Asr Melkote
Brahma Vyaptiparikshakriya
Front matter
No text on this page.
No text on this page.
No text on this page.
No text on this page.
No text on this page.
No text on this page.
No text on this page.
Cr16)
d
॥ श्रीरन्तु
॥ श्रीमते रामानुजाय नमः ॥
श्रीकाची प्रतिवादिभयङ्कर - अण्णङ्गराचार्यैः
भगवत्प्रभावप्रतिष्ठापनाय प्रीता
॥ ब्रह्मव्याप्तिपरिष्किया।
कोठियालयतिभिलिखितायाः पूर्तिगोचरकृतेरवलोकात् ।
खदमापुपि विवेकिजनौधै हर्षवर्षभियमाशु तनोतु ॥
T
सेयम
गीताचार्यमुद्राक्षरशालायां
7
सम्मुन्य प्रकाशिता
विजयते ।
MADRAS.
1937
धातुसंवत्सर मीनविशाखोडुनि 2224taa
No text on this page.
॥ श्रीरस्तु॥
॥ श्रीहस्तिशैलशिस्त्ररोज्ज्यलपारिजाताय नमः ॥
॥ श्रीमते रामानुजाय नमः ॥
॥ श्रीलोकदेशिकनिगमान्तदेशिकाभ्यां नमः ॥
॥ श्रीमदरवरमुनये नमः ॥ श्रीवादिभीकरमहागुरवे नमः ॥
श्रीकाञ्ची प्रतिवादिभयङ्कर - अण्णङ्गराचार्य प्रणीता
॥ ब्रह्मव्याप्तिपरिष्किया॥
२॥
करिशिखरिशिखरशेखरमरिदलनोदञ्चदरिलसद्धाहुम् ।
तरिमिव भवमयजलधेहरिमिह विलसन्तमनिशमभियामि ॥
वरवरमुनिपदसरसिजपट्पदपरवादिभीकरायकुले ।
निरतिशयभाग्यविभवादुदितेनाण्णङ्गरार्यदासेन ॥
कोळियालयतीन्द्राणामन्तःकरणशुद्धये ।
प्रणीयते कृतिस्सैपा ब्रह्मव्याप्तिपरिष्क्रिया ।
श्रीकोळियालयतिपुङ्गवसार्वभौमः पूर्णत्वगोचरकृति ग्रथितामवेक्ष्य ।
सद्यो विवेकिजनसंसदि दास एप पद्यैश्शतेन तनुतेम विलोपितां ताम्॥
अनवद्यहृद्यतमपद्यमालिकां महितार्थपुष्टिमधुरामिमामिह ।
लघुटीकया च सहितां प्रकाशयेत्यथ तैस्सुधीभिरवबोधितोऽभवम् ।।
तामेवाज्ञां सतां साधु शिरसा धारयन्नहम् ।
प्रकाशये जगत्प्रीत्यै ब्रह्मव्याप्तिपरिक्रियाम् ।।
६॥
२ ब्रह्मव्याप्तिपरिष्क्रिया । ८|| कुचोद्यानां तत्तत्कुमतिकलितानां विहतये श्रियः पत्युर्विष्णोर्निरवधिमहाशक्तिविभवः । पुराणैराचार्यैर्महितमुनिभित्राभ्युपगतः तमाक्षिप्येदानी कतिचन बुधाः किञ्चिदलिखन् । ७॥ नदालोकालोके सुबहुभगवद्भक्तहृदये समुत्पन्नं खेदं निरसितुमपार्थान् विदलयन् । सदस्त्रिय्यन्तप्रवणबुधभोग्यान् विशदयन् परब्रह्मव्याप्तेस्सरणिमविचान्यां प्रकटये ॥ इहैकैकवस्तुन्यपि ब्रह्मतत्त्वं समाप्तस्वरूपं चकास्त्यात्मशक्त्या । इति स्पष्टमाचार्यवर्ययदुक्तं न तद्रूपणार्था मतिस्साधुयोग्या ॥ ९॥ *परन्दतणितिप्रसिद्धकारिसूनुगाथया तदर्थबोधनप्रवृत्तसर्वपूर्वसूक्तिभिः । असंशयं निरूपिते विचित्रशक्तिवैभवे मुधाकुचोद्यकल्पना न शोभना विवेकिनाम् ।। १०॥ *किंसाधनः क्व निवसन्निति पद्यरत्ने श्रीवत्सचिहगुस्राट् कुदृशां कुचोद्यम् । तत्तादृशं व्यदलयत्परमात्मशक्ते- रत्यद्भुतत्वमभिधाय हि शास्त्रसिद्धम् ॥ ११॥ *भक्तस्य दानवशिशोरिति पद्यरत्ने वेदान्तदेशिकमणिः स्फुटमभ्यधत्त एकैकवस्तुनि च सर्वजगत्सु विष्णोः पर्याप्तवृत्तिमनवद्यकथावताराम् ॥ १२॥ KIRI 631 ब्रह्मव्याप्तिपरिष्क्रिया । ३ *पुरिसपहाणेत्याढावच्युतशतकीयपधग्नेपि । ब्रह्मणि विचित्रशक्तदुर्घटमोघव्यहेतुताभिहिता ।। १३॥ अल्पीयस्स्वपि चेतनेषु विपुला शक्तिः पुराणादिभिः प्रोक्ता दुर्घटकृत्यबर्गरचनानियोहदक्षाऽमिता । तत्तादृक्षकथावसंभवमहो नो करिबहाशाइते सर्वा विप्रतिपत्तयो वन वतबनण्यही धीमताम् ।। विविधविचित्रशक्तिविभवं परमात्मनि ये श्रुतिशतमूक्तिभिर्विशदयन्ति महागुरवः । अहह ! तदीयमूक्तिनिकरानवतंसयता- मपि मुखतः कुचोधजननं बहुपुण्यफलम् ।। परब्रमणः किं परा शक्तिरस्तीत्यमी मन्यते नेति वतीह पृच्छाम् । इमे पण्डिता नैव वायुनरव्यवाप्तोतरां कमहन्ति माधु ॥ १६॥ वस्तुस्थित्या सुघटमिह यद्यत्तदेवेह कर्तु शक्तं ब्रह्मेत्यहह! सहमा व्याहरद्भिर्महद्भिः। कोवोत्को भगवति महाशक्तियुक्तेऽम्युमनः ब्रह्म ब्रह्मेत्यनुपदभियं वाक्तु तपामना ।। परं ब्रह्म पर्याप्तमेकेकवस्तुन्यपीति स्फुटं रङ्गगमानुजाख्यः । यतिः प्राह यत्तत्रचापाथलेखान वृथा निर्मिमाणाः परं शोचनीयाः ।। पर्याप्तिश्च समाप्तिरेच नपुनस्त्वन्येति निर्धा निष्कर्षे पुनरीदृशे न हि पुनः कापि क्षतिग्रमणः । एकत्रैव समाप्तरूपमभवद्यत्तत्तदन्यस्थले व्याप्तिं हन्त कथं करोत्विति कथा हास्यैव वेदान्तिनाम् ।।
द ब्रह्मव्याप्तिपरिक्रिया । यद्यप्येकं निरंशं निरवधिवितति ब्रह्म जागय॑थापि स्वात्याश्चर्योरुशक्त्युत्थितनिजपटुसंकल्पभूम्नैव कामम् । एकस्मिन् पूर्णवृत्तिं तदनु तदपरस्मिश्च योगं विवाधं प्राप्नोत्येवेति पूर्वगुरुभिरतिदृढं स्थापिते शङ्किता कः॥ पूर्तिनाम विभोः पदार्थलिचये कात्स्न्येन संबन्धिते- त्युक्तं यत्त्वनुयुमहेऽत्र, तदिदं कात्यं तु कस्येक्षया । व्याप्यस्येत्यभिधास्यसे ननु तदा जीवाद्यणुव्यापने कात्न्यं हन्त कथं निरूपणसहं नैरंश्यतो बाधनात् ।। २१॥ व्याप्तुर्दृष्ट्यैव कात्याभ्युपगम इतिचेत् घट्टकुट्यां प्रभातम् किंरूपं कात्यमेतत् कथयतु सभवान् स्पष्टवाचेति पृष्टे । आस्माकीने पथि स्यानिहितचरणता श्रीमतस्सत्यमेवे-; त्यस्माकं सेयमुक्तिश्चिरतरजयिनी स्थास्यति प्रेक्ष्यतां भोः ॥ २२॥ २३॥ अय॑स्सन्नयुतायुताधिकमहाविम्बेषु सान्निध्यभा- ग्विष्णुः किं प्रतिविम्बमस्त्यविकलो नो किं ? प्रतिबूत भोः । यद्यस्तीत्यभिधीयते ननु तदा तस्यास्स्थितेः कीदृशी रीतिस्तामभिधत्त हन्त विविधैर्व्यर्थैरलं वाक्चयैः ।। यदिपुनरसमाप्ता वृत्तिरेकैकविम्वे भगवत इति वादस्तहि नैकापि मूर्तिः । परिधृतपरिपूर्णब्रह्मतत्त्वेति सिद्ध्येत् विकलभगवदीक्षा कल्पतां कस्य तृप्त्यै ? ॥ अस्माभिर्नेष्यते किं प्रतिनिलयमपि ब्रह्मणः पूर्णसत्ते- त्येकोयं शुष्कवादः प्रतिकथकबुधैर्वक्ष्यते तत्तु विद्मः । २४॥
ब्रह्मव्यातिपरिक्रया। १ स्वेषामेतेन लाभः क इति मनसि संचिन्त्यनां दीयदृष्ट्या सिद्धान्तोसाकमेव प्रभवतु शरणं वादिनानन्ततस्तु ।। समाप्तस्वरूपं वहिव्यानिशक्तं कथं वोभवतीति चोचं गृणन्नः । बुधास्सोभरेस्तुल्यतां वाऽपि विष्णो न गृह्णन्ति गृहन्ति वा तन्न विनः ।। *अन्तगृहे कृष्णमवेक्ष्य चोरं बद्ध्वा कबाट जननी गर्नेका । उन्लूखले तत्र च बद्धमेनं दृष्ट्वा ततम्या स्तिमिता बभूव ।।* इत्यादौ कथिता कथा तु वितशेत्येवेति किं वो मतिः? किं वा सौभरिशक्तिरेव परमे पुंस्यप्यभिप्रेयते ? । रासोदुर्वगृहीतगात्रनियुते प्रत्येकयो ब्रमणो रूपं नैव समाप्तिमाप्तवदिति क्षेमंकरो वो ग्रहः ।। ऊर्णनाभ्यभिधजन्तुविशेष शक्तिरस्ति भुवि यादृशरीतिः । नैव तादृगपि पुंसि परस्मिन्नित्युशन्नपि जनमुहृदेषाम् ।। विरुद्धधर्मद्वयसङ्गभङ्गं विशेषतो भाष्यकृदाचचक्षे । इतीरयन्नत्र बुधस्तु भाष्यविज्ञानवैदेशिक एव सत्यम् ।। २९॥ नानाक्षोभप्रसङ्गात्समुचितसरणिम्सेयमेवेति कश्चित् पन्थानं स्वेच्छयैव प्रकटयति यतिस्सोयमाश्चयमेधः । सत्यं, ब्रह्मैतदेव त्रिविधमपि भवेत्कारणं विष्टपस्ये- त्यङ्गीकारोपि दृष्यो भवति न किमहो क्षोभवाचां समत्वात् ॥ ३०॥ सर्वथापि यदसंभवि तत्तु ब्रह्म नैव घटयेत् श्रमतोपि । इत्यतीव रुचिरं लिखतां वस्तत्वनिर्णयपटुत्वममेयम् ।। ३॥ २८॥
