Bharatiya Vidya Bhavan Library, Mumbai

Prapannamritam

Shri Madanantacharya · 2012/08

PDF Proofread

Front matter

श्रीमते रामानुजाय नमः॥
10000
vie

१ .... .... .... .... .... ... ... ... .... - ... १८ . ... ॥ श्रीः॥ अथ श्रीप्रपन्नामृतस्थमुख्यविषयानुक्रमणिका. अध्यायः विषयः पृष्ठांकः १ श्रीवैकुंठमणिमडपादिवर्णनं भगवद्रामानुजावतारहेतुभूतश्रीवैकुठनाधफणिराजसंवादादेविवरणम् २ श्रीमतपुर्यभिवर्णनपूर्वक भगवद्रामानुजावतारादिविवरणम् ... ३ यादवप्रकाशसमीपे शास्त्रपठनं कुर्वतो भावद्रामानुजस्य राजकन्याब्रह्मराक्षसविमोचनादिमा- हात्म्यप्रकाशनम्... ४ गंगायानामिण भगवते रामानुजायारिष्टं कर्तु मस्थितरता यादवमफाशेन विध्यारण्ये श्रीरा मानुजविसर्जनम्... व्याधरूपेण साक्षात्कृतवतः पानीयं देहीति याचितवतः श्रीदेवराजस्यानुग्रहेण तदानीमेव काची- मागतवता भगवता रामानुजेन देवराजाय प्रत्यह शालकृपजलसमर्पणम् ६ श्रीशठारिदिव्यसूत्तिषु पोलिदेति गायोत्तरीत्या तादृशमहापुरुषः कुनावतीर्य वर्तत इति तदन्वे- पणार्थ यामुनार्येण सशिष्यजनप्रेषणं, काच्या वर्तत इति तन्मुसादवगमनं गोनिंदायस्य कालह- स्तिनिवासमाप्तिश्च ७ भगवद्रामानुजदिदृक्षया काची प्रति यामुना-गमनम् ८ कायासश्रुतेर्यादयप्रकाशोत्कमपार्थ निराकृत्य समीचीनार्थमुक्तवतो लक्ष्मणदेशिस्य यादवप्रका- शविसर्जनम् ९ यामनार्यप्रेषितमहापूणार्येण सह श्रारगं प्रति गतवता यामुनार्यचरमशरीरं दृष्टवता श्रीरामानुजा येण तस्याकुंचितागुलिविमोचनम्... २२ १. बटुकृतकांचीपूर्णेन भगवद्रामानुजेन श्रीदेवराजात् पदर्थसप्राप्तिः ११ देवराजाज्ञया श्रीमद्रामानुजार्यस्य महापूर्णाश्रयणम... १२ भगवद्रामानुजस्य भार्याविसर्जनहेतुविवरणम् १३ सापराधां भार्या रिसज्य स्वावतारप्रयोजनचिकीर्षया तुर्याश्रम स्वीकृतवत. श्रीदेवराजाशया शि. निकाप्रतिष्ठित श्रीशठार पुरस्कृत्य घजच्छनचामरायनेकरिश्दैभेरीकाइलादिसकलवायैरर्चक. परिचारकादिसकलपरिवारैश्च साकमभिमुसमागतेन श्रीकाचीपूणेन सह सन्निधि प्राप्य श्रीदेवरा- जमंगलाशासन कनवतः श्रीदेवराजदत्तयतिराजनामधेयं स्वीकृतवतो भगवद्रामानुजस्य देवराजा शया काचीपूर्णनिर्दिष्टमठप्रवेशः .१४ दाशरथिरेशयोर्यतिराजाश्रयणं यतिराजानुज्ञया प्रवृत्ते कूरेटायादवप्रकाशसंवादे चूरेशकृतपरत- चनिर्णयः १५ श्रीवरदराजाज्ञया यादवप्रकाशस्य यतीद्राश्रयणम्. १६ श्रीरंगराजाय देवराजकतयतिराजसमर्पणम् १७ ततः श्रीरंग गतवतः श्रीरंगेशाशया कनक छत्रचामराधनेकविरुदैः सकलयारिने कश्रीवैष्णयबंद- श्व साकं प्रत्युद्गतेन महापूर्णार्येण सह सन्निधिं गत्या श्रीगेशमगलाशासनं कृतवती यतीद्र- स्य श्रीरंगेशाद्विद्वियाधिपत्यप्राप्तिः ૬૨ १८ श्रीदौलपूर्णगोविदार्यसंवादः १९ गोवेदार्य श्रीशैलपूर्णाश्रयणम् २. मनोपदेशात्यर्थ यतिराजस्य गोष्ठीपुराभिगमनम्... २१ गोष्ठीपूर्णकृपालन्धमंत्रराजस्य भरिप्रदानम्... ... .... .... ... .... .... ४८ ... ... .... ... ....

अध्याय. .... .... ७४ ... ... .00 .... .... ... ... ... .... .... .... .... .... .... ... ... (६) प्रपन्नामृतस्य- विषयः पृषक: २२ कूरेशदादारविम्यां चरमश्लोकोपदेशः २३ यतिराजस्य सर्वापोपदेशमाप्तिः २४ यतींद्राय श्रीरंगद्रव्यापहकारितविपानप्रदानादि २५ यतिराजात् यशमूख्यमहापडितस्यपराजयः देवरा देवमन्नाथो देवराजमुनिधेत्युत्तमनाममाप्तिश्च ७९. २६ तेनैव देवराजमुनिना शानसारप्रमेयसारख्यमयद्वयनिर्माणम् .... २७ कापसारामवरदार्यगद्दे यतींद्वाराधनम् २८ यतीद्राराधनोपयुक्तद्रव्यदातुश्याय वैष्णवत्त्वसिद्धिः २९ विट्ठलदेवनृपतेर्यतीद्रायणम् ९२ ३० श्रीपाद्यतीद्रस्य श्रीरामायणार्यप्रवणम् ३१ गोविंदार्यस्य तुर्याश्रमस्वीकारः १०० ३२ शारदादत्तबोधायनवृत्यनुसारेण श्रीभाष्यनिर्माणम्.... ३३ कुरगनगरीपूर्णाय भगवते यतीकृतमनरत्नोपदेशः ३४ दिग्विजयकाले शारदासमक्षं कप्यासश्रुत्यर्थ विवृण्वता यतोद्रेण शारदादत्तभाध्यकारनामस्वीकर. पदारदापीठस्थविदुपा पराजयध ३५ श्रीजगन्नाथयतिराजयोः संवादः ३६ श्रीकूर्मश्रीवेंकटाचलयोर्विष्णुक्षेत्रत्वनिर्वाहः ३७ रेशस्य सर्वसंपत्परित्यागपूर्वकं श्रीरंगे नित्यनिवासः ३८ श्रीपराशरभट्टाधिवतारकथाया यामुनार्यमनोरथपूरणम् ३९ यतींद्रप्रशंसितवृहचरणनामकप्रशस्तवशसमवेन महापूार्यदायादेन धीरगेशाज्ञया श्रीपरावर. भार्याय कन्यामदानम् ४० धनुर्दासकनकांगनयोर्यतिराजपया पैष्णवत्वसिद्धिः १२२ ४१ धनुर्दीसकनकागनयोगुणोत्कर्षप्रकटनम् १२६ ४२ गुरोमोक्षोपायत्वप्रकाशनम् ४३ कृमिकंठचोलराजजन्महेतुकयनम् . ४४ कृमिकठचोलराजयाजेन यतोंद्रस्य पश्चिमदेशगमने चेलाचलायाग यतीद्वाराधनम् ४५ यतींद्वात् चेलांचलायाभर्तुः पंचसंस्कारमाप्ति ४६ सहस्रफणाशोभितपर्णीद्राकारेण यतीद्रेण दशसहस्रबोद्धपराजयः १४२ १७ यादवाद्रौ अंतर्हितश्रीनारायणाविर्भावानंतरं दिल्लीशपुन्या सह संपत्युत्रस्य यादवाद्यागमनम् ४८ यादवाद्री दिल्लीसपुश्या सह संपरपुत्रप्रतिपनम् .. १५२ ४९ रेशमिकंठयोर्विवादे सति महापूर्णक्रेशयोर्नेत्रोत्पाटनम् ५० कूरेशस्य सुंदराचलनिवासः ५१ कृमिकंठचोलमरणवातानंतर भक्तरक्षार्थ यादवाद्रौ स्वाचाविग्रहं प्रतिष्ठाप्य तत आगतवता यतींद्रेण वेंकटाचलदक्षिणमागे तिल्लगोविदराजप्रतिष्ठापनम् .... ५२ रेस्य पुनर्नेत्रप्राप्तिः २३ यतींद्रेण गोदाभीष्टपूरणम्.... ५४ आभपूर्णविरचितश्रीरामानुजाष्टोत्तरशतनामस्तोत्रम् ५५ आभपूर्णमाहात्म्यवर्णनम् ५६ अनंतार्यप्रभाववर्णनम् ... .... .... .... .... .... .... ... १३८ .... ... ... ... ... ... .... ... .... ... ....

(७) पृशंका .... १८२ १८५ १८९ .... .... २०२ ... २० ... .... .... .... २१८ २२१ २२३ २२५ ... : ... विषयानुक्रमणिका । अध्यायः विषयः ५७ रेशचरमदशावर्णनम् ५८ कूरेशपरमपदमाप्तिवर्णनम् ५९ श्रीरंगेशादिप्रकाशितयतिराजवैभवम् ६. पूर्वाचार्यप्रकाशितयतिराजवैभवम् .६१ मूकरेशदाशरथ्यादिप्रकाशितरामानुजवैभवम् ६२ श्रीरामानुजस्य सर्वमुख्यत्ववर्णनम्- ६३ आचार्यवैभववर्णनम् ६४ श्रीरामानुजमंत्रप्रभाषादिवर्णनम् ६५ यतींद्रोपदिष्टचतुःसप्ततिवाक्यविवरणम् ६६ श्रीभूतपुर्या भगवद्रामानुजार्चावतारमाहात्म्यम् ६७ श्रीवैष्णवलक्षणादिवर्णनम् ६८ यतिराजचरमदशादिवर्णनम् . ६९ श्रीपराशरभट्टार्यविजये वेदांतिवृत्तांत: ७. भट्टार्यकृतवेदान्तिविजयः ७१ वेदांतिने भट्टार्यकृतनिखिलरहस्यायोंपदेशः ... अथ भट्टार्यवेदांतिसंवादः। ৬২ সাভাসাবেক্ষণ ওখার্জনগণোস্থি ७३ द्राविडाम्नायवैभवम् ७४ श्रीगोदादिव्यसरिपूर्वाचार्यप्रभाववर्णनम् ७५ श्रीकुंठपुरवर्णनम् ७६ लक्ष्मीवैकुंठनायसंवादे गोदावतारादिविवरणम् ७७ सरोयोगिभूतयोगिभ्रांतयोगिनामवतारादिकथनम् ७८ भक्तिसारवैमषम् .... ७९ काणकृष्णावतारादिकथनम् ८. भक्तिसाराय महदाहयकृततत्त्वोपदेशः '८१ भक्तिसारकृतरुद्रपराजयः '८२ सरोयोगिभूतयोगिनांतयोगिनां श्रीवैकुंठप्राप्तिः .८३ भक्तिसारवैभवातिशयः ८४ भक्तिसारस्य कुंभकोणाख्यादिव्यदेशयाना ८५ कुलशेखरावतारादिकथनम् ८६ कुलशेखरस्य श्रीरामप्रत्यक्षाभिवर्णनम् ... ८७ कुलशेखरस्य भागवतप्रतिपत्यादिविचित्रचरित्राभिवर्णनम् ८८ श्रीविष्णुचित्तावतारादिकथनम् ८९ पांड्यराजसभायां श्रीविष्णुचित्तकृतपरतत्त्वनिर्णयः ९. गोदाकल्याणार्य श्रीरंगशादीनां धन्विपुरागमनम् ९१ गोदायै श्रीरंगेशप्रत्यक्षमाप्तिः ९२ गोदारंगेशकल्याणमहोत्सवः ९३ भक्तांभिरेषवतारादिकथनम् . .... .... .... ५३८ ... .... .... .... .... .... ... .... २६१ २७३ २८१ .... २१२ ३७. ३५८ ...

अध्यायः पटाका .... ३२८ ... .... .... ... ... .. ३४९ ... .... ... ... ... ... ... ... રહર ३७८ ३८७ ... ... ४०७ . . (८) मपन्नामृतस्य विषयानुक्रमणिका । विषयः ९४ भक्तामरणुदेवदयाविहारादिवर्णनम् ९५ भक्तामिरेणुचरित्र दिव्यसूरसंस्तुतदिव्यदेशाविवरणम् ९६ श्रीपाणयोगिचरितम् ९७ परकालावतारादिकथनम् १८ परकालोलराजयुद्धनमः ९९ परकालस्य श्रीरंगनाथप्रत्यक्षप्राप्तिः १०. श्रीरंगेशक कर्यार्थ परकालेन बौद्धस्वर्णप्रतिमाहरणम् १०१ श्रीरंगमाकारादिनिमार्तृणा शिल्पकाराणां परमपदप्राप्तिः १०२ दिव्याधोपक्रमोत्सर्जनकालनिर्णयादिविवरणम् १०३ श्रीशठयोपायतारमधुरफव्ययत्तारविवरणम् १०४ अयोध्यावासिना मधुरविना दिव्यतेजोम्पतया श्रीशठकोपसारसंदर्शन श्रीशटनोपगरेः श्रीरगेशादिप्रत्यक्षप्राप्तिः १०५ श्रीरामाजिदिव्यसूक्तिपनिकायाः कवकविसमानांतशंखपीठाधिरोहणम् १०६ श्रीमन्नाथमुन्यवतारतत्तीर्थयानादिविधरणम् १०७ श्रीमनायमुनेः श्रीशठकोपसूरिकृपया दिव्यप्रवधभविष्यदाचार्यविग्रहप्राध्यादिवितरणम् १०८ श्रीमनाथयोगिचरमदशा १०९ श्रीकृष्णलक्ष्मीनाथायमोक्षप्राप्तिः -११० पुंडरीकाक्षावतारादिकथनम् १११ श्रीयामुनायविजयः ११२ श्रीयामुनार्यस्य गीतोपदेशपूर्वकतुर्याश्रमस्वीकारः ११३ महापूर्णश्रीशैल्पूर्णादीना यामुनार्याश्रयणम् ११४ यामुनार्यस्थानतरायनादिदिव्यदेशसचारः ११५ महायर्यादिसवितारकथनम् ... ११६ यतीद्राद्यनेकाचार्यचरितकथनम् इति भट्टार्यवेदांतिसंवादः समाप्तः । ११७ रामानुजार्याद्याचार्यवैभवम् ११८ कलिजिद्वारणाद्रीशयोर्गुणागुणकथनम् ११९ भगवद्विपयसप्रदायविवरणम् १२० लोकाचार्याचवतारकथनं श्रीभाष्यसंप्रदायविवरणं ययनपाधाप्राप्तौ लोकाचार्यवेदान्तदेशिक तश्रीरगेशरक्षणधीभाष्यश्रुतप्रकाशिकादिरक्षणादिविवरण च १२१ श्रीशैलवृत्तातादिविवरणम् १२२ यतीन्द्रप्रवणादिगाजवैभववर्णनम् १२३ श्रीशैलपूर्णवेशप्रशंसाया विजयनगरे पिशाचेश्यः श्रीरामायणोपदेशः १२४ पीशेर सिंहाचार्याच्छीरामायणश्रवणे पिशाचाना सातानलोकपाति: १२५ निरपाक्षपाय पश्यसरकारपूर्वक श्रीरामायणोपदेशः . १२६ प्रपन्नगायत्रीप्रपन्नामृतयो, पठनपणादिमाहात्म्यश्रवणम् इति भीप्रपन्नामृतविपयानुक्रमणिना समाप्ता ! ... ४२५ .... ४२८ ४३९ ... ४४५ ... .. ... .. .. .... ..४८५ Wat ॥श्रीः॥ प्रपन्नामृतम् । ww प्रथमोऽध्यायः। श्रीमते रामानुजाय नमः॥ वाधूलश्रीनिवासार्यपादाभोजोपजी वनम् ॥ जन्यपुंगवसद्भक्तं श्रीनिवासगुरुं भजे ॥ १॥ राजच्छिद्रयु- तोर्द्धपुंड्रमनिशं रामानुजाख्यं मुनि कापायांवरमब्जसन्निभगलं कांतो- पवीतत्रयम् ॥ भापासंस्तुतवाग्विलासममलं बद्धांजलिं भास्वरं श्रीव. त्सांकमुखाखिलायंशरणं श्रीभाष्यकारं भजे॥२॥श्रीरंगराजपदपं- कजराजहंसं रामानुजार्य्यपदपंकज,गराजम् ॥ श्रीशैलवंशकलशावु- धिपूर्णचन्द्र श्रीरंगराजगुरुमन्वहमाश्रयामः ॥३॥ मिथ्यावादिमदा- धसिंधुरमधासंरंभकुंभस्थलीनिर्भेदोद्भवसूक्तिमौक्तिकमणीशुभ्रीकृताभ्र- स्थलः॥सत्तस्फुरदत्युदग्रनखरो वेदांतशैलाश्रितः श्रीरामानुजकेसरी विजयते प्रोदंडविक्रीडितः ॥४॥ कौशिकान्वयसंभूतं कारुण्यामृतसा- गरम् ॥ नृसिंहाचार्य्यतनयं रामानुजगुरुं भजे ॥५॥नाधीतानि च शास्त्राणि न कृतं गुरुपूजनम्॥वक्ष्यामि कृपया विष्णोरनुगृहंतु देशिकाः ॥६॥ इंदिरारमणं देवमिभशैलनिवासिनम् ॥ विवस्वत्कोटिसंकाशं देवराजमहं भजे ॥७॥ अस्ति वैकुंठनगरं सर्वलोकेषु विश्रुतम् ॥ नित्यमुक्तैः सेव्यमानं विष्णोः प्रीतिकरं शुभम् ॥८॥नवरत्नसमाकीर्णैः प्राकारैरुपशोभितम् ॥ अनेकगोपुरयुत मंडपैरुपशोभितम् ॥ ९॥ दिव्यप्रासादसंयुक्तैर्दिव्यकक्ष्यासमावृतैः॥गृहरनैः शोभमानं नवरत्नमयैः शुभैः ॥ १० ।। स्वर्णवृक्षसमाकीर्णरुद्यानरुपशोभितम् ।। चंद्रकांतम- यैः शुभैर्विमानैः प्रविराजितम् ॥ ११॥ दिव्याप्सरोगणैर्नित्यं सेवितं १ रघु । २ सरस्वती । ३ मिथ्या । ४ सूर्य।

(२)
प्रपन्नामृते-
सततं शुभैः॥ विवस्वत्कोटिसंकाशैस्तोरणैर्वहुभिर्वृतम् ॥१२॥ सुधा-
करसहस्राभैः पुरुपेरुपशोभितम् ॥ वापीकूपतडागैश्च दिव्यामृतमयैः
शुभैः ॥ १३ ॥ दिव्यांडजवरैनित्यं स्वर्णपंकजशोभितम् ॥ शोभमानं
पताकाभिर्ध्वजैश्च परिशोभितम् ॥ १४॥अनंत शाश्वतं दिव्यं नित्या-
नंदसुखाह्वयम् ॥ अजेयं निर्मलं शुद्धं परमं सुसुखप्रदम् ॥१५॥ ब्रह्मा-
दीनामसाध्यं च साध्यं वै भक्तिशालिनाम्।।तन्मध्ये तत्पुरं दिव्यं गृह-
रत्नसमावृतम् ॥ १६॥ चतुर्दारसमायुक्तं द्वारपालैः सुरक्षितम् ॥ को-
टिसूर्यप्रकाशेन नवरत्नमयेन च ॥ १७॥ प्राकारेण समायुक्तं पताका-
वजमालिना ॥ दिव्यरत्नसमाकीर्णैरत्युच्छ्रायैर्मनोहरैः ॥१८॥ अनेक-
गोपुरवातैः शोभमानं सुशोभितैः॥सर्वाभरणयुक्ताभिः स्त्रीभिर्वतीभिरं-
चितम् ॥ १९॥ तत्र मध्ये मणिमयं मंडपं चास्ति शोभनम् ॥ सह-
स्रस्तंभसंयुक्तं विष्णोः प्रीतिकरं शुभम् ॥ २० ॥ दिव्यचंदनकर्पूरकुं-
कुमामोदवासितम् ॥ दिव्याप्सरोगणाकीर्ण नित्यमुक्तसमावृतम्॥२१॥
तन्मध्ये सुमहाबाहुः फणिराजो महाबलः ॥ सहस्रफणसंयुक्तस्तत्रास्ते
विमलद्युतिः ॥२२॥ तस्योपरि महावाहुःशंखचक्रगदाधरः ॥ इंदीव-
रदलश्यामः पद्मपत्रनिभेक्षणः ॥२३॥ कंदर्पकोटिलावण्यो जगन्मो-
हनविग्रहः॥ कोटिसूर्यप्रतीकाशः कोमलावयवोज्वलः॥२४॥ केयू-
रहारकटकनूपुराद्यैरलंकृतः॥ दिव्यचंदनलिप्तांगः पीतांबरधरो युवा ॥
॥२६॥ नित्यं श्रीभूमिनीलाभिः संवृतः परमेश्वरः॥ नित्यमुक्तैस्से-
व्यमानःसुखं रेमे महाविभुः ॥२६॥ एवं सर्वात्मनस्तस्य श्रीनिवासस्य
शाङ्गिणः ॥ श्रिया संबोध्यमानस्य जगतो रक्षणाय च ॥ २७॥ श्री-
हरेरुदभूत्काचिचिंता निर्हेतुका तदा ॥केनोपायेन वैकुंठमिमातूनया-
म्यहम् ॥२८॥ इति चितयमाने तु लोकनाथे हरौतदा ॥शय्याभूतः
फणी शेपस्तमाह पुरुषोत्तमम् ॥२९॥ का चिंता तव देवेश परिपूर्णस्य
नित्यशःविचारे तव सर्वज्ञ कारणं नेह विद्यते॥३०॥इत्युक्तः फणिरा-
जेन तमाह पुरुपोत्तमः ॥ भोगीश सुमहावीर्य शृणुतद्वचनं मम॥३१॥

अध्यायः १. (३) यदर्थ चिंतयाम्यद्य संदृश्य दुःखिताजनान् ॥ श्रिया सहावतीर्णा- स्मि जनरक्षणहेतुना ॥ ३२ ॥ अवतारेषु मां सर्वे मन्यते प्राकृता जनाः ।। राजानं चापि गोपालं प्राकृतं पुरुषं यथा ॥३३॥ अ- स्मत्संरक्षणार्थाय वैकुंठादागतो हरिः॥ एवं न मेनिरे दृष्ट्वा मां जगत्का- रणं परम् ॥ ३४ ॥तदर्थ चिंतयाम्यद्य फणिराज महामते ॥ प्रेषिताश्च मया पूर्व लोकरक्षणहेतुना ॥ ३५ ॥ शंखचक्राद्यायुधानि विष्वक्से- नादिसूरयः ॥ तेपि भूमि समासाद्य दृष्ट्वा पापयुताञ्जनान ॥३६॥ तत्ताहग्भापणेनैव दुर्जयं वै हरेः पदम् ॥ इत्यालोच्य तदा सर्वे मौनेन सुसमाहिताः ॥३७॥ ततः केन प्रकारेण स्वस्थानं पुनरागताः॥इ- त्युक्त्वा फणिराज तं पुनः प्राह हरिस्तदा ॥३८॥ भोगिराज महामा- ज्ञ समर्थो जनरक्षणे ॥ अवतीर्य भवान्भूमौ जनाबक्षितुमर्हति ॥३९॥ त्वां विना कस्य सामर्थ्यमस्ति लोके विशेषतः ॥ इत्युक्तस्तेन हरिणा फणीशःप्रयतात्मवान् ॥ ४०॥ तमुवाच महाविष्णु वाक्यं वाक्य- विशारदः ॥ त्वं धाता सर्वलोकानां सृष्टिस्थित्यंतकारकः ॥४१॥ त्वत्तः सर्वं जगदिदमभूत्स्थावरजंगमम् ॥ त्वन्मायया जगदिदं मोहि- तं परमेश्वर ॥ ४२॥ तवाशक्यं महाबाहो कार्य लोकेषु सर्वदा ॥ ना- स्ति विष्णो विशालाक्ष जंतुरक्षणतत्प।। ४३॥ तथापि कृपया विष्णो मां नियोक्ष्यसि रक्षणात्वदासभूतेन मया कर्त्तव्यमविचारतः॥४४॥ वाक्यं तव प्रयत्नेन संदेहस्तत्र नास्ति हि ॥ ब्रह्मादिस्तंबपर्यंतं मायया मोहितं जगत् ॥ ४५ ॥ तस्मादत्तं यदि भवेद्विभूतिद्वयमच्युत ॥ येन केनापि वैकुंठं प्रापयिष्यामि ताञ्जनान् ।।४६॥ इति तद्वाक्यमाकर्ण्य देवेशो हरिरीश्वरः ॥ अनंताय ददौ तस्मै विभूतिद्वयमादरात् ॥४७॥ पुनः प्रोवाच लक्ष्मीशो वाक्यं भोगीशमर्थवत् ।। पूर्व ममाज्ञया केचि- टुवं प्राप्य शुभान्विताः ॥ १८॥ पंचसंस्कारसंयुक्ताः प्रजारक्षणत- त्पराः॥ तिष्ठति ज्ञानयुक्ताश्च नित्यं हरिपरायणाः ॥४९॥ तथापि तेपां सामर्थ्य जनानज्ञानमोहितान् ॥ नास्ति ज्ञानोपदेशेन स्ववशीक- (४) प्रपन्नामृते- तुमादरात् ॥५०॥तदहं प्रेपयाम्यद्य जगत्पालनकर्मणि ॥ इत्युक्त- स्तेन हरिणा फणिराजः प्रसन्नधीः॥५१॥ प्रदक्षिणीकृत्य तदा ववंदे चरणौ हरेः ॥ ततोनुज्ञापितोऽनंतो हरिणा जनरक्षणे॥ फणिराजः प्रस- नात्मा भूम्यां चक्रे मनस्तदा ॥५२॥ इति श्रीप्रपन्नामृते रामानुजचरित्रे वैकुंठनाथफणिराजसंवादे प्रथमोऽध्यायः॥१॥ द्वितीयोऽध्यायः । तोंडीरमंडले भूम्यां पूर्वाभोधेस्तु पश्चिमे॥योजनत्रयदूरे सानाम्ना भूतपुरी ह्यभूत् ॥१॥ त्रिषु लोकेपु विख्याता विष्णोः प्रीतिकरी शुभा। धनधान्यसमायुक्ता दानशीलैः समावृता ॥२॥ नागपुन्नागबकुलैः कपित्थाश्वत्थसर्जकैः ॥ चंदनागरुवृक्षैश्च चूतबिल्वादिकैरपि ॥३॥ कोविदारैश्च खजूरैर्जम्ब्वामलकदाडिमः।।तालैस्तमालैः पनसैनारिकेलैः कुरंटकैः॥ ४॥ न्यग्रोधर्तितिणीवृक्षः पूगेक्षुवनराजिभिः ॥ सहकारैः कोविदारैः कदलीवनराजिभिः॥५॥ इत्याद्यैर्वृक्षजातैश्च शोभिता च सुपुष्पकैः ॥ मयूरापकनादैश्च मत्तभंगस्वरैस्तथा ॥६॥शाखामृगगणा- कीर्णा सारिकाभिः समावृता॥ वापीकूपतडागैश्च सरोभिश्च सपंकजैः ॥७ाउद्यानरममाणाभिः स्त्रीभिः धुभिः समावृता। वेदाध्ययनशीलैश्च विद्भिाह्मणोत्तमैः ॥८॥ काव्यनाटकपाठश्च वेदपाठैस्तथैव च ॥ तार्किकैश्शान्दिकैश्चापि वेदवेदांतपारगैः ॥९॥ इत्यायैर्ब्रह्मयोपैश्च ना- दिता सर्वतः शुभा॥ विष्ण्वालयैर्मणिमयैरत्युच्छ्रायैश्च गोपुरैः ॥१०॥ विस्तीर्ण राजमार्गश्च नरनारीसमावृतैः ॥ सौधपंक्तिसमायुक्तैर्युहरत्नैः समावृता ॥ १३॥ गजवाजिसमाकीर्णैः शूरैश्च बहुभिर्वता ॥ चतुर्दार- समायुक्ता द्वारपालैः सुरक्षिता ॥ १२॥ तस्यां पुर्या महाप्रज्ञो यज्वा केशवनामकः॥ वेदवेदांतसंपन्नः सर्वशास्त्रविशारदः ॥ १३॥सदाचा- रसमायुक्तः सत्यधर्मपरायणः ॥ जितेंद्रियो जितक्रोधः सत्यवाग- १ घट । २ऋमक ।

अध्यायः २. (५) नसूयकः ॥ १४ ॥ देवाद्विजगुरूणां च पूजकश्च दृढवतः ॥ स्थिखुद्धिः स्थिरानंदस्तपोदानपरायणः॥ १५ ॥ मिताशी मित- भापी च महाभागवतोत्तमः ॥ हारीतान्वयसंभूतो नित्यं हरिपरा- यणः ।। १६॥.भार्यया सह संयुक्तस्तत्रास्ते ब्राह्मणोत्तमः ॥ अन- पत्यतया तस्यां पुत्रार्थी वैष्णवोत्तमः।। १७ ॥ दिवानिशं हरि ध्याय- नुवास जगदीश्वरम् ॥ चंद्रोपरागस्तु महानथाभूद्धवि विश्रुतः ॥ ३८॥ ततो,महोदधेस्त्रानं कर्तुकामः स भार्यया ॥ वैष्णवः केशवो यज्वा पुण्यां कैरविणीमगात् ॥ १९॥ कैरविण्यां समुद्रे च सात्वा सम्य- क्समास्थितः ॥ नत्वा तं प्रार्थयामास पुत्रार्थी पार्थसारथिम् ॥२०॥ तमेवोदिश्य तत्रैव पुत्रिकापुत्रकारणात् ॥ इष्टिं चकार विधिवत्स विप्रः श्रीहरिं तदा ॥२१॥ तयेष्टया द्विजवर्याय प्रसन्नः पार्थसारथिः।। प्राप्नोस्यहं ते पुत्रत्वमिति स्वप्ने तमब्रवीत ॥ २२॥ ततो लब्धवरो धीमान केशवो भार्यया सह ॥ अवाप भूतनगरों हृष्टः केशवपालि- ताम् ।। २३॥ ततः कतिपु यातेषु वासरेष्वजलोचना ॥ गर्भ दधौ कांतिमती पत्नी केशवयज्वनः ।। २४॥ एवं गते बहुतिथे तस्यां जज्ञे महामतिः ।। चैत्रे मेपे शुक्लपक्षे पंचम्यां गुरुवासरे ॥ २५ ॥ मध्याह्न कर्कटे लग्ने नक्षत्रे रुद्रदेवते ॥ कौसल्यायां यथा रामो यथादित्यां च वामनः ॥२६॥ देवक्यां तु यथा कृष्णो रोहिण्यां तु यथा हली ॥ तथा सुतो महातेजाः फणिराजो महाबलः ॥ अस्यावतारश्लोकाच गीयते प्रथिता भुवि ॥ २७॥ यथावतारान्मथुरा मुरारे रामस्य साके- तपुरी च यद्वत् ॥ तथा यतींद्रस्य समागतेन पुण्यान्विता भूतपुरी बभूव ॥२८॥ चैत्रासंभवं विष्णोर्दर्शनस्थापनोत्सुकम् ॥ तोंडी- रमंडले शेपमूर्ति रामानुजं भजे ॥ २९ ॥ पुत्रं दृष्ट्वा कांतिमती प्रोद्य- तमिव भास्करम् ।। हणोत्फुल्लनयना मुमोद सह बंधुभिः ॥३०॥ यज्वा तु केशवस्तत्र पुत्रं दृष्ट्वा तु सुंदरम् ॥ ब्राह्मणेभ्यो ददौ प्रीत्या १ भगवन्तम् । F..

(६) प्रपन्नामृते- वसुधान्यादिकं बहु ॥ ३१ ॥ ततः केशवदेवेन श्रीभूतपुरवासिना ॥ चोदितास्तेन ते सर्वे भूतपट्टनवासिनः ॥३२॥ श्रीरामानुजजन्म: भूतपुर्या गृहेगृहे ।। तैलाभ्यगैर्गधचूर्णैरुत्सवं चक्रिरे जनाः ॥ ३३ ॥ तदाप्रभृति सर्वत्र भूम्यां रामानुजोत्सवः॥ श्रीरामानुजजन्मदै विस्ता- रं समपद्यत ॥३४॥ श्रीरामकृष्णजन्मर्श लोकेपु प्रथितं यथातथा रामानुजार्यस्य जन्मज्ञ लोकविश्रुतम् ॥३५॥ ततः श्रीशैलपृायों भगिन्याः पुत्रसंभवम्।।श्रुत्वाष्टमनावेगात्तांभूतनगरीमगात् ॥३६॥ दृष्ट्वा बालं महात्मानं तेजोराशिमकल्मषम् ॥ मुमोदामानुपं मत्वा पुत्रं केशवयज्वनः ॥ ३७॥ द्वादशेऽहनि पुत्रस्य केशवो बंधुभिः सह ॥ तेन श्रीशैलपूर्णेन गुरुणामिततेजसा॥३८॥शङ्खचक्रांकनं पूर्व कारयित्वाथ लीलया ॥ लोके रामानुज इति नाम चक्रे सुमंगलम् ॥३९ ॥स बालो ववृधे नित्यं बालसूर्य इवोदितः ॥ द्विजाः सर्वे च तं दृष्ट्वा बालं सर्वांगशोभितम् ॥४०॥शेपो वा सैन्यनाथो वेत्युत्प्रेक्षां चक्रिरे तदा ॥ सर्वे ते विस्मयं पापुदृष्ट्वा बालस्य लक्षणम् ॥४१॥ यस्मिन् क्षणे भुवि पदं व्यदधात्स बालस्तस्मिन् क्षणे कलिरहो सहसा विलि- ल्ये ॥ पापः पलायनपरस्सहसा पृथिव्यां धर्मो बभूव भगवान्स्वपदै- श्चतुर्भिः॥४२॥ मनोरविन्दानि महात्मकानां श्रीलक्ष्मणाचार्य्यर- विप्रकाशात् ॥ निरस्तकालुष्यतमोभियोगात्सम्यग्विकासं प्रययुस्त- दानीम् ॥४३॥ आजानुबाहुमरविंददृशं शुभांगं चन्द्राभमब्जदल- कोमलपाणिपद्मम् ॥ बालं विलोक्य रमणं जितमर्त्यभावं मोदंजगाम जनकः प्रभया ज्वलंतम् ॥४४॥ बालं विलोक्य विबुधाः स्फुरदंशु- जालमाचन्द्रवर्णममलं सुगुणालबालम् ॥ सम्यग्वितयं बहुधाखिल- दिव्यचिद्वैः शेपोयमेव भवितेति दृढं तमूचुः ॥४५॥ कृत्वान्नप्राशनं तस्य चौलं चापि यथाक्रमम् ।। मौंजीवंधं चकारास्य पुत्रस्यामितते- जसः॥४६॥ गर्भाष्टमे शुभदिने केशवार्यों महायशाः ॥ वेदान्स- अध्यायः ३. (७) लक्षणांस्तस्य स्वयमेवोपदिश्य च ॥ विद्यानातस्य पुत्रस्य विवाह कर्तुमुद्यतः ॥४७॥ततस्तु पोडशे वर्षे पुत्रस्यादित्यवर्चसः ॥ विवाह विधिना चके स विप्रो वेदपारगः ॥४८॥ ततः स केशवो यज्वा कालेन महता तदा।।जगाम वैष्णवं लोकं नित्यमुक्तैः समावृतम्॥४९॥ पितुर्वियोगजं दुःखं ज्ञानेन विनिगृह्य सः ॥ पितृकार्याणि सर्वाणि चकार विधिना ततः॥५०॥ततः स्वभार्यया साई मात्रा रामानुजो महान् ॥ तस्मिन्नेव पुरे चासौ कंचित्कालमुवास ह ॥५३ ।। अधीत्य सर्वशास्त्राणि ज्ञानं संपादयाम्यहम् ॥ इति वुद्धिः समुत्पन्ना लक्ष्म- णार्यस्य निश्चयम् ॥५२॥ततो जनमुखाच्छ्रुत्वा यादवं विदुषां वरम्॥ तत्समीपे शास्त्रपाठं श्रोतुकामः कुशाग्रधीः ॥ ५३॥ भूतपु- विहायाशु वासरामानुजस्तदा ॥ कांच्या वासं कुटुम्बेन साकं चके महामनाः ॥५४॥ तदारभ्य प्रतिदिनं यादवस्य विपश्चितः॥ समीपे शास्त्रपठनं चक्रे रामानुजः सुधीः॥५५॥ इति श्रीप्रपन्नामृते रामा- नुजचरित्रे रामानुजार्यावतारादिकथनं नाम द्वितीयोऽध्यायः ॥२॥ तृतीयोऽध्यायः। ततो महाँल्लक्ष्मणदेशिकेंद्रः शास्त्रप्रवीणोपि तदर्थजातम् ॥ नित्यं पठस्तत्त्वविदग्रगण्यस्समास्थितोऽभूत्किल यादवाये ॥ १ ॥ कदा- चिल्लक्ष्मणाचार्य तं विलोक्य स यादवः ॥ तस्य बुद्धिविशेष च तेजोरूपादिलक्षणम् ॥२॥अनंतोयमिति ज्ञात्वा तूष्णीभूतो दया- न्वितः॥ ततस्तदेशपालस्य पुत्री रक्षोऽग्रहीन्महत् ॥३॥ बहवो मांत्रिका राज्ञः शासनादागतास्ततः ॥ असमर्थतया तेपामानयामास यादवम् ॥४॥ आज्ञा राज्ञः पुरस्कृत्य शिष्यसंघसमावृतः॥ यादवः प्रययौ द्वारं राज्ञस्तस्य महात्मनः ॥५॥ स राजा यादवं दृष्ट्वा प्रत्युत्थायाभिवाद्य तम् ।। तस्मे संदर्शयामास तां रक्षोभिहतां सुताम्।। ॥६॥ तां कन्यां यादवो दृष्ट्वा शिष्यसंघसमावृतः ॥ शनैःशनैर्जप- .

(८) प्रपन्नामृते- न्मंत्रान्कन्यकानिकटं ययौ ॥७॥अमन्त्रयच्च तां कन्यां मत्रैमत्र- विदां वरः ॥ ब्रह्मराक्षसवेताला यक्षभूतादयो ग्रहाः॥८॥ यनामस्म रणादेव भृशं भीताः पलायिताः ॥ ब्रह्मरक्षस्तु तं दृष्ट्वा यादवं जपशी- लिनम्॥९॥हुंकारेण विनिर्भय॑ दन्तान्कटकटापयन् ॥प्रलयांबुदनि- घोपतुल्यनादं व्यधात्तदा ॥ १०॥ तेन संमोहितो विप्रः संचचाल स यादवः ॥ स ब्रह्मराक्षसो दृष्ट्वा यादवं भयमोहितम् ॥ ११॥ प्रसार्य यादवस्याग्रे पादौ निःशंकितो भृशम् ॥ उवाच वाक्यं प्रहसन् गिरा गम्भीरया तदा ॥ १२॥ भोयादव किमर्थं त्वं शिष्यैः सह समागतः।। मां निवारयितुं शक्य न त्वया मणिमंत्रकैः ॥ १३॥ तेनोच्चाटनसा- मर्थ्य नास्तिनास्तीति तेऽधुना ॥ जानाम्यहमनूचानः पूर्ववृत्तांतकार- णात् ॥१४॥ द्विजत्वहेतुकं कर्म किमकारि त्वया पुरा ॥ मया जन्मां- तरे पापं ब्राराक्षसहेतुकम् ॥ १५॥ इदं विचार्य सर्व त्वं मदने ब्रहि तत्त्वतः ॥ ब्रह्मराक्षसवाक्यं तच्छुत्वा विप्रो भयातुरः ॥ १६॥न किंचिदुत्तरं तस्मै दत्तवालॅजयान्वितः॥ स ब्रह्मराक्षसो दृष्ट्वा विमुखं भीतमानसम् ॥ १७॥ उवाच वाक्यं तं विघं गिरा गम्भीरया तदा ॥ त्वत्पूर्वजन्मवृत्तांत वक्ष्यामि शृणु यादव ॥ १८॥ अंग्रहारो महान्क- श्चिन्मथुरांतिक इत्यभूत्।। तस्य पश्चिमदिग्भागे तयाकोऽस्ति सपंकजः ॥ १९॥ तस्य सेतौ च वल्मीके गोधीभूत्वा त्वमास्थितः॥ कदाचि- द्वैष्णवः कश्चिद्वेदवेदांगपारगः ॥२०॥आगत्य तस्मिन्सरसि स्नात्वा पाकं विधाय च ॥ निवेद्य विष्णव सम्यक्तदन्नं परमात्मने ॥२१॥ चकार तन्मना भूत्वा भोजनं ब्राह्मणोत्तमः ॥ तदोत्थाय जवाद्धीमान् कृतपादादिशोधनः ॥२२॥ उच्छिष्टपत्रं वल्मीकसमीपे विससर्जसः।। भवानागत्य वल्मीकादृष्ट्वा पत्रं कुतुहलात् ॥ २३॥ तत्पत्रसंस्थित चान्नं भुक्तं सर्व क्षुधा त्वया ॥ तद्विशेपाद्विजकुले जातस्त्वमसि यादव ॥ २४ ॥ तदिदानीमुदच्छुः कांतिमत्यात्मसंभवम् ॥ रामा- नुजं समाश्रित्य गच्छ लोकमनुत्तमम् ॥ २५ ॥ त्वत्पूर्वजन्मच- अध्यायः ३. (९) रितमुक्तं खलु मयाऽधुना ॥ वक्ष्यामि येन पापेन ब्रह्मरक्षो भवं विह ॥ २६ ॥ श्रूयतां तत्पुरावृत्तमव्यग्रमनसा त्वया ॥ जातोहं ब्राह्मणकुले वेदवेदांगपारगः ॥२७॥ भार्यया सह संयुक्तो यज्ञारंभ- करोऽभवम्।। मंत्रक्रियादिलोपेन ब्रह्मरक्षोऽभवं द्विज ॥२८॥ तदाप्रभृत्य- नुदिनं सर्वसत्त्वभयकरः ॥ पर्वतान्वनराजींश्च ग्रामांश्च नगराणि च ॥ ॥२९॥ संचरनिखिलान्देशान् कांची प्राप्तो यदृच्छया ॥ रमणीये पुरोधाने संचरंती मनोरमाम् ॥ ३० ॥ कन्यां दृष्ट्वा मोहितोहं गृहीत्वा विगतज्वरः ॥ अनया विचराम्येतदर्थ नृपवराज्ञया॥३१॥ नानाजनपदेभ्यश्च बहवो मंत्रवादिनः ॥ आगत्य भीता दृष्ट्वा ते दुद्रुवुर्भयमोहिताः ॥ ३२॥ त्वया न शक्यं मंत्रेण मां निरियितुं गृहात ॥ ते सर्वमंत्रतंत्राणि यांति निष्फलतां मयि ॥३३॥निक्षिप्ता- न्यूपरे क्षेत्रे यथा वीजानि यादव ॥ यः शिष्यगणमध्ये तु समास्ते पुरुषोत्तमः ॥ ३४ ॥ रामानुज इति ख्यातः सर्वलक्षणशोभितः ॥ स तु पादेन मां स्पृष्ट्वा दत्त्वा पादोदकं शुभम् ॥ ३५ ॥ यदि दास्य- त्यनुज्ञां मे गमिष्येहं यथासुखम् ॥ इति रक्षोवचः श्रुत्वा राजा हृष्टम- नास्तदा ॥ ३६॥ रामानुजस्य चरणावाभिवाय सभार्यया ॥ उवाच मधुरं वाक्यं लक्ष्मणार्य महौजसम् ॥ ३७ ॥ रामानुज महाप्राज्ञ रक्षेमां कन्यकां मम ॥ त्वन्माहात्म्यं न जानामि शरणागतरक्षक ॥ ॥ ३८॥ ब्रह्मरक्षोवचोभिस्ते विदितं चरितं मया ॥ तद्वाक्यं राजसिं- हस्य श्रुत्वा रामानुजस्तदा ॥ ३९ ॥ स्वपादौ तस्य शिरसि निक्षिप्य प्रीतिपूर्वकम् ॥ दत्त्वा पादोदकं तस्मै सम्यग्गच्छेति चात्रवीत् ॥ ॥४०॥ लक्ष्मणार्यस्य तद्वाक्यं श्रुत्वा प्रीतमनास्तदा ॥ तत्पादोद- कपानेन राक्षसो ध्वस्तपातकः॥४१॥ तां राजकन्यां विजहौ तनुं चात्मविनाशिनीम् ॥ दिव्यदेहधरः श्रीमान् विमानं सूर्यसन्निभम् ॥ ॥४२॥ आरुह्य प्रययौ स्वर्गमप्सरोगणसेवितम् ॥ ब्रह्मराक्षसनिर्मुक्त (१०) प्रपन्नामृते- शुशुभे राजकन्यका ॥ ४३ ॥ यथा रामपदस्पर्शान्मुक्तशापो ऋपि- प्रिया ॥ रामानुजांघिसंस्पर्शात्तथा सा राजकन्यका ॥ ४४ ॥ दुष्ट- ग्रहेण निर्मुक्ता गगने रोहिणी यथा ॥ स राजा कन्यकां दृष्ट्वा हर्पणोत्फुल्ललोचनः ॥ १५ ॥ रामानुजस्याभिपेकं सुवर्णेनाकरो- त्तदा ॥ यादवस्यापि सत्कारं कृत्वा दृष्टोऽभवत्तदा ॥ ४६॥ यादव- स्सह शिष्यैश्च समागत्य स्वमालयम् । परपूजां स्वावमानं स दृष्ट्वा दु:खितोऽभवत् ॥ ४७॥ रामानुजोपि तद्रव्यं यादवाय ददौ मुदा ॥ तद्रव्यं प्रतिगृह्यापि यादवो दीर्घमत्सरः ॥ १८ ॥ चक्रे रामा- नुजे वैरं कांतिमत्यात्मसंभवे ॥ तस्मिन्काले विप्रवयों गोविंद इति विश्रुतः ।। ४९ ॥ द्युतिमत्यात्मजः श्रीमाल्लँक्ष्मणार्यस्य वैभवम् ॥ श्रुत्वातिमानुपं सम्यङ् मुमोद तदनुत्तमम् ॥ ५० ॥ भ्रातरं लक्ष्मणाचार्य द्रष्टुकामः कुशाग्रधीः ॥ मात्रा चैवाभ्यनुज्ञातः पुरी कांचीमगात्ततः॥५१॥ ददर्श यादवस्याग्रे रामानुजमनुत्तमम तिं मातृप्वस्त्रियं दृष्ट्वा लक्ष्मणार्यः समागतम्॥५२॥हर्पण महता युक्तः सस्वजे प्रीतिपूर्वकम्।।गोविंदोऽपि तेदारभ्य समीपे यादवस्य सः॥२३॥ सह रामानुजायेण शास्त्रं वेदांतनामकम् ॥ पठन्दृष्टमना भूत्वा तत्रै- वास्ते द्विजोत्तमः॥ ५४॥सत्यश्चतौस्तु वेदांते यादवोऽपार्थमुक्तवान्।। स तं श्रुत्वा लक्ष्मणार्यों यादवं प्रत्यभापत ॥ ५५॥ शृणु यादव महा- क्यं वेदार्थप्रतिपादकम ॥श्रुतेरपार्थविपयं किमुक्तं भवताधुना ॥५६॥ सत्यज्ञानादिवाक्यानि वदंति ब्रह्मणो गुणान् ॥ सदेवेत्यादिवाक्यानि तत्त्वमस्यादिकानि च॥ १७॥ रामानुजस्य तद्वाक्यं श्रुत्वा कोपसम- न्वितः॥ प्रोवाच यादवो भूयः सर्वशास्त्रार्थकोविदम् ॥५८॥ शिक्ष- को वा त्वमस्माकं गुरुर्वा शठ दुमते ॥ इति निर्भयामास कलिना मोहितो द्विजः ।।५९॥ ततो रामानुजः प्राज्ञः स्वगहें प्राप्य नित्यशः।। पूर्वाधीतान्महाग्रंथान्पुनरालोकयन्स्थितः ॥ ६० ॥ रामानुजोप्ये- अध्यायः ४. (११) वमुदाखुद्धिस्त्यक्त्वा तदा तस्य गुरोनिवासम् ॥ उवास संतुष्टमनाः स्त्रगेहे वेदांततत्त्वार्थविचारदक्षः॥ ६॥इति श्रीप्रपन्नामृते रामानुजच- रिने ब्रह्मराक्षसमोचनं नाम तृतीयोध्यायः॥३॥ चतुर्थोऽध्यायः। ततः कदाचिदेकांते यादवो दीर्घमत्सरः ॥ शिष्यानातान्समाहूय वा- क्यमेतदभापत ॥१॥ अहं द्विजानां सर्वेपां प्रसिद्धः पंडितोत्तमः।। अपार्थ श्रुतिवाक्यानां किमर्थ चोक्तवानहम् ।।२।। विदिता भवतामपा प्रतीतिः पंडितेषु मे ॥ सर्वासु वादगोष्टीषु नावमानः कदाचन ॥३॥ बहु कुर्वति मां सर्वे वेदवेदांगपारगाः॥किमत्र वाच्यं यदहं रक्षसा चा- वमानितः॥४॥ पश्यत्स्वेव च सर्वेषु लक्ष्मणार्यस्य सन्निधौ ॥.मम शिष्यस्य वालस्य स्वल्पबुद्धेश्च पूजनम् ॥५॥ दृष्ट्वा ममावमानं च शोचामि सततं द्विजाः ॥ ग्रंथात्रामानुजः सर्वानधीत्य मम सन्नि- धौ ॥६॥ दूपयत्येव मां नित्यमुक्तोपार्थः श्रुतेरिति ॥ अभून्मे सहजः शटरहो रामानुजः सुधीः ।।७॥ बुद्ध्या वृहस्पतेस्तुल्यस्तेजसैव वि- भावसोः॥ अद्वैतखंडनार्थाय जातः केशवयज्वनः ॥८॥ केनोपायेन तं विगं वधिष्याम्यात्मनो रिपुम् ॥ तच्छ्रुत्वा विप्रबालास्ते तमूचुर्या- दुवं तदा ॥ ९॥ भो यादव महाप्राज्ञ मागमस्त्वं मनोव्यथाम्॥तिष्ठत्सु प्रियशिष्येषु माहशेषु तवांतिके॥१०॥ येन केनाप्युपायेन नाशया- मोथ बालकम् ।। शिष्याणां वचनं श्रुत्वा हिताहितसमन्वितम्।।११॥ पुनः प्रोवाच धर्मज्ञः शिष्यानात्मगतं वचः ॥ रामानुजस्य मरणे छुपायश्चितितो मया ॥ १२ ॥ गंगायात्रां समुद्दिश्य वयं गच्छाम बालकाः॥प्रयत्नेन तमादाय शर्छ रामानुजं ततः ॥ १३॥ गत्वा त्रिवेणीमव्यग्राः सर्वकल्मपनाशिनीम् ॥ तस्यां क्षिपामस्तमिति बुद्धि- रासीन्ममाधुना।। १४॥ एवं कृते ततोऽस्माकं ब्रह्महत्या न विद्यते ॥

(१२)
प्रपन्नामृत-
गुरोर्वाक्यं समाकर्ण्य शिष्यास्ते विप्रवालकाः ॥ १५ ॥प्रशशंसु-
नृशंसं तं रावणं राक्षसा यथा ॥ ततरिशप्यैः समानीतं तेजोराशिमरिं-
दमम् ॥ १६ ॥रामानुजमुवाचेदं यादवो मधुराक्षरम् ।। रामानुज
महाप्राज्ञ किमर्थ नागतो भवान् ॥ १७॥ शिप्ये त्वयि कृता शिक्षा
सा कोपाय तवाऽभवत् ॥ सर्वेभ्यः प्रियशिप्येभ्यः प्रीतिस्त्वयि ममा-
धिका ॥ १८॥ न त्वया सदृशः कश्चित्पुमाल्लोकेषु विद्यते ॥ पर्व-
तानां यथा मेरुर्धेनूनां कामधुग्यथा ॥ १९ ॥ तथा त्वं सर्वलोकेषु
प्रसिद्धो भवसि ध्रुवम् ॥ मत्प्रसादात्पूर्णवियो भव रामानुजोत्तम
॥ २० ॥ त्वद्वियोगान्मम मनो भृशं शोचत्यहनिशम् ॥ तद्वाक्यं
यादवेनोक्तं विपमिश्रामृतोपमम् ॥ २१ ॥ श्रुत्वा रामानुजः प्रीत-
स्तथ्यं मेने महामनाः॥ तदा प्रभृत्यनुदिनं समीपे यादवस्य सः॥
॥ २२ ॥ रामानुजोप्यधीयानः शास्त्रं नित्यं समास्थितः ॥ ततो
रामानुजं प्राह यादवः परवंचकः॥ २३ ॥माघस्नानं प्रयागे तु
स्वर्गादिफलदं किल ॥ तस्मादहं गमिष्यामि प्रयागं शिष्यसंवृतः ।।
॥२४॥ भवता गंतुकामोहं युक्तं यदि तथा कुरु ॥ यादवस्य वचः
श्रुत्वा मात्रानुज्ञापितस्तदा ॥ २५ ॥ रामानुजश्च प्रययौ जाह्नवीं
यादवेन सः ॥ तत्कौटिल्यं यादवस्य विदित्वा तक्रियादिभिः ॥
॥ २६ ॥ रामानुजाय गोविंदो वक्तुकामः समास्थितः ॥ कदाचि-
द्विध्यमार्गेथ यादवः शिष्यसंवृतः ॥ २७ ॥ पुरो मृगगणाकीणे
विना रामानुजं ययौ ॥ आयांतं दूरतो दृष्ट्वा गोविंदो भ्रातरं पंथि ।।
॥ २८ ॥ स्थित्वा मुहूर्त सौहार्दाद्रामानुजमथाब्रवीत् ॥ रामानुज
महाप्राज्ञ जाह्नवीस्नानकैतवात् ॥२९॥ जिघांसुस्त्वां त्वया साई
गच्छत्येवमतंद्रितः ॥ स्थातव्यमप्रमादेन त्वया रामानुजोत्तम ॥
॥३०॥ एवमुक्त्वा स गोविंदस्तेनानुज्ञापितो जवात् ॥ ययौ शीघ्र
गुरुभयानगोविदो भ्रातृवत्सलः ॥ ३१ ॥ रामानुजस्तु तदाक्य
गोविंदवदनाच्युतम्॥श्रुत्वा मार्ग विहायाथ वृक्षमुले समास्थितः॥३२॥

अध्यायः ५. (१३) पेण महता तस्मिन्यादवः पीडितो वने ॥ प्रपीडया गतः साय जलक्लिन्नोऽनुगैः सह ॥ ३३ ॥ ततो विलोक्य गोविंदं पथि समानुजं विना || आयांतं यादवो वाक्यमुवाच मधुराक्षरम् ॥ ॥ ३४ ॥ विहाय लक्ष्मणाचार्य त्वमेकाकी समागतः ॥क स्थि- तोसौ तेन विना नैवागंतुमिहार्हसि ॥ ३५ ॥ यादवस्य वचः श्रुत्वा गोविन्दः प्रत्युवाच तम् ॥ अग्रे प्रयातो भवतो लक्ष्मणार्यों महामतिः॥३६॥ इति विज्ञातुकामोऽहमागतोस्मि तवांतिकम् ॥ततः शिष्यान्समाहूय यादवो वाक्यमत्रवीत् ॥३७॥ रामानुजं विचिन्वध्वं मार्ग वृक्षसमाकुले ॥ इति तद्वाक्यमाकर्ण्य तदन्वेषणतत्पराः ॥ ३८॥ वनं विलोक्य तत्सर्व यादवाय न्यवेदयन् वनमन्वेषितं सम्यगस्माभिः शीघ्रगामिभिः ॥ ३९ ॥ रामानुजं न पश्यामस्तमसा बंधुरे वने ॥ शिष्योदीरितमाकर्ण्य गोविंदप्रियमावहन् ॥ ४० ॥कुहनादुःखसंविष्टो यादवो दुःखितोऽभवत् ॥ ततः स यादवस्तत्र प्रियशिष्यैः समावृतः ॥४१॥ अन्तः सन्तोषसंयुक्तः सुखं शेते स्म पापकृत् ॥ संत्यज्य घोरे वनमध्यभागे बालं स तं निश्चलचित्तवृत्तिः ॥ गंगावगाहस्य फलं ममेदं मत्वेति निद्रामगमदुरात्मा ॥४२॥ इति श्रीप्रपन्नामृते रामाजचरित्रे यादवप्रकाशगंगायात्रायां विध्यारण्ये रामानुजार्य- विसर्जनं नाम चतुर्थोऽध्यायः ॥ ४॥ पञ्चमोऽध्यायः । ततो रामानुजो धीमान निर्मनुष्ये महावने ॥ अनन्यमानसो भूत्वा दध्यौ श्रीकेशवं हरिम् ॥ १॥ ततो भक्तपराधीनः श्रीहस्तिगिरिना- यकः ॥ श्रिया सह समायुक्तःशरणागतरक्षकः ॥२॥ बद्धगोधांगलि- वाणो धनुष्पाणिः शरान्दधत्॥ उपानहूटपादश्च पीतांबरधरो युवा ॥ ॥३॥ व्याधवेपं समास्थाय ययौ रामानुज प्रति ॥ रामानुजोपित दृष्ट्वा व्याधं पत्नीसमन्वितम् ॥ ४॥ उवाच वाक्यं मधुरमतिविस्मय- (१४) प्रपन्नामृत- मानसः ॥ कस्त्वं व्याध स्त्रिया साकं व गच्छासि महावने ॥५॥ किमागमनकार्य ते वक्तव्यं कुतुकं मम ॥ इत्युक्तस्तमुवाचेदं व्याध- रूपी परः पुमान् ॥ ६॥ अहं गच्छामि विरेंद्र क्षेत्र सत्यत्रतं शुभम् ॥ त्वमस्मिन्विजनेऽरण्ये मृगव्याघ्रसमाकुले॥ ७॥कस्माचरसि चकाकी को देशः कुत्र गम्यते॥ व्याधस्य वचनं श्रुत्वा लक्ष्मणार्य्यः प्रहृष्टधीः ॥८॥ उवाच वाक्यं मधुरं तहरि व्याधरूपिणम् ॥ प्रयागं गंतुकामोहं निर्गतः कांचिकात्पुरा ॥९॥ एकाकी विजनेऽरण्ये केनचिवेतुना स्थितः॥ यातुकामः पुनरपि क्षेत्र सत्यव्रतं प्रति ॥ १०॥ असहाय- तया कंचित्पुरुपं चिंतयाम्यहम् ॥ इति तद्वाक्यमाकर्ण्य व्याधरूपी हरिस्तदा ॥ ११॥रामानुजं समादाय ययौ सत्यव्रतं प्रति ॥क्रोश- मात्र गते दूरे रविरस्तं गतोऽभवत्।। १२॥ तदात्री वृक्षमूले ती शयाते व्याधदंपती ॥ रामानुजस्तत्समीपे वृक्षमूले समास्थितः ॥ १३ ॥ तद्रात्रौ व्याधवनिता व्याधं प्रत्याह चादरात् ॥ पिपासा बाधते नाथ पानीयं दीयतां मम ॥१४॥ पत्नीवचनमाकर्ण्य व्याधरूपी हरिस्त- दा॥ उवाच व्याधवनितारूपिणी श्रियमादरात् ॥ १५ ॥ विद्यतेंबु विशालाक्षि निकटे चारुहासिनि ॥ वर्तते तत्र पानीयं स्वच्छं सज्जन- चित्तवत् ॥ १६॥ वनप्रदेशो गहनो महता तमसा वृतः॥अधुना नीर- मानेतुं मयाशक्यं न शोभने ॥ १७॥रामानुजोथ तच्छुत्वा व्याधे- नोक्तं प्रियां प्रति ॥ उवाच प्रीतियुक्तात्मा व्याधं पत्नीसमन्वितम् ।। ॥१८॥ दिष्ट्या सहायहेतोम ह्यागतौ लोकदंपती ॥ व्याधरूपधरौ नूनमिति मे निश्चिता मतिः ॥ १९॥ असमर्थोस्मि युवयोः प्रदातुं जलमप्यहम् ।। प्रातस्तथापि दास्यामि युवाभ्यां जलमुत्तम् ॥ २० ॥ इत्युक्त्वा तौ महाप्राज्ञस्तूष्णीमास्ते महानिशि ॥ प्रभातायां तु शर्व- यो व्याधरूपी हरिः स्वयम् ॥२१॥ रामानुजं महात्मानमुवाच सह भार्यया ॥ मां जलं ददामीति क्षपायां भापितं त्वया ॥२२॥अत्रासन्ने अध्याय: ५. (१५) देहि तात विद्यते च शुभं जलम् ।। हस्ताभ्यां जलमादाय शीघ्र दात- व्यमेव नौ ॥ २३॥ इति तद्वाक्यमाकर्ण्य जवालक्ष्मणदेशिकः॥ हस्ताभ्यां जलमादाय ददौ व्याधाय भक्तितः॥ २४ ॥ निवारंतु जलं दत्त्वा भूयो लक्ष्मणदेशिकः॥पाणिभ्यां जलमुद्धृत्य नापश्यद्वया धदंपती ॥ २५॥ कूपाहिर्विनिर्गत्य चिंताब्याकुलितेंद्रियः ॥ ततो जनपदान् ग्रामान् नदी च श्वेतवालकाम् ॥२६॥ मनोहरं च पंथा- नं दृष्ट्वाश्चर्यमवाप सः॥समागताञ्जनान् दृष्ट्वा संतुष्टो वाक्यमब्रवीत ॥२७॥ जनाः शृणुध्वं मद्वाक्यं ययं कस्मादिहागताः॥ अस्य देश- स्य किं नाम तत्त्वतो ब्रूत मेऽनघाः॥२८॥रामानुजस्य तद्वाक्यं श्र- वा ते वाचमनुवन् ॥ इदं सत्यव्रतं क्षेत्रं भुक्तिमुक्तिप्रदं शुभम् ॥२९॥ अविदूरे प्रकाशते गोपुराणि समंततः॥ इयं क्षीरनदी पुण्या पुरोधान- वनं शुभम् ॥ ३० ॥ इदं प्रकाशते वृक्षैस्सदा पुष्पफलान्वितैः । इति तद्वाक्यमाकर्ण्य दृष्ट्वा कांचीपुरीं तदा ॥३॥ अयं हस्तिगिरीशस्य प्र- भावः परमात्मनः ॥ इति मेने महाप्राज्ञः सम्यगाश्चर्यमानसः ॥३२॥ ततो रामानुजः स्वीयं गृहं गत्वामुदान्वितः॥ मात्र निवेदयामास स- व वृत्तांतमादरात् ॥३३॥ कांचीपुरीजनाः सर्वे रामानुजमुपागतम् ॥ दृष्ट्वा श्रुत्वा तत्कथां च विस्मयाविष्टचेतसः ॥३४॥रामानुजं पुनर्जातं मन्यते दृष्टमानसाः॥ पुत्रं कांतिमती दृष्ट्वा जगाद वचनं हितम्॥३५॥ शृणु वत्स प्रवक्ष्यामि हितार्थ भवतोऽधुना ॥ अस्मिन्सत्यव्रतक्षेत्रे कश्चित्तुर्यकुलोद्भवः ॥ ३६॥ कांचीपूर्ण इति ख्यातो नित्यं हरिपरा- यणः ॥शवयंशेन संभूतः शमादिगुणसंयुतः॥ ३७॥ नित्यं वरदरा- जस्य कैंकर्याणि यथाक्रमम् ॥ कुर्वन्ननन्यमनसा तत्पादध्यानतत्परः ॥३८॥ अंतरंगोऽभवत्तस्य हरेः सर्वातरंगिणः ॥ तस्मै निवेदय स्वीयं वृत्तांत मार्गसंभवम् ॥ ३९ ॥ इत्यनुज्ञापितो मात्रा लक्ष्म- णार्यः कृतत्वरः ॥ कांचीपूर्णस्य निलयं संप्राप्य विनयान्वितः . प्रपन्नामृत- ॥ ४० ॥ कांचीपूर्णाय तत्सर्व वृत्तांतमवदत्तदा ॥ कांचीपूर्णस्तु तच्छुत्वा रामानुजमथात्रवीत् ॥ ११ ॥ रामानुज महाप्राज्ञ त्वय्य- स्ति करुणा हरेः ॥ तस्मात्त्वमापदो मुक्तः कांतिमत्यात्मसंभव ॥ १२॥ पातुकामो हरिनित्यं त्वयानीतं शुभं जलम् ॥ व्याघवेपं समास्थाय श्रीहस्तिगिरिनायकः ॥४३॥ याचित्वा त्वां देवराज- स्त्वया दत्तं पयः शुभम् ॥ पीत्वा विष्णुः श्रिया सार्द्धमंतर्धानं गतो हरिः॥४४॥ अतस्त्वं देवराजाय नित्यं भक्त्या महात्मने । तत्कूपान्त्रीरमादाय स्वर्णकुंभेन तत्प्रियम् ॥ ४५ ॥ समर्पयाशु हरये निशम्य वचनं मम ॥ कांचीपूर्णस्य तद्वाक्यं श्रुत्वा रामानुजस्तदा ॥४६॥ तमुवाच महात्मानं कांचीपूर्ण कुशाग्रधीः ॥ करिष्यामि न संदेहस्तव वाक्यं हितान्वितम् ॥४७॥ वेदांतैर्मृग्यमाणस्य ब्रह्माद्यैरपि सर्वदा ॥ वरदस्यांतरंगस्य तव वाक्य शुभान्वितम् ॥४८॥ न करोति महाभक्त्या कः प्राज्ञः करुणानिधे।। इत्युक्ता लक्ष्मणाचार्यः कांचीपूर्ण हितैपिणम् ॥ ४९ ॥ तेनानुज्ञापितो गत्वा स्वगृहं दृष्टमानसः॥ मात्रे निवेद्य तत्सर्व तयानुज्ञापितस्तदा ॥५०॥ तत्कूपाजलमादाय स्वर्ण- कुंभेन नित्यशः ॥ नागाचलनिवासाय नित्याय परमात्मने।वरदाया- प्रमेयाय गोविन्दाय महात्मने।॥५१॥ भत्त्या समर्पयन्नास्ते ध्यायंस्त- त्पादपंकजम्।।निवृत्तदुःसंगतिराप्तवास्यात्संप्राप्तसत्संगतिरायंवर्यः।। विख्यातकीर्तिः करिशैलनाथकैंकर्यमार्गेणरराज कांच्याम ॥ ५२ ।। इति श्रीप्रपन्नामृते रामानुजचरित्रे कांचीपूर्णाज्ञया देवरोजाय शाल- कूपसलिलसमर्पणं नाम पंचमोऽध्यायः ॥५॥ पष्ठोऽध्यायः। ततो महाँल्लक्ष्मणदेशिकेंद्रः कांचीपुरे सर्वजनप्रसिद्धः ॥ श्रीवि- पणुककर्य्यरतैकचित्तो रेजे यथा विष्णुपुरे फणींद्रः॥ १ ॥ तस्मि- न्काले रंगधानि यामुनार्यः कृपानिधिः ॥ वेदवेदांतसंपन्नस्तुर्याश्रम- अध्यायः ६. (१७) मुपास्थितः ॥२॥ पंचसंस्कारसंपन्नः परवादिभयंकरः ॥ सिंहासना- शसंभूतः शीलादिगुणसंयुतः ॥३॥ शिष्यैः परिवृतो नित्यं शरणा- गतरक्षकः ॥ श्रीमद्वैष्णवसिद्धांतपालकः संबभूव सः ॥ ४ ॥ एवं विधो यामनार्यों विद्भिः सह संगतः ॥ कदाचिच्छठजिवंथं विलोक्य ध्यानमास्थितः ॥६॥ ततः शिप्यान्समाहूय यामुनो वाक्य- मब्रवीत् ॥ यूयं सर्वेषु देशेषु विचिन्वध्वं ममाज्ञया ॥ ६ ॥ यत्र वालं महापाझं सर्वलक्षणशोभितम् ॥ विष्णुभक्तिसमायुक्तं शमा- दिगुणसंयुतम् ॥ ७ ॥ सर्वशास्त्रार्थतत्त्वज्ञं सततं प्रियवादिनम् ॥ सदाचारसमायुक्तं सज्जनप्रतिपूजितम् ॥ ८॥ एवंविधं नरं दृष्ट्वा ममाख्यात द्विजोत्तमाः॥ यामुनार्यस्य वचनं श्रुत्वा शिष्याः समा- गताः॥९॥ देशेदेशे तु पुरुपमुक्तलक्षणलक्षितम् ॥ विचिन्वंतः शिष्य- जनाः पुरीं कांची समागताः ॥१०॥ तत्र रामानुजं दृष्ट्वा श्रुत्वा तस्य कथामपि ।। रंगक्षेत्रं समागम्य यामुनाय न्यवेदयन् ॥ ११ ॥ रामा- नुजस्य वृत्तांतं श्रुत्वा शिष्यजनात्तदा । यामुनायों द्रष्टुकामः कांति- मत्यात्मसंभवम् ।।१२।। व्याधिना पीड्यमानोऽसावसमर्थोऽभवत्तदा।। यादवोपि ततो गंगां संप्राप्य स्वेच्छया पराम् ॥ १३॥ माघस्नानं तत्र कुर्वन्नास्ते शिष्यजनस्सह ॥ गंगायां कुर्वतस्तस्य स्नानं भक्त्यारु- णोदये ॥१४॥ गोविंदस्याभवत्पाणौ शिवलिंगं जलात्तदा॥ गोविंदो दर्शयामास गुरवे विस्मयान्वितः॥१६॥ तल्लिंग यादवो दृष्ट्वा सव्यहस्त स्थितं शुभम् ॥ गोविंदं प्रत्युवावेदं यादवो विदुपां वरः॥१६॥गोविंद- विश्वनाथस्ते प्रसन्नः करुणाकरः ॥ माघस्नानात्तु संतुष्टोऽभवद्रोऽम- राधिपः ॥ १७॥ एवमुक्त्वा तु गोविंदं यादवो विदुपां वरः ॥ आमा- घमासं गंगायास्तीरे स्थित्वा महामनाः ॥ १८॥ स्नानं च सर्वतीर्थेषु कृत्वा शिष्यजनैः सह ॥ कांचीपुरी पुनरगात्कृतकृत्यः स यादवः ॥ गोविंदस्तु महाप्राज्ञो यादवेन महात्मना ॥१९॥ कांचीपुर्या समासाद्य (१८) प्रपन्नामृते- साकं तत्र विसृज्य तम् ॥ स्वीयं श्रीमंगलग्राम तदनुज्ञापितो गतः ॥२०॥ गंगांभश्च समानीतं शिवलिंगं तदद्भुतम् ॥ तस्मिन्ग्रामे प्रतिष्ठाप्य कृत्वा भस्मादिधारणम् ॥२१॥ कालहस्तिपुरं प्राप्य नत्वा रुद्रममापतिम् ॥ तत्र संपूजयन्नित्यं गोविंदः सुखमास्थितः॥२२॥ तस्य रामानुजस्याथ विध्यारण्यादिहागतम्।।वृत्तांतमन्यतस्सर्व जना- दाकर्ण्य यादवः ॥२३॥ अत्यन्तसाध्वसमना विस्मयेन समन्वितः।। रामानुजेऽस्मिन् वरेण हानिरेव भविष्यति ॥ २४ ॥ इत्यालोच्य तदा चित्ते शिष्यैः सह स यादवः ॥ पुनश्चैवं समालोच्य यादवो निश्चितक्रियः ॥२५॥ सख्यं रामानुजार्येण चक्रे शिप्यमुखात्तदा ॥ शास्त्रप्रदातुरत्यंतमभावाद्यादवाहते ॥२६॥ पुनः श्रीलक्ष्मणाचार्यः तस्माद्विद्वान्महामतिः॥ यादवाच्च यथापूर्व संगृह्णन्सुखमास्थितः।। ॥२७॥ शास्त्राभिलापात्सुतरां महात्मा संत्यज्य देवेश्वरदास्यकृत्यम्।। कांचीपुरे लक्ष्मणदेशिकेंद्रस्तस्यांतिके पूर्ववदास्थितोऽभूत् ॥२८॥ इति श्रीप्रपन्नामृते रामानुजचरित्रे गोविंदस्य कालहस्तिवासो नाम पष्टोऽध्यायः॥६॥ सप्तमोऽध्यायः। ततः कदाचिच्छीरंगाद्यामुनः शिष्यसंवृतः ॥ रामानुजं द्रष्टुकामः पुरी कांची ययौ जवात् ॥ ॥ स्वाचार्यागमनं श्रुत्वा कांचीपूर्णी गुरुप्रियः । प्रत्युजगाम सहसा भक्तैः पुरजनैः सह ॥ २॥ यामनार्यों महापा- ज्ञः कांचीपूर्णेन संगतः॥ सन्निधिं देवराजस्य संप्राप्य विनयान्वितः ॥३॥ विराजमानं हस्त्यद्रौ वरदं भक्तवत्सलम् ॥ पद्मपत्रविशालाक्षं पूर्णेदुसहशाननम् ॥ ४॥ कोटिसूर्यप्रतीकाशं कोमलावयवोज्वलम्।। शंखचक्रधरं देवं शरणागतरक्षकम् ॥६॥ श्रीभूमिसहितं विष्णुं दृष्ट्वा हर्पसमन्वितः॥ कृत्वा प्रदक्षिणं सम्यग्ववेदे चरणौ हरेः ॥ ६॥ य- थाशक्ति स्तुति कृत्वा मंगलं कर्तुमुद्यतः ॥श्रीहस्तिगिरिखासाय मंग- अध्यायः ७. (१९) लं मधुवैरिणे ॥७॥ वैकुंठलोकनाथाय मंगलं विश्वरूपिणे ॥ भक्ता भीष्टप्रदायास्तु मंगलं परमात्मने ॥ ८॥ परब्रह्मस्वरूपाय मंगलंक- रुणाब्धये ॥ पीतांबरधरायास्तु मंगलं कंसवैरिणे ॥९॥ इत्येवं मंगलं कृत्वा यामुनार्यों हरिप्रियः ॥ तत्तीर्थ शठकोपं च तत्प्रसादं सुपावनम् ॥१०॥ आदाय प्रेमयुक्तात्मा द्रष्टुकामः स यामुनः ।। रामानुजं महा- प्राज्ञं तच्छैलानिर्गतस्तदा ॥ ११॥ तस्मिन्काले यादवश्च शिष्यैः परिवृतो द्विजः ।। वसंतं वारणगिरौ वरदं भक्तवत्सलम् ।। १२॥ संसे- वितुं समायातो लक्ष्मणार्येण धीमता ॥ ततः समागतान्दृष्ट्वा शिवम- तान् द्विजान मुनीन् ॥ १३॥ कांचीपूर्णमुवाचेदं यामुनार्यों विशेप- वित् ॥ द्विजदं समायाति कांचीपूर्ण विलोकय ।। १४ । सर्वेषां पुर- तः कश्चिदेकदंडी समागतः ॥ कांचीपूर्ण समाख्याहि तस्य वृत्तांत- मादरात् ॥ १५॥ यामुनार्यस्य तद्वाक्यं श्रुत्वा प्रीतमनास्तदा ॥ का- चीपूर्णो यामुनार्यमुवाच वचनं गुरुम् ॥ १६॥ स एप यामुनाचार्य यादवो नाम विश्रुतः ॥ सर्वशास्त्रेषु निपुणः सर्वमंत्रविशारदः ॥१७॥ स्वमतस्थापको धीमान्परपक्षविनाशकः ।। शिष्याणां पुरतो याति दें- डमुद्यम्य वेगतः ॥१८॥ अस्यैव निकटे नित्यं कांतिमत्यात्मसंभवः॥ रामानुजः पठनास्ते शास्त्रं वेदांतनामकम् ॥ १९ ॥ पश्येमं यामना- चार्य लक्ष्मणार्य शुचिस्मितम् ॥आयांतं विप्रमध्ये तु स्वहस्तेन सु- शोभिना ॥२०॥ सख्युर्विप्रस्य वालस्य हस्तं संगृह्य चादरात् ।। दीर्घवाहुं विशालाक्षं निम्ननाभिं तनूदरम् ॥ २१ ॥ कंबुकंठं स्निग्ध- केशं पूर्णचन्द्रनिभाननम् ॥ विशालवक्षो वियोष्टमुन्नतांसं जनप्रियम्॥ ॥ २२ ॥ सम्यक् समविभक्तांगं स्निग्धवर्ण सुलक्षणम् ॥ क्षीराधिफेनसंकाशवस्त्रयाविराजितम् ॥ २३ ॥ सुवर्णकटिसू- वेण शोभमानं सुशोभिना ॥ नवरत्नविकीर्णाभ्यां कुण्डलाभ्यां विराजितम् ॥ २४ ॥ बिसतंतुनिभैः शुभैर्ब्रह्मसूत्रविराजितम् ॥ छिद्रोर्द्धपुण्ड्रसंयुक्तललाटेनातिशोभितम् ॥ तमेवं हि यतिश्रेष्ठ रा- (२०) प्रपन्नामृते- मानुजमकल्मपम् ॥ २५ ॥ रामानुजस्य वृत्तांतं विध्यारण्यो- द्भवं तदा ॥ सर्व निवेदयामास यामुनाय महात्मने ॥२६॥ कांचीपूर्णस्य तद्वाक्यं मुनिः श्रुत्वा स यामुनः॥ रामानुजंलोचनाभ्यां संवीक्ष्य प्रेमपूर्वकम् ॥२७॥ तेन संभापणं कर्तुमुद्युक्तो यामुनोऽभ- वत् ॥ यद्ययं हि समाहूतो लक्ष्मणायों मयांतिकम् ॥२८॥नायाति यत्तु वा वालो ह्यसजनसमावृतः॥ मनस्येवं समालोच्य यामुनार्यः कृपानिधिः ॥ वरदं प्रार्थयामास तस्य विज्ञानसिद्धये ॥२९॥ यस्य प्रसादकलया बधिरः शृणोति पंगुः प्रधावति जवेन च वक्ति मृकः ।। अंधः प्रपश्यति सुतं लभते च वंध्या तं देवमेव वग्दं शरणं गतोस्मि ॥३०॥लक्ष्मीश पुंडरीकाक्ष कृपां रामानुजे तवनिधाय स्वमते नाथ प्रविष्टं कर्तुमर्हसि ॥३१॥ इति विज्ञापनं कृत्वा वरदं प्रति भक्तितः।। शिष्यैः सर्वैः परिवृतो यामुनायों दयानिधिः ॥ भूयः श्रीरंगनगरं प्रपेदे वनशोभितम् ॥ ३२ ॥ निर्गत्य कांचीनगरात्सशिष्यः श्रीरंग- मासाद्य स यामनार्यः॥ रामानुजस्याभ्युदयं चिकीर्षुस्तत्स्तोत्ररत्नं प्रचकार धीरः॥३३॥ इति श्रीप्रपन्नामृते रामानुजचरित्रे रामानुजदर्श- नार्थ कांची प्रति यामुनाचार्यागमनं नाम सप्तमोऽध्यायः ॥७॥ अष्टमोऽध्यायः। ततो वेदांतशास्त्राणि पठल्लँक्ष्मणदेशिकः ॥ पूर्ववद्यादेवस्याये तस्थौ स ब्रह्मचारिभिः ॥३॥ कदाचिद्यादवस्याथ लक्ष्मणार्यों महामतिः॥ तैलेनाभ्यंजनं कुर्व शृण्वश्छास्त्रं समास्थितः॥२॥स विप्रो याद, वोऽपार्थ श्रुतेः शिष्यान् वदन् स्थितः ॥ रामानुजस्तुतच्छुत्वा दुःखा- विष्टोऽभवत्तदा ॥३॥ क्रुद्धस्य लक्ष्मणार्यस्य नेत्राभ्यामबिंदवः ।। पतिता यादवस्योोरपार्थ वदतः श्रुतेः ॥ ४॥ दीप्ताभ्यामिव दीपाभ्यां साचिपः स्नेहविंदवः । तदश्रुपतनै घोरमब्रवीदिव यादवम् ॥ ५॥ अपार्थ श्रुतिवाक्यानां मा वदेति वचः स्फुटम् ॥ अथुभिः पीड्यमा-

अध्यायः८.
(२१)
नोऽसौ यादवः पंडिताधमः॥६॥ साश्रुनेत्रमुखं दृष्ट्वा तस्य रामानु-
जस्य तत् ॥ प्रत्युवाच शुभं वाक्यं लक्ष्मणार्य हरिप्रियम् ॥ ७ ॥
किमर्थ शोचसे प्राज्ञ वद दुःखस्य कारणम् ॥ लक्ष्मणार्यों यादवस्य
वाक्यं श्रुत्वा तमब्रवीत् ॥ ८॥ कप्यासमिति वाक्यस्य विरुद्धार्थस्त्वं-
योच्यते ।। ९॥ अपार्थ यच्छुतेरर्थ श्रुत्वा शोचामि यादव ॥ रामा-
नुजस्य तद्वाक्यं श्रुत्वा कोपसमन्वितः ॥ १० ॥ रामानुजमुवाचेदं
यादवः कलिमोहितः ॥ भो रामानुज दुर्बुद्धे त्वं वदार्थ ममाग्रतः ॥
॥११॥कप्यासमिति वाक्यस्य यत्तत्स्वाभाविकं वरम् ॥ याद-
वस्य वचः श्रुत्वा लक्ष्मणार्यों मुदान्वितः ॥ १२ ॥ वक्तुकामः
श्रुतेरथ यादवं वाक्यमब्रवीत् ॥ कप्यासमिति वाक्यस्य
वक्ष्याम्यर्थ शृणु द्विज ॥ १३ ॥ गंभीरांभसि जातस्य प्रो.
बद्भानुकरैस्तदा ॥ संफुल्लदलपद्मस्य सहशे लोचने हरेः ॥ १४ ॥
तस्याः श्रुतेरेवमर्थो वक्तव्यः शास्त्रवित्तमैः ॥ पाइगुण्यपरिपूर्णस्य वि-
प्णोरमिततेजसः ॥ १५॥ मर्कटासनसादृश्यमुच्यते नेत्रयोस्त्वया ॥
त्वयोदितमबद्धार्थ श्रुत्वा शोचामि यादव ॥ १६॥ लक्ष्मणार्यस्य
तदाक्यं श्रुत्वा कोपसन्वितः ॥ रामानुजं तिरस्कृत्य यादवो
वाक्यमब्रवीत् ॥१७॥ रेरे दुर्मार्ग दुर्बुद्धे मा वदार्थमसंगतम् ॥ स्थातुं
ममागे योग्यत्वं तव नास्ति द्विजाधम ॥१८॥ इत्युत्का यादवो मूर्खः
शमादिगुणसंयुतम् ।। रामानुजं महात्मानं गच्छगच्छेति चाब्रवीत् ।।
॥ १९॥ रामानुजो महाप्राज्ञस्तं विहाय स यादवम् ॥ कांचीपूर्ण स-
मासाद्य सर्ववृत्तांतमादरात् ॥२०॥ तस्मै निवेद्य सहसा तेनानुज्ञापि-
तस्तदा ॥ श्रीहस्तिगिरिनाथाय स्वर्णकुभेन तज्जलम् ॥२१॥ भक्त्या-
समर्पयन्नित्यं वरदाय समास्थितः॥ २२ ॥ कांचीपूर्णेनानुनीतस्त
दानीं त्यक्त्वा दुष्टं यावं लक्ष्मणार्यः ॥ भक्त्या युक्तो हस्तिशलाधि-
नेतुः कुर्वन्नास्ते नित्यकैंकर्यवृत्तिम् ॥२३॥ इति श्रीप्रपन्नामृते रामा-
नुजचरित्रे कप्यासश्रुत्यर्थविचारो नामाष्टमोऽध्यायः ॥ ८॥

(२२) प्रपन्नामृते- नवमोऽध्यायः। ततः श्रीरंगनगरे यामुनार्यो यतीश्वरः ।। देवराजं समुदिश्य स्तोत्र- रत्नं विधाय च ॥ १॥ रामानुजार्यवृत्तांतं शृण्वंस्तत्र समास्थितः।। कांचीपुरे यादवं तं कांतिमत्यात्मसंभवः ॥२॥ विसृज्य स महाप्राज्ञः कांचीपूर्णेन संगतः ॥ तन्नियोगेन हरये वारणाचलवासिने ॥३॥ शालकूपजलं भत्त्या चादाय स्वर्णकुंभतः॥ नित्यं समर्पयन्नास्ते मु- दा रामानुजः सुधीः ॥४॥ श्रुत्वा कदाचिदित्येवं संग्रहष्टः स यामुनः ॥ शिष्यं पूर्णार्यमाहूय वचनं चेदमब्रवीत् ॥५॥कांचीपुरीं समासा- य लक्ष्मणाचार्य्यसन्निधौ ॥ मया कृतमिदं स्तोत्रं त्वं वाचय ममाज्ञ- या॥६॥ गुरुवाक्यं तदाकर्ण्य तेन चाज्ञापितस्तदा। पूर्णाचार्यों म- हाप्राजः पुरी कांची ययौ जवात् ॥७॥श्रीहस्तिशैलमारुह्य तं नत्वा वरदं हरिम् ॥ तत्सन्निधौ यामुनेन कृतं स्तोत्रमणि पठन् ॥ ८॥ कृ- त्वा विज्ञापनं तस्य वरदस्य जगत्पतेः ॥ तत्तीर्थ शठकोपं च गृहीत्वा भक्तिसंयुतः ॥ ९ ॥ रामानुजार्यवृत्तांतं कांचीपूर्णानिशम्य सः॥ तत्संधानं समाश्रित्य तस्थौ स्तोत्रमणिं पठन् ॥ १० ॥ तदा रामानुजो धीमान् हेमकुंभेन तज्जलम् ॥ समादायांजसा भत्त्या वरदांतिकमाययौ ॥ ११ ॥ तत्रापश्यन्महात्मानं महापूर्ण महौ- जसम् ॥ द्विजवर्य महाप्राज्ञं विष्णुभक्तं विमत्सरम् ॥ १२ ॥ स्वरेण महता सम्यक् पठतं वैष्णवं स्तवम् ॥ ततः स्वाभाविकं नाम श्रुत्वा पद्यमनुत्तमम् ॥१३॥ रामानुजो महाप्राज्ञः परं हर्पमवातवान् ॥ १४ ॥ स्वाभाविकानवधिकातिशयेशितृत्व नारायण त्वयि न मृष्यति वैदिकः कः ॥ ब्रह्मा शिवः शतमखः परमस्वराडित्येतेऽपि यस्य महिमाणवविप्नुपस्ते ॥ १५ ॥ श्रुत्वा स्तोत्रमणि प्राज्ञो विस्म- याविष्टमानसः॥ पूर्णाचार्यमुवाचेदं लक्ष्मणार्यों हरिप्रियः ॥ १६॥ द्विजोत्तम महाप्राज्ञ पठमानं स्तवं शुभम् ॥ महात्मना कृतं केन - अध्यायः ९. (२३) मामाख्याहि तं गुरुम् ॥ १७ ॥ रामानुजस्य तद्वाक्यं श्रुत्वा पूर्ण कृपानिधिः ॥ रामानुजमुवाचेदं श्रोतुकामं विमत्सरम् ॥ १८ ॥ रंगक्षेत्रे महान्कश्चिद्यामुनार्य इति श्रुतः ॥ आसीद्विप्रकुले जातो वेदवेदांतपारगः॥ १९॥ तुर्याश्रमं समापन्नः पंचसंस्कारसंस्कृतः॥ सर्वशास्त्रार्थतत्त्वज्ञः सदाचारसमाश्रयः ॥ २० ॥ जितेंद्रियो जित- क्रोधो विष्णुभक्तो विमत्सरः॥ तेन स्तोत्रं कृतमिदं रामानुज महा- मते ॥२१॥ विप्रवर्यस्य तद्वास्थं श्रुत्वा रामानुजस्तदा ॥ पूर्णाचा- र्यमुवाचेदं यामनार्यदिदृक्षया ॥ २२ ॥ द्रष्टुमिच्छामि तं प्रानं यामुनायं यतीश्वरम् ॥ मानयस्वाधुना रङ्गमागच्छामि त्वया सह ॥२३॥ रामानुजस्य वचनं श्रुत्वा हटः स वैष्णवः ॥ काञ्चीपूर्णाय तत्सर्वमभिधाय प्रयत्नतः ॥ २४ ॥ रामानुजं समादाय श्रीरङ्गं गन्तुमुद्यतः॥ रामानुजमुवाचेदं पूर्णाऱ्याः पूर्णवत्सलः ॥ २५ ॥ प्रयाणे लक्ष्मणार्य त्वमायत्तो भव सत्वरम् ॥ रङ्गक्षेत्रं गमिष्यामि संदेहोत्र न विद्यते ॥ २६॥ पूर्णाचार्य्यस्य तद्वाक्यं श्रुत्वा लक्ष्मण- देशिकः॥ मतङ्गगिरिखासाय वरदाय महात्मने ॥२७॥ स्वर्णकुम्भे स्थित तोयं समर्प्य परया मुदा ॥ काञ्चीपूर्णाय वृत्तान्तं सन्निवेद्य सुहृत्प्रियः ॥ २८ ॥ तेनानुज्ञापितो धीमान्यामुना-दिक्षया ॥ महापूर्णस्य निकटं संप्राप्य विनयान्वितः ॥ तेन साकं ययौ धीरो रंगक्षेत्रमनुत्तमम् ॥ २९ ॥ तदा रंगेश्वरः श्रीमान्मनस्येवमचिंतयत्॥ रामानुजो यामुनश्च मिलितौ यधुभावपि ॥ ३० ॥ लीलाविभूतिर- स्माकं तदा नष्टा भविष्यति ॥ ततोर्चकमुखेनाह रंगेशो यामुनं प्रति ॥३१॥ गच्छायैव यतिश्रेष्ट दत्तं.ते परमं पदम् ॥ तेनैवमुक्तो हरिणा रामानुजदिदृक्षया॥३२॥ रंगेश्वरं प्रणम्याह यामुनः शिरसा हरिम् ॥ रंगेशानंतरं मुक्ति गच्छामि दिवसाटकात् ॥ ३३ ॥ इति विज्ञाप्य योगीशस्तत्संभापणलोलुपः ॥ मळं समासदच्छविमाकांक्षस्तस्य (२४) प्रपन्नामृते- चागमम् ॥ ३४ ॥ सुमहानपि योगन्द्रिः परतंत्रस्ततोजसा॥अनवाप्य मनोभीष्टं स्वाचार्यानिमुपेयिवान् ॥ ३५ ॥ गमानुजमहापूर्णी यामुन यमिनां वरम् ॥ इष्टुकामौ महापानी कावेग प्रापतस्तदा ॥ ३६ ॥ व्यूह द्विजानां संदृष्ट्वा कावेरीमकते स्थितम् ॥ ऊचतुर्वचनं तो तु मार्गागतजनानिदम् ॥ ३७॥ किमर्थमागतो व्यूहो वैष्णवानां महा- त्मनाम् ॥ विशदं तजनाः शीघ्र कारणं वदताय नौ॥ ३८ ॥ तयो- स्तद्वचनं श्रुत्वा विप्रयोर्विष्णुभक्तयोः ॥ जनास्तकारणं ताभ्यां द्विजा- भ्यामवदस्तदा।॥३९॥तद्वाक्यंघोरसंकाशं यामुनार्यवियोगजम्।।श्रुत्वा तौ विष्णुभक्तार्यो जनेभ्यः पथि दुःखितः॥४०॥भूम्यां निपतितौ तत्र छिन्नमूलाविवट्ठम।। यामुनार्यवियोगेन दुःखिता विवुधर्पभो॥४१॥रामा नुजमहापूर्णौ मूर्छा तौ प्रापतुस्तदा ॥ पूर्णाचार्यों महाप्रानो गुरोर्म- रणदुःखितः॥४२॥ कथंचिद्धैर्यमालंव्य तटःखं विनिगृह्य सः ॥ रामानुजमुवाचेदं पतितं धरणीतले ॥४३॥ उत्तिष्ठ ज्ञानसंपन्न किमर्थ परितप्यसे ॥ शोकेन साध्यते कार्यमस्माभिः किं परंतप ॥४४ ॥रामानुज महाप्राज श्रूयतां वचनं मम । कुर्वति ब्राह्मणास्तस्य पग्लोकगतस्य हि ॥ ४५ ॥ यामुनार्यस्य कार्याणि कृत्यानि विधि- नाधुना ॥ संस्थापनं यामुनस्य भूम्यां गर्ते यतेगुरोः॥४६॥ विप्रै- यविनक्रीयेत तावद्गच्छाव शीव्रत ॥ तत्र गत्वा तथाभूतं दृश्यावो यासुनं मुनिम् ॥ ४७ ।। तस्माद्धर्य समालंव्य समुत्तिष्ट द्विजोत्तम ।। क्षेत्र सत्यव्रत पुण्यं विहायाशु जगत्पते ॥ १८॥ वरदस्यांधुदानं च तत्सेवा मुक्तिदायिनीम् ॥ यं यामनार्यमुद्दिश्य द्रष्टुकामः समागतः॥ ॥४९॥ स इदानी यामुनार्यः स्वाचार्यः पदमाप्तवान् ॥ इदं दैवकृतं नान्यत्तस्माच्छोकं विसर्जय ॥५०॥ सुखदुःखे वियोगे च संयोगे मरणे भये॥ सर्वत्र कारणं देवं लाभालामे महामते ॥५१॥ इत्युक्त्वा पतितं भूमौ युगांते भास्करं यथा ॥ निःश्वसंत यथा नागं निवेगमिव चांघुधिम् ॥ २२॥ निरुत्साहं निर्विचेष्टं निमग्नं शोकसागरे । अश्रु- अध्यायः १. (२५) पूर्णसुखं दीनं सार्थभ्रष्टं यथा द्विजम् ॥५३॥ यथा पंकविनिर्मग्नं गजेंद्रमिव दुःखितम् ॥ एवंविधं महात्मानं लक्ष्मणार्य कृपानिधिः ॥ ॥ ५४॥ दोभ्यामुत्थाप्य सहसा सस्बजे प्रेमपूर्वकम् ॥ ततो रामानुजो धीमान पूर्णार्येण महायशाः ॥ ५५ ॥ तत्र गत्वा यामुना-मपश्य- दीनचेतसः । तस्य रूपं लक्ष्मणार्यों दृष्ट्वा वाक्यमिदं जगौ ॥५६॥ संभापणे यामुनेन नास्ति प्राप्तिर्ममाधुना ॥ क्षुद्रस्य महतां संगे यथा प्रातिर्न विद्यते ॥ २७॥ एतेन मम सांगत्यं लभ्यते चेन्महात्मना । अस्मिल्लोके निवसतां जनानां वैष्णवोत्तमाः॥५८ ॥ गंतुं हरेः पदं तत्र सेवितुं हरिमव्ययम् । तत्सौधानामहं कृत्वा सोपानानि निरंतरम् ॥५९ ॥ तन्मार्गेण जनान् सर्वान् तद्विष्णोः परमं पदम् ॥ जवात्मा- पयितुं सम्यक्समर्थो नात्र संशयः ॥६०॥ इत्युक्त्वा स महाप्राज्ञो यामुनस्य महात्मनः ॥ रामानुजोंगुलीदृष्ट्वा तिखश्चाकुंचितास्तदा । ॥६॥ विस्मयाविष्दयस्तत्रत्वान्वैष्णवान् द्विजान् ॥ उवाच वचनं धीमान् तच्छिप्यान् प्रेमपूर्वकम् ॥ ६२ ॥ यामुनांगलयो जन्म- प्रभृत्येवं विधा उत । अधुनाकुंचिताः किं वा तदिदं तथ्यमुच्यताम् ।। ॥६॥ रामानुजस्य तद्वाक्यं श्रुत्वा ते वैष्णवास्तदा।। आकुंचितांगुली- ईष्वायामुनस्य महात्मनः ॥६॥ विस्मयाविष्टहृदयास्तमूत्रमिती- जसम् ॥ पूर्व तु यामनांगुल्यः स्वभावेन समास्थिताः ॥ ६ ॥ अधुनाकुञ्चितास्तिस्रो विस्मयो जायते महान् ॥ तत्कारणं न जा- नीमो भवान् विज्ञातुमर्हति ॥ ६६ ॥ वैष्णवानां वचः श्रुत्वा लक्ष्मणार्यः परार्थवित् ॥ अभिप्राय यामुनस्य ज्ञात्वा बुद्धया महा- मतिः ॥ ६७ ॥ मध्ये द्विजानां सर्वेपां जगाद वचनं तदा ।। अहं विष्णुमते स्थित्वा जनानज्ञानमोहितान् ॥ ६८॥पंचसंस्कारसंपन्नान द्राविडाम्नायपारगान् ॥ प्रपत्तिधर्मनिरतान् कृत्वा रक्षामि सर्वदा ॥६९॥ एवं रामानुजाचार्य गदत्यात्मविदां वरे ॥महात्मा यामुना- चार्यो जहावकांगुलिं तदा ॥७०॥ ततः ग्रोवाच धर्मात्मा वाक्यं (२६) प्रपन्नामृते- रामानुजः पुनः ॥ संगृह्य निखिलानस्तित्त्वज्ञानपरं शुभम ॥७॥ श्रीभाप्यं च करिष्यामि जनरक्षणहेतुना ॥ इत्युक्तवति विरेंद्रे वचनं वदतां वरे ॥ ७२ ॥ अंगुलिर्यामुनाचार्यों द्वितीयां सहसात्यजत् ।। ततोन्यदर्थदं वाक्यं धीमान रामानुजोऽवदत् ॥ ७॥ जीवेश्वरादील्ली- केभ्यः कृपया यत्पराशरः ॥ संदर्शयन् तत्स्वभावान् तदुपायगती- स्तथा ॥ ७४॥ पुराणरत्नं संचके मुनिवर्यः कृपानिधिः ॥ तस्य नाम्ना महाप्राज्ञवैष्णवस्य च कस्यचित् ॥ ७९ ॥ अभिधानं कार- प्यामि निष्क्रियार्थ मनेरहम् ॥ इत्येवं लक्ष्मणाचायें पुनर्वदति नि- श्चले ॥७६॥ कृतकृत्यो यामुनार्यः सोवशिष्टांगलि जहाँ ॥ तत्रत्य- पुरुषा दृष्ट्वा तचित्रं महदद्भुतम् ॥ ७७ ॥ रामानुजं महात्मानं मन्यते पुरुपोत्तमम् ॥ रामानुजो महाप्राज्ञो यामनार्यस्य चांगुलीः ॥७८॥ आकुंचिता मोचयित्वा द्विजेभ्यो वंदनं व्यधात् ॥ भूयः प्रोवाच ता- विप्रान् वाक्यं रामानुजस्तदा ॥ ७९॥ न जानाम्यहमेतावद्यामनं वैष्णवोत्तमम् ॥ महान्प्रमादो मे जातः किं करिष्यामि वैष्णवाः ॥८० ॥ करुणा रंगनाथस्य मयि नो विद्यतेऽधुना ॥ इतो देशाद्गमि- प्यामि पुरी कांची द्विजोत्तमाः ॥ ८१ ॥ इत्युक्त्वा वैष्णवान् सर्वान गमनायोद्यतोऽभवत् ॥ प्रयाणे त्वरमाणं तु लक्ष्मणार्य महामतिम् ॥ वाक्यमूचुर्महात्मानं तदर्शनमभीप्सवः ॥ रामानुज विशेषज्ञ रंगेशं भक्तवत्सलम् ।। ८२ ॥ संसेव्य पश्चाद्गमने मतिं कुरु महामते ॥ यामुनं द्रष्टुकामस्त्वमय दूरादिहागतः ॥ ८३॥ एवंविधा तस्य वृत्ति- रद्याभूत्किल मद्गुरोः ॥रंगेशमपि दृष्ट्वाथ त्वं कांची गंतुमर्हसि ॥८॥ ततस्तेपां वचः श्रुत्वा लक्ष्मणार्योऽब्रवीद्दिजान् ॥ क्षणमप्यधुना क्षेत्रे श्रीरंगस्मिन्द्विजोत्तमाः॥ ८५॥ महात्मना यामनेन संत्यक्ते मम वन्धुना ॥अधिष्ठितेपि मे वस्तुं रंगेशेन महात्मना ॥८६॥ नमानसं रोचेतस्मिन्पुण्यपि सुमनोहरे|लोकेशमपि रंगेशं यामनाशांकुरच्छिदम् ॥८॥ तं निर्दयं न पश्यामि मम दुःखकरं द्विजाः ॥ इत्युक्त्वा तैर- अध्यायः १०. (२७) नुज्ञातस्तत्क्षेत्रात्तत्क्षणं द्विजाः ॥ ८८॥ कांचीपुरी प्रति ययौ धीमान् रामानुजस्तदा ॥ सह्यपादोद्भवां तीळ कावेरी कलिनाशिनीम् ॥८९॥ ततोऽपश्यजनपदान् ग्रामांश्च नगराणि च ॥क्षेत्रं सत्यव्रतं प्राप्य गो- पुराण्युत्तमानि च ॥१०॥दूरात्प्रकाशमानानि दृष्ट्वा दृष्टस्तदाऽभवत्।। आसाद्य तां दिव्यजलां महात्मा रामानुजः क्षीरनदी विशुद्धाम् ॥ य- यामुनाचार्यवियोगदुःखं जहाँ श्रमं चाध्वगतं तदानीम्॥९॥निमज्य तोये परिपूर्णकामः सन्तर्प्य देवान सपितृनृपश्चि॥आरुह्य तीरंपरिधाय वस्त्रे जजाप जप्यं सुधृतोद्धपुडः॥९॥तन्नित्यकृत्यं विधिना च कृत्वा तीवांजवात् क्षीरनदी महात्मा ॥ कांचीपुरी कृष्णकृताधिवासां ददर्श धीमान्दुनुजारिभक्तः ॥९३ ॥ गत्वा पुरी साधुजनावृतां तां नत्वा रमे- शं करिशैलनाथम् ॥ स्थित्वा मुहूर्त निकटं च तस्य कृत्वा स्तुति स्वा- लयमाविवेश ॥ ९४॥ रम्ये गृहे केशवयज्वपुत्रः पत्न्या सह प्रीतमना महात्मा ॥ सुखेन रेमे प्रियया निशायां तस्यां स रामानुजविप्रवर्यः ॥ ९५ ॥ इति श्रीप्रपन्नामृते रामानुजचरित्रे यामुनायोतिमदशायां तस्याकुंचितांगुलिमोचनं नाम नवमोऽध्यायः ॥९॥ दशमोऽध्यायः। ब्राह्मे मुहूर्ते चोत्थाय कृतपूर्वाह्निकक्रियः॥ कांचीपूर्णस्य निलयं धीमान् रामानुजोययौ ॥ १ ॥ कांचीपूर्णाय तत्सर्व वृत्तांत यामुनस्य सः ॥ रामानुजोऽवदत्तस्मै गुरोः शिष्याय बुद्धिमान ॥ २ ॥ कांचीपूर्णों निशम्याथ वियोग. स्वगुरोस्तदा ॥ तेपे दुःखाभिभूतस्स लक्ष्मणार्यान्महात्मनः॥ ३॥ शिष्यकृत्यं ततश्च- के कांचीपूर्णो मृते गुरा ॥ यामुनार्यस्य सहसा द्विजानाहूय वैष्ण- वान् ॥४॥पुनर्वरदराजाय कुर्वन्कैंकर्यमादरात् ॥ संभाषणं च सत- तं तेन साकं समास्थितः॥६॥ लक्ष्मणार्यों विनीतात्मा शालकूप- जलं शुभम् ॥ भक्त्या समर्पयन्नित्यं वरदाय महात्मने ॥ ६॥ तत्सं- निधौ स्थितं नित्यं कांचीपूर्ण दृढव्रतम् ।। तस्यांतरंगं तं नत्वा तदा (२८) प्रपन्नामृते- मेने स्वकं गुरुम् ॥ ७॥ कदाचिल्लक्ष्मणार्य्यस्तदुच्छिएवमुक्षया ॥ कांचीपूर्णमुवाचेदं वचनं वदतां वरः॥ ८॥ मद्गुहे भोजनं पद्य कर्तव्यं भवता ध्रुवम् ॥ कांचीपूर्ण दयासिंघो निक्षिप्य करुणां मयि ॥ ९॥ तस्येंगितं तदा ज्ञात्वा कांचीपूर्णोप्यचिंतयत् ॥ न मयेदं यदि कृतं त- न्मनःशोचति ध्रुवम् ॥ १०॥हितमेवजनानां हि कर्तव्यं पापभीरुणा। मत्सखा विष्णुभक्तोयं द्विजश्रेप्टोमहामतिः॥११॥ वैकुंठलोकादायातो जनरक्षणकाम्यया। प्रियमेवास्य कर्तव्यं मया रामानुजस्य हि ॥१२॥ तत रामानुजं वाचमवदद्वेष्णवोत्तमः ॥ करिष्यामि न सन्देहस्तव वाक्यं द्विजोत्तम ॥ १३॥ रामानुजो दृष्टमनाः संप्राप्य गृहमादरात्।। विशेषतः कारयित्वा पाकं पत्न्या जवात्तदा ॥ १४॥ विष्णवर्चनादिकं सर्व विधायाशु महामतिः ॥ तस्यागमनमाकांक्षनास्थितोवैष्णवोत्तमः ॥ १५॥ इदानीमपि नायातः किन्नायाति हरिप्रियः ॥ इत्यालोक्य पुनः शीघ्रं ययौ तन्निलयं प्रति ॥ १६॥ दक्षिणेनैव मार्गेण करिशै- लस्य बुद्धिमान् ॥ कांचीपूर्णस्तदा शीघ्र रामानुजगृहं प्रति ॥ १७ ॥ करिरौलोत्तरे भागे स्वमठादाययौ तदा॥ ततस्तद्ग्रहमासाद्य कांचीपूर्णो महामतिः॥ १८॥ रामानुजार्य्यपनी तामुवाच वचनं शुभम् ॥ पतित्रते महाभागे श्रूयतां वचनं मम ॥ १९॥ कुत्राय ते गतो भर्ती लक्ष्मणार्यः सुमध्यमे ॥ कांचीपूर्णस्य तद्वाक्यं श्रुत्वा भक्तिपुरस्सरम्॥ ॥२०॥ रक्षकांना तदा साध्वी पत्नी रामानुजस्य सा ॥ अवोचद- सितापांगी कांचीपूर्ण हरिप्रियम् ॥२१॥ कृतदेवार्चनः शीघ्रं त्वत्कृतेऽ- कृतभोजनः॥ त्वन्मठं प्रति मे भर्ती तवानयनकारणात् ॥२२॥ कांचीपूर्णाधुनैवार्थस्तवांतिकमुपागतः। क्षणमात्रं सहस्वाध भर्ती मे ह्यागमिष्यति ॥ २३॥ तस्यास्तद्वचनं श्रुत्वा कांचीमुनिरभाषत । रामानुजार्यपत्नी तां मुग्धां मृदुतरं वचः ॥२४॥ रक्षकांबेनवे किं- चिच्छृणु विज्ञापनं मम ॥ अथैव भोजनं मां दातव्यं शीघ्रतस्त्वया ॥२९॥ क्षुधा मां बाधतेत्यंत मातः सर्वहितैपिणि ॥ देवराजस्य .

अध्यायः १०. (२९) सेवार्थ गम्यते चाधुना मया ॥ २६॥ भर्तुरागमपर्यंतमत्र स्थातुं न . शक्यते ॥ कांचीपूर्णस्य तद्वाक्यं रक्षकांबा निशम्य सा ॥२७॥ अजानन्ती मनो भर्तुर्लक्ष्मणार्यस्य धीमतः॥ कांचीपूर्णाय सहसा तदन्नमदिशत्तदा ॥२८॥ कांचीपूर्णो जवाद्भुक्त्वा तदन्नममृतोपमम् ॥ कृतत्वरस्तदुत्थाय कृतपादादिशोधनः॥२९॥ उच्छिष्टपत्रं स तदा महात्मा भगवत्परः ॥ विधाय हस्ते तत्पत्रं शीघ्रमुत्सृज्य दूरतः ॥३०॥ नागाचलं प्रति ययौ स प्राग्गोपुरवर्त्मना ॥ रक्षकांवा तदा साध्वी भर्तृपोपणतत्परा ॥३१॥ जवात्तद्भुक्तशिष्टान्नं दत्वा · दासज- नाय च ।। भूयः स्नात्वा ततः पाकं कुर्वती पूर्ववत्स्थिता ॥३२॥ तूर्ण रामानुजो गत्वा तन्मठं प्रति सादरम् ॥ मृगित्वा तत्र तं पूर्ण ज्ञात्वा परिजनात्तदा ॥३३॥ स सम्यक्तस्य वृत्तांतं स्वगृहं प्राप्य सत्वरम् ॥ भायाँ दृष्ट्वा पुनः सातामत्याश्चर्ययुतोऽब्रवीत्॥३४॥ भूयः स्नातासि मूढेद्य कारणं तद्वदाशु मे ॥ भर्तुर्वचनमाकर्ण्य प्रोवाच विनयेन सा ॥३५॥ त्वं कांचीपूर्णमानेतुं स्वगृहानिर्गतो यदा ॥ तत्क्षणादूर्वमायातः कां- चीपूर्णो गृहं प्रति ॥३६॥ त्वां विचार्याशु वृत्तांतं तज्ज्ञात्वा सादरं वचः॥ मामेवमवदत्स्वामिन् कांचीपूर्णः कृतत्वरः ॥३७॥ भर्तु- रागमपर्यंतं न स्थातुं शक्यते मया ॥ क्षुधा मां बाधतेऽत्यंतं वरदं प्रति गम्यते ॥३८॥ भोजनं देहि मे शीघ्रं यदै त्वद्भर्तृसंमतम् ॥ ततो मयार्पितं सम्यक् तदन्नं पड्सैर्युतम् ॥ ३९॥ कांचीपूर्णो जवाझुक्त्वा महात्मा भगवत्परः ॥ देवराजस्य कैकय कर्तुकामो ययौ जवात ॥४०॥ शूद्रशेपं ब्राह्मणस्य न भोज्यं हि कदाचन ।। इत्येवं मनसा सम्यग्विचाहिं द्विजर्षभ ॥४१॥ शीघ्रं तत्परिहत्यानं शेपं दासज- नाय च ॥ उपवासेन युक्तस्य तव भोजनसिद्धये ॥ ४२ ॥ भूयः पाकं कर्तुकामा स्माताहमधुना ध्रुवम् ॥ पत्न्योदीरितमाकर्ण्य वचो- लीकमसंगतम् ॥४३॥ तेपे रामानुजो धीमान्स्वार्थभ्रष्टो यथा द्विजः॥

(३०) प्रपन्नामृते- तता रामानुजो धीमान हरिमाराध्य वै पुनः ॥ १४ ॥ निवेदितानं भुक्त्वाशु कांचीपूर्णदिदृक्षया ॥ करिशैलं समारुह्य तं दृष्ट्वा वरदां- तिके ॥ ४५ ॥ कांचीपूर्णमुवाचेदं प्रांजलिवरदप्रियम् ॥ त्वमद्य पंचसंस्कारान् कृत्वा मम दयानिधे ॥ ४६॥ रक्ष मां कृपया स्वामि- स्त्वामेव शरणं गतम् ॥ अस्मिल्लोके त्वया नाथ न तुल्यः पुरुपोस्ति हि ॥४७॥ दीनं त्वत्पाभतं मां न त्वमर्हस्युपेक्षितुम् ॥ तच्छ्रुत्वा लक्ष्मणार्यस्य वाक्यं परमवैदिकम् ॥ ४८ ॥ कांचीपूर्णस्तदा प्राह मर्यादामनुपालयन् ॥ स विष्णुभक्तः प्रोवाच कांचीपूर्णोर्थदं वचः ॥१९॥ लक्ष्मणार्य महात्मानं देवराजस्य सन्निधौ ॥ भवता गदितं वाक्यमिदं लोकविहितम् ॥५०॥ तुर्यवर्णोस्मि वै तात संस्कार तव लक्ष्मण ॥ तस्मादहं करिष्यामि कथं द्विजवरोत्तम ॥ २१ ॥ ततस्तद्वाक्यमाकर्ण्य कांचीपूर्णेन भापितम् ॥५२॥ रामानुजस्त- थ्यमिति मत्वा प्राज्ञः पुनस्तदा ॥ कांचीपूर्णमुवाचेदं वचनं दिन- यान्वितः ॥५३॥ उपायेषु च कः साधुरंतिमस्मरणं तथा ॥ मोक्षः कदेति द्रष्टव्यः कमाचार्य समाश्रये ॥५४॥ चतुर्थान्कर्तुकामो मन- स्यालोचितं मया ॥ विज्ञाप्य देवगजाय तेनोक्तं वचनं शुभम् ॥५५॥ मां करुणया बहि कांचीपूर्ण कृपानिधे ॥ रामानुजस्य तद्वाक्यं श्रुत्वासौ वैष्णवोत्तमः ॥५६॥ तं तथाद्य करिष्यामि मा कुरुष्वात्र संशयम् ॥ इति रामानुजं चोक्त्वा कैंकर्य जगतीपतेः॥९॥ कुर्वन्समास्थितस्तत्र कांचीपूर्णस्तपोधनः॥ कांचीपूर्णस्य तद्वाक्यं श्रुत्वा रामानुजो महान् ॥५८॥ तं देवराज संसेव्य पुनरायान्निजं गृहम् ।। तस्यां रात्र्यां देवराजस्तं कांचीपूर्णमुत्तमम् ॥५९॥ तालवतेन शुभ्रेण स्वस्य कैकर्यमादरात् ॥ कुर्वतं स्वांतरंगं च कमलापतिनंदनम् ॥६०॥ हरिः प्रोवाच वचनं सस्मितं हेतुर्भितम् ॥ कंचिदर्थ मनस्यद्य निधाय त्वं तपोधन॥६॥वक्तुकाम इवाभासि ज्ञातंत्वन्मुखदर्शनात्।। तदहं श्रोतुमिच्छामि श्रीकांचीपूर्ण कौतुकात् ॥६२॥ तस्माच्छीघ्रं अध्यायः ११. (३१) ममाख्याहि त्वन्मनस्यभिवांच्छितम् ॥ वचनं देवराजस्य निशम्य विनयान्वितः॥६३॥ कांचीपूर्णस्तदा तस्मै वरदाय महात्मने ॥रा- मानुजेन गदितं वाक्यमाह महात्मना ॥६४॥ लक्ष्मणार्यस्य वृत्तांत कमलानंदनस्तदा ।। श्रुत्वा हरिः पियं वाक्यं कांचीपूर्णमभापत॥६५॥ अहमेव परंतत्वं जगत्कारणकारणम् ॥ क्षेत्रज्ञेश्वरयोर्भेदः सिद्ध ए- व महामते ॥६६॥ मोक्षोपायो न्यास एवं जनानां मुक्तिमिच्छताम् ।। मद्भक्तानां जनानां च नांतिमस्मृतिरिष्यते ॥ ६७॥ देहावसाने भक्तानां ददामि परमं पदम् ॥ पूर्णाचार्य महात्मानं समाश्रय गुणा- श्रयम् ॥ ६८॥ इति रामानुजार्याय मयोक्तं वद सत्वरम् ॥ कांचीपृ- र्णश्च तद्वाक्यं निशम्य हरिणेरितम् ॥ ६९ ॥ रामानुजाय तत्सर्व वर- दोक्तं न्यवेदयत् ॥ लक्ष्मणार्यस्तु तच्छुत्वा कमलानंदनाच्छुभम् ॥ ।।७०॥चिंतितस्यार्थजातस्य मया तुल्यमिदं विति ॥ विस्मयाविष्ट- हृदयस्तदा रामानुजोऽभवत् ।।७१॥ ततस्तं देवराजं च तं कांचीपूर्ण- मुत्तमम् ॥ भक्त्या संसेव्य सुप्रीतस्ताभ्यामाज्ञापितस्तदा ॥ रंग प्रति ययौ धीमान्पूर्णाचार्यदिक्षया ॥७२॥ अर्थान पडाकर्ण्य गजादिना- थात्कांचीमुनेः पूर्णकृपावशेन ॥ श्रीभरिपूर्णाश्रयणाभिलापाद्विसृज्य कांची प्रययौ स रंगम् ॥७३॥ इतिश्रीप्रपन्नामृते रामानुजचरित्रे दे- वराजात्पवागर्थसंप्राप्तिनाम दशमोऽध्यायः ॥ १० ॥ एकादशोऽध्यायः। रंगक्षेत्रे यामुनस्य स्वाचार्यस्य महात्मनः ॥ शिप्यास्ते वैष्णनाः सर्वे सम्यगाराधनादिकम् ॥ १॥चकुर्भक्त्या द्विजश्रेष्ठा महापूर्णाद- यस्तदा ॥ यामुनार्यगुणान् सर्वान् कीर्तयंतो महर्मुहुः ॥ २॥ तद्वि- योगांवधौ मनास्तत्पारं न प्रपेदिरे ॥ ततो रामानुजं प्राज्ञ स्मृत्वा वि- प्रोत्तमं वरम् ॥३॥ केचिद्रे वैष्णवास्तत्र दुःखितारतान् द्विजोत्तमान ॥ अवन्वचनं प्रीत्या तदुःखविनिवारकम् ॥ ४॥मा शोचवं महा- (३२) प्रपन्नामृते- त्मानं परलोकगतं प्रति ॥अस्माकं रक्षकः श्रीमानास्ते विप्रोत्तमोऽधु- ना॥५॥ रामानुज इति ख्यातः क्षेत्रे सत्यत्रते शुभे । अनंतरं या- मुनार्याद्विना रामानुजं वरम् ॥ ६॥ यः कोपि नास्ति लोकेस्मिन्स्व- मतप्रतिपालकः ॥ एप रामानुजः श्रीमान्धीमाल्लोकविलक्षणः ॥ ॥७॥ सहशो यामुनार्येण शीलादिगुणसंयुतः ॥ बुध्या बृहस्पतेस्तु- ल्यस्तेजसा रविणा समः ॥ ८ ॥ भक्त्या प्रहादसदृशः समया पृथिवीसमः ॥ तेजस्वी ज्ञानसंपन्नः सर्वशास्त्रार्थतत्त्वपित् ॥ ९॥ दयावान् धर्मशीलश्च निपुणो जनरक्षणे ॥ मतेऽस्मिन्समधिष्ठाय जनानभितुमर्हति ॥ १० ॥ पूर्णाचार्य महाभाग गत्वा कांची- पुरी शुभाम् ॥ पञ्चसंस्कारसंपन्नं कृत्वा रामानुजं वरम् ॥ ११ ॥ कंचित्कालं तेन साऊं स्थित्वा तत्र महात्मना । स्वमतावश्यकान्ग्रं- थान्विष्णुचित्तादिसूरिभिः ॥ १२ ॥ कृतात्रामानुजार्याय प्रापयित्वा प्रयत्नतः ॥ तं शनः स्ववशं कृत्वा रामानुजमकल्मपम् ॥१३॥ येन केनाप्युपायेन तमिहानय सत्वरम् ।। तेपां वचनमाकर्ण्य महापूर्णः कृपानिधिः ॥१४॥ अनुज्ञातस्ततस्तेन रंगशेन महात्मना । सकुटुंगो ययो शीघ्र क्षेत्रं सत्यवतं प्रति ॥ १९ ॥ देशान्यामान्पर्वतांश्च नदी- स्तीत्वा वनानि च ॥ अग्रहारमवाप्याथ मथुरांतकमादरात्॥१६॥ रामानुजश्च तुं ग्राममवाप्याथ ददर्श तम् ॥ पूर्णाचार्य महात्मानं कुटुवेन समागतम् ॥ १७ ॥ पूर्णाचार्य्यस्य चरणावभिवाब मुदान्वितः ॥ विनयावनतो भूत्वा वचनं चेदमब्रवीत् ॥ १८॥ श्रीरं- गाख्यं महापुण्य क्षेत्रं हित्वा मनोहरम् ॥ रंगनाथस्य सेवांच मुक्ति- मुक्तिप्रदां शुभाम् ॥१९॥ कुत्र गच्छसि हे ब्रह्मन्कुटुंबेन समावृतः ॥ ब्रूहि तत्कारणं मेद्य पूर्णाचार्य महामते ॥२०॥ रामानुजस्य तद्वाक्यं श्रुत्वा श्रीवैष्णवोत्तमः॥ स्वस्यागमनवृत्तांत लक्ष्मणार्याय विस्तरात् ॥२३॥ निवेद्य पृष्टवान्तं च तदागमनकारणम् ॥ रामानुजोपि - अध्यायः ११० (३३) सहसा तस्मै वृत्तांतमात्मनः ॥ २२ ॥ अभिधाय पुनर्वाक्यं पूर्णा- चार्य्यमुवाच सः॥ इहैव पञ्चसंस्कारान्मम कृत्वा दयानिधे ॥ २३ ॥ संसारकूपपतितं मामुद्धर कचग्रहात् ॥ रामानुजस्य तद्वाक्यं श्रुत्वा पूर्णस्तमब्रवीत् ॥ २४ ॥ पुण्ये सत्यव्रते क्षेत्रे देवराजस्य सन्निधौ ॥ करिष्यामि न सन्देहस्तव संस्कारपंचकम् ॥२५॥ग्रामस्यास्याविदूरे हि तत्क्षेत्रं विद्यते शुभम् ॥ क्षमस्वैकदिनं प्राज्ञ गच्छामोऽद्यैव सत्वरम् ॥ २६॥ इति अवंतं पूर्णाऱ्या वाक्यं रामानुजो ब्रवीत् ॥ शरीरमस्थिरं ज्ञात्वा तव वाक्यं महामते ॥ २७॥ सहसा कथमि- च्छामि कर्तुमद्य बुधर्पभ ॥ पुराहं यामुनाचार्य द्रष्टुकामस्त्वया सह ॥२८॥ कांच्याः समागतो ह्यस्मि स प्राप परमं पदम् ॥ स्वपंतं वापि भुंजानं गच्छंतमपि वर्त्मनि ॥२९॥ युवानमपि बालं वा स्ववशे कुरुते विधिः॥ इदमद्य कृतं कार्य श्वोन्यत्कायें करिष्यते ॥ ॥३०॥ इति लोके स बलवान्कृतांतो न समीक्षते ॥ तस्मात्कार्य शुभं धीमाश्रेयस्कामी नरोत्तमः ॥ ३३ ॥ विलंबेन कथं कर्तुमर्हति द्विजसत्तम ॥रामानुजस्य वचनं महापूों निशम्य तत् ॥३२॥ इदं तथ्यं तदा मत्वा रामानुजमभापत ॥ विगाह्यागच्छ विजेंद्र सरस्यस्मिञ्छुभोदके ॥ ३३ ॥ चक्रांकनं करिष्यामि त्वरमाणस्य तेऽधुना ॥ इत्युक्त्वा तं महाप्राज्ञः कांतिमत्यात्मसंभवम् ॥ ३४ ॥ स्नात्वा कृताह्निकः प्राप्य विष्णोरायतनं शुभम् ॥ तत्रत्यैवैष्णवैः साकं प्रतिष्टाप्य हुताशनम् ॥ ३५ ॥ स चक्रे विधिना होममा- ज्यभागांतमादरात् ॥ ततः पुरुपसूक्तेन मूलमंत्रेण मंत्रवित् ॥३६॥ अन्यैश्च वैष्णवर्मत्रैश्चरुणाज्येन भक्तितः ॥ अष्टोत्तरसहलं तु जुहावानौ सहत्विजा ॥ ३७॥ चक्रराजं पाञ्चजन्यं गन्धपुष्पा क्षतैः शुभैः॥ संपूज्य सुमहात्मानं लक्ष्मणाय ददर्श तम् ॥ ३८ ॥ विप्रोत्तमं विष्णुभक्तं प्रांजलिं पुरतः स्थितम् ॥ स्नातं विनयसंपन्न निर्मलं स्वच्छमानसम् ॥ ३९॥ सन्निधौ रामचंद्रस्य कोदंडशर- ३

(३४)
प्रपन्नामृते-
धारिणः ॥ तप्ताभ्यां शंखचक्राभ्यां विधिनानौ कृपानिधिः ॥४०॥
लक्ष्मणार्य्यस्य भुजयोः सर्वलक्षणयुक्तयोः ॥ कृत्वांकनं तदा तस्मै
लक्ष्मणार्याय धीमते ॥४१॥ आपन्नरक्षकं मंत्रं दास्यनामादिकं
तदा ॥ अ रूपं देवराजं प्रददौ शिप्यवत्सलः ॥४२॥ पूर्णाचा-
येण गुरुणा कृतसंस्कारपंचकः ॥ रेजे रामानुजः श्रीमाञ्छरचंद्र
इवामलः ॥४३॥ श्रीवैष्णवश्रिया जुष्टं कृत्वा रामानुजं गुरुः ॥
श्रीहरेर्दास्यसाम्राज्ये तं प्रतिष्टाप्य नायकम् ॥४४॥ उवाच प्रीति-
युक्तात्मा वचनं मधुराक्षरम् ॥ भूलोके यामुनाचार्यात्पश्चादाचार्य-
मूर्तिमान ॥४५॥ त्वमेव रक्षकस्त्वद्य सर्वेषां वैष्णवोत्तम ॥ प्रच्छ-
नबौद्धसमयानुन्मूल्य शतशोऽशुभान् ।। ४६।। कत शक्तिस्तवैवास्ति
लक्ष्मीशं सर्वशेपिणम् ॥ त्वृत्तेजोत्यद्भुतं दृष्ट्वा वक्ष्याम्यय कुतूहलात
॥४७॥ स्वदेशिकं पूजयित्वा लक्ष्मणार्य्यस्तमग्रतः ॥ तत्रत्यान्व-
ष्णवान्सर्वान पूजयामास शास्त्रतः ॥४८॥ ततः स्वाचार्यमादाय
सकुटुंबं कृपानिधिम् ॥ भूयः सत्यवते क्षेत्रे ययौ रामानुजस्तदा
॥४९॥ देवराज हरि नत्वा गुरुणा सह बुद्धिमान् ॥ तत्तीर्थशठको-
पादीन्गृहीत्वा भक्तितस्तदा ॥ ५० ॥ कांचीपूर्णाय तत्सर्व पूर्णा-
यांगमनादिकम् ॥ निवेदयित्वाशु तदा स्वगृहं प्रविवेश ह ॥५१॥
स्वदेशिकाय पूर्णाय स्वगृहं स्वार्थमादरात्॥दत्त्वा तत्सन्निधौ नित्यं दि-
व्यांश्च द्राविडागमान्॥५२॥भत्तयाध्ययनमव्ययः कुर्वन्सततमादरात्।।
सात्त्विकानि पुराणानि गुरुणा सह बुद्धिमान् ॥५३॥ विलोकयन
लक्ष्मणार्यः स सम्यग्भगवत्परः ॥ सुखेन कालं पण्मासाननयद्वै-
प्णवोत्तमः ॥५४॥ पूर्णाचार्यों लक्ष्मणार्याय सर्वान्संदिश्यार्था-
नाज्ञया देशिकस्य ॥ चके वासं कौतुकात्कांचिकायां हस्त्य-
द्रीशे भक्तिमान्देवराजे ॥ ५५ ॥ इति श्रीप्रपन्नामृते रामानु-
जचरित्रे देवराजाज्ञया महापूर्णाश्रयणं नामैकादशोऽध्यायः ॥ ११॥

अध्यायः १२. (३५) श्रमेण महता द्वादशोऽध्यायः। कदाचिल्लक्ष्मणाचार्य्यस्तैलाभ्यंगकृताश्रमः ॥ आहूतो वै- प्णवः कश्चित्तैलाभ्यंजनवासरे ॥ १.॥ युक्तं वैष्णवं क्षुत्समन्वितम् ॥ विलोक्य लक्ष्मणाचार्यों भार्या- मानीय चात्रवीत् ।।२।। अन्नं पर्युपितं गेहे ह्यस्ति चायं क्षुधान्वितः।। अन्नं न किंचिदप्यस्ति सा तमाहेति भामिनी॥३॥ स तां कार्या- तरे धीमात्रियोज्य गृहमाविशत् ॥ गृहांतरे संविशोध्य दृष्ट्वान्नं पात्र- संस्थितम् ॥ ४ ॥ तामाहूय तदा भार्या दर्शयित्वा तदोदनम् ॥ उवाच वचनं धीमान्कोपात्संरक्तलोचनः॥६॥ अहो ते हृदयं क्रूरमीडशे निर्दयं जने ॥ पूर्वैरुक्तं तु तत्सत्यं पापानामाकराः स्त्रियः॥ ॥६॥ इत्युक्त्वा कुपितः श्रीमान् भार्या लक्ष्मणदेशिकः ॥ किंचिदस्व- स्थहृदयो वभूव व्यथितेंद्रियः ॥७॥ ततः सा लक्ष्मणार्यस्य भार्या पंडितमानिनी ॥ घटेनां समानेतुं कूपं प्रति ययौ जबात् ॥ ८ ॥ महापूर्णार्यभार्या च तादृशी तत्क्षणेन सा ।। ९ ।। जलार्थ घटमादाय तत्कूपं प्रति सा गता ॥ घटावावध्य रज्जुभ्यामेककाले स्त्रियौ जवा- त्॥१० ॥ कूपे निधाय सहसा ताभ्यां कूपांवुकपणे ॥ घटात्पूर्णार्य- भार्यायाः पतिता जलविंदवः ॥ ११॥ रामानुजार्यभार्यायाः कल- शे जलपूरिते ॥ संक्रांत स्वघटं दृष्ट्वा तदटोदकबिंदुभिः ॥ १२ ॥ भार्या रामानुजार्यस्य कोपसंरक्तलोचना ॥ इयमाचार्यपत्नी मे पूज्या भर्तुर्यथा गुरुः॥ १३ ॥ तदंदुपतनादोपो नास्ति कुंभे च मामके । शुद्धयर्थं च प्रभवति संशयोऽत्र न विद्यते ॥ १४ ॥ गुरूच्छिष्टं च संपायें तस्य पादोदकं शुभम् ॥ स्वीकर्त्तव्यं प्रयत्नेन भत्त्या शिष्ये- ण सर्वथा ॥ १५॥ एवं न मेने सा देवी स्त्रीस्वभावं समाश्रिता॥ पूर्णार्यभायी परुपं वाक्यमाह निरर्थकम् ॥ १६॥ हीनजातिसमुत्पन्ने दुराचारसमन्विते । घटसांकर्यमायातमधुनाचारवर्जिते ॥ १७ ।।

(३६)
प्रपन्नामृते-
क्वते जातिः श्रुतं शीलं व ते द्रव्यादिसंपदः ॥ अस्माकं तु कुलं
शीलं विद्या च द्रव्यसंपदः॥१८॥ इत्येवं परुपं वाक्यं वदंती तांस्त्रियं
प्रति ॥ पूर्णार्यधर्मपत्नी च वाक्यं परुपमत्रवीत् ॥ १९ ॥ एवं तयो-
स्तदा वध्वोः कलहः समवर्तत ॥ पूर्णाचार्यः स्वभार्यायां को
कृत्वा महत्तरम् ॥२०॥ तवृत्तांतं न शृणोति यावद्रामानुजोत्तमः॥ रंगं
प्रति ययौ तावत्कुटुवेन समावृतः॥२१॥ ततोरामानुजः प्राज्ञः स्वाचा
र्यगृहमादरात्।।गत्वा गृहे महात्मानं नापश्यदेशिकोत्तमम् ॥२२॥केचि-
जनाःसमागत्य समीपगृहवासिनः॥ पूर्णाचार्य विचिन्वंतं रामानुजम-
थान्नुवन् ॥२३॥ पूर्णाचार्यस्य भार्यायाः पत्न्याश्च तव सुत्रत ॥अस्य
कूपस्य निकटे कलहः समजायत । तत्कारणं न जानीमस्तद्वेत्ति
वरदो हरिः॥२४॥ पूर्णाचार्यः स्वकां भार्या समादाय जवान्वितः॥
रंगक्षेत्र प्रति ययौ तत्क्षणं वेप्णवोत्तमः ॥२५॥ तेपां वाक्यं तु
तच्छुत्वा लक्ष्मणार्योऽप्रियं तदा ॥ संतप्तहृदयः शीप्रमागत्य स्वनि-
वेशनम् ॥ २६॥ पत्न्यास्तत्सर्ववृत्तांत विदित्वा विशदं तदा । कोप-
संरक्तनयनस्तां भार्यामिदमब्रवीत्॥२७॥ अपराधः कृतः पापे महा-
न्पूर्व त्वया मम ॥२८॥ तं सहिष्णुस्समभवमधेमन्न सहामि ते ॥
शीघ्रं गच्छस्व निलयात्त्वत्पितुहमादरात् ॥ २९ ॥ स्त्रीणां परमध-
ोयं पतिचित्तानुवर्त्तनम् ॥ त्वाय नास्ति दुराचारे तस्मात्त्वां संत्य-
जाम्यहम् ॥३०॥ एवं वदंतं भर्तारं दृष्ट्वा भयविमोहिता ॥
अश्रुपूर्णमुखी दीना प्रकंपे वचनादृशम् ॥ ३१ ॥ रामानुजस्तदा
भायी दृष्ट्वा शोकसमन्विताम् ॥ मृदुस्वभावो विजहौ को
स करुणाकरः ॥ ३२ ॥ भायांविसर्जनोपायं हृदि संचिंतयं-
स्तदा॥ लक्ष्मणार्यों महाप्राज्ञः कश्चित्कालं समास्थितः ॥ ३३॥
कदाचिद्वरदं देवं करिशैले जनार्दनम् ॥ सेव्यमानं लक्ष्मणाय
दृष्ट्वा कश्चिहिजोत्तमः ॥ ३४ ॥ पीडितः क्षुत्पिपासाभ्यां भोजन
। तमयाचत ॥ रामानुजस्तु तं विप्रमुवाच विनयान्वितः ॥ ३५॥

अध्यायः१२. शीघ्रं मद्गृहमासाद्य मद्भार्याय मयोदितम् ॥ अभिज्ञानं निवेद्याशु त्वं तस्यै द्विजपुंगव ॥ ३६॥ भुक्त्वा शीघ्रमिहागच्छ तया दत्तान- मादरात् ॥ वरदोत्सवकालायं गंतुमय गृहं प्रति ॥ ३७ ॥ त्वया सह न युक्तं मे सेवां हित्वा जगत्पतेः॥ विष्णवर्चनाद्वरं लोके पूजनं चातिथे- जि।। ३८ ॥ तथापि कारणं मेऽद्य विद्यते द्विजपुंगव।। इत्युक्तस्तेन वै विप्रो लक्ष्मणार्येण धीमता ॥३९॥ रामानुजगृहं गत्वा तस्य भायी महात्मनः॥ उवाच वचनं धीमान्विनयेन स तां प्रति ॥४०॥ पतिव्रते महाभागे भर्ती ते भक्तवत्सलम् ॥वरदं सेवयन्नास्ते करिशैलेऽ- धुना हरिम् ॥११॥ तेनाहं प्रेपितः साध्वि भोजनार्थमिहाधुना ॥ आगतोऽभवमार्ये मे शीघ्रमन्नं प्रदीयताम् ॥ १२ ॥ लक्ष्मणार्य्यस्य महिपी श्रुत्वा तद्विजभापितम् ॥ अनाहत्य रुपा देवी प्रोवाच परुपं वचः ॥४३॥ अन्नं वा तंदुलं वापि महहे नास्ति चाधुना ॥ अत्र स्थातुं न युक्तं ते याहि याहि द्विजोत्तम ॥४४॥ येन त्वं प्रेपितो यातस्तं याचय दयानिधिम्।।इत्युक्त्वा रोषताम्राक्षी दृढं बद्धाकरं तदा ॥४५॥वदंती करवाक्यानि रुपा देवी समास्थिताविप्रोनिराशः प्रत्येत्य लक्ष्मणार्याय धीमते॥४६॥तथोवाच रुपायुक्तः क्षुत्पिपासादितस्तदा। तदुपाकर्ण्य वृत्तांतं लक्ष्मणार्यों विचार्य सः॥४ालेख्यं कृत्वा प्रयत्ने- न भार्यायाः पितुरालयात् ।। विवाहार्थ समुदिश्य प्रेपितं श्वशुरेण तु ॥४८॥ इति रामानुजः शीघ्रं हरिद्रां च फलानि च ॥ विचित्रनूतन- पटं समादाय प्रयत्नतः ॥ १९॥ तं ब्राह्मणमुवाचेदं मतिमान्सांत्वपू- वकम् ॥ इदं लेख्यं हरिद्रादि सर्वमादाय सत्वरम् ॥५०॥ पुनर्वेश्म द्विजश्रेष्ठ गत्वा त्वत्पितुरालयात। आगतोऽभवमद्याहं तवानयनकार- णात् ॥५१॥ मद्भा-मेवमुत्काथ त्वं लेख्यमिदमादरात् ॥वाच- यित्वा तत्समीपे तस्यै वस्त्रादि चार्पय ॥५२॥ तद्वाक्यश्रवणात्प्रीत्या- त्वयि प्रीति करिष्यति । अस्मिन्नर्थे न संदेहो गच्छाशु द्विजपुंगव ।। ॥५३॥रामानुजस्य तदाक्यं श्रुत्वा विप्रस्तथाकरोत् ।। तदाकर्ण्य (३८) प्रपन्नामृते- हि सा देवी हर्षेण सुसमाहिता ॥५४॥ पित्रा दत्तमिदं सर्वामिति वस्त्रा- दिकं तदा । गृहीत्वाजानती मुग्धा भर्नुः कुटिलतां यथा ।। ५५॥ परिपप्रच्छ तं विप्रं पित्रोः कुशलमादरात् ॥ तस्यास्तद्वनं श्रुत्वा द्विज- स्तां वाक्यमत्रवीत् ॥५६॥ तेपामनामयं सुभ्रूय॒पां कुशलमीहसे ॥ अनुजस्य विवाहं ते कर्तुकामः पिताधुना ॥ १७ ॥अभवं प्रेपितस्ते- न तवानयनकारणात् ॥ तद्विजस्य वचः श्रुत्वा सा देवी ब्राह्मणोत्तमम ॥५८॥ इति तं पूजयामास सकाशापितुरागतम् ॥ पाकं कृत्वा प्रयनेन भोजयामास तद्विजम् ॥ ५९॥ ततो रामानुजः शीघ्रमागत्य स्वनिकेतनम् ॥ अजानन्निव तत्सर्व वृत्तांतं द्विजपुंगवम् ॥६० ॥ नि शम्य निपुणो दृष्टस्तां भार्यामेवमत्रवीत् ॥ अधुनतेन विप्रेण गच्छ त्वं जनकालयम् ॥६॥ त्वदाभरणवस्त्रेषु समादाय यदिच्छसि ॥आ- गमिष्याम्यहं तत्र नीत्वा पंचदिनान्यनु ॥ १२॥ पतिवाक्यं तदाक- र्ण्य साध्वी हर्पसमन्विता ।। देहवंधुजनोपेता दासीदासजनावृता।।निर्ग- त्य स्वगृहात्तूर्ण प्रययौ पितुरालयम् ॥६॥तत्त्वोपायवशात्स लक्ष्म- णगुरुर्नीत्वा स्वकीयां सती तत्पित्रोहमंजसा तदनु तांचित्तेन नाचिं- तयन् ॥ वुद्धिं चागमनाभिलापविपयां तुर्याश्रमाप्तिक्रियां नैपुण्येन चिकीर्षुरात्मनि परं ब्रह्माभिधे निश्चलाम् ॥ ६४॥ इति श्रीप्रपन्नामृते रामानुजचरित्रे भार्याविसर्जनोपायसिद्धिर्नाम द्वादशोऽध्यायः ॥१२॥ त्रयोदशोऽध्यायः। उपायेन तदा भार्या नीत्वा तजनकालयम् ॥ गृहधामादिकं सर्व विहाय विगतस्पृहः ॥ १॥ तुर्याश्रमप्रवेशाय त्रिदंडंकुंडिकां तदा ॥ सर्वोपकरणं धीमान् कापायवसनादिकम् ॥२॥ संपाद्य तरसा शिष्यै- रानीय प्रयतः शुचिः॥सन्निधौ देवराजस्य सन्निधाय जगत्पतेः॥३॥ रामानुजः प्रणम्याथ वरदं भक्तवत्सलम् ॥ तेनानुज्ञापितो धीमाननं- वसरसस्तटे ॥ ४ ॥ संस्मरन्यामुनार्यस्य चरणौ लोकपाक्नौ ।।

अध्यायः१३. लक्ष्मणार्यः प्रसन्नात्मा चक्रे संन्यासमादरात् ॥ ५॥ तदा देवगणाः सर्वे हपनिर्भरमानसाः ॥ ववृषुः पुष्पवर्षाणि यतिराजस्य मू- नि ॥ ६॥ देवदुंदुभिनिघोंपो महानासीत्तदा दिवि ॥ ववौ वायुः सुखस्पर्शः सुप्रभोऽभूदिवाकरः ॥७॥ दिशो विरेजुर्विमलाजनाः सर्वे मुदं ययुः ॥ तदा रामानुजं दृष्ट्वा यतिसाम्राज्यदीक्षितम् ॥ ८॥ नि. राशः पृथिवीं हित्वा प्रपेदे काननं कलिः ॥ कापायचीरसंवीतः स- दंडः सकमंडलुः ॥ ९ ॥ ऊर्ध्वपुादशभिः परिशोभितविग्रहः ।। रामानुजस्तदा रेजे नारायणमुनिर्यथा ॥ १० ॥ देवराजस्तदा वाक्यं कांचीपूर्णमुवाच सः ॥ कांचीपूर्ण समादाय मामकान्परिचारकान ॥११॥ध्वजाछवादिकान्त्सर्वान्वैष्णवांश्च द्विजोत्तमान् ॥ शिबिकायां प्रतिष्टाप्य शठकोपं च मामकम् ॥ १२॥ तत्र गत्वा महात्मानं तं रामानुजमादरात् ॥ इहानयस्व भक्तं तं द्रष्टुमिच्छामि सत्वरम् ॥ १३॥ कांचीपूर्णः संप्रहृष्टस्तद्वाक्यश्रवणात्तदा ॥ वरदोक्तप्रकारेण सर्वैस्तैः परिचारकैः ॥ १४॥रामानुजं प्रति ययौ सहसा स हरि- प्रियः ॥ तुर्याश्रमस्य कृत्यानि कृत्वा सर्वाणि शास्त्रतः ॥ १५ ॥ अनेकै ह्मणैः साकं वेदवेदांतपारगैः ॥ रामानुजार्याः सहसा वरदं सेवितुं ययौ ॥ १६॥ तावन्योन्यं तदा दृष्ट्वा कांचीपूर्णयतीश्वरौ ॥ हर्पमापतुरन्योन्यं यथाई कृतसक्रियौ ॥ १७ ॥ कांचीपूर्णस्तत- स्तस्मै यतिराजाय धीमते॥ तत्तीर्थ शठकोपादीन् दापयित्वा तद्- र्चकैः ॥ १८॥ वरदोक्तप्रकारेण निधाय परिचारकान् ॥ व्यादिदेश जनान्त्सर्वान् कैंकर्यार्थ महात्मनः ॥ १९ ॥ ब्राह्मणाः स्वस्तिपठनं चक्रुर्हर्पसमन्विताः ॥ भेरीकाहलवाद्यादीन् वादयंतो जनास्तदा ॥ ॥२०॥ रामानुजस्य पुरतो ययुः शीघ्रं मृदंगकाः॥ पुरतः शठकोपं तु कृत्वा रामानुजस्तदा ॥२१॥ करिशैलादिनाथं च कांचीपूर्णेन संगतः॥ ब्रह्मज्ञाह्मणैः साकं वरदस्य जगत्पतेः ॥ २२ ॥ ववंदे लक्ष्मणाचार्यश्चरणौ ब्रह्मणार्चिती ॥ रामानुजं देवराजस्तं दृष्ट्वा यति- - (४०) प्रपन्नामृते- शेखरम् ॥२३॥ हर्षेण महतायुक्तस्तां चिंता विजहौ तदा॥ रामानु- जाय विप्रेभ्यः सर्वेभ्यः स तदा हरिः॥ २४ ॥स्वतीर्थ शठकोपा- दीन् दापयित्वार्चकच्दा । प्रत्येकं लक्ष्मणार्याय सन्मानं सुमहत्तरम् ॥२५ ॥ स भूयः कारयित्वाशु प्रीत्या तस्मै महात्मने ॥ नामधेयं तस्य चक्रे यतिराज इति प्रभुः ॥ २६ ॥ कांचीपूर्णमुवा- चेदं वरदो भक्तवत्सलः ॥ यतींद्राय मठं सम्यक् दर्शयित्वा मनो- हरम् ॥ २७ ॥ तत्र त्वं विनिधेह्याशु यतिराजं तपोधनम् ॥ कांची पूर्णस्तदाकर्ण्य तद्वाक्यं जगतीपतेः ॥ २८ ॥ यतिराजं समा- दाय तैः साकं परिचारकैः ॥ मठे निवेशयामास वरदानुज्ञया तदा ॥२९॥ रामानुजोपि सहसा मठं प्राप्य यतीश्वरः ॥ समागत- जनान्सर्वान् यथोचितमपूजयत् ॥ ३० ॥ तदा पौरजनाः सर्व संसेव्य यतिशेखरम् ॥ आपुनिकेतनान्यार्याः स्वानि हटा द्विजोत्तमाः ॥ ३१ ॥ अनुज्ञातस्तदा तेन कांचीपू) महात्मना ॥ देवराजाय वृत्तांतं तद्विज्ञाप्य महात्मने ॥ ३२ ॥ तत्सन्निधौ यथापूर्व निधायं परिचारकान् ॥ संसेव्य चरणौ तस्य स्वमठं प्रविवेश ह ॥३३॥ ततो यतींद्रस्तरुणार्कसनिभः सर्वाञ् जनान् पूर्णकटाक्षवीक्षणः ॥ स्वपादपद्माभिमुखानिरंतरं कुर्वन्त्स तस्थौ वरदार्पिते मठे ॥ ३४॥ एवं स रामानुजवैष्णवोत्तमः संत्यज्य भाया प्रतिकूलधर्मिणीम् ।। अनुज्ञयानंतसरस्तटे हरेस्तुर्याश्रमं स प्रतिपेदिवास्तदा ॥३५॥ संसेव्य विष्णुं करिशैलनाथं हर्षेण तेनार्पितनामधेयः॥ यतीश्वरस्तत्र समास्थितोभूत्कांचीपुरे वेदविदां वरिष्ठः॥३६॥ इदं चरित्रं भवरो- गनाशनं रामानुजार्य्यस्य महात्मनः शुभम् ।। शृण्वंति भक्त्या सततं नरोत्तमास्ते यांति लोकं मधुवैरिणो हरेः॥ ३७॥ ज्ञानप्रदं पापहरं पवित्रं श्रोतुः श्रवप्रीतिकरं विचित्रम् ॥ वैकुंठलोकप्रदमाशु पुंसामिदं चरित्रं यतिशेखरस्य ॥३८॥ रामानुजाय नाथाय यतीद्राय महा-

अध्यायः १४.
(४१)
'त्मने । कृपामाचप्रसन्नाय लक्ष्मणार्याय ते नमः ॥ ३९ ॥ इति श्रीप्र-
पन्नामृते रामानुजचरित्रे रामानुजार्य्यस्य तुर्याश्रमप्रवेशो नाम त्रयो-
दशोऽध्यायः॥ १३॥
चतुर्दशोऽध्यायः।
कांचीपुर्याः पूर्वभागे कश्चित्पुरुपमंगलः ॥ अग्रहारो महानासी-
द्विद्वज्जनसमावृतः ॥ १॥ तत्र वेदविदां श्रेष्ठः सर्वधर्मपरायणः॥
अनंतदीक्षित इति द्विजवों महानभूत् ॥२॥स सर्वगुणसंपन्नां
सर्वलक्षणशोभिताम् ॥ उपयेमे यथाशास्त्रं कन्य' केशवयज्वनः
॥३॥ भरतांशः सुतो जज्ञे पत्न्यां पुत्रो विचक्षणः ॥ श्रीमान् दाशर-
थिर्नाम विख्यातः सकलावनौ ॥४॥ वेदवेदांगसंपन्नो हरिभक्तिपरा-
यणः ॥ स्वमालुलं महात्मानं तुर्याश्रमसमागतम् ॥ ५ ॥ ज्ञात्वा
स तु महाप्राज्ञः कांचीमागत्य सत्वरम् ॥ शिश्रिये लक्ष्मणाचार्य
प्रथमं प्रेमपूर्वकम् ॥ ६॥ ततो रामांशसंभूतः कूरनाथ.इति श्रुतः ॥
अनंतभट्टतनयस्सर्वशास्त्रार्थकोविदः॥७॥हारीतान्वयसंभूतःसदा हरि-
परायणःअशिश्रियत्तदासोपियतिराजंगुणाश्रयम् ॥८॥ लक्ष्मणार्य-
स्तदाताभ्यां शिष्याभ्यां यतिपुंगवः ॥ ग्रंथानुपदिशन् सम्यक् कांच्या
तस्थौ महायशाः॥९॥कदाचिद्यादवस्याथ जननी यतिशेखरम् ॥ वदंतं
वैष्णवग्रंथान् शिष्येभ्यः प्रीतिपूर्वकम् ॥ १० ॥ ऊर्ध्वपुंड्रधरं धीर
कापायांवरशोभितम् ॥ त्रिदण्डधारिणं प्राज्ञं नारायणमान यथा
॥११॥ स्वतेजसा भासमानं प्रोद्यत भास्करं यथा॥ दृष्ट्वा भक्ति-
'समायुक्ता नमश्चक्रे यतीश्वरम् ॥ १२ ॥ ततः सा मठमागत्य
यादवं वाक्यमत्रवीत् ॥ वत्स यादव मद्राक्यं शृणु भक्तिसमन्वितः
॥ १३ ॥ रामानुजं.महात्मानं नावमस्व च पूर्ववत् ॥ तं समाश्रय
तत्त्वज्ञ वैरं हित्वा सुभक्तितः॥ १४॥ धर्मसंस्थापनार्थाय हरिणा प्रे-
पितोऽधुना ॥ वेकुंठादागतोऽनंतो जातः केशवयज्वनः ॥१५॥

प्रपन्नामृते- रामानुज इति ख्यातः पुत्रः सर्वहिते रतः॥ कांचीपूर्णादयः सर्वे ज्ञानि- नस्तं यतीश्वरम् ॥ १६॥ एवं विदुमहात्मानं पुत्रं लक्ष्मणदेशि- कम् ॥ विष्णुभक्तिविहीनस्य विप्रस्य विदुषां वर ॥ १७॥ विद्या- चारादिकं व्यर्थ शवालंकरणं यथा ॥ विष्णुरेव जगत्कर्ता सृष्टिस्थि- त्यंतकारकः॥ १८॥ तदंशभूता विरेंद्र ब्रह्मरुद्रादिदेवताः ॥ परा- शरादिमुनयः सर्वे तत्त्वार्थवेदिनः ॥ १९ ॥ नारायणं समाश्रित्य ययुर्मति जगत्पतिम् ॥ मातृवाक्यं तदाकर्ण्य तथ्यं मत्वा स यादवः ॥२०॥ ध्यात्वा मुहूर्त जननीमुवाच वचनं तदा ॥ त्वयोदित- मिदं मातः सत्यं वाक्यं हितं मम ॥२१॥ तदर्थाय मयावश्यं कर्त्तव्यं भूप्रदक्षिणम् ॥ अधुना जरयाक्रांतं शरीरं मामकं प्रसः ॥ २२ ॥ ममाशक्यामिदं तस्मादिदानी भूप्रदक्षिणम् ॥ ततस्तद्वाक्यमाकर्ण्य सा यांदवमभापत ॥२३॥ प्रदक्षिणं कुरुष्वाद्य यतिराजममानु पम् ॥ विचारं मा कुरुष्वाद्य तस्य तुल्यं फलं द्विज ॥२४॥ तत्कायें यादवः प्राप मातृवाक्यादनिश्चयम् ॥ ततः कदाचिडिपेंद्रः संशयाप- नमानसः ॥ २५॥ मठमागत्य तरसा दृष्ट्वा लक्ष्मणदेशिकम् ।। अ- वोचद्यादवो वाक्यं तं यतीश्वरमर्थदम् ॥ २६ ॥ शंखचक्रोर्द्धपुंड्रा- दिधारणं च त्वया कृतम् ॥ ब्रह्मणो निर्गुणस्यापि गुणित्वं प्रतिपा- दितम् ॥ २७॥ नास्त्यत्र मानं शास्त्रेषु विद्यते चेददाधुना ॥ यति- राजस्तदा वाक्यं श्रुत्वा यादवभापितम् ॥ २८ ॥ तस्य संभापणे शिष्यं कूरेशं व्यादिदेश ह ॥ अनुज्ञातस्तदा तेन देशिकेन महात्मना ॥ २९॥ कूरेशो यादवं वाक्यं जगाद विदुपां वरम् ॥ श्रूयतामभि- धास्यामि शंखचक्रादिधारणे ॥३०॥ सगुणब्रह्मसद्भावे विष्णुसर्वो- त्तमत्वके ॥ श्रुतिस्मृतिपुराणेपु प्रमाणानि द्विजोत्तम ॥३१॥ श्रुतिः- "प्रतते विष्णोरजचके पवित्र जन्मांभोधि तत्तवे चर्पणींद्राः॥ मूले वाहोर्दधतेन्ये पुराणाः लिंगान्यंगे तावकान्यर्पयंति" सानि-"पवि- त्रमित्यमिः ॥ अग्निः सहस्रारः ॥ सहस्रारो नेमिः ॥ नेमिना ज.पा. ४. तप्ततनुाह्मणः सायुज्यं सलोकतामाप्नोति देवासो ये विधृतेन बाहुना सुदर्शनेन प्रयतमानवो लोकसृष्टिं वितन्वंति ब्राह्मणास्तद्वदंति अग्नि- ना वै तप्तं द्विभुजे धाय॑म् ऊर्ध्वपुंडूमालिखेत् ॥ तस्मादिरेखं भवति न पुनरागमनमति ब्रह्मणः सायुज्यं सलोकतामाप्नोति ॥ चक्र विति वपुपा प्रतप्तं बलं देवानाममितस्य विष्णोः ॥ स एति नाकं दुरिता- विधूय प्रयांति यद्यतयो वीतरागाः॥ अथर्वणे-"एभिर्वयमुरुकमस्य चिह्नरंकिता लोके सुभगा भवामः ॥ तद्विष्णोः परमं पदं येऽधिगच्छति लांछिताः॥पराशरसंहितायाम्-"उपवीतादिवद्धार्याः शंखचक्रादय- स्तथा ॥ ब्राह्मणस्य विशेपेण वैष्णवस्य विशेपतः ॥” भीष्मपर्वणि- "ब्राह्मणैः क्षत्रियैर्वैश्यः शुदैश्च कृतलक्षणैः॥ अर्चनीयश्च वंधश्च नित्ययुक्तः स्वकर्मसु" ॥ ३२ ॥ हारीतस्मृतौ-"तापादिपंचसं- स्कारी महाभागवतोत्तमः ॥ अन्ये त्ववैष्णवा ज्ञेया हीनास्तापा- दिभिर्जनाः ॥३३॥ विना यज्ञोपवीतेन विना चक्रस्य धारणात् ॥ विना द्वयेन वै विप्रश्चांडालत्वमवाप्नुयात्” ॥३४॥ वामने-"वपा- कमिव वीक्षेत लोके विप्रमवैष्णवम् ॥ वैष्णवो वर्णबायोपि पुनाति भुवनत्रयम् ॥ ३५ ॥ लैगे-"अष्टाभरविदः सर्वे तप्तचक्रांकितास्तदा।। सेवका वासुदेवस्य तथैव नटनर्तकाः ॥३६॥अन्ये च वैष्णवास्तव सर्वे चक्रेण लांछिताः ॥ अग्निनैव तु संतप्तं चक्रमादाय वैष्णवः ।। ॥३७॥ दाहयेत्सर्ववणानां विष्णुसालोक्यसिद्धये ॥" ३८॥ कठ- वल्ल्यामूर्ध्वपुंड्रविधिः-"धृतोद्धपुंडः कृतचक्रधारी विष्णुं परं ध्यायति यो महात्मा ॥ स्वरेण मंत्रेण सदा हदिस्थं परात्परं यं महतो महांतम् ॥ ३९॥ स्कांदे-"येयां चक्रांकितं गानं शुद्रेष्वपि च दृश्य ते ॥ तेवै स्वर्गस्य नेतारो ब्राह्मणा भुवि दुर्लभाः" ॥४०॥ पराशरः- "विना यज्ञोपवीतेन विना चक्रस्य धारणात् ॥ विना व्येन वै विपश्चांडालत्वमवाप्नुयात् ॥११॥ अनिष्टानां निवृत्त्यर्थमैकान्त्याय - (४४) प्रपन्नामृते- जगत्पती ॥ सिद्धयर्थ कर्मणां चैव धार्य चक्रादिलाञ्छनम् ।।४२ ।। दक्षिणे तु भुजे विप्रो विभृयादै सुदर्शनम् ॥ सव्ये तु शंख विभृयादिति ब्रह्मविदो विदुः ॥ ४३ ॥ अथर्वणोपनिपदि-"हरेः पादाकृतिमात्मनो हिताय मध्ये छिद्रमूर्ध्वपुंडू यो धारयति स परस्य प्रियो भवति स पुण्यवान् भवति स मुक्तिवान् भवति ॥ १४ ॥ महोपनिपदि-"धृतो पुंड्रः परमेशितारं नारायणं सांख्ययोगाभि- गम्यम् ॥ ज्ञात्वा विमुच्येत नरः समस्तैः संसारपाशैरिह चैति विष्णु- म् ॥ १५॥ आगेये-"त्रिपुंड्रधारणं विप्रो लीलयापि न कारयेत् ॥ धारयेद्विधिना सम्यगूर्द्धपुंडू प्रयत्नतः॥४६॥ ब्रह्मांडे-"ब्राह्मणस्यो- चंपुंडू तु क्षत्रियस्याईचंद्रकमावैश्यस्य वर्तुलाकारं शूद्रस्यैव त्रिपुंड: कम् ॥ १७॥ ब्राह्मणेन न कर्तव्यं तिर्यपुंडूस्य धारणम् ॥ स शुद्र एव मंतव्युस्तिर्यपुंड्रस्य धारणात् ॥४८॥ ब्रह्मरात्रे ॥ प्रणवेनैव मंत्रण मृदा वै मामनुस्मरन् ॥ ललाटे धारयेन्नित्यं मम सायुज्यमाप्नुयात ॥४९॥वसिष्टस्मृतौ-" नासिकामूलमारभ्य आकेशांत प्रकल्पयेत् ॥ अंगुलं पार्श्वमेकं तु ऊर्ध्वपुंड्रस्य लक्षणम्" ॥५०॥ सनत्कुमारसं- हितायाम्-"उर्द्धपंडू मृदा धार्य सच्छिद्रं सौम्यमेव च ॥ तदलं- करणार्थाय हरिद्रां धारयेच्छ्रियम् ॥५१॥ ऊर्द्धपुंडूस्य मध्ये तु अन्यद्रव्यं नधारयेत् ॥ हरिद्रां धारयेच्चूर्ण सर्वपापैः प्रमुच्यते॥५२॥ अच्छिद्रमूर्द्धपुंडूं तु ये कुर्वति द्विजाधमाः ॥ तेपां ललाटे सततं श्वा- नपादो न संशयः ॥५३॥ पाझे-"ये कंठलग्नतुलसीनलिनाक्षमाला ये बाहुमूलपरिचिह्नितशंखचक्राः॥ ये वा ललाटफलके लसदूर्द्ध- ड्रास्ते वैष्णवा भुवनमाशु पविषयंति ॥५४॥ ईश्वरसंहितायाम्- "विष्णुदेहपरामृष्टं यच्चूर्णशिरसावहेवासोश्वमेधफलं प्राप्य विष्णुलो- के महीयते ॥५५॥ सांतरालो एंड्रस्य मध्ये श्रीशस्य धामनि ॥ हरिदासारसंभूतरजसा धारयेच्छ्यिम् ॥५६॥ पराशरस्मृतौ-" एको पपीतंधार्य स्याद्यतीनांब्रह्मचारिणाम् ॥ गृहस्थानां वनस्थानामुपवी- अध्यायः १४. (४५) तोभयंस्मृतम्" ॥५७॥ पंचरात्रे-“कापायवस्त्रयुग्मं च वेणुयाप्टिं च धारयेत् ॥ कौपीनं कटिसूत्रं च च्छवं ताम्रकमंडलुम् ॥५८॥ छिद्रो- ज़पुंडूमकं वा तथा द्वादशमेव वा ॥ तुलसीनलिनाक्षाणां मालिकाधा रणं तथा॥ ५९॥ भुजयोर्गुरुणा सम्यक् शंखचक्रं च धारयेत् ॥ यज्ञोपवीतमेकं च सम्यग्धारयतीश्वरः ॥६०॥ यस्त्वेकदंडमालंव्य धर्म ब्राझं परित्यजेत् ।। विकर्मस्थो भवेद्विप्रः स याति नरकं ध्रुवम् ॥६१॥ शिखायज्ञोपवीतादि ब्रह्मकर्म यतिस्त्यजेत् ॥ स जीवन्नेव चांडालो मृतः श्वानोऽभिजायते॥६२॥ मौंज्येणाजिनदंडादिधायाणि ब्रह्मचारिणा ॥ कटिसूत्रं तु कौपीनं शुक्रवस्त्रद्वयं शुभम् ॥ ६३ ॥ मुं- डनं चांगुलीयादिगृहस्थस्य विशिप्यते" सगुणत्वे श्रुतयः"यः सर्वज्ञः सर्ववित्परास्य शक्तिर्विविधैव श्रूयते ॥स्वाभाविकी ज्ञानबलक्रियाच ते- जोबलैश्वर्यमहावबोधः॥६४॥ सवीर्य्यशक्त्यादिगुणैकरांशिः॥ अ- पहतपाप्मा विज्वरो विमृत्युर्विशोको विजिघत्सोपिपासः सत्यकामः सत्यसंकल्पः” इति ॥६५॥ तमीश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतम् ॥ पति पतीनां परमं परस्माद्रिदाम देवं भुवनेशमीडयम ॥६६॥ ज्ञाज्ञो द्वावजावीशिनीशौ नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् ॥६॥नारायणपरं ब्रह्म तत्त्वं नारायणः परः ॥ नारायणपरा वेदाः॥नारायण एवेदं सर्वं निष्कलंको निरंजनो निर्विकल्पो निराख्यातः शुद्धो देव एको नारायणः ॥ ६८ ॥ एको ह वै नारायण आसीत् ॥ न ब्रह्मा नेशानः ॥ ज्ञानशक्तिबलेश्वर्यवी यतेजांस्यशेषतः ॥ भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः” ॥६९॥भारते-"हरिः परायणं परं हरिः परायणं परम् ॥ पुनःपुनर्वदा- म्यहं हरिः परायणं परम्"॥ मोक्षधर्मे॥"त्वयापि सततं राजन्नभ्यर्य: पुरुपोत्तमः ॥ स हि माता पिता चैव कृत्स्नस्य जगतो गुरुः ॥७॥ जगतः कारणत्वं च सगुणत्वं स्वभावतः ॥ त्रिपाद्विभूतियुक्तत्वं (४६) प्रपन्नामृते- ब्रह्मणो रूपमुच्यते” ॥ ७१ ॥ विष्णुधर्मोत्तरे-"तस्मात्सर्वेषु देवेषु विष्णुरेव सनातनः ॥ तस्मात्सर्वप्रयत्नेन विष्णुमेव समाश्रयेत्” ॥७२॥ एवं शतसहस्राणि प्रमाणानि महांति च ॥ सतर्कसहिता- न्येव सर्वशास्त्राविरोधतः॥७३॥ श्रुतिस्मृतिपुराणानि कूरेशो व्याज- हार सः॥ श्रुत्वा सर्वाणि वाक्यानि यादवो विस्मयान्वितः ॥ अनु- ज्ञातस्तदा ताभ्यां स्वमठं प्रविवेश ह ॥७४॥ श्रुत्यादिप्रचुरप्रमाण वचनेः सर्वोत्तमत्वे हरेश्चक्रायंकनधारणे च सगुणब्रह्मण्यनंते परे ॥ कूरेशः प्रतिपाद्य दाळमधिकं सद्योऽनवद्यां प्रथां विख्यातं यतिशेखर समभजजित्वा तदा यादवम् ॥ ७९ ॥ इतिश्रीप्रपन्नामृते रामानुजचरित्रे कूरेशयादवसंवादे विष्णुपरतत्त्वनिर्णयो नाम चतु- दशोऽध्यायः॥ १४॥ पञ्चदशोऽध्यायः। तस्यां रात्र्यां देवराजः स्वप्ने तस्य जगत्पतिः॥ आगत्य यादवं विप्र संशयापनमानसम् ॥१॥ उवाच कृपया वाक्यं दयाकृत- मानसः ॥ जनन्या तव यच्चोक्तं तत्सत्यं यादवाधुना ॥ २ ॥ यतिराजाश्रयान्मुक्तिर्नान्यथा द्विजपुंगव ॥ चिंतां विहाय सहसा सर्व- कार्यविनाशिनीम् ॥३॥ यतिराज महात्मानं समाश्रय गुणाश्र- यम् । इत्युक्त्वांतर्दधे विष्णुर्यादवं करुणालयः ॥ ४॥ तद्वाक्य- श्रवणात्सोपि निश्चयं नाध्यगच्छत ॥ यादवस्य प्रसूःसाध्वी कदा- चिद्वरदं हरिम् ॥५॥ संसेव्य सा ददर्शाथ यतीद्रं यमिनां वरम् ।। देवराजस्य सेवार्थ शिष्यैः सह समावृतम् ।। ६॥आगच्छंतं लक्ष्म- णार्य तेजोराशिमकल्मपम् ॥ यादवस्य समीचीनो लक्ष्मणार्य्यस- माश्रयः ॥ ७ ॥ सा पुत्रवत्सला साध्वी मनस्येवमचिंतयत् ।। उपश्रुतिरभूत्तत्र तस्याश्चिंतानुरोधिनी ॥ ८॥ श्रुत्वा तां हर्पसंयुक्ता यादवायादृढात्मने ॥ तद्वृत्तांतं तदा तस्मै जगाद हितकाम्यया।।९।।

अध्यायः १५. (४७) मातृवाक्यं निशम्याथ यादवश्छिन्नसंशयः ॥ मात्र निवेदयामास स्वमवृत्तांतमादरात् ॥ १० ॥ अनिश्चयात्पुनः सोपि मात्रा चाज्ञा- पितस्तदा ॥ कांचीपूर्ण समासाद्य यादवः करुणानिधिम् ॥ ११ ॥ विनयावनतो भूत्वा वचनं चेदमब्रवीत् ॥ कांचीपूर्ण कृपासिंधो कमलापतिनन्दन ॥ १२॥ मयि निक्षिप्य करुणां रक्ष मां शरणाग- तम् ॥ मयाधुना कश्चिदर्थश्चितितो मानसे महान् ॥ १३॥ संशय- स्तस्य करणे विद्यते मे तपोधन।। मनश्चलति तत्कार्ये वाते दीपशिखा यथा ॥ १४ ॥ मदर्थं देवराजं त्वं कृत्वा विज्ञापनं जवात् ॥ यदुक्तं तेन कृपया मह्यं बह्यकृतात्मने ॥ १५ ॥ कांचीपूर्णस्तदाकर्ण्य यादवोक्तं वचः शुभम् ॥ देवराजाय सहसा तदृत्तांतं न्यवेदयत् ॥१६॥ तच्छ्रुत्वा वरदः प्राह कांचीपूर्ण रहस्तदा ॥ शृणु वक्ष्यामि तत्त्वेन चिंतितं यादवेन ते ॥१७॥ रामानुजाश्रये मात्रा यत्तन्महदुदीरितम् ।। तद्वाक्यश्रवणात्तस्य न मनो निश्चयं गतम् ॥ १८॥ तस्मै स्वप्नति तत्कार्य कृपया भापितं मया ॥ तस्मादपि यतेस्तस्य विचिकित्सा भवेत्तदा ।। १९ ॥ इदानीमपि विप्राय मयोक्तमिति तद्वद ॥ रामानुज समाश्रित्य गच्छ लोकमनुत्तमम् ॥ २० ॥ मानुष्यं दुर्लभं प्राप्य विप्रत्वं च विशेषतः ॥ यआत्मश्रेयसे नालं स शोच्यो ह्यात्मवंचकः ॥ २१ ॥ अधीत्य सर्वशास्त्राणि शिष्येभ्यस्तान्यबोधयन् ॥ वचनं देवराजस्य कांचीपूर्णों निशम्य तत् ॥ २२ ॥ बभापे यादव वाक्य वरदोक्त हरिप्रियः ॥ कांचीपूर्णस्य तद्वाक्यं निशम्यात्यंतविस्मितः ॥२३॥ विच्छिन्नसंशयो हृष्टः कांचीपूर्णमपूजयत् ॥तरसामठमागत्य यादवस्तं यतीश्वरम् ॥२४ ॥ भक्त्या प्रदक्षिणं कृत्वा यादवो ह्यपत- त्तदा ॥ यतिराज दयासिंधो दीनं मामवलोक्य ॥ २५॥ मत्कृतान- पराधांस्तान् ।। क्षमस्व बहुधा किल ।। संसारार्णवनिर्मग्नं मामुद्धर कचग्रहात् ॥२६॥ लक्ष्मणाचार्यस्तदा दृष्ट्वा यादवं दीनमानसम् ।। उवाच प्रहसन वाक्यं दयार्दीकृतमानसः ॥२७॥ उत्तिष्ठ भूसुरश्रेष्ठ (४८) प्रपन्नामृते- न ते दुःखमितः परम् ॥ विद्यते देवराजस्य कृपा त्वयि जगत्पतेः ॥२८॥इत्युक्त्वा यादवं प्रीत्या पतित पादयोस्तदा । उद्धृत्य पाणिना शीघ्र यतिराजः कृपार्णवः ॥ २९ ॥ तस्य संरक्षणे यत्नं चकार विवु- धाग्रणीः॥ मौजीबंधादिकं कृत्वा यादवस्य यतीश्वरः॥३०॥आद- रात्पंचसंस्कारानथतुर्याश्रमं ददौ ॥ गोविंददास इति च दास्यनामा- करोत्प्रभुः ॥३१॥ यादवः शुशुभे श्रीमान् कृतसंस्कारपंचकः ॥ निष्कल्मपमनाभूत्वा शरचंद्र इवामलः ॥३२॥तस्मै गोविंददासाय यतींद्रः करुणाकरः। समस्तवैष्णवग्रंथान् स्वयमेवोपदिश्य च ॥३३॥ गोविंददासं प्रत्याह लक्ष्मणार्यों विचक्षणः॥पूर्व त्वया वैष्णवानां यतीनां दूपणं कृतम् ॥३४॥ तद्दोपपरिहाराय ग्रंथं कुरुमहामते ॥अस्मिन्मते महाप्राज्ञ स्वदृढप्रत्ययाय च ॥ ३५॥ अनुज्ञातस्तदा तेन लक्ष्मणा- येण यादवः ॥ चक्रे तदोपशांत्यर्थ यतिधर्मसमुच्चयम् ॥ ३६॥ सर्वशास्त्रार्थसारार्थान्त्समुद्भूत्यार्यसंमतम् ॥ त्रिदण्डसंन्यासविधि योऽवदत्तमनुत्तम् ॥३७॥ यतिराजस्य निकटे कंचित्कालं स यादवः।। स्थित्वाशु वैष्णवं लोक जगामात्यंतनिर्मलम् ॥ ३८॥ हस्त्य- द्रीश्वरशासनाद्यतिपात भत्त्या समाश्रित्य तं तैनवाप्तदृढाशयो मुर- हरेविष्णोः परत्वेऽनिशम् ॥ सम्यग्वैष्णवतामुपेत्य मतिमान् गोविंद- दासाभिधो मोक्ष प्राप भवायगम्यमतुलं विष्णोः पदं यादवः ॥३९॥ इति श्रीप्रपन्नामृते रामानुजचरित्रे यादवेन वरदराजाज्ञया यतिराजा- श्रयणं नाम पंचदशोऽध्यायः॥ १५॥ पोडशोऽध्यायः। कांच्यां यतींद्रः करुणाकरेंद्रः कामादिदोपान्करुणादृष्टया ॥ जनस्य सर्वान्प्रणुदन् विरेजे यथातपं शीतकरो निशायाम् ॥१॥ सर्वे जनास्तस्य कटाक्षपूर्ताः संत्यक्तसंसारमहाभिलापाः ॥ शिप्या यतींद्रस्य यथा महांतश्चकाशिरे विष्णुपुरे सुरेंद्राः ॥२॥ कालह- अध्यायः १६. (४९) स्त्यामास्थितस्य गोविंदस्य यतीश्वरः ॥ हितार्थ प्रेपयामास मातु- लाय महात्मने॥३॥लेख्यं श्रीशैलपूर्णाय लक्ष्मणार्यः कृपानिधिः।। यतिराजः प्रतिदिनं शिष्येभ्यः प्रेमपूर्वकम् ॥ ४॥ शास्त्राण्युपदिशन् तस्थौ कांच्यां विष्णुपरायणः॥ यामुनाचार्यशिष्यास्ते रंगक्षेत्रनिवा- सिनः॥५॥ वैभवं यतिराजस्य श्रुत्वा हर्पसमन्विताः ॥ सम्यक् प्रणम्य रंगेशं लोकेशं भक्तवत्सलम् ॥ ६ ॥ विनयावनता भूत्वा वचनं चेदमब्रुवन् ।। अस्माकं रक्षणार्थाय यतिराजो जगद्गुरुः ॥७॥ आनेतव्यं प्रयत्नेन त्वयात्र करुणाकर ॥ स तद्वाक्यं निशम्याशु रंगेशो भक्तवत्सलः ॥ ८॥ प्राहिणोदेवराजाय लेख्यं तत्कार्यसि- दये । वाचयामास वरदस्तल्लेख्यं भक्तिपूर्वकम् ॥ ९ ॥ एतावतं चिरं कालं देवराज यतीश्वरः॥ भगवस्त्वत्समीपे तु लक्ष्मणार्यों स्थितोऽभवत् ॥ १०॥ तमिदानी दयासिंधो मह्यं देहि यतीश्वरम् ॥ एवं ज्ञात्वा पत्रिकाथै प्रहसन्वरदोऽब्रवीत् ॥ ११ ॥ दानशीला नरा लोके याचितानि ददत्यलम् ॥ अभिमतान्न प्रदास्यति कितवास्ताव- कान् क्वचित् ।। १२॥ एवमुक्त्वा द्विजवरं गच्छेत्याह तदागतम् ॥ स द्विजो रंगमागत्य रंगेशाय महात्मने ॥ १३ ॥ सर्व निवे- दयामास वृत्तांत विष्णुसेवकः॥ तस्य वाक्यं तदाकर्ण्य रंगेशो नि- पुणो महान् ॥१४॥ वररंग समाहूय वचनं चेदमब्रवीत् ॥ यामु- नाचार्यसत्पुत्र देवगानविशारद ॥ १५ ॥ गत्वा सत्यव्रतं क्षेत्रं देवराजं रमापतिम् ॥ नाटयेन देवगानेन स्वशक्त्या च महामते ॥ १६ ॥ प्रलोभयित्वा वरदं मदर्थ वैष्णवोत्तम ॥ अन्यान्य- नय॑वस्तूनि प्रदत्तान्यपि तेनते ॥१७॥ न गृहाण तमेव त्वं याचयस्व यतीश्वरम् ॥ येन केनाप्युपायेन यतिराज जगद्गुरुम् ॥ १८ ॥ आदाय शीघ्रमागच्छ तं गायकवरोत्तम ॥ इत्युक्तस्तेन हरिणा वररं- गस्त्वरान्वितः ॥ १९॥ कांचीमवाप सहसा तमानेतुं यतीश्वरम् ॥

(५०) प्रपन्नामृते- कांचीपूर्णादयः सर्वे वररंगस्य धीमतः॥ २० ॥ विज्ञायागमनं तस्य गुरुपुत्रस्य सत्वरम् ॥ प्रतिजग्मुर्महात्मानं शंखकाहलनिःस्वनैः ॥ ॥२१॥ यामुनाचार्य्यतनयमऱ्यापाद्यादिकैः परम् ॥ पूजाहै पूजया- मासुः कांचीपुरनिवासिनः॥ २२ ॥ वरंगः संप्रदृष्टः कांचीपूर्णादिभि स्तदा ॥ करिशैलं समारुह्य कनकांबरधारिणः ॥२३॥ ववंदे चरणौ तस्य देवराजस्य भक्तितः॥ तत्तीर्थ शठकोपं च गृहीत्वा भक्तिपूर्वकम् ॥२४॥ कांचीपूर्णेन निर्दिष्टे गृहे वासं तदाकरोत् ॥ गुरुपुत्राय सहसा तस्मै वैष्णवपुंगवः ॥ २५ ॥ प्रसादान्यखिलान्याशु कांची- पूर्णः प्रदापयत् ॥ अध्वग्लानिनिवृत्त्यर्थं वररंगः कुशाग्रधीः॥ ॥२६॥ तं वासरं व्यपनयत्तिष्ठन्वेश्मनि वैष्णवः॥ ततः कल्ये समुत्थाय कृतपूर्वाह्निकक्रियः ॥२७॥ वेपं रुचिरमास्थाय सन्नद्धो नाट्यकर्मणि ॥ देवराजस्य सेवार्थ वररंगो जवाद्ययौ ॥ २८ ॥ त्यागमंडपमासाद्य वरदः करुणाकरः ॥ सर्वैः परिजनैर्देव्या श्रिया भूम्या च शोभितः ॥ २९ ॥ स्वतेजसा दशदिशो भासयन् भानुमा- नित ।। मंदस्मितमुखः श्रीमांस्तस्थौ तत्र जगत्पतिः ॥ ३० ॥ वररंगः प्रणम्याथ वरदं भक्तवत्सलम् ।। देवगानेन महता जगावग्रे जगत्पतेः ॥ ३१ ॥ चकार बहुधा नाट्यं वरदस्य स वैष्णवः ।। देवगानेन देवेशः संतुष्टो नर्तनेन च ॥ ३२ ॥ अनाभरणादीनि ददौ तस्मै जगत्पतिः ॥ वररंगस्तानि दृष्ट्वा वरदं प्राह बुद्धिमान ॥ ३३ ॥ किं प्रयोजनमेतेन मम भक्तहितेरत ॥ मया यांच्छितं नाथ तत्प्रदेह्यधुनादरात् ।। ३४ ॥ तस्य वाक्यं तदाकर्ण्य वरदः प्राह तं प्रति ॥ मां च लक्ष्मी विना वत्स यद्वांछसि ददामि तत् ॥३५॥ देवराजस्य वचनं श्रुत्वासौ वैष्णवोत्तमः ॥ वररंगः संप्रष्टो वरदं वाक्यमत्रवीत् ॥ २६ ॥ रंगेशाय दयासिंघो यतिराजं समर्पय ।। वांछा ममेयं वरद नास्त्यन्या जगदीश्वर ॥३७॥ प्रीतिस्तु रंग-

अध्यायः १६.
(५१)
राजस्य तस्मिन्नेव महात्मनि ॥ तच्छ्रुत्वा वरदो वाक्यं तमाहोद्विम-
मानसः ॥ ३८ ॥ यतिराजं विना तावद्यदन्यद्वांछयाधुना । कथं
दास्यामि ते धीरं प्राणभूतं यतीश्वरम् ॥ ३९ ॥ किम प्राणान्परि-
त्यज्य यः को वा वर्तते भुवि ॥ युष्मत्प्राणान्देहि मह्यमिति वांछति
कः कथम् ॥४०॥ तस्य तद्वचनं श्रुत्वा यामुनार्यस्य नंदनः ॥ वररंगः
पुनःप्राह वरदं वदतां वरः॥४१॥ सर्वेजना वदति त्वां सत्यवाचं दयाप-
रम् ॥ सकलार्थप्रदं धीरं देवदेवं जगत्पतिम् ।। ४२ ॥ दास्यामीति
प्रतिश्रुत्य पूर्व मे वांछितं हरे ॥ त्वया संग्रति मां देव न ददामीति भा-
पितम् ॥ १३ ॥ द्विरुक्तिस्तव नास्तीति जनाः सर्वे वदंति हि ॥ त्व-
योक्तान्यवतारेषु वचनानि स्मराधुना ॥४४॥ चिंता मा कुरु देवेश
त्वया कि साध्यतेऽधुना । हर्पेण रंगराजाय यतिराजं समर्पय ॥४॥
इत्युक्त्वा वरदं देवं वररंगस्तदा हरिम् ॥ आगच्छ यतिराजेति रंग प्रति
महामते ॥४६॥ वाणस्त्वरया पाणिं जग्राह यतिभूपतेः॥ यतिरा-
जस्तदा भूम्यां देवराजाय भक्तितः ॥४७॥ कृत्वां प्रणामं साष्टांग
श्रीहस्तिगिरिवासिने ॥ तेनानुज्ञापितो धीमान वररंगेण संयुतः॥४८॥
मठमागत्य तरसा सर्ववृत्तांतमादरात् ॥ स्वशिष्येभ्यो विधायाथ ल-
क्ष्मणार्यस्तपोधनः ॥ १९ ॥ प्रतस्थे वररंगेण रंगक्षेत्रं महात्मना ।
यतिराजस्य तद्वाक्यं श्रुत्वा श्रोत्रसुखावहम् ।।६०॥ कूरेशदाशरथ्यादि-
शिष्याः संतुष्टमानसाः ॥अनुजग्मुर्लक्ष्मणार्य रंगराजदिक्षया ॥५॥
लोके मातगृहायथा पतिगृहं याता नवोढांगना ध्यायती पितरौ हृदा-
श्रुनयना तद्वद्यतीनां प्रभुः॥ त्यक्त्वा लक्ष्मणदेशिकः स महती का-
ची कथंचित्तदा चिंताशोकसमन्वितो हरिपरो रंगप्रतस्थे शनैः॥५२॥
इतिश्रीप्रपन्नामृते रामानुजचरित्रे रंगराजाय यतिराजसमर्पणं नाम पो-
डशोऽध्यायः ॥ १६॥

(५२) प्रपन्नामृते- सप्तदशोऽध्यायः। रामानुजो ददर्शाथ कावेरी कलिनाशिनीम्॥शुद्धांमनोहरां दिव्या, मपंका पंकजावृताम् ॥ १ ॥ स्वच्छतोयसमायुक्तां श्रीरंगोत्संग- गामिनीम् ॥ तस्यां विगाह्य कावेया शिष्यैः सह यतीश्वरः॥२॥स- म्यग् धृत्वोज़पुंड्राणि सैकतेसुमनोहरे ॥ मंत्रराजं जपंस्तस्थौ लक्ष्म- णार्यों हरिप्रियः ॥३॥ वररंगः पुस शीघ्र श्रीरंगं प्राप हर्पतः ॥ आरंभकर्मसंसिद्धिं रंगेशाय निवेदितुम् ॥ ४॥ पूर्णाचाय्र्येण संयुक्तो यामुनार्य्यस्य नंदनः ॥रामानुजस्यागमनं रंगेशाय न्यवेदयत्॥६॥ वररंगस्य वचनं श्रुत्वा हर्षसमन्वितःरिंगेशो वररंगाय सम्मानं बहुधा- करोत् ॥६॥रंगनाथस्ततः पूर्णमुवाच वचनं शुभम् ॥ इदानी बहु- मानेन कनकच्छत्रचामरैः॥७॥ अस्मादिव्यकथाः पूर्णाः पठद्भिर्वेष्ण- वोत्तमैः ।। देशिकेंद्रैर्महाभागैरन्यैश्च पुरवासिभिः॥ ८॥ वाचामगोचरे- णैव वैभवन यतीश्वरम् ॥ तत्र गत्वा लक्ष्मणार्यमानयस्व जवादिति ॥ ९॥रंगेशस्य वचः श्रुत्वा पूर्णार्यः पूर्णवत्सलः ॥ प्रत्युजगाम स- हसा वैष्णवैवेदपारगैः ॥ १०॥ समस्तैः परिवारस्तं लक्ष्मणार्य यती- श्वरम् ॥ रंगराजः स्वयं प्रीत्या निर्ययावग्रमंडपे ॥ ११ ॥ कृतनित्य- क्रियो धीमालक्ष्मणार्य्यस्तपोधनः ।। विलोक्य निवहं तेषां वैष्ण- वानां महात्मनाम् ॥ १२ ॥ तत्सेवाभिमुखः श्रीमान्प्र- तस्थे शिष्यसंवृतः ॥ आयांतं लक्ष्मणाचार्य दृष्ट्वा हर्पसमन्विताः ॥१३॥ तूर्णगत्वा तत्समीपं तदा भागवतोत्तमाः ॥ भूम्यां प्रणाम संचनुः यतिराजाय भक्तितः॥ १४ ॥रामानुजश्च पूर्णाय स्वाचार्याय महात्मने ॥ अकरोद्वंदनं तस्मै मुदा भक्त्या च सत्वरम् ॥ १५॥ लक्ष्मणादियः सर्वे रंगक्षेत्रनिवासिनःअन्योन्यवंदनं चकुवैष्णवाश्च महौजसः ॥१६॥ पूर्णाऱ्या लक्ष्मणाचार्यःस्वाचार्य देशिकप्रिया निधाय भत्त्या पुरतः श्रीवैष्णवशिखामाणः ॥ १७॥ श्रीवैष्णवानां

-
अध्यायः १७.
(५३)
निवहैः संयुक्तः सत्वरं गुरुः॥ संग्राप रंगनिलयं सप्तप्राकारशोभितम्
॥ १८॥अनेकगोपुरयुतं मण्डपैः प्रविराजितम् ॥देवालयंप्रविश्याशु
क्रमेण यतिशेखरः ॥१९॥ विष्वक्सेनादिदेवेभ्यः कृत्वा वेदनमादरात्।।
रंगराजस्य सेवार्थ विमानं रंगमध्यगात् ॥२०॥ तदा रंगेश्वरः श्रीमान्
यतिराजस्य धीमतः॥प्रतस्थेभिमुखो देवः कृपया भक्तवत्सलः॥२३॥
स्वस्याभिमुखमायांत रंगेशं वीक्ष्य विस्मितः ॥ किमेतदिति संचिंत्य
समीपं प्राप्य रंगिणः ॥ २२ ॥ संसेव्य चरणौ तस्य यतींद्रो वाक्य-
मत्रवीत् ॥ रंगनाथ हरे विष्णो त्वदासस्य जगत्पते ॥ २३ ॥ ममा-
भिमुखमायातुं युष्माकं न हि सांप्रतम् ॥ यतिराजस्य तद्वाक्यं श्रुत्वा
रंगस्तमब्रवीत् ॥२४॥आगता मे यथा यूयं वयं तेऽभिमुखं तथा॥को
वात्रातिशयस्तावद्विद्यते यतिभूमिप ॥ २९ ॥ द्वयोर्विभूत्योः सर्वेपामा-
स्थितानां यतीश्वर ॥ जनानामभयं दत्त्वा योगक्षेमं वहन् वस ॥२६॥
एतावंतमहं कालं रक्षस्तानास्थितोऽभवम्।।संप्रत्यहं विश्रमितुमिच्छामि
शृणु मद्वचः ॥ २७॥ अधुना मदचः श्रुत्वा लोकान् रक्षस्व शीघ्रतः॥
समस्तानि च कार्याणि कुर्वत्रस्माकमादरात् ॥ २८॥ सर्वाञ् जना-
अच्छेपभूतान्कृत्वा तव यतीश्वर ॥ सुपोष्यास्मत्परिकर शेपीभूत्वा
महामते ॥ २९॥ जगद्गुरो पालयस्व ममाज्ञां तं यतीश्वर ॥ विभूतिद्व-
यमस्माकं त्वदधीनं स्थितं किल ॥३०॥ मत्सन्निधौ मदीयस्त्वं मां
पुष्यन्मत्परायणः ॥ इहैव वस योगीश मत्प्रियार्थ विचक्षण ॥ ३३ ॥
यथाशेमुपि योगींद्र तथा कुरु महामते॥ इत्युक्त्वा लक्ष्मणमुनि
रंगेशः कृपया हरिः ॥३२॥ अकरोयतिराजाय विभूतिद्वयनायकम् ॥
इति तस्मै नामधेयं मुदा श्रीरंगनायकः ॥३३॥ यतींद्रो रंगिणः
श्रुत्वा वचनं विस्मयान्वितः॥ विनयेन स्तुति कृत्वा रंगेशाय
महौजसे ॥३४॥अवदद्वदतां श्रेष्ठो वचनं मधुराक्षरम् ॥पूर्णार्य-
कृपया मेऽद्य वैभवोऽयं महानभूत् ॥ ३५ ॥ पूर्णाचार्यस्तु तच्छ्रुत्वा
यतिराजमथात्रवीत् ॥ वैकुंठलोकादागत्य शठकोपो महामुनिः ॥३६॥

(५४) प्रपन्नामृते- पुरा धरायां जननं कृत्वा करुणया तदभवबंधविनिर्मुक्तानकर्तुकामो जनानिमान् ॥ ३७ ॥ अशक्यमिति मत्वाथ तेषां संरक्षणं महत् ॥ त्रिकालज्ञो मुनिरिदं स्वप्रबंधे स चात्रवीत् ॥ ३८ ॥ क्षित्यामग्रे महान्कश्चित्पुरुपोऽत्र भविष्यति ॥स महात्मा सर्वजनान् रक्षिष्यति न संशयः ॥३९॥ कलिधर्मस्तदा पूर्णस्तेन नष्टो भविष्यति ॥ इम- मर्थ जना यूयं जानीत निश्चयं बुधाः॥४०॥ कारिपुत्रस्य वचसः तव संप्रति जन्मनः ।। तुल्यमासीदत्र चार्थे विचिकित्सा न विद्यते ॥४१॥ रंगराजस्ततस्तेय विभूतिद्वयमप्यदात् ॥ अत्रैव वासं योगीश कुरु रंगाज्ञया सुखम् ॥४२॥ अस्मॅिल्लोके वर्तमानाञ् जनान् सर्वान स्मापतेः ।। पादाब्जयोर्मधुलिहः कुर्वन् लक्ष्मणदेशिक ॥ ४३ ॥ अनेकान् वत्सरान् भूम्यां सुखं तिष्ट यतीश्वर ॥ महता वैभवेनात्र पालयन् परितो जनान् ॥४४॥ पूर्णाचार्य्यस्य वचनं निशम्यात्यं- तविस्मितः ॥ रंगेशाय पुनर्भक्त्या नत्वा रामानुजस्तदा ॥ ४५ ॥ कृतांजलिपटो भूत्वा श्लक्ष्णं वचनमब्रवीत् ॥ आज्ञा यथा त्वया दत्ता तथैव क्रियते मया ॥४६॥ आज्ञां विहातुं युष्माकं कथमहर्हाम्यह हरे ॥ मम त्वदासभूतस्य त्वदाज्ञापरिपालनम् ॥ ४७ ॥ विना किमन्यद्भगवन् कर्तव्यं कार्यमस्ति हि।। एवमुक्त्वा रंगराज यतिराजो रमापतिम् ॥४८॥अंतर्गृहं प्रविश्याशुकृत्वा तत्र प्रदक्षिणम् ॥शयानं शेपशय्यायामपश्यद्गशायिनम् ॥४९॥ विवस्वत्कोटिसंकाशं शरच्चं- द्रनिभाननम् ॥ नवीनरत्नखचितकवचेन विराजितम् ॥ ५० ॥ का- लांबुदनिभाकारं पीतांबरधरं हरिम् ॥ हर्षेणोत्फुल्लनयनः पुलकांकित- विग्रहः ॥५१॥ आनंदवाष्पनयनस्तस्य चापांदमस्तकम् ॥ यति- राजो महाभत्त्या ननाम बहुधा तदा ॥ १२॥ तत्तीर्थ शठकोपं च गृहीत्वा भक्तिपूर्वकम् ॥ मंडपे वैनतेयस्यनिपसाद यतीश्वरः॥५३॥ पूर्णाचार्यादयः सर्वे वैष्णवा वैष्णवोत्तमम् ॥ लक्ष्मणार्य महात्मानं परिवार्योपतस्थिरे ॥५४॥ आनयामास योगींद्रः स्वभटैः परिचा- अध्यायः १७. (५५) रकान् ॥ अर्चकान् पाचकांश्चैव प्रस्थानसमयोचितान॥ ५५ ॥वैष्ण- वान गणकान् वैश्यान शैलूपान रजकांस्तदा ॥ मालाकारान्वादकांश्च लेखकानधिकारिणः ॥५६॥ ये चान्ये रंगराजस्य सेवकाः परमा- त्मनः ॥ ते सर्वे लक्ष्मणाचार्यशासनात्तूर्णमागताः ॥ १७॥ तान दृष्ट्वा लक्ष्मणाचार्यः सर्वानेवं वचोऽत्रवीत् ॥ सेवाकालेपु सर्वेषु रंग- राजस्य भक्तितः॥५८॥ सावधानेन वर्तध्वं कैंकर्येष्वनिशं हरेः ॥ अवज्ञया न वर्तध्वं न कचिल्लीलयापि वा ॥५९॥ युष्माभिः साव- धानेन यथाशास्त्रं यथाविधि ॥ कर्त्तव्यान्यखिलान्यस्य कैंक-णि जगत्पतेः ॥६०॥ अन्यान् विधाय चतुरान्कैंकर्ये रंगभूपतेः ॥ परकालकृतं भक्त्या कैंकर्य यदनुत्तमम् ॥ ६१ ॥ द्रष्टुं प्रतस्थे स्वजनैस्तस्माद्रुडमंडपात् ॥ पूर्णाचार्य्यमुखाच्छुत्वा तत्केंकय्य विलोक्य च ॥६२॥ विस्मयाविष्टहृदयः संतुष्टो यतिभूपतिः॥ तत्रैव वासमकरोच्छ्रीरंगे रंगशासनात् ॥६॥ श्रीरंगेश्वरशासनाद्यति- पतिः कूरेश्वराख्यादिभिः शिष्यैः शास्त्रविदुत्तमैः श्रुतिवरैर्वेदांतयुग्माधि- कैः ॥ कालक्षेपपरायणो हरिपरः सर्वाञ् जनान्पूंर्णया पुष्णन सौम्य- दशा निवासमकरोत्तत्रैव रंगे महान् ॥ ६४ ॥ येये दृष्टिंपथं गता य- तिपतेनिर्व्याजसंरक्षतस्तेतेऽगाधमहाभवाब्धितरणं मन्नाथपादांबुजम् ॥ संप्राप्ताः सकलाघकोटिनिवहानुन्मूल्य तूर्ण जनाः सर्वे विष्णुरता ब- भूवुरमला निर्मुक्तमायान्वया॥६६॥ रंगेशात्करुणादहर्निशमसौ पूर्णा- यसलापनात् पौराणां प्रियपूर्वकात प्रतिदिनं सन्मानतः सादरात्।। दुः- खं हस्तिगिरीश्वरस्य महतो यद्विप्रयोगोत्थितं त्यक्त्वा लक्ष्मणदेशिकः सुखतरंतत्रैव वासं व्यधात् ॥६६॥ आख्यानमेतच्छुभदं शुभाढयं रंगेशदेवेशयतीश्वराणाम् । संवादभूतं च पठति संतस्ते यांति वैकुंठपदं हि सत्यम् ॥ ६७॥ इति श्रीप्रपन्नामृते रामानुजचरित्रे रामानुजस्य विभूतिद्वयाधिपत्यं नाम सप्तदशोऽध्यायः ॥ १७ ॥ ..

(५६) प्रपन्नामृते- अष्टादशोऽध्यायः। गोविंदरक्षणार्थाय यतिराजेन वैष्णवाः॥ श्रीशैलपूर्णमुद्दिश्य येतु संप्रेपिताः पुरा ॥ १॥ कृतकार्यास्ततस्ते तु रामानुजदिक्षया ॥आ- ययू रंगनगरं वैष्णवाः कृतसत्वराः ॥२॥ यतीश्वरः स तान् दृष्ट्वा वैष्णवान् कृतवंदनान् ॥ उवाच मधुरं वाक्यं तेपां हर्ष विधाय च ॥३॥ श्रीशैलपूर्णः कुशली वर्तते किं तु वैष्णवाः ॥ गोविन्दस्तस्य कृपया जुष्टः किं सत्पथे स्थितः ॥ ४॥ लक्ष्मणार्यस्य तद्वाक्यं श्रुत्वा ते वैष्णवास्तदा ॥ सर्व निवेदयामासुर्लक्ष्मणार्याय तत्त्वतः ॥५॥ ता- नाह लक्ष्मणाचार्यः कथमासीत्समागमः ॥ तस्य श्रीशैलपूर्णस्य गो विदस्य शिवात्मनः॥६॥अयमये किमवदत्सोपितं किमथाब्रवीत्।। मम कौतूहलं श्रोतुं विस्तराद्वदताधुना ॥७॥ निशम्य तद्वाक्यमतिप्रह- पास्ते वैष्णवास्तत्र यतीश्वराय ।। ऊचुस्तयोस्तां सकलां कथां च महा- त्मने लक्ष्मणदेशिकाय ||आज्ञापितास्त्वया ब्रह्मन् वयं लक्ष्मणदे- शिक | वेंकटाचलमारूढाश्चतुर्थदिवसे तदा ॥९॥ नत्वा रमापति नाथं श्रीनिवासं जगद्गुरुम् । नत्वाश्रीशैलपूर्णार्य त्वदुक्तार्थ महामते॥१०॥ तस्मै विज्ञापितं सम्यगस्माभिःश्रीघ्रगामिभिः ॥ तत्तदाकर्ण्य सुप्रीतः स सम्यग्वाचमत्रवीत् ॥ ११ ॥ मत्स्वस्त्रियस्तु गोविंदो धीमान शा- स्त्रविचक्षणः॥ यादवस्य सहायेन गंगास्नानपरोऽभवत् ॥१२॥ तस्य तेनाशुशैवत्वं गोविंदस्यतदोत्थितम्।।अहो दुर्जनसंसर्गः सतामपि विमो हकः॥१शाब्रह्मेशानादयो देवा मायया यस्य मोहिताः॥ किमुतान्ये न- रास्तस्मै विष्णवे महते नमः॥१४॥ब्राह्मणा अपि शास्त्रज्ञा न जानंति महर्पयः। ब्रह्मेशानादिकार नारायणमनामयम् ।। १५ । पुरैवाहमिदं कार्य कर्तुकामः समास्थितः ॥ रामानुजोपि संचख्याविति युष्मा- मिरीरितम् ॥ १६॥ तेनोदीरितमस्माकं सुतरां कार्यमेव हि ॥ इति हृष्टमनाः शीघ्रं शिष्यैः सह यतीश्वरः ॥ १७॥ श्रीशैलपूर्णः प्रय- अध्यायः १८. (५७) यावस्माभिर्वेकटाचलात् ।। कालहस्तिपुरं प्राप्य तस्योद्याने स वैष्ण- वः ॥ १८॥ तत्रत्यैः पुरुपैत्विा गोविंदगमनागमम् ॥ तं दिक्षु- स्तदा ब्रह्मन् गोविंदहितकारणात् ॥१९॥तडागतीरे शिष्येभ्यो ग्रंथानु- पदिशन स्थितः॥ मृगाहरणकामस्तु मृगार्थ मृगयुर्यथा ॥ २० ॥ तदा रुद्राभिषेकाथै घटमादाय भक्तितः ॥ ग्रहीतुकामस्तत्तोयं गोविं- दस्तत्र चागमत् ॥२॥ पठन् रुद्रपराञ् श्लोकान् गाथास्ता द्राविडी- स्तथा ॥ गृहीततोयस्तानस्मान्संपश्यन्मौनमास्थितः ॥ २२ ॥ स गोविंदो यतिश्रेष्ट यातुकामस्ततोऽभवत् ॥ श्रीशैलपूर्णस्तं प्राह गोविंदं वैष्णवोत्तमः ॥ २३॥ चूडारग्वधपुष्पस्य शिवस्य कृतमज्ज- नात् ॥ शीतलेन च तोयेन श्रमेण महता तव ।। २४ ॥ किं फलं भवति ब्रह्मस्तत्त्वं ब्रूहि तपोधन ॥ गोविंदस्तद्वचः श्रुत्वा तं च दृष्ट्वा क्षणं स्थितः ॥२५॥ पूर्ण दृष्ट्वा यति श्रेष्ठ न किंचिद्विस्मितो ययौ ॥ श्रीशैलपूर्णः स तदा गोविंदस्य विचेष्टितम् ॥ २६॥ विलोक्य पुन- रायातो ह्यस्माभिर्वेकटाचलम् ॥ ततः कतिषु यातेषु वासरेपु गुरू- त्तमः ॥ २७ ॥ स गोविंदहितार्थाय शिष्यैश्चास्माभिरादरात् ॥ कालहस्तिपुरं प्राप्य पूर्णः श्रीशैलपूर्वकः ॥२८॥ तीरे तस्य तडा- गस्य वटच्छायासमाश्रितः ॥ दयानिधिः पूर्वरीत्या तस्थौ तस्य दिह- सया ॥ २९ ॥ जलार्थ घटमादाय गोविंदस्तत्र चागतः ॥ ददर्श स तमायांत गोविंदं घटहस्तकम् ।। ३० ॥ भस्मोद्धूलितसांग त्रिपुंड्रां- कितमस्तकम् ॥ रुद्राक्षमालाभरणं कृतपंचाक्षरीजपम् ॥ ३१ ॥ मौनेन महता युक्तमकंप्यं गिरिसन्निभम् ॥ प्रशस्तं शिवभक्तानां वाणादीनां महत्तरम् ॥ ३२ ॥ शिवात्मकमिदं विश्वं भावयंतमह निशम् ॥ शिवादन्यत्परं नास्ति शिवः सत्यमहं शिवः ॥ ३३॥ इति भावनया नित्यं पुलकांकितविग्रहम् ॥ श्रीशैलपूर्णः स तदा तन्मनः शोधनाय च ॥ ३४॥ चितयित्वा पत्रिकायां कांश्चिञ्च द्राविडाग- मान् ॥ स्तोत्रराजे यामुनेन कृते पूर्व महात्मना ॥ ३९ ॥ स्वाभावि-

प्रपन्नामृते-
केति यः श्लोको विद्यते यतिशेखर॥ तं च श्लोकं विलिख्याशु गोविंदा
गमनेऽध्वनि ॥ ३६॥ निधाय सत्वरं धीमान् तूष्णीभूतो यतीश्वर ॥
दृष्ट्वा तां पतितां भूमौ गोविंदः पत्रिकांतदा॥३७॥स गृहीत्वा पठिलाशु
केनात्र पातिता भुविातत्रति तां वाचयित्वा घटेनादाय तज्जलम्॥३८॥
शिवालयं यातुकामः प्रत्यावृत्य विशो य च ॥ तां पत्रिकां समादाय
शनैरवनतस्तदा ॥३९॥ धृतोदकवटो ह्यस्मान्पश्यन्नथ यतीश्वर ॥
वाल्मीकेभगवतः पूर्व शोकं श्लोकत्वमागतम् ॥ ४० ॥ यथेति
तमसातीरे तद्वत्सोयमचिंतयत्।।ततोऽग्रे सहसा स्थित्वा गोविंदःसस्मि-
तस्तदा ॥४॥श्रीशैलपूर्णमाहेदं वचनं देशिकोत्तमम् ॥ येाः करस्था
भवतां गलिता वैष्णवोत्तमाः ॥१२॥त इमे इति तां तस्मै दर्शया-
मास पत्रिकाम् ॥ श्रीशैलपूर्णस्तच्छुत्वा स गोविंदमथात्रवीत् ॥४३॥
अन्येपामर्थजालानि गलितानि भवति हि ॥ अस्माकं त्वर्थजालानि
न स्कन्नानि कदाचन ॥४४॥ तच्छुत्वा तमुवाचेदं गोविंदो वैष्णवो-
त्तमम् ॥ अलं चातुर्यवचनस्तानि तिष्टंत्विदं शृणु ॥ ४५ ॥ बहवः
संति पंथानस्तान्विहाय महामते ॥ किमर्थमेकमार्गेस्मिन्वर्त्तते वैष्ण-
वाः सदा ॥ १६ ॥ एकस्मिन्नपि मागेंस्मिन्वर्त्तमाना वयं सदा॥
मार्गस्यास्य सुगम्यत्वादित्युवाच स तं तदा ॥ ४७॥ तस्य तद्वचनं
श्रुत्वा गोविंदा प्रत्यभापत ॥ संप्रेपणाय वंधूनां भवंतः किं समागताः
॥४८॥ तेनैवमुक्तस्तं प्राह पूर्णः श्रीशैलपूर्वकः ॥ ऋतुकामा वयं
धेनूगोंविंदाच समागताः ॥ १९॥तनिशम्य स गोविंदस्तं पूर्ण प्रत्य-
भापत ॥ अनुष्टातुर्गवां पादरजः कि पावनं न हि ॥५०॥ इत्युक्त-
वतं तं प्राह स पूर्णो यतिशेखर ॥ उचितस्थानलब्धं चेत्पावनं तद्भवे-
द्भुवम् ॥५१॥ पूर्णाचार्य्यवचः श्रुत्वा गोविंदः पुनरत्रवीत् ॥ऋजु-
वसि च वको वा को भेदो ऋजुवक्रयोः॥ १२ ॥ एवमुक्ते तु गोविदे
स पूर्णः पुनरत्रवीत् ॥विद्यमाने ऋजी के भेद एव किलानघ॥५३॥

. अध्यायः १८. (५९) अंगीकृत्य वचस्तस्य प्रत्यभापत स द्विजः॥ इदं वाग्बंधनं वाक्यं त्वया पूर्ण प्रभापितम् ॥५४॥ तस्य तद्वचनं श्रुत्वा भूयः पूर्णोत्रवी- द्वचः ॥ सद्वाक्यानामिदं शीलमिति गोविंद भावय ॥ १६ ॥ स तद्वाक्यं समाकर्ण्य गोविंदस्तमथाब्रवीत् ॥ तत्रात्यंतविचारः किमस्ति श्रीवैष्णवोत्तम ॥५६॥ गोविंदवचनं श्रुत्वा स पूर्णः पुनरत्रवीत् ॥ परत्वे तद्विचारोस्ति गोविंद विदुषां वर ॥ २७ ॥ श्रीशैलपूर्णवा- क्यानि यक्तियुक्तानि स द्विजः ॥ निरुत्तरः संशतस्थे निशम्य यति- पुंगव ॥ ५८॥ दृष्ट्वा श्रीशैलपूर्णोपि गोविंदाचार्यलक्षणम् ॥ प्रसा- दमगमच्चित्तमिति वाक्यमनुस्मरन् ॥ ५९॥ तं साध्यकोट्यां निः- क्षिप्य शिष्यैः सह यतीश्वर ।। प्रहर्पमाणः प्रययौ भूयः श्रीवेंकटाचलम् ॥६०॥ तद्वैष्णवानां वचनं श्रुत्वा रामानुजस्तदा ॥ अतिहर्प- समायुक्तो वैष्णवांश्च सभासदः ॥ ६१ ॥ शिष्यं दाशरथिं दृष्ट्वा कूरनाथं वचोप्रवीत् ॥ युष्माभिस्तत्कथाः सम्यक्छुताः किं वै- ष्णवोत्तमाः ॥ ६२ ॥ श्रीसूक्तिर्यामनार्य्यस्य सक्ता गोविंदमा- नसे ॥ दृष्ट्वा वैतांडिकच्छायां वाङ्मात्रेण महात्मना ॥ ६३ ॥ श्रीशैलपूर्णों वचसां चातुर्येण सदुत्तरम् ॥ कृपया तस्य वाक्यानां छायामात्रेण 'दत्तवान् ॥ ६ ॥ विदग्धत्वाच शास्त्रेषु गोविंदम्य महात्मनः ॥ विद्यावैदग्ध्यवाक्येषु तेन सक्तोभवत्तदा ॥६६॥ ययं मां तत्कथमिति यदि पृच्छथ वैष्णवाः ॥ शृणुध्वं तत्त्वतो वक्ष्ये सावधानेन तन्मनाः ॥ ६६ ॥ तेनैव मुक्तस्तं प्राह पूर्णः श्रीशैलपूर्वकः ॥ ऋतुकामा वयं धेनुगोविंदं त्वां समागताः ॥६७ ।। श्रुतिस्मृतिपुराणेपु सेतिहासेपु सर्वशः ॥ वीक्ष्य प्रमाणजा- लानि कश्चिन्मां वेत्ति तत्त्वतः ॥ ६८ ॥ क्षरः सर्वाणि भूतानि कूट- स्थोशर उच्यते ॥ ६९ ॥ ज्ञानं नराणामधिकं विशेष ज्ञानेन हीनः पशुभिःसमानः॥ येवा ललाटफलके लसदृर्ध्वपुंड्रास्ते वैष्णवा भुवन- माशु पवित्रयंति ॥७॥ ऊर्ध्वपुंडू द्विजातीनां शंखचक्रादिधारणम् ।।

(६०) प्रपन्नामृते- वेदमूलप्रमाणादि धर्मे सर्व प्रतिष्ठितम् ॥ ७१ ॥ अविद्यया मृत्यु तीवा विद्ययामृतमश्नुते ॥ ७२ ।। प्रणवो धनुः शरोह्यात्मा ब्रह्म तल्ल- क्ष्यमुच्यते ॥ अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ॥७३॥ सदेवे त्यादिवाक्यानि सत्यज्ञानादिकान्यपि ॥ एकमेवेति वाक्यानि बहुस्यां प्रभृतीनि च ॥७४ ॥ आपादितानि गोविंदे तत्रतत्र वुधर्षभाः॥ एतैः प्रमाणजालैश्च प्रतिपाद्यो जनार्दनः ॥७॥ नारायणो जगत्कर्ता 'कल्याणगुणसागरः ॥ अतो मुमुक्षुभिः कार्य सुतरां विष्णुपूजनम् ॥७६॥ शंखचक्रोद्धपुडादिधारणं च द्विजोत्तम ॥ इत्येवं मनसा सम्यग्विचार्य च पुनः पुनः॥७॥दोलायमानचित्तस्तु तद्वाक्येभ्यो निरुत्तरः॥शास्त्रज्ञत्वात्स गोविन्दस्तूष्णीं भूतोभवत्तदा ॥ ७८ ॥ स पूर्णोपि महाप्राज्ञस्तज्ज्ञात्वा तस्य मानसम् ॥ न्ययोजयत्साध्य कोट्यां तं तदा वैष्णवोत्तमः ॥७९॥ सभासदः सतानुत्का वैष्णवा- न्यतिपुंगवः ॥ तं पूर्ण श्लाघयित्वार्य वैष्णवांस्तानुवाच ह ॥८०॥. ततः किमासीत्तत्सर्वं ब्रूत विस्तरतो मम ॥ तच्छुत्वा यतिराजस्य वाक्यं वैष्णवसत्तमाः ॥ ८१॥ इदमूचुर्लक्ष्मणाऱ्या ब्रह्माणमृषयो यथा ॥ ८२॥ ययं स्पृशति पाणिभ्यां ययं पश्यति चक्षुपा ॥स्था- वराण्यपि मुच्यते किं पुनर्वाधवा जनाः॥८३॥ इत्युक्तरीत्याभवतः संबन्धन गतिर्भवेत् ॥ विभूतिद्वयनाथस्य स्थावराणामपि ध्रुवम् ॥ ॥ ८४ ॥ को विचारोस्ति गोविंदे यतीश्वर जगद्गुरो ॥ इत्युक्त्वा लक्ष्मणाचार्य वैष्णवास्ते महात्मनः ॥ ८५ ॥ अवशिष्टां कथां तस्मै प्रवक्तुमुपचक्रिरे॥८६॥ कूरेशादिसमस्तशिष्यनिकरैर्विद्वत्सभामंडले ह्यासीनः परमासने यतिपतिौंकैकशिक्षाकरः ॥ श्रोतुं तस्य कथा महाद्भुततरां चक्रे मनः सादरं, गोविंदस्य महात्मनः प्रियतमा तेभ्यो जनेभ्यो महान् ॥ ८७ ॥ इति श्रीप्रपन्नामृते रामानुजचरित्रे भूरिश्रीशैलपूर्णगोविन्दसंवादो नामाप्टादशोऽध्यायः ॥१८॥ .

