S.P College, Srinagar

The Pratyabhijna Hridaya Vol Iii

Kshemaraja · 2013

PDF Proofread

Front matter

AESSARCA
OGSTATEXONEWLY
THE
KASHMIR SERIES OF TEXTS AND STUDIES
EDITED BY
J. C. CHATTERJI, B. A. (Cantab.), VIDYĀVĀRIDHI,
DIRECTOR
OF
The Arenæological and Research Department
KASHMIR STATE.
Vol. III.
प्रत्यभिज्ञाहृदयम्।
a
OGICAL
DEP
OT
ARCH
SRINAGAR,
KASHMIR.
1911.

COLLE
KINDLY
TO THE READER.
use
this book
book very
carefully. If the book is disfigured
or marked or written on while in your
possession the book will have to
be
replaced by a new copy or paid for. In
case the book be a volume of set of
which single volumes are not available the
price of the whole set will be realized.
TAP
PRA
SRI
EGE
LIBRARY
391.238........
Class No;...
Book No:....
K94. P.........
10916
Acc. No:..

No text on this page.

No text on this page.

THE KASHMIR SERIES
OF
TEXTS AND STUDIES.

No text on this page.

WHEYVAN STATENS NEWLY THE KASHMIR SERIES OF TEXTS AND STUDIES EDITED BY J. C. CHATTERJI, B. A. (Cantab.), VIDYĀVĀRIDHI, DIRECTOR OF The Archæological and Research Department KASHMIR STATE. Vol. III. काश्मीरग्रन्थावली श्रीजगदीशचन्द्र-चट्टोपाध्याय- संपादिता तृतीय खण्डम् 4 RESEARCH SRINAGAR, KASHMIR. 1911.

No text on this page.

Hoy casTATEN INZWLW
THE
PRATYABHIJNĀ HRIDAYA
BEING
a Summary of the Doctrines of the
Advaita Shaiva Philosophy of Kashmir
BY
KSHEMARĀJA
अथ .
प्रत्यभिज्ञाहृदयम्।
AEREARSA
KA
RASHA
DER
श्रीनगर
(कश्मीर)
संवत् १६६८
Price, l'aper cover Re. 1.
In cloth Rs. 116.

891-238
k44 Р
422
10916
BOMBAY:
Printed by B. R. Ghanekar at the Nirnaya-Sagar Press,
23,:Kolbhat Lane, and published by the Archæological and
Research Department, Srinagar, (Kashmir).

PREFACE. The present edition of the Pratyabhijñā Hridaya of Kshemarāja, printed now for the first time, has been prepared by a collation of the following Manuscripts:-- 3-A manuscript in Devanāgari characters. -An old, much decayed manuscript in Shārada characters. 07-A Shārada manuscript on paper belonging to Pandit Hara Bhatta Shāstrin of this Department. E-An old manuscript in Shārada characters on birch bark (obtained from Lahore by M. M. Pandit Mukunda Rāma Shāstrin, Head Pandit of this Department ). In the preparation of the text for the press the Pandits of the Department have given me the same help, in their several capacities, as they rendered in regard to the edition of the previously published volume of the Shiva-Sūtra-Vimarshini; and I am very grateful to them for this help. An account of this work by Kshemarāja is given in my Kashmir Shaivaism, published as the Second Volume of this Series. It bears the same relation to the Advaita Shaiva System of Kashmir as the Vedānta- Sāra of Sadānanda does to the Vedānta System. That is to say, it is intended to be an easy introduction to, and a summary of the doctrines of, the System. Still, Kashmir Shaivaism being a hitherto neglected and little known System, a full comprehension of the Pratyabhijñā Hệidaya will not perhaps be very easy for most students. To them a preliminary study of the “Kashmir Shaivaism" is recommended. kasamali. } JAGADĪSHA CHANDRA CHATTERJI,

No text on this page.

अथ प्रत्यभिज्ञाहृदयसूत्राणां पाठानुक्रमणिका। पृ० सं० सू० सं० २ w ८ m Sur सूत्राणि १ चितिः स्वतन्त्रा विश्वसिद्धिहेतुः । २ स्वेच्छया खभित्तौ विश्वमुन्मीलयति । ५ ३ तन्नाना अनुरूपग्राह्यग्राहकभेदात् । ४ चितिसंकोचात्मा चेतनोऽपि संकुचितविश्वमयः । ५ चितिरेव चेतनपदादवरूढा चेत्यसंकोचिनी चित्तम् । ११ ६ तन्मयो मायाप्रमाता । १३ ७ स चैको द्विरूपस्त्रिमयश्चतुरात्मा सप्तपञ्चकखभावः । १५ ८ तद्भूमिकाः सर्वदर्शनस्थितयः । १६ ९ चिद्वत्तच्छक्तिसंकोचात् मलावृतः संसारी । २१ १० तथापि तद्वत् पञ्चकृत्यानि करोति । २२ ११ आभासन-रक्ति-विमर्शन-बीजावस्थापनतस्तानि । २४ १२ तदपरिज्ञाने वशक्तिभिर्व्यामोहितता संसारित्वम् । २६ १३ तत्परिज्ञाने चित्तमेव अन्तर्मुखीभावेन चेतन- पदाध्यारोहाच्चितिः । ३२ १४ चितिवहिरवरोहपदे च्छन्नोऽपि मात्रया मेयेन्धनं प्लुप्यति । ३४ १५ बललामे विश्वमात्मसात्करोति । ३५ १६ चिदानन्दलाभे देहादिपु चेत्यमानेप्वपि चिदैका- म्यप्रतिपत्तिदाढ्य जीवन्मुक्तिः । ३६ १७ मध्यविकासाच्चिदानन्दलाभः । ३७ ३ २ २ प्रत्यभिज्ञाहृदयम् । सू० सं० पृ० सं० ३९ सूत्राणि १८ विकल्पक्षय शक्तिसंकोचविकास-वाहच्छेदाद्यन्तको- टिनिभालनादय इहोपायाः । १९ समाधिसंस्कारवति व्युत्थाने भूयो भूयश्चिदैक्याम- र्शात् नित्योदितसमाधिलाभः । २० तदा प्रकाशानन्दसारमहामन्त्रवीर्यात्मकपूर्णाहन्ता- वेशात् सदा सर्वसर्गसंहारकारिनिजसंविद्देवता- चक्रेश्वरताप्राप्तिर्भवति इति शिवम् । ४६ ४८ इति प्रत्यभिज्ञाहृदये सूत्रपाठः समाप्तः ॥

अथ प्रत्यभिज्ञाहृदयसूत्राणां प्रतिसूत्रं संक्षिप्तविषयार्थसंग्रहः। १ स्वसंविच्छक्तेरेव मुख्यतया सर्वकारणत्वस्य, सुखोपायेन प्राप्तव्यताया, अत्युत्तमफलस्य च निरूपणम् । २ संविद्यतिरिक्तानां मायाप्रकृत्यादीनां विश्वसृष्टौ निमित्तो- पादानादिभावपरिहारप्रयोजनं विश्वस्य संविदैकात्म्यसत्तया अवस्थितिनिरूपणम् । ३ खसंविन्मयमात्रतायामपि तत्तदनुरूपविभागेन विश्वस्वरूप. प्रतिपादनम् । ४ संकुचितचित्तया भेदावभासमापन्नस्य पशोरपि परमशिववत् विश्वरूपताव्याहरणम् । ५ नीलसुखादिरूपार्थग्रहणोन्मुखत्वेन संकुचितग्राहकरूपत्वस्य, चित्तस्य वस्तुतः चितिखरूपत्वनिरूपणम् । ६ मायाप्रमातुरपि चित्तमयतानिरूपणम् । ७ प्रकाशरूपत्व-संकोचावभासवत्त्वाभ्यां द्वैरूप्य-त्रिमलावृतत्व- शून्यादिचतुरात्मत्व-शिवादिपञ्चत्रिंशत्तत्त्वस्वभावादिसत्तया नानाविधप्रपञ्चाभासेपि, चिदात्मनः तात्त्विकैकात्मत्वनिरू- पणम् । ८ चार्वाकनैयायिकादिदर्शनान्तराणामर्वाचीनपदप्रतिष्ठाव्यव- स्थितेः, नीलसुखादिसंवित्स्थितीनां खात्मखरूपाभिव्यत्तयु- पायत्वस्य च कथनम् । ९ आत्मनः स्वातन्त्र्येण अभेदव्याप्तिनिमजनभेदव्याप्त्यवलम्बनात् इच्छादिशक्तिसंकोचोत्तरं मलावृतसंसारित्वप्रदर्शनम् ।

४ प्रत्यभिज्ञाहृदयम् । १० शुद्धतराध्वस्फारणक्रमेण स्वरूपविकासरूपसृष्ट्यादिपञ्चकृत्य- कर्तुः भगवतः संसार्यवस्थापत्तावपि स्वरूपाभिज्ञानहेतुकस्र- मृत्वादिपञ्चविधकृत्यकारित्वनिरूपणम् । ११ आत्मनः संसार्यवस्थायामेव पञ्चविधकृत्यकारित्वरहस्याभि- ज्ञानानां प्रदर्शनम् । १२ पूर्वनिरूपितपञ्चविधकृत्यकारितानभिज्ञस्य स्वशक्तिकर्तृकव्या- मोहिततालक्षणपशुदशापोषणहेतूनां निरूपणम् । १३ स्वीयपञ्चकृत्यकारित्वपरिज्ञाने तदन्यथात्वकारिहेत्वपगमात् मोहनिवृत्त्या स्वातन्त्र्यलाभात् अन्तर्मुखीभूतस्य चित्तस्य स्व- रूपप्रत्यापत्त्यात्मचिद्रूपतावाप्तिप्रदर्शनम् । १४ मायाप्रमातृतायामपि चिच्छत्तेः अंशतः खकार्यकारितानि- रूपणम् । १५ अवाप्तस्वरूपस्फारचित्यात्मबललाभे पूर्वनिर्दिष्टमायाप्रमातुः विश्वस्य आत्मसात्काररूपाभेदावभासनानिरूपणम् । १६ विश्वात्मसात्कारसमावेशलाभात् देहादिमत्त्वेऽपि जीवन्मुक्ति- लक्षणकथनम् । १७ संविद्विकासे ब्रह्मनाडीविकासे वा चिदानन्दलाभात्मजीवन्मु- क्तिफलनिरूपणम् । १८ प्रोक्तद्विविधमध्यविकासोपायभूतानां विकल्पक्षयादियुक्तीनां प्रदर्शनम् । १९ समावेशसमापत्त्यात्मसमाधिलाभस्य नित्योदिततायां युक्ति- निरूपणम् । २० समाधिलाभस्य पार्यन्तिकफलकथनम् । इति प्रत्यभिज्ञाहृदयसूत्राणां संक्षिप्तविषयार्थसंग्रहः॥

ओं नमो मङ्गलमूर्तये । अथ प्रत्यभिज्ञाहृदयम् । नमः शिवाय सततं पञ्चकृत्यविधायिने । चिदानन्दघनस्वात्मपरमार्थावभासिने ॥१॥ शांकरोपनिषत्सारप्रत्यभिज्ञामहोदधेः । क्षेमेणोद्रियते सारः संसारविषशान्तये ॥२॥ इह ये सुकुमारमतयोऽकृततीक्ष्णतर्कशास्त्रपरि- श्रमाः शक्तिपातोन्मिषित-पारमेश्वरसमावेशा- भिलाषिणः कतिचित् भक्तिभाजः, तेषाम् ईश्वरप्रत्यभिज्ञोपदेशतत्त्वं मनाक् उन्मील्यते । १ तत्त्वं हि 'चिदानन्दैषणाज्ञानक्रियाणां सुस्फुटत्वतः । शिव-शक्ति-सदीशान-विद्याख्यं तत्त्वपञ्चकम् ॥' इति पञ्चकत्वेन आम्नातम् । उन्मील्यते इति, तेषां कृते संक्षिप्य प्रकटीक्रियते इति वाक्यार्थः । पं०४ क. ख. ग. पु. उद्धरामि परं सारं संसारविषशान्तिदम् ॥ इति पाठः। पं०५ ग. पु. कृततीक्ष्णशास्त्र इति पाठः । पं०६ रु. पु. शक्तिपातवशोन्मिषत्पारमेश्वरेति पाठः । पं०७ ग. पु० समावेशाभिलाषाः इति पाठः ।

२ प्रत्यभिज्ञाहृदयम् । [सू० १ एव सर्वत्र कारणत्वं तत्र स्वात्मदेवताया सुखोपायप्राप्यत्वं महाफलत्वं च अभिव्यङ्गुमाह चितिः स्वतन्त्रा विश्वसिद्धिहेतुः॥१॥ 'विश्वस्य'-सदाशिवादेः भूम्यन्तस्य सिद्धौ'- निष्पत्तौ, प्रकाशने स्थित्यात्मनि, परप्रमातृवि- श्रान्त्यात्मनि च संहारे, पराशक्तिरूपा 'चितिः' एव 'स्वतत्रा'-अनुत्तरविमर्शमयी शिवभट्टारकाभिन्ना 'हेतुः'-कारणम्। अस्यां हि उन्मिषति व्यवतिष्ठते च, निवृत्तप्रसरायां च निमिषति;-इति खानुभव एव अत्र साक्षी । अन्यस्य तु मायाप्रकृत्यादेः चित्प्रकाशभिन्नस्य अप्रकाशमानत्वेन अस- त्त्वात् न कचिदपि हेतुत्वम् ; प्रकाशमानत्वे तु प्रकाशैकात्म्यात् प्रकाशरूपा चितिरेव हेतुः; भगवती प्रसरन्त्यां जगत् पं० १ ख. ङ. पु. सर्वत्र इति पदं नास्ति । पं० २ क. ग. पु. महाफलाभिव्यक्तिं चाह इति पाठः । पं० ५ ख. ङ. पु० स्वे चेत्यात्मनि इति पाठः । पं०७ ख. ङ. पु० तत्रानन्तविमर्शमयी इति पाठः । पं०१० ख. ग. पु० च इति पदं नास्ति । पं० १२ व. पु. अप्रकाशत्वेन इति पाठः । पं० १३ ङ. पु. असत्वादपि न क्वचित् हेतुत्वम् इति पाठः। पं० १४ ख. ङ. पु० चिदेव इति पाठः ।

AN सू० १] प्रत्यभिज्ञाहृदयम् । न त्वसौ कश्चित् । अत एव देशकालाकारा एतत्सृष्टा एतदनुप्राणिताश्च नैतत्स्वरूपं भेत्तु- मलम् ;-इति व्यापक-नित्योदित-परिपूर्णरूपा इयम् । इत्यर्थलभ्यमेव एतत् । ननु जगदपि चितो भिन्नं नैव किश्चित्; अभेदे च कथं हेतुहेतुमद्भावः? उच्यते ।चिदेव भगवती स्वच्छवतत्ररूपा तत्तदनन्तजगदा- त्मना स्फुरति, इत्येतावत्परमार्थोऽयं कार्यका- रणभावः। यतश्च इयमेव प्रमातृ-प्रमाण-प्रमेय- मयस्य विश्वस्य सिद्धौ-प्रकाशने हेतुः, ततोऽस्याः खतत्रापरिच्छिन्नवप्रकाशरूपायाः २ यदुत्तम् देशकालाकारभेदः संविदो नहि युज्यते । तस्मादेकैव पूर्णाह-विमर्शात्मा चिदुच्यते ॥ इति । पं० १ ग. पु० न त्वन्यः कश्चिदिति पाठः । पं. २ क. ग. पु. एतस्प्राणिता इति पाठः । पं. ३ क. पु० परिपूर्णोऽयम् इति, ग. पु० परिपूर्णेयम् इति पाठः। पं. ४ क. ग. ङ. पु. इत्ययतलभ्यमेव इति पाठः। पं. ६ क. पु. कथं हेतुसद्भाव इति पाठः। पं० ७ ख. ग. ङ. पु० जगदात्मना विश्वरूपेण इति पाठः । पं. ९ क. पु. अतश्वेयमिति, ङ. पु. यत् च इयमेवेति पाठः। पं० ११ ख. रु. पु. स्वतत्राविच्छिन्नेति पाठः।

४ प्रत्यभिज्ञाहृदयम् । [सू० १ सिद्धौ अभिनवार्थप्रकाशनरूपं न प्रमाणवराक- मुपयुक्तम् उपपन्नं वा । तदुक्तं त्रिकसारे 'स्वपदा स्वशिरश्छायां यदल्लवितुमीहते । पादोद्देशे शिरो न स्यात्तथेयं बैन्दवी कला ॥' इति । यतश्च इयं विश्वस्य सिद्धौ पराद्वयसामरस्या- पादनात्मनि च संहारे हेतुः, तत एव स्वतत्रा। प्रत्यभिज्ञातवातव्या सती, भोगमोक्षस्वरूपाणां विश्वसिद्धीनां हेतुः।-इति आवृत्त्या व्याख्येयम्। अपि च विश्वं'-नील-सुख-देह-प्राणोदि;तस्य या 'सिद्धिः'-प्रमाणोपारोहक्रमेण विमर्शमयप्र- मात्रावेशः, सैर्व हेतुः-परिज्ञाने उपायो यस्याः। ३ नहि सूर्यप्रकाशने दीपान्तरमुपयुज्यते इति भावः। ४ यो लवितुमीहते तस्य यथा पादोद्देशे शिरो न स्यात् तथा इयमि- त्यत्र संबन्धः। ५ नीलं बहिरिन्द्रियगम्यम्, सुखमन्तरिन्द्रियगम्यम्, प्राणादि जीवचेष्टागम्यम् । ६ यथा दूरस्थस्य अमेः अनुमितौ धूमः साधनं तद्वदित्यर्थः । पं. १ ख. ग. पु० सिद्धौ प्रकाशनेऽभिनवार्थप्रकाशनेति, क. पु. अभिनवप्रकाशरूपम् इति पाठः। पं० ७ ख. उ. पु. अत एवेति पाठः । पं० ८ ख. ङ. पु० प्रत्यभिज्ञातस्वातच्या भोगमोक्षसिद्धीनां हेतुः इति पाठः। पं० ११ क. पु० प्रमाणोपहारक्रमेण इति, ग. पु० प्रमाणोपाहरणक्रमेणेति पाठः। ख. पु० विमर्शमात्रावेश इति पाठः । पं० १२ ख. ङ. पु० स एव हेतुरिति पाठः।

