Canegie Mellon Univeristy
Venkateshwara Shatakam
Front matter
No text on this page.
VOD
॥ श्रीः ।
श्रीवेङ्कटेशशतकम्
No text on this page.
SRI
VENKATESA SATAKAM
BY
KAVYALANKARA
G. V. Padmanabha Sastri
Antor OJ
George Devacharitam,''
"Bhi rungasandesa '' etc, anul ar. 3&urliner ut
the Madras University
SRIRANGAM:
SRI VANI VILAS PRESS.
1917.
No text on this page.
FOREWORD. I am glad that I have been accorded the privilege of writing a foreword to this excellent devotional poem in Sanskrit by Paudit Kavyalankara G-V Padmanabba Sastrial Avergal. He has written various poems in Sanskrit and Malayalam, including a long poem on our beloved King- Emperor In this poem the Pandit takes us to the lotus feet of the King of Kings and expresses the moods and longings and raptures of the man of purity of life and devotion of soul I have always felt that one of the greatest of our national duties is to carry forward the great and glorious tradition of Sanskrit composition in the realms of devotional poesy, philosophy, and religion Sauskrit is even to day a living language in the truest sense of the phrase and will be a living language so long as the Hindu lace lives, and the Hindu race dowered above all other races with refinement, insight, and glory of vision and glory of achievement can live a great and memorable and virgorous life only so long as the Sanskrit
ii
language is with us as our God-given guardian.
angel Each age must compose its own devotional
songs, write its own philosophical' works, and utter
its own spiritual intuitions, to soothe and heal
the sorrows of the heart. I hence welcome the
Pandit's work as a valuable contribution in this
direction
The poem is full of the charm of simplicity
and sincerity and the occasional flashes of hum.
our in it heighten the effect of the pathog and
yearning, that necessarily underlie all spiritual
aspiration that realised the gulf between the joys
of God-love and God-vision and the bondage of the
ways of the world and the life of the senses. The
poem is singularly free from all sectarian feeling
and expresses those noble and natural feelings of
dependence upon and love of God which are the
deepest, sweetest, and highest of human emotions.
I shall quote here a few of the beautiful stanzas
in the poem.
कलौ जनानामिह पातकाति-
गदं दयालो समपाकरिष्णुः ।
विराजसे त्वं तु महौषधीव
सप्ताद्रिमध्ये च रूनां निहन्त्री ॥
iii धनं च सर्व पृथुकप्रदात्रे कुचेलविप्राय वितीर्य मोदात् । धनार्जनं कर्तुमिह स्थितोऽसि निक्षिप्य कोशं पुरतो रमेश । : भूमिः पदं ते वियदेव नाभि- द्यौरेव शीर्षे मुखमेव वह्निः। प्राणोऽनिलो नेत्रयुगं रवीन्दू श्रुतिर्दिशो विश्वमयो ह्यतोऽसि ॥ I am very glad to learn that M. R. Ry. Diwan Bahadur M. O Parthasarathi Iyangar Avergal, whose interest in Hindu religion and Dharma and whose wide sympathies and high culture are wellknown, has interested himself in the publication of this work. I wish the author every success and heartily join with him in his view that all that we do should be dedicated to the Lord. श्रीनिवासार्पणमस्तु. 26th. November, 1917.) K. S. RAMASWAMI SASTRI. Srirangam. District Munsiff, Srirangame.
No text on this page.
