Sringeri Sharada Peetham
Sukthi Shatakam Part 1
Front matter
सूक्ति-शतकम्
(प्रथमो भागः)
[ काशी हिन्दू विश्वविद्यालय के चतुर्वर्षीय उच्चतर माध्यमिक
पाठ्यक्रम के अनुसार कक्षा ११ के लिए
निर्धारित पाठ्य पुस्तक]
॥ श्रीः॥
हरिदास संस्कृत ग्रन्थमाला
२६३
॥ श्रीः॥
सूक्ति-शतकम्
(प्रथमो भागः)
हरिहर झा
एम० ए०, बी० एड्०, व्याकरणाचार्य, साहित्याचार्य,
अध्यापक, सेंट्रल हिन्दू स्कूल, काशी हिन्दू विश्वविद्यालय
.
चौरचम्बा संस्कृत सीरीज आफिस वाराणसी-१
प्रकाशक : चौखम्बा संस्कृत सीरीज आफिस, वाराणसी.
मुद्रक
:विद्याविलास प्रेस, वाराणसी.
संस्करण : प्रथम, संवत् २०१९.
मूल्य
© Chowkhamba Sanskrit Series Offices.
P. O. Box 8, Varanasi.
( INDIA)
1962
Phone : 3145
पाठशाला-प्रबन्ध के ज्वलन्त आदर्श, मौलिकता की गौरवशालिनी विभूति, कुशलता के चिर- वांछित वरदान, अपने बालिका-विद्यालय की प्रधानाचार्या तथा स्कूल-बोर्ड की सम्मानित सदस्या कुमारी के० के पेन्तल को हरिहर निवेदन संसदि तदेव भूषणमुपकारकमवसरे धनं मुख्यम् । सूक्तं दधति सुवर्ण कल्याणमनर्घमिह पान्थाः ।। आज के बालक ही कल राष्ट्र के संचालक होंगे। ऐसे उत्तरदायित्व- पूर्ण भार वहन करने देने के पूर्व अतीत भारत के देदीप्यमान हीरकों और सदा-बहार साहित्यिक सम्पदाओं से उनके शिशु-मस्तिष्क और मधुर-हृदय को सुसज्जित, समृद्ध और रसाप्लावित करना आवश्यक है। बड़े हर्ष का विषय है कि हमारी अक्षय-सम्पत्ति-संस्कृत वाङ्मय- के सार्वभौम समादर और लोकोत्तर वैभव का चमत्कार देखकर हमारे राष्ट्रनायकों की भी रुचि इधर आकृष्ट हुई है। प्रात्म-प्रत्यभिज्ञान की वर्तमान वेला में हमारे राष्ट्रनायक और शिक्षा-विभाग ने संस्कृत पठन- पाठन के प्रति जो जागरूकता एवं दत्तचित्तता दिखलाई है, वह सराहनीय है। यद्यपि विशाल संस्कृत वाङ्मय 'अनन्तपारं किल शब्दशास्त्रम्' है। किन्तु उसे सर्वजनग्राह्य और लोकप्रिय बनाने के बाद ही हमारे देश के सामान्य-जन भी उससे लाभान्वित हो सकेंगे। इसी दृष्टिकोण से प्रस्तुत पुस्तिका में संस्कृत एवं संस्कृति के उषःकाल से लेकर उनके विकास के मध्याह्न तक के साांशिक रूप एवं प्रकारों के नमूने सजाये गये हैं। अपने राष्ट्र, साहित्य एवं विकास की एक मनोरम झाँकी प्रस्तुत की गई है।
( २ )
सृक्तियों का यह अक्षय शतक संस्कृतानुरागियों के निमित्त, साहित्यिक
गोष्ठियों में, पॉकेट-खर्च के लिए संचित किया गया है । क्योंकि-
सुभाषितमयैव्यैः संग्रहं न करोति यः ।
सोऽपि प्रस्तावयज्ञेषु कां प्रदास्यति दक्षिणाम् ॥
नवोदित राष्ट्र के किशोरों में भारतीयता की गरिमा जागरित करने