प्रत्यभिज्ञाहृदयम् । सू० २] ५ अनेन च सुखोपायत्वमुक्तम् । यदुक्तं श्रीविज्ञान- भट्टारके 'ग्राह्यग्राहकसंवित्तिः सामान्या सर्वदेहिनाम् । योगिनां तु विशेषोऽयं संवन्धे सावधानता ॥ इति। 'चितिः' इति एकवचनं देशकालाद्यनवच्छि- नताम् अभिदधत् समस्तभेदवादानाम् अवा- स्तवतां व्यनक्ति। स्वतन्त्र'-शब्दो ब्रह्मवादवैल- क्षण्यम् आचक्षाणः चितो माहेश्वर्यसारतां ब्रूते। 'विश्व'-इत्यादिपदम् अशेषशक्तित्वं, सर्वकार- णत्वं, सुखोपायत्वं महाफलं च आह ॥ १॥ ननु विश्वस्य यदि चितिः हेतुः, तत् अस्या उपादानाद्यपेक्षायां भेदवादापरित्यागः स्यात्- इत्याशङ्कय आह स्वेच्छया स्वभित्तौ विश्वमुन्मी- लयति 'खेच्छया', न तु ब्रह्मादिवत् अन्येच्छया, पं. ३ क. पु. ग्राह्यग्राहकसंबन्ध इति पाठः। पं. ६ क. पु. अवच्छिन्नतामेवाभिदधत् इति पाठः । पं. ९ क. पु. माहेश्वरतां ब्रूते इति, ख. 6. पु० माहेश्वरसारताम् इति पं० १० ग. पु० अशेषशक्तिमत्त्वम् इति पाठः । पं० १२ ङ. पु० तदा अस्या इति पाठः। ॥ २ , पाठः।

& प्राक दर्पणे नगरवत् प्रत्यभिज्ञाहृदयम् । [सू० ३ तयैव च, न तु उपादानाद्यपेक्षया,-एवं हि प्रागुक्तस्वातत्र्यहान्या चित्त्वमेव न घटेत-स्व भित्तौ',न तु अन्यत्र कापि, निर्णीतं विश्वं' अभिन्नमपि भिन्नमिव 'उन्मी- लयति'। उन्मीलनं च अवस्थितस्यैव प्रकटीकर- णम् । इत्यनेन जगतःप्रकाशैकात्म्येन अवस्था- नम् उक्तम् ॥२॥ अथ विश्वस्य स्वरूपं विभागेन प्रतिपादयि- तुमाह तन्नाना अनुरूपग्राह्यग्राहक- भेदात् ॥३॥ 'तत्' विश्वं 'नाना'-अनेकप्रकारम् । कथं ? 'अनुरूपाणां'-परस्परौचित्यावस्थितीनां 'ग्राह्या- णां ग्राहकाणां' च भेदात्'-वैचित्र्यात्। तथा च ७ ग्राहकाः सप्त प्रमातारः, ते च (१) शिवः (२) मन्त्रमहेश्वराः (३) मन्त्रेश्वराः (४) मवाः (५) विज्ञानाकलाः (६) प्रलयाकलाः (७) सकलाः इत्यागमप्रसिद्धाः । पं. १ क. पु० तथैव चेति पाठः। पं० २ क. पु० चित्तत्त्वमेव इति पाठः । पं. ४ क. ग. पु. दर्पणनगरवत् इति समस्तः पाठः। पं० ५ क.पु.उन्मीलयतीत्यनन्तरम् 'अवभासयति' इत्यप्यधिकः पाठोस्ति। पं० १३ ख. पु० अनणुरूपाणाम् इति पाठः। पं० १४ क. पु० ग्राहकताभेदात् इति पाठः ।

सू०३] प्रत्यभिज्ञाहृदयम् । सदाशिवतत्त्वे अहन्ताच्छादित-अस्फुटेदन्ताम- यं यादृशं परापररूपं विश्वं ग्राह्यं, तागेव श्रीसदाशिवभट्टारकाधिष्ठितो मत्रमहेश्वराख्यः प्रमातृवर्गः परमेश्वरेच्छावकल्पिततथावस्था- नः। ईश्वरतत्त्वे स्फुटेदन्ताहन्तासामानाधिकर- ण्यात्म यादृक् विश्वं ग्राह्यं, तथाविध एव ईश्वरभट्टारकाधिष्ठितो मत्रेश्वरवर्गः। विद्यापदे श्रीमदनन्तभट्टारकाधिष्ठिता बहुशाखावान्तर- भेदभिन्ना यथाभूता मत्राः प्रमातारः, तथा- भूतमेव भेदैकसारं विश्वमपि प्रमेयम् । मायो- र्वे यादृशा विज्ञानाकलाः कर्तृताशून्यशुद्धबो- धात्मानः, तादृगेव तदभेदसारं सकल-प्रलया- कलात्मक-पूर्वावस्थापरिचितम् एषां प्रमेयम् । मायायां शून्यप्रमातृणां प्रलयकेवलिनां स्वो- पं. १ क. पु० अहन्ताच्छादितेऽपि स्फुटे इदन्तामयम् इति पाठः । पं० ३ ख. पु० भट्टारको मन्त्रमहेश्वराख्य इति पाठः । पं. ५ क. पु० समानाधिकारात्म इति, ग. पु० सामानाधिकरण्यात्मतया इति पाठः। पं. ७ ग. पु० विद्यातत्त्वे इति, ख. पु. विद्यापदेश-श्रीमत् इति पाठः। पं० ८ ग. पु. अधिष्ठितानन्तबहुशाखेति, क. पु. बहुशाखा अवान्तर- भिमा इति, ख. पु. अधिष्ठितवहुशाखेति पाठः । पं० ११ . पु. कर्तृत्वशून्येति पाठः । पं० १२ ख. पु० अभेदसारसकलेति समस्तः पाठः । पं० १४ क. पु० मायायाः प्रमातृणामिति पाठः ।

प्रत्यभिज्ञाहृदयम् । [ सू०४ चितं प्रलीनकल्पं प्रमेयम् । क्षितिपर्यन्तावस्थि- तानांतु सकलानां सर्वतो भिन्नानां परिमितानां तथाभूतमेव प्रमेयम् । तदुत्तीर्णशिवभट्टारकस्य प्रकाशैकवपुषः प्रकाशैकरूपा एव भावाः।श्रीम- त्परमशिवस्य पुनः विश्वोत्तीर्ण-विश्वात्मक-पर- मानन्दमय-प्रकाशैकघनस्य एवंविधमेव शिवा दि-धरण्यन्तम् अखिलम् अभेदेनैव स्फुरति;न तु वस्तुतः अन्यत् किंचित् ग्राह्यं ग्राहकं वा; अपि तु श्रीपरमशिवभट्टारक एव इत्थं नानावैचि- त्र्यसहस्रैः स्फुरति ।-इत्यभिहितप्रायम् ॥३॥ यथा च भगवान् विश्वशरीरः, तथा चितिसंकोचात्मा चेतनोऽपि संकुचितविश्वमयः॥४॥ श्रीपरमशिवः स्वात्मैक्येन स्थितं विश्वं सदाशिवायुचितेन रूपेण अवविभासयिषुः पूर्व पं. १ क. पु० स्थितिपर्यन्तेति पाठः । पं. ९ ङ. पु० इत्थमित्थमेतदिति-नानाविधवैचित्र्येति पाठः । पं०११यथा च इत्यादि-अवतरणिकावाक्यपाठः ख. ङ. पुस्तकाभ्यामुपन्यस्तः। पं० १५ ग. पु० सदाशिवाद्युदितेनेति, ख. ङ. पु० सदाशिवाभ्युदितेन इति पाठः।

९ सू० ४] प्रत्यभिज्ञाहृदयम् । चिदैक्याख्यातिमयानाश्रितशिवपर्याय-शून्या- तिशून्यात्मतया प्रकाशाभेदेन प्रकाशमानतया स्फुरति; ततः चिद्रसाश्यानतारूपाशेषतत्त्वभु- वन-भाव-तत्तत्प्रमात्राद्यात्मतयापि प्रथते । यथा च एवं भगवान् विश्वशरीरः, तथा 'चितिसं- कोचात्मा' संकुचितचिद्रूप 'चेतनो' ग्राहकोऽपि वटधानिकावत् संकुचिताशेषविश्वरूपः । तथा च सिद्धान्तवचनम् 'विग्रहो विग्रही चैव सर्वविग्रहविग्रही ।' इति । त्रिशिरोमतेऽपि 'सर्वदेवमयः कायस्तं चेदानीं शृणु प्रिये । पृथिवी कठिनत्वेन द्रवत्वेऽम्भः प्रकीर्तितम् ।। इत्युपक्रम्य 'त्रिशिरोभैरवः साक्षायाप्य विश्वं व्यवस्थितः॥ इत्यन्तेन ग्रन्थेन ग्राहकस्य संकुचितविश्व- मयत्वमेव व्याहरति । अयं च अत्राशयः-ग्राहकोऽपि अयं प्रकाशै- पं० ३ क. ग. पु० रसाश्यानरूपः अशेष० इति पाठः । पं० ६ क. पु. असंकुचित इति पाठः । पं० ११ ख. पु. कालस्तच्चेदानीम् इति पाठः । पं० १५ ख. रु. पु. ग्राहकेण संकुचितेति. ग. पु० ग्राहकेणासंकुचित. इति पाटः।

१० प्रत्यभिज्ञाहृदयम् । [सू० ४ कात्म्येन उक्तागमयुक्त्या च विश्वशरीरशिवै- करूप एव, केवलं तन्मायाशक्त्या अनभिव्य- क्तस्वरूपत्वात् संकुचित इव आभाति; संको- चोऽपि विचार्यमाणः चिदैकात्म्येन प्रथमानत्वात् चिन्मयं एव, अन्यथा तु न किंचित् । इति सर्वो ग्राहको विश्वशरीरः शिवभट्टारक एव । तदुक्तं मयैव 'अख्यातिर्यदि न ख्याति ख्यातिरेवावशिष्यते । ख्याति चेत् ख्यातिरूपत्वात् ख्यातिरेवावशिष्यते ॥ इति । अनेनैव आशयेन श्रीस्पन्दशास्त्रेषु ८ यदुक्तं न्यायभूषणे कर्तृकर्मादिकारकलक्षणविचारे ।संभूय कारकाणां क्रियाजनकत्वे हि तुल्यव्यापारत्वात् कः साधकतमार्थः स्वतन्त्रार्थो वा इति सार्वपारिषदं व्याकरणं विरुध्येत । अत एव ज्ञातृव्यापारस्य प्रमाणत्वमाहुः, स च ज्ञातृव्यापारः चिद्रूपे ज्ञातरि तादात्म्येन स्थितत्वात् बोधात्मकः इति । तथा च अत्रैव 'विवक्षातः कारकाणि भवन्ति' इति । यथा चितिः विश्वं साधयति, चितिमासाद्य विश्वं भवति, चित्या विश्वमीश्वरः करोति, चितेः विश्वं भवति, चितेः विकारो विश्वं भवति, चितौ विश्वं स्थितमिति ॥ पं० २ ख. पु. केवलं मायाशक्त्यनभिव्यक्तेति पाठः । पं० ३ ख. पु० एव इति पाठः । पं. ६ क. पु० विश्वशरीरशिवभट्टारक एवेति पाठः । पं० ८ क. पु. ख्यातिः ख्यातिरेव इति, ग. पु. यदि ख्यातिश्चेत् ख्या- तिरेव इति पाठः।

सू० ५] प्रत्यभिज्ञाहृदयम् । ११ 'यस्मात्सर्वमयो जीवः इत्युपक्रम्य 'तेन शब्दार्थचिन्तासु न सावस्था न यः शिवः ॥' इत्यादिना शिवजीवयोरभेद एव उक्तः । एत- त्तत्त्वपरिज्ञानमेव मुक्तिः, एतत्तत्त्वापरिज्ञानमेव च बन्धः;-इति भविष्यति एव एतत् ॥४॥ ननु ग्राहकोऽयं विकल्पमयः, विकल्पनं च चित्तहेतुकं; चित्ते, कथमस्य शिवात्म- कत्वम् ?-इति शङ्कित्वा चित्तमेव निर्णेतुमाह चितिरेव चेतनपदादवरूढा चेत्य- संकोचिनी चित्तम् ॥५॥ न चित्तं नाम अन्यत् सैव भगवती तत् । तथा हि सा खं स्वरूपं ९ अन्यथा 'तटः पिपतिषति' इत्यादि शब्दार्थचिन्तासु निश्चेतनस्य तटस्य कथमिच्छा घटेत । सति च किंचित्, अपि तु पं० ३ ख. ङ. पु० तस्माच्छब्दार्थेति, ग. पु० तस्मात्सर्वार्थ इति पाठः । पं० ४ ङ. पु० जीवशिवयोरभेद उक्त इति पाठः, ङ.पु० एव पदं नास्ति। पं० १० ख. ङ. पु० चेत्यभावैः संकोचिनी इति पाठः । पं० १२ क. पु० चितिरेवेति चित्तं न चान्यत्किंचित् इति, ग. पु० चित्तं नान्यत् किंचित् अपि तु सैव इति पाठः ।

१२ प्रत्यभिज्ञाहृदयम् । [ सू०५ गोपयित्वा यदा संकोचं गृह्णाति, तदा द्वयी गतिः; कदाचित् उल्लसितमपि संकोचं गुणी- कृत्य चित्प्राधान्येन स्फुरति, कदाचित् संको- चप्रधानतया । चित्प्राधान्यपक्षे सहजे प्रकाश- मात्रप्रधानत्वे विज्ञानाकलता; प्रकाशपरामर्श- प्रधानत्वे तु विद्याप्रमातृता । तत्रापि क्रमेण संकोचस्य तनुतायाम्, ईश-सदाशिवानाश्रित- रूपता । समाधिप्रयत्नोपार्जिते तु चित्प्रधानत्वे शुद्धावप्रमातृता क्रमाक्रमं प्रकर्षवती।संको. चप्राधान्ये तु शून्यादिप्रमातृता । एवमव- स्थिते सति, 'चितिरेव' संकुचितग्राहकरूपा 'चेतनपदात् अवरूढा'-अर्थग्रहणोन्मुखी सती 'चेत्येन'-नील-सुखादिना 'संकोचिनी' उभयसं- कोचसंकुचितैव चित्तम् । तथा च पं. १ क. ग. पु० 'संकोचं' इति पदं नास्ति । पं० ५ ग. पु. प्रधानविज्ञानाकलता इति पाठः । पं. ७ क. पु० संकोचांशतनुतायाम् इति, ग. पु. संकोचतनुतायाम् इति पाठः। पं० ८ ग. पु० समाधिप्रयत्नोपार्जितेन चित्प्रधानत्वेन इति पाठः। पं० ९ क. पु० संकोचांशप्राधान्येन इति पाठः । पं० १० ङ, पु० एवमेव स्थिते सति इति पाठः । पं० ११ क. पु० असंकुचितग्राहकरूपाचेतनादवरूढार्थग्रहेति पाठः ।

१३ सू०६] प्रत्यभिज्ञाहृदयम् । 'स्वाङ्गरूपेषु भावेषु पत्युर्ज्ञानं क्रिया च या । मायावृतीये ते एव पशोः सत्त्वं रजस्तमः॥ इत्यादिना स्वातत्र्यात्मा चितिशक्तिरेव ज्ञान- क्रिया-मायाशक्तिरूपा पशुदशायां संकोचप्रक- र्षात् सत्त्व-रजस्तमःस्वभावचित्तात्मतया स्फु- रति;-इति श्रीप्रत्यभिज्ञायामुक्तम् । अत एव श्रीतत्त्वगर्भस्तोत्रे विकल्पदशायामपि तात्त्विक- स्वरूपसद्भावात् तदनुसरणाभिप्रायेण उक्तम् 'अत एव तु ये केचित्परमार्थानुसारिणः । तेषां तत्र स्वरूपस्य स्वज्योतिष्टुं न लुप्यते ॥ इति ॥ ५॥ चित्तमेव तु मायाप्रमातुः स्वरूपम्, इत्याह तन्मयो मायाप्रमाता ॥६॥ देहप्राणपदं तावत् चित्तप्रधानमेव; शून्य- पं०३ ग. पु० इति प्रत्यभिज्ञोक्तनीत्या स्वातयेति पाठः । पं० ४ क. पु० संकोचप्रकाशात् इति पाठः । पं० ६ ग. पु. 'श्रीप्रत्यभिज्ञायामुक्तम्' इति वाक्यं नास्ति । पं० ८ ख. पु० तदनुसारिणा इति पाठः । पं० ९ क. पु० अत एव तु केपांचित्परमार्थेति पाठः। पं० १० ग. 6. पु० तेषां तत्रापि रूपस्य (तत्रापि, विकल्पदशायामपि) इति पर्यायोपेतः पाठः पं० १४ ङ. पु० देहप्राणपदात् सावञ्चित्तं प्रधानमेव इति पाठः।

१४ प्रत्यभिज्ञाहृदयम् । [ सू०६ भूमिरपि चित्तसंस्कारवत्येव; अन्यथा ततो व्युत्थितस्य स्वकर्तव्यानुधावनाभावः स्यात् ;- इति चित्तमय एव मायीयः प्रमाता । अमुनैव आशयेन शिवसूत्रेषु वस्तुवृत्तानुसारेण 'चैतन्यमात्मा' (१-१) इत्यभिधाय, मायाप्रमातृलक्षणावसरे पुनः 'चित्तमात्मा' (३-१) इत्युक्तम् ॥६॥ अस्यैव सम्यक् स्वरूपज्ञानात् यतो मुक्तिः, असम्यक् तु संसारः, ततः तिलश एतत्स्वरूपं निर्भऋतुमाह १० चैतन्यमात्मा इति, चेतयते इति चेतनः, सर्वेषु ज्ञानेषु सर्वासु च क्रियासु स्वतन्त्रः; तस्य भावः चैतन्यं, सर्वज्ञानक्रियासंबन्धमयं परिपूर्ण स्वातत्र्यं; तच्च परमशिवस्यैव भगवतः संभवति, नान्येषां तत्परतत्राणा- मिति प्रथमसूत्रमुक्त्वा पुनः तृतीयोन्मेषे 'चित्तमात्मा' इत्युक्तम् । अस्यार्थः यदेतत् विषयवासनाच्छुरितत्वात् नित्यं, तदध्यवसायादि- व्यापारबुद्ध्यहंकृन्मनोरूपं चित्तं, तदेव अतति चिदात्मकस्वस्वरूपाख्यात्या सत्त्वादिवृत्त्यवलम्बनेन योनीः संचरति इति आत्मा अणुरित्यर्थः; न तु चिदेकरूपस्य अस्य अतनमस्ति; अत एव 'चैतन्यमात्मा' इति स्वभा- वभूततात्त्विकैतत्स्वरूपप्रतिपादनाशयेन पूर्वमात्मा लक्षितः, अनेन तु एतदीयसंकोचावभासप्रधानाणवदशौचित्येन, इति न पूर्वापरवैषम्यम् । पं० ४ ग. पु० वस्तुवृत्त्यनुसारेण इति पाठः। पं० ११ ग. पु० विभङ्गुम् इति पाठः ।