॥श्रीः॥ ॥ भूमिका ॥ अहं तावदस्मच्चक्रवर्तिनो डिल्लीसाम्राज्यपट्टाभिषे- कमधिकृत्य संस्कृतभाषायां जार्जदेवचरितं नाम पञ्च- दशसर्गात्मकं महाकाव्यम , अन्यानि द्वित्रिचतुराणि भृङ्गसंदेशादीनि भाषाकाव्यानि च व्यरचयम् । तावतैवात्मानं कृतार्थ नाचिन्तयम् । पुनरपि गी. वाणभाषायामैश्वरं कंचन प्रबन्धं निर्मित्सुर्यदृच्छया श्रीमतो मुनिस्वाम्यात्मिजस्य विवाहस्य कृतेऽलो- मोरुमङ्गापुरमयासिषम् । तदैकम्मिन्भृगुवासरेऽन्यै- रप्यस्मत्सुहृद्भिः सममारुह्य श्रीवेंकटादिं तदीशम्य महाभिषेकावसरे दयितया तत्संनिधिमगमम् । तत्र पयोघटेरभिषिक्तं श्रीनिवासमद्राक्षम् । तदवस्थं तमेव हृदि ध्यायंस्तद्भक्त्या विवशीकृतान्तरङ्गोऽभूवम् । किं तु तमेव क्षीराभिषेकमुत्प्रेक्षारूपणादिमे पद्ये समयू. युजम् । बतो ललितपदसंघटितेनाभिनवोल्लेखेन पद्य- [२] । शतकेन भगवन्तं श्रीनिवासमस्ताविषम्। अत्र प्रतिपा- दितवस्तुगौरवादेवैतं प्रबन्धमार्या आस्तिकशिखामणयो महान्तो विद्वांस आद्रियेरनिति परं विश्वसिमि एतत्प्रबन्धमुद्रणामूल्यं यावदुपकृतवद्भयो महाशयेभ्यो वावदूकाग्रगण्येभ्योऽस्मद्देशीयन्यायसभायां न्यायाध्य. क्षपदमलंकृत्योपनिवृत्तेभ्यो दिवान्बहदूरिति बिरुदोप- शोभितेभ्य एम् ए एम् एल् इत्युपपदभूषितेभ्य एम् ओ.पार्थसारथि अय्यङ्गारिति सुगृहीतनामभ्यो मदीयां कृतज्ञतां निवेदयामि । मया कृतेनानेन पद्यशतकन भगवाश्रीनिवासः परं प्रीणातु । किं चैतत्स्तोत्रपठि- तृणामार्याणां सर्वेषामास्तिकशिखामणीनामभ्युदयनि:- श्रेयसपरंपरां भगवाश्रीनिवास एव वितनोतु । तदर्थ भगवन्तं वयमभ्यर्थयामहे । इति काव्यालंकार বামী,
॥ श्रीः ॥
॥ श्रीवेङ्कटेशशतकम् ॥
पयोधिजायाः प्रणयं विधातुं
श्रीवेंकटाद्रौ प्रतिशुक्रवारम् ।
क्षीराभिषेकाख्यमिषेण तत्र
पयोधिमुत्पादयसि प्रभो त्वम् ॥ १ ॥
गिरिप्रियो भूतिसितश्च शंभुः
म्वयं च तत्तामनुगन्तुमिच्छुः ।
कर्पूरभृतीपरिमृष्टदेहो
गिरौ निवासाच शिवत्वमेषि ॥२॥
कलौ जनानामिह पातकाति-
गदं दयालो समपाकरिष्णुः ।
विराजसे त्वं तु महौषधीव
सप्ताद्रिमध्ये च रूजां निहन्त्री ॥ ३ ॥
२
वेङ्कटेशशतकम् ।
सिंहाङ्कितत्वात्तव वप्रमौलः
श्रीशुक्रवारेषु महाभिषेकात् ।
दुर्गाक्षपासूत्सवसंविधाना-
च्छक्त्यात्मिकेति प्रतिभाति मूर्तिः ॥ ४ ॥
सृष्टिस्थितिध्वंसनकर्मदक्षा
शक्तिस्त्वदीयेति जगत्प्रसिद्धिः ।
बिभाष फाले लसदूर्ध्वपुण्ड-
व्याजेन तिस्रो बिरुदावलीम्ताः॥ ५ ॥
निजे ललाटे विपुलोर्ध्वपुण्ड्रा.
