University Library,gurukul Kangri Vishwavidyalaya
धर्मविजयनाटकम
Front matter
THE
PRINCESS OF WALES
SARASWATI-BHA VANA TEXTS
No. 9.5.
CHECKED 1973
Initial
www.hr
ĒDIED BY
GOPINATHA KAVIRAJA
THE
DHARMA VIJAYA NĀTAKA
Printed by Jai Krishna Das Gupta
At the Vidya Vilas Press, Gopal Mandir Lane,
Benares City.
1930
COMFIE श्रीमद्भूदेवशुक्लविरचितं धर्मविजयनाटकम् राजकीयसंस्कृतपाठशाला-सरस्वतीभवनोपाध्यक्षेण साहित्याचार्य- पदालङ्कतेन श्रीमता नारायणशास्त्रिखिस्तेशर्मणा संस्कृतम् । THE DHARMA VIJAYA NĀTAKA By BHŪDEVA S'UKLA Edited with Introduction etc. BY SĀHITYĀCHARYA PANDIT NARAYANA'S'ASTRI KHISTE, Assistant Librarian, Government Sanskrit College, Sarasvati Bhavana Library, Benares. 1930.
॥ श्रीः॥ धर्मविजयनाटकस्य उपोद्धातः अथेदमुप्रक्रम्यते 'धर्मविजयं नाम नाटकं संमुधु प्रकाशयितुम् । अस्य निर्माता किल प्रसिद्धो विपश्चिन्नैकनिषन्धनिर्माताश्रीमान् भूदे. बशुक्लः । नाटकमिदमद्यावधि क्वाप्यमुद्रितं धर्मविप्लवदूरीकरणोपाय. प्रदर्शकमिति धर्तमानकाले सम्यगुपयोगितामस्य सम्भावयता मया काव्यरसिकानां करकमलेषूपायनीक्रियते । कान्तासम्मिततया सदुपदेशकरणमेव हि काव्यस्य मुख्य व्याव- हारिक प्रयोजनम् । तच्च श्रव्यकाव्यापेक्षया दृश्यकाव्यद्वारा समधिकं चारुतया सम्पाद्यते इत्यप्यतिरोहितमेव प्रेक्षवताम् । पापस्य नरकज. नकत्वं शतकृत्वः श्रुत्वाऽपि यावती पापपराङ्मुखी वृत्तिश्चेतसि समु. देति, तदपेक्षयाऽपि प्रबला चेतोवृत्तिः पापिनो नरके निपातम्, तत्र तस्य दुःसहक्लशभोगित्वं सकृदपि निरीक्ष्य समुदेतीत्यनुभवो विदुषाम् । इत्यमेव सदुपदेशदानं दृश्यकाव्यद्वाराऽव्यभिचरितफलं सम्पादित भवति । तदेव दृश्यकाव्यं नाटयमित्यभिधीयते । महर्षिणा भरतेन साङ्गोपाङ्गस्य तस्यैव प्रपञ्चनं स्वकीये नाटयशास्त्रे कृतम् । पश्चाद्भा. विभिनें कैविद्वद्भिस्तदेव स्वस्वनिबन्धेषु स्वस्वबुद्धिवैभवानुसारेण वि. स्तरेण सप्रभेदं सोदाहणश्च निरूपितम् । 'अवस्थानुकृतिर्नाटयम्' इति हि नाटयलक्षणं दशरूपकादौ निर्दि- ष्टम् । अनुकरणमेव हि नाटयम् । अनुकरणश्च वास्तविक्या अवस्थाया एव सम्भवति, न तु कल्पितायाः। तथा च वास्तविकावस्थानुकरणं नाट्यमिति फलति । तत्र सदुपदेशकरणात्मकमुख्य व्यावहारिकफला. नुसन्धानेन सत्कर्मणां शोभनं फलसकर्मणामशोभनञ्च फलं कविना .
३ उपोद्धातः । नाटकेऽवश्यं निषद्धव्यं भवति । तस्यैव प्रवृत्तिनिमित्तत्त्वात् । एवमपि नाटकनिबन्धने न कवेः स्वातन्त्र्यम्, नापीतिहासादिवत्केवलमिति. तनिरूपणमात्रेण कवेरात्मलाभः । अपि तु विविधनियमनियन्त्रितस्य तस्य भूतार्थे विपर्यासः, अन्यथाकरणम्, परिहरणम, अभूतकल्पनश्च यथावसरं कर्तव्यं भवति । निदर्शनान्यत्र बहूनि महाकविप्रबन्धेषु समु. पलभ्यन्ते । यथा-अभिज्ञानशाकुन्तले महाकविना कालिदासेन मुख्यनाय- कस्य शकुन्तलानङ्गीकारात्मको दोषः दुर्वासःशापवृत्तान्तकल्प. नया निवारितः । एवमेव महावीरचरितादिरामायणप्रवन्धसमाश्र. येषु नाटकेषु प्रच्छन्नतया वालिवधात्मको मुख्यनायकस्य रामस्य दोष. स्तत्कथाया अन्यथाकरणेन प्रकारान्तरेण वा तत्तत्कविभिनिवारितः । तत्र सामाजिकानां मनःक्षोभो मा भूत् मध्ये प्रतिकूलवेदनया रसा. स्वादे धाराविच्छेदश्च मा भवतु, इत्येव बीजम् । तथा च व्यावहारिक्यामवस्थायां मानवजातिसुलभा अपि दोषाः प्रधाननायके न निबद्धव्याः । प्रधाननायकचरितस्यैव सदुपदेश. प्रदानप्रयोजकत्वात् । व्यावहारिके जगति क्वचित्पापिनोऽपि सुखिनो दृश्यन्ते, पुण्यवन्तोऽपि क्लेशवन्तः । किन्तु नाटके तावत्पापिनः सुखप. रिणामित्वं नैव दर्शयितुमुचितम् । तथा क्रियेत चेत भारतीयनाटय. शास्त्रादर्शस्यैव मूलच्छेदः प्रसज्येत । प्रकृतनाटकेऽपि ग्रन्थक; धर्माधौं नायकप्रतिनायको प्रकल्प्य तदनुकूलांश्चोर्ध्वगतिपण्डितसङ्गतिदुराचाराऽनाचारादिपरिवारांश्च कल्पयित्वा अधर्मेण धर्मस्याक्रमणं पूर्व प्रदर्श्य पश्चाद्वद्धपरिकरण धर्मेण स्वपरिवारद्वाराऽधर्मस्योच्छेदः पर्यवसाने प्रदर्शितो नाटकं च समापितम् । धर्मस्य मुख्या राजधानी काशीक्षेत्रमिति विचार्य तत्रै. वाधर्मस्य प्रसरणं प्रदर्शितं कविना । नाटकमिदं प्रायो यवनराजस्याकबरस्य समये प्रणीतमिति स उपोद्धातः। म्भाव्यते । तत्कालीनराजनीत्यनुसारेण हिन्दूनां यवनानां च परस्परं सौहार्दमासीत् । शृङ्गारप्राया यवनानां दुराचारास्तदानी लोक सादरमनुक्रियन्ते स्म । कामोपहते चेतसि कुतः सदाचारादर इति क्रमशः सदाचारहानिरजनिष्ट । परिभ्रष्टसदाचारा एके सदाचारिणः परानसहमानास्ताननेकैविप्रलम्भनैः पातयन्ति दुराचारगर्ते इति तु लोकानुभवसिद्धमेव । सैवेयं दशा नाटकनिर्माणसमयेऽपि सजातेति सम्भाव्यते । तस्मिन्काले केषु केषु देशेषु के के दुराचाराः प्रसृताः । कथं वा धूर्ता धमिदम्भेन समाजे प्रविश्य तं दंशयन्ति स्म । इत्येतत्स. कलममुना नाटकेन सम्यगवगतं भवेत् । वर्तमानकालिकी धार्मिकी परिस्थितिरपि प्रकृतनाटकोपर्वाण परिस्थित्या सुतरां समतां भजते । तत्र समाजेऽधर्मप्रसरणं कदा कथं च भवतीति विचार्यमाणे राजपक्षात् धर्मविषये दण्डनीतेरमावे सत्येवाधर्मप्रसरणं भवतीति प्रतिभाति । अकबरस्योदारा नीतिधर्मस्वातन्त्र्यं विचारस्वातन्व्यश्च प्रवर्तयामास। प्रकृतबुद्धयस्तु स्वतन्त्राः सन्तोऽधर्म यथारुचि प्रवर्तयन्ति स्म । दुराचाराणामपि यवनानामैहिकभोगसमुझ्यादिकं पश्यन्तः स्थूलद. शिनः सदाचारपरिपालनं व्यर्थमेव मन्यन्तेस्म। किञ्च प्रातिदशाया. मपि धर्मस्य स्मरणं भवतीति नियमानुरोधेनाकब्बरकाले प्रजानां सुखसमृद्धिसम्पन्नतयाऽऽतिकारणमपि नासीदित्यातिनिमित्तकस्यापि धर्मस्य तदानीमभाव एवासीत् । अकबरात्परं तत्प्रपौत्रस्यौरङ्गजे. बस्य काले तत्कृतपीडनात्मकार्तिसद्भावात्तदानी रामदासशिवाजी. प्रभृतयोऽनेके धर्मसंरक्षकाः प्रजोद्धारकाः प्रादुरासन् । सम्प्रति तु राज. पक्षाधर्मविषये दण्डनीति स्त्येव, प्रत्युत सर्वस्यैव धर्मविषये पूर्ण स्वातन्त्र्यम् । दुःखदारियाद्यार्तिसद्भावेऽपि नव्यशिक्षानुभावाडैतुक- ताप्रसाराद्धर्मस्य न स्मरणं भवति, सजातेऽपि स्मरणे तत्र निष्ठामा. स्ति, इति वर्तमानकाले यावान् धर्मस्य सदाचारस्य च हासो दृश्यते, तावानतीते काले कापि कदापि नासोदिति बाढं वक्तुं शक्यम् । .
उपोद्धातः। १ धर्मविप्लवदूरीकरणायात्र प्रदर्शिताः सत्सङ्गापुराणश्रवणादय उपायाः सावधानतया यथावसरं प्रयुक्ताश्चेदद्याऽपि किमपि सत्फल- मेव जनयेयुः । वस्तुतो विचार्यमाणे या काऽपि सामाजिकी धार्मिकी राजनीतिसम्बन्धिनी वा व्यवस्था भवति, ला व्यवस्थापकेभ्यो भये. नैव निर्वाधं प्रचलति । किमधिकेन, भगवती श्रुतिरपि सूर्यचन्द्रपवमा. नादीनां स्वस्वनियोगानुष्ठानं परमात्ममः सकाशाद्भयेनैव हेतुना मिर. न्तरं प्रचलितमुपदिशति । अस्येवेदमनुभवसिद्ध सामाजिके दनन्दिन. व्यापारे। समान एव न्यायो धर्मविषयेऽपि । शते सहस्त्रे षा तथाविधाः पवित्राशया द्वित्रा एवोपलभ्येरन् , ये भीतिमन्तराऽपि नैसर्गिकेण प्रेम्णा धर्ममनुतिष्ठासन्ति । साधारणः समाजस्तु न श्रुतेराक्षां बहु मन्यते, न लोकास्तरभावीनि नन्दनोद्यानविहरणान्यपेक्षते, नाऽपि विशुद्धक्षानो. दये दाते, केवलं राजभीत्या सामाजधुरीणभीत्या च सदाचाराननु तिष्ठति । एवमनुतिष्ठतस्तस्य तथाविधसदाचारानुष्ठानमहिम्नैव तेषु सदाचारवान्तरिकी प्रातिः सजायते, अननुष्ठाय सदाचारान् स्थातुं न पार्यते । एवमसौ क्रमो वर्तते । प्रकृतनाटकेऽपि पर्यवसाने धर्मेण सपरिवारऽध विनाशिते सति राक्षो धर्मस्य विद्यया सह संलापावसरे महाभयप्रदर्शनेनैव लोकस्य हस्तगतत्वं सम्भाव्यते, इत्युक्त्वा, राक्षा-"f तद्भयप्रदर्शनम्" इति पृष्ट विद्याया उत्तरम्- निरये निपतन्त्यधर्मिणस्तरुगुल्मादिषु सम्भवन्त्यथ । पशुपक्षिषु संसरन्त्ययो मनुजानामुदरे ततः परम् ॥ तत्र च प्राकनकर्मयोगेन, दुर्दर्शनाः केचन केऽपि दुर्भगास्तीवामयनस्तकलेवराः परे । व्यङ्गा दरिद्रा विकलास्तथेन्द्रियैर्न सङ्गताः केऽप्युपसर्गमन्धराः ॥ ततश्चैतावदाकर्णनमात्रेण सर्वेऽपि सत्रासाः पूर्वकृतदुष्कृते सानु शयाः सर्वथैव वैमुख्यमधर्माद्भजन्तस्तदनुशासन प्रमाणयन्ति । विली.
उपोद्धातः । नस्य त्वदरातेनोपलभ्यते वार्तापीति। एतावता भयप्रदर्शनमेव सामान्यजमस्य धर्मानुसरणे प्रवर्तक भवतीति लिखमेव । तय भयप्रदर्शनं पारलौकिकं ऐहिक चेत्युभयवि- धमावश्यकम् , धार्मिकाः समाजधुरीणा असदाचारिणो जनान् यदि समाजबहिस्कारादिदण्डै दण्डयेयुस्तदाऽपि तादृशदण्डभीत्या धर्मर. क्षा सम्भवेत् । अत एव 'दण्डनीतिरेवैका विद्या' इत्यौशनलाः सहि रन्ते । दण्डभयादेव कृस्लो लोकः स्वेषु स्वेषु कर्मस्ववतिष्ठते इति । एवमारमका एव विचारा अस्मिन् नाटके प्रदर्शिताः । तेषां युक्का- युक्ततां तु निष्पक्षाः स्वयमेव विचारयन्तु । नाटकान्तरापेक्षयाऽत्रेदमेव वैशिष्टयं यदीदशी विचारसरणिर्नान्यत्रोपलभ्यते । विधर्मीयेषु शास. केषु सत्सु राजावलम्बाभावाद्ध स्य या दुरवस्था भवति तामुहिश्यैव तत्प्रतिकारविचारोपायात्मकमिदं नाटकं यवनसाम्राज्यकालिकेन कवि. मोपनिषद्धम् । धर्तमानेऽपि समये यदि जनरैतमाटकप्रदर्शितोपायाः शरणीक्रियेरन् , तदाशतोऽपि धर्मरक्षा सम्भवेदिति वयं बाद विश्वसिमः ग्रन्थकर्तुः परिचयः अथ प्रकृतनाहककर्तुभूदेवशुक्लस्य विषये यथावदधिगतमै तिह्यमु. पमिवध्यते-मसौ भूदेवशुनः पश्चद्रावडान्तर्गतः पञ्चगौडान्तर्गतो वेति घोछु किमपि द्वारं नास्ति, 'शुक्' इत्युपाधेगौ द्राविडोभयस. म्बद्धत्वात् । वक्ष्यमाणप्रमाणानुरोधेन 'जम्बूसर स्थायितया गौड. स्वमेव सविशेष सम्भाव्यते । जसरश्च वर्तमानकाश्मीराधिपराज- धामी 'जम्बू' इति प्रसिद्धस्थानं स्पात् । तथा च काश्मीरकोऽयं कविरिति सम्भाव्यते । शुकदेवपरित इत्येतस्पितु म | श्रीकण्ठ. दीक्षित इति च गुरोनाम । अनेन च स्वकृत 'रसविलास' नामक Fथावसाने श्रीकण्ठदीक्षितपुरोधाता काव्यप्रकाशिका ।
उपोद्धातः। इत्यावेदितमस्माभिनवं नात्र प्रकल्पितम् ॥ जम्बूसरःस्थितिजुषःशुकदेवसूरेभू देवपरिडतकविः प्रथमस्तनूजः । तनिर्मितो रसविलासपदाभिधेयः सन्दर्भ एष कविना मुदमादधातु ॥ सम्बत् १७६३ इत्युक्तमस्ति । अस्माभिर्ष डोदाराजकीयपुस्तकसंग्रहालये रसविलासस्य No 10. संख्याकं पुस्तकं दृष्टम् , तत्रावसाने लेखकेन सम्बत् १७९३ इति लेख समयो निर्दिष्टो वर्तते, तेन तत्समयपूर्वभाविस्वमेव प्रन्थकर्तुः सि. व्यति । अन्यश्च प्रकृतनाटकेऽपि स्वाश्रयदातुः केशवदासस्य दिल्ली. दयितवेतनदानामात्यत्वेनोल्लेखः कृतः। हिन्दीभाषायां प्रसिद्धो ग्रन्थ. कारोऽकब्बरसमकालिक केशवदास एवासौ यदि भवेतहि तदाधि- तेन भूदेवेनाऽपि वैक्रमीयषोडशशतके भाव्यमिति वैक्रमीयं षोडशं शतकमेतत्समयो भवितुमर्हति । माखुबृहत्सूचीपत्रानुसारेणैतनिर्मिता प्रन्या यथा- धर्मविजयनाटकम् ( सम्प्रति मुद्रितम् ) २मात्मतत्त्वप्रदीपस्तट्टीका च । ३रसविलासः (अयमस्माभिः स्वरूपतो दृष्टः परिशीलितश्च ) ४ ईश्वरप्रसादप्रबन्धष्टीका च । माखुसूचीपत्रद्वितीयभागे भूदेवशुनगुरुः रामानामा कश्चिदुक्तः, प्रमाणं तु न किमप्युलिखितम् । इत्थमेतावदेव प्रन्धक रतिह्यमुप- १ लभ्यते। एतत्पुस्तकमुद्रणसमाप्स्यनन्तरं राज जिकार्यानुरोधेन बडोदानगरं प्रस्थितेन मया तत्रत्यराजकीयसंस्कृतपुस्तकालये धर्मविजयनाटकस्य षट् पुस्तकानि सम्पूर्णान्युपलब्धानि । प्रकृतपुस्तकमुद्रणाय पुस्तकद्वयमादर्शवेन गृहीतम् । तत्रैक का संझ अत्रत्य राजकीयसरस्वतीभवनपुस्तकालयस्थं सटीकमशुद्धिबहुल. मादौ खरिडतच । मन्यत् 'ख' संशं मूलमा सम्पूर्ण प्राकृतभाषारहितं उपोद्धातः। मित्रघर पण्डितराजश्रीराजेश्वरशानिद्राविडन्यायाचार्यमहोदयकृपा. प्राप्तम् । एवमेतत्पुरतकडयावलम्बन यथामति संशोधन सम्पादितम् । तत्र मित्रवरैः पण्डिराजश्रीराजेश्वरशास्त्रिद्राविडैरेव प्रथमतो ग्रन्थमिमं प्रकाशयितुमहं समुद्योजितोऽवसरेऽवसरे समुचितविचारविनिमयद्वारा बाढमुपकृतश्चेति निर्व्याजहदा सुहृदां तेषामुपकारभारे मनः शतशो. धन्यवादेस्तामभिनन्दामि। आदर्शपुस्तकद्वयसंवाद करणपुरःसरं मुद्रणीयादर्श (प्रेसकापी) विधानादिना भृशमुपकुवतोऽप्रत्यराजकीयसंस्कृतपाठशालाध्यापका. स्मत्सुहदरश्रीगङ्गाधरशास्त्रिभारद्वाजान्तेवासिनः साहित्यशास्त्रि कल्प. स्य पण्डितवरप्रयागदत्त पाण्डेयमहाशयस्य सुमहत्साहाय्यमवश्यं धन्यवादाहम् । अन्यैश्च यःकश्चिदत्र विषये यत्किञ्चिदुपकृतं स्यात्तान्सर्वानपि सादरं धन्यवादैरभिनन्ध प्रार्थये गुणैकदशो विपश्चितो यत्ते मानवसु. लभानि स्खलितानि क्षाम्यन्तो गुणमात्रमुपाददाना नाटकमिदमभिन. यादिना प्रचार्य सफलयेयुर्मम परिश्रममिति । गवर्नमेंट संस्कृत कॉलेज, सरस्वतीभवन विद्वज्जनवशंवदः खिस्ते-इत्युपाख्य नारायणशास्त्री काशी।
धर्मविजयं नाटकम् । * मङ्गलम् * प्रकटितनिजरूपः षोडशाराभिरामे विधुरपि हृदयाब्जे दीपवदिव्यमूर्तिः । त्रिभुवनमिदमोतप्रोतमेवाऽस्ति यस्मिन् स जयति जगदीशः शास्त्रसिद्धान्तगम्यः ॥ १॥ ( नान्धन्ते ) सूत्रधारः-अलमति विस्तरेण । अद्य तावदाहूय समादिष्टोऽस्मि श्रीमदिल्लीदयितवेतनदानामात्येन महनीयचरितश्रीमहता केशवदासेन, यद्वयं धर्मशास्त्रानुसारिप्रयोगाभिनयेनात्मानं विनोदयितुमिच्छामः, तद् भूदेवशुक्ल प्रथितन नवेन धर्मविजयनाम्ना नाटकेन सम्भावनायेयं स्मातसमेति । तत्सदनमुपेत्य कान्तामाहूय सङ्गीतकमनुतिष्ठामि । ( नेपथ्याभिमुखमवलोक्य ) आयें ! इतस्तावत । ( प्रविश्य नटी ) एसम्हि । सूत्र०-आर्ये ! सन्निहितानि नेपथ्यविधिसाधनानि । नटी०-अज्जचलणप्पहावेण सव्वं जेव साहणं सजं, कि उण तुम्हाणं कज्ज। सूत्र-आर्ये ! अनुरञ्जनीयः खलु सकलधर्मकर्मरसिकः स. कलशास्त्रप्रवीणः केशवदासः । १. एषाऽस्मि । २. आर्यचरणप्रभावेण सर्वमेव साधनं सज्जं, किं पुनर्युप्मा- के कार्यम्।
धर्मविजयनाटके- - - - नटी०-को नु क्खु तुट्टे अम्हाणं लाहो । सूत्र०-दारिद्यभङ्गः। नटी-कहं विों ?। सूत्र०-प्रसिद्धप्रभावो महावदान्यः खल्वसौ राजर्षियः पूर्णमनो. रथैरर्थिसाथै रनिशमेवं श्लाध्यते । यथा- चित्तं मानसमुन्नतं करयुगं श्रीपुष्करं पद्मजा- जन्मस्थानतया समुद्रमहिमाकान्तः शयो दक्षिणः । सेतुर्धर्मकथाम्बुधेस्तव मतिस्त्वां च प्रभासं जनः प्राप्तः केशवदास ! चित्रमिह किं प्राप्नोति यद्वान्छितम ॥२॥ नटी०-जुई। सूत्र-वाण्या विरोध्यति रमा रमया च वाणी तावञ्च निर्वहति शाश्वतिको विरोधः ।। यावन्न दर्शयति केशवदास एष प्रेमप्रसादकरुणाकलुषं कटाक्षम् ॥ ३ ॥ अपि च, वैन्यादिवदनुगतमप्येतन्नाममङ्गलकीर्तनं नाटकस्याऽपि सत्काव्यतामापादयति, इति युक्तमेतत् । पश्य- सम्प्राप्तोऽनुशयं सदोविषयदं साकेतमात्रं नयन् यातः केशवदास ! भावमधुना गमोऽनुगृह्णाति नः ।। यश्चैतन्मुखमीक्षते किल कृपादृष्टया च यं वीक्षते ये चैतस्य गुणानुवादरसिकास्ते स्वर्गभाजो यतः ॥ ४ ॥ नटी-जुज्जेई । सूत्र-कतमत् प्रकरणमभिनीयैनं प्रसादयामः । - १. को नु खलु तुष्टेऽस्माकं लाभः । २. कथमिव । ३. युज्यते। ४. अत्र विरोध्यति' इति प्रयोगश्चिन्त्यः । ५. युज्यते।
प्रथमोऽङ्कः । ३ सूत्र०- नटी०-णं खु एहि एव अज्जउत्तेण भणिद जं भूदेवमिस्स- रइदेण धम्मविजएण नाडरण एद्दे आराहणाति । -विजयपुरीजनवदनारविन्दात्प्राचीनोदन्तश्रवणाय दत्त. चेतसा मया विस्मृतं खलु । नटी०-को णु क्खु उदन्तो । सूत्र-किमत्र जगतीनायकयोः पुरा सारे वृत्तमिति पृष्टः सो. ऽप्यवादीत् । इह हि, अस्मिन् संसारे, अधर्म इव धर्मेण भूभारक्षमबाहुना । मध्यदेशक्षितिभुजा जितो दक्षिणभूपतिः ॥ ५ ॥ ( नेपथ्ये ) आः पाप ! मूर्ख ! शैलूष ! कथमेतेषु स्वेच्छाविहा- रिषु ब्रवीषि महाराजपराजयकथाम् । यतः-- कोपाऽनृतस्तेयशरीरहिंसा- कार्पण्यमालिन्यनृशंसभावाः । दुर्दान्तता ऽनिन्द्रियनिग्रहश्चे- त्येकैकशो धर्मवधे समर्थाः ॥ ६ ॥ सूत्र-आयें ! सकलमहाजनेषु प्रच्छन्ननिवासायाऽधर्मेण रा- ज्ञा समाज्ञप्तः व्यमिचारजन्मा वर्णसङ्करः पन्या नीचसङ्गत्या सह इत. एवाऽभिवर्तमानो मद्वचनादुपजातक्रोध इव लक्ष्यते । तदेहि तावद. - पसरावः । (इति निष्क्रान्तौ) प्रस्तावनासङ्गतिः। १. ननु खल्विदानीमेवार्यपुत्रेण भणितं यद् भूदेवमिश्ररचितेन मारकेनते आराधनीया इति । २. को नु खलूदन्तः ।
