयिष्यति । अथ तेनार्थेन तया कुक्कुटाण्डशतं ऋष्यते । क्रमेण च तदण्डोत्पन्न कुक्कुटौघविक्रयलब्धेन धनेनेको ग्राम्यो वराहः क्रीतो वद्धितो विक्रीतश्च भविष्यति । ततस्तदधिगनेनार्थेन पुनरपि तयैका गौः ऋष्यते । कालेन तस्या एकः पुष्कलो वत्सो जनिष्यते । सच नवीनस्तर्णकः पादचतुष्टयस्य द्रुततरविक्षेपेणाभितो धाविष्य. तीति । एतत्सर्वं मनसा कल्पयन्ती सा खलु तपस्विनी प्रचुरप्रमोदेन विस्मृतात्मभावा यावद गोवत्सवत् स्वयमपि पादमुक्षिपति, तावदेव हन्त तस्या भाण्डात्सर्व दुग्धं भूमौ निपतितमिति । पञ्चतन्त्रे कापि कथास्ति, या हि हितोपदेशेऽप्युद्धृता। सास्मा- भिरिह प्रदश्यते- "अस्ति देवीकोट्टनामनानि नगरे देवशर्मा नाम ब्राह्मणः । तेन महाविषुवसंक्रान्त्यां शक्तुपूणः शरावः प्राप्तः । ततस्तमादायासौ भाण्डपूर्ण कुम्भकारमण्डपिकायां रौद्रंणाकुलितः सुप्तः । ततः शक्तु- रक्षार्थ हसते दण्डमादायाचिन्तयत्-यद्यहमिमं शक्तुशरावं विक्रीय दश कपदकान् प्राप्नोमि, तदात्रैव तैः कपद कर्घटशरावादिकमुपक्षीय अनेकधा वद्धितेस्तैः पुनः पुनः पूगवस्त्रादिकमुपक्रीय विक्रीय वाणि- ज्यं कृत्वा लक्षसंख्यकधनान्युत्पाद्य विवाहचतुष्टयं करोमि । ततस्तासु पत्नीषु या रूपयौवनवती, तस्यामधिकानुरागं करोमि । तदनन्तरं सातास्ताः सपत्न्यो यदान्योन्यं द्वन्द् करिष्यन्ति तदाहं कोपा- कुलस्ता दण्डेत ताडयिष्यामि । इत्यभिधाय तेन लगुडः क्षिप्तः । तेन शक्तु शराव श्चणितो भाण्डानि च बहूनि भग्नानि । ततो भग्नभाण्ड- अतो न ३०८ मित्रगोष्ठी-पत्रिका। श्रवणादागत्य कुम्भकारेण गले हस्तं दत्वा ब्राह्मणम्तिरस्कृतो मण्ड. पाद बहिष्कृतश्चेति। नास्त्यत्र स्तोकोऽपि संशयो यत्प्रागुक्तयोः कथयोः सादृश्यमस्ती. ति। यद्यपि सादृश्यसद्भावादेवोभयोरकम् अन्यतरस्माद गृहीतमिति न वक्तुं शक्यते, तथापीदमेव सादृश्यसूत्रं गृहीतवद्भिरैतिहासिक विचित्रं किञ्चित्तच्चमाविकृतं, येन ज्ञायते कदा कथं च भारतीयाः कथा रूपान्तरेण विभिन्नेषु देशेषु प्रसृता इति । ईरश्यः कथा बौद्धसमयोत्पन्ना इति पण्डितैरनुमीयते । यतो बहवो नीतिवादा बौद्धराख्यायिकाभिरुपादिश्यन्त । यौद्धयुगानन्तरं हिन्दुधर्मस्य पुनरुत्थानसमये पञ्चतन्त्रं विरचितमिति वितुषां विश्वा. मः। दुष्करो हि संस्कृतग्रन्थानां निर्माणकालनिर्णयः । वयं तन किञ्चिद वक्तुमिच्छामः । ईदृशी खलु कथा कदा कदा केषु केषु देशेषु पयंटितवतीत्येतावन्मानमेव त्विह प्रदर्शयिष्यामः । वीष्टी. यपञ्चमशतके 'आरव'-राजधान्यां 'घोगदाद'-नगयीं' भलमनसूरो नाम नरपतिः ( स्वालिप ) आसीत् । 'कलिल'-'दीमन' नामको ग्रन्थौ त- स्यैव सभायां विरचितौ । तत्रत्याः कथाः पञ्चतन्त्राद गृहीताः । रचयिबोच्यते-ताः खलु पारस्यदेशस्य 'पहब'-नामधेयाया: प्राची- नभाषाया: संगृहीता इति । इमा अपि पुनः तत्रत्येन यज्ञा 'वसरु- नुसीरवन्' नामकेन प्रेरितस्तदीयश्चिकित्सकः ( हकिमः ) 'बारजोई'- नामा भारतवर्षादानीतवान् । उक्तमस्ति-स खलु चिकित्सको 'मृत. सञ्जीवन'-भेषजानयनाथं भारतं (तद्धि तदर्थं प्रसिद्धमासीत् ) प्रहि- तः। तेन तु तदिति प्रागुक्तकथासम्बद्धं पुस्तकमेवानीयत-यत्पाठेन मृता अपि सञ्जीवन्ति । तादृशं हि तस्य माधुर्यमासीदितिभावः। एतेन पुस्तकेन पञ्चतन्त्रस्य भूयान भेद उपलभ्यते । नूनं पञ्चतन्त्र विरचनात्पूर्व मौक्तिकफलानीव बहून्युपाख्यानानि भारतस्य समन्ता विकीर्णान्यासन् । तेषां कानिचित् कैश्चित् सञ्चितानि नैकपण्यवीथिषु कथानां भ्रमणम् । व विक्रीतानि । शिष्टानि तु कानिचन स्वाभिप्रायोपयोगीनि विष्णु- शर्मणा संदभ्यं पञ्चतन्त्राभिधेया हृदयङ्गमा हारयष्टिविनिर्मिता । म. प्रायं हेतुः-पञ्चतन्वे पञ्चैवाध्याया दृश्यन्ते, पहवभाषीयग्रन्थे त्व- टादशाध्यायाः। एषु पञ्चमे, सप्तमे, अष्टमे; नवमे, दशमे चाध्यायेषु पञ्चतन्त्रकथाः संहब्धाः। श्रीमद्भिर्जायते महम्मदीयधर्मस्य प्रथमाभ्युदयसमये महोत्साह परिकरा 'आरव'-निवासिनः आसिया-आफूिका-युरोपेषु बहूनि स्था- नान्यधिकृतवन्त इति । यस्मिन् काले प्रागुक्तस्य वोगदाद-महीपालस्य 'भलमनसूरस्य' सभायां तौ ग्रन्थौ रचयितुमारब्धौ, तदानी युरोपा- तर्गतस्य 'स्पेन'-राज्यस्याधिपतिः ‘अबदार-रहमान'-नामा कभि- महम्मदीय एवासीत् । अतो नेदमसम्भवं पत्ताः खलु कथाः सह महम्मदीयैः 'स्पेन' देशं प्रविष्टा इति । खीष्टस्य मृत्युस्थानस्य — जेरुजेलम' नगरस्योद्धारार्थ युरोपीया नरपतयः संहत्य १०६० तमान्दे तत्रागच्छन् । तदा 'साइमिह-वन'- नामा कोऽपि आरवभाषात स्ताः कथा ग्रीकभाषायामनूदितवान् । तत्पुस्तकस्य नाम "Stiphenites and lchnelatis " अलमुक्त न अ. स्मिअनुषादे मूलकथाया: सबहु रूपान्तरं जातमिति । प्रोकभाषोपनि- खलु कथेत्थमः कश्चिद मिक्षुः किञ्चिन्नवनीतं मधु चैकस्मिन् पात्रे निधाय स्व- शय्यापाश्र्वे तदस्थापयत् । अथ स शय्योपविष्ट एकदा कल्पयितु- मारभत-अहं नवनीतं मधु च विक्रीय दश छागलान ऋष्यामि । अथ पञ्चभिर्मासैरुत्पशावैविंशतिश्छागला में भविष्यन्ति । तत- स्तान विक्रीय बलीवर्दी क्रीत्वा कृषि करिष्यामि । तेनाहं पञ्चभि. वत्सरैधनिको भविष्यामि, ततोऽपि स्वर्णमयमेकं प्रासादं करिष्यामि। तब बहून भृत्यान् ऋष्यामि, सुन्दरी चैकां परिणेष्यामि । तस्या एकः पुत्रो भविष्यति । तमहं सम्यशिक्षयिष्यामि । यदि सोऽल. सः स्यात्, तहि यष्ट्या 'इत्थमिति' स तया भूमिं प्रहृतवान् । तेना- वद्या सा 320 मित्रगोष्ठी-पत्रिका। घातेन दुभंगस्य तत्मलु मधुनवनीतभाण्डमभज्यत, सर्व च तर विनष्टमभवत् । १५८३ नमान्ने तत्पुस्तकम् इतालीभाषायामनूदितम्, १६६६ तमादे च लाटिनभाषायाम्, ततोऽपि चानन्तरं जर्मणभापायाम, क्रमेण च प्रान्लभाषायाम्। इत्थं बहुभिः कालैर्दशाह शान्तरं परिभ्रमन्तीभारतीयकथा युरो- पीयाणामनुदिनसेव्यमाना संवृत्ता । तेषां धर्मोपदेशग्रन्थेषप्यासा कथानां स्थानं दृश्यते। भगवतो धुवस्य चारित्रं नामान्तरेण , कथमिव युरोपीयरच्च्यते तत्संख्पान्तरे प्रदर्शयिष्यामः। श्रीअनितकुमारचक्रवर्ती ग्रह्मचर्याश्रमः, बोलपुर। * :: संस्कृतशिक्षा। ( पूर्वतोऽनुवृत्ता) प्रायेण हि संस्कृताध्यायिनः साम्प्रतं शास्त्रैकबदष्टयो रयन्ते । ते हि, तदालोव्यशास्त्रे अपरापरशास्त्रस्य यत् किश्चिदुद्धृतं, तन्मा- प्रेणैव 'अलमिति' परितुष्यन्तः विज्ञातं यद विज्ञातव्यमिति मन्य- माना सर्वाण्येव शास्त्राणि तृणवद, विगणयन्ति; न तु स्वप्नेऽपि विशेषेण तत्तत्त्वं बुभुत्सन्ते। कथञ्चित्कोलाहलैदिकचक्रपाले वाचा- लीकृत एव हि सम्पद्यते यत्सम्पाद्यम्, लभ्यते च पल्लब्धव्यम् । यदि ते सकृदपि शास्त्रान्तरं पर्यालोचयेयुस्तहि प्रभवेयुर्विज्ञात' यत् कियत्स्वल्पतरं तेषां ज्ञानमाहात्म्यमिति नूनं स्मरेयुश्च ते तदानी भर हरेः काव्यमिदमः- मोचमूलरस ग्रन्थात्संगहीतमिदम् ।

संस्कृतशिक्षा। ॥ इति . ३११ यदा किंचिजज्ञोऽहं द्विप इव मदान्धः समभवं तदा सर्वज्ञोऽस्मीत्यभवदलिप्तं मम मनः । यदा किञ्चित् किञ्चिदबुधजनसकाशादवगतं तदा मूवोऽस्मीति ज्वर इव मदो मे व्यपगतः महि प्राचीना दार्शनिका दर्शनान्तरमनधीत्येव केवलं दर्पोष्मणा तह.- पयामासुः। न हि श्रीमन्तः शङ्कराचार्यपादाः, कुमारिलभट्टा उदय- नाचार्यादयो वा बोद्धादिमतं सम्यगविज्ञायैव तत्खण्डनाय युक्तिशस्त्र निचिक्षिपुः । इदानीन्तु अस्मासु सर्व एव केवलं त्रिचतुरप्रन्थस्थितं स्वल्पमात्र बौखमतमाघ्रायैव सर्व बौद्ध दर्शनं हेयमिति निधियानाः तदालोचनार्थमिच्छामपि न कुर्वन्ति । यदि दर्शनमालोच्यं, तहि भपक्षपातिदयेन भवितव्यम् । अन्यथा आत्मनो वादिविजयरूपस्य दुनिबन्धस्य फलं भवेदप्यधिगतम्, न त्वङ्ग सत्यनिर्णय प्रत्याशा क. व्या । इदानीमुपलभ्यमानानां दर्शनप्रन्थानां भूयिष्ठा एव बौद्धाभ्युद- पकालपरवर्तिनः । बौद्धयुगे कीदृशी दर्शनविद्यासीदिति बौद्धग्रन्था- देवावयोचु शक्यम् । आत्मेश्वरादिविषये बहूनि मतानि बुद्धदेघसमये प्रचलितान्यासन् । येषां हि नामापि साम्प्रतिकऽस्मदीये दर्शनग्रन्थे न श्रयते । बौद्धानां धर्मग्रन्थस्त्रेधा भिन्नः,-सूत्रम्, विनयः, मभि- धर्मश्चेति । तत्र सूत्रान्तर्गत-दीघनिकाय-मध्यमनिकायमध्ये ब्रह्मजाले दार्शनिकानों द्वाषष्टिमंतानि बुद्धदेवेनोदाहृत्य विस्तरशो निराकृतानि । दर्शनाध्यायिनां विदुषामन्तःकरणं नूनर्माततमां विनोदयेयुरेतानीति नास्तीह स्तोकोऽपि संशयः। पालिभाषानिबद्धा विविधा बौद्धग्रन्थाः पाश्चात्यैः पण्डितः प्रकाशिताः, प्रकाश्यन्ते च, केषाञ्चिच स्वस्वभा- षयानुवादा अपि कृताः। लण्डननगरवर्त्तिन्याः "Pali Text Society" इत्यभिधेयायाः समितेः सभापतिना ( T. W. Rhys Davids) इत्ये- तेन सहानेकैयुरोपीयैः पण्डितैर्दीघनिकायादयो बहवो बौद्धप्रन्थाश्चारु- तरं प्रकाशिताः प्रकाश्यन्ते च, भाविष्क्रियन्ते च तत्सर्वालोचनेन नूतननूतनानि तश्वानि । ।

३१२ मित्रगोष्ठी-पत्रिका बयं पुनः किं कुर्मः- येषामावासभूमौ भारतवर्षे, तत्सनिहिती सिंहलादौ च तत्सर्वमुत्पमम् । इदं वयं कुम:-अस्मत्पूर्वपूरुषैः देशा देवास्मात्स खलु बौद्धो धर्मो निर्वासितः, अतः कथं दर्शन तत्सम्बद्धं पुस्तकमधीयतामिति, नास्त्येव तत् किश्चिद इतीष मन्य माना न तत्प्रति नयनं सञ्चारयामः । निषिद्ध, हि तत्तन्वालोबा श्लोकवार्तिके कुमारिलभट्टेन । बौद्धन धर्मेणास्मदीयस्य तस्य सत्स्व. पि केषुचिद्विरोधेषु बहूनि खल शिक्षणीयानि पण्डितवराणामपि स. न्तीति को नाम निह्रोतु शक्नुयात् । भारतस्य तत्कालेतिवृत्ते संप्र- हणीये बौद्धं जैनञ्चेति पुस्तकवृन्दमेव परमोपायः । निकृष्टादपि । समीचीमा विद्या ग्राह्येति मनुसहशैर्धमस्मतभिरुच्यते, अतो यन्मते धर्मबुद्ध्या बौद्ध पुस्तकपाठस्यानुपादेयत्वमिति, न तत् किञ्चित् । नहि स्वयं कुमारिलोऽपि बौद्धग्रन्थानापठत् । न चापठितस्य तन्मतस्य तेन खण्डनं युज्यत इत्यास्तां तावत् तदिदम् । फलतस्तु एतदेवे? वयमभिप्रेमो यदवश्यमिदानीमस्माभिः योद्धशास्त्रमालोच्य तस्मानि. रवदयं रत्ननिकुरम्बं प्रकाशनीयम इति । यथा बौद्धम, एवं जैनमपि मतं नास्माभिरनुशील्यते । अक्षमा वयमिह क्षुद्रे सन्दर्भ बौद्धानामिव जैनानामपि पुस्तकानां गुणान् वर्ण- यितुम् । नास्ति स विषयो, यत्र जैनतीर्थङ्कराणां हृदयङ्गमा निबन्धा न दृश्यन्ते । अस्मदीयेषु शास्त्रेषु तत्र तत्र दृष्यत्वेनोदाहृतान् अंशान आलोक्यैव न तदाकरप्यसमाभितिस्पृभवितव्यम् अन्यथा बहु- निरुपादेयरलवयं वञ्चिता भवेम। बोद्धजैनशास्त्रालोचनेन न केवलं ऽपि महीयाल्लाभोऽनेन सम्भाव्यते । सनातनायधर्मानुसारिणाम- स्माकं, बौदधानां, जैनानाञ्चान्योन्यं कश्चित् परिपाकभीषणो विद्- पानलो हृदयकन्दरमधिष्ठाय नियतमेव पत्तते। तस्याप्यद एव बीज- यन्न वयमन्योन्यस्य मतमालोचयामः। स्वयं किञ्चिदनालोक्यैव प्रागुक्तमात्रगुणलाभः । अन्यो- . संस्कृतशिक्षा। संस्कारवशंपदा अयं तापावषिस्थानमपि परित्यजामः । परस्पर- रिचयाभावादेष समिहितप्तरमपि बन्धुन पयं तथात्म निश्चेतु भिवामः । तत एवचान्योन्यं भिद्यमाना दौर्बल्यं गच्छन्तः शत्रणामा- नहाय भवामः । यावद्धि कस्यचित्सम्प्रदायस्य धर्मग्रन्थो नाधीयते, सावस याथातथ्येन विज्ञातो भवति । भस्मादेव कारणात काले माले महाननय उत्पद्यते। यथाहि स्थाणु पिशाचत्वेन मन्यमानः |रुषः स्वबुख्यपराधेन भयाों व्याकुलो भवति, अनन्तरं च विशेष- नेन तस्वेनैव तं विज्ञाय भयान्मुच्यते, एवमेव बहुषु स्थलेषु केवल विवेकदोषण मुधैव कांश्चिद गमिः, तेन चैक्यबन्धनात् परिभ्रश्य माजदौर्बल्यकारणीभवायः । अस्मन्मते प्रथममात्मधर्म विज्ञाय बिच्छयं जगति वर्तमानानां सर्वासामेव जातीनां धर्मा मालोच- याः, इत्थमेव हि गुणदोषौ साधु निर्णीयेते। अन्यथा केवलमभिमा- मावादपरापरधर्मनिन्दनं निन्दयितुरदरदर्शित्वमेव प्रकाशयेत् स्वयं सौ परीक्षकैरनुपादेयघवनः स्यादिति । मलं तावदद्यास्मिन विषये दुनोक्तन, मन्यामहे उजिता इय श्रीमन्तोऽनेन कशवचनकला- म। भाशास्महे- 'मप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभ इति व्यासवाल्मीकिवचनमनुसृत्यानभवदभिमर्षणीयाएव वयमिति । भथ किञ्चिरवश्यवाच्यानि दिनाणि वचनान्युच्चायं विरमामः । ब्राह्मणपण्डितानां साम्प्रतं का नाम जीविका भवविति बहर एव चन्तयितुमिच्छामपि न कुर्वन्ति । पण्डिता उच्चैराक्रन्दन्ति-"ने नी पूर्वमिव वयं दक्षिणादिभिः सक्रियामहे लोकः, नेदानीमस्मा- प्रागिव जनाः श्रद्दधते, अस्मभ्यं इत्तं द्रव्यंजलनिक्षिप्तमिव नव्यशि- ततैमन्यते। पर भिक्षुभ्योऽमी किश्चिद्दद्युः, न त्वस्मभ्यम् । दक्षिणाल- मेव हि द्रव्यमस्माकं जीविकेति समाजश्चेत्पुनरपि प्राचीनां पद्ध- मनुरुध्येत, तहि नास्मज्जोदनं दैन्यदौर्गत्यनिपीडितं भवेदिति "। न्यस्मिंश्च पक्षे समाजसेविनो ब्र वन्ति -"किं खलु ब्राह्मणपण्डि- १० २ - मित्रगोष्ठी-पत्रिका तैः समाजस्य हितमनुष्ठीयते, येनायं तान् पोषयतुं। किंवा तेरीर शमायं व्यवष्ट्रियते, येन तेषु जनानां श्रद्धोदे तु । प्रत्युत साम्प्रत ते रित्थमनायमाचयंत येन घरम् अशास्त्रज्ञा मूढा भपि पन्धाः, न त ब्राह्मणपण्डिताः। धनलुग्धैरतैर्नास्ति किञ्चिददुष्करं नाम, पौर क्षणादेव जलं वह्निः, पहिश्च जलं क्रियते । समाजेषु परंदण्डा ऽपि पापी किश्चिद व्यत्यागेन एषां प्रसादात्परमपावनत्वेन गण्यत धृत्तवका येते। विना धनादानं शिष्येभ्यो विद्या वितीर्यत इत्यहि न ते किञ्चियमहन्ति। कृतमसमाकमधिगतविद्यसतैः शिष्यैः । हि मध्यापकाननुगच्छन्तस्तैस्तैरनुचितैः कृत्यकलापैः समाज पुनरुत जर्जरीकुयुः। अतो न प्रयोजनमस्माकमीदृशैः पण्डित महाशयै- रिति।" यत्र कापि गच्छामः, तत्रैव सामाजिकेभ्यः सुदुःसहेष. मुक्तिः श्रुतिपथमुपैति। किंबहुना सुप्रतिष्ठिताः सुपण्डिता अन्य स्माभिरवं वदन्तः श्रु ता 'यत्स्वयमेव वयं तथापकृष्टाः संवृत्ताः, येन वस्तुत एव लोकान् शिक्षयितुमसमाकं योग्यत्वं नष्टप्रायमिति'। यथ पा भवतु सामाजिकानां से यमुक्तिर्नास्माभिः साम्प्रतमवज्ञातु शक्य ते। अस्याः सारासारं निर्णीय देयमेवास्माभिः प्रतिवचनम् । कि इच यदि वस्तुत एव तदुक्तौ किश्चित् सत्यं निहितं स्यात, तर्हि त दुपादाय तदनुरूपमेवास्माभिराचरणीयम् । नात्र मनागप्यौदासी न्यं सेव्यम् । अन्यथा नष्टा वयं पुनरपि नंश्यामः । योऽयं प्रश्नः साम्प्रतमुत्थापितस्तस्य सम्यक् समाधानं स्वल्पे. स्मिन् व्याख्याने न सम्भाव्यते । दिङमात्रं किञ्चिदिहोच्यते । दक्षिण विनापि ब्राह्मणपण्डितरित्थं धनमुपार्जयितु शक्यते । सत्य, धर्म्यकत्या नि न तथेदानी समाजेऽनुष्ठीयन्ते, तथापि अस्माकं धर्मसाहित्यविना नदर्शनादिजिज्ञासा जनानामुत्तरोत्तरं वर्धत इति रूपष्टमेव । परन्तु स्व ल्पायासेन तदखिलबोधकानि पुस्तकानि नितान्तमेव दुर्लभानि । पा त्यैरेतद्विषयकाणि पुस्तकानि विरचय्य प्रभूतं धनमुपाज्यंते। यह बलु ते बहुसागरपारवर्तिनोऽपि परकीयाण्यपि दुरासदान्यपि शास्त्र .

