Sringeri Sharada Peetham

Shruthirathna Prakasha

Kamakshi · 2005/03/10

PDF Proofread

Front matter

॥
॥ श्रुतिरत्नप्रकाशः ॥
॥श्रुतिमतोड्योतश्च ॥
भट्टश्री व्यंबकशास्त्रिवरप्रणीत:
मायूरस्थ
कामाक्षीविरचितया
संक्षिप्तटिप्पण्या
समेनः
PUBLISHED BY
KAMAKSHI AMMA
AT MAYAVARAM,
Printed at the
SRI VIDYA PRESS, KUMBAKONAM.
1910.
Price As. 12.

!! श्रीगणेशाय नमः ॥ छायानायकरोहिणीसहचरवाहापतिस्वेक्षणं हेयाधेयविलक्षणं श्रुतिशिरोवाक्यप्रमाणेक्षणम् । कायमाणहषीकबुद्धिमनसा कामान्तकं साक्षिणं मायादुविधूननाय सततं मायूरनाथं भजे ॥ १ ॥ चन्द्रालंकृतये जगत्प्रकृतये जन्माद्यनुख्यातये सान्द्रानन्दविभूतये स्वरतये स्वाभिन्नविख्यातये । मायूरेरतये सुतुष्टमतये मायापराभूतये श्रेयोदाय्यभयाम्बिकाधिपतये श्रेयः परं मङ्गळम् ॥२॥ त्र्यंबकशास्त्री अयं किल पुनादेशमण्डलमण्डनं तत्रचतुष्टयपारदृश्वा श्रुति- रत्नप्रकाश श्रुतिमतोड्योतादिनानाप्रकरणवरप्रणेता । विरळप्रचारतयातिदुर्लभामु एतदीयकृतिषु महता प्रयत्नेन समासादितोऽयं ग्रन्थः यथामति कामाक्षीविरचितया टिप्पण्या समयोजि। कामाक्षी इयं किल अद्वैतदीपिकायाः श्रुतिरत्नप्रकाशादिटिप्पण्याश्च प्र- णेत्री मायूरपुरे कवेरजातीरवास्तव्या दुबास्रामस्वाम्यव्याख्यस्य द्विजन्मनः कुलसंभवा । यः किल वर्षशतात्पूर्वतनः मायूरपुरे कवेरजा- तीरे दुबासग्रहारं निर्माय ब्राह्मणेभ्यो विततार । इयं किल यदा एकोनविंशेवर्षे स्वभ; यनमंडूं वी. ए. रामलिंगय्यनाम्ना लोकान्तरं गतेन व्य याोजे । तदाप्रभृति स्वमात्रा- दिसाहाय्येन गीर्वाणविद्यायां चिरतराभ्यासेन पाण्डित्यमलभत । अद्यापि स्वानुजन्मना राव् बहुदूर सि एस् सुब्रह्मण्यव्याख्येन पोषितैव वर्तते ॥

॥ श्रुतिरत्नप्रकाशः ॥ श्रीगणेशाय नमः ॥ सत्यज्ञानानंदलक्ष्यपरिच्छेदविवर्जितम् । अस्पृष्टानर्थमनिशमाश्रये नृहरेः पदम् ।। ननु कथमात्मनः परिच्छेदशून्यत्वं तस्य प्रत्यक्षादिसिद्धपा- रमार्थिकलौकिकवियदादिविलक्षणत्वेन वस्तुतः परिच्छिन्नत्वादिति चेन्न । विमतं मिथ्या दृश्यत्वाज्जडत्वात्परिच्छिनत्वात् शुक्तिरूप्य - वदित्यादिजीवब्रह्माभेदपरश्रुत्यनुगृहीतबलबदनुमानवाधित विषयेण प्रत्यक्षादिना बियदादेः पारमार्थिकत्वासिद्धः। ननु किमिदं मिथ्या- त्वं अनिर्वचनीयत्वंवा असत्त्वं वा सद्विविक्तत्वं वा प्रमाणाविपयत्वं वा अप्रमाणविषयत्वं वा अविद्यातत्कार्यान्यतरत्वंवा खात्यंताभाव. समानाधिकरणतयाप्रतीयमानत्वं वा । नाद्यः अनिर्वचनीयत्वस्य निर्वचनविरहरूपत्वेन स्वाभ्युपगतव्यवहारविरोधात् । यदिच निर्वा- च्यविरहस्तथापि सत्चविरहो वा असत्त्वविरहोवा नाद्यः असतोऽ. निर्वचनीयतापातात् । नोत्तरः ब्रह्मणोऽनिर्वाच्यतापातात् । अथ सदसद्विलक्षणत्वं मिथ्यात्वं तदपि न सद्रूपत्वेपि जगतोऽसद्रूपत्वा- भावेन सदसदुभयविलक्षणतया सिद्धसाधनात् । अथ प्रत्येकमुभय- वैलक्ष्यण्यं विवक्षितं तथापि सति सदन्तरभेदस्यासद्भेदस्यापि सिद्ध त्वेन उक्तदोषतादवस्थ्यात् । एतेन सदसत्वानधिकरणत्वमनिर्वच- नयित्वमिति निरस्तं । प्रत्येक सदसत्त्वाभ्यां विचारपदवीं नयत् । गाहते तदनिर्वाच्यमाहु र्वेदान्तवादिन इति चेन्न तादृशवस्तुनोऽप- सिद्धत्वेनाप्रसिद्धविशेषणत्वात् । असत्त्वविरहे सत्त्वस्य सत्त्वविरहे ऽसत्त्वस्य नियतत्वेनोभयरहितत्वस्य व्याहतत्वात् । ननु निषेधसमुच्च- यस्यातात्विकलेनाभ्युपगमान्नव्याघात । तत्पतियोगिनिरूपकतामा प्रकटनाय तत्तद्विलक्षणखाभिलापइति चेन्मैवं । तथासति तस्याप्य निर्वचनीयतापातात् । यथाखलु सन्त्रासचे तव मते दुनिरूपलात् २ ॥ श्रुतिरत्नकाशे ॥ न जगतो विद्यते तथाऽनिर्वचनीयताया अपि दुर्निरूपत्वेन तदभा- वो ध्रुवः स्यात् । ननु असत्त्वविरहे सत्त्वमित्यादिव्याप्त्यसिद्धन व्याहति शिति चन। आत्मादौ व्याप्तिसंभवात् । तत्रात्मखमयुक्तं स स्वमिति चत किमिदमात्मलं जातिविशेषोबा सत्वं बा अवाध्य वं बासनामारवंबा स्वप्रकाशत्वं वा आत्मपदवाच्यत्वंवा तल्लक्ष्यत्वं वा । नायः आत्मनएकत्वेन तत्र जातेरयोगात् । कल्पितात्मभेदस- भावेनैव मितिचेन । कल्पितात्मना पक्षनिक्षिप्ततया तस्यापायित्वा- । नाद्वितीयः साध्याविशिष्टत्वात् । नतृतीयः असात व्यभिचा- रात्। तस्यापि बाध्यत्वे नासत्त्वस्यास्ति बाधकमिति स्वचवनविरोधः। नच चतुर्थः पक्षकदेशाव्यावृत्तेः । न पंचमः आत्मन्यभावात् । तद्वत- स्तस्य पक्षनिक्षेपात् । स्वप्रकाशताया उपर्यपाकरणात् । न षष्ठः आत्मन्यभावात् । नान्त्यः पक्षाव्यात्तेः । किंच सदसद्विलक्षण- त्वे मानं विवादपदं सदसद्विलक्षणमिति प्रतिज्ञायां पक्षस्याप्र. सिद्धविशेषणखप्रसंगात् । सचेन्न बाध्येत असच्चेन्न प्रतीयेतेत्यापत्ति रेवानिर्वचनीयत्वे मानमिति चेन्न । सच्चेदित्यत्र विवक्षितसत्तापर- जातिः अबाध्यता उत ब्रह्मता वा नाद्यः तादृशजातिमतो घटादेस्त- न्मते वाध्य खात् । नाद्वितीयः आपाद्याविशिष्टलात् । न तृतीयः सि- द्धसाधनात् । असचेन प्रतीयतेत्यत्र असत्त्वेन प्रतीतिर्विवक्षिता उत सरन । आधे असन्यवहारलोपप्रसंगः। द्वितीये भ्रान्तव्यवहारलो. पप्रसंगः । प्रकृतादन्यात्मना प्रतीतेरेव भ्रान्तिवात् । तत्र चा न्या. कारस्यासतस्सन्त्वेन प्रतिभासांगीकारात्। तस्याप्यनिर्वचनीयत्वं ब्रूम इति चेत् तदापि किं प्रकृतेनैव रूपेण प्रतीयते अन्याकारेण वा। आधे भ्रान्तव्यवहारलोपप्रसंगः। द्वितीये असतःसत्त्वेन प्रतीतिरनि- वार्या । यदिच तस्याप्यनिर्वचनीयत्वं तदाऽनवस्था। तथाच निर्ण- यदर्शनं दुश्शकं प्रपद्येत । अपसिद्धान्तात् । न तृतीयः विचारासह- त्वात् । तथाहि किमिदं सद्विविक्तत्वं परजातिविरहः परब्रह्मान्यत्वं ॥ मिथ्यात्वे पूर्वपक्षः ॥ वा असत्त्वं वा अबाध्येतरत्वं वा । नाद्यः त्वयापि जगति आविद्य- कजातेरनिवारणात् । न द्वितीयः सिद्धसाधनात् । न तृतीयः अप- सिद्धान्तात् । न चतुर्थः ब्रह्मेतरवाभ्युपगमे सिद्धसाधनात् । अबाध्ये तरत्वं वाध्यत्वामितिचेत् तकि अन्यथा ज्ञातस्य सम्पग्विज्ञातसं उत्त प्रतिपन्नोपाधौ निषेधप्रतियोगित्वं । नाद्यः अस्माभिरपि क्षणिकत्वा- दिना विज्ञातस्य जगतः स्थिरतादिना ज्ञातत्वाभ्युपगमात् । द्वितीयेपि किमेतदेशकालप्रतिपन्नस्य देशकालान्तरगतप्रतिषेधप्रतियोगित्वं उत त्रिकालाखिलदेशीयनिषधप्रतियोगित्वं । नाद्यः अंशतस्सिद्धसाध नात् । रीत्यन्तरेणानित्यत्वादेरेवोक्तत्वात् । न द्वितीयः नित्यसर्व- गतयोः कालदेशयो स्तादृशबाधज्ञाने व्याघातात् । काचेयं मतिपन्नता प्रमाणप्रतिपन्नतावा भ्रान्तिप्रतिपन्नतावा । नाघः प्रमाणप्रतिपन्नस्य बाध्यत्वसाधने अतिप्रसंगात् । न द्वितीयः तत्र निषेधस्याभावरूपत्वे ऽत्यन्तासत्त्वापातात् । सद्विविक्तत्वस्यान्यस्या निरूपणात् । चतुर्थेपि यत्किचित्प्रमाणाविषयत्वविवक्षायां सिद्धसाधनात् । यावत्प्रमाणा- विषयत्वसाधने ब्रह्मण्यतिप्रसंगः। तस्य परैरदृश्य त्वाभ्युपगमात् । प्रमाणाविषयत्वे प्रपंचस्य पक्षीकरणायोगाच्च । प्रत्यक्षादिसिद्धत्वात- स्य पक्षतेनि चेन्न । प्रत्यक्षादेरतत्वावेदकले मानाभावात् । विषया- सत्त्वादेव तसिद्धिरिति चेन तस्यैवासिद्धः। किंच अतत्वावेदक प्रमाणं चेत् व्याघातः । अन्यथा शुक्तिरजतादिज्ञानस्य प्रमाणता किं न स्यात् पमाणं चेन्नातत्वावेदकं । न पंचमः सर्व क्षणिकमित्या- दिभ्रमविष परस्य जगतो स्माभिरभ्युपगमात् । भ्रमैकमतीतत्वं वि. वक्षितमिति चेन्न । तथासति अत्यन्तासत्त्वापत्तेः अपसिद्धान्तात् ना- पि पष्टः अविद्यायाः लक्षणतः प्रमाणतश्च दुर्निरूपत्वात् । न सप्तमः अत्यन्ताभावपदेनासत्त्वविवक्षायामपसिद्धान्तापातात् । तदतिरिक्त- स्याप्रसिद्धत्वात् । भाववैलक्षण्यं तदर्थ इतिचेन्न तत्तएवा सरखापत्या दत्तदोपानिस्तारात् । तस्मान्न मिथ्यात्वं गुवचमितिपूर्वपक्षथः ॥ ।

४ ॥ श्रुतिरत्नप्रकाशे ॥ सिद्धान्तारंभः॥१ अत्रोच्यते खाधिकरणनिष्ठात्यन्ताभाव- प्रतियोगित्वं मिथ्यात्वं । नच दृष्टान्ते साध्यवैकल्यं शुक्तिरजतादर- त्यन्तासत्त्ववादिभिस्तदधिकरणानभ्युपगमादिति वाच्यं । स्वानि- रूपितत्व स्वसजातीयनिरूपितत्वोभयाभाववदधिकरणताया एव स्वाधिकरणेत्यनेन विवक्षितत्वात् । साजात्यं च कालसंबधित्व तद- भावान्यतररूपेण । तेन येयत्वादिना साजात्यस्यातिप्रसक्तत्वपिन क्षतिः ॥ एवं स्वाश्रयनिष्ठत्वमन वच्छिन्नं ग्राह्यं । वेनाव्याप्यत्तिता- मादाय नार्थान्तरं । २ प्रतियोगिता च स्वव्यापकधर्मावच्छिन्ना ग्राह्या। . १ खाधिकरणेति । वं शुक्तिरूप्यं स्वाधिकरणं शुक्तिः तनिष्ठो यो ऽभावः रजताभावः स्वाधिकरणमित्यस्य स्वविशिष्टाधिकरणतावदित्यर्थः । अधिकरणतायां वैशिष्ट्यं स्वानिरूपितत्व स्वसजातीयनिरूपितत्वोभयाभावव- स्वसंबंधेन स्वपदेन शुक्तिरूप्यमुपादेयं स्वविशिष्टा याऽधिकरणता शुत्तिनि ष्ठाधिकरणता । कथमित्युक्तौ स्वं शुक्तिरूप्यं स्वानिरूपितत्वं शुक्तिनिष्ठाधि- करणतायाः शुक्तिरजतस्यासत्त्वात् । तथापि स्वसजातीयनिरूपितत्वं नास्ति खंशुक्तिरूप्यं स्वसजातीयं शशविषाणं तन्निरूपितत्वस्य शुक्तिनिष्ठाधिकर- णताया असत्त्वात् । अतः उक्तोभयसंबंधेन स्वविशिष्टाधिकरणता शुक्ति- निष्ठाधिकरणता भवति । कालसंबंधित्वेन रूपेण घटसजातीयः पटः तदभा- वरूपेण शक्तिरूप्यसजातीयं शशविषाणं मेयत्वादिरूपेण स्वसजातीयस्य निवेशे शुक्तेः शुक्तिरूप्यविशिष्टाधिकरणत्वं न संभवति । कुत इत्युक्ती शुक्तिनिष्ठाधिकरणतायाः शुक्तिरूप्यानिरूपितत्वस्य शुक्तिरूप्य सजातीय- शुक्तित्वनिरूपितत्वस्य च सत्त्वेनोभयाभावासत्त्वात् अतो मेयत्वेन साजात्यं न विवक्षितं । २ प्रतियोगितायां स्वव्यापकधर्मावच्छिन्नत्वानिवेशे घटादीनां मिथ्यात्वासिद्धिः धटादीनां सत्त्वेपि पटत्वेन घटाभावमादाय स्वाधिकरण. त्यभावप्रतियोगित्वसंभवात् । स्वव्यापकधर्मावच्छिन्नत्वनिवेशे च पटत्वेन घटाभावप्रतियोगितायाः घटनिष्ठायाः स्वव्यापकधर्मावच्छित्वं न संभव। ति ॥ मिथ्यात्वनिर्वचनम् ॥ नातो व्यधिकरणधर्मावच्छिन्नाभावस्य प्रामाणिकत्वेप्यथान्तरता । नच स्वसमानाधिकरणप्रातिभासिकात्यन्ताभावप्रतियोगितामादाय सा। ३ प्रातिभासिकस्य प्रतिभासकालमात्रवृत्तितया व्याप्यवृत्ति- ताया एवाभावात् । ४ अभावस्य ब्रह्मज्ञानेतरावाध्यत्वेन विशेषणी- यत्वाद्वा शुक्तिरजतात्यन्ताभावस्यापि व्यावहारिकतया न दृष्टान्तस्य साध्यविकलता । ५ यद्वा स्वप्रकारकधी विशेष्यताव्यापकीभूताभाव- प्रतियोगित्वं तन्मिथ्यात्वं स्वप्रकारकधीत्वेन भ्रमप्रमासाधारण्येन धीनिवेशाच्च न पूर्वोक्तपिकल्पावकाशः । अन्यत्माग्वदवसेयं । अथवा १६ ज्ञाननिवर्त्यत्वं मिथ्यात्वं तच्च ज्ञानमयोज्यस्व स्वनिष्ठतादात्म्य- स्वं बटनिष्ठप्रतियोगिता स्वव्यापकधर्मः घटत्वं तदवच्छिन्नत्वस्य प्रतियोगि- तायामसत्त्वादिति नघटादीनां मिथ्यात्वासिद्धिः। ३ घठति ब्रह्मणि प्राति- भासिक घटाभावः अनवच्छिन्नवृत्तिमा नभवति कुतः घटाभावस्य प्रतिभासका- ल एव सत्त्वात् । ४ शुक्तौ शुक्तिरूप्यस्य व्यावहारिक स्यासत्त्वात् शुक्ति - रूप्याभावः ब्रह्मज्ञानेनैव बाध्यते । ५ स्वप्रकारकेति । सद्विलक्षणत्वं मिथ्या- त्वमित्युक्तौ असत्त्वमादायार्थान्तरापत्तिः अतः स्वप्रकारकधीविशेप्यतेत्युक्तौ असतोऽप्रकारत्वान्नातिव्याप्तिः स्वप्रकारकधीविशेष्यताव्यापकाभावप्रतियोगि- तमिति स्वं शुक्ति रजतं स्वप्रकारकधीः इदं रजतमितिधीः तद्विशेष्यता शु- क्तिनिष्ठा तद्व्यापकीभूतो योभावः रजताभावः तत्प्रतियोगित्वं रजतस्य अ- प्रतियोगि ब्रह्म नैयायिकादिभिः गगनप्रकारकधीविशेष्यताव्यापकीभूताभाव- प्रतियोगित्वस्थ अवृत्तौ गगनेऽनंगीकारात् नार्थान्तरता। ६ ज्ञाननिवयत्व- मिति । स्वं शुक्तिरूप्यं स्वनिष्ठतादात्म्यं शुक्तयज्ञानतादात्म्यं तत्प्रतियोगि शुक्तयज्ञानं अन्यतराभावः शुक्तिरूप्यशक्तयज्ञानान्यतराभावः स च नेदं रजतमिति ज्ञानप्रयोज्यः । ज्ञाननिवर्त्यत्वमिति । अधिष्ठानसाक्षात्कारे अज्ञानं निवर्तते । जीवन्मुक्तस्य नाज्ञानमुच्छिन्नं संस्कारात्मनासत्वात् । अथवा प्रार- व्ध भोगापयोगिदहादिकमज्ञानशब्देनोच्यते । अत्रेदमवसेयं । यत्क्षणे यस्या ।

६ ॥ श्रुतिरत्नप्रकाशे ॥ प्रतियोग्यन्यतरत्वावच्छिन्नाभावकत्वं । ७ यद्वा स्वसमनाधिकरणा- त्यन्ताभावीयपारमार्थिकत्वावच्छिन्नप्रतियोगित्वं तत् । पारमार्थिक- त्वं च अबाध्यत्वं सर्व प्रमेयमित्याकारकयत्किचिद्धीविषयत्वं वा विवेचितं तदन्यत्र न चाद्यसाध्यद्वये तुरीये चात्यन्तासत्त्वमादाया- र्थान्तरता । स्वाधिकरणति विशेषितत्वात् । असतोधिकरणाप्रसि- द्धेः । न च तृतीयसाध्ये दृष्टान्तस्य साध्यविकलता । अन्यथा- ख्यात्यसत्ख्यात्यो विचारासहत्वेन इदं रजतमित्यादिभ्रमस्थले ८ अनिर्वचनीयरजतादे रुत्पत्तिस्वीकारस्यावश्यकत्वात् शुक्तयादित- त्वनिश्चयोत्तरं तन्निवृत्तिदर्शनेन तदवस्थितरजतसामान्याभावस्य ताशनिर्णयप्रयोज्य तानिर्णयात् । तथाहि इदं रजतमित्यादिभ- मस्थले नात्यन्तासतो भानं युक्तं । सत्यरजतत्वेन भानेऽन्यथा- ज्ञानस्योच्छेद स्तत्क्षणे तत्प्रयुक्तस्यावश्यमुच्छेद इति न नियमः । जीवन्मुक्ता- ज्ञानस्वीकारपक्षे व्यभिचारात्। नापि यदज्ञानप्रयुक्तोच्छेदः प्रतिबन्धकशून्ये यत्क्षणे यस्याज्ञानस्योच्छेद स्तत्क्षणे तत्प्रयुक्तस्योच्छेद इति नियाः । वि. देहत्वप्रयोजकब्रह्मसाक्षात्कारोत्पत्तिक्षणे ब्रह्म साक्षात्करोमीत्यनुभवेनाज्ञाना- सत्त्वेपि तत्प्रयुक्तमनःपरिणामरूपब्रह्मसाक्षात्कारादिसत्त्वेन व्याभिचारात् । एतादृशोत्पत्तिक्षणे हि किंचित्प्रतिबन्धकमस्ति । किंतु यत्क्षणे या प्रमा त. क्षणेऽवश्यं तत्समानविषयकाज्ञानोच्छेदः । उक्तप्रतिबन्धकशून्ये यत्क्षणे यस्याज्ञानस्योच्छेदः तदुत्तरक्षणे तत्प्रयुक्तस्योच्छेदः ॥ ५ ॥ ७ खं घटः स्वाधिकरणं ब्रह्म तद्वृत्तिोऽभावः पारमार्थिकत्वेन घटाभावः तत्प्रतियोगी घटः स्वाधिकरणेत्यनिवेशे अत्यन्तासत्वमादायार्थान्तरं । अतः स्वाधिकरणवृत्तीत्यभावविशेषणं देवमेव । असतोऽधिकरणाभावेनार्थान्तरा- योगात् । ८ अनिवनीरजतादेरिति । रजतत्वं त्रिविधं । व्यावहारिकरजतमात्र- वृत्ति व्यावहारिक कटकाद्यर्थक्रियाकारितावच्छेदकं प्रातीतिकरजतमात्रवृत्ति प्रातीतिक शुक्त्यज्ञान रजतसादृश्यज्ञान कार्यतावच्छेदकं तदुभयसाधारणं ॥ मिथ्यात्वनिर्वचनम् । ख्यात्यापत्तेः। न च रजतत्वमपि असदेवेति बाच्यं रजतायत्तेः रज- तत्वशब्दार्थत्वायोगात् । तथाच रजत त्वेनेमं जानामि इदं रजतमि- त्यभिलापानुपपत्तिः। ९ किंच इष्टतावच्छेदकत्वेन गृहीतधर्मप्रकार- कज्ञानस्य प्रवर्तकतया इदं रजतपित्यादिज्ञानस्य प्रवर्तकत्वानुपपत्तिः रजतत्वांशे अन्यथाख्यातिस्वीकारे च किमपराद्धं रजतेन । नन्वेवं उत्पत्त्यादिमतः भ्रान्तिप्रतीतिसिद्ध रजतस्य सत्यत्वमेवोचितमिति भास्करादिः । तदेव साधनीयं स्यादिति चेन्न पार्श्वस्थै रदुष्टकरण याप्यवृत्ते रजतात्यन्ताभावस्य गृह्यमाणतया भ्रान्तिसिद्धरजतादेः सत्यत्वानुपपत्तेः। तदुक्तं सच्चे नबाध्येतति । स्वसमनाधिकरणात्य- न्ताभावापतियोगि चेत् स्वात्यन्ता भावप्रमाविषयतया न प्रतीयेतेति तदर्थः। अन्यथाख्यात्यसत्ख्याती अन्यत्र निरस्ते । अथात्यन्ताभाव- प्रतियोगित्वमुक्ताभावप्रतियोगित्वमेव वा ऽत्यन्तासत्त्वमिति चेन्न । हृदादिनिष्ठात्यन्ताभावप्रतियोगिनोपि वह्नयादेः पारमार्थिकत्वस्य तटस्थै रुपगमात् । द्वितीयेपि ईदृग्विधात्यन्तासत्त्वमिष्टमेव । निस्स्व- रूपत्वादिलक्षणात्यन्तासत्त्वे तु बाधकमुक्तं । आत्मत्वं चार्थोपलाक्ष- तप्रकाशरूपत्वं । नचैवं ज्ञानमेवात्मेत्युक्तं स्यादिति वाच्यं । इष्टाप- तेः। सत्त्वात्यन्ताभावासत्त्वात्यन्ताभावोभयरूपस्य सत्त्वात्यन्ता- भावविशिष्टासत्त्वात्यन्ताभावरूपस्य वा साधनेपि न क्षतिः। न च व्याहतिः। निषेधसमुच्चय स्याप्यतात्विकत्वात् जगति स्वात्यन्ताभा- वरूप स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वमपि न परमार्थ स. दिति ज्ञापनाय तदत्यन्ताभावोपि साध्यकोटौ निवेश्यते । सिद्धसा- धनवारणाय सत्त्वात्यन्ताभावनिवेशः। केवलसत्त्वात्यन्ताभावसा- धने हि मिथ्यात्वं मिथ्या न वेति विकल्पःप्रसज्येत । इदानीं तु मि- रजतपदशक्यतावच्छेदकं च तृतीयं व्यावहारिकमेवेति तत्र सत्त्वस्य व्या- वहारिक प्रातीतिक रजतयोरनुगतत्वात् । ९ इष्टतावच्छेदकधर्मः सत्यएव ८ 4 : ॥ श्रुतिरत्नप्रकाशे ॥ थ्यात्वस्य मिथ्यात्वमवलंव्यैव साध्यनिर्देशेन नैतादृशविकल्पप्रसरः। नच मिथ्यात्वस्य मिथ्यात्वे जगतस्तात्विकत्वापत्तिः। मिथ्यात्वत- दभावयोस्समसत्ताकत्वेन मिथ्यात्वस्य मिथ्यात्वोपि जगतस्सत्यत्वा पत्तेरभावात् । अधिकमन्यत्र । वस्तुतस्साध्यप्रविष्टयोस्सत्चासत्त्व- योः परस्परविरहत्वस्य परस्परविरहव्यापकत्वस्य चाभावानव्या हतिः। १० स्वप्रकारकधीविशेष्यताव्यापकात्यन्ताभावप्रतियोगित्वं हि असत्त्वं । सखेन प्रतीयमानत्वंच सत्वं । नचानयोः परस्परविरह- रूपत्वं परस्परविरहव्यापकत्वं वा उभयसंप्रतिपन्नमिथ्याभावे शुक्ति रूप्यादौ प्रत्येक द्वयोर्व्यतिरेकस्योभयसंप्रतिपन्नस्य सत्त्वात् । न चा- सतः प्रतीत्यभ्युपगमेन न सत्त्वेन प्रतीयमानत्वं सत्चं नाप्यप्रतीय- मानत्वमसत्वं नवा तद्विलक्षणत्वसाधनेनार्थातरवारणमिति वाच्यं । अत्यन्तासतः सत्त्वेन प्रतीत्यसिद्धेः। एतेन सत्त्वासचे एकवस्तुनि- ठात्यन्ताभावप्रतियोगिनी धर्मत्वादूपरसवत् इत्यनुमानेन साध्यप्रसि द्धिरित्यपि न युक्तं व्याघातात् वस्तुशब्दस्य सच्छब्दपर्यायत्वात् स. स्वं सन्निष्ठात्यन्ताभावप्रतियोगीत्यर्थपर्यवसानात् । प्रमेयत्वादावनै कान्तिकता च । अविरुद्धत्वं चोपाधिः । घटत्वाघटत्वे किंचिन्निष्ठा- त्यन्ताभावप्रतियोगिनी धर्मत्वाद्रूपरसवदित्याभाससाम्यं चेति निर- स्तं । वस्तुशब्दस्य धर्मिमात्रपरत्वात् प्रमेयत्वादीनां घटत्वतदन्यत्वा- दीनां च मिथ्यात्वादेकवस्तुनिष्ठात्यन्ताभावप्रतियोगित्वमस्त्येवेति न व्यभिचारः । यद्यपि तेषां पक्षसमत्वात् संदिग्धानैकान्त्यं । भवतीति भावः । १० स्वं घटः स्वप्रकारकधीः सन्घटइति धीः विशेष्य सत् विशेष्यता सन्निष्ठा विशेष्यताव्यापकीभूतो योऽभावः घटाभावः प्रति- योगित्वं घटस्य स्वप्रकारकधीपदेन किं प्रमा विवक्षिता आहोस्विनमः । नाद्यः व्याघातात् । स्वप्रकारकप्रमाविशेष्ये स्वाभावासंभवात् । न द्वितीयः घटप्रकारकभ्रमविशेष्ये घटस्य सत्यत्वेपि अभावसंभवात् । अतः स्वप्रका. रकज्ञानसामान्यं विवक्षितं ।

॥ अविद्यालक्षणं॥ दुर्वारं । तथापि अनुकूलतर्काणां वक्ष्यमाणत्वा न दोषः । केचित्तु धर्मत्वं परस्परविरहाव्यापकत्वं तेन प्रमेयत्वादौ घटत्वाघटत्वादौ च न व्यभिचारः। न चाविरुद्धत्वमुषाधिः। प्रकृतसाध्यशालिनोः गोत्वा श्वत्वयोस्तदभावेन साध्याव्यापकत्वात् । घटत्वाघटत्क्योरेकवस्तुनि- ष्ठात्यन्ताभावप्रीतयोगित्वे व्याघतप्रसंगात् उक्तानुभानस्याभासत्वेपि प्रकृते तदभावस्योक्तत्वेन न तत्तुल्यत्वमित्याहुः। यद्यप्यविद्यात- कार्यान्यतरत्वरूपमिथ्यात्वं साध्यतया न विवक्षितं तथापि प्रसंगा तल्लक्षणं तत्पमाणं च परेण दृषितमिति दूषणानां आभासत्वदर्श- नाय तदुभयं निरूप्यते । तत्र तावदनादिभावत्वे सति ज्ञानविलाप्य- त्वं अज्ञानस्य लक्षणं । न चाकाशादावतिव्याप्तिः। तस्यानादित्वा नभ्युपगमात् । महादिक्स्थानीयस्याव्याकृताकाशस्य च ब्रह्माविद्या यतिरिक्तत्वानभ्युपगमात् । अधिकंत्वन्यत्र । ज्ञानजन्यनाशपति- योगित्वाभावाच्च । यदि चाविद्याध्वंसो ज्ञानात्मक एवेत्युच्यते तदा ज्ञानात्मकध्वंसप्रतियोगित्कस्यैव प्रकृततल्लक्षणे निवेश्यतया नाकाशा- दावतिव्याप्तिः । ज्ञानप्रागभावेऽतिव्याप्तिवारणाय भावत्वनिवेशः। उत्तरोत्तरमनोवृत्तेः पूर्वपूर्वमनोवृत्तिध्वंसरूपताभ्युपगमे तादृशमनो वृत्तिषु अतिव्याप्तिवारणायानादित्वनिवेशः । प्रागभावध्वंसोषि प्र- तियोगिजन्यः। एवं अविद्याध्वंसोपि ज्ञानातिरिक्तः ज्ञानजन्य इति मते व्यावृत्तिः स्फुटैव । चिदविद्यासंबंधेऽतिव्याप्तिवारणाय ज्ञान जन्येति । न चानादिभावस्य ज्ञाननिवर्त्यत्वानुपपत्तिः अभावस्येव भावस्यापि विनाशाविनाशयोः विरोधिसन्निपाततदभावप्रयुक्तत्वेन विपक्षे वाधकशून्यतयाऽनादिभावत्वस्याविनाशित्वव्याप्यत्वे पाना- भावात् । १ भ्रमोपादन त्वं वा तल्लक्षणं । यत्तु भ्रमशब्देन रजतादि- १ भ्रमोपादानमज्ञानमित्युक्तौ अन्तःकरणेऽतिव्याप्तिः। अतः भ्रमविष- योपादनत्वं ।

१० ॥ श्रुतिरत्नप्रकाशे ॥ रूपोर्थो ज्ञानं वा नाद्य पदार्थसत्त्वासत्त्वेन तदुपादानतायाः असंभ- वात् । न द्वितीयः अन्तःकरणेऽतिव्याप्तेरिति । तन्न भ्रमविषस्या- पारमार्थिकत्वेष्यनिर्वचनीयस्वरूपाभ्युपगमेन तदुपादानतासंभवात् । नाप्यन्तःकरणेतिव्याप्तिः। तस्य भ्रमोपादनत्वेपि भ्रमविषयं प्रत्य- तथात्वात् । प्रमाणं च २ देवदत्तप्रमा देवदत्तनिष्ठप्रमाप्रागभावा- तिरिक्तस्यानादेसिका प्रमात्वात् यज्ञदत्तप्रमावदित्यनुमानं । तदु- तं । देवदत्तनमा तत्प्रमामागभावातिरेकिणोऽनादेसिका प्रमा- त्वात् अविगीतममा यथेति । नच घटोऽयमेद्धटपागभावातिरिक्ता. नादेनिवर्तकः : घटत्वात् घटान्तरवदित्याभाससाम्यं अनुकूलतर्कस्य वक्ष्यमाणत्वात् । ३ एतेन विगीतो भ्रमः एतज्जनकावाध्यातिरिक्तो पादनकः भ्रमत्वात् संप्रतिपनवदित्यनुमानमपि व्याख्यातं। नचदेवद- तपमा देवदत्तगतस्यप्रमाप्रागभावातिरिक्तस्थानादेर्निवर्तिकानभवति प्रमात्वात् संपतिपन्नवदित्यनेन सत्प्रतिपक्षितमिति वाच्यं विपक्षे वाध- काभावेन सत्मविपक्षाभिमतस्य स्वसाध्यनिरूपितव्याप्त्यानश्चयात् । यद्वा ४ विमतंप्रमाणज्ञानं स्वप्रागभावातिरिक्त स्वविषयावरणस्वनि वर्त्य स्वदेशगत वस्त्वन्तरपूर्वकं अप्रकाशितार्थप्रकाशकत्वात् अन्धकारे प्रथमोत्पन्नप्रदीपप्रभावत इत्यनुमानं । नन्वेतदनुपपन्नं जडे अज्ञा- २ देवदत्तप्रमा स्वप्रागभावातिरिक्तवस्तुनाशिका स्व प्रमा स्वप्रागभावः प्रमाप्रागभावः तद्व्यतिरिक्तं अज्ञानं तन्नाशिका । ३ विगीतः शुक्तिरजतभ्रमः स्वजनकायाध्योपादानको भवति स्वं रजत- भ्रमः स्वजनकं रजतसादृश्यज्ञानं तदबाध्यं शुक्तयज्ञानं तदुपादानकः । ४ विमतामिति । स्व प्रमाणज्ञानं स्वप्रागभावातिरिक्तमज्ञानं एवं स्वविषया वरणं भवति । स्वं प्रमाणज्ञानं स्वविषयः घटः तस्यावरणमज्ञानं । आवरणं च विषयसंबद्धं सत्प्रकाशप्रतिबंधकं । खनिवर्त्यत्वं च स्वजन्यध्वंसप्रतियो- गित्वं खं प्रमाणज्ञानं स्वजन्यः अज्ञानध्वंसः तत्प्रतियोगि अज्ञानं प्रतियो- ।। अविद्यासाधकानुमाननिरूपणं ॥ नानभ्युपगमात् हेतुमतामन्तःकरणत्तिलक्षणजडविषयकप्रमाणज्ञाना नां तथाविधवस्तुपूर्वकत्वरूपसाध्यशून्यत्वेनानेकान्तिकत्वादिति चे- न । जडस्य प्रकाशप्रसक्त्यभावेनावरणकृत्यशून्यतया तदावरणान- भ्युपगमेपि तदवच्छिन्नचितः प्रकाशप्रसक्त्या तस्यां ज्ञानविषयत्वा- नपायात् । प्रमामात्रस्य अधिष्ठानसद्विषयकत्वेन घटाद्यवच्छिनचैतन्ये अन्तःकरणवृत्तिलक्षणप्रमाणज्ञानविषयत्वानपायात् । नच स्वभागमा वातिरिक्तोति विशेषणं व्यर्थ स्वनियंत्वविशेषणनैव तयाहत्तेः नहि मावः प्रागभावस्य निवर्तकः अपितु भावोत्पत्तिख । भावाभावयोः सहानवस्थान विरोधादिति वाच्यं । प्रागभावध्वंसस्य प्रतियोग्यात्म- ना तदजन्यत्वेपि प्रतियोगिध्वंसात्मनः तज्जन्यतया उक्तविशेषणेन तदव्यावृत्तेः प्रतियोगिवत् ध्वंसस्यापि प्रागभावध्वंसत्वात् अन्यथा प्रतियोगिध्वंसदशायामतीतः प्रागभाव इति व्यवहारानुपपत्तः । अ- तीत्वं हि वर्तमानध्वंसप्रतियोगित्वं उक्तश्चायमर्थः प्रमाणविधिरपि प्रतियोग्येव प्रागभावनाश इतीति न क्षतिः । तन्मतेपि बन्मतन्यायेन ज्ञानमेवाज्ञाननाशइति वक्तव्यतया ५ स्वोत्पत्तिक्षणोत्पनिकध्वसपाति- योगित्वरूपस्वनिवर्त्यत्वस्य निवेशनीयत्वात् । उक्षमतेपि न्यायस्य तेजस्तिमिरवोरपि तुल्यत्वात् दृष्टान्तस्य न साध्यविकलता। केचित स्वात्मकध्वंसप्रतियोगित्वं स्वनिवर्त्यत्वं नच दृष्टान्तस्य साध्यविक- लता। स्वनिवर्येत्यत्र स्वपदस्य स्व स्वीयान्यतरपरतगा स्व स्व- सामग्यून्यतरजन्यध्वंसप्रतियोगित्वस्य स्वात्मक स्वजन्यान्यतरध्वं- गित्वमज्ञानस्य । स्वदेशमतत्वं च स्वाधिकरणवृत्तित्वं । वस्तु प्रमाणज्ञानं वस्त्वन्तरमज्ञानं स्वप्रागभावव्यतिरिक्तत्वानिवेशे ज्ञानप्रागभावमादाय सिद्ध साधनं । स्वनिवत्यत्वविशेषणेन ज्ञानप्रागभावस्थ वारणं न संभवति । स्वं ज्ञानं स्वजन्यः ज्ञानप्रागभावध्वंसः कथमित्युक्तौ ज्ञानप्रागभावध्वंसस्य ज्ञाननाशा नन्तरं ज्ञानध्वंसात्मकतया ज्ञानध्वंसं प्रति ज्ञानस्य कारणत्वात् । ५ स्वं प्रमाणज्ञानं स्वोत्पत्तिक्षणोत्पत्तिकव्वंसः अज्ञानध्वंस वात्मकाध्वंसः।