धर्मविजयनाटके- (ततः प्रविशति वर्णसङ्करो नीचसङ्गतिश्र ) वर्णस० 0 -(आः पापेति पठित्वा) पश्य रे वैधेय ! भरत ! बन्धूनामपि निधने निबद्धचित्तः साधूनामपि परिपीडनेन वित्तः । आटोपप्रथितविवेकधैर्य लोपः कोपश्चेद् असति जनं तदा व धर्मः ? ॥ ७ ॥ अपि च, अनृते स्फुरति श्रद्धा कुतः स्वर्गाऽपवर्गयोः । श्रद्धायां च विलीनायां निर्मूलं सुकृतं हतम् ॥ ८ ॥ किश्च, देवद्विजातिवनितायतिदुर्बलानां गृहाति यत्किल कपर्दिकमप्यदत्तम् ।। वित्ताय यद्विशसनेऽपि निबद्धचित्तं स्तेयं सहिष्यति कथं तपसः प्रभावम् ॥ ९॥ अपि च, यत्पक्षपातनिरताः किल रागलोभ. द्वेषा गृहेषु गृहिणामथ पश्चसूनाः ॥ यस्याश्च पामरजनप्रकृतिः स्वभावः सैषा निकृन्तति कथं सुकृतं न हिंसा ॥ १० ॥ नीचसङ्गतिः - अज्जउत्त वराइ किवणदा धम्मस्स किं क. लिस्सदि । वर्णसङ्करः-प्रिये ! मैवम् , न प्रयच्छति न खादति स्वयं पाडयत्यनुगतानपि क्षुधा ॥ १. अत्र 'सहिण्यति' इति प्रयोगश्चिन्त्यः सहधातोरात्मनेपदित्वा- त् । यहा, स एवायं नागः सहति कलभेभ्यः परिभवम्' इत्यादाविव गतिः कर्तव्या। २. आर्यपुत्र ! वराकी कृपणता धर्मस्य किं करिष्यति ।
प्रथमोऽङ्कः । देवपित्र्याविधिबाधबन्धुरा ज्ञास्यति व सुकृतं कदर्यता ॥ ११ ॥ अपि च, पूतिगन्धवसनाननोच्छल. द्वासनाबहुलपिच्छिलाकृतिः ॥ क स्थितिर्भवति पुण्यकर्मणां व्यापृता मलिनता भवेद्यदि ॥ १२ ॥ किश्च, यः पाडयत्यनपराधमपि स्ववर्ग- मुद्वजयत्यपि मुनीन् किमुताऽन्यलोकम् ॥ आराधने ऽप्यविरमत्कुटिलस्वभावः सत्कर्म नाशयति सोऽपि नृशंसभावः ॥ १३ ॥ अपि च, साहसैकरसा नित्यमकृत्याय कृतोधमा । सेयं दुर्दान्तता पुंसां कृत्या धर्मविरोधिनी ॥ १४ ॥ नीसङ्गतिः-अज्जउत्त अणिग्गहस्सवि वलीअं खु पलाकमोत्ति सम्भावमि । वर्णसङ्करः- प्रिये ! अस्य महिमानं वर्णयितुं वयमपि न शक्नुमो यः स्वयमगम्यागमनेऽपि निबद्धधैर्यतया धर्म व्याकुलयति । अपि च, कुम्भाप्सरोधीवरजामृगीभ्यः समाधिमाजामपि यत्प्रसूतिः । सोऽयं तपोविनकदिन्द्रियाणा. मनिग्रहस्य प्रकटः प्रभावः ॥ १५ ॥ नीचसङ्गतिः-अजउत्तेण सोहणं क्खु आचलिदं यं पलिहीण- १. आर्य ! अनिग्रहस्यापि बलीयान्खल पराक्रमोस्ति, इति सम्भावयामि।
६ धर्मविजयनाटके- . . पक्खस्स धम्मस्स पक्खवादं पलिहलिअ भट्टिमो पावस्स पक्खवादो आचलिदो। नीचसङ्गतिः-किं तुमाणं वि एवं जेव कुलम् । वर्णसङ्करः-ननु तृतीयपुरुष एवास्माकं राज्ञो यवीयानिन्द्रि यनिग्रहश्च । पश्य- अनिग्रहावक्षगणस्य धर्म नष्टप्रचारे प्रभवत्यधर्मे ॥ स्त्रीषु प्रदुष्टासु महाजनाना- मजीजनन्मां व्यभिचारपादाः ॥ १६ ॥ नीचसङ्गतिः-जुज्जई, अहं वि तुह्माणं जेव उदरादो उप्पण्णा तुझसक्रेण गहसुहं अणुहवामि सव्वसुंदलीणं सीसे चिट्ठामि । वर्णसङ्करः-सर्वोप्ययं प्रभावो राज्ञो भाग्य तातपादा- नाम् । यतः, व्यभिचारप्रसक्तानां कुतो भ्राता कुतः पिता ॥ कुतो गुरुः कुतोऽगम्या सर्वमेव समञ्जसम् ॥ १६ ॥ न केवलमावाभ्यां एवंविधं दाम्पत्यमनुभूयते । दृश्यते ऽन्यत्रापि कचित् तथा हि- वेश्यासु सक्ताः कुलजाः कुमारा गर्भेषु तासां जनयन्ति कन्याः कालेन तास्वेव रतिक्षमासु मनोभवं मोहमराद्भजन्ति ॥ १७ ॥ १. आर्यपुत्रेण खलु शोभनमाचरितं यत्परिहीमपक्षस्य धर्मस्य पक्षपातं परिहस्य भर्तुः पापस्य पक्षपात आचरितः । २. किं युष्माकमपि एतदेव कुलम् । ३. युज्यते । अहमपि युग्माकमेवोदरादुत्पधा युग्मत्सङ्गेन गृह- सुखमनुभवामि । सर्वसुन्दरीणां शिरसि तिष्ठामि । -- प्रथमोऽः । नीचसङ्गतिः-सुदं मए धम्मपमुहा वि तुम्हाणं जेव कुले पसुदेति । वर्णसङ्करः :-आः किमुच्यते, अस्मत्कुलप्रसूता इति । म. तश्चतुर्थः कर्तृपुरुषः सर्वेषां मूलपुरुषः । नीचसङ्गतिः-ता विच्छरेण कहेदु अजो। वर्णसङ्करः- अयमनादिनिधनो भगवान् कर्ता, तस्य च विहि- तक्रियायाश्च धर्मप्रधानोऽन्ववायः समजनि । नीचसङ्गतिः--ता किंत्ति तुम्हाणं एवारिसो विदेसी । वर्णसङ्करः--धर्मस्यैवापराधेन । नीचसङ्गतिः--को नु क्खु तस्स अवरांहो । वर्णसङ्करः- ज्ञानं तपो यज्ञविधिः प्रदान. मेते कृतादौ सुकृतावताराः । एतैः 1: समाकृष्य जगन्ति धर्मः सन्तापयामास बलादधर्मम् ॥ १८ ॥ परिक्षीणो नृपतिरस्माकमवसरं प्रतीक्षमाणः कचिनिलीय निगूढो. ऽवसत् । ततश्च समुपेते त्रेतावसरे ज्ञानममीमरत् । नीचसङ्गतिः--तदो। वर्णसङ्करः--द्विषज्जयमनोरथोन्मथितचित्तमासीत्तप. स्त्रिविष्टपसुखस्पृहाजनितकष्टमिष्टेमनः ॥ वितानमिव दानमुज्ज्वलविभूतिकामोन्नम. त्पदानमितशेखर विकृतवषवर्णाकृति ॥ १९ ॥ १. श्रुतं मया धर्मप्रमुखा अपि युष्माकमेव कुले प्रसूता इति । २. तद्विस्तरेण कथयत्यार्यः। ३. तत्किमिति युष्माकमेताहशो विद्वेषः । ४. को नु खलु तस्यापराधः । ५. ततः।
८ धर्मविजयनाटके- नीचसङ्गतिः-तंदो। वर्णसङ्करः- ततश्च द्वापरे तपसोप्यासीद् दुर्विपाकः । एवश्व सप्ततन्तुरभिचारदन्तुरो दानमुद्भटयशःस्पृहाकुलम् ॥ सत्त्वसंक्षयरजःपराभव- प्रौढरागविधुरात्मनाममूत् ॥ २० ॥ नीचसङ्गतिः--तंदो। वर्णसङ्करः-- ततोऽस्माकं दुःखैकबन्धुः कलिरेतेषु दिनेषु वर्णाः श्रमाननुगृह्णाति । इदानीच- विद्याऽवद्या नो नमस्या तपस्या मन्यौ मन्युः सेवके सम्प्रदानम् ॥ इत्थंभूते सज्जने सोऽपि बिभ्य- स्मृत्वा तिष्ठत्यादगन्नाम विष्णोः ॥ २१ ॥ नीचसङ्गति:--अजउत्त एवं भणामि जइ सोमरो उजेव्व रणो धम्मो ता तस्स विरोहे तुम्हाणं मणं कहं चलेदि । वर्णसङ्करः-प्रतिपक्षचरितानुसारेण स हि धर्मशास्त्रमुल्लंध्यैव राज्ञे द्रुह्यति । नीचसङ्गतिः--कहं सत्येवि अस्थि एसो विचालो । वर्णसङ्करः--अथ किम् । नीचसङ्गतिः--ता एदारिसाचलणकारी लोएण धम्मोत्ति कहं भणीदि। १.ततः। २. ततः। ३. आर्यपुत्र ! एवं भणामि। यदि सोदर एव राजो धर्मस्ताहि तस्य विरोधे युष्माकं मनः कथं चलति । ४. कथं शास्त्रेऽप्यस्ति एष विचारः। ५. तर्हि, एतादृशाचरणकारी लोकेन धर्मः इति कथं भण्यते ।
प्रथमोऽधः । वर्णसङ्करः -आः क्षुदोऽयं जनोऽनार्यमदमार्यपदं समारो- पयति । कथमन्यथा-- भीष्मं गुरुं सूर्यसुतं निहत्य वृद्धं पितृव्यं तनयैर्वियोज्य ॥ युधिष्ठिरः स्वानपि घातयित्वा धर्मावतारः प्रथितः पृथिव्याम् ॥ २२ ॥ ( नेपथ्ये) आः पाप! जातिचाण्डाल! वर्णसङ्कर ! कथमेवमधिक्षिपसि । वि. रुद्धाचारः सोदरोपि निग्राह्य एव, इति अस्माभिरपि अधर्मों दण प्रापितः । यच्च प्रलपसि, बद्धमूलानस्मानुन्मूलायितुं, तदप्याकाशसुमनो- भिस्तिलान्वासयसि । यतः, प्रमादपठितेऽपि भगवन्नाम्नि सत्याश्च भग. वत्यां भागीरथ्यां कथं भवतां जीवितशकापि । पश्य- लङ्काऽलङ्कारकारागृहवसतिजुषो नाकपाताललोका. श्चक्रे यस्तीर्णशोकान् हरिसुतसखिताऽमित्रताभ्यामुपेतः । हेलामात्रं स्मृतोपि व्यथितकालिमलः कं न पापप्रभूता. पायादायासभाराद्दशरथसदनाभूषणं दुषणारिः ॥ २३ ॥ अपि च, मदनमथनताराकान्तकान्ति हसन्ती प्रचलदमृतपारावारगौरैः पयोभिः ।। सगरनृपसुतानां स्वर्गसोपानधारा यदि हृदि कथमारादेति पापप्रचारः ॥ २४ ॥ अपि च, अपि पतितजनानां मोक्षमार्गकबन्धु. यदि सुरपुरसिन्धुपौढपाथःप्रवाहः । कचिदपि निवसद्भिः कीर्यते स्नानकाले कथमिव नरकान्धुः सर्वदा स्यान्न रिक्तः ॥ २५ ॥ १. जीवितकथेत्यपि पाठः । २ धर्म १० धर्मविजयनाटके- वर्णसङ्कर:-प्रिये ! सर्वेषामस्माकमभ्यर्हिततमो वंशगोप्ता ज्ये- ष्ठो राजा देव्योर्ध्वगत्या सह इत एवाभिवर्तते । य एषः- स्नानोपवासविषसाशननित्यहोम- स्वाध्यायसाधनविधिश्रमदुर्बलाङ्गः ॥ सर्वस्वमेव पितृदेवमुखे नियोज्य क्षीणोऽपि भाति भगवानिव बालचन्द्रः ॥ २६ ॥ अपि च, मुहुर्मुहुः काममुखं निरीक्षन् भजन्नथाऽर्थस्य विधेयभावम् ॥ मोक्षण पृष्ठेऽनुसृतः कथञ्चिद् धृतावलम्बः परमूर्ध्वगत्या ॥ २७ ॥ अपि च, श्रीयाज्ञवल्क्यमनुदेवलविष्णुशर्म- शातातपादिमुनिनिर्मितपक्षपातः ॥ कात्यायनद्विजसुभाषितगृह्यसूत्र- व्यादिष्टपद्धतिरपि स्वत एव पश्यन् ॥ २८॥ मद्वचनाचायमुपजातक्रोध इव लक्ष्यते । तदपसरावः । ( इति निष्क्रान्तौ) विष्कम्भकः । (ततः प्रविशति यथानिर्दिष्टो राजोप्रगतिश्च ) राजा-(भाः पापेति पठित्वा) ननु रे मूर्खाः ! अस्मद्व्यवसाय. मन्तराऽपि भवत्कुले कोपकन्ययाऽसूयया प्रसूतो ब्रह्मद्वेष एवानायासेन भवतो नाशयिष्यति । यतः-- द्रुह्यन्ति ये ब्राह्मणपुङ्गवेभ्यो वेदान्विवादरपि खण्डयन्ति ॥ १. अत्र 'निरीक्षमाण' इति योग्यम् । ईक्षतेरात्मनेपदित्वात् । २. 'श' इत्यपि पाठः ।
प्रथमोऽङ्कः । निन्दन्ति विश्वेश्वरपादपद्म तेषां कुलं कुत्र पुनः पृथिव्याम् ॥ २९ ॥ ऊर्ध्वगतिः-सुदं मए तुम्हाणं सवत्तजणणीए हिअए प्प- सूदो अधम्मोति । राजा--अथ किम् । ऊर्ध्वगतिः-ता किंत्ति णाणुग्गहीअदि । राजा-आर्ये ! नायमनुग्रहपात्रम् । दूरं दुरोदरसुराहृतचित्तवृत्ति- गुर्वानागमनलोलमतिर्वितान्तम् ।। उद्वेजिताखिलजनः प्रथमं पुराऽसौ हेमाऽहरद्विशसनव्यसनी द्विजानाम् ॥ ३० ॥ तस्येदं वृत्तमालोक्य सर्वे वर्णाश्रमास्तथा । तदाचाराः समावृत्ता बुद्धिमूलं हि सङ्गतिः ॥ ३१ ॥ ऊर्ध्वगतिः-एको क्खु अवराहो रण्णा क्खमीअदि ण खु अवराहाणां सहस्समें । राना-देवि ! नायं भाजनं क्षमायाः । एवं स्यात्तर्हि पूर्वमेवै- तावान संघर्षो न स्यात् । आवश्यकः परिणतौ सह येन सन्धि- नों वैमनस्यमपि तस्य पुरा विधेयम् ॥ नो वा मनस्त्रुटितमेति कदापि सन्धि ग्रन्थि दधाति घटितं गुणवत् कथंचित् ।। ३२ ॥ १. श्रुतं मया युष्माकं सपत्नजनन्या हृदि प्रसूतोऽधर्म इति । २. तर्हि किं नानुगृह्यते । ३. एका खलु अपराधो राक्षा क्षम्यते न खल्वपराधानां स. हस्त्रम्।
धर्मविजयनाटके - ऊर्ध्वगति तदो। राजा-ततस्ततोऽस्मदमात्यैराचारव्यवहारप्रायश्चित्तरितस्ततो बा- ध्यमानः कापि अन्त्यजन्मसु प्रच्छन्नमवसत् । ऊर्ध्वगतिः-तदो। राजा-ततश्चास्मदेकपक्षपातिभिर्मन्वत्रिविष्णुहारीतादिभिः कृ. ताः सर्वे वर्णाश्रमाः स्वव्यापारमन्वतिष्ठन् । तदा प्रभृत्यथदिनं यावत्- विप्राः षद्कर्मभाजः किल नरपतयो वारक्षानुरक्ता वैश्याः कृण्यां प्रसक्ताः परिचरणविधौ व्याप्रियन्ते च शूदाः ॥ कुर्वन्त्याम्नायपाठं पटुमतिबटवः पञ्चयज्ञान् गृहस्थाः पाराकाधं वनस्थाः प्रणवजपविधि भिक्षवो मोक्षसंस्थाः ॥ ३३ ॥ अझं न दर्शयति पश्यति नान्यवक्त्रं गेहान याति न च तिष्ठति दुष्टसने । नोच्चैर्वदत्यपि न कुप्यति सापराधे पत्याविमानि चरितानि कुलाननायाः ॥ ३४ ॥ ऊर्ध्वगति: -अज धण्णाओ ताओ पदिव्वदाओ महाप्पहावाओ सुणीमन्दि ताणं महत्तणं कहेदु अजउत्तो । राजा-देवि ! कः समर्थः प्रभाववर्णने पतिदेवतानां, यासु कान्तमादाय चितां प्रविष्ठासु, एताः स्वधर्मनिरता मरणान्तिकपि तेजः परस्य पुरुषस्य कथं सहन्ते ।। इत्थं विचिन्त्य विरतः पुरतः सतीना शैत्यं प्रयाति भगवान्किम वीतिहोत्रः ॥ ३५ ॥ १.ततः। २. ततः। ३. आर्य ! धन्यास्ताः पतिव्रता महाप्रभावाः श्रूयन्ते, तासां मा. हात्म्यं कथयस्वार्यः।
प्रथमोऽङ्कः । ऊर्ध्वगतिः-ताणं जलणप्पवेसे को उण महो।। राजा--अविच्छिन्नप्रियसंयोगः। ऊर्ध्वगतिः- हुं एव्वम् । -अथ किम् । अधनं परिपीडितं मृत परिणतारमसौ जहाति न । न परित्यजति प्रियोऽप्यमुं गुणलुब्धो नु भवान्तरेष्वपि ॥३६॥ ऊर्ध्वगतिः- परलोए ताणं उण का गदी ? । राजा-उमालोकप्राप्तिस्तस्मादनिवृत्तिश्च । यतः, अपि दुःष्कृतिनं मृतं पति समुपादाय हिरण्यरेतसः ।। विरतार्चिषि सार्चिषः पथा समुपैतीति कथासु शुश्रुमः ॥ ३७ ।। ऊर्ध्वगति:--धण्णाओ ताओ एकवत्तीओ जाओ अज्जेण सलाहिज्जति । राजा-प्रिये ! सर्वथैव धन्यास्ता यासां माहात्म्यं शास्त्रमपि कथञ्चिद्वक्तुं न शक्रोति । अपि च, नेत्रप्रान्तः कटाक्षं विहसितमधरो भाषितं कान्तकर्णः कोपः स्वान्तं स्वकीयं गतिषु विलसितं वासगेहस्य भूमिः ।। धैर्य भतुश्चितामिः स्तनयुगधनता हारभारः सतीना सौन्दर्य दीर्घशाटी कलयति वलयं मार्दवं दोलतायाः।। ३८ ॥ १. तासां ज्वलनप्रवेशे कः पुमोमः। २. हुंएवम् । ३. परलोके पुनस्तासां का गतिः । ४, धम्यास्ता एकपल्या, या आर्येण श्लाध्यन्ते। ४ धर्मविजयनाटके- - 3 ऊर्ध्वगतिः-तदो। राजा-द्रव्येषु शुद्धिरधिका कनकादिदानं पात्रेषु कर्मसु यजिर्गणनायकस्य ॥ नान्दीमुखादिपितृकर्म नभश्चराणां पूजेति शर्मकलितः फलितश्च वेदः ॥ ३९ ।। ऊर्ध्वगतिः-तदो। राजा-ततश्च त्रेताद्वापरयोः सन्धौ कदाचिदविनयमाचरन् चा- रमुखादवगतोऽपि दुर्बल इत्युपेक्षितोऽस्माभिः । वर्णाश्रमनिगूढपक्षपातेन कलिबलेन चैतावती भूमि यातः । पुनस्तथावृत्त एव संवृतः । ऊर्ध्वगतिः-हत्थगतं पडिवक्खं को णु क्खु परिश्चजई । राजा-कस्येदं कर्मणः फलम् । ऋणस्य शेषः प्रतिपक्षवंशो वहेः स्फुलिंगः फणिनः शिशुश्च । यैः स्थापितः कोमलबुद्धिभाजां स्वप्नेऽपि तेषां कुशलं कुतः स्यात् ॥ ४० ॥ ऊर्ध्वगतिः-अजउत्त जई एदेसु दिणेसु स संवादिदपक्ख- वादो, अज्जो उण पहीणपक्खवादो, ता कहं विअ स दुग्विणीदो तुम्हे- हिं जेदव्यो । राजा देवि ! अलमस्मान्कृशानप्यधर्मापेक्षया दुर्बलान्संभाव्य, तेजस्विनां तेज एव जयति शन्नोपकरणानि कलेवरं वा । १.ततः। २. ततः। ३. हस्तगं प्रतिपक्षं को नु खलु परित्यजति । ४. आर्यपुत्र ! यदि एतेषु दिनेषु स संपादितपक्षपाता, आर्यः पु. मः परिहानपक्षपातस्तस्कथमिव स दुर्धिनीतः युष्माभिर्जेतव्यः।
प्रथमोऽङ्कः। १५ आस्तां नु पीवरतनुमदमन्थरो वा दन्तावलोपि जगतां धरगहरेषु ॥ स्वेच्छाविहाररसिकः किल नाभ्युपैति यावत्कृशोपि हशि केसरिणः किशोरः ॥ ४१ ॥ अपि च, आस्तां तावद्भवनकुहरे कोपि गाढान्धकारः स्वल्पोऽप्येकः प्रभवति पुनस्तं निहन्तुं प्रदीपः ॥ भूयाद् भूयो भुवि दवतृणं भूरुहाणाश्चयो वा स्वाहाभर्तुस्तदपि दहति प्रायशो विस्फुलिङ्गः ॥ ४२ ॥ ऊर्ध्वगति:-अज्जउत्त बलीअं खु एसो, जदो कामकोह. लोहप्पहुदिहिं तस्स वल्लहेहिं किदोवजावो अयं जणो णं जेव्व कामेदि ण उण तुम्हाणम् । राजा-देवि ! आपातमनोहरेन्द्रियलालनेन तस्य विधेय. भावमुपगतोऽप्ययं लोकः कर्मविपाकद्वाराऽस्माभिरुपजप्तः परिणतौ नर- कवेदनयोद्वेजितः त्यक्ष्यति पापसंसर्गम् । किश्च स्वप्रयोजनपरः क पुन- रुपकर्तुरत्याहिते सहायोपि । यतः- गीर्वाणाः सुधबा ऽसुरा मदिरया पाथोधरैर्मानवाः सर्वे स्वार्थपरायणा जडतयैकेनामुना पोषिताः ॥ पाणावाचमतो निधाय जलधिं यादोमहीधैः समं नो मित्रावरुणात्मसंभवमुनेः कोऽप्यन्तरायोऽभवत् ॥ ४३ ।। तथापि प्रवृद्धस्य रिपोरुपचारः सत्वरं विधेयो विजिगीषुणेति प्रे. षयामस्तावत्तीयतनपुरपत्तनारण्यपर्वतक्षेत्रेषु पुराणश्रवणादीन् । ( नेपथ्ये) भतुर्भव्याय भवतात् सन्ध्या मध्यन्दिनवर्तिनी । १. आर्यपुत्र ! बलीयान्खलु एषः । यतः कामक्रोधलोमप्र. भृतिभिस्तस्य वल्लभैः कृतोपजापोऽयं जनः एतमेव कामयते न पुन युष्मान् । - धर्मविजयनाटके - राजा-किं संवृत्तोऽयं घसमध्यः ? (पुनर्नेपथ्ये) सम्प्रति हि- दिशः शून्याकाराश्वपलमृगतृष्णामयजलाः समस्तो ऽप्यास्तेऽयं जननयनकोपस्य विषयः ॥ पयः काथीभावं ब्रजति सरसि स्वस्पसलिले प्रचण्डो मार्तण्डस्तपति जगतामेष शिरसि ॥ ४४ ॥ राजा--(अवलोक्य) तरुणतरतरणिकरजनितक्लेशेव तनुतामु. पैति छाया जनानाम् । त्वरिततरमुदयगिरिवरशिखरपरिसरादम्बरसरणि- समारोहणपरिश्रमादिव मिहिररथतुरगाः स्थिरतामुपयान्ति गगनमध्ये । (पुनर्नेपथ्ये) दर्पण स्वेन सौरैरपि करनिकरैवैनतेयातिकष्ट. व्यावल्गद्वल्गुवल्गोत्फणफणिगरलज्वालयोष्मायमाणाः ।। व्याकैरोभिर्घनघनजघनैः फेनजालं क्षरन्तो मध्ये व्योम्नः कथञ्चिद्विदधति विरति सप्तयः सप्तसप्तः ॥ ४५ ॥ अहो ! वैषम्यमस्य समयस्य । यतः-- छायामप्युपकारिणी विटपिनः स्वामात्मसात्कुर्वते शैत्यं दुर्बलतां गतञ्च सलिलैरन्तः क्वचित्स्थाप्यते ।। कान्ताभिः कुचमण्डलं मलयजक्षोदेन सङ्गोप्यते मध्याहे पवनोऽपि वीजनपरैरन्तर्हितो लक्ष्यते ॥ ४६ ॥ राजा--तद्वयमप्याहिकशेषेण स्नानतर्पणादिना समयमशून्यं कुर्मः। (इति राज्ञा सह निष्क्रान्ताः सर्वे) इति श्रीमच्छुक्लभुदेवविरचिते धर्मविजय- नाम्नि नाटके प्रथमोकः ॥