संस्कृतशिक्षा। ३१५ क्सकोच्य तद्विषयकान् प्रन्यांश्च निर्मायाम् उपार्जयितु शक्नुवन्ति, तस्वियं सनिकृष्टा अपि स्वकीयान्यपि सुलभान्याप तान्येव प्राप्य चारुतरान् ग्रन्थान् विरचयितुं न शक्नुम इत्यश्रद्धयमिदम् । उद्यज्य. तां सर्वेः, स्वल्पैरेष दिवसहृदयङ्गमानि पुस्तकानि प्रणीय न केलं भारतोयेभ्यः, अपितु वैदेशिकेभ्योऽपि धनमधिगन्तुम् अस्माभिः प्र. भयेत । साम्प्रतं कोहशा निबन्धा अपेक्ष्यन्त इति मित्रगोष्ठयाः तृतीय- वार्षिककार्यविवृतिशेष किञ्चित् ज्ञायेत। ब्राह्मणपण्डिताः सर्वमा- युः संस्कृतानुशीलनेनैव यापयन्ति । अतस्तेषां सकाशात तच्छा- स्त्रविषयकं विविधं तत्वं श्रोतु सर्वैराशास्यते। बहवः साहित्य- रसिकाः सजाता जायन्तेन्च, किन्तु नाधाप्यकं साहित्यानां मन्दमपि समालोचनपुस्तकं पश्यामः । एवमवस्था अपरापरशास्वेष्वपि । 'येल' विश्वविद्यालये ( Vale Uneversity ) संस्कृताध्यापकेन E. Washburn Hopkins, M. A., Ph. D. इत्यनेन The great Epic of India इत्यभिधेयं रामायणमहाभारतयोः श्रुतिस्मृतिब्राह्मणादिस- म्पको ल्लेख पूर्वकं दार्शनिकविषयादिविवेचनपुरस्कार, छन्दस्तत्वादि मीमांसनसनाथं च यदेकं समालोचनं लिखितम, तत्पाठतो विस्मय एवारमच्चेतस्युदेति यत् कथं नु तैरेतादृशो ग्रन्थो विरच्यते, अहो तेषां संस्कृतेऽपि वानप्रकर्ष इति । इत्थं कियतां पुस्तकानां नामानि क्रियन्ताम् । घहुतराणीदृशानि सन्ति किञ्चित् परिश्रमेण आज- लभाषामधिगत्य पठयन्तां तानि, विज्ञायतां च कथं कियच्च तेषां संस्कृतवानमिति ॥ ---- । * यत्रेदमसंकीयं न विरन्त, शक्यते संस्कृतचन्दिकायाः सम्पादकेन श्रीमता जयचन्द सिद्धान्तभूषणमहाशयेन रामायण महाभारतयोः समी- चोदेन प्रकारेण कश्चित सचीग्रन्थो निर्मितप्रायः येन सद्ग्रन्याधिगन्तथा- नां धर्मसमाजाचारादिविविध विषयाणां मिरशेषं ज्ञानं मुकरं भवेत्। ईट- मानीव पुस्तकानि साम्य तमपेचान ।

. मित्रगोष्टी-पत्रिका। साम्प्रतम् आगलभाषाधिगमोऽवश्यमेपास्माभिः करणीयः तथा सति पाश्चात्य संस्कृतादिविषये किमुच्यते नोच्यते घेति शातु प्रभ- विष्यामः, ततश्योपादेयं स्वीकृत्य स्वश्रमलाघवं करिष्यामः, भनुपादेयं च युक्तमा निराकरिष्यामः, अन्यथा तेषामसलु क्तरप्रत्याख्याने, चतुर्यु, महादेशेषु तदधीयामा भूयांस एवास्मद्विरुद्धपथस्थिता भवेयुः। न घेतदस्माभिर्वाञ्छनीयम् । पाश्चात्यैबहवः खलूपादेया वृत्तान्ताः श्राव्यन्ते । परन्तु नहि न भान्तान्यपि मतानि कचित् क्वचिदपि तैरुद्- गीयन्ते। अस्माभिरेव तेषां सम्यक् प्रत्याख्यानं करणीयम् । अन्यथा कि न: संस्कृतशिक्षया। यथा च पाश्चात्यैः पण्डितः सममस्माकम् अन्योन्यं मतादानप्रदा. नार्थम् आङ्गलभाषाधिगन्तव्या, तथा भारतीयपण्डितानां निजेषु पर- स्परं तदर्थ कश्चिदुपायः कर्तव्यः । कदाचिद् हि कर्णाटवासी कश्चित् पण्डितः संस्कृतसाहित्यादिविषये किञ्चित् कथयेच्चेत, वनवासिनां विदुषां श्रुतिपथमुपगन्तु नैतत्प्रभवेत् । यदि नाम जनाः उक्त तत्वं नाकर्णययुः, तहिं तद्क्त स्तादृशातिगुरुश्रमाङ्गीकारो निरर्थक एवेति वक्तव्यम् । किञ्च यदेकेन, बहुना कालेन महता च श्रमेण चिन्तयित्वा निणी तम्, तस्यैव हि निर्णयार्थ प्रदेशान्तर- स्थः कश्चिन्मुधैव तावन्तं कालं तावन्तं श्रममनीकुर्यादिति देशसमा जयोमहती हानिः । अतोऽभिनवपुस्तकपाठे संस्कृतविदुषाम् मिथ्या- तिपाण्डित्याभिमानमूलकमौदासीन्यं दृश्यते, तत्सर्वथा परिहरणी- यम् । नहि सर्वः सर्व वेति । कियत्स्वल्पतरमेकैकस्य मानवस्य मा. नमिति रहसि विचिंत्य द्रष्टव्यम् ॥ नवनवग्रन्थस्येव मासिकादिपत्रिकायाः पठनमपि युक्ततरं मन्यामहे। अत्र हि स्वल्पेन समयेन श्रमेण च विविधानि वस्तूनि ज्ञातु शक्यन्ते। एकदेशस्थितस्य विदुषो देशान्तरस्थितैर्विदभिः परिचयोत्पादात परस्परं सौहद्यमुपजायते । एकं च तत्वं सम्यक सिद्धान्तयितु यहूना ।

मंस्कृतशिक्षा। पण्डितानां मतसंवादस्य सोकर्य' लभ्यते। अनधीतस्यानेकस्य वि- षयस्यास्वादनरसश्चाधिगन्तु शक्यते । नायं प्रत्रिकाया गुणवर्णना- यमस्माकमारम्भः। स्वयमेवापक्षपातिना हृदयेन श्रीमद्भिस्तदालो. य दृश्यताम् । सन्ति हि प्राचीना भूयांसो निबंधाः, तत्पाठस्यैषा पकाशी न लभ्यते, न च पत्रिकासु तेभ्योऽधिकतरं किञ्चिमिवध्यते इति किं ताभ्योऽस्माकमुपादेयं सम्भत्विति रिक्त वचो पादिनाम् । सर्वथापि प्राचीनप्रन्याधिकं किञ्चित् पत्रिकासु नास्तीति नाङ्गीकतु" शक्यते। किञ्च शास्त्रपारावारेषु तत्र तत्र विकीर्णानां रत्नानां वि- विधैः प्रकारैः सौलभ्यसम्पादनाथम् एकत्रसंदर्भणेन मालिकां विरच. ग्य रसिकेभ्य उपहरणमेव तासामन्यतमं प्रधान प्रयोजनम् । एतदेव हि साम्प्रतं विशेषेणापेक्ष्यते। अन्यच्च नहि किञ्चिदृष्टऽनुपपत्र नाम। पुरःस्थिते पञ्चाङ्ग ऽध मङ्गलवारो न घेति विचारायास- स्वीकारस्य किं प्रयोजनमिति न बुध्यामहे ॥ राजकीयशिक्षाव्यवस्थापनेन नापेक्षिता शिक्षाधिगम्यत इति स- धौष शृणुमः । वस्तुतत्त्वमपि च तथैव । परन्तु पृच्छामः संस्कृत- शिक्षा किमिति साम्प्रतं चारुतरं न सम्पद्यत इति । यथा खलु आ- लशिक्षाया भारो राजहस्तस्थितः, न तथा संस्कृतशिक्षायाः । स्वय- मेव हि राजसाहाय्यनिरपेक्षाः विद्वांसो विद्यार्थिनोऽध्यापयन्ति । राजकीयपरीक्षाविधिरपि प्रायेण ब्राह्मणपण्डितैरेष विविच्य क्रियते । तेषामेव हि तन परं प्रभुत्वम् । परन्तु दुर्लभास्ते विद्यार्थिनः, ये वस्तुतः शिक्षित'-पदवाच्यत्वं गच्छेयुः । साम्प्रतं परीक्षाविधिषु तथा व्यवस्था दृश्यते, येन वैदिकसाहित्यपरिचयस्य लेशोऽपि नाधि. गम्येत । केवलमर्वाचीनग्रन्थबद्धदृष्टीनां विद्यार्थिनां प्राचीननिबन्धा- लोचने प्रवृत्तेरुदबोधने न किञ्चित्परीक्षाविधिषु दृश्यते । न च किं- ञ्चिद विलोक्यते, येन ऐतिहासिकदृष्ट्या शास्त्रालोचनं सम्पद्यत । पाश्चात्त्य रतस्य विविधमितिवृतं प्रणीतम् । परन्तु न तत्सर्वमपि समीचीनमिति सुप्रथितेभ्यो भारतीयेतिवृत्तवियोऽवगच्छामः । ये १८ मित्रगोष्ठी-पत्रिका। हि भारतीयायशास्त्रेषु निष्णाततराः, त एव तादृशं प्रन्यं रपितु- महन्तीति तैरुच्यते । तच संस्कृतालीचनयिनियुक्तनिखिलायुभिः श्रीमद्भिामणपण्डितैरेव सुष्टुतरं सम्भाव्यम् । मतो विद्यार्थिनाम् पतद्विषयप्रवृत्युद्र कार्थ यतनीयम् । स्थानस्थानेषु माङ्गलशिक्षितानाम् उच्चतर शिक्षासौकर्यार्थ यथा 'गवेषणावृत्तयः' ( Research Scholarship ) सन्ति, संस्कृताध्येतृण्म- न्तु न तथा किञ्चिव दृश्यते । ताद शवृत्तिव्यवस्थापमेन महीयानु. पकारो भवतीति सर्व एव ममाग विविव्य ज्ञातु शनुषन्तीति कृतं तत्प्रतिपादनेन । सहदयैरेतद विषयेऽवश्य, प्रयतनीयमिति सनिबन्ध धूमः । अस्मन्मित्रगोष्ठग अन्यतमेन मिश्रण श्रीमता माननीयन ( Honourable ) माधवलालमहोदयेन लक्षरुप्यकाणि संस्कृतशिक्षा दित्सितानि । सन षष्टिसहस्रमप्यकैः षड् गवेषणावृत्तयः ( यासामे- कैका प्रतिमासं विंशतिरूप्यकपरिमिता भवेत ) स्थाप्यरभिति पहु- भिरेव ज्ञायते। माधवलालमहोदयानां तदिदं कृत्य कस्य नाम सेवनीयसंस्कृतस्य धनिजनस्य नानुकरणीयम् । किन्यत्र इदं किश्चि- दस्माभिवक्तुमिप्यते यत्तै रूप्यकैः प्रतिमासं षष्टिरूप्यमिता दे एष वृत्ती स्थाप्येतामिति। । :: काव्यतत्त्वावलो। ननु काव्यं किं, कस्मादा तस्य उत्पत्तिः, काव्यस्य प्रयोजनं या किम् इत्यादिषु वक्तव्येषु प्रथमतः काव्यस्य लक्ष्याणि निरूप्यन्ते । लक्ष्यज्ञानं विना हि लक्षणज्ञानं दुष्करं भवति । काव्यस्य लक्ष्याणि यथा-वेदाः, उपनिषदः, पुराणानि, इतिहासाः, स्मृतिशास्त्राणि, दर्शनशास्त्राणि, वैद्यकानि, महाकाव्यानि, खण्डका- व्यानि, विरुदावली * स्तोत्राणि, कथाः, आख्यायिकाः (प्राचामते ) : *विवहावलो गद्यपदामयं राजादौना लोबम् ।

दृश्य- बाध्यतत्वावली। प्रहेलिकाः अन्येच ताशा ग्रन्थाः। पतानि श्रव्यकाव्यानि । काव्यानिच नाटकप्रकरणादीनि दशरूपकाणि । नारिकादीनि च अष्टादश उपरूपकाणि। तेषामभिनयसम्बन्धात् रश्यत्वम् । तथा- हि "भवेदभिनयोऽवस्थाऽनुकारः स चतुर्विधः, आणिको वाचिक- इचैवमाहायः सात्त्विकस्तथा'' इति अभिनयानां मध्येऽपि वाचिका- भिनयः अव्यकाव्यम् आङ्गिकाहायंसात्तिकास्तु दृश्यकाव्यान्येव । पथा भभिज्ञामशकुन्तले-“विदूषकः" । भोटु, अङ्गभङ्गवि- भलो भविभ चिठिस्सं । इति दण्डकाष्ठमवलम्ब्य स्थितः' । मन दण्डकाष्ठमवलम्ज्य अङ्गभङ्गविशेषेण भग्नासवववस्थानं दृश्य. काव्यम । तस्य तादृश मषस्थानं दृष्ट्वा हि विदूषकस्य अनि भग्नानि इति प्रतीयते सभ्यैः, एवं "राजा शरसन्धानं नाटयति' इति राज्ञः शरसन्धानानुकरणं हश्यकाव्यम् । एवं "शकुन्तला शृङ्गारलज्जो नाट- यति" इत्यत्र ताशलज्जाविशेषस्यानुकरणं दृश्यकाध्यम् । पवं रोद- नस्यानुकरणं पापमोचनादिकं दृश्यकाव्यम् । नृत्यादिकमपि दृश्य- काव्यम् । आहार्योऽभिनयस्तु राजादीनामनुकरणाय छत्रचामराधा- हरणम्, मुकुटकुण्डलाविधारणच। सात्त्विकोऽभिनयः पुनः ऊरु- स्तम्भ-कम्पधर्मादोनामनुकरणं, यथा अभिज्ञानशाकुन्तले-शकुन्तला, "उरुत्थम्भ विभलझि संवुत्ता" इत्यत्र ऊरुस्तम्भस्य मनुकरणम् । पस्तुतो नाटकादिषु यावत्योऽनुकरणक्रियाः सन्ति तावत्यः सर्वा एप दृश्यकाव्यानि, अतएव कश्चिद यदि पंगु विडम्ब्य गच्छति तदा तम. वलोक्य पूर्ववङ्गनिवासिनः “अयमुत्तमं काव्यं करोतीति" घदन्ति । मतो दृश्यश्रव्याणां द्विविधानामेव काव्यानां संग्राहक काव्यलक्षणं कार्यम् । साहित्यदर्पणे तु पूर्वेषां लक्षणानि वण्डयित्वा यत् "वाक्यं रसात्मकं काव्यम्" इति लक्षणं कृतम्, समीचीनम्. अनुकरण- क्रियासु दृश्यकाव्येषु तस्य अव्याप्तेः। आङ्गिकाहायंसात्त्विकाभिन- यास्तु न वाक्यानि, अत स्तेषां वाक्यवाभावात् लक्षणस्य अव्याप्ति. रेव । अतएव च काव्यप्रकाशकारमम्मटभट्टादयः प्राञ्चः "शब्दार्थों तन्न . मित्रगोष्ठी-पत्रिका। काम्यम्" इवि लक्षणं चक्रुः। तत्र शब्दार्थयोमध्ये रामायण-रघु- घंशादीनि शब्दात्मकानि श्रव्यकाव्यानि । अङ्गभङ्ग विशेष-शरसन्धा. नादिका अनुकरणक्रियास्तु अर्थात्मकानि दृश्यकाव्यानि । ताः क्रिया हि "अङ्गभङ्गविकलोभूत्वा स्थास्यामि" "शरसन्धानं नाटयति इत्यादीनाम् वाक्यानां मभिधेया अर्थाः । तथा च "तददोषौशब्दार्थों सगुणावनलकतीपुनः कापि" इति लक्षणमेव समीचीनम् । अत्र लक्षणे यो यो दोषः साहित्यदर्पणकारेण आरोपितः स स एव प्रतिसमा- हितटीकाकारै रिति स विचारोऽत्र न क्रियते । घेदाः काव्यानीति यदुक्त तत्र "तेने ब्रह्म हदा य भादिकवये" इति श्रीमद्भागवतोक्तः प्रथमश्लोक एवं प्रमाणम्। तत्र हि आदिक. विशब्दस्य वाच्यो ब्रह्मा, वेदात्मकादिकाव्यकत्र्तृतरीव तस्यादिकवि- त्वम्। एवं " एकोऽभूमलिनात्ततम पुलिनाल वल्मीकत वापर" इत्यत्र नलिनादेकः कविरभूदिति यदुक्त, तस्य प्रतिपाद्यो ब्रह्मा, सहि पायोनिः । किञ्च घेदेषु अग्नपादीनां स्तोत्राणि पुरुषसूक्तानि च स- पाण्येव उत्कृष्टानि काव्यानि । अन्यञ्च- चत्वारि शृङ्गा बयो अस्य पादा द्वे शीर्षे सप्तहस्तासोमस्य । विधाबद्धो वृषभो रोरवीति महोदेवो मया नाविवेश ॥ इति यजुः माध्यन्दिन शाखा १७ म० ९१ स. भस्य पाच्योर्थः कश्चिदवृषः, तस्य चत्वारि शृङ्गाणि प्रयः पादाः, दे शिरसी, सप्तहस्ताः। स च विधा बरः रोरवीति पौनः पुन्येन भतिशयेन वा रौति, स महान देवः मस्र्यलोकमाविवेशेति; अद्भुतो- ऽयं वृषभइत्यर्थः। परन्तु अस्य व्यङ्गमा अर्था बहवः सन्ति तेषु एकः चतुःशृङ्गो यज्ञः वृषभरूपः। आरो व्यङ्गयाथः शब्दग्रामः, एव. मन्योऽपि भाष्यकारोऽन्यं व्यङ्गमार्थ व्याख्यातवान्, इत्यतो अनिका- व्यमिदमुत्तमम् । तथाहि वाच्यार्थापेक्षया मस्य व्यङ्गयार्थस्यैव अ. धिकचमत्कारजनकत्वमिति ।