अध्यायः १९. (६१) एकोनविंशोऽध्यायः। तेन संचोदितास्तत्र यतिराजेन वैष्णवाः ॥ कृतांजालपुटा वाक्यं ते तमूचुर्महौजसम् ॥ १॥ कक्षे तृतीये वक्ष्यामः कार्यसिद्धिं शृणुष्व च ॥ भूयः श्रीशैलपूर्णार्यों नत्वा श्रीवेंकटेश्वरम् ॥ २॥ अस्माभिः शिष्यसपैश्च कालहस्तिसमीपतः॥ गत्वा तव वने स्थित्वा सुवर्णमुख- रीतटे॥३॥'सहस्रगीतेाख्यानं शिष्येभ्यो बोधयन् स्थितः॥ पु- प्पाण्युपचितुं तत्र गोविंदश्च समागतः॥४॥ पाटलीवृक्षमारुह्य पुप्पा-. ण्युपचयन्त्स्थितः ॥ द्वितीयशतके तत्र श्रीपरांकुशसत्कृतौ ॥ ५॥ गतासु दशगाथासु महतीषु ततः परम् ॥ तृतीयगाथाव्याख्यानपर्यंत तत्र स द्विजः ॥६॥ पुष्पाण्युपचयंस्तस्थौ तच्छृण्वन्मौनमास्थितः॥ अर्थश्चतुर्थगाथायामेवंभूतः समास्थितः ॥७॥ स्वनाभिपंकजोत्पन्नसृ ष्टिकर्तृचतुर्मुखात् ॥ तस्मान्नारायणाद्देवात्कल्याणगुणसागरात् ॥८॥ सम्यगाराधनं पुष्पं चान्येपां कथमर्हति ॥ श्रुत्वा तमर्थ गोविंदः सं- पूर्णमिदमब्रवीत् ॥ ९॥ तस्यैवाराधनं पुण्यं किमन्येपां तु नाहति ॥ श्रीशैलपूर्णस्तवाक्यं निशम्य यतिपुंगव ॥१०॥ तमुवाच ततो धी- मान् गाविदं प्रति सत्वरम् ॥ तस्यैवार्हति गोविंद पूजापुष्पं च चक्रि णः ॥ ११ ॥ तं विना पूजनं पुष्पं चान्येपां नार्हति ध्रुवम् ॥ ततस्त्रि- वारं तं पूर्ण सम्यक् पप्रच्छ बुद्धिमान् ॥ १२ ॥ तस्यैवाईत्यदः पुष्पं किमन्येषां तु नार्हति ॥ स च श्रीशैलपूर्णार्यस्तमाचख्यौ यतीश्वर ॥१३॥ नास्तीति त्रिवारं च परेपामर्चने ध्रुवम् ॥ तदाकर्ण्य च ता- वीक्ष्य वैष्णवान्मुक्तसंशयः॥ १४ ॥ वृक्षस्थ एव गोविंदश्छिन्नां कृ- स्वाथ मालिकाम् ॥ दूरण पुष्पसंपूर्णा हित्वा तां पुष्पपेटिकाम् ॥१६॥ रुद्राक्षमालिकास्त्यक्त्वा भस्म वस्त्रेण मार्जयन् ॥ त्रिवारं नाहतीत्येवं स्वरेण महतावदत् ॥ १६॥ महापातकसंवृत्तः पर्वताग्रादगो भवि॥ तथा पपात वृक्षामात्सहसा मुक्तसंशयः॥१७॥ तदा गोविंदमायांतं (६२) प्रपन्नामृते- पूर्णः पूर्णमनोरथः ॥सहस्रगीतेबहुधा मानयन् विस्मितोभवत् ॥१८॥ गोविंदः सहसा तस्य पादयोरपतत्तदा ।।अज्ञश्चाचारहीनश्च विस्तीर्णे दुःखसागरे ।।१९॥ पतितोहं दयासिन्धोरक्ष मां शरणागतम् ।। इति निर्वेदमापन्नः स्वापराधमयात्रवीत् ॥२०॥ विभूतिद्वयनिर्वाही किरी- टधरमस्तकम्॥हित्वा विखस्तकेशाग्रमस्तके मोहितोभवम्।।२१॥विश्व कंठं विहायामं विपकंठे विमोहितः॥श्रीवक्षसं परित्यज्यनिःश्रीवक्षाः स माश्रितः ॥२२॥ विहाय पुंडरीकाक्षं विरूपाक्षे विमोहितः।। गिरिमुद्धृत्य हस्तेन महावीच गोकुलम् ॥२३॥ योरक्षत्तं विसृज्याहं कपालकरमा- श्रितः ॥ ब्रह्मादिस्थावरांतेपु स्थितं सर्वेश्वरं हरिम् ॥ २४ ॥ हित्वा नारायण देवं सृष्टिस्थित्यंतकारकमा श्मशानवासिरुद्राय कृतसम्यक- प्रदक्षिणः ॥२८॥ हेमांवरं परित्यज्य दिगंबरमुपाश्रितः ॥ देवरूपमिदं त्यत्का तुलसीवनमादरात ॥ २६ ॥ तिक्तकोशातकीवल्ली मया संवर्द्धिता वृथा ॥ वाक्यान्येतानि बहुशश्चोक्त्वा स द्विजपुंगवः ॥ ॥२७॥ नोत्थितः पादयोस्तस्य तूप्णीभूतो भवत्तदा ॥ तं च श्रीशै- लपूर्णार्यों दृष्ट्वास्मानिदमब्रवीत् ॥ २८ ॥ भविष्यत्सिद्धियोगस्य गोबिन्दस्याधुनाभवत् ।। महात्मनो यामुनस्य करुणा न वृथा भवेत् ॥ २९॥ पाणिभ्यां शिर उद्धृत्य तस्यांग प्रममार्ज च ॥ सांत्ववा- क्यैर्वहुविधैर्गोविन्दं लालयन्महुः ॥ ३० ॥ तं पिबन्निव चक्षुभ्यां पूर्णः श्रीशैलपूर्वकः ।। सुखसंल्लापकथनोविन्द लालयन्स्थितः ॥ ३१ ॥ एतस्मिन्नंतरे शैवास्तच्छिवालयपालकाः ॥ सम्यमिज्ञाय वृत्तांत कालहस्तिनिवासिनः॥३२॥आगत्य सहसा तत्र परिवार्य सम- ततः॥ विलोक्य विमुख स्वेषां तेषामभिमुखं च तम् ॥ ३३ ॥ दृष्ट्वा श्रीशैलपूर्णार्य वाक्यमूचुर्यतीश्वर ॥ अस्मदर्शननिर्वाह गोविन्दं यूय- मागताः॥३४ ॥ चूणविकीर्य भैपज्यौहयित्वा च मायया ॥ युक्तं खलु वशीकर्तु भवतां वैष्णवोत्तमाः॥३५॥ शैवानां वचनं श्रुत्वा पूर्ण- स्तान् वाक्यमब्रवीत्॥ युष्माभिरेव गोविंदः प्रष्टव्योयं शिवद्विजाः३६ अध्यायः १९. (६३) अस्माभिरौपधैः क्षिप्तः किमर्थमिति विग्रहः ॥ तथ्यमन्याहशं मार्ग यूयं जानीथ नो द्विजाः ॥ ३७ ॥ अन्यमार्ग न गच्छामः सन्मार्गे ह्यास्थिता वयम् ॥ ततः श्रीशैलपूर्णस्य वचः श्रुत्वा शिव- द्विजाः ॥३८॥ तं विहायाथ गोविंदं परिवार्येदमन्नुवन् । गोविंद शिवभक्तार्य पूजाकालोतिवर्तते ॥३९॥ कालहस्तीश्वरस्त्वद्य तव पूजो प्रतीक्षते ॥ किमर्थमत्र हे तात वर्तसे नाभिभापसे ॥४०॥ तद्धस्तमिति संगृह्य गच्छाम इति तेब्रुवन् । हस्तबंध विधूयाशु गोविंदो मुक्तसंशयः ॥४१॥ तानुवाच वचः श्रेष्ट सर्वेपां-शृण्वतां तदा ॥ पाणि ग्रहीतुं युष्माकमयुक्तं मे शिवद्विजाः॥४२॥ अस्मार्क चाय युष्माकं संबंधो नास्ति नास्ति हि ॥ वयमेव पुरा यूयं यूयमेव पुरा वयम् ॥ ४३ ॥ इदानीं विष्णुसंवंधायूयं यूयं वयं चयम् ॥ अंगुलीयाद्यशेपाणि स्वव्यादीनि कानि च ॥ ४४ ॥ तेभ्यो विसृज्य सहसा हस्ततालध्वनि व्यधात् ॥ शैवैः परमधर्मोयं शिव एवामृतप्रदः ॥ ४५ ॥ इति प्रलोभितोत्यंत स तेषां विमुखो- भवत् ॥ तेपामासाद्य चास्माकं कलहः सुमहानभूत् ॥ ४६॥ युष्म- त्कृतमिदं कार्य युष्मत्कृतमिदं त्विति ॥ तेपां दुरभिमानत्वाच्छैवानां यतिपुंगव ॥४७॥ तथापि विमुखस्तेषां स युष्मत्कृपया गुरो॥ शैवैर्निवारितः पूर्णस्तत्र वै स दृढव्रतः ॥४८॥ गोविंदसहितोधीमान तं वासरमवर्तत । तस्यां राज्यां व्यतीतायां कृतनित्यक्रियो महान् ॥ १९ ॥ श्रीशैलपूर्णस्तत्रैव निश्चलः सुखमास्थितः॥ ततो निरा- शास्ते शैवास्तं पूर्णमिदमब्रुवन् ॥५०॥ गोविंदानयनार्थाय यूयम- त्रागता इति । विदित्वा कलहायाथ सन्नद्धा ह्यास्थिता वयम् ॥५॥ कालहस्तीश्वरः स्वग्ने वाक्यमेवं जगाद तान् ॥ पापंडबौद्धचावा- कैस्त्रयीधर्मों विलोपितः॥५२॥ त्रिदंडधारिणा पूर्व विष्णुना रक्षिता त्रयी।। दत्तात्रेयस्वरूपेण लोके पापंडसंकुले ॥५३॥ विष्णोः पार- पदास्त्वय शेपशेपाशनादयः ॥ अवतीर्णाः क्षितावासन् दत्तात्रेया-

.
-
(६४)
प्रपन्नामृत-
दयो यथा ॥५४॥ शेपशेपारिशंखादिभागभूमि समागताः ॥रामा
नुजायंगोविंददाशरथ्यादिदेशिकाः ॥ ५५ ॥ गंगास्नानेच्छया पूर्व
गोविदस्तु यदागतः ॥ इदमस्मत्मियतया गोविंदकृतपूजनम् ॥५६॥
तदा ह्यपोह्य तदुद्धिं लिंगं तस्य करे कृतम् ॥ गंगांभसि मया पूर्व
गोविंदस्य महात्मनः ॥५७॥ तेन व्याजेन गोविंदो मां नित्यं
पूजयन्स्थितः ॥ अतो गोविंदभट्टाया नास्माकं वशवर्तिनः॥५८॥
स्वेच्छाविहारिणस्ते च न कर्मवशवर्तिनः ॥ तेनेदं भापितमिति
शंकरेणैव वैष्णवाः ॥ ५९॥ श्रीशलपूर्ण प्रत्युक्त्वा प्रतियाताः शिव-
द्विजाः ।। तस्मिन् क्षणे स पूर्णार्यो गोविंदं तं यतीश्वर ॥ ६० ॥
आदाय वेंकटगिरिं स्वजनैः प्रविवेश ह ॥ वपनं कारयित्वाशु गोविं-
दस्य यतीश्वर ॥ ६ ॥ अकरोत्पंचसंस्कारान्पूर्णः श्रीशैलपूर्वकः॥
विष्णुचित्तादियोगीद्वैः कृतां द्राविडसंहिताम् ॥ ६२॥ स तेनाध्या-
पयित्वाथ चतुष्टयसहस्रिकाम् ॥ अर्थपंचकविज्ञानं मंत्रार्थज्ञानमु-
त्तमम् ॥ ६३॥ संपूर्ण बोधयामास गोविंदाय यतीश्वर ॥ गोवि-
दोपि विनीतात्मा प्राप्तसर्वार्थसंचयः॥६४॥ अहं सर्व करिष्यामि
जाग्रतः स्वपतञ्च ते ॥ इति रामाय सौमित्रिः शुश्रूपामकरोद्यथा
॥६५॥तथा श्रीशलपूर्णार्यगुरवे विनयान्वितः । अधुना लक्ष्मणा-
चार्य शुश्रूपणपरायणः॥६६॥ नित्यानपायी शुश्रूपां कुर्वन्नास्ते
यतीश्वर ॥ श्रुत्वा गोविंदवृत्तांत सम्यक् तेभ्यः प्रहर्षितः ॥६७॥
यथाई पूजयामास वैष्णवांस्तान्यतीश्वरः । ततः सभासदः सर्वान्
वैष्णवान्यतिपुंगवः ॥ ६८ ॥ विसर्जयित्वा स्वमठं प्रविवेश महा-
यशाः॥इदं गोविंदचरितं यः शृणोतीह मानवः॥ मुकुंदे तस्य मुद्दढा
भवेद्भक्तिर्न संशयः ॥६९॥ संवादमेतत्सकलार्थसारं श्रीशैलपू-
र्णस्य महात्मनोथ । गोविंददेवस्य च ये पठति शृण्वंति ते विष्णु-
रता भवेयुः ॥ ७० ॥ इति श्रीप्रपन्नामृते रामानुजचरित्रे गोविंदार्यस्य
श्रीशैलपूर्णाश्रयणं नामैकोनविंशोऽध्यायः ॥ १९॥

अध्यायः २०. विंशोऽध्यायः। अथ श्रीलक्ष्मणाचार्यः पूर्णाचार्यगृहं प्रति ॥ गत्वा सम्यक् प्रणम्याह पादयोदेशिकस्य सः॥ १॥ यामुनादर्शजः शोको गलित- स्त्वत्पदाश्रयात् ॥ मम त्वदासभूतस्य विशेपार्थान् त्वयि स्थितान् ॥२॥ पूर्णार्य कृपया ब्रूहि गुरूत्तम दयानिधे ॥ तच्छ्रुत्वा वचनं तस्य महापूर्णः कृपानिधिः ॥३॥ अहो द्वयस्य माहात्म्यमहो वीर्य- महोवलम् ॥ मंत्ररत्नं शुभकरं वेदसारं सनातनम् ॥ ४॥ सर्वपा- पक्षयकरं सर्वपुण्यविवर्द्धनम् ॥ श्रीकर लोकवश्यं च सद्यः संसा- रतारणम् ॥६॥ मूखों वाधर्मशीलो वा निंदितो वाप्यनिंदितः ॥ द्वयो- च्चारणमात्रेण नरः पूज्यो विशेषतः॥६॥ मानसं वाचिकं पापं कायिक च विधा कृतम् ॥ द्वयस्मरणमात्रेण नाशं याति सुनिश्चितम् ॥७॥ नारी वा पुरुपो वापि गुरुवंदनपूर्वकम् ॥ द्वयेन प्राप्नुयायच्च तद्वि- प्णोः परमं पदम् ॥८॥ संसारार्णवमनानां सद्यः संसारतारणम् ॥ द्वयमेकं तु विरेंद्र नास्त्यस्य सदृशं भुवि ॥९॥ एवं द्वयं प्रशस्याथ यतिराजाय तत्त्वतः ॥ द्वयार्थ लोकरक्षार्थ कृपया चोपदिश्य च ॥१०॥ न्यासंतत्त्वं महाशास्त्रं शास्त्रं पुरुपनिर्णयम् ॥ गीतार्थसं- ग्रहं नाम ग्रंथं सिद्धिवयं तथा ॥ ११॥ व्याससूत्राणि सर्वाणि पंच- रात्रागमं महत् ॥ पूर्णार्यों लक्ष्मणाचार्य मत्वा सर्वोत्तमं तदा॥१२॥ स्वपुत्रं यतिराजाय पुंडरीकाक्षनामकम् ॥ शिष्यं कृत्वा ततः प्रीतो यतिराजं वचोत्रवीत् ॥ १३ ॥ गोष्टीपुरे यतिश्रेष्ट गोष्टीपूर्ण इति श्रुतः ॥ सर्वशास्त्रार्थतत्त्वज्ञो वर्तते वैष्णवोत्तमः॥ १४ ॥ महार्थाः कतिचित्तस्मिन् स्थापिता यामुनेन तै ॥ तत्र गत्वांजसा तस्मात्ताञ् शृणुप्व महात्मनः ॥ १५॥ पूर्णाचार्यवचः श्रुत्वा सुप्रीतो यति- पुंगवः ॥ गोष्टीपुरं तदासाद्य गोष्ठीपूर्णपदाब्जयोः ॥ १६॥ प्रणाम विधिवत्कृत्वा गोष्टीपूर्णमुवाच सः॥ मंत्रार्थमधुना मह्यं दत्वा रक्ष (६६). प्रपन्नामृते- कृपानिधे ॥ १७ ॥ यतिराजस्य तद्वाक्यं गोष्टीपूर्णां निशम्य सः॥ व्यवसायस्य वाहुल्यं ज्ञातुकामो महात्मनः ॥ १८॥ गौवं दर्श- यल्लोके मंत्रार्थस्य महामतिः॥ रामानुजमुवाचेदं गोष्टीपूर्णो यती- श्वरम् ॥ १९॥ मंत्रार्थस्याधुना लोके नाधिकारी च विद्यते ॥ कथं दास्यामि योगींद्र मंत्रार्थ तव सत्वरम् ।।२०।। एवमुक्त्वा तत- स्तस्य स पूर्णो विमुखः स्थितः ।। गोष्टीपूर्णस्य तद्वाक्यं निशम्य स विलोक्य तम् ॥ २१ ॥ अवाप रंगनिलयं सहसा यतिशेखरः॥ ततः श्रीरंगनगरे रंगराजमहोत्सवम् ॥ २२ ॥ गोष्टीपूर्णो द्रष्टुकामः श्रीरंगं सहसाभ्यगात् ॥ गोष्टीपूर्णे ततस्तस्मिन् गमनाभिमुखे तदा ॥२॥ स्वतीर्थशठकोपादीन् दापयित्वा प्रयत्नतः ॥ रंगराडर्चकमुखै- गोष्टीपूर्णमुवाच तम् ॥२४॥ गोष्टीपूर्ण गुरुश्रेष्ठ रहस्यार्थान्विशेषतः॥ मामकाय वद प्राज्ञ लक्ष्मणार्याय धीमते ॥२५॥ गोष्ठीपूर्णस्तदाक- ये रंगराजमभापत॥इदं ते नातपस्काय नाभक्ताय न मानिने॥२६॥ न चाशुश्रूपवे वाच्यं न च मां योभ्यसूयति ।। संवत्सरं तदई वा मा- सं मासाद्धमेव च ॥२७॥ परीक्ष्य विविधोपायैः कृपया निस्पृहो व- देत् ॥ युष्माभिरेव गदितं पूर्व श्रीरंगभूपते ॥२८॥रंगेशस्तनिशम्या- शु गोप्टीपूर्ण वचोब्रवीत् ॥ न तथायं शृणुष्वाय गोष्टीपूर्ण वदामि ते ॥२९॥ शरीरं वसु विज्ञानं वासः कर्म गुणानसून ।। गुर्वथै धारयेद्यस्तु स शिष्यो नेतरः स्मृतः ॥ ३० ॥ इत्यादिगुणयुक्ताय यतिराजाय धीमते । मंत्रराजोपदेशाय न्यूनता नास्ति सत्तम ॥३॥ रंगभर्तृवचः श्रुत्वा तदलंध्यं स वैष्णवः ॥ श्रीमते रंगराजाय विज्ञाप्य स तथोमि- ति ॥ ३२ ॥ तेनानुज्ञापितो धीमान तत्पादकृतवंदनः ॥आगच्छति यतिश्रेष्ट गोष्टीयो यतीश्वर ॥ ३३॥ गोष्टीपूर्णों ययौ धीमान् स्वगोष्टीनगरं प्रति ॥ ततः श्रीलक्ष्मणाचार्यों गत्वा गोष्ठीपुरं च सः ॥३४॥ गोष्ठीपूर्ण तदर्थाय प्रार्थयामास भक्तितः ॥ गौरवं दर्शयल्लो- अध्यायः २१. (६५) के मंत्रार्थस्य च देशिकः ॥ ३५ ॥ लक्ष्मणार्याय विमुखो गोष्टीपूर्णो- भवत्पुनः ॥ तबाटादशवारंतु गत्वागत्वा पुनः पुनः ॥३६॥ आ- यातो रंगनगरमेवं तूष्णी यतीश्वरः॥ततः कदाचित्तेनाशु गच्छ ग- च्छेति भापितः॥३७॥रामानुजो रुदन यातस्तत्सकाशात्स्वमाल- यम् ॥ स पूर्णो लक्ष्मणार्यस्य विलोक्याति ततः परम् ॥३८॥ प्रदा- तुमैच्छन्मंत्राथै यतींद्राय विचक्षणः ॥तत्रत्यो वैष्णवः कश्चित्सकाशा- द्रंगमागतः ॥ ३९ ॥ परितप्तं लक्ष्मणार्य मंत्रार्थाय दिवानिशम् ॥ विलोक्य पुनरागत्य स गोष्टीनगरं प्रति ॥४०॥ गोष्टीपूर्णाय तां सर्वा यतींद्राति न्यवेदयता। गोष्टीपूर्णस्ततस्तस्य मत्रै भक्तिं महात्मनः ॥ ११ ॥दृष्ट्वा पूर्ण पुनः श्रुत्वा पश्चात्तापसमाकुलः॥ प्राहिणोद्यतिरा- जाय शिष्यं कंचिजवेन सः॥४२॥ स शिष्यो रंगमागत्य यतींद्रप- दपंकजम् ॥ नत्वा तमूचे वचनं तेन संमानितस्तदा ॥४३॥ प्रेपि- तस्तेन पूर्णेन यतिराज तवांतिकम् ॥ त्वामानतुं यतिश्रेष्ट गोष्ठीपुर्या- स्समागतः॥४४॥मंत्रार्थमधुना तुभ्यं गोप्टीपूर्णः प्रदास्यति ॥ एक एव त्वमागच्छ सदंडः सपवित्रकः ॥४५॥ तस्य वाक्यं तदाकर्ण्य लक्ष्म- ‘णार्यों मुदान्वितः॥शिष्यद्ययुतः श्रीमान्गमनायोपचक्रमे ॥ ४६॥ वृत्तांतमेतत्सकलं हि तस्मै विज्ञाप्य भक्त्या यतिसार्वभौमः। आज्ञापि- तो येन स रंगभर्ना गोष्टीपुरं शिष्ययुतः प्रतस्थे ॥ १७ ॥ इति श्रीप्रपन्नामृते रामानुजचरित्रे मन्त्रोपदेशार्थ गोष्टीपुराभिगमनं नाम विशोऽध्यायः ॥२०॥ एकविंशोऽध्यायः। गोष्टीपुरमवाप्याथ गोष्टीपूर्णपदाब्जयोः॥ प्रणम्य शिरसा ताभ्यां शिष्याभ्यां विनयान्वितः ॥ १॥ हर्पण महता युक्तस्तस्थौ लक्ष्मण- देशिकः ॥ शिष्याभ्यां सहितं दृष्ट्वा गोष्टीपूर्णो यतीश्वरम् ॥२॥ उवाच वाक्यं सहसा तदा लक्ष्मणदेशिकम् ॥ मया यथोक्तं योगीश न तथा- (६८) प्रपन्नामृते- व त्वया कृतम् ॥३॥ तस्मादलभ्यो मंत्रार्थस्त्वया गोप्यो महानयम्॥ तच्छुत्वा लक्ष्मणाचार्यो गोप्टीपूर्णमुवाच सः ॥ ४॥ उपवीतत्रिंद- डाभ्यामागंतव्यं त्वयाधुना ॥ यथैव भापितं वाक्यं तथैव क्रियते मया॥५॥ दंडोपवीतस्थानीयौ तावेतौ मम वैष्णवो ॥ तस्य तद्वचनं श्रुत्वा गोष्ठीपूर्णो महामतिः॥६॥ अवोचल्लक्ष्मणाचार्यमिदं वचन- मर्थदम् ॥ को वोपवीतं भवतः कलिदंडो वदैतयोः॥७॥ विशेष ज्ञातुमिच्छामि शिष्ययोयोगिपुंगव ॥ गोष्ठीपूर्णस्य वचनं निशम्य यातिपुंगवः ॥ ८॥ गोष्ठीपूर्णमुवाचेदं तयोवृत्तांतकारणात् ॥ दर्शयित्वा ततः शिप्यौ गोष्टीपूर्णाय तावुभौ ॥९॥ यज्ञोपवीतं कूरेशो दण्डो । दाशरथिर्मम ॥ एवं जानीहि भगवंस्तस्मानान्योत्र विद्यते ॥१॥ प्रतिगृह्य वचस्तस्य गोष्टीपूर्णस्तमब्रवीत् ॥ एतयोरेव योगींद्र बेहि मंत्रं स्वशिष्ययोः ॥ ११॥ कदाचिदपि तं गोप्यं नान्येपां वक्तुमहसि। तथाप्येतौ परित्यज्य त्वमेवायाहि सत्वरम् ॥ १२॥ अधिकारस्त- वैवात्र मन्त्रार्थे यतिपुंगव ॥नान्येपामधिकारोस्ति मन्त्रार्थे मोक्षसाधने ॥ १३॥ लक्ष्मणार्थ तमादाय रहः प्रीतिपुरःसरम् ॥ अनेकशपां- स्तेन कारयित्वा महात्मना ॥ १४॥ गोष्ठीपूर्णः कृपापूर्णी लक्ष्मणा- र्याय निश्चलः ॥ प्रणवायं नमोमध्यं नारायणपदांतिमम् ॥१५॥ सन्यासंच समुद्रं च सर्पिछन्दोधिदैवतम् ॥साथै सजपं सध्यानमिम मंत्रमुदीरयेत् ॥ १६॥ मन्त्रमष्टाक्षरं दिव्यं सर्वसिद्धिकरं तदा ॥ मुमुक्षूणां सदा जप्यं भुक्ति मुक्तिफलप्रदम्।।१७॥वैष्णवानां सदा जयं भक्तिज्ञानप्रवर्द्धकम् । श्रीमदष्टाक्षरो मंत्रो नित्यं प्रियतमो हरेः॥१८॥ आसीनो वा शयानो वा तिष्ठन् वा यत्र कुत्रचित् ॥ जपेदष्टाक्षरं मंत्रं तस्य विष्णुःप्रसीदति॥१९॥ब्रह्मनो वा कृतम्रो वामहापापयुतोपि वा। अष्टाक्षरस्य जतारं दृष्ट्वा पापैविमुच्यते ॥२०॥ अष्टाक्षरस्य जतारो यथा भागवतोत्तमाः ॥ पुनति सकलं लोकं संदेवासुरमानुपम् ॥ २१ ॥ अष्टाक्षरस्य जप्तारं प्रणमेद्यस्तु भक्तितः ॥ सर्वपाप- अध्यायः २१. (६९) विनिर्मुक्तो विष्णुलोके महीयते ॥ २२ ।। अवेप्णवादरोमैत्रं यः पठे- द्वैष्णवं द्विजः ॥ कल्पकोटिसहस्राणि पच्यते नरकामिना ॥ २३ ॥ अचक्रधारिणं विप्र मंत्रमध्यापयेत्तु यः ॥ रोरवं नरकं प्राप्य चांडाली योनिमाप्नुयात् ॥२४॥ अचिंत्यमेतन्माहात्म्यं मनोरम्यं जगत्पतेः॥ न हि वक्तुं मया शक्यं ब्रह्मादिनिदशैरपि ॥ २५ ।। किमत्र बहुनोक्तेन सर्वसिद्धिपदं तृणाम् ॥ एवंविधं मंत्रराजमंत्रार्थ सम्यगेव च, ॥२६॥ उपदेशं चकाराशु यतिराजाय धीमते ।। सुमोद सुतरां तस्य सत्पात्र- विनियोगतः ॥२७॥ स तदा लब्धमंत्रार्थः कृतार्थों यतिपुंगवः ।। कृतसम्यक्प्रणामश्च तेनानुज्ञापितो ययौ ॥२८॥ गोष्ठीपुर्या तदा तस्यां नसिंहस्वामिनो हरेः॥ महोत्सर्व द्रष्टुकामानानादिग्भ्यः समा- गतान् ॥ २९ ॥ वैष्णवान्वीक्ष्य हृष्टात्मा लक्ष्मणार्यः कृपानिधिः॥ सन्निधौ तस्य देवस्य वैष्णवेभ्योजसा तदा ॥ ३० ॥ गोपुरादथ रान्यः वदनुच्चस्वरेण तम् ॥ चतुःसप्तति संख्याकाः श्रुत्वा तद्राह्म- णोत्तमाः ॥३१॥ कृपयायाक्षरं तेभ्यो प्रददौ मंत्रमुत्तमम् ॥ गोष्ठी- पूर्णस्तदाकर्ण्य तवत्यैः स्वजनैस्तदा ॥ ३२ ॥ आनयित्वा यतिश्रेष्ठं वचनं चेदमब्रवीत् ।। अतिगोप्यमिमं मंचं न कस्यापिं वदेति च ॥३३॥ एवं नियम्य योगोंद्र तत्पदानं मया कृतम् ॥ सर्व विधूय सहसा कथं भो साहसं कृतम् ॥ ३४॥ किं फलं भवति ब्रह्मन् गुरु- द्रोहकृतस्य ते ।। तस्य तद्वचनं श्रुत्वा यतींद्रस्तमथाब्रवीत् ॥ ३५ ॥ गुरुद्रोहकृतस्यास्य फलं नरकमेव हि ॥ तच्छुत्वा तमुवाचाथ गोष्ठी- पूर्णो यतीश्वरम् ॥ ३६॥ एवं ज्ञात्वा किमर्थ त्वं कृतवानसि किल्बि- पम् ॥ यतीश्वरस्तदाकर्ण्य गोष्ठीपूर्णमभापत ॥ ३७॥ पतिष्ये एक एवाहं नरके गुरुपातकात् ॥ सर्वे गच्छंतु भवतां कृपया परमं पदम् ॥ ३८॥ निशम्य यतिराजस्य वाक्यमद्भुतवत्तरम् । एवं संचिंतया- -माल ममायं नोत्थितो गुणः॥ ३९॥ अमानवं तदा मत्वा.लक्ष्म- .

(७०) प्रपन्नामृते- णार्य जगद्गुरुम् ॥ इहावतीर्ण वैकुंठाजगद्रक्षणकारणात् ॥ ४० ॥ स्वानिष्टं परवृद्धिं च को वा लोके करोति हि ॥ स रंगनायकोस्माकं त्वमेवाद्य यतीश्वर ॥ ४१ ॥ इत्युक्त्वा लक्ष्मणाचार्य गोष्टीपूर्णः प्रहष्टधीः ॥ मन्नाथ इति हात्तं नाम दत्वाथ सस्वजे ॥ ४२ ॥ तत्रत्यान् तान् स पूर्णायों वैष्णवानिदमब्रवीत् ॥ इमं वैष्णवसिद्धां- तमस्माभिस्त्वद्य वैष्णवाः ॥ ४३॥ रामानुजार्यसिद्धांतमिति सर्वत्र कीर्त्यताम् ॥ एतदारभ्य लोकेस्मिन् श्रीमद्वैष्णवदर्शनम् ॥१४॥ रामानुजार्यसिद्धांतमिति सत्यं भविष्यति॥ततः प्रभृति लोकेस्मिन्निदं वैष्णवदर्शनम् ॥ १५ ॥ रामानुजार्यसिद्धांतमिति सर्वेः प्रकाशि- तम् ॥ मन्नाथ इति चाहूय गोष्टीपूर्णों यतीश्वरम् ॥ ४६ ॥ हर्पण महता युक्तो रहसीदं वचोत्रवीत् ॥ पुरा रंगेश्वरः श्रीमान समाहूय यतीश्वर ॥ ४७ ॥जगाद वचनं प्रीत्या दृष्ट्वा कल्या- त्मकं जगत् ॥ कतिभ्यश्वरमश्लोकं जनेभ्यो मोक्षसाधनम् ॥ १८॥ त्वं ब्रूहि कृपया विद्वन्नधुना मम शासनात् ॥ तच्छुत्वाहं यतिश्रेष्ठ रंगे- शं तमथाबुवम् ॥४९॥अस्याधिकारी रंगेश कोपि नास्त्यधुना भुवि ।। ब्रवीम्यहं कथं गोप्यं चरमार्थ जनाय च ॥५०॥ न शास्त्रसंमतमिदं प्रदानं नास्तिकाय तत् ॥ निशम्य लक्ष्मणाचार्य मद्वाक्यं रंगभूपतिः ॥५१॥ तथ्यं मत्वा पुनः प्राह मामेवं जगदीश्वरः। अहं मृगित्वा मेदिन्यां पुरुषं बुधसंमतम् ॥५२॥ प्रयत्नेन च संपाद्य सहसा वै- ष्णवोत्तमम् ॥ त्वदंतिकंप्रेपयामि तस्मात्त्वं गच्छ सांप्रतम् ॥१३॥ स एव त्वं यतिश्रेष्ट तस्मात्तेद्य वीम्यहम् ॥ इदं गुह्यतमं मंत्रं ब्रूहिक- स्यापि न क्वचित् ॥ ५४॥ एवं वदंतं स्वाचार्य यतींद्रो वाक्यमब्रवी- त्॥आज्ञा त्वया यस्य दत्ता तस्यैवार्थोयमुच्यते ॥५६॥ शपे त्व- त्पादपद्माभ्यां नोल्लंघ्यं तव शासनम् ॥ यतिगजस्य तद्वाक्यं निशम्य गुरुपुंगवः ।। ५६॥प्रशस्य बहुधा वाक्यं गोठीपूर्णोभ्यभाषत ।। इदं ते नातपस्काय नाभक्ताय न मानिने ॥ १७ ॥ न चाशुश्रूपवे वाच्यं [ । अध्यायः २२. (७१) न च मां योभ्यसूयति ॥ संवत्सरं तद वा मासत्रयमथापि वा॥१८॥ परीक्ष्य विविधोपायैः कृपया निःस्पृहो वदेत् ॥ इत्येवमभिधायाथ रहा प्रीतिपुरः सरम् ।। ५९॥ अर्जुनाय यथा कृष्णश्वरमार्थ समादिशत् ।। तथैव लक्ष्मणार्याय गोटीपूर्णो महात्मने ॥६० ॥ ततः स्वपुत्रमाहूय सौम्यनारायणाभिधम् ॥ शिष्यं कृत्वा यतींद्रस्य भूयो वचनमब्रवीत ॥६५॥ स्वपुत्रे वररंगे तु यामुनेन विपश्चिता ।। सुनिक्षिप्तानरहस्यार्था- न्गृहाण यतिपुंगव ॥६२॥ कृतकृत्यः स पूर्णार्यों मुमुदे तत्प्रदानतः ॥ अनुज्ञातोथ गुरुणा यतिराजो महायशाः ॥ ६३ ॥ शिष्यसंघयुतः अमिान् गमनायोपचक्रमे ॥ यतिराजःस्वशिष्याभ्यागुरुपुत्रेण धीमता ॥६४॥ श्रीरंगनगरं प्राप्य स्वमठे सुखमास्थितः ॥६५॥ मंत्रद्वयं प्राप्य गुरोः प्रयत्नात्तत्राद्यमेकं स हि भूरिदानम् ॥ विधाय सर्व जग- दाशु विष्णोस्तच्छेपभूते च ररक्ष धीरः ॥६६॥रंगेश्वरं तं प्रणिपत्य भक्त्या विज्ञाप्य वृत्तं सकलं स तस्मै ।। मतं प्रविश्याशु तदीयसंधैः सुखेन तस्थौ यतिसार्वभौमः ॥६॥ इति श्रीप्रपन्नामृते रामानुजचरित्रे कथंचिद्गोष्टीपूर्णकृपया मंत्रराजभूरिप्रदानं नामैकविंशोऽध्यायः॥२१॥ द्वाविंशोऽध्यायः। ततः कूरेश्वरः श्रीमान्यतिराजांघ्रिपंकजम् ॥ प्रणम्यावनतो भूत्वा वचनं चेदमब्रवीत् ॥ १॥ दासभूताय मे देहि चरमार्थ दया- निधे ॥ तच्छ्रुत्वा यतिराजस्तमेवमाह वचस्तदा ॥२॥ गोष्टी- पूर्णेन गुरुणा भापितं यच्छृणुष्व तत् ॥ शुश्रूपां वत्सरं यो वा करोति श्रद्धयान्वितः ॥३॥ योत्यंतभक्तितो धीमाञ्शमादिगुणसं- युतः ॥ तस्मै शिष्याय वक्तव्यः श्लोकोयं सार्थकस्त्वया ॥४॥ गुरोर्वचनमाकर्ण्य कूरनाथस्ततोत्रवीत् ॥ शरीरमस्थिरं ज्ञात्वा सहिष्ये वत्सरं कथम् ।। कूरनाथवचः श्रुत्वा यतींद्रस्तमथाब्रवीत् ॥९॥ मासोपवासं कृतवान् यद्याचार्यगृहोत्तमे।। सतत्फलमवाप्नोति शास्त्र- (७२) प्रपन्नामृते- दृष्टमिदं ध्रुवम् ॥६॥ धन्योस्मीति वदन भक्त्या प्रतिगृह्य गुरोर्वचः ॥ मासोपवासं कूरेशः कृत्वा लक्ष्मणदेशिकात् ॥ ७॥ जग्राह चरमश्लोकं तत्तात्पर्य च तत्त्वतः॥ अथ दाशरथि/मान्प्रणम्य यतिपुंगवम् ॥८॥ ममापि चरमश्लोकं प्रदेहीति तमत्रवीत् ॥ निशम्य तद्वचः प्राह स ते दाशरार्थ गुरुः ॥९॥ कूरेशस्यैव वक्ष्यामि चरमार्थ न कस्यचित् ॥ गुरवेभिहितं पूर्व मयैवं विवुधर्पभ ॥ १० ॥ त्वं तमेवानुवर्तस्व तत्र गत्वा गुरूत्तमम् । स्वगुरोर्वचनं श्रुत्वा धीमान् दाशरथिस्तदा ॥११॥ गोष्टीपूरं समासाद्य गोष्टीपूर्णपदांबुजम ॥ प्रणम्य बहुधा भत्त्या तदर्थ प्रार्थयन् स्थितः ॥ १२ ॥ स तस्य विमुखः पूर्णस्तदा दाशर- थेरभूत् ॥ सोपि दाशरथिस्तं च पण्मासाननुवर्तयन् ॥ १३॥ ततः प्रसन्नः पूर्णार्यस्तं तथा वाक्यमब्रवीत् ॥ सम्बन्धेन भवानद्य द्योतते यतिभूपतेः ॥ १४॥को भवान्सत्त्वसंपन्नः किमर्थ चागतोधुना ।। गोष्टीपूर्णस्य वचनं श्रुत्वा दाशरथिस्तदा ॥ १५॥ बद्धांजलिपुटो भूत्वा गोष्टीपूर्णमुवाच सः ॥ दासोहं लक्ष्मणार्यस्य नाम्ना दाशरथि- गुरो ॥ १६॥ रहस्यचरमार्थाय तेनैव प्रेपितोस्म्यहम् ।। ममोपदिश्य मन्त्रार्थ रक्ष मां करुणानिधे ॥ १७ ॥ स तदाकर्ण्य तं प्राह गोष्टीपों द्विजोत्तमम् ॥ विद्यामदो धनमदस्तृतीयोभिजनो मदः ॥ १८ ॥. एते मदावलिप्तानामेत एव सतां दमाएतैर्मदैवियुक्तो यस्तमेव शरणं व्रज ॥१९॥ स एव चरमार्थ हि तुभ्यं दास्यति देशिकः।।इत्यनुज्ञापितस्तेन तदा दाशरथिर्जवात् ॥ २०॥ श्रीरंगनगरं प्राप्य शमादिगुणसंयुतम्।। प्रणम्य लक्ष्मणाचार्य सर्ववृत्तांतमादितः॥२१॥ तस्मै निवेद्य पुरतः प्रांजल्यवनतः स्थितः॥ एतस्मिन्नंतरे साध्वी महापूर्णस्य पुत्रिका ॥ २२॥ अत्तुलायीति विख्याता महाशोकसमाकुला ॥ श्वश्रोहा- समागत्य जगाद पितरं प्रति ॥ २३ ॥ शृणु तात प्रवक्ष्यामि माती श्वश्रुमंदिरे । एकयैव मया रानावानेतव्यंवदाजलम् ॥२४॥सहायार्थं मयाहूता श्वश्रृमीमेवमत्रवीत् ।। किं वा दासी तवानार्य स्खया यातुं हृदं अध्यायः २२. प्रति ॥२५॥ दासी कृत्वा प्रयच्छाशु तदर्थ जनकाधुना ॥ तयैवमुक्तः पूर्णार्यः पुत्रिकां वाक्यमब्रवीत् ॥ २६॥ त्वं जानासि वदस्वेति भ्राने स्वस्था मठे शुभेः ॥ तमेव प्रतिगच्छाशु स ते शोकविनाशनः ॥२७॥ सा तथोक्ता स्वपित्रा च यतिराजमुपागता ।। सबै निवे- दयामास स्वदुःखं वालिकांजसा ॥ २८ ॥ गुरुपुत्रीवचः श्रुत्वा यतिराजो विचक्षणः॥ याचंतं चरमार्थ च दृष्ट्वा दाशरथिं तदा॥२९॥ वैष्णवानां सभामध्ये तमुवाच यतीश्वरः ॥ शृणु दाशरथे वाक्यं वक्ष्यामि हितकाम्यया ॥३०॥ गत्वा त्वमनया साई योपितोस्या गृहं प्रति ॥ यान्युक्तानि च कार्याणि तत्र तानि कुरुष्व ह ॥३॥ तस्याज्ञां शिरसा धृत्वा धीमान दाशरथिस्तदा ॥ तथा गत्वा स तत्सर्व कुर्वस्तत्र समास्थितः ॥ ३२ ॥ कदाचिद्वैष्णवः कश्चित्त- ऋत्यो द्विजपुंगवः ॥ शास्त्रार्थ संपरित्यज्य तत्रान्यं चार्थमब्रवीत ॥३३॥ श्रुत्वा दाशरथिस्तत्र तद्वाक्यं तमथाब्रवीत् ॥ त्वयोक्तोर्थः समीचीनो न पदस्य महामते ॥ ३४॥ अर्थोन्यो विद्यते विद्ध- न्संप्रदायागतोमहान् ॥ तच्छुत्वा कुपितः प्राह सोपि दाशरथिं तदा ॥३५॥ किमन्येन विचारेण जलार्थ गच्छ पाचक ॥ व गोमा- युर्देवलोकः क्व शास्त्रं क च पाचकः॥३६॥ स तेनोक्तः पुनस्तस्मै प्रोवाच द्विजसत्तमः ॥ पूर्वोत्तरानुरोधेन तद्वाक्यार्थमुदीरयन् ॥३७॥ स वैष्णवः सात्तुलायी सर्वे ते वैष्णवोत्तमाः ॥ तच्छ्रुत्वा भयवि- यस्ता वाक्यमूचुरिदं तदा ॥ ३८ ॥ अभूत्कथं दासवृत्तिस्तव सर्वार्थ- वेदिनः ॥ तैरुक्तास्तानुवाचाथ धीमान दाशरथिर्द्विजान् ॥३९॥ अनुज्ञया नियुक्तोहं गुरोर्मे यतिभूपतेः ॥ अस्मिन्कर्मणि. विजेंद्रा भवतां भवनोत्तमे ॥ ४० ॥ तेनैवमुक्तास्ते सर्वे ह्यावालवनिता- दयः।। तं पूजयित्वा बहुधा वस्त्रैर्माल्यैश्च भूपणेः॥४१॥ ऊचुर्दा- शरथिं वाक्यं स्वापराधक्षयच्छवः ॥ त्वं दास इति चाज्ञानादस्माभिर्य- (७४) प्रपन्नामृते- त्कृतं द्विज ॥४२॥ये तु त्वय्यपराधाश्च क्षम्यतां ते कृता द्विज ॥ कृपां निक्षिप्य चास्मासु स्वस्थाने गम्यतां त्वया ॥४३॥ तैरेवमु- तस्तानाह धीमान् दाशरथिस्तदा ॥ यस्याज्ञया नियुक्तोहमस्मिन्क- मणि वैष्णवाः ॥४४॥ वदत कनु गच्छामि विना तस्याज्ञया द्विजाः तेनैवमुक्तास्ते तूर्ण यतिराजपदांतिकम् ॥ ४५ ॥ प्राप्य विज्ञापन चकुस्तत्सर्व विशदं तदा ॥ ततस्तमानयामास शिष्येण यतिपुं- गवः॥४६॥ तेनाहूतो यतींद्रेण धीमान् दाशरथिस्तदा ॥ लक्ष्म- णार्यमुपागम्य विनीतः प्रांजलिस्थितः ॥४७॥ तमवेक्ष्य महात्मानं विनिर्मुक्तमदत्रयम् ॥ सहसा चरमश्लोकं तस्मै शिष्याय सादरम् ॥ ४८ ॥ कृतवैष्णवदास्याय लक्ष्मणार्यों दयानिधिः ॥ उपदिश्य ययौ वेगावररंगगृहं प्रति ॥४९॥ यतः श्रीवैष्णवगृहे दास्यं दाशर- थिय॑धात् ॥ तेन वैष्णवदासाख्या तस्याभूत्प्रथिता भुवि ॥५०॥ मासोपवासेन च कूरनाथो दास्येन वै वैष्णवदासनामा ॥गी- तार्थसारं चरमं विदित्वा मोदं गतौ तौ सुतरां कृतार्थों ॥ ५१ ॥ वररंगांतिकं गत्वा वररंगान्महात्मनः ॥ द्राविडामायसर्वस्वं गृहीत्वा यतिपुंगवः ॥ ५२ ॥ दाशरथ्यादिशिष्येभ्यस्तत्सर्वमुपदिश्य च ॥ स्वमठे कतिचिन्मासानुवास स महायशाः ॥५३॥ श्रीयामनाचा- यसुतात्समस्तां स द्राविडीयां सकलार्थसाराम् ॥ संग्राप्य तस्याः स चकार बुद्धिमर्थाधिकारे मतिमान्महात्मा ॥५४॥ इति श्रीप्रपन्ना- मृते रामानुजचरित्रे दाशरथिकूरेशाभ्यां चरमश्लोकोपदेशो नाम द्वाविंशोऽध्यायः ॥२२॥ त्रयोविंशोऽध्यायः। ततः कदाचिच्छ्रीरंगे गोप्टीपूर्णः समागतः ॥ मालाधरं समादाय यतींद्रमठमाविशत् ॥ १ ॥ नत्वा यतींद्रस्तं पूर्ण तस्थौ प्रांज- लिरग्रतः ॥ स च रामानुजं वीक्ष्य पूर्णों वाक्यमभापत ॥२॥ १

अध्यायः २३.
(७५).
मालाधरस्य निकटे शृणु लक्ष्मणदेशिक ॥ सहस्रगीतेाख्या-
नमिति गोष्टीपुरं ययौ ॥ ३॥ ततो मालाधरस्याग्रे मनाथों
विनयान्वितः॥ सहस्रगीतेर्व्याख्यानं शृण्वंस्तत्र समास्थितः ॥४॥
यामुनोतप्रकारेण मालाधरगुरूत्तमः ॥ यतिराजाय गाथानां तत्रार्थ-
मुपदिश्य च ॥५॥ अर्थातरेण गाथायाः कस्याश्चिद्वैष्णवोत्तमः ॥
उक्तवानश्रुतत्वेन शिष्यायार्थ विचक्षणः ॥ ६॥ तच्छुत्वा लक्ष्मणा-
चार्यों मालाधरमथाब्रवीत् ॥ न चैवमर्थों गाथायास्तस्याश्चान्योस्ति
देशिक ॥७॥ यतींद्रेणैवमुक्तस्तु मालाधरगुरुस्तदा ॥ विसृज्याशु
व तस्योक्तिं दृष्ट्वा लक्ष्मणदेशिकम् ॥ ८ ॥ इदं पुनः शिष्टवचो
ममागे नोपपद्यते । एवमुक्त्वा ततः कोपात्प्रपेदे स्वनिकेतनम् ॥ ९ ॥
गोष्ठीपूर्णस्ततः श्रुत्वा तवृत्तान्तं जवात्तदा ॥ श्रीरंगनगरं प्राप्य
मालाधरमथाब्रवीत् ॥ १०॥ शठारिसूक्तेयाख्यान मालाधर महा-
मते ॥ कच्चिन्नोपदिशस्तस्मै यतीदायाध वर्तसे ॥ १३॥ गोष्ठीपूर्ण-
वचः श्रुत्वा स तं मालाधरोब्रवीत् ॥ यथाश्रुतं यामुनार्यात्तथार्थमह-
भूचिवान् ॥ १२॥ न तथेति यतींद्रेण भापितं विदुपांवर ॥ माला-
घरवचः श्रुत्वा गोष्टीपूर्णस्तमब्रवीत् ॥ १३॥ सांदीपनेर्यथा कृष्णो
विद्यां जग्राह सादरम् ॥ तथाभ्यस्यति योगींद्रस्त्वत्तो मालाधरा-
धुना ॥ १४॥दि योर्थस्थितस्तस्य यामुनस्य महात्मनः ॥ अधु-
ना लक्ष्मणार्यस्य स एवार्थः प्रकाशते ॥ १९॥ अज्ञातज्ञापनं तस्य ।
करोमीति न चिंतय ॥ हृदयं यामुनार्यस्य हृदयं यतिभूपतेः ॥१६॥
एकमेव च तस्मात्त्वं विद्या बहि महात्मने । अयं रामानुजः श्रीमान
सामान्यजनः परः ॥ १७ ॥ तथेति प्रतिगृह्याशु तदाक्यं तस्य
वैष्णवः॥ मालाधरो यतीद्राय तत्पुनर्वक्तुमुद्यतः॥ १८॥ गोष्टी-
पूर्णस्ततो धीमान मालाधरगुरुं तदा ॥ तं च पूर्णार्यमादाय यतीश्वर-
मठं ययौ ॥ १९ ॥ तान् दृष्ट्वा लक्ष्मणाचार्यः संप्रणम्य कृता-
जलिः ॥ यथाह पूजयामास दोशकान भक्तिसंयुतः ॥ २० ॥

(७६) प्रपन्नामृते- विलोक्य लक्ष्मणाचार्य गोष्टीपूर्णोभ्यभापत ॥ सहस्रगीतारव्यानं मालाधरगुरूत्तमात् ॥ २१ ॥ शृणु भूयोवशिष्टं तज्जनरक्षणहेतुना ।। गोष्ठीपूर्णवचः श्रुत्वा यतिराजस्तथाकरोत् ॥ २२ ॥ मालाधरश्च तत्त- स्मै ददन्त्सम्यक् समास्थितः ॥ अर्थप्रसंगे तत्सूक्तयां कस्मिंश्चिद्भा- पितं वचः ॥ २३ ॥ श्रुत्वा मालाधरं वाक्यमवोचद्यतिपुंगवः ॥ अवार्थ यामुनाचार्यों नैवं वदति देशिक ॥२४॥ तेनैवमुक्तस्तं प्राह मालाधरगुरुस्तदा ॥ त्वया न दृष्टो दृष्टया वा कदाचिदपि यामुनः ॥२५॥ एवं तन्मानसं ज्ञात्वा वक्तुं कोहेतुरुच्यताम् ॥ मालाधरवचः श्रुत्वा यतींद्रिस्तमथात्रवीत् ॥ २६॥ यामुनस्यैकलव्योहं द्रोणार्य- स्य यथा गुरोः ॥ निशम्य तद्वचस्तस्य मालाधरगुरुस्तदा ॥२७॥ गोष्टीपूर्णोक्तवचनं तत्सत्यमिति हृष्टधीः ॥ अवतारं हरेर्मत्वा तदा लक्ष्मणदेशिकम् ॥ २८॥ यामुनादश्रुताश्चार्थाः श्रुतास्त्वत्तोधुना मया ॥ इत्युक्त्वा तं परिक्रम्य प्रणम्य मुदितोभवत् ॥ २९ ॥ कृत्वा समाप्तिं ग्रंथस्य तस्य लक्ष्मणदेशिकः॥ गुरुं मालाधरं भक्त्या संपूज्य मुदितोभवत् ॥३०॥ ततो मालाधरो धीमान यतींद्रस्य महात्मनः ।। पुर्व सुंदरवाहारव्यं शिप्यं कृत्वा जगाद तम् ॥ ३१ ॥ वररंगे विशे- पार्थः कश्चिदस्ति यतीश्वर ॥ शृणुष्व तं महापान वररंगान्महात्म- नः ॥ ३२ ॥ तेनैवमुक्तो योगींद्रो गुरुणा लोकरक्षकः ॥ तदर्थप्राप्तये धीमान वररंगाय भक्तितः ॥ ३३ ॥ क्षीरं क्षपायां पण्मासानश्रांत चाददन्सुदा ॥ धनुर्मासोत्सवे तस्य विष्णोः श्रीरंगशायिनः ॥३४॥ कृतनाट्यश्रमांगाय वररंगाय भाक्तितः ॥ हरिद्रालेपनं कृत्वा स्वयमे- व यतीश्वरः ॥ ३५॥ कालेकालेनुरूपेण शरीरोद्वर्तनादिभिः ॥ शुश्रूपामकरोत्तस्मै भक्त्या लक्ष्मणदेशिकः ॥३६॥ वररंगः स तं दृष्ट्वा संतुष्टो यतिपुंगवम् ॥ अवोचत्प्रहसन् वाक्यं यामुनाचार्य्यनंदनः ॥ ३७ ॥ गृहीतुं मम सर्वस्वं त्वमित्थं कृतवानसि ॥ शृण वक्ष्यामि

अध्यायः २३.
(७७)
चरमं पुरुषार्थ यतश्विर ॥ ३८॥ देवमन्यमजानानः शठकोपगुरुं वि-
ना॥ यथातिष्ठधतिश्रेष्ठ पुरा स मधुरः कविः ॥ ३९ ॥ तथा त्वमधु-
ना तिष्ट लक्ष्मणार्य यतीश्वर ॥ गुरुरेव परं ब्रह्म गुरुरेव परं धनम्
॥ ४० ॥ गुरुरेव परः कामो गुरुरेव परायणम् ॥ गुरुरेव परा वि-
द्या गुरुरेव परा गतिः ॥४१॥ यस्मात्तदुपदेष्टासौ तस्माद्गुरुतरो गुरुः
॥ आचार्यस्तु हरिः साक्षान्नररूपी न संशयः॥४२॥ न मर्त्यबुद्धया-
सूयेत सर्वदेवमयो गुरुः ॥ इत्युक्तेन प्रकारेण हृदि लक्ष्मणदेशिक
॥४३ ।। उपायश्चाप्युपेयश्च गुरुरेवेति भावय ॥ इति तस्मै यतींद्रा-
य पंचमोपायमुक्तवान् ॥४४॥ अनपत्यतया तस्य वररंगस्य भक्ति-
तः॥ अनुजं शोहनम्व्याख्यं लक्ष्मणार्याय सत्वरम् ॥ ४५ ॥ शिष्य
कृत्वा महाप्राज्ञः कृतकृत्यो बभूव सः ॥ लब्ध्वा यतींद्वः सकलां
गुरुभ्यो विद्यां च लोकस्य हिते प्रवृत्तः॥ श्रीरंगपुय्यो सह शिष्य-
संधै रेजे मुदा विष्णुरिवामरेंद्रैः ॥ ४६॥ राजा स्वपुत्रस्य कृते यथा
निधि निक्षिप्तवान्मंत्रिषु सत्सु संमतः ॥ तथा यतींद्रस्य हिताय
यामुनः शिष्येषु पंचस्वखिलार्थसंपदम् ॥४७॥ अथो यतीदाय
महात्मने तदा पूर्यमालाधरदेशिकादयः ॥ दत्त्वाखिलार्थान्स्वय-
मेष शीमतः शिष्यान्सुपुत्रान्निदधुः प्रष्टाः ॥४८॥ तच्छीपसंद-
धवलाच देशिकाः पूर्वे स्थिता मुक्तिमवापुरंजसा ॥ तदंघिसंबंधव-
लादिह स्थिताः स्वरूपसिद्धि परमां गता जनाः॥४९॥ विना च
संबंधबलेन तस्य जगद्गुरोर्लक्ष्मणदेशिकस्य ॥ तदुर्गमं विष्णुप्पदं
जनानां पूर्वस्थितानामधुना स्थितानाम् ॥ ५० ॥ यथा मणिर्मोक्ति-
कहारमध्ये विराजयस्तं परितस्तथैव ॥ महात्मनां देशिकपुंगवानां
मध्ये विरजे यतिसार्वभौमः ॥५१॥ ॥ इति श्रीप्रपन्नामृते रामा-
नुजचरित्रे रामानुजार्यासार्थोपदेशो नाम त्रयोविंशोऽध्यायः ॥२३॥

(७८) प्रपन्नामृते- चतुर्विंशोऽध्यायः। अथ श्रीलक्ष्मणाचाय्यों धीमान् लोकहिताय सः ॥ गद्यवयं नदा कृत्वा विष्णोराराधनक्रमम् ॥ १॥ श्रीमन्नारायणो देवः पर- मात्मा सनातनः॥ परब्रह्म स एवेति लोकेभ्यः प्रतिपादयन् ॥२॥ वैष्णवं दर्शनं लोके वर्द्धयन्वैष्णवोत्तमः ॥ कालेकालेकैनित्यं कैक- > रंगभूपतेः ॥३॥ कारयन्वेष्णवान् सर्वान्कुर्वन् रंगे सुखं स्थि- तः॥ यतींद्रशासनं तेपामर्चकानां तु रंगिणः ॥४॥ नित्यं च द्रव्यह- तृणां बंधनं समजायत ॥ अर्चकानां तदा तेपां प्रधानः पुरुषाधमः ॥५॥ हिसितुं लक्ष्मणाचार्य सूयुक्तः कश्चिदर्चकः ॥ वित्तेन स्ववशं कृत्वा द्विजं कंचिद्धनातुरम् ॥६॥ विपानं लक्ष्मणार्याय दीयता- मिति सोत्रवीत् ॥ सोगीकृत्य वचस्तस्य भार्यामाहूय चाब्रवीत् ॥७॥ विपान्नं लक्ष्मणार्याय प्रदेयं हि त्वयाधुना ॥ सा साध्वी तद्वचः श्रुत्वा मतिं तत्र न चाकरोत् ॥८॥निर्भय॑माना सा भी विपान्नं भर्तृसन्निधौ ॥ दत्वा साध्वी यतीन्द्राय कृत्वा पादाभिवंद- नम् ॥ ९॥ लिलेख.नखधाराभिर्यतीन्द्रपदपंकजे ॥ इंगितज्ञो मनो ज्ञात्वा दृष्ट्वाश्रुनयनां स्त्रियम् ॥ १० ॥ शुने तदन्नमदिशत्सोपि ज- ग्ध्वा क्षयं गतः॥ मृतं श्वानं तदा दृष्ट्वा हित्वा भिक्षाशनं सुधीः ॥ ११॥ रामानुजस्तदा तस्थौ पीत्वा चीनुदकांजलीन् ॥ गोप्टी- पूर्णस्ततस्तस्य वृत्तांत यतिभूपतेः॥ १२॥ श्रुत्वा रंगं प्रति ययौ कृपया शिष्यवत्सलः॥ तच्छ्रुत्वा लक्ष्मणाचार्यः स्वाचार्यागमनं तदा ॥१३॥ रंगदक्षिणकावे- स्वशिष्यजनसंवृतः॥अभिचक्राम सहसा गोष्टीपूर्ण यतीश्वरः ॥ १४॥ धर्मकाले चमध्याह्ने कावेयास्तप्तसैक- ते॥ प्रणामं दण्डवत्तस्य पादयोः सहसाकरोत् ॥ १५॥ज्ञातुमिच्छुः स तन्मित्रं तमुत्तिष्टेति नावदत् ॥ प्रणतातिहरः कश्चिदात्रेयान्वयभू- पणः ॥ १६॥ तीक्ष्णांशुतिग्मकिरणैः प्रतप्ते सैकते गुरुम् ॥ असहि- .

अध्यायः २५. (७९) प्णुर्विलोक्याशु गोष्टीपूर्णमभापत ॥ १७ ॥ किमागतोस्यमुं हंतुं महरं चोलियाधुना ॥ ततोसहिष्णुमहता प्रेम्णा तं यतिपुंगवम् ॥ १८॥ उद्धृत्योपरि निक्षिप्य स्वस्यैवासुकृतादरः ॥ प्रणतात्ति हरस्तस्थौ तदा संतप्तसैकते ॥ १९॥ तदाकर्ण्य तमुवीक्ष्य तमुत्थाप्य कृतादरः॥ यतींद्रपाणिं संगृह्य गोष्ठीपूर्णोभ्यभापत ॥२०॥ अनेन कारयित्वा त्वं पाकं लक्ष्मणदेशिक ॥ भोजनं कुरु योगींद्र वैष्णवेषु दयां कुरु ॥२१॥ गोप्टीपूर्णाज्ञया धीमान् यतींद्रः स तथाकरोत् ॥ ततः कदाचिद्योगोंदः प्रेम्णा परवशो हरौ ॥ २२॥ रंगराजस्य सेवा- र्थमेक एवाभ्यगान्मुदा ॥ तदंतरं समालोक्य सोर्चको विपमिश्रितम् ॥ २३॥ यतींद्रायादिशत्तीर्थ नृशंसस्तजिघांसया ॥ जाननपि स योगींद्रस्तत्तीर्थमपिवन्मुदा ॥ २४ ॥ हरौ न्यस्तभरः श्रीशे निर्भरो निश्चलो महान् ॥ शेषावतारे योगींद्रे हरिभक्ते जगदुरौ ॥ २५॥ हरिपादोदकाक्रांत निर्वीर्यमभवद्विषम् ॥ एवं हि बहवः क्रूराश्चाभिचा- रादयः कृताः ॥२६॥ अर्चकैमरणोपायाः नृशंसैस्तजिघांसया॥ यतींद्रतेजसैवाशु तत्सर्व निहतं महत् ॥२७॥ वशिष्टब्रह्मदंडेन विश्वा- मेत्रबलं यथा ॥ ततस्तैर्भग्नसंकल्पैः श्रीमानाराधितोर्चकैः ॥२८॥ यतिराजः स तान् सर्वान कृपया पर्यपालयन् ॥ ततो नैपुण्यवशतो मित्रोदासीनशात्रवान् ॥ स्वशेषभूतांस्तांसर्वान्कृत्वा जगदपालयत ॥२९॥ दिगंतकीर्तियतिसार्वभौमो ह्यासेतुशीताचलभूमिभागे॥जिता रिवर्गः सुतरां विरेजे महेंद्रवत्सर्वबुधैः सुसेव्यः॥३०॥ इति श्रीप्रप- नामृते रामानुजचरित्रे यतींद्राय विपपानादिप्रदानं नाम चतुर्विंशोs- ध्यायः॥२४॥ पञ्चविंशोऽध्यायः। ततो विद्वान्महान्कश्चियज्ञमूर्तिरिति श्रुतः ॥ गत्वा भागीरथीतीरं जित्वा सर्वविपश्चितः॥ ३ ॥ लब्ध्वा तत्र च संन्यासं मायावादमते (८०) प्रपन्नामृत- स्थितः ॥ शिष्यविद्यादिसंपाद्भिः संयुक्तोप्रतिवेभवः ॥२॥ स श्रुत्वा यतिराजस्य वैभवं वैष्णवं प्रभुम् ॥ जेतुकामो लक्ष्मणार्य यज्ञमृतिः स तं जवात् ॥ ३ ॥ शास्त्राणि लेखयित्वाथ पुस्तकेषु वहूनि च ॥ तत्पुस्तकसहस्राणि निधाय शकटे मुदा ॥ ४ ॥ विद्यार वेणमहता शिप्यसंधैः समावृतः ॥ आसाद्य रंगनगरं लक्ष्मणार्य तमत्रवीत् ॥ ५ ॥ रामानुज मया साई शास्त्रवादं कुरु स्वयम् ॥ यज्ञमूर्तेर्वचः श्रुत्वा लक्ष्मणार्यस्तमत्रवीत् ॥ ६ ॥ मया यदि जितो वादे का शिक्षा तव तां वद ॥ तेनैवमुक्तस्तं प्राह यज्ञमूर्तिर्यती- श्वरम् ॥७॥ अहं त्वया यदि जितस्त्वन्मते संप्रविश्य च ॥ शिरसा पादुके धृत्वा नामधेयं वहामि ते ॥ ८॥ एवं त्वं लक्ष्मणाचार्य यजि- तश्चेन्मयाधुना॥ तच्छ्रुत्वा लक्ष्मणाचार्यों यज्ञमूर्ति जगाद तम् ॥९॥ यदि त्वया जितो विद्वन् ग्रंथत्यागं कराम्यहम् ॥ एवं कृतप्रतिज्ञौ तौ यज्ञमूर्तियतीश्वरौ ॥ १० ॥ अष्टादशदिनं कृत्वा शास्त्रवादावधि तदा ।। दर्शयतौ स्वसामर्थ्य शास्त्रेषु विगतक्रमौ ॥ ११॥ सिंहाविव विनर्दती बने मत्तगजाविव ॥ वादं चक्रतुरन्योन्यं परस्परजयैपिणौ ॥ १२ ॥ दिने सप्तदशे तत्र यज्ञमूर्तेः कुयुक्तिभिः ॥ सुटूक्तयो यतींद्रस्य वाधिता इव ताः स्थिताः॥१३॥यज्ञमूर्तिः स संतुष्टस्तदा स्वमठमाविशत् ॥ ततः स्वमठमाविश्य लक्ष्मणार्यो विचक्षणः।।१४॥सव्याकुलांतःकरणः कृतस्नानादिसक्रियः।। आराधनायं तं देवपाराध्य वरदं हरिम्॥१६॥ परिक्रम्य प्रणम्याह भगवंतं कृतांजलिः ॥ ममं विज्ञापनं स्वामिन्छ- णुष्व करुणाकर ॥ १६॥ बहुकालादनुस्यूतवादं वैष्णवदर्शनम् ॥ श्रीपरांकुशनाथादिकालेषु, पुरुषोत्तम ॥ १७ ॥ कुत्राप्यव्याहतं देव त्वया सम्यकप्रवर्तितम् ॥ मम काले जगन्नाथ तद्व्याहतमिव स्थितम् ॥ १८॥ त्वमेतत्कालपर्यंत त्वत्स्वरूपाणादयः ।। सत्या इति प्रमाणानां वर्त्तनं कृतवानसि ॥ १९ ॥ इदानी कंचि- दादाय मृपावादिनमादरात् ॥ मम काले प्रमाणानि तान्यद्योपर-

अध्यायः २५.
(८१)
तानि च ॥२०॥ तेन कारयितुंतेद्य संकल्पः समजायत ॥ तथा कु-
विति विज्ञाप्य शेतेस्माकृतभोजनः ॥२१॥ स्वप्ने प्रसन्नो भगवान्
देवो वै यतिभूपतेः ॥ हरिः प्रोवाच तमिदं लक्ष्मणार्य कृपानिधिः
॥२२॥ विपादं मागमस्तात समर्थों यतिशेरवर ॥ दत्तः शिष्यो
मया तेद्य यत्नः संपादितो महान् ॥२३॥ भवतः परमाचार्ययामु-
नायंकृतं महत् । निर्दुष्टं वर्तते लोके मायावादस्य खंडनम्॥२॥
तेन तत्वं जयस्वाशु यज्ञमूर्ति यतीश्वर । यतिराजः संप्रहृष्टो हरिहरि-
रितीरयत् ॥ २५॥ स्वप्नादुत्थाय सहसा परं विस्मयमागतः ॥ कृत-
नित्यक्रियो धीमान् स्वप्नोक्तिं हृदि भावयन् ॥२६॥ क्वंदे चरणौ
तस्य देवराजस्य भक्तिमान् ॥ २७॥ ततो यतीदः सह शिष्यसंधैस्त-
द्वादगोष्ठी विदुपां वरिष्टः ॥ तं यज्ञमूर्ति सहसा विजेतुं प्रसन्नगंभीरम-
नाः प्रतस्थे ।। २८॥ ततः सभायां तमतिप्रष्टं स यज्ञमूर्तियतिसा-
र्वभौमम् ॥ प्रवृद्धसत्वं गजराजतुल्यं दृष्ट्वा तदा विस्मितमानसोभूत
॥२९॥ इतो गतः पूर्वदिने यतीश्वरो भृशं विपण्णस्सहसास्वमालयम् ॥
स चातिगंभीरगजेन्द्रवद्र्शं प्रहस्यतेद्यायमिति व्यचिंतयत् ॥ ३० ॥
दृष्टिदैनं यतिभूपति भुवि हरे गेन जातं तदा मत्वा तं परिवृत्य पादकम-
लं धृत्वा चशी मुदा।।सोय मायिमतैकलग्नहृदयस्तद्यज्ञमूर्तिस्तदाशि-
प्यत्वं समवाप तस्य यमिनां धुर्यस्य मान्याकृतेः॥३१॥ यज्ञमूर्ति
लक्ष्मणार्यस्तं दृष्ट्वा विस्मितोत्रवीत् ॥ किमिदं यज्ञमूर्तेद्य किं वादं न
करोपि च ॥३२॥ तस्य तद्वचनं श्रुत्वा यतींद्रस्य महात्मनः ।। बद्धा-
जलियज्ञमूर्तिर्वभाषेदं यतीश्वरम् ॥ ३३ ॥ भवतो भगवान्विष्णुर्देवः
प्रत्यक्षतां गतः ॥ इदानी तब विष्णोश्च को भेदोस्ति यतीश्वर
॥३४॥ अतस्तवाग्रे गदितुं कथमहामि तद्वचः ॥ तच्छुत्वा लक्ष्म-
णाचार्यः संतुष्टः पुनरब्रवीत् ॥ ३५ ॥ त्वन्मायावादिसिद्धांते ब्रह्मणः
प्रतिपादितम् ॥ निर्गुणत्वं प्रमाणानि तद्ब्रह्मणि भवति हि ॥३६॥

(८२)
प्रपन्नामृते-
संत्येवं गुणयुक्तानि वेदवाक्यानि सर्वशः ॥ अविद्ययाभिभूतस्य ब्रह्म-
णः सगुणात्मनः ॥ ३७॥अतो निर्गुणवाक्यानां न विरोधो गुण-
श्रुतेः ॥ इति यत्त्वन्मतं विद्वन् तन्त्र युक्तिसहं भवेत् ॥ ३८ ॥ यदि
मां तत्कथामिति त्वं पृच्छसि वदामि ते ॥ ज्ञानरूपं परब्रह्म तंत्रिवत्यै
मुंपात्मकम् ॥ ३९ ॥ अज्ञानं चेत्तिरस्कुर्यात्कः प्रभुस्तनिवर्तने ।
नाशाभावादविद्यायाः सा नित्या स्यान्महामते ॥४०॥ अविद्या ब्रह्म-
णोस्सत्वे ब्रह्माद्वैतं कथं भवेत् । अतोद्वैतगजोांधो द्वैतपंके निमजति
॥४१॥ इत्याधुक्ति स तं चोक्त्वा संतप्टोभूयतीश्वरः ॥ यज्ञभू-
तिश्चैकदंडं दूरतोत्सार्य सत्वरम् ॥ ४२ ॥ प्रणम्य लक्ष्मणा-
चार्य बद्धांजलिपुटोत्रवीत् ॥ त्वया जितोहं योगींद्र रक्ष मां
शरणागतम् ॥ ४३ ॥ उपवीतत्रिदंडादीन् दत्वांतेवासिनं कुरु ॥
यज्ञमूर्तेर्वचः श्रुत्वा यतींद्रः करुणाकरः ॥४४॥ यज्ञमूर्ति पूर्णदृष्ट्या
दृष्ट्वा वाचमभापत ॥ विचार मा कुरुप्वात्र तथैव क्रियते मया ॥
॥४५॥ उपवीतशिखात्यागस्त्वया पूर्व कृतो द्विज ॥ प्रायश्चित्तं
यदस्यास्ति शास्त्रे वक्ष्यामि तच्छृणु ॥ ४६ ॥ हीनो यज्ञोपवीतेन
यदि स्याज्ज्ञानभिक्षुकः ॥ तस्य क्रिया निष्फलाः स्युः प्रायश्चित्तं
विधीयते ॥ १७॥ गायत्रीसहितानेव प्राजापत्यान्पडाचरेत् ॥ पुनः
संस्कारमाहृत्य धार्य्य यज्ञोपवीतकम् ॥ ४८॥ एवमुत्वा ततस्तस्य
'त्यागस्य यतिपुंगवः ॥ प्रायश्चित्तं कारयित्वा तथा वै यज्ञमूर्तिना
॥४९॥ धारयित्वा ततस्तेन ब्रह्मसूत्रं शिखां च सः ॥ प्रधार्य
तापसंस्कार वैष्णवं मुनिभिः स्मृतम् ॥ ५० ॥ सर्वाश्रमेषु वसतां
स्त्रीणां च द्विजसत्तम ॥ इत्युक्तेन प्रकारेण यज्ञमूत्तर्यतीश्वरः ।। ५१ ॥
तापादिपंचसंस्कारान्कृत्वा लक्ष्मणदेशिकः ॥ उपवीतं त्रिदंडं च
पात्रं जलपवित्रकम् ॥ ५२ ॥ कौपीनं कटिसूत्रं च न त्याज्यं
यावदायुपम्।।तं यज्ञमूर्तिमित्युक्त्वा हर्षेणमहता तदा।।३।।उपकारस्यमे
स्वप्ने कृतस्य वरदेन चीज्ञानपुत्रस्य मे चास्य यज्ञमूत्तैरिदं मुदा ॥५४॥

अध्यायः २६.
(८३)
तन्नामधेयं कर्तव्यमिति मत्वा स्वनाम चोनामद्वयं समाहृत्य यज्ञमूर्तेर्य-
तीश्वरः॥ ५५॥ देवरादेवमन्नाथ इति नाम चकार सः॥ देवराज-
मुनिश्चेति नामांतरमथाकरोत् ॥५६॥ ततस्तं शिष्यमादाय समीप
रंगभूपतेः॥ प्रणाम कारयित्वाथ तेन लक्ष्मणदेशिकः ॥ ५७॥
तत्तीर्थशठकोपादीन दापयित्वा तदर्चकैः ॥ ततः स्वमठमाविश्य
वरदस्य महात्मनः ॥५८॥ मुनिना देवराजेन कारयित्वा च वंदनम्॥
तमालोक्य प्रसन्नात्मा देवराजमुनेधुना ॥१९॥ भगवान देवराजोयं
त्वय्यनुग्रहकारकः । इत्युक्त्वाथ समाराध्य वरदं भक्तवत्सलम्॥६०॥
यतिराजः स्वयं भुक्त्वा शिष्टान्नं पादयोर्जलम् ॥ शिष्याय प्रददौ
तस्मै कृपया यतिभूपतिः ॥६१ ॥ देवराजमुनिर्भत्त्या तत्सर्व संगृ-
हीतवान् ॥ भट्टनाथप्रबंधादिचतुष्टयसहस्रकम् ॥ ६२ ।। सर्वच
द्राविडाम्नायं यावत्तत्त्वार्थसंपदम् ॥ देवराजमुनिर्भत्या जग्राह यति-
पुंगवात्॥ ६३ ॥ कूरेशदाशरथ्यायैः संवृतो यतिपुंगवः ॥ देवराजेन
मुनिना श्रीरंगे सुखमास्थितः ॥६४॥ श्रीदेवराजस्य कृपावशेन
निर्जित्य वादेन सयज्ञमूर्तिम् ॥व्यरोचतादित्य इवाद्वितीयः स्वतेजसा
क्रांततमो यतीदः॥६५॥ इति श्रीप्रपन्नामृते रामानुजचरित्रे यज्ञमू-
तिपराजयोनाम पंचविंशोऽध्यायः ॥२५॥
पविंशोऽध्यायः।
ततो विचिंतयामास यतींद्रः करुणाकरः ॥ प्रज्ञया विद्यया वापि
तेजसा यशसा श्रिया ॥१॥ मत्तोधिको न सन्देहो यज्ञमूर्तिरयं
महान् ॥ देवराजकटाक्षेण शिष्योभून्मम सांप्रतम् ॥ २॥ वादेन
जेतुं कः शक्तस्तमिमं विवुधोत्तमम् ॥ उपर्युपरि वर्तते युक्तयः शतश-
स्तदा ॥ ३॥ पर्वकाले समुद्रस्य यथा शीघं महोर्मयः ॥ बृहस्पतेः
फणींद्रस्य वाक्पतेश्चापि नास्ति हि ॥ ४॥ वादेनजेतुं सामर्थ्य यज्ञ-
मूर्ति महामतिम्॥ तस्मादस्य पृथकस्थानं उपकल्प्यांजसा महत्॥६॥

(८६) प्रपन्नामृते- कर्यनिरतः सुखं तस्थौ महायशाः ॥ पृथकस्थिति तां स विहाय धीमान् यतीकैंकर्यपरोमलात्मा ॥ अशोभतायोखिलवैष्णवानां मध्ये तरूणामिव कल्पवृक्षः॥४४॥ इति श्रीग्रपन्नामृते रामानुजचरित्रे ज्ञानसारप्रमेयसारग्रंथद्वयनिर्माणं नाम पड्विंशोऽध्यायः ॥२६॥ सप्तविंशोऽध्यायः। सहस्रगीताख्यानं यतिराजस्ततो महान् । शिष्येभ्यो बोधयंस्त- स्यौ विद्वद्गोष्ठीसमावृतः॥ १॥ तत्रैकत्र स्थितः कस्यां गाथायामर्थ ईदृशः ॥ वेंकटेशाय कैंकर्य कर्तव्यं यावदायुपम् ॥२॥ तदा यतींद्र- स्तान् दृष्ट्वा वैष्णवानिदमब्रवीत् ॥ महच्छ्रीवेंकटगिरी वैष्णवाः पुष्प- मंडपे॥३॥ अनुकूलतया तस्य वेंकटेशस्य भक्तितः ॥ महट्टंदावनं तत्र कृत्वा पुष्पवनैः सह ॥४॥ नित्यं श्रीवेंकटेशाय नित्यं श्रीवत्स- धारिणे ॥ प्रदाता तुलसीदाम्नः को वास्त्यत्रार्चको महान् ॥५॥ निशम्य तस्य वचनमनंतार्यः समुत्थितः ॥ दासोहमधुनैवेदं करि- प्यामि तवेरितम् ॥ ६॥ इत्युक्त्वा यतिराजाय वैष्णवः कृतवंदनः ।। वेंकटाचलमासाद्य नत्वा श्रीवेंकटेश्वरम् ॥७॥ तत्र वृंदावनं कृत्वा वेंकटाद्रौ महायशाः ॥ तस्य रामानुज इति नामधेयं विधाय च ॥८॥ श्रीपुष्पतुलसीमालां वेंकटाचलवासिने ॥ अनंतायॊप्पयं- स्तस्थौ लक्ष्मणार्याज्ञया मुदा ॥९॥ तच्छ्रुत्वा लक्ष्मणाचार्यः संतोपं परमं गतः ॥शारिसूक्तेाख्यानं त्रिवारमनुभूय सः॥ १०॥ अनु- ज्ञातो रंगमा तदा लक्ष्मणदेशिकः॥ द्रष्टुं प्रतस्थे सहसा सशिष्यो वेंकटाचलम् ॥ ११ ॥ जगाम महितक्षेत्रं यतींद्रः सहसा तदा ।। तत्र विष्णुं प्राणम्याथ महितं पद्मलोचनम् ॥ १२॥ विधाय पथि पाथेयं पुंडरीकाक्षमव्ययम् ॥ पाथेयं पुडरीकाक्षनामसंकीर्तनामृतम् ॥१३॥ इत्येवं संस्मरन् वाक्यं तथोदीची दिशं ययौ ॥ मार्गस्थि- तान् दिव्यदेशान् प्रणम्य यतिपुंगवः ॥ १४॥ देहलीनगरं प्राप्य

अध्याय.
विक्रममवंदत ॥ तदा शैवसमाक्रांतं चित्रकूट विचार्य च ॥१५॥
सदानी समयोस्माकं समीकर्तुमिदं स्थलम् ॥ इति मत्वाएसाहस्र-
यामं प्रति ययौ तदा ॥१६॥ तस्मिन्नष्टसहस्राख्यग्रामे विद्वज्जनावृते॥
विद्यते यतिराजस्य शिप्यवौँ द्विजोत्तमौ ॥१७॥वरदाचार्य्ययज्ञेशना-
मानौ लोकविश्रुतौ।। कर्पासारामवरदो दरिद्रः शिष्ययोस्तयोः ॥१८॥
यज्ञेशस्तु महाप्राज्ञो धनाब्यो गुरुभक्तिमान् ॥ धनाधिकस्य शि-
प्यस्य तेपामाराधनेच्छया ॥ १९ ॥ प्रथमं प्रेपयामास शिष्यौ.
रामानुजस्तदा ॥ स्वस्यागमनवृत्तांतं तस्मै शंसितुमादरात् ॥२०॥
तौ गत्वा चाशु तं ग्रामं तस्मै.सर्व शशंसतुः ॥ शिष्यैः समागतं
ज्ञात्वा यतिराजं स वैष्णवः ॥ २१ ॥ अपूजयित्वा पूजा)
स्वगुरोराज्ञयागतौ ॥ अध्वश्रमपरिक्किन्नौ तांबूलासनभोजनैः ॥
रामानुजस्य पूजार्थ वस्तु संपादयन्स्थितः ॥ २२ ॥ शिष्यौ
निराशौ प्रत्येत्य तद्वृत्तांतं तमूचतुः ॥२३॥ तदुपाकर्ण्य भगवांस्त-
दृत्तांतनिवृत्तधीः ॥ तस्मिञ् शिष्ये शिष्यजनैर्दरिद्रस्य सहानुगैः
॥२४॥ कार्पासारामवरददेशिकस्य गृहं ययौ ॥ वरदा>ः शिलं
कर्तु ग्रामसंचरणोयमः ॥२५॥ अक्षयं पात्रमादाय वैष्णवः कृपणो-
भ्यगात् ॥ कासारामलक्ष्म्याख्या जीर्णवस्त्रधरा तदा ॥ २६ ॥
विहाय चीरं सा साध्वी तस्य पत्नी गृहांतरे ॥ मंत्ररत्नानुसंधानं
कुर्वती सा समास्थिता ॥ २७॥ यतिराजः समागत्य सशिष्यैस्त-
गृहं प्रति ॥ अभावेन गृहस्थस्य वरदाय॑स्य तत्र सः॥ २८ ॥
कुत्रेति वरदाचार्य्यस्तदा वाचमभापत। यतिराजखं श्रुत्वा सा साध्वी
भक्तिशालिनी ॥२९॥ कार्पासारामलक्ष्म्याख्या मनस्येवमचिंत-
यत् । आगतो देशिको मेद्य कृपया शिष्यवत्सलः ॥ ३०॥ इदानी
वस्त्रहीनाहं कथमहामि सेवितुम् ॥ निराशो गच्छति गुरुयदि तूष्णी-
महं स्थिता ॥ ३१॥ दिग्वासा वेपमानांगी ह्रिया किंचिदवाङ्मु-
खी॥ इत्यालोच्य तदा साध्वी हस्ततालध्वनि व्यधात् ॥३२॥

(८४) प्रपन्नामृते- महतावैभवेनैव प्रतिष्टाप्यो महानयम् ॥ इत्येवं सम्यगालोच्य देवराजमुनेः पृथक् ॥ ६॥ मठं प्रकल्प्य सुमहदहुकक्ष्यासमावृतम् ॥ सतं निवेशयामास स्वतुल्यं वैभवेन च ॥ ७॥ देवरादेवमन्नाथ इति नामद्वयं तदा ।। रराज तुल्यं महसा यतींद्रकृतवेभवात् ॥ ८॥ ततस्तमखिलाचार्या यतिराज समाश्रिताः ॥स भक्तग्रामपूर्णाख्यो यो महान् वैष्णवोत्तमः ॥९॥ मरुधग्रामपूर्णश्च महाभागवतोत्तमः॥ अनंतार्यश्च यज्ञेशः श्रुत्वा तद्वैभवं परम् ॥१०॥ समाश्रितुं लक्ष्मणार्य- मेते चत्वार आगताः॥चतुर्णा पंचसंस्कारान्वैष्णवानां यतीश्वरः॥११॥ देवराजेन मुनिनातेपांकारितवास्तदा ॥ देवराजमुनिर्भीत :शिष्यांस्ता- न्वाक्यमत्रवीत् ॥१२॥ इदं कार्य मयेदानी लक्ष्मणार्येण कारितम् ॥ ग्रामटिट्टिभकंठाग्रे बद्धतालफलं यथा॥१३शाजानीध्वंयतिराजस्य पाद- मेव हि रक्षकम् ॥ ततः श्रीरंगनगरंवैष्णवाः केचिदागताः ॥१४॥ दिशः प्रतीच्याः सेवाथै मनाथस्य जगद्गुरोः ॥ श्रीरंगपुरवीथिस्थमः च्छन्वैष्णावा जनाः ॥ १५ ॥ मन्नाथस्य मठं कुत्र वदास्माकं हि स- त्वरम् ॥ तेपां तद्वचनं श्रुत्वा जनस्तान् वाक्यमब्रवीत् ॥ १६॥ मन्नाथस्य मठं कस्य यूयं पृच्छत वैष्णवाः ॥ प्रतिगृह्य वचस्तस्य वै- ष्णवास्ते तमन्नुवन् ॥१७॥ एक एव हि मन्नाथो लोकेऽप्रतिमवैभवः॥ द्वितीयो न श्रुतोस्माभिमन्नाथो हि कदाचन ॥ १८॥ तेपां तद्वचनं श्रुत्वासजनो वाक्यमब्रवीत् ॥ देवरादेवमन्नाथ इति कश्चित्समागतः ॥ १९॥अत्र श्रीरंगनगरे वर्तते यतिपुंगवः॥ तदाकर्ण्य वचस्तस्य वैष्णवास्तमथात्रुवन् ॥२०॥ योस्मद्वैष्णवसिद्धांतनिर्वोढा करुणा- करः ।। रामानुज इति ख्यातो यो मन्नाथो जगद्गुरुः ॥ २१ ॥ तमेवा- यै महात्मनं पृच्छामो वयमादरात्॥ ततः संदर्शयामास वैष्णवेभ्योज- सा मठम् ॥ २२॥ स जनो लक्ष्मणार्यस्य तेभ्यो यतिपतेस्तदा ॥ देवराजमुनिः सम्यक् तदृत्तांतं निशम्य सः ॥२३॥ प्रव्याकुलांत:- करणो विपसाद महामनाः॥ उन्मूल्य. तरसा सर्व दूरादुत्सृज्य तन्म, अध्यायः २६. ठम् ॥२४॥ दृढं गृहीत्वा योगींद्रपदपंकजमंजसा ।। एवं विज्ञापनं चके देवराजमुनिर्गुरुम् ॥२६॥ अयमात्मा यतिश्रेष्ठ भगवन्मायया वृतः॥ लक्षेषु लक्ष्मणाचार्य मूढश्चतुरशीतिषु ॥२६॥ भ्रमन्नानाविचित्रा- सु कृमिकीटादियोनिषु ।। भूत्वाभूत्वा महदुःखमनुभूयानुभूयच॥२७॥ मृत्वामृत्वा महाघोरं नरकाननुभूय च ॥ केनचित्पुण्यलेशेन बहुकाला- दनंतरम् ॥२८॥ घुणाक्षरलिपिन्यायादयं देहः समागतः॥ एतादृशो ह्यहंकारयुक्तः शास्त्रविदुत्तमः॥२९॥ सोहं ब्रह्मेति विज्ञानान्मूढोस्मि- न्भवसागरे । पतितः कृपयैवाद्य त्वया सम्यक् समुद्धृतः॥३०॥ भूयः संमोहनार्थाय कृता पृथगवस्थितिः॥ एतस्मादात्मनाशो मे य- तीद्रान्यो न विद्यते ॥ ३१॥ तव पादांबुजाभ्यासे वसाम्यत्रैव सुस्थि- रम् ॥ किमन्यच्छरणं मेद्य त्वत्पादकमलं विना ॥ ३२॥ भवदुक्तम- कारेण कैंकर्यभवतोनिशम् ॥ कुर्वन्नत्रैव वत्स्यामि ध्रुवमादेहपातनम् ।। ॥ ३३॥ स च सम्यङ् निशम्याशु वृत्तांत तस्य विस्तरांत् ॥ मंदस्मि- तसुखः श्रीमान् पूर्णदृष्टया यतीश्वरः॥ ३४ ॥ देवराजमुनिं दृष्ट्वा प्रि- यवाक्यैरतोपयत् ॥ कृत्वा यतींद्रो नित्याख्यं विष्णोराराधनक्रमम् ॥ ॥ ३५ ॥ देवराजाय मुनये तत्सम्यगुपदिश्य च ॥ तमुवाच कृपासिं- धुर्यतींद्रो लोकदेशिकः ॥३६॥ आराधनक्रमेणैव त्वमेतेन दिनेदिने । अस्मदरदराजस्य कुरुष्वाराधनं मठे ॥ ३७॥ इदमेवहि कैंकार्य- मादेहपतनं तव । इत्यादिश्य यतिश्रेष्टो देवराजमुनिं तदा ॥३८॥ महात्मा सुप्रसन्नात्मा श्रीरंगे न्यवसत्सुखम् ॥ देवराजमुनींद्रश्च यतिराजाज्ञया तदा ॥ ३९ ॥ चकार लोकरक्षार्थ स्फुटं द्रावि- इभापया ।। प्रबंधं ज्ञानसाराख्यं सर्वशास्त्रोपबृंहितम् ॥ ४०॥ अन्य प्रमेयसाराख्यं सम्यगेतद्वयं बुधः । गुरुरेवान शिष्यस्य परं देवमिति ध्रुवम् ॥ ४१ ।। गुरुपादाब्जकैंकर्य परमप्राप्यमेव हि ॥ गुरुं भगवतः साक्षादवतारं विचिंतयेत् ॥ १२॥ इत्यादिकान्विशेपार्थानुक्तवाञ्छा- स्त्रवित्तमः ॥ देवराजमुनिर्भत्त्या यतींद्रपदपद्मयोः ॥४३॥ नित्य- (८८) प्रपन्नामृते- इंगितज्ञो निशम्याशु तस्याः पाणिरवं गुरुः ॥ स्वशिरःप्रावृतं वस्त्रं गृहांते शिप्तवाञ् जवात् ॥ ३३॥ आच्छाद्याच्छादनं साध्वी दत्तं तेन महात्मना ॥ प्रणामं प्रथमं कृत्वा यतीद्राय महात्मने ॥ ३४ ॥ भक्त्या संपूजयामास पाद्याासनवंदनैः ॥ सर्वेपामप्यपचितिं वि- धायार्थ्यादिभिः क्रमात् ॥ ३५॥ तेपां विधातुमातिथ्यं मनश्चक्रे द्वि- जांगना ॥ अस्माभिः किं कृतं पुण्यं किं तप्तं परमं तपः॥ ३६॥ किं दानं चाहते दत्तं सुमहत्पूर्वजन्मनि ॥ विष्णोर्भगवतः साक्षादशेन यतिशेखरः ॥३७॥ अवतीर्णोभवद्भूम्यां क्षमाय जगतोधुना ॥ स नि- क्षिप्य कृपा मेद्य शिष्यैर्मगृहमागतः॥२८॥यतीश्वरो विशेपेण विष्णोरं- शधरो महान् ॥ गुरुर्देवः परं ब्रह्म गुरुरेव परा गतिः ॥ ३९॥शरी- रमर्थ प्राणांश्च सद्गुरुभ्यो निवेदयेत्।।शरीरं वसु विज्ञानं वासो धान्या- दिकान वसून ॥४०॥ गुर्वर्थ धारयेधस्तु स शिष्यो नेतरः स्मृतः॥ इति श्रुतिपुराणेषु बहुशः प्रतिपादितम् ॥ ४१ ॥धान्यस्य प्रस्थ- मेकं वा वराकमपि नास्ति मे ॥ कि करोमि यतिश्रेष्ठः श्रमेण महता वृतः॥४२॥ भागतः शिलं कर्तुं तेनैपां किं भविष्यति ॥ अकार्य्यमपि कृत्वाहं करोम्याराधनं गुरोः ॥४३॥ श्रमेण महता युक्ता नदोपस्तत्र मे गुरोःकलिनेन कृतं पूर्व तदीयाराधनं महत॥४४॥ कौटिल्यवृत्त्या चौथ्र्येण धनं संपाद्य संततम् ॥ निपादवृत्तिमास्थाय दुर्ग वनमुपागतः ॥ १५॥चौरैरनेकैः सहितो रुद्धमार्गो विचक्षणः ॥ गतागतानां तन्मार्गे जनानां बहुलं धनम् ॥ ४६॥ हत्वा श्रीवैष्ण- वेभ्यश्च नित्यमाराधनं व्यधात् ॥ धनं रंगेश्वरस्यापि परकाल: पुराध्वनि ॥४७॥ तदीयाराधनार्थाय जहार गुरु यत्नतः॥न दोप- लेशस्तत्रापि तस्मान्मुक्तिप्रदोभवत् ॥४८॥ जंतुः संसृतिचक्रस्थो भ्राम्यमाणः स्वकर्मभिः॥ गुरुज्ञोनोपदेशेन तस्मै मुक्ति प्रदास्यति ॥ १९॥ तद्गुरोनिष्क्रय कर्तुं न शक्यं पुरुपायुपा ॥ तस्माद्देहँ च विक्रीय कर्तव्यं गुरुपूजनम् ॥ ५० ॥ मनिमित्तकृतं पापं माये पुण्याय अध्यायः २७. (८१) कल्पते ॥ मामनाहत्य पुण्यं च ह्यपि पापाय विद्यते ॥५१॥ एवं भगवतवोक्तं तत्तस्मादधिको गुरुः॥ ग्रामस्मिन्वैश्यजः कश्चिद्धनाढ्यो मदनातूरः ।। ५२ ॥ स मामाकांक्षते नित्यं रूपयौनशालिनीम् ।। तस्याधीनमिदं कृत्वा शरीरं मलपूरितम् ।।५३ ।। तस्माद्वित्तं समादाय देशिकाय महात्मने॥करोम्याराधनं तेषां वैष्णवानांच सत्वरम्॥५४॥ मनस्येवं समालोच्य यतीश्वरमभापत ॥ भवतः कृपयैवाद्य तदी- याराधनाय च ॥५५॥ स्वयमेवागमिष्यति पदार्थाः सकला ध्रुवम्।। क्षणं विश्रम्यतां स्वामिन्नत्रैव सुसमाहितेः ॥५६॥ ततो गुणवती साध्वी गता तगृहमंजसा ॥ संप्राप्य तमुवाचेदं मन्दस्मितमुखी सती ।। ५७ ।। श्रूयतामभिधास्यामि वचनं हितमात्मनः ।। मनोरथो हि भवतः सफलोद्य भविष्यति ॥५८॥अस्मगुरुः शिष्यसंघयुतो मद्गुहागतः॥ तदीयाराधनार्थाय सर्वव्याणि सत्वरम् ॥१९॥ संप्रेपयाधुना शीघ्रं पात्राणि निखिलानि च ॥ दृष्ट्वातामूरुजः साध्वीं वरांगी मदनातुरः॥६० ॥संतुहृदयः श्रीमान्मनस्येवमचिंतयत् ।। आहूताया मया पूर्व नागतानाभिभापिता॥६॥ प्रियाभरणवस्त्रादीन प्रेपितांश्चाप्यगृह्नती ॥ सप्तकक्षानतिक्रम्यममांतःपुरमंजसा॥ ६२॥ आगतासुस्मितमुखी सुंदरीसास्वयंवरा ॥वहुकालाच बहुशः प्रार्थितो मेमनोरथः॥६३ ॥ध्रुवमस्मिन्दिनेसम्यक्सफलः संभविष्यति ॥ एवं संचित्यवहुधास्वपार्श्वस्थांमनोहराम्॥६॥दृष्ट्वागुणवतींसाध्वीमत्यं- तं मुदमापसः ततःसंप्रेपयामास वरदार्यगृहं प्रति ॥६५॥ सूपतंडुलशा- कानि सर्वाणि विविधानि च ॥पयोदधिघृताद्यानि तानि वेगेन सादरम् ॥६६॥ साध्वी तु यतिराजस्य सन्निधौ भक्तिसंयुता। निधाय सर्व- वस्नूनि तदा सा प्रांजलिः स्थिता ॥६॥ रामानुजस्तदा दृष्ट्वा तानि वस्तूनि तां सतीम् ॥प्रज्ञां शीलं च भक्तिं च ज्ञानं तस्या यतीश्वरः ।। विस्मयाविष्टहृदयो वभापे विनयोज्वलाम् ॥ ६८॥ स्नात्वा त्वमेवाशु कुरुष्व पाकमाराधनाथ वरदस्य विष्णोः ॥ इत्येवमुक्त्वा यतिराज- प्रपन्नामृते- (९०) शिष्यान् नियोज्य तत्कर्मणि कांश्चिदार्यान् ॥ ६९ ॥ स्वयं विगा. ह्याशु धृतोर्ध्वपुड्रो विष्णुं समाराध्य स लक्ष्मणार्यः॥ श्रीवैष्णवैः- दविदां वरिष्टैः साकं तदन्नं बुभुजे महात्मा ॥७०॥ भुक्त्वा तदन्नं परमं पवित्रं भक्त्यापितं लक्ष्मणदेशिकेंद्रः ॥ सुखोपविष्टोखिलभक्तसं- धैर्मुमोद तत्रैव तयार्चितो हि।।७१॥ इति श्रीप्रपन्नामृतेरामानुजचरित्रेड टसहस्राख्यग्रामे कार्पासारामवरदाचार्यगृहे रामानुजार्याराधनं नाम सप्तविंशोऽध्यायः ॥ २७॥ अष्टाविंशतितमोऽध्यायः। ततः स तस्मिन्यतिराजचंद्रे सुखोपविष्टे परितुष्टचित्ते ॥ व्याख्या- यमाने स्वजने महान् कृतोञ्छवृत्तिर्गृहमाजगाम ॥ १॥ निशम्य वृत्तांतमतीव संभ्रमः पत्न्यास्ततस्तत्सकलं स वैष्णवः ॥ उवाच वाक्यं वरदाय॑नामको विलोक्य तृप्तं स्वगुरुं यतीश्वरम् ॥ २॥ बालापि बुद्धिमहती तवाबले यया त्वयेदं महद्भुतं कृतम् ॥ भार्या न मे सुंदरि देवता परा मद्भाग्यलेशेन समागताधुना ॥३॥ येन प्रकारेण शरीरमर्थ प्राणान्परित्यज्य गुरोनिमित्तात् ॥ यो वै मुदा ह्यर्चति दशिकेंद्र स एव शिष्यो गुरुवंचकोन्यथा॥४॥ येन केन प्रकारेण देशिकाय महात्मने । शरीरमर्थ प्राणानामर्पणं सम्यगेव हि ॥५॥ मानयित्वा बहुविधं तां साध्वी वैष्णवोत्तमः॥ जग्राह चरणौ तस्य लीलामानुपरूपिणः॥ ६॥ बद्धांजलिः स्तुतिं चक्रे संहृष्टो यतिशेखरम् ॥ नमस्ते पुरुपश्रेष्ट यतीश्वर नमोनमः ॥७॥ हिताय लोकस्य चराचरस्य तवावतारः किल लक्ष्मणार्य्य ॥ यथाव- तारो जगतां हिताय हरेश्च विष्णोर्जगदाश्रयस्य ॥ ८॥ त्वं सर्ववि- सर्वविदां वरिष्ठः साक्षाद्धरेः संप्रतिपन्नरूपः ॥ तस्माच ते लक्ष्मण- देशिकेंद्र काणि चित्राणि विलक्षणानि ॥९॥ विष्णोश्च मायारचि- तेषु पुत्रजायाप्तबंधुष्वधिरूढचित्तः॥ भ्रमत्ययं संप्रति जीवलोके अध्यायः २८. (९१) यथांधकूपे पतितो हि जंतुः॥ १० ॥ पातुं त्वदन्यो भुवि विद्यते कस्तं जीवलोकं यतिराज शक्तः॥ यथाहिना नान्यजनस्समर्थों दष्टं जनं जीवयितुं नरेंद्रात् ॥ ११॥ ध्वांतं यथा नाशयितुं रवि विना नि- दाघतप्तस्य यथोदकं विना ॥ अन्यत्समर्थ न हि विद्यते तथा संसार- तप्तस्य तवांघ्रिपूजनात् ॥ १२॥ यदंघिसंस्पर्शनतो विसृज्य तां तद्- म्हरक्षः स्वकलेवरं स्वयम् ॥ जगाम लोकं सुरसिद्धसेवितं तस्मै नमस्ते गुरवे महात्मने ॥१३॥ भूम्यां त्वयाध जननं न कृतं यदि स्यायोगी- श माहशजनस्य गतिः कथं स्यात् ।। विद्वज्जना अपि भृशं कलिदत्त- चित्ताः पापंडवृत्तिनिरता निरये पतंति ॥ १४ ॥ कृपां विनिक्षिप्य मयि त्वमागतो ह्यकिंचने संप्रति शिष्यसंवृतः ।। विमृग्य कार्यासनगां- चितं गृहं पूतं विधातुं स्वपदाजरेणुभिः ॥ १५ ॥ संदर्शनाच भव- तामधुना यतींद्र पूर्वार्जितानि दुरितानि विनाशमापुः ॥ धन्योह- मस्मि कृतकृत्यतमोहमस्मि सर्वेच मत्पितृगणाः सुरलोकमापुः॥१६॥ ततस्तथानेन यतीश्वरेणाप्याज्ञापितोसौ वरदाय॑नामा ॥ तत्पादतोयं परमं च पीत्वा भुक्त्वा तदन्नं मुमुदे सभार्यः ॥१७॥ दंपत्योस्तु तयो- विलोक्य स तदा चित्तैक्यतां शिष्ययोः संहृष्टः सकलार्थतत्त्वनिपुणः शिष्यैर्यतीनां वरः ॥ विख्यातः सकलावनौ जनमहापापेमवैश्वान- रस्तस्मिन्नेव गृहे निनासमकररोत्ताभ्यां सदा पूजितः ॥ १८॥ तत्पाद- तोयं च तदन्नमादरात्तौ दंपती वैश्यगृहं प्रजग्मतुः ॥ वैश्याय तस्मै व्यदिशत्तदोदनं संप्राप्य शुद्धांतमचंचला सती ॥ १९॥ तत्पादोद- कपानेन तदन्नस्य निपेवणात् ॥ महान्विवेकः संजज्ञे तस्य वैश्यस्य दुर्मतेः ॥२०॥ प्रदक्षिणनमस्कारं तस्याः कृत्वा स तूरुजः।। बद्धां 'जलिपुटो भूत्वा वचनं चेदमब्रवीत् ॥२१॥ माता त्वं मम ते भी पिता साध्वि न संशयः ।। अज्ञानतिमिरांधोहं दुष्प्रज्ञो मदनातुरः ॥२२॥अजानानः स्वरूपं ते पापचिन्तापरोभवम् ॥ त्वाय तत्क्ष- (९०) प्रपन्नामृते- शिष्यान नियोज्य तत्कर्मणि कांश्चिदार्यान् ॥ ६९ ॥ स्वयं विगा- ह्याशु धृतोर्ध्वपुड्रो विष्णुं समाराध्य स लक्ष्मणार्यः॥ श्रीवैष्णवैर्वे- दविदां वरिष्टैः साकं तदन्नं भुजे महात्मा ॥७॥भुक्त्वा तदन्नं परमं पवित्रं भक्त्यापितं लक्ष्मणदेशिकेंद्रः ॥ सुखोपविष्टोखिलभक्तसं- घेर्मुमोद तत्रैव तयार्चितो हि॥७॥ इति श्रीप्रपन्नामृतेरामानुजचरित्रेड प्रसहस्राख्यग्रामे कार्पासारामवरदाचार्यगृहे रामानुजार्याराधनं नाम सप्तविंशोऽध्यायः ॥२७॥ अष्टाविंशतितमोऽध्यायः। ततः स तस्मिन्यतिराजचंद्रे सुखोपविष्टे परितुष्टचित्ते ॥ व्याख्या- यमाने स्वजने महान् कृतोच्छवृत्तिर्गृहमाजगाम ॥ १ ॥ निशम्य वृत्तांतमतीव संभ्रमः पत्न्यास्ततस्तत्सकलं स वैष्णवः ॥ उवाच वाक्यं वरदाय॑नामको विलोक्य तृप्तं स्वगुरुं यतीश्वरम् ॥२॥ बालापि बुद्धिमहती तवावले यया त्वयेदं महदद्भुतं कृतम् ॥ भार्या न मे सुंदरि देवता परा मद्भाग्यलेशेन समागताधुना ॥३॥ येन प्रकारेण शरीरमर्थ प्राणान्परित्यज्य गुरोनिमित्तात् । यो वै मुदा ह्यर्चति देशिकेंद्रं स एव शिष्यो गुरुवंचकोन्यथा ॥४॥ येन केन प्रकारेण देशिकाय महात्मने । शरीरमर्थ प्राणानामर्पणं सम्यगेव हि ॥५॥ मानयित्वा बहुविधं तां साध्वी वैष्णवोत्तमः॥ जग्राह चरणौ तस्य लीलामानुपरूपिणः ॥ ६॥ बद्धांजलिः स्तुति चक्रे संहृष्टो यतिशेखरम् ॥ नमस्ते पुरुपश्रेष्ठ यतीश्वर नमोनमः ॥ ७॥ हिताय लोकस्य चराचरस्य तवावतारः किल लक्ष्मणार्य्य ॥ यथाव- तारो जगतां हिताय हरेश्च विष्णोजगदाश्रयस्य ॥ ८॥ त्वं सर्ववि- सर्वविदां वरिष्ठः साशाद्धरेः संप्रतिपन्नरूपः॥ तस्माच्च ते लक्ष्मण- देशिकेंद्र काणि चित्राणि विलक्षणानि ॥९॥ विष्णोश्च मायारचि- तेषु पुत्रजायातबंधुष्वधिरूढचित्तः॥ भ्रमत्ययं संप्रति जीवलोके अध्यायः २८. (९१) यथांधकूपे पतितो हि जंतुः॥ १० ॥ पातुं त्वदन्यो भुवि विद्यते कस्तं जीवलोकं यतिराज शक्तः॥ यथाहिना नान्यजनस्समर्थो दष्टं जनं जीवयितुं नरेंद्रात् ॥ ११॥ध्यांत यथा नाशयितुं रवि विना नि- दावतप्तस्य यथोदकं विना ।। अन्यत्समर्थ न हि विद्यते तथा संसार- तप्तस्य तवांघ्रिपूजनात् ॥ १२॥ यदंघिसंस्पर्शनतो विसृज्य तां तद्र- म्हरक्षः स्वकलेवरं स्वयम् ॥ जगाम लोकं सुरसिद्धसेवितं तस्मै नमस्ते गुरवे महात्मने ॥१३॥ भूम्यां त्वयाद्य जननं न कृतं यदि स्यायोगी- • श माहशजनस्य गतिः कथं स्यात् ।। विद्वज्जना अपि भृशं कलिदत्त- चित्ताः पापंडवृत्तिनिरता निरये पतंति ॥ १४ ॥ कृपां विनिक्षिप्य मयि त्वमागतो ह्यकिंचने संप्रति शिष्यसंवृतः ॥ विमृग्य कार्यासनगां- चितं गृहं पूतं विधातुं स्वपदाजरेणुभिः ॥ १५ ॥ संदर्शनाञ्च भव- तामधुना यतींद्र पूर्वाजितानि दुरितानि विनाशमापुः ॥ धन्योह- मस्मि कृतकृत्यतमोहमस्मि सर्वेच मत्पितृगणाः सुरलोकमायुः॥१६॥ ततस्तथानेन यतीश्वरेणाप्याज्ञापितोसौ वरदाय॑नामा ॥ तत्पादतोयं परमं च पीत्वा भुक्त्वा तदन्नं मुमुदे सभार्यः ॥१७॥ दंपत्योस्तु तयो- विलोक्य स तदा चित्तैक्यतां शिष्ययोः संहष्टः सकलार्थतत्त्वनिपुणः शिष्यैर्यतीनां वरः ॥ विख्यातः सकलावनौ जनमहापापेमवैश्वान- रस्तस्मिन्नेव गृहे निवासमकररोत्ताभ्यां सदा पूजितः ।। १८॥ तत्पाद- तोयं च तदन्नमादरात्तौ दंपती वैश्यगृहं प्रजग्मतुः ।। वैश्याय तस्मै व्यदिशत्तदोदनं संप्राप्य शुद्धांतमचंचला सती ॥ १९॥ तत्पादोद- कपानेन तदन्नस्य निपेवणात् ॥ महान्विवेकः संजज्ञे तस्य वैश्यस्य दुर्मतेः ॥ २०॥ प्रदक्षिणनमस्कार तस्याः कृत्वा स तूरुजः ॥ वद्धा 'जलिपुटो भूत्वा वचनं चेदमब्रवीत् ॥ २३ ॥ माता त्वं मम ते मनी पिता साध्धि न संशयः ॥ अज्ञानतिमिरांधोहं दुष्प्रज्ञो मदनातुरः ॥ २२॥ अजानानः स्वरूपं ते पापचिन्तापरोभवम् ॥ त्वयि तत्क्ष- (९२) प्रपन्नामृते- म्यतां मातस्तस्मादक्षस्व मां सुतम् ॥२३॥ तव देशिकपदाब्जे मां निधाय महामते ॥ मया कृतापराधानां प्रायश्चित्तं विधाय च ॥२४॥ येन केन प्रकारण सा वं दीनं नयस्व माम् ।। सासाध्वी तद्वचः श्रुत्वा वैश्यस्यात्यंतविस्मया ॥२५॥ भत्रे निवेदयामास तवृत्तांत महात्मने । तयोदीरितमाकर्ण्य तत्सर्व विस्मयान्वितः॥ २६॥ का- पासारामवरददेशिकः करुणाकरः॥ वैश्योत्तमं तमादाय यतींद्रपदप- मयोः ॥ २७ ॥ शिष्यं समर्पयामास सहसा देशिकप्रियः ॥ निर्व्या- जरक्षकः श्रीमांस्तस्य वैश्यस्य सत्वरम् ।। २८ ॥ विधाय पंचसंस्का- रान् ररक्ष कृपया स तम्॥ वैश्यः श्रीवैष्णवो भूत्वा जितकामो महात- पाः॥२९॥ राज कृपया तस्य शरच्चंद्र इवामलः ॥ धनं बहुविधं. सर्व निधाय गुरुसन्निधौ ॥ ३० ॥ बहुशः प्रार्थयामास तदंगीकर- णाय तम् ॥ अंगीकृत्याथ कृपयायतींद्वस्तन्महद्धनम् ॥ संतोष जनयामास वैश्यस्य करुणानिधिः॥३१॥ तदा यतींद्रोखिलशिष्य- संधैः संसेव्यमानो वरदायंगेहे ॥ दिगंतकीर्तिः कृतलोकरक्षस्तस्थौ सुखं लक्ष्मणदेशिकेंद्रः ॥ ३२ ॥ इति श्रीप्रपन्नामृते रामानुजचरित्रे वैश्यस्य श्रीवैष्णवत्वसिद्धिर्नाम अष्टाविंशोऽध्यायः ॥२८॥ एकोनत्रिंशोऽध्यायः। यझेशो यतिपुंगवस्य सहसा श्रुत्वागमं संभ्रमात्तस्याराधनसिद्धये बहुविधं द्रव्यं समस्तं क्षणात् ॥ संपाद्यागमनं स्वबंधुसहितो वाञ्छन् गुरोः सादरं तस्थौ तत्र यथाप्रभातसमये सूर्योदये पंकजम् ॥१॥शीघ्र पुष्कलमेव वस्तु सकलं निक्षिप्य सम्यग् गृहे चिंताव्याकुलमानसो यतिपतेः संदर्शनाभावतः ॥ तस्यान्वेपणवांछया निजगृहानिर्गत्य तूर्ण जनानन्वेष्टुं पथि तत्र देशिकपदं प्रस्थापयामास सः॥ २ ॥ तयतोंद्रस्य वृत्तांत श्रुत्वा शिष्यजनात्तदा ।सहसा ते जनाः सर्वे यज्ञे- शाय न्यवेदयन ॥ ३ ॥ सर्व निशम्य वृत्तांतं यज्ञेशो देशिकस्य अध्यायः २९. (९३) तत् ॥ प्रव्याकुलांतःकरणो विपादमगमत्तदा ॥ ४॥ संप्राप्य तस्य निकटे यतींद्रपदपद्मयोः ॥ यज्ञेशः सहसा धीमान्निपपात रुरोद ह ॥५॥ उद्धृत्य पाणिना शीघ्रं यज्ञेशं कृपया गुरुः॥ व्याजहार शुभं वाक्यं लोकशिक्षार्थमादरात् ॥ ६॥ श्रूयतामभिधास्यामि यज्ञेश हितमात्मनः॥ पंचसंस्कारसंपत्तिः'श्रीमद्भगवदर्चनम् ॥७॥ अर्थ- पंचकविज्ञानमाचार्याधीनवृत्तिता ॥ विना भवंति पंचैते न तदीयानु- वर्तनम् ॥ ८॥ पूर्वोक्तार्थवतस्तस्य प्रपन्नस्य महात्मनः ॥ यदात्मो- ज्जीवनं लोके वैष्णवातिथिपूजनम् ॥ ९ ॥ अतिथिं वैष्णवं दृष्ट्वा श्रमयुक्तं समागतम् ॥ हर्पण व्यजनेनाशु भक्त्या संवीज्य सादरम् ॥ १० ॥ अध्वग्लानिनिवृत्त्यर्थ वैष्णवस्यातिथेः पुरः॥ पाद्यार्थ्यांच- मनीयायैरुपचारैः प्रपूजयेत् ॥ ११॥ प्रियवाक्यैर्महाभत्त्या तं मत्वा विष्णुरूपिणम् ॥ अंतहे सुखासीनं विधाय परमासने ॥ १२ ॥ यथाशक्त्यानपानाद्यैर्भोजनं कारयेत्तदा ॥ स्ववेश्मनि यथा भुक्ते नि- भयः सुसमाहितः॥ १३ ॥ पुष्पचंदनतांबूलैर्यथाशक्त्या प्रतोपयेत्॥ तद्भुक्तशेपं सहसा स्वयं मुंजीत भक्तितः ॥ १४॥ यद्यस्त्येतदनुष्टानं यज्ञेश हि मयोदितम् ॥ न्यूनता वैष्णवत्वस्य कदाचिदपि नास्ति हि ॥१६॥ एतत्तत्त्वार्थयुक्तस्य प्रपन्नस्यैतदेव हि ॥ हितं मयोदितं सत्यंवै- ष्णवातिथिपूजनम्॥१६॥ त्वयि यज्ञेश तन्नास्ति वैष्णवातिथिपूजनम्॥ धर्म करोति दंभार्थ ख्यातिलाभपरो भवान् ॥ १७॥अस्माकं दांभि- कगृहा यज्ञेश न कृतालयाः॥ लोके यत्सात्विकं चान्नं तत्तदेवेश्व- रार्पणम् ॥ १८॥ यज्ञेशो यतिराजस्य वाक्यं श्रुत्वातिलजितः ॥ बद्धांजलिपुटो भूत्वा चक्रे विज्ञापनं तदा ॥ १९॥ मया कृतापरा- धानामपराधक्षमापणम् ॥ कारयित्वा दयासिंधो मामंगीकुरु सर्वथा ॥२०॥त्वदागमनहर्पण विस्मृत्यागतवैष्णवान् ॥ श्रीवैष्णवमहासंघस- मेतस्य महात्मनः॥२१॥ तवैवाराधनार्थाय यतमानः स्थितोभवम् ।।

(९४) प्रपन्नामृते- मयोदितमिदं वाक्यं न मिथ्या यतिभूपते ॥ २२ ॥ निगर्वेण कृतं कार्य सम्यगेतद्विचार्य्यताम् ॥ तदक्ष कृपया दीनं शिप्यं मां करु- णाकर ॥ २३ ॥ यतिराजस्तदाकर्ण्य तं जगाद स वैष्णवम ॥ शृणु वत्स प्रवक्ष्यामि वृत्तिं तव महामते ॥२४॥ त्वयि सर्वगुणाः संति विना ह्यतिथिपूजनम् ॥ तदर्थमेतदारभ्य वैष्णवानां महात्मनाम ॥२५॥ क्रमेणाचास्थितानां च कुरु शुश्रूपणं मुदा ॥ प्रदेानुदिनं तेभ्यो रोचते मानसे यदि ॥ २६॥ एतत्कार्य प्रयत्नेन त्वं कुरु श्रद्ध- यान्विताएवमाज्ञाप्य यज्ञेशं परिवारेण संयुतः ॥२७॥ ग्रामादष्टसह- खाख्यानिश्चकाम यतीश्वरः ॥ गत्वा सत्यत्रतं क्षेत्र कांचीपूर्णेन संगतः ॥२८॥ देवेशं वरदं नत्वा स्थित्वा तत्र दिनत्रयम् ॥ कांचीपूर्णादि- भिः सम्यग् यतीद्रः प्रेपितो महान् ॥ २९ ॥ श्रीवैष्णवमहासंधैः प्रतस्थे वेंकटाचलम् ॥ वृपाद्रियाम्यदिग्भागे सर्वपापहरं वरम् ॥३०॥ वर्तते कापिलं तीर्थ श्रीशलारोहवर्त्मनि ॥ तीर्थतीरे योगींद्राः शठ- कोपादयो दश ॥३१॥ अनिशं सेवमानास्ते वत्तते वृपभूधरम् ॥ तस्य कापिलतीर्थस्य नामांतरमतोभवत् ॥३२॥ यदिव्यमरितीर्थाख्यं विश्रुतंतजगत्रये। योगिराजो लक्ष्मणार्यस्तं देशमुपगम्य सः ॥३३॥ तत्रैव वासमकरोच्छठकोपादिसन्निधौ ॥ तस्मिस्तीर्थे विगाह्याशु कृत- पूजो यतीश्वरः॥३४॥शठकोपादियोगीदानत्वा भत्त्या दशामलान। विलोक्य विस्मयं गत्वा गिरिराजं वृपाचलम् ॥३५॥ तत्रैव वासम- करोत्कंचित्कालं यतीश्वरः॥ ततो विट्टलदेवाख्यो राजा तदेशपालका ॥३६॥ यतींवैभवं श्रुत्वा तस्य सेवार्थमागतः। संसेव्य लक्ष्मणा- चार्य्यमतिमानुपवैभवम् ॥ ३७॥ विस्मयं परमं गत्वा तस्य शिष्यो- भवत्तदा ॥ तस्य विट्ठलदेवस्य यतींद्रः करुणाकरः ॥३८॥ विधाय पंचसंस्कारान् ररक्ष कृपया स तम् ॥राजा विट्ठलदेवोथ यतींद्राय महात्मने ।।३९ ॥ भक्त्या समर्पयामास धनं च बहुलं तदा ॥ तौडी- रमंडले ग्राममिलमंडियनामकम् ॥ ४० ॥ त्रिंशत्क्षेत्रसमायुक्तं तं अध्यायः ३०. (९५) ग्राम यतिपुंगवः।आश्रितेभ्यो द्विजेभ्योऽपि त्रिंशयस्सादरं ददो॥४॥ अभिप्रायं ततो ज्ञात्वा यतींद्रस्य जगद्गराः ॥ अनंतार्यादयः सर्वे- मिलित्वा वैष्णवोत्तमाः ॥४२॥ यतिराजांतिकं गत्वा यतीद्रपदपं- कजम् ॥ भक्त्या प्रणम्य योगीशं चकुर्विज्ञापनं तदा ॥१३॥ मंगलाशासनं क शेपशैलेश्वरं हरिम् ॥पर्वतारोहणं स्वामिन् कुरुष्व जगतां गुरो॥४४॥मंगलाशासनेनेव भवतो वेंकटेश्वरः।।जगत्यव्याहतै- श्वर्यःशेपशेले जगत्प्रभुः ॥४५॥ तेपां तद्वचनं श्रुत्वा यतींद्रोदेशिक- प्रियः ॥ सरोयोग्यानुपंथानमनुध्यायात्रवीत्तदा॥४६॥ सरोयोग्यादि- योगांद्रास्तं मत्वा शेपरूपिणम् ।। अकृत्वारोहणं तस्य नम्रश्चात्रैव ते स्थिताः॥४७॥ मंगलाशासनं चक्रुः श्रीनिवासाय चाइये ॥ पूर्वैर्यधदनुष्टानं कृतं वै दिव्यसूरिभिः ॥४८॥ तदंतेवासिना तेन तदेव क्रियते मया ॥ वत्स्याम्यत्रैव संसेव्य शठकोपादिदेशिकान् ॥१९॥ अनंतार्यः स तच्छुत्वा यतिराजमभापत ॥ आरोहणं वेंकटाद्रा न कृतं स्यात्त्वया यदि ॥५०॥ क्रियते सर्वदास्माभिः शिष्यैयोगीश तत्तदा ॥५१॥ उक्तं निशम्य निखिलैः स तदेकवाक्यं यत्संघशो बुधजनैर्विवुधाग्रगण्यः ॥ तदिव्यसूरिचरितं च विचार्य सम्यम् दोलायमानहृदयः स चकार चिंताम् ॥ १२ ॥ संचित्य सम्यगव- धार्य परं महांत तत्रैवमर्थमतुलं महनीयकतिः ॥ तेनैव शासनव- शेन स वैष्णवानामारोहणेजनगिरेरकरोन्मनीपाम् ॥ ५३ ॥ इति श्रीप्रपन्नामृते रामानुजचरित्रे विठ्ठलदेवनृपते रामानुजाश्रयणं नाम एकोनत्रिंशोऽध्यायः ॥२९॥ त्रिंशोऽध्यायः। ततो यतीदः संचित्य कृतदेहादिशोधनः ॥ नत्वा प्रथमसो- पाने महांत वेंकटाचलम् ॥ ३ ॥ चकारारोहणं श्रीमान् वेंकटाद्रौ यतीश्वरः ॥ श्रीशैलपूर्णः कृपया तत्प्रसादं सुपावनम् ॥२॥ आदाया- (९६) प्रपन्नामृते- भिमुखं प्राप्य सच्छात्रं च यतीश्वरम् ॥ यतींद्रायादिशत्तस्मै प्रसाद तीर्थमुत्तमम् ॥३॥ भक्त्या श्रीशैलपूर्णस्य प्रणम्य पदपंकजम् ॥ प्रसादं प्रतिगृह्याशु यतींद्रः पूर्णमब्रवीत् ॥ ४ ॥ मह्यं प्रसादमानेतुं किं युक्तं भवतो गुरो॥ केनचिद्वालकेनेदं प्रेपितुं न हि शक्यते ॥५॥ स पूर्णस्तद्वचः श्रुत्वा यतिराजमभापत ॥ वेंकटाद्रौ च सततं वीथीप्वालोकितं मया ॥६॥ मदिना वालको नास्ति कुत्रापि यति- पुंगव ॥ तच्छ्रुत्वा लक्ष्मणाचार्यों विस्मयं परमं ययौ ॥७॥ सर्वैः श्रीवैष्णवस्तीत्वा यतींद्रो वायुगोपुरम् ॥ सोपानरहिते मार्गे ह्यागच्छति यतीश्वरे ॥ ८॥ एकांतिनो वैष्णवाश्च यतयश्चार्चका स्तदा ॥ तस्याभिमुखमायाताः सर्वे तच्छैलवासिनः ॥९॥तं विलोक्य यतींद्रायै चक्रुः सत्कारमादरात् ।। ततो यतींद्रः संप्राप्य' वृपादि वैष्णवैः सह ॥ १० ॥ स्नात्वा भक्तियुतो धीमानू पुंडू- धरो महान् ॥ वीथीचतुष्टये तत्र कृतसम्यक्प्रदक्षिणः ॥११॥ अनर्घमणिमुक्तानि गोपुराणि महांति च ॥ विमानमण्डपादीनि कूटानि विविधानि च ॥ १२॥ विलोक्य विस्मयं प्राप तत्रानंतकृतं महत् ॥ वृंदावनमनंतार्ये कृतवान् महती दयाम् ॥ १३ ॥ महावनानि रम्याणि वृक्षशाखासमास्थितान् । विलोक्य वानरान्सर्वान्पक्षिसंघा- न्मृगानपि ॥ १४॥ अन्यानपि विशेषांश्च तान्मत्वा नित्यस- रिणः ॥ महावराहं देवेशं प्रणम्य यतिपुंगवः ॥१५॥ कुलशेखर- सोपानप्रभृतन्यतिलंध्य च ॥ सोपानानि यतिश्रेष्ठो बलिपीठं प्रणम्य च ॥ १६॥ यामुनाभिधानं च पुष्पमंडपमादरात् ॥ प्रदक्षिणेन चागत्य यतीद्रः शिष्यसंवृतः॥ १७॥ धनुर्मासे सिते पक्षे द्वादश्या- मरुणोदये ॥ आयांति सर्वतीर्थानि स्वामिपुष्कारणीजले ॥१८॥ एवं माहात्म्ययुक्तायां पुष्करिण्यां यतीश्वरः ॥ विधाय तीर्थस्वीकार वेंकटालयमाविशत् ॥ १९॥ महानसं यागशालां नत्वा श्रीमणिमं- डपम् ॥ सेनेशादीन्प्रणम्याथ यतीन्द्रः शिष्यसंवृतः॥२०॥आनं- अध्यायः ३०० (९७) दनिलयं दिव्यं विमानं वीक्ष्य हर्पितः॥ आनंदवाष्पनयनः प्रणम्य यतिपुंगवः ॥ २३ ॥ तत्रांतः संप्रविश्याशु देवदेवं रमासखम् ॥ नत्वा हरिं वेंकटेशं तस्थौ प्रांजलिरग्रतः ॥२२॥ तत्तीर्थशठकोपादन गृहीत्वा भक्तिसंयुतः ॥ अत्याश्चर्ययुतो मत्वा भूवैकुंठमिदं विति, ॥ २३ ॥ तस्य मन्जनकालं च संसेव्य यतिपुंगवः ॥ तत्रास्थितान्स- वजनान्पशुपक्षिमृगानपि ॥२४॥ नित्यसुरीन्समालोच्य स्थातुं मम न सांप्रतम् ॥ इति मत्वा गिरेरासीदवरोहणतत्परः ॥२५॥ ततः श्रीशैलपूर्णायः समागत्येदमब्रवीत् ॥ दिनत्रयं हि वस्तव्यं दिव्यदेशे यतीश्वर ॥२६॥ प्रतिगृह्य वचस्तस्य यतींद्रस्त्यक्तभोजनः।। देवदेवं सेवमानो दिनयत्रमपूर्ववत् ।। २७ ॥ अवर्तत यतिश्रेष्ठस्ततो निर्गमनोदये । पूर्णाचार्य पुरस्कृत्य गाथां द्वादशसंमिताम् ॥२८॥ भट्टनाथकृति चोक्त्वा बद्धांजलिपुटस्तदा ॥ वेंकटेशस्ततः स्वीयं प्रसादं तीर्थमादरात् ॥ २९॥(ततः स श्रीश्वरो देवः शठकोपं तीर्थ- मुत्तमम् ॥) दापयित्वार्चकैस्तस्मै संतुष्टो वाक्यमब्रवीत् ॥ ३० ॥ भवतो भवदीयानां विभूतिद्रयमेव च ॥ मया दत्तं यतिश्रेष्ठ त्रिवार नात्र संशयः ॥३१॥ इत्युवाच प्रवालोष्ठः स्फुरदशनसुप्रभः ॥ धन्योस्मीति यतिश्रेष्ठः प्रतिगृह्य स तद्वचः॥ ३२ ॥ तेनानुज्ञापितो धीमान पूर्णाचार्यपुरःसरः ॥ तद्गिरेरवरुह्याथ तत्समीपस्थपत्तने ॥३॥ श्रीशैलपूर्णसदने भुक्त्वा लक्ष्मणदेशिकः ॥ शृण्वन् रामायणं तस्य सन्निधौ वत्सरं स्थितः ॥३४॥ कुर्वतमनिशं तस्य गृहे कैंकर्य- मादरात् ॥ गोविंदायं तदा दृष्ट्वा यतीः प्रीतिमानभूत् ॥ ३५ ॥ शय्यां श्रीशैलपूर्णाय रचित्वा तत्र संस्थितम् ॥कस्मिंश्चिदिवसे दृष्ट्वा गोविंदं यतिपुंगवः ॥३६॥ज्ञात्वेमं दुर्गुणं तस्य गुरवे तन्न्यवेदयत् ।। ततःश्रीशैलपूर्णार्यों गोविंदमिदमब्रवीत् ॥ ३७॥ मदर्थे रचिते तल्पे त्वया सुप्तमिति श्रुतम्।। किमेवमुचितं कर्तुं तस्मात्किं फलमाप्स्यसि ॥३८॥तन्निशम्य स गोविंदस्तं गुरुं प्रत्यभापत ॥ गुरोस्तल्पे शयानस्य (९८) प्रपन्नामृते- फलं नरक एव हि ॥ ३९ ॥ गोविंदवचनं श्रुत्वा स पूर्णः पुनरस्त्रवीत् ।। एवं ज्ञात्वा किमर्थ त्वं तदिदं कृतवानसि ॥४०॥स गुरोर्वचनं श्रुत्वा भूयो विज्ञापनं व्यधात् ।। निर्वाधं भवतो निद्रा स्यान्चेन्मे नरकं हि- तम् ॥ ४२ ॥ एतच्छ्रुत्वा यतिश्रेप्टो भक्त्येदं कृतवानयम् ॥ इति संतु- प्रचित्तोभूत्तदा लक्ष्मणदेशिकः॥४२॥ कदाचिल्लक्ष्मणाचार्ये पूर्णा- चार्यवनं प्रति ॥ गते तत्र स गोविन्दो द्विजिह्वस्यानने करम् ॥४३॥ निक्षिप्याथ कृतस्नानः कैंकर्यार्थ तदोद्यतः ॥ दृष्दैतल्लक्ष्मणाचा- [स्तं गोविन्दमथाब्रवीत्॥४४॥ भो गोविन्दाधुना कार्य कृतवानसि किं वद ।। इत्युक्तो यतिराजेन गोविन्दः प्राह तं तदा ॥४५॥ जि- बायां कंटकस्यूतं द्विजिर्जा परमापदम् ॥ प्राप्तं दृष्ट्वाथ तद्ववे हस्तं निक्षिप्य कंटकम् ॥ ४६॥ आकृष्य सरसि सात्वा समायातो यतीश्वर ॥ यतीन्द्रो भूतकरुणा कियत्यस्येति विस्मितः ॥४७॥ ततो रामायणं सार्थमधीत्य यतिपुंगवः ॥ नत्वा गुरुं पूजयित्वा तं वाक्यमिदमब्रवीत् ॥४८॥ श्रीरंगस्य प्रयाणाय ममाज्ञां देहि देशिक ॥ श्रीशिलपूर्णस्तं प्राह यतिराजं दयापरः ॥४९॥ स दूरादागतस्यार्थ तव किं दीयते .मया ॥ मन्नाथस्तद्वचः श्रुत्वा पूर्णमाह गुरूत्त- मम् ॥५०॥ यदि स्थितं मनस्येवं गोविदं देहि मे गुरो ॥ ततः श्रीशलपूर्णार्यः संतुष्टो गुरुपुंगवः ॥५१॥ गोविन्द यतिराजाय ददौ तोयपुरःसरम् ॥ प्रेपितस्तेन गुरुणा ततो लक्ष्मणदेशिकः ॥ १२॥ गोविन्दसहितः प्राप्य घटिकाचलमादरात् ॥ नत्वा नृसिंहं देवेशं वसंतं घटिकाचले ॥५३॥ श्रीगृध्रसरसस्तीरे भांतं विजयराघवम् ।। प्रणम्य कांची गत्वाथ कांचीपूर्णमुपागतः ॥५४॥ गुरुसेवाविही नस्य गोविन्दस्य महात्मनः ॥ मुखादिषु च स्वांगेषु वैवर्ण्य समजायत ॥ ५५ ॥ दृष्ट्वा मुखादिवैवर्ण्य गोविंदस्य महात्मनः ।। गोविंद वेंकटगिरिं गत्वा पूर्ण प्रणम्य च ॥५६॥ तस्मात्त्वं पुनरा- अध्यायः ३०. (९९) गच्छ तमित्युक्त्वा यतीश्वरः ॥ गोविंदं प्रेष्य तञ्चाथ वृपादि वैष्णवैः सह ॥५७॥ कांचीपूर्णेन वरदं सेवयन् सुखमास्थितः॥ गोविंदो वेंकटगिरि संप्राप्य सहसा तदा ॥ ५८॥ श्रीशैलपूर्णसदन- द्वारदेशमुपागतः ॥ तवत्या वैष्णवास्तस्मे तं पूर्णाय न्यवेदयन ।। ६९ ॥ श्रीशैलपूर्णस्तछुत्वा कुपितो वाक्यमब्रवीत् ॥ गोविंदं प्रति- वक्तव्यं भ्रांत याहीति वैष्णवाः ॥ ६० ॥ तस्य देवी तु तच्छुत्वा भरिमिदमब्रवीत् ॥ बहुदूरादागताय गोविंदायांश्रिताय च ॥६१ ॥ तीर्थप्रसादमपि च प्रदातुं नहि शक्यते ॥ भाया, भापितं वाक्य श्रुत्वा पूर्णोत्रवीदिदम् ॥६२॥ विक्रीतस्य पशोलोंके को वा वासंप्रदा- 'स्यति ॥ ततो निराशो गोविंदःप्रणम्य गुरुमंदिरम् ॥६शासहसा वेंक- टगिरेः कांची प्रति समागतः ॥ तवृत्तांतं वैष्णवेभ्यो गोविंदस्य नि- शम्य सः॥ ६४॥ संश्लाध्य तस्य पूर्णस्य सर्वज्ञत्वं सविस्मयः ।। स्ववात्सल्यगुणैस्तस्य व्यपोह्याति यतीश्वरः ॥ ६९ ॥ कारयित्वाथ पूर्णाय गोविंदेनाभिवादनम् ॥ कांचीपूर्णेन सहसा प्रेपितो यतिपुंगवः ॥६६॥ प्रतस्थे रंगनगरं गोविंदसहितस्तदा । ग्राममष्टसहस्राख्यं भूयः संप्राप्य सत्वरम् ॥६७॥ यज्ञेशेन कृतां पूजामंगीकृत्य यतीश्वरः॥ गोविंदसहितोधीमाञ् श्रीरंगं प्रतिपादेवान् ॥ ६८॥ श्रीरंगवासिनः सर्वे प्रत्युद्गम्याभिवाय च ॥ वैष्णवा यतिराजाय संतोपे परमं ययुः ॥६९॥ ततो यतीन्द्रो रंगेशं प्रणम्य प्रांजलिः स्थितः ॥ प्रेम्णा रंगे- श्वरो वीक्ष्य यतिराज प्रहर्पितः ॥ ७० ॥ इत्युवाच प्रवालोष्टः स्फुरद्द- शनसुप्रभः ।। यतींद वेंकटगिरिं गत्वा नत्वारमासखम्।७॥किमाग- तोसि मन्नाथ क्षेमेण स्वजनैः सह ॥ शिष्यसंघसमेताय मन्नाथाय म- हात्मने ॥७२॥ शठकोपं च तीर्थ च प्रसादं प्रददौ हरिः॥ यतोंद्र प्रतिगृह्याशु तत्सर्वं निर्गतस्ततः ।। मठं प्रविश्य संतुष्टः स्वशिष्यैः सुखमास्थितः ।।७३ ।। रामायणार्थमधिकृत्य बहुप्रकारं श्रीशैलपूर्ण- (१००) प्रपन्नामृते- निकटे मतिमान् कृतार्थः ॥ प्राप्ताखिलार्थनिचयः परमं प्रहप संप्राप्य रंगनगरं सुखमध्युवास ॥ ७ ॥ इतिश्रीप्रपन्नामृते रामानुजचरिने भूरिश्रीशैलपूर्णाचार्याचतुर्विंशतिप्रकारेण रामायणार्थश्रवणं नाम त्रिंशो- ऽध्यायः॥३०॥ एकत्रिंशोऽध्यायः। अथ गोष्टयां यतींद्रस्य गोविंदो गुरुदैवतः॥ विहारं सुमहत्तस्य वि- ग्रहानुभवं तथा ॥ १॥ तत्पादकैंकर्यमपि तत्संलापादिकं च यत् ।। जितनिद्रो जितालस्यः प्रत्यहं गुरुसेवया ॥२॥ तदेवानुभवस्तस्थौ लक्ष्मणार्यस्य सन्निधौ ॥ततः कदाचित्सदास वैष्णवाश्च यतीश्वरः ॥३॥ गोविंदज्ञानवैराग्यगुरुभक्त्यादिसद्गुणान् ॥ विलोक्य विस्मयं गत्वा गोविंदं तुष्टुवुस्तदा ॥४॥ गोविंदस्तु स तं श्रुत्वा ममायं चाहति स्तवः ॥ इत्यात्मश्लाघनं चक्रे सुतरां गुरुसन्निधौ ॥५॥ यतिराजस्तु- तं दृष्ट्वा गोविंद प्रत्यभापत ॥ भवतो हि जनाः स्तोत्रं कुर्वति कृप- या यदि॥६॥ काय्यै नैच्यानुसंधानं हित्वात्मश्लाघनं कृतम्॥ तवा- नुरूपं किमिदं गोविंदार्य्य विपश्चितः॥७॥ तच्छुत्वा लक्ष्मणार्यस्य वचनं विनयान्वितः॥ बद्धांजलिरुवाचेदं सर्वेषां शृण्वतां तदा ॥८॥ अयमात्मा कृपासिंधो भगवन्माययावृतः॥ मूढश्चतुरशीत्यां तु लक्षे- षु यतिपुंगव ॥ ९ ॥ सोहं नानाविचित्रासु क्रिमिकीटादि- योनिषु ॥ भूत्वाभूत्वा महदुःखमनुभूयानुभूय च ॥ १० ॥ मृत्वामृत्वा महाघोरान्नरकाननुभूय च ॥ केनचित्पुण्यलेशेन बहुकालादनंतरम् ॥ ११ ॥ घुणाक्षरलिपिन्यायादयं देहः समा- गतः॥ देहस्मिन्मूढभावेन मार्गभ्रप्टोभवं किल ॥ १२॥ काल. हस्त्यां जटां धृत्वा भस्मोद्धूलितदेहवान् ॥ शैवनामधरश्चैव समयाचा- रतत्परः॥ १३॥ नीरवत्क्षीरसंक्षिप्तवर्णाभेदेन हीहशः॥ एतादृशो दुरामापि स्वामिन्नारायणात्मनः ॥ १४ ॥ भवतः परमहंसस्य नेपु.

अध्यायः३१. - (१०१) ण्याद्यतिभूपते ॥ यदहं प्राप्तवान् भेदं यस्मादास्यमुपागतः ॥१५॥ यस्मादियं कृपा जाता भवतो दुर्लभामरैः॥ आत्मानपप्यहं तस्मात् स्तौमि सा भवतः स्तुतिः ॥ १६ ॥ तच्छ्रुत्वा लक्ष्मणाचार्यः सा- धुसाध्विति दृष्टवान् ॥ निर्मलेन हृदा नित्यं भवतो नः स्मरादरात् ॥ १७॥ तदेवालं ममेत्युक्त्वा गोविंदं परिपस्वजे ॥ कदाचित्तु गृह- द्वारे वेश्यायाश्चारुणोदये ॥ १८॥ नित्यकर्मादिरहितं दृष्ट्वा गोविंद- मास्थितम् ॥ सभायां वैष्णवः कश्चिद्यतीद्राय न्यवेदयत् ॥ १९ ॥ यतिराजः स तछुत्वा गोविंदमिदमत्रवीत् ॥ वारांगनागृहद्वारे किमर्थ स्थीयते त्वया ॥२०॥ प्रतिगृह्य वचस्तस्य यतींद्रस्य जगद्गुरोः॥ एवं विज्ञापनं चक्रे गोविंदः स कृतांजलिः ॥ २१ ॥ गायति मधुरं गाथा भवदीयाश्च गायकाः॥ तत्र स्थितो यतिश्रेष्ठ ताः शृण्वन्ना- स्थितोभवम् ॥ ॥२२ ॥ गाथापारायणं तस्माद्विदित्वा वैष्णवाद्दरो॥ प्रावण्यातिशयस्तस्य कियानिति यतीश्वरः ॥ २३ ॥ गोविंदस्य वचः श्रुत्वा भक्तिपूतमकल्मषम् ॥ यतींद्रस्तु प्रहृष्टात्मा विस्मयं परमं ययौ ॥ २४ ॥ कालत्रये यतीन्द्रस्य कार्य करणत्रयैः ॥ कुर्वन्न- नन्यहृदयः स गोविंदः सुखं स्थितः॥ २५ ॥ श्रीशैलपूर्णभगिनी गोविंदजननी तदा ॥ साध्वी द्युतिमती नाम गोविंदमिदमब्रवीत ॥ २६॥ जाताऋतुमती भार्या तव गोविंद संप्रति ॥ तच्छ्रुत्वा ता- मुवाचेदं गोविंदो मातरं प्रति ॥ २७॥ यतिराजं विसृज्याह यदेकाते समास्थितः।तदा मे दर्शयस्वार्ये भार्यामादाय सत्वरमा॥२८॥बहुकालं समाश्रित्य तेनोक्तसमयं सती॥ अनवाप्य यतीद्राय शशंस निखिलं हि तत् ॥२९॥ मन्नाथः स तदाकर्ण्य द्युतिमत्याः शुभं वचः गोविं- दार्य समाहूय व्याजहार यतीश्वरः॥३०॥तां कुरुष्वातिविश्रांति ऋतु- काले यथाविधि । तमो विमृग्य शय्यायां शयनं कुरु सुव्रत ॥३॥ प्रतिगृह्य गुरोवाक्यं गोविन्दो गृहमागतः ॥ शय्यायां सुखमासीनो भार्यायै जितमन्मथः ॥ ३२ ॥ ज्ञानं भक्तिं च वैराग्यं बुबोध निखिलं .

(१०२)" प्रपन्नामृते- निशि ॥ स्नुपायाः सर्ववृत्तांतं विदित्वा विशदंतदा ॥ ३३॥चिंताशो- कसमाविष्टा माता सुतमथाब्रवीत् ॥ कर्तु तवेदं गोविंद शास्त्र- ज्ञस्योचितं किमु ॥ ३४ ॥ मातुर्वचनमाकर्ण्य गोविंदः प्रत्य- भापत ॥ अंतर्यामिप्रकाशे तु संपूर्णप्रभया प्रमः॥ ३५॥ न तमो लक्ष्यते चित्ते कामलोभादिकारकम् ॥ आचार्यकृपया मेद्य को दंडश्चात्र विद्यते ॥ ३६॥ वृत्तांतमात्मजस्यास्य तनिशम्यांजसा तदा ॥ न्यवेदयद्यतोंद्राय सा विपण्णा भृशं सती ॥३७॥ तन्नि- शम्याथ तद्वाक्यं यतोंदः करुणाकरः।।आनयित्वा स गोविंदं सस्मितं वाक्यमब्रवीत् ॥३८॥ भवता किं कृतं कायं निशायां साधु वैष्णव॥ प्रतिगृह्य गुरोर्वाक्यं चक्रे विज्ञापनं सुधीः ॥ ३९ ॥ तमो विमृग्य भायो त्वं भजस्वेति त्वयरितम् ॥ अंतर्यामिप्रकाशे तु न तमो लक्ष्यते कचित् ॥ ४०॥ निशम्य तद्वचो हटः संतुष्टो विस्मयं गतः॥ व्याजहार शुभं वाक्यं गोविंदं शास्त्रवित्तमः ॥४१॥ यत्रा- श्रमे स्थितो धर्मस्तत्र तं हि समाचरेत् ॥ पातित्यमन्यथैवेति सर्व- शास्त्रेषु निर्णयः ॥ ४२॥ अनाश्रमो न संतिष्ठदित्येपा शास्त्रप- इतिः॥ आश्रमस्थेन विदुपा तेषु धर्मोपयोगिषु ॥४३॥ भोगेषु योग्यताबुद्धिः कर्त्तव्या न कदाचन ।। कैंकर्यबुद्धिः कर्तव्या तेषु भोगेषु संततम् ॥४४॥शास्त्रदृष्टेषु महतां गृहस्थाश्रमधर्मिणाम् ।। विषयादिषु संजाता विरक्तिर्भवतो यदि ॥४९॥ गोविंदार्याधुना शीघ्रं संन्यासः संभविष्यति ॥ तद्वचः प्रतिगृह्याशु यतींद्र प्रणि- पत्य सः॥ ४६॥ संन्यासं देहिदेहीति प्रार्थयामास भूरिशः ।। प्रार्थितस्तेन बहुधा गोविदेन यतीश्वरः ॥ ४॥ संन्यासं प्रददौ तस्मै शिष्याय कृपया तदा ॥ वैराग्यज्ञानभक्त्यादिसद्गुणैः संप्रह- पितः॥४८॥ मन्नाथ इति तन्नाम स्वीयं तस्य चकार सः ॥ भीतस्तेन स गोविंदः प्रणिपत्य यतीश्वरम् ॥ १९॥ एवं विज्ञापन . अध्यायः ३२. (१०३) चक्रे बद्धांजलिपुटस्तदा ।। मनाथ इति लोकेषु त्वां तु लोकास्त्रयो विदुः॥५०॥ जगद्गुरुभवान्त्साक्षात्फणिराजो न संशयः ॥ लोके- श्वरेश्वरगुरुर्विभूतिद्वयनायकः ॥५१॥ अहं कृतम्रो दुर्मानी पापिष्ठः परवंचकः॥ मिथ्याचाररतो मूढो नृशंसो दांभिकः शठः ॥ १२ ॥ कथमर्हति तन्नाम ममैतस्य दुरात्मनः ॥ जगद्गुरोर्भगवतो भवतः सर्वपूजितम् ॥५३॥ यन्नाम जप्यं सर्वेषां पापिनामपि मुक्तिदम् ।। लोके न युज्यते स्वामिनामैकं गुरुशिष्ययोः॥५४॥ यज्ञमूतैर्यथा हानिर्भविष्यति तथा मम ॥ तव नाम ततो भर्तु सामर्थ्य नास्ति मे गुरो ॥५॥लक्ष्मणार्यः संप्रष्टस्तद्वाक्येन यतीश्वरः ॥ मन्नाथनाम- पर्यायद्राविडाख्यापितं परम् ॥५६॥ आगंतवर्णमाहृत्य यंबाराख्यं विधायं च ॥गोविंदाय ददौ तस्मै कृपया शिष्यवत्सलः ॥५७॥ तदा- प्रभृति तस्यासीगोविंदस्य महात्मनः॥ यंवाराख्यं ततो नाम त्रैलोक्य- विदितं महत् ॥५८॥ निवृत्ततों यतिसार्वभौमात्संप्राप्य संन्यासमचं- चलात्मा॥यंवारनाम्ना सुतरां विरेजे गोविंददेवो यतिराजवत्सः॥१९॥ इति श्रीप्रपन्नामृते रामानुजचरित्रे गोविंदार्य्यस्य चतुर्थाश्रमस्वीकरणं नामकत्रिंशोऽध्यायः ॥३१ ॥ द्वात्रिंशोऽध्यायः। ततो यतींद्रो मतिमान्मनस्येवंव्यचिंतयत् ॥ पुराव रंगनगरे यामु- नांत्यदशागमे ॥ १॥ प्रतिज्ञानं नदीतीरे श्रीवैष्णवसभास्थले ॥ श्रीभाप्यं लोकरक्षार्थ करिष्यामि न संशयः ॥२॥ तस्मादेवश्य कर्तव्यं श्रीभाष्यमधुनैव हि ॥ ततो यतींद्रः श्रीभाष्यं कर्तुकामो महायशाः॥३॥ विलोकनं विनाशक्यं वृत्तेौधायनस्य वै ।। वेदांतभाष्यकरणमिति निश्चित्य योगिराट् ॥४॥ कूरेशसहितो धीमान् शारदापीठमभ्यगात् ।। यतींद्रो विबुधान्सञ् िशारदापीठमाश्रितान् ॥६॥शास्त्रवादेन निर्जित्य तोपयामास शारदाम् ॥ संतुष्टया तया प्रपन्नामृत- (१०४) दत्तां वृत्तिं वौधायनस्य ताम् ॥ ६॥ संगृह्य सहसा धीमान रंगं प्रति समाययो॥ शारदापीठविवुधा राहित्यात्पुस्तकस्य च ॥७॥ तस्य तत्र हि कोशानां विशोधनदिने तदा ॥ तत्पंथानं ययुर्वेगाजातशंका यतीश्वरे ॥८॥मासादनंतरं मार्गे तत्कोश यतिपुंगवात् ॥ वलात्संगृह्य ते दुष्टाः शारदापीठमाययः॥ ९॥ ततो विपण्णं योगीशं कूरेशो वाक्यमवीत् ॥ मा विपादं कुरुप्वात्र योगिराज जगद्गुरो ॥ १० ॥ रात्रिकालेषु सत्सव मयैवालोकितं दृढम् ॥ तत्सर्वं हृदये मेद्य वर्तते त्वत्कटाक्षतः ॥११॥ सन्तुष्टस्तेन वाक्येन लक्ष्मणार्यो महायशाः॥ कूरेशसहितः श्रीमान श्रीरंगं प्राप सत्त्वरम् ॥ १२॥ ततो यतींद्रः कूरेशदाशरथ्यादिदोशः कान् ॥ इत्थं जगाद वचनं लोकानुग्रहतत्परः ॥ १३॥ तत्त्वमस्यादिव प्रत्यार्थज्ञानमेव हि साधकम् ॥ निःश्रेयसस्य ॥ १४॥ मोक्षसाधनमित्येपां ज्ञानं वदतां कुदृष्टीनां दुरात्मनामानां निराकृत्याहमय तत् ॥ १५॥ कर्मसमुच्चयम् ॥ वदतां च कुटामोविटितम् ॥ ध्यानोपासनशब्दादिवेदैश्च प्रति यज्ञानमेव कर्माग अध्यायः ३३. (१०५) तदा विसर्जयामास इति कुराधिपं गुरुः॥ तदा श्रीवैष्णवाः केचित्कू- रेशमिदमब्रुवन् ॥ २५ ॥ आचार्यस्त्यक्तवानद्य कुपितस्त्वं तपोधन।। तद्वदास्माकमधुना कि विचार्याध वर्तसे ॥२६॥ तेषां तद्वचनं श्रुत्वा कूरेशस्तानथात्रवीत् ॥ गुरुणोक्तप्रकारेण शिष्यो वास्तव्य एव हि ॥ २७॥ तत्कृते कोपकायें तु मम नास्त्यन्वयः क्वचित् ॥ ततो य- तीद्रः संचिंत्य तद्वाक्यार्थ पुनःपुनः ॥ २८ ॥ आनयित्वाशु कूरे- शमनुतापं गतोत्र सः ॥ विष्णुशेपत्वसंयुक्तज्ञातृत्वप्रतिपादकम् ॥२९॥ लक्ष्मणार्योंदितं वाक्यं लिलेखाशु तदा सुधीः॥ श्रीभाष्यमित्थं कृप- या लोकानुग्रहकारणात्॥३०॥ वेदांतदीपं वेदांतसारं वेदार्थसंग्रहम् ।। गीताभाष्यं च योगींद्रः सुस्पष्टं शास्त्रसंमतम् ॥३१ ॥ विधाय लक्ष्म- णाचार्यः सर्वलोकैकपूजितः॥प्रथमं यामनार्यस्य दुःखं महदपोहयत् ॥३२॥ श्रीभाष्यं विरचय्य लोकविदितं श्रीरंगिणः शासनादाचंद्रा- कमखंडितं महदिदं संस्थाप्य भूमंडले ॥ दुःखं प्राथमिक व्यपोह्य म- हतो ययामुनार्यस्य तद्विख्यातामलदिव्यकीर्तिरतुलं भेजे प्रमोदं परम ॥ ३३॥ इति श्रीप्रपन्नामृते रामानुजचरित्रे बौधायनवृत्तिमतानुसारेण श्रीभाष्यनिर्माणकथनं नाम द्वात्रिंशोऽध्यायः ॥३२॥ त्रयस्त्रिंशोऽध्यायः। ततो यतींद्रं नत्वा तेवैष्णवाश्चेदमबुवन् । भवतेतरसिद्धांतनिराक- रणपूर्वकम् ॥ १॥ भगवन गुरुवार्य दर्शनस्थापनं कृतम् ॥ इतः परं दशदिशो गत्वा कृत्वा च दिग्जयम् ॥२॥ तत्र स्थितान दिव्यदेशान प्रणम्यागंतुमर्हसि ॥ लक्ष्मणार्यों वैष्णवानांप्रतिगृह्य वचःशुभम्॥३॥ अनुज्ञातो रंगभर्ना शिष्यैः श्रीवैष्णवैर्वृतः ।। प्रतस्थे सहसातस्माच्छी- रंगाचोलमंडलम् ॥॥ तत्र स्थितान दिव्यदेशान् कुंभकोणादिकान- नपि ॥ नत्वा तत्रत्यविबुधाञ्जित्वा ताञ् शास्त्रवादतः ॥५॥ स्वशि- प्यभृतांस्तान्कृत्वा तवत्यानखिलाञ् जनान् ।। यतीन्द्रः सहसा धीमान (१०६) प्रपन्नामृते- पांड्यमंडलमाविशत् ॥ ६॥ पांड्यमंडलमागत्ये दिव्यदेशान्प्रणम्य च ॥ जित्वा तत्रत्यविबुधान् कुरुकानगरं ययौ ॥७॥शठकोपं तत्र नत्वा शगरिप्रतिपादितम् ॥ तं प्रवंधू पपाठार्यो दशगाथासम- न्वितम् ॥ ८॥ शारिरपि योगींद्रे विधाय महती दयाम् ॥ तर्थि प्रसादं मालां च दापयामास चार्चकैः ॥ ९ ॥ तीर्थ प्रसादं संगृह्य संतुष्टो यतिपुंगवः ॥ जगाद परमं श्लोकमेकं शरिपुं प्रति ॥ १० ॥ वकुलधवलमालावक्षसं वेदवाह्यप्रबलसम- यवादच्छेदनं पूजनीयम् ॥ विपुलकुरुकनाथं कारिसून कवीशं शरण- मुपगतोहं चक्रहस्तेभवक्रम् ॥ ११॥ ततः संप्रेपितस्तेन यतिराजः शारिणा ॥ कुरंगनगरं प्राप्य वहुशिप्यसमावृतः ॥ १२॥ कुरंगन- गरीपूर्ण तं महोत्तुंगविग्रहम् ॥ प्रणम्य बहुधा भत्त्या मुमोद यतिशे- खरः ।। १३॥ एकांतिभिर्दादशभिः सहस्रैः पीठेश्चतुस्सप्ततिभिः स- मेतः ॥ अन्यैरनंतैरपि विष्णुभक्तैः श्रीरंग आस्ते यतिसार्वभौमः ॥१४॥ इत्युक्तेन प्रकारेण बहुसंघसमावृतम् ॥ विलोक्य विस्मयं गत्वा यतिराज महौजसम् ॥ १५॥ कुंरगनगरीपूर्णो व्याजहार वचः शुभम् ॥ श्रीसहायेन योगीश जनरक्षणहेतुना ॥ १६॥ अवताराः कृताः पूर्व रामकृष्णादयो मया ॥ अवतारेषु मां सर्वे मन्यते प्राकृता जनाः॥ १७॥ राजानं चापि गोपालं प्राकृतं पुरुपं यथा ॥ अस्मा- के रक्षणार्थाय वैकुंठादागतो हरिः॥ १८॥ एवं न मेनिरे दुष्टाः मां जगत्कारणं परम् ॥आसुरप्रकृतित्वेन तेषां कोपि न मां गतः ॥१९॥ केनोपायेन ते सर्वे त्वयैते स्ववशीकृताः ॥ मन्नाथ मह्यं तेनाशु तमुपायं वदाधुना ॥२०॥ कुरंगनगरीशस्य तद्वचः प्रतिगृह्य सः॥ तं दृष्ट्वा लक्ष्मणाचार्यश्चक्रे विज्ञापनं तदा ॥ २१ ॥ तद्रक्ष्याम्यधु- नैवाशु क्रमेण यदि पृच्छसि ॥ निशम्य तद्वचस्तस्य सत्यं मत्वा जगत्पतिः॥२२॥ कुरंगनगरीपूर्णों यतीद्राय महात्मने ॥ऽदिशत्सि- हासनं दिव्यं कुथास्तरणशोभितम् ॥ २३॥ तुंगासिंहासनादिव्या अध्यायः ३४. (१०७) दवतीर्णोथ भूतले ॥ हरिर्जगत्पतिः श्रीमांस्तस्थौ भक्तिसमन्वितः ॥२४॥ तत्र स्वाचार्यमासीनं नत्वा पूर्णार्यमादरात् ॥ स तस्य दक्षिणे कर्णे भूमिस्थस्य यतीश्वरः॥ २५ ॥सर्वेषामेव मंत्राणां मंत्ररनं शुभावहम् ॥ सकृत्स्मरणमात्रेण ददाति परमं पदम् ॥२६॥ मंत्ररत्नं द्वयं न्यासः प्रपत्तिः शरणागतिः॥ लक्ष्मीनारायणश्चेति हितं सर्व- फलप्रदम् ॥२७॥ नामानि मंत्ररत्नस्य पर्यायेण निवोध मे ॥ प्रश- स्यैवं मंत्ररत्नमुपदेशं विधाय च ॥२८॥ ततो वैष्णवनंबीति दास्य- नामाकरोद्धरेः॥ स हरिः पूर्णनामा च तथा ब्रह्मरथे गुरुम् ॥ २९ ॥ स्थापयित्वा लक्ष्मणाऱ्या श्लाघयामास चेश्वरः ॥ यतीद्रः श्रीहरि पूर्ण तं प्रणम्य कृतांजलिः॥३०॥ अपचारानिमान् सर्वान् क्षमस्व पुरुपो- त्तम ॥ इति विज्ञाप्य योगीन्द्रः स तेन प्रेपितो गुरुः ॥३१॥ हरिणा लोकगुरुणा कुरंगनगराद्वरात् ॥ प्रतस्थे केरलं देशं शिष्यसंधैर्यतीश्वरः ॥ ३२ ॥ पूर्णय तस्मै स हि मंत्ररत्नं दत्वा क्रमेणैव कुरंगपूर्णात् ॥ संप्राप्य तद्ब्रह्मरथं यतींद्रो लोकेऽद्वितीयां स जगाम कीर्तिम् ।। ३३॥ इति श्रीप्रपन्नामृते रामानुजचरित्रे कुरंगनगरीपूर्णाय मंत्ररत्नोपदेशो नाम त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥ चतुस्त्रिंशोऽध्यायः। ततः कुरंगनगरात्परिवारर्यतीश्वरः ॥ चतुःसप्ततिपीठैश्च निर्ययौ केरलं प्रति ॥१॥ तत्रतत्र स्थितं विष्णुस्थलं नत्वा यतीश्वरः ॥ अनंतशयनं गत्वा विभिट्टाः प्रणम्य च ॥२॥ पादादिकेशपर्यतं पद्मनाभमनंतकम् ॥ तत्र स्थितांश्च विवुधाञ् जित्वा कृत्वा मठं च तम् ॥३॥ रामानुजमिति ख्यातं ततः केरलमागतः॥ नत्वा केर- लदेशस्थस्थलानि परमात्मनः ॥४॥ लक्ष्मणार्यः स्थितांस्तत्र जित्वा बाह्यकुदृष्टिकान् ।। पश्चिमांभोधिरोधेन तदोदीची दिशं ययौ ॥६॥ ततो द्वारावतीं गत्वा मथुरां च यतीश्वरः ॥ शालग्रामंच .

(१०८) प्रपन्नामृते- साकेतं तथा बदरिकाश्रमम् ॥ ६॥ नैमिपं पुष्करं चैव वनं वृंदावनं च यत् ॥ एतान्यन्यानि यानि स्युः स्थलानि प्रणिपत्य सः॥७॥ तेपु स्थितान्विजित्याशु कुदृष्टिविबुधान्स तान् ॥ भद्रमंडपमासाद्य शारदापीठमागतः ॥ ८ ॥ वाग्देवी स्वयमेवाशु श्रुत्वाचार्यस्य पावनम् ॥ तन्मंदिराद्विनिर्गत्य विलोक्य यतिभूपतिम् ॥ ९ ॥ कप्यासश्रुतितात्पर्य वदेति व्याजहार सा॥ तामुवाच ततो विद्वाञ् शारदा यतिपुंगवः ॥ १० ॥ श्रूयतां तच्छुतेरथ वक्ष्यामि तव शारदे॥ कं जलं पिवतीत्यस्मात्कपिरित्युच्यते रविः ॥ ११॥ तेन संस्फुरितं पनं कप्यासमिति गीयते ॥ तत्तुल्ये लोचने विष्णोरित्यर्थोस्याः श्रुतेर्मतः ॥ १२ ॥ तच्छ्रुत्वा शारदा हृष्टा श्रीभाष्यं तत्कृतं महत् ॥ शिरस्यारोप्य संभाव्य ततो बाहू प्रसार्य च ॥ १३॥ यतींद्रपाणि संगृह्य न प्रक्षिप्तमिदं निजम् ॥ इत्यंगीकृत्य वाग्देवी श्रुत्यर्थ तेन भापितम् ॥ ११॥ तस्याकरोद्भाष्यकार इति नाम मुदा तदा ॥ हयग्रीव कारयित्वा तस्मै दत्त्वा महौजसे ॥ १५॥ यती, श्लाघ- यामास शारदा मुदितानना ॥ भाष्यकारोपि वाग्देवी विस्मितोवाक्य मब्रवीत् ॥१६॥त्वं मह्यं शारदे कतै दयां को हेतुरुच्यताम्।।तेनैवमुक्ता वाग्देवी भाष्यकारं वचोत्रवीत् ॥१७॥पुरात्र शंकराचार्यः प्राप्तः पृष्टो मया हि सः॥ कप्यासश्रुतितात्पर्य्यमेवमाह यतीश्वर ॥१८॥ मर्कटा- सनसंकाशमिति हास्यकरवचः॥ स्वाभाविकतयार्थस्य त्वयोक्तस्या- धुना श्रुतेः॥१९॥ संतुष्टयामया तेन पूजितस्त्वं बुधपभाविपश्चितो- थ आगत्य सर्वे तद्देशवासिनः ॥ २० ॥ तच्छुत्वान्ये यतद्रेिण वाद कृत्वा पलायिताः॥ श्रुत्वा तद्देशभूपालो विबुधानां पराजयम् ॥२१॥ सर्वेषां महतां चैव विस्मयं परमं गतः॥ अवतारं हरेात्वा लक्ष्मणार्य स भूपतिः॥२२॥ अवाप सहसा धीमाञ् शिष्यत्वं यतिभूपतेः ॥ '' सहिष्णवः सर्वे महांतं तस्य वैभवम् ॥२३॥ अभिचारं यती- अध्यायः ३५. (१०९) द्राय प्रचक्रुस्ते पराजिताः ॥ स निशम्य यतिश्रेष्ठो मनस्वी स्वांतर- गिभिः॥२४॥ अजानान इवातिष्ठत्परिहत्याभिचारकम् ॥ तं पीडि- तुमशक्तः सन् सोभिचारो यतीश्वरम् ॥ २५॥ प्रगोक्तन् पीडया- मास तानेव विवुधास्तदा ॥ अवाच्यानि प्रभापतो वचासि विबुधाश्च ते ॥ २६॥ वीथ्यांवीथ्यां प्रधावतो ग्रहाविष्टा इवाभवन् ॥ दृष्ट्वेर्दै भूपतिस्तावत् प्रणम्याह यतीश्वरम् ॥ २७॥ तानेवमीदृशान्कत किं युक्तं भवतां गुरो ॥ स्वस्थानेतान्कुरुष्वेति प्रार्थयामास देशिकम् ।। ॥२८॥ कारयित्वा ततः सर्वान्स तान्स्वस्थान्विपश्चितः ॥ संग्रह- टोभवद्राजा गुरुणामिततेजसा ॥२९॥ अथ ते विबुधाः सर्वे तेन राज्ञा प्रचोदिताः ॥ निमुक्तिमदमात्सर्या यतिराजं समाश्रिताः॥३०॥ ततः स सैन्यैः संयुक्तो भाष्यकारं जगद्गुरुम् ॥ योजनद्वयपर्यंत मार्ग संप्रेष्य भक्तितः॥ तेनानुज्ञापितो राजा स्वपुरं प्रविवेश ह ॥३१॥ गत्वा तु पीठं स हि शारदायाः श्रीभाष्यकारेत्यभिधानमाप्य ।। तदेशभूपार्चितपादपद्मो गंगामगानिर्जितशत्रुवर्गः ॥३२॥ इति श्रीप्रपन्नामृते रामानुजचरित्रे दिग्विजयकथने शारदापीठविबुधपरा- जयो नाम चतुस्त्रिंशोऽध्यायः ॥३४॥ पञ्चत्रिंशोऽध्यायः। तया संप्रेपितो धीमान् सरस्वत्या यतीश्वरः॥ प्रतस्थे शारदापी- ठात्काशी कलिमलापहाम् ॥ १॥गंगावगाहनं सम्यक् कृत्वा लक्ष्म- णदोशकः ॥ काश्यां तु भोगिशयनं प्रणम्य हरिमव्ययम् ॥ २॥ तत्र- त्यान्विबुधान्त्सवाञ् जित्वा संपूजितः स तैः ॥ संतुष्टो विबुधैः सर्वैर्ययौ श्रीपुरुपोत्तमम् ॥शाजगन्नाथं तत्र नत्वा जित्वा प्रच्छन्नसौ- गतान् ॥रामानुजाख्यं सहसा मळंकृत्वायतीश्वरः॥४॥सुखेन न्यवस- त्तत्र दिनानि कतिचित्तदा। ततोयदिः संचिन्त्य लक्ष्मणार्यों जगद्गुरुः ॥५॥जगन्नाथार्चकान सान समानीयेदमब्रवीत् ॥ पञ्चरात्रा (११०) प्रपन्नामृते- गमोक्तेन वर्त्मनार्चकपुंगवाः ॥ ६ ॥ पूजोत्सवादिकार्याणि श्रीहरे- रखिलानि च ॥ प्रकुर्वत्यधुना सर्वे श्रीरंगादिस्थलेपु च ॥७॥ पञ्चरात्रागमेनैव कृतं पूजादिकं हरेः ॥ तदक्षयफलं मोक्षसाधनं चैतदेव हि ॥८॥अनेनैव हि कर्तव्यं मुख्यमाहुर्मनीपिणः ॥ यूयं तेन प्रका- रेण जगन्नाथस्य चार्चकाः ॥९॥ पूजोत्सवादिकार्याणि भ- त्या प्रकुरुतादरात् ॥ न्यूनता नास्ति चैतेन परं श्रेयो भविष्यति ॥१०॥ तस्य तद्वचनं श्रुत्वा यतींद्रस्य तदर्चकाः ॥ अनंगीकृत्य चोत्थाय तूप्णी ते सत्वरं गताः ॥११॥ ततो यतीन्द्रः कुपितस्तेषां विज्ञाय तन्मतम् ॥ तानर्चकांस्तृणीकृत्य सहसोद्धृत्य संमतान ॥ १२ ॥ वलात्कारेण तवत्यान् स्थापयित्वा दृढव्रतान् ॥ तैर्जनैः पांचरात्रेण श्रीरंगस्थलवत्तदा।॥१३॥ जगन्नाथस्थलं कर्तुमुधुक्तो यति- भूपतिः॥ स्ववशीकृतभूपालः स बभूव जगद्गुरुः ॥ १४ ॥ तस्यां रात्र्यां तदा सर्वे जगन्नाथार्चकास्तदा। ज्ञात्वा ते तदभिप्रायं मिलित्वा- मंत्र्य सत्वरम् ॥ १९॥जगन्नाथालयं प्राप्य देवस्याग्रे जगत्पतेः ॥ बद्धांजलिपुटाः सर्वे चकुर्विज्ञापनं तदा ॥ १६ ॥ देवदेव जगन्नाथ म- काभीष्टप्रदायक।। त्वदासभूतालक्ष्मीश पाह्यस्मान्करुणाकर ॥ १७॥ रामानुजाभिधानोय यतीद्रः कश्चिदागतः॥ मार्गातरं समाश्रित्य भ- वतः स यतीश्वरः ॥३८॥ पूजाकार्याणि सर्वाणि कर्तुकामः समास्थि- तः॥ पूर्वस्थितेन मार्गेण त्वमस्माभिर्दयानिधे ॥ १९॥ पूजितः सर्व- पूजाभिः सर्वाभीष्टप्रदोभवः ॥ भवतास्मत्कृता पूजा न चांगीक्रियते यदि ॥२०॥ वयमयैव ते सर्वे मरिष्यामो न संशयः॥ इत्युक्त्वा तेर्चकाः सर्वे गुर्वीश्च पदस्तथा ॥ २१ ॥ गृहीत्वा स्वशिरांस्याशु हैं- तुमारेभिरे परम् ॥ ततः प्रसन्नो भगवाजगन्नाथः कृपानिधिः ॥२२॥ स तेभ्यो ह्यभयं दत्त्वा कृपया तानपालयत् ॥ अर्चकास्ते ततः सर्वे संप्रहृष्टाः कृपादरात्॥२३॥प्रपेदिरे स्ववेश्मानि शासनाजगतीपतेः ॥ जगन्नाथं समासाद्य मतिमान्त्सत्वरं ततः ॥२४॥ प्रणम्य लक्ष्म- अध्यायः ३६. (१११) णाचार्यः कृतांजलिरभापत ॥ जगन्नाथ जगद्वंद्य जगदीश जगन्मय ॥ २५॥ विज्ञापनं ममेदानी भगवन्नवधार्यताम् ॥ श्रीरंगादिस्थला- नीडय वर्तते जगतीतले ॥२६॥ पंचरात्रागमेनैव तानि सर्वाणि सां- प्रतम् ॥ तथैव चांगीक्रियतां स्थलस्यास्य जगत्पते ॥ २७ ॥ नांगी- कृत्य वचस्तस्य तमाह पुरुपोत्तमः॥ यतींद्र शृणु मे वाक्यं मन्नाथ जगतां गुरो॥२८॥ श्रीरंगादिस्थलानीह वर्तते जगतीतले ॥कृतानि स्वदधीनानि मया तब जगद्गुरो ॥२९॥ मदधीनमिदं क्षेत्रं देहि मे पुरुपोत्तम ॥ स्वैरमत्र जनैरेतौहरााम सुखं यथा॥ ३० ॥ तदाकर्ण्य वचस्तस्य जगन्नाथस्य योगिराट् ॥ पुनःपुनस्तथैवेदं क्रियतामि- त्युवाच सः॥३१॥तमब्रवीजगन्नाथस्तथैवात्र नवर्तते । एवमुक्तोपि हरिणा जगन्नाथेन योगिराष्ट्र ॥३२॥ पांचरात्रागमेनैव कर्तव्यं निश्चय स्थलम् ॥ इति निश्चित्य मनसा प्रणम्य जगदीश्वरम् ॥३३॥ अनु- ज्ञातोथ हरिणा विवेश मठमंजसा ॥ तस्यां निशायां सु- प्वाप यतिराजो जगद्गुरुः॥ स्वमठे शिष्यसंघेश्च संवृतः साधुसं- मतः॥ ३४ ॥नृपं वशीकृत्य समत्रिवर्ग सर्व जनं चाशु स लक्ष्म- णार्यः॥ श्रीरंगवत्कर्तुमलं प्रयत्नादियेप बुद्धया पुरुपोत्तमं हि ॥३९॥ इति श्रीप्रपन्नामृते रामानुजचरित्रे जगन्नाथश्रीरामानुजार्यसंवादो नाम पंचत्रिंशोऽध्यायः ॥ ३५॥ षत्रिंशोऽध्यायः। ततो भक्तपराधीनोजगन्नाथोप्यचिंतयत् ॥ अयं रामानुजः श्री- मान सुमहात्मा दृढव्रतः॥१॥ उल्लंघ्य महचः सत्यं तत्तथैव क- रिष्यति ॥ पंचरात्रागमेनैव स्थलस्यास्यापवर्तनम् ॥२॥ अर्च- कास्तेन मे शीघ्रं मरिष्यंति न संशयः ॥ अतोधुनैव योगींद्रः प्रा- पितव्यः सुदूरतः॥३॥ इत्यालोच्य जगन्नाथो लक्ष्मणार्य महामतिः॥ तदानावेव योगीद्रं प्रापयामास सत्वरम् ॥ श्रीकू, लक्ष्मणाचार्य (११२) प्रपन्नामृते- श्रीहरियोगमायया ॥४॥ प्रभातायां तु शवयो तस्यां लक्ष्मण- देशिकः॥ उत्थाय सहसा धीमान हरिहरिरितीरयन् ॥ ५॥ दृष्ट्वा दशदिशः सम्यक् चिंताव्याकुलमानसः ॥श्रीकूर्ममिति तत्क्षेत्रं ज्ञात्वा विस्मयमागतः ॥६॥श्रीकूर्मनायकं मत्वा शिवलिंगमितीरितम् ॥ उपवासेन तंत्र वासरं स्थितवान गुरुः ॥ ७॥ राहित्यावेतमृ- माया विष्ण्वर्चायाश्च सत्तमः ॥ स्वप्ने प्रसन्नो भगवास्तस्य श्री. कूर्मनायकः ॥८॥ व्याजहार शुभं वाक्यं कृपया यतिभूपतिम् ॥ यतीताज्ञानदोपेण शिवलिंगं जना इति ॥९॥ मां वदंति मृपा सर्वे मायांधीकृतलोचनाः ॥ वत्स्याम्यत्र स्वरूपेण शंखचक्रगदाधरः ॥३०॥ लक्ष्मणार्याधुना शीघ्रं त्वं मां सम्यग्विलोकय ॥ शुद्धा मदालयस्याग्रे वर्तते श्वेतमृत्तिका ॥ ११॥ सम्यक्तयोर्ध्वपुंड्राणि धृत्वा वैष्णवसत्तम ॥ मामाराध्याशु नैवेद्यं भत्त्या सम्यक् समl च ॥ १२॥ भोजनं कुरु योगीद्र' मत्प्रसाद सुपावनम् ॥ अत्रैव पूजयन् मां त्वं दिनानि कतिचिद्वस ॥ १३॥ अत्रैव चागमिष्यति जगन्नाथेन चोदिताः ॥ त्वदीयाः सत्वरं सर्वे लक्ष्मणार्य न संशयः ॥ १४ ॥ विचारं मा कुरुष्वान तवाधीनमिदं कृतम् ॥ पूर्वमेव मया तात विभूतिद्वयमादरात् ॥ १५ ॥ ततः स्वप्नात्समुत्थाय संतुष्टो विस्मयान्वितः ॥ तथा विधाय योगीन्द्रस्तेनोक्तेनैव वर्त्म- ना ॥ १६ ॥ कूर्मनाथं समाराध्य तन्निवेदितभोजनम् ।। विधाय तस्य पादाग्रे सुखं तत्रावसत्तदा ॥ १७ ॥ तदाप्रभृति सर्वत्र यतींद्रागमवैभवात् ॥ विष्णुस्थलमिति ह्यासीच्छीकूर्म विदितं महत ॥ १८॥श्रीकूर्मवासिनः सर्वे यतिराजं तमाश्रितम् ॥ पुत्रदारादिस- हिता यतिराज समाश्रिताः ॥ १९ ॥ श्रीकूम च जगन्नाथे वृ- त्तांत यतिभूपतेः ॥ तच्छुत्वात्यद्भुतं सर्वे तत्रतत्र जनाः स्थिताः ॥ २० ॥ श्रीकूर्म तरसागत्य नानादेशस्थिता जनाः ॥ तं च दृष्ट्वा यतिश्रेष्ठं कूर्मेशं विष्णुरूपिणम् ॥२१॥ विस्मयं परमं गत्वा यति- अध्यायः ३६. (११३) राजं समाश्रिताः ॥ जगन्नाथे स्थिताः शिष्या जगन्नाथेन चोदिताः ॥ २२॥ श्रीकूर्मक्षेत्रमासाद्य प्रणेमुर्यतिभूपतिम् ॥ ततो यतींद्रस्तैः शिष्यैः सहितः संग्रहर्पितः ॥ २३ ॥ संप्रेपितस्तदा तेन कूर्मेशेन • दयालुना ॥ मन्नाथः सहसा धीमान् सिंहाचलमथाविशत् ॥२४॥ सिंहाचले महासिंहं प्रणम्य हरिमव्ययम् ॥ तस्मानिर्गत्य सहसा सिंहाद्रेः शिष्यसंवृतः॥२५॥ अहोबलं गारुडाद्रौ प्रविवेश महायशाः॥ नारसिंहं परं नत्वा वेंकटाचलमागतः ॥२६॥ तदा शैवाः समागत्य वेंकटादि कृतत्वराः॥शंखचक्रादिरहितं दृष्ट्वा तं वेंकटेश्वरम् ॥२७॥ स्वामिपुष्करणीतीरे स्कंदं मत्वा तदाक्रमन् ॥ स्कंदमित्येव शैवास्ते वैष्णवा वेंकटेश्वरम् ॥२८॥शैवानां वैष्णवानां च कलहः सुमहान- भूत् ॥ भाष्यकारोथ तान् सर्वान् वचनं चेदमब्रवीत् ॥२९॥ देवस्य भवतां शैवा यान्यसाधारणानि च ॥ ननु शूलादिचिह्नानि स्कंदस्य किल भूसुराः ॥३०॥ शंखचक्रादिचिह्नानि मम देवस्य यानि च ॥ आयुधानि च सर्वाणि कारयित्वाधुना तयोः ॥ ३१ ॥ निक्षिपामोद्य तान् सर्वान् वेंकटेश्वरसन्निधौ ॥ स धत्ते यानि पश्यामः किं वृथा कलहेन वः ॥३२॥ तथेति प्रतिगृह्याशु शैवास्सत्संमातं गताः ॥ अथायुधानि सर्वाणि तान्यादाय यतीश्वरः॥ ३३॥ स्वकीयः पर- कीयो वा पुरुपो नास्ति वै यथा ॥ तथा संशोध्य मतिमांस्तत्र गर्भगृहे हरेः॥ ३४ ॥ सन्निधौ वेकंटेशस्य निधाय यतिपुंगवः ॥ बद्धा कपाटं सुदृढं शैवैः सह विनिर्गतः॥ ३५ ॥ उभावपि समागत्य प्रातस्तौ शववैष्णवौ ॥ ददृशतुर्वेकटेशं शंखचक्रधरं तदा ॥ ३६ ॥ चरणेथ स्थितं शूलं दृष्ट्वा डमरुकं हरेः॥ पलायिता गिरेस्तस्माच्छै- वास्ते लज्जितास्तदा ॥ ३७॥ भाष्यकारोथ संहृष्टो नत्वा श्रीवेंक- टेश्वरम् ।। शंखचक्रधरं देवं भक्तवत्सलमव्ययम् ॥ ३८ ॥ मंगला- शासनं चक्रे यावदाचंद्रतारकम् ॥ वक्षस्थले स्वर्णलक्ष्मी स दत्त्वा तस्य सादरम् ॥ ३९ ॥ वेंकटेशस्य योगींद्रः संतुष्टोभून्महायशाः ॥

(११४) प्रपन्नामृते- श्वशुरो देशिकश्वासीचेन योगीश्वरो हरेः॥४०॥स्थलसंरक्षणार्थाय संन्यासिद्वयमादरात् ॥ निक्षिप्य निपुणं तत्र वेंकटेश्वरसन्निधौ ॥ ॥४१॥ तस्मात्सत्यव्रतक्षेत्रमाजगामांजसा गिरेः ॥ देवराज प्रण- म्याथ मधुरांतकमागमत् ॥४२॥ वीरनारायणपुरं गत्वा नाथमुने- महत ॥ योगाभ्यासस्थलं नत्वा ततः श्रीरंगमागतः ॥ ४३ ॥ एवं प्रदक्षिणं कृत्वा भुवः श्रीरंगनायकम् ॥ प्रणिपत्य यतिश्रेष्ठः स्वमठं प्रविवेश ह ॥४४॥ इदं महत्पुण्यफलं पुरातनं कृतं यतीद्रेण भुवः प्रदक्षिणम् ॥ शृण्वंति गायति सदा नरोत्तमास्ते यांति लोकं मधुवैरिणो हरेः॥४५॥ इति श्रीप्रपन्नामृते रामानुजचरित्रे श्रीकूर्म- वेंकटनिवर्हणं नाम पतिशोऽध्यायः ॥३६॥ सप्तत्रिंशोऽध्यायः कांच्या पश्चिमदिग्भागे कोशमात्रादनंतरम् ॥ अग्रहारो महाना- सीत्कूर इत्यभिविश्रुतः ॥ १॥ यो हि तस्याधिपत्येन कूराधिप इति श्रुतः ॥ स श्रीमान्कूरनाथार्यस्तस्मिञ्छीकूरनामके ॥ २ ॥ अन्न- दानपरो नित्यमुवास कतिचित्समाः ॥ कुत्रेरधनसंपत्तिः सकुटुंबो महायशाः ॥३॥ धर्मैकनिरतो धीमान सर्वशास्त्रविशारदः॥आदि- त्योदयमारभ्य निशि यामद्वयावधि ॥ ४॥ पंग्बंधकृपणादिभ्यःस- र्वेभ्यो ह्यन्नमादरात् ॥ प्रददौ भक्तिभावेन निरंतरमतंद्रितः ॥ ५ ॥ कदाचिदन्नशालायां तं महांत खं निशि ॥ तस्य कांच्या कपा- टानां निमीलनसमुद्भवम् ॥६॥ मेघनादनिभं श्रुत्वा लक्ष्मीवरद- वल्लभा॥ विस्मिता वरदं प्राह प्रभो कोयं महान् खः ॥७॥ नि- शीथे सांप्रतं देव श्रुतः कश्चिन्महान् वः॥ तस्याहं ज्ञातुमिच्छामि हि कौतूहलं हि तत् ॥८॥ तस्यास्तद्वचनं श्रुत्वा तत्सर्व वरद- स्तदा ॥ न्यवेदयन्महादेवीं सम्यक् कूरेशवैभवम् ॥ ९॥ तच्छुत्वा. विस्मिता देवी वरदं पुनरवीत् ॥ तमहं द्रष्टुमिच्छामि त्वमिहानय अध्यायः ३७. (११५) सत्वरम् ॥ १०॥ तदंगीकृत्य वचनं महादेव्याः श्रियः पतिः॥ दिदे- शानयने तस्य कांचीपूर्ण हरिर्जवात् ॥ ११॥ तदंगीकृत्य शिरसा भगवच्छासनं परम् ॥ कांचीपूर्णों ययौ धीमान् कूरेशांतिकमादरात् ॥ १२॥ कांचीपूर्ण महात्मानं कूरेशो भगवत्परः॥ यथार्ह पूजया- मास प्रत्युत्थानाभिवादनैः ॥ १३॥ एवं संपूजितस्तेन कृतासनपरि- ग्रहः ॥ अवोचदखिलं तस्मै यत्तदाह्वानकारणम् ॥ १४ ॥ कांची- पूर्णस्य वचनं कूरेशस्तन्निशम्य सः॥ विचार्य सुचिरं तत्र कांची- पूर्णमभाषत ॥ १५॥ काहं कृतघ्नो दुर्मानी पापिष्ठः परवंचकः ॥ वासौ लक्ष्मीर्जगन्माता ब्रह्मरुद्रादिवंदिता ॥ १६ ॥ नारायणप्रिया देवी विष्णुवक्षस्थलालया ॥ जगजन्मलयौ स्यातां पालनं च भवे- किल ॥ १७ ॥ यदुन्मेपनिमेपाभ्यां श्रियै तस्मै नमोनमः ॥ मद- त्रयविहीनस्य मुक्तिस्तस्य करे स्थिता ॥ १८॥ मदत्रयैकनिद्रस्य नैव मोक्षः कदाचन ॥ इत्युक्त्वा कूराट् शीघ्रं सर्व संत्यज्य तत्क्षणात् ॥ १९॥ श्रीरंगाभिमुखो धीमान् प्रतस्थे विगतस्पृहः ॥ कांची- पूर्णः स तत्सर्व विलोक्यात्यंतविस्मयः ॥ २० ॥ श्रीदस्तिशैलमा- साध वरदाय न्यवेदयत् ॥ देवराजः श्रिया साई श्रुत्वा तस्य विचे- टितम् ॥२१॥ मदहीनं च वैराग्यं प्रमुमोद जगत्पतिः॥ आंडाला- ख्याथ तत्पत्नी सा भर्तारं विलोक्यतम् ॥२२॥ सर्व विसृज्य गंतारं श्रीरंगं प्रति सत्वरम् ॥ सुवर्णचपकं चैकं कृत्वा वस्त्रेणं वेष्टितम्॥२३॥ आदाय सहसा तस्य सा साध्वी पुरतो ययौ ॥ आयांती पुरतो वीक्ष्य तां स्वधर्मानुरोधिनीम् ॥ २४ ॥ अपांगवीक्षणैरीपत्संपश्यन्सत्वरं ययौ ॥ अरण्यमार्गे कस्मिंश्चित्साज्ञातगमना तदा ॥२५ ॥ सुभीता पुरतो यांत भारमिदब्रवीत् ॥ ब्रह्मन् भो नाथ मार्गेस्मिन् भयं किं नास्ति वैकिल ॥२६॥ भायर्यावचनमाकर्ण्य कूरेशस्तामथाब्रवीत् ॥ भयं वित्तवतस्तस्य मार्गे सर्वत्र चास्ति हि ॥ २७ ॥ यथामिपं जले (११६) प्रपन्नामृते- मत्स्यैर्भक्ष्यते श्वापदैर्भुवि ॥ आकाशे पक्षिभिश्चैव तथा सर्वत्र वित्तवान् ॥२८॥ भयमर्थवतां नित्यं मृत्योः प्राणभृतामिव ॥ यदि त्वदतिके द्रव्यमस्ति तदेहि मेधुना ॥२९॥ भर्तुर्वचनमाकर्ण्य मुग्धैवं वाक्य- मब्रवीत् ॥ पयःपानाय भवतो हिरण्यचपको मया ॥३०॥ सर्वस्वदाने तत्सर्व विसृज्यैकः समाहृतः ॥स एप वस्त्रसंछन इति भर्ने ददौ भयात् ॥ ३१ ॥ तमनर्घमणिप्रोत हैरण्यं चपकं मुदा॥ दूरे विसर्जया- मास कानने विगतस्पृहः ॥ ३२॥ ततो भार्यामुखं वीक्ष्य व्याजहार वचशुभम् ॥ भयं कुत्रापि ते नास्ति समागच्छ यथासुखम् ॥३३॥ तूष्णीभूता विलोक्येदं साध्वी भर्तृविचेष्टितम् ॥ निशम्य तद्वचः सत्यं गतभीरन्वगात्तदा ॥३४॥ स धर्मचारिणी भार्या समादायाथ कूरराट् ॥ श्रीरंग सत्वरं प्राप रंगराजदिदृक्षया ॥३५॥ कूरेशागमनं श्रुत्वा भाष्यकारः प्रहर्पितः ॥ शिष्यैस्तमानयामास कूरेश स्वमठे तदा ॥३६॥ सतेन सम्यग्योगींद्रः कूरेशेनाभिवन्दितः ॥ तं, परि- प्वज्य बाहुभ्यां प्रहमतुलं ययौ ॥३७॥ कृताधिवासः श्रीरंगे कूरेशो देशिकप्रियः ॥ उंछवृत्तिपरो नित्यमुवास स महायशाः ॥३८॥ विसृज्य कूरे महतीं श्रियं च तेनाशुभं त्यक्तमवयं सन् ॥ श्रीरंगमा साद्य ततोंछवृत्या भार्यासमेतः सुखमध्युवास ॥ ३९ ॥ इति श्रीप्रप- नामृते रामानुजचरित्रे कूरेशस्य सर्वसंपत्परित्यागपूर्वकश्रीरंगनित्य- वासो नाम सप्तत्रिंशोऽध्यायः॥३७॥ अष्टात्रिशोऽध्यायः। अथ कूरेश्वरःश्रीमान्सर्वशास्त्रविशारदः।आचार्या●कनिरतः पंच- कालपरायणः॥३॥विपयेष्वपि सर्वेषु विशेषेण पराङ्मुखः॥ उंछवृत्त्यैव दिवसान क्षिपन् रंगे सुसंस्थितः॥२॥ वृष्टिः कदाचिद्वर्पती चामध्यं- दिनमप्यभूत् ॥कालातिक्रमणेनास्य नोंछवृत्तिस्तदाभूवत् ॥ ३ ॥ द्रव्यस्य संचितस्यास्य तत्राभावाढहे तदा ॥ स्नात्वा हरि समाराध्य फलं किंचिनिवेद्य च ॥ ४ ॥ शालिग्रामशिलातीर्थ स्वीकृत्य

अध्यायः ३८.
(११७)
स्वगृहे स्थितः ॥ ततः सायंतनीयं तत्कर्म कृत्वा महातपाः॥५॥
रंगेशं संप्रणम्याथ स्वगृहं प्राप्य कूरराट् ॥ शठारिसूक्तमजपशेते
गुरुपरायणः ॥ ६॥ तदा महद्रंगनाथनैवेद्यसमयोभवत् ॥
काहलीनादमाकर्ण्य भार्या कूरेश्वरस्य सा ॥७॥ व्याजहार शुभं वा-
क्यं रंगेशं भर्तृतत्परा ॥ त्वद्भक्तः क्षुधया शेते करोपि त्वं तु भोजनम्।।
॥ ८॥ तन्निशम्याथ रंगेशो भगवान भक्तवत्सलः ॥ स तस्योत्त-
मपूर्णस्य स्वश्रीरंगाधिकारिणः ॥९॥ स्वप्ने प्रसन्नः कृपया व्याजहार
वचः शुभम् ॥ शर्कराज्यादिसहितं मत्प्रसादं सुपावनम् ॥ १० ॥
छत्रचामरवाद्यादिसहितं सहसाधुना ॥ समर्पय समादाय रेशाय म-
हात्मने ॥११॥उत्तमः सहसोत्थाय यथा स्वप्नं तथैव सः॥ तत्प्र-
सादं समादाय कूरेशायादिशत्तदा ॥ १२॥ श्रीवत्सचिह्नः सहसा त-
त्प्रसादं सुपावनम् ॥ भत्त्यांगीकृत्य सहसा ततो धीमानचिंतयत
॥ १३ ॥ सर्वाभीष्टानि रंगेशो दत्तवान्पूर्वमेव मे ॥ किमर्थमधुना दत्तः
प्रसादो रंगिणाधुना ॥ १४॥ किमिदं चैतदाश्चर्यमिति संचिंत्य भूय-
शः ॥ भार्या ततोब्रवीदेवीं किं त्वया हृदि चिंतितम् ॥ १५॥ तेनैव-
मुक्ता भर्तारं प्रांजलिक्यिमत्रवीत् ॥न प्रार्थितं मया स्वामिन् किम-
प्येतं जगत्पतिम् ॥१६॥ रंगेशभुक्तिसमये श्रुतः काहलिकारवः ॥ त्वं
तु भोक्ष्यसि रंगेश भक्तस्ते क्षुधयान्वितः ॥ १७ ॥ इत्येतन्मात्रमेवा-
घ चिंतितं हृदि नापरम् ॥ तयैवमुक्तः कूरेशस्तां भार्यामिदमब्रवीत्
॥ १८॥ किमेवं गतितुं युक्तमिति निर्भय॑ चिंतितम् ॥ तत्प्रसाद
समादाय भार्यायै प्रददौ मुदा ॥ १९॥ तेनैव हेतुना साध्वी तत्पनी
गर्भमादधौ ॥ पराशरस्य व्यासस्य भागेन विवुधोत्तमौ ॥२०॥ रंगे-
शानुग्रहाजातौ पुत्रौ तस्यां महौजसौ ॥ कूरेशाच्छुभकृद्धर्षे वैशाखे पू-
र्णिमातिथौ ॥२१॥अनुराख्यनक्षत्रे पुरा कुशलवाविव ॥ शिश्वोर्य-
तीश्वरः कर्ता जातनामादिकर्माण ॥२२॥ स्वातंत्र्यं मम नास्तीति
कूरेशो निर्भरः स्थितः।।जाताशौचावसाने तु कृपया यतिपुंगवः॥२३॥

(११८) प्रपन्नामृते- कूरेशगृहमागत्य गोविंदमिदमब्रवीत् ॥ कूरेशपुत्रावादाय समा गच्छ सुसत्वरम् ॥ २४ ॥ प्रतिगृह्य गुरोर्वाक्यं गृहांतः संप्रविश्य च ॥ कूरेशपत्न्यै तत्सर्वं निवेद्यागमनं गुरोः ॥२५॥ दृष्टिदोपनिवृत्यर्थ रक्षायै च विचक्षणः ॥ मंत्ररत्नजपेनैव शिशुभ्यां कृतमंगलः ॥२६॥ कूरेशपुत्रावादाय यतींद्राभ्याशमभ्यगात् ॥गोविंदो दर्शयामास लक्ष्म- णार्याय तौ शिश॥२७॥ दृष्ट्वा यतींद्रः संतुष्टस्तयोः 'सर्वागसौंप्टवम् ॥ बालयोर्मुखलावण्यं गोविंदं चात्रवीदिदम् ॥ २८॥ द्वयगंधः समा- याति भवता किं कृतं वद एवं वदति योगीन्द्रे गोविंदो वाक्यमब्रवीत ॥ २९ ॥ कुर्वन् द्वयानुसंधानं तावादायागतोभवम् ॥ तच्छ्रुत्वा लक्ष्मणाचार्यों गोविंदमिदमब्रवीत् ॥३० ॥ शिष्यौ गोविंद कर्त्तव्यौ भवानेव हि कारणम् ॥ एतयोलियोः सर्वानान्ब्रूहि यथा- र्हतः॥३१॥ पंचायुधयुते चैव तयोराभरणे शुभे ॥धारयित्वा तयोः कंठे स्वहस्तेन यतीश्वरः॥३२॥ कूरेशपुत्रयोस्तेन गोविदेन महा- स्मना ॥ कारयामास विधिना शंखचक्रादिलांछनम् ॥ ३३ ॥ श्रीपराशरनाम्ना च तयोज्येष्ठस्य वालयोः॥ श्रीपराशरभट्टार्य्य इति नामाकरोत्तदा ॥३४॥ वेदव्यासाभिधानेन कृत्वा नामापरस्य च ॥ अभिरामतया तस्य ज्येष्ठपुत्रादिशेपतः ॥ ३५ ॥ श्रीरामदेशिक इति नाम कृत्वा द्वयं गुरुः॥ द्वितीयं यामुनार्यस्य तदुःखं, प्रममार्ज सः॥ ३६ ॥ उत्तीर्णतो रंगधुरंधरेण राशरः कूरकुलप्रदीपः ॥ गोविंदशिष्यस्स तु यामुनार्य्यमनोरथं पूरितवान् द्वितीयम् ॥३७॥ एवमुत्तमपूर्णेन लक्ष्मीकांते च भापिते ॥ गोविदस्यानुजः कश्चिद्वाल- गोविंद इत्यभूत् ॥ ३८॥ तस्य गोविदभट्टस्य तदा पुत्रो व्यजायत। भाष्यकारोथ तच्छुत्वा परं हर्पमवापसः ॥३९॥ गोविंदगृहमागत्य सुतं तस्य विलोक्य च ॥ श्रीपरांकुशपूर्णार्य इति नाम विधाय च ॥ ४० ॥ बालगोविंदपुत्रस्य संतुष्टो यतिभूपतिः ॥ तृतीय अध्यायः ३९. (११९) यामुनार्यस्य तदुःखमुदवासयत् ॥ ४१ ॥ गोविंदराजान्वयजो मनीपी परांकुशो यामुनवैमनस्यम् ॥ अपाचकार प्रसभं तृतीयं विराजते वृत्तमणिप्रदीपः ॥ ४२ ॥ एवमुत्तमपूर्णेन लक्ष्मीकांते व भापितम् ॥ यतिराजकटाक्षेण ते च संवर्धितास्त्रयः ॥ १३ ॥ सम्यग् ववृधिरे भूम्यामुदितार्कसमप्रभाः ॥ १४ ॥ श्रीया- मुनार्यस्य जगद्धितार्थमपूरयत्रीणि मनोरथानि ॥ अवाप्तकामः स ज- गाम हर्प रंगेशतो लक्ष्मणदेशिकेंद्रः ॥ ४५ ॥ इति श्रीप्रपन्नामृते रामानुजचरित्रे श्रीपराशरभट्टार्यायवतारकथायां श्रीयामुनार्यमनोर- थत्रयपूरणं नाम अष्टत्रिंशोऽध्यायः ॥ ३८॥ एकोनचत्वारिंशोऽध्यायः। श्रीपराशरभट्टार्य रंगेशो भक्तवत्सलः ॥ पुत्रस्वीकारमकरोत्पीत- हारिद्रशंवरः॥१॥ श्रीरंगनायकी तं च पुत्रं पोपितवत्यभूत् ॥ तया संवड़ितो नित्यं लालितो योपितस्तदा ॥ २ ॥स बालो ववृधे श्रीमान् बालसूर्य इवोदितः । स्वनिवेदनतः पश्चात्प्रसादं पड्गुणैर्य- तम् ॥ ३॥ दापयामास सततं पुत्राय भगवान् हरिः ॥ एवं विव- द्वितो बालो रंगेशेन दयालुना ॥४॥ श्रीपराशरभट्टार्यों ववृधे पूजि- तो जनैः ॥ ततः कदाचित्संप्राप्ते स्वजन्मर्शमहोत्सवे ॥६॥पठंतं शठजित्सूक्तिं बालः कूरेशमब्रवीत्॥ भो तात पठिते ग्रंथे बकुलाभरणे- रिते ॥ ६॥ महत्त्वाणुत्वयोरेकवस्तुवासित्वमुच्यते ॥ तयोविरुद्धयोः कस्मात्तत्संभवति मे वद ॥७॥ सामानाधिकरण्यं तु न तेजस्तमसो- यथा ॥ श्रीवत्सचिह्नस्तद्वाक्यं पुत्रोक्तं युक्तिसंमतम्।।श्रुत्वा सम्यक् सम्यगिति प्रदृष्टः प्रत्युवाच तम् ॥ हे पुत्र नोपनीतस्त्वं श्रुति न श्रोतुमर्हसि ॥ ९॥ अथ वीथ्यां रंगपुत्रे क्रीडासक्तेर्भकैर्जनः । सर्वज्ञ- भट्टागमनसूचके काहलीवे ॥१०॥ श्रुते लक्ष्मणयोग्याद्या संग- तास्तदिदृक्षया ॥ तत्रांतरे रंगसुतो गृहीत्वा वालुकां तदा ।। ११ ॥

