Donar
Shriimaddeidaantadeishika Granthamaalaayaan'
Front matter
No text on this page.
No text on this page.
॥ श्रीरस्तु॥
श्रीमद्वेदान्तदेशिकग्रन्थमालायां
[व्याख्यान विभाग प्रथमसम्पुटम् ]
ईशावास्योपनिषद्धाष्यम्, चतुःश्लोकीभाष्यम्, स्तोत्रभाष्यम,
गद्यभाष्यं च ।
पर्यवेक्षकः परिकारकश्च
।। श्रीकाञ्ची प्रतिवादिभयङ्करः अण्णंगराचार्यः ।।
प्रकाशनादि साधिकारी
विद्धान अ. संपत्कुमाराचार्यः, 31 A.
३९, सन्निधि थी, कञ्जीवरम् ।
[इदमेव पुन्तकप्राप्तिस्थानम् ]
1940
Price 2-0-01
॥ एतन्मूल्यं रूप्यद्वयमात्रम् ॥
L'ostage Etxra
No text on this page.
॥ श्रीरस्तु॥ श्रीमत्प्रणतातिहरवरदपरब्रह्मणे नमः । श्रीमते हयग्रीवाय नमः । श्रीमते रामानुजाय नमः । श्रीमते निगमान्तमहादेशिकाय नमः । ॥ श्रीमद्वेदान्तदेशिकगन्थमाला॥ [व्याख्यानविभागे प्रथमसम्पुटम्] -:0 कवितार्किकसिंहसर्वान्वयनन्त्र श्रीमद्वेदान्ताचार्यविरचितम् ॥ ईशावास्योपनिषद्भाष्यम् ॥ श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवों मे सन्निधत्तां सदा हदि ॥ । येनावा यमिदं सर्व चेतनाव "नात्मकम् । विशुद्धसद्गुणौधं तं वासुदेवमुपास्महे ॥ १ ॥ सर्वेशानस्सह जमहिमा पाभूतान्तरात्मा सर्वार दोपान स्वयमतिपतन सर्वविधैकवेद्यः । कर्माध्यक्षः कलु पशमनः कोऽपि मुक्तोपभोग्यस्सिद्धोपायः स्फुरति पुरुषा वाजिनां संहितान्ते ॥ २ ॥ ईशावास्यमिदं सानियादि यदनूव्य न । शिष्यं प्रति गुरितद्रह्मविद्यानुशासनम् ॥ ३ ॥ संभूगोदाह सर्व वियोगपृथक्त्वतः । विद्यार्थ म्यादिति व्यक्तं निबन्धोऽस्य तदन्ततः ॥ ४ ॥ ईशावास्यमिद सर्व यत्किंच जगत्यां जगत् । तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम् ।। तत्र प्रथममचिद्विकाराधिष्ठितम्य स्वतन्त्रात्मननादिधरिनिहोरीया सर्वन्य परमपुरुषायत्तस्वरूपस्थितिप्रवृत्ति- मभिप्रेत्याह-ईशा वास्यमिदं सर्व यत्किञ्च जगत्यां जगदिति । इदं-तत्तत्प्रमाणसिद्धमोश्वरगतिरिक्तं चिदचिदात्मकम् , ईशा - *ज्ञाज्ञो द्वावनावीशनोशौ इत्यादिषु जीवाद-यन्तविलक्षणतया प्रख्यातेन सर्वनियन्त्रा पुरुषो- तमेन, वास्य-व्याप्यमित्यर्थः । सर्वाधारे खस्मिन् स्वेन वसनीयं वा । स्मयते हि- * सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः । ततम्स वासुदेवेति विद्वद्भिः परिपठ्यते ॥ इति । जगत्यामिति लोकान्तराणामुपलक्षणम् । जगत्-खरूपतो धर्मतो वा अन्यथात्वं गच्छत् भोग्यभोक्तृरूपं वस्तु- जातम् । अतदात्मकं किश्चिदपि नास्तीति द्रढयितु-यत्किञ्चेति विशेष्यते । ॥
४ श्रीमद्वेदान्तदेशिकग्रन्थमाला *इन्द्रियाणि मनो बुद्धिस्सत्त्वं तेजो बलं धृतिः । वासुदेवात्मकान्याहुः क्षेत्र क्षेत्रज्ञमेव च ।। इत्युपबृंहितम् । ननु * रूढियोगमपहरतीति न्यायादीशोऽत्र रुद्रस्स्यात्, सर्वायुपपदाभावाच्च । मैवं, कारणविषयाकाशप्राणादि- शब्दवद्र्ढेरिह बाधितत्वात् , *एको ह वै नारायण आसीन्न ब्रह्मा नेशानः, ॐ अनपहतपाप्माऽहमस्मि नामानि मे धेहि इत्यादिभिः असर्वकारणत्वेन कर्मवश्यत्वेन च संप्रतिपन्ने रुद्रे सर्वावास्यत्वसर्वाधारत्वादेरसंभवात् । तद्वत्तया प्रसिद्धे अनवच्छिन्नश्चयें सर्वेश्वरे यौगिकोऽयं शब्दः प्रत्येतव्यः । यद्यपि प्रसिद्धवन्निर्देशाभावादाकाशादिवाक्यवैषम्यम् , तथाप्यन्द्रीन्यायाविरुद्धार्थविषयतयैव रूढिभङ्गोपपत्तिः । नचात्र *सर्वत्वमाधिकारिकमिति न्यायः, सङ्कोचादृष्टेः । प्रवाहेश्व. रानेकेश्वरपक्षौ तु त्रैकालिकसर्वनिर्वाह केश्वरप्रतिष्ठापकैः प्रमाणगणैः प्रत्यूढौ । अतः * पतिं विश्वस्यात्मेश्वरमित्यादि- प्रसिद्धानन्याधीनैश्वयम् * योऽसावसौ पुरुषः इत्यनुवदिप्यमाणं ब्रह्मेशानजनकतया अनन्यथासिद्धवाक्यनिर्धारितम् * एष सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देव एको नारायणः इत्यादिषु सर्वान्तामित्वेन प्रख्यातम् तत एव * स ब्रह्मा स शिवः इत्यादिविभूतिभूतानां ब्रह्मशिवन्द्रादानां * विश्वमेवेदं पुरुषः इत्यत्र विश्वस्यैव विशेष्यतयोक्ति नारायणमेव सर्वस्य वाम्यमीशं वक्तुमुचितमेतद्वाक्यमित्यलमन्यरूढिप्रसङ्गरहितासमस्तपदाध्ययनानभिज्ञाश्रोत्रियचोद्योपा- लम्भेन । एवं मुमुक्षारीश्वरपारतन्त्रयबोधमुत्पाद्य वैराग्यभूपितां वृत्तिमुपदिशति-*तेन त्यक्तेन भुञ्जीथा मा गृधः कम्यस्विद्धनमिति । तेन-जगता भाग्यताभ्रमविषयण, त्यक्तेन-दोषभूयस्त्वदर्शनात्परित्यक्तेन, उपलक्षितम्सन् भुञ्जीथाः । अप्रतिषिद्धयोगधर्माप युक्तदेहधारणमात्रीपयिकं भाग्यवर्गमित्यर्थप्रकरणाभ्यां सिध्यति । यद्वा, सर्वावास्यत्वेन प्रकृतं निरतिशयभाग्यं वक्ष्यमाणोपायमुग्वेन भुञ्जीथाः इति याज्यम् । कस्यापि बन्धोरबन्धोर्वा धनं, मा गृधः - माऽभिकाङ्क्षः । आह च यमः किङ्करं प्रति * परमसुहृदि इत्यारभ्य * शठमतिरुपयाति योऽर्थतृष्णां पुरुषपशुन स वासुदेवभक्तः इति । इदं च धनाशापहाणं परमात्मेतरकृम्नविषयवैराग्योपलक्ष्या मयत हि * परमात्मनि यो रक्तो विरक्तोऽपरमात्मनि इति ॥ कुर्वन्नवह कर्माणि जिजीविपन्छन समाः । एवं त्वयि नान्यथतोऽस्ति न कर्म लिप्यते नरे ।। एवं विदुषः फलमङ्गकर्तृत्वादित्यागयुक्तं नित्यनैमित्तिकरूपं विद्याङ्गभूत कर्म यावविभनुष्ठयमित्याह- कुर्वन्नवह कर्माणि जिजीविषच्छतं समाः इति । ब्रह्मविदाऽपि यावद्वियापूर्ति जीवमिष्टं भवताति ज्ञापनाय सन् योगः । गतमिति च प्रायिकविषयम् । शतं ममाः जीवन अधिकारानुगुणानि कर्माणि कुवातव । न कदाचिदपि विद्या कम परित्यजेदित्यर्थः । अन्य वाक्यम्य फलसाधनभूतस्वतन्त्रकविषयत्व विशेष हत्यभावस्मूत्रित : नाविशेषात् इति । अर्थान्नां च प्रकरणाविरुद्धम् अनन्त मूत्रानम् * स्तुनयेऽनुमतिर्वा इति । भाप्यं वाशब्दोऽवधारणार्थः । * इशा- वास्यमिदं सर्वमिति विद्याप्रकरणाविद्याम्नुनये सर्वदा कर्मानुष्ठानानुनिश्यिम् । विद्यामाहात्म्यात्सर्वदा कर्म कुर्वन्नपि न लिप्यन कमभिरिनि ति विद्या स्तुना भवति । वाक्यापाचे नदेव दर्शयति— एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे इति । त्वयि ब्रह्मविद्यधिकारिणि एवमेवानुष्ठयार्थः, इतोऽन्यथा नातीनि व्यतिरेकेणोक्तं दृढीकारार्थम् । नन ब्रह्मविदोऽपि कर्मानुष्ठानभावाइन्धम्म्यादित्यत्राह - न कर्म लिप्यने नरे इति । प्रस्तुते ब्रह्मविदि नरे । * अग्निहोत्रादि तु तत्कार्यायव तद्दर्शनात् इति विनियोगपृथक्त्वन्यायेन कर्म न स्वर्गादिफलहेतुर्भवति । विद्यानुप युक्तकाम्यानां निषिद्धानां च विरक्तेन विवेकिना न बुद्धिपूर्वापादानसंभवः । संभावितानामपि केषांचित् * नाविरतो --- व्याख्यानविभागे ईशावास्योपनिषद्भाष्यम् ३ । ३ ४ दुश्चरितात् इत्यादिबलात् खानुगुणा निष्कृतिम्स्यात् । तदधिगमाधिकरणे तु प्रामादिकानामेवाश्लेषः परविद्यावतामपि स्थापितः । ज्ञानामिदग्धाधिकारो विधिनिषेधानधिकारीति पक्षस्तु न वेदवित्संमतः ॥ असुर्या नाम ते लोका अन्धेन तमसावृताः । तांस्ते प्रेत्याभिगच्छन्ति ये केचात्महनो जनाः ।। वक्ष्यमाणविद्यायां शीघ्रं प्रवृत्त्यर्थमुक्तप्रकारब्रह्मवेदनविधुरतया वित्तषणायोगाच्च अन्यथाभवद्भिर्ज्ञानानुष्ठा- नैरात्मघातिनां निरयपातोऽवश्यम्भावीत्याह-*असुर्या...जनाः-इति । असुर्या - * असुरम्य स्वम् इति यत् ; आसुरप्रकृतीनामनुभाव्या इत्यर्थः । नामेति प्रसिद्धी । तं नरकसंज्ञिताः भोषणतमाः लोकास्सन्ति । पुनन्तान्विशिनष्टि- अन्धेन तमसावृताः-गाढेनान्धकारण व्याप्ताः । तान् - आलोकप्रसङ्गरहितान् , ते - स्वात्मघातिनः । प्रेत्य : तदातनदेहादुत्क्रम्य । अभिगच्छन्ति - कामन्यन निरन्तरं प्राप्नुवन्ति । येकेच - देवजातीया मनु-यजातीया वा, तथा ब्राह्मणक्षत्रियादयो वा । आत्महनः * अमन्नेव स भवति, अमोति वेद चेत् इत्याम्नातामसत्कल्पतां खात्मानं नयन्तः ; देहपातमुखेन पातकवर्गोपलक्षणमिदम् । जनाः - जनिमन्तः ; संसरन्त इत्यर्थः ।। अनेजदेकं मनसो जवीयो नैनदेवा आप्नुवन् पूर्वमर्पत् । तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ।। सर्वावासत्वेन प्रस्तुतमाश्वरतत्त्वं विरुद्धवदभिलापव्यजितेन विचित्रशक्तियोगेन विशदयति- अनेजदेक मनसो जवीय इति । अनेजत् - अकम्पमानम् । एकं - प्रधानभूतम्, म्बानधीनम्वनमानद्वितीयरहित वा, मनसो जवीयः - वेगवत्तरमनमोऽप्यतिशयितजयम् । नन्विदं न जाघटीति निष्कम्पत्वं वेगवत्तरत्वं चति : मैवं, तात्पर्यवृत्त्या मुघटितत्वात्, सर्वस्य स्वेन नित्यव्या बदलत् , सर्वदा मनमा गोचरदेशमनिक्रम्य वृत्तः मनसा जवीय उपचर्यते । एवमुत्तरेष्वपि वाक्येषु भाव्यम् : अनदेवा' आप्नुवन् पूर्वमर्पन्—प्रागेव सर्वान् प्राग्वत् देवा हिरण्यगर्भादयो नाप्नुवन् ; एतावन्तं कालं न लेभिर । विभुत्वेन नित्यप्राप्तमपि कर्मप्रतिवद्धज्ञानाः क्षेत्रज्ञाः वियाधिगमा पूर्व स्वबुद्ध्या न प्रामुवन्तीति न विराधः । यथार छान्दोग्ये * तयथा हिरण्यनिधि निहितमक्षेत्रज्ञा उपयुपरि संचरन्नो न विन्देयु वमेवेभामाः प्रजाः अहरहच्छिन्न्य एतं ब्रह्मलोकं न बिन्दन्यन्तेन हि प्रन्यूढाः इति । तद्धावतोऽन्यानत्येति तिष्ठत् - * यः पृथिव्यां तिष्ठन * य आत्मनि तिष्ठन् इत्यादिक्रमेण तत्सर्वत्र तिष्ठदेव धावतो गरुडादीनप्यस्येति, यावद्यावद्धावन्ति जविनम्तावतः परम्तादपि वर्मत इत्यर्थः । यथाच्या- * वर्षायुतशतेनापि पक्षिराडिव संपतन् । नवान्तं कारणम्येयायद्यपि म्यान्मनाजवः ।। इति । अन्येषां क्वचित्तिष्ठतां धावदतिकमा नास्तीति वैचित्रा । अन्यदपि किञ्चिदाश्चामत्याह-तस्मिन्नपो मातरिश्वा दधातीति । तस्मिन्नवस्थितः अप्रतिबन्धानुगुणकाठिन्यादिरहिताऽपि वायुः अपा विभात । सर्वाधारभूतन संश्चंग्ण विधृतस्स मातरिश्वा तच्छक्त्येव पाथ पयोधरनक्षत्रग्रहतारकादिक विमतात्युक्तं भवति । स्मयते हि * द्यौस्सचन्द्राकनक्षत्र व दिशा भूमहादधिः । वासुदेवन्य वीर्येण विधृतानि महात्मनः ।। इति । तदेजति तदु नैजति तदूरे तद्वन्तिके । तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ।। - - ५ ६ - -- w श्रीमद्वेदान्तदेशिकग्रन्थमाला * अनेजदेकं मनसो जवीय. इत्युक्तमर्थमादरान्मुखान्तरेणानुशास्ति - * तदेजति तदु नैजतीति । तत् - व्याप्तं तत्त्वं पूर्वोक्तप्रकारेण जवीयस्त्वादिना एजति - कम्यते । कम्पत इवेत्यर्थः । तदु नैजति तदेव वस्तुवृत्त्या न कम्पते तरे तद्वलिकेत श्ऽन्ति के च वर्तते । मृढप्रतिबुद्धपुरुषभेदापेक्षया विभारेव दूरान्तिकवर्तिःवव्यपदेशः । यथाह शौनक:- * पराङ्मु-बानां गोविन्दे विषयासक्त वेतसाम् । तेषां तत्परमं ब्रह्म दूरादूरतरे स्थितम् ॥ तन्मयत्वेन गोविन्दे ये नरा न्यस्त चेतसः । विषयत्यागिनम्नेषां विज्ञेयं च तदन्ति के ॥ इति । केचि पदार्थाः कस्यचिदन्तर्भवन्ति न बहिः । केचिद्रहि विन्ति, नान्तः । तदुभयव्यावृत्तिमाह-दारस्य सर्वस्य तदु सर्वम्यास्य बाह्यत इति । तत् सर्वव्यासमुक्तं पां ब्रह्म । अन्य-विचित्रचि दचिद्रूपेण प्रमाणसिद्वन्य सर्वस्य वस्तुनः अन्तर्वात - अप्रतिघातादविभक्तदेशे वर्तत इ-यर्थः । तदेव सर्वन्यान्य बहिरपि भवति, परिमितानां पदार्थानां भावदेश इवाभावदे ऽपि वर्तत इति यावत् । तदेतद्यक्तनु नैत्तिरीय सर्वपरविद्योपाम्यविशेषनिर्धारणार्थ सहस्रशीर्षम् इत्यानुवाके- *यच्च किञ्चिजगत्यस्मिन् दृश्यने श्रूयतेऽपि वा । अन्तर्वाहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ॥ इति ॥ ५ गन्तु सर्वाणि भूतानि आत्मन्येवानुपश्यति । सर्वभूनेषु चात्मानं ततो न विजुगुप्सने ।। एवं सर्वम्य ब्रह्मात्मकत्वमुक्तम् । अथ तद्विदम्सांप्रतिकं प्रयोजनमाह ---* यस्तु ....जुगुप्सत इति । ब्रह्मवि-माहात्म्य विशेषद्योतनाय तुशब्दः । सवाणि भूतानि - ब्रह्मादिम्थावरान्तानि । अत्रात्मशब्दम्सकोचकाभावा- प्रकरण दर्थस्वभावाच्च सर्वान्तरात्मविषयः । पृथिव्यादिभिर्धियमाणमपि तन्मुग्वन परमात्मन्यवस्थितमित्येवकाराभिप्रायः । अनुपश्यति–अनुम्यूतं विशदं निध्यायति । सर्वभूतेषु चान्मानमिति व्याप्तिमात्रपरम्, तस्य तैयित्वाभावात् । स इति प्रतिनिदेशोऽध्याहार्यः । ततो न विजुगुप्सते—यात्मकन्येनानुण पु स्वात्मविभूतिन्यायात्कुतश्चिदपि न विजुगुप्तते । क्वचिदपि निन्दा न करोतीत्यर्थः ।। यम्मिन मर्याणि भूतानि आन्मेवाभूद्विजाननः । तत्र को मोहः कश्शोक एकन्वमनुपश्यतः ।। पुनरपि सर्वम्य ब्रह्मात्मकत्वं सामानाधिकरण्येन द्रढय(न ति तथानुदर्शनन्य सद्यश्शाकनिवर्तकत्वमाह - * यम्मिन्...पश्यत इति । यम्मिन प्रणिधानसमये । विजानतः स्वतन्त्रपरतन्त्रवस्तुभेदं सम्यगुपदिष्टेन मार्गेण शाग्नेश विविच्य जानतः । आत्मैव सर्वाणि भूतानि अभूत् परमात्मैव सर्वविशिष्टः प्रतीत इत्यर्थः । देवोऽहम् इन्यादियटकवेदमर्यादया शर्गरगन्मभावेन जगदम-नामानाधिकरण्ये संभवति बाधोपचारम्वरूपैक्यादिपक्षा बहिष्कार्याः नदा, को मोहः म्वतन्त्रात्मभ्रमादिलक्षणो मोही न संभवती यर्थः । कश्शोकः-परविभूतिभूते सर्व मिनिगमिधा पुत्रमग्णराज्यहरणादावपि न कश्चिच्छोकम्म्यादित्यर्थः । यथाह- * अनन्तं बत में वित्तं यन्य में नाम्नि किञ्चन । मिथिलायां प्रदीप्तायां न मे किश्चित्प्रदह्यते ॥ इति । एकन्वमनुपश्यतः-सर्वविशिष्टंक्यमनुपश्यतः । न ह्ययमेकशब्दः एकव्यतिरिक्ताभावपरः, * ईशावास्यमिदं सर्वम् इति ईश्वरव्याप्तत्वेन प्रक्रान्तम्य कम्यचित्केनचिदपि बाधाभावात्, सर्वभेदभिश्यात्ववेदनावेदनयोः कथञ्चिदपि तादृशैक्योप- देशादिप्रवृत्त्ययोगाच्च । न चासो परम्परविरूद्धानां स्वरूपैक्यप्रतिपादकः, सर्वव्याघातोत्सादने वपरमतविवेकादिविप्लव ur ७ तत्र । - ७ . व्याख्यानविभागे ईशावास्योपनिषद्भाष्यम् प्रसङ्गात् । विशिष्टैकत्वविवक्षा तु सर्वप्रमाणानुगुण्याद्भाव्यते । ततोऽपि वरमत्र प्रकृतसामानाधिकरण्यनिर्वाहानुगुणसंवन्ध विवक्षा । प्रयुज्यते हि संबन्धविशेषविवक्षया शमसुग्रीवयारैक्यम् इत्यादिप्वेकशब्दः । एतौ च श्लोकौ यद्यपि मुक्तविषय तया नेतुं शक्यौ, तथापि पूर्वानुगुण्यान्मुमुक्षुपर्शसार्थत्वमुचितम् । ततश्च वैशयातिशयविवक्षया शास्त्रजन्यज्ञानेन तन्मूलोपासनात्मकज्ञानेन दर्शनवाचायुक्तिः । समाधिविशेषफलभूतस्त्ववतनसाक्षात्कार उपायत्वेनाभिहितत्वान्नात्र संशयनीयः । मोक्षोपायोपदेशपरेषु सर्वपु वाक्येषु दर्शनशब्द उपासनविषय इति शारीरकभाप्ये प्रत्यादि ।। स पर्यगाच्छुक्रमकायमत्रणमनाविर शुद्धमपापविद्धम् । कविर्मनीपी परिभूस्वयंभूर्याथानथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यस्समाभ्यः ।। पुनरप्यनम् ईशशितव्यतत्त्ववेदिनं वेदितव्यविशेषबोधनेन च विशिनष्टि-*स पर्यगात् ....समाभ्यः इति । सः - सर्वभूनान्तरात्मभूतब्रह्मदर्शी, पर्यगात् - प्राप्नुयादित्यर्थः । * ब्रह्मविदामाति परम् इति न्यायात्समाधि लब्धेनानुभवेन प्राप्तवानिति सिद्धानुवादा वा, * अत्र ब्रह्म समश्नुते इतिवत् । शुक्रम् अवदातम्, खप्रकाशरूपम् । अकायं - सर्वशरीरकमपि कर्भशरीररहितम् । अत एव अत्रणम्, अनाविरश्च । शुद्धम्-अनावाताज्ञानादिदायम् । अपापविद्धम् अज्ञानादिकार्यकारणभूतपुण्यापुण्यरूपकर्मानालाढमित्यर्थः । * न चुकृतं न दुष्कृतम् इत्यारभ्य * सर्वे पाप्मानोऽतो निवर्तन्ते इति हि निगम्यते । एवमशेप हेयपत्यनीकः परमात्मा मुमुक्षाः प्राप्यः प्रापकः उपास्यश्च स्यात् । * सः इत्युक्तं ब्रह्मविदं सर्वार्थदर्शित्वेन विशिनष्टि-कविः-क्रान्तदर्शा । व्यासादिव-परतत्त्वतद्गुणबाधनानु- गुणप्रबन्धनिर्मातति वाऽर्थः । मनस ईशित्री बुद्धिः मनापा, तद्वान् मनीपी । अन्यामपैराग्याभ्यां निगृहातान्तः- करण इत्यर्थः । परितो भवताति परि- परिता भवतीति परिभूः, विद्यान्तरवतः सर्वानतिक्रम्य वर्तते । कामक्रोध लोभादीन् दुर्जयानरातीन् अभिनन्मति वा । स्वयंभूः- अन्यनिरपेक्षसत्ताकः, नियात्मवादांति यावत् । याथा. तथ्यतोऽर्थान् व्यदधात्-परमपुरुषार्थत दुपायद्विरोधिप्रभृतान् सर्वान् पदार्थान् यथावद्विविच्य हृदयेन धृतवान् । शाश्वतीभ्यस्समाभ्यः-यावापानि सर्वप्रत्यूदशमनार्थमिति भावः । यद्रा प्रथमान्नं च द्विनायान्तं च पद जातं क्रमात्परावरात्मविषयतया व्याख्येयम् । तदा में शुक्रम् इत्यदिकं सर्वापाधिविनिर्मुक्तपरिशुद्व जावपरम् । तमपि च, सः- परमात्मा, पर्यगात् परिता व्याप्य स्थितः । कविः इत्यादिकं युगमम् । याथातथ्यत इत्यादि । अर्थात् कार्य पदार्थान् , शाश्वतीभ्यम्समाभ्यः यावद्विलयमवस्थातुं, याथातथ्यता व्यदधात्, न पुनरेन्द्रजालिकव केवलं प्रकाशितवान् ।। अन्धं तमः प्रविशन्ति येऽविद्यामुपासते । ततो भूय इव ते तमो य उ विद्यायाँ रताः ।। एवं विचित्रशक्तिपरमात्मविषयां कर्माणिकां विद्यासुपदिश्यानन्तरं केवलकविलम्बिनः केवलविधावल. म्बिनश्च निन्दन् वर्णाश्रमधर्मानुगृहीतया विद्ययैव निदश्रेयसावाप्तिमाह -*अन्धं तमः प्रविशन्ति येऽविद्यामुपासत इत्यादिना । ये-भागेश्वर्यप्रसक्ताः, अविद्यां-कर्म, ज्ञानविधुरकममात्रम् । * अविया कर्भ ज्ञाऽन्या तृतीया शक्ति- रिप्यते इति हि स्मयते । उपासते-एकान्तमनसोऽनुतिष्ठन्तीत्यर्थः । अन्धम् - अतिगाढम् । तमः अज्ञानं, त्रिवर्गाभिषङ्गान्नान्तरीयकं नारकं तमो वा । केवलकर्मनिरतानां दुःस्वानुवृत्तिमधीयते चावणिकाः ।। . - , ९ श्रीमद्वेदान्तदेशिकग्रन्थमाला * प्लवा ह्येते अढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म । एतच्छेयो येऽभिनन्दन्ति मूढाः जरामृत्यू ते पुनरेवापि यन्ति ।। इति । ततो भूय इव ते तमो य उ विद्यायाँ रताः-कर्ममात्रनिष्पाप्यादन्धतमसादधिकं तमः खाधिकारोचितकर्मपरित्यागेन विद्यामात्रे रताः प्रविशन्ति । इवशब्दम्तमस इयत्ताया दुर्घहत्वं द्योतयति । उकार उत्तर- त्रपदेनान्वेतव्यः विद्यायामेव रताः इति ।। अन्यदेवाहुर्विद्यया अन्यदाहुरविद्यया । इति शुश्रुम धीराणां ये नस्तद्वयाचचक्षिरे । १० किं तर्हि मोक्षसाधनमित्यत्राह - *अन्यदेवाहुर्विद्यया अन्यदाहुरविद्ययेति । अत्र व्यत्ययानुशासना- त्पञ्चम्यर्थे ततीया ; अन्यशब्दानन्वयात्, * अन्यदेवाहुम्संभवात् इति वक्ष्यमाणसारूप्याच्च । केवलकर्मणः कर्म निरपेअविद्यातश्चान्यन्मोक्षसाधनमित्सुकं भवति । आहुः-पूर्वाचर्या इति शेषः । औचित्यादुपनिषद इति वा । पूर्व- पूर्वसम्प्रदायसिद्धोऽस्माकमयमर्थ इत्याह-इति शुश्रुम धीराणां ये नस्तद्रयाचचक्षिरे ये पूर्वाचार्याः, नः - प्रणि रातादिभिम्सम्यगुपसन्नानामस्माकम् , नत् - मोक्षसाधनम्, व्याचचक्षिरे विविच्योपादिक्षन् । तेषां, धीराणां परमात्मध्यानपराणां ; वचनमित्यध्याहार्यम् । * नटम्य शृणोतीतिवद्रा कथञ्चित्पञ्चम्यर्थे षष्ठी । इति शुश्रुम एवंप्रकारमश्रौष्म । ब्रह्मविद्याया दुरवगाहत्वेन निश्शेषग्रहणाशक्यत्वाभिप्रायोऽत्र लिडुत्तमः ।। १० विद्यां चाविद्यां च यस्तद्वेदोभय सह । अविद्यया मृत्युं तीर्खा विद्ययाऽमृतमश्नुते ।। ११ अन्यदिति संग्रहेणोक्तं विवृणोति---विद्याश्चाविद्याश्च यस्तद्वेदोभयँ सहेति । यः वस्थितोपदेशवान् । विद्यां परमात्मोपासनरूपाम् । अविद्यां तदङ्गभूतकर्मात्मिकां च । एतदुभयं परस्परविरोधप्रसङ्ग रहितम् । सह वेद अङ्गाङ्गिनारनुष्ठेयत्वसाम्यादुभयं सह वेदेति अविशेषण दिनीयतोक्तिः, न पुन:योपादेययोः ज्ञातव्यत्वसाम्यात् । पूर्वमविद्याया निन्दनात्तदौचित्यमिति चेत् तर्हि विद्याया अपि निन्दिताया हेयद्वयसमुच्चयोक्ति- प्रसङ्गः । तथा सत्युत्तरवाक्यमपि विघटन ! अविद्यया मृत्यु तीत्वां विद्ययाऽमृतमश्नुते इति । अयमर्थः-विद्या ङ्गतया चादितकर्मणा मृत्यु - ज्ञानसाचरूपं मृत्युहेतुं प्राक्तनकर्म । तीत्वा - निरवशेषमुल्लङ्घय । विद्यया - पूर्वोक्त परमात्मानुदर्शनरूपया । अमृतमश्नुते * एतदमृतमभयमेतद्बह्य इत्यादिषु सर्वदोषरहितत्वेन प्रतीतं परमात्मानं प्रामातीत्यर्थः । अत्रामृतशब्दम्य माक्षपरत्वेऽपि न पुनरुक्तिः, *मृत्यु तीत्यम्य उपायविरोधितरणपरत्वात्, *अमृतमश्नुते इनि प्राप्तिविरोधिनिवृत्तिलाभोक्तेः । अत्र * अविद्यया मृत्यु प्राप्य स्थिताः इति व्याचक्षाणाः निर्बाध पदवाक्यस्वारस्य- मुपबृंहणं च प्रम्मृत्य स्वाविद्यया स्वयमेव मृत्यु प्राप्य स्थिताः । एतदेव वाक्यमनुसंहितं वैष्णवे पुराणे । * इयाज सोऽपि मुबहून्यज्ञान् ज्ञानव्यपाश्रयः । ब्रह्मविद्यामधिष्ठाय तत् मृत्युमविद्यया ॥ इति । इह त्वविद्याशब्दः प्रकरणादौचित्याच्च विद्याङ्गकर्मविषय इत्यभाषि भाष्यकारैः * अत्राविद्याशब्दाभिहितं वर्णाश्रमविहितं कर्मति, मृत्युतरणोपायतया प्रतीताऽविद्या विद्येतरद्विहितं कर्मैव * इति च । विद्यां पर्युदस्यन्नयम- विद्याशब्दः क्षत्रियादिविषयाब्राह्मणशब्दादिवदासन्नतदनन्तरवृत्तिरङ्गकर्मविषय इति भावः । एवं * तपो विद्या च विप्रस्य निःश्रेयसकरावुभौ । तपसा कल्मषं हन्ति विद्ययाऽमृतमश्नुते ।। यथा- , । व्याख्यानविभागे ईशावास्योपनिषद्भाप्यम् इत्याग्रुपबृंहणान्यपि सुसंगतानि भवेयुः । ये पुनरिह विद्याकग्ख्यिमाधनद्वयसमुच्चयं मृत्युतरणामृतत्वप्राप्ति रूपसाध्यद्वित्वं च वर्णयन्ति, नेपां कर्मज्ञानयोरङ्गाङ्गिभावं विद्ययैव मृत्युतरणं च व्यक्तं प्रतिपादयद्भिः श्रुतिस्मृतिसूत्रगणैर्यथा- भाग्यमुत्तरं देयम् । विषम समुच्चयवादेऽपि यथाभाग सन्निपत्यापकारकत्वसंभवे गत्यन्तरगमनिका नातिविद्भिर्न संमन्यत । अन्धं तमः प्रविशन्ति येऽसंभूतिमुपासते । ततो भूय इव ते तमो य उ संभूत्याँ रताः ॥ १२ तदेवमुपास्यं परमात्मतत्त्वं साङ्गतदुपासनरूपं च परमहितं परमपुरुषार्थयिन्नमुपदिश्यानन्तरं त्रिभिश्श्लोकैः प्रतिबन्धनिवृत्तिपरब्रह्मानुभवरूपयोः फलपवणासमुच्चित्यानुसन्धान विद्याङ्गन्वनापादेयमित्युच्यते । नत्र प्रथममेककमात्रानु सन्धान निन्दति- अन्धं तमः-रता इति । एतमितः प्रेन्याभिसंभविनाऽम्मि. .. 'धृत्वा गगम्मकृतं कृतान्मा ब्रह्म- लोकमभिसंभवानि इत्यादिषु ब्रह्मप्रापिझपा संभृतिरुक्ता । नां पयुटग्यन्नयमसंनिशब्दः नदामन्नप्रतिबन्धविनाश मभिधत्ते । * संमृतिं च विनाशं च इत्यपि हि अनन्तग्मुच्यने । तन चात्रासंनिशब्देन संभूनग्नुत्पत्तिः विनाशो वा प्रतिपाद्यः । अमृतप्राप्ति हेतुतयाक्तायाम्यंभूतः प्रागभावम्य प्रध्वंमन्य वा मृत्युतरण हेतुल्यन वक्तुमयुक्तन्वात । अत्रपि तरनेः प्राप्तिवचनत्वं पूर्ववत्प्रतिश्प्यम् ।। १२ अन्यदेवाहुम्संभवादन्यदाहुरसंभवान् । इति शुश्रुम धीगणां ये नन्तद्वयाचचक्षिरे । १३ अन्यदे.....म्तद्वयाचचक्षिरे इति । अत्र नकदम्ममुचि यानुभन्यतया वक्ष्यमाणद्रितयं वक्ति ।। १३ संभूतिं च विनाशं च यस्तद्वेदोमय मह । विनाशेन मृत्यु नीन्या संभूत्याऽमृतमश्नुते ।। ११ अत्रापि * अन्यत् इन्युक्तं विवृण्वन्धि द्याङ्गमुभयानुसन्धानमाह-संभूति.... महेति । तम्यव फलप्रद. निनावश्यकर्तव्यतां स्थापयति बिमान....मश्नुते इति । अनुसन्धायमानेन विनाशेन प्रतिबन्धमपाय, संभूत्या अनुसन्धायमानथा केटा प्रामानि । संमृतिविनाशानुसन्धानरूप में मनुत्यर्थम् । यथाचितङ्गिफलनिर्देशः । यद्वा * विनागेन मृत्यु तीया इति पूक्तिमरूपा विरूपाथेयरिहागय विनाशगदन मानदम्भादीनां हिंसाम्तया- दाना बहि मुवन्द्रियवृत्तीनां च विनामो विवक्षिनः । अना विरुद्ध निवृत्तिका सेवनन समाधिविराधिपापमपाकृत्य समाधि- निप्पत्तिरूपब्रह्मसंभृत्या तदेवाश्नुते । अत्र संभृतिविनागराब्दाभ्यां सृष्टिप्रलयादिविवक्षया मृत्युतरणामृतप्राप्तिरूप- फलविभागवचनम्यौचित्यलवोऽपि नापलभ्यते ।। १४ हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् । तत्वं पूपन्नपावृणु सत्यधीय दृष्टये ।। अथैवं फलपर्यन्तसाङ्गब्रह्मनिष्ठम्यानुसन्धेया मन्त्रा उपदिश्यन्ने । नेषु च पपादिशब्दाम्सवाच्यं परमात्मान- मनुसन्दधतां तद्देवताप्रणाड्या साक्षादा तत्पर्यन्ताः । अत्र हि यमसूर्यादिशब्दानामेकविषयत्वं म्वरसावगतं तथा सत्येवोपपद्यते । तत्र प्रथमेन मन्त्रेण प्रपन्शब्दविवक्षितं भगवन्न प्रति प्रस्तुतां समाधिप्रतिबन्धनिवृत्ति प्रार्थयते- हिरण्मयेन....दृष्टये इति । सत्यशब्दोऽत्र जीवपर:. * सत्यं चानृतं च सत्यमभवत, अथ नामधेयं सत्यम्य सत्यं प्राणा वै सत्यं नेपामेष सत्यमित्यादिपु जीवेऽपि तत्प्रयोगात् । तस्य मुखम् - अनेकेन्द्रियावष्टम्भतया मुग्ववदवस्थित मनः, हिरण्मयेन पात्रेण अपिहितं - रागात्मकतया हिरण्मयसदृशेन र जोमयेन पात्रेण परमात्मविषयवृत्तिप्रतिरोध- केन च्छादितम् । हृदि निहिते परमात्मविषये निरुद्धवृत्तिकमित्यर्थः । रज कथनं तमसोऽप्युपलक्षणम् । हिरण्मयशन -- १५ C-2 " १० श्रीमद्वेदान्तदेशिकग्रन्थमाला कर्माधीनभाग्यवर्गप्रदर्शनम् । तत् जीवस्य मुस्वस्थानीयं मनः, पूषन् - आश्रितपोषणस्वभाव, अपावृणु - निरस्तपिधान कुरु । कस्य हेतोः ? सत्यधर्माय दृष्टये सत्यस्य जीवस्य धमभूताय पूर्वोक्तब्रह्मानुभवदर्शनायेत्यर्थः ।। १५ पूपन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् समूह तेजः । यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽमावसौ पुरुपस्सोऽहमस्मि । १६ पुनरपि तया दृष्टया द्रष्टव्यं विशिषन् दृष्ट्या गुणमभ्यर्थयते-पूपन्नेकर्षे ....पश्यामि इति । एकलें- अद्वितीयातीन्द्रियद्रष्टः, यम सर्वान्तर्यामिन्, 'मूर्य स्वभक्तबुद्धीनां मुष्ठु प्रेरक, प्राजापात्य - प्रजापतिप्रसूतस्य सर्वस्यान्तर्यामिन् , अविवक्षितप्रत्ययार्थी वा प्राजापात्यशब्दः, प्रजानां पते इत्यर्थः । व्यूह रश्मीन समूह तेजः . स्वस्वरूपप्रकाशनोपयिकान् खोपरदमान् व्यपोह, प्रभात्मकं च तेजस्समूहाकुरु । यत् *आदित्यवर्णम् इत्यादि- प्रसिद्ध सर्वेभ्यः कल्याणेभ्याऽतिशयितकल्याणं शुभाश्रयभूतं ते दिव्यं रूपं, तत् पश्यामि । अत्र वर्तमानव्यपदेशः उत्त-वाक्यवत्तात्कालिकानुसन्धानानुवादः । प्रार्थनाप्रकरणानुराव तु व्यत्ययन पश्येयमिति लिङर्थोऽत्र ग्राह्य इत्यपुनरुक्तिः तदा साधारण्यज्ञापनार्थ सदा प्रश्यामानि वा निरुपाधिकोपत्वानुगुणोक्तिः । अथान्तरात्मनोऽहंग्रहणेनानुसन्धानमाह-योऽसावसौ पुरुषस्सोऽहमस्मि इति । वाप्सा अत्यादरव्यञ्जनार्था । यद्वा * योऽसावतान्द्रियग्राह्यम्मूक्ष्माऽव्यक्तम्सनातनः । सर्वभूतभयाऽचित्त्यस्स एप स्वयमुद्वभौ ॥ इत्यादिवाक्यच्छायया यत्तच्छब्दाभ्यामददगन्दी विभज्यान्वेतव्यो ; सर्वातान्द्रयप्रमाणसिद्धत्वद्योतनार्थो वा । पुरुषः । पूर्णत्वपूर्वसत्त्वादिगुणक: आदित्यवणविग्रहविशिष्टः सर्ववेदपटितानन्यपरपुरुपयूक्तादिप्रसिद्धो महापुरुषः । सोऽह मस्मि-अहंशब्दाऽत्र जावद्वारा तदन्तरामपयन्तः । अत एवास्मोत्यपि प्रत्यग्रयम्वविशिष्टे परमात्मनि विश्राम्यति । अस्मद्युत्तमः इत्येतावदेव ह्यनुशिष्टम् । न पुनरम्मच्छब्दस्य प्रत्यगीमद्रास परमात्मपर्यन्ततायामुत्तमनिवृत्तिः । एवं * तत्त्वमसि इत्यादिषु असिशब्दा निर्वाह्यः । तत्रापि * युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः इत्येतावदेव हि स्मयत । न तु युप्मच्छन्दम्य वाभिमुखचेतनद्वारा तदन्तर्यामिपर्यन्तत्वे मध्यमनिवृत्तिः । लोके तु अहं त्वमस्मि. वमहमसि इत्याग्रुपचार पद्देश्यानुसारण मध्यमातमयाव्यवस्था । तद्वदत्रापि व्यवस्थापपद्यते, उद्देश्यविषययाग्वात्र युष्मदस्मच्छब्दयारुपपदत्वेन सूत्रपदाभिप्रेतत्वात् । भाष्ये तु तत्त्वमसिनिरूपणावसरे * नात्र किञ्चिदुद्दिश्य किमपि विधायन इयुक्तिप्राभांगनिपधाभिप्राया व्यक्ता, उपसंहारत्वापपादनात् । ये पुनः * तत्त्वमसि *सोऽहमस्मि इत्यादिषु कार्यकारणापाध्याकारविधूननेन निर्विशेषस्वरूपैक्यं धाक्यवेद्यमाहुः, तेषाम् असिवदस्मिरपि खण्डकः । श्रोतयनुसन्धातरि च युष्मदस्मदी हि परित्यक्तं न ह्यसिना कश्चित्पतिबोधनीयः, न च कश्चिदम्मिना विशिष्यानुसन्धयः । विधूननायापाधिविषयव्युत्पत्तिमच्छब्दसन्निधिमात्रोपजीवनेन क्वचिन्मध्यमोत्तमसंपत्तिरिति चेत् तता वरमपरित्यक्तप्रवृत्तिनिमित्तमस्माकं निर्वहणमनुमतुम् । सन्मात्रस्यांशिनोऽशद्वयविशिष्टताप्रतिपादनं वदतामपि सन्मात्रविवक्षायामत्र वाक्ये त्वमहंभावायोगात्, स्वंताहताविशिष्टं सदिति विशिष्टविवक्षायामपि प्रथमपुरुषोपनिपात- प्रसङ्गात् । दृश्ययोश्च युष्मदस्मदर्थयामृत्पिण्डांशे मणिक इव घटशरावाकारयोस्सदंशभूतेश्वराकारेऽपि समन्वयायोगात् त्वमहमर्थयात्सत्ताधाकारस्य नित्यप्रतिपन्नतया विशेषतोऽनिर्देश्यत्वादननुसन्धेयत्वाच्च न कथञ्चिदपि ०* तत्त्वमसि * सोऽहमस्मि इत्यादेनिर्वाहश्शक्यः । दृष्टिविधिस्तु मोक्षार्थविद्यासु वेदान्तवादिना नाङ्गीक्रियते । यद्यप्यत्र त्वं व्याख्यानविभागे ईशावास्योपनिषद्भाप्यम् ११ । राजासि अहं राजास्मि इत्यादिवत्तादधी-याद्युपचारविवक्षया मध्यमोत्तमयोम्सामञ्जम्य, तथापि लोकवेदयो- श्चेतनपर्यन्तदेवमनुष्यादिव्यबहारन्यायेन जातिगुणशब्दगतिलाभात्तदुपेक्षा । नन्वेवं पुरुषाख्यस्वेतरात्मसामानाधिकरण्य- केश परित्यज्य * योऽसावसौ पुरुषस्सोऽहमस्मि इति परिशुद्धस्वरूपमात्रानुसन्धानपरमिदं वाक्यमस्तु ; मैवं, तत्त्वमसि * त्वं वा अहमस्मि इत्यादिषु तदनुपपत्तेः ; अत्रापि तत्समानन्यायतया तथैवानुसन्धानम्यौचित्यात् । ब्रह्मात्मकोऽहमस्मि इति परविद्याङ्गभूतस्वात्मानुसन्धानपरत्वेऽपि तच्छन्देन तादधान्यादिकं लक्षणीयं स्यात् ।। १६ वायुरनिलममृतमथेदं भस्मान्न शरीरम् । ओं को स्मर कुन स्मर कनो स्मर कृत स्मर ।। १७ अनन्तरं तु परिशुद्धान्मम्वरूपमुच्यते-वायुरनिलममृतम् -इति । विद्याकर्मानुसारेण तत्रतत्र गन्तृत्वा- द्वायुः । निलयनरहितत्वात् क्वचिदपि व्यवस्थितत्वाभावाच अनिलम् । अमृतं-ग्रियमाणेऽपि देहसन्नान वय- ममृतम् । इदं विजरत्वादीनामप्युपलक्षणम्, परिशुद्वनीवविषये प्रजापतिवाक्ये * विज। विमृत्युविशाकः इत्यादि- सहपाठात् । अत्र * वायुश्चान्तरिक्षं चैतदमृतम् इत्यादिपरामर्शादाय्यादिशब्दानां भूतद्वितीयविषयत्वं न शङ्क- नीयम् , पूर्वापराभ्यामसङ्गनेः । यद्यप्यनाषां परमात्मविषयत्वं विशिष्ट वृत्त्या योगनो वा युज्यने, तथापि वरमिह नश्वरस्य देह म्यानन्तरं वचनातयावृत्तपत्यगात्मपरत्वम् ; प्राणविषयत्वेऽप्यत्र मन्दं प्रयाजनम् । श्वेताश्वतरीयाश्च भाग्य- भोक्तृनियन्तृणां विवेचने भोक्तृशब्दविवक्षितप्रत्यगात्मानम मृतशब्देनामनन्ति * क्षरं प्रधानममृताक्षरं हरः क्षगत्माना वीशते देव एकः इति, *अरं त्वविद्या ह्यमृतं तु विद्या विद्याविद्ये इशने यस्तु सोऽन्यः इति च । एवं प्रत्यगात्म- खरूपस्य * न जायते म्रियते वा विपश्चित् इत्यादिप्रसिद्धममृतत्वमभिधाय क्षेत्रज्ञशरीरम्य मृतत्वमवश्यं भावी- त्याह-अथेदं भस्मान्तं शरीरमिति । प्रकृतादर्थादर्थान्तरविवक्षयाऽत्राथशब्दः । आत्माक्रमणानन्तर्यार्था वा । कर्मवश्यकास्यप वा । तथा च भयो •* गङ्गायां सिकता धारा यथा वर्षति वासवे । शक्या गणयितुं लोके न व्यतीताः पितामहाः ।। इति, * ब्रह्मादिषु पलानेषु इत्यादि च । इदमिति विशेषणम् ईश्वरशरीरत्वेन नित्यत्वेन च प्रमाणसिद्धानां व्यवच्छे दार्थम् । भस्मान्तमिति संस्कारमात्रव्यञकम् ; कीटान्तत्वादेरन्यत्र प्रसिद्धस्योपलक्षणं वा । शरीरशब्दे व्युत्पत्तिनिमित्तानुसारे विशरणस्वभावत्वं गम्यते । एवं * भाक्ता भोग्यं प्रेरितारं च मत्वा इति क्रमेण चिदचिद्विवेकमुक्त्वा प्रेरितारं प्रकृतं महापुरुषं प्रगवेनीपादत्ते-ओमिति । यथाऽऽमनन्त्याथर्वणाः * यः पुनरेतं त्रिमात्रेण ओमित्येतेनैवाक्षरेण परमपुरुषमभिध्यायीत इति । उतं च योगानुशासने * क्लेश कर्मविपाकाशयरपरामृष्टः पुरुषविशेष ईश्वर: * स पूर्वेषामपि गुरु: कालेनानवच्छेदात् * तस्य वाचकः प्रणवः इति । आह च सर्वज्ञः- * ओमित्येवं सदा विप्राः पठध्वं ध्यात केशवम् इति । स्वयंचागायत् * ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् इति । एवं सर्वत्र द्रष्टव्यम् । अथ कनुरूपिणं भाव-तं ज्ञानयज्ञगोचरमभिनुवाकुर्वन्तदनुग्रहं याचते-ऋतो स्मर कृतं स्मरेति । क्रतो - क्रत्वात्मक । यथाह * अहं कतुरदं यज्ञः इति । * यथाक्रतुरस्मिल्लोके पुरुषो भवति तथेतः प्रेय भवति * स क्रतुं कुति * एवं ऋतुई इयादिष्विवात्रापि प्रकरणादेव क्रतुशब्द उपासनपरो वा। तद्गोचरे तु भगवति तच्छब्द उपचारात् । स्मर - सानुग्रहया बुद्धया विषयीकुरु, * स्नेहपूर्णेन मनसा यन्नः स्मरसि केशव इतिवत् । उक्तञ्च भगवता * स्थिते मनसि इत्यारभ्य * ततम् म्रियमाणं तु काष्ठपाषाणसन्निभम् । स्मरामि मद्भक्तं नयामि परमां गतिम् ॥ इति । सर्वहा सर्व साक्षात्कुर्वतः स्मर्तृत्ववचनमिह पूर्वकृतप्रत्यवेक्षणाभि.