द्वितीयोऽङ्कः। द्वितीयोऽङ्कः। (ततः प्रविशति व्यभिचारः ) व्यभिचार:-आज्ञप्तोस्म्यधर्मेण, 'वत्स ! व्यभिचार ! प्रथमे तीर्थे पार्वतीप्राणनाथपुरे दृष्टिरागवनितया परस्परप्रीत्या सह गार्हस्थ्य. मुपभुज्यताम् । चरितश्च भवतो विलोक्य कुलीनतरुणीतरुणैरपि स्वे. च्छाविहारिभिर्भवितव्यम्' इति । तदिदानी प्राप्तं मयाऽऽनन्दवनम् , सम्पादिताऽऽज्ञा राज्ञो, विधेयभावं नीतश्चात्रत्यः सर्वोपि जनः । यतः- काचित्कान्तं परमभिसरत्यात्मना वित्तकामा दूती काश्चिन्नयति विविधैश्छद्मभिः सम्प्रलोभ्य ॥ काचित्कर्तुं व्रजति सफलं जारसनाद्वयः स्वं काचिद्वन्ध्या प्रतिमठमटत्याकुला पुत्रहेतोः ॥ १ ॥ अपि च, एकत्रैके निवासादविदितचरिताः संश्रयन्त्यन्यकान्ता भूत्वा मित्राणि भतुर्विलासितमपरे तस्य दारैर्भजन्ति ।। केचिद्वाणिज्यदंभात्परिचरणमिषास्केऽपि धर्मोपदेश- व्याजात्केचित्परेषां शरणमुपगताः कामिनीः कामयन्ते ॥२॥ अपि च, वाटीविभूषणमनध्य मुदारशाटी पाटीरकुंकुमविलेपनमन्यदाराः ॥ तीव्रा सुरा कुसुमपल्लविनी च शय्या स्वर्गोऽयमेव नरकः क नु केन दृष्टः ॥ ३ ॥ ( सविमर्पञ्च ) किन्नु खलु जनताचरितानि परीक्षितुं प्रहिता चि. रयति परस्परप्रीतिः । (पुरोऽवलोक्य ) अये अभ्युपेतैव प्रियसखी । (ततः प्रविशति परस्परप्रीतिः) परस्परप्रीतिः-अत्तणो अपुव्वाविण मित्सस्स पुलो कहं णु भाणिसं किं णु कलिस्सं कहं विअ अजाई दंशइस्स कहं वा एवं कम्म धर्म०३ १८ धर्मविजयनाटके- होदित्ति मे हिअ कंपिदं, दाणि उण णं पाडच्चजिअ लोअवुत्तन्तपेक्ख- णकजण अद्विरचित्ताए वि मम जुआई विअ दिणाई संवुत्ताई । (इत्युपसर्पति) व्यभिचार:-( सहर्षम् ) एहि प्रिये ! तावदालिङ्गस्व । (परस्परप्रीतिस्तथा करोति) व्यभिचार:-(स्वगतम् ) त्रुट्यत्कूसहारं विदलितवलयं विश्लथं नीविषाद प्रौढप्रेमातितिर्यविचलितनयनं गाढमालिङ्गितायाः ॥ उच्छ्वासोत्तालवक्षोभवहढघटनादेति नव्यां महीया. नङ्गप्रत्यङ्गसङ्गादनुभवपदवीं कोऽपि शर्मातिरेकः ॥ ४ ॥ (प्रकाशम् , दृढं परिष्वज्य) प्रिये ! कः खलु पौरवृत्तान्तः । परस्परप्रीतिः-किं ण आलोएदि अज्जो सअलं जेव्व णअलं अज्जउत्तस्य वसंवदं विअ दीसेई । व्यभिचार:-पश्य कौतुकमितो वीथ्याम्- प्रौढः पीवा विमलवसनः स्निधदृष्टिः शिखावान् सायं प्रातः प्रविशति गृहं होमकर्मच्छलेन ॥ भिक्षा कर्तुं मखविधिर्मिषात्संस्थितस्य प्रवासे भुक्त्वा कान्तां ब्रजति कपटादाहितामर्द्विजस्य ॥ ५ ॥ अपरतश्च, पीतमस्तदयमन्यकान्तया वीक्ष्य मुग्धमधरं नतभ्रुवा । १. आत्मनः अपूर्वाविनयं मित्रस्य पुरः कथन्नु भणियामि, किन्नु करिये, कथमिवाङ्गानि दर्शयिष्ये, कथं वेदं कर्म भवतीति में दयं कम्पितम्। इदानी पुनरेनं परित्यज्य लोकवृत्तान्तवीक्षणकार्येणा स्थिरचित्ताया अपि मम युगानीव दिनानि संवृत्तानि । २. किनालोकयति आर्यः । सकलमेव नगरं आर्यपुत्रस्य शं. वदमिव दृश्यते। ह द्वितीयोऽङ्कः । १९ चुम्बितुं त्वरितयापि केवलं कान्तकान्तवदनं विलोक्यते ॥ ६ ॥ अन्यतश्च, स्वेदः कपोले इलथता दुकूले किमेतदित्यालिगिरं निपीय ॥ दरानमत्कन्धरबन्धुराणी तूष्णीं कुरङ्गीनयनेयमास्ते ।। ७ ।। परस्परप्रीति:-अज पलिक्कमणेसु देवप्पासाआणं अवगाहनेसु तित्थाणं कहाप्पसङ्गेसु पोलाणिआणं उज्जाणिआसु धम्मप्पउत्ताणं प. लिक्खणं वि तुह्मलोअणदसणमेत्तकेण पलिक्खिअ पहुवीतलम्मि तुए जेव्व रजं करीआदित्ति संभोवेमि । व्यभिचारः-सत्यं, सकृदप्यस्मद्दर्शनग्राहिणो भजन्ति भक्तदा. सभावम् । विशेषतश्चायमुन्मादजनको मधुमासः । निश्वासैः सममेधते मलयजो वायुर्दिनं दीर्घतां संतापेन सह प्रयाति कृशतामङ्गैः समं शर्वरी ॥ पत्राणि प्रपतन्ति लोचनजलैः साधं वसन्तागमे निर्गच्छन्ति वियोगिनां प्रतिवनं प्राणैः समं पल्लवाः ॥ ८ ॥ प्रिये ! तस्य तुरीये वयसि कृतोद्वाहास्य धनपालनाम्नो नाणक. परीक्षकस्य पुष्पवती नाम वनितैतेषु दिनेषु किमाचौरा है। परस्परप्रीति:-ताए वि णिचं दह पंच जुआणा अणुरंजीदि । व्यभिचार:-किमसावसती संवृत्ता ? १. आर्य! परिक्रमणेषु देवप्रासादानां अवगाहनेषु तीर्थानां कथाप्र. सङ्गेषु पौराणिकानामुद्यानिकासु धर्मप्रवृत्तानां परीक्षणमपि युप्म. ल्लोचनदर्शनमात्रकेण परीक्ष्य पृथिवीतलमध्ये स्वयैव राज्यं क्रियते इति संभावयामि। २. 'किमाचचार' इति 'ख' पुस्तके पाठा । ३. तयापि नित्यं दश पञ्च युवानोऽनुरज्यन्ते ।
२० धर्मविजयनाटके- - परस्परप्रीतिः-ण क्खु अचरिअं। खजई पिजई मिठं ठेरो पई जोवणं विसमम् । णिविवाहिअओ मअणो को अवराहो से वराईएँ ॥९॥ व्यभिचार:-सर्वमेतत्सुकृतं धनमात्रमालोक्य कन्यां प्रदातुः । अपि च- - पलितदलितवालः शुष्ककलालजाल. श्वलितगलितदंष्ट्रादन्तमालाकरालः ।। लपनतरललालाश्वासहिकाजटालो न भवति सुमुखीनां भोगयोग्यश्चितांशः ॥ १० ॥ पश्य तावधूनोऽपि सदनमसंभावयतः कलत्रं प्रतिदिनमुपपति श्रावयति । यथा- कान्तः शेते विपणिशरणे स्वीयगेहे ननान्दा श्वश्रूर्मन्दा करणविकला कापि सौधस्य कोणे ॥ पाणिज्याय श्वशुरचरणाः पर्यटन्ति प्रवासे देवाच्चौरः प्रविशति गृहं कस्तदा वः सहायः ॥ ११ ॥ परस्परप्रीति:- अन्ज णं क्खु असमत्थेहि णादो वि दुवि. णओ अदिढहिअअस्स भयं उप्पादेई । व्यभिचार:-एवमेतत् । पश्य- कोऽप्येकाकी धनिकजरठः स्वा वधूमन्यसक्का दृष्ट्वा दण्डादपि नरपतेः साहसाचैव वध्वाः ।। १. न खलु आश्चर्यम्- खाद्यते पीयते मिष्टं स्थविरः पतिर्योवनं विषमम् । निकृपढदयो मदनः कोऽपराधोऽस्या वराक्याः॥ २. आर्य ! न खल्वसमर्थातोपि दुर्विनयोऽहृदयस्य भयमु. स्पादयति ।
द्वितीयोऽङ्कः । ६४, २५९३१ बिभ्यत् कोपाकुलितमतिरप्यप्रगल्भो नियन्तुं निन्दत्येवं निजपरिणतिं केवलं दीर्घमायुः ॥ १२ ॥ विमर्षम् ) अहो नु चरितमविनयवतीनाम्--- एताः प्रसन्नमनसः परकीयपुंसा क्रीडन्ति देववशतोऽनुचिते प्रवृत्ते ॥ मां वक्ति नर्मवचनं वसनाञ्चलं मे गृह्णाति कोऽयमिति तश्च विडम्बयन्ति ॥ १३ ॥ अपि च, उन्मादयन्त्यपि कटाक्षसटाप्रसारै. निभर्सयन्ति वनिताः कुतुकात् पुमांसम् ।। दीर्घावगुण्ठनतिरोहितवक्त्रचन्द्रा भावं कदाप्याभनयान्त पुनः सतीनाम् ॥ १४ ॥ अपि च, एतासु विपरीतरतोत्सुकासु- सहसैव कम्पमुपयान्ति भूधरा- श्वलतीन्दुमण्डलमथो मुहुर्मुहुः ।। तरलीभवन्ति गगनेऽपि तारका. स्तपसा जितं जितमहो मनोभुवः ॥ १५ ॥ (पुरोऽवलोक्य) कुतो धौतं वासः पचनविधिपात्राण्यपि कुतो न पानीयं पातुं वहति करकं मृण्मयमपि ॥ स्पृशन् गावः श्वानं श्वपचमथ विप्रं समतया विदेशेऽप्येकाकी भ्रमति किल कोऽयं द्विज इव ॥ १६ ॥ परस्परप्रीति:-अस्स कोपि पच्छत्तियो विम पक्षणो दसिई - एसो। - ग्यभिचारः-सत्यम् , प्रयागमार्गेणागतः पाश्चात्य एव, तदस्मा. १.वयस्य ! कोऽपि पाश्चात्य इव ब्राह्मणो दृश्यते एषः ।
१२ धर्मविजयनाटके- द्वत्सस्यानाचारस्य वृत्तान्त कलयिष्यामि । सिन्धुप्रान्तकाश्मीरकुरुक्षेत्रा- दिषु तेन किं सम्पादितमिति । परस्परपीति:-ऐसो वि तुमं पेक्खि इदो ज्जेव आअच्छदि । व्यभिचारः-तदेहि द्वारवेदिकायामुपविशावः । (इत्युपवेशनं नाटयतः) (ततः प्रविशति यथानिर्दिष्टो ऽनाचास) अहो शास्त्रसंगतिमन्तरेण पशुकल्पः पाश्चात्यो वर्णः सर्वोऽपि म. या ऽनायासेन स्वाधीनता नीतः । अपि च- विश्वामित्रः श्वपलमहरपार्वतीशः कपालं धत्ते, विष्णुमधुरबदरं भिल्लदष्टं चखाद ।। लोपामुद्रासहचरमुनिर्वित्तलोभेन मांसं वातापीयं, कथमिह पुनः पामराणां विवेकः ॥ १७ ॥ (गङ्गां दृष्ट्वा सविनयम् ) नास्त्याद्रीकरणाय वस्त्रमधिकं शीतं तथा बाधते न स्नाने ऽभिरुचिर्न चान्त्यजजनस्पर्शे मम व्यग्रता ॥ अस्नातं किल नात्र कोऽपि सहसा मां पश्यति प्रायश. स्तस्माजहेनुसुते. मया विरचितो दुरादयं तेऽञ्जलिः ॥ १८ ॥ (अन्यतः पश्यन् ) अहो मूर्खब्राह्मणस्याचारः । यथायम् - सुस्नातं श्रितनवधौतपहवस्त्रं स्पृष्टोऽसाविति पृथुकं निहत्ति यष्टथा ।। चण्डालः स्पृशति मुहुर्विनिन्धकर्मा क्रोधो मामिति किल नानुसन्दधाति ॥ १९ ॥ (पुनरन्यतो गत्वा ) एते तावत्- स्नात्वोपलिप्तभुवि कम्बलखण्डसंस्थाः पट्टोबराणि परिषाय जपन्तु नाम ।। १. एषोऽपि त्वां प्रेक्ष्येत एवागच्छति । - द्वितीयोऽङ्क १३ . .. एषामपानविवरं रचितं विधात्रा जन्मप्रभृत्यथ कथं शुचयः स्युरेते ॥ २० ॥ (पुरोऽवलोक्य) अये, कोऽप्ययं द्वारवेदिकायामुपविष्टः शिष्ट इव दृश्यते, तदहमप्येतादृश एव भवामि । यतः, स्मातः स्मार्तेषु विष्णोः स्मरणविधिपरो वेष्णवानां समाजे शैवः शैवेषु शक्तेः परिचरणरतः शाक्तमार्गस्थितेषु ।। तत्तद्धर्माभिसन्धि स्वयमपि सहसा संश्रितः कूटबुध्या : सोऽहं लब्धावकाशोऽतिथिरनयजुषां दांभिकानां गृहेषु ॥ २१ ॥ (आकाशे) भो भो धनिकाः ! अयाची श्रोत्रियश्वाऽस्मि भुज्यते स्वत आगतम् ॥ अद्यापि न प्रसिद्धोऽत्र तेनाहं मलिनः कृशः ॥ २२ ॥ (कर्ण दत्वा ) किमुच्यते, गृह्यतामिदमनाहतं वस्त्रद्वयं परिधानाय प्रावरणाय चति । अनाचारः-भवतु, को विरोधो यद्ययाचितंमुपतिष्ठतीति । (परिधाय परिकामति) ध्यभिचार:-प्रिये ! नायं पाश्चात्यः, किन्तु मध्यदेशीयः को. ऽपि स्नातकः । परस्परप्रीतिः-दीसई। अनाचार:-( उपसृत्य ) स्वस्ति भवतु ते । व्यभिचार:-नमो भगवतेऽभ्यागताय । परस्परप्रीतिः--भअवं पादवंदनं कैरेमि । अनाचार:-असंख्यपतिपुत्रिणी भव । व्यभिचारः-प्रिये ! करप्यता पायं मधुपर्कश्च । १. दृश्यते। २. भगवन् ! पादवन्दनं करोमि । . روفر २४ धर्मविजयनाटके- - परस्परप्रीतिः-वअस्स जइ ण लूससि ता एवम्स पलिक्खं करेमि । व्यभिचार:-किम्प्रयोजनम् । परस्परप्रीतिः जई एसो सबसोत्तिो जेव्व ता अह्माणं सुहविरोहं करिस्सादित्ति अम्हघरे से वसई ण हुविस्सदि जई अम्हसरिसो होदि ता अम्हेहि सद्धं चिरं विहलिस्सदित्ति । व्यभिचार:--भवतु का नाम हानिः । परस्परप्रीतिः-(स्वगतम् ) केण उण उवाएण णं पलिक्खिस्स ! होदु ताव, क्कमेण अअदाचारं कदुअ से मणं पाविस्समें । (प्रकाशम्-वदनार्धप्रविष्टेन पात्रेण पानीयमापीय पीतशेषम् ) एदं पाओदशं गहेदु अज्जो। अनाचार:--युष्मत्पातशेषेणाऽनाचारः खलु पाद्यविधिः । व्याभिचार:--भगवन्नैतदेवम् । गुर्जराः पीतशेषं पयः सोमकल्प कल्पयन्ति । अनाचार:--दृष्टमेतदन्यच्च । स्नान्ति द्वित्राः प्रातरुत्थाय केचित् भोज्यं भोक्तुं सावकाशात्परे च । दैवं पिध्यं चानुतिष्ठन्ति वर्णा- श्चर्माम्भोभिर्मण्डले गुर्जराणाम् ॥ २२ ॥ १. धयस्य ! यदि म रुप्यसि तर्हि एतस्य परीक्षां करोमि । २. यथेष सत्यश्रोत्रिय एव तस्मिाकं सुखाधिरोधं करिष्यति, अ. स्माकं गृहेऽस्य वसतिन भविष्यति । यद्यस्मरसहयो भवति तस्मा. भिः सार्थ चिरं विहरिष्यति । ३. केन पुनरुपायनैनं परीक्षिप्ये । भवतु तावत्कमेणाहाताचारं कस्वास्य मनः प्रवक्ष्यामि । इदं पादोदकं गृहात्वार्यः।
द्वितीयोऽङ्कः । ५ व्यभिचार:- स्पृष्टाधरपात्रेण पानीयपानमपि प्रकारोः मध्यदेशी. यानाम् । . अनाचार:--खादन्तीग्यामन्तरेणापि मांसं विन्ध्यस्यातरुत्तरस्यां द्विजेन्द्राः । आवृद्धं चाबालमास्वादयन्ति प्रायः प्रीत्या दाक्षिणात्याः पलाण्डम् ॥ २३ ॥ व्यभिचार: - ब्रह्मन्नभिज्ञोसि देशाचाराणा, तत्रामीरमालवादिषु कः सदाचारः।। अनाचारः - त्रैवर्णिकानां मरुमालवादि. देशस्थितानामविवेकमाजाम् ॥ न भक्ष्यशुद्धिर्न च शौचबुद्धि- स्तत्राऽलमाचारविधेर्विचारैः ॥ २४ ॥ व्यभिचार:-महाश्रोत्रिय ! समांसो मधुपर्क इति गृहकार मतम् , यद्यभिमतं तर्हि तथैवीपचरामि । अनाचारः--कलिवर्जे प्रथमपठितमेतत्, परन्तु यथा रोचते तुभ्यम् । व्यभिचारः--(स्वगतम् ) अनाचारोपजप्तस्येव द्विजन्मनश्च- रितम् । ( प्रकाशम् ) भगवन् ! देवरापत्यमपि कलौ गर्हितं श्रूयते । अनाचार:--अस्ति स्मृति:- अमिहोत्रमित्यादि, परन्तु निर्मूला, कथमन्यथा सन्यासोऽपि । व्यभिचार:-(निपुणन्निरूप्य ) किं वत्स ! अनाचारस्त्वम् । अनाचारः-(सहर्षम् ) किमार्यः (इति पादयोः पतति ) व्यभिचार:-वत्स ! दर्शनक्षणएव प्रत्यभिज्ञातोऽपि काल विप्रकर्षेण न सम्यक्परिचितोऽसि । ( इत्युत्थायालिङ्गति) ४ धर्म २६ धर्मविजयनाटक- यदत्र परस्परप्रीतिः-एदु दाव अंअवालिं वच्छो देवरो । (अनाचारस्तथा करोति) परस्परपीति:-(स्वगतम् ) पलपुलिसो इत्थिाणं बड्दा सुह. साहणरसिओ। तत्थः वि पाहुणिओ देसरो जइ रहमि हत्थगदो होई। अनाचार:-(आत्मगतम् ) स्त्रियः सन्तु स्वीयाः सुरतचतुराः काञ्चनाचो भवन्तु स्वाधीना जगति परकीयाः प्रतिदिनम् ।। तथापि प्रोन्मीलदूहुलतररागाकुलहृदा परीरम्भोऽगम्याजनविरचितः कोऽपि सुखदः ॥ २५॥ व्यभिचार:- वत्स ! उचिते खल समयेऽभ्यागतोसि, परमप्रियां भैरवी यातनामुपभोक्तुकामो राजाप्यायातीति श्रूयते । परस्परप्रीतिः-(स्वगतम् ) जइ एसो हत्थगतो भविस्सदि ता गाभिप्पदस्सणस्थणोल्लासणचिउरसंखरणतिरिअदिटिपेक्खण महु रालावणिक्कारणहसिदनिजणपदेससंठाणपुत्तमुहचुंबणादिहिं णिअ - वेहव्वं पारइस्सम् । ( नेपथ्ये) भो भो नागराः ! प्रत्यासन्नो भूपतिरधर्मः । तथा हि-- भेरीणां प्रतिरसितप्रचण्डशना: श्रयन्ते दिनकरमावृणोति रेणुः ।। १ एतु तावदकपालि वत्सो देवः । २. परपुरुषः स्त्रीणां वर्धते सुखसाधनरसिकः । तत्रापि प्राघूः र्णिको देवरो यदि रहसि हस्तगतो भवेत ३. यदि एष हस्तगतो भविष्यति तर्हि नामिप्रदर्शनस्तनोल्लासन. चिकुरसंस्करणतिर्यदृष्टिप्रेक्षणमधुरालापनिष्कारणहसितनिर्जनदे. शसंस्थानपुत्रमुखचुम्बनादिभिर्निजवैधव्यं पारयिष्ये । ४. अन्यरागा' इति 'ख' पुस्तके पाठः ।
द्वितीयोऽङ्कः । आश्चर्य किल पिदधाति भूविभागान् दृश्यन्ते गजपतिकेतवो विचित्राः ॥ २६ ॥ तेन हि- आलभ्यन्तां विविधपशवः संस्क्रियन्तां गृहाणि द्यूतक्रीडा भवतु भवने भाग्यमाजां समन्तात् ॥ आहूयन्तां तरुणगणिकाः कल्प्यतां पानभूमिः प्रत्यानेतुं ब्रजतु सकलः पौरलोको नरेन्द्रम् ॥ २७ ॥ अनाचारः- समागत एव, देवस्तत्प्रत्युद्गमनेन सम्भावयत्वार्यः व्यभिचार:-प्रिये ! वाङ्मनःकायकर्मभिस्ते समुचितो देवरो- पचारः। (इति निष्क्रान्तः) (पुनर्ने रथ्ये) स्कन्धे करं निवेश्याथ नगराहहिरादरात् ।। काश्यामधर्मों नृपतिः पौरकार्य समीक्षते ॥ २८ ॥ परस्परप्रीतिः - एहि जोवणलच्छीविछुरिदमुहचन्द देअर सुलालसेण पढम तुमं संतोसिअ पच्छा उवचलिस्सम् । अनाचार:-अये ! ममाक्रान्तस्य सुरया कृत्याकृत्यमजानतः ।। पुरश्चपलचितस्य स्थातुं शक्यं त्वया कुतः ॥ २९ ॥ परस्परप्रीतिः-अहं वि महुवारस्स विहेअत्तणं उवगदा रम. णिं वा दिणं वा ण जाणामि, कि उण तुअ चरिदम् । अनाचार:-एहि तर्हि स्वेष्टं साधयावः । ( इति निष्क्रान्ती) ॥ विष्कम्भकः॥ १. पहि यौवनलक्ष्मीषिच्छुरितमुखचन्द्र ! प्रापूर्णिक: देवर ! सुरार सेन प्रथमं त्वां सम्तोग्य पश्चादुपचरिष्यामि । २. अहमपि मधुवारस्य विधेयत्वं प्राप्य रजनी वा दिनं धा न जानामि । किं पुनस्तव चरितम् ।
.१८ धर्मविजयनाटके- N " (ततः प्रविशत्यधर्मों विभवत परिवार) अधर्म: यद्यपि, नापृष्टः कस्य चिद् बूयान्न चाऽन्यायेन पृच्छतः ।। जाननपि हि मेधावी जडवल्लोक आचरेत ॥ इति प्रसिद्धा पद्धतिः । किच्च, यदि चोरस्य जननी चाण्डालेन हृता बलात् ॥ का हानिस्तत्र विदुषां तथाप्येतदपेशलम् ॥ इति विचारपरैर्जगबंन्धुभिरस्माभिः स्वतएवोच्यते, भो जनाः ! चेतयध्वम् , न वा पीता तीब्रा प्रकृतिमधुरा जीर्णमदिरा न च द्यूतक्रीडा सह कितवसङ्घविरचिता ॥ न वा वेश्या वेश्मन्यपि समुपस्ता सकृदहो पृथा वित्तं विप्रैर्जगति कुधियां लुण्ठितमिदम् ॥ ३० ॥ अपि च, अर्थवादश्रुतिनिर्णाशितमतिभिधेयैर्न संचितानि न भुक्तानि धनानि । अपि तु- - पाण्डित्यं कविता कलाकुशलता शौर्य तथाऽन्ये गुणाः सन्तु प्राणभृतां तथाऽपि तइमे यैःस्युर्विना निष्फलाः ॥ तान्येतानि धनानि दैववशतो हस्तागतानि ज्वल. स्वाहाप्राणपते सुखे मखमिषान्विर्णाशितानि स्वयम् ॥ ३१ ॥ (स्मृतिमभिनीय सचमत्कारम् ) अहो नु खलु चेतसि चित्रित इ. घोपदेशो वत्सस्य कार्पण्यस्य । यथा-- यस्यां विष्णुत्रिभुवनगुरुर्नित्यमासक्तचेताः लोणीपालाः समिति तरुणास्ते यदर्थ नियन्ते ।। यस्यां लुब्धा कमलनयना यत्र मोहो मुनीनां सैषा लक्ष्मीः स्वयमिव कथं नाश्यते बुद्धिशून्यैः ॥ ३२ ॥ .