१२ ॥ श्रुतिरत्नप्रकाशे ॥ सप्रतियोगित्वपर्यवसितस्य विवक्षितत्वादित्याहुः। न चासत्य तथा विधवस्तुपूर्वकत्वसाधने सिद्धसाधनता । अनिर्वचनीयतथाविधव- स्तुपूर्वकत्वे साध्ये साध्यविकलो दृष्टान्तः । अविशेषिततथाविधव- स्तपूर्वकत्वे साध्ये अप्रसिद्धविशेषणता प्रामाणिकामामाणिकयोः साधारणधर्मस्यापामाणिकत्वात् । अनिर्वचनीयस्य केनाप्यप्रमित- त्वात् । नहि शशविषाणगोविषाणयोः विषाणत्वसामान्यमस्तीति वाच्य । ६ अविशेषितथाविधवस्तुपूर्वकत्वस्य साध्यतायामदोषात् । घटनि- ष्ठात्यन्ताभावप्रतियोगितायाः सदसत्साधारण्येन प्रामाणिकामामा- णिकयोः साधारणधर्मस्यापि प्रामाणिकत्वात् । नच प्रतियोमिता न सामान्यमतो न दोष इति वाच्यं । स्वप्रागभावातिरिक्तख स्वनिव- य॑खादेरपि प्रकृतसाध्यघटकविशेषणस्यासामान्यखात् । नच स्वप्राग भावव्यतिरिक्तत्वं स्वप्रागभावभेदः सच नास्त्यसतीति सिद्धांतइति वाच्या स्वभागभावात्मकलतद्भेदयोरन्य तरस्यासत्यावश्यकखात्।अ- सत्त्वात्यन्ताभावप्रतियोगिखादिवढ्दस्यासवृत्तित्वे वाधकाभावाच । यत्तु ज्ञानप्रतिबंधकादृष्टदुरितस्य सिद्धतया सिद्धसाधनमिति तन्न तस्य ज्ञानानिवर्त्यत्वात् । नहि कार्योत्पत्त्यवहितप्राक्क्षणे प्रतिबंधकसत्ता युज्यते । न ह्यव्यवहितप्राक्क्षणे तत्क्षणे वा सतस्तन्नाश्यत्वं तदात्म- कनाशप्रतियोगित्वं वा। नच पागभावस्य स्वविषयावरणत्वाभाबेनै व व्युदासात् तद्वारकविशेषणान्तरोपादानं व्यर्थमिति वाच्यं । स्वं प्रमाणज्ञानं स्वात्मकध्वंसः अज्ञानध्वंसः ज्ञानात्मकः स्वनिवर्त्यत्वंच स्वात्म कत्व स्वजन्यत्वान्यतरवद्धंसप्रतियोगित्वं । स्वं प्रमाणज्ञानं । ६ वस्त्वन्तरपूर्वकं वस्त्वन्तरं पूर्वपक्षे ज्ञानप्रतिबंधकादृष्टमिति । सिद्धान्त अज्ञानमिति ।

॥ अविद्यासाधकानुमाननिरूपणं ॥ १३ ७ स्वसजातीयनिरूपिताधिकरणताविशिष्टाधिकरणतानिरूपकान्य खरूपस्य प्रागभावसाधारणलात् । साजात्यं च स्वान्यूनाविषयकग्रह- ख प्रभात्यान्यतररूपेण । अधिकरणतावैशिष्ट्यं च स्वावच्छेदककाला वच्छिन्नस्वसामानाधिकरण्यसंबंधेन । अस्ति चैतादृशं स्वविषयावरण त्वं आद्यघटज्ञानप्रागभावे । तथाहि स्वं अयं घटइत्यादिप्रत्ययः तत्स. जातीयं च तादृशप्रत्ययान्तरं तस्य याधिकरणता सा नैतज्ज्ञानमा- गभावाधिकरणतायां उक्तसंबंधेनास्ति एतत्पागभावस्य ज्ञानसजाती येन केनापि ज्ञानेन यौगपद्याननुभवात् । अवच्छिन्नान्तावृत्तिव्या- सिस्तु स्वयमूह्या । न चायघटज्ञाने प्रागभावमादाय सिद्धसाधनता संभवति । नाप्यर्थान्तरता । अवच्छेदकावच्छेदेन साध्यसिद्धरुद्देश्य त्वात् । इदंच घटत्वप्रकारकप्रमाणज्ञानत्वादिकं पक्षतावच्छेदकमिति पक्षे प्रकृतकथाप्रयोजिकां विप्रतिपत्तिं तव्यक्तित्वेनोपादाय । तस्याः पक्षतावच्छेदकत्वानुसरणे तु पक्षतावच्छेदकावच्छेदेन साध्यसिद्धरु. द्देश्यत्वोपि न भतिः। परंतु तदा स्वविषयावरणत्वं न निवेश्यमिति ज्ञेयं । प्रमाणजनकादृष्टमादायान्तिरतावारणाय स्वविषयावरणल- ७ स्वविषयावरणमित्यस्य स्वसजातीयाधिकरणा वृत्तिरित्यर्थः । यथा प्र- काशाधिकरणावृत्तित्वं तमसः तथा ज्ञानाधिकरणावृत्तित्वं तमसः अज्ञानस्य अधिकरणतावैशिष्ट्यं च एकस्मिन्वस्तुनि एककाले अज्ञानाधिकरणता ज्ञाना- धिकरणता नास्ति । अतः परस्परमनिरूपकत्वं । घटज्ञानप्रागभावस्य घटा- वरणत्वं संभवति । आवरणत्वं च स्वसजातीयत्वं स्वं घटज्ञानं स्वस्वजातीयम- न्यत् घटज्ञानं स्वसजातीयनिरूपिताधिकरणता आत्मनिष्ठा ताशाधिकरण- ता विशिष्टाधिकरणता अज्ञानाधिकरणता न भवति । किन्तु प्रमेयत्वाधि- करणता तदनिरूपकत्वमज्ञानस्य । ज्ञानप्रागभावाधिकरणता ज्ञानाधिकरण- ता न भवति । किन्तु प्रमेयत्वाधिकरणता तदनिरूपकत्वं अज्ञानस्य ज्ञान प्रागभावाधिकरणताज्ञानाधिकरणविशिष्टा न भवति । स्वं ज्ञानं चैत्रनिष्ठ ॥ श्रुतिरत्नप्रकाशे ॥ निवेशः । जनकादृष्टस्य चरमफलनिवर्तनीयतया नोक्तविधं स्ववि- षयावरणत्वं । तदधिकरणतायामुक्तसंबंधेनोक्तसजातीयाधिकरणता वैशिष्ट्यं न । नच तादृशादृष्टस्य चरमफलनिवर्त्य । स्वोत्पत्तिक्षणो- त्पत्तिकव्वंसीयप्रतियोगित्वरूपं स्वनिवर्त्यत्वमिति तु पक्षे न संभव- तीतिवाच्यं । तादृशादृष्टस्यापि चरमफलनायखोपगमात् । अन्यथा ऽदृष्टसत्त्वे तदधीनफलान्तरापत्तेारणाय प्रकारान्तरानुसरणे गौर- वापचेः । प्रमाप्रतिबन्धकादृष्टमादायार्थान्तरवारणाय स्वनिवर्त्यत्व निवेशः। विषयगताज्ञातत्वात्यन्ताभावमादायार्थान्तरवारणाय स्व. देशगतत्वं विशेषणं । नच तस्य स्वनिवर्त्यवाभावादेव तद्वारणं श- क्यं । सामयिकात्यन्ताभाववादे विषयनिष्ठस्य तस्य ज्ञाननाश्यत्वान- पायात् । तत्तत्वमन्यत्र विवेचितं । वस्तुतस्तु स्वव्यधिकरणस्वाधिकरण क्षणोत्पत्तिकप्रमाप्रागभावमादायार्थान्तरवारणाय तत् । नच यथास्थि ततादृशजन्यतानिवेशपले स्वव्यधिकरणमागभावस्य स्वनिवर्त्यत्वा- भावादेव वारणान्नेदं विशेषणपर्थवदिति वाच्यं । तध्वंसस्यापि का. लोपाधिकतया स्वजन्यत्यानपायात् । स्वप्रतिबन्धकादृष्टस्य स्वोत्पत्तेः प्राक् ध्वस्ततया ध्वंसे स्वोत्तरोत्पत्तिकत्वनियतस्वजन्यत्वासंभवात् । नच प्रागभावातिरिक्तत्वनिवेशेनैव स्वभागभावमादायार्थान्तरवारण संभवात् प्रागभावे स्वीयत्वनिवेशोऽनर्थकः। तथाच नेदमप्यर्थान्तर मादाय तदावश्यकता । न चैवमपि स्वाधिकरणक्षणोत्पत्तिकध्वंस प्रतियोगिनं स्वसमानाधिकरणस्व पूर्ववृत्तिज्ञानेच्छादिकमादायार्थान्त रं दुर्वारमिति वाच्यं । वस्त्वन्तरपदेन स्वसमानाधिकरणजन्यज्ञाना नधिकरणकालवृत्तित्वस्य योगपद्यस्य कादाचित्कस्येष्टतया स्वजन- कादृष्टचरमफलभूसज्ञाने त. दृशमनःपरिणामानधिकरणकालवृत्तित्व- घटज्ञानस्य मैत्रनिष्ठघटज्ञान प्रागभावपूर्वकत्वात् अर्थान्तरवारणाय स्वदेश गतत्वनिवेशः ।

॥ अविद्यासाधकानुमाननिरूपणं ॥ १६ स्य वा विवक्षणीयत्वात् । न चैवमपि सिद्धान्ते चाक्षुषस्पर्शनादि- रूपविजातीयज्ञानेच्छादियोगपद्यस्य कादाचित्कस्येष्टतया स्वजनका दृष्टचरमफलभूतज्ञानेच्छादिसमानकालोत्पत्तिके आधे घटज्ञाने तादृश ज्ञानजनकादृष्टपूर्वकत्वमादायार्थान्तरं दुर्वारमिति वाच्यं । स्वसमान कालोत्पत्तिकत्वसंबंधेन स्वसमानाधिकरणविशेषगुणविशिष्टान्यत्व- स्यापि पक्षविशेषणतया विवक्षितत्वात् । संयोगद्वित्व दिकमादाया- थान्तरं च स्वदेशान्यदेशासंबंधित्वरूपस्वदेशगतत्वविवक्षयैव निरस- नीयं । स्वव्याप्यतमोनिवर्तकप्रभायाः दृष्टान्तत्वसंभवाच न साध्य वैकल्यं । यद्यपि भूतलगतस्य तमसः प्रभासंबंधशून्यतत्क्षणविशेष विशिष्टतद्भूतलादिसंबद्धतया न कस्यापि तमसः प्रभाव्याप्यत्वं सं भवति । तथापि स्वाधिकरणतादात्म्यवदन्यावृत्तित्वरूपव्याप्तिविव- क्षायामदोषः। विशिष्टस्यातिरिक्ततापक्षे आद्यघटज्ञानप्रावर्तितत्क्षणा दिविशिष्टान्तःकरणादिकमादायार्थान्तरं तु विशिष्टान्यत्वनिवेशेनैव निरसनीयं । नच विशिष्टत्वमनुगतमनतिप्रसक्तमेकं दुर्वचमिति वा- च्यं । स्वाश्रयसमानाधिकरणाभावप्रतियोगित्वस्वाश्रयत्वै तदुभयसं- वंधेन सादिधर्मविशिष्टत्वस्यैव प्रकृते विशिष्टशब्देन विवक्षणीयत्वात् । विस्तरस्तु प्रभायामनुसंधेयः ॥ अप्रकाशितार्थप्रकाशकत्वं च स्वसमानाधिकरण १ स्वान्यून- विषयक २ संशयान्यसविषयका ३ व्यवहितोत्तरत्वशून्यप्रमा त- १ खान्यूनविषयकत्वं च स्वविषयताव्यापकविषयतानिरूपकत्वं विषयिता संबंधघटितव्याप्यव्यापकभावो वा। २ संशयान्यत्वं च विषयताविशिष्टविषयतानिरूपकत्वं । वैशिष्ट्यं च स्व- निरूपकनिरूपितत्वस्वनिरूपितविरोधविपयतानिरूपितत्वोमयसंबंधेन । संशये कोटिद्वयस्य विरोधमानस्वीकारात् एककोटिनिष्ठविघयतानिरूपितविरोधनिष्ठ विषयतानिरूपितत्वं अपरकोटिनिष्ठविषयतायाः । वन्ह्यभावविरुद्धवह्निप्रति योगिकसंयोगसंबंधन पर्वतो वहिमान्न वा इत्याकारकः संशयो बोध्यः ।

। १६ ॥ श्रुतिरत्नप्रकाशे ॥ त्पभान्यतरत्वं । अन्यतरत्वंच ४ एकभेदविशिष्टापरभेदात्यन्ताभावा- द्यतिरिक्ता ५ खण्डाभावरूपं । तेन तादृशममात्वमभात्वादीनामुक्ता- त्यन्ताभावत्वरूपहेतुतावच्छेदकघटकत्वेपि नवैयर्थ्यं । स्वनिरूपकाभा- वप्रतियोग्यधिकरणतासमानाधिकरणाधिकरणता निरूपकत्वविशिष्ट त्वस्य हेतुविशेषणत्वादुक्तप्रमाभेदविशिष्टतत्पभाभेदवद्वत्तेः तदर्थत्वेन वा विरक्षितत्वात् । ६ सिद्धान्ते अत्यन्ताभावमात्रस्य केवलान्वयि वेपि न व्यभिचारः। केचित्त्वप्रकाशितार्थप्रकाशकत्वं स्वसमानाधि- करण स्वान्यूनविषयक ७ प्रमाणज्ञाननिरूपिताधिकरणताविशिष्टा- न्यायाधिकरणता स्वाव्यवहितोत्तरत्व स्वसामानाधिकरण्यै तदुभय संबंधेन तादृशारिकरणताविशिष्टपमा तत्मभान्यतरत्वं । प्रतियो- ग्यधिकरणतावैशिष्ट्यं च । स्वाधिकरणक्षणावच्छिन्नस्वसामानाधिक- रण्येनेत्याहुः। एतेन हेतुशरीरमविष्टं प्रकाशकलं तजनकत्वं वा व्याप- कत्वं वा व्याप्यत्वं वा नाद्यः चक्षुरादौ व्यभिचारात् दृष्टान्तस्य साधनविकलत्वाच । ज्ञाने ज्ञानकारणत्वाभावेनासिद्धेश्च । न द्वितीयः असिद्धरज्ञानादौ व्यभिचाराच्च । न तृतीयः। साधनविकलत्वात ३ अव्यवहितोत्तरत्वं च स्वध्वंसाधिकरणक्षणध्वंसानधिकरणत्वे सति स्व- ध्वंसाधिकरणत्वं । उत्तरभाविनां सर्वेषां क्षणानां अव्यवहितत्ववारणाय सत्यंतं । पूर्वक्षणस्यापि अव्यवहितोत्तरत्ववारणाय विशेष्यं । तत्र सत्यंत अव्यवहितत्वरूपं । विशेष्यमुत्तरत्वरूपं । ४ एकभेदविशिष्टापरभेदेत्यत्र वैशिष्ट्यं खाधिकरणवृत्तित्वरूपसामानाधिक- रण्यसंबंधेन । स्वाधिकरणवृत्तिता च स्वरूपसंबंधेन । ५ अखण्डामावत्यत्र अखण्डत्वं च इतरनिरूपणानधीननिरूपणविषयक इतरपदार्थाघटितखशरीरकत्वं वा । ६ सिद्धान्तो नाम प्रामाणिकत्वेन पूर्वाचार्यांगीकृतप्रमेयं । ७ प्रमाणज्ञानं अन्तःकरणवृत्तिरूपं ज्ञानं । ।

॥ अविद्यासमर्थनम् ॥ १७ दृष्टान्तस्योति निरस्तं । अज्ञानानभ्युपगमे अहमज्ञो मामन्यं च नजाना- मीति प्रत्ययानुपपत्तिः। न चाहमज्ञइत्यादिप्रतीतो ज्ञानाभावादिवि- षयकत्वं व्याघातात् । नहि प्रतियोग्यधिकरणे प्रतियोग्यधिकरणक्ष- णावच्छेदेन तदत्यन्ताभावस्तवाभिमतः। धर्मिप्रतियोगिनोः साक्षिग्रा- ह्यत्वाभ्युपगमेपि साक्षिरूपज्ञानेनैव व्याघातो दुर्वारः। किं बहुना न जानामीत्यभावग्रहेणैव स्वकाले स्वाभावाचगाहनात् व्याघातो दुर्वारः। अज्ञानस्य स्वरूपतः साक्षिगम्यत्वेपि उक्तविशेषणविशिष्टस्य प्रमाण गम्यत्वात् न तत्रानुमानोपन्यासासंगतिः । त्वदुक्तमर्थ न जानामीति प्रत्यक्षानुपपत्तेश्चेति । ननु किमत्र सर्वानुवादेन व्यवहारः किंवा सामान्यतः । नाद्यः तादृशव्यवहारस्यैवाभावात् । भावे वा त्वदुक्तं न प्रमाणतो जानामीत्येवं परत्वोपपत्तेः । प्रतिवादिवाक्यात आधि गतार्थानुवादपुरस्सरं प्रमाणाभावेन निरसनदर्शनात् । नच त्वदुक्ता थे प्रमाणज्ञानमेव नास्तीत्यस्य विशिष्टं विषय इत्ययुक्तं। एतत्प्रमाण ज्ञानस्य प्रमाणाभावविषयकत्वेपि तदर्थस्यातद्विषयत्वात् । अन्यथा भ्रमो मम नास्तीत्यादिप्रमाणज्ञानस्यापि विशिष्टार्थभ्रमविषयतया भ्रमविषयस्यापि प्रामाणिकलापातात् । न द्वितीयः। सामान्यानु. वादेन विशेषव्यवहारोपपत्तेः विशेषस्याधिगमानधिगमयोःनैवं व्यव. हारइति चेन्न। अस्ति कश्चिद्विशेष इति सामान्यतो ज्ञातत्वात् । किंच भावरूपाज्ञानाविद्याभ्युपगमेपि किं पूर्वमर्थोज्ञातो नवति सर्वथापि प्रश्नायोगः । नन्वस्माकं मते सर्व वस्तु ज्ञाततया अज्ञाततया वा साक्षिचैतन्यविषय एवेति प्रमाणज्ञानोदयात् प्रागज्ञातखविशेषितीर्थः साक्षिसिद्धः अनुवादगोचरो भवति प्रश्नाह इति चेन्न । साक्षितः सिद्धतयापि सिद्धिर्व्यवहारायोगाच । साक्षिणा ज्ञातेपि प्रमाणभु. गित्यादिव्यवहार इति चन्न । साक्षिसिद्धत्वे प्रमाणभू इत्यादेनि- फलनात् । तथाच त्वयापि सामान्यतो न जानामीति साक्षिसि- दोर्थो विशेषज्ञानायान्द्य निरूपणविषय इनि चेन्मैवं । तदुक्तार्थ- - 3 .. १८ ॥ श्रुतिरत्नप्रकाशे ॥ त्वेनानुवादेपि व्याघातस्यानिस्तारात् । त्वदुक्तार्थ हि न जानामी त्यत्र त्वदुक्तार्थविषयकज्ञानसामान्याभावः प्रत्येतव्यः । प्रतियोग्य- से सामान्यधर्मस्यैव पक्षविशेषणत्वात् । प्रतियोगिविशेषणतानापन्न स्यापि धर्मस्याभावप्रतीतो प्रतियोगितावच्छेदकत्वेन संसर्गघटकतया भानोपगमे घटवत्यपि भूतले घटो नास्तीति प्रतीतिप्रसंगात् । अत एव तादृशप्रतीतेः प्रमाणाभावविषयकत्वं नाभ्युपगन्तुं युक्तं । किंच त्वदुक्तार्थविषयकममाणज्ञानं नास्तीति ज्ञानस्यापि प्रमाणज्ञानतया त्वदुक्तार्थविषयकप्रमाणज्ञानसामान्याभावविषयकत्वपि व्याघातो दुः वारः । यत्तु एतत्प्रमाणज्ञानस्य प्रमाणाभावविषयकत्वपि तद्विषय स्पैव तद्विषयता नास्तीति । तन्न। ८ प्रतियोगितावच्छेदकविशि. टप्रतियोग्यनवगाहिनः अभावप्रत्यक्षस्याप्रामाणिकत्वात् । नच त्व- दुक्तार्थत्वावान्तरधर्मप्रकारकज्ञानाभावो विषयः नात उक्तदोष इति वाच्यं। त्वदुक्तार्थत्वव्याप्यवानिति सामान्यतो विशेषधर्मज्ञानवताम- पिताशव्यवहारदर्शनात् । नच त्वदुक्तार्थत्वव्याप्यधर्मनिष्ठनिरवच्छि- नप्रकारताशालिज्ञानाभावः तत्र विषय इति युक्तं । तथासति परो- पन्यस्तम) कंचुग्रीवादिमत्त्वायुपाधिपरत्वाकारण जानतामपि तादृश व्यवहारापत्तेः न त्वदुक्तार्थत्वव्याप्यतावच्छिन्नत्वदुक्तार्थनि- ष्टविषयताशालिज्ञानाभावस्तत्र विषय इति युक्तं । ९ त्वदुक्तार्थत्व मुभयावृत्ति धर्मत्वादित्यादिप्रत्ययवतामपि तादृशव्यवहारदर्शनात् । मन्मते तु ज्ञानविशेष एव ज्ञानविरोधीति न दोषः। किंचेत्यादिक- मपि न युक्तं । अज्ञातत्वेन साक्षिसिद्धपि वस्तुन्यज्ञाननिवर्तक ज्ञान संपत्तये प्रमाणबुभुत्सायाः सफलत्वात् । अधिकं त्वखण्डार्थविचारे द्रष्टव्यं । तदेवं स्वतः प्रमाणतश्चाविद्यायाः सुवचत्वोपि न तत्पयो ८ अभावबुद्धिः विशिष्टवैशिष्श्वभर्यादां नातिशते इति न्यायादिति भावः। ९ उभयावृत्तित्वं च भेदविशिष्टान्यत्वं । वैशिष्ट्यं च स्वप्रतियोगिवृत्ति- व स्वानुयोगिवृत्तित्वोमयसंवन्धेन ।

|| दृश्यत्वविचारः ॥ १.९. ज्यान्यतरत्वं साध्यं । तादृशान्यतरत्वस्य परैरपारमार्थिकज्ञाने तत्म- योज्यभ्रमेपि स्वीकारेण सिद्धसाधनादिप्रसंगात् । इति मिथ्यात्व- निरुक्तिः। १ ननु हेतूकृतं दृमत्वं किं दृग्विषयत्वं अस्वप्रकाशत्वं वा आद्यपि दृवृत्तिरूपावा चिद्रूपाचा नाद्यः । आत्मन्यनेकान्तिक त्वात् । तस्यापि वेदान्तजन्यवृत्तिविषयत्वात् । वृत्तिजनितफलासं. बन्धात् नानकान्तिकमिति चेन्न । फलं किं ज्ञातता व्यवहारो वा। आये घटादावपि तदभावादसिद्धिस्स्यात् । अतीतानागतनित्यानुमे- येषु ज्ञातताया अभावेन भागासिद्धिश्च । ज्ञातताभावश्च अवेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वं स्वप्रकाशत्वमिति तल्लणमभिदधता चि- त्सुखेन अपरोक्षव्यवहारयोग्यताविशेषणकृत्याभिधानप्रस्तावेऽभिहि- तः। नचावेवत्वमेतावदेव लक्षणमस्त्विति वाच्यं । २ तथासत्यती- १ दृश्यत्वविचारः ॥ दृश्यत्वं दृश्यपदप्रवृत्तिनिमित्तं मिथ्यात्वसाधकत्वे. नोपन्यस्तं । वृत्तिव्याप्यत्वं । ' मनःपरिणामरूपायाः धीमात्र निर्देशेषि विशे- ध्यविशेषणाकार वृत्तिद्वयावच्छिन्न चित्यपि धीव्यवहारात् । फलव्याप्यत्वं खाकार वृत्तिप्रतिबिम्बतचितो भन्नावश्णकचितश्च तादात्म्यं ॥ कथंचिच्चि- द्विषयत्वं किंचित्कालावच्छिन्नमावृतानावृतसाधारणं । नच धर्मिज्ञानेन भग्ना. वरणकस्य शक्त्याचवच्छिन्न चैतन्यस्य शुक्तिरूप्यादिकमपि विषय इति वाच्यं । स्वावच्छिन्नस्त्याज्ञानविषयत्वस्य भग्नविशिष्टचिद्विषयत्वमेव हि फल- प्यत्वशब्दार्थः । अन्यथा गुरुत्वादावपि तदापत्ते. ॥ फलपदस्य प्रमा- फलार्थकत्वात् ईश्वरीयमायावृत्तेश्च प्रमात्वाभावेन तत्प्रतिबिम्बितचितः फ. लपदार्थत्वाभावात् । येन हि पुरुषेण यदज्ञातं तद्विषयकवृत्तिः तत्पुरुषीय- प्रमा। नच ईश्वरेण किञ्चिदज्ञात मास्त येन तदीयमायावृत्तिः प्रमा स्यात् यदिच फलशब्द थम पहाय ईश्वरीयवृत्तिसाधारणहेतरुच्यते तदा नासिद्ध्या- दिदोषः ॥ ज्ञातं कृत्युपहितचिद्विषयः ।। २ अतीतत्वं च विद्यमानध्वंसप्रतियोगित्वं । अनागतत्वं च वर्तमानप्रा- गभावप्रतियोगित्वं ॥

॥ श्रुतिरत्नप्रकाशे ॥ तानागतनित्यानुमेयेषु अतिव्याप्तिः । फलव्याप्यतालक्षणवेद्यत्वस्य तत्राभावादिति । द्वितीये पुनरनेकान्त्यमेव । आत्मनोपि वृत्तिजन्य- व्यवहारविषयत्वात् । चिद्रूपदृग्विषयत्वं तु घटादावस्मदादिभिर्नाङ्गी- क्रियत इति भागासिद्धिः। द्वितीये स्वप्रकाशत्वमवेधत्वं तदभावो दृश्यत्वमिति चेत् वेद्यत्वं दृश्यत्वमित्युक्तं स्यात् । तथाच मागुक्त- दोषापातः। ३ स्वव्यवहारे स्वातिरिक्तसंविदन पेक्षत्वं स्वप्रकाशत्वं तदभावो दृश्यत्व मिति चेत् तात्मनोऽद्वितीयत्वादिव्यवहारे सं- विदन्तरापेक्षासत्त्वात् व्यभिचारः। निर्विकल्प के स्वव्यवहारे संवि- दन्तरानपेक्षाऽस्तीति चेत् तर्हि घटेपि तथैवेत्यसिद्धिः। घटनिर्वि- कल्पकव्यवहार एव नास्तीति चेदात्मन्यपि स नास्तीत्येवेति चेन्न । तस्य निर्विकल्पत्वे विवादात् । अवेद्यत्वे सत्यपरोक्षव्यवहारविषय त्वं स्वप्रकाशत्वमिति चेन्न । व्याहतत्वेनासंभावित त्वात् कथंचिद- व्याहतत्वपि विशेषणाभावेन तद्विशेष्याभावेन उतोमयाभावेन दृ- श्यत्वं वक्तव्यं । तत्रावेद्यत्वाभावो वेद्यत्वमेव हेतुरस्तु किं विशेष्ये- ण तस्यचोक्तं दूषणं । द्वितीये स्वरूपासिद्धिः । तृतीये व्यर्थविशे- ष्यत्वं विशेषणः सिद्धिश्च । किंच दृश्यत्वं प्रामणतो भ्रान्त्या वा नोभयमपि अन्यतरासिद्धेः । ननु सामान्यतः प्रयुक्तहेतोर्विशेषवि- कल्पेन निराकरणे सर्वानुमानभङ्गः । तथाहि। धूमात् धूमध्वजसाधने किमेतद्देकालसंलग्नो धूमो हेतुः किंवा अनेतद्देशकालसंलग्न इति वि- कल्प्य आये साध्यशून्यं निदर्शनं । द्वितीयेऽसिद्धिरिति दूषणसंभ- वादिति । मैयं । तत्र धूममात्रस्य पर्वतीयाग्नेः साधनत्वेनादूषणत्वा- भ्युपगमात् धूमवत्त्वस्य साधनत्वेन न विकल्पावकाशः । तर्हि किं वको धूमो हेतुरिति विकल्पेन दूषणप्रसंग इति चेन्न। तस्य सामा- ३ स्वव्यवहारे स्वातिरिक्तसंविदपेक्षानियति म व्यक्तिविशिष्टत्वं । वैशि- ट्यंच तादात्म्य खव्यापकत्वोभयसंबंधेन । व्याप्यताघटक संबंधः स्वविषयक यवहारत्वं । व्यापकताघटकसंबन्धः स्वभिन्न संविधीनत्वं ।।

॥ दृश्यत्वविचारः ॥ २१ न्येनैव हेतुत्वात् । नचास्तु तथाप्रकृतेपीति वाच्यं । प्रमाणभान्ति. दृश्ययोदृश्यत्वसामान्याभावात् । नहि जलजगगननलिनयोर्नलिन- त्वमस्ति । तर्हि कथं भ्रान्तिदृश्यत्वमिति चेन्न । यथा नभोनलिन मित्युच्यते तथैवेत्यवेहि । दृश्यत्वस्य सन्मात्रवृत्तित्वाद्विरुद्धत्वाच्च । ननु रजतं दृश्यत इति चेन्न । तत्र शुक्तिकाया एव दृश्यत्वात् । ननु रजतसंविदः कथं शुक्तिका विषयः विरोधादिति चेन्न । रजत संविदिति कोथः । किं रजतविषया इति रजतत्वोल्लेखसंविदिति वा नाद्यः। अनभ्युपगमात् । द्वितीये को विरोधः । स्वविषयशुक्तिका- मेवान्याकारेण गृह्णातीत्यस्याविरुद्धत्वात् । ननु तर्हि रजते असति कथं दृश्यतेति चेन्न । तस्य दृश्यत्वाभासत्वात् तादृशस्य पक्षेऽन. न्वयात् । किंच रजतस्य फलव्याप्यतया वृत्तिव्याप्यतया वा दृश्य त्वं । नोभयथापि असतएव तत्सिद्ध्यभ्युपगमात् । असति सत्रिक- र्षाभावात् । आत्मनोपि दृश्यत्वादनैकान्तिकता च । न चात्मा दृश्य इति चेत् न । व्याहतेः । नह्यज्ञाते धर्मिणि धर्मविधानं निषधो वा युज्यते । आत्मा दृश्यो वस्तुत्वात् घटवत् । अयं घटः एतद्धटा- न्यान्यः प्रमेयत्वात् घटवदिति च दृश्यत्वसिद्धेः । किंच दृश्यत्वा. भावे तदविद्यानिवृत्तेरभावेन माक्षाभावप्रसंगः । नच त्वत्पक्षे ब्रह्म- ज्ञानं नाम यत्किंचित्स्यात् । षष्टयर्थस्य विषयितानतिरेकात् । यदि श्रुतमयेन ज्ञानेन तत्वमभिधाय चिन्तामयीमवस्थामवलंब्य मनस्यन्तः करणपरिणामवृत्तिरूपं ज्ञानमुपजायते । तेन भवेदविद्यानिवृत्तिरि ति चेन्न। तथाभ्युपगमे परमात्मनोपि दृश्यतया व्यभिचरानिस्तारात् । आत्मनो वृत्तिव्याप्यत्वपि फलव्याप्यताया अभावान्न दृश्यत्वामि- ति चेन्न । दत्तोत्तरत्वात् । विषयत्वाभावे प्यात्माकारज्ञानमात्मज्ञा. नं । तेन भवेदविद्यानिवृत्तिरिति चेन्न । विचारागोचरत्वात् । तथा हि । आत्माकारमित्यस्य कोर्थः । आत्माकार एवाकारो यस्येति वा आत्माकार इवाकारो यस्यति वा आत्मैवाकारो यस्येति वा २२ ॥ श्रुतिरत्नप्रकाशे ॥ नायः ज्ञानज्ञययोरेकाकागयोगात् । सत्तया एकाकारोस्तीति चे- न। अनुगतसत्ताया अनंगीकारात् । सत्तयाएकाकारत्वे च वेदा. न्ताज्जायमानं ज्ञानमात्माकारमेव कुतः । घटाकारमपि किं नस्यात् । नापि परेण सत्तानामात्मन्याकारोङ्गीक्रियतं । निराकारताङ्गीका- रात् । न द्वितीयः । अत्यन्तसादृश्यानुपलम्भात् । किंचित्साह- श्यस्य प्रागिवातिप्रसंजकत्वात् । तृतीयपक्षेपि आत्मा ज्ञानस्या- कारो न संभवति । आधाराधेयभावस्थासंभवात् । अतः परिशे षाद्विषयतया व्यावर्तकत्वेनात्मा ज्ञानस्याकार इति वक्तव्यं । तद पि विषयत्वमिति यत्किञ्चिदेतत् । भवेदिदं यदि दृग्विषयत्वं दृ- श्यत्वं । मैवं । किन्तु स्वव्यवहारे खातिरिक्तसंविदपेक्षानियतिः । कथमेतादृशी दृश्यता कथितदूषणग्रस्ता स्यात् । मैवं । अतिरिक्तप- दन पारमार्थिकोंदवत्वं वा व्यावहारिक भेदकत्वं वा विवक्षितं । नाग्रस्तवासिद्धः। न द्वितीयः । ममासिद्धेः । सामान्यतः प्रयोग इति तु प्रागेव निरस्त । संविदपेक्षानियतित्वमात्रस्य हेतुत्वोपपत्तेः व्यर्थविशेषणत्वं च । न चासति रजतेपि ज्ञानापेक्षा व्यवहाराय तस्या ध्य स्ततयैव सिद्धयुपगमादित्यवादिपं । अत्यन्तासत्यनेकान्यं च । नच तदापि मिथ्येति वाच्यं । तथासति रजतादरसाद्विलक्षणत्वप्रति पादनप्रयासयोपातात् । न चाबाध्यत्वमसतो युज्यते । प्रती- त्यंगीकारात् । नापि तस्यानिर्वचनीय प्रमाणाभावादिति चेदत्र ब्रूमः सप्रकारकवृत्तिविषयत्वं दृश्यत्वं । किंचित्प्रकारकज्ञाने तद्वि. शिष्टस्य विषयपि शुद्धस्याविषयत्वात् शुद्धे ब्रह्मणि न व्यभि- चारः। । अविद्यानिवर्तकनिर्विकल्पकवत्तिविषयत्वाच न विचार वैयर्थ । यता चिद्विषयत्वं दृश्यत्वं । नच घटादावसिद्धिः। दृ- अयमात्रस्य ईशादिज्ञानविषयत्वाभ्युपगमात् । नचैवं शुद्धब्रह्मणि . ४ निर्विकल्पकवृत्तिविषयत्वमित्यत्र विकल्पः प्रकारः । तेन विषयत्वे क्तिर्न व्याहता ॥