सू०७] प्रत्यभिज्ञाहृदयम् । १५ स चैको हिरूपस्त्रिमयश्चतुरात्मा सप्तपञ्चकस्वभावः॥७॥ निर्णीतशा चिदात्मा शिवभट्टारक एव 'एक' आत्मा, न तु अन्यः कश्चित् ; प्रकाशस्य देशकालादिभि भेदायोगात्; जडस्य तु ग्राहकत्वानुपपत्तेः । प्रकाश एव यतः स्वात- यात् गृहीतप्राणादिसंकोचः संकुचितार्थग्राह- कतामश्नुते, ततः असौ प्रकाशरूपत्व-संकोचा- वभासवत्त्वाभ्यां 'द्विरूपः। आणव-मायीय-का- ममलावृतत्वात् 'त्रिमयः' । शून्य-प्राण-पुर्यष्टक- ११ वामदेवेन च मलत्रयस्वरूपमभिहितमस्ति । यथा गोपितस्वमहिम्नोऽस्य संमोहाद्विस्मृतात्मनः । यः संकोचः स एवास्मिन्नाणवो मल उच्यते ॥ १ ॥ षटूञ्चुकव्याप्तिवशाद्विलोपित निजस्थितेः । भूतदेह स्थितिर्यासौ मायीयो मल उच्यते ॥ २ ॥ यदन्तःकरणाधीनबुद्धिकर्मेन्द्रियादिभिः । बहिर्व्याप्रियते काम मलमेतस्य तन्मतम् ॥ ३ ॥ तत्र आणवेनैकेन मलेन संयुक्तो विज्ञानाकलः; द्वाभ्यामाणव-मायीया- भ्यामपवेद्यः प्रलयाकल:; त्रिभिः आणव-मायीय-कार्ममलैः संवेद्यः कलादिधरण्यन्ततत्त्वमयः सकलः, इति । पं० ६ ख. ग. रु. पु० एव च इति पाठः । पं. ९ ग. पु० मायीयाणवकार्ममलिनत्वात् इति पाठः। पं० १० क. पु. मलात्रिमय इति पाठः।

१६ प्रत्यभिज्ञाहृदयम् । [ सू०८ शरीरस्वभावत्वात् 'चतुरात्मा'। सप्तपञ्चकानि'- शिवादिपृथिव्यन्तानि पञ्चत्रिंशत्तत्त्वानि 'तत्स्व- भावः'। तथा शिवादि-सकलान्त-प्रमातृसप्तक- स्वरूपः; चिदानन्देच्छा-ज्ञान-क्रियाशक्तिरूप. त्वेऽपि अख्यातिवशात् कला-विद्या-राग-काल- नियतिकञ्चुकवलितत्वात् पञ्चकस्वरूपः। एवं च शिवैकरूपत्वेन, पञ्चत्रिंशत्तत्त्वमयत्वेन, प्रमा- तृसप्तकस्वभावत्वेन चिदादिशक्तिपञ्चकात्म- कत्वेन च अयं प्रत्यभिज्ञायमानो मुक्तिदः; अन्यथा तु संसारहेतुः ॥ ७॥ एवं च तद्भूमिकाः सर्वदर्शनस्थितयः॥८॥ 'सर्वेषां' चार्वाकादिदर्शनानां 'स्थितयः'- सिद्धान्ताः 'तस्य' एतस्य आत्मनो नटस्येव स्वेच्छावगृहीताः कृत्रिमा 'भूमिकाः' । तथा च 'चैतन्यविशिष्टं शरीरमात्मा ।' इति चार्वाकाः। पं. १ क. पु० पञ्चकानि पृथिव्यन्तानि इति 'शिवादि' पदहीनः पाठः । पं. ३ क. पु० सकलान्तं प्रमातृरूप इति पाठः। पं० ७ ख. ङ. पु. शिवैकत्वेन इति पाठः । पं० १५ क. . पु. कृत्रिमभूमय इति पाठः ।

सू? ८] प्रत्यभिज्ञाहृदयम् । १७ नैयायिकादयो ज्ञानादिगुणगणाश्रयं बुद्धि- तत्त्वप्रायमेव आत्मानं संसृतौ मन्यन्ते, अप- वर्गे तु तदुच्छेदे शून्यप्रायम् । अहं-प्रतीतिप्रत्येयः सुखदुःखाद्युपाधिभिः तिरस्कृतः आत्मा-इति मन्वाना मीमांसका अपि बुद्धावेव निविष्टाः। ज्ञानसंतान एव तत्वम्-इति सौगता बुद्धि- वृत्तिषु एव पर्यवसिताः। प्राण एव आत्मा-इति केचित् श्रुत्यन्तविदः। असदेव इदमासीत्-इत्यभावब्रह्मवादिनः शून्यभुवमवगाह्य स्थिताः। माध्यमिका अपि एवमेव । परा प्रकृतिः भगवान् वासुदेवः तद्विस्फु- एव पाश्चरात्राः परस्याः प्रकृतेः परिणामाभ्युपगमात् अव्यक्ते एव अभिनिविष्टाः। लिङ्गप्राया जीवाः-इति पं० ४ क. पु. अहं-प्रत्ययः सुखदुःखेत्यादि पाडः। ग. ख. पु. दुःखा. धुपाध्यभिभूत आत्मेति पाठः। पं. ९ क. पु. शून्यवादिन इति पाठः। पं० १३ क. पु. वासुदेवपदं नास्ति । ३ १८ प्रत्यभिज्ञाहृदयम् । [ सू०८ सांख्यादयस्तु विज्ञानाकलप्रायां भूमिम् अवलम्बन्ते । सदेव इदमग्र आसीत्-इति ईश्वरतत्त्व- पदमाश्रिता अपरे श्रुत्यन्तविदः। शब्दब्रह्ममयं पश्यन्तीरूपम् आत्मतत्वम्- इति वैयाकरणाः श्रीसदाशिवपदमध्यासिताः। एवमन्यदपि अनुमन्तव्यम् । एतच्च आगमेषु 'बुद्धितत्त्वे स्थिता बौद्धा गुणेष्वेवास्ताः स्थिताः । स्थिता वेदविदः पुंसि अव्यक्त पाश्चरात्रिकाः ॥' इत्यादिना निरूपितम् । विश्वोत्तीर्णमात्मतत्त्वम्-इति तात्रिकाः। विश्वमयम्-इति कुलाद्याम्नायनिविष्टाः। विश्वोत्तीर्ण विश्वमयं च-इति त्रिकादि- दर्शनविदः। एवम् एकस्यैव चिदात्मनो भगवतः स्वा- तच्यावभासिताः सर्वा इमा भूमिकाः स्वातत्र्य- प्रच्छादनोन्मीलनतारतम्यभेदिताः; अत एक पं० २ ख. ग. पु० अवतिष्ठन्ते इति पाठः । पं. ४ क. पु. शून्यान्तविद इति पाठः । पं० ५ क. पु. मयं रूपं पश्यति इति पाठः । पं० १४ क. ग. पु. दर्शनवादिन इति पाठः ।

सू० ८] १९ प्रत्यभिज्ञाहृदयम् । एव एतावद्याप्तिक आत्मा । मितदृष्टयस्तु अंशांशिकासु तदिच्छयैव अभिमानं ग्राहिताः, येन देहादिषु भूमिषु पूर्वपूर्वप्रमातृव्याप्तिसा- रताप्रथायामपि उक्तरूपां महाव्याप्ति परश- क्तिपातं विना न लभन्ते । यथोक्तम् 'वैष्णवाद्यास्तु ये केचिद्विद्यारागेण रञ्जिताः। न विदन्ति परं देवं सर्वज्ञं ज्ञानशालिनम् ॥' इति । तथा 'भ्रमयत्येव तान्माया ह्यमोक्षे मोक्षलिप्सया ।' इति। 'त आत्मोपासकाः शैवं न गच्छन्ति परं पदम् ॥' इति च । अपि च 'सर्वेषां दर्शनानां'-समस्तानां नीलसुखादिज्ञानानां याः 'स्थितयः'-अन्तर्मुख- रूपा विश्रान्तयः ताः 'तद्भूमिकाः'-चिदानन्द- घनस्वात्मस्वरूपाभिव्यक्त्युपायाः । तथा हि पं० १ ग. पु० एतस्याप्या इति पाठः । पं० ३ ख. ग. पु. देहादिभूमिषु इति समस्तः पाठः । पं० ७ क. पु० सर्वशं ज्ञानशालिनम् इति श्लोकपादो नास्ति । पं. ९ क. ग. पु० तन्माया इति पाठः । पं० ११ ग. पु० अनास्मोपासका ह्येते इति पाठः । पं० १५ ग. पु. चिदानन्दात्मरूपेति पाठः ।

२० प्रत्यभिज्ञाहृदयम् । [ सू०८ यदा यदा बहिर्मुखं रूपं स्वरूपे विश्राम्यति, तदा तदा बाह्यवस्तूपसंहारः; अन्तःप्रशान्तपदाव- स्थितिः; तत्तदुदेष्यत्संवित्संतत्यासूत्रणम् ;-इति सृष्टि-स्थिति-संहारमेलनारूपा इयं तुरीया संविद्भट्टारिका तत्तत्सृष्टयादिभेदान् उद्वमन्ती संहरन्ती च, सदा पूर्णा च, कृशा च, उभय रूपा च, अनुभयात्मा च, अक्रममेव स्फुरन्ती स्थिता । उक्तं च श्रीप्रत्यभिज्ञाटीकायाम् 'तावदर्थावलेहेन उत्तिष्ठति, पूर्णा च भवति' इति । एषा च भट्टारिका क्रमाक्रमम् अधि- कमनुशील्यमाना स्वात्मसात्करोत्येव भक्त- जनम् ॥ ८॥ यदि एवंभूतस्य आत्मनो विभूतिः, तत् कथम् अयं मलावृतः अणुः कलादिवलितः संसारी अभिधीयते ?-इत्याह पं० ६ ख. ङ. पु. संपूर्णा चेति पाठः । पं० ७ ग. पु. क्रमेणैव स्फुरन्ती इति पाठः । पं० ९ ख. पु० अर्थावहेलेन इति, ङ० पु० अर्थावहेलना उत्तिष्ठन्ति इति पाठः । ग. पु० पूर्णा च भविष्यति इति च पाठः ।

प्रत्यभिज्ञाहृदयम् । २१ सू०९] चिद्वत्तच्छक्तिसंकोचात् मलाटतः संसारी ॥९॥ यदा 'चिदात्मा' परमेश्वरः स्वस्वातत्र्यात् अभेदव्याप्तिं निमज्य भेदव्याप्तिम् अवलम्बते, तदा 'तदीया इच्छादिशक्तयः' असंकुचिता अपि 'संकोचवत्यो' भान्ति; तदानीमेव च अयं 'मलावृतः संसारी' भवति । तथा च अप्रतिहतस्वातत्र्यरूपा इच्छाशक्तिः संकुचिता सती अपूर्णमन्यतारूपम् आणवं मलम् ; ज्ञानशक्तिः क्रमेण संकोचात् भेदे सर्वज्ञत्वस्य किंचिज्ज्ञत्वाप्तेः अन्तःकरण-बुद्धीन्द्रियतापत्ति- पूर्वम् अत्यन्तं संकोचग्रहणेन भिन्नवेद्यप्रथा- रूपं मायीयं मलम्; क्रियाशक्तिः क्रमेण भेदे पं० १ ख. पु० चिद्विभुः शक्तिसंकोचेति पाठः। पं० ३ क. ग. पु. स्वातच्याभेदवृत्तिव्याप्तिम् इति, पं० ४ ङ. पु० अभेदप्राप्तिम् इति पाठः। पं० ५ क. पु० शक्तयः संकुचिता इति पाठः। पं० ६ ग. पु. भवन्ति इति पाठः । पं० १० क. पु० ज्ञानशक्तिक्रमेण इति पाठः। ख. ग. पु. भेदसर्वज्ञत्व- किंचिज्ज्ञत्वान्तःकरणेत्यादि पाठः । पं० १२ क. पु. संकोचग्रहेण इति पाठः । पं० १३ क. पु० क्रियाशक्तिक्रमेण इति पाठः ।

२२ प्रत्यभिज्ञाहृदयम् । [ सू. १० सर्वकर्तृत्वस्य किंचित्कर्तृत्वाप्तेः कर्मेन्द्रियरूप- संकोचग्रहणपूर्वम् अत्यन्तं परिमिततां प्राप्ता शुभाशुभानुष्ठानमयं कार्मं मलम् । तथा सर्व कर्तृत्व-सर्वज्ञत्व-पूर्णत्व-नित्यत्व-व्यापकत्वशक्त- यः संकोचं गृह्णाना यथाक्रमं कला-विद्या- राग-काल-नियतिरूपतया भान्ति । तथाविधश्च अयं शक्तिदरिद्रः संसारी उच्यते; स्वशक्ति- विकासे तु शिव एव ॥ ९॥ ननु संसार्यवस्थायाम् अस्य किंचित् शिव- तोचितम् अभिज्ञानमस्ति येन शिव एव तथावस्थितः?-इत्युद्धोष्यते । अस्ति ।-इत्याह तथापि तद्वत् पञ्चकृत्यानि करोति ॥१०॥ इह ईश्वराद्वयदर्शनस्य ब्रह्मवादिभ्यः अय- मेव विशेषः, यत् 'सृष्टिसंहारकर्तारं विलयस्थितिकारकम् । अनुग्रहकरं देवं प्रणतातिविनाशनम् ॥' पं० १ ख. ग. पु. भेदसर्वकर्तृत्व किंचित्कर्तृत्वकर्मेन्द्रियेत्यादि-पाठः । पं० १० ङ. पु. शिवतोचितं किञ्चिदभिज्ञानमस्ति ? इति पाठः । पं० ११ ख. पु० येन तथावस्थानः शिव एवेत्युद्धोप्यते इति पाठः । पं. १५ क. पु० यतः इति पाठः ।

२३
सू० १०]
प्रत्यभिज्ञाहृदयम् ।
इति श्रीमत्स्वच्छन्दादिशासनोक्तनीत्या सदा
पञ्चविधकृत्यकारित्वं चिदात्मनो भगवतः ।
यथा च भगवान् शुद्धेतराध्वस्फारणक्रमेण
स्वरूपविकासरूपाणि
सृष्टयादीनि
करोति,
'तथा' संकुचितचिच्छक्तितया संसारभूमिकाया-
मपि 'पञ्चकृत्यानि' विधत्ते । तथा हि
'तदेवं व्यवहारेऽपि प्रभुदेहादिमाविशन् ।
भान्तमेवान्तरघमिच्छया भासयेदहिः ।।
इति प्रत्यभिज्ञाकारिकोक्तार्थदृष्टया देहप्राणा-
दिपदम् आविशन् चिद्रूपो महेश्वरो बहिर्मु
खीभावावसरे नीलादिकमर्थं नियतदेशका-
लादितया यदा आभासयति, तदा नियतदे-
शकालाद्याभासांशे अस्य स्रष्टुता; अन्यदेशका-
लाद्याभासांशे अस्य संहर्तृता; नीलाद्याभासांशे
स्थापकता; भेदेन आभासांशे विलयकारिता;
प्रकाशैक्येन प्रकाशने अनुग्रहीतृता । यथा च
पं. ५ ङ. पु. तथा तथा संकुचच्छक्तितया इति पाठः ।
पं० ९ ग. पु. प्रत्यभिज्ञाकारोक्तदृशा इति पाठः ।
पं० १० ख. ङ. पु० चिद्रूपमहेश्वर इति समस्तः पाठः ।
पं० १३ ख. ङ. पु० 'अस्य' पदं नास्ति ।
पं० १५ क. पु. भेदनांशे इति, ङ. पु. भेदेनाभेदांशे इति पाठः ।

प्रत्यभिज्ञाहृदयम् । ये (a २४ [ सू० ११ सदा पञ्चविधकृत्यकारित्वं भगवतः, तथा मया वितत्य स्पन्दसंदोहे निर्णीतम् । एवमिदं पञ्चविधकृत्यकारित्वम् आत्मीयं सदा दृढप्रतिपत्त्या परिशील्यमानं माहेश्वर्यम् उन्मीलयत्येव भक्तिभाजाम् । अत एव ये सदा एतत् परिशीलयन्ति, ते स्वरूपविकास मयं विश्वं जानाना जीवन्मुक्ता-इत्याम्नाताः । न तथा, ते सर्वतो विभिन्नं मेयजातं पश्यन्तो बद्धात्मानः ॥ १० ॥ न च अयमेव प्रकारः पञ्चविधकृत्यका- रित्वे, यावत् अन्योऽपि कश्चित् रहस्यरूपो- ऽस्ति ।-इत्याह आभासन-रक्ति-विमर्शन-बीजावस्था- पन-विलापनतस्तानि ॥११॥ 'पञ्चविधकृत्यानि करोति' '-इति पूर्वतः सं- पं. ३ ख. ङ. पु. पञ्चकृत्येति पाठः । पं. ४ ख. पु. माहेश्वर्यमेवोन्मीलयेत् इति पाठः । पं. ६ क. पु० सदैव तत् इति, ग. पु० सदैवैतत्परिशीलयन्त इति पाठः। पं० १० क. ग ङ० पञ्चकृत्यकारित्वे इति पाठः । पं० ११ क. पु. अन्यदपि किंचिद्रहस्यरूपमस्तीति पाठः । पं० १३ क. पु. आभासमान इति, क. ग. ङ. पु० बीजावस्थानतद्वि- लापनेति पाठः । पं०१५क.ग.ङ. पु०पञ्चकृत्यानि इति, क. ग. पु०पूर्वेण संबन्ध इति च पाठः।