- । १२ श्रीमद्वेदान्तदेशिकग्रन्थमाला प्रायम् । कृतं स्मरेत्यत्रापि तथैव विवक्षा । मत्कृतं यत्किश्चिदनुकूलमनुसन्धाय कृतज्ञस्त्वं मां रक्षेति भावः । एताव- दन्तं त्वत्कृतमानुकूल्यं प्रतिसन्धाय त्वमेव शेषपूरणं कुर्विति वा । स्मरन्ति हि * जायमानं हि पुरुषम् इत्यादि । स्वयमप्याह * तेषां सततयुक्तानामित्यादि । क्रतो स्मर कृतं स्मर इत्यावृत्तिरुक्तार्थे त्वरातिशयात् ॥ १७ अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्ति विधेम ।। १८ पुनरप्यनिशब्दवाच्यं भगवन्तं खापेक्षितं प्रापयेत्याह-अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्ति विधेम ।। इति ।। अग्ने - अग्निशरीरक, * यस्याग्नि- शरीरम् इत्यन्तर्यामिब्राह्मणम् । * साक्षादप्यविरोधं जैमिनिः इति न्यायात् अग्रनयनादिगुणयुक्तेति वा । नय- प्रवर्तयेत्यर्थः । सुपथा--शामनन मार्गेण । प्रतिषेधम्प शरहितेनोपायनेति यावत् । राये-विद्यार्थशरीरसंरक्षणत्वदर्च नाद्यनुगुणाय धनाय । विद्यार्थप्रकरणानुगुण्यात् * अतस्करकरग्राह्यमराजकवशंवदम् । अदायादविभागाहै धनमार्जय सुस्थिरम् ॥ * अनन्तं बत मे वित्तम् इत्यादिषूक्तमलौकिकं धनमिह विवक्षितम् । एक एव मन्त्रः प्रकरणादिभिर्विशेषित- स्तत्तदनुगुणमर्थ विवक्षतांति सम्यन्यायविदः । अस्मान्–त्वदनन्यभावान् अनन्यगीश्च । विश्वानि देव वयुनानि विद्वान्–देव - अस्मदपेक्षितपदानानुरूपविचित्रक्रीडायुक्त । * माया वयुनं ज्ञानम् इति नैघण्टुकाः । अतो ज्ञानमुखेन उपायविशेषा इह वयुनशब्देन विवक्षिताः । सर्वान्–तत्तदधिकारानुगुणान् चतुर्विधपुरुषार्थोपायान् यथा- वत् विद्वान् त्वमविदुषोऽस्मान् नेतुमर्हसीति भावः । युयोध्यस्मज्जुहुराणं-बन्धनात्मकतया अचिन्त्यप्रकारकौटिल्य- वत्तया वा बाधमानमित्यर्थः । एनः --- अकृत्यकरणकृयाकरणादिरूपं त्वदनुभवादिप्रतिबन्धकम्, अस्मत्तो युयोधि -पृथक्कुरु, विनाशयेत्यर्थः । भूयष्ठां ते नम उक्तिं विधेम - * अनन्यगतिः इत्यादिगुगैरावृत्तितश्च भूयसी नम उक्ति ते विदध्महे । व्यत्ययो हि बहुलमनुशिष्टः । नम उक्तेरनुवृत्तिं वा नाथं प्रति नाथते । * नम इत्येव वादिनः इति हि मुक्तलक्षणा अपि पुरुषाः मोक्षवर्मे प्रतिपादिताः । मानसका यकयोनमसोरभावेऽपि नम इशब्दमात्रेण प्रसत्तुमर्हतात्युक्तिशब्दाभिप्रायः । एवं परतत्त्वतद्विभूतियोगतदुपासनाद्वशेषान् संगृह्य संहितेयं समपूर्यत ।। व्यक्ताव्यक्त वाजिनां सहितान्ते व्याख्यामित्थं वाजिवक्त्रप्रसादात् । वैश्वामित्रो विश्वमित्रं व्यतानीद्विद्वच्छात्रप्रीतये वेङ्कटेशः ॥ अभदं भोक्तणामथ च भविनामव परतां तथा भेदाभेदं जिनसुगतनीतिं च जगति असंपाद्यां मुक्ति भवभयमलीकं च पठतामसावीशेत्यादिर्न कथमनुवाकः प्रतिभटः ॥ हरिः ओम् इति कवितार्किकसिंहस्य सर्वतन्त्रम्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वदान्ताचार्यस्य कृतिषु ईशावास्योपनिषद्भाष्यं समाप्तम्. - ॥ श्रीरस्तु॥ श्रीमत्प्रणतातिहरवरदपरब्रह्मणे नमः । श्रीमते हयग्रीवाय नमः । श्रीमते रामानुजाय नमः । श्रीमते निगमान्तमहादेशिकाय नमः । ॥ श्रीमद्वेदान्तदेशिकगन्थमाला ॥ -::. ॥ चतुश्श्लोकीभाष्यम् ॥ श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवों में सन्निधत्तां सदा हदि ॥ स्वशेषाशेषार्थो निरवधिकनिर्वाधमहिमा फलानां दाता यः फलमपि च शारीरकमितः । श्रियं तत्सधीची तदुपसदनत्रासशमनीमभिष्टोति स्तुत्यामवितथमतिर्यामुनमुनिः ॥ अत्र समन्वयाविरोधसाधनफलविषयशारीरकचतुरध्यायासमधिगतस्य भगवतस्सर्वप्रकाराभिमतानुरूपसह- (धर्मचारिणी)धर्मिणीविशिष्टतंयाऽपि सर्वाधिकत्वं * कारिश्रय इत्युक्तकैमुतिकन्यायकाकुगर्भया चतुश्श्लोक्या प्रकाशयन् प्रथमं श्रियः प्रतिपिपादयिपितानां विभूतिद्वयोषित्वादीनां स्थापकमाह- कान्तस्ते पुरुषोत्तमः फणिपतिश्शय्याऽऽसनं वाहनं वेदात्मा विहगेश्वरो यवनिका माया जगन्मोहिनी । ब्रह्मेशादिसुरव्रजस्सदयितस्त्वदासदासीगणः श्रीरित्येव च नाम ने भगवति ब्रूमः कथं त्वां वयम्।। १ ।। कान्तस्त इति । कान्तः प्रियः, अनुरूपपतिरित्यर्थः । ते सर्वमङ्गलाम्पदत्वेन प्रमाणसिद्धायाः । एतत्पद- द्वयाभिप्रेतं व्यञ्जितं गद्ये * देवदेवदिव्यमहिपीमिति । * द्वाविमौ पुरुषौ लोके इत्यादिभिस्वेनव निरुलेन परत्वव्यञ्जकेन समाख्याविशेषेण लक्ष्मीकान्तं विशिनष्टि -- पुरुषोत्तम इति । अत्र पञ्चम्यादिविभक्तित्रयेऽपि समासश्शब्दवित्संमतः । अनेन हिरण्यगर्भादीनामपि भगवदपेक्षयाऽधमत्वव्यञ्जनात्तत्पनीभ्यः पुरुषोत्तमपल्या उत्तमत्वं सूचितम् । अवतारऽपि ह्यसौनारीणामुत्तमेत्युच्यते । एवमस्याः पतिसंबन्धेन प्रकर्ष उक्तः । अथ पत्युरिव विभूतिसंवन्वेनापि प्रकर्ष वदन्नित्यसूरि- परिबृढानामपि एतदुपकरणत्वमुदाहरति-फणिपतिश्शय्येति । अत्र फणिपतिशब्देन 'सुरभियुकुमारशातल विशालोन्नतत्वादिरूपाः पर्यङ्कगुणा व्यज्यन्ते । तत्प्रभावश्च, * कल्पान्ने यस्य वक्त्रेभ्यो विषानलशिखोज्ज्वलः । सङ्कर्ष- णात्मको रुद्रो निष्कम्याति जगत्त्रयम् ॥ स बिभ्रच्छेवरीभूतमशेष क्षितिमण्डलम् ।। आस्ते पातालमूलस्थश्शेषोऽशेष- सुरार्चितः ।। तस्य वीर्य प्रभावं च स्वरूपं रूपमेव च । न हि वर्णयितुं शक्यं ज्ञातुं वा त्रिदशैरपि ।। इत्यादिषु प्रसिद्धः । स्तोत्रे च * तया सहासीनमनन्तभोगिनीत्यादौ । आसनशब्द इह काकाक्षिन्यायादुभयतो योज्यः । उक्तं ह्याचे ॥
. । १४ श्रीमद्वेदान्तदेशिकग्रन्थमाला पुराणे तन्नामसहस्रे, * भोगप्रिया भोगवती भोगीन्द्रशयनासनेति, * अजिताकर्षणी नीतिगरुडा गरुडासनेति च । * वहेयं यज्ञं प्रविशेयं वेदान् इति सौपणश्रुतिविवक्षितं वेदाभिमानिदेवताधिष्टातृत्वमभिप्रेत्याह-वेदात्मा विहगेश्वर इति । वेदाधिष्ठातृतया वेदानामात्मा ; यद्वा, तद्विशिष्टत्वेन तत्समानाधिकरणतया वेद आत्मा यस्येति विग्रहः । * सुपर्णोऽसि गरुत्मानित्यादिप्वप्यम्य वेदात्मत्वं ग्राह्यम् । एवं सर्ववेदाभिमानितया सर्वज्ञत्वमप्यस्य सूच्यते । बलादि गुण ना मिपि अमृतापहरणादिपु प्रसिद्धम् । यद्यपि विहगेश्वरशब्दः * सत्यम्सुपर्णो गरुडस्तार्श्वस्तु विहगेश्वरः इति श्रीवात्वतादिषु प्राणादिपञ्चकाधिपतित्वेनावस्थितस्य गरुडस्य व्यूहविशेषमभिधत्ते, तथाप्यत्र विशेषकाभावाद्गरुत्मन्मात्र- विषयः । फणिपतिविहगेश्वरयोरुपादानमिह मिथो विरुद्धजातीयैरप्यविरोधेन युगपत्सेव्यत्वं सूचयति । कमुत्यादन्येषां नि-यानां मुक्तानामप्यतत्परिजनपरिच्छदभावेनावस्थानं व्याप्यते, तेषामप्येतदाज्ञाकरत्वमुक्तं श्रीवैकुण्ठगद्ये *शेषशेषाश नादिसर्वपरिजनमित्यादिना । एवं सर्वस्या अपि नित्यविभूतेस्तच्छेपत्वं तात्पर्यतः प्रदर्शितम् । अथ लीलाविभूती अचिदंशस्य प्रथमं तच्छेषतामाह यवनिका माया जगन्मोहिनीति । अत्र यवनिकाशब्दाभिप्रेतं गये *भगवत्स्वरूप- निरोधानकरीमिति विवृतम् । एतद्न्थद्वयतात्पर्येण दिव्यदम्पत्योरनाश्रितापेक्षया त्रिगुणतिरस्करिण्या तिरोधेयत्वं फलितम् । मायाशब्दोऽयम् * मायान्तु प्रकृति विद्यात् इति प्रकृतिविषयतया श्वेताश्वतरैरधीतः । स च विचित्र- सृष्टयपकरणतया प्रकृतेराश्चर्यमयत्वं व्यत्रयति । जगन्मोहिनोत्यनेन जीवपरमात्मादिषु विपरीतधी हेतुत्वं शब्दादिगुण परिणतिशबलितस्वविषयभोग्यताबुद्धिजनकन्धं च विवक्षितम् । ईदृशप्रकृतिमोहितानां कर्मवश्यानां सर्वेषामपि विष्णु. पत्नीरोगत्वमुत्कृष्टमुग्वेन कै मुत्यन्यायादुपलक्षयति ब्रह्मेशादिसुरवजम्सदायितस्त्वदासदासीगण इति। प्रकर्षनिदर्शना- दीश्वरत्वशङ्काम्पदयोः * एतौ द्वा विबुधश्रेष्ठी इत्याद्यक्तयोमेशयोरप्यग्नीन्द्रादिभिरैकराश्यसूचनाय व्रजगणगन्दौ । सदयित इत्युपादानेऽप्यौचित्याद्दासीशव्दम्तत्पत्यंशेऽन्वेतव्यः । उक्तार्थे श्रुत्यादीनि प्रमाणानि तिष्ठन्तु, असाधारण- समायवालमिति ख्यापति - श्रीरित्येव च नाम त इति । श्रयन्ती श्रीयमाणां च शृण्वतीं शृणतीमपि * शृणाति निग्विलं दोषं शृणानि च गुणैर्जगत् । श्रीयने चाखिलैनित्यं श्रयते च परं पदम् ।। इत्यादिनिरुक्तिरिहाभिप्रेता । * निम्सङ्कल्पा निराश्रयेति नाम तु * श्रयते च परं पदमित्याद्यविरोधन नेयम् * अकलङ्काऽमृताधारा इति पृर्वातानुसाराच्च । अमृतो हि परमात्मा. तदाधारा चेयम् । अत एव हि सोऽपि श्रीनिवासरश्रीधर इति च समा- ख्यायने । उत्तं च श्रीसात्वते-* यतोऽहमाश्रयश्चास्या मूर्तिमम तदात्मिका इति । यन्निवेशात् सर्वत्र प्राशस्त्य- धाम्मैव हि ते समाख्यत्येवकाराभिप्रायः । निर्दोषमङ्गलगुणाकरत्वज्ञापनाय भगवतीत्युक्तिः । ईदृशातिशयशालिन्याश्श्रियो यथावत् स्तोतुमशक्यतामाह-मः कथं त्वामिति ॥ त्वाम् उक्तप्रक्रियया विष्णुपत्नीत्वेन तदितरसर्वशेषित्वेन तदुचित नामधेयादियोगेन च प्रसिद्धाम् *न ते वर्णयितुं शक्ता गुणान् जिह्वाऽपि वेधस इति चतुर्मुखेनापि स्तोतुमशक्यतयोक्तां चेति भावः । वयं परिमितज्ञानशक्तयः । * ब्रह्माद्यास्सकला देवा मुनयश्च तपोधनाः । त्वां स्तोतुमपि नेशानास्त्व- त्प्रमादलवं विना ॥ इति वचनानुसारेण ब्रह्मादीनां स्वस्य चात्राविशेषव्यञ्जनाय बहुवचनम् । कथं ब्रूमः - कास्न्येन त्वद्वर्णनमशक्य, परिच्छिद्य वर्णन त्वनुचितमिति भावः । पुनराहुः श्री म भगवतस्सर्वकर्तुरधिष्ठेया प्रकृतिरिति । ये च तस्य सत्ताहन्ताप्रभाशक्तिविद्येच्छाभोक्तृतादि रूपेयम्, शास्त्रेषु तथातथा व्यपदेशदर्शनादित्याहुः । तेषां तत्रतत्रैव शास्त्रे निर्बाधेन चेतनत्वव्यपदेशेन निरासः ये ।
.- । व्याख्यान विभागे चतुश्श्लोकीभाष्यम् - इलो १ १५ अत्राप्ययमर्थः ते त्वामिति युप्मच्छब्देन संबोधनेन च श्रियश्चेतनत्वमुपस्थापयता सूचितः । सत्तादिशब्दा स्त्वस्यां भगवदन्तरङ्गविशेषणत्वाद्यभिप्रायाः । प्रकृतेरन्यत्वं तु ते यवनिकेत्यनेनापि दर्शितम् । न चास्याः प्रकृति- शब्दोपात्ततामात्रेण त्रिगुणद्रव्यतादात्म्यम्, वासुदेवः परा प्रकृतिः * प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधादित्युक्ते भगवत्यपि प्रसङ्गात् । * जगदुत्पादिका शक्तिस्तव प्रकृतिरिष्यते । सैव नामसहस्त्रैस्तु लक्ष्मीः श्रोरिति कीयते ।। *मूलप्रकृतिरीशानी *प्रकृतेः पुरुषाच्चान्यस्तृतीयो नैव विद्यते इत्यादीनि ब्रह्मवचनान्यपि लक्ष्मानारायणयोः प्रकृति पुरुषरूपविभक्तविभूतिविशेषाभिमानित्वाभिप्रायाणि । रहस्याम्नाये, तु प्रकृतो लक्ष्म्यां च विद्याशब्दः प्रयुक्त इत्यता. वताऽपि न तयामस्वरूपैक्यम् । तत्र हि सत्त्वोन्मपमुग्वेन विद्या हेतुतया प्रकृती विद्याशब्दः, लक्ष्म्यां तु विद्याप्रवर्तक- त्वादिति विशेषः । ये तु सत्तादिविशिष्टो भगवानव श्रारिति वा, श्रीरूपनित्यविग्रहान्तरविशिष्टम्स एवेयमिति वा, दैत्यमोहनभूमिकापरिग्रहन्यायेन खयमेव भागार्थ परिगृहीतकादाचित्ककान्ताविग्रहस्म एव श्रारिति वा वदन्ति ; तंऽपि तद्विषयनिर्वाधनित्यभिन्नचेतनत्वव्यपदेशकैस्तैस्तैरव शास्त्रनिराकृताः । भहीश्च ते लक्ष्मीश्च पल्यौ इति श्रुतिश्च पत्युः पत्न्याश्च स्वरूपभेदं स्वरसता दर्शयति । न चात्रानन्यथासिद्धं बाधकमम्ति । इदमप्यत्र कान्तस्त इति व्यधि- करणनिर्देशन व्यञ्जितम् । य च मन्यन्ते - भगवत एव स्वरूपैकदेशः पृथगहन्तया परस्परभाक्तृत्वाय सर्वदा परिगृहीत- स्त्रीरूपश्श्रीशब्दार्थः । तेन भेदाभेदव्यपदेशयाश्चेतनत्वस्य चाविराध इति; तऽपि ब्रह्मणस्वरूपता निरवयवत्वं प्रतिपादयद्भिः प्रमाणैनिरस्ताः । *नरनारीमया हरिः इति ब्राह्मपुराणवचनन तु हग्नागमयत्वव्यपदेशा ज्योत्स्नव हिमदीधितेरिति तत्रत्यदृष्टान्तानुसारेण प्रभाश्रयम्य प्रभामयत्वव्यपदेशवत्स्वरूपभदाविरोधेन निर्वाह्यः । पतन बीजादे रकुरोपादानांशवद्विश्वोपादानस्य ब्रह्मणः कार्योपयुक्तस्वरूपैकदेश एव स्वभावता वा परिणतिशक्त्या वा उपाधिभदेन वा भिन्नाहन्ताश्रयश्श्रोरिति व्यपदिश्यत इति पक्षाऽपि प्रतिक्षितः, ब्रह्मणस्वरूपपरिणामादेश्च शारीरके निरस्तत्वात् । उपहितांशभेदपक्षस्तु विग्रहाद्युपाधौ सञ्चरति निरवयवे ब्रह्मवरूपे सरिज्जलादौ घटादिनवापाधिना कस्यचिदंशम्यान्यत्रा कर्षणायोगात् , घटाकाशन्यायेन पूर्वपूर्वोपहितांशपरित्यागे तु तत्तदंशरूपस्य भाक्तुरभावादुत्तरोत्तरोपहितांशानां पूर्वपूर्वाशानुभूतभोगपतिसन्धानानुपपत्तेः, भोक्तृसन्तत्येकतामात्रेण प्रतिसन्धाने सोगतमतान्मज्जनेन स्थिरात्मपरित्याग- प्रसङ्गाच्चात्यन्तानुपपन्नः । अवतारपरिणामोपाधिभिन्नांशवादिना लक्ष्म्यादेनित्यदेहादिप्रमाणैश्च निरासिरे । एतदपि सर्वमत्र व्यधिकरणप्रयोगेनैव सूचितम् । *कीर्तिदश्रीर्वाक्च नारीणामित्यादिसमानाधिकरणप्रयोगश्च पूर्वापरवत्स्वरूप- भेदेऽपि संबन्धविशेषनिबन्धनः । अविष्णोश्रीरनपायिनीत्यादिभिव्यधिकरणप्रयोगैश्च भेदस्सिद्धः । तत्र्यप्रायन्यायात् सहपठितनार्यन्तरवत् कर्मवश्यत्वं स्यात्, न स्यात्, वचनविराधे न्यायस्यानवकाशात् । न चंदेवम् *आदित्यानामहं विष्णुः, * वृष्णीनां वासुदेवोऽस्मि, * अनन्तश्चास्मि नागानां वैनतेयश्च पक्षिणामित्यत्र कुतस्तथात्वनिस्तारः ? निर्धारणादिति चेन्न । साजात्यऽपि वैषम्यमात्रेण तदुपपत्तेः । ईश्वरत्वानीश्वरत्वकर्मवश्यत्वाकर्मवश्यत्वादी तु प्रमाणान्तर- मेव शरणमिति । इदं चास्याः कर्मवश्यवैजात्यमिह ब्रह्मादिभ्योऽप्यधिकत्वोक्या प्रकाशितम् । नन्वर्धलक्ष्मीकविग्रह- योगः श्रीपतेः श्रियश्च विग्रहैक्यं खरूपैक्यं भेदाभेदं वा सूचयति । उक्तञ्च श्रीविष्णुवैभवाधिकारैः-*त्वं यादृशोऽसि कमलामपि तादृशीं ते दारान् वदन्ति युवयान तु भेदगन्धः । मायाविभक्तयुवतीतनुमेकमेव त्वां मातरं च पितरं च युवानमाहुः ।। इति । तन्न, उभयेच्छया विग्रहमात्रस्यैकीकरणसंभवेनान्यथाप्युपपन्नतया विग्रहैक्यस्य श्रुत्यादिविरुद्धस्वरूपै- १६ श्रीमद्वेदान्तदेशिकग्रन्थमाला क्यादिकल्पकत्वायोगात् । तथाप्येकेनैव परमात्मना यथाकथञ्चिसर्वनिर्वाहे किमत्रात्मभेदखीकारेणेतिचेन्न, क्लप्तौ वक्तव्यस्य श्रुतौ वक्तुमयुक्तस्यात् । उक्ता च श्रुतिः प्रागेव । तदनुगुणं च श्रीविष्णुस्मृतौ भूमिवाक्यम् *आक्रम्य सर्वां तु यथा त्रिलोकी तिष्ठत्ययं देववरोऽसिताक्षि । तथा स्थिता त्वं वरदे तथापीत्यादिकम् । *नानयोर्विद्यते परमित्यादिभिः पुराणवचनैः, * एकतत्त्वमिवोदिती इत्यादिभगवच्छास्त्रवचनैश्च स्वरूपैक्यमनयोरपास्तम् । लाघव- तन्मात्रावलम्बने तु सर्वेषामप्यात्मनामैक्य प्रसजेत् । आत्मभेदमनिच्छन्तो भाष्यादिषु निराकृताः । दिव्ययास्त्विह दम्पत्योः मिथो भेदः प्रसाधितः ॥ सर्वेषामात्मनां यैस्तु भिन्नाभिन्नत्वमिष्यत । लक्ष्मीनारायणक्योक्तिः तेषां सद्भिरुपेक्ष्यते ॥ यत्र क्वचिदभेदोक्तिर्यद्याप्तवचने भवेत् । रामसुग्रीवयारेक्यमित्यादिवदिहास्तु सा ॥ अत्र निर्विशेषचिन्मात्रब्रह्मस्वरूपतिरोधानकरी मिथ्याभूता मायैव कल्पितरूपविशेषोलिटब्रह्मप्रति- च्छदवती लक्ष्मीरित्युच्यते इति पक्षाऽपि तादृशब्रह्मतत्तिरोधानादिनिरासादेव निर्धतः । इदमप्यत्र मायायाः प्रस्तुत- दम्पतिव्यतिरिक्तजगन्माहनत्वोक्त्या प्रख्यापितम् । ननु यवनिका बहिरन्तस्स्थितयोः दृष्टिप्रसरनिरोधेन मिथोऽवलोक नविरोधिनी लोके दृष्टा । अतः श्रियोऽपि यवनिका तथा स्यात् । मैवम्, तदधीनसर्वव्यापारया मायया तस्यास्सर्व- विषय सहजदृष्टिनिरोधायोगात् । क्षेत्रज्ञानामपि भगवन्मायया धासङ्कोचस्य दुष्कृतोपाधिकत्वात् अकर्मवश्येषु नित्यमुक्ते श्वग्षु तत्प्रसङ्गाभावादिति । अस्तु तर्हि कर्मवश्यतादात्म्यात्कर्मफलान्वयः, ब्रह्मादीनां कर्मवश्यत्वं तावत् * युगकोटि- सहस्राणि विष्णुमाराध्य पद्मभूः । पुनम्त्रैलोक्यधातृत्वं प्राप्तवानिति शुश्रुम ।। इत्यादिभिः प्रसिद्धम् । किंपुनस्तत्पत्नी- नाम् । ताभिश्च तादात्म्यमम्यास्तत्रतत्र विशेषतम्तत्तत्यामानाधिकरण्येन व्यज्यते । गायत्रीकल्पेषु च सन्ध्यात्रये वर्णवाहनादिविशेषितं रूपत्रयमेकस्या एव देवतायाः प्रतिपाद्यते । उक्तं च कैश्चिलक्ष्मीस्तोत्रे-गोदेवतेति गरुडध्वज- वल्लभेति इत्यादिभिः । अतः कर्मवश्यतादात्म्याद्यवनिकारूपितमायातिरोहितज्ञानत्वमस्या उपपद्यत इति । तदसत् । विशेषतस्सामानाधिकरण्यस्य * यद्विभूतिमत्सत्त्वमित्युक्तेन विभृत्यध्यायन्यायेन निर्वाहात् । तापनीयोपनिषदि घृतमूक्ते च लक्ष्म्यास्तेने शब्दा अपि निरुक्तिविशेषैस्तत्तद्विभूतियागेन वा नेतव्याः । गायत्रीकल्पानां तु लक्ष्मीविभूति- भृताया एव गायत्र्याख्याया देवतायाम्सन्ध्याभेदेन वैष्णव्यादिसमाख्यानुगुणवाहनरूपादिपरिग्रहशक्त्या माहात्म्यवर्णने तात्पर्य तत्र तत्र व्यक्तम् । तादृशाश्च वाहनादयोऽन्ये म्युः । न हि सारूप्यमात्रेण त एवैत इति निश्चयः, अनेकेषा- मेकनातीयवाहनादिदर्शनात् । दृहिणादिषु केपांचिदीश्वरव्यक्तिताभ्रमात् । तत्पनीष्वपि लक्ष्म्यंशवादः श्रुत्यादिबाधितः ॥ एतदभिप्रायेण ह्यत्रोक्तम्-सदयितस्त्वदासदासीगण इति । * अस्त्येवं, तथापि त्र्यंशमात्रापेक्षयैव श्रियो विभूतिमत्त्वमस्तु, ब्राह्मवैष्णवादिपुराणेषु तथा दर्शनात् । अतः श्रीमत एव सर्वविभूतिशेषित्वमिति । अत्र ब्रूमः * दासभूतास्वतम्सर्वे ह्यात्मानः परमात्मनः इत्यादिभिम्सर्वेषामात्मनां परमात्मदासत्वसिद्धेः * जायापत्योर्न विभागः इति न्यायात्पतिदासानां पत्नीदासत्वमवर्जनीयम् । नन्वेवं पत्न्या अपि पतिदासत्वे सति तां प्रति दासानां दासत्वमयुक्तं स्यात् । तन्न, लोके वेदे वा क्वचिदपि पत्न्याः पर्ति प्रति दासत्वाभावात् । अत एव हि *यदा यदा हि कौसल्या दासीवच्च सखीव चेति दृष्टान्ततयोच्यते । * अहं शिष्या च दासी च भक्ता च तव माधवेति भूमि- । - - व्याख्यानविभागे चतुश्श्लोकीभाष्यम् - श्लो. २ १७ वचनमप्युपचारतो नेयम् । यद्यपि पत्नीनां पतिदासत्वं, तथाऽपि पतिदासान्तराणां तद्दासत्वमपि यथालोकं युज्यते । अस्ति च सर्वेषां भगवद्दासत्वेऽपि तत्तदुपाधिभिः मिथो दासत्वम् । इह त्वेकयैवेच्छया विभूतिद्वयम्य नित्यमुभयार्थतयो पात्तत्वाद्देवताद्वन्द्वहविायन ब्रह्मादीनामुभयशेषत्वं युक्तमेव । गद्यादिषु विभूतिमध्ये तस्याः पाटोऽपि पत्यपेक्षया पारार्थ्यमात्रसाम्यादुपपन्नः । आत्मान्तराणां सर्वेषां लक्ष्मीतत्पतिदासताम् । मकारस्तु तयोर्दास इति केचिदधीयते ॥ एवं सति भगवत्पत्न्यन्तरापेक्षया ब्रह्मादीनां दासत्वं भवतु वा मा वा. उक्तं तावदुपपन्नम् । अतः * पुन्नामा भगवान् हरिः, * स्त्रीनाम्नी लक्ष्मीमैत्रेय * योयो जगति पुम्भावस्स विष्णुरिति निश्चयः । योयस्तु नारी भावस्स्यात् तत्र लक्ष्मीव्यवस्थिता ॥ इत्याद्युक्तो विभूतिविभागम्तु लौकिकदम्पत्यार्यथोचितविनियोगानुगुणभूषणादि विभागवन्नित्येच्छानियमितविशेषाभिमानार्थ इत्यभिप्रायेण फणिपत्यादीनामप्यत्र लक्ष्मीशेषत्वोक्तिरिति । केचित्त नाना- विधवादिविप्रतिपत्तिमोहितास्सर्वथा दुर्निरूपं लक्ष्मीतत्त्वमिति मन्यन्त । तेऽप्यवमिह निरूपणेन निर्धताः । किञ्च सदसदनिर्वचनीयत्वादिरूपदुर्निरूपत्वं तत्तन्मतनिरासादेव निरम्तम् । येनकेनचिदाकारण दुर्निरूपत्वं तु सर्वत्रापि संभवति, उपयुक्तांशनिरूपणस्यापि संप्रतिपन्नसाम्यान्नात्र विशेष इति ।। १ ॥ यस्यास्ते महिमानमात्मन इव त्वद्वल्लभोऽपि प्रभु- लिं मातुमियत्तया निरवधिं नित्यानुकूलं स्वतः । तां त्वां दास इति प्रपन्न इति च स्तोष्याम्यहं निर्भयो लोकैकेश्वरि लोकनाथदयिते दान्ते दयां ते विदन् । अथ * कथं ब्रूम इति स्तुत्यारम्भाक्षेप हेतुतयोदाहृतं स्तोतव्यगतमुत्कर्षे मुखान्तरण दृढीकुर्वन्नेव तदुपश्लिष्टं सौलभ्यविशेष(गुण)मनुसन्धाय स्तोतृगतदयनीयदशानिरूपणेन हेतुना स्तुत्यारम्भं समाधत्ते - यस्या इति ॥ यस्या इत्येतावता पर्याप्तेऽप्यत्र त इत्यधिकोपादानं धर्मिग्राहकमानसिद्धासाधारणविशेषद्यातनार्थम् । महि- मानं विभूतिद्वयशेषित्वरूपं निरतिशयानुकूलगुणयोगरूपं च । आत्मन इव-खस्येव । त्वद्वल्लभः - त्वप्रियतमः । प्रभु:- सर्वविषयज्ञानशक्त्यादिमान् । प्रभुरपोत्यन्वयः । अपिरनुक्तसमुच्चयार्थो वा. त्वं च त्वद्वलभश्चेत्यर्थः ।। नालं मातु मियत्तया-परिच्छिद्यानुसंधातुमसमर्थः । सर्वशक्तेः कचित्कथमसामर्थ्यमित्यत्राह-निरवधिमिति । विषयस्यापरिच्छिन्नत्वात् तत्र सर्वज्ञस्य सर्वशक्तरपि परिच्छिन्नत्वज्ञानाभावो न दोष इति भावः । यथोक्तं श्रीवत्साङ्कमित्रैः-*देवि त्वमहिमा वधिन हरिणा नापि त्वया ज्ञायते यद्यप्येवमथापि नैव युवयोस्सर्वज्ञता हीयते इति । ईदृशश्च महिमा वेदार्थसङ्गहेऽ प्युक्तः -* अनवधिकमहिमा महिषीति । विवृतश्च गद्यारम्भे * भगवन्नारायणेत्यादिना । श्रद्धासुक्तमेधासूक्तादिति- सूक्तवाक्सूक्तादिष्वेतद्विभूतिविशेषप्रतिपादकेषु विशेषतः श्रीसूक्ते च विचित्रा एतन्महिमानस्तत्तद्भाष्यकारैः प्रपञ्चिताः प्रतिपत्तव्याः । अस्या महिम्नः प्राप्यान्तविज्ञापनाय नित्यनिरुपाधिकानुकूलत्वमाह-नित्यानुकूलं खत इति । तां सर्वज्ञसाक्षिकतादृशमहिमानम् । त्वां महत्त्वसङ्गतसौलभ्यगुणयोगात् मदीयस्तोत्रश्रवणकौतुकेनाभिमुखीभूताम् । दास इति प्रपन्न इति च पतिबुद्धदासभावत्वात् , प्रपन्नत्वाचेति (अर्थः) भावः । उभयमिदं सम्भूय * प्रेष्यस्य क्षमितव्यं म इत्यादि- न्यायेन निर्भयत्वे हेतुः । २ C--3 १८ श्रीमद्वेदान्तदेशिकग्रन्थमाला पृथुगद्यमुखेऽस्माभिः श्रीप्रपत्तिरियं सताम् । श्रीपतौ स्थितमैकान्त्य न विहन्तीति साधितम् ॥ स्तोष्याम्यहं निर्भयः-अनायुपचित पराधम्बन्महिमस्तोत्रानुगुणज्ञानशक्तिरहितश्चाई नियमूरिभिः निगमैश्च कास्येन स्तोतुमशक्यां त्वां प्रतिबुद्धदास्यप्रपन्नवव्याजेन निर्भयस्तोष्यामोत्युक्तं भवति । एवं स्तोत्राक्षेर- तत्समाधानव्याजेन प्रवृत्तमपि श्लोकद्वयमिदं प्रकृष्टस्तुतिरूपमेव । त्वत्प्रपन्नस्य मे न कुतश्चिदप्यनीश्वराद्भयमित्यभिप्राये- णाह-लोकैकेश्वरीति । लोकैकेश्वरः प्रमाणसिद्वानां सर्वेषामद्वितीय ईश्वरः । ईश्वरशब्दश्चात्रान्त तशेषित्वं नियन्तृत्व- मभिप्रैति । * पतिं विश्वस्येति विश्वशेषित्वेन निर्दिष्टम्य शेष्यन्तरनिवृत्तिविवक्षायामात्मेश्वरमिति निर्देशात् । * यो लोकत्रयमाविश्य विभयव्यय ईश्वर इत्य यार्थश्चैव संगृहीतः - * व्यापनाद्भरणात्स्वाम्यादन्यः पञ्चदशोदित इति । तत्र च भाप्यम्-* व्यापनभरणखाम्यैरन्तरतयेति । ईदृशेश्वरपनोत्वादिह लोकैकेश्वरीयुक्तम् । एतेन * पुंम्प्रधाने- श्वेश्वरीति समाख्याऽपि गतार्था । त्वत्प्रसादे सति सर्वेश्वरादपि मे भयं नान्तोत्याह-लोकनाथदयित इति । दयिताशब्द इह वल्लभावाभिप्रायः । सर्वभयाभयहेतुभूतम्सर्वेश्वरोऽपि त्वदभिमतं नातिक्रामतीति भावः । अनेन संवृद्विद्वोन स्तुतिविषयत्वौचित्यातिशयोऽपि सूचितः । ईदृशी लामाश्रितम्य में त्वत्तोऽपि भयं नास्तोत्याह --दान्ते दयां ते विदन्निति । प्रतिबुद्धदास्यः कृषोत्तम्भकदानावस्थापन्नः आज्ञातिलङ्घनाद्विरताभिसन्धिः प्रपन्न इह दान्तशब्दा- भिप्रेतः । मातृत्वप्रयुक्तवात्सल्यातिशयवत्याम्ने दान्ते पुरुषे भगवत्कारुण्यादप्यतिशयितां दयां जानन्नहमेवं प्रपन्नत्यान्निर्भय इत्यन्वयार्थः । प्रश्रितमात्रपरो वाऽत्र दान्तशब्दः । तावन्मात्रेऽपि हि तस्या विशेषाभिमानः तयैवोक्तः * धर्मनित्ये महाबुद्धौ ब्रह्मण्ये सत्यवादिनि । प्रश्रिते दानशीले च सदैव निवपाम्यहम् ॥ इति । एवंविधश्च दयाविशेष: * करुणा- ग्रानतमुखीत्यस्याः समाख्ययैव ग्व्यापितः । अष्टोत्तरसहस्रनाममु च पठ्य- * करुणां वेदमातरमिति । करुगा- प्रचुरतयाऽसौ करुणात्वोक्तिः । पारम्यापह्नवः पत्यो बाह्यानां मानबाधितः । इति ख्यापयितुं श्रीशं श्रीदृष्टान्तमिहाब्रवीत् ॥ अथ स्यात् * आनोदवात स्वधया तदेकमिति प्रलयदशायां स्वधाशब्दवाच्यया कयाचित्परस्य ब्रह्मणोऽननं श्रूयते । सा चात्र * स्वधा त्वं लोकपावनीति पुराणाक्तेः, महाभारते च श्रीवासवसंवादे * अहं स्वाहा स्वधा चैवति स्वयमेवाक्तत्वादौचित्याच्च लक्ष्मीग्व । अतम्तदधीनप्रागनत्वं ब्रह्मण इति । तन्न, स्वाधीनसर्वसत्ताकस्य तम्यान्याधीन- प्राणनत्वासंभवात् । स्वधाशब्दस्य चात्र प्रयोगदर्शनमात्रेण लक्ष्मीविषयत्वकल्पनादपि स्वस्मिन् धीयत इति व्युत्पत्त्या स्वसत्ताविषयत्वम्य कल्पयितुं युक्तत्वात् । स्वकीय विश्वधारणसामर्थ्यमेव वा स्वधा । तथा * श्रेष्ठश्चेत्यधि करणे भाग्यम्-* आनीदवातमिति तु न जैव श्रेष्ठं प्राणनमभिप्रेत्योच्यते । अपि तु परस्य ब्रह्मण एकस्यैव विद्यमानत्व- मुच्यत इति । अत्रानन्याधीनसत्ताकत्वमेव ह्यभिप्रेतम् । अस्तु वा स्वधयेति पदं लक्ष्मीविषयम् । तथाऽपि सहयोग- विवक्षैवात्र युक्ता । यथा महाभारते-*कृत्वा मत्स्थानि भूतानि चराणि स्थावराणि च । एकाकी विद्यथा सार्ध विहरिष्ये द्विजोत्तम ॥ इति । ननु * ततो भूयो जगत्सृष्टि करिष्यामीह विद्ययेति वाक्यशेषेणौचित्यात्तत्र विद्याशब्दः प्रकृतिविषयस्स्यात् । भवत्वेवम् । तथाऽपि प्रस्तुतसहोक्तिमात्रसंभवोदाहरणमिदं युज्यत एव । यद्वा * तेनेयं सच धर्मात्मा मुहूर्तमपि जीवति इतिवत् वधया आनीदिति प्रेमपारतन्त्र्य तात्पर्यम् । अथ स्यात् * मेधा श्रद्धा सरस्वती * अहं श्रद्धा च मेधा च इति स्मृत्युपबृंहितया * श्रद्धया देवो देवत्वमश्नुते, इति श्रुत्या पल्यधीनोत्कर्षत्वं परस्य ।
. - व्याख्यान विभागे चतुश्श्लोकीभाष्यम् - इलो. २ १९ देवस्य प्रतीयते इति । तदपि न चोद्यम् । स्वतस्सि द्धातिशयस्य भास्करस्य प्रभान्वयेनेव * श्रियः श्रीश्च भवेदित्युक्तस्य भगवतस्वपल्याऽप्यतिशयान्तरे दोषाभावात् । अभिरूप एवाभरणेनापि द्योतमानत्वमश्नुत इत्यादिष्विवायोगव्यव- च्छेदमात्रेणाप्यर्थोपपत्तौ बहुप्रमाणविरुद्धस्यान्ययोगव्यवछेदस्य कल्पयितुमयुक्तत्वात् । देवत्वं च निष्कृष्यमाणं देवन संबन्ध एव, * कृत्तद्धितसमासेषु संबन्धाभिधानं त्वतलाविति शाब्दोक्तेः । तच्च देवनं विहरणादिरू खवल्लभासहित- स्यैव परम्य देवस्य भवतीति सुस्थोऽयं पन्थाः । आहुश्च * यस्या वीक्ष्य मुवम् * अङ्गीकारिभिरालाकैः * क्रीडसि श्रीसमक्षमित्यादि । एवमाप्तप्रणीतान्यन्यान्यपि कानिचित् स्तुतिवाक्यानि प्रमाणानां स्ववाक्यान्तराणां चाविरोधेन स्थाप्यानि । यानि च ब्राह्मे पुराणे * सर्वातिशायिनी प्रीतिः * सर्वोत्कृष्टा सर्वमयी, * अनौपम्या निर्विकल्पा इत्या- दानि लक्ष्मीनामानि तान्यपि * न तत्समश्चाभ्यधिकश्च दृश्यते * यस्मात्परं नापरमस्ति किञ्चित्, * तमीश्वराणां परमं महेश्वरम्, * क्षरात्मानावीशते देव एकः, * एक इद्राजा जगतो बभूव, * शास्ता चराचरस्यैकः, * एकः शास्ता न द्वितीयोऽस्ति शाम्ता, * शास्ता विष्णुरशेषस्य, इत्यादिपमाणगणानुसारेण भगवयतिरिक्तसर्वापेक्षया तन्महिप्याः प्रकर्ष विवक्षन्ति । तथा सति * शक्तिश्च कस्य नाधिकेति तत्रत्याक्तिरपि संगच्छते । शक्तिशब्दोऽपि ह्यत्र विहा- राख्यकार्योपयुक्तविशेषणत्वाभिप्रायः पत्नीविषय एव । अत्यन्तसाम्यमप्यस्यां दृष्टान्त स्वरसागतम् । स्थाप्यं नियतनिधिपत्नीत्वाद्यविरोधतः अत्र * तम्य शक्तिद्वयं तादृमिश्रं भिन्नलक्षणमिति सात्वतोक्तं देव्या तादृक्त्वमपि श्रुतिस्मृतिपूर्वापरादि- प्रसिद्धपत्नीत्वाद्यनुगुणं योज्यम् । किञ्च यथा मुक्तस्य भगवता परमसाम्ये श्रुतिस्मृयादिसिद्वेऽपि * जगद्यापारवर्ज मिति लक्षणभूतैराकोषम्य स्थाप्यो, तथेहापि भवति । * भिन्नलक्षणमिति च तत्रैवाक्तम् । आहुश्च * पितेव त्वत्प्रेयानित्यारभ्य * माता तदसि न .इति । एवमनभ्युपगमे तां पुरस्कृत्य भगवदभिगमनमपि तत्रतत्रोक्तं दुश्शकं स्यात् । अस्ति कहिफलदे पत्यौ कृत्यद्वयं श्रियः । निग्रहाद्वारणं काले सन्धुक्षणमनुग्रहे ॥ उकं च श्रीविष्णुचित्तैः गद्यव्याख्यानारम्भे * मातृत्वैकरूपां श्रियं प्रपद्यते । माता हि हितादपि पुत्रस्य प्रियमेव पश्यति, पिता तूभयं पश्यति ; अतो दण्डधरत्वहीनतैवावलम्बनमस्यां दशायामासीदिति । अत्र वरदगुरूप- देशानुसारिभिः व्यासायैश्ोक्तम् * प्रतापोष्मलपितृत्वदुरासदभगवत्समाश्रयशसिद्धये पुरुषकारानुपविष्टवात्सल्यनिर्भर- लक्ष्मीसमाश्रयणं श्रीमच्छब्दविवरणमुखेनाभिधीयत इति । नन्वस्या दण्डधरत्वाभावे * दैयदानवमदिना यादिनामानि न घटेरन् । मैवम् ; * सीतायास्तेजसा दग्धां रामकोपप्रपंडितामित्यादिष्विव कोपस्य पतिसंश्रयत्वेऽप्यस्यास्तदनुमति- महिन्नाऽपि दैत्यनिरासादिसिद्धेः । खासाधारणविभूतिविशेषद्वारा वा तदुषपत्तिः । तदभिप्रायेण हि पुराणेषु * सौम्या सौम्यजंगौरित्याधुच्यते । यत्किञ्चिदपि वैषम्यं यदि नामात्र नेष्यते । तयोर्देहव्यवस्थाऽपि न सिध्येत्सर्वसंमता ॥ अव्यवस्थितिपक्षस्तु हेतुपक्षोऽयमित्यपि । अश्रुतत्वादिहानुक्तेर्दूषणं वाऽपि नार्हति ॥ न हि सिद्धे विकल्पस्स्यान संदेहोऽत्र निश्चयात् । न कालाधैविपर्यासस्तनित्यत्वादिसाधनात् ॥ २॥ ।