दृश्यत्वदिचारः॥ २३ व्यभिचारः। तस्यापि ईशज्ञेयत्वाभ्युपगमादिति वाच्यं । सत्वप्र- कारकचिद्विषयत्वाभ्युपगमात् । अस्य विवक्षितत्वात् । मन्मते नि. विशेषब्रह्मणः सत्वानम्युपगमेन ताद्रूप्येण भानासंभवात् । सत्ताम- कारकास्मदादिबुद्धौ चोपहितस्यैव भानाभ्युपगमात् । सत्ता च कालसंबन्धः। शुद्धस्यापि समकारकधीविषयत्वमिति मते तु स्व. व्यवहारे स्वातिरिक्तसंविदनपेक्षत्वरूपस्य स्वप्रकाशत्वस्यामारोह ध्यत्वं । स्वव्यवहारे स्वातिरिक्तसंविदनपेक्षत्वं च व्यवहारपदस्य व्यवहृतिसाधनीभूतासंदिग्यतापरत्वात् संविदन्तराप्रयोज्यसंशयधि- षयत्वाभावरूपं पर्यवस्यति । तच्च चित्यव्याहतं । चिदस्ति नवे- ति संशयस्य कदाप्यभावेन तनिष्टविषयत्वाभावाधिकरणताया: संविदन्तराप्रयोज्यत्वात् । तथाच नात्मनि व्यभिचारः । इदमेव चावेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वं । अवेद्यत्वमित्यनेन हि संवि- दन्तराविषयत्वमुच्यते । अपरोक्षव्यवहारयोग्यताचासंदिग्धत्वमि ति । नच संदेहविषयत्वसामान्याभावोपि चित्यसिद्धः । अपरि- च्छिन्नाभाबमानायां चिति सत्तासंशयस्य संभवादिति वाच्यं । चि- स्वातिरिक्तचिद्वृत्तिधर्मावच्छिन्नासत्वप्रकारकसंशयविषयत्वसामान्या भावस्य विवक्षितत्वात् । तथाच चित्त्वातिरिक्तचिद्वृत्तिधर्मानवच्छि- नासत्त्वकोटिकसंशयविषयत्तं दृश्यत्वमिति पर्यवसितोः । यद्वा स्वविशेष्यविषयकज्ञानाबाध्यदृग्विशेष्यत्वरूपं तद्विवक्षितमतो न कोपि दोषः। प्रमाभ्रमसाधारणधीत्वनैव दृशो निवेशानान्यतरासिद्धिः । यत्तु न सदसत्साधारणं दृश्यत्वं संभवति । अनेकशशविषाणगो- विषाणसाधारणविपाणत्वाभावादिति । तन्न । एतदनुमानात्प्राग- निर्वचनीयासिद्धेः । तत्सिद्धौ वा सदनिर्वाच्यसाधारणं सामान्य- मभ्युपेयमिति मागुपपादितत्वात् । यत्तु भ्रमे मिथ्यारजतस्य विपय ता नास्तीत्युक्त्वा विरोधोपपादनं तद्धेयं । असख्यातिभङ्गप्रस- ङ्गात् । अन्याकारमसंतं गृह्णतो ज्ञानस्य तदविषयत्वायोगात् । रज- २४ ॥ श्रुतिरत्नप्रकाशे ॥ तनिष्ठदृश्यत्वमाभास इति चेन्न । केयमाभासता। यद्यळीकता तर्हि दृश्यता नास्तीति पर्यवसितं । तत्र दर्शितो दण्डः । यदि चामुख्य- ता तदानीं करणसनिकर्षरूपाया इव विषयताया मुख्यतेत्युच्यते । तथाप्याकारतारूपगौणविषयताया एव हेतुत्वानुसरणान्नदोषः। व. स्तुतस्तु उक्तसन्निकर्षस्य न विषयतारूपत्वमित्यप्यन्यत्र प्रपंचितं । शु. क्तिरजतादौ चाविद्यावृत्तिविषयत्वस्य नव्यमते चाक्षुषादिवृत्तिविष- ताया अनावृतसाक्षिरूपचिद्रूपवेद्यतायाश्चोपगमान्न साधनविकलो दृष्टान्तः । शुक्तिरूप्यादेरनिर्वाच्यस्योत्पत्तिक्षणोत्पन्नाविद्यावृत्योप- हितानातचिद्भास्यताया अद्वैतविद्याविद्योते सम्यगुपपादितत्वाच्च नापसिद्धान्तः। द्वितीयादिक्षणे च तत्रेन्द्रियसन्निकर्षस्थापि संभ- वात्। तृतीयादिक्षणे तस्य चाक्षुषादिवृत्तिवेद्यतापि सुलभा। न चा- त्यन्तासिद्धिः तत्र सद्विलक्षणत्वादिसाध्यास्याप्रत्यूहत्वाच्च । काल- संबन्धित्वस्यापि हेतौ निवेशनीयत्वाद्वा । यत्त्वत्यन्तासतः प्रतीतिर्नो- पेयत इति तत्तथैवेत्यन्यत्रोपपादितमिति संक्षेपः। एवं जडत्वमपि हेतु संभवति । ननु किमिदं जडत्वं ज्ञानानाधारत्वमनात्मत्वं वा। अज्ञानरूपत्वमस्वप्रकाशत्वं वा । नायः। विशिष्टात्मनि पक्षनिक्षिप्ते असिद्धत्वात् । अळीके अनेकान्त्याच्च । न द्वितीयः। अनात्मेत्यात्मा निरिक्तत्वं विवक्षितं आत्मत्वानाधारत्वं वा। नाद्यः। तवासिद्धेः । नहि त्वत्पक्षे परमात्मनो जगदतिरिक्तमस्ति । परमार्थतः तदभावे प्य- नाद्यविद्याविहितो भेदोस्तीति चेन्न । तस्मिाकमसिद्धो हेतुः । असति व्यभिचारश्च । न द्वितीयः। आत्मत्वस्य प्रागुक्तरीत्या निर्वचनासंभ- वात् । मन्मते हि आत्मत्वजातिमत्वं ज्ञानाश्रयत्वं वा तदिति श- क्यमभ्युपगन्तुं । न तृतीयः । वृत्तिज्ञानेऽसिद्धेः । आत्मनो ज्ञानख- रूपत्वे विषयोऽनिर्वाच्यः । निर्विषयस्यासंभवात् । एतेनाचेतन- समिति निरस्तं उक्तपक्षाबहिर्भावादिति चेन्मैवं । ध्वंसप्रतियोगित्वे सति ज्ञानाधारसमात्मत्वं । तद्भिन्नत्वं च जढत्वं । सत्यन्तनिवेशाच्च .. ॥ परिच्छिन्नत्क्हेनुविचारः ॥ न विशिष्टात्मन्यसिद्धिः। शुद्धस्यापि ज्ञातृत्वाभ्युपगमाच न तत्र व्यभिचारः। व्यभिचारस्तु प्रागुक्तरीत्या निरसनीयः । यथास. निवेशे न वैय्यर्थ्य । शुक्तिरजतादेन शो नास्तीति पक्ष वा वि- शेष्यांशोऽर्थवानिति बोध्यं । पञ्चमप्रकारे वा स्वरूपासिद्धिवारणा- य सः। मोक्षदशाया मात्मनो निर्विषयत्वेन न ज्ञानवहानिः । यदा यज्ज्ञानं तदा तद्विषय इति नियमस्यातीतपक्षसाध्यकानुमितौ व्यभि- चारात् । न च तादृशानुमितिदशायां तद्विषयस्य वह्नयादः असत्त्वे पि वह्नित्वादेः तथाविधस्य सत्त्वान्न व्यभिचार इति वाच्यं । त्वन्मते बदित्वादेरपि वयादिसमानयोगक्षेमत्वात् । नच यदा यदपरोक्ष- ज्ञानं तदा तद्विषय इति नियमः प्रामाणिकः । विनश्यदवस्थापन- घटाद्यपरोक्षे व्यभिचारात् । विषयतायाउपलक्षणतामात्रेण तदाश्र- यस्य ज्ञानत्वसंभवेन नसा स्वाश्रयव्यापिका एवंच ज्ञानान्यत्वं जडत्वमित्यपि वक्तुं शक्यं । नच वृत्तिज्ञानेऽसिद्धिः । ज्ञानत्वजा- तेरात्मवृत्युभयसाधारणत्वादिति वाच्यं । प्रागभवाप्रतियोगित्वे ध्वं- साप्रतियोगित्वे वा सति तादृशनित्यत्वाश्रयज्ञानत्वावच्छिन्नभेदरू. पस्यैव तस्य विवक्षितत्वात् । नच पारमार्थिकभेदस्य हेतुत्वे इतरा- सिद्धिः । आविद्यकस्य तथात्वे ममासिद्धिरिति वाच्यं । पारमा- र्थिकत्वाद्यविशेषितस्यैव भेदस्य हेतुत्वोपगमानान्यतरासिद्धिः । अ- न्यत् प्रागेवोक्तं । अस्वप्रकाशत्वं वा तत् । विवेचितं चैतत् । एवं परिच्छिन्नत्वं देशतः कालतः वस्तुतो वा स्यात् । नाद्यः कालाका- शादिषु भागासिद्धेः। अतएव न द्वितीयः । ब्रह्मव्यतिक्तं सकल. मपि देशकालाभ्यां परिच्छिन्नमिति चेन्न । व्याघातात् । तथाहि । देशतः परिच्छिन्नत्वं नाम किंचिद्देशनिष्ठाभावप्रतियोगित्वं । त्वया सर्वाभावं प्रशिजानता किश्चिदधिष्ठानमभ्युपेयं । अभावस्याधिष्ठा- नभेदाधीनबोधत्वात् । ननु कथं व्याघातः । सकलमपि ब्रह्मण्यध्य- स्तमतः तत्र नास्तीति निषेधात् नाधिष्ठानाभ्युपगत्या व्याघात २६ ॥ श्रुतिरत्नप्रकाशे॥ इति चेन्न । तर्हि परिच्छिन्नत्वं नाम बाध्यतेत्यर्थस्स्यात् । तथाच साध्याविशिष्टतयैव दुष्टतापत्तिः। कालपरिच्छेदे चानित्यता स्यादिति त्रिकालासत्यतानाभिप्रेता भवेत् । तथाच कालस्यैव ताशपरिच्छे- दायोगे न गतो व्याघातः । कुतश्चाकाशादेः कालपरिच्छेदाध्यव- सायः। जडत्वहेतुनेति चेन्न । तस्याव्याकृतत्वात् । घटादौ कार्य- ताप्रयुक्तत्वाच्च परिच्छिन्नत्वस्य । यज्ज्ञेयं तत्कामिति चेन्न । आवि. द्यायां व्यभिचारात् अनादित्वपरिभाषा लुप्येत । तत्कारणस्याभा- वाच्च । पञ्चमप्रकारं मोक्षमाचक्षाणस्य जडत्वहेतोनित्यतयाऽभ्युप- गते मोक्षे व्यभिचारः। तस्य कालपरिच्छिन्नखनियमे संसारपुनरा- वृत्तिप्रसंगः । नहि सहस्त्राक्षोपि क्षयं क्षेतुं क्षम इत्युन्मत्तवादश्च । न तृतीयः। नेति नेतीत्यादिना ब्रह्मण्यपि जगदन्योन्याभावस्थ श्रुत- बात् सोपि भेदोऽविद्याविलसित इति चेत् किमिदानी पदार्थभेदे- न भिन्नत्वं हेतुः तथासनि पक्षे तदसिद्धिस्स्यात् । विरुद्धता च स्या- त् इति चेन्मैवं । किंचिदेशनिष्ठात्यन्ताभावप्रतियोगित्वमेव तत्। नच कालादिषु भागासिद्धिः। कालादीनामपि नित्यवानभ्युपग. मात् । प्रवाहनित्यता च न यत्किञ्चिदेशनिष्ठात्यन्ताभावप्रतियोगि- त्वविरोधिनी । दिनिरूपितविशेषणताया अतिरिक्ताया अभ्यु. पगमे प्रतियोगिता तत्संबन्धावच्छिन्नापि विवक्षणीया । ब्रह्मणस्तु सर्वेष्वेव देशेषु तादृशसंबन्धेन सत्त्वाभ्युपगमान व्यभिचा: । ननु भूताकाशस्य क्ष लवादेः कालस्य प्राच्यादेर्दिग्विभागस्य देशान्त- रनिष्ठाभावप्रतियोगित्वेपि अव्याकृताकाशस्य महाकालस्य त्वद- भिमताविद्यायाश्च ब्रह्मवत्सकलदेशकालवृत्तितया तत्रासिद्धिरिति चेन्न । ब्रह्मातिरिक्तस्याव्याकृताकशस्यानभ्युपगमात् । महान्तौ दि- कालौ च न शुद्धब्रह्मातिरिको मानाभावात् । अविद्याया अपि देश- निष्ठात्यन्ताभावप्रतियोगित्वान्ना सिद्धिः। १ एवं कालतः परिच्छि- १. यदि कालतः परिच्छित्वं प्रागभावप्रतियोगित्व ध्वंसप्रतियोगित्वोभय- रूपं तदा पञ्चमप्रकारापन्नाविद्यानिवृत्तौ उक्तपरिच्छित्वांगीकारे पुनरावृत्तिः प्रप्तज्येत । नचैवं किंतु कालिकसंबन्धावच्छिन्नात्यन्ताभावातियोगित्वं तच्च ध्वंसाभावेपि प्रागभावकाले स्वात्यन्ताभावमात्रेण उपपद्यते ।

॥ सत्वनिरुक्तिभंगः ॥ २७ नत्वमपि हेतुस्सम्भवति । तस्याप्यन्त्यन्ताभावीयकालिकसंबन्धा- वच्छिन्नप्रतियोगितारूपत्वात् । पञ्चमप्रकारस्य मोक्षस्य परिच्छि- नत्वाभ्युपगमेपि न संसारस्य पुनरावृत्तिप्रसंगः । स्वपागभावकाल- निष्ठात्यन्ताभावप्रतियोगितस्य तत्रोपगमेपि ध्वंसानभ्युपगमेन पुन: रावृत्त्युपपादनायोगात् । वस्तुतःपरिच्छिनत्वं वा तत् । २ तच्च यत्किं- चिद्वस्तुनिष्ठात्यंताभावीयतादात्म्यसंबन्धावच्छिन्ना प्रतियोगिता । न चाविद्यायामसिद्धिः । मूलाज्ञानातिरिक्तपल्लवाज्ञानाभ्युपगन्तृमते त- योस्तादात्म्याभावात् । तदनभ्युपगमेपि पञ्चमप्रकाराविद्यानिवृत्तौ तदभावान्नासिद्धिरिति संक्षेपः । ननूक्तानुमानं प्रत्यक्षेण ३ बाधितवि. षयबारकालात्ययापदिष्टं । ननु सचाया दुर्निरूपखान बाधितं । तथाहि । किं सात्ताजातिः विधिगम्यखमर्थक्रियाकारिखं वा प्रातिभा- सिकेतरत्वं वा असद्व्यतिरिक्तत्वं वा अबाध्यखंवा नाद्यः। पञ्चकाभ्यु. पगमेऽस्माकं न प्रत्यक्षविरोधः। तस्यास्माभिरनिराकरणात् । न षष्टः । प्रत्यक्षस्योत्तरकालीनाबाधाविषयत्वायोगात् । तस्मात् गन्धर्वनगरामिति वत् प्रत्यक्षत्वग्रहस्तु प्रवाद इति चेन्न । अबाध्यतायाःप्रत्यक्षग्राह्यत्वात् । नच तस्योत्तरकालीनबाधाभावाग्राहकत्वमिति । तदानीमबाध्यताग्रहे- णैव सिद्धेः । तत्रातीताबाध्यतागन्धर्वनगरवदाप गृह्यत इति चेत्स• त्यं । तथाप्यस्ति विशेषः। प्रामाण्यं हि ज्ञानस्योत्सर्गतः अपवा- दे अप्रामाण्य मिति विद्वत्सम्मतिः । तथा च तत्र बाधकादप्रामाण्य- मुपस्थाप्यते । प्रकृते तु तादृशबाधकादर्शनात् त्रिकाला बाध्यतैव नि- रपवादा सिद्ध्यनीति चेन्न । अबाध्यतायाः स्वप्रकारकधीविशेष्य. २. यत्किंचिादेति यद्यपि अन्योन्याभावप्रतियोगितैव तादात्म्यसम्बन्धाव- च्छिन्ना तथापि एततून्यायमते सिद्धान्ते अन्योन्याभावप्रतियोगितायाःतादात्म्य संबन्धावच्छिन्नत्वं नास्ति अत्यन्ताभेदे तादात्म्यानंगीकारात् तदुक्तं भेदास- हिष्णु च तादात्य्यं नास्त्येवेति ॥ ३. प्रत्यक्षबाधो नाम प्रत्यक्षजन्याप्रामाण्यज्ञानविषयज्ञानविषयत्वं । :

.0 २८ ॥ श्रुतिरत्नप्रकाशे ॥ ताव्यापकाभावाप्रतियोगित्वरूपत्वे ज्ञानाद्यतीन्द्रियघटितधर्मावच्छिन्न- प्रतियोगिताकत्वेन योग्यानुपलब्धिविरहेण प्रत्यक्षासम्भवात् । स्वा. धिकरणनिष्ठात्यन्ताभावाप्रतियोगिवरूपाबाध्यबस्यापि न योग्या- नुपलब्धिरस्ति । अतीन्द्रियसाधारणधर्मविशिष्टस्योपलब्धिव्याप्यखा- भावात् । न चात्यन्ताभावस्य प्रत्यक्षयोग्यधर्मावच्छिन्नप्रतियोगि- ताकत्वं तंत्रं नतु भेदप्रत्यक्ष तथास्ति । स्तंभादौ पिशाचभेदादेरप्रत्य क्षखप्रसंगात् । एवं चोक्तमिथ्यात्ववद्भेदग्राहिणा प्रत्यक्षेणोक्तानुमान- स्य कालात्ययापदिष्टता दुर्वारेति वाच्यं । पिशाचभेदादेः प्रत्यक्ष- तावादिभिरप्यन्योन्याभावप्रत्यक्षे योग्यधर्मावच्छिन्नप्रतियोगिताक- त्व जात्यवच्छिन्नमतियोगिकत्वान्यतरस्यैव तंत्रत्वोपगमेन तदुभय शून्यभेदस्य प्रत्यक्षानभ्युपगमात् । ४ अन्यथा पिशाचसंयोगित्वाद्यव. च्छिन्नभेदस्यापि प्रत्यक्षतापत्तेः। ज्ञाननिवर्त्यत्वादिकंतु न सर्वथा प्रत्य- क्षग्राह्यमिति शंकितुमशक्यं । भाविनिवृत्तिपतियोगित्वस्य सत्त्वेपीदा- नीं तदुपलम्भापादनासंभवात्। खाधिकरणनिष्ठाभावीययोग्यधर्माव- च्छिन्न प्रतियोगिखाभावस्य योग्यत्वेपि तस्य विशेषाभाग्रहरूपतया न सामान्यवत्ताज्ञान प्रतिबन्धकता। यो यद्धर्मावच्छिन्नाभावशून्य इति व्याप्तिस्त्वसिद्धा। विपक्षे बाधकामावात् । अस्तुवा अनुमानग्राह्य- विरोधिसत्त्वग्राहकं प्रत्यक्षं । तथापि चन्द्रप्रादेशिकवादिप्रत्यक्षव- च्छंकिताप्रामाण्यकत्वेन नोक्तानुमानबाधक्षमं । नच तत्राप्तवाक्या दिना विरुद्धवादप्रामाण्यस्याशंक्यत्वेपि घटस्सन्नित्यादिप्रत्यक्षस्य न तथाले । बलवन्मानविरोधाभावादिति वाच्यं । तत्राप्युपक्रमादिलि. गावधृततात्पर्पकबलवच्छुतिविरोधेनामामाण्यशंकासंभवात् । नच वि ४. यदि स्तंभः पिशाचः स्यात् तर्हि पिशाचवदप्रत्यक्ष आपद्येत पिशा- चो वा स्तम्भवत् प्रत्यक्षः स्यात् इत्यापादनसम्भवेन स्तंभे पिशाचभेदः प्र. त्यक्षः । स्तंभो यदि पिशाचसंयोगी स्यात् तर्हि पिशाचसंयोगः प्रत्यक्षः स्यात् इत्यापादनायोगात् न पिशाचसंयोगः प्रत्यक्षः ॥

२९. । मिथ्यात्वबाधकोद्धारः॥ श्व सत्यमित्याद्यागमविरोधः। तस्यान्यपरस्य देवताधिकरणन्याये- न बलवन्मानान्तरविरुद्धविश्वसत्यतायां असाधकत्वात् । विश्वस्मि- न्सत्यतदात्म्यस्य बोधनेपि विश्वस्य पारमार्थिकत्वासिद्धेश्च । उप- गम्यते चास्माभिरप्युपादानोपादेययोस्तादात्म्यं सन्घट इत्यादि- प्रत्यक्षसिद्धं । नच श्रुत्या विश्वस्मिन्सत्तादात्म्यप्रतिपादनं व्यर्थ । प्रपञ्चे सत्तादात्म्यानभ्युपगन्तवादिन एवाभावादिति वाच्यं । शून्य- वादिना प्रपञ्चे सत्तादात्म्यानभ्युपगमेन वादिप्रसिद्धसत्तादात्म्यशू. न्यतानिषेधेन सत्तादात्म्यप्रतिपादनार्थत्वात्। अप्राप्ते शास्त्रमर्थव दिति न्यायात् । यथा वादिप्रसिद्धमिथ्यात्व निषेधेन पारमार्थिकसत्त्वप्र- तिपादनपरमिदं वाक्यमिति त्वयोच्यते तद्वत् । इयांस्तु विशेषः । बलवदशेषागमविरोधेनान्यपरात् अस्मात् विश्वपरमार्थतायाः सि. ट्यसंभवेपि सिद्धं सत्तादात्म्यं परं व्यवहारकालाबाध्यत्वरूपमिति । विश्वं सत्यं मघवाना युवोरिदापश्चन प्रमिनन्ति व्रतं वां। उततमावा. मस्येन्द्राब्रह्मणस्पती हविर्नोनं युजेव वाजिना जिगातमिति ऋक्सं- हिताद्वितीयाष्टकवाक्यस्यायमर्थः । हे ब्रह्मणस्पती मघवाना मघवा- नौ । मघमिति धननाम धनवन्तौ । विश्वं सर्व सत्यं कर्म सद्भूतत्वा- त्फलस्यावश्यंभावित्वाद्वा तादृशं कर्म यवयोरित् । इदमवधारणे । वां युवामेव सर्वाणि कर्माण्यनुष्ठेयानीत्यर्थः। आपो व्यापन- शीला देवताः। च नेत्येतत् पदद्वयसमुदायमेकपदमध्यापकसंप्रदाय- सिद्धं । वां युवयोव्रतं संकल्प कर्मवा नपमिनन्ति न हिंसंति । ड्रि- मिहिंसायां क्रय्यादिकं । किंतु अनुमोदन्तीति यावत् । नोस्माकं हविर्दध्यादिकमन्नं च पुरोडाशादिकं चास्माभिर्लक्ष्य वाजिना वेग- वन्तावश्वाविव युजा युक्तौ सन्तौ जिगातं देवयजनमागच्छतं । जिघा- तिगतिकर्मजं होरात्यादिकः । अनं घासं प्रत्यश्वाविवेति वा । यद्वा चनेत्यप्यर्थकमेकमेव पदमस्तु । देवाःमामिनंति प्रमावन्तो भवन्तीत्यर्थः। नच तस्य देवप्रमाविषयत्वेन पारमार्थिकत्वापत्तिः । सद्व्यवहार- ॥ श्रुतिरत्नप्रकाशे ॥ कालाबाध्यविषयकत्वघाटितप्रामाण्यस्य विषयपारमार्थिकत्वं विनाप्यु- पपत्तेः । नन्वेवमपि विनिगमकाभावात् विश्वं सत्यमित्यादिवचनेन सत्यताविधानाय नेहनानेत्यादिवाक्यानि वादिप्रसिद्धमिथ्यात्व- मनुवदन्ति । एवं असदेवेदमग्रमासीदित्यादिवाक्यनिषेध्यसमर्पक- तया सत्यज्ञानादिवाक्यस्य तादृशसद्वाक्यानुरोधेनानुवादित्वकल्पना- यायुक्तत्वात् । उपक्रमोपसंहारादिभिरात्मना स्वस्वभावतायाएव तात्पर्योगमाच्च । तथाहि श्रुतिः सत्यं ज्ञानमित्युपक्रम्यात्मनोऽसत्त्व- निन्दापूर्वकं तत्सत्तां स्तुवन्ती प्रसरति । असन्नेव सभवति असह- ह्मति वेदचेत् अस्ति ब्रह्मेति चेद्वेद संन्तमेनं ततो विदुरिति । तथै- तदाहुः असदेवेदमग्रआसीदित्यसत्पदं परमतत्वेनान्द्य श्रुत्या दृषि- तत्वाच । असद्वा इदपग्रआसीदित्यादिवाक्यस्य गतिराचार्ये णोक्तं- ति चेत् तथापि श्रुतेरद्वैतब्रह्मपरत्वे उपक्रमाउनेकलिंगसाचिव्येपि तत्रानाश्वासे ताशवाक्यनिषेध्यसमर्पकतया सत्यज्ञानादिवाक्यं ब्र- ह्मणस्सत्यतामनुवदतीति कल्पनमनालम्बनमेवोत द्रष्टव्यं । वस्तुतस्तु श्रुतिसहायरहितानन्ततर्काणामप्रयोजकतया न ब्रह्मसत्त्व जगन्मि- थ्यात्र बाधकतापि । ननु विश्वं सत्यमित्यादेविश्वसत्यत्वानुवाद इति वदता विश्वस्य प्रामाणिकताभ्युपेयते न वा । नाद्यः। तत्प्र- माणविरोधात् । निषेध्यस्य स्वेन प्रमाणविषयतानभ्युपगमात् । न द्वि- तीयः। असिद्धस्यानुवादायोगात् । लोकसिद्धानुवाद इति चेन्न । लोके प्रमाणेन सिद्धमनूद्यते भ्रान्त्या वा। नाद्यः । दत्तोत्तरत्वात् । नोत्तरः । तथैव लोकस्य भ्रान्ति सिद्धब्रह्मसद्भावो निषेध्यत इति चेन्न। उपक्रमादि लिङ्गावधृतस्वप्रकाशब्रह्मपरताकवाक्यजातस्यानुवादकत्वं अतादृशकतिपयवाक्यानां तत्सत्तानिषेधपरत्वामिति कल्पनस्यायुक्त त्वात् । न चासत्यमप्रतिष्ठन्ते जगदाहुरनीश्वरमिति निरवकाशश्रुति विरोधः । न चासत्यशब्दोऽत्यन्तासत्परः । अत्यन्तासत्वाभ्युपग- न्तृवादिन एवासत्त्वादिति वाच्यं । न सत्वं यस्मिन्निीत व्युत्पत्त्याऽस- ॥ मिथ्यात्वस्यानुमानविरोधपरिहारः ॥ त्यशब्दस्य सत्वराहित्याद्यर्थकतया शून्यवादिप्रापितस्य सत्तादा- त्म्यशून्यस्यैवात्रोक्तेः। अथैवमपि विमतं विश्वं सत्यं प्रमाणदृष्टत्वा- दात्मवादित्यनुमानविरोध इति चेन्न । असन्नृशृंगमिति प्रमाणदृष्टे नृ- शृङ्गादौ ब्यभिचारात् । अधिकमन्यत्र । किंच प्रमाणदृष्टत्वमित्यत्र तात्विकप्रमाणदृष्टत्वं विवक्षितं अतात्विकप्रमाणदृष्टत्वं वा । नाद्यः । अस्माकमसिद्धेः। प्रत्यक्षादिप्रमाणानां तत्वावेदकत्वानभ्युपगमात् । नोत्तरः । तवासिद्धेः दृष्टान्तस्य साधनविकलत्त्वाच्च नच तत्वावेद- कत्वातत्वावेदकत्वविशेषानवधूय प्रमाणदृष्टत्वमात्रं हेतुः कुतो न स्यादिति वाच्यं । भ्रातिदृष्टत्व पमाणदृष्टत्वसाधारणदृश्यतात्वं नो. क्तमिति त्वदुदाहृतायाः कृत्यायाः त्वां प्रत्यप्रतिबन्धप्रसरत्वापत्तेः। ननु प्रत्यक्षादीनामतत्वावेदकत्वे प्रमाणाभावादुत्सर्गतश्च बलवत्त्वा- दद्वैतागमविरोधायोग्यत्वात् । अत एव प्रत्यक्षादिकं तत्वावेदकं प्र- माणत्वात् । सत्यज्ञानादिवाक्यरत् । अन्यथा प्रमाणमेव न स्यात् । प्रपञ्चस्तत्वावेदकप्रमाणदृष्टः संपतिपन्नभ्रान्तेतरपदार्थत्वात् ब्रह्म वत् । आत्मत्वमुपाधिरिति चेन्न । अबाध्यत्वादेरात्मत्वस्य पक्षे सं- भवात्। अन्यथात्मत्वस्यापि ब्रह्मण्यभावस्स्यादित्यनुमानविरोध इति चेन्मैवं । आये त्रिकालाबाध्यविषयकत्वघटितप्रमाणत्वस्य हेतुत्वे शुद्धस्यापि सपकारकवृत्तिवेद्यत्वमिति मते प्रत्यक्षादीनां सदधिष्ठान ब्रह्मविषयकत्वेन सिद्धसाधनात् । बाध्याविषयकत्वरूपप्रमाणत्वस्य तथात्वे मां प्रत्यसिद्धिः। ब्रह्मप्रमान्याबाध्याविषयकत्वघटितेन हेतुना बाध्यविषयकत्वघटितसाध्यसाधने त्वप्रयोजकता। ब्रह्मज्ञानेतराबाध्य विषयकत्वविशिष्टज्ञानजनकत्वमात्रेण हेतूपपत्त्या त्वदुक्तसाध्याप्रस- रात् । नापि द्वितीयः । उक्तमते सिद्धसाधनात् । मतान्तरे त्वषयोज कत्वादात्मत्वस्योपाधित्वाच्च । यत्त्वत्र परेण ब्रह्मणि प्रमाणदृष्टत्वाभा- वात् दृष्टान्तस्य साधनविकलतेत्युक्तं तन्न । तस्य प्रमाणाविषयत्वे सत्यं न स्यात् । स्वतस्सिद्धत्वान्नेति चेन्न । स्वत इति खेनेति वा ॥ श्रुतिरत्नप्रकाशे ॥ प्रमाणेन विनेति वा । नाद्यः । अनभ्युपगमात् । नहि स्वस्मिन्स्वस्य कारण नाभ्युपगम्यते । अन्यथा शशविषाणस्याप्येवं सिद्धिस्स्यात् । न द्वितीयः । प्रमाणाभावे सत्यं न स्यादित्यस्य प्रमाणेन विना सि. द्ध्यतीत्यस्यानुत्तरत्वात्। सिद्धयुपायान्तरस्यानुपन्यस्तत्वात् । सर्वत्र प्रमाणविषयतयैव स्वतस्सिाद्धरिति न शक्यमभ्युपगन्तुं । तथाहि । घठादीनां सत्ता तावत् चक्षुरादिना तजन्य ज्ञानेन च सिद्ध्यतीति वक्तव्यं । तथाच तदपिच सदेव साधकमसद्वा । नाद्यः। तत्र प्रमा- णप्रसराभावे सत्तासिद्धेः प्रमाणपसरे च तत्राप्युक्तरीत्या प्रमाणा- न्तरे प्रसरो वक्तव्यः। तथाच तत्राप्येवं तत्राप्येवं इत्येकैकस्मिन्वि- षयेऽविश्रान्तप्रमाणधारास्वीकारप्रसंगः। तद्वारणाय कचित्प्रमाणधा- राविरामोपगमे यत्रैवरिरामःतस्याप्रामाणिकत्वेनासत्त्वापत्तौ तत्पूर्वत- नस्याप्येवं तत्पूर्वतनस्याप्येवामिति घटादीनामप्यसत्त्वापत्तेःन द्वितीयः। असता प्रमाणेन तत्सिद्धौ सर्वेष्वपि तसिद्धिप्रसंगात् । ननु नायं दोषः। अस्मन्मते साक्षिणः स्वग्राहकत्वोपगमादति चेन्न। एवं साक्षि- गतस्वग्राहकतायाः प्रामाणिकत्वात् । यतस्तद्विशिष्टस्वग्राहकतैव वा- च्या एवं तस्यास्तस्याअपि प्रामाणिकत्वाय साक्षिणः तत्तद्विशिष्टस्व- ग्राहकताया एव वाच्यत्वात् विषयानवस्थायादुर्हरत्वात् । मैवं । पर- स्परसत्तावगाहिसाक्षिद्वयोपगमादिति चेन्न । विषयविनिर्मोकेण प्रत्य- क्षेज्ञानाभावस्य आनुभाविकतया विषयविशेषितस्वविषयकत्वावीश- टसाध्यान्तरग्राहिताया एव स्वस्मिन् वाच्यतया तादृशसाक्षीतरग्रा- हितायाः प्रामाणिकत्वाय तज्ज्ञानाय साक्षिणोप्येतादृशसाक्ष्यन्तर- ग्राहकत्वविशिष्टत दाहकत्वस्यैव वाच्यत्वेन तस्यापि च प्रामाणिक- त्वाय तत्तद्राहकताविशिष्टसाक्ष्यन्तरग्राहकत्वमेव तस्य वाच्यमित्य- ननुभवपराहतविषयानवस्थाप्रसंगात् । साक्ष्यन्तरकल्पनाप्रयुक्तगौरव मात्रस्यैवास्मिन्पक्षे परिशेषाच । अन्यथा अन्यया अनुपपत्त्या ज्ञानधा. राविरामो नोपयः विषयानवस्था वा स्वीकर्तव्येति चेन्न । कतिपय ॥ ईक्षत्यधिकरणविचारः ॥ विषयसंस्पर्शविज्ञानानन्तरं तदवधूय विषयान्तरे प्रमाणतायाः सार्व- जनीनत्वात विषयानवस्थायामप्यनुभवेन प्रत्याख्यानात् । ननुतस्या निश्चयमात्रतस्सिद्धं । एवं च साक्षिणस्वरूपतः स्वविषयकत्वमात्रे- ण स्वसिद्धिरूपता निष्प्रत्यूहैवेति चेन्न । स्वविषयकत्वस्याप्रामाणि- कत्वेऽसत्त्वापत्त्या स्वविषयकसिद्धेरन्तः सिद्धेः तत्प्रामाणिकत्वा. यास्वविषयकत्वस्वग्राहकत्वं साक्षिण इत्युक्तौ च पूर्वोक्तानवस्थैव जा- गर्ति । तद्विषयकत्वेनासिद्धाया अपि सिद्धेः तत्साधकत्वे ज्ञानं गुण इति सिद्ध्या पत्त्याऽपेक्षितसर्वसिद्धिप्रसंगः । अथोच्येत सिद्धिर्नत- द्विपयकनिर्णय एव । किं तर्हि तनिष्ठसंदिग्धताविरोधिज्ञानं । एवं च साक्षिणः स्वविषयकत्वकल्पनाप्रयासो हि तत्तद्विषयसंबन्धिनः तस्य स्वविषयतद्विषयकत्वविशिष्टस्वधर्मिकत्वसंशयविरोधिज्ञानरूप- ताभ्युपगममात्रेण प्रमाणविषयत्वेपि तत्सत्यत्वसिद्धेरप्रत्यूहत्वात्। श- शशृङ्गसत्त्वासिद्धिप्रतिबंधित्वनिश्चयोपि तव दुष्परिहरः। उक्तरीत्या- श्रयेण परिहारश्च ममापि तुल्यः तस्य स्वधर्मिकासति सिद्धरूपस्य ब्रह्मणः शास्त्रयोनित्वं । ननु ततश्च भवतीति कारणवाक्यानां यादृ. शार्थस्य प्रमाणान्तरेण सिद्धिः तादृशानुवादकत्वमेव वाच्यं । नचाद्वितीयस्य वस्तुनः नापि प्रमाणेन जगत्कारणत्वावगमः। अवग- मे वा विचारारम्भवैयर्थ्य मिति पुनरसंभवो लक्षणविचारयोरतिव्या- प्तिथोक्तेश्वर इति शंका तत्तुसमन्वयादित्यत्र निरस्ता । इच्छानुमान- सिद्धिप्रधानाद्यनुमानकत्वमेव कारणवाक्यानां नोक्तलक्षणब्रह्मपर- वोपक्रमादितात्पर्यलिङ्गानामन्यथासिद्धत्वात् । एवंचोक्तलक्षणस्य च सा दुर्वारवेति शङ्का निरस्यते । एवं सदेवेत्यादिवाक्यानां ब्रह्म- णः समन्वयमतिपादकत्वादध्यायपादसंगतिः। अन्तराधिकरणेनेत्यु- क्तरीत्याक्षेपकइति । यद्वा सर्वजगत्कारणे समन्वयप्रदर्शनेन चेतनं त- दिति व्याप्तिश्च । स्पष्टब्रह्मलिङ्गमित्युपक्षिप्तं तदाक्षिप्य समर्थ्यते इति सैव सङ्गतिः। तत्रच वादिविप्रतिपत्तिविषयानुपलम्भे सति संशयः। 5 १. ॥ श्रुतिरत्नप्रकाशे ॥ पूर्वपक्षस्तु नोक्तलक्षणस्य ब्रह्मणः जगत्कारणत्वं संभवति मानाभा- नात् । नच सदेवसौम्येदमग्रासीदित्यादिश्रुतिर्मानं तस्यानुमान- सिद्धपधानानुवादकत्वात् । नच तदैवत इति ईक्षणश्रुतिविरोधः। त्व- न्मतेपि चिद्रूपस्य ब्रह्मणो निर्विशेषस्य ज्ञानसंकल्पाश्रयत्वायोगेन तद्विरोधस्य दुर्वास्त्वात् । किंच कार्यानुकूलाशयोपि न निर्वि- शेषस्योपपअन्ते तत्रा शक्तं तत्कारणं चेति व्याहतं । नच ब्रहाण्यपि अनिर्वचनीयाः शक्त यस्तन्तीति सांपतं । अनिर्वाच्यत्वासिद्धेः साहि सत्त्वेन प्रतीयमानस्य जगति श्रुतिप्रतिपादिताद्वितीयप्रत्यङ्चैतन्य- स्थाद्वितीयत्त्वात् । अन्यथारूपोपपच्या स्वीकार्या । न चाद्यापि ता- दृशचैतन्यं प्रमाणपदवीमनुप्राप्तं येनार्थमभ्युपगच्छामः । तेन कर्तृत्वासं- भवेपि ब्रह्मणः उपादानत्वमेव श्रुत्या प्रतिपाद्यतामिति निरस्तं । अपरिणामित्वात् । प्रधानस्य च ज्ञानानुकूलसत्वगुणयोरिव तादृश- व्यक्तिकार्यात्मक शक्तिमत्तया परिणामित्वाच्च युक्तं जगकर्तृत्वमु. पादानत्वं च । किंच शरीरादिजन्यत्वनियमदर्शनात् कथमशरीर- स्यात्मनः जन्यज्ञानसंभवः । नित्यज्ञानं तु स्वरूपमेवेत्युक्तमिति । सिद्धान्तस्तु सांख्यपरिकल्पितं प्रधानं न जगत्कारणतया वेदपति- पाचं वैदिकशब्दापतिपाद्यत्वात् । तथाचातिव्याप्तेर्नावकाशः । एवं चातिव्याप्तिवारणाय जगत्कारणतया वेदप्रतिपाद्यत्वसामान्याभावे साधनीये लक्षणस्य व्यधिकरणतया हेतु-वं न संभवति । अशब्दमिति पदमेव हेतुसमर्पकतया भाष्ये व्याख्यातं । नच पक्षस्य साध्यैकदे- शस्य चाध्याहारावश्यकत्वे जगत्कारणतया वेदप्रतिपाद्यः पक्षः प्र- धानभेद एव साध्यमस्तु । एवं चाशब्दं नेति साध्यं ईक्षतेरिति न साध्यहेत्वोर्वैयधिकरण्यं नापि साध्यैकदेशाध्याहार इति वाच्यं । एवमपि जगत्कारणतया वेदप्रतिपाद्यत्वा नवच्छेदेन साध्यसिद्धिं विना तिव्यातिपरिहाराभावात् तदवच्छेदेन साध्यसिद्धेरुद्देश्यता वा- च्या। एवंचा जामेकां. मायांतु प्रकृतिं विद्यादित्यादिवाक्यानां जगaat ३९ ॥ ईक्षत्यधिकरणविचारः ॥ कारणतया प्रतिपाद्ये इदं लक्षणस्योभयवाद्यसिद्धतया भागासिद्धि प्रसंगेण तस्य हेतुत्वासंभवात् । अस्यत्कृते च व्याख्याने स्वरूपासि- द्धिशङ्का तु तुरीयपादे सप्रपञ्च निरसिष्यते। नन्वेवं अत्रैव तस्य संग- ततया पादान्तरे तद्विन्यासो नैव युक्त इति चेन्मैवं । सिद्धयतो बाध- स्य साध्यधीविरोधित यान्तरंगत्वेन प्रथमतः तच्छङ्काया एव निरस- नाहतया उक्तसाध्यमबाधितं तद्विद्यादिभिः प्रधानादेरेव जगत्कारण- तया बोधनाादीत साध्ये शलिते तासां प्रधानपरताव्युदासेन ब्रह्म- परत्वसमर्थनस्यैव न्याय्यत्वात् । असम्भवदुस्स्थे लक्षणेऽतिव्याप्ति- निरासकहेत्वसिद्धिराहित्योपपादनस्याप्राप्तकालत्वाच्च । उपादाननि- मित्तसाधारणनिखिलजगत्कारणतारूपलक्षणस्य एकतरमात्रकारण- तासिद्धावपि संभवेन महतःपरमव्यक्तं अजामेकामित्यादौ उदाहृता- याः प्रधाने शंक्यत्वेपि बाधानवकाशेन तद्विचारस्यात्र सत्त्वात् । अ न्यत्र पूर्वपक्षे च उपादानत्वमित्येवोभयप्रतिक्षेपादुभयसाधारणकोव्य- वलम्बनेन सिद्धान्ते प्यसम्भवनिरासो भवतीत्यभिप्रायेण कर्तृत्व- साधकवीक्षणमेव द्वितीयसाध्ये हेतूकृतं । परमार्थतस्तु उपादानत्वम- पि तस्यैवेति सुदृढाभिप्रायेण भगवता ज्ञानादित्यनभिधाय ईक्षतेरि- त्युक्तं । एवं चेल्लक्षणस्य तदैक्षत बहुःस्यामिति स्वगतबहुभवनज्ञान- संकल्परूपत्वात् । सत्यसन्धस्य सत्यसंकल्पस्य चान्यथाकरणायो- गादात्मन एव बहुधाकरणमित्युपादानत्वं सिद्ध्यति । स्पष्टं च एत- देव वक्ष्य त्याचार्यः क्षीरवद्धयुपदेशादिति । एवं न सद्विद्यादीनां प्र- धानपरत्वमेवेति वदता सांख्येन तत्वमस्यादिवाक्यार्थस्यान्यथाक र्णनीयत्वेन सिद्धान्त्याभिमतलक्ष्यस्वरूपासिद्धिरभिप्रेतति बाधाश्रया- सिद्ध्यादिपरिहाराय औपाधिकसद्विद्याविचार एवात्र प्रचरितो भगवता सूत्रकारेण । भाष्ये तु तुल्यन्यायतामाश्रित्य अन्येषामपि वि. षयत्वमुक्तं । एवंच यत्किञ्चित्कारणवाक्यं परिहत्य ज्ञेयविचारस्या- पि लक्ष्यसिदिदृढीकरणायोति भवत्येव समन्वयसंगतिः । यत्त्वजामे- 4.