दर्चाविधौ स्वीकृततन्त्रमार्गात् ।
श्रीवैष्णवानां भजनीयमूर्तिः
सर्वत्र सर्वैस्त्वमुपासितोऽपि ॥ ६॥
जटाकलापेन हि दीर्घपृष्ट-
श्रेष्ठप्रभूषासुविशेषभङ्गया।
कर्पूरभूतीपरिसेवनेन
शैवैरपि त्वं खलु सेवितोऽसि ॥ ७ ॥
वेङ्कटेशशतकम् ।
३
रमाकराभ्यां परिमार्दता ः
सापल्यरोषाकुलिता प्रिया भूः ।
त्वामत्यजत्तेन सुखाधिवास:
शेषाचलोऽयं समभूत्परं ते ॥ ८ ॥
सदा रमाया वहनात्तु लोके
बैणो भवानित्युदभूत्प्रवादः ।
क्रमेण तत्त्वं प्ररिहर्तुकामो
भार्या विना तिष्ठसि वेंकटाद्रौ ॥ ९॥
धनं च सर्व पृथुकप्रदात्रे
कुचेलविप्राय वितीर्य मोदात् ।
धनार्जनं कर्तुमिह स्थितोऽसि
निक्षिप्य कोशं पुरतो रमेश ॥ १० ॥
पुरा तु देवासुरयुद्धसीम्नि
चक्रेण दैत्यानवधीरनेकान् ।
कर्तु तपस्तज्जनिताघशान्त्यै
वरादिमेतं समुपागतोऽसि ॥ ११ ॥
४ वेङ्कटेशशतकम् । सुमेरुचक्रस्य तव प्रभावा. त्समाहृता भक्तजनाः प्रकामम् । धनानि मोदेन विनिक्षिपन्ति त्वत्कोशमध्ये समवाप्रकामा: ।। १२ ।। चतुर्भुजात्तासिगदारिशङ्ख- स्तोमेन पीताम्बरवेष्टनेन । सर्वर्तुसूनारचितस्रजा ते साक्षान्महाविष्णुरिति प्रसिद्धिः ॥ ११ ॥ नित्यं तवाराधनपूर्तिकाले मयूरबहव्यजनेन भक्त्या । श्रान्तं विचित्राननिषेवणावां संवीजयन्त्यर्चकविप्रमुख्या: ॥ १४ ॥ अनन्ततल्पे सुचिरं शयित्वा निद्रातिरेकोद्भवदेह जाड्यः । विजृम्भणेनाशु समीकृतस्त्वं तिष्ठन्निवाभासि वराचले हि ।। १५ ।।
वेङ्कटेशशतकम् ।
कलौ जनाः पापरता इति त्वं
तन्मध्यवासस्तु विगहणीयः ।
विसृज्य तस्माद्भुवि संनिवेशा-
न्समागतस्तं खलु पुण्यशैलम् ॥ १६ ॥
केचिञ्च विष्णुं समुपासते वै
शिवं च केचित्प्रकृति च केचित् ।
गणेशमादित्यमथापरे त्वां
सर्वे भजन्त्यत्र विचित्रमेतत् ॥ १० ॥
आसेतुहमाचलवासिनोऽमी
भक्तास्त्वदासेवनबद्धदीक्षाः ।
भक्त्या भवन्तं परितो नमन्ति
वाञ्छन्ति मुक्ति पुरुषात्पुराणात् ।। १८ ॥
श्रीवेंकटेशो हि कलौ प्रसिद्धो
विष्णुश्च सर्वैरपि दर्शनीयः ।
इति प्रसिद्धे सुवचस्यनल्पां
मतिं दधानाः समुपासते त्वाम् ॥ १९॥
वेङ्कटेशशतकम् ।
त्वदीयभक्ता अपि विष्णुलोकं
गन्तुं न शक्तास्तदनुग्रहाय ।
श्रीवेंकटाद्रौ सुकृतावतार-
स्तत्रैव वैकुण्ठमतिं विधत्से ॥ २० ॥
कलेबरार्ध खलु शंकरस्य
मूर्तिस्त्वदीयेति जगत्प्रसिद्धिः ।
अतस्तु