काव्यतत्त्वावली। ३२१ एवमुपनिषदां च काव्यत्वं, यथा “अजामेकां लोहितशुक्लकृष्ण बह्वीः प्रजाः सृजमानां सरूपा। अजोधेको जुषमाणोऽनुशेते जहात्ये- नां भुक्तभोगामजोन्यः । इति'' अस्य वाच्योऽर्थ: काचित् छागस्त्री, दो छागौ च । व्यगाथस्तु प्रकृतिजीवात्मा, परमात्माच इति व्यङ्ग्या- सय अधिकचमत्कारित्वात् उत्तमं ध्वनिकाव्यमिदम् । तथाचोक्तम काम्यप्रकाशे-"इदमुत्तममतिशयिनि व्यङ्गय वाच्यात् ध्वनिबुधैः कथि. तः" इति। पुराणानां काव्यत्वं नानारसनिरन्तरतया सुव्यक्तम् । महाभारतादे. रितिहासस्य काव्यत्वम् महाभारते एव उक्त । यथा ब्यासो ब्रह्माण- मुवाच- "कृतं मयेदं भगवन् काव्यं परमपूजितम्" । इति मथ ब्रह्मोवाच-"त्वया च काव्यमितिप्रोक्त तस्मात्काव्यं भविष्यति इत्यादि" रामायणस्य काव्यत्वन्तु सर्ववादिसम्मतमेव । लौकिककाव्या- मध्ये आदिकाय रामायणमादिकविश्च लौकिककवीनां मध्ये बा. मीकिः । वेदकर्ता ब्रह्मा तु अलौकिककवीनां मध्ये मादिकविरिति - वशेषः। रघुवंशादीनां काव्यत्वे न कस्यचिदिप्रतिपत्तिः । प्रहेलिकानां साव्यत्वं पुनरावायंदण्डिप्रभृतीनां प्राचां सम्मतं, तासां हि व्यंग्याऽर्थः मत्कारातिशयजनकः । यथा- "यएवादौ स एवान्ते मध्ये भवति मध्यमः । अस्यार्थ यो न जानाति तन्मुखे तद् ददाम्यहम् ॥ त्यस्याः प्रहेलिकाया वाच्योऽर्थो दुर्योधः । व्यङ्गयोऽथस्तु 'य'कार (वादो 'स'कार एवान्त मध्येतु 'भवति'शब्दस्य मध्यमो 'व'कार इति पक्स' इति, यवतशब्दस्य अर्थः शुष्क तृणम् । इत्यतः प्रहेलि. नां काव्यत्वम् प्राचां सहृदयानां सम्मतम् । नव्या: साहित्यदर्पण- रादयस्तु व्ययस्य अतिगूढत्वात् प्रहेलिकानां काव्यत्वं न मन्यन्ते । ३१ २ मित्रगोष्टी पत्रिका। प्रहेलिकामां काव्यत्वमुचित नवेति विचारयन्तु आधुनिकाः सचेतलः । अलं तद्विचारण। अस्माकं मतेतु काव्यत्वस्वीकार एवं उचितः इति । - मन्वादीनों स्मृतिशास्त्राणामपि काव्यत्वं दृश्यते । यथा-"दृष्टिपूतं क्षिपेत्पाद वस्त्रपूतं जलं पिबेत् । सत्यपूतां वदेद वाचं मनःपूतसमाचरेत् ॥ इत्यादौ समुच्चयालङ्कारः प्रसादगुणश्वास्ति । काव्यस्य मुख्यप्रयो- जनमुपदेशोऽपि विद्यत एवेति अस्य काव्यत्वम् । । नन्वत्र कोऽपि रसो नास्तीति कथं काव्यत्वम् रसवत एवं शब्दस्य अर्थस्य वा का- व्यत्वामीकारादिति चेन्न । चेन्न । रसवकाव्यसादृश्यात् गुणालंका- रादिसत्वाच्च तस्य गौणकाव्यत्वं हि साहित्यदर्पणकारादिभिरएि स्वीकृतमेय॥ दर्शनानामपि काव्यत्वं स्वीकुम स्तथाहि तत्र परमात्मविषयक. भक्तिभावो रसोस्ति, उपपत्तिसादृश्यादीनां सत्वाच्च कालिङ्गो. पमादयोऽलङ्कारा अपि सन्तीति तेषां काव्यत्वम् ॥ कि बहुना काव्यगन्धोऽपि नास्ति तच्छास्त्रं कस्य. चिदप्यादरणीयं न भरतोति कोऽपि तदध्ययनाद्यन्मुखो न दृश्यते । वैद्यकऽपि कवित्वं दृश्यते, यथा-"वयस्थानागरासंगादङ्गानां हन्ति वेदना" मित्यत्र वयस्था हरीतकी, नागरः शुण्ठी, तस्या आसङ्गात् हरीतकी अङ्गानां व्यथां हन्तीति वाच्योऽर्थः । व्यङ्गया. यस्त, ‘अयस्था' योधनस्था कामिनी ' नागरस्य' नगरवासिनो आसङ्गात् ' आसक्ता अंगानां वेदनां' कामव्यथा हन्तीति । नन्वन वाच्यार्थेन व्यङ्गपार्थस्य सम्बन्धपिरहात् कवरसम्ब- खपलापित्वं प्रसज्यत इति चेन्न, असम्बद्ध मा प्रसांक्षीदित्यप्राकर- णिकप्राकणिकयोः उपमानोपमेयभावसम्बन्धः कल्पनीय इत्यालङ्का- रिकोक्ता प्राकरणिकमर्थ मुपमेयं अप्राकरणिकञ्च अर्थम् उपमानम यत्र शास्त्र अनस्य ।

कान्यतत्त्वावली। कल्पयित्वा वाच्यार्थव्यङ्गयार्थयोरुपमेयोपमानभावसम्बन्धी हि ज्ञात. व्यः यथा नागरस्य यूनः आसनात योवनस्था कामिनी अङ्गानां काम- व्यथां हन्ति तथा शुण्ठयालङ्गात् हरीतको अंगानां वेदनां हन्तीति काव्याथः कर्तव्य इति न कश्चिद्दोषः असम्बद्धप्रलापित्वं वा। धके तत्र तत्र कवित्वमस्तीति वैद्यानां कविराजख्यातिरिति मन्या- महे वयम् ॥ अथ कस्मात् काव्यस्य उत्पत्तिरिति. काव्यस्य हेतुरुच्यते । त्रोक्त काव्यप्रकाशे शक्तिनिपुणवा लोकशास्त्रकाव्याद्यवेक्षणात् । काव्यज्ञशिक्षयाभ्यास इति हेतुस्तदुदभवे ॥" इ त । तत्र शक्तिः कवित्वबीजभूतः संस्कारविशेषः। सच संस्कारः पूर्व- जन्मार्जितपुण्यविशेषजन्यो भावनाख्यः । तादृशी शक्ति विना काव्य नोत्पद्यत, उत्पन्नपि वा उपहसनीयं भवेत् । तथाहि अश- क्तितस्य “प्रश्नामि काव्यशिन वितताधरश्मि' मित्यादहि उप- मानोपमेयभावो न सङ्गच्छते। तथाहि लोको यथा शशिनं प्रश्ना- ति. तथा अहं काव्य प्रश्नामीत्ययमों न समीचीनः। नहि कोऽपि शशिनं ग्रथनातीति उपमानमेव असम्भव्यम् ॥ तथा लोकशास्त्रकाव्याद्यवेक्षणात निपुणता। लोकस्य स्था- घरजंगमात्मकलोकवृत्तस्य, शास्त्राणां छन्दोव्याकरणाभिधानकोष. कलाचतुर्वर्गगजतुंरगखड्गादिलक्षणग्रन्थानां, काव्यानाञ्च महाकवि- कर्मणाम् आदि ग्रहणात् इतिहासादीनाञ्च अवक्षणात् विमर्शनात व्युत्पत्तिः । तथा काव्यज्ञशिक्षयाभ्यामः। काव्य कत्तुं विचारयि- तुञ्च ये जानन्ति तदुपदेशेन पौन:पुन्येन प्रवृत्ति रिति त्रयः समुदि- ता हेतः। नतु व्यस्ता हेतवः । एवञ्च पुष्पादीनि मनोहराणि घस्तुनि, अरण्यादीनि भयानकानि, समुद्रादीनि गम्भोगणि, पर्वता. दीनि, विशालानि धा वस्तूनि दृष्ट्वा शक्तिमतामेव कवीनां काव्यनि- .

रति रनुराग तु ३२४ मित्रगोष्ठी-पत्रिका। र्माणे प्रवृत्तिरुदेति नतु शक्ति विनापि यस्य कस्यचित् प्रवृत्तिभवति तन्न कारणं मनोहराणि पुष्पाणि दृष्ट्वा पुष्पेषु काचिद् रतिरुदेति, साच रतिः मनसः प्रवणायितम्। उक्त हि साहित्यदर्पणे-“रति- मनोनुकलेऽर्थे मनसः प्रवणायित मिति ।' रतिरनुरागविशेष इति फलितोऽर्थः। साच रतिस्तस्य वस्तुन उपभोगभिलाषं जनयति सचाभिलाषः काम इत्युच्यते। यस्य मनसि यद वस्तु आलम्ग्य उदति तस्यैव मनसि तदवस्तु विषयीकृत्य काम उदे- तीत्यतो भारतवर्षायाणां मते रतिकामयोः सहचरत्वं, स्त्रीपुल्सयो रिख दम्पतिभावश्च परिकल्पितः। ईलण्डादिदेशवासिनां मते तु रति. कामयोः मातृपुत्रभावः, रतौ सत्यां हि काम उत्पद्यते इत्यतो रतिजन्यः कामो रतेः पुत्र इति कल्पितः। पुष्पादोनि मनोहराणि वस्तूनि कामस्य उद्दीपनानि इति तानि उद्दोपनविभावा उच्यन्ते शृङ्गाररसस्य । अतस्तद्दर्शने कवीनां मनःसु ते ते भावा जायन्ते । एवमरण्यादीनि भयानकानि वस्तुनि दृष्टा भयमुदेति इत्यतस्तानि भयानकरसस्य मालम्बनविभावाः । समुद्रादीनि गम्भीराणि वस्तूनि दृष्ट्वा गाम्भीर्य- भाव उदेति इत्यतः स भावोऽपि यदि उद्रिक्तः स्यात तर्हि सोऽपि रस- तुल्य एव चमत्कार जनकः । रसो हि उपलक्षणम् । रसशब्देन रस- भावरसाभासभावाभासादयोऽपि उपलक्ष्यन्ते । अतएव इलंडीयाना- मालङ्कारिकाणां मते भाव एव काव्यस्य आत्मा । शृङ्गारहास्य- करुणरोद्रवोरभयानकाः। वीभत्सोऽथाद्भुतञ्चेति" मष्टौरसा अपि भावविशेषा एव । अतसतेऽपि ईलंडीयानां मते भावा एव उन्यन्ते। भारतवर्षी या आलङ्कारिकास्तु भावविशेषानपि तामष्टौ पृथक कृत्वा रसनाम्ना व्यपदिशन्ति । वस्तुतस्तु तेऽपि परन्त अन्येभ्यो भावेभ्यः शृङ्गारादिभावानामष्टानां प्रवलतया रसनाम्ना तान् निदि शन्ति। पर्यालोचने तु कविशक्त स्तारतम्यादेव भावानां प्रबलत्वं दुर्वलत्वञ्च जायते, न तु स्वभावतस्तेषां केषाञ्चित्प्रबलत्वम् भावा एव। - . . . काव्यतत्वावली। अन्येषाञ्च दुर्घलत्वम् । तथाहि कदाचित शृङ्गारादिभ्योऽष्टभ्यो रसे भ्योऽपि दैन्यादिव्यभिचारिभावस्य प्रबलत्वं दृश्यते, अता यः कश्चि ठेव भावः कषिशक्त स्तारतम्यात् उत्कृष्टतमः, उत्कृष्टतरः, उत्कृष्टः, अपकृष्टः, अपकृष्टतरः, अपकृष्टतमो वा भवितु मह ति, नतु स्वभावात् । अस्मादेव तोः केषाचिन्मतेऽष्टौ रसाः, अन्येषां मते शान्तंन सह नवैव रसाः, इतरेषाञ्च मते वात्सल्येन सह दश रसाः। वैष्णवानां मते पुनश्चतुःषष्टीरसाः । इत्थं रसानां संख्यातारतम्यं च दृश्यते । भावा अपि अलङ्कारशास्त्र विभावानुभावयभिचारिभावत्वेन ये ये गणिता स्ततोऽपि अधिकार सम्भवन्ति। तथाहि गाम्भीर्यभावः वि. भावेषु अनुभावेषु व्यभिचारिभावेषु वा यद्यपि न गणित स्तथापि कववर्णनाचातुर्येण सोऽपि भावः शृङ्गारादिकान् रसानपि कदाचिद अतिशयितु शक्क यात् तदा गाम्भीर्यभावोऽपि रसवत् काव्यस्य आत्मा न भावहीनोऽस्ति रसो, न भावो रसवजितः परस्परकृता सिद्धिरनयो रसभावयोः" इति । रसापेक्षया भावस्य अधिकतरचमत्कारित्वं तत्र भावस्यैव रसवन मुख्यत्वमणि- त्वञ्च, रसस्य पुनर्भाववत् गौणत्वमङ्गत्वञ्च, तथा- " क्षिप्तो हस्ताचलग्नः प्रसभमभिहताऽप्याददानोंशकान्तम्, गृहन् केशेष्वपास्तश्चरणनिपतितो नेक्षितः सम्भूमेण । आलिङ्गन योऽवधूतस्त्रिपुरयुवतिभिः साश्रु नेत्रोत्पलाभिः, कामीवार्द्रापराधः स दहतु दुरितं शाम्भवोवः शराग्निः ॥" इत्यव भगवति महादेवे भक्तिरूपो भावः मुख्योऽङ्गीच, तस्यकाव्य- स्य घनित्वव्यपदेशहेतुश्च। कामीवेति' शराग्नौ कामिसादृश्यो- भावनाउ आयातः शृङ्गारः पुनर्गौणः, अनञ्च व्यभिचारिभावश्चति अन्यत्र यः शृङ्गारो रसत्वेन व्यपदिश्यते स एवात्र भावत्वेन व्यप- दिष्टः । तथाचोक्त साहित्यदर्पण-" रत्यादयोऽप्यनियते रसे स्युयं- भिचारिणः” इति । सुतरां रसोऽपि कदाचिद् भावो भवति, . भवेत् । अतएवोक्त यत्र तु. .

- मित्रगोष्ठी-पत्रिका। भावोऽपि कदाचिद रस्यमानतया रसो भवतीति पर्या ठोवनै रसभा. घयो न पार्थक्यम् ॥ कविना वर्णनीयं वस्तु पुष्पादिवत् साधारणं भातु तथापि सर्वभेव कवे भर्भावोदयस्य कारणं भवति । तथाहि महाकविना कालिदासेन साधारणस्य घटस्यापि वर्णनायामसाधारणो भावविशेष उद्भावितः, यथा- इलाध्यं नीरसकाष्ठताडनशतं इलाध्यः प्रचण्डातपः, क्लेशः इलाध्यतरः सुपङ्कनित्रयः श्लाघ्योऽतिदाहानलः । यत् कान्ताकु चपाश्र्वबाहु लतिकाहिल्लोललीलासुखं, लब्धं कुम्भवर त्वया, नहि सुखं दुःखै विना लभ्यते ॥ इत्यत्र काव्ये स्थावरस्यागि सुखदुःखानभिज्ञस्यापि अचेतनस्यापि च घटस्य या अवस्था कविना उद्भाविता, सा अवस्था सर्वषां लोकानां विशषतो यूनां कामिनामतीव कमनीया। इत्यतः कारणादेव लोका- नां प्रार्थनीयया अवस्थया सह घटस्य तामवस्थां सदृशीकृत्य कवि. रवर्णयदिति काव्यार्थस्य सद्य एव हृदयग्राहित्वं जातम् । रसास्वादोहि लोकानां मनोभावेन सह काव्यार्थस्य सन्भेदात ( सम्मेलनात ) आत्मन आनन्दोदयः । उक्त हि स्वादः काव्या- थसम्भेदादात्मानन्दसमुद्भव इति' । यथा गङ्गायमुनयोरिव द्वयो- नंद्योः द्वौ प्रवाही कचित् सम्भिद्य ( मिथः सङ्गस्य ) एकप्रवाहात्मको भवतः, एकमेव नदीभावञ्च गच्छतः, तथा काव्यश्रोतमनोभावः का- व्यस्य भावश्च, द्वावपि भावौ परस्परं यदि सङ्गनौ भवतस्तदा जायमानः परमानन्द एव रसास्वाद इति कथ्यते । प्रकृते च कयाचित् सुन्दर्य्या कुचपावें बाहुलतया गृहीतकण्ठस्य घटस्य दोलनलीलां दृष्ट्वा तादृश- मेष कण्ठग्रहमात्मनस्तया क्रियमाणं सर्वे कामिन इच्छन्ति इत्यतः कविना घटस्य पुरुषस्येव साऽवस्था वर्णिताऽभूत् । अतएव तस्य काव्यस्य भावेन लोकानां मनोभावो मिलति, मेलनाच परमानन्द उत्पद्यते।