(१२०) प्रपन्नामृते- सम्यगंजलिना वेगादाजमार्ग निरंकुशः ॥ सर्वज्ञभट्ट संप्राप्य तमेवं वाक्यमब्रवीत् ॥ १२॥ सर्वज्ञश्चेद्वदेमां त्वं कियती सिकताधुना ॥ स किंचिदपि तं वक्तुमशक्तो लज्जितोभवत् ॥ १३॥ सोर्भकः प्रह- सन् वाक्यं तं सर्वज्ञमथाब्रवीत् ॥ किंवा न शक्यते वक्तुमित्येपां- जलिवालुका ॥ १४॥ इत्येतन्मात्रवचनमप्यशक्तोसि भापितुम् ॥ सर्वज्ञभट्टनामेदं भवतो युज्यते कथम् ॥ १५॥ तस्मात्त्वमज्ञता प्राप्तः संप्रत्युत्सृज्य नाम तत् ।। आडंबराणि सर्वाणि तूर्ण याह्यत्र मा वस ॥ १६॥ कूरेशसुतमित्येवं ज्ञात्वा तत्र स्थितैर्जनैः ॥ सर्वज्ञभट्टः सहसा तं बालं सुमहौजसम् ॥ १७॥ कूरेशपुत्रं शिरसि निधाया- त्यंतविस्मयः॥ कूरेशस्य गृहद्वारसमीपं सहसा ययौ ॥ १८॥ हेमां- वा नाम वै काचिद्योपिदागत्य संभ्रमात ॥ तं पुत्रं सहसादाय दोामालिंग्य सत्वरम् ॥ १९॥ ब्रह्मरंधं समाघाय चुचुंब बहुधा- र्भकम् ॥ रक्षां कृत्वा द्वयेनाथ तस्मै श्रीरंगसूनवे ॥२०॥ उत्तरी- येण संच्छाद्य विवेशांतःपुरं सती ॥ जनन्यै सादिशत्पुत्रं भट्टार्य मुदितानना ॥२१॥श्रीपादतीर्थ सा माता पुत्रप्रेमवती तदा ॥ कृता- शिपो बहुविधा पुत्राय प्रददौ मुदा ॥२२॥ अथोपनीतं तं पुत्रं कूरेशो गुरुसंन्निधौ ॥ वेदाध्ययनसिद्ध्यर्थ स्थापयामास बालकम् ॥२३॥ आरंभदिनमात्रं तु स्थित्वा तत्र स बालकः ॥ क्रीडासक्तोभवद्भूयो राजमार्ग निरंकुशः ॥२४ ॥ क्रीडतं पुत्रमालोक्य कूरेशस्तमथा- ब्रवीत् ॥ बालकेप्वद्य सर्वेषु वेदाध्ययनमादरात् ॥ २५ ॥ कुर्वत्सु पुत्र कस्मात्त्वमागतः क्रीडितुं जवात् ॥ एवं वदति कूरेशे भट्टार्यों वाक्यमब्रवीत् ॥ २६॥ आधीतं पूर्वदिवसे वेदमस्मिन्दिनेपि च ॥ पठति बालकास्तात तस्मादद्यागतोभवम् ॥२७॥ तत्पुत्रवचन श्रुत्वा कूरेशो वाक्यमब्रवीत् ॥ त्वं ब्रूहि पुत्र पूर्वेयुः पठितं पूर्वमद्य मे ॥२८॥ तथास्त्विति स भट्टार्यस्तत्सर्व व्याजहार ह ॥ तच्छ्रुत्वा पितरौ तस्य भिया संक्रांतचेतसौ ॥२९॥ इदानी प्रेपितुं बालं विद्या- - अध्यायः ३९. (१२१) भ्यासाय नोचितम् ॥ इत्यालोच्य सुतं स्थाप्य कृतरक्षं कुमा- रकम् ॥ ३० ॥ निन्यतुस्सदनं वेगादंपती तौ महौजसम् ॥ अथ कूरेशगोविंदौ चक्रतुः शास्त्रवित्तमौ ॥ ३१ ॥ तत्त्वशि- क्षामर्थशिक्षा सर्वशिक्षां च सादरम् ॥ श्रीपराशरभट्टार्यमहते रंगसूनवे ॥ ३२ ॥ श्रीपराशरभहार्य ततः संजातयौवनम् ॥ दृष्ट्वा कूरेश्वरः प्राह प्रणिपत्य यतीश्वरम् ॥ ३३ ॥ स्वामिन् यतीश भट्टार्यस्त्वदासः प्राप्तयौवनः । तस्य भाव्यं विवाहेन कुत्र कार्य द्विजा- तिषु ॥ ३४॥ ब्राह्मण्यवैष्णवत्वाधैरस्मत्सदृशबंधुपु । विवाहं भवता कार्य सम्यगालोच्य धीमता ॥ ३५ ॥ इत्युक्तः कूरनाथेन यतीशः प्रत्युवाच तम् ॥ पूर्यवंशे महति वृहच्चरणनामके ॥३६॥कन्यका वर्तते रम्या त्वत्पुत्रस्योचितैव सा ॥ स्वसूत्रशाखाब्रह्मण्यवैष्णवत्वादि- लक्षणैः ॥३७॥ वृहचरणसंताना ह्यस्मद्वंशसमीकृताः ॥ तत्तत्र कार्य भट्टस्य पाणिग्रहणमंगलम् ॥ ३८॥ तच्छ्रुत्वा वचनं तस्य कूरेशो यतिभूपतेः ॥ अंगीकृत्याशु संतुष्टः पत्न्या संमंत्र्य सादरम् ॥ ३९ ॥ गुरुणा वैष्णवैः सर्वैर्यतोंद्रेण च संवृतः ॥ तत्र गत्वा करनाथः कन्यकां तामयाचत ॥४०॥ स चाभिजात्यं भट्टस्य वृहचरणवंशजः॥ निशम्य तस्मै तां कन्यां प्रदातुं संमति गतः॥४१॥ ततो नवीनसं- बन्ध इति तत्संशयं गतः॥ ततः कूरपतेभार्या भत्तारमिदमत्रवीत् ।। ॥ ४२ ॥ अधीतसर्ववेदस्य प्राप्तयौवनसंपदः ॥ सूनोर्विवाहः कर्तव्यः सांप्रतं धीमता त्वया ॥४३॥ तयैवमुक्तस्ता भार्या प्राह कूराधिपो महान् ॥ अस्यैश्वर्यकुटुंबस्य न्यूनता किमतोधुना ॥ ४४ ॥ ततो रंगेश्वरं प्राह कूरेशो भक्तवत्सलम् ॥स्वामिन् रंगेश भट्टार्य्यस्त्वत्पुत्रः प्राप्तयौवनः॥४५॥ तस्य वैवाहिक कार्य कर्त्तव्यं किं न वाधुना ।। इत्युक्तं रंगनाथस्तं कूरेशमिदमत्रवीत् ॥४६॥ तस्योद्वाहं च भहस्य कर्ता तु न भवान् भवेत् ॥ अहमेव हि तत्कर्ता निर्भरस्त्वं सुखं (१२२) प्रपन्नामृते- वस ॥४७॥ ततो रंगेश्वरः स्वप्ने तस्येदं वाक्यमत्रवीत् ॥ मत्पुत्राय प्रदेहोति भट्टार्यायाशु कन्यकाम् ॥४८॥ ततः पूर्णार्यदायादः रंगेशेन प्रचोदितः ॥ अकरोत्कन्यकादानं रंगपुत्राय धीमते ॥४९॥ ततः कदाचिच्छ्रीरंगे सभायां यतिपुंगवः ॥ कथायां तु प्रवृत्तायां विविधायांमहायशाः ॥५०॥ लक्ष्मणार्योत्रवीद्राक्यं वैष्णवांश्च सभा- सदः॥चतुर्थाश्रममापन्ने तस्मिन्काले पुरा मयि ॥५१॥ विनादाशरथिं देहसंबंधो वर्जितो मया ॥ ततस्ते वैष्णवाः सर्वे यतिराजमथा वन् ॥५२॥ स्वामिन्तवेदं गदितुं कि युक्तं यतिपुंगवतानाह यतिराजोथ शिप्यानेवं वचस्तदा ॥५३॥ यथा त्रिदंडः संग्राह्यो तथा दाशरथि- मम ॥ ततः पठति योगोंद्रे शठजित्सूक्तिमालिकाम् ॥५४॥ तदा दाशरथिः श्रुत्वा मोहितस्तद्रशंगतः ॥ लक्ष्यणार्यः स तं दृष्ट्वा प्रोवा- चेदं विमोहितम् ॥ ५५ ॥ वेदवेद्ये परे पुंसि जाते दशरथात्मजे ॥ वे दुः प्राचेतसादासीत्साभाद्रामायणात्मना ॥ तद्वद्रामायणादासी. वेदो द्राविडरूपतः ॥५६॥ एतादृशैः शिष्यवरैर्यतींद्रः पीठेश्चतुः- सप्ततिभिस्समेतः॥ दिगंतकीर्तिः सुखमेव तस्थौ रंगे पुरे लक्ष्मणदेशि- केंद्रः ॥ १७॥ इति श्रीप्रपन्नामृते रामानुजचरित्रे श्रीपराशरभट्टा- य॑विवाहादिकथनं नाम एकोनचत्वारिंशोऽध्यायः ॥३९॥ चत्वारिंशोऽध्यायः। तस्यामानुपवैभवस्य महतः श्रीरंगपृथ्वीपतेः कैकर्याणि यथा त- था प्रतिदिनं चाव्याहतं कुर्वतः ॥ लोके सज्जनसंमता गुरुजना येन्ये च वै दुर्जनास्ते सर्वे करुणादृष्टिविपयाः शिष्याबभूवुः क्षणात ॥१॥ निचुलानगरे कश्चिन्मल्लवयों महाबलः ॥ चाणूर इव दुर्धर्षों धनुर्दासो बभूव ह ॥२॥ते तस्य मल्लवर्य्यस्य मल्ला ये चाखिला भुवि ।। बि- भ्यंति सर्वभूतानि मृत्योरिव समागमे ॥३॥धुनर्दासस्य तस्यासी- प्रिया काचिद्वरांगना ॥ हेमांबाख्या विशालाक्षी पूर्णचन्द्रनिभानना un तया संमोहितो नित्यं स मल्लो मदनातुरः॥ मुखावलोकनं कु- अध्यायः४०. (१२३) र्वन् तस्या एव समास्थितः ॥५॥ ततः कदाचिच्छ्रीरंगे रंगेशस्य जगत्पतेः।चैत्रोत्सवो महानासीत्सर्वेषां नयनोत्सवः ॥६॥रंगराजोत्सव श्रुत्वा हेमाम्बाख्या वरांगना ॥ द्रष्टुकामा ययौ शीघ्र श्रीरंग प्रति सादरम् ।। ७।। स तामनुययौ तृणतन्मुखालोकनातुरः ।। द्विप- दागे मुखस्यास्याः छत्रं कृत्वा प्रयत्नतः॥८॥ मुखावलोकनं कुर्वन स्खलद्गतिरसौ ययौ । एतद्विचित्रं संदृष्टं यतोंद्रेण महात्मना ।।९।। कृतस्नानेन कावेय्या शिष्यसंघावृतात्मना ॥ तचित्रं स विलोक्याथ शिष्यान्ग्रोवाच योगिराट् ॥ १० ॥ संपश्यताधुना चित्रमेतद्वैष्णवपुं- गवाः ।। भगवन्मायया ग्रस्तं स्त्रीदासं पुरुषाधमम् ।। ११॥ अयमेव हि लोकेस्मिन्दढं मूढतमो जनः॥ लज्जाविरहितो मार्गे वेश्यादास्य करोत्यलम् ॥ १२॥ लोके कामातुराः स्त्रीणां रहः कुवैति केचन ।। दास्यादिव्यवहाराणि न बहिः केपि वैष्णवाः ॥ १३॥ मदनांबुधिनि- मनं मत्तं स्त्रीदासमातरम् ॥ निर्लज्ज कामिनीभूतं मोहितं मूढचेतसम् ॥१४॥ रंगेशाभिमुखं शीघ्रं करिष्याम्यधुनेव तम् ॥ इत्युक्त्वा वैष्ण- वान्सर्वान् स्वपार्श्वस्थान् यतीश्वरः ॥ १९॥ आप्तान् कांश्चित्तदा शीघ्रं धनुर्दासस्य पृष्ठतः।। प्रेपयामास तत्स्थानं ज्ञातुकामो महाम- तिः ॥ १६॥ ततः स्वमठमाविश्य यतींद्रः करुणार्णवः॥ आनयामा- स सहसा धनुर्दासं तथाविधम् ॥ १७ ॥ तत्कटाक्षेक्षितः सम्यक्ताहशोपि स मल्लराट् ॥ आनीतो यतिराजेन तदंतिकमु- पागमत् ॥ १८॥ सम्यक्संपूर्णदृष्टयाथ यतींद्रो वीक्ष्य स- स्मितम् ॥ कृत्वा संमानमत्यंतं धनुर्दासं वचोब्रवीत् ॥ १९ ॥ को भवान वत्स कुवत्यः किनिमित्तमिहागतः ॥ ३ किं कायं वद तत्त्वेन तव श्रेयो भविष्यति ॥ २०॥ इत्युक्तस्तेन गुरुणा धनुर्दासः कृता- जलिः ॥ स्ववृत्तांतमशेपेण यतींद्राय न्यवेदयत् ॥ २१॥ निचुला- पट्टणस्थोहं धनुर्दास इति श्रुतः ॥ नियुद्धशास्त्रनिरतः सर्वमल्लमही- पतिः॥२२॥ अयं चैत्रोत्सवः स्वामिन् रंगेशस्याधुना किल ।

(१२४) प्रपन्नामृते- श्रीहरेरस्य सेवार्थमांगतोहं यतीश्वर -॥ २३॥ तच्छ्रुत्वा तमुवाचेदं यतीद्रः सस्मितं तदा ॥ श्रूयतामभिधास्यामि मा कोपं कुरु मां प्रति ॥२४॥ रहः कुर्वति दास्यानि स्त्रीणां कामातुरा जनाः॥ त्वा- दृशः कोपि न मया दृष्टः कामातुरो भुवि ॥ २५ ॥ जुगुप्सितामिदं कार्य शूरेण भवता कथम् ॥ कृतं सर्वेषु पश्यत्सु राजमार्गे निरं- कुशम् ॥ २६॥ तच्छुत्वा यतिराजस्य वचनं लज्जितो भृशम् ॥ स नम्रवदनो भीतः प्रांजलिर्वाक्यमब्रवीत् ॥२७॥ नाहं कामातुरः स्वामिन् न वेश्याजनलोलुपः ॥ हेमांबाख्या विशालाक्षी काचिद- स्ति वरांगना ॥ २८ ॥ महाविशाले तस्यास्ते ने पद्मदलायते ॥ विशालयोस्तयोः स्वामिन् निमनं मानसं मम ॥२९॥ संतप्तं सूर्य- किरणैर्यदि तन्मुखपंकजम् ॥ भवेत्संम्लानिते नेत्रे तथैव न भविष्यतः ॥३०॥ अतो मे हृदयं शीघ्रं वैकल्यं याति निश्चितम् ॥ एताव- न्मात्रमेवार्य व्यापारो मम देशिक ॥३१॥ तदेव शाधि शिष्याय मह्यमद्यैव यत् स्थितम् ॥ तच्छ्रुत्वा प्रहसन् वाक्यं यतींद्रः पूर्ण- वत्सलः ॥३२॥स्वपादपद्मप्रवणं कर्तुकामस्तमब्रवीत् ।। संदृष्टाभ्यां त्वया वत्स नेत्राभ्यामतिविस्तृते ॥ ३३ ॥ नेत्रे लोकोत्तरे दिव्ये विद्यतेऽस्याधुनैव ते ॥ सुंदरे दर्शयाम्यत्र मा तेभूत्र संशयः॥ प्रतिगृह्य वचस्तस्य धनुर्दासोभ्यभापत ॥ ३४ ॥ तल्लोचनादप्याधि काक्षिलाभो भवेदिदानों यदि मे यतींद्र ॥ तदा भवेन्मे महदर्थलाभ: प्राप्तो महात्मन् भवतः कटाक्षात् ॥ ३५॥ यतीश्वरस्तत्क्षणमेव शीघ्र स ते समादाय जगाम तत्र ॥ रंगेश्वरो यत्र फणींद्रतल्पे शेते महात्मा जगतां हिताय ॥३६॥रंग समासाद्य फणींद्रतल्पे शयानमा रघु- वंशभाग्यम् ॥ रंगेश्वरं मल्लवराय तस्मै प्रदर्शयामास यतींद्रनाथः ॥ ३७ ॥ आजानुबाहुमरविंददलायताक्षं मंदस्मितं मधुरकोमलगंड- भागम् ॥ माणिक्यरंजितविभूपणभूपितांग रंगेश्वर वरतुनें. स हरि अध्यायः४०. ( १२५) ददर्श ॥ ३८ ॥ सम्यक् प्रदाशु विशालनेत्रं रंगेश्वरं मल्ल- वराय तस्मै ॥ हस्तं प्रगृह्याहवरस्स तस्य जगाद वाक्यं कृप- यार्थसारम् ॥ ३९ ॥ अयं धनुर्दास रमाधिनाथः श्रीरंगनाथो जगतामधीशः ॥ अस्याक्षिवैपुल्यमिदं त्वयाद्य दृष्टं किलेवाप्र- तिमं हि सम्यक् ॥ ४० ॥ निशम्य तद्वाक्यमतीव सत्त्वं विलोक्य रंगेशविशालने। ॥ प्रहष्टचित्तः स तयोनिमग्नस्तस्थौ सदक्ष्णः कृपयैव तस्य ॥४१॥ नीत्वोपायबलेन तस्य पुरतः श्रीरंगपृथ्वीपतेः कृत्वा लोचनलोलनेत्रयुगलं तं मल्लमत्यादरात् ।। नियाजेन यती- श्वरः करुणया निर्व्याजसंरक्षकः सन्तोपेण मठं जगाम महता कारु- ण्यपाथोनिधिः॥४२॥ अयं जनो लक्ष्मणदेशिकेंद्रसम्बन्धिभूतो मम रक्षणीयः । इत्येव मत्वा भगवांश्चकार दयां स तस्मिन्नथ चा- पदासे ।। ४३॥ यतीशसंबंधमहाबलेन श्रीरंगराजस्य कृपाबलेन ॥ निरस्तकामादिमहारिवों बभूव मल्लाधिपतिर्महात्मा ॥ ४ ॥ जित- । निद्रो जिताहारः प्रत्यहं हरिसेवया ॥ अचंचलेक्षणस्तत्र तस्थावनि- मिपो यथा ॥४५॥ ततो यतींद्रः सहसा धनुर्दासं तमादरात् ॥ मठमानीय भक्ताय स तस्मै करुणानिधिः ॥४६॥ तीर्थ प्रसाद प्रददौ कृपया शिष्यवत्सलः । ततः संप्रार्थितस्तेन धनुर्दासेन योगि- सद् ॥ १७॥ चकार पञ्चसंस्कारान मल्लस्य विदितात्मनः ॥ धनु- दर्दासो यतीद्रस्य शिष्यो भूत्वा महामतिः ॥४८ ॥ नित्यकैंकर्य निरतः सन्तस्थौ गुरुसन्निधौ ॥ धनुर्दासस्य वृत्तांतं श्रुत्वा हेमांगना तदा ॥४९॥ विस्मयाविष्टहृदया जितकामा बभूव सा ॥ संजात- ज्ञानवैराग्या सा च लक्ष्मणदेशिकम् ॥ ५० ॥प्रणम्य प्रार्थयामास पंचसंस्कारकर्मणि अपारकरुणासिन्धुहेमांबां तां दृढव्रताम् ॥९॥ धनुर्दासेन तेनाशु पूर्ववत्समयोजयत् ॥ हेमांबायास्तदा तस्या धनुर्दासाच्छताधिकाः ॥ अवर्धत प्रतिदिनं ज्ञानभत्त्यादिसद्गुणाः ॥ ५२ ॥ तो दंपती लक्ष्मणदेशिकेंद्रपादारविदामृतपानसक्तौ ॥

(१२६) प्रपन्नामृते- तन्नित्यकैंकर्यरतौ महांती वभूवतुः संततमादरेण ॥५३॥ इति श्रीप्रपन्नामृते रामानुजचरित्रे धनुर्दासकनकांगनयोतिराजकृपालब्ध- श्रीवैष्णवसिद्धिर्नाम चत्वारिंशोऽध्यायः॥४०॥ एकचत्वारिंशोऽध्यायः। श्रीमान् लक्ष्मणयोगोंद्रः श्रीरंगे शिष्यसंवृतः॥ व्यरोचत महातेजा द्वितीय इवरंगराट् ॥॥रामस्य नित्यकैंकय्ये यथासीन्मारुतात्मजः॥ तथैव लक्ष्मणार्यस्य धनुर्दासो दृढव्रतः॥२॥कदाचिदुत्सवो जातः सुम- हारेंगभूपतेः।तीर्थदातार रंगेशेतीर्थवारिदिने तदा ॥३॥ धनुर्दासस्य पाणितु समालंब्य यतीश्वरः ॥ तत्र गत्वाततः स्नात्वा पुनरागमने तदा ॥४॥धनुर्दासस्य सहसा पाणिमालंव्य पाणिना ॥ शिष्यैः सह यति- श्रेष्टः स्वमठं प्रविवेश सः॥५॥ तं दृष्ट्वा विस्मयाविष्टाः प्रोचुर्ता- झणपंगवाः॥ धर्मात्मन्तस्यकों हेतुरुच्यतां यतिपुंगव॥६॥ तच्छु- त्वा तानुचेदं वैष्णवान्भगवान गुरुः ॥ विद्यामदो धनमदस्तृतीयो- भिजनो मदः ॥७॥ एते मदावलिप्तानामेत एव सतां दमाः॥ एतै- मदत्रयैर्मल्लो रहितोयं विपश्चितः॥८॥ अतः पाणिर्गृहीतोस्य मया स्नातन वैष्णवाः ॥ तेनैवमुक्तास्ते सर्वे वभूवुर्लजिता भृशम् ॥९॥ मल्लोयं मदनातुरोयमशुचिः शूद्रोयमत्यल्पको विद्वद्भिः श्रुतिपारगै- बिजवरः साम्यं कथं यास्यति । इत्येवं प्रवदंति सात्त्विकनिधिं तं चापदासं मुदा केचिद्वैष्णवपुंगवा यतिपतेः कैंकर्यधुर्य सदा ॥१०॥ असूयया तेखिलवैष्णवा भृशं वेदांतयुग्मार्थविशारदा अपि ॥ तद्भावविज्ञानविहीनमानसाश्चक्रुहि तस्मिन्महतीं तिरस्क्रियाम॥११॥ वैष्णवानामभिप्रायं तेपां ज्ञात्वा यतीश्वरः॥धनुर्दासगुणांश्चैव दोपां- स्तेपांच सादरम् ॥ १२॥ स्फुटं दर्शयितुं लोके यत्कार्य समचिंत- यत् ॥ शिष्यं कंचित्समाहूय स्वांतरंगं रहोत्रवीत् ॥ १३॥ अस्यां निशायां शालायां मठे वेदांतवेदिनाम् ॥ शोष्यमाणेषु वस्त्रेषु वैष्णवा- अध्यायः ४. (१२७) नां च रज्जुषु ॥ १४॥ कौपीनमानमात्रेण खंडयित्वा गृहाण भोः॥ केनाप्यलक्षितगतिः सर्ववस्त्रेषु सत्वरम् ॥ १५ ॥ प्रतिगृह्य गुरोर्वाक्यं स च शिष्यो महानिशि ॥ कौपीनानि जहाराशु तेषु वस्त्रेषु तत्तथा ॥ १६॥ प्रभातायां तु शर्वर्या तस्यां वैष्णवपुंगवाः॥ उत्थायालोक्य वस्त्राणि तानि सर्वाणि सत्वरम् ॥ १७ ॥ अवाच्या- नि मिथः सर्वे परुपाणि वचांसि ते॥ वदंतः सुमहाघोरं संग्रामं चक्रुर- द्भुतम् ॥ १८॥ यतिराजोपि तच्छुत्वा मन्दस्मितमुखस्तदा ॥ स तानाश्वासयामास वैष्णवान् प्रियभापणैः ॥ १९ ॥ ततः कदाचि- द्योगींद्रस्तं धनुर्दासमादरात् ॥ रात्रावानीय तेनैव संभापणपरोभवत् ॥२०॥ याममात्र गते तस्मिंस्तत्र लक्ष्मणदेशिकः ॥ नष्टांवराव समाहूय तान् रहो वाक्यमब्रवीत् ॥२१॥ मदंतिके धनुर्दासः सां- प्रतं वर्तते किल ॥ तस्य भार्या गृहे सुप्ता निद्रयापद्धता स्थिता ॥ २२ ॥ यूयं गूढचराः शीघ्रं धनुर्दासगृहं प्रति ॥ गत्वा तस्याः प्रसुप्ताया भूपणानि महाति च ॥२३॥ येन केनाप्युपायेन तान्या- दायाशु सांप्रतम् ॥ आगच्छंतु महाभागा ह्यज्ञातगमनागमाः ॥२४॥ ततो निशीथे सहसा वैष्णवा गुरुचोदिताः ॥धनुर्दासगृहं प्राप्य तत्र शय्यागृहस्थिताम् ॥२५॥शयानां मृदुशय्यायां हेमांबां तां दृढव- ताम् ॥ धुनुदाससती सुप्तां दृष्ट्वा हर्प प्रपेदिरे॥२६॥ ततस्ते वामशायि- न्यास्तस्याश्रीवेष्णवोत्तमा॥सर्वाभरणभूपिण्या:भूपणान्याखिलानि च ॥२७॥एकपावस्थितान्याशु कंकणादीनि यानि च ॥ तूर्ण गृहीतु- मुद्यक्ताः वभूवनिपुणास्तदा ॥२८॥ हेमांबा किंचिदुन्मील्य नेत्रे श्रीवैष्णवप्रिया ॥ दृष्ट्वा श्रीवैष्णवान् सर्वान् हरतो भूपणानि तान ॥२९॥ निमील्य लोचने भूयस्तूष्णी तस्थौ पतिव्रता । एकपार्श्व- स्थितान्याशु भूपणानि प्रदाय सा ॥३०॥वैष्णवेभ्यो महाभागा . भक्त्या श्रीवैष्णवप्रिया ॥ वामपर्ने स्थितान्याशु भूपणान्यपि स- (१२८) प्रपन्नामृते- वशः॥३१॥ प्रदातुकामा सा भत्त्या वैष्णवेभ्योखिलानि च ॥ पार्श्वन दक्षिणेनैव लुठंती शयने त्वभूत् ॥ ३२॥ तां प्रबुद्धां ततो ज्ञात्वा तूर्ण निर्गत्य वैष्णवाः ॥ भूपणानि तदा तानि यतींद्रायादिशन रहः॥३३॥ ततस्तं प्रेपयामास धनुर्दासं यतीश्वरः॥प्रेपितो यतिराजेन धनुर्दासो महात्मना ॥३४ निशीथे सहसा धीमाञ् जगाम स्वगृहं प्रति ॥ त- तो यतींद्रः संचित्य तानेव पुनरत्रवीत् ॥ ३५॥ अज्ञातगतयस्तस्य पृष्टतोयैव सत्वरम् ।। गत्वा तद्गृहपर्यंतं स्थित्वा गूढेन तदहिः॥३६॥ तयोः संजातवृत्तांत दंपत्यानिखिलं तदा ॥ ज्ञातव्यमवधानेन युष्मा- भिनिपुणं यथा ॥ ३७॥ अंगीकृत्याथ तद्वाक्यं वैष्णवा गुरुचोदिताः ॥ तथैव चक्रुः सहसा यतिराजाज्ञया तदा ॥३८॥ हेमांबाशु ततो ज्ञात्वा भर्नुरागमनं सती॥ घटेनोदकमादाय तस्याभिमुखमभ्यगात् ॥ ३९॥ अर्धागभूपितां भार्या तां विलोक्य सुविस्मितः ।। उवाच प्र- हसन् वाक्यं धनुर्दासो महामनाः॥४०॥ किमर्थमेकपार्श्व तु भूपणैर्भू- पितं त्वया ॥ एतत्पार्श्व विहायाद्य वद तत्कारणं मम ।।४१॥ निश-. म्य भर्तुर्वचनं सा सती वाक्यमब्रवीत् ॥ अधुनैतत्क्षणात्पूर्व समाग- त्याच वैष्णवाः॥४२॥ निद्रिताया मांगेषु भूपणाहेरणाद्यताः॥प्रबुद्धां किंचिदुन्मील्य तदा नेत्रे विलोक्य तान् ॥४३॥ मत्वा धन्याहम- स्मीति सुप्ता इव समास्थिता ॥ हृतं दक्षिणपार्श्वस्थं तदा तैः सर्वभूपणम् ॥ ४४ ॥ तदिदं वामभागस्थं भत्त्या निखिल भूपणम् ॥ प्रदातुकामा तेभ्योहं निद्रापरवशा इव॥१५॥ भागेन द- क्षिणेनाशु लुठंती ह्यभवं तदा ॥ मां प्रबुद्धामिति ज्ञात्वा कारणेनैव तेन ते॥४६॥ पलायिता ययुर्भीताः मा ते भूदन संशयः॥ तच्छुत्वा वचन तस्याः कुपितः कृष्णसर्पवत् ॥४७॥ व्याजहार शुभं वाक्यं भार्या हेमांगनां तदा ॥ स्वामिनः स्वं हरिष्यति स्वातंत्र्यं किं तवास्ति हि ॥४८॥ स्वातंत्र्येण हतं सर्व स्वातंत्र्यानरकं ध्रुवम् ॥ स्वातंत्र्यादेहच- लनं कृतं मूढे त्वाया तदा ॥४९॥ हित्वा समस्ताभरणं तेन ते वैष्णवा ।

- अध्यायः ४२. (१२९) गताः ॥ यत्तदाभरणं व्यर्थतवांगे भूपितं ध्रुवम् ॥५०॥वैष्णवांगी- कृतं सर्व भूपणं सफलं भवेत् ॥ इत्येवमनुशास्यार्यस्ता तत्त्वव- चनैस्तदा ॥ ५१ ॥ गुरुपादांबुजं ध्यायन निद्रा लेभे महा- यशाः॥ वैष्णवाः सर्ववृत्तांतं तच्छ्रुत्वा तत्रसंभवम् ॥५२॥ गुरु- पादांबुजं प्राप्य यतोंद्राय न्यवेदयन् ।। तन्निशम्य यतिश्रेष्टस्तरेवोदी- रितं वचः ।।५३ ।। संप्रष्टस्ततः सन्वैिष्णवानिदमब्रवीत ॥ वस्त्र- खंडापहरणं केनचित्कुटिलात्मना ।। ५४ ॥ कृतं तदपि चाज्ञाना- द्यूयं वैष्णवपुंगवाः ॥ अवाच्यानि प्रभापंतो वचांसि कुटिलाशयाः ॥५५॥ सुमहाघोरसंग्रामं कृतवंतः किल स्फुटम् ॥ एतत्कार्येण तस्यासीन किंचिच्चित्तवैकृतम् ॥५६॥ तस्या अपि विशेषेण तस्मा चित्तं सुनिर्मलम् ।। युष्माभिरेव संदृष्टं ज्ञानमप्रतिमं तयोः ॥१७॥ न जातेः कारणं लोके गुणाः कल्याणहेतवः ॥ एवं बहुविधं तेभ्यः शास्त्रार्थमुपदिष्टवान् ॥ ५८ ॥ तनिशम्याथ ते सर्वे बभूवुर्लजिता भृशम् ॥ प्रभातायां तु शर्वर्या तस्यां लक्ष्मणदेशिकः ॥१९॥ आन- यित्वा धनुदासं वृत्तांतं तनिवेद्य सः॥ भूपणानि ददौ तस्मै मुदा तानि महायशाः ॥ ६॥ परतंत्रः स तत्सर्व प्रतिगृह्याज्ञया गुरोः।। नित्य- कैंकर्यनिरतस्तस्थौ तत्रैव सर्वदा ॥ ६॥ एवं बहुविधं तस्य धनु- सिस्य विद्यते ॥ विचित्रं तचरित्रं तु केन वर्णयितुं शमम् ॥६RM यतिक्षोणीनाथः कनकतटिनीमजनमुखाग्रह कृत्यं कृत्वा करधृत- धनुर्दास असकृत् ॥ असूयास्तानामपि विशदयंस्तच्छुभगुणान धनुर्दासं व्यासायधिकृतमति स व्यतनुत ॥ ६३ ॥ इति श्रीप्रपन्ना- मृते रामानुजचरित्रे धनुर्दासहेमांगनयोर्गुणकृतोत्कर्षप्रकटनं नामैक- चत्वारिंशोऽध्यायः ॥४१॥ द्विचत्वारिंशोऽध्यायः। मारणेराख्यपूर्णस्य महापूर्णो महायशाः ॥ ब्रह्ममेधेन संस्कारं च- कार गुरुशासनात् ॥३॥तच्छ्रुत्वा वैष्णवाः सर्वे निनिंदः पूर्णदेशिक-

(१३०)
प्रपन्नामृते-
म् ॥ शूद्रसंस्कारकारीति तच्छुश्रपणकृत्सदा ॥२॥ ब्राह्मणेषु कथं
योग्यो वर्णधर्मव्यतिक्रमः ॥ अतुलायी ततः श्रुत्वा संप्राप्तं दुर्यशः
पितुः ॥३॥ ततोधिकतमं सम्यग्रंगिण्यापाद्य दुर्यशः॥ सम्यक्ट्री-
पाणियोगीभक्षणाद्ब्रह्मणीश्वरे ॥ ४॥तीर्थप्रसादग्रहणं वंदनं चततो
हरेः॥ नैव कर्त्तव्यमित्येवं वैष्णवानाह निर्भया ॥५॥ श्रीपरांकु-
शपादाभ्यां शप्ता हरिपरायणा ।। गुरुशुश्रूपणरता सा तस्थौ पितुरंति-
के ॥६॥ तच्छ्रुत्वा लक्ष्मणाचार्यो देशिकं प्राप्य सत्वरम् ॥ पूर्णार्य
प्रणिपत्याह वचस्सानुनयं तदा ॥७॥ मयि कुर्वति संस्कारान्वि-
नियुक्तानिमाञ् जनान् ॥ कथं च तेन मार्गेण वर्णधर्मविरोधिना
॥ ८॥ भवानपोह्य तन्मार्ग मागौतरमुपाश्रितः॥ तच्छ्रुत्वा तमु-
काचेदं पूर्णार्यो यतिपुंगवम् ॥ ९ ॥ सामान्यधर्म लोकेषु प्रवर्त-
यितुमादरात् ॥ इक्ष्वाकुवंशसंभूतादाघवात्किमहं महान् ॥ १० ॥
अयं पूर्णां निकृष्टः किं गृध्रराजाजटायुपः ॥ सामान्यधर्मनिरता-
धर्मपुत्रादहं महान् ।। ११॥ किमयं विदुरात्पूर्णो निकृष्टः किं यती-
श्वर ॥ न शूद्रा भगवद्भक्तास्ते वै भागवता इति ॥ १२ ॥ न
कर्मबंधनं जन्म वैष्णवानां च विद्यते । स शूद्रो नैव शूद्रः स्यादिति
श्रुत्यर्थमेव च ॥ १३॥ प्रतिगृह्य गुरोर्वाक्यं संतुष्टोभूयतीश्वरः ।।
ततः कदाचिद्योगोंद्रः कंचिन्मूकं प्रगृह्य च ॥ १४ ॥ बद्धा कपाट
सुदृढं गृहति संप्रवेश्य तम् ॥ स्पृष्ट्वा स्वदेहं मूकाय प्रदोवाच सं-
ज्ञया ॥ १५ ॥ इममेव हि जानीहि शरणं गुरुविग्रहम् ॥ तदेव
रक्षकमिति मूकः सम्यगमन्यत ॥ १६॥ कपाटरंधमार्गेण कूरनाथो
विलोक्य तत् ॥ अत्याश्चर्ययुतो धीमान् दुःखितो वाक्यमत्रवीत
॥ १७॥ कुले महति संजातः पट्शास्त्राण्यप्यधीतवान ॥ अहं स्या
यदि मूको वै मह्यं दास्यति योगिराट् ॥ १८॥ इदं रहस्यमित्युक्त्वा
मोहितोभून्महामतिः॥यतींद्रः संशयं तेषां हृदिस्थमपि नोदयन्॥१९॥

अध्यायः ४३. (१३१) कूरेशादिकशिष्यैस्तु गत्वा श्रीरंगधामतः ॥ गोप्टीपुरंत सदने दृढबद्धकपाटके ॥ २० ॥ ध्यायंतं स्वगुरुं धीरं गोष्ठीपूर्ण विलो- क्य तम् ॥ यतींद्रः प्रणिपत्याह बद्धांजलिपुटस्तदा ॥ २१॥ को मंत्रः किं च ते ध्यानं ब्रूहि मे गुरुपुंगव ॥ एवं युवति योगोंद्रे गोष्टी- पूर्णोत्रवीदिदम् ॥ २२॥ जपतो यामुनार्यस्य कावे-मघमर्पणम् ।। कूर्मपृष्टमिवाभाति पृष्टं तस्य यतीश्वर ॥ २३ ॥ तदेव हि मम ध्यानं मंत्रो यामुननाम च ॥ तस्माद्गुरुशरीरं च ध्येयं जप्यं च नाम तत ॥२४॥ वालमूकजडांधाश्च पंगवो वधिरास्तथा ॥ सदाचार्येण संदृष्टा गमिष्यंति परां गतिम् ॥ २५॥ ध्यानमूलं गुरोर्मुर्तिः पूजा- मूलं गुरोः पदम् ॥ मंत्रमूलं गुरोर्नाम मोक्षमूलं गुरोः कृपा ॥२६॥ इत्युक्तेन प्रकारेण वालमूकजडादिकान् ॥ सर्वान्संशयनिर्मुक्तान्कुर्वन लक्ष्मणदेशिकः ॥ २७॥ कूरेशदाशरथ्यादिशिष्येभ्यः प्रतिपादयन् ॥ श्रीभाष्यार्थ रंगधानि न्यवसत्स महायशाः॥ २८ ॥ जप्यं नाम गुरोर्न चान्यदनिशं स्मयं च तद्वै वपुस्तद्वत्सोयमुपास्य नित्यवसतौ हेतुर्गुरुः सर्वथा ॥ इत्याचर्थचयं यतिक्षितिपतिः स्वस्वाश्रितानां मुदा गोटीपूर्णसमीरितं प्रवितरन् रंगे विभात्यन्वहम् ॥ २९ ॥ इति श्रीप्र- पन्नामृते रामानुजचरित्रे गुरोर्मोक्षोपायत्वप्रकाशनं नाम द्विचत्वा- रिंशोऽध्यायः ॥४२॥ त्रिचत्वारिंशोऽध्यायः। ततो रंगेश्वरः श्रीमान् यतोंद्रे लोकरक्षके ॥ निवृत्तलक्ष्मीकलहो जगन्मात्रा जगत्पतिः॥३॥निवृत्तलोकव्यापारो रममाणोनिशं तया ॥ सुखं सुष्वाप भगवान्कंचित्कालं जगत्प्रभुः॥२॥तस्मादवाप्तसकलका- मः श्रीवल्लभस्तदा ॥ आत्मभारं विनिक्षिप्य दक्षे पुत्रे पिता यथा॥३॥ तं पूर्णकामं विदधे यतींद्रः श्रीसखं तथा ॥ लोकसंरक्षणेनाथ सुपुत्रः पितरं यथा॥४॥ तदंतरं समालभ्य यतींद्रो लोकरक्षकः ॥ मंत्ररत्न- (१३२) प्रपन्नामृते- धनं सम्यगतिगोप्यं च मुक्तिदम् ॥५॥ कृपयासर्वलोकानां भूरिदा- नं तदाकरोत् ॥ चतुःसप्ततिपीठस्था देशिका सुमहौजसः ॥६॥ तेपां शिष्याश्च तच्छिष्याः प्रशिष्याश्चापरे तथा ॥ यतींद्रशासनात्सर्वे गत्वा दशदिशोंजसा ॥७॥ बालमूकजडांधेभ्यो जनेभ्यो मंत्रमुत्तमम् ॥ रामानुजाख्यमनघमतिगोप्यं सुखप्रदम् ॥ ८॥ सर्वेभ्यश्चोपदिश्याशु मुक्तिदं सुलभं महान् ॥ श्रीवैष्णवमयं चक्रुर्जगत्सर्वं तदांजसा ॥९॥ दर्शनस्थापकेत्यतं विष्णोः परमवैदिके ॥ विद्यमाने यतिश्रेष्ठे सर्व विष्णुमयं जगत् ॥ १० ॥ इति यन्नैगमं वाक्यं तत्सत्यमभवत्तदा ।। तैरेवं शिक्षिताः सर्वे ब्राह्मणा वेदपारगाः ॥१३॥ सर्वधर्मरताः शांता वेदांतद्वयपारगाः ॥ कृत्वा सर्वाणि कर्माणि कैंकर्यविधिना तथा ।। १२॥ फलसंघपरित्यागाद्ययुर्विष्णोः परं पदम् ॥ एवं हि क्षत्रिया वैश्याः स्त्रियः शूद्रास्तथेतराः॥ १३॥ स्वधर्मनिष्ठास्ते सर्वे द्राविडा- म्नायपारगाः॥ श्रीरामानुजसंबंधाद्ययुर्विष्णोः परं पदम् ॥ १४॥ उद्धृत्यनरकात्सर्वान्सहसा स्वकुलोद्भवान् ॥ नृत्यंति पितरः सर्वे प्रतृ- त्यति पितामहाः॥१५॥ वैष्णवो नः कुले जातः स नःसंतारयिष्य- ति ॥ इत्युक्तेन प्रकारेण पितृलोकनिवासिनः ॥ १६॥ तेनेव हेतुना सर्वे झगमन्वैष्णवं पदम् ॥ संप्रशासति धर्मेण राज्यं रुक्मांगदे पुरा ॥ १७॥ एकादशीव्रतेनैव निरस्ताखिलकल्मपाः॥ वैकुंठमगमन्सर्वे श्वेतद्वीपं यथा जनाः॥१८॥ तथैव लक्ष्मणार्यस्य संबंधेनैव मानवाः।। प्रपत्तिधर्मनिरताः सर्वे श्रीवैष्णवोत्तमाः ॥ १९ ॥ विरजोत्तरतीर- स्थं तद्विष्णोः परमं पदम् ॥ अवापुरंजसा धीराः कुलकोटिसमावृताः ॥२०॥ भूम्यां रामानुजेत्यंतवैभवे लोकदेशिके ॥ विद्यमाने यतिश्रेष्ठे सर्वलोकैकरक्षके ।। २१ ॥कलिनष्टोमवच्छीघ्र नियापारो यमस्तदा।। अतो हि पोलिहेत्यस्य पद्यस्य महतस्तदा ॥२२॥ अर्थों वभूव सु- स्पष्टः सर्वेपामपि भृतले ॥ तं दृष्ट्वा भारत वर्ष श्वेतद्वीपमिव स्थितम् ॥२३॥ महाश्चर्यसमायुक्तश्चिताशोकपरायणः ॥ यमोभ्येत्यांजसा त्र- अध्यायः ४३. (१३३) मालोकार्मेद्रादिभिः सह ।। २४ ॥ सर्व विज्ञापयामास ब्रह्मणे तद्विचेष्टि तम् ॥ यमेन प्रार्थितः सम्यग्ब्रह्मा त्रिभुवनेश्वरः ॥ २५ ॥ ईशानादियुतो धीमान् रंगक्षेत्रं ययौ जवात् ॥ निवृ- त्तलोकव्यापार लक्ष्मीपरवशं हरिम् ॥ २६ ॥ सम्यक प्रबोधयामासुः ब्रह्मेशानादयः सुराः ॥ ते सर्वे बंदिनो भूत्वा यमेन प्रार्थितास्तदा ॥ २७॥ ततः प्रबोधितो देवैर्भगवान् भक्तवत्सलः ॥ तदंगीकृत्य देवानां वचनं संमतं परम् ॥ २८॥ यतींद्वाद्भुतसामर्थ्य दर्शनौत्सुक्यहेतुना ॥ सविस्मयो जगत्सर्वमपश्यत्पद्मलोचनः ॥२९॥ लक्ष्मणार्यस्य नैपुण्यादेकरूपमिव स्थितम् ॥ शुद्धसत्त्वमयं शुद्धं विभूतिद्रयमीश्वरः ॥३०॥ विलोक्य विस्मयाविष्टो मनस्येवमचिंत- यत् ।। लीलाभोगोपकरणं यद्विभूतिद्वयं हि मे ॥ ३१॥ अनादिसि- धमेतस्य नैकरूप्यं कदाचन ।। नीला विभूतिरेपा मे ह्यनित्या त्रिगु- णात्मिका ॥ ३२॥ नित्या भोगविभूतिस्तु शुद्धसत्त्वमयी सदा ॥ इदानी लक्ष्मणार्यस्य नैपुण्याद्यतिभूपतेः ॥ ३३ ॥ तदेकमेव भात्यय विभूतिद्वयमद्भुतम् ॥ शुद्धसत्त्वमयं ह्येतज्जगदद्य विभात्यहो॥ ३४ ॥ शास्त्रं गुरुत्तमं सत्यमर्थ गूढतमं परम् ॥ उपदिश्याशु सर्वत्र भूरि- दानं यतीश्वरः ।।३५ ।। अपालयजगत्पूर्व यन्मया चाप्यरक्षितम् ॥ मूकांधवधिरादीनां सर्वेपां चापि पापिनाम् ।। ३६ ।। स्वसम्बन्धबले- नैव प्रयच्छति परं पदम् ॥ स्वाधीनसर्वलोकोद्य लक्ष्मणार्यों जगहरुः ॥३७ ॥ तदीया एव ते सर्वे भूम्यां सर्वत्र जंतवः ॥ पश्यंत्यद्य परे च्याम्नि नित्यमुक्ता यथामलाः ॥३८॥ महान् प्रमादो मे जातो विभूतिद्वयदानतः ॥ लक्ष्मीपरवशेनेव मद्विभूतिद्वयं मया ॥३९॥ तत्सन्निधौ च निर्वधादनंताय महात्मने । लोकसंरक्षणार्थाय सहसा दत्तमादरात् ॥४०॥ योपित्परवशः सत्यं कार्याकार्ये न वेत्त्यहो। न तु देवो मनुष्यो वा विपश्चिदपि चेश्वरः ॥४१॥ सवैपामपि देवानामतो योपित्सुदुर्जया ॥ मानवानां तु किमुत कामक्रोधरतात्म- (१३४) प्रपन्नामृते- नाम् ॥४२॥ तथाप्येते हि मन्नाथशिष्या नैतादृशा भुवि ॥ अत- स्तैरेव योगींद्रशिष्यैर्गुरुपरायणैः ॥४३ ॥ निजितं मत्पदं नित्यं योगिनामपि दुर्गमम्॥अत्यन्तदूरं यद्ध्यातुं ब्रह्मेशसनकादिभिः॥४४॥ तत्पदं मनुजाः सर्वे सुकरोपायतोंजसा ॥ गच्छंति सांप्रतं शिष्या भूत्वा लक्ष्मणयोगिनः॥ ४५ ॥ ममाप्येतन्महाश्चर्य जनयत्यय मायिनः ॥ अहो हि तस्य माहात्म्यं केन वर्णयितुं क्षमम् ॥४६॥ एप श्रीमाञ् जितारातिर्महालोकैकदेशिकः ॥ निर्व्यापारं हि मां सत्यं करिष्यत्याशु निश्चितम् ॥ १७ ॥ सर्वे संबंधिनस्तस्य मन्नाथस्य महात्मनः ॥ आचार्यसेवैकरताः कामक्रोधादिवर्जिताः ॥४८॥ द्राविडाम्नायनिरतास्तत्त्वज्ञास्समदर्शिनः ॥ अर्थपंचक- तत्त्वज्ञाः पंचसंस्कारसंस्कृताः ॥४९॥ आकारत्रयसंपन्ना महा- भागवताः स्मृताः॥ अतस्तैरेव सहसा निजितं मत्परं पदम् ॥५०॥ इदानी लक्ष्मणाचार्यसंबंधरहितो जनः ॥ न कश्चिदृश्यते लोके सेतुशीताचलांतरे ॥ ५१ ॥ दिनैः कतिपयैः शीघ्रं यतींद्रेण महा- त्मना ।। लीलाविभूतिरास्माकी तदा नष्टा भविष्यति ॥५२॥ निर्व्या- पारो भविष्यामि तेनाहं नात्र संशयः॥ एवं संचित्य भगवाल्लीलै- करतिरीश्वरः॥ ५३ ॥ भगवद्देपिणं कंचिचोलराजं महाबलम् ॥ स्वलीलाहेतुभूतं च जनयामास रंगराट् ॥ ५४॥ हिरण्यकहिरण्या- क्षरावणादीन्यथासुरान् ॥धर्मविध्वंसनार्थाय कृमिकंठाभिधं नृपम् ।। ॥५५॥ एवं भूम्यां समुत्पाद्य मायी विश्वमृगीश्वरः ॥ अजानान इवातिष्टत्किचिदप्यखिलेश्वरः॥५६॥ रममाणः श्रिया साई रंगेशः प्रियया तदा ॥अनुज्ञातास्ततस्तेन संतुष्टाः सकलास्तदा ॥२७॥ ब्रह्मेशानादयो देवाः स्वान्स्वाल्लोकान्प्रपेदिरे ॥ अतिगुह्यतमं चार्थ ये शृण्वंति पठंति च ॥ ते सर्व पापनिर्मुक्ता भविष्यंत्याश वैष्णवाः ॥ २८ ॥ोणीमंडलमीक्ष्य संयमिवरः श्रीवैष्णवत्ताश्रय

.
अध्याय:४४.
(१३५)
घोपनातवशीकृतस्वनगरं चालोक्य कालो विधिः ॥ प्राप्योक्का
स्ववृति समेत्य विधिना साकं रमेशं ययौ स्वव्यापारमुदीर्य तत्करु-
णया मित्रं स चोलाधिपम् ॥ ५९ ॥ प्राप्ते संयमिपुंगवेन जगति
प्राणिप्रवाहे तदा याते वैष्णवतां परं निविडतां मार्गेचिरादौ गते॥
प्रीतो दण्डधरार्थिताजभवनाद्याकांक्षितार्थप्रदो भूत्वा तं क्रिमिकंधरं
यमसखं श्रीशस्तदा सृष्टवान् ॥ ६० ॥ इति श्रीप्रपन्नामृते रामा-
नुजचरित्रे क्रिमिकंठचोलराजनिर्माणहेतुकथनं नाम त्रिचत्वारिंशो-
ध्यायः॥४३॥
चतुश्चत्वारिंशोऽध्यायः।
अथाभुच्चोलभूपालचित्रकूटे महाबलः॥क्रिमिकंठ इति ख्यातो
दक्षिणाशामहीपतिः ॥ १॥ दुःशीलो नैगमान धर्माञ् शैवधर्मपरान
हि तान् ॥ इति मत्वा शैवधर्मनिरतो विष्णुदूपकः ॥ २ ॥ पुरोधसं
पुरस्कृत्य वादयामास वैदिकान् ॥ तस्य बुद्धिः समुत्पन्ना क्रिमिकंठस्य
दुर्मतेःशास्वदेशस्थैर्विपश्चिद्भिः कर्तव्यं लेखनं बलात् ।। शिवात्परतरं
नास्तीत्येवमात्मविनाशके ॥ ४॥ केचित्तस्याज्ञया चकुलेखनं विवु-
धा जनाः।। अपेक्षितगृहक्षेत्रलोभेनान्ये विपश्चितः॥५॥ केचित्य-
लायितास्त्यका गृहक्षेत्रादिकान पशून ॥ तत्रैको वैष्णवः कश्चिन्न
लिलेखेदमब्रवीत् ॥ ६॥ रामानुजयतिः ख्यात इति रंगे समा-
स्थितः॥ तस्य शिष्यः स कूरेशो विप्रो वेदविदां वरः ॥७॥ तस्य
कूरेश्वरस्यासीच्छिष्यः कश्चिद्विजोत्तमः ॥ प्रसिद्धः सर्वलोकेषु
चतुर्मामाधियो महान्. ।। ८ । मंत्रिश्रेष्ठोभवत्तस्य नृपतेः स
द्विजो महान् ॥ तं विलोक्य स राजानमिदं वचनमब्रवीत् ॥९॥
लिखितेन किमेतेन प्राकृतैर्विविधैर्नृप ।। यौ यतीश्वरकूरेशौ
विपश्चिद्वैष्णवोत्तमौ ॥ १० ॥' तो लिखेतां यदि तदा सफ-
लस्ते मनोरथः। तथा चेल्लिखिलं ताभ्यां त्रैलोक्यलिखितं भवेत॥३॥

(१३६) प्रपन्नामृत- प्रतिगृह्य वचस्तस्य चतुर्मामाधिपस्य सः ॥ तयोरानयनार्थाय रंगक्षेत्रं महाबलः ॥ १२ ॥ स राजा सत्वरं दूतान् प्रेपयामा मास संमतान् ॥ दूतास्ते रंगिणः क्षेत्रं संप्राप्य त्वरयान्विताः ॥ १३॥ क मन्नाथः क्व मन्नाथ इति तन्मठमागताः॥ यतीमजनार्थाय जल- कुंभधरस्य च ॥ १४॥ श्रीवत्सचिह्नमिश्रस्य कर्णे कश्चिद्धिजर्पभः॥ सर्व निवेदयामास तवृत्तांत रहस्तदा ॥ १५॥ मन्नाथस्याशु कूरेश- स्त्रिदंडं च कमंडलुम् ॥ कापायमंबरं धृत्वा तस्मै नोवा विनिर्गतः ॥ १६ ॥ पूर्णाचार्यः स कूरेशमनुयातो जवात्तदा । आचख्यौ गुरवे वृत्तं सर्व दाशरथिस्तदा ॥ १७॥ एवं चेत्करनाथस्य श्वेतवस्त्रं समानय ॥ इत्युक्त्वा परिधायाशु श्वेतवस्त्रं यतीश्वरः ॥ १८॥ पूर्णा- र्यकूरनाथाभ्यां कुर्वन्नाशीर्वचः स्थितः ॥ अत्र स्थातुमयुक्तं ते शिष्य- खं प्रभापितः॥१९॥ प्रतीची लक्ष्मणाचार्यः प्रतस्थे रंगशासनात्॥ अनुगच्छंति दूतास्ते यतिराज समुद्यताः॥२०॥ इति शिष्यैरु- च्यमानः पाणिभ्यां वालुकां मुदा ॥ आदाय गाथामेकां च पठित्वा नियतः शुचिः ॥२१॥ अवाकिरध्वं ताग इत्यदाच्छिष्यपा- णिपु ॥ मंत्रिता गुरुणा दत्तास्तास्समादाय वालुकाः ॥ २२ ॥ अवाकिरंस्ततः शिप्यास्तस्मिन् वर्त्मनि सत्वरम् ॥ ते राजदूतास्त- प्रांतं प्राप्य गंतुं ततः परम् ॥ २३॥ अशक्ता वैष्णवैस्तैस्तु मंत्र- वादाः कृता इति ॥ वंदतः स्वपुरं याताः प्रत्यावृत्य तदंतिकम् ॥२४॥ तन्मार्गे पडहोरात्रं निराहारो यतीश्वरः ॥ पीडितो वातवर्षाभ्यां पटे ह्नि निशि कानने ॥२५॥ अभ्यासे पर्वतस्यानि ज्वलंतं वीक्ष्य वि- स्मितः॥ तेनानुमीय पुरुपांस्तत्र शिष्यैः समागतः॥२६॥तत्रत्यान्पु- रुपान्सर्वे यतिराजादयस्तदा ॥क मार्ग इति पप्रच्छुः शीतार्ता म- हतो वात् ॥ २७॥ मंचस्थाः पुरुपाः श्रुत्वा खं तेषां महात्म- नाम् ॥ ब्राह्मणातवं मत्वा तत्रैवागत्य सत्वरम् ॥ २८॥ आनीय वैष्णवान् सर्वान् मंचाभ्याशे कृतादराः ॥ अग्निं प्रज्वाल्य सहसा । अध्यायः ४४. (१३७) तेपां शीताफ्नोदने ॥ २९ ॥ दत्त्वा वस्त्राणि शुभ्राणि यथाशत्याभ्य- पूजयन् ॥ पप्रच्छरथ ते सर्वे शीतान्वैिष्णवानिदम् ॥ ३० ॥ कस्माद्देशाहिजा यूयं किमर्थ वनमागताः ॥ तच्छुत्वामिदधुश्चेदं वैष्णवा वनचारिणः॥३१॥ केन चित्कारणेनाद्य श्रीरंगादनमागताः॥ तदाकावन् वाक्यं वैष्णवान्वनवासिनः ॥ ३२ ॥ रंगस्थले लक्ष्मणार्या किं सुखेनाद्यवर्तते ॥ वैष्णवाउचुः॥ लक्ष्मणार्य कथं ज्ञातो भवद्भिर्वनचारिभिः ॥३३॥ इति तद्वाक्यमाकर्ण्य तानूचुर्वनचा- रिणः।।नदीपूरे समायात शंव चक्रादिचिह्नितम् ॥ ३४ ॥दृष्ट्वा संस्का- रमकरोद्यः पुरा कृपया महान् ॥ हस्त्यद्रिनायको विष्णुर्यमाह वरदः पुरा॥ ३५ ॥ देशस्य त्वंसमीचीनः समीचीनो भवान्मम ॥ समीची- नगुरोस्तस्य शिष्याः सर्वे वयं द्विजाः ॥३६॥ हितोपदेशसमये गुरुरेवं जगाद नः ॥ युष्माकं परमाचार्यों मनाथस्तत्पदांबुजम् ॥ ३७॥जा- नीध्वं रक्षकमिति तस्मादन्यत्र विद्यते । ततस्तदर्शयांचाधेभ्यो वैष्णवास्तदा ॥ ३८॥ अयमेव हि मनाथ इति योगींद्रमादरात् ॥ ते वैष्णवानां वचनं व्याधाः श्रुत्वा मुदान्विताः॥ पतित्वा पादयोस्त- स्य यतींद्रस्य महात्मनः॥३९॥ प्रणम्य बहुधा भक्त्या तेन व्याकु- लतां गताः ॥ कोरदूपादिधान्यानि क्षौद्राणि च यथार्हतः ॥ ४० ॥ अर्पयामासुरार्याय भूरीणि च महात्मने । नल्लानाख्यः कालमेघो व- नमध्येप्यवर्पत ॥ ११॥ इति लक्ष्मणयोगींद्रः संतोपं परमं ययौ ॥ भत्यापितानि तान्याशु लम्यग् भुक्त्वा यथार्हतः ॥ १२ ॥ तत्रैव सानुगो रात्रौ मुखं सुष्वाप योगिराट् ॥ ततः प्रभाते चोत्थाय कृत- कर्मा यतीश्वरः ॥४३॥ एक स्वाशिष्यं संघच व्याधेप्वेकं जनं तदा। प्राहिणोन्मेलयित्वाशु श्रीरंग प्रति सादरम् ॥४४॥ जिज्ञासया तयोस्तस्य वृत्तस्य गुरुशिष्ययोःचत्वारिंशच्छिष्यजनास्तव पंचाधि- कास्तथा ॥ ४५ ॥ यतिराज महात्मानमन्वयुदशिकप्रियाः ॥ गिरेः पश्चिमदिग्भागे तस्य गव्यूतिदूरतः॥४६॥ तत्रत्याः शबराः केचि- (१३८) प्रपन्नामृते- स्वकीयं शबरालयम् ॥ केचिंनिन्युर्लक्ष्मणार्य सानुगं वैष्णवप्रियाः ॥४७॥ तत्र लक्ष्मणयोगींद्रो गृहे व्याधस्य कस्यचित् ॥ तस्थौ श्रीवैष्णवैः साकं मुहूर्त वैष्णवस्य सः ॥४८॥ कृत्वा ते मृगयां सर्वे ग्रामं व्याधाः समागताः॥निराहाराश्च वत्तते वैष्णवा सदनेधुना॥४९॥ अतोस्माकं कथं भोक्तुं युक्तमित्येवमादरात्॥ आलोच्य तेखिला व्या- धाः प्रणिपत्य यतीश्वरम् ॥५०॥ तस्योपकंठे कस्मिंश्चिद्रामे विप्र- गृहे तदा ॥ सव्यंजनांश्च संप्रेष्य तंडुलांस्तान् द्विजोत्तमात् ॥५१॥ निनाय तद्गृहं सर्वान्सुखं भुजंतु वैष्णवाः ।। इत्युक्त्वा वैष्णवैाधाः कृतानुज्ञा गृहं गताः॥५२॥ चैलाचलांबासदनं समासाद्यस योगि- राटू ।। सप्तमे दिवसे सायं सुखं तस्थौ व्यपेतभीः॥५३॥ व्याजेन क्रिमिकंधरस्य सहसा रंगं विहायोत्तमं देशं पश्चिममाससाद भगवा- लोकावनायांतरम् ।। अंगीकृत्य तदर्चनं यतिपतिया॑धैः कृतं भक्तितो भेजे सप्तमवासरे विधिवशाञ्चलांचलांबागृहम् ॥५४॥ इति श्रीप्रप- नामृते रामानुजचरित्रे क्रिमिकंठव्याजेन पश्चिमदेशगमने समीचीनदे- शिकशिष्यकृतचेलांचलांबानगरप्रवेशो नाम चतुश्चत्वारिंशोऽ- ध्यायः॥४४॥ पञ्चचत्वारिंशोऽध्यायः। ततः श्रीवैष्णवी साध्वी संतुष्टा वैष्णवागमात् ॥ तान् सर्वान्पूज- यामास पाद्याासनवंदनैः ॥ १॥ सुखोपविष्टांस्तान्सर्वान् वैष्णवी प्राह वैष्णवान् ॥ भोजनं वः प्रदास्यामि सर्वेषां परसैर्युतम् ॥२॥ भुज्यतां मद्गृहे सम्यक् स्ववेश्मनि यथासुखम् ॥ तयैवमुक्तास्ते सर्वे वैष्णवीं तां वचोत्रुवन् ॥३॥ परितृप्ता वयं सर्वे तव सूनृतया गिरा। मास्तु भोजनमस्माकं संप्रत्यंव दयापरे ॥४॥ चेलांचलांवा तच्छ्रुत्वा तानुवाच कृतांजलिः॥ सन्देहो भवतां मास्तु शिष्याहं यतिभूपतेः ॥५॥ लक्ष्मणायौनिसंवन्धः प्राप्तः पूर्व यदा मया ॥ श्रूयतामव- अध्यायः४५. (१३९) धानेन तद्वक्ष्यामि पुरातनम् ॥६॥ अस्मिन् देशे द्वादशाब्दान् अनावृष्टिरभूत्पुरा ॥ तेनोदिनाः प्रजाः सर्वाः संप्राप्ताः सकला दिशः ॥७॥ अहं स्वपतिना साकं रंग प्रति गताभवम् ॥ तदा यतीश्वरो दृष्टो मया सौधोपरिस्थया ॥८॥ भिक्षाशनरतो नित्यं स सप्तसु च सद्मसु । पुनश्च वैष्णवैः सर्वैर्वेदवेदांतपारगैः ॥ ९ ॥अन्यैश्च पृथिवी-- पालैः सेव्यमानो महात्मभिः ॥ ततः कदाचित्सहसा तस्मात्सौधा- द्विनिर्गता ॥ १० ॥ भिक्षां संगृह्य गच्छन्तं संरुध्याहं समास्थिता ॥ निवारयसि मां वाले किमर्थमिति सोत्रवीत् ॥ ११॥ तेनैवमुक्ता यागीद्रं तमपृच्छमहं तदा ॥ त्वं तु भिक्षाशनरतो भगवन् वर्तसे सदा ॥ १२ ॥ राजाधिराजैविबुधैर्वेदवेदांगपारगैः ।। भवांस्तु पूज्यते नित्यं सर्वैः श्रीरंगराडिव ॥ १३॥ को हेतुरस्य भगवन् ब्रूहि मे भक्तव- त्सल ॥मयैवमुक्तो मामाह लक्ष्मणार्यः स वैष्णवः॥ १४॥ भगवद्वि- पयो मन्त्रो समीचीनो मयोदितः॥ तेभ्यस्तस्मात्सदा वत्से ते सर्वे मां भजति हि ॥ १५॥ तन्निशम्य वचः साहं लक्ष्मणार्य तमनवम् ।। स मंत्रो यतिराजार्य दास्यै मह्यं त्वयोच्यताम् ॥ १६ ॥ एवमुक्तो लक्ष्मणार्यों मया वैष्णवपुंगवाः ॥ मह्यं प्रोवाच तं मंत्रं कृपया देशि- कोत्तमः ॥ १७॥ ततायं वर्तते देशः सर्वसस्यसमृद्धिमान् ।। इति वृत्तांतमाकर्ण्य स्वदेशगमनोत्सुका ॥ १८ ॥ विस्मृतत्वेन मंत्रस्य तदा तस्य यतीश्वरम् ॥ प्रणिपत्यावं वाक्यं तमहं गुरुपुंगवम्॥१९॥ उक्तो मंत्रस्त्वया पूर्व स मया विस्मृतोधुना। स्वदेशं प्रति गच्छामि. भर्ना साकं यतीश्वर ॥२०॥ तं मंत्रमधुना दास्यै कृपयैवोपदिश्य मे। भवतः पादुके दत्त्वा सम्यग् योगीश रक्ष माम् ॥२१॥ तदा यतीश्वरो मां पूर्व गुरुपरंपराम् ।। द्वयं सम्यक् चौपदिश्य पादुके प्रददौ शुभे ॥२२॥एस्तदा यतिश्रेष्टं कदा द्रक्ष्यामितं गुरुम्॥ इत्युक्ता साश्रुनयना बभूव गुरुतत्परा॥२३॥ततो यतीद्रःसंचिन्त्यतत्तं हृदिहापैतः॥पचेति (१४०) प्रपन्नामृते- साध्वीमादिश्य वैष्णवानिदमब्रवीत् ॥२४॥ कथंकरोति सापाकं द्रष्ट व्यमवधानतः ॥ तद्भवद्भिस्ततश्चक्रुस्तथा वैष्णवपुंगवाः ॥ २५ ॥ नात्वा वस्त्रांतरं साध्वी धृत्वा नत्वा शुचिता ॥ मन्नाथपादौ शरण- मित्युच्चाय्र्यैव सादरम्॥२६॥ पादुकाग्रे यतींद्रस्य धृत्वा देवगृहे तदा॥ द्वयानुसंधानपरा जत्वा गुरुपरंपराम् ॥ २७॥ प्रक्षाल्य पादुके भत्त्या कृत्वा पूजां विधानतः ॥ गंधपुष्पादिभिर्द्रव्यदृढं बद्धांजलिस्तदा ॥२८॥ गुरुध्यानपरा साध्वी नैवेद्यं सम्यगर्पयत् ॥ ततः सा वै- ष्णवान सवान्प्रणम्य मुदितानना ॥२९॥ प्रक्षाल्य पादपद्मानि तेषां भक्तिसमन्विता ।। प्रार्थयामास तान् सर्वान् भुज्यतामिति सादरम ॥३०॥श्रुत्वा तत्सर्ववृत्तांत शिष्येभ्यो यतिपुंगवः ॥ तस्याश्चेलांचला- वायाः संप्रहृष्टो दयानिधिः॥३१॥ आनीयतामिति प्राह पादुके ते त्वयाधुनाआकर्ण्य वचनं तस्य ह्यानयामास पादुके। आनीते पादुके दृष्ट्वा तया भक्त्या प्रपूजिते ॥ ३२ ॥ दृष्टस्तामेवमाहाथ शिष्यां लक्ष्मणदेशिकः।। लक्ष्मणार्येण यो मंत्रः श्रीरंगे गदितस्तव ॥ ३३ ॥ एकांते सांप्रतं मह्यं स मन्त्रो नोच्यते यदि ॥ त्वया त्वत्सदने साध्वि भोक्तुं नेच्छंति वैष्णवाः॥ ३४ ॥ कर्णे ब्रूहि ततोस्माकं तं मन्त्रं भगवत्प्रियम् ॥ ततो यतींद्रकणे सा वैष्णवी देशिकाज्ञया ॥३५॥ तं मन्त्रमब्रवीत्साध्वी तेपामाराधनेच्छया ॥ ततो यतींद्रः संतुष्टस्ता- माह भगवत्प्रियाम् ॥३६॥ तर्हि वैष्णवसंघेस्मिंस्तव मन्त्रप्रदो गुरुः॥ वर्तते वा न वा शीघ्रमित्येवं दृश्यतां त्वया ॥३७॥ तथेति प्रति- गृह्याशु तद्वचो यतिभूपतेः॥वैष्णवी शिरसादाय दृष्ट्वा सर्वान् दृढ- व्रता ॥ ३८॥ यतिराजांतिकं गत्वा दृष्ट्वा तत्पादपंकजम् ॥ संतुष्टा सत्वरं प्राह वैष्णवान्प्रति सादरम् ॥ ३९ ॥ एतौ पादौ प्रकाशेते तदी- याविव सुंदरौ ॥ दंडकापायराहित्यादेतस्य महतोधुना ॥ ४० ॥ यतींद्र इति निर्णेतुं तमिमं शक्यते कथम् । ततोथ भगवान्प्राह संतुष्ट स्तां दृढवताम् ॥४१॥ अहमेव हि मन्नाथः श्रीरंगादधुनागतः॥केन- अध्यायः४५. (१४१) चित्कारणेनैव श्वेतवस्त्रधरोभवम् ॥ ४२ ॥ सा तस्य ज्ञातवृत्तांता पतित्वा पादयोस्तदा ॥ गुरुपादाब्जनिरता संतापमगमत्तराम्॥४३॥ स तां दृष्ट्वा प्रहृष्टात्मा यतींद्रः सर्वसद्गुणान् ॥ तस्याः प्रमार्य चाश्रूणि वैष्णवानिदमब्रवीत् ॥४४॥ दुर्योधनादिनृपतीन् हित्वा कृष्णो जग- त्पतिः ॥ विदुरान्नानि बुभुजे शुचीनि गुणवंति च ॥ ४५ ॥ तस्मादत्यंतभोग्यत्वात् पावनत्वादिसद्गुणैः ॥ भोलं श्रीवैष्णवानां तु न्यूनता नास्ति निश्चितम् ॥ १६ ॥ ततः श्रीवैष्णवाः सर्वे तद्बहे देशिकाज्ञया ॥ भुक्त्वा भक्त्यार्पितानानि निद्रां प्रापुर्यथासुखम् ॥ ४७ ॥ तेपामुच्छिष्टपात्रानं भक्त्या संगृह्य वैष्णवी ॥ स्वभ- र्तृज्ञानसिद्धयर्थ तदेकीकृत्य चोदनम् ॥ ४८ ॥ तमानीय च भर्तारं सौधोपरि समास्थितम् ॥ ब्राह्मणं भोजयामास भक्ष्यभो- ज्यपुरःसरम् ॥ ४९ ॥ सा शेते भर्तृसान्निध्ये पृथक् चाकृतभो- जना ॥ तामाह ब्राह्मणो भार्या निराहारामिदं वचः ॥ ५० ॥ भूमौ शेपे किमर्थं त्वं निराहाराधुनाबले ॥ कारणं वद कल्याणि संशयो जायते महान् ॥५१॥ इत्यब्रवीत्ततः साध्वी भतीरं भगव- प्रिया॥ श्रीरंगाच्छिष्यसंघेन यतीशः संवृतो गुरुः ॥५२॥ केन- चित्कारणेनाय सभास्माकमुपागतः । मया संप्रार्थ्यमानोपि भोज- नार्थ दृढव्रतः ॥ ५३ ॥ अवैष्णवत्वाद्भवतो गुरुमै समुपोपितः ॥ कथं भोक्ष्याम्यहं गेहे गुरौ मे समुपोपिते ॥ १४ ॥ उक्तवत्यां तत- स्तस्यां प्रोवाचेदं द्विजोत्तमः ॥ तस्माद्यतेप्रोः कार्य कि कर्त्तव्यं मयावले ॥ ५५ ॥ सा तद्वचनमाकपर्य भतारें मुदितानना । इदं जगाद वचनं शुभे भर्तृहिते रता ॥५६॥ सुप्रातस्त्वं यतिश्रेष्टं समा- श्रय गुरुं मम ।। करिष्यामि तथा साध्धि संशयोत्र न विद्यते ।। ॥१७॥ इति तेन द्विजेनाथ बहवः शपथाः कृताः ॥ चेलांचलांबा संतुष्टा ततः साध्वी गुरुपिया ॥१८॥भुक्ता यथेष्टं सा भर्चस्तल्पे

(१४२)
प्रपन्नामृते-
शेते च पूर्ववत् ॥ प्रभातायां तु शवयाँ कृतकर्मा स भूसुरः ।।५९ ॥
गत्वा स हि यतिश्रेष्टं प्रणम्य प्रांजलिः स्थितः॥ तया संप्रार्थित-
स्तस्मै द्विजाय यतिपुंगवः ॥६०॥ अकरोत्पंचसंस्कारान्सभार्याय
कृतादरः॥ श्रीरंगदासनामास्य दास्यनाम ददौ तदा ॥ ६१ ॥
श्रीरंगदासो योगी, सभार्यः प्रणिपत्य तम् ॥ पूजयामास तान्
सर्वान् वस्त्रैराभरणैईिजात् ।। ६२ ॥ स्थित्वा तत्र यतिश्रेष्ठः सुखं
दिनचतुष्टयम् ॥ कापायवस्त्रं संपाद्य त्रिदंडं च कमंडलुम् ॥ ६३ ॥
निधाय वरदस्याये तदा जग्राह पूर्ववत् ॥ ६४ ॥ श्रीरंगदासेन च
लक्ष्मणार्यः संपूजितः सादरमार्यवर्यः ॥ सर्वाञ् जनान् ग्रामचरा-
न्स्वशिष्याञ् चकार संपूर्णविलोकनेन ॥६५॥ विसृज्य रंगेशवियो-
गदुःखं चेलांचलांबादरणायतींद्रः ॥ गतकमः शिष्यजनैः सुखेन
तत्रैव तस्थौ कतिचिदिनानि ॥ ६६ ॥ इति श्रीप्रपन्नामृते रामानु-
जचरित्रे चलांचलाबाभः पंचसंस्कारसंपत्तिर्नाम पंचचत्वारिंशोऽ-
ध्यायः॥४५॥
पट्चत्वारिशोऽध्यायः।
ततस्संप्रेपितस्ताभ्यां दंपतिभ्यां यतीश्वरः ॥ शिष्यैः परिवृतो
धीमान् प्रतस्थे पश्चिमां दिशम ॥ १ ॥ तस्य पश्चिमदिग्भागे
ग्रामस्याथ यतीश्वरः ॥ वह्निपुष्करिणीं गत्वा स्थित्वा तत्र दिनत्रयम्
॥२॥ ततश्च मिथिलां गत्वा पुरौं लक्ष्मणदेशिकः ॥ कंचित्कालं
स्थितस्तत्र शालग्राममथाययौ ॥३॥ मायावादितया तेषां तत्रत्या
ये द्विजातयः ॥ रामानुजं यतिवरं नानप्णवोत्तमम् ॥ ४॥
तस्मिन्निमजता तेपां दृष्ट्वा लक्ष्मणदेशिकः ॥ अनुग्रहार्थ प्रोवाच
शिप्यं दाशरथिं तदा ॥५॥ ते सर्व यत्र गृहंति तोयं ग्रामचरास्सदा ॥
पादी प्रसार्य तत्र त्वं तटाके तिष्ट सुत्रत ॥ ६॥ तथा कृतं तदा
तेन गुरुभक्तेन धीमता ॥ मुक्ताहंकारिणः सर्वे पादतीर्थप्रभावतः॥७॥

अध्यायः४६.
(१४३)
अबला वृद्धवनिता यातराजं समाश्रिताः ॥ ततो यतींद्रो
ग्रामस्य तस्य चक्रे कृपानिधिः ॥ ८॥शालग्रामाभिधं प्रीत्या वि-
ख्यातं सकलावनौ ॥ आंध्रपूर्ण विशेपेण कटाक्षित्वा यतीश्वरः ।।९।।
दर्शनार्थ चोपदिश्व पादच्छायामथ व्यधात् ॥ ततोथ वैष्णवैः सर्वैः
सहसा यतिपुगवः ॥ १०॥ आंध्रपूर्णेन सहितो नृसिंहक्षेत्रमागतः ॥
नारसिंहं परं देवं प्रणम्य बहुधा मुदा ॥ ११॥ दिनानि कतिचित्तत्र
चोपित्वा तदनंतरम् ॥ किमिकंठवधार्थाय नृकंठीरवसन्निधौ ॥ १२॥
विदधे सुमहत्कार्य शिष्यरक्षणहेतुकम् ॥ पापंडो दुर्मतिः क्षुद्रः स
चायं विष्णुदूपकः ॥ १३॥ संप्राप्य क्रिमिकंठत्वं तूर्ण चोलः प्रण-
श्यताम् ॥ इति चोलं समुद्दिश्य तत्र मंत्रविशारदः ॥१४॥ अभिचार
मंत्रवादं विदधे लोकरक्षकः ॥ ततोंतेवासिनं भक्तं ग्रामपूर्ण यतश्विरः
1॥ १९ ॥ द्रष्टुकामो ययौ शीघ्रं भक्तग्राम महायशाः ॥ स भक्तग्राम-
पूर्णोथानिशम्यागमनं गुरोः ॥ १६॥प्रत्युद्दम्य प्रहृष्टात्मा गृहमानीय
सत्वरम् ॥ यतोंद्र पूजयामास यथाई शिष्यसंवृतम् ॥ १७॥ स भ-
क्तग्रामपूर्णेन पूजितो यतिपुंगवः॥ कंचित्कालं सुखं तस्थौ भक्तयामे
महायशाः॥ १८॥ तदा विट्ठलदेवाख्यस्तदेशपथिवीपतिः॥ प्रशा-
सयन स्थितस्तस्य पुत्री रक्षोऽग्रहीत्तदा ॥ १९॥ स राजा दुःखितस्ते-
न मांत्रिकान् समुपाह्वयत्॥आगता बहवस्तत्र मांत्रिका राजशासनात
॥२०॥ तस्या निर्मोचने शक्ता नाभवन् वीडिता ययुः ।। दुष्टग्रह-
समाकांतां प्रधावंती दिगंवराम् ॥ २१ ॥ दृष्ट्वा दुहितरं दीनां तन्मा-
ता दुःखिताभवत् ।। सभक्तग्रामपूर्णायों वैष्णवो विदुपां वरः ॥२२॥
उंछवृत्तिपरो धीरो यतिराजपदाश्रयः ॥ यतीद्वाराधनार्थाय विठ्ठलेंद्रपुर
ययौ ॥ २३॥ तद्राजभवनं प्राप्य राजपत्नी सुदुःखिताम् ॥ कृपया प्राह
धर्मात्मा विलोक्येदं वचः शुभम् ॥ २४ ॥ किमर्थ शोचसे सुभ्रूवंद
दुःखस्य कारणम् ॥ तेनैवमुक्ता तत्सर्वं वृत्तं तस्मै न्यवेदयत्॥२६॥

(१४४) प्रपन्नामृते- स पूर्णः प्राह धर्मात्मा राजपत्नी वचः शुभम् ॥ गुरुमें मंत्रकुशलो वर्तते यतिपुंगवः ॥२६॥ तेन दृष्टा यदि सुता तव सुश्रोण योगिना ॥ दुष्टयहः स तां त्यक्त्वा बहुदूरं गमिष्यति ॥२७॥ इत्युक्त्वा कथयामास ब्रह्मराक्षसमोचनम् ॥ यतींद्रेण कृतं पूर्व विस्तरेण महात्मना ॥२८॥ तच्छ्रुत्वा विस्मयाविष्टा राज्ञे सर्व न्यवेदयत् ॥ स राजा तद्वचः श्रुत्वा तां भार्यामिदमत्रवीत् ॥२९॥ पिशाचं मोचयत्यस्याः यो मे पुन्याः स देशिकः ॥ तत्पादावधुनैवाथ संश्रयिष्ये न संशयः॥ ३० ॥ भक्तपूर्णों यतींद्राय तत्सर्व स न्यवेदयत् ॥ततः कदाचिौद्धानां द्रव्यक्षणिकवादि- नाम् ॥३१॥ गुरूणां भोजनं कर्तुं यतमानं महीपतिम् ॥ दृष्ट्वा प्रोवाच भतारं राजपत्नी शुचित्रता ॥३२॥ आह्वानमात्रमेवाद्य नायांति गुरखो नृप ॥ अंगहीन इति त्वं तु नाह्वयस्व ततो गुरून् ॥३३॥ निवारितोपि बहुधा तयैवं भार्यया नृपः ॥ यथाहूता मया शीघ्र- मायांत्येव हि देशिकाः ॥ ३४॥ इत्येवं हृदि निश्चित्य विट्टलेंद्रो गुरुप्रियः॥ तेपामानयने दूतान्प्रेषयामास संमतान्॥३५॥ तान्दूतान्बौ- दगुरखो दृष्ट्वा प्रोचुरिदं वचः॥ आक्रांतः किल वीर्येण दिल्लीशेन भवा- नपुरा ॥३६॥ तदोत्सर्जनवेलायां राज्यानहत्वहेतुना ॥ अकरोदंगलि- च्छेदं भवतः किल भूपतेः॥३७॥ होनांगस्य गृहे भोक्तुं गुरूणामुचितं कथम् ॥ इति तैर्गुरुभिश्चोक्तं दूता राज्ञे न्यवेदयन् ॥ तच्छ्रुत्वा नृपतिः कुद्धस्तिरस्कृत्य गुरुन् स्थितः ॥३८॥ तं विलोक्य स्वभत्तारं राज- पत्नी वचोत्रवीत् ॥ कुतस्त्वं लक्ष्मणाचार्यमनाश्रित्याध वर्तसे॥३९॥ यद्याश्रितोसि योगोंद्रं महत्फलमवाप्स्यसि ॥ स राजा चोदितः पत्न्या स्वसद्मनि यतीश्वरम् ॥४०॥ आगच्छेति महाभत्त्या प्रार्थ- यामास देशिकम् ॥ इत्यथोवाच योगींद्रो न प्रवेक्ष्याम्यहं पुरीम ॥४१॥ ते भक्तग्रामपूर्णादिवैष्णवाश्च तमब्रुवन् ॥ आनीतस्तु वशं राजा यदि लक्ष्मणदेशिक ॥४२॥ विष्णुदर्शननिर्वाहो महांस्तेन भविष्यति ।। इत्येवं प्रार्थितः शिष्यैर्वहुधा यतिपुंगवः ॥४३॥प्रतस्थे अध्यायः४६. (१४५) राजभवन लीलामानुपविग्रहः ॥ स राजसैनिकः सर्वैः प्रत्युद्गम्य यतीश्वरम् ॥ १४ ॥ विधिवत्पूजयामास प्रतिष्टाप्योन्नतासने ॥ पाद- तीर्थ पाययित्वा यतींद्रस्य तदा गुरोः ॥४५॥ राजपुन्याश्च शिरसि शिष्यैः संप्रोक्षणं कृतम् ॥ सा चित्तविभ्रमं तेन विहाय नृपतेः सुता ॥४६॥ परिधायांबरे रेजे पिशाचान्मोचिता तदा ॥ दुष्टग्रहेण निर्मुक्ता गगने रोहिणी यथा ॥ १७॥ तां विलोक्य स भूपालः संप्र- दृष्टतरां सुताम् ॥ प्रणामं विदधे सम्यग्गुरवे भुवि दंडवत् ॥४८॥राज- पत्नी यतीदाय सर्वपौरजनास्तथा।सवैपां पञ्चसंस्कारान्सभार्यस्य मही पतेः॥४९॥सम्यक् चकार पौराणां कृपया चाशु योगिराट् ॥ विष्णुवर्द्ध- नदासाख्य इति नाम विधाय च॥५०॥तस्य प्रहृष्टो नृपतेस्तत्रैव न्यव- सत्सुखम् ॥ ततोद्भुततरं श्रुत्वातदृत्तांत महोदताः॥५॥बौद्धादश स- हस्त्राणि समागत्य यतीश्वरम् ।। युगपत्याहुरत्युग्रं परिवार्य वचस्तदा ॥ १२ ॥ वादेनास्मान निर्जित्य शिष्यं वैष्णवनामकम् ॥ स्वक्शी- कृत्य राजानं कथं गन्तासि कुत्र वै ॥५३॥ विद्वान्यदि भवानय तर्कवादं प्रदेहिनःइति तै पितो दृष्ट्वा यतीः क्षपणायुतम् ॥५४॥ हृदि धैर्यपरो भूत्वा पश्यतां भीतवस्थितः ॥ द्विजितवत्रसंक्रांतप्ल- ववधतिभूपतिः ॥ ५५॥ किं करोमि हरे दैव क गच्छामि जग- त्पते ॥ इत्येवं दीनया वाचा वदन वौद्धांश्च मोहयन् ॥५६॥ मंडपे महति स्थित्वा प्रतिसीरासमावृते । तदा फणीश्वरो भूत्वा सहस्रफण- मंडितः ॥ १७॥ एकेन क्षपणेनोक्तयुक्तरेकस्य शीघ्रतः ॥ अयुतैर्युः क्तिवचनैर्दत्त्वा प्रत्युत्तरं स्फुटम् ॥५८॥ जितवान् क्षपणान सर्वान क्षणेन यतिपुंगवः ॥ दिव्यशक्ति यतींद्रस्य वीक्ष्य विस्मितचेतसः ॥५९ ॥ संतुष्टाः क्षपणाः केचित्तेपां लक्ष्मणदेशिकम् ॥ यतिराज समाश्रित्य बभूवुर्वैष्णवास्तदा ॥६०॥ केचित्पलायिताः केचिद्य- तिराजेन शिक्षिताः ॥ ततः स्वां दिव्यशक्तिं तां शिष्येभ्यो यतिपुंगवः ॥६१॥ प्रकाशयामास तदा लोकानुग्रहकारणात् ॥ विष्णुवर्धनदा- १० (१४६) प्रपन्नामृते- सच तां दृष्ट्वा विस्मयान्वितः॥ ६२॥ प्रावण्यं सुमहत्प्राप यतिराजां- घ्रिपंकजे॥ बौद्धान्विनिर्जित्य स दिव्यशक्त्या दत्त्वा मुदं शिष्यजनाय राज्ञे ॥ अभ्यर्चितस्तत्र सुखेन तस्थौ दिगंतकीर्तिर्यतिसार्वभौमः ॥६३॥ इति श्रीप्रपन्नामृते रामानुजचरित्रे बौद्धपराजयकथनं नाम पट्चत्वारिंशोऽध्यायः ॥ ४६॥ सप्तचत्वारिंशोऽध्यायः। भक्तग्रामे यतिश्रेष्ठः सर्वैः शिष्यैः समावृतः॥ स भक्तग्रामपूर्णेन तेन राज्ञा च संततम् ॥१॥ पूजितः पालयन् सर्वाल्लोकांस्तस्थौ महायशाः॥ आपादितश्वेतमृदो राहित्याद्रंगपट्टणात् ॥२॥ व्याकु- लात्मा तदा शेते शिष्यैः सह यतीश्वरः॥प्रणतार्तिहरस्तस्य यादवा- चलनायकः॥३॥ स्वप्ने प्रसन्नो भगवांस्तदा नारायणो हरिः॥प्रोवाच वचनं श्रीमान् यतिराजं जगद्गुरुम् ॥ ४ ॥ यादवाद्रौ श्वेतमृत्स्ना वर्तते यतिपुंगव ॥ शीघ्र तत्र समागच्छ मा विचारं कुरुष्व ह ॥५॥ तत्रा- हमपि योगीश निवत्स्ये यादवाचले ॥ मामद्धत्य प्रतिष्टाप्य मंदिर कारयाशु मे॥६॥ ततो यतीश्वरः प्रातः स्वप्रादुत्थाय संभ्रमात् ॥ स्वप्नोक्ति शिष्यसंघेभ्यो गदित्वा प्रीतिपूर्वकम् ॥ ७॥ विष्णुवर्द्धनमा- हूय तस्मै सम्यनिवेद्य तत्।। गमनाय मतिं चक्रे तदा यदुगिरि प्रति ॥८॥ तं भूपति समादाय सहायार्थ यतीश्वरः ।। जगाद वचनं प्रीत्या संप्रयाहि मया सह।। ९॥ तनिशम्य स भूपालस्संतुष्टो विष्णुवर्द्धनः।। तद्वनं छेदयित्वाशु सम्यङ् माग विधाय च ॥ १० ॥ प्रतस्थ गु- रुणा साई यादवादि महात्मना ॥ वत्सरे बहुधान्याख्ये पुष्यमासे यतीश्वरः ॥ ११॥ वेदपुष्करिणीं गत्वा परिधानशिलां ततः ॥ दृष्ट्वा प्रणम्य तत्तीर्थे स स्नात्वा विधिना तदा ॥ १२ ॥ वेदपुष्करिणीतीर परिधानशिलातले ॥ परिधानं स जग्राह कापायं परमः पुमान॥१३॥ दत्तात्रेय इव श्रीमान्परिधानशिलातले ॥ कापायं परिधायाथ अध्यायः ४७. (१४७) परिधानं यतीश्वरः॥ १४॥नारायणं मृगित्वाथ तत्रतत्र गिरी तदा ॥ कुत्राप्यदृष्ट्वा तं देवं यादवाचलनायकम् ॥ १५॥कदाचिन्यूनताना- स्ति प्रभावस्य हरेस्तदा ॥ इति चिंतापरः शेते भगवान्यतिपुंगवः ॥ १६॥ स्वप्ने प्रसन्नो भगवानेवमाह यतीश्वरम् । तीरे कल्याणती- र्थस्य दक्षिणे च गिरेरधः॥ १७॥ तरवश्वपकाः संति तत्रोदीच्यां म- हादिशि ॥ वर्त्तते तुलसीवृक्षस्तस्याधो नांकुरः स्थितः ॥ १८॥अ- हमत्र वसाम्येव वल्मीके नास्ति संशयः॥ श्वेतद्वीपात्खगेशेन शुद्धा मृत्स्ना समाहृता ॥१९॥ यादवाद्रौ विनिःक्षिता साक्षयाभून्ममाज्ञया। कल्याण्याश्चोत्तरे देशे शैलमूले यतीश्वर ॥ २० ॥ श्वेतमृत्स्ना म- हादिव्या वर्तते नास्ति संशयः ॥ प्रत्यक्षसदृशं वाक्यं स्वग्ने भगवतो- दितम् ॥ २१ ॥ श्रुत्वा यतींद्रः संतुष्टः स्वप्नादुत्थाय सत्वरम् ॥ नि- वेद्य राज्ञे तत्सर्व स्वप्नवृत्तांतमादरात् ॥२२॥ स्नातः शुचिनिर्मला- त्मा तेन राज्ञा यतीश्वरः॥ तुलसीवृक्षमासाद्य संप्रहृष्टः प्रणम्य तम् ॥२३॥ तद्वल्मीकं खनित्वाथ तत्र लक्ष्मणदेशिकः ॥ यादवाद्रिपति किंचित्कांतिसिंधु ददर्श ह ॥ २४ ॥ शकाव्दे वर्पसाहस्र गते तद्दाद- शाधिके । ततोदे बहुधान्याख्ये पुष्यमासि शुभे तदा ॥२५॥ शु- क्लपक्षे चतुर्दश्यां सुप्रभावपुनर्वसौ॥ आविर्वभूव भगवास्तत्र नारा- यणो हरिः॥२६॥ तद्वल्मीकायदुगिरौ यतीद्राय महात्मने ॥ तं दृष्ट्वा मुदिताः सर्वे सिंहनादं प्रचक्रिरे ॥२७॥ भेरीमृदंगवाद्यानां रवश्व सुमहा- नभूत् ॥ तं देवं दर्शयित्वाथ राज्ञस्तस्य यतीश्वरः ॥ २८ ॥ क्षीरा- भिपकं कृत्वास्य संपूज्य विदिनं स्वयम् ॥ कृतकृत्यो महातेजाः परं हर्पमवातवान् ॥२९॥ ततः कल्याणसरसः कौवेरदिशि चास्थितम्।। आसाद्य पर्वत श्रेष्टं तन्मूले यतिपुंगवः ॥३० । बिदडेन खनित्वाथ ददर्श श्वेतमृत्तिकाम् ॥ मृत्स्नामादाय संभूतां स तां लक्ष्मणदेशिका ॥३१॥ सम्यग्धृत्वोर्ध्वपुंड्राणि तथैव श्वेतमृत्स्नया॥त्रिदंडमंडितकर- स्तेन राज्ञा यतीश्वरः ॥ ३२ ॥ छेदयित्वा वनं सर्व कारयामास पत्त- (१४८) प्रपन्नामृते- नम् ॥ ततो नारायणपुरं नाम चास्यादिशत्तदा ॥३३॥ प्राकारंगों- पुरैरुचैमंडपेरुपशोभितम्॥तस्य नारायणस्याथ कारयामास मंदिरम्॥ ॥ ३४ ॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चेतरजातयः ॥ चहाणि सर्वाणि यादवाद्रौ यथार्हतः ॥३५॥ पांचरात्रप्रकारैश्च सात्वतस्संहि- तैस्ततः॥ श्रीरंगराजभट्टाख्यराजभट्टेन धीमता॥३६॥ संप्रोक्षणा- दिकार्याणि कारयित्वा यथाविधि ॥ नित्योत्सवादिकार्याणि कालेका- ले यथार्हतः॥३७॥ कुर्वन् यदुगिरीशस्य देवस्य यतिभूपतिः ॥ महो- त्सवं कर्तुकामस्तदा स यतिपुंगवः ॥३८॥ औत्सव्यास्तस्य राहि- त्यादर्चायास्त्वस्य वै हरेः॥ व्याकुलात्मतया शेते ध्यायंस्तत्पादपं- कजम् ॥३९॥ तदा नारायणो देवः कृपया यतिभूपतेः ॥ स्वप्ने प्रसन्नो भगवानेवमाह यतीश्वरम् ॥ ४० ॥ मदीयश्चौत्सवो बिचो रामप्रिय इति श्रुतः ॥ दिल्लीश्वरस्य सदने वर्तते वत्स संप्रति ॥४१॥ तत्र गत्वा तमादाय समागच्छाथ सत्वरम् ॥ ततः स्वमात्समुत्थाय संतुष्टो यतिभूमिपः ॥ ४२ ॥ विष्णुवर्द्धनभूपाय शिष्याय स्वांतर- गिणे ॥ सम्यक् तत्स्वप्नवृत्तांतमवोचदखिलं मुदा ॥४३॥ यतिरा- जवचः श्रुत्वा संतुष्टो विष्णुवर्द्धनः ॥ प्रणिपत्यात्रवीद्वाक्यं कृतांज- लिपुटस्तदा ॥ १४ ॥ साक्षानारायणो देवो भवान्सर्वजगद्गुरुः ॥ भवतः परमहंसस्य किमसाध्यं जगत्रये ॥ ४५ ॥ शिष्यसंधैर्भवान दिल्ली प्रति गतो यदि ॥ अर्पयिष्यति दिल्लीशस्तव रामप्रियं ध्रुवम् ॥४६॥ अस्मिन्नर्थे न संदेहः सत्यं वच्मि यतीश्वर ॥ तदीयाराध- नार्थाय धनमिष्टं प्रगृह्यताम् ॥ ४७॥ त्वदधीनमिदं सर्व मम यद्यद्धि वैभवम् । एवमुक्तार्पयव्यं स्वयमेवाग्रतस्तदा ॥४८॥ ततो यती श्वरः श्रीमान् बहुशिप्यैः समावृतः॥रामप्रियस्य देवस्य तस्यानय- नकारणात् ।। ४९ ।। दिल्ली प्रतस्थे सहसा सुमुहूर्ते महायशाः ॥ धृतोर्ध्वपुंड्राः पद्माभतुलसीमालिकाधराः ॥५०॥ अमलोप्णीपिणः- अध्यायः १७. (१४९) सर्वे पठंतो धाटिपंचकम् ।। रामानुजचरित्राणि विद्युल्ललितवर्चसाम्।। समादाय सहस्राणि सैनिकाः सत्वरं ययुः ॥५१॥ एकांतिभिर्दा- दशभिः सहस्रैः पीठश्चतुःसप्ततिभिः समेतः ।। अन्यैरनंतैरपि विष्णु- भक्तदिल्ली प्रतस्थे यतिसार्वभौमः ॥ १२ ॥ दिव्याज्ञया लक्ष्म- णदेशिकंस्य महात्मनश्छारजना अनंता ।। रामनियाथै रणरंगधीरा दिल्ली पुरी तां रुरुधुस्समंतात् ॥ ५३॥ असंख्येयं यतींद्रस्य दृष्ट्वा सैन्यममानुपम् ॥ विस्मयं परमं गत्वा दिल्लीशस्सचिवैस्सह ।। ५४ ।। संमंत्र्य तद्वलं ज्ञात्वा ह्यजेयमिति बुद्धिमान् ॥ विशेषतः कारयित्वा नगरद्वाररक्षणम् ॥ ५९॥ तदागमनकार्य्यस्य जिज्ञासुर्यवनेश्वरः ॥ चारान् प्रस्थापयामास यतीश्वरवलं प्रति ॥५६॥ तांश्चारान्वीक्ष्य योगीदः शिष्यैस्समंत्र्य सत्वरम् ॥ यथायोग्यं च सत्कृत्य दिल्लीश- प्रेपितांस्तदा ।। ५७॥ दिल्लीश्वरांतिकं वेगात् स्ववृत्तांतं निवेदितुम् ।। नीतिज्ञान प्रेपयामास शिष्यान् नयविशाग्दान् ॥ ५८ ॥ यतीद्रा- गमनं ज्ञात्वा तच्छिष्ययवनेश्वरः ॥ दिल्लीपुरंदरो द्रष्टुं भगवंतं यती- श्वरम् ॥ २९ ॥ आगतः सहसा हात स्वांतरंगजनैः सह ॥ प्रत्युत्थायाभिवाद्याथ संपूज्य बहुधा तदा ॥ ६० ॥ भवदागमनं बृहीत्येवं पप्रच्छ सादरम् ॥ एवमुक्तो यतिश्रेष्ठः संतुष्टो वाक्यम- ब्रवीत् ॥ ६१ ॥ अस्माकमधुना राजन्दवो रामप्रियः श्रुत ॥ वर्तते भवतो गेहे तं देवं देहि सत्वरम् ॥ ६२ ॥ वैष्णवीः प्रति- मा: शैवीः पुरा दिग्विजये हताः ॥ दर्शयामास ताः सर्वा यती- द्राय स भूपतिः॥ ६३॥ तासु स्वाभिमतस्यास्य राहित्याद्विग्रहस्य सः॥ व्याकुलात्मा यतिश्रेष्टो राजानमिदमब्रवीत् ॥६॥मम प्रिय- तमो देवो राजन् रामप्रियो हरिः॥ लक्ष्यते हि प्रदत्तासु नैतासु प्रति- मासु सः ।। ६५॥ ईदृश्यः प्रतिमाश्चान्या यदि संति तवांतिके ।। दिल्लीश सांप्रतं वेगादानीयंतां तु ता नृप ॥ ६६ ॥ तस्य तदचनं - (१५०) प्रपन्नामृते- श्रुत्वा दिल्लीशो यतिभूपतेः॥ सर्वेपां शृण्वतां तत्र मंदस्मितमुखोत्र- वीत् ॥ १७॥ युष्मद्देवो यदि भवेत्सोयं रामप्रियो हरिः ॥ आहूतो यदि युष्माभिः किनायाति तवांतिके ॥ ६८॥ तनिशम्य वचः सत्यं लजितोभूनिरुत्तरः॥ चिंताशोकसमाविष्टो राजगेहाद्विनिर्गतः ॥६॥ स्वस्थानं प्राप्य योगींद्रः सुप्तः शोकसमन्वितः ॥रामप्रियस्तदा स्वप्ने प्रसन्नः प्राह तं हरिः॥ ७० ॥ किमर्थ शोचसे विद्वन् राजपुत्र्या सुपू- जितः ॥ शय्यागृहे निवत्स्यामि तथागत्य गृहाण माम् ॥७१॥ यतीस्वप्नवृत्तांतं श्रुत्वा राजातिविस्मयः ॥ तस्याः शय्यागृहाभ्यास यतींद्र प्रापयत्तदा ।। ७२ ॥ पीतांवरधरः श्रीमान् कस्तूरीतिलको- ज्वलः ॥ अनिर्देश्यवयोरूपतया सम्यगलंकृतः॥७३॥ सर्वेपां पश्यतां तत्र कूजन्मंजुलनूपुरः॥ तच्छय्यासदनाद्वेगाच्छ्रुत्वा तवाक्य- माहतम् ॥ ७ ॥चल्वपिळ्ळेति परमस्नेहयुक्तं वशीकृतम् ॥ आज- गाम हरिः प्रीत्या तदा निर्गत्य संभ्रमात् ॥ ७९ ॥ निपसाद यती- द्रांके तदा रामप्रियो हरिः ॥ आनंदार्णवनिर्मग्नः पुलकांकितविग्रहः ॥ ७६ ॥ अस्मत्संपत्सुत इति तं तदा परिपस्वजे ॥ रामप्रियस्य देवस्य तदाप्रभृति विश्रुतम् ॥ ७७ ॥ संपत्कुमारनामाभूयतिराज- कृतं महत् ॥ यतींद्रपुत्र इत्येवं तं रामप्रियमादरात् ॥ ७८ ॥ अवो- चन्मनुजाः सर्वे तदा दिल्लीश्वरश्च सः॥ पुनःपुनर्यतिश्रेष्टः प्रेम्णा च महता तदा ॥७९॥ भवान्संपत्सुतोस्माकं पीडितं परिपस्वजे ॥ अत्याश्चर्ययुतो राजा यतीद्रपदपद्मयोः ॥ ८० ॥ प्रणम्य बहुधा भ- क्या सत्कृत्य यतिपुंगवम् ॥ मुमुदे मंत्रिभिस्साई दृष्ट्वाश्चर्य महा- यशाः॥८१॥ संपत्पुत्रं समादाय यतींद्रो यादवाचलम् ॥ दिल्लीशे- नाभ्यनुज्ञातो गंतुं समुपचक्रमे ॥ ८२ ॥ दिल्लीश्वरात्मजा साध्वी तदृत्तांतं निशम्य सा॥ तत्प्रेमपारवश्येन संतापमगमत्परम् ॥ ८॥ दिल्लीशदुहितुः सख्यो रामप्रियवियोगतः ॥ दुःखितायाश्च वृत्तांत राजे सम्यङ् न्यवेदयन्।।८ास राजा दुःखितस्तेन गत्वा दुहितुरंतिकम् ॥

अध्यायः ४७.
(१५१)
सांत्वयित्वा स तोसम्यगिदं वचनमब्रवीत्॥८॥किमर्थ शोचसे बाले
वद दुःखस्य कारणम्।। श्रीरामप्रियाविश्लेपा भीरुदिल्लीश्वरात्मजा।।८६||
साश्रुनेत्रमुखी बाला पितरं वाक्यमत्रवीत् ॥ संपत्पुत्रो यतीदाय यदि
दत्तो मम प्रियः ॥ ८७॥न सहिप्ये क्षणमपि तद्वियोगं सुदुःसहम्।।
दुःसहप्रेष्टविरहात्त्यक्ष्याम्यद्यैव जीवितम् ।।८८॥ निशम्य दुहितुर्वाक्यं
राजा दुहितृवत्सलः ॥ यतींद्र प्रार्थयामास संपूज्य बहुधा तदा
॥ ८९ ॥ दुहिने देहि मे देवं सुन्दरं संपदात्मजम् ॥ स राज्ञस्तद्वचः
श्रुत्वा यतींद्रो वाक्यमब्रवीत् ॥ ९० ॥ कथं दास्याम्यहं देवमस्माक-
मतिसुन्दरम् ।। स्वयमेवागतं प्रीत्या दुहितुर्भवतो नृप ।। ९१ ॥ एत-
दर्थ महत्कार्य कृतं किल मयाधुना ।। त्वयोक्तं वचनं पूर्व नृपते
संस्मराधुना ॥ ९२॥ युष्मद्देवो यदि भवेत्सोय रामग्रियो हरिः॥
आहूतो यदि युष्माभिः किनायाति तवांतिकम् ॥९३॥ अतोधुना-
गतो राजनस्मदेवोरमदंतिकम् । एतादृशमहं देवं कथं दास्यामि ते
हरिम् ॥ ९४ ।। यतीद्रवचनं श्रुत्वा लज्जितस्सनिरुत्तरः ॥ संमंत्र्य
सचिवैः साई कंचिदर्थमवाप सः ॥ ९५ ॥ आरोप्य राजा शिविका
स्वपुन्या सहितं हरिम् ॥ बहूपहारसहितं तं रामप्रियमादरात ॥ ९६ ॥
यतीनां सार्वभौमाय दत्त्वा मोदमवाप सः। तथा दिल्लीश्वरः श्रीमान
प्रेम्णा दुहितवत्सलः ॥ ९७॥ पुत्र कंचित्समाहूय चतुरंगवलान्वि-
तम् ॥ तस्याः संरक्षणार्थाय प्राहिणोदुहितुस्तदा ॥ ९८ ॥ संपत्पुत्रेण
संयुक्ता देवी दिल्लीश्वरात्मजा ॥ आरुह्य शिबिकां शीघ्रं प्रययौ याद-
वाचलम् ।। ९९ ॥ चतुरंगबलोपेतः स महात्मा महायशाः ।। शिवि-
कायाश्चतुर्भागं भगिनी परिपालयन् ॥ यतींद्रसहितः श्रीमान प्रतस्थे
यादवाचलम् ॥१००॥ सदारमादाय हरि कृतार्थ संपत्सुतं साधुनृपा-
चितांधिः। स यादवादि सहसा प्रतस्थे रामस्त्वयोध्यां हि यथा
कृतार्थः ।। १०१ ॥ इति श्रीप्रपन्नामृते रामानुजचरित्रे दिल्लीनगरात
दिल्लीशपुन्या सह संपत्सुतस्य यादवादि प्रत्यागमनं नाम सप्तचत्वा
रिंशोऽध्यायः॥४७॥

(१५०) प्रपन्नामृते- अष्टचत्वारिंशोऽध्यायः। ततो यतीश्वरः श्रीमान्सुमुहूर्ते महायशाः ॥ संपत्सूनुं समा- दाय प्रतस्थे यादवाचलम् ॥ १ ॥ दिल्लीशसूनुः सद्भक्त्या भग- वतं सुनामकम् ॥ आरोप्य स्वर्णशिविका भगिन्या सह सादरम् ॥२॥ संपत्सूनुं समादाय सबलः पितृशासनात् ॥ तूर्णं दिल्लीपुरा- द्धीमान्प्रययौ यावाचलम् ॥३॥ शखभेरीनिनादैश्च जयशब्दैश्च बान्दिनाम ॥ अनेकैर्मगलैर्वाद्यैश्चतुरंगबलैस्सह ॥ ४ ॥ तत्र मागे तु सा देवी हरिणा कमलेक्षणा ॥ ऐक्यं जगाम सहसा तदद्भुतमिवाभवत् ॥ ५॥ संपत्पुत्रः स एवान शिबिकायामदृश्यत ॥ नालक्ष्यत तदा देवी लक्ष्मी दिल्लीश्वरात्मजा ॥ ६ ॥ लक्ष्मणार्यादयस्तेन स- वें विस्मयमागताः ॥ दिल्लीशसूनुरगमदुःखं तेन च विस्मयम् ॥ ७॥ स जातभगवद्भक्तिः सह तेन महायशाः ॥ नारायणपुरं प्राप्य सार्द्ध लक्ष्मणयोगिना ।। ८॥ ततस्तूर्ण समादाय संपत्पुत्रं यतीश्वरः ॥ यादवाचलमासाद्य कृत्वा संप्रोक्षणं तदा ॥ ९॥ रामप्रियस्य तस्याथ संपत्पुत्रस्य शास्त्रतः ॥ यादवाचलनाथेन तमेकीकृत्य सादरम्॥१०॥ विधाय पुत्रवात्सल्यं तस्मिन् रामप्रिये तदा ॥ महोत्सवानां सर्वेषां कर्तारं ते विधाय च ॥ ११ ॥ सर्वान्महोत्सवान्नित्यं कुर्वन्सद्भक्तितो हरेः॥ तीर्थप्रसादं सर्वेषां गृहीतं सर्वथाकरोत् ॥ १२॥ दिल्लीशपुत्री हरिणा तेनैक्यं समुपागता ॥ तामची कारयित्वाथ तस्य श्रीपादप- भयोः॥ १३॥ अन्तरे स्थापयामास विधिवद्यतिपुंगवः ॥ अर्चारू- पेण तां तत्र प्रतिष्टाप्य यथाविधि ॥१४॥ स स्वसारं यतींद्रिस्य कृपया मुमुदे तदा ॥ यतींद्रेणाभ्यनुज्ञातस्तदा दिल्लीश्वरात्मजः॥१९॥ दिल्लीशं प्राप्य भूपाय तत्तांत न्यवेदयत् ॥ ततो दिल्लीश्वरः श्रीमान दुहितुर्हरिणा सह ॥ १६॥ निशम्य सशरीरैक्यं स्वसूनोर्मुखत- स्तदा ॥ विम्मयं परमं प्राप दुःखं च म दयानिधिः ॥१७॥ विबुधै- अध्यायः४८. (१५३) वाँधितः सम्यग दिल्लीशो भक्तिमान् हरौ ॥ श्रीमान्दुहितृवात्सल्याद्य- यतींद्र जगतां गुरुम् ॥ १८ ॥ पूजयित्वा महाभत्त्या संपत्पुत्राय सादरम् ॥ वराय बहुशः सम्यग्दिल्लीशः प्रददौ धनम् ॥ १९॥ दिल्ली- श्वरेण योगींद्रः पूजितो बहुधा तदा । नारायणपुरे तत्र किंचित्काल- मुवास सः॥२०॥ कश्चित्कवीरदासाख्यो मतिमान भगवत्परः ॥ तस्मिन्काले बभूवाथ सर्वलोकैकपूजितः ॥२१॥ तद्भुततमं श्रुत्वा संपत्पुत्रेण सत्तमः॥ ऐक्यं जगाम सहसा यवनेश्वरकन्यका ॥२२॥ अत्याश्चर्यायुतो धीमान् नारायणपुरं ययौ ॥ पादपंकजमध्यस्थां संपत्सूनोर्जगत्पतेः ॥२३॥ अारूपेण तां कन्यां दृष्ट्वा विस्मयमा- गतः ॥ यतिराज़ तदा नत्वा तदृत्तांतं निशम्य सः ॥२४॥ सतुष्ट- हृदयः सम्यक् परं विस्मयमाप सः ॥ स दिव्यदेशसंचारे यवनः कृतनिश्चयः॥२५॥यतींद्रेणाभ्यनुज्ञातःश्रीरंगाभिमुखोययौरंगेशवैभवं दृष्ट्वा विस्मयं परमं गतः२६॥तस्माद्गेश्वराल्लोके देवोऽन्यो नहि विद्यते।। इत्येवं मनसा मेने तस्मिन्संजातभक्तिमान् ॥ २७॥ संजातभक्तिः सहसा यवनो रंगिणीश्वरे ॥ ययाचे हरिमुदिश्य मोक्षं देहीति सादरम् ३२८॥ याचितो यवनेनाथ रंगेशःप्राह तं तदा ।। प्रपन्नमोक्षदानेह दीक्षितो यवनेश्वर ॥२९॥ पतितानां मोक्षदाने जगन्नाथःप्रदीक्षितः।। हेतुं तत्र प्रवक्ष्यामि सावधानमनाः शृणु ॥ ३०॥ विना मच्चक्रसंव- धात्रैव मोक्षो हि कस्यचित् ॥ वक्रांकनाडा चक्रस्य दर्शनात्पुरुषोत्त- मे ॥३१॥ प्रविंदति नरो मोक्षं यच्चक्रेण हतोपि वा ॥ चक्रांकनेन भक्तानां मोक्षो भवति निश्चितम् ॥ ३२॥ मञ्चक्रेण हता मोक्षं गच्छति द्वेपिणोमलाः ॥ पतितास्तु जगन्नाथे मम चक्रस्य दर्शनात् ॥ ३३॥ अतो हि त्वं जगन्नाथं निर्गच्छ यवनोत्तम । तत्रैव भवतो मोक्षो भ- विप्यति न संशयः ॥ ३४ ॥ कवीरो रंगराजन स तेनाज्ञापितस्तदा।। जगन्नाथमवापाथ मुक्तिकामो मझयशाः ॥ ३५ ॥ कवीरः पूजितः (१५४) प्रपन्नामृते-- सम्यक् स कलिंगमहीक्षिता ॥ जगन्नाथं विवेशाशु संतुष्टो यवनाधिपः ॥३६॥ प्रणम्य बहुधा भक्त्या तं जगन्नायकं हरिम् ॥ स्तुत्वा बहुवि- धं सम्यङ् ननर्त्त हरिसन्निधौ ॥३७॥ भक्त्या कबीरस्तत्रैव कंचित्का- लमवर्तत ॥ जगन्नाथप्रसादेन स कुर्वन् देहपोपणम् ॥ ३८॥ ततः कदाचिद्भगवाञ्छ्रीजगन्नायको हरिः॥ कबीरमोक्षदानाय मातें चक्रे दयानिधिः ॥ ३९ ॥ सारमेयवपुर्भूत्वा भगवान् कृपयातदा ॥ तस्या- तिकमवाप्याथ यवनस्य शनैश्शनैः॥ ४०॥जग्राह पैठरं भक्ष्यं त. स्य किंचिज्जगत्पतिः ॥ तगृहीत्वा प्रदुद्राव स तस्मिन् पश्यतीश्वरः ॥४१॥ सर्वभूतसुहृद्धीमान कवीरो वीक्ष्य तं शुनम् ॥ आदाय सह- सैवाज्यं प्रोवाच कृपया तदा ॥ ४२ ॥ रूक्षं भक्ष्यं भक्षितं चेत्कुक्षि- बाधा भविष्यति ॥ गृहाणाज्यमिदं स्वामिन्किमर्थं परिधावसि ॥४॥ इत्येवं व्याहरन्भक्त्या धावंत स तमन्वगात् ।। सिंधुतीरं तदा नीला तं कबीरं जगत्पतिः॥४४॥ शंखाचक्रधरः श्रीमान् प्रत्यक्षस्तस्य चाभवत् ॥ प्रणम्य बहुशो भक्त्या स्तुत्वा तं हरिमव्ययम् ॥ ४५ ॥ कबीरश्चागमन्माक्षं जगन्नाथे महायशाः॥दत्त्वा मुक्ति हरिस्तस्मै शीघ्र दिल्लीशसूनवे ॥४६॥ तद्वत्तांतं हि पौरेभ्यः स सर्वेभ्य न्यवेदयत् ॥ नि- शम्य भगवद्वाक्यं पौरा विस्मयचेतसः॥४ातत्र गत्वा तथाभूतं कबीर वक्ष्यि हर्पिताः। संस्कारं चक्रिरे सर्वे यथोक्तं हरिणा तदा ।। ४८॥ कवीरमुक्तिस्थानं तु सिंधुतीरेद्भुतं महत् ॥ सूचयन्निव तत्कीर्तिमद्यापि परिदृश्यते ॥४९॥ ततो दिल्लीश्वरः श्रीमान् पुत्रस्य दुहितुश्च सः॥ तमद्भुततमं श्रुत्वा वृत्तांतं सादरं मुहुः ॥५०॥ विस्मयं परमं प्राप दु:- खं च स दयानिधिः । विबुधैर्बोधितः सम्यग्दिल्लीशो भक्तिमान हरौ ॥५१॥ श्रीमान् दुहितृवात्सल्यायतींद्र जगतां गुरुम् ॥ पूजयित्वा महाभत्त्या संपत्पुत्राय सादरम् ॥५२॥ वराय बहुशः सम्यग्दिल्ली- शः प्रददौ धनम् ॥ अारूपस्थितायाश्च दुहितुर्भूपणं बहु ॥ ५३॥ वाहनानिसुवर्णानि महीं कोट्यधिकं धनम् ॥ दत्त्वा नृपः परं हर्पमवाप अध्यायः ४८. (१५५) वरमर्चयन् ॥ दिल्लीश्वरेण योगींद्रः पूजितो बहुधा तथा ॥ ५४ ॥ नारायणपुरे तत्र कंचित्कालमुवास सः॥ संपत्सुतस्यानयने सहायार्थ समागताः ॥ ५५ ॥ ये वर्णबाह्याः सद्भक्त्या सदेहकृपया तदा ।। मर्यादां विदधे नित्यां वैष्णवानां जगद्गुरुः ॥५६॥ कल्याणस- रसि स्नानं प्रवेशो विष्णुमंदिरे॥ महोत्सवे च त्रिदिनं प्रत्यव्दमिति निर्णयः ॥१७॥ तदाप्रभृति तत्रैव यादवाद्रौ जगद्गुरोः॥ शासनाद- त्यजास्सर्वे भगवद्भक्तिपारगाः॥५८॥ प्रत्यव्दं त्रिदिनं तत्र संपत्सू- नुमहोत्सवे ॥ कल्याणसरसि स्नात्वा चोर्ध्वपुंडूधराः शुभाः ॥५९॥ विष्ण्वालये प्रविश्यांतः वलिपीठांतिकं गताः॥ विमानं तत्परिक्रम्य प्रणम्याशु जगत्पतेः ॥ ६० ॥ तैलं च तंडुलं तस्मै समर्प्य हरये तदा ॥ कृतार्था निर्ययुस्तस्मात्ते सर्वे हरिमंदिरात् ॥६१ ॥ ततः संप्रोक्षणं सम्यक् कृत्वा तस्य यथाविधि ॥ अवशिष्टोत्सवं चक्रुः संपत्पुत्रस्य चार्चकाः ॥ ६२ ॥ यतींद्रशासनात्तत्र मर्यादेपा ह्यखं- डिता । नारायणपुरे सेयमद्यापि परिदृश्यते ॥ ६३॥ स्वनाम्रा कार- यित्वाथ मठं तत्र महत्तरम् ।। सुखेन लक्ष्मणाचार्य्यस्तस्थौ श्रीमा- न्महायशाः ॥ ६४ ॥ अस्यैव महतो ह्यद्ररभून्नामचतुष्टयम् ॥ सन- कुमारो भगवान्पुरा कृतयुगे महान् ।। ६६ ॥ दिव्यं विमानमारुह्य ब्रह्मलोकाद्धवं गतः ॥ नारायणं प्रतिष्ठाप्य यत्तदेवमपूजयत् ॥६६॥ नारायणादिरित्यासीनाम तस्य ततस्तदा ॥ त्रेतायुगे महायोगी दत्तात्रेय इति श्रुतः॥ ६७॥ विधाय वेदपुरुपाञ् शिष्यानारायणा- चले ॥ वेदपुष्करिणीतीरे तपः कुर्वन्समास्थितः ॥ ६८॥ वेदादि- रिति तस्यासीनाम तस्य गिरेस्ततः॥ द्वापरे यदुनाथेन कृष्णेनारा- धितस्तदा ॥ ६९ ॥ यादवाद्रिरिति ख्यातं नामधेयांतरं गिरेः॥ कलौ युगे तु संप्राप्ते यतिराजेस्य पूजनात् ॥ ७० ॥ यतिशेपमिति ख्यातं नामाभूत्तत्र तद्गिरेः । ततः कदाचिद्योगीदः स्वशिष्यैदेशिकै- वृतः ॥७१ ॥ त्रैवर्णिकैर्महाभागैरन्यैश्च कुलशेखरैः ॥ विशेपशुट्टै (१५६) प्रपन्नामृते- रपरैः शुद्धैर्विष्णुपरायणैः ॥ ७२ ॥ अन्यैरनंतैस्संरेजे नारायणमु- निर्यथा ॥ शिष्यान्यतीद्रः प्रोवाच सभायां कृपया ततः ॥७३॥ नारायणपुरे रम्ये वसतामसतामपि ।। सदैव तेपां निःश्रेयो भविष्यति न संशयः ॥७॥ भत्त्या कथामिमां नित्यं ये शृण्वंति पठंति च ॥ सर्वपापविनिर्मुक्तास्ते स्युर्वैकुंठवासिनः॥ ७९ ॥ निर्जित्य सर्व- नमयान यतिराजो महायशाः॥आरोप्याखिलदेशेषु जयस्तंभान्स- मंततः ॥ ७६॥ रूढमूलं प्रतिष्टाप्य स्वीय दर्शनमुत्तमम् ॥ कम- लापतिपादाब्जपट्पदान्सकलाञ् जनान् ।। ७७ ॥ विधाय तैर्जनैः सम्यक् पूजितो लोकदेशिकः ॥ नित्यं महोत्सवान्कुर्वन्संपत्पुत्रस्य सादरम् ॥ ७८ ॥ सामानाधिकरण्यार्थान् सर्वाश्चर्यकरान्परान् ॥ अनिशं सन्निधौ श्रीमान् भक्त्या देवस्य तस्य सः ॥ ७९ ॥ भाण्यार्थान् शिष्यसंधेभ्यः कृपयोपदिशन्सदा ॥ सुखमव्याहतोपायः स तस्थौ यादवाचले ॥८०॥ रंगेशपूर्णकृपया बहिरंगवासाद्रामा- नुजस्य महतो यदभून्महत्त्वम् ॥ वेदाचलेप्यधिकमेव ततो महत्त्वं संपूज्यते बुधजनैः सकलासु दिक्षु ॥ ८ ॥ रंगेशसेवाविरहादवाप्त दुःखं च संपत्सुतरत्नलाभात् ॥ विसृज्य संतोपमवाप धीरो नैवापदः संति सतां हि नित्याः ॥ ८२ ॥ संपत्सुतस्य जनदृष्टिमनोहरस्य लावण्यसंपदि निमग्नमना यतींद्रः ॥ विस्मृत्य रंगपतिमागमभूधरेंद्रे तस्थौ सुखं विविधदास्यपरंपराभिः ॥ ८३ ॥ यत्प्रेम रंगाधिपतौ सुजातं संपत्सुतेभूदधिकं ततोस्य ॥ ताताभिलापादधिकाभिलापः पुने प्रसिद्धस्स हि लोकवृत्तः ॥ ८४॥ यतींद्रसेवाविरहाच भीताः सर्वे जना ये क्रिमिकंधरस्य । ते तीक्ष्णदंडात्पविहाय रंगं वेदादिमेवा- भिययुः सदाराः॥ ८५ ॥ नारायणाचलवनं नगरी वभूव रामानु- जार्यकृपया जनसंप्रकीर्णा ॥ शार्दूलचोररहिता तदभावदोपादेंगे- शरंगनगरी पटवी वभूव ॥ ८६ ॥ विलोक्य रंग निजभक्तहीनं अध्यायः ४९. (१५७) निवृत्तसर्वोत्सवमप्रकाशम् ॥ प्रवृद्धसर्वोत्सवमद्वितीयं व्यचिंतयच्चा- गमशैलमीशः॥ ८७॥ दुर्ग वनं नगरमेव तदागमादिरासीन्ममाद्य नगरं विपिनं च दुर्गम् ॥ राहित्यदोपवशतो यतिपुंगवस्य व्यत्यस्त- मद्य तदभून्मम चैव दोपात् ॥ ८८॥ निरस्य चोलं क्रिमिकंधराख्यं मोदं विधातुं यतिपुंगवस्य ॥ इयेप रंगाधिपतिः समीक्ष्य लोकं च पापंडमयं हि शुन्यम् ॥ ८९ ॥ इति श्रीप्रपन्नामृते रामानुजचरित्रे यादवाद्री दिल्लीशपुत्र्यर्थ संपत्पुत्रस्य प्रतिष्टापनं नाम अष्टचत्वारिंशो- ऽध्यायः ॥१८॥ - एकोनपञ्चाशोऽध्यायः। ततः श्रीरंगनगरात्कश्चिद्वैष्णवपुंगवः ॥ नारायणपुरं प्राप रामा- नुजदिक्षया ॥ १ ॥ तं पप्रच्छ यतिश्रेष्ठस्तयोवृत्तांतमादरात् ।। चोलांतिकं प्रापितयोः पूर्णकूरेशंयोर्भटैः ॥२॥ इत्युक्तो यतिराजेन प्रत्युवाच स वैष्णवः॥ श्रूयतामभिधास्यामि तवृत्तांत यतीश्वर ॥३॥ श्रीरंगात्तावुभौ दूतैश्चोलराजांतिकं गतः ॥ दृष्ट्वा तौ पूर्णकूरेशौ चोलराजोत्रवादिदम् ॥४॥ शिवात्परतरन्नास्ति लिख्यतामिति दुर्मतिः। एवमुक्तस्सकूरेशश्चोलेन विदुपां वरः॥५॥ सर्वेषां शृण्वता भूपमेवमाह यतीश्वर ॥ श्रुतिस्मृतिपुराणेतिहासाद्यैर्बहुधा नृप ॥६॥ श्रीमन्नारायणो देवः सर्वस्मात्पर उच्यते ॥ जगत्कारणभूतश्च ध्येयो मोक्षप्रदो हि सः ॥ ७॥ तस्य प्रशासने राजश्चद्रसूर्यादयो ग्रहाः॥ इंद्रादयश्च तिष्ठंति दिक्पालाः समहार्णवाः ॥ ८ ॥ ब्रह्मरुद्रादयो देवाः पुत्रपौत्रादयो हरेः ॥ एकेन चोलभूपाल पादपद्मं प्रसादितम् ॥ ॥ ९॥ एकेन क्षालितं भक्त्या तत्पादपयसा मुदा ॥ एकेन तत्तोयं धृतं भक्त्या महामते ॥ १० ॥ तेपां त्रयाणां राजेंद्र को महा- न्प्रविचार्य्यताम् ॥ तच्छुत्वा चोलभूपालस्तूष्णीभूतोऽभवत्तदा ॥११॥ कूरेशचोलभूपाल भूयो वचनमब्रवीत् ॥ त्रिविक्रमपदोत्सृष्टतोयसंगेन (१५८) प्रपन्नामृते- शंकरः ॥ १२ ॥ कपालित्वशवत्वादिरहितः शिवतां गतः ॥ तच्छ्रुत्वा कुपितः प्राह सुतरां चोलभूपतिः॥ १३ ॥ विवुधत्वाद्भवानेवं गतोसि बहुभाषिताम् । तत्तिष्टतु कुरुष्वाद्य मयोक्तं कार्यमाशु वै ॥ १४ ॥ शिवात्परतरं नास्ति चेत्येवं लिख सत्वरम् ॥ निबंधयामास तदा सुजनं दुर्जनो नृपः ॥ १५ ॥ कूरनाथो लिलेखेति द्रोणमस्ति ततः परम् ॥ लेखनं पारिहास्यं तदृष्ट्वा क्रुद्धः स भूपतिः ॥१६॥ करबुद्ध्या यतिश्रेष्ठ तयोर्वेष्णवयोस्तदा। दूतानाज्ञापयामास नेत्रोत्पाटनकर्मणि ॥ १७॥ तथा चकुर्यतिश्रेष्ट ते दूता राजशासनात् ॥ वृद्धत्वात् स तु पूर्णायों नेत्रोत्पाटनवेदनः ॥ १८॥शरीरधारणे शक्तो नाभवद्यति- पुंगव ॥ तस्माच्छीघ्र प्रतस्थाते श्रीरंग तौ महामती॥मार्गे कस्मिंश्चि- दागम्य कूरेशांके गुरुस्तव ॥ १९॥ निधाय च शिरःशेते तद्भार्याक्- विपंकजम् ॥ सभार्य कूरनाथस्तं महापूर्णार्यमब्रवीत् ॥ २० ॥ आप- दशा च संप्राप्ता रंगं गच्छाम सत्वरम् । एवमुक्तः स तं प्राह महापूर्णी यतीश्वर ।। २१ ॥ हात शरीरमधुना यदि रंगं गतो ह्यहम् ॥ पूर्णस्य देहविगमे रंगक्षेत्र स्थिता मतिः ॥ २२ ॥ अतोत्र सहसायातो देह- त्यागेच्छयाधुना ॥ शंकितोहं भविष्यामि तैरेवं वैष्णवधुवम् ॥ २३॥ आचार्यपरतंत्राणां वैष्णवानां महात्मनाम् ॥ देशतः कालतश्चापि नियमो नैव चास्ति हि ॥२४॥इत्युदीर्य महापूर्णः कूरनाथं यतीश्वर ।। यामुनाचार्य्यपादाब्जं ध्यायंस्तूर्ण जहौ तनुम् ॥ २५ ॥ वत्सराणां तदा तस्य पंचोत्तरशतं गतम् ॥ अन्तकाले प्रपत्रस्य न देशनियम- स्ततः ॥२६॥ केचिच्छ्रीवैष्णवास्तस्य पूर्णार्यस्य महात्मनः ॥ विधाय विधिवेत्तूर्ण संस्कार तत्सुतादयः॥२७॥कूरनाथं समादाय श्रीरंग सहसागताः॥ पूर्यस्यैव रंगेशः प्रददौ परमं पदम् ॥ २८॥ तथैवायैव सर्वज्ञो मोक्षं मह्यंन दत्तवान् ॥ इति कूरपतिस्तव वर्तते दु:- खितोधुना ॥२९॥ यतींद्रः सर्ववृत्तांतं पूर्णकूरेशयोस्तदा ।। निशम्य दुःखितोत्यंत बुधैराश्वासितस्तदा॥३०॥ विधाय देशिकस्याथ श्रीचूर्ण- अध्यायः ५०. (१५९) परिपालनम्॥ यादवाद्रौ हरेस्तस्य मंदिरे सहसातदा॥३१॥ चतुष्टयस- हस्रस्य प्रबंधस्य महायशाः॥सांगस्य सर्ववेदस्य तथा रामायणस्य च . ॥३शवैष्णवस्य पुराणस्य श्रीभाष्यस्य तथैव च।।पारायणं कारयित्वा वैष्णवैवेदपारगैः॥३३॥ अन्यैश्च पड़सोपेतैर्बहुभक्ष्यसमन्वितैः ॥ प्रपन्नान भोजयामास वैष्णवान् वेदपारगान् ॥ ३४ ॥ पूजयामास वस्त्राधैर्गुरुमुदिश्य भक्तितः ॥ ततो यतीश्वरः प्राप्य महदुःखं कृपार्णवः ॥३५॥ कूरेशो नेत्रहीनोऽभूदिति चिंतापरायणः । तमे- वांतिकमाहूय वैष्णवं कृपयात्रवीत् ॥३६॥ रंगं गत्वाधुना तूर्णं त्वं हि मवचनादितः ॥ समाश्वासय कूरेशमिति तं प्राहिणोत्तदा ॥३७॥ कूरेशदुःखोपशमाय कंचित्संप्रेष्य सौम्याप्ततमं यतींद्रः ॥ तत्रैव वेदा- द्रिपतेर्मुरारेः कैंकर्यलाभेन सुखेन तस्थौ ॥ ३८ ॥ इति श्रीप्रपन्ना- मृते रामानुजचरित्रे कूरनाथक्रिमिकंठयोर्विवादकथनं नामैकोनपंचा- शोऽध्यायः॥४९॥ पञ्चाशोऽध्यायः। ततः कूराधियो धीमाञ्छीरंगमगमत्तदा ॥ ततो निवारयामा- सुारस्थाः केचिदुत्तमम् ॥ १ ॥ केचिदूचुश्च तवान्ये कूरेशः साधु- रित्ययम् ॥ तनिशम्य वचस्तेपां कूरेशस्तानथात्रवीत् ॥२॥ किमर्थ क्रियते पद्य युष्माभिर्मनिरोधनम् ॥ तत्कारणं च बध्वं मे तत्त्वतो द्वारपालकाः॥३॥ श्रीवत्सचिह्नमिश्रस्य वचः श्रुत्वाथ तेब्रुवन् । विरोधं विदधे राज्ञि क्रिमिकंठे यतीश्वरः ॥ ४ ॥ अतः संत्यज्य सहसा श्रीरंगं यतिभूपतिः॥ अविज्ञातगतिस्त्वद्य कुत्रापि गतवा- निकल ॥५॥ एतत्समंत्रितं कार्य रंगाध्यक्षस्तदर्चकैः ॥ अस्माकं चोलराजेन विरोधो नहि दृश्यते ॥६॥ श्रीरामानुजसंबंधाद्विरो- धोद्य समागतः॥ नरामानुजसंबंधी प्रवेष्टव्यः कथंचन ॥७॥सवै- निर्णीतमित्येवं कूरेशाद्यैव चार्चकैः । तथापि सुजनः साधुः स्वामि- (१६२) प्रपन्नामृते- वणादिरोगेण नीतो वैवस्वतक्षयम् ॥ १० ॥ तेषां तद्वचनं श्रुत्वा महत्कर्णामृतं तदा ॥ आनंदार्णवनिर्मनश्चतुर्भुज इवापरः ॥ ११ ॥ परिरभ्याशु बाहुभ्यां प्रेम्णा तान् वैष्णवोत्तमान् ॥ आनंदाश्रुपरी- तात्मा लक्ष्मणार्यों जगाद सः ॥ १२ ॥ बहुदूरा- दिहागत्य प्रियवृत्तांतमद्य मे ॥ वक्तृभ्य इदमार्येभ्यः किं करिष्यामि वः प्रियम् ॥ १३॥ रजतं वा सुवर्ण वा रत्नानि विविधानि वा ॥ राज्यं वा त्रिषुलोकेषु नैतदर्हति भाषितुम् ॥ १४ ॥ नहि पश्यामि तत्साम्यं पृथिव्यां वा नरोत्तमाः ॥ सदृशं मत्प्रियाख्याने वः प्रदातुं भवेत्क्षमम ॥ १५॥ तद्रावणववं श्रुत्वा वैदेही पवनात्मजात् ॥ हर्पण राहता युक्ता सौहार्दादबतीद्यथा॥ १६॥ तथैवोक्त्वा पुनस्ते- भ्यो मंत्ररत्नं ददौ शुभम् ॥ ततस्तानाह योगीदस्तत्रत्यान् वैष्णवां- स्तदा ॥ १७॥ बभूवान्वर्थनामास्य कल्याणसरसोधुना ॥ ते तथे- त्यनुवन् सर्वे मुदिता वैष्णवास्तदा ॥ १८॥ ततो गत्वाथ नृहरेः सन्निधौ यतिनां वरः ।। बद्धांजलिरुवाचेदं हरये कृतवंदनः ॥ १९ ॥ हिरण्यकशिपुं पूर्व प्रहादद्रोहकारिणम् ॥ तं हत्वा त्वं जगत्सर्व यथा रक्षितवान्पुरा ॥२०॥ तथाधुना च चोलेंद्रं भगवन् विष्णुकंटकम्।। क्रिमिकंठं विधायाशु तं हत्वा चोलमंडले ॥२१॥ रंगादिदिव्यदे- शेषु धर्म स्थापितवानसि ॥ एवं विज्ञापितस्तेन नृसिंहो भगवान् हरिः ॥२२॥ शिष्यसंघसमेताय यतींद्राय महात्मने ॥ संतुष्टः प्रददौ तीर्थ शठकोपं च मालिकाम् ॥ २३ ॥ संप्रेपितस्ततस्तेन हरिणा यतिभूपतिः ॥ नारायणं नमस्कृत्य संपत्पुत्रं च सादरम् ॥ २४ ॥ अनुज्ञातस्तदा ताभ्यां श्रीरंगगमनोत्सुकः ॥ तत्रतत्र स्थितान् सर्वा- न समानाय्य यतीश्वरः ॥ २५ ॥ ज्ञानभक्तिपराञ् शिष्यान् व्याज- हार वचः शुभम् ॥ श्रीरंगनगरादेवं यादवादिगतस्य मे ॥ २६ ॥ अधुना वत्सरादस्माद्ता द्वादशवत्सराः ॥ अधुना वर्तते देशःस चायं निरुपद्रवः ॥ २७ ॥ श्रीरंग प्रनि गच्छामि सेवार्थ रंगिणों अध्यायः५१. (१६३) हरेः । ते यूयमवधानेन यादवाद्रिपतेहरेः ॥ २८ ॥ नारायणस्य देवस्य संपत्पुत्रस्य वैष्णवाः ॥ नित्योत्सवान्प्रकुर्वतो माससंवत्सरो- त्सवात् ॥ २९॥ सुखमचैव सततं ध्रुवं मे वसताज्ञया ॥ तन्निशम्य यतींद्रस्य वचनं वैष्णवोत्तमाः॥३०॥ पतित्वा पादयोः सर्वे तद्वि- योगासहिष्णवः ॥ अश्रूणि ते प्रमुंचंतो वचनं चेदमब्रुवन् ॥३१॥ भवतोद्य वियोगेन मुहूर्तमपि देशिक ॥ न जीवामो वयं स्वामिञ् जलान्मत्स्या इवोद्धृताः ॥ ३२ ॥ यत्रयत्र भवाल्लोकरक्षार्थ गंतु- मुद्यतः॥ तत्रतत्र नयस्वास्मान् दासभूतान् दयानिधे ॥ ३३ ॥ तदा यतीश्वरो धीमान मनस्येवमचिंतयत् ॥ अत्रत्यानां हि सर्वेषां मत्से- वाप्रेमशालिनाम् ॥ ३४ ॥ आराधनार्थमधुना स्वावतारार्थसूचकः॥ विग्रहः कारणीयो हि प्रतिबिंब इवापरः ॥ ३५ ॥ ततो यतीश्वरः श्रीमान् शिल्पिभिर्निपुणैस्तदा ॥ कारयित्वा स्वावतारसूचकं वि- ग्रहं वरम् ॥३६॥ तस्मिन्स्वशक्तिमावाह्य परिरभ्य च सादरम् ।। विधि- ज्ञैर्वैष्णवैः साकं प्रतिष्टाप्य यथाविधि ॥ २७ ॥सर्वाञ् शिष्यान् समा- हूय व्याजहार वचः शुभम् ॥ हितार्थ भवतामद्य विग्रहः कारितो मया ॥ ३८॥ विग्रहे परिपूर्णेस्मिन्नित्यं कुरुत पूजनम् ।। या प्रीति- मयि वोस्त्वत्र ताम यां ममादरात् ॥ ३९॥ मुक्ताहंकारिणः सर्वे यूयमन्योन्यसौहदाः ॥ इत्येवमनुशास्यैतान्वैष्णवेभ्यश्च विग्रहम ॥४०॥ स्वीयं दत्त्वा ततस्तैश्च प्रेपितो यतिपुंगवः ॥ संपत्पुत्रस्य विश्लेपमसहिष्णुः कथंचन ॥४१॥ अनुज्ञातस्ततस्तेन यादवादेर्य- तीश्वरः ।। आजगामांजसा यत्र भगवान् रंगभूपतिः ॥ ४२ ॥ उपित्वा दंडकारण्ये चतुर्दश हि वत्सरान् ॥ वर्षे पंचदशे राममयो- ध्यां पुनरागतम् ॥ १३॥ तं दृष्ट्वा संप्रदृष्टास्ते अयोध्यापुरवासि- नः ॥ तथा रामानुजं दृष्ट्वा श्रीरंगपुरवासिनः ॥४४॥ तदा दाश- रथिछत्रं जग्राह यतिभूपतेः ॥ गोविंदो व्यजने तस्य सानुजः पर्य (१६२) प्रपन्नामृते- व्रणादिरोगेण नीतो वैवस्वतक्षयम् ॥ १० ॥ तेषां तद्वचनं श्रुत्वा महत्कर्णामृतं तदा ॥ आनंदार्णवनिर्मग्नश्चतुर्भुज इवापरः ॥ ११ ॥ परिरभ्याशु बाहुभ्यां प्रेम्णा तान् वैष्णवोत्तमान् ॥ आनंदाचपरी- तात्मा लक्ष्मणार्यों जगाद सः ॥ १२ ॥ बहुदूरा- दिहागत्य प्रियवृत्तांतमद्य मे ॥ वक्तृभ्य इदमार्येभ्यः किं करिष्यामि वः प्रियम् ॥ १३॥ रजतं वा सुवर्ण वा रत्नानि विविधानि वा ॥ राज्यं वा त्रिषुलोकेषु नैतदर्हति भाषितुम् ॥ १४ ॥ नहि पश्यामि तत्साम्यं पृथिव्यां वा नरोत्तमाः । सदृशं मत्प्रियाख्याने वः प्रदातुं भवेत्क्षमम् ॥ १५॥ तद्रावणवयं श्रुत्वा वैदेही पवनात्मजात् ॥ हर्षेण राहता युक्ता सौहार्दादब्रवीद्यथा ॥ १६॥ तथैवोक्त्वा पुनस्ते- भ्यो मंत्ररत्नं ददौ शुभम् ॥ ततस्तानाह योगीदस्तत्रत्यान् वैष्णवां- स्तदा ॥ १७॥ बभूवान्वर्थनामास्य कल्याणसरसोधुना ॥ते तथे- त्यब्रुवन् सर्वे मुदिता वैष्णवास्तदा ॥ १८॥ ततो गत्वाथ नृहरेः सन्निधौ यतिनां वरः ॥ बद्धांजलिरुवाचेदं हरये कृतवंदनः ॥ १९ ॥ हिरण्यकशिपुं पूर्व प्रहादद्रोहकारिणम् ॥ तं हत्वा त्वं जगत्सर्व यथा रक्षितवान्पुरा ॥२०॥ तथाधुना च चोलेंद्रं भगवन् विष्णुकंटकम्।। क्रिमिकंठं विधायाशु तं हत्वा चोलमंडले ॥२१॥ रंगादिदिव्यदे- शेषु धर्म स्थापितवानसि ।। एवं विज्ञापितस्तेन नृसिंहो भगवान् हरिः ॥२२॥ शिष्यसंघसमेताय यतीद्राय महात्मने ॥ संतुष्टः प्रददौ तीर्थ शठकोपं च मालिकाम् ॥ २३ ॥ संप्रेपितस्ततस्तेन हरिणा यतिभूपतिः ॥ नारायणं नमस्कृत्य संपत्पुत्रं च सादरम् ॥ २४॥ अनुज्ञातस्तदा ताभ्यां श्रीरंगगमनोत्सुकः ॥ तत्रतत्र स्थितान् सर्वा- न समानाय्य यतीश्वरः ॥ २५ ॥ ज्ञानभक्तिपराञ् शिष्यान् व्याज- हार वचः शुभम् ॥ श्रीरंगनगरादेवं यादवाद्रिगतस्य मे ॥ २६ ॥ अधुना वत्सरादस्माद्गता द्वादशवत्सराः ॥ अधुना वर्तते देशः स चायं निरुपद्रवः ॥ २७॥ श्रीरंगप्रनिगच्छामि सेवार्थ रंगिणों . अध्यायः ५१. (१६३) हरेः ॥ ते यूयमवधानेन यादवाद्रिपतेहरेः॥ २८ ॥ नारायणस्य देवस्य संपत्पुत्रस्य वैष्णवाः ॥ नित्योत्सवान्प्रकुर्वतो माससंवत्सरो- त्सवान् ॥ २९॥ सुखमत्रैव सततं ध्रुवं मे वसताज्ञया ॥ तनिशम्य यतींद्रस्य वचनं वैष्णवोत्तमाः॥३०॥ पतित्वा पादयोः सर्वे तद्वि- योगासहिष्णवः ॥ अश्रूणि ते प्रमुंचंतो वचनं चेदमधुवन् ॥३१॥ भवतोद्य वियोगेन मुहूर्तमपि देशिक ॥ न जीवामो वयं स्वामिञ् जलान्मत्स्या इवोद्धृताः ॥३२॥ यत्रयत्र भवाल्लोकरक्षार्थ गंतु- मुद्यतः । तत्रतत्र नयस्वास्मान् दासभूतान् दयानिधे ॥ ३३॥ तदा यतीश्वरो धीमान मनस्येवमचिंतयत् ॥ अवत्यानां हि सर्वेषां मत्से- वाप्रेमशालिनाम् ॥ ३४ ॥ आराधनार्थमधुना स्वावतारार्थसूचकः॥ विग्रहः कारणीयो हि प्रतिबिंब इवापरः ॥ ३५ ॥ ततो यतीश्वरः श्रीमान् शिल्पिभिनिपुणैस्तदा ॥ कारयित्वा स्वावतारसूचकं वि- ग्रहं वरम् ॥३६॥ तस्मिन्स्वशक्तिमावाह्य परिरभ्य च सादरम् ॥ विधि- वैष्णवैः साकं प्रतिष्ठाप्य यथाविधि ॥ २७ ॥सर्वान् शिष्यान समा- हूय व्याजहार वचः शुभम् ॥ हितार्थ भवतामद्य विग्रहः कारितो मया ॥ ३८॥ विग्रहे परिपूर्णेस्मिन्नित्यं कुरुत पूजनम् ॥ या प्रीति- मयि वोस्त्वत्र ताम यां ममादरात् ॥ ३९ ॥ मुक्ताहंकारिणः सर्वे यूयमन्योन्यसौहृदाः ॥ इत्येवमनुशास्यैतान्वैष्णवेभ्यश्च विग्रहम ॥४०॥ स्वीयं दत्त्वा ततस्तैश्च प्रेपितो यतिपुंगवः ॥ संपत्पुत्रस्य विश्लेपमसहिष्णुः कथंचन ॥४१॥ अनुज्ञातस्ततस्तेन यादवादेर्य- तीवरः ॥ आजगामांजसा यत्र भगवान् रंगभूपतिः ॥ ४२ ॥ उपित्वा दंडकारण्ये चतुर्दश हि वत्सरान ।। वर्षे पंचदशे राममयो- ध्यां पुनरागतम् ॥४३॥ तं दृष्ट्वा संप्रदृष्टास्ते अयोध्यापुरवासि- नः॥ तथा रामानुजं दृष्ट्वा श्रीरंगपुरवासिनः ॥४४॥ तदा दाश- रथिन्छवं जग्राह यतिभूपतेः ॥ गोविंदो व्यजने, तस्य सानुजः पर्य (१६०) प्रपन्नामृते- नेताहशो भवान् ॥ ८ ॥ अतो रंगेशसेवार्थ तत्प्रवष्टुं त्वमर्हसि ॥ स तनिशम्य कूरेशो दुःखितस्तान्वचोब्रवीत् ॥ ९॥ अहं तु लक्ष्म- णाचार्यसंबंधी नात्र संशयः॥ तस्मादंगेशसेवा मे मास्तुमास्तु कदा- चन ॥ १०॥ इत्युक्त्वा तत्क्षणाच्छीघ्रं कूरेशो वृपभाचलम् ॥ सपुत्रः ससुपः श्रीमान् प्रतस्थे सह भार्यया ॥ ११ ॥ स तत्र सुंदरभुजं नत्वा भत्त्या वनाचले ॥ नित्यवासपरो धीमान् किंचित्कालमवर्तत ॥ १२ ॥ तदा कूरेश्वरो विद्रांश्चके स्तोत्रचतुष्टयम् ॥ श्रीस्तवं सुंदरभुजस्तवं चैवातिमानुपम् ॥ १३॥ श्रीवैकुंठस्तवमिति ख्यात- तमेतचतुष्टयम् ॥ तं चैवं प्रार्थयामास श्रीसुंदरभुजस्तवे ॥ आचार्य- भक्तः करेशः श्रीसुंदरभुज प्रति ॥ १४ ॥ विज्ञापनां वनगिरीश्वर सत्यरूपामंगीकुरुष्व करुणार्णव मामकीनाम्॥श्रीरंगधानि च यथा- पुरमेव सोहं रामानुजार्यवशगः परिवर्तयिष्ये ॥ १५॥ इत्येवं प्रार्थ- यस्तत्र कूरेशः सुखमास्थितः ॥ तदा गोष्टीपुरे तस्य गोष्टीपूर्णस्य तिष्ठतः ॥१६॥ वत्सराणां सुखेनैव पंचोत्तरशतं गतम् ॥ गोष्टीपूर्णस्य चरमदशायां वैष्णवोत्तमाः ॥१७॥ शिष्याः प्रोचुरिदं वाक्यं गोष्टीपूर्ण दृढव्रतम्।।किं मन्यसे गुरुश्रेष्ट त्वमद्य वद तच्च नः॥१८॥ तेषां तद्वचनं श्रुत्वा गोष्टीपूर्णोद्रवीत्स तान् ॥ चक्रवर्तितनूजस्य पुरा वै कश्चिदंडजः ॥ १९॥व्रणमुत्पादयामास हृदि भागवतोत्तमाः॥ प्रपत्तिपि मा- स्त्वेवमिति मे वसतोनिशम् ॥२०॥ का चिंता वर्तते चात्र निर्भरस्य महात्मकाः ॥ इत्युक्त्वा निर्भरो ध्यायन्यामनार्यपदांबुजम् ॥२१॥ जगाम स हरेलोकं यत्र मोहो न विद्यते ॥ प्रायेण दुखिताः सर्वे त- द्वियोगे गुरुप्रियाः॥२२॥ अभवन्वैष्णवास्तस्य शिष्याः पुत्रादयस्त- दा। नारायणार्यः सहसा गोष्टीपूर्णस्य पुत्रकः ॥२३॥ ब्रह्ममेधेन संस्कारं स चकार पितुस्तदा । ततः श्रीलक्ष्मणार्येण प्रेषितः स च वैष्णवः ॥ २४ ॥ श्रीरंगनगरं प्राप्य वृत्तं कूरेश्वरस्य तत् ॥ सर्व विदित्वा विशदमभ्यगात्सुंदराचलम् ॥२५॥ तत्र करा- .

अध्यायः ५१. (१६१) धिपं दृष्ट्वा प्रणम्य स दयानिधिः ॥ सर्व यतीशवृत्तांतं कूरेशाय महा- त्मने ॥ २६॥ न्यवेदयत्सांत्वपूर्व विशदं चाज्ञया गुरोः ॥ ततः पुन- रुवाचेदं कूरेशं स च वैष्णवः ।। २७ ।। पूर्णाचार्यवियोगेन तब नेत्र- वियोगतः ॥ दुःखितो वर्तते चाय यादवादौ यतीश्वरः ।। २८ ॥ त- च्छ्रुत्वा तमुवाचेदं कूरेशो वैष्णवं प्रति ।। जगद्गुरुर्लक्ष्मणार्यः सुखं य- दि हि वर्तते ॥ तदेवालं ममेत्युक्त्वा संतुष्टः कूरराडभूत् ॥ २९ ॥ अनूपमं लक्ष्मणदेशिकस्य निशम्य माहात्म्यमतिप्रहपः ॥ अपूजय- त्तं यतिराजबुद्ध्या श्रीवैष्णवं कूरपतिमहात्मा॥३०॥ इति श्रीप्रपन्ना- मृते रामानुजचरित्रे कूरेशस्य सुंदराचलनित्यवासो नाम पंचाशो- ऽध्यायः॥ १०॥ एकपञ्चाशोऽध्यायः। ततश्चोलमहीपालः पापी लोकस्य कंटकः॥ पारिहासेन लिखितं द्रोणमस्ति ततः परम् ॥ १ ॥ वाक्यं श्रुत्वाऽतिसंकुरो भूपो भूयोरुणे- क्षणः ।। उत्पाटयित्वा नेत्राणि पूर्णकूरेशयोस्तदा ॥२॥ विष्णुस्था- नानि सर्वाणि चोलदेशस्थितानि च ॥ नाशयामास दुष्टात्मा रंग- स्थानं विना ततः॥३॥ रंगक्षेत्र तथा कर्तुमुद्युक्तो दुर्मतिस्तदा ॥ प्रतस्थे सैनिकैः सर्वैः सहसा विष्णुकंटकः॥४॥ मार्गे तत्र च सा- याह्ने केचिद्वामं समास्थितः ॥ तद्रात्रौ तस्य कंठे तु महद्रणमजायत ॥५॥ क्रिमयो वहवस्तस्मादजायंत व्रणात्तदा ॥ उदयंरोगस्त- स्यासीत्ताभ्यां स च मृतिं गतः ॥६॥ श्रुत्वा तस्य मृति सर्वे श्रीरंगे वैष्णवोत्तमाः ॥ ततः श्रीरंगनगराधादवादि समागताः ॥ वरदाव्द- यः सर्वे शिष्यास्ते देशिकप्रियाः ॥७॥ प्रियाख्यानं यतीदाय शंसि- तुं तेन संगताः॥ कल्याणसरसस्तीरे वसंतं वैष्णवास्तदा ॥८॥ दह- शुर्लक्ष्मणाचार्य कृतजप्यं जगद्गुरुम् ॥ प्रणम्य यतिराजाय वचन चेदमन्नुवन् ॥ ९॥ पूर्णकूरेशयोः स्वामिन्नपकर्ता सभपतिः ॥ कंठ- (१६४) प्रपन्नामृते- वीजयत् ॥ ४५ ॥ शंखभेरीनिनादैश्च दुंदुभीनां च निःस्वनैः ॥ बंदिनां जयशब्दैश्च वेदपाठर्द्विजन्मनाम् ॥ ४६॥ वाचामगोचरेणैव वैभवन यतीश्वरः॥ रंगक्षेत्रं विवेशाशु संप्रहृष्टः सुहृजनैः॥४७॥ दृष्ट्वा रंगेश्वरं हृष्टो धनं प्राप्य इवाधनः॥ महते रंगराजाय प्रणम्य प्रांजलिः स्थितः ॥४८॥ स च रंगेश्वरः श्रीमान् प्रणतं यतिभूपतिम् ॥ इ- त्युवाच प्रवालोष्टः स्फुरदशनसुप्रभः ॥४९॥ अस्य हेतोयंतिश्रेष्ट क्रिमिकंठस्य दुर्मतेः॥ मां विहाय त्वया देशाश्चरिताः शैलकाननाः ॥५०॥ केशश्च सुमहान्प्राप्तः शिष्यैः साकं यतीश्वर ॥ इत्युक्तो रंगराजेन यतिराजोत्रवीदिदम् ॥५१॥ त्वयि तिष्ठति रंगेश प्रणः तातिहरे हरौ ॥ किं दुःखं वर्ततेस्माकं त्वदासानां सुरेश्वर ॥५२॥ ततः श्रीरंगनाथश्च यतीदाय महात्मने ॥ तीर्थ प्रसादं प्रददौ कृपया श्रीपरांकुशम् ॥ ५३॥ स्वीकृत्य सर्व योगींद्रः कृतकृत्यः प्रह- प्रधीः ॥ अनुज्ञातो रंगभा मठं याहीति विष्णुना ॥५४॥ रंग सर्व समालोक्य कूरेशगृहमाविशत् ॥ ततः कूरपतिः श्रुत्वा यतींद्रागमनं शुभम् ॥ ५५ ॥ सहसा यतिराजस्य पादयोः प्रणनाम सः॥ उत्था- प्य सहसा दोया तं कूरेशं यतीश्वरः॥ ५६ ॥ परिरभ्याश्रुधाराभिः प्रेम्णासिंचन्मुहुर्मुहुः ॥ दुःखार्णवनिमग्नः सन्नित्युवाच दयानिधिः ॥५७॥ कथं दुःखं त्वया प्राप्तं महदेतद्दयापर ।। एवमुक्तः स कूरेशो यतिराजमथात्रवीत् ॥५८॥ वैष्णवानामूर्द्धपुंडूं दृष्ट्वा क्वेपु संस्थि- तम् ॥ इति किं तु मया पूर्व हसितुं यतिपुंगव ॥१९॥ तेनांधत्वम- नुप्राप्तं दुर्जरं पातकं हि तत् ॥ एवं वदंत कूरेशं यतींद्रः प्रत्युवाच तम् ॥ ६० ॥ ममैव दोपस्तेनेदं संप्राप्तं भवताधुना ॥ कूरेश सर्वसुहृदः किंवास्ति तव दुष्कृतम् ॥ ६१ ॥ एवं सुदुःखितो धीमान् विद्वानपि दयानिधिः ॥ कूरेशसहितो धीमान विवेश मठमंजसा ॥ ६२ ॥ पौरा जानपदाः सर्वे ये च भाग- वतोत्तमाः॥ रंगक्षेने भाष्यकारः क्षेमेण पुनरागतः ॥ ६३ ॥ इत्या- अभ्यास विधि ॥ ७८॥ तस्य गोविंदराजस्व अध्यायः ५१. (१६५) कर्ण्य प्रहृष्टास्ते लक्ष्मणार्यदिदृक्षया ॥ रंगं प्राप्यर्थि सहसा यतिराज- पदाब्जयोः ॥ ६४ ॥ प्रणम्यैवं महाप्रीत्या चक्रुर्विज्ञापनं तदा ॥ महापूर्णो जगामार्यों वैकुंठं यतिपुंगवः ॥६५॥ कूरेशो नेत्रहीनोभू- दिति शोकं च मा कृथाः ॥ निरामयो भवानद्य क्षेमेण पुनरागतः ॥६६॥ दृष्टोस्माभिस्तदेवालमिति सर्वे मुदं ययुः ॥ यथार्ह पूज- यामास तान सर्वान् यतिभूपतिः ॥ ६७॥ ततः श्रीरंगनगरं वैष्णवाः केचिदागताः ॥ एवं विज्ञापनं चकुर्यतींद्राय महात्मने ॥ ६८ ॥ क्रिमिकंठाख्यचोलेन पापंडेन सुपापिना ॥ श्रीचित्रकूटमधुना शैवी- भूतं विनाशितम् ॥ ६९ ॥ औत्सवैविग्रहस्साकमुत्क्षिप्तं लवणांभसि ॥ गोविंदराजमुद्युक्तः स दुरात्मा यतीश्वर ॥ ७० ॥ तदौत्सवीः समा- दाय प्रतिमास्तूर्णमर्चकाः ॥ केनाप्यज्ञातवृत्तांता निन्युस्ते वेंकटा- चलम् ॥ ७१ ॥ गोविंदराजमुद्धृत्य निक्षेप्नु लवणांभसि ॥ उद्यत चोलभूपालं दृष्ट्वा व्याकुलमानसाः॥७२॥ तिल्येति काचित्तं शीघ्र तवस्था सा वरांगना ॥ मायया मोहयित्वाथ चरणप्रिया॥७३॥ गोविंदराज सहसा सा निन्ये वेंकटाचलम कर्तुमुद्युक्तः- स च दुर्मतिः॥७४॥ प्रतस्थे सैनि चरम॥ मागें तत्र च सायाह्ने कञ्चिद्वामं सा कंठे तु महद्रणमजायत ॥ क्रिमय ॥ ७६ ॥ औदर्यरोगस्तस्यासीत्ता • राजवृत्तांत श्रुत्वासौ दुःखितोऽभवत शिष्यैः सहः वृषाचलम् ॥ गत्वा वेंकटगिरावारुह्य सहसा मुदा ॥ ७॥ प्रमथाभीष्टवरप्रदः ॥ ३० ॥ टेशं यतीश्वरः ॥ तस्मानिर्गत्य सहसा क्षेत्र व्धचक्षुः स कूरेशः संसे- भूयः श्रीरंगनगरं संप्राप्य यतिभूपतिः ॥ विदं देवमानंदाशुपरिघुनः॥ ... ॥१२॥ श्रुत श देवराजस्तव मतः॥ अधुना लक्ष्मणाचाय्यं राष्टाप्य रा॥ कि कुरु योगीश . (१६४) प्रपन्नामृते- वीजयत् ॥ ४५ ॥ शंखभेरीनिनादैश्च दुंदुभीनां च निःस्वनैः ॥ बंदिनां जयशब्दैश्च वेदपाठर्द्विजन्मनाम् ॥ ४६॥ वाचामगोचरेणैव वैभवेन यतीश्वरः ॥ रंगक्षेत्रं विवेशाशु संप्रहृष्टः सुहृजनैः॥४७॥ दृष्ट्वा रंगेश्वरं हष्टो धनं प्राप्य इवाधनः ॥ महते रंगराजाय प्रणम्य प्रांजलिः स्थितः ॥ १८॥ स च रंगेश्वरः श्रीमान् प्रणतं यतिभूपतिम् ॥ इ- त्युशच प्रवालोष्टः स्फुरद्दशनसुप्रभः ॥४९॥ अस्य हेतोयतिश्रेष्ठ क्रिमिकंठस्य दुर्मतेः॥ मां विहाय त्वया देशाश्चरिताः शैलकाननाः ॥५०॥ केशश्च सुमहान्प्राप्तः शिष्यैः साकं यतीश्वर ॥ इत्युक्तो रंगराजेन यतिराजोवीदिदम् ॥५१॥ त्वयि तिष्ठति रंगेश प्रणः तातिहरे हरौ ॥ किं दुःखं वर्ततेस्माकं त्वदासानां सुरेश्वर ॥१२॥ ततः श्रीरंगनाथश्च यतींद्राय महात्मने ॥ तीर्थ प्रसादं प्रददौ कृपया श्रीपरांकुशम् ॥ ५३॥ स्वीकृत्य सर्व योगोंदः कृतकृत्यः प्रह पृधीः ॥ अनुज्ञातो रंगभर्चा मठं याहीति विष्णुना ॥ १४ ॥ रंगं सर्व समालोक्य कूरेशगृहमाविशत् ॥ ततः कूरपतिः श्रुत्वा यतीद्रागमनं शुभम् ॥६५॥ सहसा यतिराजस्य पादयोः प्रणनाम सः॥ उत्था- प्य सहसा दोभ्यो तं कूरेशं यतीश्वरः॥५६॥ परिरभ्याश्रुधाराभिः प्रेम्णासिंचन्मुहुर्मुहुः ॥ दुःखार्णवनिमग्नः सन्नित्युवाच दयानिधिः ॥५७॥ कथं दुःखं त्वया प्राप्तं महदेतद्दयापर ।। एवमुक्तः स कूरेशो यतिराजमथाब्रवीत् ॥५८॥ वैष्णवानामूर्द्धपुंडूं दृष्ट्वा क्वेपु संस्थि- तम् ॥ इति किं तु मया पूर्व हसितुं यतिपुंगव ॥१९॥ तेनांधत्वम- नुप्राप्तं दुर्जरं पातकं हि तत् ॥ एवं वदंतं कूरेशं यतींद्रः प्रत्युवाच तम् ॥ ६० ॥ ममैव दोपस्तेनेदं संप्राप्तं भवताधुना ॥ कूरेश सर्वसुहृदः किंवास्ति तब दुप्कृतम् ॥ ६१ ॥ एवं सुदुःखितो धीमान् विद्वानपि दयानिधिः ॥ कूरेशसहितो धीमान् विवेश मठमंजसा ॥ ६२ ।। पौरा जानपदाः सर्वे ये च भाग- वतोत्तमाः॥ रंगभेने भाष्यकारः क्षेमेण पुनरागतः ॥ ६३ ॥ इत्या- अध्यायः ५१. (१६५) कर्ण्य प्रहृष्टास्ते लक्ष्मणार्यदिदृक्षया ॥ रंग प्राप्यथि सहसा यतिराज- पदाञ्जयोः ॥ ६४ ॥ प्रणम्यैवं महाप्रीत्या चकुंर्विज्ञापनं तदा ॥ महापूों जगामार्यों वैकुंठं यतिपुंगवः ॥६५॥ कूरेशो नेत्रहीनोभू- दिति शोकं च मा कृथाः ॥ निरामयो भवानद्य क्षेमेण पुनरागतः ॥६६॥ दृष्टोस्माभिस्तदेवालमिति सर्वे मुदं ययुः ॥ यथार्ह पूज- यामास तान सर्वान् यतिभूपतिः॥६७॥ ततः श्रीरंगनगरं वैष्णवाः केचिदागताः ॥ एवं विज्ञापनं चक्रुर्यतींद्राय महात्मने ॥ ६८ ॥ क्रिमिकंठाख्यचोलेन पापडेन सुपापिना ॥ श्रीचित्रकूटमधुना शैवी- भूतं विनाशितम् ॥ ६९॥ औत्सवैविग्रहस्साकमुत्क्षिप्तं लवणांभसि ॥ गोविंदराजमुद्युक्तः स दुरात्मा यतीश्वर ॥ ७० ॥ तदौत्सवीः समा- दाय प्रतिमास्तूर्णमर्चकाः ॥ केनाप्यज्ञातवृत्तांता निन्युस्ते वेंकटा- ॥ गोविंदराजमुद्धृत्य निक्षेतुं लवणांभसि ॥ उद्यतं चोल फलमानसाः॥७२॥ तिल्यति काचित्तं शीघ्र 'ण मोहयित्वाथ गोविंदचरणप्रिया॥७३॥ गचलम्॥ रंगक्षेत्र तथा कर्तुमुद्युक्तः- निकैः सर्वैः श्रीरंगं प्रति सत्वरम् ॥ समाश्रितः ॥ ७९ ॥ तद्रात्रौ तस्य क्रिमयो बहवस्तस्मादजायंत व्रणात्तदा यरोगस्तस्यासीत्ताभ्यां स च मृतिं गतः ॥ गोविंद- राजमात श्रुत्वासौ दुःखितोऽभवत् ॥ ७७ ॥ तदुःखपरिहाराय शिष्यैः सहः वृपाचलम् ॥ गत्वा तत्राशु तं देवं प्रतिष्ठान विधि ॥ ७८ ॥ तस्य गोविंदराजस्य तिल्यगोविंद वेंकटगिरावारुह्य सहसा मुदा ॥ ७ ॥ प्रभीष्टवरप्रदः टेशं यतीश्वरः ॥ तस्मानि असहसा क्षेत्र वचक्षुः स भूयः श्रीरंगनगरं संप्राप्य यतिभूपतिः ॥ वि दं ॥ १२॥श्रुत्व श देवराजस्तवः कतः॥ अधुना लक्ष्मणाचार्य द्राभ्यासमभ्यगार nephe, A . रा (१६६) प्रपन्नामृते- सुखं संबोधयन्त्स्थितः॥ ८१ ॥ आगत्यागमभूधराधतिपती रंग च रंगेश्वरं नत्वाश्वास्य स कूरनाथमसकृदत्वा जनेभ्यो मुदम् ॥गोविंद वृपभूधरस्य निकटे स्थाने प्रतिष्टाप्य तं भूयो रंगमवाप्य शिष्यसहि- तस्तस्थौ सुखं शाश्वतम् ॥ ८२ ॥ इति श्रीप्रपन्नामृते रामानुजच- रित्रे वेंकटाचलदक्षिणभागस्थे चित्रकूटतिल्यगोविंदराजप्रतिष्ठापन- कथनं नामैकपंचाशोऽध्यायः॥५१॥ द्विपञ्चाशोऽध्यायः। ततः कूरेश्वरं ग्राह समानीय यतीश्वरः॥थितार्थप्रदाने तु देव- राजः प्रदीक्षितः ॥ १॥ स्तोत्रं तद्विषयं विद्वन्कुरु कूरेश सांप्रतम् ॥ अंजसा भवतो नेत्रे भगवान्दास्यति ध्रुवम् ॥ २ ॥ मास्तु नेत्र म- मेत्येवं कूरेशो गुरुमब्रवीत् ॥ निबंधयामास तदा कुरुष्वेति पुनः स तम्॥३॥ ततः कूरेश्वरः श्रीमान् वरदं स्तोतुमुद्यतः॥४॥ स्वस्ति हस्तिगिरिमत्तशेखरः शं तनोतु मयि संततं हरिः॥निःसमाभ्याधि- कमभ्यधत्त यं देवमौपनिपैदी सरस्वती ॥५॥(इत्येवं स्तुतिमारभ्य सश्लोकान् कतिचियधात्।।) नीलमेघनिभमंजनजश्यामकुंतलमनं- तशयं त्वाम् ॥ अजपाणिपदमंजन नेत्रसात्कुरु करीश सदा मे ॥६॥ इति श्लोकार्थसहशदिव्यरूपप्रदर्शने ॥ योग्यमप्राकृतं चक्षुर्देहि मे कमलेक्षण ॥७॥इत्येवं वरदं देवं प्रार्थयामास कूरराट् ॥ ततः प्रसन्नो वरदः कूरेशाय महात्मने ॥ ८॥ दिव्यं चक्षुर्ददामीति स्वप्ने प्राह हरिस्तदा ॥ तस्यां राव्यां व्यतीतायां कृतकर्मा महाकविः ॥९॥ तमपिहयो वेगेन देवराजस्तवं हितम् । स तं निवर्त्य कूरेशो यती सर्वसुहृदः कप्त ॥ १०॥ यती, प्रणिपत्याह संतुष्टः कूरराट् तदा।। धीमान् विद्वानपि दवावतः शासनान्मया ॥३॥वरदं प्रतियोगी- मठमंजसा ॥ ६२ । इति तं यशोम्नाय स्तवं तस्मै न्यवेदयत वतोत्तमाः॥ रंगक्षेत्रे भामणाचार्यः प्रमुमोद महायशाः। भूयः प्रोवाच अध्यायः ५२. (१६७) धर्मात्मा कूरेशो यतिपुंगवम् ॥ १३॥ मया वरो यथेदानों वरदं प्रति याचितः॥ तत्तेहं संप्रवक्ष्यामि श्रूयतां गुरुपुंगव ॥ १४ ॥ वैकुंठे तु परे लोके भवंतं नित्यसूरयः॥ सदा पश्यंति देवेश येन दिव्येन चक्षुपा ॥१५॥ दिव्यमप्राकृतं चक्षुस्तन्मे देहि जगत्पते ॥ संतुष्टोभीष्टवर- दस्ततो मे कमलेक्षणः ॥ १६ ॥ तस्य वैकुंठनाथस्य सदा दर्शनका- रणम् ॥ अप्राकृतं दिव्यचक्षुः प्रददौ मे यतीश्वर ॥ १७॥ यतिराजः संप्रष्टस्तच्छत्वा शिष्यवत्सलः ॥ कूरेशाद्यैव गच्छावः कांचीमित्य- भिधाय च ॥ १८॥ कूरेशसहितः श्रीमांस्तूर्णं कांचीपुरं ययौ ।। कृतप्रणामस्तत्स्तोत्रं वरदाय कृतांजलिः ॥१९॥ विज्ञापयामास तदा कूरेशो देशिकाज्ञया ॥ ततः प्रसन्नो वरदः कूरेशमिदमब्रवीत् ॥२०॥ वरं वरय भद्रं ते वरं दास्यामि कांक्षितम् । तदा कूरपतिः श्रुत्वा वरदो- तं वचः शुभम् ॥२३॥ संप्रार्थ्य वरदं देवं यतिराजमनःप्रियम् ॥ इति वत्रे वरं तूर्ण वरदं भक्तवत्सलम्॥२२॥योलोकः प्राप्यते स्वामिन भवतः कृपया मया ॥ तं लोकं प्राप्नुयात्सम्यक् चतुर्गामाभिधः स च ॥२३॥ वरदो बादमित्याह तदा कूरपति हरिः॥स तदाकर्ण्य वृत्तांत तूण लक्ष्म- णदेशिकः॥२४॥ विपण्णवदनः प्राप्य जगाद वरदं वचः ॥ देवदेवार- विंदाक्ष सर्वज्ञ जगदीश्वर ॥ २५॥ सर्वज्ञश्च भवान्देव वरमेवंविधं हरे॥ एतस्मैकूरनाथायप्रदातुं कथमर्हति॥२६॥ततोत्रवीत्स कूरेशं रुष्टोयोगे- श्वरस्तदा स्वच्छंदतो भवानद्य मम चोल्लंघ्य शासनम् ॥२७॥ ममापि गमनात्पूर्व सहसैवं कृतो ह्यभूत् ॥ एवं निर्भय कूरेशं विपण्णो य- तिभूपतिः ॥२८॥ किं करोमीति संभ्रांतस्तस्थौ नएधनो यथा ॥ ततः प्रसन्नो वरदो यतिराजमथाब्रवीत् ॥२९॥ मा शोकं कुरु योगीश तवाभीष्टं ददाम्यहम् ॥ संद्रष्टुं चक्षुपा सर्वमथाभीष्टवरप्रदः॥३०॥ वरप्रदानं वरदः कूरेशायाकरोत्तथा ॥ लब्धचक्षुः स कूरेशः संसे- व्यापादमस्तकम् ॥ ३३ ॥ अभीष्टवरदं देवमानंदाश्रुपरिपुतः ।।

(१६८) प्रपन्नामृते- मुमोद बहुधा तत्र विलसन्मुखपंकजः ॥ ३२ ॥ धृतोपुंडू शशि- शुभ्रवर्ण कापायिणं कंजदलायताक्षम् ॥ त्रिदंडहस्तं धूतयज्ञसूत्रं दृष्ट्वा यतींद्रं मुमुदे महात्मा ॥ ३३ ॥ अनुज्ञातस्तदा तेन माधयित्वा स्ववांछितम् ॥ ततः सत्यव्रतक्षेत्रात्स कूरेशो यतीश्वरः ॥ कृतार्थों रंगनगरमाससाद महायशाः॥ ३४॥ कुराधिपायाथ स दापयित्वा श्रीलक्ष्मणार्यों वरदेन नेत्रे ॥ अवाप्तकामः पुनरेव रंग विवेश विख्या- तयशाः कृतार्थः ॥ ३५ ॥ इति श्रीप्रपन्नामृते रामानुजचरित्रे कूरेश- स्य नेत्रप्राप्ति म द्विपंचाशोऽध्यायः॥५२॥ त्रिपञ्चाशोऽध्यायः। पुरा गोदा स्तव चके हरिमुद्दिश्य भक्तितः ॥ चत्वारिंशत्समधिक- शतगाथाविराजितम् ॥ १ ॥ तत्रैकस्यां तु गाथायां महावनगिरी- श्वरः॥ भगवान्सुंदरभुजस्तयैवं प्रार्थितो हरिः॥२॥ कुरुषे यदि मे देव पाणिग्रहणमंगलम् ॥ क्षीराद्यनेकसंयुक्तगुडानस्य घटीशतम ॥ ३ ॥ समर्पये हरे तुभ्यं नवनीतघटीशतम् ॥ इति तत्र स्थितं दृष्ट्वा गोदाभीष्टमभीष्टदः ॥ ४ ॥ तयैवमकृतत्वेन यतींद्रः कर्तुमु- यतः॥ ततो वनादि संप्राप्य तस्मै सुंदरबाहवे ॥५॥अर्पयामास तत्सर्व नार्पयत् सा यदैव हि ॥ ततो यतीश्वरस्तस्माद्धन्विनाथपुरं ययौ ॥६॥ वटपत्रशयं नत्वा गोदाभ्याशमुपागतः॥ गोदां प्रणम्य सहसा विष्णुचित्तसुतां तदा ॥ ७॥ सह शिष्यैर्यतिश्रेष्ठो बद्धांजलि- पुटस्तदा ॥ ममामीटमनेनाथ सम्यइ निर्वर्तितं विति ॥ ८ ॥ तदा देवी प्रहृष्टात्मा सुतरां विष्णुवल्लभा ॥ तस्य गोदाग्रजश्चेति नाम चके कृपावशात् ॥ ९ ॥ तीर्थप्रसादं स्वीकृत्य तया संतोपितो मुदा ॥ निर्ययौ सहसा तस्मात्कुरुकानगरं प्रति ॥ १० ॥ स गत्वा दरमध्वानं चिंचाकुटिमगात्तदा ॥ वीथ्यां विलोक्य तत्रैकां स कांचि- वार्पिकीम् ॥ ११॥ अवोचदसितापागी वैष्णवीं वालिका प्रति ।।

अध्यायः ५३. (१६९) कियदूरेसितापांगि वर्तते कुरुकापुरी ॥ १२ ॥ मामाख्याहि तत्त्वेन बालेस्य नगरस्य च ॥ तद्यतीद्रवचः श्रुत्वा वालिका वाक्यम- ब्रवीत् ॥ १३ ॥ सहस्रगीतिर्भवता न च किं पठिता द्विज ॥ स तद्वचः प्रगृह्याशु विस्मितो वाक्यमब्रवीत् ॥ १४ ॥ सह- संगीतिपठनात्कथं ज्ञातुं हि शक्यते ॥ एतावन्मावदूरस्था पुरीयं कुरुकाबले ॥ १९ ॥ तद्यतींद्रवचः श्रुत्वा तमवोचच्छुचिस्मिता ॥ चिंचाकुटीरं कुरुकानगर्याः क्रोशमाचकम् ॥ १६ ॥ दूरमित्यत्र शठ- जिद्रंथे सुस्पष्टमीरितम् ॥ इत्येवमुक्त्वा तो गाथां हठावाला पपाठ सा ॥ १७ ॥ तच्छुत्वा समवाप्याथ यतींद्रो हपविस्मयौ ॥ पुत्रिकामिव संवीक्ष्य तो साक्षात्परदेवताम् ॥ १८ ॥ कृपया चाह धर्मात्मा वैष्णवीं वैष्णवप्रियः॥ कुत्र युष्मद्हं बाले तदर्शय ममाधुना ॥१९॥ अथांगीकृत्य योगींद्रवचनं वैष्णवी तदा ॥ दर्शयित्वा स्ववेश्माशु यतद्रिीय महात्मने ॥ २० ॥ सम्यक् पितृभ्यां वृत्तांत तत्सर्वं प्राह सत्वरम् ।। पाकार्थमाहतान्येवं नवभांडानि सत्वरम् ॥ २१ ॥तानि सर्वाणि संत्यज्य यतींद्रोतीवहर्पितः ॥ प्रविश्यावसथं तस्याः कन्य- कायाः कृतादरः ॥ २२ ॥ सशिष्यसंघो भक्त्यासीत्तत्पितृभ्यां सम- चिंतः॥ तावन्मात्रेण संतुष्टस्तदन्नमतिपावनम् ॥२३॥ पाचितं कन्य- कामात्रा वरदाय समर्प्य च ॥ निर्मलेन हृदा सम्यग बुभुजे तबहे तदा॥२४॥ कूरेशदाशरथ्यादिशिष्यैर्वेदांतवेदिभिः ॥ अथ तस्यै कन्य- कायै तत्पितृभ्यां च सादरम् ॥२५॥ तदंधुभ्योखिलेभ्यश्चतवान्येभ्यो जगद्गुरुः॥ उपदिश्य विशेपार्थान् कृपयामरदुर्लभान ॥२६॥सतैस्सं- पूजितः सर्वैः प्रतस्थे कुरुकापुरीम् ॥ कुरुकायां शठारातिमादिनाथं प्रणम्य च ॥ २७ ॥ तीर्थ प्रसादं स्वीकृत्य विश्रम्य यतिपुंगवः ॥ भूयः शारि संसेव्य तितिणीमूलमाश्रितम् ॥२८॥ तितिणीभूरुह वीक्ष्य दिव्यं च चिरजीविनम् ॥ श्रीमजनोत्सवं दृष्ट्वा शठारातर्महा- द्रुतम् ॥ २९ ॥ अद्वितीयं महांतं च प्रभावमतिमानुपम् । अत्याश्च- श्रीशै- (१७०) प्रपन्नामृते- येयुतो धीमान संतुष्टस्तस्य सन्निधौ ॥३०॥ सर्वेषां शृण्वतां तत्र वचनं चेदमब्रवीत् ॥ प्रपन्नजनकूटस्थः शठारातिरयं महान् ॥३॥ अनादिसिद्धं निस्तुल्यमेतद्वैष्णवदर्शनम् ॥ संलीनमुद्धृतं सम्यगनेनैव प्रकाशितम् ॥ ३२॥ अतिगोप्यांश्च वेदाथानुर्द्धत्यामरदुर्लभान् ॥ कृत्वा द्राविडरूपेण प्रबंधॉश्चतुरः क्रमात् ॥३३॥ सर्वाधिकाराञ् शठजिजगत्सर्वमपालयत् ।। लोकसंरक्षकस्यास्य महतः शठवैरिणः।। ॥ ३४ ॥ किं वाद्य निष्क्रयं तस्य करिष्यामि कथं ह्यहम् ॥ वर्तते यदि मे पुत्रो नाममा विधाय च ॥ ३५ ॥ शठारातिऋणं किंचित्त- त्प्रमाष्टुं हि शक्यते ॥ कथं वा विद्यते पुत्रस्स मे संन्यासिनो भुवि ॥३६ ।। इति व्याकुलचित्तं तं वीक्ष्य लोकैकदेशिकम् ॥पुत्रः लपूर्णाख्यो भूरिश्रीशैलपूर्णजः ॥ ३७॥ महाप्राज्ञो महातेजाः कश्चि- दभ्येत्य सादरम् ॥ प्रणम्य लक्ष्मणाचार्य बद्धांजलिपुटोब्रवीत्॥३८॥ मामंगीकृत्य योगींद्र दासभूतं त्वदात्मजम् ॥ मनोरथं हि भवतः सफलं कर्तुमर्हसि ॥ ३९ ॥ संतुष्टस्तेन वाक्येन त मंगीकृत्य चात्मजम् ॥ कुरुकेश्वर इत्यस्य नामधेयं चकार सः ॥४०॥ शठारातिस्ततस्तेन यतिराजाय हर्पितः ॥ स्वपादाजपदं चक्रे यतीशं लोकविश्रुतम् ॥ ११॥ शठजित्पादनामाभूत्तद्यतींद्रस्य विश्रुतम् ॥ शारिर्भगवत्पादो यथाभूद्विदितो भुवि ॥ ४२ ॥ तथैव शठजित्पादो लोके रामानुजोऽभवत् ॥ रामानुजांत्रिस्थानत्वे तथा दा- शरथिएभूत् ॥४३॥ शठकोप प्रदेहीति भगवत्सन्निधौ वदेत् ॥ रामानु- जं प्रदेहीति शठजित्सन्निधौ वदेत् ॥ ४४ ॥ तथा दाशरार्थ देहि श्रीरा- मानुजसन्निधौ ॥ इमं गुह्यतमं ह्यर्थ योवत्ति मनुजो महान् ॥ १५॥ स च श्रीवैष्णवः श्रीमान् ‘मुमुक्षुर्नात्र संशयः॥ ततो यतींद्रस्संतुष्टः कृतार्थों जगतां गुरुः ॥ ४६॥ तीथ प्रसादं स्वीकृत्य शठजिदयया गतम् ।। ततः श्रीरंगनगरमाजगाम महायशाः ॥४७॥ ततः स्वः अध्यायः ५४. (१७१) मठमाविश्य सह शिष्यैर्यतीश्वरः॥ दर्शनार्थान्स्वशिष्येभ्यः प्रवदन्य- वसत्सुखम् ॥४८॥ प्रच्छनबौद्धानिर्जित्य ब्रह्मात्मैकत्ववादिनः॥ देहात्मवादिनो मूढाश्चार्वाकाञ्छास्त्रदूपकान् ॥ १९ ॥ बौद्धांश्च सहसा जित्वा जीवानित्यत्ववादिनः ॥ मीमांसकान्विजित्याशु ता ननीश्वर- वादिनः ॥५०॥ कापिलानाकुलीकृत्य ब्रह्मनैमित्त्यवादिनः॥ एवं हि सर्वसमयानुन्मूल्य शतशोऽशुभान् ॥५१॥ स्ववशीकृत्य तान् सर्वा- नरक्षयतिपुंगवः ॥ पापंडबौद्धचार्वाकमायावादाववैदिकाः॥ सर्वे यती द्रमाश्रित्य बभूवुर्वैदिकोत्तमाः ॥५२॥ ते सुस्फुटं च भुजयोद्धृतशं- खचकाः सम्यग् ललाटफलके लसदूर्ध्वपुंड्राः ॥ कंठे विलनतुलसी- नलिनाक्षमाला भेजुर्मुकुंदपदवी यतिराजभक्ताः ५३ ॥ एवं महात्मा यतिचक्रवर्ती रंगे पुरे लक्ष्मणदेशिकेंद्रः॥आसेतुसीताचलभूमिभागे जितारिवर्गस्सुतरां विरजे ॥५४ ।। इति श्रीप्रपन्नामृते रामानुजचरित्रे गोदाभीष्टप्रपूर्णादिकथनं नाम विपंचाशोऽध्यायः ॥९३ ॥ चतुःपञ्चाशोऽध्यायः। निर्जित्य सर्वसमयान्त्स्वमतं पृथिव्यामाचन्द्रतारकमिदं प्रथितं यतींद्रः ॥ संस्थाप्य साधुजनसंमतमेव सिद्धं लोकं रक्ष कृपयाखिल- मीशदत्तम् ॥ १॥ सर्वे जना निखिलधर्मरता.विशुद्धा रामानुजार्य- कृपया धृतशंखचकाः ॥ वेदांतयुग्मविदिताखिलतत्त्ववोधा मुक्ति क- लावापि ययुर्जितविष्णुमायाः ॥२॥ सर्वाअनान्विष्णुपदाजगान्कुर्व- स्वसामर्थ्यवलेन धीरः।।गोविंदकूरेशमुखैश्च शिष्यैस्तस्थौ सरंगे यति- सार्वभौमः॥शाएवं निवसतस्तस्य श्रीरंगे यतिभूपतेः॥शिष्याश्च बहवः संति देशेषु निखिलेष्वपि ॥ ४ ॥ न तेषां गणने शक्ताश्चित्रगुप्ताद- योपि हि ॥ तत्र प्रधानाशिष्यास्ते चतुःसप्ततिदेशिकाः ॥ ५ ॥ तेपां प्रियतमाः शिष्या बहवः संति वैष्णवाः ॥ नित्यकैंकनिरता यतींद्रस्य जगदुरोः ॥ ६ ॥ धीमान्वरदविप्ण्वार्यकूरेशौ भट्टवर्गकः ॥

(१७२) प्रपन्नामृते- श्रीभाष्यस्य यतींद्रेण व्याख्याने च सहायकाः ॥७॥ देवराजमु- निस्तस्थौ विष्ण्वाराधनकमणि ॥ प्रणतातिहराचार्यः सानुजो यति- भूपतेः॥ ८॥ पाककर्मणि संयुक्तस्तस्थौ नित्यं गुरुप्रियः ॥ आं- ध्रपूर्णोभवद्युक्तस्तस्याभ्यंजनकर्मणि ॥ ९ ॥ गोमठान्वयसंभूतो बालार्यो यतिभूपतेः॥ कमंडलु पादुके च वहस्तस्थौ निरंतरम्॥१०॥ हस्तदाने धनुर्दासः संयुक्तो यतिभूपतेः ॥ अंमंगी तु सदा क्षीरं पक्का निश्यर्पयन्स्थितः ॥ ११॥ उत्कलार्यो भुक्तपात्रग्रहणे निर- तोमवत् ॥ उत्कलाख्यस्तु वरदो व्यंजनं सम्यगर्पयत् ॥ १२ ॥ शिष्यः कलिंगदेशार्यः परवादिजये स्थितः ॥ चंडशुंडाविति ख्याती मल्लावुक्तौ महाबलौ ॥ १३ ॥ राजसेवापरौ द्रव्यं मठस्यान्यूनता यथा ॥ अर्जयंतौ तथा नित्यमधिकं यतिभूपतेः ॥ १४॥ एवं कैक- यंनिरतास्तस्य संति सहस्रशः॥ तेषां यतींशिष्याणामांध्रपूर्णों म- हामतिः ॥ १५ ॥ उपायं चाप्युपेयं च गुरुपादाब्जमेव मे ॥इति ध्रुवं विनिश्चित्य यविराजपदांबुजम् ॥ १६॥ अष्टोत्तरशतैर्दिव्यैर्नामभिर्भ- तितत्परः॥ नित्यमाराधयंस्तस्थाविष्टदेवमिवादरात् ॥ १७॥ ॥ श्रीरामानुजनामाष्टोत्तरशतम् ॥ रामानुजः पुष्कराक्षो यतीद्रः करुणाकरः ॥ कांतिमत्यात्मजः श्रीमाल्लीलामानुपविग्रहः ॥ १८॥ सर्वशास्त्रार्थतत्त्वज्ञः सर्वज्ञः स- जनप्रियः॥ नारायणकृपापात्रः श्रीभूतपुरनायकः ॥ १९॥ अनघो भक्तमंदारः केशवानंदवर्द्धनः ॥ कांचीपूर्णप्रियसखः प्रणतातिविना- शनः ॥२०॥ पुण्यसंकीर्तनः पुण्यो ब्रह्मराक्षसमोचकः ॥ यादवा- पादितापार्थवृक्षच्छेदकुठारकः ॥२१॥ अमोघो लक्ष्मणमुनिः शार- दाशोकनाशनः ॥ निरंतरजनाज्ञाननिर्मोचनविचक्षणः ॥२२॥ वेदां- तव्यसारज्ञो वरदांबुप्रदायकः॥ पराभिप्रायतत्त्वज्ञो यामुनांगुलिमो चकः ॥२३ ॥ देवराजकृपालब्धपइवाक्यार्थमहोदधिः॥ पूर्णार्यल । अध्यायः ५४. (१७३) ब्धसन्मंत्रः शौरिपादाब्जपटूपदः॥२४॥ त्रिदण्डधारी ब्रह्मज्ञो ब्रह्म- ध्यानपरायणः ॥ रंगेशकैंकर्यरतो विभूतिद्वयनायकः ॥२५॥ गोष्टी- पूर्णकृपालब्धमंत्रराजप्रकाशकः ॥ वररंगानुकंपात्तद्राविडानाय- पारगः ॥ २६ ॥ मालाधरायसुज्ञातद्राविडाम्नायतत्त्वधीः ॥ चतुः- सप्ततिशिष्याभ्यः पंचाचार्य्यपदाश्रयः ॥ २७ ॥ प्रतीतविपती- थाभःप्रकटीकृतवैभवः ॥ प्रणततिहराचार्यदत्तभिक्षकभोजनः ॥२८॥ पवित्रीकृतकूरेशो भागिनेयत्रिदंडकः ॥ कूरेशदाशरथ्यादि- चरमार्थप्रदायकः ॥ २९ ॥ रंगेशवेंकटेशादिप्रकाशीकृतवैभवः ।। देवराजार्चनरतो मूकमुक्तिप्रदायकः ॥ ३० ॥ यज्ञमूर्तिप्रतिष्ठाता मन्नाथो धरणीधरः ॥ वरदाचार्य्यसद्भक्तो यज्ञेशातिविनाशकः॥३१॥ अनंताभीष्टफलदो विट्ठलेशप्रपूजितः ॥ श्रीशैलपूर्णकरुणालब्धरामा- यणार्थकः ॥३२॥ प्रपत्तिधर्मैकरतो गोविंदार्यप्रियानुजः ॥ व्यास- सूत्रार्थतत्त्वज्ञो बोधायनमतानुगः ॥३३॥ श्रीभाष्यादिमहाग्रंथका- रकः कलिनाशनः ॥ अद्वैतमतविच्छेत्ता विशिष्टाद्वैतपालकः ॥३४॥ कुरंगनगरीपूर्णमंत्ररत्नोपदेशकः ॥ विनाशिताखिलमतः शेपीकृतर- मापतिः ॥ ३५ ॥ पुत्रीकृतशठारातिः शठजिहणमोचकः ॥ भापादत्त- हयग्रीवो भाष्यकारो महायशाः ॥ ३६॥ पवित्रीकृतभूभागः कूर्मना- थप्रकाशकः ॥ श्रीवेंकटाचलाधीशशंखचक्रप्रदायकः ॥ ३७॥ श्रीवेंकटेशश्वशुरः श्रीरमासखदेशिकः ॥ कृपामात्रप्रसन्नार्यों गोपिका- मोक्षदायकः ॥ ३८॥ समीचीनार्यसच्छिष्यः सत्कृतो वैष्णवप्रियः॥ क्रिमिकंठनृपध्वंसी सर्वमंत्रमहोदधिः ॥ ३९ ॥ अंगीकृतांधपूर्णार्यः शालग्रामप्रतिष्टितः॥ श्रीभक्तग्रामपूर्णायविष्णुवर्द्धनरक्षकः ॥४०॥ बौद्धध्वांतसहस्रांशुः शेषरूपप्रदर्शकः ॥ नगरीकृतवेदादिल्लीश्वर- समर्चितः॥४१॥ नारायणप्रतिष्टाता संपत्पुत्रविमोचकः ॥ संपत्कु- मारजनकः साधुलोकशिखामणिः ॥४२॥ सुप्रतिष्ठितगोविंदराजः (१७४) प्रपन्नामृत- पूर्णमनोरथः ॥ गोदाग्रजो दिग्विजेता गोदाभीष्टप्रपूरकः ॥४३॥ सर्वसंशयविच्छेत्ता विष्णुलोकप्रदायकः ॥ अव्याहतमहद्वा यति- राजो जगद्गुरुः॥४४॥ एवं रामानुजार्यस्य नाम्नामष्टोत्तरं शतम् ॥ यः पठेच्छृणुयाद्वापि सर्वान्कामान्समश्नुते ॥ ४५ ॥ यदांध्रपूर्णेन महात्मनेदं स्तोत्रं कृतं सर्वजनावनाय ॥ तज्जीवभूतं भुवि वैष्णवानां बभव रामानुजमानसानाम् ॥ ४६॥ इति श्रीप्रपन्नामृते रामानुज- चरित्रे रामानुजाप्टोत्तरशतनाम्नां वर्णनं नाम चतुःपंचाशोऽ- ध्यायः॥४॥ पञ्चपञ्चाशोऽध्यायः। आंध्रपूर्णी ह्यसौ धीमाञ् ज्ञात्वैवं गुरुदैवतम् ॥ तस्थावन्यमजा- नानस्तत्कैकर्यपरोनिशम् ॥ १॥ सर्वमुक्तिप्रदे धीमाञ् श्रीरामानु- जपादुके ॥ अष्टोत्तरशतैर्दिव्यैर्नामभिर्भक्तितत्परः ॥ २ ॥ नि- त्यमाराधयंस्तस्थाविष्टदेवमिवादरात्॥प्रयाणगत्यां कस्यांचिदांध्रपूर्णों गुरुप्रियः ॥ ३॥ यतींद्वाराधनं चैव स्वस्याराधनमादरात् ॥ समाहृत्य द्वयं वेगायतींद्र पृष्ठतोन्वगात् ॥४॥ लक्ष्मणार्योथ तं दृष्ट्वा पूर्ण वाक्यमभापत ॥ किं कार्यमांध्रपूर्णाऱ्या स्वयेदं हि कृतं बत ॥५॥ आंध्रपूर्णः स तच्छुत्वा यतींद्रं वाक्यमब्रवीत् ॥ युष्मदेवान्निकृष्टः किमस्मद्देवो यतीश्वर ॥ ६॥ तच्छुत्वा लक्ष्मणा- चार्यः संतुष्टिं परमां गतः॥ आंध्रपूर्णो यतींद्रेण रंगेशं सेवितुं यदि ॥ ॥७॥ यदागतस्तदा तस्थौ संसेव्य गुरुविग्रहम् ॥ ततः कदाचि- प्राहेदमांध्रपूर्ण यतीश्वरः ॥ ८॥ रंगेशनेत्रसौंदर्य पश्य त्वमनघा- धुना ॥ तच्छुत्वा लक्ष्मणार्यस्य वाक्यं पूर्णोभ्यभापत ॥ ९॥यती- नेत्रसौंदर्य लोचमानं मदीयकम् ॥लक्ष्मणार्य यतिश्रेष्ट चक्षुरन्यन्न पश्यति ॥ १०॥ अधिकारविशेपं च मत्वेदं यतिभूपतिः ॥अकरो- दधिपूर्णाय करुणां महतीं तदा ॥ ११ ॥ ततः कदाचिद्योगींद्रो भुक्ता अध्यायः ५५. ( १७५) पूर्व जगद्गुरुः ॥ कृपया लक्ष्मणाचार्यो भुक्तपात्रस्थमादरात् ॥ १२॥ शिष्टान्नमांध्रपूर्णायशिष्याय प्रददौ यदा ॥ तदांध्रपूर्णः सहसा स्वीकृ- त्यानं तदर्पितम् ॥ १३॥प्रक्षालनमकृत्वाथ हस्तयोभक्तितत्परः॥ तत्पवित्रतमं मत्वा ममार्जाशु स्वमस्तके ॥ १४ ॥ दृष्ट्वा कदाचित्तं पूर्ण योगींद्रः कुपितस्तदा ॥ इस्तप्रक्षालनं शीघ्रं कुरुष्वति जगाद ह॥ ॥ १५॥ तथाकरोदांध्रपूर्णो धन्योस्मीति महामतिः ॥ ततः कदा- चिद्रगेशनैवेद्यसमये तदा ॥ १६॥ यतींद्रेण यदा प्राप्तस्सपूर्णो गुरु- णा सह । स्वदत्तं तत्प्रसादं च स्वीकृत्याई यतीश्वरः ॥ १७॥ आंध्रपूर्णाय तच्छिष्टमादिशत्कृपया गुरुः ॥ तदांध्रपूर्णः स्वीकृत्य हस्तप्रक्षालनं व्यधात् ॥ १८॥ दृष्ट्वा विचेएितं तस्य प्रोवाच यति- पुंगवः ॥ विरुद्धमांध्रपूर्णाद्य कृतं कर्म कथं त्वया ॥ १९॥ स तदा- कर्ण्य तद्वाक्यमांध्रपूर्णस्तमब्रवीत् ॥ भवतोक्तप्रकारेण कृतमद्य न चान्यथा ॥ २०॥ भवतो युक्तमेवेदमिति प्राह यतीश्वरः॥ कदाचि- दांधपूर्णार्यो यतींद्रस्य गुरोस्ततः ॥ २१॥ रात्रौ क्षीरं महाभत्त्या पक्तुकामः समास्थितः ॥ यतिराजस्तुमाहूय पूर्ण वाक्यमथाब्रवीत् ॥२२॥ अयं महोत्सवः कालो रंगराजस्य वै किल ॥ ततो रंगे- श्वरः श्रीमान सांप्रतं जगदीश्वरः ॥ २३ ॥ वीथ्यामायाति वेगेन महता वैभवेन च ॥ रंगराजस्य सेवार्थ किनायाति भवान्वुध ॥ २४ ॥ तनिशम्यांध्रपूर्णाय? यतींद्रमिदमब्रवीत् ॥ युष्मद्देवस्य सेवार्थमागतो यद्ययं गुरो ॥ २५ ॥ अधुना ममदेवस्य क्षीरमुज्जूं- मितं भवेत् ॥ अतोहं नागमिष्यामि सेवार्थ रंगभूपतेः ॥२६॥ आंध्रपूर्णगृहं प्राप्ताः पूर्वसंबंधिवांधवाः ॥ स्थित्वा दिनकं त- त्राथ गतेष्वेतेषु बंधुषु ॥ २७॥ आंध्रपूर्णों गृहं सर्व शुद्धं कृत्वाथ शीघ्रतः॥ गृहस्थितानि भांडानित्यक्त्वा दूरचिंतयत् ॥२८॥ प्रायश्चित्तं ततो मत्वा तस्येदमिति बुद्धिमान् ॥ तस्य दाशरथेः शीघ्र (१७६) प्रपन्नामृते- गृहारामे महात्मनः ॥ २९ ॥ विसृष्टभांडान्यादाय स्थापयामास वे श्मनि ॥ गुरुसंबंधरहितास्ततोऽशुद्धाः प्रकीर्तिताः ॥३०॥ गुरुसंवध- संयुक्ताः परं शुद्धा भवंति हि ॥ आंध्रपूर्णी यतींद्रस्य पादतीर्थ विना- कचित् ॥ ३१ ॥ अन्योदकं न पिबति गुरुभक्तिमतां वरः॥ तस्यैव तीर्थनियमो ह्यस्ति नान्यस्य कस्यचित् ॥ ३२॥ आंध्रपूर्णो यतींद्र-. स्य पादतीर्थ सुपावनम् ॥ कृपया स्थापयामास शालग्रामे निधिं यथा ॥३३॥ यतींद्रपादुके चात्र सर्वसंपत्प्रदायके ॥ उज्जीवना लोका- नामाराधनमिवादराव ॥ ३४॥ स्वकीयायां दशायां तु चरमायां दृढ- व्रताः॥ स्वांतरंगिण आहूय चरमार्थविशारदान ॥३६॥ चरणावेव शरणं यतींद्रस्य जगद्गुरोः॥ इति ध्रुवं विनिश्चित्यवर्तध्वमिति चाब्रवीत् ॥३६॥ एवं सत्यांध्रपूर्णस्य चरितानि बहूनि हि ॥ चित्रगुप्तादिभि- स्तानि न गण्यते महात्मभिः ॥३७॥ आश्चर्य्यभूतं भवि चांध्रपूर्ण- माहात्म्यमाचार्यपरत्वबीजम् ॥ यो वापि कुर्यात्तदिदं हृदिस्थमाचा- यभक्तस्स भवेन्मनुष्यः ॥ ३८॥ इति श्रीप्रपन्नामृते रामानुजचरिने आंध्रपूर्णमहात्म्यकथनं नाम पंचपंचाशोऽध्यायः॥५५॥ षट्पञ्चाशोऽध्यायः। रामानुजाज्ञया धीमाननंतार्यों वृपाचलावेंकटेशस्य कैकयं कुर्वनि- त्यं समास्थितः॥ १॥ ततः कदाचिन्मतिमाननंतार्यों गुरुप्रियः॥ रामानुजाभिधानस्य तटाकस्य सभार्यकः ॥२॥ सेतुनिर्माणकरणे मृदमादाय सत्वरम् ॥ सेतुं विवर्द्धयंस्तस्थौ तटाकं च विवर्द्धयन् ॥३॥ ततोल्येत्य वटुः कश्चित्तच्छूप समुपाहरत् ।। अनंतार्यस्स ते दृष्ट्वा वाक्यमेतदुवाच ह ॥४॥ मजीवनं किमर्थ त्वं विनाशयसि बालक ॥ कैकय्ये भवतो बुद्धिर्यद्यस्ति सहसाधुना ॥५॥शूर्प कंचि- समादाय मृदमाहर वालक ॥ अंतर्वत्नी तस्य भार्या शूर्प च समुपा- हरत् ॥ ६॥ तामालोक्य वटुर्भूत्वा वेंकटेशो दयार्णवः । तस्याः अध्यायः ५६. (१७७) शिरःस्थितं तूर्ण मृदमादाय सत्वरम् ॥ ७॥ दूरे चोत्सृज्य तत्पात्रं पुनतस्यै प्रदत्तवान् ॥ एवं पुनःपुनस्तस्याः संमुखं चेत्य बालकः॥८॥ मृदाहरणकार्याणि चकार कृपया हरिः।। शीघ्र समागतां भार्या दृष्ट्वोवाच सविस्मयः॥९॥ आगच्छसि कुतः शीघ्रमवले वद कारणम् ॥ तच्छुत्वा तस्य भार्याशु भारमिदमब्रवीत्॥१०॥ कश्चिद्रष्टुः समभ्येत्य ममाभि- मुखमादरात् ॥ द्यावान्मृदमादाय सहसोत्सृज्य दूरतः ॥ ११॥ पावं स प्रददन्मह्यं भूयोभूयोद्य वर्तते ॥ अनंतार्योथ तच्छ्रुत्वा भार्यावाझ्यं महामतिः ॥ १२॥ श्रीवेंकटेश्वरं मत्वा तं वटुं वाक्यमब्रवीत् ॥ कैंकर्यविनकारिन्मे कैंकर्य हातुमुद्यतः ॥ १३ ॥ स्वामिन्नत्रागतो ह्यद्य तमित्येवावदद्धारिम् ।। ग्रहीतुकामस्तं बालमभ्यधावद्विजोत्तमः ॥१६॥ प्रधावितो वेंकटेशः स्वस्थानमविशजवात् ॥ आनंदनिलयं प्राप्तं दृष्ट्वा तं वेंकटेश्वरम् ॥ १५ ॥ निर्गत्यानंदनिलयात्तत्कैंकर्ये समास्थितः॥ ततः कदाचिन्मतिमाननंतार्यो महामनाः ॥ १६ ॥ तस्मिन्पुष्पवने भक्त्या तुलसी कर्तयन् स्थितः॥ दृष्टवान् हि करं तस्य सों वृंदासमीपतः ॥ १७॥ अनंतार्योथ सहसा स्नात्वा सम्यग दृढ- व्रतः ॥ कैंकर्याणि यथापूर्व कुर्वनिश्चल आस्थितः ॥ १८॥ आप्ताः केचित्समागत्य तच्छ्रुत्वा तमथाब्रुवन् ॥ भवंतं दृष्टवान्सपो वियं देहे स्थितं किल ॥ १९ ॥ विपनिहरणे यत्नः किं न कार्यों दृढवत । अनंतार्यः स तच्छुत्वा तानुवाच महामनाः ॥ २० ॥ अयं संदशतः साहलवान्यदि वैष्णवाः ॥ स्वामिपुष्करणीतीर्थे स्नात्वा श्रीवेंकटे- श्वरम् ॥ २३॥ संसेवयन्निवत्स्यहं भवद्भिः सह सादरम् ।। दृष्टसर्पस्तु बलवान् यदि स्यादय सादरम् ॥२२॥ कृत्वाहं विरजानानं सेवे वैकुंठनायकम् ॥ तेनंतार्यवचः श्रुत्वा विस्मयं परमं गताः ॥२३॥ ततः कौशलदेशस्य प्रयाणे वैष्णवोत्तमाः ॥ दध्योदनं समादाय विष्णुनैवेद्यमुत्तमम् ॥२४॥ अनंतार्यों ययौ धीमान कौशलं प्रति (१७८) प्रपन्नामृते- सत्वरम् ।। तदन्नं भक्तकामः सन् गत्वाध्वानं महत्तरम् ॥ २५ ॥ कृतनित्यक्रियो धीमान क्षुधितो दुर्गमे पथि ॥ पिपीलिकामयं दृष्ट्वा तदोदनमचिंतयत् ॥२६॥ वेंकटेशस्वर्णशैले यं वा कं वा जनीमहे।। इति पूर्वैः प्रार्थितत्वादेते वै नित्यसूरयः ॥ २७॥ इति मत्वा वेंकटा- द्रौ सोदनं त्यानयजवात् ॥ स कदाचिदनंतार्यो वृपादौ पुष्पमंडपे ॥ २८॥ तस्थौ श्रीवेंकटेशस्य कुर्वन्कुसुममालिकाः ॥ आह्वयामास भगवाननंतार्य स्वसन्निधिम् ॥२९॥ स तच्छुत्वाप्यसंभाष्य तूष्णी तस्थौ तदुद्यमः ॥ विधाय मालिकाः सर्वाः पैटिकायां निधाय च ॥३०॥ प्रदातुं वेंकटेशाय तत्सन्निधिमुपाययौ ॥ दृष्ट्वा तमागतं देवो वेंकटेशोऽवदन्मुदा ॥ ३१ ॥ इतः पूर्व मयाहूतः किमर्थ नागतो भवान् ॥ तमाह वचनं धीमाननंतार्यो रमासखम् ॥ ३२ ॥ अधु- ना भवता स्वामिन् किं कार्य विद्यते मया ॥ पुष्पदामादिकऱ्या तत्कार्य देशिकाज्ञया ॥३३॥ अनंताय॑मथोवाच प्रहसन् वेंकटेश्वरः। अस्मच्छैलाद्भवानद्य मया निर्वासितो यदि ॥३४॥ ततस्त्वया हि कर्तव्यं किं कायं वद मेधुना ।। अनंतार्य्यस्तदाकर्ण्य श्रीनिवासमथा- ब्रवीत् ॥ ३५ ॥ मायावी परमानंद त्यक्त्वा वैकुंठमुत्तमम् ।। स्वामि- पुष्करणीतीरे रमया सह मोदते ॥ ३६॥ एवमाश्रितवात्सल्यादृपा- दि त्वं समागतः ॥ भत्त्याहं समनुप्राप्तो भगवन्देशिकाज्ञया ॥३७॥ यूयं वयं च शेपारस्य तुल्यास्ततो ध्रुवम् ॥ मां निवासयितुं देव कथं शक्तो भवान् भवेत् ॥ ३८ ॥ यतींद्रभक्तिनिष्ठां तां विलोक्यात्यं- तविस्मयः॥ श्रीवेंकटेशो भगवान् मुमोद स्वजनैःसह ॥ ३९॥ एवं यतीदाखिलशिष्यसंघाः सर्वासु दिक्षु प्रथितप्रभावाः॥ आचार्यकै- कर्यरता बभूवुनिरंतरं निर्जितविष्णुमायाः ॥४०॥ इति श्रीप्रप- नाऽमृते रामानुजचरित्रेऽनंतार्यप्रभाववर्णनं नाम पपंचाशोऽ- ध्यायः॥५६॥ A अध्याय: ५७. (१७९) सप्तपञ्चाशोऽध्यायः। एतादृशैः शिष्यजनैर्वसत्युयी यतीश्वरे ॥ महता वैभवेनैव श्रीरंगे जंगतां गुरौ ॥१॥एक एव हि कूरेशो यतींद्राय महात्मने ॥ अनु- क्वा रंगराजस्य सन्निधौ प्राप्य सत्वरम् ॥२॥ नत्वा रंगेश्वरं देवंत- स्थौ प्रांजलिरग्रतः ॥ रंगराजोथ तं दृष्ट्वा कूरेशमिदमब्रवीत् ॥३॥ कू- रेश त्वं किंचिदर्थ प्रष्टुकामः समागतः॥इति मे प्रतिभात्यद्य तवागमन- कारणाम् ॥ ४॥ त्वं मह्यं श्रोतुकामाय त्वमर्थ ब्रूहि सत्वरम् ॥ तस्य तद्वचनं श्रुत्वा संतुष्टो रंगभूपतेः ॥ ५॥ श्लोकोपन्यासमकरोदंगेशं प्रति कूरराट् ॥ तच्छ्रुत्वा रंगराट् प्रीतः कूराधिपमथात्रवीत् ॥६॥ वरं वरय भद्रं ते वाञ्छितं प्रददाम्यहम् ॥ तस्य तद्वचनं श्रुत्वा कूरेशः प्राह तं हरिम् ॥७॥ मह्यं दत्तं त्वया स्वामिन्सर्वाभीष्टं पुरा किल ॥ भू- योहमधुना देव किमभीष्टं वृणोम्यहम् ॥ ८॥ कूरेशस्य वचः श्रुत्वा रंगराट् तमभापत ॥ कूरेशन तथा वत्स वरं वरय सांप्रतम् ॥९॥ शपे रामानुजार्येण मामकेन महात्मना ॥ अदेयमपि दास्यामि वरं तव सुनिश्चयम् ॥ १०॥ ततः प्रहृष्टः कूरेशस्तं नत्वा प्रांजलिस्तदा।। ययाचेभीष्टवरदमभीष्टं रंगभूपतिम् ॥ ११ ॥ अधुनारंगभूपाल मा देहि परं पदम् ॥ अथ रंगेश्वरः प्राह कूरेशं भक्तवत्सलः ॥ १२॥ ये- स्मत्संबंधसंबंधिचरमावधि निश्चयम् ॥ तेभ्यः प्रदत्तं निश्रेयस्तुभ्यमत्र नसंशयः॥१३॥गृहीततुलसीतीर्थमालिकादिमतंद्रितम् ॥ तथा प्रस्था- प्यामास कूरेशं रंगभूपतिः ॥ १४ ॥ ततोचिरादिमार्गस्य कूरे- शो गुरुतत्परः। अलंकारामिव श्रीमानेजे प्राप्याधिकं तदा ॥ १६॥ श्रुत्वा कूरेश्वरस्याद्य वृत्तांत सर्वमादरात् ॥ शिष्यैः परिवृतः श्रीमान् संतुष्टो यतिपुंगवः ॥ १६॥ आकाशे सहसोत्सृज्य कापायांवरमा- वहुधा चैव ममाप्यस्ति परं पदम् ॥ १७॥ यतींद्रो वैष्णवान्दृष्ट्वा संतुष्टो वाक्यमब्रवीत् ॥ श्रीवत्सचिह्नसंबंधो ममाप्यस्ति दरात् ॥ ननर्त

(१८०)
प्रपन्नामृते-
ततः किल ॥ १८ ॥ संबंधाच्छक्यमेवाद्य तस्मात्यातुं परं पदम् ॥
न विशेपस्ततो यस्ति सतोर्हि गुरुशिष्ययोः॥ १९ ॥शोकाविष्टो
यतींद्रोथ शिष्यसंघसमावृतः॥आजगामांजसा यत्र स आस्ते कूर-
नायकः॥२०॥दृष्ट्वा कूरेश्वरं प्राह यतींद्रः प्रेमपूर्वकम् ॥ तवेदमुचितं
कार्य विधातुं सहसाधुना ॥ २१॥ किंचिच्च वचनं नोक्का महाप्राज्ञो
गुरुप्रियः ॥ तदा व्यतिष्ठत्कूरेशो ह्यनेनैव समाधिना ॥ २२॥ भूयः
प्रोवाच कृपया तं कूरेशं यतीश्वरः ॥अभाषणस्य को हेतुर्मा प्रत्यय
तदुच्यताम् ॥२३॥ श्रीवत्सचिह्नस्तं प्राह ततो लक्ष्मणदेशिकम् ।।
वरं त्वदीयवृत्तांतं विलोक्य ध्यानमास्थितः ॥२४॥ ततःप्रोवाच
कूरेशं यतींद्रस्तेन भापितः ॥ पदेपदे वर्तमानं यदद्य ब्रूहि कृत्स्नशः॥
॥२५॥ तच्छुत्वा तमुवाचेदं कूरेशो यतिपुंगवम् ॥ पूर्व प्राप्ता महा-
मानो मुक्ता ये परमं पदम् ॥२६॥ तेद्याभिमुखमायांति तेपां पंथ्य
नुयायिनः ॥ ममाभिमुखमायांति वैकुंठान्नित्यसूरयः ॥ २७॥ शास्त्र-
मार्गमतिक्रम्य वर्तते वैष्णवे पुरे ॥ तेनाहमधुना स्वामिन्मोहितोस्मि
नं चान्यथा ॥२८॥ तच्छुत्वा लक्ष्मणाचार्य्यः कूरेशमिदमब्रवीत् ।।
वैकुंठे तत्र कूरेश न शास्त्रं न व्यतिक्रमः ॥२९ ।। इह भोगविभूत्यां
तु शास्त्रमार्गप्रवर्तनम् ॥ ततो विपण्णः कूरेशः शेपत्वं वीक्ष्य विस्मितः
॥३०॥योपदेशमकरोत्तस्य कर्णे यतीश्वरः॥अथ तत्र स्थिताः
सर्वे वैष्णवास्तेन शंकिताः॥ ३१ ॥तं यतींद्र महात्मानं वचनं
चेदमन्नुवन् ॥ वैष्णवानां प्रपन्नानां न कर्त्तव्यांतिमस्मृतिः ॥ ३२ ॥
भवद्भिर्वहुशश्चोक्तं शास्त्रेवं यतीश्वर ॥ द्वयोपदेशो योगींद्र तेनैव
भवताधुना ॥ ३३ ॥ अंतकाले कृतस्तस्मै कूरेशाय महात्मने ।
तेपां तद्वचनं श्रुत्वा यतींद्रः प्राह तान्प्रति ॥ ३४ ॥ कर्पूरघुटि-
काभावाद्राजपुत्रस्य वैष्णवाः ॥ संशुष्यति यथा जिह्वा दया-
भानात्तथास्य हि ॥ ३५ ॥ अथाहूय यतिश्रेष्ठः कूरेशमिदम-
प्रवीत् ।। तस्य व्याकुलचित्तस्य वियोगेन महात्मनः ॥ ३६ ॥

अध्यायः ५७. (१८३) कूरेश भवतः संग न लप्स्ये किल भूतले ॥ मां विहायाशु गंता- सि वैकुंठं किल निर्दय ॥३७॥ अत्रत्यानां हि सर्वेषां मम चैव महात्मनाम् ॥ दृष्टचित्तापहारस्य रंगेशस्य जगत्पतेः ॥ ३८ ॥ संग त्यत्वाधुना शीघ्र नित्ये दिव्ये परे पदे ॥ तस्य वैकुंठनाथस्य संग त्वं प्राप्तवान् किल ॥३९॥ स च वैकुंठनाथश्च तत्रत्या नित्य- सुरयः ।। मुक्ताध सुकृतं किन्नु कृतवंतः किलाधुना ॥४०॥ अत्र- त्याश्च जनाः सर्वे रंगेशो जगदीश्वरः ॥ अपं च कृतवतो हि किन्तु पापं वताधुना ॥४१॥ एतावदुक्का वचनं विपण्णो यतिभूपतिः ॥ पुनरेवापरं वाक्यं कूरेशमिदमब्रवीत् ।। ४२ ।। मनोव्याकुलवाक्यानि कूरेश भवतोधुना ॥ प्रभापितेन बहुधा विद्यते किं प्रयोजनम् ॥४३॥ तव वैकुंठगमने न विघ्नः क्रियते मया ॥ सुखं प्रयाहि वैकुंठं दिव्यं कूरांधिपाधुना ॥४४॥ इत्युक्त्वा कृपया तस्य पृष्टं पस्पर्श पाणिना ॥ : ततो रामानुजः श्रीमान् कूरेशस्य कृतांजलेः॥ ४५ ॥ गमनाय मति चक्रे यतिराजो मठं प्रति ॥ ततः कूराधिपो धीमान यतिराजपदा- ब्जयोः॥४६॥ पपात सहसा भूमौ छिन्नमूल इव द्रुमः ॥ दृष्ट्वा निप- तितं भक्त्या कूरेशं चरणाब्जयोः ॥ १७ ॥ उजहाराथ बाहुभ्यां कृपया यतिपुंगवः।।तेनोद्धृतः स उत्थाय कूरेशो गुरुभक्तिमान ॥४८॥ स्पृष्ट्वोरसा च नेत्राभ्यां यतीद्रपदपंकजम् ।। स्वशिरोभूषणं कृत्वा पाद- तीर्थमथाकरोत् ॥४९॥ श्रीपादतीर्थ कृपया तच्छीघ्र स्वेन पाणिना।। कुराधिपाय प्रददौ तदा लक्ष्मणदेशिकः ॥ ५० ॥ श्रीपादतीर्थ स्वीकृत्य सहसात्यंतभक्तितः ॥ यो नित्यमच्युतमिति श्लोकं विज्ञाप्य सादरम् ॥५१॥ कृतांजलिपुटो भूत्वा यतादमिदमब्रवीत् ॥ प्रयाहि स्वमठं स्वामिन् सत्वरं यतिपुंगव ॥ १२ ॥ अवागतस्य ते काल: प्रयातः सुमहान्किल ॥ कुराधिपेन बहुधा यतिराजो मठं प्रति।।५३॥ तेन संप्रेपितोप्यवं तं हित्वा शिष्यवत्सलः ॥ नैच्छद्रंतुं तदा धीमां- (१८२) प्रपन्नामृते- स्तद्वियोगेन पीडितः ॥ १४ ॥ कथं चिदश्रुपूर्णाक्षो यतिराजो मठं ययौ ॥ आयांतं पृष्टतो दृष्ट्वा कूरेशं च कृतांजलिम् ॥ ५५ ॥ तिष्ठ तिष्ठेत्युवाचेदं यतिराजः कृतादरम् ॥ वीथ्यां कूरेश्वरं शिष्यं पार्थे पश्यन् कृपादरात् ॥५६॥ शनैःशनैः कथंचिच्च यतींद्रो मठमावि- शत् ॥ मठप्रवेशपर्यंतं स्थित्वा वीथ्यां कृतांजलिंः ॥ ५७ ॥ गुरूं संसेव्य कूरेशस्ततस्तस्मान्यवर्तत ॥ हितोपदेशं स विधाय करना- थाय भूयः कृपया यतीद्रः ॥ संप्रेपितस्तेन मठं प्रविश्य व्यवर्णयत्त- स्य गुणाञ् जनेभ्यः ॥ ५८॥ इति श्रीप्रपन्नामृते रामानुजचरित्रे कूरेशचरमदशाया वर्णनं नाम सप्तपंचाशोऽध्यायः॥१७॥ अष्टपञ्चाशोऽध्यायः। अथ कूरेश्वरो धीमान भार्यामाह दृढव्रताम् ॥ यं मत्वा वर्तसे चित्ते तमर्थ मे वदाधुना ॥ १॥ तेनैवभुक्ता तद्भार्या भारमिदमब्रवीत् ॥ कोवार्थो विद्यते स्वामिन् दास्यास्तव ममाधुना ॥२॥ योर्थो हि भवताश्चित्ते विद्यते स च मेधुना ॥ अर्थः सुनिश्चितो नाथ न चान्यो- स्ति ममाल्पकः ॥३॥ स्वामिन्नमोघसंकल्पो भवतः किल सुत्रत ॥ कदाचिदपि विघ्नोस्य संकल्पस्य न विद्यते ॥ ४॥ इत्युक्त्वा सा प्रण- म्याथ भर्तुः श्रीपादपंकजम् ॥ कृतांजलिपुटा तस्थौ निश्चला भर्तृ- सन्निधौ ॥५॥अथ कूराधिपः पुत्रं भट्टार्य रंगपुत्रकम् ॥ द्वयं च सहसाहूय वाक्यमेतदुवाच ह ॥६॥ रंगेशरंगनायक्योर्विद्यमानतया हि नः ॥ कदाचिन्न्यूनता नास्ति पुत्रकावधुना ध्रुवम् ॥७॥ज- निता रक्षिता चैव रंगेश इति मे ध्रुवम् ॥ तमेव शरणं प्राप्य वतैयाथां सुतावुभौ ॥ ८॥ शरणं प्राप्य वर्त्तयां यतींद्रपदपंकजम् ॥ युष्मन्मा- त्रोक्तमार्गेण वर्तेथामनिशं सुतौ ॥९॥ वैष्णवेभ्यो महङ्ग्यश्च कदा- चित्करणत्रयैः॥ नैवापराधो वः कार्यःप्रमादादपि चात्मजौ ॥१०॥ श्रीवेणवान् महाभागाननुसृत्य दिवानिशम् ॥ वतथा किंकरी तेपां अध्यायः ५८. (१८३) भत्त्या कैंकर्यतत्परौ ॥ ११ ॥ इत्युक्त्वा तौ निपतितौ समुद्धृत्य पदाब्जयोः ।। गाढमालिंग्य चाश्रूणि ममाज पितृवत्सलौ ॥ १२ ॥ पुनरेवापरं वाक्यं दुःखितौ प्राह तौ तदा ॥ विचार्य देहसंबंध यधुवां दुःखितौ मम ॥ १३॥ यतींद्रपादपद्माभ्यां दूरगौ च भविष्यथः ॥ प्रधानभूतावित्येवमनुशास्य दृढवतः ।। १४॥ कृतकृत्यः कूरनाथः शरीरं हातुमुद्यतः ॥ शिष्यस्य पुत्रपुत्राय॑नामधेयस्य योगिनः॥१५॥ निधाय च शिरश्चांके भायोत्संगे पंदांबुजम् ॥ शेते कूरेश्वरो धीमान निश्चलः पुत्रसन्निधौ ॥ १६॥ अनायासेन सहसा कूरेशः पूर्णमा- नसः ॥ जहौ तनुं तदा ध्यायन्यतींद्रपदपंकजम् ॥ १७॥ तनिशम्य यतिश्रेष्ठस्तत्रागत्य जवात्तदा ॥ मा शोकं कुरु भट्टार्य मृत इत्यय मे पिता ॥ १८॥ इति दीनं समाश्वास्य भट्टार्य यतिपुंगवः ॥ कूरे- शस्याधुना वत्स पितुस्तव महात्मनः ॥ १९ ॥ कायं हि चरम शीघ्रं कुरुष्वेत्याह योगिराट् ॥ भट्टार्यः सहसा तस्य शासनाचति- भूपतेः॥२०॥ उद्युक्तोभूत्परिकरैः श्रीरंगेशस्य वैष्णवैः । ब्रह्ममेध- विधिश्च पितुश्चरमकमणि ॥ २१॥ सर्वकर्माणि सूक्तेन गायन्या वैष्णवेन च । नारायणानुवाकेन स्नापयत्पितरं सुतः ॥ २२ ॥ इत्युक्तेन प्रकारेण स्नापयित्वा सुतस्तदा ॥ धारयित्वाथ स्वपितु- रूपुंड्राणि वै क्रमात् ॥ २३॥ विधाय सहसा धीमाञ् श्रीचूर्णपरि- पालनम् ॥ केशवार्पिततत्सर्वं शरीरं मंगलावहम् ॥ २४ ॥ न वृथा दाहयेद्विप्रो ब्रह्ममेधविधि विना ॥ ब्रह्ममेधविधिः प्रोक्तो मुनिभिब्रह्मत- त्परैः ॥ २५॥ महाभागपूतानां हि कर्तव्यमिदमत्रवीत् ॥ हारी- तस्य स्मृतौ प्रोक्तमिति तेनैव वर्मना ॥ २६ ॥ अकरोत्सर्वकर्मा णि स भट्टार्यः पितुस्तदा ॥ बंधुभिः सानुजो धीमान भट्टार्यों द- शमेहनि ॥२७॥ एकादशेहनि तथा द्वादशेहनि'शास्त्रवित ॥ या- नि कृत्यानि कार्याणि सर्वाणि विदधे पितुः २८॥ एवं हि सानुजो (१८४) प्रपन्नामृते- भट्टः कूरेशस्य पितुस्तदा ॥ब्रह्ममेधेन विधिना संस्काराणि चकार सः ॥ २९ ॥ यतोंद्रेण स भट्टार्यस्समाहूयाथ वैष्णवान् ॥ नातः परतरं तीर्थ वैष्णवांघ्रिजलाच्छभम् ॥ ३० ॥ तेषां पादरजः पुण्यं गंगामपि पुनाति हि॥ एवं वैभवसंयुक्तं वैष्णवांघ्रिजलं शुभम् ॥ ३१ ॥ भक्त्या चक्रुः पादतीथै वैष्णवानां महात्मनाम् ॥ शुभादौ द्विजवय्यैश्च सर्वसं- पच्छुभावहम् ॥ ३२ ॥ सहस्रशाखाध्ययनं कारयेद्वै द्विजोत्तमः ॥अ- शुभाते विशेपेण द्राविडी ब्रह्मसंहिता ॥३३॥ अध्येतव्या द्विजवरैरा- शौचायघनाशिनी।वृद्ध्यादौ च क्षये चांते द्राविडी ब्रह्मसंहिता॥३४॥ अध्येतव्या द्विजश्रेप्टैस्तावगीतिसहस्रकम् ॥ ब्रह्मांडाख्यपुराणे च प्रो- क्तमार्गेण वैष्णवैः॥३५॥सहस्रशाखाध्ययनं कारयामास शास्त्रतः।। पुष्पांजलिं च विदधे भट्टार्यः सानुजस्ततः ॥ ३६॥ यथा तुष्यति देवेशो महाभागवतार्चनात् ॥ न तुष्यति तथा विष्णुर्विधिवत्स्वार्चना- दपि ॥ ३७॥ एवमुक्तप्रकारेण वैष्णवान्विष्णुतत्परान् ॥ अन्नभूपण- वस्त्राचैरर्चयामास भक्तितः॥ ३८॥ कूरेशजन्मनक्षत्रं पौष्ये हस्तमि- ति श्रुतम् ॥ कुराधिपस्य तनयमिदमाहुर्विपश्चितः ॥३९॥ श्रीवत्स- चिह्नमिश्रेभ्यो नम उक्तिमधीमहि ॥ यदुक्तयत्रयीकंठे यांति मंगलसू- वताम् ॥१०॥ ततः परं समादाय भट्टार्य यतिभूपतिः ॥ अवाप रंगराजस्य सन्निधि जगतां पतेः ॥४१॥ कृतपणाम भट्टार्दा रंगे- शो भक्तवत्सलः ॥ पुत्रस्वीकारमकगेत्पीतहारिद्रशंवरः ॥४२॥तदा- चकमुखेनाह भट्टार्य्य रंगराट् सुतम् ॥ पिता तब मृति यात इति शोकं च मा कृथाः ॥४३॥ मां विद्धि पितरं वत्स न्यूनता तव नास्ति हि ॥ तन्निशम्याथ रंगेशं संतुष्टः प्राह योगिराट् ॥४४॥ भटार्याय प्रदेशा- शु रंगेशास्मै सुताय ते ॥ सर्वशास्त्रविदां श्रेष्टं कारप्येहं तवात्मजम ॥४९॥ अदत्त्वा तस्य वाक्यस्य तदा प्रत्युत्तरं हरिः ॥ दापयित्वा तयोः शीघ्रं शठकोपं च मालिकाम् ॥ ४६॥ प्रस्थापयामास तदा अध्यायः ५९. (१८५) भट्टायं च यतीश्वरम् ॥ ततो भट्टार्यमादाय यतिराजो मटं गतः ॥४ातमाहूयाथ गोविंदवचनं चेदमब्रवीत् ॥ अस्मदर्शननिर्वाहं कुरु शास्त्रविशारद॥इति गोविंदहस्ताब्जे भट्टार्य सम्यगर्पयत् ॥४८॥ एवं कूरपतेश्चरित्रमखिलं संपत्करं ज्ञानदं सर्वेपामघनाशनं भवहरं मोक्षप्रदं धीमताम् ॥ ये शृण्वंति पठंति सौम्यहृदयाः सम्यङ् महाभक्तितः ते गच्छंति परं पदं प्रविमलं विष्णोर्धवं शाश्वतम् ॥ ४९ ॥ इति श्रीप्र- पन्नामृते रामानुजचरित्रे कूरेशस्य परपदप्राप्तिवर्णनं नामाष्टपंचाशोऽ- ध्यायः॥२८॥ एकोनपष्टितमोऽध्यायः। ततोखिलाञ् शिष्येभ्यो भगवान् यतिपुंगवः ॥ तस्थाबुपदि- शन् रंगे भगवद्धिपये स्थितान् ॥ १॥ एवं विधप्रभावस्य यतींद्रस्य जगद्गुरोः ॥ एते प्रकाशयामासुर्वैभवं लोकपावनम् ॥ २ ॥ रंगेशो वेंकटेशश्च वरदः संपदात्मजः ॥ देवः सुंदरबाहुश्च कुरंगनगरीश्वरः ॥ ३ ॥ बकुलाभरणः श्रीमान् धीमानाथमुनिर्महान् ॥ यामुनार्यों महापू! गोष्टीपूर्णो दृढव्रतः॥४॥ भूरिश्रीशैलपूर्णोथ मालाधरगुरु- महान् ।। श्रीवत्सचिह्नमिश्रश्च रंगदेवाख्यदेशिकः ॥ ५ ॥ वररंगो यतींद्रस्य तस्य शिष्यादयोखिलाः।। मूकश्च ब्रह्मरक्षश्च ये चान्ये तत्त्व- दर्शिनः॥ ६॥ रंगराट् स्वयमाहूय भगवाञ् जगदीश्वरः ॥ जगद्गुरूं लक्ष्मणार्य श्रीभूलीलादिसन्निधौ ॥ ७॥ इत्युवाच प्रवालोष्ठः स्फुर- दशनसुप्रभः॥ युप्मत्संबंधसंबंधिचरमावधयश्च ये॥८॥ तेभ्यश्च भवते दत्तं यद्विभूतिद्वयं मम ॥ वृपशैलेश्वरः श्रीमान् वेंकटेशो दया- निधिः ॥९॥ विलोक्य विस्मयं गत्वा यतिराज जगद्गुरुम् ॥ इत्यु- वाच प्रवालोष्ठः स्फुरदशनसुप्रभः ।। १०॥ भवते भवदीयेभ्यो विभू- तिद्रयमेव मे ॥ मया दत्तं यतिश्रेष्ठ विचारं नात्र संशयः ॥ ११ ॥ ततस्तोंडूरुकोंड्याख्या काचिद्गोपांगना तदा ॥ वृपाद्रिनिकटे तत्र स्थितस्य यतिभूपतेः ॥ १२॥ मूल्यार्थ सन्निधौ तस्थौ विधाय दधि- विक्रयम् ॥ सेवया वैष्णवानां च यतींद्रस्य जगद्गुरोः ॥ १३ ॥प्रण- तार्तिहराचार्य्यदत्ततीर्थप्रसादतः ॥ संजातज्ञानवैराग्या स्वीकारेणैव गोपिका ।। १४॥ एवं विज्ञापनं चक्के प्रणिपत्य यतीश्वरम् ॥ मास्तु मे दधिमूल्यं तु देहि मोक्षं यतीश्वर ॥ १५ ॥ तच्छ्रुत्वा विस्मितः प्राह यतींद्रो गोपवालिकाम् ॥ स एव वेंकटेशस्ते मोक्षं दास्यति तं ब्रज ॥ १६॥ तनिशम्य यतींद्रस्य वचनं गोपबालिका ॥ प्रणिपत्य पुनः प्राह प्रांजलिर्यतिपुंगवम् ॥१७॥ वेंकटेशं समुद्दिश्य पत्रिकां देहि मेधुना ॥अतश्चेन्मोक्षदानाय शीघ्रं मम यतीश्वर ॥ १८॥ अंगीकृत्य वचस्तस्याः सत्वरं करुणार्णवः ॥ विलिख्य स्वयमेवाशु तदर्थं पत्रि- कां तदा ॥ १९ ॥ गोपीहस्ते ददौ धीमान् सर्वेषां चैव पश्यताम् ॥ श्रीवैष्णवेभ्यः सर्वेभ्यो यतोंद्राय च गोपिका॥२०॥प्रणिपत्य मुदा युक्ता पत्रिकां शिरसाग्रहीत् ॥ सा जवादेंकटेशस्य सन्निधिं प्राप्य संभ्रमात् ॥२१॥ स्वामिपुष्करिणीतीर्थे स्नात्वा सम्यक् सुनिश्चला॥ धृत्वा चैवोर्ध्वपुंडू सा चानंदनिलयं महत् ॥ २२ ॥ प्रदक्षिणं विधा- याशु गरुडस्तंभसन्निधौ ॥ तां पत्रिका विनिक्षिप्य वृपाचलपति प्रति ॥२३॥ मोक्ष देहीति तं चोक्त्वा सा शेते निश्चला सती ॥ ततो भक्त- पराधीनो भगवान्वेंकटेश्वरः ॥२४ ॥ तूर्ण परं पदं नित्यं तस्यै गोप्य मुदा ददौ ॥ आश्चर्यमतुलं दृष्ट्वा तत्रत्या निखिला जनाः॥ २५ ॥ रामानुजार्यसंबंधाद्वभूवुईटमानसाः॥ अष्टादशदिनं वादं यतींद्रो यज्ञ- मूर्तिना ॥२६॥ चकार लोकविख्यातं जिनविद्वद्गुणेन च ॥ असक्त- श्रोत्तरं वक्तं यज्ञमूत्तेर्यतीश्वरः ॥२७॥ तदा विज्ञापनं चक्रे देवराजाय विष्णवे ॥ यज्ञमूर्तिजयोपायं यतीदाय महात्मने ॥ २८ ॥ अवोच- त्तद्धितं तस्मै प्रसन्नो देवराट् स्वयम् ॥ पुरा कांच्या लक्ष्मणार्ये स्थिते योगीश्वरेश्वरे ॥२९॥ प्रोवाच यादवं स्वप्ने भगवान् देवराष्ट्र स्वयम्।। .