२० سہ श्रीमद्वेदान्तदेशिकग्रन्थमाला ईपत्चत्करुणानिरीक्षणसुधासन्धुक्षणाद्रक्ष्यते नष्टं प्राक्तदलाभतस्त्रिभुवनं संप्रत्यनन्तोदयम् । श्रेयो न हरविन्दलोचनमनःकान्ताप्रसादाहते संसृत्यक्षरवैष्णवाध्वसु नृणां संभाव्यते कर्हि चित् ।। एवं स्तुत्याक्षेपसमाधानव्याजेन स्वामित्वसौलभ्यादिकं प्रतिपाद्य स्तोतुमुपक्रान्तस्सर्वाश्रयणीयत्वाय सकल- पुरुषायहेतुत्वमुदाहरणविशेषार्थान्तरन्यासाभ्यामुपपादयति - ईपदिति ॥ एतदनुग्रहैकदेशोऽपि अनन्तानिष्टनिवृत्ते- रनन्ताभ्युदयसिद्धेश्च निदानमिति व्यञ्जयितुमीषच्छन्दः । त्वच्छब्देन * प्रणिपातप्रसन्ना हि * क्षिप्रप्रसादिनी देवी- मि यादिषूक्तस्वभावस्सूच्यते । सामान्यतश्च तदनुग्रहस्य सदातनत्वमुक्तं मङ्कणसंहितायाम् * पद्मे स्थिता पद्मवर्णा पद्मनाभप्रिया शुभा । सदाऽनुग्रहसंपन्ना सा मे देवी प्रसीदतु ॥ इति । अष्टोत्तरनामस्तोत्रे च * नमामि कमलां क्षान्ति क्षमां क्षीरोदसंभवाम् । 'अनुग्रहपरामृद्धिमनघां हरिवल्लभाम् ।। इति । अनिष्टनिवर्तनेष्टप्रापणानु- गुणकरुणा हेतुकं निरीक्षणं करुणानिरीक्षणम् । करुणया विषयीकरण वा निरीक्षणशब्देनोपर्यते । तदिदमुक्तं तत्संहितायाम् * सामग्यजुर्मयों देवीं वेदगी मनस्विनीम् । लोकेशेशविभूतीनां कारणं यन्निरीक्षणम् ॥ इति । तम्य विश्वसञ्जीवनतया सुधास्वरूपणम् । तया सन्धुक्षणं - सम्यगुल्लासनम् । अत्र पञ्चम्युक्तं हेतुत्वं तु उदयापेक्षया रक्षणापेक्षया च योज्यम् । रक्ष्यते - निरुपद्रवमवस्थाप्यते । प्राक् - त्वदुपेक्षाकाले, तदलाभतः - त्वनिरीक्षणालामतः, न तु त्वत्कोपतः, * क: कुप्येद्वानरोत्तमेत्यादि बदन्त्यास्तव कोपासंभवात् । त्रिभुवनशब्देन त्रैलोक्यान्तर्वर्तिनः क्षेत्रज्ञा लक्ष्यन्ते । संप्रति * ततोऽवलोकिता देवा इत्याद्युक्तायां त्वनिरीक्षणदशायाम् । अनन्तोदयं पूर्वकाला- दप्यतियिताभ्युदयमित्यर्थः । उक्तं ह्येतत्सर्वमिन्द्रण * त्वया देवि परित्यक्तं सकलं भुवनत्रयम् । विनष्टप्रायमभ धत्त्वयेदानी समेधितम् ॥ इति । अत्र प्रलयादिकं विवक्षितमिति केचित् । एवमन्वयव्यतिरकाभ्यामेतत्कटाक्षाधीनं देवादीनामैश्चर्यमिति दर्शितम् । यथाऽऽह काश्यपः * ब्रह्माद्याश्च सुरास्सर्व मुनयश्च तपोधनाः । एधन्ने त्वत्पदच्छाया- माश्रिय कमलेश्वरि ॥ इति । मकणसंहितायाश्चाष्टानामपि लोकपालानां तत्पूजानिरतत्वं तदधीनवैभवत्वं च अपश्चित द्रष्टव्यम् । उक्तसमर्थनव्याजेन सर्वपुरुषार्थानां तप्रसादाधीनत्वमाह - श्रेय इति । अत्र त्वत्प्रसादादिति वक्तव्ये अरविन्दलाचनमनःकान्ताप्रसादादिति कथनं तथाविधप्रसिद्धिप्रकर्षद्योतनार्थम् । अरविन्दलोचनशब्देन * यं पश्येन्मधुसूदन इत्याद्यभिप्रेतं श्रीपतेरप्यनुग्रहशीलत्वं सूच्यते । तन्मनःकान्तात्वोक्तिः सर्वापेक्षितदाने तयोम्समा- नाभिप्रायत्वं व्यक्ति । अत्र मनान्दो बुद्धावुपचरितः, भगवतः करणायत्तज्ञानत्वाभावात् । मनःकान्ता-अभिमतेत्यर्थः पूर्व कान्तस्त इत्युक्तम् , अत्र तु इयं भगवतः कान्तेति । एतेन परम्परानुकूलतया सर्वत्र व्यापारे सामरस्यं व्यज्यते । प्रभादात् - कृपाविशेषादिति यावत् , अम्याः कचिदपि निग्रहासंभवेन तन्निवृत्तिरूपप्रसादायोगात् । संसृतिशब्द इह पुरुपाथेयमभिव्याहारात्पारिशेप्याच्चैश्चर्यपरः । तेन त्रिवर्गान्तभूतं सर्वमभिमतमपि विवक्षितम् । अक्षरशब्दस्तु प्रत्य- गात्मानुभवपरः । वैष्णवाध्वशब्देन गतिविशेषद्वारा भगवत्प्राप्तिलक्ष्यते । एतेषु श्रेयः-श्रेष्ठ सुग्वं तत्साधनं वा। * पुण्यश्रेयसी मुकृतं वृष इति हि पठन्ति । नृणामिति सर्वक्षेत्रज्ञोपलक्षणम् । हिरण्यगर्भस्यापि ब्राह्मे पुराणे तदधीनैश्व- पवमुक्तम् * पद्मयोनिरिदं प्राप्य पठन् स्तोत्रं ततः क्रमात् । दिव्यं चाष्टगुणैश्वर्यं तत्प्रसादाच्च लब्धवान् ।। इति ।। ।
व्याख्यानविभागे चतुश्श्लोकीभाष्यम् - श्लो. ४ २१ ब्रह्मादीनां यदायत्तं वैभवं यस्य सा स्वयम् । तस्य कैमुत्यनिर्धार्यमीश्वरत्वं श्रियःपतेः॥ एतत्प्रसादादृते नृणां श्रेयो हि न संभाव्यत इति व्यतिरेकोक्त्याऽग्नीन्द्रादिप्रयुक्तमपि नृणां श्रेयः एतदधीन- मिति व्यज्यते । हिशब्देन श्रीसूक्तश्रीस्तुत्यादिषु सर्वशास्त्रेषु च प्रसिद्धियोंत्यते । न संभाव्यते-न सिध्यतीत्यर्थः । ईदृशस्यास्याः प्रसादस्येन्द्रादीनामिव कालभेदभेद्यत्वं च नास्तीति व्यञ्जनाय कर्हिचिदित्युक्तम् । ननु मोक्षप्रदत्वं भगवत एवेति सर्वत्र स्थापितम् । श्रीसात्वते च स्वम्य मोक्षपदत्वं देवानामैश्वर्यप्रदत्वं च विभज्योक्तम् । तदत्र संसृत्यक्षर वैष्णवाध्वस्विति अविशेषवचनं प्रशंसामात्रपरं म्यात् । मैवम् । श्रीसात्वत एव * यामालम्ब्य सुखेनेमे दुस्तरं हि गुणोदधिम् । निम्तरन्स्यचिग्णैव व्यक्तध्यानपरायणाः ।। इति बन्ध हेतुभूनगुणोदधिनिस्तरणकारणत्वेन लक्ष्मीसमाश्रयणम्य प्रतिपादनात् । उक्तं च स्वयंभुवा * सर्वकामप्रदां रम्यां संसारार्णवतारिणोम् । क्षिप्रप्रसादिनी लक्ष्मी शरण्यामनु- चिन्तयेत् ॥ इति। ब्राह्म च पुराणे तन्नामान्येवं पठ्यन्ने * सकृदिभाता सर्वार्तिसमुद्रपरिशोषिणी, * भवभङ्गापहारिणी, * परनिर्वाणदायिनी, * ज्योतिष्मत्यमृतावहेत्यादीनि । वैष्णवे च * आत्मविद्या च देवि त्वं विमुक्तिफलदायिनीति । अत्र विमुक्तिफलदायित्वम्यात्मविद्याविशेषणत्वेऽपि तादृशविद्यायाम्तदधीनत्याक्त्या प्रकृतसिद्धिः । मोक्षहेतुभूतात्मगुण सिद्धिश्च तदधीनेति तत्रतत्रोक्तम् । एवं स्थित गद्यारम्भाक्तन्यायेन मोक्षापायतदधिकारयोस्तावदेतन्मूलत्वं दुरपह्रवम् । मोक्षप्रदे भगवति मुमुक्षणां घटकतयैषा तिष्ठतीति च सर्वसम्मतम् । परिपूर्णानुभवपदानसङ्कल्पम्तु भगवतस्वस्यैव वा सपत्नीकस्य वेति यथाप्रमाणं भवतु । सर्वथा वैष्णवाध्वश्रेयःप्रदत्वमस्या इहोच्यमानं न विरुद्धमिति ॥ ३ ॥ शान्तानन्तमहाविभूति परमं यद्ब्रह्म रूपं हरे मृतं ब्रह्म ततोऽपि तत्प्रियतरं रूपं यदत्यद्भुतम् । यान्यन्यानि यथासुखं विहरतो रूपाणि सर्वाणि ता न्याहुस्स्वैरनुरूपरूपविभवैर्गाठोपगूढानि ते ।। एवं श्लोकत्रयोक्तायाम्सहधर्मचारिण्या भगवतम्वरूपविग्रहावतारवयोगव्यवच्छेदं वदन्नम्या अपि तद्वत्प्रधान प्राप्यत्वं सूचयति शान्तेति ॥ शान्तम् - अशनायाद्यर्मिभिरपक्षयादिविकारैश्च नित्यानन्वितमिति भावः । अनन्तम् त्रिविधपरिच्छेदरहितम् । महत्यौ शुद्धाशुद्धे विभूती यस्य तन्महाविभूति । परमं सर्वोत्कृष्टम् । यच्छब्दः सर्वोपनिषत्प्र. सिद्धिं सूचयति । ब्रह्म - निरतिशयबृहत्त्वबृंहणत्वयुक्तं रूपं, स्वरूपमित्यर्थः । अत एव व्यतिरकविभक्तिश्चात्र घटते । हरेः - आश्रितदोषहारिणस्सर्वेश्वरस्य, यद्वा सर्वसंहतुः, यथोक्तं पुराणे * ब्रह्माणमिन्द्रं रुद्रं च यमं वरुणमेव च । निगृह्य हरते यस्मात्तस्माद्धरिरितीयते ॥ इति । एतञ्चतुर्विधप्रलयकर्तृत्वोपलक्षणम् । उक्तखरूपानुरूपं महाभागेत्यादिप्रसिद्ध सालम्बनयोगविषयभूतं दिव्यविग्रहमाह - मूर्तमिति । मूर्त - स्पर्शरूपादियुक्तं परमपदपर्यकादि देशपरिच्छिन्नं चेत्यर्थः । अत्र ब्रह्मशब्देन दिव्यविग्रहस्यातिमहत्त्वं स्वसंश्रितानां धीविकास हेतुत्वं च विवक्षितम् । ततोऽपि * आनन्दो ब्रह्म इत्याद्याम्नातात्स्वरूपादपि तत्प्रियतरं तस्य निरतिशयानन्दम्य भगवतस्वरूपादपि सौन्दर्यादि- गुणयोगादतिशयेन प्रीतिविषयभूतम् । तदिति व्यस्तं वा, प्रसिद्धयतिशयद्योतनार्थ यत्तदित्यन्वेतव्यम् । रूपशब्द इह दिव्यविग्रहपरः । यच्छब्देन श्रुतिषु भगवच्छास्त्रादिषु च नित्यत्वादिविशिष्टतया प्रसिद्धिस्सूच्यते । अत्यद्भतं - सन्निवेशगुणविहारप्रभावादिभिरतिविस्मयावहम् । एवमादिमं रूपमुक्तम् । अथ तद्विजृम्भितानि व्यूहव्यूहान्तरविभव- ४ ।
- २२ श्रीमद्वेदान्तदेशिकग्रन्थमाला विभवान्तरादीन्याह - यान्यन्यानीति । यच्छब्द इहावताररहस्यप्रकरणादिप्रसिद्धिपरः । बहुवचनेन * पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः इत्याद्युक्तं भूयस्त्वं विवक्षितम् । अन्यानि - पररूपात्तदंशतया सन्निवेशर्वर्णादिभिश्च विलक्षणानि । यथासुखं . मनुष्यादिसजातीयावतारदशायामप्यस्य स्वाभाविकसुखादिनिवृत्तिर्दुःख वा नास्तीति भावः । विहरत इत्यनेनावताररूपाणां स्वेच्छामात्र हेतुकत्वं क्रीडार्थत्वं च गम्यते । तेन कर्महेतुकत्वादिशङ्का निरस्ता । एतेषु स्वरूपादिपु किञ्चिदपि श्रियाऽनन्दितं नास्तीति द्योतनाय सर्वाणि तानीत्युक्तम् । आहुः-श्रुतिस्मृत्यादीनि, तद्विदो वा स्वयम्भूवसिष्ठपराशरपाराशर्यात्रिकादयपशौनकमङ्कणशतमुखधनदादयस्तत्तत्संहिताप्रणेतारः । स्वैः - तवासाधारणैः, अनुरूपरूपविभवः - अनुरूपाणां रूपाणां सम्पद्भिः । रूपाण्येव वा विभवः, प्रभूतानुकूल्यैरनुरूपरूपैरिति यावत् । रूपशब्द इहापि पूर्ववत्स्वरूपादित्रिकविषयः । भगवत्स्वरूपादीनामेतत्स्वरूपादानि यथाक्रममनुरूपाणि । अनुरूपत्वं च संबन्धे सति प्रकृष्टं सादृश्यम् । रनकाञ्चनादिन्यायेन खसम्बन्धिान शाभातिशयहेतुत्वं वा । त्रयाणामानुरूप्यं * मद्धर्ममिणी नित्यम् * नित्यौपा जगन्माता * देवत्वे देवदेहेयमित्यादिभिरभिहितम् । भगवच्छास्त्रे त्वस्य विस्तरः । गाढोपगूढानि-दृढसंवद्धानि वियोगानहरेणीत्यर्थः । एतेन सन्नियोगशिष्टन्यायस्सूचितः । अपराधभीतानां भगवतस्सर्वदा शरण्यत्वार्थ प्राप्तिदशायां शर्करान्वितधुग्धन्यायेन निरतिशयभोग्यत्वार्थ च सर्वप्रकारण श्रिया गाढापगूढत्वोक्तिः । निरतिशयभाग्यम्यापि तादृशभोग्यान्तरोपश्लेषणापि भोग्यत्वमविरुद्धम् । ते भगवदभिमतस्वरूपरूपादिसंपद इति भावः । अस्त्वेवं भगवत्स्वरूपरूपादिपु तत्तदनुरूपाकारैरस्यास्संबन्धः, क्वचित् * सर्वभूतस्थिता द्विज * यथा सर्वगतो विष्णुरित्यादिकं वचनमन्यत्र प्रशस्तपदार्थमात्रवासित्ववचनं च कथं घटेतामिति चेदत्र ब्रमः- शुभेकवासवचसां सर्वगत्वगिरामपि । अभिमानविशेषाद्यविषयस्स्यायवस्थितः ।। व्यापिनी सर्वगत्याद्यास्सुसूक्ष्मेत्यादयस्तथा । श्रीसमाख्या मिथा वैरं जह्यस्तात्पर्यभेदतः ॥ शक्तिकालवशादस्या विभुत्वाद्यपपादकाः । प्रच्छन्नस्पष्ट जनाध्वनिराधादगीकृताः ॥ एवं किल ते वदन्ति यथा विभुखभावस्येश्वरस्याघटितघटनासामर्थ्यादणुत्वम् , तथाऽणुखभावाया एव तस्या विभुत्वमिति । तत्र दृष्टान्तस्तावदयुक्तः । उपाध्यवच्छेदमात्रेण ह्यणुत्वमीश्वरेऽङ्गीक्रियते न तु स्वरूपतः । यदि चाघटितघटनाशक्त्याऽत्र विरुद्धद्वयसंभवः, तदा सर्वाद्वैतभेदाभेदपक्षाभ्यां किमपराद्धम् ? अथोच्येत - अणुखभा- वत्वेऽपि विकासकशक्त्याऽम्याः कदाचिद्विभुत्वमविरुद्धमिति, तथा सति समानन्यायतया सर्वेषामात्मनां खरूपविकास- खीकारे विरोधो न स्यात् * न च पर्यायादप्यविरोधो विकारादिभ्य इति जैनप्रतिक्षेपसूत्रमप्यपाथकं स्यात् । ननु च * का चाऽन्या त्वामृते देवि इत्यादिन्यायेन भगवद्विग्रहनिवासित्वमनन्तगरुडादिवन्नित्यभगवदिच्छानियमिताधिकार- विशेषसिद्धतया श्रियस्स्तुतये भवतु, भगवत्स्वरूपे तु गाढसंबन्ध उच्यमानस्सर्वसाधारणत्वान्नैतस्यास्स्तुत्यै स्यात् । तत्र यद्यनुरूपत्वाकया स्तुतिसिद्धिरभिप्रेता, तदा किं तदनुरूपत्वम् ? अणुत्वेन वेपम्येऽपि स्वतन्त्रशेषिणं प्रति पार तन्व्यशेषत्वाभ्यां विभूतित्वेनातिशयावहत्वमिति चेत्तदपि सर्वचिदचित्समानम् । न चानादिसर्वज्ञत्वादिसाम्यमिहानुरूप्यं, तस्यापि नित्यसूरिसाधारणतया तान्प्रति शेषित्वेनोक्तायास्तस्यास्तेन स्तुत्यनुपपत्तेः । अन्यथा द्रव्यत्वचेतनत्वादिभिरपि स्तोतव्यत्वप्रसङ्गात् । अथ * त्वयैतद्विष्णुना चाम्ब जगद्व्याप्तं चराचरमित्यादिवचनस्वारस्यावगताद्विभुत्वादनुरूपत्वं विवक्ष्यते, तदप्ययुक्तम् , जीवेश्वरकोटिविकल्पानुपपत्तेः । जीवत्वं ह्यणुत्वव्याप्तम् , क्वचिज्जीवे तन्निवृत्तावतिप्रसङ्गः । - ।
। व्याख्यानविभागे चतुश्श्लोकीभाष्यम् - इलो. ४ २३ * यथा सर्वगतो विष्णुः इत्यादिव्याप्तिवचनं * सौम्यासोम्यैर्जगद्रपैःस्वयैतदेवि ! पूरितमित्युक्त सङ्ग्यातविग्रहसंबन्धाभि प्रायं स्यात् । ईश्वरत्वे तु भगवतोऽन्यत्वे तम्य समाधिकदरिद्रत्वश्रुतिविरोधः । तदनन्यत्वे दम्पतित्वाद्यनुपपत्तिः । आनुरूप्यवचनं चानकं स्यात् । इमौ चात्यन्तसाम्यस्वरूपैक्यपक्षौ पूर्वमपि निरन्तौ । अत्र भेदाभेदकाल्पनिक- भेदाभेदपक्षौ च प्रामाणिकैः प्रतिक्षिताविति । अत्रोच्यते --यतावदुक्तमिनरसाधारणैराकारेम्स्तुत्यनुपपत्तिरिनि, तदसत् , व्यावान्तरवत्त्वे प्रयोजनविशेषवत्त्वे च सत्यनेकसाधारणैरपि कैश्चित् स्तु-युपत्तेः । स्तूयते हि सर्वेश्वराऽपि नित्य- मुक्तसाधारणैराकारेस्सर्वज्ञत्वादिभिः । यत्तु विभुत्वे जीवे घरकोटिविकल्पानुश्पत्तिरिति, तत्र केचिदेवं परिहरन्ति - जीव- त्वेऽप्यस्या विभुत्वं न विरुध्यते. जीवविषयाणुस्वश्रुतिर्हि न सर्वजीवव्यापिनी, तत्तयकरणमन्निहितेषु वद्वेष्वेव तत्प्रवृत्तेः, * वालाग्रेत्यादौ तु * स चानन्त्याय कल्पत इति मुक्तविषयो वाक्यशेषः आत्मनां निर्विकारत्वस्थापनाद्धमभूतज्ञान- द्वारा व्याप्तिमभिसन्धत्ते । एवम् * सर्वमेवाविशनीत्या दानि वाक्यान्तराण्यपि । एतच्च * प्रदीपवदावेशः इत्यादिसूत्रे प्रदर्शितम् । नित्येषु च संपतिपन्नजीवसा जात्यागतम्यागुत्वम्य बाधकश्रुयभावादनुग्राहकसद्भावाच्च खीकारः । लक्ष्म्यास्तु तथैव प्राप्तम्याणुत्वम्यानन्यथासिद्धव्यापित्ववचनं बाधकम् । न च सर्वगतादिशब्दानां सार्वत्रिकावतार- सर्वशेषित्वादिप्रतिपादकत्वं कल्प्यम् ; यथाश्रुतस्वीकारे विरोधाभावात् । नापि मुक्तवर्मभृतज्ञानद्वारा व्याप्तिकल्पनं युक्तम्; तद्वत् बाधकश्रुत्याद्यभावात् । विभुद्रयासंभव इह बाधक इति चेन, कालतत्त्वे नित्यमुक्तेश्वराणां धर्मभूतज्ञाने च विभुत्वस्वीकारात् । जीवलक्षणमपि परतन्त्रचेतनत्वमात्रम् , अण वेतनत्वं त्वेतव्यतिरिक्तजीवविषयम् । अथवा जीव- लक्षणेऽणुशब्दः परिच्छिन्नमात्रपरम्सन् अमुष्यां भगवत्पराधीनायां स्वातन्त्र्यगुणपरिच्छेदेन वर्तताम् । एवं च जन्मा- द्यधिकरणे भाष्यम्*अनन्तपदं देशकालवस्तुपरिच्छेदरहितम्वरूपमाह । सगुणत्वात्म्वरूपस्य खरूपेण गुणैश्चानन्त्यम् । तेन पूर्वपदद्वयव्यावृत्तकोटिद्वयविलक्षणास्सातिशयस्वरूपस्वगुणा नित्या व्यावृत्ता इति । अत्र ह्यन्येषां नित्यानां स्वरूपतो गुणतश्च सातिशयत्वेन व्यावृत्तत्वं, लक्ष्म्यास्तु स्वरूपतो निरतिशयत्वेऽपि पारतन्ध्यादियोगात् गुणतम्सातिशयतया व्यावृत्तता युज्यते । तथा च जगत्कारणत्वलक्षणेऽपि व्यापारतम्सातिशयत्वाद्व्यावृत्तत्वम् । अतो जीवत्वेऽप्यस्यास्वरूपविभुत्वेन पतिवरूपानुरूप्यमिति । अपरे त्वस्याश्चेननत्वात् अचिदन्यत्वं विभुत्वाज्जीवान्यत्वं पारतव्यादीश्वरान्यत्वं च । न हि सदसद्विलक्षणादिष्विवात्र विरोधः, जीवेश्वररूपेण विविधात्मविभागवचनेषु त्वम्या अनुक्तिरविवक्षामात्रात् । वस्तुतस्तु पतिपुत्रव्यावृत्तपत्नीन्यायेन लक्ष्म्याः कोट्यन्तरत्वम् , तत्र लक्ष्म्या अपि सत्ता भगवदधीना, भगवतस्तु वैभवं रत्नप्रभा- पुष्पपरिमलन्यायेन लक्ष्म्यायत्तम् । अतोऽत्रापि पतिस्वरूपानुरूप्यं पत्नीस्वरूपस्य सुगममिति । अन्ये तु स्वरूपस्थितिरेव. मस्तु, तथापि सेयमीश्वरकोटिः, विभूनिद्वयशेषित्वादिमाग तल्लक्षणसिद्धेः । तत्र सर्वशेषित्वादिकं भगवतः । अस्यास्तु तदितरसंबोमित्यादि कमिति विभागः । अनुरूपत्वं तु पूर्ववदेव, जगत्कारणत्वादिब्रह्मलक्षणं तु पतिमात्रगोचरम् । अत एव तस्य सर्वेश्वरत्वं समाधिकदरिद्रत्वं चेति । तदिदं पक्षत्रयमन्योन्यानतिविप्रकष्टम् । जीवादिसमाख्यानिवेशे तु मिथो विवादः ॥ प्रागुक्तेन सहैतेषु पक्षेष्वत्र चतुर्वपि । स्वतन्त्र प्रतिनित्येच्छासिद्धं सर्वमिदं श्रियः ॥ अपि चैवं न तस्येशे कश्चनेत्यादिदर्शनात् । अतश्चतुर्भिरप्येतैः पत्यावैश्वर्यविश्रमः । - । ।
२४ श्रीमद्वेदान्तदेशिकग्रन्थमाला अत एव नरसम्बधिनो नारा इति नरशब्दार्थत्वेऽप्यस्याः पतिवत्तदिच्छायत्तं प्रधानप्राप्यत्वादिकमविरुद्धम् । आकारसाम्य ऽपि क्वांचव्यापारो भिद्यते । सर्वकर्तुवल्लभाप्रीत्युद्देशेन तत्तलीलाप्रवृत्तस्तस्या अपि तदन्वयोक्तिरविरुद्धा। सहा- रव्येऽपि कायें लौकिपतिन्यावेन पतिप्राधान्यव्यपदेशः पतिकर्तकत्वमात्रव्यपदेशश्चोपपन्नः । पतिबुद्धधधीनस्यापि पल्या गुणभावस्योभयेच्छासिद्धत्वव्यपदेशस्तस्या अपि तथैवेष्टत्वाविशेषादुषपद्यत इति गमनिकेति । अत्र सर्वभूतेश्वर- त्वादिवचनसाम्यादस्या गुणभाव उभयेच्छाप्रयुक्त इति केचिदाहुः ।। अन्यान्येच्छाविधातादिनिवृत्ती तत्परत्वनः । ऐककण्ठयमशेषाणामागमाना भवत्विति ॥ पञ्चस्वतेषु पक्षषु कश्चिदेकः प्रमाणवान् । सलक्ष्मीकस्य साम्राज्यं सर्वथा सुप्रतिष्ठितम् ॥ इहैव क्वचिदंशे तु संशयेऽपि विपश्चिताम् । उपयुक्तांशवेशद्यादुपायफलसंभवः ।। अत्र स्वामित्वसौलभ्यफलदत्वफलस्वतः । आनुरूप्येण संबन्धः श्रीपती दर्शितश्श्रियः ॥ अपि चात्र द्वयार्थमनुसन्धित्सता श्रीशब्दनिरुक्तयश्च तत्रतत्र सूचिताः । मत्वर्थम्नु नित्ययोगस्वरूपरूपादि. सर्वविषयतया चतुर्थश्लोके व्यञ्जितः । नारायणशब्दार्थोऽपि * कान्तस्ते पुरुषोत्तमः, * शान्तानन्तमहाविभूती त्यादिभिम्संग्रहेणोक्तः । चरणशब्दोपलक्षितविग्रहयोगोऽपि * मूर्त ब्रह्मेत्यादिना प्रदर्शितः ।। एवं सङ्क्षिप्तसिद्धांशविशदीकारपूर्वकम् । साध्यं प्राप्यमुपायं च स्तोत्रे संदर्शयिष्यति ॥ कविकथकसिंह इत्थं त्रय्यन्ताचार्य इत्यभिख्यातः । व्यवृणुत यामुनविहिता रमास्तुति वेङ्कटेशकविः ॥ ထထထထထထထထထထထထထထထထထထထထထထထထ इति कवितार्किकसिंहस्य सर्वतन्त्रवतन्त्रस्य श्रीमद्वेकटनाथस्य वेदान्ताचार्यस्य कृतिषु रहस्यरक्षायां चतुश्श्लोक्यधिकारः ।। श्रीचतुश्श्लोकोभाप्यं समाप्तम् HOMMONOMONOMMONOMICAMINOMONOMORE ॥ श्रीरस्तु ॥ श्रीमत्प्रणतातिहरवरदपरब्रह्मणे नमः । श्रीमते हयग्रीवाय नमः । श्रीमते रामानुजाय नमः । श्रीमते निगमान्तमहादेशिकाय नमः । श्रीमद्वेदान्तदेशिकगन्धमाला रहस्यरक्षायां द्वितीयोऽधिकारः ॥ स्तोत्ररत्नभाष्यम् ॥ स्वादयनिह सर्वेषां त्रय्यन्तार्थ सुदुर्ग्रहम् । स्तात्रयामास योगीन्द्रस्तं वन्दे यामुनाह्वयम् नमो नमो यामुनाय यामुनाय नमो नमः । नमो नमो यामुनाय यामुनाय नमा नमः॥ । श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवयों मे सनिधत्तां सदा हृदि । श्रीमद्यामुनमुनिना नाथसहायेन नाथवानस्मि । यद्वदनचन्द्रजनिता स्तोत्रसुधा भवति सुमनसां भोग्या ॥ प्राप्यप्रापकभूते भगवति यामुनमुनेरयं प्रसृतः । दुरितानि हरति जगतां द्वयानुसन्धानसिन्धुपरिवाहः ॥ विमलममृतोल्बणरसं विगाह्य निर्विशति वेङ्कटेशकविः । यदुपतिचरणाहमिदं यमुनातीर्थमिव यामुनं स्तोत्रम् ॥ यद्यप्यत्र न संदृष्टं परार्थप्रतिपादनम् । तथाऽपि तादृप्रपत्वं परसङ्कल्पतः स्थितम् ॥ स्तोत्ररत्नमिदं न्यस्तमाचार्यस्तुतिसम्पुटे । निधानमिव निस्सीमं निर्विशन्ति विपश्चितः ।। मङ्गलाचरणत्वेन ख्याता गुरुनमस्कृतिः । स्मृत्याचारानुसारेण स्त्रोत्रारम्भे विधीयते ॥ नमस्कारोऽत्र विशेयः प्रणिपातपुरस्सरः । आचार्यादन्यतो शेया या केवलनमस्क्रिया ॥ प्रमाणमिह विज्ञेयं मैत्रेयाचरणं सताम् । * मैत्रेयः परिपप्रच्छ प्रणिपत्याभिवाद्य च ॥ इति । प्रणिपातश्च साष्टाङ्गप्रणामः । प्रणामलक्षणं च भाष्यकारैरेव नित्यानुष्ठानलक्षणसंग्रहे प्रदर्शितम् * मनो- बुद्ध्यभिमानेन सह न्यस्य धरातले । कूर्मवञ्चतुरः पादान् शिरस्तत्रैव पञ्चमम् ॥ इति । नित्यानुष्ठानाधिकारिणः परमैकान्तिनो भगवत्कैकर्येकरतित्वात्प्रपन्नाधिकारिण एव, उपासकानामुपायभक्तावप्येतदनुष्ठानमुपयुज्यत इति विभागः ।। तत्रेदमागतं स्वत्य सदाचार्येक्षणादिकम् । यत्संबन्धादमुं नाथमुनिं प्रणमति त्रिभिः ॥ उक्तं च * आचार्यप्राचार्यसन्निपाते प्राचार्यायापसंगृह्योपसञ्जिघृक्षेदाचार्यम् । प्रतिषेधेदितरो लुप्यते पूजा चास्य सकाशे इति प्राचार्यवन्दनप्राधान्यम् । अत्र पुनः वाचार्यवन्दनप्रसङ्गे तत्सन्निधौ वाचार्यनिषेधादेव खाचार्य- वन्दनःश्लोकनिर्माणाभाव इति सुसङ्गतमेतत् ।। ।
२६ श्रीमद्वेदान्तदेशिकग्रन्थमाला भगवद्भक्तितस्नेहो लोकानुग्रह इत्यमी । प्राधान्येन प्रकाश्यन्ते तत्स्वभावास्त्रिषु क्रमात् ॥ वैराग्यपरभक्त्यादेस्तत्त्वज्ञान प्रसाधकम् । इति शापयितुं नस्य त्रिषु पद्येषु संग्रहः ॥ तत्रापि पर्वभेदेन शानभक्त्योः परस्परम् । हेतुकार्यत्वयोज्ञप्त्यै विधाऽत्र स्थापितः क्रमः ॥ गुरांशानादिसंपत्तिस्तस्यास्सर्वातिशायिता । लोकोपकारिताऽयुक्तत्यतो न पुनरुक्तता ॥ करणत्रयसंबन्धप्रतिबन्धप्रशान्तये। त्रिवार मङ्गलाचार इति केचित्प्रचक्षते ॥ अन्ये मङ्गलभूयस्त्यसिद्ध्यै मङ्गलकर्मणाम् । क्रियासमभिहारोऽयमिति साफल्यमभ्यधुः ॥ इत्थमेवं विभाव्यं तदुभयं भव्यसिद्धये । पराशरनमस्कारी वकुलाभरणानतिः ॥ सर्वाण्यतानि भागवतवन्दनानि भगवद्वन्दननान्तरीयकतयाऽनुष्ठीयन्ते । कृत्स्नस्यापि प्रबन्धनिर्माणस्य भगव दभिवन्दनरूपत्वादिति ॥ भगवद्वन्दनं स्वाद्यं गुरुवन्दनपूर्वकम् । क्षीरं शर्करया युनं स्वदते हि विशेषतः ॥ ॥ श्रीभगवद्यामुनमुनिभिरनुगृही स्तोत्ररत्नम् ।। नमोऽचिन्त्याद्भताक्लिष्टज्ञानवैराग्यराशये। नाथाय मुनयेऽगाधभगवद्भक्ति सिन्धवे ॥ इह तावत् * आचार्यदेवो भव इति तैत्तिरीयाः । * आचार्यवान् पुरुषो वेद इति छन्दोगाः । * यम्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्याः प्रकाशन्ते महात्मनः ।। इति कठाः । रहस्यानाये तु * यथा भगवत्येवं वक्तरि भक्तिः इति । अमानित्वादीन् सम्यग्ज्ञानहेतून् प्रक्रम्य गीयते च * आचार्योपासनं शौच स्थयमात्मविनिग्रहः इति । आचार्यप्रसादस्य च सर्वसिद्धिहेतुत्वं बोधायनीय पुराणसारसमुच्चये प्राक्तम् * देवताया गुराश्चापि मन्त्रस्यापि प्रकातनात् । ऐहिकामुध्मिकी सिद्धिद्विजस्यास्त न संशयः ॥ इति। सिद्धिरिह ज्ञानादिसमस्तापक्षितलाभः । उक्त हि जयाव्यसंहितायाम् * यस्माद्देवा जगन्नाथः कृत्वा मर्त्यमयीं तनुम् । मग्नानुदरते लोकान्कारुण्याच्छास्त्रपाणिना ।। तस्माद्भक्तिगुरौ कार्या संसारभयभारुणा ।। इति । एवं * देवमिवाचार्यमुपासीत नम आचार्येभ्य इति ।। * आचार्यः प्लाविता तस्य ज्ञानं प्लव इहाच्यत * मन्त्रे तद्देवतायां च तथा मन्त्रप्रदे गुरौ । त्रिपु भक्तिस्सदा कार्या सा हि प्रथमसाधनम् ।। * मन्त्रनाथ गुरुं मन्त्रं समत्वेनाभिपूजयेत् * चक्षुर्गम्यं गुरुं त्यक्ता शास्त्रगम्यं तु यस्मरेत् । करस्थमुदकं त्यक्त्वा धनम्थमभिवाञ्छति ॥ * सुलभं तु गुरुं त्यक्त्वा दुर्लभ य उपासते । बद्धं त्यक्त्वा धनं मूढो गुप्तमन्वेषते क्षितो * इत्यादि वचनशतमिह द्रष्टव्यम् । * स चाऽऽचार्यवंशो ज्ञेयो भवत्याचार्याणामसाव- सावित्याभगवत्तः इत्याम्नानात् प्राचार्यभजनमपि कर्तव्यम् , तत्स्वाचार्यस्याप्यधिकं प्रीणनम् , अतोऽत्र गुरोरपि गुरुं नाथमुनि प्रणमति नमोऽचिन्त्येति ।। यद्यप्यत्र गुरुपङ्क्तिः स्वयमभिवन्द्यते, तथाऽपि परप्रतिबोधनार्थ प्रबन्धमुग्वेनोप- कर्तणामेवात्र ग्रन्थे निवेशः । अत्र नमशब्दः प्रवीभावपरः आत्मनिवेदनपरो वा, स तु प्रणिपतनपूर्वक इत्युक्तम् . दण्डवत्पणमेद्वमौ निर्लज्जा गुरुसन्निधौ । शरीरमर्थ प्राणं च सद्गुरुभ्यो निवेदयेत् ॥ इति विधानात् । नमसाश्चात्म निवेदनपरत्वमीश्वरसंहितायां मन्त्रराजपदस्तोत्रे प्रोक्तम् * नमस्कारात्मकं यस्मै विधायात्मनिवेदनम् । मुक्तदुःखोऽ. खिलान्कामानश्नुते तं नमाम्यहम् ॥ इति । * गुणैर्दास्यमुपागत इति चाभिप्रायेणात्र गुरोर्ज्ञानादिगुणगणोक्तिः , तं व्याख्यानविभागे स्तोत्ररत्नभाष्यम् - इलो. २ २७ ज्ञानमिह * सा विद्या या विमुक्तये * संज्ञायते येन तदस्तदोषम् इत्यादिषूक्तमपवर्गोपयुक्तं परस्वरूपरूपादि- ज्ञानम् । ईदृशज्ञानवानेव गुरुराश्रयणीयः * भिन्ननावाश्रितस्स्तब्धो यथा पारं न गच्छति । ज्ञानहीनं गुरुं प्राप्य कुतो मोक्षमवाप्नुयात् ।। इति व्यतिरेकनिन्दनात् । वैराग्यम्-अल्पास्थिरत्वादिदोषविदूषितेषु वर्गवाराज्यादिषु स्वात्मानुभवमाने च निम्म्पृहत्वम् । अचिन्यत्वादित्रिकं च द्वन्द्वात्यूर्वत्वात् प्रत्येकमन्वेति । अस्मदादिभिः स्वरूपतः कारणतो विशेषतो विषयतश्च परिच्छेत्तुमशक्यन्वमिहाचित्यत्वम् ; कुतरपह्रोतुमशक्यत्वं वा । अद्भुतत्वमवगतांशस्यापि लोकोत्तरतया आश्चर्य- युक्तत्वम् । अक्लिष्टत्वं * स्वयमागतविज्ञाना निवृत्ति धर्ममास्थिताः इतिवत् प्राचीनसुकृतविशेषजनितेन परावर- गुरुप्रसादेनायनलब्धत्वम् ; विरुद्धधर्मसमर्दहितत्वं वा । ज्ञानादेरक्षयन्वव्यञ्जनाथमिह तदाश्रये राशिशब्दः । अचिन्त्यत्वादि- विशिष्टौ ज्ञानवैराग्याशी यस्येति बहुव्रीहिर्वा । तदा तु ज्ञानवैराग्ययोः प्रत्येक विषयानन्त्येन भेदमनुसन्धाय राशित्व- कृप्तिः । नाथशब्देन * नामोक्तावर्धाक्तिरपि पूर्णाक्तिकार्यकरीति न्यायेन श्रीरङ्गनाथ इति नामधेयं स्वापेक्षिन- सिद्धये याचनीयत्वं स्वामित्वं च विवक्षितम् । स्वाभाविकं भगवदनन्याहशेषत्वं तदिष्टविनियोगसिद्धस्याऽचार्यशेषत्वस्य न विरुद्धम् । पापकृतमेवान्यशेषत्वं परिहार्यम् । नाथाय नाथमुनय इति वक्ष्यमाणेऽप्येवं विवक्षा ग्राह्या । मुनये भक्ति. प्रेरिततया प्रकृष्टमननशीलाय । उभयलिङ्गत्ववाचिना भगवच्छब्देन सर्वशेषिणः परभक्तियोग्यत्वं व्यज्यते । महनीयविषये प्रीतिभक्तिः । एतद्भक्तिम्सनकादिभिरप्यनुषिता । अशक्यतलस्पर्शत्वमगाधत्वं क्षोभणार्थिभिरक्षोभ्यत्वं च । भक्ते पारत्वा- शोप्यत्वादिख्यापनाय तदाश्रये सिन्धुत्वोक्तिः । भक्ति वा सिन्धुत्वेन रूपयित्वा बहुव्रीहिः । अत्र मुमुक्षणां चित्त परिष्कारभूतेषु बहुषु गुणेषु प्राधान्यतस्त्रय उपात्ताः. तत्रापि प्रधानतमत्वव्यक्तयै भक्तेः पृथगक्तिः ॥ १ ॥ तस्मै नमो मधुजिदविसरोजतच्चज्ञानानुरागमहिमातिशयान्तसीम्ने । नाथाय नाथमुनयेऽत्र पत्र चापि नित्यं यदीयचरणौ शरणं मदीयम् ।। एवं भगवत्परत्वानुभवजनितभक्तिपरिपूर्ण प्रणम्य तमेवावतारहेतुभूतसौलभ्यगुणविशेषानुभवजनितस्नेहपूर्ण * नमस्तम्मै नमस्तस्मै * नमो नमस्तेऽस्तु सहस्रकृत्यः इतिवदादरानिशयात्पुन मन्यति - तस्मै नम इति ।। तस्मै - * खयोगमहिमप्रत्यक्षतत्त्वत्रय इति सुप्रसिद्धाय । मधुजिच्छन्दः प्रादुर्भावविशेषकृतदुष्कृद्विनाशनं, हिरण्य गर्भादिसाधुपरित्राणं, तद्वदस्मदादिप्वपि रजस्तमःप्रभृतिसर्वदापनिरासाहत्वं, वेदाहरणवृत्तान्तेन धर्मसंस्थापनं च सूचयति । अधिशब्देन शुभाश्रयविग्रहद्वाराऽनुरागातिशय हेतुत्वं तत्रापि शेषभूतस्योद्देश्यतमांशश्च प्रदश्यते । सरोजत्वरूपणेन मङ्गलत्वं भाग्यत्वं च व्यञ्जितम् । भगवदविवलेन मधुर्जितः, अयं तु तद्भोग्यतातिशयेन जित इति भावः । तद्विषय तत्त्वज्ञानं तत्पदद्वयमेव मुमुक्षगां सिद्धोपायः प्राप्यं चेति याथार्थ्यबुद्धिः । * अजायमानो बहुधा विजायते तस्य धीराः परिजानन्ति योनिम् * अजोऽपि बन्नव्ययात्मा * जन्म कर्म च मे दिव्यम् - इत्यादिषूक्तमवताररहस्यज्ञानं वा । अनुराग इह अवतारप्रकाशितगुणविशेषकृतः सुहृन्मित्रादिविध स्नेहः । सेवकस्य म्नेहो भक्तिश्च * स्नेहो मे परमो राजन् त्वयि नित्यं प्रतिष्ठितः । भक्तिश्च नियता वीर! भावो नान्यत्र गच्छति ॥ इत्यत्र संबुद्धिद्वयसूचित- सेव्यगुणभेदनिबन्धनतया विभज्योच्यते । ज्ञानानुरागयोमहिमा महत्त्वं, तस्यातिशयः प्रकर्षः, तस्यान्तसीन्ने - परमावधि- भूताय । अन्ये योगिनः एतदपेक्षयाऽर्वाचीनाः, तेषां ज्ञानादिकं हि समुद्रे गोष्पदमन्तोतिवदेतस्य ज्ञानादावन्तर्गत भवतीति भावः । भगवदनुरागातिशयोक्त्या तदितरविषयवैराग्यातिशयोऽप्यर्थसिद्धः । अत्र मुक्तेः पूर्वावस्थायां ज्ञान- ..