w
ब्रह्मव्याप्तिपरिक्रिया।
३२॥
३३॥
एतत्संभवि नेतदेवमिति वो निधारणं केन वा
मानेनोद्भवतीति पृच्छति जनस्सोयं, प्रतिव्रत भोः ।
आप्तोक्न्येव हि बोधनीयविषयस्सोयं, भितज्ञा वयं
हाहा कि कथयम लौकिकदृशा संभावितत्वं प्रति ॥
यद्यत्कृत्यमभूदिति श्रुनिमुसर्जानीम आस्तिक्यतः
तत्तत्सर्वमपीह संभवदिति ग्राह्यं हि वोभोति नः ।
नेवंचेदितिहासबोधितकथास्सर्वा असंभाविता
इत्येव प्रणिधेयमापतति नः स्वैरं विमर्श कृते ।
शुक्राचार्यसकाशमागतवतो नाम्ना कचस्यासकृत्
जाते मारणजीवने इति कथा (१)या भारते श्रूयते ।
सा किं संभविनी? महर्पिकथनात्संभावितत्वं मतो
आवाह्यं भवतीदृशः खलु कथाः पारेपरार्धं श्रुताः ॥
तातोक्त्या नचिकेतसा यमगृहं संजग्मुषा जीवनं
भूयः प्राप्तमभूदिति (२)प्रकटितात्याश्चर्यचर्या भुवि ।
कस्मिन् हन्त कदा नु संभववती? तत्ताहगाख्यायिका-
वाप्तोक्तत्वबलाद्धि संभवति नस्संभावितत्वग्रहः ।।
कचस्य नचिकेतसस्तदितरस्य कस्यापि वा
कथा विलिखिता भवेद्यदि जनैरिदानीन्तनः ।
असंभव विनिश्चयो भवति, सेव पूर्वोदिते-
त्यतो हि सुकृती जनो वदति तां सुसंभाविताम् ।।
(१) आदिपर्वणि ७० अध्याये सुविशदं द्रष्टव्या ।
(२) तैत्तिरीय यजुर्बाह्मणे काठक द्वितीयप्रपाठके ।
३४॥
३५॥
३६॥
ब्रह्मव्याप्तिपरिक्रिया : सर्वज्ञम्सर्वशक्तोपि च हरिरिह नयोजयेद्यन्सुयोगं कर्मेति प्राह सोयं यतिरिति पग्लिापोयमृच्छन्न शान्तिम् । योगायोगावधानं किमु भवितुमलं क्षुद्रयाऽस्मद्धियेति ध्यातुं शक्तिन येषामहह कथममी ब्रह्मचिन्तानिपण्णाः? ॥ ३७॥ आर्यम् सर्वार्थसिद्धौ न घटयति विभुव्याहनं किचनति प्रोक्तं यत्तन्न मिथ्या न हि वयमधुना चत्महे नहिरुद्ध । नम्यार्थस्साधु बोध्यः पटुगुरुचरणाम्भोजसेवेक भाग्यात् स्वात्मीया भ्रान्तिसंपन्न स्खल गुरुवरस्योगमाङ्गेऽधिगया ॥ ३८॥ ब्रह्म व्याहतकर्मकत्रिति न कोयाख्याति भक्ताग्रणीः सर्व संगतमेव संकलयतीत्यन्याहना पद्धतिः । ब्राह्मीं शक्तिमजानतां लघुधियां व्याघातधीयोंदिता मा लोकार्यपदाव्जभक्तिवरणाइन्येन नापैष्यति ।। शठारातिसूत्तो (१)*वियप्पायगाथा मनाक् चिन्तयित्वा मनःकल्म स्वम् । व्युदस्यन्त्वमी इत्यसायुक्तिरका भृशं सारभूतेति सन्तो बदन्ति ।। स्तम्भादाविरभृन्नृसिंहभगवानित्यादिरूपां कयां यदृष्ट्या प्रतियन्ति वैदिकजनासंभावितां, नशा । नासंभावितमस्ति किश्चिदपि हि ब्रह्मण्यमे यात्मके तच्छुप्कोक्तिविलेखनव्यसनिना माभूयतीनां मुहुः ।। ४॥ (१) FaWTIES LETTPust (3.... 1---11):157221 மெய்ஞ்ஞான வேதியனை ... आ. LITE. " इतरत्राश्चर्यरूपाणि यद्विषये आश्चर्याणि न भवन्ति, तादृशम्” इति रङ्गरामानुजमुनीन्द्रटीका।
ब्रह्मव्याप्तिपरिटिक्रया । व्याघातात्मकहेतुना भगवति क्षेपार्हधर्मो न को- प्यस्तीति प्रसभं न चश्मह इह श्रोतव्यमेतद्यते । ये धमा उररीकृता भगवति त्वश्रेयसे स्युः परं तानेव क्षिपति श्रुतिस्मृतिततिनों तत्र शक्तेः कथा । ४२॥ श्रीमद्वेदशिरोगुरुर्गुरुवरः श्रीन्यायसिद्धाञ्जने नैकत्रापि समाप्यवृत्तिमनयां प्रत्याचचक्षे ध्रुवम् । मन्त्रार्थाख्यकृतो तु तां श्लथयतीत्यास्तां, कृति तां लिखन् आचार्योयमुपैद्विलक्षणगुणानित्यप्रधृष्यं वचः ॥ यदि प्रकृतयोईयोरपि निवन्धयोर्लेखने गुरोरविषमेव धीय॑लसदित्यभिप्रेयते । तदाजनकृतो कुतः परिसमाप्यवृत्तिं न तां निरास्थदिति पृच्छते सदयमुत्तरं दीयताम् ।। ४४॥ निरास्थदिति नैव कोप्यभिदधात्यनन्धो जनः न तत्प्रकरणोदयस्समजनीति वा दुर्वचम् । यथागममसौ हरिस्सकलवस्तुराशियपि प्रपूर्ण इति तत्र हि स्फुटमलेखि सिद्धाजने ॥ ४५॥ तच्छारीरक(१)सूत्रमप्युपहरन् श्रीदेशिकस्साञ्जलिः ब्राह्मं शक्तिविशेपमप्रतिहतं स्वीकृत्य सर्वात्मना । संपूर्तिः प्रतिवस्तु तस्य सुवचेत्येव स्वकीयां धियं निस्सन्देहविपर्ययं विशदयाञ्चके कुतकैरलम् ॥ ४६॥ श्रीमद्रहस्यत्रयसारकृत्यां यो ब्रह्मसूत्राणि बहून्युपादात् । *श्रुतेस्त्वितीदं स न नत्र दध्यौ तस्मादभूत्तत्र तु तर्कवादः ॥४७॥ (१) श्रुतेस्तु शब्दमूलत्वात् इति ॥
ब्रह्मव्यामिपरिष्क्रिया । ४८॥ ४९॥ सर्वज्ञस्य गुरूत्तमस्य हृदये भूत्रं तदेतनदा नेवासीदिति कथ्यते मितधिया क्षोडीयमा हा त्वया । इत्युठूलरुपा विवक्षथ यदि श्रोत्रपि नन्नाप्यते यत्प्रामाणिकपण्डिता मम गिरं साधीयसी मन्नते ॥ भाष्ये सूत्रस्य तस्य स्फुटमभिहितमस्तीक्ष्यतां स्फारदृग्भिः सर्वस्माद्वस्तुवृन्दाद्विसदृशमतुलं ब्रह्म, तम्मिन् विचित्रा । शक्तिनस्याविरुद्धा, नदिनरलघुवस्तूपमादृष्ट्यधीनं यत्किञ्चिच्चापि चोद्यं न समुचितमिह मणीत्येवमेतत् ।। अन्यच्चाप्यवधेयमजनकृतिव्याख्यानकता यतिः(१) मन्त्रार्थोदितखण्डन(२)स्मृतियुतस्तच्छायया पूर्णनाम् । संशोध्यैव विलेखितुं प्रकरणं लब्ध्वापि कस्मादहो तूष्णीमेव जगाम, तस्य न मनो ब्रह्मापचारोत्सुकम् ।। अनाघ्रातदोगे मतेप्यस्मदीये भवेदेव बाबैर्मतैस्तुल्यतेति । यदुक्तं तदेतद्यथाजातगोष्ठ्यां सघोषं सकोलाहलं चाभिधेहि ॥५१॥ पापीयानिति यस्तु पक्ष उदितः श्रीभाप्यकारोत्तमः(३) तत्पक्षस्य तु वैखरी यदिपुनर्विज्ञायते स्वामिभिः । तत्साम्यात्मकदूषणार्पणरुचिः स्वप्नेपि यो नोदियात् ब्रूते भास्करपक्ष एष भगवत्याश्लेषमश्रेयसाम् ।। ५२॥ ब्रह्मण्यज्ञानवादादपि दुरितमयी युक्तिरेगेति यस्मिन् ग्रन्थे (३)श्रीभाष्यकारैर्लसति विलिखितं तत्र विष्फायतां दृक् । (१) श्रीरङ्गरामानुजमुनिवर इति यावत् ।। (२) श्रीमद्रहस्यत्रयसारे मूल मन्त्राधिकारे " LALFASL ausivs Bicar ALLT IN ' इत्यादिना कृतं तत्त्वार्थखण्डनम् ।। (३) वेदार्थसंग्रह. । (आन्ध्रलिपि श्रीकोशे १५३ पुटे द्रष्टव्यम् ।)