अध्यायः ५९. (१८७) अस्मद्रामानुजाचार्य्यसंबंधेन विना तव ॥३०॥ नास्ति निःश्रेयसं वत्स सत्यंसत्यं मयोदितम् ॥ प्रदक्षिणां विधायकां लक्ष्मणार्याय निश्चलः ॥ ३१ ॥ कुरु त्रिदंडसंन्यासं तेन मुक्तो भविष्यसि ॥ भक्त- ग्रामे यतीद्राय स्वप्नं दत्त्वा जगत्पतिः ॥३२॥ यादवादौ तमानीय यादवाचलनायकः ॥ प्रत्यक्षमगमत्तस्य तेनाभूत्प्रथितो भुवि ॥ ॥ ३३॥ संपत्पुत्रो यतींद्रस्य पुत्रत्वमगमहरिः ॥ कदाचिदुत्सवे काले वैष्णवान्वीक्ष्य हर्पितः ॥ ३४ ॥ देवः सुंदरबाहुश्च प्रोवाचेदं वचः शुभम् ।। अस्मद्रामानुजाचार्यसंबंधा ये महाधियः ॥ ३५॥ आगच्छंतु जनाः सर्वे मम सन्निधिमादरात् ॥ तच्छुत्वा वैष्णवाः सर्वे सहसा जग्मुरंतिकम् ॥ ३६ ॥ महापूर्णार्यसंवधात केचिन्नेवागता- स्तदा ॥ ततः सुंदरवाहुस्तान्विलोक्याशु वचोत्रवीत् ॥३७॥ आहू- तास्ते मया सर्वे ह्यागताः किल सांप्रतम् ।। किमर्थ नागताः पूर्व ब्रूत तत्कारणं मम ॥ ३८ ॥ प्रतिगृह्य वचस्तस्य चक्रुर्विज्ञापनं तदा ॥ रामानुजार्यशिष्याणामाह्वानं भवता कृतम्॥३९॥ रामानुजार्यगुरखो यतस्ते नागता वयम्।।तच्छुत्वा भगवान्प्राह प्रहस्येदं वचस्स तान् ।। ॥४०॥शिष्यभावं प्रकुर्वति लक्ष्मणार्य महात्मनि।पुत्रमा मयि पुरा यथा दशरथादयः॥४॥ततः कदाचिदात्रेयवंशचूडामणिमहान् ॥प्रण- तार्तिहराचार्यः प्रपेदे वृपमाचलम् ॥ ४२ ॥ स्तोत्ररत्नस्थितं श्लोकं प- । ठन् भक्त्या महौजसे॥साष्टांगवंदनं चक्रे तस्मै सुंदरबाहवे॥४३॥अप- राधसहस्रमाजनं पतितं भीमभवार्णवोदरे ॥ अगतिं शरणागतं हरे कृपया केवलमात्मसात्कुरु ॥ १४ ॥ श्लोकार्थ स निशम्याशु भग- वान् प्राह तं तदा ॥ सर्वेषां लक्ष्मणाचार्य विद्यमाने तु रक्षके ॥४५॥ तस्मादगतिमित्येवं ब्रवीपि वं कथं बत ॥ अस्मद्रामानुजाचार्यों राजते सर्वरक्षकः ॥ ४६ ॥ तत्संबंधवलेनैव पापिष्टो ह्यपि मुक्ति- भाक् ॥ पुरा दिग्विजयार्थाय ययौ लक्ष्मणदेशिकः ॥ १७ ॥ कुरंग-

(१८८)
प्रपन्नामृते-
नगरं प्राप्य बहुशिष्यसमावृतः ॥ कुरंगनगरीपूर्ण तं महोत्तुंगविग्रहम्।।
प्रणम्य बहुधा भत्त्या मुमोद यतिशेखरः ॥ ४८ ॥ एकांतिभिाद-
शभिः सहस्रः पाठेश्चतुःसप्ततिभिः समेतः ॥ अन्यैरनंतैरपि विष्णु-
भक्तैः॥ श्रीरंग आस्ते यतिसार्वभौमः ॥ ४९ ॥ इत्युक्तेन प्रकारेण
शिष्यसंघसमावृतम् ॥ विलोक्य विस्मयं गत्वा यतिराज महौजसम्
॥ ५० ॥ कुरंगनगरीपूर्णो व्याजदार वचः शुभम् ॥ श्रीसहायेन
योगीश जनरक्षणकाम्यया ॥५१॥ अवताराः कृताः पूर्व रामकृष्णा-
दयो मया ॥ अवतारेषु मां सर्वे मन्यते प्राकृता जनाः ॥ १२ ॥
राजानं चापि गोपालं प्राकृतं पुरुषं यथा ॥ अस्माकं रक्षणार्थाय
वैकंठादागतो हरिः ॥ ५३ ॥ एवं न मेनिरे दृष्ट्वा मां जगत्कारणं
परम् ।। आसुरप्रकृतित्वेन तेपां कोपिन मां गतः ॥५४॥ केनोपा-
येन ते सर्व त्वया ते स्ववशीकृताः ॥ मन्नाथ मह्यं सहसा तमुपायं
वदाधुना ॥५५॥ कुरंगनगरीशस्य तद्वचः प्रतिगृह्य मः ॥ तं दृष्ट्वा
लक्ष्मणाचार्यश्चक्रे विज्ञापनं तदा ॥ ५६ ॥ तद्वक्ष्याम्यधुनैवाशु
क्रमेण यदि पृच्छसि ॥ निशम्य तद्वचस्तस्य सत्यं मत्वा जगत्पतिः
॥६७ ॥ कुरंगनगरीपूर्णों यतींद्राय महात्मने ॥ दत्त्वा सिंहासनं
दिव्यं कुथास्तरणशोभितम् ॥ ५८ ॥ तुंगात्सिंहासनादिव्यादवती-
थि भूतले ॥ जगत्पतिहरिः श्रीमांस्तस्थौ भक्तिसमन्वितः॥१९॥
तत्र स्वाचार्यमासीनं मत्वा पूर्णार्यमादरात् ॥ स तस्य दक्षिणे कर्णे
भूमिस्थस्य यतीश्वरः॥६० ॥ सर्वेपामेव मंत्राणां मंत्ररत्ने शुभाह्न
यम् ॥ सकृत्स्मरणमात्रेण ददाति परमं पदम् ॥ ६३ ॥ मंत्रग्नं द्वयं
न्यासः प्रपत्तिः शरणागतिः ॥ लक्ष्मीनारायणं चेति हितं सर्वफल-
प्रदम् ॥ ६२॥ नामानि मंत्ररत्नस्य पर्यायेण निवोध मे ॥ प्रश-
स्यैव मंत्ररत्नमुपदेशं विधाय च ॥ ६३ ॥ ततो वैष्णवपूर्णाख्यं
दास्यनाम चकार सः॥ करंगनगरीपूर्णस्तदोवाच जगत्पतिः ॥६॥

अध्यायः ६०. ( १८९) रामानुजायंशिष्योहमिति सर्वच शृण्वथ ।। तदा प्रभृति लोकेस्मिन्स- वत्र विदितं महत् ॥ तद्रामानुजपूर्णाख्यमभूत्तत्य जगत्पतेः॥ ६५॥ एवं हि भूम्यामखिलेषु दिव्यस्थानेषु चार्चात्मतयावतर्णािः ॥ सर्वे यतींद्रं पितृदेशिकादिरूपेण चहरयो महांतम् ॥ ६६ ॥ इति श्रीप्रपन्नामृते रामानुजचरित्रे रंगादिप्रकाशितरामानुजवैभववर्णने नामैकोनषष्टितमोऽध्यायः॥५९ ॥ पष्टितमोऽध्यायः। पुरा वैकुंठनगरे सेनेशो भगवान्किल ॥ लोकसंरक्षणाशक्तं भगवं- तं रमापतिम् ॥ १॥ चिंतयानं तु तं वीक्ष्य प्रहसन्वाक्यमब्रवीत् ॥ भूम्यां कृतावतारोहं सर्वानेताञ्जनान्दृढम् ॥२॥ प्रापयिष्यामि वैकुंठं नात्र कार्या विचारणा ॥ एवं कृतप्रतिज्ञोथ कुरुकानगरे भुवि ॥ ३ ॥ शठकोप इति ख्यातो जज्ञे कारिसुतो महान् ॥ जातमात्रस्तु संवीक्ष्य लोकं कल्यात्मकं दृढम् ॥ ४॥ महाभीतो निमील्याशु नेत्रे दृढतरं तदा ॥ आपोडशाब्दं संलीनस्तितिणीकोटरेचलः ॥ ५॥ केनाप्य- ज्ञातवृत्तांतः स तस्थौ लज्जया भृशम् ॥ तदोवाच शठारातिर्लज्जया- वाङ्मुखो भृशम् ॥ ६॥ईश्वरेणाप्यसाध्यं यत्कार्य कर्तुमहं कथम् ॥ समर्थोस्मि वृथा पूर्व प्रतिज्ञा तत्कृता मया ॥ ७॥ चतुष्टयसहस्रांते वत्सराणां कलौ युगे ॥ शेषो रामानुजो भूत्वा भूम्यामवतरिष्यति ॥ ८॥ तत्संबंधन मनुजा निरस्ताखिलकल्मपाः ॥ गमिष्यति हरे- लौंक पुनरावृत्तिवर्जितम् ॥ ९ ॥ ततः संचिंत्य भगवास्त्रिकालज्ञो महामुनिः॥ सम्यक्पतिमुखैनतानहस्यान् व्याजहार तान् ॥१०॥ पापानि विनशिष्यति नरकाण्यखिलानि च ॥ निप्यारो यमश्चव कलिनष्टो भविष्यति ॥ ११ ॥ समुद्रावरणायां तु भूम्यामवतरि- प्यति ॥ एतदाश्चर्यमतुलं जनाः पश्यतपश्यत ॥ १२॥ लक्ष्मणार्या- वतारस्य सूचकार्थान् भुवः स्थले । दर्शयित्वातु विशदं तस्मिन्काले (१९०) प्रपन्नामृते- परं पदम् ॥ १३॥ स जगाम शठारातिस्तितिणीकोटरे महान् ॥वीर- नारायणपुरे पुरा नाथमुनिर्महान् ॥ १४ ॥ तटाकतीरे स्थित्वेत्थं व्या- जहार वचः शुभम् ॥ अस्मात्तटाकादंभांसि निर्गत्य भ्रममार्गतः ॥१५॥संप्लावयंति सस्यानि यथा सर्वाणि भूतले ॥ श्रियः पत्यधिनि- यंदेवेदार्थाभसि वै ध्रुवम् ॥ १६॥ प्रवेशं संगमिष्यंतो मन्नाथसुमहा- हृदे ॥ निर्गत्य तस्मादाचार्यभ्रममार्गेण भूरिशः ॥ १७॥ तथैव प्रा- णिसस्यानि प्लावयिष्यति निश्चितम् ॥ एतद्रामानुजाचार्य सुस्पष्टं द्योतते ततः ॥ १८॥ अवतारं समुद्दिश्य लक्ष्मणार्यस्य निश्चितम्॥ तेनेदं भापितं सवै त्रिकालज्ञेन योगिना ॥ १९॥ अपि रामानुजा- चार्यों नाथयोगिहदि स्थितः ॥ तमर्थ विशदं चक्रे ततः कालांतरे महान् ॥२०॥ श्रियः पतिमहाभोधौ शठजित्कालतोयदः॥ संप्रा- ताखिलवेदार्थतोयानि सुबहून्यलम् ॥२१॥ अवपन्नाथशैलेंद्रे यामु- नापिगामुखात् ॥ महद्रामानुजाचार्यतटाकं प्राप्य सुस्थिरम् ॥२२॥चतुःसप्ततिशिष्यार्यभ्रममार्गेण भूरिणा निर्गत्य प्राणिसस्यानि प्लायंत्यधनाप्यहो॥२३॥ तानि वेदार्थतोयानि ह्याचंद्रार्क महीतले ॥ वैभव लक्ष्मणार्यस्य श्रुत्वा यासुनदेशिकः ॥ वारणादि समासाद्य तं दृष्ट्वोवाच तत्त्ववित् ॥ २४ ॥ अयं महात्मा यदि सुंदरार्यो रामानुजो विष्णुमते प्रविष्टः।एते महाभागवता जनौघा उर्ध्या भविष्यति न संश- योत्र ॥ २५ ॥ कदाचिल्लक्ष्मणाचार्यः शिष्यसंघसमावृतः ॥ पूर्णा- चार्यगृहं प्राप पूर्णाचार्यदिक्षया ॥ २६ ॥ तं दृष्ट्वा सहसोत्थाय पूर्णार्यों भक्तिसंयुतः॥ चकार लक्ष्मणार्याय सम्यक् साष्टांगवंदनम् ॥ २७ ॥ महापूर्णात्मजा साध्वी तं दृष्ट्वा जातविस्मया ॥ पितरं प्राह निपुणा सर्वैपां शृण्वतां तदा ।। २८॥ शिष्याय लक्ष्मणार्याय गुरुणा यत्त्वया कृतम् ॥ साष्टांगवंदनं तात वदेतत्कारणं मम ॥ ॥२९॥ दुहितुर्वचनं तस्य श्रुत्वोवाचाखिलावित् ॥ तुल्यो वा , अध्यायः ६०. (१९१) यधिको वापि यतिराजान्महात्मनः॥३०॥ न कचिदृश्यते कश्चि- देतस्मै वंदनं कृतम् ॥ ततः कदाचिदायांत वीथ्यां लक्ष्मणदेशिकम्॥ ॥३१॥ शिष्यसंचसमायुक्तं तं वीक्ष्य कृतमजनम् ।। जवादुत्थाय पूर्णार्यश्चक्रे साष्टांगवंदनम् ॥ ३२ ॥ यतिराजोंजलिं चक्रे स तस्मै गुरवे तदा ॥ तं दृष्ट्वा वैष्णवाः सर्वे यतिराजमथाब्रुवन्॥३३॥ साष्टांग- वंदनं तुभ्यं गुरुणा यत्कृतं पथि ॥ तदप्यंगीकृतं सम्यक् तत्रको हेतुरु- च्यताम् ॥३४॥ तेपां तद्वचनं श्रुत्वा प्रोवाचतान्यतीश्वरः॥ गुरुणोक्त- प्रकारेण वर्तनं शिष्यलक्षणम् ॥ ३५॥ अतस्तेनोक्तमार्गेण वर्तेह वै न चान्यथा ॥ तमूचुस्ते महापूर्ण देशिकं तेन शंकिताः॥३६॥ शि- प्याय यतिराजाय तस्मै साष्टांगवंदनम् ॥ त्वया कृतं देशिकेन ब्रूहि तत्कारणं च नः ॥ ३७॥ तेपां तद्वाक्यमाकर्ण्य महापूर्णोभ्यभापत ॥ यामुनार्य इवाभाति तदा तेन यतीश्वरः ॥ ३८॥ प्रणामं कृतवांतस्मै यतीद्राय महात्मने ॥ अस्मद्वरोर्यामुनार्यात्पश्चादाचार्यसंपदः ॥३९॥ अस्मिन्नेव च दृश्यते सर्वशास्त्रार्थसंपदः।।अतो विशेपराहित्यात्सतोश्च गुरुशिष्ययोः॥४०॥प्रणामं कृतवानस्मि शिष्यायास्मै महात्मने । मंत्रप्रदानसमये गोष्ठीपूर्णो दृढव्रतः ॥४१॥ वक्तव्योयं त्वया मंत्रो न च कस्मै कदाचन ॥ इत्येवं शपथांस्तेन कारयित्वा वहूंस्तदा ॥४२॥ ततो मंत्रं यतींद्राय शिष्याय प्रददौ रहः॥ ततो यतीस्तं मंत्रं भूरिदानं हठायधात् ॥४३॥ तत्रागतेभ्यः सर्वेभ्यो वैष्णवेभ्यश्च सादरम् ॥ गोष्टीपूर्णोथ तच्छुत्वावृत्तांत यतिभूपतेः ॥४४॥ कुपितो लक्ष्मणाचार्यमिदंवचनब्रवीत्।किं फलं भवतो ब्रह्मन् गुरुद्रोहकृतस्यते ॥४६॥ तदंगीकृत्य योगींद्रो गोप्टीपूर्णमुवाच सः॥ गुरुद्रोहकृतस्यास्य फलं नरकमेव मे॥४६॥तनिशम्य पुनः प्राह गोष्टीपूर्णो यतीश्वरम्॥एवं ज्ञात्वापि योगींद्र कृतवान् कार्यमीदृशम् ॥४७॥ स तद्वचनमाकर्ण्य यतींद्रः प्राह तंप्रति॥ पतिष्याम्येक एवाहं नरके भृशदारुणे॥४ाग-

(१९२)
प्रपन्नामृते-
च्छंतु कृपया तेच जनाः सर्वे परं पदम् ।।निशम्य यतिराजस्य वाक्य-
मद्भुतवत्तरम् ॥ १९ ॥ स एवं चिंतयामास ममायं नोत्थितो गुणः ।।
अमानवं तदा मत्वा लक्ष्मणार्य जगद्गुरुम् ॥५०॥ इहावतीर्ण वै-
कुंठाजगद्रक्षणहेतुना ॥ स्वानिष्टं परवृद्धिं च को वा लोके करिष्यति
॥५१॥स रंगनायकोस्माकं त्वमेवाद्य यतीश्वर ॥ इत्युक्त्वा लक्ष्मणा-
चार्य गोष्टीपूर्णः प्रष्टधीः॥५२॥ मन्नाथ इति हर्पण तं तदा परि-
पस्वजे ॥ तत्र स्थितान्स पूर्णार्यों वैष्णवानिदमब्रवीत् ॥५३॥
अयं वैष्णवसिद्धांतो युष्माभिस्त्वद्य वैष्णवाः ॥ रामानुजाय-
सिद्धांत इति सर्वत्र कीर्त्यताम् ॥ ५४॥ ततः स्वपुत्रं पूर्यः
सौम्यनारायणाभिधम् ॥ शिष्यं कृत्वा यतींद्राय कृतकृत्यो मुदं ययो
॥५५॥ सहस्रगीताख्यानं मालाधरगुरूत्तमात् ॥ शृण्वन् यतीदः
श्रीरंगे तस्थौ तत्र महायशाः॥५६॥ गाथायास्तत्र कस्याश्चिदर्थ
श्रुत्वा गुरुत्तमात्॥ तस्या एव च गाथायाःप्रोवाचार्थ तदा परम्॥५॥
उपकारस्मृतियुते विशेपार्थ यतीश्वरः। तच्छ्रुत्वाकुपितः प्राह मालाध-
रगुरुस्तु तम् ॥ ५८॥ विश्वामित्रस्य सृऐस्तु उपायः क्रियते त्वया ॥
मत्सन्निधौ पुनस्त्वद्य तस्माद्च्छ मठं प्रति ॥ ५९॥ इत्युक्त्वा पुस्त-
कं वद्धा तदा पाठं निवार्य च ॥ सुखं मालाधरो धीमानतिष्ठत्स्वान-
केतने ॥६॥ गोष्ठीपूर्णोथ तच्छुत्वा श्रीरंगं प्राप्य सत्वरम् ॥ मा-
लाधरं महात्मानमिदं वचनमब्रवीत् ॥६॥ चतुःपष्टिकलापूर्णः
कृष्णः सांदीपनेर्यथा ।। जग्राह लक्ष्मणाचार्यस्त्वत्तो विद्यां तथाधुना
॥६२॥ गाथायाश्च ततस्तस्यास्ताभ्यामर्थ समीरितम् ॥ श्रुत्वा
मालाधरं प्राह गोष्टीपूर्णो महामतिः ॥ ६३॥ रामानुजोक्तमार्गेण
सर्थ यामुनदेशिकः ॥ प्रोक्तवांस्तव समये तस्यास्त्वं तु बहिर्गतः
॥६४ ॥ ततो मालाधरः प्रीतो यतीदाय महात्मने । सहस्रगीता-
ख्यानं वदस्तस्थी यथा पुग ॥६५॥ कस्मिंश्चिदर्थप्रस्तावे लक्ष्मार्यो-
बीगुरुम्॥ अत्रैवं यामुनार्यस्तु न वाक्याथै गुरोः स्थले ॥६६॥

अध्यायः ६१. (१९३) ततो मालाधरः प्राह यतिराजं सविस्मयः ।। कदाचिद्यामुनाचार्य चक्षुभ्यां च न पश्यता ॥६७ ॥ भवतैवंविधं वक्तुं को हेतुस्त्वं वदा- धुना ॥ यतींद्रस्तद्वचः श्रुत्वा मालाधरमथाब्रवीत् ॥ ६८॥ यामुना- यस्य मां शिष्यमेकलव्यं विभावय ॥ ततो मालाधरगुरुयतिराज सविस्मयः ॥ ६९ ॥ अवतारविशेपं हि मत्वा विष्णोर्जग- त्पतेः ।। पुत्र सुंदरवाहाख्यं तस्य शिष्यमथाकरोत् ॥ ७० ॥ चरमो- पायतत्त्वार्थ ज्ञातु कामो यतीश्वरः ॥ वररंगाय शुश्रूषां पण्मासान- करोत्तदा ॥७१॥ सन्निधौ रंगराजस्य कृतनाच्याय धीमते॥हरिद्रा- चूर्णतोयायैश्शरीरोद्वर्तनादिकम् ॥ ७२ ॥ वररंगोथ तं दृष्ट्वा संतुष्टो यतिभूमिपम् ॥ अवोचत्प्रहसन्वाक्यं यामुनाचार्यनंदनः ॥ ७३ ॥ ग्रहीतुं मम सर्वस्वं त्वमित्थं कृतवानसि ॥ तुभ्यं हि चरमोपायं शृणु वक्ष्यामि सांग्रतम् ॥ ७४ ॥ इत्युक्त्वा चरमोपायं यतींद्राय तदाब्रवीत् ॥ वररंगोनपत्यत्वाद्यवीयांसं महौजसम् ॥ सोद्रिपूर्ण यतींद्रस्य शिष्यं कृत्वा मुदं ययौ ॥ ७९ ॥ इत्येवमाद्यगुरखो विदिताखिलार्थाः सर्वे यतींद्रमनघं भगवंतमाद्यम् ॥ ज्ञात्वा गुरुं भुवनरक्षणबद्धदीक्षं तद्वैभवं स्फुटतरं विदधुः प्रकाशम् ॥ ७६ ॥ इंति श्रीप्रपन्नामृते रामानुजचरित्रे पूर्णाचार्यप्रकाशितरामानुजवैभव- प्रकाशवर्णनं नाम पष्टितमोऽध्यायः ॥ ६०॥ एकषष्टितमोऽध्यायः। कांच्या श्रीवैष्णवकुले कश्चिन्मूको व्यजायत । स वालः सुग्र- सिद्धश्च कंचित्कालमवर्द्धत ॥ १॥ बभूव मूकः सर्वेपामदृश्यो वत्सरद्धयम् ॥ ततो भूयः स सर्वेषां दृश्यः कांचीनिवासिनाम ॥ २ ॥ प्रभापमाणं तं दृष्ट्वा मूकं कांचीनिवासिनः ॥ विस्मि- तास्ते समागम्य वाक्यमेवमथाब्रुवन् ॥ ३ ॥ त्वमेतत्कालपर्यंत (१९४) प्रपन्नामृते- पत ॥ ४॥ क्षीराधि प्रति गत्वाहं शेषतल्पे जगत्पतिम् ॥ श्रीहार तत्र संसेव्य भूयः कांची समागतः ॥ ५॥ तस्य मूकस्य वचनं श्रुत्वा विस्मयकारणम् ॥ तमूचुर्विस्मिताः सर्वे परिवार्य समंततः॥ ॥ ६॥ बेहि नस्तत्र वृत्तांत वर्तमानं तदाधुना ॥ तेपां तद्वचनं श्रुत्वा मूकः प्रोवाच तत्त्वतः ॥७॥ जगत्संरक्षणार्थाय विष्वक्सेनो जगत्पतिः ॥ जातो रामानुजो भूम्यां भूतपुर्या बभूव सः ॥ ८ ॥ अधुना प्रवदंत्येनं क्षीरसागरवासिनः ॥ इत्युक्त्वा स तदा मूकस्तत्रै- वांतर्दधे ततः ॥ ९॥ सेनापतिर्यतियेवं बहुवारं वचोब्रवीत् ॥ ततः स मूकः केनापि दृश्यते न क्वचिद्भुवि ॥ १० ॥ ब्रह्मरक्षः पुरा कांच्यां स्वस्य मोक्षदशागमे ॥ दर्शयित्वा लक्ष्मणार्य यादवाय दृढा- त्मने ॥ ११ ॥ शृण्वतां सर्वलोकानां तं यादवमभापत ॥ एपरामा- नुजः श्रीमाल्लीलामानुपविग्रहः ॥ १२ ॥ प्रधानो नित्यसूरीणा- मवतीर्णोधुना भुवि ॥ लोकसंरक्षणार्थाय हरिणाज्ञापितोभवत् ॥१३॥ तं रामानुजमाश्रित्य गच्छ विष्णोः परं पदम् ॥ आंध्रपूर्णो महाप्राज्ञः प्रोवाचाखिलवैष्णवान् ॥ १४ ॥ यदाचार्यपदं नाम जगत्यस्मिन्म- हत्पदम् ॥ तस्मिन्नेव यतिश्रेष्ठे तत्पदं सुप्रतिष्ठितम् ॥ १५ ॥ विना यतींद्रपादाजान्नान्योपायो हि विद्यते ॥ तस्माद्यतींद्रपादाज रक्षकं निखिलात्मनाम् ॥ १६॥ इति ध्रुवं विनिश्चित्य वर्त्तध्वम- निशं बुधाः ॥ कृष्णग्रामाधिपो धीमान् बालस्वामीति विश्रुतः॥१७॥ वैष्णवः सर्वशास्त्रजः सचैलस्नानपूर्वकम् ॥ दृढं विधाय दिव्यांग दृष्ट्वा श्रीवैष्णवोत्तमान् ॥ १८॥ वैष्णवानां सभामध्ये वचनं सत्य- मब्रवीत् ॥ निःश्रेयसफलावात्यै सर्वेपां विदुपामपि॥१९॥विना यती- द्रपादान्जादन्योपायो न विद्यते ॥ देवराजो मुनिः पूर्व शासनायति- भृपतेः ॥२०॥ अनंतार्यादिशिष्याणां संस्कारान्पंच सादरम् ॥ वि- धाय तत्त्ववित्प्राज्ञस्तानेवं वाक्यमत्रवीत् ॥ २१॥ इदं कार्य मये- अध्यायः ६१. (१९५) दानी लक्ष्मणार्येण कारितम्॥ग्रामटिट्टिभकंठाग्रे बद्धं तालफलं यथा ॥ २२॥ जानीध्वं लक्ष्मणार्यस्य पदमेव हि रक्षकम् ॥ शिष्योभू- स्कूरनाथस्य पुत्रपुत्रार्यनामकः ॥२३॥ अपवादपरो नित्यं वैष्णवे- प्वधिकेषु च ॥ कूरेशशिष्यं तं दृष्ट्वा जनाः श्रीरंगवासिनः॥२४॥ कूरेशस्यैव दोषोयमित्यूचुस्ते परस्परम् ॥ तं निशम्य विपण्णस्सन कूरेशः शिष्यवत्सलः ॥ २५ ॥ तस्माच्छिष्यात्पुण्यकाले दानरूपेण वैष्णवात् ॥ सतिलोदकपूर्वेण जग्राह करणत्रयम् ॥२६॥ दत्त्वाथ गुरवे भत्त्या स शिष्यः करणत्रयम् ॥ निश्चेष्टः स्वगृहे तस्थौ ध्या- यन् गुरुपदांवुजम् ॥ २७ ॥ ततः कदाचिच्छनकैर्निर्गत्य स्वगृहा- दहिः । स तदा पुत्रपुत्रार्यों वीथ्यां वै समतिष्टत ॥२८॥ वीथ्यां स. मागतं दृष्ट्वा वैष्णवं कंचिदातुरम् ॥मनसातयामास तस्मिन्दोपान्स वैष्णवे ॥ २९॥ ततः स शिष्यो मतिमान् मनस्येवमचिंतयत् ॥ पुरैव दत्तं हि मया गुरवे करणत्रयम् ॥ ३० ॥ मम नास्त्यधुना तेन स्वातंत्र्यं करणत्रये ॥ गुरुद्रव्यापहारेण निरयो निश्चितो मम॥३१॥ देहत्यागो मया तेन कर्तव्यः पापिनाधुना ॥ इति ध्वं विनिश्चित्य प्राणानायम्य वाग्यतः ॥३२॥ देहत्यागेच्छया शीघ्र दर्भानास्तीर्य भूतले ॥ प्रायोपवेशमकरोच्छिष्यः कूराधिपस्य सः ॥३३॥ तद्- त्तांतं समाकर्ण्य विषण्णः कूरनायकः॥ तस्य शिष्यस्य सदनं संप्रा- प्याथ भुवःस्थले ॥३४॥ प्रायोपविष्टं दर्भेषु दृष्ट्वा शिष्यं दृढव्रतम् ॥ सांत्वयन मधुरैर्वाक्यैरिदं वचनमब्रवीत् ॥ ३५ ॥ किमर्थमधुना वत्स देहत्यागं करिष्यसि ॥ स्वाधीनमानसं दत्तं तुभ्यं भूयो मयाधुनी ॥३६॥ प्रतिगृह्णीष्व भद्रं ते शीघ्रमुत्तिष्ठ पुत्रक ॥ परापवादब्रुवती जहि वाचं दृढं जवात् ॥ ३७ ॥ परापवादो भवता मनसा चिं- तितो यदि ॥ भक्त्या संस्मर पादाब्जं यतीद्रस्य जगद्गुरोः ॥३८॥ वाकायकाभ्यां पापानि कृतानि यदि सत्तम ॥ शिक्षयत्याशु तं राजा कतीरं नात्र संशयः ॥३९॥ प्रामादिकाद्यदि प्राप्तं यत्पाप

इवापरः॥४३॥ स्नातः सचैलः कावेय्यों भुजमुद्धृत्य सत्वरम् ॥
वैष्णवानां सभामध्ये व्याजहार वचः शुभम् ॥४४॥ सत्यंसत्य
पुनः सत्यं यतिराजो जगद्गुरुः ॥ स एव सर्वलोकानां समुद्धर्तान
॥४७॥ ततः पराजितस्तेन शास्त्रवादे महात्मना ॥ स्कंधाभ्यांस
(१९६)
प्रपन्नामृते-
मनसाय तत् ॥ विनश्यत्याशु में
॥४०॥ कृतानां सर्वपापानामनिशं करणत्रयः ॥ प्रायश्चित्तं .
पादान्जस्मरणं ध्रुवम् ॥४१॥ ततः कदाचिच्छ्रीरंगे कावेरीमध
सैकते ॥ पुण्यकाले महानासीद्विवुधानां समागमः ॥४२॥
पायस्य मीमांसा काले तत्त्वार्थसंकटे ॥ कूरेशः सहसोत्थाय
.
संशयः॥ ४५ ॥ विद्वाञ् श्रीवैष्णवः कश्चिन्मरीचार्य इति श्रुतः
वादार्थमगमद्धीमांस्तदा दाशरथिं प्रति ॥ ४६॥ ततस्तयोर्वियुध
योर्जयापजययोस्तदा। अभूनिर्णय इत्येवं जेतारं निर्जितो वहेत् ॥
मरीचार्यों वहन्दाशरथिं तदा ॥४८॥ रंगस्थले राजमार्गे विधायाथ
प्रदक्षिणम् ॥ नत्वा दाशरार्थं तं च कृतांजलिरभाषत ॥४९॥ हितो-
पदेशं कृत्वाशु मामंगीकुरु सांप्रतम् ॥ तस्य तद्वचनं श्रुत्वा तदा
दाशरथिर्महान् ॥५०॥ तं नीत्वा यतिराजस्य मंनिधि वैष्णव
तदा ॥ कारयित्वा तदा तेन वंदनं यतिभूपतेः ॥५१॥ हितोपदेश
विदधे सर्वेपां शृण्वतां तदा ॥ यद्रामानुजपादाजं तदेव शरणं व्रज!
॥५२॥ महाञ् श्रीवैष्णवः कश्चिल्लोकार्य इति विश्रुतः ॥गोविंदाख्यं
महात्मानं दृष्ट्वेदं वाक्यमब्रवीत् ॥ ५३॥ भगवद्विपयस्यार्थः सम्यड् मे
विदितोधुना ॥ प्रवक्ता सर्वशास्त्राणां सम्यक् शिप्यजनाय च ॥५४॥
इत्येवं गर्वसंयुक्तो गोविंदार्य न वर्तय ॥ तदेव शरणं गच्छ यद्योगीद्रप-
दावुजम् ॥५५॥ श्रीपराशरभट्टार्य गोविंदः शास्त्रवित्तमः॥ प्रोवाच
सर्वशास्त्राणि हितमेवमभापत ॥५६॥ हितं वक्ष्यामि भट्टार्य शृणु
मोबैकसाधनम् ॥ पुत्रस्वीकारमकरोदेंगेशो मामिति स्वयम् ॥ ५७॥

अध्यायः६१. (१९७) अहं कूरेश्वरसुतः सर्वशास्त्राण्यधीतवान् ॥ विद्यावान कुलवाञ् श्रीमानित्येवं गर्वमाश्रितः॥५८॥ तानेव रक्षकान् मत्वा न वर्तय कदाचन ॥ तदेव शरणं मत्वा यतीपदपंकजम् ॥१९॥वर्तस्व सततं वत्स नान्योपायो हि विद्यते ॥ श्रीपराशरभट्टार्यः कूरनाथसुतस्तदा ॥६॥एवंप्रोवाच भगवान् शिष्यं वेदांतिनं प्रति वेदांतिञ् शृणु मद्वा- क्यं हितं वक्ष्यामि सांप्रतम्॥६॥आश्रितोस्मीति भट्टार्यमय मारंगिणः सुतममियादत्तं बहुद्रव्यं गुरवे गुरुदक्षिणाम्।।६२॥ मत्वा त्वमेवं वर्तस्व कृतकृत्योनचाधुना।मन्नाथदिव्यपादाब्जं मत्वा रक्षकमात्मनः॥३॥ वर्तस्व सततं विद्वन् निश्चयं नात्र संशयः ॥ श्रीरामक्रतुनाथार्यः कुरुकानाथसन्निधौ ॥६॥ अधीतवास्त्रिवारं च भत्त्या श्रीभाष्यमा- दरात् ॥ ततः स्वग्रामगमने भक्त्या नत्वा च तं गुरुम् ॥ ६५॥ श्री- रामक्रतुनाथार्यः प्राञ्जलिवाक्यमत्रवीत् ॥ येनोपायेन सुगमो मम मोसो गुरूत्तम ॥६६॥ज्ञानमत्यादिसुगमंतमुपायं वदाधुना ॥ त- स्य तद्वचनं श्रुत्वा संतुष्टः कुरुकेश्वरः ॥६७॥ श्रीरामक्रतुनाथार्य- मिदं वचनमब्रवीत् ॥ प्राभाकारादिशास्त्राणि सर्वाण्याशु मयाधुना ॥ ६८ ॥ अधीतानि ततोहं वै विद्यावानिति गर्वितः॥ अहंकारं मा कुरुप्व यतींद्रपदपंकजम् ॥६९॥ तदेव रक्षकं मत्वा वर्तस्व सतत हदि ॥ ततो नारायणपुरे व्यासभट्ट इति श्रुतः ॥७० ॥ श्रीवैष्णवो महानासीत्सर्वशास्त्रविदां वरः॥स तत्र योगिराजस्य सन्निधौ वैष्णवो- त्तमः ।।७१॥ श्रीभाष्यं शिष्यसंधेभ्यो वदल्लोकविश्रुतः ॥ निशम्य तदुपन्यासं विस्मितास्ते च वैष्णवाः ॥ ७२ ॥ एवं विज्ञापनं चक्रुर्भ- हार्य देशिकोत्तमम् ॥ इदं गंगाप्रवाहस्य सदृशं विद्यतेधुना ॥७३॥ श्रीभाष्यस्याधुनास्माभिः शक्यं नार्थावगाहनम् ॥ ब्रूहि नः सुलभो- पाय येनात्मा सुप्रसीदति ॥ ७४ ॥ ततस्तेपां वचः श्रुत्वा भट्टार्यः स महामतिः ॥ हितोपदेशमकरोत्तेपां मोक्षोपलब्धये ॥ श्रीरामा- . (१९८) प्रपन्नामृते- नुजपादाब्जमेतदेव हि रक्षकम् ॥७९॥ ततो वरदविष्ण्वर्यसन्निधौ भक्तितत्पराः ॥ श्रीभाष्यश्रवणं चक्रुः केचिच्छीवैष्णवोत्तमाः॥ तेभ्यो वरदविष्ण्वार्यों वैष्णवेभ्यः स सादरम् ॥ ७६ ॥ प्रोवा- च सम्यक् श्रीभाष्यं तदोपन्यासपूर्वकम् ॥ श्रीभाष्याथै ततः श्रुत्वा सम्यग्गुरुमुखात्तदा ॥ ७७॥ एवं विज्ञापन चकुस्ते सर्वे वैष्णवा. गुरुम् ॥ गुरूपायस्त्वया प्रोक्तो भक्तिमार्गोत्र सांप्रतम् ॥७८॥ स्वा- मिन्वरद विष्ण्वार्य वयं नाबाधिकारिणः॥ ब्रूहि नः सुलभोपायं येन गम्यं परं पदम् ॥ ७९ ॥ प्रपत्तिमार्ग प्रोवाच ततस्तेभ्यस्स देशिकः।। नात्रापि च वयं शक्तास्ते तमेवमथाब्रुवन् ॥ ८॥ एवमुक्तस्ततः शिष्यैवैष्णवैरखिलावित् ॥ संसारतरणोपायमेवमाहाथ तान्प्रति ॥८३ ॥ रामानुजार्यपादाब्जं ध्यायतो हृदि भक्तितः ॥ सदा रामा- नुजार्याय तस्मै कैंकर्यतत्पराः ॥८२॥ शृण्वंतश्च पठंतश्च यतिरा- ज़कथाः शुभाः॥ वर्तध्वमनिशं नित्यं निर्भरा मोक्षसिद्धये ॥ ८३ ॥ एवमेव स्वशिष्येभ्यो [पदेशं प्रचक्रिरे ॥ चतुःसप्ततिशिष्याश्च यती- द्रस्याखिला भुवि ॥ ८॥ एवं प्रकाशयामासुर्यतिराजस्य वैभवम् ॥ श्रीवैष्णवा महाभागास्ते सर्वे च जगद्गुरोः ॥ ८५ ॥ एवं तैर्देशिकैः सः प्रकाशीकृतवैभवः॥ यतींझे राजते रंगे जगद्रक्षणदीक्षितः॥८६॥ एवं महाथै निखिलागमांतसारं विपश्चिद्गुणजीवभूतम् ॥ ज्ञात्वा महाभ- क्तिपरो यतीन्द्रेस विष्णुलोकं समुपैति सत्यम्।।८७॥ इति श्रीप्रपन्नामृते रामानुजकूरेशदाशरथ्यादिसंप्रकाशितरामानुजवैभववर्णनं नामैकप- टितमोऽध्यायः॥६॥ द्विपष्टितमोऽध्यायः। श्रीरंगेशादिभिः सर्वैः संप्रकाशितवैभवः ॥ नाथमुन्यादिपूर्वेभ्यो देशिकेभ्यो यतीश्वरः ॥ १॥ प्रवक्त श्रेष्ठ इत्यत्र न्यूनता नास्ति नि- श्चितम् ॥ अयमोंखिले शास्त्रे वेदे दृष्टतरः स्फुटम् ॥ २ ॥ अनंते अध्यायः६२, ( १९९) ध्ववतारेषु विष्णोः सत्सु जगत्पतेः ॥ यथा दशावताराणां प्राधान्यम- भवद्भुवि ॥ ३ ॥ नृसिंहरामकृष्णाश्च तेषां मुख्या यथाभवन् ।। मुनी- श्वराणां सर्वेषां तपःस्वाध्यायशालिनाम् ॥ ४ ॥ पाराशर्यादिमुनयः प्रधानाचाभवन्यथा ॥ अष्टोत्तरशतेष्वेते दिव्यदेशेपुवै हरेः ॥५॥ मुख्या बभूवुश्चत्वारो दिव्यदेशा यथा भुवि ॥ श्रीरंगो वेंकटादिश्च हस्त्याद्रिर्यादवाचलः ॥६॥ विद्यमानेषु दशसु सरोयोग्यादियोगिषु ।। शठकोपो महायोगी यथामुख्यो बभूव ह ॥७॥ पूर्वाचार्येषु ना- थादिषु महत्सु च ॥ मुख्यो बभूव योगीदस्तथा लक्ष्मणदेशिकः ॥८॥ स्तंभाद्विनिर्गतेनैव वात्सल्यात्तत्क्षणं जगत् ॥ प्रहादवरदानेन हिरण्य- कशिपोवधात् ॥ ९॥ इत्येवमादिकार्येण नृसिंहेन कृतेन च ।। नृसिं- हस्यावतारस्य प्राधान्यमभवत्ततः ॥ १० ॥ दत्ताभयप्रदानेन राक्ष- सेंद्रकपीद्रयोः ।। कृतसख्येन राज्ञा च निपादानां गुहेन च ।। ११ ।। ब्रह्ममेधेन संस्कारकरणेन जटायुपः॥शवर्याः पाणिना सम्यग् भोज- नस्य कृतेन च ॥ १२॥ प्रीत्या हनुमता साई कृतेन भोजनेन च। इत्येवमादिकार्येण राघवेण कृतेन च।।१शाअतोरामावतारस्य मुख्यत्वं समजायत ॥ गीतोपनिषदं लोके प्रकाश्य विशदं यदा ॥ १४॥ चर- मार्थोपदेशाच गीतायां तत्र सादरम् ।। भीष्मद्रोणकृपादीनां हित्वा समानि सत्वरम् ॥१६|| आदराज्ज्ञानपूतस्य विदुरानस्य भोजनात ॥ द्विपदन्नादिवाक्येन तदा दुर्योधनादिके ॥ १६ ॥ शगोप्टयन्वयात्स- निश्चयेन कृतेन च ॥ इत्येवमादिकार्येण श्रीकृष्णेन कृतेन च ॥ १७॥ अतः कृष्णावतारस्य प्राधान्यं समजायत । त्रयाणामवता- राणां पड्गुणैश्वर्यशालिनाम् ॥ १८॥ रक्षिताखिलजंतूनां तेपां मुख्य- त्वमीरितम् ।। अयं जग्राह कृपया रंगेशो मुनिवाहनम् ॥ १९॥ रंग- स्थलस्य मुख्यत्वं तेनाभूत्तस्य भूतले ॥ साकं कुरंगपूर्णेन तोण्डमान् चक्रवर्तिना॥ २०॥ संभापणं च सततं चक्रे श्रीवेंकटेश्वरः ॥प्राधा- (२००) प्रपन्नामृते- न्यं वेंकटगिरेः सांप्रतं तेन हेतुना ॥ २१ ॥ कांचीपूर्णेन सतत स्मितपूर्वाभिभापणम् ॥ चकार वरदः श्रीमान् यतो हस्तिगिरी- श्वरः ॥ २२ ॥ मुख्यत्वं तेन संजातं तदा कांचीस्थलस्य च ॥ दयां विधाय महतीं तस्मिन्सुचरितात्मजे ॥ २३ ॥ सम्यग्भुक्ता महा- प्रीत्या तेन दत्तानमादरात् ॥ कारयित्वा ततस्तेन राज्यं निहतकंट- कम् ॥२४॥ वर्दयामास तत्पुत्रं बहुकालं भुवः स्थले ॥ यतिराजस्य पुत्रत्वं सौशील्यातिशयेन च ॥२५॥ प्रपेदे भगवान विष्णुस्तेन मुख्यत्वमागतम् ॥ विष्णुस्थलेभ्यः सर्वेभ्यो नारायणगिरेरतः ॥२६॥ वेदव्यासस्तु भगवाल्लोकसंरक्षणे स्थितः ॥ वेदान्विधाय चतुरो लोके विस्तार्य तान् स्फुटम् ॥ २७॥ कर्मकांडब्रह्मकांडविभागेन द्विधाकरोत् ॥ कर्मकांडं विसृज्याशु ब्रह्मकांडे सुयोज्य तान ॥२८॥ छांदोग्यं पौरुपं सूक्तं तथावाजसनेयकम् ॥श्वेताश्वेतं तैत्तिरयिं महोप- निपदादिकान ॥ २९ ॥ इतिहासपुराणानि चक्रे तस्योपबृंहणम् ।। सत्यंसत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते ॥ ३० ॥ वेदाच्छास्त्रं परं नास्ति नदेवः केशवात्परः ॥ एवं निःसंशय लोके स चक्रे तत्त्वनि- र्णयम् ॥ ३१ ॥ व्यासस्य तेन मुख्यत्वं सर्वपीणामभूद्धवम् ॥ एवं प्रसिद्धमभवत्पुराणेषु च वैष्णवम् ॥ ३२॥ तत्त्वार्थसारनिचयं भग- वान् वेदतत्त्वतः॥ पुराणरत्नं संचक्रे मुनिवर्यः पराशरः॥ ३३ ॥ चकार विशदं तत्र सम्यक् चिदचिदीश्वरान् ॥ तत्रोदार इति प्राह यामुनार्यः प्रणम्य तम् ॥ ३४ ॥ पराशरस्य प्राधान्यं तेनाभन्मु- निपु स्फुटम् ॥ ब्रह्मर्पिभगवांश्चके शुको भागवते स्फुटम् ॥ ३५ ॥ यत्तत्त्वनिर्णयं सम्यग् गंगातीरे परीक्षितम् ॥ शुको मुक्तो जगत्येवं प्रसिद्धः समजायत ॥ ३६ ॥ इत्यादिकेन प्राधान्यं शुकस्यासी- न्महात्मनः॥ भगवाञ् शौनकश्चक्रे विष्णुधर्मोत्तरे महान् ॥ ३७॥ स्थलेप्पेवं च बहुपु सुमहत्तत्त्वनिर्णयम् ॥ श्रीहरिभंगवानेव जगन- अध्यायः६२. (२०१) न्मादिकारणम् ॥ ३८ ॥ ब्रह्मरुद्रादिदेवानां नियंता पुरुषोत्तमः ॥ मोक्षप्रदः स चैवेदं विदधे तत्त्वनिर्णयम् ॥ ३९ ॥ महर्षेः शौनकस्येदं मुख्यत्वं तेन भापितम् ॥ ४० ॥ भुजयुगमपि चिरैरंकितं यस्य विष्णोः परमपुरुपनाम्नां कीर्तनं यस्य वाचि ॥ सुरुचिरमाप पुंडू मस्तके यस्य कंठे सरसिजमणिमाला यस्य तस्यास्मि दासः ॥ ॥ १ ॥ श्रीवैष्णवानां दासोहं स्फुटं देवपिराट् स्वयम् ॥ इत्येवं नारदः प्राह भगवाल्लोकपावनः ॥ ४२ ॥ संप्राप्तं तेन मुख्यत्वं देवर्नारदस्य च ॥ सहस्रशाखासंयुक्तदुर्गृहीतार्थसंपदाम् ॥४३॥ चतु- टयानां वेदानामर्थानाहत्य सत्वरम् ॥ शठकोपो महायोगी प्रबंधांश्च- तुरः क्रमात् ॥ ४४॥ सर्वाधिकारान् सहसा चक्रे द्राविडभापया ॥ प्रसन्नो नाथमुनये तान् सर्वानुपदिश्य सः ॥ ४५ ॥ सर्वदर्शनतात्पर्य वर्द्धयामास दर्शनम् ॥ अनेन शठकोपस्य मुख्यत्वं समजायत ॥४६॥ रंगराजादयः प्रोक्ताः प्रधानास्तत्रतत्र ये॥ तेष्वेवायं लक्ष्मणार्यः प्रधा- नोभूज्जगद्गुरुः ॥४७॥ तेभ्यः सर्वजनत्राता सर्वश्रेष्ठतमो ध्रुवम् ॥ दाना- भयप्रदानार्थ विशदीकृत्य भूतले ॥ ४८ ॥ गीताचार्योक्ततत्त्वार्थचर- मार्थप्रकाशनम् ॥ ऋपिप्रोक्तप्रमाणानां कृत्वा व्याख्यानमुत्तमम ॥४९॥ दिव्यप्रबन्धाल्लोकेभ्यः शठकोपादिभिः कृतान् ॥ अर्थों- पदेशपर्यतं वर्द्धयित्वा च सर्वतः ॥५०॥ नाथार्यादिगुरूणां च शठकोपादियोगिनाम् ॥ आहृत्य व्याससूत्राणामाल्लोकहिताय च ॥५१॥ श्रीभाष्यादिमहाग्रन्थान्विधाय करुणार्णवः ॥ निर्जित्य सर्वसमयान् वादेन शतशोशुभान् ॥ १२ ॥ स्वमतस्थापनं कृत्वा स्वनाम्ना विष्णुदर्शनम् ॥ रामानुजार्यसिद्धांतमिति चक्रे यतीश्वरः ॥५३॥ इत्यादिभितिश्रेष्ठः कार्ये लोकहिते रतः॥ नाथादिदेशि- केंद्रेभ्यः प्रधानो भवति ध्रुवम् ॥ ५४॥ अतश्च दाशरथ्यादिशि- प्येभ्यो यतिपुंगवः ॥ श्रेष्ट इत्यत्र गदितुं का शंका वर्ततेधुना।।९।।

(२०२) प्रपन्नामृते- तस्मादयं लक्ष्मणदेशिकेंद्रः साक्षादरिलोकगुरुमहात्मा ॥ तस्यैव सम्बन्धबलेन तेन मोक्षो हि सिद्धो निखिलात्मकानाम् ॥५६॥ इति श्रीप्रपन्नामृते रामानुजचरित्रे रामानुजस्य सर्वमुख्यत्ववर्णनं नाम द्विपष्टितमोऽध्यायः ॥ १२॥ त्रिषष्टितमोऽध्यायः। हरिणाज्ञापितोनन्तो लोकसंरक्षणाय सः ॥ अवतीर्णोभवद्भूम्यां सर्वलोकैकदेशिकः॥ १॥रामानुजाभिधः श्रीमान् भगवान् करुणा- करः। तत्सम्बन्धबलेनैव निरस्ताखिलकल्मपाः॥ २॥ कलावपि ध्रुवं मुक्तिं गमिष्यत्यखिला जनाः ॥ पापिष्टः क्षत्रबन्धुश्च पुंडरीकश्च पुण्यकृत् ॥ ३॥ आचार्यकृपया मुक्तस्तस्मादाचार्य्यवान् भवेत् ॥ आचार्यः स हरिः साक्षाचररूपी न संशयः ॥ ४ ॥ मनानुदरते लोकान् कारुण्याच्छास्त्रपाणिना ॥आचिनोति च शास्त्रार्थानाचारे स्थापयत्यपि ॥५॥ स्वयमाचरते यस्तु ह्याचार्य्यस्सोभिधीयते ॥ गुशब्दस्त्वंधकारः स्याद्रुशव्दस्तन्निरोधकः॥६॥ अन्धकारनिरोधि- त्वाद्गुरुरित्यभिधीयते ।। गुरुरेव परं ब्रह्म गुरुरेव परा गतिः ॥७॥ गुरुरेव परा विद्या गुरुरेव परं धनम् ॥यस्मात्तदुपदेष्टासौतस्माद्गुरुतरो गुरुः॥८॥ एतैः प्रमाणैरित्युक्तो भगवान हरिरीश्वरः।स्वयमेव गुरुर्भूत्वा शिष्यान संरक्षति ध्रुवम् ॥ ९॥ तस्मात्सर्वविधो बंधुर्गुरुरेव न संशयः॥ माता पिता सखाभ्राता धनं वैसर्व एव सः॥३०॥ अष्टोत्तरशतं दिव्यं देशाश्चान्यस्थलानि च।अत्रामुत्र चशिष्यस्य रक्षको गुरुरेव हि॥३१॥ आचार्य्यपूर्तियोगीन्द्रे तस्मिन्नेव प्रतिष्ठिता ॥ तत्पादपद्मकैकयं परम- प्राप्यमेव हि ॥१२॥ अतो गोविंदकूरेशदाशरथ्यादिदेशिकाः ॥ श्रीप- राशरभट्टादिशिष्येभ्यः सादरं हितम् ॥ १३॥ एवमाहुर्यतींद- स्य पादमेव हि रक्षकम् ॥ मध्ये स्थिता महात्मानःशठजिद्यतिराजयोः ॥१४॥ आसन् कारणभूतास्ते नाथाया येशठद्विपः॥ शठकोपस्ततः अध्यायः ६३. (२०३) साक्षाद्गुरुयतिपतेरभूत् ।। १५ ॥ अतः शारः कालज्ञः कलिनष्टा- दिकं वचः ॥ रामानुजावतारस्य सूचकं व्याजहार है ॥ १६॥ अतः शजितः शिष्यः साशाद्रामानुजाभवत् ॥ प्रवर्तितं शठजिता येनेदं विष्णुदर्शनम् ॥ १७॥ सृढमूलं च संस्थाप्य तजगत्यां यतीश्वरः॥ प्रकाशयामास तदा बकुलाभरणं यतः ॥ १८॥ महापूर्णादयः सर्वे यतीदस्य जगद्गुरोः ॥ एते च देशिका भूत्वा संप्राप्ताः परमं पदम् ।। ।। १९ ॥ तस्य रामानुजार्य्यस्य शिष्या भूत्वा महात्मकाः ॥ दाशर- थ्यादयः सर्वे संप्राप्ताः परमं पदम् ॥२०॥ तस्मादाचार्यपूर्तित्वं यतींद्रे सुप्रतिष्ठितम् ॥ यमर्थ यामुनाचार्यः स्तोत्रराजे काशयत् ॥२१॥श्रीरामपद्मनेत्राभ्यामुपरि स्थितमादरात् ॥ तनाथमुनिमदि- श्य तदिदं वाक्यमब्रवीत् ॥ २२॥ पितामहं नाथमुनि विलोक्य प्रसीद मदत्तमचिंतयित्वा' (अपि च) नाथाय नाथमुनयेत्र परत्र चापि नित्यं यदीयचरणौ शरणं मदीयम्॥२३॥ इहामुत्र च शिष्यस्य रक्षको गुरुरेख हि ॥ तस्मादाचार्यविपये कर्तव्या यावदायुषम् ।। २४ ॥ नित्यं कृ- तज्ञता तेन शिष्येणात्महितैपिणा ॥ स्वरूपोज्जीवनार्थाय गुरुरेव हि कारणम् ॥२५॥ ऋते गुरोस्ततस्तस्य नान्योपायो हि विद्यते ॥ अ- थों मधुरकव्यादिसजनेषु स्थितो ह्ययम् ॥२६॥ क्रिमिकंठस्य चो. लस्य व्याजेन यतिपुंगवः। पश्चिमं देशमासाद्य तत्र वासमथाकरोद ॥ २७ ॥ तत्रत्यास्ते महात्मानः शास्त्रोपन्यासमादरात् ॥ श्रुत्वा रामानुजार्य्यस्य विस्मयं परमं गताः ॥२८॥ ततस्तान्वैष्णवान्दृष्ट्वा यतींद्रो वाक्यमब्रवीत् ॥ एतावन्मात्रमधुना मया लोकहितं कृतम् ॥२९॥ दृष्ट्वास्मत्परमाचार्य्यग्रंथानादाय वैष्णवाः ॥ महात्मनो या- मुनस्य सहवासं तु सन्निधौ ॥ ३०॥ एकस्मिन्दिवसे वापि संप्राप्तो यद्यहं तदा ।। वैकुंठलोकसौधानां भूलोकस्यास्य संप्रति॥३१॥ दृढं विधाय सहसा सोपानानि निरंतरम् ।। तन्मार्गेण जनान्सर्वान् प्रा- (२०४) प्रपन्नामृते- पयिष्यामितं हरिम्॥३२॥तस्माद्यतींद्रसामर्थ्यमीश्वरस्यापि नास्तिहि।। ततो यतींद्रसंबंधात्पापात्मा ह्यपि मुक्तिभाक् ॥३३॥ यः पंचमोपा- यमिमं महाथै ज्ञात्वा यतींद्रे दृढभक्तियुक्तः ॥ स एव मुक्तोखिलतत्त्व- वेत्ता वंद्यः कृतार्थोखिलमानवानाम् ॥ ३४ ॥ इति श्रीप्रपन्नामृते रामानुजचरित्रे आचार्यवैभववर्णनं नाम त्रिपटितमोऽध्यायः॥६३॥ चतुःषष्टितमोऽध्यायः। श्रीमद्रामायणे युद्धकाण्डे श्रीराघवं प्रति ॥ विभीषणेन या पूर्व कृता हि शरणागतिः॥ १॥ कदाचिद्रंगनगरे स्वमठे तां यतीश्वरे ।। शुवत्यस्मिन्महाभागे वैष्णवेभ्यश्च सादरम् ॥२॥ सभामध्यात्समुत्थाय धनुर्दासस्तु सत्वरम् ॥ तस्थौ विरक्तस्तद्वंथे गमनायोपचक्रमे ॥३॥ तं दृष्ट्वा लक्ष्मणाचार्यों धनुर्दास महामतिम् ॥ शृण्वतां सर्वविदुषांच्याज- हार वचः शुभम् ॥४॥ किमर्थमुत्थितोसि त्वं धनुर्दासाद्य सत्वरम् ॥ ब्रूहि तत्कारणं मां वैराग्याद्वैष्णवोत्तम ॥६॥ निशम्य लक्ष्मणार्यस्य वचनं यतिभूपतेः॥ कृतांजलिरुवाचेदं धनुर्दासो यतीश्वरम् ॥६॥ परित्यक्ता मया लंका मित्राणि च धनानि च ॥ भवन्तं च मे राज्यं जीवितं च सुखानि च ॥७॥ इत्येवमुक्ता सहसा राक्षसेंद्रो विभी- पणः ॥त्यत्का पुत्रांश्च दारांश्च राघवं शरणं गतः ॥८॥ यत्समाश्र- यणे नित्यं विष्णोर्भगवतो हरेः ॥ दारापत्यादिरूपं च तत्सर्व प्रतिब- धकम् ॥९॥ त्यक्त्वा विभीषणो धीमाननन्यगतिकस्तदा ।। इक्ष्वाकुवं- शसंभूतरामपादाब्जमेव मे ॥ १० ॥ दृढं च रक्षकं मत्वा न निधाय पदं भुवि ॥ गगनस्थो निरालंबस्तस्थौ किल कृतांजलिः ॥ ११ ॥ वध्यतांवध्यतामेव पापोयं रावणानुजः॥ इति शैलांश्च वृक्षांश्च सम- त्पाव्यांजसा तदा ॥ १२॥ वृक्षपर्वतहस्ताश्च तस्थुर्वनिरपुंगवाः ।। नखदंष्ट्रायुधेरैतैर्वानरैर्युद्धदुर्मदैः ।। सुसंयुक्ता रामगोष्टी ममालं यतिपुं- गव ॥ १३ ॥ पुत्रमित्रकलबादिसहितस्य दिवानिशम् ॥ धनुर्दासस्य अध्यायः६४. (२०५) वचनं तदाकर्ण्य यतीश्वरः।। १४ ॥शृण्वतां विबुधंद्राणां प्रोवाचेदं वचः शुभम् ॥ शृणु वत्स प्रवक्ष्यामि हितं तव महामते ॥ १५ ॥ यद्यहं प्राप्नुयां मुक्तिं त्वं चापि प्राप्स्यसि ध्रुवम् ॥ यदि प्रातो महापूर्णः प्राप्स्येहं परमं पदम् ॥ १६ ॥ मुक्तश्चेद्यामुनाचार्यः पूर्णार्यों मुक्तिभाग्भवेत् ॥ इत्येवं पूर्वगुरवः प्राप्ता यदि परं पदम् ॥ १७ ॥ तेषां शिष्या गमिष्यंति कृपयात्र न संशयः॥ अस्म- च्छठारिः स्वगिरा प्राप्तवानस्म्यहं दृढम् ॥ १८॥ परं पदं स्वप्रबंधे प्रोवाचेदं किल स्वयम् ॥ अतोस्मच्छठकोपस्य सिद्धत्वात्परमं प- दम् ॥ १९ ॥ सिद्धमेव तथास्माकमिति निश्चित्य वर्तय॥ लक्ष्मीपु- रुपकारेण मोक्षः सिद्धोखिलात्मनाम् ॥२०॥ नित्ययोगमतः प्राप्ता हरिणा जगदीश्वरी ॥ एकस्मिञ् शृंखले लग्नाः नित्यसंसारिणो क्यम ॥२१॥ लक्ष्म्या सह जगन्मात्रा भगवांश्च जगत्पतिः ॥ एतच्छृख- ललनानां मध्ये तेषां महात्मनाम् ॥ २२॥ यो वा को वा भवेन्मुक्तिं संप्राप्तो यदि सुव्रत ॥ प्रांप्स्यमोहि वयं सर्वे मोक्षमत्र न संशयः॥२॥ चत्वारो राक्षसास्तत्र ते विभीपणमंत्रिणः ॥ न चक्रुः किल तं रामं पृ- थग्या शरणागतिम् ॥ २४ ॥ रामचंद्रोपि भगवस्तिदा तान राक्षसो- त्तमान् ॥ संरक्षणे तथैकैकंमाहूय न च रक्षति ॥२५॥ अतोहं सम- नुप्राप्तो यदि विष्णोः परं पदम् ॥ गमिष्यसि तदैव त्वं यत्पदं प्राप्यते मया ॥२६॥अथेस्मिन्निश्चलमंतिः सुखमत्र वसाधुना ॥ आश्रया- मास भरतं शत्रुघ्नःस तमेव हि ॥ २७॥ अनुसृत्य शटाराति तस्थौ स मधुरः कविः ।। गोदा तु विष्णुचित्तायं तमाश्रित्यैव संस्थिता ॥२८॥ एवं मन्ये महात्मानो गुरुमेव समाश्रिताः ॥ कारणं भगव- प्राप्तस्ततः सद्गुरुवर्तनम् ॥२९॥ आचार्य्यपरमाचार्यावनुसृत्यैव वर्त- येत् ॥ वर्तते ज्ञानसंपन्नो यत्रयत्र हि देशिकः॥३०॥दिव्यदेशादयः सर्वे वर्तते तत्रतत्र हि ।। पुराविदो वदंत्येवं वासस्थानं श्रियः पतेः ॥ ३१॥ धनुर्दासश्च ते सर्वे तत्रत्त्या विवधोत्तमाः॥ श्रुत्वा यतींदव- (२०६) प्रपन्नामृते- चनं सर्ववेदांतसंमतम् ॥ ३२॥ संतोपं परमं जग्मुः प्राप्ततत्त्वार्थ- संपदः ॥ अतो यतींद्रसंबंध परमं मोक्षसाधनम् ॥ ३३ ॥ तत्पादप- अकयं परमं प्राप्यमेव तत् ॥ श्रीवैकुंठो वेंकटाद्रिारणाद्रिश्च यः स्मृतः ॥ ३४ ॥ मुख्यस्थानं भगवतो विष्णोः सर्वात्मकस्य च ॥ तेषु स्थलेषु सर्वेषु ह्यष्टोत्तरशतेषु च ॥ ३५॥ वासुदेवादयो देवाः स्वा- मिनो ये समास्थिताः॥ते सर्वे वसतस्तस्य भूतपुर्या जगद्गुरोः॥३६॥ भाष्यकारस्य हृदये वासस्थानं प्रपेदिरे ॥ अतःश्रीभाष्यकारस्य भूत- पु- जगद्गुरोः॥३७॥ कैंकर्यात्समवाप्नोति तत्फलं नात्र संशयः॥ दिव्यानां पुण्यदेशानामष्टोत्तरशतात्मनाम्॥३८॥येपां तेषुचदेशेषुलो- करक्षणकाम्यया।वासुदेवादिदेवेभ्यो निवसद्धयश्च भक्तितः॥३९॥कृतैः पूजादिकैकय्यैर्यत्फलं छुपजायते॥ तत्फलं समवाप्नोति भाष्यकारस्य पूजनात्॥४०॥ कर्मज्ञानादयः सर्वे न चमोक्षस्य साधकाः॥ एक एव यतिश्रेष्ठो भगवान्मोक्षसाधकः॥४१॥ उपायोपेयभूतश्च लक्ष्मणार्यों जगद्गुरुः।।तन्नामोच्चारणादेव सर्वनश्यतिपातकम्॥४२॥रामानुजेति या मन्त्रे चतुरा चतुरक्षरी ॥ तां विना न भवेदन्यो भवबंधविमोचनः ॥४३॥ तदेव पुरुषार्थ हि यद्रामानुजपूजनम् ॥ अयमेव हि सिद्धांत इति प्राह दिवानिशम् ॥४४॥ समाजे सर्वविदुपां गुरूणां रंगपट्टणे। गुरुवरदविष्ण्वार्यः सर्वशास्त्रविदां वरः ॥ कूरेशोपि सदा चैवं महात्मा व्याजहार सः॥ ४५ ॥ न चेद्रामानुजेत्येपा चतुरा चतुरक्षरी ॥ कामवस्थां प्रपद्यते जन्तवो हंत मादृशाः ॥४६॥ एवं प्रपन्नगायत्र्यां श्रीरंगाख्यश्च वैष्णवः॥ सुस्पष्टं यतिराजस्य वैभवं व्याजहार सः ॥४७॥ हस्तामलकवदेवं दर्शयित्वापि मेधुना॥ विग्रहानुभवं स्वामि- न्परमप्राप्यमेव ते ॥४८॥ एवं संति महात्मानो यत्र योगींद्रसंश्रयाः॥ तदेव मम दासस्य प्राप्यस्थानं न संशयः॥ १९॥ त्वद्भक्तेपु यतिश्रेष्ट भक्तियुक्तं कुरुष्व माम् ॥ दासभूतं च मां तेपां भक्तानां तब सांप्र- अध्यायः ६४. (२०७) तम् ॥ ५० ॥ सन्निधौ यतिगजस्य मुखं दृष्ट्वातिसुन्दरम् ॥ एवं विज्ञा- पनं चक्रे स रंगार्यों महामतिः॥५१॥ यतादः संप्रष्टोथ श्रुत्वा तेन कृतां शुभाम् ॥ तदा प्रपन्नगायत्रीमंगीचक्रे महायशाः ॥१२॥ तस्यामेवांत्यगाथायां चरमार्थ उदाहृतः॥ एवं लोकहितार्थायरंगार्येण महात्मना ।। ५३॥ कृत्वा पुरुपकारेण महालक्ष्मी श्रियः पतिम् ।। श्रीभाष्यकारपादाब्जं तदेव शरणं व्रजेत् ॥५४॥ निश्चयार्थमिमं लोके यो वेत्त्यर्थं महामतिः ॥ सर्वबंधविनिर्मुक्तो याति विष्णोः परं पदम् ॥५६॥ यथा रामस्य चरित शतकोटिप्रपिस्तरम् ।। तथा रामानु- जस्यैवमवाइमनसगोचरम् ॥५६॥अलं तर्तु प्रयत्नेन बाहुभ्यां वापि सागरम्॥ यतिरास्य चरितं सान्तं वक्तुं न शक्यते॥५७॥ रामानुजार्य- चरितं यथामति यथाश्रुतम् ॥मयाकृतमिदं भक्त्या यतिराजप्रसादतः ॥५८|कवीश्वरामहात्मानो मतिमंतो बहुश्रुताः॥ कुर्वत चरितं दिव्यं विस्तारं यतिभूपतेः॥१९॥श्रीरामचन्द्रो भगवानयोध्यायां महाबलः॥ भ्रातृभिः सहितो वीरो यथा राज्यमकारयत् ॥ ६० ॥ तथा रामानुजः श्रीमान् भगवाल्लोकपावनः ॥ श्रीरंगे शिष्यसंयुक्तः सर्व जगदपालयत् ॥ ६॥ रामराज्ये प्रजाः सर्वा नीरोगा निरुप- द्रवाः ॥ सर्वधर्मरताः शांता यथा दीर्घायुपोभवन् ॥६२ ॥ तथैव मनुजाः सर्वे लक्ष्मणार्येण रक्षिताः ॥ दीर्घायुपो महात्मानो विष्णुध- र्मपरायणाः॥६३॥ संपूर्णधर्मो भगवान रराज सकलावनौ ॥ चतु- प्पादः कलियुगे यथा कृतयुगे पुरा ॥ ६४ ॥ काले वर्षति पर्जन्यः पृथिवीसस्यशालिनी ॥ राजानो ह्यभवन्सर्वे सर्वधर्मपरायणाः॥६५॥ अमत्सरमनालस्यमका, भयवर्जितम् ॥ सर्वधर्मरतं शांत भूलोकम- भवत्तदा ॥ ६६ ॥ भूमिस्थे लक्ष्मणाय तु तारतम्यं न विद्यते ॥ भूलोकस्यास्य महतो वैकुंठस्य तदा कचित् ॥ ६७॥ चित्रगुप्तो यम- चैव निर्व्यापारोभवत्तदा ॥ रुक्मांगदादिकाले तु यथा भूमिस्तथा- -

(२०८)
प्रपन्नामृते-
भवत् ॥ ६८ ॥ लीलामानुपरूपिणो यतिपतेर्दिव्यं चरित्रं शुभं
श्रोतृणामघनाशनं भवहरं चित्र विचित्रार्थदम् ॥ ये शृण्वंति पठति
सौम्यहृदया भत्त्यानिशं धीयुतास्ते गच्छंति भवाधगम्यमतुलं
विष्णोः पदंशाश्वतम् ॥ ६९॥ रामानुजाय महते निगमांतशास्त्रपारं-
गताय परमार्थविशारदाय ॥ विख्यातलोकगुरवे यतिपुंगवाय भूयो
नमो भुवनमंगलविग्रहाय ॥७०॥ इति प्र०रा श्रीरामानुजमंत्रप्रभा-
ववर्णनं नाम चतुःषष्टितमोऽध्यायः॥६४ ॥
पञ्चषष्टितमोऽध्यायः ।
श्रीरंगे वसतो महाविभवतो लोकोत्तरात्संततं श्रीमलॅक्ष्मणयोगिनो
यतिपतेः श्रीशेपमूर्त्यात्मनः॥ तस्यासीच्छरदां शतं च विदितसम्य-
ग्गता विंशतिः सर्व विष्णुमयं प्रदर्शितवतः सत्यं वचो नैगमम्
॥१॥ श्रीरंगवासन यतीश्वरस्य पष्टिः समानामगमत्सुखेन ॥ पष्टि-
स्तथान्या निगमाद्रिकांचीश्रीभूतपूर्यादिषु वासतः कौ ॥२॥ आ-
सेतुसीताचलमध्यभूमावापश्चिमप्राग्जलराशिमध्ये ॥ अशिष्यभूतो
यतिपुंगवस्य कश्चिजनः क्वापि न लक्ष्यते हि ॥३॥ सम्यनि-
त्ताखिलविष्णुमायातमोयतींद्राश्रयणाजबंधुः। संप्राप्ततत्त्वार्थनिधिर्हि
मोक्षं सुखं प्रपेदेखिलजंतुसंघः॥४॥ नष्टपूर्वविचारस्य फणींद्रादर्श-
नेन च ॥ भूयो वैकुंठनाथस्य विचारः सुमहानभूत्॥५॥ततः कदाचि-
योगींद्रो मनस्येवमचिंतयत् ॥ वैकुंठनाथसेवार्थ तद्विष्णोः
परमं पदम् ॥ ६ ॥ लीलाविभूति संत्यज्य गं-
तव्यमधुना मया ॥ ततस्तदर्थ योगींद्रो लक्ष्मणार्यों महामतिः ॥७॥
तथा प्रपत्तिमकरोद्रंगनाथपदाब्जयोः ॥ रंगेशो लक्ष्मणाचार्य्यमेव-
माह हरिस्तदा ॥ ८॥ इदानी भवता वत्स किमिदं चितितं वद ॥
तच्छत्वा लक्ष्मणाचार्यों रंगेशमवदत्तदा ॥ ९॥ शतायः पुरुपश्चेति
निर्णीतं भवता पुरा ॥ कालातिक्रमणं जातं भगवन्नध मेधुना ॥१०॥

अध्यायः६५. (२०९) तदाकर्ण्य स रंगेशो यतीश्वरमभापत ॥ अहमेव हि कालस्य तस्य कर्ता यतीश्वर ॥११॥ कंचित्कालं पुनर्भूम्या सांप्रतं मम शासनात् ॥ पालयन्मनुजान्सर्वान्मन्मायापरिमोहितान् ॥ १२॥ कुर्वन् मम च कैंकर्य वसाचैव सुखं सुत ॥ रंगराजेन हरिणा तेनैवं प्रार्थितोपि सः ॥ १३॥ पुनःपुनर्मोक्षमेव तं ययाचे यतीश्वरः ॥ ओमित्युक्त्वाथ रंगेशो भूयो वचनमब्रवीत् ॥ १४ ॥ दास्यामि कांक्षितं वत्स वरं वरय सुव्रत ॥ एवं ब्रुवति रंगेशे संतुष्टो यतिराट् ततः ॥ १५॥ रंगे- शं प्रणिपत्याह लक्ष्मणार्यों जगत्पतिम् ॥ लोको यः प्राप्यते स्वा- मिन् भवतः कृपया मया ॥ १६॥ अस्मत्संबंधसंबंधिचरमावधयश्च ये ॥ सम्यग्गच्छंतु तं लोकं जनास्ते तव शासनात् ॥ १७ ॥ रंगेशः प्रतिगृह्याशु तद्वचो यतिभूपतेः ॥ बाढमित्यभिधायाशु यतींद्राय म- हात्मने ॥ १८॥ तीर्थ प्रसादं मालां च परिपट्टं शठद्विषम् ॥ दाप- यित्वा बहुविध सम्मानमकरोदरिः ॥ १९ ॥ ततो यतीश्वरस्तेन रंगिणाज्ञापितस्तदा ॥ प्रविवेश मठं श्रीमाञ् श्रीवैष्णवसमावृतम् ॥२०॥ श्रीवैष्णवान समाहूय यत्र तत्र स्थितान् बहून ॥ कृपामात्रप्र- सन्नार्यों यतिराजो जगद्गुरुः ॥२१॥ सर्वशास्त्रार्थसारााण सुवाक्यानि द्विसप्ततिः ॥ समाहृत्य विधायाशु भूरिदानं महायशाः ॥ २२ ॥ यतीन्द्रोपदिष्टचतुस्सप्ततिवाक्यानि । श्रीवैष्णवेभ्यः प्रोवाच शिष्येभ्यः करुणार्णवःस्वदेशिकस्य कैंक- ये कैंकर्ये वैष्णवस्य च ॥२३॥ प्रतिपत्तिं समां कृत्वा कैंकर्य कार- येत्सदा ॥ पूर्वाचार्योक्तवाक्येषु विश्वासेनैव वर्तयेत् ॥ २४ ॥ न वर्त- येदिंद्रियाणां किंकरश्च दिवानिशम् । सामान्यशास्त्रनिरतो नैव तिष्ठे- कदाचन ॥ २५ ॥ भगवद्विपये शास्त्रे निरतः सर्वदा वसेत् ॥ आचार्यकृपया पूर्व संजातज्ञानसागरः ॥ २६ ।। भूयः शब्दादि- विषयकिंकरो नैव वर्तयेत् ॥ सर्वान् शब्दादिविपयान्समानेव विलो- (२१०) प्रपन्नामृते- कयेत् ॥२७॥ पुष्पचंदनतांवूलद्रव्यादिषु सुगधिषु ॥ वासनारुचि- कार्याणि कदाचिन्नैव कारयेत् ॥ २८॥ या प्रीतिरासीत्सततं भगव- नामकीर्तने ॥ सा स्यात्प्रीतिर्हि तद्भक्तनामसंकीर्तने च वः ॥२९ ॥ कारणं भगवत्प्राप्तेर्महाभागवताश्रयः॥ इति मत्वा दृढं तेपामाज्ञया वर्त्तयेत्सदा ॥ ३० ॥ विहाय विष्णुकैंकर्य कैंकर्य वैष्णवस्य च ।। विनश्येत्स नरोप्राज्ञी रागादिप्रेरितो यदि ॥ ३१ ॥ वैष्णवानामनु- ष्ठाने नोपायमतिमुन्नयेत् ॥ उपेयमेव सततमुन्नयेत्सुमहामनाः ॥३२॥ नाहूयेदेकवचनान्महाभागवताचनान।।पूर्वाजलिं वैष्णवानां दृष्टमात्रेच कारयेत् ॥ ३३ ॥ हरेभगवतो विष्णोर्वैष्णवानां च सन्निधौ ।। पादौ प्रसार्य न वसेत्कदाचिदमलात्मनाम् ॥ ३४ ॥ विष्णोरोवैष्णवस्त्र गृहाणां च दिशं प्रति ।। पादौ प्रसार्य निद्रां च कदाचित्रैव कार- येत् ॥ ३५ ॥ कृतनिद्रः समुत्थाय वदेद्गुरुपरंपराम् ॥ महाभागवता- नदृष्ट्वा निपण्णान्विष्णुसन्निधौ ॥ ३६॥ मंत्रराजमनुध्यायन्प्रणमेदंड- वद्भुवि ॥ संकीर्तनं भगवतस्तथा भागवतस्य वा ॥ ३७ ॥ श्रीवै- ग्णवेषु कुर्वत्सु ताछत्त्या नाभिपूज्य च ॥ मध्ये चोत्थाय गमनम- पचारतमो भवेत् ॥ ३८॥ वैष्णवागमनं श्रुत्वा गच्छेदभिमुखं तदा। साकं गच्छेत्कियडूरं भत्त्या तेपां विनिर्गमे ॥ ३९॥ द्वयोरकरण- त्वेन महान् दोपः प्रजायते ॥ आत्मयात्रार्थमनिशं शेपत्वेन च वैष्ण- वान् ॥४०॥ विनयादिगुणैर्भत्त्या नानुसृत्य महात्मकान् ॥ देह- यात्रार्थमनिशं प्राकृतानां गृहेगृहे ॥ ४१ ॥ गत्वागत्वाथ नामानि. तेपातेपां च सादरम्॥ स्वनाम्नः पुरतः कृत्वा नियमादीन् विहाय च ॥ ४२ ॥ वर्तनं वैष्णवस्यास्य स्वरूपस्यैव हानिदम् ॥ विष्णोदिव्य- विमानानि गोपुराणि जगत्पतेः॥४३॥ दृष्टमात्रेण सहसा कारये- इंजलिं तदा ॥ दृष्ट्तरविमानानि विस्मयं नैव कारयेत् ॥ १४ ॥ श्रुत्वा न विस्मयं गच्छेद्देवतांतरकीर्तनम् ॥ विष्णोर्चा वैष्णवानां च

अध्यायः ६५.
(२११)
नामसंकीर्तनानि च॥४५॥ कुर्वतः पुण्यपुरुपान्दृष्ट्वा नावाप्य वै मुदम्॥
आक्षेपो ह्यपचारस्स्यान्मध्ये तेषां सुनिश्चयम् ॥४६॥ श्रीवैष्णवानां
सर्वेपी देहच्छायांनलंघयेत् ॥ स्वदेहच्छायासंस्पर्श वैष्णवेषु नकार-
येत् ॥४७॥ स्पृष्ट्वासंस्कारिणः पूर्व वैष्णवाननुसंस्पृशेत् ।। वैष्णवाय
दरिद्राय पूर्व वंदनकारिणे ॥ ४८ ॥ अनादराणि कार्याणि भवेयुः
पातकानि वै ॥ यदि प्रणमते पूर्व दासोहमिति वैष्णवः ॥ १९ ॥
अनादरे कृते तस्मिन्नपचारो महान्भवेत् ॥ वैष्णवानां च जन्मानि
निद्रालस्यानि यानि च ॥ ५० ॥ दृष्ट्वा तानि प्रकास्याशु जनेभ्यो
न वदेत्वचित् ॥ तेषां दोषान्विहायाशु गुणांश्चैव प्रकीर्तयेत् ॥५१॥
विष्णुपादोदकं चैव भक्तपादोदकं तु वा ॥ प्राकृतेषु च पश्यत्सु न
पिबेत्तोयमुत्तमम् ॥ १२॥ तत्त्वत्रयस्य ज्ञानेन श्रीरहस्यत्रयस्य च ।।
रहितस्यांनिजं तोयं ग्राहयेन्न कदाचन ॥ ५३॥ ज्ञानानुष्ठानयुक्तस्य
सदाचाररतस्य च ।। पादोदकं वैष्णवस्य पिबेन्नित्यं प्रयत्नतः॥ ५४॥
मां च भागवतैः साई साम्यबुद्धिं न कारयेत् ॥ प्राकृतानां च
संस्पर्श प्राप्तः प्रामादिकाद्यदि ॥ ५५ ॥ स्त्रातः सचैलः सहसा वैष्ण-
वांधिजलं पिबेत् ॥ वैराग्यज्ञानभत्त्यादिगुणयुक्तान्महात्मनः ॥५६॥
वैष्णवांस्तान् महाभागान् मत्वा चरमविग्रहान् ॥ कारयेत्तेषु विश्वास
विशेषेण महात्मसु ॥ १७ ॥ वैराग्यज्ञानभत्त्यादिगुणवंतो महात्म-
काः॥ येये भागवतास्तांस्तामुद्दिश्य प्रीतिमभ्यसेत् ॥५८॥ न ग्राह-
येद्विष्णुतीर्थ प्राकृतानां गृहेषु च । प्राकृतानां निवासस्थान न सेवे-
द्विष्णुविग्रहान् ॥ ५९ ॥ श्रीहर्दिव्यदेशेषु पश्यत्सु प्राकृतेष्वपि ॥
तीर्थप्रसादग्रहणं कारयेन्न तु संशयः ।। ६० ॥ सदा श्रीवैष्णवैर्दत्तं
प्रसादं विष्णुसन्निधौ ॥ उपवासादिनियमयुक्तोहामति न त्यजेत् ॥
॥ ६१ ॥ प्रसादे पावने विष्णोः सर्वपापहरे हरेः ।। कदाचिदपि
चोच्छिटप्रतिपत्तिं न कारयेत् ।। ६२ ।। सन्निधौ वैष्णवानां च स्वगु-
णान्नैव कीर्तयेत् ॥ श्रीवैष्णवानांसान्निध्ये नान्यं परिभवेजनम्॥६॥

(२१२) प्रपन्नामृते- गुणानुभवकैकयं तदीयानां महात्मनाम् ॥ अविधाय क्षणमपि कार्य किंचिन्न कारयेत् ॥ ६४ ॥ दिनैकघटिकायां च वर्ण- येद्गुरुसद्गुणान् ॥ दिनैकघटिकामध्ये ह्यपि विश्वासपूर्वकम् ॥६६॥ शठार्यादिप्रबंधान्वा प्रबंधान् कीर्तयेद्गुरोः ॥ देहाभिमानिना साई सहवास न कारयेत् ॥६६॥ श्रीवैष्णवानां चिह्नानि धृत्वापि विपया- तुरैः॥ तैः सादै वंचकजनैः सहवासं न कारयेत् ॥६७॥ न भापयेच्च संततं परदूपणवत्परैः॥ देवतांतरभक्तानां संगदोपनिवृत्तये ॥ ६८ ॥ श्रीवैष्णवैर्महाभागैः सल्लापं कारयेत्सदा ॥ तदीयदूपकजनान्न पश्ये- त्पुरुपाधमान् ॥ ६९ ॥ नैवावलोकयेत्क्रूरानापचारपरान् गुरौ ॥ द्वयै- कनिष्ठपुरुपैः संगति कारयेत्सदा ॥ ७० ॥ उपायांतरनिष्ठांश्च पुरु- पान्परिवर्जयेत्॥मपत्तिधर्मनिरतैर्जनैः सह वसेत्सदा ॥७१ ॥ रहस्य: यसार स्तत्त्वत्रयविशारदैः॥ महाभागवतैः साबै सहवासं च कार- येत् ॥ ७२ ॥ नार्थकामपरैः सार्द्ध कदाचित्रिवसेत्सदा ॥ भगवद्भक्ति- निष्टैश्च संलापं कारयेत्संदा ॥७३॥ वैष्णवेन तिरस्कारः कृतो हि भवतां यदि ॥ अपकारस्मृति तस्मादमत्वा मौनतो वसेत् ॥७४ ॥ संजाता वैष्णवस्यासीढद्धिहि परमे पदे ॥ श्रीवैष्णवेभ्यः सर्वेभ्यः कारयेत्ससतं हितम् ॥७२॥ धर्मादपेतं यत्कर्म यद्यपि स्यान्महाफ- लम् ॥ न तत्सेवेत मेधावी नहि तद्धितमुच्यते ॥ ७६ ॥ नानर्पि- तानं हरये कदाचिदपि भक्षयेत् । पुष्पचंदनतांबूलवस्त्रोदकफलादि- कम् ॥ ७७॥ नानर्पितं तु हरये कदाचिदपि धारयेत् ॥ साधनांतर-- संप्राप्तमर्थकामादिदेतुना ॥७८॥ अयाचितमपि प्राप्तं न गृह्णीयात्क- दाचन ॥ जात्याद्यदुष्टमन्नाद्यं भुंजीयात्तच्च सादरम् ॥ ७९ ॥ स्वदेह- प्रियभोग्यानि नार्पयेत्परमात्मने ॥शास्त्रीयसर्वभोगास्तु विष्णवे ता- नि चापयेत् ॥ ८०॥ विप्वर्पितानपानीयभक्ष्यादिपुसुगंधिपु । प्र- सादबुद्धिः कर्तव्या भगवुद्धिहि न क्वचित् ॥ ८ ॥ कैंकर्य्यबुद्धया अध्यायः ६६. (२१३) कर्माणि शास्त्रीयाण्येव कारयेत् ॥ मंत्रत्रयार्थनिष्टस्य महाभागवतस्य हि ॥ ८२॥ अपचारं विना नान्यदात्मनो नाशकारणम् ॥ आत्मनो मोक्षहेतुत्वात्तन्मुखोल्लासनं विना ॥ ८३ ॥ पूजनाद्विष्णुभक्तानां पुरु- पार्थोस्ति नेतरः ॥ तेषु तद्देपतः किंचिन्नास्ति नाशनमात्मनः॥८४॥ अर्चाविष्णौ शिलाधीशुरुषु नरमतिर्वैष्णवे जातिबुद्धिर्विष्णोर्वा वैष्ण- वानां कलिमलमथने पादतीर्थेबुबुद्धिः ॥ सिद्धे तन्नाममंत्रे कलिकलु- पहरे शब्दसामान्यबुद्धिः श्रीशे सर्वेश्वरेशे तदितरसमधीर्यस्य वा नार- की सः ॥८६॥ श्रीमद्भागवतार्चनं भगवतः पूजाविधेरुत्तमं श्रीविष्णो रखमाननाद्गुरुतरं श्रीवैष्णवोल्लंघनम् ॥ तीर्थादच्युतपादजाद्गुरुतरं तीर्थ तदीयांनिजंतस्मानित्यमतन्द्रितो भव सतां तेषांसमाराधने।।८६॥ इति श्रीप्रनामृते रामानुजचरित्रे चरमदशायां शिष्यजनाय चतुःसप्तति- वाक्योपदेशो नाम पञ्चपष्टितमोऽध्यायः ॥ ६॥ । षट्षष्टितमोऽध्यायः। एवमाद्यादितत्त्वार्थान्यतींद्रः करुणार्णवः ॥ दिनत्रयमहोरात्रं मुक्तिहेतूनिरंतरम् ॥ १॥ तेभ्यो महाविशेपार्थाञ्छिष्येभ्यो व्याजहार सः॥ निशम्याथै यतींद्रोक्तं गूढार्थमतिविस्मयाः॥२॥ सर्वे यतींद्र- शिष्यास्ते यतींद्रमिदमब्रुवन् ॥ कदाचिदप्यनुक्तार्थान्वदता भवताधुना ॥३॥ अस्माकं महती शंका काचिद्भवति भो गुरो ॥को हेतुरस्य भगवन् ब्रूहि नः करुणार्णव ॥ ४॥ शंकां विधाय पृच्छत्सु शिष्येषु यतिपुंगवः ॥ न्यवेदयदमेयात्मा तेभ्यस्तत्कारणं महत् ॥ ५॥रंगेशो भगवानय दत्तवान्मे परं पदम् ॥ दिने गच्छामि वैकुण्ठं दिनस्यास्य चतुष्टये ॥६॥ तच्छुत्वा घोरसंकाशं ते वाक्यं रोमहर्पणम् ॥ भूम्यां निपतिताः सर्वे च्छिन्नमूला इव द्रुमाः॥७॥ देहत्यागे मतिं चक्रुस्त- द्वियोगासहिष्णवः ॥ तानाश्वास्य यतिश्रेष्टः शिष्यानेवं वचोब्रवीत ॥८॥ भोभोः श्रीवैष्णवाः सर्वे मद्वियोगासहिष्णुभिः ॥ भवद्भिर्मद्रि-

(२१४)
प्रपन्नामृते-
योगे तु देहत्यागः कृतो यदि ॥९॥ शारिणा महापूर्णयामुनाभ्यां
च वः शपे ॥ अन्ते समागमो मास्तु भवतां नित्यसूरिभिः ॥ १०॥
त्यक्तदेहेच्छवो ये तु मद्वियोगासहिष्णवः ॥ते चाधः पतिताः सर्वे
भवेयुनर्नात्र संशयः ॥ ११ ॥ श्रुत्वोद्वेगकरं वाक्यं तत्तस्य यतिभूपतेः।।
ऊचुः प्रांजलयः सर्वे भयोदिग्ना यतीश्वरम् ॥ १२॥ युष्मत्सेवां विना
सर्वे मुहूर्तमपि जीवितुम् ॥ न समर्था वयं स्वामिस्तस्योपायं वदाशु
नः॥१३॥ तदंगीकृत्य वचनं भगवाल्लोकपाक्नः ॥ चकार लोक-
रक्षार्थ मति कांचिन्महामतिः ॥ १४ ॥ सुमुहूर्ते महायोगी सर्वलक्ष-
पशोभिते ॥ शिल्पिंभिः कारयामास स्वार्चामखिललक्षणाम् ॥ १५॥
तमर्चाविग्रहंसम्यग्गाढमालिंग्य योगिराट्॥ब्रह्मरंध्रे समाघ्राय स्वशक्तिं
तत्र दत्तवान्॥१६॥दीपादुत्पन्नदीपाभं प्रतिबिंबमिवापरम्।।तमर्चाविग्रह
दृष्ट्वा सर्वे मुमुदिरे जनाः ॥१७॥ तम विग्रहं सम्यक्प्रतिष्ठाप्य यथा-
विवि ॥ तान् सर्वाल्लँक्ष्मणाचार्य्यः सम्यग्दृष्ट्वेदमब्रवीत् ॥ १८ ॥
सम्यक् पश्यत भो वत्सा मंदर्चाविग्रहं परम् ॥ तमिमं सुन्दरखरं स-
र्वेषां परदैवतम् ॥ १९॥ भवतां वर्तते नित्या या प्रीतिरधिका मयि ।।
तामत्राविरतां सम्यगर्चायां कुरुतादरात् ॥२०॥ एतेन मम संतोपो
भवतां मंगलं भवेत् ॥ प्रतिगृह्य यतींद्रस्य वचनं वैष्णवोत्तमाः ॥२१॥
तथैव चकुस्ते सर्वे तां भक्तिं तत्र विग्रहे ॥ संपूज्यमानः सततं यती-
द्रोर्चाप्रतिष्ठितः ॥ २२ ॥ अवर्धतानुदिवसं बालसूर्य इवोदितः॥
सर्वस्थलेषु सर्वत्र श्रीरंगादिषु भूतले ॥२३॥ अर्चावतारा बहवो य-
तींद्रस्याभवस्ततः॥ तेपा मुख्यतमा भूम्यांते यतींद्रकृतास्त्रयः॥२४॥
श्रीभूतनगरे चैव श्रीरंगे यादवाचले॥तेपां मुख्यतमस्सोयं श्रीभूतन-
गरे स्थितः ॥ २५॥ स्वावतारस्थलत्वेन भूतपुर्ण विशेषतः ॥ यति-
राजस्य महती कृपा तत्रैव वर्तते ॥२६॥ पुरा यतींद्रं श्रीरंगे दाशर-
ध्यात्मजो महान् ॥ श्रीरामानुजदासाख्यो वाधूलकुलभूपणः ॥२७॥

अध्यायः ६६. (२१५) प्रणिपत्य महात्मानं प्रांजलिक्यिमब्रवीत् ॥ स्वावतारस्थले स्वामि- स्तस्मिन्छ्रीभूतपट्टने ॥ २८ ॥ अस्मत्सुरक्षणार्थाय युष्मदर्चा प्रदापय॥ तदंगीकृत्य योगोंद्रो मुहूर्ते सर्वमंगले ॥२९॥ शिल्पिभिः कारयामास स्वामिखिललक्षणाम् ॥ तम विग्रहं सम्यग्गाढमालि- ग्य हर्पितः ॥३०॥ उच्छ्वासवायुरूपेण स्वतेजस्तत्र चासृजत् ॥ दीपादुत्पन्नदीपाभं प्रतिबिंबमिवापरम् ॥ ३१ ॥ तमर्चाविग्रहं दृष्ट्वा सर्वे मुमुदिरे जनाः ।। स्वयमेव यतिश्रेष्ठः प्रतिष्ठाकालनिर्णयम्॥३२॥ विधाय सहसा तस्मै तं तदा प्रददौ मुदादाशरथ्यात्मजो भक्त्या ता- मी प्रतिगृह्य सः ॥ ३३ ॥ प्रतस्थे भूतनगरी ब्राह्मणैः सर्वमंगलैः ॥ रामानुजेन निर्णीतदिवसे भूतपटने ॥ ३४॥ अर्चायाः सम्यगेवा- स्याः केशवस्वामिसन्निधौ ॥ दाशरथ्यात्मजो धीमान्विद्भिवैष्णवैः सह ॥ ३५॥ यथाविधि यथाशास्त्रं प्रतिष्ठामकरोन्महान् ॥जलवासा- भिपेकादिकालेषु यतिभूपतेः॥३६॥ आयासः सुमहानासीच्छ्रीरंगे वसतस्तदा ॥ नेत्रोन्मीलनकाले तुरतं सुस्राव नेत्रयोः ॥ ३५॥ अकस्मान्मम देहस्य चायासः सुमहानभूत् ॥ इत्येवं लक्ष्मणाचा यस्तदा संजातविस्मयः ॥ ३८ ॥ अकस्मालक्ष्मणार्यस्य रक्तं नेत्रे हि निःसृतम् ॥ विलोक्य विस्मयं जग्मुः सर्वे श्रीवै- प्णवोत्तमाः ॥ ३९ ॥ तस्याः प्रतिष्ठानिर्णीतवासरः स च वासरः ॥ एकत्वेनैव ते सर्वे विस्मयं च मुदं ययुः॥४०॥ श्रीरामा- नुजदासश्च तमर्चाविग्रहं ततः । प्रतिष्ठाप्य यथाशास्त्रं भूतपुर्या यथा- विधि ॥४१॥ तदृत्तांत यतीदाय प्राहिणोदंजसा तदा ॥ तत्प्रति- छादिनं चैव तन्निर्णीतदिनं तथा ॥ ४२ ॥ देहायासदिनं चैव त्रयं तुल्यं बभूव यत्.॥ तस्माद्यतींद्रः संपूर्णः कलाभिर्भूतपणे ॥४३॥ लोकसंरक्षकः श्रीमानद्यापि परिदृश्यते ॥ तस्माच्छ्रीभूतनगरं मुक्ति- स्थानं न संशयः॥ ४४ ॥ सर्वे दिव्यस्थलाधीशा यतोंडे सुप्रति प्रपन्नामृते- (२१६) टिताः ॥ संपूर्णा दिव्यकलया यतींद्रेण प्रतिष्ठिताः॥ ४५ ॥ तस्मा- द्भुतपुरी पुण्या सर्वदिव्यस्थलाधिका ॥ अनायासेन निखिलदिव्य- देशादिवासतः॥४६॥ यत्फलं समवाप्नोति तत्तत्रैव न संशयः॥ तस्मात्सर्वप्रयत्नेन वस्तव्यं भूतपट्टणे ॥ १७ ॥ कुटीरमपि कृत्वापि वैष्णवेन मुमुक्षुणा ॥ महापातकयुक्तो वा युक्तो वा सर्वपातकैः ।। ॥ ४८ ॥ तत्र नत्वा यतिश्रेष्टं मुच्यते नात्र संशयः॥चैत्राद्रीयां यतींद्रस्य योभिपेकं करोति हि ॥ ४९ ॥ सर्वपापविनिर्मुक्तो याति विष्णोः परं पदम् ॥ रामानुजार्यपादाब्जभक्तिमान्यो नरो भुवि ॥ ॥५०॥ कृतकृत्यो हि सर्वेषां स च पूज्यतमः स्मृतः॥ तस्माद्यती- द्रकैंकय्यं परमप्राप्यमेव तत् ॥ ११ ॥ तस्मालक्ष्मणयोगींद्रप्रभावो- यतिमानुपः ।। केन वर्णयितुं शक्यो न शक्यश्चेश्वरेण हि ॥ १२॥ अर्चावतीर्णस्य यतीश्वरस्य श्रीभूतपुर्वी जगतां हितार्थम् ॥ यमद्भुतं तं महिमानमाचं जानाति सम्यक् स पुमान् कृतार्थः ॥ ५३ ॥ सकलनिगमसारं साधुलोकैकसारं निरुपममनवयं भोगमोक्षकहे- तुम् ।। हरिमतमिव चाद्यं योनुसेवेत धीरः सकलनिगमवेदी ब्रह्मवेत्ता स एव ॥५४॥ इति श्रीप्रपन्नामृते रामानुजचरित्रे श्रीभूतनगरी- रामानुजार्यावतारमाहात्म्यवर्णनं नाम पट्पष्टितमोऽध्यायः॥६६॥ सप्तपष्टितमोऽध्यायः। ततः श्रीवैष्णवाः सर्वे श्रीरंगपुरवासिनः ॥ एवं विज्ञापनं चकुर्यति- राजं जगद्गुरुम् ॥ ३॥ अस्माकं वर्तितव्यांशं ब्रूहि सम्यग्यतीश्वर ॥ तच्छ्रुत्वा तानुवाचेदं मन्नाथो वैष्णवान्वचः ॥२॥ यः कश्चन प्रप- नश्चेत्स एवं वर्तयेद्बुधः ॥ यत्प्रपन्नस्य चाडप्टमीश्वराधीनतस्ततः ॥३॥ न विचारोत्र कर्त्तव्यः संदेहं कुरुते यदि ॥ मिथ्या भवति तत्तस्य धृवमात्मसमर्पणम् ॥ ४॥ कर्माधीनतया तस्य दृष्टं तत्र न शोचयेत् ॥ अतस्तयोः प्रपन्नस्य दृष्टादृष्टात्मकार्थयोः ॥ ५॥ निर्भ- गन्याप.५७ रत्वानुसंधानं जानीध्वमिति वैष्णवाः ॥ इत्युक्तास्ते यतोंद्रेण वैष्णवाः पुनरस्नुवन् ॥ वयं तु केन मार्गेण कालमादेहपातनम् ॥६॥ वर्ति- प्यामः शिपंतस्तं शाधि नो गुरुपुंगवा। इत्युक्तस्तैर्यतिश्रेष्टः कृपया ता- नुवाच सः॥७॥ उपायबुद्धया कर्माणि मा कुरुध्वं महात्मकाः ।। कर्मणामेव कैंकय्ये प्राप्ये भगवतो मतिः ॥८॥ तदीयं नाम कैंक- यै श्रुत्वा श्रीभाष्यमादरात् ॥ प्रवर्तयध्वं तल्लोके तत्र शक्तिर्न चेय- दि ॥९॥ परांकुशादिमुनिभिः दशभिर्देशिकोत्तमैः ॥ कृतं प्रबं- धमभ्यस्य शिष्येभ्यो वदतानिशम् ॥ १० ॥ तत्रापि भक्तां शक्तिन स्याद्यदि हि वैष्णवाः ॥ दिव्यदेशेषु कैंकर्य विष्णवे कुरुतानिशम् ॥ ११ ॥ तत्रापि भवतां वद्धियदि सम्यङ् न जायते॥ कुटीरमपि कृत्वापि मे यादवाचले ॥ १२ ॥ मुक्ताहंकारिणः सर्वे वासं कुरुत वैष्णवाः ॥ नाप्येतद्भवतां वत्स रोचते यदि सुंदरम् ।। १३ ।। द्वया- थस्यानुसंधानं यावजीवमतंद्रिताः ॥ कुर्वतः सम्यगेवार्या निर्भरा वसतादरात् ॥ १४॥ यदि नोत्पद्यते बुद्धिर्भवतां तत्र सत्तमाः ॥ श्रूयतामवधानेन प्रवक्ष्ये चरमं हितम् ॥ १५॥ ज्ञानभत्त्यादियुक्त- स्य वैष्णवस्य महात्मनः ॥ मुक्ताईकारिणस्तस्य निदेशेवसतानि- शम् ॥ १६॥ अयं हि चरमोपायो नान्यापायस्ततः परम् ॥ अ- स्मिन्नर्थे महाञ् श्लोकः श्रूयते लोकविश्रुतः ॥ १७ ॥ श्रीभाष्यं इविडागमप्रवचनं श्रीशस्थलेवन्वहं फैकर्य यदुशैलनित्यवसति: सार्थद्वयोचारणम् ॥ यहा भागवताभिमानवसतिः श्रेयः सता- मित्यलं शिष्यान् प्राह यतीश्वरः परमगाद्विष्णोः पदंशाश्वतम् ॥ १८ ॥ इत्येवं वसतां लोके महतामधिकारिणाम् ॥ त्रिविधा विपयाः संति वर्तितव्या यथार्हतः ॥ १९ ॥ विरोधिनोनुकू- लाश्च स्मृताश्चानुभया इति ॥ विष्णुविद्वेपिणो लोके विरो- धिन इति स्मृताः ॥२०॥ वैष्णवे ह्यनकूलाश्च वद्धाश्चानुभयाः स्मृ- ताः ॥ यथाप्रसादं कुर्वति प्रियवस्तुसमागमे ॥ २१ ॥ वैष्णवालोक- (२१८) प्रपन्नामृते- नेनैव तथा कुवैत धीवराः॥ वह्निसििदवदूर परित्याज्या विरोधिनः॥ ॥ २२॥ संसारिणस्तृणीकृत्य काप्टलोष्टतृणादिवत् ॥ वर्तितव्याः प्रपन्नानां ध्रुवं तेषां महात्मनाम् ॥ २३॥ वैष्णवानां हि संगत्या स- म्यग् ज्ञानं प्रजायते ॥ तेन निःश्रेयसप्राप्तिर्भविष्यति सुनिश्चयम् ॥ २४॥ अतः सर्वात्मना कार्या वैष्णवानां हि संगतिः ॥ प्रतिकूला- दिसंसर्गमानसंभाषणादयः ॥ २५॥ सुदूरतः परित्याज्याः प्रपन्ना- नां महात्मनाम् ॥ अनुकूलाननादृत्य प्रतिकूलान् धनेच्छया॥२६॥ कृता स्यायदि या पूजा सा हरेः शोकदा भवेत् ॥ सार्वभौमस्य नृपते- स्तत्पुत्रं राजसंनिधौ ॥ २७॥ यथाकृतेक्माने च व्याकुलं नृपमान- सम् । तथा देवस्य विष्णोश्च व्याकुलं हृदयं भवेत् ॥ २८ ॥अर्थ- कामेच्छया वापि पूजयेत्र विरोधिनः ॥ विरोधिनां हि तद्रव्यं विरोधा- यैव केवलम् ।। २९॥ सर्वाभीष्टप्रदे देवे हरौतिष्ठति सर्वदा।। तस्मि- विष्णो रुते याच्या कृता यदि विरोधिषु ॥३०॥ सार्वभौमस्य नृपते- महिष्या क्षत्रबंधुषु ॥ यदि याचा कृता तेन नृपस्यावयता यथा ॥३१॥ तथा भगवतः सा स्यादवद्या महती ध्रुवम् ॥ न मानयेदनु- भयानर्थकामेच्छयापि च ॥ ३२॥ तेभ्यः कृतावमानेन पूर्वोपात्ता दृढा मतिः ॥ न च कार्यकरी तस्य नष्टा भवति सा ध्रुवम् ॥३३॥ सुवर्णलोहयोलोंके यथा रत्नवराकयोः ॥ अनुकूलानुभययोस्तथैव महदंतरम् ॥ ३४॥ अतोनिशं देववरैर्महात्मभिः श्रीवैष्णवैर्मुक्तमदेवि- चक्षणः॥निवृत्ततनिवसध्वमादरात्तेभ्यश्च वःसर्वफलानि संति॥३५॥ इति श्रीप्रपनामृते रामानुजचरित्रे श्रीवैष्णवलक्षणानुवर्णनं नाम सप्त- पष्टितमोऽध्यायः॥६७॥ अष्टपष्टितमोऽध्यायः। यतीदः पूर्णकृपया शास्त्रसारतमांस्तदा ॥ शिष्येभ्यश्चोपदिश्यार्था- न सर्वेभ्यो मुदमाप सः ॥ १॥ एवं बहुविधैर्वाक्यैः शास्त्रसारतमैः अध्यायः ६८. (२१९) शुभैः ।। अनुशास्य तदा शिष्यान् सल्लिक्ष्मणदेशिकः ॥२॥ तेषां हितेच्छया भट्ट राजानं कर्तुमुद्यतः ॥ आनीय रंगरा- जस्य सन्निधि तं महौजसम् ॥ ३ ॥ कृतसम्यकप्रणामाय रंगपुत्राय धीमते ॥ शठकोपं च तीर्थं च दापयित्वार्चकैः पुरा ॥ ४ ॥ स्वीकृत्य तत्स्वयं पश्चाद्वैष्णवानिदमब्रवीत् ॥ अयं रंगसुतः श्रीमान विष्णुदर्शनवर्द्धकः ॥ ६॥ भवतां चैव सर्वेषां रक्षिता नात्र संशयः ॥ अस्य प्रशासने यूयं वर्तध्वं भक्तितत्पराः ॥६॥ इत्येवमुक्त्वा रंगेशसन्निधौ यतिपुंगवः ॥ रंगेशदास्यसाम्राज्ये राजानमभ्यपेचयत् ॥ ७॥ तं पराशरभहार्य लोकानुग्रहतत्परः ॥ रंगेशः संप्रहृष्टोभूत्सुतं दृष्ट्वा तमीश्वरः ॥ रामानुजकृपापात्रं सर्वे मुमुदिरे जनाः॥८॥ ततो महात्मा यतिसार्वभौमः संप्रेपितो रंग- धुरंधरेण ॥ आलंव्य हस्तं रघुनाथसूनोस्तं वाचमूचे महतां समाजे ॥९॥ दिशि प्रतीच्या विवुधोस्ति कश्चिद्वेदांतिनामा रघुनाथसूनुः ॥ जित्वा तमाशु स्वमतप्रविष्ठं विधेहि वेदांतिनमार्यवर्यम् ॥ १०॥ ततो यतींद्रस्तेनाशु सह सर्वैमठं गतः ॥ सर्वाञ्छिष्यान् समाहूय वार्य चेदमुवाच तान् ॥ ११॥ अविवेकेन यूयं मे वियोगे भृशदुःखिताः।। देहत्याग मा कुरुध्वं मयाचार्येण वः शपे ॥ १२॥ तत्प्रत्ययार्थ तैः सर्वैः स्पृष्टपादः पुनःपुनः॥ वैकुंठयात्रादिवसे. प्रातस्तान्कृतभोजनान् ॥१३॥ विधाय सहसा शिष्यान्कृतशिष्यो महायशाः ॥ तदा सर्वा- न समानीय रंगेशपरिचारकान् ॥१४॥ मया कृतापराधान्हि क्षमध्व- मिति चात्रवीत् ।। बद्धांजलिपुटाः सर्वे तमूचुस्ते यतीश्वरम् ॥ १५॥ किं विद्यतेपराधो वा लोकसंरक्षकस्य ते ॥ भवता सर्वसुहृदा पुत्रव- परिपालिताः ।।१६। इतः परं यतिश्रेष्ट वर्तिष्यामः कथं वयम् ॥ इति ते साश्रुनयनाः सर्वे संदुःखितास्तदा ॥ १७॥ तानावास्य यतिश्रेष्ठो व्याजहार वचः शुभम् ।। कुर्वतो रंगराजस्य सदा कैंकर्य- (२२०) प्रपन्नामृते- मादरात् ॥ १८॥ वैष्णवेषु कृतस्नेहा वसतात्र यथासुखम् ॥ एवं यथोचितं तेषां तत्रत्यानां हितं तदा ॥ १९॥ सर्वेषां कृपया चोक्त्वा कृतकृत्यो यतीश्वरः। गोविंदांके विधायाथ शिरःशेते महामनाः ॥ ॥२०॥ आंध्रपूर्णस्य चोत्संगे संप्रसार्याघ्रिपंकजे ॥ शिष्येषु तेषु सर्वेषु यतींद्रस्य जद्गरोः॥ २१ ॥ भृगुवल्लीं ब्रह्मवल्ली पठत्स्वपि महात्मसु ॥ परांकुशप्रबन्धादीन्प्रबन्धमखिलं च तम् ॥ ॥ २२ ॥ वादकैर्वाद्यमानेषु वायेषु निखिलेषु च ॥ संस्था- प्य पुरतः पश्यन्महापूर्णस्य पादुके ॥ २३ ॥ ध्यायन हदि सदा धीमान यामुनार्याप्रिपंकजम् ॥ शिरःकपालं निर्भिद्य ब्रह्मरंध्रेण योगिराट् ॥ २४ ॥ रामानुजो जगामाशु तद्विष्णोः परमं पदम् ॥ माघशुद्धदशम्यां तु मध्याह्न मंदवासरे ॥२५॥ भोगिराजस्य योगीशो भावं दिव्यमवाप सः॥धर्मों नष्टस्तदा वाक्यमाकाशे सम- जायत ॥२६॥ तदचित्यं महदुःखं ते संप्राप्याखिला जनाः ॥ मुहूर्त- मभवन्सर्वे निश्चेष्टाश्चित्रिता या ॥२७॥ धर्मो नष्टोभवद्भूम्यामिति सर्वे प्रचुक्रुशुः॥ दाशरथ्यांध्रपूर्णायौँ गोविंदकुरुकेश्वरौ ॥२८॥ एते प्रधानास्तत्रासंश्चत्वारः सर्वकर्मणि ॥ तस्य पुत्राभिमानत्वात्कुरुकेशो "जगद्वरोः ॥२९॥ यानि कृत्यानि कार्याणि संचकार यथाविधि ॥ सम्यक् चरमकैकयं यतींद्रस्य जगद्गुरोः॥३०॥यथैव यामुनार्यस्य तथैवाभूत्सुविस्तरम् ॥ गोविदार्यों यातिश्रेष्ठो लक्ष्मणार्यपदाश्रयः ॥३१॥ यतीन्द्रानंतरं धीमान रंगिपुत्रेण धीमता ॥ श्रीपराशरभट्टेन कंचित्कालं महात्मना ॥ ३२ ॥ रामानुजार्यमिद्धांतं वर्तयामास भूतले ॥ ततोसहिष्णुर्विश्लेपं यतींद्रस्य जगद्गुरोः ॥३३॥ गोविंदार्यों जगामाशु तद्विष्णोः परमं पदम् । तदा चरमकैकर्य स्वगुरोर्भट्टदे- शिकः ॥ ३४॥ यथाविधि यथाशास्त्रं चकार स महायशाः ॥ ततो रंगिसुतः श्रीमान् भट्टार्यः शास्त्रवित्तमः ॥३५॥ रामानुजार्यसि- अध्यायः ६९, (२२१) द्धांतं वर्धयन्सकलावनौ ॥ अवसद्गनगरे विद्वद्भिर्वैष्णवोत्तमैः॥३६॥ श्रीरंगेश्वरसन्निधौ यतिपतेः सिद्धांतमव्याहतं शिष्येभ्यो ह्यतुलं महार्थ- निचयं तेभ्योनिशं बोधयन् ॥ विख्यातामलकीतिराशिरतुलो रंगा- धिपांगोद्भवः संरेजे यतिराजवदृढतरं चासेतुशीताचलम् ॥ ३७॥इति श्रीप्रपन्नामृते रामानुजचरित्रे रामानुजांतानं नामाष्टपरितमोऽ- ध्यायः॥ ६८॥ एकोनसप्ततितमोऽध्यायः। आश्रिताखिलमंदारो भाष्यकारो महायशाः॥ अस्यां भूम्यां शेपि- तव्यानर्थान्साधनरूपकान् ॥ १॥तेपांविरोधिभागांश्च लोकोन्जीवनहे- तुना । सम्यक निरूप्य सुस्पष्टं तदर्थप्रतिपादकान् ॥२॥ अधिका- रानुगुण्येन त्रीन्ग्रंथान्व्याजहार सः ॥ वेदांतसारखेदांतदीपवेदार्थसं- ग्रहान् ॥ ३ ॥ तेषां विवरणं चके श्रीभाष्यं यतिपुंगवः ॥ श्रीशां- विभक्तिस्तत्रोक्ता तदुर्लभतरं त्विति॥४॥ ततो गद्यत्रयं चके प्रपत्ति- प्रतिपादकम् ॥ तेपामनधिकाराणां प्रपत्त्या स्वांधिपंकजम् ॥ ५ ॥ हितं सम्यक्प्रदाथ कृतकृत्यो यतीश्वरः ॥ लीलाविभूति संत्यज्य नित्यां संप्राप्य सत्वरम् ॥६॥ अथ कूरेशजः श्रीमान् श्रीरंगेश- पुरोहितः॥ रंगेशकृपया तस्य गोविंदाय॑स्य धीमतः ॥७॥वे- दांतद्वयमभ्यस्य सन्निधौ निखिलं जवात ॥ दर्शनस्थितिनिर्वाहं स धीरो विदधे तथा ॥ ८॥ दिव्यदेशचरः कश्चिद्राह्मणो विबुधप्रि- यः ॥, दिव्यदेशांश्चरित्वाथ यादवाचलमाविशत् ॥ ९ ॥ तत्र सं- पत्सुतं नत्वा तस्माच्छोरंगमभ्यगात् ॥ श्रीरंगे प्राप्य रंगेशं भत्त्या नत्वा श्रियः पतिम् ॥ १०॥ स तत्र भोजनं चके कूरेशात्मज- समनि ॥ तं भुक्तवंतं विश्रांतं दृष्ट्वा ब्राह्मणपुंगवम् ॥ ११ ॥ श्रीप- राशरभट्टार्यः प्रोवाचेदं वचस्तदा । द्विजाय किं निमित्तं त्वं कस्माद्दे- शात्समागतः ॥ १२॥ केके देशास्त्वया दृष्टाः तेपुतेषु विपश्चितः ॥

(२२२) प्रपन्नामृते- येये निखिलतत्त्वार्थपारगा विश्रुता भुवि ॥ १३ ॥ तांस्तान्मे ब्रूहि याथार्थ्यं मह्यं शुश्रूपवे द्विज ॥ एवमुक्तः स गुरुणा ब्राह्मणः शास्त्रवे- दिना ॥ १४ ॥ प्रोवाच वचनं धीमान्भट्टार्य भगवत्प्रियम् ॥ देशाः सर्वे मया दृष्टा विद्वांसस्तत्रतत्र च ॥१५॥ विद्वान्पश्चिमदिग्भागे कश्चिच्छ्रीरंगपट्टणे ॥ वेदांतिनामा विख्यातः सर्वज्ञो वर्त्तते महान् ॥ ॥१६॥ निर्जित्य पण्मताञ्छास्त्रवादेन विबुधागणीः ॥ जयत्य- व्याहतैश्वर्यो लोकेप्रतिमवैभवः ॥ १७ ॥ तं दृष्ट्वा तेन संभाष्य माया- वादिविपश्चिता ॥ भवंतं द्रष्टुकामोहं तस्माद्देशात्समागतः ॥ १८॥ पुनस्तत्रैव गच्छामि संपत्पुत्रदिदृक्षया । इत्युक्त्वा विबुधश्रेष्ठं भट्टार्य स द्विजोत्तमः ॥ १९॥ पुनः पश्चिमदिग्भागे गत्वा श्रीरंगपट्टणम् ॥ वेदांतिनं समाभाष्य भट्टार्य्यस्य विपश्चितः ॥२०॥ वृत्तांत सनिवे- द्याशु श्रीरंगे पुनरागतः।।श्रीवत्सचिह्नतनयं नत्वेदं वाक्यत्रवीत् ॥२१॥ श्रीपराशरभट्टार्य श्रीरंगात्पश्चिमां दिशम् ।। संप्रेपितस्त्वया पूर्व गतवा- बंगपट्टणम् ॥ २२ ॥ वेदांतिनमिदं वाक्यं मयोक्तं गतसाध्वसम् ॥ वेदांतिन् रंगनगरे भट्टार्य इति विश्रुतः ॥ २३ ॥ श्रीवत्सचिह्नतन- यः श्रीरंगेशपुरोहितः ॥ सर्वशास्त्रार्थतत्त्वज्ञो वर्तते वैष्णवाग्रणी॥२४॥ कश्चिद्विपश्चितां श्रेष्ठो वादिमत्तेमकेशरी ॥ तत्प्रतीकाशविबुधो न क- श्चिद्भुवि वर्तते ॥२५॥ तस्य भीति समुत्पाद्य वाक्येनान्येनमायिनः।। तद्वक्तुं भवतोबाशु त्वत्समीपं गतोस्म्यहम् ॥ २६ ॥ प्रतिगृह्याशु तद्वाक्यं द्विजस्य विबुधाग्रणीः ॥ इयेप जेतुं भट्टार्य्यस्तदा वेदांतिनं जवात् ॥ २७ ॥ हरिप्रभावानुभवरूपो दिव्यप्रबंधकः॥ परकालेन यो नीतो दिव्यद्राविडभाषया ॥ २८॥ वेदांती स मया विद्वान जे- तव्यस्तेन सांप्रतम् ॥ इत्यालोच्य स भट्टायों रंगनायकन्निधौ॥२९॥ संप्राप्य तस्मै तत्सर्वं चक्रे विज्ञापनं तदा ॥ विद्वत्पश्चिमदिग्भागे क- श्चिदस्त्यधुना हरे॥३०॥ जित्ला त स्ववशीकृत्य भूयोहं समुपागतः।।

अध्यायः ७०. (२२३ अंगीकृत्य ततस्तस्य तद्विज्ञापनमादरात् ॥ ३१ ॥रंगराजः प्रहप्ता- त्मा भट्टार्याय विपश्चिते ॥ रम्यामांदोलिकां छत्रं पताकाध्वजचामरान ॥ ३२॥ शंख भेर्यादिवाद्यानि वेत्रहस्तधरान्भटान ॥ दत्त्वा प्रस्था- पयामास कृपया जगदीश्वरः ॥ ३३ ॥ संप्रेपितस्तदा तेन भट्टार्यो रंगिणो जवात् ॥ महता वैभवेनैव प्रतस्थे पश्चिमां दिशम् ॥ ३४ ॥ तं जेतुकामोऽखिलभक्तसंधैवेदांतिनं मायिमताग्रगण्यम् ॥ भट्टारको लक्ष्मणदेशिकेंद्रदिव्याज्ञया धीरतया प्रतस्थे॥ ३५ ॥ इति श्रीप्र- पन्नामृते भट्टार्यविजये वेदांतिवृत्तिकथनं नामैकोनसप्ततितमोऽ- ध्यायः ॥ ६९॥ सप्ततितमोध्यायः। श्रीरंगाच्छिष्यसंघेन भट्टार्यों रंगिशासनात् ॥ वेदांतिग्रहणाय प्रतस्थे यादवाचलम् ॥ १॥ वेदांतिनगरोपांते यदा संप्राप सत्वरम् ॥ तदा जवाहिजः कश्चिन्निर्गत्य नगराद्वहिः॥ २ ॥ ज्ञात्वा भहार्यवृ- त्तांत भट्टार्यमिदमब्रवीत ॥ न स दृश्यस्त्वयानेन वैभवेन महोच्छ्य ॥३॥ सत्राशिभिर्द्विजैः साई गतश्चेत्तद्गृहं प्रति ॥ सह संभापितं तेन समयो नान्यथा तव ॥ ४ ॥ तथेति प्रतिगृह्याशु भट्टार्य्यस्तद्वचः शुभम् ॥ गतः सत्राशिवेपेण तैर्द्विजैस्तद्गृहं प्रति ॥ ५॥ वेदांतिनं समालोक्य वादभिक्षामयाचत ॥ वेदांतिन् भवता साई वादभि- क्षार्थमागतः ॥ ६॥ श्रीमत्त्वाद्भवता तस्य वेषेणानेन सांप्रतम् ॥ निशम्य तद्वचस्तस्य धीमान्मायिमताग्रणीः ॥ ७ ॥ भहार्यों- यमिति ज्ञात्वा नान्यो भवितुमर्हति ॥ तं प्राह वचनं धीमान्भट्टार्य भगवत्प्रियम् ॥ ८॥भट्टार्यों वा भवानार्य नान्यः स्थातुं मदंतिके ॥ शक्तः कुत्रापि लोकेस्मिन्विबुधस्त्वहते ततः ॥ ९ ॥ भट्टार्य- स्य प्रभावस्तु विदितो ब्राह्मणेन मे ॥ तस्य तद्वाक्यमाकर्ण्य भट्टार्य- (२२४) प्रपन्नामृते- स्तमथाब्रवीत् ॥ १०॥ अहमेव हि भट्टार्य्यः कूरनाथतनूद्भवः ॥ तेन वाक्येन संतुष्टः स विद्वान्भट्टदेशिकम् ॥ ११॥ व्याजहार शुभं वाक्यं श्रीरंगेशपुरोहितम् ॥ तव संदर्शनात्स्वामिन्वैष्णवो विदितो मया ॥१२॥ व्याचप्टे रूपमेवास्य महिमानं न संशयः॥ इत्युक्त्वा सहसो- त्थाय तं प्रणम्य कृतांजलिः॥ १३॥ पूजाहै पूजयित्वाशु कूरेशात्म- जमब्रवीत् ॥ भवान् धनतरप्राज्ञः तत्त्वज्ञस्तत्त्वतो भुवि॥१४॥ तत्त्वां- शं सम्यगार्याद्य ब्रूहि नः करुणाकर ॥ इत्युक्तस्तेन भट्टार्यः संतुष्टः कृपया हरेः ॥ १५॥ श्रीभाष्यार्थमुपन्यस्य सम्यग्वेदांतिने मुदा ॥ तत्त्वार्थ सम्यगेवात्र प्रोवाच कृपया गुरुः॥१६॥ भट्टाचार्योक्तवाक्येन तेन विच्छिन्नसंशयः ॥ अगमत्तस्य वेदांती शिष्यत्वं बुधसन्निधौ ॥ १७॥ विलोक्य विस्मयं गत्वा भट्टार्य्यस्तमथाब्रवीत् ॥ वेदांति- न रंगराजस्य करुणा विद्यते त्वयि ॥ १८॥ कदाचिदपि ते नास्ति न्यूनतेह परत्र च ॥ रंगराजदयापात्रं भवान्भवति सांप्रतम् ॥ १९॥ श्रीवैष्णवोत्तमो भूत्वा लोके ख्याति गमिष्यति॥ निवत्स्यति चिरं व- त्स विशिष्टाद्वैतपालकः॥२०॥ ततो वेदांतिनः सम्यक् कृत्वा संस्का- रपंचकम् ॥ चिदचिद्विग्रहं ब्रह्म जगतः कारणं परम् ॥२१ ॥ सर्ववेदां- तशास्त्रेषु तदेव प्रतिपादितम् ॥ स एव भगवान्विष्णुहरिनारायणोव्ययः ॥२२॥ लक्ष्मीशः पुंडरीकाक्षो ब्रह्मरुद्रादिदैवतः॥अनीश्वरो जगत्क- ी चतुर्वर्गफलप्रदः ॥ २३ ॥ यत्तद्भगवतो दास्यमात्मोज्जीवनका रणम् । इत्येवमुपदिस्याथ तस्मै वेदांतिने तदा ॥ २४ ॥ तस्य माधवदासेति नाम चक्रे दयानिधिः॥ भार्य्यस्तेन शिष्येण गुरु: सम्यकृताहणः॥२५॥ संतुष्टः प्रेपितो रंगं पुनरायान्महायशाः॥ स रंग प्राप्य रंगेशचरणांबुरुहद्वयम् ॥ २६॥ सम्यक् प्रणम्य भट्टार्य यत्तच्छ्रीरंगशायिने ॥ हरये सर्ववृत्तांतं तस्मै विज्ञाप्य सादरम ॥ २७ ॥ संप्रहृष्टः परिजनैः प्रविवेश स्वमालयम् ॥ २८ ॥ निर्जित्य - अध्यायः ७१. (२२५) रंगेशकृपाबलेन वेदांतिनं मायिमताग्रगण्यम्॥ वशिष्यभूतं सहसा विधाय भूयोभ्यगाद्गमथाध्युवास ॥२९॥ इति श्रीप्रपन्नामृते भट्टा, यविजयो नाम सप्ततितमोऽध्यायः॥ ७० ॥ एकसप्ततितमोऽध्यायः। तथा माधवदासाख्यो हरिभक्तिपरायणः॥संजातज्ञानवैराग्यो मन- स्येवमचिंतयत् ॥ १॥ सोहं मायिमते चास्मिंस्ताहग्भूतजनैर्वृतः ॥ कथं वत्स्यामि भट्टार्यचरणांवुरुहाश्रयः ॥२॥ इति मत्वा धनं सव त्रिभागं संविभज्य तत् ॥ द्वौ भागौ स्वजने दत्त्वा त्यक्तसंसार- बन्धनः॥३॥ भागावशेषमादाय वेदांती सुमहद्धनम् ॥ सहसा रंगमासाद्य निवेद्य गुरखे धनम् ॥ ४॥ तुर्याश्रमं समासाद्य गुरुणा- नुमतस्तदा ॥ प्रणम्य बहुधा भक्त्या पार्श्वे तस्थौ कृतांजलिः॥५॥ तमंतेवासिनं दृष्ट्वा भट्टार्यश्छिन्नसंशयः ॥ करुणापूर्णहृदयः श्रीरंगे- श्वरशासनात् ॥६॥ अस्मद्यतिरिति प्रोच्य तं तदा परिपस्वजे ॥ तत्तस्माद्यतिनामाभूत्तेन वेदांतिनो महत् ॥७॥ विद्वान्माधवदासाख्यो भट्टार्य गुरुपुंगवम् ॥ भूयः प्रणम्य बहुधा, चक्रे विज्ञापनं तदा ॥८॥ शरीरमर्थ प्राणं च सद्गुरुभ्यो निवेदयेत् ॥ इत्युक्तेन प्रकारेण भट्टार्य गुरुसत्तम ॥ ९॥ मम सर्वमिदं स्वामिस्त्वदधीनं कृतं मया ॥ रक्ष मां कृपया दीनं त्वत्पादांबुजपटूपदम् ॥ १०॥ तेन वाक्येन संतुष्टः स भट्टः शिष्यवत्सलः ॥ तां मह्यं यतये सर्व द्राविडाम्नायसंपदम ॥११॥ रहस्यसंप्रदायार्थान्छास्त्रमार्गाविरोधतः॥चरमार्थ चोपदिश्य चक्रे श्रीवैष्णवोत्तमम्॥१२॥लब्धसर्वार्थतत्त्वज्ञःश्रीमन्माधवदासकः।। श्रीवैष्णववरोरेजेशरच्चंद्र इवामलः॥१शासभक्तदेशिको धीमान्सर्वशा- स्त्रविशारदः संसारत्यक्तसाराणांमुमुक्षूणां महात्मनाम्॥१॥कालक्षे- पार्थसिध्यर्थं चकारग्रंथपंचकम् ॥सहस्त्रनामभाष्यं च विष्णुपूजाक्रम महान् ॥ १५॥ अष्टश्लोकी तथा श्रीशस्तवं चानुत्तमं महान् ॥ महांत (२२६) प्रपन्नामृते- रत्नकोशाख्यं स्तवं श्रीगुणपूर्वकम् ॥ १६॥ ततो भट्टारको धीमा- कृतकृत्यो महायशाः ॥ वेदांतिनं समालोक्य गुरुभक्तिपरा- यणम् ॥ १७ ॥ यातुकामोथ वैकुंठं रहस्येवमभापत ॥ वेदांतिञ् शृणु मद्वाक्यं समाहितमनाः परम् ॥ १८ ॥ सर्वशास्त्राण्यधीतानि वेदांतान्यखिलानि च ॥ मया दत्ता बहुद्रव्यं गुरवे गुरुदक्षिणा॥१९॥ श्रीवत्सचिह्नतनयं श्रीरंगेशपुरोहितम् ॥ सर्वशास्त्रार्थतत्त्वज्ञं भट्टाये मां समाश्रितः ॥२०॥ इति मत्वार्य गर्वेण मा वर्तस्व कदाचन ॥ तदेव रक्षकं मत्वा मन्नाथपदपंकजम् ॥ २१॥ वर्तस्व सततं विद्न्स- त्यसत्यं मयोदितम् ॥ प्रीत्यर्थ लोकरक्षार्थ शठजिद्यतिराजयोः ॥२२॥ सहस्रगीताख्यानं कुरु द्राविडभापया ॥ यतींद्वशासन त्पूर्व कुरुकेशो महायशाः ॥२३॥ सहस्रगीतेाख्यानं लोकरक्ष र्थमादरात् ॥ पभिः सहनैवेदांतिन् ग्रंथैराधमनुत्तमम् ॥ २४ ॥ विधायास्मत्कुलगुरुं भाष्यकारमतोपयत् ॥ त्वमद्य नवसाहस्रग्रंथसं- ख्याविराजितम् ॥ २५ ॥ सहस्रगीतेाख्यानं विधेहि मम शास नात् । तद्राविडप्रवचनं कुरु लोकेषु संततम् ॥ २६ ॥ अस्मद्रामा नुजाचार्य्यमतसिद्धांतवर्द्धकः ॥ निवत्स्यति भवान् रंगे बहुकालं न संशयः ॥२७॥ निशम्य तद्वाक्यमतिप्रहृष्टः सत्यं प्रियं मोक्षपदैक- हेतुम् ॥ ओमित्यलं माधवदासनामा ननाम भट्टारकमायंवर्यम् ।। ॥२८॥ भट्टारको विष्णुमताधिराज्ये वेदांतिनं तं प्रणिधाय धीरम् ।। आचार्यसेवैकरतो महात्मा चकार वैकुंठगतां स्वबुद्धिम् ॥ २९ ॥ इति प्रपन्नामृते वेदांतिने निखिलाथोंपदेशो नामैकसप्ततितमोऽ- ध्यायः॥७१॥ द्विसप्ततितमोऽध्यायः। श्रीपराशरभट्टाढेिदांती गुरुपुंगवात् ॥ विदित्वाखिलतत्त्वार्थ प्रणिपत्येदमब्रवीत् ॥ १ ॥ भवतः कृपया स्वामिन् मया तत्त्वार्थसं- अध्यायः ७२. (२२७) पदः ॥ संप्राप्तास्तेन चाद्याहं कृतार्थोस्मि न संशयः ॥२॥ इदानी श्रोतुमिच्छामि प्रभावं दिव्यमरिणाम् ॥ एपा प्रभावश्रवणान्मानस निश्चलं भवेत् ॥३॥ देशान्समस्तान्सत्यज्य शठकोपादयश्च ते ॥ किमर्थ द्राविडे देशे झवतीर्णा महात्मकाः ॥ ४ ॥ देवभापां परि- त्यज्य कथं द्राविडभापया ॥ चक्रुः प्रबंधान्सकलान्किमर्थं दिव्यमू- रयः॥५॥संस्कृतादपि लोकस्मिन्द्राविडस्य गुरूत्तम ॥ उद्देश्यता कथमभूत्कारणं ब्रूहि मे गुरो ॥ ६॥ अधिकारोस्ति मे स्वामिन्नतेपा श्रवणे यदि ॥ शिष्याय ब्रूहि विशदं कृपा माय तवास्ति चेत् ॥ ७॥ अंगीकृत्य वचस्तस्य कृपया भट्टदेशिकः ।। यदिव्यसृरिचारतं प्रवक्तु- मुपचक्रमे।।८॥ वेदांतिञ् शृणु वक्ष्यामि चरितं दिव्ययोगिनाम् ॥ एपां श्रवणमात्रेण महापातकनाशनम्॥ ९॥ पुरा कैलासशिखरे पार्वत्याः शंकरस्य च ॥ सर्वलोकोत्सवः श्रीमान्विवाहः सुमहानभूत् ॥१०॥ त्रिलोकवासिनः सर्वे ब्रह्मायाश्चाखिलाः सुराः ॥ तद्विवाहोत्सवं द्रष्टुं कैलासं युगपद्ताः ॥११॥ त्रिलोकवासिभिः सर्वैर्मुनिभिर्देवतागणैः ॥ कैलासपर्वतश्चान्यनिबिडं समपूर्यत ॥ १२॥ नौरिवावस्थिता भूमि- धिस्तात्सुमहाजले ॥ सा भूमिरुत्पपातोर्ध्व भाराभावाच्च दक्षिणे ।। ॥१३॥ उत्तरे सुमहाभारात्साधस्तात्पतनोद्यता ॥ तां दृष्ट्वा निखिला देवा भयार्ता मुनयस्तदा ॥ १४ ॥ संभ्रांतहृदयास्तत्र सर्वं मूढा इव स्थिताः ॥ विश्वकर्मात्रवोद्वाक्यं देवानिंद्रपुरोगमान् ॥ १५ ॥ भयं त्यजत भद्रं वो भो देवा मुनयः सुराः ॥ उपायं संप्रवक्ष्यामि सांप्रतं शृणुतादरात् ।। १६॥ अगस्त्यो भगवानव वर्तते किल योगिराट् ।। त्रयो लोकाश्चैकभाग एकभागे स एव हि ॥१७॥ अद्य'दक्षिणदिग्भागे सोगस्त्यो वर्तते यदि।। पूर्ववत्पृथिवी तत्र समानस्था न संशयः॥१८॥ विश्वकर्मवचः श्रुत्वा संतुष्टाः सर्वदेवताः।। अगस्त्यं प्रार्थयामासुलोक- रक्षार्थमादरात् ॥ १९ ॥ अगस्त्यः कुपितो वीक्ष्य विश्वकर्माणम- । ( २३०) प्रपन्नामृते- नारा०॥५१॥ इत्येवं बहुशः स्तुत्वा कुंभयोनिः श्रियः पतिम् ॥ प्रणम्योत्थाय संतुष्टः कृतांजलिरुपस्थितः ॥५२॥ अगस्त्येन कृतं स्तोत्रं पठत्यनुदिनं नरः ॥ स सर्वपापनिर्मुक्तः ब्रह्मलोके महीयते ॥ ॥५३ ।। इति श्रीप्रपन्नामृते भट्टार्यवेदान्तिसंवादे अगस्त्यविश्वक मणोरन्योन्यशापावातिर्नाम द्विसप्ततितमोऽध्यायः ॥ ७२ ।। त्रिसप्ततितमोऽध्यायः। संतुष्टस्तेनतपसा भगवान्विष्णरव्ययः॥ मंदास्मितमुखःश्रीमानिदं वचनमब्रवीत् ॥ १ ॥ तपसा तव तुष्टोस्मि स्तोत्रेणानेन सत्तम । नाशयाम्याशु ते दुःखं त्वष्टुः शापसमुद्भवम् ॥ २ ॥ अहं द्राविडदे शेस्मिन्नवतारं करोमि तम् ॥ येनावतारेण मया लोके शिष्टपरि- ग्रहाः॥३॥ सर्वत्र द्राविडी भापा भविष्यति न संशयः ॥ शंखन चक्राद्यायुधानि विष्वक्सेनादिकान्सुरान् ॥ ४ ॥ यिष्यामि द्राविडें कलशोद्भव ॥ ताम्रपर्णीनदीतीरे कुरुकानगरे वरे ॥ ॥ ५ ॥ सद्भक्तोहं भविष्यामि नेतुं द्राविडतां श्रुतिम् ॥ मया मदंशजैः सर्वैर्दशभिविडोत्तमैः ॥ ६ ॥ चतुष्टयसहस्राणि प्रबं; धास्तैर्महात्मकैः ॥ क्रियतेखिलवेदार्था दिव्यद्राविडभापया ॥७॥ तेषु दिव्यप्रबंधेषु द्राविडेषु वटोद्भव ॥ यस्य कस्य भवेद्भक्ति स मुक्तो नात्र संशयः ॥ ८॥ सहस्रंगीतिस्तत्रापि शठकोपेन या कृता ॥ तस्याः श्रवणमात्रेण ब्रह्मलोके महीयते ॥९॥ सहस्रगीतिर्या दिव्या द्राविडी ब्रह्मसंहिता ॥ यस्य कस्य मुनेः सम्यक शरीरे धार्यतेनघ ।॥ १० ॥ तस्य तदर्शनादेव पापात्मा स्याच मुक्ति भाक् ॥ सहस्रगीतिपठनत्सिंतुष्टोस्मि न संशयः ॥ ११॥ अतः कलियुगे ब्रह्मन् सा गीतिः प्रचरिष्यति ॥ तेन सर्वे च मनुजाः प्रवं- घाध्ययनेन ते ॥ १२॥ अगस्त्याशु गमिष्यति मल्लोकं नात्र संशयः।। चराचराभ्यां रूपाभ्यां मुत्त्यर्थ सर्वदेहिनाम् ॥ १३॥ प्रसन्नो द्राविडे. लोकेवतार- अध्यायः ७३. (२३३) देशे सर्वत्र निवसाम्यहम् ।। सर्वभाषाधिका भापा द्राविडी सा भवि- प्यति ॥ १४ ॥ प्रचरिष्यांत लोकेषु वेदार्थाः सर्व एव हि ॥ गूढार्थाश्च कलौ सम्यक्तया द्राविडभापया॥ १६॥ चतुर्वेदधरो विप्रः सर्वशास्त्र- विशारदः ॥ द्वयार्थैकरतो वापि मंत्रराजार्थकोविदः ॥१६॥ अमानि- त्वादिगुणकः चरमोपायवेद्यपि ।। दिव्यप्रबंधहीनश्चेन्मद्भक्तो न भवि- प्यति ॥ १७॥ वेदवेदांतशास्त्रार्थसारज्ञस्यापि तस्य हि ॥ दिव्यप्रबं- धहीनस्य वैष्णवत्वं न लभ्यते ॥ १८॥ जातकर्मादिसंस्कारैर्बाह्मण्यं चाग्रजन्मनः ॥ यथा भवति लोकेस्मिन्यवेदाध्ययनेन च ।। १९ ॥ द्राविडाम्नायपठनैः संस्कारैः पञ्चभिर्मने ॥ आचार्य्यसेवया तस्य वैष्णवत्वं भविष्यति ॥२०॥ अतो द्राविडवेदांतरहितस्य कदाचन ॥ नास्ति निःश्रेयसं वत्स सत्यंसत्यं मयोदितम् ॥ २१॥ इत्येवं कारयि; •त्वाशु स्वमतस्थापनं अवि।।अहं व्यपनयिष्यामि त्वगुःखं नात्र संशयः ॥२२॥ययातिशापदग्धस्य पालितं यद्यदोःकुलम्||गंगाधिका च कावे- री यथाभून्मत्प्रसादतः॥२३॥ तथैव द्राविडीभापालोके ख्याति गमि- प्यति।।वैकुंठवासिनः सर्वे सूरयस्ते मदाज्ञया॥२४॥दाविडेषु समुत्पन्ना सर्वशास्त्रविशारदाः॥ द्राविडाम्नायनिरतास्तया द्राविडभापया ॥२५॥ प्रपत्तिमार्ग सर्वेभ्यश्चोपदिश्य दयालवः ॥, परोपकारनिरताः भविष्यति कलौ युगे ।।२६।। दृष्टपूर्वोयमों हि पुराणेष्वखिलेषु च ।। तस्मादगस्त्य मा शोकं कुरु ब्रह्मविदां वर ॥ २७ ॥ ब्रह्मांडनामके तस्मिन्पुराणे मुनिसत्तम ।। ब्राह्मे पुराणे कुरुकामाहात्म्ये कलशोद्भव ॥२८॥ श्रीमद्भागवते चैव वृद्धपाझे तथैव च ॥ अन्येष्वपि पुराणेषु भविष्यद्भार्गवादिषु ॥ २९॥ ततोस्मिन् भारत वर्षे घटोद्भव कलौ युगे ।। कृतादिमनुजाः सर्वे भविष्यति च भूरिशः ॥३०॥ मच्छास्त्र- निरताः सर्वे ते मदेकपरायणाः ॥ प्रपत्तिधर्मनिरताः मामुपैष्यंति निश्चयम् ॥ ३३ ॥ एवमुक्त्वा तदागस्त्यं लक्ष्मीशः करुणानिधिः ।।

(२२८) प्रपन्नामृते- ब्रवीत् ॥ चिरात्संद्रएकामोहमुमाकल्याणमुत्तमम् ॥ २० ॥ तस्य विघ्नस्त्वया मूढ पापिनावसरे कृतः ॥ निकृष्टस्तेन दोपेण भविष्यति भवान् ध्रुवम् ॥२१ ॥ युष्मदीयाश्च ये लोके युष्मकर्मरता नराः॥ ते निकृष्टा भविष्यंति मच्छापानात्र संशयः ॥२२॥ते चैवाधर्म- फर्माणो भविष्यंत्यल्पचेतनाः ॥ रोपाभिवेशताम्राक्षः प्रलयानिखि ज्वलन् ॥ २३ ॥ शशाप तं बहुविधं त्वष्टारं कुंभसंभवः ॥ तच्छुत्वा वचनं तस्य रुटस्त्वष्टा शशाप तम् ।। २४ ॥ पश्यतां सर्वदेवानाम- गस्त्यममितौजसम् ॥ अयप्रभृति लोकेषु द्राविडी या त्वया कृता ॥ २५ ॥ पैशाचतुल्या सा भापा भविष्यति न संशयः ॥ युष्मत्कृतं व्याकरण भविष्यत्यतिगर्हितम् ॥ २६ ॥ ब्रह्मक्षत्रविशा लोके म्लेच्छभापादिवढुवम् ॥ शूद्रजातिव्याकरणं भवि- प्यत्यतिगर्हितम् ॥२७॥ सत्यं द्राविडदेशस्तु चोरदेशो भविष्यति ॥ अतः स देशो मच्छापादब्रह्मण्यकृतालयः ॥२८ ॥ युष्मदीयाखिले लोके द्राविडा मंदबुद्धयः॥ मायाविनश्च पिशुनाः भविष्यति कलि- प्रियाः॥२९॥ एवं बहुविध त्वष्टा तमगस्त्यं शशाप ह ॥ तेनासी- कलहस्तत्र तयोः शैले महत्तरः ॥ ३० ॥ तं निवाखिला देवा- स्तयोः कलहमाशु ते ॥ अगस्त्यं प्रार्थयामासुः याम्याशागमनं प्रति ॥३१॥ अलंघनीयं देवानामंगीकृत्य वचः शुभम् ॥ अगस्त्यो न्यवसत्तत्र दिशि व्याकुलमानसः॥ ३२॥ भूमिः स्थिता यथापूर्व तत्कल्याणमवर्तत ॥ स खिन्नहृदयस्तत्र तेन शापेन दुष्करम्॥३३॥ अगस्त्यो विष्णुमुदिश्य तताप परमं तपः ॥वाणां दशसाहस्रं निरा- हारो महामनाः ॥ ३४॥ संतुष्टस्तेन तपसा भगवान्विष्णुरव्ययः॥ प्रसन्नस्तमपिं प्राह वरदो भक्तवत्सलः ॥ ३५॥ वरदोस्मि वरं दातुं तवाहमधुनागतः॥ यथेष्टं वृणु निःशंकं कलशोद्भव सांप्रतम् ॥३६॥ श्रीहरेर्वाक्यमाकर्ण्य कुंभयोनिः प्रणम्य तम् ॥ बद्धांजलिपुटो भूत्वा स्तोत्रयामास केशवम् ॥३७॥ नमोनमः कारणकारणाय निष्कारणा- अध्यायः ७२. (२२९) याद्भुतकारणाय ॥ नमोनमस्तेखिलसत्त्वधामन् नमोनमस्ते जलजा- तनेत्र ॥ ३८॥ वेदांतवेद्याय महाविपश्चिते जगज्जनित्रे निखिलांतरा- त्मने ॥ अणोरणीयश्चतिवेदितात्मने गुहाशयायाखिललोकसाक्षिणे ॥३९॥ विज्ञानतत्त्वविदुपे विविधागमांतवेद्याय वेदपुरुपाय विधी- शपाय ॥ विद्याधरप्रियधराय विहंगराजारूढाय गूढचरणाय नमः परस्मै ॥ ४० ॥नंदात्मजाद्यपुरुपाखिललोकनाथ नालीकसम जन- कार्यमनोजभृङ्गः॥ नव्यांबुजाक्ष नवनीतहराप्रमेय नारायणाखिलगुरो भगवन्नमस्ते ॥४१॥श्रीकेशवाय पुरुपोत्तम पूर्णकाम मत्स्यावतार निगमोदर भो मुरारे ॥ लोकेशसन्नुत हयास्य जगन्निवास नारायणा- खिलगुरोभगवन्नमस्तेष्टरनारायणाच्युत मुकुंद सुरेश विष्णो श्रीमंदरा- द्रिवहनाद्भुतकूर्मरूप ॥ श्रीसिंधुजारमण देव जगद्धितार्य नारा० ॥ ॥४३॥ श्रीमाधवेशनुत मन्मथतात विष्णो वाराहरूप वसुधोद्धर- णाप्रमेय ॥ हैरण्यनेत्रदमनोज्ज्वल यज्ञमूर्ते नारा० ॥ ४४ ॥ गोविंद चिन्मय मनोमय गोपरूप प्रहादरक्षक महाद्भुतनारसिंह ॥ सम्य नखाग्रदलितासुरराजवो नारा० ॥ ४५ ॥ विष्णोप्रमेय महिमार्णव देवदेव विख्यातसुंदरवयो बालबंधदक्ष ॥ इंद्रानुजार्यजनवंदित विश्व- .रूप नारा०॥४६॥ श्रीमन्मुकुंद मधुसूदन मानवेंद्रवंशाटवीदहन भार्गव राम विष्णो ॥ शक्रोग्रगर्वहरणाद्भुतवीर्यशौर्य नारा० ॥ ॥४७॥ स्वामिस्त्रिविक्रम रघूत्तम सेतुनाथ भो रावणांतक हरेऽप्रति: मप्रभाव । सीतापते निखिललोकविमोहितांग नारा० ॥ १८ ॥ श्रीवामनाद्भुतचरित्र फणीश विष्णो श्रीरेवतीरमण भो बलभद्र राम॥ श्रीरोहिणीतनय पालितसर्वलोक नारा० ॥४९॥ हे श्रीधराद्भुतचरित्र यदूत्तमोग्र कंसांतकार्यजनतामरकल्पभूज ॥ श्रीगोपिकारमण फाल्गुन- सूत कृष्ण नाराय॥५०॥श्रीपद्मनाभ परमात्मक पालितार्य कल्किन प्रभो कलिविभंजन वाजिवत्र ॥ म्लेच्छांतकादियुगधर्मरतैकतान (२३२) प्रपन्नामृते- अगस्त्याय वरं दत्त्वा दुर्घटं जगदीश्वरः ॥३२॥ तोपयित्वा मुनिश्रेष्टं तत्रैवांतर्दधे हरिः ॥ अगस्त्यः स्वाश्रमं प्राप्य संतुष्टः कृपया हरेः ॥३३॥ कृतकृत्यो महातेजास्तस्थौ हरिपरायणः ॥ ततोव्याहतसं- कल्पो भगवाजगदीश्वरः ॥ ३४॥ लक्ष्मीशः पुंडरीकाक्षो भक्ताधीनो द्यार्णवः ॥ लोकवतारयामास दिव्यमुन्मिहौजसः ॥३६॥ विष्ण- क्सेनादिकान्सञ्जिगत्संरक्षणाय च ॥ आज्ञापितास्ततस्तेन हरिणा नित्यसूरयः ॥ ३६॥ वैकुंठाद्भुवमासाद्य नानावर्णेषु वैष्णवाः ॥ सुपु- ण्ये द्राविडे देशे झवतीर्य महौजसः ॥३७॥ सबै वेदांतसारार्थान्गूढा- न द्राविडभापया ।। चतुःसहस्रगाथाभिर्वितत्य पृथिवीतले ॥३८॥ सर्वाधिकारं कृत्वाशे कृतकृत्या हरिं गताः।।तन्मध्ये सुमहातेजाः शठ- कोपो महामुनिः॥३९॥ प्रपन्नजनकूटस्थस्तेनेदं रक्षितं मतम् ॥ नाथा- दिदेशिकाः केचिदवतीर्णास्ततोभुवि॥४०॥तैरयं विष्णुसिद्धान्तो वेदां- तिन् परिपालितः ॥ ततः शेपावतारेण यतीन्द्रेण महात्मना ॥४१॥ रामानुजार्यवर्येण जगतां गुरुणानघ। एतद्वैष्णवसिद्धांत दिव्यमव्याह- तं महत् ॥४२॥ सेतुसीताद्रिपर्यंतं भूम्यां सम्यक्प्रकाशितम् ॥ युष्म- प्रभृतिविद्वद्भिर्विवुधैवैष्णवोत्तमैः ॥ ४३ ॥ रामानुजार्यसिद्धांतो लोके ख्याति गमिष्यति ॥ अतोनुशासनाद्विप्णोः शठकोपादियोगि: नाम्॥४४॥द्राविडाम्नायपठनं कर्त्तव्यंवेष्णवेन हि॥ चतुष्टयसहस्रस्य प्रबंधस्य बुधोत्तम।।४।।पारायणं मुख्यतमं वैष्णवेनार्यसंमतम् ॥अश- तस्य शृणुप्वात्र सुकरोपाय उच्यते ॥४६॥ सहस्रगीतेः पठनं कर्तव्यं यावदायुपम ॥ मोशेच्छुना वैष्णवेन वेदांतिन्नात्र संशयः ॥ १७ ॥ ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्रास्तथेतरे ॥ सर्वेधिकारिणस्तत्र विष्णुभक्तास्तु ते यदि ॥ १८॥ व्यवहारः संस्कृतेन यथा वैदिक- कर्मसु ।। स्मृत्यादिपु विनिर्णीतो ब्राह्मणस्य वैवं यते ॥४९॥ विष्णव- र्चनादिकार्यपु वैष्णवस्य विशेषतः ॥ व्यवहारस्तु कर्त्तव्यो दिव्यद्रा- विडभापया॥५०॥ विष्णवर्चने तत्रतत्र वेदमंत्रैः सहादरात् ।। दिव्य- अध्यायः ७३. (२३३) द्राविडगाथाश्च पठितव्या हि वैष्णवैः ॥ ५१ ॥ आदिमध्यावसानेषु विष्णुपूजामहोत्सवे ॥ गाथास्तत्रानुसंधेयास्तत्तत्कालोचिताः पराः ॥ ॥५२ ॥ अस्मिञ् श्रीवैष्णवमते यो विशेत्प्रयतो यदि ॥ स दिव्या द्राविडी भाषामभ्यसेत्प्रथमं ध्रुवम् ॥ ५३ ॥ ततस्तापादिसंस्कारैः संस्कृतो गुरुणा यते ॥ प्रबंधमभ्यसेद्धीमान्दिव्यद्राविडरूपकम् ॥ ॥५४॥ पूर्व नित्यानुसंधान पटिगाथासमन्वितम् ॥ प्रावोधकीस्तवं पश्चादशगाथाविराजितम् ॥ ५५ ॥ गोदास्तुतिं ततो विद्वॉस्त्रिंश- गाथाविराजितम् ॥ ततः प्रपन्नगायत्री यतींद्रविपयां शुभाम् ॥ ॥५६॥ सहस्रगीति प्रयतो ह्यभ्यसेद्गुरुसन्निधौ ॥ सहस्रगीतिसारं वा यत्नेन महताभ्यसेत् ॥ १७॥ तेपामभ्यसनाद्विप्र वैष्णवः संभ- विष्यति ॥ ततः परं तेन साकं भोजनं प्रतिभोजनम् ॥ १८ ॥ युज्यते वैष्णवस्यायं कर्तुं नास्त्यत्र संशयः ॥ बहुनोक्तेन किं विद्वन् संक्षेपादिदमुच्यते ॥ ५९॥ दिव्यद्राविडवेदांतश्रवणेन विना यते ।। कलौ युगे मनुष्याणां सम्यग्ज्ञानं न जायते ॥६० ॥ अतो द्राविड- वेदांतश्रवणं मोक्षकामिनाम् ॥ सर्वथावश्यकतमं सत्यंसत्यं मयो- दितम् ॥ ६१॥ वेदांतिन्नयमेवार्थः पूर्वाचायः प्रकाशितः॥ परांकुशा- दिमुनिभिर्मनाथेन च विष्णुना ॥ ६२॥ त्वया चैव भविष्यद्भिर्गुरुभिः प्रचरिष्यति ॥ एतेनैवाखिला लोके मनुजा वीतकल्मपाः ॥ ६३ ॥ गमिष्यंत्याशु वेदांतिस्तद्विष्णोः परमं पदम् ॥ एतत्ते सर्वमाख्यात यन्मां त्वं परिपृच्छसि ॥ ६४ ॥ मत्तो माधवदासाद्य किमन्यच्छ्रो- तुमिच्छसि ॥ ६५ ॥ आख्यानमेतच्छुभदं शुभार्थ भट्टार्यवर्येण पुराणसिद्धम् ॥ श्रुत्वाखिलं माधवदासनामा प्रकृष्टतोपं स जगाम धीरः॥६६॥ निवृत्तसंदिग्धपरः स तस्मान्मत्वा वचस्तत्परमं हि सत्यम् ॥ भट्टारकं तं प्रणिपत्य मूर्धा श्रोतुं मनः सच्चरितं तु चके ॥ ६७ ॥ इति श्रीप्रपन्नामृते भट्टार्यवेदान्तिसंवादे द्राविडाम्नायवेभव कथनं नाम त्रिसप्ततितमोऽध्यायः ॥७३॥ - -- (२३४) प्रपन्नामृते- चतुःसप्ततितमोऽध्यायः। ततो महान्वैष्णवधर्मनिष्ठो भट्टार्यमार्य प्रणिपत्य भूयः ॥ अ- स्मद्यतिदिव्यकथां सुपुण्यां पप्रच्छ मोकफलप्रसूतिम् ॥ १ ॥ भट्टार्य देशिकवरोसि समस्तशास्त्रवक्तासि वारिजविलोचनसंभवोसि।। तस्मात्तवैव विदिताः सकलप्रवंधाः शिष्याय मे वद परं सकलं चार- त्रम् ॥ २॥ कस्मिन्कालेवतीर्णास्ते वैकुंठान्नित्यसूरयः ।। श्रीहरेराज्ञया के दिव्ययोगिनीम कीदृशाः पृथिवीतले ॥३॥ तेषां के गुरवः स्वामिन् शिष्याः केके प्रबंधास्तैः प्रोक्ताः किं स्वामिविपके दिव्याः सूरयः शितास्ते कति वर्षाणि भूतले दिव्यमुरयः॥४॥ स्वामिस्तेपी संख्या कियत्यभूत् ॥ ५॥ पूर्वाचार्यास्तु के लोप्तम् ॥ नाके तेप नामानि कानि च ॥ कृतानि तानि सर्वाणि चरित्राण्यद्भुतानन्तो वेदति च ॥६॥ विशदं ब्रूहि मे विद्वन् भक्ताय करुणानिधे ।। इति पृष्टा ॥ ४ ॥ तेन शिष्येण गुरुपुंगवः ॥७ ॥ तद्दिव्यमरिचरित वक्तुकामः व्यमव्याह- हितः ॥ तान् दिव्यसूरीन् ध्यात्वाश्चिकार गुरुवंदनम् ॥ ॥ युष्म- कासारभूतमहदाह्वयभक्तिसारान् सेवे शारिकुलशेखरविष्णुजार्यसिद्धांतों भक्तांविरेणुमुनिवाहचतुःकवींद्रान् माधुर्यगानतुलसीवनजलोपादियोगि ॥९॥ इतीव वंदन कृत्वा भट्टाचार्यस्तदात्रवीत् ॥ अहं तेष्टयसहस्रम् प्यामि प्रभावं दिव्ययोगिनाम् ॥ १०॥ एषां प्रभावश्रवणासमेतम् ॥ अश भविष्यसि ।। दशावतारश्रवणे यथा तुष्यति केशवः ॥ पठनं कर्तन प्रीति भगवानेष्यति ध्रुवम् ॥ ११ ॥ यथा दशावतासः ॥ १७ हि जगत्रये ॥ धर्मसंस्थापनार्थाय तथा ते दिव्ययोगिनाम् धकारिणस्तो नाथाय पंकजाक्षश्च राममिश्रश्च यामुनः॥गोप्टीपूर्णो महापूयूथा वैदि। घरगुरुस्तथा ॥ १३ ॥ भूरिश्रीशैलपूर्णश्च वररंगस्तथैव च ।। कांचीपूर्णादयश्चैते 'पूर्वाचार्याः प्रकीर्तिताः ॥ रामानुजादयः पूर्वे ते .स. स्फुटम् ॥ १४ ॥ कासारभूतमहदायभक्तिसाराः श्रीम; ८ नव उनहित -

(२३६)
प्रपन्नामृते-
पञ्चसप्ततितमोऽध्यायः।
अस्मयतिरथालोक्य भट्टार्य कृतवंदनः । भूयः पप्रच्छ त कंचि
दथै लोकहितेच्छया ॥१॥ नित्यानपायिनी लक्ष्मीः कथं त्यक्त्वा-
त्मवल्लभम् ॥ अप्राकृतं च वैकुंठं यद्ब्रह्मानुभवं परम् ॥ २॥ अवतीर्णा
कथं भूम्यां यतः सा हेयसंपदि ॥ तत्सर्व विशदं ब्रूहि कृपा यद्यस्ति
ते मयि ॥ ३ ॥ अथांगीकृत्य भट्टार्य्यस्तद्वचः परमादरात् ॥ हेतु
गोदावतारस्य तवान्येषां ततोत्रवीत् ॥ ४॥ सर्वेषामवतारस्य लोक-
रक्षा प्रयोजनम् ॥ गोदाया यतिराजस्य शठकोपादियोगिनाम् ॥५॥
.अत्रैवोदाहरंतीममितिहास पुरातनम् ॥ शृणु वक्ष्यामि तत्सर्वं वृद्धपाझे
च भार्गवे ॥ ६ ॥ आदौ वैकुंठलोकस्य महिमा प्रतिपाद्यते ॥ श्रुति-
स्मृतिपुराणादिप्रसिद्धो भवते मया ॥ ७ ॥ श्रुत्या स्मृती पुराणे च
पूर्वाचार्योक्तसत्कृतौ ॥ तेषु द्राविडवेदेषु योर्थः सम्यक् समाहितः ॥
॥८॥ तस्यैककंठ्यमेवेति दृढं हदि विभावय ॥ पादोस्य विश्वा
भूतानि त्रिपादस्यामृतं दिवि ॥ ९॥ तद्विष्णोः परमं पदं सदा पश्य-
ति सूरयः ॥ अक्षरं परमं व्योम तस्याध्यक्षः परः पुमान् ॥१०॥
वैकुंठे तु परे लोके श्रिया साई जगत्पतिः ॥ आस्ते विष्णुरचिंत्या-
त्मा भक्तैर्भागवतैः सह ॥ ११ ॥ वैकुंठे तु परे लोके
श्रीसहायो जनार्दनः॥ उभाभ्यां भूमिलीलाभ्यां सेवितः परमेश्वरः
॥ १२ ॥ अत्यानलदीप्तं तत् स्थानं विष्णोर्महात्मनः ॥ स्वयैव
प्रभया राजन् दुष्प्रेक्षो देवदानवैः ॥ १३ ॥ आक्रीडा विविधा
राजन् पद्मिन्यश्चामलोदकाः ॥ एते वै निलयास्तात
स्थानस्य परमात्मनः॥ १४ ॥ कालो न वर्तते तत्र न काल-
स्तत्र वै प्रभुः ॥ अत्रैव कालो लीलायाः परिणामादिहेतुकः ॥
॥ १५॥ कलामुहूर्तादिमयश्च कालो न यद्विभूत्यां परिणामहेतुः ॥
अनेन कालः परिणामहेतुः कालः स नित्यः परमे पदे हि ॥ १६॥

अध्यायः ७५. अंडकोशात्सावरणादमुष्मात्परतः प्रभुः ॥ स्थितेसो परमे व्योम्नि ह्यप्राकृतशरीरवान् ॥१७॥ यत्तत्पुराणमाकाशं सर्वस्मात्परमं ध्रुवम् ॥ यत्पदं प्राप्य तत्त्वज्ञाः मुच्यते सर्वकिल्बिपैः ॥ १८ ॥ अंडेभ्यः परतो नित्यं त्रिपादे यद्विराजते ॥ इतरेण तु पादेन प्राकृतं राजते यते ॥ १९ ॥ यदंडमंडांतरगो इत्यादिनित्यमूरिणाम् ॥ कालातीतगतिस्तस्य विष्णोर्भगवतः परा ॥ महाविभूतिब्रह्मादिदेवाना- मप्यगोचरा ॥२०॥ अपरिच्छेद्यरूपेयं तेषां परमयोगिनाम् ॥ वेदान्तवेद्यं यद्ढं सत्यं वाचामगोचरम् ॥ २१॥ यदूरे वचसो यदेव तमसः पारे यदत्यद्भुतं यत्कालादपचेलिमं सुरपुरी यद्गच्छतो दुर्गतिः॥ सायुज्यस्य यदेव सूतिरथ वा यदुर्ग्रह मद्रािं तद्विष्णोः परमं पदं तब कृते मातः समानासिषुः॥२२॥ एवं वेदान्तवाक्यैश्च तथा श्रीभारतेन च ॥ विष्णोः पुराणेन तथा पंचरात्रागमेषु च ॥२३॥ अन्यैः पुराणैः स्मृतिभिः पूर्वाचार्य्यस्तवैर्यते ॥ द्राविडाम्नायवचनैरैककंठयेन बोधितम् ॥२४॥ यत्तद्वैकुंठनगरं सर्वमण्डनमाण्डितम् ॥ प्राकारैश्च विमानश्च सौधै रत्नमयैर्वृतम् ॥२५॥ मणितोरणचित्राच्या विचित्रध्व- जमालिनी ॥ कोटिवैश्वानरप्रख्यैहपंक्तिभिरावृता ॥ २६॥ सहस्र- स्थूणविमले दृढोदने महौजसि ॥ देवानामधिपो यत्र समास्ते पुरुषो- त्तमः॥२७॥ मध्ये तु मण्डपं दिव्यं राजस्थानं महोच्छ्यम् ॥ माणि- क्यस्तंभसाहस्रजुष्टं रत्नमयं शुभम् ॥ २८॥ नित्यमुक्तः समाकीर्ण सामगानोपशोभितम् ॥ आनन्दैकार्णवीभूते तत्र श्रीमणिमण्डपे ॥ ॥२९॥ अनंतभोगिपर्यके रराज भगवान्हरिः॥ हिरण्मये परे लोके विरजं ब्रह्म निष्कलम्।।तच्छुभ्रं ज्योतिषां ज्योतिस्तध्यात्मविदो विदुः ॥ ३०॥ न तत्र सूर्यो न च भाति चन्द्रमा न विद्युतो भांति कुतोय- मग्निः ॥ तमेव भांतमनुभाति सर्व तस्य भासा सर्वमिदं विभाति ॥ ॥३१॥ दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता ॥ यदि भाः सहशी (२३८) प्रपन्नामृते- सा स्याद्भासस्तस्य महात्मनः ॥ ३२ ॥ खग्वस्त्राभरणैर्युक्तं स्वानुरू पैरनूपमैः ॥ चिन्मयैः स्वप्रकाशैश्च मन्योन्यरुचिराजितैः ॥ ३३॥ अनेकरूपास्ते नित्याः पञ्चोपनिपदात्मकाः ॥ उत्कृष्टतेजसः सर्वे नि: त्यमुक्ता महौजसः॥३४॥ दिव्यवस्त्रा दिव्यगंधा नूपुरांतादिभूषणाः॥ तथाभरणकोंटीनां कोटीनामयुतस्य च ॥ तया दीप्त्या दीप्यमानमनिशं राजते पदम् ॥३५॥ वृहच्छरीरोप्यतिमानदेहोयुवा कुमारत्वमुपेयिवान हरि गरेमे श्रियासौजगतांजनन्यास्वज्योत्स्नयाचंद्र इवामृतांशुः॥३६॥ नित्या ह्यस्पृष्टसंसारगंधा ईश्वरतत्पदे ॥ निरंजना विराजते शेपशे- पाशनादयः ॥ ३७ ॥ अंतरंगा हरेर्मुक्ताः शेपशेपाशनादिवत् ॥ नित्यकैक-निरता मोदंते वैष्णवे पुरे ॥३८॥ कोटिसूर्यप्रतीकाशाः पूर्णेदुसदृशप्रभाः॥ यस्मिन्पदे विराजते मुक्ताः संसारवर्जिताः॥३९॥ राजाधिराजः सर्वेपां विष्णुब्रह्ममयो महान् ॥ ईश्वरं तं विजानीमः स शंभुः स प्रजापतिः ॥ ४०॥ नित्यैर्मुक्तः परं साम्यं स्वेन साई समागतैः॥ विभूतिद्वयनिर्वाहः श्रिया रेमे जगत्पतिः ॥ ११ ॥ वेदांतेश्च पुराणैश्च स्मृतिभिः श्रुतिभिः स्फुटम् ॥ एवं वैकुंठमहिमा वेदांतिन् प्रतिपादिता लक्ष्मीवैकुंठसंवादं पक्ष्यामि श्रूयतां मुने।॥४२॥ अस्मद्यतिः सर्वपुराणवाक्यैः वैकुंठमाम्नायवचोभिरीडयम् ॥ तमी- दृशं भट्टगुरोविदित्वा दृढांतरंगो हरिमेव ध्यौ ॥४३॥ इति श्रीप्रप- नामृते भट्टार्यवेदांतिसंवादे वैकुंटपुरवर्णनं नाम पंचसप्ततितमोऽ- ध्यायः॥७९॥ पट्सप्ततितमोऽध्यायः। वेदांती स तदा ध्यात्वा मनसा परमंसदम् । माणिक्यमंडपं चैव श्रीलक्ष्म्या सहितं हरिम् ॥॥अनंतविहगेशादिनित्यसूरीश्च भक्तितः॥ भट्टारगे तं प्रणम्याय्य तत्कथायां कृतादरः ॥२॥समाहितमनास्तस्थौ पश्यन्गुरुमुखांबुजम् ॥ स भट्टदेशिको धीमान् वेदांतिनमथात्र- अध्यायः ७६. (२३९) वीत् ॥३॥ एवं वैकुंठनगरे वेदांतिन् परमः पुमान् ।। आस्ते लक्ष्म्याच भूम्या च भक्तैर्भागवतैः सह ॥ ४ ॥ अस्येशाना हि जगतो विष्णु- पत्नी सनातनी ॥ सा कदाचिज्जगन्माता वेदांतिन् विष्णुवल्लभा ॥ ॥५॥निर्हेतुकदयावेशादपश्यदखिलं जगत् ॥ तदेकानुभवानंदनिरं- तरसुखोचितान् ॥ ६॥ तत्र भोगविभूत्यां तु नित्यमुक्तान्समास्थि- तान् ॥ तान्विलोक्य जगन्माता ममोद सुतरां मुने ॥ ७॥ अपार- भववाराशिनिमग्नान्भृशदुःखितान् ॥ वद्धान्भगवदश्लिष्टाल्लीलाया- मास्थितानिमान् ॥ ८॥ विलोक्य दुःखितात्यंत भर्तारमिदमब्रवीत्।। अपारकरुणासिंधो देवदेव जगत्पते ॥ ९ ॥ वद्धजीवानिमान्पश्य लीलायां समदर्शन ॥ समः सर्वेषु भूतेषु कल्याणगुणसागरः ॥ १० ॥ निर्व्याजबंधुभगवानगन्माता जगत्पिता ॥ इत्येवं बहुधा शास्त्रे स भवान्प्रतिपाद्यते ॥ ११ ॥ यतो वैपम्यनैण्ये संप्राप्ते तव सांप्रतम् ॥ केचिच्च दुःखिता जीवाः केचिच्च सुखिनः कृताः ॥ १२॥ एतेन किं फलं स्वामिन्संप्राप्तं तद्वदाशु मे ॥ त्वदधी- ना ह्यविद्या वा तदधीनो भवान्हि किम् ॥ १३ ॥ युष्मत्कटाक्षविषया यदि वद्धजीवा मुक्तादिभिः सह परे परमे पदेस्मिन् ॥ नित्यानवद्य- रसभोगसुखैकनिष्ठा का हानिरत्र भगवन् करुणामृताधे ॥ १४ ॥ इत्युदीरतमाकर्ण्य जगन्मात्रा जगत्पतिः ॥ मंदस्मितमुखः श्रीमा- न्वेदांतिन्सोवीड्रियम् ॥१६॥निश्चेष्टाः पूर्वमवासविहीनाः करणादि- भिः॥ आत्मानः सर्व एवैते लूनपक्षा इवांडजाः॥१६॥ तेभ्योखि- लेभ्यो जीवेभ्यः करणं च कलेवरम् ॥ निर्हेतुककृपावेशादेवि दत्तं' मया किल ॥ १७ ॥ पूर्वमेव मया ब्रह्मन् हस्तपादादिसंयुता ॥ विचित्रा देहसंपत्तिरीश्वराय निवेदितुम् ॥ १८ ॥ शास्त्रप्रसिद्धिरेवैपा विद्यते किल वल्लभे ॥ मत्पादपद्मकर्यहेतुभूतं कलेवरम् ॥१९॥ तदन्यविपयं चक्रुर्मत्पूजाविमुखा नराः ॥ समिदाहरणार्थाय प्रदत्तेना- .

(२४०) प्रपन्नामृते- सिना रमे ॥२०॥गोवालच्छेदनं देवि तज्जगत्यां यथाभवत् । नदी- संतरणार्थाय प्रदत्तो दयया प्लवः ॥ २१ ॥ तमादाय महाग” यथा निक्षेपणं ह्यभूत् ॥ तथा शब्दादिविपयप्रवणास्तेखिला जनाः ॥२२॥ कर्मप्रवाहपतिता निमग्ना भवसागरे ॥ अपथा गच्छतां तेपां विषया- र्णवपातिनाम् ॥ २३ ॥ मत्प्राप्तिहेतुभूतं तु संसारार्णवतारकम् ॥ करावलंबनं शास्त्रं मया दत्तं हितेच्छया ॥२४ ॥ शास्त्राण्यापाततो दृष्ट्वा तन्मार्गेण विधाय ते॥ईश्वरोहमहं भोगी सिद्धोहं बलवान सुखी। ॥ २५ ॥ आब्योभिजनवानस्मि कोन्योस्ति सहशो मया ॥ इत्येवं गर्वसंयुक्ता नेक्षते केपि मां किल ॥ २६ ॥ योन्यथा संतमात्मान- मन्यथा प्रतिपद्यते ॥ किं तेन न कृतं पापं चौरेणात्मापहारिणा ॥ ॥२७ ॥ समस्तपापबीजेन स्वातंत्र्येणैव तेन ते ॥ आत्मापहारनि- रताः कर्मपितमानसाः ॥२८॥ संसारवर्द्धकाः सर्वे ते ह्यासञ्छभ- दर्शने ॥ उल्लंधिताज्ञाः स्थानेषु यथा राजा स्वयं गतः ॥ २९॥ तथैव रामकृष्णादिरूपेणाहं गतोभवम् ॥ मच्छासने स्थिरधियः कर्तु- कामः स ताजनान् ॥ ३० ॥ आसुरी योनिमापन्ना मूढा जन्मनि जन्मनि ॥ मामप्राप्यैव कौंतेय ततो यांत्यधमां गतिम् ॥ ३१॥ अवजानति मां मूढा मानुपी तनुमाश्रितम् ॥ परं भावमजानंतो ममा- व्ययमहेश्वरम् ॥ ३२॥ त्रिभिः प्रकारैरेता न गच्छति किलेश्वरम् ॥ अनाद्यविद्यासंबंधदूपितास्तेखिला जनाः॥३३॥ देहादिदानं प्रथम च तेभ्यः शास्त्राणि दत्तानि ततोखिलानि ॥ दशवताराश्च कृता मयाद्य करिष्यमाणं वद वारिजाशि ॥ ३४ ॥ लक्ष्मीनिशम्य वचनं भगवत्प्रणतिं सौहार्दकारणवशाज्जगदेकमाता ॥ त्यक्तात्मनां तनु- भवां यदसह्यदुःखं संवीक्ष्य शोकनिभृता क्षणमास तृष्णीम् ॥ ३५ ॥ तच्छ्रुत्वा भगवञ्चित्तं दृष्ट्वा बद्धात्मनां व्यथाम् ॥ अमृप्यमाणा भर्तारं भगवंतं वचोत्रवीत् ॥३६॥ यदि दत्ता त्वयानुज्ञा लोकसंरक्षणे मम ॥ - अध्यायः ७७. (२४१) लीलायामवतीर्याहं नित्यैरेतैस्सहेश्वर ॥ ३७॥ त्वदंघ्रिपद्माभिमुखान् करिष्ये त्वत्कटाक्षतः ॥ वद्धजीवानिमान्सर्वास्त्वदाज्ञापरिपालिनी ॥३८ ॥ वाक्यं निशम्य निपुणं हरिरिंदिरायाः सचित्य तत्र समये घटसंभवाय ॥ दत्तं वरं हृदि निधाय जगजनन्यै लोकावनाय महतीं प्रददावनुज्ञाम् ॥ ३९ ॥ वनमालां वैजयंती तथा पंचायुधानि च ॥ श्रीवत्सं कौस्तुभं चैव सेनेशविहगेश्वरौ ॥ ४० ॥ अनंतप्रमुखान् सर्वान् समादायाज्ञया हरेः ॥ लोकसंरक्षणाय लक्ष्मीभूम्यां मनो दधौ ॥ ११॥ कृतादिषु प्रजा राजन् कलाविच्छंति संभवम् ॥ क- लौ खलु भविष्यति नारायणपरायणाः ।। ४२ ।। क्वचिन्वचिन्महारा- ज द्राविडेषु च भूरिशः ॥ ताम्रमी नदी यत्र कृतमाला पयस्विनी ॥४३॥ कावेरी च महापुण्या प्रतीची च महानदी ॥ एवं भागवता- ख्येन पुरोणोक्तेन वर्मना ॥४४॥ चकुस्ते झवतारान्हि द्राविडे नित्यसूरयः ॥ एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ॥ किमन्य- च्छ्रोतकामस्त्वं तदाशु ब्रवीमि ते ॥ ४५ ॥ इति श्रीप्रपन्नामृते, रामानुजचरित्रे भट्टार्यवेदांतिसंवादे श्रीवैकुंठनाथलक्ष्मसिंवादकथनं नाम पट्सप्ततितमोऽध्यायः ॥७६॥ सप्तसप्ततितमोऽध्यायः। अस्मद्यतिः प्रणम्याथ भट्टार्य भगवत्प्रियम् ।।कृतांजलिपुटी भूत्वा वचनं चेदमब्रवीत् ॥१॥ अवतारस्थलादीनि यानि कासारयोगिनः॥ ब्रूहि चैतानि सर्वाणि यद्भूतमहदाख्ययोः ॥२॥ तस्य तद्वचनं श्रुत्वा कूरेशतनुजो महान् । तदिव्यमरिचारितं प्रवक्तुमुपचक्रमे ॥३॥ अयोध्या मथुरा माया काशी कांची वंतिका ॥ पुरी द्वारवती चैव स नैता मुक्तिदयिकाः॥४॥तन्मध्ये सुमहापुण्या कांची लोकेषु विश्नुता।। ब्रह्माश्वमेधयागेन स यत्राराधितो हरिः॥६॥क इति ब्रह्मणो नाम तेन यत्रार्चितोहरिः।।तस्मात्कांचीति विख्याता पुरी पुण्यविवर्द्धिनी॥६॥ .