३
॥
२८
श्रीसद्वेदान्तदेशिकग्रन्थमाला
भक्तघाद्युत्पादनमुखेन शरणत्वम् , परत्र तु मुक्तिदशायां सूरिवच्छेषित्वेन विशिष्टप्राप्यान्तर्भावात् तत्रापि प्राचीनमहाप
कारसाक्षात्कारेण विशेषप्रतिपत्तिविषयतयैवेत्याशयः । अपिचेतिवत् चापीत्यव्ययमनतिरिक्तिार्थम् । यद्वा परत्र शरणत्वा
संभवप्रतिक्षेपार्थोऽयमपिशब्दः । नित्यं - यावदात्मभावि । यदीयचरणी - यस्य चरणावित्यर्थः । शरणमिति यथा-
संभवमुपायत्वप्राप्यत्वरक्षितृत्वादीनां तन्त्रेणोपादानम् । अत्र परत्र चेत्युभाभ्यामन्वयात् । उक्तं च गुरोरपि प्राप्यप्रापक-
भावेन संश्रयणीयत्वं सात्त्वततन्त्रे * गुरुरेव परं ब्रह्म गुरुंग्व परा गतिः । गुरुरेव परा विद्या गुरुरेव परायणम् ॥ गुरुरेव
परः कामो गुरुरेव परं धनम् । यस्मात्सदुपदेष्टाऽसौ तस्माद्गुरुतरो गुरुः ॥ इति । अन्यत्र गुरुं प्रस्तुत्य * अर्चनीयश्च
वन्द्यश्च कीर्तनीयश्च सर्वदा । ध्यायेज्जपेन्नमेद्भक्तया भजेदभ्यचयन्मुदा ।। उपायोपेयभावेन तमेव शरणं व्रजेत् ॥ इति ।।
भूयो नमोऽपरिमिताच्युतभक्तित्वज्ञानामृताब्धिपरिवाहशुनैचोभिः ।
लोकेऽवर्णिपरमार्थसमग्रभक्तियोगाय नाथमुनये यमिनां वराय ।।
पुनरपि तमेव स्वनिष्ठाप्रधानलक्षणपरमौदार्यविशिष्ट भावयन् * पुनश्च भूयोऽपि नमो नमस्ते इति न्यायेन
प्रणमति - भूय इति ॥ स्तवप्रियस्य भगवतः स्वविषयस्तुतौ योजयितुमिच्छतः स्तोत्रं तावदास्ताम् ,
ततोऽप्यसाधारण्ये-
नोपकारकतमो नाथमुनिरेव मे नन्तव्य इति भावः । आश्रितसंरक्षणवतान्न च्युत इत्यच्युतः; तदभिप्रायेण हि स्वयमुक्तं
भगवता-* सत्त्वान्न च्युतपूर्वोऽहं सत्त्वं वै विद्धि मत्कृतम् - इति । सत्त्वमिह व्यवसायः * द्रव्यामुव्यवसायेषु सत्त्व-
मस्त्री तु जन्तुषु इति नानार्थपाठात् । * न कर्मणा वधते नो कनीयान् * स न साधुना कर्मणा भूयान्नो
एवासाधुना कनीयान् इत्यादिपुक्तं ज्ञानवलैश्वर्यादरप्रच्युतत्वं वा विवक्षितम् । * यस्मात्प्राप्ता न च्यवन्ते सोऽच्युत
इत्यपि निरुच्यते । अत्र च्युतो यस्मान्नास्ति सोऽच्युत इति बहुव्रीहिः । भक्तिश्च तत्त्वज्ञानं चेति द्वन्द्वः । तत्त्वज्ञानमना-
रोपिताकारण बुद्धिः । भक्तयादियोगादस्य वचमां विनम्भणीयत्वं सूचितम् । अपरिमितत्वमिह भक्तिज्ञानयोविशेषणम् ।
तयोरमृताब्धित्वनिरूपणं सञ्जीवनत्वस्वयंप्रयोजनत्वाक्षयत्वादिव्यत्रनाथम् । पारवाह: तटाकादिरक्षणार्थमधिकजलाप.
गमनप्रवाहः तद्वच्छुभैः; प्रसन्नमधुरशीतलत्वादिस्वभावैरित्यर्थः । अत्रानुक्त्वा स्थातुमशक्यत्वं प्रेरकान्तरप्रयोजनान्तरनरपेक्ष्य
च दृष्टान्तेन व्यज्यते । वचोभिः परतत्त्वपरमहितपरमपुरुषार्थविषयायतत्त्वादिप्रबन्धनिवेशितैरन्यैश्च वाक्यैः । * संस्मरा
म्यस्य वाक्यानि * संस्कारक्रमसंपन्नाम् - इत्यादिप्रकारोऽत्रानुसन्धेयः । लोके - सात्त्विके जने; यद्वा, भगवद्विमु-
खाधिष्ठिते भुवने; अत्यद्भुतं ह्येतदिति भावः । यथा परमपदनिलया भगवानत्रावतरति तथा नाथमुनौ स्थितो भक्तियोग-
स्तदाश्रितेषु मत्पर्यन्तेष्वित्यभिप्रायेणावतीर्णत्वोक्तिः । पूर्व दुरारोहसीमावस्थितत्वं च सूचितम् । परमार्थशब्दः स्वयंप्रयो-
जनत्वमकैतवत्वं वा वक्ति । फलं प्रत्यव्यवहितसाधनत्वज्ञापनाय समग्रत्वोक्तिः । भक्तिश्चासौ योगश्चेति भक्तियोगः,
प्रीतिरूपापन्नध्यानमुपायो वा * योगस्पन्नहनोपायध्यानसङ्गतियुक्तिषु इति नैघण्टुकाः । भक्तिशब्द इह वचःपरिवाह
मूलतया सहोक्तं तत्त्वज्ञानमुपलक्षयति; भक्तियोगस्यापि तत्त्वज्ञानात्मकत्वसूचनार्थ वा पृथगनुक्तिः । नाथमुनिशब्दस्य
प्रतिश्लोकं निबन्धनात् * गुरुपादाम्बुजं ध्यायेद्गुरुनाम जपेत्सदा । गुरोर्वार्ता कथा चैव गुरोरन्यं न भावयेत् ।।
इत्यादिकमनुसन्धेयम् । यमिनां भगवदेकनियतकरणत्रयवृत्तीनां वराय - वरणीयाय श्रेष्ठाय वा । एतत्तु भगवद्विषय-
योगारूढतया प्राप्तम् , यद्गीयन * योगिनामपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो
मतः ।। इति ॥ ३ ॥
, " व्याख्यान विभाग स्तोत्ररत्नभाध्यम् - इलो. ४ २९ तुष्टषन्नपि लक्ष्मीशमाचार्यगुणयन्त्रितः । क्रमात्स्वस्य स्तुतौ योक्तं प्रभुणाऽन्यत्र कृष्यते ॥ तत्त्वेन यश्चिदचिदीश्वरतत्स्वभावभोगापवर्गतदपायगतीरुदारः । संदर्शयन्निरमिमीत पुराणरत्नं तस्मै नमो मुनिवराय पराशराय ॥ ४ अत्र हि प्रबन्धनिर्माणद्वारा परम्परयोपकारकान् नमश्चिकापुस्तेष्वपि धर्मशास्त्रकृतां प्राचुर्येण धर्ममार्गाप- बृहणप्रधानत्वाद्धारतादिकृतां मनुष्यत्वकञ्चुकितमहापुरुषानुगुणकाव्यत्वकर्वाचतातिगह्नगारवित ग्रन्थनिर्मातृतया तत्त्वत्रयादिविवेकस्य तत्प्रबन्धेषु कृच्छमाध्यत्वाचानन्यपराव्यामिश्रब्यक्ततात्पर्यसंक्षिप्तसात्त्विकोपणप्रधानतमपुराण निर्माणनात्यन्तोपकारकं पराशरं प्रणमति - तत्वेनेति ॥ तत्त्वमिहाऽनारारितं रूपम् ; यथाऽवस्थिताकारणेत्यर्थः । यच्छब्देन प्रजापतिनप्ता बसिछुपुत्रः * सहावाच व्यासः पाराशयः इति व्यासस्याप्तत्वाय तपितृत्वेन श्रुत्युपात्तः पुलम्त्य- वसिष्ठवरप्रदानलब्धपरदेवतापारमार्थज्ञानवत्तया प्रसिद्ध इति व्यज्यते । अत्र चिदचिच्छब्दो गोबलावर्दन्यायात् चेतना- चेतनविशेषपरौ, चेतनविशेषाः बद्धमुक्तादयः, अचेतनविशेषास्त्रिगुणकालादयः । ईश्वर इह स्वेतरसनियन्ता स्वयमन्यै- स्स्व सङ्कल्पमन्तरेणानियाम्यः, पुरुषात्तमः । अत्र खस्वरूपावगतिपूर्वकत्याज्योपादेयविभागार्थ प्रकृत्यात्मभ्रमस्वतन्त्रात्म- भ्रमनिवृत्त्यर्थं च त्रय्यन्तोक्तभोक्तृभोग्यनियन्तृक्रमा निबद्धः । तत्स्वभावाः-नयां त्रयाणां साधर्म्यवधर्म्यरूपा धर्माः । तत्र कारणत्वादयस्साधर्म्यरूपाः, परतन्त्रत्वभोक्तृत्वपराक्त्वसर्वशरोरत्वादयो वैधर्म्यरूपाः, भोग इह वर्गवाराज्यादिसुखानु- भवः स्वात्मानन्दानुभवश्च । तस्मिन् मुक्ति गन्दं केचिदुपचरन्ति । नहि नित्यं किञ्चित् स्वात्मानन्दमात्रानुभवरूपं कैवल्यमस्ति * चतुर्विधा मम जना भक्ता एव हि ने श्रुताः । तेषामेकान्तिनः श्रेष्ठाः तं चैवानन्यदेवताः ॥ अहमेव गतिस्तेषां निराशी: कर्मकारिणाम् । ये तु शिष्टाम्प्रयो भक्ताः फलकामा हि त मताः । सर्वे च्यवनधर्माणः प्रति- बुद्धस्तु मोक्षभाक् ।। इति विशेषणात् । सर्वकर्मविनिर्मोक्ष मुक्तिभेदः कथं भवेत् । कमैकदेशयोगे तु न मुक्ति क्तिभेदवत् ॥ न च कैवल्यवादमात्रात् मुक्तिरेषेति युज्यते । स्वमात्रभुक्तितात्पर्यात्तत्र तस्य प्रयोगतः ॥ आत्ममात्रानुभवसक्तस्य तदुपायानुष्ठायिनः का गतिरिति चेत्, ब्रह्मविद्यानुप्रवेशानामपवर्गविश्रान्तौ तदभावे च तत्तदनुगुणेति भाप्यादिषु द्रष्टव्यम् । ऐश्चर्यायर्थिनां तत्तत्प्रदर्शनमप्यौदार्य कृत्यमेव, अपवर्गस्सर्वकर्मात्यन्तोच्छेदेन निश्शेषाविद्यानिवृत्तिलक्षणपरिपूर्णब्रह्मानुभवः, स चाकर्माधीनखाम्यभिमतस्वच्छन्दशेषवृत्तिपर्यन्तः । ईदृशानुभवे * यथा न क्रियते ज्योत्स्ना मलप्रक्षालनान्मणेः । दोषप्रहाणान्न ज्ञानमात्मनः क्रियते तथा ॥ यथोदपानकरणाक्रियते न जलाम्बरम् । सदेव नोयते व्यक्तिमसतः संभवः कुतः ।। तथा हेयगुणध्वंसादवबोधादयो गुणाः । प्रकाश्यन्ते न जन्यन्ते नित्या एवा- त्मनो हि ते ।। इत्यादिकमनुसन्धेयम् । तदुपायाः-तत्तदधिकारिसाध्याः * प्रवृत्तिलक्षणं धर्म प्रजापतिरथाब्रवीत् । निवृत्ति- लक्षणं धर्ममृषिर्नारायणोऽब्रवोत् ।। इति विभज्योक्ताः । सिद्धिरूपाश्च देवतादयस्सर्वसाधारणाः; प्रधानतमसिद्धोपायस्तु यथाहै तथाविधधर्मद्वयवशीकरणीयतया नित्यसिद्धः पुरुषोत्तम एव । गतावपि तच्छब्दोऽन्वेति, तत्संबन्धिनी गति- रचिरादिका धूमादिका च । यद्वा सात्त्विकराजसतामसादिभिन्ना । तथा च गीयते * ऊर्ध्व गच्छन्ति सत्त्वस्थाः इत्यादि । गतिपर्यन्तानामष्टानामिह द्वन्द्व उचितः, गतयस्सप्तानां प्रकारा इति केचित् । उक्तैरेवानुक्तं विराध्यादिक- मप्यत्रोपलक्ष्यते । उदारः मैत्रेयादीनामस्मदादीनां च प्रत्युपकारमनपेक्ष्य तत्त्वज्ञानमहानिधिप्रदाता । येन चैवमाशास्यते न । - ३० श्रीमद्वेदान्तदेशिकग्रन्थमाला पुराणान्ते * प्रदिशतु भगवानशेषेपुंसां हरिरपजन्मजरादिकां समृद्धिमिति । अत्र * अज्ञानाय तु यो ज्ञानं दद्याद्धर्मोप- देशनम् । कृत्स्नां वा पृथिवीं दद्यात्तेन तुल्यं न तत्फलम् ॥ * ब्रह्मविद्याप्रदानस्य देवैरपि न शक्यते । प्रतिप्रदानमथवा दद्याच्छक्तित आदरात् ।। * विद्यादानं ततोऽधिकम् . इत्यादिकमनुसन्धेयम् । संदर्शयन् - सम्यग्दर्शयन् । कण्ठो- तयाऽर्थसिद्धया च विशदं प्रकाशयितुमित्यर्थः । * लक्षण हेत्वोः क्रियाया इति शतृप्रत्ययः । * चिरनिवृत्तमप्येतत्प्रत्यक्ष- मिव दर्शितमितिन्यायाद्दर्शनशब्द औपचारिकः । तदभिप्रायेण हि श्रूयते * तस्मै मृदितकपायाय तमसः पारं दर्शयति भगवान् सन कुमारः इति । तत्त्वेन संदर्शयन्नित्यनेन * प्रोवाच तां तत्त्वतो ब्रह्मविद्यामिति श्रुत्युक्तं सूच्यते । एवं सर्ववेदसारभूतश्रुतसकलार्थोपबृंहणपरत्वं ख्यापितम् । अत्र जीवस्वरूपस्वभावतदवान्तरभेदाः * पिण्डः पृथग्यतः पुंसः * पुमान् न देवो न नरः * निर्वाणमय एवायमात्मा ज्ञानमयोऽमल: * आत्मा शुद्धोऽक्षरश्शान्ती निर्गुणः प्रकृतः परः * अद्यापि न निवर्तन्ने द्वादशाक्षरचिन्तका: * यदै पश्यन्ति सूरयः इत्यादिभिरुक्ताः । अचित्स्वरूप स्वभावतद्भेदास्तु * त्रिगुणं तज्जगद्योनिरनादिप्रभवाप्ययम् । व्यक्ताव्यक्ते तथैवान्य रूपे कालान्तथा परः ॥ * कला- मुहूर्तादिमयश्च कालो न यद्विभूतेः परिणामहेतुः इत्यादिभिर्दर्शिताः । ईश्वरस्वरूपादिकं तु * अविकाराय शुद्धाय * परः पराणां परमः * शास्ता विष्णुरशेषस्य * समस्तकल्याणगुणात्मकोऽसौ * आत्मभावं नयत्येनं तद्ब्रह्म ध्यायिनं मुने । विकार्यमात्मनश्शक्तव्या लोहमाकर्षको यथा ॥ इत्यादिषु स्पष्टम् । भोगतत्स्थानभोग्यभोगोप करणादिकं भुवनकोशादिषु प्रपञ्चितम् । * यागिनाममृतं स्थानं वात्मसन्तोषकारिणामित्यनेन खात्मानुभवपराणां स्थानमप्युक्तम् । सनकादियोगिनाममृतं स्थानं वात्मसन्तोषकारिणामपि स्थानं भवतीत्यर्थः । अत्र पूर्वपरवाक्य प्रवृत्तिप्रकारः परामर्शनीयः । स्वधर्ममनुवर्तिनामिति केषां चित्पाटेऽपि योगिन एनेऽर्वाचीनाः, तत्स्थानमपि तथैव * एकान्तिनम्सदा ब्रह्मध्यायिनो योगिनो हि ये । नेषां तत्परमं स्थानम् .... || इति तदधिकस्य स्थानस्यानन्तरोक्तेः, ह्यपवर्गस्वरूपं * निरस्तातिशयालादमुखभावैकलक्षणा । भेषजं भगवत्प्राप्तिरेकान्तात्यन्तिकी मता ॥ * तद्भावभाव- मापन्नः । इत्यादिभिरुक्तभ , अत्र कर्मकृतवैधम्यन्यात्यन्तनिवृत्तिविवक्षिता । भोगोपायास्तु ध्रुवादिवृत्तान्तैरुदाहृताः । अपवर्गापायश्च भक्तियोगसंज्ञः * तद्रूपप्रत्यये चैका सन्ततिश्चान्यनिस्पृहा । तद्वयानं प्रथमैष्षड्भिरङ्गनिष्पाद्यते नृप ।। इत्यादिषु सुव्यक्तः । प्रपत्तिस्वरूपं च * तावदार्तिस्तथा वाञ्छा तावन्मोहस्तथाऽमुखम् । यावन्न याति शरणं त्वामशेषाघ नाशनम् ॥ इत्यादिषूक्तम् । भोगापवर्गाथगतिश्च तत्तदुपायफलमध्ये यथाश्रुति प्रतिपत्तव्या । * पुराणसंहिताकर्ता भवान् वत्स भविष्यतीति वैष्णवलैङ्गयोरुक्तमाह - निरमिमीत पुराणरत्नमिति । न केवलं पूर्वसिद्धप्रबन्धप्रवर्तनमात्र मिति भावः । पुरैव विद्यमानत्वेऽपि संप्रति नवत्वात पुराणत्वम् ; चिरानुभूतत्वेऽपि अपूर्ववन्नित्यानुभाव्यमित्यर्थः । अनादि वैदिकार्थविषयतया विद्यान्तरभ्यः पुरातनत्वाद्वा पुराणत्वम् । यथोक्तं वायव्ये * प्रथमं सर्वशास्त्राणां पुराणं ब्रह्मणो- दितम् । अनन्तरं च वक्त्रेभ्यो वेदास्तन्य विनिम्मृताः ॥ इति । नन्वेवं सति पराशरः पुराणरत्नं निरमिमोतेति कथं स्यात्, शैवपुराणे च * ब्रह्मा चैव तु वेदानां पुगणानां प्रदर्शकः इत्युक्तम् । सत्यम्, तथाऽपि तत्रैव प्रत्येक पुरा गसंहिताविशेषप्रणेतारः प्रतिपाद्यन्ने * ब्राह्म तु ब्रह्मणा प्रोक्तं पाद्म तेनैव शोभनम् । पराशरेण कथितं वैष्णव मुनिपुङ्गवाः ।। शैवं शैलालिना प्रोक्तम् .... ॥ इत्यादि । तथा आमेयपुराणे * यद्ब्रह्मकल्पवृत्तान्तमधिकृत्य प्रजापतिः । अकल्पयत्पुराणं तद्बाममित्यभिधीयते ॥ इत्यादि । मात्स्येऽपि * वराहकल्पवृत्तान्तमधिकृत्य पराशरः । यत्प्राह धर्मा- - ।
व्याख्यानविभागे स्तोत्ररत्नभाष्यम् - इलो. ५ ३१ नखिलान्विष्णोस्तद्वैःणवं विदुः ॥ यत्तदोशानकल्पस्य वृत्तान्तमधिकृत्य च । कल्पितं लैङ्गमित्युक्तं पुराणं ब्रह्मणा खयम् ।। इत्यादि, * अष्टादशपुराणानां कर्ता सत्यवतीसुतः इत्येतदपि प्राक्सिद्धसर्वपुराणप्रवर्तनविशेषाद्वा सर्वपुराण- सारोद्धारेण * यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्वचिदित्युक्तमहाभारतकरणाद्वा निर्वाह्यम् । अत एव धुच्यते * अष्टादश पुराणानि अष्टौ व्याकरणानि च । ज्ञात्वा सत्यवतीसूनुश्चक्रे । भारतसंहिताम् ॥ इति । एतेन * अष्टादश पुराणानि कृत्वा सत्यवतीसुतः । भारताख्यानमखिलं चक्रे तदुपबृंहणम् ॥ लक्षेणैकेन यत्प्रोक्तं वेदार्थ- परिबृंहणम् ॥ इति भविप्यन्भात्स्यपुराणयोरुक्तमपि नेतव्यम् । इदं तु पुराण * सर्गश्च प्रतिसर्गश्चेत्यादिना पश्चलक्षणयुक्तम् । तस्य रत्नत्वरूपणेन त्रासरहितत्वस्थिरत्वसुग्रहत्वसुरक्षत्वभोग्यत्वप्रकाशत्वमङ्गलत्वमहात्विमान्यत्वमानन- हेतुत्वादि व्यज्यते ॥ अत्रासं मानदं रत्नं स्थिर भाग्यं प्रकाशकम् । महाघ मङ्गलं मान्यं सुरक्षं सुग्रहं नृणाम् ॥ एतस्य च परिग्रहातिशयस्सर्वसंमतः । तस्मै - उक्तप्रकारपरमौदार्यविशिष्टाय * इतिहासपुराणाभ्या मित्यादिना मनुप्रतिपादितवेदभयप्रशमनाय । मुनिवराय-परब्रह्ममननशीलेषु श्रेष्ठाय तैर्वरणायायेति वा, मुनिभिर्दत्तवरोऽसौ तेषामपि प्रत्युपकर्तेति भावः । * पराशरं मुनिवरमिति पुराणारम्भोक्तिसूचकाभ्यां मुनिवरपराशरशब्दाभ्यां स्वपक्ष- स्थापकत्वं परपक्षप्रतिक्षेपकत्वं च प्रकाश्यते, परान् बाह्यकुदृष्टीन् प्रमाणतर्कशरैराशृणाताति पराशरः ॥ ४ ॥ माता पिता युवतयस्तनया विभूतिः सर्वं यदेव नियमेन मदन्वयानाम् । आद्यस्य नः कुलपनेर्वकुलाभिरामं श्रीमत्तदवियुगलं प्रणमामि मूर्ध्न ।। अथ पराशरप्रबन्धादपि वेदान्तरहस्यवैशधातिशयहेतुभूतस्सवः परमात्मनि चित्तरञ्जकतमैः सर्वोपजीव्यैः उपबृंहणेमधुरकविप्रभृतिसंप्रदायपरम्परया नाथमुनेरप्युपकर्तारं कालविपकऽपि परमपुरुषसङ्कल्पात् कदाचित्प्रादुर्भूय साक्षादपि सर्वोपनिषत्सारोपदेष्टारं पराङ्कुशमुनि * माता पिता भ्रातेत्याद्युपनिषत्प्रसिद्धभगवत्स्वभावदृष्टया प्रणमति - मातेति ।। उपजोव्यप्रबन्धनिर्माणक्रमादत्र पराशरपराङ्कुशनमस्कारक्रमः । * माता पुत्रस्य भूयांसि कर्माण्यारभने यतः । तस्यां तु शुश्रूषा नित्या पतितायामपि * आचार्यश्श्रेष्ठो गुरूणां मातेत्येके, * पितुश्शतगुणं माता गौरवेणाति. रिच्यते इत्यादिषु मातुौरवं प्रतिपादितम् । एवं * माता भस्त्रा पितुः पुत्रो यस्माज्जातस्स एव सः इति पिताऽपि प्रसिद्धगौरवः । युवतयश्च * यत्रानुकूल्यं दम्पत्योस्त्रिवर्गस्तत्र वर्धत इति धर्मार्थकाम हेतुतयोक्ताः । तनयाः - सन्दर्श- नादिभिराहलादहेतवः, असमर्थावस्थायां संरक्षकाः, पुन्नाम्ना नरकात्त्रातारः । * अपि स्यात्स कुलेऽस्माकं सर्वभावेन यो हरिम् । प्रयायाच्छरणं विष्णु देवेश मधुसूदनम् ।। आस्फोटयन्ति पितरः प्रनृत्यन्ति पितामहाः । वैष्णवो नः कुले जातः स नस्सन्तारयिष्यति ॥ इत्यादिभिस्वगुणेन पितृपङ्क्तेरपि निस्तारकाः प्रसिद्धाः । एकस्मिन्नेवास्मिन् बहुभिस्साध्य उपकारस्समुदित इत्यभिप्रायेण बहुवचनम् । विभूतिः - दासभृत्यधनरत्नादिरूपश्शेषभूतो नियन्तव्यवर्गः । धारकपोष- कादिविभूत्यभावे पूर्वोक्तमखिलं सदप्यसत्समं स्यात् । सर्वम् - अन्यदैहिकामुष्मिकपुरुषार्थतत्साधनादि यत् प्रसिद्ध सात्त्विकसमाजेष्विति भावः । यदेकमेव दृष्टादृष्टरूपं सर्वमुपजीव्यमासीत् , एवंविधमन्यदपेक्षणीयं नास्तीत्यवधारणाभि- प्रायः । मातापित्रादिशब्दविवक्षिताः प्रियप्रवर्तकत्वहितप्रवर्तकत्वादयस्तत्स्वभावाः तदवावुपर्यन्ते । नियमेन - सर्वदा, मुक्तावपीत्यर्थः । यद्वा अवधारणनियमाभ्यामाचार्यस्य सर्वेश्वरादपि तत्प्रसादार्थमतिशयेन सर्वदा बहुमन्तव्यत्वमत्र सूच्यते । ५ ॥
श्रीमद्वेदान्तदेशिकग्रन्थमाला ईश्वरकृपा ह्यनादिरपि आचार्यकृपामपेक्षते लीलारससहचरिता च । आचार्यकृपा तु तन्निग्रहमपि शमयति अनुग्रहैक- रसा च । ईश्वरस्य कचिदधोनिनीषाऽपि वर्तते असाधुकारयितृत्वं च; आचार्यस्य तु सर्वत्रोन्निनीधैव, स साध्वेव कारयति * आचिनोति हि शास्त्रार्थानाचारे स्थापयत्यपि । स्वयमाचरते यस्मात् तस्मादाचार्य उच्यते ॥ इति स्मरणात् । भगवतो दैत्यादिषु विपरीतोपदेशोऽप्यस्ति; अस्य तु सर्वत्र यथार्थवादित्वमेवेत्यादि वैषम्यमनुसन्धेयम् । मदन्वयशब्देन स्वान्विताः पुरुषा गृह्यन्ते, विद्यया जन्मना वा स्ववंश्यानां पूर्वेषामुत्तरेषां चेत्यर्थः । वपूर्वेषामपि ज्ञान- वैराग्यादेहेतुतया आद्यस्येति विशेषणम् । नः · नाथमुनिसप्रदायभाजामस्माकम् । गोत्रर्षिवदसावित्यभिप्रायेण कुलपति- वोक्तिः । ईश्वरस्तु परमाचार्योऽपि सर्वेषां साधारणः, अयं तु अस्मदसाधारण इति भावः । योगरूढिप्रदर्शिताभ्यां रक्षकत्वशेषित्वाभ्यां वा पतित्वोक्तिः । वकुलाभिरामं श्रीमदित्युभाभ्यां वेषतस्वभावतश्च सौम्यत्वमङ्गलत्वे विवक्षिते । परतत्त्वनिर्णयहेतूनां तत्प्रबन्धानां स्थिरपरिमलत्वसूचनार्थं तदातनसा त्त्वकजनप्रयुक्तैरसपर्थिवकुलकुसुमैरभिरामम् । वैष्णवत्वसाम्राज्यचिह्नः श्रीमत् खाश्रितानां तादृशसम्पत्प्रदानयोग्यं च । * स तु नागवरः श्रीमान् * अन्तरिक्षगतः श्रीमान् इतिवत् भगवत्सेवोद्यतत्वं वा श्रीगत्त्वम् । तत् - उक्तप्रकारनिरतिशयभोग्यत्वनिरपायशरण्यत्वाभ्यां प्रसिद्धम् । अछियुगलम् - उपमान्तरराहित्येनान्योन्यसदृशं देवताद्वन्द्ववच्चाविभक्तोद्देश्यम् । प्रणमामि - भक्तिप्रकर्षपूर्व प्रह्वीभावेन भजामोत्यर्थः । नित्यानुवृत्तिविवक्षया वर्तमानव्यपदेशः । मूर्ना - न केवलं वाङ्मात्रेण; नापि मनसा * समस्तिष्कः प्रणाम- स्स्यात् अञ्जलिं मस्त के न्यसेत् । प्रणामस्सम्पुटम्स स्यात् हृदयेऽन्नलिमर्पयेत् । प्रह्वाङ्गम्सम्पुटं कुर्यात् सा प्रह्वाङ्गनमस्क्रिया ।। इत्युक्तमस्तिष्कसम्पुटादिमात्रेणेति भावः । नमस्कारप्रकरणों च * तद्यथा पुनरयं जानुभ्यां पाणिभ्यां शिरसा चेत्यारभ्य * इत्येवं नमति स सर्वैः करणेर्नमतीत्युक्तम् । तादृशप्रणामश्चैवं प्रशस्यते * सर्वैः करणैनमस्यन् समग्रो भवति समग्रो नमन्नाप्तकारी भवत्याप्तकारी भगवन्तमानोति ॥ इति । अयं च मूर्ना प्रणामश्चतुर्विधः. तत्र पञ्चाङ्गस्तावच्छी वैखानसे प्रोक्तः * पादाङ्गुलिभ्यां जानुभ्यां शिरसा चावनि स्पृशन् । बद्धाञ्जलिनमस्कुर्यात् स पञ्चाङ्ग उदीयते ।। इति । षडङ्गश्च * पादौ हस्तौ प्रसार्य वा इत्यादिनोक्तः । शाण्डिल्यस्मृतौ च * निधाय दण्डवद्देहं प्रसार्य चरणों करो । बध्वा मुकुलवत्पाणी प्रणामो दण्डसंज्ञितः ॥ पादौ शिरस्तथा हस्तौ निकुञ्चय मुकुलाकृति । मनोबुद्धयभिमा- नैश्च प्रणामोऽष्टाङ्गसंज्ञितः ॥ मस्तिष्कं सम्पुटं चैव प्रबाङ्गं च त्रयं बुधैः । कृतयोरनयोः कार्यमन्यथा विकलं भवेत् ॥ इति । श्रीसात्वते * मनोबुद्धयभिमानेन सह न्यस्य धरातले । कूर्मवच्चतुरः पादान् शिरस्तत्रैव पञ्चमम् ॥ प्रदक्षिण- समेतेन त्वेवंरूपेण सर्वदा । अष्टाङ्गेन नमस्कृत्य ह्युपविश्याग्रतो विभोः ॥ इति । सङ्कर्षणसंहितायां तु सुकृतप्रणाम- विधौ * ललाटोदरजान्वघ्रियुगान्यूर्ध्वगतौ करौ । भूमौ सन्धाय मनसा वासुदेवमनुस्मरन् ॥ इति करचरण जानुशिरःप्रभृतिद्वादशाङ्गश्च प्रणामो द्रष्टव्यः । भगवतीव सम्यज्ज्ञानप्रदातृष्वपि भक्तिप्रकर्षादीदृशाः प्रणामा %D उपपद्यन्ते ॥ द्रविडोपनिषद्दष्टरम्य याथात्म्यमद्भुतम् । सम्यक् श्रुतवतां नात्र शङ्कनीय उपप्लवः ।। देवगुह्येषु चान्येषु हेतुर्देवि ! निरर्थकः । इत्यादिन्यायदृष्ट्या च तोष्टव्यमिह सूरिभिः ॥ यन्मूर्ध्नि मे श्रुतिशिरस्सु च भाति यस्मिन्नसन्मनोरथपथस्सकलस्समेति । स्तोष्यामि नः कुलधनं कुलदैवतं तत्पादारविन्दमरविन्दविलोचनस्य ॥
व्याख्यानविभागे स्तोत्ररत्नभाष्यम्-श्लो. ६ ३३ ३ एवमुपकारकान् प्रणम्य साक्षात् परम्परया च सर्वोपकारकस्य भगवतः सत्संप्रदायप्रदानमहोपकारकृतज्ञतया आचार्यप्रियचिकीर्षया च प्रेरितस्तत्प्रसादसन्धुक्षिततत्प्रबन्धानुसन्धानजनितज्ञानभक्तिपरिवाहरूपे स्तोत्रे प्राप्यप्रापकरूप- प्रतिपाद्यसंग्रहपूर्वकं प्रवर्तते-यन्मूर्नीति ॥ यच्छब्देन सर्वशास्त्रप्रसिद्धं सर्वोत्तरत्वं सूच्यते । मूर्ध्नि मे भातीत्याश्चर्य- गर्भम् । अत्यन्तनिकृष्टस्य मे मूर्ध्नि पङ्गोरुपरि गङ्गानिपातवदयत्नोपस्थितमनुभवयोग्यं भवतीत्याश्रयणसौकर्यानुगुणसौल- भ्यसौशील्यवात्सल्यादिसूचकं च । श्रुतिशिरस्सु च भातीति सर्वाधिकत्वसर्वरक्षकत्वहेयप्रतिभटत्वसमस्तमङ्गलगुणा- स्पदत्वपरमप्राप्यत्वादिविशिष्टतया सर्वेषु वेदान्तेषु प्रकाशत इति भावः । प्राप्तेराश्रयणपूर्वकतया तदुपयुक्तसौलभ्यप्राधा- न्यविवक्षया स्वमूर्ध्नि भानस्य प्रथमोपादानम् । नीचोत्तमस्थानवृत्तिभ्यां भाविकस्य तदौज्ज्वल्यस्य न हान्युपचयो, न च मे तत्र तदभिव्यक्तितारतम्यमित्यभिप्रायवान् चकारः । श्रूयते नित्यमित्यपौरुषेयत्वं दर्शयता श्रुतिशब्देन स्तुत्यविषयस्य प्रमाणस्य नित्यनिदोषत्वं सूच्यते । शिरश्शब्देनाव्यवहितप्रवृत्तानन्यपरभागोक्तिः । बहुवचनेन समन्वयाध्यायस्थापित सर्वोपनिषदैककण्ठ्यमभिप्रेतम् । विप्रकीर्णेषु बहुषु वेदान्तेषु क्रमादनेकविधपूर्वपक्षगतनिस्तारेण कथंचिद्दष्टव्यम् ममे- दानी सदाचार्यप्रसादादेकत्र झटित्ययत्नदृश्यमासीदिति कार्तार्थ्यं च व्यज्यते । भातीति वर्तमानव्यपदेशेनाविरोधलक्ष- णोक्तं नित्यनिर्बाधत्वमपि प्रकाश्यते । यस्मिन्-स्वप्राप्त्युपायतया स्वीकृते । अस्मदित्यादिना सर्वप्रकारनिरवधिकभो- ग्यत्वोक्तिः। अस्मच्छब्द इहानुबन्धिसहितस्वात्मपरः । परावरपुरुषार्थविवेचकस्ववंशस्वभावोऽयमिति भावः । मनोरथ- पथः-इच्छामार्गः । आफलप्राप्तेरनुस्यूतोऽभिलाष इत्यर्थः । सकल:-ऐहिकामुष्मिकप्राप्यप्रापकस्वरूपसर्वविषयः । समेति–सम्यक् संभूय वा गच्छति, न तु विषयभेदात् बहुशिरस्क इति भावः । * या प्रीतिरविवेकानामित्या- दिवत् । * त्वमेव माता चेत्यारभ्य * त्वमेव सर्वं मम देवदेवे ति ह्यनुसन्धीयते । * पिता त्वं माता त्वमित्यादि च वक्ष्यति । * स्वाध्यायेनार्चयन्त्येके भवन्तं संयमेन च, * इति वाग्भिः प्रशस्ताभिरयोनिर्विष्णुरीडितः, * वाग्य- ज्ञेनाचितो देवः प्रीयतां मे जनार्दनः, * अरिराधयिषुः कृष्णं वाचं जिगदिषामि याम् । तया व्याससमासिन्या प्रीयतां पुरुषोत्तमः, * एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः । यद्भक्त्या पुण्डरीकाक्षं स्तवैरचैन्नरस्सदा, * आदरेण यथा स्तौति धनवन्तं धनेच्छया । एवं चेद्विश्वकर्तारं को न मुच्येत बन्धनात् , * सा जिह्वा या हरिं स्तौतीत्यादिषु प्रसिद्धां स्वशक्यां वाचिकी परिचर्यां करिष्यामीत्याह-स्तोष्यामीति । परमार्थगुणवर्णनेन सेविष्य इति भावः । तथा च द्रमिडभाष्यं * नासता स्तुतिरुपपद्यत इति । आहुश्च वरदाचार्याः * कथमसता गुणेन कथितेन नुतिर्भवतीति । मुख्य- वृत्त्योपचारवृत्त्या वा कस्यचिद्गुणस्यानभिधाने स्तुतित्वं न स्यादिति भावः । गुण्यवच्छिन्नगुणाभिधानं हि स्तोत्रमाहुर्नीति- विदः । * सर्वेश्वरेश्वरः कृष्णः प्रोच्यते यदि पण्डितैः । तथाऽपि स्वल्पमेवोक्तं भूतार्थे कतमा स्तुतिरित्यादिकं तु गुणारोपणेन वचनं स्तुतिरिति लोकदृष्टप्रकारेणोच्यते । स्तोप्यामीत्यत्र प्रधानभूतस्तुतिफलं सर्वशेषिभूतस्तुत्यगामीति हृद- यम् । नः-पूर्वोक्तविद्यासन्तानजातानाम् । यद्वा सर्वदेशकालवर्तिनां सात्त्विकानाम् । कुलधनम्-आपदर्थ संग्राह्यमयन- लब्धमनुकूलोपायमित्यर्थः । कुलदैवतम्-अनतिलङ्घनीयमाराध्यमुपायनिवर्तकं फलपदं फलं च । तत्-उक्तप्रकारपरत्व- सौलभ्यपरमावधिभूतम् । पादस्यारविन्दत्वरूपणेन लक्ष्मीकरग्रहणयोग्यत्वकान्तिसौरभ्यसौकुमार्यादिकं व्यज्यते । * पुरुषे पुष्करेक्षणे, *जितं ते पुण्डरीकाक्ष, * यश्च देवो मया दृष्टः पुरा पद्मायतेक्षणः, *मत्स्यः कमललोचनः, *महावराह- स्स्फुटपद्मलोचनः, * रामो राजीवलोचन इत्यादिषु प्रसिद्धमनुग्रहशीलत्वपूर्णत्वव्यञ्जकमाह-अरविन्दविलोचनस्येति । . C-5 ३४ श्रीमद्वेदान्तदेशिकग्रन्थमाला ७ अरविन्दवत् सौम्यं विलोचनं यस्य स तथोक्तः । मम योगिनां महति कुले जन्म सदाचार्यस्वीकरणमुपकारकेषु प्रावण्यं तदभिमतचिकीर्षया * वीचीतरङ्गवृत्तिक्रमेण प्रारिप्सितपरमात्मस्तुतौ सङ्कल्पश्च भगवत्कटाक्षविशेषस्य फलमिति भावः । उक्तं च मोक्षधर्मे * जायमानं हि पुरुष यं पश्येन्मधुसूदनः । सात्त्विकस्स तु विज्ञेयः स वै मोक्षार्थचिन्तक इति । तदन्यदृष्टिगोचरत्वे च दोष उक्तः * पश्यत्येनं जायमानं ब्रह्मा रुद्रोऽथवा पुनः । रजसा तमसा चास्य मानसं समभि- प्लुतमिति । किञ्च स्वप्रेरिते मयि तुष्टपमाणे तज्जनितप्रीत्यतिशयेन शेषपूरणं कर्तुमरविन्दवच्छत्यविकासशोभादिमता लोचनेन भूयोऽपि मां कटाक्षयत इति धन्यतामात्मनोऽनुसन्धत्ते । उक्तं हि श्रीविष्णुधर्मोत्तरे रुद्रगीतायां * नाधन्यः केशवं स्तौति नाधन्योऽर्चयति प्रभुम् । नमत्यधन्यो न हरिं नाधन्यो वेत्ति माधवमिति ॥ ६ ॥ तत्त्वेन यस्य महिमाणवशीकराणुश्शक्यो न मातुमपि शर्वपितामहाद्यैः । कर्तुं तदीयमहिमस्तुतिमुद्यताय मह्यं नमोऽस्तु कवये निरपत्रपाय ॥ अथ स्तोत्राभ्युपगमप्रीतेन तच्छवणकौतुकिना भगवता स्तुतिसाद्गुण्याय स्तोतव्यस्य स्वस्य स्वरूपरूपगुणवि- भूतिषु कात्न्येन प्रकाशितायु सर्वैरपि विषयानुरूपस्तुतेरशक्यतां बुद्धा निवृत्तोद्योगः तत्प्रवृत्तमात्मानमुपालभते-तत्त्वे- नेति । यथावत् स्थिताकारणेत्यर्थः, कास्न्येनेति वाऽभिप्रायः । यस्य–त्रिविधपरिच्छेदरहिततया निरवधिकगुणविभूति- त्वेन श्रुत्यादिप्रसिद्धस्य । महिमा-अत्र निरुपाधिकसाश्यसर्वनियमनशक्त्यादिरूपः । तस्य दुरवगाहत्वादिनाऽर्णवत्वोक्तिः। तादृशस्य महिम्नोऽतिक्षुद्रविषयाधिष्ठानांशश्शीकराणुत्वेन कल्प्यते। अनन्तेषु गुणेप्वकैकमात्रं वा। शक्यो न मातु-वाचा मनसा च परिच्छेत्तमशक्य इत्यर्थः । श्रयते हि-* यतो वाचो निवर्तन्ते अप्राप्य मनसा सह, * यस्यामतं तस्य मतं मतं यस्य न वेद सः । अविज्ञातं विजानतां विज्ञातमविजानताम् , * त्वमेव त्वां वेत्थ योऽसि सोऽसि, * यो अस्याध्यक्षः परमे व्योमन् सो अङ्ग वेद यदि वा न वेदेति । एवं विभूतिद्वयैकदेशोऽपि मातुं न शक्य इत्यवगन्तव्यम् । ननु * ईशानस्सर्वविद्यानाम् , * ईश्वराज्ज्ञानमन्विच्छेत् इत्यादिप्रसिद्धवैभवस्सर्वज्ञनामा च शर्वः, तस्याप्युपदेष्टा सर्ववेदप्रवर्त- नाधिकृतश्च पितामहः, सनन्दनादयोऽपि ब्रह्मभावनान्विता इत्युच्यन्ते ; वेदाश्च स्वयं सर्वोपदेष्टारः ; तत्कथमेतैर्मातुमश- क्यत्वमित्यत्राह-अपि शर्वपितामहाचैरिति । लोकोत्तरज्ञानेरपीत्यपिशब्दाभिप्रायः। अत्र कालत्रयवर्तिभिरपीति भाव्यम् ; तथा चामनन्ति बहवृचाः-* न ते विष्णो ! जायमानो न जातो देव ! महिम्नः परमन्तमापेति । उक्तं चोत्तररामायणे ब्रह्मणा-* त्वं हि लोकगतिर्देव ! न त्वां केचन जानते । ऋते मायां विशालाक्षी तब पूर्वपरिग्रहामिति । मोक्षधर्मे च भृगुभरद्वाजसंवादे-* प्रजापतिं च रुद्रं चाप्यहमेव सृजामि वै । तौ च मां न विजानीतो मम मायाप्रमोहिताविति । ब्रह्मरुद्रसंवादे च-ॐन स शक्यम्त्वया द्रष्टुं मयाऽन्यैर्वाऽपि सत्तम ! । सगुणो निर्गुणो विश्वो ज्ञानदृश्यो ह्यसौ स्मृतः ।। तवान्तरात्मा मम च ये चान्ये देहिसंज्ञिताः । सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचित्वचिदिति । श्रीविष्णुधर्मे * न यस्य रूपं न बलप्रभावौ न च स्वभावः परमस्य पुंसः । विज्ञायते शर्वपितामहाद्यैस्तं वासुदेवं प्रणमाम्यचिन्त्य- मिति । वैष्णवे च पुराणे-* यन्नायं भगवान् ब्रह्मा जानाति परमं पदम् । तन्नतास्स्म जगद्धाम तव सर्वगताच्युत ! ॥ यं न देवा न मुनयो न चाहं न च शङ्करः । जानन्ति परमेशस्य तद्विष्णोः परमं पदमिति । श्रीवाराहे स्वयं चाह- * यदेतत्परमं ब्रह्म वेदवादेषु पठ्यते । स देवः पुण्डरीकाक्षः स्वयं नारायणः परः ॥ अद्यापि मां न जानन्ति रुद्रेन्द्रा- स्सपितामहा इति । भगवद्गीतासु च * नाहं प्रकाशसर्वस्य योगमायासमावृतः । मूढोऽयं नाभिजानाति लोको मामज- । ॥