ब्रह्मव्याप्तिपरिक्रिया। ? पापीयस्त्वस्य तस्य प्रकटनसरणौ यस्समाभाषि दोषः सोसह्यो भक्तिभाजां, न हि भवति तथात्रेति मन्दोपि विद्यात् ॥५३॥ किंचतत्सूक्ष्ममीक्ष्यं स खलु न हि जगद् ब्रह्मचेत्यभ्युपैति द्वन्द्वं, कित्येकमेवेत्यभिलपति. ततस्तस्य वादोपहास्यः । जातः, तस्यासढुक्तो कथमिव घटना ? नैव तद्वन्मते नः ब्रह्मण्यश्लीलगन्धोप्युपनमति यते! प्रत्युतोत्कर्षवृद्धिः ॥ ५४॥ स्फुटप्रमाणमन्तरा प्रभोस्समाप्तिसाधनं न युक्तमित्यलेखि यत् प्रचक्ष्महेऽत्र सूत्तरम् । त्रयीशिरोगुरूत्तमो यदाह (१)पूर्ण एवही- त्यतोधिकं न किञ्चन प्रमाणमत्र लिप्स्यते ॥ अस्माभिस्तस्य भावो विशदमभिहितः पूर्वमेवे 'ति वादी वक्ष्यत्येवात्र बोध्यं - यदुत विलिखितं ताण्डवं व्योम्नि तद्भोः । तत्राने विकल्प्याखिलमपि दलितं चक्रुषा देशिकेन प्रोक्तं - पूर्णत्वमेतत्कथमपि वितथं दूषणं नाहतीति ।। ग्रन्थानारूढमंशं विशदमुपदिशन् ग्रन्थवर्त्यर्थतत्त्वं साटोपं निद्भुतेऽयं यतिरिति सुगम (२)ह्यजनग्रन्थदृष्टया । तत्रारम्भे किमाशङ्कितमथ कतमा चोपसंहारवाणी- त्येतावन्मात्रदृष्टयाप्यतिसुगमगतिर्देशिकीयाशयोत्र ॥ (१) न्यायसिद्धाञ्जने ईश्वरपरिच्छेदे-"एतत्सर्व * कृत्स्नप्रसक्तिनि- रवयवत्वशब्दकोपो वा : इति परिचोद्य *श्रुतेस्तु* इत्यादिभिः परिहरर मुत्रकार एवं प्रदर्शितवाद् । अतो यथागमं सर्वत्र पूर्ण एव भगवान् ॥" इति सूक्तिरत्रानुसन्धेया ॥ (२) अञ्जनग्रन्थः - न्यायसिद्धाञ्जनम् ॥
ब्रह्मव्यातिपरिस्क्रिया ।
११
अन्ते निष्कर्षघट्टे गुरुवरफणिनिः पूर्णएवेतिरूपा
जागर्त्यन्यप्रकारा न विलसति ततः पूर्णतयात्र साध्या ।
सा चापि ब्रह्मसूत्रोदितगमनिकया धृतदुश्चोद्यगन्धं
स्वीकार्येति प्रतिष्ठापितमभवदतो व्योम्नि नावं जहीहि ॥
कथञ्चिन्मन्त्रार्थोल्लिखितसरणि संगमयितुं
प्रयासान् भूयिष्ठाननुभवसि योगीन्द्र विफलान् ।
तदेतद्धयुष्णीषानुगुणपरिमाणं निजशिरः
प्रकर्तुं प्रारब्धं यतनमनुरुन्धे त्यज रुपम् ।।
मन्त्रार्थकृत्युत्थितवाक्यखण्डं विस्मृत्य सिद्धाजनमुक्तिरत्नम् ।
संवीक्ष्यतेचेदसमजसार्थप्रतीनिलेशोपि भवेन्न नूनम् ।।
प्रतिवस्तुसमाप्तिरितीदृशवाक् परमात्मनि न प्रथितेत्यसकून् ।
विलिखन् यतिरेप निजावसशे किमपूर्णशुभाश्रयमाश्रयते ॥
६२॥
अघटितघटनायां ब्रमणो नास्ति शक्ति-
स्त्विति झटिति लिखन्नो देशिकोक्तिहम्म्युः ।
द्रमिडनिगमतात्पर्यायरत्नावलीकृत
स खलु गुरुरवोचत्तादृशं(१)शक्तियोगम् ।। ६२॥
शक्तब्रह्मसहस्रमप्यनिपुणं वाजित्वगोत्वे समं
संदृब्धे इह कर्तुमित्यभिलिखन् स्वामी नृसिंह हरिम् ।
किं श्रोत्रेण च नाशृणोत् किमथ वा तत्रेन्द्रजालत्वधीः
आहोस्विद्विभवावतारघटनं नोद्देश्यमित्याशयः ॥
६३॥
(१) सहस्रगीतो * FRai OFusiti* इति दशकन्य सारी-
द्वारश्लोके * अघटितघटनं प्राह कृष्णं शठारिः इत्यन्वग्राहि ।
१२
ब्रह्मव्याप्तिपरिष्क्रिया ।
आस्माकीनाल्पदृष्टया यदिह नसुघटं भाति तत्सर्वमीशः
स्वात्मीयामेयशक्तया कलयति सुघटं नात्र संदेहलेशः ।
एवं नोचेत्समस्तश्रुतिमकुटपुराणेतिहासप्रकोपो
दुर्वारस्स्यात्तदेतद्विशदमधिगतं देशिकग्रन्थवृन्दात् ।।
६४॥
अघटितमिति शब्दस्याभिधेयं किमिष्टं
कथय यतिवरेति प्रश्न एकः कृतश्चेत् ।
अथ नियतमसौ स्यादिक्षु संभ्रान्तदृष्टिः
किमिति दुरितमीहक्कांक्ष्यते भक्तिभाजा ॥
मत्स्यः कूर्मो वराहो नरहरिरथवा वामनो रामभद्रः
कृष्णश्चाविर्भवन्सन हरिरिह कलयामास यद्यद्धरित्र्याम् ।
तत्सर्वं दुर्घटं वा किमथ सुघटमित्येकमेवानुयोगं
योगीन्द्रोयं स्मरेच्चेदय कलुषमयीं स्वां धियं मंक्षु मुश्चेत् ॥ ६६॥
हूणा अन्ये च नित्यं नवनवधिषणोन्मेषभूम्ना धरण्यां
अत्यन्तं दुर्घटानि क्षणलवकणिकाभ्यन्तरे निर्मिमाणाः ।
दृश्यन्ते यस्य विष्णोरणुतर कृपया, हन्त तस्मिन्नमेये
शक्याशक्यार्थचिन्तामहह ! यतिरसौ धन्यजन्मा करोति ॥ ६७ ॥
द्वीपान्तरोचरितवाग्विततीस्वगेहे
नक्तंदिवं निशमयन्त्यखिलास्समन्तात् ।
एतादृशानि घटनानि परस्सहस्त्रा-
ण्याविर्भवन्त्यनुदिनं किमसौ न वेद ।।
यतिरसौ कथयिष्यत ईदृशैर्विलिखितः प्रकृतार्थनिरूपणे ।
क उपयोग इति, प्रतिवच्मि भोः सुघटदुर्घटवाक्तव नोचिता ॥६९॥
ब्रह्मव्याप्तिपरिष्क्रिया। १३ ३ मुविरुद्धसमुच्चयवादिकथानुमृतिः प्रकृते विषये तु कथम् । इति किश्चिदपि ह्यपरामृशतां लपितं प्रति किं कथनीयमिह ॥ ७॥ तथापि प्रमो भगवदि परब्रह्मणि बुधैः पदार्थेष्वन्येषु प्रसरमुपयान्त्या लघुदृशा । असाङ्गत्योद्वोपः कथमपि न कर्तव्य इति हि प्रसिद्धं (१)सूत्रं तत्प्रथयति, विरोधो न हि ततः ॥ ७१॥ यदुक्तं-सूत्रं तत् सकलविपचेवप्यविहन- प्रचारं सद्भूत्वा भगवति विरुद्धार्थघटनाम् । अशेषां सोढव्यां गमयति, नहीदं सुविपहं यतीन्द्रः श्रीभाष्ये बहुश इदमुद्रपितमिति ।। ७२।। अत्र बमोवधेयं पुनरपि विशदं, नैवमापत्तिलेशो- प्यास्मादिकाम्यविरचितसुपरिष्कार ईशेऽवकाशम् । विन्देताशेषहेयप्रतिभटसुगुणाभवेनापनोयां आपत्तिं तात ! शश्वत् किमिति कथयसे ? शोभनं मौनमेकम् ॥७३॥ अशक्तिं प्रत्रूते भगवति भवान्, भास्करमुखा- स्त्ववद्यव्यासङ्गप्रसहनकुसृष्टीः प्रसुवते । इतीत्थं तत्त्वार्थे विलसति शिलालेखतुलिते भवन्तो वाह्याश्चेत्युभय इह दायादसुहृदः ॥ ७४॥ "पश्यति परेषु दोपानसतोपि सतोपि नैव गुणान् । विपरीतमिदं स्वस्मिन् महिमा मोहाजनस्येपः ॥" इति सुभाषितनीव्युदितक्रमो लसति वादिनि चेत् किमु विस्मयः । निगममौलिगुरूत्तमवागसौ कथमिहान्यजनेषु फलियति ॥ (१) श्रुतेस्तु शब्दमूलत्वादिति ब्रह्मसूत्रम् ॥
१४ ब्रह्मव्याप्तिपरिस्क्रिया । ७७॥ जातेर्व्यक्तिषु वर्तनस्य सरणिः कीदृग्घटेतेत्यमू चर्चा नैव मनागपि प्रथयितुं हेवाकिनस्स्मो वयम् । तत्र त्रैमतनिर्णयस्य गरिमा कामं विजेजीयतां विष्णो शक्तिनिकर्पपर्यवसितो वादः परं दुस्सहः ॥ ७६॥ शिवाकमणिदीपिकागतनिरूपणोक्तीरयं स्वयं यतिरुदाहरन् विमतवादसौवादवम् । न्यरूपयदवाधनं, निजमतानुकूल्येन ताः ततो घटयितुं मनागपि नशक्तिमांस्ताम्यति ॥ ता अन्यदीयफणितीरुचितार्थशून्या नैवाद्रियेऽहमिति चेद्यतिनोदितं स्यात् । स्यादेव किञ्चिदिव गौरवमस्य वाण्यां विस्मृत्य तां सराणि मेष मुधाप्रयासी ।। वेदार्थसंग्रहविवृत्युदिता तु मूक्तिस्संदर्शिताऽभवदहो इह वादिनैव । स्वाभीष्टभजन विचक्षणसूक्तिमेतां स्वात्मैव दर्शयति चित्रमिदं पटुत्वम्।। स्वरूपस्य चैकत्र संपूर्णवृत्त्या न वस्त्वन्तरे तस्य वृत्त्यर्हता स्यात् । इतीयं विशङ्का ब्युदस्तेति तत्र स्फुटार्थी चकास्त्येव भट्टार्यसूक्तिः ।। विशङ्कात्र कीदृक् ? ततस्तद्वयुदासादसिद्धयत् फलं कीदृगित्येवमार्यैः। विमर्श कृते सिद्धयतीशस्वरूपं क्वचित्पूर्णमप्यन्यवृत्तौ च शक्तम् ।। मूले तत्र तु पूर्वतश्च परतश्चाश्चर्यशक्तयाढ्यता ब्रह्मण्यच्युत उच्यतेस विशदं श्रीभाष्यकारैर्मुहुः । तसादेव विचित्रशक्तिविभवादेकत्र पूर्णस्य चा- प्यन्यत्र स्थितिरक्षतेति विशदीकारो बभौ टीकया ॥ ८२॥ ७८॥ ?