२५ सू०११] प्रत्यभिज्ञाहृदयम् । बध्यते।श्रीमन्महार्थदृष्टया गादिदेवीप्रसरण- क्रमेण यत् यत् आभाति, तत् तत् सृज्यते; तथा सृष्टे पदे तत्र यदा प्रशान्तनिमेषं कंचित् कालं रज्यति, तदा स्थितिदेव्या तत् स्थाप्यते; चमत्कारापरपर्यायविमर्शनसमये तु संह्रियते । यथोक्तं श्रीरामेण 'समाधिवत्रेणाप्यन्यैरभेद्यो भेदभूधरः । परामृष्टश्च नष्टश्च त्वद्भक्तिवलशालिभिः॥ इति । यदा तु संह्रियमाणमपि एतत् अन्तः विचित्राशङ्कादिसंस्कारम् आधत्ते, तदा तत् पुनः उद्भविष्यत्संसारबीजभावमापन्नं विलय- अध्यारोपितम् । यदा पुनः तत् तथा अन्तः स्थापितम् अन्यत् वा अनुभूयमानमेव हठपाकक्रमेण अलंग्रासयुक्त्या चिदग्निसाद्भा- वम् आपद्यते, तदा पूर्णतापादनेन अनुगृह्यते एव । ईदृशं च पञ्चविधकृत्यकारित्वं स- पं० १ क. पु० महागादिदेवीप्रसरणक्रमेणेति पाठः । पं० ३ ङ. पु० 'पदे' इति पदं नास्ति । पं. ५ ख. इ. पु० विमर्शसमये इति पाठः । पं० ८ क. पु. भक्तिभरशालिभिरिति पाठः। पं० १२ क. पु० पुनस्तदन्तस्तथा स्थापितमन्यदा इति पाठः । पं० १६ ग. पु० ईदृशपञ्चकृत्यकारिता सदा संनिहितापि इति पाठः । ४ २६ प्रत्यभिज्ञाहृदयम् । [सू० १२ र्वस्य सदा संनिहितमपि सद्गुरूपदेशं विना न प्रकाशते, इति सद्गुरुसपर्येव एतत्प्रथार्थम् अनुसर्तव्या ॥ ११ ॥ यस्य पुनः सद्गुरूपदेशं विना एतत्परिज्ञानं नास्ति,तस्य अवच्छादितस्वस्वरूपाभिःनिजाभिः शक्तिभिः व्यामोहितत्वं भवति ।-इत्याह तदपरिज्ञाने स्वशक्तिभिर्व्यामोहि- तता संसारित्वम् ॥ १२॥ 'तस्य' एतस्य सदा संभवतः पञ्चविधकृत्य- कारित्वस्य 'अपरिज्ञाने'-शक्तिपातहेतुकस्वबलो- न्मीलनाभावात् अप्रकाशने 'स्वाभिः शक्तिभिः व्यामोहितत्वं'-विविधलौकिकशास्त्रीयशङ्काश- कुकीलितत्वं यत् , इदमेव 'संसारित्वम् । तदुक्तं श्रीसर्ववीरभट्टारके पं० २ क. पु० सद्गुरूपसत्यैवेति; अनुमन्तव्येति च पाठः । पं० ५ क. पु० तस्य छादितस्वरूपाभिः इति पाठः; निजाभिः इति पदं ङ. पुस्तकादुपक्षिप्तम् । पं० ६ ग. पु. शक्तिव्यामोहितत्वं संसारित्वमित्याहेति पाठः । पं० ७ ख. पु. स्वशक्तिव्यामोहितता इति, ङ. पु० शक्तिव्यामोहितत्वम् इति पाठः। पं० ९ क. ग. पु० तदा इति पाठः ।

सू०१२] २७ प्रत्यभिज्ञाहृदयम् । 'अज्ञानाच्छङ्कते लोकस्ततः सृष्टिश्च संहतिः॥ इति। 'मत्रा वर्णात्मकाः सर्वे सर्वे वर्णाः शिवात्मकाः॥ इति च । तथा हि-चित्प्रकाशात् अव्यति- रिक्ता नित्योदितमहामवरूपा पूर्णाहविमर्श मयी या इयं परा वाक्शक्तिः आदि-क्षान्त- रूपाशेषशक्तिचक्रगर्भिणी, सा तावत् पश्यन्ती- मध्यमादिक्रमेण ग्राहकभूमिकां भासयति । तत्र च परारूपत्वेन स्वरूपम् अप्रथयन्ती मायाप्रमातुः अस्फुटासाधारणार्थावभासरूपां प्रतिक्षणं नवनवां विकल्पक्रियामुल्लासयति, शुद्धामपि च अविकल्पभूमि तदाच्छादितामेव दर्शयति। तत्र च ब्राहयादिदेवताधिष्ठितक- कारादिविचित्रशक्तिभिः व्यामोहितो देहप्रा- णादिमेव परिमितम् अवशम् आत्मानं मन्यते मूढजनः । ब्राहयादिदेव्यः पशुदशायां भेद- पं० ३ क. ग. पु. मनाः शिवात्मका इति पाठः । पं. ५ क. ग. पु. नित्योदितमत्ररूपा इति पाठः । पं० ६ क. पु० आदिक्षान्तशेषशक्तीति पाठः । पं० ८ ख. ङ. पु. मध्यमादिग्राहकेति पाठः । पं० ९क० पु. स्वरूपं प्रथयन्तीति पाठः । पं० १० क. ग. पु० अर्थाभासां प्रतिक्षणे इति पाठः । पं० १४ ख. रु. पु० शक्तिव्यामोहित इति पाठः ।

२८ प्रत्यभिज्ञाहृदयम् । [सू० १२ विषये सृष्टिस्थिती, अभेदविषये च संहारं प्रथयन्त्यः, परिमितविकल्पपात्रतामेव संपाद- यन्ति; पतिदशायां तु भेदे संहारम् , अभेदे च सर्गस्थिती प्रकटयन्त्यः, क्रमाक्रमं विकल्प- निर्वासनेन श्रीमद्भरवमुद्रानुप्रवेशमयीं मह- तीम् अविकल्पभूमिमेव उन्मीलयन्ति । 'सर्वो ममायं विभव इत्येवं परिजानतः । विश्वात्मनो विकल्पानां प्रसरेऽपि महेशता ॥ इत्यादिरूपां चिदानन्दावेशमग्नां शुद्धविकल्प- शक्तिम् उल्लासयन्ति । ततः उक्तनीत्या खश- क्तिव्यामोहिततैव संसारित्वम् । किंच चितिशक्तिरेव भगवती विश्ववमनात् १२ विज्ञानभैरवेपि 'सर्वज्ञः सर्वकर्ता च व्यापकः परमेश्वरः । स एवाहं शैवधर्म इति दााच्छिवो भवेत् ॥ इति । पं० २ क. पु० प्रयान्त्य इति पाठः । पं० ४ क. पु० विकल्पहासेन इति पाठः । पं० ७ क. ग. पु० इत्येवं परीत्यादि-पादत्रयहीनः पाठः । पं० ९ क. ग. पु० नन्दावेशसाराम् इति, अशुद्धां विकल्पशक्तिमिति च, ख. पु० शुद्धविकल्पां शक्तिम् , शुद्धामविकल्पेति पाठान्तरयुक्तः पाठः। पं० ११ क. पु० शक्तिभिर्व्यामोहितत्वम् इति पाठः । पं० १२ क. पु० विश्वावसाननात् इति पाठः ।

२९ सू०१२] प्रत्यभिज्ञाहृदयम् । संसारवामाचारत्वाच्च वामेश्वर्याख्या सती, खे- चरी-गोचरी-दिक्चरी-भूचरीरूपैः अशेषैः प्र- मातृ-अन्तःकरण-बहिष्करण-भावस्वभावैः परि- स्फुरन्ती, पशुभूमिकायां शून्यपदविश्रान्ता किंचित्कर्तृत्वाद्यात्मक-कलादिशक्त्यात्मना खे- चरीचक्रेण गोपितपारमार्थिकचिद्गगनचरीत्व- खरूपेण चकास्ति; भेदनिश्चयाभिमान-विक- ल्पनप्रधानान्तःकरणदेवीरूपेण गोचरीचक्रेण गोपिताभेदनिश्चयाद्यात्मकपारमार्थिकस्वरूपेण प्रकाशते; भेदालोचनादिप्रधानवहिष्करणदेव- तात्मना च दिक्चरीचक्रेण गोपिताभेदप्रथा- त्मकपारमार्थिकस्वरूपेण स्फुरति; सर्वतो व्य- वच्छिन्नाभासस्वभावप्रमेयात्मना च भूचरी- चक्रेण गोपितसार्वात्म्यस्वरूपेण पशुहृदय- व्यामोहिना भाति । पतिभूमिकायां तु सर्व- पं० ३ क. पु० बहिष्करणभावैरिति, ख. पु० बहिष्करणभावाभावस्व- भावरिति पाठः। पं० ४ क. पु० विश्रान्तकिंचित् इति पाठः । पं० ५ ख.पु० खेचरीक्रमेण इति, ग. पु० खेचरीत्वक्रमेणेति पाठः। पं. ६ क. पु० गगनचरीत्वक्रमेण इति पाठः । पं० १० क. ग. पु. प्रधानताबहिष्करणेति पाठः । पं० १४ ख. पु० सर्वात्मस्वरूपेणेति पाठः।

३० प्रत्यभिज्ञाहृदयम् । [सू० १२ कर्तृत्वादिशक्त्यात्मकचिद्गगनचरीत्वेन, अभेद- निश्चयाद्यात्मना गोचरीत्वेन, अभेदालोचना- द्यात्मना दिक्चरीत्वेन, स्वाङ्गकल्पाद्वयप्रथासा- रप्रमेयात्मना च भूचरीत्वेन पतिहृदयविका- सिना स्फुरति । तथा च उक्तं सहजचमत्कार- परिजनिताकृतकादरेण भट्टदामोदरेण विमु क्तकेषु 'पूर्णावच्छिन्नमात्रन्तर्बहिष्करणभावगाः । वामेशाद्याः परिज्ञानाज्ञानात्स्युर्मुक्तिबन्धदाः॥ इति । एवं च निजशक्तिव्यामोहिततैव संसा- रित्वम् । अपि च चिदात्मनः परमेश्वरस्य वा अन- पायिनी एकैव स्फुरत्तासारकर्तृतात्मा ऐश्वर्य- शक्तिः ।सा यदा स्वरूपं गोपयित्वा पाशवे पदे पं. ४ क. पु० पतिहृदये विकासिता इति पाठः । पं० ५ तथा चेत्यारभ्य मुक्तिबन्धदा इत्यन्तः पाठः क. ग. पु० नास्ति, उपन्यस्तश्चात्र ख. ङ. पुस्तकाभ्यां, तत्र ङ. पु० पूर्णावि- च्छिन्नमात्रास्तु इति पाठः । पं० १२ क. ग. पु० सानपायिनीति पाठः । पं० १३ क. पु० स्फुरणसारा कर्तृता आत्मैश्वर्यशक्तिरिति पाठः। पं० १४ ख. पु. गृह यित्वा इति पाठः ।

सू०१२] प्रत्यभिज्ञाहृदयम् । ३१ प्राणापान-समान-शक्तिदशाभिः जाग्रत्स्वप्न-सुषु- सभूमिभिः देह-प्राण-पुर्यष्टककलाभिश्च व्यामो- हयति, तदा तद्वयामोहितता संसारित्वम् ; यदा तु मध्यधामोल्लासाम् उदानशक्तिं, वि- श्वव्याप्तिसारां च व्यानशक्तिं, तुर्यदशारूपां तुर्यातीतदशारूपां च चिदानन्दघनाम् उन्मी- लयति, तदा देहाद्यवस्थायामपि पतिदशात्मा जीवन्मुक्तिर्भवति । एवं त्रिधा स्वशक्तिव्यामो. हितता व्याख्याता । 'चिद्वत्' इति (९) सूत्रे चित्प्रकाशो गृहीतसंकोचः संसारी इत्युक्तम् , इह तु स्वशक्तिव्यामोहितत्वेन अस्य संसा- रित्वं भवति,-इति भणयन्तरेण उक्तम् । एवं संकुचितशक्तिः प्राणादिमानपि यदा स्वशक्ति- व्यामोहितो न भवति, तदा अयम् १३ आत्मा मनसा, मन इन्द्रियेण, इन्द्रियमर्थेन संयुज्यते इति चतुष्टयसंनिकर्षः जाग्रदवस्था । आत्मा मनसा, मनो विषयेण इति त्रितय- संनिकर्षः स्वप्नावस्था । आत्मा विषयेण इति द्वयोः संनिकर्षः सुषुप्तिः । केवलात्मसंनिकपः तुर्या । निस्तरङ्गमहोदधिकल्यावस्थानं तु तुर्यातीता. वस्था इति । पं. ३ क. पु० तदा व्यामोहता संसारीति पाठः। पं. ४ क. पु० धामोल्लासात् उदानशक्तिव्याप्तिसारां व्यानेति, ख. पु० उदानशक्तिं व्याप्तीति विश्वपदहीनः पाठः ।

प्रत्यभिज्ञाहृदयम् । '... ३२ [सू०१३ "शरीरी परमेश्वरः। इत्याम्नायस्थित्या शिवभद्दारक एव,-इति भङ्गया निरूपितं भवति । यदागमः 'मनुष्यदेहमास्थाय छन्नास्ते परमेश्वराः।' इति । उक्तं च प्रत्यभिज्ञाटीकायाम् 'शरीरमेव घटाद्यपि वा ये षट्त्रिंशत्तत्वमयं शिवरूपतया पश्यन्ति तेऽपि सिध्यन्ति' इति ॥ १२॥ उक्तसूत्रार्थप्रातिपक्ष्येण तत्त्वदृष्टिं दर्शयि- तुमाह तत्परिज्ञाने चित्तमेव अन्तर्मुः खीभावेन चेतनपदाध्यारो- हात् चितिः॥१३॥ पूर्वसूत्रव्याख्याप्रसङ्गेन प्रमेयदृष्ट्या वितत्य पं. १ क. पु. परमेश्वर एवेति 'एव' पदाधिकः पाठः। पं. ६ क. पु० शरीरमेव ये पत्रिंशत्तत्त्वमयं शिवरूपतया पश्यन्ति अर्च- यन्ति च तेपि सिध्यन्ति, घटादिकमपि तथाभिनिविशन्ति तेपि इति नास्त्यत्र विवाद इत्युक्तसूत्रार्थेति पाठः । पं० ११ क. ग. पु० अन्तर्मुखीभावे चेतनेति पाठः । पं० १२ ख. पु. पदाद्यारोपात् इति पाठः । पं० १४ क.पु० दृष्टया विततप्रायमेतत् शब्दसंगत्या व्याक्रियते इति पाठः।

सू०१३] प्रत्यभिज्ञाहृदयम् । ३३ व्याख्यातप्रायमेतत् सूत्रम् ; शब्दसंगत्या तु अधुना व्याख्यायते । 'तस्य' आत्मीयस्य पञ्च- कृत्यकारित्वस्य 'परिज्ञाने' सति अपरिज्ञानलक्ष- णकारणापगमात् स्वशक्तिव्यामोहिततानिवृत्ती खातव्यलाभात् प्राक् व्याख्यातं यत् 'चित्तं' तदेव संकोचिनी बहिर्मुखतां जहत्, ‘अन्तर्मु- खीभावेन चेतनपदाध्यारोहात्,-ग्राहकभूमिका- क्रमणक्रमण संकोचकलाया अपि विगलनेन स्वरूपापत्त्या 'चितिर भवति; खा चिन्मयीं परां भूमिमाविशति इत्यर्थः ॥ १३ ॥ यदि पारमार्थिक चिच्छक्तिपदं सक- लभेदकवलनखभावं, तत् अस्य मायापदेऽपि तथारूपेण भवितव्यं यथा जलदाच्छादित- १४ तथा चोक्तम् 'स पुनः शाम्भवेच्छातः शिवाभेदं परामृशन् । क्रमान्मन्ब्रेश-तन्नेतृरूपो याति शिवात्मताम् ॥' ननु इति । पं. ४ क. ग. पु. करणापगमादिति पाठः । पं० ५ क. पु० स्वातघ्यालाभादिति पाठः । पं. ६ क. पु० संकोचिनी बहिर्मुखता इति पाठः । पं० ८ ग. पु० विगलने इति सप्तमीनिर्दिष्टः पाठः । पं० ९ क. पु. पराभूमिम् इति समस्तः पाठः। ५ ३४ मेयेन्धनं प्लु प्रत्यभिज्ञाहृदयम् । [सू०१४ स्यापि भानोः भावावभासकत्वम् । इत्याशङ्कप आह चितिवह्निरवरोहपदे छन्नोऽपि मात्रया ष्यति ॥१४॥ 'चितिरेव' विश्वग्रसनशीलत्वात्वह्निः; असौ एव 'अवरोहपदे'-मायाप्रमातृतायां 'छन्नोऽपि'- स्वातत्र्यात् आच्छादितस्वभावोऽपि, भूरिभूति- च्छन्नाग्निवत् 'मात्रया'-अंशेन,नीलपीतादिप्रम- येन्धनं 'लुष्यति'-स्वात्मसात् करोति । मात्रा- पदस्य इदम् आकूतम्-यत् कवलयन् अपि सार्वात्म्येन न असते, अपि अंशेन संस्का- रात्मना उत्थापयति । ग्रासकत्वं च सर्वप्रमा- तृणां स्वानुभवत एव सिद्धम् । यदुक्तं श्रीमदु- त्पलदेवपादैः निजस्तोत्रेष तु पं० ६ क. ग. पु० चितिरेव ग्रसनेति विश्वपदहीनः, असावारोहिपदे इति च पाठः। पं० ९ ख. ङ. पु० मात्रयाप्यचेतनया नीलेति, क. पु० पीतादिमेयमे- वेन्धनमिति पाठः। पं० १२ ग. पु० सर्वात्मकत्वेनेति पाठः । क. ग. पु० संस्कारात्मक तत्स्थापयतीति च पाठः।