(२४२) प्रपन्नामृते- अष्टादशस्थलैः कांची जगत्यां समुदंचति ॥ कांच्यामष्टभुजं नाम स्थलं यद्यस्ति विश्रुतम् ॥ ७॥ यथोक्तकारी भगवांस्तस्योदीच्यां विराजते ॥ यथोक्तकारिणस्तस्य कौबेयो दिशि सत्तम ॥ ८॥सरः प्रकाशतेत्यंत दिव्यं हेमांवुजावृतम् ॥ द्वापरे चाटलक्षेषु सहस्त्रेषु च पष्टिषु ॥ ९ ॥ संवत्सरेवतीतेषु तथा नवशतेषु च ॥धर्म- संस्थापनार्थाय ततः सिद्धार्थवत्सरे ॥ १० ॥ तुलामासे शुक्लपक्षे ह्यष्टम्यां कुजवासरे ॥ कासारयोगी संजज्ञे शंखांशेन महा- द्युतिः॥ ११ ॥ नक्षत्रे श्रवणे तस्मिंस्तटाके स्वर्णपंकजे ॥ अस्या- वतारश्लोकाश्च गीयते प्रथिता भुवि ॥ १२ ॥ कांच्या सरसि हेमाब्जे जातं कासारयोगिनम् ॥ कलये यः श्रियः पत्युररविंदमकल्पयत् ॥ ॥१३॥ मुकुंदेंदुमुखोल्लासमूलवाग्जालमूच्छितम् ॥ मुनिमुख्यं सरो- जातं मुक्तिमूलमुपास्महे ॥१४॥ हेमाब्जिनीहेमसरोजगर्भाच्छ्रीपांच- जन्योजनि तत्र योगी ॥ तारे हरेराश्वयुजाख्यमासे समस्तजीवावन- कर्महेतुः ॥ १५॥ संजीवनत्वाद्रहुसत्त्वयोगात्संसारदावाग्निविनाशक- त्वात् ॥शैत्योदयात्सूक्त्यमृतप्रवाहात्सरोभिधानं यमुदाहरंति ॥१६॥ ततो भूताहयो धीमान्वेदांतिस्तत्परेहनि ॥ समुद्रतीरे विख्याते मल्लीपुर- वरे शुभे ।। १७ ॥ दिव्यगंधयुते तस्मिन्मांधवीकुसुमोत्तमे ॥ संजज्ञे लोकरक्षार्थ गदांशेन महाद्युतिः ।। १८॥ अस्यावतारश्लोकाश्च गीयते प्रथिता भुवि ॥ मल्लीपुरवराधीशं माधवीकुसुमोद्भवम् ॥ १९ ॥ भूतं नमामि यो विष्णोर्ज्ञानदीपमकल्पयत् ॥ वंदे भूताख्ययोगी, वरेण्यं गुणसंपदम् ॥ लक्ष्मीसहायकरुणापात्रमप्रतिवैभवम् ॥२०॥ मासेथ तस्मिन्वसुभेजनिष्ट पारे समुद्रं पुरिमल्लनाम्न्याम्॥ लतागृहा- द्वैष्णवभूतनामा कौमोदकीशक्तिमयो मुनींद्रः॥ २१ ॥ तत्रोदीच्या पुरस्तस्याः काष्टायां तत्परेहनि ॥ महोदधितटे तस्मिन्मयूरनगरीवरे।।. ॥ २२ ॥ मैलादिकेशवस्याग्रे कूपे चलतिकाह्वये ॥ रक्तोत्पले अध्यायः ७७. (२४३) नंदकांशात्संजज्ञे महदाह्वयः ॥ २३॥ अस्यावतारश्लोकाश्च गीयते प्रथिता भुवि ॥ दृष्टवानिति होवाच रमया मयिलाधिपम् ॥२४॥ कूपे रक्तोत्पले जातं महदायमाश्रये ॥ पमारमणपादाब्जप्रेमभ्रांत्या मनोज्ञया ॥ भ्रांतयोगीति विख्यातं मुनि वदे गुणांबुधिम् ॥२५॥ तन्मास एवाविरभूद्विपश्चित्पाचेतसक्षेत्रमयूरपुर्याम् ॥ महाभिधानो मणिकैरवांताच्छ्रीनंदकात्माश्रितभक्तिरूपः ॥ २६ ॥ विष्वक्सेनस्नु भगवान्वैकुंठाद्धवमागतः ॥ तेषां त्रयाणां महतां निर्हेतुककृपाव- शात् ॥ २७॥ विधाय पंचसंस्कारान्यावत्तत्त्वार्थसंपदः ।। सर्वार्थाश्चो- पदिश्याशु स्वधाम प्रत्यपद्यत ॥२८ ॥ नियतपुलकितांगी निर्भरा- नंदवाष्पा गलितनिखिलसंगा गद्गदस्तोत्रगीतिः ॥ अमृतलहरिवर्णा हंपत्तोपपन्ना विगतनरकभीतिर्विष्णुभक्तिर्विभाति ॥ २९॥ एवंरूपो- तभगवद्भक्तिमान्महदाह्वयः ॥ दृयाविष्टहरिः श्रीमदतुभावेन संततम् ॥ ३०॥ भ्रांतवर्तते यस्माना॑तयोगीति कथ्यते ॥ तेपां त्रयाणां भगवद्भक्तिस्तस्य विशेषतः ॥ ३१ ॥ भ्रांतनाम्नः सुमहती संजाता योगिनो यतः ।। महार्य इति नामास्य बभूव प्रथितं भुवि ॥ ३२ ॥ नारायणपदांभोजे भ्रमद्भमरवत्सदा ॥ स भ्रान्तयोगी तत्रैको वेदांतिन् गीयते महान् ॥३३ ॥ अयोनिसंभवाश्चैते महांतः पुष्पसम्भवाः ॥ निरस्ततामसरजोगुणा हरिकटाक्षतः॥३४॥ सत्त्वनिष्ठाः प्राथमिका वेदांतिस्ते त्रयोभवन् । प्रवृत्तिं च निवृत्तिं च कार्याकार्य भयाभये ॥ ३५ ॥ बंधं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥ एवमुक्तप्रकारेण शुद्धसत्त्वगुणा हि ते ॥३६॥ दासभूताः स्वतः सर्वे ह्यात्मानः परमात्मनः।नान्यथा लक्षणं तेषां बंधे मोक्षे तथैव च ॥३७॥ स्वत्वमात्मनि संजातं स्वामित्वं ब्रह्मणि स्थितम् ॥ आत्मदास्यं हरेः स्वाम्यं स्वभावं च सदा स्मर ॥ ३८॥ ज्ञानानंदमयो ह्यात्मा शेपो हि परमात्मनः॥ तत्त्वतः सिद्धभगवदास्यैकरसभोगिनः ॥ ३९॥ तद्वैराग्यज्ञानभक्ति- (२४४) प्रपन्नामृते- सहिताः सर्वदाभवन् ॥ बाल्यात्प्रभृति ते स्निग्धा ह्यन्नपानादिवर्जिताः ॥ ४० ॥ गुणानुभवकैकर्यरसभोगैकतत्पराः ॥ हरेरज्ञातशब्दादिवि- पयास्ते त्रयोभवन ॥४१॥अतः संसारिभिः सार्दै शब्दादिविपया- तुरैः ॥ मत्वेति दुःसहोस्माकं सहवासश्च ते त्रयः ॥४२॥ अज्ञात- गतयोन्योन्यं पृथगेवं व्यवस्थिताः॥ ग्रामैकरावं ते भूम्यां संचरन्तो व्यवस्थिताः॥४३॥ लक्ष्मीपतेः पूर्णकटाक्षलब्धज्ञानातिरेकार्जित- सद्गुणौघाः ॥ अयोनिजाताः प्रथमात्रयस्ते विचेरुरुया विदिताखि- लार्थाः ॥ ४४ ॥ स तदा भगवान्विष्णुमहाकरुणिको हरिः ॥ एभित्रिभिः स्वात्मभूतेर्भगवद्भक्तिपारगैः॥४५॥ अनायविद्यासम्ब- न्धवासनाक्रांतचेतसाम् ॥ संसारिणां निराकृत्य यदज्ञानं महत्तमम् ॥ ४६॥ स्वभक्तिज्ञानवैराग्यगुणान्दापयितुं तदा ॥ संकल्प्य पृथगे- वोा चरतां महतां महान् ॥४७॥ देहलीनगरे तेपां त्रयाणां संगति व्यधात् ॥ १८॥ श्रीवामनक्षेत्रपुरे कदाचित्संयोज्य शौरिभगवान- कस्मात् ॥ अदभ्रवृष्टिं निशि कल्पयित्वा प्रावेशयत्संकटदेहली तान् ॥१९॥ ततः कदाचित्कासारयोगींद्रः स्वेच्छयानघ ॥ देहलीनगरं प्राप वर्पण रजनीमुखे ॥५०॥ स तदा विप्रदेहल्यां स्थलं संप्राप्य सत्वरम् ॥ एकस्यैवात्र शयितुं पर्याप्तमशयिष्ट सः॥५१॥ भूताख्योपि तदा तत्र गत्वा स्थलमयाचतस तस्याई स्थलं तस्मै महाकारुणिको ददौ ॥५२॥ निपप्णौ तावुभौ तत्र ततो दृष्ट्वा बुधोत्तमौ ॥ भ्रान्त- योगी ततोप्येवं स्थलं तावदयाचत ॥५३॥सम्यग्दत्त्वा स्थलं तस्मै मुदभापतुरुत्तमम् ।। शयनायोपवेशाय स्थलराहित्यकारणात् ॥५४॥ उत्थितास्ते त्रयोतिप्टन् वैष्णवागमहर्पिताः॥ वैष्णवो वैष्णवं दृष्ट्वा दण्डवत्प्रणमेद्भुवि ॥५५॥ तयोर्मध्यगतो विष्णुः शंखचक्रगदाधरः ॥ तुलसीकाननं यत्र यत्र पनवनानि च ॥ वसन्ति वैष्णवा यत्र तत्र सनिहितो हरिः ॥ ५६ ॥ इत्युक्तरीत्या भगवान्स चैवं दिव्ययो- अध्यायः ७७. (२४५) गिनाम् ॥ तेपामनुग्रहार्थाय शंखचक्रगदाधरः ॥ आविर्वभूव तन्मध्ये वृहद्रूपधरो हरिः ॥ ५७ ॥ तत्र संकुचितस्थाने निबंधो- भूयतो महान् ॥ आसारवर्पसंयुक्त निशीथसमये तदा ॥ ५८ ॥ अलक्षितान्योन्यतनुः कोयमित्येव तेब्रुवन् ॥ दृढं वद्धकपाटायां देह- ल्यामत्र ते वयम् ॥५९ ॥ त्रय एव स्थिताः कोयं कथं तुर्यः समागतः ॥ तदा संदृष्टुकामास्ते भगवंतमधोक्षजम् ॥ ६ ॥ निरस्तमायातमसः संपूर्णज्ञानदृष्टयः॥ कृत्वा पात्रमिमां भूमि विधा- याज्यं महोदधीन ॥ ६१॥ ज्वालां कृत्वा तथादित्यं योगिनो गत कल्मपाः॥ प्रज्वाल्य तु ज्ञानदीपं ददृशुस्तं महौजसम् ॥ ६२ ॥ तायाधिरूढं तडिदंबुदाभ लक्ष्मीधरं वक्षसि पंकजाक्षम् ॥ हस्तद्वये शोभितशंखचक्रं विष्णु दयाब्धि ददृशुस्तमाद्यम् ॥६॥ आजानुबाहुँ कमनीयगात्रं पार्थद्वये शोभितभूमिनीलम् ॥ पीताबरं भूपणभूपितांग चतुर्भुजं चंदनरूपितांगम् ॥ ६४ ॥ बिंबाधरं कुंदसमानदंतं शरनिशानाथसमानवक्रम् ॥ नीलालकं दिव्यकिरीटजुष्टं कर्णद्वये शोभितकुंडलाढ्यम् ॥ ६५ ॥ रत्नांगदं मौक्तिकदिव्यहारं कटीतटें लंबितहेमसूत्रम् ॥ रत्नांगुलीयं मणिकंकणाढ्यं माणिक्यमंजीरसुमृ- टपादम् ॥ ६६ ॥ मंदारमालांचितकेशबंधं श्रीकौस्तुभोद्भासित- कंठदेशम् ॥ श्रीवत्सवक्षः कमनीयवेपं वेदांतवेद्यं मनसोप्यगम्यम् ॥ ॥६७॥ अप्राकृतं दिव्यमनंतरूपं यद्योगिगम्यं गुणसंवियोगम् ॥ अत्यद्भुतं कोटिरविप्रकाशमनूपमं यत्सनकायगम्यम् ॥ ६८ ॥ ज्ञानदृष्टया विलोक्यैवमनुभूयासकृद्धरिम् ॥ निमग्नास्ते त्रयः सम्यग्ब्रह्मानंदमहादे ॥ ६९.॥ तजातातिशयानंदाः न ममुस्तत्तनूषु ते॥ ततो जगद्धितार्थाय कासारप्रमुखास्त्रयः ॥ ७० ॥ तमेवार्थ समुद्धृत्य यद्ब्रह्मानुभवोद्भवम् ॥ प्रबंधान द्राविडान् दिव्यांश्चक्रुरंता- दिनामकान् ॥ ७१ ॥ मोकहेतुंस्त्रीन् सम्यक् शतगाथाविराजितान्॥

1
(२४६)
प्रपन्नामृते-
अष्टोत्तरशतं विष्णोः मुख्यस्थानानि भूतले ॥ ७२ ॥ स्थलानि तत्र
चत्वारि तेन कासारयोगिना ॥ अभिष्टुतानि वेदांतिन प्रथम प्रेमपू-
वकम् ॥७३॥ श्रीरंगो वेंकटाद्रिश्च श्रीकांची देहली पुरी ॥ स्थला
नि तत्र चत्वारि भूताख्येन स्तुतानि च ॥ ७४ ॥ श्रीरंगो वेंकटा-
द्विश्च देहलीनगरं तथा॥ स्वावतारस्थलं चैव यन्मल्लीनगरं वरम् ॥
॥ ७५॥ महदाख्येन चत्वारि संस्तुतानि स्थलानि च ॥श्रीरंगो
वेंकटाद्रिश्च देहलीपुरमुत्तमम् ॥ ७६ ॥ मयूरनगरोदीच्यां श्रीम-
कैरविणीतटम् ॥ संसारिणः पठंत्येतान्प्रबंधान्भगवत्परान् ।।
॥ ७७ ॥ अविद्याकर्मसंजातमपोह्याज्ञानमंजसा ॥ गच्छंति वैष्णवा
भूत्वा तद्विष्णोः परमं पदम् ॥ ७८ ॥ एवं माधवदासार्य-
सरोयोग्यादयस्त्रयः ॥ गाथाशतत्रयं कृत्वा सर्व जगदपालयन
॥ ७९ ॥ यः पठेत्प्रयतो भत्त्या प्रबंधं योगिभिः कृतम् ॥
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥ ८० ॥ तैरेवं भग;
वान्यत्तत्साधयित्वा स्ववाञ्छितम् ॥ अभिष्टतोमरैः साई स्वधाम
प्रत्यपद्यत ॥ ८१ ॥ कासारभूतभ्रांतार्यास्ततस्ते मिलितास्त्रयः ॥
लोकानुग्रहकर्तारो ह्यटन्तः पूर्ववत्स्थिताः ॥२॥ य इदं शृणुयानित्यं
भत्त्याख्यानमतंद्रितः ॥ स सर्वपापनिर्मुक्तः सत्यं विष्णुपदं व्रजेत् ॥
॥८॥ इति श्रीप्रपन्नामृते भट्टार्यवेदांतिसंवादे कासारभूतभ्रान्तार्या-
णां देहलीनगरे भगवदर्शनप्राप्तिकथनं नाम सप्तसप्ततितमोऽ-
ध्यायः॥७७॥
अष्टसप्ततितमोऽध्यायः।
तचरित्रं महापुण्यं श्रुत्वास्मद्यतिरादरात् ।। भट्टाय्य प्रणिपत्योव्या
प्रष्टः प्रत्यभापत ॥१॥ सरोयोग्यादिचारतं भवतः कृपया श्रुतम् ॥
इदानीं श्रोतुमिच्छामि भक्तिसारस्य वैभवम् ॥२॥ सचरित्रामृतं पुण्यं
त्वन्मुखांभोजनिःसृतम् ॥ पिवतः श्रोत्रचुलुकैस्तृप्ति भृदरो मम॥३॥

अध्यायः ७८. (२४७) भट्टार्यस्तद्वचः श्रुत्वा संतुष्टस्तं प्रशस्य च ॥ प्रभाव भक्तिसारस्य प्रवक्तुमुपचक्रमे ॥ ४ ॥ शक्तिपंचमविग्रहात्मने शुक्तिकारजित चित्तहारिणे ॥ मुक्तिदायकमुरारिपादयोभक्तिसारमुनये नमोनमः ॥५॥ इत्येवं वंदनं कृत्वा भट्टार्य्यस्तमथाब्रवीत् ॥ लोकसंरक्षणा- र्थाय जातः कृष्णो यथा भुवि ॥ ६ ॥ एकत्र जातो ह्येकत्र विष्णुः संवर्धितो महान् ॥ तथैवार्य भक्तिसारो जातः सम्यगवर्द्धत ॥ ७ ॥ ततोखिलजगत्पद्मबोधायाच्युतभानुना ॥ देवकीपूर्वसंध्यायामाविर्भूतं महात्मना ॥ एवं यदुकुले कृष्णः संजज्ञे किल सुत्रत ॥ ८॥अनाई- मा विरसं रसायमपल्लवं पल्लवितं तदासीत् ॥ गावो बहुक्षीरदुधा बभूवुर्नारायणे नंदकुलं प्रविष्टे ॥ ९ ॥ एवं नंदकुले कृष्णो वेदांतिन समवर्द्धत ॥ कनकांग्यां भार्गवस्य सोय जज्ञे तथा महान् ॥ १० ॥ अवर्द्धत ततो योगी वेत्रसंपुटकृद्हे ॥ भक्तिसारस्तथा पूर्व जनित्वै- कत्र योगिराट् ॥ ११॥ अन्यत्रावर्द्धतावन्यां कृष्णवल्लोकरक्षकः ॥ पूर्वमत्रिवशिष्टश्च भृगुर्भार्गव एव च ॥ १२॥ पुलस्त्यश्चांगिराश्चान्ये सर्वे ब्रह्मर्पयस्तथा ॥ ब्रह्मलोकं समासाद्य ब्रह्माणममितौजसम् ॥ ॥ १३॥ प्रणम्यांजलिहस्तास्ते वचनं चेदमब्रुवन् । वयं तु भूम्या- मुत्कृष्टक्षेत्रे कर्तु महत्तपः ॥ १४ ॥ यत्नेन महता ब्रह्मन् सांप्रतं सम- वस्थिताः ॥ विचार्यालोच्य निश्चित्य ब्रह्मन् यत्नेन भूयसा ॥१५॥ क्षेत्राणामुत्तमं क्षेत्रं ब्रूहि नः करुणाकर ॥ प्रतिगृहा वचस्तेपां ब्रह्मा त्रिभुवनेश्वरः ।। १६ ॥ विश्वकर्माणमाहूय व्याजहार वचः शुभम् ॥ पंचाशत्कोटिविस्तीणी सशैलार्णवकाननाम् ॥ १७ ॥ महामिमां महीसारक्षेत्रं च तुलयाधुना ॥ प्रदर्शय त्वमेतेपां विशेपं ज्ञातुमिच्छताम् ॥ १८ ॥ एतयोरधुना त्वष्टः ब्रह्मणां महात्मनाम् ॥ तत्तथैव कृतं तेन शासनाद्ब्रह्मणस्तदा ॥ १९ ॥ त्वष्टा जगद्धितार्थाय ब्रह्मपीणां च सनिधौ ॥ पृथिव्याधिष्ठिततुला तथोल चोत्पपात सा ॥ २० ॥ महीसारक्षेत्रतुला भारावस्था बभूव सा॥

(२४८) प्रपन्नामृते- क्षेत्रस्यास्य तदा धाता नामधेयं ददौ स्वयम् ॥ २१ ॥ महीसारखे- त्रमिति तेनान्वर्थ चतुर्मुखः॥अनुज्ञातास्ततः सर्वे ब्रह्मणा ऋपयस्तदा ॥२२ ॥ क्षेत्रे तपो महीसारे कुर्वतः सुखमास्थिताः ॥ पश्चिमे योज- ना? तु विदेहाधिष्ठिते वने ॥२३॥ भार्गवो दीर्घसत्रेण वासुदेवं सनातनम् । अभिपूज्य यथान्यायमिति नित्यमकल्पयत् ॥ २४ ॥ अर्थोंयमत्र ब्रह्मांडपुराणेषु प्रतिष्ठितः ॥ एवं महीसारपुरे भार्गवो मुनिसत्तमः ॥ २५ ॥ भगवंतं समुद्दिश्य चचार सुमहत्तपः ॥ भीता- श्चोगेण तपसा भार्गवस्याखिलाः सुराः॥ २६ ॥ तत्तपोहरणार्थाय प्रेपयामासुरंजसा ॥ सुरांगना महाप्रौढा रूपलावण्यपेशलाः॥२७॥ वसंते मन्मथोपेताः महीं तां समुपागताः ॥ महीसारक्षेत्रवने तपतं तप उत्तमम् ॥२८॥ ते भार्गवमुनि वीक्ष्य बिभ्युः सर्वाः सुरांगनाः॥ तन्मध्ये चातिनिपुणा कनकांगीति विश्रुता।॥२९॥ सुरांगनारत्नभूता सा साक्षाद्विश्वमोहिनी ॥ मन्मथस्य वसंतस्य सहायेन सुरांगना ॥ ३० ॥ नृत्यगीतादिनैपुण्यैर्मोहयामास भार्गवम् ॥ विचित्रं विष्णु- मायाया यत्तच्छृणु समाहितः॥३१॥ अजेया वैष्णवी माया योपि- द्रूपा न संशयः ॥ वेदांतिन भार्गवस्याने स्थाणुभूतस्य योगिनः ॥३२॥ अगायत महद्गीतं श्रवणानंददायकम् ॥ कनकांगी महच्चित्रं कृष्णगीतमिमं परम् ॥ ३३ ॥ विस्मितस्तेन गीतेन सम्यगुन्मील्य लोचने ॥ आलोक्यास्यरसं किंचिन्मोहमाप मुनीश्वरः ॥ ३४॥ तदा ननत बहुधा कनकांगी सविभ्रमम् ॥ साभिप्रायं स्तनप्रति प्रद- सितवती मुनेः ॥ ३५॥ गीतेन नृत्यमानायाः कनकांग्याः सुवर्चसः।। लावण्यविभ्रमं चास्या विलोक्यातिमनोहरम् ॥ ३६ ॥ भार्गवोपि महायोगी स मन्मथवशं गतः॥ मुदा रेमेथ तन्वंगी मनिना भार्गवेण सा ॥३७ ॥ सम्यग्विचित्रसुरतैर्वसते चित्र कानने ॥ कनकांग्या तया साधैं संचरन्वनराजिपु ॥ ३८॥ भ्रष्टयोगस्तदा रेमे कांचकालं अध्यायः ७८. (२४९) महातपाः ॥ स चाप्सरोललामैपा रंजयंती मुनेमनः ॥३९॥ यत्त- स्वर्गसुखं तस्य प्रददौ यज्ञसांधितम् ॥ भार्गवस्य मुनेः पत्नीगर्भमा- धत्त सुंदरी॥४०॥तं भक्तिसारं योगीशंकनकांगी मुवर्चसम्॥विभवान्दे पुष्यमासे दशम्यां कृष्णपक्षके॥४१॥ तुलालग्ने भक्तिसारोमघायांगु- रुवासरे ॥ कनकांग्यां भार्गवस्य जज्ञे चक्रांशतो महान् ॥ श्रीदिव्य- मूरिचरिते गवतारोऽस्य गीयते ॥४२॥सा गर्भमाधत्तमुनेश्च पत्नी सुदर्शनांशेन तदानुविष्टम् ॥ पपात गर्भो भुवि पौपमासे मघाभि- धाने महनीयसारे ॥४३॥रहितावयवां दृष्ट्वा तत्पिडाकृतिमद्भुतम् ॥ कनकांगी वने तब वेत्रवेण्वादिसंकुले ॥४४॥ निकुंजे सहसोत्सृज्य ययौ स्वर्ग सुरांगना ॥ ततः स लजितः खिन्नस्तपःसंक्षयकारणात ॥ भार्गवोपि मुनिश्रेष्ठस्तवान्यद्रनमाविशत् ॥ १५ ॥ गर्भः स कालेन विभिद्य पेशीं गते गरुत्मानिव डिभरूपः॥ स्तन्याभिलापेण ततः क्षु- धातः स्वैरं व्यरोदीविजनप्रदेशे ॥ ४६॥ लक्ष्मीकटाक्षवशतो भूदेवी तमवर्द्धयत् ॥ तस्यावयवसंपत्तिः पिंडस्यासीत्ततः शनैः॥४७॥ जीवप्रवेशोपि तदा रुरोद च शिशुर्महान् ॥ रुदंत स्तन्यपानार्थ निकुंजे वनगह्वरे ॥४८॥ भक्तिसारं विलोक्यैवं निर्हेतुककटाक्षतः॥ महीसा- रपुराधीशो भगवान् भक्तवत्सलः॥ १९॥ वेदांतिञ् श्रीजगन्नाथो में- गवल्लीमनोहरः । तत्रागत्याईकृपया क्षुत्पिपासे निवार्य च ॥ ५० ॥ अपर्याप्तामृतं तस्य भक्तिसारस्य दुर्लभम् ॥ अत्यंतसुकुमारांग दर्शयि- त्वा स्वविग्रहम् ॥॥५१॥ आश्वास्य तं भक्तिसारं स्वधाम प्रत्यप- द्यत ॥ एवं संवदितस्तेन भार्गवीयो यवर्धत ॥ १२॥ यदसह्यः सदा विष्णोविश्लेपो ज्ञानिनां परम् ॥ तद्विश्लेपासहिष्णुः संस्तस्थौ तत्र रुदन भृशम् ॥ ५३॥श्रीखड्गनामकः कश्चिदेवसंपुटकारकः ॥ उ- पानबूढपादश्च लवित्रलगुडंधरः ॥ ५४॥ वेत्रादिहरणार्थाय तदनं समुपाविशत् ॥ वेत्रवेण्वादिसंकीर्णे वने तत्र चचार सः ॥ ५५॥ त- (२५०) प्रपन्नामृते- द्वालरोदनं श्रुत्वा तत्र गत्वांजसा तदा ॥ उद्यद्भाननिभं दृष्ट्वा तं बालं संप्रहर्पितः ॥५६॥ अतिहासमादाय भक्तिसारं महौजसम्॥प- न्याः पंकजवल्याश्च वेत्रसंपुटकारकः ॥५७ ॥ अनपत्यतया तस्या ददौ हस्ते समाहितः ॥ श्रीदिव्यसूरिचरिते श्लोकोयं गीयते महान् ॥२८॥ नीत्वा गृहं भार्गवमाशु तावत्प्रादात्स पत्न्यै परिपोषणाय ॥ आवर्तयन्नानकदुंदुभिस्तं गोपीपुरे नंदकुले यथैव॥ ५९॥ सानपत्या- ह्यपत्यस्य लाभादत्यंतसंभ्रमा॥ पुपोप पुत्रवात्सल्यं तस्मिन्विन्यस्य तं तदा ॥६० ॥ सा चाजवल्ली वेदांतिन स्नेहस्नुतपयोधरा ॥ प्रददौ भक्तिसाराय स्तन्यं तत्पुत्रवत्सला ॥६१ ॥ यथा यशोदा कृष्णाय वेदांतिन् नंदगोकुले॥ अविज्ञातस्तन्यपानरुचिश्चानुभवादरे॥६॥न भार्गवो मनश्चके स्तन्यपाने कदाचन। ब्रह्मानुभवसंजातरसानंदादित प्तिमान् ॥६३॥ उदितादित्यवत्सम्यगवर्द्धत दिनदिने ॥ सदा भगवत- स्तस्य गुणानुभवधारकः ॥ ६४॥ मलमूत्रादिरहितस्तस्थौ संत्यक्त- रोदनात्यक्तवाग्व्यवहारश्च निवृत्ताध्यात्मिकादिकः॥६५॥ प्रवर्द्ध- मानसर्वागः परिपूर्णोऽभवन्मुनिः ॥६६॥ इति श्रीप्रपन्नामृते भट्टार्य- वेदान्तिसंवादे भक्तिसारावतारकथनं नामाष्टसप्ततितमोऽध्यायः॥७८॥ एकोनाशीतितमोऽध्यायः । ततो महीसारपुराधिवासी प्राज्ञो महान्कश्चन शूद्रवृद्धः।। श्रुत्वाद्भुतं तस्य शिशोः प्रभावं द्रष्टुं समायात्तनयेन रिक्तः ॥१॥ प्राप्यालयं शूर्प- कृतस्स वृद्धः सुक्काथितक्षीरमयोपहारः॥ दृष्ट्वा शिशुं तत्र चतुर्थवंश्यो विसिस्मिये दिव्यमहो निदानम् ॥२॥श्रीदिव्यमरिचरिते श्लोकद्वय- मुदाहृतम् ॥ चतुर्थवर्णस्तत्रस्थः कश्चित्प्राज्ञाभिधानकः ॥ ३ ॥ श्रुत्वातिमानुपं तस्य भार्गवीयस्य वैभवम् । अत्यंतविस्मयो वृद्धः भार्यया महितस्तदा ॥ ४ ॥कथितं सत्पयः सम्यक् तत्समादाय भक्तित. ॥ तत्र गत्वांजसा वालमपश्यदमितौजसम् ॥५॥ पंचशस्या- अध्यायः ७९. ( २५१) मनस्तस्य शिशोरप्राकृतं महत् ॥ विलोक्य विस्मितोत्यंत तत्क्षीरं च. समर्प्य सः॥६॥ बहुशः प्रार्थयामास पयःपानाय तं शिशुम् ॥ एवं संप्रार्थितस्तेन भक्तिसारः कृपावशात् ॥ ७ ॥ अपिबत्तत्पयः सम्यग्भक्तिसारो हि माधव ॥ एवं संप्रार्थितस्तेन कंचित्कालं दिन- दिने ॥ ८॥ तत्क्षीरमपिबद्भत्त्या तस्यानुग्रहकारकः ।। स तयोवृद्ध- दंपत्योस्तन्मनोभावमंजसा ॥ ९ ॥ ज्ञात्वा तथा समाहूय व्याज- हार वचः शुभम् ॥ मत्पीतशेपं यत्क्षीरं तदिदं पिबतं युवाम् ॥१०॥ अपत्यलाभो भवतोभविष्यति न संशयः ॥ इत्युक्त्वा वृद्धदंपत्योः प्रददौ तत्पयस्तदा ॥ ११॥ तत्क्षीरपानमात्रेण तौ तदा वृद्धदंपती ।। संप्राप्तयौवनौ स्निग्धौ वभूवतरिवामरौ ॥ १२॥ ततो गर्भवती साध्वी दशमे मासि सुंदरी ॥ सा तेन सुषुवे पुत्रं भगवद्भक्तिपारगम् ॥ १३॥ भक्तिसारकटाक्षेण धीमतं विदुरोपमम्॥विलोक्यं पुत्रं संतुष्टः स तं प्राज्ञो महौजसम् ।। १४॥ कणिकृष्ण इति ख्यातं नाम चक्रेऽस्य मंग- लम् ॥कणिकृष्णः स बालोथ भक्तिसारावीक्षणात् ॥ जग्राह सकला विद्यास्ततोभूद्भगवत्कविः ॥ १५॥ चकार नाम्ना कणिकृष्णमेनम- शिक्षयत्सर्वकलाश्च तात ॥ सोप्याचरन् भार्गवपादसेवां मुकुन्दभक्ति- श्रवणो बभूव ॥ १६॥स भार्गवीयो भगवत्कटाक्षदयासुधास्वादनत- तचेताः ॥ समुत्थिताहारपयोभिलापः कुले मुदावर्द्धत वेत्रिकाणाम् ॥ १७॥ विचक्षणो विश्वविमोहहेतोः कुलोचिताचारकलानुपक्तः॥ पुण्ये महीसारपुरे विधाय विक्रीय शूर्प विजहार योगी ॥१८॥ आसप्त- व स्थित्वात्र वेत्रसंपुटकृहे ॥ऋपिपुत्रो भक्तिसारो बाल्येन चतुर- स्तदा ॥ १९॥ अवर्ततानपानादिवर्जितः कृपया हरेः ॥ ततः स्वतो- नपानादिजाताभिलपितो महान् ॥ २० ॥ तस्माद्हाद्विनिर्गत्य संचरंस्तत्रतत्र च ॥तीर्थयात्रापरो नित्यं कंचित्कालमवर्तत ॥२१॥ अष्टांगयोग संजज्ञे मनस्तस्य महात्मनः ॥ यजगत्कारणं वस्तु तयानविषयं विदुः॥ २२॥ तद्वस्तु कीदृशमिति तस्य चिंताभवत्तदा।।

(२५२) प्रपन्नामृते- बहवः समयाः सन्ति लोके दृढतराः शुभाः ॥२३॥ सम्यक् प्रविश्य तेष्वाशु यजगत्कारणं परम् ॥ अन्वेष्टव्यं प्रयत्नेन सांप्रतं सुदृढं मया ॥२४॥ भक्तिसारो विनिश्चित्त्य स एवं मनसा तदा ॥ मतेषु तेषु सर्वेषु प्रविवेश महामतिः ॥२५॥ शाक्योलक्याक्षपा- दाश्च कापिलश्च पतंजलिः॥ एते बाह्यमताः प्रोक्तास्तान्सर्वान्स व्यशोधयत् ॥२६॥ मायावादं च शैवं च न्यायवैशेषिको तथा ॥ एते कुदृष्टिसमयाः भट्टप्राभाकरादयः ॥ २७ ॥ मतेष्वेतादृशेष्वेवं सर्वेष्वन्येषु भक्तितः॥आलोड्यालोड्य बहुशस्तज्ज्ञात्वा तुच्छमित्यतः ॥२८॥ परिबभ्राम वेदांतिन् सहस्राब्दांतमंजसा ॥ असारभूतांस्ता- ज्ञात्वा समयानखिलास्तदा ॥२९॥ ततः शैवमते धीमान भक्तिसारो विवेश सः॥शिववाक्याभिधानः संस्तन्मते वहुभक्तिमान् ॥ ३० ॥ ग्रंथा शिवपरांश्चके बहून् द्राविडभाषया॥शिव एव परंतत्त्वीमति मत्वा मनः स्थिरम्॥३१॥निधाय तत्र वेदांतिश्चचार विगतज्वर शिववाक्यो- न्यसमयास्तृणीकृत्यमहामनाः ॥३२॥ तेषां संभापणस्पर्शदर्शनादिवि- 'वर्जितः मौनव्रतपरोभूत्वा तद्भक्ताग्रेसरोमहान् ॥ ३३॥ भक्तिसारस्य वृत्तांतं निशम्य महदाह्वयः॥ तं शिक्षितुमियेपार्यों भगवत्कृपया तदा ॥ ॥३४॥ शिववाक्यो महान्यत्र वर्तते शिवभक्तिमान् ॥ आजगामा- जसा तत्र भगवान्महदाह्वयः ॥३५॥ धृतोपुंडूः स महाल्लाटे भुजद्वये लक्षितशंखचकः ॥ पद्माक्षमालादिविशोभिकंठोटलक्ष्यता- दित्यसमानकांतिः॥ ३६ ॥ स तं विलोक्यैव महाभिधानमग्रेसर ब्रह्मविदां महांतम् ॥ अपक्वचित्तो विमुखस्तदानीं शिवैकनिष्टो भगव- स्परस्य ॥३७॥ इति श्रीप्रपन्नामृते भट्टार्यवेदान्तिसंवादे कणिकृष्णा- वतारकथनं नामकोनाशीतितमोऽध्यायः॥ ७९ ॥ अशीतितमोऽध्यायः। ततः संचित्य भगवान्महदाख्यो महामतिः ॥ तेन संभापणं कर्तु कंचिद्यनं चकार सः॥ १॥ तस्यारामस्य निकटे कंचिदारामम- अध्यायः ८०. (२५३) जसा ॥ विधाय वृक्षानारोप्य तानधःशिरसस्तथा ॥२॥ तेनच्छि- घटेनांभः समुद्धृत्यांमसांनिधौ।सिंचन्कृतालवालेपु दृढमौनोव्यति- टत ॥३॥ शिववाक्यः स तं दृष्ट्वा प्रहसंस्तस्य चांतिकम् ॥ आ- गत्य मतिमाञ्छ्रीनं तमवोचद्वचः शुभम् ॥ ४॥ किं त्वं भ्रांतो विष्णु- दास किं कार्य कृतवानसि ॥ तदंतरं समालभ्य महदाख्यस्तम- ब्रवीत् ॥ ५ ॥ न भ्रांतोहं भवान् भ्रांतः सम्यम्घृदि विचारय ।। शिववाक्यो महाख्यस्य प्रतिगृह्य वचस्तथा ॥६॥ शिवभक्तो विष्णु- भक्तं भूयो वचनमब्रवीत् ॥. अनेन भ्रांतकार्येण भ्रांतः प्रत्यक्षतो भवान ॥ ७ ॥ अहं भ्रांतः कथमिति मृपा वाक्यं प्रभापसे ॥निश- म्य तद्वचः सम्यक्तमभापत सत्तमः ॥ ८॥ यज्जगत्कारणं वस्तु तदज्ञानाद्विमोहितः॥ अजानानो भ्रांतवत्त्वं परिभ्रमसि वैकिल ॥९॥ अतो ह्यज्ञाततत्त्वार्थों भवान्नास्त्यत्र संशयः॥ अहं तु ज्ञाततत्त्वार्थः स्थिरधीरेकधर्मवान् ॥ १०॥ त्वं वा भ्रांतो ह्यहं भ्रांतः सम्यगत्र विचार्य्यताम् ॥ आकर्ण्य तद्वचस्तस्य शिववाक्यो महामतिः ॥ ११ ॥ तत्त्वप्रियो महाविद्वान्महदाख्यमभापत ।। कथं त्वं ज्ञातत- त्वार्थों नाहमज्ञाततत्त्वकः ॥ १२ ॥ अहमेव हि तत्त्वार्थज्ञानवान्नात्र संशयः॥ तदेव ते प्रवक्ष्यामि सांप्रतं शृणु तत्त्वतः ॥ १३॥ यज्जगत्कारणं वस्तु वेदान्तप्रतिपादितम् ॥ व्यासादिमुनिनिर्णी- तं हरब्रह्मादिवंदितम् ।। १४॥ परात्परतरं वस्तु स एव परमः शिवः ॥ शिवादन्यत्परं नास्तीत्येवं हृदि निबोध हि ।। १५ ॥ प्रतिगृह्य वच- स्तस्य प्रदृष्टो महदाह्वयः ॥ भक्तिसारं विलोक्यैवं जगाद वचनं हितम् ।।१६।। यत्त्वयोक्तमिदं वाक्यं तत्सत्यं साधुसंमतम् ॥ नविध तेत्र विशयो भक्तिसार महामते ॥ १७ ॥ यत्तत्परात्परं वस्तु सूक्ष्मबुद्ध्या विचार्य्यताम् ॥ अरक्ष्यं यदनुत्पन्नमन्येपामपि रक्षकम ॥ १८ ॥ तज्जगत्कारणं वस्तु तच्च वेदांतसंमतम् ॥ परात्परतरं (२५४) प्रपन्नामृते- वस्तु तदेवेत्यवधारय ॥ १९ ॥ उत्पत्तिः श्रूयते तस्य शिवस्य विदुषां वर ॥ सर्वे देवाः सपितरोब्रह्माद्याश्चांडमध्यगाः॥२०॥ वि- प्णोः सकाशादुत्पन्ना इतीयं वैदिकी श्रुतिः ॥ पुराणे भारते वेदे वेदांते च स्मृतावपि ॥ २१ ॥ स च संरक्षितस्तेन विष्णुना वहुधा किल ॥ विप्रकारवचांस्यार्य त्रीण्येव भवतो हितम् ॥ २२ ॥ शिववाक्यं प्रव- क्ष्यामि सांप्रतं शृणु तत्त्वतः ॥प्रसिद्धास्त्रय एवैते विष्णब्रह्मशिवाः कि- ल ॥२३॥ ते त्रयस्त्रिविधा देवाः सत्त्वराजसतामसाः॥शुद्धसत्त्वमयो विष्णुर्ब्रह्मा राजससंभवः ॥ २४ ॥ तमोगुणमयो रुद्र इत्येपा शास्त्र- पद्धतिः॥ को वा मोक्षप्रदस्तेपां त्वयैवात्र विचार्य्यताम् ॥२५॥ एकेन पादकमलं शिववाक्यप्रसारितम् ॥ एकेन भालितं भक्त्या तत्पादकम- लं किल ॥२६ ॥ तत्पादतोयमेन मूर्ध्नि सद्भक्तितो धृतम् ॥ तेषां जयाणां को विद्वन् महानिति विचार्य्यताम् ॥२७॥ यन्मयोक्तमिदं सम्यक सूक्ष्मबुद्ध्या विचार्यताम् ॥ तस्यतस्याकृतिः सम्यक् परतत्त्वं प्रवक्ष्यते ॥ भवितायं न भविता यत्तत्तत्त्वमिति स्फुटम् ॥ २८ ॥ शिवाकृतिभस्मसुदिग्धगात्रा चर्माबरा ब्रह्मकपालमाला ॥ धृता- क्षमाला पितृकाननस्था जटाधरा दिग्वसना किलेयम् ॥ २९ ॥ ब्रह्माकृतिः स्रक्सवदर्भहस्ता सुतीर्थसंपूर्णकमंडलुश्च ॥ धृताक्षमाला कृतवेदपाठा सदा समाराधितरंगधामा॥३०॥ अस्तीति किंचिन्म- हनीयतत्त्वं तद्धयायती वेपमितो विभाति ॥ अप्राप्तकामार्थपरा- दिकेच्छा यस्याकृतितां विधिरुद्भयोश्च ॥३॥ विष्ण्वाकृतिश्चंदनभूपि- तांगा पार्श्वद्रये शोभितदिव्यनारी।भुजांतरस्था महनीयलक्ष्मीः किरी टमंजीरमुखादिभूपा॥ ३२॥ मंदारमालांचितकेशबंधा पीतांबरालंकृ-. तनीलगात्राअवाप्तकामैव विभाति सैपा विष्ण्वाकृतिस्तां विधायं पश्य ॥ ३३ ॥ विरंचिरुद्रयोः स्वामी भगवान्विष्णरव्ययः॥ यदायदा च संमातमनिष्टमसुरेस्तयोः ॥३॥अंजसापोह्य तत्सर्वमिष्टप्राप्तिं ददौ अध्याय:८०. (२५५) किल ॥ सर्वलोकप्रसिद्धं हि यदेतच्छास्त्रसंमतम् ॥ ३५ ॥ आलो- ड्य सर्वशास्त्राणि विचार्य च पुनःपुनः ॥ इदमकें सुनिष्पन्नं ध्येयो नारायणः सदा ।। ३६॥ एवं शतसहस्राणि प्रमाणानि यथाविधि ॥ सत्तर्कसहितान्येव सर्वज्ञत्वान्महामतिः ॥ ३७॥ तानि वादमुखेनैव प्रतिपायार्यसंमतम् । पराशरादिवत्सम्यगकरोत्तत्त्वनिर्णयम् ॥३८॥ संतुष्टस्तेन वाक्येन स सम्यक्छिन्नसंशयः ॥ भक्तिसारो महाख्यस्य शिष्यत्वमकरोत्तदा ॥ ३९॥ स तस्मै भक्तिसाराय विष्वक्सेनकृपाव- शात् ।। तापादिपंचसंस्कारांश्चकार महदाह्वयः ॥ ४० ॥ सम्यग- टांगयोगं च तद्यानविपयं महत् ॥ यजगत्कारणं वस्तु तत्सर्वमुप- दिश्य सः ॥४१॥ कृतकृत्यो महायोगी मुदं चके महात्मने ।। यदि- व्यात्मस्वरूपं च ज्ञानशक्त्यादिका गुणाः॥४२॥ तयोः प्रकाशकं यत्तदिव्यमंगलविग्रहम् ॥ किरीटनूपुरांतादिदिव्यभूपणकानि च॥४३॥ शंखचक्राद्यायुधानि लक्ष्मीभूम्यादिकाः स्त्रियः ॥ एतैर्विराजमानं च भगवंत तमच्युतम् ॥४४॥ नित्यकैंकर्यनिरतैर्नित्यमुक्तैश्च सेवितम् ॥ तस्य भोगविभूत्याख्यं यन्महत्परमं पदम् ॥ ४५ ॥ संप्रकाश्य तु शास्त्रेण भक्तिसाराय भक्तितः। स तेनाष्टांगयोगेन साक्षात्कारमकल्प- यत् ॥४६॥ जीवप्रधानकालात्मलीलासृष्टयादिकांश्च तान् ॥ सदा- रकाद्वारकाभ्यां सर्व सम्यगवोधयत् ॥४७॥ तयोर्विभूत्योर्यः कर्ता स एव भगवान्हरिः ॥ विभूतिद्वयनाथस्य तस्य विष्णोर्जगत्पतेः ।। ॥४८॥विधाता विश्वसृड् ब्रह्मा नाभिपद्मादजायत ।। ज्येष्टपुत्रो महान- शे विधातुस्तस्य शंकरः ॥४९॥ इत्येवं लोकशिक्षार्थ भक्तिसारो महायशाः ॥ नारायणपरान् ग्रथांश्च द्राविडभापया ॥२०॥ भक्तिसारेण सुमहान् महदाख्यः सुपूजितः ॥ तीर्थयात्रापरो धीमान् प्रतस्थे दिशमुत्तराम् ॥५१॥ भक्तिसारोपि वेदांतिन्नेवं यत्नेन भूयसा ॥ विपर्ययात्मकं ज्ञानं यच्च तत्संशयात्मकम् ॥ ५२ ।। उत्सृज्य दूरतः (२५६) प्रपन्नामृते- सम्यगुभयं तत्त्वदर्शनात् ॥ तस्मादितरसिद्धांतनिराकरणपूर्वकम् ॥५३॥ स्वमतस्थापनं चक्रे महदाख्योपदेशतः ॥ आलोच्य सर्व- शास्त्राणि विचार्य च पुनःपुनः ॥५४॥ इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा ॥ योगीश्वरं जगन्नाथं जिष्णुं विष्णुं श्रियः पतिम्॥५५॥ पद्मनाभं विशालाक्षं चिंतयामि जगत्पतिम ॥ इत्येवं पुंडरीकाक्षं जग- तः कारणं परम् ॥५६॥ श्रियः पर्ति जगन्नाथं सर्वातर्बहिरास्थितम्।। हृत्पुंडरीके योगेन तेनाष्टांगेन संततम् ॥ २७ ॥ ध्यायन् कृतार्थों वेदांतिन् पुण्ये कैरविणीतटे ॥ उवास तत्र योगींद्रः यः सप्तशतवत्सरान ॥५८॥ एवं महान् सर्वमतान्विशोध्य ज्ञात्वार्थतत्त्वार्थमचंचलात्मा। महाख्यपदांबुजशृंगराजः परं विरेजे भगवत्पराग्यः ॥५९ ॥ तत्त्वार्थ- सारं निगमांतशास्त्रनिर्णीतमर्थं तमिमं महान्तम्॥ श्रुत्वानिशं यो हृदयं द्धाति नोपैति मृत्यु स भवेन्मुमुक्षुः ॥६०॥ इति प्रपन्नामृते भट्टार्य- वेदान्तिसंवादे महदाख्यतत्त्वोपदेशकथनं नामाशीतितमोऽ- ध्यायः ॥ ८०॥ एकाशीतितमोऽध्यायः। अस्मद्यतिः प्रणम्याथ भद्यार्य भगवत्प्रियम् ॥ भूयः पप्रच्छ वै धी- मान् भक्तिसारस्य वैभवम् ॥ १॥ कति वर्षाणि भूलोके स्थितवान् योगिराडयम् ॥ यद्यच्चरित्रं सुमहद्विचित्रं ब्रूहि मे गुरो॥२॥ तस्य तद्वचनं श्रुत्वा श्रीरंगेशपुरोहितः॥प्रणम्य भक्तिसाराय वेदांतिनमथा- प्रवीत् ॥३॥ श्रूयतामभिधास्यामि भक्तिसारस्य वैभवम् । अत्य? तमिदं पुण्यं श्रोतृणामघनाशनम् ॥३॥ पुण्ये महाकैरविणीतटेस्मिन सद्भक्तितोसौ भगवद्गुणानाम् ॥ कुवैस्तदेवानुभवं महात्मा न्यपीदता- दित्यसमानकांतिः ॥ ५॥ ततस्तदा शैलसुतासमेतस्त्रिशूलपाणिg- पभाधिरूढः ॥ अलक्ष्यत व्योमतले स्वदीत्या प्रकाशयन् सर्वदिशो महात्मा ॥६॥ व्योमचारिणमायांत तं दृष्ट्वाशंकरंतदा ॥ अस्पृश्यामेव .

अध्यायः ८१. (२५७) तच्छायां ज्ञात्वा परमवैदिकः ॥७॥ भक्तिसारस्तदान्यत्र विवेशा- वरणस्थले ॥ तौ तदा दंपती दृष्ट्वा भक्तिसारविचेष्टितम् ॥ ८ ॥ निवार्य गमनं तत्र विस्मितौ तस्थतुः क्षणम् ॥ विलोक्य पार्वती नाथं शंकरं प्रत्यभापत ॥ ९ ॥ कोयं कथाधरो रुद्र प्रभाव- स्तस्य कीदृशः ॥ ज्ञातुमिच्छामि भवते रोचते यदि गम्यताम् ॥ १० ॥ निशम्य वाक्यं पार्वत्याः शंकरस्तामभापत ।। काश्च- न्महानुभावोयं भगवद्भक्तिपारगः ॥ ११ ॥ न च मां गणयत्यद्धा मत्तः कार्य न तस्य हि ॥ सा तद्वचनमाकर्ण्य प्रेम्णा भरिमनवी- त् ॥ १२ ॥ तथाविधमपि द्रष्टुं तमिच्छामि हरिप्रियम् ॥ अंगीकृत्य वचस्तस्याः पार्वत्याः शंकरः स्वयम् ।। १३ ।। आकाशाद्भूतलं प्राप्य पार्वत्या सहितोजसा ॥ भक्तिसारस्य निकटे तस्थौ सूर्योग्निवर्चसः ॥१४॥ उवाच स शिवस्तं वै भक्तिसारं हारिप्रियम् ॥ आगतं म विजानीहि तवाभीष्टवरप्रदम् ।। १५ ।। भक्तिसारस्तु भगवास्तूष्णी स्थित्वा किल स्वयम् ॥ पुरःस्थितमदृष्ट्दैव नेत्राभ्यामपिशंकरम्॥१६॥ सूत्राणि सूच्या कथायां सम्यक्संधारयन्स्थितः॥क्षणमा स्थितस्तत्र पार्वत्या सह शंकरः॥ १७॥ उदासीनं स्थितं वीक्ष्य भक्तिसारं वचो- ब्रवीत् ॥ पुरः स्थितमदृष्टदेव मामलक्ष्यं विधाय च ॥ १८॥ अपूज- यित्वा पूजाई देवानामधिपं शिवम् ॥ यधुदासीनवद्योगिन् वर्तसे तदि- होच्यताम् ।। १९॥ भक्तिसारो महेशस्य वचः श्रुत्वा तमब्रवीत् ॥ त्वत्तः प्रयोजनं नास्ति किंचिदप्यगजाधिप ॥ २० ॥ अतो युवा समालोक्य तूष्णीं भूतोस्मि निश्चलः ॥ तदुपश्चत्य वचनं निजगाद स शंकरः ॥२१॥ वरं प्रदातुं योगीश तवाहं समुपागतः॥ दास्यामि दुर्लभमपि यदीष्टं वृणु सत्वरम् ॥ २२॥ सर्वार्थनिस्पृहो योगी श्रुत्वा शंकरभाषितम् ॥ सर्वार्थदानयोग्यत्वात्सचैवं प्रत्यभापत ॥२३॥ नास्ति मे वाञ्छितं रुद्र मास्तु युष्मदरं ततः। स तदाकर्ण्य रुद्रोपि 210 (२५८) प्रपन्नामृते- व्याजहार पुनर्वचः ॥ २४॥ मदर्शनं नृणां लोके न कदाचिथा- भवत् ॥ तस्मान्मत्तो वरः सम्यक् संप्रार्थ्यस्ते शुभो यतः ॥ २५ ॥ एवं संप्रार्थितस्तेन भक्तिसारो महात्मना ॥ ययाचेभीष्टदातारमभी- एं हास्यकारणम् ॥ २६॥ यथा गच्छंत्यरुद्धेन सूचीमार्गेण तंतवः॥ तथैव मे वरं देहि सर्वाभीष्टप्रदायक ॥ २७ ॥ एवं हास्यकरं वाक्यं निशम्य कुपितस्तदा ॥ अनंगमिव तं कर्तुमि- इयेपाथ त्रिलोचनः॥२८॥ कुपितस्यास्य संजज्ञे निर्दहन्सर्वतो दिशः। ललाटलोचनादग्निर्युगांताग्निरिवोल्वणः ॥२९॥ भूम्यंतरिक्षे चाकाशे दिशः सर्वास्तथावृणोत् ॥ ज्वालामालासहस्रेण स महोग्रेण तं दहन ॥३०॥ कल्पानिनिभमत्युग्रं रौद्रमग्निं विलोक्य सः॥ पादांगुष्ठस्थितं चैक नेत्रमुन्मीलितं व्यधात् ॥३१॥ दक्षिणांगुष्ठनेत्राग्निकोटिसंवर्त- काग्निवत् ॥ उदभूदुज्ज्वलं तस्य स शंभुं प्रत्यपयत ॥ ३२ ॥ अत्यनिलदीप्तं तत्कोटिवैश्वानरप्रभम् ॥ अत्यद्भुतं समालोक्य शंभु- विस्मयमागतः ॥ ३३ ॥ वेदांतिन् भगवद्भक्तेः प्रभावः केन वर्ण्यते ।। खद्योतप्रायमभवत्तेजस्तच्छांभवं महत् ॥ ३४॥ भक्तिसारपदांगुष्ठने- त्राममहतस्तदा ॥ उत्कृष्टतेजसा तेन दह्यमानस्त्रिलोचनः॥३६॥ पार्वत्या सहितो रुद्रस्तत्तेजः सोढुमक्षमः ॥ पुष्कलावर्तकान्मेघान्प्र- लयानिनिवारकान ॥३६॥ आनयामास सहसा तदनिशमनाय च ॥ आकाशं निविडं सम्यङ् मेघसंघः समावृणोत् ॥३७॥ महद्विद्युद्गणो- पेतो सानिलोत्यंतगर्जितः ॥ महाकारकरोदग्रवर्पधाराभिरंजसा॥३८॥ तमग्निं शमयामासुमहांतं प्रलयांबुदाः॥ स ताभिर्वर्पधाराभिहन्यमानो न विव्यथे ॥ ३९ ॥ महाभागवतस्तत्र वेदांतिन्नचलो यथा ॥ भगवद्ध्यानसंजातसुखविस्मृतवाह्यजम् ॥४०॥ तं दृष्ट्वा विस्मितोत्यं- तमचलं पर्वतोपमम् । स तस्य प्रददौ नाम भक्तिसार इति श्रुतम् ॥ ११ ॥ बहुशः श्लाघयित्वाथ तदप्राकृतवैभवम् ।। विधाय सशिरः- अध्यायः८२. (२५९) कंपं पार्वत्या सह शंकरः ॥४२॥ दृष्टप्रभावो भगवान्सती वाचमुवाच ह ॥ अम्बरीपेण दुर्वासा यथा प्रागवमानितः ॥४३॥ तथाधुनाई गिरिजे भक्तिसारेण निर्जितः ॥ अतो भागवता देवि त्रैलोक्येपि सुदु- जयाः॥४४॥ इत्येवं वैभवं तस्य वेदातिञ् श्लायघन मुहुः ॥कैलासं पर्वतश्रेष्ठं जगाम प्रमथाधिपः ॥ ४५ ॥ भक्तिसारोपि तत्रैव योगेन भगवत्परः।। उवास भगवान्कालं कचिदाश्चर्यवैभवः ॥ ४६॥ इति श्रीप्रपन्नामृते भट्टार्य्यवेदांतिसंवादे भक्तिसारेण रुद्रपराजयो नामैका- शीतितमोऽध्यायः ।। ८१ ।। यशीतितमोऽध्यायः। व्याघ्रारूढस्ततः कश्चिच्छुक्तिहाराभिधानकआसीद्वयोमचरःसि- बनायको लोकविश्रुतः ॥ १॥ स कदाचित्समारुह्य व्याघ्रमंबरवर्त्म- नि ॥ चचाराव्याहतगतिः पूजितो निखिलैः सुरैः ॥ २॥ तस्य यो- गप्रभावेण व्याबोरुद्धगतिर्दिवि ॥न समर्थोंभवद्तुं तमलंध्यातितेज- सम् ॥३॥ तं निश्चलगतिं दृष्ट्वा व्याघ्र सिद्धेश्वरो महान् ॥ तिर्यमूर्द्ध दिशः सर्वास्ततोधो ददृशे महः ॥ ४॥ योगारूढं महात्मानं तं भूम्यां समवस्थितम् ॥ विलोक्य विस्मितोत्यंत व्याघ्रादुत्तीर्य भूतले ॥५॥ तदंतिकं समागत्य व्याजहार वचः शुभम् ॥ कंथा त्यजस्व भद्रं ते किमियं योगिपुंगव ॥ ६॥ कवचं धारयायेदं यदिव्यपदनिर्मितम् ।। दास्याम्याशु गृहाणार्या प्रीतस्तेहं प्रभावतः ॥७॥ इत्युत्का भक्तिसा- राय सिद्धोदात्कवचं तदा ॥ निपिध्य वै तत्कवचं भक्तिसारस्तदर्पितम् ॥ ८॥ माणिक्यरंजितं दिव्यं कवचं घुमणिप्रभम् ॥ विधाय सत्वरं- सम्यक् स्वसंकल्पेन तत्क्षणम् ।। ९॥ शुक्तिहाराय सिद्धाय दर्शया- मास योगिराट् ॥ तदिव्यकवचं दृष्ट्वा लजितः शुक्तिहारकः ॥ १०॥ स्वकंठमणिमालां तां समादायाशु भक्तितः ॥ अक्षमालां कुरुष्वेति भक्तिसाराय वै ददौ ॥ ११॥ भक्तिसारः स्वकंठस्थतुलसीपद्ममालि- (२६०) प्रपन्नामृते- काः ।। आदाय सत्वरं तस्मै पश्यपश्येत्यदर्शयत् ॥ १२ ॥ स विलो- क्याथ ताः सर्वा ह्यनय॑मणिमालिकाः ॥ सविस्मयः शुक्तिहारो व्या- जहार वचः शुभम् ॥ ॥ १३॥ महानुभावः परिपूर्णकामः सिद्धेश्वरो निर्जितसर्वविद्यः ॥ तस्मादहं जेतुमिमं समर्थों नैवास्मि लोके कतमः समर्थः ॥ १४॥ श्लाघयित्वा ततः सम्यग्भक्तिसारं महौजसम् ॥ यथागतं ययौ सिद्धो व्याघ्रारूढो महायशाः ॥ १५॥ ततः कौंकण- सिद्धाख्यो रसवादकुतूहली ॥ सम्यक्तद्वैभवं श्रुत्वा कश्चिदभ्येत्य संभ्रमात् ॥ १६॥ प्रददौ भक्तिसाराय गुटिका रसनिर्मिताम् ॥ वि- लोक्य तां भक्तिसारस्तं कौंकणमथाब्रवीत् ॥ १७॥ तया गुटिकया सिद्ध किं कार्य संभविष्यति ।। तनिशम्याथसिद्धेशो भक्तिसारमभापत ॥१८॥ अस्याः संस्पर्शनादेव लोहं भवति कांचनम् ॥ न च कस्यापि देयेयं प्राणवद्रक्षिता मया ॥ १९॥ भवते महते दत्ता रक्षणीया त्वया तथा ॥ तत्सिद्धवचनं श्रुत्वा तां निराकृत्य योगिराष्ट्र ॥ २० ॥ मर्दयित्वा स्वहस्तेन स्वदेहमृदमुत्थिताम् ॥ गुटिका तां विधायाशु कोंकणाय प्रदाय च ॥ २१ ॥ अस्याः संस्प- र्शनादेव शिला भवति कांचनम् ॥ इत्येतत्सिद्धवर्याय महिमानं तदूचिवान् ॥ २२ ॥ वेदांतिस्तत्परीक्षार्थ कोंकणः सहसा तदा ॥ करिमश्चित्पर्वते तत्र तां चिक्षेप तदर्पिताम् ॥ २३ ॥ गुटिकाया- स्तदा तस्याः स्पर्शमात्रेण पर्वतः॥ बभूव कांचनः श्रीमान महामेरु- रिवोज्ज्वलः ॥२४॥ स कांचनगिरिं दृष्ट्वा कोंकणोत्यंतविस्मयः ॥ भक्तिसारं प्रणम्याथ कृतार्थः प्रययौ तदा ॥ २५ ॥ ततो गुहांतरा- विटो भक्तिसारो महायशाः ॥ अष्टांगेनैव योगेन कंचित्कालमतिष्ठत ॥२६॥ सरोभिधानो भूताख्यो महदाख्यश्च ते त्रयः॥ चरित्वा निखिलान्देशांस्तदेशं स्वेच्छयागताः ॥ २७ ॥ अव्याकृतं दिव्य- तेजस्तदपश्यन् महत्तरम् ॥ ज्ञानदृष्टया ततस्तच विचार्य्यमतिवां- अध्यायः८३. (२६१) न्छया ॥२८॥ गुहायामगमंस्तत्र भक्तिसारदिदृक्षया ॥ भक्तिसारः स तान्दृष्ट्वा योगिनो भगवत्परान् ॥ २९ ॥ यथार्ह पूजयामास प्रत्युत्थानाभिवादनैः ॥ संपूजितास्ततस्तेन कृतासनपरिग्रहाः ॥३०॥ सुखोपविष्टं तं कृत्वा भक्तिसारं वचोब्रुवन् ॥ सुखेन वर्तते ब्रह्मन भार्गवात्मज किं भवान् ॥३१॥ कश्चिदष्टांगयोगोयमविच्छिन्नगतिः किल ॥ तेषां तद्वचनं श्रुत्वा भक्तिसारोभ्यभापत ॥३२॥ महात्मनांहि भवतां कृपया देशिकोत्तमाः ॥ कदाचिन्यूनता नास्ति दासभूतस्य सर्वथा ॥ ३३॥ एवं कुशलसंप्रश्ना ह्यन्योन्यं भगवत्पराः॥ कृता- न्योन्यपरिवंगाः पुलकांकितविग्रहाः ।। ३४ ॥ आनंदवाप्पनयनाः कृतान्योन्याभिवादनाः ॥ क्षीरवत्क्षीरसंमिश्रं मधुवन्मधुमिश्रितम ॥३५॥ चत्वारः सहिताश्चैते भगवद्ध्यानतत्पराः ॥ अष्टांगेनैव योगेन किंचित्कालं महौजसः॥३६॥ गुहायां न्यवसंस्तत्र वेदांतिस्ते यथासुखम् ॥ निवृत्तयोगास्ते सर्वे चत्वारो योगिपुंगवाः ॥ ३७ ॥ गुणानुभवकर्यानिरता ह्यभवस्ततः ॥ अनुज्ञातास्ततस्तेन सरोयो- ग्यादयस्त्रयः ॥ ३८॥ पृथ्वीसंचरणार्थाय निर्ययुर्भगवत्पराः ॥ ग्रामे- करात्रयो धीरा मौनव्रतपरायणा॥३९॥सहस्रत्रितयें चैव त्रिशतं पंचविं- शतिम्।वित्सराणां विधायाशु भूसंचारं गतकमाः॥अवापुर्विष्णुसालो- क्यं देहलीनगरे त्रयः ॥४०॥ इति श्रीप्रपन्नामृते भहार्यवेदान्तिसंवादे भक्तिसारप्रभावकथने सरोयोग्यादीनां वैकुंठावाप्ति म ह्यशीतितमोऽ- ध्यायः॥ ८२॥ न्यशीतितमोऽध्यायः । स भार्गवात्मजो धीमान् भक्तिसारोथ योगिराट् ॥ स्वावतारस्थलं प्राप महीसारपुरं महत् ॥ १ ॥ तत्र श्वेतमृदं सम्यग् धारणार्थ विचार्य सः ॥ तस्याश्चालाभतो योगी चिंता- माप दुरत्ययाम् ॥२॥ ततो भक्तपराधीनो वेंकटेशो दयानिधिः ॥

(२६२) प्रपन्नामृते- तत्रागत्यांजसाप्येवमवोचद्भार्गवात्मजम् ॥ ३॥ यथोक्तकारिणः कांच्या सरोयोगिसुजन्मभूः ॥ मृदा तत्रत्यया कार्यमूर्ध्वपुंड्रस्य धार- णम् ॥ ४॥ तदंगीकृत्य वचनं भक्तिसारः श्रियः पतेः ॥ तत्र गत्वा मृदं सम्यगादाय स तया तदा ॥६॥ धृतोपुंड्रो भूसारक्षेत्रमागत्य योगिराट् ॥ जगन्नाथं तत्र नत्वा मंगवल्लीं मनोहराम् ॥ ६ ॥ कंचि- कालमुवासात्र तस्मादष्टांगयोगतः॥ ततः सत्यव्रतक्षेत्रे नित्यवास- परोभवत् ॥ ७॥ यच्च सत्यवतन्नाम क्षेत्रं पापविनाशनम् ॥ पुण्यक्षेत्रेषु सर्वेषु तस्यैव श्रेष्ठयमीरितम् ॥ ८ ॥ शयानः शेषपर्यंके कुंदेंदुधव- लप्रभ।।फणारत्नसहस्रांशुसहस्रफणविस्तृते ॥९॥ नीलजीमूतसंकाशा पद्मपत्रनिभेक्षणः ॥ सेव्यमानो विशालाक्ष्या श्रिया कमलहस्तया ॥ ॥ १० ॥ धरण्या च सुतन्वंग्या धाता विश्वस्य विश्वभुक् ॥ यथोक्त- कारी यत्रास्ते भगवान विष्णुरव्ययः॥ ११॥ स तं प्रणम्य सद्भक्त्या भगवंतं श्रियः पतिम् ॥ सरोयोगिसरस्तीरे ध्यायन्हरिपदांबुजम् ॥ ॥ १२॥ एतेनाष्टांगयोगेन यः सप्तशतवत्सरान ॥ उवास भगवद्भक्तो योगिराड् भार्गवात्मजः॥१३॥ कणिकृष्णस्तदा धीमान भक्तिसारम- शिश्रियत् ॥ भगवत्प्रवणस्तेन कणिकृष्णो महानभूत् ॥ १४ ॥ तत्रत्या स्थविरा काचिद्योगयुक्तस्य योगिनः॥ शुश्रूपामकरोत्या भक्तिसारस्य नित्यशः॥ १५॥ सम्यक् सामार्जयित्वा च गोमयेनोप- लिप्य च ॥ रंगवल्ल्यादिकं चक्रे योगस्थानं दिनेदिने॥१६॥तस्याः स तेन संतुष्टो भगवान् भार्गवात्मजः ॥ वृद्धायास्तन्मनोभीष्टं दातु- कामोभ्यभापत ॥ १७ ॥ कैंकर्येणाधुना तेन संतुष्टो जरठे तव ।। वरदोहं प्रदास्यामि वरं वरय संमतम् ॥ १८ ॥ तस्य तद्व- चनं श्रुत्वा भक्तिसारस्य मंगलम् ॥ संतुष्टा जरठा सैवं ययाचेभी- एमादरात् ॥१९॥ जरया पीडिता स्वामिन्नशक्ता गमनागमे ।। यौवनं देहि मे नित्यं यथा चाप्सरसां भवेत् ॥ २०॥ अंगीकृत्य पाप. १५२। वचस्तस्या भगवान् भार्गवात्मजः ॥ प्रेमादृष्ट्या जरठां तामपश्य. त्तथैव च ॥ २१॥ भक्तिसारकटाक्षेण सर्वाभीष्टप्रदायिना ॥ देवांगनेव सा वृद्धा बभौ संजातयौवना ॥ २२॥ तदा वल्लभराजाख्यः कांची- देशाधिपो महान् ॥ जिताप्सरोक्योरूपांस तां भूलोकसुन्दरीम्॥२३॥ विलोक्य मन्मथाविष्टो बभूव चलितेंद्रियः ॥ स तां संप्रार्थयामास सुन्दरी मदनातुरः ॥२४॥ प्रियाभरणवस्त्रादीनदापयित्वा प्रयत्नतः ॥ बहुशः प्रार्थिता तेन सा राज्ञा लोकसुन्दरी ॥ २५ ॥ तस्यानमहिपी राज्ञो बभूवान्यान्विहाय सा ॥ तान भोगान् मानुपान् दिव्यांस्तया साई महीपतिः ।। २६ ।। वुभुजे दिव्यसुन्दर्या वल्लभो देवसंपदाम् ।। विलोक्य यौवनं स्वीयं क्षीयमाणं दिनेदिने ॥२७॥ जरां संवर्द्धमानां तां स्वदेहे भृशदुःखितः।। तां नित्ययौवनां दृष्ट्वा वल्लभो लोकसुन्दरीम ॥२८॥ स राजा विस्मितः प्राह महिपीमजितस्मरः ॥ केन संपादित सुभूस्तवेदं नित्ययौवनम् ॥ २९ ॥ भूम्यामनित्यं सर्वेषां यौवनं किल सुन्दर ।। तत्रापि तद्विशेषेण योपितां क्षणभंगुरम् ॥ ३० ॥ शुक्लपक्षे चन्द्रमसः कला इव दिनेदिने नित्यमप्रतिमं दिव्यं वर्धते तब यौवनम् ॥३१॥ कृष्णपक्षे चन्द्रमसः कला इव दिनेदिने ॥ मदीयं यौवनं बाले विनश्यति किलाधुना ॥ ३२॥ तवेव यौवनप्राप्तिर्मम कस्माद्भ- विष्यति ॥ त्वत्प्रियस्याब्जनयने बहि तत्कारणं प्रिये॥३३॥तदाकर्ण्य बचो राज्ञः सुंदरी तमभापत ॥ यथोक्तकारिणस्तस्य कांच्यामचैव भूमिप ॥३४॥ विष्णोर्भगवतस्तस्य संनिधौ योगिपुंगवः ॥ भक्तिसा- राभिधो धीरो दयालुर्भार्गवात्मजः ॥ ३५ ॥ बहुकालं मया भत्त्या संम्यक् शुश्रूपितो महान् ॥ संतुष्टेनैव मे दत्तं जरठायै सुयौवनम् ॥३६॥ यद्यौवनं समालोक्य सुतरां मोहितो भवान् ॥ भक्ते यौवनप्राप्तौ तमुपायं ब्रवीम्यहम् ॥ ३७॥ भक्तिसारः पूर्णकामः स तु सर्वार्थनिस्पृहः ॥ भत्त्या शुश्रूपया लभ्यो न लभ्यो धनरा- (२६४) प्रपन्नामृते- शिभिः॥३८॥ राजसत्वाद्भवानूनं न कैंकर्यपरः किल ॥ कणिकृ- प्णाभिधस्तस्य शिष्यः कश्चिदभून्मुनेः ॥ ३९ ॥ स एवागच्छति किल मम गेहे दिनेदिने ॥ अक्षय्यं पात्रमादाय स तैः संशोभितो महान् ॥ ४० ॥ ऊर्ध्वपुरैदशभिरुचितस्थानलक्षितैः ॥ कंठसंशो- भितोदग्रतुलसीवनमालिकः ॥४१॥ पवित्रद्वयसंशोभी महाव्यज- नहस्तकः ॥ तमेव हि महात्मानं कणिकृष्णं नृपोत्तम ॥४२॥ सोयं पुरुषकारेण कणिकृष्णस्य योगिराट् ॥ भविष्यति प्रसन्नस्ते नान्यथा नृप निश्चयः ॥४३॥ निशम्य तद्रचो राजा संतुष्टः क- णिकृष्णकम् ।। समाहूयाथ सहसा तमवोचन्नृपस्तदा ॥ १४ ॥ संसेवितुं महात्मानमिच्छामि भवतो गुरुम् ॥ इहानयस्व तं शीघ्र तव श्रेयो भविष्यति ॥ ४५ ॥ तस्य राज्ञो वचः श्रुत्वा कणिकृष्णोभ्य- भापत ॥ कुत्रापि राजन योगींद्रो नैवागच्छति मे गुरुः ॥ ४६ ॥ कदाचिदपि दृष्टया वा त्वादशं तु न पश्यति ॥ अवाप्तकामः सर्वा- र्थनिस्पृहो जितशंकरः ॥ ४७ ॥ भक्तिसारो दुराराध्यस्त्वादशस्य महीपतेः ॥ श्रुत्वा स वल्लभस्तस्य कणिकृष्णस्य तद्वचः ॥४८॥ विपण्णहृदयश्चितामवाप महतीं तदा ॥ कणिकृष्णप्रभावज्ञा राज्ञः प्रि- यचिकीर्पवः॥४९॥ विपण्णहृदयं भूपमवोचन्केचिदागताः॥कणि- कृष्णकवित्वेन शुष्का अपि च पादपाः ॥ ५० ॥ पल्लवादियुताः शीघ्रं भवंति च न संशयः ॥ भगवद्विपया एवं गाथास्तेन कृता नृप ॥ ५१ ॥ यद्यनेन कृता राजन् भवदीयाधुना कृतिः ॥ नित्ययौव- नसंप्राप्तिर्भविष्यत्यधुनैव ते ॥५२॥ तेपां तद्वचनं श्रुत्वा संतुष्टो वल्लभस्तदा ॥ कणिकृष्णं तमानीय सम्यक् संपूज्य सादरम् ॥५३॥ स निवृत्तमतिस्तत्र भूयो वचनमब्रवीतात्वं मया कणिकृष्णाय महाक- विरिति श्रुतः॥५४॥ गाथा मद्विपयाः सम्यग्बद सांप्रतमादरात् ॥ तस्य तद्वचनं श्रुत्वा कणिकृष्णस्तमत्रवीत् ॥५५॥ भगवद्विपया

अध्याय:८३.
(२६५)
एव मया गाथा हि गीयते ॥ कदाचिदपि मानुष्यगाथा न क्रियते
मया ॥५६॥ भगवद्विपया वापि तदीयविपया तु वा ॥ इत्येतच्छा-
स्त्रनिर्णीता कर्त्तव्या कविना कृतिः॥ ५७ ॥ कथं नरस्तुति राजन
करिष्ये भगवत्परः ॥ तेन निर्बधितोप्येवं स्वकीयकृतिकारणे॥१८॥
कणिकृष्णः स भूपेन नांगीकारमवाप सः॥ विलोक्य कणिकृष्णार्य
तमुल्लंधितशासनम् ॥ ५९॥ मद्देशे न वसेत्येवं कुपितः प्राह भूपतिः।।
प्रतिगृह्य वचो राज्ञः कुपितस्य दृढवतः ॥ ६० ॥ तदाल्यदेशगमने
चकार मतिमान मतिम् ॥ भक्तिसारांतिकं गत्वा प्रणम्य प्रेमपूर्वकम् ।।
॥६१॥ नृपोक्तमखिलं तस्मै कणिकृष्णो न्यवेदयत् ॥ तच्छ्रुत्वा
वचनं तस्य भक्तिसारस्तमत्रवीत् ।। ६२ ।। आगच्छामि त्वया सादै
स भवान् यत्र गच्छति ॥ शेपतल्पे शयानं तं भगवंतमिहाच्युतम् ।।
॥३३॥ शिष्यप्रियो भक्तिसारः प्रणम्येदमभापत ॥ देवदेव जगन्नाथ
भक्ताभीष्प्रदायका॥६॥शृणु विज्ञापनं विष्णो दासभूतस्य मेऽधुना ॥
कणिकृष्णोस्मदीयोयं किलैवं भगवत्कविः ॥ ६५ ॥ राजा स्वविपयां
गाथां कुरुग्वेत्याह तं प्रति ॥ कणिकृष्णं समाहूय निबध्य बहुशो-
धुना ॥६६॥ तेन निधितोप्यत्र नानुमेने दृढवतः ॥ सतेन नृपतिः
कुद्धस्तमेवमवदद्धरे ॥ ६७ ॥ तवोल्लंधितकार्यस्य स्वराष्ट्रे न कृता-
लयः ॥ अतो मद्विपयं त्यक्त्वा गच्छान्यविपयं जवात् ।। ६८॥ स
तस्मादस्मदीयोयं भगवन्यत्र गच्छति ॥ तं देशमनुगच्छामि ह्यनुज्ञां
देहि मे जवात् ॥ ६९॥ स च भक्तपराधीनो भक्तिसारस्य तद्वचः ॥
शेपशायी निशम्येवं जगाद जगदाश्रयः ॥७० ॥ अहं त्वयैव गच्छा-
मि स भवान्यत्र यास्यसि ।। न त्वां विनान वत्साद्य क्षणं वा स्थातु-
मुत्सहे ॥ ७१ ॥ तेनैवमुक्तस्तं प्राह भक्तिसारो जगत्पतिम् ॥ यद्येवं
भवतश्चित्ते वर्ततेव्जाक्ष सांप्रतम् ॥७२॥ शेपशय्यां समाहृत्य कक्षे
निक्षिप्य सत्वरम् ॥ उत्तिष्ठागच्छ देवेश मया साई जगत्पते ॥७॥

(२६६) प्रपन्नामृते- भक्ताधीनस्य भक्तस्य तनिशम्योद्धतं वचः॥ शेषतल्पं समादाय भक्तोक्तवचनं यथा ॥ ७४ ॥ पृष्टतो भक्तिसारस्य भगवान् सहसा ययौ ॥ प्रययौ कणिकृष्णोपि सकुटुंबो महायशाः ॥ ॥ ७५ ॥ कंथां कक्षे स निक्षिप्य भक्तिसारस्ततः परम् ॥ पश्चा- द्ययौ शेषतल्पयादाय भगवान्हरिः ॥ ७६ ॥ पश्यतां सर्वलोकानां तं तदानुययौ किल ॥ ब्रह्मादयोखिला देवास्तमद्रीक्ष्यातिविस्मिताः ॥ ७७ ॥ कांचीपुरी विहायाशु तं तमेवान्वयुस्तदा ॥ देवराजादयः सर्वे हरयोटादशानघ ॥७८॥ एकांवरेशदयः सर्वे देवाः शैव- स्थलाधिपाः ॥ यथोक्तकारिणं देवं ते सर्वेऽनुययुस्तदा ॥ ७९ ॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चेतरजातयः ॥ विसृज्य कांची स- हसा ते सर्वेनुययुस्तदा ॥ ८० ॥ अयोध्येवाभवत्कांची वेदांतिन् निष्प्रभा तदा ॥ रामस्यारण्यगमने सर्वजंतुविवर्जिता ॥ ८३ ॥ अपि वृक्षाः परिम्लानाः सपुष्पांकुरकोरकाः ॥ उपततोदका नबः पल्बलानि सरांसि च ॥ ८२ ॥ कांच्या पश्चिमदिग्भागे कणि- कृष्णादयोखिलाः ॥ क्रोशमात्रं ततो गत्वा कचिदेशे प्रपेदिरे ॥८॥ तकरात्रमवसन् सर्वे कांचीजनाश्च ते ॥ एकस्थिताख्यं तस्यासी- वेदांतिस्तेन विश्रुतम् ॥ ८४॥ उदयास्तमयों कांच्यां न लक्ष्येते तदा पुनः ॥ अंधकारावृतां कांचों निशामिव गतप्रभाम् ॥ ८५ ॥ मंत्रिभिः सहसा राजा विलोक्यात्यंतदुःखितः ॥ एकस्थिताख्य तं देशं समासाद्य महीपतिः ॥ ८६ ॥ पोरैर्वृत्तांतमाकर्ण्य तत्सर्व वल्लभस्तदा ॥ बहुशः प्रार्थयामास देवराजं जगत्पतिम् ॥ ८७ ॥ प्रत्याख्यातोथ हरिणा देवराजेन वल्लभः ॥ यथोक्तकारिणं देवं प्रार्थ- यामास मंत्रिभिः ॥ ८८ ॥ तेन संप्रार्थितो राजा भगवान् भक्त वत्सलः ॥ भक्तिसारं महात्मानं प्रार्थयेत्याह भूपतिम् ॥ ८९ ॥ कणिकृष्णं प्रार्थयेति भक्तिसारेण चोदितः॥ कणिकृष्णस्य पादाब्जे

अध्यायः ८३.
प्रणम्य शिरसा तदा ॥९०॥ अकरोत्सहसा धीमानपराधक्षमापणम् ॥
प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा ॥ ९१ ॥ सैव लक्ष्मी-
महाभागा जगन्माता न संशयः ॥ लक्ष्मीपुरुपकारेण वैष्णवास्ते-
भवजनाः ॥ ९२॥ ततः प्रणाममात्रेण प्रसन्नस्तत्क्षणादभूत ॥ महा-
त्मा नृपतेस्तस्य कणिकृष्णः कृतागसः ॥ ९३ ॥ कणिकृष्णेन
भक्तेन ततः संग्रार्थिताः सुराः ॥ भक्ताधीनास्ततः सर्वे भगवंतः कृता-
दराः॥९॥भक्तिसारश्च भगवान्स्वस्वंस्थानं प्रपेदिरे॥विलोक्य वल्लभः
प्रीतस्तांपुरी पूर्ववस्थिताम् ॥ ९५ ॥ ज्ञातप्रभावस्तत्पादे भक्तिमान-
भवत्तदा॥शयानं शेपपर्यके भक्तिसारः प्रणम्य तम् ॥९६॥ एवं विज्ञा-
पनं चक्रे लोकानुग्रहतत्परः । यथोक्तकारिनामा त्वं मत्कृतेस्मिन्म-
हीतले ।।९७॥ प्रत्यक्षभूतः सर्वेपामत्रत्यानां निरंतरम् ॥ सर्वाभीष्टप्रदो
देव वसात्रैव जगत्पते॥९८॥तद्वचः प्रतिगृह्याशु भक्तस्य भगवान्हरिः॥
सर्वाभीष्टप्रदोद्यापि वेदांतिन् परिदृश्यते ॥ ९९ ॥ यथोक्तकारिना-
मास्य तदाप्रभृति सत्तम ॥ त्रैलोक्यविदितं विष्णोर्बभूव परमात्मनः
॥ १०० ॥ विष्णुः सर्वत्र वेदांतिञ् शेते दक्षिणपार्श्वतः॥ श्रीकांच्या
वामभागेन भक्तिसारकृते हरिः॥ १०१ ॥ पूर्वोत्तरशिराः शेते वेगव-
त्याः कृतेनघायथोक्तकारीवेदांतिस्तदा प्रत्यङ्मुखः किल ॥१०२॥
ततो याम्यशिराः प्रत्यङ्मुखःशेते हरिस्तदा ।। सूचयन्निव लोकेभ्यो
भक्तवात्सल्यमद्भुतम् ॥ १०३ ॥ भक्तिसारकृते तत्र प्रद्यापि परि-
दृश्यते ॥ भक्तिसारोपि तत्रैव कंचित्कालसुवास सः॥१०॥ स ते-
नाष्टांगयोगेन ध्यायन्हरिपदांबुजम् ।। तत्रैव कणिकृष्णोपि भक्तिसार-
स्य संततम् ।। तस्थौ स कुर्वन्कैकयं जगद्विदितवैभवः ॥ १०५॥
एतादृशं सत्यमनंतरूपं श्रीभक्तिसारस्य महात्मनोग्यम् ॥ प्रभाव-
मार्याः सततं पठति तेषां यशः श्रीरतुलास्तु नित्या ॥१०६ ।। इति
श्रीप्रपन्नामृते भहार्यवेदान्तिसंवादे भक्तिसारवैभवातिशयकथनं नाम
व्यशीतितमोऽध्यायः ॥ ८३ ॥

(२६८) प्रपन्नामृते- चतुरशीतितमोऽध्यायः। ततो ययौ कुंभकोणं यात्रापरवशो महान् ॥ भक्तिसारोमहीसार- क्षेत्रंजो दक्षिणां दिशम् ॥ ३ ॥ यो नरः कुंभकोणेस्मिन् क्षणाईमधि- तिष्ठति ॥ करस्थं तस्य कैवल्यं किमुतान्या विभूतयः॥२॥ एताह- शप्रभावेस्मिन् कुंभकोणे महास्थले ॥ तत्रैव नित्यवासाय भक्तिसारो- प्यमन्यत ॥शाशाङ्गपाणेमहाभत्त्या सेवार्थ महतो जवात् ।। गच्छन् मार्गे पुरं प्रापमहाव्याघपुराभिधम् ॥ ४॥ गृहेथ कस्यचित्तत्र भक्ति- सारो निपेदिवान।।बहिर्वित तत्रैव चकरध्ययनं द्विजाः॥५॥ तं विलो- क्याद्विजं मत्वा निवृत्ताध्यापनाः स्थिताः।तत्प्रभावमजानंतोगूढं यद्र- मवर्चसम् ॥६॥ तदुद्वीक्ष्याथ सहसा तवान्यस्थलमाप सः॥ तेषां तद्विस्मृतं वाक्यं तदनतंरसंस्थितम् ॥७॥ तव्याकुलांतःकरणाः किमिदंकिमिदं बत ॥ अपस्मृतस्य को हेतुरिति चिंतां तदागमन् ॥८॥ भक्तिसारःसतान दृष्ट्वा वेदांतिन् करुणार्णवः।। कृतागःस्वपि संजातक्ष- मावान भगवत्परः॥९॥ नीलबीहीन् नखैः सम्यक् कृत्वा निर्भिन्नम- जसा ॥ संज्ञया कृपया तेषां तद्वाक्यस्मरणं व्यधात् ॥ तत्प्रभावपरः श्लोको बहुधा श्रूयते भुवि ॥ १० ॥ विमानिनो योगिवरस्य ते श्रुते- विमुग्धशेपप्रतिभाविवर्जिताः ॥तमन्वयुस्तत्प्रतिभाविवर्द्धये स कृष्ण- शालीनखदारितान्व्यधात् ॥ ११॥ कृतार्थास्तेन ते सर्वे ब्राह्मणा वेदपारगाः॥ भगवंतं महात्मानं भक्तिसारमपूजयन् ॥ १२ ॥ न शूद्रा भगद्भक्ता विना भागवताः स्मृताः। सर्ववर्णेषु ते शूद्राये ह्यभक्ता जनार्दने ॥ १३ ॥ इत्युक्त्वा तं परिक्रम्य भक्तिसारं प्रणम्य च ॥ कृतार्थाः पूर्ववद्वेदं पठंतः सुखमास्थिताः ॥१४॥ उच्छवृत्तिपरोधी- मान् भक्तिसारो महायशाः ॥ उञ्छं कर्तुं ततो ग्रामे यांयां वीथों स आगमत् ॥ १५॥ तस्यास्तस्याः प्रतोल्याश्च तदा ह्याभिमुखं ययौ॥ तब ग्रामेचितो भूतो भगवान्विष्णुरव्ययः॥ १६ ॥ तस्यार्चकाः अध्यायः८४. (२६९) समुदुद्वीक्ष्य तचित्रं परमाद्भुतम् ॥ विस्मिता ब्राह्मणेभ्यश्च कतिभ्यः समदर्शयन् ॥ १७॥ ते तत्र यज्ञशालायां समागत्याशु संभ्रमम् ।। द्विजास्तमृत्विजः सर्वान् दीक्षितं चावंस्तदा ॥ १८॥ दृष्टं मह- चित्रमिदं नेत्रसाफल्यवत्स्फुटम् ॥ अत्यद्भुतं भक्तिसारणभावमतिमा- नुपम् ॥ १९ ॥ तच्छ्रुत्वा दीक्षितोत्यंत शालायां बहिरंजसा ॥ निर्गत्य तद्विचित्रंतु वीक्ष्य देवालये तदा॥२०॥ भक्तिसारं विलोक्याथ प्रणिपत्येदमब्रवीत् ॥ भक्तिसार जगद्वंद्य कृतार्थोस्मि तवागमात् ॥ अद्यैव सफलो यागः संतुष्टाः सर्वदेवताः ॥ २१॥ अक्ष्णोः फलं त्वाशदर्शनं हि जिहाफलं त्वादशनामकीर्तनम् ॥ शिरःफलं त्वादशवंदनं हि पाण्योः फलं त्वादशपूजनं हि ॥ २२ ॥ इत्यु- वा दीक्षितः सम्यग्घरिपादो महौजसम् ॥ आदाय यज्ञशालायां प्रार्थनापूर्वकं तदा ॥२३॥ अग्र्यासने समारोप्य ब्रह्ममंडलमध्यगे । अकरोदग्रपूजां तां स तस्मै विधिपूर्वकम् ॥२४॥ सर्वेषां पश्यतां तत्र ऋत्विजां ब्रह्मवादिनाम् ॥ राजसूयाध्वरे कृष्णं गोविंदं पशुपांगजम् ॥ ॥२९ ॥ अपूजयन्महाभक्त्या धर्मराजः पुरा यथा ॥ अध्वर्युप्रमुखा- स्तत्र तेग्रपूजां विलोक्य ताम् ॥ २६॥ गर्हयंतः शपंतश्च भक्तिसारं च दीक्षितम् ॥ शिशुपालादिवत्पूर्व श्रीकृष्णं च युधिष्टिरम् ॥ २७ ॥ तमाहितानि संवीक्ष्य कोपेनैवोचुरीदृशम् ॥ मूढेन भवता मंद मूढयागः कृतः किल ॥ २८ ॥ शुद्धं कंचित्समादाय शौचाचारादिवर्जितम् ॥ देवब्राह्मणसंपूर्णे शालामध्ये पवित्रके ॥२९॥ ऋत्विजोन्याननाहत्य वेदवेदांवपारगान् ॥ अग्रासने समारोप्य तस्मै शुद्राय सत्वरम् ॥ ॥ ३० ॥ अग्रपूजा कृता तेन भवता सोमयाजिना ॥ प्रनष्टस्तव यागोयमेतेन च भवांस्तथा ॥३३॥ इत्युक्त्वा परुपं वाक्यं बहुशस्तं च दीक्षितम् । तत्प्रभावमजानंतो निनिंदुरखिला जनाः ॥ ३२ ॥ असहिष्णुः स तद्वाक्यं निशम्य परुपं महान् ॥ प्रव्याकुलांतःकरणो भक्तिसारमुखांबुजम् ॥ ३३ ॥ विलोक्य भगवद्भक्तो व्याजहार वचः

(२७०)
प्रपन्नामृते-
शुभम् ॥ भक्तिसार महाभाग श्रुतं चैतद्वचः किल ॥ ३४ ॥ एते
परुपवाक्यानि ह्यसह्यानि वदंति हि ॥ कथं सहिष्ये ताना> त्वद्भ-
तोहं महात्मक ॥ ३५ ॥ निंदां भगवतः शृण्वस्तत्परस्य जनस्य
वा॥ ततो नापैति यः सोपि यात्यधः सुकृताच्च्युतः ॥ ३६॥ अंगी-
कृत्य वचस्तस्य दीक्षितस्य दयाबुधिः ॥ इयेप तत्र यत्स्वीयं महिमानं
प्रदर्शितुम् ॥ ३७ ॥ अष्टांगयोगसिद्धानां योगनिरतात्मनाम् ॥
योगिनामधिकारः स्यादेकस्मिन्हृदयांबुजे ॥३८॥ हत्पुंडरीके ध्यायं-
तं योगेन जगदीश्वरम् ॥ अनंतशयनं देवं शंखचक्रगदाधरम् ।।
॥ ३९ ॥ बहुशः प्रार्थयामास लोकानुग्रहकारणात् ॥ प्रत्यक्षो
भव सर्वैपामत्रत्यानां द्रुतं प्रभो ॥४०॥ प्रार्थितस्तेन भगवान भक्ता-
धनिः श्रियः पतिः। भक्तिसारशिरोमध्ये प्रत्यक्षमगमद्धरिः॥४१॥
शयानं शेषपयके शंखचक्रगदाधरम ॥ नीलमेघनिभं दिव्यं पीतां-
बरधरं हरिम् ॥ ४२ ॥ तं दृष्ट्वा देवदेवेशं भगवंतं जगत्पतिम् ।। अध्व-
युप्रमुखास्सर्वे नमश्चक्रुजिपमाः ॥ ४३ ॥ अध्वर्युप्रमुखास्तत्र
भक्तिसारविरोधिनः ॥ भक्तिसारशिरोमध्ये शेषतल्पे समास्थितम्
॥४४॥ नीलमेघनिभं दिव्यं पीताम्बरधरं हरिम् ।। प्रत्यक्षेण विलो-
क्यैव दिव्यमंगलविग्रहम् ॥४५॥ सर्वेतिविस्मिता भीताः परभक्ति-
समन्विताः॥ भक्तिसारस्य पादाब्जे भत्त्या साष्टांगवंदनम् ॥४६॥
विधाय सहसा चैव ह्यपराधक्षमापणम् ॥ भक्तिसारं ब्रह्मरथे सद्भत्त्या-
रोप्य सत्वरम् ॥४७॥ वहुधा पूजयामासुः कृतार्थास्तेन तेभवन् ।
स तेभ्यो भक्तिसारश्च ऋत्विग्भ्यः करुणार्णवः ॥ १८ ॥ ज्ञानोपदेश
वहुशश्चकार कृपया तदा ॥ ततः संप्रेपितस्तेन हरिपादेन पूजितः
॥४९॥ कुंभकोणं ययौ धीमान्भक्तिसारो महायशाः ॥ भक्तिसारः
प्रणम्याशु शाईपाणिं जगत्पतिम्॥५०॥ विलोक्य शयनं तस्य शाङ्ग-
पाणेर्महात्मनः ॥ संतुष्टो झवदच्चैकां गाथां कांचिन्महाकविः ॥५१॥

अध्यायः८४. (२७१) निशम्योक्तां स तां तेन हरिर्द्राविडभापया ॥ उद्युक्तो भक्तवा- सल्यादुत्थितुं सहसा बभूत् ॥५२॥ उत्तिष्ठमानं तं दृष्ट्वा भक्तिसारो भयान्वितः ॥ नोत्तिष्टेति तदा देवं प्रार्थयामास भरिशः॥५३॥ संपा- थितस्तदा तेन भगवान् भक्तवत्सलास्वभक्तजनवात्सल्यं लोकेभ्यः सूचयनिव॥५४॥ उत्तानशयनः श्रीमाञ् शाङ्गपाणिमहोत्रतः॥तदा- कारतयाद्यापि तत्रैव परिदृश्यते ॥५५॥ यत्तदुत्तानशयनं यत्तेजः सुमहाद्भुतम् ॥ अतः सन्निधिविस्तीर्ण यत्तदन्यादृशं भुवि ॥५६॥ वेदांतिन् भक्तिसारोथशाङ्गपाणिं जगत्पतिम् ॥ भत्त्या संप्रार्थयामास तत्प्रेमातिशयेन सः ॥१७॥ विख्याते कुंभकोणे फणिपतिशयने प्राङ्मुखो दक्षिणाशादिग्भागे न्यस्तशीपों मृदुपदयुगलं चोत्तरे तत्म- सार्य॥ यः शेते शाङ्गपाणिः सकलतनुभृतां सर्वसंपत्प्रदाता दयान्मे देवदेवः सरसिजनयनः सन्निधिं योगिलभ्यः ॥५८॥ ताम्राधरं तरु- णपल्लवपादपाणि तारेशकोटिनयनं तरणिप्रकाशम् ।। तत्कुंभकोणनग- राधिपमाधिनाथं तं शाङ्गपाणिमनिशं हदि चिंतयामि ॥ ५९॥स शाङ्गपाणिः सरसीरुहाक्षः समस्तकल्याणगुणांबुरााशिः । सामाप्रियः सर्वजनानुकूलः करोतु मे मंगलमातबंधुः ।। ६० ॥ एवं दृष्ट्वानुभूयाथ सौंदर्यानिशयं हरेः ॥ तस्यानुभवसंजातप्रेमातिशयहेतुना ।। ६१ ॥ प्रबंधद्वितयं तेन कृतं भार्गवसूनुना ।। तत्र श्रीद्राविडी भापा द्विशतं पोडशाधिकम् ॥ ६२॥ एकं चतुर्मुखांतादिनामदिव्यप्रबंधकम् ।। गाथाः पण्णवतिस्तत्र वेदांतिन् परिकीर्तिताः ।। ६३ ॥ अन्यं श्रीचं- द्रवृत्ताख्यप्रबंध द्राविडं मुने॥ शतं च विंशतिस्तत्र विद्वन् गाथाः प्रकीर्तिताः ॥ ६ ॥ स्तुतानि भक्तिसारेण स्थलान्येकादशात्र हि ॥ श्रीरंगं वेंकटाद्रिश्च वीक्षारण्यं महामते ॥६५॥ यथोक्तकारी यो वेग- सिंधौ कांचीपुरे वरे ।। गानगेहे पार्थसूतः शेपगेहे त्रिविक्रमः ॥६६ ।। कैरविपयां पार्थसूतः श्रीनृसिंहादिसंयुतः॥ कुंभकोणे शाङ्गपाणिर्गजा-

प्रपन्नामृते-
(२७२)
तिनः कपिस्थले ॥ ६७ ॥ प्रेमपुर्या सुन्दरांगो ह्यपूपेशो महापुरे ॥
अस्मिन्नर्थे महाञ् श्लोकः श्रूयते लोकविश्रुतः ॥ ६८ ॥ रंगं प्रेमपुरं
कपिस्थलवरं श्रीकुंभकोणस्थलं श्रीमाल्याख्यपुरं च वेंकटगिरिः
श्रीकैरविण्यास्तटम् ॥ कांच्यां शेषगृहं च गानसदनं वेगार्णवो विश्रुतः
श्रीमत्किंगृहपट्टणं भृगुसुतेनैकादशैते स्तुताः॥६९॥ उत्तानशायिनं
तस्य विग्रहं महदद्भतम्॥ हृत्पुंडरीके श्रीमंतध्यायन भत्त्या निरंतरम्
॥७०॥ संवत्सराणां त्रिशतं सहस्रद्रितयं च सः ॥ सुखेन न्यवसयोगी
कुंभकोणे महायशाः॥७१ ॥ क्षीरपानकनिरतो ह्यन्नाहारादिवर्जितः॥
सहस्रत्रितयं चैव यः सप्तशतवत्सरान् ।। ७२॥ उवास भूम्यां भगव-
दनुभावेन सन्ततम् । आसन् सहस्रवाणि भक्तिसारस्य पटू ततः
॥७३॥ पुरान्यमतसंचारे तस्य चैकसहस्रकम् ॥ अतो हि सप्तसाह-
स्रवण्यायुर्महात्मनः॥ अस्मिन्नर्थे महाञ् श्लोकः श्रूयते लोकविश्रुतः
॥ ७४ ॥ मध्ये कलिद्वापरयोः सहस्रवाणि सप्तैव विहत्य
भूमौ ॥ सौदर्शनी मूर्तिमुपागतं च तं भक्तिसारं शरणं प्रपद्ये ॥
॥ ७९ ॥ दिव्यप्रबंधमुपदिश्य ततोखिलेभ्यस्तं वेदसारमखिला-
थनिधि जनेभ्यः ॥ अज्ञानघोरतिमिरं तदपोह्य तेपां स्वज्ञान-
दीपकलया यवनि ररक्ष ॥ ७६ ॥ दिव्यप्रबंधपठनात्सकला
जनौघाः संत्यक्तपापनिवहाः परिशुद्धचित्ताः ॥ उत्तीर्णघोरभव-
वारिधयो महांतो वैकुंठलोकमगमन्सहसा प्रपन्नाः॥७७॥ कुंभको-
णे महापुण्ये स्थित्वासौ बहुवत्सरान् ॥ तत्रैव चागमन्मुक्तिं भक्ति-
सारो महायशाः ॥७८॥ चित्रं चरित्रं परमं पवित्रं तद्भक्तिसारस्य
वरं महार्थम् ॥ पठति शृण्वंति च ये तु भक्त्या ते विष्णुलोके निवसं-
ति सत्यम् ॥ ७९ ॥ इति श्रीप्रपन्नामृते भट्टार्यवेदान्तिसंवादे भक्ति-
सारखेभवकथनं नाम चतुरशीतितमोऽध्यायः ॥ ८॥

अध्यायः८५. (२७३) पंचाशीतितमोऽध्यायः। श्रुत्वा माधवदासोथ भक्तिसारस्य वैभवम् ॥ संग्रहृष्टोथ भट्टार्य प्रणिपत्येदमब्रवीत् ॥ १ ॥ श्रोतुमिच्छामि भगवञ् शठारेस्तस्य वैभवम् ॥ ब्रूहि मे करुणासिंधो यद्यद्भक्ताय सांप्रतम् ॥ २ ॥ प्रतिगृह्य वचस्तस्य भट्टार्य्यस्तमथाब्रवीत् ॥ अवतारक्रमेणैव शठ कोपस्य वैभवम् ॥ ३॥ वक्तव्यं सांप्रतं विद्वंस्तथापि शृणु मर- चः ॥ निरूप्याक्यवान्पूर्व पश्चात्तस्य निरूपणम् ॥४॥ यतो- वयविनः शास्त्रे कर्तव्यमिति निर्णयः॥ शठकोपो ह्यवयवी ये चान्ये- वयवाः किल ॥५॥ कासारयोगिप्रमुखचतुर्णा चरितं शुभम् ॥ उक्तं किल मया सम्यक् श्रुतं विस्तरतस्त्वया ॥६॥ सांप्रतं शृणु वक्ष्या- मि कुलशेखरवैभवम् ।। घुष्यते यस्य नगरे रंगयात्रा दिनेदिने ।। ७॥ तमहं शिरसावंदे राजानं कुलशेखरम् ॥ याम्यपश्चिमयोमध्ये देशः केरलनामकः ॥ ८॥ बभूव सर्वशोभाब्यस्तालक्रमुकशोभितः ॥ वभूव सुमहदिव्यं तत्र श्रीकोळिपट्टणम् ।। ९ ।। तत्पुरं सर्वशोभाव्यं राजस्थान महोच्छ्यम् ॥ दृढवताख्यो राजासीद्भगवद्भक्तिपारगः ॥ ॥ १०॥ स चेरकुलदुग्धाब्धिचंद्रमाः क्षत्रियर्पभः ॥ तत्प्रभावपराः श्लोकाः श्रूयते वहवो भुवि ॥ ११ ॥ अत्यद्भुता कांचन केरलेषु पुरी वरा कुकुटनामसाह्वा ॥ प्रायेण यस्याः परिखाविलासं पतिर्नदानां प्रकटीकरोति ॥ १२॥ वेधास्तुलायामुभयोस्तुलार्थमारोपयद्याममरा- वती च ॥ पूर्वा तयोःप्राप भुवं गरिम्णा परोपरिष्टात्प्रययौ लघिम्ना ।। ॥ १३॥ संतानकामः सततं श्रीहरि समुपासत ॥ तथा यथा दशरथो ह्यश्वमेधादिभिः पुरा ॥१४॥ दृढव्रतस्य राजर्षेः प्रसन्नो भगवान्हरिः॥ अपत्यलाभं प्रददौ कृपया भक्तवत्सलः ॥ १५ ॥ वर्षे पराभवे मासे कुंभे वै शुक्लपक्षके ॥ श्रीमत्पुनर्वसूतारे दशम्यां गुरुवासरे ॥ १६ ॥ कौस्तुभाशन संजज्ञे महात्मा कुलशेखरः ॥ दृढव्रतस्य राजः श्रीरामो भगवान्यथा|अस्यावतारश्लोकाश्च गीयते प्रथिता भुवि॥१७॥ १८

(२७४)
प्रपन्नामृते-
तस्यामभूच्चेरकुलप्रदीपः श्रीकौस्तुभात्मा कुलशेखरोसौ ॥ महीप-
तिर्माघपुनर्वसूभे दिने हरेः पूर्णकटाक्षलक्ष्यः ॥ १८ ॥ कुंभे
पुनर्वसूजातं केरले कोळिपट्टणे ॥ कौस्तुभांशं धराधीशं कुलशेख-
रमाश्रये ॥ १९ ॥ दृढव्रतो धराधीशं पुत्रं दृष्ट्वातिसुंदरम् ॥ ब्राह्मणे-
भ्योतिसंतुष्टो वसुधान्यादिकं बहु ॥२ ॥ प्रददौ ह्याश्रितेभ्यश्च
कृतकौतुकमंगलः ॥ चकार नामकरणं पुत्रस्यामिततेजसः॥२१॥
कुलस्य शेखरो यस्मात्कुलशेखर इत्ययम् ॥ दृढवतो महातेजाश्चकार
कुलभूपणः ॥२२॥ चौलादिसर्वसंस्कारान्यथाकालं यथाविधि ।।
संप्राप्य सर्वशास्त्राणि धनुर्वेदं च बुद्धिमान् ॥ २३ ॥ जग्राहाखिल-
विद्याश्च सानिमात्राद्गुरोर्मुखात् ॥ शासनात्स पितुः श्रीमांस्तेन राज्ये
प्रतिष्ठितः॥ २४ ॥शशास पृथिवीं सर्वा स श्रीरामो यथा पुरा ।
चतुरंगबलोपेतो राजा धर्मपरायणः ॥ २५॥ कुलशेखरभूपालो ह्यज-
यत्सकला दिशः ॥ रिपवः कांदिशीकास्ते सर्व भूपाः पलायिताः॥
॥ २६॥ स्ववशे स्थापयामास राज्यं निहतकंटकम् ॥ रामराज्ये
प्रजाः सर्वा यथा मुमदिरे पुरा ॥ २७॥ कुलशेखरराज्ये च तथा
मुमुदिरे प्रजाः ॥ दृढव्रतो महाराजः स्वपुत्रस्य महौजसः ॥ २८ ॥
विलोक्य विस्मितोत्यंत प्रभावमतिमानुपम् ॥ संतुष्टः सकलं राज्यं
पुत्रे निक्षिप्य सत्वरम् ॥ २९ ॥ कृतकृत्यस्तु राजर्पिस्तपोवनमुपा-
गतः ॥ ततः स राजा धर्मेण तथा राज्यमरक्षत ॥३०॥ यथा वल-
वता लोके बलहीनो न हन्यते ॥ गोसहस्रप्रदानानि श्रीराम इव
सादरम् ॥ ३१ ॥ ब्राह्मणेभ्यो ददौ राजा महादानानि पोडश ।।
स्वतंत्रो दानशीलश्च नियंता कुलशेखरः ॥ ३२ ॥शशास राज्य
धर्मेण ख्यातिलोभपरो महान् ॥ विभूतिद्वयनिर्वाहो भगवान्करुणा-
र्णवः ॥ ३३ ॥ निर्हेतुककृपावेशात्तस्मै राज्ञे ददौ तदा ॥ निरस्तताम-
सरजोगुणं सत्त्वेकनिष्टकम् ॥ ३४ ॥ तदीयशेपपर्यंतं सम्यग् ज्ञानम-
नपमम् ॥ विज्ञापितोथ हरिणा सेन्येशोभुवमेत्य सः ॥ ३५ ॥

अध्यायः८५. (२७५) तस्मै नृपाय कृपया पंचसंस्कारपूर्वकम् ॥ सर्वार्थीश्वोपदिश्याशु याव- तीस्तत्त्वसंपदः ॥ ३६॥ वैकुंठनगरं प्राप्तस्तेन संपूजितस्तदा ॥ तत्कृ- पालव्धसद्भक्तिनिवैराग्यसागरः ।। ३७ ॥ आसीत्परमधर्मज्ञः स राजा कुलशेखरः ॥ सम्यक् श्रीभगवद्रूपं तद्गुणास्तद्विभूतयः ॥ ॥ ३८॥ सर्व प्रकाशयामास वेदांतिस्तस्य भूपतेः ॥ संजाता महती प्रज्ञा संसारार्णवतारिणी ॥३९॥ कुलशेखरदेवस्य तदा तस्य ततो- नघ ॥ अकृत्यकरणादावष्यत्यंतोद्भटवृत्तकः ॥ ४॥ यथाग्निज्वा- लिकामध्ये संप्रविश्य च वर्तनम् ॥ अर्थकामाभिभूतोयमुन्मत्त इव वर्तते ॥४१॥ भगवद्विमुखैरेतैः शब्दादिविषयातुरैः ॥ देहाभिमान- निरनित्यसंसारिभिः सह ॥४२॥ तन्मध्ये वर्तनं मेद्य ध्रुवं कारा- गृहे यथा ॥राज्यं विधाय तज्जातं सुखं संभोगरूपकम् ॥४३ ॥ यथाग्निज्वालिकामध्ये संग्रविश्यात्मवर्तनम् ।। अतः संसारिभिः साई सहवासोतिदुःसहः ॥४४॥ भगवदासभूतस्य तत्कैंकर्यरतस्य मे ॥ एवं निश्चित्य वेदांतिन महात्मा कुलशेखरः॥ ४५ ॥ देहानुबंधिनां तेषां सांगत्यं स विमृज्य तत् ॥ राज्यं भगवदायत्तं तत्कैंकर्योपयोगि च ॥४६॥ कृत्वा भागवताधीनं श्रीरामं शरणं गतः। परित्यक्ता मया लंका मित्राणि च धनानि च ॥ भगवद्दतं च मे राज्यं जीवितं च सुखानि च ॥ १७ ॥ क्षेत्राणि मित्राणि धनानि नाथ पुत्राश्च दाराः पशवो गृहाणि ॥ त्वत्पादपद्मप्रवणानुवृत्तेर्भवंति सर्वेप्रतिकूलरूपाः ॥ ॥ १८॥ इत्युक्त्वा राक्षसश्रेष्ठो वेदांतिन्स विभीपणः ॥ त्यक्त्वा पुत्रांश्च दारांश्च राघवं शरणं गतः ॥ ४९ ॥ हरेरावताराणां भक्तिः श्रीवें- कटेश्वरे ॥ श्रीरामे विभवानां तु कुलशेखरभूपतेः ॥ ५० ॥ कैंकर्यप्रार्थनां चके वेदांतिन् कुलशेखरः ॥ सोपानभूतः स्थि- त्वाहं वेंकटेश त्वदालये ॥ ६ ॥ संप्रेक्ष्य त्वन्मुखांभोज प्रवा- लसहशाधरम् ॥ ततः श्रीरंगमाहात्म्यमशृणोत्कुलशेखरः ॥ ५२ ॥ श्रीरंगयात्रा श्रीरंग यियासा चैव नारद ॥ उत्तारयति संसारा- (२७६) प्रपन्नामृते- नित्यवासस्तु किं पुनः ॥ ५३ ।। एवं श्रीरंगमाहात्म्ये यो गर्थः प्रतिपादितः ॥ तमर्थमंजसादाय हृदि भागवतोत्तमः ॥ १४ ॥ अचिंतयत्तदा प्राज्ञो भगवान्कुलशेखरः ॥ नश्वराः प्राकृता भोगा पुत्रवित्तकुलानि च ॥५५॥ श्रीरंगे रंगराजस्य सेवा नित्यसुख- प्रदा ॥ नित्यवासस्तु कर्त्तव्यस्तदेशे सर्वथा मया ॥५६॥ ततो महात्मा वेदांतिन् कुलशेखरभूपतिः॥ रंगयात्रापरवशो घोपयामास पट्टणे ॥१७॥ श्रीरंगयात्राश्रीरंगयात्रेति सुमहारवम् ।। अमंत्रयं- स्तदा सम्यक् श्रुत्वा तन्मंत्रिणोंजसा ॥ ५८ ॥ रंगयात्रापरवशो रंगं यदि स गच्छति ॥ भूयः स्वकीयनगरं नायाति किल निश्चयम् ॥ ६९ ॥ किरीटकेयूरसुवर्णकुंडलप्रवालमुक्तावलिहेमभूषणम् ॥ विशालवक्षस्थलहेमकौस्तुभं श्रिया च.देव्याध्युपितोरुवक्षसम्॥६०॥ प्रशस्तचामीकरचारुवाससं समेखलानपुरशोभितांत्रिकम् ॥ सुस्वधु- नीजातमृणालकोमलं दधानमच्छच्छवियज्ञसूत्रकम् ॥६१ ॥ भुजो- पधानं प्रसृतान्यहस्तं निकुंचितोत्सारितपादयुग्मम् ॥ सुदीर्घमु- द्वाहुमुद्ग्रवेपं भुजंगतल्पं पुरुपं महांतम् ॥ ६२॥ ब्रह्मादिवंद्यं भगवं- तमायं वेदांतवेद्यं भुवि रंगनाथम् ॥ विलोक्य नेत्रैः कमनीयगात्रं को वा समर्थो हि निवर्त्तने स्यात् ॥ ६३ ॥ विशेषतः सत्कुल- शेखरोयं महानुभावो भगवत्परायः ॥ अपश्यदाद्यं यदि रंगनाथं करोति तत्रैव हि नित्यवासम् ॥ ६४॥ तस्य विनो हि कर्त्तव्यस्त- स्मादद्यैव सत्वरम् ॥ इति निश्चित्य ते सर्वे सम्यगानाय्य वैष्णवान ॥६५॥ प्रणिपत्य शुभं वाक्यमिदमूचुर्महौजसः ॥ श्रीरंगयात्रा- मुद्दिश्य प्रत्यूपे कुलशेखरः ॥ ६६ ॥ अनिवार्यगतिस्तस्मात्स गच्छति किलाधुना ॥ श्रीरंगराजसेवार्थ श्रीरंगं यदि गच्छति ॥ ६७ ॥ स्वकीयनगरं राजा भूयो नायाति निश्चयम् ॥ समर्था यूयमेवाघ मनसो विनिवर्तने.॥ ६८ ॥ शृणोत्येव स तद्वाक्यं

अध्यायः ८५.
(२७७)
युष्माकं नात्र संशयः ॥ येन केन प्रकारेण तं निवाघ भूप-
तिम् ॥ ६९ ॥ तस्माच्छ्रीरंगगमनाद्वैष्णवाः कुलशेखरम् ॥ संर-
क्षताखिलजनं त्वदधीनं तमीदृशम् ॥ ७० ॥ अंगीकृत्य वचस्ते-
पाममात्यानां महात्मकाः ॥ तथैव चक्रुर्वेदांतिन् सहसा वैष्णवोत्तमाः
॥ ७१ ।। श्रीरंगयात्राश्रीरंगयात्रेत्यत्यंतभक्तितः ॥ खेण महता
तस्य वदतो गच्छतोंजसा ॥७२॥ तदाभिमुखमायाता राजवैष्णवो-
त्तमाः।तान्विलोक्य महाभत्त्या संतुष्टोव्यौ प्रणम्य च ॥७३॥पूजना-
द्विष्णुभक्तानां पुरुपार्थोस्ति नेतरः।।तेषु तवेपतःकिंचिन्नास्ति नाशनमा-
स्मनः ॥७॥ परिवर्पसहस्राणि विष्णोराराधने फलम् ॥ सकृद्वैष्णव-
पूजायाः कलां नार्हति पोडशीम् ॥ ७९ ॥ एवं हदि निधायार्थ तमि-
मं शास्त्रवित्तमाः ॥ निवर्तयित्वा योगेन श्रीरंगगमने मतिम् ॥ ७६॥
तान्वैष्णवान्समादाय राजा भागवतप्रियः ॥ स्वपुरं संप्रविश्याशु तान
भत्त्या समपूजयत् ।।७७॥ तेपामराधनार्थाय तदेव श्लाध्यमुत्तमम् ॥
सुवर्णसदृशं सूपमतिधावल्यतंडुलम् ॥ ७८ । दध्याज्यगुडमापा-
दिनिखिलं वस्तु पुष्कलम् ॥ यावत्यमाणं यत्तस्माद्विगुणं त्रिगुणा-
धिकम् ॥ ७९ ॥ प्रददौ भक्तिभावेन प्रार्थनापूर्वक स्वयम् ॥ विष्ण्या-
राधनपर्यंतं तत्कैंकर्यरतोभवत् ॥ ८० ॥ कृतांजलिनिराहारस्तस्थौ
तद्भोजनावधि ॥ श्रीपादतीर्थ स्वीकृत्य पश्चात्परमपावनम् ॥ ८१ ॥
पश्चात्तद्भुक्तशिष्टान्नं बुभुजे कुलशेखरः । ततः श्रीवैष्णवेभ्यश्च तेभ्यः
परमहर्पितः ।। ८२ ॥ पीतांबरैरलंकृत्य कुंडलादिविभूपणैः ॥ श्रीचं-
दनैः सुगंधैश्च कुसुमैर्दिव्यवासितैः ॥ ८३ ॥तांबूलं रुचिरं सम्यगर्प-
यामास भूमिपः ॥ ततः श्रीवैष्णवैः सम्यक् तैश्चोक्तान भगवद्गुणान
॥ ८॥ भत्त्या परमया शृण्वंस्तस्थावासायमादरात् ॥ एवं दिने-
दिने राजा वेदांतिन्मंत्रिचोदितः ॥ ८५ ॥ श्रीवैष्णवेः सन्निरुद्धरंगया-
त्रो बुधप्रियः॥ राज्यं चकार धर्मात्मा वैष्णवाधीनवृत्तिकः ॥ ८६ ॥

(२७८) प्रपन्नामृते- ततः श्रीवैष्णवैः साकं वेदवेदांगपारगैः ॥ सहवासपरस्तस्थौ निरंतर- मतंद्रितः॥ ८७॥ ततः श्रीवैष्णवादाजा भक्तिमान्कुलशेखरः ॥३- कटाचलमाहात्म्यमशृणोद्भक्तिपूर्वकम् ॥ ८८॥ एतादृशोर्थों वेदांतिन् महांस्तत्र समास्थितः ॥ त्रैलोक्यविश्रुता पुण्या स्वामिपुष्करिणी शुभा ॥ ८९ ॥ गंगाद्यैः सकलैस्तीर्थैः सासमा विमलोदका ॥ तत्र देवर्पिगंधर्वाः सिद्धाश्च परमर्षयः ॥ ९० ॥ वसंति नियताहारा वेंकटायभूधरे ॥ श्रुत्वार्थ तमिमं राजा वेदांतिन् कुलशेखरः॥ स्तुति मुकुंदमालाख्यां चक्रे लोकहितेच्छया ॥ ९१ ॥ एवं महात्मा कुलशे- खरायो रेजे तदा वैष्णवपारिजातः ॥ अव्याहतश्रीहरिभक्तिधर्मः प्रह्लादवद्विश्रुतदिव्यकीर्तिः ॥९२॥ इति श्रीप्रपन्नामृते भट्टार्यवेदान्ति- संवादे कुलशेखरावतारवर्णनं नाम पञ्चाशीतितमोऽध्यायः ॥ ८५ ॥ पडशीतितमोऽध्यायः। ततो महात्मनस्तस्य लीलामानुपरूपिणः॥ बभूवैवं हि वुद्धिस्तु सर्वलोकैकशिक्षिका ॥१॥ वेदवेद्ये परे पुंसि जाते दशरथात्मजे ॥ वेदःप्राचेतसादासीत्साक्षाद्रामायणात्मना ॥२॥ वेदतुल्यमिदं साक्षा- च्छ्रीमद्रामायणं परम् । अतो हि तस्य श्रवणं कर्तव्यं यावदायुपम् ॥३॥ तदेव साधनं मुक्तेस्तहतेन्यन्न विद्यते ॥ एवं हृदि विनिश्चित्य श्रीरामे दृढभक्तिमान् ॥४॥स श्रीरामायणकथाश्रवणेनैव संततम् ।। कालं संक्षिप्य तद्भक्त्या भगवान्कुलशेखरः ॥५॥ आरण्यकांडे वेदांतिन् खरदूपणसंगरे ॥ शुश्राव तमिमं श्लोकं भक्तिमान कुलशेखरः ॥६॥ चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम् ॥एकश्च रामोधर्मात्मा कथं युद्धं भविष्यति ॥७॥ऋपयोभ्यागमंस्तव द्रष्टुकामास्तदद्भुतम्।। श्लोकार्थ तमिमं श्रुत्वा प्रेम्णा परवशस्तदा ॥८॥ असहिष्णुस्ततोऽ- धर्मयुद्ध शीघ्र स्खलद्गतिः ॥ धनुर्वाणान् समादाय खड्गं चर्म च वर्यिवान् ॥९॥ चतुरंगवलोपेतो जनस्थानं कृतत्वरः॥ प्रतस्थे तत्क्षणे अध्याय: ८६. (२७९) तस्य सहायार्थ हरिप्रियः ॥ १० ॥ अतिप्रवृत्तां यात्रां तो नृपतेस्तस्ट मंत्रिणः॥विलोक्य विस्मयं गत्वा तस्य ते विनिवर्तने॥११॥ सम्यगा- लोच्य मनसासमर्थान् वैष्णवांस्तदा।।तस्य राज्ञोपभिमुखं प्रेषयामा- सुरंजसा॥१२॥ तेतस्याभिमुखंगत्वा राजानमिदमत्रुवन्। चतुर्दशसह- स्राणि रक्षसां भीमकर्मणाम् ।। १३ ।। अर्धाधिकमुहूर्तेन राघवेणैव संगरे ॥ तेन धर्मात्मनैकेन निहतानि नृपोत्तम ॥ १४॥ तं दृष्ट्वा श- हतारं महीणां सुखावहम् ॥ बभूव हटा वैदेही भर्तारं परिपस्वजे ॥ १९॥ श्रीवैष्णवानां तद्वाक्यं सत्यं परमसंमतम् ॥ निशम्य संग्र- हृष्टोथ रामभक्तो नृपोत्तमः ।। १६॥ स्वभूपणानि सर्वाणि स तेभ्यः प्रददौ मुदा ॥ सर्वानादाय सहसा वैष्णवान्कुलशेरवरः ॥ १७ ॥ विवेश स्वपुरं राजा तन्निवृत्तमतिस्तदा ॥ संग्रवक्ष्यामि ते भूयो वेदां- तिन्महदद्भुतम् ॥ १८ ॥ श्रूयतां तस्य राजर्षे श्चरित्रमतिपावनम् ॥ असादृश्य हि यद्भक्तिपारवश्यं महात्मनः॥१९॥ अवैष्णवमुखं वापि नेक्षते कुलशेखरः ।। श्रीवैष्णवमयं राज्यं सर्व समभवत्ततः ॥२०॥ सर्वैः श्रीवैष्णवैः साई मौनव्रतपरायणः ॥ नित्यं शृण्वन्पुराणानि तस्थौ रामायणं तथा ॥२१॥ आनंदबाप्पनयनः पुलकांकितविग्रहः।। भक्त्या परमया युक्तो महात्मा कुलशेखरः ॥ २२ ॥ तद्भक्तिपारव- श्यं च विदित्वा सुसमाहितः ॥ दक्षः पौराणिकस्तत्र श्रीमद्रामायणे- नघ।॥ २३॥ राघवस्याजयस्थानं यद्यत्सवै विसृज्य तत् ॥ सोत्क- पमेव रामस्य प्रोवाच नृपतेः सदा ॥ २४ ॥ भक्त्या परमया युक्तस्त- देकहृदयोनिशम् ॥ तत्राक्षेपादिरहितः शृण्वत् रामायणं स्थितः॥ ॥२५॥ संप्रविष्टोन्यकाउँथ कदाचित्स पुरोहितः ॥ तस्य रामायणं वक्तुं पुत्रं प्रेपितवान् किल ॥ २६॥ अजानानो ह्यभिप्राय राज्ञः पौराणिकः परम्।। तत्रोक्तरीत्या तां सर्वा कथामकथयत्तदा ॥२७॥ आरण्यकांडे वेदांतिस्तत्रैव विद्यते किल ॥ जहार रावणः सीतां बुधः खे रोहिणीमिव ॥ २८ ॥ श्रुत्वासहिष्णुस्तद्वाक्यं सीताहरणजं.

(२८०) प्रपन्नामृते- तदा ॥ कोपेन महता युक्तः पदाहत इवारगः ॥ २९ ॥ सर्वेषां शृण्वतां राजा व्याजहार वचः शुभम् ॥ तामस्मन्मातरं देवीरामप- त्नी यशस्विनीम् ॥३०॥ दुरात्मा रावणः पापः कथं हरति वा बत ॥ अधुनैवाशु गत्वाह लंघयित्वा महोदधिम् ॥ ३३ ॥ भस्मीकृत्वा पुरी लंकां हत्वा रावणमाहवे।सपुत्रदारं सामात्यंसमित्रजातिबांधवम्॥३२॥ आनयिष्यामि तां सीतांमातरं मे यशस्विनीम् ।। इत्युक्त्वा सधनुर्बाणः खड्गमादाय सत्वरम्।।३३॥लंकांप्रतस्थे वेदांतित्राजाश्रीरामभक्तिमान।। प्रतस्थे पृष्ठतस्तस्य चतुरंगबलं महत् ॥३४॥ तद्भक्तिपारवश्येन समु- द्रमभिगच्छतः॥ न लक्षितस्तदा तस्य शक्तः कोपि निवारणे ॥३५॥ वेलातिक्रमणस्याब्धेवेदांतिन् प्रलये यथा ।। अतिदेवचरित्रस्य राम- भक्तस्य भूपतेः ॥३६॥ वर्णयामि कथं विवंश्चरितं यदनूपमम् ।। देवाः संद्रष्टुकामास्ते तद्भक्ति परमाद्भुताम् ॥३७॥ आस्थिताः सहसा सर्वे विमानस्था नभःस्थले ॥ ततो विवेश राजर्पिः स महोदधिमंजसा ॥३८॥ चतुरंगबलं तस्य यथा राजा तथा प्रजाः ॥ दिव्यंतरिक्ष भूमौ चहाहाकारो महानभूत् ॥ ३९॥ तद्रष्टमागतानां च मानवानां दिवौकसाम् ॥ ततो भक्तपराधीनः श्रीरामः करुणांबुधिः ॥ ४० ॥ लक्ष्मणानुचरः सीता हस्तेनादाय मैथिलीम् ॥ प्रसन्नो नृपतेस्तस्य व्याजहार वचः शुभम् ॥ ४१॥ कुलशेखर सद्भक्त मयि तिष्ठति पुत्रक । किमर्थ भवतस्तात महानेताहशः श्रमः ॥४२॥ समरे रावणं हत्त्वा सपुत्रज्ञातिबांधवम् । सीतामादाय वैदेहीमधुनाहं समा- गतः॥४३॥ सैपा हि भवतो माता वैदेही पश्य पुत्रक ॥ इत्युक्त्वा राघवः श्रीमान् स्वभक्ताय महात्मने ॥४४॥ तदा प्रदर्शयामास सीतां जनकनन्दिनीम् ॥रामंच लक्ष्मणं सीतां विलोक्य कुलशेखरः ॥४५॥ संतुष्टः प्रणिपत्याथ तैः साई राघवादिभिः । वेलाधिरोहण चके कृतकृत्यः ससैनिकः ॥४६॥ कंठमावजलेनैव सिंधौ गच्छंत- - अध्यायः८७. (२८१) मंजसा ॥ भक्त्या लंकां प्रति जवात्सीतानयनकारणात् ॥४७॥ ताम्रचूडपुरस्याशु तं कृत्वाभिमुखं तदा ॥ स भक्तिपारवश्येन ससैन्यं नृपपुंगवम् ॥४८॥ सर्वेपां पश्यतां तत्र श्रीरामोंतर्दधे हरिः॥ अदृष्ट्वा राघवं राजा दुःखितो विगतस्मृतिः॥४९॥ क्षणमात्रं ततो धीमान- ध्यत तदाखिलम् ॥ यथा धनं स्वप्नलब्धमदृष्ट्वा बुद्धवाचनः॥५०॥ ततो विबुध्य तत्सर्वं यत्सीताहरणादिकम् ॥ सम्यग्रामायणे प्रोक्तं पौराणिकमुखात्तदा । स्वस्थचित्तो नृपो धीमान् स्वपुरं प्रत्यपद्यत ॥५१॥ अत्यद्धृताध्यायकथां सुपुण्यां शृण्वंति भत्त्या च पठति ये वै॥ते पापसंधान परिहत्य शीघ्रं भवेयुरार्या भुविरामभक्ताः॥१२॥ इति श्रीप्रपन्नामृते भट्टार्यवेदान्तिसंवादे श्रीकुलशेखरस्य श्रीरामप्रत्ये- क्षदर्शनं नाम पडशीतितमोऽध्यायः ॥८६॥ सप्ताशीतितमोऽध्यायः। रामभक्तस्य राजपैश्चरितं महदस्ति यत् ॥ तत्सर्वं शदितुं विद्वन कः समर्थो महीतले ॥ १ ॥ तथापि शृणु वक्ष्यामि यत्किंचि- कृपया गुरोः ॥ चित्रं तदीयभक्तस्य चरित्रं नृपतेर्महत् ॥ २ ॥ श्रीवैष्णवानां वेदांतिन् वेदांतद्वयशालिनाम् ॥ चतस्रः कोटयो राज्ञा पड़सान्नैदिनोदने ॥३॥पायसान्नैश्च भक्ष्यैश्च परितृप्तास्तदाभवन् ।। ततोऽधिकतराश्चान्ये तृप्ति प्राप्ता हि वैष्णवाः ॥ ४ ॥बहुनोक्तेन किं विद्वन संक्षेपेण ब्रवीम्यहम् ॥ स्वराज्यं वैष्णवाधीनमकरोत्कुलशेखरः ॥५॥राज्यं भगवतोऽधीनं सर्वं कृत्वा निरंतरम् ॥ दासभूतो हि सर्वेषां वैष्णवानां महात्मनाम् ॥ ६॥ गुणानुभवकैक-निरतोऽभू- त्सदा हरेः ॥ कुलशेखरदेवस्य वृत्तांतं मंत्रिणस्तदा ॥७॥ विदित्वा सकलं तच्च विलोक्यैतद्विचेष्टितम् ॥ तदासहिष्णवस्तत्र समेत्य मंत्रिणस्तदा ॥८॥राज्ञः स्वराज्यं वित्तायं न किंचित्किल विद्य- ते ॥ विष्णुदासैकदासत्वमुपेत्य तदधीनकः ॥ ९ ॥ भ्रांतवद्धमते (२८२) प्रपन्नामृते- राजा भ्रांतसंगाद्धमान्वितः ॥ महांश्चित्तभ्रमो जातो नीतिगस्यापि भूपतेः ॥ १०॥ एतेपां सहवासेन वैष्णवानां महात्मनाम् ॥ राज्ञोस्य मरणं प्राप्त सिंधौ किल तदा ह्यभूत् ॥ ११ ॥ केनचिदैवयोगेन तस्मात्संरक्षितो नृपः॥ कालाकालमजानंतः संचरंति हि वैष्णवाः ।। ॥ १२॥ राजस्थाने च शुद्धोते भोजनावमरेऽपि च ॥ सर्वदा कांक्षते राजा वैष्णवागमन प्रति ॥ १३ ॥ वैष्णवा मदहं पूर्ण ह्यागच्छंति यदायदा ॥ दृष्टमात्रेण संतुष्टः स तेषां हि यथा निधेः॥ १४॥ संभ्रमा- सहसोत्थाय रत्नसिंहासनानृपःस्विकार्य दूरतः शिवामहच्चापि तृणा- दिवत् ॥१६॥श्रीवैष्णवेभ्यः सर्वेभ्यो विधायापचितिमुदा ॥ पांड्यदेशे ब्रह्मदेशेराजगोपालसन्निधौ ॥ १६॥ श्रीवैष्णवैस्तु तत्त्वार्थलग्नचित्तो हि भूमिपः ॥ एतद्विज्ञाय विज्ञाप्यमस्माभिहितकांक्षिभिः ॥ १७ ॥ इति निश्चित्य ते सर्वे मंत्रिणो मंत्रकोविदाः ॥ अर्थ निवेदितुं प्राताः कांक्षतः समयं स्थिताः ॥ १८॥ दृष्ट्वा तज्जगतीनाथः कार्य ब्रूतेत्यचोदयत् ॥ तेऽब्रुवन् सहिता राजन् महाभागवतार्चनम ॥ १९ ॥ एतत्तु खलु कर्तव्यं मुसुक्षूणां महात्मनाम् ॥ राजा तु खलु संतिप्रोत् प्रजापालनकर्माण ॥ २० ॥ सतां च संग्रह कुर्वन्नसतां च विनिग्रहम् ॥ सप्तांगराज्यं विभृयाच्छशक्तिभि- स्तिसृभिर्युतः ॥ २१ ॥ सततं चतुरो वर्णास्तत्तद्धर्मे नियोजयन् ।। कुर्वश्च विविधा भक्ति भगवत्यंबुजेक्षणे ॥ २२ ॥ मानयन्मंत्रिणो में- कोविदान्मूक्ष्मधीमतः ॥ एवं तिष्ठति यो राजास चतुःसागरावधिम ॥२३॥ धरित्रीमखिलां भुंक्त दिवमाखंडलो यथा ॥ एते भागवता राजन राजधर्ममनुत्तमम् ।। २४॥न बोधयंति ते नित्यं प्रत्यक्ष सर्व- सौख्यदम्।।तच्छुत्वा मंत्रिणां वाक्यं राजा स्मित्वा ह्युवाच तान्॥२५॥ श्रीवैष्णवेभ्यो लोफेस्मिन् मुक्तिमुक्तिप्रदायके ॥ हितोपदेशकाः के स्युर्मम प्राणा हि वैष्णवाः॥२६॥ इत्युक्त्वा मंत्रिणः सर्वान् करणी- अध्यायः ८७. (२८३) येषु कर्मसु ॥ नियोज्य प्रयतान् कृत्वा राज्यकार्येषु स स्वयम् ॥२७॥ वैष्णवैः सह तत्त्वार्थलग्नचित्तः सदाभवत् ॥ मंत्रिणोऽपि तदा राज्ञो वैष्णवानां च भेदने ॥२८॥ अभवन् पापमतयछिद्रान्वेषणतत्पराः।। ततः कदाचिद्भुमीशो महाभागवतैः सह ॥ २९ ॥ दिव्यस्रग्वत्रल- लितो हारकेयूरकुंडलैः ॥ मणिौवेयमंजीरकंकणाौविराजितः ॥३०॥ पौराणिकैः सत्कविभिः मंत्रिभिः सपुरोहितैः॥ सभायां शुशुभे राजा नक्षत्रैखि चन्द्रमाः ॥३१॥ तदा भागवतश्रेष्ठाः महाकारुण्यसिंध- वः ॥ श्रीमदष्टाक्षरमनुसदर्थासक्तचेतसः ॥ ३२ ॥ शमादिगुणसंपन्ना द्राविडश्रुतिबोधकाः ॥ तत्त्वत्रयज्ञाः शेपत्त्वज्ञानवंतस्तथाययुः ॥३३॥ राजोत्थाय प्रणम्याथ संस्तुत्य विनयान्वितः ।। पूजयित्वा च तांस्त. त्त्वगोष्टयां रामे मनो दधौ ॥ ३४ ॥ श्रुत्वा यामद्वये राजा परमाह्लाद- निर्भरः॥ स्नातुकामस्ततः स्वांगाद्भूपणानि विमुच्य सः॥३६॥सिंहासने विनिक्षिप्य कथासक्तमनाः पिबन् ॥ श्रीरामतत्त्वार्थ सम्यक् सत्सं- लापकुतुहलः ॥३६॥ ततः प्रणम्य विधिवत्संविसृज्य च वैष्णवान् ।। स्नात्वा संभोज्यतान्सर्वान्स्वयं भुक्ता च शेपतः ॥३७॥ संविश्य चाथ विश्रम्य सभा गंतुं मनो दधौ ॥ भूपणानि सभामध्ये स्थापितानि मयासने ॥ ३८ ॥ तान्यानयध्वमित्युक्ते राज्ञा स्ते परिचारकाः॥ सभां प्रविश्यादृष्ट्वा च तानि चिंतायुतास्तदा ॥ ३९॥ भूपणानि न संतीति तत्र राज्ञे न्यवेदयन् ॥ राजा तु तद्वचः श्रुत्वा कुपितो मंत्रिणस्तदा ॥ ४० ॥ आहूय रक्षकान्त्सर्वान् कुपितस्तानुवाच ह ॥ सदा युष्मासु तिष्ठत्सु रक्षां कुर्वत्सु सर्वतः॥४१॥ तस्कराः किं नु मुष्णति न दृष्टं स्तेयमीदृशम् ।। अधुनैवानयध्वं मे भूपणा- न्यविलंबितम् ॥ ४२ ॥ नो चेत्याणांतिक दंडं करिष्येहं भवत्सु वै॥ अथामात्याः पुरः स्थित्वा कृतांजलिपुटा नृपम् ॥ १३ ॥ ऊचुस्तदाज्ञया चोरनामापि श्रूयते नहि ॥ त्वन्मंदिरेधुना सर्वे (२८४) प्रपन्नामृते- श्वेतमृन्मात्रधारणात् ॥४४॥ सर्वे निवारिताश्चैवायांति यांति च वैष्णवाः॥ चित्तेस्माकं तु संदेहो वैष्णवेष्वपि जायते ॥ ४५ ॥ तान् विनान्ये न गृहंति भूपणानि नृपोत्तम ॥ तच्छत्वा दुष्कृतं वाक्यं मंत्रिणां दुष्टचेतसाम् ॥ ४६ ॥ पिधाय की संरब्धो भगवन्नाम संस्मरन् ॥ मुखानि न निरीक्षेहं युष्माकं दुष्टचेतसाम् ॥ ४७ ॥ इति ब्रुवाणोमात्येषु दंडदाने मनो दधे ॥ एवं निश्चित्य मनसा स- चिवानब्रवीन्नृपः॥ १८ ॥ लोके तिष्ठति यत्पापं तद्धरिस्मरणा- द्धृतम् ॥ हरिनिंदाकृतं पापं वैष्णवस्तुतिभिर्हतम् ॥४९॥ निंदया वैष्णवानां तु यत्पापं प्रतिपद्यते ॥ तन्न नश्यति केनापि वदंति हि महर्पयः ॥ १०॥ तस्माद्भवद्भिर्या निंदा कृता वैष्णवसज्जने ॥ दंडं करोमि युष्मासु तिप्टेल्लोके न मेऽयशः ॥५१॥ तस्मादंडानिवृत्तोह युष्मास्वद्य समुद्यतात्।। क्रोधलोभानृताज्ञानकामादिरहितेषु च॥५२॥ स्तेयमारोपितमहं वैष्णवेषु विमार्जयन् ॥ प्रमाणं तु करिष्यामि निः- शकैनांतरात्मना ॥५३॥ इत्युक्त्वाशीविपं घोरं स्थापयित्वा घटां- तुरे ॥ पुरोहितान् पौरजनान् पौरवर्गान्समाह्वयत् ॥५४॥ उवाच चैवं श्रोतव्यं मद्वाक्यं यद्वदाम्यहम् ॥ श्रीवैष्णवा भुक्तिमुक्तिनिस्पृहा नैव तस्कराः ॥५५॥ सत्यंसत्यमिदं सत्यं वाक्यं चेन्मामयं विपी। न च दक्ष्यति सोपि पश्यतैतद्विचेष्टितम् ॥५६॥ इत्युक्त्वा प- श्यतां तेपां सर्वेषां कुलशेखरः ॥ कुंभीनसफणां व्यात्तां कुंभांतर्गत- सुस्थिताम् ॥ १७ ॥ गृहीत्वा स्वर्णमुद्रां तां करेणोद्धृतवास्तदा ॥ कुर्वत्येवं महाराजे नभस्संस्थितनिर्जराः ॥५८॥ विस्मयं परमं गत्वा पुष्पवर्षामकुर्वत ॥ दुंदुभिध्वनिभिश्चैव तं नृपं ह्यभितुष्टुवुः ॥ ५९॥ ततः समस्तदेवश्च श्रीपतिस्तत्र चागतः ॥ कारुण्यसिंधुः श्रीरामः कोटिसूर्यसमप्रभः॥६॥आविर्बभूव सदसि राजानं समलोकत ॥ कृपासुधादृष्टिभिश्च शिशिरीकृत्य सद्गतिः ॥६१ ॥ उत्थाप्य संपरि- प्वज्य प्राह वाक्यं कृपान्वितः ॥ कल्याणगुणसंपन्न वैष्णवोत्तम अध्यायः८७. (२८५) भूपते ॥ ६२ ॥ मत्तोधिकान् महाभाग मद्भक्तान् मन्यसे यथा ।। संतुष्टोहमनेनाद्य वृणीष्व वरमुत्तमम् ।। ६३॥ इति त्रुवाणे श्रीरामे वाक्यमुत्तरमब्रवीत् ॥ नृपतिः प्रांजलिर्भूत्वा विनयेन समन्वितः ॥६४॥ राम राजेंद्र लोकाभिराम राजीवलोचन ॥ योगोंद्रचित्तक- मलद्युमणे कमलासख ॥ ६९॥ वृणीष्वेति वरं देव ब्रवीपि करुणा- कर ॥ किं प्रार्थयेह देवेश सर्वमेवाददाः पुरा ॥ ६६ ॥ त्वद्भक्तेषु दृढां भक्तिं त्वयि चैव वृणोम्यहम् ॥ एवमुक्ते नृपवरे संतुष्टहृदयो हरिः ॥६७॥ वरं तथैव दत्त्वाथ पुनःप्रोवाच विस्मितः॥ नीलां- शजातां त्वत्पुत्रीं देहि मे नरनायक ।। ६८॥ भवामि तेहं जामाता श्वशुरस्त्वं मतो मम ॥ तच्छ्रुत्वा रंगनाथस्य वाक्यं नृपशिखामणिः ॥ ६९ ॥ धन्योस्म्यहं कुलं जन्म पवित्रं च मम प्रभो ॥ इत्युक्त्वा स्वपुरी रम्या कृत्वालंकारसंयुताम् ॥ ७० ॥ भूपणैर्भूपयित्वाथ कन्यां परमशोभनाम् ॥ वेदी कृत्वा सभामध्ये हुत्वाग्निं स यथाविधि॥७॥ श्रीरंगपुरनाथाय देवेशेंद्रमुखामरैः ॥ सेविताय ददौ राजा कन्यां तां विधिपूर्वकम् ॥७२॥सोपि प्रगृह्य तां कन्यां राजपुत्री मनोहराय॥राज्ञा संपूजितः सर्वैरनव्यवस्तुभिः शुभैः ॥ ७३ ॥ देवैः सह पुनः प्राप स्वधाम परमं हरिः ॥ ततो नृपस्य सचिवा विस्मयाविष्टचेतसः ॥७४॥ प्रभावं तस्य विज्ञाय गृहीत्वा भूपणान्यपि ॥ निक्षिप्य पुरतस्तस्य भूपणानि भयान्विताः ॥७॥ राजानं प्रणिपत्याथ स्वापराधं निवेद्य च ॥ ययाचिरेऽभयं तेभ्यः स राजाप्यभयं ददौ ।। ||७६॥ ततः स्वपुत्रमनघं गुणवंतं महावलम् ॥ राज्यभिपिच्य सततं तस्थौ वैष्णवसेवया ॥ ७७॥ ततो नराधिपः श्रीमान् रामाय- णपरायणः ॥ तास्ता रामकथाः शृण्वन्परमानंदनिर्भरः ॥ ७८॥ ततः कदाचिच्छ्रीरामनवम्यां सुमहोत्सवः॥वभूव रामचंद्रस्य सर्वलो- कमहोत्सवः । बभूवालंकृतः सम्यक्ताम्रचूडपुरं महत् ॥ ७९ ॥ रंभा- स्तंभैः पताकाभिः शोभमानैश्च तोरणैः ॥भेरीकाहलनांदैश्च वेदोपैश्च .. (२८६) प्रपन्नामृते- पूरितम् ॥ ८० ॥ कुलशेखरदेवस्य रामभक्तस्य भूपतेः॥ गृहोत्तमे म- णिमये विचित्रे देवतागृहे ॥ ८१॥ विशेषतो महानासीदामचंद्रमहो- त्सवः॥ तस्यार्चाविग्रहस्यास्य सीतारामस्य भक्तितः॥८२॥ राजगो- पालदेवस्य मज्जनावसरे तदा ॥ विमुच्य भूपणन्याशु चानान्य- खिलानि च ॥ ८३॥ तान्यर्चका यथामा कचिदेशे प्रतिष्ठिपन् । अभिषेकं तदा चक्रुहरये परमात्मने ॥ ८४ ॥ तदा पुरुषसूक्तैश्च श्रीसूक्तैर्वेदपारगाः॥ भूसक्तैरनुवाकैश्च वैष्णवैश्च महारवैः।।८५।। नृत्य- गीतादिवाद्यैश्च महाभरीरवैस्तथा ॥ बद्धांजलिमहाराजस्तं मजन- महोत्सवम् ॥ ८६ ॥ सेवमानस्तदा तस्थौ तदेकहृदयो महान् ॥ तदेकहृदयाः सर्वे पश्यंतस्तं महोत्सवम् ॥ ८७ ॥ आस्थितास्तस्य ये चान्ये वैष्णवास्तत्र सादरम् ॥ तदंतरं समावेद्य मंत्रिणः सहसातदा ॥८८॥ अनर्घ्य मौक्तिकं हारं तत्रैकमपहृत्य ते ॥ केनाप्यलक्षिता- स्तत्र वैष्णवद्वेपकारणात् ॥ ८९ ॥ निक्षिप्यान्यस्थले ते तु निगूढं निपुणाश्च तम् ॥ पूर्ववद्वाजनिकटे मंत्रिणः समुपस्थिताः ॥ ९ ॥ ततोलंकारसमये देवस्य परमात्मनः॥नालक्ष्यत तदा हारो बिभ्युस्ते वैष्णवास्ततः ॥ ९१॥ आचख्यिरेऽर्चकाः सर्वे तद्भूपाहरणं तदा ॥ हारस्य तस्य राहित्यात्कुपितः कुलशेखरः॥९२॥ विलोक्य मंत्रिणः सर्वानप्रवीत्पृथिवीश्वरःआख्यात हारहारंशीघ्रं सम्यग्विचार्य च ९३ अद्यैव सत्वरं चोरमानयध्वं ममांतिकम् । प्रतिगृह्य वचस्तस्य राज्ञस्ते मंत्रिणस्तदा ॥ ९४ ॥ विचार्य तत्र सर्वत्र तं चोरं नृपशासनात् ॥ नृपातिकमुपागत्य ते तमूचुगुरुद्रुहः ॥ ९५ ॥ अस्माभिरधुना सम्य- ग्यत्नेन महता नृप ॥ विचार्य्यमाणे चोरोस्मिन्न चोरोन्येषु लक्षितः ॥९६॥ उद्देश्या भवतोत्यंत वैष्णवाश्चांतरंगिणः ॥ तैरेवापहतो हारो नृप नास्त्यत्र संशयः॥९७॥ भगवद्रव्यहरणे कः समर्थो विना हि तान् ॥ संचरंत्यखिला एते संपत्पुत्रा इवानिशम् ॥ ९८॥ अनि- अध्यायः ८७. (२८७) वारितपंथानः सर्वगात्रैव वैष्णवाः ॥कोशस्थाने च शुद्धान्ते मंत्रस्थाने महीपते ॥ ९९ ॥ तेपां निवारणे राज्ञः कोपोभूदिति ते महान् ॥ प्रणम्य दृष्टमात्रेण सर्वे तूष्णी स्थिता वयम् ॥ १०॥ तच्छुत्वा नृपतिः क्रुद्धो मंत्रिणामशुभं वचः॥यन्मिथ्यारोपितं तीक्ष्णं चौर्य भाग- वते जने ॥१०१॥ असहिष्णुस्ततो विद्वान् कर्णशल्योपमं तदा ॥ आहर्तुकामस्तां निंदां व्याजहार' वचः शुभम् ॥ १०२॥ न चोरा वैष्णवा लोके सत्यंसत्यं मयोच्यते॥ प्रमाणपूर्वकं तच्च दर्शयिष्यामि वः स्फुटम् ॥ १०३॥ निंदा भगवतः शृण्वस्तत्परस्य जनस्य वा ॥ ततो नापैति यः सोपि यात्यधः सुकृताच्युतः ॥ १०॥ करोति निन्दा यो लोके विष्णोर्भागवतस्य वा।जिह्वायाछेदनं तस्य कर्तव्यं शास्त्रनिर्णयः ॥१०॥ सर्वेपामधिको विष्णुब्रह्मादीनां परः पुमान् ॥ तस्माद्विष्णोर्जगद्धेतोवैष्णवा राधिकाः स्फुटम् ।। १०६॥ श्रीवैष्ण- वमहानिंदां तां सहिष्ये कथं बत ॥ तद्भक्तोहं तादृशश्च महतीमयश- स्करीम् ॥ १०७॥ इत्युक्त्वा सहसा राजा वेदांतिन् कुलशेखरः ॥ स्नातः सचैलः सद्भत्त्या महाभागवताश्रयः॥१०८॥श्रीमद्भागवतार्थाय राजगोपालरूपिणः॥विष्णोर्भगवस्तस्य सन्निधौ निश्चलस्तदा।१०९।। शुद्धा भागवता लोके न भवंति हि तस्कराः॥ इत्युक्त्वा पश्यतां तेषां जग्राहसमहोरगम् ॥ ११० ॥ भीतास्ते मंत्रिणस्तत्र तं दृष्ट्वा सुमहा- द्भुतम् ॥ विज्ञाप्य सकलं सम्यक् स्वकृत्यं राजसन्निधौ ॥ १११॥ हारमादाय सहसा प्रार्थयामासुरातुराः ॥ अपराधक्षमार्थाय नृपतेः पादपद्मयोः ॥ ११२ ॥ श्रीवैष्णवपदाजेषु प्रणामं विद- धुश्च ते ॥ ततो ह्यचिंतयद्राजा भगवान्कुलशेखरः॥ ११३ ॥न शौरिचिंताविमुखजनसंवासवेशसम् ॥ वर हुतवहज्वालापंजरांतर्व्यव- स्थितिः ॥ ११४ ॥ इत्येवं सम्यगालोच्य भगवद्भक्तिपारगः ॥ मत्वातिदुःसहं तेपां सहवासं च मंत्रिणाम् ॥ ११५ ॥ दृढवताख्यं स्वसुतं राज्ये निक्षिप्य सत्वरम् ॥ श्रीवैष्णवैर्महाभागर्विवुधैश्चांतरं- प्रपन्नामृते- - (२८८) गिभिः ॥ ११६॥ निवृत्तराज्यस्संतुष्टः प्रतस्थे रंगमंजसा ॥ श्रीरंग- सत्पुरं प्राप्य दृष्ट्वा श्रीरंगनायकम् ॥ नत्वा मुमोद भूलोकमहानिधि- मिवाधनः ॥ ११७॥ नीलांशजांचेरकुलप्रदीपां निजात्मजां रंगिणि सक्तचित्ताम् ॥ समर्प्य तस्मै जगदीश्वराय स्वसंपदं यौतकमेव चक्र ॥११८॥ प्रबंधं देवगीताख्यं दिव्यद्राविडभापया ॥ विधाय लोक- रक्षार्थ सर्व जगदपालयत् ॥ ११९॥ भगवद्वैभवं चात्र तद्भागवत- वैभवम् ॥ उभयं सम्यगेवार्य प्रबंध प्रतिपादितम् ॥ १२० ॥ पंचोत्तरशतं तत्र गाथानां समुदीरितम् ॥ अभिष्टुता दिव्यदेशास्तेन सप्तानघादरात् ॥ १२१ ॥ रंगेशं रंगनिलये श्रीनिवासं वृपाचले ॥ रघुरहमयोध्यायां गोविंदं चित्रकूटके ॥ १२२॥ कृष्णपुर्या शौरि- राजं सुंदरांगं वनाचले ॥ वाराहस्वामिनं चैतानस्तौपीत्कुलशेखरः।। अस्मिन्नर्थे महाञ् श्लोकः श्रूयतेस्मद्यते भूमि ॥ १२३ ॥ साकेतो मुनिभूधरो वृपगिरिः श्रीचित्रकूटस्थलं रंगं कृष्णपुरं च केरलतले वा- राहनामा पुरी ॥ सप्तैते कुलशेखरेण मुनिना श्रीदिव्यदेशाः स्तुता- स्तान्प्रातः प्रतिवासरं पठति यः श्रीमान् स भूयानरः ॥ १२४ ।। अनुग्रहेण स्वयमाप्ततत्त्वज्ञानोदयो रंगपतेर्दयालोः ॥ अभापत द्रावि- डभापयासौ गाथाशतेनास्य महाप्रबंधम् ।। १२५ ।। श्रीशस्य रंगा- धिपतेः स्वसूक्तीर्गाथाशते वेदशिखार्थगर्भे ॥ चक्रे पुनः सप्ततिमञ्ज- नाद्रिधुरीणकंसारिरघूदहानाम् ॥ २२६॥ ततः श्रीरंगनगरे कंचित्कालं नृपोत्तमःस्थित्वा संसेवयन्सन्यक् श्रीरंगेश्वरमद्भुतम्॥१२७॥विधाय बहुलं तत्र तदीयाराधनं तथा ॥कृतकृत्यस्ततः सर्वदिव्यदेशदिदृक्षया ॥ १२८ ॥ साई श्रीवैष्णवैः सर्वैः प्रतस्थे कुलशेखरः ।। सर्वस्थला- नि संसेव्य दिव्यदेशस्थलानि च ॥ १२९ ॥ तदीयाराधनं चक्रे तत्र तत्र महत्तरम् ।। कुरुकानगराभ्याशे ब्रह्मदेशाख्यमुत्तमम् ॥ १३०॥ नगरं प्राप सहसा कुलशेखरभूपतिः ॥ नत्वा श्रीराजगोपालं ब्रह्मदे- अध्यायः८८. (२८९) शपुराधिपम् ॥ १३१ ॥ तस्याभिप्रायवशतो वसंस्तत्रैव चादरात् ॥ स्थित्वा भूम्यां सतपष्टिं वत्सरान् सुखवमना ॥ १३२॥ पांडयदेशे ब्रह्मदेशे राजगोपालसन्निधौ ॥ वैकुंठनगरं प्राप महात्मा कुलशेखरः ॥ १३३॥ विख्यातराजर्पिकुलेवतीर्य वितत्यभूमौ भगवत्प्रभावम् ॥ विरंचिरुद्रादिसुरैरगम्यं विष्णोः पदं सम्यगवाप धीरः॥ ॥ १३४ ॥ दिव्यं यत्तदनूपमाद्भुततरं श्रोतुः श्रवानंददं विख्यातं कुलशेखरस्य च- रितं भक्ताजसूर्योदयम् ।। पुण्यं पापविनाशनं शुभकरं संपत्करं सर्व- दा ये शृण्वंति पठति सौम्यहृदयास्ते यांति विष्णोः पदम् ॥ १३५॥ इति श्रीप्रपन्नामृते भट्टार्यवेदांतिसंवादे कुलशेखरायंचरित्रं नाम सप्ताशीतितमोऽध्यायः॥ ८७॥ अष्टाशीतितमोऽध्यायः। प्रणिपत्य स वेदांती भट्टार्यो देशिकोत्तमम् ।। विष्णुचित्तस्य चरित परिपप्रच्छ सादरम् ॥३॥श्रीविष्णुचित्तचरितं श्रोतुमिच्छामि देशिक।। ब्रूहि मे विशदं विछन् भक्ताय करुणार्णव ॥२॥ प्रतिगृह्य वचस्त- स्य भट्टार्यः शिष्यवत्सलः॥ व्याजहार शुभं वाक्यं शिष्यं वेदांतिनं प्रति॥३॥ विष्णुचित्तस्य चरितं विमलं ज्ञानसाधनम् ॥ दशानां महत- स्तस्य शृणु वक्ष्यामि सांप्रतम्।।४।।अग्रे वक्ष्यामि वेदांतिस्तन्महत्त्वस्य कारणम् ॥ प्राग्भागे केरलस्याथ दक्षिणांभोनिधेस्तटे ॥५॥पांडय- देशे बभूवार्यश्चोलदेशस्य दक्षिणे ॥ तत्र धन्विपुरं नाम दिव्यमस्ति स्थलं महत् ॥६॥ विष्णोः प्रीतिकरं स्थानं यच्च त्रैलोक्यविश्रुतम्॥ विराजते पुण्यतीर्थ सप्तसागरनामकम् ॥७॥ क्षीरान्धिवासं स विहाय भूम्यांतत्राविरासीटपत्रशायी। संरक्षणार्थ भगवान्मुकुंदस्तत्रागताः सप्तमहार्णवाश्च॥८॥ब्रह्मादयः सर्वसुरासुरेंद्रा वाणीमुखाः सर्वसुरस्त्रिय- श्वासेिवार्थमन्ते निवसति विष्णोदेवर्पयस्तत्र च नारदायाः॥९॥ ततो, महद्धन्विपुरं सुपुण्यं विख्यातमेकं सकलस्थलेषु॥ विद्वजनैर्विष्णुपदा .

-
(२९०)
प्रपन्नामृते-
ब्ज गैः संपूर्णमासीत्सकलोत्सवैश्च।।१०॥अथाभवद्धन्विवनाभिधाना
पांडयाभिगुप्ता नगरी प्रतीता ॥ यत्संपदालोकनलजयैव पुरं सुराणा-
मभजत्सुमेरुम् ॥ ११ ॥ तत्र वेदविदां श्रेष्ठो महात्मा द्विजपुंगवः ॥
यः शालावृतगोत्राब्धिचन्द्रमा वैष्णवोत्तमः ॥ १२॥ श्रीबोधायन-
सुत्रश्च यजुःशाखः पुर:शिखः ॥ मुकुन्दार्य इति श्रीमान् बभूव
भगवत्प्रियः।। १३॥ पद्माख्या तस्य भार्या काचित्साध्वी बभूव
ह ॥ सन्तानकामः सततं भार्यया सह सत्तमः ॥१४॥ वटपरशयानं
तं प्रार्थयामास भूरिशः॥ संप्रार्थितस्ततो देवो मुकुन्दायर्येण केशवः
॥ १५॥ अपत्यलाभं प्रददौ तस्मै भक्ताय सादरम् ॥ ततःकोधनवर्षे
तु ग्रीष्मत्तौ ज्येष्ठमासके ॥ १६॥ शुक्लपक्षे हरितिथौ सुलग्ने भानु-
वासरे। स्वातितारे खगाधीश भागेन द्विजपुंगवात् ॥१७॥ पार्यायां
मुकुन्दार्याद्विष्णुचित्तस्ततोजनि ॥ अस्यावतारश्लोकाश्च गीयते
प्रथिता भुवि ॥ १८॥श्रीज्येष्टमासे पवमानतारे ज्येष्ठो गुणेनाजनि
भट्टनाथः॥ कृताभिरूपः स गरुत्मदात्मा कटाक्षलक्ष्यः कमलापतेर्यः
॥ १९॥ तादात्मकप्रतिभया भगवत्परत्वं विस्तार्य पांडचकटके
विजयी गजेन ।। गच्छन् प्रियादुपगते गरुडेन नाथे प्रेम्णाशिपं रच-
यति स्म नमोस्तु तस्मै ॥२०॥ ज्येष्ठे स्वातिभवं विष्णो रथांशं
धन्विसत्पुरे ॥ प्रपद्ये श्वशुरं विष्णोर्विष्णुचित्तं पुरःशिखम् ॥२१॥
चत्वारो भ्रातरस्तस्य बभूवुः सुमहौजसः॥ भट्टनाथस्य वेदांतिन् भगव-
द्भक्तिपारगाः ॥ २२ ॥ तन्मध्ये सुमहातेजा भट्टनाथो महायशाः ॥
व्यरोचत कलापूर्णों ग्रहैरिव निशाकरः ॥२३॥ जातकर्मादिसंस्कारा-
न्यथाकालं यथाविधि ॥ अकरोद्धिष्णुचित्तस्य मुकुन्दार्यः पिता
तदा ॥२४॥ वैकुण्ठाद्भुवमासाद्य देवो वेत्रवतीसखः ॥ विधाय
पञ्चसंस्कारान् भट्टनाथस्य सादरम् ॥२५॥ तेन संपूजितः सम्यका
स्वधाम प्रत्यपद्यत ॥तस्य विर्भगवतो निर्हेतुककटाक्षतः॥२६॥

अध्याय.८८.
(२९१)
प्रहादवट्टनाथो ह्यभवजन्मवैष्णवः ॥ सहजं वैष्णवं दास्यं नजं
संप्राप्य वैष्णवः ॥ २७॥ अकिंचित्कुर्वतो नास्ति शेपत्वमिति नि-
श्चितम् ॥ कर्तुकामो भगवतो नित्यं कैंकर्यमादरात् ॥ २८ ॥
किंचित्तत्र च कैंकर्य कर्त्तव्यमिति बुद्धिमान ॥ वेदांतिन भट्टना-
थार्यों हृदि सम्यगचिंतयत् ॥ २९ ॥ दशावतारान् वेदांतिन् सम्य-
गालोडयत्तदा ।। कृष्णावतारे तस्यासीत्प्रावण्यं सुमहत्ततः ॥ ३० ॥
एप नारायणः श्रीमान क्षीरार्णवनिकेतनः ॥ नागपय्यैकमुत्सृज्य
ह्यागतो मथुरा पुरीम् ॥ ३१ ॥ पुण्या द्वारावती तत्र यत्रास्ते मधु-
सूदनः ॥ साक्षादेवः पुराणोसौ स हि धर्मः सनातनः ॥ ३२ ॥
भगवानवतीयैव साधुसंरक्षणाय च ॥ माणिक्यवर्णों देवेशो विभूति-
द्वयनायकः ॥ ३३॥ ब्रह्मेशसनकादीनामपि ध्यानाद्यगोचरः ॥ स
भक्तसुलभः श्रीमान्भगवानंदगोकुले ॥ ३४ ॥ गोपिकाधीनवृत्तिश्च
तन्निर्माल्यधरः सदा ॥ नवनीतापहारादिकरणे ताडितो भृशम् ॥३५॥
यधुलूखलबंधादिकरणे दृढसंमतः ॥ अनिष्टवारणं तेपां कुर्वस्तत्र
समास्थितः ॥३६॥ ततः कंसवधार्थाय मथुरामागतः पुरीम् ॥
कंसकार्यकृतस्तस्य सुदाम्नः सदनं प्रति ॥ ३७ ॥ स्वयमेवार्पितां
मालामग्रहीत्साजस्ततः ॥ प्रसादपरमौ नाथौ मम गेहमुपागतौ
॥ ३८ ॥ धन्योहमर्चयिष्यामीत्याह माल्योपजीविकः ॥ अर्थ
महांतं ज्ञात्वैवं श्रीकृष्णे दृढभक्तिमान् ॥ ३९॥ श्रीवृंदावनकर्य
विधाय भगवत्परः ॥ वटपत्रे शयानाय श्रीधन्विपुरवासिने ॥४०॥
मनोहराः सुगंधाश्च तुलसीपुष्पमालिकाः ॥ नित्यं समर्पयंस्तस्थौ
विष्णवे बृहतेनघ ॥४१॥ एवं महात्मा भगवत्परायणो मुकुंदसूनुर्मु-
दितानुरागः॥ श्रीविष्णुकैंकर्य्यरतः स धन्विपुरे विरेजे महतां समाजे
॥४२॥ इति श्रीप्रपन्नामृते भट्टार्य्यवेदांतिसंवादे भट्टनाथावतारक-
थनं नामाटाशीतितमोऽध्यायः ॥ ८८॥

( २९२) प्रपन्नामृते- एकोननवतितमोऽध्यायः। तस्य धन्विपुरस्याथ पंचयोजनमात्रतः ॥ आसीत्कौबेरदिग्भागे मथुराख्या महापुरी ॥१॥ योजनानां द्विपट्के च श्रीरंगस्याथ दक्षिणे ॥ तस्यां पु- महातेजा धार्मिकः पांड्यभूपतिः ॥ २ ॥ आसीदल्लभदेवाख्यो विद्वान् कश्चिदबुधप्रियः ॥ दुर्बलं बलवान् राष्ट्र न यथा बाधते जनम् ॥३॥ तथैव राज्यं धर्मेण प्रशशास मही- पतिः ॥ ततो वल्लभदेवाख्यो धार्मिको धरणीधरः॥४॥ नगरीशो- धनार्थाय निशीथे निर्ययौ तदा ॥ वीथ्यां बहिर्वितद्यौ तु कस्यचिद्वे- श्मनोऽनघ॥९॥ एकाकिनंशयानंतमपश्यदल्लंभो द्विजम् ।। विलोक्यां- तिकमागत्य राजा वचनमब्रवीत् ॥ ६॥ को भवानिह संप्राप्तः कुत्रत्यस्तद्वदाशु मे ॥ स राज्ञो वचनं श्रुत्वा ब्राह्मणस्तमथाव- वीत् ॥७॥ ब्राह्मणस्तीर्थगो राजन् कृतगंगावगाहनः॥ सेतुस्नाने- च्छया गच्छन्ननाहं समुपागतः ॥ ८॥ तस्य तद्वचनं श्रुत्वा प्रह- ऐनांतरात्मना ॥ प्रणिपत्य द्विजश्रेष्टं राजा वचनमब्रवीत् ॥ ९ ॥ भवत्संदर्शनादेव कृतार्थोस्मि न संशयः ॥ तथापि मे परं पद्यं वदा- त्महितमंजसा ॥१०॥ ब्राह्मणस्तद्वचः श्रुत्वा वेदांतिस्तस्य साद- रम् ॥ समीचीनतरं श्लोक जगाद नृपति तदा ॥११॥ वार्थमप्टौ प्रयतेत मासानिशार्थमन्यं दिवसं यतेत ॥ वाईक्यहेतोर्वयसा नवेन परत्र हेतोरिह जन्मना च ॥ १२ ॥ तं तदा श्लोकमाकर्ण्य व्युत्पन्नः स नृपोत्तमः ॥ श्लोकार्थं सम्यगेवाशु ज्ञात्वा धीमानचिंत- यत् ॥ १३॥ दृष्टादृष्टे उभे होते संपाये वै ततः किल ॥ विचारः कोपि वा नास्ति मम दृष्टे महीपतेः ।। १४॥ अदृष्टयनः कर्तव्यः सांप्रतं सहसा मया ॥ को वा मोमप्रदो देवस्तत्र ते बहवः सुराः ॥१५॥ प्रव्याकुलांतःकरणः संचिन्त्यैवं महीपतिः ॥ तं ब्राह्मणं समाराध्य विवेशांतःपुरं तदा ।। १६॥ प्रभातायां तु शर्वर्या कृत- अध्यायः८९. (२९३) कर्मा नृपोत्तमः ॥ संपत्पूर्ण समाहूय पुरोहितमथाब्रवीत् ॥ १७ ॥ पुरुषार्थप्रदं वस्तु शास्त्रनिर्णयपूर्वकम् ॥ ब्रूहि मे मोक्षसिद्ध्यर्थ जगजन्मादिकारणम् ॥ १८॥ संग्रहष्टः स तद्वाक्यं निशम्याथ पुरोहितः ॥ वेदांतिन् भूपति सम्यग्व्याजहार वचः शुभम् ॥ १९ ॥ धर्मज्ञसमयो वेदाः प्रमाणं च नृपोत्तम ॥ अतः शास्त्रविदः सर्वान्स- माहूय वुधर्मभान् ॥ २० ॥ वाक्यैर्वेदांतसिद्धांतैः परतत्त्वस्य निर्णयम् ॥ कारयित्वा बुधश्रेष्ठैस्तन्मार्गेणार्यसंमतम् ॥ २१ ॥ ज्ञातव्यं तन्महद्वस्तु परतत्त्वमिदं स्फुटम् ॥ निशम्य वल्लभो राजा तस्य वाक्यं पुरोधसः ॥ २२ ॥ संतुष्टः सर्वविबुधानानयामास वि- श्रुतान् । वबंध तोरणस्तंभे विद्याशुल्कं महद्धनम् ॥ २३॥ तत्त्वार्थ- निर्णयं कृत्वा गृहाणेति नृपस्तदा ।। राजाज्ञया च वेदांतिन्मथुरानगरौं प्रति ॥ २४ ॥ दिग्भ्यो दशभ्यः सहसा बुधाः सर्वे समागताः॥ तदा राजसभायां ते राज्ञा सम्यक् प्रपूजिताः ॥ वादांश्चकुस्तदान्योन्यं ब्राह्मणाः शास्त्रवादिनः ॥२५॥ एवं वादपरैस्तैस्तु विद्वद्भिः संशया- कुलः ॥ २६॥ राजा निर्णीततत्त्वार्थाभिलापी व्याकुलोऽभवत् ॥ स तदाचिंतयच्छौरिधन्विमंगलनायकः ॥ २७ ॥ परतत्त्वमजानानाः सर्वे संसारिचेतनाः ॥ अज्ञानतमसा छत्राः कर्ममार्ग भ्रमंत्यहो । ॥ २८ ॥ अनेन कारयित्वाशु सांप्रतं तत्त्वनिर्णयम् ॥ भहनाथेन ते लोका रक्षितव्या न संशयः ॥ २९ ॥ तस्याज्ञानं निवाथ स्वपद- प्रापणाय च ॥ प्रकाशयामि स्वपदशरणागतिवर्तिने ॥ ३० ॥ इति निश्चित्य तं प्राह वटपत्रशयो हरिः॥ ततः प्रसन्नो भगवान् स्वप्ने तस्य जगत्पतिः॥ ३१ ॥ अवोचल्लोकरक्षार्थ भट्टनाथं वचः शुभम् ।। मथुरानगरं गत्वा पांड्यराजसभास्थले ॥ ३२ ॥ उक्त्वान विष्णुरेवे- ति परतत्त्वं बुधांतरे ॥ तद्रव्यं सहसा छित्त्वा तोरणस्तंभसंस्थितम् ।। ॥३३॥ मच्छासनात्तदादाय समागच्छाशु सत्वरम् ॥ हरेर्वाक्य (२९४) प्रपन्नामृते- समाकर्ण्य भट्टनाथस्तमब्रवीत् ॥ ३४ ॥ विद्याशुल्कं तु तद्रव्यं विद्या मम न विद्यते ॥ कथं हरामि देवेश विद्वत्संघेन मानितम् ॥ ३५ ॥ तदंगीकृत्य वचनं शौरिस्तं प्रत्यभापत ॥ तूष्णी यातु भवानद्य यद्वि- द्वन्मंडलं प्रति ॥ ३६॥अहमेव हि तत्कर्ता वेदार्थप्रतिपादने ॥ एवं निर्बधितस्तेन वेदांतिन्छौरिणा तदा ॥ ३७ ॥ अंगीचकार तद्वाक्यं भट्टनाथो जगत्पतेः ॥ ततः स्वप्नात्समुत्थाय विस्मयं परमं ययौ ॥ ॥ ३८ ॥ भट्टनाथश्च वेदांतिन् भगवद्भक्तिपारगः ॥ ब्राह्म मुहूर्त चोत्थाय कृतकर्मा द्विजर्षभः॥३९॥स्वप्नोक्ति हदि निश्चित्य तथ्यामत्यं- तसस्मितम् ॥ प्रतस्थे सहसा धीमान्विद्वन्द्वोष्टी दृढवतः॥४०॥स तदा वल्लभो राजा संपत्पूर्णपुरोहितम् ॥ संवीक्ष्य तावुभौ हौ भट्टनार्थ द्विजोत्तमम् ॥४१॥ अभ्यागतः स्वयं विष्णुरिति मत्वातिभाक्तितः ॥ प्रत्युत्थानप्रणामादिपूर्वकं विधिपूर्वकम् ॥ ४२ ॥ अर्चयामासतुर्भट्ट- नार्थ श्रीवैष्णवोत्तमम् ॥ विद्गोष्टयां स्थिताः सर्वे महांतो विबुधर्य- भाः ॥४३॥ सर्वविद्वत्सभामध्ये सर्वराजन्यमंडले ॥ सिंहासने स- मासीनं भट्टार्य हेमनिर्मिते ।। ४४ ॥ दृष्ट्वा न सेहिरे पूजां वेदांतिस्त- स्य तां च ते ॥ भट्टनाथं तृणीकृत्य वीक्ष्य राजपुरोहितम् ॥ ४५ ॥ नृपमूचुश्च परुपं वाक्यं तद्विपयं बुधाः ॥वेदाक्षराणि न क्वापि प्राप्ता- न्यस्य श्रुतेः पथि ॥४६॥ तत्संध्यादिक्रिया कापि न चास्माभिर्वि- लोकिता ॥ द्विजो निरक्षरो योयं गायत्री वत्ति वान वा ॥४७॥ वृत्ति चास्य प्रवक्ष्यामः शृणु राजन् समाहितः।। दासवृत्ति समास्थाय कुर्व- नारामपोपणम् ॥ ४८॥ श्रीकृष्णतुलसीमाला विधायातिमनोहराः ।। स मालाकारवन्नित्यं शौरिणे सम्यगार्पयत् ॥ ४९॥ वृत्त्यानयानुदि- वसं कालक्षेपमथाकरोत् ॥ वेदं वा शास्त्रवाक्यं वा नायं वेत्ति नृपो- त्तम ॥५०॥ ब्राह्मणानां पुरः शूद्रो निकृष्टः खलु भूपते ॥ विद्वद्गोप्टयां राजसभास्थाने चायासने शुभे ॥५१॥ पूजितो यत्त्वयानेन ह्यस्मा- अध्यायः८९. (२९५) कं पश्यतां नृप ॥ संपत्पूर्णश्च तद्वाक्यं श्रुत्वा राजपुरोहितः ॥५२॥ असहिष्णुस्ततः सर्वानिर्भर्त्य विवुधर्पभान् ।। भट्टनाथमुखं वीक्ष्य भक्त्यातं प्रणिपत्य सः॥५३॥महानुभावः सर्वेषां शृण्वतामनवीद्वचः॥ परतत्त्वं विनिर्णीय वेदांतप्रतिपादितम् ॥ ५४॥ ब्रूहि मे विशदं नित्यं शिष्याय विबुधांतिके ॥ पुरोहितवचः श्रुत्वा भट्टनाथो दृढवतः ॥५५॥ सस्मार हृदये विष्णु स्वप्नोक्तिं मनसा स्मरन् ॥ तथा शौरि- कटाक्षण विष्णुचित्तस्य धीमतः ॥५६॥ हस्तामलकवत्सम्यक् स- र्वार्थाः संप्रदर्शिताः ॥ हसितं भापितं चैव गतिर्या यच्च चेष्टितम् ।। ॥९७॥ तत्सर्व धर्मवीर्येण यथावत्संप्रपश्यति ॥ वाल्मीकिर्भगवान्पूर्व यथा ब्रह्मप्रसादतः ॥५८॥ शंखप्रांतेन 'गोविंदः संपस्पर्श कृतांज- लिम् ॥ उत्तानपादतनयं द्विजवयं जगत्पतिः ॥५९॥ ततः प्रसन्न- वदनस्तत्क्षणान्नृपनंदनः ॥ कृष्णं च प्रणतो भूत्वा भूतधातारमच्यु- तम् ॥ ६०॥ तथैवायं भट्टनाथो ज्ञातसर्वार्थसंचयः॥ सर्वविद्वत्स- भामध्ये विदधे तत्त्वनिर्णयम् ॥ ६१॥ तच्चरित्रं महाचित्रं तत्कथं वर्ण्यतेधुना ॥ स साक्षाल्लोकरक्षार्थ वेदात्मा विहगेश्वरः ॥६२ ॥ भद्दनाथस्वरूपेण संजातः किल भूतले ॥ विष्णोः पूर्णकटाक्षश्च तावुभौ मिलितौ यदि ॥६३ ॥ तत्प्रसंगप्रवचने कःशक्तो भुवनत्रये ॥ गंगाप्रवाहवद्वाचस्ताः सहस्रमुखास्तदा ॥ ६॥ विष्णुचित्तमुखात्तत्र निर्ययुर्निंगातजाः ॥ सर्वे सभासदस्तत्र चासश्चिवार्पिता इव ॥६६॥ श्रुतिस्मृतीतिहासैश्च पुराणैनिखिलैरपि ॥ ऐककंठ्यं विधायाशु सर्ववे- दांतसगिरः॥६६॥ विशदं बालबोधार्थमुपन्यस्य विचक्षणः ॥ हरि- रेव परं तत्त्वमिमं संस्थापनं व्यधात् ॥ ६७॥ तत्र द्वित्रीणि वाक्यानि वक्ष्ये गुरुकटाक्षतः ॥ श्रूयतामवधानेन सर्वविद्वद्गणाधिप ॥ ६८॥ सर्वार्था वेदगर्भस्था वेदाश्चाष्टाक्षरे स्थिताः।।अष्टाक्षरस्तु प्रणवे ह्यकारे प्रणवःस्थितः॥६९॥ यो वेदादौ स्वरः प्रोक्तो वेदांते च प्रतिष्ठितः।। तस्य प्रकृतिलीनस्य यः परः स महेश्वरः॥ ७० ॥ समस्तशब्दमूल- १२९६) प्रपन्नामृते- त्वादकारस्य स्वभावतः। समस्तशब्दवाच्यात्वाद्ब्रह्मणोपि स्वभावतः।। ७१ ॥ वाच्यवाचकसंबंधस्तयोरर्थात्प्रतीयते ॥ अक्षराणामकारोऽ- स्मि गीताचार्येण भापितम् ॥.७२ ॥ अकार एक सार्थो ह्यकारो विष्णुवाचकः ॥ अकारवाच्यस्तत्रैवं विष्णुरेवेति मीयते ॥७३॥ अकारवांच्यो भगवान्विष्णुर्नारायणः परः॥सर्ववेदादिवाक्यैश्चसर्वस्मा त्पर इष्यते ॥७४ ॥ जगज्जन्मस्थितिलयास्तत्परत्वस्य सूचकाः॥ अतोवधारणाद्यैश्च धात्वर्थः श्रीपतौ स्फुटः ॥ ७५ ॥ अतो नेत्यादिवा- क्यानि तस्यैवापादकानि च ।। एवं जन्मादिहेतुत्वं श्रुतिसिद्धं हरेः किल ॥७६ ॥ नारायणानुवाकेन वेदांतवचनैस्तथा ॥ निश्रेयसप्रदातृत्वं मुमुक्षूपास्यतानघ। ७७॥तस्यैवाकारवाच्यस्य श्रीहरेः प्रतिपादिता॥ विष्णोः सकाशादुद्भूतं जगत्तत्रैव संस्थितम् ॥७८॥स्थितिसंयमकर्ता- सौ जगतोऽस्य जगच्चसः॥नारायणात्परो देवो न भूतो न भविष्यति ॥७९॥एतद्रहस्यं वेदानां पुराणानांच संमतम्। सत्यंसत्यं पुनः सत्य- मुद्धृत्य भुजमुच्यते॥८०॥वेदाच्छास्त्रं परं नास्ति नदेवः केशवात्परः।। एवं प्रमाणवाक्यानि मनाथेवदत्यलम्॥८॥यत्स्थूणाने दृढं बद्धं वि- इच्छुल्कं महद्धनम् ।। क्षिप्रं त्रुट्यत्पपातोया खेण महता तदा।।८२॥ पतत्तच्च समुद्दिश्य विद्याशुल्कं प्रदृष्टधीः ॥ भित्त्वा जग्राह वेगेन भट्टनाथो महायशाः ॥ ८३॥ राजा पुरोहितश्चैते ब्राह्मणा विवुधा- स्तथा ॥ सर्वेतिविस्मयाविष्टाः प्रणेमुस्तं द्विजर्पभम् ॥ ८४ ॥स्थितोऽ- स्य हृदये विष्णुर्यदभूद्विवुधर्पभः ॥ विष्णुचित्ताभिधां तस्य नृपश्चके तदादरात् ॥ ८५॥ विष्णुचित्तं गजस्कंधे प्रतिष्ठाप्य महौजसम् ॥ पुरप्रदक्षिणं राजा कारयामास भक्तितः॥८६॥ छत्रचामरतादी- नसमादाय विपश्चितः ॥ ते सर्वेऽनुययुधीर वेदपाठः सहादरात् ॥८॥ भेरीमृदंगवाद्येश्च चतुरंगवलैः सह ॥ अमात्यसहितः श्रीमान्स राजा- नुययो गुरुम् ॥ ८८ ॥ संपत्पूर्णो महाभत्त्या तस्य राजपुरोहितः॥

अध्यायः ८९. (२९७) जांबूनदमयं छत्रं दधार महतस्तदा ॥ ८९॥ विचित्रतोरणवती पता- काध्वमालिनी ।। साऽयोध्येवाभवदिव्या श्रीरामोत्सवशोभिता॥९०॥ तथा ब्रह्मरथारूढं पुत्रमप्रतिमौजसम्।।यथा प्रेम्णा पिता पुत्रं द्रष्टुकामो महौजसम् ॥ ९१ ॥ तदा सर्वेश्वरः श्रीमाञ् जगदीजप्रदः पिता ॥ जगन्मात्रा महालक्ष्म्या सहितः पुत्रवत्सलः ॥ ९२ ॥ दिव्यपंचायु- धधरो ब्रह्मरुद्रादिसेवितः ॥ नीलांबुदनिभाकारः पीतांवरधरो युवा ॥ ९३ ॥ वैनतेयं समारुह्य व्योममार्गे श्रियः पतिः ॥ अनेकदि- व्याभरणो दिव्यमंगलविग्रहः ॥ ९४ ॥ भगवान्विष्णुचित्तस्य प्रत्यक्षमगमत्तदा ॥ केपांचिन्महतां तत्र नृपतेश्च पुरोधसः ॥ ९९ ॥ ते सर्वे भट्टनाथस्य कृपया जगदीश्वरम् ॥ भगवंतं समुद्रीक्ष्य लोच- नाभ्यां महौजसम् ॥ ९६॥ प्रणम्य बहुधा भत्त्या कृतार्था ह्यभवं- स्तदा ॥ भट्टनाथो भगवतः परमप्राकृतं महः ॥ ९७ ॥ विलोक्य विस्मयं गत्वा परं तं हर्पमाप्तवान् ।। स संप्राप्तानवधिकज्ञानभक्तिम- हार्णवः ॥९८ ॥ भट्टनाथो भगवतो निर्हेतुककटाक्षतः ॥ सर्वज्ञत्वा- दिकान्विष्णोर्गुणान्सर्वाननूपमान् ॥ ९९ ॥ दिव्यज्ञानेनानुभूय विशदं विबुधाग्रणीः ॥ सौंदर्य सौकुमार्य च लावण्यं चाद्वितीयकम् ।। १०० ॥ परिणामादिरहितं सर्वभूतमनोहरम् ॥ नित्यसिद्धं भग- वतस्तत्पंचोपनिपन्मयम् ॥ १०१॥ यद्रूपं परमस्थाने सदापश्य- ति सूरयः ॥ क्षणक्षरस्वभावेन कालात्मपरिणामिके ॥ १० ॥ क- लिसाम्राज्यभूयिष्ठे लोकेस्मिन् निरयोपमे ॥ अज्ञानतमसाछन्ने चार्थ- कामपरायणे ।। १०३ ॥नित्यमुक्तकभोग्यं यत्तत्पञ्चोपनिपन्मयम् ॥ अप्राकृतं दिव्यरूपमचक्षुर्विपयं गतम् ॥१०४॥ हानिशंकां समासाद्य तस्यैवालभ्यवस्तुनः ॥ अनिष्टपरिहाराय प्रेमावेशवशात्तदा ॥ १०॥ गजकण्ठगता घण्टास्तालवाद्यं विधाय च ॥ तदनिष्टनिवृत्त्यर्थं सौक- मायाँदिसंपदाम् ॥ १०६॥ तत्रैव पारवश्येन विष्णवे लोकजिष्णवे॥

(२९८) प्रपन्नामृते- मंगलाशासनं चक्रे धीमानकृतवंदनः॥१०७॥ तावन्मात्रेण चातृप्तो विष्णोदिव्यविभूतयः॥ ताः समुद्दिश्य सहसा मंगलाशासनं व्यधात् ॥१०८॥ स तं लोकोपकाराय गाथाद्वादशसंमितम् ॥ प्रबंधमकरो- द्भक्त्या मंगलाशासनात्मकम् ॥३०९॥ श्रीहरिभगवान्विष्णुर्विष्णुचि- तेन भूयसा ॥ कृताशीः प्रययौ विद्वन् कृतार्थः परमं पदम् ॥११०॥ततः स राजा वेदांतिञ्छिष्यत्वमगमत्तदा ॥ विष्णुचित्तस्य महतः सामात्यः सपुरोहितः॥ १११ ॥ तेन संपूजितः सम्यग्राज्ञा प्रस्थापितस्तदा ।। महता वैभवेनैव भट्टनाथो महायशाः ॥ ११२॥ सुवर्णशिबिकारूढः सुवाद्यैश्छत्रचामरैः॥ मथुरानगराद्धीमान प्रतस्थे धन्विमंगलम् ॥ ॥ ११३ ॥ धन्विनव्यपुराधीशशौरिणा प्रेपिता जनाः ॥ भेरीमृदंग- वाद्यैश्च तदीयच्छत्रचामरैः ।। ११४॥क्रोशमात्रेण तस्याथ पुरस्य पुरवासिनः ॥ विष्णुचित्तं महात्मानं प्रत्युद्गम्याभिपूज्य च ॥११॥ पुरमानीय तत्रार्य कारयित्वा प्रदक्षिणम् । वीथीचतुष्टयेष्वार्य विन्यस्तं स्वामिसन्निधिम् ॥ ११६॥ भक्तं संवीक्ष्य भगवान्वटपरशयो हरिः॥ तीर्थ प्रसाद मालां च दापयित्वार्चकैर्मुदा ॥ ११७ ॥ विष्णुचित्ताय वेदांतिन् सम्मानमकरोन्महत् ॥ विष्णुचित्तःस तत्सर्वं भत्त्या संगृह्य सादरम् ॥ ११८॥ यद्यद्राज्ञार्पितं तस्मै तत्सर्व विष्णवे धनम् ॥ समर्प्य पूर्ववत्तत्र तुलसीवनकारकः ॥ ११९ ॥ सुगंधतुलसीमालाः पुष्पमालाश्च सादरम् ॥ श्रीमालाकारवन्नित्यं भक्त्या तच्छौरये मुदा ।। १२० ॥ भट्टनाथोर्पयंस्तस्थौ वेदान्तिन् दृढभक्तिमान् ॥ तस्य श्रीकृष्णभक्तत्वात्सम्यग्भागवतस्थितम् ॥ १२१ ॥ कृष्णा- वतारचरितं सम्यग्ज्ञात्वा विचक्षणः ॥ कृष्णस्य गोपवेपं च तस्यामानुपचेष्टितम् ॥ १२२ ॥ नवनीतादिहरणं गोपीजनविहा- रणम् ॥ सौंदर्य सौकुमार्य च सौलभ्यायखिलान्गुणान् ॥ १२३ ॥ तद्भक्तिपरवश्येन गोपिकाजनवत्तदा ॥ अनुभूय स तत्सर्व कृष्णली- अध्यायः ८९. ( २९९) लामहोत्सवम् ॥ १२४ ॥ अतिष्ठत्तन्मयो नित्यं कृष्णादन्यं न वेद सः॥ कृष्णानुभवसंजातमहानंदो महात्मनः ॥ १२५॥ न ममुस्तत्र वेदांतिन्भट्टार्य्यस्य तनौ किल । तमेवार्थ समुद्दिश्य महाकारुणिक- स्तदा ॥ १२६॥ ततो लोकोपकाराय भट्टनाथो महायशाः॥ तं भट्ट- नाथगीताख्यं दिव्यद्राविडरूपकम् ॥ १२७ ॥ कृत्वा प्रबंधं वेदां- तिन्सर्वं जगदपालयत् ॥ चतुःशतं चैकपष्टिगाथास्तत्र प्रकीर्ति- ताः ॥ १२८ ॥ भट्टनाथस्तुता विष्णोदिव्यदेशास्त्रयोदश ॥ धन्वि- नव्यपुरं रंग मधुरा कुरुकापुरी ॥ १२९ ॥ गोष्टीकुरंगनगरं तोतादिः सुंदराचलः ॥ श्रीकृष्णनगरं चैव शेपादिः पुरुपोत्तमः ॥ ॥ १३० ॥ नंदवजश्च मथुरा तस्मादेते त्रयोदश ।। तस्मिन्नर्थे महाञ् श्लोकः श्रूयते लोकविश्रुतः ॥ १३१ ॥ रंगं धन्विपुरं च पांडयमधुरा- गोष्टीकरंगस्थलं श्रीमत्कृष्णपुरं वनाचलवरः स्वेताचलः श्रीपुरी ।। शेपादिः पुरुषोत्तमं च मथुरा नंदवजश्चैव ते देशा भट्टमुनींद्रदिव्यक- तिना पटू सप्त चाभिष्टुताः ॥ १३२॥ विष्णुचित्तः स वेदांतिस्तथैव सुकृती मुदा ।। महाकारुणिको धीमाजगत्सर्वमपालयत् ॥ १३३॥ तत्तच्छ्रुत्वा च वेदांती महात्म्यं तस्य चाद्भुतम् ॥ प्रहृष्टः प्रणिपत्योयी भूयो विज्ञापनं व्यधात ॥ १३४ ॥ संपूर्णज्ञानभत्त्यादिगुणैः सर्वैर्दशै- वते । तेभ्यो महत्त्वं सुतरां भट्टनाथस्य देशिक ।। १३५ ॥ माहात्म्य येन संजातं तन्मे चूहि विचक्षण | महार्य इति नामास्य भट्टनाथस्य देशिक ॥ १३६ ॥ तन्नाम तस्य कैर्दत्तं विशदं जगतीतले ॥ भट्टनाथ- सुतेत्येवं गोदा देवी प्रगीयते ।। १३७ ॥ अवतारक्रमं ब्रूहि देव्यास्त- स्यास्तु विस्तरम् ।। किं कृत्वा भुवि भट्टायों महार्यःस्थितवानयम् ॥ ॥१३८॥ तस्य तद्वचनं श्रुत्वा भट्टार्यः शास्त्रवित्तमः ॥ अवोचरचनं धीमा शिष्यं वेदांतिनंप्रति॥१३९॥भगवंतं समुदिश्य नवैते स्वेटका- क्षिणावेदांतिन्बहुधा विष्णुं नमस्कारं प्रचक्रिरे॥१०॥अयं तु भग- वत्प्रेमपारवश्येन भूयसा ॥ कदाचिद्धीनता तस्य यद्यथा न भवे- (३००) प्रपन्नामृते- तथा।।३४१॥ महत्त्यै भगवद्भूत्यै मंगलाशासनं व्यधात्॥ यदाचार्य- वरो यस्माद्विष्णुचित्तो बभूव ह ॥ १४२ ॥ ततो महार्य्यनामास्य बभूव भुवि विश्रुतम् ॥ चकुस्तन्नाम तस्यैव नवैते दिव्यसूरयः ॥ १४३॥ तत्प्रबंधो महादिव्यो मंगलाशासनात्मकः । स प्रबंधः प्रथमतो वेदादौ प्रणवो यथा ॥ १४४ ॥ सर्वप्रबंधाध्ययने पठ्यते विबुधर्पभैः ॥ चतुर्णा तु सहस्त्राणां प्रबंधानां वरःस्मृतः ।।१४५॥ प्र- बंधः स यतस्तेपां विष्णुचित्तस्ततः परः॥ श्रीवैष्णवत्वसिद्धयाथै स- एवादौ प्रयत्नतः ॥१४६॥ पठितव्योवैष्णवेन मंगलाशासनात्मकः॥ महत्प्रवंधद्वितयं भट्टनाथकृतं तथा ॥ १४७॥ त्रिसप्ततिश्च गा- थानां तत्प्रबंधं चतुःशतम् ।। प्रबंधं विष्णुचित्तस्य ये पठति महार्थ- दम् ॥१४८॥ सर्वपापविनिर्मुक्तास्ते भवेयुर्मुमुक्षवः ॥ य इदं शृणुया- नित्यं भट्टायंचरितं महत् ॥ १४९ ॥ सर्वकामान् स संप्राप्य विष्णु- लोके महीयते ॥ १५०॥ इति श्रीप्रपन्नामृते भट्टार्यवेदांतिसंवादे श्रीविष्णुचित्तार्येण राजसभास्थाने तत्त्वनिर्णयकथनं नामैकोननवति- तमोऽध्यायः ॥८९॥ नवतितमोऽध्यायः। श्रीवत्सचिह्नतनयो भगवान् भट्टदेशिकः॥गोदावतारं शिष्याय प्रवक्तु- मुपचक्रमे ॥ १॥ देवस्य महिपी दिव्यामायां गोदामुपास्महे ॥ यन्मौ लिमालिकां प्रीत्या स्वीकरोति स्वयं प्रभुः ॥२॥नीलातुंगस्तन- गिरितटीसुप्तमुद्रोध्य कृष्णं पाराशें स्वं श्रुतिशतशिरःसिद्धमध्यापयं- तीस्वोच्छिष्टायां स्रजि निगलितं या वलात्कृत्य भुक्त गोदातस्यै नम इदमिदं भूय एवास्तु भूयः॥३॥इतीव वंदनं कृत्वा गोदादेव्यै महामतिः।। वेदांतिनं समुद्दिश्य व्याजहार वचःशुभम् ॥ ४॥ अवतारं प्रवक्ष्यामि गोदायास्तन्महाद्भुतम् ॥शृणुप्वावहितः सम्यक् सीताया इव चोत्तमम ॥२॥यजतः कर्पतः क्षेत्रलांगलादुत्थिता मया ॥ क्षेत्रंशोधयतालब्धा अध्यायः ९०. (३०१) नाना सीतेति विश्रुता॥६॥भूतलादुत्थिता सा तु व्यवर्द्धत ममात्मजा ॥ एवं जनकराजेनसीताया जन्म भापितम् ॥ तथैव गोदा तुलसी वनभूमौ तदाजनि ॥७॥ समंततो वीक्ष्य चरन्वनांतरे नवप्रसूना- न्यपचित्य कुत्रचित् ॥ स विष्णुचित्तस्तुलसीवनावनिं खनित्रवण निखन्य कल्पयन् ॥ ८॥ तदा खनित्रवत्रण विष्णुचित्ते महात्मानि।। तुलसीवृक्षमूलस्य खननं च प्रकुर्वति॥९॥ अपाढे पूर्वपक्षे च चतुर्थी भौमवासरे ॥ मध्याह्ने पूर्वाफाल्गुन्यां तुलालग्ने शुभे दिने ॥१०॥ लक्ष्म्यंशाल्लोकरक्षार्थ गोदा भूम्यास्ततोजनि ॥ गोदावतारश्लोकाश्च गीयते प्रथिता भुवि ॥ ११ ॥ स विष्णुचित्तस्तुलसीवनस्य खनित्र- वक्त्रेण निखानमाचरत् ॥ शुभे मुहूर्त शुचिमासि फल्गुनीप्रतीततारे तुलसीवनांतरे ॥ भुवोऽभवत्काचन बालकन्यका स तां तदा प्रेक्ष्य विसिस्मिये मुदा ॥ १२ ॥ तां दृष्ट्वा विस्मयादालां विष्णुचित्तः प्रहर्पितः॥ आदाय गृहमागत्य गोदां कृत्वा स्वपुत्रिकाम् ॥१३॥ नित्यं पुपोप वेदांतिन् सम्यग्दुहितवत्सलः॥राजर्जिनकः पूर्व यथा सीतां जगत्प्रसूम् ॥१४॥ श्रीवैष्णवान्समाहूय कारयित्वाथ मंगलम्। गोदेति नामकरणं चकार दुहिस्तुस्तदा ॥ १६॥ लालिता पोपिता नित्यं पितृभ्यां प्रेमपूर्वकम् ।। वृधे बालिका गोदा पित्रोरानंदायिनी ॥ १६ ॥ गोदाजन्म समारभ्य धन्विनव्यपुरं हि तत् ।। अशोभतानु- दिवसं वेदांतिन्नधिकश्रिया ॥ १७॥ ततोऽखिलजनास्तत्र दृष्ट्वा गोदा रमांशतः॥ जातां ज्ञात्वाधिकां भक्तिं तस्यां चकुर्बुधोत्तमाः॥१८॥ बाल्यात्प्रभृति सुस्निग्धा सदाचारसमाश्रया ॥ वैराग्यज्ञानभक्तीनां सीमा भूमौ बभूव सा ॥१९॥ जनकावाप्तसंस्कारपंचका भगवत्परा ॥ पंचमोपायनिष्टैका गोदा देवी बभूव सा ॥२०॥ दुहितानभत्त्यादि- सद्गुणान्वीक्ष्य संततम् ॥ सादृश्यरहितान्कापि संतुष्टो विस्मयं गतः ॥२१॥ अलंकारप्रिया बाला तस्य ताः पुष्पमालिकाः ॥ जनका- ज्ञातवृत्तांता सा धम्मिल्ले दधौ नहः ॥२२॥ ततः पितृभयाद्रीता (३०२) प्रपन्नामृते- पूर्ववत्पेटिकांतरे ॥ निधाय मालिकाः सम्यगम्लानमतिकोविदा ॥२३॥ केनाप्यज्ञातवृत्तांता गोदा देवी समास्थिता ॥ गोदा प्रकर्वतीत्येवं प्रत्यहं सा समास्थिता ॥ २४ ॥ कदाचिद्विष्णु- चित्तोथ गोदायास्तद्विचेष्टितम् ॥ विलोक्य भीतोऽप्यकृतकोपो दुहि- तृवत्सलः ॥२५॥ व्याजहार शुभं वाक्यं गोदां तां सांत्वपूर्वकम् ॥ अपचारतमं कार्यमबले यत्त्वया कृतम् ॥२६॥ मनागपि न कर्त्तव्यं नैव चिंत्यं हृदापि तत् ॥ एवं दुहितरं सम्यक् शिक्षायित्वा महामनाः ॥२७॥ तास्ततो विष्णवे तत्र नार्पयत्पुष्पमालिकाः ॥ तस्यां राज्यां तदा तस्य वटपत्रशयो हरिः॥२८॥ स्वप्ने प्रसन्नो भगवान भहनाथं बचोब्रवीत् ॥ किमर्थमस्मिन् दिवसे न दत्ताः पुष्पमालिकाः॥ २९॥ नित्यं प्रदाचा भवता मह्यं मद्भक्तिशालिना ॥ तस्य तद्वचनं श्रुत्वा चक्रे विज्ञापनं तदा ॥ ३० ॥ दिनेस्मिन्बालया पुन्या धृता मे पुष्प- मालिकाः ॥ अतो मया हि भगवन् प्रदत्ता इंततेन ताः ॥३॥ नि- शम्य तद्वचस्तस्य भगवानबवीत्तदा ॥धृता यदि तया मालाः सुगंधा मे ह्यतिप्रियाः ॥ ३२॥ धृतपूर्वास्तयैवैता मालिकाः सम्यगर्पय ।। ततः स्वप्नात्समुत्थाय विष्णुचित्तः सविस्मयः ॥३३॥ गोदा मत्वा महालक्ष्मी वैदेहीमिव भूमिजाम् ॥ गोदासदृशलावण्या साक्षालक्ष्मी- रिवाबभौ ॥ ३४॥ जन्मारभ्य बभौ गोदा ज्ञानभक्त्यादिसगणैः ।। दिव्यगंधयुतवासीद्यथा श्रीतुलसी वरा ॥ ३५॥ ज्ञानभत्त्यादयस्त- स्याः गुणाववृधिरेधिकाः॥ दशभ्यो दिव्यसूरिभ्यो गोदादेव्यास्ततोऽ- न घ॥३६॥ यत्पुंसः पुरुपे प्रेम स्त्रीप्रीतियोपितश्च या ॥ निनोन्नता- धिरोहेव सा महायत्तसाधिता ॥ ३७॥ योपितः पुरुपप्रेम स्त्रीप्रीतिः पुरुपस्य या॥ उन्नतानिनपतनं तद्यथा सुकरं भुवि ॥ ३८॥ अतो हि भगवत्प्रीति!दायाः परमाधिका ॥ कृष्णप्रीतिगोपिकानां नंदादिभ्यो- धिका ततः॥ ३९ ॥ स्त्रियः साधुरिति प्राह वेदव्यासस्ततः किल ॥

अध्यायः ९०. (३०३) पुरुपेभ्योऽधिका प्रीतिः स्त्रीणां विष्णौ भविष्यति ॥ ४०॥श्रीकृष्ण- विरहाद्गोप्यो यथातप्यंत संततम् ॥ अतप्यत तदा गोदा वेदांतिन्भ- गवत्परा ॥४३॥ हेमंते प्रथमे मासि नंदवजकुमारिकाः॥ चेरुहविष्य भुंजानाः कात्यान्ययर्चनव्रतम् ॥४२॥ एवं गोदा महाभागा भगव- प्रेमपारगा ॥ सा सम्यगनुभूयार्थ श्रीमद्भागवतस्थितम् ॥४३॥ तमे- वार्थ समुद्धृत्य लोकसंरक्षणाय च ॥ प्रबंधद्रितयं चके सर्वलोकाम- तप्रदम् ॥ १४ ॥ गाथानां द्वितयं तत्र त्रिसप्तत्यधिकं शतम् ॥ दिव्य- प्रबंधस्तत्रैको लक्ष्मीनित्याभिधो महान् ॥ ४५ ॥ त्रिचत्वारिंशद- धिकं गाथानां शतमत्र हि ॥ गोदास्तवाभिधस्तत्र द्वितीयः परिकी- र्तितः॥४६॥ धनुर्मासोत्सवपरस्त्रिंशद्वाथाविराजितः ॥ संस्तुतानि तयाप्टौ च विष्णुस्थानानि भूतले ॥ ४७ ॥ श्रीरंग वेंकटाद्रिश्च वनादिर्धन्विमंगलम् ॥ क्षीराब्धिः कृष्णनगरं मथुरा गोकुलं तथा ॥ अस्मिन्नर्थे महालोकः श्रूयते लोकविश्रुतः॥ १८॥ रंगं कृष्ण- पुरं च धन्विनगरं पांड्ये वनादिमहान क्षीराब्धिपभूधरश्च मथुरा नंदवजश्चोत्तरे ॥ अष्टौ ते समभिष्टुता भगवतः श्रीगोदया भक्तित- स्तानेवं प्रतिवासरं पठति यः श्रीमान् स भूयान्नरः ॥ ४९ ॥ एवं गोदा महादेवी वेदांतिन् भक्तितत्परा ॥ दिव्यप्रबंधं कृत्वाशु जग- सर्वमपालयत् ॥ ५० ॥ एतादृशगुणोपेतां यौवनारंभपेशलाम् ॥ अनिर्देश्यवयोरूपामतुल्यहरिभक्तिकाम् ॥५१॥दृष्ट्वा दुहितरं साध्वी विष्णुचित्तो महामतिः॥ इयं मम सुता गोदा कस्मै देयेत्यचिंतयत् ॥५२॥ (पतिसंयोगसुलभं क्यो दृष्दैव मे पिता ॥ चिंतार्णवगतः पारं नाससादाप्लवो यथा ॥ ५३॥) एवं स जनको राजा चिंता- माप दुरत्ययाम् ॥ पतिसंयोगसुलभं गोदाया यद्वयः शुभम् ॥५४॥ दृष्ट्वा तदा विष्णुचित्तश्चिंतामाप दुरत्ययाम् ॥ तव्याकुलांतःकरणं विलोक्य पितरं तदा ॥५५॥ व्याजहारः शुभं वाक्यं गोदा देवी हरिप्रिया ॥ भगवतं विना नान्यं वरिष्येहमतः सती ।। ६६॥मा (३०४) प्रपन्नामृते- शोकं कुरु धर्मज्ञ मदर्थे रक्षको हरिः ॥ तच्छुत्वा वचनं तस्याः सं- तुष्टो विष्णुचित्तकः ॥१७॥ गोदां विलोक्याशा व्याजहार वचः शुभम् ॥ अष्टोत्तरशतं विष्णोः स्थानानि जगतीतले ॥ ५८ ॥ तेषु स्थितान् हरीन वीक्ष्य श्रुत्वा भगवतोखिलान् ॥ वृणीष्वाभि- मतं विष्णुं सुंदरं वांछितप्रदम् ॥ ५९ ॥ गोदादेवि प्रवक्ष्यामि स्थलानि शृणु सादरम् ॥ भूम्यां पुराणसिद्धानि विष्णुस्थानानि भूरिशः ॥ ६० ॥ मुख्यान्यष्टोत्तरशतं तत्र दिव्यानि योगि- भिः ॥शठकोपादिभिर्दिव्यप्रबंधापादितानि च ॥ ६१ ॥ अष्टाद- दशस्थलान्यत्र पांड्यदेशे रमापतेः॥ केरले सुमहाभागे दिव्यदेशाश्च- तुर्दश ॥६२॥ द्विचत्वारिंशदित्याहुश्चोलदेशे स्थलानि हि ॥ ते त्रयो- विंशतिदिव्या देशास्तुंडीरमंडले ॥६३॥ उदीच्यां दिशि दिव्यानि स्थलान्येकादश स्फुटम् ॥ एतेष्वष्टोत्तरशतस्थानेष्वंभोजलोचने ॥ ॥६॥आस्थितानां भगवता भक्तानुग्रहकारणात् ॥ सौंदर्यसौकुमार्या- दिगुणान्सर्वाननूपमान ॥ ६५ ॥ श्रीरंगेशादिदेवानां दृष्टचित्तापहारि- णाम ॥ प्रभावानद्भुतान् दिव्याञ्छृणु वक्ष्यामि तत्त्वतः ॥६६॥ एवं दु- हितृवात्सल्याद्भट्टनाथस्ततोऽनघ । अष्टोत्तरशतस्थानस्थितानां पर- मात्मनाम् ॥ ६७॥ प्रभावं कृपया सर्व तस्यै सम्यक् सविस्तरम् ॥ वेदांतिन् क्रमशो विद्वान् गोदादेव्यै न्यवेदयत् ॥ ६८ ॥ अष्टोत्तरशतं धानामस्त्य रूपिणो हरेः ॥ भुवि यद्वैभवं श्रुत्वा पुंसां मुक्तिः करे स्थिता ।।६९॥ विष्णुनामपदान्येवं विष्णुचित्ते विवृण्वति ॥ मथुराधी- शकृष्णस्य वृत्तं श्रुत्वातिविस्मिता ॥ ७० ॥ ततः सुंदरराजस्य चरितं शृण्वती मुदा ॥उदारपुलकांकूरमुवाह सुतनुस्तनौ ॥ ७१ ॥वेंकटाद्रि- पतेर्विष्णोः कथाकर्णनकर्मणा ।। रमणीये मुखे तस्या विकासोऽभूद्धि- जूभितः ॥ ७२ ॥ श्रीमतो रंगराजस्य शृण्वती महिमोदयम् ॥ आध- त्तामंदमानंदमरविंददलेक्षणा ॥७३॥ एवं निशम्य सर्वेपां हरीणां अध्यायः ९१. (३०५) वैभवं तदा ॥ भट्टनाथमुखात्सर्वं गोदानंदमवाप सा ॥७॥ अष्टोत्तर- शतस्थानस्थिताारू पिणस्तदा ॥ ते विष्णुमूर्तयः सर्वे भट्टनाथेन संस्तुताः॥ ७९ ॥ गोदास्वयंवरे शीघ्र गोदोद्वाहाभिकांक्षिणः ॥ स्व- कीयदिव्यलावण्ययौवनायभिसंयुताः ॥७६॥ श्रीरंगेशादयो देवा धन्विमंगलमागताः॥ रंगेशांदीस्ततः सर्वान् गोदा देवी विलोक्य तान् ॥ ७७॥ तन्मध्ये सुमहात्मानं तं विलोक्य महौजसम् ॥ रंगे- शं सुंदरवरं वरयामास सुंदरी ॥ ७८॥ भट्टनाथेन हरयस्तेन संपू- जितास्ततः॥ संप्रेपिताश्च ते सर्व स्वस्वं स्थानं प्रपेदिरे ॥ ७९ ॥ स्वलावण्यादिमहिमसंपद्भिः सादरं मुहुः॥ गोदां तु मोहयित्वाशु रंगे- शो रंगमभ्यगात् ॥ ८०॥ गोदा रंगेश्वरं देवं मत्वा स्वाभिमतं वरम्॥ ध्यायंती सततं तस्थौ तमेवानन्यमानसा ॥ ८१॥ इति श्रीप्रपन्नामृते श्रीभट्टार्यवेदांतिसंवादे गोदावतारकथायां तत्स्वयंवरे देवानां धन्वि- पुरागमनं नाम नवतितमोऽध्यायः॥९॥ एकनवतितमोऽध्यायः। संतुष्टोस्मद्यतिः सम्यनिशम्याद्भुतवत्ततम् ॥ तां कथां परिपप्रच्छ भूयो भट्टार्यमादरात ॥१॥श्रोतुमिच्छामि भगवन् गोदाकल्याणमद्ध- तम् ॥ ब्रूहि मे विशदं विञ्छिप्याय करुणार्णव ॥२॥ तदंगीकृत्य वचनं भट्टार्य्यस्तमथात्रवीत् ॥अनिर्देश्यवयोरूपविभ्रमौदार्यसुस्मितैः ॥३॥ पुंसामपि च वेदांतिन् दृष्टचित्तापहारकैः॥ मोहयित्वाशु तां गोदा रंगेशो रंगमभ्यगात् ॥ ४॥ रंगेशागमनाभावात्सा गोदा विर- हातुरा ॥ रंगेशलग्रहृदया ह्यतप्यत दिवानिशम् ॥ ५॥ गोपिकाः कृष्णविरहायथातप्यंत भूरिशः ॥ रंगेशवदहृदया गोदा नियतमा- नसा ॥ ६॥ जितनिद्रा जिताहारा राधिकेव समास्थिता ॥ रंगेशवि- रहेणैव संतप्तां तामहर्निशम् ।। ७॥ पिता दुहितरं वीक्ष्य विष्णुचित्तो- प्यतप्यत । अचिंतयट्टनाथस्ततो दुहितवत्सलः ॥ ८ ॥ रंगेशो

(३०६)
प्रपन्नामृते-
भगवान देवः क्व च श्रीरंगनायकः॥ तस्मादद्य महत्कार्यं कथं वा
घटते मम ॥ ९॥ वरं समीचीनतरमकामयत मे सुता ॥ तयोर्वैवा-
हिक कार्य श्रीरंगेश्वरगोदयोः ॥ १० ॥केनोपायेन तत्साध्यमिति
चिंतापरोऽभवत् ।। प्रन्याकुलांतःकरणो. भट्टनाथस्तदानध ॥ १३ ॥
तमेव शरणं गत्वा सुप्वापाकृतभोजनः॥ स्वप्ने प्रसन्नो भगवान भट्ट-
नाथस्य रंगराट् ॥ १२॥ व्याजहार शुभं वाक्यं वेदांतिन भक्तव-
त्सलः॥ स त्वं श्वशुर सर्वज्ञ किमर्थ परितप्यसे ॥१३॥ तूर्ण दुहितरं
गोदां समादायार्य सादरम् ॥ मम रंगं समायाहि महता वैभवेन च
॥ १४॥ सर्वेषां पश्यतां शीघ्रं गोदाया दुहितुस्तव ॥ करिष्याम्यहमे-
वाद्य पाणिग्रहणमंगलम् ॥ १५॥ ततः स्वप्नात्समुत्थाय भट्टनाथः
सविस्मयः ॥ दुहिने स्वप्रवृत्तांत सर्व सम्यनिवेद्य तत् ॥१६॥ संतुष्टो
निर्भरस्तस्थौ तां सुतां लालयंस्तदा ॥ अतिप्रियतमं सत्यं तनिशम्य
पितुर्वचः ॥ १७॥ अकरोद्भगवत्प्रीत्यै धनुर्मासव्रतोत्तमम् ॥ सा
लोकरक्षणार्थाय गोदा देवी पतिव्रता ॥ १८॥ हेमन्ते प्रथमे मासि
नन्दबजकुमारिकाः ॥ चेहविष्यं भुनानाः कात्यायन्यर्चनं व्रतम्
॥ १९॥ इति चैवं यथा चक्रुर्वेदांतिन्गोपिकाः स्त्रियः ॥धनुर्मासि व्रतं
गोदा तथैव भगवत्परा ॥२०॥ स्ववेश्मनि प्रतिष्टाप्य तं सुंदरवरं
हरिम् ॥ रंगेशं पूंजयामास विधिना नियतव्रता॥ २१ ॥ ब्राह्म मुहूर्त
चोत्थाय रंगरंगेति भापिणी ॥ स्नात्वा शुभ्रांबरधरा चोर्द्धपुंधरा
शुभा ॥२१ ॥ पीतांवरेण रंगेशं समलंकृत्य भूपणैः ॥ गंधपुष्पैश्च
धूपेश्च दीपैर्नीराजनैस्तथा।।२३॥ संपूज्य संम्यग् विधिवत्तदा हरिपरा-
यणा॥ मुद्गानं शर्कराज्यादिसंप्लुतं फलसंयुतम् ॥२४॥ नैवेद्यं विष्णवे
सम्यक् समात्यंतभक्तितः ।। दत्त्वा कर्पूरतांबूलं नीराजनमनुत्तमम
॥ २५ ॥ गाथां मनोहरामेकां कृत्वा द्राविडभापया॥ तां समर्प्य
च पृजाते पुनर्नीराजनं ददी ॥ २६॥ ततः प्रदक्षिणं कृत्वा रंगेशं
प्रणिपत्य तम् ॥ कृतांजलिपुटा भक्त्या प्रार्थयामास निश्चला ॥२७॥

अध्यायः ९१. (३०७) रंगेश करुणासिंधो मत्पाणिग्रहणं कुरु ॥ त्वां विनान्यं न जानामि सत्यं वच्मि नमोस्तु ते ॥ २८॥ एवं संप्रार्थ्य वेदांतिस्वमनोभीष्ट- मुत्तमम् ॥ तदीयाराधनं चक्रे भगवत्प्रीतयेनिशम् ॥ २९ ॥ भुक्कै- कवारं नैवेद्यं हविष्यं नियतव्रता ॥ दृढभक्तियुता गोदा भूशया ब्रह्म- चारिणी॥३०॥रंगेशलग्नहृदया राधिकेव समास्थिता ॥ मासमेकं चरित्वैवमेतद्वतमनुत्तमम् ॥ ३१ ॥ त्रिंशनाथायुतं दिव्यं प्रबंध विद- धे तदा ॥ कृष्णलीलाविहरणं तत्सर्वमवधारय ।। ३२ ॥ तत्समाप्ति- दिने रंगनायकः सहसा तदा ॥ स्वप्ने प्रसन्नो भगवान् गोदा- देव्याः श्रियः पतिः ॥ ३३ ॥ व्याजहार शुभं वाक्यं मंदस्मितमुखः सतीम् ॥ परितुष्टोस्मि भद्रं ते स्तोत्रेणानेन वालिके ॥३४॥ अर्च- नेन विशेपेण धनुर्मासि कृतेन च ॥ त्वत्पाणिग्रहणं शीघ्रं करिष्यामि न संशयः ॥ ३५ ॥ इत्युक्त्वा सर्वभोगांश्च गोदायै प्रददौ हरिः ॥ तन्मासांतदिने गोदा सर्वभोगसमन्विता ॥ ३६ ॥ रंगेशेनाखिला- न्भोगान्बुभुजे हरिणा सह ॥ यस्मिन्दिने सर्वभोगाछीगोदा बुभुजे ततः ॥३७॥ भोगीति नाम तस्यासीदिवसस्य तदानघ । भूम्यास्तले शायिनी सा निराहारा यतत्रता ॥३८॥ धनुर्मासे सुसंपूज्य रंगेशं राधिका यथा ॥ तदेकहृदया तस्थौ श्रीकृष्णविरहातुरा ॥ ३९ ॥ तया संपूजितः सम्यग्गोदया रंगराट् तदा ॥ धनुर्मासेंत्यदिवसे प्रत्यक्षमगमद्धरिः ॥ ४० ॥ गोदाविवाहदिवसं तमित्याहुर्मनी- पिणः ॥ विधाय मंगलस्नानं बंधुभिः सह सादरम् ॥ ४१ ॥ उत्सवं कारयेत्तत्र सर्वभोगसमृद्धये ॥ अभोग भोगिदिवसे यः करोति विमूढधीः ॥४२॥ ततो ह्यभोगवानित्यं स नरोजायते भुवि॥ गोदारंगेशकल्याणं ये कुर्वति स्ववेश्मनि ॥४३॥ तेपां च नित्यक- ल्याणं भविष्यत्यनिशं ध्रुवम् ॥ कल्याणं ये प्रकुर्वति गोदाकल्याण- वासरे ॥४४॥ कल्याणसहिताः सर्वे भवेयुः सर्वदा नराः॥ श्रीभो- (३०८) प्रपन्नामृते-- गिदिवसे ये तु गोदारंगेशयोस्तदा ॥ ४५ ॥सम्यग्विवाहं कुर्वति संपन्नास्तेऽनिशं भुवि ।। विष्ण्वालये गृहे वापि गोदाकल्याणमुत्तमम्।। ये सेवंते महात्मानः श्रीमंतस्ते सदा भुवि ॥ ४६॥ इति श्रीप्रम- नामृते श्रीहार्यवेदांतिसंवादे गोदायै रंगेशप्रत्यक्षभवनं नामैकनव- तितमोऽध्यायः॥ ९१॥ द्विनवतितमोऽध्यायः। अस्मद्यतिः स भट्टार्य प्रणिपत्येदमत्रवीत् ॥ धन्विनव्यपुरे गोदा स्वसमान किलास्थिता ॥ १ ॥रंगेशो रंगनगरे सोर्चारूपो हरिः स्थितः ॥ बभूव कथमुद्राहः श्रीगोदारंगनाथयोः ॥२॥ तत्सर्व विश दं ब्रूहि यन्महचाद्भुतं भुवि ॥ अवधार्य स भट्टार्य्यः शुभमस्मद्यतेर्वचः ॥ ३ ॥ अवोचदखिलं तस्मै गोदाकल्याणमद्भुतम् । स तयाराधि- तः सम्यग् रंगेशो गोदयानध ॥४॥ स्वप्ने प्रसन्नो भगवानिदं वचन- मत्रवीत् ॥ परितुष्टोस्मि भद्रं ते स्तोत्रेणानेन सुंदरि ॥५॥अर्चनेन विशेपेण धनुर्मासि कृतेन च ॥ त्वत्पाणिग्रहणं शीघ्रं करिष्यामि न संशयः ॥६॥ इत्युक्त्वा सुंदरवरस्तत्रैवांतर्दधे हरिः॥ ततः स्वप्नात्स- मुत्थाय गोदा संतुष्टमानसा ॥ ७ ॥ पिने निवेद्य तत्सर्व निश्चला सुखमास्थिता ॥ ततो रंगेश्वरः श्रीमान् स्वश्रीरंगाधिकारिणः ॥८॥ इत्युवाच प्रवालोष्टः स्फुरदशनसुप्रभः॥ मदीयमंगलैवल्यैः सकलैश्छ- चचामरैः ॥९॥ नवरत्नमयीं दिव्यां मदीयां शिबिकां पराम् ॥ आदा- य धन्विनगरं संप्राप्यात्यंतवैभवैः ॥ १०॥ विष्णुचित्तसतां गोदामा- नयध्वं ममांतिकम् ॥ अंगीकृत्यांजसा सर्वे रंगेशानां त्वरान्विताः॥ ॥ १३ ॥धन्विनव्यपुरं जग्मुर्गोदानयनकारणात् ॥ विष्णुचित्ताय तत्सर्व तस्मे सम्यगवोधयन ॥ १२॥ तेपां तद्वचनं श्रुत्वा महत्कर्णा- मृतं च सः॥ विस्मितः संप्रहृष्टोऽथ तान्सर्वान्समपूजयत् ॥ १३ ॥ अतिप्रष्टो वेदांतिन् भट्टनाथः कृतत्वरः॥ श्रीधन्विपुरनाथाय तत्स- अध्यायः ९२. (३०९) म्यग्विष्णवेखिलम् ॥ १४॥ विज्ञाप्य सादरं भत्त्या तेनानुज्ञापित- स्तदा। ततः श्रीरंगगमने चकार मतिमान्मतिम्॥१५॥वल्लभाय स्वशि- प्याय गोदोराहं च शंसितम् ॥ भूपाय प्राहिणोच्छिष्यान्भट्टेशो मथुरा पुरीम् ॥१६॥ निशम्य स तदुद्राहमतिमानुपवैभवम् ।। श्रीवैष्णवेभ्यः सर्वेभ्यो वल्लभस्तानपूजयत् ॥ १७ ॥ प्रगृह्य शिरसा राजा गुरोरा- ज्ञामलपिताम् ॥ धन्विनव्यपुरं प्राप चतुरंगवलो महान् ॥ १८ ॥ तमागतमभिप्रेत्य स्वशिष्यं वल्लभं गुरुः॥ भट्टनाथः संप्रहृष्टो यथो- चितमपूजयत् ॥ १९॥ रंगेश्वरं विना नान्यमकामयत मे सुता ॥ अनन्या राघवेणाहं भास्करण प्रभा यथा ॥ २० ॥ गोदा देवी तथै- वासीत्पातिव्रत्यपरायणा ॥ सर्वलोकेश्वरस्यैवं रंगेशस्य प्रिया सती ।। ॥२१॥ नोचितं दृष्टिपतनं तदन्यपुरुपस्य हि ॥ इत्येवं सम्यगा- लोच्य भट्टनाथो महामतिः॥ २२ ॥ शिविकां तां समारोप्य गोदा दुहितरं तदा ॥ पीतांवरेण संकाय सुदृढ़ शिविका बहिः ॥ महता वैभ- वैनैव रंगेशच्छत्रचामरैः ॥ २३ ॥ राज्ञा वल्लभदेवेन तत्रत्यौनखिलै- जनैः ॥ भेरीमृदंगनादैश्च जयशब्दैश्च बंदिनाम् ॥ २६ ॥ प्रतस्थे सह- सा धीमाञ्छ्रीरंग प्रति सादरम् ॥ धन्विमंगलमारभ्य ह्याश्रीरंगं सम- ततः॥ २५ ॥ सुपुष्पकायमानैश्च निवासस्थानमंडपैः ॥ तन्मार्गे सहसा सम्यगलंकारं प्रचक्रिरे ॥ २६ ॥ वैकुंठमार्गवद्गमार्गस्तेनाभ- वत्तदा ॥ अयं रंगेश्वरो देवो विष्णुचित्तसुतामिमाम् ॥ २७ ॥ कथं करोति मनुजां पाणिग्रहणकौतुकाम् ॥ इति तद्दष्टुकामास्ते विस्मया- विष्टमानसाः ॥२८॥ श्रीरंग निखिला जग्मुश्चोलपांड्यादिमानवाः। ते समेत्याखिलं रंग गोदागमनमुत्तमम् ॥ २९ ॥ प्रतीसंतोनिशं तस्थु- स्तद्विवाहदिदृक्षया ॥ श्रीरंगनगरं सर्वैर्जनैरापूरितं बभौ ॥ ३० ॥ नित्यमुक्तसमाकीर्णवैकुंठनगरं यथा|निचुलानगरं प्रापगोदा देवी तदा- नघा॥३॥पित्रा नृपतिनासार्दै चतुरंगवलेन च।गोदागमनवृत्तस्यरंगे- (३१०) प्रपन्नामृते- शाय महात्मने॥३॥रंगाधिकारिणःसम्यक् चकुर्विज्ञापनं तदा|संतुष्ट- स्तेन वाक्येन रंगराट् प्राह तांस्तदा॥३३॥सम्यङ्ममेदं यत्तूर्णमलंक, त्य पुरं तदा ॥ विष्णुचित्तसुतां गोदां विष्णुचित्तादिभिः सह ॥३४॥ महता वैभवेनैव चानयध्वं मदतिकम् ॥ निचुलानगरस्यास्य श्रीरंग- स्य च सत्तम ।। ३५ ॥ सुपुष्पकायमानानि मध्ये चक्रुर्महांति हि ॥ नीपक्रमुकरंभादिस्तंभान्पार्श्वद्वयेनघ ॥ ३६॥ मध्येमध्ये तथैतेषा- मिक्षुदंडानकुर्वत ॥ प्राकारसप्तकं तत्र सर्वत्र समलंकृतम् ॥ ३७ ॥ शुभे मुहूर्त सुदिने सुनक्षत्रे सुलमके ॥ विधाय मंगलस्नानं सर्वभूप णभूपिता ॥ ३८ ॥ रंगेशपाणिग्रहणत्वरया श्रीहरिप्रिया ।। कृतांज- लिपुटा भक्त्या चिंतयंती तमेव सा ॥३९॥ श्रीगोदा शिबिकारूढा वैष्णवैः कृतमंगला ॥ महता वैभवेनैव देशिकानुज्ञया तदा ॥४०॥ निचुलानगरात्तूर्ण प्रतस्थे रंगमुत्तमम् ॥ सुमहान्काहालिरवो गोदाग- मनसूचकः॥४१॥ तद्यशःसूचकश्चाग्रे तदाश्रावि महारवः ॥ श्री- वैष्णवाः पठेतोये प्रबंधान् भगवत्परान् ॥४२॥ अन्योन्यबद्धहस्ता- श्व निर्ययुः शुभवाससः॥ सर्वालंकारसहितं कुथास्तरणरंजितम् ॥ ॥४३॥ अनेकघंटासहितं ततोभद्रगजद्वयम् ॥ ततश्चाश्वयुगं पश्चा- सर्वालंकारसंयुतम् ॥ १४॥ निर्जितामरसुंदर्यस्ततो वारांगनास्तदा।। निर्ममाश्चित्रवसनाः सर्वालंकारशोभिताः॥४५॥ गायंत्यश्च प्रनृत्यं- त्यः सम्यक् शैलपशिक्षिताः।गोदायाः पुरतः सम्यङ्मोहयंत्यःसुज्ज- नान् ॥४६॥ तस्याः पार्श्वद्रये देव्या उभौ भद्देशवल्लभौ ॥ विरेजतुर्म- हात्मानौ गोदासंरक्षणोधतौ ॥४७॥ वेत्रहस्ताः प्रदृश्यते शतशोथ सहस्रशः ॥ शिविकायाश्चतुर्दिक्षु सुवस्त्राश्चारुभूपणाः॥४८॥ शि- बिकायास्ततः पश्चात्कुर्वतः स्वस्तिवाचनम् ॥ द्विजसंघाश्च शतशो खेण महता तदा ॥ ४९ ॥ ततः संकीर्त्तनपरा ब्राह्मणा मधुरस्वराः॥ गाननिर्जितगंधर्वा ययुर्भागवतास्ततः ॥ ५० ॥ वाचामगोच- ।