ब्रह्मव्याप्तिरक्रिया । १५ ८४॥ शङ्का शङ्कास्पदंचेत्युभयमिह हृदि ध्येयमार्यः, व्युदासः शङ्काया उच्यते किं ? किमथ तदपरस्येति जाते विमर्श । लक्षण्यं प्रमेये नियतमवगतं स्यात् , स्थले प्रस्तुनेऽस्मिन् शङ्काया एव सुष्टु व्युदसनमुदितं नापरस्येत्यगूढम् ।। ८३॥ वैलक्षण्यं यदिदमधुनोदश्चितं नैतदस्म- चित्तारूढं भवितुमलमित्येव वादी वदेच्चेत् । वैलक्षण्यं तदिदमपयत्संशयं स्पष्टवाचा व्याख्यास्यामि प्रणिहितमनास्सोवधत्तां यतीन्द्रः॥ ब्रह्मैतन्निर्गुणं वा किमथ गुणयुतं वेति चिन्तास्थले चेत् साद्गुण्यस्य व्युदासोऽभवदिति लिखितं, तर्हि नैर्गुण्यसिद्धिः । साद्गुण्याशङ्कनस्य व्युदसनमितिचेत् निर्गुणत्वं न सिद्ध्येत् एवंचात्र स्थलेपि व्युदसनफणितिः कस्य जातेत्युदीक्ष्यम् ॥ ८५॥ वृत्त्यर्हत्वब्युदासः कृत इति कथिते ह्येव बादीष्टसिद्धिः वृत्तेदीर्घट्यशङ्काव्युदसनमिति खल्वस्ति सुस्पष्टमूक्तिः । किं सिद्धम् ? पूर्णता नेत्यभिहितिदलनस्यैव सिद्धेध्रुवत्वात् पूर्णत्वं निर्विघातं विशयविरहितं चैव निष्पद्यतेत्र ॥ ८६॥ पूर्णत्वं चैतदसन्मतिपरिकलितप्रक्रियाशालि सिद्ध्ये- दित्येवं नैष वादी कथयितुमधुना शक्तिमासादयेत । यचोयं पूर्णतायामयमभिहितवान् तद्धि शङ्कापदेनो- पादाय क्षिप्तमासी द्वयुदसनपदतः श्रीयुट्टपादैः ।। ८७|| पक्षो ब्रह्म समाप्यवृत्तिरिति यत्तत्साध्यं अत्यद्भुता- मेयामोघमहिष्ठशक्तिविभवो हेतुः, परे वादिनः ।
८८|| ८९॥ १६ ब्रह्मव्याप्तिपरिटिक्रया । साध्यं दृपयितुं न पक्षवसतिर्हेतोरिति प्रब्रुव- न्त्यत्याश्चर्यगरियशक्तिमहिमा वादिष्वकम्प्यः परम् ॥ वेदान्तद्वयमस्ति वैष्णवधनं, तद्रलमञ्जूपिका- द्वन्द्वोद्घाटनदक्षिणं शृणुत भो स्सत्कुञ्चिकायुग्मकम् । विष्णोस्सर्वजगच्छरीरकतया निर्धारणा स्टेयसी निस्तुल्याम्पधिकाप्रमेयमहिमोदन्वावधीश्चेत्यदः ॥ येयेऽर्थाश्शास्त्रदृष्ट्या परमिह महितैस्संप्रतीता लसन्ति प्रायस्सर्वेपि तेऽस्मन्नयनविषयतां नाप्नुवन्त्यंशतोपि । तत्तादृक्षार्थतत्वप्रवचनसरणौ ब्रह्मणो वैभवस्य हासरस्वल्पोपि माभूदिति गुरुचरणा मेनिरे मान्यमेतत् ।। किं विस्तृतविलिखितः प्रतिवस्तु पूर्ण ब्रह्मेति सर्वगुरुभिस्समकण्ठमेव । संशोधिते विमलवमनि कण्टकौघ प्रक्षेपणे कृतमतिर्यतिरेप पुण्यः॥ सोयं श्रीयतिपुङ्गवो निजकृतौ विशे पुटे स्वाशयं ब्रूते पश्यत - नैव किश्चिदपि वा चोद्यावकाशो हरौ । नैरंश्यस्य बलिष्ठभावविभवादेवेति, नैतन्मुखा- दायात्यद्भुतशक्तिवैभववचः, द्वेषोऽस्य शक्ती हरेः॥ सारं पश्यत, पञ्चविंशतितमे पृष्ठे स्वकृत्यां यतिः स्वात्मीयस्य मतस्य भजनपटु श्रीभाष्यमूक्तयादिकम् । निस्संकोचमुदाजहार तदनु स्वेष्टानुकूल्येन ताः निर्वोढुं यतमान एव बहुशोप्यायासशेषः परम् ।। ९१॥ ९२॥ ९३॥
ब्रह्मव्याप्तिपरिक्रिया । १७ ९४॥ त्रयोदशपुटे यतिप्रवर एप यत्प्रोक्तवान् पुनस्तदनुवाचयत्वयमतीव संमशतः । ममाप्तिरिति पूर्तिरित्युभयमप्यभिन्नार्थक नचेद्भवति, दुर्हरा नियतमत्र वैयाकुली ।। पात्र क्षीरेण पूर्णं त्विति वदति जनः कश्चित् , अन्योभिधते पात्रे पूर्ण तदासीदिति, ननु वचनव्यक्तियुग्मेऽत्र बोध्यः । धीमद्भिर्भावभेदः, प्रथमवचसि तु क्षीरशेपस्य सत्ताऽ- प्युवुध्येतान्यवाक्ये न हि भवितुमलं क्षीरशेषावबोधः । एवं तत्तत्पदार्थः परमपुरुषतः पूर्ण इत्युच्यते चेत् युष्मद्वादप्रणाली कथमपि सरसा स्यात्तथा नास्ति सूक्तिः । एकैकत्रापि पूर्णस्स इति हि निगमान्तार्यों व्यलेखीत् सेयं पूर्तिस्समातेः कथमपि न भजेद्भिन्नतामित्यवेहि ॥ मृदुप्रज्ञा यद्यप्यगहनमपीमं सुविपयं न बोर्बु शक्तास्स्युः, निपुणमतयस्तु स्फुटतमम् । विजानीयुः कामं तदलमधुना प्रेतशिरसि प्रहारैर्भूयिष्ठेरिति विरमणेच्छा भवति नः ।। *लङ्कायुद्धहतान् हरीन् द्विजसुतं शम्बूकदोषान्मृतं सान्दीपिन्यभिजं मृतं द्विजसुतान् वालांश्च वैकुण्ठगान् । गर्भं चाऽऽर्जुनिसंभवं व्युदधरत्स्वेनैव रूपेण यः तस्यैतस्य विचित्रशक्तिविभवं नो सोढुमीष्टे यतिः ॥ काशीस्थो निलयात् किमर्हति निजात् काञ्चीपुरीवासिना साकं भाषितुमित्यसौ यतिवरः पृष्टो यदि स्यात्पुरा । ९७॥ ९८॥
? १८ ब्रह्मव्याप्तिपरिष्क्रिया । किं ब्रूयात् ? न घटेत तत् कथमपीत्येवोक्तवान् स्याद्धृवं तद्वै संप्रति सर्वजुष्टमभवत् , भूयः किलैतादृशम् ।। ९९॥ यद्यदुर्घटमित्यसौ यतिपतिर्मन्येत तत्सर्वम- प्यक्ष्णा पश्यति निर्विघातवटनं द्रक्ष्यत्यथो भूरिशः । क्षोदीयःक्रिमिनिर्विशेषजनताकृत्येषु सत्स्वीदृशे- प्वत्याश्चर्यमहिष्ठशक्तिकपरब्रह्मस्थितिं वेद कः? ॥ १००॥ किं वन्ध्यातनयेन भाषितुमलं विष्णुः ? किमाहो भवेत् व्योमाम्भोरुहसौरभग्रहपटुः ? किं वा सशृङ्गं शशम् । स्रष्टुं पाटवमाप्नुयादिति मुधाचोद्यानि केषाञ्चन श्रोत्रेणापि वयं दधीमहि न भोः, व्यासो मुनिः पृच्छयताम् ॥१०१॥ एकोक्तो वाक्यराशिस्त्वभिनवकलितैर्नादयन्त्रैरुपात्तो यावचन्द्रार्कमस्मिन् जगति दिशिदिशि प्रत्यगारं च शश्व॑त् । श्राव्यस्संकल्प्यमानो जयति कथमिदं जाघटीतीति शङ्का नेवासीदस्य भिक्षोः, भवति तु भगवद्वयापने सा गरिष्ठा ॥ १०२॥ लोकाचार्यसुसंप्रदायसरणी येये महाास्स्थिताः प्राधान्येन, यतीन्द्र! ते तु सकलास्सर्वेश्वरोत्कर्षणे । विश्रान्ता अतथाविधार्थकणिकाप्यायैन संभाव्यते प्रायस्त्वीदृशवैखरीप्रतिभटः पन्था भवत्संश्रितः ॥ १०३॥ वात्सल्यार्थविशोधनं च करुणारूपस्य संशोधनं भक्तानामपि जातिनाशविषयो न्यासानुपायत्ववाक् । अन्येन्येपि च सर्व एव विषया लोकार्यमूक्त्युज्ज्वलाः निस्तुल्याधिक विष्णुवैभव विशेषोदश्चनेदम्पराः ।। १०४॥
ब्रह्मव्याप्तिपरिष्क्रया। १९ आर्याणां हृदये दृढं निविशतामेकोयमर्थो महान् लोकाचार्यगुरूक्तिसक्तहृदयैर्योयोऽर्थ आम्नायते । यायाऽनुष्ठितिराहताऽस्ति च चिरात्तत्सर्वमप्यजसा सर्वेशस्य महिष्टवैभवपरिख्यात्यै परं कल्पते ।। १०५॥ तत्त्वस्यास्य विशेषतश्च विशदीकारे प्रवृत्ता वयं प्रत्यंशं च निरूपणं सुनिपुर्ण ग्रन्थैरनन्तैरिह । कुर्वन्तो हि तदातदा सुमनसां मोदाय कल्पामहे सच्छास्त्रार्थविदूषकेषु मनुजेष्वल्पाऽपि चिन्ता न नः ।। १०६॥ चिरादेव कक्ष्याद्वयी संप्रवृत्ता हरेस्सर्वलोकैकवन्धोः प्रभावम् । अनन्तं च सान्तं च संघोषयन्ती मतद्वन्द्वमप्येतदावश्यक भोः ।। भगवत्प्रभावमपकृष्य कश्चिदप्यभिधित्सते न यदि तहि भूतले । कथमस्तु तस्य विभवं विशेषतो विवरीतुमीगवकाशलम्भनम् ।। भगवान् स्वभूरिमहिमातिशायनं प्रकटीचिकीर्षुरिव मे मुखान्मुहुः विदुषां मुखेन सृजति स्ववैभवहसनैककृत्यनिरताः कृतीरपि ॥१०९॥ भगवानगाय(१)दधिगीतमच्युतः सितकृष्णरूपगतियुग्ममप्यहो। प्रलयेप्यनाश्यमिति, तद्गतिद्वयीगमनाधिकारिरचनापि तत्प्रिया। शास्त्रार्थाः क्षुभिता भवन्ति भगवल्लोकार्यसिद्धान्त इ- त्येवं कैश्चन जल्प्यते ननु तथैवास्तां तदेतद्यते । (१) अधिगीतम्-गीतायामिति यावत् । * शुकृष्णे गती येते जगतः शाश्वते मते । एकया यात्यनावृत्तिमन्ययावर्तते पुनः । * इतीथ गीतासूक्तिरत्रानुसन्धेया ।