सू०१५] प्रत्यभिज्ञाहृदयम् । ३५ 'वर्तन्ते जन्तवोऽशेषा अपि ब्रह्मेन्द्रविष्णवः । ग्रसमानास्ततो वन्दे देव विश्वं भवन्मयम् ॥' इति ॥१४॥ यदा पुनः करणेश्वरीप्रसरसंकोचं संपाद्य स- संहारक्रमपरिशीलनयुक्तिम् आविशति तदा बललाभे विश्वमात्मसात्क- रोति ॥ १५॥ चितिरेव देहप्राणाद्याच्छादननिमजनेन स्व- रूपम् उन्मन्नत्वेन स्फारयन्ती बलम् ; यथोक्तं 'तदाक्रम्य बलं मत्राः. इति । एवं च 'बललाभे'-उन्मग्नस्वरूपाश्रयणे, क्षित्यादि-सदाशिवान्तं 'विश्वम् आत्मसात् करोति'-स्वस्वरूपाभेदेन निर्भासयति । तदुक्तं पूर्वगुरुभिः स्खभाषामयेषु क्रमसूत्रेषु 'यथा वह्निरुद्धोधितो दाह्यं दहति, तथा विष- यपाशान् भक्षयेत्' इति। ... पं० ५ क. पु० सर्वसंहारेति पाठः । पं० ११ क. पु० तन्मजनस्वरूपाश्रयेणेति, ग. पु. श्रयत्वेनेति पाठः। 'पं० १३ ग. पु० यथोक्तमिति पाठः ।

३६ प्रत्यभिज्ञाहृदयम् । [ सू०१६ 'न चैवं वक्तव्यम्,-विश्वात्मसात्काररूपा समावेशभूः कादाचित्की, कथम् उपादेया इयं स्यात् इति; यतो देहाद्युन्मजननिमजनवशेन इदम् अस्याः कादाचि- कत्वम् इव आभाति । वस्तुतस्तु चितिस्वातच्याव- भासितदेहाद्युन्मजनात् एव कादाचित्कत्वम् । एषा तु सदैव प्रकाशमाना; अन्यथा तत् देहादि अपि न प्रकाशेत । अत एव देहादिप्रमाताभिमाननि- मज्जनाय अभ्यासः, न तु सदा प्रथमानतासारप्रमा- ताप्राप्त्यर्थम् इति श्रीप्रत्यभिज्ञाकाराः॥ १५॥ एवं च चिदानन्दलाभे देहादिषु चेत्यमाने- प्वपि चिदैकात्म्यप्रतिपत्तिदाय जीवन्मुक्तिः ॥१६॥ विश्वात्मसात्कारात्मनि समावेशरूपे चिदा- नन्दे लब्धे' व्युत्थानदशायां दलकल्पतया देहप्राणनीलसुखादिषु आभासमानेषु अपि, पं० १ ख. पु० विश्वात्मसाक्षात्कारेति पाठः । पं० २ क. उ.पु० उपादेयमिति, ख. पु० उपादेया स्यादिति पाठः । पं. ४ क. ग. पु. स्वातच्यावभासितं देहेत्यादि, पाठः। पं०५ ख. ङ. पु० उन्मजनादि एवेति पाठः । पं० ७ ङ. पु. निमजनया अभ्यास इति पाठः। पं० ८ ग. पु. सारपरप्रमातृता इति पाठः। पं० १२ ख. पु० देहादिष्वपि चेत्येति पाठः ।

प्रत्यभिज्ञाहृदयम् । सू०१७] ३७ यत्समावेशसंस्कारबलात् प्रतिपादयिष्यमाण- युक्तिक्रमोपबृंहितात् 'चिदैकात्म्यप्रतिपत्तिदा- यम्'-अविचला चिदेकत्वप्रथा, सैव 'जीव- न्मुक्तिः'-जीवतः प्राणान् अपि धारयतो मुक्तिः; प्रत्यभिज्ञातनिजस्वरूपविद्राविताशेषपाशराशि- त्वात् । यथोक्तं स्पन्दशास्त्रे 'इति वा यस्य संवित्तिः क्रीडात्वेनाखिलं जगत् । स पश्यन्सततं युक्तो जीवन्मुक्तो न संशयः॥ इति ॥ १६॥ अथ कथं चिदानन्दलाभो भवति?-इत्याह मध्यविकासाच्चिदानन्द- लाभः॥१७॥ सर्वान्तरतमत्वेन वर्तमानत्वात् तद्भित्तिल- मतां विना च कस्यचित् अपि स्वरूपानुपपत्तेः संविदेव भगवती 'मध्यम्'।सा तु मायादशायां तथाभूतापि स्वरूपं गृहयित्वा पं० २ ख. ङ. पु० मुक्तिक्रमेणेति पाठः । पं० ३ ग. पु० अविचलचिदेकत्वेन या प्रथा इति पाठः । पं० ४ ख. ङ. पु० मुक्तिः निजस्वरूपविद्रावितेति, पाठः। पं. ५ क. पु० रूपे विद्रावितेति पाठः । पं. ८ क. पु. संपश्यन् इति पाठः। पं० १४ ग. पु. स्वात्मत्वानुपपत्तेः इति पाठः । पं० १६ ग. पु. स्वात्मस्वरूपमिति पाठः ।

३८ प्रत्यभिज्ञाहृदयम् । [सू. १७ 'प्राक् संवित्लाणे परिणता' इति नीत्या प्राणशक्तिभूमि स्वीकृत्य, अवरो- हकमेण बुद्धिदेहादिभुवम् अधिशयाना, नाडी- सहस्रसरणिम् अनुसृता । तत्रापि च पलाश- पर्णमध्यशाखान्यायेन आ ब्रह्मरन्ध्रात् अधो- वनपर्यन्तं प्राणशक्तिब्रह्माश्रयमध्यमनाडीरूप- तया प्राधान्येन स्थिता; तत एव सर्ववृत्ती- नाम् उदयात्, तत्रैव च विश्रामात् । एवं- भूतापि एषा पशूनां निमीलितखरूपैव स्थिता। १५ यथा सर्ववाहनसंपत्समृद्धोपि राजा स्वेच्छया पद्भ्यां गच्छति, तथेयं संविद्भगवत्यपि स्वेच्छया परिमितप्रमात्रात्मदेहादिभूमि स्वीकुरुते इति भावः। १६ पशवः अविज्ञातपरतत्त्वाः । तथा च 'अविज्ञाते परे तत्त्वे योगाभ्यासो हि निष्फलः । विज्ञाते च परे तत्त्वे योगाभ्यासो हि निष्फलः॥' इति । पं० ३ ख. पु० नानानाडीति पाठः । पं. ६ क. पु० प्राणशक्तिब्रह्माश्रयमध्यनाडीरूपत्वेनेति, ख. पु. प्राण- ब्रह्माश्रयेण मध्यमब्रह्मनाडीरूपतयेति, ग. पु० ब्रह्माशयेति पाठः । पं०७ ख. पु० सर्वचित्तवृत्तीनामिति, ङ. पु० सर्ववृत्तीनां प्रलयात् पं० ८ क. पु० विश्रमणादिति पाठः । इति पाठः। पं० ९ ख. पु० स्वरूपावस्थितेति पाठः ।

तु उक्तयुक्तिक्रमण सू०१८] प्रत्यभिज्ञाहृदयम् । ३९ यदा सर्वान्तरतमत्वे मध्यभूता संविद्भगवती विकसति, यदि वा वक्ष्यमाणक्रमेण मध्यभूता ब्रह्मनाडी विक- सति, तदा 'तद्विकासात् चिदानन्दस्य' उक्त- रूपस्य 'लाभः-प्राप्तिर्भवति । ततश्च प्रागुक्ता जीवन्मुक्तिः॥१७॥ मध्यविकासे युक्तिमाह विकल्पक्षय-शक्तिसंकोचविकास- वाहच्छेदाद्यन्तकोटिनिभाल- नादय इहोपायाः ॥१८॥ 'इह' मध्यशक्तिविकासे 'विकल्पक्षयादय उपायाः' । प्रागुपदिष्टपञ्चविधकृत्यकारित्वाद्यनु- सरणेन सर्वमध्यभूतायाः संविदो विकासो जायते इति अभिहितप्रायम् । उपायान्तरम् अपि तु उच्यते; प्राणायाम-मुद्राबन्धादिसम- पं० १ ख. 6. पु. तमत्वेन संभूता इति पाठः। पं. ३ ख. पु० मध्या ब्रह्मनाडीति पाठः । पं० ७ ख. रु. पु० विकासे जीवन्मुक्तियुक्तिमिति पाठः । पं० १० ख. पु० दयो छुपाया इति, क. पु० उपाय इत्येकवचनान्तः पाठः। पं० ११ ख.पु. सूत्रादनन्तरम्, 'प्राणावारोहारोहच्छेदा विकल्पक्षयादय' इति पाठः।

४० हृदये विकल्पम् प्रत्यभिज्ञाहृदयम् । [सू०१८ स्तयत्रणातत्रत्रोटनेन सुखोपायमेव, निहितचित्तः, उक्तयुक्त्या स्वस्थितिप्रतिबन्धक अकिंचिच्चिन्तकत्वेन प्रशमयन्, अविकल्पपरामर्शेन देहाद्यकलुषस्वचित्प्रमातृ- तानिभालनप्रवणः, अचिरादेव उन्मिषद्वि- कासां तुर्य-तुर्यातीतसमावेशदशाम आसाद- यति । यथोक्तम् 'विकल्पहानेनैकाय्यात्क्रमेणेश्वरतापदम् ।' इति श्रीप्रत्यभिज्ञायाम् । श्रीस्पन्देऽपि 'यदा क्षोभः प्रलीयेत तदा स्यात्परमं पदम् ॥' इति । श्रीज्ञानगर्भेऽपि 'विहाय सकलाः क्रिया जननि मानसीः सर्वतो विमुक्तकरणक्रियानुसूतिपारतत्र्योज्वलम् । स्थितैस्त्वदनुभावतः सपदि वेद्यते सा परा दशा नृभिरतन्द्रितासमसुखामृतस्यन्दिनी ॥' इति।अयं च उपायो मूर्धन्यत्वात् प्रत्यभिज्ञायां पं० १ ख.पु०समस्तयत्रत्रोटनेनेति ख.पु० हृदयनिहितेति च समस्तः, पाठः। पं० २ ग. पु. संनिहितेति, क. पु० प्रतिबन्धनात् इति च पाठः । पं० १४ ख. पु० स्थितस्त्वदनुभावेति पाठः । पं० १५ ख. पु० तन्द्रिता शमसुखेति पाठः । पं० १६ क. पु० मूर्धत्वादिति पाठः ।

सू०१८] प्रत्यभिज्ञाहृदयम् । ४१ प्रतिपादितत्वात् आदौ उक्तः।शक्तिसंकोचाद- यस्तु यद्यपि प्रत्यभिज्ञायां न प्रतिपादिताः, तथापि आम्नायिकत्वात् अस्माभिः प्रसङ्गात् प्रदर्यन्ते; बहुषु हि प्रदर्शितेषु कश्चित् केनचित् प्रवेक्ष्यति इति । 'शक्तेः संकोच'-इन्द्रियद्वारेण प्रसरन्त्या एव आकुश्चनक्रमेण उन्मुखीकरणम् । यथो- क्तम् आथर्वणिकोपनिषत्सु कठवल्यां चतुर्थ- वल्लीप्रथममन्त्रे 'पराश्चि खानि व्यतृणत्वयंभू- स्तस्मात्पराङ्पश्यति नान्तरात्मन् । कश्चिद्धीरः प्रत्यगात्मानमैक्षद् आवृत्तचक्षुरमृतत्वमश्नन् ।' इति । प्रसृताया अपि वा कूर्माङ्गसंकोचवत् त्राससमये हृत्प्रवेशवच्च सर्वतो निवर्तनम् । यथोक्तम् १७ उपायेषु । पं. १ ख.पु० शक्तिसंकोचः, प्रतिपादितः, प्रदर्श्यते इत्येतेषामेकवचनत्वे- पं. ४ क.पु. कः केन प्रविशेत् इति पाठः। पं० १२ क. पु० कश्चिद्धीमान् इति, व्यावृत्तचक्षुरिति, च पाठः । सर्वेषु मूलौपनिषदपुस्तकेषु मुद्रितेषु 'अमृतत्वमिच्छन्' इति पाठः संदृश्यते । नैव पाठः। ६ ४२ प्रत्यभिज्ञाहृदयम् । [सू०१८ 'तदपोद्भते नित्योदितस्थितिः।' इति। 'शक्तेर्विकासः' अन्तर्निगूढाया अक्रममेव सकलकरणचक्रविस्फारणेन 'अन्तर्लक्ष्यो वहिदृष्टिनिमेपोन्मेपवर्जितः।' इति । भैरवीर्यमुद्रानुप्रवेशयुक्त्या बहिः प्रसर- णम् । यथोक्तं कक्ष्यास्तोत्रे 'सर्वाः शक्तीश्वेतसा दर्शनाद्याः स्खे स्वे वेद्ये योगपोन विष्वक् । क्षिप्वा मध्ये हाटकस्तम्भभूत- स्तिष्ठन्विश्वाधार एकोऽवभासि ॥' इति । श्रीभट्टकल्लटेनापि उक्तम् १८ भैरवीयमुद्रा खेचरीमुद्रा । तल्लक्षणं च यथा 'मनः स्थिरं यस्य विनावलम्बनं वायुः स्थिरो यस्य विनावरोधनम् । दृष्टिः स्थिरा यस्य विनावलोकनं स्यात्सैव मुद्रा विमला च खेचरी ॥' इति । पं. १ क. ग. पु. नित्यस्थितिरिति पाठः । पं० ३ क. पु० विकासोन्तर्विमूढाया अपि क्रममेव इति, ग. पु० विकासो मूढाया इति पाठः। पं० ९ ख. ङ. पु० सम्यक् इति पाठः। पं० ११ क. ग. पु० विश्वाकार इति पाठः ।

४ सू०१८] प्रत्यभिज्ञाहृदयम् । 'रूपादिषु परिणामात् तत्सिद्धिः । इति । शक्तेश्च संकोचविकासौ, नासापुटस्प- न्दनक्रमोन्मिषत्सूक्ष्मप्राणशक्त्या भ्रूभेदनेन क्रमासादितो कुण्डलिनीपदे प्रसरविश्रान्ति- दशापरिशीलनम् ; अधःकुण्डलिन्यां च षष्ठ- वक्ररूपायां प्रगुणीकृत्य शक्तिं, तन्मूल-तदन-त- न्मध्यभूमिस्पर्शावेशः । यथोक्तं विज्ञानभट्टारके 'वतेविषस्य मध्ये चित्तं सुखमयं क्षिपेत् केवलं वायुपूर्ण वा स्मरानन्देन युज्यते ॥ इति । अत्र वह्निः अनुप्रवेशक्रमेण संकोचभूः, विषस्थानम् प्रसरयुक्त्या विकासपदम् , 'विष्ल व्याप्तौ' इति अर्थानुगमात् । १९ षष्ठवनात्मनः शक्तेर्मूलभूर्वह्निः संकोचहेतुत्वात्, प्रसरणात्मव्या- तिहेतुर्विषं, तयोर्मध्ये सृष्टिग्रन्थौ मध्यनाड्यात्मनि, केवलमारोहावरोह- विषयसंबन्धरहितं वायुपूर्ण वा मध्यनाडीस्थिताक्रमोच्चारानन्ककलात्मक- प्राणभरितम् ईदृशं सुखमयं हादात्मकं चित्तं भावनया क्षिपेत् , ततः स्मरानन्देन युक्तो भवति सर्वविषयविस्मारकारणत्वात्कामानन्दस्य आन- न्दान्तरेभ्यः परत्वात् इति । तु पं० २ क. पु० विकास इत्येकवचनपाठः । पं० ३ ख. पु० स्वाभेदेन क्रमेति, ग. पु. भ्रूभेदसमासादिता इति पाठः । पं० ६ ख. पु० पष्ठचक्ररूपाम् इति, ग. पु. वक्ररूपायामिति पाठः । पं० ११ ख. पु० प्रसरन्या विकासेति पाठः। पं० १२ ख. पु. अर्थावगमात् इति पाठः ।

४४ प्रत्यभिज्ञाहृदयम् । [सू० १८ 'वाहयोः' वामदक्षिणगतयोः प्राणापानयोः 'छेदो'-हृदयविश्रान्तिपुरःसरम् अन्तः ककार- हकारादिप्रायानच्कवर्णोच्चारेण विच्छेदनम् । यथोक्तं ज्ञानगर्भ 'अनच्कककृतायतिप्रसृतपार्श्वनाडीद्वय- च्छिदो विधृतचेतसो हृदयपङ्कजस्योदरे । उदेति तव दारितान्धतमसः स विद्याङ्करो य एष परमेशतां जनयितुं पशोरप्यलम् ॥ इति । 'आदिकोटिः' हृदयम्, 'अन्तकोटिः' द्वाद- शान्तः; तयोः प्राणोल्लासविश्रान्त्यवसरे निभा- लनं'-चित्तनिवेशनेन परिशीलनम् यथोक्तं विज्ञानभैरवे 'हृद्याकाशे निलीनाक्षः पद्मसंपुटमध्यगः । अनन्यचेताः सुभगे परं सौभाग्यमाप्नुयात् ।' इति । तथा 'यथा तथा यत्र तत्र द्वादशान्ते मनः क्षिपेत् । प्रतिक्षणं क्षीणवृत्तेईलक्षण्यं दिनैर्भवेत् ॥' पं० १ ग. पु. वामदक्षिणगत्योरिति पाठः । पं० ३ क.पु०प्रायेणानच्कोच्चारेणेति,ख. पु.अनच्कवर्णोच्चारणे इति पाठः। पं० १२ क. पु० चितिनिवेशनेनेति पाठः । पं० १८ क. पु० वैलक्ष्यं दिनशो भवेदिति, ख. पु. वैलक्षण्यं क्षणैर्भवेत् इति पाठः ।