- बहुविवाहनिरोधप्रयासः, तद्वैफल्यं च । ३१७ हारग्रहणं नाननुमोदितं तैः। चतुर्थमपि न निषिद्धम् , तृतीयन्तु सर्वथा न विधेय मित्युद्धोषतम्। इदं किल तेषां तद्वचनं स्मर्यते- 'उदहेद् रतिसिध्यर्थ तृतीयां न कदाचन । मोहादज्ञानतो वापि यदि गच्छेत्तु मानवीम् । नश्यत्येव न सन्देहो गर्गस्य वचनं यथा ॥' * इति । 'तृतीयां यदि चोद्वाहेत् तर्हि सा विधवा भवेत् इति च ।' + नियमस्वयं नाधिकं कालं स्वं प्रभावं व्यस्तारयत् । बहुविवाह पक्षपातिभि व निश्चिन्तरस्थीयत । रष्टं तैः प्राचीन स्तृतीयो हि विवाहः प्रतिषिद्धः, नतु चतुर्थ्यादिरिति । अतोऽमी वस्तुतस्तृतीय- मेव विवाहं चतुर्थत्वेन व्यवस्थापयितुं महाभुतं बुद्धिप्रकर्षमा- विश्चकः। तृतीया मानव्येव मविवाहा-इति हि शास्त्रकृतामादशः अतः को दोषो मानुषीतर विवाहे, शास्त्रवाक्यमपि हि नामेन न प्रतिपा- लितं भवेत् । तदिदं विचिन्त्य तै रयं विधिः प्रदर्शितो यद् यो माम तृतीयान् दारान् जिघृक्षेत्, तेनादौ " अर्कवृक्ष" मुदुख पश्चान् मा- गव्युद्वाह्येति ! तथा सति तृतीयो विवाहोऽर्कवृक्षेणव संवृत्तः, माग- वीविवाहस्तु चतुर्थ एव । मच शास्त्रकारेश्चतुर्थोऽपि मानवी. धिवाहो निषिद्धः । स्मरन्ति हि ते- चतुर्थादि विवाहार्थ तृतीयेऽर्क समुद्रहेदिति ।" :: सोऽय मर्कपरिणयो वक्ष्यमाणरूप उपलभ्यते-शनी रखो वा हस्तयोगे, अपरस्मिन् वा शुभेऽह्नि पूर्वाह्ने ग्रामस्य प्राच्यामुदीच्या वा पुष्पफलोल्लासितस्यार्कवृक्षस्याधस्तात् स्थण्डिलादिकं निमाय योढा कृतस्नानो धृतरक्तवसनश्चन्दनाद्यनुलिप्तश्च पूर्वोक्तस्थान सूर्य प्रार्थयेत- * मत्स्यपुराणम्। + पारस्करगृह्यसूत्रभाष्ये गदाधरेण, निर्णयसिन्धौ कमलाकर- भट्टेन च धृतं संग्रहग्रन्थोक्तं यचनमिदम् । * पूर्वोक्तंप्रन्थयधृतं वचनम् । AY ३२० .. पुस्तकपरिचयः। 'भवभूति ओ कालिदास' [वभाषायामिदम्,-'भवभूतिः का- लिदासश्च']-कलिकाता-विश्वविद्यालयीयपरीक्षकेण, 'पङ्गीय- आशियाटिक सोसाइटी'नामकसमित्याः सदस्येन, कलिकाता राज- कीयसंस्कृतविद्यालये धर्मशानाध्यापकेन श्रीराजेन्द्रनाथविद्या- भूषणेन विरचितम् । पाश्चात्यैर्विद्भिगविष्कृता प्रशस्या साहित्यानुशीलनपद्धतिः साम्प्रतं गेणास्माकं भारतीयैः पण्डितैरप्यवलम्ब्यते, प्रणीयन्ते च तेन प्रथा अपीति काममानम्दामो वयम् । श्रीमता विद्याभूषण- महाशयेनापि तामेव पद्धति मनुसृत्य रचितोऽयं समालोच्यो ग्रन्थ इत्यमेन विद्यार्थिना मुपकारमाकलयन्तो वयं न खलु न प्रमोद- मनुभवामः। अन्धेऽस्मिन् महाकविद्वयस्य कालादिनिरूपणम् सरकाव्यानां समालोचन विहितम् । तत्र प्रथमे न किश्चित्तनाभिनवं कांथतम्, नापि निावशेषं तत्, यदुक्तम् । न खलु ग्रन्थकारस्यायं विषयो- ऽस्मिन् ग्रन्थ मुख्यतया प्रतिपाद्य इति स एव कथयति । यावत्तु समासतः कथितं, तेन विद्यार्थिनः स्थूलतया बहु सातुं प्रभवेयु- रित्यवश्य वक्तव्यमस्माभिः। द्वितीयेऽपि तावत्युक्ते स्वयं ग्रन्थकार एप न तृप्तः, दिग्दर्शनं खलु कृतं तेनेति स एव ब्रवीति, तत्कथमन्ये तुप्येयुः । न च ग्रन्थकारस्तथैव कर्तुमभवत्समर्थः, स्वल्पकलेवरो वयंप्रन्धः। सत्यप्येवं, प्रयतितमेव तेन प्रदर्शयितुं सौन्दर्याणि द्वयोरपि महाकविप्रकाण्डयोः काव्यानाम्, विवेचायतुं च तेषाम- म्योन्य मुत्कर्षापकर्षों । अस्मिन्नपि विषये विद्याभूषणमहाशयः सर्वथा पूर्णमनोरथ इति न ययं मन्महे; भागतस्तु सिदं तस्य घमीहितमिति स्पष्टम् . .. पुस्तकपरिचयः। ३२१ देधा किल वस्तुतत्त्वमालक्ष्यते परीक्ष्यते च, व्यष्ट्या च सम- ट्या चेति । व्यष्टिदृष्टात् समष्टिदृष्टमेष हि चारुतरं च युक्ततरञ्च। भवन्ति स्खलु शरीरिणः करचरणवदननयन-श्रवणनासिकादीनि बहूनि शरीराणि । यदि नाम सुन्दरैरप्यभिः शरीरैः समनः शरीरी न सुन्दरः सम्पयेत, कृतमभिः सुन्दररपि । भवति हि कस्यापि नयनं, कस्यापि वदनं, कस्याप्यपरं वा किश्चित् सुन्दरं यदि निपुणं वीक्ष्येत, न च तायता तं पुरुषं घयं सुन्दरं कथयामः; कथयामस्तु सुन्दरं तदेव, यदापरापरैः शरीरैरेकैकस्य सामञ्जस्यं सुरक्षित तस्मिन् शरोगिण स्यात्,--गदा खलु धयं समष्ट्या तं शरीरिणं पश्यामो,- न तु व्यष्ट्या । काव्यानुशीलनेऽपि सय मेव साधीयसी सरणिरिति मन्यामह । सश्चिनुयात् किल कश्चित्कविरतिरुचिराणि पद्यरत्नानि, न तु स जानीयात्तस्तादृशेरपि सर्वतोमुखरुचिरं निर्मातुं काव्यम्,-यथान- भिक्षः प्रासादनिर्माणापेक्षः पूर्व सुसंगृहीतै रमणीयतरैरपि तस्तै- रुपकरणः प्रासादम् । स हि यतः कुतश्चित्तानि विन्यस्यन्नेक किमाप निर्मिमोते, न तु तन्नयनहरणं भवति यद्यपि स्फुरन्त्येव तत्र तानि तानि रत्नानि चोपकरणानि च । अन्यर्मिश्च पक्षे कुशलः कोऽपि कविः कुशलः शिल्पीव नात्युत्तमैरप्युपकरणैस्तथैव हृदयङ्गमां निर्मि- तिमादधाति, यथा विविधरत्ननिकुरम्बकैरपि प्रागुक्ता निर्मिति- नैवानया सह शक्नोति प्रतिस्पर्धितुम् । अतः सूक्तं यत्समष्टिवष्ट्या दर्शनमेव चारुतरं च युक्ततरं चेति । विद्याभूषणमहाशयेन तु व्यष्टिदृष्ट्या तेभ्यस्तेभ्यः काव्येभ्यः कानिचिद् रमणीयानि रत्नान्यनुवादेनोश्चितानीति कथितमेवास्मिन् यत्कथनीयमस्माभिः। एषां कीर्तनरीतिस्त्वतिसुखपाच्या संवृत्ते- ति जानीमहे। व्यष्टिदर्शनं सर्वथा हेयं काव्यमार्गे इति न वयं कथयामः, समष्टिदर्शन मेव पस्मिन् साधुतरमिति तस्मिन्नेव प्रयासः समीचीनतरोऽभविष्यदितित्वमित्रैम। अन्यथा यथारीखा - - ३२२ मित्रगोष्ठी - पत्रिका। विद्याभूषणमहाशयेन महाकविद्वयस्य काव्यानि प्रशंसितानि, तथा खलु संस्कृने भूयास्येव काव्यानि तां प्रशंसामहन्तीति वक्तव्यम् । तथा च सति, परेभ्यः कविभ्यः कालिदासभवभूस्योरीप्सितः समु- त्कर्षों नोपपद्येतति कृतमिह विस्तरेण । प्रक्रान्तयोर्महाकविप्रकाण्डयोः काव्येषु बहवो विषया अन्योन्यं संवदन्ति । यथा शाकुन्तले दुष्मन्तेन सर्वदमनस्य, उत्तरचरितेच रामेण कुशलषयोः समागमः; रघौ चोत्तरचरिते च चित्रप्रसन इत्येवमादयः। ईदृशान् विषयान् अधिकृत्य विद्याभूषणमहाशयेन पदुपन्यस्त तुलनया, तो किश्चिद् विमृशामः समासेन । तत्रैव हि तुलना सम्यक् सङ्गच्छते, यत्र स्थानस्य, कालस्य, पात्रस्य च साम्यं विद्यते, न तु सति तेषां वैषम्ये । यथा पशु हिंसन् कश्चिद् दृष्यते, अपरश्च हिंसन्नपि पशु यक्षादौ प्रशस्यते; न तयोः सम्भवति तुलना; स्थानभेदो यत्र वर्तते । एवमेवान्य- प्रापि द्रष्टव्यम् । विद्याभूषणमहाशयेनोपन्यस्तस्य रघुकारचित्रोल्लेखस्य उत्तर- चरितकारचित्रोल्लेखेन न साम्यं पश्यामः । उत्तरचरिते चित्रप्रसङ्गो हि मूलं समग्रस्य नाटकस्य, तस्मिनेघोप्तानि बीजानि परवर्तिष्य केषु प्ररोहादिकमुदपादयन् । अस्य हि चित्रदर्शनस्येत्थंवर्णनाभावे अभित्तिचित्रत्वमापद्यते । रघुकारस्य तु नेयमवस्था । सर्वथा तद- नुल्लेखेऽपि न तस्य किश्चिदछेत्स्यत । न तस्य तस्मिन् भवभूतेरि- वास्मिन् , सप्रपञ्चमीरशं वर्णनं समगमिष्यत । एवं भिन्नो दुष्मन्त. सर्वदमनसंवादः, भिन्नश्च रामभद्र कुशलवसंवादः। न समानयो- स्तुलना । नहि घर पटेन तुळयितुं कश्चिदुरसहेत । उत्साहे वा परीक्षकैरुपादीयेत । प्रकृते तु तयोः संवादयोः, परेषां वा तेषां तेषां मिथो मेषदपि साम्यमस्तीति नाचस्महे, इदन्तु अमहे यत्तेन नाल्य- सरस्य कवेयरकों वा पकों वा शक्योऽवधारयितुम् । .

, पुस्तकपरिचयः। ३२३ समालोच्ये ग्रन्थेऽन्तरान्तरा वृथैवाङ्गलशब्दप्रयोगः कर्णशूल- मिवास्माकं जनयति। भाषान्तरीये ग्रन्थे ताशशब्दोऽपि प्रयु. ज्येत, यदि तद्भाषायां तदर्थबोधकः शब्दो न स्यात् , कल्पितस्य वा तदर्थः सुगमो न स्यात् । प्रकृते तु भाषाशब्दप्रयोगे एव घनी- पपाठकैरतिसुगमोऽभविष्यत् । आङ्गलशब्दप्रयोगस्तु दुर्बोध एव संवृत्तः विशेषतस्तु विद्याभूषणमहाशयसदृशै विरचिते प्रन्थे नानु- मात्रमपि धयं तादृशं प्रयोगमभिनन्दितुं शक्नुमः । उक्तपूर्वमेवेदं पुनरपीह द्रढयामो यत् , सत्यप्येवमस्माकं पुरु- पमतिवैचित्र्यसुलभे मतभेदे, विद्याभूषणमहाशयस्य अन्धोऽयं वि. द्यार्थिनां बहुपकरिष्यतीति । अतएव च तेषु वयमस्य प्रचार कामयामहे । वासवदत्ता।श्रीसुबन्धुविरचिता, त्रिचीनपल्ली-'सेण्ट जोशेफक. लेज'-विद्यालये श्रेष्ठसंस्कृतपण्डितेन (Senior Sanskrit Pandita, St. Josheph's College Trichinopoly) शब्दालङ्कारवि- धाभूषणेन, कविशिखामणिना, सारस्वतसारक्षेन, "तट्ट धाधूल"-श्री- निवासाचार्येण रचितया टीकया, महीशूरमहाराजविद्यालयाध्या- पकेन श्रीमता जि कस्तूरीरङ्ग आयगर एम्. ए. इत्यनेन प्रणीतया आङ्गलभाषोपनिबद्धया भूमिकया च सहिता। मूल्यम् रू० १०, प्रेषणव्ययः पृथक् । १८५९ मिते खीष्टीयेऽन्दे Fitzed Edword Hall इत्यनेन म- हाशयेन शिवरामत्रिपाठिनिर्मितया दर्पणाख्यया व्याख्यया सनाथा वासवदत्ता प्रकाशिता, यत्र खलु तेन पण्डितेन काप्यति विशाला विविधवृत्तान्तपूर्णा च भूमिका सन्निवेशिता। अतिरमणीयमिदं संस्करणम् । अथ ई १८७४ मिते वत्सरे श्रीमता जीवानन्दविद्यासागरेण स्वभावमिवात्मनोऽनुसृत्य तस्य संस्करणस्य केवलं भूमिकामात्रं परित्यज्य प्रतिलिपिः प्रकाशिता। अतोऽस्मिन् संस्करणे पूर्वमान किधिवधिकमाशास्यम् ।

। ३२४ मित्रगोष्ठी-पत्रिका। भारते समुल्लिखिताभ्यां संस्करणाभ्यामपरं नाम प्रथितं किश्चि- दितः पूर्व नासादितं मन्यामहे । साम्प्रतन्तु श्रीमता श्रीनिवासाचार्येणाभिनव किमपि संस्कर- णमाविष्कृतं वासवदत्ताया इतीदमेवास्याः संस्करणानां तृतीय स्थानमधिकरोति। यावदस्माभिर्विलोकितं, तावता ज्ञायते नास्मिन् संस्करणे गता- नुगतिकन्यायेन श्रीमान् जीवानन्द विद्यासागरदय श्रीनिवासाचार्यः हाल (T. E. Hall) धृतानेव पाठानन्यसरत् । बहुषु स्थानेषु पा- ठवैषम्यं दृश्यते । साधीयानेव च पाठःस्थाने स्थाने समाहत आचा- येणेति पश्यामः येहि पाठाः कचित् कचिद् हालप्रदर्शितेषु विविधे- खु पाठेष्वपि नाधिगम्यन्ते । एतस्संवादाय पाठकै हाल संस्करणस्य ४४-४५ मिते, समालोच्यस्य च संस्करणस्य २८-२९, पृष्ठे द्रष्टव्ये । एवं पूर्वापरयोर्यथाक्रम ५६-३५ ५८-३६ [हारलतेत्यादि] कचित् कचिञ्च पुनरसमीचीनोऽपि पाठो गृहीतोऽवलोक्यते । “कन्दर्पदर्पक- शिलाचूर्णपूर्ण कलसाभ्यामिवे'त्यस्मात् [३६ पृ०] 'कन्दर्पदर्पवर्धन य- शीकरणचूर्ण पूर्ण समुद्रकाभ्या'मित्ययमेव पाठो [हालघृतः ५७ पृ०] रोचतेतरामस्मभ्यम्। केषां पुस्तकानामाद दर्शनामी पाठाः परिगृहीता इत्युचितमासीत्प्रदर्शयितुमाचार्यमहाशयस्य । भूमिकायां संस्कृते श्रीमता टीकाकारण, आगलभाषायां च श्री- मता कस्त्रीरङ्गाचार्येण कवेः कालरचनादिविषयकाणि बहूनि त- स्वानि समासेन पा व्यासेन वा प्रदर्शितानि । श्रीशिवरामत्रिपाठिकता वासवदत्ताया दर्पणाभिधा टीका सा- र्थकयत्येव स्वमभिधानं, सरलाप्येषा, सनाथा चापेक्षितकोषालङ्का राभ्याम् । इयन्त्विदानीमालोच्यमाना सरलतरति प्रतिभात्येवास्माकम् । दुरूहेयं प्रायः प्रत्यक्षरश्लेषमयप्रबन्धा वासवदत्ता। तामेनामना.. यासेनाधिजिगमिषूणां विद्यार्थिनामुपकरिष्यतीयं विवृतिरिति नि- धिनुमः । परन्तु दर्पणमत्येतुं नैषा प्रभवतीत्यप्यवश्य नमः ।

पुस्तकपरिचयः। ३२५ अस्यां किल नवीनायां विवृतौ कचिन्मूलेनासंवादो लक्ष्यते, य- -'समदरसितोद्भ्रान्तोत्कुटविकटकुञ्जकच्छव्याधूतेत्यादि' मूलम् यत्र खलु हालेन, मदकलकलहंससारसरसितोद्भ्रान्तभाः कूट किट पुच्छच्छटाव्याधूत विकचेत्यादि" गृहीतम् , दर्पणोऽपि इदमे- नुसरति, नच हालदर्शितेषु तेषु तेषु पाठान्तरेषु श्रीनिवासाचार्य- तः पाठोऽन्तर्गच्छति । ] विवृतिःपुनस्तस्येत्थं भवति......उद्मा- तानां...उत्कुटामां मत्स्यविशेषाणां विकटया...पुच्छच्छटया व्याधू- त्यादि । " नहि मूले पुच्छच्छटा-पदं दृश्यते । [५७ पृ० द्रष्ट- पम् ] क्वचिच शब्दान्तरसन्निवेशनं विना मूलतात्पर्यव्याकरणे न कृतः यासो यथा-"अनेकनल्यशतमात्रमध्वानम्" इत्यत्र परिमाणवाची ल्वशब्दः पथः कियत्परिमाणं बोधयतीतिविवरणे न प्रयतितं वि- तिकारेण-विना 'नल्वः किरकचतुश्शत, मित्यमरोक्तिप्रदर्शनम् ५० पृ] तदिदं क इन्द्रः, विडोजाः इति व्याख्यानमनुकरोति । नापि र्पण कृतोक्तं किञ्चिदिह, कोषोद्धरणमपि तेन न कृतम् । यदि कोऽपि साम्प्रतिको युरोपीयो प्रन्थं व्याख्यातुं प्रावय॑त् , स खलु निरवशेषमनुक्त्वा न व्यरमिष्यत्। तागेव हि तज्जातीयानां प्रन्धव्याख्यानशैली दृश्यते।वयमपि श्रद्धेय श्रीनिवासाचार्यसरशेभ्यो विद्वद्वर्येभ्यस्ताशमेव व्याख्यानमधिगन्तुं कामयामहे । एवं ५८ पृ० "जलमानुषी मृदितेत्यादी जलमानुषी-पदे नीरव एव व्याख्याका- रः। दर्पणकृतातु [हालस्य ९८ पृ०] "वनमानुषवजलमानुषःप्राणि- विशेषः" इत्यपि लिखितम् । कचित् कचिश्च मुद्रणस्खलितमपि दृश्यते यथा ५९ पृ० 'खञ्ज- रीट' इति वक्तव्ये 'खञ्चरीट' इति जातम् । नात्र टीकाकारोऽगरा- ध्यति । सोऽयं भारतीयानां मुद्रायन्त्राणामेवापराधः। अतिदुर्ल- भानि भारतीयमुद्रायन्त्रबहिर्गतानि पुस्तकानि येषु नैकोऽपि मुद्रा भ्रमआपतति । महानयमस्माकं कलको भारतीयानाम् । ४१॥

३२६ मित्रगोष्ठी-पत्रिका। २८ पृ० "मेनकानखमार्जनेत्यादिव्याश्याने" "मेनका तदाख्या भप्सराः" इत्युक्तम् । अत्र 'अप्सरस' इति, सर्वैराहतत्वादू बा. धचनमेव चारुतरं, यदाहुरनुशास्तार "स्त्रियां बहुष्यप्सरसः स्यादेकत्वेऽप्सरा अपीति।" केचित्तु अप्सरेत्याकारान्तमपि पठन्ति । प्रदर्शितानां त्रुटीनामस्मिन् प्रन्थे विरल एव प्रचार इति नायं पटतां वरस्यमुत्पादयति। अस्य पत्राणि घनचिक्कणानि, मुद्रणं च सुष्पष्टमतिरमणीयंच । श्रीकृष्णस्वाम्याचार्य इव वयमप्यस्य प्रन्थस्य विश्वविद्यालयेष्- पाधिपरीक्षार्थिनां योग्यत्वमवधारयामः । प्रियदर्शिका-"अभिनषभट्टबाण शम्वतर्कालङ्कारविद्याभूषण" विरुदभाजा वात्स्यचक्रवर्त्तिनाश्रीकृष्णसूरिणा [श्रीकृष्णमाचार्येण] विरचितया व्याख्यया भूमिकया च समुपेता, श्रीरानगरे श्रीवाणी- विलासमुद्रायन्त्रालये समुद्रिता । यथा 'निर्णयसागर-यन्त्रालयः' काव्यमालादिविविधप्रन्थानां साम्प्रतिकरीत्या प्रकाशनेन दिगन्तेष्वपि विश्रूयते, श्रीरङ्गनगरीयो ऽयं श्रीवाणीविलासयन्त्रालयोऽध्ये नातिचिरमेव, मन्यामहे ततो. ऽधिकतरमेव विश्वतः समय॑माणया शारदशशधरविशदया प्रचु. रकीर्तिमालयात्मानं समुल्लासयिष्यतीति । मुद्रणचारुत्वेन यन्त्रा- लयोऽयं सर्वथा निर्णयसागरमतिकाम्यतीति द्रढ़यत्यस्माकं प्राग- वलोकितपार्वतीपरिणयानां मतमिदं साम्प्रतं समालोचनावसरं प्राप्ता प्रियदर्शिका। नवयं मुद्रणरामणीयकमात्रेणेहाकृष्टाः । भवत्येतदेकमन्यतमं कारणमाकर्षणस्य, यत्तु मुख्यं नाम, सेयमत्रत्यातिमहती ४८ पृष्ठा- त्मिकी प्रकृतग्रन्थसंबद्धा भूमिका। यदिह कथनीयं, कथितं तन्निर- वशेषम् । द्रढीयानः प्रत्ययोऽयं यन्नूनमिमा भूमिकामवलोकयन्तः सन्तुष्येयुरिति। नागानन्दरत्नावलीवत् प्रियदर्शिकाया अपि कर्तृ- . • .