द्वितीयोऽ। 11 (प्रविश्य ) दौवारिक:-जेदु जेदु लाजउलं, अपुवाए खण्डिदचिउराए मणस्सिणीए सहिदो कूडपुलाणिओ देव्वं पेक्खिदुं उवगदो दुआरि चिट्ठदि । 1 अधर्मः :-(स्वगतम् ) यदा प्रभृति, सत्सङ्गपुण्यवनतीर्थनिषेवणाचैः सो नृपेण तपसा प्रहितं पुराणम् ॥ वर्णाश्रमेषु विदधात्युपजापत- च्छुत्वा ममास्ति न रतिर्न मतिर्न निद्रा ॥ ३३ ॥ तदा प्रभृति सहानृतेन पुराणोद्वासनाय प्रेषितोऽयं ब्राह्मणः सत्व रमागतस्तस्मात्कृतकृत्यो भविष्यति । (प्रकाशम् ) कुबद्ध ! प्रवेशयनं, चिरमारभ्य द्रष्टुं समुत्सुकोऽस्मि । दौवारिकाज देवो आणवेदि । (इति निष्क्रान्तः) ( ततः प्रविशति कूटपौराणिको बालविधवा च ) पौराणिक नवं क्यो मूर्तिरनजकल्पा श्रृङ्गारसंमिन्नकथा ऽन्यदारैः ॥ व्यासास्पदं मिष्ठभुजिक्रिया चे- त्यनल्पभाग्यैः कृतिनो लभन्ते ॥ ३४ ॥ विशेषतश्च विश्लिष्टप्रियतमानां विरहोन्मादहेतुरस्मदीयकथाप्रस्ता. वना प्रगल्भं प्रवर्षतु । सम्प्रति- . कल्लोलिन्यः कलुषसलिलाः कूलपातैः समन्ता. क्षेत्रप्रान्तारचितवृतयः पङ्किलो राजमार्गः ॥ १. जयतु जयतु राजकुलम् । अपूर्वया खण्डितांचकुरया मनास्थि. ध्या सहितः कूटपौराणिको देवं प्रेक्षितुमुपांगतो द्वारि तिष्ठति। २. यदेव आशापयति । - धर्मविजयनाटक - इत्थं रुद्धे जगति विधिद्धर्मशालास्थपान्थान् धारापातश्लथगृहगलल्लोष्ठपातो हिनस्ति ॥ ३५ ॥ ( विधर्वा प्रति ) अयि तपस्विनि ! सहास्माभिस्तेऽपूर्वसमागमः | कचित्पूर्वमपि श्रुतं त्वया धर्मरहस्यम् । विधवा- अह ई, कस्स वि बुधपुलाणिअस्स मुहादो सुदं मए, अलं एदेहि जण्हईजमुणादिहिं तित्थेहिं जई भवे अच्चुअस्य कहति । पौराणिकः-आः, तेन तत्र गङ्गेतिपद्यस्यानर्थः कृतः, वस्तुतो यत्र दारकथाप्रसङ्गः अच्युतस्तत्रैव सर्वाणि तीर्थानीति तस्यार्थः । विधवा-कहंविअ लोअविणिदिकम्मं सामिणा सलाहिजाद । पौराणिकः--अयि कोमलकलेवरे ! बालतपस्विनि ! किं जा. नाति लोकः स्तोतुं विर्हितुं वा । पश्य- लक्ष्मीलोभादुदधिशयने पद्मनाभोऽधिशेते वाणी कण्ठे त्रिभुवनपिता स्थापयत्येव नित्यम् ।। गौरी देवो वहति सततं वामभागे महेशः शृङ्गारोऽयं त्रिगुणमहितो मादृशैः किन्तु पूज्यः ॥ ३४ ॥ अपि तु पुराणेतिहासादावप्ययमेव रसोऽभ्याईततमः । यतः- पीता वहिर्दवदहनकृद्रानुकन्याशयस्थो दुष्टो व्यालः सपदि दमितश्वाङ्गुलिस्थः कृतोऽद्रिः ।। एतच्चान्यत् किमिव न विभोश्चित्रहेतुश्चरित्रं रोसक्रीडालुलितमनसः प्रायशः शर्मणे वत् ॥ ३७ ।। १. कुविधिर्धर्मशालति 'स्व' पुस्तके पाठः । २. लोष्ठघातं इति 'ख' पुस्तके पाठः। ३. अथ किम्, कस्य चिबुधपौराणिकस्य मुखाच्छुतं मयाऽल. मेतैर्जाह्नवीयमुनादिभिस्तीथैर्यदि भवेदध्युतोदारकथाप्रसङ्ग इति । ४.कथमेवं लोकपिनिन्दितं कर्म स्वामिना लास्यते । ५. 'रासक्रीडाललितमिव म प्रायशः शर्मणे तत्' इति 'स' पुस्तके पाठः।
द्वितीयो। पौराणिकः--(स्वगतम् ) किश्च भवती पृच्छामः सन्ति श्यामाः कमलनयना मुक्तिमुक्तिपदाव्यो हित्वा तासां रतिविलसितं प्रत्युत स्वीयचित्ते ।। मेघश्यामं कमलनयनं भावयन्तः कृतार्य ये मन्यन्ते स्वमपि क इव प्रत्ययस्तत्र तेषाम् ॥ ३८ ॥ (विधवा शृंगारलजा मिहपयति) !--( स्वगतम् ) मामभिलषन्त्या इवास्या दृश्यते चेतः। पश्यत्यपी वक्रयतीक्षणद्वयं सभ्रूविमेदं कुपिता हसत्यपि। नैवोत्तर किञ्चन मां वदत्यसो स्वयं च धर्मस्य मिषेण पृच्छति ॥ ३९ ।। ( प्रकाशम् ) सुन्दरि ! त्वया निरन्तरमस्मदीयकथायामेव सन्निहि- तया भवितव्यम् । किश्चान्यत्र पुराणशालायां गन्तुं नायमवसरोऽस्ति । यतः, निष्कास्यान्तां पुरस्तात्कथमपि पशवः सम्पदः सहियन्ता वार्यन्तां धावमाना मुहुरिह शिशवः स्थीयता सावधानः ।। जरुपत्स्ववं वणिक्षु इलथपटविगलत्कच्छहस्तेषु तूर्ण धाराभिाँतमूला कृतकटुकरवा भूतलं याति भित्तिः ॥४०॥ अपिच, नीतो दूरं जलरयवशः कोऽपि वृद्धः प्रणाल्या भ्रष्टः सोऽयं स्खलितचरणः पिच्छिलोत्तुङ्गदेशात् ।। पङ्कालिप्ताननकरपटोऽन्यः पतित्वोत्थितोऽयं दृष्दैवेत्थं नभसि सुखिनः सौघसंस्था हसन्ति ॥ ४१ ॥ तस्मादेकाग्रभावोऽत्रैव विधीयताम् । ( इति परिक्रामति) १. 'बेटा' इति 'म' पुस्तके पाठः।
धर्मविजयनाटके- अधर्म:--(निर्वर्ण्य ) आकर्षोल्लासिकाश्मीरजहिमकणिकाघृष्टपाटोरलेपा सूक्ष्मं वासो वसानः प्रकटितविविधव्यासविद्यावलेपः ।। मजिष्टारक्तपट्टाम्बरकलितकथापुस्तकः कोकशास्त्रे सङ्गीते च प्रवीणः सुखयति विधवाः कूटपौराणिकोऽयम् ॥४२॥ सर्वथा चायमनुतिष्ठति निदेशम् । यतः, प्रसन्नमतिसस्मितं वदनपङ्कजं नेत्रयो मतेविविधविभ्रमाः स्फुरितसुन्दरान्तोऽधरः ॥ सबाहुलसितत्वराप्रसरणं पुरः पादयो. नरस्य कृतकृत्यतां वदति वाग्विलासं विना ॥४३॥ पौराणिकः-(उपसृत्य ) स्वस्ति स्वस्ति परमेश्वराय । अधर्म:--स्वागतम् । पौराणिकः--देवे ! प्रणतिरिलातलमालिन्यनृपस्य । अधर्मः- - कुशलम् । पौराणिकः--देवकृपया। अधर्म:-केदानीमधिवासोऽनृतस्य कनिष्ठस्य । पौराणिक:-: सर्वत्र । अधर्म:--साम्प्रतं किमनुतिष्ठति ? । पौराणिकः--इदानी हि, कृत्वादरेण हृदये पदमुत्तमानां वासं विधाय निभृतं वदनारविन्दे ।। अष्टादशापि शनकैर्व्यवहारपादा- नाक्रम्य विश्वमनृतं स्वरतं करोति ।। ४४ ॥ १. गतिर्विविधविभ्रमेति 'ख' पुस्तके पाठः । २. देवप्रणतिरिलातलमालिन्यानृतस्येति '' पुस्तके पाठः। ? - - द्वितीयोऽङ्कः । ? अधर्म:- केन क्रमेण जगदाक्रान्तं युवाभ्याम् ? । पौराणिकः--देवनिदेशात्प्रस्थितयोरावयोः किञ्चित्कालं प्रथ. मतः काश्यां वसतिरासीत् । ततश्चात्र निश्चलं पादमाधाय शनैः कलिङ्गकामरूपकाश्मीरकाम्बोजकर्णाटककोकणमहाराष्ट्रमगधमान. टमत्स्यमालवमलयसिंहलशूरसेनसिन्धुसौराष्ट्रसौवीरशास्वपुलिन्दपारसीक- पाञ्चालपाण्ड्यभाजजागलयवनबर्बरवङ्गविदर्भवैदेहगान्धारगौडगुर्जरनेपाल लाटान्ध्राङ्गहूणद्रविडेषु स्थितिं विधाय पुनरपि परमप्रियं गुर्जरमण्ड- लमावाभ्यामाश्रितम् । अधर्म:--तेषु देशेषु कः समाचारः ? । पौराणिक पर्जन्यः खण्डवृष्टिं वितरति जगती स्वल्पसस्या तरुण्यो भत्रै द्रुह्यन्ति मुख्याश्रमगततरुणाः कामयन्तेऽन्यदारान् ॥ पुत्राणां प्रेतकृत्ये प्रभवति जनकः क्रोधलोभोपजप्ताः क्षोणीपालाः सचौराः प्रतिदिशमटवी घातुका लुण्ठयन्ति ॥४५॥ अपि च, अत्रास्माकमेकः संशयः । यथा-- स्रोतस्विन्यो विरलसलिलाः साधवो मन्दभाग्या नानाभोगान्भजति च खलो भूरुहोऽस्पं फलन्ति || निर्मर्यादाः कुलयुवतयो पूज्यते दम्भयुक्तः सर्व चैतत्तव विलसितं देव ! किं वाऽनृतस्य ॥ ४६ ॥ अधर्मः--आः, कोवाऽनृतस्याऽस्माकं च विशेषो येन संशया- घकाशः । यतः एकः स्वभावो न पृथक् चरित्रं भिन्नाऽमिधा वस्तुनि नास्ति भेदः ॥ धर्मस्य सत्यस्य यथैकमत्यं .. -- -- तद्वन्ममात्माऽनृतमस्य चाहम ॥ ४७।। धर्म०५ ३४ धर्मविजयनाटके- पौराणिकः- दारिद्याय ददाति धैर्यमधिकं रोगान्समाश्वासय. त्यानन्दस्य जलाञ्जलि विरचयत्यस्तं नयत्युन्नतिम् ॥ दाक्षिण्यस्य करोति नाशमनिशं विश्वासमाभीषय- त्येवं देव ! किलानृतस्य चरितं प्रोक्तं समासान्मया ॥ ४८ ॥ अधर्म:-किं तवोपकृतमनेन ? । पौराणिकः --इतोऽप्यन्यस्किमुपकर्तव्यम् । यतः-. वैधेयानां सभायामनधिगतनयो मागत्यादरेण त्वत्पादाब्जप्रतापोपनतबलभरस्यानृतस्य प्रसादात् ।। यत्किश्चिद्रन्थपत्रं पठितमपठितं यादृशं तादृशं वा धृत्वा पाणी सममान्कथयति सततं भारतादिप्रबन्धान् ॥४९॥ अधर्म:-स्वत एव विज्ञो भवति, शिक्षा पुनरुक्तपाया । तथा. पि कलेम चाऽहितानामाख्यानानि भारतादौ सन्ति । तेषां त्वया स्व प्नेऽपि नाम न ग्राह्यमिति पुनरवधानाय स्मार्यत । पौराणिक:-के वा कलेः प्रतिकूलाः ? । :-आः किन्न जानासि, सर्वे राजर्षयः संक्षेपतस्तत्रा. पि तावदेते भीमात्मजा नलनृपः सुकृताङ्गजन्मा कर्कोटकः फणिपतिस्तनया ऽचलस्य ॥ रामोऽग्रणीगुणवतामृतुपर्णभूपः संकीर्तनात्कलिमलं दलयन्त्युदीर्णम् ॥ ५० ॥ पौराणिक:-किं वा द्रुह्यन्ति देवाय । अधर्मः- आख्यानं पृथुनलभार्गवार्जुनानां कौसल्योदरवसतेहलायुधस्य ॥ १. तनयाचलायाः इति 'ख' पुस्तके पाठः । ? अधर्म: ..