मन्ये तव मूर्तिरेषा
श्रीशांभवी शक्तिमयीह विष्णो ॥ २१ ॥
वैखानसानां मततत्त्वमेत-
त्वद्भुक्तवस्त्रानसुगन्धमाल्यैः।
तीर्थोदकैश्चर्चितसर्वगात्रा
मायां त्वदीयामपि ते तरन्ति ।। २२ ॥
त्वन्नामधेयानि मुखेषु येषां
त्वद्रूपधेयानि हृदन्तराले।
तद्भागधेयातिशयं च वक्तुं
को वा क्षमेतात्र महानुभाव ॥ २३ ॥
वेङ्कटेशशतकम् ।
स्वदीयमाल्यान्यपि केशपाशे
त्वद्भुक्तभक्तान्युदरेषु येषाम् ।
त्वत्पादतीर्थान्यपि मस्तकेषु
त्वत्तुल्यतां यान्ति जना: सुपूज्याः ॥२४॥
त्वदीयचक्राङ्कितसर्वगात्रा-
म्त्वदीयमुद्राङ्कितफालदेशाः ।
म्वद्भक्तभक्ता इति सुप्रसिद्धा:
श्रीवैष्णवाम्वत्समनां प्रयान्ति ॥ २५ ॥
अनन्तकल्याणगुणात्मकं त्वां
मायाविमुक्तात्मतनुं महात्मन् ।
यजन्नि यज्ञैरपि वैष्णवा ये
त्वद्रूपना यान्ति तदेव मुक्तिः ॥ २६ ॥
श्रीवैष्णवानामपि मुक्तिरेषा
त्वदीयमारूप्यमनन्तशायिन् ।
त्वद्भक्तभक्त्या परिचर्यया ते
स्वामिल्लभन्ते तव रूपसाम्यम् ॥ २७ ॥
८
वेङ्कटेशशतकम् ।
काचित्सुकन्या विकचाजहस्ता
क्षीराब्धिमध्यादुदभूत्पुरा हि ।
हरिं पतिं सा चकमे च साक्षा-
द्विवाह आसीत्तु तयोस्तटान्ते ॥ २८ ॥
परं तु वैवाहिकवेषभूषा-
विशेषविद्योतितसर्वगात्रौ ।
श्रीश्रीनिवासाख्यवधूवरौ तौ
प्रस्थातुकामौ किल वेंकटाद्रिम् ॥ २९ ॥
स्वभक्तलोकाय शिवं प्रदातुं
कल्याणनारायणनामधेयः ।
अद्यापि वैवाहिकवेषयुक्तः
शेषाचले त्वं वससीह विष्णो ॥ ३ ॥
भार्या त्वलोमोर्विति सुप्रसिद्धा
त्वामन्वधावत्प्रियभक्तियुक्ता ।
शेषाद्रिमारूढवति त्वयोति
पुनर्निवृत्ता ह्यबलाधिसानु ॥ ३१ ॥
वेङ्कटेशशतकम् ।
९
गव्यूतिमात्रान्तरसंनिवेशे
स्वनामधेयाख्यपुरं विधाय ।
कोपेन कान्तं परिहत्य पश्चा-
त्तापेन तप्ता प्रियवत्सला सा ॥ ३२ ॥
कान्तापराधाघमसौ प्रमाष्टु
हेमाद्रिणा प्रोक्तविधि विधित्सुः ।
वधूवराणां च विवाहकर्म
नित्यं हि सा कारयति स्वधानि॥३३॥
अनेकदेशागतवर्णिनोऽमी
त्वदीयभार्यानिकटे विवाहम् ।
दिनैकदेशेन समापयन्ति
स्मात विधि तेऽपि परित्यजन्ति ॥ ३४ ॥
युष्मत्प्रियाभ्यां पृथिवीरमाभ्यां
परं विसृष्टस्त्वमतीव रुष्टः ।
विहाय गार्हस्थ्यपदं परेश
वैखानसी वृत्तिमुपाश्रितोऽसि ॥ ३५ ॥
१०
वेङ्कटेशशतकम् ।
अतस्तु मन्ये तव पूजनार्थ
वैखानसी रीतिमुपेत्य नूनम् ।
श्रीवैष्णवाश्चाखिलतन्त्रजालै.