३६ ॥ श्रुतिरत्नप्रकाशे ॥ कामिति वाक्ये मृज्यमानानामिति कर्तृत्वस्थापि बोधनसंभवः शं- क्यते च । तस्मादधिकरणस्यात्र संगतिर्दुर्वारैवेति तदसत् । तथापि सत्राजादिपदानामव्यादिपरत्वेप्यसंभवस्य दुरुद्धरत्वात् एतदस्य जग- स्कर्तृत्वसिद्धिमन्तरा अव्याकृतप्रधानवादयोर्भद सिद्धेश्च । एवंचात्रासं- भवातिव्या स्तत्परिहाराय प्रधानस्याशब्दत्वहेतुना जगत्कारणतया वेदमतिपाद्यत्वाभावे साविते बाधाशङ्कामुखेनासंभवातिव्याप्त्योः पुन- राशङ्कायां वाक्यविशेषगतिनिरूपणेन तयोः परिहारो गतिसामान्यो- क्तया च क्रियते । एवं च पादत्रयेण ब्रह्मणि समन्वयप्रतिपादनमु- खेन प्रतिज्ञा प्रतिपाद्य साध्यविशिष्टपक्षसिद्धौ पूर्व हेतोरसिद्धिशङ्कायां तत्परिहाराय चतुर्थपाद आरभ्यत इति न किञ्चिदनुपपन्नं। अधिक- पग्रे वक्ष्यामः। यद्यपि सामान्यतो शब्दत्वेनोक्तबाधनमकृत्वापि ब्रह्म णि समन्वयप्रतिपादने प्यसंभवादतिव्याप्सेरभावः सुग्रहः । तथापि शिष्यबुद्धिसौकर्यायेक्षणाभिधानोत्तरं सामान्यतोऽतिव्याप्त्यादिप- रिहारः । कथंचिद्विशेषमाश्रित्य प्रकारान्तरेण तथा शङ्कायां च तत्प- रिहारश्च परबोधनप्रयोजनकेषु ग्रन्थेषु बहुधा दृश्यते । अन्यथा हिं शास्त्रयोनित्वात् तत्तुसमन्वयादित्यनुक्तावपि विष्णावेव समन्वयोप- पादनमात्रेण निखिलशब्दवाच्यगुणपूर्तिपत्वसिद्ध्या परपक्षेपि ताह- शसूत्रद्वयवैयर्थ्यापातात् ब्रह्मशब्दोपात्तगुणान्तरपूर्तिवत् पदवाच्यता- रूपगुणपूर्तेरपि मुमुक्षुज्ञेयत्वात् जिज्ञासाकारणीभूतगुणपूर्तिसिद्ध्यर्थ. मेव सर्वशब्दवाच्यताया अप्यत्र समर्थयितुं शक्यत्वात् । अथ प्रति- पिपादयिषितार्थस्य सामान्यरूपेण बोधनं शिष्यबुद्धिवेशद्यायेति चेत् तर्हि तन्ममापि तुल्यमित्यलमतिप्रसंगेण । ननु सदेवेत्यादौ ब्रह्मणः प्रतिपादनासंभवात् प्रधानमेवोक्तरीत्या तत्पतिपाद्यं वाच्यामति नो- क्तलक्षणे ब्रह्मणि वेदान्तानां समन्वयः । अत आह ईक्षते रिति । एवंच जगत्कारणतया वेदातिपाद्यमशब्दं शब्दैकानधिगम्यमानुमा- निकं प्रधानमिति यावत् । तन्त्र । ईक्षतेरीक्षत इति न धातुनिर्देश इ- ३७ ॥ ईशत्यधिकरणविचारः ॥ त्यादिभाष्यमेव वक्तव्यं । यद्वा सर्ववाच्यार्थाश्रयत्वसंबन्धेन धातुरेव हेततया निर्दिष्टः । एवंचाशब्दपदस्याऽऽवृत्त्याऽर्थद्वयपरत्वं बोध्यं । नच ब्रह्मणः ईक्षणाश्रयत्वानुपपत्तिरवश्यैव । ईश्वरस्यापि तदाकार- वृत्तिपतिबिम्बितत्वलक्षणस्य ईक्षितृत्वस्य मुलभत्वात् । परमिया- विशेषः। जीवस्यान्तःकरणवृत्तावविद्यावृत्तौ च प्रतिबिम्बभाव: शक्यः । तमन्तरेण विषयसंबन्धायोगात् । परमेश्वरस्य तु सर्वात्मक- स्यानाकृतज्ञानरूपस्य सर्व रूपज्ञस्येव आविद्यकाधाराधेयभावापनसर्व- ज्ञतासंभवेप्यतीतानागतवस्तुमानानुरोधेन ईक्षतिश्रुतिः अतीतत्वानुरो- धेन चाद्यमायावृत्तावपि प्रतिबिम्बेनेक्षितृत्वाभ्युपगमः । एवंचैक्षते- त्यादौ चैत्रात्मा पश्यतीत्यादाविव प्रतिविम्बितत्वादिरूपं कर्तृत्वमे- वाख्यातार्थः । कथमन्यथा सांख्येनापि योगिनां सर्वज्ञत्वादिकमुप- पादनीयं । सर्वज्ञबुद्ध्यगृहीतासंसर्गकत्वमात्रेणैव सर्वज्ञत्वव्यवहारः। न वस्तुतः सर्वज्ञत्वं जीवस्येति चेत् मुक्तिदशायामप्यसंसर्गाग्रहात्सर्व- ज्ञतापत्तिरिति अविशेषएव मुक्तिसंसारयोरापद्येत । एतस्य मुक्ति दशायामपि बुद्धयन्तरसम्भवात् विद्यमानतदीयबुद्धीत्यादिविवक्षा- यामपि तदीयत्वादेः दुर्निरूपतया दोषतादवस्थ तदीयता हि तन्नि ठप्रतियोगिताकसम्बन्धवत्वं प्रतियोगिता च यद्यात्मनोऽतिरिच्यते त- स्पांगीकृतत्वे आत्मनः कूटस्थत्वाभ्युपगमविरोधः। नित्यत्वे च सिद्धान्तविरोधः । तैरात्मनो निर्धर्मकत्वाभ्युपगमात् । अतीतादिवच्च आत्मनश्चैतन्यामति वाक्याद्विकल्पाभ्यां वृत्तिर्जायत इति वदन्ति लक्षयन्ति च शब्दज्ञानानुपाती वस्तुशून्यो विकल्प इति स्वरूपानति- रिक्तत्वे आत्मनो बुद्ध्या संसर्गस्य स्वाभाविकतया निर्मोक्षत्वप्रसंगः निरस्तश्च ख्यातिपक्ष इति प्रथमसूत्र इति । यदि च पूर्वोक्तनव्यमत- रीत्या बुद्धिपरिणामवृत्त्यादिकं प्रत्याश्रयत्वमेव कर्तृत्वमुच्यते तदा तुल्यन्यायतया मायावृत्त्याश्रयत्वमपि चेतनस्यैवेति न सज्ञताभङ्गः। विस्तरस्तु रत्रावळीप्रकाशेऽनुसंधेयः । विशिष्टस्यैच जगदुपादानत्वं ३८ ॥ श्रुतिरत्नप्रकाशे ॥ कर्तृत्वं च न शुद्धस्यति मते प्रथमसूत्रे शुद्धब्रह्मैव जिज्ञास्यत्वेन प्रति- ज्ञातं । जिज्ञासा च तन्निश्चयानुकूलं वेदान्तानां तत्परखावधारणं तच्चेतरव्यावृत्तजिज्ञास्यस्वरूपावगत्यधीनमिति तदर्थ लक्षणे वक्तव्ये तत्र स्वरूपलक्षणातिरिक्तस्य जगत्कारणत्वादेरसत्वेपि तस्योपलक्ष णतया व्यावर्तकत्वमस्तीति तदेव ब्रह्मोपलक्षणं द्वितीयसूत्रे प्रतिपा- दितं । यद्यप्यानन्दादिकमस्ति स्वरूपलक्षणमिति तस्यैवाभिधानं युक्तं । तटस्थलक्षणात् स्वरूपलक्षणस्यैवान्तरणतया भ्यर्हितवात्। वे- दब्रह्मशब्देनैवासंकुचितवृत्तिकेन अनन्ताख्यस्वरूपलक्षणस्य लाभा- त् । तदुपलक्षितस्याविद्यानिवर्तकखावधारणाभावेन विचार्यता सं- भवतीति विचारानारंभपूर्वपक्षस्य समाहितखात् जिज्ञासाकारणीभूता- नन्त्यनिर्वाहक तटस्थलक्षणमेवोपात्तं । एवंच सति कार्यकारणान- न्यखन्यायेन वियदादेः विशिष्टानन्यखनिश्चये विशिष्टस्य च केवला- नन्यसात् केवलस्यानन्त्यं सिद्ध्यतीति । ततश्च वेदान्तानां तार्किका नुमितकारणमात्रानुवादकतया नानंत्यवत् ब्रह्मात्मककारणवोधकत्वं क्षित्यङ्कुरादिकं कर्तृनन्यं कार्यत्वादित्यनुमानैश्च लाघवे इतरबाधा- दिसहकृतैश्च सविशेषतरवेदादिविशिष्टकारणमात्रसिद्ध वस्तुपरिच्छे- दादिशून्यात्मकतया मानाप्रवृत्तेश्चेति न जगत्कारणतया शुद्धोपल- क्षणत्वसंभवः । तदसंभवे च जगत्कारणस्यैव ब्रह्मातिरिक्तस्य सत्त्वा- त् न जिज्ञास्यतासिद्धिरिति शङ्कायां तनिरासात् अद्वितीयचेतनात्म- कस्यैव कारणस्य शास्त्रयोनित्वमुक्तं । एवंचाद्वितीयस्यानंतस्य वस्तु- नः शास्त्रप्रतिपाद्यत्वमन्तरेण तदीयविशिष्टरूपस्य जगत्कारणता न सिद्ध्यति । शास्त्रस्य च तद्रोधकत्वं तु प्रमाणान्तरवेद्यत्वनिष्फल त्वाभ्यां न संभवति । देवताधिकरणन्यायश्च न प्रमाणान्तरविरुद्ध प्रवर्तत इति शङ्का चतुर्थी निराकृता । इदानीं सदेवेत्यादिवाक्यानां सांख्याभिमतप्रधानानुवादकत्वमाशंक्य निराक्रियते । एवंच ईक्षणा- दीनां शुद्धावृत्तित्वेपि विशिष्टचित्वान्न क्षतिः । एवमेवहि ईश्वर- ॥ ईक्षत्यधिकरणविचारः॥ लिङ्गैः जगत्कारणत्वादिभिःशुद्धलिंगैरसंकुचितानानंत्यमोक्षफलकज्ञा- नविषयत्वादिभिश्च प्रधानादिव्युदासेन वाक्यसमन्वये स्थिते यत्रो- पासनादिकार्यश्रवणं तत्र श्रूयमाणगुणविवर्तासंभवात् । अगुणानां विशेषणता यत्रच पूर्वापरपरामर्शन शुद्धब्रह्मपरतावसीयते तत्र गु- णानां प्रधानविरोधेन विशेषणत्वासंभवादुपलक्षणत्वमेवेति व्यवस्था चोपपद्यते । शुद्धचिदीश्वरयोश्चात्यन्तिक भेदविरहात् संसारित्वाद- वद्यगन्धरहितत्वात् भाष्यादौ परमेश्वरत्वेन व्यवहार इति ब्रह्मणः ईक्षितृत्वं तदेक्षतेत्यादिश्रुत्या प्रतिपाद्यते । नच तज्जडमात्रस्य सं- भवति । नच ज्ञानशक्तिमत्त्वं वा प्रधनस्य ज्ञातृत्वव्यपदेश इति युक्तं केवलस्य जडस्य ज्ञातृत्वायोगेन केवलसद्विवर्ते ज्ञानत्वासंभवात् सा. क्षिता यांच तस्याभासकचित्पतिबिम्बरूपमुख्यज्ञानावच्छेदकतया परं ज्ञानत्वमुपचर्यते । प्रतिबिम्बश्वोक्तसंवन्धेन प्रत्यासन्न एव ज्ञातृता- व्यवहारनिमित्तमित्यादिकं सप्रपंचं प्रतिकर्मव्यवस्थायामुपपादितमा- द्यसूत्रे । एवं ब्रह्मव्यतिरिस्य सर्वस्य यथाऽनिर्वाच्यता यथा सद्वि- तीयप्रत्यगभिन्नब्रह्मपरत्वं सद्विद्याया स्तथा चतुर्थे च प्रसंगादुपपा- दितं । परिणामित्वासंभवेपि यथोपादानत्वं संभवति तथा प्रकृत्य- धिकरणे सूत्रकारो वक्ष्यति । शरीरादिकं विनापि महत्तत्वादिवद- व्याकृताया आद्यकार्यमायावृत्तरपि निर्वाहः संभवति । नाहि प्रमाणा- न्तराविरोधिन्यनुपपत्तिर्नामास्ति । अन्या कार्यमानस्य किश्चित्का- व्यवहितोत्तरत्वनियमदर्शनादाद्यकार्यासिद्धिप्रसंगादिति । ननु त- त्तदैक्षत आपऐक्षन्त इत्यादिगौणेक्षणप्रायपाठानुरोधात् तदैक्षति ईक्षतिरपि प्रत्यासन्नाकार्यतागुणयोगात् गौणस्स्यात् । यथाहि पतनो- न्मुखे कूले कूलं पिपतिषति इति प्रयोग इति ईश्वरं निराचष्टे गौणश्चे- नात्मशब्दात् तेज ऐक्षतेत्यत्र ईक्षतिः गौणीति चेन्न । अनेन जीवेना- त्मनानुपविश्येत्यादौ जीवसामानाधिकरण्येन श्रूयमाणात्मशब्दतात्प- र्यगोचरत्वात् । नहि जडस्य प्रधानस्य जीवगततादात्म्यप्रतियोगित्वं ।

॥ श्रुतिरत्नप्रकाशे ॥ यद्यपि शरीरादि प्रतियोगिकतादात्म्यमतियोगित्वं जीवादावस्ति । एवमविद्यादितादात्म्यमपि साक्ष्यादौ वर्तत इति सिद्धान्ते व्याव. हारिकमनिर्वाच्यं अचेतनात्मनोः तादात्म्यं सुलभमेव । तथापि परे ण नेदं वक्तुं शक्यं तेनानिर्वचनीयवस्त्वनभ्युपगमात् । सिद्धान्ते तु अव्याकृतस्य कथंचित् जीवतादात्म्यसंभवेपि तत्सत्यं सआत्मा तत्वमसीत्यादौ आत्मपदस्याव्याकृतपरत्वे कथंचिदपि प्रामाण्यानि- हात् तत्ववोधनपरोक्तप्रामाण्याय अवश्यमात्मपदं चेतनपरं वाच्य तच्च सर्वात्मकप्रकृतकारणपरमिति उक्तकारणस्य चेतनत्वमावश्यकमि त्युक्तमेव । प्रायपाठानुसारेण ईक्षतेर्गौणत्वकल्पनमिति । ननु जीवे. नात्मनेत्यादौ आत्मशब्दः ममात्मा भद्रसेनइत्यादाविव गौण एवे. त्याशङ्कां निराचष्टे । तनिष्ठस्य मोक्षोपदेशात् तस्मिन् जगत्कारणे निष्ठा सैव धीर्यस्य तादृशस्य आचार्यवान् पुरुषो वेद तस्यताव- देवचिरं यावन्नविमोक्ष्ये ईप्सुरित्यनेन मोक्षोपदेशादित्यादिसूत्रमुक्ता- वल्गां विस्तरः। अत्र वदन्ति अत्राधिकरणे किं विशिष्टस्य जग. कारणत्वं तद्वाक्यबोध्यमिति सिद्धांत्यभिमते किंवा कर्तृत्वं बोध्य- मिति यद्वा शुद्धस्य भ्रमाधिष्टानत्वं बोध्यामिति । नाद्यांद्वतीयौ । वि- शिष्टे सदेवेत्यादिवाक्योक्तसत्त्वाद्ययोगात् । पूर्वमूत्रऽखण्डसमन्वय- स्यैव प्रतिज्ञातत्वेनाखण्डस्यैव वक्तव्यत्वात् । द्वितीये वैयधिकरण्यं च । नहि प्रधानं परिणामीति प्राप्ते ब्रह्मकत्रिति सिद्धान्तो युक्तः । अत एव न तृतीयः। प्रधानं परिणामीति प्राप्त ब्रह्माधिष्ठानमित्यस्य व्यधिकरणत्वात् । कथंचिदवैयधिकरण्यपि तदैक्षत सेयं देवतैक्षत त- नामरूपे व्याकरोदित्यादिकमयुक्तं स्यात् । तस्य लक्षणया चिन्मा- परत्वे च सर्वमपि लक्षणया प्रधानपरं स्यात् । सूत्रे ईक्षतेरित्यादि- हेतूक्तिश्च नस्यात् । नच तात्पर्यविषये क्षणेन प्रधाननिरासः। अपि चात्र सदेवेत्यादिवाक्यसमन्वयोक्तिश्चेति आनन्दमयोभ्यासादिति वत् सदीक्षतेरिति स्यात् प्रधानस्याशब्दत्वमात्रनिरास श्चेत् इदमधि- . 12 ॥ ईक्षत्यधिकरणविचारः॥ करणं तन्निरासके चतुर्थपादे स्यात् । अस्मन्मते आनन्दमयः तह- ह्येत्यादिरूपेण विधेयतयाऽनुषंजनीयस्य तत्पदस्यहाशब्दं नेक्षतेरिति उद्देश्यसमर्पकतयान्वयः हेतुसाध्ययोः सामानाधिकरण्यं च स्यात् अशब्दं प्रधान कारणं न कारणस्य ईक्षितृलादिति बदतो हेतुविभ- तयभावेन साध्यलयोग्यश्रुताशब्दवरूपसाध्यत्यागेन साध्यकल्पना अध्याहृतस्य कारणपरशब्दस्य विभक्तिपरिणामेन अवृत्तियधि- करण्यं च कारण मशब्दं प्रधानं नेति कारणस्योद्देश्यत्वे च अशब्द हि तदिति हेतूकृतस्याशब्दवस्य कारणेऽसिद्धिः । किंचाशब्दखम- वाच्यत्वं वा शब्दवृत्त्या शास्त्राविषयत्वं वा वेदासिद्धत्वं वा कारण त्वेन वेदासिद्धत्वं वा । जन्मते शास्त्रप्रतिपाद्यस्य शुद्धस्यावाच्य- त्वात् अवाच्ये च वृत्त्यन्तरायोगात् नतु प्रधानस्य सांख्यमतस्यावा. च्यत्वात् कारणत्वेनैवाजादिश्रुतिसिद्धत्वाच्च बयापि त्रिगुणस्योपा- दानतया मायां तु प्रकृतिं विद्यादिति श्रुतिसिद्धत्वांगीकाराच त्रि- गुणस्य पारमार्थिकखादेव तदविवादः । नन्वानुमानिकमप्येकेषामि- त्यत्र आनुमानिकशब्देन सांख्यानुमानकल्पितं यत् बया विवक्ष्यते तदेवात्र मया अशब्दपदेन लक्ष्यत इति चेन्न । सांख्योत्लेक्षितानु- मानगम्य खस्य प्रधानं सदेवेत्यादिवाक्यार्थी नेत्यत्र अहेतुखात् अ- न्यथा तार्किको कानुमानगम्यसमीश्वरस्य सदवेत्यादिवाक्यार्थता न स्यात् । त्वया च तत्राशब्दं हि तदिति तस्य तत्र हेतुत्वोक्तेः। किंच त्वयोक्ताशब्दत्वसिद्ध्यर्थ चतुर्थपादेन अव्यक्तादिपदानां सूक्ष्मशरी- रादिपरतामुक्त्वा प्रधानपरतां निषेध्य तात्पर्यस्य वेदसिद्धत्वं त्वयै- बाशब्दत्वं वाच्यं तच्चाशक्यमित्युक्तं । एतेन स्वप्रधानतया वेदाप. तिपाद्यत्वमशब्दत्वमिति निरस्तं । तदेतदभिप्रेत्योक्तं भाष्ये नचाश- व्दत्वमितरसिद्धमिति । अनुव्याख्याने च न ह्यशब्दत्वं प्रधानेङ्गीक- रोत्यसाविति । किच आत्मनः ईक्षारूपस्य सर्वरूपेणेक्षितृत्वमव्यक्ता- दिति चेत् । जडविशिष्टस्य तु तत्संभवना व्यक्तस्थापि आत्मविवे- 6 ४२ ॥ श्रुतिरत्नप्रकाशे ॥ केनात्मविशिष्ठस्य तत्स्यात् । तन्निष्ठस्येत्याधुत्तरविरोधश्च । आत्म- शब्दादित्यत्राप्यात्मशब्दवाच्यता हेतुश्चेत्यसिद्धिः तल्लक्ष्यत्वे तत्प्रति- पाद्यत्वमात्रेतु प्रधानस्यापि। किञ्च किमात्मशब्दस्य चेतनार्थवादचेत- ने प्रधाने तदनुपपत्तिर्विवक्षिदा किंवा स्वरूपार्थत्वात् अन्न जीवना- स्मना चेतनतया प्रसिद्धजीवस्वरूपतया अचेतनेऽनुपपत्तिः। नाद्यः । चेतनस्य ज्ञावृत्तारूपत्वे ब्रह्मण्यापि शुद्धे तदभावाल । विशिष्टेचेत्मशाने उक्तरीत्या तत्सम्भवात् । ज्ञानरूपत्वे तदर्थश्च आत्मशब्दस्पेक्षितत्वं गौणमित्यत्रैव हेतुत्वेन गौणत्वाभावे हेतुत्वायोगात् । नान्यः । सर्व- ज्ञस्यासर्वज्ञत्वादिविरुद्धांशत्यागेन चिद्रूपेण जीवैक्यबत्कर्तृत्वादिषि- रुद्धांशत्यागेन प्रधाने ऐक्यस्यापि सम्भवात् । तन्निष्टेसि सूत्रे पि तच्छ. ब्दार्थः शुद्ध आत्मा विशिष्टो वा । नाद्यः तस्यायसूत्रोक्तेक्षितृत्वायो- गात्। नात्यः विशिष्टस्य साक्षान्मोक्षान्दयायोगात् परंपरया तदन्वय- स्तु प्रधाननिष्ठस्यापीति । इदमत्रावधेयं सर्वकारकशुन्यतया ब्रह्माण ज्ञानासम्भवं सूचयित्वापि प्रामुत्पत्तेरित्यादिभाष्येणैकात्मकत्वात् परिणामासम्भवौ सूचश्तापि प्रधानस्येत्यादिभाष्येण ब्रह्मणः जग- दुपादानत्वं जगत्कर्तृत्वं च न संभवतीति पूर्वपक्षोत्थापनात् ब्रह्मणः कर्तृत्वावलम्बनेन सिद्धान्तो न युक्तः शुद्धस्याप्युपाध्यवच्छेदेनेक्ष- णादिकं संभवतीति उपपादितत्वात् । विशिष्टस्य कर्तृत्वमादाय सि. द्धान्त पर्यवसानेपि न क्षतिः । शुद्धस्याप्यविचार्यत्वोपि विशिगतजग- जन्मादिकारणतायाः तदुपलणत्वस्योक्ततया तस्याश्च विशिष्टटात्ति- त्व केवलं प्रत्युपलक्षणत्वायोगेन तदर्थं विशिष्टजगत्कारणतायाअपि व्यवस्थापनीयतया असंगत्यभावात् नचैवं सदेवेत्यादिवाक्योक्तस- स्वानुपपत्तिःविशिष्टस्यापारमार्थिकत्वाभ्युपगमादीत वाच्या शुद्धस्यो पक्रमेपि रक्तो घट आसीत्स इदानीं नीलोऽभूदित्यत्रेव तच्छब्देन- परामृष्टस्य शुद्धस्येक्षणकर्तृतविशिष्टात्मशालितया तदैक्षति प्रयोगो- पपत्तेः वैयाकरणमते आख्यातस्य कर्तृवाचकत्वात्। किञ्चोपादानत्वं . ॥ ईक्षत्यधिकरणविचारः ॥ कर्तृत्वं साधारणकारणत्वमानं चेतनगतामति । सिद्धान्तपि ईक्षणे सहेतु नसिद्धयताति नोक्तविल्पावकाशः। नच तात्पर्यविषयेण ईक्षणेन सा- ध्यसाधनायोगः परमतात्पर्याविषयस्याप्यवान्तरतात्पर्यविषयतासं- भवात् । नन्वेवं सति ईक्षतेरिति गौण एव विन्यासः स्यादिति तद- सत् । तत्र सदित्यस्य सदेवेत्यादिवाक्यप्रतिपाद्यमित्यर्थमंगीकृत्य तस्य साध्यनिर्देशत्वाभ्युपगमेन ईक्षणमात्र त्रस्य हेतूकरणे जीवे व्यभिचारा- पत्तिः। तस्य पक्षनिर्देशत्वमभ्युपेत्य प्रधाने साध्याहारे च साध्यमेवा- ध्याहार्य न पक्ष इत्यत्र विनिगमनाभावः । नच तत्तु समन्वयादि- त्यतः तदित्यनुवर्तते । तथाच पक्षमाध्यमेति नाध्याहारोऽनुसरणी- य इति वाच्यं । तथासति हेतोरनेकान्त्यस्य युक्तत्वात् । आनन्दम योभ्यासादित्यत्र च आनन्दमयोपलक्षितवाक्यविशेषषि ब्रह्मपरत्वं साध्यं वाधकाभावविशेषितोऽभ्यासस्तद्वाचकपदघटित्वरूपाभ्यास- शब्दार्थों हेतुर्वाच्य इति नानेकान्त्यं अन्यथा। त्वन्मतपि व्यधिकरण- स्याभ्यासस्य हेतुत्वानुपपत्तेः। व्यधिकरणस्यापि हेतुत्वं तावकमनो- रथमात्रं तत्र तत्र निरस्तं निरसिष्यते च प्रसंगानुसारेण। एवंच हेतु. परिष्कारोपि तत्रावश्यकः । यथाविन्यासे तु तत्तुसमन्वयादिति सूत्रे ऽनुवृत्तमध्याहा वा यत् शास्त्रयोनिपदं तदेवेह पक्षः अविधेयत्वे अ- शब्दमिति च अब्भक्षो वायुभक्ष इत्यत्राब्भक्षादिवत् अशब्दामित्यने- कशब्दानधिगम्यानुमानिकं प्रतीयते तद्देदश्च साध्यं नङ्समभिव्या- हृतेन बङ् निदर्शित इति न हेतोरनेकान्त्यादिवार्ता । एवंचासम्भ- ववारणेपि नातिव्याप्तिपरिहारः संभवनीति शङ्कायां तनिरासाय योजनान्तरमाश्रित्य अशब्दमानमानिकं न शास्त्रयोनि न अशब्द- त्वादित्यभिप्रायतया सूत्रं व्याख्यातं योजनाभेदेनार्थभेदलाभश्च सूत्र स्य भूषणं नतु दूषणं । यच्चोक्तमिदमधिकरणं एवं सति चतुर्थपादे संगतमिति तन्न । अत्राशब्दत्वादौ समन्वयहतोरसमर्थनेन तत्पादान- न्तर्भावात् कथमन्दमित्यादिभाष्यस्य चायमर्थः । ईक्षितृत्वश्रवणा- ॥ श्रुतिरत्नप्रकाशे ॥ कारणस्य कथमशब्दत्वं आनुमानिकप्रधानरूपत्वमिति यावत् । एवं च कारणत्वेन शास्त्रयोनि नाशब्दमीक्षतेरिति योजना दार्शता भव- ति । तथाच यदि कारणवाक्यमात्रस्य यद्यचेतनप्रधानपरता तदै- वोक्तलक्षणासंभवस्स्यात् । नचैतदस्ति । सद्विधायामेव चेतनकारण- त्वावगतेरिति भावः । तथाचायं निर्गळितार्थः पूर्वपक्षिणा शंकितायाः अतिव्याप्तेर्निरासाय योजना तच्छंकितस्यासंभवस्योक्तानुमाने बाध- स्य च परिपाराय द्वितीया योजना । एवंच न योजनाद्वयवैयर्थ्य योजनायामस्मन्मते क्लेशोवेति सर्व समञ्जसामीत । अशब्दत्वं च वै- दिकतात्पर्यगोचरत्वाभावः। तच्च चतुर्थपादे प्रपञ्चयिष्यते । एतेन नायं हेतुः परं प्रति सिद्ध इति समाहितं । प्रसाध्य स्यापि हेतुतयोपन्या- सस्य सांप्रदायिकत्वात् । अन्यथा एवं परं प्रति असिद्धानामुपक्रमा- दीनां शास्त्रस्य विष्ण्वेकनिष्ठत्वे हेतुतया पूर्वसूत्रे त्वदुक्तिरप्युन्मत्ता- लापः स्यात् । एवं सति धुभ्वाद्यायतनं स्वशब्दादित्यत्र आत्मश- ब्दस्य शिववाचकत्वेन पराभ्युपगतस्य तद्भदे साध्ये हेततया युक्ति- रपीति बहुशः तत्चदवसरे निरूपयिष्यामः। आत्मन ईक्षारूपस्यापि ईशितृत्वमपपादितं प्राक् । भेदस्य तु प्रधानस्य न कथंचिदीक्षितृत्वं । तनिष्ठेत्यस्य तदीयकेवलरूपनिष्ठस्य मोक्षोपदेशादित्यर्थकतथा विशि- ष्टस्यैव जगत्कारणतामपि न तद्विरोधः शंकनीयः । यद्यप्यात्मश- ब्दादिति द्वितीयसूत्रस्थहेतोर्विकल्प्य दूषणं तदपि तत्सूत्रव्याख्याना- वसरे निरस्यमेव । समाप्तम् ॥

॥ श्रीरामचन्द्रो विजयते ॥ सत्यज्ञानानन्दलक्ष्यं परिच्छेदविवर्जितम् । अस्पृष्टानर्थमनिशमाश्रये नृहरेः पदम् ।। विमतं मिथ्या दृश्यखात् यदित्थं तत्तथा यथा संपतिपन्नं न च जगतोऽभावादाश्रयासिद्धः पक्षः । तस्य पारमार्थिकखाभावेपि तत्र विमतत्वरूपपक्षतावच्छेकस्योभयमतसिद्धतया आश्रयासिद्धेर- संभवात् । परमार्थसद्भेदविशिष्टपक्षादेराश्रयासिद्धत्वे शशे प्रतीतं शृङ्गं न पारमार्थिक प्रमाणाविषयत्वादित्यादेरपि त्वन्मते आश्रयासिद्धत्व- प्रसंगात् जगतो भानादाश्रयानित्वपक्षेपि आश्रयत्वप्रयोजकसत्त्वा- भावेनाऽऽश्रयासिद्धिदुर्वारेति चेन्न। सत्त्वस्याप्याश्रयत्वप्रयोजकत्वे असतः सत्यादिरूपधर्माश्रयत्वप्रसंगात् । आश्रयत्वशब्देनानुमित्युद्दे- श्यत्वोक्तावप्युक्तं दूषणं । एतेन जगतोऽसत्यत्वे प्रतिज्ञातेऽपसिद्धान्तः तदुक्तं जगतो भावादायासिद्धः पक्ष इति । पक्ष मतिज्ञातार्थः प्रप- श्वस्यासत्यत्व लक्षणः स चाश्रयासिद्धः आश्रयस्सिद्धान्तः तदाश्रयेण कथाप्रवृत्तेः। तस्मिन्मसिद्धः तद्विरुद्ध इति यावत् । कुतः जगतो भावा- त् भावत्वेनासद्विलक्षणत्वेन परेणांगीकृतत्वादिति परास्तं । जगतो ऽत्यन्तासत्त्वस्याप्रतिज्ञासितत्वात् । तस्यानिर्वचनीयत्वासिद्धरमसि- दविशेषणता दुर्वाति चेन्न। शूक्तिरूप्यादावुभयवादिसिद्धस्य सद्वि- लक्षणत्वमात्रस्य त्वां प्रति साध्यत्वात् । यत्वसद्वैलक्षण्यमात्रस्योभयवा- दिसिद्धत्वात् सबैलक्षण्यमात्रस्य साध्यत्वे अत्यन्तासत्त्वमादायार्था- न्तरतापत्तेःसदसद्वैलक्षण्यस्य मिथ्यात्वे सिद्धसाधनता। सति सदन्त- रभेदस्यासद्भेदस्य चोभयवादिसिद्धत्वादिति । तदसत् । शुक्तिरूप्या- दरनिर्वचनीयत्वाभ्युपगन्तृभास्करैकदेशिनं प्रत्यर्थान्तरवारकं पक्ष- विशेषणमनुपादाय सदसद्वैलक्षण्यसाधनेपि सद्भेदविशिष्टासद्भेदरूप- स्य सद्भदास दोभयत्वाच्छिन्नरूपस्य वा प्रकृतसाध्यस्य पक्षे तन्म- 20 .. ४६ ॥ श्रुतिरत्नप्रकाशे ॥ तासिद्धतया सिद्धसाधनानवकाशात् । नहि विशेष्यवत्तयाऽवगते वि. शिष्टसाधने सिद्धसा धनत्वं तांत्रिकानुमतं । क्षित्यकुरादिकं कर्तुजन्य कार्यत्वादित्यत्रापि सिद्धसाधनतापत्तिः । एकदेशसिद्धावप्युभय- यत्वावच्छिन्नसाधने सिद्धसाधनत्वे गुणाादकं गुण्यादिना भिन्ना- भिन्नं १ समानाधिकृतत्वादित्यादावपि तदापत्तेश्च। सद्विलक्षणत्वं च सत्त्वावच्छिन्नप्रतियोगिताकभेदवत्वं नातः सति सदन्तरभेदमादा- य सिद्धसाधनता। सन्निष्ठासन्निष्ठभेदप्रतियोगित्वं च न सत्त्वावाच्छ- नं । तथासति परमते असन्नित्यादिप्रतीतेः प्रमात्वापत्तेः। प्रकृतसा- ध्यशरीरमविष्टा सत्ता च अबाध्यं सर्व प्रमेयमित्याद्याकारक यत्कि- श्चिज्ज्ञानविशेष्यत्वं । एतादृवाक्याजन्यबोधव्यक्तेः तद्व्यक्तित्वेन निवे- शाच नान्योन्याश्रयत्वादिः। अवाध्य शब्दार्थश्च तत्तन्मतेऽसध्याहत्तो धर्मः कश्चिदवश्यं वाच्यएवोत न तादृशज्ञानादौ लिङ्गमिति प्रसंगो वा स्वप्रकारकधीविशेष्यताव्यापकाभावप्रतियोगित्वाभादो वा ! सा गुरोरपि धर्मस्यावच्छेदकत्वोपगमात् न तदवच्छिन्नभेदामसिद्धिः वस्तुतस्तु स्वप्रकारकधीविशेष्यताव्यापकाभावप्रतियोगित्वमेव सद्वि- लक्षणत्वं तच नासतः उभयवादिसिद्धमिति नोक्तदोषावकाशः । ए- तेन केयं सत्यता अर्थाक्रसामर्थ्याद्विलक्षणत्वं तदनाश्रयत्वसाधनेऽप- सिद्धान्तः। तथाचेत् सिद्धसाधनतैव सत्त्वमबाध्यत्वं बाध्यत्वं मि- थ्यात्वमिति तद्विवेक इति चेत् तर्हि बाधो वक्तव्यः। अन्यथा विज्ञात- स्य सम्यग्विज्ञानं चेत् सिद्धसाधनतैव । क्षणिकत्वादिना विज्ञातस्या- क्षणिकत्वादिना अबाधज्ञानविषयत्वस्यास्माभिरंगीक्रियमाणत्वा. त् । २ प्रतिपन्नोपाधौ त्रैकालिकसत्तानिषेध इति चेन्न । सत्यताया १ समानाधिकृतत्वं च समान विभक्तिकपदोपस्थाप्यत्वं । तदापत्तेः सिद्ध- स.धनतापत्तेः । २ स्वप्रकारकज्ञानविशप्यनिष्ठाभावप्रतियोगित्वं । शुक्तिं दृष्ट्वा इदं रजत- मिति ज्ञाने रजतं प्रकारः शुक्तिविशेष्या स्वपदेन रजतोपादाने स्वप्रकारक- ॥ दृश्यत्वनुमानविचारः ॥ एवायाप्यनिरूपणात् । किश्चैवमत्यन्तासत्त्वमेव प्राप्तं मिथ्याश्रया- सिद्धयादिप्रत्यापत्तिः सत्त्वनिषेध एवं क्रियते नत्वसत्त्वविधिरिति चेन। सत्त्वनिषेधातिरिक्तस्यासत्त्वस्याभावात् भावेपि वा सत्व निषेधेनैव वा आश्रयासिद्धिस्स्यात् । असत्त्वमनाश्रयत्वे प्रयोजकं न सवाभाव इति चेन्न नियामकाभावात् समंप्रतिवादिनापि चेदस्तु तावत् । आश्रयासिद्धयादिसंदेहेप्यनुमानसाधकं व्यावहारिकसत्ता- स्वीकारादाश्रयोपपत्तिति चेत् केयं व्यावहारिकसत्ता। यदासन्नि त्यादिव्यवहारहेतुः तदासिद्धं नस्समाहितं व्यर्थ च व्यावहारिक- त्वविशेषणं । सत्तामङ्गीकृत्य पुनस्तनिषेधे परस्यापसिद्धान्तः। पारमा- र्थिक त्वमेव निषिध्यते नतु व्यावहारिकसत्तेति चेत् किमिदं पारमा- र्थिकत्वं व्यावहारिकत्वं चेत् निषिध्यतां न नोहानिः । अनिर्वाच्यत्व- मिति चेत् बाध्यत्वनिषेधोऽबाध्यत्वमेव । तच्च सत्तानिषेध इति कुतो व्यावहारिकसत्तापीतीतरेतराश्रयत्वदोषो वा स्यात् । भ्रान्तिसिद्धस त्ताव्यावहारिकसत्तेति चेत् नास्ति सत्तेत्यनाश्रित इव ननु प्रतीतिगो. चरतामात्रेणाश्रयत्वोपपत्तौ किं सत्तया। सुरभितासाधने तु गगनार- विन्दस्य नाश्रयता न सत्ताविरहात् । अपितु निरूपाख्यत्वादिति चेन्न । तथासति शब्दाद्गगनारविन्दसत्ताप्रतीतो तत्र सुरभितासाध- नेन आश्रयासिद्धिरुद्भाव्येत अस्त्वेवं रूपान्तरवैकल्यं भविष्यतीति चेत् ज्ञानं रजतज्ञानं तद्विशेष्यं शुक्तिः तन्निष्ठो योभावः रजताभावःतत्प्रतियोगि त्वं रजतस्य । असतोऽप्रकारत्वात् । येन संबन्धेन येन रूपेण यद्यत्र प्रती- यते तत्तेन संबन्धेन तेन रूपेण तत्र नास्तीति अर्थो लभ्यते । तथासति रजते प्रकारता प्रतियोगिता च एकसम्बद्धावच्छिन्ना एकधर्मावच्छिन्ना च भवति । प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वमित्यस्यायमनुगमः । प्रकारतावि- शिष्टप्रतियोगित्वं मिथ्यात्वं । प्रतियोगितायां प्रकारतावैशिष्ट्यं च स्वावच्छे. दकसंबन्धावच्छिन्नत्व स्वावच्छेदकधर्मावच्छिन्नत्व स्वनिरूपिताविशेष्यता- व्यापकाभावनिरूपितत्व एतत्रितयसंबन्धेन ॥