. पुस्तकपरिचयः। ३२७ अनिरूपणे महान् विसंवाद ऐतिहासिकानां सर्वतः समुत्सर्पति। यं श्रीहर्षवर्धनेन विरचितीत पदतां मतानि सप्रमाणं निराकृतानि मिकाकारण, सुरक्षितं च भीहर्षवर्धनस्यैव कर्तृत्वं त्रयाणामपि पकाणां नागानन्दरत्नावली-प्रियदर्शिकानाम् । प्रतिक्षितम सौ. तित्ववादो श्रीहर्षवर्धनस्य, यथास्माभिरपि प्रथमवर्षयपत्रिकायां वीहर्षशीर्षके सन्दर्भ । श्रीनारायणशास्त्रिणः (Mr. T. S. Varayana Sastriyal B. A., B. L. ) रत्नावलीभूमिकायां स-धावक-घटकर्परादीना मैक्यादयोऽश्रुतचरा धादाश्च कु. माण्डच्छेदं छिन्नाः । प्रियदर्शिकायाः,रत्नावल्याः मालविकाग्निमि- स्य च कथावस्तुनी भूयांस्यन्योन्य संवदन्ति । तत् कतमंत् कत- रस्मादपहतमिति बहवो बहु विवदन्ते, समाहितमिदं सर्व तेन, प्र- हर्शितश्च का सम्बन्धस्तेषां कथावस्तूनां कथासरित्सागरेण । कि पहुना कचित् किञ्चित् सत्यपि नो मतभेदे सप्रमोद वयमिमां श्रीक- णसूरे भूमिकामभिनन्दामः । टीकाप्यत्रत्या सुगमा, बालानां बहपकारिणीति सम्भाव्यते । नैनां पठतां चिसं तदीयवाक्येष्वेव निधत, यथाहि प्रायेण प्राचीना- सुटीकासु दृश्यते । प्राकृते हि चतुर्थी विभक्तिर्नाम कापि नास्ति। षष्ठ्येव हि तत्स्था- ने भवतीति ब्रुवन्ति । तदुकं प्राकृतप्रकाशकारेण-"चतुर्थी षष्ठ्याः" (६६४) अतः प्राकृते षष्ठ्यन्तानां पदानां संस्कृते यथास्थानं चतु- र्थ्यन्तत्वं विधेयम् । साम्प्रतिकेषु बहुषु मुद्रितेषु, रूपकेषु सर्वत्र नायं नियमोऽनुसृतो दृश्यते। षष्ठ्यन्तानि पदानि संस्कृतेऽपि तथैव स्थाप्यन्ते । षष्ठी हि कस्य नाम समीहितं न दुग्धे । तथापि तद्धि- पेश आवश्यक एव । समालोच्ये च ग्रन्थे क्वचिदयं नियमो गृहीतो- ऽपि नान्यत्र गृहीतो दृश्यते । यथा (३३पृ०) "कस्म दाष एवं अव- उत्तन्तं णिवेदिअ" अस्य संस्कृतं “कस्मै तावदेतं वृत्तान्तं निवेथे- ति।" भत्र कस्स" इत्यस्य “ कस्मै" इति कृतं युकं संस्कृतम्।

३२८ मित्रगोष्ठी-पत्रिका। " अयं खु सो महाराओ यस्स अहं तादेण दिण्णा" (३०)। अस्य संस्कृतं यथा-अयं खलु स महाराजो यस्याहं तातेन दत्ता" इति । अत्रन स नियम आहतः। अत्रापि यस्स इत्यस्य संस्कृत चतुर्थ्यन्तमेव युक्तम् । अथ भाषातत्त्वमनुनियेत, तर्हि 'यस्स' इत्यस्य 'यस्य' इत्येव संस्कृतं युक्तम् । सर्वत्र च तथैव करणीयम् । संस्कृतं ' व्याकरणं तेन भवत्वनुकूल मैव वेति न द्रष्टव्यम् । अन्यदेतत् इति कृतं ब- हुना। क्वचिदिह मुद्रणभ्रमोऽपि दृश्यते , यथा ३५ पृ० १३ प० अन्न- तास्मि' इत्यत्र 'आज्ञप्तासि' इति मुद्रितम् । वाणीविलासयन्त्रालये खल्वयं मुद्रितः, अतएवास्य स्तोकमपि स्खलितं न मृप्यामहे न च दिक्षामहे । -- *:- सामयिक साहित्यम् । प्रत्नतत्वनिरूपणे भारतीया युरोपीयाश्च । श्रीमता रामकृष्णगोपालभाण्डारकरमहाशयेन (Dr.R.CG. Bhandarkar) The Times of India ( March 6, 1907) पत्रे भारतेतिवृत्तविषयक प्रत्नतत्वगवेषणामधिकृत्य लिखितः कोऽ- पि रुचिरः प्रबन्धः । तत एव तस्मिन् विषये तस्य मतमिदमुद्धि- यते-पूर्वापरं समालोच्याहमिदं मन्ये, यन्न केवलै युरोपीयै न वा भारतीयैः पण्डितै भारतस्य प्रत्नतत्त्वनिरूपणं कर्तव्यमिति । सत्यं यत् युरोपवासिनः पण्डिता विशेषेण तु जर्मणदेशीया विशिष्टबुद्धि- प्रभावेण प्रत्नतत्त्वविचारे नवनवपरिच्छेदप्रकारान् उद्भावयितुं ता. मवलम्व्य च कश्चित् यावत् तत्तत् तत्त्वं धीरतया पर्यालोचयितुं विशेषतः समर्थाः ।भारतीयास्तु पण्डिताः स्वदेशीयानां रीतिनीति.

. हिन्दूनां हासः। ३२९ पद्धतिव्यवहारादिषु सामाजिकेषु च विषयेषु सम्यङ् निष्णाताः । तेन हि युरोपीयै निरूपितो भारतस्य प्रत्नतत्त्वविषयकः सिद्धान्तो- ऽप्रमादो वायौक्तिको वा, अन्याय्यो वेति स्वाभाविकविचारशक्तितः सूक्ष्मतया विचारयितुं त एव सम्यक् प्रभवन्ति, विचार्य च हेयत- योपादेयतया वा सिद्धान्तितान् विषयनिवहान् परित्यक्तुं ग्रहीतुं वा विनाक्लेशं शक्नुवन्ति । अन्यस्मिंश्च पक्षे भारतीयेन पण्डितेन रचितो प्रन्थो युरोपीयैः पण्डितैः सूक्ष्मतया परीक्षणीयश्चानुमोद- नीयश्च । यतो, यदि भारतीयः पण्डितो वैज्ञानिकपद्धति न परि- चिनुयात् , तस्य खलु कामं सम्भवत्युन्मार्गगमनम् अत एवेदमा- शास्यं यद्भारतविषयगवेषणाविभागीयनियोगेषु भारतशासना- धिकृतेन सोऽयं विपश्चिन्तनीयः; प्रतिप्रदेशं च भारतस्य कांश्चित् भारतीयान् समालोचकान् पण्डितान् नियमेन नियोक्तुं, तदर्थ काश्चिद् गवेषणावृत्तश्चि स्थापयितुमुपायो विधेयः । " हिन्दूनां हासः । Molern Review ( April, 1907) पत्रे तत्सम्पादकेन जनसंख्याविवरणीतः सकारणप्रदर्शनं सप्रमाणोपन्यासं हिन्दूनां हासः” ('The decrease of Hindus ) इति शीर्षके प्रबन्धे यल्लिखितं, तस्यायं संक्षिप्तः सार उपरिणात् प्रदर्श्यते । खी० १८९१ तमे वत्सरे हिन्दूनां संख्या भारते २०, ७७, ३१, ७२७ आसीत; १९०१ तमे तु सैव २०७१, ४१, ०२६ जाता,-अर्थ- तस्तु १८९१-१९०१ इति दशवत्सरमध्ये ५, ८४, ७०१ संख्या न्यू- मा संवृत्ता । १८८१-१८९१ इति दशवत्सरमध्ये ते प्रतिशतकं १० अवर्धन्त । यदि नामैतेनानुपातेन तेऽवय॑न् , तर्हि १९०१ तमेऽन्दे २२, ८५, ०४, ८९९ अभविष्यन् । परन्तु तत्र ते २०, ७१, ४७, ०२६ . मित्रगोष्ठी-पत्रिका। पश्यन्ते । अतोऽर्थान्तरेण दशमिर्वत्सरैः २१३, ५७, ४७४ हिन्दवा हासमवाप्ता इति शक्यं वक्तुम्। धर्मान्तरीयास्तु द्धि प्राप्ताः; मह म्मदीयाः प्रतिशतकं ८.९, खीष्टीयाच २७.९ वृद्धा इति । मतः किं निदानकामदामात वेषणीयम् । कृते च तस्मिन् दृश्यते -यथा खलु जनसंख्या कार्यविवृत्या प्रकाशितम्-[१] दुर्भिक्ष नामकं कारणम् । दुर्भिक्ष हि बहवो जनाः क्षुत्पीडामसह- मानाः स्वीयं धर्म परित्यज्य स्वीकृत्य च खीष्टीयं खोष्टयाजकेभ्यो धनादिलाभेन कथञ्चिद्रक्षन्त्यात्मानम् । समालोच्ये च समये बहुषु प्रदेशेषु दुर्भिक्षमजायत । तेनैकतः स्वधर्मत्यागपूर्व खीष्टीय धर्म: स्वीकारः, अपरतश्च देहत्यागः। इत्युभयतोऽपि हिन्दूना हासा जातः (२) द्वितीयतः, हिन्दु विधवानां पुनर्विवाहनिषेधः, येन सन्तान- जननयोग्यऽपि वयसि वर्तमाना बहवो विधवाः सन्तानहीना घर्तन्ते । (३) तृतीयतः, बालानां बालिकानाच शैशवविवाहः । (४) चतुर्थतः, महम्मदीये विशेषेण खीष्टीये धर्मे तेषां प्रवेशः। खीष्टयाजका हिन्दूना मध्ये कतमैर्वणः स्वीयं धर्म प्राहयन्तीति विचारे दृश्यते ये खलु दुर्भिक्षपीडिताः, ये वा समाजे घृणाईत्वेन गण्यन्ते-येषां स्पर्शोऽपि शरीरे जनयत्यशुद्धिमिति मन्यते, अमी एव हि त इति । भारतस्य सर्वेष्वपि प्रदेशेषु नायं वृत्तान्तो व्यभिचरतीति स्पष्ट कथयन्ति जनसंख्याविवृत्यक्षराणि । हिन्दूनां स्वधर्मत्यागेपूर्व धर्मान्तरस्वीकारे यत्कारणं, याचाघ- स्था दृश्यते, तेन तनिवारणाय हिन्दूना मिदं कर्तव्यद्वयमापतति (१) उश्चजातीया हिन्दवो ये हि सामान्यतो धनिनश्च प्रभावशालि- नश्च, निम्नजातीयेभ्यो हिन्दुभ्यो मानवोचितात् सर्वानधिकारानपं. येयुः; व्यवहरेयुश्च तैः सार्धमधिकतरं न्यायेन च औचित्येन च । (२) अनभिमता भण्यनुकरणीयाश्च खीष्ठधर्मप्रसारनियुक्ताः (Christian Missionaries) यथा खल्वेते अनाथान् शिशून्, दुर्भिक्ष.. पीडितांश्च जनान् दुःसमये रक्षन्ति, हिन्दुभिरपि तथैव कर्त्तव्यम् ।

३३१ हिन्दूनां दासः। हिन्दुभिरतियोग्यतया 'पतितपावन' इति भगवतो नामधेयं की- य॑ते । नेदमाशास्यं यत् कं नु माम धर्ममिदं तैः प्रदत्तं नामधेयं प्रकाशयतीति न ते पतितान् उद्धरिष्यन्ति ? कियदिदमसमास- मिति न दुर्विक्षयं यत्तावत्स निम्नजातीयो जनोऽस्पृश्यत्वन मन्यते, यावत् स हिन्दुत्वेन तिष्ठति, परन्तु ततः परमेव, यावदेव स खी- ष्टीय धर्म गृह्णाति युरोपीयं नामधेयं धारयति, परिदधाति च मस्त. कावेष्टनं (hat) ताचदेव क्रियते तेन करमर्दन, प्रदीयते च तस्मा आसन्दीति । स खलु पत्रिकासम्पादकः सप्रपश्चं प्रागुक्तान् विषयानालोच्य, तेन हिन्दूनां हासप्रतीकारसमर्था एते उपाया आपतन्तीति कथ- यति-१ जाठानाम् पश्चनीयानां चापरेषामिव युक्ते वयसि विवा- हा,-अपाकरणं च शैशवविवाहस्य; (२) वरवध्योवयसो रसाम्य- वर्जनम् ; (३) सन्तानहीनानां विवाहयोग्ये बयसिघर्तमानानां घि. धवानां पुनर्विवाहः; (४) निम्नजातीयेषु कुसंस्कारोच्छेदः, यथा ते- ऽस्पृश्यत्वेन न गण्यन्ते, तेभ्यः शिक्षाप्रदानं, पुद्धिप्रभावानुसारेण, चारित्रानुसारेण च सम्मानप्रदर्शनम् [५] समाजेषु प्रथममवान्तर- स्य, ततश्च मूलस्य जातिभेदस्य समुच्छेदः, लघुकरणं च विवाह व्ययस्य-येन विवाहस्य नात्यायाससम्पाद्यतया कन्यकानामुत्प त्तिः :शाप इव न मन्येत, परिपाल्येरंश ताःसयत्नम् [६] स्वास्थ्या नुकूलेष्वरेषु प्रदेशेषु, ताइशेषु च स्थानेषु-यत्र कृषीतरा जीविका लभ्या गत्वा निवासः; [७] जनानां मौलिकोत्कर्षसम्पादन च । हिन्दुसंख्याधिक्येऽपरोऽपि कश्चिदुपायोऽस्ति, स ध धर्मान्त रीयस्य हिन्दुधर्मेऽवस्थापनम् । अहिन्दुरपि हिन्दुर्भूत इति कथय तीतिवृत्तम् । अद्यत्वेऽपि परिवर्त्यत एव हिन्दुहिन्दुत्वेन। सिंहभूम छोटनागपुर-बरम्बा-प्रभृतिषु केषुचित् स्थानेषु 'हस'-'पन'- 'सम्ताला'दयः (Hos, Pans, Santals) अनार्या अपि हिन्दुदेव देवीपूजनेन, कचित् यज्ञसूत्रधारणेन, दासोपाधिधारणेन, द्विजाभि .

३३२ मित्रगोष्ठी- पत्रिका । धानन, वैष्णवधर्मप्रचारणादिना च स्पष्टमात्मानं हिन्दुत्वेन कीर्त- यन्तीति । . . अधस्तात्प्रदर्शितेष्वक्षरेषु सर्वेषां न सम्मतिः स्यादिति न वयं स्वप्नेऽपि शक्नुमश्चिन्तयितुम् । नूनमस्माकं केषाश्चिजर्जरेयुस्तानि श्रवणविवराणि । तथाप्यस्तीह किश्चिदुपादेयं, यस्य स्वीकारे न कापि सम्भवति क्षतिः शास्त्रतो वा लोकतो वा । तत् खल्विदं यद् विपत्तिसमयषु खीष्टधर्मप्रसारनिरतैरिवास्माभिरपि दुर्भिक्षादिदुःख- दूनानाम् अनाथानां शिशूनां च जनानांच रक्षणं च पोषणं च नाम.। को नाम मूर्योऽपि कथयेद् यदयमपि पन्थाः प्रतिषिद्धोऽस्मच्छास्त- रिति । अस्मभ्योऽनधिगतसाहाय्याः, भ्रमेऽप्यनवेक्षिताः दुर्भिक्ष- दहनदह्यमानास्ते हि तपस्विन उपकारकेषु तेषु युरोपीयेषु यनिस. गेणैव स्निह्येयुः, किं तत्रापरं वक्तव्यमवशिष्यते । स्वयमेव हि वयं स्वजनान् हारयाम इति न जात्वप्यस्माकं चेतसि समुदेति । अन्यच्च । अतियुक्तमुक्तं प्रबन्धलेखकेन यनिम्नवर्णोऽपि गृही- तखीष्टधर्मस्तदुचितं व्यवहरन् सद्य एव केनाप्यंशेन यथाकथमपि मान्यत एव । अतिरोहितः खल्वयमर्थः सर्वत्र सर्वेपाम् । नैवात्र कोऽपि न्यायोऽधिगम्यते, येनास्माकं तादृश आचारः प्रतिपाद्यत युक्ततया। अतो नूनमयमस्माकं चेतसः कश्चिदनुचितः संस्कार एव। कीटोऽपि नावय इति येषां शास्त्राणामादेशः, त एवामी वयं यदि मानवमवजानीयाम, तर्हि महदनुचितमस्माभिः कृतं स्या- दित्यकामेनापि वक्तव्यम् । न वयं जानिसमुच्छित्तये तदिदं व्याक- तुं प्रवृत्ताः, जीवत्वायुष्मती जातिर्यावत्सेच्छेत् । न तेऽधमजातीया अवज्ञेया इति हि कथयामः। कथमवज्ञानं भवति, कथं वा न भव- तीत्यन्यदेतत् । न वयं तदिह किश्चिद्वक्तुं प्रभवामः । पृच्छन्तु भवन्तः अन्तरान्मानम् , चिन्तयन्तु च पुरस्कृत्य न्यायं च मनुष्यत्वं च। अवश्यमिदं सर्वेायानुसारिभिः स्वीकर्तव्यं यत् युक्तं पथि . .

हिन्दूनां हासः। ३३३ विचरन् , नितान्तमधमजातीयोऽपि नास्मन्सकाशात् पशुचितं सत्कारमहतीति। किं बहुना, यथास्माभिः साम्प्रतं युरोपीयेष्वाचारः प्रदयते, अस्मत्समाजेषु निकृष्टजातीयेभ्यस्तादृशस्याचारस्य प्रदानं नाम न कथमपि विप्रतिपत्तिकोटिमर्हति । युरोपीया इवामी न शिक्षिता इति चेत्, शिक्षानुसार्येव व्यवस्थाप्यतामङ्ग, सत्कारः, गृह्यतां च "गुणाः पूजास्थानं, गुणिषु न च लिङ्गं न च वय इति।" किश्चामीपां शिक्षाया अभावेऽपि यूयमेवापराध्यन्ति, युष्माभिरेय हि ते शिक्षणीयाः। स्वं दोषं परस्य शिरसि स्थापयित्वा तमवजा- नन्तः के नाम कुत्र प्रशस्यन्ते । एवमपि मनुष्यास्ते न पशुव्यवहार- महनतीति विचार्यमेव । अथ विद्यमानायां जाती नैतत्सुकरमिति ? नैतत्परीक्षकाणां विचारक्षोदं क्षमते। किं न पश्यति भवान् जाति मेयं साम्प्रतं मोजनमात्रे, विवाहमात्र एव च परिच्छिन्नेति । कामं भवांस्तैीजनं व विवाहं च मा कार्षीत् । द्वयमपीदं साधु संरक्ष्य शक्यतएव नि- कृष्टजातीयैः सादरं ससत्कारं च समावीरतुम् न च नाद्यापि बहुषु स्थानेषु समाचरन्त्युदारचेतसः। बहवो हि नितान्तं निकृष्टजाती- याः पुरुषाः तेषु तेषु स्थानेषु ब्राह्मणाद्यैवर्णः पितृव्यमातुलादिभिः विविधैः सम्बन्धपदैः सम्बोध्यन्ते, व्यवह्रियन्ते च यावच्छक्यं तदु- चितम् । इममेवाचारं सार्वत्रिक व्यवस्थापयितुं किं छिधेत शास्त्रा- नुसारिणामपीति विचारयन्तु ते । . - -

No text on this page.

मित्रगोष्ठी-पत्रिका। (मासिकं संस्कृतपत्रम्।) 'संगच्छध्वं.सवदध्वं संवो मनांसि जामताम्" ऋग्वेदः। तृतीये वर्षे] १८२८ शकान्दाः, चैत्रः। [दादश संख्या . भारतवैभवम् । प्रकृतेः कृपया भारतीया भूमिः सर्वस्माहेशावरा ।अतो भित्र- देशीयैरतिकृच्छात् यल्लभ्यते भारतीया मातुरङ्क एव स्थित्वा तल्लभ- न्ते । तेनैव अन्नं नास्तीति चिन्ताया विमुक्ता भारतीयाः सर्वजनीन- वृत्तिपर्यालोचनया जैवमुत्कर्षमार्ग प्रकटीकृत्याधापि विश्वमिदं च- मत्कुर्वन्ति । स्वाधीनचिन्ताप्रधानेन शिरसा यन्त्रादिकं निर्माय वि. श्वहृदयमुद्भासयन्ति च । शस्यलोभात् वैदोशिका पणिजोवाणिज्या- र्थ सागरमुपसागरं चोल्लंघ्यागच्छन्ति भारतीयभूभागम् । एवमस्माद- प्यन्यानि मणिरत्नादीनि प्रवालादीनि च भारतीयखनिगर्भात् समु- द्राभ्यन्तराश्चोत्पद्यन्ते । एतेनैव भारतभूमीरत्नप्रसविनीति भिमदे- शीया भारतं प्रति सस्पृहं तीक्ष्णां दृष्टिं निक्षिपन्ति । एवं धनलुन्धा वीराङ्गना वीरवर्गाश्च धनलोभैराकृष्टचित्ताः प्राग् बहुशो भारता- नमपहतवन्तः। महाराक्षी 'सेमीरामिस' * प्रेम्णा भारतीयार्थमालि. ग्य परं सुखं प्राप्तवती। महाप्रतापशालिनः डेरायसाख्यस्य म्ले- छराजस्य धनोन्मत्ततामपनीतवत्येषा भारतभूमिः । महावीरस्थ * Semiramis, Queen of Assyria. + Darius, king of Persia.