२० ब्रह्मव्याप्तिपरिक्रिया । ब्रामं वैभवमप्रमेयममितं सम्यक्प्रतिष्ठापय- त्यस्मिन्नध्वनि सर्वथापि भगवान् सम्मोदवैवश्यगः ॥ १११॥ शास्त्रार्थान् क्षोभयित्वा भगवति परमं वैभवं ख्याप्यते चेत् तर्खेतन्नैव भूपा भवति भगवतः प्रत्युतावद्यमेव । इत्यप्युटेलवाचोऽभिदधतु कतिचित् नास्ति कापि क्षतिर्नः भाष्यादिग्रन्थभोग्या सरणिरनुपमा सेयमेवेति तत्त्वम् ।। ११२॥ यतीन्द्र ! भृशमर्थये प्रणतिशालिना मौलिना भगो ! करिगिरेस्तटे सुचिरवासमासादयन् । विवादपदवीं श्रितं विषयवृन्दमेकैकशः प्रकृत्य, मम वाचिकैस्तदनु शोधनां कारय ॥ ११३॥ एषु स्वामिषु पाण्डिती सुविपुला मेधा महिष्ठेति ये शंसन्त्यान्तरहर्षतश्चिरममी शंसेयुरेवं यते । अप्रामाणिकशुष्कवादविततिप्रख्यापनायासतो विश्रान्तियदि गृह्यतेऽत्रभवतेत्यव्याजमैच्या ब्रुवे ॥ ११४॥ प्रारब्धपण्डितमुखेष्वनिशं स्ववाचां कोलाहलान् प्रकटयन्नथ तत्तदीयम् । श्लाघावचो निशमयन् परितुष्टचित्तो वर्तस्य मास्स वितथानि वचांसि लेखीः ॥ ११५॥ अथवा जगतामुपकारविधौ भवतां कृतयो गणनां दधते । इति दीवविमर्शनहृष्टमनाः जगते किमपीह वदाम्युचितम् ॥ ११६॥ श्रीमच्छीकोहियालंयतिवरचरणे निस्तुला भक्ति संपत् कार्तश्यं चाप्रमेयं विलसतु जगतामाशरीरावसानम् ।
ब्रह्मव्याधिपरिक्रिया । २२ यस्मात्सोयं यतीन्द्रो भृशमुपकुरुते तच्चयाथात्म्यवोध- प्रेमूनां दासहस्तात्सुविशदविमलग्रन्थहन्दं सृजन् सन् ॥ ११७॥ *ग्रन्थज्ञेरपहास्यमित्यभिहितं यत्तस्य संस्थापने नानावर्त्मभिरुधतो यतिरयं तत्रैव पद्येऽन्ततः । ग्रन्थजैरपहास्यतां न्यगमयत् पश्चात्प्रभोः पूर्णतां प्रस्तुत्येदृशमामकीनकृतितस्तत्त्वार्थमाचिख्यिपन् । ११८॥ शतश्लोक्यामस्यां प्रतिकथकवादास्तु सकलाः समूलं निधूतास्सकलसुमनोहयसरणौ । अथापि प्रत्यर्थी वजनस विवे भ्रामकवचा- स्यपाराण्यु प्येत् कथमितरयाऽस्योपशमनम् ।। ११९॥ द्वारीकृत्य तु दासमेवमुचितं लोकोपकारं बहुं कुर्वन्नेष यतीश्वरो विजयतां लीलाविभूत्यां चिरम् । किश्च स्वादृतभूमिकोचितवचोवृत्ती परं ख्यापयन् आयुश्शेषमपोहतात्सकलसत्संभाव्यशान्त्युज्ज्वलः ॥ १२०॥ पुण्यैयशो लभ्यत इत्यमुव्याः प्रसिद्धवाचः प्रथमं शरव्यम् । सोयं यतिस्तद्धि यशोऽभिरक्षन् जीयाच्चिर स्वाङ्गलियोग्यशोफः ।। अथ सुकुमारमतीनां विशदावगमाय गद्यरूपेण । संक्षेपतो लिखामो ब्रह्मव्याप्तो विवक्षितान् अर्थान् ।। १२२॥ श्रियःपतिः परमकारुणिकः पुरुषोत्तमः श्रुतीतिहासपुराण दिव्य- सूक्तिप्रभृतिषु भूयोभूयस्समाम्नायते सर्वशक्तिरिति, विचित्रशक्ति- रिति, विलक्षणशक्तिरिति, अद्भुतशक्तिरिति, अघटितघटनापटीया- निति च । * पराऽस्य शक्तिर्विविधैव श्रूयते * इत्यादिरोपनिषदी फणितिरिह स्मार्यते ।
२२ ब्रह्मव्याप्तिपरिष्क्रिया। अद्भुतशक्तेरस्याः प्रणालीमाचार्यवर्या अभिरामतरमभिदधति । श्रीमती भगवतो भाष्यकृतो दक्षिणो बाहुरिति प्रथितः श्रीकूरनाथ- गुरुवरः श्रीमति वैकुण्ठस्तवे- किंसाधनः क्व निवसन् किमुपाददानः कस्मै फलाय सृजतीश इदं समस्तम् । इत्याद्यनिष्ठितकुतर्कमतर्कयन्तः त्वद्वैभवं श्रुतिविदो विदुरप्रतय॑म् । इत्यनुजग्राह । इलोकरनमिदमिह विवियते मनाक् । भगवान् सर्व- स्रष्टेत्यत्र कुचोद्यान्यवतारयन्ति परे; सहकारिकारणसनाथानामेव जगति सृष्टिकर्तृत्वसिद्धिरानुभविकी । सर्वस्रष्टुः परमस्य पुंसोपि सहकारिसाधनसनाथता तावदवश्यनिरूपणीया । अन्यथा तु तत्क- र्तृका सृष्टिरसंभविनी । यदि कानिचित्सहकारीणि निरूप्यन्ते, अथानुयुज्यते तेषां सृष्टिः केन कृतेति । परमात्मनैवेति वक्ष्यते । तत्सृष्टिकाले कानिपुनस्सहकारीण्यासन्निति पृच्छयते । सृष्टित्वाव- च्छिन्ने सहकारिसमवधानावश्यंभावात् । तत्सहकारितया केषाञ्चि- निरूपणे कृते पुनस्तेषां सर्गे कानि सहकारीणीति प्रश्नपरम्परा प्रस- पति । अन्ततः परब्रह्मणा असृष्टानि कानिचिद्वस्तूनि सन्तीत्यभ्युपेयं स्यात् । तथाच भगवतस्सर्वस्रष्टुत्वमपहीयेत । एवमन्यदप्यनुयुज्यते. सृजतो भगवतः किंस्विदधिकरणमिति । निराधारस्य स्रष्टत्वायोगात् । यदि यःकोपि देशोऽधिकरणत्वेन निर्दिश्यते, तर्हि पुनरनुयुज्यते तत्सृष्टिसमये किमधिकरणमासीदिति। पूर्ववदेवात्रापि प्रश्नपरम्परा निरवधिः प्रसपेत् । अन्ततो यःकोपे देशो भगवदसृष्टस्सिद्ध्येत् । अत्रापि भगवतस्सर्वस्रष्टुत्ववैकल्यमापतेत् ।
ब्रह्मव्याप्तिपरिप्क्रिया। २३ पुनः पृच्छयते ; प्रपञ्चं सृजतः परमात्मनः किमुपादानकारण- मिति । अत्रापि सहकारिकारणविषय इव प्रश्नपरम्परा विपत्तिश्च । अथ च प्रयोजनविपयेप्येवं प्रश्नः । किं वा फलमभिसन्धाय सृजति भगवानिति । * प्रयोजनमनुद्दिश्य न मन्दोपि प्रवर्तते * इति न्यायादवश्यमभिधेयं सृष्टेः किमपि प्रयोजनम् । तच्च सृष्टेः पूर्वमसिद्धमेव खलु । तथा च तस्य अवाप्तसमस्तकामत्वप्रथाया वैतथ्यं सिद्धम् ।-इतीमानि कुचोद्यानि पूर्वार्धनानूदितानि । अथ तावदुत्तरार्धेन समाहितिः प्रकाश्यते । * त्वद्वैभवं श्रुतिविदो विदुरप्रतय॑म् * इति प्रतिपादयन्नसौ श्रीकूरनाथगुरुवरः विचित्रविलक्षणशक्तिशालिनो भगवतः श्रुतिप्रतिपन्नेष्वर्थेषु चोद्याव- तारणम् असाम्प्रतमित्युपसंहृतवान् भवति । एवमेव निगमान्तमहादेशिकोप्यच्युतशतके (प्राकृतभाषामये) "पुरिसपहाणसरीरो भुवणाणं होसि अच्चुअ उवाआणम् । णिअसंकप्पसणाहो वहसि णिमित्तत्तणंवि अब्भुअसत्ती ॥" ॥छाया। पुरुषप्रधानशरीरः भुवनानां भवस्यच्युतोपादानम् । निजसंकल्पसनाथो वहसि निमित्तत्वमप्यद्भुतशक्तिः। इत्यनुगृह्णन् अन्ततश्च 'अद्भुतशक्ति' रित्युपसंहरन् परकीयकुचो- द्यानामिह संभवतां ब्राह्मविचित्रशक्तियोगनिरूपणमात्रनिरसनीयतां प्रदर्शितवान् । एवमेवमृचुपामाचार्यपादानां * श्रुतेस्तु शब्दमूलत्वात् * इतीदं ब्रह्मसूत्रमेव प्रधानमवलम्बनमिति प्रतियन्ति परमार्थविदः ।
२४ ब्रह्मव्याप्तिपरिष्क्रिया निर्दिष्टमेतत्सूत्रं * कृत्स्नप्रसक्तिनिरवयवत्वशब्दकोपो वा * इति पूर्वपक्षसूत्रोपरि सिद्धान्तमूत्रत्वेन समवतीर्णमिति विदन्ति विप- श्चितः । शास्त्रप्रतिपन्नेष्वर्थेषु कुतर्कमूलककुचोद्यप्रपञ्चनप्रयामप्रहा- णतो यथायथं प्रतिपत्तिस्साधीयसीति हि समुपदिशति सुत्रमिदम् । अथापि भगवतः प्रभावातिशयमसहमानाः परे नदीयव्याप्ति- विषये वितण्डाकौशलं विशदीकुर्वन्तीति तनिषूदनार्थमयमुपक्रमः ॥ भगवती श्रुतिराम्नासीत् * अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः * इति । अत्रेदं विचारपदम् । अणुभूतेषु वस्तुषु भगवतो व्याप्तिः कीदृशीति । 'नारायणस्सर्वमन्तर्बहिश्च व्याप्य स्थित' इनि श्रावयन्ती श्रुतिरियं जीवात्मनो निरवयवत्वेन अन्तर्दशाभावात् स्वघटकतच्छब्दार्थे जीवात्मभेदनिवेशनावश्यम्भावमपेक्षत एवेति परे मन्यन्ते । तदिदमपरे न सहन्ते । अन्तर्देशस्य सावयवत्वव्याप्यत्वे न तावत्प्रमाणोपलम्भः । निरवयवे प्रधानादौ अन्तर्देशाभ्युपगमेन व्यभिचारश्च । अभ्युपगतश्च प्रधानस्य निरवयवत्वपक्षो वेदान्तदेशि- कैस्तत्त्वमुक्ताकलापे * अव्यक्तं त्वन्मतेपि ह्यनवयवम् * इति । अथ कथयेयुः परे–अणुभिन्नद्रव्यत्वब्याप्यन्वस्यैव अन्तर्दश स्वीकरणमिष्टं नः; चेतनस्य अणुद्रव्यत्वादन्तर्दशाभावेन उक्तश्रुनि. संकोच आवश्यक एवेति । अत्रैवं समादधते । * य आत्मनि तिष्ठनात्मनोन्तरतरः * अणोरणीयान् * इत्यदि श्रुत्या, * कविं पुराणमनुशासितारमणोरणीयांसमनुस्मरेद्यः * इति गीतावचमेन च चेतनेप्यन्ताप्तिबोधनादन्तर्देशावश्यकत्वेन श्रुत्यादिविरुद्धम्नादृश- नियमो नोपादेय इति ।