द्वितीयोऽङ्कः । ३५ राजर्हदयमुवः शकुन्तलायाः पापस्य प्रथमारिपुर्जगत्प्रसिद्धः ॥ ५१ ॥ पौराणिकः-राजन् ! एते मम श्रुतपूर्वा अपि । अहं तु- संगीतगान्धर्वविवाहशास्त्र. कान्ताचरित्रैः श्रवणे स्थितानाम् ॥ स्त्रीणां समाजे विविधैर्विलासैः सतालहासैः समयं नयामि ।। ५२ ॥ अधर्म:-देवाद्वैदिकः कश्चित्तत्र समायाति है। पौराणिकः-आयातु नाकिभवानाद् गुरुरीश्वराऽपि वाचामसौ परिकरं सुदृढं करोतु ।। व्याख्यानमाग्रहकृतं किल दुर्विदग्धै. दूरीकरोतु स कथं चतुराननोऽपि ॥ ५३ ॥ अधर्मः-सम्यक् खलु पुराणमुद्रापितमिति स्वदुक्त्या ऽमीयते । पौराणिकः-अस्माभिस्तु चक्षुषा न दृष्टं तथापि इति किंवदन्ती तिष्ठति वेदान्ते धर्मशास्त्रे परिणतमतयो न्यायशास्त्रे प्रवीणाः काव्यालङ्कारगोष्ठीष्वपि रसिकतमा नाटकाख्यानदक्षाः ॥ काव्यं कर्तुं प्रगल्भाः प्रतिपदमपि ये भावयन्ति स्वबुद्ध्या तेषां वक्त्र पुराणं निवसति सकलं सेतिहासं नरेन्द्र ॥ ५४ ।। अधर्म:-- अस्तीदानीमपि धर्ममूलशेषस्तच्चतुर्दशविद्याविघाता य मौढ्यादीन्प्रेषयामः । यतः- जाव्यप्रमादविक्षेपव्य सङ्गैर्विकलीकृता । विद्या स्थास्यति नैकापि क पुनस्ताश्चतुर्दश ॥ ५५ ॥ विद्याया अनुदयकारि तत्र जाड्य. मभ्यासप्रशमनकारणं प्रमादः १.गुरुरीश्वरी घा, इति 'ख' पुस्तके पाठः । - ३६ धर्मविजयनाटके- - विक्षेपो रिपुरखिलैकवाक्यताया व्यासङ्गः प्रभवति विस्मृतिं विधातुम् ॥ ५६ ।। (नेपथ्ये) देव ! त्वर्यताम् , कल्पितपानभूमिदेवी भैरवीयातना वासकस. ज्जाकस्पेन महाराज प्रतीक्षते । उपस्थितश्च गणकावेदितो मूहूर्तः । सम्प्रति हि- द्रुतपतदहिमांशुस्यन्दनाऽर्वस्वुरामो- च्छ्वसितविविधधातुबातरेणूकरेण ।। छुरितमिव विहायः सान्ध्यमेधैर्विचित्र- वरुणदिगबलायाः संश्रयत्यम्बरत्वम् ।। ५७ ।। अपि च, वासरान्तसमये समुपेतां पाशपाणिदिशमाश्रितरागाम् ।। कुङ्कुमारुणकरैरिव लिम्पन् दृश्यते कमलिनीहृदयेशः ।। ५८ ।। अधः--(विलोक्य साकृतम् ) वेदमूर्तिरपि रागमाश्रित- स्तेजसां निधिरपि स्पृशंस्तमः ।। अम्बरं परिहरंस्खलत्करः काश्यपः पतति वारुणी भजन् ।। ५९ ।। तद्वयमपि चिरविप्रयोगविमनस्कां देवीं सम्भावयामः । (इति राजा सपौराणिको निष्क्रान्तः ) इति श्रीभूदेवशुक्लविरचिते धर्मविजयनाम्नि नाटके द्वितीयोऽङ्कः। १. च्छलित इति 'ख' पुस्तके पाठः।
तृतीयोऽङ्कः । तृतीयोऽङ्कः। ( ततः प्रविशति महीरुहशास्त्रासक्तरज्योबन्धनेनात्मानं व्यापादयन्ती पण्डितसङ्गतिः ) पण्डितसङ्गतिः--हा मातरश्चतुर्दश विद्याः ! हा सखि कविते ! कथमिह भवतीनामाननाम्भोरुहाणि प्रसरदमृतवाणीवासनागर्भितानि ॥ विविधजन समाजेऽद्यापि नालोकयन्ती हतविधिकलिताऽहं जीवितं धारयिष्ये ॥ १ ॥ ( इति पाशमादाय ग्रीवायां निबध्नाति । प्रविश्य पटाक्षेषेण संभ्रान्ता परीक्षा) परीक्षा-सहि किंति आउलीभूदा अप्पघादं करोसि | ( इति बलात्पर्श शिथिलयति) पण्डितसङ्गतिः-सखि ! मा खलु मां सन्तापय । परीक्षा-अप्पणो वेअणं केहि । पण्डितसङ्गतिः- वेदान्तो ऽन्तमवाप वीक्षणपथं नान्वेति सान्वीक्षिकी सिद्धान्तः कपिलस्य कोऽपि विलयं यातः सपातञ्जलः ॥ मीमांसा विरताऽङ्गभङ्गविकला वेदस्मृतिविस्मृता साहित्यं पिहितं हितैषिणि ! हितं नो जीवितं मेऽधुना ॥ २ ॥ परीक्षा-सहि ! तह वि सुदधम्मसस्थाए तुए वेअविणिंदिरं कम्मं ण जुज्जई ॥ पण्डितसङ्गतिः -सखि ! अस्वाधीनचित्तानां किमकार्यम् । यतः- पाशैबन्धनमुच्चपर्वततटापातं पयोमज्जनं यद्यद्गर्हितमात्मनाशविधये तत्तत्समारब्धवान् ॥ १. सखि ! किमिति, आकुलीभूताऽमघातं करोषि । २. आत्मनो वेदनां कथय । ३. सखि ! तथापि श्रुतधर्मशास्त्रया त्वया वेदविनिन्दितं कर्म न युज्यते। - Ane ३८ धर्मविजयनाटके- शोकाक्रान्तविवेकशून्यहृदयो ऽपाक्रान्तशास्त्रस्मृतिः शक्त्याद्यौरसपुत्रनाशविवशो विद्वान् वसिष्ठो मुनिः ॥ ३ ॥ परीक्षा-सहि समस्सस २ एहि दाव अण्णेसामो जं कहिवि ठामि विजा णिलीम द्विदा हुवे | पण्डितसङ्गतिः-- साख ! अतःपरं किमन्वेषणीयम् । अन्विष्टं तदपि सदो नराधिपानां विद्यार्थी प्रतिमठमादरेण पृष्टः ।। भट्टानामुदवसतिं विविच्य दृष्टं विद्यायाः पदमधुनापि नोपलब्धम् ॥ ४ ॥ परीक्षा--तह वि एकेकस्स भवणंगणं पविसिअ पेक्खम्म, एहि दाव तुमं पि। (हति पण्डितसङ्गतिं समादाय परिक्रामति) पण्डितसङ्गतिः-- सखि ! कोनु खल्वसौ कुण्डलोद्भासितकपोलम ण्डलो विषमवैभवगर्वखर्वीकृताखण्डल; पण्डितंमन्यः । परीक्षा ओखधकंडनविसंठुलहत्थो कोवि वेज्जो विअ दीसई । पण्डितसङ्गतिः--एनं पृच्छावः, कदाचिदुपलभ्यतायुर्वेदगन्धः । (ततः प्रविशति वैद्यः) वैद्यः- यदाप्रभूति जाड्येनोपालब्धोऽस्मि यत् पुरुषायुषजीविनो जनास्तत्र तवैवोपेक्षा मूलमिति, तदाप्रभृति -- १. यापकान्तशास्त्र स्मृतिः, इति 'ख' पुस्तके पाठ। २. सखि ! समाश्वसिहि २ एहि तावदन्वेषयामः यत् कस्मिन्नपि स्थाने विद्या निलीय स्थिता भवेत् । ३. तथाप्येकैकस्य भवनाङ्गणं प्रविश्य पश्याष एहि तावत्यमपि। ४. औषधकण्डनविष्ठुलहस्तः कोऽपि वैद्य इव दृश्यते ।
तृतीयोऽङ्कः। ३९ किमिति दिनमभोजी स्वस्थतां याति कस्मा स्किमु पतति न खट्वापञ्जरे पुष्टदेहः ।। कथमिव तरुणानां नास्ति रोगः सदेति व्यथयति नितरां में मानसं कापि चिन्ता ॥ ५ ॥ परीक्षा--- सहि जुरिदा विअ खणं होहि णं पलिस्खिस्सम् । (पण्डितसंगतिः तथाकरोति) वैद्यः- यद्यपि, बिल्वस्तनी वारिदकेशपाशा घान्यप्ररोहाकलितावतंसा ।। विश्वातिसारा नलदप्रचारा न स्मर्यते सापि मयाऽद्य विद्या ॥ ६ ॥ तथापि, मृतस्यायुः पूर्ण परमिति चिरातङ्ककलिते हरेरिच्छा सद्यो ज्वरजुषि परश्वोऽयमगदः ।। गुणोऽयं पुष्टेषु त्रिकटुगुटिकानामिति वचो- विलासो मे विद्याबलमविदिते साहसमपि ॥ ७ ।। ( इति परिक्रामति) परीक्षा-( उपसत्य, सप्रमाणोऽयमिति तं पृच्छति ) भावमि. स्सर इअं णो पिअसही वलीअं क्खु संतावं अणुहवहि, ता से उवाअं कहेदु अज्जो । वैद्यः--(स्वगतम्) ज्वराङ्कुशाद्यैः सविषप्रचारै-- ममोपचारैः शतशो म्रियन्ते ।। तथापि मोहोऽयमहो जनानां मय्येव वैद्योऽयमिति प्रतीतिः ॥ ८ ॥ १. ज्वरितेव क्षणं भवैनं परीक्षिष्यामि । २. भावमिश्र ! इयं नः प्रियसखी बलवन्तं खलु संतापमनुभवति, तर्हि अस्या उपायं कथयस्वार्यः ।
धर्मविजयनाटके- . (प्रकाशम्)सुन्दरि ! चूर्ण कषायो गुटिकावलेहः पाकश्च सन्दिग्धचिकित्सितानि ।। आरोग्यकारि ज्वरितस्य शीघ्र तप्तायसेनाकनमेकमेव ॥९॥ पण्डितसङ्गतिः--कस्मिन्निबन्धेऽध्ययनं भवतः ? । वैद्यः--आः, आत्रेयपत्रेऽपि न दत्तनेत्रो रीतिन हारीतमुनेरपीता ॥ न सुश्रुतस्य श्रुतवान् श्रुतिं वा स्वतोऽस्मि वैद्यश्चरकानभिज्ञः ॥ १० ॥ पण्डितसङ्गतिः- - (सहासम्) ब्रह्मन्नेतत्तव चिकित्सितोपदशोऽपि पिशुनयति । ( परीक्षा प्रति-जनान्तिकम् ) कः प्रतिजानात्येनं सखि ! कुर्यादुपेक्षां कचिदायुषः क्षयः प्रतीक्षते मृत्युरपि स्वयं कचित । आरोग्यभाजोऽपि जनस्य जीवितं हरत्यकस्मात्परमेतदौषधम् ॥ ११ ॥ परीक्षा--अदो क्खु महावेज्जो एसो। पण्डितसङ्गति--अथ किम् । परीक्षा--सुमरेदि वा पिअसही तस्स वेज्जस्य जस्स दिट्ठिपहे पडिओ दाहरोअकलिदोवि कंचनकलेवरो जव संवुत्तो । १. अतः खलु महावैद्य एषः । २. स्मरति वा प्रियसखी तस्य वैद्यस्य यस्य दृष्टिपथे पतितः दीर्घरोगकलितोऽपि काञ्चनकलेवर एव संवृत्तः ।
तृतीयोऽङ्कः ४१ पण्डितसङ्गतिः --कथं विस्मरामि पुराणधन्वन्तरीयकृतश्रमं तं महापुरुषम् । गुल्मोऽरण्ये पर्वते गण्डमाला कुष्ठं हट्टे शूलमीशानपाणौ ॥ चित्रे पाण्डुः कृष्णपक्षे क्षयोऽभू- द्यस्मिन्वैद्य मीनवर्गः सरोगः ॥ १२ ॥ परीक्षा--लम्बपत्तहत्था को णु क्खु एसो इदो आहेवट्टई ? । पण्डितसङ्गतिः--प्रायेण गणक इव दृश्यते । (ततः प्रविशति गणकः) आजन्मसिद्धप्रमादपरवशतया मुहूर्तमपि न जानीमः, किमुत गणितम , तथापि देशान्तरीयपण्डितः, पञ्चाङ्गपत्रे प्रकटीकृतानां श्रुत्वा गतिं खचरतारकाणाम् ॥ सम्भावित प्रश्नमनुब्रुवन्तो ज्योतिर्विदः केऽपि वयं पृथिव्याम् ॥ १३ ॥ पण्डितसङ्गतिः-( उपसृत्य सप्रणामम् ) भगवन्कुत्राऽध्ययनं भवतः ?। गणका -- - गणक:--प्रश्नग्रन्थे । पण्डितसङ्गतिः- -( जनान्तिकम् ) शिरोमणिभूतभविष्यबोधे बीजस्थितिः कण्ठगरत्नमाला ॥ लीलावती दृष्टिपथे न यस्य ज्योतिर्विदेषः प्रथमाश्रमस्य ॥ १४ ॥ १. लम्पपत्रहस्तःको नु खल्वेष इतः आभवर्तते । ६धर्म ४२ धर्मविजयनाटके- परीक्षा--मएं से चमकालं पेक्खिअ पलिक्खिदो, ण क्खु स. च्चजोइसिओ किन्तु कोवि णखत्तसूचओ हुविस्सदि । पण्डितसङ्गतिः -( मणकं प्रति ) भगवन् ! एकं प्रश्नविषयं बाहे। गणका-भावसन्धिफलदा नभश्चराः क्रूरसौम्यखगदृष्टयो मिथः ॥ द्विःस्वभावमपि लममोहितं सिद्धिमेष्यति परं न निश्चयः ॥१५॥ पण्डितसङ्गतिः-भगवन् ! अवग्रहेण पीड्यतेऽयं जनस्तद् ब्रूहि- पजन्यवार्ताम् । गणकः--(स्वगतम् ) अत्रापि स्वाध्ययनानुसारेण संशयित- मेवात्तरं वदिष्यामि । ( प्रकाशम् ) धान्येश्वरोऽस्ति कुजनिः शनिरन्दपाता दग्धानि कानि चिदुडून्यग़लच गर्भः ॥ केषाञ्चिदात्मगाणतेन तथापि मन्ये वृष्टिं विधास्यति भवन्क्षितिजन्मचारः ॥ १६ ॥ पण्डितसङ्गतिः- ( परीक्षा प्रति ) साखि ! सर्वथैव, रम्याऽऽश्लेषान्तरार्दा मृगसमनयना पद्मसंस्पर्धिहस्ता चित्राक्रान्तोच्चवस्त्रा श्रवणयुगलसत्कुण्डला ऽदृष्टपूर्वा ॥ ज्ञानज्येष्ठा विशाखावृतमदनतरोमूलतो रोहिणी सा सर्वादिष्टपद्या विरतिमुपगता कापि वेदान्तविद्या ॥ १७ ॥ परीक्षा:-- सेहि ! एहि दाव अण्णदो अण्णेसामो। १. मयाऽस्य चमत्कारं दृष्वा परीक्षितः । न खलु सत्यो ज्योतिषी किन्तु कोपि नक्षत्रसूचको भावष्यति । २. सखि ! पाह तावदत्यतोऽन्वेषयावः ।
तृतीयोऽङ्कः । : पण्डितसङ्गतिः भूगोलः सलिलधिसंवृतो व्यलोकि प्रश्नेनाप्यविकलितो ऽखिलः खगोलः ॥ सिद्धान्तागमगणिता गवेषणीयाः केदानी जगति सुदुर्लभा ऽङ्कविद्या ॥ १८ ॥ वैद्यः-( अवलोक्य ) अये चिरेण दृष्टः प्रियसुहृदैवज्ञः । गणकः--( उपमृत्य ) अपि सुखिनो मिश्राः ? । वैद्यः--अद्य विशेषेण । गणकः---नचेत्कार्यातिपातोऽन्यस्तर्हि धर्मशास्त्रविषयप्रश्नाय स्मार्तशुक्लसदनं गच्छावः । वैद्यः--सावकाशोऽस्मि । ( इत्युत्तिष्ठति ) परीक्षा-(सहर्षम् ) तस्य सदने धर्मशास्त्रविद्या भविष्यति । (इति सर्वे परिक्रामन्ति ) (ततः प्रविशति स्मार्तः) स्मात:-विक्षेपस्यासङ्गसेविना मयां न कोऽपि दृष्टो निब. न्धस्तथापि- व्रतवन्धविवाहसद्विधिज्ञः श्रुतवानाहिककर्मपुस्तकेषु ॥ स्वयमस्मि च पण्डितस्य पुत्रः किमसाध्यः स्मृतिनिर्णयोऽधुनेति ॥ १९ ॥ (इति परिकामति । उपमुत्य सर्वे प्रणमन्ति) स्मार्तः– स्वागतम् । ( इत्यभिनन्दति ) गणकः--ब्रह्मन् ! प्रथमोत्पन्नगर्भाणां कदा सीमन्तः । १. प्येषकलित, इति 'ख' पुस्तके पाठः। २. श्रमवानिति 'ख' पुस्तके पाठः । ३. किमसाध्या स्मृतिनिर्णयोऽधुना मे, इति 'ख' पुस्तके पाठः ।
४४ धर्मविजयनाटके- स्मार्त:--मासि षष्ठेऽष्टमे वा । पण्डितसङ्गतिः--भगवन् ! सीमन्तः क्षेत्रसंस्कारः सकृदेवानुष्ठेयः । स्मातः-षष्ठेऽष्टमे वा मासि सीमन्त इति याज्ञवल्क्येन वा- रद्वयमाज्ञप्तः। पण्डितसङ्गतिः--अस्यां स्मृतौ कालस्य विकल्पो न समुच्चयः । स्मातः :--(स्वगतम् ) अनधीतशास्त्रस्य ममाप्यत्र सन्देहः । (प्रकाशम् ) क्वचिदपि विकल्पः क्वचित्समुच्चयोऽपि । परीक्षा-( जनान्तिकम् ) कोवि मुक्खो विअ दीसई एसो गं पुच्छेहि दाव विण्णादसत्थो णवेति । पण्डितसङ्गतिः--ब्रह्मन् ! कापि बाला त्वया दृष्टा ? । स्मार्त:-किमाचारा सा ? । पण्डितसङ्गतिः- या मानवी कोकिलकूजितस्वरा मिताक्षराबद्धवचोमनोहरा ॥ का ऽप्यत्रिजन्माननदक्षदर्शना पाराशरीति स्मृतिमार्गगामिनी ॥ २० ॥ स्मार्तः :-न खलु साऽस्माकं कदापि दृष्टिगोचरा । परीक्षा-(सरोषम् ) अविण्णादधम्मसत्थो किंति लोअं विप्प. सारेसि । स्मातः-आः पण्डितमन्ये ! अस्मदीयतातपादैरप्येवं निर्णीत- पद्भिर्जन्म गमितम् । अपि च- न्यायः स्मृत्योविरोधे क्वचिदपि बलबानर्थशास्त्राद् बलीयः १. च, इति 'ख' पुस्तक पाठः । २. कोपि मूर्ख इव दृश्यते एषः, एनं पृच्छ तावद्विक्षातशास्त्रो मधेति। ३. अविज्ञातधर्मशास्त्रः किमिति लोक विप्रतारयसि ।
तृतीयोऽङ्कः । 99 काप्युक्तं धर्मशास्त्रं कचिदपि वचने देशभेदाव्यवस्था । बाधो ऽन्यस्मिान्वपक्षे क्वचिदपि गदितो धर्मकल्पे विकल्प. स्तेनैवं वाक्यभेदात्सुमुखि ! न नियतो धर्मशास्त्रार्थ एकः ॥ २१ ॥ पण्डितसङ्गतिः - ( साक्तम् ) दिगन्तसंसक्तानितान्तपण्डित- प्रगल्भवाणीविमलीकृतश्रुतेः ॥ विरुद्धशास्त्रार्थविडम्बनाभृता त्वया समुत्पादि ममापि संशयः ॥ २२ ॥ परीक्षा--सहि ! अण्णादधम्मसत्थमग्गस्स एदस्स अज्जाणमि- स्सस्स पलविदेण अप्पणो जाणत्तणं किंति संसअदूसिदं कलेसि । पण्डितसङ्गतिः-सखि ! धारय माम् । तिरयति तिमिरं दृशोर्विलासान् दहति हृदन्तकथा च बान्धवानाम् ॥ जनयति जडता प्रयत्नमान्धं कमपि विवेकमपाकरोति शोकः ॥ २३ ॥ परीक्षा--समस्सस समस्सस । पण्डितसङ्गतिः-किंकरोमि क्व गच्छामि । आचारे प्रथमाखिलव्यवहृतिप्रावीण्यशालिन्यलं प्रायश्चित्तगतं मृतस्य नितरामावेदयन्ती स्वयम् ।। कालज्ञानवती विपाककुशला सत्कर्मणां सद्रता सा कान्ता श्रुतिवम॑गामिनयनप्रान्ता ऽधुना नेक्ष्यते ॥ २४ ॥ १ 'समुदपादि' इति युक्तम् । २. सखि ! अज्ञातधर्मशास्त्रमार्गस्यैतस्याज्ञानमिश्रस्य प्रलपि. सेनास्मनो ज्ञातृत्वं किमिति संशयदूषितं करोषि । ३. बान्धवीनामिति 'खपुस्तके पाठः । ४. समाश्वासहि, सामाश्वसिहि । ५. जनस्थति 'ख' पुस्तके पाठः।
४६ धर्मविजयनाटके- .. - (विमृश्य) आः ज्ञातम् , - स्मातः--(गणक प्रति ) सखे ! इदं कृत्याद्वयं कुतः समु. पार्जितम् । पण्डितसङ्गतिः-किमपराद्धमावाभ्यां येन परीक्षणमात्रप्रयो- जनेन प्रश्नेनोद्विग्नोसि । स्मातः- आः संसारव्यवहारानभिज्ञे ! भवति गुणगणाभिमानभाजा- मपि सहसा प्रतिभानिरासहेतुः ।। सदसि बिबुधसंश्रिते कृतं यः न कथमशस्त्रवधः परीक्षणं तत् ॥ २५ ॥ गणक: (श्रुतिमभिनीय) अये ! दक्षिणस्यामार्तस्येव कथमक- स्मात्स्वरः ।। स्मातः- एकोद्दिष्टभोजन जनाभावास्वस्थक- लेवरतया व्याकुलान्तःकरणः सविधे शायितायाः पत्न्या नितम्बमभिमृश्य शिरोभमेण किं केशपाशविकला मृतभर्तृकेयम् ॥ इत्थं विषण्णहृदयः शयने निषण्णो हा पुत्र ! मातरिति रोदिति वैदिकोऽयम् ॥ २६ ॥ परीक्षा-सहि ! एहि दाव तस्स रुदन्तस्स छांदसस्स घरम्म वे. ओ हुविस्मदि । पण्डितसङ्गतिः-निखिलजनमहनीय चरितं न शक्नोम्यवलो. कयितुं तं दुरवस्थं महापुरुषम् । यतः, शिक्षाविहीनो न च कर्मकल्प. श्छन्दो ऽनुरुद्धं न च यन्निरुक्तम् ॥ १. स्मार्तस्येवेति 'ख' पुस्तके पाठः ।। २. एहि तावत्तस्य रुदतछान्दसस्य गृहे वेदो भविष्यति । ३. सखि ! इति 'ख' पुस्तकेऽधिकम् ।
तृतीयोऽङ्कः । - भनाङ्गसन्धिर्विकलस्वरेण दृष्टोऽपि वेदः सदयं दुनोति ॥ २७ ॥ परीक्षा-सहि ! अवहेहि मन्दमहुरो पाणिनीअसहो विअ सुणीअदि । पण्डितसङ्गतिः-अष्टाध्यायीमात्रं भविष्यति न पुनः प्रमाद- पराभूते जगति महाभाष्यम् । परीक्षा:-कह विअ । पण्डितसङ्गतिः अभिनवरसभाराक्रान्तिभागाहिकेषु प्रकरितगुणवृद्धिय॑स्तसन्धिप्रचारा ॥ सखि ! कथमलसानां स्वादनीयप्रकारा विषधरवदनोत्था कापि पीयूषधारा ॥ २८ ॥ स्मातः-किमुद्दिश्य भवत्यारितस्ततः परिभ्रमणम् ।। पण्डितसङ्गतिः- अस्माकं यूथात्परिभ्रष्टाः काश्चन धर्मशीलाः सुन्दर्यस्तासामन्वेषणाय । स्मात.--(गणकं प्रति ) सखे ! यदि जानासि ब्रूहि तावदनयोः प्रश्नमिदानी विद्या कुत्रेति । गणक:--(स्वगतम् ) वयं तावदुन्मूलनाय विद्यानामधर्मेण भू. पतिना निर्दिष्टास्तत्परिशोधनं कुत्र जानीमः, तथापि अन्यत्र श्रुतमुत्तरं व. दिष्यामि । ( प्रकाशम् गणितमभिनीय ) न यत्र कुत्रापि किन्तु, दारिदुर्ललितदृषितभाग्यभोगा- प्याश्रित्य धैर्यमवलम्ब्य मनस्विताञ्च । १. सखि ! अवधेहि मन्दमधुरः पाणिनीयशब्द इव श्रूयते । २.कति 'ख' पुस्तकऽधिकम् । ३.कथमिव ।
४८ धर्मविजयनाटके- - अभ्यासतीव्रधिषणागुरुभक्तिभाजां स्वान्तं प्रविश्य गिरिदुर्गमिवाऽधिशते ॥ २९ ॥ परीक्षा--( सहर्षम् ) सहि ! दिद्विआ वड्ढसे एहि दाव तं गामं गच्छम्म जहिं ते महापुलिसा जाणं हि अए णिवासो विजाणम् । ( इति निष्क्रान्ता पण्डितसङ्गतिः ) स्मातः--वयमपि पुंसवनसीमन्तकशास्त्राण्यभ्यासेन दृढीकुर्मः । ( इति सद्यो गणको निष्क्रान्तः) इति श्रीमच्छुक्लभूदेवविरचिते धर्मविजयः नाम्नि नाटके तृतीयोङ्कः॥ १. सखि ! दिया वस, एहि तावत्त प्रामं गच्छावः, यत्र ते महापुरुषा येषां हृदये निवासो विद्यानाम् ।