अध्यायः ९२. (३११) रेणैव वैभवेन महत्यसौ ॥ विवेश रंगनगरे सप्तप्राकारशोभिते ॥५१॥ विचित्रतोरणवति विचित्रध्वजमालिनि ॥ विचित्रचित्रदी- पालिचित्रवीथीविराजिते ॥ ५२॥ सा सप्तवरणान्यत्र प्रदक्षिण- मथाकरोत् ॥ हेमाद्विशिखराभानि चित्रसौधानि ताः स्त्रियः ॥५३॥ निर्जितामरसौंदर्याः सिंजन्मंजीरभूपणाः ॥ समारुह्याथ वेदांतिन् गोदादर्शनकौतुकाः॥५४॥ वपुः पुष्पवर्षाणि गोदायाः शिबिकोपरि॥ सौधानि गोपुराण्याशु प्रकारान्मण्डपाञ्जनाः ॥५५॥ आरोहन्नथ ते सर्वे तदुत्सवदिदृक्षया ॥ तत्सर्वं जनसंपूर्णमदृश्यत महाद्भुतम् ॥५६॥ एवं प्रदक्षिणं कृत्वा तत्रावरणसप्तकम् ॥ आस- सादाजसा गोदा श्रीमचंदनमण्डपम् ।। ५७॥ औत्सवो भगवास्तत्र श्रीसुन्दरवराभिधः ।। विधाय मङ्गलस्नानं सर्वालंकारशोभितः ।।५८|| पुण्याहवाचनं कृत्वा मुकुरारोपणं तथा ॥ विधिज्ञैर्ब्राह्मणैः साकं वेद- वेदांगपारगैः ॥ ५९ ॥ त्रयस्त्रिंशत्कोटिसुरैर्ब्रह्मरुद्रादिभिः सह । गोदागमनमाकांक्षस्तस्थौ तत्र स मण्डपे ॥६०॥ ततस्समागतां गोदा रंगेशो वीक्ष्य हर्पितः । सुमुहूत्र्ते सुलग्ने च द्विजदेवाग्निसन्निधौ॥६॥ चकार पाणिग्रहणं गोदादेव्याः श्रियः पतिः ॥ विवाहं शेपहोमांत विधि ब्रह्मसत्तमैः ॥६२॥ निवर्त्य विधिवत्सम्यग्विप्राशी कृतम गलः ॥ प्रहर्पमतुलं प्राप श्रीसुन्दरवरस्तदा ॥ रंगेशपाणिग्रहणाद्गोदा परमहर्पिता ॥ ६३ ।। वेदान्त्युवाच ।। विशदं ब्रूहि मे विद्वच्छिण्याय करुणार्णव । विवाहं लोकविख्यातं गोदादेव्याः श्रियः पतेः ॥६४ ॥ भट्टार्यस्तमुवाचाथ विवाहं रंगगोदयोः ॥ एवं स्वयंवरे गोदां वरणर- क्करां तदा ॥६५॥ रंगेशः प्रीतितः स्निग्धां दृष्ट्वा तां निकट स्थितः ॥ तया च पश्यतां तेषां वरणस्रग्वृतोऽभवत्॥६६॥दृष्ट्वाथ विष्णुचित्तोपि वृतं श्रीरंगनायकम् ॥प्रेम्णा प्रत्युनगामाथ हपश्च प्रणनाम च॥६॥ विनयेन समानीय रंगिणं भक्तवत्सलम् ॥ प्रवेशयामास गृहं महेंद्र- भवनोपमम् ॥ ६८॥ पद्मासनभवाद्यैश्च देवेब्रह्मर्पिभिस्तदा ॥ सिद्ध- (३१०) प्रपन्नामृते- शाय महात्मने॥३२॥रंगाधिकारिणःसम्यक् चकुर्विज्ञापनंतदा|संतुष्ट- स्तेन वाक्येन रंगराट् प्राह तांस्तदा॥३३॥सम्यङ्ममेदं यत्तूर्णमलंकृ, त्य पुरं तदा ॥ विष्णुचित्तसुतां गोदां विष्णुचित्तादिभिः सह ॥३४॥ महता वैभवेनैव चानयध्वं मदंतिकम् ॥ निचुलानगरस्यास्य श्रीरंग- स्य च सत्तम ॥ ३५ ॥ सुपुष्पकायमानानि मध्ये चक्रुर्महांति हि ॥ नीपक्रमुकरंभादिस्तंभान्पार्श्वद्रयेनघ ॥ ३६॥ मध्येमध्ये तथैतेषा- मिक्षुदंडानकुर्वत । प्राकारसप्तकं तत्र सर्वत्र समलंकृतम् ॥ ३७ ।। शुभे मुहूर्त सुदिने सुनक्षत्रे सुलग्रके ॥ विधाय मंगलस्नानं सर्वभूप णभूपिता ॥ ३८ ॥ रंगेशपाणिग्रहणत्वरया श्रीहरिप्रिया ।। कृतांज- लिपुटा भत्त्या चिंतयंती तमेव सा ॥ ३९ ॥ श्रीगोदा शिबिकारूढा वैष्णवैः कृतमंगला ॥ महता वैभवेनैव देशिकानुज्ञया तदा ॥ ४० ॥ निचुलानगरातूण प्रतस्थे रंगमुत्तमम् ॥ सुमहान्काहालिरवो गोदाग- मनसूचकः॥४१॥ तद्यशःसूचकश्चाने तदाश्रावि महारवः ॥ श्री- वैष्णवाः पठेतोये प्रबंधान् भगवत्परान् ॥४२॥ अन्योन्यबद्धहस्ता- श्व निर्ययुः शुभवाससः ॥ सर्वालंकारसहितं कुथास्तरणरंजितम् ॥ ॥४३॥ अनेकघंटासहितं ततो भद्रगजद्वयम् । ततश्चाश्वयुगं पश्चा- सर्वालंकारसंयुतम् ॥ ४४ ॥ निर्जितामरसुंदर्यस्ततो वारांगनास्तदा।। निर्ममाश्चित्रवसनाः सर्वालंकारशोभिताः ॥४५॥ गायत्यश्च प्रनृत्यं- त्यः सम्यक् शैलपशिक्षिताः॥गोदायाः पुरतः सम्यङ् मोहयंत्यःसुहृज- नान् ॥४६॥ तस्याः पार्श्वद्रये देव्या उभौ भद्देशवल्लभौ ॥ विरेजतुर्म- हात्मानौ गोदासंरक्षणोधतौ ॥४७॥ वेवहस्ताः प्रदृश्यते शतशोथ सहस्रशः ॥ शिविकायाश्चतुर्दिक्षु सुवस्वाश्चारुभूपणाः॥४८॥ शि- विकायास्ततः पश्चात्कुर्वतः स्वस्तिवाचनम् ॥ द्विजसंघाश्च शतशो खेण महता तदा ॥ १९ ॥ ततः संकीर्तनपरा ब्राह्मणा मधुरस्वराः॥ गाननिर्जितगंधर्वा ययुर्भागवतास्ततः ॥ ५० ॥ वाचामगोच- अध्यायः ९२. (३१३) रेणैव वैभवेन महत्यसौ ॥ विवेश रंगनगरे सप्तप्राकारशोभिते ॥५१॥ विचित्रतोरणवति विचित्रध्वजमालिनि ॥ विचित्रचित्रदी- पालिचित्रवीथीविराजिते ॥ ५२॥ सा सप्तवरणान्यत्र प्रदक्षिण- मथाकरोत् ॥ हेमाद्विशिखराभानि चित्रसौधानि ताः स्त्रियः ॥५३॥ निर्जितामरसौंदर्याः सिंजन्मंजीरभूपणाः ॥ समारुह्याथ वेदांतिन् गोदादर्शनकौतुकाः॥५४॥ ववृषुः पुष्पवाणि गोदायाः शिबिकोपरि॥ सौधानि गोपुराण्याशु प्रकारान्मूण्डपाञ्जनाः ॥१५॥ आरोहन्नथ ते सर्वे तदुत्सवदिदृक्षया ॥ तत्सर्व जनसंपूर्णमदृश्यत महाद्भुतम् ॥५६॥ एवं प्रदक्षिणं कृत्वा तत्रावरणसप्तकम् ॥ आस- सादाजसा गोदा श्रीमचंदनमण्डपम् ॥५७॥ औत्सवो भगवांस्तत्र श्रीसुन्दरवराभिधः ॥ विधाय मङ्गलस्नानं सर्वालंकारशोभितः॥१८॥ पुण्याहवाचनं कृत्वा ाकुरारोपणं तथा ॥ विधिज्ञैाह्मणैः साकं वेद- वेदांगपारगैः ॥ ५९ ॥ त्रयस्त्रिंशत्कोटिसुरैर्ब्रह्मरुद्रादिभिः सह ॥ गोदागमनमाकांसंस्तस्थौ तब स मण्डपे ॥६०॥ ततस्समागतां गोदां रंगेशो वीक्ष्य हर्पितः। सुमुहूर्ते सुलग्ने च द्विजदेवाग्निसन्निधौ॥६॥ चकार पाणिग्रहणं गोदादेव्याः श्रियः पतिः ॥ विवाहं शेपहोमांत विधिज्ञैर्ब्रह्मसत्तमैः ॥६२॥ निवर्त्य विधिवत्सम्यग्विप्राशी कृतम गलः ॥ प्रहर्पमतुलं प्राप श्रीसुन्दरखरस्तदा ॥ रंगेशपाणिग्रहणाद्वोदा परमहर्पिता ॥ ६३ ॥ वेदान्त्युवाच ॥ विशदं ब्रूहि मे विद्वञ्छिष्याय करुणार्णव ॥ विवाई लोकविख्यातं गोदादेव्याः श्रियः पतेः ॥६॥ भट्टार्यस्तमुवाचाथ विवाहं रंगगोदयोः ॥ एवं स्वयंवरे गोदां वरण- क्करां तदा ॥६६॥ रंगेशः प्रीतितः स्निग्धां दृष्ट्वा तां निकटे स्थितः ॥ तया च पश्यतां तेपां वरणस्नग्वृतोऽभवत्॥६६॥दृष्ट्वाथ विष्णुचित्तोपि वृतं श्रीरंगनायकम् ॥ प्रेम्णा प्रत्युजगामाथ हपश्च प्रणनाम च॥६॥ विनयेन समानीय रंगिणं भक्तवत्सलम् ॥ प्रवेशयामास गृहं महेंद्र- भवनोपमम् ॥ ६८॥ पद्मासनभवाद्यैश्च देवब्रह्मर्पिभिस्तदा । सिद्ध- (३१२) प्रपन्नामृते- चारणगंधर्वैरप्सरोभिश्च संयुतम् ॥ ६९॥ बंदिभिः स्तूयमानं चच्छ- त्रचामरशोभितम् ॥ मत्रैः सिंहासनासीनं कृत्वा योगविदां वरः॥७०॥ पूजयामास चार्ष्यादिमधुपर्कादिभिर्हरिम् ॥ सभार्यस्तमलंकृत्य वस्त्रा; भरणधेनुभिः ॥ ७१ ॥ गंधपुष्पाक्षतैः पीतैरुपवीतादिशोभितम् ॥ पाणिग्रहविधानेन गोदाहस्तं च धारयन् ॥ ७२ ॥ तस्मै परात्मने रंगनाथाय करमादरात् ॥ तस्याः समर्पयामास गोदायाः सगलंकृतम् ॥७३॥ मंगलाशासनैर्वेदपुराणैर्ऋपिकल्पितैः ॥ तां च भूम्यंशसंभूतां तस्मै त्वेवं समर्पयत् ॥ ७४ ॥ ततश्चाग्निं प्रतिष्टाप्य हावयामास वैष्णवैः । अग्नेः समीपे गोदायाः पाणिभ्यां लाजहोमकम् ॥७९॥ कारयित्वा रंगनाथो ब्राह्मणैश्च पुरस्कृतः ॥गोदां नवोढांसंगृह्य भूषितां भूपणोत्तमैः॥७६॥ अगादग्रे स्वयं गोदा स्वयं पश्चाच्चलन् इरिः । सप्त प्रदक्षिणाः कृत्वा सुमोद सह भार्यया॥७७॥ विष्णुचित्तो महा- योगी दैवतैः सह पूजितैः ॥ कासाराद्यैोगिमुख्यर्विवाहं द्रधुमागतैः ॥७८॥ तमनुज्ञाप्य संपूज्य भूपणादिभिरुज्ज्वलैगारंगनाथं तन्निलयं प्रेपयामास गोदया ॥ ७९ ॥ शेषतल्पे शयानं तं रंगेशं सेवितुं तदा ॥ इयेप भत्त्या सा गोदा सत्वरं वरवर्णिनी ॥ ८० ॥ सर्वेषां पश्यतांतस्माद्रोदा चंन्दनमण्डपात् ॥ सुमुहूर्ते विनिर्गत्य प्रविश्यांत:- पुरं तदा ॥ ८१ ॥ विहितप्रांजलिर्भूत्वा तद्विमानप्रदक्षिणम् ॥ संप्राप्य सहसा भत्त्या सन्निधिं रंगशायिनः ।। ८२ ॥ शेपतल्पे शयानं तमप- श्यागशायिनम् ॥ लावण्यं यत्तदेवाय रंगेशस्य महाद्भुतम् ॥ ८३ ॥ दृष्ट्वादृष्ट्वासकृत्सम्यगनुभूयानुभूय च ॥ शेपतल्पं समारुह्य तत्पादा- व्जसमीपगा ॥ ८४ ॥ नादृश्यत तदा देवी सर्वैस्संदार्शभिस्ततः ।। तदृष्ट्वाश्चर्यमतुलं विस्मयं परमं ययुः ॥८५॥ विष्णुचित्तो वल्लभश्च ते सर्वे पुरवासिनः ॥ श्रीभूमिलीलागोदाभिः स तत्र रमितः सदा ॥८६॥ शयानो भोगिशयने तस्थौ मुक्तिप्रदो नृणाम् ॥ अंगी- अध्यायः ९२. (३१३) कृत्याथ तां देवी भगवान रंगराट् तदा ॥ ८७॥ विष्णुचित्तं समाहूय सर्वेपां शृण्वतां तदा ॥ इत्युवाच प्रवालोष्टः स्फुरदशनसुप्रभः ॥८८॥ समुद्रराजवन्मय श्वसुरोभूद्भवान् किल ॥ तीर्थ प्रसादं मालां च शठकोपं च सादरम् ॥ ८९ ॥ दापयित्वार्चकैः सम्यक्वशुराय स रंगराट् ॥ द्विपट हाटकमयमाच्छाद्यात्यंतसंभ्रमम् ।। ९०॥ वटपत्रश- यानाय पूर्ववद्धन्विमंगले ॥ श्रीपुष्पतुलसीमालाकैंकर्य प्रतिवासरम् ॥९॥ कुर्वस्तत्रैव भट्टार्य सुखमास्स्व निरंतरम् ॥ इत्युक्त्वा भट्ट नाथाय तदा प्रास्थापयद्धरिः ॥ ९२॥ कृत्वा विवाहं भट्टार्यों गोदा संस्थाप्य तां हरौ ॥ विपादप्रीतियुक्तात्मा तेन संप्रेपितस्तदा ॥ ९३॥ राज्ञा वल्लभदेवेन चतुरंगवलैः सह ॥ धन्विनव्यपुरं प्राप्य पूर्ववत्सुख- मास्थितः॥९४॥ ततो वल्लभराजोथ भट्टार्य देशिकोत्तमम् ॥ तं धन्विमंगले सम्यक् प्रतिष्ठाप्य महौजसम्॥९५॥ तेनानुज्ञापितो धी- मान् प्रययौ मथुरां पुरीम् ॥ विष्णुचित्तो महाभागः श्वशुरो रंगभूपतेः ॥९६॥ तत्कयं सदा कुर्वस्तस्थौ दास्यैकजीवनः ॥ वटपत्रशया- नाय पूर्ववद्धन्विमंगले ॥९७॥ श्रीपुष्पतुलसीमालाकैंकर्य प्रतिवास- रम् ॥ कुर्वस्तत्रैव भट्टाद्वैः सुखमास्ते निरंतरम् ॥ ९८॥ नित्यं तस्य हरेमनोज्ञतुलसीश्रीपुष्पमालाः पराः सम्यग्भट्टगुरुस्तदेकहृदयो भ- स्यार्पयद्विष्णवे ॥ मुष्णन्सर्वजनौघपापतिमिरं बाह्यं तमो भानुवत् पंचाशीतिसमाः स तत्र न्यवसतच्छ्रीधन्विनव्ये पुरे ॥९९॥ ततो रंगे- श्वरस्तस्या गोदायाः पृथगेव सः॥ अष्टमावरणे सम्यक् कारयित्वा- लयं महान् ।। १००॥प्राकारगोपुरयुतं मंडपैरुपशोभितम् ॥ नित्यो- त्सवादिसहितं वर्द्धयामास तं तदा ॥ १०१॥ तदार याखिलस्थाने- प्वटोत्तरशतेषु च ॥ शिलालोहादिरूपेण गोदादेव्यास्ततोऽनघ॥१०२॥ आविर्बभूवुः सर्वत्र मूर्तयः पृथिवीतले ॥स्वावतारस्थलत्वेन यद्धन्वि- नगरं महत् ॥ १०३॥ सुमहद्वैभवं तत्र गोदादेव्याः प्रदृश्यते ॥ गोदा- देवी शठारातिर्यतिराजश्च ते त्रयः ॥ १०४ ॥ सर्वथावश्यकतमाः

(३१४)
प्रपन्नामृते-
सर्वविष्णुस्थलेषु च ॥ १०५ ॥ गोदाशठारिपरकालमुखादिसिद्धना-
थार्ययामुनयतीश्वरकूरनाथैः ॥ सादै जगत्करुणया कलिदोपजुष्टं
स्वाधीनरंगनिलया सकलं ररक्ष ॥ १०६॥ गोदाचरित्रं सुमहद्विचित्रं
समस्तसन्मंगलपूर्णपात्रम् ॥ शृण्वंति ये भक्तियुताः पठति सन्मंगला-
स्ते सततं भवन्ति १०७॥ इति श्रीप्रपन्नामृते श्रीपराशरभट्टा--
श्रीवेदांतिसंवादे गोदारंगेश्वरविवाहादिकथनं नाम द्विनवतितमो-
ध्यायः ॥ ९२॥
त्रिणवतितमोऽध्यायः।
अस्मद्यात प्रणम्याथ भट्टाऱ्या प्रेमपूर्वकम् ॥ भक्तांघ्रिरेणुचरितं
पप्रच्छ भगवत्परः ॥ १॥ कासारयोगिप्रमुखयोगिनां चरितानि च ॥
वत्तः श्रुतानि भट्टार्य सम्यग्विस्तरतो मया ॥ २ ॥ भक्ताघ्रिरेणु
चरितं श्रोतुमिच्छामि सांप्रतम् ॥ विशदं ब्रूहि मे विद्वन् भक्ताय करु-
णार्णव ॥३॥ तस्य तद्वचनं श्रुत्वा भट्टार्यो भगवत्परः ॥ आलो-
क्यास्मद्यति सम्यक् प्रष्टो वाक्यमब्रवीत् ॥४॥ भक्तांत्रिरेणुच-
रितं विचित्रं पापनाशनम् ॥ वक्ष्यामि शृणु वेदांतिन् समाहितमना-
स्ततः ॥५॥ काश्मीरसदृशो देशश्चोलदेश इति स्मृतः ॥ देश:
कश्चिद्रभूवाद्यः प्रसिद्धः सकलावनौ ॥ ६॥ नित्यप्रवाहा कावेरी
दक्षिणोत्तरभागयोः ।। या प्रहृष्टा प्रवहति तस्य सर्वत्र सर्वदा ॥७॥
संपूर्णसस्यैः सकलश्ोलदेशः समंततः॥प्रसिद्धः सर्वदेशेषु ततःसंरा-
जते भृशम् ॥ ८ ॥ विष्णुस्थानानि सर्वत्र संति तत्र पदेपदे ॥
अनंतत्वात्ततस्तेपां संख्यातुं नैव शक्यते ॥९॥ परांकुशादियोगोंद्र-
प्रबंधैः प्रतिपादिताः ॥ विख्याता दिव्यदेशास्तु द्विचत्वारिंशदीरि-
ताः ॥ १० ॥ तन्मध्ये सुमहत्पुण्यं कुंभकोणं सुविश्रुतम् ॥ भक्ति-
सारेण वकुलाभरणेन महात्मना ॥ ११ ॥ परकालेन वेदांतस्तच्च
सम्यगभिष्टुतम् ॥ तस्य पश्चिमदिग्भागे कोशद्रयविदूरतः ॥ १२॥

अध्यायः ९३. (३१५) मंडंगुडिसमाख्यातं बभूव नगरं महत् ॥ कावेर्याश्चोत्तरतटे सर्ववि- द्वजनावृतम् ॥ १३॥ तत्प्रभावपराः श्लोकाः श्रूयंते प्रथिता भुवि ।। श्रीदिव्यमरिचरिते वेदांतिल्लोकविश्रुताः ॥ १४॥ ततो महान्छीमति चोलदेशे कवेरजायास्तटसीम्नि कश्चित् ॥ ग्रामोस्ति मंडंगु- डिनामधेयो यत्रासते सप्तशतानि विप्राः ॥ १५ ॥ ऋग्वेदिनः केचन भूसुरेंद्राः केचिद्यजुर्वेदधरा महांतः॥ अन्ये च सामश्रुतिपा- ठशौंडास्तन्वंति यत्रो शिखा निवासम् ॥ १६ ॥ तत्रामवद्वेद- विशारदाख्यो द्विजोत्तमः पूर्वशिखो महात्मा ॥ विद्वत्प्रियो विष्णुरतः सभार्यों संतानकामो हरिमेव दध्यौ ॥ १७ ।। नारायणा प्रयतः समेत्य कल्याणतीर्थे कृतमज्जनोत्र ॥ संतानकामः स बुधः सदारोन- नाम नारायणमप्रमेयम् ॥ १८॥ तत्र रामप्रियं नत्वा संपत्पुत्राभिधं हरिम् ।। मंडंगुडिपुरं प्राप भूयः स द्विजपुंगवः ॥ १९ ॥ नारायणक- टाक्षेण ब्राह्मणस्य ततोजनि । विप्रनारायणो नाम धीमांस्तस्य सुतो महान् ॥२०॥ तत्कालनिर्णयं वक्ष्ये शृण चावहितोनघ॥ गतेष्वटो- त्तरशतवत्सरेषु कलौ युगे ॥ २१ ॥ प्रभवादे धनुर्मासे वेदांतिनिंद्र- भे ततः ॥ श्रीविष्णुवनमालांशाद्विप्रनारायणोऽजनि ॥ २२॥ मंडंगु- डिपुरे श्रीमान् ब्राह्मणस्य निवेशने ॥ अस्यावतारश्लोकाश्चगीयंते बह- वो भुवि ।। २३ ॥ चोलक्षितौ धनुपि मासि महेंद्रतारे प्रादुर्बभूव मुराभि- द्वनमालिकांशः ॥ रंगेशकेलिमुखमूर्द्धशिखं द्विजेंद्र भक्तांप्रिरेणुमनघं सगुणं प्रपद्ये ॥ २४ ॥ तत्रोदभूद्भागवतद्विजेंद्राज्येष्ठाख्यभे मासि च मार्गशी ॥ श्रीविप्रनारायणनामधेयो मुरारिवक्षोवनमालिकांशः ।। ॥ २५ ॥ कोदंडे ज्येष्ठनक्षत्रे मंडंगुडिपुरोद्भवम् ॥ चोलोळ बनमा- लांशं भक्तपद्रेणुमाश्रये ॥ २६ ॥ नारायणप्रसादेन यतोऽभूदात्मजो महान् ॥ विप्रनारायणो नाम चक्रे तस्याभिधां तदा ॥२७॥ ततो- नप्राशनमुखैः संस्कारैः संस्कृतो द्विजः ॥ जग्राहाखिलशास्त्राणि वे- दान्सांगान स देशिकात् ॥२८॥स बुधाग्रेसरो धीमान् विप्रनाराय- (३१६) प्रपन्नामृते- णो महान ॥ पित्रोरानंददः श्रीमान् व्यर्द्धत महायशाः ॥२९॥ विपनारायणम्याथ देवो वेत्रवतीसखः ॥ विधाय पंचसंस्कारान् मंत्रा- थं चाप्यबोधयत् ॥ ३० ॥ संजातज्ञानवैराग्यो विप्रनारायणस्ततः ॥ मतिमानकृतोद्वाहः श्रीरंगेशदिहक्षया ॥ ३१ ॥ प्रतस्थे सहसा धी माञ्छ्रीरंग प्रति सादरम् ॥ मरुदृधाया मध्यस्थं चन्द्रपुष्करिणीतटे ॥ ॥३२॥ श्रीरंगमतुलं श्रेष्ठं श्रिया जुष्टं महाद्भुतम् ॥ आससादांजसा श्रीमान् विप्रनारायणोऽनघः ॥३३॥ विमानमभ्येत्य चतुःप्रद- क्षिणं चतुर्दिशं तस्य कृतप्रणामः ॥ तदंतरे विश्वनिधिं ददर्श महाई- नीलाचलसन्निकाशम् ॥ ३४ ॥ प्रसन्नवत्र नलिनायतेक्षणं कृपामयं कांतिनिकेतरूपम् ॥ संसेव्य रंगेश्वरदिव्यदेहं विरंचिवद्विप्रकुलाग्र- गण्यः ॥ ३५॥ स तस्य लावण्यमिदं विलोक्य जगाम हर्प सुतरां महात्मा ॥ अनूपमात्यद्भतदिव्यसुंदरं प्रादर्शयदृष्टिमनोपहारिणम् ॥ स्वरूपमस्मै परमंजसादरात्स्वभक्तियुक्तं स चकार तं द्विजम् ॥३६॥ विप्रनारायणो धीमानपारकरुणांबुधिः ॥ सदा रंगदयापात्रं स बभूव तदानघ ॥३७॥ यथाभूद्भगवद्भक्तः पुंडरीकश्च पुण्यकृत् ॥ तथा- भूद्भगवद्भक्तो विप्रनारायणो महान् ॥ ३८॥ माला सकृत्समप्यका श्रीकृष्णाय स्वसमनि ॥ मालाकारोऽभवत्तेन कृतार्थों भगवत्तियः ॥ ३९ ॥ अतः प्रियतमेष्वस्य कैंकर्येप्वखिलेषु च ॥ श्रीपुष्पदाम- कैकयं सुतरां भगवत्त्रियम् ॥४०॥इति सम्यक् समालोच्या वप्रनारा- यणस्तदा ।। श्रीभट्टनाथवगत्या भगवद्भक्तिपारगः ॥४१॥नंदनो- द्यानवद्रम्यं श्रीपुष्पतुलसीवनम् ॥ रंगप्रतीच्यां कृत्वाशु नित्यं श्रीरंग- शायिने ।। ४२॥ श्रीपुष्पतुलसीमालां दिवा रात्रौ समर्पयत् ॥ श्री- वैष्णनगृहप्वत्र भिक्षाशनरतः शुचिः ॥ ४३ ॥ जितकामः सुखं तस्थौ वेदांतिन् प्रथमाश्रमी॥ तदा कर्दवनगरे कावेर्याश्चोत्तरे तटे ॥४४॥ उत्तमस्वामिनिलये वेश्या काचिद्धभूव ह ॥ देवदेवीति अध्यायः ९३. (३१७) विख्याता सा वै देवांगनांशजा ॥४५॥ कदाचिच्चोलभूपालदर्शनार्थ सखीजनैः ॥ निचुलानगरं प्राप सा वेश्या लोकमोहिनी ॥ ४६॥ चोलेंद्र मोहयित्वाशु लास्यगीतादिविभ्रमैः ॥ राज्ञो बहुधनं प्राप्य रत्नभूपांबराणि च ॥ ४७ ॥ गर्वेण महता युक्ता प्रतस्थे स्वपुरं प्रति ॥ मार्गखेदापनोदार्थ विप्रनारायणाश्रमम् ॥ १८॥ आससा- दांजसा श्रीमदेवदेवी सखीजनैः॥ नंदनोद्यानसदृशे जितचैत्ररथे वने ॥४९॥ सर्वश्रमापहरणे वृक्षमूले च सा स्थिता ॥ वनं सर्व विलोक्यैपा देवदेवी तदानघ॥५०॥अतिप्रहृष्टा पार्श्वस्थामग्रजांवीक्ष्य हर्पिता॥ वेदांतिनालिवेण्याख्यां देवदेवी तदानघ॥ ख्यापनाभिमुखी वेश्या व्या- जहार वचः शुभम् ॥५१॥ पश्यायजे सुंदरमेतदद्भुतं वनं महाचैत्रर- थाधिकश्रियम् ।। वृक्षा महांतः फलभारपीडिता नम्राश्च गर्भिण्य इवात्र भान्त्यहो ॥५२॥ नारिकेलाम्रपनसकदंबवनराजयः॥ पुन्नागलिकु- चाशोकजंबीरवनराजयः॥५३॥ राजते सम्यगेवात्र कदलीवनराजयः।। पिकाश्चात्रैव मधुरं कूजति शुकसारिकाः ॥५४॥ निरंतरं वसंत्य स्मिन्नारामे सुमनोहरे ॥ केतकीमल्लिकाजातिमालत्यादीनि संततम् ॥ ॥५५॥ कुसुमानि विराजते नक्षत्राणीव चांबरे । पुष्पासवं पिवंतश्च कूजंतः सादरं महत् ॥५६॥ नृत्यंतः पुष्पनिकरे भ्रमति भ्रमरास्सदा ॥ ॥वापीकूपसरांस्यत्र संपूर्णीभांसि संततम् ॥ ५७॥सपद्मानि विराज- ते पश्यपश्याग्रजे वनम् ॥ वनमध्ये प्रवहति कावेरी निर्मलोदका॥१८॥ सुशीतलः सुगंधश्च मंदवातो मनोहरः ॥ सर्वदा वाति सुश्रोणि स- र्वश्रमहरो महान् ॥ १९॥ सदा हसदिवाभाति रंगेशोद्यानमुत्तमम् ॥ इंद्रोद्यानं चैत्ररथं कुबेरस्य च तदनम् ॥ ६० ॥ प्रवहत्यस्य कावेरी व- नस्योभयपाचयोः॥ आधारं सर्वजंतूनां वल्लीतरुसुशोभितम् ॥६॥ रंगेशरंगनायक्योर्विहारस्थानमुत्तमम् ।। वेत्थं वनमिदं रम्यं दुर्गमंक च नंदनम् ।। ६२ ।। रंगेशमृगयायासश्रमापहरणं वनम् ॥ अस्मा- कमध्वगायासहरणे किमुताग्रजे ॥ ६३॥ तद्वर्णयंती सा चैवं देवदेवी (३१८) प्रपन्नामृते- वनोत्तमम् ॥ आरामलक्ष्मी पश्यंती साभिप्राया सखीजनैः ॥ ६४ ॥ संचरंती तत इतस्तत्रारामे महौजसम्॥अपश्यत्पुरुपं कंचिद्वैष्णवं तद- नाधिपम् ।। ६६ ।। शुभ्राभांबरयज्ञसूत्रममलं छिद्रोर्ध्वपुंड्रोज्वलं कंठो- दगविराजमानतुलसीपद्माक्षमालांचितमं ॥ दीर्घश्मश्रुशिरोजरोमवित- तिसंधारयंत परं श्रीवृंदावनमुटेन पयसा संपूरयंतं घटैः ॥६६॥ रंगेशांनिसरोरुहामृतरसास्वादैकसंजीवनं तत्कैंकर्यपरायणं प्रतिदिनं चाज्ञातकामादिकम् ॥ स्वप्ने किंचिदपि प्रमादवशतोप्यज्ञातयोपि- त्सुखं तं मौनव्रतमद्भुतायंचरितं श्रीविप्रनारायणम् ॥ ६७ ॥ तरुगुल्मलतानां च ह्यालवालं विधाय च ॥ आलवाले- प्वविरतं पूरयंतं पयः स्वयम् ॥ ६८ ॥ विप्रनारायणं सम्य- ग्देवदेवी विलोक्य तम् ॥ विस्मयाविष्टहृदया ह्यलिवेण्या समेत्य च ॥ ६९ ॥ विनयेन प्रणम्याय प्रांजलिः समुपस्थिता ॥ दृष्ट्वाप्यप- श्यन् वेदांतिन देवदेवी दृढव्रतः॥ ७० ॥ तिरस्कृत्य सतां स्वस्यः कैंकर्यनिरतोभवत् ॥ विप्रनारायणं दृष्ट्वा देवदेवीपराङ्मुखम् ॥७१॥ आदरणाग्रजां वीक्ष्य देवदेवी वचोब्रवीत् ॥ उन्मत्त एप पंढो वान पश्यति पुरः स्थिताम् ॥ १२॥ मामसादृश्यलावण्यां सर्वलोकैक- मोहिनीम् ॥ देवदेवीवचः श्रुत्वा सा प्रहस्य तदग्रजा ॥७३ ॥अलि- वेण्यत्रवीदिव्यं तत्प्रभावममानुपम् ॥न च पंढो न चोन्मत्तो न चैप प्राकृतो जनः ॥ ७॥ महाविरक्तो रंगेशक निरतः सदा॥ दत्ते लक्षधने चापि न त्वां द्रक्ष्यति चक्षुपा ॥७९॥ अयं न चोलस- पालस्त्वद्विभ्रमविमोहितः ॥ लोके सामान्यपुरुपं न चेमं पश्य चो- त्तमम् ॥ ७६॥ अलिबेण्या वचः श्रुत्वा देवदेवी रुपान्विता || लाव- ण्यस्यैव गर्वेण स्वसामर्थ्यमथाब्रवीत् ॥ ७७॥ अजानंतीवं वदसि दृष्ट्वाप्यन्यादृशं मम ॥ सामर्थ्य सन्ततं सुस्तदसाध्यं न मन्यते ।।७८॥ मयोपार्जितवित्तस्य न संख्या विद्यते किल॥ वातपर्णज- अध्यायः ९३. (३१९ लाहारा योगिनश्चोर्द्धरेतसः ॥७९॥ मन्मुखालोकनेनैव किलासन गलितेंद्रियाः॥ पीनश्चायं सुन्दरांगः सुवक्षाः पद्मलोचनः ॥ ८० ॥ कोमलावयवः श्रीमान् योवनारंभविग्रहः ॥ एकाकी विजनाराम वर्तते सुमनोहरे ॥८॥ वशीकरणकार्ये तु तस्य चारामवासिनः ।। कः प्रयासोग्रजेमेऽद्य साधवः सुलभाः किल ॥८२॥ तस्यास्तद्वचनं श्रुत्वा महद्यौवनगर्वितम्॥प्राह साऽसहमानैवं रोपाद्रक्तांतलोचना॥८॥ रूप- विभ्रमसंपद्भिश्चारुहासावलोकनैः ॥ धीमान् वैराग्यनिलयस्तवार्य मोहितो यदि ॥ ८४ ॥ वारस्त्रीजनमुख्यैव सा तदा त्वं भविष्यसि ।। अहं दासी भविष्यामि ह्यापण्मासं तवेव हि ॥ ८५ ॥ प्रतिज्ञारूपकं वाक्यं तस्याः श्रुत्वा तनूदरी ॥ संरक्तनयना रोपा- देवदेवी तदानघ ॥ ८६ ॥ प्रतिज्ञामकरोत्तवेदांतिल्लोकसुंदरी ।। अलिवण्यग्रजे सम्यड् महाक्यं श्रूयतामिदम् ॥ ८७ ॥ मद्विभ्रमवि- लासादिमोहितं तमिमं वरम् । यद्यहं न करिष्यामि महावैराग्यवा- रिधिम् ॥ ८८॥ तब दासी भविष्यामि ह्यापण्मासं तदा ध्रुवम् ॥ कृत्वा प्रतिज्ञा सा चैवमग्रजां तां सखीजनैः ।। ८९ ॥ प्रस्थापयित्वा स्वगृहं देवदेवी तदानध ॥ विसृज्य भूपणान्याशु सर्वाणि चतुरा तदा ॥ ९०॥ स्नात्वा स्थूलपटं सम्यक् परिधायानतानना ॥धृतो- ईपुडा वेदांतिस्तदा सात्त्विकवेपतः ॥ ९१ ॥ समागत्यांजसा तस्य सन्निधौ कृतवंदना ।। कृतांजलिपुटा तस्थौ सा सतीवासती तदा ।। ॥ ९२ ॥ विप्रनारायणो दृष्ट्वा तामेवमवदत्तदा । किमर्थमागता का त्वं बद तत्कारणं मम ॥ ९३॥ विप्रनारायणस्याथ श्रुत्वा वारांगना वचः॥ भक्तियुक्तैव निपुणा तं पुनः प्रणिपत्य च ॥ ९४ ॥ सम्यग्वि- ज्ञापयामास स्ववृत्तांतं नतानना ।। अंगीकुरुष्व भोः स्वामिन् मम विज्ञापनं गुरो ॥ ९५ ।। अहं तु पापबाहुल्याद्वारस्त्रीवंशसंभवा । दश- सुनिसमश्चक्री दशचक्रिसमो ध्वजी ॥ ९६॥ दशध्वजिसमा वेश्या " (३२०) प्रपन्नामृते- इत्येते शास्त्रनिर्णयाः॥ वेश्याजन्म ततो विद्वन् बहुपापसमुद्भवम् ॥ ॥९७॥ केन चित्पुण्यलेशेन काचिन्मतिरभून्मम ॥ जाताहं पापबा।। हुल्यादस्मिन्वेश्याकुलेऽधुना ॥ ९८ ॥ भूयोहमधुना ह्यस्मिन कृत्वा पापं सुदारुणम् ।। कॉल्लोकांश्च गमिष्यामीत्येवं चिंता महत्यभूत् ॥ ॥ ९९ ॥ कृत्वा श्रीवैष्णवानां च विष्णोः कैंकर्य्यमन्वहम् ॥ तन्मार्ग- वर्तनं सम्यगितीयं मे मतिर्युरो ॥ १०० ॥ अस्मन्मातृमतिस्त्वार्य घोरा नैतादृशी परा ॥ भार्या भूत्वा तु सर्वेषां मोहयित्वा स्वविभ्रमैः ॥ ॥१०१॥ सर्वाजनांश्च भैपज्यैर्धनसंपादनं कुरु ॥ इति मामनिशं माता स्वामिन्संपीडयत्यलम् ॥ ३०२ ॥ तन्मातृवचनं घोरं निर्भर्त्य नरकप्रदम् ॥मुक्तिकामा मुमुक्षोश्च भवतः पादपंकजम्॥१०॥संसेव्य त्वदधीनाहं वर्तिष्येऽत्र न संशयः ॥ अतिलुब्धामनाहत्य मातरं पापचारिणीम् ॥ १०४ ॥ त्वां गतास्म्यद्य शरणमलुब्धं धर्मचारि- णम् ।। युष्मदास्यां घृणासिंधो निक्षिप्य करुणां मयि ॥ १०५॥ अनाथामातुरां दीनां रक्ष मां शरणं गताम् ॥रंगेशतुलसीदामप्रदानस- मये तदा ।। १०६॥ भिक्षाचरणवेलायामप्यहं वनपालिका ।। भवि- ष्यामि न संदेहस्त्वदाज्ञापरिपालिनी ।।१०७॥ तोयं वा शीर्णपणे वा फलं वा शाकमेव वा॥ शरीरधारणं कृत्वा वर्तिष्ये तब शासने॥१०८॥ दास्यै त्वद्भुक्तशिष्टान्नं दत्तं हि कृपया यदि ॥ सदानंदा भविष्यामि कृ- तार्थाहं न संशयः ॥१०९॥ अंगीकुरुष्व मां दीनां साधवो दीनव- त्सलाः॥ अजानानः स साधुत्वात्कौटिल्यं वारयोपितः॥११०॥तथ्यं मत्वा तदा तस्या वेदांतिन्दीनवत्सलः॥ सम्यनियोजयामास सता- मारामरक्षणे ॥ ११॥ तेन वाक्येन संतुष्टा देवदेवी शुचिस्मिता॥ तीर्णप्रतिज्ञामात्मानममन्यत तदानघ ॥११२॥ नित्यं त्रिपवणस्नानं कावेयौं कुर्वती ततः॥ कृतोद्धपुंड्रा नियता तुलसीबद्धमालिका ॥ ॥११॥विप्रनारायणांघ्यजधिकालकृतवन्दना तेननिर्णीतकैंकर्य- निरताभूत्सदानध ॥ ११४ ॥ वेदांतिन् वैष्णवश्रेष्ठो विप्रनारायणो अध्यायः९४ (३२१) महान् ॥ कृत्वा माधुकरं सम्यक् तत्समय च विष्णवे ॥११॥ स्वयं भक्त्वावशिष्टानं देवदेव्यै तदा ददौ । सा देवदेवी संतुष्टा प्रति- गृह्य तदोदनम् ॥ ११६ । भुक्त्वा सम्यडू महाभत्त्या विसृष्टा सर्व- पातकैः ।। अशोभत महाशुभ्रा शरद्राकानिशा यथा ॥ ११७॥ देव- देवी ततः सम्यक् पुष्पारामे निरंतरम् ॥ सर्वेषां पुष्पतुलसीवृक्षाणां प्रयतानघ ॥ ११८॥ तदा खनित्रवक्रेण परेपामपि सादरम् ॥ वि- धाय खननं तेपामालवालांश्च सादरम्॥११९॥ घटाभ्यां जलमादाय कृत्वा चात्र प्रपूरणम् ॥ तानेव वर्धयामास रंजयंती मुनेमनः॥१२०॥ सहमानानिशं सम्यग्वातवपहिमातपान् ॥ १२१॥ सर्वाश्च भोगान्सु- विसृज्य शीघं तामग्रजोक्तां गिरमेव चित्ते ॥ स्मृत्वा मुहुः शल्यमिव प्रतिज्ञामप्राप्तकामा परिशोपमाप॥ १२२॥ रंगेशकैंकर्यपरंपराभिः कालः सुखेनैव दिवापयाति ॥ रात्रिर्महाकालनिशेष चासीत् तस्या वने तेन पृथक् स्थितायाः ॥ १२३ ॥ सा देवदेवी भगवत्प- रापि रंगेशकैकर्यरतेव तस्थौ ॥ स्वकार्यसिद्धिं प्रति साभिलापा श्रीविप्रनारायणदास्यचित्ता॥ १२४ ॥ इति श्रीप्रपन्नामृते श्रीपराशर- भट्टार्यश्रीवेदांतिसंवादे भक्तांघिरेण्यवतारचरितकथनं नाम त्रिणवति- तमोध्यायः॥९३॥ चतुर्णवतितमोऽध्यायः। ततोस्मद्यतिराहेदं स भट्टार्य कृतांजलिः ॥ संत्यक्तसर्वभोगका दे- वदेवी दृढव्रता ॥१॥ कैंकर्य कुर्वती चैवं कियत्कालं समास्थिता ॥ कार्यसिद्धिः कथमभूद्धेश्यायाः पापसंततेः॥२॥वश्यः कथमभूत्त- स्याः स वैराग्यनिधिर्महान् ॥ एतत्सर्वमशेपेण वद कौतूहलं मम ॥३॥ अस्मद्यतेर्वचः श्रुत्वा भट्टार्य्यस्तमथाब्रवीत् ॥ हंत ते कथयिष्यामि शृणु त्वमवधानतः ॥ ४ ॥ भक्तांघिरजसस्तस्य कां तामद्भुतां शुभाम् । सम्यगारामकैकयं कुर्वती तत्पथानुगा॥५॥ एवं पण्मा- (३२२) प्रपन्नामृते- सपर्यतं देवदेवी समास्थिता ॥ प्रतिज्ञा सफला नाभूद्वेदांतिन्वारयो- पितः॥६॥सा च चिंताणवे मन्ना देवदेवी परं तदा ॥ सा चिंत- यित्वा बहुधा रंगेशं शरणं गता ॥ ७ ॥ोश करुणासिंधो देवदेव प्रसीद मे॥ वृथा प्रतिज्ञा गर्वेण नीचया च मया कृता ॥ ८॥ वैराग्य- निधिरक्षोभ्यो माहशामपि योपिताम् ॥ एवं श्रीमानितारातिर्विप्रनारा- यणो महान् ॥ ९॥ मयानुवर्तितः सम्यगाषण्मासं निरंतरम्॥ अपां- गवीक्षणेनापि मां न पश्यति कर्हिचित् ॥१०॥ महागाढांधकारेपि निशीथसमये वने ॥ एकाकिनीमनाथां बहिश्शयां शरणाग- ताम् ॥ ११॥ मां त्यक्त्वा निर्दयो धीरस्सुखं स्वापिति वै किल ॥ किं भुक्तं कुत्र शेपे त्वमित्येवं मां कदाचन ॥ १२ ॥ स्थित्वाप्यसम्मुखे किंचिन्न पृच्छति बतैष हि ॥ आरामे किं कृतं बाले कि कैंकर्य्य करि- प्यसि ॥ १३॥ सांप्रतं श्वः परश्वो वा किं कैकय॑ चरिष्यसि ।। इत्येवं रंगिकर्यकरणेनापि मां प्रति ॥ १४॥ किंचिद्धचो महानेप न पृच्छति कदाचन ॥ आस्था च यावती ह्यस्य वनवृक्षेषु वर्तते ॥ ॥ १५॥ मय्येकशरणायां तु तावत्यपि न विद्यते ॥कदा तीर्णप्रति- ज्ञाह भविष्यामि न वेड्यतः ॥ १६ ॥ रंगेश करुणासिंधो मामना- थां विलोकय ।। मामकानपराधांस्तान् क्षमस्व पुरुपोत्तम ॥ १७॥ तीर्णप्रतिज्ञा रंगेश मामंगीकुरु सर्वदा ॥ अनन्यशरणा चैव देवदेवी तदानघ ॥ १८॥ भक्ताभीष्टप्रदं देवं रंगेशंशरणं गता ।। तदा रंगेश्वरः श्रीमान्भक्तानुग्रहकारकः ॥ १९॥ प्रतिज्ञां सफलां तस्याः सत्यां कममन्यत ॥ प्रावृट्कालस्ततः श्रीमान सर्वसस्यसमृद्धिदः ॥ ॥ २० ॥ देवदेवीमनोभीटपूरकः समवर्तत ॥ आसारवर्पः सुमहा न्कदाचिदभवन्निशि ॥ २१ ॥ महाविद्युद्गणो भीमो महाशनिसम- न्वितः ॥ पर्णशालास्थितो धीमान विप्रनारायणस्तदा ॥ २२ ॥ वण हन्यमाना सा देवदेवी वहिः स्थिता ॥ रंगेशानुग्रहादेव विप्र- अध्यायः-९४. (३२३) नारायणस्य वै ॥२३॥ कारुण्यं तस्य संजातं देवदेव्या, तदानघ ॥ वर्षेण पीड्यमानां तां देवदेवीं विलोक्य सः॥ २४ ॥ कृपया प्राह धर्मात्मा विप्रनारायणो महान् ॥ वातवो महानस्ति बहिः स्थातुं न शक्यते ॥ २५ ॥ अनागच्छाशु शालायां देवदेवि कचित्स्थले ॥ अंगीकृत्याशु तद्वाक्यं प्रहृष्टेनांतरात्मना ॥ २६ ॥ धन्यास्मीति वदत्याशु पर्णशालां विवेश सा ॥ प्रविश्य पर्णशालायां तस्य पादांतिक स्थिता ॥२७॥ विचित्ररूपलावण्या कोकिलस्वरभापिणी ॥ रंजयंती मनः सम्यडू मुनेमधुरभापणैः ॥ २८ ॥ स्ववाक्यश्रवणे सक्तमकरोत्तं तदानघ ॥ पादसंवाहने यत्नं नैपुण्याच्छनकैय॑धात् ॥ ॥२९॥ विप्रनारायणस्याथ देवदेवी महामतेः॥ देवदेव्या कृतं सम्यक पादसंवाहनं तदा ॥ ३० ॥अंगीचकार वेदांतिन् विप्रनारायणोपि सः ॥ अन्योन्यप्रीतिसंयुक्तौ तावुभौ मिलितौ तदा ॥ ३३ ॥ अंगार- सहशी नारी घृतकुंभसमः पुमान् ॥ तस्मानारीषु संसर्ग दूरतः परि- वर्जयेत् ॥ ३२ ॥ यथैव वह्निसान्निध्यादाज्यं स्त्रवति निश्चयम् ॥ तथा युवतिसान्निध्यात्पुंसां चेतश्चलत्यहो ॥ ३३ ॥ सर्वथा परिहर्तव्यो योपित्संगः सुदुर्मदः ॥ योगिनामपि सर्वेषां सत्यं चैवोर्ध्वरेतसाम् ।। ॥३४॥ विप्रनारायणस्तत्र देवदेव्या सहादरात् ॥ रेमे चिरं स वेदांति- न्छीकृष्णो राधया यथा ॥ ३९ ॥ तस्य तद्वचनं श्रुत्वा महाश्चर्यसम- न्वितः।तमवोचत्स भट्टाय्य वेदांती गुरुपुंगवम्॥३६॥दुःशीलया विर- क्तस्य महावैराग्यवारिधेः ॥ सुज्ञानिनस्तया सार्द्ध कथमासीत्समागमः ॥३७॥तद्विचित्रमिवाभाति वद विस्तरतो मम ।। प्रतिगृह्य स तद्वाक्यं भट्टार्य्यस्तमथाब्रवीत् ॥ ३८ ॥ अजेया वैष्णवी माया योपिद्रूपा न- संशयः॥ नशक्नुवंति तां जेतुं ब्रह्मेशानादयोपि हि ॥३९॥ पादाब्ज- स्पर्शमात्रेण स्ववशीकृत्य तं तदा ॥ साभिप्रायमनोहारिमंदहासा- वलोकनैः ॥४०॥ तन्मनश्वालयंती सा वायु-पशिखां यथा ॥

(३२४) प्रपन्नामृते- कोकिलस्वरयुक्तेन मनोज्ञवचसा तदा ॥४१॥ अवोचदसितापांगी पश्यंती तं मुहुर्मुहुः ॥ दास्यै तव हितं वाक्यं ब्रूहि मे करुणाकर ॥४२॥ त्वत्पादप कैंकर्य करिष्येहं यथामतम् ॥ मंदस्मितमुखी सुभ्रूः साभिप्रायावलोचना ॥४३॥ अपांगवीक्षणैः सम्यग्विप्रना- रायणं स्थिता ॥ विप्रनारायणः सोपि तद्विलासादिमोहितः॥४४॥ चक्रेऽथ पाणिग्रहणं देवदेव्याः शुचिस्मितः ॥ धन्यास्मीति वद- त्याशु प्रहऐनांतरात्मना ॥ ४५ ॥ मंदस्मितमुखी सुभूर्देवदेवी दृढव्रता ॥ सा गाढालिंगनं चक्रे विप्रनारायणस्य हि ॥ ४६॥ रेमे मुदा सुतन्वंगी सा तेन परमर्पिणा ॥ विचित्रसुरतैस्सम्यगज्ञातविषया- दिना ॥४७॥ अज्ञातयोपिदानंद मुनि स्वप्नेपि कहिचित् ॥ विप- याणवनिर्मग्नं तत्क्षणे साकरोच्च तम् ॥ १८॥ युवतीजनसामर्थ्य न वक्तं कोपि शक्यते ॥ ब्रह्मादयोखिला देवास्तदधीनाः किलाभवन ॥४९॥ ततः स्वगृहमागत्य देवदेवी दृढव्रता ॥ विधाय मंगल- स्नानं सा सम्यक्कृतभोजना ॥ ५० ॥ सर्वाभरणसंयुक्ता विचित्रांब- रशोभिता ॥ आभिरूप्येण तन्वंगी विप्रनारायणं मुहुः ॥ ११ ॥ सम्यक् स्वसुंदरांगानां योगीशभ्रांतिकारिणाम् ॥ एकदेशे विनिर्मग्नं नैपुण्याद्विदधे तदा ॥५२॥ आरामे नंदनोद्यानसदृशे तत्र सुंदरी॥ मल्लिकामाधवीजातिलताकुंजेषु संततम् ॥ २३ ॥ रमणीये मनोहारि मत्तभंगविनादिते॥ शुककोकिलकोयटिशारिकागणशोभते ॥ १४ ॥ विचित्रनिर्भरानंगमहोत्सवमहारसम् ।। दृढानुरागावन्योन्यमनुभूयास- कृद्रहः ॥५५॥ अन्योन्यक्षणविश्लेपं मन्यमानौ महायुगम् ।। संक्री- डेतां निकुंजेपु श्रीराधामाधवाविव ॥५६॥ तमेवं स्ववशीकृत्य देव- देवी द्विजोत्तमम् ॥ सुश्लाघ्यमाना सकलैरलिवेण्या च तर्जनैः॥१७॥ सा तीर्णकामा स्वगृहं तेन साई विवेश सा ॥ त्यक्तवर्णाश्रमाचार विटवेपविशारदम् ॥५८॥ योपित्परखशं सम्यग्विप्रनारायणं व्यधा.

अध्यायः९४. (३२५) त् ॥ ततः स्वधर्मानुष्ठानं यत्संध्यावंदनादिकम् ॥ ५९॥ सर्व त्य- वानिशं सम्यग्वेश्याभोगपरायणः ॥ त्यतरंगेशकैकय॑स्स वारव- नितागृहे ॥६०॥ विमनारायणः श्रीमान कंचित्कालमवर्तत । आ- कर्ण्य तद्वचस्तस्य वेदांती भयमोहितः ।। ६१ ॥ अत्यंतविस्मितो धीमान भट्टाये प्रणिपत्य सः ॥ वद्धांजलिपुटः सम्यक् चक्रे विज्ञा- पनं तदा ॥ ६२ ॥ स्वामिन्नेतादृशं चित्रं न हर्ष न मया श्रुतम् ॥ अत्यद्भुततम कार्य तदिदं लोकगर्हितम् ॥ ६३ ॥ तस्य रंगेशभ- तस्य वर्णिनश्चाभवत्कथम् ॥ कासारयोगिप्रमुखदशांतर्वतियोगि- राट् ॥ ६४ ॥ नैव सामान्यपुरुपो वनमालांशजो हरेः॥ नित्यम- स्पृष्टसंसारगंध इत्यभिधीयते ॥६५॥ कथमेताहशस्यास्य संजातं कार्य्यमीहशम् ॥ वेश्यायाः पापरूपायाः सर्वपापप्रणाशनः ॥६६॥ कथं समभवत्तस्य पादस्पर्शो महात्मनः ॥ अस्याः कथमभूजन्म रंगक्षेत्रे बुधर्पम ॥ ६७ ॥ साक्षात्परं पदं रंग मुक्तिस्थानं न संशयः।। तत्कथाश्रवणेत्यंत स्वामिन्कौतूहलं हि मे ॥ ६८॥ न तवाविदितं किंचित्रिषु लोकेषु विद्यते ॥भवान्कूरेश्वरसुतः श्रीरंगेशपुरोहितः॥६९॥ सर्वशास्त्रार्थतत्त्वज्ञः साक्षान्नारायणो गुरुः ॥ विशदं ब्रूहि मे विद्वंस्तच सर्व सहेतुकम् ॥ ७० ॥ तेनोदीरितमाकर्ण्य संतुष्टः कूरराट्सुतः॥ तत्पूर्वजन्मवृत्तांत वक्तुकामोऽब्रवीदवः ॥ ७१ ॥ विप्रनारायणकथा सा श्रीकृष्णकथा यथा ॥ राधामाधवसंवादसदृशं चरितं तयोः॥७२।। विप्रनारायणः श्रीमान् साक्षात्कृष्णो न संशयः ॥ कुब्जैव देवदेव्या- ख्या वेश्या जाता पुनर्भुवि ॥ ७३ ॥ शृणु चाभिहितं सम्यग्वक्ष्ये तजन्मकारणम्।।पुरा कृष्णावतारे तु कुब्जा श्रीचंदनं परम् ॥७४ ॥ प्रददौ भक्तिभावेन कृष्णाय किल विष्णवे|संतुष्टस्तेन तांकृष्णो व्यद धादिव्यसुंदरीम् ॥ ७९ ॥ मन्मथाविष्टहृदया कृष्णं संजातयौवना ।। जितकंदर्पलावण्यमकामयत सुन्दरी॥७६||कुजाभवनमासाय कृष्णः .

(३२६) प्रपन्नामृते- शृंगारवल्लभः ॥ रमयागास तन्वंगी विचित्रसुरतैस्तदा ॥७७ ॥ सैरं- ध्याः कामतप्तायाः संतुष्टोऽभीष्टदायकः ॥व्याजहार शुभं वाक्यं श्री- कृष्णस्तां तदानघ ॥७८॥ वरं वरय भद्रं ते भक्तानां वरदोस्म्यहम् ॥ वांछितानि प्रदास्यामि सर्वाभीष्टानि सांप्रतम् ॥ ७९ ॥ तच्छ्रुत्वा भगवद्वाक्यं सैरंध्री कामपीडिता ॥ अयाचित्वा तु तं मोक्षं श्रीकृष्णं मोक्षदायकम् ॥ ८० ॥ तस्मात्कामवरं वत्रे तद्विभ्रमविमोहिता ॥ तस्यै कामवरं दत्त्वा सैरंध्यै भगवान्हरिः ॥ ८ ॥ कंचित्कालं तया साई रेमेऽत्यन्तं स केशवः ॥ तदुद्धवादिसहितस्तया संप्रेषितो हरिः॥८२॥ कुब्जया भगवान्कृष्णः स्वगृहं प्रविवेश सः ॥ श्रीकृष्णविरहात्कुब्जा संतप्ताहनिशं सती ॥८३॥ जितनिद्रा जिताहारा राधिकेव समास्थि- ता।। तस्याः प्रसन्नो भगवान् स भूयो भक्तवत्सलः॥ ८४ ॥ व्या- जहार शुभं वाक्यं वेदांतिस्तां तदानघ ॥ संतापस्त्यज्यतां भद्रे तव भद्रं भविष्यति ॥८५॥ मत्संगमस्तवाद्यायं जन्मन्यस्मिन्यथा तथा॥ रंगक्षेत्रे महापुण्ये मम प्रीतिकरे शुभे ॥ ८६॥ सर्वसंपत्प्रदे सुभ्रूः पापिनामपि मुक्तिदे ॥ तत्र रंगेश्वरः श्रीमांश्चंद्रपुष्करिणीतटे ॥ ८७॥ शयानः शेपपर्यके भक्तानुग्रहतत्परः ॥ सर्वाभीष्टप्रदो देवो जयत्यव्या- हतः सदा ॥ ८८ ॥ रंगेशनृत्यगीतादिमहाकैंकर्यकारणम् ॥ तव श्री- रंगनगरे वेश्याजन्म भविष्यति ॥ ८९ ॥ सर्वासां नायिका भूत्वा वे- श्यानां लोकसुंदरी ॥ श्रीरंगेश्वरकैंकर्यनिरता त्वं भविष्यसि ॥१०॥ विप्रनारायणो भूत्वा सोहं तत्र द्विजर्पभः ॥ रंगेशतुलसीदामकैंकर्य- निरतः सदा ॥ ९१॥ सैरंधि लोकशिक्षार्थ भविष्यामि न संशयः॥ तदा भवत्यै सुश्रोणि तत्र सम्यगमानुपम् ॥९२॥ कामभोग प्रदास्या- मि मुक्तिं चापि विशेपतः । एवमुक्त्वा ततः कृष्णः स्वधाम प्रत्यपद्यत ॥ ९३॥ ततः कालांतरे कुब्जा रंगक्षेत्रे तदाजनि ॥ विष्णोर्लीलावता- रास्तु वहवः संति भूतले ॥ ९४ ॥ अंशावताराः कतिचित्तत्र संति अध्यायः ९४. (३२७) बुधभ ॥ आवेशाद्यवताराश्च केचित्तात्कालिकाः स्मृताः ॥ ॥ ९५॥ तस्यावतारास्ते सर्वे भक्तानुग्रहहेतवः।।स्वभक्तानुग्रहः कार्यों न गुणागुणचिंतनम् ॥९६॥ नयुच्चनीचव्यापारः सर्वभूतात्मनो हरेः ॥ कृष्णस्तु राधाविरहात्संतापमगमद्बहु ॥९७॥ संजातान्यूनता का वा श्रीकृष्णस्य ततोनघ । राधामाधवसंवादं यदेतन्मुक्तिसाधनम् ॥ ९८॥ यत्तत्पवित्रममलं तथैव चरितं तयोः ॥ भवता विस्मयः कार्यों वेदांतिन्नात्र सत्तम ॥ ९९ ॥ तस्य तद्वचनं श्रुत्वा वेदान्ती छिन्नसंशयः॥ [जाताहादः पुनर्वाक्यं पप्रच्छ गुरुपुंगवम् ॥ १०० ॥ वृत्तांत श्रोतुमिच्छामि राधायाः पूर्वजन्मनः ॥ केन पुण्यप्रभावेण तस्याः प्रियतमो हरिः॥ १०३ ॥ ब्रूहि मे विशदं विद्वन्भक्ताय करु- णार्णव ॥ तन्निशम्य वचस्तस्य भार्य्यस्तमथाब्रवीत् ॥१०२॥ हंत ते कथयिष्यामि राधाचरिमुत्तमम् ।। तच्च गुह्यतमं सम्यक् श्रूयताम- वधानतः ।। १०३ ।। दशग्रीवस्य भगिनी याभूच्छूर्पणखा पुरा ॥ नन्दबजे समुत्पना सैवाऽभूद्राधिका तथा ॥ १०४ ॥ यमुनातीरकुं- जेषु श्रीकृष्णो राधिका तु ताम् ॥ भक्ताभीष्टप्रदो धीमानात्मारामोप्यरी; रमत् ॥ १०५ ॥ रक्षोनाथवधोपायसहकारिनिशाचरी ।। कोटिकंद- पलावण्यं जगन्मोहनविग्रहम् ॥ १०६॥ श्रीरामचन्द्रं सा दृष्ट्वा कंदर्पशरपीडिता । तेनेव सार्दै रामेण सा विहर्तुमियेप हि ॥ १०७ ॥ कृष्णावतारे तस्यास्तु फलितस्स मनोरथः ॥ रामावतारे ये सम्यग- संप्राप्तफला जनाः॥ १०८॥ ते संप्राप्तफलाः सर्वे भवन्कृष्णज- न्मनि ॥ वेदांतिन् राघवो भूयः कृष्णो भूत्वा जगत्पतिः ॥ १०९॥ तेपी मनोरथान सर्वान् पूरयामास भूरिशः ॥ कृष्णलीलाविहरणं.... तस्याः कथमभून्महत् ॥ ११०॥न विचारोत्र कर्तव्यो दुष्टा शूर्पण- खेति सा॥ सर्वभूतात्मनस्तस्य सत्यं सर्वजनः समः ॥११॥ १ इत आरभ्यैत- चिह्रान्तर्गतः पाठो बहुषु पुस्तपूपलभ्यते, सच भगवतोनन्तचरितत्वादन निवेशितः।

(३२८) प्रपन्नामृते- श्रीरामस्मरणादेव पापात्मा ह्यपि मुक्तिभाक । भविष्यतीति सर्वाणि शास्त्राण्याहुः किल स्फुटम् ॥ ११२॥ संभापणादर्शनाच्च विग्रहानु- भवाद्धरेः । स्वमनोभीष्टसंसिद्धौ तस्याः कः संशयोनघ ॥ ११३॥ शिवं तु शिशुपालस्य सायुज्यं प्रददौ किल ॥ श्रीकृष्णो धर्मभूपाल- राजसूयाध्वरे तदा ॥११४॥ दक्षे जडे शिशौ दुष्टे स्तुवत्येव दयावति॥ प्रीतिस्तुल्या यथा मातुर्वेदांतिनात्मसंभवे ॥ ११५॥ श्रीहरेः सर्वभू- तेपु तथैव परमात्मनः ॥ लीलाकार्योपकरणं सर्वमित्युपधारय । ॥ ११६ ॥ अभूच्छूपर्णखामोशो राधाजन्मनि दैवतः ।। देवदेव्यवतारे तु कुब्जामोक्षं ततो गता ॥११७॥ एवं क्रमेण सर्वेषां भगवत्कृपया- नव ॥ तेन निःश्रेयसप्रातिभविष्यति न संशयः ॥ ११८॥ विच्छि- नसंशयस्तेन भट्टार्यवचसा तदाn] संप्रदृष्टमना भूयस्तत्कथाश्रवणे महान् ॥ स बभूव महातेजा वेदान्ती गुरुभक्तिमान् ॥ ११९॥ इति श्रीप्रपन्नामृते भट्टार्यवेदान्तिसंवादे भक्तांघ्रिरेणुदेवदेवीविवाहो नाम चतुर्णवतितमोऽध्यायः॥ ९४॥ पञ्चनवतितमोऽध्यायः। भट्टाय्य प्रणिपत्योया वेदांती समपृच्छत ।। देवदेवीगृहे तत्र कि- यत्कालं तया सह ॥३॥ रममाणः सुखं तस्थौ विप्रनारायणो महान्।। कथं वियोगः संजातो जातप्रीत्योः परस्परम् ॥२॥ सा देवदेवी संसारात्केन रूपेण मोचिता । तत्सर्व विशदं ब्रूहि शिष्याय गुरुपुंगव ॥शा स तदाक्यं समाकर्ण्य कृपया मदेशिकः ॥ वेदांतिनेखिला त- स्य कथामकथयत्तदा ॥ ४॥ रममाणस्तया साई देवदेवीमहोत्तमे ।। विप्रनारायणः श्रीमान् कंचित्कालमवर्तत ॥५॥ विप्रनारायणं मत्वा साक्षादंगेश्वरं तदा ॥ पादसंवाहनादीनि केकाण्यखिलानि च ॥६॥ कुर्वती युनिशं तस्य देवदेवी समास्थिता ॥ तदेकदया साध्वी पुरु- पांतरवर्जिता॥७॥ नित्यवित्तजनरता तन्माता विटकंटकी॥ विप्र- -- अध्याय नारायणधनं यत्सर्वमपहृत्य तत् ॥ ८॥ निःस्वं कृत्वा क्षणेनाशु निर्भय बहुधा तदा ॥ निर्दया धनराहित्यात्तं बहिर्निरसारयत् ॥९॥ प्रव्याकुलांतःकरणो देवदेव्या गृहाइहिः ॥ तन्मोहपाशसंवद्धो वि- तर्यामशयिष्ट सः ॥१०॥ ह्रिया नतमुखोऽत्यंत सम्यगाच्छादितांवरः।। समाकुंचितसागो विप्रनारायणोनधः ॥११॥ तदा रंगेश्वरः श्री- माञ्छ्यिा साई जगत्पतिः ॥ कुर्वन् विलाससंचारं रथ्यायां तत्रतत्र च ॥ १२॥ विप्रनारायणाभ्याशमाससाद यदृच्छया ॥ वेश्यांगनार- हद्वारि शयानं तं तथाविधम्॥१३॥श्रीरंगनायिकी दृष्ट्वा मंदस्मितमुखी तदा ॥ रंगेशं तस्य वृत्तांतं परिपप्रच्छ सादरम् ॥ १४ ॥ कोयं वेश्या- गृहद्वारि शयानो रंगभूपते ॥ समाकुंचितसर्वागः सम्यगाच्छादितांगका ।। १५ ।। तदृत्तं ब्रूहि मे सवै विस्मयो जायते मम ॥ श्रुत्वा स्वनाय- कीवाक्यं प्रभू रंगेश्वरस्तदा ॥१६॥ वृत्तांतं तस्य तत्सर्वं देव्यै सम्पङ् न्यवेदयत् ॥ पुष्पदामप्रदोऽस्माकं विप्रनारायणो ह्ययम् ॥ १७॥ वे- श्यासक्तमना वित्ताभावादद्य निराकृतः॥ दुःखितस्तद्गृहद्वारे मोहादेवं समास्थितः ॥ १८॥ श्रीरंगेशवचः श्रुत्वा दुःखिता सा जगत्प्रसूः ॥ कृपया रंगिणं वाक्यमेवमाह तदानघ।। १९ ॥ तवांतरंगभक्तं तं युष्म- बैंकर्यकारिणम् । एवमेतादृशं का विश्वमोहन मायया ॥ २० ॥ तवोचितमिदं किं नु भक्तसंरक्षकस्य वै ।। स्वामिन् रंगेश भवतः किं मायाविपयो ह्ययम् ॥२१ ॥ वेश्यासंसर्गज दोपं निःशेपं परिहत्य तत् ॥ त्वत्कृपाविषयं शीघ्रं भक्तमंगीकुरुष्व तम् ॥२२॥ प्रतिगृह्य वचस्तस्याः सत्वरं रंगभूपतिः॥ सुवर्णपंचपात्राणां मध्ये स्वर्णमयंम- हत ॥२३॥ शुद्धोदकप्रदं पात्रं समादायांजसा तदा ॥ देवदेवीगृहद्धा- रसमीपं प्राप्य सादरम् ॥ २४ ॥ कपाटताडनं कृत्वा पाणिनोच्चतरं त- दा॥ आजुहाव स्वरेणोच्चैर्देवदेवी तदा हरिः ॥ २६॥सातद्वाक्यं स- माकर्ण्य तत्कपाटसमीपगा। कपाटनिकटस्थोय कोयमित्यम्यभापत ॥२६॥ रंगेशस्तद्वचः श्रुत्वा तामुवाच तदा हरिः ॥ रंगेशदासनामाई (३३०) प्रपन्नामृते- तेन सुप्रेपितोधुना ॥ २७ ॥ विप्रनारायणेनैव तवांतिकमुपागतः॥ तेनोक्तं यन्महद्वाक्यं वक्तव्यं तन्महार्थदम् ॥२८॥ कपाटपादनं शी- घं विधाय शृणु मद्वचः॥ सा तद्वाक्यं समाकर्ण्य समुदायाररंजवात ॥ २९॥ किं तवागमने कार्य तद्ब्रहीत्यत्रवीत्तदा ॥ तदंगीकृत्य वचनं रंगेशस्तामभापत ॥ ३० ॥ संप्रेपितमिदं तेन स्वर्णपात्रं तांतिकम् ॥ देवदेवि गृहाणेदमिति तस्यै ददौ हरिः॥३१॥ सा गृहीत्वा तु संतुष्टा स्वर्णपात्रं महत्तदा ॥ विप्रनारायणं शीघ्रमानयेत्याह सादरम् ॥३२॥ तच्छुत्वा भगवान्शीघ्रं विप्रनारायणांतिकम्।।गत्वा तमब्रवीदेशे वेदांति- न्भक्तवत्सलः॥३३॥भवंतमंतःसुप्रीतासमागच्छतु सादरम् ॥ देवदेव्य- ब्रवीदेवं विप्रनारायणाधुना ॥३४॥ श्रुत्वा कर्णामृतं वाक्यं संप्रदृष्ट- स्तदानघ ॥ देवदेवीगृहं प्राप्य विप्रनारायणस्ततः॥३५॥रममाणस्त- या साई जातसौहार्दया परम् ॥ क्रीडापरवशः सम्यगतिष्ठत्स यथासु- खम् ॥३६॥ रंगेशश्च समासाद्य तत्स्वधामान्धिकन्यया ॥शयानः शेपपयके सुखं सुष्वाप निश्चलः॥३७॥ तस्यां रान्यां व्यतीतायां श्रीरं- गेशार्चकास्तदा॥तस्य पात्रस्य राहित्यास्थितास्तत्राधिकारिणे॥३८॥ सम्यगावेदयांचकुस्तदृत्तांत सुविस्मिताः ॥ सनिशम्याशु तद्वाक्यमा- चख्यौ चोलभूपतिम् ॥३९॥ स तेन कुपितो राजा रंगेशपरिचारका- न् ॥ बबंध रज्जुभिः सर्वानर्चकांश्चाप्यपीडयत् ॥ ४०॥ देवदेव्या- स्तदा काचिडजिष्या निर्ययौ गृहात् ॥ घटमादाय सहसा जलाहरण- हेतुना ॥४॥ सा तद्वयूह समालोक्य तत्र चागत्य संभ्रमात् ॥ रज्ज्या च संयतं वीक्ष्य स्वविटं विस्मिता तदा॥४२॥ किमेतदित्यपृच्छत्सा कमपि ब्राह्मणं किल ॥ तस्यैशशंसुस्तत्सर्व वृत्तं ते दंडधारिणः ॥४॥ घटचेटी समाकर्ण्य तदृत्तातं तदाखिलम् ॥ स्वविट पीडितं दृष्ट्वा कश- यैव प्रताडितम् ॥४४॥ वेदातिन् स्वविटप्रेम्णा मौढ्यान्मूढतमा च सा॥ तत्स्वर्णपात्रवृत्तांतं तेभ्यः सबै न्यवेदयत् ॥ ४५ ॥ विप्रनारायं अध्यायः ९५. (३३३) णो रात्रौ स्वर्णपात्रं महत्परम् ॥ मद्देवदेव्यै प्रददौ विद्यते तद्हेधुना ॥४६॥ तच्छुत्ता सहसा दंडधारकाः संभ्रमान्विताः। घटचेटी समा- दाय विविशुस्तद्गृहं तदा ॥ १७॥ विशोध्य तद्नुहं सर्वं स्वर्णपात्रं प्र. गृह्य तत् ॥ विप्रनारायणं देवदेवों चात्यंतहर्पिताः॥४८॥ निधाय चोलभूपालसन्निधौ दंडधारकाः ॥ सम्यग्विज्ञापयामासुः सर्व वृत्तांत- मादरात् ॥ १९॥ स नृपस्तद्वचः श्रुत्वा स्वर्णपात्रं विलोक्य च ॥ कोपेन महता युक्तो देवदेवीमथाब्रवीत् ॥५०॥ श्रीरंगेशस्य महतो हेमपात्रप्रतिग्रहः ।। मूढे तवोचितः किं नु तस्मादंड्या त्वमद्य हि ॥५१॥ तद्वाक्यश्रवणागीता देवदेवी कृतांजलिः ॥ एवं विज्ञा- पनं चक्रे चोलेंद्रं प्रति सत्वरम् ॥ ५२ ॥ यदिदं भगवत्पात्र- मिति न ज्ञायते मया ॥शपे त्वत्पादपद्माभ्यां सत्यमेवोच्यते मया ॥ ५३॥ रंगदासाभिधानेन स्वदूतेनैव केनचित् ॥ पात्रं मदी- यमित्येव विप्रनारायणः स्वयम् ॥५४॥ सहसा निशि चोलेंद्र प्राहि- णोन्मद्गृहं प्रति ।। अज्ञानाद्धि मया पात्रं गृहीतं चोलभूमिप ॥ ५५ ॥ तनिशम्य नृपं प्राह विग्रनारायणस्तदा ॥ स्वर्णपात्रं न जानेहं मम भृत्यो न विद्यते ॥ ५६॥ सा निशम्य वचस्तस्य विप्रनारायणस्य तत् ॥ त्वयैव प्रेपितं पात्रमिदमित्यत्रवीदृढम् ॥ ५७॥ न मयाप- हृतं पात्रं न चैव प्रेषितं तव ॥ इत्येवं तु तदन्योन्यं विवादं वीक्ष्य भूमिपः ॥५८ ॥ निर्भय॑ तावुभौ शीघ्र विवाद परिगृह्य तम् ॥ अपराधं समादाय देवदेव्यास्तदानध ॥ २९ ॥ प्रदाय रंगराजाय स्वर्णपानं च तदनम् ॥ तत्स्वर्णस्तेयदोपस्य.विप्रनारायणस्य च ॥६०॥ कर्तुकामो युक्तदंडं विचार्य विवुधैः सह ॥ विप्रनारायणं सम्यक् स तं कारागृहे तदा ॥६॥ निक्षिप्य स्वगृह शीघ्रमवि- शचोलभूपतिः ।। रंगेश्वरी तदा देवी देवं रंगेश्वरं प्रति ॥ १२ ॥ अवोचत्पन्नवात्सल्यादरिं, भगवत्प्रिया ॥ इतः परं मा कुरुष्व (३३२) प्रपन्नामृते- स्वलीलाविपयं हरे ॥६३|| विप्रनारायणं शीघ्रं भवतोभिमुखं कुरु ॥ तदंगीकृत्य वचनं देव्याः श्रीरंगभूपतिः ॥६४॥ स्वप्ने प्रसन्नो भग- वॉश्चोलेंद्रस्य दयानिधिः॥ प्रारब्धकर्माहरणं विप्रनारायणस्य वै ॥६५॥ मयाद्य कर्तुकामेन देवदेव्यै नृपोत्तम ॥ दत्तं हिरण्मयं पात्रं नात्र कार्या विचारणा ॥६६॥ एवं रूपेण स श्रीमान् मयायं दंडितो द्विजः॥ अदंडयो भवता राजन निदोपोयं महामनाः ॥६॥ मत्पुत्राय मया दत्तं मधनं तत्र को भवान् ॥ यत्तद्वेश्याधनं पात्रं तच्च मे मास्तु भूपते ॥ ६८॥ तस्यैव दत्त्वा तत्पानं विप्रयारायणं मुनिम् ॥ विमुच्य पूर्ववत्पुष्पदामकैकर्यकारिणम् ॥ ६९ ॥ विधेहि शीघ्रं मद्भक्तं चोलराज मदाज्ञया॥ तस्यां राज्यां व्यतीतायां चोलेंद्रः सहसोत्थितः ॥ ७० ॥विस्मितः स्वप्नवृत्तांत मंत्रिभ्यः संन्यवेदयत्॥ आनयित्वा ततः शीघ्रं विप्रनारायणं तदा ॥ ७१ ॥ प्रणम्य सम्यरु सत्कृत्य स नृपस्तमपूजयत् ।। भूयोभूयोथ संस्मृत्य हीनकृत्य तदद्भुतम् ॥७२॥ अनुतापं गतः सम्यग्विप्रनारायणस्तदा॥ तहोपाप- हारार्थ प्रायश्चित्तमथाकरोत् ॥७३॥ एतत्समस्तपापानां प्रायचित्तं मनीपिभिः॥ निर्णीतं भगवद्भक्तपादोदकनिपेवणम् ॥ ७४ ॥ एवमु- कप्रकारेण वैष्णवांब्रिजलं शुभम् ॥ अपिबद्भक्तिभावेन विप्रनारायणो- नघ ।। ७५ ॥ वेदान्तिन् भगवद्भक्तपादोदकसमं भुवि ॥ न विद्यते पुण्यतमं तीर्थ पापहरं महत् ॥ ७६॥ वाञ्छति मकला नद्यः कलु- पनानकल्मपाः ॥ आत्मपापविशुद्ध्यर्थ वैष्णवांध्यवगाहनम् ॥७॥ तन्महापापसंघस्य प्रायश्चित्तादिरूपकम् ॥ वैष्णवांधिजलं पीत्वा पृतात्मा प्रत्यनन्दत ॥ ७८॥ ततो ग्रामकुलादिभ्यो यन्नामापादितं हि तत् ॥ अनर्थकारि तन्मेने विप्रनारायणो महान् ॥७९॥ यस्य मूर्ध्नि स्थितं यावद्वप्णवांधिरजः शुभम् ॥ गंगादिसर्वतीर्थानि ताव- त्तिष्टंत्यसंशयम् ॥ ८०॥ निरपेक्षं मुनि शांत निर्वैरं समदर्शिनम् ।।

अध्यायः ९५. (३३३) अनुव्रजाम्यहं नित्यं पूयेयेत्यंघ्रिरणुभिः ॥ ८१ ॥ इत्येवं भगवद्गीताश्लोकं ज्ञात्वा विचक्षणः ॥ अतोहं भगवद्भक्तपादरेण्व- भिधानकः ॥ ८२॥ भवेयमिति वेदांतिस्तदामन्यत बुद्धिमान् ॥ अतोर्चकमुखेनाह रंगेशो भक्तवत्सलः ॥ ८३॥ विप्रनारायणं सम्यक समाहूय तदानघ । वत्सायन्यूनता काचिन्न कदाचित्तवानघ।।८।। मकैकर्यरतो भूत्वा त्वं वसात्रैव पूर्ववत् ॥ तवाह संप्रदास्यामि सर्वा- भीटानि सांप्रतम् ॥८५॥ वत्स त्वं वांछ निःशंक यद्यदिष्टतमं वरम् ॥ प्रतिगृह्य प्रहृष्टात्मा रंगेशस्य वचः शुभम् ॥८६॥ विप्रनारायणो धीमांश्चके विज्ञापनं तदा ॥ भवत्संदर्शनादेव सर्वाभीष्टानि मेभवन ॥ ८७॥तथापि मे वरं देहि त्वदासस्याधुना हरे ॥ भक्तांघिरेणुना- मास्य यथा स्यात्प्रथितं मम ॥८८॥ तथैव मे वरं देहि रंगेश करु- णानिधे ।। संतुष्टो रंगराट् तेन विप्रनारायणस्य वै ।। ८९ ॥ भक्तांघ्रि रेणुनामैव प्रथितं प्रददौ भुवि ॥ परभक्तिं परं ज्ञानं वैराग्यं परमं महत् ॥९० ॥ भक्तांघिरेणवे सर्व यत्तद्गेश्वरो ददौ ॥ तेन संजातसर्वार्थों ज्ञानवान्भगवत्परः॥९१ ॥ भक्तांघिरेणुस्तत्रैव तत्कैंकर्यरतः सदा।। रंगेशसन्निधौ श्रीमानतिष्ठत्सुमहायशाः ॥ ९२ ॥ तज्ज्ञानभक्तिवैराग्यं यत्तस्यानुत्तमं महत् ॥भक्तांघिरजसो वीक्ष्य देवदेवी महाद्भुतम्।।९३॥ संग्रहष्टा महाश्चर्यनिरता भीतिसंयुता ॥ तादृश्यहं भविष्यामीत्येवं निश्चित्य वै ध्रुवम् ॥ ९४ ॥ सर्वस्वं रंगनाथाय महाविश्वासपूर्वकम् ॥ समर्प्य साधुहृदया शुद्धसत्त्वगुणान्विता॥ ९५ ॥ संमार्जनादककय- निरता मानवर्जिता। रंगेशसन्निधौ नित्यं जितकामा बभूव सा॥९६॥ जितदुःसंगतिः स्निग्धा सत्संगतिपरायणा ॥रंगेशकैंकरता तीर्णसं- सारसागरा ॥ ९७ ॥ सा देवदेवी तत्रैव कस्मिश्चित्कालपर्यये।जगाम वैष्णवं लोकं सत्संगमविशेषतः॥ ९८॥ भक्तांघिरेणुः सर्वार्थज्ञानमा- साद्य निश्चितम् ॥ रंगेशानुग्रहादेव कृतकृत्यो महानभूत् ॥९९॥ माता (३३४) प्रपन्नामृते- पिता सखा भ्राता पुत्रो बंधुर्मुरुर्धनम् ॥ विद्या संपञ्च भोगाश्च सर्व रंगेश एव मे ॥ १०० ॥ इति मत्वानिशं तस्य कैंकर्यनिरतः सदा ॥ श्रीपुष्पतुलसीमाला विधायातिमनोहराः॥१०१॥ भक्तां- घिरेणुस्तद्भक्त्या ताः समर्प्य च रंगिणः ॥ दिव्यप्रबंध विदधे स श्री- मालाभिधं महत् ॥ १०२॥श्रोता रंगेश्वरस्तत्र स्वयं वक्ताभवत्तदा॥ शतानंदोभवच्छ्रोता वक्ताभूच्छौनको यथा ॥ १०३ ॥ मंत्रत्रयाथै त- ट्रंथे सम्यगापाद्य विश्रुतम् ॥ विशदं बालबोधार्थ लोकोज्जीवनहेतुना ॥१०॥ तेन मालाभिधेनैव जगत्सर्वमपालयत् ॥ भक्तांविरेणुर्वेद्रां- तिक रंगेशविपयं महत् ॥ १०५ ॥ प्रबंधद्वितयं चक्रे सर्वलोकामृतप्र- दम् ॥ पंचपंचाशदित्यत्र गाथा ग्रंथद्वयेऽनघ ॥ १०६॥ प्राबोधि- कीस्तवे तत्र दशगाथाः प्रकीर्तिताः॥ १०७॥ चत्वारिंशत्तथा पंच गाथां मालाभिधे कृताः॥ एक एवात्र रंगेशो भगवांस्तेन संस्तुतः॥ ॥१०॥ततो रंगेश्वरः श्रीमान् दशभिर्गीयते महान् ॥ ततो मुख्यतमं स्थानं श्रीरंगमिति विश्रुतम् ॥ १०९ ॥ स तच्छ्रुत्वाथ वेदांती भट्टा- र्यमिदमब्रवीत् ॥ शेपाचलादिस्थानानि स्तुतानि कतिर्भिहरेः११०॥ विशदं ब्रूहि मे विद्वञ्छिष्याय करुणार्णव ॥ तदंगीकृत्य वचनं तस्मै प्रोवाच सद्गुरुः ॥ १११ ॥ हरेरटोत्तरशतं स्थानानि किल भूतले ॥ दिव्यानि दिव्ययोगींद्रस्तुतानि प्रथितान्यलम् ॥ ११२ ॥ अनेकसं- स्तुता दिव्या देशाः पविंशतिः पुरा। एकैकसंस्तुतास्तत्र ह्यशीतिः प- ,". रिकीर्तिताः ॥ ११३॥ दशभिस्तत्र योगीदैरेकमेव स्थलं स्तुतम् ।। नवभिर्दिव्ययोगीन्द्ररेकमेव स्थलं स्तुतम् ॥११॥ चतुर्भिः संस्तुता- स्तत्र दिव्यदेशास्त्रयोऽनघ ॥ त्रिभिः स्तुतानि पंचैव स्थलानि परमा- त्मनः ॥ ११५॥ वेदांतिन् दिव्यदेशाश्च द्वाभ्यां पोडश संस्तुताः ॥ दशभिः संस्तुतं रंगं नवभिर्वेकटाचलः ॥ ११६॥ चतुभिर्गोपनगरं तथैववृपभाचलः॥ श्रीकृष्णनगरं चैव वेदांतिन् समभिष्टुतम्।।११७॥

अध्यायः ९५. (३३५) त्रिभिः श्रीरामनगरं कुंभकोणस्थलं महत् ॥ कुरंगनगरं चैव कैरविण्या- स्तटं महत् ॥ ११८॥ कांच्या वेगस्थलं चैवं संस्तुतं दिव्यसूरिभिः॥ द्वाभ्यां श्वेताचलो व्योमनगरं च कपिस्थलम् ॥ ११९ ॥ गोष्टीपुरं चित्रकूटं धन्विनव्यपुरं तथा॥ मौहर दक्षिणपुरं श्रीमन्मुक्तिकलाभि- धम् ॥१२०॥स्थानं केरलदेशेषु ह्यवेह्येतद्वयं मुने ॥ यत्रोरगगृहं गीता- वेश्म कांच्यांतु तद्वयम् ॥२२१॥ वीक्षारण्ये किंगृहाख्यनगरं घटिका- चलः ॥ नंदव्रजश्च मथुरा साकेतं समभिष्टुतम् ॥ १२२ ॥ अस्म- यतिः संप्रदृष्टो गुरोर्वचनमुत्तमम् ।। निशम्य प्रांजलिभूयो भट्टार्य- मिदमत्रवीत् ॥ १२३॥ दशानां दिव्यसूरीणां दिव्यदेशा हरेरमी ॥ कैस्त्रिभिः कैश्चतुर्भिश्च काभ्यां द्वाभ्यामभिष्टुताः ॥ १२४ ॥ विशदं ब्रूहि मे विद्धन्सर्वज्ञाश्रितवत्सल ॥ अपृष्टं यन्मयाज्ञानात्तत्सर्व च दयानिधे ॥ १२५ ॥ अस्मयतेर्वचः सम्यगंगीकृत्य कृतादरः ॥ आचचक्षेखिलं तस्मै यदिदं भट्टदेशिकः ॥ १२६॥ दिव्यदेशाश्चो- लदेशे द्विचत्वारिंशदीरिताः ॥ अटैव दिव्यदेशाश्च तंत्रानेकैरभिष्टुताः ॥१२७॥ दशभिर्दिव्ययोगींद्रेगोंदादेव्या च संस्तुतः ॥ अत्र श्रीरंगन- गरे रंगेशो भगवानयम् ॥ १२८॥ भद्देशकलिवैरिभ्यां श्वेतादौ पद्मलो- चनः ॥ अपूपरंगनाथाख्यः श्रीरामनगरे हरिः॥ १२९॥ भक्तिसार- शठारभ्यां परकालेन च स्तुतः ॥ कपिस्थले गजार्तिनो भगवान्कृ- ष्णसंयुतः॥१३०॥ परकालेन वेदातिन् भक्तिसारेण संस्तुतः ॥ कुंभ- कोणे शार्ङ्गपाणिरपर्याप्तामृताभिधः॥ १३१ ॥ भक्तिसारशठारिभ्यां संस्तुतः कलिबेरिणा ॥ लवणाभावताताख्यश्चाकाशनगरे हरिः ॥ ॥ १३२ ॥ शठजित्परकालाभ्यां संस्तुतो लोकविश्रुतः॥शौरिराजः कृष्णपुरे वेदांतिल्लोकविश्रुतः ॥ ३३ ॥ शठारिभट्टनाथाभ्यां कुल- शेखरयोगिना ॥ गोदादेव्याच भगवान् परकालेन संस्तुतः ॥ ॥ १३४ ॥ गोविंदराजो भगवान शिवकूटे श्रियः पतिः ॥ कुल- (३३४) प्रपन्नामृते- पिता सखा भ्राता पुत्रो बंधुर्गुरुर्धनम् ॥ विद्या संपच्च भोगाश्च सर्व रंगेश एव मे ॥ १०० ॥ इति मत्वानिश तस्य कैंकर्यनिरतः सदा ॥ श्रीपुष्पतुलसीमाला विधायातिमनोहराः॥१०१॥ भक्तां- घिरेणुस्तद्भक्त्या ताः समर्प्य च रंगिणः ॥ दिव्यप्रबंधं विदधे स श्री- मालाभिधं महत् ।। १०२॥ श्रोता रंगेश्वरस्तत्र स्वयं वक्ताभवत्तदा॥ शतानंदोभवच्छ्रोता वक्ताभूच्छौनको यथा ॥ १०३॥ मंत्रत्रयार्थ तbथे सम्यगापाद्य विश्रुतम् ॥ विशदं बालबोधार्थ लोकोज्जीवनहेतुना ॥१०॥ तेन मालाभिधेनैव जगत्सर्वमपालयत् ॥ भक्तांत्रिरेणुर्वेद्रा- तिन् रंगेशविपयं महत् ॥ १०५ ॥प्रबंधद्वितयं चक्रे सर्वलोकामृतप्र- दम् ॥ पंचपंचाशदित्यत्र गाथा ग्रंथद्वयेऽनघ ॥ १०६॥ प्रावोधि- कीस्तवे तत्र दशगाथाः प्रकीर्तिताः॥ १०७॥ चत्वारिंशत्तथा पंच गाथा मालाभिधे कृताः ॥ एक एवात्र रंगेशो भगवांस्तेन संस्तुतः॥ ॥१०८॥ततो रंगेश्वरः श्रीमान् दशभिर्गीयते महान् ॥ ततो मुख्यतमं स्थानं श्रीरंगमिति विश्रुतम् ॥ १०९ ॥ स तच्छ्रुत्वाथ वेदांती भट्टा- यमिदमब्रवीत् ॥ शेपाचलादिस्थानानि स्तुतानि कतिमिहरेः११०॥ विशदं ब्रूहि मे विद्वच्छिष्याय करुणार्णव ॥ तदंगीकृत्य वचनं तस्मै प्रोवाच सद्गुरुः ॥ १११ ॥ हरेरष्टोत्तरशतं स्थानानि किल भूतले ॥ दिव्यानि दिव्ययोगींद्रस्तुतानि प्रथितान्यलम् ॥ ११२ ॥ अनेकसं- स्तुता दिव्या देशाः पविंशतिः पुरा॥ एकैकसंस्तुतास्तत्र ह्यशीतिः प- रिकीर्तिताः ॥ ११३॥ दशभिस्तत्र योगींद्ररेकमेव स्थलं स्तुतम् ॥ नवभिर्दिव्ययोगीन्द्ररेकमेव स्थलं स्तुतम् ॥११॥ चतुर्भिः संस्तुता- स्तत्र दिव्यदेशास्त्रयोऽनघ ॥ त्रिभिः स्तुतानि पंचैव स्थलानि परमा- त्मनः ॥ ११५॥ वेदांतिन् दिव्यदेशाश्च द्वाभ्यां पोडश संस्तुताः ।। दशभिः संस्तुतं रंगं नवभिर्वकटाचलः ॥ ११६॥ चतुभिर्गोपनगर तयेव वृपभाचलः॥ श्रीकृष्णनगरं चैव वेदांतिन् समभिष्टुतम्।।११७॥

अध्यायः ९५. (३३५) त्रिभिः श्रीरामनगरं कुंभकोणस्थलं महत्॥ कुरंगनगरं चैव कैरविण्या- स्तटं महत् ॥ ११८॥ कांच्या वेगस्थलं चैव संस्तुतं दिव्यसूरिभिः॥ द्वाभ्यां श्वेताचलो व्योमनगरं च कपिस्थलम् ॥ ११९ ॥ गोष्ठीपुरं चित्रकूट धन्विनव्यपुरं तथा॥ मौहरं दक्षिणपुरं श्रीमन्मुक्तिकलाभि- धम् ।।१२०॥स्थानं केरलदेशेषु ह्यवेह्येतद्वयं मुने ॥ यत्रोरगगृहंगीता- वेश्म कांच्यांतु तद्दयम् ॥२२१॥ वीक्षारपये किंगृहाख्यनगरं घटिका- चलः ॥ नंदवजश्च मथुरा साकेतं समभिष्टुतम् ॥ १२२ ॥ अस्म- धतिः संप्रहृष्टो गुरोर्वचनमुत्तमम् ॥ निशम्य प्रांजलिभूयो भट्टार्य- मिदमत्रवीत् ॥ १२३ ।। दशानां दिव्यसूरीणां दिव्यदेशा हरेरमी ।। कैस्त्रिभिः कैश्चतुर्भिश्च काभ्यां द्वाभ्यामाभिटुताः ॥ १२४ ॥ विशदं ब्रूहि मे विद्वन्सर्वज्ञाश्रितवत्सल ॥ अपृष्टं यन्मयाज्ञानात्तत्सर्व च दयानिधे ॥ १२५ ॥ अस्मद्यतेर्वच: सम्यगंगीकृत्य कृतादरः ॥ आचचक्षेखिलं तस्मै यदिदं भट्टदेशिकः ॥ १२६॥ दिव्यदेशाश्चो- लदेशे द्विचत्वारिंशदीरिताः॥ अटैव दिव्यदेशाश्च तंत्रानेकैरभिष्टुताः ॥१२७॥ दशभिर्दिव्ययोगींद्रेगोदादेव्या च संस्तुतः ॥ अव श्रीरंगन- गरे रंगेशो भगवानयम् ॥ १२८॥ भद्देशकलिवैरिभ्यां श्वेतादौ पद्मलो- चनः ॥ अपूपरंगनाथाख्यः श्रीरामनगरे हरिः॥ १२९॥ भक्तिसार- शठारभ्यां परकालेन च स्तुतः ॥ कपिस्थले गजार्तिनो भगवान्कृ- ष्णसंयुतः॥१३०॥ परकालेन वेदातिन् भक्तिसारेण संस्तुतः ॥ कुंभ- कोणे शार्ङ्गपाणिरपर्याप्तामृताभिधः॥ १३१ ॥ भक्तिसारशठारिभ्यां संस्तुतः कलिवैरिणा ॥ लवणाभावताताख्यश्चाकाशनगरे हरिः ॥ ॥ १३२ ॥ शठजित्परकालाभ्यां संस्तुतो लोकविश्रुतः॥शौरिराजः कृष्णपुरे वेदांतिल्लोकविश्रुतः॥ १३३ ॥ शारिभट्टनाथाभ्यां कुल- शेखरयोगिना ॥ गोदादेव्याच भगवान् परकालेन संस्तुतः ॥ ॥ १३४ ॥ गोविंदराजो भगवान् शिवकूटे श्रियः पतिः ॥ कुल- ३३६) प्रपन्नामृते- शेखरनीलाभ्यां वेदांतिन समभिष्टुतः ॥ १३५ ॥ अवशिष्टानि सर्वा- णि तत्र प्रेमपुरं विना ॥ दिव्यस्थानानि चैकेन स्तुतानि कलिवैरिणा ॥ १३६ ॥ हरिः सुंदरराजाख्यः प्रेमपुर्या जगत्पतिः ॥ तेनैकेनैव वदांतिन् भक्तिसारेण वै स्तुतः॥ १३७ ॥ पांडयदेशे दिव्यदेशा हरेरष्टादशानघ ।। अनेकसंस्तुतास्तत्र चतस्रो दिव्यभूमयः ॥ १३८॥ वनाद्रौ सुंदरभुजो भगवान संस्तुतो हरिः।।शठजिद्भट्टनाथाभ्यां कुलशे- खरयोगिना॥१३९॥गोदादेव्याच वेदांतिन परकालेन विश्रुतःभट्टना. थेन वेदांतिन् संस्तुतःकलिवैरिणा।।१४०॥गोष्ठीपुरे गोष्ठपतिःसौम्यना- रायणाभिधः॥शठजित्परकालाभ्यां कालमेघस्तु मौहुरे ॥ १४ ॥ धन्विनव्यपुरे शौरिविष्णुचित्तेन गोदया । शीतोयानं शक्तिगिरिः श्रीदर्भशयनं तथा ॥ १४२॥ त्रीण्येतानि स्थलान्यत्र स्तुतानि क- लिवैरिणा॥ भट्टनाथेन वेदांतिन्मथुरा नगरी स्तुता ॥ १४३॥ स्थ- लानि नव यान्यत्र श्रीवैकुंठमुखानि च ॥ अभिष्टुतानि चैकेन वनाद्रिः शठवैरिणा ॥१४॥ वेदांतिन् केरले देशे दिव्यदेशाश्चतुर्दश ॥ दिव्य- स्थलानि त्रीण्येव तत्रानेकस्तुतानि वै ॥१४५॥ कुरंगनगरीपूर्णो भ- गवान्समभिष्टुतः ॥ शठारिभट्टनाथाभ्यां परकालेन चानघ ॥ १४६॥ संस्तुतो दक्षिणपुरे भगवानमराधिपः॥ शठजित्परकालाभ्यां यच्छीमू- र्धकलः : स्तुतः ॥ १४७॥ वराहनगरे तत्र वराहोत्र श्रियः पतिः॥ कुलशेखरदेवेन येनकेन स्तुतोऽनध ॥ १४८॥ अवशिष्टानि सर्वाणि स्तुतानि शठवरिणा।। तुंडीरमंडले विष्णोर्ये त्रयोविंशतिः स्मृताः॥ ॥ १४९ ॥ सप्तैव दिव्यदेशाश्च तानेकैरभिष्टुताः ।। यथोक्तकारी भगवान् काच्या वेगस्थले हरिः॥ १५० ॥ कासारभक्तिसाराभ्यां संस्तुतः कलिवैरिणा ॥ तत्रोरगगृहे कांच्यां देवोरगगृहाधिपः॥१५॥ कलिजिद्भक्तिसाराभ्यां श्रीपतिःसमभिष्टुतः।।गीतागृहे पांडुदूतःकांच्या कृष्णो जगत्पतिः।।१५२॥भक्तिसारेण वेदांतिन् कलिनेनेडितोहरिः॥

अध्यायः ९५. (३३७) शारिपरकालाभ्यां नृसिंहो घटिकाचले ॥ १५३ ॥ कासारभूतभ्रांता- दिसंस्तुतः कलिवैरिणा॥त्रिविक्रम इति ख्यातो गोपपुर्या तु गोपतिः ॥१५४॥ श्रीमत्कैरविणीतीरेभगवान् पार्थसारथिः ॥ नृसिंहरामरंगेश- गजेंद्रवरदान्वितः ॥ १५५ ॥ संस्तुतो भक्तिसारण कलिनेन शठारिणा ॥ वीक्षारण्ये किंगृहाख्यनगरे वीरराघवः ॥ १५६॥ पर- कालेन वेदांनिन् भक्तिसारण संस्तुतः ॥ तंत्रावशिष्टाः सकला दिव्यदेशाश्च षोडश ॥ १५७॥ चतुष्कवींद्रकृतिभिर्वेदांतिन् सम- भिष्टताः॥ एकादशोत्तरदिशि दिव्यदेशाः प्रकीर्तिताः ॥१५८॥ दिव्यस्थलानि चत्वारि तत्रानेकस्थलानि हि ॥ तत्र श्रीशेपशैले च भगवान वेंकटेश्वरः ॥ १५९ ॥ नवभिर्दिव्ययोगीदैगोदादेव्या व संस्तुतः।। कुलशेखरनीलाभ्यामयोध्यारघुनंदनः ॥१६० ॥ श्रीकृष्णो भगवानंदबजे गोपीजनप्रियः ॥ भट्टेशपरकालाभ्यां गोदा- देव्या च संस्तुतः ॥१६॥ मथुरायां बालकृष्णो वेदांतिन् संस्तुत- स्त्रिाभिः ॥ भद्देशपरकालाभ्यां गोदया च यदूद्वहः ॥१६२॥ जगन्नाथे जगन्नाथो भट्टनाथेन संस्तुतः ॥ अवशिष्टानि षट् चात्र स्तुतानि क- लिवैरिणा ।। १६३ ॥ अतः श्रीरंगनगरं सर्वेपामुत्तमोत्तमम् ॥ गोदया . दिव्यदेशानां गीयते दर्शभिर्यतः ॥ १६४ ॥ नाथयामुनपूर्णादियती- द्राद्यर्चितं तु तत् ॥ आयं स्वयं व्यक्तमिदं विमानं रंगसंज्ञकम् ॥१६५॥ प्रथमोद्दिष्टं तत्रापि स्वयंव्यक्तस्थलेषु च ॥ ब्रह्मणा पूजितः सम्यगिक्ष्वाकुप्रमुखैर्नृपैः ॥१६६॥ धर्मवादिभिः सर्वैस्तस्माद्रंगमनु त्तमम् ॥ नित्यवासरतानां च कैवल्यं तु करस्थितम् ॥ १६७॥ भक्तांघिरेणुस्तत्रैव श्रीरंगे सर्वथोत्तमे ॥ नित्यवासरतो धीमांस्तत्क- कर्यरतः सदा ॥ १६८ ॥ पृथुकीर्तिः सुखेनाव्दान् नीत्वा पंचोत्तर शतम् ॥ अगमद्विष्णुसालोक्यं श्रीरंगेश्वरसन्निधौ ॥ १६९ ॥ दिव्य- प्रबंधं वेदांतिन् भक्तांघिरजसा कृतम् ॥ यः पठेच्छृणुयाद्रापि स मुक्तो (३३८) प्रपन्नामृते- नात्र संशयः ॥ १७० ॥ भक्तांघिरजसस्तस्य माहात्म्यं परमाद्भुतम् ।। यः शृणोत्यनिशं भक्त्या स गच्छेद्वैष्णवं पदम् ॥ १७१ ॥ बहुनो- तेन किं विद्धन संक्षेपाद्धि तवोच्यते ॥ श्रीमालां यो न जानाति न दैवं वेत्ति तदृढम्॥१७२॥भक्तांघ्रिरेणुचरितं यदिदं महत्तच्छ्रीकृष्णदेव- चरितप्रतिमानमाद्यम्।।ये भक्तियुक्तमतयो ह्यनिशं पठति ते विष्णुलोक- निरता हि भवेयुरायाः॥१७॥श्रीविष्णोर्वनमालिकांशवशतो भक्तांघ्रि- रेण्याख्यया भक्तानुग्रहहेतवे करुणया पश्चादभूद्भूतले ॥ तं मण्डंगुडि- नायक द्विजवरं रंगेशमालापदंश्रीमालाकृतिकारकं गुणनिधि संचिंतये संततम् ॥ १७४ ॥ श्रीरंगेश्वरबैंकर्यहेतवे गुणसिंधवे ॥ भक्ताब्जभा- नवे तस्मै नमो भक्तांविरेणवे ॥ १७५॥ इति श्रीप्रपन्नामृते भट्टार्य- वेदांतिसंवादे भक्तांत्रिरेणुचरितं नाम पञ्चनवतितमोऽध्यायः ॥ ९५॥ पण्णवतितमोऽध्यायः। भट्टाय्य प्रणिपत्योया वेदान्ती तमपृच्छत ॥ श्रोतुमिच्छाम्यहं स्वामिन्छीपाणचरित महत्॥१॥विशदं ब्रूहि मे विञ्छिष्याय करु- णार्णव। अंगीकृत्य वचस्तस्य भार्य्यस्तमथाब्रवीत् ॥२॥श्रीपाणच- रितं दिव्यं शृणु वक्ष्यामि सांप्रतम् ॥ श्रीलोकसारंगमहामुनींद्रस्कंधा- धिरूढं फलयामि नित्यम् । कलंकहीनं कमनीयभक्तं कवीश्वरं गाय- कसार्वभौमम् ॥३॥ इतीव वन्दनं कृत्वा कथामकथयत्तदा ॥ कावे- रीतोयमाश्रित्य वातो यत्र प्रवर्तते ॥ ४ ॥ तदेशवासिनां मुक्तिः किमु तत्तीरवासिनाम् ॥ एतादृशप्रभावायाः कावेर्या दक्षिणे तटे ॥५॥ श्रीरंगेशस्य नेत्यांक्रोशमाग विश्रुता ॥ निचुला नाम नगरी रक्षिता धर्मवर्मणा ॥६॥धर्मेण राज्यमेतस्यां धर्मवर्मा चकार सः ॥ धर्मवर्मसुता चैव निचुलानायकी हरेः॥७॥ यस्यां देव्यां महामो- हात्तव निचुलापुरे ।। रममाणस्तया साई रंगेशो राजतेनिशम् ॥८॥ तद्वाक्येन स वेदांती प्रहएःप्रणिपत्य तम् ॥ कल्याणं निचुलादेव्याः अध्यायः ९६. (३३९) पप्रच्छ प्रीतिपूर्वकम् ॥ ९॥ तच्छ्रुत्वाथ स भट्टार्यों यत्तत्सर्व न्यवे- दयत् ॥ पुरात्र निचुलापु- धर्मवर्माभिधो नृपः ॥ १०॥ सूर्यान्वये महानासीन्महाभागवतोत्तमः ॥ तदा तस्यैव कावेरीसैकते धर्मवर्मणः ॥ ११॥ प्रत्यक्षमगमचात्र प्रथमं रंगराडपि ॥ रंगेशभक्तो रंगेशक- निरतः सदा ॥ १२ ॥ तदेकहृदयः श्रीमान्धर्मवर्मा वभूव ह॥ तस्यान्ववाये मतिमान्कश्चिद्भागवतोत्तमः ॥ १३ ॥धर्मवर्माभिधः श्रीमानजायत महायशाः ॥ निचुलानायकी नाम काचिनीलांशभा- सुरा ॥ १४ ॥ संजज्ञे सर्वशोभाढ्या दुहिता तस्य भूपतेः ॥ यथा क्षीरार्णवे लक्ष्मीर्य्यथाभूजनकस्य च ॥ तत्प्रभावपराः श्लोकाः गीयते बहवो भुवि ॥१५॥ अथ चोलमहीपतेरभूनिचुलानामपुरी पुरातनी ॥ कनकाख्यकवेरकन्यकातटिनीदाक्षिणतीरसीमनि ॥ १६ ॥ तपसा त्वथ धर्मवर्मणः कुलजः कश्चन चोलभूपतिः ॥ महसा मथितारिमं- डलः सकलां यत्र शशास मेदिनीम् ॥ १७॥ तपसा विभवेन ता- दृशीं स नृपो रंगिणि सक्तमानसः॥कमलां कमलाकरोद्भवामुदधेस्तां तनयामुदारधीः ॥ १८॥ दुहितस्तपनीयकुंडलत्रिशतं पश्यधिकं च भारतः ॥ स हिरण्मयवस्तुकुंडलान्यादिशत्तत्सहशानि यौतकम ॥१९॥ जन्मप्रभृति सा वाला श्रीरंगेशपदाजयोः ॥ एकांत- भक्तिसंपन्ना वृधेहर्निशं सती॥२०॥ बालक्रीडास्वपि सदा सा श्रीरंगेश्वरं विना ॥ अजानती बभूवान्यत्तदेकदया स्थिता ॥२१॥ रंगेशोत्सवपूजादिकार्याणि निखिलानि च ॥ बालक्रीडोपयोगीनि कृत्वा तानि सखीजनैः ॥ २२ ॥ वदन्ती रंगरंगेति क्रीडयामास तन्मनाः॥ वृधे बालिका वाल्ये पित्रोरानंददायिनी ॥ २३ ॥ दोलायां नंदनोद्यानसहशे पुष्पमंडपे ॥ सदाभिरामे चारामे रम्- माणा सखीजनैः ॥२४॥ संजातयौवनारंभा सा कदाचिदवर्तत ।। रंजेशो मृगयायासविश्रांत्य तदनं प्रति ॥ २५ ॥ समागत्य तदा (३४०) प्रपन्नामृते- देवीमपश्यत्कमलेक्षणाम् ॥ अनिर्देश्यवयोरूपमधुरस्मितभाषणैः ॥ २६ ॥ तस्याः संमोहितो रंगराजोऽभल्लोकमोहनः ॥ श्रीसुंदर- वरस्याथ निचुलापुरनायकी ॥२७॥ रंगेशलग्नहृदया जितनिद्रा जि- ताशना ।। वदंती रंगेरंगेति राधिकेव समास्थिता ।। २८॥ धर्मवर्मा ततो ज्ञात्वा दुहितुस्तन्मतं महत् ॥ प्रहृष्टः प्राप्य रंगेशसन्निधिं तं प्रणम्य च ॥२९॥ दुहितुः सर्ववृत्तांत रंगेशाय न्यवेदयत् ।। अंगीकृत्य वचस्तस्य संप्रहृष्टोथ रंगराटू ॥३०॥ व्याजहार शुभं वाक्यं धर्मवर्माणमद्भुतम् ॥ करिष्याम्यहमेवाद्य तत्पाणिग्रहणं नृप ॥३१॥ युष्मदुहितरं मह्यं प्रदेहि जलपूर्वकम् ॥ रंगिणस्तद्वचः श्रुत्वा धर्मवर्मा हरिप्रियः ॥ ३२॥ ओमित्युक्त्वा प्रणम्याशु रंगेशं भक्तवत्सलम् ॥ निचुलानगरं प्राप्य तदलंकृत्य पत्तनम्॥३३॥ स तां दुहितरं सम्यगलंकृत्याब्जलोचनाम् ॥प्रदातुकामः सहसा श्रीरंगेशाय विष्णवे ॥३४॥ विवाहमंडपे पीठे विन्यस्यैवात्मसंभवाम् ॥ रंगेशा- गमनाकांक्षी तदा तस्थौ सुनिश्चलः ॥३५॥ सहितः सकलैवै- बझेशानपुरोगमैः॥ निचुलानगरौं रम्यां महेंद्रनगरोपमाम् ॥३६॥ महता वैभवेनाशु रंगेशः स्वयमेव सः॥ चकार पाणिग्रहणं दुहितुर्ध- र्मवर्मणः ॥ ३७॥ धर्मवर्माथ हरये रंगेशाय महौजसे ॥ ब्रह्मर्पिमध्ये ब्रह्मेशपाकशासनसन्निधौ ॥ ३८ ॥ सर्वलक्षणसंपन्नां कन्यकां तां स्व- लंकृताम् ॥ अलंकाराणि सर्वाणि पूर्व दत्त्वाथ रंगिणे ॥३९॥ स- फलाक्षततांबूलदक्षिणादिसमुज्ज्वलाम् |तस्मै दुहितरं सम्यक् पवित्रो- दकपूर्वकम् ॥ ४० ॥ प्रददौ भक्तिभावेन पवित्रेणांतरात्मना ॥ सीता श्रीरामचन्द्राय प्रददौ जनको यथा ॥४१॥ क्षीरार्णवो महालक्ष्मी श्रीमहाविष्णवे यथा ॥ देवदुंदुभिनिर्घोषः पुष्पवृष्टिमहानभूत् ॥४२॥ तस्य वैवाहिक सम्यक् शेपहोमांतमद्भुतम् ॥ निर्वर्त्य स यथाशास्त्रं देवैवापिपुंगवैः॥४३॥ पूजयामास तान सर्वान् यथायोग्यं दिवौक- अध्यायः ९६. (३४३) साम् ॥ वराय रंगराजाय पारिवहै महाद्भुतम् ॥ ४४ । सौवर्णतंडुला- नां च ददौ भारशतत्रयम् ।। भत्त्या पश्यधिकं सम्यग् धर्मवर्मा म- हायशाः॥४५॥ प्रददी भक्तिभावेन रंगेशाय महात्मने । स्थानवान गजान्सर्वान् गोमहिष्यादिकानजान् ॥१६॥ दासीदासजनांश्चैव भूपणान्यंबराणि च ॥ हिरण्मयरथे तत्र समारोप्य वधूवरौ ।। १७॥ तावुभौ प्रेपयामास महता वैभवेन सः॥ धर्मवर्मसुतां सम्यक् स ता- मुद्राह्य रंगराट् ॥ १८॥ संतुष्टः श्वशुरेणैव पूजितो धर्मवर्मणा ॥ सं- प्रेपितः स्वधामैतत्समासाद्य तदानघ ॥ ४९ ॥ निचुलापुरनायक्या तया साई जगत्पतिः ॥ रममाणः सुखं तस्थावनिशं स यथासुखम् ॥५०॥ निघुलानगरेतब रंगेशः श्वशुरालये ॥ निचुलापुरनायक्या प्रीत्यर्थ धर्मवर्मणः ॥५१॥ तया संक्रीडमानोसावद्यापि परिदृश्यते ॥ कल्याणं निचुलादेव्या ये शृण्वंति पति च ॥५२॥ कल्याणसहिता एव भवेयुस्तेनिशं ध्रुवम् ॥ ततः पुण्यतमे तत्र नगरे मुनिवाहनः ।। ॥५३॥ अवतारं जगद्रताहेतवे विदधेतदा॥ शृणु त्वं विशदं वक्ष्ये तच्च- रित्रं महाद्भुतम् ॥ ५४॥श्रीपाणचरितं दिव्यं तदन्यस्य न विद्यते ॥ द्वाविंशत्युत्तरशतवत्सरानंतरं कलौ ॥ ५५ ॥ दुर्मत्त्यब्दे कार्तिकाख्ये मासेराकामहातिथौरोहिण्यांसौम्यवारे तु श्रीपाणोनिचुलापुरे॥५६॥ कास्मश्चिद्राह्मणक्षेत्रे त्रीहिगुच्छान्महायशाः ॥ श्रीवत्सशिन संजज्ञे श्रीहरेराज्ञया तदा ॥ तस्यावतारश्लोकाश्च गीयते प्रथिता भुवि ॥१७॥ अथ तत्र कुलेऽतिमे रमारमणोर-स्थललांछनांशजः ॥ समजायत पाणसंज्ञकः सुकविः कार्तिकमासि वेभवे ॥५८॥ कावेरीतटनिचुला- पुरेत्यवंशे रोहिण्यां विलसति वृश्चिकेऽवतीर्णः ॥ श्रीनाथस्त्वथ महि- 'शायिभक्तिमाज पाणाख्यं वरमुनिवाहनं प्रपद्ये ।। ५९ ॥ कार्तिके रो- हिणीजात श्रीपाणं निचुलापुरे॥श्रीवत्सांशं गायकेंद्र मुनिवाहनमाश्र- ये ॥६०॥ अयोनिसंभवो जातो वेदांतिन मुनिवाहनः ।। पश्चात्पंच- प्रपन्नामृते- (३४२) मवणे तु ववृधे बालभाक्तिः॥ ६१॥ जायमानं हि पुरुष यं पश्येन्म- धुसूदनः ॥ सात्त्विकः स तु विज्ञेयः स वै मोक्षार्थचिंतकः॥६२॥ जायमानकटाक्षेण स चैवं मुनिवाहनः॥ बाल्यप्रभृति संस्निग्धः प्रहाद इव सत्तम ॥ ६३॥ संजातज्ञानवैराग्यो झुभवजन्मवैष्णवः ॥ विशे- पतोथ वेदांतिन् विष्वक्सेनकृपावशात् ॥ ६४ ॥ संप्राप्तपंचसंस्कारो विदिताखिलतत्त्वधीः आसीनिवृत्तसंसारो महाभागवतोत्तमः॥६५॥ कृताधिवासो निचुलागनयाँ भगवत्परः ॥ कावेरीतीरमाश्रित्य रंग- क्षेत्राविदूरतः॥६६॥ तत्र श्रीमुखतीरे तु वीणापाणिरचंचलः॥रंगे- शाभिमुखं स्थित्वा कीर्तयन्भगवद्गणान् ॥ ६७ ॥ व्यतिष्ठतानुदिवसं महागांधर्वमाश्रितः ॥ कुरंगनगरे पूर्व मातंगः कश्चिदुत्तमः ॥ ६८॥ स यथा कैशिकं गीतमगायत तदानघ ॥ संप्रार्थितस्तदा तेन मातं. ब्रह्मरक्षसा ॥६९॥ निग्रहात्तारयायुष्मं स्तेन गीतफलेन माम् ।। एवमुक्त्वास मातंगं राक्षसः शरणं गतः॥७०॥ अंगीकृत्य स तद्या- चां मातंगः करुणाकरःगायत्तद्गीतफलं दत्त्वा कृपया रक्षसेनघ ॥७॥ वेदांतिन् सम्यगेवालं महिमानं न्यवेदयत् ॥ यन्मया पश्चिमं गीत स्वरं कैशिकमुत्तमम्।।७२॥फलं तस्यैव भद्रं ते मोक्षयिष्यति किल्बि- पात् ॥ यागदोपं स तस्याशु मातंगः परिगृह्य तम् ॥७३॥ तेन गी- तफलेनैव ररक्ष ब्रह्मराक्षसम् ॥ तथैवायं महातेजाः श्रीपाणो निचु- लापुरे ॥७॥ कृताधिवासःसंरेजे भगवड्यानतत्परः ॥ भगवद्गानवि- द्यानां सार्वभौमो बभूव सः॥ ७२ ॥ श्रीपाणो नित्यवेदानां सामगा- नरतात्मनाम् ॥ नित्यमुरिरिवाभाति देवगनिन सत्तमः॥ ७६ ॥स श्रीमान पुण्यचरितो भगवान् मुनिवाहनः ॥ यत्स्ववर्णोचितं धर्ममा- चरन्भगवत्प्रियः॥ ७७॥ दिव्यगानेन रंगेशं गायन्निश्चलमानसः ॥ आनंदवाप्पः सततं निर्भरः पुलकांकितः॥७८॥ हारंगानरसास्वाद- विस्मृतान्यरतिः सदा ।। रंगेशाभिमुखं तस्थौ गानेनैवातिदूरतः।।७९॥

अध्यायः ९६. (३४३) कावेरीद्वयमध्यस्थं श्रीरंगमतिपावनम् ॥ अतः पदाभ्यां संस्पष्टुं ममैवायुक्तमित्यतः ॥ ८० ॥ सप्तप्राकारसहितं ज्ञानदृष्टया विलो- क्य तत् ॥ श्रीरंगमखिलं सम्यक् कावेरीसैकतेनवः ॥ ८१ ॥ विधाय तस्य निर्माणमनुभूय मुहुर्मुहुः ।। रंगेशं सुंदरवर शयानं शेप- भोगिनि ।। ८२ ॥ ध्यायनिरंतरं तस्थौ तन्मयत्वेन चेतसा ॥ तत्र कश्चिन्महायोगी सारंगाख्य इति श्रुतः ॥ ८३ ॥ नित्यं श्रीरंगराजस्य कुर्वन्कैंकर्यमास्थितः ॥ स स्वर्णकुंभमादाय कावेरीतोयमुत्तमम् ॥ ॥ ८४ ॥ गृहीतुकामस्तत्तीरमभ्यगाद्विजपुंगवः ॥ तदंतिकस्थमा- लोक्य श्रीपाणं भगवत्परम् ।। ८५ ॥ दूरतो गच्छगच्छेति तमवोचत्स योगिराट् ॥ अज्ञातवान्यापारस्तन्मयत्वेन चेतसा ।। ८६ ॥ नाच- णोत्तद्वचः पाणस्तूष्णीभूतः समास्थितः ॥ वर्णधर्मपराः केचिद्राह्मणा रंगवासिनः ॥ ८७॥ कवेरजातटे विष्णुं गायतं रंगवासिनम् ॥ ऊचु- मतंगं मत्वा तं गच्छगच्छेति दूरतः ।। ८८॥ गुणानुभवकैंकर्यजित- बाहोंद्रियो मुनिः। स तदाज्ञातवचनस्तूष्णीभूतो सुनिश्चलः ॥ ८९ ॥ ततः कोपेन महता श्रीपाणं प्रति भूसुराः ॥ शिलाः प्रचिक्षिपुस्तत्र ते सर्वे रंगवासिनः ॥ ९० ॥ जर्जरीकृतसर्वागः शिलावढाशयः ।। अतिष्ठद्भगवत्प्रेमपारवश्येन निश्चलः ॥ ९१ ॥ श्रीपाणं निश्चलं दृष्ट्वा जितबाहोंदियं मुनिम् ॥ किमेतदिति सर्वे ते विभ्यविस्मितचेतसः॥ ॥ ९२ ॥ सम्यक् समाप्तगीतोथ पूर्ववत्स दृढव्रतः ॥ श्रीपाणः स्वाश्रमं प्राप जितक्रोधस्तदानध ॥ ९३ ॥ तेषां शिलाप्रहारेण न काचिदपि वेदनाम् ॥ अगादुपस्तक्रोधो न्यस्तभारः श्रियः पतौ॥ ९४ ॥ तेन रंगेश्वरस्यैव संजाता महती व्यथा ॥ रक्त ललाटे सुस्राव भक्तांतर्यामिणस्तदा ॥ ९५॥ अर्चकास्तद्विलोक्याशु विभ्युर्विस्मितमानसाः ।। तदा तदेशभूपालो रंगेशस्य विलोक्य तत ।। ९६॥ रक्तं ललाटे प्रत्यक्ष सुतरां भीतिमागतः ॥ तेन संमोहिता (३४४) प्रपन्नामृते- लोकाः सर्वेपि भगवत्पराः ॥ ९७॥ संजातं केन दोषेण ममराज्ञोथ भूपतेः । इत्येवं विबुधैः साकं मंत्रयामास भूपतिः ॥ ९८॥ तदा श्रीरंगनायक्या रंगेशो बोधितस्तया॥ मतिं चकार भगवान् मुनिवा- हनरक्षणे ॥ ९९ ॥ सारंगयोगिनः स्वप्ने प्रसन्नः प्रत्यभापत ॥ श्रीपाणं मामकं विप्र निकृष्टं तं न चितय ॥१०० ॥ स्कंधाभ्यां तं वहन् भत्त्या प्रापयस्व मदतिकम् ॥ ततः स्वप्नात्समुत्थाय सारंगमुनिपुंगवः ॥१०१॥ अद्य मे सफलं जन्म सुप्रभाता निशा च मे ॥ इत्युक्त्वा संप्रष्टोथ स्वप्नवृत्तांतमद्भुतम् ॥ १०२॥ तथ्यं मत्वा यथाशास्त्रं त्रातः शुचिरलंकृतः ॥ कृताह्निकः संप्रतस्थे श्रीपाणों यत्र वर्तते ।। ॥ १०३ ॥ सुदूरमपि गंतव्यं यत्र भागवताः स्थिताः ॥ श्रीरंगस्या- तिदूरे तुकावेर्याश्च तटे रहः ।।१०४॥ तन्मयत्वेन गायतं सततं भगवद्गुणान् ॥गुणानुभवसंजातमहानंदाचवारिभिः॥ १०५ ॥संम्य- क्संसिक्तसौगं पुलकांकितविग्रहम् ।। अज्ञातबाह्यव्यापार हरौ संन्य- स्तमानसम् ॥ १०६ ॥ दृष्ट्वा सारंगयोगोंद्रस्तं स भागवतोत्तमम् ॥ दीर्घप्रणाम साष्टांग चक्रे तस्य पदाब्जयोः ॥ १०७॥ एवं प्रणम्य बहुशः सत्कृत्य प्रेमपूर्वकम् ॥रंगेशेन यदुक्तं तत्सर्व तस्मै न्यवेदयत् ॥१०८॥ स्वनच्यं पुरतः कृत्वा तनिशम्य वचः शुभम् ॥ श्रीपाणः प्रांजलिर्भूत्वा तमवोचद्विजोत्तमम् ॥ १०९ ॥ मातंगोहं महाभाग पद्यां श्रीरंगमुत्तमम् ॥ स्प्रष्टुं नार्हामि तेनाय प्रवेष्टुं नोत्सहे ध्रुवम् ॥११०॥प्रतिगृह्य स तद्वाक्यं सारंगमुनिरनवीत।।अतश्चेन्ममदासस्य कुरु स्कंधाधिरोहणम्॥११॥यथारंगेश्वरस्याज्ञा तथैव क्रियतांगुरो॥ दिव्याश्रीरंगराजस्य नैवोल्लंध्येयमावयोः ॥११२॥ स तद्वचनमाकये श्रीपाणो भगवत्परः कृतांजलिय॑स्तभरः परतंत्र समास्थितः।।११३॥ तदा सारंगयोगींद्र: स्कंधाभ्यां भगवत्परः ॥ उवाह भत्त्या श्रीपाणं रंगेश खगराडिव ॥ ११४॥ वेदपारायणं पश्चात्प्रवन्धाध्ययनं पुरः॥

अध्यायः ९६. (३४५) ब्राह्मणा वैष्णवाश्चकुस्तस्य श्रीरंगशासनात् ॥ ११५॥ यथैव मुक्त पुरुपं समादायातिवाहकः ॥ निनाय सर्वविभवैकुंठे मणिमंडपम् ॥ ११६॥ तथा सारंगयोगीदः श्रीपाणमनयत्तदा ॥ महता वैभवे नैव श्रीरंगतिरुमंडपम् ॥ ११७ ॥ स तदा रंगराजस्य शासनान्मुनि- वाहनः ॥ सम्यक् प्रदक्षिणं कृत्वा विमानस्य कृतांजलिः ॥ ११८॥ श्रीरंगशायिनस्तस्य संनिधि चागमत्तदा ॥ तथैव दर्शयन्नित्यं दरि- द्राय-महानिधिम् ॥ ११९॥ तदा रंगेश्वरस्तस्मै श्रीपाणाय कृपा- निधिः ॥ दर्शयामास चात्मीयं दिव्यमंगलविग्रहम् ॥ १२०॥ किरी- टकेयरसुवर्णकुंडलप्रलंबमुक्तामणिहेमभूपणम् ॥ विशालवक्षःस्थलहे- मकौस्तुभं श्रिया च देव्याध्युपितोरुवक्षसम् ॥ १२१ ॥ प्रतप्तचामी- करचारुवाससं सुमेखलापूरितशोभितांत्रिकम् ॥ सुवर्द्धनीजातमृणा- लकोमलं दधानमच्छच्छवियज्ञसूत्रकम् ॥ १२२ ।। भुजोपधानं प्रसृतान्यहस्तं निकुंचितोत्सारितपादयुग्मम् ॥ सुदीर्घसुद्राहमुदप्रवेपं भुजंगतल्पं पुरुपं ददर्श ॥ १२३॥ एवमुक्तप्रकारेण ब्रह्मादिनिखिलैः सुरैः ॥ इक्ष्वाकुप्रमुखैः सर्वैर्भूपैश्च परिपूजितम् ॥ १२४ ॥ रंगेशं शेपशय्यायां शयानं रंगनायकम् ।। सम्यग्दृष्ट्वाथ संसेव्य श्रीपाणो भगवत्परः ॥ १२५ ॥ आपादमस्तकं तस्य तस्थावनिमिपो यथा॥ रंगेशावयवान्सर्वान् दृष्ट्वा तत्पादपद्मयोः ॥ १२६॥ वेदांतिन् भक्ति- भावेन संजातप्रीतिमानभूत् । सर्वानवयवान हित्वा स्तन्यपाने च यः शिशुः ॥ १२७ ।। लोके स्तनंधयो मातुः स्तनमेवाग्रहीयथा ॥ शेपत्वप्राप्तये शेपभूतस्य प्रथमं किल ॥ १२८॥ एतदेवावतरणतर तत्पादपंकजम् ॥ पादादिकेशपर्यतं दिव्यमंगलविग्रहम् ॥ १२९ ॥ अनुभूयासकृत्या श्रीपाणो रंगशायिनः ॥ तदानुभवसंजातप्रेमा तिशयहेतुना ॥ १३० ॥ तमेवार्थ समुद्धृत्य रंगेशानुभवोद्भवम् ।। संगृह्य दशगाथाभिर्जगत्संरक्षणाय च ॥ १३१ ॥ चकारामल-

(३४६)
प्रपन्नामृते-
नाथाख्यं प्रबंधं द्राविडं महत् ॥ एवं प्रबंधं कृत्वाशु श्रीपा-
णो भगवत्परः ॥ १३२ ॥ निर्व्याजकृपया सम्यजगत्सर्वम-
पालयत् ॥ रंगेशो वेंकटेशश्च तेनाभूत्तत्र सन्नुतः ॥ १३३॥
ईपत्स्तुतो वेंकटेशो रंगेशो बहुशः स्तुतः ॥ लोकसारंगयोगी-
द्रमुखास्ते सकला जनाः ॥ १३४ ॥ श्रीपाणं सम्यगाश्रित्य
कृतार्था ह्यभवंस्तदा ॥ एवं दिव्यप्रबंधन कृतलोकैकरक्षणम
॥ १३५ ॥ कृतांजलिपुटं धीरं भगवद्भक्तिपारगम् ॥ स्वपादपद्माभिमु-
खं श्रीपाणं वीक्ष्य रंगराट् ॥ १३६ ॥ निहतुकदयावेशात्सशरीरेण
सादरम् ॥ अंगीचकार भगवान् सर्वेषां पश्यतां तदा ॥ १३७ ॥ सर्वे-
पां पश्यतां तत्र रंगेशपदपद्मयोः॥श्रीपाणो झगमद्भक्त्या नित्यकैंक
र्यवाञ्छया॥ १३८॥ नित्यकैंकर्यनिरतो रंगेशपदपद्मयोः॥ श्री-
पाणस्तत्र वेदांतिनद्यापि परिदृश्यते ॥ १३९ ॥ एवं भक्तपराधीनो
भगवान् रंगनायकः ॥ संप्राप्तः परमामोदं श्रीपाणेन श्रिया सह ।।
॥ १४० ॥ सुदूरागतपुत्रेण सभार्यो जनको यथा ॥ तदद्भुततमं दृष्ट्वा
जनाः सर्वेनिशं महत् ॥ १४१ ॥ विस्मयं परमं गत्वा नत्वा रंगेश्वरं
तदा ॥प्रपेदिरे स्वसद्मानि रंगेशानुज्ञया तदा ॥१४२॥ एतच्चरित्रं वेदां-
तिञ्छ्रीपाणस्य महाद्भुतम् ॥ पुरातनं पुण्यतमं संक्षेपात्कथितं तव
॥ १४३॥निचुलापुरमाहात्म्ये सम्यगेव समीरितम् ॥ पाणावतारच-
रितं द्रष्टव्यं तत्त्वयानध ॥ १४४॥ श्रीपाणचरितं पुण्यं ये शृण्वंति
पठति च ॥ ते सर्वे पापनिर्मुक्ता यास्यंति परमां गतिम् ॥ १४॥
श्रीवत्सांश उपायतः कलियुगे चोलावनौ ब्राह्मणक्षेत्रे श्रीनिचुलापुरे
समभवद्यो व्रीहिगुच्छे महान् ॥ पंचाशाद्भुवि वत्सरानपनयद्गेशपा-
दाजयोर्वीणापाणिरुदंचितः प्रतिदिनं तं पाणदेवं भजे ॥ १४६॥
इति श्रीप्रपन्नामृते भट्टार्य्यवेदांतिसंवादे श्रीपाणचारतं नाम पण्णव-
तितमोऽध्यायः॥९६॥

अध्यायः ९७. .३४७) सप्तनवतितमोऽध्यायः। श्रीपाणस्य कथापुण्यां श्रुत्वास्मद्यतिरद्भुताम् ॥ श्रीपराशरभट्टाय्यै भूयो वचनमब्रवीत् ॥ १॥ श्रीपाणस्याद्भुतकथा पुण्या त्वत्तः श्रुता मया ॥ श्रोतुमिच्छामि भगवन् कथां श्रीकलिवैरिणः ॥२॥ कथय- स्व महाभाग श्रोतुं कौतूहलं हि मे ॥ प्रतिगृह्य स तद्वाक्यं भट्टार्य- स्तस्य सादरम् ॥३॥ कथामकथयत्तस्मै सकलां कलिवैरिणः ॥ परकालहरिं वंदे पादपद्मगुहाश्रयम् ॥ ४॥ उन्नतप्रतिकूलेभकुंभसंभेद- विभ्रमम ॥ नादप्रहाससंत्रस्तशैवशक्त्यादिकद्विपम् ॥५॥ परकाल- मृगेंद्रं तं प्रपद्येद्भुतवन्दनम् ॥ इतीव वन्दनं कृत्वा भट्टार्य इदमब्रवीत ॥६॥ प्रवक्ष्यामि कथा पुण्यां श्रूयतां कलिवैरिणः ॥ विष्णुशाङ्गीश- संभूतः परकालो महायशाः ॥ ७॥ लोकसंरक्षणे विष्णुर्यथा चैप त- था ध्रुवम् ॥ आज्ञप्तो विष्णुना तेन परकालो युगेयुगे।।८॥ कृतावतारो मेदिन्यां धर्मसंस्थापनाय च ॥ धर्मान्संस्थापयामास गृढान् भागव- तान्छुभान् ॥९॥ चतुर्युगेषु संजज्ञे चतुर्वर्णेषु चानघ ॥ एप शाङ्गा- शजः श्रीमान परकालो महायशाः॥ १०॥ ब्राह्मणः कईमो भूत्वा संजातः प्रथम पुरा ॥ यथा कृतयुगे सम्यक्सर्व जगदपालयत्॥११॥ तथोपरिचरो भूत्वा त्रेतायां वसुनामकः ॥ ररक्ष क्षत्रधर्मेण स जग- क्षत्रियर्पभः ॥ १२ ॥ द्वापरे शंखपालाख्यो जज्ञे वैश्यकुलोत्तमः॥ स चकाराखिलान्धर्मान् महात्मा भगवत्परान् ॥ १३ ॥ चतुर्थवणे संजज्ञे ततः कलियुगे महान् ।। परकाल इति ख्यातो लोकसंरक्षणाय सः॥ १४॥ लोकसंरक्षणं तत्र सर्वत्र विदधेऽनघ ॥ लोकसंरक्षणं कार्य परकालस्य सर्वदा ॥ १५ ॥ आश्लिष्टपुरमाहात्म्ये द्रष्टव्यैपा कथा किल ॥ अवतारं प्रवक्ष्यामि परकालस्य सांप्रतम् ॥ १६॥ श्रूयतामवधानेन निगृह्येद्रियवाजिनः ॥वेदांतिचोलदेशेस्मिन् पूर्वाब्धेः पश्चिमे तटे ॥ १७॥ आविनाडिति विख्यातः कश्चिदेशोस्ति नै (३४८) प्रपन्नामृते- किल ॥ तत्र नागपुरक्षेत्रं भाति चैकादशस्थलैः ॥१८॥ तत्र शंखमुखं नाम पुण्यस्थानं च विश्रुतम् ॥ तस्य पश्चिमदिग्भागे कोशद्रयविदूरतः ॥ १९ ॥ बिल्लारण्यं महापुण्यं तत्र दिव्यस्थलं महत् ॥ नृसिंहपञ्चकं तत्र वर्तते दिव्यरूपकम् ॥२०॥ परिरंभपुरी सैव विश्रुता जगतीतले ।। तत्प्रभावपराःश्लोका गीयन्ते बहवोभुवि॥२१॥ अथ कापि कवेरकन्य- कासरितोरोधसि चोलमंडले ॥ परिरंभपुरीपयोनिधेः प्रथमस्याजनि पश्चिमे तटे ॥ २२ ॥ नटवत्परिपाकसंपदा कमला बिल्ववनांतरे पुरा ॥ करुणापरिपूर्णचक्षुपा घनमालिंग्यत यत्र विष्णुना ॥२३॥ उपकंठगते उभे शुभे परितः कांचननूपुरापगे ॥ नवहारलताविडंबनं विधाते भुवि यत्र निर्मले ॥२४॥ कृतमुख्ययुगेष्वनुक्रमादुदत्र हरिः श्रुतीश्वरः॥ भुवि कर्दमवेधसस्ततः परिणामैर्वसुवैरमेघयोः ॥ ॥२५॥ अथ काचिदभूत्तदंतिके कमलापूर्णपुरी गरीयसी॥ कमला- रमणाक्षिविभ्रमैः करुणाद्रः परिपूर्णवैभवा ॥२६॥ परिरंभपुरस्यास्य कमलानगरस्य च ॥ अन्यूननगरं नाम मध्ये भाति महत्तरम् ॥२७॥ न्यूनता यत्र वसतां कदाचिदपि नास्ति यत् ॥ तस्यैवान्यूनता नाम तेनाभूल्लोकविश्रुतम् ॥२८॥ आविनाडुदयाराख्यो दंडदानिकभू- पतिः ॥ बभूव पादजः कश्चिजितारातिर्महायशाः ॥ २९ ॥ शिवभ- क्तिरतः श्रीमान् देवब्राह्मणपूजकः ॥ लोकसंरक्षणार्थाय तस्य जज्ञे चतुष्कविः ॥ ३० ॥ वेदांतिन् कार्तिके मासि निष्णुशाशिजो म- हान् ॥ तत्कालनिर्णयं वक्ष्ये शृणु चावहितोनच ॥३१॥ कलौ युगे गताब्दानां सप्तोत्तरशतद्वये॥नलाब्दे कार्तिके मासि राकायां कृत्तिको डुनि ॥ ३२॥ चतुर्थवणे संजज्ञे शाहाशाद्गुरुवासरे ॥ परकालो म- हातेजाश्चतुष्कविशिखामाणिः ॥ अस्यावतारश्लोकाश्व गीयते वहवो भुपि ॥ ३३ ।। समजायत तत्र पादजनमुखे कश्चन नीलनामकः ।। पुस्पोत्तकमासुकांशजः स्फुरिते कार्तिककृत्तिकोडुनि ॥ ३४॥का-

अध्यायः ९८.
(३४९)
तिके कृत्तिकाजातं चतुष्कविशिखामणिम् ॥ पट्प्रबंधकृतं शामूिर्ति
कलिहरं श्रये ॥ ३५ ॥ चतुर्थवर्णेच्युतशाङ्गशक्त्या कृतोदयं का-
तिककृत्तिकायाम् ॥ रंगेशकैंकर्य्यतरंगितांशं चतुष्कवींद्रं शरणं प्रपये
॥३६॥ आविनाडुयाराख्यः पुत्रं दृष्ट्वा स तं वरम् ॥ प्रमोदमतुलं
प्राप्य बंधुभिः सपुरोहितः॥३७॥ चकार नामकरणं पुत्रस्यादित्य-
वर्चसः॥आविनाडन्नितिख्यातं सर्वलोकैकविश्रुतम् ॥३८॥ पित्रोरानं-
ददाश्रीमान सुंदरांगो महायशाः।अवर्धत महातेजा बालसूर्य इवोदितः
॥३९॥संप्राप्तयौवनःश्रीमाञ्छास्त्रेषु कुशलो महान्॥राजसेवापरस्तस्थौ
परकालस्ततः परम्॥४०॥तेजस्विनं महात्मानं दीर्घबाहुं महामतिम् ।।
परकालंजिताराति नीतिशास्त्रीवशारदम्।।४१॥विलोक्य विस्मितोत्यंत
संतुष्टश्चोलभूपतिः ॥ देशाधिपत्यं प्रददौ जिष्णवे कलिवैरिणे ॥४२॥
धर्मेण पालयन् सर्वान् प्रजारंजनतत्परः ॥ चोलराजप्रियस्तस्थौ
परकालों महायशाः ॥४३॥ कालं ग्राम्यसुखेन वल्लवजनैनित्यं
क्षिपन्सादरं वारस्त्रीवरनाट्यलोलनिपुणः संगीतसक्तश्रुतिः ॥ अज्ञा-
तात्मविचारणः खलरतिः स्वच्छन्दवृत्तिः परं रेजे शौर्यपराजिताखि-
लरिपुर्नीलो नरेंद्राश्रयः॥४४॥ इति श्रीप्रपन्नामृते भट्टार्य्यवेदांति-
संवादे परकालावतारकथनं नाम सप्तनवतितमोऽध्यायः॥९७॥
अष्टनवतितमोऽध्यायः।
तस्य नागपुरस्याथ वायव्यां दिशि सत्तम ॥ विश्रुतः क्रोशमा-
• त्रेण कश्चिच्छेतह्रदो महान् ॥१॥ वेदांतिन् राजते तत्र फुल्लपंक-
जशोभितः ॥ तोरे तस्य तटाकस्य विष्णुः संराजते सदा ॥ २ ॥
श्वेतहदे शांतमूर्तियः स एवेति गीयते ॥ तस्माच्छेतसरः पुण्यमपंक
पंकजावृतम्॥३॥ तद्भुततमं शुद्धं गंभीरमतिविस्तृतम् ॥अप्सरोगण
संकीर्ण तन्मानससरो यथा॥ ॥जलक्रीडेच्छया स्वर्गात्तत्रागत्या-
मरांगनाः ॥ तस्मिन्सरोवरे सम्यग्जलक्रीडां विधाय च ॥५॥

(३५०) प्रपन्नामृते- कुर्वत्येका तदा तस्था कुमुदापचयं ह्रदे॥ तां विहाय तदा स्वर्ग ययुः सर्वाः सुरांगनाः ॥६॥ देवरूपं परित्यज्य मानुषं रूपमास्थिता॥ तटाकतीरे एकैव सा चचारामरांगना ॥ ७॥ नागपुर्यास्तदा कश्चि- द्वैष्णवोथ भिपग्वरः ॥ यहच्छयागतस्तत्र तामपश्यद्वरांगनाम ॥८॥ वात्सल्यावलोक्याशु व्याजहार वचः शुभम् ॥ का त्वं कमलपत्राशि कन्यके कलभाषिणि ॥ ९॥ तटाकतीरे एकैव किमर्थ वर्तसेधुना ॥ सा तद्वाक्यं समाकर्ण्य भिषग्वरमथाब्रवीत् ॥१०॥ मया सहागताः कन्या मां विसृज्याखिला गताः॥ एकैव विचराम्यद्य साहं सर्वविवर्जिता ॥१३॥ मातापितृविहीनां मामवेह्यद्य भिपग्वसामां युष्मत्सदनं तात भवान्संप्रापयेद्यदि ॥१२॥ आगच्छामि त्वया साई, संशयोत्र न विद्यते ॥ कन्यावचनमाकर्ण्य स तत्कर्णामृतंतदा॥१३॥ पुत्रिकामिव संवीक्ष्य वात्सल्याद्वाचमब्रवीत्॥ यद्येष्यत्यद्य भवती मया मन्नगरं प्रति ॥ १४॥ सर्वदा पालयिष्यामि सुतामिव न संशयः॥ तेन भागवतनोक्तमंगीकृत्य वचः शुभम् ॥ १५॥ मतिं चकार वेदां- तिन् गमने तत्पुरस्य सा ॥ भिषक्चैवानपत्यत्वात्तामादाय कृतादरः ॥१६॥ प्रविश्य नागनगरं गृहमागत्य संभ्रमात ॥ भाऱ्या हस्ते ददौ कन्यां प्रहटेनांतरात्मना ॥ १७ ॥ तदा साप्यनपत्यत्वात्तां कन्या प्रतिगृह्य हि ॥ मेने तां वैद्यवनिता स्वात्मजामिव सादरम् ॥ १८॥ चकार नामकरणं दुहितुः स भिपग्वरः ॥ ततः कुमुदवल्लीति दधार कुमुदं यतः ॥ १९॥ तदा दुधार कुमुदं या तटाकस्य रोधसि ।। तस्याः कुमुदवल्लीति तेनाभून्नाम विश्रुतम् ॥२०॥ अवईतानुदिवसं पिनोरानंददायिनी ॥बाला कुमुदवल्ल्याख्या रूपलावण्यसंपदा॥२१॥ भिपग्वरो भागवतो दृष्ट्वा दुहितरं तदा ॥ संजातयौवनां साध्वी जित- देवांगनाश्रियम् ॥ २२ ॥ अज्ञातकुलगोपा रंभैवाभाति रूपतः॥ ममात्मजा गुणवती कस्मै देयेत्यचितयत् ॥२३॥ तदा नीलस्य वेदांतिचाराः केचित्प्रियंवदाः ॥ तस्याः कुमुदवल्ल्याश्च रूपलाव-

अध्यायः ९८,
(३५१)
ण्यसंपदम् ॥ २४ ॥ सम्यगावेदयांचकुस्तस्मै ते कलिवैरिणे ॥बहुशः
श्लाघयित्वोक्तं चारैः सम्यनिवेदितम् ॥२५॥ स तदद्भुतलावण्यं
द्रष्टुकामश्चतुष्कविः ॥ यत्रयत्र यथापूर्व यत्कार्य समवस्थितम् ॥२६॥
तत्रतत्र तथैवासौ तद्राज्ञो विनिधाय च ॥ कृतस्वरक्षणो नैव तवत्यैर-
भिसंवृतः ॥ २७॥स्वपुरान्निर्ययौ वेगात्तदा नागपुरी प्रति ॥ अभ्येत्य
नागनगरी भिपग्राजस्य वेश्मनि ॥ २८ ॥ तेन संमानितस्तस्थौ
कृतासनपरिग्रहः ॥ तेन संभापमाणोसौ सम्यग्भागवतेन वै ॥२९॥
अपश्यत्तत्सुतां तत्र बालां सुरसुतोपमाम् ॥ तां दृष्ट्वा विस्मितोत्यंत
संग्रहष्टश्चतुष्कविः॥३०॥सतंभागवतंप्रीत्या भिपग्राजं वचोब्रवीत् ॥
अनपत्यस्य भवतः कस्मात्कन्यैवमागता ॥३१॥ वद तत्कारणं मेद्य
श्रोतुं कौतूहलं परम्।।अंगीकृत्य स तद्वाक्यं तदागमनकारणम् ॥ ३२ ॥
सम्यङ् निवेद्य वेदांतिस्तत्सर्व कलिवैरिणे॥ममानपत्यतादोपस्त्वनयैव
प्रमार्जितः॥३३॥ इत्युक्त्वाथ पुनः प्राह परकालं भिपग्वरः॥
अज्ञातकुलगोत्रपा कन्यका वरवर्णिनी ॥ ३४॥ कल्याण-
गुणसंयुक्ता कस्य भार्या भविष्यति ॥ इति व्याकुलचित्तोसौ तदा
भागवतोभवत् ॥३५॥ प्रहृष्टः तन्निशम्यासौ वैष्णवं स भिपग्वरम् ॥
परकालः सुसंपूज्य सद्वस्त्रांबरभूपणैः ॥३६॥ पत्न्यर्थ वरयामास
भिपग्राजसुतां वराम् ॥ अंगीकृत्य स तद्वाक्यं सभार्यः संप्रहर्पितः
॥३७॥प्रदातुमैच्छत्तां कन्यां श्रीमते कलिवैरिणे ॥ पित्रोः कुमुदव-
ल्याख्या तदुद्योग निशम्य सा ॥ अवोचत्परकालस्य सन्निधौ पितरौ
प्रति ॥ ३८॥ तापः पुंड्रस्तथा नाम मंत्रो यागश्च पंचमः ।। अमीह
पंचसंस्काराः पारमैकात्यहेतवः ॥३९॥ एवमुक्तप्रकारेण पंचसंस्कार-
संस्कृतम् ॥ श्रीवैष्णवं विनान्यं तं न वृणेहं कदाचन।॥४०॥एतमध्यव-
सायं च ज्ञात्वा सम्यक् सुसादरम् ॥४१॥ शुभस्य शीघ्रमित्युक्त्वा पर-
कालो महामतिः ॥ नागपुर्याः संप्रतस्थे श्रीनिवासपुरं प्रति ॥४२॥

(३५२) प्रपन्नामृते- श्रीनिवासस्थलं तूर्णं नत्वा तत्सन्निधौ तदा ॥ अग्नितप्तेन चक्रेण शंखे न भुजमूलयोः॥४३॥ पूर्णेन हरिणा तेनस सम्यकृतलांछनः ॥ धृतोद्धपुंडूः कुमुदवल्ल्यास्सन्निधिमेत्य सः ॥४४॥ श्रीवैष्णववरस्त स्थौ दिव्यचिद्वैरलंकृतः ॥ विलोक्य वैष्णवं साध्वी सा तं भूयोत्रवी- द्वचः ४५ ॥ अष्टोत्तरसहस्रेभ्यो वैष्णवेभ्यो दिनेदिने ॥ भोजनं पडू- सैर्दत्त्वा सतांबूलं सदक्षिणम् ॥ १६॥ ततः श्रीपादतीर्थ च तदन्नमति- पावनम् ॥ स्वीकर्तव्यं प्रयत्नेन भुक्तशेपं त्वयादरात् ॥४७॥ यद्येक वत्सरं सम्यगेवं हि भवता कृतम् ॥ ततः परं भविष्यामि तव भार्या तदानघ ॥ १८॥ एवं कृते सुसुलभा ह्यन्यथा दुर्लभा तव ॥ वचः कुमुवल्ल्योक्तमंगीकृत्य चतुष्कविः॥ ४९॥ दृढां प्रतिज्ञामकरोत करिष्ये तदिति ध्रुवम् ॥ ततो भिपग्वरः श्रीमान् महाभागवतस्तदा ॥५०॥ ददौ कुमुदवल्ली तां सुतामुदकपूर्वकम् ॥ संतुष्टलोकविदित- श्रीमते कलिवैरिणे ॥५१॥ कृतोद्वाहस्सवेदांतिन्प्रतिज्ञा सफलां व्य- धात् ॥५२॥ आराधनानां सर्वेषां विष्णोराराधनं परम् ।। तस्मात्प- रतरं प्रोक्तं तदीयाराधनं नृप॥५३॥हदि सम्यनिधायार्थ तमिमं भगव- त्परः॥अष्टोत्तरसहस्रेभ्यो वैष्णवेभ्यो मुदान्वितः॥५॥पडूसोपेतमशनं प्रददौ प्रतिवासरम् ॥ वस्त्रंवाभूपणं वापि यद्यदिच्छति वैष्णवः॥५५॥ तत्सर्वमदिशत्तेभ्यः सत्वरं कलिजित्तदा ॥ वैष्णवाराधनार्थाय तद्रा- जधनमंजसा ॥५६॥ अगमद्विलयं सर्व वेदांतिन् कलिवैरिणः ॥ वृत्तांतं चोलभूपाय तत्सर्व कलिवैरिणः ॥१७॥ वेदांतिन् सुदृढं तस्मै चाराः सम्यङ् न्यवेदयन् ॥ ततो दूताः समाजग्मुश्चोलराजेन चोदिताः ॥ २८ ॥ तद्धनाहरणार्थाय परकालांतिकं जवात् ॥ दूतान्समागतान्दृष्ट्वा परकालः स तास्तदा ॥ १९ ॥ धनं दास्यामि तत्सर्वमित्युक्त्वापूजयत्परम् ॥ ६० ॥ दद्यामेव निशामुखे परादने मध्याह्नसूर्यास्तयोः पश्चादावज गम्यतामवसरो नैवास्ति मे सांप्रतम् ।। इत्युक्त्वा मृदुभापणैर्वहुविधं तानाजदूताञ्छनैनिर्विघ्नं प्र- अध्यायः ९८. ( ३५.३ ) तिवासरं कुशलतश्चके तदीयार्चनम् ॥ ६॥ एवं दिनेषु कतिपुगंतेषु तदनंतरम् ॥ द्रव्यार्थ राजदूतास्ते रुरुधुः कलिवैरिणम् ॥ १२ ॥ ततः संजातकोपेन परकालेन भत्सिताः॥ तत्कृत्यं चोलभूपाय भटाः सम्यङ् न्यवेदयन् ॥ ६३ ॥ तेन वाक्येन संक्रुद्धः पदाहत इवोरगः।। चोलराजो महातेजाः किंकरान पट्सहस्रकम् ॥ ६४ ॥ ग्रहणे परका- लस्य लव्धलक्ष्यानयोजयत् ।। स्वावतारस्थलस्याथ दक्षिणे क्रोश- मात्रतः ॥ ६ ॥ कमलानगरे रम्ये परकालो महायशाः॥तदीयारा- धनं तत्र नित्यमव्याहतं महत् ॥६६॥ चक्रे कुमुदवल्ल्यर्थे तल्लोक- विदितं किल ।। तदीयसेवया नित्यं तदुच्छिष्टान्नभोजनात् ॥ ६७ ॥ तत्पादतीर्थपानेन वेदांतिन्कलिवैरिणः ॥ नित्यं ववृधिरे तस्य ज्ञानभ- त्यादयो गुणाः ॥ ६८ ॥ शुक्लपक्षे चंद्रमसः कला इव दिनदिने । ततस्तदीयकैंकर्यसक्तो नीलस्ततोनिशम् ॥ ६९ ॥ यथा श्रीरामकैं- कय्यॆ महोत्साहो महाबलः ॥ अव्याहतगतिस्तस्थौ सर्वथा मारुता- त्मजः ॥७०॥ ततः समागता दूताश्चोलराजेन चोदिताः ॥ ग्रहीतुका- मास्तं नीलं कमलानगरं गताः ॥ ७१ ॥ मारुतिग्रहणार्थाय यथा रावणकिंकराः ॥ गृह्यतां वध्यतामेष ताडयतां वध्यतामिति ॥ ७२ ॥ राजद्रव्यापहारी च राजशासनदूपकः ॥ इत्युक्त्वा परकालं तें परिवन्नुः समंततः॥७३॥ प्रभावः परकालस्य प्रवक्तुं केन शक्यते ॥ अभूत्तस्य तदा तेपां तद्युद्धमतिमानुपम् ।। ७४ ॥ संरक्तनयनः कोपान्महाखड्गं प्रगृह्य सः ॥ परकालोथ वेदांतिन्नेक एव महाबलम् ॥ ७२ ॥ गजयूथे महोत्साहात्प्रतस्थे मृगराडिव ॥ खड्नेन शितधारण तत्किंकरबलं महत ॥७६॥ क्षणमात्रेण निःशेष निहतं कलिवैरिणा ॥ यथा हनुमता कृत्तं तद्रावणवलं महत् ॥७॥ चोलराजेन वेदांतिन् सप्तकृत्वस्ततः परम् ॥ नीलस्य ग्रहणाय पूर्ववत् प्रेपितं बलम् ॥७८॥ गजवाजिसमाकीर्ण पूर्ववत्कलिवैरिणा॥

(३५४) प्रपन्नामृते- क्षणमात्रेण निःशेष तत्सर्व निहतं बलम् ॥ ७९ ॥ ततस्तत्सर्ववृत्तांत श्रुत्वा चोलमहीपतिः ॥ चिंताशोकसमाविष्टो महाश्चर्यसमन्वितः ॥ ८० ॥ मंत्रिभिर्बहुधा सम्यङ् मन्त्रयित्वा पुनःपुनः ॥ युद्धार्थ स्वयमेवाशु तदा गंतुमियेप सः ॥ ८॥ सेनानीः श्रीधरो नाम तदा चोलमहीपतिम् ॥ निवार्य तद्रणोद्योगं चतुरंगबलो महान् ॥८२॥ प्रतस्थे सहसा कर्तुं कदनं कलिवैरिणा ॥ कमलानगरे तत्र वैष्णव- श्रीसमुज्ज्वले॥ ८३॥ तदीयाराधनपरः परकालः समास्थितः ॥ तत्राजगाम वेदांतिन् महाबलसमन्वितः ॥ ८४ ॥ सेनानीः श्रीधरः श्रीमान निशि निःशब्दमनसा ॥ श्रीधरागमनं श्रुत्वा संतुष्टः कलि- जित्तदा ॥ ८५ ॥ उचैःश्रवोनिभं चाश्वं चारुह्यादाय पहिशम् ॥ सिंहनादेन महता स तस्याभिमुखं ययौ ॥ ८६ ॥ कुत्राप्यव्याहत- गति रामबाणमिवागतम् ।। आवतळमहाकांतिं यथा दिव्यं सुदर्श नम् ॥८॥ प्रवृद्धतेजसं युद्धे वायुसूनुमिवाक्षतम् ॥ असंख्येयबलं धीर नारायणमिवापरम् ।। ८८॥ गोभिर्विवर्द्धमानं तं दिवाकरमिवो- दितम् ॥ व्योममार्गे समायांतं रणवीथ्यां समागतम् ॥ ८९ ॥ तं दृष्ट्वा सैनिकास्सर्वे तमांसीव पलायिताः ॥ दृष्ट्वा पलायितान्सर्वान् सेनानीः सैनिकांस्तदा ॥ ९०॥शांतयित्वा बहुविधैर्वाक्यैश्च समयोचितैः ॥ तदा सञ्चोदयामास तानव कलिवेरिणे ॥९१ ॥ महान्तः सैनि- का मेघाः सेनानीवायुचोदिताः॥ तदा प्रच्छादयामासुः परका- लदिवाकरम् ॥ ९२ ॥ तद्युद्धदर्शनौत्सुक्याद्विमानस्था नभःस्त- ले । तदा देवगणाः सर्वे तस्थुस्तकमानसाः ॥ ९३ ॥ श्रीवैष्णवा- स्तदा सर्व ह्याशीर्वाद प्रचक्रिरे । राघवाय जनस्थाने खरदूपणसंगरे।। ॥९॥सीता यन्मंगलं प्रादात्तत्ते भवतु मंगलम् ॥ याऽवर्तत कृपा दे- व्या वदेह्या मारुतात्मजे ॥ ९५ ॥ सा कृपावर्ततां नित्यमेतस्मिन्क- लिवेरिणि ॥ पूर्णः पुरस्तात्त्वां पातु पश्चात्ते भगवान्परः ॥९६॥ रंगे-

अध्याय: ९८. (३५५)
शो दक्षिणे भागे शौरिराडुत्तरे तथा ॥ मुखं पातु मुकुंदस्ते लोचने
पद्मलोचनः॥ ९७ ॥ दामोदरोऽव्यादुदरं वक्षः श्रीवत्सलांछनः॥बाहुँ
सुंदरबाहुस्ते पायाबुद्धि हयाननः॥ ९८ ॥ पादौ त्रिविक्रमः पायात्स-
वागं पार्थसारथिः॥ चक्रं चक्रायुधेभ्यश्च शरेभ्यः शाहूमुत्तमम् ॥१९॥
खड्नेभ्यो नंदकः पातु गदा त्वां मुशलायुधात् ॥ महारवेभ्यो द्विपता
पांचजन्यं निरंतरम् ॥ १०॥ एवं कुमुदवल्ली सा परकालस्य भक्ति-
तः ।। सम्यग्दृढतरां रक्षामकरोत्पांजलिस्तदा ॥ १०१॥ कृतरक्षोऽथ
देव्या च वैष्णवैः कलिजित्तदा ॥ सिंहनादं विनयोचैः स सैन्ये खग-
माददे ॥ १०२॥ यथा वज्रधरो वधं पुरा रक्षोगणे तथा ॥ परकाल-
स्य खड्नेन केचिद्विच्छिन्नबाहवः ॥१०३शाकचिद्विच्छिन्नसौगाः पति-
ता धरणीतले ॥ तमंतकमिवायातं दृष्ट्वा भीताः पलायिताः ॥१०॥
परकालं महाशूरा रणं त्यक्त्वा तदानघ । त्यक्तदेहासवः केचित्तस्या-
भिमुखमास्थिताः॥ १०५॥ सेनान्यं शरणं जग्मुः केचिद्रीता रणा-
जिरात् ॥ अश्वा गजाश्च बहवस्तेन संचोदितास्तदा ॥१०६॥ परिव-
त्रुश्च वेदांतिन् परकालं समंततः ॥ यत्तत्सर्व कलिनेन क्षणेनैव नि-
पातितम् ॥ १०७ ॥ तल्लक्ष्मीधरसेनायां विभागबलमंजसा ॥ रात्रि-
शेपेण निहतं वेदांतिन् कलिवैरिणा ॥ १०८॥ एकस्य बहुभिः सार्दै
कथं युद्धमभूदिति ॥ द्रष्टुकाम इवादित्यः सहसैवोदितो महान।।१०९॥
निहतं च बलं दृष्ट्वा हतशेपान्पलायितान् ॥ परिशेपितमात्मानमायां-
तमतिसत्वरम् ॥ १० ॥ युगांते सर्वहारं कालरुद्रमिवोदितम् ।।
खड्गपाणिं च तं दृष्ट्वा नरांतकमिवागतम्॥१११॥अतिभीतिसमायुक्तः
सेनानीस्सत्वरं तदा ॥सगजादवरुह्याश्वमारुह्यालक्षितस्तदा।।११२॥
कांदिशीको ययौ शीघ्रं तदा कुत्राप्यलक्षितः॥निवृत्तसंगरो धीमान
परकालस्ततोऽनघ।।११।।विबुधैः संस्तुतोधीरो बलारिरिव चावभौ।।
देवदुंदुभिनिर्धोपः पुष्पवर्षो महानभूत् ।। ११४ ॥ वंदिनां जयशब्देन
शंखभेरीरवैः सह ॥ कमलानगरं रम्यं प्रविवेश महायशाः ॥११५॥

(३५६) प्रपन्नामृते- जितशत्रुर्यथा पूर्व श्रीकृष्णो मथुरा पुरीम् ॥ तद्वत्कुमुदवल्ल्या- श्च पाणिस्पर्शात्तदानघ ॥ ११६॥विनाशितक्षतः श्रीमान महोत्सा- हो महाबलः ॥ परकालोथ वेदांतिन खरांतक इवाबभौ ॥ ११७ ॥ अविच्छिन्नगतिः श्रीमान् कमलानगरे तदा ॥ तदीयाराधनं कुर्वन् पूर्व- वत्सुखमास्थितः ॥ ११८॥ हतशेपास्ततः केचिद्भगीता राजभटाः श- नैः ॥ सर्व तयुद्धवैचित्र्यं चोलेंद्राय न्यवेदयन् ॥११९॥ सर्वसेनाक्षयं तच्च सेनापतिपलायनम् ॥ निशम्य मूर्छितो राजा क्वचिद्भूमौ पपात ह ॥ १२० ॥ मंघिभिर्बोधितः सम्यगुत्थितो भूपतिस्तदा ॥ तत्तस्य सर्व वृत्तांतं भूयश्चारैनिशम्य सः ॥ १२१ ॥ कोपसंरक्तनयनो ग्रहीतुं कलि- वैरिणम् ॥ उद्युक्तः स्वयमेवाशु चतुरंगबलान्वितः ॥ १२२॥ कृतस्व- स्त्ययनो विप्रैश्चोलराजो महाबलः।।सुमुहूर्ते महातेजाःप्रतस्थे कमला- पुरीम् ॥ १२३॥ स राजागमनं श्रुत्वा परकालः प्रहष्टधीः॥ प्रगृह्य पूर्ववत्खङ्गं प्रविश्य पृथिवीपतेः ॥ १२४ ॥ सेनासमुद्रमक्षोभ्यं मंदरा- चलवत्तदा ॥ ममंथ तरलं सर्व परकालो महायशाः ॥ १२५॥ पर- कालपुरः स्थातुमक्षमाः सैनिकास्तदा ।। चोलराजांतिक जग्मुः सह- सा तेन मर्दिताः ॥ १२६॥ तानालोक्य स भूपालो विनिश्चित्य महामतिः॥ स्वयमेतेन योत्स्येहं यावद्रलपराक्रमम् ॥ १२७ ॥ हता- श्वरथमातंगपदातिश्चोलभूपतिः॥ परकालेन संगम्य चके युद्धं महाई- तम् ॥१२८॥ उभौ शस्त्रास्त्रसंघातैर्विनिनंती परस्परम ॥ कृतप्रतिकृती छत्रध्वजचापादिकर्तनः।।१२९॥युयुधाते महावीरौ चिरं युद्धविशारदौ।। ततः क्षीणबलो राजावाणीधैः पीडितो भृशम्॥१३०॥स्थातुं तत्पुरतो:- शक्तः प्रदुद्राव पराइमुखः। एवं पराजयं प्राप्य धनलोभाद्विनिःश्वसन ॥१३॥धर्मेण यावद्रव्यं मे त्वया देयं परांतक॥ इदंतुधर्ममेवेति सभा- योगीचकार सः ॥१३२॥ वैष्णवाराधनाथ हि जातः सर्वधनव्ययः।। केनोपायेन संगृह्य राज्ञे देयं धनं बहु ॥ १३३ ॥ एवं तस्मिंश्चितयति अध्यायः ५८ श्रीहस्तिगिरिनायकः ॥ स्वप्ने तं समुपागम्य संस्पृशन्करपल्लवैः ।। ॥ १३४ ॥ कांचीमागच्छ दास्यामि धनं तुभ्यं महायशाः ॥ इत्युक्त्वां, तर्दधे स्वामी प्रतिबुद्धः परांतकः ॥ १३५ ॥ वरदोक्तं वचो मत्वा तथ्यमत्यंतसंभ्रमः ॥ चतुर्थदिवसे चोलमंत्रिणं वाक्यमब्रवीत् ॥ ॥ १३६॥ कांच्यामस्मद्धनं किंचिनिक्षिप्तं यन्मया पुरा ॥ तत्रागतश्चे- दास्यामि युष्मद्रव्यं न संशयः ॥१३७॥ अमात्यः स तदाकर्ण्य राज्ञे सर्व निवेद्य तत् ॥ तेनानुज्ञापितो धीमान् कृतयत्नो बलान्वितः ॥ ॥ १३८ ॥ परकालं समादाय कांचीपुरमगात्तदा ॥ स राजभटम- ध्यस्थः सत्यवादी महायशाः ॥ १३९ ।। कांचीपुरं समभ्येत्य तत्र स्वप्नोक्तमार्गतः ॥ वेगवत्यां धनं तत्र कृतान्वेपो न लब्धवान् ॥ ॥४०॥ चिंताव्याकुलितोऽशेत परकालस्तदानध ॥ महाकारु- णिकस्तस्य प्रसन्नो वरदस्तदा ॥ १४१॥ तन्निक्षेपधनस्थानं स्वप्ने विशदमब्रवीत् ॥ संतुष्टः सहसोत्थाय परकालस्ततोऽनघ ॥ ३४२॥ तदा वेगवतीरे वरदोक्तप्रकारतः ॥ खनित्रेण खनित्वाशु तन्निक्षे- पधनं बहु ॥ १४३ ॥ उद्धृत्य राज्ञे यद्रव्यं दातव्यं तनिवेद्य सः॥ धनशेपं समादाय तदीयाराधनाय च ॥ १४४॥ कमलानगरं शीघ्र- माजगाम महायशाः॥ चोलामात्यो धनं सर्वमादायात्यंतविस्मितः ॥१४५ ॥ चोलभूपालनिकटे तन्निधाय तदा धनम् ॥ सर्व निवेद- यामास वृत्तांतं कलिवैरिणः॥ १४६ ॥प्रसन्नो देवराजोस्य प्रददौ यद्धनं बहु ॥ इत्याप्तमंत्रिवचनं श्रुत्वा दृष्ट्वा धनं च तत् ॥ १४७ ॥ विस्मयाविष्टहृदयश्चोलभूपोऽब्रवीद्वचः ॥ न सामान्यजनो ह्येप महा- भागवतोत्तमः॥ १४८ ॥ महापदः सुसंप्राप्तौ दुर्योधनसभांतरे ॥ द्रौपद्याः सहसा कृष्णः कृपया चाक्षयांबरम् ॥ १४९ ॥ दत्त्वा रक्ष तां तत्र द्रौपदी च यथा पुरा ।।१५०॥ तथाधवरदः शीघ्रं ररक्ष कालवै- रिणमाद्रिौपदीमानभंगादिदोपेण कुरुसंततिः ॥३५॥ स्वबले विद्या-

(३५८)
प्रपन्नामृते-
नेपि निःसंततिरभूत्किल ॥ तदीयावमतिस्तस्मादुर्जया कुलनाशिनी
॥ १५२ ॥ कर्तव्यमधुना सम्यगपराधक्षमापणम् ॥ तमानीय प्रय-
त्नेन सत्कृत्य कलिवैरिणम् ॥ १५३॥ इति निश्चित्य सहसा वेदां-
तिन् मंत्रिणा नृपः ॥ परकालं समादाय विविधैर्भूषणांबरैः ॥ १५४ ॥
पूजयित्वा बहुविधं राजा भक्त्या पुनःपुनः ॥ मया चाज्ञातदोपेण
तेऽपराधाः कृताश्च ये॥ १५५ ॥ ते क्षन्तव्यास्त्वया तात परकाल
नमोस्तु ते ॥ इति क्षमापणं कृत्वा परिरभ्य मुहुर्मुहुः ॥१५६ ॥
परकालं महात्मानं वेदांतिन् वैष्णवोत्तमम् ॥ तदा प्रस्थापयामास
कमलानगरं प्रति ॥ १५७ । अचिंतयत्ततो धीमान्वेदांतिचोलभूमि-
पः॥ मदर्थ परकालोऽयं चिरात्रं समुपोषितः॥ १५८॥ तदोपपरि-
हाराय देवब्राह्मणपूजनम् ॥ कर्त्तव्यमिति निश्चित्य यदत्तं कलिवै-
रिणा ॥ स जवात्तद्धनं सर्व देवब्राह्मणसात्तदा ॥ विधाय विज्वरः
श्रीमान्मुमोद नृपसत्तमः ॥ १५९ ॥ इति श्रीप्रपन्नामृते भट्टार्यवे-
दांतिसंवादे परकालराजयुद्धवर्णनं नामाष्टनवतितमोऽध्यायः ॥९८॥
एकोनशततमोऽध्यायः ।
ततोऽव्याहतसंकल्पः परकालो महायशाः ॥ चोलेंद्रपूजितः स-
म्यकमलानगरे महान् ॥ १ ॥ अविच्छिन्नगतिः कुर्वस्तदीयारा-
धनं बहु ॥ स श्रीमांस्तेन वित्तेन वेदांतिन् सुखमास्थितः ॥ २ ॥
द्रव्याभावे ततो यत्नं चौर्यकर्मणि स व्यधात् ॥ परकालस्य तस्या-
सञ्छिष्याः पंच तदाऽनघ ॥३॥ तेपां नामानि वक्ष्यामि वेदांति-
ञ्णु सादरम् ॥ जलोपरिगतिः कश्चिच्छायासंलीनकस्तथा ॥४॥
वृक्षाग्रारोहकः कश्चिदजितव्यवहारकः॥ कश्चिदर्गलफूत्कारकारकश्चेति
विश्रुतः॥५॥ पत्नीसहोदरः कश्चित्परकालाभिधो महान् ॥ पडेतेऽ-
नुचरास्तस्य बहि प्राणा इवाभवन् ॥ ६ ॥ एतैरनुगतः सम्यक
सहितो वेष्णवैः सदा ॥ रुद्धमार्गो महारण्यमुपाश्रित्य महाबलः ॥७॥

अध्यायः ९९. (३५९) उर्द्धपुंडूललाटांश्च चक्रांकितभुजान्विना ॥ गतागतानामन्येपां तत्र मार्गे निरंतरम् ॥ ८ ॥ धनान्याहत्य वेदांतिनित्यमव्याहतं तदा ॥ सहस्त्रसंख्यया चक्रे तदीयाराधनं बहु ॥ ९ ॥शिष्या देशांतराचौ-द्धनान्याहृत्य भक्तितः ॥ ददुः कलिजिते सम्य- क्तदीयाराधनाय च ॥ १० ॥ ग्रामे जनपदे चैव नगरे च वनांतरे ॥ सर्वत्र सञ्चरनीलो हरिभक्तो निरंकुशः ॥ ११ ॥ स तदा बहुशः कृत्वा चोरवृत्त्या धनार्जनम् ॥ भक्त्या संप्रेपयामास नित्यं लक्ष्मीपुरं प्रति ॥ १२ ॥ देवी कुमुदवल्ल्याख्या वैष्णवाराधनप्रिया॥ तदीयाराधनं नित्यं कुर्वती सा समास्थिता ॥ १३ ॥ वर्जयित्वा वैष्णवानां समानि कलिजिन्महान् ॥ ग्रामे जनपदे चैव सर्वत्र नगरेषु च ॥ १४॥ चौद्धिनार्जनं कुर्वन सदावर्तत भक्तितः ॥ ततः कदा- चिद्वेदांतिन् परकालो महायशाः ॥ १५ ॥ कस्मिंश्चिदवसद्रामे स धनाहरणेच्छया ॥ वातवर्षों महानासीदाढांधतमसावृतः ॥१६॥ अलक्षितान्योन्यगतिर्जनसंचारवर्जितः ॥ तदा बहिर्वितयां त कस्य- चित्समनोऽनघ ॥१७॥ धनाहरणकामोसौ नीलो लीनो व्यतिष्ठत ॥ वर्पत्यासारव तु काचिद्दारांतरस्थिता ॥ १८॥ शोधयन्ती भुक्तपानं तस्थौ तमसि वै निशि।। तस्याः प्रक्षालनरवं निशम्य कलिजित्तदा ।। ॥ १९॥ तस्याः करस्थितं पात्रं हठादाहृत्य दुदुवे ॥ तदीयभक्ति- स्सा तस्य वर्णितुं केन शक्यते ॥२०॥ अस्मद्गुरुभ्यो नम इत्यवोच- द्वाक्यं तदा भागवतांगना सा॥ आकर्ण्य वाक्यं तदतीव संभ्रमस्त - मपात्रं प्रमुमोच नीलः ॥२१॥ पात्रं तदादाय हठात्स्वभ। वृत्तांतमे- तद्विशदं भयार्ता ॥ निवेद्य तद्विस्मयसंभ्रमाभ्यां पंकावृतं पात्रम- दर्शयत्सा ॥ २२ ॥ निशम्य पत्न्या वचनं विदित्वा धीमांस्ततस्तं परकालमार्यम् ॥ स तां समुद्रीक्ष्यचुकोप दृष्टया प्रन्याहरद्वाचामिमां हि धीरः ॥ २३ ॥ मुग्धे महात्मा परकाल एप कैंकर्यहेतोः कृपया- (३६०) प्रपन्नामृते- गतोत्र ॥ तूष्णीं स्थिता चेत्सफलं हि वित्तं स्वातंत्र्यतस्तद्विफलं ममेदम् ॥ २४ ॥ एवं सम्यग्विशोध्यार्य्यः परकालस्ततोऽनघ ॥ तदीयाराधनपरस्तस्थौ श्रीकमलापुरे ॥२५॥ ततः कदाचिद्वेदांतिन बिल्लारण्ये चतुष्कविः ॥ स पांथागमनाकांक्षी रुद्धमागों व्यतिष्ठत ॥ २६ ॥ नालक्ष्यत जनः कश्चित्तदा यामत्रयावधि ॥ प्रव्याकुलांतः- करणस्तेनासीत्कलिजित्तदा॥२७॥ वृक्षाग्रारोहणं वीक्ष्य शिष्यं वाक्य- मथाब्रवीत् ॥ कश्चिजनोस्मिन्दिवसे पथि नैवागतः किल ॥२८॥ अद्य यामत्रयं जातं वैष्णवाः क्षुधयान्विताः ॥ वृक्षारशाखामारुह्य- विलोकय दिशो दश॥२९॥ अंगीकृत्य वचस्तस्य सतदेवाकरोत्तदा।। तदा सर्वेश्वरः श्रीमान् भगवान रंगनायकः ॥३०॥ कृपयाचिंतय- च्छीघ्र भक्तानुग्रहहेतवे ॥ करोत्याराधनं सम्यग्वैष्णवानां निरंतरम् ॥ ॥३॥परकालोऽनया वृत्त्या महाविश्वासपूर्वकम् ॥ एप एवात्र चरमपु- रुपार्थो ह्यनुत्तमः ॥३२॥ एतत्पुण्यफलं प्राप्यं हेतुनाद्य मया महान । तस्मात्संरक्षितव्योयं परकालो विशेषतः॥३३॥इति संचिन्त्य मनसा वेदांतिन् रंगराद् तदा ॥ सम्यग्गृह्णाति वै चोरो यद्वेपेण समागतम् ॥३४॥ यद्धनं प्राप्य नान्यत्र कदाचिदपि वांछति ॥ धनेन तेन वेपे- ण तूर्णं तत्राजगाम सः ॥ ३५॥ साक्षान्नारायणो देवः कृत्वा मर्त्य- मयीं तनुम् ॥ मनानुदरते लोकान् कारुण्याच्छास्त्रपाणिना ॥ ३६॥ इत्युक्तेन प्रकारेण वेदांतिन् रंगराट् तदा ॥ कृपया ब्राह्मणो भूत्वा कृ- तोद्वाह इव श्रिया ॥ ३७॥ विराजमानः सर्वांगभूपितोऽखिलभूपणैः।। लक्ष्मीसमेतो बहुभिर्धनैश्च सह संयुतः ॥ ३८ ॥ अनेकाभरणैर्वस्त्रै- मित्रः परिजनैस्तदा॥ शिविकायां समारोप्य लक्ष्मी श्रीरंगनायिकीम ॥ ३९ ॥ तुरंगवरमारुह्य स स्वयं रनभूपितम् ॥ आदरादाययौ शीघ्र परकालांतिकं तदा ॥४०॥ वृक्षाग्रस्थः समालोक्य सं दिशो दश मत्वरम् । अट्टहासं विधायोः परकालमथात्रवीत् ॥११॥ भो भो- अध्यायः ९९. (३६३) व्याहतसंकल्प सन्नद्धो भव सत्वरम् ॥ मार्गरोधं भटैः सार्दै विधायायु- धपाणिभिः॥४२॥ कश्चिद्विजः कृतोदाहः सभार्यः संपदान्वितः ॥ महत्याशु समायाति शिबिकाश्वसमन्वितः ॥४३॥ अद्य प्रतीचीदि- ग्भागात्साक्षादंगेश्वरो यथा ।। तस्य तद्वचनं श्रुत्वा संतुष्टःस चतुष्क विः॥४४॥ तस्थौ गृहीतसन्नाहः सायुधः सपरिच्छदः॥ ततो वि- लोक्य संतुष्टो रंगेशं द्विजरूपिणम् ॥ ४५ ॥ निरुध्य स्वभटैः सार्द्ध • धनान्याहत्य सत्वरम् ॥ तस्य सर्वाणि सहसा भूपणान्यंबराणि च ॥४६॥ पादांगुलीयमानं तु तस्य संशेषितं तदा । तस्या ग्रहीतुं तबाशु सपादांगुलिमग्रहीत् ॥ १७॥ यत्नेन महता चापि ग्रहीतुं नाशकत्तदा ॥ दन्तैरुत्पाट्य सहसा तद्हीतुं मनो दधौ ॥४८॥ द्वि- जरूपधरो रंगी समुद्रीक्ष्य वचोऽब्रवीत् ।। ममैतद्धनसर्वस्वं हतं सम्यक् त्वया किल ॥४९॥ पादांगुलीयमानं मे न चैतत्कि विसृज्यते । तस्य तद्वचनं श्रुत्वा कलिजित्तमथाब्रवीत् ॥५०॥ तत्तेविसृष्टमात्रेण तस्मा- कि ते प्रयोजनम्॥वैष्णवार्थ हि किन स्याद्भुक्तिपात्रार्थमेव तत्॥५॥ एकस्य दिवसस्यापि तत्कथं हि विसृज्यताम् ॥ इत्युक्त्वा दशनैः शीघ्र तज्जहांगुलीयकम् ॥ ग्रहीतुं परकालस्तन्न समर्थोऽभवत्तदा ॥५२॥ तमालोक्याथ रंगेशः सस्मितं वाक्यमब्रवीत् ॥ कलिहन किं भवान वत्स तदीयाराधनाप्रियः ॥५३॥ कलिजिन्नाम तेनाभून्नीलस्य वि- दितं भुवि ॥ यत्तद्धनमिदं सर्व तच्छैलमिव चास्थितम् ॥ ५४ ॥ समर्था नाभवन्सर्वे भटाश्चालयितुं ततः ॥ स चेतत्कलिजिदीक्ष्य कोपसंरक्तलोचनः ॥ ५५॥ खड्नेन भीपयन् विप्ररूपिणं तमथात्र- वीत् ।। मंत्रवादस्त्वया विप्र कृतः सम्यङ् ममाहितः ॥५६॥ संप्रत्य- सांप्रतं ह्येतत्तन्मंत्रमुपसंहर ।। स तद्वचनमाकर्ण्य रंगेशस्तमथाब्रवीत ॥१७॥ तन्मत्रं तव वक्ष्यामि विनीतः शृणु सांप्रतम् । तथेति प्रतिगृह्याशु तदा रंगेश्वरांतिकम् ॥ ५८ ॥ दत्तकणों विनीतात्मा (३६२) प्रपन्नामृते- प्रांजलिः पुरतः स्थितः ॥ स तदा दक्षिणे कर्णे रंगशः कृपया हॉरः ॥२९॥ वेदांतिन् परकालस्य तन्मंत्रं प्रददौ रहः ॥ ऋचो यजूंपि सामानि तथैवाथर्वणानि च ॥ ६० ॥ सर्वमष्टाक्षरांतःस्थं यच्चा- न्यदपि वाड्मयम् ॥ सर्ववेदांतसारार्थः संसारार्णवतारकः॥६॥ गतिरष्टाक्षरो नृणामपुनर्भवकांक्षिणाम् ॥ ऐहलौकिकमैश्वर्य स्वर्गाचं पारलौकिकम् ॥ ६२॥ कैवल्यं भगवंतं च मंत्रोयं साधयिष्यति ।। मंत्राणां परमो मंत्रो गुह्यानां गुह्यमुत्तमम् ॥६३॥ पवित्रं च पवि- त्राणां मूलमंत्रं सनातनम् ॥ एतादृशप्रभावेण सहितं मंत्रमुत्तमम ॥६४ ॥ अष्टाक्षरं चोपदिश्य तन्मंत्रप्रतिपादितम् ॥ यदिव्यात्म- स्वरूपं च हरिस्तस्मै न्यवेदयत् ॥६५॥ लक्ष्म्या सह हपीकेशो देव्या कारुण्यरूपया ॥ सुपर्णपृष्ट प्रबभौ श्यामः पीतांबरो हरिः ॥६६॥ कांचनस्य गिरेः शृंगे सतडित्तोयदो यथा ॥ एवं हि भग- वान् रंगनायकः कृपया तदा ॥६७॥ प्रत्यक्षमगमत्तस्य परकाल- स्य सादरम् ॥ तदा भगवतस्तस्य दिव्यमंगलविग्रहम्।।६८॥ अनुभू- यानुभूयाथ सम्यक् साक्षात्कृतं मुहुः।तत्स्वरूपगुणांश्चैव तद्रिभूत्यादि- कांश्च तान ॥६९ ॥ लक्ष्मीपुरुपकारेण ज्ञानेनस चतुष्कविः॥आनं- दार्णवनिर्मनः स वभूव हरिप्रियः ॥ ७० ॥ ब्रह्मानुभवसंजातप्रेमातिश- यसंपदः॥न ममुस्तत्र वेदांतिन् परकालतनौ तदा।।७१॥ परकालगिरे- रर्थजलौघाः पड्विधा भुवि । निर्ययुः प्राणिसस्यानि प्लावयंतोनिशं स्थिताः॥७२॥ पुरा चतुणी वेदानामर्थमुद्धृत्य चोत्तमम् ॥ शठारि- लोकरक्षार्थ प्रबंधांश्चतुरः क्रमात् ।। ७३ ॥ कृत्वा द्राविडरूपेण जग- त्सर्वमपालयत् ॥ वेदांगानां तथा पण्णामर्थमुद्धृत्य चोत्तमम् ।। ७४॥ पट् प्रबंधास्ततः कृत्वा जगत्सर्वमपालयत्॥ आशु चित्रं च मधुरं वि- स्तरं च चतुर्विधम् ॥७९॥ कवनं क्रियते येन स चतुप्कविरीरितः ।। दिव्यप्रबंधाः पट् तत्र गाथाः श्रीकलिजित्कृताः ॥७६॥ त्रिशतं . अध्यायः ९९. (३६३) चैकसाहस्रमेकपष्टिः प्रकीर्तिताः।वेदांतिस्तत्र गाथानां शतकेनाभिसं- स्तुतः ७७ ॥ रंगेशो भगवान्साक्षात्परकालेन चानघ । परकालस्य संतुष्टः स्तोत्रणानेन रंगराट् ।। ७८ ॥ आलोक्य शीतलहशा भगवा- न्कलिवैरिणम् ।। व्याजहार शुभं वाक्यं मंदस्मितमुखो हरिः ॥७९ ।। परितुष्टोस्मि भद्रं ते स्तोत्रेणानेन वालक ॥ त्वया मदीयकैंकर्य तत्सं- म्यग् बहुशः कृतम् ॥ ८० ॥ सांप्रतं तेन सुप्रीतः प्रसन्नोभवमंजसा ।। वरं वरय भद्रं ते वरदोहं समागतः ॥ ८१॥ कलिहन संप्रयच्छामि सर्वाभीष्टानि सांप्रतम् ॥ रंगेशस्य वचः श्रुत्वा संतुष्टः कलिजित्तदा ॥ ॥८२॥प्रांजलिः प्रणतो भूत्वा व्याजहार वचः शुभम् ॥ दर्शनादेव भ- वतः कृतार्थोहं न संशयः ॥ ८३ ॥ वांछितव्यो वरः को मे त्वदास- स्याच विद्यते । तथापि मे वरं देहि भक्ताय करुणार्णव ।। ८४ ॥ वि- ल्वारण्ये तथा चात्र परिरंभपुरे वरे ॥ सान्निध्यं कुरु देवेश भक्तानां वरदः सदा ॥ ८५॥ सर्वाभीष्टप्रदो यस्मादेष मेस्तु वरः परः॥ अंगी- कृत्य वचस्तस्य रंगेशो भक्तवत्सलः ॥ ८६ ॥ भक्तसंरक्षणेद्यापि त- त्रैव परिदृश्यते । तदाप्रभृति वेदांतिन् हरिणांगीकृतं भुवि ।। ८७ ।। परकालकृतं ह्येतद्धनापहरणं भुवि ।। सर्वस्थलेषु सर्वत्र चोत्सवेष्वश्व- वाहने ॥ ८८ ॥ अतः सर्वेश्वरः सर्वस्थलेषु च महोत्सवे ।। तुरं- गवाहदिवसे कृपया भक्तवत्सलः ॥ ८९ ॥ सर्वस्वदानमवापि करोति कलिवैरिणे ॥ एतच्चोरोत्सवं चित्रं ये सेवंते नरोत्तमाः॥९० ॥ तेपां रंगेश्वरः शीघ्रं सुप्रसन्नो भविष्यति ॥ अर्थ रंगेश्वरः श्रीमान् परकालं वचोचवीत ॥९१॥ श्रीरंगे मम कैकय विधेहि कलिहन परम् ॥ प्राकारगोपुरे धान्यनिलयं च महानसम् ॥ ९२ ॥ युष्म- त्मियतमं वत्स तत्सर्वं यद्यदेव तत् ॥ परकालोथ रंगेशदिव्याज्ञा शिरसा वहन ॥ ९३॥ संतुष्टः संपरिक्रम्य प्रांजलिः पुरतः स्थितः ।। आयाहि रंगमित्युक्त्वा कलिघ्नं करुणाकरः ॥ ९४ ॥ तत्रैवांतर्दधे .

(३६४) प्रपन्नामृते- श्रीमान् वेदांतिन् रंगराट् तदा ॥ परकालस्ततो धीमान् स शिष्यैः सहितस्तदा ॥ ९५ ॥ कमलानगरं प्राप्य सम्यगाराध्य वैष्णवान् ॥ देव्यै कुमुदवल्ल्यै च वृत्तांतं च निवेद्य तत् ॥ ९६॥ तयानुज्ञापितः श्रीमान् वेदांतिन्स चतुष्कविः ॥ श्रीरंगेशस्य कैंकर्य कर्तुकामो महायशाः ॥ प्रतस्थे रंगनगरं स्वजनैः सह सादरम् ॥ ९७ ॥ श्रीरंग- मासाद्य फणींद्रतल्पे शयानमाद्यं रघुवंशनाथम् ॥ रंगेश्वरं तं परभक्ति- युक्तो प्रणम्य लेभे परमं प्रहर्पम् ॥ ९८॥ दृष्ट्वा भक्तवरोथ सुंदरवरं देवं च रंगेश्वरं नत्वा मोदमवाप्य भक्तिसहितस्तीर्थप्रसादादिकान् ।। स्वीकृत्याशुतरं सुनम्रशिरसा ताभ्यामनुज्ञापितस्तकर्यविधौ दुधार हृदये चिंता परां धीवरः॥ ९९ ॥ इति श्रीप्रपन्नामृते भट्टार्य- वेदांतिसंवादे परकालस्य रंगेश्वरप्रत्यक्षदर्शनं नामैकोनशततमोऽ- ध्यायः ॥ ९९॥ शततमोऽध्यायः। रंगं समालोक्य बुधांतरंगं भक्त्या प्रहृष्टः सचतुष्कवींद्रः ॥ सर्व हि कैंकर्यमुदारकीर्तिर्विधातुमैच्छद्विविधप्रकारैः॥ १ ॥ रहःप्रदेश समुपेत्य सर्वाञ्छिष्यान समादाय चतुष्कवींद्रः ॥ रंगेशकैंकर्यरतक- चित्तो जगाद वाक्यं स तदाप्तवर्गान् ॥२॥ अमात्या भो महात्मानः शुभं शृणुत मे वचः॥श्रीरंगराजकैकर्म्य कर्तव्यं महदद्य नः ॥३॥ व्यसंपादने यत्नः सावधानविधीयताम् ।। प्रगृह्य परकालस्य वचनं वैष्णवोत्तमाः॥४॥ उचुः प्रहृष्टा वेदांतिन्नमात्यास्तं महौजसम्।।उपायं संप्रवक्ष्यामः श्रूयतां भगवत्पराः॥६॥ हैरण्यबौद्धप्रतिमा विद्यते नाग- पत्तने ॥ काचिन्महति सा लब्धा यद्यस्माकं हि सांप्रतम् ॥६॥ श्रीरंगराजफैंकय्ये चिंता काचिन्न विद्यते ॥ गतो यदि भवांस्तत्र त्वदधीना भविष्यति ॥ ७॥ सा वौद्धप्रतिमा शीघ्र स्वामिस्तत्र न संशयः ॥ मंत्रिवाक्यं तदाकर्ण्य संतुएः स चतुष्कविः ॥ ८॥ प्रति- अध्यायः१००. (३६५) माहरणार्थाय प्रतस्थे नागपत्तनम् ॥ स नागपत्तनं प्राप्य सौंदरारण्य- नायकम् ॥ ९॥ नत्वा सुन्दरराजाख्यं सारपुष्करिणीतटे ॥ तेनानु- ज्ञापितो धीमान् ययौ बौद्धालयं प्रति ॥ १० ॥अतिस्निग्धं महोत्तुंग महागोपुरसंयुतम् ॥ कुत्राप्यलक्षितद्वारं वीक्ष्य बौद्धालयं महान् ॥ ॥११॥ सम्यगेतत्समालोच्य प्रतिमाहरणोद्यतः ॥ न वेद ग्रहणोपायं कथंचिदपि यत्नतः ॥ १२॥ तवत्यैः पुरुपैख़त्वा तन्निर्मातृकशि- ल्पिनः ॥ पाणनामकं द्वीपं नावमारुह्य तं ययौ ॥ १३॥ स तद्दीपं समासाद्य सानुगो वणिगिंद्रवत् ॥ परकालोथ वेदांतिछिल्पिना निपुणो महान् ॥ १४॥ बौद्धालयकृता तेन सख्यं चके महत्तरम् ॥ सजिनान वशीकृत्य गिरा मधुरया तदा ॥ १५ ॥ बहिश्चरमाण- समस्ल आसीत्कंसस्य चाकूर इवांतरंगः ॥ कार्यार्थमेतत्कालीजच शिल्पिवरस्य तस्यात्र तदा महात्मा ॥ १६॥ एवं स शिल्पिना तेन परकालो महामतिः ॥ सख्यं कृत्वाथ वेदान्तिन कञ्चित्कालमवर्तत ॥ १७॥ ततः कदाचिद्विविधाः कथाः श्रोत्रसुखावहाः । उक्का स शिल्पिनं सम्यग्रंजयित्वा मुहुर्मुहुः॥१८॥तन्मध्ये निपुणं वाक्यमब्रवी- च्छिल्पिनं प्रति ॥ तक्षार्य भोः सुखं चैव किमप्यद्भुतवत्तरम् ॥ १९॥ वचनं न किमु प्राप्तं भवतः श्रोत्रवर्त्मनि ॥ सखे बौद्धालयः श्रीमान यो महानागपत्तने ॥२०॥ महोन्नतो महाचित्रो विद्यते किल सांप्र- तम् ॥ न मानुपकृतो टेप साक्षादेवेन निर्मितः॥२१॥ तदमानुपकर्मैव भूम्यामन्यादृशं किल ॥ महत्तच्छिल्पिनैपुण्यं वर्णितुं केन शक्यते ॥ २२॥ आसीद्रौद्धालये काचिद्धिरण्यप्रतिमा शुभा॥ केनाप्य- ज्ञातवृत्तेन प्रतिमा सा हिरण्मयी ॥२३॥ केनचित्सावधानेन चोरे- णापता बत॥ परकालोनुतापं च तमित्युक्त्वा ययौ तदा ॥ २४ ॥ निशम्य तद्वचस्तस्य स तदालयकृत्तदा।। स्वरेण किंकिमित्युच्चैः प्रवद- न्सहसोत्थितः ॥ २५॥ कोपेन महता युक्तो दंडाहत इवोरगः ॥

(३६६) प्रपन्नामृते- परकालं समालोक्य तक्षा वाचमथाब्रवीत् ॥ २६॥ परकाल महा- भाग किमुक्तं भवता बत ॥ भूयस्तद्रूहि विशदं यद्विचित्रमनुत्तमम ॥२७॥ एतच्चित्रमिवाभाति प्रतिमाहरणं मम ॥ परकालोऽथ नि- पुणस्तस्य वाक्यं निशम्य तत् ॥ २८ ॥ चातुर्येणैव चतुरस्तस्मै यत्तन्यवेदयत् ॥ प्रतिमाहरणं श्रुत्वा दुःखितो विस्मितश्च सः॥२९॥ रोपेण दीर्घनिःश्वास कुर्वन्वाचमुवाच ह ॥ मर्म नैव महता शृंग- मुत्पाटितं बत ॥ ३० ॥ रंभाबाहुल्यदेशोयं यतस्तेनैव सा हृता ॥ परकालस्तदाकर्ण्य वेदांतिन् निपुणो महान् ॥ ३१ ॥ शिल्पिनं स्ववशीकृत्य परिपप्रच्छ तच्छनैः ॥ ३२ ॥ तथ्यं मत्वा तदा तक्षा प्रतिमाहरणं ततः ॥ तन्निर्माणप्रकारं च तस्मै सम्यङ् न्यवेदयत ॥ ३३॥ सव्यापसव्यचक्राभ्यां शिखरं तत्समन्वितम् ॥ रंभास्त- भेन संरुध्य तच्चक्रभ्रमणं शनैः ॥ ३४ ॥ उद्धर्तव्यं च यत्नेन महता शिखरं महत् ॥ तत्सर्वमाबिलद्वारं शिखरं शिल्पिनस्तदा ॥३५ ।। ज्ञात्वा प्रष्टः स तदा करस्थां ताममन्यत ॥ बौद्धदोपेण सा नश प्रतिमा तव किं ततः ॥ ३६॥ सखे त्वत्सदृशः शिल्पी भूम्यामिह न विद्यते ॥ इत्येवं बहुशः सम्यकू श्लाघयित्वा पुनः पुनः ॥ ३७ ॥ तेनानुज्ञापितो धीमान् प्रपेदे स्वनिकेतनम् ॥ अथ राज्यां व्यती- तायां सानुगः स चतुष्कविः ॥ ३८ ॥ वेपाणनामकद्धीपानिर्ययौ नागपत्तनम् ॥ तदा प्रतस्थे क्रमुकवणिगत्यंतवित्तवान् ॥ ३९ ॥ कश्चिदादाय संपूर्णक्रमुकानांगपत्तनम् ॥ सख्यं कृत्वा तेन सादै व णिजा स चतुष्कविः ॥ ४०॥ आरुरोहाशु तनावं वेदांतिन्सा- नुगस्तदा ॥ कथाभिरभिरामाभिश्चातुर्यवचनैस्तथा ॥११॥ तदा सों जनस्तेन क्षणेनेव वशीकृतः ॥ परकालस्ततो धीमांश्चतुरो- चितयत्तदा।। ४२ ॥ अयं च नौवणिक्छ्रेष्ठो धनात्यो मत्सखोऽधुना। रक्षितव्यः प्रयत्नेन मत्कर्मनिरतः सदा ॥४३॥ श्रीरङ्गेश्वरकैंकर्ये अध्यायः १००. (३६७) प्राप्तमेतद्धनं यदि ॥ कृतार्थोऽसौ तरीवैश्यो भविष्यति न संश- यः ॥ ४४ ॥ इत्यालोच्य स वेदांतिन्नेक क्रमुकमंजसा ॥ आदाय द्विदलं कृत्वा तत्राईक्रमुकं तदा ॥ ४५ ॥ दर्शयित्वाथ सर्वान्स वणिजश्चैव सादरम् ॥ मयाईक्रमको नावि नि क्षिप्तो भोः सखेधुना ॥४६॥ इत्यर्दै क्रमुकं तत्र चतुरः क्षिप्तवास्तदा ॥ ततस्तं तु तरीवैश्यं नीलो वाचमुवाच सः॥४७॥मयाईक्रमुको नावि नि शिप्तः किल सांप्रतम्॥प्राप्स्यतीयं यदा नौका शुभात्तीरं सुपुष्कलम् ॥४८॥ नावोऽर्द्धक्रमुकं शीघ्रं तदा दास्यामि निश्चयम् ॥ इत्यद्य पत्रिका शीघ्रं लिखित्वा देहि भोः सखे ॥ १९ ॥ तच्छ्रुत्वा स वणिक् प्राह परकालं शुचिस्मितः॥ किमर्थं पत्रिकालेखस्तीरमेष्यति नौर्यदा॥ यावन्मात्रा- भिलापस्तेतावन्मानं प्रगृह्यताम् ॥५०॥ द्वित्राणि क्रमुकाणां तु सह- स्राण्ययुतानि हि ॥५१॥ वेदांतिन्परकालेन बहुशः प्रार्थितोऽभवत॥ तद्वाक्यामृतपानेन मत्तो मंदविचारणः॥ १२ ॥स सम्यग्लेखयि- त्वाथ पवारूढां सुपत्रिकाम् ॥ सर्वेषां पश्यतां तत्र प्रददौ कलिवैरिणे ॥ ५३ ॥ आससादाथ नौः शीघ्रं नागपत्तनरोधसि ॥ व्यवहारेण जित्वा तं वणिज स चतुष्कविः ॥ २४ ॥ नावोऽईक्रमकान्सम्य- गादाय भगवत्परः ।। तान्वणिजेथ विक्रीय कैंकर्यार्थ स रंगिणः ।। ॥५५॥ प्रतिमाहरणार्थाय प्रयतोभूत्तदानव ॥ ततो निशीथसमये स्वांतरंगभटैर्युतः॥५६॥स तत्साधनसामग्रीसहितः सत्वरं वशी॥ उपरिष्टात्समारुह्य तदा बौद्धालयस्य वै ॥५७॥ उन्मूल्य तच्च शिखरं सुकरोपायतो वशी। अपश्यदंतःप्रतिमा परकालो हिरण्मयीम्।।५८॥ अखंडदीपमध्यस्थां मंत्रमूर्तिमिवापराम् ॥ दृष्ट्वा प्रहृष्टः स तदा ग्रहणे कृतनिश्चयः ।।१९।। प्रतिमाहरणार्थाय गाथामेकांजगाद सः॥ गाथार्थ संप्रवक्ष्यामि श्रूयतां श्लोकरूपतः॥६०॥ एपा कर्तुमलं हि भूरिशि- लया कांस्येन वै दारुणा ताम्रेण पुणाथ वा च रजसा रौप्येण सा (३६८) प्रपन्नामृते- स्यान्न किम् ।। बौद्धार्चाल्पतमेयमस्य महतः स्वर्णस्य योग्या कथं बौदैर्व्यर्थतमा हिरण्मयकृता हा हंत मूढात्माभिः ॥ ६१ ॥ सा समाकर्ण्य वेदांतिन् गाथां तां कलिजित्कृताम् ॥ अतिभीतिसमा- युक्ता चकंपे बौद्धदेवता ॥ ६२ ॥ परकालः स तां दृष्ट्वा देवतां भयमोहिताम् ॥ पत्नीसहोदरं धीरं परकालाभिषं तदा ॥ ६३ ॥ प्रतिमाहरणार्थाय चोदयामास सत्वरम् ॥ अतः संचोदितस्तेन विवेशांतः स सत्वरम् ॥ ६४ ॥ ग्रहीतुकामः प्रतिमां तदंति- कमुपागतः ॥तस्याः संपूर्णशक्तित्वात्सा बौद्धप्रतिमानघ ॥ ६५ ।। न तस्य परकालस्य ग्रहणं समुपागमत् ॥ स खिन्नहृदयस्तेन चतु- कविमभापत ॥ ६६ ॥ परिभ्रमति कोणेषु चतुर्वपि समंततः ॥ कथंचिदपि यत्नेन न चैपा मदशं गता ॥ ६७॥ किं करिष्यामि भोः स्वामिन्यत्नः कश्चिद्विचार्य्यताम् ॥ तस्य तद्वचनं श्रुत्वा चतु- ष्कविरभापत ॥ ६८॥ मूर्तिभंगाय तस्यास्त्वं मुखे मूत्रं समु- सृज ॥ अंगीकृत्य तथैवाशु तत्कृत्वा तां प्रगृह्य सः ॥ ६९ ॥ प्रहएः परकालाय प्रददौ प्रतिमां तदा ॥ तल्लब्धामोदतस्तस्य देहः स्थूलीकृतो महान् ॥ ७० ॥ न समर्थः स निर्यातुं तत्सूक्ष्मद्वारतो- नघ । वेदांतिस्तच्छिरोमानं तद्यारादहिरागतम् ॥ ७१ ॥ कायो नवागतस्तस्य कथंचिदपि यत्नतः ॥ परकालस्ततो धीरो नीलं वाचमुवाच सः॥७२॥ स्वामिन्नमोघसंकल्प चतुष्कविशिखामणे॥ विलंब च विसृज्याय मद्वाक्यं शृणु सादरम् ॥ ७३ ॥ यत्नेन महता चैव संलब्धा प्रतिमाधुना ॥ तेन संजातहण देहः स्थूली- कृतो महान् ॥ ७४ ।। सूक्ष्मं तु शिखरद्वारमतवनतरं महत् ॥ निवद्धं सांप्रतं तस्मादसमर्थोंभवं ततः ॥ ७५ ॥ रात्री यामवयं जातं कालोयं सुगमः किल ॥ कैंकर्यविघ्नो न भवेद्यथैवाशु तथा कुरु ॥ ७६ ॥ आचार्यपादपद्माभ्यां वः शपेनोत्तरंवद ॥ स तदेवाशु ..