नित्यं समाराधनमाचरन्ति ।। ३६ ।।
वेदाश्च सर्वे प्रतिपादयन्ति
विशन्ति यं पूरुषमस्तरागाः ।
ध्यायन्ति यस्याधिमतीव सिद्धाः
सोऽयं पुमांस्त्वं खलु वेंकटेश ॥ ३७ ।।
अनन्तकल्याणगुणभिराम
सोऽहं दिक्षुस्तव पादपद्मम् ।
मत्तातपादैः कृतपुण्यलेशा-
च्छीवेंकटाद्रिं समुपागतोऽस्मि ॥ ३८ ॥
प्रसीद देवेश दयापयोधे
संसारदावानलदाहतप्तम् ।
भीतं प्रपन्नं परिपाहि मृत्योः
शरण्यमन्यं यदहं न जाने ॥ ३९ ॥
वेङ्कटेशशतकम् ।
तवाधिपोतेन तरन्ति लोके
महर्षयो भीमभवाम्बुराशिम् ।
कलनपुत्रारितिमिगिला-
रापूरितं वत्मपदं यथामी ॥ ४० ॥
त्वत्पादपझं हृदयाजमध्ये
ध्यायन्ति नित्यं मुनयो महान्तः ।
मुनीन्द्रहृत्पद्मनिलीनमेत-
कथं पुनद्रष्टुमहं ममर्थः ।। ४१ ।।
भूरेणवस्त्वत्पदपद्मलग्नाः
पीभवन्तीति पदद्वयस्य ।
श्रीपादुकाभ्यां भरणं महात्म-
न्युक्तं च यत्तीर्थपदस्य तस्य ॥ ४२ ॥
त्वत्पादविन्यासमियं प्रिया भूः
साक्षाच वोढुं परमक्षमेति ।
श्रीपादुकाभ्यां व्यवधाय पश्चा-
त्पदं च भूमौ निदधासि किं नु ॥ १३ ॥
वेङ्कटेशशतकम् । -- श्रीशङ्खचक्रध्वजपद्मरेखा- विभूषिते ते पदपङ्कजे द्वे श्रीपादुकाभ्यां पिदधासि भूम- न्गोपायितुं देवरहस्यमीश ॥ १४ ॥ त्वत्पादपद्माङ्कितरेणवो ये नारीविसर्गेषु परं समर्थाः । निदर्शनं गौतमधर्मपत्नी तत्पादुकाभ्यां पिदधासि रेणून ॥ ४५ ॥ त्वत्पादरेण्वङ्कितमस्तकोऽसौ सृष्टिं विधाता विदधाति लोके । श्रीपादुकाभ्यामपिधानमेषां युक्तं तदन्येष्वपहारभीत्या ।। ४६ ॥ कुक्षिस्थलोकं च भवन्तमेतो त्वत्पादकूमौ वहतो रमेश । तौ पादुके त्वत्पदशोभिते द्वे त्वया सहेत्यत्र विचित्रमेतत् ।। ४७ ॥
वेङ्कटेशशतकम् । १३ त्वत्पादपद्माश्चितपादुके ते राज्यं च वोढुं परमं क्षमेते । निदर्शनं कोसलराजसूनु- श्चतुर्दशाब्दान्भरतो बभार ॥ ४८ ॥ ज्ञानक्रियाख्ये ह मदीयशक्ती वश्ये ममत्यत्र विडम्बनार्थम् । श्रीपादुकाद्वन्द्वमिषेण देव विभर्षि पद्भ्यां द्वितयं हि शक्तः ॥ ४९।। त्वत्पादयुग्मं परिमाणदण्डो लोकत्रयस्यापि परं परेश । विविक्रमत्वे तव पादप - नाक्रान्तमेतद्भुवनत्रयं नु ॥ ५० ॥ स्वभावरक्त तव पादण्ये नखप्रभाभिः परितः प्रक्लमे । विडम्बयेते हि सिताब्जभावं परं तु पारावतयुग्मसाम्यम् ॥ ५१ ।।
वेङ्कटेशशतकम् ।
त्वत्पादपद्माञ्चितपादुके द्वे
हेना कृते वज्रमणीन्द्रयुक्त ।
भक्त्या स्वमूर्धा दधते मनुष्या
भजन्ति विष्णोस्तव रूपसाम्यम् ॥ ५२॥
रमाभुजाभ्यन्तरमर्दितस्य
श्रीचक्रराजोज्ज्वलितस्य विष्णो ।
श्रीवत्सचिह्नन सुशोभितस्य
स्तोतुं न शक्नोम्युरसो विशेषम् ॥ ५३ ।।
मूर्तिः कृते ते सितपङ्कजाभा
त्रेतायुगे रक्तजपासमाना।
दूर्वादलश्यामनिभा तृतीये
काणी तुरीयेति जगत्प्रसिद्धिः ॥ ५४ ॥
।
श्रीवेंकटाद्रौ तु शिलामयी या
मूर्तिर्विशिष्टा खलु सर्ववर्णैः ।
श्रीचूर्णकर्पूरपटीरपक-
कस्तूरिकालेपनतो विभाति ॥ ५५॥
वेङ्कटेशशतकम्
१५
इना कृतोऽसौ ध्वजदण्डकाण्डः
श्रीवेंकटाद्रीशपुरोपकण्ठे।
विभाति सत्यं पुरुषोत्तमस्य
वैकुण्ठलोकादवतारदण्डः ॥ ५६ ॥
वेदाः समस्ताः खलु सोमकेन
नीता: पुरा भोगिपुराविवासम् ।
मीनाकृतिस्ताजगृहे हरिय-
स्तं श्रीनिवासं शरणं गतोऽस्मि ॥ ५७॥
पुरा तु पीयूषकृते सुरेन्द्रैः
क्षीराणवे संमथिते नगेन ।.
