S.P College, Srinagar
The Sankhyakarika
Front matter
No text on this page.
A
SI
LIBRARY
891.234
I
79 S.
op.l.
Acerca
5 2 30
V
No text on this page.
सांख्यकारिका ईश्वरकृष्णविरचिता श्रीनारायणतीर्थकृतचन्द्रिकाव्यास्यया सहिता काशीराजकीयसंस्कृतपाठशालीयसांख्यशास्त्रप्रधाना- ध्यापकेन पण्डितश्रीवेचनरामत्रिपाठिना संस्कृता। यह पुस्तक प्रजभूषणदास और कम्पनी की दुकान मे मिजैगी, ठेकाना चाँदनी चौक के उत्तर नई सड़क, वनारस । SATTA NASHINHAVISHNSOPHYasy THE SÂNKHYAKÁRIKÁ OF ÍSVARAKRISHNA WITH AN EXPOSITION CALLED CHANDRIKÅ BY NÂRÂYANA Tirtha, EDITED BY Pandit BechanARÁMA TRIPÁTHÍ, PROFESSOR OF SANKHYA, SANSKRIT COLLEGE, BENARES. Intended Chiefly for the Use of Students Preparing for the Middle Examination of the Benares Sanskrit College. Published by Messrs. Braj B. Dis & Co., New Road, North of the Chauk, Benares. 1933 BENARES. PRINTED AT THE VIDYA VILAS PRESS. 1905. NISHISHISHASON NEWSVIEWISHEHAENISHIS
391.23
194
...
5230
सांख्यकारिका। नारायणकृतचन्द्रिकया सहिता । श्रीगणेशाय नमः । दुःख(१)त्रयाभिघाता- जिज्ञासा तदपघातके हेतौ । दृष्टे सापार्था चे- कान्तात्यन्ततो भावात् ॥ १ ॥ श्रीरामगोविन्दसुतीर्थपाद- कृपाविशेषादुपलभ्य बोधम् । श्रीवासुदेवादधिगत्य सर्व- शास्त्राणि वक्तुं किमपि स्पृहा नः ॥ १॥ प्रकृति पुरुषं चैव नत्वाचार्यान् गुरूंस्तथा । नारायणः सांख्यमूले तनुते सांख्यचन्द्रिकाम् ॥ २॥ तदिदं शास्त्रं चतुर्म्यहम् । हेयं हेयसाधनं हानं हानसाधनं चति मुमुक्षुजिज्ञासितत्वात् । तत्र हेयं सर्वप्रतिकूलवेदनीयतया दुःखम्, हेयहेतुः प्रकृतिपुरुषयोरविवेकः, हानं दुःखस्यात्यन्तनिवृ- त्तिः परमपुमर्थः, हानहेतुः प्रकृतिपुरुषविवेकद्वारा शास्त्रम्, अतोऽत्र परमपुमर्थस्य स्वत एवेष्टत्वेन तदुपाये शास्त्रे प्रेक्षावतामिष्टसाधन- तामानावश्यं जिज्ञासा भवतीत्याह दुःखत्रयेत्यादि, दुःखत्रयमाध्या- त्मिकमाधिभौतिकमाधिदैविकं च, तत्रात्मानं शरीरमन्तःकरणं चा. धिकृस्य यजायते तदाध्यात्मिकं तुःखं वातपित्तादि (२) प्रकोप- (1) यद्यपि दुःखममलं तथापि तत्परिहारार्थरवेन तदपघाती मङ्गलमेवेति दु:- खशब्दीपादानं यन्यादी न दीपायेति मूलकारामयः । ( २ ).पादिना मेएमया तेषां प्रकोपी वैषम्यं तेन मन्यमेतच भारीरम् ।
( २ ) जन्यं फामा (१) दिजन्यं च, तत्र भूतानि प्राणिनोऽधिकृत्य यजा. यते तदाधिभौतिकं व्याघ्रचौराघुत्थम, एवं देवाग्न्यादीनधिकृत्य यजायते तदाधिदैविक दाहशीतादिकृतं यक्षराक्षसविनायकग्रहा- पावेशनिवन्धनं च, यद्यपि सर्वमेव दुःखं मानसमेव तथापि मनो- मात्रजन्यत्वाजन्यत्वाभ्यां मानसत्वामानसत्वविभागः, तस्य दुःखत्र- यस्याभिघातात्० असह्यसम्बन्धात् तदपघातके प्रकृतिपुरुषविवेकद्वारा दुःखोच्छेदके हेतो वक्ष्यमाणशास्त्रे प्रेक्षापतां जिज्ञासाभवत्येवेत्यर्थः । यद्यपि वर्तमान स्थूलं दुःखं द्वितीयक्षणे स्वयमेव नचति, अतीतं तु नष्टमेव, तथाप्यनागतसुक्ष्मदुःखनिवृत्ती तात्पर्यम् । अत्र य- धपि सत्कार्यवादे न ध्वंसप्रागभाषरूपाभावस्तथापि निवृत्तिरच सू- रामरूपस्यातीतावस्थत्वमेव (२) स्थूलस्वरूपाप्राभियोग्यत्वं वा । न चानागते मानाभावः, यावच्चित्तकालावस्थायिकार्यजननशक्त्या या. बच्चित्तसत्त्वमनागतदुःखानुमानात् (३)। मनु तत्र शरीर स्वस्थ रसायनादिसेवनात्, मानसस्य मनो- शस्त्रीपानभोजनादितः, आधिभौतिकस्य नीतिशास्त्राभ्यासनिरत्यय. स्थामसेवनादितः, आधिदैविकस्य मणिमन्त्रौषधादितो इष्टोपायादे- घोच्छेदो भविष्यतीत्याशयेनाशङ्कते हष्टे सति । हष्टे प्रसिद्धौषधादि- विषय एव जिज्ञासा० अपार्था अन्यथा सिद्धा (४)स्त्विति चे- दित्यर्थः । निषेधति नेति । एकान्तत्वं दुःखोज्छेदस्यावश्यकत्वम् । अत्यन्तत्वं दुःखस्य पुनरनुत्पादस्तदुभयस्य होपायादभावात् ॥१॥ दृष्टत्रदानुश्रविकः स ह्य विशुद्धिक्षपातिशययुक्तः। तद्विपरीन: श्रेयान् पक्ताव्यक्तशाविज्ञानात् ॥ २॥ (1) पादिना क्रोधलोभमोभयेाविषाद विषयादर्थ नाना यह तेर्जन्यम् । (२) नम्वतीतावस्थ स्थापि कदाचिन प्रादुर्भावः स्यादित्यानडा पत्तान्तरमा। (३) चित्तसत्त्वमनागतदु.ख जनकं भवितुमईति यावचित्तावस्थायि कार्य जननशक्ति- मत्वान मानियन, पये दु:खं भविथति जनकाहस्वत्वान पूर्वाहटवदिति वा । (४) पके चेन्मधु विन्दत किमर्थ पर्वतं व्रजेत् । इटस्वायम्य संसिद्धी को विधान यरनमाचरेत् ।
( ३ ) ननु स्वर्गस्य दुःखासम्भिन्नत्वा (१) दग्रस्तत्वाच्च तखेतुज्यो- तिष्टोमादिक एव जिज्ञासा भविष्यति तत्राह हटवदिति । गुरुमुखाद- नुश्रूयते इत्यनुश्रवो वेदः कर्मकाण्डरूपस्तेन प्रोक्तो ज्योतिष्टोमादिरा नुश्रविक उपायो दृष्टवत् औषधादिवत् । अत्र हेतुमाह स हीति। हि यतः । अविशुद्धिरङ्गवैगुण्यं न हिंस्यादिति शास्त्रनिषिहिंसा च । अन्ततो वृक्षपत्रादिच्छेदानामग्निसान्निध्यात् क्षुद्रजन्तुनाशादेश्च स- म्भवात् । अतो दुःखहेतुरेव । क्षयेति तत्कर्मणः फलस्य क्षयित्वेन नात्यन्तदुःखोच्छेदफत्वम् । क्षयानन्तरं दुःखोत्परित्यर्थः । अतिण्येति तत्राप्यधिकसुखिदर्शनात् । ईामर्षाभ्यां स्वायो दुःखोत्कर्ष पवाति- शय इत्यर्थः । ननु (२) विधिसंस्पृष्टस्य निषेधविषयतया विरुद्धत्वा- त् । अन्यथा विधिनिषेधाधीनप्रवृत्तिनिवृत्तिसमावेशदोषप्रसङ्गादाह- वनीयविधिः (३) पदमहोममिव न हिंस्या" दित्यादिनिषेधो "ऽग्नीषोमीयं पशुमालभेते" त्यादिविधिविषयां यागीयहिंसां परिहत्य प्रवर्तत इति यागीयातिरिक्तहिंसैव पापं न यागीयेति चेन्न । हिंसा- यां विध्याधीनेष्टसाधनत्वस्य निषेधाधीनानिष्टसाधनत्वस्य च स- मावेशसम्भवात् पशुवधप्रयुक्तस्याल्पानिष्टस्य वित्तव्ययायासादिसा. ध्यदुःस्वस्येवाभ्युपगमेन क्रतुसाध्यमहाफलार्थितया प्रवृत्तेरुपपनत्वे- न विधिनिषेधाधीनप्रवृत्तिनिवृत्तिसमावेशदोषाणामनवकाशात् । पा- पमेव हिसिधातुपदवाच्या यागीयापि हिंसेति तदघटितज्योतष्टोमा- दिकमविशुखमेव । अत एवोकं भारते पितापुत्रसंवादे "तितर- हुशोऽयस्तं जन्मजन्मान्तरेग्वपि । वयोधर्ममधर्मात्यं न सम्यक् प्र- तिभाति मे" || इति । अधिकमस्मत्कृतयोगसूत्रव्याख्याने ऽनुसंधेय- म् । तद्विपरीतः श्रेयान, एानुश्रविकाद्भिन्न उपायःशास्त्रेकगम्यारम- साक्षात्करः श्रेयान, ऐकान्तात्यन्तिकदुःखोच्छेदक्षमः । सकस्माद्भव. ति तदाह व्यक्ताव्यक्तश्वविज्ञानादिति । व्यकं भूतादि अव्यक्तं प्रधा. नम्, क्षः पुरुषः, एषां विविच्य ज्ञानाद्भवतीत्यर्थः। अयमभिप्रायः।आ- मानात्मविवेकसाक्षात्कारात् कर्तृत्वाद्यखिलाभिमाननिवृत्त्या तत्का- (१) यन्त्र दुःखेन संभिन्न न व प्रतमनन्तरम् । पभिलाषीपनौतं च तन साढे स्व:- पदास्पदम् । इत्यादिप्रमाणात् । (२) मीमामक प्रश्रः । (२) पासवनोये अजीतीति ।
( ४ ) येरागद्वेषधर्माधर्माद्यनुत्पादात् पूर्वोत्पन्नकर्मणां( १)चाविद्यारागा- दिसहकार्युच्छेद रूपदाहेन विपाकानारम्भकत्वात् प्रारब्धसमाप्त्य नन्तरं पुनर्जन्माभावेन त्रिविधदुःखात्यन्तनिवृत्तिरूपो मोक्षो भवती- ति ताहरासाक्षात्कारहेतौ मननाख्यविचाररूपे शास्त्रे प्रेक्षावतां जि- ज्ञासा भवत्येवति ॥ २ ॥ मूलप्रकृतिविकृति- महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकस्तु विकारो न प्रकृतिन विकृतिः पुरुषः ।। ३ ।। व्यक्ताव्यक्तशानां स्वरूपं दर्शयितुं लक्षणमाह मूलप्रकृतिरि- ति । मूलप्रकृतिः सर्वजनिका प्रकृतिरजन्या तथा चाजन्यत्वे सति जनकत्वं प्रकृतित्वम्। अव्यक्तमुक्ता व्यक्तं द्विविधमाह महदाद्या इति। महत्तत्त्वाहङ्कारपञ्चतन्मात्राणि प्रकृतिविकृतयः । तत्त्वविभाजकोपा. ध्यवच्छिन्नजनकत्वं सति जन्या इत्यर्थः । षोडशक इति । एकादशे- न्द्रियाणि पश्चाकाशादीनि महाभूतानि च विकार इति । तत्वविभा- जकोपाध्यवच्छिन्नाजनकत्वे सति जन्य इत्यर्थः । पुरुषस्तत्सर्वभोक्ता न प्रकृतिन विकृतिः। अजनकत्वे सत्यजन्य इत्यर्थः । आद्यविशेषणेन प्रकृतिनिरासः । द्वितीयेनातीन्द्रिय(२)सामान्यादिनिरासः । त- देवं पञ्चविंशतितत्त्वान्युक्तानि । संश्वरसांख्यनये तु पुरुषपदेनैवेश्व- रस्यापि ग्रहणं मायापदेन चेश्वरसङ्कल्प एवोच्यते जीवाहट वा अ- विद्याशब्देन च जीवभ्रम एवोच्यते नान्यत् । अतो न तदकथनकृता न्यूनतेति सङ्केपः ॥३॥ (१) संचित कर्मणाम। ( २ ) पतीन्द्रियं महत्तत्वादि तनिष्ठसामान्यस्य जन्यत्वमेव । महत्तत्त्वस्य यथा वन्य- १ तथा तस्यापि सांख्य मते नन्यत्वमेव । नैयायिकमते यथा नातिनिस्या तथा सांस्यमते न किंतु विविधाः पदार्थाः सामान्या विशेषाष यथा मृत्तिका सामान्या घटष विशेषः ।
( ५ ) दृष्टमनुमानमाप्तव- चनं च सनप्रमाणसिद्धत्वात् । त्रिविधं प्रमाणमिष्टं प्रमेय सिद्धिः प्रमाणाद्धि ॥ ४ ॥ तत्त्वान्युक्तानि तेषां सिद्धिः प्रमाणेन भवति न चैकप्रमाणेन सर्वषां तत्त्वानां सिद्धिः सम्भवति तथा च प्रमाणवहुत्वमुचितं तत्र कानि प्रमाणानि कियन्ति चेत्यत आह इष्टमिति । दृष्टं प्रत्यक्षम् । अ- नुमानमनुमितिकरणं लिङ्गपरामर्शः । आप्तवचनं शब्दप्रमाणम् । उक्तं कपिलेन भगवतेत्यर्थः । कुतः सर्वप्रमाणसिद्धत्वात् । सर्वेः प्र. माणैः प्रमाभिः पतञ्जलिप्रभृतिभिः सिद्धत्वात् प्रत्यक्षानुमानागमाः प्रमाणानीति स्वीकृनत्वात् । उपमानादिकं तु न सर्वप्रमाणसिद्ध- मिति भावः । यद्यपि वैशेषिकैः शब्दो नाभ्युपेयते तथापि ते न प्रमा. तार इति भावः । एवमन्येऽपि प्रत्यक्षाद्यपलपन्तो न प्रमातार इति बोध्यम् । उपमानस्यान्तर्भावो यथा गवयपदं गवयवाचकम्, असति वृत्त्यन्तरे तत्र प्रयुज्यमानत्वादिति । एवमर्थापत्तेरपि । यथा पीनो- देवदत्तो दिवा न भुङ्क्तं इत्यत्रायं रात्रिभोजी दिवाऽभुञानत्वे सति पीनत्वादिति (१)। अनुपलब्धिस्तु प्रत्यक्षसहकारिणी न स्वतो मानम् । ऐतिहसम्भवावपि (२) शब्द एव (३)। चेष्टात्व (४) नुमान एवेति सङ्क्षपः। प्रमेयेति । हि यतः प्रमाणादेव प्रमेयाणां सि. शिरतः प्रमाणं त्रिविधमिष्टमित्यर्थः॥४॥ प्रतिविषयाध्यवसायो दृष्टं त्रिविधमनुमानमाख्यातम् । तल्लिङ्गलिङ्गिपूर्वक- माप्तश्रुतिराप्तवचनं तु ॥ ५ ॥ (१) य: दिवा पभुनानवे सति रात्रिभोजी न भवति नामो पौनो यथा उपवासो। (२) यादृष्टप्रवतकं प्रवादमावमितिहीचुहा त्यति यथेच वटे यच: प्रतिव- सतीति । सम्भवन्तु यथा स्वाया द्रोणाहक प्रस्थायवगमः । (३) अन्तर्भवत इति शेषः । (४) हिताहित प्रापिपरिहारार्था क्रिया था।
( ६ ) प्रमाणानां लक्षणान्याह प्रतिविषयेति । प्रतिविषयो नियत- विषयो ऽध्यवसीयते निश्चीयते ऽनेनेति प्रतिविषयाध्यवसाय इन्द्रि- यम् । चक्षुरादीनां रूपादिविषयकत्वनियमानियतविषयकत्वम् । ननु कारणेन मेघादिना कार्यस्य वृष्ट्यादेर्शानं कार्येण धूमादिना कारणस्य वह्नयादेर्शानं न प्रत्यक्षम, तथा च ते (१) केन प्रमाणेन जनयितव्ये तबाह त्रिविधमिति । तथा चानुमान एव तयोः प्रवेशः । तथा च गौतमसूत्रम् । “अथ तत्पूर्वकं त्रिविधमनुमानं पूर्वघच्छेव- तू सामान्यतो हष्टं चे"ति । तत्पूर्वकं व्याप्त्यादिप्रत्यक्षपूर्वकम् । पूर्ववत् कारणेन कार्यानुमानम् । शेषवत् कार्येण कारणानुमानम् । सामान्यतो हएं कार्यकारणान्यालङ्गकम्, यथा वायूपनीतचम्पक भागो रूपादिमान् गन्धादिति । त्रिनयसाधारणममुमानलक्षणमाह तालङ्गेति, तस्य साध्यस्य लिङ्गं (२) व्याप्यम, लिङ्गं यत्न विद्यते स लिङ्गी व्याप्यवान् पक्षः, पूर्व कारणं यस्य प्रत्यक्षस्य तत् तथा, तथा च साध्यव्याप्यविशिष्टं (३) पक्षप्रत्यक्षं वहिव्याप्यधूमधाम् पर्वत इत्याचाकारः परामर्शो ऽनुमानम् । अनुमितिकरणत्वादित्यर्थः । श- ब्दलक्षणं वक्तुमाह आप्तवचनमिति, आप्तं च तद्वचनं चेत्याप्तवचन- म्, आकाङ्क्षाऽऽसत्तियोग्यतातात्पर्यवत् पदकदम्बकम्, लक्ष्यनिर्देयो ऽयम, आप्तधुतिरिति लक्षणम, प्रकृतवाक्यार्थगोचरयथार्थज्ञानवा- नाप्तः, धूयत इति श्रुतिर्वाक्यम, तथा चाप्तोक्तवाक्यत्वमिति लक्षणं प्राप्तम, शुकबालकादियथार्थवाक्ये तु सेश्वरसांख्यमते ईश्वर एषा. प्तः, अन्यमते तु तन्न प्रमाणमिति संक्षेपः । वस्तुतस्तु सन्मते (४) इन्द्रियादिकं न प्रमाणं किं त्विन्द्रियादिजन्या वृत्तिरेव, तथाहि अ. विसंवादिज्ञान (५) मनधिगततत्त्वबोधो वा प्रमा तत्करणं तस्या अ. योगव्यवच्छेदेन (६) संबन्धि तदेव प्रमाणसामान्यलक्षणम् । सो न्द्रियसंचारमार्गेण बाह्यवस्तुसंबन्धाञ्चित्तस्येन्द्रियसंनिकृष्टार्थविशे- पावधारणप्रधाना वृत्तिः प्रत्यक्षं यथा घटाऽयमित्यादि । गृहीतव्या- (१)जाने। (२) यथा यहन्यादे मादि । (१) साध्यव्याप्याभ्यो विमिटम् । (४) निरीश्वरसांख्य मते । (५ ) यथार्थज्ञानम् । (4) पश्य सम्बन्धन।