सू० १८] ४५ प्रत्यभिज्ञाहृदयम् । इति । आदिपदात् उन्मेषदशानिषेवणम् । यथोक्तम् 'उन्मेषः स तु विज्ञेयः स्वयं तमुपलक्षयेत् ॥ इति स्पन्दे । तथा रमणीयविषयचर्वणादयश्च संगृहीताः । यथोक्तं श्रीविज्ञानभैरवे एव 'जग्धिपानकृतोल्लासरसानन्दविजृम्भणात् । भावयेद्भरितावस्थां महानन्दमयो भवेत् ॥ गीतादिविषयास्वादासमसौख्यकतात्मनः । योगिनस्तन्मयत्वेन मनोरुडेस्तदात्मता ॥ यत्र यत्र मनस्तुष्टिर्मनस्तत्रैव धारयेत् । तत्र तत्र परानन्दस्वरूपं संप्रकाशते ॥' इति। एवमन्यदपि आनन्दपूर्णखात्मभावनादि- कम् अनुमन्तव्यम् । इत्येवमादयः अत्र मध्य- विकासे उपायाः ॥ १८॥ मध्यविकासाच्चिदानन्दलाभः, स एव च परमयोगिनः समावेशसमापत्त्यादिपर्यायः स- माधिः, तस्य नित्योदितत्वे युक्तिमाह पं० १ ख. ङ. पु० दशापरिशीलनं विशेषेणेति पाठः । पं० ७ ख. ङ. पु. भैरवावस्थाम् इति क. पु. सदानन्दस्ततो भवेदिति, ग. पु० महानन्दोदय इति, मूले तु महानन्दस्ततो भवेदिति पाठः। पं० ८ क. पु० विपयास्वादात्समसौख्येति पाठः । पं० ९ क. ग. पु० मनोरूढ्या तदेति पाठः। पं० १० ख. पु० तुष्टिस्तत्र तत्रैव धारयेदिति पाठः ।

प्रत्यभिज्ञाहृदयम् । ४६ [सू० १९ समाधिसंस्कारवति व्युत्थाने भूयो भूयश्चिदैक्यामर्शान्नित्योदित- समाधिलाभः॥ १९॥ आसादितसमावेशो योगिवरो व्युत्थाने अपि समाधिरससंस्कारेण क्षीव इव सानन्दं घूर्णमानो, भावराशिं शरदभ्रलवम् इव चिद्ग- गन एव लीयमानं पश्यन् , भूयो भूयः अन्त- मुखताम् एव समवलम्बमानो, निमीलनस- माधिक्रमेण चिदैक्यमेव विमृशन् , व्युत्थाना- भिमतावसरे अपि समाध्येकरस एव भवति । यथोक्तं क्रमसूत्रेषु 'क्रममुद्रया अन्तःस्वरूपया बहिर्मुखः समाविष्टो भवति साधकः । तत्रादौ वाह्यात् अन्तः प्रवेशः, आभ्यन्तरात् बाह्यस्वरूपे प्रवेशः आवेशवशात् जायते इति सबाह्याभ्यन्तरोऽयं मुद्राक्रमः' इति । अत्रायमर्थः सृष्टि-स्थिति-संहृतिसंविच्च- पं० ५ क. पु० समाधिसंस्कारेति, क्षीव इव चात्मानं पूर्यमाणभावेति च पं० १२ क. पु० बहिर्मुखसमाविष्ट इति समस्तः पाठः । पाठः। पं० १३ ख. पु० तत्र चेत्यस्ति । 'तत्रादौ' इति वाक्यं (ङ० पुस्तकात्) उप- न्यस्तम् । क. पु. वाद्यानुप्रवेशोऽभ्यन्तरादिति पाठः।

४७ " सू० १९] प्रत्यभिज्ञाहृदयम् । कात्मकं क्रमं मुद्रयति, स्वाधिष्ठितम् आत्मसात् करोति येयं तुरीया चितिशक्तिः, तया 'क्रममु द्रया'; 'अन्तरिति'-पूर्णाहन्ताखरूपया; 'बहिर्मु- ख'-इति, विषयेषु व्यापृतः अपि; 'समाविष्टः- साक्षात्कृतपरशक्तिस्फारः 'साधकः-परमयोगी भवति। तत्र च 'बाह्याद्' ग्रस्यमानात् विषयग्रा- मात् 'अन्तः'-परस्यां चिति भूमो, ग्रसनक्रमे णैव प्रवेशः-समावेशो भवति । 'आभ्यन्तरात् चितिशक्तिस्वरूपात् च साक्षात्कृतात् 'आवेशव- शात्'-समावेशसामर्थ्यात् एव बाह्यस्वरूपे'-इद- न्तानि से विषयग्रामे, वमनयुक्त्या 'प्रवेशः'- चिद्रसाश्यानताप्रथनात्मा समावेशो जायते:- इति ‘सबाह्याभ्यन्तरः अयं नित्योदितसमावे- शात्मा, 'मुदो'-हर्षस्य वितरणात् परमानन्द- स्वरूपत्वात् , पाशद्रावणात्, विश्वस्य अन्तः पं० २ ख. पु० यैव इति पाठः । पं. ३ क. पु० अन्तरितपूर्णाहन्तारूपयेति पाठः । पं० ८ ग. पु० अभ्यन्तरस्थचितिशक्तिरूपादिति पाठः । पं० ९ क. पु० साक्षात्कृतावेशसामर्थ्यादेव वाह्येति, ङ. पु. साक्षा- स्कृतात्समावेशसामर्थ्यादेव बाह्येति पाठः । पं० ११ ख. ङ. पु० वमनेतिस्थाने ग्रसनयुत्तया इति पाठः । ६ ४८ प्रत्यभिज्ञाहृदयम् । [ सू० २० तुरीयसत्तायां मुद्रणात् च मुद्रात्मा, क्रमः अपि सृष्टयादिक्रमाभासकत्वात् तत्क्रमाभासरूप- त्वात् च 'क्रम' इति अभिधीयते इति ॥ १९॥ इदानीम् अस्य समाधिलाभस्य फलमाह तदा प्रकाशानन्दसारमहामन्त्रवीर्या- त्मकपूर्णाहन्तावेशात्सदा सर्वसर्ग- संहारकारिनि जसंविद्देवताच केश्वरताप्राप्तिर्भवतीति शिवम्॥२०॥ नित्योदिते समाधौ लब्धे सति, 'प्रकाशा- नन्दसारा-चिदाहादैकघना 'महती मत्रवीर्या- त्मिका'-सर्वमव्रजीवितभूता 'पूर्णा' पराभट्टारि- कारूपा या इयम् 'अहन्ता'-अकृत्रिमः स्वात्म- चमत्कारः, तत्र 'आवेशात्' 'सदा' कालाग्न्यादेः चरमकलापर्यन्तस्य विश्वस्य यौ 'सर्गसंहारौ'- विचित्री स्मृष्टिप्रलयौ 'तत्कारि' यत् निजं संवि- पं० १ क. पु० तुरीयदशायाः सत्तायामिति पाठः। पं० २ क. पु० सृष्टयादिक्रमाभासरूपत्वात् च क्रम इति पाठः । पं० १४ ख. पु० सदाशिवान्तं कालाग्यादेरित्यादि, क. पु० सदा काला- ग्यादीश्वरसतत्त्वकलान्तस्येति पाटः ।

सू० २०] प्रत्यभिज्ञाहृदयम् । ४९ देवताचक्र' 'तदैश्वर्यस्य 'प्राप्तिः-आसादनं 'भ- वति, प्राकरणिकस्य परमयोगिन इत्यर्थः; 'इति' एतत् सर्वं शिवस्वरूपमेव इति उपसंहारः-इति संगतिः। तत्र यावत् इदं किंचित् संवेद्यते, तस्य संवेदनमेव स्वरूपं; तस्यापि अन्तर्मुखविमर्श- मयाःप्रमातारः तत्त्वम् ; तेषामपि विगलितदेहा- द्युपाधिसंकोचाभिमाना अशेषशरीरा सदाशि- वेश्वरतैव सारम् ; अस्या अपि प्रकाशैकसद्भावा- पादिताशेषविश्वचमत्कारमयः श्रीमान् महे- श्वर एव परमार्थः; नहि पारमार्थिकप्रकाशा- वेशं विना कस्यापि प्रकाशमानता घटते-स च परमेश्वरः स्वातत्र्यसारत्वात् आदि-क्षान्ता- मायीयशब्दराशिपरामर्शमयत्वेनैव एतत्स्वी- कृतसमस्तवाच्य-वाचकमयाशेषजगदानन्दस- पं० २ क. पु० प्राकरणिकयोगिन इति पाठः। पं. ४ क. ग. पु. यदिदम् इति पाठः । पं० ५ ख. पु० अन्तर्मुखमया इति पाठः । पं० ६ ख. ङ. पु० देहादिसंकोचेति ‘उपाधि' पदहीनः पाठः । पं. ७ क. पु. सदाशिवेश्वरता तत्रैवेति पाठः। पं० ९ क. पु. श्रीमहेशः परमार्थ इति पाठः । पं० १२ ख. पु० आदिक्षान्तमायीयेति पाठः । पं० १३ ङ. पु० तत्स्वीकृतेति पाठः। पं० १४ क. पु. आनन्दमयसंभवापादादिति पाठः ।

५० प्रत्यभिज्ञाहृदयम् । [ सू० २० द्भावापादनात् परं परिपूर्णत्वात् सर्वाकाङ्क्षा- शून्यतया आनन्दप्रसरनिर्भरः; अत एव अनु- त्तराकुलस्वरूपात् अकारात् आरभ्य शक्तिस्फा- ररूपहकलापर्यन्तं यत् विश्वं प्रसृतं, क्षकारस्य प्रसरशमनरूपत्वात् तत् अकार-हकाराभ्यामेव संपुटीकारयुक्त्या प्रत्याहारन्यायेन अन्तः स्वी- कृतं सत् अविभागवेदनात्मकबिन्दुरूपतया स्फुरितम् अनुत्तर एव विश्राम्यति;-इति शब्द- राशिस्वरूप एव अयम् अकृतको विमर्शः । यथोक्तं 'प्रकाशस्यात्मविश्रान्तिरहं-भावो हि कीर्तितः। उक्ता च सैव विश्रान्तिः सर्वापेक्षानिरोधतः॥ स्वातत्र्यमथ कर्तृत्वं मुख्यमीश्वरतापि च ।' इति। एषैव च अहन्ता सर्वमन्त्राणाम् उदयवि- २० हकारो व्योमशक्तिरूपः हकला व्योमकला, ततः परं किमपि नास्ति, तत्सर्वत्रास्ति तत्र न किंचिदस्तीति भावः । पं० १ . पु० परिपूर्णत्वेनेति पाठः। पं० २ क. पु. अनुत्तराकुलसंभवापादनस्वरूपादिति पाठः । पं० ४ ख. ङ. पु० हकारपर्यन्तम् इति ग. पु. क्षकारस्याप्यप्रसररूप- त्वात् अकारेति, क. पु० क्षकारस्यापिप्रसरणत्वात्तदिति च पाठः ।

सू० २०] प्रत्यभिज्ञाहृदयम् । ५१ श्रान्तिस्थानत्वात् एतहलेनैव च तत्तदर्थकि- याकारित्वात् महती वीर्यभूमिः। तदुक्तम् 'तदाक्रम्य वलं मन्त्रा . इत्यादि ... त एते शिवधर्मिणः॥ इत्यन्तम् श्रीस्पन्दे । शिवसूत्रेषु अपि 'महादानुसंधानान्मत्रवीर्यानुभवः, (१उ०२२मू०) इति।तदत्र महामत्रवीर्यात्मिकायां पूर्णाहन्ता- याम् आवेशो'-देहप्राणादिनिमजनात् तत्पदा- वाप्त्यवष्टम्भेन देहादीनां नीलादीनामपि तद्र- साप्लावनेन तन्मयीकरणम्। तथा हि-देहसुख- नीलादि यत् किंचित् प्रथते, अध्यवसीयते, स्मर्यते संकल्प्यते वा, तत्र सर्वत्रैव भगवती चितिशक्तिमयी प्रथा भित्तिभूतैव स्फुरति;-त- दस्फुरणे कस्यापि अस्फुरणात् इति उक्तत्वात् । केवलं तथा स्फुरन्त्यपि सा, तन्मायाशक्त्या २१ शब्दराशिस्फारात्मकपराहन्ताविमर्शो यस्य, तस्य मनवीर्यस्या- नुभवः, स्वात्मतया स्फुरणं भवतीत्यर्थः। पं० २ क. पु० महती वीर्यभूमिः इति वाक्यं नास्ति । पं० १० क. पु. देहादीनामपि वा तद्रसेत्यादि पाठः। पं० १२ ख. पु. व्यवसीयते इति पाठः।

५२ प्रत्यभिज्ञाहृदयम् । [ सू० २० अवभासितदेहनीलाद्युपरागदत्ताभिमानवशात् भिन्नभिन्नखभावा इव भान्ती ज्ञानसंकल्पा- ध्यवसायादिरूपतया मायाप्रमातृभिः अभिम- न्यते; वस्तुतस्तु एकैव असौ चितिशक्तिः । यथोक्तम् 'या चैषा प्रतिभा तत्तत्पदार्थक्रमरूषिता । अक्रमानन्तचिद्रूपः प्रमाता स महेश्वरः ॥ इति । तथा 'मायाशक्त्या विभोः सैव भिन्नसंवेद्यगोचरा । कथिता ज्ञानसंकल्पाध्यवसायादिनामभिः ॥' इति। एवम् एषा सर्वदशासु एकैव चितिशक्तिः विजृम्भमाणा यदि तदनुप्रवेश-तदवष्टम्भयु- त्या समासाद्यते, तत् तदावेशात् पूर्वोक्तयुक्त्या करणोन्मीलननिमीलनक्रमेण सर्वस्य सर्वमय- त्वात् तत्तत्संहारादौ अपि 'सदा सर्वसर्गसंहार- कारि' यत 'सहजसंवित्तिदेवताचक्रम्-अमा- यीयान्तर्बहिष्करणमरीचिपुञ्जः, तत्र ईश्वरता'- पं. १ क. ग. पु० उपरागेदन्ताभिमानेति पाठः। पं० ३ क. ग. पु० रूपताप्रमातृभिरिति पाठः । पं. ७ क. पु. प्रमाता परमेश्वर इति पाठः । पं० १५ ग. पु० तत्समाधाविति पाठः । पं० १६ ख. ङ, पु० यन्निजं संविद्देवेति पाठः । पं० १७ क. पु० ईश्वरत्वसाम्राज्यपरभैरवात्मा इति पाठः ।

सू० २०] प्रत्यभिज्ञाहृदयम् । ५३ साम्राज्यं परभैरवात्मता, तत्प्राप्तिः भवति पर- मयोगिनः । यथोक्तम् 'यदा त्वेकत्र संरूढस्तदा तस्य लयोद्भवौ । नियच्छन्भोक्तृतामेति ततश्चक्रेश्वरो भवेत् ।।' इति । अत्र एकत्र इति 'एकत्रारोपयेत्सर्वम् ........।' इति । चित्सामान्यस्पन्दभूः उन्मेषात्मा व्याख्यातव्या । तस्य इति अनेन 'पुर्यष्टकेन संरुद्ध......... ................।' इति । उपक्रान्तं पुर्यष्टकम् एव पराम्रष्टव्यम् ; न तु यथा विवरणकृतः 'एकत्र सूक्ष्मे स्थूले शरीरे वा' इति व्याकृतवन्तः। स्तुतं च मया 'स्वतत्रश्चितिचक्राणां चक्रवर्ती महेश्वरः । संवित्तिदेवताचक्रजुष्टः कोऽपि जयत्यसौ ।।' इति । इतिशब्द उपसंहारे, यत् एतावत् उक्त- प्रकरणशरीरं तत् सर्वं 'शिवम्'-शिवप्राप्तिहेतु- पं० ४ ख. पु० तदा चक्रेश्वर इति पाठः। पं० ७ 6. पु० इतिवत्सामान्येति, क. पु० सामान्यभूरुन्मेषेति पाठः। पं. ८ ख. पु. व्याख्याता इति पाठः ।

५४ प्रत्यभिज्ञाहृदयम् । [सू० २० त्वात्, शिवात् प्रसृतत्वात् शिवस्वरूपाभिन्न- त्वात् च, शिवमयमेव इति शिवम् ॥ देहप्राणसुखादिभिः प्रतिकलं संरुध्यमानो जनः पूर्णानन्दघनामिमां न चिनुते माहेश्वरीं वां चितिम् । मध्येबोधसुधाब्धि विश्वमभितस्तत्फेनपिण्डोपमं यः पश्येदुपदेशतस्तु कथितः साक्षात्स एकः शिवः ॥ येषां वृत्तः शांकरः शक्तिपातो येऽनभ्यासात्तीक्ष्णयुक्तिष्वयोग्याः। शक्ता ज्ञातुं नेश्वरप्रत्यभिज्ञा- मुक्तस्तेषामेष तत्त्वोपदेशः॥ समाप्तमिदं प्रत्यभिज्ञाहृदयम् ॥ कृतिस्तत्रभवन्महामाहेश्वराचार्यवर्यश्रीमदभि- नवगुप्तपादपद्मोपजीविनः श्रीमतो राजानक- क्षेमराजाचार्यस्य । शुभमस्तु ॥ पं० १ ग. पु. शिवात्मसतत्वात् इति पाठः। पं. ५ ङ. पु० विश्वमखिलमिति पाठः । पं० ६ ङ. पु० यः पश्यत्युपदेशत इति पाठः । पं० ८ क. ग. पु० युक्तिवतीक्ष्णा इति पाठः ।

No text on this page.

No text on this page.