॥ श्रुतिरत्नप्रकाशे ॥ काल्पनिकागमवैकल्यस्य सर्वत्र सौलभ्यात् । तथाच साधनतदा- भासनियमः स्यात् । किश्चैवं सति प्रकृतानुमानस्यापि तत्वावेदकत्वं न स्यात् । गगनारविन्दस्यापरोक्षप्रतीतिर्नास्तीति चेत् । तथा स- त्यतीन्द्रियप्रपञ्चभागस्यानाश्रयत्वं स्यादिति । यत्तु निषेधं प्रत्यस- तोरप्याश्रयत्वं सम्भवति । यथा वन्ध्यासुतो न वक्तेति अन्यथा खवचनव्याघातादिदोषप्रसंगः। एवं चात्यन्तासत एवाश्रयत्वध्रौव्ये किमु वाच्यं व्यवहारतः प्रपञ्चस्योति तदनुपपन्नं । तथासति प्रप- श्वस्य व्यावहारिकसत्तास्वीकारवैयर्थप्रसंगात् । निषेधं प्रत्याश्रय- वे विधि प्रति तत्कस्मान्न स्यात् । नहि विधिनिषेधयोर्वस्तुतः कश्चि- द्विशेषः । एतेन सत्त्वात्यन्ताभावसमानाधिकरणतया प्रतीयमानत्वं मिथ्यात्वमिति निरस्तमित्यपास्तं । अस्मन्मते तावदत्यन्ताभावमा- त्रस्य केवलान्वयितया प्रतिबन्धकामावो न कार्यमात्रहेतुः अतिप्रसं- गादिति कारणीभूताभावप्रतियोगित्वं न प्रतिबन्धकत्वमिति तहटि- तं हेत्वाभासलक्षणमयुक्तं । अतः प्रकृतानुमितितज्जनकज्ञानविषय- कपरोक्षज्ञानजनकाज्ञाननाशकता यदूपावच्छिन्नविषयकत्वेन तद्रूपा- वच्छिन्नत्वं दोषत्वमिति वाच्यं । एवंच पक्षतावच्छेदकपकारकग्रह- जनकाज्ञाननाशकता यद्रूपावच्छिन्नविषयकत्वेन तद्रूपावच्छिन्नन्व- माश्रयासिद्धत्वामित्यादिविशेषलक्षणानि निर्वाच्यानि । एवंच गग- नारविन्दं सुरभ्यरविन्दत्वादित्यादौ गगनीयत्वविशिष्टज्ञानजनका. ज्ञानस्य गगनीयत्वाभावविशिष्टारविन्दविषयकनिश्चयनाश्यत्वादुत्ता- भावविशिष्टारविन्दत्वादेःआश्रयासिद्धत्वोपपत्तिः । अत एव वनि- रनुष्णः कृतकत्वात् इत्यादौ बाधः । वह्विरुष्णस्तेजत्वादित्यादौ त- दभावश्चोपपद्यते । वह्निरनुष्ण इत्यादौ भ्रमजनकाज्ञानस्य वह्निरुष्ण इत्यादिधीनाश्यत्वात् । वह्निरुष्ण इत्यादिभ्रमजनक्रस्य मूलाज्ञान- स्य च वह्निरुष्ण इत्यादिबुद्धयनिवर्त्यत्वाच्च । शुद्धब्रह्मज्ञानं न किं- चिद्रूपावच्छिन्नविपयकत्वेनाज्ञाननिवर्तकं अतो न कोपि दोषः ।

॥ दृश्यत्वहेतुदोपोद्धारः ॥ ४९ विस्तरस्तु प्रमाणतत्वविवेके द्रष्टव्यः। त्वन्मते तु प्रकृतानुमित्यनुकूल शक्तिविघटकता यद्रूपावच्छिन्नविषयकत्वेनेत्यादिरीत्या अन्यथा वा दोषसामान्यलक्षणं निर्वाच्यं । एवं चास्मन्मतेपि विमतत्वप्रका- रकज्ञानजनकाज्ञानस्य यद्रूपावच्छिन्नविषयकधीनाश्यत्वं तादृशरूपमे- वाप्रसिद्धमिति नाश्रयासिद्धयाद्यवकाशः । यदिच अवच्छिन्नानव- च्छिन्नचिद्विषयकमेव मूलाज्ञानमिति मतं । तथापि यद्पविशिष्टाव- च्छिन्नचिद्विषयताकमज्ञानं प्रकृतानुमितिसमानविषयकं । यत्त्वसतो प्याख्यायमानत्वे आश्रयत्वे चापसिद्धान्तः । प्रपञ्चस्य व्यावहारिक- सत्तास्वीकारवैयर्थ्यप्रसंगश्चेति तन्न । असदपरोक्षस्यैव सिद्धान्तवि- रुद्धत्वात् । असद्विषयकविकल्पाख्यवृत्तेः चन्द्रिकादौ कण्ठोक्तत्वात ब्रह्मप्रमान्यावाध्यत्वे सति बाधयोग्यत्वरूपव्यावहारिकसत्त्वस्य प्र. माणसिद्धस्य प्रत्यारव्यातुमशक्यत्वाञ्च । ब्रह्मप्रमान्याबाध्यत्वमाव- योरनुमतं । बाध्यत्वं च श्रुत्यनुमानसिद्धमिति वक्तभेदादेवभास्य सदैलक्षण्यतद्रूपत्वं तदितिरीत्याऽ निर्वचनीयत्वं निर्वाच्यं । अधिक तु प्रमाणतखविवेकादौ द्रष्टव्यं । भ्रमविषयतादेः बाधस्य चासति प्रामाणिकव्यवहारसिद्धबाद तत्र विधिनिषेधाश्रयत्वं दुरपनवं । अ- सत्पदस्य सद्भिन्नाथकस्य भेदानाश्रये प्रत्ययोगाच्च । खात्यन्ता- भावसमनाधिकरणतया प्रतीयमानखं च स्वपकारकधीविशेष्यता. व्यापकाभावप्रतियोगिवपर्यवसितं । न परोक्तरीत्या स्वाधिकरण: प्रतीयमाननिष्ठात्यन्ताभावप्रतियोगिलं । अन्यथाख्यातिमादायार्थी- न्तरापत्तेः अवृत्तिबमादायार्थान्तरं च वृत्तिमत्त्वेन पक्षस्य विशेषणी- यत्वात् न संभवति । प्रकारान्तरानुसरणे गौरवं । यत्वत्यन्तासत्व- मादाय अर्थान्तरप्रसञ्जनं तदप्येतेन प्रत्युक्तं । किश्च यद्यत्यन्तासत्त्व- मुक्ता भावप्रतियोगित्वं तदानार्थान्तरावकाशः। नहि प्रतिवाद्यसिद्धं वादिना सिषाधयिषितं प्रकृतोपयोगि च तदादायैव नार्थान्तरताति- प्रसंगात् । किञ्चोक्तप्रतियोगित्वस्य नात्यन्तासत्वरूपता नैयायिका .. 7 ५० । ॥ श्रुतिरस्नप्रकाशे ॥ दिभिः अवृत्तौ परमार्थसत्त्वेपि तदभ्युपगमात् त्वन्मते कूर्मरोमादौ अनारोपितेऽअसत्वाव्यापकत्वाच्च । वृत्तिमत्त्वसहितं तदत्यन्तासति न संभवतीत्यन्यत्र विस्तरः। यत्तु दृव्यत्वाभावादसिद्धो हेतुरिति तदप्य- सत् । दृग्विषयतारूपदृश्यत्वस्य पक्षे वादिद्वयसिद्धत्वात् । अन्यथा धूम- हेतुकरणेप्ययं धूमो हेतुः धूमान्तरं वा नाद्यः । दृष्टान्तस्य साधनवि- कलत्वापत्तेः न द्वितीयः खरूपासिद्धिदूषणापत्तेश्च । यत्तु न धूमा- देहेतुतायामयं दोषः । तत्र सकलधूमसाधारणस्य धूमत्वसामान्य- स्योभयवादिसिद्धत्वात् । नच सत्यानिर्वाच्यसाधारणसामान्यमुभ- यवादिसिद्धं । अनिर्वचनीयस्य स्वरूपत एवास्माकमसिद्धेः न चा. सदाश्रयं सामान्य सिद्धं भवतीति तदसत् । एवं सति विमतो भिन्न: मुक्तत्वादिति त्वदुक्तावपि भेदत्वस्य सदसत्साधारणस्यैकस्याभावे- नानिर्वाच्यगतस्य तस्य साध्यतावच्छेदकत्वे तवापसिद्धान्तात् । पर- मार्थगतस्य तस्य तत्वे मांप्रत्यप्रसिद्धविशेषणत्वापत्तदुवारत्वात् । अ- निर्वाच्यतासिद्ध्या तन्मूलकविकल्पायोगात् उक्तदूषणोद्धारे च तुल्यं प्रकृतेपि । किश्च कथयामध्यस्थादीनां पक्षे हेतुमत्ताप्रतिपादनाय वादि- ना हेतुः प्रयुज्यते । तेषां च यथामतं भवत्येव हेतुमत्ताप्रतिपत्तिः स्वरूपासिद्ध्यायुद्भावनं प्रागुक्तरीत्या नावकाशं लभत इत्युद्भावयि- तुः कृतकृत्यतया सदनिर्वाच्यसाधारणसामान्यानभ्युपगमो न दो- पाय । अन्यथा धूमत्वादेरापि प्रत्येकत्तिमात्रमिच्छतः तव मते धूम- द्वयसाधारणसामान्याभावेन पक्षीयधूमगतस्य हेतुतावच्छेदकत्वे दृष्टान्तस्य साधनविकलता महानसीयधूमगत धूमत्वस्य तथात्वे च खरूपासिद्धिरिति दोषः कथं वारणीयः। अथाच्यते धूमस्य धूम- त्वाश्रयशक्तिरावयोरनुमता । तथाच धूमादित्युक्तं अनुगतधर्मवादिनो ऽन्यस्य स्वसामग्रीबलात् पक्षदृष्टान्तसाधारणधूमप्रतीतिर्नानुपपन्नति नोक्तदोषावकाश इति चेत् तुल्यं प्रकृतेपि । अन्यथा विमतं सत्यं दृश्य- त्वादित्यनुमानेपीयं तदवस्था स्यात्। यद्यपि वृत्तिव्याप्यत्वस्य साधार- ॥ दृश्यत्वहेतुदोषोद्धारः॥ णम्य दृश्यत्वस्यात्मनि पक्षे सत्त्वेनानेकान्तिकत्वापातात् दृग्जन्य- फलाश्रयत्वं दृश्यत्वं त्वया वाच्यं । तदा ज्ञाततालक्षणफलस्यान्यत्र निराकृतत्वेनास्मन्मते दृश्यत्वाभावादसिद्धो हेतुः । ज्ञातताङ्गीकारे प्यतीतादावतीन्द्रियेषु च दृश्यत्वाभावात् भागासिद्धिरिति तदयुक्तं शुद्धे ब्रह्मणि वृत्तिव्याप्यत्वस्यानभ्युपगमे यथाश्रुतस्य मतान्तरे स्वा- नतिरिक्तविषयकज्ञानबाध्यहाविषयत्वरूपस्य सत्यादिपदतात्पर्यावि- षयकग्विषयत्वरूपस्य वा दृश्यत्वस्य हेतोर्वक्तव्यतया अनेकान्ति- कतासिद्ध्योश्चानवकाशात् । यत्त्वनिर्वचनीयाभावात् विरुद्ध इति तदप्यसत् । त्वां प्रति सद्विविक्तत्वमात्रस्य साध्यतयोक्ततया शुक्तिरज तादेरेव सपक्षस्य सुलभत्वात् । एतेन शुक्तिरजतादेस्सर्वस्य विपक्षतया तत्र वर्तमानत्वात्साध्यविपरीतव्याप्त्याविरुद्धो हेतुरिति परास्तं । रज- तादेरुक्तरीत्या विपक्षत्वाभावात्। जगतोऽनिर्वाच्यत्वेनानुमानस्याप्य- निर्वाच्यत्वेपि तत्र अनध्यवसितत्वप्रयोजकस्यात्यन्तासत्त्वस्यानभ्यु- पगमेन तर्कबाध्यत्वाभावात् नानध्यवसायः । कारणतायाः परमार्थ- सवाघटिततया तदव्याप्यत्वाच्च। तदुक्तं खण्डनकृद्भिः ॥ पूर्वसंबन्ध- नियमहेतुत्वे तुल्य एव नौ । हेतुतत्ववाहितसत्त्वासत्त्वकथा तथेति । स्वामिकभोजनरोदनादेरनिर्वाच्यस्याप्यर्थलाभहेतुतायाः भुक्ता रुदि- त्या. ध्रुवमर्थलाभ इति स्मृतिसिद्धत्वात् स्वामिकार्थपरमार्थतायाः अद्याप्यसिद्धेश्च । यत्त्वनन्यथासिद्ध नियतपूर्वत्तित्वं कारणत्वं नियत पूर्वत्तिता च कार्याधिकरणावच्छेदेन कार्याव्यवाहितमाक्क्षणनिष्ठा त्यन्ताभावप्रतियोगितानवच्छेदककारणतावच्छेदकत्वाभिमतधर्मवत्त्व रूपं । तथाच निखिलात्यन्ताभावानां केवलान्वयित्ववादिनः तव मते तदयोगामानिर्वाच्यस्य कारणत्वोपपत्तिः । प्रतियोगिव्यधिकरणत्वे- नाभावविशेषणत्वोपि त्वन्मते सर्वस्याप्यभावस्य प्रतियोगिसमाना- धिकणतया तादृशाभावाप्रसिद्धिरिति । तदप्यसत् । कारणताया शक्ति विशेषरूपत्वात् । अस्तुवा नियतपूर्ववृत्तित्वमेव कारणत्वं तथापि का ६२ ॥ श्रुतिरत्नप्रकाशे ॥ र्याधिकरणावच्छेदेन कार्याव्यवहितमाक्क्षणसंबन्धस्वविशिष्टसामान्य कं यद्यत् खं तदन्यतादृशधर्मवत्त्वस्यैव नियतपूर्ववृत्तितासंभवात् । न चासतोपि साधकत्वे शुक्तिरूप्यादेरपि कटकाद्यर्थक्रियाकारित्वाप- त्तिरिति वाच्यं । परमार्थसत्त्वेन त्वदभ्युपगतस्वामिकरजतादेरापि तदापत्तिसाम्यादित्यन्यत्र विस्तरः। यत्त्वसतः साधकत्वे धूमाभा. वादेरपि साधकत्वासंङ्गः। अथ धूमाभावस्थासाधकता नासत्वात् किन्तु व्याप्यत्वाभावात् बहुळोव॑तादिवत् आभासविविक्तस्यापि व्याप्त्युपयोगादिति मन्येत तदा वक्तव्यं किमेवं लोकानामनुभवा- कल्प्यते उतासतोपि सायकत्वाभिमानात् । न प्रथमः । तदभावात् तार्किकाहि महादोऽग्निमान धूमवत्त्वादित्युक्ते असिद्धिमुद्भावयन्ति न द्वितीयः निर्मूलत्वादिति । तदसत् । धूमाभावस्यापि साधकत्वप्रसंग इत्यत्र साधकत्वं न सिद्धिजनकत्व लिङ्गकारणतावादे इष्टापत्तेः। मता न्तरेतु आपादकाभावः । त्वन्मते पारमार्थिकस्यापि धूपादेः न सि- द्धिजनकत्वमिष्यते । कचित् सिद्धिजनकज्ञानविषयतारूपं च तवापीष्टं । अतस्सिद्धिजनकप्रमाविषयत्वरूपं साधकत्वं । प्रमाच तद्वति तत्प्रका- रकज्ञानं तथाच मन्मते सन्मात्रस्य तादृशप्रमाविषयत्वं नास्तीति । अस्मन्मते तु तदापत्तिरिति चेन्न। मन्मते तत्राव्याप्त्यभावेन तदप्र- संगात् । तदव्यातिरपि आरोपिता सुलभेति वाच्यं । अतीन्द्रियव- स्तुघटितायाः तस्या अतीन्द्रियतया परोक्षेऽन्यथाख्यात्यभ्युपगमेनो- क्तस्थलीयपरामर्शस्य प्रमात्वासंप्रतिपत्तेःनचैवमपि वहिसाधकत्वेनो पन्यस्तो धूमोपि आभासस्स्यादिति वाच्यं । आभासविविक्तधूम- स्याभासत्वकारणाभावेन अतादृशस्य तथात्वे इष्टापत्तेः बहुळोर्ध्व- तादेरिव आभासविवेकस्य व्याप्त्युपयोगो न युक्तः। लौकिकानां वा व्याग्रिहे तदुपयोगदर्शनादिति चेन्न । एवं सति बहुळोव॑ता- दिविशिष्टस्यापि धूपस्य वह्नि विना इचित्स्वने अनुभूयमानतया खामिकपदार्थसत्यतावादिनस्तव मतेपि वह्निसाधकत्वेनोपन्यस्तस्य ॥ दृश्यत्वहेतुदोषोद्धारः ॥ बहुळोव॑तादिविशिष्ठस्य धूमस्याभासतापत्तेर्दुर्वारत्वात् । वासनाम- यान्यत्वविशेषणस्य च आभासविवेकसमानयोगक्षेमसात् । तस्मादप- रीक्षकव्यवहारानुसारेण परीक्षकव्यवहारोपि न व्यवस्थापनीयः किं तु परीक्षकव्यवहारानुसारेणैवेति सर्वमनवा । यद्यप्याभासविवेक- स्य व्याप्त्युपयोगित्वेपि आरोपिताभासविविक्तधूमवति इदे व्य- भिचारो दुर्वारः आभाप्तविविक्त एवाभासविवेको प्यक्प्त उपयो- गीति चेत् आभासविवेकवतोप्याभासविविक्तस्य तस्यारोपितस्य तत्र वक्तुं शक्यत्वात् व्यभिचारापरिहारात् । आभासविवेकविशेष- णीभूताभासविवेकेनापि आभासविविक्तेन भाव्यमिति चेत् । एवं तस्याभासविवेकविशेषणपरंपरायाः अपर्यवसितत्वेन जन्मशतेन हेतु- रनिरूपणीयः स्यात् । किंच हदेन धूममात्रं नान्यदस्ति तद्गतबाष्प- स्य तदाप्रतीतिरेव नच भ्रान्त्यनुसारेणार्थाङ्गीकारो युक्तः। भ्रान्तः प्रमाणत्वापातात् । न चास्माभिःधूमवत्तया प्रतीयमानत्वं हेतूकृतं । किन्तु धूमवत्वं ततो नाभासविवेको जात्युपयोगी। किंचारोपित- दृश्यत्वस्य ब्रह्मण्यसंभवात् दृश्यत्वेपि व्याप्त्युपयोगितयैव आभासवि. वेकोऽङ्गीकार्य इति तदप्यसत् । आभासविविक्तत्वस्य ब्रह्माविषयक ज्ञानाबाध्यखरूपतया चक्षुराद्ययोग्यज्ञानादिघटितधर्मावच्छिन्नप्रतियो- गिताकत्वेन तदयोग्यत्वात् । अपरोक्षारोपासंभवेन परोक्षरूपे अन्य- याख्यातेरेव स्वीकारेणाभासे तद्विवेकस्याप्यारोपितस्याभावात् । य दिच लाघवात् व्यावहारिकत्वं अखण्डोपाधिरूपं वा । तथापि तस्य प्रात्यक्षिकारोपो संप्रतिपन्न एव । नचैवं इदं रजतमित्यादावन्यथाख्या- तिरेवास्त्विति वाच्यं । इदं रजतत्वेन साक्षात्करोमीति प्रत्ययानु. रोधेन रजतसाक्षात्काराभ्युपगमस्यावश्यकतया विषयोत्पत्यभ्युपग- मात् इदे न धूममात्रमसदिति असख्यातिनिरसनतया अन्यथा- ख्यात्यनभ्युपगमेन चायुक्तं । एवं ब्रह्माण दृश्यत्वारोपे हि अन्य. याख्यातिरेव नानिर्वचनीयख्यातिः परोक्षभ्रमत्वादिति संप्रदायः।

२४ .. ॥ श्रुतिरत्नप्रकाशे ॥ परोक्षेऽन्यथाख्यात्यस्वीकारोपि न क्षतिः। आभासविवेकस्य ब्रह्मज्ञा. नेतरबाध्यत्वावच्छिन्नमतियोगिताकभेदरूपस्य वा व्यावहारिकत्वा- त्मकाखण्डोपाधिरूपावच्छिन्नमतियोगिताकस्य वा प्रातिभासिकव्य- ते खरूपत एव वह्निव्याप्यतावच्छेदकघटकतया व्यभिचारानव- काशात् । नच तस्याप्यारोपितस्याभासे असति संभव इति व्यभि- चारतादवस्थ्यमिति वाच्यं । अन्यत्र सत एव तस्यान्यत्रारोपे अ- न्यथा ख्यात्यापत्तेः। व्यावहारिकरूप तस्य पल्लवाविद्यापरिणामित्वा- नुपपत्तेश्च । अधिष्ठानज्ञानेन तनिवृत्ती व्यावहारिकेपि तदभावाप- तेश्च । किन्तु तादृशमर्थान्तरमेव तत्रावभासत इति वाच्यं । तथाच यस्य व्याप्यतावच्छेदकानुप्रवेशः तस्याभाससाधारण्याभावात् न व्यभिचारः। वियदत्यन्ताभावादेरपि स्वरूपतो भानं तार्किकादिभि- स्तत्रतत्रोक्तं । तद्व्यक्तित्वादीनामुक्ताभावस्य व्याप्यत (वच्छेदकघट- कत्वेनोक्ताखण्डोपाधौ प्रमाणाभावः उक्तव्यवस्थाया एवान्ततः प्र- माणत्वात् । न चानिर्वाच्यख्यातिमेव परित्यज्योक्तव्यवस्थानिर्वाह इति वाच्यं । अनिर्वाच्यख्यातिसाधकलाघवानुरोधेनैकस्याखण्डो- पाधेः कल्पयितुमुचितत्वात्। परोक्षेऽन्यथाख्यात्यनभ्युपगमे लाघवा- दसत्त्वे च अन्यथाख्यातेरेवाभ्युपेयतया संप्रदायोक्तरीतेरेवाश्रयणी यत्वाच्च । ब्रह्मण्यारोपितं दृश्यत्वमादाय तत्र व्यभिचारस्त्वाभा- सविवेकोपादानादेव वारणीयः। न चाभासविवेको ब्रह्मज्ञानवाध्यत्व मिति पक्षे ब्रह्मणि आरोपितदृश्यत्वे तदप्रत्यूहमिति व्यभिचारस्त- दवस्थ इति वाच्यं । ब्रह्माविषयकज्ञानबाध्य भेदज्ञानस्योक्तरूपतया तस्य खरूपतः तद्व्यक्तित्वेन वा निवेशेन व्यभिचारस्य निरसनीय- त्वात्। यद्वा शुद्धब्रह्मातिरिक्तं सर्व प्रमेयमित्याकारक यत्किचिद्धी- व्यक्तिं विशिष्योपादाय तद्धीविशेष्यत्वमेव हेतूकर्तव्यं ब्रह्मण्यारोपितं तद्धीविषयत्वं प्रातिमासिकं नैतद्धी निरूपितं एतद्बुद्ध्यनिरूपितायां विषयतायामारोष्यमाणधीव्यक्तेः प्रातिभासिकत्वेनैतद्धीनिरूपितत्व ॥ दृस्यस्वहेतुदोषोद्धारः ॥ संभवात् । अनुगतधर्मानभ्युपगमेन प्रत्यवस्थानं तु तत्साधनेनैव निरस- नीयं । तत्साधन प्रकारश्चान्यत्र निरसनीय इत्याहुः । न च घटस्स- नित्याद्यक्षबाधः उक्तमिथ्यात्वविरोधिनस्सत्यत्वस्य तादृशपतियो- गित्वाभावः। तद्भेदादिरूपस्य योग्यानुपलब्धिविरहेण प्रत्यक्षायोग्य- त्वात्। प्रतियोगिस्मरणसहकृतधर्मि प्रत्यक्षमात्रेणाभावसाक्षात्काराभ्यु- पगमे स्तंभः पिशाचसंयोगी नेत्यपि प्रत्यक्षापत्तेः । कालसंबन्धित्वा- दिरूपस्य च तस्य मिथ्यात्वाविरोधित्वात् । केनचिद्रूपेणाभावग्रहे पि रूपान्तरावच्छिन्नोक्त प्रतियोगितासाधारणरूपावच्छिन्नवचा बुद्धाय विरोधित्वाच्च । विश्वं सत्यमित्यादिश्रुतेरन्यपरतया विश्वसत्यताया- मतात्पर्यात् । देवताधिकरणन्यायस्य च प्रमाणान्तराविरोधे सत्येव प्रवृत्तेः। विस्तरस्तु श्रुतिमतोद्योतटीकायामनुसन्धेयः। विश्व सत्यं दृश्य- त्वादात्मवदित्यपि प्रयोज्यत्वात् प्रकरणसम इत्यापि न सत् । शुत्ति- रूप्यादावनेकान्त्यात् ! रजतं दृष्टमित्यस्य भ्रममालत्वपि तस्य ज्ञेयवा- नपायाच । असत्यात्यनभ्युपगमेऽपसिद्धान्तश्च । यत्तु तज्ज्ञानज- नककरणसत्रिकर्षा श्रयत्वं जन्यतदज्ञानविषयत्वमत्राभिहितं । तब नास्ति दोषवशात् तस्य भाने तद्गतेन्द्रियसन्निकर्षानपेक्षणादुल्लेख्यता रूपविषयतायास्तत्राप त्यूहत्वाच नापसिद्धान्त इति। तन्न। अनुमित्या- दौसादेरविषयत्वापातात् । नीलो घट इत्यादौ शाब्दबोधे गगनसन्नि- कृष्टशब्दादिजन्ये गगनादेरपि विषयतावारणाय यत्सन्निकर्ष सहकते- न करणेन यज्ज्ञानं जन्यत इत्यादिरीत्यापि विवक्षायाआवश्यकत्वा- व लिङ्गिलिङ्गसन्निकर्षस्यातद्धेतुत्वात् । यदिच सहकारित्वं तज न्य कार्यप्रयोजकतारूपं कारणतावच्छेदकरूपसाधारणं निवेश्यते तदा- व्याप्त्यादेरप्यनुमितिविषयत्वापत्तिः । उल्लेख्यतारूपविषयताया एब सर्वत्राभ्युपगमसं भवेन तज्जन्यज्ञाने विषयतान्तरकल्पने प्रयोजनाभा- वाच्च । विषयतानिरूपकसभिकर्षस्यास त्यापि सम्भवेन जगदसद्विलक्ष- णमित्याद्यनुमितौ असतो विषयताया दुरित्वाच्च। साध्यतावच्छेद- ९६ ॥ श्रुतिरत्नप्रकाशे ॥ कादिव्यावृत्तविषयताया एव तथात्वस्य विवक्षणे अनुमित्यादौ वह्नि- त्वादेरविषयत्वापाताच्च । नृशृङ्गं गगनादिविलक्षणं प्रमाणाविषयत्वा- दित्यायनुमिविषयताया अव्यावर्तनाच्च । वाद्यभिमतहखतिरिक्तस्य हेत्वादेः प्रकरणसमत्वाभिधानविरोधः। हेत्वैक्य एव त्वया तस्य परि- भाषितत्वात् । अन्यथा प्रतिसाधने पौनरुक्त्यापत्तेः । विमतं सत्यं प्रणणदृष्टत्वात् आत्मवादिति प्रतिसाधनं इत्यप्यशुद्धं । असनृश- ङ्गमिति प्रमाणदृष्टे असति व्यभिचारि। सदसदुभयाविषयकप्रमाणदृष्ट- त्वं च शशीयं शृगमिति प्रतीतिविषये व्यभिचारि। प्रमाणेन प्र. कारत्वमिति चेन्न । सर्व वियदादिज्ञानं अधिष्ठानाविषयकामति वद- न्तं तं मायावादिनं प्रतियोगे युक्तं । उक्तविधानप्रसिद्ध्या हेत्वप्र- सिद्ध दुरित्वात् । असदविषयकप्रमाणदृष्टत्वं तु असत्वोक्तसाध्यरूप- त्वे जगति संदिग्धासिद्धं । सत्तादात्म्यशून्यत्वरूपत्वे मां प्रति योगे शुक्तिरूप्यादौ व्यभिचारि । उक्तरीत्या शुक्तिरूप्यादौ सा- ध्यसाधनोभयसंप्रतिपत्ते नदृष्टान्तः साधनविकलश्चेति । नच प्रमाण- विरुद्धत्वमुपाधिः। तस्य पक्षेसंदिग्धत्तया हेतौ व्यभिचारस्य पक्षे सा- ध्यव्यावर्तकधर्मवत्त्वस्य चानिश्चयादुपाधिसंशयात् व्यभिचारसंशयः सम्भाव्यमानोपि दृग्दृश्यसंबन्धानुपपत्त्यादिरूपाणां तर्काणां जागरू- कत्वात् न प्रकृतानुमितिविरोधि । ननु कथं दृग्दृश्यसंबन्धानुपपत्तिः। नच दृश्ये ईदृशस्संयोगस्तावत् न भवति । तस्य द्रव्यमात्रवृत्तित्वात्। द्रव्यस्यापि दृश्यसत्त्वात् । नापि समवायः। अनभ्युपगमात् । अ. भावादी दृश्ये तदतिरिक्तस्यैव विषयतारूपसंवन्धस्याभ्युपगमसंभवा- त् । नच प्रकाशस्य प्रकाश्यनिष्ठः प्रकाशत्वातिरिक्तसंबन्धः । एवं प्रकाशस्य तादृशसंबन्धप्रकाशकल्पने प्रमाणाभावात् । अन्यथा आलो- कादेः स्वासंबद्धार्थप्रकाशकवापत्तरिति वाच्यं । आलोकादिस्थले त- ददर्शनेपि ज्ञानप्रकाशस्य तादृशसंबन्धप्रकाशकल्पने प्रमाणाभावात् । किश्च दृश्य खनियामकसंबन्धान्तरं वाच्यमिति बयोच्यते । यञ्चोक्तं ॥ दृश्यत्ववाधकोद्धारः॥ नच दृक्संबन्धमात्रेण दृश्यत्वामीत युज्यते। अतिप्रसंगादिति । तद- प्ययुक्तं । तथाहि । तस्यापि नियामकं कल्प्यं एवं तस्यापीति अ- नवस्थानात् । नच तत्परिहारार्थ कश्चित् स्वनिर्वाहकस्वभाव एवं नियामक प्रवृत्त्युन्नेय इति वाच्यं । तथाचादावेव तथास्तु लाघवा- त् । नचैवं स्वभाववादः । बहुधान्वेषणेपि नियामकान्तराला स्व- भावस्वीकरणात् । प्रकृते च वास्तवसंबन्धस्यैव भवतैव निराकर- णात् तदभावस्तावसिद्धः। आध्यासिकसंबन्धोप स्वस्य दृश्यता- निर्वाहार्थमाध्यासिकसंबन्धान्तरमपेक्षते । एवं तदपि संबन्धान्तरम- पेक्षत इत्यनवस्थानियामकः । किञ्चाध्यासिकसंबन्ध इति कोथः । कश्चित्संबन्ध एवाध्यस्त इति किंवा दृश्यस्य दृगध्यस्तत्वं नाम कश्चित्संवन्ध इति । आधे सम्बंधमात्रस्यैव मिथ्यात्वं लब्धं न दृश्य- वर्गस्येति तवाभिमतासिद्धिः। न द्वितीयः दृष्टे दृश्यत्वनिर्वाहार्थ कल्पने दृष्टावनेकपदार्थहानिप्रसंगेन तस्माकल्पनीयत्वात् । न ह्यल्प- स्य हेतोः बहुत्यागो युक्त इति । अथवास्तु कश्रित् दृग्दृश्ययोः सं- बन्धः स च न संवन्धिभ्यां भिद्यते । येन संबन्धिभिन्नसंबन्धस्य सं- बन्धिना संबन्धान्तरमगीकार्य तस्य तस्यापीत्यनवस्था स्यात् । नचै वं सम्बन्धाभावप्रसंगः। ज्ञानाभेदमात्रेणानन्दाभावप्रसङ्गेण मोक्षस्या- प्यपुरुषार्थत्वप्रसंगात् । अस्मन्मते अभेदे हि विशेषबलात् एकांशपरि- शेषाभावोऽन्यत्रोपपादित इति चेन्मैवं । दृग्विषयताया विप्रकृष्टसं- बन्धिद्वयनिरूप्यत्वेन पारमार्थिकत्वानुपपत्तिरेव दृग्दृश्यसंबन्धानुपप- त्तिः। सा च प्रकृतेऽप्रत्यूहति दृश्यत्वनिर्वाहकसंवन्धान्तरस्यानभ्यु- पगमेपि क्षत्यभावात् । आध्यासिकसंबन्ध इत्यस्यान्यानिर्वाच्यसंबध इत्यर्थः । नचैवं दृश्यमानानिर्वाच्यापासिद्धिः। वेदानिर्वाच्यत्वेन विना संबन्धानिर्वाच्यत्वस्यैवानिर्वाहात् अनिवांच्यस्य हि कदाचिदु- च्छेदहानिर्वाच्यत्वं वाच्यं । नित्यानुवृत्तौ तस्य पारमार्थिकत्वापत्तेः यौक्तिकवाधः तदा अनिर्वाच्यताख्यापकोपि न तदुच्छेदकः । सत्य- 8 ॥ श्रुतिरत्नप्रकाशे ॥ पि तस्मिन् तदुच्छेदादर्शनात् । नच पूर्वपूर्वानिर्वाच्यबाधकज्ञानोत्तरं तदुच्छेदेखि विद्यमानकारणान्तरेण संबन्धान्तरोत्पत्तिरास्तामिति वा- च्यं । अज्ञानं बिना कारणान्तरस्य दुर्वचत्वात् । तस्यानित्यप्रमाविषय- त्वे तस्यापि विषयत्वस्यानिर्वाच्यतैव वाच्या। प्राङ्निषेधस्याज्ञा- नस्य सत्त्वायोगात् । विषयतायाः प्रमायाः प्रागसन्त्वेन निराश्रयता स्यात् । परमनियोपि विषये द्रष्टव्यं । न चातीतादिनिष्ठज्ञानविषय तावदस्य अज्ञानविषयतापि भाविन्युपपद्यत इति वाच्यं । तादृश- विषयत्वादीनामनिर्वाच्यत्वं विनानुपपत्तेः। नच तादृशसंबन्धाभाव- विशिष्टप्रमावच्छिन्नातीतविषयकमेवाज्ञानं ताग्विषयतावच्छिन्नचि- दाश्रितं वेति नानुपपत्तिरिति वाच्यं । एतादृशसंबन्धाभावविशिष्ट- प्रमावच्छिन्नात्मविषयकपरोक्षज्ञानपि तदनिहत्तेः । न चापरोज्ञान- मेव तन्निवर्तक तादृशममाव्यक्तिनाशोत्तरं तद्विशिष्टात्मसाक्षात्कारा- योगात् । परोक्षज्ञानेनापि तन्नित्तिरज्ञाननिवृत्तिद्वारैच वाच्या। त- थाच जन्यतत्तत्पमाभेदभिन्नाज्ञानजन्यतत्तद्विषयभिन्नाज्ञानतादृशसंब- न्धादिकल्पने गौरवात् । लाघवात् यदाध्यासेनैव तदानर्वाच्यत्वो- पपादनं युक्तमिति दृग्दृश्यसंबन्धानिर्वाच्यत्वस्य निखिलदृश्यानि - च्यत्वोपपाद्यत्वमप्रत्यूहं । नच शुद्धब्रह्मज्ञानमेव विषयतानिवर्तक । तच्च सर्वमुक्तिपक्षे चरमतत्वज्ञानानाश्यमिति स्वीकारे न गौरवावका- श इति वाच्यं । सर्वमुक्तयनन्तरं विषयालुवृत्तौ प्रमाणाभावे विषयो- च्छेदकस्यापि औचित्यावर्जिततया दृश्यानिर्वाच्यत्वस्यासिद्धत्वात् । अनिर्वाच्यत्वोपहितस्यापि अनिर्वाच्यतया दृग्विषयत्वोपहितस्य वि- यदादेरनिर्वाच्यतायाः आवश्यकत्वेन तदनुपहितवियदादिस्वरूप- स्यापि कल्पने गौरवाच्च । दृशि तु तादृशं रूपं श्रुतियुक्तयादिसिद्धं । अन्यथा वियदाद्यनिर्वाच्यत्वानिर्वाह इति विवेचितं अधिकमन्यत्र । दृष्टदृश्यत्व इत्यादि युक्तमित्यन्तमपि न युक्तं । तदुपादानस्य प्रका- रान्तरेणासभके त्यागस्यावर्जनीयत्वात् । तदधिकसंख्याकानिर्वा- ॥ दृश्यत्वबाधकोद्धारः।। च्यवस्तुकल्पनाय हि एतत्कल्पना । तदनिर्वाच्यत्वकल्पनाया एक न्याय्यत्वात् । अन्यथा भ्रममात्रस्योच्छेदमसंगात् । विशेषस्य स्व- रूपद्वयनिरूप्यत्वेऽतिरिक्तविषयतापर्यवसानं स्वरूपैक्ये ज्ञानस्वरूप- मेव विषयतेति पक्षान्तीव इति पक्षद्वयेपि विप्रकृष्टद्वयसंबन्धद्वयनि- रूप्यत्वादनिर्वाच्यत्वमप्रत्यूहं । द्वितीये च इमे रंगरजते इति प्रमाया अपि भ्रमत्वापत्तिरप्यधिकति संक्षेपः । ननु कोसौ संबन्धो विपक- पः। उच्यते एकसंबन्धिनिष्ठकालिकसंबन्धावच्छिनसंबन्ध्यन्तराव- च्छेदकाधिकरणतावच्छेदकत्वसंवन्ध्यन्तरावच्छेचकालिक संवन्धाव- च्छिन्नाधिकरणत्वप्रतियोगित्व अन्यतरत्वावच्छिन्नाभावः। अस्ति चेदं संयोगसमवायादिस्थले वृत्त्यनियामकः संयोगःपक्षकुक्षिनिक्षिप्तः। वस्तुतः तत्रापि प्राचीत्वादिरूपेण संबन्ध्यन्तरं संबन्ध्यन्तरीयताह- शाधिकरणतायामवच्छेदकमिति न कोपि दोषः । एतेन संयोग एक ज्ञानविषययोः संवन्धद्वयस्य संयोग इति परिभाषायाः प्रमाणेन वस्तुसिद्धावनादरणीयत्वादिति । किञ्च गुणगुणिनोः संबन्धानुप- पत्तौ संयोग इव दृश्ययोस्संबन्धः संबन्धद्वयानुपपत्तौ अन्य एव वा. स्तवसंवन्धः किं न कल्पनीयः । किञ्च मिथ्यात्वपि कथं दृश्य- त्वं गगन इब गन्धर्वनगरस्य दृशि प्रपञ्चस्यारोपितत्वादिति चेत् । सर्व सर्वेण दृश्येन वा केनापि किञ्चिदिन्द्रियसन्निकर्षादिति तन्नि- यामकमिति चेत् तर्हि किमनारोपितत्वेन कारणसंबन्धादिनिव- न्धनो विषयाभावस्तु दृश्ययोः संबन्ध इति परास्तं । संवन्धिवि- प्रकर्षे तस्यापि अनिर्वाच्यतानपायात् । यत्तु प्रमायां गुणतोपि वि- पयेण संयोगो युज्यत एव । तथाहि गुणे तावत् क्रियाङ्गीकार्या। घटेगच्छतितद्रूपेपि गतिदर्शनात् । घटगता सा रूपेपि प्रतीयत इति चेत् विपरीतं किं न स्यात् पटावयवतन्तुगता गतिः पटेपि प्रती- यत इति वक्तुं शक्यत्वात् अतिप्रसङ्गाच्च । गच्छत्पटनिष्ठे महारञ्ज- ३ नादिद्रव्ये गतिरास्ति न वा। नचेन्महारञ्जनस्य देशान्तरेण सं.