के अरुणोदय-काल में यह शतक उद्बोधन-मन्त्र बने, यही मेरी कामना है।
अपने पूज्य गुरुदेव पं० श्री प्रद्युम्न
पाण्डेय जी का चरणस्पर्श करता
हुया अपने सभी सहयोगियों, मित्रों, सहपाठियों, सहकर्मियों तथा चौखम्बा
परिवार के सदस्यों को मैं धन्यवाद देता हूँ और चाहता हूँ कि-
या दुग्धापि न दुग्धेव कविदोग्धृभिरन्वहम् ।
हृदि नः सन्निधत्तां सा सूक्तिधेनुः सरस्वती ॥
-हरिहर
२ ३ विषय-सूची १. वन्दना २. सुभाषित-प्रशंसा ३. विद्या-प्रशंसा ४. कवि-प्रशंसा ५. कालिदास-प्रशंसा ६. सज्जन-प्रशंसा ७. दान-प्रशंसा ८. परोपकार-प्रशंसा ६. धीर-प्रशंसा १०. वीर-प्रशंसा ११. गुण-प्रशंसा १२. उद्यम-प्रशंसा १३. क्षमा-प्रशंसा १४. सत्य प्रशंसा १५. स्नेह-वचनम् १६. मित्र-प्रशंसा १७. सत्पुत्र-प्रशंसा " ६ .. " १८. जीवित-साफल्यम् १६. प्रभात-वायुः २०. चन्द्र: " " २१. मेघः है २२. हंसः २३. कोकिलः २४. चातक: २५. प्रातः ... १० ११ २६. वायुः १२ २७. अनवसरे न कथनीयम् २८. क यत्नः कार्यः २६. किम् अमूल्यम् ३०. ज्ञातिभिः सह किं किं कार्यम् " १२ " " १३ " " ( २ ) ३१. का सर्वदा ग्राह्या ३२. जनः कुत्र निपुणः भवति ३३. किं भवत्येव ३४. केन कार्येण जगत् वशीक्रियते ३५. किम् अनुगन्तव्यम् ३६. अपकारिणः कथं नश्यन्ति ३७. के गुणान् प्रथयन्ति ३८. हीनः कथं गौरवं याति ३६. किं महदैश्वर्यम् ४०. जीवानां किं वरम् ४१. कस्य परित्यागो विधीयते ४२. प्रजानां कः नेता अस्ति ४३. के स्वर्गमुपाश्रयन्ते ४४. पुरुषः कथं परीक्ष्यते ४५. के सत्पुरुषाः ४६. के कृच्छाणि समुत्तरन्ति ४७. कानि जीवलोकस्य सुखानि ४८. गुणाः कुत्र गुणा भवन्ति ४६. कः पुरुषस्य बन्धुः ५०. कुरूपता कथं विराजते ५१. कः गुणिनं निन्दति ५२. सन्तः कथं मनः हरन्ति ५३. निवृत्तरागस्य कुत्र तपोवनम् ५४. कः लघुत्वं याति ५५. सुखानि कथम् आयान्ति ५६. कीदृशी चिन्ता कार्या ५७. कः धर्मः ५८. बुद्धिः कथम् एधते हीयते वा ५६. कथं यशः प्राप्यते उपसंहारः १५ " " ... " " १८ सूक्ति-शतकम् (प्रथमो भागः) धन्याः शुचीनि सुरभीणि गुणोम्भितानि वाग्वीरुधः स्ववदनोपवनोद्गतायाः। उच्चित्य सूक्तिकुसुमानि सतां विविक्त- वर्णानि कर्णपुलिनेष्ववतंसयन्ति ॥ “Why are not more gems from our great authors: scattered over the country ? Great books are not in every body's reach; and though it is better to know them thoroughly than to know them only here and there, yet it is a. good work to give a little to those who have neither time " nor means to get more," -Colridge
सुभाषितानि
mano
वन्दना-
-