( ७ ) निकेन हेतुना साध्यवपि पक्षे शायमानेन साध्यविषया वृत्तिरनुमानं यथा पर्वतो वह्निमानित्यादि । आप्तोक्तेन शब्दन श्रोतुस्तत्तदाकारा वृत्तिरागमः, यथा " स्वर्गकामो यजेतेति स्वर्गकामो यजेतेति" वाक्यात् स्वर्गकामनाव- ता यागः कार्य इति । अत्र सर्वत्र पौरुषो बोधः फलं येन जानामी. त्यादि व्यहरति जन इत्यास्तां विस्तरः । कारिकार्थस्तु प्रतिविषयो- ध्यवसीयते निश्चीयते विषयीक्रियते ऽनेनेतीन्द्रियजन्यवृत्तिरूपं ज्ञानं प्रत्यक्षम् । लिङ्गलिङ्गिपूर्वकं स्व (१)शानद्वारा हेतुपक्षजन्यसाध्यक्षा- नमनुमानम् । आप्तश्रुतिः, आप्तशब्देन पब्दो बोध इति ॥ ५ ॥ सामान्यतस्तु दृष्टा- दतीन्द्रियाणां प्रतीतिरनुमानात् । तस्मादपि चासिद्धं परोक्षमाप्तागमात् सिद्धम् ॥ ६ ॥ इदानीं प्रमाणवयविषयानाह सामान्यतस्विति, सामान्यत इति षष्ठयन्तात् नसिः, तथा चेन्द्रिययोग्यस्य सर्वस्याऽपेक्षितस्याs- नपेक्षितस्य च दृष्टात् प्रत्यक्षादव सिद्धिः, तेन पृथिव्यादीनां प्रत्यक्षा- देव सिद्धिरिति भावः । अतीन्द्रियाणां प्रकृत्यादीनां सिद्धिरनुमाना- त, यथा महत् तत्त्वं सकारणकं कार्यत्वाद् घटवदिति, कारणान्तर- बाधात् प्रकृतिसिद्धिः, न च पुरुष एष जनको ऽस्तु तस्यापरिणामि- धेनाजनकत्वात् । तस्मादपि (२) परोक्षमतीन्द्रियं यागस्वर्गसाधन. स्वादि, आतागमातू, शब्दप्रमाणादित्यर्थः ॥ ६ ॥ अतिदात् सामीप्या- दिन्द्रियघातान्मनोऽनवस्थानात् । सौम्यायवधाना- दभिभवाव समानाभिहाराच्च ॥ ७ ॥ (१) व्यामिः स्वयम्दार्थः । (२) अनुमामादपि।
( ८ ) ननु प्रकृत्यादी प्रत्यक्षमेव कथं न प्रवर्तत इत्याफाङ्कायां प्रत्य- क्ष विघटकान् (१) हेतूनाह, अतिदूरादिति, प्रत्यक्षं न प्रवर्तत इति शेषः, अत्यूर्ध्वगतः पक्षी न दृश्यते दूरत्वदोशत्, दोषश्च क्वचित कश्चिदेव. अन्यथा सूर्यादिमण्डलदर्शनं न स्यादिति। चक्षुर्गोल. गतः कादिरतिसामीप्यान्न गृह्यते, अत्राप्यतिपदस्यान्वयः । र न्द्रियं गोलकं तस्य घातान्नाशात् । मनोऽनवस्थानात्, व्यासक्रेन (२)तदिन्द्रियसंयोगाभावात् (३)। सौक्ष्मादिन्द्रियायोग्यत्वात् । व्यव- धानात् कुड्यादेः। भिभवो बलवत्सजातीयसंबन्धो यथा सौरा- लोकाभिभवाच्चन्द्रप्रभा न गृह्यते । समानाभिहारः समगुणानां मि- श्रणं यथा माहिषादिदुग्धे पतितं गव्यदुग्धं न गृह्यते ॥ ७ ॥ सौम्यात् तदनुपलब्धि- नाभावात् कार्यतस्तदुपलब्धेः। महदादि तच्च कार्य प्रकृतिसरूपं विरूपं च ॥८॥ नन्वेषामन्यतराधीनः प्रत्यक्षाभाव इति भवदीयं मतं तन्न युक्तं प्रकृत्यादीनामभावनिबन्धन एव स भविष्यतीत्यत्राह सौम्यादिति । सौक्ष्मान्निरवयवद्रव्यत्वेनेन्द्रियायोग्यत्वात् तेषां प्रकृत्यादीनामनु- पलम्भो न प्रकृत्याद्यभावात, कुतः, कार्यतस्तदुपलब्धेः कार्येण तेषां सिद्धेः, कार्यलिङ्गकतदनुमानस्याबाधितत्वादिति भावः । किं कार्य तत्राह महदादीति, आदिपदादहंकारपञ्चतन्मात्राणि गगनादयश्च । तत्र सरूपं महत्तत्त्वादिसप्तकं तत्त्वविभाजकोपाध्यवच्छिन्नजनक- त्वात् (४) विरूपं गगनादि ताहशाजनकत्वात् (५)। एतत्कथनं कार्याणां विवेकशानाय, सारासारविवेकेनात्मतत्त्वज्ञानजिज्ञासाद्वारा (१) प्रत्याचप्रवनिप्रतिवन्धकान् । (२) मनसोऽम्येन्द्रियसंयोगेन । (३ तेन प्रत्यचजनकेन्द्रियेण सह संयोगाभावात्। (४) तत्त्वविभाजकोपाध्यवतिनजनकत्व' यथा प्रती वर्तते तथा तत्त्व विभागकी- पाध्यवक्तिजनकत्व महत्तत्त्वादिषु समसु । (५) सत्वविभाजकोपाध्यछिन्ताजनकत्वात् ।
( ९ ) कैवल्योपयोगित्वादित्यग्रे साधर्म्यवधर्म्यप्रकारककार्यतत्त्वज्ञानस्य स्फुटीभविष्यति ॥ ८॥ असदकरणादुपादा- नग्रहणात् सर्वमंभवाभावात् । शक्तस्य शक्यकरणात् कारणभावाच्च सत् कार्यम् ॥ ९॥ ननु तार्किकनये (१) सतोऽसजायते तथा च यावत् कार्य न जातं तावत्पर्यन्तं कारणस्य प्रमाणाभावेनाऽसत्त्वापत्तिः, तथा च कथं पश्चादपि तस्य (२) सत्त्वं स्यात्, नहि कार्येणासतः सत्त्वं क- तुं शक्यते, तत्राह, असदिति । कार्य कारणव्यापारात् प्रागपि सदेव न तु तदानीमसत्, अत्र हेतुमाह, असदकरणात् (३), असतो नृ- शृङ्गतुल्यस्य प्रागविद्यमानस्योत्पादनासंभवात्, अन्यथा नृङ्गस्या- पि करणापत्तेः (४), असत्त्वाविशेषात् । हेत्वन्तरमाह० उपादान- ग्रहणातू, उपादानं समवायि कारणं तस्य कार्यार्थिना ग्रहणात, यथा दध्यर्थी० क्षीरमुपादत्त नान्यत्, यदि चासत् कार्य स्यात् तर्हि दध्यर्थी० उदकस्योपादानं कुर्यात, न च कुरुते, तस्मादुपादानग्र- हणादपि ज्ञायते कारणे कार्यमस्तीति । हेत्वन्तरमाह सर्वसंभवाभा- चात्, लोके यद्यस्मिन्नस्ति तदेव तस्माजायत इति वक्तुं शक्यं मृ- दादिभ्य एव घटादिदर्शनातू, यदि चासत् कार्य स्यात् तदा तत् सर्व सर्वत्र संभवेत्० असत्याविशेषात्, न च यत्र यस्य प्रागभावो. ऽस्ति स एव तत्र जायत इति वाच्यम, तन्त्वनुत्पाददशायां पटप्रा- गभावः कुत्र स्यात्, न च काल इति वाच्यम्, प्रागभावस्य क्रियावि. रहेण तन्तावागमनविरहे तन्तुवृत्तित्वं न स्यात्, न (५) चाधि- (१) मतः कारणात् परमाखादरसन कार्य घणुकादि जायत इत्यर्थः । (२) कारणस्य । ( २ ) विमतं काय कारण व्यापारात प्रागपि सद मवितुमईति० उत्पाद्यमानत्वाद य- दैवं सदैवं यथा निलेषु तेलम्, न यदैवं न तदेवं यथा नरविषाणमिति । (४) उत्पादनापत्तेः । (५) पभावोऽधिकरणस्वरूप इति प्रभाकरमतं निराकरोसि मेति । २ ( १० ) करणतन्तु रूप एव पागभावः, तहधिकरणत्वाविशेषत्वाद् घटादि- प्रागभावरूपतापि (१) स्यात्, न च पटनिरूपितकारणत्वं नियाम. कम्, असतः पटादेर्निरूपकत्वादिधर्मासंभवात्, तदसतारसंबन्धा- त् (२) निरूपकत्वादेर्निरूपकत्वस्वरूपत्वे तु तदोषतादवस्थ्यम्, कारण कार्यासत्तायां त (३) निरूपितकारणता मृधव नान्यत्रति नियामकाभावादित्याद्यन्यत्र विस्तरः । हेत्वन्तरमाह शक्तस्य शक्य- करणादिति, कार्यशक्तिमत्त्वमेवोपादानत्वम्, अन्यस्य (४) दुर्वच. त्वात, शक्तिश्च कार्यस्यानागतावस्थैव अर्थान्तरत्वे तस्याः कार्यासं. बद्धत्वे० अव्यवस्था (५) संबद्धत्वे नासता संवन्ध इति शक्तस्य शक्यकरणादपि सत् कार्यमित्यर्थः । हत्वन्तरमाह कारणभावाचे- ति, “ तद्धदं ताव्याकृतमासी" दित्यादिश्रुतरुत्पत्तः प्रागपि कार्य- कारणाभेदश्रवणेन कार्यस्य कारणात्मकत्वादपि सत् कायम, अस. व हि सदसतोरभेदानुपपत्तरित्यर्थः, अपिच लोके यदात्मकं कार- णं तदात्मकं कार्यमिति हटं यथा कोद्रवेभ्यः कोद्रवा व्रीहिन्यो व्रीहयो जायन्ते यदि चासत् कार्य स्यात् तदा कोद्रयेश्यो व्रीहीणां व्रीहिभ्यश्च कोद्रवाणामुत्पत्तिः स्यात्, न च दृश्यते, तस्मात् कार्य- स्य कारणात्मकत्वादपिसत् कार्यमिति, न च तर्हि कार्यस्य नित्यत्व- प्रसक्त्या सामग्रोवैयर्थ्यप्रसङ्ग इति वाच्यं सामग्रया अभिव्यक्त्यर्थ- त्वात, न चाभिव्यक्त रपि जन्यत्वे सत्कार्यवादबाधः स्यात्, नित्यत्वे सदैवाभिव्यक्तिः स्यात, तस्या अप्यभिव्यक्त्यपेक्षायामनवस्थाप- त्तिरिति वाच्यम, व्यवहारोपयोगितत्तत्कार्याभिव्यक्तस्तत्तत्कार्यनि- ठसत्त्वगुणरूपतया नित्यत्वापि तमसा प्रतिवद्धत्वान्न व्यवहारोपयो- गित्वम्, अभिव्यञ्जकसामग्रया तूत्तेजकेन मणे (६)रिव तमसः प्रति. (1) मियामकाभावादिन्यभिप्रायः । (३) तेजस्तिमिरयोरिव । (३)तन कार्यम्। ( ४ ) शकिरहितम्य । ( ५ ) पमंबडत्वाविशेषेण सर्वस्मात सर्व संभवेदित्यव्यवस्था, यथाः संख्यबहाः, पसत्वावास्ति संवभः करणे: सत्त्वसङ्गिभिः । पसंबहस्य चोपनिमितो न व्यवस्थितिः । इति । पर्थान्तरस्य मत्वाम कार्यस्य घटादरसत्यान सदसतीरसंबन्धादव्यवस्थैति वा, । (a) कारणीभूनाभावपतियोगित्व प्रतिवश्वकत्व कार्यानुकूल धर्मविघट कत्व वा, त- था च कारणीभूती योऽभावी मण्यभावस्तम्य प्रतियोगी मणिस्तस्य वाग्निनिष्ठदारूपकार्य- स्य प्रतियश्वकत्वमिति भावः, प्रविषन्ध कस्य प्रतिवन्धकल मुनेजकत्वम्।
( ११ ) मन्धाद्वयवहाराक्षगत्वमिति, सामग्रया उत्तेजकत्वमात्राङ्गीकारात् सत्कार्यवादवाधाभावातू, तस्मात् कार्यकारणयारभेदेऽपि व्यवहार- क्षमता कार्यात्मनाभिव्यक्तस्यैव नान्यथा, अतो न कोऽपि दोष इत्या. स्तां विस्तरः ॥९॥ हेतुमदनियमव्यापि सक्रियमनकमाश्रितं लिङ्गम् । सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम् ॥ १०॥ तत्र पूर्वस्यामार्यायां महदादि कार्य प्रकृतिविरूपं सरूपं चेत्यु. क्तम, तदिदानी विशिष्य ज्ञानाय दर्शयति हेतुमदिति । व्यक्तं मह- दादि पृथिव्यन्तं त्रयोविंशतिसंख्यं हेतुमत, हेतुः कारणं यस्याविर्भा- वे तद्धेतुमत, कदाचिदाविर्भावशीलम् । अनित्यं कदाचित् तिरोभा- वशीलम् । अव्यापि० असर्वगतं विभुत्वे क्रिया न स्यात् । सक्रियं प्रवेशादिक्रियावत, बुद्ध्यादयो हकं देहं त्यक्त्वा देहान्तरं प्रविश- न्ति । अनेक प्रतिपुरुषं भेदात् सजातीयभेदवत, तत्त्वं (१) चात्र स्वा- श्रयप्रतियोगिकान्योन्याभावसमानाधिकरणतत्त्वविभाजफोपाधिमत्व. म् ( २ ), याति (३) चेदं महदादिषु महदादिप्रतियोगिकान्योन्या- भावेन (४) महदन्तरादी महत्त्वादेः समानाधिकरणत्वात्, प्रकृती तु न याति प्रकृत्यन्योन्याभावस्य प्रकृतावसत्वात्, पुरुषे सत्त्वेऽपि तत्र प्रकृतिस्वाभावात, पुरुषेऽतिव्याप्तिवारणाय तु त्रिगुणत्वे सनीति विशेषणीयम्, अथवानकत्वं सर्गभेदेन भिन्नत्वम, सर्गद्वयसाधार- ण्याभाववदिति यावत्, तेन नान्यत्रा(५)तिव्याप्तिः । आश्रितं वृत्ति मत्, (६) यथा महत्तत्त्वं प्रधाने अहंकारो वुद्धी पञ्च तन्मात्राण्य. (1) सजातीयभेदयत्त्वम । ( २ ) स्वशब्द न महत्तत्त्वादित स्यायो महदादिः स प्रतियोगी यष्य माहसी यो. ऽन्योन्याभावम्तरसमानाधिकरणी यतत्त्व विभानकीपाधिताहशीपाधिमत्त्वम् । (३) म मवेति लक्षणं घटत इयर्थः । (४) मा। (५) पुरुषादी। ()निमानियामक संबन्धेन ।
( १२ ) हंकारे भूतानि तन्मात्रेषु, एवं यथासंभवमूह्यम् । लिङ्ग लिङ्गयांत ज्ञापयतीति लिङ्गमनुमापकम, भवति हि कार्यमिदं कारणस्याव्यक्त- स्यानुमितिजनकं भोग्यत्वाद् भोक्तुः पुरुषस्य चानुमितिजनकम् । सावयवम्, अवयवैर्गुणैर्युक्तम् । परतन्त्रं साक्षात् परम्परया वा प्रकृ. त्यधीनस्वरूपपरिणामकं (१) भवति । एतद्वैधयं प्रकृतावाह विप- रीतमिति, अव्यक्तं प्रकृतिः, विपरीतमहेतुमत् कारणत्वविश्रान्तेस्त. ने ( २) वाङ्गीकारात् । नित्यम, अनुत्पत्तिधर्मकत्वात् । व्यापि सर्व गतत्वात् । निष्क्रिय शान्तादिक्रियाशून्यत्वात् । एकं सजातीयभेद- शून्यम् । निराश्रितं कारणशून्यत्वात् । अलिङ्ग कारणानुमापकम्, ते. नास्य पुरुषानुमापकत्वेऽपि न हानिः । निरवयवम्, अकारणकावा- त् । स्वतन्त्रं कार्ये स्वयं समर्थत्वात्। यद्यप्येते धर्माः पुरुषस्यापि तथापि गुणवत्त्वे सतीति विशेषणीयम, तेन न तत्रातिव्याप्तिरिति संक्षेपः॥१०॥ त्रिगुणमविवेकि विषयः सामान्यपचेतनं प्रसवर्धाम । व्यक्तं तथा प्रधान तद्विपरीतस्तथा च पुमान् ॥ ११ ॥ एवं व्यक्ताव्यक्तयोर्वरूप्यमुक्त्वा सारूप्यमाह त्रिगुणमिति । व्यक्तं महदादि तथा प्रधान प्रकृतिः । त्रिगुणं सत्त्वरजस्तमांसि त्रयो गुणा यस्य नत् त्रिगुणं तत्र प्रकृतेर्गुणत्रयसाम्यावस्थारूपत्वात् , मह दादेश्च प्रकृतिकार्यत्वेन गुणसंवन्धात् । अविवेकि प्रकृत्यभिन्नम, तत्र महदादः प्रकृत्यभिन्नत्वं कार्यकारणयोरभेदात्, प्रकृतस्तु स्वत एव । विषयः ज्ञानभिन्नः, न तु योगाचारमतवज्ज्ञानाकारः, तथा स- त्येकस्य बहुभोग्यता न स्यात, ज्ञानस्य तत्तदीयस्य तत्तत्पुरुष- मात्रवेद्यत्वात् । सामान्यं गुणवत्त्वेन तुल्यम्, अथवा भोग्यत्वेन सर्व- पुरुषाणां पण्यस्त्रीवत् तुल्यम् । अचेतनं स्वप्रकाशचेतनाद्भिन्नम, अ. नवभासकत्वात् । प्रसवधर्मि, प्रसवोऽन्याविर्भाव हेतुत्वं धर्मो यस्य (१) महदादीनां यत् स्वरूपं कार्यामना परिणाम तदुभयं प्रकृत्यधौनमित्यर्थः । ( २ ) पन्य त एव ।