. चतुर्थोडकः । ४९ चतुर्थोऽङ्कः । (ततः प्रविशति प्राविधाका ) प्राविवाकः--अये प्रमातैव रजनी, तथा हि- या मोदते समुदिते हिमधाम्नि पूर्व ज्योत्स्नाऽधुना विलयमति सहव तेन ॥ प्राणेश्वरप्रणयहेतुरनन्यभाजा वामध्रुवां सहगतिर्जननान्तरेषु ॥१॥ अपि च, पूर्वश्रिया विरहितामलकेशहीनां दीनामिमां कुमुदिनी नतकैरवास्याम् ।। संपश्यतां न करुणा समुदेति केषां कोऽप्यत्र भाविनियतः समयो बलीयान् ॥ २॥ का पूर्णचन्द्रेण युता निहन्ति का तमांसि भानोरबिलयमत्र किम् ।। का दुःखदा कोककुटुम्बिनी कथं राकाविभा ऽस्योत्तरमादितोऽन्यथा ॥ ३ ॥ आदिष्टोऽस्मि भूपतिना सुकृतेन, यत्सदस्यमाहूय व्यवहारोऽयं द्रष्टव्य इति, तत्कदासौ धर्मासनं सम्भावायष्यति । ( इति परिक्रामति, पुरोऽवलोक्य ) अयेऽस्माकं सदस्यः । (ततः प्रविशति सदस्या सदस्यः- कष्टः खलु धर्मः सभासदाम् । यतः- मा सभां प्रविशतु प्रतिष्ठितः संस्थितो वदतु वा समञ्जसम् ॥ पात्रतां भजति यत्र विब्रुव- नब्रुवन्नपि न निसास् ॥ ४ ॥ अपि च, योऽनुशाति कुपवस्थितं नृपं रागमनमाद्रिचेतनः ।। *. धर्म.७ ५० धर्मविजयनाटके- गण्डशैल इव मज्जति स्वयं मज्जयत्यपि स मेदिनीपतिम् ॥ ५ ॥ किञ्च, निसर्गाज्वलप्रकृतिरपि दुर्जनसंसर्गेण दुषित एव । यतः- पाथसां मकरवानिवाशयः सर्पयुङ मलयजो यथा द्रुमः ॥ सज्जनोऽपि खलसभ्यसङ्गमाद् भूपतिर्भवप्ति भीतिदायकः ॥ ६ ॥ प्राड्विवाकः --गुरुः खलु सन्देशो देवस्य यद् दुरात्मन्यन्ते क्षणमपि न विश्वसितव्यमिति । यतः- शृङ्गिणां क्षितिभुजां नदीनद. स्रोतसा नखभृतां नतभ्रुवाम् ।। दंष्ट्रिणामनृतसक्तचेतसां शस्त्रिणाच चरिते न विश्वसेत् ॥ ७ ॥ सदस्यः - विद्यया विमलयाऽप्यलकृतो दुर्जनः सदासि माऽस्तु कश्चन ।। साक्षरा हि विपरीततां गताः केवलं जगति तेऽपि राक्षसाः ॥ ८ ॥ ( इत्युपसर्पति) प्राविवाकः-- अद्य खलु चारमुखादष्टादशस्वपि व्यवहारविष षयेष्वनृतेनोपजप्तमिति । तदाकर्ण्य त्वरिततरं मां समाहूय राज्ञाऽऽज्ञ. तम् , यन्मध्यमामात्यो दण्डमुखनास्माभिः सहस्रघोपालब्धोऽप्यद्याऽप्य. नवहितस्तिष्ठति । इति तत्सविधे भवताऽपि-कणादाननिक्षेपा- १. ऋणादानीनक्षेपास्वामिवियसमुत्थानदत्तानपकर्मवेतनादा नसंविधतिक्रमक्रयविक्रयानुशयस्वामिपालविवादसीमाविवाददण्ड. पारुण्यवाधिकपारुभ्यस्तेयसाहसस्त्रीसंग्रहणधर्मविभागधूताया मां तेषामवलोकने सावधानेन भवितव्यम, पति 'ख' पुस्तके पाठः ।
चतुर्थोऽङ्कः । ५१ स्वामिविक्रयसम्भूयसमुत्थानादत्तानपकर्माभ्युपेत्याशुश्रूषावेतनादानसंवि- व्यतिक्रमक्रयविक्रयानुशयस्वामिपालविवादसीमाविवादधर्मदण्डवाचिकपा- रुष्यस्तेयसाहसस्त्रीपुंसधर्मविभागद्यूताहूयानां तेषामवलोकने सावधानेन भावतव्यमिति । तत्र च-. ग्राह्यः समर्थः प्रतिभूर्विवादे भाषानुरोध्युत्तरमाशु लेख्यम् । हीनः प्रदद्याद्धनिने धनानि नृपस्य दण्डं पण कृत्पणश्च ॥ ९॥ ततश्च, उक्तिभिलिखितवीरशासनः साक्षिभिर्विविधदिव्यकर्मभिः ।। निर्णयोऽस्तु विनिवारितच्छलः पीड्यतामनृतसनतो जनः ॥ १० ॥ तत्र च, ससुतोः शुचयः कुलप्रसूता धनवन्तः सदयाः स्वधर्मसंस्थाः ।। ऋजवः समदर्शिनस्तटस्था- स्थ्यवराः संसदि साक्षितां भजन्तु ॥ ११ ॥ एवश्व, पक्षपातधनकामनापर. त्रासवद्भिरपि या विलोकिता ॥ साऽन्यथा व्यवहृतिः प्रवर्तता वर्तताश्च निखिलं यथा स्मृतिः ॥ १२ ॥ भवांश्चात्र साहाय्य निर्दिष्टः । सभ्य:--धन्योऽस्म्यनुगृहीतोऽस्मि । आर्य ! ममापि चेतसि स. - १. भुक्तिभिरिति 'ख' पुस्तके पाठः। २. संश्रुता इति 'ख' पुस्तके पाठः । ३. यथास्मृति, इति 'ख' पुस्तके पाठः।
५२ धर्मविजयनाटके- - बदाऽयं मनोरथा, परन्तु, अनृतंचरित्रादुद्विमोऽस्मि । यतः, उष्णः कचित्कचिदुपाश्रितशीतभावः साधारणः कचिदुपायशतैरसाध्यः ।। नानाप्रलापकुशलः परिशंकनीयः कर्णेजपो ऽतिबलवानिव सन्निपातः ॥ १३ ॥ प्रानिवाकः--सत्यम्--- चन्दनाराणनिशेशमणिभ्यां जन्मवानपि जगदहनोऽमिः ॥ तापसस्य बटुरप्यबलानां पीटनाय पिशुनः पटुरेव ॥ १४ ॥ तथापि, स प्रविशन्सकुलं निग्राह्यः, परन्तु कः पुनः संक्षेपतो दुर्विनीतानां विनेता शास्त्रार्थः ? । सभ्यः-निवेशनविनाशनं द्रुतविवासनं देशत- स्तिरस्कृतिरनेकधा विविधवध्यघातैर्वधः ।। भगादिविकृतश्च चिह्नमलके खरारोहणं दमः प्रथममध्यमाऽधमाभदा त्रिधा साहसे ॥ १५ ॥ प्राइविवा:-किमेतावत्कर्तुं प्रभवति व्यवहारः । सदस्या--कः सन्देहो यदि भविष्यत्युद्यमपरः । प्राविवाक:--सत्यम् । उच्चैन कूटं कनकाचलस्य नीचैः कुतश्चिन्न तलं रसायाः ॥ दिशो न दूरे न नदी भुजङ्गो गम्भीरतायां व्यवसायमाजाम् ॥ १६ ॥ सदस्यः-- ( अवलोक्य ) देवसकाशादुपावृत्तेन दण्डेन किमप्य भिषीयमानः, चतुर्थोऽङ्कः । ५२ शृण्वन्संप्रतिपत्तिमादरपरः साक्ष्यश्च मिथ्योत्तरे प्राङ्न्याये जयपत्रदर्शनविधिज्ञः प्रत्यवस्कन्दने । भुक्तयाथैः परिभावयन्वदनशोषेण स्खलद्वाग्भरै। दुष्टानां कलयन् शुभासनगतो राज्ञः प्रधानो ऽपरः ॥ १७ ॥ तदेहि, कृताहिकावेनं द्रक्ष्यावः । (इति निष्क्रान्तौ) ॥ विष्कम्भकः ॥ (ततः प्रविशति व्यवहारो दण्डन ) व्यवहारः-वत्स ! कष्टा खलु राजसेवा ऽनुजीविनाम् , यदेवम- मन्नपानवसनव्यसनमपहाय नित्यमुद्युक्त एव । प्रगल्भोऽस्मि स्वीयव्यहृतिविधाने प्रतिपदं करोमि व्यापारं नृपतिभयपाशेन यमितः ॥ निहन्मि कूराणामनयमिति जानात्यपि भवा. नुपालम्भः को वा तदपि भयि राज्ञा विरचितः ॥ १८ ॥ दण्डः -आर्य ! कः सन्देहः, वेश्या धनेन भुजगः पयसा पलेन व्याघ्रो नृपः प्रतिदिनं परिचर्यया च ।। सन्तोषितोऽपि विदुषा परिशङ्कनीयः प्रायः प्रतिक्षणविलक्षणबुद्धयोऽमी ॥ १९ ॥ व्यवहारः--वत्स! जानासि किंमूलः सर्वत्मनापि खेदो देवस्य ।। दण्डः --अदण्ड्यदण्डेन दण्ड्यपरिवर्जनेन च । सर्वोऽयमपराधो. ऽनृतस्य, तदस्य निग्रहाय सत्यं नियोजयाम । हिंसादिकमुन्मूलयितुम हिंसादयोऽपादानीमेव प्रेषणीयाः, इत्येषाऽऽज्ञा राज्ञः । ध्यवहार:.-वत्स ! सम्यगनुबोधितोऽस्मि । कः कोत्र भोः । (प्रविश्य दौवारिकः ) ५४. धर्मविजयनाटके- दौवारिक:--आणवेदु अमञ्चो । व्यवहार:--धर्मसाधनानि सत्वरमाकारय । दौवारिका-जहा आणवेदि सोमी । ( इति निष्क्रम्य, सहाऽहिंसादिभिः प्रविशति ) अहिंसा आकीटमादान्तनमाविराज समं शरीरेषु चतुर्विधेषु ॥ आत्मेति जानन् तृणगुल्मवल्ली- छेदेऽपि कुर्याद्विबुधो मनः कः ॥ २० ॥ सत्यम् -शैत्यं प्रयातु रविरुष्णकरत्वमिन्दुः स्थैर्य जहातु हिमवानचला चलाऽस्तु ।। धैर्य विमुञ्चतु महोदधिरप्यकस्मात् कस्मात्सतोऽस्तु पणितं भाणतश्च मिथ्या ॥ २१ ॥ अस्तेयम्-दानं ददत्यनुदिनं शतशो वदान्या वृक्षाः फलन्त्यनुदिनं बहुशः फलानि ॥ भर्तुश्च दुर्भरमथो विविधेऽप्युपाये धिक् चौर्यकर्मनिरतं विरतं स्वधर्मात् ॥ २२ ॥ शौचम्-मृत्सासु तोयेषु परिग्रहेषु न दुर्लभेष्वप्यकृतात्मशौचाः ।। कथन्नु जीवन्त्यथ वाऽन्यथाऽयं प्रारब्धभोगो नरकाद्रीयान् ॥ २३ ॥ इन्द्रियनिग्रहा-कौलेयकानामथ रासभाना- मनिप्रहस्तुल्य इन्द्रियाणाम् ॥ १. १. आशापयत्वमात्या। २. यथाssशापयति स्वामी ।
चतुर्थोऽ। ५५ धन्यः परं कोऽप्ययमूर्ध्वरेता भेत्तुं रखेमण्डलमुत्कचेताः ॥ २४ ॥ दानम्-- बलिस्त्रिलोकी दिनभर्तृपुत्रो. प्युत्कृत्य चर्मास्थिगणं दधीचिः ॥ विजित्य रामः पृथिवीमयच्छ. स्किं याचमानाय न देयमस्ति ॥ २५ ॥ दमः-आसायमाप्रातरतृप्तिमाजो भक्ष्येण गावः सुलभा भवन्ति ।। चान्द्रायणादिव्रतवीतपापाः सन्तः पृथिव्यां न कथं दुरापाः ॥ २६ ॥ दया-ते पीडयन्तु कथमन्यदिहात्मदोषै- यः पीडितस्तमनु वीक्ष्य निरन्तरं ये ॥ पाहां भजन्ति हृदि निर्मलबुद्धिसारा. स्ताराधिपोज्वलदयोत्थयशःप्रसाराः ॥ २७ ॥ क्षान्तिः- चाटूनि यस्य गदितानि स वातुलोऽपि क्रूरोऽपि वा क्षणमसौ भवतु क्षमावान् । धन्यास्त एव शतशोऽपि विनिन्दितानां येषां न भेदमुपयाति मुखस्य रागः ॥ २८ ॥ (इति सर्व परिक्रामन्ति) दौवारिक:-एसो अमच्चो तुह्माणं पडिवाल चिट्ठदि, ता उवसप्पंतु महानुहाव। ( सवे उपसृत्य प्रणमन्ति) व्यवहार:- ( यथोचितमभिनन्ध सर्वान्प्रति ) काश्यामन्याहतं शा १. भवन्तु, इति 'ख' पुस्तके पाठः । २. एष आमात्यो युष्मान्प्रतिपालयस्तिष्ठति, तदुपसर्पन्तु महा नुभावाः।
५३ धर्मविजयनाटके- सनं विधाय प्रयागे निवेशितस्कन्धाधारो दुर्बुद्धिरधर्मः संग्रामायोद्योग- मातनाति । नासीराच्च तस्य विनिर्गतैर्हिसादिभिर्व्याकुलीक्रियन्ते महाजनसमाजा इति प्रेक्षकजनादाकर्ण्य कोषपरवशेन स्वामिना समा. ज्ञप्ता भवन्तः संगराय । तदिदानीमेव प्रचलन्तु, प्रवर्तयन्तु नत्र प्रियसा. हसव्यवहारम् । सर्वे- यदाज्ञापयत्यमात्यः । (इति निष्क्रान्ताः सर्वे) व्यवहारः-महापातकान्वेषणाय प्रेषितः किन्नु चिरयति को. डपालः । दण्ड:--पश्चात्मनोऽपि तस्य निवासः प्रच्छन्न इत्येताक्तव विलम्बः । (सतः प्रविशति पश्चाद्धपुरुषमादय क्रोडपालः पदातिनौ च ) एकः--- अले गुलजणमिहिलापलंगक्खलिअ सुलापाणघुम्मिअ लोअणजुथल कहेहि कित्ति तुए णिरवराहा वराओ बह्मणो जीवगाई मैरिदो। ( महापातकस्तूष्णीमास्ते) द्वितीयः-निविकवाहि अअ बाहेमहारअ पाटच्वल किंत्ति तू ही भूदोसि । क्रोडपाल:- पावपुलिस सच्चं भण कोसि तुमं किंत्ति वा एदा. रिसं कम्म कैरेसि । महापातकः-( सगर्वम् ) योऽस्मि सोऽस्मि न बिभेमि भवा. १. अरे गुरुजनमहिलापर्यङ्क खलित ! सुरापानघूर्णितलोचन यु गल ! किमिति त्वया निरपराधो बराको ब्राह्मणी जीवनाहं मारितः। २. निर्दय ! ब्रह्महेमहारक ! पाटच्चर! किमिति तूष्णीभूतोऽसि । ३. पापपुरुष ! सत्यं भण कोऽसि त्वम् , किमिति वा एतादृशं कर्म करोषि।
- चतुर्थोऽङ्कः । दृशेभ्यो वराकभ्यः । यतः- गच्छाम्यगम्यां मदिरां पिबामि हरामि वैप्रं कनकं तदर्थम् ॥ द्विजान्धनार्थं शतशो निहन्मि स्थितोऽस्मि सङ्गेऽपि च मद्विधानाम् ॥ २९ ॥ क्रोष्ठपालः---( सप्रत्यभिज्ञमिव ) एसे पञ्चमहापावपुलिसे रण्णो अधम्मस्य अमच्चे, अह्मसआसा धम्मसासणं ण आरोएदि तेण गच्छ. म्म अमच्चस्स ववहारस्स सकासम् । ( इति सवै परिक्रामन्ति) क्रोष्ठपाल:-जयतु जयतु अमात्यः । अमात्य ! स्वामिन् ! एष पञ्चमहापापः । व्यवहारः-( अवलोक्य सक्रोधम् ) आः कापुरुष ! शतशोऽपि शासितः किमिति पापान विरमसि । पञ्चमहापाप:--सुरापानादविरामे तु सोमपानमेवेति गुरवो वदन्ति । व्यवहार:-कथमिव ? | पञ्चमहापापः-पश्य, स्वर्गाय जुष्टचमसे मिलितैर्निपीतः सोमः कटुर्यदि भवेकिल याज्ञिकानाम् ॥ किं पीयते न मधुरा विधुरैर्धिया त. साधं सुखाय मदिरा मदिरेक्षणाभिः ॥ ३० ॥ दण्डः---(सभर्त्सनम् ) आः कुटिलप्रकृते ! हिरण्यहरणे किमिति प्रवृत्तोऽसि !। १. एष पञ्चमहापापपुरुषः राशोऽधर्मस्यामात्यः । अस्मत्सकाशा धर्मशासनं नारोचते, तेन गच्छामोऽमात्यव्यवहारस्य सकाशम् । धर्म०८ धर्मविजयनाटके- - - - पञ्चमहापाप:-सद्गुरूपदेशेन । तथा हि- हेयं स्तेयं कुशलमतिभिनोऽविधेयं विधेयं मूर्नश्छेदे परिणतिमुपैतीति यनीतिशास्त्रम् । तत्र ब्रूमो धनिकवदनालोकनं मानभाजां कीहक् कीदृक् तदनु भवति प्रार्थनायाश्च भङ्गः ॥ ३० ॥ व्यवहारः--साहसमेतावताऽनुमायते । अगम्यागमनेऽपि कश्चि- दाचार्योपदेशो भविष्यति । पञ्चमहापाप:--अत्र कः सन्देहः । यतः- रूपेण रम्यवयसा बहुना धनेन भोग्या भवन्ति तरुणाः परकामिनीनाम् ॥ यस्यास्ति नैकमपि तस्य निजाऽप्यगम्या गम्यास्तु दुर्लभतराः कथमन्यकान्ताः ॥ ३१ ।। दण्डः -( सखेदम् ) आः पाप ! ब्रह्मवध्यायां केनोपदिष्टोसि । पञ्चमहापाप:-स्वेनाऽन्तरा कुलपरंपरया । यतः, द्रोणोऽर्जुनेन समघाति पुलस्त्यपुत्रो रामेण शास्त्रमथ किं पठितन्न ताभ्याम् ।। सोऽहं शपामि शतशो यदि विप्रवध्या दोषावहा किल भवेत्पुरुषार्थभाजाम् ॥ ३२ ॥ व्यवहारः-( क्रोष्ठपालं प्रति ) दुष्टदमन ! न दुष्टोऽयमकृत्याद्विरम ते। नाप्यनुशेते न प्रायश्चित्तानां कर्मकताऽतो वध्यघातैहन्यताम् । क्रोष्ठपाल:-केण उण उवाएण णं विससम्मै । व्यवहारः-प्रथमतश्छिन्नशिश्नमेनं तप्तसुरां पाययित्वा स्वर्ण मुसलेन शिरसि कृतक्षतमश्वत्थकाष्ठे प्रज्वालयन्तु । १. स्वेनान्तरात्मनेति 'ख' पुस्तके पाठः । २. केत पुनरुपायेनैनं विशलेम ।
चतुर्थोऽङ्कः । ५९ क्रोष्ठपाल:-जं आणवेदि अमच्चो ( इति सपापपदातिनिष्क्रान्तः ) (नेपथ्ये) कक्षाभिः समरगजा रथास्तुरङ्गः पर्याणैर्जनहया भजन्तु योगम् ॥ आमेयं प्रचलतु यन्त्रजातमुष्टैः प्रस्थानं नृपपटवेश्मनः प्रवृत्तम् ॥ ३३ ॥ (उभौ सोत्कण्ठमाकर्णयतः ) ( पुननेपथ्ये ) सम्प्रति हि दध्यक्षतदूर्वा सिद्धार्थहस्ताभिः कन्याभिः कृतमङ्गलोपचारः, युक्तः श्रुतिस्मृतिपुराणविविक्तमार्गः सत्कर्मभिः कुलपरंपरयागतैश्च ।। सन्देशतः समरतूर्यनिनादमूर्छ- क्रोधोऽधिरोहति रथं प्रधनाय धर्मः ॥ ३४ ॥ व्यवहारः--वत्स ! विजयाय प्रस्थितो देवः । प्रचलन्ति च स. मन्ततो दशदिक्पथेन महारथाः । तदावामपि तीर्थराजमुपेत्य शस्त्रधा. रातीथेनात्मानं कृतकृत्यतामापादयावः । (इति निष्क्रान्तौ) 4 इति श्रीमच्छुक्लभूदेवरचिते धर्मविजय- नाम्नि नाटके चतुर्थोऽङ्कः ।। १. यदाज्ञापयत्यमात्यः ।
६० धर्मविजयनाटके- - पञ्चमोऽङ्कः। - (ततः प्रविशति प्रायश्चित्तम् ) प्रायश्चित्तम्--पाराकसान्तपनकृच्छुकषष्ठकाल- चान्द्रायणैः सह महीवलयं क्रमेण ॥ कुर्वन्प्रदक्षिणमुपेत्य पुनः प्रयागं कर्ताऽस्मि नाशमाचिरादिव पातकानाम् ॥ १॥ कुरुक्षेत्रपरावृत्तः श्रुतवानस्मि लोकतः ॥ देवस्य न चिराद् वृत्तं सम्परायमरातिभिः ॥ २ ॥ तत्र कस्य जयः कस्य पराजयो वा कस्य च वीरशय्याशयनम् । अपि च- नाशौचमस्ति समरे विरतस्य बन्धो- र्देशान्तरे च विहितं किल वर्णभेदात् ।। साधारणञ्च तनयानपराय शुद्ध्यै स्नानं सचैलमपि तत्र विधेयमेव ॥ ३ ।। समयश्चायं धार्मिकाणां जाह्नवीस्नानोपगमस्य । सम्प्रति हि, आच्छाद्यमानहढतूलपटान्तराल- संचारिशीतकृतवेपथुगात्रयष्टिः ॥ अन्तश्छदेन हिममासि निगूढपाची वक्षः स्वयं विशति भर्तुरहो नवोढा ॥ ४ ॥ अपि च, कान्ताकुचोष्महृतशीतभरोऽप्युरस्तः संकोचयंश्चरणयोर्युगलं दरिद्रः ।। संकीर्णतूलपटिकां वनितानितम्बा. दाकर्षयन् स्वपिति माघनिशीथिनीषु ॥ ५ ॥ तेन कान्यकुब्जमुपेत्य गङ्गास्नानेन सह सङ्गम्याऽखिलवृत्तान्तमाक- १. वर्णदारात् , इति 'ख' पुस्तके पाठः।
पञ्चमोऽङ्कः । ६१ लयिष्यामि । ( इति परिक्रामति )( पुरोऽवलोक्य ) अये प्रियमित्रमस्माकं गङ्गास्नानमित एवाभिवर्तते । (ततः प्रविशति गङ्गास्नानम् ) गङ्गास्नानम् ~ अहो महिमातिशयो भगवत्या भागीरथ्याः, यतः . तृष्णापयोनिधिविलंघनचन्चुधैर्याः संसारसागरकृतोत्कटसेतुबन्धाः ॥ आचान्तवाङ्मयपयोनिधयोऽपि नित्यं मज्जन्त्यगाधसलिले यतयोऽपि यस्याः ॥ ६ ॥ ( विमृश्य च ) हनुमदेकसाध्ये रावणादिवधे रामस्येव भृत्यमात्र विषयेऽपि कर्मणि दृश्यते क्वचित्प्रभूणामपि प्रवृतिर्यतो मयि सत्यपि अधर्मवधाय देवस्योद्योगः । अन्यथापि- हिमशिखरिनितम्बानोकहद्रोहकी पतितजनपवित्री भावसम्पादयित्री ।। भवति यदि पृथिव्यां भीष्ममूभृत्सवित्री कथमिव न भवित्री निष्कृतिर्दुष्कृतानाम् ॥ ७ ॥ अपि च, विष्णुभक्तिपदप्राप्तिकामानां वीतरागाणामप्युपायः स्या देवी त्रिपथगैव । यतः- व्यथितकलिमनर्थानर्थबीजं विहायो. स्थितमजभवनान्तात्पाथसां पूरमन्यः ।। पथि चरमपुमर्थप्रार्थनोत्कण्ठितानां भवतु क इव सार्थः पार्थबन्धोः पुरस्य ॥ ८ ॥ प्रेषितञ्चास्मि राज्ञा प्रायश्चित्तमाकारयितुं तत्कुत्र तस्य समागमो भविता । प्रतिपालयामि तावदत्रैव । (इति तिष्ठति) -
६२
धर्मविजयनाटके-
प्रायश्चितम् -( उपसृत्य ) सखे ! कुतः सत्वमिवागच्छसि ।
गंगास्नानम्--देवस्कंधावाराद् ।
(इति प्रणमति)
प्रायश्चितम्--(आलिङ्गय, अनामयप्रश्नपूर्वक) तत्कथ्यता तावद्विस्त
रेण तत्रत्यो वृत्तान्तः ।
-
गंगास्नानम्--आर्य ! भवत्प्रस्थानसमयेष्वेव सन्धिविग्रह कुशलः
कश्चिदुपेत्याऽधर्मदृतो राजानभवादीत् । यथा-
वर्णान्विहाय चतुरश्चतुराश्रमाणां
कर्माणि स्वत्वरमपास्य वनं प्रयाहि ।।
नो चेत्कृपाविमुखमाद्विशिखैविभिन्नः
संग्रामसीन्नि शयितासि वृतः शिवाभिः ॥ ९ ॥
प्रायश्चितम्--ततस्ततः ।
गंगास्नानम् -ततश्चैतदुपाकर्ण्य दृश्यतां दुष्टस्य दुर्वचोविलसि-
तम् , अद्यैवास्मसंमुख पृथिव्यां वासनं भवितेति कृतसङ्कल्पश्च चतुरङ्गसेना.