मग्नं नगं कूर्मतनुर्बमार
तं श्रीनिवासं शरणं गतोऽस्मि ॥ ५८॥
भूमि हिरण्याक्षभूजान्तरस्था-
मुद्धर्तुकामः किल कोलरूपः ।
जग्राह जीवेन हरिश्च तस्य
तं श्रीनिवास शरणं गतोऽस्मि ॥ ५९॥
वेङ्कटेशशतकम् । प्रहादसंरक्षणजागरूको हिरण्यपूर्व कशिपुं निहन्तुम् । स्तम्भान्नृसिंहाकृतिराविरासी. तं श्रीनिवासं शरणं गतोऽस्मि ।। ६० ।। पुत्रश्च भूत्वा ह्यदितः प्रसन्नो वढाकृतिस्तद्वालियज्ञवाटम् । गत्वा ययाचे त्रिपदा भुवा य- स्तं श्रीनिवासं शरणं गतोऽस्मि ॥ ६१ ॥ दैत्यांशसंभूतधरापतीन्द्रां- स्त्रिःसप्तकृत्वो निजघान रोषात् । योऽसौ हरिर्भार्गवरामरूप- स्तं श्रीनिवासं शरणं गतोऽस्मि ।। ६२ ।। पौलस्त्यपुत्रं भुवि कण्टकं य: सपुत्रमित्रं च रणे निहन्तुम् । रामोऽपि भूत्वा न्यवधीदशाम्यं तं श्रीनिवासं शरणं गतोऽस्मि ॥६३ ।।
बेशशतकम् । १७ कंसस्य भृत्यौ हि वनालया तो गोपालनारीषु कृतापराधौ । हरिनिहन्तुं बलरामरूप- म्तं श्रीनिवासं शरणं गतोऽस्मि ॥ ६४ ॥ कंसादिदुष्टानिह चैद्यमुख्या- न्भूपाननेकान्विनिहन्तुकाम: । हरिः स गोपाकृतिराविरासी. तं श्रीनिवासं शरणं गतोऽस्मि । ६५ ।। कल्कीभविष्यन्नपि पाण्ड्यदेशे. ऽधर्मे रताशम्भलनामपुर्याम् । प्रध्वंसयिध्यत्यधमान्हरिय- म्तं श्रीनिवासं शरण गतोऽस्मि ॥ ६६ ।। करीन्द्रविक्रन्दितमातबन्धुः श्रुत्वा च भूत्वा पुरत: क्षणेन । अदाञ्च मुक्तिं कृपया हरिय- स्तं श्रीनिवास शरणं गतोऽस्मि ॥६५॥ V. 2
वेङ्कटेशशतकम् ।
वैराजलोकं प्रति गन्तुकामा
वैराजरूपं हृदि चिन्तयन्तः ।
वैराजरूपस्य च ते गुणोधां-
स्त्वदीयभक्ता अनुवर्णयन्ति ।। ७६ ।
अनाचविद्याप्रतिबन्धहेतो.