॥ श्रुतिरत्नप्रकाशे ॥ योगो न स्यात् । असमवायिकारणाभावात् । नच पटनिष्ठक्रि- यादि समनायिकारणं । कार्थेकार्थप्रत्यासत्तेः कारणैकप्रत्यासत्तेश्च अभावेन तस्य समवायिकारणप्रत्यासत्यभावात् । नापि पदस्य दे- शान्तरसंयोगः देशान्तरेणाप्यस्य संयोगानन्तरं महारञ्जनेन देशा- न्तरेण सह संयोगस्य प्रतीतिप्रसङ्गात् तन्तोर्देशान्तरसंयोगादेव पट- देशान्तरसंयोगसिद्धौ पटे क्रियाभावमसंगाच । नच क्रियावता पटे- न हि रञ्जनस्य संयोगः। तदसमवायिकारणक्रियाहीनमहारञ्जन- स्य द्रव्यस्य क्रियावता पटेन सह संयोगानुपपत्तेः । क्रियावत्वं सं- योगस्य संयोगप्रतियोगिनी क्रियामुत्पाद्य तनिष्ठक्रियाद्वारैव तस्य देशान्तरसंयोगोत्पादकतानियमेन महारञ्जने गतिस्वीकारावश्यक- त्वाच्च । तस्मा च पटनिष्ठमहारञ्जने गतिरस्तीति पक्ष एवाश्रयणी- यः। एवं नद्रीत्या रूपान्तरादाबपि क्रियासिद्धिः । अनुभवस्यावि. शेषात् । एवं गुणे गुणोप्यंगीकार्यः । चतुर्विंशतिगुणा इति गुणेपि संख्यादिप्रतीतेः । यद्यपि गुणे च संयुक्तादिव्यवहारः। द्रव्ययोरेव संयोग इति दर्शनाभ्यासवान जनोङ्गीकरोति । तथापि घटपटयो- स्संयुक्तयोः तद्गते पि रूपे संयुक्त इति लोकः करोत्येव व्यवहारं । किञ्च रूपेण युक्तः घट इति सर्वे व्यवहरन्ति । तथापि संयुक्तइति न व्यवहरन्ति चेत् ध्वंसशब्दयोरिवार्थयोरर्थभेदास्फुरणात् । द्रव्या- णां कर्मसंयोग इत्यादौ जैमिन्यादिभिः परीक्षकैः अद्रव्यसंबन्धेपि संयोगव्यवहाराच । तथाच ज्ञानस्य गुणत्वे विषयेण गुणात्मकसं- बन्धः। नच ज्ञाने संयोगासमवायिकारणक्रियाभावात् संयोगानुपप- त्तिः। रूपादौ क्रियासाधनप्रकारेण ज्ञानोपि तत्साधनात् । नन्वती- तेन विषयेण कथं संयोग इति चेत् किमतीतादौ संबन्धमात्रं न स्वी- क्रियते उत्त संयोग एव । नाद्यः। संबन्धाभावस्यापि अतीतसंबन्धा- भावप्रसंगात् । प्रध्वंसादेरतीतसंबन्धित्वाभावप्रसंगाच्च । न द्वितीयः तद्वत्संयोगस्याप्युपपत्तेः । न चास्माभिः संयोगो द्विनिष्ठ इति स्वी- ..

॥ दृश्यत्वबाधकोद्धारः ॥ क्रियते । एकविषयलक्षणाश्रयाभावे कथं तदाश्रयतत्संयोगाोपि द्विीने ष्ठ इति बोध्येत । किं नाम सादृश्यादिवत् एकाश्रितोऽन्यनिरूप्य इति संयोग इत्यबाधितव्यवहारास्पदवं संयोगलक्षणं । न चैवमन्योन्या- श्रयः पूर्वपूर्ववृद्धव्यवहारविषयवेनोत्तरोत्तरव्यवहारोपपत्तेः । मन्त्र- इत्याद्यभियुक्तप्रसिद्धत्वं मन्त्रलक्षणमिति मीमांसकैः स्वीकाराच्च । किञ्चेदमंशावच्छिन्नचैतन्ये रजतमध्यस्तमविद्यावृत्तिप्रतिबिम्बितसा- क्षिचैतन्येन तु दृश्यते । एवंच यत्राध्यस्तं न तेन दृश्यं । दृश्यं येन च दृश्यं न तत्राध्यस्तं । अपिच नित्यानुमेयविषयवस्य वृत्तिज्ञाने ऽध्यासः खयापि नाङ्गीक्रियते । तथापि नित्यानुमेयं दृश्यमित्यङ्गी- कार्य । अन्यथा हेतो गासिद्धिप्रसङ्गादिति न दृगध्यस्तखं दृश्यख- प्रयोजकं । किञ्च यदि दृश्यं दृगध्यस्तं स्यात् तदादृग्घठइति तदनु- विद्धतया प्रतीयेत नच दृशि दृक्वादन्यः सामान्याकारोस्ति । तद. सत् प्रवेशादिव्यवहारवत् संयोगादिव्यवहारस्थासाधारण्येपि परा- मृश्यखाद्यभिन्नकारणतावच्छेदकशरीरे संशयान्यखादीनांन मुख्यप्रवे- शः। एवं रूपादीनां स्वाश्रयघटादौ न मुख्यः संयोगःकारणबाधा- त् । तत्रैकतरक्रियां विनापि घटादौ रूपादिसंबन्धोऽभ्युपगम्यते । नाप्ययं संयोगजसंयोग इति सांप्रतं । कपालनीलादितो घटादि- नीलस्य विलक्षणतयानुभूयमानत्वात् । घटत्वादिस्थले गत्यभावाञ्च संयोगो न युक्तः। घट इत्यादिव्यवहारानुरोधेन संयोगस्यापि सं. योग एव संबन्ध इत्युक्तानवस्थापत्तेः। संयोगस्य सर्वस्य स्वयमेव संबन्ध इति चेत् संबन्धः किं धर्मिणा संबनाति उत न । नायः अति- प्रसङ्गात् । न द्वितीयः। तर्हि संबन्धो वाच्यः ननु स्वनिष्ठप्रतियोगि- त्वं घटादिनिष्ठानुयोगित्वं चोपेयत्त इति चेत् त नुयोगितायुक्तो घट इत्यादिप्रतीतेः कावा गतिः। तत्रापि संयोगान्तरस्वीकारेऽन- वस्थापत्तेः । अनुयोगितापि सर्वस्य स्वयमेव संबन्ध इति चेत् त- द्युक्त इति व्यवहारस्य का गतिः । तत्रापि संयोस्तीति. चेत् तर्हि . ६२ ॥ श्रुतिरत्नप्रकाशे ॥ संवन्धमात्रं संयोग इत्यापतितं । तथाच घटसंयुक्तं भूतलं घटीयो ऽभाव इत्यादिप्रत्यये त्ववश्यं सिद्धं वैलक्षण्यं भज्येत । नच तत्र वै- लक्षण्यस्य च प्रामाणिकत्वपि रूपबद्भूतलं घटवद्भूतलमित्यादौ संब- न्धांशे वैलक्षण्यमप्रामाणिकमिति वाच्यं । एवं सति त्वन्मते गुणगुणि नोरभेदः घटभूतलयोस्संयोग इत्याद्यभ्युपगमानुपपत्तः । एवंच गुण- गुण्यंशे संबन्धस्य संयोगाद्वैलक्षण्यं दुरपह्नवं । अपिच रूपादावप्ये- कत्वं तत्राप्येकत्वमिति परंपरायाः रूपादिगतैकत्वादिगतैकत्वादौ संयुक्त इति व्यवहारात् निश्चलघटरूपादिगतैकत्वादिगतैकत्वादौ कथं संयोगः हेत्वभावात् । संबन्धान्तरवत् सोपि भवति चेन्न । व्यापकविरोधोपलव्धेः लोकपि संयोगः कारणद्वयान्योप्य दृष्टः । संयुक्तव्यवहारस्तु प्रवेशादेः व्यवहारवत् गौणोपि संभवतीत्युक्तं । रूपादिकं चलतीति प्रत्ययस्तु न केनाप्यभ्युपगतः त्वत्पलापमात्रेण दूरीकर्तुं युक्तः । क्रियां प्रति द्रव्यत्वेनोपादानत्वं स्वीकृत्यानेकको- टिगुणादिष्वन भवविरुद्धक्रियायुत्पत्तिवारणसंभवे ऽनुभवविरुद्धगौर वाभ्युपगमो न युक्तः। महारञ्जनन्तु द्रव्यं अतीतादेरज्ञानादेश्च सं. योगः सुतरामयुक्तः। मुख्यसंयोगे विप्रकृष्टसंबन्धिनिरूप्यत्वदर्श- नात् । किञ्च सेनया युक्तः राजा गच्छतीत्यादौ सेनासंबन्धस्य संयो- मादिरूपत्व सेनान्तर्गत चण्डालस्पर्शापत्त्या तन्तस्यपायाश्चत्तं स्यात् । सरटसंयुक्त त्वक्संयोगस्यावश्यकत्वात् त्वक्स्पर्शनाभावहेतो?निरू- पत्वाच्च । किञ्चेत्यादिकमपि न युक्तं । आध्यासिकसंबन्धस्यानि. र्वाच्यसंवन्ध इत्युक्तत्वात् । दृग्घट इति प्रतीयतेति नैव युक्तः । इष्टा- पत्तेः । दृगात्मकस्य सतः सन्वटइत्यादौ भानात् । न भानान्तरं । सन्घट इत्यभिलापवत् दृग्घट इत्यभिलापापत्तेः तादृशप्रत्यये दृक्तन सतोऽभानात् । नच पृथक सत्चादिकं न देशातिरिक्तमिति तद्भाने तद्भानात्कथं नोक्तदोष इति वाच्यं । विषयानुभावत्वादिति रूपट्ट- क्तस्य अबाध्यत्वोपलक्षिते स्वरूपात्मकसत्तातो भेदस्याविद्याखस्या- ..

॥ दृश्यत्वबाधकोद्धारः ॥ भ्युपगमात् । उक्तं च पञ्चपादिकायां आनन्दो विषयानुभवो नित्य- त्वं चेति सन्ति धर्माः। अपृथक्तपि चैतन्यात् पृथगिवाच भास्यत इत्येषादिक् । एवंच गुणादावतीतादौ च संयोगसंभवात् साक्षात्संव- न्धस्य प्रकृष्टसंबन्धकत्वनैयत्याच्च संबन्धतोपि तस्यानिर्वाच्यखमादर्श कं परं परासंबन्धनिरासश्च अन्यत्र प्रपञ्चितमिति सर्व चतुरश्रम् । इति भट्टव्यम्बकस्य कृतिषु श्रुतिमतानुमानोपपत्तिः ॥ । सम्पूर्णम् ॥

श्रीगणेशाय नमः ॥ पूर्णानन्दाय निर्भेदपरमानन्दरूपिणे । व्यासशङ्कररूपाय श्रीपरब्रह्मणे नमः ॥ पूर्णानन्दाय सत्यानामाप सत्याय शम्भवे । निर्दोषज्ञानरूपाय नमोऽनन्ताय विष्णवे ।। तत्रज्ञानस्य निखिलपुरुषार्थसाधनत्वात् तखं निरूप्यते ! अ- बाध्यार्थः तत्त्वं अबाध्यत्वं च स्वसंगिनिष्ठव्याप्यत्यत्यन्ताभावप्रति- योगित्वं । न चात्यन्तासतोपि तत्वरूपतापत्तिः। कालसंबन्धित्वे- नापि विशेषणीयत्वात् । नच मुक्तिदशायां कालसंबन्धाभावादात्म- नः तत्वरूपता न स्यादिति वाच्यं । कालसंबन्धोपलक्षितनिष्ठावा- ध्यताया एव तत्वपदप्रवृत्तिनिमित्तत्वात् । यत्तु अनारोपिस्वरूपं तत्वं । नच कूर्मरोमादौ अन्यत्रानारोपिते तुच्छेऽतिव्याप्तिः । प्रतीतो सत्या- मित्यस्यापि वाच्यत्वात् । इदमेव च स्वतन्त्रं परतन्त्रं च प्रमेयं द्वि- विधं मतमित्यत्र प्रमेयपदेन सूचितं तत्वलक्षणं । प्रतीतौ सत्यामना- रोपितमित्यनेन आरोपान्यप्रतीतिविषयत्वलाभात् नचेश्वरज्ञानवि- षयतामादायातिव्याप्तिः। तस्य सर्वविषयकत्वानुरोधेनासद्विषयक- भ्रमविषयकत्वस्यावश्यकत्वादिति वाच्यं । सत्त्वप्रकारकयथार्थज्ञा- नविषयतायाः विवक्षितत्वादिति । तदसत् । सत्यत्वस्य तत्वमात्र- साधारणस्यानतिप्रसक्तस्यावश्यं निवेशनीयतया तस्यैव लक्षणत्वसं- भवे इतरांशवयात् । धर्मिभेदेप्यनतिप्रयोजनकत्वस्य दुर्वारत्वाच । तत्वमेकमेव “सदेव सौम्येदमग्रआसीत् एकमेवाद्वितीयं" इत्यादिश्रुति- भ्यः। तच्चापरोक्षपूर्णानन्दरूपं परिच्छेदत्रयशून्यं च । परोक्षाहह्म यतो वाचो निवर्तन्ते अप्राप्य मनसा सह आनन्दं ब्रह्म णो विद्वान् । सत्यं ज्ञानमनन्तं ब्रह्म नेहनानास्ति किञ्चन नात्र का- "यत्साक्षाद- ॥ तत्वसंख्यानम् ॥ चनभिदास्ति । अविनाशीवा अरे अयमात्मा आत्मैवाधस्तात् आ- स्मैव पुरस्तात्" इत्यादिश्रुतिभ्यः। तदन्यच्च अतत्वं तद्विविधं अनि- वाच्यं अत्यन्तासच । स्वप्रकारकधीविशेष्यताव्यापकाभावप्रतियो- गित्वं स्वसमानाधिकरणाभावपतियोगित्वं वाऽनिर्वाच्यत्वं । तुच्छ- त्वं च सत्तादात्म्यशून्यत्वं तत्र द्वितीयं तुच्छाळीकादिशब्दजन्यवि- कल्पविषयः । आद्यमपि द्विविधं व्यावहारिकं प्रातिभासिकं च । व्यावहारिकत्वं च शुद्धब्रह्मान्य विष"कज्ञानाबाध्यत्वे सति बाध्यत्वं अखण्डोपाधिर्वा ब्रह्मण्योरापितं क्षणिकलादिकमपि क्षणिकत्वाभा- ववद्ब्रह्मज्ञानबाध्यमेव । तदबाध्यं ब्रह्मैकज्ञानबाध्यं प्रातिभासिकम- सिद्धमेव अतो न तत्रातिव्याप्तिः । प्रातिमासिकत्वं च ब्रह्मान्यवि षयकज्ञानबाध्यत्वं तत्र व्यावहारिकं प्रकृतिविकृत्युदासीनभेदाद त्रि. विधं । तत्र शुद्धा प्रकृतिर्मूला ज्ञानं प्रधानं मायाऽविद्या इत्यादिशब्द- वाच्या जगतः भागवस्थाविकृतिः चरमविकारमात्रं । यद्वा विकृति- वं भूतविभाजकोपाधिः बुद्ध्यहङ्कारखान्यतररूपेण स्वविजातीयकार्य प्रत्यप्रकृतित्वे सति विकृतित्वं । तथाच घटादय एव तथा नतु महत्तबा- हंकाराकाशवायुतेजोजलपृथिव्यः । न चाविरोधिनी भाष्यविरोधः। तोतरेषां चानुपलब्धेरिति सूत्रे महदहंकारादेर्निराकृतखादिति वाच्यं । सायाभिमतविलक्षणतत्रयोनिरासेपि भगवदीक्षणसंकल्पयोर्मूलका- रणीयसर्गाद्यद्वितीयविकारयोरेव पराशरपुराणे महदादिरूपेण प्रति- पादनात् । अत एव महत्तखादिबोधक पुराणाद्यविरोधः । पत्रकर्मे- न्द्रियाणि पञ्चज्ञानेन्द्रियाणि पञ्च प्राणाः अनेति षोडशानां यथाम- तं प्रकृतिविकृतिषु केवलविकृतिषु वान्तर्भावः । तेषामपि स्वस्य वृत्त्यात्मना परिणामित्वात् । विजातीयकार्यात्मना परिणामाच्च । उदा सीनश्च गुणकर्मसामान्यसंख्याविशिष्टोपहितशक्तिविषयित्वप्रतियो- गित्वानुयोगित्वाधारत्वाधेयत्वस्वत्वस्वामित्व भेदतादात्म्यात्यन्ता. न्योन्याभावभेदात् बहुविधाः । तत्र गुणाः रूपरसगन्धस्पर्शशब्दप- ।

॥ श्रुतिरत्नप्रकाशे ॥ रिणामपरिमाणसंयोगविभागद्रवत्वस्नेहशकर्मचारक्षेपणादि भेदनाने- कविधं । सामान्यं च स्वरूपतो भासमानो धर्मः घटत्वविषयतावा- दिः। संख्या एकत्वादिः। इयं च नातिरिक्ता। विषयतायामेवान्त- भर्भाव संभवादित्यपि वदन्ति । शक्ति हादिजनकतावच्छेदको व- हृयादिगतो धर्मः । इयं च न सामांतःपातीति अव्याप्यवृत्तित्वात् । इदमत्रावधेयं । अविद्यापहितस्य मनोवच्छिन्नस्यानादित्वादपरिणा मित्वाचन प्रकृत्यादिरूपता । एवं प्रतिबिंबादेः बिंबानतिरेके तु विकृत्यादिकमेव । तमश्छायादिकमपि द्रव्यत्वात् जन्यत्वाच्च । वि कृतिः प्रकृतिविकृतिर्वा । प्रकृत्यादयो भेदाः द्रव्यस्यैव । रूपादीनामपि विकृत्यादिव्यपदेशविषयत्वेऽद्रव्यस्यापि विकृतित्वमुपपाद्यं । द्रव्य- त्वं च गुणाश्रयत्वं । उत्पन्नविनष्टो घटादिरप्रामाणिक एव । विशि टोपहितचितामन्यत्वे च विकृतित्वमेव अनन्यत्वे चिद्रूपत्वादात्मतत्व रूपतवति । उपहितादिरूपाणामचितां तु विकृतित्वमेव तत्रापि द्रव्य- संबन्धविशिष्टोपहितानां द्रव्यमिव गुणादिसंबन्धिनां तेषां गुणादिकं प्रकृतिस्स्यादिति तु न । उपहितसामग्रयाश्च उपहितोत्पादकत्वात् । नव्यास्तु श्रुतिप्रतिपन्नजीवब्रह्मैक्यप्रत्यक्षयोरनुरोधेन अविद्यादिरूपो. पाराश्रय भेदकत्वोपगमेपि नोपाध्यन्तरेण स्वाश्रयभेदः मानाभावा- त् । एवं विशिष्टोपि नातिरिच्येत मानाभावात् । अन्योन्याभाववि लक्षणो न द्रव्यत्व घटत्वाद्युपहितयारङ्गीक्रियते । किंतु पारमेश्वररू पाणामानन्दानुभवादेवति माहुः । ननु तत्वमेकमित्ययुक्तं प्रत्याक्षादि- विरोधात् । न चयं प्रतीतिः भ्रान्तिरिति वाच्यं । एतद्वाक्यजन्य- प्रतीतेरपि भ्रान्तित्व तस्य विषयबाधनान्तरकित्वेन प्रत्यक्षादेभ्रम- वासिद्धेः। प्रमात्वे तस्य विषयबाधाभावनान्तरीयकत्वेन द्वितीय तत्वाभ्युपगमस्य दुर्वारत्वात् । उभयविलक्षणत्व ज्ञानत्वं न स्यादि ति चेन्न । प्रत्यक्षादिना ग्राह्यमिथ्यात्वविरोधिसत्यत्वानिरुक्तः । प्रत्यक्षग्राह्यसत्ताजातिकालसंबन्धाश्रयस्य अनेकत्वे इष्टापतिः। भ्रा.

॥ तत्वाख्यानम् ॥ न्तित्वं हि ज्ञानोच्छेद्यविषयकत्वं स्वप्रकारकधीविशेष्यताव्यापका- भावप्रतियोगिविषयकत्वं तदत्यन्ताभाववति तदवगाहित्वं तद्वतो ऽन्यत्र तदवगाहित्वं वा । नाद्यः। प्रत्यक्षादिकं भ्रान्तिारीत प्रती- तिनिष्ठाभ्रान्तित्वस्य स्वविषये ज्ञानोच्छेद्यतानान्तरीयकत्वपि स्व. विषय ज्ञानविषये ज्ञानोच्छेद्यत्वाभावासाधकत्वात् । नहि यत्र ज्ञानो. च्छेद्यभ्रांतित्ववत्वं तत्र ज्ञानोच्छेद्यविषयकत्वमिति नियमे मानमस्ति । त्वन्मते ज्ञानोच्छद्यभ्रमत्वस्यैवासिद्धेः । मन्मने घटादिप्रत्यक्षे व्यभिचा. रादनुकूलतर्करहितत्वात् । अत एव न द्वितीयः । प्रमायामारोपित- भ्रमत्वे प्रमावृत्तित्वाच्च । न तृतीयः । स्वनिष्ठात्यन्ताभावप्रतियो- गित्वस्य भ्रमत्वात्यन्ताभावाधिकरणस्य वा तादृशप्रतियोगिताशून्य- विषयकत्वसहचरितत्वपि तस्य तद्व्याप्यत्वा सिद्धेः। प्रतियोग्यत्यन्ता- भावयोरविरोधाभ्युपगमेनाप्रोजकत्वात् । न चतुर्थः ! अनभ्युपगमा- त् । नच प्रतियोग्यभावयोरविरोध एव प्रत्यक्षविरुद्ध इति वाच्यं । घटत्वाद्यवच्छिन्नतदभावादिरूपप्रतियोग्यभावयोर्विरोधस्य प्रत्यक्षा- दिसिद्धत्वीप अतीन्द्रियघटितरूपावच्छिन्नप्रतियोगिताकाभावादिना प्रतियोगिविरोधे तदभावात् । तावतापि घटादेरनिर्वाच्यत्वानपाया- त् । स्वसमानाधिकरणाभावप्रतियोगितायाः मिथ्यात्वरूपत्वे तु सु- तरां न तद्विरोधः । स्वसंसृष्टब्रह्मनिष्ठात्यन्ताभावप्रतियोगितामात्रेण तदुपपत्तेः अनुमानादिकं तु अप्रयोजकं । विश्वं सत्यमित्यादिश्रुति- रिन्द्रबृहस्पतिस्तुतिपरा न तच्छेपभूतावश्वपरमार्थतापरा । वाक्यभेद प्रसंगात्। किन्तु प्रामाणान्तराविरुद्धप्रत्यक्षव्यवहारकालाबाध्यत्वरू- पामुख्यसत्यत्वानुवादिकैवेति न काचिदनुपपत्तिः। अधिकमन्यत्रा- नुसन्धेयम् ।। ॥ नखमंग्यानं समाप्तम् ॥

॥ श्रीराम जय ॥ पूर्णानन्दाय निर्भेदपरमानन्दमूर्तये । व्यासशंकररूपाय श्रीपरब्रह्मण नमः ॥ ननु वेदान्तशास्त्रपनारम्भणीयं आश्रयानुपपत्त्या अज्ञानासं- भवेनाज्ञातस्य विषयस्य अज्ञानिना धिकारिणश्चासंभवात् । मैवं । शुद्धचितएवाज्ञानाश्रयत्वाविषयत्वसंभवात् । तदुक्तं । “आश्रयखवि. षयत्वभागिनीनिर्विभागचितिरव केवला"इति । नचाज्ञत्वसर्वज्ञत्व- योरेकाश्रयत्वानुपपत्तिः । तदीयज्ञानविरोधिनः तत्कालं तदाश्रय- त्वायोगेपि अन्यदीयज्ञानविरोधिनः तदाश्रितत्वे बाधकाभावात् । नचैवमर्श ब्रह्म ब्रह्मण्यज्ञानमिति व्यवहारापत्तिः । अयमज्ञ इत्यादी व्युत्पत्तिवैचित्र्येणाज्ञपदार्थैकदेशेऽज्ञानविशेषस्य विशेषणत्वेन तेना- न्वयोपगमात् । ब्रह्मरूपंच ज्ञानंपरस्येव ममापि स्वरूपभूतमेव सा. ज्ञानविरोधि । यं प्रत्यापादकज्ञानं तस्य तदाश्रितत्वेनैव विरोधात् । एवमज्ञानान्वितसप्तम्यर्थविशेषणीभूततत्पकृत्यर्थस्य तस्मिन्नज्ञानमि- त्यादौ अज्ञानपदार्थैकदेशेऽज्ञाने धर्मिपारतंत्र्यणान्वयोपगमात् न ब्रह्मण्यज्ञानमिति व्यवहारापत्तिः । नन्विदमयुक्तं । जीवब्रह्मणोर भदादिति चेन्न । स्वरूपैक्येपि औपाधिकभेदाभ्युपगमात् । जीवो- पाधिस्तु सुषुप्तिपळयाद्यनुवृत्तसंस्कारसाधारणं मनस्त्वाश्रयपात्रं । मनस्वविशिष्टतत्संस्कारान्यतरपर्यवसितं । अविद्यापतिबिंबो जीव इति पक्षाप शुद्धचिदाश्रिताज्ञानप्रयुक्त एव जीवेश्वरभेदः मुखमात्र- संवन्धिदर्पणाधुपाधिकृतमुखपतिमुखादिभेदवदिति तादृश तादृशम तिबिंषभूतजीवनिरूप्यत्वमेवाज्ञानस्य जीववदीशोप्यविद्यापतिबिंब इति पक्षेप्युपाधिगतनैमल्यतदभावाभ्यां वशीकृतोपाधित्वतदभावा. भ्यां च ईशजीवयोर्विशेषः । सर्वज्ञताचेशनिष्ठा न शुद्धनिष्ठा । एवं च शुद्धचिनोज्ञानाश्रयत्वेपि न क्षतिः। तयाः सर्वविषयकग्रूपत्वोप - ॥ शास्त्रस्यारंभीयत्वसमर्थनं ॥ ६९ तदाधारत्वानभ्युपगमादिति वदन्ति । आचार्यवाचस्पतयस्तु जीवा- श्रितामेवाविद्यां मन्यन्ते । तन्मते जीवोपाधिरविद्यातिरिक्तः नि त्यश्चेदद्वैत हानिः। असत्यश्चेदविद्याधीनो वाच्यः । साचोपाध्यन्त. रनिर्वाच्या। स चाविद्यान्तराधीन इत्यनवस्था। यदि चैकमेवाज्ञान- मुपाधिश्च एकमेवेत्युच्यते तदाऽन्योन्याश्रयः चक्रं वा । उपाधिनिर्वा- छ भेदोपपायाधिकरणमज्ञानं तन्निर्वाह्यश्चीपाधिरिति। एकस्याअविद्या या एव सोपाधित्वे आत्माश्रय इतिचेन्मैवं । अविद्यातदुपहितभे. दानापविद्योपहितचिद्रूपायाः तद्धियोप्यनादित्वेनोत्पत्ती ज्ञप्तौ च आत्माश्रयाधनवकाशात् । न चाविद्यातिरिक्तानादिदृश्यस्याविद्याज- न्यत्वाभावेन सत्यत्वापचया अद्वैत हानिरिति वाच्यं । तस्य तदजन्य- त्वपि तत्प्रयुक्तत्वेन सत्यत्वानापत्तेः । तथाऽविद्याकृतोपकाराभावन तत्पयुक्तत्वमप्ययुक्तमिति चेन्न । अविद्यानाशाधीननाशपतियोगि- त्वेन तदीनस्थितिकस्याविद्यातिरिक्तानादिदृश्यस्य प्रतिवन्धका- धीनकार्यप्रागभावस्येव तत्कृतोपकारशून्यत्वासिद्धेः सत्योपाधिकृत- सत्यभेदवादेपि न दोषः । उक्तरीत्योपाध्युपहितत दानामनादिवा- व भेदस्योक्तरीत्योपाध्यधीनस्थितिकत्वेन तत्प्रयुक्तत्वस्यौपाधिका व्यपदेशः। यत्तूपाधिर्विद्यमानस्य भेदस्य ज्ञापक एव दृष्टपूर्वः नतु कारकः । महारजनाद्युपाधौ विद्यमानावयव्यवयवभेदब्यञ्जकताया एव दर्शनात् । न चायं पटस्यैव भेदकः द्वौपटावित्यप्रतीतेः । न च दण्डकुण्डलोपाधिभ्यां देवदत्तो भिद्यत इति वाच्यं । देवदत्तभेदस्य प्र. तीतेर्दण्डकृण्डलसंबन्धाद्विशिष्टत्वस्यैवोत्पत्तेः । न चैवमेवास्तु प्रकृत इति वाच्यं । उपाध्यपगमे जीवस्य विनाशेन न ब्रह्मक्यामित्यापत्तेः । जीवे नष्टे स्वरूपमात्रावशेषः तदोच्यत इति चेत् तर्हि ब्रह्मण्येव बन्ध. मोक्षावप्यंगीकृतौ स्यातामित्युक्तदोषापत्तिरिति । तदसत् । कर्माधी- नभोगाश्रयत्वादिबन्धलक्षणस्य ब्रह्मण्यात्यन्तिकलयरूपमोक्षस्य च विशिगतत्वेन शुद्ध तत्प्रसंगाभावाज्जीवस्योपाधिकृतरूपेण मुक्तचन- ।

॥ श्रुतिरत्नप्रकाशे ॥ न्वयेप्यनौपाधिकशुद्धरूपेण तदन्वयस्य निष्पत्यूहत्वात् ! महारजनादेः खोपहितपटभेदकत्वाभावे अत्र पटो रक्तो त्र न मूले वक्षः कपिसं- योग्यग्रे नेति प्रतीतेरनिर्वाहात् । नच तत्र पटावयवविशेषस्य मूला देश्च रक्तत्वाद्यधिकरणता प्रतीयते नतु पटस्यैवेति वाच्यं । अत्र पटो रक्त इत्यायनुभबविरोधात् । न चावयवविशेषावच्छेदेन पटे रक्तता प्रतीयत इति त्वया शक्यमभ्यपगन्तुं । तल्यन्यायेन भागा- न्तरावच्छेदेन रक्तत्वामावस्यापि पटे स्वीकारप्रसंगन प्रतियोग्यभा- वयोर्विरोधावच्छेदापचेः । नच तदवच्छेदकभेदेन तदविरोधिनैयायि- कवत्वयाभ्युपगम्यते कार्यकारणलक्षणोपपादनपरतत्वटीकायां कि चाकाशस्य तावदंशा इत्यंगीकार्य । अन्यथाकाशावहगशरीराभा वाभावो न स्यातां । संयोगस्वात्यन्ताभानसमानाश्रय इति चन्न । विरोधात् । अन्यथा सर्वत्र भावाभावविरोधाभावप्रसंगात् । न चो- पाधिकृतांशसद्भावादविरोधः । उपाधपि विहगशरीरसमानयोग क्षेमत्वात्। न चाकाशम्योपादानकारणमस्ति। तस्मात्कार्यकारणाति- रिक्तांशांशिनौ स्वीकार्यावित्यभिधानविरोधात् । तस्मात्पटत्वाश्रयो महापटांशोपि स्वीकर्तव्यः अनुभवविरोधात् । किश्च स्वाभाविक दवतां गगनत्वाश्रयाणामंशानामभ्युपगमे अंशस्थानीयगगनाभ्युपग- मो व्यर्थः । अधिकं तु तत्वरत्नपरीक्षायामनुसन्धेयं । एवं चोक्तयुत्तथा तव पटभेदाभ्युपगम आवश्यकः। द्वौ पटाविति प्रतीतिपरिहारावाव- योस्तुल्यौ । किञ्च दण्डकुण्डलसंबन्धात् विशिष्टद्वयोत्पत्तिपक्ष प्ययं दण्डेन अयं कुण्डलेन दण्डकुण्डलिनी द्वाविति प्रतीत्यापत्तिः कथं वारणीया नहि लोकानां तादृशप्रत्ययोस्तीति । अपरीक्षकाणां तु तुल्यं प्रकृतेपि तदस्मदनुभवकपक्षपातेपि शिष्टांशाधिकमतिरिक्तं नोपधेयं । युत्तयनुभवयोरनुसरणे तु खांशता पटस्यापि दुर्वारणा । एवमना- दिब्रह्मांशो जीचः । अंशांशिनोः भेद औपौधिकः। उपाध्यपगमे भेदात्यन्तसमुच्छेदादशिनाविनाभावादत्यन्ताभिन्नाविव अंशोचति- ॥ शास्त्रस्यारंभणीयत्वसमर्थनं ॥ टत हाते । एतावानंशो भास्करानुमितो निरपवाद एव । भेदोपाध्योः पारमार्थिकत्वमनिर्वाच्यत्वमेति । अन्यदेतत् । नाद्वैतमतद्वयेपि पर- कीयकुचोद्यावकाश इति समानः। अनित्योपाधिकृतभेदस्त्वनित्य एव। यत्वनित्योपाधिस्थलेपि भेदस्य व्यंग्यत्वमेव नतु जन्यत्वं । अन्यथा गगनादौ घटाद्युपाधिसंबन्धस्य सर्वगतत्वे कृत्स्नस्याकाशस्यैको- पाधि नैव ग्रस्तत्वात् तेनाकाशभेदो न स्यात् । यदिचोपाधिसंब न्धः गगनाधकदशत्तिः तदा तस्योपाध्यन्तरजन्यत्व प्रागुक्तविक- ल्पो ग्राह्य इति तत्संबन्धस्यैकदेशत्तित्वं वाच्यं । एकदेशोपाध्यन्त- राधीन एव वक्तव्य इति अनवस्थापत्तिरिति त्वन्मतं । त्वन्मतेपि एतदोषानपायात् । तथाहि । एकदेशः घटादिसंबद्धो न वा नान्त्यः । अनुभवविरोध त्। आये किं कात्स्न्येन घटादिसंबन्धः एकदेशेन वा। नाद्यःकृत्स्नस्यापि घटाकाशत्वापत्त्या अनतिप्रसक्तस्योपाधिसंबन्धस्य वृत्तिजनकत्वानुपपत्तेः । न द्वितीयः । एकदेशस्य घटसंयुक्तत्वेप्येक- देशेन संयोगस्य सर्वात्मना सत्वाभावानुपपादनात् । एकदेशो घटा- दि नैव संवनातीत्यस्य चानुभवविरुद्धत्वात् । नन्वेकदशिनो घटा- दिसंयोगः कारणेनैव । नचैवं आकाशादावुपरिभागेपि घटादिसं- युक्तत्वस्य व्यवहार पत्तिः । उपरिभागस्य घटादिसंयोगानवच्छेद: कत्वाभ्युपगमादिति चेन्न । यत एकदेशोपि ए.कदेशिना सर्वात्मना संबध्यते । उतैकदेशेन । नाद्यः। एकदेशद्वयस्य सर्वात्मना संबन्धवि. शेषे कस्यचिद्भेदस्प घटादिसंयोगावच्छेदकत्वं नान्यस्येत्यत्रापि नि.' यामकदौर्लभ्यात् । अवच्छेद्यसंबन्धस्यैवावच्छेदकत्वमित्युक्तावपि न सः। आश्रयस्यावशिष्टकृत्योरेकसंयोगेऽपरसंयोगस्यापादनीयत्वााद- ति। अथानुभवबलात् आधाराधेयभावे व्यवस्थिते तदनुसारेण तन्नि- वाहकः कार्यकारणभावः कल्प्यते । अतो नातिप्रसंगोपीति चेत् तर्हि कथं भास्करमतेप्यनुपपत्तिः । यावता समग्रस्य परस्परावच्छिन्नत्ति नं तत्तदुपहितं तदिदं जनयतीत्यभ्युपगमसंभवात् । तदनुसारेण स-: -.. - S ॥ श्रुतिरत्नप्रकाशे ॥ मग्रव्यातेरपि कल्पनासंभवाच । इदमत्र चिन्तनीयं। भेदस्योपाधि- जन्यत्वे तुल्यपरिमाणसमानदेशभित्रकालिकानन्तघटाधवधिन्नाका- शादीनामनन्तानां कल्पने गौरवं । उपाधिव्यंग्यत्वे तु तत्रैकस्यैव एकदेशस्याभ्युपगमाल्लाघवमित्यत्रावधेयं । घटसंयोगादिरूपागन्तुक- विशेषेण विशिष्टस्याकाशस्य शुद्धाकाशादावन्यस्याभ्युपगमो विशि- ष्टातिरिक्ततावादिनामावश्यकः। एवंच ततोतिरिक्तघटाकाशाधभ्यु. पगमस्य नोक्तगौरवावकाश इति । यत्यौपाधिकभेदवत्वोपि स्वरूपैक्ये मैत्रस्य चैत्रमुखाद्यनुसन्धानप्रसंगः । एवमीशस्यापि बोध्यमिति त- विशिष्टविभिन्नोपाध्यवच्छिन्नयोः चैत्रमैत्रयोधर्मिणोरसांकर्यात् । तदीयकेवलरूपयोरभेदेपि अनुभवविरोधाभावात् । विशिष्टधर्माणां केवले प्यावश्यकत्वं तु न शक्यं शङ्कितुं । विशिष्टकेवलभेदवादेऽनु- वृत्तत्वव्यात्तत्वादिविरुद्धधर्माणां धर्मिषु परम्परासंबन्धाद्विरोधिम- माणानवतारे धर्मसांकर्यमावश्यकमिति चेन्न । तत्रापि निरवद्योनिर- निष्टः अनननन्योभिचाकशीतीति विरोधिप्रमाणसद्भावात् परमार्थ- तःतदभावस्य जीवसाधारण्यात् । भास्करमते तथावाक्तुमशक्यत्वाच्च । अतएवांशस्य भोक्तृत्वे अंशिनोऽभोक्तृत्वानुपपत्तिः परास्ता । अंशी- न्द्रादिगतमुखाद्यनुसन्धानस्यांशिन्यप्यभावोपपत्तिश्च । मुखं मुञ्जानो ऽहमस्मीत्यादिप्रतीतिबलादपि सद्रूपे ब्रह्मणि न सुखादिभोगप्रसङ्गः। तत्र भोगवदहंकारतादात्म्यभानमात्रेण तस्यास्तदाकारोपपत्तेः। धर्मा- ध्यासे धर्मितादात्म्याध्यास तत्तत्प्रतिबिम्बाध्यासयोरन्यतरस्याव- श्यकतायाः आकारेषुक्तत्वपि धर्मितादात्म्याध्यासे धर्माध्यासनि- यमानुक्तेर्न तद्विरोधः । असति प्रमाणान्तरविरोधे विनिगमनाभा- वात् । परमिदं रजतमित्यादौ अहं मुखीत्यादौ च उभयाध्यासनि- यमः औत्सर्गिक इति न किंचिदनुपपन्नं । भास्करमतेऽध्यासानुप- गमाञ्च । न चौपाधिकभेदस्यानुसन्धानाभावप्रयोजकत्वे शरीराद्य- वच्छिन्नस्य मुखाद्यनुसन्धानानुपपतिः। योगिनां सौभर्यादीनाम- ।। शास्त्रस्यारंभणीयत्वसमर्थनं ॥ नेकशरीरावच्छिन्नसुखानुसन्धानानुपपत्तिश्चेति वाच्यं । सुखादे" न्त:करणधर्मस्य तदुपहिते शरीरावच्छिन्नेपि सत्त्वेन तदनुसन्धानस्य तस्मिन्नवर्ननीयत्वात् । योगिनोप्यन्तःकरणं युगपदनेकशरीरवर्तीति तत्तदवच्छिन्नात्मनः शरीरान्तरावच्छिन्नानेकसुखानुसन्धानमावश्य- कमिति न कोपि दोषः । न चेदमीशेपि तुल्यं । अन्तःकरणधर्मा- णां तदुपहिताश्रयखमात्रेणानुभवव्यवस्थितिः । ईशे तदाश्रित लकः ल्पकप्रतीत्वभावादेवासांकर्यात् । जीवान्तरे सुतरां । यदपि लाघवा- व स्वरूपैमात्रमनुसन्धानप्रयोजकमिति तश्चिन्त्यं । किमिदमनुसन्धा- नप्रयोजकत्वं । न तावत्कारणत्वं । इष्टापत्तेः। तद्विशिष्टासिद्ध्या ऽर्थान्तरं च । अत एव न व्यापकत्वमपि । नापि व्याप्यत्वं । स्वरूपै- क्यशालिनोविशिष्टयोर्विरुद्धधर्माश्रयसवत् उक्तानुसन्धानतदभावयो- रूपपत्याऽजुकूलतर्काभावेन तदसिद्धेः लघोरिव गुरोरपि व्याप्य- तायामविवादेन लाघवमात्रेण स्वरूपैक्ये सत्युपाधिसंश्लेषस्यापि प्र- योजकताया निरसितुमशक्यलाच । एतेन प्रतिनियतकर्मव्यवस्थापि प्रतिकर्म व्याख्याता । वृत्तिसूक्ष्मावस्थारूपसंस्कारस्य वृत्तिवव्यव- स्थोपपत्तेः । पुण्यादेरतिरिक्तत्वोपि योगादिसामानाधिकरण्यानुराधे- न जीवनिष्ठमेव तत्कल्प्यते । तस्य पारमेश्वरप्रीत्यादिरूपत्वोपि तद- वच्छेदकत्वं मनसः तदुपहितस्यापीत्यन्यत्र विस्तरः। यदपि प्रत्यक्ष- प्रमाणविरोधेन न जीवेशयोर्जीवानां वा स्वाभाविकैक्यमिति । त- दसत् । विभिन्नोपाध्यवच्छिन्नानां परस्परभेदस्यापि प्रतिपन्नत्वा- त् । शुद्धोपहितयोः भेदाभ्युपगमाच्च । नच भास्करमते प्रत्यक्षाव- रोधाधनवकाशपि वेदान्तिनां मते स दुर्वारः भेदमिथ्यात्वाभ्युपग- मादिति वाच्यं । प्रत्यक्षग्राह्यमिथ्यात्वविरोधिसत्त्वानिरुक्तेः । स्व- रूपमात्रस्य मिथ्यात्वाविरोधिलात् । एतेन कालसंबन्धादयोपि व्या- ख्याताः। वेदान्त्यभिमतमिथ्यालाभावस्तु योग्यानुपलब्धिशून्य- त्वान्न प्रत्यक्षः। भेदप्रत्यक्षादेस्तु व्यावहारिकमेव प्रामाण्यं । न तार. 10 ७४ ॥ श्रुतिरत्नप्रकाशे ॥ लिकं । निर्णीततात्पर्यकश्रुतिविरोधादिति अन्यत्र प्रपंचितं । केचि तु ईश्वरादिभेदः न प्रत्यक्षः। योग्यानुपलब्ध्यभावात् । न चाधि- करणप्रत्यक्षमेव स्मरणसहकृतं भेदप्रत्यक्षहेतुः। नच प्रतियोगियो- ग्यतादि तंत्रमिति वाच्यं । एवं सति घटः पिशाचसंयोगी नेत्यपि प्र- त्यक्षापत्तेः । नच यद्यहं सर्वज्ञस्स्यां तर्हि प्रत्यक्षीकृतस्स्यामित्यापा- दनसंभवात् अस्ति योग्यानुपलब्धिारीत वाच्यं । सन्मते मुक्तिका- लाभिव्यंग्यपरमानन्दस्येव मन्मते सार्वज्ञादेरप्यावृतबादप्रत्यक्षसंभवे- न योग्यानुपलव्धेरनवकाशात् । अन्यथा परमानदवद्भेदस्यात्मान प्रत्यक्षताया दुर्वारखात् । विरोधिश्रुत्या स्वाभाविकपरमानन्दसि- ध्यनापत्तेरिति दिगित्याहुः। नन्वेवमाप निर्विशेपरब्रह्माप्रामाणि- कं । “यस्सर्वज्ञस्सर्ववित् परास्य शक्तिर्विविधैव श्रूयते य आत्माप- हतपामा सर्वस्य कर्ता" इत्यादिश्रुतिभिः अनन्तविशेषे “सत्यः सो- स्य महिमा" इत्यादिध्रुतिभिस्तावविरुद्धा सिद्धान्तेपि परमात्मन्य- निर्वाच्यानन्तकल्याणगुणाभ्युपगमाच्च । महिमशब्दोक्तस्य महत्त्व- स्य परिच्छेदाभावरूपतयाऽधिकरणात्मनः तस्य सत्यतायामविवाद श्च । सत्यशब्दस्यामोहार्थतासंभवाच्च । उपासकापेक्षितफलावश्य- भावद्योतनाय तदभिधानस्यावश्यकत्वात् । उपक्रमादितात्पर्यलिंग- साकल्ययुक्तिप्रवलाद्वैतश्रुतिशतविरोधिनायुक्तवाक्यानां तदनुगुणार्य परताया वक्तव्यत्वाच्च । नच श्रुतिद्वयविरोधपरिहारेण तयोः प्रामा- ण्योपपादनसंभवे एकस्य अप्रामाण्यपर्यवसितानिर्वाच्या र्थपरत्व- कल्पनं न युक्तमिति वाच्यं । वाक्यानामुपक्रमादिलिंगैर्विशेषपरता- यामवगम्यमानस्वारस्यहेत्वभावेन तदन्तर्गतानां गुणशब्दानां प्रधा- नानुगुणेनैव नेयतया परतात्पर्यविषयार्थे प्रामाण्यस्याप्यव्यापकत्वेन द्वारभूतप्रीत्यंशे व्यावहारिकप्रामाण्योपगमे चाप्रामाण्यानभ्युपगमा- त् । सक्रतुं कुर्वीतेत्युपासाविधिशेषभूतानां गुणानां व्यावहारिक- त्वेप्युपासनावाक्यस्वारस्यभंगाभावेन ज्योतिष्टोमादिवाक्यवत् प्रमा.