( १३ ) ताहशम्, यस्माद्बुद्ध्यादिकमहंकारादिकं प्रसूते प्रधानं तु बुद्धिं प्र- सुते तदिदं सर्व व्यक्ताव्यक्तयोः सारूप्यमुक्तम् । अधुना व्यक्ताव्य- क्तयोः पुरुषस्य च साधर्म्य वैधयं चाह तद्विपरीतस्तथा च पुमानि- ति, ताभ्यां व्यक्ताव्यक्ताभ्यां विपरीतो विरूपः, निर्गुणत्वात्, निर्वि- पयत्वात्, निःसामान्यत्वात्, चेतनत्वात्, अप्रसवधर्मित्वाच, तथा चाव्यक्तसरूपोऽप्यहेतुमत्त्वादिना, एवं व्यक्तसरूपोऽप्यनेकत्वसंख्य. येति भावः ॥ ११ ॥ प्रीसप्रीतिविषादा- त्मकाः प्रकाशपत्तिनियमार्थाः । अन्योन्याभिभवाश्रयः जननमिथुनवृत्तयश्च गुणाः ॥ १२ ॥ त्रिगुणमित्युक्तं तत्र किमात्मका गुणाः किमर्थाः किंप्रवृत्तयश्च तत्राह प्रीत्यप्रीतीति । गुणाः सत्त्वरजस्तमामि यथासंख्यं प्रीत्यादि- रूपाः, तत्र प्रीतिःसुखम्, उपलक्षणमार्जव (१) मार्दवह्रीश्रद्धाक्षमा- नुकम्पाशानादीनाम् । अप्रोतिर्दुःखम, उपलक्षगां प्रद्वषद्रोहमत्सरनि- म्दानिकृत्या (२) दीनाम्। विगदो मोहः, उपलक्षणं विप्रलम्भ (३) भयनास्तिक्यकौटिल्यकार्पण्याज्ञानादीनाम् । यत्रैतदुपलभ्यते तत्र ता- हग्गुणः प्रत्येतव्य इति भावः । लक्षणमुक्त्वा प्रयोजनमाह प्रकाशेत्या- दि प्रकाशोऽवमासः प्रवृत्तिश्चालनं नियमः प्रतिवन्धोऽर्थः प्रयोजनं ये- पां ते तादृशाः । तनावभासः सत्त्वेन, चालनं रजसा, प्रतिबन्धस्तम- सा । तथाहि सत्त्वं रजसा चालितं कार्य जनयेद् यद्याबरकेण तमसा न नियम्येत तथा च तमसा प्रतिबन्धात् तत् स्वार्थक्षमं न भवति, अतस्तत्प्रतिवन्धस्तस्य प्रयोजनं बोध्यम् । अन्योन्येति, अत्रान्योन्य- पदं वृत्तिपदं च चतुर्घप्यन्वेति । तथा चान्योन्याभिभववृत्तयाः, न. थाहि सत्त्वमुत्कटं भूत्वा रजस्तमती अभिभूय शान्तां वृत्तिं लभते, (१)पार्जवं सरलता। (२) निकृति: पराभव: । (२) विप्रलम्बी वचनम् ।
( १४ ) एवं रजः सत्त्वतमसी अभिभूय घोराम्, एवं तमः सत्त्वरजसी अभि- भूय मूढाम् । अन्योन्याश्रवृत्तयः, अन्यतमो गुणः स्वकार्यार्थमन्या- वाश्रिन्य महकारिणी कृत्वा प्रवर्तते । अन्योन्यजननवृत्तयः, कार्यस्य त्रिगुणात्मकत्वादन्योन्यजनका इत्यर्थः । अन्योन्यमिथुनवृत्तयः, स्त्री- पुरवदन्योन्यसंयोगशीला इत्यर्थः । अत्रायं विशेषः, एको यदाधि- फस्तदापरी दुर्वलागिति, तथैव दर्शनात् ॥ १२ ॥ सत्त्वं लघु प्रकाशक- मिष्टमुपष्टम्भकं चलं च रजः । गुरु वरणकमेव(१)तमः प्रदीपवच्चार्थतो वृत्ति (२)। १३ ॥ सत्त्वादीनामसाधारणं धर्म विवेकोपयोगायाह सत्त्वं लविनि। लघु लघुत्ववत्, प्रकाशकमिन्द्रियार्थसंनिकर्षे सत्यवभासकम्, स. त्याधिक्येनैवाङ्गानां लघुताया उपलब्धेरिन्द्रियाणां विषयग्रहणसा- मर्यदर्शनाच्च, लघुत्वं प्रकाशकत्वं च सत्त्वस्य लक्षणम्, तत्र लघु- त्वं कार्योद्मनहेतुभूतो धर्मः, इष्टं संख्याचार्यः । उपटम्मकं संश्लेष- जनकम, चलं सक्रियम्, रजसैव संश्लेपक्रिययोरुपलम्भात्, प्रेरकत्वं सक्रियत्वं च रजसो लक्षणमिति भावः । गुरु गुरुत्ववत्, वरणकमा- घरकम, तमसैवाङ्गगुरुत्वरिषयावभामप्रतिबन्धयोर्दर्शनात्, गुरुत्वं तत्तदिन्द्रियव्यापारनिवृत्तिद्वारा तत्तत्कार्यप्रतिबन्धकत्वं च तमोल क्षणमिति भावः । नन्वतत्कथनेन सत्त्वरजस्तमांसि जात्यन्तराण्येवे. नि लश्यन्ते तथा च तेषां परस्परविरुद्धानां कथमेकत्र प्रवृत्तिः संभ- नति परस्परविरुद्धानां शत्रणामकार्थकरणानुपलम्भात्, तत्राह प्र- दीपवदिति, यथा तैलवर्तिदीपानां परस्परं विरोधेऽपि तैलवनियां सह दीपः प्रकाशं जनयति तद्वदित्यर्थः, दीपोपरि तैलपतनेन दी. पनाशात् तैलमपि दीपविरोधि, एवं वर्तिरपि स्वल्पकेन दीपना- शिकति ॥ १३॥ (१) एषकारी भिन्न क्रम प्रत्ये कं संवध्यते, सत्त्व मेन रज एव तम एवेति । (२) पुरुषार्थ त रति यावत, तथा च वाति पुरुषार्थ एव तुर्म के नचित् कार्यते करणमिति।
( १५ ) अविवक्यादिः(१)सिद्ध- बैगुण्यात् नद्विपर्ययाभावात् । कारणगुणात्मकत्वात् कार्यस्याव्यक्तमपि सिद्धम् ।। १४ ।। अविवेकित्यादिकं प्रकृत्यादिसाधर्म्यमुक्तं तत् कथं तेषु (२) सिद्धमित्यत आह अविवेक्यादिरिति । अत्राविवेक्यादिरिति धर्मप. रः, अविवेकित्वादिकं प्राङ्निरुक्तं महदादिष्ववाधितम, कुतः, त्रैग- ण्यात्, प्रकृतिवत् त्रिगुणत्वात् (३)। व्यतिरेकसहकारेणेव यऽनुमा. नांमच्छन्ति तान् प्रत्याह तद्विपर्ययेति, तस्याविवेकित्वस्य विषययो यत्र स तद्विपर्यय आत्मा नत्र त्रैगुण्याभावात्, तथा च यत्नाविवकि- स्वाभावस्तत्र त्रैगुण्याभावः० आत्मवदिति व्यतिरेकव्याप्तिरस्त्येव । अतस्तत्सिद्धि (४) रप्यवाधिवेति भावः । ननु प्रकृत्यनन्यत्वं मह. दादीनामुक्तं प्रकृतिसिद्धिरेव तु कुतस्तत्राह कार्यस्येति, महत्तत्त्वा- दीनां कारणाभावे नित्यत्वापत्त्यात्सनोऽनिर्मोक्ष एव स्यादिति जन्य. त्वमेवाघश्यकम, जन्यं च तत्समानजातीयगुणककारणकमेव वाच्यं तयेवानुभवात् , कारणं च तन्नित्यमेव तस्यापि कारणस्वीकारेऽन- वस्थापत्तिः स्यातू, अतोऽव्यक्तं प्रधानमपिना तत्तगुण्यं च सिद्ध- मित्यर्थः ॥ १४ ॥ भेदानां परिमाणात् (१) समन्वयात् (२) शक्तितः प्रवृत्तेश्च । कारण कार्यविभागा- दविभागाद्वैश्वरूप्यस्य ॥ १५ ॥ महदादिभ्यो भेदेन प्रधान हेतुभिः साधयति भेदानामिति । (१) अविवेकित्वादिकम् । (२) प्रत्यादिषु । (३) तथा च प्रयोगः, इदं व्यक्रमविवेक्या दियोगि विगुणात्मकत्वादशतवादति । (४) महदादी गुण्णस्य सिद्धिरित्यर्थः ।
( १६ ) कारणमस्त्यव्यक्तमित्युत्तरेणान्वेति, भिद्यन्त इति भेदा महदादय. स्तेषां परिमाणात परिमितत्वादव्यापित्वात्, अनेकत्वरूपभेदवत्त्वाद्वा, यद् यदनेकमव्यापि च तत् तत् कार्यम्, भवति च महदादिकं प्रति. पुरुषनियनत्वादनेकमव्यापि च, अतस्तत्कारणं योग्यतया नित्यमेकं प्रधानमवेति भावः । हेत्वन्तरमाह समन्वयात, सुखदुःखमोहान्वि- तत्वरूपसमानधर्मवत्त्वादित्यर्थः, व्यावृत्तानामंधां ( ३) तत्समानस्त्र. भावककारणकत्वमावश्यकम्, तच्च कारणं योग्यतया प्रधानमेवति भावः । इतश्चाऽस्ति प्रधानमित्याह शक्तितः प्रवृत्तेश्चेति, शक्तिमत्त्वा- देव कार्यानुकूलप्रवृत्तिसंभवात् कारणानाम् , शक्तेश्च प्रकृतिरवापूरि- का, यतः कार्य महद्भवति, यथा मृदापूराद बीजं वृक्षादिरिति (४) भावः । इतश्चास्ति प्रधानमित्याह कारणकार्यविभागादिति, कारणे सतः कार्यस्यैव कूर्माङ्गानामिव निःसरणरूपपृथग्भावादिरूपविभा- गान्महदादिकार्यस्य नाहशतादृशावस्थाहतुरव्यक्तमेवेति भावः । इ- तश्चास्ति प्रधानमविभागाद्वेश्वरूप्यस्य, अत्र स्वार्थे प्यञ्. विश्वरू- पस्य त्रिलोकस्याविभागात् (५), प्रलये कारणेनैकीभावरूपाल्लया- दित्यर्थः, ताहशकारणं धिना तेषां भिन्नानामेकीभावरूपो लय एव न स्यादिति भावः । न च ब्रह्मैव ताहशकारणमस्तु कृतं प्रधानेनेति वा- च्यम, तस्य ( ६ ) शक्तिमत्त्वेन कारणत्वकल्पनापेक्षया शक्तित्वेन प्र- धानकल्पनाया एवोचितत्वादिति संक्षेपः ॥ १५ ॥ (१) प्रदमनुमानं विवादाध्यासिता भेदा पयत कारण बन्न परिमितत्वाद घटा. दिवदिति, घटादयो हि परिमिता मदायन्यन कारणका दृष्टाः, उक्तमेतद्यथा कार्य स्या- व्यक्तावस्या कारणमिति, यन्महत: कारणं तत् परमाव्यक्तं तत: परतरावाक्तकल्पनाया प्रमाणाभावात । ( २ ) इतष विवादाध्या सिता भेदा पवात कारण वन्तः समन्वयात, भिनाना सरूपता समन्वयः, सुखदुःखमोहसमन्विता हि बुद्यादयोऽध्यवसायादिलक्षणा: प्रतीयन्ते, यानि च यद्रूपं समनुगतानि तानि तत्स्वभावावाक कार पकानि, यथा मृद्ध मपिण' समनुगता घट. सकुटादयी मई मपिण्डावान कारणका दृटा इति । (२) परस्परं भिन्द्रामा महदादीनाम् । (४) बीज वादिरूपेण परिणमत इत्यर्थः । (५) विलोक्य। इत्युचितम, एवमन्यत्रापि शेयम् । (4) ब्रमणः ।
( २७ ) कारणमस्त्यव्यक्तं प्रवर्तते त्रिगुणतः समुदयाच्च । परिणामतः सलिलवत् प्रतिप्रतिगुणाश्रय विशेषात् ।। १६ ॥ ननु यद्येकं प्रधानं कथं तर्हि तस्माद्विविधकार्योत्पत्तिः, नोक- न्तुतः पटो दृश्यते तत्राह कारणमिति । यदव्यक्तं जगतः कारणम- स्ति तत् त्रिगुणतः प्रवर्तते सत्त्वादिगुणत्रयातू प्रवर्तते कार्य जनय- ति, तथा च गुणत्रयात्मक प्रधाने बहुत्वमस्त्येव, अतो नानुपपत्तिरि- ति भावः । एफजातीयजनकता कथं तत्राह समुदयाच्चेति (१), मेलनाच्वेत्यर्थः, गुणप्रधानभावेन (२) मिलित्वा चित्ररूपमिवैकं कार्य जनयतीति भावः । भवतु महदादि कार्यमेकजातीय कार्यान्त- रेषु वैषम्यं तु कुतस्तत्राह प्रतिप्रतीति, एकैकगुणाश्रयेण यो विशेष- स्तस्मादित्यर्थः, गुणवैषम्याद्वैषम्यमिति भावः।तन दृष्टान्तः परिणामतः सलिलवदिति, यथा सलिलमेकमपि नारिकेलजम्बीरादिपरिणामभे- दान्मधुरतिक्तादिभावं प्रतिपद्यते तद्वदिदमपिसहकारिभेदादेव विष- ममिति भावः ॥ १६ ॥ संघातपरार्थत्वात् त्रिगुणादिविपर्ययादधिष्ठानात् । पुरुपोऽस्ति भोक्तृभावात् कैवल्यार्थ प्रवृत्तेश्च ॥ १७ ॥ प्रधाने प्रमाणमुक्का पुरुष प्रमाणमाह संघातेति । पञ्चम्यन्तप- ञ्चहेतूनां (३) पुरुषोऽस्तीत्यनेनान्वयः, संघातः पृथिव्यन्तसमूहस्तस्य शय्यादिवत् परार्थत्वात् परप्रयोजनार्थत्वात् प्रयोजनं च सुखदुःखा- न्यतरसाक्षात्काररूपो भोगः, तस्य च जडे वाधाच्चेतनस्तद्वान् पुरु- (1) मर्मयोदयः समुदयः । (२) गौणमुखभावेन । (२) पचम्यन्तानां पखामा हेमूनामित्युचितम् । ३ ( १८ ) षोऽस्ति, युक्तिप्रमाणादिति भावः। हेत्वन्तरमाह त्रिगुणादिविपर्य- यादिति, प्रयो गुणा यस्यादिरसी त्रिगुणादिस्तस्य त्रिगुणादे (१) विपर्ययोऽभावस्तस्मात्, त्रिगुणतत्कार्यस्य जडत्वात् कार्यविशेषे (२) ऽकारणत्वाच्च किंचिनिष्ठाभावप्रतियोगित्वं घटादेरिवावश्यकम्, सर्वस्य त्रिगुणस्याभावस्वनिगुणे पुरुष एव संभवति, अतस्त्रिगुणा- भावाधिफरणस्वेन पुरुष आवश्यक इति भावः हेत्वन्तरमाह० अधि. ठानादिति, अधिष्ठातृत्वादित्यर्थः, यथा रथःसारथिनाधिष्ठितःप्रवर्तते तदिदमपि सर्व जडत्वात् पुरुषाधिष्ठितमेव प्रवर्तत इत्यकामेनाप्यव. श्यं वाच्यम, अतस्त्रिगुणाधिष्ठातृतया पुरुषोऽस्तीति भावः । हेत्वन्त- रमाह भोक्तभावादिति, साक्षित्वादित्यर्थः, यस्येदं व्यक्ताव्यक्तं सर्व षड्रसादिवदनुभवनीयं स पुरुष आवश्यक इति भावः । हेत्वन्तर- माह कैवल्पार्थ प्रवृत्तेश्चति, शिधा मुक्ती प्रवर्तमाना हश्यन्ते, मुक्तिश्च प्रकृत्यादिषु मध्ये न कस्य चिदपि संभवति त्रिगुणत्वेन सुखदुःख- मोहात्मत्वात्, तस्मान्मुमुक्षुप्रवृत्त्युहेश्यमोक्षाश्रयत्वेन पुरुषसिद्धिरि- ति संक्षेपः ॥ १७ ॥ जन्ममरण करणानां प्रतिनिगमादयुगपत् प्रवृत्तेश्च । पुरुषवहुत्वं सिद्ध त्रैगुण्यविपर्ययाच्चैव ॥ १८ ॥ तदेवं पुरुषास्तित्वं प्रतिपाद्य तस्य बहुत्वं प्रतिपादयति जन्म- मरणेति । पुरुषबहुत्वं सिखस्, कस्मात, जन्ममरणफरणानां प्रति- नियमात, आत्मनि देहसंबन्धो जन्म तत्त्याग एव मरणं करणानि चक्षुरादीनि० एषां प्रतिनियमः प्रत्येकमेव दर्शनं तस्मात, आत्मन एकत्वे तन्न स्यात, एकस्मिन् जाते मृते वा सर्व एव जाता मृता वा स्युः एकस्मिन् सचक्षुपि सर्व एव सचक्षुषः स्युः, एकेन दृष्टे सर्वे द्रटारः स्युः, न च तथा, तस्माद्बहवः पुरुषा इति भावः । हेत्वन्त- (1) चुहाादिपवस्य । ( २ ) जलानयनादिरूपे कार्यविशेष घटस्य कारणत्व नायव ।