व्याख्यानविभागे स्तोत्ररत्नभाप्यम्-श्लो. ८ ३५ . । ८ il मव्ययमिति । * मां तु वेद न कश्चनेति च । अत्र महिमाणवशीकराणुमातुं न शक्यत इत्युक्त्वा महिमस्तुतिमिति- वचनात् स्वस्य चापलभूम्ना कात्न्येन महिमस्तुताबुद्योगस्सूच्यते । तदीयमहिमस्तुति-तदसाधारणस्य महिम्नः प्रकर्ष- कथनमित्यर्थः । तदीयस्य स्तोतव्यतया प्रस्तुतस्य पादारविन्दस्य माहात्म्यवर्णनमिति वा । उद्यताय-उद्युक्ताय । मह्यं- महायोगिभिस्सर्वैरप्यशक्ये प्रवृत्ताय स्वस्मै । नम इति पूजालिङ्गमेवात्र छकोक्त्या निन्दार्थम् । साहसिकाः प्रायो नन्तव्या इति चोपालम्भः । नमोऽस्त्विति सामान्योक्त्या सर्वैः क्रियमाण नमो मह्यमेवास्तु किमन्येन * नन्तव्यः परम- श्शेषीत्युक्तेन सर्वेश्वरेणेति व्यज्यते । कवये-क्रान्तदर्शिने, अपरिच्छेद्येऽपि परिच्छेदं पश्यते, अंशतोऽपि स्तोतुमशक्ये सर्वप्रकारवर्णनकौतुकिने सर्वेषां विडम्बनरसावहायेति भावः । अनन्ते भगवति स्ववाचा परिमितत्वावद्यमुद्घाटयन्नहं सर्वे- रात्मनः परिहसनीयतां न जानामी त्यभिप्रायेणाह-निरपत्रपायेति ॥ ७ ॥ यद्वा श्रमावधि यथामति वाऽप्यशक्तस्तोम्येवमेव खलु तेऽपि सदा स्तुवन्तः । वेदाचतुर्मुखमुखाश्च महार्णवान्तः को मञ्जतोरणुकुलाचलयोविशेषः । अथ पार्थनयाद्भूयः प्रभुणा प्रतिबोधितः । प्रारिप्सितपरित्यागान्निवृत्तः स्तोतुमीहते ॥ अत्र हि भगवता गुणोत्तरेषु गुरुप्वेव विश्रमे कथंचिन्निवारितेऽपि विषयानुरूपस्तोत्राशक्तिजनितं वैमुख्यं परि- हतु वेदप्रभृतीनामपि वृत्तान्तमात्मनश्च दीनानुकम्पित्वादिगुणगणं प्रकाश्य प्रतिसमाहितः स्तोत्रे * यावानर्थ इति न्याया- स्वस्योचितप्रवृत्तितया स्वोपालम्भनिवृत्ति सिद्धान्तयति-यद्वेति ॥ अशक्तोऽपि स्तौमीत्यन्वयः । अज्ञत्वमप्यत्रान्तीतम् । यथावद्वक्तुं ज्ञातुं चाशक्त इति चोपस्कार्यम् , श्रमावधि यथामतीत्युभयोपादानात् । श्रमोक्तिरसामर्थ्यसूचनार्था, तेन चानुकम्पनीयोऽहमिति व्यज्यते । यथाऽऽह, कालियः-* सोऽहं ते देवदेवेश ! नार्चनादी स्तुतौ न च । सामर्थ्यवान् कृपामात्रमनोवृत्तिः प्रसीद म इति । यथामतीति मतिक्षयसूचनाय । यथोच्यते--* इपुक्षयान्निवर्तन्ते नान्तरिक्षक्षितिक्षयात् । मतिक्षयान्निवर्तन्ते न गोविन्दगुणक्षयादिति । यथामतिवचनं च महाभारते प्रोक्तम्-* यथाज्ञानं तु वक्ष्यामि पुरुषं तं सनातनम् । तस्यैकस्य महत्त्वं हि स चैकः पुरुषस्स्मृतः ॥ महापुरुपशब्दं स विभयॆकस्सनातन इति । वाशब्दः प्रति- पन्ने स्तुतिशक्तिक्षयात् स्तुतिशक्तावपि स्तोतव्यविपयज्ञानमान्द्याद्वा निवृत्तिसंभवं व्यनक्ति । अत्र स्तौमीति वर्तमाननिर्देशः स्तुतेर्वर्तमानसामीप्यपरः । अस्यापि वाक्यस्य स्तुत्यात्मकत्वं वा सूचति । एवमेव-श्रमावधीत्याद्युक्तप्रकारेणेत्यर्थः । एवकारेण निश्शेषस्तुतेरसंभवस्थिरीक्रियते । अन्यथा परमात्मनः स्तुतिरेव न स्यात् , ततस्तद्विधानम् , * स्तव्यः स्तव- प्रियः स्तोत्रं स्तुतिरिति तन्नामानि च निरर्थकानि भवेयुरिति भावः । खलुशब्दः श्रुत्यादिप्रसिद्धिं द्योतयति । तेऽपि-- लोकोत्तरज्ञानशक्तिमन्तोऽपीत्यर्थः । सदा स्तुवन्तः-स्वरूपनित्यतया वेदानां सदा स्तोतृत्वं युक्तम् , तथा * तद्विप्रासो विपन्यव इत्याद्याम्नातानां नित्यसरीणां च स्यात् , चतुर्मुखादीनां तु प्रवाहनित्यतया यावदधिकारं, यथाकालमविच्छिन्नं स्तोतृत्वम् । एवं सर्वेषु कल्पेप्विति विवक्षितम् । वेदशब्दनामदाद्यतान्द्रिय पुरुषार्थतदुपायवेदकत्वं व्यज्यते । चतुर्मुख मुखाः-चतुर्मुखप्रधाना विबुधश्रेष्ठाः । स्वमुखैः वेदचतुष्टयप्रवर्तकत्वख्यापनाय चतुर्मुखशब्दः । सर्वैरपि यथावत् स्तोतु- मशक्यत्वं च भारतोक्तं-* वर्षायुतैर्यस्य गुणा न शक्या वक्तुं समेतैरपि सर्वदेवैः । महात्मनश्शङ्खचक्रासिपाणेर्जिष्णो- विष्णोर्वसुदेवात्मजस्येति । श्रीविष्णुधर्मे च * सत्त्वादयो न सन्तीशे यत्र च प्राकृता गुणाः । न हि तस्य गुणास्सवे) सर्वैर्मुनिगणैरपि ॥ वक्तुं शक्या वियुक्तस्य सत्त्वाद्यैरखिलैर्गुणैरिति । श्रीवैष्णवे च पुराणे कालियदाराः * न समर्थास्सुराः , , । ।
३६ श्रीमद्वेदान्तदेशिकग्रन्थमाला %3D स्तोतुं यमनन्तमजं विभुम् । स्वरूपवर्णनं तस्य कथं योषित्करिष्यति ॥ स्त्रियोऽनुकम्प्यास्साधूनां मूढा दीनाश्च जन्तवः । यतस्ततोऽस्य दीनस्य क्षम्यतां वदतां वरेति । वाराहे च रुद्रगीतासु सप्तमाध्याये * चतुर्मुखायुर्यदि कोटिवको भवे- न्नरः क्वापि विशुद्धचेताः । स ते गुणानामयुतैकमंशं वदेन्न वा देववर ! प्रसीदेति । नन्वस्य विषयस्य यथावद्वक्तुमश- क्यत्वेऽपि चतुर्मुखादीनां च तव च तारतम्यमस्तीत्यत्र स्वाभिप्रेतमर्थमर्थान्तरन्यासेन द्रढयति महार्णवान्तरिति । अत्यगाधेऽस्मिन् कुलाचलस्याप्यममांशो न स्यादिति भावः । अणुकुलाचलयोश्च मिथः परिमाणगुरुत्ववैषम्येऽपि मज्जनेनादृश्यत्वमविशिष्टमित्यभिप्रायेण को मजतोर्विशेष इत्युक्तम् ॥ ८ ॥ किं चैष शक्त्यतिशयेन न तेऽनुकम्प्यः स्तोताऽपि तु स्तुतिकृतेन परिश्रमेण । तत्र श्रमस्तु सुलभो मम मन्दबुद्धरित्युद्यमोऽयमुचितो मम चाब्जनेत्र । ९ न केवलमविशेषः स्तोतृषु, दैन्यातिशयेन शीघ्र त्वदनुकम्पाफललाभान्ममैवाधिकारः प्रकृष्यत इत्यभिप्रायेणाह- किं चेति ॥ अत्राधिकारसद्भावेन सह तत्प्रकर्षस्समुच्चीयते । एष स्तोतेति भगवतस्स्तुतिवैमुख्यनिवृत्तिसाम्यात् प्रभूता- ल्पशक्त्योरेकराशित्वेनोपादानम् । स्तोतुस्सामर्थ्यातिशयः प्रायस्त्वत्कृपामान्धकारणमिति सूचयन्नाह-शक्त्यतिशयेन न तेऽनुकम्प्य इति । ते सर्वविद्भिवेदैस्सूरिभिश्च नित्यं स्तूयमानतया स्तुत्यन्तरनिरपेक्षस्य दीनानुकम्पनस्वभावस्य यथाधि- कारं रक्षणोपयुक्तयत्किंचिद्व्याजमात्रापेक्षिणश्चेति भावः । केन तर्खनुकम्पनीय इति शङ्कायां शक्त्यतिशयवैपरीत्यस्यैवानु- कम्पातिशयहेतुत्वरूपं विशेष सूचयति-अपि त्विति । परिश्रमेण-परितः श्रमेण, अशक्त्या भक्त्या च स्तोतुं हातुं चानर्हतया सर्वप्रकारव्याकुलत्वेनेति भावः । तत्र तथा सतीत्यर्थः ; स्तुताविति वा । मम तु श्रमस्सुलभ इत्यन्वयः । श्रमस्तु सुलभः न तु शक्त्यतिशयप्रसङ्गः इति वाऽभिप्रेतम् । मन्दबुद्वेः-अल्पज्ञत्वादित्यर्थः । इतिशब्दो हेत्वर्थः उद्यमप्रकारपरो वा । अयमुद्यमः *स्तोप्यामि *स्तौमीति श्लोकद्वयोक्तस्तोत्रोपक्रमः । मम च-ममैवेत्यर्थः । अविरुद्धो- ऽप्यत्र समुच्चयाथों मन्दः । ममेति कथितपदावृत्तिर्न हिरण्यगर्भादेरित्यतिशयितविधेयतात्पर्यादलङ्कार एव । त्वत्कटा- क्षात्सल्वहं तुष्टषुदशां तत्राधिकारातिशयं च प्राप्तः, एवमनुग्रहातिशयव्यञ्जकेनावलोकनदानेन भूयोऽपि मां पालय ; येन स्तुतिरियमविघ्ना निष्पद्यतेत्यभिप्रायेणाह-अब्जनेत्रेति ॥ ९ ॥ नावेक्षसे यदि ततो भुवनान्यमूनि नालं प्रभो ! भवितुमेव कुतः प्रवृत्तिः । एवं निसर्गसुहृदि त्वयि सर्वजन्तोः स्वामिन्न चित्रमिदमाश्रितवत्सलत्वम् ।। १० अथैवं यथामनोरथं तव सर्वसमीहितसिद्धिर्भवत्विति कटाक्षयन्तं भगवन्तं प्रति प्राचीनप्रभूतोपकारप्रख्यापनेना- द्यतनानुग्रहस्यानाश्चर्यतामाह-नावेक्षस इति ॥ अथवा अल्पशक्तेः स्वस्य स्तुत्यौचित्यातिशयवचनेन व्यञ्जितं भगवत आश्रितवात्सल्य केनचित् कैमुत्येन स्थापयन्नेव सर्वशरण्यत्वोपयोगितया प्रपञ्चयिष्यमाणं सर्वस्मात् परत्वं कारणलक्षणे- नोपक्षिपन् तद्वत् काष्ठाप्राप्तं सौलभ्यं चाह । अयमेव शारीरकशास्त्रारम्भघटितस्तोत्रारम्भः ।। कारणत्वं नियन्तृत्वं सुहृत्त्वं स्वामिता हरेः । वात्सल्यमिति पश्चैते कण्ठोक्ता इह सद्गुणाः ।। अवेक्षणमिह *तदैक्षत * सोऽकामयतेत्यादिपूक्तः, * ईक्षते शब्दम् *गौणश्चेन्नाऽत्मशब्दादित्यादिसूत्रस्थापि- तस्सानुग्रहस्सङ्कल्पः । ततः-त्वदवेक्षणरूपहेत्वभावादित्यर्थः । भुवनानीति कृत्स्नकार्यपरम् । अमूनीति तत्तत्प्रमाण- ॥
३ व्याख्यानविभागे स्तोत्ररत्नभाष्यम्-श्लो. ११ ३७ सिद्धभोक्तृभोग्यरूपकार्यजातानामन्याशक्यकरणवैचित्र्याभिप्रायम् ; * यतो वा इमानि भूतानि, * जन्माद्यस्य यत इति श्रुतिसूत्रयोरिदंशब्दवत् । नालं-न समर्थानि, कारणाभावे कथं कार्य स्यादिति भावः । प्रभो-स्वाधीनत्रिविधचेतना- चेतनस्वरूपस्थितिप्रवृत्तिभेद! । भवितुम्-उत्पत्तुं सत्तायोगितया स्थातुं च । एवकारो भवनस्य परसङ्कल्पनैरपेक्ष्यशङ्कां वारयन् प्रवृत्त्यनहत्वे कैमुत्यमुद्घाटयति । एवमलब्धसत्ताकानां सत्तापूर्विका प्रवृत्तिश्च त्वदीक्षणमन्तरेण न स्यादित्याह- कुनः प्रवृत्तिरिति । श्रयते हि, * को ह्येवान्यात् कः प्राण्यात् , यदेष आकाश आनन्दो न स्यादिति । अन्तर्यामिब्राह्म- णादिकं सर्वमिहानुसन्धेयम् । उक्तं च स्वयमेव मोक्षधर्मे * यत्किंचिद्वर्तते लोके सर्वं तन्मद्विचेष्टितम् । अन्यो ह्यन्य- चिन्तयति स्वच्छन्दं विदधाग्यहमिति । अत्र च परमकारणविषये विकल्पसमुच्चयान्यतरबाधाद्यसंभवात् गतिसामान्यन्या- येन कारणवाक्यानि सर्वाणि त्वय्येककण्ठानीति व्यतिरेकोक्त्या सूच्यते । कारणत्वोक्त्यैव * यो ब्रह्माणमित्यादिश्वेताश्व- तरमन्त्रोक्तं शरण्यत्वमप्याकृष्टम् । एवं-भोगमोक्षार्थप्रवृत्त्यौपयिककरणकलेबरदानादिप्रकारणेत्यर्थः । * स एकाकी न रमेतेत्यनेनाभिप्रेतं विश्वसृष्टयुपयुक्तं दयमानमनस्त्वं सूचयति-निसर्गसुहृदीति । सर्वसामान्यतः पूर्वोपकारप्रत्युपकार- निरपेक्षहितैषिणीत्यर्थः । सुहृत्त्वस्य नैसर्गिकत्वं * स्वाभाविकी ज्ञानबलक्रिया चेत्यत्र रक्षणक्रियाया अपि स्वाभाविकत्वो- क्त्याऽर्थसिद्धम् । अत्र प्रभुशब्देन सुहृच्छब्देन च *सर्वस्य प्रभुमीशानं सर्वस्य शरणं सुहृदिति श्वेताश्वतरवाक्यं सूचि- तम् । त्वयि न हि त्वदन्यः कश्चिदेवं प्रमाणसिद्ध इति भावः । सर्वजन्तोरित्येतत् काकाक्षिन्यायात्परत्राप्यन्वेति । * पति विश्वस्यात्मेश्वरम् * स कारणं करणाधिपाधिपः, * प्रधानक्षेत्रज्ञपतिर्गुणेशः, * पति पतीनां परमं परस्तात् * एप भूतपतिरेष भूतपाल इत्यादिषु प्रसिद्धं हि सर्वस्वामित्वम् । एतच्च सर्वेषां स्वार्थोपकारकत्वे सर्वस्य च तदिष्टविनियोगार्हत्वे हेतुः । न चित्रं- नाद्भुतम् । इदं स्तुतिवैगुण्यानादरेण स्तोतरि मयि प्रीतिरूपमित्यर्थः । स एष वात्सल्याख्यो गुणः सर्वाविशेषेण कठवल्ल्यामुक्तः-*अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति । ईशानो भूतभव्यस्य न ततो विजुगुप्सत इति । उपबृंहितं च * रिपूणामपि वत्सल इति । इदमाश्रितवत्सलत्वं न चित्रम् संप्रतीह स्तोत्रे प्रेरयतस्तव मन्मुखोदितस्तुतिश्रवणेन जगद्व्यापारविहारस्सफलसंपद्यत इति भावः । अत्र स्तुतिवैमुख्यनिवर्तनादिलब्धविजयसन्तोष- भगवदुक्तिप्रत्युक्तिरूपताऽप्याचार्योक्ता । तथा हि वेत्थ यथा मम त्वयि वात्सल्यं यथा च मुग्धभाषिते पित्रोरिव मे भवन्मुखागतस्तुतिवचनश्रवणकौतूहलमिति वदन्तं प्रत्याह-नावेक्षस इति ॥ १० ॥ स्वाभाविकानवधिकातिशयेशितृत्वं नारायण! त्वयि न मृष्यति वैदिकः कः । ब्रह्मा शिवश्शतमखः परमस्वराडित्येतेऽपि यस्य महिमार्णवविग्रुपस्ते ॥ ११ ॥ ननु *हिरण्यगर्भस्समवर्तताग्रे * न सन्न चासच्छिव एव केवल: * इन्द्रो मायाभिः पुरुरूप ईयते इति ब्रह्मा- दीनाम् , मुक्तस्य च * यं कामं कामयते सोऽस्य सङ्कल्पादेव समुत्तिष्ठतीति सर्वजगत्कारणत्वं प्रतीयते । तदेतत् कथं परब्रह्मलक्षणम् ? कथंच तद्योगात्परमपुरुषस्य सर्वस्वामित्वादि ? तत्राह-स्वाभाविकेति ॥ स्वाभाविकत्वमिहानन्याधीनत्वम् , तेन कर्मोपाधिकदुःखमिश्रानित्यचतुर्मुखाद्यैश्वर्यव्यावृत्तिः । अनवधिकातिशयत्वमुत्कृष्टावधिरहितोत्कर्षवत्त्वम् , * पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया चेत्यत्र परत्वस्वाभाविकत्वे शक्त्यादिषु सवैप्वन्विते इति भावः । एता- भ्यामेव परिमितं पराधीनं च मुक्तनित्यैश्चर्यमपि व्यवच्छिद्यते । ईदृशमीशितृत्वं हि तवैव । विश्वपतित्वात्मेश्वरत्वादि- श्रुतेः, * प्रशासितारं सर्वेषाम् * शास्ता विष्णुरशेषस्येत्यादिस्मृतिशतैश्च । स्वयं च गोतं * मत्तः परतरं नान्यदिति । - ३८ श्रीमद्वेदान्तदेशिकग्रन्थमाला *एष धाता विधाता च सवैषां प्राणिनां प्रभुः । परं हि पुण्डरीकाक्षान्नभूतं न भविष्यतीत्यादि च द्रष्टव्यम् । अत्र नारा- यणेत्यनेन कारणवाक्येप्वन्यार्थशङ्कागोचराणां सदसदव्याकृतब्रह्मात्महिरण्यगर्भशिवाकाशप्राणादिशब्दानां कयाचिद्वत्त्या- ऽनन्यपराबाधितार्थसात्त्विकोपबृंहणानुगुणमहोपनिषन्मैत्रायणीयसुबालोपनिषदादिपठितनारायणशब्दोदितमहापुरुषविषयत्वं केवलतत्त्वनिर्णयप्रवृत्तनारायणानुवाकतात्पर्येण भगवत एव सर्वपरविद्यावेद्यत्वं तत्रत्यतत्तच्छब्दवाच्यत्वं च प्रकाश्यते । अस्य च नाम्नो निरुक्तिभेदैश्शारीरकाध्यायचतुष्टयविवक्षितकारणत्वनिधित्वोपायत्वप्राप्यत्वानि भाव्यानि । एवमाप्ततमा- नेकस्मृतिवचनानि चानेन प्रत्यभिज्ञाप्यन्ते । तत्र तावन्मनुः * आसीदिदं तमोभूतमित्यारभ्य, * आपो नारा इति प्रोक्ता आपो वै नरसूनवः । ता यदस्यायनं पूर्व तेन नारायणः स्मृतः ॥ यत्तत्कारणमव्यक्तं नित्यं सदसदात्मकम् । तद्विसृष्टस्स पुरुषो लोके ब्रह्मेति कीर्त्यत इति । बृहस्पतिः-*नारायणः परोऽव्यक्तादण्डमव्यक्तसंभवम् । अण्डाद्ब्रह्मा समभवत्तेन सृष्टमिदं जगदिति । दक्षः-* ध्यायेन्नारायणं देवं स्नानादिषु च कर्मसु । ब्रह्मलोकमवाप्नोति न चेहाजायते पुनरिति । व्यासः-* आलोड्य सर्वशास्त्राणि विचार्य च पुनःपुनः । इदमेकं सुनिप्पन्नं ध्येयो नारायणस्सदेति । * नमो भगवते तस्मै व्यासायामिततेजसे । यस्य प्रसादाद्वक्ष्यामि नारायणकथामिमामिति च वैशम्पायनवाक्यम् । ईदृशानि वचन- शतानि विस्तरभयान्न लिख्यन्ते । * " , । । त्वयि * सर्वे वेदा यत्पदमामनन्ति, * सर्वे वेदा यत्रकं भवन्ति, * नताम्म्म सर्ववचसां प्रतिष्ठा यत्र शाश्वती, * वेदैश्च सर्वैरहमेव वेद्यः, * वेदे रामायणे चैव भारते भरतर्षभ ! । आदौ मध्ये तथा चान्ते विष्णुस्सर्वत्र गीयते, * नारायणपरा वेढा इत्यादिभिस्सर्ववेदवेद्यतया प्रसिद्धे पूर्वोक्तसर्वकारणत्वसर्वस्वामित्वादिलक्षणे । न मृष्यति-न सहते । वैदिकः-वेदप्रमाणक इत्यर्थः । * वेदैः पश्यन्ति ब्राह्मणाः, * पितृदेवमनुप्याणां वेदश्चक्षुस्सनातनम् । श्रुतिस्मृती तु विप्राणां चक्षुषी द्वे विनिर्मिते इति हि स्मयते । वैदिकशब्देन * सर्वे वेदास्सपितरो ब्रह्माद्याश्चाण्डम- ध्यगाः । विष्णोस्सकाशादुत्पन्ना इतीय वैदिकी श्रुतिरिति वाराहवचनम् , * वेदवेद्यो हि भगवान् वासुदेवस्सनातनः । गीयते स परो वेदेयों वेदेनं स वेदविदिति कौर्मवचनं च सूच्यते । अत्र चोत्तरेपु वाक्येषु च किंशब्दः क्षेपार्थः । वैदिकः को न मृप्यतीत्यनेन भगवत्पारम्यमसहमानस्य वेदबाह्यतया पापिष्ठत्वं व्यज्यते । यथोक्तं प्राजापत्यस्मृतौ- * नारायण परित्यज्य हृदिस्थ प्रभुमीश्वरम् । योऽन्यमर्चयते देवं परबुद्धया स पापभागिति । महाभारते तीर्थरक्षक- पिशाचवाक्यं-* ये द्विपन्ति महात्मानं न स्मरन्ति च केशवम् । न तेषां पुण्यतीर्थेषु गतिस्संसर्गिणामपीति । सप्तर्षिसंवादे * विष्णुं ब्रह्मण्यदेवेशं देवदेवं जनार्दनम् । त्रैलोक्यस्थितिसंहारसृष्टिहेतुं निरञ्जनम् ॥ आधातारं विधा- तारं सन्धातारं जगद्गुरुम् । विहाय स भजत्यन्यं बिसस्तैन्यं करोति य इति । भगवद्गीतास्वासुरान् प्रक्रम्य * अहङ्कार बलं दर्प काम क्रोधं च संश्रिताः । मामात्मपरदेहेषु प्रद्विपन्तोऽभ्यसूयकाः ॥ तानहं द्विषतः क्रूरान् संसारेषु नराध- मान् । क्षिपाम्यजनमशुभानासुरीप्वेव योनिप्विति । ब्रह्माण्डकौर्मयोश्च * येऽन्यं देवं परत्वेन वदन्त्यज्ञानमोहिताः । नारायणाजगन्नाथात्त वें पापण्डिनः स्मृता इति । श्रीभागवत भगवन्तं प्रस्तुत्य *अस्मादन्यं परत्वेन चेतयानो ह्यचेतनः । स पाषण्डीति विज्ञेयः सर्वकर्मबहिष्कृत इति, * यस्तु नारायणं देवं समत्वेनाभिमन्यते । स तु तेनावमानेन नरका- नातिवर्तत इति च । *ये तु सामान्यभावेन मन्यन्ते पुरुषोत्तमम् । ते वै पापण्डिनो ज्ञेया नरकारे नराधमाः, * यः पुत्रः पितरं द्वेष्टि तं विन्द्यादन्यरेतसम् । यो विष्णु सन्ततं द्वेष्टि तं विन्द्यादन्त्यरेतसम् , * विष्णुभक्तिविहीनो यस्सर्व- शास्त्रार्थवेद्यपि । ब्राह्मण्यं तस्य न भवेत्तस्योत्पत्तिनिरूप्यताम् , * चतुर्वेद्यपि यो विप्रो वासुदेवं न विन्दति । वेदभार- ।
व्याख्यानविभागे स्तोत्ररत्नभाष्यम्-श्लो. ११ ३९ भराक्रान्तस्स वै ब्राह्मणगर्दभ इत्यादीनि द्रष्टव्यानि । अस्मिन्नारायणानुवाके * विश्वमेवेदं पुरुष इति पूर्वोक्तसमानन्या- यतया * स ब्रह्मा स शिवस्सेन्द्र इत्यादिसामानाधिकरण्येन ब्रह्मादीनां विभूतित्वश्रवणात् त्रिमूत्यैक्यसाम्योत्तीर्णव्यक्त्य- न्तरपक्षाणां प्रतिक्षेपस्सिद्ध इत्यभिप्रायेणाह-ब्रह्मा शिव इति । अनीश्वरतया सर्वसम्प्रतिपन्नेन्द्रादिसमभिव्याहारादबाधाच्च ब्रह्मशिवयोरनीश्वरत्वं सूच्यते । शतमखशब्दः कर्मवश्यत्वप्रसिद्धिख्यापनार्थः । अत्र चानुवाके तत्तत्कारणोपासनपर- वाक्यपठिताश्शिवशम्भ्वादिशब्दाः नारायणविषया इति ज्ञापयितुं * नारायणपरं ब्रह्मेत्यादिभिस्तत्तदनुवादेन नारायणत्व- विधानभूयत्स्वं सूचितम् । सूत्रितं च * लिङ्गभूयस्त्वात् तद्धि बलोयम्तदपीति । * हिरण्यगर्भस्समवर्तताग्र इति वाक्यं तु * अद्भयस्संभूतो हिरण्यगर्भ इत्यष्टाविति श्रुत्यैवानुवाकान्तरसंयोजनात् पुरुषसूक्तैकार्थोत्तरानुवाकप्रतिपाद्यमहापुरुष- विषयम् । अत एव पेन्द्रीन्यायादत्र हिरण्यगर्भशब्दः कयाचिदवयवशक्त्या भगवति वर्तते । * शिव एव केवल इत्यत्र शिवशब्दोऽपि * यदा तमस्तन्न दिवा न रात्रिरित्यनुवादान्वयात् युबालोपनिषदुपदिष्टतमोमृत्युशब्दवाच्यप्रकृ- त्यधिष्ठातृभूतनारायणविषयः, शुद्धिमाङ्गल्यादावपि रूढश्चासौ, प्रयुक्तश्च भगवति * शाश्वतं शिवमच्युतमिति । * एक एव रुद्र इत्यादेस्तु प्राकरणिकहविरुद्देश्यत्वाकारपरतया न पारम्योपपादकत्वम् । * इन्द्रो मायाभिरित्यत्रेन्द्रशब्दश्च * तमिन्द्रं सन्तम् इन्द्र इत्याचक्षते परोक्षेणेति ब्राह्मणोक्त्या सर्वदर्शिपरमात्मविषयः । प्रसिद्धेन्द्रपरत्वेऽपि नात्र सर्वकारणत्व- कण्ठोक्तिः ; नच तत्क्लप्तिः, पुरुरूपत्वादेरन्यथाऽप्युपपत्तेः । * न किरिन्द्र ! त्वदुत्तरो न ज्यायाँ अस्ति वृत्रहन्नित्यत्र तु प्राकरणिककर्मविशेषौपयिकप्रशंसापरत्वाद्वस्वादिषु त्वदुत्तरो नास्तीति विवक्षितम् । स्वराट्छब्द इह * स स्वराड्भवती- त्याम्नातमुक्तविषयः ; स च स्वातन्त्र्यवाचकोऽप्यत्राकर्मवश्यत्वपरः, ईश्वरशरीरभूतानामात्मनां तत्यारतन्त्र्यस्य यावत्स्वरूप- भावित्वात् , परतन्त्रस्यापि सत्यसकल्यत्वंमिच्छाविफलत्वाभावादुपपद्यते । तेन * सङ्कल्पादेव तच्छ्रुतेः, * अत एव चान- न्याधिपतिरिति सूत्रद्वयमप्यविरुद्धम् । मुक्तप्यैश्चर्य * जगद्व्यापारवर्जमिति शारीरकान्ते स्थापितम् । परमत्वमिह ब्रह्माद्य- तच्चाकर्मवश्यस्य ज्ञानसोचादिरूपक्षरणविरहादित्यक्षरशब्देन दर्शितम् । * ब्रह्म वेद ब्रह्मैव भवतीत्यादिकमपि * परमं साम्यमुपैति, * मम साधर्म्यमागता इत्यादिश्रुतिस्मृत्यनुसारात् * वैष्णवं वामनमालभेत स्पर्धमानो विष्णुरेव भूत्वेमाँलोकानभिजयतीत्यादिवत्तत्साम्याभिप्रायमेव । तस्य च सङ्कल्पात्स्वाभिमतसृष्टिः परेच्छानुगुण्येन परिमितविषया । सर्वलोकानुसञ्चरणश्रुतिश्च न जगद्व्यापारार्था । इतिशब्द इह * स ब्रह्मा स शिव इत्यादिवाक्योपात्तप्रकारसूचनार्थः । एते-प्रजापतिपशुपतिसुरपतिप्रसिद्धिमन्तः । ततोऽप्यधिको मुक्तश्च । अपिशब्दम्तेषां तत्तत्प्रमाणसिद्धमहत्त्वे सत्यपीति द्योतयन् ततोऽर्वाचीनेषु कैमुत्यं व्यनक्ति । यस्य * तं दुर्दर्श गूढमनुप्रविष्टं, *यत्तदद्रेश्यमग्राह्यमित्यादिष्वदृश्यत्वादि- गुणकतया प्रसिद्धमपि स्वात्मानं धनञ्जयधृतराष्ट्रादेरिव कृपया मे प्रकाशयत इति भावः । महिम्नोऽणवत्वरूपणमक्षय- त्वापारत्वादिसूचनार्थम् । महिमाणवविग्रुपः-अर्णवस्थानीयत्वन्महिमापेक्षया पृषतस्थानीयमहिमान इत्यर्थः ; यद्वा अनन्तविभूतेस्तव विभूतिरूपमहिमसमुद्रबिन्दव इति । तदेतदुक्तमद्वितीयश्रुतिव्याख्यानमुखेन संवित्सिद्धौ-* यथा चोलनृपस्सम्राडद्वितीयोऽस्ति भूतले । इति तत्तुल्यनृपतिनिवारणपरं वचः ॥ न तु तद्धृत्यतत्पुत्रकलत्रादिनिवारणम् । तथा सुरासुरनरब्रह्माण्डायुतकोटयः ॥ क्लेशकर्मविपाकाद्यैरस्पृष्टस्याखिलेशितुः । ज्ञानादिषाद्गुण्यनिधेरचिन्त्यविभवस्य ताः । विष्णोर्विभूतिमहिमसमुद्रद्रप्सविषुष इति । ब्रह्मादीनां च सृष्ट्याधुपयुक्तविभूतित्वं वक्ष्यति । तदिह * स ब्रह्मेत्यादि- सामानाधिकरण्यमपि न स्वरूपैक्यादिप्रयुक्तम् , किंतु शरीरशरीरिभावनिबन्धनमिति सूचितं भवति । किं च अग्नि पेक्षया;
४० श्रीमद्वेदान्तदेशिकग्रन्थमाला देवानामवमो विष्णुः परम इति होतारोऽधीयते । * अमिरवमो देवतानां विष्णुः परम इत्यर्यवः । तथा * तद्ब्रह्म स आत्मा अङ्गान्यन्या देवता इति च । एतच्चोपबृंहितं * श्रूयतां परमं दैवं दुर्विज्ञेयं मयाऽपि च । नारायणस्तु पुरुषो विश्वरूपो महाद्युतिः ॥ नारायणस्य चाङ्गानि सर्वदैवानि चाभवन् । अन्यानि सर्वदैवानि तस्याङ्गानि महात्मन इति । अतश्च ब्रह्मादीनां भगवद्विभूतिसागरशीकरत्वं सिद्धमिति ॥ ११ ॥ कश्श्रीः श्रियः परमसत्त्वसमाश्रयः कः कः पुण्डरीकनयनः पुरुषोत्तमः कः । कस्यायुतायुतशतैककलांशकांशे विश्वं विचित्रचिदचित्प्रविभागवृत्तम् ॥ १२ अथ स्यात्-* हिरण्यगर्भस्समवर्ततेत्यादेः * अद्भयस्संभूत इत्यादिनैकार्थेऽपि तत्रैव चतुर्मुखासाधारणप्रजापति- शब्ददर्शनात्पुरुषशब्दस्य तु साधारण्येन चतुर्मुखेऽपि संभवात् * अम्भस्यपार इत्यत्रापि * प्रजापतिश्चरति गर्भ अन्तः, * स नो बन्धुर्जनिता स विधाता, * सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयदिति प्रजापत्यादिशब्ददर्शनास्त्रितयमप्येतच्च- तुर्मुखविषयमिति । अत्र तावत् * न ब्रह्मा नेशान इत्यादिव्यक्त्यन्तरनिषेधसहितविशेषश्रुत्या बाधप्रदर्शनान्न वक्तव्यशेष- मस्ति । अथापि ब्रूमः-* अम्भस्यपार इत्यत्र तावत् * यमन्तम्समुद्रे कवयो वयन्तीति समुद्रशायित्वं, * यदेकमव्यक्त- मनन्तरूपं विश्वं पुराणं तमसः परस्तादिति तमसः पारवर्तित्वं, * सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधीति विद्युद्वर्णपुरुष- त्वं, * स आपः प्रदुघे उभे इमे इत्यादिभिर्विचित्रजगत्कारणत्वं, * य एनं विदुरमृतास्ते भवन्तीति मोक्षप्राप्तिहेतुत्वं, * विश्वतश्चक्षुरुत विश्वतोमुख इत्यादिना सहस्रशीर्षत्वादिकं च प्रत्यभिज्ञायमानमस्यानुवाकस्य पुरुषसूक्तोदितमहापुरुष- गोचरतां गमयति । प्रसिद्धप्रजापतेः परमपुरुषकार्यत्वतन्नियाम्यत्वकर्मवश्यत्वादिकं च प्रसिद्धम् । अतोऽत्र प्रजापत्यादि- शब्दाः परमकारणभूतं नारायणमेव प्रतिपादयन्ति । एवम् * अद्भयस्संभूत इत्यनुवाकस्यापि पुरुषसूक्तप्रकरणाविच्छेदात् * वेदाहमेतं पुरुषं महान्तमित्यादिवाक्यार्थप्रत्यभिज्ञानाञ्च महापुरुषविषयत्वं सुगमम् । तमिममर्थमनन्यथासिद्धेन लक्ष्मी- पतित्वलिङ्गेन द्रढयति-कश्श्रीः श्रिय इति ॥ अत्र त्वदन्य इति वक्ष्यमाणमनुसन्धेयम् । श्रियः श्रीश्च भवेदप्रया कीर्त्याः कीर्तिः क्षमाक्षमेत्युक्तमिहाभिप्रेतम् । श्रीरेव ह्यन्येषामतिशयं विधत्ते, तस्या अपि * भर्ता नाम परं नार्या भूषणं भूषणा- दपीतिन्यायेनातिशयहेतुरयमिति भावः । नारायणमुनिभिस्त्वेवमिह व्याख्यातम् *स्वेतरसमस्तैः स्वरूपस्थितिप्रवृत्त्यर्थं या श्रीयते सा श्रीः, तस्या अपि तथा श्रयणीय इति । श्रीशब्दनिरुक्तयश्च-* शृणाति निखिलान् दोषान् श्रीणाति च गुणै- जगत् । श्रीयते चाखिलैनित्यं श्रयते च परं पदम् ॥ श्रयन्तीं श्रीयमाणां च शृण्वतीं शृणतीमपीत्यादिषु द्रष्टव्याः । श्रिय इत्यनेन * ह्रीश्च ते लक्ष्मीश्च पल्यावित्याम्नातलक्ष्मीशब्दपर्यायोपादानम् । अत्र हीरिति भूमिर्विवक्षिता ; * श्रीभूमिस- हितं हरिमित्यादिप्रसिद्धेः । वाजसनेयके तु हीशब्दस्थाने श्रीशब्दपठनेऽपि यथोचितमों ग्राह्यः ; तदिह पुरुषसूक्त- प्रकरणोदितश्रियःपतित्वलिङ्गसहकृतमहापुरुषप्रत्यभिज्ञानबाधितरूढिः प्रजापतिशब्दः * पतिं विश्वस्येत्युक्तपुष्कलावयवार्थ नारायणमेवाभिधत्त इति भावः । प्रयुतश्चासौ तद्विषयतया महाभारते-* राजाधिराजस्सर्वेषां विष्णुब्रह्ममयो महान् । ईश्वरं तं विजानीमस्स पिता स प्रजापतिरिति । * सप्तदश प्राजापत्यान् पशूनित्यादौ च । * श्यामा एकरूपा भवन्ति एवमिव हि प्रजापतिरिति प्रजापतेः श्यामत्वैकरूपत्वोक्त्या प्रजापतिशब्दस्य विष्णुविषयत्वं गम्यते । * आश्रावयेति चतु- रक्षरमित्यारभ्य * एष वै सप्तदशः प्रजापतिरित्येतस्य च विष्णुविषयत्वं, * चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च । हूयते च पुनाभ्यां स नो विष्णुः प्रसीदत्विति महाभारतवचनेन व्यञ्जितम्। ननु पुरुषसूक्तस्य कथं भगवत्परत्वम् ? ।