ब्रमव्याप्तिपरिष्क्रिया। जिज्ञासाधिकरणचनप्रकाशिकामूक्तिरियमवयेया-- "य आत्मनि तिठन्नित्युक्ते, वेद्यामग्जिनियति, तिले तैलं तिती तेवन बहिरवहि स्थितिसाधारण्यात् तद्वैशवार्थ माह * आत्मनोन्नर इति" इति । अन्तरशब्दस्य पदपार्श्वसंयोगिपरत्वे * आत्मनोन्नरः * इत्येतावतैव बहिस्स्थितेरपि लाभात् * आत्मनि तिछन् * इत्यस्य वैयर्थ्य दुःपरिहरम् । आत्मनि तिनित्यस्य च वेद्यामग्निस्तिष्ट- तीतिवत् वहिस्थितिपरत्वम् उदाहृतश्रुतप्रकाशिकयैवावगम्यत इति तस्यान्यथार्थवर्णनमनवकाशपराहतमित्यवधारणीयम् । आत्मनि अन्तर्देशाङ्गीकार आवश्यक इति भगवद्भाध्यकार- मूक्तिश्च स्फुटमवगमयति । तथाहि-उदाहृतपूर्वगीतावचनबटकस्य * अणोरणीयांसम् * इत्यस्य अर्थ भाषमाणो भा यकार: “जीवा- दपि सूक्ष्मतरम् * इत्यन्वग्रहीत् । आत्मन्यन्न शानङ्गीकारे ईश्वरम्य तदपेक्षया सूक्ष्मतरत्वं न निर्वहेदिति मितमतिरप्यनायासमवगच्छेत् । जीवादपि सूक्ष्मतरम्" इत्यस्य तदपेक्षया अपकृष्टपरिमाणवन्त- मिति नार्थः । तथा सति तु भगवतो विभुत्वप्रतिपादिकाः श्रुतिस्मृ- नयो व्याकुप्येयुः । नापि तदीयपत्पाश्वसंयोगित्वं तदर्थः । तस्य सूक्ष्मतरशब्दार्थत्वाभावात् । किं तु तदल्पदेशसंयोगित्वमेव तदर्थ इति वक्तव्यम् । तथाच आत्मन्यन्तदेशस्य तदपेक्षयाऽल्पस्यानङ्गी- कारे तादृशसूक्ष्मतरत्वानिर्वाहः स्पष्ट एव विदुपाम् । मयि सर्वमिदं पोतं सूत्रे मणिगणा इव * इत्यनेनापि वचनेन तसिद्धिः । भूत्रे मणिगणवत् ब्रह्मणि चेतनाचेतनात्मक- प्रपञ्चस्य प्रोतत्वं नाम तत्संयुक्तदेशापेक्षया सर्वदिसंबन्धित्यमेवेति तादृशमोतत्वनिर्वाहाय आत्मन्यन्तदेंशावश्यकत्वमवसेयम् । उदाहृत- श्लोके सूत्रस्थानीयत्वं ब्रह्मणः कथितमवहिने रनुसन्धेयम् । " 4 २६ ब्रह्मव्याप्तिपरिष्क्रिया । भगवद्गुणदर्पणेपि भट्टपादैरन्वग्राहि * अणुर्वृहत्कृशस्स्थूलः इत्यत्र अणुपदव्याख्यानावसरे-अतिसूक्ष्मदहराकाशाव्यक्तजीवा- नुप्रवेशसामर्थ्यात् अणुः" इति । अत्र अव्यक्तदिग्रहणं-यथावा अव्यक्तादावीश्वरस्यान्ताप्तिस्तथा जीवेपीति दृष्टान्तार्थम् । सा च अघटितघटनाशक्तिनिवन्धनेति ज्ञापयितुं "अनुप्रवेशसामर्थ्यात् " इत्यभाषि । श्रीशठकोपमुनीन्द्रदिव्यसूक्तिप्रथमदशकदशमगाथाब्याख्यायां यतिपरिबृढप्रियशिष्यैः श्रीकुरुकेश्वरैरन्वगृह्यत- -- ''அதிஸூக்ஷ்மமாயிருந்த அசித்வஸ்துக்களிலும் வியாபித்து அவற்றினுள்ளே ப்ரகாசிக்கிற சித்வஸ்துக்களிலும் ஸ்தூல மான அண்டத்தில் வ்யாபித்தாப் போலே அநாயாஸத்தாலே அஸங்குசிதனாய் ” इत्यादि । तत्रैव स्फुटमन्वग्राहि दशोपनिषद्भाध्यकारैः श्रीरङ्गरामा- नुजयतिपतिभिरपि-"एकैकस्मिन् जलपरमाणौ अतिविशाल- ब्रह्माण्ड इव व्यक्तिषु जातिवत् पर्याप्तवृत्तिः" इति । स्थाने चैतत् ; यथा सर्वप्राकृततत्वापेक्षया सूक्ष्मत्वेन प्रमाण- प्रतिपन्नस्य जीवस्य खापेक्षया स्थूलभूतेष्वव्यक्तादिसर्वतत्त्वेष्वन्त- र्व्याप्तिः प्रमाणवलादिष्यते, तथा जीवापेक्षयापि सूक्ष्मतरत्वेन प्रमाण शतप्रतिपन्नस्य सर्वेश्वरस्य स्वापेक्षया स्थूलभूतचेतनादियावद्रव्ये- प्वन्तर्व्यातिः प्रमाणवलादेवाभ्युपगम्यत इति नात्र दोपलेशावकाशः । जीवस्य सर्वप्राकृततत्वापेक्षया सूक्ष्मत्वं च *अच्छेद्योयमदाह्योयम् इत्यत्र गीताभाष्ये व्यक्तम् । तत्रत्या चेयं सूक्तिः--" सर्वगतत्वा- दात्मनः सर्वतत्वव्यापनस्वभावतया सर्वेभ्यस्तत्वेभ्यस्सूक्ष्मत्वात्" ब्रह्मव्याप्तिपरिष्क्रिया। इति । तत्रैव तत्पूर्वतनस्य * अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् *इत्यस्य व्याख्यानावसरे " तदात्मतत्वमविनाशीति विद्धि । येनात्मतत्वेन चेतनेन तद्व्यतिरिक्तमिदमचेतनतत्वं सर्वं ततम्- व्यातम् ; व्यापकत्वेन निरतिशयसूक्ष्मत्वादात्मनः"इति चाभाष्यन; केचिदूचुः-~* अन्तर्बहिश्चेति श्रुतिसंकोचानावश्यकत्वाय जीवेऽन्तर्देशाङ्गीकारे तत्राप्यन्तदेशोऽङ्गीकार्य एवं नवापीत्यनवल्या- पत्तिरिति । अत्रैवं समादधते; यत्र विशिल्यान्लयातिः श्रुत्या न बोधिता, तत्र (जीवान्तर्देशे) अनवस्थाभिया अन्तर्देशो नाङ्गीक्रियते । जीवत्वावच्छिन्ने अन्तर्व्याप्तेः श्रुतिबोधितत्वात् * अन्तर्बहिश्चेति श्रुतेरवाशक्यसंकोचत्वमथवाऽनावश्यकसंकोचत्वं वेदितव्यमिति । वस्तुतो जीवे ब्रह्मवरूपातिरिक्तोऽन्तर्देशो नाङ्गीक्रियत इति पर- मार्थः॥ ॥ इति प्रथमः परिच्छेदः ॥ ॥ अथ द्वितीयः परिच्छेदः॥ ॥ विज्ञापनम् ॥ अथ द्वितीयः परिच्छेदोऽस्माभिरतितरां वैपुल्येन विलिखितो- भूत् । तावतोपि ग्रन्थराशेरिदानीमिह प्रकाशनं नाभिलप्यते । प्रकाशितचरैश्शताधिकैः पद्यैरेव प्रायश्चारितार्थ्याद संग्रहेण कतिचन वाक्यराशयः केवलमुद्धृत्य प्रकाश्यन्तेऽत्र । पूर्वपक्षग्रन्थे षष्ठपृष्ठोपक्रमे-"प्रतिवस्तुपूर्णत्वसर्वव्याप्तत्वयोविरोधः शास्त्रबलात्सोढव्य इत्ययमंशः सुस्पष्टं प्रतीयते " इत्यलेखि। एतच सिद्धा- न्त्यभिप्रायानुवादरूपम् । वाक्यानुपूर्वी तु पूर्वपक्षिणां यतीनामेवेनि २८ ब्रह्मव्याप्तिपरिक्रिया। निश्चमचम् । प्रतिवस्तुपूर्णत्वं सर्वव्याप्तत्वविरुद्धमित्यभिप्रायः पूर्व- पक्षिणामनर्गलो जागर्तीति सिद्धम् । तदिदं प्रतिवस्तुपूर्णत्वमेवैतेषां दुदृषयिपितमित्यपि सिद्धम् । भगवान् वेदान्तदेशिकस्तु न्याय- सिद्धाजने कण्ठरवेण प्रतिपादयति प्रतिवस्तुपूर्णत्वमेव ब्रह्मणः । एवंच पूर्वपक्षिणां प्रत्याख्यानसंभ्रमः श्रीमनिगमान्तदेशिकादेव्य- सूक्तिगोचर एवेति निस्संशयविपर्यय निपुणनिधारयितुं प्रभूयते । अन्ततोगत्वा पूर्वपक्षिणामव्यवस्थितचित्तत्वं वा स्वीकार्यं भवेत् । यत इमे लिखन्ति कचित् “ सर्वव्याप्तत्वविरुद्ध प्रतिवस्तुपूर्णत्वं ब्रह्मणि दुरुपपादम्" इति ; अपरत्रच तादृशपूर्णत्वप्रतिपादकदेशिकादिसूक्तीर प्युदाहरन्ति । ग्रन्थलेखनवैखरी सम्यगम्यसनीयेति प्रतिबोधयामः । अथ अष्टमपृष्ठ "तत्र जातिविषये प्रयुक्तस्य परिसमाप्तिपदस्य स्वरूपसमाप्त्यर्थकत्वेपि न ब्रह्मणि तत्सम्भवः ; तद्विषये तदनुक्तेः " इत्यले- रिव । अत्र तद्विषये तदनुक्तेः इत्ययं हेतुरपहास्यः । mmsaarees KC" श्रीरङ्गरामानुजमुनीन्द्रसुस्पष्टसूक्त्यञ्चनवधान । अथ नवमपृष्ठे---" एवं सति शब्दान्तरेण स्वरूपसमाप्तिरव....