। ॥ शास्त्रस्यारंभणीयत्वसमर्थनं ॥ णान्तराद्यविरोध्यर्थपरत्वकल्पनाया एव युक्तत्वात् । न चैतावता प्रामाण्यं । अतद्रूपस्य तद्रूपताप्रत्यायकं हि वाक्यमप्रामाणमुच्यते । न चैवं वेदः । जोतिष्टोमादिपरमार्थतायाः तेनाप्रतिपादनात् । तत्प्र- तिपादकत्वं च तत्परत्वं । नतु तत्प्रतीतिजनकत्वमानं । "आदित्यो यूप" इत्यादिश्रुत्यप्रामाण्यप्रसंगात् । ननु यदि प्रामाण्यं तद्वति त- प्रकारकत्वं तदा ब्रह्मनिर्विकल्पकेऽव्याप्तिरतिव्याप्तिश्च शुक्ताविदं रजतमिति ज्ञाने। नापि विशेष्यावृत्त्यप्रकत्वादि । स्वतस्त्वानुपपत्तेः। नापि त्रिकालाबाध्यविषयकत्वं । बाध्यत्वस्य नाश्यत्वरूपत्वे खत. स्त्वानुपपत्तेः । अतस्वप्रकारकधीविशेष्यताव्यापकाभावप्रतियोग- तद्विषयकत्वमेव तद्वाच्यं । तथाच कथं ज्योतिष्टोमवाक्यस्याप्रामाण्य- मिति भन्मैवं । एवमापि प्रामाण्यस्य स्वतस्त्वासंभवात् । नच साक्षि- णापामाण्यग्रहे योग्यानुपलब्धित्वं तंत्र । चक्षुरादिग्राह्यसत्ताघटितस्यैव प्रामाण्यस्य साक्षिग्राह्यत्वानुभवात् । न चेदं चक्षुरादिगाह्यमित्युक्तं। नचैवं सिद्धान्ते स्वतोग्राह्यं प्रामाण्यं दुर्वचं । तद्वति तदवगाहित्वस्यैव तत्त्वात् । नच भ्रमसाधारण्यापत्तिः । इष्टत्वात् । नच भ्रमत्वग्रहा- नन्तरमपि प्रवृत्त्याद्यापत्तिः । व्यावहारिकरजतार्थिनः प्रातीतिकत्वेन ज्ञाते तत्रापि प्रवृत्त्ययोगात् । व्यावहारिकं वा रजतं कटकादिरूपा- र्थक्रियाकारितयेष्यते । अत्रच तदभावनिश्चयान प्रवृत्तिः । नच शु- क्तितात्पर्यकमिदं रजतमिति वाक्यमपि प्रमाणं स्यादिति वाच्यं । उक्तप्रमाकरणं स्यादित्यत्र इष्टापत्तेः। न चेदं वाक्यं अस्मिन्नर्थे प्रमाण मिति व्यवहारापत्तिः । प्रपदस्य तद्वति तत्प्रकारकत्वरूपप्रकर्षद्योत- कत्वे तद्धटितप्रमापदयोगार्थमादाय तादृशव्यवहारस्येष्टत्वात् । परे। षां स्मृतिकरणे तादृशव्यवहारवत् अग्निहिमस्य भेषजामित्यादिवाक्य- स्य तादृशव्यवहारवच अनधिगतब्रह्मज्ञानेतराबाध्यविषयकत्वरूपप्र- कर्षविवक्षायां तु न तादृशव्यवहारस्संभवति । सर्वज्ञानयाथार्थस्य भास्करयामुनादिभिरुतत्वात् । तन्मत एवोक्तोपाधिनिमित्तैक्यस्य ।

॥ श्रुतिरत्नप्रकाशे ॥ तादृशव्यवहारस्य भ्रमत्वेनोपात्तज्ञानकारणे मन्मतेऽपीष्टत्वात् । भ्र. मत्वव्यवहारश्च बाध्यत्वाधीनः । एवं चापौरुषेयत्वेन वक्तृदोषशू न्यानामागमानां तदधीनस्य व्यवहारकालाबाध्यार्थविषयकत्वलक्ष- णाप्रामाण्यस्यानवकाशः । नन्वेवं “सत्यं ज्ञानमनन्तं" इत्यादिश्रुति- सिद्धस्य ब्रह्मणोपि पारमार्थिकत्वं न स्यादिति चेन्न । तस्यापार- मायें जगदनिर्वाच्यताधारत्वनिर्वाहाद्वाध्याधिकसचाकविषयकबुद्धे रेवेतरवायकत्वात् । नचैवं प्रत्यक्षमाप्तसत्यत्वानुवादिका “विश्वं स- लं" इत्यादिश्वविः न स्यादिति वाच्यं । तादृश(वृत्ते)श्रुतेर्विश्वसत्व त्वादावपि तात्पर्यकल्पने वाक्य भेदापत्या अनुवादकताया एवोक्त- त्वात् । परमानन्दावाप्तिलक्षणफलस्य तत्संबन्धस्य च ौतसिद्धान्ते निष्प्रत्यूहतया न काचिदनुपपत्तिः । नन्वज्ञानं भावोऽभावो वा । नायः । तथात्वे अनादेर्भावस्य निकृत्यसंभवात् । न द्वितीयः । ज- गदुपादानन्दानुपपत्तेः । अत्राहुः। अज्ञाने भावाभावत्वयोर्घटनानु- पपत्तिः । सप्तम्यामेव । नहि मायायाः दुर्घटत्वं दूषणं भवति । कापि लौकिकमायायां दृश्यत इति भावाभावविलक्षणेवा विद्येति । यत्तु दुर्घटत्वं भूषणं चेत्स्यादविद्यात्वमात्मनः । अन्धं तमोप्यलंकारो नि- त्यदुःखं शिरोमणिः" इति । तनुधातोर्नह्यनुपपत्तिमात्रं भूषणमिति ब्रूमः। येनोक्तदूषणं स्यात् । प्रामाणिकार्थे तत्प्रतिक्षेपाक्षमाभावत्वं वोऽवश्यमुपपादनीयमित्यस्ति कुलधर्भः। भेदादेरभावत्वानुपपत्ती अभावत्वं घटादेरभावत्वानुपपत्तौ तद्विलक्षणताया अपि स्वीकारे वाधकाभावात् । आत्मनोऽविद्यात्वे च सर्वदाऽऽतृतत्वप्रसंगः । अवि- द्यानिवृत्तावात्मानत्तिश्च स्यादिति दूषणं स्यात् । आत्मनः स्वप्रका- शत्वादज्ञाननिवृत्तिलक्षणत्वं विनाशित्वादिग्राहकबलवत्प्रमाणविरो- धित्वं न दूपणत्वं । ननु ब्रह्माणि सर्वज्ञताग्राहकवलवत्प्रमाणविरोध- ज्ञानाश्रयत्वानुपपत्तिः । आत्माश्रयादिना जीवस्यातधात्वानुपपत्ति श्व न दूषणमिति चेन । सर्वज्ञताग्राहकप्रमाणस्याज्ञानाश्रयत्वविरो- ॥ शास्त्रस्यारंभणीयत्वसमर्थनं ॥ ७७ धित्वाभावात् । तदाश्रयत्वे सर्वज्ञताया उपपादित्वादात्माश्रयत्वाद- निरस्तत्वाच । सर्वज्ञेस्थितस्याज्ञत्वस्याज्ञानगतारोपितत्वस्योपपादि ततया दूषणतायाः अस्पृष्टत्वाच्च । नन्वज्ञानमज्ञानप्रयुक्तं नवा । नाद्यः अज्ञानप्रयुक्तत्वे ज्ञानानिहत्तेरयोगात् । नायः । आत्माश्रादिति चेन। अनादावपि स्वस्मिन्स्वप्रयुक्तत्वोपगमे बाधकाभावात् । यथा ह्यभावाधिकरणकामावस्याभावस्वरूपत्ववादिनैयायिकमते घटाद्य- भावस्य स्वात्मकघटाभावप्रतियोगित्वं तत्र रूपभेदोस्तीति चेत् । उ- त्तरोत्तरक्षणसंबन्धरूपतद्भेदः प्रकृतेप्यव्याहतः । वस्तुतस्तु ज्ञानना- श्यत्वेऽज्ञानत्वमेव प्रयोजकं । अज्ञाननाश्यत्वे च तत्प्रयुक्तत्वमिति न कोपि दोषः । नन्वज्ञानस्य तत्प्रयुक्तत्वेऽनिर्वाच्यतैव न स्यादि- ति चेन्न । किमनिर्वाच्यत्वं तत्प्रयक्तताप्राप्यत्वं । येन तन्निवृत्तौ त- निवृत्तिरापद्यते । किन्तु तदसत्त्वादिग्राहकप्रमाणभावस्य । तच्चाज्ञाने पि तुल्यं । वस्तुतस्तु भावत्वमेवाज्ञानस्य । अर्थक्रियाकारिताया एव भवतारूपत्वात् ततोन्यभावत्वस्य दुर्निरूप्यत्वमविद्यालक्षणविचारे प्रपंचितमस्माभिः । नचैवं शुद्धस्य जगदुपादानत्वं तत्कर्तृत्वं च ना. स्तीति मते तस्य भावत्वानुपपत्तिरिति वाच्यं । सर्वाश्रयत्वस्वाश्रय निरूपितानवच्छिन्नतादात्म्यप्रति योगित्वान्यतरसंन्धेनार्थक्रियाकारि त्ववत्ताया भावत्वरूपत्वोपगमात् । वस्तुतः तस्यापि जगत्कारण- तापक्ष एव साधीयानित्यन्यत्र प्रपंचितं । “परोमात्रया" इत्यादिश्रुतिः परमात्मपरा नास्मत्प्रतिकूला । “जुष्टं यदापश्यत्यन्यमीशं" इत्या- दिश्रुतावन्यपदं देहायन्यपरं । “समाने वृक्षे पुरुषो निमग्न इति पूर्व मंत्रे देहादिविविक्ततयानुपलभ्यत्वरूपं अश्रुतायाः उक्तत्वेन तदानु- गुण्यानुरोधात् परमसाम्यंचाभेद एव । निरञ्जनः परमं साम्यमुपै- तीत्यनेन सामंजस्ये परमपदवैयर्थ्यात् । ब्रह्मभाववोधकश्रुत्यन्तरा- विरोधाचेति। ॥ इति श्रुतिरत्नप्रकाशिका ॥

॥ श्रियै नमः॥ वन्दे वन्दारुमन्दारमिन्दिरानन्दमन्दिरम् । वृन्दावनएरं भक्तबृन्दावनपरं नुमः ।। इह बलु परमपुरुषार्थसाधनमात्मतत्वज्ञानमामनन्ति न्याय वेदान्तनिष्णाताः । तच्चात्मतत्वं कर्तृत्वभोक्तृत्वादिनिखिलानर्थवि रहेतसच्चिदानन्दघनप्रत्यगभिन्नब्रह्मात्मकमिति तनिरूपणीयं । नि- रूपणं च साधकप्रदर्शनबाधकनिराकरणाभ्यां तत्र साधकाः “असं. गोह्ययं पुरुषः सत्यं ज्ञानमनन्तं ब्रह्म सदेव सौम्येदमग्रआसीत् नेहना नास्ति किञ्चन नात्रकाचनभिदास्ति तत्त्वमसि" इत्यादयो निश्चितता. पर्यकोपनिषद एव । तत्रच निश्चितप्रामाण्यकप्रमाणान्तरविरोधेता- त्पर्यानिश्चयात्तदविरोधः तावदुपपादनीयः। सच यावत्प्रत्यक्षादि- ग्राह्यद्वैतस्य पारमार्थिकत्वं ननिराक्रियते तावहरुपपाद इति तस्य मिथ्यात्वप्नुपपादनीयं अतस्तदेवादौ स्वपक्षाशुपन्यासेन प्रपंचाते । तथाहि तत्र विप्रतिपत्तिः १ ब्रह्मप्रमातिरिक्ताबाध्यं सत्वेन प्रती १ ब्रह्मप्रमेत्यादि ॥ तत्र रजतत्वविशिष्टं तादात्म्यसंबन्धेन रजतत्वविशिष्ट संबन्धितया ज्ञायमानसर्वनिष्टत्रैकालिकसंसर्गाभावीयतादात्म्यावच्छिन्नरजत- त्वावच्छिन्नप्रतियोगिताविशिष्टं दृश्यत्वादिति विशेषानुमानं । ब्रह्मप्रमाति- रिक्ताबाध्यत्वविशिष्ट सत्त्वप्रकारकप्रतीतिविषयताविशिष्टचिद्भिन्नत्वसामानाधि करण्यरूपं तादृशचिद्भिन्नत्वं वा तत्संबन्धेन स्वविशिष्टवत्त्वेन ज्ञायमानस- कलनिष्टत्रैकालिकसंसर्गाभावीयतत्संबन्धावच्छिन्नस्वावच्छिन्न प्रतियोगितास- मानाधिकरणं दृश्यवृत्तित्वादिति । तत्र विशेषानुमाने शक्तिरूप्यं न दृष्टा- न्तः । किंतु घटादिः । रजतं त्रिविधं । व्यावहारिकं प्रातिभासिकं उभयसा- धारणं । रजतपदशक्यतावच्छेदकं च तृतीयं व्यावहारिकमेवेति । तत्र स्व- त्वस्य व्यावहारिकप्रातीतिकमात्रवृत्तिरजतत्वयोरनुगतत्वात् । प्रातीतिकर- जतत्वे उपादीयमाने व्यावहारिकरजतस्यावर्जनीयतया रजतावयवस्यापि यावदन्तर्गततया तत्र चानुगतधर्मावच्छिन्नामावस्यानुमानाप्रागसिद्धत्वे दृ- ष्टान्ते साध्याप्रसिद्धितादवस्थ्यं । नच सत्त्व, नुगतधर्मोपलक्षितप्रातीतिकरज- तत्वावच्छिन्नाभावस्य व्यावहारिकरजतावयवेपि सत्त्वान्नाय दोषः ।।

॥ पक्षतावच्छेतकविचारः॥ त्यहं चिद्भिनं मिथ्या नवा विमतं मिथ्या नवेत्यादिः। अत्रच पक्ष- तावच्छेदकारच्छेदन साध्यसिद्धरुद्देश्यत्वे सामानाधिकरण्येन साध्य सिद्धावपि सिद्धसाधनमिति मते शुक्तिरूप्यादौ तद्वारणायाबाध्या- न्तं पक्षविशेषणं । तुच्छे ब्रह्मणि च बाधवारणायाहन्ति भिन्नान्ते । उक्तं हि दीधितिटीकायां अत एवातिप्राचीनाः अवच्छेदकावच्छेदे- नानुमिताबंशतः सिद्धसाधनस्य दोषत्वमंगीकुर्वन्तो ध्वनिव्यावर्तनाय शब्दा नित्यत्वानुमाने वर्णात्मकत्वं पक्षे निवेशयन्तीति । यदिच पक्षतावच्छेदकावच्छेदेन साध्यसिद्धरुद्देश्यत्वे सामानाधिकरण्येन साध्यसिद्ध्या न सिद्धसाधनमिति नव्यमतमाद्रियते तथोद्देश्यताया- नच सत्त्वविशिष्टावच्छिन्नाभावनिवेशे प्रयोजनाभावादिति वाच्यं । पूर्व क्षणवृत्तित्वविशिष्टरजतत्वावच्छिन्नाभावस्य कालिकत्वाभावेपि तत्तदवयक वृत्तित्वविशिष्टरजतत्वावच्छिन्नामावस्य तादृशयावद्वृत्तित्वेपि रजतत्वघटत्वा- भ्यां रजतसामान्याभावं निरुक्तमादाय सिद्धसाधनवारणाय स्वत्वाविशिष्टाव- च्छिन्नाभावस्य निवेश्यत्वात् । नच तदर्थं स्वत्वपर्याप्त्यधिकरणधर्मपर्याप्तप्र- तियोगितावच्छेदकताभाव एव निवेश्य इति वाच्यं । तावतापि स्वत्वपर्या- प्त्यधिकरणीभूतप्रातीतिकरजतत्वेन व्यावहारिकरजताभावमादायोक्तदोषा- वारणेन तदर्थ उक्तामावस्यैवोपादेयत्वादिति चेन्न । स्वावच्छिन्नवत्त्वेन प्रती. यमानयावन्निष्टाभावीयत्व स्वावच्निन्नत्वोभयसंबन्धन स्वविशिष्टप्रतियोगिता- समानाधिकनणत्वस्य साध्यत्वेनानुपपत्त्यभावात् । स्वत्वस्यानुगतत्वेपि तदा- श्रयैकव्यक्तरेव संबन्धद्वयप्रतियोगिविधया निवेशात् । संबन्धेन स्वत्वं परि- चायकं । यथाहि स्वप्रतियोगिवृत्तित्व स्वसामानाधिकरण्योभयसंबन्धेन भेद- विशिष्टान्यत्वं उभयवृत्तित्वमिति श्रीमद्गदाधरभट्टैस्सिद्धान्तलक्षणे व्युत्पत्ति- वादे चाभिहितं। प्रथमसाध्ये रजतत्वेन घटाभावप्रतियोगितासिद्ध्याऽर्थान्तर वारणाय स्वव्यधिकरण स्वावच्छिन्नप्रतियोगितावदवृत्तित्वं पक्षीभूतनिरुक्त- रूपे विशेषणं देयं । द्वितीयसाध्ये तु घटत्वादिरूपे पक्षे पारमार्थिकत्वेन शुक्तिरूप्याभावप्रतियोगितायाऽर्थान्तरवारणाय साध्यघटकप्रतियोगितायां खसामानाधिकरण्यं देयम् ॥

॥ श्रुतिमतोद्योते ॥ मबाध्यान्तं नोपादेयमेव । इतरविशेषणद्वयं तु तुच्छे ब्रह्माणे च बाध- वारणायोपादेयं । तत्सामानाधिकरण्येन तथात्वे तु उक्ताबाध्यान्त- मात्रं पक्षविशेषणं । यद्यपीदं सिद्धसाधनमुद्भावनीयं न माध्केन । नापि वैशेषिकादिना शुक्तिरजतादौ माध्वरळीकत्वस्य तार्किकैः पारमार्थि कत्वस्यैवाभ्युपगमात् । प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्व- मात्रस्य साध्यतायां तस्य शुक्तिरजतादौ माध्वैरभ्युपगमपि ब्रह्मप- मातिरिक्ताबाध्यत्वस्यापि तत्र तैरभ्युपगमेन सिद्धसाधनानुद्धारात् । स तादात्म्यपर्यवसितस्य सत्त्वेन प्रतीत्यर्हत्वस्यापि तद्यावृत्तत्वाच तथापि शुक्तिरजतादेरनिर्वचनीयतावादिना तांत्रिकैकदेशिना विवा- द एवाबाध्यान्तस्य पक्षविशेषणत्वान्नासंगतिः । न चैवमपि ब्रह्मण्या- रोपितक्षणिकत्वादी सिद्धसाधनं दुर्वारं । तस्य क्षणित्वाभावप्रकार- कब्रह्मज्ञानबाध्यतया ब्रह्मप्रमातिरिक्तावाध्यत्वादिति वाच्यं । तस्य ब्रह्मान्यविषयकज्ञानाबाध्यत्वरूपपर्यवसितपक्षविशेषणस्यावश्यकत्वे- न दोषानवकाशात् । नच तथापि मूलाविद्यानिवर्तकब्रह्मज्ञानाव्य- वहितपूर्ववृत्तिपातिभासिकविशेषे सिद्धसाधनमशक्यवारणमिति वा- च्यं । अबाध्यान्तेन ध्वंसो ज्ञानं चेत्येतदन्यतरजन्यध्वंसप्रतियोग्य- ज्ञानमयुक्तान्यत्वस्य विवक्षितत्वात् । ब्रह्मान्यविषयकज्ञानमित्यत्र परैश्च भ्रमजनकाज्ञानस्यानिर्वाच्यत्वानभ्युपगमात् उक्तविशेषणस्य तत्साधारण्येपि न क्षतिः। ज्ञाननिवर्त्यत्वरूपमिथ्यात्वस्य साध्यता- यां उक्तान्यतरजन्यध्वंसप्रतियोग्यज्ञानभिन्नत्वे सति तत्प्रयुक्तान्य- त्वं पक्षविशेषणं तेन शुक्तिरजताधारोपकारणीभूताज्ञनादौ न सि- द्धसाधनं । उक्त प्रातिभासिकविशेषप्रयोजकाज्ञानं न ब्रह्मज्ञाननाश्यं तदसमानविषयकत्वात् । किंतु जीवेशभेदाधनाद्यन्तरवन्मूलाज्ञान- नाश्यमेव । नचैवमज्ञानस्य स्वसमानविषयकज्ञाननाश्यतानियमो न स्यात् । उक्त ज्ञान एव व्यभिचारादिति वाच्यं । तादृशप्रातिभासिकम- न्यत्र विवेचितं । संप्रदायविदस्तु क्षणिकत्वादेरतीन्द्रियघटितपदार्थत्वे.

॥ पक्षतावच्छेदकविचारः ॥ ८१ नातीन्द्रियतया परोक्षेऽन्यथाख्यातेरेवाभ्युपगमेन च क्षणिकवादिन प्रातिभासिकमित्याहुः । देहात्म्यैक्यादिकं च न तांत्रिकानुयायिमते- निर्वाच्यं । तेनाहं मनुष्य इत्यादिज्ञानस्याप्रामाण्यानभ्युपगमादिति न तत्रसिद्धसाधनं शक्यं । यत्तु शुद्धब्रह्म वृत्तिविषयो नेति मते विय. दादेरपि ब्रह्मप्रमान्यकाध्यत्वात् पक्षालाभ इति । तन्न युक्तं । तन्यते उपहितब्रह्मविषयकज्ञानस्यैव ब्रह्मप्रमातिरिक्तत्यनेन विवक्षिततया तदबाध्यत्वस्य वियदादिसाधारणबात् । सरकारकज्ञानाबाध्यत्वं तु न विवक्षणीयं । तत्त्वे त्वोपलक्षितनिर्विकल्पकधीबाध्येनायं स इत्या- दिभ्रमसिद्धभेदेपि सत्त्वात् । वस्तुतस्तु जीवत्वब्रह्मत्वाद्युपलक्षित- ब्रह्मविषयकज्ञानाबाध्यत्वमेवावाध्यान्तेन विवक्षणीयं । तच्च जीवत्व ब्रह्मत्वाधुपलक्षितब्रह्मविषयिताशून्यधीः ध्वंसश्चेत्यन्यतरजन्यनाशप- तियोग्यज्ञानप्रयुक्तान्यत्वं । तेन ब्रह्मत्वज्ञानत्वोपलक्षितलक्षितयोर्भ दस्यापि तदुपलक्षितब्रह्ममात्रविषयकनिर्विकल्पकधीबाध्यत्वात् पूर्व मतपि तत्र सिद्धसाधनता दुर्वारोत शङ्कानवकाशः । एतादृशं च ज्ञानं जीवब्रह्मादिवादिनः यद्यपि तांत्रिकस्याननुमतं । तथाप्युक्तनिरूपिः तत्वद्वयशून्यविषयताशालिज्ञानं तस्यापि सम्मतमेव । विस्तरस्तु शा: स्त्रारम्भणे द्रष्टव्यः । यदिचाज्ञानमपि स्वप्रागभावध्वंसः घटादिवसो ऽभाव एवेति मन्यते तदा ध्वंसपदेन ज्ञानान्यध्वंसो विवक्षणीयः । यद्वा ब्रह्मविषयताधीजन्यत्वध्वंसत्वावच्छिन्नजनकतानिरूपितजन्य- त्वान्यतरनाशप्रतियोग्यज्ञानप्रयुक्तान्यत्वमबाध्यान्तेन विवक्षणीयमि- ति दिक् । यत्तु ब्रह्मप्रमेत्यत्र प्रमापदस्य सप्रकारकयथार्थज्ञानपरत्वे वियदादीनां तदन्यब्रह्मनिर्विकल्पकवाध्यत्वात्पक्षालाभः । सप्रकार- कज्ञानमात्रस्य प्रमात्वासंभवश्च । नच प्रत्यक्षादीनां व्यावहारिकप्रमा- णत्वेन तज्जन्यज्ञानानामपि व्यावहारिकप्रमात्वमस्त्येवेति वाच्यं । तथात्वे इयं शुक्तिरित्यादिज्ञानानामपि ब्रह्मममात्वेन तद्वाध्य शु- क्तिरजतादेः पक्षतापत्तावंशतः सिद्धसाधनस्य दुष्परिहारत्वापत्तेः । 11 . (२ ॥ श्रुतिमतोद्योते ॥ निष्पकारकज्ञानपरत्वे तत्ववादिना निष्प्रकारकज्ञानानंगीकारात् तं प्रत्याश्रयासिद्धेः। नैयायिकैरपि ब्रह्मविषयकनिष्प्रकारकज्ञाना- नंगीकारेण तन्मते प्याश्रयासिद्ध्यापत्तेः । अतो ब्रह्मविषयकप्रमा- भिन्नज्ञानमेव ब्रह्मप्रमेत्यनेन विवक्षितमिति केनचिदुक्तं तन्न। नैया यिकं तत्ववादिनं च प्रति विवादे उक्तविशेणस्थानुपादेयत्वात् । अख्यातिवादे आश्रयासिद्ध्यनवकाशाच्च । तत्ववादिशब्देन तांत्रि. कानुयायिविवक्षायां नैयायिकरीत्यादेरसंगतिरेव । अस्तुवा यथाकथं- चित् तथापि प्रमापदस्य भ्रमभिन्नार्थकत्वे ब्रह्मपदवैयर्थ्य दुर्वारेमव । सिद्धान्ते तु प्रमापदस्यान्याविषयकार्थतया ब्रह्मपदसार्थकता बोध्या। विमतत्वं च यां कांचिद्विपतिमादाय ब्रह्मणि शुक्तिरूप्यादौ चाति- प्रसक्तं । उक्तरूपावच्छिन्नविमतिविवक्षणे चोक्तरूपस्यैव पक्षताव- च्छेदकत्वसंभवादितरांशोपादानमनतिप्रयोजनं । तथापि शुक्तिरू- प्याविषयिणी यां कांचिद्धियं वियदादिसर्वविषयिणी तद्व्यक्तित्वे- नोपादाय तद्धीविषयतयोपलक्षणविधया पक्षतावच्छेदकत्वानुसरणा- भ दोषः । तस्यां विशेषणविधया पक्षतावच्छेदकत्वे विशिष्टविशेष्य कबुद्धौ विशेषणे तत्संबन्धेन विशेष्यतावच्छेदकावच्छेद्यत्वं प्रतीयते । व्याप्यत्तेश्च नावच्छेदकत्वमंगीक्रियते इति मिथ्यात्वस्य तत्प्रति- योगिखरूपसम्बधस्य व्याप्यवृत्तेरुक्तपक्षतावच्छेदकत्वमंगी क्रियते । तबुद्ध्या समानकालीनघटांश विद्यमानस्य वक्ष्यमाणप्रतियोगित्वादि- रूपमिथ्यात्वस्य पक्षतावच्छेदकीभूततद्बुद्धिविषयत्वसमानकालीनत्वं विषयतायाः ज्ञानकसमानकालीनतामते वाधितमित्यनमितेः भ्रम- त्वापत्तेस्तदुपेक्षणमिति केचित् । यत्तु पक्षतावच्छेदकसामानाधिकर- ण्येन साध्यसिद्धिरूपानुमित्यनुरोधेनानुमितिकाले सत एव धर्मस्य पक्षतावच्छेदकत्वमुचितं । ब्रह्मप्रमेत्याद्यनुगतधर्माश्रयविमतिः विम- तिविषयत्वं वा पृथिवीत्वजलत्वाद्यननुगतधर्माश्रयविमतिविषयत्वं वा पक्षतावच्छेदकं नानुमानकालेस्ति । विमतेः समयबन्धसभ्यानुचि- ।