व्याख्यानविभागे स्तोत्ररत्नभाष्यम्-श्लो. १२ ४१ पुरुषशब्दो हि * स वा एष पुरुषोऽन्नरसमयः, * प्रकृति पुरुषं चैव विद्धयनादी उभावपीत्यादिषु तदतिरिक्तेऽपि प्रयु- ज्यते । सत्यम् , निखिलजगत्कारणविषयस्त्वयं पुरुषशब्दः परमपुरुषमेवाह । * पुरुषस्य हरेस्सूक्तं स्वयं धन्यं यश- स्करमिति च मर्यते । मोक्षधर्मे च परमपुरुषविषयतयैव पुरुषसूक्तं योजितम्-* इदं पुरुषसूक्तं हि सर्ववेदेषु पठ्यते । ऋतं सत्यं च विख्यातमृषिसिंहेन चिन्तितमित्यादिना । व्यासस्मृतौ चेदं भगवदर्चने विनियुक्तम्-* न विष्ण्वाराधना- पुण्यं विद्यते कर्म वैदिकम् । तस्मादनादिमध्यान्तं नित्यमाराधयेद्धरिम् ॥ तद्विष्णोरितिमन्त्रेण सूक्तेन पुरुषेण तु । नैवाभ्यां सदृशो मन्त्रो वेदेषुक्तश्चतुर्वपि ॥ निवेदयीत स्वात्मानं विष्णावमलतेजसि । तदात्मा तन्मनाश्शान्तस्तद्विष्णो- रिति मन्त्रतः ॥ इति । शौनकीये कल्पे च * शौनकोऽहं प्रवक्ष्यामि नित्यं विष्णवर्चनं परम् । प्र वः पातन्तमन्धस इत्यधर्चस्य विधानतः ॥ इति प्रक्रम्य * आद्ययाऽऽवाहयेद्देवमृचा तु पुरुषोत्तममित्यादिना प्रत्यृचमुपचारभेदेषु विनि- योगः कृतः । एवं भगवच्छास्त्रादिष्वपि द्रष्टव्यम् । किंच आथर्वणे अष्टादशमहाशान्तिप्रकरणे तत्तद्देवताविषयमहाशा- न्तिषु * वैष्णव्यां पुरुषसूक्तमिति विनियोगो दृष्टः । एवं * सहस्रशीर्षा पुरुष इत्युपहितां पुरुषेण नारायणेन यजमान उपतिष्ठते * सहस्रशीर्षा पुरुष इति पुरुषेण नारायणेन पराञ्चोऽनुशंसन्तीति कल्पसूत्रकारवाक्याच्च नारायणविषयत्वमस्य सिद्धम् । तत्रतत्र परमपुरुषसन्निधानबुद्ध्या तेन तत्तदुपस्थानं युज्यते । अत्र नारायणस्य ऋषित्वेन पुरुषस्य च देव- तात्वेन संबन्धस्तावत्सर्वसंमतः । तत्र नारायणपुरुषशब्दयोरेकविषयत्वं * सहस्रशीर्ष देवमित्यारभ्य * विश्वमेवेदं पुरुष इति नारायणानुवाकोक्त्या सिद्धम् । तथा सुबालोपनिषदि * चक्षुश्च द्रष्टव्यं च नारायण इत्यादिभिर्नारायणस्य सर्वा- त्मकत्वं प्रतिपाद्य * पुरुष एवेर्दै सर्वमिति पुरुषसूक्तवाक्येन निगमनान्नारायण एव पुरुषसूक्तप्रतिपाद्य इति निश्चीयते । तदिह पुरुषशब्दः पुरुषोत्तमविषयः । तथा च पौराणिकं वचः-* भगवानितिशब्दोऽयं तथा पुरुष इत्यपि । निरु- पाधी च वतते वासुदेवे सनातने ॥ इति । एवं * ब्रह्मा कमलगर्भाभो रुद्रः कालाग्निसन्निभः । पुरुषः पुण्डरी- काभो रूपं तत्परमात्मनः ॥ इति त्रयाणां रूपभेदवचनेन प्रत्येकनामोक्तौ ब्रह्मरुद्रव्यावृत्ते परमात्मशब्दोदिते भगवति पुरुषशब्दस्समाख्यारूपेण प्रयुक्तः । * पुरुषः पुण्डरीकाक्ष इति पाठेऽपि न प्रस्तुतविरोधः । अधीयते च तैत्तिरीयाः प्रजापतिजनककूर्मविषये * पूर्वमेवाहमिहाऽसमिति तत्पुरुषस्य पुरुषत्वमिति । अनन्तरं * सहस्रशीर्षा पुरुषः सहस्राक्षस्स- हस्रपाद्धत्वोदतिष्ठदिति पुरुषसूक्तारम्भस्तत्र प्रत्यभिज्ञायते । अस्त्वेवम् ; तथाऽपि महेश्वरशिवादिशब्दलिङ्गशालिन्यां श्वेताश्वतरोपनिषदि * वेदाहमेतमित्यादिवाक्यदर्शनाद्रुद्रेऽपि पुरुषशब्दाम्नानाच पुरुषसूक्तस्यापि तद्विषयत्वं स्यादि- त्यत्राह-परमसत्त्वसमाश्रयः क इति ॥ परमस्य मोक्षोपयुक्तप्रकर्षवतः सत्त्वस्य प्रकाशसुखहेतुभूतगुणविशेषस्य समा- श्रयः सम्यक् प्रवर्तकः त्वदन्यः क इत्यर्थः । एतेन सांसारिकज्ञानसुखहेतुभूतपरिमितसत्त्वव्यवच्छेदः । अयं भावः- पुरुषसूक्तं तावत्परमपुरुषविषयतया स्थापितम् । तत्रत्यवाक्यप्रत्यभिज्ञानादेव श्वेताश्वतरोपनिषदि शिवमहेश्वरादिशब्दाना- मपि महापुरुषपरत्वमेव युक्तम् । अनन्यथासिद्धं च लिङ्गं तत्रतत्र दृश्यते । * महान्प्रभुबै पुरुषस्सत्त्वस्यैष प्रवर्तक इति नारायणस्यैव सत्त्वप्रवर्तकत्वं ब्रह्मरुद्रयोश्च रजस्तम:प्रवर्तकत्वं श्रुत्यादिप्रसिद्धम् । यथा मैत्रायणीयोपनिषदि * अथ यो ह खलु वा अस्य राजसोंऽशस्सोऽसौ ब्रह्मचारिणो योऽयं ब्रह्मा अथ यो ह खलु वा अस्य सात्त्विकोंऽश- स्सोऽसौ ब्रह्मचारिणो योऽयं विष्णुः अथ यो ह खलु वा अस्य तामसोऽशस्सोऽसौ ब्रह्मचारिणो योऽयं रुद्र इति । पुराणे च वाराहे अगस्त्यरुद्रसंवादे रुद्रः-* यत्सत्त्वं स हरिदेवो यो हरिस्तत्परं पदम् । सत्त्वं रजस्तमश्चेति त्रितयं चैतदु- ४२ श्रीमद्वेदान्तदेशिकग्रन्थमाला ॥ । तं च्यते ॥ सत्त्वेन मुच्यते जन्तुस्सत्त्वं नारायणात्मकम् । रजसा सत्त्वयुक्तेन भवेच्छ्रीमान्यशोधिकः ॥ तच्च पैतामहं वृत्तं सर्वशास्त्रेषु पठ्यते । यद्वेदबाह्य कर्म स्यात् मामुद्दियोपसेव्यते ॥ तद्रौद्रमिति विख्यातं कनिष्ठगतिदं नृणाम् । यद्धीनतपसा युक्तं केवलं तामसं तु यत् ॥ तदुर्गतिप्रदं नृणामिह लोके परत्र चेति । लैङ्गे चतुर्दशाध्याये-* हिरण्यगों रजसा तमसा शङ्करस्स्वयम् । सत्त्वेन सर्वगो विष्णुस्सर्वात्मा सदसन्मयः ॥ इति । तत्रैव चतुर्विशे क्षुपास्यतपसि- * त्वत्कोपसंभवो रुद्रस्तमसा च समावृतः । त्वत्प्रसादाजगद्धाता रजसा च पितामहः ॥ त्वत्स्वरूपात्स्वयं विष्णुस्स- त्वेन पुरुषोत्तमः ॥ इति । तदनन्तरे चाध्याये नन्दिकेश्वरवचनम्-* परमात्मानमीशानं तमसा रुद्ररूपिणम् । रजसा सर्वलोकानां सर्गलीलाप्रवर्तकम् ॥ सत्त्वेन सर्वभूतानां स्थापकं परमेश्वरम् । सर्वात्मानं महात्मानं परमात्मानमीश्वरम् ।। दृष्ट्वा प्राह वै ब्रह्मा भगवन्तं जनार्दनमिति । एवं पुराणान्तरेषु । भगवच्छास्त्रादिष्वपि * सात्त्विकैस्सेव्यते विष्णु- स्तामसैरेव शङ्करः । राजसैस्सेव्यते ब्रह्मा सङ्कीर्णैस्तु सरस्वतीत्यादीनि द्रष्टव्यानि । साधारणे च शिल्पशास्त्रे विमान- त्रयलक्षणे पठ्यते । * स्यान्नागरद्राविडवेसरं च क्रमेण वै सत्त्वरजस्तमांसि । महीसुरोर्वीपतिवैश्यकास्ते हरिर्विधाता हर आदिदेव इति । अथवाऽत्र परमसत्त्वमिति * स्वसत्ताभासकं सत्त्वं गुणसत्त्वाद्विलक्षणमित्युक्तं शुद्धसत्त्वमयमप्राकृतं द्रव्यमिति विवक्षितम् । तेन ब्रह्मरुद्राद्यगोचररहस्याम्नायभगवच्छास्त्रादिप्रसिद्धकल्याणतमविग्रहादियोगात्तेभ्यः परत्वं सूच्यते । नित्येऽप्युक्तं * परमसत्त्वं पञ्चशक्तिमयविग्रहमिति । उभयधाऽपि सत्त्वप्रवर्तकत्वोक्तिः श्वेताश्वतरोपनिषदः पुरुषसूक्तोदितपरमपुरुषविषयत्वमवगमयति । वक्तव्यान्तरं चात्र वेदार्थसंग्रहादिषु द्रष्टव्यम् । ननु च पुरुषसूक्तोदित- मादित्यवर्णं पुरुषमेवादित्यमण्डले तादृशवर्णयुक्ततया छन्दोगा अधीयते * य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यत इत्यादिना । स च स्थानविशेषसन्निधिसामर्थ्यादादित्य एव । स एव च रुक्मवर्णः पुरुषो मनुना मर्यते । प्रशासितारं सर्वेषामणीयांसमणीयसाम् । रुक्माभं स्वमधीगम्यं विद्यासु पुरुषं परमिति। * असावादित्यो ब्रह्मेति चाध्वर्यवः । अस्ति च तत्परं पुराणम् , अतः पुरुषसूक्तमादित्यपरम् । स एव च ब्रह्मेत्यत्रानन्यपरकारणश्रुतिभिः श्रियः- पतित्वलिङ्गेन पुरुषशब्दादिभिरुषबृंहणैश्च दत्तोत्तरत्वेऽपि युक्तिभूयस्त्वख्यापनायानूक्तं छान्दोग्यस्थं सुप्रसिद्धं लिङ्गमाह- कः पुण्डरीकनयन इति । अयमभिप्राय:-* तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी इति तत्रैव पुण्डरीकनयनत्वोक्तेः पुरुषोत्तमस्यैव च तत्प्रसिद्धर्न तत्रादित्यो वाऽन्यो वा तादृशश्शनीयः । यद्यपि द्रमिडभाष्ये * तस्य यथा कप्यास- मित्यादेप्पडाः प्रोक्ताः ; तथाऽप्यौचित्यात्त्य एव स्वीकर्तव्याः । तथा चोक्तं वेदार्थसंग्रहे-* गम्भीराम्भस्समुद्भूत- सुमृष्टनालरविकरविकसितपुण्डरीकदलामलायतेक्षण इति । एतेन परिपूर्णत्वमनुग्रहशीलत्वं चास्य व्यज्यते । उपरिचरा- ख्याने च * अरोषणो ह्यसौ देव इत्युक्तम् । अन्येषां तु चतुर्मुखादित्यरुद्रादीनामपूर्णतया साधकावस्थत्वात् कामक्रोधा- क्रान्तत्वाच्चाक्षीणि विरूपाणि भवन्ति । सन्निधिविशेषश्चादित्यमण्डले भगवतस्सावित्रीकल्पेषु पुराणादिषु च प्रसिद्धः । आदित्यस्य च, * चक्षोस्सूर्यो अजायत. * सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् , * अमिमूर्धा चक्षुषी चन्द्रसूर्यो, * यस्यादित्यो भामुपयुज्य भाति, * येन सूर्यस्तपति तेजसेद्धः, * न तत्र सूर्यो भाति न चन्द्रतारकम् , * यस्यादित्य- शरीरमित्यादिभिरनीश्वरत्वं सिद्धम् । तद्वैभवप्रतिपादनपरं तु पुराणमसात्त्विकत्वात् विरुद्धांशे त्याज्यम् । क्वचिद्ब्रह्म- दृष्ट्या तत्पर्यन्ततत्त्वविवक्षया वा निर्वाहः । एवं परमकारणविषयश्रुतिविशेषैः श्रियःपतित्वादिलिजैश्च नारायण एव स्वत- स्सिबैश्वर्यस्सर्वस्मात्पर इति निश्चितेऽपि केचिदनधिगतपदवाक्यप्रमाणवृत्तान्ताः पुरुषसमाख्यामीश्वरसमाख्यां च निर्विशे- ..
४३ . - .. व्याख्यानविभागे स्तोत्ररत्नभाष्यम्-श्लो. १२ षणां महत्परमविशेषणविशिष्टां च परामृश्य ब्रह्मणः पितुः ब्रह्मणः पुत्रस्य च निकर्पोत्कर्षों मन्यन्ते । तानुपालभते- पुरुषोत्तमः क इति । इह च * द्वाविमौ पुरुषौ लोक इत्यादयः श्लोकाः प्रतिसन्धेयाः । तेषु * परमात्मेऽत्युदाहृत इत्यनेन * तस्याश्शिखाया मध्ये परमात्मा व्यवस्थित इति श्रुतिस्मायते । * यो लोकत्रयमाविश्येत्यनेन * यच्च किंचि- दित्यादिकं व्याख्यातम् । बिभर्तीत्याधारत्वोक्त्या * यत्र विश्वं भवत्येकनीलम् , * तत्सवितुर्वरेण्यम् , * ध्रुवमचलममृतं विष्णुसंशं सर्वाधारं धाम, * एष सेतुर्विधरण एषां लोकानामसंभेदायेत्यादेरर्थ उक्तः । अव्ययशब्दोक्त्या * शाश्वत शिवमच्युतमित्याद्युक्तसंग्रहः । ईश्वरशब्द इह * व्याप्य नारायण स्थित इत्युक्तव्याप्तेः *अन्तः प्रविष्टश्शास्तेत्याद्यनु- सारात् समस्तनियमनविशिष्टत्वम् * आत्मेश्वरमित्युक्तानन्यनियाम्यत्वं चाभिप्रैति । * न चापि वेदेषु समाननामेत्यल्प- श्रुतोक्तिः * लोके वेदे च प्रथित इति व्यासोपात्तभगवदुक्त्या परिहसनीया । अत्र च भगवद्गीताभाष्यम्-* वेदार्था- वलोकनात् लोक इति स्मृतिरिहोच्यते ; श्रुतौ स्मृतौ चेत्यर्थः ; श्रुतौ तावत् * परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्प- द्यते, * स उत्तमः पुरुष इत्यादौ ; स्मृतावपि * अंशावतारं पुरुषोत्तमस्य ह्यनादिमध्यान्तमजस्य विष्णोरित्यादौ-इति । * स उत्तमः पुरुष इति श्रुतौ पुरुषोत्तमत्वं फलितमिति भावः । तदयमिह त्वदन्यः कः पुरुषोत्तम इति वदतोऽभिप्राय:- यदि वयं पुरुषोत्तमसमाख्यामात्रेण भगवत ईश्वरत्वं साधयामः, तदा ईश्वरादिसमाख्याबलेन प्रत्यवस्थातव्यम् ; अस्मा- भिस्तु प्रबलैः श्रुतिलिङ्गादिभिरेव ह्ययमर्थस्साधितः ; तथा सति जीवलक्षणपुरुषराशिबहिर्भूत एवायं महापुरुषसर्वत्र प्रसिद्धः; ततः प्रबलप्रमाणबाधितेयमीश्वरादिसमाख्या रुद्रस्य सर्वेश्वरत्वं साधयितुं न शक्नोति ; अन्यथा इन्द्रसमाख्यैव निर्विशेषणा शतमखस्य परमेश्वरत्वं साधयेत् , * इदि परमैश्चर्य इति धात्वर्थपाठात् । महत्त्वविशेषिता तु किं पुनः ? ततश्च-महावृक्षसमाख्येव बलवन्मानबाधिता । महेश्वरमहेन्द्रादिसमाख्याऽप्यत्र निष्फला ॥ पुरुषोत्तमसमाख्या त्वनधिगतशब्दानुशासनादिवृत्तान्तैः कैश्चित्केवलरूढेत्युक्तम्-* रूढ्या तु कामं पुरुषोत्तमो- ऽस्त्विति । तत्र यद्यपि कर्मधारयवृत्तौ * सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैरित्युत्तमशब्दस्य पूर्वनिपातः ; न च निर्धारणे षष्टयास्समासः ; तथाऽपि * सप्तमी शौण्डैरित्यत्र योगविभागग्रहणादत्र निर्धारणेऽपि सप्तमीसमासस्स्यात् ; शैषिकषष्ठी वा नीचोत्तमभावसंबन्धावलम्बिनी द्विपदविग्रहवत्स्वपदविग्रहदर्शितार्था समस्येत । नागोत्तमादिशब्दाश्च शब्दविद्भिरेवं निरू- ढाः । *यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तम इति गीतानुसारे तु पञ्चमीसमासः प्रस्पष्टः । अत्र पञ्चमीषष्ठीसमासयोः पुरुषशब्दो बद्धमुक्तावस्थजीवमात्रपरः । * द्वाविमौ पुरुषौ लोके इत्यादिभिश्चैतत्सुगमम् । अतः श्रुतिलिङ्गाद्यबाधितया तदनुगृहीतया गीतानिरुक्तया पुरुषोत्तमसमाख्ययाऽपि पुरुषसूक्तोदितसर्वकारणपुरुषस्य परमात्मत्वसर्वव्यापनभरणनियमन- स्वाम्यादिकं तदन्येषामधमत्वं च सिध्यति । इदं च * क इति ब्रह्मणो नाम ईशोऽहं सर्वदेहिनाम् । आवां तवाङ्गे सं- भूतौ तस्मात् केशवनामवान् , * सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः। ततस्स वासुदेवेति विद्वद्भिः परिपठ्यते, * नराज्जातानि तत्त्वानि नाराणीति ततो विदुः । तान्येव चायनं तस्य तेन नारायणस्मृतः ॥ इत्यादिभिर्निरुक्तानां समा- ख्यान्तराणां प्रदर्शनम् । * अजस्सर्वेश्वरसिद्ध इति व्यासपठिता सर्वेश्वरसमाख्या च महेश्वरादिसमाख्यामधःकरोति । ननु तिष्ठतु समाख्या ; लिङ्गं तु पुरुषसूक्तप्रतिपाद्यस्य चतुप्पात्त्वरूपं परिच्छिन्नत्वमपरिच्छिन्नतयाऽऽग्नातात् परतत्त्वादव- रतां गमयेदिति व्योमातीलवादिन आहुः । तन्निरासाय ब्रह्मरुद्रादीनामन्येषां च सर्वव्यापकपरमपुरुषैकदेशवर्तित्वं ख्याप- यति-कस्यायुतेति । त्वदन्यस्य कस्येति योज्यम् ; *यस्यायुतायुतांशांशे विश्वशक्तिरियं स्थिता । मेरोरिवाणुर्यस्यैतद्ब्रह्माण्ड- ४४ श्रीमद्वेदान्तदेशिकग्रन्थमाला मखिलं मुने, * मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव । इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् , * पश्यामि देवां स्तव देव ! देहे सर्वांस्तथा भूतविशेषसङ्घान् । ब्रह्माणमीशं कमलासनस्थमित्यादिभिर्भगवत्स्वरूपैकदेशे विग्रहैकदेशे विश्वस्थितिरुच्यते । अतो विष्णोरेव सर्वव्यापित्वं रुद्रादेश्च तदेकदेशवर्तित्वं सिद्धम् ।। तपसा तोपितेनैव विश्वरूपेण विष्णुना । स्वपार्थे दक्षिणे शम्भोः निवासः परिकल्पितः ।। एवं स्वविग्रहांशेषु तदन्या अपि देवताः । निरङ्कुशस्वतन्त्रेण श्रीधरेण निवेशिताः ।। पुरुषसूक्तेऽपि * पुरुष एवेर्दै सर्वमित्यादिभिरपरिच्छिन्नत्वं सिद्धम् । तत्रतत्र परिच्छिन्नत्वोक्तीनां तु * अर्भको- कस्त्वात्तव्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च, * अभिव्यक्तेरित्याश्मरथ्यः, * अल्पश्रुतेरिति चेत्तदुक्तम् , * हृद्यपेक्षया तु मनुष्याधिकारत्वात् , *बुद्ध्यर्थः पादवत् , *अनेन सर्वगतत्वमायामशब्दादिभ्य इत्यादिभिस्सूत्रैस्तदुपा- ध्यवच्छेदनिबन्धनत्वं महापुरुषस्यैव सर्वव्यापित्वं च स्थापितम् । अत्रायुतायुतेत्याद्यशक्लप्तिरसंख्यातब्रह्माण्डतदावरणादि- महत्तरविभूत्याश्रयप्रदेशातिरिक्तविभूत्यन्तराश्रयापरिमितस्वरूपवैभवसूचनार्था । एतेन प्रतिब्रह्माण्डं ब्रह्मरुद्रादीनामितरेतरा- नभिज्ञत्वादिकमपि सूच्यते । कस्येत्यादिना महिमैकदेशाधिष्ठेयत्वं वा विवक्षितम् । * विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगदित्यत्राभाष्यत-* मम महिम्नोऽयुतायुतांशेन विष्टभ्याहमवस्थित इति । तत्रैव श्यस्यायुतायुतांशांश इत्यादि- कमुदाहृतम् । विश्वं-कृत्स्नं कार्यजातम् । चिदचित्प्रविभागः चेतनाचेतनयोः प्रकृष्टं वैषम्यम् । तस्य विचित्रत्वमाश्चर्यत्व- मवान्तरविशेषो वा । देवमनुष्यादिरूपभेदेन तत्तदनुगुणज्ञानसुखादिभेदैश्च चेतनप्रविभागः । अचेतनप्रविभागस्तु भूते- न्द्रियादिरूपेण भोग्यभोगोपकरणादिरूपेण च । स च निर्बा धैः प्रत्यक्षानुमानागमैर्यथासंभवं प्रत्येतव्यः । एवं प्रविभागेन वृत्तं व्यवस्थितस्वरूपस्थितिव्यापारवत्तया निष्पन्नमित्यर्थः ॥ १२ ॥ वेदापहारगुरुपातकदैल्यपीडाद्यापविमोचनमहिष्टफलप्रदानैः । कोऽन्यः प्रजापशुपती परिपाति कस्य पादोदकेन स शिवस्स्वशिरोधृतेन ॥ १३ अथ स्यात् यद्यपि प्रत्यक्षस्तुतिभिः तत्रत्यलिङ्गैरबाधितसमाख्याविशेषैश्च भगवत्परत्वं प्रतीयते, सथाऽपि * इतिहासपुराणाभ्यां वेदं समुपबृहयेदिति स्मरणाद्विरोधाधिकरणस्य च स्पष्टार्थश्रतिविषयत्वात्प्रजापतिपशुपतिपारम्य- तत्परबहूपबृंहणदर्शनाच्च पुरुषोत्तम एव पर इति निश्चेतुं न शक्यमित्यत्र प्रबलतमोपबृंहणप्रसिद्धैः परावरविवेकलिङ्गभूतै- रुदन्तैरुत्तरमाह-वेदापहारेति ॥ अयं भावः-सुपरिगृहीताविरुद्धार्थसात्त्विकपुराणाद्युपबृंहिताभिः प्रत्यक्षश्रुतिभिः अर्थ- निर्णये सिद्धे विरुद्धार्थानां राजसतामसपुराणादीनां शारीरकस्मृत्यधिकरणनिश्चलीकृतविरोधाधिकरणनयेन विधुननं युक्तम् । तद्विपरोतवृत्तान्तास्तु तामसादिपुराणोक्तत्वाद्रमविप्रलम्भसंभवा मन्तव्याः । मन्वादिस्मृतिषु भगवत्पारम्यं सुव्य- क्तम् । * य? किंच मनुरवदत्तद्वेषजमिति च श्रूयते । * मन्वर्थविपरीता तु या स्मृतिस्सा न शस्यत इति स्मर्यते च । अतस्सात्त्विकेतिहासपुराणादिप्रोक्ता वेदापहारादिवृत्तान्ताः परावरविवेके सम्यलिङ्गानि भवन्ति । तदिह निखिलजगदेक- हेतुभूतस्स भगवान् * आनीदवात स्वधया तदेकम् , * सस्माद्धान्यं न परः किञ्चनासेत्यादिप्रसिद्धायां पूर्वापरहिरण्य- गर्भादिप्रलयप्रागभावदशायां महदादिसृष्टिक्रमेण ब्रह्माणं पूर्व विधाय प्रलयतिरोहितान्वेदांश्च पूर्वानुपूविशिष्टानाविष्कृत्य ब्रह्मणे प्राहिणोत् । अत्र *विदधाति प्रहिणोतीति च वर्तमाननिर्देशः प्रतिकल्पमेवमेवेति ज्ञापनार्थः । ततश्च वेदचक्षुः- प्रदर्शितां विश्वसृष्टिं कर्तुकामे ब्रह्मणि प्राचीनदुष्कृतफलंदानाय परमपुरुषेणैव सृष्टौ मूर्तरजस्तमस्त्वेन भगवच्छास्त्रप्रति- ४५ %D ॥ व्याख्यानविभागे स्तोत्ररत्नभाष्यम्-श्लो. १३ पादितौ महाबलौ मधुकैटभौ-* ददृशातेऽरविन्दस्थं ब्रह्माणममितप्रभम् । सृजन्तं प्रथमं वेदांश्चतुरश्चारुविक्रमौ ॥ ततो विग्रहिणस्तांस्तु दृष्ट्वा तावसुरोत्तमौ । वेदाञ्जगृहतू राजन् ! ब्रह्मणः पश्यतस्तदा ॥ अथ तौ दानवश्रेष्ठौ गृहीत्वा तान् सनातनान् । रसां विविशतुस्तूर्णमुदपूर्ण महोदधौ ॥ ततो हृतेषु वेदेषु ब्रह्मा कश्मलमाविशत् । ततो वचनमीशानं प्राह वेदैविनाकृतः ॥ ब्रह्मा-वेदा मे परमं चक्षुः वेदा मे परमं धनम् । वेदा मे परमं धाम वेदा मे ब्रह्म चोत्तमम् ॥ मम वेदा हृतास्सर्वे दानवाभ्यां बलादितः । अन्धकारा इमे लोका जाता वेदैर्विवर्जिताः ॥ वेदे हृतेऽहं किं कुर्या लोकान्वै स्रष्टुमुद्यतः । अहो बत महदुःखं वेदनाशनजं मम ॥ प्राप्तं दुनोति हृदयं तीव्रशोकामयस्त्वयम् । को हि शोकार्णवे ममं मामिहाद्य समुद्धरेत् । इत्येवं भाषमाणस्य ब्रह्मणो नृपसत्तम ! । हरिस्त्रोत्रार्थमुद्भूता बुद्धिर्बुद्धिमतां वर ! ॥ ततो जगौ परं जप्यं प्राञ्जलि: प्रग्रहं प्रभुरित्यादि । * एतस्मिन्नन्तरे राजन् ! देवो हयशिरोधरः । जग्राह वेदानखिलान् रसातलगतान् हरिः ॥ प्रादाच्च ब्रह्मणे राजन् ! ततस्स्वां प्रकृतिं ययौ । ततस्तयोर्वधेमाशु वेदोपहरणेन च ॥ शोका- पनयनं चक्रे ब्रह्मणः पुरुषोत्तम इति । पशुपतेरेव गुरुपातकाद्विमोचनम् । गुरुविषयं पातकं गुरुपातकं गुरुत्वेन पातकं वा विशेष्यते । न हि ब्राह्मणोत्तमपितृभूतब्रह्मशिरश्छेदादधिकं पातकं संभाव्यते ? विदुषोऽतिक्रमे दण्डभूयस्त्वं च मयते । न च सर्वज्ञनामाऽसौ न जानाति तदिदं स्वपातकम् । रुद्रेण स्वयमेवोक्तं मात्स्ये-* ततः क्रोधपरीतेन संरक्तनयनेन च । वामाङ्गुष्ठनखाग्रेण छिन्नं तस्य शिरो मया ॥ ब्रह्मा-यस्मादनपराधस्य शिरश्छिन्नं त्वया मम । तस्माच्छापसमायुक्तः कपाली त्वं भविष्यसि ॥ रुद्रः-ब्रह्महाऽऽकुलितो भूत्वा चरंस्तीर्थानि भूतले । ततोऽहं गतवान् देवि ! हिमवन्तं शिलोच्चयम् ॥ तत्र नारायणः श्रीमान् मया भिक्षां प्रयाचितः । ततस्तेन स्वकं पार्श्व नखाग्रेण विदारितम् ॥ महती स्रवती धारा तस्य रक्तस्य निस्सृता । विष्णुप्रसादात्सुश्रोणि ! कपालं तत्सहस्रधा ॥ स्फुटितं बहुधा यातं स्वपलब्धं धनं यथेति । एवं स्वेदजलपूरणेन कपालमोचनं चान्यत्रोक्तं कल्पभेदेन रुद्रसृष्टयन्तरे योज्यम् । अप्राकृते भगवद्विग्रहे युद्धादिप्वत्र च रुधिरस्वेदादिकं मायासृष्टं मन्तव्यम् । रुद्रस्य दैत्यपीडाद्यापद्विमोचनमन्धकासुरसंग्रामे प्रसिद्धम् । तदुक्तं मात्स्ये महेश्वरप्रयुक्तशस्त्रक्षतप्रथमान्धकरुधिरबिन्दुभिरन्धकयूथे सञ्जाते-* ततस्स शङ्करो देवस्त्वन्धकैराकुलीकृतः । जगाम शरणं देवो वासुदेवमजं विभुम् । ततस्स भगवान् विष्णुस्सृष्टवाञ्छुप्करेवतीम् । सा पपौ सकलं तेषामन्ध- कानामसृक् क्षणादिति । एवं रुद्रस्य स्वदत्तवरसामर्थ्यपरीक्षोद्यतवृकासुरदौरात्म्यजनितभयविमोचनं च द्रष्टव्यम् । अत्रे- न्द्रादीनामपि हिरण्यरावणदुर्वासःप्रभृतिजनितापद्विमोचनमुपलक्ष्यम् । सभापर्वणि चैतत्सामान्यत उक्तम्-* एवमेषोऽ- सुराणां च सुराणामपि सर्वशः । भयाभयकरः कृष्णसर्वलोकेश्वरेश्वर इति । आदिशब्देन दुर्जयत्रिपुरविजिगीषाद्याप- संग्रहः । उक्तं हि महाभारते-* विष्णुरात्मा भगवतो भवस्यामिततेजसः । तस्माद्धनासंस्पर्श स विषेहे महेश्वर इति । श्रीविष्णुधर्मे च-* त्रिपुर जघ्नुषः पूर्वं ब्रह्मणा विष्णुपञ्जरम् । शङ्करस्य कुरुश्रेष्ठ रक्षणाय निरूपितम् ॥ वागी- शेन तु शक्रस्य बलं हन्तुं प्रयास्यत इति । नामत्रयविधाने च तेनैव रुद्रस्य कालकूटापन्निस्तारणं च दर्शितम्- * अच्युतानन्तगोविन्दमन्त्रमानुष्टुभं परम् । ओन्नमस्सम्पुटीकृत्य जपन्विषधरो हर इति । बाणयुद्धे भगवता वासुदे- वेन योद्धं प्रवृत्तस्यापि रुद्रस्य प्रशमनास्त्रेण युद्धापन्निस्तारणं कृतम् । यथोक्तं वैष्णवपुराणे-* जृम्भणास्त्रेण गोविन्दो जम्भयामास शङ्करम् । ततः प्रणेदुर्दैतेयाः प्रमथाश्च समन्ततः ॥ जृम्भाभिभूतस्तु हरो रथोपस्थ उपाविशत् । न शशाक तदा योद्धं कृष्णेनाक्लिष्टकर्मणेति । श्रीमद्रामायणे च श्रीपरशुराम आह-* हुकारेण महाबाहुः स्तम्भितोऽथ त्रिलोचनः । जृम्भितं तद्धनुर्दृष्टा शैव विष्णुपराक्रमैः ॥ अधिकं मेनिरे विष्णु देवास्सर्षिगणास्तदेति ॥