( १९ ) रमाह अयुगपत् प्रवृत्तेश्चेति, एफस्य धर्मेऽन्यस्य मानेऽन्यस्य वैराग्ये- न्यस्यैश्वर्येऽन्यस्य कामादावित्येवं प्रवृत्तिभेदादित्यर्थः, आत्मन एफ- त्वे सर्वेषामेकस्मिन्नेवार्थे युगपत् प्रवृत्तिः स्यात, न च तथा, तस्मा- दपि बहवः पुरुषा इति भावः । हेत्वन्तरमाह गुणयविपर्ययाच्चैवेति, एवकारोऽत्र भिन्नक्रमः सिद्धमित्यस्यानन्तरं द्रष्टव्यः, सिद्धमेव नासि- दम, त्रयो गुणास्त्रैगुण्यं तस्य विपर्ययः परिणामभेदः क्वचित् सु. स्त्रमेव क्वचिद्दुःखमेव कचिन्मोह एवेत्येवंविधस्तस्मात, यद्वा गुण्ये- न विपर्ययो भेदः साविकराजसतामसभेदेन पुरुषस्य तस्मात्, ए- कत्वपक्षे तु तन्न स्यात् किं तु सर्वे सुखिनो दुःखिनो वा स्युः, पतं त्रिगुणभेदेन नीचोत्तममध्यमव्यवस्थापि न स्यात्, नचान्तःकरणभे. दात तथेति वाच्यम, अन्तःकरणभेदे पुरुषभेदस्यैव वीजत्वात, अ- न्यथा तद्भेदस्याप्रमाणकत्वादिति भावः ॥ १८ ॥ तस्माच्च विपर्यासाद सिद्धं साक्षित्वमस्य पुरुषस्य । कैवल्यं माध्यस्थ्यं द्रष्टत्वमकर्तृभावश्च ॥ १९ ॥ एवं पुरुषबहुत्वं प्रसाध्य विवेकज्ञानोपयोगितया तस्य धर्मा. नाह तस्मादिति । त्रिगुणादेयों विपर्यासोऽत्रिगुणत्वं विवेकित्वम- विषयत्वमसाधारणत्वमप्रसवधर्मित्वं च तस्मात्, तत्र चेतनत्वाद्रष्टः त्वं (१) खप्रकृतिशीलझातृत्वं प्रकृतिर्मम संसारं कारयति न त्वहं संसारवान् किं तु पुष्करपलाशवनिर्लिप्त इति धीमत्त्वम्, अनेगु- पयात, कैवल्यमात्यन्तिकदुःस्त्रशून्यत्वम्, तथा माध्यस्थ्यमुपकाराप- कारशक्तिरहितत्वम, अकर्तृभावोऽकर्तृत्वमिच्छाद्वेषप्रयत्नादिशुन्यत्व- म्, अत एव साक्षित्वं छानेकस्वरूपत्वम्, कर्तृत्त्वादिमत्त्वे तदवभास- क (२) मानेकरूपो न स्यात, तशर्मशून्यस्यैव (३) वीपस्य घटा. दो तदवभासकत्वदर्शनात्, इति संक्षेपः ॥ १९ ॥ (१)चेतनो जिया भवति नाचेतनः । (२) कर्तृत्वावभासकम । (३) कात्वादिधर्मशून्यम्य दखधर्मशून्यस्यैव दृश्यधावभासकत्व रयते ।
( २० ) तस्मात् तत्संयोगा- दचेतनं चेतनावदिव लिङ्गम् । गुणकर्तृत्वेऽपि तथा कर्तेव भवत्युदासीनः ॥ २० ॥ ननु कृतिर्बुद्धितत्त्वनिष्ठा चैतन्यमात्मनिष्ठं कथं तर्हि जानाम्यह- मिदं करोमीति कृतिचैतन्ययोः सामानाधिकरणयप्रतीतिस्तत्राहतस्मा- दिति । यतश्चैतन्यकर्तृत्वे भिन्नाधिकरणके युक्तितः सिद्धे तस्माद्भा- न्तिरियमित्यर्थः,भ्रान्तिबीजं तत्संयोगाः, तत्संयोगादिति तस्य पुरुषस्य संयोगः संनिधानं प्रतिबिम्बवत्त्वं तस्मादचेतनमपि लिङ्गं बुद्धितत्त्वं चेतनावदिव जानामीति ज्ञानावदिव भवति, एवं गुणकर्तृत्वे, गुणाः सुखदुःखमोहरूपाः, कर्तृत्वं च तथा बुद्धिनिष्ठमात्मनि प्रतिविम्बि- तं भवति, तेनोदासीनोऽपि पुरुषः करोमीति कर्तेव भवति, अतोऽहं जानाम्यहमिदं करीमीति प्रत्ययो धर्मिणो दाग्रहाद्विनिमयेन धर्मसं. सर्गग्रहरूपो भ्रम एव, तयोस्तथात्वनिश्चयात्, इति संक्षेपः ॥ २० ॥ पुरुषस्य दर्शनार्थ कैवल्यार्थ तथा प्रधानस्य । पङ्ग्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः ॥ २१ ॥ किमर्थ तयोः संयोगस्त त्राह प्ररुषस्योति । पुरुषस्य जवानस्य चोभयोरपि संयोगो दर्शनार्थ कैवल्यार्थ चेत्यन्वयः, दर्शनं भोगः प्रधानस्य पुरुषेण, कैवल्यं मोक्षः सत्त्वपुरुषान्यताख्यातिनिबन्धनः (१) पुरुषस्य, प्रधानेन विनाऽसंभवात् तयोः प्रधानपुरुषयोर्द्वयोः संयोगो भोक्तृभोग्यभावकरं संनिधानं भवतीत्यर्थः । उभयस्य कार्य० उभ- यस्यैवापेक्षेत्यत्र दृष्टान्तः पङ्ग्वन्धवदिति, यथा पङ्ग्वन्धयोरेकत्र मेलन पङ्गुरन्धस्य मार्गप्रदर्शनायान्धश्च पङ्गोनयनाय भवति त- वदित्यर्थः । भोगापवर्गयोरभूतः सर्गोऽपि संयोगादेवेत्याह तत्कृत (१) सत्त्वाद युद्ध: पुरुषस्यान्यताख्यातिभेदस्त निवन्ध नी भेदप्रयुको मोक्षः ।
( २१ ) इति, महदादिलक्षणः सर्गः संयोगजन्य एवेत्यर्थः, अत एव प्रलये न सर्गः, तयोस्तादृशसंयोगाभावादिति भावः ॥ २१ ॥ प्रकृतेमहांस्ततोऽहं- कारस्तस्माद्गणश्च पोडशकः । तस्मादपि पोडशकात पञ्चभ्यः पञ्च भूतानि ॥ २२ ॥ सर्गक्रममाह प्रकृतेरिति । अनेयं प्रक्रिया, एकं प्रकृाततः कि- चिन्न्यूनपरिमाणं महत्तत्त्वमंशांशिभावापन्नं जायते, तथा बुद्धित. स्वाख्या आत्मसमसंख्याः शरीरप्रवेशाहपरिमाणका जीवभोगाय भवन्ति, तेषामापूरिका प्रकृतिरव, एवमहंकारो महत्तत्वादल्परिमा- णोंऽशांशिभावापन्नो भवति, तनांशाः सूक्ष्मा आत्मसमसंख्यास्तथैव तद्भोगाय भवन्ति, पोडशको गणस्तु एकादशेन्द्रियाणि वक्ष्यमाणा- नि शब्दादीनि पञ्च तन्मात्राणि च, तस्मादपि (१) पोडशकात् तं पोडशकं प्राप्य स्थितेश्यः पञ्चभ्यस्तन्मात्रेभ्यः पञ्च महाधूतानि भवन्ति, तत्र शब्द तन्मात्रादाकाशं तस्य शब्दो गुणः, शब्दतन्मा त्रसहितात् स्पर्शतन्मानाद्वायुः शब्दस्पर्शगुणवान्, शब्दस्पर्शतन्मात्र- सहितादूपतन्मात्रात् तेजः शब्दस्पर्शरूपगुणाकम्, शब्दस्पर्शरूपत- न्मात्रसहिताद्रसतन्मात्राजलं शब्दस्पर्शरूपरसगुणाम,शब्दस्पर्शरूप. रसतन्मात्रसहिताद्गन्धतन्मात्रत् पृथ्वी शब्दस्पर्शरूपरसगन्धगुणति, अन संग्रहः, "वियदेकगुणं प्रोक्तं द्वौ गुणी मातरिश्वनः । त्रयस्तेजसि चत्वारः सलिले पञ्च भूमिगाः" ॥ इति, अहंकारादेव पञ्च महाभूना- नि भवन्त्यिति तु न वक्तुं शक्यं शब्दादिगुणकानां तेपामहंकारत उ. त्पत्तेरसंभवातू, अहंकारस्य सदाद्यभावात्, न चाहंकारस्य पञ्च- गुणवत्त्वे मानमस्ति, तथा सत्याकाशादीनां पञ्चानामेव पञ्चगुणवत्त्वं स्यात् , एवं बाह्येन्द्रियग्राह्यगुणवत्त्यस्यैव भूतत्येन तस्यापि भूततापत्ती स्वस्य स्वकारणत्वानुपपत्त्या तस्य (२) भूतकारणत्वश्रुतिविरोधश्च (१) त्याब खोपे पञ्चमी। (२) पहंकारस्य ।
( २२ ) स्यात्, न चाहंकारस्य शब्दाद्यभावे कथं तस्माच्छब्दादितन्मात्रोत्प. त्तिारति वाच्यम्, हरिद्रादीनां चूर्णादिसंयोगेन तदुभयारब्धे रक्त रूपवन्महदहंकारादिसंयोगेन शब्दतन्मात्राद्युत्पत्तिसंभवात्, न च स्थूलानामप्येवमहंकारादुत्पत्तिर्वक्तुं शक्येति वाच्यम, स्वविशेषगु- णबन्योपादानकत्वव्याप्येन ( १) स्थूलत्वेन परिशेगत सूक्ष्मद्र- व्यारब्धत्वानुमानादहंकारोपादानकत्वनिरासात् । इत्याद्यन्यत्र वि- स्तरः । तन्मात्रत्वं च यजातीयेषु (२) शान्तघोरमूढाख्यविशेषत्र- यं न तिष्ठति तजातीयतदनाश्रय(३)शब्दस्पर्शरूपरसगन्धाश्रयसूक्ष्म- द्रव्यत्वम, शान्तं सुखात्मकम, घोरं दुःस्त्रात्मकम्, मूढं मोहात्मकम्, तन्मात्राणि च देवादियोग्यत्वेन केवलं सुखात्मकान्येव सुखाधिक्या. त्। सूक्ष्मत्वात् त्वयोग्यतया तेषामस्मदाद्यग्राह्यत्वमिति तत्त्वम् ॥२२॥ अध्यवसायो बुद्धि- धर्मों ज्ञानं विराग ऐश्वर्यम् । सात्तिकमेतद्रूपं तामसमेतद्विपर्यस्तम् ॥ २३ ॥ बुर्लक्षणमाह० अध्यवसायो बुद्धिरिति । अध्यवसायो मयेदं फर्तव्यमित्याफारनिश्चयो दीपशिखेव बुद्धिपरिणामो( ४ ) विस्थावि- शषः, परिणामपरिणामिनोरभेदादभेदप्रयोगः, चैतन्यस्य (५) स- (1) स्वस्मात् कार्याहिशेषगुणी विद्यते यथिन् द्रव्ये तत् स्वविशेषगुणवद द्रव्य तदै- वीपादानं यम्य तत् स्वविशेषगुणवदव्योपादानकं तस्य भावः म्वविशेषगुणवद्रव्योपादान- कत्व तेन व्याप्यं स्वविशेषगुणवद्रव्योपादानकत्वव्याप्यं तेन । स्थूलत्व व्याप्यं स्वविशेषगु- ण वद्रीपादानकवच वापकत्वम, यव स्थूलत्व तच खविशेषगुणवद्रगोपादानकत्व- म म्हशब्देन महाभूतानि तव यी विशेषगुण: शब्दादिस्तपद यद द्रवा तदुपादानं यस्य तन तस्य भावतत्त्वम। (.) शब्दत्वादिभातीयेषु । (३) शान्ताधनाश्रय-। (४) यथा दीपशिखा क्षणे क्षणे परिणमति, एवं बुद्ध: परिणामः । (५) चेतन्यस्य विषयाणामवभासी ज्ञानं तम्य वैचिच्यायेन्द्रियाणामावग्यकत्वम, मन. सो वासनीपपनये पावस्यकत्वम्, एवमयेऽपि योज्यम् ।
२३ देफस्वभावस्य विषयावभासवैचित्र्यायन्द्रियाणां व्यासङ्गोपपतये म. नसा मदिएसाधनत्ववृद्धी मदंशभानायाहंकारस्य कृत्यसाध्ये वृष्टया- दौ प्रवृत्तिवारकस्याकर्तव्यत्वाध्यवसायस्य संभवाय बुद्धि तत्त्वस्या- वश्यकत्वमिति स्वयमूह्यम् । बुद्धिधर्मानाह धर्मो ज्ञानमिति । धर्मों गङ्गास्नानादिजन्योऽष्टाङ्गयोगजन्यश्च, ज्ञानमात्मसाक्षात्कारः, विरागो वैराग्यम, तचतुर्विधं यतमानव्यतिरेकेन्द्रियवशीकारसंशाभेदात, तत्र रागादिकायपाचनार्थ निवृत्तिधर्मारम्भो यतमानम्, पक्कापक्कानां दोषाणामभ्यस्यमानविवेकवलेन चिकित्सकवद्भेदकरणं व्यतिरेकः, पक्कमर्वकषायशानेन चित्तोत्सुकता (१) एकेन्द्रियम्, सर्वविषयतृ- णाहित्येनोत्सुक्यस्यापि निवृत्तिर्वशीकाराख्यम् । ऐश्वर्यमिति, त- दष्टविधम, तदुक्तम्, “अणिमा महिमा मूर्लघिमा प्राप्तिरिन्द्रियैः । प्राकाम्यं श्रुतहष्टेषु शक्तिप्रेरणमीशिता ॥ गुणेष्वसङ्गो वशिता यत्का- मस्तदवस्यति" । इति । मूनें: शरीरस्य, अणिमा० अणुत्वम्, महि- मा योजनादिव्यापित्वम, लघिमा तूलादिवल्लघुत्वम्, भूमिष्ठएवा. मुल्यग्रेण चन्द्रमसं स्पृशतीत्यादिरूपसामर्थ्यमिन्द्रियैः प्राप्तिरित्यु- च्यते, श्रुतहष्टेषु प्राकाम्यमिच्छानभिघातः० यथा भूमौ जलेग्विव नि- मजतीत्यादि, ईशिता तु भूनभौतिकानां सर्वेषां संकल्पमात्रेण प्रेर- णम, वशिता गुणभूताधनधीनता सत्यसंकल्पता यत्कामस्तदवस्य- ति तत् प्राप्नोतीत्यनेनोक्तम् । एतद्विपर्यस्तम्० एतद्विपरीतम, अध. माशानावैराग्यानैश्वर्यरूपम्, तत्राधर्मः परस्त्रीसङ्गादिजन्यः, अज्ञान- मनित्ये गृहक्षेत्रादौ नित्यबुद्धिः, अशुचौ स्त्रीकायादौ शुचिबुद्धिः, दुःख्ने संसारे सुखवुद्धिः, अनात्मनि देहादावात्मवुद्धिौरोऽहमित्या- दिका अवैराग्यं विषयतृष्णा, अनैश्वर्य स्वाभिप्रेतविपरीतम् ॥ २३ ॥ अभिमानोऽहंकार- स्तस्माद् द्विविधः प्रवर्तते सर्गः । ऐन्द्रिय एकादशक- स्तन्मात्रापश्चकश्चैव ॥ २४ ॥ (१)विषयाणां चित्ते केवलमुरक पठा।
( २४ ) अहंकारस्य लक्षणमाह अभिमानोऽहंकार इति । अभिमानो- ऽहमित्यन्तभावेन प्रत्ययोऽहमिमं जानामि करोमि मदिएसाधनमि- दमत्राहमधिकृत इत्याद्याकारस्तस्य हेतुः ( १ ) कार्यकारण. योरभेदादभिमान। ऽहंकारः, अहमित्यव्यपदेश्यं पुरुपमहमिति व्यर- देश्यं करोतीति ताहशः, तनिष्ठमहंकारत्वं भेदाग्रहात् पुरुषेऽपि भा- सते न तु सोऽप्यहंकार इत्यभिप्रायः । तस्य कार्यभेदमाह तस्माद् द्विविध इति । तस्मादहंकारात् सर्गः, सृज्य इति सर्गः प्रपञ्चः, पोड शकगुणरूप भवान्तरव्यूहभेदेन द्विप्रकारः प्रवर्तते. उत्पद्यते । प्रका- रद्वयमाह० ऐन्द्रिय इति । तत्र तस्मादहंकारादैन्द्रिय इन्द्रियजातीय एकादशको गणः, एकादशसंख्याको व्यूहः, च पुनः, तन्मात्रापञ्च- कम्तन्मात्राजातीयः । एवकारो गणान्तरव्यवच्छंदकः ॥ २४॥ साविक एकादशक: प्रवर्तते वैकृतादहंकारात् । भूनादेस्तन्मात्रः स ताममस्तैजसादुभयम् ॥ २५ ॥ ननु कथमेकस्मादहंकाराद् द्विविधः सर्गस्तत्राह सात्त्विक इति । प्रकाशलघिमभ्यामेकादशक इन्द्रियगणः सात्त्विकः ० उद्रि- क्त (२) सत्त्वगुणकाद् वैकृताद् विकृतोऽयमहंकार इति सांख्या- चार्यसंकेतविषयादहंकारात् प्रवर्तत, भूतादेस्तामसादुद्रिक्ततमोगुः कादहंकारातू तन्मात्रको गणः प्रवर्तत, कस्मातू, यतः स तामसः, तामसगुणस्य समानजातीयकारणादेवोत्पत्तरुचित्वात् । ननु यदि सत्त्वतमोश्यामेव कार्य तदा रजसः किं प्रयोजनं तत्राह तैजसादुभ- यमिति । उत्कटरजोगुणका (३) दुभयम्, गणद्वयं भवति, सत्त्वत. मसोः स्वतोऽक्रियत्वेन रजःप्रेर्यत्वात् तदुभयकार्य रजःकार्यमेव, अतो रजोगुणोऽप्यावश्यक इति भावः । तन्द्रियजनकस्य वैकृतत्वकथन (१)तस्याभिमानस्य हेतुरहंकारः । ( २ ) उदितालमुरकटत्वम् । (३) पहंकारादिति विशेष्यं शेयम् ।
( २५ ) लघुकार्यजनकत्वाभिप्रायकम् , तन्मात्रजनकस्य भूतादित्वकयनं ता. मसत्वमहाकार्यजनकत्वाद्यभिप्रायकम्, रजोगुणकस्य तेजसत्वकथ- नं सृष्टिसमर्थत्वाभिप्रायकम, इति बोध्यम् ॥ २५ ॥ बुद्धीन्द्रिपाणि चक्षुः- श्रोत्रघाणरसनत्वगाख्यानि । वाक्पाणिपादपायू- पस्याख्यकर्मेन्द्रियाण्याहुः ॥ २६ ॥ एकादशेन्द्रियाणां मध्ये दश बाह्यन्द्रियाणि, तान्याह बुद्धी- न्द्रियाणीति । शब्दस्पर्शरूपरसगन्धा बुध्यन्त एतरिति बुद्धीन्द्रिया- णि चक्षुरादीनि रूपाद्युपलब्धिहेतुत्वेन सिद्धान्यतीन्द्रियाणि तत्त- दोलकाधिष्ठितानि । तत्र चक्षुः० चष्टेऽनेनेति व्युत्पत्त्या चक्षुःपदाभि- धेयं नयनं रूपादिषु मध्ये रूपस्यैव ग्राहकम, श्रोत्रं शृणोत्यनेनेति व्युत्पत्त्या श्रोत्नपदाभिधेयं फर्णविवरसंक्षक शब्दादिषु मध्ये शब्दस्यै- घ ग्राहकम्, घ्राणं जिघ्रत्यनेनेति व्युत्पत्त्या घ्राणपदाभिधेयं गन्धादि- घु मध्ये गन्धस्यैव ग्राहकम्, रसनं रसयत्यनेनेति व्युत्पत्त्या रसनप- दाभिधेयं रसादिषु मध्ये रसस्यैव ग्राहकम्, त्वक्स्पर्श स्पृशत्यने- नेति व्युत्पत्या स्पर्शपदाभिधेयं त्वक्स्थानीयत्वात् त्वगिन्द्रियं सर्व- शरीरव्यापि स्पर्शादिषु मध्ये स्पर्शस्यैव ग्राहकम्, तत्र त्वक्चक्षुषी द्रव्यस्यापि ग्राहके, अन्यानि तु गुणमात्रग्राहकाणीति विवेकः । वा- गादीनि कर्म कुर्वन्तीति कर्मेन्द्रियाणि, तद्विषया वक्ष्यन्ते । एतेषां सर्वेषामिन्द्रियसंशा कुत इति चेत्, इंपदेन विषयास्तान् प्रति द्रवन्ती- ति व्युत्पत्त्येति गृहाण । चक्षुरादीनां तत्तद्रूतगुणग्राहकत्वेन तत्त- दूतारब्धत्वानुमानं तु न साधीयोऽप्रयोजकत्वादिति (१) स्वय- मूह्यम् ॥ २६॥ (१) प्रयोगबशडायसवादिस्यर्थः ।