शारदा शारदाम्भोजवदना बदनाम्बुजे ।
सर्वदा सर्वदास्माकं सन्निधिं सन्निधिं क्रियात् ॥ १ ॥
सुभाषित-प्रशंसा-
द्राक्षा म्लानमुखी जाता शर्करा चाश्मतां गता।
सुभापितरसस्याग्रे सुधा भीता दिवं गता ॥ २॥
विद्या-प्रशंसा-
न चौरहार्य न च राज्यहार्य,
न भ्रातृभाज्यं न च भारकारि ।
व्यये कृते वर्धत एव नित्यं,
विद्याधनं सर्वधनप्रधानम् ॥ ३॥
मातेव रक्षति पितेव हिते नियुक्ते,
कान्तेव चाभिरमयत्यपनीय खेदम् ।
लक्ष्मी तनोति वितनोति च दिक्षु कीर्ति
किं किं न साधयति कल्पलतेव विद्या॥४॥
कवि-प्रशंसा-
जयन्ति ते सुकृतिनो रससिद्धाः कवीश्वराः ।
नास्ति येषां यशःकाये जरामरणजं भयम् ॥५॥
[ २ ]
कविः करोति काव्यानि लालयत्युत्तमो जनः।
तरुः प्रसूते पुष्पाणि मरुद् वहति सौरभम् ॥ ६॥
तत्त्वं किमपि काव्यानां जानाति विरलो भुवि ।
मार्मिकः को मरन्दानामन्तरेण मधुव्रतम् ॥७॥
भासो रामिलसोमिलौ वररुचिः
श्रीसाहसाङ्कः कवि-
मण्ठो भारवि-कालिदास-तरलाः
स्कन्दः सुबन्धुश्च यः।
दण्डी-बाणदिवाकरौ गणपतिः
कान्तश्च रत्नाकरः
सिद्धा यस्य सरस्वती भगवती
के कस्य सर्वेपि ते ॥८॥
कालिदास-प्रशंसा-
निर्गतामलवाक्यस्य कालिदासस्य सूक्तिषु ।
प्रीतिः मधुरसार्दासु मञ्जरीष्विव जायते ॥ ९ ॥
पुरा कवीनां गणनाप्रसङ्गे
कनिष्ठिकाधिष्ठितकालिदासः ।
अद्यापि तत्तुल्यकवेरभावा-
दनामिका सार्थवती बभूव ॥ १० ॥
[ ३ ]
सज्जन-प्रशंसा-
छायावन्तो गतव्यालाः स्वारोहाः फलदायिनः।
मार्गदुमा महान्तश्च परेषामेव
भूतये ॥११॥
अञ्जलिस्थानि पुष्पाणि वासयन्ति करद्वयम् ।
अहो ! सुमनसां प्रीतिर्वामदक्षिणयोः समा ॥१२॥
गवादीनां पयोऽन्येयुः सद्यो वा जायते दधि ।
क्षीरोदधेस्तु नाद्यापि महतां विकृतिः कुतः ॥१३॥
संपदो महतामेव महतामेव
चापदः।
वर्धते क्षीयते चन्द्रो न तु तारागणः क्वचित् ॥१४॥
सन्तः स्वतः प्रकाशन्ते गुणा न परतो नृणाम् ।
आमोदो नहि कस्तूर्याः शपथेन विभाव्यते ॥१५॥
श्लोकस्तु श्लोकतां याति यत्र तिष्ठन्ति साधवः ।
लकारो लुप्यते तत्र यत्र तिष्ठन्त्यसाधवः ॥१६॥
दाता न दापयति दापयिता न दत्ते,
यो दानदापनपरो मधुरं न वक्ति ।
दानञ्च दापनमथो मधुरा च वाणी
त्रीण्यप्यमूनि खलु सत्पुरुषे वसन्ति ॥१७॥
पापं समाचरति वीतघृणो जघन्यः
प्राप्यापदं सघृण एव तु मध्यबुद्धिः ।
प्राणात्ययेऽपि न तु साधुजनः सुवृत्तं
वेलां समुद्र इव लवयितुं
समर्थः॥१८॥