अथ प्रत्यभिज्ञाहृदये परिशिष्टभागः । तत्र प्रथमपरिशिष्टम् । अकारादिक्रमेण सूत्राणामनुक्रमणिका। पृष्टाङ्कः २४ ११ ३४ ४ ८ २ सूत्राणि सूचाङ्कः आभासन-रक्ति-विमर्शन-बीजावस्थापनतस्तानि । ११ चितिरेव चेतनपदादवरूढा चेत्यसंकोचिनी चित्तम् । ५ चितिवहिरवरोहपदे च्छन्नोऽपि मात्रया मेयेन्धनं प्लुप्यति । १४ चितिसंकोचात्मा चेतनोऽपि संकुचितविश्वमयः । चितिः स्वतन्त्रा विश्वसिद्धिहेतुः । चिदानन्दलामे देहादिषु चेत्यमानेष्वपि चिदै- कात्म्यप्रतिपत्तिदाय जीवन्मुक्तिः । १६ चिद्वत्तच्छक्तिसंकोचात् मलावृतः संसारी । तत्परिज्ञाने चित्तमेवान्तर्मुखीभावेन चेतनपदाध्या- रोहाचितिः । १३ तथापि तद्वत् पञ्चकृत्यानि करोति । १० तदपरिज्ञाने वशक्तिभिर्व्यामोहितता संसारित्वम्। १२ तदा प्रकाशानन्दसारमहामन्त्रवीर्यात्मकपूर्णाहाता- वेशात् सदा सर्वसर्गसंहारकारिनिजसं. विद्देवताचक्रेश्वरताप्राप्तिर्भवति । २० तद्भूमिकाः सर्वदर्शनस्थितयः । तन्नाना अनुरूपग्राह्यग्राहकभेदात् । ३६ २१ ३ or ३२ २२ २६ ४८ ८ ur ur سر ८ ५८ प्रत्यभिज्ञाहृदयम् । aur सूत्राणि सूत्राङ्कः पृष्टाङ्कः तन्मयो मायाप्रमाता। १३ बललाभे विश्वमात्मसात्करोति । १५ ३५ मध्यविकासाच्चिदानन्दलाभः । १७ ३७ विकल्पक्षय-शक्तिसंकोचविकास-वाहच्छेदाद्यन्त- कोटिनिभालनादय इहोपायाः । १८ ३९ स चैको द्विरूपस्त्रिमयश्चतुरात्मा सप्तपञ्चकखभावः । १५ समाधिसंस्कारवति व्युत्थाने भूयो भूयश्चिदैक्या- मर्शान्नित्योदितसमाधिलाभः । १९ ४६ खेच्छया खभित्तौ विश्वमुन्मीलयति । ७ २ ५ इति प्रत्यभिज्ञाहृदयस्थसूत्राणामकारादिक्रमसूची समाप्ता ।।

अथ द्वितीयपरिशिष्टम् । प्रत्यभिज्ञाहृदये संवादितप्रमाणवाक्यानाम- काराद्यनुक्रमणिका । प्रमाणप्रतीक पृष्टाङ्कः ग्रन्थाः अख्यातिर्यदि न ख्याति १० (क्षेमराजः) (?) अज्ञानाच्छङ्कते लोकः २७ सर्ववीरभट्टारकः अत एव तु ये केचित् १३ तत्त्वगर्भस्तोत्रं अनच्कककृतायति ४४ ज्ञानगर्भस्तोत्रं अन्तर्लक्ष्यो बहिर्दृष्टिः ४२ (:) इति वा यस्य संवित्तिः (२नि०५का०) ३७ स्पन्दः उन्मेषः स तु विज्ञेयः(३नि०९का उत्तरार्ध)४५ स्पन्दः एकत्रारोपयेत्सर्व ५३ (?) क्रममुद्रयाऽन्तःस्वरूपया ४६ क्रमसूत्रं ग्राह्यग्राहकसंवित्तिः (१०६ श्लो०) ५ विज्ञानभैरवः चित्तमात्मा ( ३ उ० १ सू० ) १४ शिवसूत्रं चैतन्यमात्मा (१उ०१सू०) १४ शिवसूत्रं चैतन्यविशिष्टं शरीरमात्मा १६ चार्वाकमतं (?) जग्धिपानकृतोल्लास (७२ श्लो०) ४५ विज्ञानभैरवः ते आत्मोपासकाः शैवं (८अधि३० श्लो० पूर्वार्ध) मृत्युजित् (तथा४ पट०३८७उत्त०) खच्छन्दः तदपोद्धृते नित्योदितस्थितिः ४२ (१) तदाक्रम्य वलं मन्त्राः (२नि०१का०) ३५,५१ स्पन्दः १९ ६० प्रत्यभिज्ञाहृदयम् । पृष्टाङ्कः प्रमाणप्रतीकं ग्रन्थाङ्कः तदेवं व्यवहारेऽपि (१अ०६आ०७का०) २३ प्रत्यभिज्ञा 'तावदर्थावलेहेन २० प्रत्यभिज्ञाटीका 'न चैवं वक्तव्यम् ३६ प्रत्यभिज्ञाटीका पराञ्चि खानि व्यतृणत्स्वयंभूः (२अध्या० ४वल्ली १ म०) ४१ कठोपनिषत् पुर्यष्टकेन संरुद्धः (३ नि०१७का उत्त०)५३ स्पन्दः पूर्णावच्छिन्नमात्रन्तर ३० भट्टदामोदरः(?) प्रकाशस्यात्मविश्रान्तिः (२२ उत्त २३) ५० अजडप्रमातृसिद्धिः प्राक्संवित्प्राणे परिणता ३८ तत्त्वार्थचिन्तामणिः बुद्धितत्त्वे स्थिता बौद्धाः १८ आगमः(१) भ्रमयत्येव तान्माया (८ आह्रि०) १९ तन्त्रालोकः मनुष्यदेहमास्थाय ३२ आगमः मन्त्रा वर्णात्मकाः सर्वे २७ सर्ववीरभट्टारकः महादानुसंधानान्मन्त्रवीर्यानुभवः(१-२२)५१ शिवसूत्रं मायाशक्त्या विभोः सैव (१अधि०५आह्रि० १८ का) ५२ प्रत्यभिज्ञा यथा तथा यत्र तत्र (५१ श्लो०) विज्ञानभैरवः यथा वह्निरुद्बोधितो ३५ क्रमसूत्रं यदा क्षोभः प्रलीयेत(१नि०९का उत्त०) ४० स्पन्दः यदा त्वेकत्र संरूढः ( ३ नि०१९का ) ५३ स्पन्दः यस्मात्सर्वमयो जीवः ( ३ नि० ३ का ) ११ स्पन्दः या चैषा प्रतिभा तत्तत्(१अधि०७आह्नि०१का०)५२ प्रत्यभिज्ञा रूपादिषु परिणामात्तत्सिद्धिः ४३ भट्टकल्लटः (?) वर्तन्ते जन्तवोऽशेषा(२० स्तो० २७ श्लो०)३५ शिवस्तोत्रावलिः ४४ प्रत्यभिज्ञाहृदयम् । ६१ ग्रन्थाः ४३ विज्ञानभैरवः ४० वैष्णवाद्यास्तु ये केचित् سي سي - प्रमाणप्रतीक पृष्टाङ्कः वहेर्विषस्य मध्ये तु (६८ श्लो०) विकल्पहानेनैकाग्र्यात् (४अधि०१आह्रि० ११ का० उत्त) ४० प्रत्यभिज्ञा विग्रहो विग्रही चैव ९ सिद्धान्तवचनं(?) विहाय सकलाः क्रियाः ज्ञानगर्भस्तोत्रं १९ (१) शरीरमेव घटाद्यपि वा ३२ प्रत्यभिज्ञाटीका शरीरी परमेश्वरः ३२ (?) समाधिवज्रेणाप्यन्यैः २५ श्रीरामः (१) सर्वदेवमयः कायः त्रिशिरोमतं सर्वाः शक्तीश्चेतसा दर्शनाद्याः ४२ कक्ष्यास्तोत्रं सर्वो मयायं विभवः (४ अधि० १ आह्रि० १२ का०) २८ प्रत्यभिज्ञा सृष्टिसंहारकर्तारं (१ पट ३ श्लो०) २२ स्वच्छन्दः खतन्त्रश्चितिचक्राणां ५३क्षेमराजाचार्यः(?) खपदा स्खशिरश्छायां त्रिकसारः वाङ्गरूपेषु भावेषु (४ अधि० १ आ० ४ का०) १३ प्रत्यभिज्ञा हृयाकाशे निलीनाक्षः ( ४९ श्लो०) ४४ विज्ञानभैरव ९ oc इति प्रत्यभिज्ञाहृदये प्रमाणवाक्यानुक्रमणिका समाप्ता । - अथ ५० तृतीयपरिशिष्टम् । प्रत्यभिज्ञाहृदये प्रामाणिकग्रन्थ-तत्प्रमाणानां यथायथं समुच्चयनम् । se अजडप्रमातृसिद्धौ। पृ०सं० प्रकाशस्यात्मविश्रान्तिः (२२ उत्त० २३) आगमे । बुद्धितत्त्वे स्थिता बौद्धाः १८ मनुष्यदेहमास्थाय ३२ ईश्वरप्रत्यभिज्ञाटीकायाम् । तावदर्थावलेहेन उत्तिष्ठति पूर्णा च भवति २० न चैवं वक्तव्यम् ३६ शरीरमेव घटाद्यपि वा ये षट्रिंशत्तत्त्वमयं शिवरूपतया पश्यन्ति तेऽपि सिद्ध्यन्ति । ३२ ईश्वरप्रत्यभिज्ञायाम् । तदेवं व्यवहारेऽपि (१ अधि० ६ आ० ७ का) २३ मायाशक्त्या विभोः सैव (१ अधि० ५ आ० १८ का) ५२ या चैषा प्रतिभा तत्तत् (१ अधि ७ आ० १ का) ५२ विकल्पहानेनैकाग्र्यात् (४ अधि० १ आ० ११ का० उ०)४० सर्वो ममायं विभवः (४ अधि० १ आ० १२ का) २८ स्वाङ्गरूपेषु भावेषु (४ अधि० १ आ० ४ का) १३ कक्ष्यास्तोत्रे । सर्वाः शक्तीश्चेतसा दर्शनाद्याः ४२ प्रत्यभिज्ञाहृदयम् । ६३ पृ०सं० ४१ ४६ ३५ ४४ ४० १३ ३८ कठवल्ली। पराञ्चि खानि व्यतृणस्वयंभूः (२ अ० ४ व० १ मन्त्र) क्रमसूत्रेषु । क्रममुद्रयाऽन्तःस्वरूपया यथा वह्निरुद्बोधितो ज्ञानगर्भस्तोत्रे । अनच्कककृतायति विहाय सकलाः क्रियाः तत्त्वगर्भस्तोत्रे । अत एव तु ये केचित् तत्त्वार्थचिन्तामणौ। प्राक् संवित्प्राणे परिणता त्रिकसारे । स्वपदा स्वशिरश्छायां त्रिशिरोमते । सर्वदेवमयः कायः मृत्युजिति । ते आत्मोपासकाः शैवे-न.(४ अधि० ३० श्लो० पूर्वार्ध तथा खच्छ० ४ पट० ३८७ श्लो० उत्त०) विज्ञानभट्टारके। ग्राह्यग्राहकसंवित्तिः (१०६ श्लो०) जग्धिपानकृतोल्लास (७२ श्लो०) यथा तथा यत्र तत्र (५१ श्लो०) वहेर्विषस्य मध्ये तु (६८ श्लो०) हृयाकाशे निलीनाक्षः (४९ श्लो०) ४ ९ १९ ५ ४५ ४४ ४३ ४४ प्रत्यभिज्ञाहृदयम्। २७ ९ शिवसूत्रेषु । पृ०सं० चित्तमात्मा (३ उन्मे० १ सू०) १४ चैतन्यमात्मा (१ उन्मे० १ सू०) १४ महादानुसंधानान्मन्त्रवीर्यानुभवः (१ उन्मे० २२ सू०) ५१ शिवस्तोत्रावलौ। वर्तन्ते जन्तवोऽशेषाः (२० स्तो० १७ श्लो०) ३५ सर्ववीरभट्टारके। अज्ञानाच्छङ्कते लोकः २७ मन्त्रा वर्णात्मकाः सर्वे सिद्धान्तवचनम् । विग्रहो विग्रही चैव स्पन्दे। इति वा यस्य संवित्तिः (२ नि० ५ का०) ३७ उन्मेषः स तु विज्ञेयः (३ नि० ९ का० उत्त०) ४५ तदाक्रम्य बलं मन्त्राः (२ नि० १ का० ) ३५,५१ पुर्यष्टकेन संरुद्धः (३ नि० १७ का० उत्त० ) ५३ यदा क्षोभः प्रलीयेत (१ नि० ९ का० उत्त०) यदा त्वेकत्र संरूढः (३ नि० १९ का०) ५३ यस्मात्सर्वमयो जीवः ( ३ नि० ३ का०) ११ स्वच्छन्दे । सृष्टिसंहारकर्तारं (१ पट० ३ श्लो० ) २२ (?) अख्यातिर्यदि न ख्याति १० अन्तर्लक्ष्यो बहिर्दृष्टि ४२ एकत्रारोपयेत्सर्व ५३ ४० ३

प्रत्यभिज्ञाहृदयम् ।
६५
पृ०सं०
१६
४२
३०
चैतन्यविशिष्टं शरीरमात्मा
तदपोद्धृते नित्योदितस्थितिः
पूर्णावच्छिन्नमात्रन्तर
रूपादिषु परिणामात्तत्सिद्धिः
वैष्णवाद्यास्तु ये केचित्
शरीरी परमेश्वरः
समाधिवजेणाप्यन्यैः
खतन्त्रश्चितिचक्राणां
इति प्रत्यभिज्ञाहृदये प्रामाणिकग्रन्थ-तत्प्रमाणानां
यथायथं समुच्चयनम् ॥
४३
१९
३२
२५
m MS
3 m
or