४६ श्रीमद्वेदान्तदेशिकग्रन्थमाला श्रीबदरिकाश्रमे च युद्धप्रवृत्तस्तापसवेषेण धर्मसू नुना नरसखेन नारायणेन सञ्जिहीर्षितो रुद्रः पितुः पुत्रस्य च मध्य प्रविष्टेन चतुर्मुखेन प्रबोधितश्शरणमुपागतस्सर्वलोकशरण्येन संरक्षित इति महाभारते प्रोक्तं-* प्रसादयामास भवो देवं नारायणं प्रभुम् । शरणं च जगामाद्यं वरेण्यं वरदं हरिमित्यादिना । तयोर्महिष्ठफलपदानं च तत्रैवोक्तम् । तथा हि ; कुण्डधरोपाख्याने-* युगकोटिसहस्राणि विष्णुमाराध्य पद्मभूः । पुनस्त्रैलोक्यधातृत्वं प्राप्तवानिति शुश्रुमः इति । उपा- ख्यानान्तरे च-* मया सृष्टः पुरा ब्रह्मा मद्यज्ञमयजत्स्वयम् । ततस्तस्मै वरान्प्रीतो ददाम्यहमनुत्तमान् ॥ मत्पुत्रत्वं च कल्पादौ लोकाध्यक्षत्वमेव चेति । युधिष्ठिरशोकापनोदे च-* विश्वरूपो महादेवः सर्वमेधे महाक्रतौ । जुहाव सर्वभूतानि स्वयमात्मानमात्मनेति । तथा * महादेवस्सर्वमेधे महात्मा हुत्वाऽऽत्मानं देवदेवो बभूव । विश्वान् लोकान् व्याप्य विष्टभ्य कीर्त्या विराजते द्युतिमान् कृत्तिवासा इति ॥ आमनन्ति चैतदेव बह्वचाः * अस्य देवस्य मीढुषो वयाविष्णो- रेष प्रवृधे हविभिः विदेहि रुद्रो रुद्रियं महत्त्वमिति । पशुपतित्वं च रुद्रस्य वरापेक्षापूर्वकमाम्नातं-* सोऽब्रवीद्वरं वृणा अहमेव पशूनामधिपतिरसानीति तस्माद्रुद्रः पशूनामधिपतिरिति । श्रीनारायणीये च सर्वदेवानां भगवदाराधकत्वं तद- धीनगतित्वं चोक्तम्-* तं देवा ऋषयश्चैव नानातनुसमाश्रिताः । भक्त्या संपूजयन्त्येनं गतिं चैषां ददाति सः ॥ इति । यज्ञानहराध्याये च भगवत एव सर्वकर्मसमाराध्यत्वं ब्रह्मादीनां सर्वेषां तत्प्रसादलब्धयज्ञभागत्वं च प्रतिपादितं-* ततस्ते विबुधास्सर्वे ब्रह्मा ते च महर्षयः । वेददृष्टेन विधिना वैष्णवं क्रतुमारभन् । तस्मिन् सत्रे तदा ब्रह्मा स्वयं भागमक- ल्पयत् । देवा महर्षयश्चैव सर्वे भागानकल्पयन् ॥ ते कार्तयुगधर्माणो भागाः प्रथमसत्कृताः । प्रापुरादित्यवर्णं तं पुरुषं तमसः परमिति । ततश्चैवं भगवद्वचः-* येन यः कल्पितो भागः स तथा समुपागतः । प्रीतोऽहं प्रदिशाम्यद्य फल- मावृत्तिलक्षणमिति । तथा-* यज्ञैयें चापि यक्ष्यन्ते सर्वलोकेषु वै सुराः । कल्पयिष्यन्ति वो भागांस्ते नरा वेदकल्पि- तान् ॥ यो मे यथा कल्पितवान् भागमस्मिन् महाक्रतौ । स तथा यज्ञभागाझे वेदसूत्रे मया कृत इति । कर्मकाण्डे च प्रथमाध्याये--नित्यमर्चयसे देव कं देवमधिकं तव । यस्मान्मानसमव्ययं कृत्वा त्रिभुवनेश्वर ॥ जपहोमनमस्कारस्तं वदस्व तथा मयेत्युमया पृष्टो महेश्वर उवाच-* शृणुप्व त्वं महाभागे यथा नित्यं नमाम्यहम् । ब्रह्माद्या मुनयश्चैव तपोधैर्य- समाधिभिः ॥ अर्चयन्ति सदा यं वै सदा पश्यन्ति सूरयः । तं वै यथातथं वक्ष्ये तस्मिन् धर्मस्य निर्णयम् ॥ अज्ञा- नार्णवममानां सर्वेषामात्मनामयम् । विष्णुधर्मोडुपः श्रीमानुत्तारार्थ उदाहृत इति । श्रीनारसिंहपुराणे चैतत्संग्रहे- णोक्तं-* ब्रह्मादयम्मुरास्सर्वं विष्णुमाराध्य ते पुरा । स्वस्वं पदमनुप्राप्ताः केशवस्य प्रसादत इति । अथ रुद्रस्यानीश्वरत्वे हेत्वन्तरमाह-कस्य पादोदकेन स शिव इति । अत्र द्वन्द्वसमासस्थस्यापि पशुपतिमात्रस्य गङ्गाधारणसामर्थ्यात् बुद्ध्या निष्कृप्य स इति परामर्शः । यद्वा स इति शिवसमाख्याप्रसिद्धिपरम् । तथा चोक्तं श्रीभागवते-* सञ्चिन्त- येद्भगवतश्चरणारविन्दमिति प्रक्रम्य, * यच्छौचनिस्सृतसरित्प्रवरोदकेन तीर्थेन मूर्ध्नि विधृतेन शिवझिशवोऽभूदिति । उद्योगपर्वणि चैतदभिप्रायेण प्रोक्तम्-* अत्र गङ्गां महादेवः पतन्ती गगनाच्च्युताम् । प्रगृह्य प्रददौ लोके मानुषे ब्रह्मवित्तम इति । स्पष्टं चैतदीश्वरसंहितायामाराधकेन ब्रह्मणैवोक्तं * द्रवीभूतस्तदा धर्मो हरिभक्त्या महामुने । गृहीत्वा धर्मपानीयं पदं नाथस्य तुष्टये ॥ क्षालितं परया भक्त्या पाद्यार्थ्यादिभिरचितम् । तदम्बु परया भक्त्या दधार शिरसा हरः ॥ पावनार्थ जटामध्ये योग्योऽस्मीत्यवधारणात् । वर्षायुतान्यथ बहून्न मुमोच तथा हरः ॥ इति । यद्येवं गङ्गा पशुपतेरपि पावनी, तर्हि * भवाङ्गपतितं तोयं पवित्रमिति - पस्पृशुरित्येतत्कथम् ? इत्थम् ; अत्र हि स्वतः पवित्रत्वस्य व्याख्यानविभागे स्तोत्ररत्नभाष्यम्-श्लो. १४ ४७ . . । स्पष्टव्यताहेतुत्वमुच्यते, अश्रुतमनाकाङ्कितं चान्यसंसर्गस्य तत्पवित्रताहेतुत्वं कल्पयितुमयुक्तम् ; कल्प्यमानेऽपि ज्ञापक- हेतुत्वमात्रं कामं कल्प्यताम् । भवेन शिरसा धृतत्वात्पवित्रमिति ज्ञात्वा पस्पृशुरित्यर्थः । सामान्योक्त्या च भवस्यान्येषां च पवित्रत्वमभिप्रेतम् । अत एव * हरस्य गात्रसंस्पर्शात्पवित्रत्वमुपागतेत्यत्रापि हरस्य शुद्धिप्रदत्वमुपागतेति बोद्धव्यम् ॥१३॥ कस्योदरे हरविरिश्चमुखः प्रपञ्चः को रक्षतीममजनिष्ट च कस्य नाभः । क्रान्त्वा निगीर्य पुनरुद्गिरति त्वदन्यः कः ? केन वैप परवानिति शक्यशङ्कः ॥ एवं तत्तद्भक्तैः परत्वेन कल्पितयोः प्रजापतिपशुपत्योवृत्तान्तैस्तयोरनीश्वरत्वकर्मवश्यत्वादिकं भगवत एव सर्वेश्वरत्वं च दृढीकृतम् । अथ तयोस्तदन्येषां चानीश्वरतया संमतानामविशेषेण पारत-व्यसृज्यत्वसंहार्यत्वादिप्रदर्शकैम्तामसादिपुराणे- प्वपि प्रसिद्धतया सवलौकिकपरीक्षकसंमतैरशक्यापह्नवैराश्चर्यचेष्टितैः परावरतत्त्वविवेकं प्रतिष्ठापयति-कस्य इति ॥ प्राकृतप्रलयदशायां हरविरिश्चादिरूपेण स्रक्ष्यमाणश्चिदचिदात्मकः प्रपञ्चः कस्योदरे त्वदन्यस्य कस्यान्तस्सूक्ष्मतयाऽवस्थित इत्यर्थः । * यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः । मृत्युर्यस्योपसेचनं क इत्था वेद यत्र स इत्यत्रौदनोपसेचन- शब्दवत् , * ग्रसेत्संहारसमये जगत् स्थावरजङ्गमम् । लीलया यस्तु भगवान् तं गच्छ शरणं हरिमित्यत्र ग्रसनशब्दव- चात्रोदरशब्द औपचारिकः । उक्तं च विश्वप्रलयवेलायां भगवत एवावस्थानं सुबालोपनिपदि-*किं तदासीन्नैवेह किं चनाग्र आसीदमूलमनाधारमिमाः प्रजाः प्रजायन्ते दिव्यो देव एको नारायण इत्यादिभिः । महाभारते * ब्रह्मादिषु प्रलीनेषु नष्टे लोके चराचरे । आभूतसंप्लवे प्राप्ते प्रलीने प्रकृतौ महान् ॥ एकस्तिष्ठति विश्वात्मा स तु नारायणः प्रभुरिति । * कृष्ण एव हि लोकानामुत्पत्तिरपि चाप्यय इति च । श्रीवैष्णवे च पुराणे * प्रकृतिर्या मयाऽऽख्याता व्यक्ताव्यक्तस्वरूपिणी । पुरुषश्चाप्युभावेतौ लीयेते परमात्मनि ॥ परमात्मा च सर्वेपामाधारः परमेश्वरः । विष्णुनामा स वेदेषु वेदान्तेषु च गीयत इति । श्रीविष्णुधर्मोत्तरे च * ब्रह्मा शंभुस्तथैवार्कः चन्द्रमाश्च शतक्रतुः । एतदा- द्यास्तथैवान्ये युक्ता वैष्णवतेजसा ॥ जगत्कार्यावसानेषु वियुज्यन्ते च तेजसा । वितेजसश्च ते सवै पञ्चत्वमुपयान्ति चेति । अत्र * नारायणे प्रलीयन्त इति श्रुत्यादिप्रसिद्धेऽर्थे तात्पर्यम् । यद्वा महाप्रलयानन्तरं महदादिषूपसृष्टेषु स्रक्ष्यमा- णहरविरिश्चादीन् भगवता स्वविग्रहविशेषेऽन्तर्निधाय रक्षित्वा ततस्तेषां सृष्टिरत्रोच्यते । सृष्टेः पुरुषार्थशेषतया धर्मादि- पुरुषार्थस्य च स्थितिकालभावित्वात्तत्प्राधान्यविवक्षया क्रममुल्लङ्घयाह-को रक्षतीममिति । उक्तमिदं वैष्णवपुराणे-* न हि पालनसामर्थ्यमृते सर्वेश्वरं हरिम् । स्थितौ स्थितं महाप्राज्ञ ! भवत्यन्यस्य कस्य चित् ॥ सृजत्येष जगत्सृष्टौ स्थितौ पाति सनातनः । हन्ति चैवान्तकत्वे च रजस्सत्त्वादिसंश्रय इति । उतरश्रीरामायणे च ब्रह्मणोक्तं-* ततस्त्वमपि दुर्धर्षस्तस्माद्भावात्सनातनात् । रक्षार्थ सर्वभूतानां विष्णुत्वमुपजग्मिवानिति । * सोऽहं संन्यस्तभारो हि त्वामुपासे जगत्प- तिम् । रक्षां विधत्स्व भूतेषु मम तेजस्करो भवानिति च । एवं * न संपदां समाहारे विपशं विनिवर्तने । समथों दृश्यते कश्चित्तं विना पुरुषोत्तममित्यादीनि च द्रष्टव्यानि । अथ * बहु स्यां प्रजायेयेतीत्युक्तकमेण जनिहेतुत्वमाह- अजनिष्ट च कस्य नाभेरिति । श्रूयते हि महोपनिषदि-* सर्वस्यायतनं हरिमित्यारभ्य * यन्नाभिपद्मादभवन्महात्मा प्रजापतिर्विश्वसृद्धिश्वरूपः । तमेवं विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनायेति । आथर्वणे च * ब्रह्म वा इदमग्र आसीदित्युपक्रम्य * ब्रह्म बै ब्रह्माणं पुष्करेऽसृजदिति । एवम् * अजस्य नाभावध्येकमर्पितं यस्मिन्निदं विश्व भुवनमधिश्रितम् विश्वकर्मा ह्यजनिष्ट देवः, * स प्रजापतिरेकः पुष्करपणे समभवदित्यादिष्वपि भगवन्नाभेरेव प्रजा- ॥
श्रीमद्वेदान्तदेशिकग्रन्थमाला पतिसंभवोऽभिप्रेतः । उपबृंहणसिद्ध चैतत्-* अजस्य नाभावध्येकं यस्मिन् विश्वं प्रतिष्ठितम् । पुष्करं पुष्कराक्षस्य तस्मै पद्मात्मने नम इति । भृगुभरद्वाजसंवादे च-* ततस्तेजोमयं दिव्यं पद्म सृष्टं स्वयम्भुवा । तस्मात्पद्मात्समभवद्ब्रह्मा वेदमयो विधिरिति । स्थलान्तरे च-* नारायणो महायोगी शुभाशुभविवर्जितः । ससर्ज नाभिजं पुत्रं ब्रह्माणममितप्रभम् ॥ ततस्स प्रादुरभवदथैनं वाक्यमब्रवीत् । मम त्वं नाभितो जातः प्रजासंगकरः प्रभुः ॥ सृज प्रजास्त्वं विविधा ब्रह्मन् ! सजडपण्डिता इति । सभापर्वणि च-* अव्यक्तो व्यक्तलिङ्गस्थो य एष भगवान् प्रभुः । पुरा नारायणो देवस्स्वयम्भूः प्रपितामह इत्यारभ्य, * ततस्स भगवांस्तोये ब्रह्माणमसृजत्स्वयमिति । अत्रापि प्रलयार्णवमध्ये नाभेब्रह्माणमसृजदिति मन्तव्यम् । सुपर्णवैकुण्ठसंवादे च * यत्तत्पद्ममभूत्पूर्व तत्र ब्रह्मा व्यजायत । ब्रह्मणश्चापि सम्भूतः शिव इत्यवधार्यताम् ॥ शिवात्स्कन्दस्समभवदेतत्सृष्टिचतुष्टयमिति । मार्कण्डेयश्च-* स्वपतस्तस्य वै पद्म कोटिसूर्यसमप्रभम् । नाभेर्विनिस्सृतं तस्य तत्रोत्पन्नः पितामह इति । उत्तरश्रीरामायणे च-* सङ्क्षिप्य च पुरा लोकान् मायया स्वयमेव हि । महार्णवे शयानोऽप्सु मां त्वं पूर्वमजीजनः ॥ पद्मे दिव्येऽर्कसङ्काशे नाभ्यामुत्पाद्य मामपि । प्राजापत्यं त्वया कर्म सर्व मयि निवेशितमिति । श्रीवैष्णवे च पुराणे--* रक्षतु त्वामशेषाणां भूतानां प्रभवो हरिः । यस्य नाभिसमुद्भूतपङ्कजादभव- जगदिति । श्रीवाराहे चागस्त्यं प्रति रुद्रः-* नारायणः परो देवः सत्त्वरूपी जनार्दनः । त्रिधाऽऽत्मानं स भगवान् ससर्ज परमेश्वरः ॥ रजस्तमोभ्यां युक्तोऽभूत् रजस्सत्त्वाधिकं विभुम् । ससर्ज नाभीकमले ब्रह्माणं कमलासनम् ॥ रजसा तमसा युक्तं सोऽपि मामसृजत्प्रभुरिति । अत्र त्रिधाऽऽत्मानमित्येतत् स्वेन रूपेण क्षेत्रज्ञद्वयविशिष्टवेषेण चेति वहुप्रमाणानुसारेण मन्तव्यम् । रजस्तमोयोगश्च तद्गुणकद्रव्याधिष्ठातृत्वेन भवति । श्रीनारसिंहपुराणे * तत्र सुप्तस्य देवस्य नाभौ पद्ममभून्महत् । तस्मिन् पद्मे महाभाग ! वेदवेदाङ्गपारगः ॥ ब्रह्मोत्पन्नस्स तेनोक्तः प्रजास्सृज महा- मते ! । एवमुक्त्वा तिरोभावं गतो नारायणः प्रभुः । तथेत्युक्त्वा स तं देवं विष्णुं ब्रह्माऽथ चिन्तयन् । आस्ते किश्चिज्जगद्धतो ध्यगच्छत किंचन ॥ तावत्तस्य महारोषो ब्रह्मणोऽभून्महात्मनः । ततो बालम्समुत्पन्नस्तस्याके रोष- संभवः ॥ स रुदन्वारितस्तेन ब्रह्मणा व्यक्तमूर्तिना । नाम देहीति चेत्युक्तस्तस्य रुद्रेत्यसौ ददाविति । एवं * सृष्टा नारं तोयमन्तस्थितोऽहं येन स्यान्मे नाम नारायणेति । कल्पेकल्पे तत्र शयामि भूयः सुप्तस्य मे नाभि स्याद्यथाऽ- ब्जम् ॥ * तत्र सुप्तस्य मे देवि ! नाभौ पद्ममजायते त्यादीनि वचनानि द्रष्टव्यानि। नाभिरित्येतदुपलक्षणम् । मनःप्रभृति- भ्यो हि ब्रह्मणो जन्मषट्कं पूर्व प्रोच्यते । यथा हयशिरउपाख्याने * अहं प्रसादजस्तुप्यन् लोकधान्ने स्वयम्भुवे । त्वत्तो मे मानसं जन्म प्रथमं द्विजपूजितम् ॥ चाक्षुषं मे द्वितीयं वै आसीजन्म पुरातनम् । त्वत्प्रसादाच्च मे जन्म तृतीयं वाचिकं महत् ॥ त्वत्तो मे श्रावणं चापि चतुर्थ जन्म वै विभो ! । नासिक्यं चैव मे जन्म त्वत्तः पञ्चममुच्यते ॥ अण्डजं चापि मे जन्म त्वत्तप्षष्ठं विनिर्मितम् । इदं च सप्तमं जन्म पद्मजं मेऽमितप्रभ ! ॥ सर्गसगैऽप्यहं पुत्रस्तव त्रिगुणवर्जितेति । अत्रैवमण्डजसृष्टिः महोपनिषदि श्रूयते * एको ह वै नारायण आसीत् न ब्रह्मा नेशानो नेमे द्यावापृथिवी न नक्षत्राणि नापो नाग्निर्न सोमो न सूर्यः स एकाकी न रमेत तस्य ध्यानान्तस्स्थस्यैका कन्या दशेन्द्रि- याणि इत्यारभ्य * अथ पुनरेव नारायणस्सोऽन्य कामं मनसाऽध्यायत तस्य ध्यानान्तस्स्थस्य ललाटात्स्वेदोऽपतत् ता इमा आपस्तद्धिरण्मयमण्डमभवत् तत्र ब्रह्मा चतुर्मुखोऽजायतेति । अनन्तरं रुद्रोत्पत्तिश्चैवमभिधीयते-* अथ पुनरेव नारायणस्सोऽन्यं कामं मनसाऽध्यायत तस्य ध्यानान्तस्स्थस्य ललाटास्वेदोऽपतत् स्वेदाढुङदमभवत् बुद्बुदात् त्र्यक्ष- ॥
व्याख्यानविभागे स्तोत्ररत्नभाष्यम्-श्लो. १४ ४९ श्शूलपाणिः पुरुषोऽजायतेति । मोक्षधर्मे चोक्तम् * एष लोकगुरुर्ब्रह्मा जगदादिकरः प्रभुः । एष माता पिता चैव युष्माकं च पितामहः ॥ मयाऽनुशिष्टो भविता सर्वभूतवरप्रदः । अस्य चैवानुजो रुद्रो ललाटाद्यस्समुत्थितः ॥ ब्रह्मानु- शिष्टो भविता सोऽपि सर्ववरप्रद इति, * अथ तत्र सतस्तस्य चतुर्वक्रस्य धीमतः । ललाटप्रभवः पुत्रः शिव आगा- द्यदृच्छयेति । छन्दोगास्त्वामनन्ति-* विरूपाक्षाय दन्ताञ्जये तुथाय विश्ववेदसे सहस्राक्षाय ब्रह्मणः पुत्राय ज्येष्ठाय श्रेष्ठाय नमो घण्टाय कर्माधिपतये नम इति । शतपथे चाष्टमूर्तिबामणे प्रथमांशे-* संवत्सरे कुमारोऽजायत सो- डरोदीत् तं प्रजापतिरब्रवीत् कुमार! किं रोदिषि यच्च मम तपसोऽधिजातोऽसीति सोऽब्रवीत् अनपहतपाप्मा वा अहमस्मि हन्त नामानि मे देहीति तस्मात्पुत्रस्य जातस्य नाम कुर्यात् पाप्मानमेवास्य तदपहन्ति अपि द्वितीयम् अपि तृतीयम् अपि पूर्वमेवास्य तत्पाप्मानमपहन्ति तमब्रवीत् रुद्रोऽसीति तस्य तन्नामाकरोत् अनिस्तद्रूपमभवत् अनिर्वै रुद्रः यदरोदीत्तस्माद्रुद्र इत्यादि । सेयं श्रुतिर्भगवता पराशरेणोपबृंहिता-* कथितस्तामसस्सों ब्रह्मणस्ते महामुने! । रुद्रसर्ग प्रवक्ष्यामि तं मे निगदतः शृणु ॥ कल्पादावात्मनस्तुल्यं सुतं प्रध्यायतस्ततः । प्रादुरासीत्प्रभोरके कुमारो नीललो- हितः ॥ रुरोद सुस्वरं सोऽथ द्रवंश्च मुनिसत्तम! । कि रोदिपीति तं ब्रह्मा रुदन्तं प्रत्युवाच ह ॥ नाम देहीति तं सोऽथ प्रत्युवाच प्रजापतिः । रुद्रस्त्वं देवनाम्नाऽसि मा रोदीस्स्थैर्यमावह ॥ एवमुक्तः पुनस्सोऽथ प्रत्युवाच महातपाः । ततोऽन्यानि ददौ तस्मै सप्त नामानि स प्रभुः ॥ स्थानानि चैपामष्टानां पत्नीः पुत्रांश्च वै विभुरित्यादिना । मोक्षधर्म च ब्रह्मरुद्रसंवादे-* अहं ब्रह्मा चाद्य ईशः प्रजानां तस्माज्जातस्त्वं च मत्तः प्रसूतः । मत्तो जगज्जङ्गमस्थावरं च सर्वे वेदाम्सरहस्याश्च पुत्रेति ; निष्ठानिर्णयाध्याये च-* उमापतिः पशुपतिः श्रीकण्ठो ब्रह्मणस्युत इति । श्रीवाराहे च * नारायणः परो देवस्तस्माज्जालश्चतुर्मुखः । तस्माद्रुद्रोऽभवदेवि ! स च सर्वज्ञतां गत इति । एवं रुद्रस्य ब्रह्मानुजत्व- ब्रह्मपुत्रत्वे अपि कल्पभेदादुपपद्यते ॥ आप्तवाचोविरोधे स्यात्सृष्टिभेदादियं गतिः । अनिश्चिताप्तभावानां निश्चितैस्स्यादनादरः ॥ -- अथैवमेव परावरत्वविभाजकत्रिविक्रमब्यापारमाह-क्रान्त्वेति । अनेन * यस्योरुषु त्रिषु विक्रमणेषु । अधिक्षि- यन्ति भुवनानि विश्वेत्यादिप्रतिपादितं विग्रहमहत्त्वादिकं चतुर्मुखस्य तत्पदाराधकत्वं च सूच्यते । तदा ब्रह्मादिसर्वदेव- तानां मनुष्यादिवत् स्तोतृत्वं चोक्तं-* सङ्घस्युराणां दिवि भूतलस्थैरित्यादिना । अथवा क्रान्त्वेत्यनेन सर्वेषामन्तबहि- श्वावस्थाय यथार्ह तत्तत्कार्यार्थमाक्रमणं विवक्षितम् । अन्तर्यामिब्राह्मणे हि-* यः पृथिवीमन्तरो यमयति, * य आत्मानमन्तरो यमयतीत्यादिभिस्सर्वतत्त्वाधिष्ठातृत्वमुक्तम् । सुबालोपनिषदि च-* यः पृथिवीमन्तरे सञ्चरन्नित्यादि- भिस्स एवार्थ उक्तः ; अन्ते च विशेषितं * एप सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायण इति । अन्य- मपि निगरणादिकर्मीभूतब्रह्मरुद्राद्यशक्यमाश्चर्यव्यापारमाह-निगीर्य पुनरुद्गिरति त्वदन्यः क इति । यथोक्तं श्री- सात्वते-* त्यजन्तमाहरन्तं च श्वासोच्छ्रासद्वयेन च । आब्रह्मभवनं सर्व कर्मप्राधानिकं हि यदिति । उद्गिरतीति वर्तमाननिर्देशः क्वचित्कचित्कल्पे तथा प्रवृत्तिप्रवाहज्ञापनार्थः । तस्य यथापूर्वत्वद्योतनाय पुनश्शब्दः । एवं संहार्यत्व- संहर्तृत्वरक्ष्यत्वरक्षकत्वजन्यत्वजनकत्वाधिष्ठेयत्वाधिष्ठातृत्वादिवैधयेवगैरुक्तैश्च पुरुषनिर्णयादिषु प्रपञ्चितै तुभिः त्वदन्येषु कचिदपि स्वातन्त्र्यशङ्का च न स्यादिति निगमनाभिप्रायेणाह-केन वेति । त्वदन्येनेति विशेषणीयम् । वाशब्द- श्वकारार्थः ; अन्यस्य सर्वस्मात्परस्यात्यन्तासंभावितत्वद्योतनार्थों वा । मुक्तेषु नित्येषु च शक्तिभूयस्त्वेऽपि सर्वशरीरत्वादि- C-7 ५० श्रीमद्वेदान्तदेशिकग्रन्थमाला .. - लक्षणं स्वातन्त्र्यं नास्ति । किमुत क्षेत्रज्ञेषु हरविरिश्चादिष्वित्यभिप्रायेण निर्दिशति-एष इति । अत्र सवैषामाधारतय नियन्तृतया शेषितया चाधिकः परः । तद्वान् परवान् । प्रामाणिकानां दृढतरबहुप्रमाणसिद्धेऽथै तद्विपरीतशङ्काऽपि नोत्य- द्यत इत्यभिप्रायेणात्र शङ्काप्रतिक्षेपः । अथवा मन्दमतीनां श्रुत्यन्तरेषु परान्तरसद्भावशङ्कासंभवेऽपि पूर्वोक्तैरेव न्यायैस्त- निरासमभिप्रेत्य केनेत्यादिकमुच्यते । उपबृंहणैश्चैतत्सिद्धम् ; यथाऽऽश्वमेधिके श्रीवैष्णवधर्मशास्त्रे- *अनाश्रित्यो- च्छ्यो नास्ति मुख्यमाश्रयमाश्रयेत् । रुद्रं समाश्रिता देवा रुद्रो ब्रह्माणमाश्रितः ॥ ब्रह्मा मामाश्रितो राजन् ! नाहं कश्चि- दुपाश्रितः । ममाश्रयो न कश्चित्तु सर्वेषामाश्रयो ह्यहम् ॥ इदं रहस्यं कौन्तेय ! प्रोक्तवानहमव्ययमिति । श्रीहरिवंशे च देवान् प्रति रुद्रः-* एतदेव परं वस्तु नैतस्मात्परमस्ति वः । एवमेव विजानीध्वमेतद्वः परमं तप इति, * ओमित्येवं सदा विप्राः ! पठध्वं ध्यात केशवमिति, * उपास्योऽयं सदा विप्रा! उपायोऽस्मि हरेस्स्मृताविति च । श्रीवाराहे * रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च । सर्वे भवन्तं शरणं गतास्मः कुरुष्व पूज्यानिह विश्वमूर्ते ॥ इति । तत्रैव-* नारायणात्परो देवो न भूतो न भविष्यति । एतद्रहस्यं वेदानां पुराणानां च सत्तमम् ॥ इति । ब्राह्मे-* सर्वे विष्णुमया देवाः सर्वे विष्णुमया गगाः । न हि विष्णुसमा काचिद्गतिरन्या विधीयते ॥ इत्येवं सततं वेदा गायन्ते नात्र संशयः इति । आदित्यपुराणे ब्रह्मा-* अहं विष्णोस्तु संभूतः स च सर्वमयो हरिः । न तस्य परतो भूतं विद्यते यत्तदुत्तमम् ॥ पुराणेषु द्विजश्रेष्ठाः ! दशस्वष्टासु नान्यथेति । तत्रवै कालनेमिवधे रुद्रः- * योऽसौ साक्षाद्वेदमूर्तियत्र वेदाः प्रतिष्ठिताः । तं याम शरणं विष्णुं सर्वे सेन्द्रा दिवौकस इति ॥ १४ ॥ त्वां शीलरूपचरितैः परमप्रकृष्टसत्त्वेन सात्विकतया प्रबलैश्च शास्त्रैः । प्रख्यातदैवपरमार्थविदां मतैश्च नैवासुरप्रकृतयः प्रभवन्ति बोद्धुम् ।। १५ एवं चतुर्भिः पञ्चभिर्वा श्लोकैः प्रदर्शितं भगवत्परत्वं यदि प्रामाणिकम् , तर्हि श्रुतशास्त्रास्सर्वेऽपि किं तथा नाध्यवस्यन्ति ? कथं च लोके निरीश्वरवादस्त्रिमूर्तिसाम्यैक्यादिपक्षाश्च प्रादुःप्युः? इत्यत्र परेषां भगवत्प्रतिपत्त्यभावे हेतु- माह-त्वां शीलेति ॥ एतेन मूढान् प्रति शोचति, तन्मध्ये स्वस्य भगवदनुभवलाभात् प्रीयते च । त्वां-महद्भयोऽपि महीयस्त्वेन पूर्वोक्तम् । शीलमिह महत्तरस्यापि मन्दतरैस्सह नीरन्ध्रसंश्लेषः । रामकृष्णाद्यवतारेषु शबरीगोपालादिवृत्ता- तैस्तत्प्रसिद्धिः । तैरेव तत्रतत्र महत्त्वमपि सूच्यते । रूपम् * आदित्यवर्ण तमसः परस्तात् , * तस्य ह्येतस्य पुरुषस्य रूपं यथा माहारजनं वास इत्यादिप्वस्त्रभूषणाध्यायादिषु चाप्राकृतत्वेनाकर्महेतुत्वेन विश्वाधारतया शुभाश्रयत्वेन च प्रसिद्धम् । अत्र केषांचिद्भगवत्स्वरूपमेव वा तद्गुणभूतज्ञानबलादि वा परव्यूहादिरूपतया प्रकाशत इति पक्षस्तु तत्रतत्र पृथनिर्देशस्य बाधकाभावात् निर्विकारस्वनिरवयवत्वादिश्रुतिविरोधात् * पञ्चोपनिषन्मन्त्रविग्रहम् , * पाड्गुण्यविग्रहं देवमित्यादेरन्वयानर्हपदसमभिव्याहारस्य परस्परविरुद्धस्यान्यथैवोपपत्तेश्च निरस्तः । चरितानि क्रान्त्वेत्यादिना पूर्वोक्ता- न्यनुक्तानि च महार्णवनिममवसुन्धरोद्धरणामृतमथनप्रमुखान्यतिमानुषदैवतानि चेष्टितशतानि । परमप्रकृष्टसत्त्वेन-अधि- कोत्कृष्टसत्त्वगुणेनेत्यर्थः । ननु ब्रह्मादिप्वेव सत्त्वरजस्तमसां प्रत्येकमुत्तममध्यमाधमभेदेन नवधा गतिर्मनुनोक्ता । भग- वतस्तु-* सत्त्वादयो न सन्तीशे यत्र हि प्राकृता गुणा इति सत्त्वगुणोऽपि प्रतिषिद्वयते । तत्कथमिह तदुक्तिः ? इत्थम् ; क्षेत्रज्ञानां हि प्रकृष्टसत्त्वगुणसम्पत्तिः भगवत्कटाक्षाधीनेति प्रागेव प्रतिपादितम् । तदिह स्वप्रवत्यैन मोक्षोपयुक्तसत्त्वेने- त्यर्थः । अप्राकृतशुद्धसत्त्वसमाश्रयत्वं वा विवक्षितम् । तामसपुराणादीनां तत्त्वबोधकत्वं नास्तीत्यभिप्रायेणाह-सात्विक - ॥ व्याख्यानविभागे स्तोत्ररत्नभाष्यम्-श्लो. १५ ५१ तयेति । पौरुषेयशास्त्राणां स्वमूलभूतपुरुषगुणभेदेन सात्त्विकत्वादिव्यपदेशः । सत्त्वादीनां कार्यभेदश्च भगवतैव गीत:- * सत्त्वात् सञ्जायते ज्ञानं रजसो लोभ एव च । प्रमादमोहौ तमसो भवतोऽज्ञानमेव चेति । सात्त्विकराजसतामस- बुद्धिभेदश्च-* प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये । बन्धं मोक्षं च या वेत्ति बुद्धिस्सा पार्थ सात्त्विकी ॥ यया धर्ममधर्म च कार्य चाकार्यमेव च । अयथावत्प्रजानाति बुद्धिस्सा पार्थ राजसी ॥ अधर्म धर्ममिति या मन्यते तमसा वृता। सर्वार्थान् विपरीतांश्च बुद्धिस्सा पार्थ तामसीति श्लोकत्रयेणोक्तः । मनुश्च-* या वेदवाह्याः स्मृतयो याश्च काश्च कुदृष्टयः । सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि तास्स्मृता इति । पुराणेषु च सात्त्विकादिविभागो मात्स्ये प्रोक्त:- * सङ्कीर्णास्तामसाश्चैव राजसास्सात्त्विकास्तथा। कल्याश्चतुर्विधाः प्रोक्ता ब्रह्मणो दिवसात्यये ॥ यस्मिन् कल्पे तु यत्रोक्तं पुराणं ब्रह्मणा पुरा । तस्यतस्य तु माहात्म्यं तत्स्वरूपेण वर्ण्यते ॥ अग्नेश्शिवस्य माहात्म्यं तामसेपु प्रकीर्त्यते । राजसेषु च माहात्म्यमधिकं ब्रह्मणो विदुः ॥ सङ्कीर्णेषु सरस्वत्याः पितॄणां च निगद्यते । सात्त्विकेष्वथ कल्पेषु माहात्म्यमधिकं हरेः ॥ तेप्वेव योगसंसिद्धा गमिप्यन्ति परां गतिमिति । तस्मिन्नेव प्रदेशान्तरेऽपि-* सङ्कीर्णास्तामसाश्चैव राजसा- स्सात्त्विकास्तथा । कल्पाश्चतुर्विधाः प्रोक्ताः, * रजस्तमोमयास्तद्वत् त्रयस्त्रय उदाहृताः । सङ्कीर्णेषु सरस्वत्याः पितॄणां पुष्टिरुच्यते ॥ अग्नेश्शिवस्य माहात्म्य तामसेपु दिवाकृतः । राजसेषु च माहात्म्यमधिकं ब्रह्मणः स्मृतम् ॥ सात्त्विके- प्वधिकं तद्वद्विष्णोर्माहात्म्यमुच्यते । तेष्वेव योगसंसिद्धा गमिष्यन्ति परां गतिमिति । कौमें च-* असङ्ख्यातास्तथा कल्पा ब्रह्मविष्णुशिवात्मकाः । कथिता हि पुराणेषु मुनिभिः कालचिन्तकैः ॥ सात्त्विकेषु च कल्पेषु माहात्म्य- मधिकं हरेः । तामसेपु शिवस्योक्तं राजसेषु प्रजापतेरिति । तदिह सात्त्विकानि पुराणानि सत्त्वैकमूलतया कास्न्येनावि- प्लुतज्ञानानीति तेषां प्रावल्यम् । वेदविरुद्धस्तामसतन्त्रैः परत्वापहवः परावरतत्त्वविपर्यासादिकल्पनं च तर्कपादे निरस्तम् । यच्चेदं सात्त्विकपुराणादिविभागप्रकरणं, तत्सात्त्विकमेव मन्तव्यम् ; बाधकाभावात् गुणस्वभाववैचित्र्यात् परस्पर- विरुद्धार्थपुराणबलाबलविवेकापेक्षायां तब्यवस्थापकतयैव प्रवृत्तत्वाञ्च । एवं तामसेतिहासेऽपि तामसपुराणन्यायस्सञ्चारणीय इति । अत्र प्रबलैश्च शास्त्रैरिति प्राबल्योक्त्या बहुवचनेन चानन्यपरश्रुतिस्मृतीनां भारतरामायणादीतिहासानां च तदनु- गुणानां पाद्मवैष्णवभागवतनारदीयमार्कण्डेयवाराहवामनमात्स्यगारुडब्रह्माण्डनारसिंहादिपुराणानामन्योन्यसामरस्यमपि व्य- ज्यते । * अष्टाभिः कथ्यते विष्णुः दशभिः कथ्यते शिव इति वचनं त्वनाप्तं, दृश्यमानविरोधात् हिरण्यगर्भादि- प्रतिपादकपुराणविभागवचनैर्वाधाच्च । आस्तामेतत्सर्व ; * महाजनो येन गतस्स पन्था इत्युक्तमयत्ननिश्चयसाधनम् । तद्भगवत्पारम्यपक्षे सिद्धमित्याह-प्रख्यातेति । प्रबलैश्च शास्त्रैरित्यनेनैव गतार्थत्वेऽपि तदन्तर्गतसाभिसन्धिककतिपय- वाक्यविशेषमात्रेणापि परतत्त्वनिर्णयस्सुलभ इत्यभिप्रायेण महर्षिमतानां पृथगुपादानम् । प्रख्याताश्च ते दैवपरमार्थविद- श्चेति कर्मधारयः, प्रख्यातशब्देन वेदवैदिकपरिग्रहप्रकर्षादाप्ततमत्वं सूच्यते । दैवशब्द इह देवतार्थः, * न दैवं केशवात्परमितिवत् । परमार्थशब्दोऽत्र याथार्थ्यपरः, * देवतापारमार्थ्यं चेत्यादिप्रमाणसूचनार्थत्वात् । वक्तृणां तन्मतानां च भूयस्त्वव्यञ्जनाथमुभयत्र बहुवचनम् । तत्र तावत् पृथिवीश्रोत्रजन्मा पितामहदत्तवरो भगवान् वाल्मीकिराह- * स हि देवैरुदीर्णस्य रावणस्य वधार्थिभिः । अर्थितो मानुषे लोके जज्ञे विष्णुस्सनातनः, * अधिक मेनिरे विष्णुम् , * व्यक्तमेष महायोगी परमात्मा सनातन इत्यादि । * येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्यामित्यादिपूक्तं परं ब्रह्म त्वमेवेति रामावस्थं भगवन्तं प्रत्युच्यते * अक्षरं ब्रह्म सत्यं चेत्यादि । ब्रह्मलक्षणं १ ५२ श्रीमद्वेदान्तदेशिकग्रन्थमाला चाभिप्रेत्योक्तं-* त्वं त्रयाणां हि लोकानामादिकर्ता स्वयंप्रभुरिति । * जगत्सर्वं शरीरं त इत्यनेन घटकश्रुतीना मथों दर्शितः । * अहं ते हृदयं रामेति ब्रह्मणो वाक्यं * पुत्रो हि हृदयमिति श्रुतिप्रसिद्ध्या तस्य भगवत्पुत्र व्यनक्ति । उत्तरश्रीरामायणे च भगवतः परमकारणत्वं पितामहोत्पादकत्वं च प्रागेवोदाहृतम् । * कृष्णद्वैपाय व्यासं विद्धि नारायणं प्रभुम् । को ह्यन्यो भुवि मैत्रेय! महाभारतकृद्भवेदिति स्वपित्रा पराशरेणापि स्तुतः पञ्चमवेद- प्रणेता शारीरकसूत्रकारोऽप्याह-* कालस्य च हि मृत्योश्च जङ्गमस्थावरस्य च । ईशते भगवानेकस्सत्यमेतद्रवीमि ते, * कृष्ण एव हि लोकानामुत्पत्तिरपि चाप्ययः । कृष्णस्य हि कृते भूतमिदं विश्व चराचरम् , * ज्योतीपि शुक्लानि च यानि लोके त्रयो लोका लोकपालास्त्रयी च । त्रयोऽनयश्चाहुतयश्च पञ्च सर्वे देवा देवकीपुत्र एव, * तत्त्वं जिज्ञास- मानानां हेतुभिस्सर्वतोमुखैः । तत्त्वमेको महायोगी हरिनारायणः परः, * सत्यं सत्यं पुनस्सत्यमुद्धृत्य भुजमुच्यते । वेदाच्छास्त्रं परं नास्ति न देव केशवात्परम् , * आलोड्य सर्वशास्त्राणि विचार्य च पुनःपुनः । इदमेकं सुनिष्पन्नं ध्येयो नारायणस्सदेति । भगवद्गीतानुगीतादिभिर्मोक्षधर्मे च तैस्तैस्संवादै रैदम्पर्येण भगवत एव परत्वं प्रपश्चितम् । आश्वलायनेन सूत्रकृता * नमश्शौनकायेत्याचार्यत्वेनाभिवन्दितः श्रीशौनकोऽपि श्रीविष्णुधर्मे सर्वत्र भगवत्पारम्य प्राचिख्यपत् । मोक्षोपायविधाने चैवं त्याज्यमुपादेयं च व्यभजत्-* आब्रह्मम्तम्बपर्यन्तजगदन्तर्व्यवस्थिताः । प्राणिनः कर्मजनितसंसारवशवर्तिनः ॥ यतस्ततो न ते ध्याने ध्यानिनामुपकारकाः । अविद्यान्तर्गतास्सवे ते हि संसारगोचराः ।। पश्चादुद्धृतबोधाश्च ध्यानेनैवोपकारकाः । नैसर्गिको न वै बोधस्तेषामप्यन्यतो यतः ॥ तस्मात्तदमलं ब्रह्म निसर्गादेव बोधवत् । ध्येय ध्यानविदां सम्यक् तद्विष्णोः परमं पदमिति । तथा * श्रूयतां तु नरव्यात्र ! वेदवेदान्तनिश्चयः । यज्ञेशो यज्ञपुरुषः पुण्डरीकाक्षसंज्ञितः ॥ स विष्णुः परमं ब्रह्म यतो नावर्तते पुनरिति । भगवदर्चावतारमाहात्म्येऽप्येवमाह- * यादृशे तु मनःस्थैर्य रूपे बध्नाति चक्रिणः । नृसिंहवामनादीनां तादृशं कारयेद्बुधः ॥ सुरूपां प्रतिमां विष्णोः प्रसन्नवदनेक्षणाम् । कृत्वाऽऽत्मनः प्रीतिकरी सुवर्णरजतादिभिः ॥ तस्यां ब्रह्म समारोप्य मनसा तन्मयो भवेत् । तामर्चयेत्तां प्रणमत्तां यजेत्तां विचिन्तयेत् ॥ विशत्यपास्तदोपस्तु तामेव ब्रह्मरूपिणीमिति । अत्र प्रतिष्ठादिवशान्मुख्याव- ताररूपत्वं विवक्षितम् । उक्तं हि भगवच्छास्त्रे-* सर्वातिशायिषागुण्यं संस्थितं मन्त्रबिम्बयोः । तेनाच्यों भगवान् साक्षात् नोपचारधिया क्वचिदिति । जितन्तेस्तोत्रे च भगवत एव जगत्कारणत्वमोक्षप्रदत्वादिकं प्रादर्शयत् । * देवता- पारमार्थ्यं च यथावद्वेत्स्यते भवानिति । श्रीवैष्णवपुराणे पुलस्त्यवसिष्ठाभ्यां लैङ्गे च ब्रह्मणा दत्तवर इति प्रसिद्धः पराशरश्च-* विष्णोस्सकाशादुद्भुतं जगत्तत्रैव च स्थितम् । स्थितिसंयमकर्ताऽसौ जगतोऽस्य जगच्च स इति प्रधानप्रति- पाद्यं संगृह्य तदेव बहुधा स्थापयामास । * यद्वै किं च मनुरवददित्यादिप्रख्यातमनुबृहस्पतिदक्षादिवाक्यानि च पूर्व- मेवोपात्तानि। एतेषु मतेष्वेकैकमेव तत्त्वनिर्णयाय पर्याप्तम् ; किंपुनः पूर्वोक्तैश्शीलरूपादिभिः परस्परं च समुचितमित्यभि- प्रायेण मतैश्चैत्युक्तम् । आसुरी-तामसी प्रकृतियेषां ते आसुरप्रकृतयः, तामसप्रकृतित्वाद्वोढुं न शक्नुवन्तीत्यर्थः । आसुर- पदोपादानं * राक्षसीमासुरीं चेति सहोक्तोपलक्षणम् । दर्शितश्च दैवासुरसर्गविभागो भगवता-* द्वौ भूतसौ लोके- ऽस्मिन् दैव आसुर एव चेत्यादिना । उक्तं च शौनकेन-* द्विविधो भूतसोऽयं दैव आसुर एव च । विष्णुभक्ति- परो दैवो विपरीतस्तथाऽऽसुर इति । आदित्यपुराणे च-* देवानां च परो धर्मस्सदा यज्ञरताः क्रियाः । स्वाध्या- यस्तत्त्ववेदित्वं विष्णुपूजारतिस्तथा ॥ दैत्यानां बहुमानित्वं मात्सर्य सत्स्वसत्किया। निन्दनं वेदशास्त्राणां हरभक्ति- ॥