। . ३३६ मित्रगोष्ठी- पत्रिका। आलेकजाण्डारस्यापि * धनकण्डूयनमत्रैव निवृत्तम् । ससैन्यवी- राग्रवर्तिनः तैमुरादयोऽप्यंत्रवागत्य धनपिपासामुधिच्छिदुः। एवं यस्मिन् कस्मिन् समये येषां केपाश्चित् धनपिपासा वलवती जाता, तैरत्रैव तत्पिपासोपशमिता । पुरा मिसर-फिनिसिया-ग्रीस- आरबप्रभृतया देशा भारते एव वाणिज्यं कृत्वोनतेः परं पदं लेभिरे। न जाने भारतीयाः कथं मूकास्तिष्ठन्ति । यातु तावत् धनविषयिणी कथा । अथ यदैव विभिन्नाया रुचे विचित्रबुद्धेश्चाधिक्यं मानवानां जातम्, तदैव शिल्पनैपुण्यं प्रादुरभूत् कस्यापि प्रतिकृतिमदृष्ट्वा क स्मादाप तत् कौशलमगृहीत्वा च स्वचेष्टया भारतीया यथा मह छिल्पकौशलं प्राप्तवन्तः, तथाद्यापि भिन्नप्रदेशीया स्तल्लेशमपि न जानन्ति । यैः खलु अयोध्यावर्णनं, मथुगया यथास्थानसस्थितानां विभागविन्यस्तानां वस्तूनां सौन्दर्यकथनं, इन्द्रप्रस्थस्य राजपरिप- दो निर्माणकौशलञ्चैतिहासिकवृत्तं श्रुतम्, वर्तमानेऽपि ताजमह- लाख्यः प्रासादो दृष्टश्च, तैरेव भारतीयस्थापत्यविद्याशिल्पनैपुण्ययो भूयःप्रशंसा मुखशतेन कर्तुमिष्येत । बौद्धशासनदशायामपि अज- न्त-कर्लि-इलारा-एलिफेण्टाप्रभृतीनां शिल्पकीर्तिकलापोऽ द्यापि प्राचीनभारतीयानां कर्मनैपुण्यं सूचयति । हन्त अन्तर्हिता सा लक्ष्मीर्भाग्यञ्चास्माकम् ! वर्गसंमिश्रणेऽपि प्राचीनानां महत्पाण्डित्यमासीत् विवाहसा- मयिकी जनकतनयासीतायाः प्रतिकृतिमवलोक्यायोध्यान्तःपुरचा- रिण्यः सभ्याश्च परं विस्मयं जग्मुः। एवं विस्मयवन्ति बहनि निदर्श- नानि सन्ति । किन्त्वनेकशी राज्यविप्लवाददर्शन गता परमा चित्र- विद्या। तथा समरनैपुण्येनापि परपक्षं स्तब्धीकुर्वन्तो भारतीया राज- न्याः लगत्रयं चमत्कृतवन्तः । ते सादिनो रथिनः पदातिका हास्ति- काश्च सन्तो यथान्यायं समरभूमिमवततरन्तोऽपूर्वरचनया वैपक्षि- * Alexander the great, king of macidon.

भारतवैभवम् । काक्रमणान् निःशङ्कमात्मानं निराकुलयन्तिस्म । साम्प्रतञ्च समर भूमे ईरादूरतरसंस्थितानां परमसाहसिकानां सेनानायकानां न कश्चित् तादृशव्यूहरचनक्रममुद्भावयति उद्भावयिष्यति वा । एवं प्राया मानवानां मतिः यत्किल तपांकचित् शरशरासनमात्रसहायाः केचिच्च गदाखड्गधारिणः समरभूमिमवतरान्ति स्म । न ज्ञातवन्तस्ते साम्प्रतिकं रणकौशलं तत्प्रसाधनोपायच। किन्तु ये किल रामायणं- महाभारतञ्चाधीतवन्त, स्त नैवात्र संशयांबुधावात्मानं निमजयनि । तो रामरावणी महावारौ रणमूर्द्धनि यान्यरत्नाणि व्यवहृतवन्ती तषां मध्य साम्प्रतं 'कामान' इति यस्य प्रसिद्धि स्तस्य नामपदमपि शृयते । येन शतं हन्तीति व्युत्पत्त्या प्राक् तस्य शतघ्नीति सक्षा आ- सीत् । तत्र गमायण लिखितमस्ति- परिगृहा शतनीश्च सचक्राः सगुड़ोपलाः । चिक्षिपुर्भुजवेगन लकामध्ये महास्वनाः" ॥ इति । अन्यश्च मान्धातुर्दिग्विजये वर्तमाने 'वन्दुक' इति यस्य प्रसिद्धिः, तस्य "कवतक्” इति नाम्ना, नरदूपणयोयुद्धे नालिकास्त्रमिति ना- म्ना च ख्यातिरासीत् । कलिनामा युरोपीयः कश्चिछिल्पिप्रवरः पश्चिमप्रदेशे गङ्गाया जानर्गमप्रणालीखननावसरे भूगर्भस्थं प्रासा- दादिकं दृष्ट्वानुमितवान् यत् तददितिहासप्रसिद्ध हस्तिनापुरमि- ति । तत्र च स बहुविध वस्तुजातं दृष्टवान् , तेषु प्रस्तरमयं लौहम- यश्चानेकं गुड़कमेकां शतघ्नीश्च प्राप्तवान् । दृश्यते च नीतिचिन्ताम- णौ कृष्णशाल्वयायुद्धेऽपि शतघ्नीप्रहरणमासीदिति । "और्वाग्नि प्रोथितं कृत्वा शतघ्नीर्मुड़कैयुताः।” वनाम्नो मुनेर्जानत्वात् 'वारुद' इत्यस्य और्वाग्निरिति संज्ञा जाता। गुड़कश- ब्देन वर्तुलाकारः पदार्थविशेषः 'गोला' इत्यवबुध्यते । तथाचामरः स्याद्गुड़ो गोलेक्षुपाकयोरिति । एतत् सर्व निदर्शनं बमा यत्पुरा वर्तमानसदृशं युद्ध कौशलं प्रसाधनं च नाविरभृत् । " दृष्ट्वा कथं ८.

. ३३८ मित्रगोष्ठी-पत्रिका। ज्योतिर्विद्यायामपि भारतीयकृतिनः परमुत्कर्ष प्राप्तवन्तः । किन्तु ज्योतिर्विदाचार्येषु कस्तावत् पूर्वतनः को वा परकालिक- स्तत्रानुसन्धित्सूनामैकमत्यं नावलोकयामः। केऽपि पराशरं केऽपि सूर्यसिद्धान्तकारं केऽपि ब्रह्मसिद्धान्तकारं प्राथमिकं मन्यमाना विवदन्ते । किन्तु शम्भुप्रकाशग्रन्थकृन्मते प्राक् सोमसिद्धान्तकारः, ततश्च वराहमिहिरः स्वजन्मना ज्योतिर्वित्कुलमुद्भासयन् भारत- भूमौरवं वर्द्धयामास । तत आर्यभट्टो भास्कराचार्यश्च नवं नवं कोशलमुद्भाव्य ज्योतिषशास्त्रस्य परमुत्कर्ष स्थापयामास । चन्द्रसूर्यग्रहणस्य, नक्षत्रवृत्तस्य, राशिचक्रस्य, अपां वृद्धिक्ष यस्य च तत्त्वनिरूपणे भारतीया एव प्राक् सिद्धमनोरथा भवन्ति स्म । तथाच विष्णुपुराणे- स्थालीस्थमनिसंयोगाददकिसलिलं यथा। तथेन्दुवृद्धौ सलिलमम्भोधौ मुनिसत्तमाः ॥ न न्यूना नातिरिक्ताश्च वर्द्धन्त्यापो इसन्ति च । उदयास्तमनेष्विन्दोः पक्षयोः शुक्लकृष्णयोः । दशोत्तराणि पश्चैव अङ्गुलानां शतानि वै । अपां वृद्धिक्षयौ दृष्टौ समुद्राणां महामुने ॥ इति । रव्यादिवाराणां प्रतिपदादितिर्थानाञ्च क्रमानुपाती व्यवहार- नियमश्चादौ प्रशावतामार्याणां मूर्येवाविरभूत्। तस्य च्छायां गृहीत्वा पाश्चात्त्याः पण्डिता नामान्तरं विधाय दिग्दिगन्तेषु स्व- पाण्डित्य ख्यापयन्ति । सान्डे (Sunday) मन्डे ( Monday) इत्या- दीनां रव्यादिवारवाचकानां शब्दानामर्थ परिशीलयतां पाठकानां भवतां सुविदितमेतत् स्यात् । यस्मिन् दिवसे दिनमानं रात्रिमानञ्च तुल्यं स्यात् तत् पण्डित- टलेमि Stolemy जन्मनः प्राक् भारतीयज्योतिर्विद्भिः निरूपितम् । . एवं यस्मिन् दिने इटालीदेशीयः पाण्डतः कोपार्निकस्-Copernicus नामा पृथिव्या आह्निकगति वार्षिकगतिश्च निरूप्य स्वगणं चमत्- भारतवैभवम् । ३३९ तवान्, तस्मादतिपूर्व भारतीयज्योतिर्वित्कुलतिलकैः प्रकाशित- तत्। प्रायेण पाश्चात्यशिक्षया शिक्षितानां नव्यानामेतन्मतं, यार- याः किल त्रिकोणत्वेन भूमण्डलं झातवन्तः, न पुनर्वृत्ताकारं । यमद्य युरोपीयराजप्रसादात् 'पृथिवी नागरगनद् वर्तुलाकृति' रति सुष्टु शातवन्तः। किन्तु भारतेऽस्मिन् युरोपीयछायापातात् क् सूर्यसिद्धान्ते ऽभिहितम्- 'सर्वतः पर्वतारामग्रामचैत्यचयश्चितः । कदम्वकेसरग्रन्थिः केसरप्रसवैरिव ॥' इति । ह्माण्डशब्दस्य व्युत्पत्त्याप्ययमर्थः सर्वेषां सविधे प्रतिभायात् । गरजहष्टान्तात किं दृष्टान्ततयोदाहृतं कदम्बकुसुमं भूगोलत्वस्या- धेकं परिचायकं न स्यात् ? क्षत्रकल्पेऽपि लिखितमस्ति यत्- "कपित्थफलवद् विश्वं दक्षिणोत्तरयाः समम्।” इति । एवमस्मिन् समये यद् गोलकं निर्माय छात्रान् शिक्षयन्ति तदपि अनुकृतिकुशलै रनुकरणे पाण्डित्यं दर्शितम् । तथाहि पदार्थदीपि-. कायाम्- "अभीष्टं पृथिवीगोलं कारयित्वा तु दारवम् । तद्वत् खगोलकं कृत्वा गुरुः शिष्यान् प्रबोधयेत् ॥” इति । पृथिवी गतिशक्तिमतीति युरोपीयगुरोः कृपया वयं ज्ञातवन्त इति स्वगौरवं ख्यापयन्ति नव्या भ्रातरः सर्वे । किन्तु ग्रीस्देशीय- पिथागोरासाख्यस्य * पण्डितप्रवरस्य जन्मनः प्राक्, इटालिदेशीय कोपार्निकसाख्यस्य । पण्डितकुलपतर्बुद्धिस्फुरणात् पूर्व कथितमे- तदार्यभट्टेन . * Pythagoras, Greek Philosopher. + Copernicus, Prussian Astronomer. अत्रेदमवधेयम्-पिथागोरासोनाम खीष्टपूर्वषष्ठशतक आसीत्, - ३४० मित्रगोष्ठी - पत्रिका । चला पृथ्वी स्थिग भातीति" 'भूपअरः स्थिरा, भूरेवावृत्तवृत्त्या प्रतिदेवसिकौ । उदयास्तमयो सम्पादयति ग्रहनक्षत्राणाम् ॥ इति ।" आर्यभट्टस्यतत् सिद्धान्तोदकं फल्गुप्रवाह इवान्तर्गत्या ग्रीसप्रणा- लीकया युगेपमपि प्लावयामास। अनयैव पृथिव्या गतिक्रियया विभिन्नदेशषु सूर्यस्योदयास्तमानेषु महदूवैपरीत्यमनुभूयतेऽस्माभिः। लिखितञ्चैतत् सिद्धान्तशिरोमणिगोलाध्याये- लङ्कापुरेऽकस्य यदोदयः स्यात् , तदा दिनाई यमकोटिपूर्याम् । अधस्तदा सिद्धपुरे ऽन्तकालः, स्थाद्रोमके रात्रिदलं तदैव ॥ "भद्राश्वोपरिगः सूर्यो भारतेऽत्रोदयं रवेः । राव्यर्द्ध केतुमालाख्ये कुरवेऽस्तमनं तदा ॥" अन्यश्च शास्त्रानभिशाः प्राकृतप्राया पवमापादयन्ति, यत् पृथिवी सर्पशिरस्यवतिष्ठते । यदैव शिरः सञ्चालयति, तदैव भू. कम्पन जगत् क्षुभ्यति । किन्तु यदेषा पृथिवी आकर्षणगत्या शून्य ऽवतिष्ठते एतद् युरोपीयगुरोः कृपया परिक्षातमस्माभिः । सम्भाव. यामोऽत्र यत् सूर्यसिद्धान्तरहस्यपाठेनास्माकं भ्रम एपोऽपनुद्यतेति । तथाहि- " .. यत् किल - कोपार्निकसस्तु बह्वर्वाचीनः, नीटपोडशशतकवर्ती। तत्र भवान् आर्यभट्टश्चास्माकं पञ्चमशतके (४७६) यः खल्वस्मद्देशे प्रथमं पृथि- व्या वर्तुलाकारत्वं गतिमत्त्वं च प्रकाशयामास । अतः प्रबन्धका- रमतं नात्र समीचीनं भाति । श्रूयते पाश्चात्येषु 'ग्यालिलियो' (Galileo, Italian astronomer 156-1-16--1:2) नामा एच प्रथमं पृथिव्या गति मुद्भावयामास। वैदिकशब्दैरपि पृथिव्या गतिः सूच्यते। प्रथमवर्षे ज्येष्ठमासीयपत्रिकायां "वेद पृथिव्या- गति" रिति सन्दर्भी द्रव्यः । मि० प० स० - भारतवैभवम् । ३४१ 'भूगोलो व्योम्नि तिष्ठति ।" इति । एवं भास्कराचार्यण सिद्धान्तशिरोमणिग्रन्थे लिखितम्- "नान्याधारं स्वशक्त्या वियति च नियतं तिष्ठतीहास्यपृष्ठे । निष्ठं विश्वञ्च शश्वत् सदनुजमनुजादित्यदैत्यं समन्तात् ॥” इति पाश्चात्त्यशिक्षया सुशिक्षितमिदं जगत् प्रायेण वक्षः स्फारीकृत्य प्रचारयतीदं यत् 'न्युटन्' * स्वजन्मना पृथिव्याः केन्द्राकर्षणशक्त- गूढरहस्यमुद्भेद्य जगदिदं प्रथमं जागरितवान् । किन्तु न्युटनस- काशाच्छिमामलभमान रार्यकुलतिलकै विपश्चिद्भिः स्वयमेव आ- विष्कृतमेतत् पृथिव्याकर्षणशक्तYढरहस्यम् । तथाहि भास्कगचा- यण गोलाध्याये ऽभिहितमेतत्- "आकृष्टशक्तिश्च मही, तया यत् खस्थं गुरु स्वाभिमुखं स्वशक्या । आकृप्यते, तत् पततीति भाति, समे समन्तात् क पतत्विमा ख॥" एवमार्यभटेनापि लिग्वितम्- "आकृष्टशक्तिश्च मही यत् तया प्रक्षिप्यते तत तया धार्यते ॥" मही पृथिवी आकर्षणशक्तिविशिष्टा, यद्वस्तु नरैः प्रक्षिप्यते तद्वस्तु तया आकर्षणशक्त्या पृथिव्या धायत, इत्यर्थः । पुगणादिशास्त्रस्य तात्पर्यमशात्वा प्राकृता जना गहुँ गक्षसत्वे नापादयन्ति, एवं स एव गक्षसरूपधृग् गहुश्चन्द्रसूर्यो ग्रसति । ते. नव ग्रहणं भवति । पृथिव्यादेश्च्छायापातेन यद्ग्रहणं भवति, आर्या स्तन्न ज्ञातवन्तः किन्तु वयं इंगजी भाषाध्ययनेनेतज् ज्ञातवन्त इति । अहो धिगस्मान् । यत् शास्त्रचक्षुषा परिहानरस्माभिः किमपि न दृष्ट्वा न श्रुन्वा च सर्वतत्त्वोद्भावकस्य भ्रमप्रमादविरहितस्यार्यर्षि- संघस्य दोषसन्तति रुद्धाट्यते ! ब्रह्मपुराण लिखितमस्ति, ब्रह्मणा गहुं संवोध्य कथितमेतत्- * Sir Isaac Newton, 1662-17--27. . ४३॥