अथ प्रत्यभिज्ञाहृदये चतुर्थपरिशिष्टम् । अकारादिक्रमेण पारिभाषिकपदसंग्रहतदर्थ- विवरणात्मकम् । अर्थविवरणम् पृ० सं० २० ७ ९ पदानि अख्यातिः संकोचः । १० अणुः सकलप्रमाता ( अर्थान्तरं शिवसू० वि० पु० ११ शे पृष्ठे ५२ तमटिप्पन्यां द्र- टव्यम् )। अनन्तभट्टारकः विद्यातत्त्वावस्थितानां मन्त्रप्रमातॄणामधि- ष्ठाता। अनाश्रितशिवः शून्यातिशून्यात्मा, शिवतत्त्वावस्थितकारणप- ञ्चके प्रथमं कारणं वा । द्वादशान्तः । ४४ अलंग्रासयुक्तिः प्रशमविशेषः (यत्र अत्यर्थ सृष्ट्याद्युपा- धीनां स्वात्मसात्कारः )। २५ अवरोहपदम् मायाप्रमातृभावः । ३४ आणवमलम् अपूर्णमन्यता । १५ आदिकोटिः हृदयम् । ईश्वरतत्त्वम् स्फुटेदन्ताहन्तासामानाधिकरण्येन तथावि- धविश्वावभासनमयी व्यवस्था । ईश्वरभट्टारकः ईश्वरतत्त्वावस्थितानां मन्त्रेश्वराणामधि- ठाता। अन्तःकोटिः ४४ ७ ७ प्रत्यभिज्ञाहृदयम् । ६७ ० सं० ४८ पदानि अर्थविवरणम् उन्मीलनम् अवस्थितस्यैव प्रकटीकरणम् । उन्मेषः स्पन्दभूमिः । ऊर्ध्वकुण्डलिनी औन्मनसं पदम् । ४३ करणेश्वर्यः खेचरी-गोचरी-दिक्करी-भूचरीचक्रम् । ३५ कला संकुचिता कर्तृत्वशक्तिः । १६ कार्ममलं शुभाशुभानुष्ठानम् । (अर्थान्तरं शि० सू० वि०१५ पृ० ७०टिप्पन्यां च द्रष्टव्यम्)। १५ कालः संकुचितनित्यताशक्तिः । १६ कालाग्निः निवृत्तिकलायां कालाग्मिभुवनेशो नाम रुद्रविशेषः, (यत्प्रकोपोपक्रमे विश्वं समुपरम्यते संहारारम्भे)। क्रममुद्रा तुरीया चितिशक्तिः, (सृष्टि-स्थिति-संह- तिसंविच्चक्रात्मकं क्रमं मुद्रयति स्वाधि- ष्ठितमात्मसात्करोति इति)। खेचरीचक्रम् कलादिशक्तिचक्रम् । प्रमातृभूमिकाश्रितो योगिनीगणो वा २९ गोचरीचक्रम् भेदनिश्चयाभिमानविकल्पनप्रधानान्तःकर- णदेवीसमूहः । २९ ग्राहकः विकल्पमयो जीवः । ११ चरमकला शान्त्यतीताख्या कला। ४८ चित्तम् संकोचप्रकर्षात् चितिशक्तेः सत्त्वादिख- भावतया स्फुरणस्वरूपम् । मायीयप्रमातुः स्वरूपं वा। १३ दिक्करीचक्रम् भेदालोचनादिप्रधानबहिष्करणदेवताच- ऋम् । २९ ६८ पदानि नियतिः पृ० सं० पञ्चकृत्यानि प्रत्यभिज्ञाहृदयम् । अर्थविवरणम् संकुचितव्यापकत्वशक्तिः । ममेदं कर्त- व्यमिति नियमहेतुः तत्त्वविशेषो वा । १६ सृष्टिः स्थितिः संहारो विलयोऽनुग्रहः इ- त्येवमभिधानानि । अथवा आभासन-र- क्ति-विमर्शन-बीजावस्थापन-विलापना- ख्यानि । तत्र देहप्राणादिपदमाविशन् चिद्रूपो महेश्वरो बहिर्मुखीभावावसरे नी- लादिकमर्थ नियतदेशकालादितया यदा भासयति तदा नियतदेशकालाद्याभासांशे अस्य स्रष्टुता, अन्यदेशकालाद्याभासांशे संहर्तृता, नीलाद्याभासांशे स्थापकता, भे- देन आभासांशे विलयकारिता, प्रकाशै- क्येन प्रकाशने अनुग्रहीतृता, इति। २२-२४ परप्रमातृदशा, शुद्धाध्वप्रमातृता, मु. ३१ विश्वोत्तीर्णविश्वात्मकपरमानन्दमयप्रकाशै- कघनः स्वभावः। अनन्यापेक्षाहंपरामर्शमयी पराशक्तिः, पर- मानन्दात्मकखातन्त्र्यशक्तिर्वा । २७ पारमेश्वरी वातन्त्र्यशक्तिः, (यया इदं शि- वादिधरण्यन्तमविकल्पकसंविन्मात्ररूपत- या बिभर्ति च पश्यति च भासयति च परमेश्वरः)। अज्ञानी, अविद्यास्मितादिभिः पाशितो जीवः । ३८ पतिदशा क्तिर्वा । परमशिवः ८ परावाक् पराशक्तिः २ पशुः प्रत्यभिज्ञाहृदयम् । ६९ गृ० सं० ७ बन्धः बैन्दवी कला ४ पदानि अर्थविवरगम् पश्यन्ती वाग्विशेषः ( यत्र वाच्यवाचकयोः क्रमा- नुल्लासेन अस्फुटविभागः, चित्प्राधान्यात् पराशक्तेः द्रष्टरूपताप्राप्तिश्व)। २७ पुर्यष्टकम् तन्मात्र-मनोऽहंकृहुद्धीनां संघातात्मकम- टकं सूक्ष्मशरीरम् । ३१ प्रलयकेवलिनः मायातत्त्वावस्थिताः शून्यप्रमातारः, प्रलया- कला इत्यभिधान्तराः। शिवतत्त्वापरिज्ञानम्, (अर्थान्तरं शि०सू० वि० १२-१३ पृ० ७४ टिप्पन्यां च द्रष्टव्यम् )। ११ स्वातन्त्र्यशक्तिः। ब्रह्मनाडी सुषुम्नाख्या मध्यनाडी। ३९ भूचरीचक्रम् सर्वतो व्यवच्छिन्नाभासखभावप्रमेयचक्रम् । २९ भूमिका चिदानन्दघनखात्मस्वरूपाभिव्यक्त्युपायः। १९ मध्यम् संवित् । ३७ मध्यधाम ब्रह्मनाडी। ३१ मध्यमा वाग्विशेषः (यत्र वाच्यवाचकक्रमस्य आ- सूत्रितविभागत्वेऽपि स्फुटास्फुटरूपतया बुद्धिमात्रपरिनिष्ठा, पराशक्तेः दर्शनप्रधा- नतया द्रष्टुदृश्यान्तरालवर्तित्वम् च ।) २७ मध्यशक्तिः संविच्छक्तिः । ३९ मन्त्रमहेश्वराः प्रमातृवर्गः (यः परमेश्वरेच्छया सदाशिव- तत्त्वे अवकल्पितपरापरात्मविश्वग्रहीतृभा- वावस्थानः)। मन्त्राः विद्यातत्त्वमध्यासिताः प्रमातारः । mm Nw m mm 2 प्रत्यभिज्ञाहृदयम् । अर्थविवरणम् पृ० सं० पदानि मन्त्रेश्वराः माया ११० मायाप्रमाता मायीयमलम् मुक्तिः रागः प्रमातृवर्गविशेषः (ईश्वरतत्त्वे स्फुटेदन्ता- हन्तासामानाधिकरण्यात्मनि ग्राह्ये विश्व- स्मिन् परिकल्पित-तथाविधतद्रहीतृभावा- वस्थितिः । दुर्घटसंपादनसमर्थः शक्तिविशेषः । जीवः, सकलाख्यः प्रमाता वा । १४ भिन्नवेद्यप्रथा, मायादिविद्यातत्त्वान्तकञ्चको वा। १५ शिवभट्टारकात्मतत्त्वपरिज्ञानम् , अज्ञानग्र- न्थिभेदात्वशत्यभिव्यक्तिः, विश्वोत्तीर्णप- रमशिवीभावो वा। ११ षट्त्रिंशत्तत्त्वान्तर्वर्तितत्त्वविशेषः,संकुचित- पूर्णत्वशक्तिर्वा । १६ षष्ठवनात्मशक्तेर्मूलभूमिः संकोचहेतुः । ४३ विश्ववमनशीला, संसारवामाचारशालिनी च शक्तिः । २९ वामदक्षिणगतयोः प्राणापानयोः हृदयवि- श्रान्तिपुरःसरमन्तः ककार-हकारादिप्रा- यानच्कवर्णोच्चारेण विच्छेदनम् । मायतत्त्वस्य उपरि शुद्धविद्यातत्त्वात् अधः कल्पितावस्थानः कर्तृताशून्यशुद्धबोधात्मा प्रमातृवर्गः । उन्मनाशक्तिः । किंचिज्ज्ञत्वकारणं त- त्वम् । संकुचिता सर्वज्ञत्वशक्तिर्वा, (अर्था- न्तरं शि० सू० वि०५० पृष्ठे द्रष्टव्यम्)। १६ ३ वह्निः वामेश्वरी वाहच्छेदः ४३ विज्ञानाकलाः विद्या प्रत्यभिज्ञाहृदयम् । ७१ १० सं० ४ पदानि अर्थविवरणम् विद्यापदम् विद्यातत्त्वम् , मायाप्रमातरि शून्यादिरू- पेऽपि अनुल्लसिते चिन्मात्र एव प्रमातरि कर्तरि च सति चिदेकरूपेष्वपि भावेषु यदचिद्रूपतया भेदप्रकाशलक्षणं खातन्त्र्यम्। १७ विश्वम् सदाशिवादिर्भूम्यन्तः तत्त्वनिचयः । यद्वा प्रमातृप्रमाणप्रमेयरूपम् । अथवा नीलसु- खदेहप्राणादि । २-३--४ विश्वसिद्धयः भोगमोक्षस्वरूपाः । विषस्थानम् प्रसरयुक्त्या विकासपदम् । ४३ शक्तिपातः अनुग्राहिकाख्यायाः शक्तेः स्वमरीचिच- यस्फारः। शक्तिविकासः . अन्तर्निगूढायाः शक्तेः अक्रममेव सकल- करणचक्रविस्फारणेन भैरवीयमुद्रानुप्रवे- शयुक्त्या बहिःप्रसरणम् । ४२ शक्तिसंकोचः इन्द्रियद्वारेण प्रसरन्त्या एव शक्तेः आ- कुञ्चनक्रमेण उन्मुखीकरणम् । प्रसृताया अपि वा कूर्माङ्गसंकोचवत् त्राससमये हृ- प्रवेशवच्च सर्वतो निवर्तनम् । ४१ शिवभट्टारकः मन्त्रमहेश्वरायुत्तीर्णः प्रकाशैकवपुः स्वस्वभावः। ८ शुद्धावा शिवादिविद्यातत्त्वान्तं तत्त्वपञ्चकम् । १२ शुद्धतराध्वा अशुद्धाध्वा (क्षित्यादिमायान्तः तत्त्वस. मूहः )। २३ शून्यप्रमातारः शून्ये जडत्वादबोधरूपे, प्राणे बुद्धौ वा येषामहमिति चमत्कारयोगात् कर्तृत्वम् , पृ० सं० १ ७२ प्रत्यभिज्ञाहृदयम् । :पदानि अर्थविवरणम् कलातत्त्वोपलक्षितकरणकार्यरहिता अबो- धरूपाः कर्तारश्च प्रलयाकलाः । शून्यभूमिः प्रलयाकलावस्था। १३ षट्त्रिंशत्तत्त्वानि १ शिव २ शक्ति ३ सदाशिव ४ ईश्वर ५ शुद्धविद्या ६ माया ७ कला ८ विद्या ९ राग १० काल ११ नियति १२ पुरुष १३ प्रकृति १४ बुद्धि १५ अहं- कार १६ मनः १७ श्रोत्र १८ त्वक् १९ चक्षुः २० जिह्वा २१ घ्राण २२ वाक् २३ पाणि २४ पाद २५ पायु २६ उपस्थ २७ शब्द २८ स्पर्श २९ रूप ३०रस ३१गन्ध ३२ आकाश ३३ वायु ३४ वह्नि ३५ सलिल ३६ भूमयः । ३२ संवित्तिदेवताचक्रम् खेचर्यादिदेवीचक्रम् , अन्तर्बहिष्करणम- रीचिपुञ्जो वा। ५२ सकलाः मायातत्त्वान्तरालवार्तनो देवादिस्थावरान्ता मलत्रयभाजः कार्ममलप्राधान्यात्संसारिणः कार्यकारणसंबद्धा जीवाः । सदाशिवतत्त्वम् तृतीयं तत्त्वम् । अहन्ताच्छादितास्फुटे- दन्तावभासनमयोऽवस्थाविशेषः, (महा- शून्यातिशून्याख्यायां शक्तौ महेशस्य अह- मिदमित्यभेदेन पूर्णाहन्ताचमत्कारमयाव- स्थाविशेषो वा)। सदाशिवभट्टारकः सदाशिवतत्त्वावस्थितानामधिष्ठातृविशेषः। ८ ७ प्रत्यभिज्ञाहृदयम् । ७३ पदानि समावेशः सिद्धिः अर्थविवरणम् पृ०सं० मितप्रमातृभावगुणीकारात् स्वतन्त्रबोधता- दात्म्यम् । निप्पत्तिः सृष्ट्यात्मा, प्रकाशात्मा स्थितिः, परप्रमातृविश्रान्त्यात्मा संहारः । यद्वा पराद्वयसामरस्यापादनात्मा संहारः । अ- थवा प्रमाणोपारोहक्रमेण विमर्शमयप्रमा- त्रावेशः । २-४ । भावाभिप्वङ्गः । सिद्धान्तः । अन्तर्मुखरूपा विश्रान्तिर्वा । १६-१९ हठः क्रमातिक्रमरूपसकृदुपदेशात्मबला- त्कारः तेन पाकः चिदग्निसात्कारः, तस्य क्रमेण सृष्ट्याद्युपाधीनां विगलनम् , इति हठपाकक्रमाख्यः प्रशमविशेषः । २५ स्थितिः हठपाकक्रमः इति प्रत्यभिज्ञाहृदये सविवरणः पारिभाषिकपदसंग्रहः समाप्तः ॥ १०

No text on this page.

THE
KASHMIR SERIES
or
TEXTS AND
AND STUDIES.
BEING A PROSPECTUS OF THE PUBLICATIONS
OF THE
Archæological and Research Department
OF THE
JAMMU AND KASHMIR STATE.
EDITED BY
JAGADĪSHA CHANDRA CHATTERJI,
B. A. (CAXTAR. ), VIDEĀVĀRIDHI.
DIRECTOR
OF THE DEPARTMENT.
SRINAGAR,
KASEMIR.
February, 1912.
N. B.-Tho Publications to bu had of the principal Oriental
Booksellers throughout the world,

PUBLISHED BY
JAGADISHA CHANDRA CHATTERJI, B. A.
( CANTAB. ), VIDYĀVĀRIDUI,
Directer of the Archæological and Research Department, Kashmir.
BOMBAY:
Printed by B. R. Ghanekar at the Nirnaya-Sagar Press,
23, Kolbhat Lane, for the publisher.

THE ARCHÆOLOGICAL AND RESEARCH DEPARTMENT, JAMMU AND KASHMIR STATE. y THE KASHMIR SERIES OF TEXTS AND STUDIES. A FULL LIST OF Works in the Press and in Preparation. The Archæological and Research Department of tho Jammu and Kashmir State has been preparing for publication a number of Sanskrit and Kashmiri Works which have remained unpublished till this day. These works when published will form a Series, to be called the “Kashmir Series of Texts and Sudies." The first of the Series was to be: 1. The Ranavira Prāyashchitta-Nibandha.—Which His Highness the the Mahārājā Sahib Bahadur wanted tho Department to take in hand first. But although quite ready for the press, it cannot be published yet owing to certain difficulties in regard to its printing. It is a work which in MS. covers over 1,000 pages ( foolscap size ). It forms part of a great work entitled Dharma Slāstra Prapancha, compiled by order of His late Highness Mahārāja Raņavira Simha, and consists largely of quotations from nearly all branches of Hindu Scriptures. All of those quotations were given in the original compilation without any exact reference. In many cases the vague references given 2 were erroneous and misleading. All these have been carefully corrected and most of the quotations have been traced back to their original sources and exact references given. Thus the work has cost the Department an immense amount of labour, and it is hoped that it will be possible to place the work in the hands of the public without further delay. As owing to reasons hinted at above, the first fruits of the activities of the Department cannot see the light yet and, therefore, could not form the first publication of the Series, its place has been taken by the 2. i. Shiva-Sūtra-Vimarshini, (being the Shiva Sūtras said to have been received inspirationally or in a dream by the Vasu Gupta together with its Commentary, the Vimarshini, by Kshemarāja ) Published in original Sanskrit; price Rs. 2/8. (Rs. 3 in cloth; foreign, 3/6 and 4 shilling ). 3. ii. The Kashmir Shaivaism, being a brief Introduction to the history, literature and doctrines of the Advaita Shaiva Philosophy of Kashmir, Specifically called the Trika System. Published in English; price Rs. 1/12. Superior paper, Rs. 2/8. 4. iii. The Pratyabhijñā-Hșidaya, by Kshemarāja. An excellent compendium of 20 Sūtras together with the author's own Commentary, giving a summary of the doctrine of the Trika i. e. the Advaita Shaivaism of Kaslımir. It may be said to bear the same relation to the Trika system as the well-known Vedānta Sāra of Sadananda does to the Vedānta system. Published in original Sanskrit, price Re. 1. In cloth Re. 1/6. WORKS IN THE PRESS. 5. i. Shiva-Sūtra-Vārttika-by Bhāskara.

3 6. ii. Shiru-Sutra-Vritti-This also is, as the name implies, a commentary on the Shiva Sūtras by an unknown author; or it may be merely an abstract from the Shiva Sūtra Vimarshini of Kshemrāja, almost every word of it being found interspersed in the latter work. 7. ji. Spanda-Vșitti.-By Kallața. It is a short com. mentary on the Spanda Kārikās. 8. iv. Spanda-Vivriti.-by Rāma or Rāmakantha. A second commentary on the Spanda-Kārikās. 9. v. Spanda-Pradipikā.-By Utpala Vaishnava (this Utpala is not the same as the author of the Ishvara-Pratyabhijñā-Kārikās ). It is also called the Utpala-Vaishnavi and is a third commentary on the Spanda-Kārikās. Althongh it has been printed before iu Benares, the present edition is being brought out after carefully collating a number of MSS. The above three works, being commentaries on the Spanda-Kārikās, naturally deal with the same subject and explain, in more or less detail, what are technically called (a) Svarā pa Spanda (6) Sahaja-vidyodaya and (c) Vibhuti-yoga; 10. vi. Spanda-Sandoha.- It is a sort of commentary on the first of the Spanda Kārikis wherein is given the purport of the whole of the latter work It is also by Kshemarāja. 11. vii. The Ishvara-Pratyabhijñā Sūtras or Karikās of Utpalāchārya together with the Vimarshini of Abhinava Gupta (and the incomplete Vritti by Utpalācbārya bimself). 12, viii. Parāprāveshikā.-By Kshemarāja, & very 4 short work on the Shaiva Philosophy, dealing with the 36 principles (Tattvas) recognised by the system. 13. ix. Tattva-Sandoha.—Another small work by the same author in Āryā Verses and dealing with the same subject. 14. x. Paramārtha-Săra.-By Abhinava Gupta with a commentary by Yogarāja. For an account of this work, see "The Kashmir Shaisvaism" i. e. the second of the published volumes of this series. 15. xi. Stava-Chintāmani.-By Bhatta Nārāyaṇa. As the name implies it consists of Stotras and is a devotional work from the standpoint of the Shaiva Philosophy. IN PREPARATION. 16. i. Tantrāloka—the great work of Abhinava Gupta on the Shaivaism of Kashmir together with its Commentary called Viveka by Jayaratha (as far as the latter is available ). 17. ii. Tantrasāra—being an abridgement in prose of the above work by the same author 18. ii. Mālini-Vijaya (Tantra ) 19. iv. Syachchhanda (Tantra), together with a Kshemaraja's commentary on it called Udyota. 20. v. Vijñāna-Bhairava (Tantra ), together with its commentary partly by Kshemarāja and partly by Shivopādhyāya. 21. vi. Matanga Tantra, with its commentary called the Vritti by Rāmakantha. 22. vii. Parā-Trinisbikā, being an extract said to be taken from the Rudra-Yamala, together with its commentary called the Vivarana by Abhinava Gupta.

5 23. viii. Mahārtha-Manjari. 24. ix. Nareshvara-Parikshi. 25. x. Netra Tantra 26. si. Mabānaya-Prakāsla 27. xii. Samvit-Sphāra. All the above are works on the Kashmir Shaivaism. An account of most of them is to be found in The Kashmir Shaivaism' i.e. Vol. II. of the series. Besides the above the following other works are also included in the series ( some of them quite ready for the press and others are still in preparation. ) 28. i. Commentary on the Bhagavad Gitā. by Abhinava Gupta. 29. ii. Another commentary on the same by Rāma- Kantha; it is called Sarvatobhadra. 30. iii. Another commentary on the same called Tattva- Prakāshila by Lakshmīrāma or Lakshmidhara, 31. iv. Shārīraka Sāra, by Lakshmidbara. 32. v. Pañchikaranavārttika. 33. vi. Tripuropanişhat. 34. vii. Vedānta-Sāra. (Not the well known Vedānta. Sāra by Sadāpanda.) 35. viii Ananda Lahari.-A work on Yoga. 36. ix. Vishnu Dharmottara.-A work of the Purana style, being a short Encyclopædia of the Hindu religion and learning 37 s. Loka-Prakāsha. The later Rāja-Taranginis. (These will most likely not now be published by this Department). Further, there are included in the series the follow. ing works in Kashmiri, some of which are ready for the press and others are in preparation,

6
38. i. Shiva-Lagan (Shiva's Marriage ).- A poem
covering some 400 leaves in Ms.
39. ii. Rāma-Avatāra, (Story of Rāma ).-A poem
200 leaves in Ms.
40. iii. Krishna-avatāra-By Prakāshānanda.
41. iv. Krishna-avatāra.-Another work on the same
subject by Paramānanda, covering 345 leaves
in Ms.
42. y. Yonuka
Yonuka Wanvun, -Songs sung by Hindu
women on the occasion of the Sacred Thread
ceremony.
43. vi. Natruk Wanvun..— Marriage songs sung by
Hindu women.
44. vii. Mar Wanvun.-Death lamentations,
45. vii. The Philosophical sayings of Lalleshvari.
46. viii. The Philosophical sayings of Rūpa Bhavānī.
47. ix. A poem on the life of Sudāma.
48. x.
A translation of the Bhagavad Gitā in verse.
49. xi. The Mahābhārata in Kashmiri.

No text on this page.

No text on this page.

The Pratyabhijna Hridaya Vol Iii

Author
Kshemaraja
Title
The Pratyabhijna Hridaya Vol Iii
File name
The Pratyabhijna Hridaya Vol Iii
Text
OCR done
Citation
1911
Published
2013
Publisher
The Archaeological And Research Dept Kashmir , At The Nirnaya Sagar Press, Bombay
Language
Sanskrit
Pages
100
Library
S.P College, Srinagar
Classification
Language. Linguistics. Literature
DLI number
242054
Barcode
99999990879804.00
Scanning centre
Allama Iqbal Library, University of Kashmir
Digital publisher
Digital Library Of India
Rights
In Public Domain
VMLT id
r3ZagHRwsmN
Download PDF

The Pratyabhijna Hridaya Vol Iii