परीवाह [ ४ ] दान-प्रशंसा- उपार्जितानां वित्तानां त्याग एव हि रक्षणम् । तडागोदरसंस्थानां इवाम्भसाम् ॥१९॥ आयासशतलब्धस्य प्राणेभ्योऽपि गरीयसः । गतिरेकैव वित्तस्य दानमन्या विपत्तयः ॥२०॥ दातव्यं भोक्तव्यं सति विभवे संचयो न कर्तव्यः । पश्येह मधुकरीणां सञ्चितमर्थं हरन्त्यन्ये ॥२१॥ दानेन भूतानि वशीभवन्ति दानेन वैराण्यपि यान्ति नाशम् । परोऽपि बन्धुत्वमुपैति दान- दर्दानं हि सर्वव्यसनानि हन्ति ॥ २२ ॥ परोपकार-प्रशंसा- आत्मार्थं जीवलोकेऽस्मिन् को न जीवति मानवः । परं परोपकारार्थं यो जीवति स जीवति ॥२३॥ पद्माकरं दिनकरो विकचीकरोति चन्द्रो विकासयति कैरव-च नाभ्यर्थितो जलवरोऽपि जलं ददाति सन्तः स्वयं परहितेपु कृताभियोगाः ॥२४॥ धीर-प्रशंसा- कथितस्यापि हि धैर्यवृत्तेन शक्यते धैर्यगुणाः प्रमाष्टुम् । अधोमुखस्यापि कृतस्य वह्वेर्नाधः शिखा यान्ति कदाचिदेव ।। - कैरव-चक्रवालम् । - [ ५ ] अर्थः सुखं कीर्तिरपीह मा भूदनर्थ एवास्तु तथापि धीरः । निजप्रतिज्ञामनुरुध्यमाना महोद्यमाः कर्म समारभन्ते ॥२६॥ वीर-प्रशंसा- भुजे विशाले विमलेऽसिपत्रे कोऽन्यस्य तेजस्वि-कथां सहेत । गतासुरप्याहवसीम्नि वीरो द्विधा विधत्ते रविमण्डलं यः॥ २७ ॥ को वीरस्य मनस्विनः स्वविषयः को वा विदेशस्तथा। यं देशं श्रयते तमेव कुरुते बाहुप्रतापार्जितम् । यदंष्ट्रानखलाङ्गलग्रहरणैः सिंहो वनं गाहते । तस्मिन्नेव हतद्विपेन्द्ररुधिरैस्तृष्णां छिनत्यात्मनः ॥२८॥ गुण-प्रशंसा- गुणाः कुर्वन्ति दूतत्वं दूरेऽपि वसतां सताम् । केतकी गन्धमाघ्राय स्वयमायान्ति षट्पदाः ॥२९॥ शरीरस्य गुणानां च दूरमत्यन्तमन्तरम् । शरीरं क्षणविध्वंसि कल्पान्तस्थायिनो गुणाः ॥३०॥ : & उद्यम.प्रशंसा- - न देवमिति संचिन्त्य त्यजेदुद्योगमात्मनः । अनुद्यमेन कस्तैलं तिलेभ्यः प्राप्तुमर्हति ॥३१॥ यथा टेकेन चक्रेण न रथस्य गतिर्भवेत् । एवं पुरुषकारेण विना दैवं न सिध्यति ॥३२॥ २ सू० श०१
-
नरस्याभरणं
-
[ ६ ]
नात्युच्चशिखरो
मेरु तिनीचं रसातलम् ।
व्यवसायद्वितीयानां नाप्यपारो महोदधिः ॥३३॥
क्षमा-प्रशंसा-
क्षमाशस्त्रं करे यस्य दुर्जनः किं करिष्यति ।
अतृणे पतितो वह्निः स्वयमेवोपशाम्यति ॥३४॥
रूपं रूपस्याभरणं गुणः ।
गुणस्याभरणं ज्ञानं ज्ञानस्याभरणं क्षमा ॥३५॥
क्षमा बलमशक्तानां शक्तानां भूषणं क्षमा ।
क्षमा वशीकृतिलोंके क्षमया किं न सिद्धयति ॥३६॥
सत्य-प्रशंसा-
सूनृतं सर्वशाखार्थनिश्चितज्ञानशोभितम् ।
भूषणं सर्ववचसां
लजेव कुलयोषिताम् ॥३७॥
गोभिर्विप्रैश्च वेदैश्च सतीभिः सत्यवादिभिः ।
अलुब्धैर्दानशूरैश्च सप्तभिर्धार्यते मही ॥३८॥
स्नेह-वचनम्-
सखि साहजिकं प्रेम दूरादपि विराजते।
चकोरीनयनद्वन्द्वमानन्दयति
चन्द्रमाः॥३९॥
केन्दोमण्डलमम्बुधिः क्व च रविः पद्माकरः क स्थितः
काभ्राः सन्ति मयूरपंक्तिरमला क्वालिःक्क वा मालती।
हंसानां च कुलं व दूरविषये वास्ते सरो मानसं
यो यस्याभिमतः स तस्य निकटे दूरेऽपि सन्वल्लभः ॥४०॥