३४२ मित्रगोष्ठी-पत्रिका । "पर्वकालेतु सम्प्राप्ते चन्द्रामै छादयिष्यसि । भूमिच्छायागतश्चन्द्रं चन्द्रगोर्क कदाचन ॥” इति । पर्वकाले पूर्णिमाप्रतिपत्सन्धौ च संप्राप्ते सति चन्द्रार्को छादयि- ध्यसि । केन प्रकारेण तदेवाह-भूमिच्छायागतः सन् चन्द्रं, कदा- चिश्व चन्द्रगः सन् अर्के छादयिष्यसीत्यर्थः । एवं सूर्यसिद्धान्तेऽपि लिखितम्- "छादको भास्करस्येन्दुरधस्थो घनवद् भवेत् । भूच्छायां प्रमुखश्चन्द्रो विशत्यर्थो भवेदसौ” ॥ एकार्थवाचिनो हि तमोराहुच्छायाशब्दाः । ज्ञायते ह्येतत् सर्वैः । अतोऽन सर्वथा राहुशब्देन छायारूपोर्थः प्रतीयते । एवं तर्हि ख- ण्डिता नो राहौ राक्षसबुद्धिः ? एवं नक्षत्राणां लग्नप्रभवादौ पृथिव्यां जीवोद्भिदादिषु काऽवस्था कीदृशो वा फलोद्गमः स्यात् ? तथा नक्षत्रादीनां गतिमवेक्ष्य राज्य- विप्लवमारीभयरोगव्याप्तिदुर्भिक्षसुभिक्षादीनां कथं सञ्चारः ? लग्न- विशेषोत्पन्नानां मानवानां कीदृशमायतिफलम् ? एतत्सर्व निर्णतु- मार्यज्योतिर्विदाचार्या यथा समर्था बभूवुः, तथा साम्प्रतं कुत्रापि नावलोक्यन्ते तादृशास्तत्त्वज्ञानिनः। जगत्सारभूतैषा भारतभूमि नितुलिकया सर्वेषां दर्शनीयानां तत्स्वानामादर्शचित्रं विरचयन्ती साम्प्रतं केन पुनः कालभुजङ्गेन दष्टा, ज्ञानः परिहीना मृतप्राया तिष्ठति। श्रीरमेशचन्द्रवेदान्तविशारदः । . ::-- ३४३ प्रश्न:- जातिभेदस्य किं मूलम् ? कीदृशौ वा तस्य गुणदोषौ ? उत्तरम् । वैदिकधुरन्धराचार्य श्रीसत्यव्रतसामश्रमि महाशयानाम् । गुणकर्मजन्यान्येव जातिभेदस्य मूलानि: सामाजिकामुष्मिकोन- यादीनि तु तद्गुणाः ऐक्यवाधश्च तहोप एकः। लिखितश्चैतद घि- तरशो मयैतरेयालोचने । विज्ञानचिन्तामणि' सम्पादक पु० श्रीनीलकण्ठशर्ममहाशयानाम्- जातिभेदः प्रकृतीर्गुणमयीरवलम्ब्यातिचिरात् प्रतिष्ठापितोपि पु- स्तत्तयापारवशात् जनानां अभावभेदाश्चानेकसहनशाखो देशभे. इन भिन्नभिन्नश्च वर्त्तत इति श्रौतस्मातक्रमताचारादिष्वनति. वेशेषाणामवान्तरजातिविशेषाणामेकीकरणं गुणः पुनरपि भिन्नभि- तया विस्तारश्च जायताम् । सूनृतयादिनीसम्पादकानां श्रीमदप्पाशर्मविद्यावाचस्पतीनाम्- - विदितमेवैतत्प्रेक्षावतां यद्भगवता परमेश्वरेण प्रजानां विवृड्य- र्थमात्मनो मुखवादूरुपादतः क्रमेण ब्राह्मणाः क्षत्रिया पैश्याः शूद्राश्च निरमीयन्तेति। तथाहि स्मयते-"लोकानांस विवृद्ध्यर्थ मुखबाहूरुपा- दतः । ब्राह्मणं क्षत्रियं वैश्यं शूद्रं च निरवर्तयत् ॥” इति ॥ कारणग- ताश्च गुणाः कार्यमनुवर्तमानाः सन्दृश्यन्ते । यथा मृगता घटादौ तन्तुगताः पटादौ स्वर्णगताश्च कुण्डलकटकादौ । एवं परमात्मनो मुखगता गुणास्तजन्ये ब्राह्मणे ऽन्ववर्तन्त वाहुगताः क्षत्रिये ऊरुग- ता वैश्ये पदगताश्च शूद्र इति नैतदाश्चर्यम् । कण्ठादुपरिवर्तमानः शरीरप्रदेशो मुखम् । तत्रैव च मस्तिष्कं भवति मस्तिष्कमेघ च निषासोझानस्येत्याधुनिकाअपि स्वीकुर्वन्ति । नचैतद्विहाय मस्तिष्क- ३४४ मित्रगोष्ठी - पत्रिका । मन्यत्र विद्यमानस नुमन्यन्त आधुनिकाः। ततश्च येयं केवलाशानश क्तिः सा किल परमात्मनो मुखावयवीभूते शिरसि निवसन्ती तज न्येषु ब्राह्मणेष्ववानुवृत्ती । बाहुगता तु क्रियाशक्तिऊर्यापरपर्याया सा चयं ज्ञानशक्तिसापक्षाऽपि न प्राधान्येन ज्ञानमुपजीवतीत्युपस अनीभूतमस्यामेतत् । ततश्च ज्ञानापसर्जनीभूतावोर्यादिलक्षणा क्रिया शक्तिः परमात्मनो बाहुगुणः । स च बाहुजन्येषु क्षत्रियेष्वनुवृत्तः अस्ति चारिपि क्रियाशक्तिः किन्तु नास्यामुपसर्जनीभूतं ज्ञानं प्र स्युताज्ञानमेवोपसर्जनीभूतम् । एवं चाशानोपसर्जनक्रियाशक्तिविशि प्रत्वं परमात्मन ऊरुगुणः स एव च तजेषु वैश्येष्वनुवृत्तः। पादै पुनः क्रियाशक्तिं प्राधान्यन नावलम्बते प्रत्युतोपसर्जनतयैव । नस्य च नात्र कश्चित्सम्बन्धः सुतरां विप्रकत्तिनिवासभूतस्य वद नस्येति । एवं च क्रियाशतमुपसर्जनीभूतमशानमेव परमात्मनः पा दगुणः स एव च तजन्येषु शूद्रेष्वनुवृत्तइति प्रतीयते । अत्र शान पदं सत्वोपलक्षणं क्रियाशक्तिपदं रजसोज्ञानपदं च तमस इति बो व्यम् । एवं च निसर्गसिद्धो ब्राह्मणेषु सत्वगुण स्तदुपमृप्रश्च रजोगुणः क्षत्रेषु तमसाएसृष्टो रजोगुणो वैश्येषु रज सोपसृष्टश्च तम गुणः शूद्रेष्विति द्रष्टव्यम्। पवं तत्तद्गुणविशिष्टतामेवामीपां कामयमानेन परमात्मन नत्तवयवतो विनिर्मितैाह्मणादिभिराजानसिद्धस्य परमात्मनाभि लषितस्य सत्वादिगुणस्याविक्षतये चाभिवृद्धये च प्रयतितव्यमि त्यय न्याय्यः पन्थाः । येन च यथा यतितव्यममीभिः सोऽयमपि प्रदर्शित एव शमो दमस्तपः शौचमित्याद्युपदिशता भगवता वा. सुदेवेन। यदि सत्वं रजसा संसृज्येत तदाऽवश्यं हापयेदात्मनःप्राधान्य म् । रजसा हि संसृष्टमेतन केवलमात्मीयानपि त्वात्मन इव रजसो- पि धर्मानाधिककुर्यात् । विजह्याच शुद्धसत्त्वत्वमात्मीयम् । एवं तमसापि संसृष्टं स्वस्येव तमसोऽपि गुणान्प्रादुष्कुर्यात्परित्यजेचा प्रश्नोत्तरम् । ३४५ त्मनो विशुद्धत्वम् । अत एव च विशुद्धं सत्वं कामयमानन यथैतन्न रज आदिभिः संसृज्येत तथावश्यमवधातव्यम् , अत एव च चत्वारो धर्णाः परस्परं विभिद्यन्ते । यदि च नेते विभिद्यरंस्तदा परस्परं सं. सृष्टत्वाद्गुणानां संकरः सम्पद्यत । स चायं समानः सर्वानीप विशुद्धान गुणान्समूलमुच्छिन्द्यात् । ततश्चाव्यवस्थया न कश्चिदपि सुखमवस्थातुं प्रभवत् । अत एव चापेक्ष्यते परस्परं विभिन्नत्वमे- तेषाम् । ब्राह्मणादिनिष्ठाश्चामी सत्वादिगुणास्तजातीयानां स्त्रीपुरुषाणां शुक्रशोणितयोः सूक्ष्मतयावतिष्ठमानास्तजन्ये गर्भऽनुवर्तन्ते । तद्गताश्च तत्तद्गुणोचितस्याहागदरासेवनेनाभिवर्धन्ते । भवन्ति चाभिवृद्धाः श्रेयसे परमाय । गर्भगतगुणप्रतिकृलाहारादिसंप्रयोग तु न तत्रान्यो गुणो बद्धमूलत्वमुपयाति नापि पूर्वः संवर्धते । एवं च सत्युभयतो भ्रए इवायं दही परं क्लेशमनुभवति न चापि प्रभवति कार्य किमपि सम्यगनुष्ठातुम। यश्च ब्राह्मणादीनामाहागदिविधिः मोऽयमेव तत्तद्वीजानुवृत्तगुणप्रवृद्धहेतुः। तद्विपंरीतः पुनस्तत्परि-, क्षयस्यैवेत्यत एव न सेव्यं ब्राह्मणादिभिर्भिन्नजातीयानामन्नम् । अत गव चोक्तं गजान्नं तेज आदत्त इत्यादि । सत्वगुणविशिष्टस्य ब्राह्मणस्य सात्विकेष्वेध कर्मसु प्रवृत्ति - सर्गिकी। अत एव च सोऽयं सात्विकष्वव क्रर्मसु प्रावीण्यमासाद- यितुं प्रभवेन्न खल्वेवं राजसेष्वन्येषु वा । अपहाय सात्विकानि कर्माण्यपरत्र प्रवर्तमानोऽयं न केवलं तत्रैव प्रतिहतमनोरथः स्यात् प्रत्युत स्वीयमपि गुणं (आजानसिद्धं) चपलंचेतस्कतया परस्ताद- वलम्बितुं न प्रभवेत् । अत एव स्वीयमेव कर्मावलम्बनीयं ब्राह्मणा. दिभिर्नान्यदीयमिति स्मयते । यच्चोक्तं भगवता गीतासु "स्वधर्म निधनं श्रेयः परधर्मो भयावह" इति तदेतदप्येतदभिप्रायकमेवेत्येत- दपि द्रष्टव्यम् ।

मित्रगोष्ठी - पत्रिका। उक्तपूर्वमेवास्माभिः शुक्रशोणितयाः सूक्ष्मतया ऽवतिष्ठन्ते.स- वादयो गुणा इति। ततश्च समानजातीययोरेव स्त्रीपुंसयोश्चेत्सं- भागस्तदा समानगुणविशिथ्योरनयोः शुक्रशोणिताभ्यां समुत्पन्नो गौऽपि तद्गुणविशिष्ट एव स्यात्। यदि पुनर्विजातीययोः स्त्री- पुरुषयोः समागमः सम्पद्येत तदा विभिन्नयोर्गुणयोः साङ्कय स्यात् । तजन्यश्च गर्भः संकीण इति व्यपदिश्यते । शुक्रस्य च शोणिता- पेक्षया प्राबल्यादीदृशस्य गर्भस्य यस्मात्पुंसः समुत्पत्तिस्तच्छील पवायं प्रायशः संलक्ष्येत तनिष्ठगुणानुकृलेष्वेव कर्मस्वेष प्रवर्तत.। अत एव चॉपन्यस्तं स्मृतिकृद्भिः “यस्तु स्वपितरं द्वेष्टि तं विद्याद- न्यरतसमिति ।" संकीर्णश्चाय गर्भो न मातृजातीयगुणविशिष्टो नापि वा पितृ- जातीयगुणसम्पन्ना भवति। किन्त्वन्यविधैरेव कैपि गुणैः सम्पन्नो भवति । यथा गर्दभ्यामश्वतः सम्पन्नी गर्भो न गर्दभजातीयो नापि याश्चजातीयः परन्त्वन्यविध एवाश्वतरो नाम । अतश्चैवं विधानां संकीर्णानां मातापितरजातिसमावेशायोगादपरैव जातिः कल्पयितुं युक्ता। युनं च तदुचितमेवास्याः कर्मापि योजयितुम् । अनुलोमः प्रतिलोमश्चति द्वेधा ऽयं सङ्करः । तजातानां च विभिन्ना एव जा- तय इति न्याय्यमेवैतत् । एवं च परमात्माभिलाषानुगुणबीजसंशुद्धिसंरक्षणमेव जातिभेदे मुलमिति सिद्धम् । सति जातिभेदे सत्यां च तदुचितायां व्यवस्थायां नूनमात्य- नमो भवेद्देशः । तदा हि स्वस्वमेव कमर्मावलम्बरंस्तास्ता जातयः । कुलक्रमप्राप्नेन च संस्कारविशेषेण परं पटीयस्त्वमापादयेयुस्तस्मिन् । तस्य तस्य च कर्मणस्तत्तजातिमात्रायत्ततया कापि व्यवस्था संप. धेत। सम्पन्नायां च तस्यां सुखं जीवेयुस्तास्ता जातयो विन्देयुश्च समुन्नतिमभ्यधिकाम् । सम्प्रति पुनर्विद्यन्ते जातयो न पुनस्त दु- चिता व्यवस्था वर्गवर्तीत्यत एव चाव्यवस्थं तेषु तेषु कर्मसु प्रवर्त- मानास्तास्ता जातयो नितान्तमेव दुःखायन्ते । .

प्रश्नोत्तरम् । ३४७ देवमात्रायत्ततया च जाते स्ति प्रशावतामुन्नतजातिषु मात्स- विंस्रो नापि वा गर्हणावकाशो निकृष्टासु । किमत्र क्रियतां देवा- यस वस्तुनीति । अतश्च यदुच्यते कैश्चित्कलहमूलकतया जातिभदा भारतवर्षस्यावनतिमात्राय प्रकल्पत इति तदेतदनभिक्षतामात्रमूल- कमेवेति ब्रूमः। विलुप्ते च जातिभेदे चक्रीकृतचापेन कुसुमचापेन प्रोत्साहितो व्यभिचारोऽपि प्रभिन्नसेतुः शनैः शनैर्मुनमुन्नयत् । तदाहि तज- न्यायास्तदजन्यायाश्च सन्ततेर्न कश्चिद्विशेषः स्यादिति। न हि विना धर्म नीतिः स्थिरपदत्वमुपगच्छेत् । न चापि धर्मा विना जातिभेदमिति । जातिभेदे पुनर्नकमपि दोष पश्यामः । प्रत्युतभृयांस एव गुणान् गोचरीकुर्मः । घिस्तरभिया तु नात्र प्रपञ्चयितुं प्रभ- वाम इति । .. जयपुरराजसभापण्डितश्रीमधुसूदनविद्यावाचस्पतिमहाशयानाम्-- "ब्राह्मणोऽस्य मुखमासीद् बाहू राजन्यः कृतः । ऊरू तदस्य यवैश्यः पद्भ्यां शूद्रो अजायत"त्येवंविधप्रमाणवचनोंनिभेदमूलको जातिभेद इत्येके । (१)। ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप । कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणै रित्यादिवचनैर्गुणभेदमूलको जातिभेद इत्यन्ये । (२) । न विशेषोऽस्ति वर्णानां सर्व ब्राह्ममिदं जगत् । ब्रह्मणा पूर्वसृष्टं हि कर्मभिर्वर्णतां गतमित्यादिवचनैः कर्मभे- दमूलको जातिभेद इति परे । (३) । चातुर्वर्ण्य मया मृष्ट गुणकर्म विभागशः-इत्यादिवचनैर्गुणकर्मभेदमूलको जातिभेद इत्यपरे॥(४)॥ अथवा सर्व एते शब्दा गुणसमुदायेषु वर्तन्ते-ब्राह्मणःक्षत्रियो वैश्यः शूद्र इति । " तपः श्रुतं च योनिश्चत्येतद् ब्राह्मणकारकम् । तपः श्रु. ताभ्यां यो हीनो जातिब्राह्मण एव सः।" समुदाये ब्राह्मणशब्दः प्रवृत्तोऽवयवेष्वपि वर्तते । जातिहीने गुणहीन चेत्यादिप्रामाणिक- ३४८ मित्रगोष्ठी - पत्रिका। पचनयाँनिगुणकर्माणि विशिष्टान्येव जातिभेदस्य मूलमिति विद्वांसः। त्रापि योनिः प्रधानं गुणकर्मणी तूपष्टम्भके इति सिद्धान्तः । । यदि जातिभेदो न स्यात् तर्हि कदा केन किं कर्तव्यमिति गुणकर्मव्यवस्था व्युच्छिद्यत । अव्यवस्थायां च भूयांसोऽनर्थाः प्रवर्तन्ते इति प्रबन्धान्तरेण गुणदोषाः प्रदर्शयिष्यन्ते । इदमेव तावदत्र प्रदर्श्यते, यदिह जातिभेदो नितान्तमावश्यक इति । यथा हाकस्मिन् मनुष्यशरीरे दक्षिण व पाणिना भोजनं कुर्वन्ति, वामनव तु शौचम् । नेतरदितरेण शक्यमपि । यथा वा पादाभ्यामेव गम्यते, गन्तुं पारयन्तावपि हस्तौ न गमने विनियुज्यते । किन्त्व: न्यस्मिन् कर्मणि व्याप्रियते । एवमेव सम्भवदपि ब्राह्मणकर्म न शूद्रण कर्तव्यम् । शूद्रकर्म च ब्राह्मणेन । [१] नातिपक्षेऽप्येवमय- मर्थो दृश्यते । महाराजपुत्रो नितान्तमयोग्योऽपि स एव गज्यास- नेऽभिषिच्यते न त्वन्यः कश्चित्पथिकः सर्वविधनीतिविद्यासंपन्नो- ऽपि राज्यप्रबन्धदक्षाऽपि । अयोग्याऽपि पुत्र एव पित्रासनऽधि- कर्तव्यो न तु योग्यतावानप्यन्य इति हि नीतियानेव भूयसो गुणा- • नाश्रित्य व्यवस्थापिता तानव गुणानाश्रित्य चातुर्वर्ण्यव्यवस्थापि जातिभेदरूपा प्रवृत्तेति बोध्यम् ॥ [२] ॥ यथा वा गजदरााधिकार- यतां सर्वेषामक्षदर्शकानामन्यस्यान्यदीयकमकरणयोग्यतावत्त्वेऽपि नान्यस्यान्याधिकारप्रवेशो रोचते तदीश्वराय । एवमेतत् खलु- "ब्राह्मणस्य तपो ज्ञानं तपःक्षत्रस्य रक्षणम् । वैश्यस्य तु तपो वार्ता तपः शूद्रस्य सेवनम्" इत्यादिवचनीसद्धविभिन्नाधिकारवतां ब्राह्मणादीनामन्योन्याधिकारप्रवेशोऽवश्यमीश्वरप्रकोपायैव प्रभवे- दित्यध्यवसीयते । तस्मादीश्वरनीतिविरुद्धोऽयमर्थः स्याद- यदि जातिभेदव्यवस्थामुपक्ष्यैव कश्चिद् यदृच्छया साङ्काय प्रवर्तत । अव्यवस्थायाः सर्वलोकस्थितिप्रच्यावकत्वात् ॥ [३] ॥इदं तावद्गु: णकमभेदेन जातिव्यवस्था मन्यमानानां सन्तोषाय नीतिप्रसङ्गना- पात्तम् । वस्तुतस्तु योनिभदनैव जातिव्यवस्थास्वीकारपक्षे-यथा - प्रश्नोत्तरम् । ३४९ मूर्द्धभागो विज्ञानेन, वक्षोविभागो विक्रमेण, उदरविभागोऽनसंग्र. हेण, पादविभागस्तु तत्रितयसंसेवनेनोपकरोति न त्वन्यकर्माणि कुर्वाणा अन्ये विभागाः प्रवर्तन्ते, स्वस्वगुणकर्मविभागेनैव सृष्ट्या- दावुत्पादितत्वात् । एवमेव जगतोऽप्ययं ब्राह्मणभागो विज्ञानेन, क्ष- त्रियविभागो विक्रमेण, वैश्यविभागोऽनसंग्रहेण, शूद्रविभागस्तु तत्रितयसंसेवनेनोपकरोति, न त्वन्यकर्माणि कुर्वाणाअन्ये विभागाः प्रवर्तन्ते, स्वस्वगुणकर्मविभागेनैव सृष्ट्यादावुत्पादितत्वात् । यथा च वालिशत्वाच्छिरसा गच्छन् क्लिभाति एवमेवेदानींकालेऽपि प्रशा. दोषादुन्म-दं प्रवर्तमानो ऽन्यवर्णाभिमानी भूत्वा ऽन्यवर्णानुब. न्धीनि कर्माणि कुर्वाणः क्लिश्यन्नेव दृश्यते । अस्य चेदानीन्तनस्य चातुर्वर्ण्यदुरवस्थाजनितक्लेशभोगस्य चातुर्वर्ण्यमर्यादाभङ्ग एव मुख्यो हेतुः । तस्माद् ब्राह्मणेनैव ब्राह्मणकर्म कार्यम्-ब्राह्मणेन च ब्राह्मणकर्मैव कार्य्यमित्युभयथा नियमोऽनुरोद्धव्यः । स जातिभेद- व्यवस्थामन्तरण न सिध्यतीत्यवश्यं जातिभेदः फलवान् । जातिभे- दाभ्युपगमे तदनुसारेण कर्मप्रवृत्तौ च ब्राह्मणाधिकारसिद्धकर्मणां सिद्धेः सौकर्य नाप्राप्तिश्च गुणः । अव्यवस्थायां पुनर्याथातथ्येना- सिद्धिः क्लेशाधिक्यं चेति भूयान् दोषः- इत्याद्या समीक्षा- दक्षः॥ .. त्रिवङ्कुरराजकीय संस्कृतविद्यालयाध्यक्षाणां पण्डितप्रवराणां श्रीमतां त. गणपतिशास्त्रि महाशयानाम् । जातिभेदापरनाम्नश्चातुर्वर्ण्यस्य तत्त्वं मत्प्रणीते भारतानुवर्णने परुत्प्रकाशिते यथान्यायमीदृगिति समार्थतं तदिहोपयोगार्थमनू- घते- इह हि मानुषाणामवर्जनीयाश्चतस्रो वृत्तयो भवन्ति -विद्यावृ- त्तिः शूरवृत्तिः अर्यवृत्तिः शुश्रूषावृत्तिरिति । ४४॥

.. ३५० मित्रगोष्ठी - पत्रिका। लोकतत्त्वस्य दैवतत्त्वस्य च शानं विद्या। तदनुसारिणी वृत्ति- विद्यावृत्तिरुच्यते। सर्वोपायैः शत्रुनिग्रहः शूरवृत्तिः । वाणिज्यं कृषिः पशुपालनं शिल्पं चार्यवृत्तिः ॥ परिचरणं शुश्रूषावृत्तिः। जनानां योगक्षेम एतास्वेव चतसृषु वृत्तिष्वायतते॥ आसां व्यस्तानां मिलितानां वा यथारुचि यथासामग्रि परिग्र- हमविशेषेण जनाः कर्तुमर्हन्ति । एष न्यायः पुरा जरत्तमार्यैः स्वी- कृतो बभूव । यो हि यस्या वृत्तेरनुरूपो दृष्टः, स जनस्तस्यां वृत्ती नियुक्त आसीत् । वृत्तीनां च साधारणत्वाद् ब्राह्मणादीनांशब्दानामनियमेन व्यव- हार आसीत् । विद्यावृत्त्या हि जनो ब्राह्मण इति व्यवहृतस्तत्त्वज्ञा- नात् । शूरवृत्त्या क्षत्रिय इति राजन्य इति च व्यवहृतो विपदो रक्ष- णात् । अर्यवृत्त्या वैश्य इति व्यवहृतो वाणिज्यादौ प्रवेशात् । शुशू. षावृत्त्या शूद्र इति व्यवहृतः शोचनात् । तत्र प्रथमवृत्तिगुणवाहुल्यादुत्कृष्टा भवति । द्वितीया वृत्तिहि- • सासम्बन्धात् तदपेक्षया किश्चिदवरा । तृतीया वृत्तिरसत्यसम्बन्धा- त् ततो निकृष्टा । चतुर्थी वृत्तिस्तु वुद्धिगुणहानेः सर्यापेक्षयाधमा। पतदेव वृत्तीनां तारतम्यं ब्राह्मण ईश्वरस्य मुखाजातः, क्षत्रियो बाहोर्जातः, वैश्य ऊरोर्जातः, शूद्रः पादाजात इति वदता वेदेन प्रकाश्यते। क्रमेण पितृषु पुत्रान् स्वस्ववृत्ती प्रोत्साहयत्सु ता वृत्तयः का- लान्तरे कुलवृत्तयः सम्पन्नाः । वृत्तिपरिग्रहे कामचारस्तस्मिन्नपि काले स्थित एव। किन्तु कुलानुवृत्तौ वृत्तीनां गुणातिशयस्य दर्शनात् कामचारापेक्षया कुलानुवृत्तौ जनानामधिक आदर उप- जात आसीत् । प्रायेण हि पुरुषाणां स्त्रीणां वा गुणा दोषाश्च सन्त: तिमुपसङ्क्रामन्तो दृश्यन्ते । गुणप्रत्याशया हि लोकः कुलीनं बहुमन्यते ।

.. प्रश्नोत्तरम् । ३५१ सर्वस्य च जगतस्तदा शिशुभावेऽवस्थानाद् वृत्तीनां सौष्ठवं स्वप्रयत्नेन केवलमार्यैः साधनीयमासीत् । नहि त्रिसहस्रवर्षेभ्यः प्राक् प्रबुद्धा काचिन्मानुषजातिरार्यानन्तरेणाभवत् । आभ्यां हेतुभ्यां * वृत्तीनां सन्तानेष्वनुवृत्ति कालेन ते नियम- थामासुः। अनेन नियमेन ब्राह्मणजातिः क्षत्रियजातिर्वैश्यजातिः शूद्रजा- तिरिति चतस्रो जातयः सिद्धा बभूवुः । अत एव वृत्तिभेदेन जाति- भेदः कल्पित इति भारतमाह-१ 'ब्रह्मणा पूर्वसृष्टं हि कर्मभिर्वर्णतां गतम्' । न चायं वर्णभेदः पूजाभेदस्य हेतुरपि सन् जनानां मिथः कलह- मीया वा जनयामास । ते हि वर्णाः स्वस्वकृत्यानि तथा निरवत- यन् , यथा ते परस्परेण परस्परमुपकृतमेव मेनिरे । जनसमुदायस्य स्वास्थ्य, तृप्तिः, सुखं च वर्णधर्मरुपचितं बभूव । जनस्य जातिमा- प्रेण नोत्कर्षो भवति; किन्तु जात्युचितैर्गुणैराचारैश्चति खल्वार्या उद्घोषयन्ति । अधिकारश्च विद्याभ्यासे त्रयाणां वर्णानां समानः कल्पितः। शूद्राणां बेदाध्ययनस्याभावेऽपि ब्राह्मणादिभ्याधर्मतत्त्वस्य श्रवणम- नुमतमेव । स्वजातिवृत्तावशक्तस्यान्यजातिवृत्तिरनुजने । गुणविशेषशालिनोऽवरवर्णस्य ब्राह्मणत्वमपि सुलभमासीत् । अत एव-'शूद्रो ब्राह्मणतामेति ब्राह्मणश्चैति शूद्रताम्, इति मनुराह। अग्रयवर्णानाम् अवरवर्णात् स्त्रीपरिग्रहणं न निषिद्धमासीत् । ईश्वरः साक्षितया स्थित इति विश्वासाद् रहस्यपि स्वस्वकृत्याद् व्यतिक्रमं प्रायेण वर्णा न चक्रुः । एवं तावश्चातुर्वर्ण्यमभिश्नमर्यादमेकं कुटुम्बमिव स्नेहस्यैकम- * वृत्तीनां कुलानुवृत्तौ गुणदर्शनमको हेतुः। वृत्तिसौष्ठवस्य स्वप्रयत्नमात्रसाधनीयत्वमपरो हेतुः । शान्तिपर्वणि १८८. अध्याये । .. ..