ब्रह्मणो- झीकृता स्यादिति” इत्युक्तम् । अत्र नचवाच्य मित्येतद्वर्जनीयम् । तच्च अभिनिवेशवशाद्विलिखितमिव यतिवरैः । शब्दान्तरेण स्वरूपसमा- तिरेव ब्रह्मणोङ्गीकृतेत्यत्र न कापि विप्रतिपत्तिः । यतीनामन्तःकरणं स्वयमेव जानाति तदिदमिति प्रकटमभूत् । तद्वयं प्रहृष्यामश्च । यदुक्तम्-" स्वरूपसमाप्तेरत्रैव विद्यमानत्वरूपतया तदभ्युपगमे अन्यत्र विद्यमानत्वं सर्वात्मना न घटते" इति। अत्र किं वक्ष्यामः । अहो! विलक्षणमर्मापां परब्रह्मशक्ति विशेषविज्ञानवैशारद्यमिति संतोष्टव्यमेव ब्रह्मव्याप्तिपरिष्क्रिया। २९ परम् । परं ब्रह्माप्यसदादिनिर्विशेपमेवेति सुस्पष्टं प्रतिपादयतामे तेषां यतिवराणां पारमैकान्त्यं परमशोभनमिति प्रमोमुद्यामहे । अत्रेदमवधेयम् । पूर्वपक्षी तद्वर्याश्च प्रकृतविषये पुनःपुनरेक- मेव वादं विवृण्वते-क्वचित्पूर्णत्वे सति अन्यत्र विद्यमानत्वमसंभ- वीति । न्यायसिद्धाजनरत्नपेटिकायामपि श्रीमत्तिरुप्पुटकुळिस्वामि- पादैलिखितमस्ति-"किमिदं प्रत्येकं परिसमाप्यवर्तमानत्वम् ? न तावत्त- दितरावृत्तित्वे सति तद्वृत्तित्वम् ; विभुरूपे ब्रह्मणि तदसंभवात् बहिर्व्याप्ति- विरोधाच " इति । एतदेव पिष्टपेषणचर्वितचर्वणादिनीत्या यतिभि- रप्येतैरसकृद्विलिख्यते । तदिदं श्रीदेशिकदिव्यसूक्तिविमर्शविरह- निवन्धनमेवेति सुष्ठु निरूप्यते । न्यायसिद्धाजने ईश्वरपरिच्छेदे " एवमेव सर्वत्रापि पूर्ण एव" इत्यनुगृह्य सद्य एव अन्यत्र विद्यमानस्य अन्यत्र पूर्णत्वं न स्यादितिचेत् ” इति चोद्यमुत्थापितम् । अस्य चोयस्य कथमुत्थितिरिति विमृश्यतां विवेकिभिः । सर्वत्रापि पूर्ण एवेति प्रथ- मोदिते वाक्ये स्वरूपसमाप्तिरेव अभिसंहितेति स्पष्टमेव खलु भवति । अन्यथा अन्यत्रेत्यादिना चोद्यावतारणस्याप्रसक्तः । अथ च उत्थापितं तदेतच्चोयं कीदृशं पर्यवसानमासादितमिति प्रेक्षणीयम् । पूर्णत्वं निषिद्ध्यते ?'' इत्युपक्षिप्य तदनु बहुधा व्यकल्प्यत । तत्र प्रथमो विकल्पः “ किमत्रैव विद्यमानत्वम्" इति । तत्रोक्तम्-" तस्या- स्माभिरनभ्युपगमात्" इति । एकत्रैव विद्यमानत्वं नामाभिरङ्गीक्रियत इति सत्यमेवैतत् । अन्ततश्च “ यथागमं सर्वत्र पूर्ण एव भगवान् " इत्युप- संजढे । तत्रैव * श्रुतेस्तु शब्दमूलत्वात् इति ब्रह्मसूत्रावष्टम्भो बलवान- भूदाचार्यपादानाम् । श्रीमद्रहस्यत्रयसारमूलमन्त्राधिकारे - 4 வாவனுக்கு வதிவவாவணை தமாவது ஓரொரு உவா யூவஜிவூஜெயமே வவ-த்தையும் நிர்வஹிக்கவல்ல பக்தி "किमिदं - ३० ब्रह्मव्याप्तिपरिष्क्रिया யுடைத்தாயிருக்கை : அல்லது வஸ்துதோறும் ஸ்வரூபஸமாப்தி யன்று. இது கொள்ளில் வஹிவாவிக்கு விரகமாம். ) इत्युक्तरीत्या न्यायसिद्धाञ्जने वा प्रामाणिकश्रीमद्रङ्गरामानुजयती- न्द्रकृते तद्व्याख्याने वा नैव लिखितम् । तत्रैवेश्वरपरिच्छेदे-ईश्वरो न जगदुपादानम् ; जगन्निमित्तत्वात् । यो यन्निमित्तं न स तस्योपादानम् ; यथा घटस्यकुलाल इतिचेन्न ; धर्मिग्राह- कविरोधात्" इत्यनुगृहीता सूक्तिरप्यवधेया । निमित्तकारणस्य सत उपादानकारणत्वमपि न घटत इति चोयं धर्भिग्राहकविरोधोक्तया खल्वपास्तम् । “ धर्मिग्राहिकया श्रुभ्या उपादानत्वेन प्रतिपन्नत्वेन तद्विरो- धादित्यर्थः" इति तत्र रङ्गरामानुजमुनीन्द्राख्यायि । प्रमाणप्रति- पन्नोर्थः कुचोधेरविचाल्य इति निष्पन्नम् । तथैवात्राप्यन्तर्यामि ब्राह्मणादिप्रतिपन्न प्रतिवस्तु स्वरूपसमापनं नैवाक्षेप्यमिति निष्पद्यते । तत्रैवेश्वरपरिल्छेदे वस्तुपरिच्छेदराहित्यनिरूपणप्रकरणे स्वामि- मिरन्वग्राहि - एतदुक्तं भवति ; स्वरूपतो गुणतो विभूतितो वा केन- चिदाकारेण कुतश्चिदपकर्षो वस्तुपरिच्छेदः" इति । ब्रह्मतावदेतद्रहितम् । पूर्वपक्षिमतानुसारेण एकत्र समाप्तस्वरूपमन्यत्र व्याप्तुं न प्रभवति ब्रह्मेत्यङ्गीकारे वस्तुपरिच्छेदयुक्तमेव तद्ब्रह्मेत्यकामतोप्यभ्युपगन्तव्यं भवति । एतत्सर्वं हृदि निधायैव श्रीभाष्यकारैरन्वग्राहि-" सकले- तरविसजातीयं श्रुत्येकसमधिगम्यं सर्वशक्तियुक्तं ब्रह्म........परिमितशक्तिक- वस्तुचोधं न तत्र प्रसज्यते " " लोकदृष्टविसजातीये परे ब्रह्मणि तत्रतत्रा- दृष्टास्सहस्रशश्शक्तयस्सन्तीति न किञ्चिदनुपपन्नम् " इत्यादि । *यथागमम् इत्यनुगृहन् देशिकमणिरपि पूर्वाचार्यानेव सत्यमनुधावति । कृशानानित्याधभिहितनयात्तर्कसरणि- पगल्भत्वोत्कट्याद्वयमिह यथाकाममखिलम् । Accn. No... G ...... 000000000 ब्रह्मव्याप्तिपरिष्क्रिया । ३१ विपर्यस्तं कर्तुं ह्यपि सुकुशला इत्यभिदधे प्रबन्धे यत्रायः, तदुदित्वचलिष्टतु तथा ॥ अथ यदुक्तं पूर्वपक्षिभिः-- -- सर्वव्यातत्ववत् स्वरूपसमाप्तत्वस्यापि वाचनिकत्वे हि तदभ्युपगम्य तयोविरोधस्य विचित्रशक्तिपरिहार्यत्ववर्णन शोस्त" इति । अत्रोच्यते । सहस्रगीत्यां । परन्दतम् पवैयुद्ध" (1750 5 5T LITGOD DAMAST) इतीमां गाथां व्याचक्षाणो दशोपनिषद्भाव्य- कारो यतिप्रवर:-" एकैकस्मिन् जलपरमाणौ अतिविशालब्रह्माण्ड इव व्यक्तिषु जातिवत् पर्याप्तवृत्तिः" इत्यन्वग्रहीत् । पूर्वपक्षिगां विश्वामित्र- सृष्टेरवकाशलेशमप्येमा पङ्क्तिर्न सहत इति किं विशिष्य वक्तव्यम् ? अस्या एव गाथाया व्याख्याने (1667 odor Com Snipp- नाम्नि) प्रकृतपूर्वपक्षियतिधर्मणा यतिना लिख्यते--" अत्र केचित् , भग- वान् अगोरत्यन्ताणुः महतोत्यन्तं महानित्याहुः; तदयुक्तम् ; अगोरन्तदेशस्य विभोवहिदेशस्य चाभावेन तदयोगात्.” इति । तदिदं प्रदर्शितचरगीता- भाज्यादिमुक्तीनामेव प्रत्याख्यानमिति सुगमं विदुपाम् । वेदार्थसंग्रहतात्पर्यदीपिकायाम् 'निरंशे प्रतिपदार्थ पूर्णवर्ति- न्यपि स्वरूपे अंशशब्दव्यवहारः एकस्मिन्नेव वस्तुनि स्वरूपस्य पूर्णवर्तितया अन्यत्र वृत्त्ययोग्यत्वशङ्काव्युदासार्थः' इत्यनुगृहीतं पूर्वपक्षिभिः पञ्चदशे पृष्ठे प्रदर्शितम् । सैपा सूक्तिरेकैवालं प्रत्यर्थिकुचोद्यकुण्ठने । एक- स्मिन् वस्तुनि परिपूर्णवृत्तिकस्य स्वरूपस्य अन्यत्र वृत्तिरयुक्ता स्यादिति शङ्काया व्युदासः फलतीति स्पष्टतरमत्रानुगृहीतम् । या शङ्का पूर्वपक्षिभिः क्रियते तस्या एव हि व्युदास उच्यतेत्र । एकत्र समाप्तस्वरूपस्य अन्यत्र वृत्तियोग्यत्ववादो व्युदस्यत इति नात्र सूक्तिसन्निवेशः । अपितु, अन्यत्र वृत्तियोग्यत्वं कथं स्यादिति शङ्काया एव व्युदासः कण्ठरवेणोक्तः । शङ्कायां व्युदस्तायां एकत्र ३२ ब्रह्मव्याप्तिपरिष्क्रिया । ........ ....... समाप्तस्वरूपस्याप्यन्यत्र वृत्तियोग्यत्वमव्याहतमशनीयं चेति फल- तीति तदिदमल्पज्ञोप्यनायासेन जानीयात् । अस्याशङ्काया अंशशब्देन व्युदासः कथं फलतीति पृच्छेयुः परे । अवधत्त निरूपयामः । वेदार्थसंग्रह मूक्तिमालिका तत्रैवम् :- सर्वशक्तियोगात् स्वैश्वर्यवैचित्र्यमुक्तम् । तदाह * विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् * इति. अनन्तविचित्रमहाश्चर्यलयं जगत् मम अयुतायुतांशेनात्मतया प्रविश्य सर्वं मत्संकल्पेन विष्टभ्य अनेन रूपेण अनन्त. महाविभूतिः अपरिमितोदारगुणसागरः निरतिशयाश्चर्यभूतः स्थितोहमित्यर्थः । तदिदमाह * एकत्वे सति नानात्वं नानात्वे सति चैकता । अचिन्त्यं ब्रह्मणो रूपं कस्तद्वेदितुमर्हति * इति । ब्रह्मव्यतिरिक्तस्य कस्यचिदपि वस्तुनः एकस्वभावस्य एककार्यशक्तियुक्तस्य एकरूपस्य रूपान्तर- योगः स्वभावान्तरयोगः शक्त्यन्तरयोगश्च न घटते ; तस्यैकस्य परस्य ब्रह्मणः सर्ववस्तुविसजातीयतया सर्वस्वभावत्वं सर्वशक्तियोगश्चेति एकस्यैव विचित्रा- नन्तनानारूपता च.........