[ .७ ] मित्र-प्रशंसा- कराविव शरीरस्य नेत्रयोरिव पक्ष्मणी। अविचार्य प्रियं कुर्यात् तन्मित्रं मित्रमुच्यते ॥४१॥ न मातरि न दारेषु न सोदर्ये न चात्मजे । विश्वासस्तादृशः पुंसां याद्दमित्रे स्वभावजे ॥४२॥ मित्रं प्रीतिरसायनं नयनयोरानन्दनं चेतसः पात्रं यत् सुखदुःखयोः सह भवेन्मित्रेण तद् दुर्लभम् । ये चान्ये सुहृदः समृद्धिसमये द्रव्याभिलाषाकुला- स्ते सर्वत्र मिलन्ति तत्वनिकपग्रावा तु तेषां विपत् ॥४३॥ क्षीरेणात्मगतोदकाय हि गुणा दत्ताः पुरा तेऽखिलाः क्षीरे तापमवेक्ष्य तेन पयसा ह्यात्मा कृशानौ हुतः । गन्तुं पावकमुन्मनस्तदभवद् दृष्ट्वा तु मित्रापदं युक्तं तेन जलेन शाम्यति सतां मैत्री पुनस्त्वीदृशी ॥४४॥ सत्पुत्र प्रशंसा- कुम्भः परिमितमम्भः पिबत्यसौ कुम्भसंभवोऽम्भोधिम् । अतिरिच्यते सुजन्मा कश्चिजनकं निजेन चरितेन ॥४५॥ पात्रं न तापयति नैव मलं प्रस्ते स्नेहं न संहरति नैव गुणान् क्षिणोति । द्रव्यावसानसमये चलतां न धत्ते, सत्पुत्र एष कुलसमनि कोऽपि दीपः ॥४६॥ -
LJ
[ ८ ]
जीवित-साफल्यम्-
यस्य जीवन्ति धर्मेण पुत्रा मित्राणि बान्धवाः ।
सफलं जीवितं तस्य नात्मार्थं को हि जीवति ॥४७॥
यो नात्मजे न च गुरौ न च भृत्यवर्ग,
दीने दयां न कुरुते न च बन्धुवर्गे।
किं तस्य जीवितफलं हि मनुष्यलोके,
काकोऽपि जीवति चिराय बलिं च भुते॥४८॥
-
प्रभात-वायु:-
भिक्षितकमलकुटुम्बाः शिक्षितगजगामिनीगतयः ।
लक्षितहिमगिरिपादाः प्रातरमी मातरिश्वानः ॥४९॥
आदाय बकुलगन्धानन्धीकुर्वन् पदे पदे भ्रमरान् ।
अयमेति मन्दमन्दं कावेरीवारिपावनः पवनः ॥५०॥
अन्योक्तयः
चन्द्र:-
निशाचरोऽपि दीनोऽपि सकलकोऽपि चन्द्रमाः।
चकोरीनयनद्वन्द्वमानन्दयति सर्वदा ॥५१॥
वक्रोऽस्तु बाल्ये तदनु प्रवृद्धः
कलङ्कवानस्तु जडोऽस्तु चन्द्रः।
महेशमौलौ च पदं दधातु
जायेत वन्यो
वन्यो विविधोपकारात् ॥५२॥
[ ] मेघः वितर वारिद वारि दवातुरे चिरपिपासितचातकपोतके प्रचलिते मरुति क्षणमन्यथा क च भवान् क्व पयः क च चातकः ॥५३॥ आश्वास्य पर्वतकुलं तपनोष्मतप्तं दुर्दाववलिविधुराणि च काननानि । नानानदीनदशतानि च पूरयित्वा रिक्तोऽसि यजलद सैव तवोत्तमश्रीः ॥५४॥ - हंस:- रे राजहंस ! किमिति त्वमिहागतोऽसि योऽसौ बकः स इह हंस इति प्रतीतः। तद्गम्यतामनुपदेन पुनः स्वभूमौ यावद् वदन्ति न बकं खलु मूढलोकः ॥५५॥ भुक्ता मृणालपटली भवता निपीता- न्यम्बूनि यत्र नलिनानि निषेवितानि । रे राजहंस ! वद तस्य सरोवरस्य कृत्येन केन भवितासि कृतोपकारः ॥५६॥ कोकिलः- अस्यां सखे बधिरलोकनिवासभूमौ, किं कूजितेन खलु कोकिलकोमलेन, -
[ १० ]
एते हि दैवहतकास्तदभिन्नवर्ण,
त्वां काकमेव कलयन्ति कलानभिज्ञाः॥५७॥