अध्यायः १००. (३६९) वेदांतिन्परकालो विधाय च ॥ ७७ ॥ तच्छिर प्रतिमां सम्यकू संगृह्यात्यंतगूढतः । बौद्धालयाद्विनिर्गत्य तस्मात्सानुचरस्तदा।।७८।। अगमद्रात्रिशेपेण तेन कृष्णपुटीपुरम् ॥ जानुप्रमाणगंभीरतोयपंक- विशोभिते ॥ ७९ ॥ कस्मिंश्चित्कर्षकक्षेत्रे निक्षिप्य प्रतिमां तदा ॥ सानुगः परकालोथ निपसाद तदंतिके ॥ ८० ॥ तितिणीवृक्षमा- लोक्य तत्समीपगमब्रवीत् ॥ निद्राविरहितः सम्यक् त्वमेतां परिपालय ॥ ८१ ॥ प्रतिमारक्षणे वृक्षं तनिवेद्य दृढव्रतः ॥ विश्रमार्थ तदा तब सुप्वाप विगतज्वरः ॥ ८२ ॥ ततः प्रभातसमये स तत्क्षेत्रा- धिपस्तदा ॥ अंकुराहरणार्थीय तत्रैवाशु समागतः ॥ ८३॥ तदुद्यम तदालोक्य सहसा स परांतकः ॥ शप्त्वा नृपतिना साई वारयामास कर्पकम् ॥ ८४ ॥ ततस्तयोर्महानासीत्कलह क्षेत्रकारणात् ।। आकृष्य कर्पकं नीलो विवेश ग्राममअसा ॥ ८५ ॥ व्यवहारं तयोा- त्वा यत्तद्वामाधिकारिणः ॥ परकालं विलोक्याशु विस्मितास्तमथा- ब्रुवन् ।। ८६॥ परकालाद्य तत्क्षेत्रं भवतः कथमागतम् ॥त्रीण्येव व्यवहारस्य साधनानि गजबये ।। ८७ ॥ भुक्तिः साक्षी च लिखितं व्यवहारः स तैर्जितः ॥ भुक्तिनास्त्यद्य भवतो जानीमस्त्वां दृढं वयम् ॥८८॥ तथैव साक्षी नास्त्यद्य तस्माल्लिखितमानय ॥ एवमुक्तोथ मध्यस्थैः परकालोऽत्रवीत्स तान् ॥ ८९ ॥ पित्रा दामोदरेणैवमिदानी- मनुभूयते ॥ तस्मात्क्षेत्रं ममैवेदं सत्यं वच्मि न संशयः ॥ ९०॥ एवं- विध विधायाशु प्रेमाणं भगवत्परः ॥ तत्क्षेत्रं स्ववशीकृत्य मुमोद विगतज्वरः ॥ ९१ ॥ यतः कैंकर्यविनाय ग्रामस्था मामपीडयन् ।। अतोत्र व्यवहारस्य जयो न स्यात्कदाचन ॥ ९२ ॥ एवं शप्त्वाथ कोपेन सहसा स परांतकः ॥ दामोदरस्य सेवार्थ चकार मतिमान मतिम् ॥ ९३॥ तदाप्रभृति वेदांतिस्तत्र कृष्णकुटीपुरे ॥ व्यवहारज- यस्तत्र तेनाद्यापि न दृश्यते ॥ ९४ ॥ स्नात्वा श्रवणतीर्थेथ चोर्द्धपुं- २४ (३७०) प्रपन्नामृते- ड्रधरस्तथा ॥ गृह्णन् बकुलपुष्पाणि वाचं बकुलमब्रवीत् ॥ ९५ ॥ शलाटुरहितोनित्यं पुष्पाण्येवात्र धारय॥मदाज्ञयैव बकुलभूज कृष्ण- कुटीपुरे ॥ ९६॥ तदाप्रभृति वेदातिन् स तत्र बकुलद्रुमः ॥ नित्यपु- प्पसमायुक्तो वर्तते फलवर्जितः ॥ ९७ ॥ सूचयन्निवं तत्कीर्ति बकुल: परिदृश्यते ॥ स तैः पुष्पैः समाराध्य तदा दामोदरं हरिम् ।। ९८॥ कृतकृत्यो महातेजाः परकालो मुमोद ह ॥ निर्गत्य तस्मादेदांतिन स्थ्यामभ्येत्य सत्वरम् ।। ९९ ॥ तत्रत्यान्वैष्णवान् सर्वान्नीलो जलम- याचत ॥ पिपासया परिश्रांतो बहुवार परांतकः ॥ १०॥ तत्रस्थः कोपि पानीयं न ददौ कलिवैरिणे ॥ अकारणविवादोयमिति भीत्या बुधर्पभ ॥ १०१ ॥ स तदादत्तदोषेण परकालः शशाप तम् ।। ग्रामेस्मिन्सर्वथा कूपा भवेयुजलवर्जिताः ॥ १०२॥ आपातालं खनित्वापि जलं न द्रक्ष्यते ततः। तत्र कृष्णकुटीराख्ये नगरेऽद्यापि सत्तम ॥ १०३॥ आसायं परकालोथ तत्र स्थित्वा सहानुगैः॥ प्रतिमां तां समादाय प्रतस्थे निशि वैरहः ॥ १०४॥ दामोदर- स्तु भगवाञ्छीकृष्णनगरधिपः ॥ गच्छतः परकालस्य पश्चादनु- ययौ तदा ॥ १०५ ॥ परकालस्तमालोक्य जगाद वचनं तदा ॥ को भवानागतः कस्मात्कुत्र गच्छति सांप्रतम् ॥ १०६॥ मत्पृष्ठतः समायासि किमर्थ वद तत्त्वतः ॥ परकाले वदत्येवं तदा दामोद- रोऽत्रवीत् ॥ १०७॥ मार्गसंप्रेपणार्थाय भवतो निशि गच्छतः ॥ आदरादागतो नील सोहं नगरपालकः ॥ १०८॥ प्रहस्य तद्वचः श्रुत्वा परकालस्ततोत्रवीत् ॥ अलमेतदयाधिक्यं गच्छ स्वनगरं जवात् ॥ १०९।। चोरेभ्यो निशि रक्षस्व प्रत्यहं दंडधारक ॥ मम युप्मद्दयामात्रमलं भोः साधु गम्यताम् ॥ ११० ॥ ततः क्षणांतरे देनः पूर्ववत्प्रत्यदृश्यत ॥ तेनेवमुक्तस्तं प्राह परकालं हरिस्तद ॥ १११ ॥ त्वया तत्सीमापर्यतमागमिष्याम्यहं ध्वम् ॥ तव संप्रे

.
अध्यायः १००.
(३७१)
पणार्थाय दयया निशि गच्छतः ॥ ११२॥ न चक्षुर्विपयं प्राप मा-
गच्छेत्यभिभापितः॥ पथि दामोदरस्तेन परकालेन सत्तम ॥११३॥
प्रस्थापितोपि तेनैवं द्विवार कलिवैरिणा ॥ दामोदरस्तु सहसा पूर्व-
वत्समदृश्यत ।। ११४ ॥स पृष्टतः समायांतं कालांदनिभाकृतिम्।।
आज्ञातिलंधिनं धीरं स तमेकाकिनं निशि ॥ ११५ ॥ विलोक्य
शंकितचितां परकालोऽगमत्तदा ॥ सत्यं वदंति मामेव चोर इत्यखि-
ला जनाः ॥ ११६ ॥ मत्तोधिकोऽयमधुना कश्चिचोरो महानभूत् ।।
तिमेस्तिमिगिला यवत्तविलस्य च तद्गिलः ॥ ११७॥यत्नेन भूयसा
मेद्य लब्धैपा प्रतिमा किल ॥ वंचयत्याशु मामेप प्रतिमा हर्तुमागतः
॥ ११८ ॥ इदानी लक्षितश्चैकस्तत्तदीयवलं कियत् ॥ मया न
लक्ष्यते तत्र वर्तते गूढचारिणः ॥ ११९ ॥ न सहायं विना रात्रौ एक
एवायमागतः ॥ अतोऽयमधुना शीघं हंतव्यो नात्र संशयः
॥ १२० ॥ एषनिश्चित्य सहसा परकालस्तदानघ । आदाय
च हठात्रीलः करवालं भयंकरम् ॥ १२१ ॥ आकाशे भ्राम-
यन्हंतुं स तस्याभिमुखं ययौ ॥ खड्गहस्तं तमायांतं वीक्ष्य
दामोदरो हरिः ॥ १२२ ॥ शंखचक्रधरः श्रीमान् निश्यदृश्य-
त चंद्रवत् ॥ ततः खड्ग विसृज्योा प्रणम्याशु परांतकः ॥१२३॥
कृतांजलिपुटो भूत्वा तुष्टाव जगदीश्वरम् ।। स्तुत्वाथ दशगाथामिरिंदं
वचनमब्रवीत् ॥ १२४ ॥ दामोदर पीकेश नमस्ते भक्तवत्सल ॥ भ-
वतोऽत्रैव कैंकर्य करिष्येहं न संशयः ॥१२५॥ को विशेपोत्र रंगेश-
केंकर्येण ममाधुना ॥ दामोदरो निशम्यैवं परकालवचः शुभम् ॥
॥१२६॥मंदस्मित मुखः श्रीमानिदं वचनमब्रवीत्।।परकाल सुखंवत्स
रंगक्षेत्रं बजाधुना ।।१२७॥ तत्रैव कुरु कैंकर्य रंगेशस्य यथासुखम् ।।
न प्रत्यूहस्तु भवतः कदाचिदपि विद्यते ॥१२८॥ तमेवमुक्त्वा भगवां.
स्तत्रैवांतर्दधे हरिः ।। प्रहष्टः परकालोथ तेनानुज्ञापितस्तदा ॥१२॥

(३७२) प्रपन्नामृते- श्रीरामनगरं प्राप प्रत्यूपसमये तदा ॥ प्रणम्यापूपरंगेशं शयानं शेषभाोगनि ॥ १३० ॥ तदपूपप्रसादं च भत्त्या सत्कृत्य सत्वरम् ॥ जगाम सहसा रंग संतुष्टः स परांतकः ॥१३१॥ शतशछेदयित्वाशु तो बौद्धप्रतिमां तदा। कनिष्ठिकां विना तत्र सर्व निरवशेपयत् ॥ श्री- रंगेशस्य कैंकय्ये वेदांतिन्स परांतकः ॥ १३२ ॥ इति श्रीप्रपन्नामृते भट्टार्यवेदांतिसंवादे परकालेन बौद्धप्रतिमाहरणं नाम शततमोऽ- ध्यायः॥१०॥ एकोत्तरशततमोऽध्यायः। परं प्रष्टस्तद्वाक्यं श्रुत्वास्मद्यतिरादरात् ॥ भट्टार्य प्रणिपत्यो- भूयः पप्रच्छ तां कथाम् ॥ १॥ बौद्धदेवेप्यपहते रंगिकैंकर्य- हेतवे ॥ ततः क्रोधवशात्क्रुद्धाः किमकुर्वत सौगताः ॥ २ ॥ श्रुत्वा माधवदासस्य वचस्तद्भट्टदेशिकः ॥वेदांतिनेऽखिलां तस्मै कथामक- थयत्तदा ॥३॥ तस्यां राज्यां व्यतीतायामर्चकः सहसोत्थितः॥४॥ कृतनित्यक्रियः सम्यग् बौद्धदेवालयं ययौ ॥ बिलद्वारात्समागत्य सोंतःसोपानवर्त्मना ॥ यत्तच्छिखरमारुह्य तत्कबंधं ददर्श सः ॥५॥ भतिीयं विस्मितस्तेन प्रतिमाभावतस्तदा ॥ दुःखितोखिलबंधुभ्यस्ते- भ्यस्तत्सम्यगत्रवीत् ॥६॥ प्रतिमाहरणं श्रुत्वा सर्वे विस्मितमा- नसाः। बौद्धालयं प्रविश्याशु तत्कबंधं विलोक्य च ॥७॥ विस्मय परमं जग्मुस्तदभावान्महाव्यथाम् ॥ तच्चोरहरणार्थाय निर्ययुदंडधारि- णः ॥ ८॥ समाविष्टास्ततश्चाराश्चतुराः ककुभो दश ॥ प्रतस्थिरे ततः केचित्सौगतेंद्रेण चोदिताः ॥९॥ तदा पश्चिममार्गेण ज्ञातचोरांघयो- नघ । सम्यगन्वेपयंतोत्र सौगतास्तत्रतत्र ते ॥१०॥ निशीथे ह्यग- मन्सर्वे तच्छ्रीकृष्णकुटीपुरम् ॥ स कर्पकः समालोक्य प्रमाणं कलि- जित्कृतम् ॥ ११॥ विस्मितो दुःखितोत्यंत विवेश स्वगृहं तदा ॥ क्षेत्रापहरणाजातींचताव्याकुलितेंद्रियः ॥ १२ ॥ कर्पको निशि शेते- अध्यायः १०१. (३७३) स्म ध्यायन्दामोदरं हरिम्।। स्वप्नं विलोक्य सहसा स्वक्षेत्रपाप्तिकारणंम् ॥ १३॥ संप्रदृष्टोत्थितः प्रातस्तत्क्षेत्रांतिकमागमत् ॥ तदागत्यांजसा तत्र सौगताः कर्पकात्ततः॥१४॥ कलिजित्सर्ववृत्तांतं यत्तत्सम्यङ् नि- शम्य च ॥ बहुभिः कारणैरेतैनिश्चित्य कलिवैरिणम् ॥ १५ ॥बौद्ध- वापहर्तारं सुदृढं कृतसत्वराः॥ तत्पंथानं समाश्रित्य ययुस्तत्पृष्टतो- नध ॥ १६॥ ततः श्रीरंगनगरे तं नीलं वीक्ष्य विस्मिताः । बौद्धाः संजगृहुः सर्वे कोपसंरक्तलोचनाः ॥ १७ ॥ ततोभूत्परकालस्य समरः सौगतस्य च ॥ श्रीरंगपालकस्याग्रे तावुभौ समुपागतौ ॥१८॥ चो- रतापादिता सम्यक् सौगतैः कलिवैरिणि । तयोर्विवादमामूलं सद- स्यास्तन्निशम्य ते ॥१९॥ बौद्धेभ्यः प्रतिमां दातुं विदधुनिश्चयं तदा।। तदंगीकृत्य कलिजित्सदस्यानां वचः शुभम् ॥ २० ॥ दास्याम्यं- गुष्ठमन्यून वत्सरांते न संशयः॥ लिखित्वा पत्रिकामेवं सौगतेभ्यो ददो किल॥२१॥ पत्रिकां तां समादाय ते नागनगरं गताः॥परकालोऽ- थ तत्सर्वं छेदयित्वाशु विग्रहम् ॥ २२॥ श्रीरंगेश्वरबैंकय्ये भत्त्या निरवशेपयत् ॥ अथ संवत्सरे पूर्णे सौगताः पुनरागमन् ॥ २३ ॥ श्रीरंगनगरं सर्वे प्रतिमाहरणोद्यताः ।। कनिष्ठिकांगुलिं वस्त्रैस्तस्याः सं- वोटितां ध्रुवम् ॥ २४ ॥स्थापयामास बौद्धाये सहसा स परांतकः॥ प्रतिमादर्शने प्रेम्णा सहसा सौगतास्तदा ॥ २५ ॥ हृतेषु वस्त्रखंडेषु तस्याः संवेष्टितेष्वलम्॥ कनिष्टिकांगुलिस्तस्याः प्रतिमाया विलोकिता ॥ २६ ॥ कुपिताः सौगतास्तेन परकालमथाब्रुवन् ॥ एका देवांगुलिस्तस्या भवताद्य प्रदर्शिता ॥ २७ ॥ मदीयां प्रतिमा शीघ्रं देहि तेपहतां तदा ॥ तद्रौद्धवचनं · श्रुत्वा परका- लोब्रवीत्तदा ॥२८॥ कनिष्ठिकांगुलेस्तस्या न्यूनता नास्ति वै यथा । तथैवांगुलिमानं वो दास्यामीति मयोदितम् ।। २९ ॥ पत्रिकाक्रमे- णैव दत्ता चैवांगुलिमया ॥ तस्यैव न्यूनता न स्यत्तथाद्याशु विचा- यंताम् ॥ ३० ॥ पत्रिकार्थ तदा बुद्धा सौगता मूढवुद्धयः॥ वृथा (३७४) प्रपन्नामृते- विरोधं विदधुस्तत्साई कलिवैरिणा॥ ३१ ॥रंगाधिकारिणः सर्व तद्विरोधनिवारणे ॥न समर्था भवंति स्म कलिजिद्रौद्धयोस्तदा ॥ ॥ ३२ ॥ न्यायात्कलिजितं जेतुमशक्ताः सौगतास्तदा ॥ यत्नेन भूयसादाय चोलराजांतिकं ययुः ॥३३॥ व्यवहारं तयोर्ज्ञात्वा चोल- भूपस्तदाधिपः ॥ पत्रिकाथै च संप्रेक्ष्य तं नीलं स रहोब्रवीत् ॥३४॥ कलिजित्सर्वधर्मज्ञ मा धर्मविमुखो भव ॥ बौद्धानां भवता धर्मप्रति- मापहृता किल ॥३५॥ न परांतक तत्रार्थे संशयो विद्यते किल । तदा दुर्बुद्धयो बौद्धा जगृहुः पत्रिकामिमाम् ॥ ३६॥ भवंतं व्यवहा" रेण जेतुं शक्तिर्न विद्यते ॥प्रतिमां दयया देहि सौगतेभ्यो हिरण्म- यीम् ॥३७॥ भूपस्य तद्वचः श्रुत्वा परकालस्तमब्रवीत् ।। बौद्धविध्वंस- नं कार्यं भवता पृथिवीपते ॥३८॥ बौद्धा वेदविरुद्धादि धर्मात्त्याज्याः सुदूरतः ॥ अतो हि दंड्यास्ते मूढा राजन्नास्त्यत्र संशयः ॥ ३९ ॥ श्रीरंगेश्वरकैंकर्य्यसात्कृता प्रतिमैव सा ॥ भूयस्त्वापादनीयं मे तदर्थ तन्महदनम् ॥४०॥ तस्माद्विधेहि चोलेंद्र कांदिशीकानिमाञवात् ।। तदंगीकृत्य वचनं परकालस्य संमतम् ॥ ४१ ॥ सौगतांस्तान्समा- हूय भूयस्तत्पत्रिकास्थितम् ॥ अर्थ बुद्धाथ चोलेंद्रः सदस्यैवाक्यम- ब्रवीत् ॥४२॥ धर्म न वच्मि भवतां पत्रिकैव प्रवक्ष्यति ॥ सदस्याः पत्रिकाभावे धर्म वक्ष्यति वै किल ॥४३॥ इत्येवं तद्वचः श्रुत्वा सौगताः क्षीणतेजसः॥ कनिष्ठिकांगुलीमात्रं समादाय ययुस्तदा ॥ ॥४४॥ संतुष्टः परकालोथ स तदा जितसौगतः ॥ विवेश रंगनगरं रंगिकर्यकारणात् ॥ १५॥ प्राकारं विदधत्यार्य तुर्य रंगे परांतके ॥ मध्ये समाभवत्तस्य भक्तांविरजसोनघ ॥ ४६ ॥ गण्यते पांस- वो भूमर्गण्यंते दिवि तारकाः ॥ न गण्यते विधानापि ब्रह्मसं- स्थापने फलम् ॥४७॥ अर्थ हदि विधायैवं स नीलस्तस्यः समनः॥ अविरोधं तदा भक्त्या प्राकारं विदधे तदा ॥ १८॥ परकालाभिध- . अध्यायः १०१. स्तत्र मण्डपोद्यापि दृश्यते॥ईशान्यां चन्द्रसरसः श्रीरंगे सुमहांस्ततः ॥४९॥ महाभागवतानां तु विरोधो न भवेद्यथा ॥ तथा भगवतत- स्तस्य कैंकर्य विदधे सदा ॥ ५० ॥ एवं श्रीरंगराजस्य कैंकर्य्यम- खिलं महत् ॥ विधाय कृतकृत्योथ मुमोद स परांतकः ॥५१॥ शिल्पिनः परकालं ते वेतनार्थमपीडयन् ॥ प्रदातुकामः सर्वेभ्यः शिल्पिभ्यः परमं पदम् ॥ १२॥ ततः सञ्चिन्त्य भगवान परकालो- ब्रवीत् स तान् ॥ श्वेताद्रौ पूर्वमेवात्र निक्षिप्तं सुमहद्धनम् ॥ ५३ ॥ तत्रागताश्चेदास्यामि भवतां वेतनं हि तत् ॥ तदंगीकृत्य वचनं परका- लस्य शिल्पिनः ॥ १४॥ ययुस्तेनाथ ते सर्वे गतुं स्वेताचलं प्रति ॥ अथासौ नाविकान्सर्वान्समाहूय परांतकः ॥५५॥ जिघांसुः शिल्पि- कारांस्ताअगाद वचनं तदा ॥ हन्मि कारूंस्तदर्थ मे सहायं कर्तुमर्हथ ॥५६॥ यथा मज्जति ते सर्वे कावेर्याः सलिले तदा । कार्य तो प्रमादेन दास्यामि बहुलं धनम् ॥ १७॥ एतत्कायं महापापहेतुकं नावमन्यथ ॥ पूरा भगवतैयोक्त सूक्ष्मधर्ममनुत्तमम् ॥ ५८॥ मन्नि- मित्तमिदं पापमपि पुण्याय कल्पते ॥ मामनादृत्य पुण्यं वा अपि पापाय कल्पते।।५९॥ इत्यूचिवान् स ते सर्वे नाविका धनकांक्षिणः॥ तथा कुर्म इति प्रोचुर्नीलस्तुष्टोथ तेन च ॥६०॥शिल्पिकारांस्तदा- सर्वान्समादायांजसा ततः। नीलः श्वेताचलं प्राप नावा तीा मरुद्ध धाम् ॥६१ ॥ प्रणम्य भक्त्या देवेशं श्वेतादौ पद्मलोचनम् ॥ तीर्थ प्रसादं स्वीकृत्य दापयित्वार्चकैस्तदा ॥ ६२॥ सर्वेभ्यः शिल्पकारे- भ्यस्तत्सर्व कृपया तदा ॥ श्रीरंगेश्वरकैंकर्यवेतनं यदनुत्तमम् ॥६॥ सम्यक्तभ्यो धनं दत्त्वा तदनंतमनूपमम्॥भूयः श्रीरंगनगर तानादायाँ- जसा ययौ ॥६॥शिल्पिकारांस्तदा सर्वान् नावमारोप्य यत्नतः॥पारं मरुधानवाःप्राकामोभवन्महान्॥६५॥पूर्णा शिल्पिसमूहेन नावं ते नाविकास्तदा । मज्जयामासुरुदकप्रवाहे सरितःशुभे॥६६॥अथकेन प्रकारेण परकालश्च नाविकैः ॥ तीरं दक्षिणमासाद्य कावेा रंगधा- (३७६) प्रपन्नामृते- मनि ॥ ६७ ॥ तद्वंधुभ्योखिलं वृत्तं प्राहिणोद्रुतमंजसा ॥ वागुराभि- विशोध्याशु कारतुद्धृत्य तान्मृतान् ॥६८॥ स तेषामग्निसंस्कारं कर्तु- कामो महायशाः ॥ पादप्रमाण मेदिन्याः क्रीत्वां निष्कण सत्तमः ॥ ॥६॥रंगेशात्परकालोथ भूमि जग्राह सत्वरम् ॥ तद्वृत्तांत्तं समाकर्ण्य कावेयो नौनिमज्जनम् ॥ ७० ॥दुखिताः सहसागत्य ज्ञातयस्ते तदं- तिकम् ॥ परकालकृतं ज्ञात्वा सहसा तमपीडयन् ॥७॥ ततः संपी- डितो धीमांस्तदा तत्प्रेतबंधुभिः॥तानुवाच महाप्राज्ञो नीलो मधुरया गिरा ।। ७२ ।। सर्व कालकृतं ह्येतत्कालादन्यन्न विद्यते ।। न काल: परिहर्तव्यो ब्रह्माद्यैरपि दैवतैः ॥७३॥ येन वा जायते जंतुस्तस्मिन्नेव प्रलीयते ॥ ये चैवमेतजाति ते प्राज्ञा भुवि पंडिताः॥७॥नाहं कार- णमेतस्य कार्यस्यैतद्विचार्य्यताम् । एवमुक्तास्ततस्तेन सर्वं ते शि- ल्पिबांधवाः ॥ ७९ ॥ दातव्यं यद्धनं विद्वन्नस्माकं वेतनोचितम् ॥ दीयतां न्यायमार्गेण परकाल महामते ॥७६॥ इति तैरुक्तमार्गेण किंचित्संजातविस्मयः॥पूर्वमेव मया दत्तं यद्देयं वेतनं धनम् ॥ ७७॥ स्वेतद्वीप इति क्षेत्रे पद्मलोचनसाक्षिकम् ।। संशयो यदि युष्माकमस्मि- वर्थे प्रजायते ॥ ७८॥ परासुभिः शिल्पिभिस्तैर्वाचयिष्यामि सांप्र- तम् ॥ सत्यं लोके यदि भवेत्तेन सर्व प्रकाश्यते ॥७९॥ तस्य तद्वचनं श्रुत्वा ते सर्वे शिल्पिबांधवाः ॥ तथैव क्रियतां शीघ्रमुदर्कफलमुत्तमम ॥ ८० ॥ इत्युक्त्वा शिल्पकारास्ते परासूनां यथाविधि । चकुबै चा- ग्निसंस्कारं सर्वं तत्र सवांधवाः॥८१॥ चतुष्कविस्ततः स्नात्वा ध्या- त्वा मनसि रंगिणम् ॥ उर्द्धवाहुर्विष्णुपदं पश्यन्पंचत्वमीयुपः ॥८२॥ आजुहाव स ताञ्छिल्पिन्मुक्तान्सत्यक्तकर्मणः ॥ तदा तेन समाहूताः कृतांजलिपुटाश्च ते ॥ ८३॥ नभस्तले विमानस्थाः सर्वेपामेव पश्य- ताम्॥ ऊचुः कृतार्थाः कलिहन भवतः कृपयाधुना ॥८॥अनादिमा- यसंसारान्मक्ता मोक्षपदं गताः॥ इति विज्ञाप्य ते सर्वे स्ववधूनवलो- .

अध्यायः १०१.
(३७७)
क्य च ॥ ८५ ॥ सर्वेपां शृवण्वतां वाक्यं जगदुर्मधुराक्षरम् ॥ किमे-
तेन रसज्ञेन कलहः क्रियतेधुना ॥८६॥ यद्देयं वेतनार्थ नो धनं त-
कलिवैरिणा ।। सहस्राधिकसंख्यातं दत्तं तेन महात्मना ।। ८७ ॥
न चैतत्सदशो लोके हरिकैंकर्यकारिणाम् ॥ असौ भागवतश्रेष्ठो
हरिभक्तिपरायणः ॥ ८८ ॥ सेव्यतां सम्यगेवायं यदि यूयं सुखेच्छ-
वः ॥ इत्युक्त्वा सहसा प्राप्तास्ते सर्वे परमं पदम् ॥ ८९ ॥ तदव-
ततमं दृष्ट्वा श्रीरंगपुरवासिनः ॥ संजातविस्मयास्सर्वे मिलितास्तत्र
संघशः ॥ ९० ॥ पूजयामासुरत्यंत परकालं महामुनिम् ॥ मेनिरे
शुद्धमनसं नील भागवतोत्तमम् ॥ ९१ ॥ यथा हताः शिल्पिनस्ते
नावा नीलेन संघशः ॥ श्रीरंगस्योत्तरे भागे कावेय्या पुण्यसंकुले
॥ ९२ ॥ माघस्नानं विदुरतस्तदाप्रभृति पंडिताः ॥ श्रीरंगनगरं
प्राप्य पूजितो वैष्णवोत्तमैः ॥ ९३ ॥ कैंकर्य रंगराजाय विदधे
विहितं बहु ॥ प्राकारद्वितयं चक्रे सर्वालंकारशोभितम् ।। ९४ ॥
सर्वोपकरणैर्युक्तं समुन्नतकवाटकम् ॥ गोपुराणि ततोकाच्छिंगति
महांति च ॥ ९५॥ मंडपान्सुदृढाकारान्दिव्यस्तंभोपशोभितान ।।
विचित्रान्कल्पनाकल्पैर्नानावर्णमनोरमैः ॥ ९६॥ शोभमानैः सदा
कात्या रंगेशप्रीतिकारकैः ॥ चतुःशालानि रम्याणि वेदिकालंकृता-
नि च ॥ ९७॥ परकालाभिधं सम्यग्निदधे मंडपं महत् ।। चंद्रपुष्क-
रिणीतीरे स श्रीमान् भाति मंडपः ॥ ९८॥ धान्यागारं ततश्चक्र
सर्वलक्षणशोभितम् ॥ कुसूलानि विशालानि विदधे पंच बुद्धिमान
॥ ९९॥ घृतकूपद्रयं सम्यग्गंभीरं चैव विस्तृतम् ॥ एवमादीनि
सर्वाणि कैंक-ण्यकरोत्तदा ॥१ ०० ॥ श्रीरंगोत्तरभागस्य कावे-
दक्षिणस्य च ॥ मध्यभू रंगराजेन विक्रीता कलिवैरिणे ॥१०१॥
सा भूमिः परकालेन श्रीरंगपुरवासिनाम् ॥ आर्यभट्टाहतेन्येपां
निर्दिष्टा पितृकाननम् ॥१०२ ॥ पत्रिकायां तदा तस्यां सब रंगा-
धिकारिभिः ॥ हस्ताक्षराणि लिखितान्यार्यभट्टेन वैरिणा ॥१०३॥

(३७८) प्रपन्नामृते- रंगवायव्यदिग्भागे कृत्वा कांचनमंडपम् ॥ वासंतस्मिन्समकरोत्प- रकालो महायशाः ॥१०४॥ परकालस्ततः कृत्यं यत्कर्तव्यं समाप्य तत् ॥ रंगेशसन्निधिं प्राप्य प्रणम्य च पुनःपुनः ॥ १०५ ॥ वि- ज्ञापयामास तदा कृतांजलिपुटः सुधीः ॥ भगवनगनिलय विज्ञापि- तमभूत्त ॥१०६॥ सन्निधौ तद्धि भगवन् सर्व निर्यापितं मया ॥ शिलारूपं तदेतन्मे न समंजसमच्युत॥३०७॥पूर्व मया यदि भवेत्का- क्षितं कांचनद्युति ॥ ताहक्संभाविता श्रीमन् कृपया तव सर्वतः ॥ ॥ १०८॥ भागधेयविहीनेन मया दुर्मेधसा विभो ॥ तथा न चिंति- तमिति क्षुभ्यते तरसा मनः॥ १०९ ॥ मादृशानां हि जंतूनां ताह- ग्भाग्यं सुदुर्लभम् ॥ एवं वदति सान्निध्ये परकाले महात्मनि ॥ ॥ ११०॥ कृपयाविष्टहृदयो रंगेशस्तमथाब्रवीत् ॥ यत्कृतं भवता सम्यक् तत्सुवर्णमयं महत् ॥ १११ ॥ माहशस्त्वं वृथा विद्धन प्रत्ययो न भवेद्यदि ॥ दृश्यतां तच्च सर्वस्वं सादरादिति शाङ्गिणि ॥ ॥ ११२॥ वदत्येवं तदापश्यत्परकालो महामुनिः ॥ सकवाट ससो- पानं सप्राकारं समंडपम् ॥ ११३ ॥ सर्व हिरण्मयं दिव्यं कृपया रंगशायिनः। ततः स्वस्थमना भूत्वा संतोपेण प्रसन्नधीः ॥ ११ ॥ उवास सुचिरं कालं श्रीरंगेश्वरसन्निधौ ॥ ११९ ॥ इति कलिजिद- धीशः स्वोचितं नित्यकृत्यं निरुपममनुकुर्वन्सर्वमत्यादरेण ॥ प्रक- टितहरिभक्तिनिवैराग्यसिंधुर्मुदमगमदुदारः स्वामिकैकर्यधीरः ॥ ॥ ११६॥ इति श्रीप्रपन्नामृते भट्टार्यवेदांतिसंवादे शिल्पकारमोक्ष- कथनं नामैकाधिकशततमोऽध्यायः ॥ १०१॥ व्यधिकशततमोऽध्यायः। अस्मद्यतिः स भट्टाय्य भूयः पप्रच्छ तं गुरुम् ॥ अष्टोत्तरशतेष्वत्र दिव्यदेशेषु भूतले ॥ १ ॥ कासारयोगिप्रमुखगीतेपु व रमापतेः॥ दिव्यदेशाः कलिजिता संस्तुताः कतिसंख्यकाः॥२॥ कियतीभिश्च अध्यायः १०२. (३७९) गाथाभिः को देशः समभिष्टतः ॥ तत्सर्व विशदं हि शिष्याय गुरु- पुंगव ॥ ३॥शमंधरः कदा कुत्र शवो नीलेन निर्जितः ।। वादं किम- र्थमभवत्तयोविवुधसिंहयोः ॥ ४॥ तत्सर्व विशदं ब्रूहि कृपया भट्ट- देशिक ॥ तस्य तद्वचनं श्रुत्वा भट्टार्य्यस्तमथात्रवीत् ॥ ५ ॥ पुरा कदाचिद्वेदांतिन् परकालो महायशाः ॥ चरित्वा निखिलान्दे- शाश् जितविद्वद्रणो महान् ॥ ६॥ त्रिविक्रमपुरं प्राप स्वेच्छया चोलमंडले ॥ त्रिविक्रमपुरप्राच्यां तत्र ब्रह्मपुरं महत् ॥ ७ ॥ महद्विराजते तब शैवस्थानं तथान्ध ॥ तस्मिन्काले जितारातिः कश्चिच्छैवः शमंधरः ॥ ८॥ विद्यया विमतान्सन्निर्जित्यान पुरेनष ।। स महानप्रतिद्वंद्वो जयत्यव्याहतोच्छ्रयः ॥ ९॥ यदृच्छया गतस्तत्रं परकालस्तदानघ । गच्छतः परकालस्य महाराजपथे तदा ॥ ३० ॥ महाकाहलिकोत्पन्नः कलिजित्कीर्तिसूचकः ॥ परवादिमनो भिंदन्नश्रावि सुमहानवः ॥ ११॥ परकालः समायाति वादिमत्तेमके- सरी ॥ कविराण्मुकुटन्यस्तवामपादसरोरुहः ॥ १२॥ चतुष्कवीन्द्रः सकलसमयध्वांतभास्करः ॥ शमंधरच्छाबजनास्तन्निशम्य तदा खम् ॥१३॥ केचिन्न सेहिरे दुष्टा यथा सिंहरवं द्विपाः॥ परकालं वि- लोक्याशु ते तमूचुरशंकिताः ॥ १४ ॥ परकाल तवेदानी प्रभावोयं कथं घटेताजितविद्गणे धीरे विद्यमाने शमंधरे॥१६॥यवस्माकं गुरुः शास्त्रवादेन भवता जितःप्रभावोयं तदा नील संप्रत्यापद्यतेतव॥१६॥ अंगीकृत्य वचस्तेपां शैवानां स चतुष्कविः ॥ जेतुं शमंधरं शीघ्र तदंतिकमुपागमत् ॥ १७ ॥ ततस्तयोईयोश्चैव विवादः कवने प्रभूत् ॥ भगवद्विग्रहाभावात्कवने कलिवैरिणः ॥१८॥ वेदांतिन्नोदभू- दुद्धिस्तदा सर्वार्थवेदिनः ।। वीरपापंडभूयिष्ठः स देशस्तेन कारितः ॥१९॥ यतः शमंधरेणैवं भगवदृपिणा तदा ॥ विष्णवर्चाविग्रहस्तत्र न कुत्रापि विलोकितः॥२०॥ परपापंडभूयिष्टे देशे तेन विचिन्वता ॥

(३८०) प्रपन्नामृते- विष्ण्व_विग्रहं सम्यग्बहुधा कलिवैरिणा ॥ २१ ॥ यथार्कतरुमध्य- स्थतुलसीवत्तदानघ ॥ जरठा वैष्णवी काचिद्विद्युल्लेखेव भास्वरा ॥ ॥२२॥महागाढांधतमसि कालमेघेप्यदृश्यत ॥ तां प्रणम्य वचःशी- प्रमुवाच स परांतकः॥२३॥मातस्तवांतिकेदानी विष्णवर्चा वर्तते यदि॥ क्षणमात्र प्रदायाशु मामादरतोनघे ॥२४॥ भूयो गृहाण मातस्त्वं तव दास्यामि तं हरिम् ॥ अंगीकृत्य वचस्तस्य परकालस्य वैष्णवी॥२५॥ श्रीकृष्णविग्रहं तस्मै सहसा सादिशत्तदा ॥ भगवदर्शनाज्ज्ञातकवनः स परांतकः ॥२६॥ तदा शमंधराभ्याशंवादार्थमगमजवात्॥शमंधरं क- वितया निजित्य स परांतकः॥२७॥अशोभताप्रतिद्वंद्वः कलाभिश्चंद्रमा इव ॥ शमंधरोपि सन्तुष्टः परकालस्य विद्यया ॥२८॥ वेदांतिन्वि- स्मितोत्यंत व्याजहार वचः शुभम् ॥ आशु चित्रं च मधुरं विस्तार च चतुष्टयम् ॥ २९ ॥ नीलतत्कविचातुर्य्य तवैव भुवि विद्यते ॥ चतुष्कवींद्रनामैतदपूर्व सुचिरं तव ॥ ३० ॥ न दृपपूर्वो लोकेस्मि- स्वादृशः कविराण्मया। परकाल यथाकामं विचर वंनिरंकुशः ॥३॥ संश्लाघ्य बहुशश्चैवं परकालं शमंधरः॥ पूजयित्वा यथान्यायं मुदा प्रास्थापयत्तदा ॥ ३२॥ तेन संप्रेपितः सम्यक् परकालोमहायशाः।। भूयस्त्रिविक्रमपुरं संप्राप्य सहसा तदा ॥३३॥ त्रिविक्रमं प्रतिष्ठाप्य पूर्ववत्कृष्णमव्ययम् ॥ त्रिविक्रमपुरे तत्र बहुभिर्वैष्णवोत्तमैः ॥ ३४ ॥ अभंगुरविभूतिस्तु यथा तस्य भवेत्तथा ॥ मंगलाशासनं कृत्वा स तदा श्रीपरांतकः॥३५॥कृतकृत्यो महातेजाः परं हर्पमवाप्तवान् ॥ विष्णुस्थ- लानां सर्वेपां स्थिर कर्तु निरंकुशः॥३६॥ हेमाद्रौ परिधिर्नाम विष्णु- स्थानं विराजते ॥ तवत्यो भगवान्विष्णुर्महान्परिधिनायकः ॥३७॥ नीलेन दशभिः पयैः संस्तुतोयापि दृश्यते ॥ वेदांतिन्परकालोथ तस्मानिर्गत्य बुद्धिमान् ॥ ३८॥ आजगाम महातेजाः पुण्यं बदरि- काश्रमम् ॥ नारायणं नमस्कृत्य बदरीकाननस्थितम् ॥ ३९॥ हरि विशतिगाथाभिरस्तौपीस परांतकः॥शालग्रामं ततो गत्वा शालग्रा- अध्यायः१०२. (३८१) मपुराधिपम् ॥४०॥ स्तोत्रयामास गाथाभिर्दशभिर्हरिमव्ययम् ॥ ततोथ नैमिपारण्यं संप्राप्य विनयोज्वलः॥४१॥ अस्तौपीदशगाथा- भिनैमिपे हरिमव्ययम् ॥ अयोध्यामगमद्धीमानयोध्यारघुनन्दनम् ॥४२॥ यथाशक्ति स्तुतं कृत्वा मथुरामगमत्तदा ॥ मथुरायां बालकृष्णं नत्वासंस्तुत्य भक्तितः॥४३॥ नन्दवजमवाप्याथ वेदांतिन्स परांतकः॥ वृंदावने नन्दसूनुंस्तुतं समकरोद्धरिम॥४४॥ अहोबलमवापाथ वेदां- तिन्स चतुष्कविः।।अहोबले गारुडाद्रो हिरण्यासुरमर्दनम्॥४॥संस्तु- त्य दशगाथाभिर्नृसिंहममितौजसम् ॥ तस्मानिर्गत्य सहसा वेंकटाचल. मभ्यगात् ॥ ४६॥ श्रीवेंकटाचलं गत्वा तं साक्षाच्छेपरूपिणम् ॥ पर्वतारोहणं धीमानकृत्वा भगवत्परः ॥४७॥ स्नात्वाथ कापिले तीर्थे तत्र स्थित्वा परांतकः ॥ श्रीवेंकटेश्वरं नत्वा श्रीनिवासं जगत्प- तिम् ॥ ४८ ॥ संस्तुत्य दिव्यगाथाभिश्चत्वारिंशद्भिरादरात् ॥ तस्मा- निर्गत्य सहसा वीक्षारण्यमथाविशत् ॥४९॥वीक्षारण्ये किंगृहाख्ये नगरे वीरराघवम् ॥ स्तुत्वा तं दशगाथाभिः कंचित्कालमुवास सः॥ ॥५०॥ कांचीपुरीमवापाथ सहसा स परांतकः ॥ स तत्राष्टभुजं स्तुत्वा दशगाथाभिरादरात् ।।६१ ॥ परमेशपुरं प्राप्य वैकुंठेश्वरमव्ययम् ।। तथैव दशगाथाभिः स्तोत्रयामास केशवम् ॥५२॥ पश्चिमे हस्ति- शैलस्य मूले तं नृहरि स्थितम् ॥ स्तुत्वा परांतकः श्रीमान् कांच्या कमललोचनम् ॥५३॥ कामासिक्यां नृसिंहं च स्तोत्रयामास भक्ति- तः॥ यथोक्तकारिणं नत्वा त्रिविक्रममथोन्नतम् ॥ ५४॥ पांडवानां तथा दूतं स्तुतं चक्रे परांतकः ॥ एकांबरालयेज्योत्स्नाचंद्रखंडेश्वरं ह- रिम् ॥५५॥ कामाक्षीनिलये तत्र कृष्णं चोराभिधं च तम् ॥ तथो- रगगृहे कृष्णमुरगालयनायकम् ॥५६॥ मेघालयाभिधं विष्णुं तत्र मेघगृहे हरिम् ॥ विष्णुं तोयगृहे कांच्या स्तुत्वा तोयगृहाधिपम्॥१७॥ कांच्यां ग्रामगृहे विष्णुं तत्र ग्रामगृहाधिपम् ॥ एवमन्यान्हरीन्स्तु- त्वा ययौ गृध्रसरोवरम् ॥ ५८ ॥ श्रीगृध्रसरसस्तोरे भातं विजयराघ- (३८२) प्रपन्नामृते- वम् ॥ स्तुत्वा परांतकः श्रीमान्प्रपेदे घटिकाचलम् ॥५९||घटिकाद्री नृसिंहं च स्तुत्वामृतफलाभिधम् ॥ ततः कैरविणीतीरं ययौ वृन्दा- वने तदा ॥ ६०॥ तं पार्थसारथिं स्तुत्वा नृसिंह रंगनायकम् ॥ ग- जेंद्रवरदं चैव राघवं स परांतकः॥६॥ पंचैतान्दशगाथाभिस्तोताच- लमथाविशत् ॥ तोतादौ तुंगशयनं रंगेशं स चतुष्कविः ॥१२॥ अ- स्तौपीदशगाथामिः कल्याणनगरं ययौ ।। कल्याणसरसि स्नात्वा वीक्ष्य कल्याणनायकम् ॥ ६३ ॥ दशगाथाभिरस्तीपीदेवं वाराहरू- पिणम् ॥ महाबलिपुरं प्राप्य पुंडरीकसरोवरे ॥ ६४॥ स्नात्वा विश- तिगाथाभिरस्तौपीत्स परांतकः ॥ महावलिं बलिपुरे भूमिशा- यिनमीश्वरम् ॥६५॥ ततोहीद्रगिरि प्राप्य ह्यहीदनगरे हरिम् ।। दशगाथाभिरस्तौपीत्स नीलो देवनायकम् ॥ ६६ ॥ ततो गोपपुरं प्राप्य दशगाथाभिरीश्वरम् ॥ त्रिविक्रममथास्तौपीनोपपुर्या तु गोप- तिम् ॥ ६७॥ चित्रकूटं ततः प्राप्य पद्यैर्विशतिभिस्तदा ॥ स्तुत्वा गोविंदराज तं चोलदेशं ततो ययौ ॥ ६८॥ त्रिविक्रमपुरे तत्र त्रिवि- क्रममथोन्नतम् ॥ संस्तुत्य दशगाथाभिः परिरंभपुरं ययौ ॥ ६९ ॥ परिरंभपुरे श्रीशं श्रीसुंदरवरस्य च ॥ त्रिंशत्पद्यैः स्तुति कृत्वा ययौ नागपुरं ततः ॥ एकादशस्थलान्येव तत्र नागपुरे वरे ॥ ७० ॥ नंदादीप घटप्रवर्तकमहाकारुण्यरक्तांबरं श्रीनारायणपूरुपोत्तमपति- श्रीरत्नकूटाधिपैः ॥ वैकुंठेश्वरमाधवी च कमलानाथं च गोपीपति नोम्येकादश नागपुर्य्यधिपतीन्साई कलिध्वंसिना ॥ ७१ ॥ एवं श्लोकोक्तमार्गेण तत्र चैकादशानघ ॥ प्रत्येक दशगाथाभिर्वेदांति- न्कलिवैरिणा॥ ७२॥ संस्तुता हरयस्तत्र सर्वे दिव्यस्थलाधिपाः॥ ततः शुक्रपुरे रामः पद्यैर्दशभिरीडितः ।। ७३ ॥ भूतस्थानं तदा प्राप परकालो महायशाः ॥ संस्तुत्य दशगाथाभिर्भूतस्थाने तु शाहिणम् ॥७४ ॥रामं तु दृढधन्वानं संगमग्राममभ्यगात् ॥ असंग संगम- .

अध्यायः१०२. ग्रामे संस्तुत्य हरिमव्ययम् ॥ ७९ ॥ स सम्यग्दशगाथाभिः श्वेता- चलमथाविशत् ॥ संस्तुत्य देशगाथाभिः श्वेताद्रो पद्मलोचनम् ॥ ७६ ॥ ततः श्ररिंगनगरं संप्राप्य स परांतकः ॥ पंचाशद्भिश्च गाथाभिरस्तोपीद्वंगनायकम् ॥ ७७॥ ततः श्रीधामनगरं संप्राप्य स चतुष्कविः॥ श्रीमतं रंगनाथं च गाथाभिर्दशभिरतथा ॥ ७८ ॥ स्तुत्वा नंदिपुरं प्राप नंदिनोथदिहक्षया ॥ नन्दिनाथं जगन्नाथं सं- स्तुत्य हरिमादरात् ॥७९॥ स सम्यग्दशगाथाभिराकाशनगरं ययौ। लवणाभावतातस्य चाकाशनगरे हरेः ॥ ८० ॥ त्रिंशत्पद्यैः स्तुति चक्रे वेदांतिन्स चतुष्कविः ॥ रथपातस्थलं प्राप देवराजदिक्षया ॥ ८१ ॥ संस्तुत्य दशगाथाभिश्चत्वारिंशद्भिादरात् ॥ देवराज ततो भेजे नीलो व्याघ्रपुरे तदा ॥ ८२॥ संस्तुत्य दशगाथाभिर्म- हावाहुं जगत्पतिम् ॥ श्रीकृष्णमंगलक्षेत्रं प्रपेदे प्रेमपूर्वकम् ॥ ॥ ८३ ॥ संस्तुत्य दशगाथाभिस्तत्र श्रीभक्तवत्सलम् ॥ तवत्यैः कति- भिः पौरस्तापीद्भक्तवत्सलम् ॥८॥ श्रीनिवासपुरेशं च ह्यस्मन्मा- तृपति हरिम् ॥ तच्छ्रीनिवासनगरं विद्यते तोंडमंडले ॥८६॥ तत्रार्द्ध- योजने विद्वन्महीसारस्य चोत्तरे ।। ततः कृष्णपुरं प्राप शौरिराज- दिक्षया ॥८६॥ संस्तुत्य दशगाथाभिः शौरिराजं महौजसम् ।। चतुष्कविरवापाथ ततः कृष्णकुटीपुरम् ॥ ८७॥ संस्तुत्य दशगाथा- भिर्दामोदरमरिंदमम् ॥ तन्नागपत्तनं पाप सुंदरारण्यकानने ॥ ८८॥ स्तुत्वा सुंदरराजं तं पद्यैर्दशभिरादरात् ॥ ततोवशिष्टान्निखिलान् दिन्यदेशान् प्रणम्य च ॥ ८९॥एकया गाथया द्वाभ्यां स्तुत्वा तिस- भिरेव च ॥ परकालो महातेजाः कृतार्थोभूत्तदानघ ॥ ९० ॥ शिरः- शंखपुरं चैव तथेंदुनगरं महत् ॥ आदित्यनगरं चैव श्रीमत्कृष्णकपि- स्थलम् ॥ ९१ ॥ नृसिंहतंजानगरं खंडनग्राममेव च ।। निचुलानगरं चैव श्रीखंडनपुरं महत् ॥ ९२॥ अथ प्रतस्थे कलिजित्पांड्यमंडल- .

(३८४) प्रपन्नामृते- मंजसा ।। अत्राप दर्भशयनं पुल्लग्रामे पुरातनम् ॥ ९३ ॥शयानं दर्भ- शय्यायां राघवं चामितौजसम् ॥ स्तुत्वा विंशतिभिः पधैर्जगन्नाथं पुरातनम् ॥ ९४ ॥ कुरंगनगरं लेभे चतुष्कविशिखामणिः ॥ स्तुत्वा विंशतिभिः पद्यैः पूर्ण उत्तुंगविग्रहम् ॥ ९५ ॥ केरले दक्षिणपुरं सह- सैवाभ्यंगात्तदा ॥ संस्तुत्य दशगाथाभिस्तिष्टतं हरिमव्ययम् ॥ ९६ ॥ चतुष्कविरवापाथ स भूयः पांड्यमंडलम् ॥ स्तुत्वा सुंदरखाहुं तं वानाचलपति हरिम् ॥ ९७॥ भक्त्या विंशतिगाथाभिः स गोष्टीन- गरं ययौ ॥ गोप्टीपुरे गोप्टपति सौम्यनारायणाभिधम् ॥ ९८ ।। अस्तौपीदशगाथाभिसिंहद्वयशोभितम् ॥ शीतोद्यान मौहुरं च तथा सत्यमहीधरम् ॥९९॥ स्थलानि त्रीणि ह्यस्तौषीत्कलिजित्पांडयमं- डले ॥ गाथाभिः सप्तभिः सम्यग्यः प्रबंधो विराजते ॥ १०॥ तं शाङ्गपाणिविपयं विदधेसौ परांतकः॥ एवं हि परकालेन संस्तुता दिव्यभूमयः॥ १०१॥ विष्णोस्तत्रैव वेदांतिन्नेकपंचाशदीरिताः ॥ अल्पेन संस्तुता विष्णोत्रिंशदिव्यभूमयः ॥ १०२॥ अतश्चा- शीतिस्थानानि स्तुतानि कलिवैरिणा ॥ विशदं शृणु वक्ष्ये तान 'पटुं पांडये केरले त्रयः ॥ १०३ ॥ देशाश्चैकोनचत्वारः श्रीहरेश्चोलम- डले॥ मध्यदेशे द्वयं चैव त्रयोविंशतिरीरिताः ॥ १०४॥तुंडीरमंडले विष्णोदिव्यदेशा दशोत्तरे । कलिनेनैव वेदांतिस्ते सर्वे समभिष्टुताः ॥१०५॥ दिव्यप्रबंधा वेदांतिन् सप्तैव कलिजिस्कृताः॥ त्रिशतं चैव साहस्रं चतुःपष्टिः प्रकीर्तिताः ॥१०६॥ तेषु दिव्यप्रबंधेषु गाथा वि- बुधसत्तम ॥ तैः प्रबंधैर्वितत्योव्यौ तत्त्वार्थ सम्यगेव हि ॥ १०७॥ सर्वाधिकार कृपया दिव्यद्राविडभापया ॥ भत्त्यां भगवतस्तस्य तथा भागवतस्य च ॥३०८॥ कृत्वा कैंकर्यमव्ययं स सम्यग्विविधं वहु ।। मंगलाशासनं कृत्वा सर्वदिव्यस्थलानि च ॥ १०९ ॥ रूढमूलं प्रति- टाप्य विष्णुधर्ममनुत्तमम् ॥ भूभ्यामव्याहतं सम्यग्यावदाचन्द्रतार कम् ॥ ११० ।। इत्येवं कृपया नीलो जगत्सर्वमपालयत्॥ भूम्यां पं. .

अध्यायः१०२. (३८५) चोरत्तशतं नीत्वाब्दानां चतुष्कविः॥११॥ कुरंगनगरं प्राप्य श्रीरंगे- श्वरशासनात् ॥ तत्रैव विष्णुसालोक्यमगमत्स परांतकः॥११२॥ अ- चीवतारा बहवो नीलस्यैवाभवंस्ततः॥ विष्णुस्थानेषु सर्वेषु वैष्णवानां गृहेषु च ॥ ११३ ॥ परिरंभपुरे तब महता वैभवेन सः॥ जयत्यव्या हतोच्छ्रायो ह्यद्यापि परिदृश्यते ॥ ११४ ॥ अत्रैव रंगे वेदांतिन्मह- द्भिः सकलोत्सवः॥ संदृश्यते किलाद्यापिपरकालो महायशाः॥११॥ यद्गृहे वर्त्तते नित्यं परकालो महायशाः ॥ कंलिदोपाः पलायंते सिंह दृष्ट्वा यथा मृगाः ॥११६॥ चर्मखड्गधरे वीरे ह्यास्थिते कलिवैरिणि ॥ नीले तस्य गृहे नित्यं वर्तते कापि किं भयम् ॥ ११७॥ कलिजि- त्पूजनं नित्यं ये कुर्वति नरोत्तमाः ॥ सर्वे ते पुण्यकर्माणो महाभागव- ताः स्मृताः ॥ ११८॥ कार्तिके मासि दिवसे कृत्तिकातारकान्विते ॥ महाभिपेकं विधिवद्यः कृत्वा कलिवैरिणे ॥ ११९॥ नैवेद्यं पडूसोपेतं ततः सम्यङ्भिवेद्य च ॥ वैष्णवान्ब्राह्मणान्भत्त्या द्राविडामायपारगान ॥१२०॥ भोजयेत्स नरोमुक्तो विष्णुलोके महीयते।कार्तिक्यां कृत्ति- कर्श च यत्तत्कलिजितः शुभम् ॥१२१॥तद्राविडप्रबंधस्य समाप्तिदि- वसं विदुः॥ तस्मिन्दिने कृतं भत्त्यातदीयाराधनंमहत्॥१२२॥सम्य- तत्कोटिगुणितमिति प्राहुर्मनीषिणः॥ कार्तिके कृत्तिकः तु समारभ्य समंततः ॥ १२३॥ अवैष्णवस्स वेदांतिन प्रबन्धं नोच्चरेद्धवम् ॥ दि- व्यदेशेषु सर्वेषु श्रीरंगादिस्थलेषु च।।१२४॥॥वैष्णवावश्यकतमः श्रीमा- नध्ययनोत्सवः ॥ कश्चिन्महान्महाभाग योविंशतिदिनावधि।।१२५॥ प्रबंधाध्ययनं तत्र कर्तव्यामिति निर्णयः॥ कृतो हि पूर्वगुरुभिः श्रीरंगे- श्वरशासनात् ।। १२६॥ न चैवान्यन्त्र कर्त्तव्यं प्रबंधाध्ययनं तथा। गृहार्चनं हरेस्तेषु सन्निधौ वासरेषु च ॥ १२७ ॥ स तद्वचनमार्ण वेदान्ती तमथाब्रवीत् ॥ प्रबंधाध्ययने तत्र को दोपः समुदाहृतः ॥३२८॥ तस्य सर्वाधिकारस्य किमर्थ विधिरीरितः॥ तत्त्वमाख्याहि (३८६) प्रपन्नामृते- भगवन्छिष्याय करुणार्णव ॥ १२९ ॥ अवधाथि भट्टार्य्यस्त- द्वाक्यं तमथाब्रवीत् ॥ उपक्रमोत्सर्जनौ च वेदस्य भवतां यथा॥१३०॥ तथा द्राविडवेदस्य तावुभौ समुदीरितौ ॥ श्रावण्यां प्रौष्टपद्यां वा स्पाकृत्य यथाविधि ।। १३१ ॥ युक्तछंदांस्यधीयीत मासान् विप्रो- र्धपञ्चमान् ॥ इत्युक्तेन प्रकारेण वेदोपक्रम ईरितः ॥ १३२॥ तत्पी- पस्य पौर्णमास्यामुत्सर्जनविधिः स्मृतः ॥ मकरे हस्तनक्षत्रे उपक्रम- विधिः स्मृतः ॥ १३३॥ कार्तिक्यां कृत्तिकायां तु तथैवोत्सर्जन कृतम् ॥ चतुष्टयसहस्रस्य प्रबंधस्य महात्मभिः ॥ १३४ ॥ पुरा रंगेश्वरः श्रीमान दिव्यसूरीन्विलोक्य च ॥ शारिप्रमुखान्सर्वान् व्याजहार वचः शुभम् ॥ १३५॥ नीलनक्षत्रमारभ्य यावदध्ययनो- त्सवः ॥ तावत्प्रबंधपठनं न कुरुध्वं मदाज्ञया ॥ १३६॥ प्रबंधाध्य- यनेनाय युष्मत्कंठास्तु सूरयः ॥ क्लिष्टा जातास्ततो धृत्वा तैलं कंठेषु सादरम् ॥१३७॥ तावत्तूप्णी हि वर्तध्वं मद्ध्यानकपरायणाः।। धनुर्मासे सिते पक्षे प्रथमायामुपक्रमः ॥ १३८ ॥ कृष्णपक्षे तु पञ्चम्यामुपसंहार उच्यते ॥ तस्यैवाध्ययनाख्यस्य चोत्सवस्य ममा- नघाः ॥ १३९ ॥ एवमाज्ञापितास्तेन हरिणा नित्यमूरयः॥ निवृत्त- द्राविडाम्नायपारायणरतास्तथा ॥ १४० ॥ ते सर्वेतैलसंसिक्तकण्ठा- स्तूष्णी समास्थिताः ॥ श्रीकृष्णो गोपिकास्त्रीभिर्यथा श्रीयमुनातटे ॥ १४१ ॥ हेमंते प्रथमे मासि सम्यगभ्यचितो यथा ॥ धनुर्मासे रंगराजो गोदयाभ्यर्चितस्तथा ।।१४२॥ नित्यमकैकया दिव्यगाथया हरिमव्ययम्।। स्तुत्वा संपूजयामास गोदा नियतमानसा ॥ १४३॥ एवं नित्यं धनुमासे पद्यस्त्रिंशद्भिरादरात् ॥ त्रिंशदिनेषु संपूज्य भगवंत श्रियः पतिम् ॥ १४४ ॥ मनोरथफलं प्राप्य मुमुदे रंगिणा सह ॥ गोदाम्तुति पठेत्तस्मादतुर्मासि विशेपतः॥१४॥ अतः प्रवन्धपठनं श्रीमदध्ययनोत्सवे॥गोदास्तवस्याध्ययनं धनुर्मास्यरुणोदये।।१४६॥ - अध्यायः १०३. (३८७) इदं हि पूर्वगुरुभिनिर्णीतं हरिशासनात् ॥ मर्यादातिकमं कृत्वा यो चानध्ययने दिने ॥ १४७ ॥ पठेत्प्रवन्धं मूढात्मा स गछेन्नरक ध्रुवम ॥ पूर्वैराचरितं धर्म सत्यं मत्वा तु यो नरः ।। १४८॥ तन्मार्ग- वर्ती शुद्धात्मा स गच्छेद्वैष्णवं पदम् ॥ एवं ये वैष्णवं धर्म विदंति मनुजा भुवि ॥ १४९ ॥ ते सर्वे पापनिर्मुक्ता विष्णोलोंके वसंति हि ॥ १५० ॥ श्रीप्रपन्नामृते भद्यार्यवेदांतिसंवादे शमंधरजयो नाम ब्यधिकशततमोऽध्यायः॥१०२।। यधिकशततमोऽध्यायः। नत्वा माधवदासोथ भट्टार्य भक्तिपूर्वकम् ।। शठकोपस्य चरितं पप्रच्छ प्रीतिपूर्वकम् ॥ १ ॥ कासारयोगिप्रमुखसूरीणां चरितानि च ॥ त्वत्तः श्रुतानि भगवन् सम्यग्विस्तरतो मया ॥२॥ शठकोपस्य चरितं श्रोतुं कौतूहलं हि मे ॥ तद्रूहि विशदं स्वामिन्कृपया शिष्य- वत्सल ॥३॥ तदंगीकृत्य वचनं तदा वेदांतिनो गुरुः।। शठकोपस्य चरितं प्रवक्तुमुपचक्रमें ॥१॥ वकुलाभरणं वंदे जगदाभरणं मुनिम् ॥ यः श्रुतेरुत्तरं भागं च द्राविडभापया ॥ ५॥ वकुलालंकृतं श्रीम- च्छठकोपपदद्वयम्॥ अस्मत्कुलधनं भोग्यमस्तु मे मूर्ध्नि भूपणम्॥६॥ इति प्रणम्य भट्टार्य्यः कथामकथयत्तदा ॥ वेदांतिनेऽखिलां तस्मै शठकोपस्य विस्तृताम् ॥७.॥ एते चावयवाः सबै सरोयोग्या- दयोनघ ॥ शठकोपस्य वेदांतिस्तस्यावयविनः किल ॥ ८॥ तच्चारित्रं महत्पुण्यं विचित्रं कल्मपापहम् ॥ शृण्वतां वदतां चैव भ क्तिज्ञानविवर्द्धनम् ॥९॥ दक्षिणे चोलदेशस्य पांडयदेशो महानभूत् ॥ विश्रुतः सर्वदेशेषु सर्वसस्यसमृद्धिमान ॥१०॥ ताम्रपर्णी नदी पुण्या वर्तते यत्र विश्रुता ।। गंगा च यमुना चैव तथा गोदा सरस्वती॥१३॥ कावेरी नर्मदा मिधुस्ताम्रपर्णी सरिद्वरा ॥ तदुत्कृष्टा ताम्रपर्णी सर्वा- मां सरितां मुने ॥ १२॥ अष्टादशस्थलैर्दिव्यैः प्रबंधप्रतिपादितः॥

(३८६)
प्रपन्नामृते-
भगवछिप्याय करुणार्णव ॥ १२९ ॥ अवधार्याथ भट्टार्य्यस्त-
द्वाक्यं तमथाब्रवीत ॥ उपक्रमोत्सर्जनौ च वेदस्य भवतां यथा॥१३०॥
तथा द्राविडवेदस्य तावुभौ समुदीरितौ ॥ श्रावण्यां प्रौष्टपद्यां वा
उपाकृत्य यथाविधि ॥ १३१ ॥ युक्त छंदांस्यधीयीत मासान् विप्रो-
र्धपञ्चमान् ॥ इत्युक्तेन प्रकारेण वेदोपक्रम ईरितः॥ १३२॥ तत्पी-
पस्य पौर्णमास्यामुत्सर्जनविधिः स्मृतः ॥ मकरे हस्तनक्षत्रे उपक्रम-
विधिः स्मृतः ॥ १३३॥ कार्तिक्यां कृत्तिकायां तु तथैवोत्सर्जन
कृतम् ॥ चतुष्टयसहस्रस्य प्रबंधस्य महात्मभिः ॥ १३४॥ पुरा
रंगेश्वरः श्रीमान् दिव्यसूरीन्विलोक्य च ॥ शारिप्रमुखान्सर्वान्
व्याजहार वचः शुभम् ॥ १३५॥ नीलनक्षत्रमारभ्य यावदध्ययनो-
त्सवः ॥ तावत्प्रबंधपठनं न कुरुध्वं मदाज्ञया ॥ १३६ ॥ प्रबंधाध्य-
यनेनाद्य युष्मत्कंठास्तु सूरयः ॥ क्लिष्टा जातास्ततो धृत्वा तैलं
कंठेषु सादरम् ।।१३७॥ तावत्प्प्णी हि वर्तध्वं मध्यानैकपरायणाः।।
धनुर्मासे सिते पक्षे पृथमायामुपक्रमः ॥ १३८ ॥ कृष्णपक्षे तु
पञ्चम्यामपसंहार उच्यते ॥ तस्यैवाध्ययनाख्यस्य चोत्सवस्य ममा-
नघाः ॥ १३९॥ एवमाज्ञापितास्तेन हरिणा नित्यमूरयः॥ निवृत्त-
द्राविडाम्नायपारायणरतास्तथा ॥ १४ ॥ ते सर्वे तैलसंसिक्तकण्ठा-
स्तूष्णी समास्थिताः ॥ श्रीकृष्णो गोपिकास्त्रीभिर्यथा श्रीयमुनातटे
॥ १४१ ॥ हेमंते प्रथमे मासि सम्यगभ्यर्चितो यथा ॥ धनुर्मासे
रंगराजो गोदयाभ्यर्चितस्तथा ॥१४२॥ नित्यमकैकया दिव्यगाथया
हरिमव्ययम्।। स्तुत्वा संपूजयामास गोदा नियतमानसा ॥१४३॥
एवं नित्यं धनुर्मासे पद्यस्त्रिंशद्भिरादरात् ॥ त्रिंशदिनेषु संपूज्य भगवंत
श्रियः पतिम् ॥ १४४ ॥ मनोरथफलं प्राप्य मुमुदे रंगिणा सह ।।
गोदास्तुति पठेत्तस्माचतुर्मासि विशेषतः ॥१४५॥ अतः प्रवन्धपठनं
श्रीमदध्ययनोत्सवे॥गोदास्तवस्याध्ययनं धनुर्मास्यरुणोदये॥१४॥

अध्यायः १०३. (३८७) इदं हि पूर्वगुरुभिनिर्णीतं हरिशासनात् ॥ मर्यादातिक्रमं कृत्वा यो वानध्ययने दिने ॥ १४७ ॥ पठेत्प्रवन्धं मूढात्मा स गछेनरकं ध्रुवम् ॥ पूर्वैराचरितं धर्म सत्यं मत्वा तु योनरः ।। १४८॥ तन्मार्ग- वर्ती शुद्धात्मा स गच्छेद्वैष्णवं पदम् ॥ एवं ये वैष्णवं धर्म विदंति मनुजा भुवि ॥ १४९॥ ते सर्वे पापनिर्मुक्ता विष्णोलोंके वसंति हि ।। १६० ॥ श्रीप्रपन्नामृते भट्टार्यवेदांतिसंवादे शमंधरजयो नाम ब्यधिकशततमोऽध्यायः ।।३०२॥ यधिकशततमोऽध्यायः। नत्वा माधवदासोथ भट्टाय्यं भक्तिपूर्वकम् ॥ शठकोपस्य चरित पप्रच्छ प्रीतिपूर्वकम् ॥१॥ कासारयोगिप्रसुखसूरीणां चरितानि च ।। त्वत्तः श्रुतानि भगवन् सम्यग्विस्तरतो मया ॥२॥ शठकोपस्य चरितं श्रोतुं कौतूहलं हि मे ॥ तदहि विशदं स्वामिन्कृपया शिष्य- वत्सल ॥३॥ तदंगीकृत्य वचनं तदा वेदांतिनो गुरुः। शठकोपस्य चरितं प्रवक्तुमुपचक्रमें॥॥ वकुलाभरणं वंदे जगदाभरणं मुनिम् ॥ यः श्रुतेरुत्तरं भागं चके द्राविडभापया ॥ ५॥ बकुलालंकृतं श्रीम- च्छठकोपपदद्वयम् ।। अस्मत्कुलधनं भोग्यमस्तु मे मूर्षि भूपणम्॥६॥ इति प्रणम्य भट्टार्य्यः कथामकथयत्तदा ॥ वेदांतिनेऽखिलां तस्मै शठकोपस्य विस्तृताम् ॥७॥ एते चावयवाः सर्वे सरोयोग्या- दयोनघ ॥ शठकोपस्य वेदांतिस्तस्यावयविनः किल ॥ ८॥ तचारित्रं महत्पुण्यं विचित्रं कल्मपापहम् ॥ शृण्वतां वदतां चैव भ क्तिज्ञानविवर्द्धनम् ।।९।। दक्षिणे चोलदेशस्य पांडयदेशो महानभूत् ॥ शिश्रुतः सर्वदेशेषु सर्वसस्यसमृद्धिमान ॥१०॥ ताम्रपर्णी नदी पुण्या वर्तते यत्र विश्रुता ।। गंगा च यमुना चैव तथा गोदा सरस्वती॥११॥ कावेरी नर्मदा सिंधुस्ताम्रपर्णी सरिद्वरा ॥ तदुत्कृष्टा ताम्रपर्णी सर्वा- सां सरितां मुने ॥ १२ ॥ अष्टादशस्थलैर्दिव्यैः प्रबंधप्रतिपादितैः ।।

(३८८) प्रपन्नामृते- अन्यैरनेकैरधिकः पांड्यदेशो विराजते ॥ १३॥ अस्ति पूर्वपयोराशेः काचित्पश्चिमरोधसि ॥ मंडले पांड्यभूपस्य नगरी कुरुकाह्वया ॥ ॥१४॥ कौरवेण नरेंद्रेण द्वापरे परिपालिता।। तदाख्यया या विख्याता ताम्रपर्णीसरित्तटे ॥ १५॥ आद्यो यत्र प्रपन्नातिवैद्यो विष्णुः पुरोद- भूत् ॥ वेद्यो वेदशिखाविद्भिः श्रीयोतितभुजांतरः ॥१६॥ तत्रासीत्पा- दजातेषु कश्चिद्भागवताग्रणीः ॥ श्रीमद्विभूतिनाथेद्रः सीमातीतगु- णोज्वलः ॥ १७॥ तस्य धर्मधनुर्नाम तनयः समजायत ॥ साई कलिबलोत्सन्नधर्मोद्धरणकर्मणा ॥ १८॥ चक्रपाणिस्ततो जातश्चक्र- पाणिपरायणः ॥ सत्पात्रसात्कृतस्त्रीयसमस्तधनसंचयः॥ १९ ॥अ- जायत ततस्तस्माचक्रपाणेस्सुतोच्युतः॥ नाम यत्प्राप चोदामरत्न- धामेति भूतले ॥२० ॥ सुमतिं सुषुवे सोपि सुतं पाटललोचनम् ॥ सुकुमारं यशःसम्यकसुरभीकृतदिङ्मुखम् ॥२१॥ पुत्रं प्रासूत- फूत्कारि पुण्यैः पाटललोचनः।। पौत्कारेस्तस्य संजज्ञे पुत्रः कारिरिति श्रुतः ॥ २२॥ भूतिनाथेंद्रमारभ्य कार्यतं ये मयोदिताः॥ सप्तव ते महाभागा भगवद्भक्तिपारगाः ॥२३॥ तन्मध्ये सुमहातेजाः कारि सर्वगुणोत्तरः ॥ अवर्द्धत महाप्राज्ञो विष्णुभक्तिपरायणः ॥ २४ ॥ सं- जातयौवनः श्रीमान् पिचोरानंदवर्द्धनः ॥ यथा दशरथः पूर्व प्रजार- जनतत्परः ॥२५॥ तेजस्वी मतिमान् धीरो स्वकुलोचितधर्मवान् ॥ संतुष्टः स गुणैस्तस्य पिता फूत्कारिनामकः ॥ २६॥ विवाहार्थं तदा शीघ्र कारेयत्नमथाकरोत् । केरले दिव्यदेशा हि चतुर्दश तदानघ ॥ २७ ॥ तत्रासीत्परिशाराख्यं दिव्यं विष्णुस्थलं महत् ॥ फूत्कारिः कारिमादाय तत्पुरं प्रविवेश सः ॥२८॥ स्वतल्यवंशसंपद्भिर्विष्णु- भत्त्या विराजते । वंश कश्चिद्रभूवार्यः पादजो वैष्णवोत्तमः॥२९॥ जो तस्य सुता काचिद्वैष्णवी नाथनायिका || फूत्काविरयामास विवाहर्थ सुतम्य ताम् ॥३०॥ अंगीकृत्याथ वेदांतिन स तस्य भग- अध्यायः १०३. (३८९) यत्परः ।। संतुष्टो लोकविदितं महता वैभवेन च ॥ ३१ ॥ कारिनाम्ने ददौ कन्यां वरायोदकपूर्वकम् ।। सर्वालंकारसहितामात्मजां नाथना- यिकाम् ॥ ३२ ॥ कृतोद्वाहेन पुत्रेण स्नुपया सहितस्तदा ।। फूत्कारिः प्रययौ श्रीमान्कुरुकानगरं प्रति ॥ ३३ ॥ पुराधिपत्वात्फूत्कारेः सह- सालंकृता पुरी ॥ पौरैः प्रत्युद्गतो दूरं महता वैभवेन सः ॥ ३४ ॥ सपुत्रः सस्नुपः शीघ्र विवेश कुरुकापुरीम् ॥ पताकाध्वजिनी रम्या तरीयोपनिनादिताम् ॥ ३५ ॥ सिक्तराजपथां रम्यां प्रकीर्णकुसुमो- कगम् ॥ पोरैः प्रत्युद्गतो दूरं द्विजैश्च पुरखासिभिः ॥३६॥ एवमुक्त- प्रकारेण श्रीरामः सीतया सह ॥ ततः कतिपयाहस्सु गतेषु तदनंत- रम् ॥३७॥ भार्यया सहितः श्रीमान्परिशारपुरं ययौ ॥ कारिः का- रुण्यहृदयः प्रार्थितः श्वशुरेण सः ॥ ३८ ॥ परिशारपुरे तत्र श्रीमति श्वशुरालये ॥ कंचित्काल स्थितः श्रीमान् भार्यया सह सादरम् ॥ ॥ ३९ ॥ भूयः स्वनगरी रम्यां श्वशरप्रेपितो ययौ ॥ कुरंगनगरी तत्र मार्गे पश्यन्महायशाः॥४०॥कारिः करंगनगरी संप्राप्य सह भार्य- या। भत्त्या करंगपूर्णस्य श्रीहरेः पादपभयोः ॥४१॥ प्रणम्य प्रा- र्थयामास पुत्रार्थ पूर्णमुत्तमम् ॥ पूर्णस्तत्प्रार्थनां सम्यक् तस्यांगीकृ- त्य संमतम् ॥४२॥ वरप्रदानं विदधे तदार्चकमुखेन सः॥ पुत्रत्वं तु गमिष्यामि ह्यहमेव तवाधुना ॥४३॥ हरेः पूर्णस्य वचनं संप्र- हृष्टो निशम्य तत् ॥ भार्यया सहितः श्रीमान भत्त्या तस्थौ कृता- जलिः ॥४४॥ तीर्थ प्रसादं मालां च तुलस्याः प्रददौ मुदा ॥ स- कलनाय सहसा कारिनाने श्रियः पतिः ॥४५॥ स्वीकृत्य भत्त्यात- सबै सभार्यः कारिरात्मवान् ॥ संग्रहृष्टो ह्यनुज्ञातः पूर्णेन सहसा तदा ॥४६॥ कुरुकानगरं प्राप्य ह्यादिनाथं प्रणम्य च ॥ सर्वधर्मप- रस्तत्र न्यवसत्सुखमादरात् ॥४७॥ भर्तुः शुश्रूपणपरा भगवद्भक्ति- भासुरा।। श्यामा वामालका पुत्रकामा सा समजायत ॥४८॥ सा कदाचित्कुरंगेशं पथि पुत्रमयाचत ॥ आदिदेश कुरंगेशः सेनन्यां

(३९०)
प्रपन्नामृते-
तत्र जन्मनि ॥ १९॥ गर्भमाधत्त कालेन सा चिरेण तलोदरी॥प-
तंगमिव दिक प्राची देवकीव यदूद्वहम् ॥५०॥शठकोपावतारस्य
शृणु तत्कालनिर्णयम् ॥ ततो वक्ष्ये प्रमाद्यव्दे चादौ कलियुगस्य च
॥५१॥ एकमासे गते तत्र त्रयोदशदिनोत्तरे । वैशाख शुक्लपक्षे च
चतुर्दश्यां भृगोदिने ॥५२॥ विशाखायां च वेदांतिल्लंग्ने कर्कटके
शुभे ॥ कुरंगनगरीपूर्णवरदानेन योगिराटू ॥५३॥ संजज्ञे नाथनाय-
क्यां कारेः सैन्याधिपांशतः ॥ यथादित्योदभूत्याच्यां शठकोपो महा-
मतिः॥॥५४॥ अस्यावतार श्लोकाश्च गीयते बहवो भुवि ॥५५॥
राधे कलितनैराधे वैशाखे काव्यवासरे । लग्ने कर्कटकेसूत तनयं ना-
थनायिका ॥५६॥ आदौ कलेहि कुरुकापुरि पांड्यदेशे वैशाखमासि
मघवानलभेंशजातम् ॥ सेनापतेः पदजकारिगृहेवतीर्ण श्रीशास्पदं
शरिपुं शरणं प्रपद्यते ॥ ५७॥ वैशाखे तु विशाखायां कुरुकापुरि
कारिजम् ॥ पांड्यदेशे कलेरादौ शठारिं शैन्यपं भजे ॥ ५८॥ तस्य
वर्पातपादीनां वारणाय महात्मनः॥ पूर्वमेवात्र वेदांतिन् कुरुकानगरी-
वरे॥१९॥ चिंचारूपेण फणिराडुदभूदीशशासनात् ।।असूत तनयं त-
स्मिन्मुहूर्ते नाथनायिका ॥६०॥ निर्निद्रस्तितिणीरूपशेपस्तनगरे
ह्यभूत् ॥ श्रीदिव्यसूरिचरिते श्लोकोयं श्रूयते महान् ।। अवतारं च म-
धुरकवेवक्ष्यामि तं शृणु ॥६१॥ हस्तस्थतालद्वितयं प्रपद्ये शठारिवा-
ग्व्यासमुदारकीर्तिम् ॥ माधुर्यसंश्लिष्टकवित्वयुक्तं महत्त्वसंभावितब-
द्वितत्त्वम् ।। ६२ ॥ एवं प्रणम्य भट्टार्य्यः कथामकथयत्तदा ।। कुरु-
कानगरस्याथ प्राग्भागे कोशमानत ॥ ६३ ॥ श्रीमत्कोलरिति
स्थानं पांड्यमंडलमंडनम् ॥ श्रीसखः शेपपय॑के शेते यत्र
परः पुमान् ॥ ६४ ॥ तत्र पुर्य्या महान् सामशाखाध्यायी द्वि-
जोत्तमः ।। कश्चित्पूर्वशिखो विद्वान् नारायणपरायणः॥६॥द्वापरे चा-
एलक्षेप सहस्रेषु च पटिपु॥ संवत्सरेवतीतेपुविद्रत्कतिपयेपु च॥६६॥

( ३९१) अध्यायः १०३. विक्रमाव्दे चैत्रमासे शुक्लपक्षे च चैत्रभे ॥ नारायणाभिधानस्य पुत्रो जज्ञे गणांशजः ॥ ६७ ॥ बकुलाभरणोद्ग्रभास्करोदयकारणः ।। अरुणोदयवत् पूर्व कविर्मधुरसंज्ञकः ॥६८॥ चैत्रमासे शुभे चित्राता- रकायामजायत ॥ श्रीदिव्यसूरिचरिते श्लोकोयं श्रूयते महान् ॥ ६९ ॥ सामशाखायुते विप्रकुले पूर्वशिखावति ॥ जातस्य तस्य मधुरकवेस्त- च्छास्त्रमार्गतः ॥७० ॥ जातकर्मादिसंस्कारांस्तत्तत्कालोचिताञ्छु- भान् ॥ कारयामास जनको विधिना ब्राह्मणैः सह ।। ७१ ॥ कृतोप- नयनः पित्रा कविर्मधुरसंज्ञकः ॥ जग्राह सकला विद्याश्चतुर्दश गुरो. मुखात् ।। ७२ ॥ अंगानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।। पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश ।। ७३ ॥ अधीतवेदवेदांगो महावैराग्यवारिधिः ॥ तीर्थयात्रापरो धीमान्दिव्यदेशान्ययौ कविः ॥७४ ॥ अयोध्या मथुरा माया काशी कांची ावंतिका ॥ पुरी द्वारावती चैव सप्तैता मोक्षदायिकाः ॥ ७९ ॥ इत्यादिनिखिलान्देशां- श्चरित्वा भक्तिभावतः ॥ अष्टांगयोगनिरतस्तस्थौ बदरिकाश्रमे ॥ ॥ ७६॥ गर्भस्थ एव शजिद्विष्वक्सेनकृपावशात् ॥ प्रहादवत्स संप्राप्तसर्वार्थः समजायत ॥ ७७ ॥ संपूर्णज्ञानवान्नज्ञे स सूर्य इव निर्मलः ॥ कल्यात्मकं विलोक्येदं जातमात्रेण तजगत् ॥ ७८ ॥ निमील्य नेत्रे निश्चितस्तस्थौ स भगवत्परः ॥ मलमूत्रादिरहित रोदनादिविवर्जितम् ॥७९॥ सर्वावयवसम्पत्तिं दृढांग दिव्यतेजसम् ॥ भगवत्पादसन्यस्त सर्वभारं निरंतरम् ।। ८० ॥ तत्पादाभोरुहध्यान- रसास्वादकधारकम् ॥ पुत्रं विलोक्य जनकः कारिर्विस्मितमानसः ॥ ८॥ सुतरां विस्मिता चासीजननी नाथनायिका ॥ जाताशौचे गते तत्र यथाशास्त्र सुतस्य तौ॥ ८२॥ तन्मातापितरौ पुत्रमादाय विगस्पृहौ ॥ प्रापतुः कुरुकानाथसन्निधिं भगवत्परौ ॥ ८३॥ शंखती- र्थसमीपे तु ताम्राया दक्षिणे तटे॥ सुस्थितं पुंडरीकाक्षं शंखचक्रधरं (३९२) प्रपन्नामृते- हरिम् ॥ ८४ ॥ वरदाभयहस्तं च धरया रमया सह ॥ नवनीरदनी- लाभं पीतवाससमच्युतम् ॥ ८५॥ आदिनाथं प्रणम्याथ कुरुकायां रमासखम् ॥ सन्निधौ तस्य देवस्य तं बालं भक्तिपूर्वकम् ॥८६॥ निक्षिप्य हेमदोलायां चिंचामूले महौजसम् ॥ चक्रतुर्नामकरणं मार इत्यस्य विश्रुतम् ।। ८७॥आत्मजप्रतिपत्तिं तां विहाय पितरौ सुते॥ विधाय तस्मिन्भगवत्प्रतिपत्ति विशेपतः ॥८८॥ प्रणम्य जग्मतुर्वेश्म निराशौ स्वीयमंजसा।।सुज्ञानधनपूर्णोसो तितिणीमूलमाश्रितः॥८९॥ आबालपोडशाब्दं च मूकभावं समास्थितः ॥ अंधवन्मूकवचायं स्थाणुवर्तते सुतः ॥ ९० ॥ सन्तोपः कोपि संप्राप्तो गताः पोडशव- सराः ।। पुत्रजन्मोत्सवोऽस्माकं वृथासीत्किल वै बत ॥ ९१ ॥ कुरं- गनगरीपूर्णों दत्तवानीशं फलम् ॥ इति व्याकुलचित्तौ तौ तत्प्रभा- वमजानतः ॥ ९२ ॥ सम्यक् शठारिभगवत्पदाजविन्यस्तसर्वात्म- भरो महात्मा ॥ नित्यं तदने स सुखं तदंघ्रिध्यानामृतास्वादपरोऽ- वतस्थे । ९३ ॥ इति श्रीप्रपन्नामृते भहार्यवेदांतिसंवादे शठकोपाव- तारकथनं नाम ञ्युत्तरशततमोऽध्यायः ॥ १०३ ॥ चतुरधिकशततमोऽध्यायः। तस्मिन्कालेथ वेदांतिस्तस्माद्रदरिकाश्रमात् ॥ अयोध्यामग- मद्धीमान्कविर्मधुरसंज्ञकः ॥ १॥ स्नात्वाथ सरयूनद्यां वेदांतिन् भगवत्परः ॥ संसेव्य सीतासहितमयोध्यारघुनन्दनम् ॥ २॥ कञ्चि- कालमुवासात्र नित्यवासरतः सदा ॥ कदाचिद्रात्रिवेलायां जलशं- कार्थमुत्थितः ॥३॥ मधुरः कविरायातो दक्षिणाभिमुखो बहिः ।। दक्षिणस्यां दिशि तदा दिव्यमप्राकृतं महः ॥ ४॥ विलोक्य विस्मि- तोत्यंतं किमेतदिति मोहितः ।। दह्यते वाग्निना ग्रामो नगरं वाथ वा महत्॥५॥दावानलोयमथ वा तदित्येवं व्यचिंतयतातिदा सुष्वाप वेदां- तिन्कविर्मधुरसंज्ञकः॥६॥ द्विवेपुदिवशेष्येवं विलोक्यात्यंतविस्मितः ।। 1

अध्यायः १०४.
(३९३)
अप्राकृतं दिव्यतेजस्तदमन्यत बुद्धिमान् ॥७॥ जिज्ञासुरथ तत्तेजः स
तस्मानिर्ययौ जवात् ॥ आसायमास्थितः सम्यग्ग्रामे कस्मिंश्चवमनि
॥८॥प्रतस्थे तत्परीक्षार्थ दक्षिणाभिमुखो निशि ॥ अरुणोदय-
पर्यतं गत्वाध्वानमकल्मपः ॥ ९ ॥ रावावेव मुहुः पश्यस्तत्तेजः
सुमहाद्भुतम् ॥ मार्गे यत्स्थानमगमत्तत्रासायमथावसत् ॥ १० ॥
साकेतनगरादेवं निर्गत्य मधुरः कविः ॥ दृष्ट्वाखिलान्दिव्यदेशान्द-
क्षिणस्यां दिशि स्थितान् ॥ ११ ॥ आससादाथ सहसा रंगक्षेत्र-
मनुत्तमम् ।। तस्यापि दक्षिणे भागे तत्तेजः समदृश्यत ॥ १२ ॥स
च तस्माद्विनिर्गत्यः कुरुकानगरं ययौ ॥ कुरुकापुरपर्यंतं तत्तेजः
समदृश्यत ॥ १३॥ तस्मादन्यत्र कुत्रापि नैवाहश्यत तन्महः॥
दृष्टतेजस्ततोत्रैव वर्तते तत्सुनिश्चयम् ॥ १४ ॥ इति निश्चित्य सुदृढं
मतिमान्मधुरः कविः ॥ तत्तेजस्तत्र सहसा तस्थौ सम्यग्गवेपयन् ।।
॥ १५॥ एवं विचिन्वतस्तस्य चिंचामूले महामुनिः ॥ कवेरलक्ष्य-
ताद्योयं मानुवच्छठजित्तदा ॥ १६ ॥ पद्मासनोपविष्टं परपदयुगुले
निविष्टचैतन्यम् ॥ परतत्त्वबोधमुद्रं परमाचार्य परांकुशं वंदे ॥१७॥
इत्येवं तितिणीमूलमाश्रितं श्रीपरांकुशम् ॥ विलोक्य विस्मयाविष्टो स
तदा मधुरः कविः ॥ १८॥ अप्राकृतमिदं तेजो दृष्टं यन्महदद्भुतम् ।।
तदेवायमितीवाशु निश्चित्य हृदि तेजसा ॥ १९ ॥ दिव्येन तस्य वे-
दांतिन्समीपमगमत्तदा ॥ मौनेन महता युक्तं मुकुलीकृतलोचनम् ॥
॥२०॥ विलोक्य विस्मयाविष्टो शठारं मधुरः कविः ॥ अंधो वा
यदि वा मूकं इत्येवं शंकितस्तदा ॥ २१ ॥ पापाणं तत्परीक्षार्थ
तदपातयदृढम् ॥ उन्मील्य नेत्रे सहसा श्रुत्वा तस्य महारवम् ॥
॥२२॥ पुरःस्थितं च पापाणमद्राभीच्छठजित्तदा ॥ नैवांधोऽयमि-
ति ज्ञात्वा संतुष्टो मधुरः कविः ॥२३॥ द्वितीयशोधनार्थाय महदा-
क्यमुवाच सः ॥ प्रकृतेरुदरे जीवो यदि जातस्तदानध ॥ २४ ॥

(३९४) प्रपन्नामृते- किं भक्षयन्वा कुत्रार्य वर्तते स पुमान् गुरो ।। तस्य तद्वचनं श्रुत्वा शठकोपस्तमब्रवीत् ॥ २५ ॥ तद्वस्तु भक्षयन्सम्यग्जीवस्तत्रैव वर्तते ॥ निशम्य तद्वचः सम्यक संतुष्टो मधुरः कविः ॥ २६॥ बकुलाभरणं ज्ञात्वा तं सर्वज्ञशिखामणिम् ॥ साष्टांगवंदनं सम्यविधाय परभक्तितः ॥२७॥ अशिश्रियन्महात्मानं शारिं मधुरः कविः ॥ कृतार्थः स तदा तेन वेदांतिन्वैष्णवोत्तमः ॥ २८ ॥ गुरुपादांबुजं ध्यायन गुरो- नाम सदा जपन् । कुर्वन्भत्त्यानिशं सम्यक्छुश्रूषां मधुरः कविः॥ ॥२९॥ अतिष्ठदनिशं सम्यक् तत्रैव गुरुसन्निधौ ॥ तस्मिन्काले शठारातेः प्रत्यक्षमगमद्धरिः॥३०॥ आदिदेवो जगन्नाथो वासुदेवो जगत्पतिः ॥ चतुर्भुजः श्यामलांगो परमव्योम्नि तिष्ठति ॥ ३३ ॥ वैकुंठनाथो भगवान्स एव जगतां पतिः ॥ वैनतेयं समारुह्य श्रीभूनी- लादिशोभितः ॥ ३२ ॥ स्वरूपरूपनिखिलगुणैश्वर्यादिशोभितः॥ सम्यग्युगपदेवास्य सर्व साक्षात्कृतं मुनेः ॥ ३३ ॥ यन्महद्भगवद्रूपं तत्कल्याणगुणादिकम् ।। अनुभूयामकृत्सम्यक् तत्सर्व शठजित्तदा ॥ ३४ ॥ ब्रह्मानंदाणवे मनो किंचिदन्यं न वेद सः॥ यदिव्यात्मस्व- रूपं च विष्णोर्भगवतस्तदा ॥ ३५ ॥ रूपप्रकाशकं तस्य दिव्यमंग- लविग्रहम् ॥ भक्तिध्येयान्दिव्यगुणान् बुभुजे निखिलांश्च तान् ।। ॥ ३६ ॥ ब्रह्मानुभवसंजातप्रमोदा न ममुस्तदा ॥ सुमहांतोथ वेदां- तिन्वकुलाभरणोदरे॥ ३७ ॥ निर्ययुः शठजिद्रकात एवार्थास्ततोऽ- नव ॥ चतु-प्रबंधरूपेण वेदा इव चतुर्मुखात् ॥ ३८ ॥ ततश्चतुर्णा वेदानां सारार्थ सम्यगेव हि ॥ उद्धृत्य विदधे सम्यक् प्रबंधाश्चतुरः क्रमात् ॥ ३९॥ऋग्वेदार्थ समुद्धृत्य प्रबंधं विदधे तदा ॥ श्रीवृत्ताख्यं शठारातिः शतगाथाविराजितम् ॥ ४० ॥ यजुर्वेदार्थमादाय चक्रे द्राविडभापया ॥ अशि-ख्य प्रबंधं च सतगाथाविराजितम् ॥ ॥४१॥ अथाथर्वागमार्थेन तं महांतादिनामकम् ॥ प्रबंधं लोकरक्षार्थ ( ३९५.. ... अध्यायः १०४. शगरिरकरोन्महान् ॥ ४२ ॥ तत्र प्रकीर्तिता गाथास्ताः सप्ताशीति- संख्यकाः॥ सामवेदार्थसारेण प्रबंधश्चरमो महान् ॥ १३ ॥ सहस्र- गीतिनामानं सर्वलोकहिताय च ।। विधाय कारितनुजः सर्व जगद- पालयत् ॥४४॥ गाथाः सहस्रं द्विशततमाश्चात्र प्रकीर्तिताः ॥ प्रबं- धे चरमे तत्र सम्यगर्थोयमीरितः ॥ ४५ ॥ प्राप्यस्य ब्रह्मणो रूपं प्राप्तश्च प्रत्यगात्मनः॥ प्राप्त्युपायं फलं प्राप्तेस्तथा प्राप्तिविरोधि च ॥ १६ ॥ इत्यर्थपंचकं ज्ञानं तत्रैवं समुदाहृतम् ॥ निखिलागम- वेदांतशास्त्रसारतमं शुभम् ॥ ४७ ॥ द्वयात्परतरं नास्ति मंत्रो वेदेष्वपि द्विज ।। इत्येतद्दयमंत्रार्थ वेदसारतमांशकम् ।। ४८॥ विश- दं लोकरक्षार्थ तद्वयं सम्यगूचिवान् ॥ सहस्रगीतिकरणकालेषु नि- खिलाः सुराः ॥४९॥ शठकोपांतिकं जम्मू रंगेशादिस्थलाधिपाः॥ शठारिदिव्यस्तोकपात्रतां लब्धुमिच्छवः ॥ ५० ॥ उत्कर्पता जग- त्यस्मिन्यथैव महती भवेत् ॥ चिंचामूलनिवासाय शठकोपाय च- क्रिणः ॥५१॥ मुखप्रदानं विदधुस्ते सर्वे विष्णुमूर्तयः ॥ महांत शठकोपस्य श्रुत्वा वैभवमादरात् ॥५२॥ द्रष्टुकामास्तदाजग्मुर्वैकुं- ठान्नित्यसूरयः ॥ अन्ये च निखिला देवाः श्वेतद्वीपनिवासिनः॥५३॥ शटारिर्वतते यत्र कुरुकानगरी तदा ॥ दृष्ट्वा समागतान्सर्वान् प्रह- एस्तान्दिवौकसः ॥५४॥ मंगलाशासनं कृत्वा श्रीवैष्णवसमृ- द्धये ॥ शठारिखैभवं दृष्ट्वा संतुष्टाः सकलाः सुराः॥५५॥ संप्राप्त- मंगलास्तस्मात्स्वलोकान्संप्रपेदिरे ॥ अष्टोत्तरशतस्थानस्थितानां परमात्मनाम् ॥५६॥ श्रीरंगेशादयो देवा द्वात्रिंशत्तत्र चास्थिताः।। विशेपानुग्रहप्राप्त्यै कारिसूनार्महात्मनः ॥५७॥ पृथगेकैकशः सर्वे प्रत्यक्षमगमन्मुने । दिव्यदेशाधिपतयो द्वाविंशद्विष्णुमूर्तयः ।।५८॥ वानाद्रिः पांड्यकटके वर्तते पर्वतोत्तमः ॥ भगवान्सुंदरभुजस्तत्रास्ते लोकरक्षकः ॥ ५९ ॥ प्रसन्नोभूच्छठारातेः प्रथमं कृपयानध ॥

अपनामृते- त्रिंशद्वाथाभिरस्तीपीच्छठारिभगवत्परः ॥ ६० ॥ वृपभाद्रौ महापुण्ये परमस्वामिसंज्ञकः ॥ ततो विंशतिगाथाभिः संस्तुतो वेंकटेश्वरः ।। ६१ ॥ तुंडीरमंडले कश्चिद्वर्तते घटिकाचलः ॥ नृसिंहो वर्तते तत्र देवोमृतफलाभिधः ॥ ६२॥ प्रत्यक्षमगमत्तत्र संस्तुतस्तदनंत- रम् ॥ दशगाथाभिरस्तौपीत्कुरुकायां रमासखम् ॥ ६३ ॥ कुरंग- नगरीपूर्णो गाथाभिर्दशभिः स्तुतः ॥ वानाचलाधिपो देवो भगवा- न्देवनायकः ॥ ६४ ॥ संस्तुतो दशगाथाभिर्वेदांतिञ्छठवैरिणा।। कुंभकोणाधिपो देवो ह्यपर्याप्तामृताभिधः ॥६५॥ अभिष्टुतः शार्ङ्ग- पाणिर्गाथाभिर्दशभिस्तदा ॥ केरले दक्षिणपुरे तिष्ठतं हरिमव्ययम् ॥ ६६ ॥ स्तुतं चकार दशभिर्गाथाभिः शठजित्तदा ॥ दशगाथा- भिरस्तीपीदलान्यं भ्रमरस्थले ॥६७॥ लवणाभावताताख्यश्चाका- शनगरे हरिः॥ संस्तुतो दशगाथाभिर्वेदांतिचोलमंडले ॥ ६८ ॥ धन्विक्षेत्राधिपो देवो पद्मामो भगवान्हरिः ॥ श्रीमंगलपुराधीशो भगवान्देवनायकः ॥ ६९ ॥ तावुभौ दशगाथाभिः संस्तुतौ पांडय- मंडले ॥ कुरंगनगरप्राच्यां वर्तते क्रोशमावतः ॥७०॥ तेजःपुरं तत्र शेते फणिशायी महानिधिः॥ स हरिर्दशगाथाभिर्वेदांतिन्सम- भिष्टुतः ॥ ७१ ॥ अस्तौपीदशगाथाभिः शठजिदंगनायकम् ॥ श्रीरंगनगरे प्राच्यां श्रीरामनगरे हरिः ॥ ७२ ॥ अपूपरंगनाथस्तु गाथाभिर्दशभिः स्तुतः ॥ केरले दिव्यदेशस्त तिरुवारन्विलाभिधः ॥ ७३ ॥ तवत्यो भगवान विष्णुर्दशगाथाभिरीडितः ॥ पांडये वृहत्तटाके तु चोरनाट्याभिधो हरिः ॥ ७४ ॥ गाथाभिर्दशभिः कृष्णो वेदांतिन्ममभिष्टुतः ॥ वेदांतिन्केरले देशे परिशारपुराधिपः ॥ ७९ ॥ मायाविनामकः कृष्णो दशगाथाभिरीडितः ॥ अच्युतः क्षुदनद्यां तु दशगाथाभिरीडितः ॥ ७६ ॥ भगवान् राजगोपालः श्रीसौग्भपुराधिपः॥ वेदांतिन्दशभिस्तत्र गाथाभिः समभिष्टुतः।।७।।

सन्नुतो दशगा अध्यायः १०४, (३९७) तत्रादिनाथो भगवान्विष्णुर्व्याघ्रपुराधिपः ॥ थाभिर्वेदांतिन्छठवैरिणा ॥ ७८ ॥ पांडये चिंचाकुटिर्नाम विष्णुस्थानं विराजते ॥ तत्रत्यो भगवान्विष्णुः शेषशायी जगत्पतिः ॥७९॥ संस्तुतो दशगाथाभिर्वेदांतिञ्छठवैरिणा ॥ श्रीवैकुंठमिति ख्यातं तत्र विष्णुस्थलं महत् ।। ८० ॥ तत्रैवान्यत्स्थलं चापि श्री- मदरगुणाभिधम्।।वैकुंठनाथो भगवांस्तिष्ठन्विष्णुः श्रियः पतिः॥८॥ श्रीमदरगुणोनाथो भगवान्विजयासनः॥ एकया गाथया तत्र तावुभौ समभिष्टुतौ ॥ ८२॥ केरले कार्करें नाम स्थलं मूलिकलाभिधम्॥ तिरुनाबायिनामैक वीण्येतानि स्थलानि च ॥८३॥ प्रत्येकं दश- गाथाभिः स्तुतानि शठवैरिणा ॥ शौरिराजस्तु भगवाञ्छ्रीमत्कृष्ण- पुरे हरिः॥ ८४ ॥ गाथाभिर्दशभिश्चोलकटके समभिष्टुतः ॥ मौहूरे कालमेघाख्यो भगवान्विष्णुरव्ययः ॥ ८५ ॥ गाथाभिर्दशभि- श्चैव सन्नुतः पांड्यमंडले ॥ अनंतशयने विष्णुः पद्मनाभो जगत्पतिः॥ ८६ ॥ केरले दशगाथाभिर्भगवान्समाभिष्टुतः ॥ आ- धनंतपुरे श्रीमाञ्छयानः केशवाभिधः॥८७॥ पुराणो दशगाथाभिः सन्नुतः केरलेनघ॥ तत्रत्यो भगवान्विष्णुर्दशगाथाभिरीडितः ॥८८॥ एवं हि संस्तुतास्तत्र द्वात्रिंशत्स्थलनायकाः॥ कृष्णस्य गव्यचौर्योक्ते रागाद्रामावतारतः ॥ ८९ ॥ सौंदर्येणास्य सोमुह्यन्मासानष्टादश विधा ।। वेदांतिन्संस्तुताश्चैव हरयः शठवैरिणा ।। ९० ॥ संतुष्टास्तेन ते सर्वे स्वस्थलानि प्रपेदिरे ॥ अस्मिन्नर्थे हि विख्याताः श्लोकाश्च ब- हवो मुवि ॥ ९१॥ पांड्ये द्वादश केरले भगवतः पट् सप्त चैवादरा- चोले पंच च तोंडमंडलबरे चैकं तथैवोत्तरे। एकं कारिसुतेन तेन महता चिंचानिवासेन वै द्वात्रिंशत्समभिष्टुताः शठजिता श्रीदिव्यदेशा हरेः॥९२॥ तुंडीरे घटिकाचलोभगवतः शेपाचलश्चोत्तरे चोले कृष्णपु- च रंगनगरं श्रीकुंभकोणस्थलम् ॥ श्रीमब्योमपुरं महेंद्रनगरं श्रीकारिर (३९८) प्रपन्नामृते- पुत्रस्तुतांस्तानेव प्रतिवासरं स्मरति यः श्रीमान्स भूयानरः ॥ ९३॥ वाताद्रिर्वनशैलमोहरपुरे वैकुंठतेजःपुरे श्रीनामाख्यपुरं च धन्विनगर श्रीमंगलाख्यं पुरम् ॥ श्रीमद्भरिसरोवरं वरगुणं चिंचाकुटीरं महद्विष्णोः श्रीकुरुकापुरी शठजिता पांड्ये स्तुता द्वादश ॥ ९४॥ तेन स्तुतानि स्थानानि केरले तु त्रयोदश ॥ भगवद्विपयान ग्रंथान्विधाय चतुरः क्रमात् ॥ ९५॥ सम्यङ् मधुरकव्यादिसज्जनायोपदिश्य तान् ॥ लोक- संरक्षणार्थाय कृतकृत्यो महायशाः ॥ ९६॥ पंचत्रिंशदवन्यां तु सु- खेनाब्दान्व्यवस्थितः ॥ दर्शनं परभक्तिः स्यात्परज्ञानं च संगमः ॥ ॥९७॥ पुनर्विश्लेपभीरुत्वं परमा भक्तिरुच्यते ॥ एतादृशीभिः परमभ- तिभिश्च परादिभिः ॥ ९८ ॥ अतिष्ठदेवमनिशं शठारातिर्महायशाः॥ पद्मासनस्थो भगवांश्चिचामूले दिवानिशम् ॥९९॥ मलमूत्रादिरहितः क्षुत्पिपासाविवर्जितः ॥ हरिपादांबुजध्यानरसास्वादकधारकः ॥१०॥ आपंचत्रिंशदव्दं च सुखेनैकेन वर्त्मना ॥ संपूज्यमानो विबुधैः कारिसूनुमहायशाः ॥ १०१॥ पित्रोरांनंदमतुलं विधायानेककर्मणा ॥ आचंद्रार्क प्रतिष्ठाप्य स्ववंश जगतीतले ॥ १०२॥ वैकुंठनगरं प्राप सहसा नित्यसूरिभिः ॥ तत्रैव तितिणीमूले पूर्ववत्कुरुकापुरे ॥ १०३ ॥ पद्मासनस्थो भगवानद्यापि परिदृश्यते ॥प्रपन्नजन- कूटस्थः कारिमूनुर्महायशाः॥ १०४॥ वेदांतिञ्छठकोपस्य प्रभाव- मतिमानुपम् ॥ शृण्वतां पठतां वापि स्मरतां नमतामपि ॥ १०५॥ सर्वाभीष्टानि शठजित्कृपयैव ददाति हि ॥ श्रीवैष्णवमतं सम्यगनेनैव प्रकाशितम् ॥ १०६॥ श्रीवैष्णवमतस्यास्य मुख्योयं शठजित्ततः ॥ श्रीमच्छठारिकंकर्य दृष्टादृष्टफलप्रदम् ॥१०७॥अतःशठारिभक्तानां किंन साध्यं जगत्रये ॥ वेदांतिन्छठनिद्भक्तः स एव मधुरः कविः॥को वा जगति योगीद्रं तं विना गुरुभक्तिमान् ।। १०८॥ भूत्वाकारिगृहेऽ- थ पोडशसमा मौनेन चिंचांतिके स्थित्वा वेदचतुष्टयार्थमखिलं अध्यायः१०५. (३९९). सारं समुद्धृत्य च ॥ कृत्वा लोकहिताय तेन चतुरो दिव्यप्रबंधीन्परा- न्भक्त्या श्रीहरिभूमयः शठजिता द्वात्रिंशदेव स्तुताः ॥१०९ ॥ शिष्यायाथ तथोपदिश्य कवये लोकावनार्थं भरं तस्मै तान्मधु- राय वेदसदृशान्मोक्षकहेतून्परान् ॥ पंचत्रिंशदुदारकीर्तिरवनौ स्थि- त्वा च वै वत्सरान्भेजे विष्णुपदं निरंतरसुखं श्रीकारिसूनुर्महान ॥ ११० ॥ एतत्कारिसुतस्य दिव्यचरित ज्ञानकसंवर्द्धकं श्रोतॄणाम- घनाशनं भवहरं संपत्करं सर्वदा ।। येशृण्वंति पठति सौम्यहृदया धी- राः परं मानवास्तेपां श्रीशठकोप एव सततं श्रेयः परं यच्छति॥११॥ इति श्रीप्रपन्नामृते भट्टार्यवेदांतिसंवादे श्रीशठकोपस्य श्रीरंगेशादि- प्रत्यक्षदर्शनं नाम चतुरधिकशततमोऽध्यायः ।। १०४॥ पञ्चाधिकशततमोऽध्यायः। ततो माधवदासाख्यो भट्टार्यमिदमत्रवीत ॥ कि कैंकर्य शठारा- तेश्चकौर मधुरः कविः ॥ १॥ श्रोतुमिच्छामि भट्टार्य यत्तन्मे बहि विस्तरात् ॥ तदंगीकृत्य भट्टार्यों वेदांतिनमथाब्रवीत् ॥२॥ ततः प्राथमिकः शिष्यः शठारेमधुरः कविः ॥ प्रपन्नजनकूटस्थः स्वाचा- र्य्यस्य महात्मनः ॥३॥ प्रबंधमखिलं दिव्यप्रभावमकरोत्तदा ॥ • पंचमोपायनिष्ठानां मुमुक्षूणां महात्मनाम् ।। ४ ।। उपकारो महानासी- प्रबंधश्वरमो हि सः ततोचविग्रहं सम्यकारयित्वायुरोस्तदर॥५॥यथा- शास्त्रं प्रतिष्ठाप्य कुरुकानगरे गुरुम् ॥ तत्रैव तितिणीमूले विस्तृते दि- व्यमण्डपे ॥६॥ महोत्सवांश्च सकलानुत्सवान्कारयंस्तदा ॥ गुरूं प्रकाशयन् धीमानतिष्ठत्सयथासुखम् ॥ ७ ॥ कुरुकानगरे सम्य- गश्रावि सुमहान् वः ॥ महाकाहलिकोत्पन्नः शजित्कीर्तिसूचकः ॥ ८॥ कारिमारस्समायाति कुरुकानगरीश्वरः ॥ सहस्रगीतिदेवश्च समायाति परांकुशः॥ ९॥ द्राविडाम्नायकृत्स्वामी कविकण्ठीरव- स्त्विति ॥ एवं बहुविधं तत्र देशे शजितो यशः ॥१०॥ सर्वत्र

(४००)
अपन्नामृते-
तेन मधुरकविना संप्रकाशितम् ॥तस्मिन्काले कविः कश्चित्कंवनामा
महायशाः ॥११॥ बभूव द्राविडश्रेष्ठः
कविकंठीवो महान् ॥
मधुरायां पांड्यदेशेकवीनां त्रिशतेन च॥ १२॥ अवर्तत जितारातिस्स-
कम्बाख्यः प्रकीर्तितः॥ तस्य शिष्याः समाकर्ण्य तच्छठारातिवैभवम्
॥ १३॥ काहली रुरुधुः शीघ्रं तां गर्वादसहिष्णवः ॥ तदृत्तांतं समाः
कर्ण्य विस्मितो मधुरः कविः ॥ १४ ॥ कंबप्रेष्यान्समाहूय वाक्यमे-
तदुवाच ह । किमर्थमागता यूयं तस्मादेशादिहानघाः ॥१५॥
केन संप्रेपिताश्चैव कारणं वदताशु मे ॥ युष्माभिर्लोकनाथस्य शठा-
रातेमहात्मनः॥१६॥ अपराधोऽधुना वत्साः किमर्थ विहितो महान् ॥
तस्य तद्वचनं श्रुत्वा कंवशिष्यास्तमब्रुवन् ॥ १७॥ कंबो नाम महा-
तेजाः कविरा वर्ततेनघः ॥ तस्यासंस्त्रिशतं शिष्या महात्मानः कवी-
श्वराः ॥ १८॥ किरीटधारिणः सर्वे विद्वत्सिंहासनाधिपाः॥ विद्वन्मु-
कुटसद्रत्ननीगजितपदांबुजाः ॥ १९ ॥ सर्वद्राविडशास्त्राब्धिपारगो यो
महीतले ॥ तस्य प्रेष्या वयं देशांश्चरंतो निखिलान्सदा ॥२०॥
शासनादधुना देशमिमं प्राप्ता द्विजपंभ ॥ द्राविडाम्नायदेवोयं परांकुश
इतीव च ॥ २१॥ अश्रावि काहलीनादो ह्ययास्माभिः पुरेऽत्र हि ॥
विद्यमाने कविश्रेष्टे कंबेऽस्माकं गुरूत्तमे ॥ २२॥ द्राविडाम्नायदेवत्व-
मन्येषां कथमहति ॥ निर्जित्य कवनेनैव कंबं कविमहीपतिमा२३॥
आरोहेच्छंखपीठ तस्यैवार्हति तयशातदंगीकृत्य वचनं तेपास मधुरः
कविः ॥२४॥ कंवप्रेष्यान्समालोक्य व्याजहार वचःशुभम्।।युष्माभि-
यद्वचः प्रोक्तं तत्सत्यं साधुसंमतम् ॥ २५॥ शठारिरस्मदाचार्यों न
च कुत्रापि गच्छति ॥ दिव्यसूक्तिं शठारातेः पत्रिकायां विलिख्य च
॥२६॥ प्रदास्याम्यय युप्माकं तामादाय तदंतिकम् ॥ गत्वा कंवा-
य वृत्तांतं सम्यग् तदमयनः ॥२७॥ शंखपीठं यदिवहेच्छछजित्प-
विकापि या ॥ विद्यते फिल तत्कीर्तिः शठारेलोकविश्रुता ॥ २८ ॥

अध्यायः १०५.
(४०१)
द्राविडामायदेवत्वसूचिका नान्यथा भवेत् ॥ इत्येवं निर्णयं कृत्वा
प्रददौ पत्रिकां तदा ॥ २९॥ तामादायांजसा सर्वे शिष्याः कंबांतिकं
ययुः ॥ तवृत्तांतं निवेद्याथ ददुः कंबाय पत्रिकाम् ॥ ३०॥ वेदांति-
न्यांडयदेशे तु मधुरानगरे वरे॥शंखपीठमिति ख्यातं विद्वत्पीठं मह-
द्वरम् ॥३॥ यदस्ति तत्समाक्रांत कवीनां त्रिशतेन च ॥ जितविद्वद्गणं
धीरंतं पीठं वहतिध्रुवम्॥३२॥अन्यं प्रपातयेच्छीघ्रं विद्यापीठं न सं-
शयः॥पीठे तस्मिंस्तदा कंबः शठजित्सूक्तिपत्रिकाम् ॥ ३३ ॥ वेदां-
तिन्द्राविडकवित्रिशतेन विराजिते ॥ मध्ये संस्थापयामास कविराजो
महायशाः ॥३४॥ तत्पीठं पातयित्वाशु कवीनां त्रिशतं तदा ॥ शि-
रसा धारयामास सहसा पत्रिकां कविः ॥ ३५ ॥ कुरुकानगरं प्राप्य
कंवः शठजितं तदा ।। भत्त्या प्रणम्य तं चिंचातरोर्मूले समास्थितम् ।।
॥३६॥ कारिसून महात्मानं द्राविडाम्नायदैवतम् । शारिविपया गा-
थाः काश्चित्कृत्वा तदादरात् ।। ३७ ।। विदधे सहसा धीमानपराधक्ष-
मापणम् ॥ कवीनां त्रिशतं सम्यक्तत्तथैव तदादरात्॥३८॥शठारिविपया
गाथा बह्वीः सम्यक्पृथक्पृथक् ।। चकार सहसा भक्त्या ह्यपराध-
क्षमापणम् ।। ३९ ।। गुरुं प्रकाशयेद्धीमानिति शास्त्रोक्तमार्गतः ॥शठ-
जिद्वैभवं लोके महत्तल्लोकविश्रुतम् ॥ ४०॥ सम्यक् प्रकाशयन्म-
त्या सर्वत्र मधुरः कविः ।। लोकसंरक्षणं कुर्वन्कंचित्कालं महायशाः
॥४१॥ कुरुकायामुवासार्यों वर्द्धयन् विष्णुदर्शनम् ।। शठारिप्रमुख-
दिव्येयोगिभिस्तत्त्वदार्शभिः ॥४२॥ कृतं मुख्यतमं दिव्यं प्रबंधं मो-
क्षकारणम् । नारायणपरंसर्वमायं सारतमं विदुः॥४३॥ शुद्धसत्त्व-
मयं भक्त्या शुद्धसत्त्ववतो गुरोः ॥ एवं प्रबंधमभ्यस्य वेदातिनिखि-
लाजनाः ॥४४॥ सम्यग्विज्ञाततत्त्वार्था नारायणपरायणाः॥ निर्मुक्त-
मायासंसारा ययुर्विष्णोः परं पदम् ॥ ४५ ॥ महोपकारो लोकानां
कृतोयं दिव्यसूरिभिः ॥ मुमुक्षवोभवन्सर्वे स्त्रियः शूद्रास्तथेतरे॥४६॥

(४०२) प्रपन्नामृते- सर्ववेदांतसारार्थान्ससुद्धत्याखिलान् परान् ॥ अगस्त्यभापा- रूपेण द्राविडेन कृताः पुरा ॥ ४७॥ सर्वलोकोपकाराय प्रबंधा दिव्यसूरिभिः ॥ तस्मात्प्रबंधात्संजातसम्यग्ज्ञानास्तदाभवन् ॥४८॥ मुमुक्षयोऽखिलाः शीघ्रं मनुजा वीतकल्मपाः ॥ अतो द्राविडवेदांत सम्यग्ज्ञानैकसाधनम् ॥ १९ ॥ ज्ञानं विना न कस्यापि मोक्षो भवति वै किल ॥ तस्मादाविडवेदांतपठनं मोक्षहेतवे ॥ ५० ॥ विद्वन्नवश्यं कर्तव्यं मुमुक्षोवैष्णवस्य हि ॥५१॥ न शब्दशास्त्राभिर- तस्य मोक्षो न चैव रम्यावसथप्रियस्य ॥ न भोजनाच्छादनतत्परस्य न लोकवृत्तग्रहणे रतस्य ॥५२॥ एकांतशीलस्य दृढव्रतस्य पंचेंद्रि- यप्रीतिनिवर्तकस्य ॥ अध्यात्मविद्यारतमानसस्य मोक्षो ध्रुवो नित्य- महिंसकस्य ॥ ५३॥ शमदमनियतात्मा सर्वभूतानुकंपी विषयसुख- विरक्तो ज्ञानतृप्तः प्रशांतः ।। अनियतनियतात्मा नैव हृष्टो न रुष्टः प्रवसित इव गेहे वर्तते यः स मुक्तः ॥ ५४॥ वेदांतिन्दशभिर्दि- व्यैः सूरिभिर्लोकरक्षणम् ॥ एवं कृतं बहुविधं शठकोपादिभिर्भुवि ॥ ५५ ॥ अनादिसिद्धं बहुभिरेतद्वैष्णवदर्शनम् ॥ ततो जगत्यां मधु- रकविना वदितं मुने ॥५६॥ केनचित्कारणेनाथ एतद्वैष्णवदर्श- नम् ॥ कंचित्कालं तु वेदांतिन्नप्रकाशमिव स्थितम् ॥ ५७॥ ततः श्रीनाथमुनिना सम्यगेव प्रकाशितम् ॥ शठकोपस्य शिष्येण तदि- दं विष्णुदर्शनम् ॥ ५८ ॥ श्रीनाथमुनिशिष्येण तत्पद्माक्षेण रक्षि- तम् ॥ ततः पद्माक्षशिष्येण राममिश्रेण रक्षितम् ॥ ५९॥ एत- द्वेष्णवसिद्धांतं वेदांतिन्देशिकाज्ञया ॥ यामुनार्य ततः सम्यक् पण्मासाननुसृत्य च ॥ ६० ॥ राममिश्रो यामुनाय मतमेतददौ किल ॥ तेनैव यामुनायेण तदेतद्विस्तृतं क्वचित् ॥ ६१ ॥ यामुनाचार्य्यशिष्यैश्च महापूर्णादिभिर्महान् ॥ अयं वैष्णवसिद्धांतो यतींद्राय समर्पितः ॥ १२ ॥ ततःशेपावतारेण यतीद्रेण महात्मना ।

अध्यायः १०६. (४०३) चतुःसमुद्रपर्यंतं भूम्यां सर्वत्र चानघ ॥ ६३ ॥ अयं वैष्णवसि- द्धांतो रूढमूलः प्रकाशितः ॥ यतींदानुग्रहादेव गोविंदा-त्समागतम् ॥ ६४ ॥ रामानुजार्यसिद्धांत मत्तस्त्वं प्राप्तवान् किल ॥ त्वया चैव भविष्यद्भिर्गुरुभिः प्रचरिष्यति ॥ ६५ ॥ अयं रामानुजाचार्य- सिद्धांतः सकलावनौ ॥ दृढश्चाव्याहतः सम्यगाकल्पं च न संशयः॥ ॥६६॥ श्रीदिव्यसूरिचरितं यत्पृष्टं भवतानघ । तत्सर्व सम्यगेवोक्तं मया गुरुकटाक्षतः ॥ किमन्यच्छ्रोतुकामोसि तद्ब्रवीमि महामते ॥ ॥ ६७ ॥ इति श्रीप्रपन्नामृते भट्टार्यवेदांतिसंवादे शउजिदिव्यसूक्ति- पत्रिकाकंबशंखपीठाधिरोहणं नाम पंचाधिकशततमोऽध्यायः॥१०॥ पडधिकशततमोऽध्यायः। अस्मद्यतिः प्रणम्याथ भट्टार्य भक्तिपूर्वकम् ॥ पूर्वाचार्यकथा पुण्यां परिपप्रच्छ देशिकम् ॥ १ ॥को वा नाथमुनिरस्वामिन्कुत्रत्यः कस्य चात्मजः ॥ दिव्यप्रबंधा लोकेस्मिन्नप्रकाशायतोऽभवन् ॥२॥ कथं प्रकाशिता नाथमुनिना तेखिलाः पुनः।। अवतारं शारातिः कल्यादौ कृतवान्किल ॥३॥ त्रिसहस्र गतेऽब्दानां तत्र नाथमुनिः स्मृतः ॥ अवतार हि मेदिन्यां कृतवानिति मे श्रुतम्॥४॥ तयोर्बभूव भटार्य गुरुशिष्यक्रमः कथम् ॥ विशदं ब्रूहि मे विद्धन्सर्वज्ञ निखिलं हि तत् ॥५॥ श्रुत्वा माधवदासस्य वचः परमसंमतम् ॥ तस्मै हृष्ट- स्तदाख्यानं भट्टार्य्यः सम्यगत्रवीत् ॥ ६॥ तुंडीरचोलयोर्मध्ये मध्य- देश इति स्मृतः ।। वीरनारायणं नाम तबासीनगरं महत् ॥ ७ ॥ कश्चिदीश्वरभट्टाख्यस्तवासीद्ब्रह्मणोत्तमः॥ द्विशते च त्रिसाहस्रे चतुर्वि- शतिकायुते ॥ ८॥ कलौ युगे गतेब्दानां शोभकृन्नामके ततः ॥ संव: त्सरे ज्येष्ठमासे राकायां मित्रभेवुधे ॥ ९॥ अंशेन गजवक्रस्य विष्व- क्सेनस्य मंत्रिणः ॥ जातो नाथमुनिस्तस्य विप्रस्य सुमहायशाः ॥ १० ॥ स तु नाथमुनिः श्रीमान् सर्वशास्त्रविशारदः ॥ तेजस्वी (४०४) प्रपन्नामृते- ज्ञानसंपन्नो विष्णुभाक्तिपरायणः ॥ ११॥ दिगंतकीर्तिर्वेदांतिन् बभूव ब्राह्मणोत्तमः॥ तस्येश्वरमुनि म पुत्रोऽभूल्लोकविश्रुतः॥ १२॥ स च नाथमुनिः श्रीमान् वेदांतिन्भगवत्परः ॥ राजगोपालदेवस्य वीर नारायणे पुरे ॥ १३ ॥ कैंकण्यनिशं कुर्वन्भत्त्या सर्वाणि चान- घ॥ पितृपुत्रादिसहितो बहुकालमतिष्ठत ॥ १४ ॥ तस्य नाथमुनेः सम्यक् कुटुंबेन सहादरात् ॥ संद्रष्टुं दिव्यदेशान्हि मतिरासीन्महा- मतेः ॥ १५॥ ततः कदाचिदेवस्य सन्निधिं समुपेत्य सः॥ नत्वा श्रीराजगोपालं कृतांजलिरभापत ॥ १६॥ परित्राणाय साधूनां विनाशाय च दुष्कृताम्॥धर्मसंस्थापनार्थाय संभवामि युगेयुगे।॥१७॥ इत्युक्तरीत्या भवता गवताराः पुरा कृताः ॥ उत्तरे दिव्यदेशेषु येषु श्रीमथुरादिषु ॥ १८॥ इच्छामि सेवितुं सर्वान्मामाज्ञा प्रदीयताम् ॥ भगवान राजगोपालस्तस्यांगीकृत्य तद्वचः ॥ १९॥ अनुज्ञां प्रददौ तद्वत्स तदा नाथयोगिने ॥ अनुज्ञातस्ततस्तेन सकुटुंबो महायशाः॥ ॥ २०॥ प्रतस्थे नाथयोगींद्रस्तदोदीची दिशं प्रति ॥ महावराह श्रीमुष्णे नित्यपुष्करणीतटे ॥ २१॥ वसंतं संप्रणम्याशु ततो गोप- पुरं ययौ ॥ स्नात्वाथ वामने तीर्थे नत्वा तत्र त्रिविक्रमम् ॥ २२ ॥ सकुटुंबो महातेजाः प्रतस्थे घटिकाचलम ॥ नत्वामृतफलं तत्र नृसिंह घटिकाचले ॥ २३ ॥ तुंडीरमंडले तत्र दिव्यदेशान्प्रणम्य तान् ॥ सर्वान् क्रमेण सद्भत्तया तथोदाची दिशं ययौ ॥२४॥ उत्तरे प्रथम नत्वा वेंकटाद्रौ रमासखम् ॥ अहोबले गारुडादौ हिरण्यासुरमर्दनम्।। ॥ २५॥ विट्ठलं पांडुरंगे तु श्रीकूम कूर्मनायकम् ॥ मथुरायां बाल- कृष्णं मायायां मधुसूदनम् ॥ २६॥ गोवर्द्धने गोपवेपं. भवन्ने पद्म- लोचनम् ।। गोमंतपर्वते शौरि हरिद्वारे जगत्पतिम् ॥ २७॥ गंगासा- गरके विष्णुं चित्रकूटे तु राघवम् ॥ वृंदावने नंदसूनुं गोविंदं कालिय- ह्रदे॥ २८ ॥ नारायणं बदऱ्याख्ये नैमिपे हरिमव्ययम ॥ शालग्रा- अध्यायः १०६. (४०५) मं हरिक्षेत्रे ह्ययोध्यायां रघूद्रहम् ॥ २९ ॥ एवमादिस्थलान्यत्र चोत्तरे विश्रुतानि च ॥ सर्वाणि संप्रणम्याशु यमुनातीरमभ्यंगात् ॥ ॥३०॥ यमुनां चातिगंभीरां नानावर्तसमाकुलाम ॥ दृष्ट्वा प्रहृष्ट- स्तत्तीरे ग्रामं गोवर्द्धनाभिधम् ॥ ३१ ॥ संप्राप्य तत्र देवेशं वसंतं कृष्णमद्भुतम् ।। प्रणम्य सुतरां हष्टः स बभूव महायशाः ॥ ३२ ॥ हृद्यत्वात्तस्य देशस्य सौंदर्यातिशयारेःतत्र गोवर्द्धनग्रामे नित्यवा- समथाकरोत् ॥३३॥गोवर्द्धनग्रामपतेर्विष्णोः कैंकर्यमन्वहम्।।कुर्वन्नाथ- मुनिस्तत्र कंचित्कालमुवास सः॥३४॥ततःश्रीराजगोपालो वीरनारा- यणाधिपः॥ तस्य नाथमुनेः स्वप्ने प्रसन्नः कृपया तदा ॥ ३५ ॥ वीरनारायणपुरमायाहीत्यभ्यभापत ॥ ततः स्वप्नात्समुत्थाय विस्मितो नाथयोगिराट् ॥३६॥ पित्रा पुत्रेण चालोच्य गत्वा श्रीकृष्णसन्नि- धिम् ॥ प्रणम्य स्वप्नवृत्तांत निवेद्य हरये तदा ।। ३७ ॥ तेनानुज्ञा- पितो धीमान्वीरनारायणं ययौ ॥ कृष्णप्रसादपाथेयः सकुटुंबो महा- यशाः ॥ ३८॥ काशीमार्गेण वेदांतिजगन्नाथमवाप सः॥ सप्तसतसु लोकेषु लोकालोके चराचरे ॥ ३९ ॥ नास्तिनास्ति समं क्षेत्रमुत्तमं पुरुषोत्तमात्॥ एतादृशप्रभावं तं संप्राप्य पुरुषोत्तमम् ॥४०॥जगन्नाथ तत्र नत्वा ययौ सिंहाचलं ततः॥अहोवीर्यमहोशौर्यमहो बाहुपराक्रः॥ ॥४१॥ नारसिंहमहं वन्दे ह्यहोबिलमहोबलम् ॥ इत्येवं संप्रण- म्यार्यों नारसिंह महायशाः ॥४२॥आससादाथ सहसा श्रीवेंकट- गिरि ततः ॥ मायावी परमानंदस्त्यक्त्वा वैकुंठमुत्तमम् ॥ ४३ ॥ स्वामिपुष्करिणीतीरे रमया सह मोदते ॥ इत्येवं वेंकटगिरौ वसंतं तं रमासखम् ॥ १४ ॥प्रणम्य नाथयोगींद्रो घटिकाचलमभ्यगात् ॥ तत्रामृतफलं नत्वा नृसिंहं घटिकाचले ॥ ४५ ॥ ततो निर्गत्य स श्रीमानगाभ्रसरोवरम् ॥ तत्राभिवाद्य वेदांतिन भत्त्या श्रीयोगिरा- डयम् ॥ ४६॥ श्रीगृध्रसरसस्तीरे भीतं विजयराघवम् ॥ ततः (४०६) प्रपन्नामृते- कांचीमवापाथ सेवार्थ वरदस्य च ॥ ४७ ॥ नगरीणां च सर्वासा पुरी कांची गरीयसी॥ गिरीणां चैव सर्वेषां श्रेष्ठो हस्तिगिरिः स्मृतः।। ॥४८॥ वेगवत्युत्तरे तीरे पुण्यकोट्यां हरिः स्वयम् ।। वरदः सर्वभू- तानामद्यापि परिदृश्यते ॥ १९॥ एवं प्रणम्य वरदं हस्त्यद्रौ नाथयो- गिराट् ॥ तत्र स्थितान्दिव्यदेशान्वीक्षारण्यमथाविशत् ॥ ५० ॥ वीक्षारण्ये ततो नत्वा शयानं वीरराघवम् ॥ श्रीनिवासपुरं प्राप वर्ण- पुष्करणीतटे ॥ ५१ ॥ तामस्मन्मातरं लक्ष्मी नत्वा श्रीभक्तवत्स- लाम् ।। महीसारपुरं प्राप भक्तिसारदिक्षया ।। ५२ ॥ जगन्नाथं तत्र नत्वा मंगवल्लीमनोहरम् ॥ भक्तिसारं च सद्भत्त्या गजस्थलमवाप सः॥५३॥ तत्र कैरविणीतीरे वसंतं पार्थसारथिम् ॥ रंगेशं राघवं चैव गजार्तिघ्नं हरिं तदा ॥५४॥ लक्ष्मीनृसिंह संसेव्य महदाख्य- मनुत्तमम् ॥ मयूरनगरं प्राप तस्मात्कैरवणीतटात् ॥६५॥ यत्रावतारं विदधे महदाख्यो महायशाः ॥ विलोक्य विस्मितोऽत्यंत महांत लतिकाह्रदम् ॥ ५६ ॥ तं कूपं नाथयोगींद्रस्तत्तोयमपिबत्तदा ॥ मंगलशासनं कृत्वा मयूरपुरकेशवम् ।। ५७॥ तोयाद्रिमगमच्छीमा- न्वेदांतिनाथयोगिराट् ॥ तोयाद्रौ तुंगशयनं रंगेशं संप्रणम्य च॥५॥ आससादाथ सहसा कल्याणनगरं महत ॥ कल्याणसरास स्नात्वा नित्यकल्याणनायकम् ॥ ५९॥ देवी कोमलवल्ली च वराहस्वामिनं हरिम् ॥ नत्वा जगाम सहसा महाबलिपुरं प्रति ॥ ६०॥ तत्र स्त्रावा महापुण्ये पुण्डरीकसरोवरे ॥ महाबलिं बलिपुरे विष्णुं भूतलशायिनम् ॥६५॥ भूदेवीं संप्रणम्याशु चाहींद्रपुरमाविशत् ॥ अहींद्रे देवदेवेशं नत्वा तायनदीतटे ॥६२ ॥ चित्रकूटमवापाथ शुक्लनद्यास्तु दक्षिणे॥ कृत्वावगाहनं तत्र पुंडरीकसरोवरे ॥ ६३ ॥ गोविंदराज संसेव्य सोगमत्परमां मुदम् ।। चोलदेशमवापाथ सहसा नाथयोगिराट्।६४॥ चोलदेशस्थितान्सर्वान्दिव्यदेशान्प्रणम्य च ॥ प्रहमतुलं लेभे वेदां- अध्यायः१.७. (४०७) तिनाथयोगिराट् ॥ ६५ ॥ रंगरंगमिति ब्रूयात् क्षुतप्रस्खलनादिपु ॥ ब्रह्मलोकमवाप्नोति सद्यः पापक्षयानरः ॥६६॥ एताहशप्रभावं तं रंगेशं संप्रणम्य च ॥ कुंभकोणमवापाथ सकुटुंबो महायशाः ॥६॥ यो नरः कुंभकोणेस्मिन् क्षणार्द्धमपि तिष्ठति ॥ करस्थं तस्य कैवल्यं किमुतान्या विभूतयः ॥ ६८॥ एवं प्रभावसहिते कुंभकोणे दिनत्र- यम् ॥ स्थित्वा प्रणम्य देवेशं शार्ङ्गपाणिं जगत्पतिम् ॥ ६९ ॥ वीरनारायणपुरं सहसैवागमतदा ॥ प्रणम्य राजगोपालमनुभूयास्य विग्रहम् ॥ ७० ॥ कृतांजलिपुटस्तस्थौ वेदांतिनाथयोगिराट् । प्रसन्नो राजगोपालो भगवान्नाथयोगिने ।। ७१।। तीर्थ प्रसादं मालां च दाप- यित्वार्चकेस्तदा ॥ आनयित्वाखिलाञ् शीघ्रं तवत्यान्वैष्णवान् हरिः ॥ ७२ ॥ व्याजहार शुभं वाक्यं कृपया भक्तवत्सलः ॥स नाथमुनये सम्यग्धनधान्यादिकान्बहून् ॥ ७३ ॥ दत्त्वाशु तमिमं नाथं पूजयध्वं ममाज्ञया ॥ इत्यादिया जनाः सर्वे हरिणा पुरवासिनः ॥ ७ ॥ तत्रैव नित्यवासाय यथापूर्वमकल्पयन् ॥ वीरनारायणपुरे वेदांतिनाथ- योगिनः ॥ ७९ ॥ कैकय पूर्ववत्कुर्वन् गोपालस्य श्रियः पतेः ॥ तत्रैव नाथयोगीः स श्रीमान्समतिष्टता॥७६॥ वेदशास्त्राणि शिष्येभ्यः सम्यक् चोपदिशन्मुहुः । विद्यागोष्टया युतः श्रीमान् कंचिकालमु- वाम सः ॥ ७७ ॥ इति श्रीप्रपन्नामृते भट्टार्यवेदांतिसंवादे नाथसु- नितीर्थयात्रावर्णनं नाम पडधिकशततमोऽध्यायः॥ १०६॥ सप्ताधिकशततमोऽध्यायः। ततः श्रीवैष्णवास्तत्र प्रतीच्याः केचिदागताप्रणम्य राजगोपाल- सन्निधौ भक्तिसंयुताः ॥ १॥ श्रीशार्ङ्गपाणिविपया दश गाथा मह- तरा॥ सम्यग्विज्ञापयामासुः कारिमारकृतास्तदा।।२॥ सम्यङ् नाथ- मुनिः श्रुत्वा तदा हृद्यममुं स्तवम् ॥ प्रहष्टो वैष्णवाञ्छीघ्रामिदं वचन- मत्रवीत् ॥३॥ एप प्रबन्धो विबुधा भाति हृद्यतमो महान् ॥

(४०८) प्रपन्नामृते- सम्यक् पारायणं सर्वप्रवन्धस्य विधीयताम् ॥ ४॥ ते नाथयोगिवचन श्रुत्वेदं वैष्णवास्तदा ॥ वेदांतिन्देशिक श्रेष्ठमिदं वचनमब्रुवन् ॥५॥ एतावन्मात्रमस्माभिगृहीतं स्तोत्रमेव हि ॥ सांतप्रबंधवाल्लोके न कश्चिदिह विद्यते ॥६॥ तत्पुस्तकं वा कुत्रापि न चास्माभिर्विलो- कितम् ॥ स तेपां तद्वचः श्रुत्वा नाथयोगी महायशाः॥७॥ सम्यक तीर्थप्रसादांश्च वैष्णवेभ्यो ददौ मुदा ॥ ततः सञ्चितयामास स मुनि- नाथपूर्वकः ॥ ८॥ सहस्र तु दशेत्यत्र तदिदै समुदीरितम् ॥ किंवा दशकमेतद्धि शतके समुदीरितम् ॥ ९॥ तस्माद्विशोध्य ताः सर्वा ग्रहीतव्याः प्रयत्नतः॥श्रीशाङ्गपाणिविपयःप्रबंधोय महांस्ततः॥१०॥ तस्मात्तमद्य सहसा संग्रहीष्ये द्विजोत्तमात् ॥ इति संचित्य वेदांतिन्, मतिमात्राथयोगिराटू ॥११॥तं प्रबंधमहाभत्त्यातस्मात्संगृह्य योगिरा- ट्रकुंभकोणंततोगत्वातस्मादष्टांगयोगतः॥१२॥प्रत्यक्षविषयं सम्य- ग्विदधेशाङ्गिणं हरिम्।।योगेनाराधितः सम्यगपर्याप्तामृताभिधः।।१३।। प्रसन्नः प्राह वेदांतिन् नाथाय्य योगिपुंगवम् ॥ ताम्रपर्णीसरित्तीरे कुरुकानगरे वरे ।। १४॥ मद्भक्तःशठकोपाख्यो वर्त्तते दिव्ययोगि- राष्टू ॥ सहस्रगीतिस्तेनैपा कृता शठजितानघ ॥ १९ ॥ तत्र गत्वा गृहाणेमां तस्माच्छठजितोऽनघ ॥ निशम्य भगवद्वाक्यं नाथयोगी प्रणम्य तम् ॥ १६॥ तेन संप्रेषितः शीघ्रं कुरुकानगरं ययौ । आ- दिनाथं प्रणम्याथ कुरुकायां रमासखम् ॥ १७॥ चिंचामूले शठा- राति तं च तत्र ददर्श सः॥ शिष्यं महांत मधुरकविं तत्र तदानघ ॥१८॥श्रीपरांकुशदासाख्यं गुरुभक्तिपरायणम् ॥ स तं प्रणम्य वेदांतिन् व्याजहार वचः शुभम् ।। १९॥ को वास्ति किं पुरे चार शठजित्सूक्तिपाठकः ॥ तत्सूक्तिपुस्तकं चापि विद्यते चेद्वदाधुना ॥२०॥ श्रीपरांकुशदासोऽथ तद्रवः प्रतिगृह्य सः ॥ तन्नाथमुनि- मुद्दिश्य स जगाद वचः शुभम् ॥ २१ ॥ कारिमारकृता दिव्यप्रबं- अध्यायः १०७, (४०९) चाः पूर्वमेव हि ॥ तत्पुस्तकं तत्पठनः कोपि नास्त्यधुना महान् ॥ २२ ॥ तत्कारणं प्रवक्ष्यामि श्रूयतामवधानतः ॥ पुरा शठारि- भगवाल्लोकसंरक्षणाय च ॥२३॥ वेदसारतमानान्समुद्धृत्य प्रय- नतः॥ दिव्यप्रबंधांश्चतुरश्चक्रे द्राविडभापया ॥ २४ ॥ सारांशभूत- स्तत्रापि प्रबंधश्वरमो महान् ॥ सद्यो मोक्षप्रदः सर्वशास्त्रसारतमोऽ- नघ ॥२५॥ दिव्यः सहस्रगीत्याख्यः पापिनामपि मुक्तिदः ॥ तं प्रवंधं शठारातिः कृत्वा मोक्षककारणम् ॥२६॥ मधुरायोपदि- श्याशु कवये कृपया तदा ॥ जगाम योगिराण्नाथ तद्विष्णोः परमं पदम् ॥ २७ ॥ सहस्रगीत्यध्ययनात्सर्वे निर्धूतकल्मपाः ॥ मुक्ति गतास्तत्समाप्तिदशायामेव सत्वरम् ॥ २८ ॥ नैतध्ययनं तेन जने- नाकारि केनचित् ॥ अतोऽपि द्राविडाम्नायपठनं भुवि दुर्लभम् ॥२९ ॥ तस्य द्राविडवेदस्य संप्राप्तं दुर्यशस्ततः ॥ प्रबंधो मारक इति केचित्पाहर्जना यतः ॥ ३०॥ केचिन्मूढतमास्तत्र दुर्मत्रं विद- धुस्ततः॥ यदि तत्पुस्तकं लोके वर्तते निखिला जनाः॥ ३१ ॥ अज्ञानेन पठित्वाशु मरणं यांति निश्चयम् ॥ तत्पुस्तकं नदीपूरे नि- क्षेप्तव्यं ततो ध्रुवम् ॥ ३२ ॥एवं विधाय दुमैत्रं केचिन्मूढतमा जनाः॥ तत्सूक्तिमात्र संगृह्य पत्राणि निखिलानि वै ॥३३॥ ताम्रपर्णीनदी- पूरे पातयामासुरग्रतः ॥ तत्रैकपत्रं सहसा प्रवाहाभिमुखं यया ॥३४॥ श्रीशार्ङ्गपाणिविपयं दशपद्यैकशोभितम् ॥ प्रत्युद्गतं प्रवा- हस्य पत्रं दृष्ट्वातिविस्मिताः ॥ ३५ ॥ कश्चिदर्थो महानस्तीत्येव- मित्याहता जनाः॥ तामेव जगृहुः सर्वे पत्रिकां विबुधर्षभाः॥३६॥ अतः सहस्रगीत्यां हि दशगाथा हि ता भुवि ॥ शठारिकृपयैवाथ गुरुमै मधुरः कविः ॥३७॥ शठकोपस्य कैंकर्य विधायानुत्तमं महत् ॥ संप्रकाश्य स्वगुरवे भूम्यां सर्वत्र विश्रुतम् ॥ ३८ ॥ बहुकालांत प्रपि ताद्रष्णोः परमंपदम् ॥ शठारिविपयः कश्चित्पबैकादशशो- (४१०) प्रपन्नामृते- मितः ॥ ३९ ॥ स प्रबंधो हि मधुरकविनाकारि विश्रुतः ॥ तस्मा- कवर्मम प्राप्तः स प्रबंधो गुरोर्महान् ॥ ४०॥ मत्तो गृहीत्वा नाथार्य तं प्रबंधं महत्तरम् ।। भक्त्या द्वादशसाहस्रसंख्यया पठतस्तव ॥४॥ शठारातिर्धवं शीघ्रं सुप्रसन्नो भविष्यति ॥ यदि प्रसन्नः शठजित्प्रबं- धाः सकलास्तव ॥४२॥ संप्राप्ता एव नाथार्य संशयोत्र न विद्यते। तदंगीकृत्य वचनं प्रबंध प्रतिगृह्य तम् ॥ ४३ ॥ दीर्घप्रणामैर्बहुभिः शठारात प्रणम्य च ॥ तस्याभिमुखमासीनो वेदांतिनाथयोगिराट् ॥४४॥ भक्त्या द्वादशसाहस्रवारं तच्च जज़ाप सः ॥ लक्ष्मीपुरुप- कारेण प्रसन्नो नाथयोगिनः ॥ ४५ ॥ कारिसूनुः कृपासिंधुर्वभूव शजिन्महान् ॥ आस्तिको धर्मशीलश्च शीलवान्वैष्णवः शुचिः ॥४६॥ गंभीरश्चतुरो धीरः शिष्य इत्यभिधीयते ॥ इत्यादिगुण- युक्ताय धीमते नाथयोगिने ॥४७॥ जगाद निखिलानन्यथा वा- गशरीरिणी ॥ सहस्रगीतिप्रमुखान्प्रबंधाञ्छजित्तदा ॥४८॥ दिव्यं चक्षुर्यथा कृष्णः पार्थाय कृपया ददौ ॥ तथैव नाथमुनये दिव्यनेत्रं प्रदाय च ॥ १९ ॥ तत्वत्रयं तथा सम्यग्रहस्यत्रितयं तथा ॥ इति श्रीविष्णुसिद्धांतं योगमष्टांगमादरात ॥५०॥ सम्यग्भविष्यदा- चार्यविग्रहं निखिलं च तत्॥ सहस्रगीतिपठनं ये कुर्वति महात्मकाः।। ॥५१॥ देहावसाने मोक्षो हि तेपामिति विनिर्णयः॥विधाय सर्वमेवाशु स तस्मै प्रददौ मुदा ॥५२॥ एवं नाथमुनेः शीघ्र शठरेर्दिव्ययोगि- नः॥ तदा सर्वार्थसंप्राप्तिः कृतार्थः संग्रहर्पितः॥५३॥ संसेवयन्नादि- नाथं वकुलाभरणं च तम् ॥ कुरुकायां महाभत्त्या कंचित्कालमति- एत ॥५४॥ माधवः संप्रहृष्टोथ भट्टायमिदमत्रवीत् ॥ अशरीरगिरा प्राह शठारिनिखिलं किल॥५५॥तम विग्रहं तस्मै परोक्षं दत्तवान् कथम् ॥ को वा भविष्यदाचार्यविग्रहः कीदृशः स्मृतः ॥५६ ।। विशदं ब्रूहि मे विद्वंस्तत्सर्व कृपया गुरो ॥ तदंगीकृत्य वचन भट्टार्य-

अध्यायः १०७
(१३)
स्तमथात्रवीत् ॥ ५७ ॥ वेदांतिञ्छृणु वक्ष्यामि निगृह्यद्रियवाजिनः।।
अतिगोप्यमिमं विद्धन्मन्नाथाख्यमनुत्तमम् ॥५८॥ ततः संप्राप्तसर्वार्थः
कृतार्थः प्रणिपत्य तम् ॥ एवं विज्ञापनं चके शारिं नाथयोगिराद्
॥५९॥ स्वामिन्सहस्रगीत्यां तु झवतारादिसूचकः ॥ महतः कस्य-
चिच्चात्र पद्यं किञ्चित्समीरितम् ॥ ६० ॥ तस्यार्थं कृपया ब्रूहि करु-
णाकर मेऽधुना ॥ तदंगीकृत्य वचनं शउजिन्नाथयोगिनः ॥६१॥ स्वयं
भविष्यदाचार्यविग्रहाकारवांस्तदा ॥ कस्यचिच्छिल्पिनः स्वप्ने प्रसन्नः
प्राह ते गुरुः॥६॥शिल्पिन्ननेन रूपेण कृत्वा विग्रह परममित्सन्निधौ
मामकाय देहि श्रीनाथयोगिने।।६।।ततः स्वमात्समुत्थाय शिल्पी वि-
स्मितमानसःतथैव विग्रहं कृत्वा प्रददौ नाथयोगिने ॥६॥ ततः स
नाथयोगोंद्रः पद्माक्षाय ददौ तदा ॥ पद्माक्षो राममिश्राय तमचर्चावि-
ग्रहं ददौ ।। ६५ ॥ राममिश्रो यामुनाय श्रीरंगेष्वदिशत्स तम् ॥ आ-
दिशत्स्गपि तं देवं गोष्ठीपूर्णाय यामुनः॥६६॥ गोष्ठीपूर्णस्य दुहि-
ता काचिदासीन्महामतिः ॥ देवकी श्रीरिति ख्याता भक्तिज्ञानस्वरू-
पिणी ॥ ६७ ॥ तं देवमदिशत्तस्मै पिता दुहितवत्सलः ॥ मंत्रं गृह्णति
योगीरे गोष्टीपूर्णाद्गुरोस्तदा।। ६८॥ रामानुजार्ये सहसा नादृश्यत स
विग्रहः ॥ एवं गुह्यतमो गर्थो मयैव रहसि श्रुतः ॥ ६९॥ अतोयं ल-
क्ष्मणाचार्यः साक्षाद्विष्णुर्न संशयः ॥ तत्संबंधबलेनैव सर्वेपां परम
पदम् ॥७०॥ पोलिहेत्यस्य पद्यस्यस्पष्टार्थो यतिपुंगवः ॥ उदभूत्तेन
सर्वेषां मुक्तिदाता स एव हि ॥७१॥ यतो भविष्यदाचार्यविग्रहो
यतिपुंगवे॥ लीनमासीत्ततस्तस्माद्गुरोः कोऽन्योधिऽको भुवि ॥७२॥
नाथायर्यादिगुरूणां च श्रीशठार्यादियोगिनाम् ॥ तत्संबंधबलेनैव मोक्षो-
न्येषां च निश्चितः ॥७३॥ पुरा भगवता प्रोक्तं हारीतं प्रति चानघ।
ब्रह्मन्कलियुगे प्राप्ते धर्मे न श्रुत्तेरिति ॥७॥ मदतः सर्वधर्मज्ञस्तव
गोत्रसमुद्भवः ॥ शारीरिकमहाभाष्यग्रंथकर्ता जितेंद्रियः ॥ ७ ॥

(४१२)
प्रपन्नामृते-
तस्य संबंधिनः शिष्याः सुराणामपि दुर्गमम् ॥ मामवाप्यैव ते सर्वे
गमिष्यंति परां गतिम् ॥ ७६ ॥ पुरातेवासिनः कचिद्यतीद्रस्यां-
तरंगिणः ॥ निपीड्य चरणौ गाढमिदं वचनमब्रुवन् ॥ ७७ ॥ यति-
राज दयासिंधो शृणु विज्ञापनं गुरो ॥ यादवाचलमाहात्म्ये श्लोकोऽयं
विद्यते किल ॥७८॥ अनंतः प्रथमं रूपं द्वितीयं लक्ष्मणस्तथा ॥ तृ-
तीयो बलरामश्च कलौ कश्चिद्भविष्यति ॥ ७९ ॥ कश्चिच्छब्दस्य भ-
गवन्नजमर्थं वदाशुनः॥ बहुभिः प्रार्थितः शिष्यैर्यतींद्रिः स रहोऽब्रवीत्
॥ ८० ॥ अहमेवेति तस्यार्थः कलौ रामनुजः स्मृतः ॥ ॥ अतो रा-
मानुजं भूम्यां लोकरक्षणहेतवे ॥ ८१ ॥ अवतीर्ण विजानीहि ह्यनंतं
सर्वमुक्तिदम् । भट्टार्य्यवचसा तेन संतुष्टश्छिन्नसंशयः ॥ ८२॥ अ-
स्मद्यतिः पुनः प्राह वचनं गुरुपुंगवम् ॥ ततः संप्राप्तमार्थों नाथ-
योगी महायशाः ।। ८३॥ किं चकार गुरुश्रेष्ठ तदृत्तांत वदाशु मे ॥
तस्य तद्वचनं श्रुत्वा भट्टार्य्यस्तमथाब्रवीत् ॥ ८॥ वेदांतिनाथयोगी;
द्रः प्राप्तसर्वार्थसंचयः॥ शठारसेवैकरतस्तत्प्रबंधमनुत्तमम् ॥ ८५ ॥
पठंस्तत्सन्निधौ भक्त्या तत्कैकर्यपरोऽनिशम् ॥ तत्र विस्मृतगोपालः
कंचित्कालमुवास सः॥८६॥ म तदा राजगोपालः स्वप्ने नाथस्य
योगिनः॥प्रसन्नःप्राह वेदांतिन्सर्वलोकहितं वचः ॥८॥शीघ्रंमत्पुरमा-
याहि गुरुणाज्ञापितोऽधुना ॥ शमादिगुणवद्यश्च वैष्णवेभ्यः प्रदाय
तान् ॥८८||दिव्यप्रबंधान्सकललोकसंरक्षणं कुरु ।। ततस्तत्सर्ववृत्तांत
सन्निधौ गुरुदेवयोः॥८९॥विज्ञाप्य ताभ्यां नाथार्यः स तदाज्ञापितो
महान् ॥ श्रीकुंभकोणनगरमवाप सुमहायशाः ॥९० ॥ अपर्याप्तामृतं
तव शाहपाणिं ननाम सः॥ लीनाः प्रबंधा येनोऱ्या सर्वे ते पुनरु-
घृताः॥९१ ॥ संप्रष्टोथ नाथार्यः श्रीहरेः शाङ्गिणोनघ । दिव्य-
सूर्याभिधां तस्य संतुष्टः प्रददौ ततः ॥ ९२ ॥ अपर्याप्तामृतार्याख्यं तं
वदति बुधास्ततः ॥ ततोऽगमरपुर शीघ्र वीरनारायणाभिधम् ॥ ९३॥

अध्यायः १०८,
(४१३
प्रणम्य राजगोपालं भत्त्या तत्सन्निधौ तदा ॥ विज्ञाप्य तच्च सकले ते
नानुज्ञापितो गुरुः ॥ ९४ ॥ श्रीवैष्णवेभ्यः सर्वेभ्यस्तान्सर्वान द्वावित
डागमान् ॥ कृपयैवोपदिश्याशु जगत्सर्वमपालयत् ॥ ९५ ॥ अचिंत-
यत्ततो धीमान वेदांतिनाथयोगिराट् ॥ शठकोपोजसा मह्यं प्रबंधान्प्र-
ददौ किल ॥९६॥ तनिष्क्रयार्थ लोकस्मिन्मया शिष्येण विस्तृतम्।।
तत्प्रबंधप्रवचनं कर्त्तव्यं सम्यगेव हि ॥९७॥ इति संचिंत्य वेदांतिन्म-
तिमानाथयोगिराट् ॥ भागिनेयद्वयेनाथ प्राक्पश्चात्पुरवासिना॥९८॥
देवगानयुतं सम्यक्तं प्रबंधमकारयत्।।यथोदात्तानुदात्तादिसर्वान्भेदानने
कंधा ॥९९॥ वेदव्यासस्तु भगवान्सम्यग्वेदेष्वकल्पयत् ॥ तथा द्रा-
विडवेदेपि कल्पयित्वा स्वरांश्च सः ॥ १०० ॥ प्रबंधं देवगानेन ज-
गावग्रे श्रियः पतेः । ततः संशिक्षितौ तेन मातुलेन महात्मना।।१०१॥
तौ भागिनेयौ मधुरस्वरौ श्रीवैष्णवोत्तमौ ॥ प्रबंधं देवगानेन राजगो-
पालसन्निधौ ॥ १०२॥ अगायेतामहोरात्रमुत्सवादिषु चादरात् ॥ य-
था रामायणं सम्यक् पुरा कुशलवाविव ॥ १०३॥ ततःप्रभृति वेदां-
तिञ्छीरंगेश्वरसन्निधौ ॥ नित्यमव्याहतं सम्यक्छ्रीनाथमुनिशासनात
।।१०४ ॥ तदेव गानमद्यापि श्रूयते चोत्तमं महत।। एवं स नाथयो-
गींद्रो वेदांतिन् रंगिशासनात् ॥ १०५ ॥ संलीनं सम्यगुद्धृत्य तं
प्रबंध महत्तरम् ॥ शिष्येभ्यो बोधयन्सम्यक् सर्वेभ्यः सकलावनौ ॥
गुरुं प्रकाशयन्सम्यगुवास सुमहायशाः ॥ १०६ ॥ इति श्री-
प्रपन्नामृते भट्टार्यवेदांतिसंवादे नाथमुनेर्भविष्यदाचार्यविग्रहप्राप्ति -
म सप्तोत्तरशततमोऽध्यायः ॥१०७॥
अष्टोत्तरशततमोऽध्यायः।
अथ वारांगना काचिदेवगानविशारदा ॥ मर्त्यगानकनिपुणा का.
चिदन्या बभूव ह ॥ १ ॥विद्यावैदग्ध्यहेतोस्ते स्पर्द्धमाने स्त्रियौ तदा।
जग्मतुश्चोलभूपालसन्निधिं जयकांक्षया ।। २ । तयोवृत्तांतमाकर्ण्य
चोलराजो महीपतिः॥ आनयामास विवुधांस्तत्परीक्षकहेतुना ॥३॥

(४१४) प्रपन्नामृते- राजाज्ञया बुधाः सर्वे नानादेशनिवासिनः ॥ क्रिमिकंठस्य चोलस्य नगरं जग्मुरंजसा ॥४॥ तदा राजसभास्थाने विद्वत्संघविराजिते । अगायेतां क्षितीशस्य शासनाद्वारयोपितौ ॥५॥ देवगानवती सम्य- ग्देवगानं जगौतदा। मर्त्यगानवती सम्यङ् मत्यगानं जगौतथा॥६॥ मयंगानेन मनुजाः संतुष्टाश्च तथा नृपः ॥ सम्मान बहुशश्चक्रे तस्यै वारस्त्रिये तदा ॥ ७ ॥ ते तदाज्ञातदोषेण देवगानस्य मानवाः ॥ तस्वामनादरं चक्रुरंगनायां नृपादयः ॥ ८ ॥ ततोऽवमानिता तेन भूपेन निखिलैर्जनः ।। प्रज्ञावती तदा चैवं वारस्त्री समचिंतयत्॥९॥ देवगानमिदं देवा जानंत्येव न मानवाः॥ गानं तदेतत्कर्तव्यं देवता- सन्निधौ किल ॥ १०॥ इत्येवं सम्यगालोच्य सा बारवनिता तदा ॥ चचार निखिलान्दिव्यदेशान्भक्त्या श्रियः पतेः ॥ ११॥ वीरनारा- यणपुरं ततो गत्वांगना तदा ॥ जगौ सम्यग्देवगानं राजगोपालस- निधौ ॥१२॥ तदेतत्सम्यगाकर्ण्य देवगानविशारदः॥ श्रीनाथयोगी संतुष्टः स तस्यै वारयोपिते ॥१३॥ तीर्थ प्रसादं मालां च परिपट्ट ददौ तदा ॥ प्रणम्य नाथयोगींद्र सा वारवनिता तदा ॥ १४ ॥ चोलराजांतिकं गत्वा वचनं चेदमब्रवीत् ॥ वीरनारायणपुरे देवगान- विशारदः ॥धीमानाथमुनि म वर्तते वैष्णवोत्तमः ॥१५॥ स एवं वेत्ति चोलेंद्र देवगानं ममाधुना ॥ तदंगीकृत्य वचनं चोलेंद्रो ' वारयोपितः ॥ १६ ॥ आनयामास चोलेंद्रः संमानेन महौ- जसम् ॥ तेन राज्ञा समाहूतो राजांतिकमुपागतः ॥ १७ ॥ राज्ञा प्रत्युद्गतो दूराद्भक्त्या संपूजितस्तथा ॥ वेदांतिनाथयोगींद्रो राजगोष्टी विवेश सः ॥ १८ ॥ तदा राजा समाहूय ते चोभे वारयो- पितौ ॥ नाथार्यसन्निधावाज्ञामदिशद्गीतकर्मणि ।। १९ ॥ मर्त्यगानं देवगानं तद्दयं समवर्तत ॥ मर्त्यगानेन मनुजाः पूर्ववद्धपमाययुः ॥ ॥२०॥एक एव स नाथार्यो देवगानान्मदं ययो॥चोलेन्द्रो मतिमा- अध्यायः १०८. (४१५) नाथमुनिमेवं वचोब्रवीत् ॥ २१॥ ज्ञातुं महादेवगीतरुपायं ब्रूहि नः स्फुटम् ॥ तदंगीकृत्य वचनं नाथायौँ भूपमत्रवीत् ॥ २२॥ शृणु रा- जन्प्रवक्ष्यामि देवगानस्य लक्षणम् ॥ सलक्षणं देवगानं यो वा वेत्ति महीतले ॥२३॥सतालनादश्रवणादेत्ति तालप्रमाणकम्॥ इत्युक्तं तद्व- चः श्रुत्वा तदानीमेव भूपतिः॥२४॥ चत्वारिंशोत्तरं तालत्रितयं चानयत्ततः॥आनीयाथ स नाथार्यसन्निधौ विस्मयान्वितः॥२५॥ शृण्वतां चैव सर्वेषां प्रत्येकं चोलभूपतिः ॥ वादयित्वाशु तत्तालप्रमा- णं तत्सभांतरे ॥२६॥ जिज्ञासुस्तत्र नाथार्य भूमिपालस्तमब्रवीत् ॥ निनदः काश्यतालानां श्रुतः खलु मुने त्वया ॥२७॥ प्रमाणमुच्यतां नाथमुनेसम्यगितीरितम् ॥राजवाक्यं ततः श्रुत्वा यज्ज्ञातं तेनभूभृता ॥ २८ ॥ तावदेव मुनिः प्राह राजा तुष्टोऽभवत्तदा ॥ यत्तालनाद- श्रवणायदुक्तं यत्प्रमाणतः ॥ २९ ॥ तत्प्रमाणेन तुलया तद्विशोध्य स भूमिपः ॥ तस्य न्यूनाधिकाभावात्संप्रदृष्टः स तं तदा ॥ ३० ॥ महाश्चर्य्ययुतो नाथपादकंजं प्रणम्य च ॥ धनं बहुविधं सम्यगप्प्या- मास भक्तितः॥३१॥ निराकृतशिवब्रह्मवैभवो नाथयोगिराट् ॥ निः- स्पृहस्तद्धनं सर्वे निराकृत्य महायशाः ॥ ३२॥मास्तु राजधनं मेऽद्य चेति सम्यगुवाच ह ॥ कृत्वाशिपं नृपे प्रीत्या परिनायणं ययौ॥३३॥ नाथयोगिप्रसादेन देवगानविशारदा ।। राजप्रसादसंपन्ना सा संतुष्टा- भवत्तदा ॥३४॥ पूर्ववदाजगोपालदेवस्यानिशमादरात् ॥ कैंकर्य विदधत्सम्यगतिष्ठत्स हियोगिराट् ॥३५॥ महांतमधिकं वीक्ष्य प्रभाव नाथयोगिनः ॥ संजातभक्तिभावास्तं जनाः सम्यक् समाहिताः॥ ॥३६॥ तस्यांतेवासिनो धीरास्तत्रैकादश विश्रुताः ॥ पद्माक्षः कुरु- कानाथः प्राक्पश्चात्पुरवासिनौ ॥ ३७॥ भागिनेयौ महाभागौ देवगा- नविशारदौ ।। श्रीकृष्णलक्ष्मीनाथार्यप्रमुखा ये महौजसः ॥ ३८ ॥ पद्माक्षप्रमुखेभ्योऽथ शिष्येभ्यो निखिलास्तदा ॥ दर्शनाथीस्तदा प्रपन्नामृते- (४१६) सम्यक् प्रददौ नाथयोगिराटू ॥ ३९ ॥ अहो दयस्य माहात्म्यमहो वीर्यमहोबलम् ॥ मंत्ररत्नं शुभकरं वेदसारं सनातनम् ॥ ४० ॥ एवं सुश्लाषितं सम्यग्द्वयार्थ मोक्षहेतुकम् ॥ सहस्रगीतिप्रमुखान्सकलदा- विडागमान् ॥४१॥सर्वाणि वेदशास्त्राणि वेदांगानि च सादरम् ।। उपदिश्याशु शिष्येभ्यः श्रीनाथमुनिपुंगवः ॥ ४२ ॥ तस्थावष्टांगयो- गेन कंचित्कालं दृढव्रतः ॥ निवृत्तयोगो वेदांतिस्ततः श्रीनाथयोगि- राट् ॥४३॥शास्त्रं तन्न्यायतत्त्वाख्यं तथा पुरुपनिर्णयम् ॥ धीमान योगरहस्यं च त्रीण्येतान्यकरोत्तदा ॥४४॥ उपदिश्याशु शिष्येभ्य- स्तानि शास्त्राणि देशिकः ॥ स भूयोष्टांगयोगेन कंचित्कालं व्यतिष्ठत ॥४५॥ योगस्थितस्य नाथस्य श्रुत्वा वैभवमद्भुतम् ॥ द्रष्टुकामश्चो- लभूपो वीरनारायणं ययौ ॥ ४६॥प्रणम्य राजगोपालं योगारूढं च तं मुनिम् ॥ राजा श्रीनाथमालोक्य जाताश्चर्यों बभूव ह ॥ १७ ॥ भत्त्या संसेव्य तं राजा प्रतस्थे नगरं तदा ।। श्रीकृष्णं तं नृपं मत्वा गोपस्त्रीभिर्विजितम् ॥ ४८॥ आगंगानगरं योगी भक्तिभावात्प्रदु- दुवे ॥ निवृत्तयोगं नृपतेः पश्चाद्धावंतमंजसा ॥४९॥ श्रीनाथयोगिनं शिष्या वीक्ष्य विस्मितचेतसः ॥ पंकजाक्षादयो वेगात्ते संप्राप्य तदं- तिकम् ॥५. ।। वाहुभिः परिरभ्याशु वचनं चेदमत्रुवन् ॥ किंनिमित्तं भवान्स्वामिन्नाथार्य परिधावसि ॥५१॥ ब्रूहि तत्कारणं शीघ्रम- स्माकं गुरुपुंगव ॥ स तद्वचनमाकर्ण्य जातस्मृतिरभापत ॥५२॥ श्रीकृष्णो गोपिकास्त्रीभिस्तदा स्थित्वा मदंतिके । किमप्युक्त्वा मह- द्वाक्यं वर्त्मनेवामुनाधुना ॥ ५३ ॥ प्रयात इव मे भाति तस्मात्तं द्रष्टुमागतः ॥ पद्मनेत्रप्रभृतयस्तच्छुत्वा निखिला जनाः ॥ ५४ ॥ तद्भक्तिपारवश्येन विस्मयं परमं ययुः ॥ भूयस्ततो नाथयोगी कंचि- जालं महामनाः॥५५॥ नीत्वाष्टांगेन योगेन पद्माक्षमवलोक्य तम् ।। कुरुकानाथनामानं शिप्यं वाचमथात्रवीत् ॥५६॥ अष्टांगयोगं दा- .

अध्यायः १०८. (४१७) स्यामि गृहाणाशु महामते ॥ स तु तस्मै ददौ शीघ्रं योगमष्टांगमुत्तम- म् ॥५७॥ शीघ्रं पद्माक्षमाहूय तमे वाक्यमब्रवीत् ॥ त्वमद्यैवमिमं योगं गृहाणाधमनुत्तमम् ॥ ५८॥ स गुरोर्वाक्यमाकर्ण्य पद्माक्षस्तम- भापत ॥ विद्यमाने शवे गेहे कल्याणं मे कथं भवेत् ॥१९॥ स्वामि- न देहावसाने तु ग्रहीष्ये योगमुत्तमम् ॥ तदंगीकृत्य वचनं पुनराह तमादरात् ॥६० ॥ तथाप्यय गृहाणेमां महती शजिस्कृतिम् ।। इत्युक्त्वा पद्मनेत्राय नाथार्यः कृपया तदा ॥ ६१ ॥ सहस्रगीतिप्रमु- खप्रबंधार्यान्विशेषतः ॥ दर्शनार्थीस्ततः सर्वानुपदिश्य यथाविधि ॥६२॥ दृष्ट्रेश्वरमुनि पुत्रमिदं वचनमब्रवीत् ॥ तेजस्वी ज्ञानसंपन्नो महान्कश्चिन्महायशाः ॥ ६३ ॥ तव पुत्रो महातेजाः संभविष्यति पुत्रक ॥ यामुनाचार्य्यनामाथ तस्य त्वं कुरु विश्रुतम् ॥ ६४ ॥ शिष्यद्वयं समालोक्य भूयो वचनमब्रवीत् ॥ मया भवयामधुना दर्श- नार्थाः प्रदर्शिताः ॥६६॥ येये योगरहस्यार्था विशेपार्था महत्तराः।। सर्वार्थास्तांस्तदा तस्मै मम पौत्राय सादरम् ॥ ६६ ॥ यामुनायो- पदिश्याशु ह्याज्ञया मे च तं शिशुम् ॥ दर्शनस्थापकं धीरं कुरुतं भगवत्परम् ॥६॥ इत्यादिश्याथवेदांतिन् कृतकृत्यः स योगिराट् ॥ योगारूढमतिर्भूयः कचित्कालमतिष्ठत॥६८॥ अथ चोलनृपो भूयस्तं देशमगमत्तदा ।। मृगयारसिको भूत्वा सवलः शबराकृतिः॥६९ ॥ चरित्वाथ मृगान् हत्वा कानने तत्रतत्र च ॥प्रत्याहृत्य स भूपाल: स्वां पुरीमभ्यगात्तदा ।। ७० ।। ततो नाथार्य्यदुहिता पितरंगृहमागत- म् ॥ निवृत्तयोग संवीक्ष्य वचनं चेदमब्रवीत् ॥ ७१ ॥ ताताधुना रा- जपुत्रौ महाभागौ महौजसौ ॥ चन्द्रवर्णाबरलसत्कमनीयशिखंडको ॥ ७२ ॥धनुर्वाणधरौ कटयां बद्धखड्गौ महाबलौ ॥ पुंडरीकविशा- लासी पूर्णचन्द्रनिभाननौ ।। ७३ ।। सुकुमारतनू हृयौ द्रष्टणां नयनो- त्सवौ ॥ लावण्यसीना भूपालसुतया दिव्यकांतया ॥७४॥शाखा- . (४३८) प्रपन्नामृते- मृगेण महता सहितौ सादरौ च तौ॥ प्रविश्यास्मदहं शीघ्रं मामेवं वाक्यमूचतुः ॥७९॥ वालेऽत्र जनकः कुत्र तव श्रीनाथयोगिराटू ।। इत्येवं त्वां समन्वेष्य प्रेम्णा सुमहता तदा ॥७६॥ अमुनैव पथाचैव ययतुस्तावुभौ नृपौ।।तच्छत्वा दुहितुर्वाक्यं प्रहृष्टोभूत्तदा मुनिः॥७७॥ अग्रतः प्रययौ रामो मध्ये सीता सुमध्यमा ॥ पृष्ठतस्तु धनुष्पा- णिलक्ष्मणोनुजगाम ह ॥ ७८ ॥ श्लोकाथै हदि निक्षिप्य मत्वैवं च- तुरः स तान् ॥ संतुष्टो द्रष्टुकामोऽथ तं मार्गमनुसृत्य च ॥ ७९ ॥ मार्गागतजनान् सर्वान्पर्यपृच्छत्समंततः ॥ युष्माभिः किं न दृष्टौ वा सुकुमारौ नृपात्मजौ॥ ८० ॥सुकुमारी राजपुत्री मार्गे चात्र बृहत्क- पिः॥ न दृष्टौ राजपुत्रौ च राजपुत्री च वानरः ॥८॥ इति यत्पथिकै- रुक्तं तनिशम्य सुदुःखितः ॥ तेषां संदर्शनात्यंतप्रेम्णा परवशस्तदा १८२॥ सम्यग्गवेपयंस्तत्र ग्रामेषु नगरेषु च ॥ तौ राजपुत्रौ नाथार्यः काननेषु च सादरम् ॥ ८३॥ चचार लग्नहृदयस्तेषां संदर्शने तदा ॥ तेपामलभमानोथ दर्शनं सुमहात्मनाम् ॥ ८४ ॥ कुत्रापि भूतले योगी कथंचिदपि यत्नतः॥ वैकंठेपि च तान्द्रष्टुं यतेयमिति वांछया ॥८॥ तेनैव हेतुना योगी महाप्रस्थानमभ्यगात्।। परमं वैष्णवं लोकं नित्या- नंदसुखाह्वयम् ।। ८६॥ तत्र संवाहिनी दिव्यां विरजां देवसंभवाम् ॥ सर्वे हिरण्मयास्तत्र सर्वे वेदमयाः शुभाः॥८७॥ अप्राकृतमया नित्या पुनरावृत्तिवर्जिताः ।। एकांतिनो सदा ब्रह्मध्यानिनो योगिनश्च ये॥ ८८॥तेपा तत्परमं स्थानं यदै पश्यति सूरयः ॥ तत्पदं प्राप सहसा वैष्णवं नाथयोगिराट् ॥ ८९ ॥ पद्माक्षप्रमुखाः सर्वे श्रुत्वा नाथार्य- वर्त्मना । विचिन्वंतो गता दूग्मपश्यन्नाथविग्रहम् ।। ९०॥ चरम वि- ग्रहं दृष्ट्वा स्वगुरोथियोगिनः ॥ पद्मनेत्रादयः सर्वे बभूवुर्भृशदुःखिताः ॥ ९१ ॥ तरयेश्वरमुनिः पुत्रो वियोगत्यंतदुःखितः॥ पद्मनेत्रादिसहि- तः पितु. श्रीनाथयोगिनः॥ ९२ ॥ ब्रह्ममेधेन विधिना संस्कारमक- अध्यायः १०१. (४१९) रोत्तदा ॥ पुंडरीकाक्षसहितो नाथसूनुस्तदानघ ॥ ९३ ॥ वीरनाराय- णपुरं संप्राप्य सहसा पितुः॥ कर्माण्यध्ययनांतानि सर्वाणि विविधा- नि च ॥ ९४ ॥ विदधे वैष्णवैः साई पद्मनेवादिभिर्महान् ।। अथेश्वर- सुनि धीरा गुरुपुत्रमतोपयन् ॥ ९५॥ पद्मनेत्रादयः सर्वे बांधवा वस्त्र- भूपणैः ॥ स तैः संपूजितः सम्यग्वीरनारायणे पुरे ॥ तथेश्वरमुनिः श्री- मानवास स महायशाः॥ ९६॥ इति प्रपन्नामृते भट्टार्यवेदांतिसं- वादे नाथमुनिचरमदशावर्णनं नामायाधिकशततमोऽध्यायः॥१०८॥ नवाधिकशततमोऽध्यायः। श्रीनाथयोगिनः शिप्यास्तस्यैकादश विश्रुताः ॥ तत्रापि भुवि वि- ख्याताः पंचैव विवुधर्पभाः॥ १॥ पद्माक्षस्तत्र मतिमान्वर्द्धयन्विष्णु- दर्शनम् ॥ उवास तत्र वेदांतिन्सम्यक् स ब्रह्मचारिभिः ॥२॥ अमां- गयोगनिरतः कुरुकानाथयोगिराट्।वीरनारायणपुरे तत्र तस्थौ महाय- शा॥३॥ तौ भागिनेयौ नाथस्य प्राक्पश्चात्पुरवासिनौ ॥ देवगानेन रंगेशं श्रीरंगे शेपशायिनम् ॥ ४॥ तोपयंतौ महाभक्त्या तस्थतुर्दै- शिकाज्ञया ॥ श्रीकृष्णलक्ष्मीनाथार्यों महात्मा दृढभक्तिमान ॥५॥ स्वव्यापार विसृज्याशु श्ववृत्तिमुपलभ्य च ॥ पश्यतां सर्वभूतानां सशरीरोऽभ्यगाढिवम् ॥ ६॥ एवमुक्ते तु भट्टायें वेदांती विस्मया- वितः ॥ भूम्यां प्रणम्य भट्टार्य कृतांजलिरभापत ॥७॥ श्रीकृ- ग्णलक्ष्मीनाथार्यः कुत्रत्यः स कथं गुरो ॥ स्वव्यापार परित्यज्य श्ववृत्तिमपलभ्य च ॥ ८ ॥केन मार्गेण वैकंठं सशरीरोगमत्क- थम् ॥ विशदं ब्रूहि सर्वज्ञ श्रोतुं कौतूहलं हि मे ॥९॥ तदंगीकृत्य वचनं भट्टार्य्यस्तमथाब्रवीत् ।। श्रीकृष्णलक्ष्मीनाथार्यमाहात्म्यं शृणु वक्ष्यते ॥ १०॥ शृण्वतां सर्वपापन्नं भक्तिज्ञानविवर्द्धनम् ॥ अत्यल- ततमं ह्येतदद्वितीयं च भूतले ॥११॥ तदिव्यमरिचरितादधिकं दृढभ- क्तिदम् ।। श्रीहरेराज्ञया भूम्यां वैकुंगनित्यसूरयः ॥१२॥ शठको- (४२०) प्रपन्नामृते- पादिरूपेण ह्यवतीर्णा यथा दश ॥ तथैवायं महातेजाः कृष्णलक्ष्मी- शनामकः ॥ १३॥ समस्तलोकरक्षार्थ दशभिर्दिव्यसरिभिः॥प्रपत्ति- धर्म एवात्र प्रबंधेषु प्रकाशितः ॥ १४॥ श्रीकृष्णलक्ष्मीनाथेन स एवार्थो भुवः स्थले ॥ तदनुष्ठानपर्यंतमनेनैव प्रकाशितः ॥१५॥ तदेव संप्रवक्ष्यामि समाहितमनाः शृणु ॥हरिणाज्ञापितः सम्यनि- त्यसरिः परात्परः॥१६॥ श्रीकृष्णमंगलक्षेत्रे कस्मिंश्चिदिव्यवेश्मनि॥ ज्येष्टमासे कृष्णपक्षे श्रवण महायशाः ॥ १७॥ श्रीकृष्णलक्ष्मी- नाथार्यः संजज्ञे ब्राह्मणोत्तमः॥कृतोपनयनः पित्रा ब्रह्मचर्यपरायणः ॥१८॥ जग्राह निखिलान्वेदान् साक्षिमात्राद्गुरोर्मुखात् ॥ प्रातः स्नात- स्ततः सम्यक्छास्त्रदृष्टेन कर्मणा ॥१९॥ विवाहं विधिकचके स्वतुल्य- द्विजवेश्मनि ॥ भार्यया सहितः श्रीमान्वैदिकाचारतत्परः॥२०॥बभूव ब्राह्मणश्रेष्टः पंचयज्ञपरायणः ॥ वेदवेदांगसंपन्नः सर्वशास्त्रविशारदः ॥२१॥ सदाचारसमायुक्तः सर्वसज्जनपूजकः॥ श्रीनाथमुनिना तेन कृतसंस्कारपंचकः ॥२२॥श्रीवैष्णववरोधीमानशोभत महायशाः। श्रीनाथमुनिशिष्याणां सुप्रसिद्धोऽभवत्तदा ॥२३ ॥ अधीताखिल- वेदान्तो भक्तिसार इवानघ ॥वेदार्थनिर्णये जातो वक्ता वाचस्पतिर्यथा ॥२४॥ प्रह्लाद इव चात्यंतभक्तिमाञ्जन्मवैष्णवः ॥ नामसंकीर्तनरतो भगवान्नारदो यथा ॥ २५ ॥ वैराग्यज्ञानभत्त्यादिसद्गुणैकमहार्णवः ।। द्राविडाम्नायनिरतो यथा नाथमुनिर्महान् ॥ २६॥ पंचमोपायनि- टायां स यथा मधुरः कविः॥ वेदान्तद्वयसारज्ञो महाभागवतोत्तमः ॥२७॥ निर्ममो निरहंकारो भगवद्ध्यानतत्परः ॥ श्रीनाथमुनिना तेन गुरुणाज्ञापितस्तदा ।। २८॥ श्रीकृष्णमंगलक्षेत्रं सम्यगभ्येत्य सादरम् ॥ श्रीकृष्णतुलसीदामकैक-निरतः सदा ॥२९॥ भक्तां- मिरेणुवट्टनाथवत्परकालवत् ॥ सततं भगवदास्यरसपानरतोऽभवत ॥३०॥ श्रीकृष्णमंगलक्षेत्रे सुगंधतुलसीवनम् ॥ विधाय नित्यं

अध्यायः १०९.
(४२१)
तुलसी पुप्पमालाश्च भक्तितः ॥ ३१ ॥ भक्तवत्सलदेवाय कृष्णमंग-
लवासिने ॥ समर्पयंस्तदा तस्थौ कृष्णलक्ष्मीशनायकः ॥ ३२ ॥
सन्तोपमगमत्तेन भगवान् भक्तवत्सलः ॥ निर्व्याजेनैव तस्याशु
कैंकर्येण महात्मनः ॥३३॥ ततः कदाचिदेवेशो भगवान् भक्तव-
त्सलः ॥ कल्यात्मकं जगद्वीक्ष्य कृपयैवमचिंतयत् ॥३४॥ भक्तव-
त्सलनामेदं नाममात्रेण विश्रुतम् ॥ नेवार्थतो हरेरस्य मामित्यज्ञा
वदंत्यलम् ॥ ३५॥ लोकसंरक्षणं कार्यमतोथैव ध्रुवं मया ॥ हेतुमा
विधायाहमर्जुनं कृष्णजन्मनि ॥३६॥ गीतायां चरमश्लोको
जनेभ्यः संप्रकाशितः ॥ नैवानुष्टानपर्यंत. म त्वर्थः सं-
प्रकाशितः ॥ ३७ ॥ तैरेव लोकरक्षार्थ शठकोपादिसृरिभिः ॥
चरमश्लोकतत्त्वार्थस्तावन्मानं प्रकाशितः ॥ ३८ ॥ अद्यानुष्ठानपर्यंत-
मनेनैव महात्मनः ॥ कारितव्यं प्रयत्नेन सम्यग्लोकहिताय वै
॥३९॥ एतेनैवाखिला लोकाः सुदृढप्रत्यया मयि॥ निर्मुक्तमायासं-
सारा मामुपैयंति निश्चयम् ॥ ४० ॥ एवं निश्चितसंकल्पो भगवान
भक्तवत्सलः । श्रीकृष्णलक्ष्मीनाथायें दयावान्समतिष्ठत ॥४१ ।।
ततः कदाचिदृपलौ सवानौ खड्गधारिणौ ॥ उपानबूढपादौ च तत्र
कौचित्समागतौ ॥४२॥ भक्तवत्सलदेवस्य श्रुत्वा माहात्म्यमद्भुतम्।।
संजातभक्तिभावौ तौ संसेवितुमयीपतुः ॥४३॥ पादरक्षे विमुच्याशु
तदहिः सत्वरं तयोः॥ श्वानद्वयं विनिभिप्य रक्षार्थ निश्चलौ तदा
॥ १४ ॥ तौ स्नातौ संप्रविश्याशु भक्तवत्सलसनिधिम् ।। संसेव्यांज-
लिहस्तौ तौ भत्तया श्रीभक्तवत्सलम् ॥४५॥ प्रदक्षिणक्रमेणैव गत्वा
श्रीसन्निधिं ततः। नत्वाभिपेकवल्ली च तवत्यानखिलान् सुरान्॥४६॥
प्रदक्षिणक्रमेणैवतावुभौ वहिरागतौ ॥ तत्रांतरे तयोरासीत्कलह सारमे-
ययोः ॥४७॥ अन्योपानद्वहेणैव तयोरन्योन्यमद्भुतम् ॥ स्वभाववैरि-
णोस्तत्र स्वामिकायकवर्तिनोः ।। ४८॥ तद्युद्धदर्शनौत्सुक्याजनसंघो
महानभूत् ॥तो तदा तत्र चागत्याहवं तत्स्वामिनौ महत् ॥१९॥

(४२२) प्रपन्नामृते- दृष्ट्वा शुनोस्तदा तस्मिन् क्षणमात्रं ह्यवस्थितौ ॥ श्वानौ तुल्यवली तत्र द्रष्टुर्विस्मयकारिणौ ॥ ॥५०॥ अयुद्धयेतां तदा वीरौ महारवसमन्वितौ॥ एकेन ताडितः संख्ये तवान्यः सारमेयकः ॥५१ ॥ सुतरामुद्वमन् रक्त क्षीणप्राणोऽभवत्तदा ॥ क्षीणप्राणं विलो- क्याशु तत्स्वामी श्वानमातुरम् ॥५२॥ ततः स्वभक्तवात्सल्याठा स्खङ्गं प्रगृह्य च ॥ शिरश्चिच्छेद तस्याग्रवर्तिनस्तच्छुनो रुपा॥५३॥ तत्स्वामी पतितं दृष्ट्वा श्वानं खङ्गहतं भुवि ।। रुपा खड्गं प्रगृह्माशु प्र- लयागिरिव ज्वलन् ॥५४॥ तं सारमेयहंतारं संग्रामायाभिदुद्रुवे ॥ अभूत्तयोश्च संग्रामोऽत्यन्तवै रोमहर्पणः॥५५॥ सुंदोपसुंदन्यायेन तावुभौ निहतौ रणे ॥ तत्रांतरे समादाय संपूर्णी पुष्पदामभिः ॥५६॥ श्रीकृष्णलक्ष्मीनाथार्यः स भत्त्या पुष्पपेटिकाम् ॥ भक्तवत्सलदेवाय विष्णवे सम्यगर्पितम् ॥ १७॥ कृतत्त्वरः समागच्छन् भक्तवत्सलस- निधिम् । तत्र कोलाहलरवं शुश्राव स तमद्भुतम् ॥५८ ॥ सम्यगेव स तवृत्तं ज्ञात्वा सर्व सहेतुकम् ॥ विस्मितश्चितयामास तयोर्वात्सल्य- मद्भुतम् ॥५९॥ एतौ क्षुद्रसमाचारौ सेवावृत्त्युपजीविनौ ॥ स्वभक्त- श्वानवात्सल्यात्क्षणेन निहतौ रणे ॥ ६०॥ क्षुद्रयोरेतयोर्भक्तवात्स- ल्यं महदद्भुतम् ॥ तत्प्रवक्तुं कथं केन शक्यते गतिमानुपम् ॥ ६१ ॥ प्रत्यक्षेण मया दृष्टस्तयोरेतादृशो गुणः॥धर्माधर्मविचारादिशून्ययोः क्षुद्रकर्मणोः ॥ ६२॥ निर्व्याजवंधोः सर्वज्ञमूर्तेः सर्वजगत्पतेः ॥ अपा- रकरुणासिंधोधर्माधर्मविचारिणः॥६३॥ विष्णोर्भगवतस्तस्य जग- न्मातुर्जगत्पितुः ॥ लक्ष्मीभतुर्हि वात्सल्ये किं वक्तव्यं मयाधुना ॥ ॥६॥रक्षिप्यति न वा भक्तमिति यन्मे विचारणा । किमर्थं भगवाञ् शीघ्रं रक्षिप्यति न संशयः ॥ ६५ ॥ इत्येवं मनसां सम्यक निश्चित्यं भगवत्परः॥ श्रीकृष्णलक्ष्मीनाथार्यः श्रीपतौ भक्तवत्सले ॥६६॥ श्रीमान्यस्तभरः शीघ्र स्वव्यापार विसृज्य तम् ॥ अनुष्ठानक्रियाः E अध्यायः१०९. (४२३) सर्वा दूरतः परिहत्य च ॥६७॥ ततः श्ववृत्तिमास्थाय चतुष्प- दचभिवत् ॥ प्रातामादहिर्गत्वा कृतदेहविशोधनः ॥ ६८ ॥ स्नातस्तटाके कस्मिंश्चित्पशुवच दिगंवरः ॥ जानुपाणिचरो वेगान- क्तवत्सलसन्निधौ ॥६९॥ मूले बकुलवृक्षस्य धृतमौनः समास्थितः ॥ भक्तवत्सलदेवस्य कृपया यत्समागतम् ॥ ७० ॥ भुत्वान्नं निश्चलः सम्यग् दृढमौनो व्यतिष्टत ॥ वेदांतिनथ तवत्या जनाः केचिद्विलो- क्य तम ।। ७१ ॥ श्रीकृष्णलक्ष्मीनाथार्यमवोचनिभृतं वचः ॥ अयं श्रीवैष्णवो धीमान्वैदिकाचारतत्परः ॥ ७२ ॥ केनचित्कर्म- शेपेण भ्रांतोभूत् किल वै बत ॥ इत्यज्ञास्तदभिप्रायमजानंतो महाद्भुतम् ॥ ७३ ॥ ऊचुः परस्परं केचित्प्रारब्धं तन्महत्किल ॥ असाध्यमीश्वरेणापि दुर्जयं तद्विनाशितुम् ॥ ७४ ॥ कर्मैव बलवल्लोके चेश्वरः किं करिष्यति ॥ एताहशस्य महतः संप्राप्तं वीत- रागिणः ॥७५ ॥ प्रारब्धकर्मणैवेदं भ्रांतिकार्य्यमभूत्किल ॥ तस्मा- कर्मैव बलवदीश्वरादपि निश्चितम् ॥७६॥ कर्मणा जायते जंतुः कर्मणैव विवईते ॥ सुखं दुःखं च मरणं जंतोः कर्मैव दास्यति ॥७७॥ तस्मात्कमैव बलवत् कर्मणा निबिडं जगत् ॥ दैवं कुला- लबल्लोके वर्त्तते हेतुमात्रतः॥७८॥ ईश्वरः साक्षिमात्रं तु जंतोर्युम- णिदीपवत् ॥ केचिदूचुस्तदात्रैव श्ववृत्ति तस्य वीक्ष्य च ॥ ७९ ॥ नाने वायमधुना महात्मा भगवत्परः । निर्भयो निर्भरस्तस्थौ सम्य- इन्यस्तभरो हरौ ॥ ८० ॥ न काचिन्न्यूनता तस्य कदाचिदपि विद्यते ॥ भक्तवत्सल एवैतं रक्षिष्यति न संशयः ॥ ८१ ॥ इत्यूचु- विबुधाः केचित्तं विलोक्य तथाविधम् ।। तस्यैवांतिकमागत्य तदा के- चिजना मुने ॥ ८२ ॥ तेन संभाषणार्थाय दहशुस्तं दृढव्रतम् ।। मौनेन महता युक्तमकंप गिरिसन्निभम् ॥ ८३॥ भक्तवत्सलपादा- ब्जन्यस्तभारं सुनिर्भरम् ।। निर्व्यापार महोत्साहं निरस्ताखिलकल्म- (४२४) प्रपन्नामृते- पम् ॥ ८४ ॥ श्रीकृष्णलक्ष्मीनाथाय्य वीक्ष्य विस्मितचेतसः॥ भीत्या पलायिताः केचित् केचिन्नत्वाथ भक्तितः॥ ८५॥ एतद्वृत्तांत- माकर्ण्य नानादेशनिवासिनः ॥ श्रीकृष्णमंगलक्षेत्रं गत्वा दृष्ट्वाथ तादृशम्॥ ८६॥ श्रीकृष्णलक्ष्मीनाथायं विस्मयं परमं ययुः ॥एवं दिनेषु कतिषु गतेप्वत्र महात्मनः ॥ ८७ ॥ मोक्षदाने मतिं चक्रे भगवान् भक्तवत्सलः ।। मोक्षप्रदानदिवसपूर्वस्मिन्वासरे निशि।।८८॥ आबालवृद्धप्रभृतिजनानां भक्तवत्सलः । तत्रत्यानां हि सर्वेषां स्वप्ने सम्यङ्ग न्यवेदयत् ॥ ८९ ॥ श्रीकृष्णलक्ष्मीनाथाय मद्भक्ताय महा- त्मने ॥ दातास्मि श्वो दिने मोक्षो सर्वेपां पश्यतां ध्रुवम् ॥ ९० ॥ संतुष्टाः सर्व एवैते तेन वाक्येन विस्मिताः ॥ आबालवृद्धवनिता भक्तवत्सलसन्निधिम् ॥ ९१ ॥ तत्कालं वीक्षमाणास्ते तस्थुस्तक- मानसाः ॥ श्रीकृष्णलक्ष्मीनाथार्य स्वप्ने श्रीभक्तवत्सलः॥ ९२ ॥ तत्तथैवाब्रवीत्तस्य वेदांतिन्कृपया तदा ॥ तस्यां राव्यां व्यतीतायां कृष्णलक्ष्मीशनामकः ॥ ९३॥ प्रातामादहिर्गत्वा कृतदेहविशो- धनः । कृतावगाहनस्तत्र पूर्ववत्स जलाशये ।। ९४ ॥ जानुपाणि- चरः शीघ्रमाययौ हरिसन्निधिम् ॥ प्रदक्षिणाक्रमेणैव गत्वा देवस्य सन्निधिम् ॥ ९५ ॥ बलिपीठांतिकं प्राप्य प्रथमावरणं ययौ ।। प्रथमावरणं प्राप्य कृत्वा तत्र प्रदक्षिणाम् ॥ ९६ ॥ श्रीमंडपं प्रविश्याशु प्रणम्य द्वारपालकौ ॥ भक्तवत्सलपादाब्जसमीपमग- मत्तदा ॥ ९७ ॥ तदद्भुतं द्रष्टुकामाः सर्वे तत्पृष्टतो ययुः॥ सर्वेषां पश्यतां तत्र विस्मितं विपुलेक्षणैः॥ ९८॥ यदनिर्वचनीयं तत्तेजो विद्युद्गणोपमम् ॥ अलक्ष्यत तदा तर नालक्ष्यत स वैष्णवः ॥१९॥ तदद्भुततमं दृष्ट्वा स विस्मितमानसाः॥ भक्तवत्सलदेवेथ दृढभक्ति- समन्विताः ॥ १०० ॥ विमुक्तमायासंसारा बभूवुर्वैष्णवोत्तमाः ॥ मोक्षं प्रत्यक्षतो दत्ता तस्मै भक्ताय सत्वरम् ॥ १०१ ॥ श्रीकृष्ण- अध्यायः ११०. (४२५) लक्ष्मीनाथाय भगवान्भक्तवत्सलः ॥ कलिदोपसमाक्रांत सर्व जगद- पालयत् ॥ १०२ ॥ भक्तवत्सलवात्सल्यं लोकेभ्यः सूचयनिव ॥ श्रीमान् बकुलवृक्षस्यच्छायायां दिव्यमंडपे ।। १०३ ।। श्रीकृष्णल- क्ष्मीनाथार्यो नित्योत्सवमहोत्सवैः ॥ सहितस्सर्वभूतानामद्यापि परि- दृश्यते ।। १०४॥ श्रीकृष्णलक्ष्मीनाथायंचरितं यदनुत्तमम् ।। यः शृणोति नरो भक्त्या सर्वपापैः प्रमुच्यते ॥ १०५ ॥ इति श्रीप्रपन्ना- मृते भट्टार्य्यवेदांतिसंवादे श्रीकृष्णनाथार्यमोक्षप्रदानं नाम नवाधिक- शततमोऽध्यायः ॥१०९॥ दशाधिकशततमोऽध्यायः। ततो माधवदासाख्यो भहार्यमिदमब्रवीत् ॥ कियत्कालं नाथ- योगी पृथिव्यामवसदरो॥ १॥ अथ श्रीपुंडरीकाक्षो वर्द्धयन्विष्णु- दर्शनम् ॥ उवास कुत्र नगरे कियत्कालं स देशिकः ॥२॥ तत्सर्व बेहि तत्त्वेन मा शिष्याय देशिक ॥ स तद्वचनमाकर्ण्य भट्टार्य- स्तमथात्रवीत् ॥ ३ ॥ चिशतं त्रिंशदधिकं वत्सराणां च भूतले ॥ उवास नाथयोगांद्रो वर्द्धयन्विष्णुदर्शनम् ॥ ४॥ धात्वन्दे माघमासे तु शुक्लपक्षे तु योगिराट् ॥ एकादश्यामवापाथ तद्विष्णोः परमं पदम् ॥५॥ अथ श्रीपुंडरीकाक्षः श्रीरंगे गुरुशासनात् ॥ नित्यवासपर- स्तस्थौ बर्द्धयन्विष्णुदर्शनम् ॥ ६॥ अवतारस्थलं तस्य श्रूयतां तन्मयोच्यते ॥ रंगवायव्यदिग्भागे कोशत्रयविदूरतः ॥७॥ वर्तते महितक्षेत्रे तत्र श्वेतगिरिर्महान् ॥ पद्माक्षो भगवांस्तत्र वर्तते दिव्यसुं- दरः॥ ९॥ भद्देशपरकालाभ्यां संस्तुतः स हरिस्तदा ॥ तत्रावतारं विदधे विष्वक्सेनांशतो महान् ॥९॥ चैत्रमासे पूर्णिमायां पद्माक्ष- श्वाथ चित्रभे॥ स नाथमुनिमाश्रित्य वीरनारायणे पुरे ॥ १० ॥ तत्सनिधी स्थितो धीमान कंचित्कालं गुरुप्रियः ॥ अथ नाथार्य- वाक्येन श्ररिंगं प्राप्य सत्वरम् ।। ११॥ कंचित्कालमुवासार्यों वर्द्ध- (४२६) प्रपन्नामृते- यन्विष्णुदर्शनम् ॥ कुरुकानाथयोगींद्र पांडयदेशे महायशाः ॥१२॥ कुरुकायां पोपमासे विशाखायां तदाजनि।वीरनारायणं प्राप्य स द्विजोथ महायशाः॥१२॥पुंडरीकाक्षकृपया नाथं संश्रित्य योगिनम् ॥ श्रीवैष्णवोभवत्तेन कृतसंस्कारपंचकः ॥ १४ ॥ संप्राप्ताष्टांगयोगोथ गुरोः श्रीनाथयोगिनः ॥ गुरुशुश्रूषणरतः कुरुकानाथयोगिराट् ।। ॥१५॥ वीरनारायणपुरे कंचित्कालं न्युवास ह ।। यत्र स्थानथ योगी- द्रो नाथार्य्यः सोत्यजत्तनुम् ॥ १६॥ तत्रैवाष्टांगयोगेन कुरुकानाथ- योगिराट् ॥ आदेहपतनं भक्त्या ध्यायन्गुरुपदांबुजम् ॥१७॥ स स- तत्यधिकं तत्र वत्सराणां शतं स्थितः॥ चोलदेशथ कावेरीतीरे पुण्य- तमे शुभे ॥ १८॥ श्रीरंगनगराभ्याशे मणकालाख्यविश्रुतम् ।। बभूव नगरं पुण्यं विद्वज्जनविभूपितम् ॥ १९ ॥ सौगंधकुल्यानगरे करिम- श्चिद्दिजवश्मनि ॥ विरोधिवत्सरे माघे मासे वै शुक्लपक्षके ॥२०॥ चतुर्दश्यां मघायां च संजज्ञे सौम्यवासरे ॥ अंशेन कुमुदाक्षस्य राम- मिश्रो महायशाः॥२॥ स राममिश्रो वेदांतिन्महात्मा भगवत्परः ॥ अशिश्रियन्महाभत्त्या पुंडरीकाक्षमुत्तमम् ॥ २२॥ लवणाभावताता- ख्यो गोमठान्वयभूपणः।।अशिश्रियन्महाभत्त्या पद्माक्षं ब्राह्मणोत्तमम् ॥२३॥ पंच प्राप्तास्ततः शिष्याः पद्माक्षस्याभवन्गुरोः॥ तन्मध्ये सु- महातेजा गुरुभक्तिपरायणः ॥ २४॥ श्रीराममिश्रो वेदांतिन्कैका- ण्यनिशं गुरोः॥ सवाणि कुर्वन्सद्भक्त्या द्वादशान्दान्व्यतिष्ठत ॥२६॥ आंडालाख्याथ पद्माक्षभार्या गुरुपरायणा ॥ जगाम वैष्णवं लोकं म- इता पुण्यकर्मणा ॥२६॥ गुरुगेहे ततो धीमान् केकाण्यखिलानि च ॥ कर्वन्सर्वधुरं सम्यगुवास गुरुभक्तिमान् ॥२७॥ पद्माक्षस्याभव- त्तत्र वेदांतिन्पुत्रिकाद्वयम् ॥ सहोदरीमिव प्रेम्णा पुपोप महतव तत् ॥ ॥२८॥ततः कदाचिदाचार्यपुत्रिकाद्वयमादरात्॥तटाकतीरमनयत्स्ना- नार्थ गुरुभक्तिमान ॥२९॥ कृतस्त्रानं समादाय गुरुगेहमथायया ॥

अध्यायः ११०. (४२७) तत्र पंकाकुला काचित्कुल्या मार्गे बभूव ह ॥३०॥अतोन चैच्छ- त्तदंतु तन्मार्गे पुत्रिकाद्वयम् ॥ तृष्णी स्थितमगत्वाथ तद्विलोक्य गुरु- प्रियः॥३॥ गुरुपुत्रीद्वयं सम्यङ् निक्षिप्य स्वभुजद्रये ॥ ती पंका- कुलां कुल्या प्रेम्णा गुरुगृहं ययौ ॥ ३२ ॥ तत्संश्रुत्य स पद्माशो य- यौ तद्विस्मयं महत् ।। संतुष्टः स तदा धीमान् कृपया विबुधर्षभः ।। ॥३३॥ सम्यक् स्वपादपद्माभ्यामलंकृत्य स तच्छिरः ॥ राममिश्राय शिष्याय सर्वार्थान्प्रददौ मुदा ॥३॥ अतीतानागतं ज्ञानमात्मतत्त्व- प्रकाशनम् ॥ सर्ववेदार्थविज्ञानं सर्वशास्त्रार्थदर्शनम् ॥ ३५ ॥ मानसं वाचिकं पापं कायिकं च त्रयीकृतम् ॥ द्वयस्मरणमात्रेण नाशयंति सुनिश्चयम् ॥ ३६॥ तत्प्रभाव प्रशस्याथ द्वयं च प्रददौ तदा ॥ पंचो- त्तरशतं नीत्वा वत्सराणां ततो भुवि ॥ ३७॥ गुरुर्वैकुंठगमने चकार मतिमान्मतिम् ॥ ततस्स्वचरमे काले पद्माक्षो रामनामकम् ॥३८॥ शिष्यं विलोक्य संतुष्टो व्याजहार वचः शुभम् ॥ त्वमेव वर्द्धयल्लोके सम्यग्वैष्णवदर्शनम् ॥ ३९ ॥ सब्रह्मचारिभिः सर्वैष्णवैश्च निवत्स्यसि ॥ यामुना-भिधः कश्चिद्भविष्यत्या- त्मजो महान् ॥ ४० ॥ तस्येश्वरमुनेरेवं गुरुणा प्रेमभाषितम् ॥ तस्मै पौत्राय मे देहि दर्शनार्थान्मयोदितान् ॥४१॥ तस्मादवश्यं कर्तव्यं मयैतद्गुरुशासनम् ॥ मत्कालेस्मद्गुरोः पौत्रो न जज्ञे किल सांप्रतम् ॥ ४२ ॥ तस्मादितः परमपि महान्कश्चिद्भविष्यति ॥ न वृथा जायते वाणी कदाचिदपि मे गुरोः॥४३ ॥ श्रीनाथयोगिपौ- त्राय कृत्वा यामुननाम च ॥ दर्शनार्थास्ततः सर्वान् दत्त्वा तमनुसृत्य च ।।४४ ॥ दर्शनस्थापकं धीरं विधेहि गुरुशासनात् ।। कैकय॑मेत- चरमकालेस्मद्गुरुभापितम् ॥ ४५ ॥ मया तथैव चरमकाले सम्यगुदी- रितम् ॥ आचार्य्यपरमाचार्यकैकयं यदनुत्तमम् ॥४६॥ तस्माद- वश्यं कर्तव्यं भवतः साधुसंमतम् ॥ इति निर्दिश्य पद्माभो राममिश्राय वै दृढम् ।। ४७॥ निश्चलं कृतकृत्योथ नाथपादांबुजद्रयम् ॥ ध्याय- (४२८) प्रपन्नामृते- न्कृतार्थों वैकुंठं जगाम सहसा तदा ॥४८॥ गुरोः संतापमगमन्वि- योगमसहिष्णवः॥ राममिश्रादयः सर्वे पद्माक्षस्य महात्मनः ॥१९॥ ब्रह्ममेधेन विधिना राममिश्रो गुरोस्तदा ॥ कर्तव्यानि च कर्माणि चकार विधिना तदा ॥५०॥ ततः श्रीवैष्णवैः सैववैदिकाचारतत्परैः ।। सब्रह्मचारिभिः सार्द्ध वर्द्धयन् विष्णुदर्शनम् ॥५१॥ उवास तत्र वेदां- तित्राममिश्री महायशाः ॥ १२ ॥ इति श्रीप्रपन्नामृते भट्टार्यवेदांति- संवादे पुंडरीकाक्षावतारकथनं नाम दशाधिकशततमोऽध्यायः॥११०॥ एकादशाधिकशततमोऽध्यायः । लक्ष्म्याख्यो वैष्णवः कश्चिच्छीमान्वगिपुराधिपः॥ अशिश्रियदा- ममिश्रं प्रथमं भक्तिपूर्वकम् ॥१॥ ततः श्रीवैष्णवाः पंच राममिश्रम- शिश्रियन् ।। वेदांतिन राममिश्रोथ दर्शनार्थान्निरंतरम् ॥२॥ सम्यक चोपदिशंस्तस्थौ शिष्येभ्यः कृपया तदा ॥ एवं स सर्वशास्त्रज्ञो महा- त्मा भगवत्परः ॥ ३ ॥ नित्यमव्याइतं सम्यग्वर्द्धयन्विष्णुदर्शनम् ॥ चिंतयत्रीश्वरमुनेः पुत्रोत्पत्तिं कृतादरः॥ ४॥ आस्तेथ रंगे स्वगुरोरा- ज्ञया कतिचित्समाः॥ तथा नाथात्मजः श्रीमानीश्वराख्यो मुनिमहान ॥५॥ वीरनारायणपुरे स तस्मिन् पितृवेश्मनि॥ समतीतेथ कस्मि- श्चित्काले पुण्यतमे शुभे ॥६॥ धात्वब्दे कर्कटे मासि पौर्णमास्यां भृगोदिने ॥ मित्रभे रंगनायक्यां श्रीसिंहासनभागतः ।। ७ ।। मतिमा- नीश्वरमनेजने कश्चित्सुतो महान ॥ तत्पुत्रजननं श्रुत्वा राममिश्रः प्रहर्पितः ॥८॥वीरनारायणपुरं प्राप्य पुण्यं विलोक्य तम् ॥ प्रहर्प- मतुलं लेभे दिव्यलक्षणलक्षितम् ॥ ९॥ जातकर्मण्यलाभे तु विष्णो- चक्रस्य धारणम् ।। चौलोपनयने चापि तन्मंत्राध्ययनेपि वा ॥१०॥ वेधिना वैष्णवं चक्र धारयेद्विजसत्तमः ॥ इत्युक्तेन प्रकारेण राम- मिश्रो महामतिः॥ ११॥ ईश्वगख्येन मुनिना वेदांतिन्दिव्यतेजसा॥ कारयित्वा जातकर्म शिशोस्तस्य यथाविधि ॥ १२ ॥द्वादशेऽहनि अध्यायः १११. (४२९) पुत्रस्य नामकर्माकरोत्तदा ॥ वैष्णवैश्चैव सूक्तेश्चकुर्यात्समार्जनं शिशोः ॥ १३॥ तस्य दक्षिणकर्णे तु जपेदष्टाक्षरद्वयम् ॥ मूर्ध्नि हस्तं विनि- क्षिप्य जपेच्च द्वादशाक्षरम्॥ १४ ॥ नाम कुर्यात्ततः पश्चाद्वैष्णवं पाप- नाशनम् ॥ एवं शास्त्रोक्तमार्गेण श्रीनाथमुनिशासनात् ॥ १५ ॥स पित्रा कारयामास राममिश्रः शिशोस्तदा ॥ यामुनार्याभिधा तस्य नाथपौत्रस्य विश्रुतम् ॥ १६॥ ततोन्नप्राशनादीनि कर्माणि विविधानि च ॥ तत्तत्काले यथाशास्त्र यामुनस्याकरोत्तदा ॥ १७॥ कृतोपनयनः पित्रा यामुनार्यः कुशाग्रधीः ॥जग्राह निखिलान्वेदान्साक्षिमावाद- रोर्मुखात् ॥ १८॥ तच्चित्रं यामनार्यस्य यद्वेदाध्ययनं महत् ॥ सक- च्छ्वणमात्रेण जग्राह निखिलं हि तत् ॥ १९॥यामुनार्यमुपाध्यायः समाहूयेदमत्रवीत् ।। आगमाध्ययनार्थाय किमर्थं नागतो भवान ।। ॥२०॥ उपाध्यायवचः श्रुत्वा यामुनो वाक्यमत्रवीत् ।। पूर्वेधुभवता स्वामिन् यो वेदः समुदीरितः ।। २१ ।। स एवास्मिन्दिनेप्यार्य उच्यते किल पूर्ववत् ॥ नागतोभवमेतेन किमर्थ पिष्टपेपणम् ॥२२॥ तत्तस्य वचनं श्रुत्वा गुरुः परमविस्मितः। तत्सर्व संप्रवीक्ष्याशु स वालं परिप- स्वजे ॥ २३ ॥ वेदांतिन्यामुनाचार्यः स एवं गुरुसन्निधौ ॥ पदक्रम- जटावर्णक्रमादिसहितान्महान ॥२४ ॥ जग्राह निखिलान्वेदान्बा- लः सिंहासनांशजः ॥ यामुनार्योथ वेदांतिन्वेदांगानि पडादरात ॥ २५ ॥ अधीतवेदवेदांगं पुत्रमालोक्य संमतम् ॥ संप्रहप्टोऽथ जनकःशास्त्रज्ञ कर्तुमुद्यतः॥२६॥अथांजसा महाभाष्यं भट्टस्याये विपश्चितः ॥ पठन्सर्वाणि शास्त्राणि तस्थौ यामुनदेशिकः ॥ २७ ॥ ततश्चोलमहीपालपुरोधा विबुधर्पभः ॥ अकियाळ्यानिति ख्या- तः कश्चिदासीत्तदा महान् ॥२८॥ निर्जित्य शास्त्रवादेन सर्वानेव विपश्चितः ॥ स पुरोधा महाविद्रानद्वितीयो व्यरोचत ॥ २९ ॥ ततः पराजिताः सर्वे बुधा राजपुरोधसे ॥ प्रत्यन्दं दशबंधं च ह्यर्पयंत

(४३०)
प्रपन्नामृते-
समास्थिताः ॥३०॥ ततस्तदशबंधार्थ भटा राजपुरोधसः ॥ अपी-
डयन्महाभाष्यभट्ट तस्याप्रदानतः ॥ ३१ ॥ प्रव्याकुलांतःकरणं
द्रव्याभावात्प्रपीडितः॥ इत्येवं यामुनाफेण स पृष्टः सादरं तदा ॥
॥३२॥ यन्महाभाष्यभट्टाख्यकृत्यं राजपुरोधसः ॥तत्सर्वं यासुनार्याय
प्रोवाच विशदं तदा॥३॥तत्तदाकये कुपितो यामुनार्यो निरंकुशः॥
तान राजदूतानिर्भत्स्य श्लोकमेकं लिलेख सः॥३४॥ नवयं कवयस्तु
केवलं न क्यं केवलतंत्रपारगाः ॥ अपि तु प्रतिवादिभीकरप्रकटाटो-
पविपाटनक्षमाः॥ ३५ ॥ श्लोकमेवं लिखित्वाशु पत्रिकायां सुनिश्च-
लः॥ भटैस्तैरेव तां धीमान पत्रिका श्लोकसंयुताम् ॥ ३६॥ समीप
प्रेपयामास तस्य राजपुरोधसः ॥ बालेन प्रेपितां तेन पत्रिकां वीक्ष्य
विस्मितः ॥ ३७ ॥ श्लोकं पठित्वा तं शीघ्रं समुदिनमनास्तदा ॥स
पुरोधा नृपायाथ तवृत्तांत न्यवेदयत् ॥ ३८ ॥ चोलराजमहाभाष्य-
भट्टशिष्यार्भकोऽधुना ।। त्वच्छासनं चिनिर्भर्त्य कश्चिद्वादशवार्षिक:
॥३९ ।। उद्दामवृत्तिर्गर्वेण वर्तते गणयन्न माम् ॥ तमानीयांजसाथैव
युक्तदंडं विधेह्यलम्॥ ४० ॥ पुरोहितवचः श्रुत्वा तदृत्तांत विचार्य
च ॥ स तं ज्ञात्वाथ विबुधं यामुनानयने तदा ॥४१॥ आदिदेश
तदामात्यांश्चोलेंद्रो विबुधप्रियः॥ धीमाननादरावानं यन्महीशकृतं हि
तत् ॥४२॥ अनाहत्य नृपाभ्याशं नागमद्यामुनस्तदा।।तदनादरवृत्तांत
सनिशम्य महीपतिः॥४ायामुनस्य महाप्राज्ञो मनस्येवमचिंयतान
सामान्यजनस्त्वेपमहाविबुधसत्तमः॥४४॥महतावैभवेनैव ह्यानतव्यो
मयाधुना॥ इति संचिन्त्य मातिमान भूपतिर्विवुधप्रियः॥४५॥शिविका
प्रेपयामास यामुनाचार्यसन्निधौ ॥ ततः स शिविकारूढो यामुनार्यों
महायशाः ॥ १६॥राजद्वारं समासाद्य राज्ञा संपूजितस्तदा । तदा
राजसभास्थाने विद्गोष्टी विवेश सः॥४७॥यामुना-गमं श्रुत्वा
तदा राजपुरोहितः ।। राजस्थानं विवेशाशु महाविबुधभूपणैः ॥४८॥