र्भार्यात्मजादिध्वनुषक्तचित्ताः ।
नित्यं च तत्पोषणजागरूका
मुग्धा
जनास्त्वां न विचारयन्ति ॥ ७७॥
यज्ञेन दानेन तवार्चनेन
भक्त्या परं त्वां तपसा रमेश ।
प्रीणन्ति नित्यं भुवि मानवा ये
मायां त्वदीयामपि ते तरन्ति । ७८॥
मायाविसृष्टाः कृतिनो महान्त-
म्त्वत्पादसंदर्शनजागरूकाः ।
विचिन्त्य चात्मन्यवलोकयन्ति
त्वामेव विष्णुं पुरुषं पुराणम् ॥ ७९ ॥
बेङ्कटेशशतकम् ।
वेदा अमी त्वगुणवर्णनेषु
नालं क्षमास्ते त्रिगुणात्मका नु ।
वेदान्तवेद्योऽसि परं तु साक्षा-
कर्तुं च वेदा: कथमीशितारः ॥ ८० ॥
स्थूलस्वरूपं परिवर्णयन्ति
वेदा अमी स्थूलदृशां प्रियाय ।
सूक्ष्मस्वरूपं तव सूक्ष्मदृष्ट्या
महर्षयो वेदितुमप्यशक्ता: ।। ८१ ॥
अथापि सर्वत्र विलोकनाय
पीताम्बरालंकृतदिव्यमूर्तिः ।
श्रीवेंकटाद्रौ सुकृतावतार-
श्चतुर्भुजेष्वात्तवरायुधस्त्वम् ।। ८२ ।।
कल्पान्तसूर्यप्रतिमं महात्म-
विराजमानं भवदीयहस्ते ।
वैराजतेजोंशमहो निरीक्ष्य
चक्रं विजानन्ति जनास्तु मोहात् ॥८॥
२२ वेङ्कटेशशतकम् । क्षीरार्णवोजम्भितफेनतुल्यो न पाञ्चजन्य: करशोभिशङ्खः । त्वया हत: पञ्चजनोऽसुरेन्द्र- स्तस्माच्च संभूतयशस्तदेतत् ॥ ८४ ॥ वैराजरूपस्य रहस्यमेत- दपां हरे शङ्खवरस्तु नूनम् । अनेन दैत्या बहवो विनष्टा: पुरा रणे ह्यस्य रवेण दुष्टाः ॥ ८५ ॥ नायं तु कौक्षेयक एष विष्णो: कल्पान्तकालेऽखिलनिग्रहाय । करे बिभर्घ्यत्र हि वैद्युतस्य तेजोविलासस्य परंपरां ताम् ।। ८६ ॥ नाहं तु मन्ये बहुदानवनी- कौमोदकी हस्तगतां प्रियां ते । वैराजरूपस्य च तत्वमेत- नूनं पृथिव्या इति चिन्तयामि ।। ८७ ॥
वेङ्कटेशशतकम् । २३ नायं सुपर्णोऽखिलवेदमूर्ति- म्त्वामुद्वहन्नार्तजनैकबन्धो। वेदाधिरूढोऽहमितीश लोके प्रथां विधातु गरुडाधिरूढ. ॥ ८८॥ सर्वर्तुपुष्पैः समलंकृता या माला कदम्बाख्यसुमाधिकाढ्या । आपादलम्बिन्यवभासते सा मायति मन्ये गुणभेदयुक्ता ।। ८९ ॥ सांख्यं च योगं तव कुण्डले द्वे च्छन्दोमयं पीतमिदं च वासः । ज्योतिम्तु ते कौस्तुभरत्नमेत- द्वत्सं तदीया भगवन्प्रभा हि ॥ ९०॥ कालस्वरूपं तव चापदण्ड- स्तथैव तत्कर्ममयो निषङ्गः । इमे च बाणा अपि चेन्द्रियाणि कालात्मकं त्वामत एव मन्ये ॥ ९१ ।।
२४
वेङ्कटेशशतकम् ।
भूमिः पदं ते वियदेव नाभि-
चौरेव शीर्ष मुखमेव वह्निः ।
प्राणोऽनिलो नेत्रयुगं रवीन्दू
श्रुतिर्दिशो विश्वमयो ह्यतोऽसि ॥ ९२ ॥
वास: समुद्रे शयनं फणीन्द्र
नाभौ सरोज विधिरेव तस्मिन् ।