रे बालकोकिल ! करीरमरुस्थलीषु
किं दुर्विदग्धमधुरध्वनिमातनोषि ।
अन्यः स कोऽपि सहकारतरुप्रदेशो
राजन्ति यत्र तव विभ्रमभाषितानि ॥५८॥
-
चातकः-
चातक ! धूमसमूहं दृष्ट्वा मा धाव वारिधरबुद्धया ।
इह हि भविष्यति भवतो नयनयुगादेव वारिणां पूरः॥५९॥
विश्वोपजीव्ये न पिबत्यपोऽयं
पद्माकरे यद्यपि चातकश्वेत् ।
स्वार्थक्षतिस्तस्य तृषातुरस्य
लघुत्वमेवास्ति न किंचिदस्य ॥ ६०॥
ऊर्वीकृतग्रीवमहो मुधैव
किं याचसे चातकपोत ! मेघम् ।
अत्यूर्जितं गर्जितमात्रमस्मि-
नम्भोधरे बिन्दुलवस्तु दूरे ॥ ६१ ॥
वृथा कथं नृत्यसि चातक ! त्वं
न नीलमेघोऽथ गजो मदान्धः ।
स त्वादृशेभ्यो न ददाति नूनं
मातङ्गदानं मधुपेभ्य एव ॥ ६२ ॥
[ ११ ]
प्रातः-
-
यात्येकतोऽस्तशिखरं पतिरोषधीना-
माविष्कृतारुणपुरःसर एकतोऽर्कः ।
तेजोदयस्य युगपद्व्यसनोदयाभ्यां,
लोको नियम्यत इवैष दशान्तरेषु ॥६३॥
कुमुदवनमपथि श्रीमदम्भोजपण्डं
त्यजति मुदमुलूकः प्रीतिमांश्चक्रवाकः
उदयमहिमरश्मिर्याति शीतांशुरस्तं
हतविधिलसितानां ही विचित्रो विपाकः॥६४॥
--
वायु:-
गन्धवाह ! गहनानि गाहसे गन्धजातमिह संचिनोषि च ।
नैपुणच्युतिरियं तु तावकी यत्र तत्र सदसद्विवेचनम् ॥६५॥
अहह चण्ड समीरण दारुणं,
किमिदमाचरितं चरितं त्वया ।
यदिह चातक
कचञ्चपुटोदरे,
पतति वारि तदेव निवारितम् ॥ ६६ ॥
सूक्तयः
अनवसरे न कथनीयम्-
अप्राप्तकालं वचनं बृहस्पतिरपि
ब्रुवन् ।
लभते बुद्ध्यवज्ञानमवमानं च केवलम् ॥६७॥
[ १२ ]
क यत्नः कार्यः?
गुणेषु यत्नः क्रियतां किमाटोपैः प्रयोजनम् ।
विक्रीयन्ते न घण्टाभिर्गावः क्षीरविवर्जिताः ॥६८॥
किम् अमूल्यम् ?
आयुषः क्षण एकोऽपि न लभ्यः स्वर्णकोटिभिः ।
स वृथा नीयते येन तस्मै नृपशवे नमः ॥६९॥
ज्ञातिभिः सह किं किं कार्यम् ?
संभोजनं संकथनं संप्रश्नोऽथ समागमः।
ज्ञातिभिः सह कार्याणि न विरोधः कथंचन ॥७॥
का सर्वदा ग्राह्या?
गतेऽपि वयसि ग्राह्या विद्या सर्वात्मना बुधैः ।
इह चेत् स्यान फलदा फलदा साऽन्यजन्मनि ॥७॥
जनः कुत्र निपुणः भवति ?
परवाच्येषु निपुणः सर्वो भवति सर्वदा।
आत्मवाच्यं न जानाति जानन्नपि विमुह्यति ॥७२॥
किं भवत्येव?
आपत्सु किं विषादेन सम्पत्तौ विस्मयेन किम् ।
भवितव्यं भवत्येव कर्मणामेप निश्चयः ॥७३॥
केन कार्येण जगत् वशीक्रियते ?
यदीच्छसि वशीकर्तुं जगदेकेन कर्मणा
परापवादशस्येभ्यो गां चरन्ती निवारय ॥७॥
[ १३ ]
किम् अनुगन्तव्यम् ?
अनुगन्तुं सतां वर्त्म कृत्स्नं यदि न शक्यते ।
स्वल्पमप्यनुगन्तव्यं मार्गस्थो नावसीदति ॥७५॥
अपकारिणः कथं नश्यन्ति ?
अपकारिषु मा पापं चिन्तयस्व महामते !।
स्वयमेव हि नश्यन्ति कूलजाता इव द्रुमाः ॥७६॥
के
गुणान्
प्रथयन्ति ?