॥ पक्षतावच्छेदकविचारः॥ येयसंचरणादिना व्यवहितत्वात् । विषयतायाश्च विषयिसमानका- लीनत्वनियमादित्यनुशयेन विमतेस्तद्विषयत्वस्य वोपलक्षणविधया पक्षतावच्छेदकत्वानुसरणं । ननु पक्षतावच्छेकाभावे पक्षतावच्छेदक. विशिष्टहेतुज्ञानरूपपक्षधर्मताज्ञानं न स्यादिति चेन्न । स्वरूपसत्पक्षता- वदर्मिवृत्तित्वज्ञानस्यैव पक्षधर्मताज्ञानत्वात् । न चावच्छेदकासत्त्वे प- क्षतानि कथं वर्ततामिति वाच्छं । विषयजन्यज्ञानं प्रत्यक्षमिति लक्षणे विषयत्वेनाभिमते घटादौ स्वज्ञानपूर्व विषयत्वस्याभावोप विषयत्वे. नावच्छंद्याया स्वज्ञान प्रति जनकतायाः सत्त्वमिवोपपत्तेः । वस्तु. तस्तु उत्सर्गतो विशेषणावगाहित्वरूपप्रमाणत्वस्य भाववाधोत्र दुर्वा- रः। अत एव गन्धप्रागभावावच्छिन्नो घटो गन्धवानित्यत्र बाध उक्तः । उपलक्षणत्वे तु तदसंभवः । अतो विमतिविषयत्वज्ञानं त- द्विषयत्वं वा पक्षतावच्छेदकं । न्यायवाक्यजन्यपरामर्शपूर्वक्षणे विम. तिज्ञानं तदुत्तरक्षणे च परामर्शः तदुत्तरक्षणेऽनुमितिरिति पक्षतावच्छे- दकानुमित्योः समानकालत्वोपपत्तिरिति तदसत् । यतस्तद्धर्मावशि- टविशेष्यकानुमितौ तद्धर्मसाध्ययोः समानकालत्वभानानुरोधेन तयो स्समानकालत्वापेक्षायामपि तद्धर्मानुमित्योः समानकालत्वापेक्षया न किंचिदीजमस्ति । तथासति भाविगन्धविशिष्टे रूपवत्तानुमितेरि. दानींतनाया अप्यनुपपत्तेः। एतेन परामर्शकाले पक्षतावच्छेदकाभावे तद्विशिष्टतमत्ताज्ञानरूपपरामर्शानुपपचिरूपशङ्का निरस्ता। खरूप. सत्पक्षतावद्धर्मित्तिताज्ञानस्यानुमितिहेतुत्वे द्रव्यं धूमवदिति पराम- र्शात् पर्वतो वह्निमानित्यनुमित्यापत्तिः उपलक्षणविधया पक्षतावच्छेद- कावच्छिन्नविशेष्यताकपरामर्शस्य हेतुत्वं च परामर्शकाले पक्षताव- च्छेदकाभावादनुपपन्न। किंच नात्र पक्षतावच्छेदकविशिष्टे पक्षेहेतु- मचाज्ञानासंभवोपि पक्षतावच्छेदकहेत्वोः समानकालत्वस्य निर्वा- धत्वात् । अत एव न प्रमाणस्वभावबाधोपि । अपिच अनुमितिविविधा पक्षतावच्छेदकोपलक्षिते साध्यावगाहिनी तद्विशिष्टे पक्षे साध्यावगाहि- - ॥ श्रुतिमतोद्योते॥ नीच। तत्राद्याया उद्देश्यत्वे असंकीर्णबाधासंभवपि द्वितीयाया उद्दे- श्यत्वे तत्संभवेन अत एवेत्युपष्टम्भसंगतिः। नच यद्धीविषयत्वमित्या- दिना त्वदुक्तरीत्या पक्षतावच्छेदकीभवद्विमत्यसमानकालीनघटादाव- नुमितेः भ्रमत्वापत्तिवारणायैव विमतिविषयत्वज्ञानस्य पक्षतावच्छेद कानुसरणमावश्यकमिति वाच्यं । एवमपि विमतिज्ञानासमानकालीन- घटायंशेनुमितेः भ्रमत्वापत्त्या विमतिज्ञानविषयत्वस्यापि विषयविशे- षणविधया पक्षतावच्छेदकत्वासंभवात् । तथाचोक्तं विमति ज्ञानस्य न्यायवाक्यप्रयोज्य परामर्शपूर्वक्षणे कल्पनं तस्य तद्विषयत्वस्य वा प- क्षतावच्छेदकत्वानुसरणं च निरर्थकमेव । किंच त्वदुक्तविमतिज्ञान- स्य तद्विषयत्वस्य वा विशेषणविधया पक्षतावच्छेदकत्वे पूर्वोत्तरी- त्या नुमितेः भ्रमत्वापत्तिः। मिथ्यात्वस्य व्याप्यवृत्तितामाश्रित्या- र्थान्तरापत्तिश्च । मन्मते वनवच्छिन्नविशेषणतायाः साध्यतावच्छे- दकसंबन्धत्वोपगमाददोषः। अव्याप्यत्तितानिर्वाहकविलक्षणावच्छे दकत्वानिरूपकत्वानवच्छिन्नत्वं । तद्विशिष्टविशेषणता च साध्यताव- छेदकसंबन्धः । विशेषणीभवद्धर्मगतं चावच्छेदकत्वव्याप्यवृत्त्यादि. निरूपितावच्छेदकतासाधारणमिति विमतिज्ञानस्य तद्विषयताया वा विशेषणविधया पक्षतावच्छेदकत्वेपि नार्थान्तरमिति यदि विभाव्यते तदा विमतेः तद्विषयत्वस्य त्यागो निर्बीज एव । मागुक्तं बीजान्तरं तु विमतिज्ञानादित्यागेपि भवत्येव हेतुरिति दिक् । प्रत्येकं वा विपति पत्तिः वियन्मिथ्यान वा पृथिवी मिथ्या वा न वेत्यादिः। एवं विय दादेः पक्षत्वेपि नघटादौ संदिग्धानेकान्तिकता पक्षसमत्वाद्धटादेः । तथाहि पक्षे साध्यसन्देहस्यानुगुणत्वात्पक्षभिन्न एव तस्य दूषण- त्वं वाच्यं । अत एवोक्तं साध्याभावनिश्चयवति हेतुसन्देह एव सं दिग्धानकान्त्यमिति । पक्षत्वं साध्यसन्देहवत्वं । तच्च घटादिसाधा- रणं । अतस्तत्र सन्दिग्धानेकान्तिकत्वं न दोषः। पक्षसमत्वोक्तिस्तु प्रतिज्ञाऽविषयत्वमात्रेण । नच तर्हि प्रतिज्ञाविषयत्वमेव पक्षत्वमिति ॥ पक्षतावच्छेदकविचारः॥ वाच्यं । स्वर्गानुमाने तदसंभवात् । एवंविधविप्रतिपत्तौ सत्यां एवं प्रमाणाभिधानावसरे प्रत्येकं वियदादिधर्मिनिर्देशेन प्राप्तकालत्वं । यत्तु प्रकृतानुमित्युद्देश्यतावच्छेदकधर्मवत्त्वं पक्षत्वमिति । तन्न । सा- ध्याभाववत्तया गृह्यमाणधर्मिप्रतीताज्ञानस्यानुमितिविरोधित्वे तादृश- धर्मिणः प्रकृतानुमित्युद्देश्यत्वतदभावयोरकिंचित्करत्वात् । नच पक्षे साध्य सन्देहदशायामनुमित्युपपत्त्या पक्षातिरिक्ते धर्मिणि साध्याभा- वावगाहित्वमेव व्यभिचारज्ञाननिष्ठप्रकृतानुमितिप्रतिबन्धकताया अव- च्छेदकतोपेयत इति पक्षातिरिक्ते साध्याभावसंशयात्मकस्य व्य- भिचारज्ञानस्यानुमितिविरोधित्वं निप्पत्यूहमिति उक्तस्थले संदि- ग्धानकान्तिकता दुर्वारैवेति वाच्यं । यतो व्यभिचारज्ञानस्य न सा- क्षादनुमितिविरोधित्वं मानाभावात् । उक्तं हि करणे पूर्णे किं न सि- द्धयेदिति। किंतु तज्जनकव्याप्तिग्रहविरोधितयैव । तत्र साध्याभाववि षयतानिरूपितधर्मिविषयतायाः पक्षविषयताव्यावृत्तायाः विरोधि तावच्छेदककोटिनिवेशेसर्वेषामपि धर्मिणां कदाचिदनुमित्युद्देश्यता संभवेन विरोधितावच्छेदकस्यैव दुर्वचत्वापत्तेः। विशिष्य यात्किंचि धर्मिविषयताव्यावृत्ताया एव धर्मिविषयतायाः विरोधितावच्छेदक- कोटिनिवेशस्तु विनिगमनाविरहादयुक्तः । तद्धर्मिपक्षकानुमितौ व- द्धर्मिकसाध्यसंशयस्य दूषकत्वापादकश्च। तस्मात्साध्यप्रकारतानिरू- पितसाध्याभावप्रकारतानिरूपितधर्मिविषयताया एव विरोधिताव- च्छेदककोटौ निवेशनीयत्वात् नासन्दिग्धानकान्तिकत्वं । वस्तुतस्तु अनुकूलतर्कास्फूर्ती पक्षीयव्यभिचारसंशयोपि व्याप्तिग्रहप्रतिबन्धको भवत्येव । यदाहुः “अनुकूलतास्फूतौ सन्दिग्धानेकान्तिकत्वस्येष्ट त्वात् । अत एव पक्षस्साध्यारिक्तपक्षधर्मतातिरिक्तधर्मवान् मेयत्वा- दित्यनुकूलतर्कविरहिणोधिप्रतिरोधयोरनवतापि पक्ष एवं सन्दि ग्धानेकान्तिकताया अप्रयोजकतांगीक्रियत" इत्यादि । तथाच अनु- कूलतर्काणां वक्ष्यमाणत्वात नासंदिग्धानेकान्तिकत्वमिति विभाव- ८१ ॥ श्रुतिमतोद्योते ॥ नीयं । प्रमाणं चात्र विमतं मिथ्या दृश्यत्वाजडत्वात्परिच्छिन्मत्वात् शुक्तिरूप्यवदित्याद्यनुमानमेव । नावयवेष्वाग्रहः। ननु किमिदं मिथ्या- त्वं न तावदत्यन्तासत्त्वमपसिद्धान्तात् । नाप्यनिर्वाच्यत्वं तस्या- निरुक्तेः । सत्त्वात्यन्ताभावासत्वात्यन्ताभावोभयवत्वं तथोक्ततरवि- शिष्टापरं वातत । सत्त्वासत्वयोरेकतरनिषेधेऽपरसत्त्वावश्यकतया व्या- घातात् । निर्धर्मकब्रह्मवत्सत्त्वराहित्येपि सद्रूपत्वेनामिथ्यात्वोपपत्त्या- र्थान्तरात् । शुक्तिरूप्ये बाध्यत्वरूपासत्त्वव्यतिरेकासिद्ध्या साध्यवै. कल्याञ्च । नच प्रकृतसाध्यघटकसत्त्वात्यन्ताभावस्य सत्त्वप्रकारकधी- विशेष्यताव्यापकाभावप्रतियोगित्वरूपतया असत्त्वात्यन्ताभावस्य च सत्वेन प्रतीयमानत्वपर्यवसितत्वेन उभयोश्च शुक्तिरूप्यादावेव सत्त्वेन न व्याघातः नवा साध्यवैकल्यमिति वाच्यं । अत्यन्तासतः प्रतीत्यं- गीकारे शब्दादितः सत्त्वेनापि प्रतीतिसंभवेन शून्यवादापत्तिवार- णायोपात्तस्य निरुक्तांशस्य निरर्थकत्वापत्तेः । तुच्छं सदिति प्रती- तेस्संभवेपि विषयत्वादिना तुच्छावगाहिन्या विषयस्सन् शशशृंगं सदित्यादिप्रतीते: दुरपह्नवतया सत्त्वेन प्रतीतेर्निरपवाद इत्यादीति चन्मैवं । असद्विलक्षणत्वं हि सत्तादात्म्यं । नचैवं शुक्तिरूप्यादौ सा- ध्यवैकल्यं । शुक्तिरूप्यादेरनिर्वाच्यत्वादिना तांत्रिकैकदेशिना वि- वाद एव उक्तोभयसाध्यवत्वोपगमात् । माध्वं प्रति प्रयोगे च स्व- प्रकारकधीविशेष्यताव्यापकात्यन्ताभावप्रतियोगित्वमात्रस्य साध्य- त्वानोक्तदोषावकाशः। अत्यन्तासत्त्वमादायार्थान्तरं तु सत्तादा- त्म्यरूपासद्विलक्षणत्वस्य एक्षतावच्छेदककोटौ निवेशो न संभवति । घटाधवच्छिन्नचित्येव गुरुत्वाधारोपस्वीकारेण ब्रह्मणो जगदुपादा- नत्वेन परोक्षभ्रमविषयेनांशतो बाधः । नाव्यापकबर्हिभावः। सत्तादा- त्म्यस्य स्वस्मिन्नपि संबन्धाभ्युपगमानोक्तदोषः। सत्तादात्म्यस- वान्यतरत्वं वा तत् । नच इदं रजतं सदित्यध्यासबलेन शुक्तिरजता- 3 । मिथ्यात्वविचारः ॥ कार्य। एकत्रान्यथाख्यातिः अपरत्रानिर्वचनीयख्यातिरित्यत्र विनि- गमकाभावादिति वाच्यं । शशशृङ्गं सदिति प्रतीतेरलीकविषयत्वा- सिद्धेः। तथाहि किमलोकं शशशब्दार्थः शृङ्गपदार्थः समासार्थो वा । नाद्य द्वितीये पदान्तरवैयापातात् वाच्यतावच्छेदकानिरूप- णाच । शशीयत्वसमानाधिकरणशृङ्गखादिकमलीकखान तथा। प्र- त्तिविषयवृत्तरेव तथालात् । नाप्यखण्डधर्मान्तरं । शब्दादन्यतः त- प्रतीत्यभावेन शब्दादेव तत्प्रतीतेर्वक्तव्यतया समयग्रहार्थ शब्दान्त- रापेक्षापरंपरायाः अनवस्थाप्रसंगात् । विशेषदर्शिनामेतादृशवाक्यज- न्यप्रतीत्युत्तरं शृङ्गं शशीयं नेति बाधापत्तेश्च । न ह्यसति विशेषदर्श ने गोशृङ्गं सदिति प्रत्ययवत्तादृशप्रत्ययस्य स्वविरोधिज्ञानप्रतिबन्ध रूपकार्यनिर्वाहकतायामस्ति मनागपि कश्चिद्विशेषः । अन्यथा अनुभ- वविरुद्धकल्पनापत्तेः। अथोच्यते शशीयवशृङ्गलाभ्यामलीकं प्रतीय- त इति। तन्न। असख्यातिविलोपापत्तेः। अत एवन तृतीयः । शृङ्गं शशीयमित्यादौ गत्यभावाच्च । उद्देश्यतावच्छेदकावच्छेदेन विधेया- वगाहिनि विषयस्सन्नित्यादिप्रत्ययेपि न विषयत्वेन सद्भानं । किंतु विषयवत्वव्यापकतायाः सति तत्तादात्म्यमानमुपेयते । सा च व्या. पकता मतभेदेन प्रातिभासिकी व्यावहारिकी वेत्यन्यदेतत् । भ्रम- खमपि तादृशज्ञानस्य सर्वसंमतमेव । नन्वेवमत्यन्तासतः सत्त्वेन प्र- तीतिरप्राप्तवेति यथाश्रुतमेव रमणीयमिति चेत्सत्यं । एतत्कल्पे वि- षयस्सन्नित्याकारकमतीत्या सत्यपि सत्त्वेन प्रतीति कश्चिद्रूयात् तं प्रत्येवोक्तरीत्यनुसरणं । तत्रापि तद्धीविषयत्वेन भासमाने तुच्छा- न्यस्मिन्नेव सत्त्वं भासत इत्युच्यते तदा यथाश्रुतमेव रमणीयं । के- चित्तु सत्त्वेन प्रतीत्यर्हखसदसदुभयादिवाचकपरादिपदाभिन्नपदवा- च्मतावच्छेदकरूयावच्छिन्नत्वेन प्रतीयमानलं । नचैवं सति कालसं- बन्धि सदिति प्रतीतिमादायोक्तदोषतादवस्थ्यं । नास्ति निय- मा सत्तादात्म्यशून्यत्वमेकासत्पदवाच्यतावच्छेदकं. न कालसंव- .

८८. ॥ श्रुतिमतोद्योते ॥ न्धित्वादिकमिति वाच्यं । सत्त्वेन प्रतीयमानखमित्यत्र सत्त्वशब्देना- सद्यावर्तकवेनाभिमतसत्तादात्म्यव्यक्तीनामकालसंबन्धिनामेवोपा - देयतयोक्तदोषानवकाशात् । शशशृङ्ग सदित्यादिप्रतीतिमादायोक्त- दोषस्तु प्राग्वन्निरसनीय इत्याहुः । यद्वा सत्तादात्म्यप्रकारकापरोक्ष- विषयत्वं तद्रुखाद्यप्युक्तरूपेण ईश्वराद्यपरोक्षविषय एव । न चेश्वरा- उपरोक्षभ्रमबाध्यखेन दृश्यमवगाहते। येन विपर्ययस्स्यात् । यत्तु सद्रूपप्रतियोगिकखविशिष्टतादात्म्यस्य सद्रूपे अभावेन तस्यासत्त्वाप त्तिः। इष्टापत्तौ तत्सत्त्वबोधकानां सत्यमित्यादिश्रुतीनामपामाण्याप- तिरिति तदसत् । सत्प्रतियोगिकतादात्म्यशून्यत्वस्यैवासत्त्वरूपखे- न सत्प्रतियोगिकत्वविशिष्टतादात्म्यभानाभ्युपगमे प्यसत्त्वापादना- योगात् । प्रकृते तादृशशरीरे उक्तासत्त्वाभावस्य निवेशेपि श्रौतस- त्यादिशब्दानामबाध्यार्थकतयानुपरोधाच नच विशिष्टस्य बन्मतेऽति- रिक्ततया घटादितादात्म्यापन्नस्य सतः घटादितादात्म्यापन्नात् त. स्मादतिरिक्ततया एकेन सता सर्वानुभूतेन सर्वप्रतीत्युपपादनं तवा- पि दुर्घटं । शुद्धस्य च चाक्षुषविषयत्वे मिथ्याखापत्तेः न तेनाप्युक्त- प्रतीत्युपपादनासंभव इति वाच्यं । अविद्योपहितसद्रूपस्यैव सर्व श्यानुगतस्य घटस्सन्नित्यादिसर्वप्रतीतिविषयत्वोपगमेन अनुगतव्य- वहारानुपपत्तेरभावादनेकसद्व्यक्तिकल्पने गौरवाच्च वियदादिभेदभि- नब्रह्मस्वरूपानन्त्यस्य तव मम च बाध्यपि तदन्यवियदादिसमसं- ख्याकसद्व्यक्तिकल्पनागौरवं तव मते दुर्वारं । एवं सति विशेषाभेदेपि व्यक्तित द्विशेषद्वयस्यावश्यकत्वात् । प्रपंचितं चैतदन्यत्र । सदसद्विशे- व्यकमतीतावुपहितविषयत्वेपि तद्विशेषणप्रतीतौ शुद्धस्यैव विशेषणव- संभवाच। दृश्यत्वं च प्रकारतानिरूपितविषयत्वं । यद्वा प्राचीनतार्कि- कमतवत्प्रकारतायाःन विषयतात्वं । अतो ब्रह्मणः न दृश्यत्वापत्तिः। यत्त्वेवं सति पारमार्थिकरजतं विनापि शुक्तौ रजतप्रतीतिव्यवहारा- दिदर्शनात्परमार्थसत्पदार्थ विनापि सत्प्रतीत्यादेरुपपत्तावति लाघव- ॥ प्रथममिथ्यात्वनिरुक्तिः।। ८९ मिति ब्रह्मापि सद्रूपं न स्यादिति । तन्न । दृश्यमानबाधकज्ञानविषयस्य ब्रह्मणो बाधकान्तराभावेन अबाध्यसप्रसक्तरप्रत्यूहत्वात् । नच शू. न्यज्ञानमेव तद्बाधकं । तस्य परतस्सिद्धौ सांवृतत्वापत्तेः । स्वतस्सि- द्धौ शून्यतायाः परिभाषामात्रत्वात् । व्यक्तीभविष्यति चेदमुपरि- शात् । सन्ति ब्रह्मणो बाध्यत्वाभावबोधिकाः “सत्यं ज्ञानमनन्तं ब्रह्म अविनाशीवा अरे अयमात्मानुच्छित्तिधर्मा असन्नेव सभवति असद्र- ह्मेति वेदचेत् अस्तीत्येवोपलव्धव्य इत्यादिश्रुतयः। सन्घट इत्यादिप्र- त्यक्षं चनातीन्द्रियवस्तुघटितबाध्यत्वाभावविषयकमित्यादिवश्यते । किंच अबाध्यवस्तु नांगीकार्यमित्यापादयता सन्घद इत्यादिपतीति- रंगीक्रियते नवा । नचेदनुभवाविरोधः । अङ्गीकारे तु साऽनुगतेकनि- चाच्यविषयिणीत्युच्यते नवा ! नोचेदनुगतप्रतीत्यनुपपत्तिः कल्पना गौरवमागतानिर्वाच्यतद्विषयकत्वेन तद्धाधकधीविषयस्स्यात् । सच्चे- त्युभयमंगीकार्य न वेति गौरवमेवेति यत्किञ्चिदेतत् । यत्त्वेवं सति सत्त्वाभावानुमानस्य लाघवेन प्रातिभासिकसत्ताभावे पर्यवसानाप- च्या जगच्छून्यमेव स्यादिति । तदपि न । शून्यस्य निरस्वरूपता- रूपत्वेनार्थक्रियानुपपत्तेः । अनिर्वाच्यतारूपत्वेत्विष्टापत्तेः । तृतीय- प्रकारस्तु शून्यतया दुर्निरूपः। यत्तु निर्धर्मकत्वाद्ब्रह्मणः सत्त्चासत्त्वा- नुमापकधर्मद्वयशून्यत्वेन मिथ्यात्वापत्तिरिति । तदसत् । सद्रूपत्वेन ब्रह्मणः सत्त्वात्यन्ताभावानधिकरणत्वात् । सद्रूपं च सत्त्वोपहित- प्रतियोगिकतादात्म्यानुयोगिकत्वं । तादात्म्यं चात्र विशिष्टकेवल भावेन बोध्यं । एवंच ब्रह्मणि सत्वस्यांगीकारे न तत्र तस्यात्यन्ता भावः स्वाश्रयवत् । स्वाश्रय इव केवलरूपेपि तदभावानभ्युपगमात् । अन्यथा गगनैकदेशवृत्तिविहंगमसंयोगादेगगनवृत्तितया गगने तदत्य- न्ताभावस्वीकारापत्तेः। तथाच ब्रह्मणि सत्यासत्त्वरूपधर्मद्वयशून्यत्त्व साधकत्वेन तदुक्तस्य निर्धर्मकत्वस्य ब्रह्मणि सत्त्वे तद्बाध्यत्वाभाव रूपसत्त्वस्यापि ब्रह्मण्यभ्युपगमसंभवेन नातिव्याप्त्यवकाशः। तदन- 12 ॥ श्रुतिमतोद्योते ॥ भ्युपगमे च तद्वदेवोक्ताभावद्वयस्यानभ्युगमसंभवेन नोक्तदोषः । यद्वा सद्रूपत्वेनेत्यस्य बाध्यत्वाभावत्वेनेत्यर्थः। तथाच ब्रह्मणि भा- वरूपधर्मानाश्रयत्वेप्यभावरूपधर्माश्रयत्वेन नातिव्याप्तिः। नोक्ता- भावस्य ब्रह्मस्वरूपत्वेन तस्मिन् तदभावोस्त्येवेत्यतिव्याप्तिः । त. द्भिन्नत्वेनैवाद्वैतहानिः भावाद्वैतपक्षेप्यभावाश्रयत्वादिना भावेन ब्रह्म- णः सविशेषत्वापत्तिः अभाववत्पदवाच्यतापि स्यादिति वाच्यं । यतस्तादृशाभावस्य ब्रह्मात्मकत्वे तादृशाभाववत्त्वोपहितसत्तादात्म्य- स्य ब्रह्मणि सत्त्वेन तत्र तदत्यन्ताभावासंप्रतिपत्तेः तस्य तद्भिन्न- त्वेपि नाद्वैतहानिः। भावाद्वैतपक्षाश्रयणात् । तादृशाभावाश्रयत्वादिकं च तादृशाभावब्रह्मोभयबहिर्भूतं । त्वन्मते भावेन सविशेषता ब्रह्मण इष्टैव । स्वसमानसत्ताकवभिन्नाभावात्मकविशेषवत्ताया एव सवि शेषतारूपत्वात् । एवं विषयादिपदवाच्यतापीष्टैवेति संबन्धः। नच ब्रह्मणोऽवाच्यत्वे सिद्धान्तविरोधः । अभावस्य स्वज्ञानाबाध्यधर्म- त्तिनिमित्तकशब्दवाच्यत्वस्यैव मतान्तरव्यावृत्तस्य तदर्थत्वात् । गुरु- चरणास्तु सत्त्वाभाव इत्यत्र सत्त्वं सत्त्वोपहिततादात्म्यं सत्ता च सिद्धान्तेऽबाध्यत्वोपलक्षितब्रह्मखरूपभूतं । परमते तु तद्घटादिरूपवि. पयसत्तात्मकं । तत्र सिद्धान्ते आनन्दो विषयानुभवो नित्यत्वं चोत सन्ति धर्मा इति पनपादिकानुसारेणोक्तसत्ताया आधिकरणत्वमाप ब्रह्मणि कल्पितं स्वीक्रियते । साचाधिकरणता आरोपोपहिते ब्रह्मण्ये- व नतु शुद्धे । सत्त्वोपहिततादात्म्यं च शुद्धपि स्वीक्रियते। एवंच स्वा- भाविकोयं सत्त्वसंबन्धिनः तदुपहितप्रतियोगिकस्यानोपाधिकस्य तादात्म्य खरूपेण भावेन' तादात्म्य प्रतियोगिव्यधिकरणोत्य- न्ताभावः सत्यशब्देन विवक्षितः । सत्तायाश्च तत्पदशक्यतावच्छेद- कत्वेन मतद्वयसाधारणरूपेण साध्यकोटौ निवेशः । नातो विशिष्य ब्रह्मसत्ताया उपादाने सिद्धसाधनं । तत्स्वरूपत्वोपादाने अंशतो बाधः । उक्तसत्तात्वेन निवेशेपि तद्धीत्यादिदूषणानवकाश इत्याहुः।

॥ प्रयममिथ्यात्वनिरुक्तिः॥ अबाध्यं सर्व प्रमेयमित्याकारकयत्किचिद्धीविषयत्वरूपं सत्त्वं तद- भावश्चात्र साध्यकोटौ निविष्ट इत्यपि वदन्ति । न चात्र कल्पे सर्व प्रमेयमित्यादिप्रतीतावबाध्यत्वेन तदुपहितब्रह्मणो विषयत्वपि शुद्ध- स्याविषयत्वात् शुद्धेऽतिव्याप्तेः । तद्धर्मप्रकारकप्रतीतौ तद्धर्मोपहित- स्यैव विषयत्वमित्यन्यत्र व्यवस्थापितत्वात् । उपहितव्याप्तिश्च शुद्ध- ब्रह्मणस्वप्रकारकवृत्तिवेद्यत्वाभ्युपमेप्यनेकत्वघटित सर्वत्वस्य तत्र बा- धितत्वेनोक्तवाक्यस्य प्रामाण्यानिवाहश्चेति वाच्यं । पदार्थतावच्छे- दकविशिष्टपरत्वशून्यतद्वाक्यतात्पर्त्य विलक्षणग्रहजन्यबोधविषयताया एव तदर्थत्वात्। नच विशिष्टार्थपरत्वशून्यतादृशवाक्यादुपलक्षणादि- शाब्दबोधासंभव इति वाच्यं । विशिष्टपरत्वशून्यतानिश्चयसहकृतवि- शिष्टशक्तिग्रहादेवोपलक्षितार्थविषयकशाब्दबोधाभ्युपगमात् । उपपा- दितं चै तदन्यत्र । सर्वपदंवा अशेषार्थपरत्वतात्पर्यग्राहकं अतो न काचिदनुपपत्तिः । नन्वेवमपि प्रथमकल्पस्य प्रतिपन्नेत्यादिना पौन- रुक्तयापत्तिरिति चेन्न । प्रतिपन्नेत्यादेरुक्तसाध्यातिरिक्तसाध्यपरता- याः वक्ष्यमाणत्वात् । यत्तु सत्त्वेन प्रतीयमानत्वं नासत्त्वं तथासत्य- सञ्चन्न प्रतीयतेति त्वदुक्तापायापादकयोविशेषप्रसङ्गादिति । तन्न । सत्तादात्म्यशून्यत्वस्यापादकत्वेन अपरोक्षप्रतीत्यविषयत्वस्य चापा- द्यत्वेन विवक्षिततयोक्तदोषानवकाशात् । अधिकमनिर्वचनीय- ख्यातौ वक्ष्यते। एवं सद्भदासद्भेदोभयवत्त्वं सद्भेदादिविशिष्टासद्भेदा- दिमत्त्वं वा। नच सदन्तरभेस्यासद्भेदस्य च सिद्धत्वात्सिद्धसाधन- ता शंक्या। सत्त्वावच्छिन्नप्रतियोगिताकभेदस्य विवक्षितत्वात् । न च घटादिनिष्ठभेदप्रतियोगितावच्छेदकता सत्त्वपर्याप्ता। तथासति भवन्मते घटो न सन्नित्यादिबुद्धेः प्रमावापत्तेः। यावन्ति सत्त्वानि तदभावकूटवद्धर्मवत्त्वं वा सद्विलक्षणत्वं व्याहत्युद्धारः प्राग्वदिति स- वमनवद्यमिति प्रथमनिरुक्तिः। प्रतिपन्नोपाधौ त्रैकालिकनिषेधपति- योतित्वं वा मिथ्यात्वं । कालिकनिषेधस्य तात्विकतेऽद्वैतहानिः ।

९२ ॥ श्रुतिमतोद्योते ॥ मातिभासिकत्वे सिद्धसाधनं । व्यावहारिकत्वे तस्य वाध्यत्वेन ता. त्विकसत्त्वाविरोधितया अर्थान्तरमद्वैतश्रुतेरतत्वावेदकत्वं च। तत्प- तियोगिनो प्रातिभासिकप्रपञ्चस्य पारमार्थिकत्वं च स्यात् । अथ प्रप- श्चाधिकरणीभूतब्रह्मानंकत्वानिषेधस्य तात्विकत्वेपि नाद्वैतहानिकर- त्वं । यद्वा तात्विक एव निषेधः। अतात्विकत्वेपि न प्रातिभासिकः किंतु व्यावहारिकः नच तर्हि निषेधस्य बाध्यत्वेन तात्विकसत्ताऽवि. रोधित्वादर्थान्तरमिति वाच्यं । स्वामार्थस्य स्वामनिषेधन बाधद- शनानिषेधस्य बाध्यत्वं पारमार्थिकसत्त्वाविरोधित्वे न तंत्रं किन्तु निषेधापेक्षया न्यूनसत्ताकत्वं प्रकृते च तुल्यसत्ताकत्वात्कथं न वि. रोधः। नच मनोवच्छिन्नजीवरूपं ब्रह्मरूपं वा चैतन्यमविद्यावच्छि- नब्रह्म वा स्वाभायधिष्ठानमिति तद्धीरेव स्वामबाधः नतु स्वाभा- बामावोऽवाधः अधिष्ठानविषयकत्वादज्ञानविषयतावच्छेदकस्यैव ज्ञा- ननाश्यत्यनियमात् । स्वामस्य प्रातिभासिकत्वेनाज्ञानविषयतानव- च्छेदकत्वादिति वाच्यं । अत्रत्याबाधशब्देन मिथ्यात्वस्यैव विवक्षि- तत्वाच । अत एव स्वामार्थस्वामनिषेधयोरन्योन्यबाधकबाध्यत्वल- क्षणमपि तुल्यसत्ताकत्वं निष्पत्यूहं । नच तर्हि निषेधस्य निषेधे प्रतियोगिनोऽधिकसत्तापत्तिरिति वाच्यं । परमार्थ शुक्त यादिनिष्ट- योः रजताभावतत्प्रतियोगिकनिषेधान्यूनसत्ताकयोः रजताभावनिषे- धनिषेधप्रतियोगिकयोनिषेधः रजताभावान्यूनासत्ताकरजताभावनि- षेधपतियोगिकः रजताभाववृत्तिः । वाधकाबाध्यत्वलक्षणमपितु तु- ल्यसत्ताकत्वं निष्पत्यूहं । नच निषेधस्य निषेधे रजतप्रतियोगिनो नि- घेधाधिकसत्तापत्तिरिति वाच्यं । यदीययनिषेधान्यूनसत्ताकत्वे सति- यभिषेधपतियोगिकयोनिपेधः सःतन्यनसत्ताकतन्निषेधातियोगिक- इत्यत्र तदत्तिधर्मावच्छिन्नप्रतियोगिताकत्वस्योपाधित्वात् । तार्किक- परमार्थरजतादिनिष्ठरजतत्वप्रतियोगिके रजतत्वाभावान्यूनसत्ताक- तादृशाभावस्य . निषेधे रजतत्वान्यूनसत्ताकरजतत्वाभावप्रतियोगि- ॥ द्वितीयमिथ्यात्वनिरुक्तिः ॥ ९३ कोक्कोपाधेः साध्यव्यापकत्वात्पक्षे साधनाव्यापकत्वाच्च । यथाश्रुते नियमे प्राचीनमते घटात्यन्ताभावन्यूनसत्ताकपटतदत्यन्ताभावान्यतः रत्वावच्छिन्नाभावे घटन्यूनसत्ताकतदत्यन्ताभावाप्रतियोगित्वाभावेन व्यभिचारश्च । तत्रहि निषेधस्य निषेध इत्यादिमूलस्यायमेवार्थः । निषेधस्य यत्प्रतियोगिकनिषेधस्य निषेधे यनिषेधन्यूनसत्ताकानि- षेधे प्रतियोगिनस्सत्त्वं निषेध्यापेक्षयाऽधिकत्ताकत्वं प्रतियोगिसत्ता- कत्वं व्यवस्थाप्यते । प्रतियोग्यात्मकः तद्याप्यो वा निषेधनिषेधो विषयीक्रियते अभिप्रायं स्फुटीकरोति यत्रत्वित्यादिना । अत्र पक्षे घटादिमिथ्यात्वानुरोधेन तदधिकरणे घटत्वादिना तदत्यन्ताभावा- भ्युपमो नावश्यकः । सर्वदृश्यसाधारणयत्किंचिद्रूपावच्छिन्नत्वस्य लौकिकपरमार्थसर्वदृश्याधिकरणे ब्रह्मणि स्वाकारमात्रेण दृश्यामि- थ्यात्वोपपत्तिः तथाच यथामतं निषेधनिषेधान्यतरस्य प्रतियोग्या. स्मकत्वमधिकरणात्मकत्वमतिरिक्तत्वं वेत्तिनाग्रहः। अतात्विकं प्रपंच- निषेधादिकं बोधयन्त्याः श्रुतेरपामाण्यं न शंक्यमिति चेन्न । भ्रम- कालपतीतस्य सापेक्षदृश्यात्यन्ताभावभ्रमकालप्रतीतिनिरपेक्षब्रह्मा- त्मकत्वासंभवात् । न चाभावस्य सापेक्षकत्वं मायिकं । ब्रह्मणो नि- रपेक्षत्वं तात्विकमिति न विरोध इति वाच्यं । मिथ्यात्वसिद्धेः प्राक्- मायिकामायिकविभागासंभवात् । सार्थबाधस्य निषेधस्य हि ततोऽधि- कसत्ताकत्वं स्यादेव । नहि वल्मीके प्रतीतस्य पुरुषत्वस्य तत्रैव प्रतीत- स्थाणुत्वेन बाधः । किन्तु वल्मीकत्वप्रकारकज्ञानेन। तथाच स्वामा- र्थस्य स्वामनिषेधेन वित्तिरेव नतु वाधः । वस्तुतस्तु स्वामनिषेध- स्य जगत्यबाध्यत्वनिश्चयेन न तस्य बाध्यत्वं । नच स्वप्नद्रष्टत्वमात्रे- ण निषेधस्य बाध्यत्वमुक्तं । स्वप्नदृष्टस्यात्मादेरपि बाध्यत्वापत्तेः। न चादृष्टं द्रष्ट्रिति श्रुत्या स्वप्ने दृष्टत्वमेवात्मनो नास्तीति न बाध्यत्वाप- त्तिारीत वाच्यं । अदृष्टमित्यस्य वृत्तिभिन्नानुभवविषयत्वस्यैव व्या. ख्यातत्वात् । अन्तेऽवृत्तेरप्यविषयत्वे यथाहि न मानमिति तथाच ॥ श्रुतिमतोद्योते ॥ तावतैव घटस्सानत्यादिप्रत्ययोपपत्तिरिति भावः। यतस्सत्तादा- त्म्यानामानन्त्यं प्रामाणिकमिति योजना । तत्राश्यकत्वेनेत्यन्तं तत्र चासंभवादित्यन्तं हेतुः एकस्यैव तादात्म्यस्य कपालादिघटादिनि- ष्ठविशेषणताविशेष्यतारूपविषयतारूपत्वे अवच्छेद्यावच्छेदकभावो न स्यादिति भावः । अत्र दारूशविकसंवादमाह । नहीत । तत्तद्विषय- तेति कपालतन्त्वादिविषयतावच्छिन्नघटपटादिविषयतानामित्यर्थः । सत्तादात्म्यानां नित्यत्वेऽवच्छेदकानयमानुपपत्तिर्वक्ष्यमाणरीत्या गौ- वं चेति । अतस्तेषां जन्यत्वमाह । तेषां चोति दान्तिकमुपसंहर- ति । तस्मादिति। भ्रमविषयो नस्यादिति। अस्यांत तावत्यत्रान्वयः आपाधापादकयोर्व्यतिरेकव्याप्तिनिश्चयं दर्शयति । विषयविशिष्टभ्र- मस्येति । विषयतासंबन्धेन इदमादिविशिष्टे भ्रमो मिथ्यात्वप्रति योगि । इदमादौ भ्रमविषयत्वं मिथ्यात्वं चावगाहमानः तदुभयसह चारप्रत्ययविधया व्यभिचारग्रहसाहित्येन तदुभयव्याप्तिनिश्चयं जन- यतीति भावः। यद्वा इदमादेमिथ्यात्वग्राहकान्तरमाह। विषयवि. शिष्टस्येति । एतेनैतस्य तर्काकारे प्रवेशासंभवेपि नासंगतिरिति वो- ध्यं । इदमादितादात्म्यमिति । रजतावच्छेदेन रजततादात्म्यापनक्षि- तिरिति शेषः । सत्तादात्म्यमिति घटावच्छेदेन घटतादात्म्यपन्नाक्ष तिरिति शेषः । एवंच रजते इदं तादात्म्यं घटेपि सत्तात्म्यं पर्यव- स्यतीति भावः । मिथ्येति ज्ञायत इति शेषः । तेनाकारद्वयादित्वस्य नान्वयः। नवा घटादौ सत्तादात्म्ये किं मानमिति प्रश्नोत्तरे त- मिथ्यात्वमात्रोपसंहारस्यार्थान्तरता। मिथ्यात्वकथनं तु तत्सत्यत्व- शङ्कानिरासाय । भ्रमकाले तदुत्पत्तौ बाध्यत्वरूपयुक्तिसूचनाय मि- थ्यात्वस्य बाध्यत्वरूपत्वादिति ध्येयं । परस्पराध्यासे युक्तिसिद्ध- प्याचार्याननमिमिति शङ्कां परिहरति । तदिदमिति । घटस्याधिष्टा- नत्वासंभवाद्याचष्टे । अन्योन्यस्मिन्निति । एवं रजते इदमित्युभय- त्राप्यवच्छिन्नत्वमेव सप्तम्यर्थः । इदं रजतं वस्तुकल्पनस्य सर्वसिद्ध- ॥ द्वितीयमिथ्यात्वनिरुक्ति टिप्पाणि ॥ स्वादजते इदमर्थकल्पनेपि रजतभ्रमस्य च परिस्फुरणादित्यनेन यु- क्तिरुक्ता । तत्रास्यति । व्याचष्टे । अस्येति । नयतीत्यत्र इदमाम- ति पक्षवाचकं कल्पितामति प्रतियोगिवाचकं च पूरयित्वा व्याचष्टे। नयतीत्यादीति । शुक्तेरपीदंत्वेन भ्रमे भानाच्छाक्तरिवति दृष्टान्ता संगतिरतो व्याचष्टे शुक्तिरिवति । द्वितीयेन दान्तिकमुक्तं । तद्या- चष्टे । इतरेतराध्यासनामति । चितिः सद्रूपाचितिः चेत्थं घटादि दृश्यं । ततस्तस्मादजतभ्रमादिष्वित्यर्थं व्याचष्टे । गुरुतरत्यनुपस्थिः तविषयकत्वेनान्यत्र क्लप्सजातीयत्वाभावेनोक्तकल्पनायाः गुरुत्वे यु. क्तिमुक्ता गुरुतरत्वे तामाह । आवश्यकानित्यादिना । नाध्यस्वत्वे तत्स्वीकारेण वस्तुतस्तेषां सत्यत्वं । नचाद्वैतश्रुतिविरोधः । तस्यास्स- त्तादात्म्यातिरिक्तद्वैताभावप्रतिपादनपरत्वे नोपपत्तिसंभवादिति श. ङ्को निरस्यति । अद्वैतश्रुतिसङ्कोचापत्तेश्चेति । सङ्कोचो द्वैतसामान्या- थकपदस्य द्वैतविशेषे लक्षणाकल्पनं । तथाचैतत्कल्पनसापेक्षतया एक- स्यैवाध्यास इति कल्पना गुरुतरेति भावः । न जन्यत्वं नोत्पत्तिः । किंत्वविद्यादिवदनादित्वमेवेति भावः । तादृशनित्यति घटादिनिष्ट- विषयतारूपसत्तादात्म्यरूपनिष्टेत्यर्थः। उक्तरूपेण कपालाद्यवच्छिन्ना त्वेन संयोगादीनां कपालादिकार्यता । तथाचैतत्कल्पनासापेक्षत्वेक- स्येवोत्पत्तिरिति कल्पना गुरुतरेति भावः । इत्यर्थ इति । तथाच र. जतभ्रमादिष्वित्यादेश्चिचैत्ययोः परस्पराध्यासादौ स्वीकृते सति । रजतभ्रमे परस्पराध्यासादेः दृष्टत्वाद्गुरुतरकल्पना न घटते नापत- तीत्यर्थ इति भावः । अनुभूत्यादितृतीयश्लोकमुपसंहारतया व्याच- है। अनुभूतिरिति तृतीयेत्याद्यपदस्येत्यनुषङ्गः । एवं चतुर्थत्यत्रापि । तत्र ततस्तस्मादनुभूत्यादितृतीयाञ्चिति चैत्यगुगळस्येतरेतराध्यस्तत्व- मेव युक्तमितियोजना । विमतं मिथ्येति प्रतिज्ञाया असङ्गतिमाशङ्कते। नन्विति। मिथ्यात्वविशेषस्य प्रतिपन्नोपाधिनिष्ठत्रैकालिकनिषेधपति- योगित्वावच्छिन्नत्वस्य साध्यतया कोटितया न्यायप्रयोगे तद्धटक- - ॥ श्रुतिमतोद्योते ॥ प्रतिज्ञया तस्यैव तादृशप्रतियोगित्वावच्छिन्नस्यैव तादात्म्येन पक्ष- विशेषणतापन्नधर्मिविशेषणतारूपसाध्यतया प्रतिसाधनमुचितामति त स्यैव जिज्ञासितत्वादिति भावः। ननु मिथ्यात्वसामान्यस्योति ! पञ्चविधमिथ्यात्वानुगतरूपावच्छिन्नस्य तदुचितमित्यर्थः । तस्य वि. प्रतिपत्तिकोटित्वं भावेनानिज्ञासितत्वेनार्थान्तरापत्तरित भावः । नच विमतं मिथ्येत्यत्र मिथ्यापदस्य प्रतिपन्नोपाधिनिष्ठत्रैकालिक- निषेधप्रतियोगितार्थकतया नायं दोष इति वाच्यं । तथासति. ननु किमिदं मिथ्यात्वं साध्यत इत्युत्तरग्रन्थानुत्थानापत्तोरति बोध्यं । तात्पयादिति । अन्यथान्यविधमिथ्यात्वसाधकविप्रतिपत्तिप्रदर्शना- न्यूनतापत्चरिति भावः। मिथ्यात्वसंबन्धस्य तद्धर्मिणश्च वारणाया- ह। मिथ्याशब्दप्रवृत्तिनिमित्तत्वरूपमिति ॥ ५ || समाप्तम् ॥ छ

Shruthirathna Prakasha

Author
Kamakshi
Title
Shruthirathna Prakasha
File name
Shruthirathna Prakasha
Text
OCR done
Published
2005/03/10
Publisher
Kamakshi Amma At Mayavaram
Language
Sanskrit
Pages
98
Library
Sringeri Sharada Peetham
Classification
Religions Of The Indian Subcontinent
DLI number
495620
Barcode
1990030070598.00
Scanning centre
Sringeri Sharada Peetham
Digital publisher
Sringeri Sharada Peetham
Rights
Not Available
VMLT id
r45w9WgtsXH
Download PDF

Shruthirathna Prakasha