( २६ ) उभयात्मकमत्र मन: संकल्पकमिन्द्रियं च साधात् । गुणपरिणामविशेषा- नानात्वं वाह्यभेदाश्च ॥ २७ ॥ एकादशमिन्द्रियं मनस्तलक्षणमाह० उभयात्मकमिति । मनः संक्षकमिन्द्रियं संकल्पकम, सामान्यत इन्द्रियेण गृहीतमर्थ सम्यक् कल्पयति विशेषणविशेष्यभावेन चेतयतीति विशिष्टधीजनकं कार्य- कारणयोरभेदात् तदात्मकम, अत एवोभयात्मकम्, बुद्धीन्द्रियसह- कारित्वात् तदात्मकम (१), कर्मेन्द्रियसहकारित्वात् कर्मेन्द्रिया- त्मकं च, मनोऽधिष्ठानेनैव तेषां स्त्रकार्यजननात् । ननु भवतु मनो महदहंकारवत् तत्तदिन्द्रियसहकारि, परंतु तद्वदेव (२) नेन्द्रियं भवितुमर्हति तावन्मात्रेण (३) तस्येन्द्रियत्वेऽतिप्रसङ्गा(४)त्, तत्राह इन्द्रियं चेति । कुतः, साधर्मात्, इन्द्रियान्तरः सात्त्विकाहंकारोपा- दानत्वं साधर्म्य तस्मात, महदहंकारयोस्तु नेन्द्रिय त्वं तथा (५) स्वाभावादिति भावः । एतेन मनो नेन्द्रियं प्रत्यक्षत्वादिन्द्रियस्य चा. तीन्द्रियत्वादिति वदतां केषांचिन्मतमसम्यगिति ध्वनितम्, इन्द्रिय- लक्षणस्य स्वमत प्रकृतसाधर्म्यस्यातीन्द्रिय (६) त्वविशेषणागर्भित- मादित्यास्तां विस्तरः । ननु कथं सात्त्विकादहंकारादेकस्मादेकाद- शन्द्रियाणि तत्राह गणपरिणामेति । गुणानां सत्त्वादीनां यः परिगा- मविशेषोऽहएविशेषादिरूपस्तस्मात, तथा च सहकारिभेदात् कार्य- भेद इति भावः । बाह्यभेदाचति हटान्तार्थम, यथा वाह्यभेदास्तथैत- दपीति भावः । ग्राह्यभेदाचेति पाठे तु ग्राह्यभेदादपीन्द्रियभेद आ- घश्यको बोध्य रत्यर्थः ॥ २७ ॥ (१) खुद्दीन्द्रियात्म कम। (२) मदरंकारवदेव । (२) इन्द्रियम हकरित्वमावेष । (४) इन्द्रियसहकारित्वेन ममस इन्दियत्व' चेत् तदेन्द्रियसहकारित्व सालीकादौना- मपि भवति तेषामपौन्द्रियत्व स्यात् । (५) साधाभावात् । (नचातीनि मति साधर्म्यत्वमिन्द्रियत्वमिति लक्षणं कुर्मः ।
( २७ ) रूपादिषु पञ्चाना- मालोचनमावमिष्यते दृत्तिः । वचनादानविहरणो- त्सर्गानन्दाश्च पञ्चानाम् ॥ २८ ॥ तत्र वाह्येन्द्रियेषु ज्ञानेन्द्रियाणां व्यापारामाह रूपादिग्विति । पञ्चानां वुद्धीन्द्रियाणां चक्षुरसनघ्राणश्रोत्रत्वचा रूपादिषु रूपरस. गन्धशब्दस्पर्शेषु० आलोचनं निर्विकल्पकं वृत्तिः फलम, मात्रपदा. दादानादिक्रियाव्यवच्छेदः, तन चक्षुण रूपे रसनाया रसे घ्राणस्य गन्धे श्रोत्रस्य शब्दे त्वचःस्पर्श सामर्थ्यमिति विवेकः । कर्मेन्द्रिय. व्यापारमाह वचनेति । पञ्चानां कर्मेन्द्रियाणां वचनादीनि कर्माणि, व्यापारा इत्यर्थः । तत्र वचनम् ० उच्यतेऽनेनेति कण्ठनाल्वादिकर्म (१) चागिन्द्रियस्य, आदानं ग्रहणं हस्तस्य, विहरणं गमनं पादयोः, उत्सों मलत्यागानुकूलं फर्म पायोः, आनन्दः ० आनन्दयतीति व्यु- त्पत्त्या रतिरुपस्थस्य, इतिः बोध्यम्, ॥ २८ ॥ स्वालक्षण्यं वृत्ति- स्त्रयस्य सैषा भवससामान्या। सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च ॥ २९ ॥ वुद्धयहंकारमनसां वृत्तिमाह स्वालक्षण्यमिति । स्वमसाधा- रणं लक्षणं येषां तानि स्खलक्षणानि महदहंकारमनांसि तेषां भाव: स्वालक्षण्यं वृत्तियापारः, तत्र महतोऽध्यवसायः, अहंकारस्याभिमा- नः, मनसः सविकल्पकं संकल्पापरपर्यायं भेदकमित्यर्थः । साधार- णत्वासाधारणत्वाभ्यां वृत्तद्वैविध्यमाह सैषेति । एषा वृत्तिः० असा- मान्या० असाधारणी । सामान्यामाह सामान्येति । सामान्या चासो करणवृत्तिश्चेति सामान्यकरणवृत्तिः, पञ्च प्राणाद्या वायवः, जीवना- दिद्वारा सर्वकरणव्यापारवीजत्वात, तदन्वयव्यतिरेकानुविधायित्वा- (१) क्रियेव्यर्थः ।
( २८ ) त्, इन्द्रियव्यापारस्य च तद्वयापारान्वयानुविधायित्वात, प्राणादीनां भेदः स्थानभेदादुक्तो ग्रन्थेषु, यथा “हृदि प्राणो गुदेऽपानः समानो नाभिदेशगः । उदानः कण्ठदेशे स्याद् व्यानः सर्वशरीरगः" ॥ इत्या- स्तां विस्तरः॥२९॥ युगपञ्चतुष्टयस्य हि वृत्तिः क्रमशश्च तस्य निर्दिष्टा । दृष्टे तथाप्यदृष्टे वयस्य तत्पूर्विका वृत्तिः ॥ ३० ॥ असाधारणेषु व्यापारेषु योगपद्यक्रमावाह युगपदिति । दृष्टे प्रत्यक्षविषये तस्य चतुष्टयस्य वाहोन्द्रियमनोहंकारमहत्तत्वस्य युग- वृत्तिः क्रमशश्च भवति, तथाहि विद्युत्संपाते व्याघ्रादाविन्द्रियसं. निकर्षे युगपदेव निर्विकल्पकसविकल्पकाभिमानाध्यवसायाः प्रादु- भर्वन्ति, अतस्ततो झटित्यपसरति । क्रमशश्च । यदा मन्दालोके प्रथ. मं किंचिदिदमिति जानाति पश्चादमुकमिति निश्चिनोति ततो मां प्र- येतीत्यभिमन्यते. अथाध्यवस्यति० अपसरामीतः स्थानातु, इत्येवं क्रमेण तेषामेते व्यापारा भवन्ति । तथाऽरष्टे परोक्षविषयेऽपि त्रयस्य इन्द्रिय(१)रहिततत्रयस्य पुगपत् क्रमशश्च व्यापारा क्षेयाः । अनु. मानशब्दयोर्विषये इन्द्रियाप्रवृत्तेस्त्रयस्येत्युक्तम, तयोर्विषये निर्विक- ल्पकाभावात् प्रथमं मनस एव व्यापारः, अनुमानशब्दविषये वृत्तिर्हि तत्पूर्विका रएपूर्विकेति विशेषः । अनुमाने व्याप्तिज्ञानार्थ प्रत्यक्षापे- क्षा, शब्दे शक्त्यनुमानापेक्षया प्रत्यक्षापेक्षेति संक्षेपः ॥३०॥ स्वां स्वां प्रतिपद्यन्ते परस्पराकूतहेतुको वृत्तिम् । पुरुषार्थ एव हेतु- न केनचित् कार्यते करणम् ॥ ३१ ॥ -- (१) इन्द्रियमच वाघम् ।
( २९ ) ननु युगपत् पक्षो न संभवति, इन्द्रिव्यापाराधीनप्रवृत्तिकत्वान्मनसः, एवमहंकारमहतोर्मनोऽहंकारव्यापाराधीनव्यापारकत्वात्, तत्राह स्वां स्वामिति । आकूतमभिप्रायः स चाचेतनानां बाधित इत्याकूतमत्र प्र- वृत्त्युन्मुखत्वम, तच्चैकस्य (१) व्यापारजननसमय एव, तथा चा- सति वाधकेऽन्यस्यापि स काल इति योगपद्यं संभवति, क्रमपक्षे सं. शयादिरेव बाधक इति बोध्यम् । खां स्वां प्रतिपद्यन्त इत्यनेन युग. पत् प्रवृत्तावपि याष्टीकशाक्तीकानामिव हेतुभेदान्न वृत्तिसंफर इति शापितम् । तथापि करणं केन प्रेर्यते तत्राह पुरुषार्थेति । भोगापवर्ग- लक्षणः पुरुषार्थ एव स्वविषयकेच्छाद्वारा करणव्यापारहेतुरित्यर्थः। कार्यते प्रेर्यते, तत्रेच्छावान् जीवः कर्ता आवश्यकः, ईश्वरस्तु न, त. दपेक्षायां मानाभावादिति भावः ॥ ३१ ॥ करणं त्रयोदशविघं तदाहरणधारणप्रकाशकरम् । कार्य च तस्य दशधा- हार्य धार्य प्रकाश्यं च ॥ ३२ ॥ करणानि कानि तवाह करणमिति । प्रयोदशविधं बुद्ध्यहंका. रो० एकादशेन्द्रियाणि च, एषां व्यापारानाह० आहरणेत्यादि, तत्रा- हरणं कर्मेन्द्रियाणाम, धारणं महदहंकारमनसाम, स्ववृत्तिप्राणादि. पञ्चद्वारा देहधारणात, प्रकाशो वुद्धीन्द्रियाणां व्यापारः। विषयाः कतिविधास्तवाह कार्य चेति । तस्य त्रयोदशविधस्य, तनाहार्य (२) दिव्यादिव्यभेदेन प्रत्येकं द्वैविध्याइशधा फर्मेन्द्रियाणाम, एवं धार्य शरीरादिकमारम्भकभूतानाम् ( ३) दिव्यादिव्यभेदाइशधा, बुद्ध्य- हंकारमनसां प्रकाश्यं शब्दस्परूपरसगन्धाख्यं दिव्यादिव्यभेदाह- शधा बुद्धीन्द्रियाणाम् ॥ ३२ ॥ (.)इन्द्रियस्य त्यर्थः । (२) पाहायं स्याप्य वचनादानविहरपीरमर्गानन्दाख्यम्। (३) पृथिम्यादौना पचानाम् ।
३० अन्तःकरणं त्रिविधं दशधा वाह्यं त्रयस्य विषयाख्यम् । साम्पतकालं वाह्य त्रिकालमाभ्यन्तरं करणम् ॥ ३३ ॥ त्रयोदशकारणानां भेदमाह ० अन्तःकरणमिति । महदहंकार. मनोभेदेन त्रिविधमन्तःकरणम् (१), बाह्यं करणं दशधा पञ्चवुद्धी- न्द्रियपञ्चकर्मेन्द्रियभेदात्, त्रिविधस्यान्तःकरणस्य विषयं व्यापार- माख्याति जनयतीति विषयाख्यम्, मनोऽहंकारवुद्धीनां व्यापारेषु बु. द्धीन्द्रियव्यापारस्योपयोगात्, कर्मेन्द्रियव्यापारस्यापि बुद्धीन्द्रिय- द्वारान्तःकरण व्यापारे उपयोगः, कर्मेन्द्रियव्यापारण जानते पदार्थे बद्धीन्द्रियप्रवृत्त्यान्तःकरणप्रवृत्तेः । वाह्येन्द्रियं किं तत्राह साम्प्रतका- लं वर्तमानमात्रविषयकम, बाह्य बहिरिन्द्रियम्, कर्मेन्द्रियस्य तत् (२) परंपरया (३) बोध्यम् । त्रिकालम्, अनीतानागतवर्तमानविषयम, तत्रानुमानराब्दसहकारेणातीतानागतविषयकम्, इन्द्रियसहकारेण वर्तमानविषयकम, आभ्यन्तरं मनोबुद्ध्यहंकाराख्यम् ॥ ३३ ॥ बुद्धीन्द्रियाणि तेषां पञ्च विशेषाविशेषविषयाणि । वाग्भवति शब्दविषया शेषाणि तु पञ्चविषयाणि ॥ ३४ ॥ बाह्येन्द्रियाणां विषयान् विवेचयति बुद्धीति । तेषां दशाना- मिन्द्रियाणां मध्ये वुद्धीन्द्रियाणि, विशेषा योग्या अविशेषा अतीन्द्रि- यास्त एव विषया येषां ताहशानि, तत्र योग्यायोग्ययोर्ग्रहणं योगी. न्द्रियाणाम, योग्यमात्रग्रहणमस्मदादीन्द्रियाणाम् । एवं कर्मेन्द्रियेषु घाकू शब्दविषया तजनकत्वात्, । शब्दश्च (४) न तन्मात्ररूपस्त- (1) शरीराभ्यन्तरतत्तित्वादन्तःकरणम् । (२) वर्तमानविषयत्वम् । (२) वुहौन्द्रियहारा। ( ४ ) वाक्यजन्यमष्ट्रय ।
( ३१ ) स्याहंकारजन्यत्वात् । शेषाणि पाणिपादपायूपस्थानि पञ्चविषयाणि पाण्याद्याहार्याणां घटादीनां पञ्चशब्दाद्यात्मकत्वादिति ॥ ३४ ॥ सान्त:करणा बुद्धिः सर्व विषयमवगाहते यस्मात् । तस्मात् त्रिविधं करणं द्वारि द्वाराणि शेषाणि ॥ ३५ ॥ बाह्यन्द्रियाणामप्राधान्यं वक्तुमाह सान्तःकरणेति । अन्तःक- रणे मनाऽहंकारी ताभ्यां सहिता वुद्धिः ० यस्मात् सर्वमिन्द्रियोप- नीतं विषयं पुरुषोपकारकमवगाहतेऽध्यवस्यति तस्मात् तत् त्रिविध- मन्तःकरण द्वारि (१) द्वारमस्यास्तीति कृत्वा, शेषाणि दशेन्द्रिया- णि द्वाराणि (२) साक्षात्परम्परया वेन्द्रियद्वारैवान्तःकरणानां वि. पयावगाहनात्, द्वारत्वं चान्योपकारकत्वम्, तच्चालोचनद्वारा प्रा. गुक्तदिशा योध्यम् ॥ ३५ ॥ एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः । कृत्स्नं पुरुषस्यार्थ प्रकाश्य बुद्धौ प्रयच्छन्ति ॥ ३६ ॥ अन्तःकरणेषु युद्धे, प्राधान्यं वक्तुमाह • एते प्रदीपकल्पा इति । एतं गुणविशेषा गुणानां भेदाः सत्त्वाधा येषु से दशेन्द्रिय(३) मनोऽहंकाराः पुरुषस्य कृत्समर्थ प्रकाश्य बुद्धौ प्रयच्छन्ति तत्र प्र- काशयन्ति यथा दीपो घटं प्रकाश्य पुरुष प्रापयति ॥ ३६ ॥ (१) प्रधानम । (२) पप्रधानानि । (३) दशसंख्याकेन्द्रिय-ति वरः पाठः ।
( ३२ ) सर्व प्रत्युपभोगं तस्मात् पुरुषस्य साधयति बुद्धिः । सवै च विशिनष्टि पुनः प्रधानपुरुषान्तरं सूक्ष्मम् ॥ ३७ ॥ बुद्धिरपि न स्वार्था किंतु परार्थैवेत्याह सर्वमिति । सर्वे श- ब्दादियोग्यं प्रति य उपभोगः पुरुषस्य तं यस्मात् साधयति तस्मात् मा प्रधानापि (१) परार्थव, न स्वार्थेति भावः । मोक्षहेतुशानजन- कत्वादपि सा तथेत्याभप्रेत्याह सैव पुनर्विवेकदशायां प्रधानपुरुषयो- रन्तरं वैलक्षण्यं सूक्ष्मतिदुज्ञेयं विशिष्टि विषयीकरोति, अध्यवसा- यरूपत्वावुद्धिरेव तथेति (२) भावः ॥ ३७ ॥ तन्मात्राण्यविशेषा- स्तेभ्यो भूतानि पञ्च पञ्चभ्यः । एते स्मृता विशेषाः शान्ता घोराश्च मूढाश्च ॥ ३८ ॥ अविशेषविशेषावुक्तौ तौ कावित्यत आह तन्मात्रेति । तन्मा. वाणि शब्दादीनि ० अविशेषाः, अयोग्यत्वात, तेभ्यस्तन्मात्रेभ्यः प. अभ्यो भूतानि स्थूलानि पृथिव्यादीनि, एते पृथिव्यादयः ० विशेषाः, योग्यत्वात्, कुतः, शान्ता इति । च एको हेतौ द्वितीयः समुच्चये, य- स्मादाकाशादिषु स्थूलेषु केचित् शान्ताः सत्त्वप्रधानतया सुखकराः प्रसन्ना लघवश्व, कचिद्रजःप्रधानतया घोरा दुःखकराः, केचित् त. माप्राधान्यान्मूढा मोहकरा गुरवश्च गुणानां गुणप्रधानभावतो यथेदं तथोपपादितमधस्तात् (३) ॥ ३८ ॥ (१) प्रधानमपीति वरः पाठः । (२) प्राधान्यवतीति। (३) पूर्वम् ।
( ५ )
सक्ष्मा मातापितृजाः
सह प्रभूतैरिघा विशेषाः स्युः।
सूक्ष्मास्तेषां नियता
मातापितृजा निवर्तन्ते ॥ ३९ ॥
पतावन्त एव विशेषा इति न फित्वन्येऽपि सन्तीत्याह सूक्ष्म
ति । सूक्ष्मा लिङ्गशरीराख्याः, मातापितृजाः स्थूलदेहाः, प्रभूताः प-
चतवृक्षाचाः, विशेषकार्यत्वाद्विशेषाः, तत्र सूक्ष्मदेहाः सूक्ष्मतन्मात्रा-
पारब्धत्वात, मातापितृजास्तु मातापितृभुक्तानजशुकशोणिताचार.