कुक्षौ च लोका हृदयेऽब्धिजा ते
को वा विजानाति महत्त्वमीश ॥ ९३ ॥
भूमिस्थरेणूनाणयेत्कदाचि-
तारागणानां गणनापि वा स्यात् ।
स्वामिन्गुणाना गणनां विभो ते
केनापि कर्तु भुवनेष्वशक्यम् ॥ ९४ ।।
एवं स्थिते त्वद्गुणवर्णने मे
प्रवृत्तिरेषा परिहासहेतुः ।
तथापि भक्त्या तव विश्वनाथ
स्तोत्रे रतासीन्मतिरीश्वरस्य ॥ ९५ ॥
वेङ्कटेशशतकम्।
१५
धनेन कोशं परिपूरयन्ति
सर्वे जना इत्यतिदीनचेताः ।
अकिंचनत्वाच्छतपद्यबन्धे-
रापूरयं कोशगृहं त्वदीयम् ॥ ९६ ॥
स्वन्माययाहं परिबाध्यमानो
भार्यात्मजादिष्वधिकप्रसक्तः ।
रजोगुणाकृष्टमतिर्भवन्तं
नाचिन्तयं हृद्यपवर्गहेतुम् ॥ ९७ ॥
स्वामिन्मदीयानुमति विनैव
स्वकीय कण्ठस्थितहमसुत्रम् ।
कोशे समप्याशु भवत्प्रसाद
वाछत्यसौ मे कुलधर्मपत्नी ॥ ९८॥
एनां विभो मे दयितां प्रसीद
रुग्णां सपुत्रामिह पौत्रयुक्ताम् ।
एतैरहं त्वां शरणं प्रपन्नो
मां रक्ष रक्षाखिललोकनाथ ॥ ९९॥
२६
वेङ्कटेशशतकम्।
स्तवमिममतिरम्यं वेंकटेशम्य विष्णो-
रखिलभुवनबन्धोरातसंरक्षकस्य ।
व्यरचयदतिभक्त्या पण्डितः पद्मनाभः
कृरियमखिलानां भूतये म्याजनानाम् ।।
इति श्रीपद्मनाभकविविरचितं श्रीवेंकटेशशतकं
संपूर्णम् ॥
वेङ्कटेशशतकम् ।
यदीयपादाङ्कितमस्तकोऽसौ
बलिस्तु पातालतले चकास्ति ।
अभूतपूर्वे त्रिदिवेऽधुनापि
तं श्रीनिवासं शरणं गतोऽस्मि || ६८ ॥
पाश्चालकन्यापरिदेवनं यः
श्रुत्वा सभायां करुणापयोधिः ।
ररक्ष तां दुष्कृतापमाना-
तं श्रीनिवासं शरणं गतोऽस्मि ॥ ६९ ।।
यदीयपादोद्भवधूलिलेपा-
च्छिलामयी गौतमधर्मपत्नी ।
शापात्प्रमुक्ता प्रकृति गताच
तं श्रीनिवासं शरणं गतोऽस्मि ॥ ७० ॥
य उत्तरागर्भगतो हि विष्णु-
द्रौण्यसविप्लुष्टमहो शरीरम् ।
ररक्ष चक्रेण परीक्षितोऽसौ
तं श्रीनिवास शरणं मतोऽस्मि ॥ १ ॥
वेङ्कटेशशतकम् ।
सुनीतिपुत्रं शरणं प्रपन्न-
मळू पितुः स्वस्य हि याचमानम् ।
आरोपयच्छाश्वतिकं पदं य.
स्तं श्रीनिवासं शरणं गतोऽस्मि ॥७२॥
चत्वार एते तव मूर्तिभेदाः
प्रद्युम्नसंकर्षणवासुदेवाः ।
अन्योऽनिरुद्धोऽपि च वैष्णवाना-
मर्चाविधौ ध्यानसुखाय क्लप्ताः ॥ ७३ ।।
मुक्तिप्रदाताप्यहमेक एव
नान्येऽपि देवा इति बोधनार्थम् ।
मुकुन्दशब्दं हि भवान्विभर्ति
त्वय्येव तन्नाम परं यथार्थम् ॥ ७ ॥
प्रत्यक्षदेवं खलु मानवानां
तिष्ये युगे स्वं ननु वेंकटेश ।
वाञ्छन्ति यधस्त्वयि भक्तिमन्त-
तत्तल्लभन्ते तव वैभवने ॥ ५ ॥
No text on this page.