अध्यायः १११. (४३१) तमागतं विलोक्याशु यामुनो निपुणस्तदा ॥तं जेतुकामं विबुधं श्लोकमेकमकल्पयत् ।। ४९ ॥ आशैलादद्रिकन्याचरणकिसलयन्या- सधन्योपकंठादा रक्षोनीतसीतामुखकमलसमुल्लासहेतोश्च सेतोः ॥ आ च प्राच्यप्रतीच्यक्षितिधरयुगलादर्कचन्द्रावतंसान्मीमांसाशास्त्र- युग्मश्रमविमलमना मृग्यतां माहशोऽन्यः॥५०॥ श्लोकमेवं लिखि- त्वाशु पत्रिकायां विचक्षणः ॥ विद्वद्राजसभास्थाने पत्रिकां तां वबंध सः ॥ ५१ ॥ पत्रावलंबनं दृष्ट्वा दृष्टो राजपुरोहितः ॥ तत्प्रभावमजा- नस्तं जेतुं विबुधसत्तमम्॥५२॥इयेप शास्त्रवादेन दुष्टबुद्धिप्रचोदितः।। अकियायेति गर्वेण तदा राजपुरोहितः ॥५३॥ वादार्थमागतस्तत्र महाविवुधभूपणैः ।। तमागतं विलोक्याशु यामुनो निपुणस्तदा।।५४॥ दृष्ट्वा च राजवदनं व्याजहार वचः शुभम् ॥ जयापजयवकृणां मध्य- स्थानां महात्मनाम् ॥ ५५ ॥ विपश्चितां त्वया शीघ्रमाहानं क्रियतां नृप । अंगीकृत्य वचस्तस्य स तथैवाकरोन्नृपः ॥५६॥राजाज्ञ- यांजसा तब बुधाः सर्वे समागताः ॥ येये पराजिताः पूर्व तेन राजपु- रोधसा ॥१७॥ यामुनाचार्य्यवृत्तांतं श्रुत्वा तत्सर्वमंजसा ॥ प्रहृष्ट- चेतसः सर्वे तेते तत्र समागताः ॥ ५८ ॥ राज्ञो राजमहिष्याश्च वादस्तवाभवत्तदा ॥ को जेष्यत्येतयोः को वा पराजयमवाप्स्यति ॥५९॥ राजाब्रवीत्तदैवं हि पुरोधास्तु विजेष्यते ॥ राजपत्न्यत्रवीदेवं वाल एव विजेष्यते ॥ ६०॥ तन्निशम्याथ चोलेंद्रो महिपी वाक्य- मत्रवीत् ॥ मत्पुरोहित एवैप निश्चयं जयमाप्स्यति ॥ ६ ॥ वेदांति- श्वोलभूपाले वदत्येवं कृतादरे ॥ प्रतिज्ञामकरोत्तीत्रांचोलपत्नी दृढव्रता ॥ ६२॥ बालोऽयं यामुनाचार्यों यदि वादे पराजितः ।। आपण्मासं भविष्यामि तव दासी न संशयः ॥ ६३॥ वेदांतिन्धोलराजेन प्रति- ज्ञातमिदं तदा ॥ पुरोहितो यदि जितो बालकेनाधुनावले ॥ ६ ॥ अर्द्धराज्यं मया तुभ्यं दीयते नात्र संशयः ॥ कृतप्रतिज्ञावन्योन्यमि (४३२) प्रपन्नामृते- त्येतौ राजदंपती ॥ ६५ ॥ विद्वत्सदो ह्यविशतां सर्वविद्वननावृतम् ॥ ज्ञातुं तयोर्विवुधयोस्तौ जयापजयौ तदा ॥६६॥ राज्ञो निपेदुः स- दास बुधाः सर्वे यथोचितम् ॥ महता वैभवेनैव तदा चोलपुरोहितः ॥ ॥६७॥ विपश्चिद्गणसंयुक्तो विद्वद्गोष्ठी विवेश सः॥अथ राज्ञा स- माहूतो यामुनार्योर्भको महान् ॥ ६८॥ समासदत्सभां शीघ्रमेक ए- वानघात्मवान् ॥ नृपः समागतान्सर्वान्यथोचितमपूजयत् ॥ ६९ ॥ राज्ञा संपूजिताः सर्वे विवुधा विबुधर्पभ ॥ राज्ञःसभायामुचितेष्वासने- पु समास्थिताः ॥ ७० ॥ तदा राजाज्ञया विद्वांश्चोलराजपुरोहितः ।। यामुनार्य महात्मानमिदं वचनमब्रवीत् ॥ ७१ ॥ विद्वानपि भवान्वा- लः शास्त्रवादक्षमो न ते ॥ यदि त्रीण्येव वाक्यानि मुच्यते लोकवेद- योः॥ ७२ ॥ निपिध्यंते मया तानि त्वदुक्तवचनान्यलम् ॥ अथ वा त्रीणि वाक्यानि ह्युच्यते यानि वै मया ॥७३॥ संदुष्यंतां त्वया तानि मतिस्ते विद्यते यदि ॥ पराजितस्य शिरसि ताडनं क्रियते त- तः॥ ७४ ॥ निर्णीतमेवं वेदांतिस्तेन राजपुरोधसा ।। सर्वेषां राजसद- सि शृण्वतां च विपश्चिताम् ॥ ७९ ॥ तस्य तद्वचनं श्रुत्वा नीतिज्ञ- शमवारिधिः ॥ संग्रहृष्टो यामुनार्यः पुरोहितमथाब्रवीत् ॥७६॥ त्रीणि लौकिकवाक्यानि वक्ष्यतेऽद्य मया बुधः। तानि राजसभास्था- ने खंडितानि यदि त्वया ॥ ७७ ॥ भवतो मम चानाथ शास्त्रवादो भविष्यति ॥ संतुष्टाः सर्व एवैते तद्वाक्येन सभासदः ॥ ७८ ॥ अ- नुज्ञातो नृपेणाथ सभासद्भिश्च सादरम् ॥ पुरोहितं समुद्रीक्ष्य बालो द्वादशवार्पिकः ॥ ७९ ॥ त्रीणि लौकिकवाक्यानि व्याजहार स्फुट तदा ॥ अबंध्या किल ते माता विद्वान् राजपुरोहित ॥८०॥एप राजा सार्वभौमो राजपत्नी पतिव्रता ॥ वाक्यचयं निशम्याथ लजितोभू- निरुत्तरः ॥ ८१ ॥ सर्वे राजसभास्थाने तूष्णीभूता नतान- नाः ॥ अथाब्रवीद्रचो भूयो यामुनस्तं पुरोहितम् ॥ ८२ ॥ व- अध्याय:११३. (४३३) क्ष्यामि वैदिकगिरश्चोत्तमाधममध्यमाः ॥ सर्वशास्त्रस्थिताः सर्वा विबुधैद्रादिसंमताः ॥ ८३ ॥ त्रिभिर्वा पंचभिर्वापि सप्तभिर्वाय म- द्विराम् ॥ दत्त्वा सदुत्तरं विद्वन्नवत्यबुधसंमतम् ॥ ८४ ॥ मामर्भक यदि भवान्जित्वा चात्र विजेष्यते ॥ यथोचितमिदं चिह्न भवतो वि- जयो ध्रुवः ॥ ८५ ॥ इत्युक्त्वा वैदिकगिरः प्रोवाच विशदं तदा ॥ अशक्तश्चोत्तरं दातुं तेपां तद्वचसां तदा ॥ ८६॥ ह्रिया नताननः सम्यक् तदा तूष्णी समास्थितः ॥ यामुनार्यों विलोक्याशु तदा राजपुरोधसम् ।। ८७ ॥विषण्णवदनं दीनमिदं वचनमब्रवीत् ॥ निर्णी- तं पूर्वमेवार भवतैव सभास्थले ॥ ८८ ॥ पराजितस्य शिरसि कर्तव्यमिति ताडनम् ॥ पुरोहितत्वान्नृपतेर्वृद्धत्वात्स भवान् द्विजः ॥ ८९॥ महाराजाश्रितत्वाच ताडनं तव मस्तके ॥ यचावमान- जनकं न मया क्रियते ध्रुवम् ॥१०॥ इतः परं हि भवतो विचिह्नानि भूसुर ॥ पराजितस्योचितानि न चैतानि महांति ते ॥ ९१ ।। इति तद्वचनं श्रुत्वा यामुनार्यस्य पण्डिताः।। अवतारं तदा मत्वा विष्णोर्लो- कैकमंगलम् ॥ ९२ ॥ पूजार्ह पूजयामासुर्यामुनार्य विपश्चितम् ॥ तत्र- त्या विबुधाः सर्वे ब्राह्मणा राजशासनात् ॥ ९३ ॥ प्रतिष्ठाप्य महाभत्त्या बालं ब्रह्मरथे तदा ॥ यामुनायं महात्मानं जितराज- पुरोधसम् ॥ ९४ ॥ पूजाह पूजयामासुब्रह्माणमृपयो यथा ॥ संप्र- हृष्टाथ सहसा राजपत्नी मनस्विनी ॥९५॥ यामुनाऱ्या महात्मानं वालकं भगवत्परम् ॥ सर्वशास्त्रार्थनिपुणं सर्वविच्छिरोमणिम्॥१६॥ अस्मद्रक्षागत स्वामिन्निति प्रेम्णा वचः शुभम् ॥ वदंती सम्यगुद्धत्य बाहुभ्यां परिपस्वजे ॥ ९७॥ रक्षागतगुरुनीम तेनाभूत्प्रथितं भुवि॥ वेदांतिन्यामनार्यस्य सर्वलोकैकमंगलम् ।। ९८ ।। अर्द्धराज्यं ददौ राजा यामुनाय विपश्चिते ॥ विवादसमये दत्तं भार्यया चोदितस्तदा ॥ ९९ ॥ यामुनायोथ वेदांतिस्तद्वाज्यं प्राप्य पुष्कलम् ॥ पितृभ्यां

(४३४)
प्रपन्नामृते-
संप्रहृष्टाभ्यां सहितः स्वपुरे तदा॥१००॥ उवास पूजितः सर्वैविबुधै-
वृत्रहा यथा ॥ अधीतवेदवेदांगं सर्वशास्त्रविशारदम् ॥ १०१ ॥
संप्राप्तराज्यं सर्वज्ञं जितराजपुरोहितम् ॥ पुत्रमालोक्य संतुष्टः
पिता यामुनदेशिकम् ॥ १०२॥ तथेश्वरमुनिः श्रीमान्महता वैभवेन
च ॥ विवाह विधिना सम्यक सर्वलोकैकविश्रुतम् ।। १०३ । कारया-
मास पुत्रस्य यामुनस्य महौजसः ॥ द्वितीयाश्रममाश्रित्य यासुनः
सर्वधर्मवित् ॥ १०४ ।। पितृशुश्रूपणं कुर्वन्कंचित्कालमवर्तत ॥ स
जगामेश्वरमुनिस्ततो वैकुंठमुत्तमम् ॥ १०५॥ वेदांतिन्भगवद्भक्तः
स्वार्जितेनैव कर्मणा ॥ यामुनार्यः पितुस्तस्य ब्रह्ममेधविधानतः ॥
॥१०६॥ कृत्वा संस्कारमव्यग्रो विधिना शास्त्रवित्तमः॥ कर्माण्य-
ध्ययनांतानि चक्रे श्रीवैष्णवैः सह ॥ १०७ ॥ वेदांतिन्यामनार्योथ
बंधुभिः कृतमंगलः ॥ १०८॥ कंचित्कालं महातेजाः सुखेनैवाव-
तिष्ठत ॥ पुत्रद्वयं तदा जज्ञे यामुनार्यस्य विश्रुतम् ॥ १०९ ॥ वररं-
गाभिधो ज्येष्ठो शोट्टपूर्णोपरस्तयोः । चकार सर्वसंस्कारान्महतावैभ-
वेन सः॥११०॥ सर्वसंपत्समायुक्तो सर्वबंधुसमन्वितः॥कलवापत्य-
सहितः सर्वभोगसमन्वितः ॥ १११ ॥ भुंजानो राजभोगांश्च
धर्मतः पालयन्प्रजाः ॥राजभौगैकनिरतः सुखं तस्थौ महायशाः ॥
वेदांतिन्यामुनाचार्यों महेंद्र इव संततम् ॥ ११२॥ इति श्रीप्रपन्नामृते
भट्टार्य्यवेदांतिसंवादे यामुनाचार्यविजयो नामैकादशाधिकशततमोऽ-
ध्यायः॥ १११॥
द्वादशाधिकशततमोऽध्यायः॥
तच्छ्रुत्वा राममिश्रोथ संप्रदृष्टो महायशाः ॥ द्रष्टुकामो यामुनार्य
तदंतिकमुपागतः ॥ १ ॥ सप्तकक्षासमाकीर्ण तद्राजभवनं महत् ॥
गजवाजिरथैः सम्यक्रैश्च परिरक्षितम् ॥ २ ॥ दर्शनार्थ यामुनस्य
दशदिग्भ्यः समागतैः॥राजाधिराजैर्बहुभिस्तैश्च सनिपेवितम् ॥३॥

अध्यायः ११२. (४३५) महेंद्रभवनप्रख्यं यामुनस्योत्तमं गृहम् ॥ विलोक्य विस्मितोऽत्यंत प्रहृष्टः सुमहामतिः ॥ ४ ॥ ममाद्य दुर्घटमिदं यामुनार्यस्य दर्शनम् ॥ इति मत्वाथ वेदांतिस्तस्य पाकगृहं ययौ ॥ ५ ॥ पाच शनकैस्सम्यक् स्ववशीकृत्य तं द्विजम् ॥ तस्येप्टशाकं पप्रच्छ यामु- नस्य किमित्यलम ॥६॥ अलर्कशाकं ज्ञात्वाथ स तस्येष्टतमंततः।। संतुष्टोऽनुदिनं तस्मै सुदिशन्सुखमास्थितः॥७॥ एप पण्मासपर्यत यामुनस्यादिशत्तदा ॥ अलर्कशाकं वेदांतिस्तदशीकरणेच्छया । ॥८॥ प्रव्याकुलांतःकरणस्तदा किंचिदचिंतयत् ॥ विष्णुदर्शननि- वहिं तं कुरुष्वेति यामुनम् ॥९॥ गुरुणोक्तमलंध्यं मे तन्मह्यं गुरुशास- नम् ॥ अधुना यामुनस्त्वेप राजभोगसमन्वितः ॥१०॥ तिरस्कृतें द्रविभवो राजराजोव दृश्यते॥ तस्य संदर्शनं मेद्य तन्महद्धटते कथम ॥१३॥ अलकै यन्मया दत्तमापण्मासं निरंतरम् ॥ किमर्थ नीयते तेन कोऽयं कस्मादिहागतः॥ १२॥ इत्येवं यामुनाय्र्येण न कदा- चिद्विचारितम् ।। चतुष्टयदिनं तूष्णीं स्थितश्चेत्तदनंतरम्।।१३।।कालो- चितं करिष्यामीत्येवमालोच्य सत्तमः ॥ रंगेशं शरणं प्राप्य तस्य विज्ञानसिद्धये ॥ १४॥ गुरुपादांबुजे ध्यायन् राममिश्रोवसत्तदा ।। चतुष्टयदिनं तूष्णी स्थितः पंचमवासरे ॥ १५॥ अलर्कशाकमादाय राममिश्रः स पूर्ववत् ॥ वेदांतिन्यामुनाचार्य्यपाकशालां समाविशत्॥ ॥ १६॥ राममिभंतदा दृष्ट्वा पाचको वाक्यमब्रवीत् ॥ आचतुर्दिव- सेभ्यः प्राग्यामुनाय॑प्रियं महत् ॥१७॥ किमर्थ न त्वयानीतं शाक- मालकसुत्तमम् ॥ कोपं नित्यं करोत्येप यामुनार्यस्तु मां प्रति ॥ ॥१८॥स पाचकवचः श्रुत्वा राममिश्रोऽब्रवीत्तदा ॥राजाज्ञा कि तवैतन्मे दत्तं स्वच्छंदतो मया ।। १९ । राजप्रेष्यो न चैवाहं देशि- काज्ञापरायणः ॥ इत्युक्त्वा पाचकायाथ तच्छाकमदिशत्तदा ॥२०॥ वेदांतिन यामुनाचार्यों भोजनावसरे तदा ॥ अलर्कशाकमालोक्य तं (४३६) प्रपन्नामृते- पाचकभथाब्रवीत् ॥ २१ ॥ केनानीतमिदं शाकं पाचकास्मिन् दिने प्रियम् । तदंगीकृत्य वचनं यामुनं पाचकोऽब्रवीत् ॥ २२ ॥ पष्टमासात्समारभ्य वृद्धः कश्चिद्विजोत्तमः ॥ अलर्कशाकमादाय नित्यं भत्त्या प्रयच्छति ।। २३ ॥ युष्मत्प्रियतमं ज्ञात्वा निरपेक्षः कृतादरः॥न दत्तं तेन तन्मध्ये ह्येतदिनचतुष्टयम् ॥ २४॥ अस्मि- न्दिने पुनस्तेन समानीतमिदं तव ॥ राहित्यादस्य शाकस्य शिक्षितो भवताऽधुना ॥२५॥ अवागतं विलोक्याहं वैष्णवं वाक्यमनवम् ॥ आचतुर्दिवसं वृद्ध अस्मत्स्वामिप्रियः शुभः॥ २६ ॥ किमर्थन त्वयानीतः शाकमालमुत्तमम् ॥ अस्मत्प्रभुहि मय्येव महाकोपं करोत्यलम् ॥ २७॥ इत्येवमुक्तो मामाह वृद्धः श्रीवैष्णवोऽनवः।। राजप्रेष्यो न चैवाहं देशिकाज्ञापरायणः ॥ २८ ॥धीर राजाज्ञया शाकं दास्यामीति न चिंतयु ॥ स्वच्छंदतः प्रदास्यामि मनसे रोचते यदि ॥ २९ ॥ इत्युक्त्वा वैष्णवोऽलर्कमदिशन्मामादरात् ॥ वृद्धः स वैष्णवः स्वामिन निरपेक्षो महामतिः ॥ ३० ॥ आदावाकांक्षते प्रेम्णा दुर्लभं तव दर्शनम् ॥ तच्छुत्वा वचनं तस्य यामुनोऽत्यतवि- स्मितः ॥ ३१॥ वृद्धं समानय क्षिप्रामिति पाचकमब्रवीत् ॥ तस्यां राज्यां व्यतीतायां कृतनित्यक्रियो महान् ॥ ३२ ॥ अलर्कशाकमा- दाय पूर्ववत्तत्र चागतः॥ तमागतं समालोक्य राममिश्रं स पाचकः॥ ॥३३॥ स वृद्धस्त्वागत इति यामनाय न्यवेदयत् ॥ संतुष्टस्तद्वचः श्रुत्वा ह्यानीयांतःपुरं तदा ॥३४॥ राममिश्रं महात्मानं कुमुदाक्षा- शसंभवम् ॥ प्रत्यद्गम्य प्रहृष्टात्मा नत्वा तत्पादपद्मयोः ॥ ३५ ॥ अर्घ्यपाद्यादिभिः सम्यग्राममिश्रं यथोचितम् ॥ पूजाई पूजयित्वार्य प्रांजलिर्वाक्यमब्रवीत् ॥३६॥ अपेक्षितं हि भवतो धनं वा क्षेत्रमेव वा ॥ यद्यदिच्छास विप्रेद्र ग्रामं वा तददामि ते ॥ ३७ ॥ वरं वरय तत्सर्व नात्र कार्या विचारणा ॥राममिश्रो यामुनस्य वचः श्रुत्वा मुदान्वितः ॥३८॥ मंदस्मितमुखः श्रीमानिदं वचनमब्रवीत्॥

अध्यायः ११२. (४३७) मास्तु युष्मद्धनं वत्स युष्मक्षेत्रं च मेनध ॥ ३९॥ युष्मत्पूर्वैर्यामु. नायं यद्यत्संपादितं धनम् ॥ त्वदर्थ सांप्रतं सम्यग्मद्वशे स्थापित महत् ॥ ४० ॥ प्रदर्शयितुकामोऽहं तवांतिकमुपागतः ॥ यावत्ते तहनप्राप्तिस्तावद्युष्मद्गृहं प्रति ॥४१॥ गमनागमने मेद्य निःशंक शासनं कुरु ॥ प्रतिगृह्य सु तद्वाक्यं यामुनो वैष्णवप्रियः ॥ ४२ ॥ द्वारपालान् समाहूय तत्तथैवाकरोत्तदा ।। राममिश्रोथ संतुष्टो यामुना- येण पूजितः ॥ ४३ ॥ निर्गत्य राजभवनादभ्यगात्स्वनिकेतनम् ॥ ततः कृताहिक कल्ये राममिश्रो महामतिः॥४४॥आदाय भगव- गीतां यामुनातिकं ययौ ॥ तं दृष्ट्वा सहसोत्थाय यामुनार्यः प्रण- म्य च ।। ४५॥ रत्नसिंहासनारूढं कृत्वा सम्यगपूजयत् ॥ वेदांति- न्यामनार्योथ राममित्रं महौजसम् ॥ ४६॥ विलोक्य प्रांजलिर्भूत्वा पप्रच्छेदमनुत्तमम् ।। किमिदं पुस्तकवर युष्मत्पाणौ प्रकाशते ॥४७॥ ब्रूहि मे विशदं विद्धन्वृत्तीत तस्य सादरम्।।तस्य तद्वचनं श्रुत्वा स संतुष्टोऽ ब्रवीत्तदा॥१८॥ एपाश्रीभगवद्गीता सर्वतत्त्वार्थमंजरी॥ अर्जुनाय पुरा विद्वन्साक्षात्कृष्णेन भापिता॥४९॥ वेदेषु पौरुपं सूक्त पुराणेषु च वैष्णवम् ॥ भारते भगवद्गीता धर्मशास्त्रेषु मानवम् ॥५०॥ अतो हि भगवद्गीता मुख्यत्वात्समुदाहृता निशम्य यामुनार्योथ भक्तिमांस्तद्ध- चःशुभम्।।९।। तद्गीताश्रवणेत्यंतं स संजातरुचिर्महान।। बहुशः प्रा- र्थयामास राममिश्रं महामतिः॥५२॥ तेन संप्रार्थितो धीमान राम- मिश्रो रहोऽब्रवीत् ॥ तांगीता संप्रवक्ष्यामि शृणु चादरतोऽनघ॥५३॥ वेदांतिन राममिश्रोथ स्ववशीकृत्य यामुनम् ॥ सम्यगष्टादशाध्यायी- मष्टादशदिनैस्तदा ॥ ५४॥ स तस्मै यामुनार्याय रहस्यवेमवाधयत्।। ज्ञानं भक्तिश्च वैराग्यं तस्य संववृधे ततः॥ ५५ ॥ शुक्लपक्षे चंद्रमसः कला इव दिनेदिने । राममिश्रं प्रणम्योा यामुनो वाक्यमब्रवीत् ।। ॥५६॥राममिश्र महाविद्धन गीतार्थः सम्यगीरितः॥ निर्हेतुककृपावेशा- न्मयमज्ञानिने त्वया ॥ १७॥ तेन संजातवैराग्यः कृतार्थोह न सं-

(४३८)
प्रपन्नामृते-
शयः॥ केनोपायेन भगवान्मम साक्षाद्भविष्यति ॥ ५८॥ तमुपायं
हि सर्वज्ञ ब्रूहि शिष्याय मे गुरो।।तदंगीकृत्य वचनं यामुनस्य गुरूत्तमः
॥५९॥आचार्यपरमाचार्यशासनानिश्चलस्तदा। शिप्याय यामुनार्याय
देशिकाधीनवृत्तये ॥६०॥ राममिश्रोथ चरमश्लोकार्थ प्रददौ रहः ॥
चरमश्लोकतत्त्वार्थज्ञानेनैवोदभूत्तदा ॥६॥ यामुनस्यारुचिस्तस्य
संसारे महती मुनेः ॥ स तं निवृत्तसंसाररुचिं संवीक्ष्य यामुनम्॥६२॥
पैतामहं निधिं तेद्य दर्शयामीति सादरम् ॥ तमादायांजसा विद्वान् म.
हात्मा रंगमभ्यगात् ॥ ६३॥ न च ज्ञानस्य सकोचं न चैव यमगो-
चरम् ॥ तस्माद्रंग महापुण्यं को न सेवत बुद्धिमान् ॥ ६४ ॥ रंगक्षेत्रं
समासाद्य महदीडशवैभवम् ॥ विगाह्य तत्र कावे- राममिश्रः सया-
मुनः॥ ६५ ॥ रंगेशं संप्रणम्याशु यामुनं वाक्यमब्रवीत् ॥ अयमेव
हि रंगेशो भगवान्निधिरव्ययः ॥६६॥ पुरानुभूतो भवतः पूर्वैर्यासुनदे-
शिक ॥ तेन प्रदर्शितं रंगनायकं जगतीपतिम् ॥ ६७ ॥ वि.
लोक्य महता प्रेम्णा यामुनार्यः प्रहर्पितः ॥ आपादमस्तकं सम्यग्रंगे
शं सोनुभूय च ॥ तत्प्रेमपारवश्येन वासं तत्राकरोत्तदा ॥ ६८॥
क्षेत्राणि मित्राणि धनानि नाथ पुत्राश्च दाराः पशवो गृहाणि त्वत्पा-
दुपद्मप्रवणानुवृत्तेभवंति सर्वे प्रतिकूलरूपाः ॥६९॥ स चैवमात्मनो
रीत्या सर्व संत्यज्य दूरतः ॥ संन्यासं विदधे सम्यग्यामुनार्यों
महायशाः॥ ७० ॥ वैराग्यज्ञानभत्त्यादिसद्गुणैकमहार्णवम् ॥ श्रीरं-
गेश्वरकैकयं कुर्वतो भक्तितोनिशम् ॥ ७१ ॥ रक्षागताभिधं धोरं
यामुनाऱ्या महौजसम् ॥ सिंहासनांशसंभूतं नारायणमुनि यथा।।७२॥
अशिश्रियन्महाभत्त्या जनाः सर्वे द्विजर्षभाः ॥ महापूर्णादयो धीरा
देशिका विबुधर्षभाः॥ ७३ ॥ स तैः समेतो भगवत्पराय्यैः श्रीवैष्ण-
वैर्यामुनदेशिकेंद्रः ॥ श्रीराममिश्रानुमतैकचित्तः श्रीरंगआस्तेऽखिल-
लोकरक्षः ॥ ७४ ॥ इति श्रीप्रपन्नामृते भट्टार्यवेदांतिसंवादे यामुना-
याय गीतोपदेशो नाम द्वादशाधिकशततमोऽध्यायः॥ ११२॥

अध्यायः ११३. (४३९) त्रयोदशाधिकशततमोऽध्यायः। धीमान्माधवदासोथ भट्टायं भगवत्परम् ॥ पप्रच्छ भक्तिसंयु- तो महापूर्णादेवभवम् ॥ १॥ कुवत्याः कीदृशाः स्वामिन्महापूर्णा- दयोनघ । अंशेन केपां गुरवो झवतीर्णा भुवः स्थले ॥ २॥ मह्य- माख्याहि तत्त्वेन तेषां तद्वैभवं महत् ॥ कस्याधीनं तनो राज्यं तद- भूत्तन्महद्गुरो ॥३॥ राजपत्नी किमकरोत्तदूत्तान्तं निशम्य सा ।। एतत्सर्वं च मे हि शिष्याय कृपयानघ ॥ ४॥ अस्मयतेर्वचः सम्यगंगीकृत्य कृतादरः ॥ तत्सर्व विशदं सम्यग्व्याख्यातुमुपचक्रमे ॥५॥कासारादिसमस्तयोगिनिकरैः श्रीगोदया संस्तुतो रंगे श्रीमति भोगिशेषशयने स्वर्णापगामध्यगे ॥ यः शेते निखिलस्थलाधिवसता- मायो हरीणां प्रभुः स श्रेयः परमं ददातु जगतां श्रीरंगराजः सदा॥ ॥६॥ अत्र श्रीरंगनगरे श्रीबृहच्चरणान्वये॥ भारद्वाजाख्यसद्गोत्रे यजु:- शाखासमुज्वले ॥ ७॥ कुमुदाशन संजज्ञे महापूनॊ महायशाः॥ वेदवेदांगसंपन्नः सर्वशास्त्रविशारदः॥ ८॥ पुत्रो बभूव पूर्णस्य पुंडरी- काक्षनामवान् ॥ अत्तुलायीति विख्याता दुहिता तस्य चानघ॥९॥स तदृष्ट्वायामुनार्यवैभवं लोकविश्रुतम्।। अशिश्रियन्महापू) यामुनाये गुरूत्तमम् ।। १०॥ गुरुः स तत्र कृपया महापूर्णस्य यामुनः॥ श्रीप- रांकुशदासाख्यं दास्यनामादिशत्तदा ॥११॥ श्रीभक्तांघ्रिरजोतिरिक्त मुनिभिः कासारयोग्यादिभियोगींनभिश्च साधु भगवान्यः सन्नुतो गोदया ॥ श्रीमढेंकटभूधरोत्तमशिरःस्थाने जगद्विश्रुतस्तिष्टनाश्रित- वत्सलो दिशतु नः श्रीवेंकटेशः श्रियम् ॥ १२ ॥ मायावी परमानंद- स्त्यक्त्वा बैकुंठमुत्तमम्।।स्वामिपुष्करिणीतीरे रमया सह मोदते॥१३॥ वेंकटाद्रिसमं स्थानं ब्रह्मांडे नास्ति किंचन ॥ वेंकटेशसमो देनोन भूतो न भविष्यति ॥ १४ ॥ एतादृशप्रभावाख्ये सुवर्णमुखरीतटे ॥ उदीच्या वेंकटगिरी संजज्ञे सुमुखांशतः ॥ १५ ॥ चैत्रस्वात्यां वेंक- (४४०) प्रपन्नामृते- टेशवरदानेन वैष्णवः ॥ भूरिश्रीशैलपूर्णाख्यो महात्मा भगवत्परः ॥१६॥ श्रीवेंकटेशकैंकर्यनिरतोऽभृत्सदा गुरुः ॥ देहि मे तात पानीयमिति प्राह यमीश्वरः॥ १७॥ वेंकटेशस्ततस्तस्य ताताचार्या- भिधाभवत् ॥ ततो महान्यामनार्य सोप्येवं तमशिश्रियत् ॥ १८॥ ततो गोप्टीपुरं नाम विश्रुतं पांड्यमंडले ॥ भगवानाजते तत्र सौम्य- नारायणाभिधः॥ भद्देशपरकालाभ्यां संस्तुतो जगदीश्वरः ॥ १९॥ श्रीभद्देशचतुष्कवींद्रकृतिभिर्यः संनुतो. भासते तीरे शुद्धसरोवरस्य स हरिः पुण्ये विमानेऽद्भुते ॥ अष्टांगे च महासिताख्यरमया यः संनु तो भासते श्रीगोष्टीपुरनायको दिशतु नः श्रेयः परं संततम् ॥ २०॥ तत्र वैशाखरोहिण्यां पुंडरीकांशतोऽजनि ॥ गोष्टीपूर्णो महातेजा विद्वद्गोष्ठीविशारदः ॥ २१ ॥ स च तं यामुनाचार्य्यमशिश्रियदरि- दमः ॥ तत्रैव पांड्यदेशेस्ति काचिच्छीमधुरा पुरी ॥२२॥ तस्याः समीपे विख्यातो वृपभाद्रिविराजते ॥ भगवान्सुंदरभुजः पंचभिर्दि- व्यसूरिभिः।संस्तुतोऽव्याहतैश्वर्यों पद्यापि परिदृश्यते ॥ २३॥ श्री- मच्छठारिकुलशेखरभट्टनाथैः श्रीगोदया च भगवान्कलिवैरिणा च ॥ यः संनुतो वनगिरौ कृतनित्यवासः श्रीशः स मामवतु सुंदरबाहुरेपः ॥२४॥ श्रीसुंदराचले चात्र श्रीमाञ्छ्रीवामनांशतः ॥ कुंभमासे मंघायां तु जज्ञे मालाधरो महान् ॥ २५ ॥ वेदवेदांगसंपन्नो महात्मा भगवत्परः ॥ नित्यकैकर्यनिरतस्तस्थौ सुंदरबाहवे ॥ २६ ॥ सोपि तद्यामुनाचार्य्यमाहात्म्यं तनिशम्य च ॥ वृपभादि विहायाशु श्रीरंगं प्राप्य बुद्धिमान् ॥ २७॥ यामुना> समाश्रित्य तत्रैव न्यवसत्सु- खम् ॥ बभूव मारणराख्यं नगरं पांड्यमंडले ॥२८॥ तत्र श्रीमा- रणेनविनामाभूद्वैष्णवोत्तमः॥ चतुर्थवर्णे ह्याश्लेपानक्षत्रे मासि कर्कटे ॥२९॥ ज्ञानभत्त्यादिजलधिर्महात्मा देशिकप्रियः। स तु श्रीरंग- श्रुत्वा यामुनवैभवम् ॥३०॥ शिष्यत्वमगमत्तस्य यामुन- . अध्याय:११३. (४४१) स्य महामतिः॥ नित्यकैंकर्यनिरतो गुरोनित्यमतंद्रितः ॥ ३१ ॥ अथाकरोनित्यवासं तत्रैव गुरुसन्निधौ ॥ वेदांतिन्मारणे बिनानि शिष्ये महात्मनि ॥ ३२ ॥ सुतरां यामुनाचार्यः कृपावान्समातिष्ठत।। तुंडीरमंडले पूर्वसिंघोः पश्चिमरोधसि ॥३३॥भात्येकयोजने काचि- त्महीसारपुरी श्रुता ॥ यत्रावतारं विदधे भक्तिसारो महायशाः॥३४॥ तस्याः पुरो महाभाग पश्चिमे क्रोशमात्रतः॥ बभूव नगरी काचि- नाना श्रीपुष्पमल्लिका ॥ ३५ ॥ नित्यपुष्पवती यत्र राजते मल्लिका यतः।। यूनमल्लीति यामेव वदंत्याधुनिकाजनाः ॥३६॥ सा पुष्प- मल्लिका नाम नगरी विश्रुता भुवि ॥ सर्वसस्यसमायुक्ता पुष्पारामा- तिशोभिता ॥ ३७॥ माघमासे तत्र पुर्या नक्षत्र मृगशीर्षके ॥ चतु- र्थवणे संजज्ञे शबयंशेन वैष्णवः ॥३८॥ कांचीपूर्ण इति ख्यातः कमलापतिनंदनः ॥ कश्चिन्महान्महाभाग महाभागवतोत्तमः ॥३९॥ कृताधिवासस्तत्रैव पूनमल्लीपुरे महान् ॥ नित्यं वरदराजाय कैंकर्य कर्तुमद्यतः॥ ४० ॥ पुष्पारामं विधायाशु सुमहानंदनोपमम् ॥ भक्त्या मनोहराः कृत्वा महतीः पुष्पमालिकाः ॥ ४१ ॥ नित्यं हस्तिगिरि गत्वा वरदायार्पयन् स्थितः ॥ आसूरिकेशवार्येण तस्य मैत्री तदाभ- वत् ॥ ४२ ॥ निर्गत्य स्वपुरात्प्रातमध्याह्ने वारणाचलम् ॥ संप्राप्य . वरदायाथ मालिकास्ताः समर्प्य च ॥४३॥ रात्रौ श्रीभूतनगरे ततः केशवसम्मनि ॥ उपित्वा सहसोत्थाय काले हरिपरायणः ॥४४॥ भूयः संप्राप्य वेदांतिन्पूनमल्लीयुरं तदा ॥ श्रमेण महता चापि कांचीपूर्णों निरंतरम् ॥ ४५ ॥ देवराजाय कैंकर्य्यमकरोद्हुव- त्सरान् ॥ ततः कदाचिद्वरदः कांचीपूर्ण विलोक्य तम् ॥ ४६॥ मंद- स्मितमुखः प्राह कृपया भक्तवत्सलः॥ परितुष्टोऽस्मि तेनैव कैंक- थ्र्येण तवाधुना ॥४७॥ कुरु मत्सन्निधावेव ककर्य हि निरंतरम् ॥ उशीरनिर्मिनेनैव प्रकीर्णेन महानध ॥ १८॥ धातुरुत्तवेद्यां तु ..

प्रपन्नामृते- (४४२) संजातस्यानलात्मनः॥ तदंगीकृत्य वचनं कांचीपूर्णो जगत्पतेः॥४९॥ तथैव कुर्वन्बैंकर्य तत्रैव सुखमास्थितः ॥ माहात्म्यं यामुनार्यस्य । कांचीपूर्णो निशम्य तत् ॥५०॥ संतुष्टो देवराजेन ह्यनुज्ञातः सुस- त्वरम् ॥ श्रीरंगनगरं प्राप्य यामुनार्य्यमशिश्रियत ॥५१॥ स लब्ध- मंत्रमंत्रार्थों यामुना-द्विचक्षणः ॥ श्रीरंगनगरात्कांची संप्राप्य गुरुशासनात् ॥५२॥ कैंकर्य पूर्ववत्कुर्वन्वरदाय समास्थितः ॥ एवं श्रीयामुनाचार्यः शिष्याणां प्रेमपूर्वकम् ॥ ५३॥ विधाय पञ्चसं. स्कारान्यथाशास्त्रं यतीश्वरः ॥श्रीराममिश्रकृपया वर्द्धयन्विष्णुदर्शनम् ॥५४॥ कंचित्कालमुवासात्र श्रीरंगे लोकरक्षकः ॥ श्रीराममिश्रा- गमनं यामुनार्यगृहं प्रति ॥ ५५ ॥ अलर्कशाकदानं च ह्यापण्मासं निरंतरम् ॥ यामुनार्य्यस्य रहसि श्रीगीतार्थप्रबोधनम् ॥५६॥ संत्यागः सर्वराज्यस्य महानिशि विनिर्गमः ॥ श्रीरंगनगरप्राप्तिः संन्यासं यामुनस्य च ॥ १७ ॥ इत्येवं सकलं सम्यक् चारेभ्यश्चो- लभूपतिः॥ निशम्य सत्वरं भक्त्या सदारः सपुरोहितः ॥५८॥ विद्वत्प्रियः स वेदांतिन्नत्याश्चर्यमवाप ह ॥ ततः श्रीरंगनगरं संप्राप्य स महीपतिः ॥ ५९॥ सकलत्रो महाभक्त्या यामुनार्यपदाब्जयोः॥ प्रणम्य प्रार्थयामास पंचसंस्कारकर्मणि ॥६०॥ राज्ञा च राजपल्या च तेन राजपुरोधसा ॥ संप्रार्थितो यामुनार्यों वेदांतिन्बहुशस्तदा ॥६१॥ स तेपां-पंचसंस्कारांश्चकार विधिनाः गुरुः॥ तस्मै नाम दौ श्रीमांस्तदा राजपुरोधसे ॥ ६२ ॥ श्रीनाथमुनिदासाख्यं मंगलं लोकविश्रुतम् ॥ राज्ञे श्रीरंगचोलेंद्र इति नाम ददौ महत् ॥६३॥ श्रीरंगनायकी नाम राजपत्न्याः शुभान्वितम् ॥ संप्रार्थितः सदारेण राज्ञा यामुनदेशिकः ॥ ६४ ॥ तदर्द्धराज्यं वेदांतिननुभूतं पुरा महत्॥ श्रीरंगेश्वरकैंकर्यसात्कृतं विदधे तदा॥६६॥तदद्धराज्यं वेदांतिन् क्रिमि- कंठांतमेव हि ॥श्रीरंगश्वरैंककय्ये तत्सर्व समपद्यत ।। ६६ ॥तदृत्तांत अध्यायः ११३. (४४३) निशम्याशु यामुनार्यसुतद्वयम् ॥ यामुनार्य समाश्रित्य श्रीरंगे न्यवसत्सुखम् ॥ ६७॥ वेदांतिन्यामुनाचार्यः श्रीरंगे शिष्यसंवृतः॥ कैकर्य रंगिणःकुर्वन्नव्याहतमतंद्रितः॥१८॥श्रीराममिश्रकृपया वर्धयन् विष्णुदर्शनम् ॥ अवर्तत जितारातिः श्रीरंगे सुमहायशाः ॥ ६९॥ अशिश्रियानाः सर्वे यामुनार्य यतीश्वरम् ॥ तच्छुत्वा वैभवं तस्य सुमहल्लोकविश्रुतम् ॥ ७० ॥ एकविंशतिशिष्यास्तु प्रधानास्तस्य विश्रुताः॥ अन्ये च बहवः सन्ति तस्यांतेवासिनो भुवि ॥ ७१ ॥ तं दृष्ट्वा यामुनाचार्य राममिश्री महौजसम् ॥ संप्रष्टो रहस्तस्मै सर्वा- र्थानुपदिश्य च ॥ ७२॥ देशिकानुज्ञया सम्यग्व्याजहार वचोऽर्थदम्।। कुरुकानाथनामास्ति कश्चिदेशिकपुंगवः ॥७३॥ अष्टांगयोगनिरतः शिष्यः श्रीनाथयोगिनः । तत्रैवाष्टांगयोगस्तु निक्षिप्तो नाथयोगिना ॥७॥ युष्मदर्थ करुणया कुरुकानाथनामनि ॥ तस्य योगरहस्यं तु तगृहाणांजसा तदा।।७५||राममिश्रस्य वचनं स निशम्याथ योगिनः।। एवं विज्ञापनं चक्रे कृतांजलिपुटस्तदा ॥ ७६॥ सर्वार्थवेदिनस्तस्य भवतो देशिकप्रिय ॥ अष्टांगयोगं योगार्ह न संप्राप्तं इमं कुतः ॥७॥ स तद्वचनमाकर्ण्य गुरुः शिष्यमथाब्रवीत् ।। युष्मपितामहो नाथयो- गींद्रो मद्गुरुं तदा ॥ ७८॥ पुंडरीकाक्षमाहूय वाक्यमेतदुवाच ह ॥ अष्टांगयोगं दास्यामि पद्माक्षाय गृहाण भोः ॥ ७९ ॥ तनिशम्य वचस्तस्य तदास्मद्गुरुरब्रवीत् ॥ विद्यमाने शवे स्वामिन्कल्याणं मे कथं भवेत् ॥८॥देहि देहावसाने मे तदा तद्योगमुत्तमम्।।तदंगीकृत्य वचनं तदा युष्मपितामहः ॥ ८१॥ त्वदर्थ दर्शनार्थाश्च सर्वानिक्षिप्य मद्गुरौ।कुरुकानाथयोगोंद्रे योगं निक्षिप्तवान हि तम् ॥८२॥केनचित्का- रणेनाथ मृगयन् रामलक्ष्मणौ।।वैदेहीं हनुमंतं च नगरेषु वनेपु च॥८॥ कुत्राप्यलभमानोथ तेषां संदर्शनं भुवि ॥ महाप्रस्थानमासाद्य स तत्रैवागमत्पदम् ॥ ८४ ॥ तद्विष्णोः परमं पदं सदा पश्यंति सूरयः ।। अतो ह्यस्मद्गुरोर्योगप्राप्तिनाभून्महामते ॥ ८५ ॥ अष्टांगयोगसंप्राप्ति-

(४४४)
प्रपन्नामृते-.
नचैवाभून्ममाप्यतःत्वमप्यद्यांतिकं गत्वाकुरुकानाथयोगिनः॥८६॥
सम्यग्गृहाण सहसा योगमष्टांगमुत्तमम् ॥ राममिश्रः स वेदांति-
ञ्छीरंगे देशिकाज्ञया ॥ ८७॥ श्रीमहाविष्णुसिद्धांतनिर्वोढारं विधाय
तम्॥ तेनैवाव्याहतं सर्ग सम्यक् स जगतीतले ॥ ८८ ॥ कारयन्या
मुनायेण तत्सिद्धांतप्रवर्द्धनम् ।। कंचित्कालमुवासार्य्यः कृतकृत्यो
महायशाः॥८९ ॥ पंचोत्तरशतं नीत्वा वत्सराणां भुवः स्थले । वि-
प्णुदर्शननिर्वाहं यामुना> विधाय च ॥ ९० ॥ कृतदेशिककैकर्यः
कृतार्थो जरठो महान् ॥ राममिश्रोऽथ वैकुंठगमने विदधे मतिम् ॥
॥९१॥ ततः स्वचरमे काले राममिश्रः कृतादरः ॥ यामुनायं समा-
हूय वचनं चेदमत्रवीत् ।। ९२ ॥ भवतो नाथमुनिना संबंधद्वयमस्ति
हि ॥ अस्माकं प्रापकग्राप्ये नाथयोगपदांबुजे ॥ ९३॥ इति ध्रुव
विनिश्चित्य स तत्र त्वं कृतादरः ॥ सनिर्भरो वसात्रैव वर्द्धयन्विष्णु-
दर्शनम् ॥ ९४ ॥ भवादशं महात्मानं विष्णुदर्शनवर्द्धनम् ॥ संपाद्य
पुरुपं कंचित्स्थापय त्वं मते ध्रुवम् ॥९५॥ वर्द्धयन् दर्शनं लोके सर्व-
चैतदनुत्तमम् ॥ प्रख्यातवैभवः श्रीमाजितारातिर्महायशाः ॥ ९६ ॥
बहुकालं सुखेनात्र वस यामुनदेशिक ॥ इत्येवमाशिपः कृत्वा यामुना-
र्याय सादरम् ॥ ९७ ॥ राममिश्रः परं ध्यायन पद्मनेत्रपदद्वयम् ॥ स
जगामांजसा श्रीमांस्तद्विष्णोः परमं पदम् ॥ २८ ॥ शिष्याः प्रशि-
प्यास्ते सर्वे वैष्णवा यामुनादयः॥ वियोगे राममिश्रस्य विषण्णा ह्य-
भवन्परम् ॥ ९९ ॥ ते सर्वे ब्रह्ममेधेन संस्कारं चक्रिरे तदा ॥ राममि-
श्रस्य वेदांतिन्यथाशास्त्रं यथाविधि ॥१००॥ समारभ्याथ ते सम्यक
श्रीचूर्णपरिपालनम्॥सर्वमध्ययनांतं च तस्य कर्माचरंस्तदा ॥१०॥
ततो महान्यामुनदेशिकेंद्रः श्रीरंगपुऱ्यां श्रितशिष्यसंघः ॥ दिगंतकी-
तिः सुतरां विरजे श्रीनाथयोगींद्र इवामलात्मा ॥ १०२॥ इति श्री-
प्रपन्नामृते भट्टार्यवेदांतिसंवादे यामनार्यमहापूर्णादिगुरुवैभवो नाम
त्रयोदशाधिकशततमोऽध्यायः ॥ ११३॥

अध्यायः ११४. (४४५) चतुर्दशाधिकशततमोऽध्यायः। असहिष्णुस्तदाचार्यविश्लेपं यामुनस्ततः॥ महापूर्णादिभिः शिष्यैः सर्वैः श्रीरंगवासिभिः।।३॥ सहितो रंगनगरान्निर्गत्य सुमहायशाः ॥ तत्राजगाम सहसा योगाभ्यासाभिलापया॥२॥कुरुकानाथयोगींद्रो यत्र योगेन वर्तते।योगविनोन कर्तव्य इति ज्ञात्वा महामतिः ॥३॥ नि- क्षिप्य दूरतःसर्वानेक एवात्र चागतःयोगारूढं महात्मानं कुरुकानाथ- मुत्तमम् ॥४॥ विलोक्य विस्मितोत्यंत संतुष्टोयामुनस्तदा । कुडयां- तरस्थो निश्चेष्टः पश्यंतृष्णी समास्थितः॥५॥ पश्चाद्भाग विलोक्याशु योगरूढोऽब्रवीत्तदा ॥ श्रीनाथवंश्यः को वात्र किं वाद्य सुसमागतः ॥६॥ यामुनस्तद्वचः श्रुत्वा समभ्येत्य तदंतिकम् ॥ स्वामिस्त्वदा- सभूतोऽहं यामुनो ह्यागतोऽभवम् ॥ ७ ॥ इत्युक्त्वा संप्रणम्याशु भ. क्या तत्पादपद्मयोः॥कृतांजलिपुटः सम्यगिर्द वचनमब्रवीत् ॥ ८॥ कुड्यांतरस्थितं मां त्वं कथं वै ज्ञातवानासि ॥ कुरुकानाथ मे बहि कृपया कारणं महत् ॥९॥ तदंगीकृत्य वचनं योगींद्रस्तमभापत ॥ सं- क्रीडमानो भगवाननिशं रमया सह ॥ १० ॥ संत्यज्यानुत्तमं शी- अंतत्पयोधरपीडनम् ॥ अदत्त्वा मुखदानं च लक्ष्म्याः सर्वेश्वरोऽधुना ॥११॥ आलंव्य मद्भुजं सम्यर द्वित्रिवारं स उन्मुखः। एतत्कुड्य- बहिर्भागमपश्यत्सादरं मुहुः ॥ १२॥ अतोऽहमत्रवं कोय कुलजो- स्ति समागतः॥ तन्निशम्याथ वेदांतिन विस्मयं परमं गतः॥१३॥ कुरुकानाथपादाब्जे संप्रणम्याब्रवीत्तदा ॥ बहुशः प्रार्थयामास तं यो.. गं देहि मेऽधुना ॥ १४ ॥ तेन संग्रार्थितो योगी यामुनेन महात्मना।। अस्मद्देहावसानेऽहं योगं दास्यामि ते ध्रुवम् ॥ १५॥ तत्कालनि- यं सम्यम्यामुनायादिशत्तदा ॥ धनुर्मासे यामुनायं गुरुपुष्यसमा- गमे ॥१६॥ तत्राभिजिन्मुहूर्ते तु मच्छरीरावधिः स्फुटम् ॥ तत्पूर्व- दिवसे चात्र ह्यागंतव्यं त्वया ध्रुवम् ॥ १७ ॥ इत्युक्त्वा पत्रिका तस्मै (४४६) प्रपन्नामृते- ददौ तत्काल सूचिकाम्।। वेदांतिन्यामुनाचार्य्यस्तामादायाथ पत्रिकाम ॥१८॥ तेन संप्रेपितः शीघ्र श्रीरंगप्रविवेश साततः कदाचिच्छरिंग महानध्ययनोत्सवः ॥ १९॥ बभूव रंगराजस्य सर्वलोकमहोत्सवः ।। वरंरंगाभिधस्तत्र यामुनाचार्य्यनंदनः॥२०॥ देवगानेन रंगेशसन्निधौ शजित्कृताम् ॥सम्यक सहस्रगीति तामगायत्स मनोहराम्॥२१॥ अभिनीय विशेपेण ह्यनंतपुरवैभवम् ॥ श्रवणानंददं श्रीमान् स तत्रागायदद्भुतम् ॥ २२ ॥ तेनैव यामनार्यस्य संजाता महती मतिः।। दैवयोगात्तदा तूर्णमनंतपुरदर्शनम् ॥ २३ ॥अनंतशयनं प्राप्य यामः नाः कृतत्वरः॥ नत्वा द्वारैस्त्रिभिः सम्यरु पद्मनाभमनंतक॥२४॥ शिष्यसंघसमेतः सन्कंचित्कालमवर्त्तत ॥ ततः श्रीरंगनगरे कश्चित्ते- वारिनामकः ॥ २५ ॥ शिष्यो वभूव वेदांतिन्यामुनार्य्यस्य विश्रुतः॥ मुखपादे तु वैवर्ण्य शिष्यस्य समजायत ॥२६॥ गुरुभक्तस्य तस्याथ गुरुविश्लेषतस्तदा ॥ तद्विलोक्याथ पप्रच्छवैष्णवं केचिदादरात्॥२७॥ कयाभिलापया देहविकारोयं तवागतः ॥ तेवारिनाथस्तच्छ्रुत्वा तेभ्यः प्रोवाच तत्त्वतः॥ २८ ॥ गुरोविश्लेपतस्तस्य ममायमधुनागतः॥ तच्छ्रुत्वा विस्मिताः सर्वे शीघ्र यामुनसन्निधिम् ॥ २९॥ तदा प्रस्था- पयामासुस्तं शिष्यं देशिकप्रियम्॥तेवारिनाथः श्रीरंगानिर्गत्याप्तजनैः सह ॥ ३० ॥झटित्यनंतशयनसमीपमगमत्तदा ॥ निर्गत्यानंतनग- राष्ट्रीरंगनगरं प्रति ॥ ३१ ॥ स क्रोशत्रयमध्वानं तस्याभिमुखमा- 'ययौ॥ तेवारिनाथः सहसा दृष्ट्वा यामुनदेशिकम् ॥ ३२ ॥ साष्टी- गवंदनं चक्रे भत्त्या तत्पादपद्मयोः॥ स दृष्ट्वा कुपितः प्राह तमुलंधि- तशासनम् ॥ ३३ ॥ श्रीरामस्य स्वतंत्रत्वाच्छूरत्वाच्च विशेषतः ॥ तस्य प्रशासने तस्थौ भरतो भ्रातृवत्सलः ॥ ३४ ॥ अहं त्वशूरः सुतरामस्वतंत्रो यतोऽभवम् ॥ तस्मान्मच्छासनमयमुलंध्यात्र समा- गतः ॥ ३५॥ स गुरोर्वचनं श्रुत्वा सहसा साध्वसं ययौ ॥ स्वरू-

अध्यायः ११४.
(४४७)
पहानिः संजाता महातति ममाधुना ॥ ३६॥ तदा तस्यानुगाः सर्वे
सम्यग्यामुनयोगिने ॥ तस्मै विज्ञापयामासुस्तद्वृत्तं गुरखेखिलम् ॥
॥ ३७ ॥ तद्वाक्यश्रवणेनैव हृष्टो यामुनदेशिकः ॥ स्वपादपद्मयोः
शिष्यं सम्यन्यस्तंभरं स्थितम् ॥३८॥ स तमुद्धृत्य बाहुभ्यां सादर
परिरभ्य च ॥ कृपया लालयन्प्राह गिरा मधुरया तदा ॥ ३९ ॥
अस्याविदूरे सुमहद्भात्यनंतपुरं हरेः॥ तत्र गत्वा पद्मनाभं नत्वागच्छात्र
सांप्रतम।।४०॥तच्छुत्वावचनं तस्य स शिष्यःप्राह तं गुरुम् ॥अनंतश-
यनं मेद्य स्वतः प्रत्युद्गतं गुरो॥४१॥अस्यदेशस्य गमने किमर्थ हि वृथा-
श्रमः।।तच्छ्रुत्वा संप्रदृष्टोथ महान्यासुनदेशिकः ।। ४२ ।। अधिकारि-
विशेपोयं सुमहानित्यमन्यत ।। गुणेन तेन महतातस्यांतेवासिनस्तदा.
॥४३॥ अवाप परमानंद महात्मा शिष्यवत्सलः ॥ तदेव परमं
स्थानमिति शिष्यस्य निश्चयः ॥४४॥देशिको वर्तते यत्र महात्मा
शिष्यवत्सलः॥४५॥ येनैव गुरुणा यस्मै न्यासविद्या प्रदीयते॥तस्य
वैकुंठदुग्धाब्धिद्वारकाः सर्व एव सः॥४६॥ तवत्यानखिलशुभान्हि
दिव्यदेशानत्वा श्रीशुभमधुरामवाप धीरः ।। वैखायामथ कृतमजनो
महात्मा तस्यास्तत्परमतटे जजाप मंत्रम् ॥४७॥ हृद्यं हि तोरे तदेवे-
क्ष्य तस्य चैकांतयोगस्य निकुंजवृंदम् ॥ योगीश्वराणां निजवास-
भूमिमवाप चार्यः स च यामुनार्यः॥ ४८॥ संपश्यतस्तम्य रहः
प्रदेशं वैखापगायास्तटसीम्नि हद्यम ॥ वैराग्यसिंधोरपि यामुनस्य
योगाभिलाषः सुमहान्वभूव ॥४९॥स पत्रिका पुरा दत्तां कुरुकाना-
थयोगिना । अष्टांगयोगमाकांक्षस्तामपश्यत्कृतादरः॥५०॥ तदाय
वासरस्तेन निर्णीतस्स च वासरः॥ तत्र तत्क्षेत्रयोगेन ह्येकत्वं तावुभौ
गतौ॥५॥ततस्सन्तापमगमद्यामनार्यस्तदा भृशम् ॥ शिष्यान्विलो
क्य सहसा व्याजहार वचःशुभम्॥५२॥ निर्णीतो दिवसःपूर्व कुरुका-
नाथयोगिनासोस्मिन्दिने समायातः किं करिष्यामिवैष्णवाः ॥५३॥

(४४८) प्रपन्नामृते- वीरनारायणपुरं बहुयोजनदूरतः ॥ वर्तते नगरस्यास्य ह्यद्येवास्ति स वासरः॥५४॥ कथं हि शक्यते गंतुं तत्र तद्वाञ्छया मया ॥ यद्यस्ति सांप्रत मेद्य श्रीरामस्येव पुष्पकम ॥ ५५॥ अधुनेव मया सम्यक् तत्र गंतुं हि शक्यते ॥ महाविद्वानपीत्येवं विचित्य बहुशस्तदा ॥५६॥ अष्टांगयोगराहित्याद्विपादमगमद्दहु ॥ समाश्वस्तोऽथ बहुशः शिष्यैर्वेदांतवेदिभिः ॥५७॥ ततः श्रीयामुनाचार्यः श्रीरंगनगर तदा ॥ संप्राप्य शिष्यसंघन रंगेशं संग्रणम्य च ॥मठं प्रविश्य तत्रैव सुखं तस्थौ महायशाः॥५८॥ वेदान्तिन् यामुनाचार्यः सर्वत्र जग- तीतले ॥ महापूर्णादिभिः शिष्यवर्द्धयन्विष्णुदर्शनम् ॥१९॥ कुत्राप्य- व्याहतमिदं जगदेकबुधाग्रणीः ॥ वहुकालं सुखेनैव तस्थौ रंगे महा- यशाः ॥६० ॥ इति श्रीप्रपन्नामृते भट्टार्यवेदांतिसंवादे यामुना- चार्यानंतशयनादिदिव्यदेशसंचारकथनं नाम चतुर्दशाधिकशततमोs- ध्यायः॥ ११४॥ पञ्चदशाधिकशततमोऽध्यायः। श्रीरंगपु- श्रितशिष्यसंघः श्रीयामुनार्यः प्रथितप्रभावः ।। अव्याहतंविष्णुमतं जगत्यां प्रवर्त्तयामास जितारिवर्गः ॥ १॥ शि- प्या महांतो विबुधाग्रगण्याः श्रीभूरिपूर्णप्रमुखा द्विजेंद्राः॥ सर्वे स्थिता यामुनदेशिकस्य प्रशासने तस्य बभूवुरायः ॥२॥ सहस्रगीत शि- प्येभ्यो यामुनार्यः प्रबोधयन् ॥ सर्वदा मानयंस्तस्थौ शठारेदिव्यवै- भवम् ॥ ३॥ सहस्रगीत्यां वेदांतिन् कदाचिदुधसत्तमः ॥ पोलिहेत्य- स्य पद्यस्य व्याख्यानसमये तदा ॥४॥ध्यात्वा मुहूर्त निश्चेष्टः स महात्मा व्यचिंतयत् ।। प्रतिपायोयमत्रार्थः को वा भवितुमर्हति ॥५॥गतो वा वर्तते सोयं संभविष्यति वा महान् । मृपान जायते वा- णी कदाचिच्छठवौरिणः ॥६॥ एवं चिंतयतस्तस्य ज्ञात्वाभिप्रायमु- त्तमम् ॥ उचुर्विचक्षणाः शिष्या यासुनंदीर्घदर्शिनम् ॥ ७॥ भगव- - अध्यायः ११५. (४४९) न्यामुनाचार्य किमर्थं चिंत्यते त्वया ॥ तत्पद्यार्थो महान्युष्मदवतार- स्य सूचकः ॥८॥ निश्चयं स भवान्साक्षाद्विष्णुलोकगुरुर्यतः॥ तरे- वमुक्तस्तान्प्राह शिष्यान यामुनदेशिकः ॥ ९॥ अयमर्थो महान्दि- व्यमहापुरुपसूचकः ॥ अर्थो महानह क्षुद्रो न भविष्यामि तादृशः ॥ १० ॥न पूर्वदेशिकपरो ह्यर्थोयं न च मत्परः॥ भविष्यति महान्क- श्चित्सर्वलोकैकदेशिकः ॥ ११ ॥तेनेदं वैष्णवमतं भविष्यत्यतिविस्तृ- तम् ॥ सत्यं वच्मि बुधश्रेष्ठाः संशयोऽत्र न विद्यते ॥ १२॥ इत्युक्त्वा सोऽनिशं तस्य जन्माकांक्षन्कृतादरः॥अस्मदर्शननिर्वोढाको वा लोके भविष्यति॥ १३॥ लोकैकदेशिकः श्रीमान मम कालादनंतरम् ॥ इति संचिंतयन्नित्यं पोलिहार्थं च सादरम् ॥१४॥ तं हारीतस्मृता- वर्थ स्मृत्वा भूयो महत्तरम् ॥ यादवाचलमाहात्म्ये श्लोकार्थ चाखिलं च तम्॥ १५॥ध्रुवं कश्चिन्महान्छीघ्रं भूम्यामवतरिष्यति ॥ स महा- न्मम काले वा भविता मदनंतरम् ॥ १६॥ इति संचितयन्नास्ते रंगे यामुनदेशिकःयामुना>कृपालब्धवेदांतद्वयपारगः॥१७॥ भूरिश्रीशै- लपूर्णार्यः स महान्वेंकटाचलावेंकटेशस्यकैंकर्य कुर्वननुदिनं स्थितः ॥३८॥पुत्रद्वयं हि भगिनीद्वयं हि दुहितद्वयम्॥तस्य श्रीशैलपूर्णस्य बभू- व भुवि विश्रुतम् ॥ १९ ॥लक्ष्मीभूम्यंशजं तत्र बभूव भगिनीद्रयम् ।। ज्येष्ठा कांतिमती तत्र विश्रुता सा रमाशजा॥२०॥ हारीतस्याभव- द्भार्या तस्य केशवयज्वनः ॥ नारायणांशजातस्य श्रीभूतपुरवासिनः ॥२१॥ भूम्यंशजा द्युतिमती द्वितीया तत्र सुंदरी ॥ पद्मलोचनभट्ट- स्य भार्यासीन्महतस्तदा ॥२२॥ नारायणांशजातस्य भारद्वाजस्य सत्तम ॥ धर्मसंस्थापनार्थाय संभवामि युगेयुगे ।। २३॥ यदायदा हि धर्मस्य ग्लानिर्भवति भारत ॥ अभ्युत्थानमधर्मस्य तदात्मानं मृजाम्यहम् ॥ २४ ॥ इत्युक्तरीत्या वेदांतिन् भूयो रामादयस्तदा ॥ चत्वारो लोकरक्षार्थ भूम्यां संजज्ञिरेऽनघ ॥ २५ ॥ श्रीरामो भगवान्पूर्व तत्र ज्येष्ठोऽभवद्यथा ॥ तथैवाभूत्कलियुगे श्रीमाल, २९ (४५०) प्रपन्नामृते- क्ष्मणदेशिकः ॥२६॥शालिवाहशकाव्दानां तत्राप्रत्रिंशदुत्तरे ॥ गते नवशते श्रीमान्यतिराजोजनि शितौ ॥ २७॥ अनंतः प्रथमं रूपं द्वितीयं लक्ष्मणस्तथा ॥ तृतीयं वलरामश्च कलौ कश्चिद्भविष्यति ॥ ॥२८॥ यादवाचलमाहात्म्ये श्लोकोयं विद्यते किल ॥ ब्रह्मन् कलियुगे प्राप्ते धर्मे नटे श्रुतीरिते ॥२९॥ मद्भक्तः सर्वधर्मज्ञस्तव गोत्रसमुद्भवः।। शारीरकमहाभाष्यग्रंथकर्ता जितेंद्रियः॥३०॥ तस्य संबंधिनः शि- प्याः सुराणामपि दुर्गमम् ॥ मामप्राप्यैव ते सर्वे गमिष्यंति परां गति- म् ॥ ३१ ॥ एवं भगवतैवोक्तं तं हारीतस्मृतावपि ॥ अविरोधेन वे- दांतिनतयोरुभयोस्तदा ॥ ३२ ॥ हारीतगोत्र एवात्र तादृशः समजा- यत ॥ शेपो रामानुजो भूत्वा जगत्संरक्षणाय च ॥३३॥अयोध्या- वासिनामेपां लोकं सांतानिकं घुरा ॥ प्रददौ कृपया रामस्तेपामपि परं पदम् ॥ ३४ ॥ प्रदातुकामः स तदा वेदांतिन् कूरराडभूत् ॥भ- त्या भरतशत्रुघ्नौ तत्कैंकर्य्यपरायणः ॥ ३५ ॥ वाधूलवंशतिलको तावभूतां ततस्तदा ॥ चैत्रमासे शुक्लपक्षे पंचम्यामथ कर्कटे ॥ ३६॥ लग्ने श्रीलक्ष्मणांशेन ह्याद्रीयां गुरुवासरे ॥ आसूरिकेशवाचार्यात्का- तिमत्यामजायत ॥३७॥ रामानुजो महातेजा भगवान्देशिकोत्तमः॥ वैशाखे तु विशाखायां वैनतेयांशतो महान् ॥ ३८॥ गोविंदः प- भनेत्रा-द्युतिमत्यामजायत । मकरे हस्त नक्षत्रे ततो रामांशतो जनि ॥३९॥ श्रीमाननंतभट्टार्यान्महादेव्यां महायशाः ॥ कूरेशोs: स्मत्पिता सर्वविबुधाग्रेसरोऽनघ ॥४०॥ माघमासे पुनर्वस्त्रां दशम्यां भरतांशतः ॥ लक्ष्मीजनन्यां संजने वाधूलानंतदीक्षितात् ॥४१॥ धीमान्दाशरथिर्नाम श्रीवाधूलकुलाग्रणीः॥ कंदाडनाथनामाथ तस्य दाशरथेरभूत् ॥४२॥ शत्रुनांशेन सुमहान्पुत्रो लोकविलक्षणः॥ श्री- रामानुजदासाख्य इतिनामास्य चाभवत ॥१३॥ तदेव जन्मनक्षत्र तस्य माघपुनर्वसुः ॥ एवं संजलिरे केचिन्महांतो नित्यसूरयः ॥४॥ रामानुजसहायार्थ नानादेशेषु देशिकाःयथा रामसहायार्थ देवगंधर्व-

अध्यायः ११६.
किन्नराः ॥ ४५ ॥ अवतीर्णाः पुराभूम्यां हरयः कामरूपिणः ॥ श्री.
रामस्य सहायार्थ दशग्रीववधोयमे॥ ४६॥ द्विसप्ततिः प्रवाहाश्च हरी-
णामभवन्यथा ॥रामानुजसहायार्थ कलिसंहरणोद्यमे ॥४७॥ तदंतेवा-
सिनश्चासंश्चतुःसततिदेशिकाः ॥ कूरेश्वरादयः सर्वे महांतो भगवत्पराः
॥४८॥ सम्यग्ववृधिरे भूम्यामुघद्भास्करसन्निभाः॥ ततो रामानुजः
श्रीमाल्लीलामानुपविग्रहः ॥ ४९ ॥ वेदान्सलक्षणान्सर्वानधीत्य पितृ-
सन्निधौ ॥ स शास्त्राणि पठंस्तस्थौ कांच्या यादवसन्निधौ ॥५०॥
इति श्रीप्रपन्नामृते भट्टार्यादिसर्वावतारकथनं नाम पंचदशाधिकशत-
तमोऽध्यायः ।। ११५॥
पोडशाधिकशततमोऽध्यायः।
श्रीरंगे यामुनाचार्यः स तदा देशिकोत्तमः॥शठकोपकृतेरर्थ स-
वंदानुभवन स्थितः॥३॥राजवणं महत्तस्य यामुनस्याभवत्तदा ॥
तेन संपीडितो धीमान्समाः काश्चित्समास्थितः ॥२॥ ततः कदा-
चिद्वेदांतिन्यामुनो दीर्घदर्शनः ॥ लोकं वितिमिरं दृष्ट्वा जातधर्मरति
कलौ॥३॥संतुष्टस्तेन तजन्म ज्ञात्वैवानुत्तमं महत् ॥स तस्यान्वेपणा-
र्थाय दूतान्संप्राहिणोत्तन ॥४॥ हारीतगोत्रजननं ब्रह्मराक्षसमोचनम्॥
गंगास्नानच्छलेनैव विंध्याटव्यां विसर्जनम् ॥६॥यदेवराजप्रत्यक्षं बहुदू-
रागमंक्षणात्॥याचित्वा तदत्ततोयपानं श्रीभगवत्कृतम्॥६॥कांचीपूर्णे-
नसख्यं च यतत्सर्वममानुपम्॥माहात्म्यं लक्ष्मणार्य्यस्य चारैः श्रुत्वा
प्रहर्पितः ॥७॥ वेदांतिन्यामुनाचार्यों द्रष्टुकामस्तदांजसा ॥ संप्रतस्थे
महात्मानं रंगात्कांचीपुरं प्रति ॥८॥ कांची संप्राप्य वरदं यामुनार्यः
प्रणम्य च ॥ कांचीपूर्णात्ततो ज्ञात्वा लक्ष्मणार्य महोजसम् ॥ ९ ॥
सम्यग्विलोक्य संस्तुष्टस्तेन संभापणे महान् ॥ साई रामानुजा-
येण चकार मतिमान्मतिम् ॥१०॥ सर्वातरात्मा वरदस्तयोः सं-
भापणं तदा ॥ भूम्यां यथैव न भवेत्स तथैवाकरोजवात् ॥ ११ ॥

(४५२)
प्रपन्नामृते-
यस्य प्रसादकलया बधिरः शृणोति पंगुः प्रधावति जवेन च वक्ति
मूकः॥ अंधः प्रपश्यति सुतं लभते च बंध्या तं देवमेव वरदं शरणं
गतोस्मि ॥ १२ ॥ श्लोकमेवं स विज्ञाप्य तस्य विज्ञानसिद्धये ॥
संप्रार्थ्य वरदं शीघ्र निर्गत्य करुणाकरः ॥ १३ ॥ कांचीपुरादवा-
पाथ रंग यामुनदेशिकः ॥ रामानुजं विधेहीति शीघ्र विष्णुमताधिपम्
॥१४॥ स्तोत्ररत्नं विधायाशु वरदं प्रति सादरम् ॥रामानुजार्य-
वृत्तांतं शृण्वन् रंगे समास्थितः ॥ १५ ॥ स्तोत्ररत्नं चतुः-
श्लोकी वेदप्रामाण्यमेव च ॥ सिद्धित्रयं च वेदांतिञ् श्रीगीतासंग्रह
महान् ॥१६॥ यामुनो लोकरक्षार्थमकरोद्रंथपंचकम् ॥ एवं निवसत-
स्तस्य यामुनस्य महात्मनः ॥ १७ ॥ पंचविंशतिसंयुक्तं वत्सराणां
शतं गतम् ॥ त्यक्ताभिलापो मेदिन्यां यातुकामः परं पदम् ॥ १८ ॥
शिष्यान्विलोक्य तान्सर्वान्व्याजहार वचः शुभम् ॥ रामानुजो मत-
स्यास्य निर्वोढा नात्र संशयः ॥ १९ ॥ उपदिश्याशु सर्वार्थान्यूयं
तस्मै महात्मने ॥ मतप्रवर्तकं धीरं महांतं कुरुतादरात् ॥ २० ॥
इत्युक्त्वा निखिलानान्स तेभ्यश्चोपदिश्य तान् ॥ धीमंतं मारनेबि
विलोक्येदं वचोऽब्रवीत् ॥ २१॥ राजवणं गृहाणेदं बहुशः प्रार्थितं
त्वया ॥ भोगैकनाश्यं प्रारब्धं महतामपि दुर्जयम् ॥ २२ ॥ मयानु-
भूतं यच्चेतबहुकालं महद्वणम् ॥ अल्पकालमिदं रोगं भुक्ष्व त्वमपि
सादरम् ॥२३॥ इत्युक्त्वा तद्रणं तस्मै दत्त्वा भक्ताय सादरम् ।। तस्य
संरक्षणे सम्यङमहापूर्ण निधाय तम्॥२४॥ कृतकृत्यो लक्ष्मणार्य-
संभापणरतस्तदा ॥ शृण्वन्स तस्य वृत्तांत श्रीरंगे सुखमास्थितः ॥
॥२५॥कांचीपुरे यादवं तं कांतिमत्यात्मसंभवः॥विसृज्याथ महाप्राज्ञः
कांचीपूर्णेन संगतः॥२६॥तन्नियोगेन हरये वारणाचलवासिने॥घटेनांवु
समादाय शालकूपात्स भक्तितः॥२७॥ नित्यं समर्पयन्नास्ते धीमान
रामानुजोधुना ।। चारैः कदाचिदित्येवं तदृत्तांतं निशम्य सः॥२८॥

अध्यायः ११६. (४५३) महापूर्ण समाहूय यामुनो वाक्यमब्रवीत् ॥ पूर्णाचार्य महाप्राज्ञ शृणु त्वं वचनं मम॥२९॥कांची पुरीं समासाद्य लक्ष्मणार्य्यस्य सन्नि- धौमयाकृतमिदं स्तोत्रं त्वं वाचय मदाज्ञया ॥३०॥ स तत्राभिमुखः शीघ्रं भविष्यति न संशयः॥ येन केनाप्युपायेन तमिहानय शीघ्रतः ॥ ॥३१॥ गुरोर्वाक्यं ततः श्रुत्वा तेनानुज्ञापितस्तदा ॥ पूर्णाचार्यों महाप्राज्ञः पुरीं कांची ययौ जवात् ॥ ३२ ॥ श्रीहस्तिशैलमारुह्य नत्वा श्रीवरदं हरिम् ॥ तत्सन्निधौ यामुनेन कृतं स्तोत्रमाण परम् ॥ ॥३३॥ विज्ञाप्य भक्तितो विद्वन्वरदस्य जगत्पतेः । तत्तीर्थ शठ- कोपं च गृहीत्वा भक्तिसंयुतः॥ ३४ ॥ रामानुजस्य वृत्तांतं जना- ज्ज्ञात्वा मुदान्वितः ॥ तत्पंथानं समाश्रित्य तस्थौ स्तोत्रमणिं पठन् । ॥ ३५ ॥ तदा रामानुजो धीमान स्वर्णकुंभेन तज्जलम् ।। आदाय गच्छंस्तन्मागें पूर्णार्यपठितं परम् ॥ स्तोत्ररत्ने श्लोकमेकमशृणोत्सा- दरं तदा ॥ ३६ ॥ स्वाभाविकानवधिकातिशयेशितृत्वं नारायण त्वयि न मृष्यति वैदिकः कः ॥ ब्रह्मा शिवः शतमखः परमस्वराडि- त्येतेपि यस्य महिमाणवविप्नुपस्ते ॥ ३७ ॥ तच्छ्लोकश्रवणेनैव मति- मान्संग्रहातः ॥ पूर्णार्य संप्रणम्याशु तं पप्रच्छ कृतीश्वरम् ॥ ३८॥ तेन पृथः स पूर्णार्यः सम्यग्लक्ष्मणयोगिने ॥ यामुनाचार्यवृत्तांत सर्व तस्मै न्यवेदयत् ॥ ३९ ॥ अतिप्रेम्णा निशम्याशु तदृत्तांत प्रहर्पितः । द्रष्टुकामो यामुनार्य प्रतस्थे तत्क्षणाजवात् ॥४०॥ पूर्णा- र्य्यसहितः श्रीमान्छीरंगं प्रति सादरम् ॥ तदा रंगेश्वरो धीरो मनस्येव- मचितयत् ॥ ४१ ॥ रामानुजो यामुनश्च मिलितौ यधुभावपि ॥ लीलाविभूतिरस्माकं तदा नष्टा भविष्यति ॥ ४२ ॥ तदार्चकमुखेनाह रंगेशो यामुनं प्रति ॥ गच्छाद्यैव यतिश्रेष्ठ दत्तं ते परमं पदम् ।। ॥४३॥ तेनैवमुक्तो हरिणा रामानुजदिक्षया ॥ रंगेश्वरं प्रणम्याह यामुनः सहसा हरिम् ॥४४॥ रंगेशानंतरं मुक्तिं गच्छामि दिवसा- (४५४) प्रपन्नामृते- एकात् ॥ इति विज्ञाप्य योगोंद्रस्तदा तदर्शनोत्सुकः ॥ ४५ ॥ अन- वाप्य मनोभीष्टं स्वचायौनिमुपेयिवान् ॥ ततो रामानुजः श्रीमान्पूर्णा- पेण सहान्वितः॥ ४६॥ तत्र गत्वा तथाभूतमपश्यद्दीनचेतनः॥ तस्य रूपं लक्षणानि हट्दा वाक्यमभापत ॥४७॥ संभापणे यामुनेन नास्ति प्राप्तिर्ममाधुना ॥ क्षुद्रस्य महतां संगे यथा प्राप्तिन विद्यते ॥ ॥४८॥ मयतस्य तु सांगत्यं लभ्यते चेन्महात्मनः ॥ अस्मिल्लोके निवसतां जनानां वैष्णवोत्तमाः ॥ १९॥ गंतुं हरेः पदं तत्र सेवितुं हरिमव्यम् ॥ तत्सौधानामहं कृत्वा सोपानानि निरंतरम् ॥ ५० ॥ त- न्मार्गेण जनान्सन्प्रिापयिष्यामि तत्पदम् ॥ तस्मिन्नर्थे न संदेहः स- त्यं वच्मि द्विजोत्तमाः ॥५३॥ एवं वदति वेदांतिलक्ष्मणायें महा- त्मनि।आकुंचितमभूत्तस्य सहसा चांगुलित्रयम् ॥५२॥ मनोरथत्रया वाप्तिर्यतो नैवाभत्पुरा॥मनोरथत्रयं मेऽय पूरयिष्यत्ययं ध्रुवम्।। इत्येवं निश्चितहृदा यामुनेन महात्मना ॥ आकुञ्चितं ततस्तेन सहसैबाड- लित्रयम् ॥) तिस्त्रोंगुलीः समालोक्य ताः समाकुंचितास्तदा । सम्य- रज्ञात्वा ततस्तस्य तदभिप्रायमुत्तमम् ॥ ५३॥शारीरकमहाभाष्यग्रं- थनिर्माणमेव च ॥ पराशरस्य व्यासस्य ऋणनिर्मोचनं तथा॥५॥ दिव्यद्राविडवेदस्य सम्यक्प्रवचनं भुवि ।। एतत्रयं करिष्यामीत्येवं वै- ष्णवसन्निधौ।। ५५॥ दृढप्रतिज्ञां सहसा कृत्वा लक्ष्मणदेशिकः ।। आकुंचितं यामनस्य मोचयित्वांगुलित्रयम् ॥५६॥ रंगेश्वरमदृष्ट्दैव वेदांतिस्तेन हेतुना ॥ तस्मात्कवेरजातीरात्तदा कांची विवेश सः॥१७॥ ज्ञात्वा.पडर्थान्वरदात्कांचीपूर्णमुखात्तदा । अशिश्रियन्महापूर्ण प्रथम प्रेमपूर्वकम् ॥ ५८ ॥ स गुरुभ्योथ पंचभ्यः सर्वार्थान्प्राप्य सादरम् ।। 'विरेजे लक्ष्मणाचार्यः कलाभिरिव चंद्रमाः॥५९ श्रीभाष्यं कर्तृका मोथ कूरेशेन समन्वितः ॥ गत्वाशु शारदापीठं वृत्ति बोधायनस्य च ॥६०॥ अवलोक्याशु तेनैव श्रीरंग प्राप्य इर्पितः॥समस्तेतरसिद्धां- .. अध्यायः ११६.. (४५५) तनिराकरणपूर्वकम्॥६॥वेदांतदीपं वेदांतसारं वेदार्थसंग्रहम् ॥श्रीभा- ध्यं लोकविदितं विधाय वुधसंमतम् ॥६२॥ गीताभाष्यं च सुमहत्कृत्वा गद्यवयं महत्।।गत्वा दश दिशः सम्यक् कृत्वा दिग्विजयं परम् ॥६३॥ स्वनाम्ना संप्रतिष्ठाप्य चैतद्वैष्णवदर्शनम् ॥ रामानुजार्यसिद्धान्त इत्येवं सकलावनौ ।। ६४॥ तस्य संरक्षणे सम्यक् प्रतिष्ठाप्य बुधर्ष- भार ॥ वेदांतद्वयसंपन्नांश्चतुःसप्ततिदेशिकान् ॥ ६५ ॥ स विंशत्यु- त्तरशतं वत्सराणां भुवः स्थले ॥ अव्याहतगतिः सम्यग्यथाकामं विहत्य च ॥६६॥ स्थानत्रये प्रतिष्ठाप्य यत्स्वाचाविग्रहत्रयम् ॥ भूतपूर्या विशेपेण यत्तेजोऽनुत्तमं महत ॥ ६७॥ स्वयं विधाय तत्सर्व तवा विग्रहे परे ॥ आचंद्रार्कमयं श्रीमान् मदर्चाविग्रहो भुवि ॥ ६८॥लोकसंरक्षणं सम्यक् करिष्यति न संशयः ॥ इति निश्चित्य योगींद्रः कृतकृत्यो महायशाः ॥ ६९ ॥ अत्रैव रंगनगरे वैकुंठेशदि- दृक्षया ॥ वैकुंठमगमच्छेपो लीलामानुपविग्रहः ॥ ७० ॥ माघशु- ददशम्यां तु मध्याह्ने मन्दवासरे ॥ भोगिराजः स्वभोगीशभावं संप्राप सादरम् ।। ७१॥ यतींद्रसूनुः कुरुकेशनामा कर्माखिलं तस्य यदेव युक्तम् ॥ चकार लोकोत्तरमार्यजुटो जगद्गुरोर्लक्ष्मणदेशिकस्य ॥७२॥ कूरेशपुत्रं मामेव रंगनाथो जगत्पतिः॥ पुत्रस्वीकारमकरो- त्पीतहारिद्रशंबरः ॥ ७३ ॥ भूरिश्रीशैलपूर्णार्य्यतनयं कुरुकेश्वरम् ॥ पुत्रस्वीकारमकरोल्लक्ष्मणार्यों जगद्गुरुः ॥७४॥ यतीशः पुत्रवा- सल्याधादिदेश महामतिम् ॥ सहस्रगीतिव्याख्यानकरणे कुरुके- श्वरम् ॥ ७५ ।। विष्णुचित्ताय वेदान्तद्वयं हि कुरुकेश्वरः ॥ प्रददौ कृपया तस्मै श्रीशैलकुलभूपणः ॥ यतींदशासनाछीमान्गोविंदार्यो महायशाः ॥ ७६ ॥ दर्शनार्थीस्ततः सर्वान्प्रददौ मह्यमादरात् ॥ यतींद्रशासनात्सर्वे दर्शनार्था मया त्वयि।।७७॥ निक्षिताः किल चैवतै सांप्रतं बुधसत्तमे ॥ कुर्वन् दर्शननिर्वाहं श्रीरंगेऽत्र सुखं वस ।। ८७॥ .

(४५६) प्रपन्नामृते- यतींद्रशासनात्पूर्व कुरुकेशेन धीमता ॥ पभिः सहवंदांतिन्यं- थैर्लोकहितैपिणा ॥ ७९ ॥ सहस्रगीताख्यानमकार्येतदनुत्तमम् ॥ त्वमद्य नवसाहस्रग्रंथसंख्यायुतं कुरु ॥ ८० ॥ सहस्रगीता- ख्यानं सर्वलोकोपकारकम् ॥ एतेन परमो मोदः शठजिद्यतिराजयोः ॥ ८१ ॥ भविष्यति ततोऽस्माकं पुंरुपार्थतमो हितः॥ मन्नाथात्कु- रुनाथाच गोविंदार्यान्महात्मनः ॥ ८२॥ यदिव्यमूरिचरितं पूर्वार्य- चरितं च तत् ॥ सम्यक् श्रुतं मया प्रोक्तं तत्सर्व भवतेधुना ।। ८३॥ एतत्पुण्यतमं हृद्यं चरित्रं पापनाशनम् ॥ शृण्वतां पठतां चैव भक्ति- ज्ञानविवर्द्धनम् ॥८४॥ आयुरारोग्यदं नित्यमरिपवर्गनाशनम् ॥ वैरा- ग्यहेतुभूतं च प्रपन्नामृतमुत्तमम् ॥ ८५॥ये पठति सदा भक्त्या तेपा मुक्तिः करे स्थिता ।। अमृतं यत्प्रपन्नानां तत्प्रपन्नामृतं विदुः ॥ ८६॥ एतत्पुरातनं पुण्यं यः प्रपन्नामृतं पठेत् ॥ सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ॥ ८७ ॥ लक्ष्मीनाथसमारंभां नाथयामुनमध्यमाम् ॥ अस्मदाचार्यापर्य्यतामेतां गुरुपरंपराम् ॥ ८८ ॥ योऽभिजानाति वेदांतिन् स एव भुवि वैष्णवः ॥ सम्बन्धज्ञानहीनस्य वैष्णवत्वं कथं भवेत् ॥ ८९ ॥ अतो ह्येतन्महाभत्त्या तत्प्रपन्नामृतं पठेत् ॥ प्रपन्ना- मृतविज्ञानात्संवन्धज्ञानवान्भवेत् ॥९०॥ संबन्धज्ञानवाल्लोके वैष्णवः स भविष्यति । अतो हि वैष्णवो धीमान्विष्णुलोकं स विदति ॥११॥ पूर्वायंचरितं पुण्यं भक्तिज्ञानविवर्द्धनम् ॥ ये शृण्वंति सदा भत्त्या तेषां वासस्त्रिविष्टपे ॥ ९२॥ अस्मद्यतिस्स भट्टार्याच्छ्रुत्वाख्यान- मनुत्तमम् ॥ सर्वार्थसिद्धिदं नित्यं यत्प्रपन्नामृतं महत् ॥९३॥ सन्तु पस्तं परिक्रम्य प्रणम्य प्रेमपूर्वकम् ॥ विधिवत्पूजयामास भट्टाय्यै गुरुपुंगवम् ॥ ९४ ॥ कथांते पडूसोपेतैरनैवहुविऽधैस्तदा ॥ ब्राह्मणा- न्भोजयामास वैष्णवान्वेदपारगान ॥९५ ॥ श्रीपादतीर्थ स्वीकृत्य वैष्णवानां महात्मनाम् ॥ गुरोश्चास्मद्यतिः सम्यक् पूतात्मा प्रत्यनन्द- त॥९६॥ प्रपन्नरत्ने प्रथितप्रभावे भट्टारकोस्मद्यतिनामधेये ॥ हृद्यं अध्यायः ११७. (४५७) प्रपन्नामृतमेतदाद्यं दत्त्वा परं हर्पमवाप धीरः ॥ ९७॥ संवाद्भूतं सकलार्थसारं भट्टार्यवेदांतिविपश्चिंतोयें ॥ यत्तत्मपन्नामृतमादरेण पठति ते भागवता भवेयुः ॥ ९८॥ दिव्यप्रबन्धपठनात्सकला जनौघाः संत्यक्तपापनिवहाः परिशुद्धचित्ताः॥ उत्तीर्णघोरभववारिधयो महान्तो वैकुंठलोकनिरतास्सकला भवेयुः ॥ ९९॥ चित्रं चरित्रं परमं पवित्रं श्रीमद्गुरूणां सकलार्थसारम् ॥ पंठंति शृण्वंत्यपि ये च भत्त्या ते विष्णुलोके निवसंति सत्यम् ॥ १० ॥ गोविंदपादसरसी- रुहपट्पदाय रामानुजार्यकरुणामृतवर्दिताय ॥ कूरेशवंशतिलकाय महात्मकाय श्रीभट्टदेशिकवराय नमोनमस्ते ॥ १०१ ॥ इति श्रीप्रपन्नामृते भट्टार्य्यवेदांतिसंवादे श्रीरामानुजा-दिदिव्यचरितक- थंनं नाम पोडशोधिकशततमोऽध्यायः ॥ ११६॥ सप्तदशाधिकशततमोऽध्यायः। भट्टार्यानंतरं धीमान्वेदान्ती शास्त्रवित्तमः॥ श्रीवैष्णवमतोद्धर्ता बभूव जगतीतले ॥१॥शठकोपकृतेर्भाष्यं विधाय विशदं तदा ॥ कृ- पया नवसाहस्रग्रंथसंख्यायुतं महत् ॥२॥ लेखकान्वेपणे धीमान्य- तमानो व्यतिष्ठत ॥ नंबूरिवरदः कश्चिनिचुलापुरवासकः ॥३॥ लेख- काग्रेसरो धीमान्टिजवयों महानभूत् ॥ ततो जनमुखाच्छ्रुत्वा तं ले- खकवरं द्विजम् ॥४॥तमाहूयाथ सहसा वेदान्ती वाक्यमब्रवीत् ॥ अक्षराणि लिखत्वद्य पत्रिकायां महामते॥५॥इति तस्य करे शीघ्र पत्रिकामदिशत्तदा ॥ तदा वरदराजाख्यः स लेखकवरो द्विजः ॥६॥ अक्षराणि लिलेखाशु पत्रिकायां स्फुटानि हि॥अक्षराणि स्फुटान्यायः संदेहरहितानि सः ॥७॥ विलोक्य वरदं हृष्टः प्रोवाच वचनं तदा ॥ सम्यविस्थतान्यक्षराणि त्वं त्ववैष्णवलक्षणः ॥ ८॥ त्वया विलेखितुं युक्तं कथं महदिदं भवेत् ॥ तस्य तद्वचनं श्रुत्वा वरदः प्राह तं प्रति ॥ ॥९॥ स्वशिष्यं मां विधायाशु रक्ष त्वं करुणाकर ॥ तेन वाक्येन सं- (४५८) प्रपन्नामृते- तुष्टो वेदान्ती करुणार्णवः ॥१०॥ चकार पञ्चसंस्कारान्वरदत्य म- हात्मनः ॥ तं ग्रंथमुपदिश्यास्मै तदा नवसहस्रकम् ॥ ११ ॥ तानि पत्राणि दत्त्वा तं पयामास सत्वरम् ॥ वरदो वैष्णवो भूत्वा तं ग्रंथं प्रतिगृह्य सः ॥ १२॥ ययौ स्वकीयनगरं श्रीरंगानिचुलापुरम् ॥ नि- चुलारंगयोर्मध्ये कावेरीयासमास्थिता ॥१३॥ सैवाच्छोदा मनुष्याणां दुस्तरा सुतरामभूत् ॥ तानि व्याख्यानपत्राणि संपुटीकृत्य सत्वरम् ॥ ॥१४॥स्वमस्तके दृढं बद्धा कावेर्यो प्रविवेश सः॥ कुर्वतस्तस्य वा- हुभ्यां नदीसन्तरणं जवात् ॥ १५॥ तत्रोपरिप्रवाहेण शिरस्थं तत्प- पात ह ॥ महता देवयोगेन स कूलं प्राप्य सत्वरम् ॥ १६॥ ततश्चि- तापरो भूत्वा मुहूर्त ध्यानमास्थितः। ततोऽभिध्यायतस्तस्य गुरुपादां- बुजं महत् ॥ १७॥ हस्तामलकवत्सर्व वाल्मीकेरभवद्यथा ॥ पूर्वोत्त- रानुरोधेन लिखित्वार्थान्विशेषतः ॥ १८॥ तत्पुस्तकं समादाय स सम्यग्गुरवेऽर्पयत् ॥ वेदान्ती तान्विलोक्यार्थान्स्वयुक्तेरधिकाञ्छुभानु ॥ १९॥ तं प्राह विस्मयाविष्टः प्राञ्जलिं भीतमानसम् ॥ अनुक्तार्था मया ग्रन्थे लिखिताअन ते त्वया॥२०॥ कारणं ब्रूहि मे वत्स महा- स्सिन्ति भूरिशः॥ तदा वरदराजस्तं वेदान्तिनमकल्मपम् ॥ २१ ॥ सर्वं विज्ञापयामास वृत्तान्तं विशदं महान् ॥ निशम्य सर्ववृत्तान्तं वर- दस्य महात्मनः ॥२२॥ हर्पण महता युक्तस्तस्मिन्कृत्वा महादयाम्॥ अस्मत्पुत्राभिधानं च वरदस्याकरोद्गुरुः ॥२३॥ शठकोपावतारं तं मत्वा मोदमवाप सः॥ ततोऽस्मत्पुत्रनामास्य सुप्रसिद्धमभूद्भुवि ॥ २४॥ वेदान्तिना गुणवता बरदस्य महामतेः॥ वेदान्ती पूर्णकृपया वरदाय धीमते ॥२५॥ श्रीभाष्यादिमहाग्रन्थान्स सर्वद्राविडाग- मान् ॥ सर्वानन्यांश्चोपदिश्य यावत्तत्त्वार्थसंचयम् ॥ २६॥ कलि- जिदासनामास्य विदधे विशदंभुवि॥अथ नंबिळ्ळनामार्यः सवेदान्ति- पदाश्रयः॥ श्रीवैष्णवमतोद्धर्ता बभूव जगतीतले ॥२७॥ नंबिळ्ळ- अध्यायः ११७. (४५९) नामाखिलतत्त्ववेदी वेदान्तिनो लब्धमहार्थसंघः ॥ श्रीरंगपुर्या बहुशि- ष्यसंधैर्यथा विरजे यतिसार्वभौमः ॥२८॥ कलिजित्सर्वशिष्येल्य- स्सकलदाविडागमान।।श्रीभाष्यादिमहाग्रन्थान्कृपया निस्स्पृहोऽवदत् ॥२९॥ उदक्प्रतोलीकृष्णश्च ततः कृष्णसमाह्वयः ॥ कलिजित्सर्वशि- प्याणां प्रधानौ तौ बभूवतुः॥३०॥गोष्टी कलिजितस्तस्य गोष्टी श्रीरंग- भूपतेः । बभूव तुल्या विभवस्सर्वैः श्रीरंगसंभवैः ॥ ३१॥ तं यान्त- मनुयांति स्म शिष्यसंधास्सहस्रशः॥ तथा कलिजितं धीरं राजानं सनिका यथा ॥ ३२॥ मध्यप्रतोलीभट्टार्यः कश्चित्कुराधिपान्वयः ।। न सेहे वैभवं दृष्ट्वा तन्महत्कलिवैरिणः ॥ ३३॥ तदा श्रीरंगनगरे क स्मैचिद्भूभृते सदा ॥ रामायणार्थ भट्टायासभायां बोधयन्स्थितः ॥ ॥३४॥ स कदाचित्तमादाय जिय्यराख्यं महामतिम् ॥ शिष्यं कलि- जितस्तस्य समां राज्ञः समासदत् ।। ३५ ।। राजाऽकरोत्तदा शंका काञ्चिद्रामायणे महान् ॥ तं मध्यवीथीभट्टार्य सर्वविद्वत्समांतरे ॥३६॥ स तदा पक्षिराजस्य रामो दशरथात्मजः ॥ जटायुपो मोक्षपदं प्रददौ:केन हेतुना ॥३७॥ ब्रूहि तत्कारणं विद्वन्नित्युक्त्वा स तदा नृपः।। कायाँतरप्रवियोऽभून्मुहूर्त स पराङ्मुखः ॥ ३८॥ स राज्ञा शङ्कि- तस्तेन सभायां भट्टदेशिकः ॥ तदा तस्योत्तरं वक्तुमशक्तः समचिंतयत ॥३९॥ ततः कलिजितः शिष्यं जिय्यराख्यं महामतिम् ॥ स भट्ट- देशिको धीमान्विनयावनतोऽब्रवीत् ॥ ४०॥ युष्मन्नविळ्ळसद्गोष्टयां नंविळ्ळाख्यो महामतिःशिंकायास्तेन चोक्तायाः किमप्युत्तरमब्रवीत ॥४३॥ तदुत्तरं श्रोत्रपथं संप्राप्तं भवतो यदि ॥ ब्रूहि मे विशदं विद्वत्कृपया सहसाऽधुना ॥ १२॥ तदंगीकृत्य विशदमब्रवीत्स बु- धाग्रणीः॥ सत्येन लोकाञ्जयति दीनान्दानेन राघवः ॥४३॥ गुरू- छुश्रूपया वीरो धनुपा युधि शात्रवान् ॥ तच्छुत्वा संग्रहृष्टोथ भट्टार्यों नृपमत्रवीत् ॥ १४ ॥ श्रीरामः प्रददौ मोक्षं सत्येनैव जटायुपः ।। स- (४६०) प्रपन्नामृते- दुत्तरं वचः श्रुत्वा संतुष्टः स महीपतिः ॥ ४५ ॥ भट्टार्याय वहु द्रव्यं प्रददौ प्रेमपूर्वकम् ॥ स तद्रव्यं समादाय तेन राज्ञा यदर्पितम् ॥१६॥ फलिजित्सानीधं गत्वा भट्टार्यस्तं प्रणम्य च ॥ भक्त्या समर्पयामास. तत्सर्वं कलिवैरिणे ॥४७॥ तद्धनं स विलोक्याशु कलिजिद्भदेशि- कम् ॥ व्याजहार शुभं वाक्यं विस्मयाविष्टमानसः॥४८॥ कुतःप्राप्तं महदिदं राजद्रव्यं ममाग्रतः ॥ तद्वदाशु द्विजश्रेष्ठ मह्यं शुश्रूपवेऽधुना ॥४९॥ निशम्य वाक्यं कलिवैरिणोदितं भट्टारकः प्राह कृताञ्जलि- स्तदा । तद्वैभवेनैव महार्थसञ्चयस्संप्राप्त एतत्सकलो महामते ॥५०॥ निशम्य वाक्यं स च विस्मितो महान्नंविळ्ळनामा तमुवाच सत्वरम् ॥ तदद्य मे ब्रूहि यदस्य वैभवं प्रकाशितं राजमहासभान्तरे ॥५१॥प्र- तिगृह्य वचस्तस्य भट्टार्यः कलिवैरिणः ॥ वृत्तान्तमेतत्सकलं. विज्ञाप्य विनयान्वितः ॥ ५२ ।। विज्ञापयामास तदा स्वापराधान्सहस्रशः॥ देशिकेन्द्र जगद्वंद्य सर्वज्ञ करुणार्णव ॥ ५३॥ नमोनमोऽखिलाधार नमस्ते समदर्शन ॥अनार्योहमधर्मिष्ठो ह्यसूयातत्परःशंठः॥५४॥ गुरुद्रोहकरः क्रूरो गमिष्याम्यद्य कां गतिम् ॥ निर्णीतं सर्वपापानां प्रा- यश्चित्तं मनीपिभिः ॥५५॥ ब्रह्मवेद्यवमानस्य निष्कृतिर्न कदाचन ॥ जगदार्यस्य भवतो लोकेऽप्रतिमवैभवम् ॥ ५६॥ दृष्ट्वाऽसहिष्णुर- भवं भास्कर कौशिको यथा ॥ पुरा भगवता प्रोक्तं सर्वलोकहितैपिणा ॥२७॥ मदीयानपचारांश्च क्षमिष्येहं कदाचन ॥ अस्मद्भक्तापराधा- स्तु न क्षमेहं कदाचन ॥ ५८ ॥ अहं तु विवुधश्रेष्ठ वैष्णवाग्रे- सरे त्वयि ॥ कृतवानस्मि सुतराममचारं जगद्गुरो ॥ ५९ ॥ तं क्षम्यतां गुरुश्रेष्ट दीनं मां रक्ष सुव्रत ॥ तदुपश्रुत्य वचनं भट्टार्या- स्कलिजिद्गुरुः ॥६०॥ अंगीकृत्य स तद्रव्यं कृपया तं तदात्रवीत् ॥ कूरेशपौत्रस्सभवान्महात्मा शास्त्रवित्तमः ॥६१ ॥ श्रीपराशरभट्ट- स्य पुत्रो लोकोत्तरस्ततः॥ न्यूनता विद्यते का वा भवतोस्य महा-

.
अध्यायः ११८.
त्मनः ॥६२॥ अतः कूरेशवंश्यानां श्रीरंगेशपुरोधसाम् ॥ सर्वेपा
न्यूनता विद्वन्न कदाचिद्भविष्यति ॥ ६३॥ ततो द्राविडवेदान्तं महा-
र्याय विपश्चिते ॥ उपदिश्याशु कृपया शिष्यं रक्षितवान्गुरुः ॥६॥
मध्यप्रतोलीभट्टार्यः स महात्मा कुशाग्रधीः ॥ तावतोऽर्थान्समादाय
यावन्तोर्था गुरोः श्रुताः॥६५॥ ग्रन्थं चकार सुमहाभारतग्रन्थसं-
ख्यया ॥ स तं ग्रन्थं समादाय निधाय गुरूसंनिधौ ॥६६॥ संप्र-
दृष्टमना भूत्वा तस्थौ प्रांजलिरग्रतः॥ सम्यग्विलोक्य तं सर्व कलि-
जिच्छास्त्रवित्तमः॥६७॥ स तं तद्वंथकर्तारं भट्टार्यमिदमब्रवीत् ॥
उक्तमानं मया तावदिदानी लिखितं त्वया ॥ ६८ ॥ लेखितुं नैव
शक्नोपि किल मे मनास स्थितम् ॥ देशिकाज्ञाविरहितं यत्कार्य भुवि
विद्यते ॥ ६९॥ न तु तद्गच्छति ख्याति न चांगीक्रियते बुधैः ॥
मामनाहत्य सहसा मम चैवाज्ञया विना ॥ ७० ॥ यः कृतो सुमहा-
न्ग्रंन्यो भारतग्रन्थसङ्ख्यया ॥भट्टार्य सोऽयं लोकेस्मिन्नैव शिष्येष
वर्तताम् ॥ ७१ ॥ इत्युक्त्वा ग्रन्थमादाय पातयामास दुर्लभम् ॥
ततोऽनुमत्या भट्टार्यस्सगुरोः कलिवैरिणः ॥७२॥ तत्त्वपूर्व विव-
रणं चक्रेटाक्षरदीपिकाम् ॥ तद्वयं लोकविख्यातं बभूव गुरुसंमतम्
॥७३॥ मध्यप्रतोलीनिलयो महात्मा भट्टारकः कूरकुलाग्रगण्यः ।।
आचार्यसेवैकरतो हि धीमानुवास नित्यं कलिवैरिणोये ॥ ७४ ॥
इति श्रीप्रपन्नामृते नंबिळ्ळाख्यकलिजिट्टार्यसंवादो नाम सप्तदशाऽ-
धिकशततमोऽध्यायः ।। ११७॥
अष्टादशाधिकशततमोऽध्यायः।
ततो दाशरथेस्तस्य श्रीवाधूलकुलाग्रणीः॥ पुत्रो बभूव सुमहा-
रामानुज इति स्मृतः॥ ३ ॥भूतपुर्या भाष्यकारं यःप्रत्यष्टापयत्पुरा॥
वारणाद्रीशनामाभूत्तस्य पुत्रो महायशाः॥२॥ वाधूलो वैभवं तस्य
सुमहत्कलिवैरिणः ॥ दृष्ट्वाऽसहिष्णुः श्रीरंगे परितेपे दिवानिशम् ॥३॥

(४६२) प्रपन्नामृते- कदाचित्तं विलोक्याथ तोळप्पाख्यस्स देशिकः ॥ महान्तम- सहिप्णुस्संश्चके परिभवं तदा ॥ ४॥ ताडितो वहुधा तेनच्छिन्नयज्ञो- पवीतकः ॥ प्रमार्जितोर्ध्वपुण्ड्रोपि कलिजिच्छमवारिधिः ॥ ५॥ न किंचिदपि विद्वेपं.चक्रे तं प्रति वैष्णवम् ॥ वारणाद्रीशभार्याथ क- लिजित्पादसंश्रया ॥ ६॥ आचार्यावमति श्रुत्वा भीता भर्तृकृतां तदा ॥ दुःखेन महताविष्टा चिंतयामास वैष्णवी ॥७॥ ब्रह्मवेद्यव- मानस्य निष्कृतिन कदाचन ॥ गुरुद्रोहकरस्यैतत्फलं नरक एव हि ॥८॥ पूजनाद्विष्णुभक्तानां पुरुपार्थोऽस्ति नेतरः ॥ तेषु विद्वेपतः किञ्चिन्नास्ति नाशकमात्मनः॥ ९ ॥ इत्याद्यर्थशतं सम्यग्विधाय हदि निश्चला ॥ नेच्छन्ती विदुषी तस्य मुखं पत्युविलोकितुम् ॥१०॥ मोधागारं प्रपिश्याशु पिधायाररमञ्जसा ॥ दुःखार्णवनि- मना सा गुरुध्यानपरा स्थिता ॥ ११ ॥ कृतापराधो निर्वै रेस तस्मिन्कलिवैरिणि ॥ सन्तुष्टो भ्रान्तवच्छीघ्रमाससाद निजं गृहम् ॥ १२॥ मन्मुखाभिमुखी भार्या किमर्थ नागताधुना ॥ इति सञ्चिन्त्य सहसा . खिन्नः परिजनात्तदा ॥ १३ ॥ ज्ञात्वा तत्सर्ववृत्तान्तं तगृहान्तिकमागतः, ॥ संरक्तनयनः क्रोधाद्भार्यामाह बहिस्थितः ॥ १४ ॥ क्रोधागारेधुना मूढे भूमौ शेपे कुतोऽबले ॥ ब्रूहि तत्कारणं शीघ्र पतिभक्तिविवर्जिते ॥ १५॥ सा भर्तृवचनं श्रुत्वा गृहान्तःस्थेदमत्रवीत् ॥. गुरुद्रुहोस्य अवतः कथं द्रक्ष्येऽ- धुनाऽननम् ॥ १६॥ गुरुरेव परो बंधुर्मुरुरेव परा गतिः ॥ अना- दिमायासंसाराद्यस्तारयति दुस्तरात् ॥ गुरुर्ज्ञानोपदेशेन निमन भवसागरे ॥१७॥ गुशब्दस्त्वंधकारः स्याद्रुशब्दस्तनिरोधकः ॥ अंध- कारनिराधित्वादरित्यभिधीयते ॥ १८॥ पतिव्रतानां स्वलोक इति शास्त्रस्य निर्णयः ॥ १९॥तिस्रः कोटयोधकोटी च रोम्णाम्मर्त्यस्य वै स्मृताः ।। तावत्कालं वसेत्स्वगै भतीरं यानुयाति हि ॥२०॥ ज्ञानैकसाध्यो मोक्षो हीत्येवं वेदान्तनिर्णयः ॥ तज्ज्ञानं देशिकाधीनं .

अध्यायः ११८. (४६३) ततो मोक्षप्रदो गुरुः ॥ २१ ॥ एवं कर्मानुगुण्येन फलदं नात्र संशयः॥ सर्वे ज्ञानान्मोक्ष इति ब्रुवन्ति ब्रह्मवादिनः॥२२॥ अतो हि भर्तृदेवाभ्यां गुरुरेवाधिकः स्मृतः ॥ अधमो देवताभक्तो मन्त्रभक्तस्तु मध्यमः ॥ २३ ॥ उत्तमस्तु स मे भक्तो गुरुभक्त्योत्तमोत्तमः ॥ गुरुभक्तिमतां नृणां किं न साध्यं जगत्रये ॥ २४ ॥ तवाधीनो ह्ययं देहः पित्रा दत्तो यतः पुरा ॥ आत्मा तु देशिकाधीनो यतो मोक्षप्रदो गुरुः ॥२६॥ छिन्धि भिन्धि च मे देहं यथेच्छसि तथा कुरु ॥ वैष्णवात्यपचार च प्रविधाय सुनिर्भयः ॥२६॥ निश्चलस्सर्वविदितं गृहनेवागतो भवान् ॥ पश्चात्तापोपिते किञ्चिद्धृदि नास्त्यद्य वै किल ॥२७॥ निन्दा भगवतः शृण्वंस्तत्परस्य जनस्य वा॥ततो नापति यः सोपि यात्यधः सुकृताच्च्युतः ॥ २८ ॥ इत्युक्त्वा सर्वशास्त्रज्ञा पुराणप्रतिपादितम् ॥ तदीयवैभवं साध्वी भर्ने सम्यगबोधयत् ॥ २९॥ वारणाद्रीश्वरो विद्वान्छुभं पत्न्यदितं वचः॥ सच्छास्त्रसंमतं श्रुत्वा हानुतापमवाप्य सः॥३०॥ भार्यामाहाथ शुद्धात्मा जितासूयो महामनाः॥ आभि- जात्यमदेनैव दुस्तरेण मयाधुना॥३१॥जगद्गुरौ महत्यस्मिन्नपराधो महान्कृतः ॥ प्रकृति नैव शक्नोस्मि जेतुं वलवती तदा ॥३२॥ तदोपपरिहाराय प्रायश्चित्तं विधीयताम् ॥ तदंगीकृत्य वचनं साध्वी भर्तारमब्रवीत् ॥ ३३ ॥ तं प्रसादय तत्त्वज्ञं धर्मज्ञं नतवत्सलम् ॥ गुरुः कृतागसमपि सर्वभूतसुदृत्तमः ॥ ३४॥ कृताञ्जलिपुटं दीनं भत्त्यैव त्वां समागतम् ॥ रक्षिष्यति न सन्देहः साधवो दीनवत्सलाः ॥ ३५ ॥ तस्यास्तद्वचनं श्रुत्वा वारणाद्रीश्वरोऽब्रवीत् ॥ अधुना चेक एवाहं नोत्सहे गन्तुमीहशः ॥३६॥ दिगन्तकीर्तमहतस्सन्निधि कलिवैरिणः ॥ तस्य तद्वचनं श्रुत्वा सन्तुष्टा सा पतिव्रता ॥३७॥ तस्मिन्नेव क्षणे रात्रावादाय करदीपिकाम् ॥ प्रतस्थे भर्तृसहिता कलिजित्सन्निधि तदा ॥३८॥ तेनावमानितः सोपि कलिजित्सम- -- (४६४) प्रपन्नामृते- चिंतयत् ॥ नैप सामान्यपुरुपो वारणादीश्वरो महान ॥ ३९ ॥ तस्य दाशरथेः पौत्रः पुत्रो रामानुजस्य च ॥ सर्वशास्त्रार्थतत्त्वज्ञः कन्दाङकु- लभूपणः॥४०॥ अपराधं महान्कश्चिदासभूतेधुनामयि ॥ अविचार्य मे शिक्षामीहशीं न करोति हि ।। ४१ ।। उपवीतोर्ध्वपुण्डाणि येनैवा- पादितानि मे ॥ तेनैवापहृतान्यद्य वारणाद्रीश्वरेण वै॥४२॥ गत्वा तत्सन्निधिं शीघ्रमपराधक्षमापणम् ॥ गुरुं संप्रार्थ्य कर्तव्यं मयाद्या कृतागसा ॥४३॥ उपवीतोर्ध्वपुण्ड्राण दत्तानि कृपया यदि ॥ आचार्यशासनात्तानि थ्रियन्ते भक्तितस्ततः॥४४॥ एवं सञ्चित्य कलि- जिन्महात्माशास्त्रवित्तमः॥एकवस्त्रधरोरात्रौ विनीतस्तदृहं प्रति॥४॥ गत्वा वहिर्वितद्यौ तु तस्थौ तदर्शनोत्सुकः ॥ एकवस्त्रधरं दीनमाकु- श्चिततनुं मुनिम् ॥ ४६॥ गृहद्वारि शयानं तं महान्तं कलिवैरिणम् ॥ वारणाद्रीश्वरो दृष्ट्वा कोऽयमित्यभ्यभापत ॥ ४७ ॥ निशम्य तद्वचः सम्यक्तं दृष्ट्वा प्रणिपत्य च ॥ विनीतः प्राञ्जलिः सम्यक्छनैर्वाक्यम- थाब्रवीत् ॥४८॥ त्वदासभूतं मां स्वामिनानीहि कलिवौरिणम् ।। तनिशम्य तदा प्राह स तं वाधूलजस्तदा ॥ १९ ॥ कृतापरावस्या- चैव सांप्रत में गृहान्तरे ॥ किमागतोऽसि मौख्येण देहत्यागेच्छया किल ॥५०॥ गिरं तिग्मतरां श्रुत्वा तेनोक्तां भीतिसंयुतः ॥ भूयः प्रणम्य सहसा कृताञ्जलिरभापत ॥५१॥ त्वदासं क्रूरहृदयं मां न चिन्तय देशिक ॥ शपे त्वत्पादपद्माभ्यां सत्यं वच्मि मदागमम् ॥ ॥१२॥ भवान्दाशरथेः पौत्रः सर्वशास्त्रविशारदः ॥ श्रीरामानुज- सिद्धान्तनिर्वोढा वैष्णवोत्तमः ।। ५३ ।। विचार्य दासभूतस्मिन्कञ्चि- दोपं महत्तरम् ॥ ममायैतादृशी शिक्षा त्वमित्थं कृतवानसि ॥५४॥ सन्तोप एव तस्मान्मेऽन्यथा किंचिन्न विद्यते ॥ उपवीतोर्ध्वपुण्ड्रादि- धारणेऽनुमति गुरो॥ ५५ ॥ त्वत्तः संप्रामुकामोहं तवान्तिकमुपा- गतः। गृहान्तःसंप्रवेशाय भीतोत्रैव स्थितोभवम् ॥५६॥ निशम्य तद्वचस्तस्य निस्तुलं कलिवैरिणः ॥ भीतोथ लजितोत्यन्तं विनीतो . अध्यायः ११९. (४६५) विस्मयान्वितः॥१७॥ एवं सञ्चिन्तयामास ममायं नोत्थितो गुणः।। शुद्धसत्त्वमयैस्तस्य गुणैः कलिजितोऽनघैः ॥ ५८॥ सन्तुष्टो वारणाः द्रीशः परिक्रम्य प्रणम्य तम् ॥ लोकार्य इति नामास्मै प्रददौ कालवै- रिणे ॥ १९ ॥ तं गृहाभ्यंतरं नीत्वा लोकाचार्य स वैष्णवः ॥ सर्वालंकारसहितं कृत्वा संपूज्य शास्त्रतः॥६०॥ तत्पादतीर्थ स्वीकृत्य • सभार्यों जितमत्सरः॥ विधाय सहसा धीमानपराधक्षमापणम् ॥ ॥६३ ॥ वैष्णव्या भार्यया साध स्वस्थचित्तो मुमोद ह ॥ वारणा- द्रीश्वरो धीमालोकार्य कलिवैरिणम् ॥ ६२॥ शिबिकायां समारोप्य महता वैभवेन च ॥ तदा प्रस्थापयामास भेरीकाहलिकारवैः ॥ ६ ॥ लोकार्यः स्वगृहे सम्यग्जायापत्यसमन्वितः ।। सर्वैः संपूजितः सम्य क्पूर्ववत्सुखमास्थितः॥६४ ॥ इति श्रीप्रेपन्नामृते कलिजिदारणाद्री- शयोर्गुणागुणकथनं नामाष्टादशाधिकशततमोऽध्यायः ॥ ११८ ॥ एकोनविंशत्यधिकशततमोऽध्यायः । भार्याद्वयं बभूवाथ पुत्रश्च कलिवैरिणः ॥ आण्डाळाख्याऽनघा तत्र ज्येष्ठा ज्येष्ठतरा गुणैः ॥१॥ श्रीरंगनायकी नाम द्वितीया तादशी गुणैः॥ पुत्रो रामानुजो नाम सर्वशास्त्रविदां वरः॥२॥ सारार्थसंग्रह चैव रहस्यत्रयमुत्तमम् । तद्वयं लोकविख्यातं चकार सुमहायशाः॥ ॥शा एवं भार्याद्वयेनाथ पुत्रेणामिततेजसा ॥ लोकार्यों रंगनगरे यु- वासाव्याहतश्रिया ॥४॥बभूवुर्बहवः शिष्या अस्मत्सूनोर्जगद्गुरोः ॥ कंदाडवारणादीशः पौत्रो दाशरथेर्महान् ॥ ५॥ मध्यप्रतोलीभट्टार्य: पौत्रः कूरेश्वरस्य च ॥ कृष्णपादश्च सुमहांस्तथा कृष्णसमायः॥ ॥६॥माधवार्यों महातेजा ईय्युण्णिकुलभूपणः ॥ यत्पश्चात्सुंदरवरो योगी विश्रुतवैभवः ॥ ७ ॥ एवमाद्या महाभागाः शिष्याः पञ्च- दशामलाः ॥ अन्ये च बहवः सन्ति तेषां सङ्ख्या न विद्यते ॥८॥ सहस्रगीतेाख्यानं विदधे कलिजिन्महत् ॥ चतुर्विंशतिसाहस, (४६६) प्रपन्नामृते- गन्थसंख्यायुतं तदा ॥ ९ ॥ स पश्चात्सौम्यजामातृयोगीन्द्रः शासनाद्गुरोः ॥ चक्रे द्वादशसाहस्रगन्थसङ्घयायुतं महत् ॥ १० ॥ सहस्रगीतेाख्यानं विख्यातं जगतीतले ॥ उदक्प्रतोलीनिलयः कृ. प्णपादो महायशाः ॥ ११ ॥ पत्रिंशता सहश्च ग्रन्थैर्लोककवि- श्रुतः ॥ सहस्रगीतेाख्यानं विख्यातं जगतीतले ॥ १२ ॥ पुण्यं प- वित्रममलं चक्रे देशिकशासनात् ॥ कुरुकेशश्च वेदान्ती पश्चात्सौ.. म्यवरो मुनिः ॥१३॥ कलिंजित्कृष्णपादश्च पंचैते भुवि विश्रुताः ॥ सहस्रगीताख्यानकर्तारः शास्त्रवित्तमाः ॥ १४ ॥ व्याख्यानप- ञ्चकं चैवं गीतेस्तस्यास्तदाभवत् ॥ कृष्णपादकृतं भाप्यं दृष्ट्वा दृष्टः स्तदा गुरुः॥१५॥तत्प्रवर्त्तयितुं लोके माधवायादिशत्स तत् ॥ माधव- स्तु स्वपुत्राय पद्मनाभाय धीमते ॥१६॥ तद्रायं प्रददौ प्रीत्या कृ- प्णपादकृतं तदा ॥ पद्मनाभः स्वाशिष्याय तद्भाष्यमदिशत्तदा ॥१७॥ श्रीरामानुजदासाय चतुर्मामाधिकारिणे ॥ रामानुजः स्वपुत्राय त- द्भाप्यं प्रेमपूर्वकम् ॥ १८॥ प्रददौ देवराजाय. चतुर्गामनिवासिने ॥ ततः श्रीशैलनाथाय देवराजोऽदिशत्स तत् ॥ १९॥ सौम्यजामातृम- नये श्रीशैलेशोऽदिशत्स तत् ॥ सौम्यजमातृयोगीन्द्रः फणिराजांशसं- भवः ॥२०॥ महामतिर्महातेजा जगद्विख्यातवैभवः ॥ श्रीरामानुज- योगीन्द्रप्रमुखेभ्यो महायशाः॥२१॥ अष्टभ्यो दिग्गजेभ्यश्च तद्भा- ष्यं कृपया तदा ॥ उपदिश्याशु सुकरं जगत्सर्वमपालयत् ॥२२॥ एवं रामानुजाचार्यसिद्धान्तो लोकविश्रुतः॥ अव्याहतश्च निस्तौल्यः स सम्यक् संप्रवर्तितः॥ वानाद्रियोगिप्रमुखैरष्टमिदिग्गजै वि॥२३॥ इति श्रीप्रपन्नामृते भगवद्विपयसंप्रदायविवरणं नामैकोनविंशत्य- पिकशततमोऽध्यायः ॥ ११९॥ विंशत्यधिकशततमोऽध्यायः। एवं द्राविडवेदान्तसंप्रदायो भुवः स्थले ॥ यतीन्द्रकृपया सम्यग माहतमवर्तत ॥ १॥ ततः श्रीकृष्णपादस्य पुत्रौ लोकोत्तरौ वारै ।।

अध्यायः १२०. (४६७)
अजायतां महाप्राज्ञौ सर्ववेदविदां वरौ ॥२॥लोकाचार्यस्तयोज्येष्ठ-
स्तुलाश्रवणजो महान् ॥ श्रीकृष्णपादपुत्रस्य ज्येष्ठस्य कलिजिहरुः
॥३॥ संस्कारपञ्चकं सम्यक्तस्य लोकार्यनाम च ॥ ददौ नित्यानुस-
न्धानप्रबन्धं कृपया तदा ॥ ४॥कृष्णपादः स्वपुत्राय ततः कलिजि-
दाज्ञया ॥ वेदान्तद्वितयं सम्यक्प्रबन्धांश्चादिशत्तदा ॥५॥ भूयोथ
कृष्णपादस्य तस्य सूनुरजायत ॥ अभिरामवराधीशः सर्वशास्त्रविशा
रदः ॥ ६॥ धनुर्मासे धनिष्ठायां श्रीवत्सान्वयशेखरः॥ तस्य नित्या-
नुसन्धानं पंचसंस्कारकर्म च ॥७॥अभिरामवरस्याथ कलिजित्म-
ददी तदा ॥ तद्व्याख्यानं प्रबंधश्च सर्व सूनोः पिता ददौ ॥८॥ श्रु-
तप्रकाशिकां भाष्यं लोकार्यश्च यवीयसे । अभिरामवरश्चैवं गुरुताता-
ग्रजापिताम् ॥ ९॥ विद्यामन्वास्य सकलां पूर्णचन्द्र इवाबभौ ॥ सो-
भिरामराधीशो महात्मा शास्त्रवित्तमः॥ १०॥ आचार्यहृदयं नाम ग-
न्थं चक्रे महायशाः॥ लोकाचार्यों महातेजा द्राविडाम्नायपारगः ॥
॥१॥ सर्वलोकावनार्थाय रहस्यानि बहूनि च ॥ सर्ववेदान्तसाराणि
चके द्राविडभापया॥१२॥ नीत्वा पञ्चनवत्यब्दान्वेदान्ती मुक्तिमा-
प्तवान् । सुखेन नीत्वा कलिजिचतुर्नवतिवत्सरान् ॥ १३॥ जगाम
सहसा धीमांस्तद्विष्णोः परमं पदम् ॥ नीत्वा सप्तनवत्यब्दान्कृष्ण-
पादो महायशाः ॥ १४ ॥ प्रपेदे वैष्णवं धाम पुत्रे निक्षिप्य तन्म-
तम् ॥ लोकार्यः सुमहातेजाः कृष्णपादादनन्तरम् ॥ १५ ॥
दर्शनं वर्धयल्लोके वैष्णवं बहुविश्रुतम् ॥ स महानप्रतिद्वन्द्वः श्रीरंगे
न्यवत्सुखम् ॥ १६॥ यतीन्द्रमाहानसिकः प्रणतार्तिहराभिधः ।।
आत्रेयो ह्यभवत्कश्चिद्धटांवुकुलजाग्रणीः ॥ १७॥ अस्य रामानुजो
नाम पुत्रः कश्चिद्रभूव ह ॥ तस्य रामानुजार्यस्य पद्मनाभो व्यजा-
यत ॥ १८॥ घटाम्बुपद्मनाभस्य पुत्रो रामानुजोऽभवत् ॥ पुत्रस्वी-
कारमकरोद्भाष्यकारो महायशाः॥ १९॥ श्रीशैलपूर्णतनयं कुरुके-
शाभिधं पुरा॥ श्रीभाष्यं विष्णुचित्ताय स ददौ कुलशेखरः॥२०॥

(४६८) प्रपन्नामृते- ‘स विष्णुचित्तो वरदविष्ण्वार्याय महौजसे ॥ श्रीभाष्यं लोकरक्षार्थ प्रददौ प्रेमपूर्वकम् ॥ २१ ॥ गुरोर्वरदविष्णोहि भाष्यं शारीरकं महत्।। आत्रेयपद्मनाभार्यसुतो रामानुजोऽग्रहीत् ॥ २२ ॥ वेदान्तार्यों महा- 'तेजा रामानुजगुरोस्ततः ॥ जग्राहाखिलशास्त्राणि भाष्यं शारीरक महत् ॥२३॥ श्रीवेदव्यासभट्टस्य पुत्रो वाग्विजयाभिधः ॥ भट्टश्च- कार विख्यातं यः क्षमापोडशीस्तवम् ॥ २४॥ श्रीसुदर्शनभट्टार्यः सुनुस्तस्याभवन्महान् ॥ भाष्यं वरदविष्ण्वार्यात्स जग्राह सुदर्शनः ॥२५॥ धीमान्वरदविष्ण्वार्यः श्रीभाष्यं चातिविस्तृतम् ॥ उपन्यास चकारायः शिष्याय स तदा महान् ॥ २६ ॥ श्रुतमर्थ गुरोस्त- स्मात्प्रकाशमकरोद्यतः ॥ श्रुतप्रकाशिका नाम तस्याभूल्लोकविश्रु- तम् ॥२७॥ पत्रिंशद्भिः सहस्रश्च ग्रन्थैलोकैकविश्रुतम् ॥ श्रुत- प्रकाशिकाभाष्यं श्रीभाष्यस्य विधाय सः ॥२८॥ वेदान्ताचार्य- हस्ताब्जे दत्त्वा तदिदमत्रवीत् ॥ वेदान्तार्य महाभाग सम्यग्लोके 'प्रवर्तनम् ॥ २९ ॥ कुरुष्वास्याः कृतेर्विद्वन्मत्कृतायाः सुविश्रुतम् ।। तदङ्गीकृत्य वेदांतदेशिकस्तत्तथाऽकरोत् ॥ ३० ॥ श्रीसुदर्शनभ- दृस्य ततः कूरकुलेशितुः ॥ श्रुतप्रकाशिकाभट्टनामाभूल्लोकविश्रुतम् ॥३१॥ श्रुतप्रकाशिकाभट्टो वेदांतार्यो महायशाःलोकार्यश्च महा- तेजाः सौम्यजामातृदेशिकः ॥ ३२॥ तेपां.शिष्याः प्रविष्याश्च वेदां- तद्यपारगाः॥ रामानुजार्यसिद्धांत वर्धयन्तोऽनिशं भुवि ॥ ३३ ॥ 'कुर्वन्तो रंगराजस्य कैंकर्याण्यखिलानि च ॥ अवर्तन्तानिशं सर्वे श्रीरंगे वैष्णवोत्तमाः ॥ ३४ ॥ ततः कदाचिच्छीरंगे रंगेशस्य जग- त्पतेः ॥ महोत्सवो महानासीत्सर्वलोकमहोत्सवः ॥३५॥ विलोक्य वैष्णवानां तमसंख्यं संघमुत्तमम् ॥ सत्त्वयुक्तं च निबिडं नमन्तं रंगशायिनम् ॥ ३६॥ तत्रैको वैष्णवः कश्चिदवशेनावदत्तदा ॥ एते श्रीवैष्णवास्सर्वे युगपद्रंगशायिनम् ॥३७॥ यथा नमन्त्येव तथा अध्यायः १२०.. (४६९) कदा वैकुंठनायकम् ॥ रंगराजस्तदाकर्ण्य वचनं वैष्णवस्य च ॥३८॥ प्राहार्चकमुखेनेति तत्तथैव भविष्यति ॥ ततः कदाचिच्छीरंगे पूर्व- वत्सुमहोत्सवः ॥ ३९ ॥ आसीत्तत्र गताः सर्वे जनास्ते पूर्ववत्तदा।। नदीमहोत्सवे तत्र नद्यां श्रीरंगशायिनम् ॥ ४० ॥ वेदिकायां प्रति- प्टाप्य लक्ष्मीक्ष्मासहितं हरिम् ॥ अभिषेकादिकार्याणि यदा चकु- जिर्षभाः॥४१॥ तत्र चारः समागम्य चाराणां कश्चिदग्रणीः ॥ लोकाचार्य समालोक्य व्याहार वचस्तदा ॥ ४२ ॥ चतुरंगवलो- पेतो यवनो बलवत्तरः ॥ लक्ष्यतेत्र महान्कश्चित्स कालयवनो यथा ॥४३॥ देवब्राह्मणसंबन्धान्यवनो ब्रह्मघातकः ॥ देशान्विध्वंसयामास सर्वान्कसो यथा पुरा॥४४॥ततो यया चोलदेशलोकाचार्य महाबलः॥ देवत्राह्मणसंपन्नं यवनो यवनस्सह।।४६॥एतदृत्तान्तमाकर्ण्य लोकाचा- यादयस्तदा।महान्तोपि तदा तत्र सुतरां साध्वसं ययुः॥४६॥तद्वाक्य: श्रवर्णनैव सर्वेषां चमहात्मनाम् ॥तत्रत्यानां सुमहती चिन्ता काचिद- जायत॥४७॥अयमुत्सवकालोस्य समाप्तिश्चन दृश्यते॥रङ्ग प्रत्यधुना शीघ्रं वदंति यवनागमम् ॥ १८॥ ततः संमंत्र्य सहसा लोकाचार्याद- यस्तदा ॥ रंगेशमेव तत्पष्टुं महायत्नं प्रचक्रिरे॥४९॥ततः श्रीवैष्णवैः सर्वैः श्रीरंगेश्वरसन्निधौ ॥ गम्यतां स्थीयतां वेति निक्षिप्त पत्रिका- द्वयम् ॥५०॥ भाविकार्यानुगुण्येन रंगेश स्थितिपत्रिकाम् ॥ ददौ देव- स्तदा तेपां सर्वज्ञस्तत्र वासिनाम् ॥५॥ प्रतिगृह्य प्रहृष्टास्ते पत्रिका तामनिन्दिताम् ॥ रंगेशमेव संसेव्य ते तस्थुगतसाध्वसाः॥५२॥ यानि मंगलकार्याणि कर्त्तव्यानि तदा हरेःसर्वाणि तानि कुर्वन्तस्त- न्मयत्वेन ते स्थिताः॥५३॥ लोकाचार्यस्य निकटं कश्चिच्चारः स- मागतः ॥ अवोचत्सहसा कर्णे यवनागमनं तदा ॥५४॥ इदानी यवनःप्राप्तः सबलः खण्डनं पुरम् ॥ आगमिष्यत्ययं क्षुद्रो ह्यत्रैवाद्या- शु निश्चयः ॥५५॥ प्रतिगृह्य वचस्तस्य सहसा निपुणस्तदा ॥ वे.

. (४७०) प्रपन्नामृते- दान्तदेशिकायैव तनिवेद्य जगद्गुरुः ॥५६॥ तच्छासनात्स रङ्गेशं समादाय सदारकम्।। तङ्गोष्ठीपुरपन्थानमनुसृत्य ययौतदा ॥१७॥ तद्वत्तं शनकैः सम्यगभूक्लिष्टतरं ततः ॥ तेनोद्विनाः प्रजाः सर्वा रङ्गं विविशुरञ्जसा ॥५८॥ प्रविश्य सहसा रङ्गं दृढं बद्धारराणि च ॥ वे- दान्तार्यादयस्सर्वे तस्थुस्तत्र भयार्दिताः ॥ ५९॥ ततस्तवाञसा धी- मान्महान्वेदांतदेशिकः ॥ अखण्डदीप प्रज्वाल्य सन्निधौ रंगशायिनः ॥६०॥ तद्गर्भसदनद्वारामिटिकाभिः पिधाय च ॥ पलायनपरस्त- स्थौ सर्वैः श्रीवैष्णवैस्सह ।। ६१ ॥ इति श्रीप्रपन्नामृते श्रीरंगवासिना यवनबाधाप्राप्तिनाम विंशत्यधिकशततमोऽध्यायः ॥ १२ ॥ एकविंशत्यधिकशततमोऽध्यायः। यवनः खण्डनपुरात्स तदा देवकण्टकः॥ निर्ययौ सैनिकस्सार्ध श्रीरङ्गं प्रति सत्वरम् ॥१॥ यवनो यवनस्सार्धमगाच्छीरंगमञ्जसा ।। मथुरां कालयवनः कोटिभिस्तिसृभिर्यथा ॥२॥श्रीरंगवासिनस्सर्वे भयार्तास्तेन ते जनाः। यथैव भयमापन्ना मथुरापुरवासिनः ॥३॥ म- थुरावासिनां तेषां द्वारकाप्रापणे मनः ॥ यथा चकार भगवाञ्छ्रीकृष्णो योगमायया ॥४॥ तथैव रङ्गराजोपि श्रीरंगपुरवासिनाम् ॥ चकार तेन व्याजेन वैकुण्ठप्रापणे मनः ॥५॥ तदा सुदर्शनो नाम भट्टार्यः कूरवंशजः । वृद्धः समेत्य मतिमान्वेदांतार्य महौजसम् ॥६॥ पुत्र- द्रयं च रक्षेति तस्य हस्तेअसा ददौ ॥ वेदान्तायस्स सर्वज्ञस्तत्पुत्रद्रय- मअसा ॥७॥ श्रुतप्रकाशिकां चैव तत्कृति लोकरक्षणे ॥ अंगीकृत्य ररक्षाथ रंगेशकृपया तदा ॥८॥ ततो निर्भिद्य सहसा कपायनि ह- ढान्यपि ॥ विविशुः सहसा रंग यवना बलवत्तराः॥९॥ ब्रह्मानि- हतास्सर्वे वैष्णवा वीतकल्मषाः ॥ तत्र स्थितास्तैर्यवनैर्विशेषमभव- तदा ॥ १०॥ श्रीभाष्यं वेंकटेशस्य सुदर्शनसुतद्वयम् ॥ समादाया- असा धीमान्यादवाद्रिं तदा ययौ ॥ ११॥ लोकाचार्यसहायेन रंगेशः

अध्यायः १२१.
(४७१)
पाण्डयमण्डलम् ॥ प्रतस्थे सहसारण्यवर्मना दुर्गमेन च ॥ १२ ॥
सर्वञ्च रंगिणस्तर चौरैरपहृतं धनम् ॥ अग्रयायी स लोकार्यस्त-
च्छुत्वापि न विव्यथे ॥ १३॥ तत्र गत्वाचसा धीमान्स्वकीयं धन-
मादरात् ।। तस्मै चोरजनायैव प्रददौ स्वयमेवसः॥१॥ज्योतिष्मती-
पुरंपाप लोकार्येण सरंगराट् ॥ रंगक्षेत्रस्य वृत्तान्तं तं सर्वरंगिणस्तदा
॥१५॥श्रुत्वासहिष्णुलोकार्यः प्रेपेदे परमं पदम्।। लोकाचार्यवियोगेन
र शो भृशदुःखितः ॥ १६॥ ज्योतिष्मतीपुरं हित्वा प्रपेदे सुंदराच-
लम् ॥ कूपं स्वनाम्ना तत्रैकं विधाय च स रंगराट् ॥ १७॥ विहाय
पाण्डयकटकं केरलं देशमभ्यगात् ॥ चतुर्दश विलोक्याशु विष्णु-
स्थानानि केरले ।। १८॥ सदारोरंगराट् शीघ्रं प्रपदे यादवाचलम् ।।
यादवाचलनाथेन संपत्पुत्रेण सादरम् ॥ १९ ॥ स्थित्वाथ तत्र
रंगेशः कश्चित्कालं जगत्पतिः॥आजगामाअसा रंगी भगवान्वेंकटा-
चलम्॥२०॥ पूजितः श्रीनिवासेन रंगेशो वेंकटाले ॥ निवृत्ताध्वश्र-
मस्तस्थौ कञ्चित्कालं यथासुखम् ॥२१ श्रीरंग यवनाक्रान्तं बभूव
सुमहद्यथा ॥ तदा नृसिंहदेवाल्यः कश्चिद्राविडभूसुरः ॥ २२ ॥
अक्रूर इव कंसस्य यवनस्य बभूव सः ।। सबलं यवनं नीत्वा सम-
याख्यपुरं प्रति ॥ २३ ॥ रङ्गाधिकार संप्राप्य स द्विजो यवनाधि-
पात् ॥ ररक्ष रङ्गं सुमहद्धतशेपांश्च वैष्णवान् ॥ २४ ॥ हतशेपा-
स्तदा तत्र केचिद्वैष्णवपुङ्गवाः ॥ नृसिंहदेवकृपया श्रीरङ्गं विवि-
शुर्जनाः॥२५॥ जरठा ब्राह्मणी काचिल्लोकाचार्यपदाश्रया ॥ सा.
विकासहमाना सा तद्वियोगाजही तनुम् ॥ २६॥ तस्याः श्रीशै-
लनाथाख्यः कश्चित्पुत्रो बभूव ह॥ स वालो मातृभगिनीगेहे वृद्धिं च
यस्थितः ।। २७ ।। ततो यौवनमासाद्य युवतीजनलोलुपः ॥ कृत्या-
कृत्ये न वेदार्यः स द्विजो मदनातुरः॥२८॥ तदा महात्मा मतिमान्दा
सः कूरकुलोद्भवः ॥बभूव देशिकः कश्चिल्लोकाचार्यपदाश्रयः॥ २९ ॥

(४७२) अपन्नामृते- स तं श्रीशैलनाथार्य विषयार्णवपातिनम् ॥ दृष्ट्वोदमियेषार्यः संबंधाच जगद्गुरोः ॥ ३० ॥ ततः सकरुणो धीमान्दासः कूर- कुलोत्तमः ॥ तस्मै श्रीशैलनाथाय निखिलद्राविडागमान् ॥३३॥ प्रोवाच लोकरक्षार्थ शिष्याय स जगद्गुरोः॥ततः स चरमे काले श्री- शैलेशंस देशिकः ॥ ३२॥ व्याजहार शुभं वाक्यं लोकानुग्रहका- रणात् ॥ वर्तते कृष्णयोगींद्रः कश्चित्कृष्णकुटीपुरे ॥३३॥ सहस्र गीतेाख्यानं तस्मात्त्वं शृणु योगिनः ॥ तेनानुज्ञापितो धीमान श्रीशैलेशस्तदन्तिकम् ॥ ३४ ॥ संप्राप्य सुमहातेजा स तं भाष्य मयाचत ॥ तात्पर्यार्थ स तच्छुत्वा तस्य भाष्यस्य देशिकात् ॥३५॥ ब्रूहि शब्दार्थमित्येवं तमुवाच महामतिः ॥ स तेनोक्तस्सयोगोंद्रः श्रीशैलेशं तमब्रवीत् ॥ ३६॥श्रीगृध्रसरसस्तीरे शब्दार्थज्ञानवान यतिः॥ वर्तते गच्छ तत्रैव श्रीशैलेश महामते ॥ ३७॥ स तेनोक्तो वृपादीशस्तच्छीगृध्रसरो ययौ ॥शव्दार्थज्ञानवान्योगी-स तदा मरणं गतः ॥ ३८॥ विललाप भृशं तेन श्रीशैलेशः सुदुःखितः ॥ विला- पकारणं ज्ञात्वा तस्य देवाधिपस्तदा ॥ ३९ ॥ श्रीशैलेशगुणैस्तुष्टः चतुर्मामाधिपो गुरुः॥ सत्पुत्र इति नामास्य प्रददौ प्रेमपूर्वकम्॥४०॥. देवराजादिगुरुभिर्यादवाचलवासिभिः ॥ भगवाद्विपयार्थाय नितरां प्रार्थितस्तदा ॥४१॥ देवाधिपः समाहूतः श्रीशैलेशसमन्वितः॥ यादवाचलमासाद्य यतिराजस्य सन्निधौ ॥४२॥ कृष्णपादकृतं भाष्यं प्रददौ प्रेमपूर्वकमसित्पुत्रदेवराजादिशिष्येभ्यश्च महायशाः॥४३॥ श्रीशैलेशस्स तद्भाष्यं श्रुत्वा देवाधिपागुरोः ॥ शारिं द्रष्टुका- मोथ कुरुकानगरी ययौ ॥ ४४ ॥ महादे, निमग्नं तमुद्धृत्य शठवैरिणम् ॥ कुरुकायां प्रतिष्ठाप्य श्रीशैलेशः स पूर्ववत् ॥ ४६॥ वर्धयामास तं देवं विश्रुतं च महोत्सवैः ॥ अनंतशयनं प्राप्य ततश्चारामयोगिनः॥४६॥ जग्राह सरहस्यानि महान्ति श्रीनगा- अध्यायः १२२. (४७३) धिपः । मदत्रयविनिर्मुक्तस्तत्संबन्धबलात्तदा ।। .४७ ॥ अशोभत महातेजा लोहस्पर्शमणरिख ।। संकीर्तनादिरूपेण रहस्यान्यखिलानि च ।। ४८॥ विधायारामयोगीन्द्रो वैकुण्ठमगमत्तदा ॥ शिष्यकृत्यं पुत्रकृत्यं तद्वयं श्रीनगाधिपः ॥४९॥विदधे विधिना सम्यक्स तस्या- रामयोगिनः ।। महापूर्णो यथा तस्य मारनेनबिनः पुरा ॥ ५० ॥ ततः श्रीशैलनाथार्यः कुरुकानगरे वरे ।। किञ्चित्कालमुवासार्यों वर्ध- यन्विष्णुदर्शनम् ॥५१॥ तदा रङ्गेश्वरः श्रीमान्छीरंगगमनोन्मुखः ।। बभूव भगवान्दृष्ट्वा कल्यात्मकमिदं जगत् ।। ६२ ।। इति श्रीप्रपन्ना- मृते श्रीरङ्केशस्य वेंकटाचलागमनं नामैकविंशत्यधिकशततमोऽ- ध्यायः॥ १२१॥ द्वाविंशत्यधिकशततमोऽध्यायः॥ गोवणो नाम धर्मात्मा कश्चिद्भागवतोत्तमः ॥ शशास राज्यं धर्मे- ण नारायणपुरे तदा ॥ १॥ तस्य प्रसन्नो भगवान्स्वप्ने श्रीरङ्गना- यकः॥ व्याजहार शुभं वाक्यं गोवणाख्यं महौजसम् ॥ २॥ हत्वा म्लेच्छबलं सर्व स्वबलेन मदाज्ञया ॥ रङ्गस्थलं प्रापयाय रङ्गेशं मां महावल ॥ ३ ॥ ततः स्वप्नात्समुत्थाय गोवणाख्यः सविस्मयः ।। वेंकटाचलमारुह्य श्रीरंगेशं प्रणम्य च ॥ ४॥ तदर्चकमुखात्सर्व ज्ञात्वा वृत्तान्तमादरात् ॥ रंगेशमग्रे संस्थाप्य लक्ष्मीक्ष्मासहितं हरिम् ।। ॥५॥प्रतस्थे रङ्गनगरं सुमुहूर्ते महाबलः ॥ संसनीनगरं प्राप्य प्राज्ञो गोवणभूमिपः ॥ ६ ॥ यवनस्याशु निपुणैश्चारैज्ञात्वा वला- बले । रङ्गेशसहितं तस्मानिर्गत्य निशि निश्चलः ॥७॥सर्व म्लेच्छ- बलं हत्वा निःशेपं समये वरे ॥ रंगेशं रंगनगरे तं प्रतिष्ठाप्य पूर्ववत ॥८॥तुतोप सुमहातेजा गोवणाख्यो महाबलः ॥ वेदान्तदेशिका श्रीमान्छोरंगं प्राप्य सादरम् ॥ ९॥ मंगलाशासनं कृत्वा रंगेशाय महौजसे ॥ श्रीगोवणार्यविषयं श्लोकमेकमकल्पयत् ॥ अद्यापि रंग- (४७४) प्रपन्नामृते- प्राकारे सश्लोकः परिदृश्यते॥१०॥"आनीयानीलशृंगद्दयुतिरचितजग- द्रजनादानाद्रेश्चंजामाराध्य कश्चित्समयमथ निहत्योधनुष्कांस्तुरु- कान् ॥ लक्ष्मीक्ष्माभ्यामुभाभ्यां सह निजनिलये स्थापयत्रंगना- थं सम्यक् चर्या सपर्या पुनस्कृत यशःप्रापणो गोवणार्यः ॥ ॥११॥"श्रुतप्रकाशिकाभाष्यं भगवद्विपयञ्च यत् ॥ कुरुकेशकृतं भाष्यं महान्वेदान्तदेशिकः ॥ १२॥ प्रवर्तयामास तदा जगत्यां भूरि विश्रुतम् ॥ वेंकटेशस्य पुत्रोभूदरदार्य इति श्रुतः ॥ १३ ॥ उपदि- श्याशु पुत्राय वेदान्तद्वयमादरात् ॥प्रपेदे भगवद्धाम नीत्वाएनवतीः समाः ॥ १४ ॥ वेदान्तदेशिको धीमाञ्जगद्विख्यातवैभवः ॥ वरदार्यों महातेजा विश्वामित्रकुलाग्रणीः॥ १५ ॥ वेदान्तदेशिकसुतो वेदान्त- द्वयपारगः॥वेदान्ताचार्यवख्यातिं संप्राप्य जगतीतले ॥१६॥वेदा- न्तद्वितयं सम्यग्लोकसंरक्षणाय च ॥ वादिभीकरमुख्येभ्यः शिष्येभ्यः प्रददौ तदा ॥ १७॥ नखाधिकशतं नीत्वा वत्सराणां भुवः स्थले ।। जगाम स हरेर्लोक वरदार्यों महायशाः ॥ १८ ॥ वेदान्तद्वितयं सम्यक्प्रतिवादिभयंकरः॥ लोके प्रवर्तयामास यावदाचन्द्रतारकम् ॥ ॥ १९॥ ततः श्रीपाण्डयकटके मथुरानगरान्तिके ॥ बभूव महती पुण्या काचित्कुंतीपुरी वरा ॥ २० ॥ तत्र धीप्रलयानाख्यो गोम- ठान्वयभूषणः ॥ बभूव वैष्णवः कश्चिल्लोकाचार्यपदाश्रयः ॥२१॥ यतीन्द्रप्रवणो नाम शेषांशेन ततोऽजनि ॥ तस्य धीप्रलया- नस्य तुलामूले यतींद्रवत् ॥ २२ ॥ अस्यावतारश्लोकाश्च गीयते प्रथिता भुवि ।। अधीतवेदवेदांगः सोभिरामवरो महान् ॥ २३ ॥ गृहस्थाश्रमसंपन्नः कश्चित्कालं समास्थितः ॥ ततः श्रीकुरुका प्राप्य यतींद्रप्रवणो महान् ॥ २४॥ तस्य लोकार्यशिष्यस्य श्रीशैले- शस्य सन्निधौ ॥ कृष्णपादकृतं भाष्यमधीत्य द्राविडागमान् ॥२५॥ सर्वाणि च रहस्यानि कृतार्थोभूत्तदा महान् ॥ यतींद्रप्रवणस्याथ पुत्रो

अध्यायः १२२. (४७५)
रामानुजोऽभवत् ॥२६॥ रामानुजस्य पुत्रोऽभूद्विष्णुचित्त इति श्रुतः।।
श्रीशैलेशो विधायाशु स तं दर्शनवर्धकम् ॥ २७॥ यतींद्रप्रवणं पश्चा-
जगाम परमं पदम् । ततः श्रीरंगनगरं सोभिरामवरो ययौ ॥ २८ ॥
नत्वा रंगेश्वरं तब कञ्चित्कालमुवास सः ॥ ततो भूतपुरीमेत्य यतिराज
प्रणम्य च ॥ २९॥ तस्मादनुज्ञां संप्राप्य भाष्यकारान्महायशाः ।।
काञ्ची विवेश सहसा वरदो यत्र वर्तते ॥३०॥ यतींद्रमाहानसिकों
यो घटाम्बुकुलाग्रणीः ॥ आत्रेयगोत्रतिलकः प्रणतार्तिहरो गुरुः
॥३१॥ तस्यान्ववाये तत्काले यो महान्कृष्णदेशिकः तदंतिके -
ग्रहीदाण्यं यत्तच्छारीरिकं महत् ॥३२॥ यतींद्रप्रवणः श्रीमान्वेदां-
तद्वयवांस्ततः ॥ आचार्यहृदयं प्राप्य यादवाचलवासिनः ॥३३॥
देवराजगुरोः सम्यकृतार्थोभून्महामतिः॥ ततः श्रीरंगनगरे यतींद्रप्रवणो
महान् ॥ ३४ ॥ तुर्याश्रमं समाश्रित्य यथा रामानुजः पुरा । वर्धय-
न्दर्शनं ह्येतदवर्तत महायशाः ॥ ३५ ॥ अशिश्रियंस्तदा सर्वे वैष्णवा
वीतकल्मपाः ॥ मवयविनिर्मुक्ताः सौम्यजामातरं मुनिम् ॥ ३६॥
अष्टौ बभूवुस्तन्मध्ये महांतो भुवि विश्रुताः ॥ श्रीवानाचलयोगोंद्रो
भट्टनाथमुनिस्तथा ॥ ३७ ॥ श्रीनिवासयतिश्चैव देवराजगुरुमहान ।।
महान्वाधूलवरदनारायणगुरुस्तथा ॥३८॥ वरदाचार्यसच्छिष्यः
प्रतिवादिभयंकरः ।। घटाम्बुवंशजः कश्चिद्रामानुजगुरुस्तथा ॥३९॥
घटाम्घुवंशजः कश्चित्सुताख्य इति विश्रुतः॥ इत्येते ह्यभवन्ख्याता
जगत्यामष्ट दिग्गजाः॥४०॥ कृष्णपादकृतं भाष्यं शिष्यभ्यश्चोप-
दिश्य तत् ॥ अपालयजगत्सर्वं यतींद्रप्रवणो महान् ॥ ११॥तद्भाष्यं
रंगराजाय भक्त्या विज्ञाप्य देशिकः॥ महायत्यभिधानं च तस्मात्सं-
प्राप्तवास्तदा ॥ ४२ ॥ ग्रंथाननेकाञ्छुत्वार्यः सर्वलोकावनाय सः॥
तैः श्रीवैष्णवसिद्धांतं नित्यमव्याहतं शुभम्॥४३॥ सम्यक्प्रवर्तयल्लोके
श्रीरंगे सुखमास्थितः॥ ततोष्टदिग्गजास्सर्वे यतींद्रप्रवणाज्ञया॥४॥

(४७६) प्रपन्नामृते-. श्रीवानाचलयोगींद्रप्रमुखा देशिकोत्तमाः ॥ वेदांतद्वितयेनैव जग- सर्वमपालयन् ॥ ४५ ॥ जनाः संरक्षितास्सर्वे तैरतैरष्टदिग्गजैः ॥ शुद्धसत्त्वगुणोपेताः सुखेनैव समास्थिताः॥४६॥ इति श्रीप्रपन्नामृते वेदांतार्यवरदार्ययतींद्रप्रवणाष्टदिग्गजवैभववर्णनं नाम द्वाविंशत्यधि- कशततमोऽध्यायः ॥ १२२॥ त्रयोविंशत्यधिकशततमोऽध्यायः। लोकैकदेशिकः श्रीमान्माष्यकारो महायशाः॥पुत्रस्वीकारमकरोद्य पुरा कुरुकेश्वरम् ॥ १ ॥ यतिराजकृपाप्राप्तवेदांतद्वितयोनधः॥ सहस्रगीतेाख्यानं यश्चके देशिकाज्ञया॥२॥ पड्भिः सहस्संयुक्त- ग्रन्थैराधमनुत्तमम् ॥ कुरुकेशस्य पुत्रोभूत्पद्मनेत्र इति श्रुतः ॥३॥ पद्मनेत्रस्य पुत्रोभूऽत्कुरुकेश्वरनामकः। तस्याभूत्पुण्डरीकाक्षः पुत्रो लोकोत्तरो महान् ॥ ४॥ पुण्डरीकस्यं तस्यासीच्छ्रीनिवास इति श्रुतः॥ श्रीनिवासस्य पुत्रोऽभून्नृसिंहार्य इति श्रुतः ॥५॥ नृसिंहार्यस्य पुत्रोऽभूद्रामानुज इवापरः ॥ तस्य रामानुजार्यस्य नृसिं- हार्योऽभवत्सुतः॥६॥ नृसिंहार्यों महातेजाः सर्वशास्त्रविशारदः ॥ एतुरुनामनगरं स प्राप सुमहायशाः ॥ ७ ॥ तस्मिन्नेटूरुनगरे कञ्चि- कालं समास्थितः ॥ तस्मिन्काले महातेजा विरूपाक्षो महाबलः ।। ॥८॥ शशास राज्यं धर्मेण विजये नगरे नृपः ॥ दृष्ट्वासहिष्णवः सर्वे विरूपाक्षस्य वैभवम् ।। ९॥ ज्ञातयो हिंसितुं यत्नं चक्रिरे वलदर्पिताः॥ विरूपाक्षो विदित्वाथ तेपां तत्कर्म कृत्स्रशः ॥१०॥ देशान्तरमव- स्थाय निर्गत्य नगरादहिः। गूढो रहसि कस्मिंश्चित्कञ्चित्कालं निनाय सः॥१॥ततः संपाद्य महतीं सेनां स चतुरङ्गिणीम् ॥ केनाप्यज्ञात त्तांतो निशीथे सबलो महान् ॥ १२॥ विजयं नगरं प्राप्य विरूपाको नृपोत्तमः ॥ निःशेपं सर्वशत्रूणां वधं चक्रे महाबलः ॥ १३ ॥ विज- याख्ये ततस्तस्मिनगरे पूर्ववत्तदा ॥ राज्यं प्रशास? तस्थौ सर्वलोक- महीपतिः॥ १४॥ निशीथे वान्धवास्सर्वे तेन ये निहता नृपाः॥

अध्यायः १२३. (४७७) पिशाचभूतास्ते सर्वे पुत्रपौत्रादिका जनाः ॥ १५॥ तं नृपं पीडयामा- सुर्विरूपाक्षं दिवानिशम् ॥ विसृज्य राजभवनं विरूपाक्षो महामतिः ॥१६॥ पुनरन्यद्विधायाशु राजवेश्म महाबलः ॥ राज्य प्रशास त- स्थौ तत्र सर्वजनैः सह ॥ १७॥ प्रतिरात्रं पिशाचानां तेषां कोलाह- लो वः॥ प्रलापश्च महांस्तत्र श्रूयते राजवेश्मनि ॥ १८॥ पैशाच्य मोचनार्थाय तेपां राज्ञां महात्मनाम् ॥ कन्यागोभूमिदानानि गृहदा- नान्यनेकशः॥ १९॥ पुण्यवतान्यनेकानि कृतान्यन्यानि यानि च॥ सा तैर्न मोचिता दानोरा पैशाच्यवेदना ॥२०॥ नृसिं- हार्यस्तदा तस्मादेटूरुनगरान्महान् ॥ निर्गत्य निखिलान्देशांश्चरि- स्वा धनकांशया ॥ २१॥ असंप्राप्तधनः प्राप विजयं नगरं प्रति ।। स राजदर्शनाकांक्षी सानुजः शास्त्रवित्तमः ॥ २२॥ रामायणं समा- दाय पूर्वराजगृहं प्रति ॥ ययावज्ञातवृत्तान्तो निशायां वैष्णवोत्तमः ॥२३॥ सानुजः स नृसिंहार्यों रामायणसमन्वितः॥ विवेश राजभ- वनं पिशाचशतसंकुलम् ॥२४॥ पिशाचाः सौम्यरूपेण संहृष्टास्ते- खिलास्तदा ॥ दर्शनाक्षीणकर्माणस्तयोवैष्णवमुख्ययोः ॥२५॥ दृष्ट्वा तौ द्वारपालास्ते हस्तपुस्तकधारिणौ ॥ प्रणम्य मार्ग दत्त्वा ते विनयेन समास्थिताः॥२६॥ तेन संतुष्टहृदयौ राजान्तिकमुपागतौ ॥ प्रणम्य स नृपः शीघ्रं तयोःश्रेष्ठासनं महत् ।।२७॥ कल्पयित्वा यथा- न्यायमरीयत्वा विशेषतः॥ पृष्ट्वा चानामयं सम्यक्संतोपं परमं ययौ ॥२८॥कृत्वाशिपो नृसिंहार्यः सानुजःस नृपाय च।तस्मै प्रष्टः सुतरां निपसादासने तदा ॥२९॥ राज्ञा सञ्चोदितस्तेन मंत्री नावब्रवीत्तदा।। कौ युवां सुमहात्मानौ कस्माद्देशात्समागतौ ॥३०॥ किमिदं पुस्त- कवरं किमागमनकारणम् ।। वदतं नोऽखिलं सर्व श्रोतुं कौतूहलं महत् ॥३१॥ तेनोक्तं भक्तिभावेन श्रुत्वा वचनमादरात् ।। नृसिंहार्यों महा- प्राज्ञः स्ववृत्तान्तं निवेदितुम् ॥३२॥ तस्मै नृपाय सहसा सोनुजं स- (४७८) प्रपन्नामृते- मचोदयत्। भ्रात्रा सञ्चोदितस्तेन नृसिंहार्येण बुद्धिमान ॥३३॥रा- ज्ञोऽभिमुखमागत्य व्याजहार वचः शुभम् ॥ श्रूयतामभिधास्यामि वृत्तान्तं चावयोस्तदा ॥३४॥ एष श्रीमान्महाप्राज्ञः श्रीशैलकुल- भूपणः ॥ सर्वशास्त्रार्थतत्त्वज्ञः सर्वज्ञो वैष्णवोत्तमः ॥ ३५ ॥ महात्मायं नृसिंहार्यः साक्षालक्ष्मीनृसिंहकः॥ रामायणार्थतत्त्वज्ञो- वाल्मीकिर्भगवान्यथा ॥ ३६ ॥ तस्याहमनुजो राजञ्छ्रीरंगाचार्य नामवान् ॥ आवामर्थपरावेतो युष्मदर्शनकाङ्क्षया ॥ ३७ ॥ विजयं नगरं प्राप्य तवांतिकमुपागतौ॥ अद्य रामायणमिदं पुस्तकं शितिनायक ॥ ३८॥ रामाभिषेकपर्यंतमेतद्रामायणं परम् ॥ आ- वाभ्यां शृणु तेनाशु बहुश्रेयो भविष्यति ॥ ३९ ॥ तेन वाक्येन सन्तुष्टः स राजा मन्त्रिभिः सह ॥ पिशाचैर्मत्रयामास तेषां राजा महामतिः॥४०॥ श्रीवैष्णवोत्तमावेतौ महावंशसमुद्भवौ ॥ रामा- यणार्थतत्त्वज्ञौ . रामभक्तौ महौजसौ ॥ ११ ॥ तयोस्संदर्शनादद्य महापैशाच्यवेदना ॥ पिशाचानां निवृत्तासीदस्माकं क्षणमात्रतः ॥ ४२ ॥ क्षुत्पिपासादिभिनित्यं पीडितानां दुरात्मनाम ॥ नरमांसा- शिनां नित्यं घोरकर्मरतात्मनाम् ॥४३॥ अयमेव हि दृष्टान्तो ह्य- स्मत्पैशाच्यमोचने ॥ तस्मादेवश्यं कर्तव्यं श्रवणं तस्य विस्तरा- त् ॥ ४४ ॥ एवं संमंत्र्य निश्चित्य स राजा भक्तिपूर्वकम् ।। प्रणम्य बहुशो भत्त्या वचनं चेदमब्रवीत् ॥ ४५ ॥ यत्कथाश्रवणे- नाय रक्षितव्यास्त्वया वयम् ॥ तत्कथांबहि नो विद्वनक्ष त्वं कृपया- धुना ॥४६॥ नित्यं सायंतने यूयमत्रागत्य कथामिमाम् ॥ प्रवत याममा. नो भवदाराधनाय हि ॥ ४७ ॥ दिनेदिने प्रदास्यामो दीनारद्वयमादरात्॥ एतदृत्तान्तलेशोपि न प्रकाश्यः कदाचन।॥४८॥ प्रकाशितश्चेद्भवतां विरोधो जायते च नः॥ विशेपतःप्रदास्यामः तत्स- माप्तिदिने धनम् ॥४९॥ नृसिंहार्यः स तच्छुत्वा वचनं च यवीयसा ॥ संमंत्र्य तत्तथा चक्रे नित्यं रामकथाप्रियः॥ ५० ॥ तदारभ्य प्रति:

अध्यायः १२४.. (४७९) दिन रात्री रामायणं महत् ॥ सानुजः स नृसिंहार्यो याममात्रमबो- धयत् ॥५१॥ तस्मै सपरिवाराय नृपाय नृपमन्दिरे ॥ न कश्चि दपि तद्वेदं तवत्यो वापरस्तदा ॥ गमनागमने तत्र तयोः श्रीरामभ- क्तयोः ॥५२॥ इति श्रीप्रपन्नामृते यतीन्द्रज्ञानपुत्रकुरुकेशवंशप्रशंसा- यां विजयनगरे पिशाचेभ्यो रामायणकथोपदेशो नाम प्रयोविंशत्य- धिकशततमोऽध्यायः॥ १२३॥ चतुर्विंशत्यधिकशततमोऽध्यायः । ततः कतिपयाहस्सु गतेषु तदनंतरम् ॥ तस्य रामाभिषेकस्य स- मयस्समवर्तत ॥ १ ॥ रामाभिषेकदिवसात्पूर्वस्मिन्वासरे तदा ॥ नृसिंहार्यो महातेजास्सानुजो निशि सत्तमः ॥ २॥ पिशाचनृपति रामभक्त वाक्यमथाब्रवीत् ॥ रामायणकथा सर्वा भवद्भ्यः कथिता मया ॥३॥ अभिपेके तु रामस्य श्वोभाविनि नृपोत्तम ॥ महोत्स- वस्तु कर्तव्यस्तस्मिन्काले जगत्पतेः ॥ ४॥ श्रेयांस्येतेन सर्वाणि संभविष्यति वो ध्रुवम् ॥ तस्य तद्वचनं श्रुत्वा स राजा मंत्रिभिस्सह ॥५॥ संमंत्र्य वैष्णवश्रेष्टमिदं वचनमब्रवीत् ॥ रामाभिषेको भगव- छोभावी यदि सुव्रत ॥६॥ कृतार्थः सर्वपापेभ्यो मोचितोस्मि न संशयः एते मत्सेवकास्सर्वे कृतार्थास्सुतरां तथा||७ात्वत्तो रामका पुण्यां दिव्यां श्रुत्वा वयं गुरो ।। सर्वपापैर्विनिर्मुक्ता यास्यामो वैष्णवं पदम् ॥८॥अब रामाभिषेकस्य यत्किंचिद्रव्यमुत्तमम्।।दास्यामस्तद्- हाणार्य नृसिंहगुरुपुंगव ।। ९॥ एतेन संग्रहेणात्र तदीयाराधनं कुरु ।। युष्मद्रामे विशेपेण भविष्यति महोत्सवः ॥१०॥पट्टाभिषेकोरामस्य वो निशायां किलोत्तमदास्यामो हि धनं सर्व वयं भूरि न संशयः॥१॥ तेन वाक्येन सन्तुष्टो नृकण्ठीरवदेशिकः ॥ आशिपः संप्रयुज्याशु तेभ्यः प्रेम्णा यवीयसा ॥ १२ ॥ स तद्धनं समादाय प्रष्टः सुतरां तदा । स्वस्थानं प्राप्य सुष्वाप सानुजः स महामतिः ॥ १३॥ त- (४८०) प्रपन्नामृते- स्यां रान्यां व्यतीतायां कृतपौर्वाङ्गिकक्रियः ॥ अर्चायां रामचन्द्रस्य कृत्वा रामाभिषेचनम् ॥ १४ ॥ अष्टोत्तरशतैर्दिव्यः श्रीमञ्छ्रीरामना- मभिः॥ अर्चयित्वा यथान्याय्यं नैवयं तु समर्प्य च ॥ १५॥ स्वयं च बुभुजे श्रीमान्कतिभिर्वैष्णवैः समम् ॥ ततः सायंतनं तत्त- कर्म कृत्वा यथोचितम् ॥ १६॥ निशायां सानुजस्तत्र विवेश सुम- हायशाः॥ ते सर्वे वैष्णवं दृष्ट्वा पिशाचास्तं मुदान्विताः॥ १७॥ पू- जां चक्रुर्यथापूर्व प्रत्युत्थानाभिवादनः ॥ भद्रासने सुखासीनो वैष्णवो वीतकल्मपः॥१८॥ पट्टाभिपेकसगै च कथयामास शास्त्रवित् ॥ मु- खावलोकने सक्ता वाचकस्य मुदान्विताः ॥ १९ ॥रामाभिषेकं शृ. ण्वन्तो भत्त्या सर्वे समास्थिताः ॥रामाभिषेकं श्रुत्वा ते हर्षनिर्भर- मानसाः॥२०॥ पूजां पौराणिकस्याथ चक्रुः सर्वे महात्मनः ॥ अने क्शतसाहस्रदीनारान्भूपणैस्सह ॥२३॥अमूल्यानि च रत्नानि राज- भोग्यानि यानि च।तानि सर्वाणि दत्त्वाशु संप्रणम्य पुनःपुनः॥२२॥ नृसिंहाचार्यवर्याय सानुजाय महात्मने ॥ बद्धांजलिपुटास्सर्वे वचनं तमथात्रुवन् ॥ २३॥ भवन्तौ लोकविख्यातौ सर्वज्ञौ शास्त्रवित्तमौ ॥ अवतीर्णाविहांशेन साक्षाद्भगवतो हरेंः॥२४॥ मादृशानां रक्षणार्थ पापकर्मरतात्मनाम् ॥ वयंयुष्मत्कटाक्षेण विमुक्ताः कर्मबन्धनैः॥२६॥ यास्यामो ह्यधुनेवाशु तद्विष्णोः परमं पदम् ॥ अस्माकं सर्ववृत्तान्तं वक्ष्यामः श्रूयतामिदम् ॥ अस्मवृत्तान्तकथनं मा भयं कुरुतं युवाम् ॥२६॥ विरूपाक्षस्य नृपतेस्ते सर्वे ज्ञतयो वयम् ॥ व्याजेन के- नचिद्राज्ञः निशीथे राज्यकांक्षया ॥२७॥ विरूपाक्षेण निहताः सुषु. प्तिसमये वयम् ॥ तेन प्राप्ताः स्म पैशाच्यं सर्वे सपरिवारकाः॥२८॥ अस्मद्भयाद्विरूपाक्षो तदिदं भवनं जावत् ॥ विहाय चान्यभवनं विवे- शस महीपतिः ॥२९॥ अस्मदर्थमनेकानि धर्माणि विविधानि च। विरूपाक्षेण भूपेन भत्त्या तेन महात्मक॥३०॥ कृतानि तेन पै- शाच्यं निवृत्तं. नाभवत्तदा ॥ युवाभ्यां रामभक्ताभ्यां पैशाच्यमातदुः- अध्यायः १२५. (४८१) सहम् ॥३१ ॥ विनिवृत्तं तदस्माकं सांप्रतं घोरकर्मणाम् ॥ यु- मन्मुखाजनिष्यन्ददिव्यरामकथामृतैः॥३२॥परितृप्ता वयं सर्वे भवा- मोधन संशयः।। सान्तानिकलोकमद्य गन्तुकामा वयं स्थिताः॥३३॥ अनुज्ञां देहि नो ब्रह्मन्सर्वेपामाशु सांप्रतम् ॥ विमानवृन्दमा- काशे दृश्यते सूर्यसंनिभम् ॥ ३४ ॥ इतोऽविदूरे सान्तानलोकादद्या- गतं शुभम् ॥ पिशाचेष्वित्युक्तवत्सु स गुरुस्सानुजस्तदा ।। ३५ ॥ तेभ्यो मन्त्राक्षतान्दत्त्वा स्वाशीःकरणपूर्वकम् ॥ अनुज्ञां प्रददौ शीघ्र तेषां मुक्त्यै कृपानिधिः ॥ ३६॥ ततस्तु पश्यतोस्सर्वे ते पिशाचा जवात्तयोः ॥ विहाय देहान्पैशाचान्दिव्यदेवधरास्तदा ॥३७॥ दिव्यं विमानमारुह्य सूर्याग्निसमवर्चसः ॥ सान्तानलोकं सहसा जग्मुस्सर्वे सनातनम् ॥ ३८ ॥ अद्भुतं तत्समालोक्य विस्मयं परमं गतौ ॥ तै- दत्तं विवुधश्रेष्ठौ सर्वं संगृह्य तद्धनम् ॥ ३९ केनाप्यज्ञातवृत्तान्तौ स्वावासं प्राप्य सत्वरम् ॥ रामायणं वहुविधं श्लाघयन्तौ परस्परम् ॥४०॥ धनलाभात्सुसंतुष्टौ सुखं निद्रामवापतुः। ततः स्वग्रामगमने यतमानौ महामती।समीचीनसहायं च वीक्षमाणौ तदा स्थितौ॥४१॥ इति श्रीप्रपन्नामृते श्रीशैलनृसिंहाच्छ्रिीरामायणश्रवणेन पिशाचानां सान्तानिकलोकप्राप्तिीम चतुर्विशत्यधिकशततमोऽध्यायः॥१२४॥ पञ्चविंशत्यधिकशततमोऽध्यायः। ततः पौरजनास्तस्य समीपगृहवासिनः ॥ केचिद्राजगृहं प्राप्य तं विरूपाक्षमत्रुवन् ॥ १॥ संजातं किञ्चिदाश्चर्य पट्टणेस्मिन्नृपाद्य नः ॥ पूर्वराजगृहे राजन् पिशाचानामहर्निशम् ॥ २॥ श्रूयते स्मत घोराणां नित्यं कोलाहलोखः। स महाञ्छ्यते नाव किमाश्चर्य विचार्यताम् ॥ ३॥ पौराणां वचनं श्रुत्वा विरूपाक्षो महामतिः॥ आश्चर्य परमं प्राप्य तानवाच महीपतिः ॥४॥ विमोचितमिदं तेपां पैशाच्यं केन हेतुना ॥ एतद्विमोचनार्थाय धर्माश्च वहवः कृताः ॥५॥ . २१ (१८२) प्रश्नामृते- न तैर्विमोचितं तेपां पैशाच्य दुर्जरं महत् ॥ इदानी मोचितं तेपा पैशाच्यं केन हेतुना ॥६॥ सम्यग्विचारितव्यं हि चित्रमेतज- वाटुवम् ॥ इत्युक्त्वासौ विरूपानः पौरैस्सह विनिर्गतः॥७॥ पूर्वराज- गृहं प्राप्य तत्पिशाचालयं तदा ॥ अद्राक्षीत्पदविन्यासं तयोः पुरुष- वर्ययोः ॥८॥ विलोक्य तत्पदन्यासं विरूपाक्षोऽब्रवीद्वचःयौ कौ वाय महात्मानावागतौ सुमहत्तरौ ॥९॥ ताभ्यां विमोचितं तेषां पैशाच्यं नात्र संशयः ॥ अन्वेष्य तौ ग्रहीतव्यौ सत्वरं पुरुपर्पभौ॥१०॥ केनो- पायेन तौ दृश्यौ महात्मानौ ममाधुना ॥ इति सचित्य राजेंद्रो विरू- पाक्षो महामतिः॥११॥ मिमाय रज्जुना सम्यक्तत्पादायामविस्तृतिम्।। सम्यग्गृहीत्वा तां रज्जु सेनाध्यक्षमुवाच सः ॥ १२॥ सेनाध्यक्ष महाप्राज्ञ रज्जुमेतां गृहाण भोः ॥ एतद्रज्जुप्रमाणानि रज्जुदानि सत्वरम् ॥ १३॥ नगरद्वारपालेभ्यः सर्वेभ्यस्तानि सैन्यप ॥ दत्त्वा- स्मिन्नगरे ताभी रज्जुभिस्सुमहात्मनाम्॥१४॥गतागतानां सर्वेपां सतां चैवासतामपि ॥ प्रमाणं मातुमंत्रीणां शासनं कुरु सत्वरम् ॥ १९॥ तद्रज्जुमानौ यत्पादौ भवितारौ तदा ध्रुवम् ॥ तमानयस्व पुरुपं सादरं मम सन्निधिम् ॥ १६॥ सोंगीकृत्य वचस्तस्य सेनाध्यक्षो महामतिः॥ आज्ञाप्रसारमकरोदहोरात्रमचञ्चलः ॥ १७॥ अखि लश्चैप वृत्तांतः सम्यग्विश्रावितो महान् ॥ तस्मिन्पुरवरे रात्रौ चित्रं चाखिलभूमिपु ॥ १८॥ तावचिन्तयतां श्रुत्वा स्ववृत्तांतं महामती ।। साक्षादयं विरूपाक्षो विरूपाक्षो न संशयः॥ १९॥ सुतरां वैष्णवद्वेपी तीक्ष्णदण्डो महाबलः॥ न जानीमो गृहीत्वाऽस्मान् किं करिष्यत्य- यं खलः ॥ वर्ततेऽस्मद्वशे सर्व राजद्रव्यं महत्किल ॥२०॥ अद्यानेन पुरेस्माकमत्र स्थातुमसांप्रतम् ॥ स्वग्राम प्रति गन्तव्यमधुनैव विधा-- नतः ॥ २१ ॥ पूर्वद्वारेषु सर्वेषु वर्तते राजविड्वरम् ॥ अलक्ष्यमाणी केनापि यास्यामः कथमनसा ॥ २२॥ स एव रक्षकोऽस्माकं .

अध्यायः १२५. (४८३) श्रीरामो भगवान्हरिः।। इति संचित्य बहुशस्तावुभौ वैष्णवौ तदा॥२३॥ संन्यस्तभारौ श्रीरामे पुरान्निर्ययतार्नशि ॥तौ दृष्ट्वा राजपुरुपाः पुरद्वारे द्विजोत्तमौ ॥ २४ ॥ तया रज्वाशु तत्पादौ मिमाय प्रीतिमागमन् ॥ तावेव मत्वा तौशीघ्रं गृहीत्वा राजसेवकाः ॥ २५॥ विरूपाक्षाय महते चार्पयामासुरादरात् ॥ विरूपाक्षनृपो भक्त्या दृष्ट्वा तौ स द्विजोत्तमौ ॥२६॥ प्रणिपत्य प्रसन्नात्मा वचनं चेदमब्रवीत् ॥ को युवां देवशंकाशौ वेदनौ वैष्णवोत्तमौ ॥ २७ ॥ किमर्थ सर्वशास्त्रज्ञौ कस्माद्देशादिहागतौ ॥ पूर्वराजगृहं कस्मात्प्रविष्ट प्रेतसंकुलम् ॥ २८ ॥ यत्कार्य तत्र सञ्जातं भवदागमनान्महत ॥ तत्सर्व वदतं सत्यं मा भयं भवतोर्बुवम् ॥ २९ ॥ इत्युक्तस्तेन भूपेन नृसिंहगुरु- पुंगवः ॥ संप्रष्टोऽब्रवीद्वाक्यं गतभीस्तं महीपतिम् ॥३०॥ श्रूयतामभिधास्यामि विरूपाक्ष महीपते ॥ वृत्तान्तमेतत्सकलं पवित्रं पापनाशनम् ॥३१॥ पुरा यमाह तातेति भगवान्वेंकटेश्वरः॥श्रीम- द्रामायणस्यार्थीश्चतुर्विशतिवर्मना ॥ ३२ ॥ महते भाष्यकाराय य- तिराजाय योऽदिशत् ॥ भूरिश्रीशैलपूर्णस्य तस्य वंशे महात्मनः ॥ ॥३॥सञ्जातोहं महाभाग सर्वलोकैकविश्रुते ॥ नृसिंहार्य इति ख्यातः सर्वशास्त्रविशारदः॥ ३४॥ रामभक्तो विशेपेण नित्यं रामकथाप्रियः॥ ममानुजोयं मतिमाञ्च्छीरंगाचार्यनामकः ॥ ३५॥ सर्वशास्त्रविदां श्रेष्ठः सर्वज्ञः साधुसत्तमः ॥ अवेहि तदिदं राजञ्च्छ्रीरामायणपुस्तक- म् ॥ ३६॥ एटूरुनगरस्थोहं दरिदो वेदपारगः॥ सोहं यवीयसानेन सहितो धनकांक्षया ॥३७॥ तदिदं नगरश्रेष्ठं विजयाख्यं समागतः॥ कदाचिद्रात्रिवेलायामज्ञानेन महोच्छ्यम् ॥३८॥ तद्राजभवनं दिव्यं संप्राप्तोभवमादरातातिव्रत्यास्ते मया दृष्टाः पिशाचा राजसत्तम।॥३९॥ राजमन्त्रिप्रधानादिरूपेण नरमूर्तयः ॥ ते सर्वे प्रीतिसंयुक्ताः पूजां च- कुर्यथाविधि ॥४०॥ मम तत्र प्रविष्टस्य सानुजस्य महीपते ॥ ममै- (४८४) प्रपन्नामृते- तं सर्ववृत्तान्तं श्रुत्वा ते मन्मुखात्तदा ॥४१॥ मामवोचन्महीपाल भत्त्या शुभतरं वचः॥ यूयमत्र निशाकाले समागत्य दिनेदिन॥४२॥ बेत रामायणं निष्कं दास्यामो भवतां ध्रुवम् ॥ एतदृत्तान्तलेशोपि न- प्रकाश्यः कदाचन ॥४३॥ द्रव्यलोभानुपास्माभिर्यथोक्तं तत्तथा कृतम् ॥ एवं नीतास्त्रयो मासाः श्रीरामकथया नृप॥४४॥ पट्टाभिपे- कसमये तैर्दत्तो द्रव्यसञ्चयः॥ आवयोः पश्यतोस्सर्वे पिशाचास्ते नृ- पोत्तम ॥ ४५ ॥ ततः संत्यज्य पैशाच शरीराणिजवात्तदा ॥ अनुज्ञा- ता मया सर्वे दिव्यरूपधरास्तदा ॥४६॥ दिव्यं विमानमारूढा वि- चित्रं मयि पश्यति ॥ सान्तानलोकमुदिश्य ते गता राजसत्तम ॥ ४७ ॥ इदं सत्यमिदं सत्यं मयैवोक्तं नृपोत्तम ॥ तैर्दत्तं द्रव्यसद्धातं पश्यैतं नृप भूपणम् ॥ ४८ ॥ इत्युक्त्वा देशिकश्रे- ठो नृसिंहार्यों महामतिः ॥ विरूपाक्षय भूपाय दर्शयामास तद्धनम् ॥ ॥४९॥ विलोक्य तद्धनं सर्वमनर्घ राजभूपणम् ॥ विस्मयं परमं गत्वा विरूपाक्षो मुमोद ह ॥५०॥ रामायणे रामभद्रे नृसिंहगुरुपुङ्गवे । आ- चार्यदेवप्रामाण्यभावं चके महामतिः ॥५१॥ मन्त्रे तदेवतायाञ्च त- था मंत्रप्रदे गुरौ । त्रिषु भक्तिस्सदा कार्या सा हि प्रथमसाधनम्।।१२।। एवं भक्तिः सुसंजाता विरूपाक्षमहीपतेः । तत्रत्यानां च सर्वेपां विचि- त्रा तुन्नृणां सदा ॥५३॥ विरूपाक्षस्ततो धीमान्वीरशैवमतोऽपि सः।। श्रीशैलवंशसम्भूतौ ज्ञात्वा तौ रामलक्ष्मणौ ॥५४॥ पुत्रमित्रकलना- दिसहितश्च सनागरः ॥ श्रीशैलवंशतिलकानृसिंहायज्जगद्गुरोः॥५५॥ पञ्चसंस्कारसंपन्नो बभूव सुमहायशाः ॥ श्रुत्वा रामायणं सर्व नृसिं- हार्यावरूत्तमात् ॥५६॥रामभक्तो विरूपाक्षः कृतकृत्यो मुमोद ह ।। पट्टाभिपेकसमये नृसिंहगुरवे मुदा ॥१७॥ स्वाभिपकमकरोद्भक्त्या पार्थिवसत्तमः॥ नृसिंहार्यस्ततस्तेन संतुष्टः सानुजस्तदा ॥१८॥ तत्रैव राजनिकटे सदारः सुखमास्थितः॥ श्रीवैष्णवे विरूपाक्षे प्रशासति महीमिमाम् ॥ ५९॥ आसञ्च्छीवैष्णवास्सवें यथा राजा तथा प्र.

अध्यायः १२६. (४८५) जाः॥ विरूपाक्षाभिधां मुद्रां विरूपाक्षो विहाय च ॥ ६ ॥ राजांगुलीये श्रीराममुद्रां दृढतरां व्यधात् ॥ श्रीराममुद्रा सर्वत्र तदा- प्रभृति विश्रुता ॥ ६१ ॥ विरूपाक्षनृपात्पूर्वे शैवास्सर्वेभवन्नृपाः ॥ तत्पश्चाचाभवन्सर्वे विख्याता वैष्णवा नृपाः ॥ ६२ ॥ एवं नृसिंह- गुरुराडिह सर्वलोकानामानुजार्यपदपंकजभृगराजान् ॥ कुर्वनिरंतरम- नुष्टितलोकरक्षस्तस्थौ सुखेन विजये नगरे जितारिः॥६॥इतिश्रीप्रप- नामृते श्रीशैलनृसिंहार्यविरूपाक्षराजसंवादे विरूपाक्षनृपाय श्रीरामाय- यणोपदेशो नाम पंचविंशत्यधिकशततमोऽध्यायः ॥ १२५ ॥ पड्रिंशत्यधिकशततमोऽध्यायः। नृसिंहार्यस्य पुत्रोभूत्तातार्य इति विश्रुतः॥ श्रीशैलपूर्णनामाभूत्ताता- यस्यात्मजो महान् ॥ १ ॥ तस्याभूच्छीनिवासार्यस्तस्यश्रीतातदे- शिकः ॥ तस्याऽभवद्वेङ्कटार्यस्तस्य सुन्दरदेशिकः ॥ पुत्रः श्रीसुंदरा- यस्य श्रीनिवासाभिधो गुरुः ॥ २ ॥ श्रीनिवासगुरोः पुत्रस्तातार्यों लोकविश्रुतः॥स तातदेशिकः श्रीमान्महात्मा शास्त्रवित्तमः ॥३॥ ग्रन्थं विधाय विख्यातं यः पञ्चमतभञ्जनम् ॥ विख्यातस्सर्वलोकेषु महात्मा विबुधाग्रणीः ॥ महांस्तद्विपयः श्लोको गीयते लोक- विश्रुतः॥४॥ शुकतातं त्रयीमार्गे तत्तातं तत्त्वनिर्णये ॥ तत्ताततात- माचारे तांताचार्यमहं भजे ॥५॥ श्रीरामदेवराजाख्यः कृष्णरायादनं- तरम् ॥ ६॥ शशास राज्यं धर्मेण गुरुभक्तिपरायणः॥ स भूपतिर्म- हातेजा ययौ चन्द्रगिरि प्रति ॥७॥ गुरुं तातार्यमादाय रामरायाभिध- स्तदा । तस्मिन्काले महाचार्यः सर्वशास्त्रविदां वरः॥८॥अवर्तता- प्रतिद्वन्द्रो वाधूलो घटिकाचले ॥ खिलीकृतं चित्रकूटं कृमिकण्ठेन यत्पुरा ॥९॥ प्रतिष्ठापयितुं सम्यक्तदा मेने महागुरुः ॥ रामरायस- हायेन महाचार्यों महायशाः॥१०॥ दुर्जयानपि निर्जित्य शैवाञ्छा-

(४८६)
प्रपन्नामृते-
स्त्रविदुत्तमः ।। स सम्यक् स्थापयामास गोविन्दं चित्रकूटके ॥११॥
गोविन्दराजो भगवान्महाचार्यः प्रतिष्ठितः॥ महोच्छ्रायश्चित्रकूटे चा-
द्यापि परिदृश्यते ॥१२॥शैवशास्त्रविदां श्रेष्ठो धीमानप्पय्यदीक्षितः।।
चित्रकूटे जितारातिरशोभत महायशाः ॥ १३ ॥ अद्वैतदीपिकाभिख्यं
ग्रन्थमप्पय्यदीक्षितः॥ चकार भगवद्देपी शैवधर्मरतः सदा ॥ १४॥
महाचार्यः स तां श्रुत्वा तस्याः प्रतिमदं तदा ॥ चण्डमारुतनामानं
विदधे ग्रन्थमुत्तमम् ॥ १५ ॥ अद्वैतदीपिकानाशस्ततोभूचंडमारु-
तात् ॥ प्रचण्डमारुते दीपप्रकाशः स्यात्कथं भुवि ॥ १६ ॥ विधाय
तातयाचार्यस्तत्पञ्चमतभञ्जनम् ॥ श्रीरामानुजसिद्धान्तमव्याहतमपा-
लयत् ॥ १७ ॥ महाचार्यों महातेजाः स कृत्वा चंडमारुतम् ॥
अव्याहतं यतीन्द्रस्य तं सिद्धान्तमपालयत् ॥ १८ ॥ तत्र संवर्धित
सम्यक्च्छीरामानुजदर्शनम् ॥ आचंद्रतारकं भूम्यामवर्धत सुविस्त-
रंम् ॥ १९ ॥ तातार्यों वृपशैलेन्द्रे नित्यवासपरस्तदा ॥ कञ्चित्काल
मुवासार्यः कुर्वन्कैंकर्यमन्वहम् ॥ २० ॥ महते वेंकटेशाय शेपशैल-
*निवासिने ॥ तातार्यस्याभवत्पुत्रः सुमुहूर्ते महायशाः॥ २१॥ कश्चि-
दत्यन्ततेजस्वी श्रीनिवास इवापरः।। कुमारतातयाचार्यनामाभूत्तस्य
विश्रुतम् ॥ २२ ॥ पित्रोरानंददः श्रीमान्सर्वेपां नयनप्रियः॥ बालो
निरामयः श्रीमानन्दवयमवर्तत ॥ २३॥ मान्यरोगो महानासीद्रा-
लस्यामिततेजसः । तेन संपीडितो नित्यं बालस्तातार्यनन्दनः ।
॥ २४ ॥ आमयेनैव महता प्रपेदे प्राणसंशयम् ॥ जितनिद्रो जिता-
हारः सदारस्तातदेशिकः ॥ २५॥ तेनैकवासरं तस्थौ सर्वबन्धुजनैः
सह ॥ अत्रान्तरे महालक्ष्मीः कृपयैवागता तदा ॥ २६ ॥
सर्वेषां पश्यतां सम्यग्जगन्मातारुणोदये ॥ अङ्गमारोप्य तं वालं
स्तन्यं दत्त्वाखिलार्थदम् ॥ २७ ॥ आपादमस्तकं तस्य लक्ष्मीः
पस्पर्श पाणिना ॥ एवं हि वालकस्याशु रक्षां कृत्वा रमा तदा ॥२८॥

ते अध्यायः १२६. (४८७) अंतर्धानं गता देवी सर्वेषां पश्यतां तदा ॥ तदद्भुततमं दृष्ट्वा सर्वे विस्मयं गताः ॥ २९ ॥ ततः स वालो वेगेन स्तन्यपा- नप्रभावतः ॥ निरामयो महातेजा ववृधे बालभानुवत् ॥ ३० ॥ कुमारताताचार्यस्य तस्य त्रैलोक्यविश्रुतम् ॥ लक्ष्मीकुमारतातार्य- नामाभूत्तेन भूतले ॥ ३१ ॥ कृतोपनयनः पित्रा ब्रह्मचर्यपरायणः ॥ जग्राह चतुरो वेदान्वेदांगानि च बुद्धिमान ॥३२॥ कृतोद्धाहो महा- तेजाः सर्वशास्त्राण्यधीतवान् । वेदान्तद्वयमभ्यस्य जनकात्तातदेशि कात् ॥ ३३॥ लक्ष्मीकुमारतातायों यतीन्द्रविजयध्वजः॥ अशोभत जितारातिः श्रीशैलकुलभूपणः ॥३४॥ देवराजस्य कैय कर्तुकामो महायशाः॥ लक्ष्मीकुमारतातार्यः पुरीं काञ्चीमवाप सः ॥ ३५ ॥ कर्तुकामोथ कैकय वरदस्याखिलं महत् ॥ जगाम शरणं भक्त्या देवीं वरदवल्लभाम् ॥ ३६ ॥ पुरा रामानुजः कश्चिद्विवुधः पादजो महान् ॥ रामभक्तो महातेजाः साकेतनगरं ययौ ॥ ३७ ॥ संसेव्य राघवं तत्र सीतालक्ष्मणसंयुतम् ।। रामरत्नत्रयं प्राप श्रीराघवकटा- क्षतः ॥ ३८॥ प्रददौ भक्तिभावेन स तदननयं महत् ॥ वेंकटेशाय वरदराजायाथ च रंगिणे ॥ ३९ ॥ लक्ष्मीकुमारताताय ददौ वरद- वल्लभा ।। श्रीरामरत्नं कृपया स्यमन्तकनिभं हि तत् ॥ ४० ॥ श्रीरामरत्नं संप्रॉप्य देव्याः श्रीतातदेशिकः ॥ कोटिकन्याप्रदाने हि संकल्पं विदधे तदा ॥ ११॥ सर्व यतींद्रसिद्धान्तं तातार्यों जनका- तदा ॥ संप्राप्य भाष्यकारेथ दृढभक्तिस्ततोऽभवत् ॥ ४२ ॥ सर्व यतीन्द्रसिद्धान्तं लोके सम्यक्प्रकाशयन् ॥ कांच्यामुवास तातार्य्यः शिष्यसंघसमावृतः ॥ ४३ ॥राजासीत्सर्वदेशस्य रामरायादनन्त- रम् ॥श्रीवेङ्कटपति म महात्मा भगवत्परः॥४४॥ लक्ष्मीकुमार- तातार्य महात्मानमशिश्रियत् ॥ स महान् वेंकटपतिरायः श्रीमान महायशाः ॥ ४५ ॥ तद्राज्यं देशिकाधीनं विधाय गुरुभक्तिमान् ॥

(१८८) प्रपन्नामृते- गुरुकैङ्क-नरतः कुलशेखरवत्स्थितः ॥४६॥ आक्रान्तवेङ्कटपति- रायः श्रीतातदेशिकः ॥ यतीन्द्राभिमुखं सम्यक् स चकाराखिलं जगत् ॥४७॥ सर्वेपामेव दानानां मुख्यानि त्रीणि भूतले ॥ वदन्ति मुनयः सर्वे कन्या पृथ्वी सरस्वती ॥४८॥ तन्मध्ये सुमहत्कन्या- दानं विष्णुप्रियं परम् ॥ इति मत्वाथ तातार्य्यः कन्यादाने करोन्म- तिम्॥१९॥ नावैष्णवो दानपात्रमिति मत्वाखिलार्थवित् ॥ वैष्ण- वायैव तदानमदिशत्स दृढव्रतः॥ ५० ॥ तेनैव हेतुना सर्वे बभूवु- वैष्णवा जनाः ॥ कोटिकन्याप्रदानेन श्रीवैष्णवमयं जगत् ॥ ५१ ॥ सवै चकार तातार्यस्तदद्भुतमिवाभवत् ॥ देवराजस्य कैंकर्ये तस्थौ तत्र महायशाः॥५२॥ लक्ष्मीकुमारतातस्य तनयः समजायत । वेङ्कटोपपदोदंचदरदाय्र्यों महायशाः॥ ५३ ॥ स निग्रहानुग्रहयोः कर्त्तासीदेशिकोत्तमः॥ कोटिकन्याप्रदानस्य यत्किंचिन्यूनताभवत ॥५४॥ तत्सम्यगकरोत्पूर्णमुदारः पितृभक्तिमान् ॥ तस्य विष्ण्ववता- रस्य वरदार्यस्य धीमतः॥९॥ भाास्तिस्रो महाभागाः श्रीभूनीला इवाभवन् । तासु संजज्ञिरे पुत्रा वरदार्यान्महौजसः ॥५६॥विष्णुभ- क्तिरताःशान्ता बहवो वेदपारगाः॥श्रीमन्तः कीर्तिमन्तश्च सर्वेसजनसं- मताः ॥१७॥सर्वशास्त्रार्थतत्त्वज्ञा वेदान्तद्वयपालकाः ॥ सर्वे यती- न्द्रसिद्धान्तवर्द्धका वंशवईकाः॥५८ ॥ तन्मध्ये रंगनाथार्यों महा- त्मा भगवत्परः ॥ वेदान्तद्वयतत्त्वज्ञः शान्तिमाञ्छ्तिवत्सलः ॥५९॥ जयत्यव्याहतैश्वर्यः पुत्रपौत्रैर्महायशाः॥ श्रीमद्यतीन्द्रसिद्धान्तनिर्वा- ढासीत्ततो भुवि ॥६०॥ तस्यासन्यहवः शिष्या देशेषु निखिले- प्वपि ॥ गुरुभक्तिरताः शान्ता वेदान्तद्वयपारगाः॥६३ ॥ तन्मध्ये वैष्णवः कश्चिदनंतार्य इति श्रुतः।।आंध्रपूर्णकुलोत्पन्नो वभूव गुरुभक्ति- मान् ॥ ६२॥ यतीन्द्रकृपया तेन कृतमेतदनुत्तमम् ॥ यत्प्रपन्नामृतं श्रीमद्भगनाथार्यशासनात् ।। ६३ ॥ एवं महात्मा यतिचक्रवर्ती अध्यायः १२६. (४८९) पीठेश्चतुःसप्ततिभिस्सशिष्यैः ॥ संवर्द्धयन्विष्णुमतं जगत्यामुवास सर्वत्र च भूतपुर्याम् ॥ ६४॥ अर्चावतारान्सुबहून्विधाय कृपया गुरुः॥ विष्णुस्थानेषु सर्वेषु पुंसःपुंसो गृहेगृहे ॥६५॥ शठारिणा गोदया च पालयन्पृथिवीमिमाम् ॥ आचन्द्राकै जितारातिर्भूम्यां सर्वत्र दृश्यते ॥६६॥ भूतपु- विशेपेण यतीन्द्रः सर्ववैभवैः ॥ लोकसंरक्षकः श्रीमानद्यापि परिदृश्यते ॥ ६७ ॥ सत्यमव्याहतं नित्यं निस्तुलं चोत्तमोत्तमम् ॥ श्रीरामानुजसिद्धान्तं सर्वमोकसा- धनम् ॥ ६८ ॥ यो वेत्ति मनुजो लोके मुक्तिभाक्स नरो भवेत् ॥ संम्यगात्महितो गूढः सर्वदो मोक्षसाधकः ॥ ६९ ॥ य एव चरमो- पायः पापिनामपि मुक्तिदः ।। श्रीरामानुजसिद्धान्त एप एव न संशयः ॥७०॥ यतीन्द्रपूजनं नित्यं कुर्वस्तद्भक्तितो वसेत् ॥ पठन्प्रपन्नगा-. यत्री यतीन्द्रविपयां शुभाम ॥७१ ॥ तत्कैंकर्यपरः सम्यकालं व्यप- नयंस्तदा ।। यतीन्द्रपूजनात्सयो नरो निष्कल्मपो भवेत् ॥ ७२ ॥ तस्मात्प्रपन्नगायत्री भक्त्या पठति यः पुमान ॥ सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ।। ७३ ॥ कापि प्रपन्नगायत्र्याः पाठको दुर्लभो भुवि ।। तस्मात्प्रपन्नगायत्र्याः पारायणमतंद्रितः ।। ७४ ॥ कर्तव्यं वैष्णवैर्नित्यं यावज्जीव मुमुक्षुभिः ।। श्रीरंगार्यकृतां दिव्यां यतीन्द्र- विपयां शुभाम् ॥ ७॥ प्रतिपद्यमहादिव्यरामानुजपदाङ्किताम् ॥ अष्टोत्तरशतैः पद्यैः सहितां संहितां पराम् ।। ७६ ।। सर्वप्रारब्धसं- ही मोक्षदानैकपत्रिकाम ॥ वेदान्तसारां महती निस्तुलां निखिला- र्थदाम् ॥ ७७॥ एतां प्रपन्नगायत्री भक्त्या पठति यः पुमान् ॥ सर्व- पापविनिर्मक्तो याति विष्णोः परं पदम् ॥ ७८ ।। मोक्षकसाधनं हृद्यं पञ्चरत्नविराजितम्।।सुकरं पञ्चमोपायतत्त्वार्थप्रतिपादकम् ॥७९॥ अखिलार्थप्रदं सिद्धं प्रपन्नामृतमुत्तमम् ॥ सम्यग्यो वेत्ति मनुजः स एव भुवि वैष्णवः ॥ ८० ॥ स्वाचार्यों वरयोगीन्द्रो यतीन्द्रश- (४९०) प्रपन्नामृतम् । ठजिद्धारः ॥ एते ते पञ्चरत्नानीत्येवमाहुर्विपश्चितः ॥ ८१ ॥ लक्ष्मीनाथं समारभ्य स्वाचार्यान्तं समागतम् ॥ सत्यमव्याहतं नित्यं सम्यङ्मोक्षैकसाधनम् ॥ ८२॥॥ एतं यतीन्द्रसिद्धान्तं सर्ववेदान्त- निश्चितम् ॥ तथ्यं मत्वा यतीन्द्रस्य शिष्यो भवति चेन्नरः ॥ ८३॥ तत्क्षणे निखिलैः पापैर्मुच्यते नात्र संशयः॥ शृण्वतां पठतां चैतत्प्र- पन्नामृतमुत्तमम् ॥ ८४॥ यतीन्द्रो महतां तेषां प्रसन्नो भवति ध्वम् । य इदं शृणुयान्नित्यं प्रपन्नामृतमुत्तमम् ।। ८५ ॥ सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ॥ आरोग्यकामो ह्यारोग्यं धनकामो महद्ध- नम् ॥ ८६ ॥ मोक्षकामो लभेन्मोक्षं प्रपन्नामृतपाठकः ॥ यः प्रपन्नामृतं नित्यं भक्त्या पठति वैष्णवः ॥ ८७ ॥ सन्किामान- वाप्याथ सोन्ते विष्णुपदं ब्रजेत् ॥ यगृहे वर्तते नित्यं प्रपन्नामृतमु- त्तमम् ॥ ८८॥ तद्गुहे निखिलैः सार्धे पूर्वार्दिव्ययोगिभिः ॥ यती- न्द्रो नित्यवासं च करिष्यति न संशयः ॥ ८९॥ श्रीपतिर्भक्तवात्स- ल्यात्तत्रैव रमया सह ॥ निवसत्यखिलैः साधै ब्रह्मरुद्रादिदैवतैः॥१०॥ अतस्तत्रैव वर्तते महत्यः सर्वसंपदः॥ अतः सर्वफलावात्यै प्रपन्ना- मृतसंग्रहः ॥ ९१॥ कर्त्तव्यः सर्वथा लोके वैष्णवेनैव धीमता ॥ नि- त्यमव्याहतं सत्यमेतद्वैष्णवदर्शनम् ॥ ९२ ॥ यो वेत्ति मनुजः सम्यक्स कृतार्थो न संशयः॥ विष्णोर्वा वैष्णवानां च लक्ष्मणार्यस्य सन्निधौ ।। ९३॥ यः प्रपन्नामृतं सम्यग्भक्त्या पठति मानवः॥ इह लोके सुखं प्राप्य सोन्ते विष्णुपदं व्रजेत् ॥ ९४॥ यः प्रपन्नामृतं श्रुत्वा मोदते सततं नरः॥ सर्वान्कामानवाप्याथ स गच्छेद्वैष्णवं पद- म्।।९५॥ इति श्रीमदान्धपूर्णकुलोत्पन्नश्रीमदनन्तार्यविरचिते प्रपन्ना- मृते श्रीरामानुजादिचरित्रे प्रपन्नगायत्रीप्रपन्नामृतपठनश्रवणादिमाहा- त्म्यप्रकाशनं नाम पडविंशत्यधिकशततमोऽध्यायः ।। १२६॥ ॥

प्रपन्नामृतम् ।
(४९१)
श्रीशैलरंगेशगुरुत्तमस्य शिष्यो महान्कश्चिदनन्तसूरिः।
ग्रन्थं प्रपन्नामृतनामधेयं चकार रंगेशकटाक्षलेशात् ॥
वैकुण्ठात्सैन्यनाथांशादवतीर्णाय सूरये ।
तिन्तिणीमूलसंस्थाय शठकोपाय मंगलम् ॥
शेषांशादवतीर्णाय लोकरक्षणहेतवे।
श्रीमद्रामानुजार्याय गुरुवर्याय मंगलम् ॥
श्रीमते रम्यजामातृमुनीन्द्राय महात्मने ।
श्रीरंगवासिने भूयानित्यश्रीनित्यमंगलम् ॥
श्रीप्रपन्नामृतं संपूर्णम् ॥
"श्रीरकटेश्वर" स्टीम-यन्त्रालय-बंबई,

ऋय्यपुस्तकें रामानुजसांप्रदायिकग्रंथाः । नाम. की, ... ... रु. आलवारचरितामृत-पं० सुदर्शनदासानुवादित, इस ग्रन्थमें श्रीशि- रोमणिस्वामीसे लेकर श्रीरामानुजस्वामी पर्यंत बारह श्रीसंप्रदायके आलवारोंका चरित ... विपयवाक्यदीपिका-श्रीरंगरामानुजमुनिप्रणीतटिप्पणीसमेतम् अर्थात् विशिष्टाद्वैतसिद्धान्त श्रीभाप्योदाहृतोपनिषद्वाक्यविवरणम् २J स्तोत्ररत्नावली-रामानुजसांप्रदायिक प्रथमभाग १) द्वितीयभाग १) तृतीयभाग १॥ गोवर्द्धनसूरिप्रभाव-वृन्दावनस्वामीकृतसंग्रहहै ॥ स्तोत्रदशकम्-जितं ते स्तोत्र पांडवगीता अच्युताष्टकादि पाठकरनेयोग्य नारायणसारसंग्रह-शास्त्रमतानुयायी सांप्रदायिक वैष्णवादिलक्षण तिलक मुद्रा इत्यादि निरूपणहै सन्मार्गदीपक- IJ भगवद्धर्मदर्पण-श्रीरंगचार्यस्वामीकृत पहिलाभाग और दूसराभाग =) भगवत्पूजनक्रम-भाषा अर्थात् पूजापद्धति रामानन्द स्वामीकृत रामरक्षा और रामकवीरकी रामरक्षा श्रीनारदगीता-भापाटीका अवधनिवासी पं०रामनारायणदासजीकत मुकुन्दमालास्तोत्र- कुदृष्टिध्वान्तमार्तड-(श्रीमत्स्वामीरंगाचार्यजीप्रणीत आलयंदारस्तोत्र मूल- J. तथा भापाटीकासमेत वणवधर्मशिक्षा- भूतपुरीमाहात्म्य- ... دیت ... ... .... .... إ ل ت 11 " " जाहिरात । वजकुठार-रामानुजसांप्रदायी श्रीरामानंद जन्मोत्सव-भापाटीका-श्रीवैष्णवादि चारौ संप्रदायी वैष्णवोपयोगी अष्टादशरहस्य-भाषा समेत टीका वृहद्वेदोक्तरामपद्धति-चारौ संप्रदायी वैष्णवोपयोगी. रामपद्धति-रामपटल-सिद्धांतपटल-चौवीस गायत्री मंत्रमुक्तावली-(९ पांचों पुस्तकका एक गुटका.) चारौ संप्रदायी वैष्णवोपयोगी (कर्मकांडग्रंथ) रामपद्धति- U रामपटल- गोपालविवेक-सटीक... सिद्धान्तपटल-अवधूता मार्गका अपूर्व ग्रंथ चौवीसगायत्री-मंत्र और (२४) मुद्रा समेत निगमांतार्थदीपिका-संस्कृत और भापाटीका ब्रह्मोत्सव-आनंदनिधि दोहावलीसहित जिसमें श्रीवृन्दावनके औरंग- जकि मंदिरके सब उत्सवोंका वर्णन चित्रसहित दुर्जनकरिपंचानन-भापा स्वामी रंगचारी द्वारा जयपुरमहाराजके प्रश्नोंका उत्तर . वैष्णवधर्मरत्नाकर-भापाटीका २॥ अ वतारस्थलवैभवदर्पण-अर्थात सब देशोंके क्षेत्र तीर्थोंका संग्रह १ रहस्यत्रयं-भापाटीका रामानुजाएपदी- सन्मार्ग दर्शन- शतदूपणी खंड दोमें- कांची :: :: :: : ... = = =ce .. ... ... ... ...

... जाहिरात। श्रीरामतापिनी उपनिषद-भाषाटीका-तथा रामउपनिषद् संस्कृतटीका यंत्रराजके अनुक्रम सहित १) उपासनातत्त्वदीपिका-भा० टी० ॥॥ सुदर्शनशतक-संस्कृत U रामचरण चिह्नावली. पुराण ग्रन्थाः। पद्मपुराण-संपूर्ण ५५०००ग्रन्थ छः खण्डोंमें शुद्धतापूर्वक, कईएक व्रतादिमाहात्म्य, तीर्थमाहात्म्य,शिवविष्णु महिमा, रुद्राक्ष तुलसी माहात्म्यादि सृष्टिखण्ड, भूमिखण्ड, स्वर्गखंड, ब्रह्मखंड, पावाल- खंड, उत्तरखंड, क्रियायोगखंडमें सांगोपांग वर्णन है यह ग्रन्थ वैष्णवोंको अत्यन्त उपयोगी है १५) श्रीमद्भागवत-श्रीधरीटीका और टिप्पणीसह, ग्लेज कागज १०) तथा रफ... श्रीमद्भागवत-भावार्थदीपिकाप्रकाश टीका-यह टीका श्रीधरी टीकापर बहुतही उत्तम लगती है। ग्रन्थ संख्या १०००० छपताहै ।... श्रीमद्भागवत-सचूर्णिक मोटेअक्षर उत्तम कागज सप्ताह बांचनेवा- लोंको परमोपयोगीहै ग्लेज तथा देशी कागज श्रीमद्भागवत-अन्वयार्थप्रकाशिकाटीकासमेत पं० गंगासहायजीकृत १५) श्रीमद्भागवत-नवीन सुवोधिनीटीका समेत पढनेवालों व सप्ताह यांचनेवालोंको परमोपयोगीहै १२४ श्रीमद्भागवत-विजयध्वजी टीका समेत (माध्वसांप्रदायिक) १०J श्रीमद्भागवत-मूल (गुटका) रेशमी जिल्द बंधी हुई नित्यपाठकर- नेयोग्य :... १) " " .... ... । ... ... ... ...

" ... जाहिरात । श्रीमद्भागवत-भापाटीका माहात्म्य और शंकासमाधानसह अत्युत्तम जिसमें ५०० दृष्टांत कथाके सिवायहैं, नई छपी है...१२J 'तथा देशी कागद... ...११३ श्रीमद्भागवत-मूलश्लोक और आनन्दाम्बुनिधि पद्यभापाटोकासमेत रोबाँधीश महराज रघुराजसिंहदेवजूकत १५J श्रीमद्भागवत-पद्यात्मक आनंदाम्बुनिधि भापानुवाद जिल्दबंधी हुई रोबाँधीश महाराज रघुराजसिंहदेवजूरूत ग्लेज कागज तथा रफ् कागज ६. श्रीमद्भागवत-दशमस्कंधमात्र भापाटीका दृष्टान्त सहित ४. श्रीमद्भागवताद्यपद्यव्याख्याशतक-(जन्मायस्य श्लोकके सौअर्थ २) भागवतलीलाकल्पद्रुम-श्रीमद्भागवतके सब चरित्र ( जन्मायस्य इस श्लोकसे) ...9U दशमस्कंध-श्रीधरी टीकासमेत श्रीमद्भागवत-एकादश स्कंध अन्वयार्थ प्रकाशिकाटीका सहित इस एकादशमें श्रीकृष्णका उद्धवजीको ज्ञान देना और दत्तात्रेय भग- वानने चौबीस गुरूसे उपदेशलेना जना विदेहिका ज्ञान वर्णन, द्वारकाजीमें यादवोंको दूर्वासाका शापहोना और समस्त भूमिका भार उतार कर यादवोंकों यात्रार्थ द्वारकाजीसे प्रभासमें लाना और पितृहेतु यादवोंको श्राद्ध दान तर्पण करना और यादवोंका युद्ध- कर परस्पर शरीर त्याग करना । बलदेवजीका शेषरूपसे वैकुंट पधारना और सर्वोत्तम भूतल चिपे पुण्यक्षेत्र प्रभासकी भूमि जा- नकर व्याधके हाथसे बाणलगनेसे श्रीकृष्णका मायाशरीरको त्यागकर वैकुंठ पधारना इत्यादि लीला वर्णित है ...१३ श्रीमद्भागवत-मूल बारह स्कंध बडा खुलापत्रा J श्रीमद्भागवत-मूल छोटा ... ... ..

- ... जाहिरात। श्रीमद्भागवत-माहात्म्य-सटीक संस्कृत भागवतमाहात्म्य-भाषाटीकासह भक्तिमाहात्म्य और गोकर्णोत्प- त्ति विप्रमोक्ष भागवत श्रवण विधि इत्यादिहै ॥ श्रीमद्भागवत-श्रीवालप्रबोधिनी टीका समेत गोस्वामी श्रीगिरधरजी महाराजकृत अतिसरलार्थहै नारदपुराण-संपूर्ण,इस ग्रन्थमें पुराण वर्णन आश्रमादि धर्म गंगामा- हात्म्य धर्माख्यान धर्मकथन धर्मशान निर्देश वामनावतार वर्णन वृहदुपाख्यान रुष्णमन्त्र वर्णन अष्टादशपुराणसार पुराण महिमादि पूर्वभागमेंहैं,उत्तरभागमें एकादशीद्वादश्यादिव्रत मोहिनीदर्शन मातृस- न्मानकार्तिकमाहात्म्य माघमाहात्म्य गंगामाहात्म्य गयामाहात्म्य काशीमाहात्म्य पुरुषोत्तममाहात्म्य प्रयागमाहात्म्य कुरुक्षेत्रमाहा- त्म्य हरिद्वारमाहात्म्य बीमाहात्म्य कामाक्षीमाहात्म्य प्रभासक्षेत्र- माहात्म्य पुष्करमाहात्म्य गौतमाश्रममाहात्म्य गोकर्णमाहात्म्य सेतुमाहात्म्य नर्मदातीर्थमाहात्म्य अवंतिकामाहात्म्य मथुरामहात्म्य वृन्दावनमाहात्म्य इत्यादि २४००० मूल मात्र है शिवपुराण-बडा-२४००० मूलमात्र-इसमें विद्येश्वरसंहिता २००० रुद्रसंहिता १०५३० शतरुद्रसंहिता २१५० को- टिरुदसंहिता २२४० उमासंहिता ३८४० कैलाससंहिता १२४० और वायवीयसंहिता ४००० है. बहुत परिश्रमसे यह अलभ्यग्रंथ मिला है और बहुत विद्वानोंकी संमतिसे छा- पा गया है. पुस्तक मिलनेका ठिकाना- खेमराज,श्रीकृष्णदास, "श्रीपेङ्कटेश्वर" छापाखाना-मुंबई..

Prapannamritam

Author
Shri Madanantacharya
Title
Prapannamritam
File name
Prapannamritam
Text
OCR done
Citation
1821
Published
2012/08
Publisher
Mumbai.,venkateshwar Yantralay
Language
Sanskrit
Pages
512
Library
Bharatiya Vidya Bhavan Library, Mumbai
DLI number
311471
Barcode
99999990320356.00
Scanning centre
Banasthali University
Digital publisher
Digital Library Of India
VMLT id
r8egpfmq9Qz
Download PDF

Prapannamritam