म्धत्वात, प्रभूनास्तु तद्विलक्षणफारणकत्वात, तेषां मध्ये सूक्ष्मा नि.
यता भामोक्षावस्थायिनः, मातापितजा निवर्तन्ते मरणकाले पतन्ति,
उपलक्षणमेतत् प्रभूतानाम, तेऽपि निवर्तन्त इति बोध्यम, विशिष्य
कपनं तु गौणजीवत्वाभिप्रायकं बोध्यम् ॥ ३९ ॥
पूर्वोत्पन्नमसकं
नियतं महदादि सूक्ष्मपर्यन्तम् ।
संसरति निरुपभोगं
भावैरधिवासितं लिङ्गम् ॥ ४० ॥
लिङ्गशरीरधानाह पूर्वोत्पन्नमिति । पूर्वस्मिन्नादिसर्गे पूर्व
स्मात् प्रधानादुत्पन्नमाविर्भूतम्, असक्तम् ० अव्याहतं शिलामप्यनु-
प्रविति, नियतं प्रत्यात्म भिन्नम्, महदादिसूक्ष्मपर्यन्तं महदहंकार-
मनोदन्द्रियतन्मात्रसमुदायरूपम्, संसरति नवं नवं स्थूलशरीर-
मुपादत्ते पूर्व पूर्व च जहाति, निरुपभोगं स्थूलदेहं विना भोगाया-
समर्थम, भावरधिवासितं भावैर्यागादिभिरन्तवैश्वाधिवासितं क.
तसंस्काराधानम्, यागजसंस्कारोऽरटमेव ॥४०॥
चित्रं यथाश्रयमृते
स्थावादिभ्यो विना यथा छाया ।
तद्विना विशेषैस्तिष्ठति
न निराश्रयं सिम् ॥४१॥
( २४ )
ननु तर्हि साकारेन्द्रियबुखित एष भोगोऽस्तु कृतं सूक्ष्मश-
रीरेणाप्रामाणिकनेत्यत आह चित्रं यथेति । भाभयं विना यथा चित्रं
न तिष्ठति तदाश्रित्यैष तिष्ठति तद्वद्विशेषैरतिसूक्ष्मैः शरीरैर्विना लिङ्गं
लिङ्गनाशापनाद्बुद्धयादिकं वृत्तितन्मात्रादिसमुदायरूपत्वान्निराः
श्रयं न तिष्ठति किंतु सूक्ष्मशरीराश्रितमेव तिष्ठति, अतस्तेषां धर्मिभूतं
सूक्ष्मशरीरमावश्यकम्, 'ततः सत्यवतः कायात् पाशबखं वयं गत.
म् । मङ्गुष्ठमात्रं पुरुषं निश्वकर्ष बलाधमः" ॥ इत्यादिप्रमाणाति
भावः । फेचितु स्थूलशरीरावश्यकत्वाभिप्रायफमिदमिति वर्णयन्ति,
तथाहि लिङ्गं समुदायात्मकं लिङ्गशरीरं विशेषैः स्थूलदे हैर्विना निरा-
श्रयं सन्न तिष्ठसि किंतु स्थूलशरीरमाश्रित्यैव तिष्ठति, अतो न लिङ्ग-
शरीरेण स्थूलशरीरस्याम्यथा सिद्धिरिति भावः । येषं प्राग्वत् ॥४१॥
पुरुषार्थहेतुकमिवं
निमित्तनैमित्तिकप्रसङ्गेन ।
प्रकृतविभुत्वयोगा-
बटवद्वयवतिष्ठते लिङ्गम् ॥ ४२ ॥
एवं सूक्ष्मशरीरास्तित्वमुपपाद्य यथा संसरति येन च हेतुना
तदुभयमप्याह पुरुषार्थेति । निमित्तं धर्मादि नैमित्तिक धर्मादिकार-
णकं स्थूलदेहादि तदुभयप्रसङ्गेन तदुभयसंबन्धेन लिङ्गमिदं सूक्ष्म-
शरीरं नटवद्वयतिष्ठते यथा नटो बहूनि विविधानि रूपाणि गृही.
त्वा व्यवहरति तथेक्मपि देवांदिशरीरं परिगृह्य व्यवहरति, किमय
सत्राह पुरुषार्थहेतुफमिति । पुरुषार्यों हेतुर्निमित्तं यस्य ताहराम्, पु.
रुषार्थफलफमिति यावत् । तत्तद्भोगाइष्टबलात् तत्तद्भोगार्थमेव तथा
व्यवहरतीत्यर्थः । कुतोऽस्यैवंविधो महिमा तत्राह प्रकृतेर्षिभुत्त्वयोगा-
दिति । तथा च पुराणम्, "वैश्वरूप्यात प्रधानस्य परिणामोऽयमी-
दृश" ॥ इति, प्रकृत्यापूरापगमाभ्यां महदल्पाविषं सर्वमुपपद्यत
इति भावः॥४२॥
( ३५ ) सांसिद्धिकाश्च भावाः प्राकृतिका वैकृतिताश्च धर्माचाः । दृष्टाः कारणांश्रयिणः कार्याश्रयणश्च कललाद्याः॥ ४३ ॥ प्राकृतवैरुतयोरप्रसिद्धत्वात् तौ को तत्राह सांसिद्धिकाचे- स्यादि । भावा धर्माद्या ये सांसिद्धिकाः स्वाभाविकास्त एव प्राक- तिकाः, यावद्वस्तुस्थायिनो यथा महत्तत्त्वादहंकारादयः, वैकृतिकाः कदाचिद्वृत्तयः, तेषां मध्ये धर्माद्याः, करणं धुद्धितत्वम, तदायि. णो हटाः सांख्याचार्यः। कार्याश्रयिणः, कार्य शरीरं तदाश्रयिणः क. ललाद्याः, कललवुवुदमांसपेशीकरण्डाङ्गप्रत्यङ्गव्यूहा , गर्भस्थस्य, ततो निर्गतस्य बाल्यकौमारयौवनवाईफानीति संक्षेपः॥ ४३ ॥ धर्मेण गमनमूर्च गमनबधस्ताद् भवसघर्मेण । ज्ञानेन चापवर्गो विपर्ययादिष्यते बन्धः ॥४४॥ बुद्धिनिष्ठानां धर्मादीनां प्रयोजनमाह धर्मेणेति । फेवलशुक्लेन (१) परहिंसावर्जितेन, शुक्लकृष्णेन (२) च परहिंसापूर्वकेण • जय माहाप्राजापत्येन्द्रगान्धर्वयाक्षपत्रादिषु लोकेषु, अधस्ताद रौरवमहा- रौरववन्हिवैतरणीकुम्भीपाकतामिसान्धतामिस्रादिनरकेषु ० अध. मेंण शास्त्रनिषिद्धाचरणेन परपीडादिना, गमनं भवति, ज्ञानेना- त्मसाक्षात्कारेण ० अपवों मोक्षः, विपर्ययात् ० अज्ञानापन्धः प्रा. कृतिफवकृतिकदाक्षिणभेदेन त्रिविधः, तत्र प्राकृतिकः ० आत्मघुद्ध्या प्रकृत्युपासननिवन्धनो यथा “पूर्ण शतसहस्तं तु तिष्ठन्त्यव्यक्तचि. न्तकाः" । इति, वैकृतिक आत्मबुद्ध्यन्द्रियोपासननिधन्धनो यथा "वश मन्वन्तराणीहतिष्ठन्तीन्द्रियचिन्तकाः" । इत्यादि । दाक्षिणः (१)जपादिमा। ... (.) बागादिना ।
( ३६ ) पुरुषमजानतः फामनया वैदिकफर्मानुष्ठाननिबन्धनो यथा “पुरुषमा- नहीनानां स्वर्गाद्यर्थ हि कुर्वताम् । तानि तानीह कर्माणि तेषां ब- न्धस्तु दाक्षिणः” ॥ इति । संशा तु दक्षिणासंबन्धनिवन्धना योध्येति संक्षेपः॥४४॥ पैराग्यात् प्रकृतिलयः संसारो भवति राजसादागात् । ऐश्वर्यावविघातो विपर्ययात् तद्विपर्यासः ॥ ४५ ॥ "तमेव विदित्वातिमृत्युमेति नान्यः पन्या विद्यतेऽयनाये"ति भुत्या पुरुषज्ञस्यैव मोक्षकथनेनान्यस्य मोक्षाभावकथनाज्ञानरहित- स्य विरक्तस्यापि न मोक्ष इत्याशयवानाह वैराग्यादिति । दृष्टानुश्र- विकविषयेवलंबुद्धिविशेषरूपाद्वराग्यात् केवलात् प्रकृतिलयः, प्रकृ- तिपदेन महदहंकारादयोऽपि गृह्यन्ते, तेप्वात्मबुद्ध्योपास्यमानेषु लयो भवतीत्यर्थः राजसाद् रजाकार्याद् रागात् कामकोधादेः संसारो भवति, तत्र यागादिगोचरात् स्वर्गादिः, स्त्रयादिगोचरादिह लोक- भोग पवेति विवेकः, पश्वर्यादणिमादिलक्षणात अविघातो गतिप्र. तिबन्धाभावः, विपर्ययादनैश्वर्यात् तद्विपर्यासः सर्वत्र गतिविच्छेदः, पथा फस्यचिदनीश्वरस्य परगृहे प्रतिघातः ॥ ४५ ॥ एष प्रत्ययसगों विपर्ययाशक्तितुष्टिसिदयाख्यः । गुणवैषम्यविमर्वात तस्य च भेदास्तु पञ्चाशत् ॥ ४६॥ ननु विपर्ययाद्याः सांख्यझेश्यः श्रूयन्ते, किं ते तत्त्वान्तराणि कतिविधा वा तत्राह० एष इति । विपर्ययश्चाशक्तिश्च तुष्टिश्च सिद्धि- श्व ० माल्या नामानि यस्य ० एष गणः प्रत्ययो पुद्धिस्तत्सर्गस्तज- ( . ) म्यः, तथा च बुद्धितत्त्वे प्रविष्टो न तत्वान्तरं कार्यकारणाभदात, त. स्य भेदाः पञ्चाशद्वक्ष्यन्ते, ननु कथमककारणादेतानि कार्याणि त. बाह गुणवैषम्यविमर्दादिति । गुणानां वैषम्यै न्यूनाधिकबलता मन्द- मध्याधिकभावेन नानाविधा तया विमदों गुणस्य गुणयोर्वा० अभि. भवः, तस्मादित्यर्थः । तदवं कार्यकारणयोरभेदेन विपर्ययस्याज्ञानेs. शक्तेरधमें तुष्टेर्धमें सिवेर्ज्ञान इति विवेकः । अज्ञानादयस्तु वुद्धरेवा. तो विपर्ययादयोऽपि न तत्त्वान्तरमित्यास्तां विस्तरः ॥ ४६ ॥ पश्च विपर्ययभेदा भवन्यक्तिस्तु करणवैकल्यात् । अष्टाविंशतिभेवा तुष्टिनवधाष्टधा सिद्धिः ॥ ४७ ॥ पञ्चाशदिति सामान्यत उक्तम्, तत्र कस्य कतिविधा भेदास्त. प्राह पञ्च विपर्ययेति । विपर्ययः संसारबीजम, क्लेशाः पञ्च ० अवि- चास्मितारागद्वेषाभिनिवेशास्तेषामेव यथासंख्यं तमोमोहमहामोह- तामिसान्धतामिस्रसंशाः, अभिनिवेशो भयम, ननु रोगादिकृतानाम- शक्तीनां रोगसमसंख्यतया कथमष्टाविंशतिधाशक्तिस्तत्राह करण- धेकल्यादिति । फरणानां बुद्धितत्त्वैकादशेन्द्रियाणां यद्वैफल्य बध. स्तस्माचाऽशक्तिः साटाविंशतिधेत्यर्थः, शेषं सुगमम् ॥ ४७ ॥ भेदस्तमसोऽष्टविधो मोहस्य च दशविधो महामोहः । तामिस्रोऽष्टादाधा तथा भवसन्धतामिस्रः ॥४८॥ पञ्चानां विपर्ययाणामवान्तभेदमाह भेदम्तमस इति । अष्टसु प्रकृतिमहदहंकारपञ्चतन्मात्रेयात्मबुद्धिरविद्या, तस्या एव तम इति- संज्ञा, तस्या भष्टविधविषयकवाद एविधत्वम् । अणिमाघेश्वर्य प्राप्य सिद्धोऽहमस्मीत्यात्मन्यहंभावेनाभिमानविशेषोऽस्मिता, अणिमाचष्टे- ( ३८ ) भर्यविषयकत्वात् तस्या अष्टविधत्वम, सैव च मोहसंक्षिका, मोहस्य घेति, चफारावष्टविध इत्यन्वति । शब्दादिषु पञ्चसु विषयेषु दिव्या- दिग्यतया दशविधेपूपादेयत्वबुद्ध्या रागः, स एव महामोहः, विषय- स्य दशविधत्वादस्य दशविधत्वम् । परेण भुज्यमानेषु दशसु शब्दा- दिविषयेषु परेण प्राप्तेषु चाणिमादिग्वष्टसु द्वषस्तामिम्राख्यः, अष्टा- दशविषयत्वावस्याटावशविधत्वम् । अभिनिवेशस्त्रासः, मन्धतामि. साल्यः, शब्दादयो दशाणिमाद्यैश्वर्य चाष्टविध केषांचिद्भविष्यति चेति भयम, अष्टादशविषयकत्वादष्टादशविधम् । तदेवं विपर्ययभेदा घधिकपरिरिति ॥ ४८ ॥ एकादशेन्द्रियवधाः सह बुद्धिवधैरशक्तिरुद्दिष्टा । सप्तदशधा च बुद्धे- विपर्ययाव तुष्टिसिद्धीनाम् ॥ ४९ ॥ अशक्तरष्टाविंशतिभेदानाह ० एकादशेति । एकादशेन्द्रियाणां भोत्रत्वगक्षिरसनघ्राणवाक्पाणिपादपायूपस्थमनसां वधाः, वैगुण्या- नि यथा, यथासंख्यम, “वाधिर्य कुष्ठितान्धत्वं जडताऽजिघ्रता तथा । मुफता कौगय(१) पङ्गुन्वक्लैग्योदावर्तमत्तताः" ॥ एततुका स्व. व्यापारे वुदेरशक्तिरिति सह बुद्धिवर्धरित्युक्तम् । अधुना फति घु. यः स्वरूपतो धास्तवाह सप्तदशधेति । तुष्टिनवधा वक्ष्यते, एवं सिद्धिरप्यष्टधा, तेषां ( २) विपर्ययाद् व्यतिरेकादिति ॥ ४९ ॥ माध्यात्मिक्यश्चतस्त्रः प्रकृत्युपादानकालभाग्याख्पाः । बाह्या विषयोपरमात् पञ्च नव तुष्टयोऽभिमताः ॥ ५० ॥ तुष्टेनव भेवानाह . आध्यात्मिक्पश्चेति । प्रकृस्याविभिन्नत्वे. ()सदोषः। (१) पाभिप्रायम् ।