मुपादाय देवोऽपि सत्वरं तीर्थराजमुपेयिवान् ।
प्रायश्चित्तम् - ततस्ततः ।
गंगास्नानम् - ततश्चापरेऽहनि दुर्वहदिनमणिगभरालसायां ना.
कनायकककुभि परिणतायां कुरुपाण्डिमानमुपगतायामासन्नप्रसवपूर्वप्र-
सृतरजोधारयेव सन्ध्यया कलुषीकृताम्बरायां प्रचण्डतरमारुतान्दोलितो.
दयाद्रिद्रुमकुसुमकिञ्जरकरेणुपटलानुकारिणि प्रतिपक्षदानवकरनिर्मुक्तश-
स्वसहस्रसमुच्छलच्छोणितच्छटानुसारिणि प्रतिसरति समन्ततस्तराणकि.
रणजाले, परेषामस्माकञ्च व्यूढ सैन्यद्वयात्प्रथमतो निर्गत्य,
विवृतमसिसमूहं धूमधूनं वहन्तः
कनककटककान्तिज्वालया लेलिहानाः ॥
प्रलयकुपितवाहिवातकल्पाः समन्ताद्
भुवनमिव दहन्तः पत्तय. सन्निपेतुः ॥ १० ॥
पञ्चमोऽङ्कः। ६३ प्रायश्चित्तम् -- ततस्ततः । गङ्गास्नानम्-ततोऽश्ववाराः स्वगतीरुदाराः प्रदर्शयन्तः परिवृत्य कुन्तान् ॥ उत्थाप्य वल्गाश्चलपाणिंघात- प्रणुनवाहास्तरसाऽभिपेतुः ॥ ११ ॥ प्रायश्चित्तम्-- ततस्ततः । गङ्गास्नानम्-ततश्च, अविदितमदधारादुर्दिनोड्डामरेभ्यो धनकटविकटेभ्यः प्रौढदन्तावलेभ्यः ॥ अहितकरविमुक्तैर्गृध्रपत्रैः प्रणुन्ना- स्तडित इव निपेतुः स्वर्णमय्यः पताकाः ॥ १२ ॥ अपि च, घनतरगिरिकूटस्पर्धिगन्धद्विपानां पटदकृपकृपाणच्छिन्नकुम्भस्थलेभ्यः ।। समररुधिरधाराः प्रसवन्त्योऽनुसस्नु. जलभरमवतीर्ण गैरिकाधित्यकाभ्यः ॥ १३ ॥ प्रायश्चित्तम् + ततस्ततः । गङ्गास्नामम्-ततश्चास्मदीयैर्विशेषविक्रान्तरितस्ततो व्यापाद्यमाने विपक्षे द्वन्द्वयुद्धे हिंसा ऽहिंसया ऽनृतं सत्येन स्तेयमस्तेयेनाशौचं शौचनाऽ. नीन्द्रियनिग्रह इन्द्रियनिग्रहेण कार्पण्यं दानेन निर्दयता दयया क्रोधः क्षमया च व्यापादितः । प्रायश्चित्तम् -- ( सहर्षम् ) ततस्ततः । गङ्गास्नानम्-- ततश्च । भेरीबृहत्कमठपृष्ठलुठत्तरङ्गाः कृत्तम्फुरत्करटिहस्तभुजङ्गभीमाः ॥ १. अधिरतेति 'ख' पुस्तके पाठः । २. धनतटविकटेभ्यः, " ६४ धर्मविजयनाटके -- मत्स्यध्वजप्रचलमीनगणाः प्रसस्त्रः कीलालतोयतरलाः परितस्तटिन्यः ॥ १४ ॥ प्रायश्चित्तम्--(सहर्षम् ) ततस्ततः । गङ्गास्नानम्-ततश्च क्रमेण प्रवर्तमाने महावैशसे, समररभस- कृत्तगाढहठप्रतिपक्षभटारभटीविकटामितहाटककङ्कटकसङ्करघोरकटारवि- पाटितवैरिकपाटविशालभुजान्तरनिर्गतरक्तरटत्तटिनीतटनादितमूतकठोर- कडाररटनातिभयानकमत्तगजेन्द्रघटाकटदाननवासवासवपानपटुप्राणना. दिमिलिन्दविकटपृथुनीदतरम्यसटापरिमण्डितघोटकघोषसमाकलनत्रुटि- ताहितपाटननटीकटीक्षविमोहितसाहसिकानकगोमुखकम्बुमिलत्पटहप्राणि- नादविभीषणशत्रुभुजाघटनाबहुलम्पटखङ्गनटोद्भटनाटकबन्धुसमुद्धतयुद्धमु खद्रुतमममधर्ममुपेयिवान्सहसा नृपतिः । प्रायश्चित्तम्-ततस्ततः । गङ्गास्नानम् -- ततश्च तरसाध्मातशंखः स्वयमवहारं विहाय चिरविप्रयुक्तो महाविद्यादर्शनाभिलाषी वाराणसी पुनर्गन्तुकामस्त्वां प्र. तिपालयनिदानी दशाश्वमेधिकं तीर्थमध्यास्ते । प्रायश्चित्तम्--तदेहि तावदावामपि देवं दिष्ट्या वर्धयावः । (इति निष्क्रान्तौ) गङ्गास्नानम्-अयं नातिदूरे तीर्थराजः । प्रायश्चितम्-सत्यमेव । वेणीकच्छविलप्रमीतपतितं नेतुं वनं नन्दनं यान्तीनां नवकौतुकोत्सवजुषां गीर्वाणवामभ्रुवाम् ।। पारावारनितम्बिनीसलिलयोरुत्सन्नकोलाहलैः सम्भिन्नः श्रवणो पुनाति यदयं लीलामृदङ्गध्वनिः ॥१५॥ १. उत्तालकोलाहलैः, पञ्चमोऽङ्कः ६५ गङ्गास्नानम्--आर्य ! समुपागत एव प्रयागः । यत्र- सोऽयं वटः प्रलयबन्धुरनादिपुंसः प्रस्वापसंस्तरसमाश्रयबालपत्रः ।। अद्यापि पद्मनयनप्रभयेव बाढ़ श्यामः परान्नयनयोर्मुदमातनोति ॥ १६ ॥ प्रायश्चित्तम्- -सखे ! पश्य पुरस्तातीर्थराजोऽयं तथैतद्दशाश्वमेधि- कमयञ्च कवितयोपश्लोकितो राजा शुभासनगतस्तदेहि सितासितयोः सङ्गमे जपाहिकादिकं विधाय पराहे एनं दिक्षावः । (इति निष्क्रान्तौ) ॥ शुद्धविष्कम्मः॥ (ततः प्रविशति राजा कविता विभवतश्च परिवारः) कविता-महाराज ! जानुदानसलिला: पुरस्कृत प्रेयसीनयनवारिपूरणात् ॥ दुस्तराः किल भवन्ति सिन्धव. स्त्वद्भयद्रुतविरोधिभूभुजाम् ॥ १७ ॥ सर्वदैव च स्वयमेव, बाणभिन्ननिजभालसंस्थिता वीक्ष्य खड्गमुकुरे विधेर्लिपिम् ॥ राज्यभोगविनिवृत्तमानसाः शत्रको विमुखतां भजन्ति ते ॥ १८ ॥ राजा--देवि ! वयं तावद्वर्तमानं जनताचारित्रमानं श्रोतुकामाः, तदस्मद्विषयेऽर्थवादमपहाय यथानुभवं वर्णय । कविता-देव ! सर्वमेवैतत्ते भूतार्थवर्णनं न तु स्तोत्रम् । स. म्प्रति हि- धर्म०२
धर्मविजयनाटके-
--
जरा द्विजनी मधुपो मिलिन्दः
सुर्वर्णहारी वनिताङ्गवर्णः ।।
पटः पृथिव्यां गुरुतल्पगामी
त्वयि प्रभो ! शासति दुविनीतान् ॥ १९ ॥
अपि च, वक्षोभुवो ऽतिकठिनाः कुटिलाः कटाक्षाः
कर्णेजपा नयनपङ्कजखञ्जरीटाः ॥
केशा नितान्तमलिना गतयोऽथ मन्दाः
वामभ्रुवामधरसङ्गतयश्च हासाः ॥ २० ॥
( राजा गुरुतरलज्जाभरनमितशेखरस्तूष्णीमास्ते )
( नेपथ्ये ) इदो इदो।
( सर्वे समाकर्णयन्ति)
कविता-राजन्
हिंसा यज्ञे संस्कृतानां पशूनां
स्पर्धा विद्याकामुकानां बटूनाम् ॥
क्रोधः क्रीडहालकानां गुरूणां
शिष्याणाश्चाध्यात्ममार्गे विवादः ॥ २१ ॥
राज़ा-प्रियवादिनि ! त्वदीयप्रतिभाषागल्भ्याकृष्टचेतसः सुज.
नस्वास्थविषये कोश्चित्प्रश्नानेकसन्दर्भण पृच्छामः । यथा-
पूर्ती वाचिकमव्ययं किमथ कि तैलाय निष्पीडये-
स्पातालस्य च नाम किं किमु जलं मुष्णाति नान्दीमुखम् ॥
कीहक्कीदृशमौक्तिकं बहुधनं वजं च कीहक्शुभं
काङ् मृण्मयमालयं च कृपणस्याथाम्बरं कीदृशम् ॥ २२ ॥
अपिच, कः शब्दोऽधिकवाचकः किमु भवेत्सम्बोधनं निर्द्धने
किं वा पार्थिवबीजमाशु गरुडस्योत्सर्पणं कीदृशम् ।।
कहिक् संयमिनां च लुब्धचरितं कीदृग् दरिद्राङ्गणं
कीहक्कीगो
भुवश्च
भवनं चेतः सतां कीदृशम् ॥ २३ ॥
पञ्चमोऽङ्कः । कविता--अति विमलम् । (पुनर्नेपथ्ये) इदो उवसप्पन्दु देवीओ। एसो विपक्खहत्थपज्जत्थतिक्खसत्थ- सहस्ससंक्खोहिदगत्तबन्धोवि णिअपौलुसमहप्पेण अणुज्झि असमस्थण- किलिसितकलेवरो वि सहाबिअकन्तिपञ्चारसोहग्गमहुरेण मुहपुण्डरीएण समुभासिओ बजी विअ समुम्भासिअसभाप्पदेसो मुणिअणसलाह- णिजचारदो जहईतरासीअलेहिं वादेहिं णिवत्तिदसमरपलिस्समो कविदाए उपासिजतो महाराओ इदो सिंघविठ्ठरं अलंकरेदि । राजा-महाविद्यानामवसरदर्शनार्थं प्रेषितस्य प्राकृतस्येव भा. षितं श्रूयते । (पुननेपथ्ये ) सख्यः ! सुतरामेवं धटते यद्विजयिनं राजानमुपेत्य स्वयमेव दिष्ट्या वर्धयामः । अपिच, अयम् , येत्सर्वथा विनयविभ्रमभारमौलि. रस्मसकाशमुपयात्युचितं तदस्य ॥ युक्तं पुनः समरविक्षतगात्रयष्टि. वत्सोऽधुना स्वयमुपेत्य विलोकनीयः ॥ २४ ॥ कविता-देव ! प्राकृतेन सह विद्या अपि समुपागता इति लक्षये । यदयं व्यवहारविदामग्रेसराया अलङ्कारविद्याया इवाकर्ण्यते श्लोकः । १. इत उपसपंन्तु देव्यः । एष विपक्षहस्तपर्यस्ततीक्ष्णशस्त्र. सहस्रसंशोभितगात्रबंधोऽपि निजपौरुषमाहात्म्येनानुज्झितसमर्थः स्वक्लिष्टकलेवरोऽपि स्वाभाविककान्तिप्रचारसौभाग्यमधुरेण मुखपु. ण्डरीकेण समुद्भासितो वज्रीध समुद्भासितसभाप्रदेशो मुनिजन. इलाध्यचरितो जानधीतरङ्गशीतलैर्वातैर्निवर्तितसमरपरिश्रमः क. वितयोपास्यमानो महाराज इत: सिंहविष्टरमलङ्करोति । १. यत्सर्वथा विनयभारविनम्रमौलिरिति 'ख' पुस्तके पाठः ।
धर्मविजयनाटके- राजा-किन्न पश्यसि पुरः समुपागता एवं पूर्वपक्षोत्तरपक्षबहु- लतर तन्त्रं दर्शयन्त्यः सर्वाः । (ततः प्रविशति समं विद्याभिः प्राकृतम् ) माकृतम्--णं कहं ण सलाहिजई तिहुअणतिलओ एसो रोएसि। पाआलमज्झम्मि बलिप्पिआणं णलप्पिआणं पहुवीतलम्मि ॥ सग्गम्मि वग्गो सुलसुन्दलीणं गाअंदि गोराइ जसांइ जस्स ।। २५ ॥ अलङ्कारः-- अयमीदृश एव महानुभावो येन संग्रामात्रणभवने परमप्रतापहुतवहसाक्षिकं पाणिगृहीतमात्रैव, दृषकठोरापि शिरीषकोमलां श्यामाऽपि गौरी तरलाऽपि सुस्थिराम् ।। नृशंसरूपाऽपि सदा मनोहरा सकीर्तिकन्या सुषुवे कृपाणिका ॥ २६ ॥ कालः प्रलम्बस्तरलोऽतिवक्रगः क्रूरान्तरः कोशबिले प्रियस्थितिः ॥ विरोधकृत्माणसमीरणाशनः खजो यदीयः कुटिलो भुजङ्गमः ।। २७ ।। (इति परिक्रामति) राजा-गृह्यसूत्र ! आदिश्यतां तावत्पारस्कराचार्यः समधुपर्कमर्य- मादायोपतिष्ठस्विति । सूत्रम्-यदाज्ञापयति देवः (इति निष्क्रान्तः ।) १. ननु कथन इलाध्यते त्रिभुवनतिलक एष गजर्षि । पातालमध्ये तु बलिप्रियाणां मरप्रियाणां पृथिवीतले व । स्वर्गे च वर्गः सुरसुन्दरीणां गायन्ति गौराणि यशांसि यस्य ॥
पञ्चमोऽङ्कः । ( उपसृत्य प्राकृतम् ) महाराज! एसा विसेसदसिमीणं पढमा विज्जा तुमं सहाजेदि। राजा-(ससम्भ्रममासनादुत्थायाञ्जलिं बद्ध्वा ) द्रव्यैर्गुणैर्विविधकर्मभिरर्चनीया- सामान्यकान्तिसरणिः किरणावलीभिः । लोके विशेषविदिता ऽयुतसिद्धरूपा भावप्रलोभितपतिर्जननि ! त्वमेव ॥ २८ ॥ ( इति प्रणमति) विद्या-सिसृक्षया समुत्पन्नं लीयते संजिहीर्षया । यस्य पाता त्रिजगतः स देवः सुखदोऽस्तु ते ॥२९॥ प्राकृतम्--देव ! एसा अक्खवादसलाहणिज्जा विज्जा, णं पण. मदु महाराओ। राजा--पातिव्रत्ये ! प्रणामं चरणसरसिजं भर्तुरेव प्रमेय जल्पः स्वल्पः सुजातैरवयवकलना नो परषा कदाचित् । नो दृष्टः कापि वादश्छलगतिरहितं किञ्च यस्याश्चरित्रं दृष्टान्तो न्यायभाजामिति जननि भवत्याहता गौतमेन ॥३०॥ ( इति शिरसि अञ्जलिं घटयति) बिद्या-प्रारब्धयोगपरमाणुगुणक्रियाभि- ज्ञानेषणाकृतिविडम्बितकार्यकर्ता । क्षित्यकुराधनुमितः समुपास्यते यः श्रेयः स ते दिशतु विश्वगुरुर्महेशः ॥ ३१ ॥ देव ! इयमस्मदुपास्या त्वत्सभाजनाय, सालकतिगुणवती च विलीनदोषा चेतोऽअनेन विदुषामपि रजयन्ती । १. महाराज! एषाविशेषदर्शिनीनां प्रथमा विद्या त्वां समाजयते । २. देव ! एषाक्षपादश्लाघनीया विद्या, एनां प्रणमतु महाराजा।
60 धर्मविजयनाटके- श्रृङ्गारहास्यकरुणादिरसैः समेता सा भारती भरततापसमान्यमूर्तिः ॥ ३२ ॥ (राजा दण्डवत्प्रणमति) विद्या-महाकाव्यसमुत्पन्नमनोवृत्या विनाशिते । अज्ञानांशे समुत्पन्नोऽव्यादात्मा त्वां रसात्मकः ॥ ३३ ॥ प्राकृतम्-महाराअ ! एसा देवहूदीहिअअप्पसूदस्स तावसस्स माणणीआ कावि विज्जो । कविता--हस्तारविन्दचरणाधररक्तवर्णी रोमावलीचिकुरपाशकटाक्षकृष्णाम् । दन्तद्युतिस्मितसमाश्रितशुक्लशोभा विद्यां नमस्व नृपते ! प्रकृतिप्रगल्भाम् ॥ ३४ ।। राजा-(सहर्षम् ) यामेनाम्-अजामेकां लोहितशुक्लकृष्णां ज. नयित्रीं जनानामिति स्तुवन्ति कापिलाः । ( इति प्रणमति ) बिद्या--संस्कारकृत्यविमुखः किल चेतनोऽपि निर्लेप एव समुपाश्रितभोगबुद्धिः । नो वा महान गुणवानपि यस्तथापि विश्वकवन्धचरणः शरणं स ते ऽस्तु ॥ ३५ ॥ कविता--स्वामियं दिष्टया वर्धयति, मैञ्यादिशुद्धहृदया श्रितसत्समाधि- नासाग्रदृष्टिनयना विमलासनस्था ॥ क्लेशासहेश्वरपरा विधृताक्षमाला हृद्या ऽनवद्यचरिता. नृप योगविद्या ॥ ३६॥ १. स्फुरनते इति 'ख' पुस्तके पाठः । २. महाराज! एषा देवाहूतीहृदयप्रभूतस्य तापसस्य माननीया कापि विधा। ३. एषा महश्वरा, इति 'ख' पुस्तके पाठः । .