३५२ मित्रगोष्ठी-पत्रिका । त्यस्य वृत्तिनियमस्य दैवभक्तेश्च परमं फलं परस्सहस्राणि घर्षाण्य- नुपद्रुतमनुबभूव । केचित् पुनर्ब्राह्मणानां क्षत्रियसहायानां स्वार्थपरतामेव जाति- व्यवस्थायां हेतुमूहन्ते; ऊहस्थानानि च दर्शयन्ति- १. 'ब्राह्मणो वै सर्वा देवताः' २. ब्राह्मण प्रीते जगदीश्वरः प्रीतो भवति । ३. याजनम् अध्यापनं प्रतिग्रहश्चति वृत्तयो ब्राह्मणस्यैवाही। ४. अपराधे महत्यपि ब्राह्मणस्य देहदण्डाभाव इति । वस्तुतस्तु जरत्तमा ब्राह्मणा न स्वार्थपरा बभूवुः। ते हि प्रकृत्या नरभोगान् मातीव चकमिरे शान्त्या दान्त्या च युक्ताः सन्तो वनेषु घनकल्पेषु प्रामेषु च वसन्तः सुलभैमिताहारैः सन्तृप्ता ईश्वरोपास- नया विद्याव्यासङ्गेन तीर्थयात्रया च ते कालं निन्युः, राज्ञा ते काले काले समाहूताः कार्यसमन्त्रणं पौरोहित्यं पा चेरुः । अतस्तेभ्यः सम्पद्यमानानुपकारान् स्मरद्भिः सवर्णब्राह्मणजा- तये पूर्वोक्तोऽसाधारणो बहुमानः प्रीतिदाय उपकल्पित इति युक्त- मुत्पश्यामः । तस्मिन्त्रीप प्रीतिदायेऽस्मत्पूर्वब्राह्मणानामास्था नैवासीत् । अत एव ते धनार्थ याजनमध्यापनं च निनिन्दुः, प्रतिग्रहं च पातकहेतु- मुद्घोषयन्तिस्म । मनुश्वाह- सम्मानाद् ग्रामणो नित्यमुद्विजेत विषादिव । अमृतस्येव चाकाझेदवमानस्य सर्वदा ॥ इति । अवश्यञ्च विश्वामित्रोपाख्याने परशुरामचरितं चात्र विषये स्मरणमहंतः। विश्वामित्रो हि बाह्मणत्याय न धनतृष्णां स्वीकृतवान् प्रत्युत राज्यभोगान् वर्जितवान्, परशुरामश्च सकलक्षत्रियजयेना- र्जितमपि राज्यं परित्यज्याश्रमवासिनामुचितां स्वजातिवृत्ति भेजे। 'ब्राह्मणो चै सर्वा देवता' इत्यादि वचनजातं स्वर्थवादो भवति । गुणभूयिष्ठो जमो माननीय इत्येतावति चार्थे तस्य तात्पर्यम् । तमेत प्रश्नोत्तरम् । ३५३ गुणहेतुं सन्तं जातिनियमं जना दोषे पर्यवसाययन्ति स्म कालान्तरे। कथम् . उक्ते जातिनियमे निरङ्कुशमनुवर्तमाने गतेषु परस्सहस्रेषु वत्सरेषु क्षत्रिया वीरवृत्तौ वैश्या वाणिज्यवृत्तौ चासक्ताः सन्तो पैदिकेषु यज्ञकर्मसु ब्राह्मणान् प्रायःप्रतिनिधातुमारेभिरे। प्रचीयमाने प्रतिनिधानपक्षे तेषां ब्राह्मणेष्यतिबहुमान आसीत् वेदाध्ययने चा- वश्यकत्वबुद्ध्यभावादप्रवृत्तिरासीत् । वेदशास्त्रविज्ञानं ब्राह्मणमात्र- शरणं बभूव । ब्राह्मणाश्च बहवः सुलभया पूजया सन्तृप्ता विद्याप- रिशीलने यथापूर्व श्रद्धां न बबन्धुः । एवं क्षीयमाणे विद्याप्रचारे सर्वेषां वर्णानां विद्यामूलाः सद्गुणा विरला आसन् । क्रमेण तेषां परस्परस्नेहः समष्टित्वं 'चातुर्वर्य- मेकं कुटुम्बम्' इति बुद्धिश्चास्तं जगाम । प्रत्युतोत्तमवर्णानामवरव- णेष्ववक्षा, तेषामुत्तमवणेष्वार्ष्या चाकुरिता बभूव । दोषकलु- पाश्च वर्णानामाचारा बहुलीबभूवुः।" एपा चातुर्वर्ण्यव्यवस्था जगत्सृष्टिसमकालप्रभवा घा भवतु, नतः किञ्चिदुसरकाले प्रादुर्भूता वा, यथा वयं विश्वसिमः, त्रिचतु- रसहस्रवर्षमात्रप्राचीना वा भवतु यथा नवीनाः पण्डितास्तर्कयन्ति; सर्वथैषा जनता योगक्षेमार्थानां वृत्तीनां सौष्ठवाय शुचित्वाय च भव- त्येव परमोऽम्युपाय उपायान्तरतिशायीति सर्वैरुक्तप्रक्रियया बोर्बु शक्यम् । दोषास्तु तस्यां सम्भाव्यमानाः प्रतिविघातव्याः । यदि च हिन्दवः संस्कृतविद्याप्रचारणेन स्वमतस्वधर्मानुरागं प्रत्यापद्य वर्णानामेककुटुम्यताबुद्धिं श्लयां द्रढयेयुः, तर्हि न दोषाः परस्परावज्ञाविद्वेषादयो जनताक्षेमबाधका जातिभेदसम्भाव्याः सम्भवेयुः गुणाश्च जनक्षेमहेतवः समुलसेयुः ।

३५४ . वार्ताः सम्पादकाभिप्रायाश्च । साम्प्रतं भारत सर्वेष्वेव प्रदेशेषु तासां तासां जातीनांस्वस्व- समाजाभ्युदयलाभार्थतास्ताः समितयः स्थापिताश्च स्थाप्यन्ते च। ब्राह्मणजातिरप्यस्मिन् विषये न निश्चिता तिष्ठन्ति । युक्तप्रदेशे स रयूपारीयादीनां ब्राह्मणानां सभा बहोः कालादेव वयं शृणुमः जानीमश्चान्तरान्तरा तासां कार्यजातम् , हृष्यामश्च सभास्ताराणा- मध्यवसाय मवलोक्य । वङ्गेष्वपि न खलु नायमुद्योग आत्मलाभमधिगतः। कायस्थ- सभेत्यादीनां परिषदां नामानि साम्प्रतं सर्वपामेव वङ्गीयानां श्रवण- विवरं प्रविशति । ब्राह्मणाः पुनस्तत्रत्याः सम्यगुदासीना एवावर्त्त- न्त । समुन्नततराणामेषां नासीदिव किञ्चित् करणीयं नाम स्वस- माजार्थम् । सोऽयममीषां प्रमादमदिरामदः साम्प्रतमपसर्पतीव शनैः शनैः। अतीताब्दे कलिकाताराजधान्यां प्रतिष्ठिता कापि वाह्मणसभा। जानपदमहासभायाः सम्मेलनसमयेऽस्या अपि परि- पद आसीत्कोऽप्युत्सवः। शृणुमोऽस्या एव सभायाः कापि शाखा वर्धमानान्तर्गत ग्रामविशपे महीयसोत्सवेन वैशाख मासि प्रति- प्ठितेति । बहवो वङ्गीयाः ब्राह्मण-पण्डितास्तत्र सममिलन । अस्या- स्तस्मिन् दिने सभापतित्वं राज्ञः श्रीप्यारीमाहनमुख्योपाध्याय सूनुना सम्पादितम् । वाह्मणसभायाः सभापतिव्राह्मण एव युज्यते, ब्राह्मणश्च शिक्षितश्चासौ तदानीन्तनः सभापतिरिति नानया दिशा किमप्यपवदितव्यं दृश्यते। किन्तु सोऽयं वृत्तान्तो ब्राह्मणपण्डि. तानां कमप्यतिमहान्तमपकर्प द्योतयति । कञ्चिन्नजानन्त्यमी तस्मि- न सम्मेलने समवेताः पण्डितमहाभागा यत्पुरा किलतादृशं कृत्यं शास्त्रजीविभिस्तादृशैरेव समपाद्यत, न तु राजशिरसि भारः स समारोप्यतेति । तर्हि सिद्धान्तित मर्थ साधयितुं राजसाहाय्यमान- मपेक्ष्यतेति सत्यम् । इदानीन्तु हन्त सिद्धान्तेऽप्यसमर्थास्ते सं- वृत्ताः। अतएव पण्डितोचितेषु पदेषु साम्प्रतं राजानः शोभन्ते, यायस्य " वार्ताः सदाम्पकाभिप्रायाश्च । ३५५ पण्डितास्तु साधारणा इव साताः। तर्हि म्रियतां म्रियतां वेति न कापि गरीयसी क्षतिरुत्पत्स्यते समाजस्येति हि साम्प्रतं बहनां बुद्धिरुदेति । यथोचितमाचरद्भिरपाक्रियतामेष कलङ्कलेपोऽस्माकं परमप्रतीक्ष्यैः ब्राह्मणपण्डितमहाभागरिति साञ्जलिबन्धं सनिर्बन्धं च प्रार्थयामहे । तस्याः किल शाखासभायाः प्रतिसमये समुत्साहिभिः कैश्चि- त्पण्डितैः समुच्चारिताः काश्चिदतिस्फीतावाचः, यथा खलु सर्वास्वव सभास्वाकर्ण्यन्ते । न वयं वाग्भिस्तृप्यामः । ननु युष्माकं कर्माण्य- चलोकयितुमुत्कण्ठिताः स्मः । अस्ति पूर्ववङ्गेषु ढाकानगया 'सारस्वतसभेति' कापि परिषत् । संस्कृतशिक्षावर्धनं तस्याः मुख्य प्रयोजनम् । प्रतिवत्सरं तया विद्यार्थिनः परीक्ष्यन्ते, योग्याश्चैतेषु बिरुदादिदानेन पुरस्क्रियन्त । स्वल्पदिनपूर्वमस्याः परिषदः पविंशवार्षिकोत्सवः सम्पन्नः। तत्र केनापि विश्रुतेन विदुपा सखदं प्रकाशितं यत् पञ्चविंशत्यापि वपैः सभयानया नैकोऽपि यथार्थः पण्डितः सम्पादित इति । विपीदामो भगमतिमात्रं वृत्तान्तममुं वाचयन्तः । अन्विष्यतामस्यैतावतो वैफ- ल्यस्य कारण, विधीगतां च समुचित पतीकारः । . . सौरचैत्रस्य चतुर्दशदिवसे गुरुवासरे सायं कलिकाताराज. कीयविद्यामन्दिरे तत्रयविद्यार्थिभिः महाकवेः कालिदासस्य माल- विकाग्निमित्रं नाम नाटकमभिनीतम् । तत्र खलु श्रीमान् सपत्नीको वनेश्वरो दर्शकपदमलमकार्षीदिति विज्ञाय परमानन्दामो वयम् । श्रूयते अभिनयोऽयं श्रीमतां महामहोपाध्यायानां हरप्रसादशास्त्रि. महोदयानां परिदर्शनेन चारुतर एव समपद्यतेति । नाटकानामभि- नयेन भापाया महत्युन्नतिः साधिता भवतीति सुविदितमेव । प्रार्थ- याम एवमेवान्तरान्तरा संस्कृतनाटकमभिनीय वर्द्धयन्तु गीर्वाण वाणीमिति ।

३५६ मित्रगोष्ठी-पत्रिका। भारते पुण्यतम श्रीसेतुबन्धरामेश्वरमन्दिरं सुप्रसिद्धम् । अस्य . पर्यवेक्षणाधिकृतेन साम्प्रतमत्यहितं किमपि प्रक्रान्तम् । स खलु प्राचीन मन्दिरं विनाश्य नूतनं निर्मातुमिच्छति । न कोऽपि हिन्दुरस्य कृत्यमिदमनुमोदेत । नापि भारतशासनाधिकृतानामप्य- नास्ति सम्मतिः। प्राचीनां कीर्ति विनाशयितुं नैते वाञ्छन्ति । विशेषतस्तु प्रकृतं मन्दिरं प्राचीनस्थापत्यविद्याया अत्युत्कृष्टं परि- चायकम् । परन्तु मन्दिराध्यक्षं निषेधुं न राजशक्तिरपि प्रभवति। तथा सत्यनया हिन्दुधर्मे करः प्रसारितः स्यादिति । नापि हिन्दू- नामपि युक्तं तदनुमोदनम् । मन्दिराध्यक्षेण विषममत्यनुचितं च कर्तुमारब्धमिति को नाम न वदेत् । न जानीमः कतमो नाम पुरुषार्थस्तस्यैतेन कृत्येन सम्पद्यतेति । * भगवतो जगन्निवासस्याभिप्रायेण च प्रसादेन च पत्रिकाया- स्तृतीयमपिवर्षमतीतम् । अस्मिन् वर्षे नैकैः प्रकारैरपराधिनो वयं श्रीमतां पाठकमहाशयानां सविधे । गच्छतो जनस्य, भवत्येव 'क्वचित् क्वचित् स्खलनम् । विशेषतस्त्वेतादृशां जनानां यदनेकानि स्खलितान्युत्पद्येरन् , न तत्र कोऽपि विस्मयावकाशः। गर्भयन्तु भवन्तः कृपयास्माकं तांतानपराधानिति सविनयं सप्रणयं साग्रह च प्रार्थयामहे । वाचकानां निरसितुं वैमनस्य,सम्पादयितुंच सौमनस्यं प्रयस्य- न्तोऽपि नास्मिन् वर्षे समीहितमध्यगच्छाम । कोऽत्रापराध्यतीति दैव मेव वेत्ति । प्रभवत्यपि दैवे न वयं विसृष्टपुरुषकाराः सर्वथा तदेवाराधयामः । बहवः प्रयत्नाः प्रयुक्ताः विनष्टाश्च बहवः, न तथापि न तान् पुनः पुनः प्रयुञ्जते पत्रिकापरिचालकाः। अस्त्य- स्माकं द्रढीयान् विश्वासो यदागामिनि वर्षे ते ते दोषाः न पुनः कवलयेदस्माकं पत्रिकां यदि श्रीमतां ग्राहकाणां तथाविधोऽनुग्रह रसो नापचीयेतेति ।

. वार्ताः सम्पादकाभिप्रायाश्च । ३५७ धाराणस्यां बङ्गीयविद्यार्थिनां कृते नास्ति, कापि व्यवस्था । इसरेां तु स्वल्पापि वर्तते । एते खलु वङ्गीयविद्यार्थिनः इहागत्य परं कष्टमनुभवन्ति । प्राक् तेषां वासार्थ स्थानमेव महदूदुर्लभम्- भोजनादिकन्तु कियदुर्लभमिति त एव ज्ञातुं प्रभवेयु ये हि स्वय, मनुभूतवन्त इमां दशाम्। एतत्तु बहुशोऽस्माभिरालोचितम् । तदर्थ- मेव च नाना "वडीयछात्रनिवासः" अत्र स्वात्मलाभमधिगत इत्युक्तपूर्वमेवास्माभिः। परमद्य नितरां सन्तुष्यामो यद् अस्माकं मिघवरः पण्डितः श्रीविजयकृष्णवेदान्तवागीशमहाशयोऽस्य सम्पा- दकताम् , भुवनविघोषितपाण्डित्यवैभवाः श्रीमन्तो राम्खालदास- न्यायरत्न-कैलासचन्द्रशिरोमणिप्रमुखा महामहोपाध्यायाः, मणीन्द्र चन्द्रनन्दीसदृशा महाराजाः, आशुतोषमुखोपाध्यायप्रभृतयश्च म- हात्मानोऽस्य साहायकपदमलङ्कुर्वन्ति । आशास्महे इतः परमस्य कत्यानि सुष्टु सम्पत्स्यन्ते । किन्तु सनिर्बन्धं वयं स्मारयामो यत् छात्रेभ्यः केवलं वसतिप्रदानमेव नास्य छात्रनिवासस्य चरमे कृत्ये परिणमतामिति । . बहोः कालान नयं पत्रिकागां चित्राणि प्रकाशयिष्यन्त इत्या- घेदयाम न तु प्रभावाम प्रदर्शयितुं तदुक्तेः सार्थक्य पर जिलाप एव घय तदर्थम् । अतश्चतुर्थे वत्सरे चित्रप्रकाशनं दृढमस्माभिनिश्चितम् । पौषमाघयोः पत्रिकायां भारतीयानां संस्कृतपण्डितानां सह सं. क्षिप्तेन जीवनचरित्रेण प्रतिमूर्ति-प्रकाशनं विज्ञापितं, अभ्यर्थितं च तत्र साहाय्यं पाठकमहाशयानां न तत्तैः करुणया विस्मर्तव्यमित्य- प्रापि पुनः पुनः प्रार्थयामहे । तत् किमन्यत् , प्रसीदतु भगवान् विश्वेश्वरः प्रसीदतु चानु- प्राहको प्राहकगणः, यथा पुनरपि स्वल्पेनैव कालेन मनोतरा सतीयं पत्रिका वाचयतां जनानां चित्तमनुरजयेदिति शिवम् ।

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

Mitragoshthi Patrika (1905-06) Vol. 2, No. 3 -11

Author
Mahacharjya, Bidhushekhar, Ed.
Title
Masik Sanskritpatram
File name
Mitragoshthi Patrika (1905-06) Vol. 2, No. 3 -11
Text
OCR done
Citation
1905
Published
2006/04/19
Publisher
Mitragoshthi Karjalaya, Kolkata
Language
Sanskrit
Pages
374
Library
Ramkrishna Mission Institute Of Culture, Golpark
Classification
Miscellaneous Writings
DLI number
344936
Barcode
4990010216666.00
Scanning centre
C-DAK, Kolkata
Digital publisher
Digital Library Of India
Rights
In Public Domain
VMLT id
qlTUxj2k71s
Download PDF

Mitragoshthi Patrika (1905-06) Vol. 2, No. 3 -11