सजना एव साधूनां प्रथयन्ति गुणोत्करम् ।
पुष्पाणां सौरभं प्रायस्तनुते दिक्षु मारुतः ॥७७॥
हीनः कथं गौरवं याति?
गुणवजनसम्पर्काद्याति स्वल्पोऽपि गौरवम् ।
पुष्पमालानुषङ्गेण तृणं शिरसि
शिरसि धार्यते ॥७८॥
किं महदैश्वर्यम् ?
आरोग्यं विद्वत्ता सज्जनमैत्री महाकुले जन्म ।
स्वाधीनता च पुंसां महदैश्वर्यं विनाप्यर्थैः ॥७९॥
जीवानां किं वरम् ?
जीवनात्तु पराधीनाजीवानां मरणं वरम् ।
मृगेन्द्रस्य मृगेन्द्रत्वं वितीण केन कानने ॥८॥
कस्य परित्यागो विधीयते ?
गुरोरप्यवलिप्तस्य कार्याकार्यमजानता।
उत्पथप्रतिपन्नस्य परित्यागो विधीयते ॥८॥
[ १४ ]
प्रजानां कः नेता अस्ति?
आत्मप्रतीतिदृढता विरक्ति-
रिति त्रयं स्वात्मनि यो दधाति ।
नेता स एवास्ति समस्तशिष्ट-
गुणाश्रयत्वान्निखिलप्रजानाम् ॥८२॥
के स्वर्गमुपाश्रयन्ते ?
त्यागाधिकाः स्वर्गमुपाश्रयन्ते,
त्यागेन हीना नरकं ब्रजन्ति ।
न त्यागिनां किञ्चिदसाध्यमस्ति,
त्यागो हि सर्वव्यसनानि हन्ति ॥८३॥
पुरुषः कथं परीक्ष्यते ?
यथा चतुर्भिः कनकं परीक्ष्यते,
निघर्षणच्छेदनतापताडनैः।
तथा चतुर्भिः पुरुषः परीक्ष्यते,
त्यागेन शीलेन गुणेन कर्मणा ॥ ८४ ॥
के सत्पुरुषाः ?
एके सत्पुरुषाः परार्थघटकाः स्वार्थं परित्यज्य ये,
सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये।
तेऽमी मानुषराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये,
ये तु नन्ति निरर्थकं परहितं ते के न जानीमहे ॥८५॥
[ १५ ]
के कृच्छाणि समुत्तरन्ति ?
धैर्य हि कार्य सततं महद्भिः,
कृच्छ्रेऽपि कष्टेप्यतिसंकटेऽपि ।
कृच्छ्राण्यकृच्छ्रेण समुत्तरन्ति,
धैर्योच्छ्रिता ये प्रतिपत्तिदक्षाः ॥८६॥
कानि जीवलोकस्य सुखानि ?
अर्थागमो नित्यमरोगिता च,
प्रिया च भार्या प्रियवादिनी च ।
वश्यश्च पुत्रोऽर्थकरी च विद्या,
पड़ जीवलोकस्य सुखानि राजन् ? ॥८७॥
गुणाः कुत्र गुणा भवन्ति ?
गुणा गुणज्ञेषु गुणा भवन्ति,
निर्गुणं प्राप्य भवन्ति दोषाः ।
आस्वाद्य तोयाः प्रभवन्ति नद्यः,
समुद्रमासाद्य
भवन्त्यपेयाः ॥८॥
कः पुरुषस्य बन्धुः?