पश्चमोऽङ्कः। ७१ राजा--देवि ! महायोगिभिरुपास्यमानं ते पादपद्मं प्रणमामि । विद्या-नौलीकर्मविशुद्धसर्वविवरान्मन्दोवसन्मारुतै- मूलाधारविलीनकुण्डलिनिकामाकृष्य मूर्ध्नि स्थिते । ध्येयः पक्तिशतारभाजि जलजे भव्याय भूयाद् गुरु- इथः षोडशपत्रहत्सरासिजे पायात्पुराणः पुमान् ॥३७॥ कविते ! वीक्ष्यताम् । प्रभाकराकीर्णमुखारविन्दा भट्टोपविष्टा ऽद्भुतदर्शनश्रीः । सत्कर्मसक्ता पुरुषे परास्मि- न चाऽनुरक्ता ननु भारतीयम् ॥ ३८ ॥ राजा--(सप्रश्रयमञ्जलिं बद्ध्वा ) न्यायानपेते पतिदेवताना- मविग्रहे ऽप्याग्रहमादधाने । विध्यर्थवादाकुलितान्तराले नमामि बाले ! तव पादपद्मम् ॥ ३९ ॥ विद्या--एकस्मादपि जातानां यद्वैचित्र्येण देहिनाम् । वैचित्र्यं सुखदुःखेषु स विधिस्ते सुखावहः ॥ ४० ॥ कविता--द्वैतध्वान्तनिवारणैकतरणिः प्रौढप्रभाधोरणि. विश्वेषामपवर्गमार्गसरणिर्ज्ञानाग्निमन्थाराणः ॥ विद्या धीवरधीवराधिपसुता कानीनवक्त्रोद्गता भूपालेन्द्र ! सभाजनाय भवतः प्राप्तयमालोक्यते ॥४१॥ प्राकृतम् --बह्मविज्जाए उपासणं करेवु देवो । राजा-महनीयमूर्तिममूर्तानुरागा रागादिभिरकवलितां त्वां १. आलोक्यताम्, इति 'ख' पुस्तके पाठः। २. ब्रह्मविद्याया उपासनां करोतु देवः ।
धर्मविजयनाटके- चिरमारभ्य द्रष्टमुस्सुकोऽस्मि । यतः, जरठाप्यसती विमुक्तसङ्गं पुरुषं स्वीयगुणप्रदर्शनेन । अनुरञ्जयति प्रसव यत्ता भवती कापि तिरस्करोति मायाम् ॥ ४२ ॥ (इति पादयोः पतति) विद्या--श्रोत्रेक्षणादिकरणैर्विकलोऽपि बुद्धयाँ शून्योऽपि धर्मराहतोऽपि न सङ्गतोऽपि ।। कूटस्थतामपि भजन्नपि मायिको यः साक्ष्येक एव जगतः सुखेदः स तेऽस्तु ॥ १३ ॥ प्राकृतम्--इदो इदो आसणाई उवविसंदु देवीओ। अलंकारः--वत्स ! महाराष्ट्रविषये समतानामष्टादशस्मृताना. मयं सन्देशः । राजा--किमाज्ञप्तमम्बाभिः । विद्या-त्वरसभाजनोचितेऽपि समये यदस्माकं विलम्बः स कर्मविपाकं पुरस्कृत्य वर्णाश्रमनियन्त्रणार्थमेवेति वत्सेनावधातव्यम् । राजा--( सहर्ष ) यदस्माभिर्विधातव्यं देवीभिस्तत्स्वयं कृतम् | अमतः पक्षपातोऽयं भूयानयमनुग्रहः ॥ ४४ ॥ कियत्सम्पादितं मातृभिः कर्मवीप्सकेन च । विद्या-वत्स किं सम्पादनीयं पामरस्तु पामर एव । परन्तु, शास्त्राण्यधीत्य विविधानि गुणानुरूपा १. चेतः इति 'ख' पुस्तके पाठः। २. शरणमिति 'ख' पुस्तके पाठः । ३. इत इत आसनान्युपविशन्तु देव्यः । ४. अपूर्वः, इति 'ख' पुस्तके पाठः । ५. गुब्नुपास्यति 'ख' पुस्तके पाठः।
पश्चमोऽङ्कः । ७३ ? ज्ञात्वाऽपि दुःखसरणीनरकप्रभूताः ।। गाढानुरागकवलीकृतकुत्सचित्ताः पापस्य तत्परिणतीरपि न स्मरन्ति ।। ४५ ॥ तथाऽपि महाभयप्रदर्शनेन शनैःशनैर्हस्तगतप्रायोऽसौ लोकः सर्वोऽपि राजा--तत्किं तद्भयप्रदर्शनम् । विद्या--निरये निपतन्त्यधर्मिण- स्तरुगुल्मादिषु सम्भवन्त्यथ ।। पशुपक्षिषु संसरन्त्यथो मनुजानामुदरे ततः परम् ॥ ४६ ॥ तत्र च प्राक्तनकर्मयोगेन, दुर्दर्शनाः केचन केऽपि दुर्भगा. स्तीत्रामयग्रस्त केलवगः परे ।। व्यङ्गा दरिद्रा विकलास्तथेन्द्रियै- नं सङ्गताः केऽप्युपसर्गमन्थराः ॥ ४७ ॥ राजा-ततस्ततः । विद्या--ततश्चतावदाकर्णनमात्रेण सर्वेऽपि सत्रासाः पूर्वकृतदु. प्कृते सानुशयाः सर्वथैव वैमुख्यमधर्माद्भजन्तस्तदनुशासनं प्रमाणय. न्ति । विलीनस्य त्वदरातेनोपलभ्यते वार्ताऽपत्येतदाकलय्य वत्सः प्र- माणमिति। राजा-नास्मात्परं विधेयमस्ति । सर्वाः--वत्स ! इदानीमसि कृतकृत्यस्तद्भगवदुपासनयैव नी- यतामयं समयः । राजा-- उपदिशन्तु भवत्यः । १. मदचिन्ताः इति 'ख' पुस्तके पाठः । २. तत्परिणतेरिति 'ख' पुस्तके पाठः । धर्म० १० ७४ धर्मविजयनाटके- विद्या:--कीरं भज यज यज्ञमूर्तिमित्थं जानीहि प्रकृतिविभिन्नमादिदेवम् ।। मिथ्यैतत्त्वयि लसति प्रपञ्चजालं सर्वात्मञ्जगति पुनस्त्वमेक एव ॥ ४८ ॥ राजा--देव्यः ! नानाविद्याराधनश्रवणेन व्याकुलीकृतो ममा. न्तरात्मा। (नेपथ्ये) राजन् ! सर्वाणि शास्त्राणि नमस्कृत्य विसर्जय ॥ भज पर्वतजाकान्तमेकान्तं परिशीलयन् ॥ ४९ ॥ ( सर्वे समाकर्णयन्ति) विद्या:--वत्स ! सम्यगुक्तमुपासनया । राजा--( साञ्जलिबन्धम् ) देवि ! एतद्वचनेऽपि मम तथैव स. ॥ न्देहः । विद्या-किमिति प्रमुग्धोसि, सर्वासामस्माकमेक एवाशयः । यो मन्त्रमूर्तिरथ यः प्रकृतेविभिन्नः कर्ता च यस्त्रिजगतामथ यस्तुरीयः ।। विष्णुर्विरिश्चिरिति यः कथितः पुराणः सोऽयं हिमाचलसुताहृदयाधिनाथः ॥ ५० ॥ ( नेपथ्ये) राजन् ! एवमेतत् । असहन्नपि शब्दवाच्यता समुपास्यो ऽयमनेकनामभिः ।। विविधास्वभिधास्वमुष्य य. द्विवदन्ते विबुधा न वस्तुनि ॥ ५१॥ १. मन्त्रमात्रमूर्ति, इति 'ख' पुस्तके पाठः। २. 'असहमान' इत्युचितम् ।
पञ्चमोऽङ्कः । ७५ विद्या--वत्स ! ध्यायतां भगवान्भूतभव्यभवन्नाथः । अर्धाङ्गे कुवलयलोचना दधानः प्रालेयस्फटिकघराघरोद्भटाभः ।। उद्दामद्युतिशशिखण्डमण्डनश्री. श्चित्तान्तविलसति यः पुमान् पुराणः ।। ५२ ।। राजा--(प्रणिधानं नाटयति) (नेपथ्ये) वत्स ! पूजयस्वोपचारैर्मानसैः परमेश्वरम् । राजा--( एकाग्रचित्तं पुनात्वा) उत्सर्पिर्पगुणभीषणहारसर्प. नासापुटैर्विकटसंकुचितैनिपीतः ।। पाटीरकुंकुममिलन्मृगनाभिबन्धु- गन्धः सदाशिव मया मनसार्पितस्ते ॥ ५३ ॥ अपि च, गुञ्जन्मधुब्रतघटोद्भटपक्षवात. ब्राताभिघातरभसप्रसरत्पतङ्गम् ॥ संकल्पकल्पितमतर्कितगन्धधाम मन्दारदाम तव पादयुगेऽर्पयामि ॥ ५४ ॥ अपि च, गङ्गां जटान्तरगतामपि द्रष्टुकामः श्यामप्रवाह इव वासरभर्तृजायाः ।। उत्पातकेतुरिव मोहमरस्य धूपः श्रीविश्वरूप ! हृदयेन मया कृतस्ते ॥ ५५ ॥ अपि च, यत्कान्त्यलाभविवशो नु रविः सतापः पापः क्रमाद्भवति पूर्णनिशाकरोऽपि । १. फण इति 'ख' पुस्तके पाठः। २. परागम्, इति 'ख' । पुस्तके पाठः।
७६ धर्मविजयनाटके- दीपः पुरस्तव भवार्णवकर्णधार ! संसारदीप रचितः स मनोरथेन ॥ ५६ ॥ अपि च, माधुर्यसम्पदवधीरितसौधवर्ग: मन्नाद्यमुज्ज्वलमनेकविध विधातः ! ॥ स्वान्तेन शान्तिकलितन कृतं निवेद्य विद्यैकगम्य ! परितोषकरं तवास्तु ॥ ५७ ।। (नेपथ्ये) प्रणम्यतां परमेश्वरः । राजा--( अञ्जलिं बद्ध्वा ) लक्ष्मीविलासकमलासननाकिनाथै. रानम्रमौलिमणिदीधितिधोरणीभिः ।। नीराजितं त्रिजगदेकगुरोर्नमामि दाक्षायणीसहचरस्य पदारविन्दम् ॥ ५८ ।। विद्या--वत्स ! वयं तावदैतैः तव सुचरितैः सन्तुष्टाः स्मः, तद् प्रियतां तावदभीप्सितम् । राजा--देवि ! इदानी दर्शनादेव फलितमनोरथोऽस्मि । यतः- युष्मत्प्रसादवशतः प्रियमक्षतम्मे यात: क्षणाक्षयमशेषविपक्षपक्षः ।। साक्षात्कृतौ स्फुरति दक्षसुताधिनाथः क्षोणीभूदावृततला वशगा क्षमा च ।। ५९ ।। तथाऽपीदमस्तु । आयासाद्वासुदेवोऽवतु भवतु भवो भव्यदः पद्मिनीना प्राणाधीशः प्रियाणि प्रथयतु हरताद्विनराशिं गणेशः ।। हन्यात्कन्या हिमाद्रेः कलिमलमखिलं किञ्च वर्णाश्रमाणां श्रौतस्मातकनिष्ठा हरिहरपदयोर्भक्तिरव्याहताऽस्तु ॥ ६० ॥ - पश्चमोऽङ्कः । ७७ विद्या--वत्स ! जगत इब तवापीयमाशीः । यथा, विष्णुापकतां ददातु जगतामैश्वर्यमीशो गिरे. स्तेजस्तविकरस्तनोतु विपुलं शक्तिश्च शक्तिं पराम् । वित्रं विघ्रहरो हरत्वविरतं रात्रीशखण्डोल्लस- दाले भाक्तरचञ्चलास्तु भवतो देवे चं लक्ष्मीपतौ।। ६१ ॥ राजा-पुनः काशीदर्शनकामुकोऽस्मि यदि भवेदभिमतं भव- तीनाम् । विद्या--तदेहि वत्स ! सहैव तावस्साधयामः । (इति निष्क्रान्तास्सवे) इति श्रीमद्भदेवशुक्लरचिते धर्मविजयनाम्नि नाटके पञ्चमोऽङ्कः । इति धर्मविजयन्नाम नाटकं समाप्तम् । Dowroom ,
No text on this page.
THE PRINCESS OF WALES SARASVATI BHAVANA TEXTS. Edited by GOPINATH KAVIRAJ, M. A. No. 1-The Kiranavali Bhaskara, a Commentary on Udayava's Kiraṇāvali, Dravya section, by Padmanabha Miśra. Ed.with Introduction and Index by Gopinath Kaviraj, M.A. Rs. 1-12 No. 3-The Advaita Chintīmaņi, by Rangoji Bhatta, Ed. with Introduction eto. by Nārêyapa S'āstri Kbiste Sahityachārya. Rs. 1-12 No. 3-The Vedānta Kalpalatikā, by Madhusudana Sarasvati. Edited with Introduction etc. by Råmājñā Pāņdeya Vyakaraṇācharya. Rs. 1-12 No. 4-The Kusumānjali Bodhani, a Commentary on Udayana's Theistio Traot, Nyāya Kusumāñjali, by Varadarāja. Ed. with Introduction etc. by Gopinath Kaviraj, M.A, Rs. 2-0 No.5 -The Rasasāra it Commentray on Udayana's Kiraṇāvali, Guņa Section, by Bhatta Vādindra. Ed, with Inftroduction etc.by Gopinath Kaviraj, M.A. Rs. 1-2 No. 6 -- (Part 1)-The Bhāvanā Viveka by Mandana Miśra, with a Comrentary by Bhatta Umbeka. Ed, with Introduction etc. by M.M. Gangānātha Jhá, M. A., D. Litt. Rs. 0-12 No. 6-(Part II)-- Ditto Ditto Rs. 0-12 No. 7-(Part 1)-The Yoginihrdaya dipikā, by Amộtānanda Nātha, being a Commentary on Yoginihỉdaya, a part of Vāmakośvara Tantra, Ed.with Introduction etc.by Gopinath Kaviraj, M.A. Rs. 1-8 No 7-( Part II ) Ditto Ditto Rs, 1-4 No. 8-The Kåvyadākini, by Gangānanda Kavindra. Ed. with Introduction etc. by Jagunātha S'ästri Hoshing Sahityopādhyâya. Rs. 0-10 No. 9-(Part I)-The Bhakti Chandrika, a Commentary on Sandilya's Bhaktisütras, by Närāyana Tirtha. Ed.with a Prefatory Note by Gopinath Kaviraj,M.A. Rs. 0-15 No. 10-(Part I)-The Siddhāntaratna, by Baladova Vidyabhūşapa. Ed. with a Prefatory Note by Gopinath Kaviraj, M.A, Rs. 1-2 No. 10-(Part II)-Do. Do. Rs. 2-12 No. 11-The Sri Vidya Ratna Sūtras, by Gaudapăda, with a Commentary by S'ankarāranya. Ed. with Introduction eto. by Nārāyaṇa S'astri Khiste Sahityacharya, Rs. 0-9 No. 12-The Rasapradipa, by Prabhākara Bhatta. Ed. with Introduction eto, by Nārāyaṇa S'ästri Khiste Sahityāchārya. Rs. 1-2 No. 13-The Siddhasiddhānta Sangraha, by Balabhadra. Ed, with Introduction by Gopinath Kaviraj, M. A. Rs. 0-14 No. 14--The Triveņikā, by Agadhara Bhatta, Ed. with Introduction by Batukanātha S'armă Sähityo. pådhyāya, M. A, aud Jagannathe. S'astri Hoshing Sāhityo. pādhyāya. Rs. 0-14 No. 15-(Part I)-The Tripurārahasya, (Uñâna Khanda) Ed with a Prefatory Note by Gopinath Kaviraj, M.A. Rs.0-14 Do. Ed. No. 15-( Part-II )-Do. Do. Rs. 2-4 No. 15.- Part III )-Do. Rs, 2-0 No. 16- The Kávya Vilása, by Chiranjiva Bhattacharya. with Introduction etc. by Batukanåtha S'armă Sāhityopadhyāya. M A. und Jagannātha S'astri Hosing Sāhityopadhyaya Rs. 1-2 No. 17-The Nyāya Kalikā, by Bhatta Jayanta. Ed. with Introduction by M. M. Ganganatha Jhi. M. A, • D. Litt. Rs 0-14 ( 3 ) No. 18-(Part I)-The Goraksa Siddhanta Sangraha. Ed, with a Prefntory Vote by Gopinath Kaviraj, M.A. Rs, 0-14 No. 19-( Part. I )-The Prākṣita Prakaſa by Vararuchi with the Prākṣita Sanjivani by Vasantarāja and the Subodhini by Sadananda. Ed. with Prefatory note etc. by Batuk Nath S'armă, M. A. and Baladeva Upădbyâya, M. A. Rs 2-4 No. 19-( Part.II ) Ditto Ditto Rs. 2-12 No 19 Part. III Introduction etc. (In Preparation. ) No, 20-The Mänsatattvaviveka by Viſvanátha Nyāyapanchăpana Bhattacharya. Edited with Introduction etc. by P. Jagannātha S'āstri Hoshing Sāhityopādhyāya, with a Foreword by Pandit Gopi Nath Kaviraja, M. A., Principal, Government Sanskrit College, Benares. Rs. 0-12 No. 21-( Part I) The Nyaya Siddhanta Målä by Jayarama Nyāya Panchanana Bhattācārya, Edited with Introduction etc. by Mangal Deva Ş'astri M. A., D. Phil. ( Oxon ), Librarian, Govt. Sanskrit Library, Sarasvati Bhavana, Benares. Rs. 1-2 No. 21- Part-II Ditto Ditto Rs. 2-0 No. 22-The Dharmanubandhi S'lokachaturdasi by Sri S'oşa Krşņa with a Commentary hy Rāma Pandit. Edited with Introduction etc. by Nārāyana S'astri Khiste Sāhityācharya, Assistant Librarian, Government Sanskrit Library, Saraswati Bhavana, Benares, No. 23-Navarätrapradipo by Nanda Pandit Dharmadhikari. Ed, with Introduction etc. by Vaijanātha S'astri Varakale, Dharmasastra-S'ästri, Sadholâl Research Scholar, Sanskrit College, Benares, with a Foreword by P. Gopinath Kaviraj, M. A., Principal, Government Sanskrit College, Benares. No. 24-The S'ri Råmatäpiniyopan işad with the Commentary called Ra. ma Kafika in Pūrvatāpinſ and Anandanidhi in Uttaratãpini by Anandavana.
Ed. with Introduction etc. by Anautarãma s'âstri Vetāla Såhityopadhyåga, Post-Acharya Scholar, Govt. Sanskrit College, Benares, with a Foreword by Pandit Gopi Nātha Kaviraja, M. A., Principal, Government Sanskrit College, Benares. Rs 3-12 No. 25-The Sapiņdyakalpalatikā by Sadāśivadova alias Apadeva with a commentary by Nárāyaṇa Deva. Edited with Introduction eto, by Jagannåtha S'astri Hośinga, Såhityopadhyāya, Sādholal Research Scholar, Govt. Sanskrit College, Benares. Rs 1-4. No. 26- The Mryāňkalekhā Nātikā by Viſvanatha Deva Kavi. Edited with Introduction etc. by Nārāyaṇa S'āstri Khisto Sahityācharya, Asst. Librarian, Government Sanskrit Library, Benares. Rs. 1-0 No. 27--The Vidvachcharita Panchakam By Nārāyana S'ästri Khiste, Sahityacharya, Assistant Librarian, Govt. Sanskrit College, Library, Sarasvati Bhavana, Benares. With an Introduction by Gopināth Kaviraja, M. A., Principal, Govt. Sanskrit College, Benares. Rs 2-0 No. 28-The Vrata Kos'a by Jagannātha S'āstri Hosinga Sähityopādhyāya, late Sadholal Research Scholar, Sanskrit College, Benares. With a Foreword by S'ri Gopinātha Kaviraja, M.A., Principal, Govt. Sanskrit College, Benares. Rs 4-0 No 29-The Vșitti dipikā By Mauni S'ri Krşna Bhatta. Edited with Introduction etc by I t. Gangadhara S'astri Bhāradvāja, Frofessor, Govt. Sanskrit College, Benares. No. 30-The Padārtha Mandanam By S'ri Venidatta. Edited with Introduction etc by Pandit Gopāla S'āstri Nene, Professor, Govt, Sanskrit College, Benares. No. 31 (Part 1)-The Tantraratna by Partha Sarathi Mis'ra. Edited by M. M. Dr. Ganganatha Jha, M. A., D. Litt, Vice-Chancellor, Allahabad University, Allahabad, No. 33-The Tattvasāra by Rākhāldasa Nyāyaratna, Edited with Introduotion etc. by Harihara S'astri, Benaros Hindu University. No. 33-The Nyaya Kaustubhe (Part I) by Mahadeva Puntamkar, Edited with Introduction etc. by Umes'a Miśra, M. A.; Allahabad University, Allahabad.
THE PRINCESS OF WALES SARASVATI BHAVANA STUDIES : Edited by GOPINATH KAVIRAJ, M. A. Vol. I (a) Studies in Hindu Law (1): its Evolution, by Ganganatha Jhā. (b) The View-point of Nyāya Vajseșika Philosophy, by Gopi nath Kaviraj. (c) Nirmāņa Kāya, by Gopinath Kaviraj. Rs. 1-12 Vol. II- (a) Parasurama Miśra alias Vani Rasāla Kaya, by Gopinath Kaviraj. (b) Index to Sabara's Bhāsya, by the late Col. G. A. Jacob. (c) Studies in Hindu Law (2):-its sources, by Gangānāth Jha (d) A Now Bhakti Sūtra, by Gopinath Kaviraj. (*) The System of Chakras according to Gorakņa nātha, by Gopinath Kaviraj. (f) Theism in Ancient India, by Gopinath Kaviraj. (g) Hindu Poetics, by Batuka nātha S'armă. h) A Seventeenth Century Astrolabe, by Padmakara Dvivedi (i) Some aspects of Vira Saiva Philosophy, by Gopinath Kaviraj i) Nyāya Kusumānjali ( English Translation ), by Gopinath Kaviraj. (k) The Definition of Poetry, by Nārāyaṇā s'astri Khiste. (1) Sondala Upadhyāya, by Gopinath Kaviraj. Rs. 5 Vol. III. (a) Index to S'abara's Bhāşya, by the lato Col, G. A. Jacob. (b) Studies in Hindu Law (31: Judicial Procedure: by Ganganātha Jha. (c) Theism in Ancient India, by Gopinath Kaviraj. (d) History and Bibliography of Nyaya Vaitegika Literature, by Gopinath Kaviraj. () Naişadha and S'rt Harsa by Nilakamala Bhattachårya. (f) Indian Drainaturgy, by P. N. Patap kar, Rs. 5 (2) vol. IV (a) Studies in Hindu Law (4): Judicial Procedure: by Ganga nátha Jha. (b) History and Bibliography of Nyaya Vaišeşika Literaturo, by Gopinath Kaviraj. (0) Analysis of the Contents of the Rgveda-Prātišākhya, by Mangala Deva S'āstri. (d) Nārāyaṇa's Gapita kaumudi, by Padmākara Dvivedi. (0) Food and Drink in the Ramayanic Age, by Manmatha natha Roy (f) Satkāryavāda: Causility in Sāňkhya, by Gopinath Kaviraj (g) Discipline by Consequences, by G. L. Sinha, (h) History of the origin and expansion of the Aryans. by A, C. Ganguly. (i) Punishments in Ancient Indian Schools, by G.L. Sinha. Rs 5 Vol. V (a) Ancient Home of the Aryans and their migration to India, by A. C. Ganguly. (b) A Satrap Coin, by Shyamalal Mehr. (c) An Estimate of the Civilisation of the Vanaras as depicted in the Rāmayaņa, by Manmatha nātha Roy. (d) A Comparison of the Contents of the Rgveda, Vajasaneya, Tait tiriya & Atharvaveda Prātiśākhyas, by Mangala Dova S'astri. (0) Formal Training and the Ancient Indian Thought, by G.L. Sinha. (f) History and Bibliography of Nyāya Vais'eşika Literature, by Gopinath Kavirāj. (g) A Descriptive Index to the names in the Rāmāyaṇa, by Manmatha nătha Roy. (h) Notes and Queries, (1) Virgin Worship, by Gopinath Kaviraj. Rs. 5 Vol. VI- (a) Index to S'abara's Bhāşya, by the late Col. G. A. Jacob.. (b) Sorge Aspects of the History and Doctrines of the Nathas, by Gopinath Kaviraj. (c) An Indox etc, the Ramayana, by Manmatha nätha Roy. (d) Studies in Hindu Law by M. M. Ganganatha Jha, (0) The Mimamsa manuscripts in the Govt. Sanskrit Library (Benares', by Gopinatha Kavirāj. (f) Notos and Quories, by Gopinātha Kaviraj.
( 3 ) Vol. VII. (a) Bhamaha and his Kavyalankara, by Batukanatha S'arma and Baladeya Upadhyaya, (b) Some variants in the readings of the lais'eșika Sutras, by Gopinātha Kavirāj. (c) History and Bibliography of Nyâya Vais'eșika Literature, by Gopinātha Kavirāj. (d) An attempt to arrive at the Correct meaning of some obscure Vedic words, by Sitāram Joshi. (0) A comparison of the contents of the Rig Veda, Vajasaneya, Taittiriya, and Atharva Veda (Châturadhyāyika ) Prātis'ákhyas, by Mangal Deva Shastri. (f) An Index to the Ramayana, by Manmatha Näth Roy. (g) An Index to S'abara's Bhāşya, by the late Col. J. A. Jacob. (h) Gleanings from the Tantras, by Gopinātha Kavirāj. (i) The date of Madhusudana Saraswati, by Gopinātha Kavirāj. (j) Descriptive notes on Sanskrit Manuscripts, by Gopinātha Kavirāj. (k) A note on the meaning of the term Prrārdha, by Umes'a Mis'ra. VI. VIII. ( In progress ) (a) Indian Philosophy, by Taraknath Sanyal. (b) An Index to the Rāmayana, by Manmatha Nath Roy. To be had of The Superintendent Government Press, U. P., Allahabad.
No text on this page.