( ३९ ) मारमसाक्षात्कारो मोक्षोपायः, परंतु साक्षात्कारः प्रकृतेः परिणाम- विशरः प्रकृतित एव भविष्यतीति कृत्वा तत्र न यतते तस्य प्रकृत्या- क्या तुष्टिरम्भ इत्युच्यते । कश्चिदेवं चिन्तयति, न प्रकृतिमात्रात स भवनि तथा सति गृहस्थ स्यापि संभवेत् किंतु संन्यासाश्रमोपादानात स भविष्यतीत्यालस्यादिना तुष्टया तिष्ठति, तस्योपादानाख्या सलि. लमित्युच्यते, संघ परिव्रज्याख्या तुष्टिरिति गीयते । प्रवज्याण्यापि कालविशेष प्राप्य तं करिष्यतीति, अतः कालस्यैव प्राधान्याज्ञान- प्राप्तिकाले शानं भविष्यत्येवेस्यलं प्रयासेनति तुष्टिः कालाख्या मेघ इत्युच्यते । कालविशेषेपिस भाग्यवलादेव भवति, अतो भाग्यमेव हेतुर्नान्यदित्यलं प्रयासैरिति तुष्टिर्भाग्याख्या वृष्टिरित्युच्यते । एताश्च- तन माध्यात्मिक्यः । विषयोपरमो वैराग्यं तेन तुष्टयः पञ्च वाह्याः, प्रकृत्यादिभिन्नत्वेनात्मशानाभावातू, तथाहि • अर्जनरक्षणक्षयभोग- हिंसासु दोषदर्शनात पञ्चोपरमा भवन्ति, तखेतुकत्वात् तुष्टयोऽपि पञ्च भवन्ति, यथा ० अर्जनापाया भिक्षाटनादयः क्लेशदाः, अतोऽलं प्रयासैरिति या तुष्टिः सा पारमुच्यते । तथा कथंचिदर्जितस्य चो- रादितो रक्षणमपि कष्टमिति कृत्वा या तुष्टिः सा सुपाराख्या । एवं कथंचिद्रक्षितमपि भोगात् क्षयं गमिष्यत्येवेति कृत्वा या तुटः सा पारापारमुच्यते । एवं शब्दादिभोगाभ्यासात प्रवर्तन्ते (१) कामाः, ते च पुनर्विषयप्राप्ती ० भप्राप्तौ च कामिनो दुन्वन्तीति कृत्या या तु- टिः सा ० भनुत्तमाम्भ इत्युच्यते । एवं भोगेऽवश्यं प्राणिहिंसा जा- यत पति दोषदर्शनाद्विषयापरमे वा तुष्टिः सा ० उत्तमाम्भ इत्यु च्यते । तदेवमाध्यात्मिकीमिश्चतसृभिर्वाह्याभिः पञ्चभिनव तुष्टयोऽ- मिमताः । “अम्मः सलिलं मेघो वृष्टिः पारं तथा सुपारं च । अन्य पारापारमनुत्तमाम्म उत्तमाम्भव" ॥ इति ॥ ५० ॥ कहः शब्दोऽध्ययन दुःविघातात्रयः मुहत्माप्तिः । दानं च सिद्धयोऽष्टौ सिद्धेः पूर्वोऽङ्कुशस्विविधः ॥ ५१ ॥ (१)- पति परः पाठः ।
( . ) भए सिद्धीराह • ऊह इति । अहो विचारसामर्थ्यम, विशे. पदर्शनमिति यावत् । शब्दः क्रियाकारकभावापनपदसमुदायव्युत्प- त्तिः । भध्ययनं गुरुमुखतः शास्त्रार्थशानम् । दुःखविधाता दुःस्नश- मनापायालय इति, तुःस्त्रानां त्रित्वात् ० शमनोपायानामपि नित्वम् । सुहत्प्राप्तिः ० आध्यात्मिकजनसङ्गः । दानं देए शोधने इति धातो. ह्याभ्यन्तरशौचम् । सिध्यत्यनयेति सिद्धिः । तत्र दुःस्वविघातसि- दिः फलत्वान्मुल्या, भन्यास्तु पञ्च तत्साधनत्वाद् गौण्य इति विवे. कः । तत्रोहादेः संशाविशेष भाकरे (१) यथा “तारतारसुतारप्रमो. दमुदितमोदमानरम्यकसदामुदिताख्याः सिद्धय" इति । भासामुपा- देयत्वं विपर्ययाशक्तितुष्टीनां तु हेयत्वं ज्ञापयिष्यन्नाह सिद्धेः पूर्वोs- शस्त्रिविध इति । पूर्वः पूर्वोक्तो विपर्ययाशक्तितुटिम्पत्रिविधः सिरङ्कुशः, कारणविघटनादिद्वारा निवारकः, भतः सिद्धिपरिप- न्धित्वादश इव, इति विपर्ययाशक्तितुष्यो हेया एवेति भावः ॥५१॥ न विना भावैलिंग न विना लिङ्गेन भावनित्तिः। लिङ्गाख्यो भावाख्या स्तस्माद् द्विविधः प्रवर्तते सर्गः ॥५२॥ ननु भोगो विषयमन्तरेण न भवतीत्याकाशादिसर्ग एवास्तु कृतं महदायतीन्द्रियसर्गेण तत्राह न विना भावैरिति । भावैः प्रत्य. विषयर्विना लिङ्गं महदायतीन्द्रियवृन्दं न भोगसाधनमित्यर्थः । लिङ्गन महदादिना विना भावानां विषयाणां न निवृत्तिः ० न भोग. साधनत्वम, अयमभिप्रायः, नहि विषयः स्वरूपतो भोगहेतुः, सर्वेषां सर्वविषयभोगापत्तेः, अपितु शात एव, ज्ञानं चेन्द्रियान्तःकरणैर्विना नेत्युभयस्वीकारः, तस्माद् द्वयोरप्यावश्यकत्वात् ० लिङ्गाण्यः . लिङ्गयत एव नतु साक्षातक्रियत इति लिङ्गं महदायतीन्द्रियवर्गः, भावाख्यः भूयते प्राप्यतेऽर्थादिन्द्रियेणेति विषयवर्गःप्रत्यक्षसिद्धः॥५२॥ (१) भाग्दै।
( १ ) अष्टविकल्पो वैव- स्तैर्यग्योनश्च पञ्चधा भवति । मानुष्यश्चैकविधः समासतो भौतिकः सर्गः ॥५३ ॥ भौतिफसर्गविभागमाह • अएविकल्प इति । ब्राह्मप्राजापत्यै- न्द्रपियगान्धर्वयाक्षराक्षसपैशाचभेदादष्टविधो देव इत्यर्थः। तैर्यग्योन इति, पशुपक्षिसर्पकीटस्थावरभेदात् पञ्चविध इत्यर्थः । मानुष्यश्चैक- विधः, समासतः, ब्राह्मणत्वाधवान्तरजातिभेदाविवक्षयेति । भौति- को दैहिकः, तेन घटादिनिरासः, केचितु घटादेः स्थावरेऽन्तर्भाष बदन्ति ॥ ५३॥ ऊर्व सरवविशाल- स्तमोविशालश्च मूलतः सर्गः। मध्ये रजोविशालो ब्रह्मादिस्तम्बपर्पन्तः ॥ ५४ ॥ भौतिकस्य विशेषमाह • ऊर्ध्वमिति । भूलोका सत्त्ववि. शालः सत्त्वबाहुलः, तत्रत्येषु रजस्तमसोः सत्त्वेऽपि सत्त्वाधिक्यश्रव. णात् । मूलतोऽध:पतनशीलस्तैर्यग्योनस्ताविशालस्तमोबहुलः, तेषु सत्वरजसोः सत्त्वेऽपि तमस आधिक्योपलव्धेः । मध्ये भूलोके र- जोविशालः, सत्त्वतमसोः सत्त्वेऽपि धर्माधर्मप्रवृत्तिपरत्वदर्शनेन र- जस आधिक्यकल्पनात् । ब्रह्मादीति, सोऽयं ब्रह्मादिस्तम्बपर्यन्तः स- गों लोकभेदेनैवंसंस्थितिक इत्यर्थः । स्तम्बः स्थावरः ॥ ५४ ॥ तव जरामरणकृतं दुःखं मामोति चेतनः पुरुषः। लिङ्गस्याविनिवृत्ते- स्तस्माद् दुःखं स्वभावेन ॥ ५५॥ ६
( ४२ )
तदेवं सर्ग दर्शयित्वा तस्यापर्गसाधनवैराग्योपयोगिनी दुःख-
तामाह तत्र जरामरणेति । यतः पुरुषः स्वयं चेतनोऽपि तत्र लोक-
प्रयास्ये सर्गे जरामरणकृतं दुःखं प्राप्नोति, तस्माद् दुःखं स्वभावेन
स्वत एव सगों सुःस्वरूपः, विवेफिनामिति शेषः, यथाह भगवान् प-
तजलिः, "परिणामतापसंस्कारतुःस्वैर्गुणवृत्तिविरोधाच्च दुःस्त्रमेव
सर्व विवेकिन" इति, मत्र परिणामपदेन जरादिदुःखं बोध्यम, ता.
पपदेन "मा न भूवं हि भूयास"मिति मरणत्रासदुःखं बोध्यम्, सं.
स्फारपदेन पुनर्जननादिदुःखं बोध्यम् । फियन्तं कालं दुःखं प्राप्नोति
तदाह लिङ्गस्याविनिवृत्तः, यावल्लिङ्गं महदादि न निवर्तते तावत,हा-
नेन लिङ्गस्य निवृत्ती तु मोक्षमधिगच्छतीति भाषः ॥ ५५ ॥
इसेष प्रकृतिकृतो
महवा विविशेषभूतपर्यन्तः ।
प्रतिपुरुपविमोक्षार्थ
स्वार्थ इव परार्थ प्रारम्भः ॥५६॥
सर्गस्य प्रकृतिमात्रारब्धत्वं वक्तुमुपसंहरति ० इत्येष इति ।
इतीत्युपसंहारे, एष महदादिविशेषभूतपर्यन्तःप्रकृतिकृतः प्रकृत्येवोक्त.
रीत्या कृतः, नेश्वरेण न वाऽहटेनेत्यर्थः, विशेषभूतं पृथिवी, अयम-
भिसंधिः, धर्मसापेक्षत्वनिरपेक्षत्वविकल्पग्राहग्रस्तत्वान्मानाभावाच
नेश्वरः कारणम्, नाप्यसष्टम, कार्यस्य कारणत्वायोगातू, प्रलयका-
लीनामारम्भकपरमाण्वादिक्रियादौ व्यभिचारेण कार्यमाऽष्टादी.
नामकारणत्वाचेति दिक्, अचेतनत्वन स्वप्रयोजनाभावात्, एष आ-
रम्भः परार्थे एव ननु कस्याथै आरम्भस्तत्राह प्रतिपुरुषति, प्रत्येकपु.
रुषस्येत्यर्थः, अन भोजयितुमिति विहाय विमोक्षार्थमित्युक्तिस्तु एक-
स्य मोक्षेऽपि सर्गस्य नाशो नास्ति सर्वसाधारणत्वादिति ज्ञापनाय, मत
एव प्रतिपुरुषेत्युक्तम, आह चैवं समानतन्त्रे भगवान् पतञ्जलिः,
"तदर्थ एव हश्यस्यात्मा कृतार्थ प्रति नष्टमप्यनष्टं तदन्यसाधारण-
त्या"दिति परारम्भे न कोऽपि विवाद इत्याह स्वार्थ इवेति । य.
थान्यो जनः स्वार्थे प्रवर्तते तथैवास्य परार्थ भारम्भी घटत एव, प्र.
योजनघत्त्वमात्रस्य प्रवृत्तिमूलत्वादिस्यास्ता विस्तरः ॥ ५६ ॥
( ४ )
वत्मविवृद्धिनिमिस
क्षोरस्य यथा प्रवृत्तिरज्ञस्य ।
पुरुषविमोक्षनिमित्तं
तथा प्रवृत्तिः प्रधामस्य ॥ ५७ ॥
नवचेतमायाः प्रकतेः कथं प्रवृत्तिस्तत्राह पत्सेति । अन्धय-
व्यतिरेकाभ्यां वत्सविवृद्ध्यादिप्रयोननेनैवाचेतमस्य क्षीरादेः प्रवृ-
त्तिदर्शनात् प्रवृत्तिन चेतननियता किंतूबुद्धाहटमात्रसाध्या, अतस्त.
ददेवाचेतनाया अपि प्रकृतेः पुरुषविमोक्षार्थ प्रवृत्ती न किंचिषाधक-
मिति भावः, न च क्षीरप्रवृत्तेरपीश्वराधिष्ठाननिबन्धमतया प्रवृत्तेचे-
तननियतत्वमव्याहतमेव तथा च कथमिति वाच्यम, ईश्वरे प्रमा-
णाभावात्, प्रामाणिकत्वेऽप्याप्तकामस्य प्रयोजनं विना प्रवर्तफत्वा-
योगात, न च फारुण्यादिति वाच्यम, सर्गात् प्राग् जीवानां दुःस्त्रि-
त्वासंभवेन दुःखनिवृत्तीच्छारूपकारुण्यस्यापि तस्मिन्नसंभवात, त.
स्मात् स्वयमचंतनापिप्रयोजनेनैव क्षीरादिवत्प्रवतंत इति सिद्धम् ॥१७॥
औत्सुक्यनित्त्यर्थ
यथा क्रियासु प्रवर्तते लोकः ।
पुरुषस्य विमोक्षार्थ
प्रवर्तते तद्वदव्यक्तम् ॥ ५८ ॥
ननु प्रयोजनमुद्दिश्यैव प्रवृत्तिईष्ठा न चास्यास्तदस्ति तत्राह .
भौत्सुक्येति । औत्सुक्यमिच्छा यथेयं मया संभोक्तव्यति, तन्निवृत्त्य-
ये रत्यादिक्रियासु प्रवर्तते लौकिकः, अनिवृत्ताया इच्छामा दुःखद-
त्वात, सा च विषयसिद्धावेव निवर्तत इति सैव फलम्, एवमव्यक्तं
प्रधानमपि पुरुषार्थों मया कर्तव्य इतीच्छाययं पुरुषविमोक्षरूपफलार्थ
प्रवर्तते, तत्सिद्धि विना ताशेच्छाया अनिवृत्तेः,अनिवृत्तायाश्वानिष्ट-
त्वातू, तथा च स्वार्थमुखेनैव पराारम्भ इति न कोऽपि दोष इस्या-
स्तां विस्तरः॥ ५८॥
( ४४ )
रहस्य वर्धयित्वा
निवर्तते नर्तको यथा नृत्यात् ।
पुरुषस्य तथात्मानं
प्रकाश्य विनिवर्तते प्रकृतिः ॥ ५६n
ननु भवतु प्रवृत्तिः प्रकृतेर्निवृत्तिस्तु कथम्, तथा च पुरुषस्या-
निर्मोक्ष एव स्यादत आह रङ्गस्येति । रङ्गपदं स्थानिपरम, तथा च
यथा नर्तकी सुप्रीता हावभावलीलाविलासवती विविधालंफारशी.
भिता नृत्यगीतादिभिरात्मानं रङ्गस्यस्य सध्यादेर्दर्शयित्वा राहमने.
नेति कृतप्रयोजना धनप्राप्तया निवर्तते, एवं प्रकृतिर्बुद्ध्यादिसुखदु:-
मान्तभावेनात्मानं पुरुषस्य प्रकाश्य त्वमन्योऽहमन्यति विवेक-
तो निवर्तते ० असंयुक्ता भवति, तथानिवृत्तिकः पुरुषो मोक्षम-
धिगच्छति ॥ ५९॥
नानाविधैरूपाय-
रुपकारिण्यनुपकारिणः पुंसः ।
गुणवत्यगुणस्य सत-
स्तस्यार्थमपार्थकं चरति ॥ १० ॥
ननु परायें प्रत्युपकारसंबन्धन प्रवृत्तिईश्यते, नहि पुरुषात्
कश्चित् प्रत्युपकारः प्रकृतेरत आह नानाविधेरिति । गुणवती प्रकृति-
रत एवोपकारिणी पुंसः पुरुषस्य द्रष्टुरगुणस्य सचित्स्वभावकतया
गुणातीतस्यात एवानुपकारिण उपकारासमर्थस्य नानाविधैर्महदह-
कारेन्द्रियमनःप्रभृतिभिरुपायरयै प्रयोजनमपार्यकं स्त्रीयप्रयोजनशू-
न्यमेव चरति ० आचरति, स्वभाव एवार्य गुणवतां यदनुपकारिण्य.