त्यजन्ति मित्राणि धनविहीनं,
दाराश्व मृत्याश्च सुहृजनाश्च।
तं चार्थवन्तं पुनराश्रयन्ते,
ह्यर्थो हि लोके पुरुषस्य बन्धुः ॥८९॥
[ १६ ] कुरूपता कथं विराजते ? दरिद्रता धीरतया विराजते, कुवत्रता शुभ्रतया विराजते। कदन्नता चोष्णतया विराजते, कुरूपता शीलतया विराजते ॥९॥ कः गुणिनं निन्दति ? न वेत्ति यो यस्य गुणप्रकर्ष स तं सदा निन्दति नात्र चित्रम् । यथा किराती करिकुम्भलब्धां मुक्तां परित्यज्य बिभर्ति गुञ्जाम् ॥९१॥ सन्तः कथं मनः हरन्ति ? कटु क्वणन्तो मलदायकाः खला- स्तुदन्त्यलं बन्धनश्रृंखला मनस्तु साधुध्वनिभिः पदे पदे, हरन्ति सन्तो मणिनूपुरा इव ॥१२॥ निवृत्तरागस्य कुत्र तपोवनम् ? वनेऽपि दोषाः प्रभवन्ति रागिणां, गृहेऽपि पञ्चेन्द्रियनिग्रहस्तपः। अकुत्सिते कर्मणि यः प्रवर्तते, निवृत्तरागस्य गृहे तपोवनम् ॥१३॥ इव। , [ १७ ] कः लघुत्वं याति ? अयममृतनिधानो नायकोप्योषधीना- ममृतमयशरीरः कान्तियुक्तोऽपि चन्द्रः । भवति विगतरश्मिमण्डलं प्राप्य भानोः, परसदननिविष्टः को लघुत्वं न याति ॥९४॥ सुखानि कथम् आयान्ति ? अप्रार्थितानि दुःखानि यथैवायान्ति देहिनाम् । सुखानि च तथा मन्ये दैन्यमत्रातिरिच्यते ॥१५॥ कीहशी चिन्ता कार्या? एकः कर्णमहीपतिः प्रतिदिनं लक्षाधिका याचकाः कस्मै कि वितरिष्यतीति मनसा चिन्तां वृथा मा कृथाः। आस्ते किं प्रतियाचकं सुरतरुः प्रत्यम्बुजं किं रवि- श्चन्द्रः किं प्रतिकैरवं प्रतिलतागुल्मं किमम्भोधरः ॥१६॥ कः धर्मः? संक्षेपात् कथ्यते धर्मो जनाः किं विस्तरेण तु । परपीडनम् ॥९७॥ बुद्धिः कथम् एधते हीयते वा ? बुद्धिश्च हीयते पुंसां नीचैः सह समागमात् । मध्यमैमध्यतां याति श्रेष्ठतां याति चोत्तमैः॥९८॥ कथं यशःप्राप्यते ? पञ्चैव पूजयश्लोके यशः प्राप्नोति केवलम् । देवान् पितॄन् मनुष्यांच गुरूनतिथिपञ्चमान् ॥१९॥ परोपकारः पुण्याय पापाय
[ १८ ]
उपसंहारः
किं हारैः किमु कङ्कणैः किमसमैः कर्णावतंसैरलं
केयूरैर्मणिकुण्डलैरलमलं साडम्बरैरम्बरैः
पुंसामेकमखण्डितं पुनरिदं मन्यामहे मण्डनं
यन्निष्पीडितपार्वणामृतकरस्यन्दोपमाः मूक्तयः ॥१००॥
काशी हिन्दू विश्वविद्यालय का कुलगोत
मधुर मनोहर अतीव सुन्दर, यह सर्व विद्या की राजधानी ।
यह तीन लोकों से न्यारी काशी ,
सुज्ञान धर्म और सत्यराशी ।
बसी है गंगा के रम्य तट पर, यह सर्व विद्या की राजधानी।
नये नहीं हैं यह ईंट पत्थर ,
है विश्वकर्मा का कार्य सुन्दर ।
रचे हैं विद्या के भव्य मन्दिर, यह सर्वसृष्टि की राजधानी ।
यहाँ की है यह पवित्र शिक्षा ,
कि सत्य पहले फिर आत्म-रक्षा ।
बिके हरिश्चन्द्र थे यहीं पर, यह सत्यशिक्षा की राजधानी।
वह वेद ईश्वर की सत्यवानी ,
बने जिन्हें पढ़ के ब्रह्मज्ञानी ।
थे व्यास जी ने रचे यहीं पर, यह ब्रह्म-विद्या की राजधानी ।
वह मुक्तिपद को दिलानेवाले , ,
सुधर्म-पथ पर चलाने वाले ।
यहीं फले फूले बुद्ध शङ्कर, यह राज-ऋषियों की राजधानी ।
सुरम्य धाराएँ वरुणा अस्सी ,
नहाए जिनमें कबीर तुलसी ।
भला हो कविता का क्यों न आकर, यह वागविद्या की राजधानी।
विविध कला अर्थशास्त्र गायन ,
गणित खनिज औषधि रसायन |
प्रतीचि-प्राची का मेल सुन्दर, यह विश्वविद्या की राजधानी।
यह मालवी की है देशभक्ति
यह उनका साहस यह उनकीशक्ति।
प्रगट हुई है नवीन होकर, यह कर्मवीरों की राजधानी ।
मधुर मनोहर अतीव सुन्दर, यह सर्व विद्या की राजधानी ।
,