न विरुद्धेति वस्तुमात्रसाम्याद्विरोधचिन्ता न युक्ते- त्यर्थ.........अतः विचित्रानन्तशक्तियुक्तं ब्रह्मेत्यर्थः ।" इत्यादिः । एता- दृशविचित्रशक्तियोगमेव व्यनक्ति भगवान् * विष्टभ्याहमिदं कृत्स्न- मेकांशेन स्थितो जगत् * इत्याचक्षाणः । वस्तुतः एकांशेनेति वक्तुं योग्यतायामसत्यामपि तथोक्तिः * अङ्गुल्यप्रेण तान् हन्याम् * इत्यादि- वत् प्रभावातिशयप्रख्यापने परं पर्यवस्यति । दुर्वचविचित्रप्रभा- वातिशयशालिनि मयि माभूवन् कुचोद्यानि-इत्यु ष्यतीव भग- वान् । इत्यमुमभिप्रायमेव तात्पर्यदीपिकायां भट्टपादाः प्रादर्शयन् । “ यस्यायुतायुतशतैककलांशकांशे विश्वं विचित्रचिदचित्पविभागवृत्तम्” इति स्तोत्ररत्नयूक्तिव्याख्यातुभिराचार्यपादैरपि संदर्शितमिदमित्यलं विस्त- रेण ।
ब्रह्मव्याप्तिपरिष्क्रिया। .......। निरतिशयविचित्रं भगवत्स्वरूपयाथात्म्यं यथा ह्यासुरप्रकृति- भिनावगम्यते तथा देवप्रकृतिभिरपि बहुभिर्नावगम्यत एवेति नाय- मपूर्वो विपयः । “त्वां.. ..नेवासुरप्रकृतयः प्रभवन्ति बोद्धुम्' इत्यनु- जग्रहुषामाचार्याणामेव मुखारविन्दात् " मायाबलेन भवतापि निगुह्यमानं पश्यन्ति केचिदनिशं त्वदनन्यभावाः" इत्ययमपि श्लोकः प्रादुरासीदिति प्रसिद्धमेतत् । अत्र च * केचित् * इतीदमवधेयम् । आद्यलोकाचार्यगुरुवरश्रीसूक्तिरेषा "கார்த்தவீர்யார்ஜுநன் என்பானொருவன் தான்ராஜ்யம்பண்ணுகிறகாலத்தில் ஆரேனுமொ ருவர் பாபசிந்தனைபண்ணினாருண்டாகில் அவர்கள் முன்னே கையும் வில்லுமாய் நின்று அவற்றைத்தவிர்த்துப்போந்தானென்றால் இது உப பந்தம் என்றிருப்பர்கள் ; ஒருக்ஷத்ரமநுஷ்யனுக்கு இது கூடுமென்றி ருக்கிறவர்கள்-ஸர்வசக்தியாய் ஸர்வாந்தர்யாமியாயிருக்கிற ஸர்வேச் வரன் இப்படிவ்யாபித்துநின்று நோக்குமென்றால் இது அநுட்பக்க மென்பர்கள். ஜாதி வ்யக்திதோறும் பரிஸமாப்யவர்த்திக்குமென் றால் அசித்பதார்த்தத்துக்கு இது கூடுமென்றிருப்பர்கள், பரம்சேதநனா யிருப்பானொருவன் பரிஸமாப்யவர்த்திக்குமென்றால் இதுகூடா தென்று ஸம்சயியாநிற்பர்கள்.'' (ஒன்றுந்தேவுஈட்டுவவேபத்தில்.) इति । संवत्सरसहस्रात्पूर्वं स्थितवतां भगवत्प्रभावविप्रतिपन्नानां वंश- परम्परा अद्याप्यनुस्यूता प्रसरतीत्यत्र न कोपि विस्मयः । ज्ञानभक्तिविरक्तिसम्पत्समृद्धा एते यतिपरिबृढाः (२७ तमे पुटे) महीयसा संरम्भेण विलिखन्ति पश्यत, "नहि गोत्वाश्वत्वे विचित्र- शक्तिब्रह्मसहस्रेणाप्येकत्र समावेशयितुं शक्ये भवतः" इति । यतीनां सतां किमित्येतावानाग्रहो भगवति । " ब्रह्मसहस्रेणापि ” इति लिखन्त एते परब्रह्मणः परमशक्तौ परमं प्रद्वेषमधिवहन्ति न वेति प्राज्ञास्वयं प्रज्ञातुं प्रभवन्ति । परस्य ब्रह्मणः शक्तिर्नास्तीति साधने किमेता- 5 ३४ ब्रह्मव्याप्तिपरिष्क्रिया। वता संरम्भेण ज भवितव्यं यतिवराणामिति नासिकाग्रे निदधत्यङ्गु लिमास्तिकमहाभागाः । यदि तत्परंब्रह्म यतिभिरमीभिस्साक्षात्त्रि- येत, तर्हि नूनं महांस्तुमुलस्संगरस्संपद्येतैवेत्यपि प्राहुर्वालारण्यस्वा- मिनः । भगवतः पाइँगुण्ये शक्तिं लक्षयन्तो भट्टपादाः “ सा ते शक्ति- स्तुकरमितरच्चेति वेलां विलंध्य । इच्छा यावद्विहरति सदा रङ्गराजानपेक्षा" इत्यन्वगृह्णन् । नरसिंहावतारानुभवप्रकरणे च " विरुद्ध वैयग्रीसुघटितस- मानाधिकरणे नृसिंहत्वे बिभ्रत्" इत्यनुजगृहुः । इदमादिपरश्शतसूक्ति- विरुद्धतया स्वच्छन्दं लिखतां, तत्रापि भगवत्प्रभावहसनैदम्पर्यमावि- कुर्वतां चामीपां यतिवराणां शुभां मतिमनुगृह्णात्वर्थितार्थपरिदानदी- क्षितो भगवानित्याशासते वैदिकवरिष्ठाः । अन्ततश्च श्रीमनिगमान्त- महादेशिकानां " भक्तस्य दानवशिशोः परिपालनाय भद्रां नृसिंहकुहनामधिज- ग्मुषस्ते । स्तम्भैकवर्जमधुनापि करीश नूनं त्रैलोक्यमेतदखिलं नरसिंहगर्भम् ॥" इतीदं श्रीसूक्तिरत्नमुपहरामः । इयमेकैव सक्तिरलं प्रतिपक्षिणां वाद- विधूननायेति सत्यं निरर्थक एवान्यो ग्रन्थविस्तरः । ॥ पूर्वपक्षग्रन्थपरिशोधकमहाशय - प्रज्ञावैभव - परीक्षा ॥ अभिनवभट्टवाणविरुदाढ्यमहामतिना निजगुरुसूक्तिभक्तिविवशेन निजानिलयात् । अवहितवीक्षणेन कृतमुद्रणपुस्तकम- प्यहह विगीदोषकलुपीकृतमस्ति कथम् ।। इदमवधेयम् । पूर्वपक्षिभिर्यतिवरैः प्रणीतो ग्रन्थः पूर्णत्वविचाराभि- धानः कुम्भघोणनगरीय-कोमलाम्बामुद्रायन्त्रालये मुद्रितः । तत्रत्यः श्रीमान् रायम्पेट-कृष्णमाचार्यमहाशय एव प्रकृतग्रन्थमुद्रापक इति ब्रह्मव्याप्तिपरिप्क्रिया । ३५ प्रकाशितं प्रेक्ष्यते । सचासौ महान् प्रथयति मुखपत्रे-श्रीकोलियाल- संयमिसार्वभौमचरणकमलसेवासमासादितसकलश्रेयस्कं महामहोपा- ध्यायं च स्वात्मानम् । एतादृशेन महात्मना स्वाचार्यमूक्तिप्रावण्य- गरिम्णा स्वस्थाने सावधानं परिष्कृत्य प्रकटितेऽस्मिन् लघीयसि [कतिपयपत्रमात्रपरिमिते] ग्रन्थे विवेकिगर्हणीया दोषाः किमिति समापतिता इति न जानीमः । “प्रमादादक्षरस्खालित्यसंभवः अव- जनीय एव; कोत्र विचारः?" इति परे कथयेयुः । अत्र वदामः । (बहून् दोषानुपेक्ष्य द्वित्रान् प्राधान्येन प्रदर्शयामः ।) पूर्वपक्षग्रन्थे द्वितीयपुटे "तस्य निरवयवस्य बहुभवनं च नोपपद्यते" इत्यत्र बहुभवनमितिपदस्थाने बहुवचनमिति निपतितम् । अष्टाविंशे पुटे- "स्वरूपावयवैतदन्यतर" इत्येतत् “स्वरूपावयवैस्तदन्यतर" इत्येवं- रूपं निपतितम् । अर्थज्ञानमन्तरैव शोधनकर्म निर्दीढमिति निर्धारण- मव्याहतं हि भवति । एतादृशानां दोषाणामक्षरसंयोजकस्य अन्यस्य वा शिरसि निपातनं युक्तिसहं वेति विमृशन्तु विचक्षणाः । किञ्च, तत्रैव एकादशे पुटे, “यत्तूक्तं श्रुतप्रकाशिकायाम्- एकस्मिन् ........प्रतीयत इति । तन्न." इत्यवलोक्यते । श्रुतप्रका- शिकायां यदुक्तं तदसंगतमिति महामतिस्स्वाचार्योऽनुगृह्णातीति मन्यमानो महानन्दभरितश्च महामहोपाध्यायस्तादृशप्रतिपत्तिप्रका- शकसंकेतविन्यासानकार्षीत् । श्रुतप्रकाशिकामुक्तिखण्डनाभिनिवेशः प्रतिपक्षिवाणामतितरामस्तीति तदातदाऽस्माभिः प्रकाश्यमानं सत्यापितं भवत्यनेन । एतादृशा महानुभावाः श्रीदेशिकसूक्तिसंरक्ष- गीपरिषदि परिबृढतामनुभवन्तीति युक्तरूपमेवैतत् । स्वविवक्षिता- र्यान् महामहोपाध्यायानामप्यनावेदयन्ती पूर्वपक्षियतीन्द्राणां कृतिः कस्य वा जनस्योपकाराय कल्पत इति स्वयमेव विवेचयन्तु ते ॥ -
No text on this page.
6.45
59e934
че е
036
5999
Сѕе о
No text on this page.
No text on this page.
No text on this page.