प्युपकारकरणम, मतः परार्थ प्रत्युपकारसंबन्धेनैव प्रवृत्तिरितिन
निबमोऽभ्यभिचारादिस्यास्तां विस्तरः ॥१०॥
( ४५ ) प्रकृतेः सुकुमारतरं न किंचिदस्तीति मे मतिर्भवति । या दृष्टास्मीति पुन- न दर्शनमुपैति पुरुषस्य ॥ ६१ ॥ स्यादेतत्, नर्तकी नृत्यं सभ्येभ्यो दर्शयित्वा धनप्राप्तया निकृ. तापि पुनः कुतूहलात् प्रवर्तते यथा, तथा प्रकृतिरपि पुरुषायात्मानं दर्शयित्वा विवेफेन निवृत्तापि पुनः प्रवर्व्यतीत्यत आह प्रकृतेरिति । सुकुमारतरं सलजम् । हष्टास्मीति कृत्वा पुनः पुरुषस्य दर्शनं नोपै. ति हष्टिविषया (१) न भवति, यथा कदाचित् कुलस्त्री युवती सा- ध्वी द्वारावस्थितपुरुषेण रहसि वा गतेन दृष्टा सा व्रीडायमाना त्व- रितमन्तः प्रविशति, दृष्टाहमनेनेत्येवमवबुध्य न दर्शनमुपैत्यन्यपुरुष. स्य, एवं प्रकृतिः परात्मना पुरुषेण यदा ज्ञानचक्षुषा हटा सा ब्रीडा- यमाना(२)कुलस्त्रीवत् पुनदर्शनं नोपति पुरुषस्य, विवेकण्यातेरेव त- त्प्रवृतिप्रतिबन्धकत्वादिति भावः ॥ ६१ ॥ सस्मान्न बध्यते ना- पि (३) मुच्यते नापि संसरति कश्चित् । संसरति वध्यते मु प्यते च नानाश्रया प्रकृतिः॥ ६२ स्यादतत् पुरुषश्चेदगुणोऽपरिणामी कथमस्य सुखदुःखादिक पो बन्धः, अतो न मोक्षोऽपि, मोक्षस्य बन्धेन समानाधिकरणत्वात्, तस्मात् पुरुषविमोक्षामिति रिक्तं वचः, इतीमामाराङ्कामुपसंहार- व्याजेनाभ्युपगच्छन्नपाकरोति तस्मादिति । वस्तुतोऽसङ्गत्वादेष पु. रुपो बन्धमोक्षादिरहितोऽस्ति, "न निरोधो न चोत्पत्तिन बद्धो न च साधफः । न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥ इति" श्रुतेरिति (१) विषयभूता दस्युचितम । (.)ौडामयमामा . ति यीम्यः पाठः। (2,सानाति पा.
( ४६ ) भावः । फस्तर्हि बन्धादिमानित्यत आह संसरतीति । प्रकृतिरेष ना. नापुरुषाधया बुद्ध्यादिद्वारा ताहशी, तथा च बन्धादिकं घुद्धि- निष्ठमेव पुरुषे तत्संपर्कात् तद्वतमारोप्यत एष फेवलं नतु तदप्य. स्तीति भावः ॥६२ ।। पैः सप्तभिरेव तु वध्नात्यात्मानमात्मना प्रकृतिः। सैव च पुरुषार्थ प्रति विमोचयत्येकरूपेण ॥ ६३ ।। ननु पुरुषस्यापि प्रकृतिसंपर्कादारोपितसुखदुःस्त्रादिकं बन्ध इन्युक्तम्, सा पुनः केन साधनेन बध्नाति मोचयनि वा तदाह रू. पेरिति । पुरुषार्थ भोगं प्रति • आत्मना बुद्धिरूपेण • आत्मामं पुरुष रूपैः सप्तभिः धर्मवैराग्यश्वर्याधर्माज्ञानावैराग्यानैश्वर्यफैनाति, पु. रुषार्थ स्वरूपावस्थानलक्षणं मोक्षं प्रति ० एकेन रूपेण ज्ञानेन मो- चयति, संसारानिवर्तयति, एतेन वैराग्योपरत्याधभावेऽपि शान मो- क्षस्व कारणं भवत्येवेति शापितम, उक्तं च तथा वेदान्तेषु, “पूर्ण. बोधे तदन्यो द्वौ प्रतिघनौ यदा तदा । मोक्षो विनिश्चितः फिन्तु :- एदुःखं ननश्यति" ॥ इति, हो वैराग्योपरमी, इष्टदुःस्त्रं यथोचितव्य- वहारक्लेशः, तथा च विषयजिहासारूपवैराग्यस्य विषयदोषदर्शनज- न्यस्य पुनोगेम्वदीनतामानं फलं नतु मोक्षोऽपि, एवं धीनिरोधक पोपरमस्यापि यमादिसाध्यस्य द्वैतादर्शनमेव फलं न मोक्षः, श्रुतिषु झानेकलभ्यत्वकथनारित्यास्तां विस्तरः ॥ ६३ ॥ एवं तत्त्वाभ्यासा- नास्मि न मे नाहमित्यपरिशेषम् । अविपर्ययाद्विशुद्धं केवसमुत्पद्यते बानम् ॥ ६४ ॥ भवतु मानावे कैवल्यं तदेव तु कस्मात् किमाकारं च सदा.
४७ )
ह ० एवमिति । उक्त प्रकारपुरुषगोचराभ्यासात् पुनः पुनश्चिन्तनम
पान्निदिध्यासनादव केवलं पुरुषमात्रगोचरं ज्ञानं साक्षात्कार उत्प-
चत इत्यर्थः, एतेन निदिध्यासनसहकृतेन मनसैवात्मगोचरीनर्विक-
रुपकसाक्षात्कारो भवति न श्रुनानुमानाभ्याम्, तयोस्तत्रासामर्या-
दिति बोधितम् , यथाह समानतन्त्रे भगवान् पतञ्जलिः, "ऋतंभरा
तत्र प्रज्ञा भुतानुमानप्रक्षाभ्यामन्यविषया विशेगर्थत्वा' दिति । भा.
कारमाह नास्मीत्यादिना । अस्मीत्यस्य न कर्तास्मीत्यर्थः, तेन पु.
विभिन्नोऽहमिति प्राप्तम् न मे, दुःसमिति शेषः, तेन दुःखाचारापा-
भावा लन्धः, नाहमित्यनेनाहंकारभेदप्रहः, नास्ति परिशेषो यस्मा.
दित्यपरिशेषं चरमम् "तस्य सप्तधा प्रान्तभूमौ प्रक्षे" त्यादिना योग-
सूत्रेणोक्तम् । अविपर्ययात् ० व्यधिकरणप्रकाराभावाद्विशुखं प्रमा.
त्मकं मिथ्याशानवासनोन्मूलनक्षमम्, एवंविधएकात्मसाक्षात्कारस्त-
त्त्वज्ञानपदनाच्यत इति भावः ॥ ६४ ॥
तेन निवृत्तप्रसवा-
मर्थवमा सप्तरूपविनिवृत्ताम् ।
प्रकृतिं पश्यति पुरुषः
प्रेक्षकवदवस्थितः स्वस्थः ॥ ६५ ॥
तत्त्वज्ञानानन्तरं पुरुषः किं करोति तदाह तेनेति । तेन पूर्वो-
केन मानेन निवृत्तप्रमवाम, प्रसवा भोगभेदसाक्षात्कारादयः, तेषां
जनितत्वान्निवृत्तां प्रकृतिं पश्यति पुरुषः प्रेक्षकवदवस्थितः स्वस्था,
यथा कश्चित् प्रेक्षको रङ्गस्थो गीतनृत्यादिषु वर्तमानां नर्तकी स्व-
स्थो निर्विकल्पो निराकुलः पश्यति, एवं पुरुषोऽपि तासु नासु यो-
न्यवस्थासु धर्तमानां प्रकृतिं पश्यति, इयं प्रकृतिः स्वगुणैः पुरुषान्
बन्नाति मोचयति च ॥ ६५॥
दृष्टा मयेत्युपेक्षक
एको दृष्टाहमित्युपरमसन्या ।
सति संयोगेऽपि तयोः
प्रयोजनं नास्ति सर्गस्य ॥ ६६ ॥
( ४८ )
मनु नित्ययोः प्रकृतिपुरुषयोः संयोगसत्त्वात् कथं तस्याः
प्रसवनिवृत्तिस्तवाह हा मयति । तयोः संयोगेऽपि सर्गस्य जनने
प्रयोनं प्रयुज्यतेऽनेनेति व्युत्पत्त्या सहकारि कारणं नास्तीति, तयोर्म-
ध्ये ० भन्या प्रकृतिः ० उपरमति न प्रसूत इत्यन्धयः । तत् कथं ना-
स्ति तदाह रष्टा मयेति । तयोर्मध्ये एकः पुरुषः स्वभिन्नेयं स्वसंपर्का-
बध्नातीत्येवंगुणा प्रकृतिर्मया हप्त्युपेक्षको भवत्युपरमते, तद्भोगा-
चावेशरहितो भवति. यथा नर्तकी हष्टा सभ्यः, तथा च प्रसवे पुरु-
पस्य प्रकृतिभेदाप्रहः सहकारी दर्शने सति तु स नास्तीति भावः॥६६॥
सम्यग्ज्ञानाधिगमाद्
धर्मादीनामकारणमाप्तौ ।
तिष्ठति संस्कारवशा-
चक्रभ्रामवद्धृतशरीरः ॥१७॥
ननु "भिद्यते इदयप्रन्थिः छिचन्ते सर्वसंशयाः । क्षीयन्ते चा-
स्य फर्माणि तस्मिन् रष्टे परावरे" ॥ इत्यादिभुत्या तत्त्वज्ञानानन्तरमेव
माक्षे सर्वकर्मक्षयेण देहाघभावसूचनात् कथं प्रकृतिदर्शनं क्षाने देह-
स्य हेतुत्वात्, तत्राह सम्यगिति । सम्यग्ज्ञानं मिथ्याज्ञानाच्छेदक्ष-
मं शानम्, तदधिगमात् तदुत्पत्तेधर्मादीनां देहारम्भकान्यधर्मा-
दीनां संचितक्रियमाणानां दग्धवीजभावानाम्, अकारणं खाधये
स्वफलोत्पादनासामर्थ्यम्, तस्योक्तप्रमाणाद्विवक्षितविवेकेन प्रा.
तौ, संस्कारो दंहारम्भकारष्टम, तद्वशाधृतशरीरस्तिष्ठति, य.
था कुलालव्यापारविगमेऽपि वेगवशाच्चभ्रमिस्तिष्ठति, प्रारब्धस्य
भोगैकनाश्यत्वात्, अत एव "तस्य तावदेव चिरं यावन्न विमोश्येड-
य संपत्स्य" इत्युक्तं श्रुती, भोगेन स्वितरे क्षपयित्वे"ति वेदान्तेषु
भगवता व्यासेन च, तथा च तत्वज्ञाने सति कर्मक्षय इत्यस्य प्रथम
तत्वज्ञानप्रागभावस्य नपत्वात् फलानुत्पादमात्रमयों न देहायभावो.
ऽपीति संक्षेपः ॥१७॥
( ४९ ) प्राप्ते शरीरभेदे चरितार्थत्वात् प्रधानविनिवृत्तौ । ऐकान्तिकमायन्तिक. मुभयं कैवल्यमाप्नोति ॥ ६८ ॥ ननु यधुत्पन्नतत्त्वज्ञानोऽपि तिष्ठति कदा तर्हि मोक्षं गच्छति तत्राह प्राप्त इति । भोगेन प्रारब्धक्षयतः शरीरस्य भेदो विनाशस्त- स्मिन् प्राप्ते सति चरितार्थत्वाद् बुद्धितत्त्वादिद्वारा कृतभोगापवर्गल- क्षणप्रयोजनकत्वात् प्रधानस्य पुरुष प्रति विनिवृत्ती संयोगाभावल- सणलये ( १) उभयम् ० उभयगुणकं कैवल्यं दुःखविनाशं प्राप्नोति, द्वयं किं तदाह ० ऐकान्तिकम् ० अवश्यंभावि ० आत्यन्तिकं दुःखजातीयानुत्पत्तिविशिष्टम् ० एतद्विशेषणकत्वात् कैवल्यमुभयम उत्पन्नात्मसाक्षात्कारवान् पुरुषः प्रक्षीण शेवकल्मपो भोगेन प्रारब्ध, सये सत्यवश्यमात्यन्तिकदुःखविनाशं प्राप्नोतीति समुदायायः ॥६८॥ पुरुषार्थ ज्ञानमिदं गुह्यं परमर्षिणा समाख्यातम् । स्थित्युत्पत्तिालया- श्चिन्यन्ते यत्र (२) भूतानाम् ॥ ६९ ॥ प्रेक्षावद्विश्वासार्थमाह पुरुषार्थमिति । पुरुषस्यार्थः प्रयोजन मोक्षाख्यं यस्मात् तादृशं शानं गुह्यं बहूनां दुरवबोधं परमर्षिणा कपि- लेन फथितम, यति निमित्तसप्तमी, यज्ञाननिमित्तमित्यर्थः ॥६९॥ एतत पवित्रमग्रथं मुनिरासुरयेऽनुकम्पया प्रददौ । प्रामुरिरपि पञ्चशिखाय तेन च बहुधा कृतं तन्त्रम् ॥ ७० ।। एशदू भगवता यत् तत्त्वज्ञानमुक्तं तस्य कुत भागमस्तनाह . एतदिति । पवित्रं पावनं सर्वपापनाशकत्वात्, अप्रयं सर्वेभ्यः पवि- मुख्यम, मुनिः फपिलः, आसुरये ० अनुकम्पया प्रददौ फथि- (१) मरौरखये इत्यर्थः । (2) जाने। प्रेभ्यो ( ५० ) तवान्, स पुनः पञ्चशिखाय व्याख्यातवान्, तेन बहुधा शिष्योपदेश- द्वारा प्रकाशितमित्यर्थः॥ ७० ॥ शिष्यपरंपरयागत. मीश्वरकृष्णेन चैतदार्याभिः । संक्षिप्तमार्यमतिना सम्यग् विज्ञाय सिद्धान्तम् (१) ॥ ७१ ॥ ईश्वरकृष्णेन किं ततः साक्षात् प्राप्तं तत्राह शिष्यपरंपरयेति । आर्याख्यं छन्दोविशेषस्तद्विशिष्टं पद्यमाप्यार्येत्युच्यते, अत उक्तमार्या- भिरिति, किं कृत्वा सम्यगध्ययनभावनाभ्यां सिद्धान्तं विज्ञाय ॥७९॥ सप्तयां किल येऽर्था- स्तेऽर्थाः कृत्स्नस्य षष्टितन्त्रस्य । आख्यायिकाविरहिताः परवादविवर्जिताश्चापि ॥ ७२ ॥ इति सांख्यकारिकाग्रन्थः समाप्तः शुभम् ॥ पतच शास्त्रार्थसूचनाच्छास्त्रं नतु प्रकरणमित्याह सप्तत्यामि- ति । षष्टितन्त्रस्य पुरुषप्रकृत्यादिषष्टिपदार्थव्युत्पादकतन्त्रस्य येऽर्थाः किल सप्तत्यां कारिफासप्तत्यां कधिताः, किंभूताः, आख्यायिकाविर- हिताः कथातद्धटितष्टान्तादिरहिताः, तथा परवादविवर्जिताश्च, ष. ड्दर्शनोत्थापनरहिताश्चेत्यर्थः, तत्र यथा कपिलोक्तषडध्याय्यां चतु: योऽध्याये आख्यायिका, पञ्चमे परवादः, तथात्र न वर्तत इति भावः, षष्टिपदार्या गणिता ग्रन्थान्तरे यथा “पुरुषः प्रकृतिर्बुदिरहंकारो गु. णास्त्रयः । तन्मात्रमिन्द्रियं भूतं मौलिफार्थाः स्मृता दश ॥ विपर्ययः पञ्चविधस्तथोक्ता नव तुष्टयः । करणानामसामर्थ्यमाविंशतिधा म- तम् ॥ इति षष्टिः पदार्थानामष्टाभिः सह सिद्धिभिः"। इति, तथा चा- त्रैतत्पष्टिपदार्थविवेचनान्नेदं प्रकरणं किंतु तन्त्रमेवेति सिखम् ॥७२॥ इति श्रीरामगोविन्दतीर्थशिष्यनारायणतीर्थकृता सांख्यचन्द्रिका संपूर्णतामगमत् ॥ शुभमस्तु ॥ (१) राधान्तम् इति पा.।
१ १ . . . २ • ० ० ० ० ० ० ० ० ० ० । २ सूचीपत्रम्। नणपाठः मोलप्रकाशा २ गंगालहरी गुरसारणी जातकतत्त्वम् ० १२ तत्त्वदीप तर्कसंग्रह दत्तकमीमांसा धर्मशास्त्रसंग्रहः धातुपाठः ( शिला ") धातुरूपावली २ ६ नैषध चरित नारायणी टीका टाइफ परिभाषापाठः पाणिनीयशिक्षा भाग्यसहिता प्रथम परीक्षा प्रथमपुस्तक हिन्दी प्रश्नभूषणम् (प्रभ विचार का बहुत उत्तम प्रन्य) बीजगणितम् (म. म. पं. सुधाकरकृतटिप्पणीसहित) १ भट्टीकाव्य ५ सर्ग मनोरमा शब्दरतसहिता (टाइप) ९ लघुकौमुदी टिप्पणीसहिता लक्षणावली लीलावती (म०म० पं. सुधाकररुतटिप्पणीसहित) १ पसिष्ठसिद्धान्त चार्तिकपाठः विष्णुसहस्रनाम शब्दरूपावली पृङ्गार सप्तशती समासचक्रम् समासचन्द्रिका सरखतीकण्ठाभरणम् साडन्यचन्द्रिका टिप्पणीसहिता सावयतत्त्वकौमुदी सिद्धान्तकौमुदी सिवान्तमुक्तावली दिनकरीटिप्पणीसहिता उपसर्गपत्ति २ १ २ १ 8 १ a vo V ३ AD १
No text on this page.
No text on this page.