व्याख्यानविभागे स्तोत्ररत्नभाष्यम्-श्लो. १६ ५३ रनुत्तमेति । तथा * तस्मिन्नपि हरौ विप्र ! स्वबुद्ध्या ये न मोहिताः । कीर्तयिष्यन्ति ते देवा मन्तव्यास्त्वितरेऽसुराः । इति। बोद्भुमित्यत्र सर्वपरिबृढत्वेनेत्युपस्कार्यम् । न प्रभवन्तीत्यनेन तामसप्रकृतिपरवशत्वं व्यज्यते। अवधारणेन कालान्त- रेऽप्येतद्दढीक्रियते । उक्तं हि मनुना * यं तु कर्मणि यस्मिन् स न्ययुक्त प्रथमं विभुः । तदेव स पुनर्भेजे सृज्य- मानः पुनःपुनःरिति । महाभारते च * न गाथा गायिनं शास्ति बहु चेदपि गायति । प्रकृति यान्ति भूतानि कुलि- हुशकुनिर्यथेति, * जन्मान्तरसहस्रेषु या बुद्धिर्भाविता पुरा । तामेव भजते जन्तुरुपदेशो निरर्थक इति च । न हि शास्त्र सद्भिबहुल उपदिष्टे पटितेऽपि सत्त्वोत्कर्षनिमित्तभगवद्भक्तिरहितानां रावणदुर्योधनप्रभृतीनां तत्त्वाध्यवसायस्सम्पद्यते । यथाऽऽह सञ्जयः * विद्या राजन्न ते विद्या मम विद्या न हीयते । विद्याहीनस्तमोध्वस्तो नाभिजानासि केशवम् ॥ मायां न सेवे भद्रं ते न वृथा धर्ममाचरे । शुद्धभावं गतो भक्त्या शास्त्राद्वेद्मि जनार्दनमिति । न च जगत्यवोद्धार- स्सन्तीत्येतावता प्रमाणसिद्धार्थो न स्यात् , अन्यथा वा स्यादिति भावः ॥ १५ ॥ उलचितत्रिविधसीमसमातिशायिसंभावनं तव परिबढिमस्वभावम् । मायावलेन भवताऽपि निगुह्यमानं पश्यन्ति केचिदनिशं त्वदनन्यभावाः ॥ १६ अथ सर्वप्रतिपत्तभावनिवन्धनं चोद्य तत्सद्भावेन परिहरन् परसमृद्धिप्रयोजनतया सत्त्वस्थानां भगवदनुभवलाभेन सन्तुष्यति-उल्लचित्तेति ॥ यद्वा * त्रिभिर्गुणमयां वैरेभिस्सर्वमिदं जगत् । मोहितं नाभिजानाति मामेभ्यः परमव्यय- मिति सर्वैरवेद्यतया स्वनैवोक्तं भगवन्तं कथं केचिज्जानीयुरिति शङ्कायां तत्प्रबोधहेतुरिहोच्यते। पूर्वश्लोक परिजिहीर्षार्थ भगवत्तत्त्वावगमहेतुरुक्तः । अत्र तूपादित्सार्थ तज्ज्ञानकारणोक्तिः । सीमा–परिच्छित्तिः । सा चात्र देशतः कालतो विषयतश्च त्रिविधा । समश्चातिशायी च समातिशायिनौ । त्रिविधसीम्नस्समातिशायिनोश्च संभावनोल्लचिता येन तथोक्तः । अन्येषां हि प्रभुत्वं देशादिभिः परिच्छिन्नम् । अत एव समाधिकसंभावनायुक्तम् । तव-* सत्यं ज्ञानमनन्तं ब्रह्म, * न समोऽनेन कश्चन, अन तत्समश्चाभ्यधिकश्च दृश्यते, * न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यः, *नास्ति नारायण- समः इत्यादिप्रसिद्धस्य । परिबढिमस्वभावं प्रभुत्वरूपं यावत्स्वरूपभाविनं धर्मम् । * प्रभौ परिबृढ इति निपात्यते । मायावलेन गुणमयप्रकृतिसामर्थेन । श्रूयते हि * अस्मान्मायी सृजते विश्वमेतत्तस्मिश्चान्यो मायया सन्निरुद्धः, * मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरमिति । स्वयं चाह-*दैवी ह्येषा गुणमयी मम माया दुरत्ययेति । जितं ते- स्तोत्रेऽप्युक्तम् * अध्यक्षश्चानुमन्ता च गुणमायासमावृत इति । उक्तं च चतुःश्लोक्यां * यवनिका माया जगन्मोहि- नीति । यद्वाऽत्र मायाबलशब्देन स्वसाधारणाप्राकृतविग्रहे कर्मवश्यमत्स्यकूर्मादिसाजात्यभ्रमजनकशक्तिप्रकर्ष उच्यते । यथोक्तम् । अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् । परं भावमजानन्तो मम भूतमहेश्वरम् ।। ईशन्नपि महायोगी सर्वस्य जगतः प्रभुः । कर्माण्यारभते कर्तुं कीनाश इव दुर्बलः ॥ तेन वञ्चयते लोकान् .मायायोगेन केशवः ॥ इति । भगवताऽपि * आत्मानं मानुषं मन्ये रामं दशरथात्मजम् , * अहं वो बान्धवो जात इति स्ववाक्येनापि मोहयता सर्वज्ञेन सर्वशक्तिनाऽपीति भावः । भवताऽपि बलेनेति त्वबलमेव स्वबलमुपादाय त्वत्सेवायां प्रवृत्तास्त्वामपि स्ववशीकृत्य त्वत्तोऽपि बलीयांसो भवन्तीति भक्तानां प्रभावातिशयव्यञ्जनार्थोऽपिशब्दः । निगुह्यमानं नितरां प्रच्छाद्यमानम् । पश्यन्ति शास्त्रतः प्रथम विशदमवगच्छन्ति, पश्चाद्योगवलेन साक्षात्कुर्वन्ति च; यथाऽऽह सनत्सुजातः-* योगिनस्तं प्रपश्यन्ति भगवन्तं सना- ।
श्रीमद्वेदान्तदेशिकग्रन्थमाला तनमिति । केचिदिति दुर्लभत्वसूचनार्थम् । गीयते हि * स महात्मा सुदुर्लभ इति । श्रीपौष्करे च * दुर्लभा भगव- द्योगभाविनो भुवि मानवाः । तदर्शनात्तदालापात् सुलभं शाश्वतं पदमिति । अनिशं सर्वजनमोहने कलियुगेऽपीति भावः । उक्तं हि भगवता शौनकेन * कलौ कृतयुग तस्य कलिस्तस्य कृते युगे । यस्य चेतसि गोविन्दो हृदये यस्य नाच्युत इति । त्वदनन्यभावाः त्वदेकविषयचित्तवृत्तयः, प्रयोजनान्तरशरण्यान्तरत्यागिन इति भावः । श्रूयते * यत्त- दद्रेश्यमग्राह्यमित्यारभ्य * यद्धतयोनि परिपश्यन्ति धीराः, * ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यति निष्कलं ध्याय- मानः * नायमात्मा प्रवचनेन लभ्य इत्यारभ्य * तस्यैष आत्मा विवृणुते तनूं स्वां * तं दुर्दर्श गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम् । अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोको जहातीति । * एप सर्वेषु भूतेषु गूढोऽऽत्मा न प्रकाशते । दृश्यते त्वग्रयया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः-* स्वाध्यायश्चक्षुरुत एकमस्य योगो द्वितीयमभिवीक्षणाय । अध्ययन- मनननयनोऽस्य द्रष्टा न मांसचक्षुरभिवीक्षते तमिति । स्मयते च-* ये तमेव प्रपद्यन्ते न ते मुह्यन्ति मानवाः । * भक्त्या त्वनन्यया शक्यः अहमेवंविधोऽर्जुन ! । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तपेति ॥ १६ ॥ यदण्डमण्डान्तरगोचरं च यदशोत्तराण्यावरणानि यानि च । गुणाः प्रधानं पुरुषः परं पदं परात्परं ब्रह्म च ते विभूतयः ।। १७ उत्तप्रकार परिबृढत्वमनितरसाधारणविभूतिमहिम्ना स्थिरीकरोति यदण्डमिति ॥ यत् पितामहोत्पत्तिस्थानतया प्रसिद्धं चतुर्दशभुवनावरणहेमकटाहरूपमण्डम् । एकवचनमिह समुदायाभिप्रायम् । * अण्डानां तु सहस्राणां सहस्रा- ण्ययुतानि च । ईदृशानां तथा तत्र कोटिकोट्ययुतानि चेति पुराणोक्तेः । अण्डान्तरमेव गोचरो यस्य तदण्डान्तर- गोचरम् उदुम्बरमशकवत् अदृष्टबाह्यप्रदेशम् । अण्डाधिपतिप्रभृति चतुर्विधजन्तुजातं तद्भोग्यभोगोपकरणभोगस्थानादिकं च । दशोत्तराण्यावरणानि तोयप्रभृतीनि । उक्तं हि * दशोत्तरेण पयसा मैत्रेयाण्डं च तद्वतम् । सर्वोऽम्बुपरिधानोऽसौ वह्निना वेष्टितो बहिः ॥ वह्निश्च वायुना वायुमैत्रेय नभसा वृतः । भूतादिना नभस्सोऽपि महता परिवेष्टितः ॥ दशो- तराण्यशेषाणि मैत्रेयैतानि सप्त वै । महान्तं हि समावृत्य प्रधानं समुपस्थितम् ॥ अनन्तस्य न तस्यान्तस्सङ्ख्यानं चापि विद्यते । तदनन्तमसङ्ख्यातप्रमाणं चेति वै यतः ॥ हेतुभूतमशेपस्य प्रकृतिस्सा परा मुने ॥ इति । यच्छब्दानाभिह प्रतिनिर्देशो यथार्हमध्याहर्तव्यः । गुणाः बन्धकारणत्वेन चतुर्दशाध्याये गीताः सत्त्वादयः प्रकृतिधर्माः । अत्र गुणानां पृथगुक्त्या साम्यावस्थं गुणत्रयसेव प्रकृतिरिति साङ्ख्यमतं निरस्तम् । प्रधान महदादिविकाररहितस्त्रिगुणद्रव्यभागः । अण्डान्तरगोचरमिति क्षेत्रज्ञव्यष्टीनामप्युक्ततया पुरुषशब्द इह * दारुण्यग्निर्यथा तैलं तिले तद्वत्पुमानपि । प्रधानेऽव- स्थितो व्यापीत्यादिभिः प्रकृतिव्याप्तत्वेन प्रतिपादितं क्षेत्रज्ञसमुदायमाह । परं पदं पद्यत इति-पदं प्राप्यं स्थानान्तरेभ्यः परं पुनरावृत्तिरहितमप्राकृतं मुक्तिस्थानमित्यर्थः । श्रयते हि-* यो अस्याध्यक्षः परमे व्योमन् , * हिरण्मये परे लोके विरजं ब्रह्म निष्कलम् , * पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि, * ते ह नाकं महिमानस्सचन्ते यत्र पूर्व साध्या- स्सन्ति देवाः, * यथा पादोदरस्त्वचा विनिर्मुच्यते एवमिहैव स पाप्मना विनिर्मुक्तस्स सामभिरुन्नीयते ब्रह्मलोकम् , * विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः । सोऽध्वनः पारमामोति तद्विष्णोः परमं पदम् , * स खल्वेवं वर्तयन् याव- दायुपं ब्रहलोकमभिसंपद्यते न च पुनरावर्तते इत्यादि । महाभारते च-* रम्याणि कामचारीणि विमानानि सभा- स्तथा । आक्रीडा विविधा राजन् पद्मिन्यश्चामलोदकाः ॥ एते वै निरयास्तात स्थानस्य परमात्मन इति । अपुनरा- - %3- ५५ व्याख्यानविभागे स्तोत्ररत्नभाष्यम्-श्लो. १७ वृत्तिस्थानत्वं चोक्तं-* ज्ञानविज्ञानिनः केचित् परं पारं तितीर्षवः । अतीव तत्सदः पुण्यं पुण्याभिजनसेवितम् ॥ तत्र गत्वा न शोचन्ति न च्यवन्ति व्यथन्ति च ॥ इति । *ते तु तद्ब्रह्मणः स्थान प्राप्नुवन्तीह सात्त्विकाः । नैव ते स्वर्गमि- च्छन्ति न यजन्ति यशोधनाः ॥ सतां वर्मानुवर्तन्ते यथावलमहिंसया ॥ इति च । भगवन्तं प्रति च देवा ऊचुः *दिव्यं स्थानमजरं चाप्रमेयं दुर्विज्ञेयं चागमैग़म्यमाद्यम् । गच्छ प्रभो रक्ष चास्मान् प्रपन्नान् कल्पेकल्पे जायमानस्स्वमूत्यति । आरण्यपर्वणि च धर्मसुतं प्रति आप्टिंपेण आह-* यमाहुस्सर्वभूतानां प्रकृतेः प्रकृतिं ध्रुवाम् । अनादिनिधनं देवं प्रभु नारायणं हरिम् ।। ब्रह्मणस्सदनात्तस्य परस्थानं प्रकाश्यते । देवा हि यन्न पश्यन्ति दिव्य तेजोमयं पदम् ॥ अत्यर्कानलदीप्तं तत् स्थानं विष्णोर्महात्मनः । स्वयैव प्रभया राजन् दुष्प्रेक्षं देवदानवैः ॥ यतयस्तत्र गच्छन्ति देवं नारायणं हरिम् । परेण तपसा युक्ता भाविताः कर्मभिश्शुभैः ॥ योगसिद्धा महात्मानः तमोमोह विवर्जिताः ॥ तत्र गत्वा पुन में लोकमायान्ति भारत ॥ स्थानमेतन्महाराज ध्रुवमक्षरमव्ययम् । ईश्वरस्य सदा ह्येतत्प्राणमात्रं युधिष्ठिरेति । एतत् कार्यभगवल्लोकविषयमिति केचित् । अपुनरावृत्तिस्थानत्वाक्षय्यत्वादिव्यपदेशात् परमेव पदमित्यन्ये । युधिष्ठिरादिभ्य- रतत्प्रकाशनं तु * व्यासप्रसादाच्छतवानितिवदृषिप्रभावादुपपद्यते । शेषमप्यविरुद्ध नेयम् । याज्ञवल्क्यस्मृतौ चोक्तम् * ओङ्काररथमारुह्य मनः कृत्वा तु सारथिम् । ब्रह्मलोकपदान्वेषी याति विष्णोः परं पदमिति । अत्र स्थानवाचिनां शब्दानां परमात्मस्वरूपपरत्वप्रतिक्षेपायोक्तं पडर्थसङ्केथे *व्यतिरेकाधिकरणनिवासशब्दैरिति । अस्य च स्थानस्याप्राकृतत्वं * क्षयन्तमस्य रजसः पराके, * आदित्यवर्णं तमसः परस्तादिति रजस्तमोमयप्रकृतिसीमातिक्रान्तत्वश्रुत्या भगवच्छास्त्रैश्च सिद्धम् । प्रकृतरेवाक्षराख्यः परिणतिविशेषः ईश्वरस्य मुक्तानां नित्यानां च भोगस्थानमिति केचिद्वदन्ति । तन्निरासार्थ- मिह प्रधानपुरुषाभ्यां पश्चात् परमपदस्य पृथगुपादानम् । अयं च पक्षः * कालं स पचते तत्र न कालस्तत्र वै प्रभु- रित्यादिभिश्च निरस्तः । . . यच्चान्ये भगवत्स्वरूपमेव वा तस्य षाड्गुण्यं वा विचित्रशक्तिवशादिव्यलोकत्वेनावस्थितमित्याहुः, तदपि श्रुत्या- दिपु पृथगुक्तेर्बाधकाभावात् अन्यथा निर्विकारत्वश्रुतिविरोधप्रसङ्गाच निरस्तमित्यभिप्रायेण ते विभूतय इति प्रधानादि- साधारण्येन व्यतिरेकनिर्देशः । कचिद्विरुद्धनिर्देशास्तु यथार्हमुपचारेण नेतव्या इति । परात्परमित्यत्र पञ्चम्यन्तः परशब्दः प्रधानात्परतः क्षेत्रज्ञवर्गात्परभूतं मुक्तमाह । प्रथमान्तस्त्वनादिमुक्तजीवजातम् । यद्वा प्रकृतेः परात् क्षेत्रज्ञा- त्परमिति बद्धमुक्तनित्यजीवजातस्य सामान्येनोपादानम् । अत्र ब्रह्मशब्देन शुभाश्रयनित्यविग्रह उपचर्यते ; स्वरूपपरत्वो- क्तेरनौचित्यात् । इह तु * सालम्बनो महायोगः सबीजो यत्र संस्थिते । मनस्यव्याहते सम्यग्युञ्जतां जायते मुने ॥ स परस्सर्वशक्तीनां ब्रह्मणस्समनन्तरम् । मूर्तं ब्रह्म महाभाग सर्वब्रह्ममयो हरिरिति वैष्णवपुराणे प्रोक्तम् । चतुः- श्लोक्यां च-*मूर्त ब्रह्म ततोऽपि तत्प्रियतरं रूपं यदत्यद्भुतमिति । अत्र ब्रह्मशब्दोपचारनिमित्तं लोकोत्तरबृहत्त्ववृंहणत्वे । चकारेण दिव्यभूषणायुधादेरपि संग्रहः । ते सर्वान्तरात्मत्वेन विश्वपतित्वेन च श्रुतस्य । विभूतयः नियन्तव्याश्शेष- भूताश्च । एतेषु द्रव्याणां * न तदस्ति विना यत्स्यान्मया भूतं चराचरमित्युक्तापृथक्सिद्धिमत्तया शरीरत्वेन विभूतित्वम् , अद्रव्याणां तु व्यवहितप्रकारतया । हिरण्यगर्भादीनां तु विशेषतः । सृष्टयादित्रयोपयुक्तविभूतित्वं विभज्योक्तं वैष्णव- पुराणे-* ब्रह्मा दक्षादयः कालस्तथैवाखिलजन्तवः । विभूतयो हरेरेता जगतस्सृष्टिहेतवः ॥ विष्णुमन्वादयः कालः सर्व- भूतानि च द्विज । स्थितेनिमित्तभूतस्य विष्णोरेता विभूतयः ॥ रुद्रः कालान्तकाद्याश्च समस्ताश्चैव जन्तवः । चतुर्धा ५६ श्रीमद्वेदान्तदेशिकग्रन्थमाला प्रलयायैता जनार्दनविभूतयः ॥ इति । अत्र विष्णोरेव विष्णुविभूतित्वोक्तिर्विभूतिसजातीयस्वावताराभिप्राया । ते विभू- तय इत्यनेन त्वद्विभूतित्वं स्वाभाविकं त्वदितरविभूतित्वं त्वदिच्छायत्तम् ; तथा तद्वाराऽपि त्वद्विभूतित्व सिद्धमेवेति व्यज्यते ॥ १७ ॥ , ? वशी वदान्यो गुणवानृजुश्शुचिर्मुदुर्दयालुमधुरः स्थिरस्समः । कृती कृतज्ञस्त्वमसि स्वभावतस्समस्तकल्याणगुणामृतोदधिः ।। १८ एवं भगवतः परत्वं प्रपञ्चितम् । अनन्तरमाभिगामिकगुणमुखेन सौलभ्यमुच्यते-घशीति ॥ यद्रा विभूत्या- यमुक्तम् । अथात्र गुणानन्त्योक्तिः । वशः प्रभुत्वमायत्तत्वं वा, तद्वान वशी; तथा च नैघण्टुकाः * वशो जन- स्पृहायत्तेप्वायत्तत्वप्रभुत्वयोरिति । तत्र प्रभुत्वार्थः * सर्वस्य वशी सर्वस्येशानः, * जगहशे वर्ततेदं कृष्णस्य सचरा- चरमित्यादिपु प्रसिद्धः । तथा पूर्वश्लोके प्रोक्तं परिवृढत्वं गुणान्तरविधानार्थमन्द्यते । तस्मिन् सति हि वक्ष्यमाणगुणा भृशं शोभन्ते ? आयत्तत्वार्थे तु संश्रिताधीनतया सौलभ्यातिशयः कथ्यते । यथाऽऽह स्वयमेव * ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहमिति, * इमौ स्म मुनिशार्दूल ! किङ्करौ समुपस्थितौ इति च । पाण्डवदृतवार्थसारथि- त्यादिवृत्तान्ताः प्रसिद्धाः । वदान्यः * प्रियवाग्दानशीलश्च वदान्यः परिकीर्तितः, * अर्थिषु प्रियवादित्वम् , * उदाराम्सर्व गवैते, * स सर्वानर्थिनो दृष्टा समेत्य प्रतिनन्द्य चेत्यादिषु दृष्टम् । स्वात्मपर्यन्तसर्वस्वदानशीलत्वं च * य आत्मदा बलदाः, *एको बहूनां यो विदधाति कामान् , * एतद्धयेवाक्षरं ज्ञात्वा यो यदिच्छति तम्य तदित्यादिपृक्तम् । नाग्दश्च पुण्डरीकं प्रत्याह-* तस्मात्त्वमपि विप्रेन्द्र ! नारायणपरो भव । तदन्यः को महोदारः प्रार्थितं दातुमीश्वरः इति । उक्तं च श्री विष्णुधर्मे-*सकलफलप्रदो हि विष्णुरिति, *रत्नपर्वतमारुह्य यथा रत्नं नरो मुने ! । सत्त्वानुरूपमादत्ते तथा कृष्णा- मनोरथानिति च । इतिहासोत्तमे च *यथा कल्पद्रुमात्सर्वं प्राप्यते मानसेप्सितम् । तथा संप्राप्यते विष्णोरपि स्यादुर्लभं द्विजेति । स्वयमप्याह-* अश्वमेधसहस्राणां सहस्रं यस्समाचरेत् । नासौ पदमवामोति मद्भक्तैर्यदवाप्यते ॥ इति । गुणवान्-गुणशब्दोऽत्र न गुणसामान्यपरः, गुणविशेषमध्यपठितत्वात् ; समस्तकल्याणगुणामृतोदधिरिति निगमनेन चरितार्थत्वाच्च । अप्रधानविषयत्वं पारिभाषिकगुणपरत्वं सत्वादिगुणविशेपार्थत्वं चात्रासङ्गतमयुक्तं च । अत उचितः कश्चिद्गुणविशेषोऽत्र विवक्षितः । गुण्यत इति गुणः अभ्यसनीयः अनुकूलतमत्वेन शोलनीय इत्यर्थः । ईदृशत्वं च सौशील्यस्य गुणान्तरेभ्यस्समधिकम् । इदं च महतो मन्दैस्सह नीरन्ध्रसंश्लेषस्वभावत्वम् । तदेतद्गुहशबरीगोपालादि- वृत्तान्तेषु प्रसिद्धम् । ऋजुः-आश्रितेषु मनोवाक्कायवृत्तीनामेकरूपतया कौटिल्यरहितः । एतेन विश्वसनीयत्वं व्यज्यते । यथा चाह- * अप्यहं जीवितं जह्यां त्वां वा सीते सलक्ष्मणाम् । न तु प्रतिज्ञां संश्रित्य ब्राह्मणेभ्यो विशेषतः, * द्यौः पतेत्पृथिवो शीर्येत् हिमवान् शकलीभवत् । शुप्येत्तोयनिधिः कृष्णे ! न मे मोघं वचो भवेत् इति । आश्रितच्छन्दानुगुणाव- स्थानत्वं वा ऋजुत्वम् । शुचिः-अपहतपाप्मत्वादिगुणकः । भावशुद्धिर्वा विवक्षिता । सा चाश्रितरक्षणे प्रत्युपकारादिनिरपेक्षता, द्रव्य- तारतम्यानादरेण भक्तिमात्रप्रसाद्यत्वं वा । योच्यते-*भक्तैरण्वप्युपानीतं प्रेग्णा भूयैव मे भवेत् । भूर्यप्यभक्तोपहृतं ॥
व्याख्यानविभागे स्तोत्ररत्नभाष्यम्-श्लो. १८ ५७ उपादाय मैथिली- न मे तोषाय कल्पते ॥, * पृथिवीं रत्नसंपूर्णां यः कृष्णाय प्रयच्छति । तस्याप्यन्यमनस्कस्य सुलभो न जनार्दनः ।। अन्यत्पूर्णादपा कुम्भादन्यत्पादावनेजनात् । अन्यत्कुशलसंप्रश्नान्न चेच्छति जनार्दनः ॥ इति । पावनत्वं वा शुचित्वम् । यथा * पावनस्सर्वभूतानां त्वमेव रघुनन्दनः !, * पवित्राणां हि गोविन्दः पवित्रं परमुच्यते ; * पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् , * शुचिर्भवति संस्मृत्य स्नातो भवति दर्शनात् । प्रणिपातेन पूतात्मा त्रयः कृष्णे महागुणाः, * स्नातो वा यदि वाऽस्नातः शुचिर्वा यदिवाऽशुचिः । यस्स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरश्शुचिरिति । मृदुः-सापराधैरपि सहसाऽऽश्रयितुं शक्यः । यथोक्तं * विदितम्स हि धर्मज्ञः शरणागतवन्मलः । तेन मैत्रो भवतु ते यदि जीवितुमिच्छसि, * अराक्षसमिमं लोकं कर्तास्मि निशितैश्शरैः । न चेच्छरण: मिति । आश्रितविश्लेषासहत्वं वा मृदुत्वम् । तच्च वक्ष्यति- क्षणेऽपि ते यद्विरहोऽतिदुम् शासनप्रवृत्तस्यापि * सामोपहितया वाचेति क्रमेण सामप्रधानत्वं वा । दयालुः-स्वप्रयोजनान्तरमनपेक्ष्य परदुःखनिराकरणेच्छावान् । तदप्युच्यते * आनृशंस्यमनुक्रोशः श्रुतं शीलं दमश्शमः । राघवं शोभयन्त्येते पड्गुणाः पुरुषोत्तममित्यादिभिः । न चातिदुःखमयविषमसृष्ट्या नैर्घण्यादिदोषः- * वैषम्यनेण्ये न सापेक्षत्वात्तथा हि दर्शयतीति सूत्रकारैस्तत्प्रतिक्षेपात् । अन एव मोक्षोऽपि कस्यचित्कदाचिदुपपद्यते । मधुरः-* रसो वै सः, * आनन्दो ब्रह्म, * के ब्रह्म खं ब्रह्मेत्यादिप्रसिद्धनिरतिशयानन्दम्वरूपः । अत एवो- पायदशायामपि माधुर्यमुच्यते-* प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः, * कथयन्तश्च मां नित्यं तुप्यन्ति च रमन्ति च, * क नाकपृष्ठगमनं पुनरावृत्तिलक्षणम् । क जपो वासुदेवेति मुक्तिबोजमनुत्तममिति । वाचिकं कायिकं च वा माधुर्य, प्रियवादी च भूतानां सत्यवादी च राघवः, *सोमवत्प्रियदर्शनः, *रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणम् , * साक्षान्मन्मथमन्मथः इत्यादिषु प्रसिद्धम् । अत एव जिघांसावस्थायामपि हृद्यत्वं रक्तरुष्टयो प्मचैद्ययोः प्रसिद्धम् । स्थिर:-आश्रितापराधैन्तत्प्रदर्शकैरप्यक्षोभ्यः । यथाऽऽह सुग्रीवादीन् प्रति * मित्रभावेन संप्राप्तं न त्यजेयं कथंचन । दोषो यद्यपि तस्य म्यादिति । समः-जातिगुणवृत्तादिवैषम्यवतामपि शरण्यत्वे विशेपरहितः । श्रूयते हि * सर्वस्य शरणं मुहृदिति । स्मर्यते च * सर्वलोकशरण्याय, * सुहृदं सर्वभूतानाम् , * समोऽहं सर्वभूतेष्विति । कृती-स्वार्थकर्तव्यविशेषरहितः । तदाह-* न मे पार्थास्ति कर्तव्यमिति । यद्वा आश्रितरक्षणेन कृतकृत्यः । तदप्युक्तम्-* अभिपिच्येत्यारभ्य * कृतकृत्यस्तदेति । अथवा कृतमुपकारः, कृतज्ञ इत्यत्र तथा दृष्टेः ; तद्वान् कृती । धर्मप्रवर्तनार्थानुष्ठानवान् वा । द्वेधाऽपि विश्वोपकारकव्यापारवानित्यर्थः । आश्रितेषु विशेषनश्च गीयते * योगक्षेमं वहाम्यहम् , * ददामि बुद्धियोगं तमित्यादि । परैरुपकृतं जानातीति कृतज्ञः। उपकारलेशमपि बहुमन्यत इति तात्पर्यम् । तदुच्यते-* न स्मरत्यपकाराणां शतमप्यात्मवत्तया । कथंचिदुपकारेण कृतेनैकेन तुप्यतीति । स्वयं चाह-* गोविन्देति यदाक्रन्दकृष्णा मां दूर- वासिनम् । ऋणं प्रवृद्धमिव मे हृदयान्नापसर्पतीति । यदा कदाचित्स्वकृतमाश्रितप्रार्थनाभङ्गं प्राप्तावसरे तदपेक्षित- पूरणाय सानुशयो जानातीति कृतज्ञः । तदाह-* शिरसा याचतस्तस्य न कृतं वचनं मयेति । अत्र असीति मध्यम- पुरुषेणार्थसिद्धावप्यधिकेन वंशब्देन हेमारविन्दपरिमलन्यायात् गुणानां गुण्यधीनोत्कर्षस्सूच्यते । तदुक्तमभियुक्तैः . C-8 श्रीमद्वेदान्तदेशिकंग्रन्थमाला । * गुणायत्तमित्यारभ्य * गुणास्सत्यज्ञानप्रभृतय उत त्वद्गततया शुभीभूयं याता इति हि निरणैष्म श्रुतिवशादिति । असीति वर्तमानव्यपदेशः कालभेदेन स्वभावभेदशानिरासार्थः । स्वभावतः न तु पुण्यशेषविवर्तपरिणामैरि- त्याशयः । नित्यानां मुक्तानां च गुणास्त्वदधीनाः, तव तु न पराधीना इति भावः । श्रयते हि * स्वभाविकी ज्ञान- बलक्रिया चेति । त्वय्यविद्यमानः कश्चित्कल्याणगुणो नास्तीत्यभिप्रायेण सामान्यतस्संगृह्योपसंहरति-समस्तकल्याण- गुणामृतोदधिरिति । *समस्तकल्याणगुणात्मकोऽसौ तेजोबलैश्चर्यमहावबोध इत्यादिकमिहानुसन्धेयम् । अत्र कल्याण- गणशब्देन निर्गुणश्रुतीनामुत्सर्गापवादनीत्या हेयगुणविषयत्वसूचनात् कल्याणगुणकार्त्यवचनाच्च निर्गुणवादः परिमित- गवादश्च निरस्तः । * यथा रत्नानि जलधेरसंख्येयानि पुत्रक ! । तथा गुणा ह्यनन्तस्याप्यसंख्येया महात्मनः ।। इत्यादिकं सूचयता गुणामृतोदधिरित्यनेन गुणानामपरिच्छेद्यत्वं कात्स्न्येन भोग्यत्वं च व्यज्यते । ब्रह्मस्वरूपवत्तद्गुणाना- मपि भोग्यत्वं श्रूयते-* सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चितेति । * य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान् कामानिति दहरविद्योक्तन्यायात्कामशब्द इह कल्याणगुणपरः ॥ १८ ॥ उपर्युपर्यजभुवोऽपि पूरुषान्प्रकल्प्य ते ये शतमित्यनुक्रमात् । गिरस्त्वदेकैकगुणावधीप्सया सदा स्थिता नोद्यमतोऽतिशेरते ॥ १९ उक्तानामसंख्यातानां गुणानां प्रत्यकमनवधिकातिशयत्वमभिप्रेत्याह-उपर्युपरीति ॥ * उपर्यध्यधसस्सामीप्ये, * उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु । द्वितीयाऽऽनेडितान्तेषु ततोऽन्यत्रापि दृश्यत इत्यनुशासनात् अत्राब्ज- भुव इति द्वितीया । पञ्चमी त्वतसर्थप्रत्ययान्तोपरिशब्दयोगादत्रायुक्ता । षष्ठी चाम्राडितोपरिशब्दयुक्ते विशेषतो द्वितीया- विधानादिह न ग्राह्या । अब्जभुवः पूरुषानिति प्रक्लप्तिकर्मत्वेन सामानाधिकरण्यं वा । अब्जभूशब्देन * पृष्टः प्रोवाच भगवानब्जयोनिः पितामह इत्यादिप्रसिद्धमौत्पत्तिकवैभवं सूच्यते । एतेनानन्दवल्ल्यां प्रजापतिशब्दविवक्षितं व्याख्यातम् । अपिशब्दोऽसंभावितक्लप्तिद्योतकः । हिरण्यगर्भ सार्वभौममनुष्यस्थाने निवेश्य तत्प्रभृतींश्चतुर्मुखपर्यन्तानविद्यमानानपि पुरुषान् पूर्वपूर्वापेक्षया प्रकर्षेण कल्पयित्वेत्यर्थः । ते ये शतमित्यनुक्रमात् प्रत्यक्षश्रुतिपठितानुक्रमेणाविद्यमानासंख्यात- पाठपर्यायाभ्यूहं कृत्वेति भावः । गिर इत्यनेन यथावदर्थाभिधानसामर्थ्य सूच्यते । * ते ये शतमित्यांदिसमभिव्याहारा- द्वेदगिर इति विशेषस्सिध्यति । यद्यप्यानन्दवल्लयां * सैपाऽऽनन्दस्य मीमांसेत्यारभ्यानन्दाख्य एक एव गुणः परि- च्छेत्तुमशक्य इत्युक्तम् ; तथाऽपि * युवा स्यादित्यादिना गुणविभूतिप्रकर्षनिबन्धनम्यानन्दप्रकर्षस्योपक्रान्ततया परस्मिन्नपि ब्रह्मणि अनन्तगुणविभूतिनिबन्धनस्य तस्य विवक्षितत्वात् , तन्नान्तरीयकतया सर्वगुणानां निरवधिकत्वं सिध्यतीत्यभिप्राये- णाह-त्वकैकगुणावधीप्सयेति । अत्र गुणगुणिभेदव्यपदेशात् भगवत्स्वरूपेण भगवद्गुणानामभेदं वदन्तः प्रत्यु- ताः । सामानाधिकरण्यं तु धर्मर्मिभावादेवोपपद्यते । अन्यथा तन्मतेऽपि स्वयं निराचिकीर्षितनिर्गुणवादपरिशेषस्स्यात् । अपिशब्दम्पदा स्थिता' इत्यत्र वाऽन्वेति । सर्वदोद्युक्ता अपीत्यर्थः । यद्वा सदा स्थिता गिर इति नित्यतया वक्तृदोषो- ज्झितत्वं व्यज्यते । तदा प्रकल्प्यापि नोद्यमतोऽतिशेरत इत्यन्वयः । पुनःपुनरुपक्रमावस्थैव परिशिष्यत इति भावः । अत्र * तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यादित्यसंभावितकल्पनयैवोपक्रमः । अतस्समानन्यायतया तादृशकल्पना- प्रवाहेऽपि श्रुतेस्तात्पर्यमुन्नीतम् । पूर्व नारायणशब्देन संबोधित एवानन्दवल्लीस्थब्रह्मशब्दार्थतयाऽत्र त्वच्छब्देन निर्दिश्यते । * स यश्चाय पुरुषे यश्वासावादित्ये स एकः इति पुरुषवर्तिनस्सर्वान्तर्यामिणस्सवितृमण्डलमध्यवर्तिपुण्डरी- काक्षपुरुषेणैक्योपदेशश्चात्र विज्ञानमयादप्यर्थान्तरमानन्दमयं विश्वात्मानं नारायणमेव व्यनक्ति ॥ १९ ॥ ।
व्याख्यानविभागे स्तोत्ररत्नभाष्यम्-श्लो. २० त्वदाश्रितानां जगदद्भवस्थितिप्रणाशसंसारविमोचनादयः । भवन्ति लीला विधयश्च वैदिकास्त्वदीयगम्भीरमनोनुसारिणः ॥ २० नन्वेवंविधनिरतिशयानन्दस्य भगवतो न तावत्स्वार्थे जगद्व्यापारः, अपूर्णत्वप्रसङ्गात् । नापि परार्थः ; संसारस्य दुःखमयत्वादित्यत्र केनचिदाकारेणोभयार्थत्वं विश्वोपकारव्यापारानन्त्यं च वदन् पूर्वोक्तगुणप्रकर्षमेव स्थिरीकरोति- त्वदाश्रितानामिति ॥ त्वामाश्रितानां कृते तदभीष्टसिद्ध्यर्थं तद्भोग्यत्वार्थ चेति भावः । एतेन पूर्वोक्तापरिमितगुण- विभूतिवैभवस्य भोक्तृणामभावात् अरण्यचन्द्रिकात्वप्रसङ्गोऽपि निरस्तः । जगत्सृष्टेः भगवद्भतार्थत्वं च * सर्वेऽस्मै देवा बलिमावन्नि, * सर्व ह पश्यः पश्यति सर्वमानोति सर्वश इत्यादिश्रुतिभिरभिव्यज्यते । ज अतिप्रणाशशब्दाः णिजर्थमन्तर्भाव्य प्रयोजकव्यापारपराः । विश्वोपादानभूतस्य सर्वान्तर्यामिणो जगच्छरीरकः । त्पत्त्यादिकमेव बा विवक्षितम् । अत एव गात्रविक्षपरूपनृत्तवल्लीलात्वमपि घटते । तेन स्वार्थत्वमपि सिद्धम् । आदिशब्देनानुप्रवेशनिय- मनादिकमवतरणादिकं च गृह्यते । भवन्तीत्यनेन तादृशलीलाया उपपन्नत्वं प्रतिकल्पानुवृत्तत्वं च व्यञ्जितम् । अत्र तवेत्यध्याहर्तव्यम् । त्वदिति पदच्छेदेन त्वत्तो निमित्तोपादानभूताद्भवन्तीति वा योज्यम् । वैदिकाः विधयः वेदसंबन्धिनो विधिभागाः। त्वदीयगम्भीरमनोनुसारिणः-तवैव स्वेतरदुरवगाहाक्षोभ्यसङ्कल्पानुविधायिन इत्यर्थः । यथाऽऽह-* श्रुति- स्मृतिर्ममैवाज्ञेति । एते च त्वदाश्रितार्थाः । एवं वा योजना ; त्वदाश्रितानां चतुर्मुखमुखाश्चेति पूर्वोक्तानां ब्रह्मरुद्रादीना- मित्यर्थः । जगच्छब्द इह यथार्हमण्डान्तवर्तितत्तत्कार्यविशेषविषयः । एषां संसारविमोचकत्वं * शङ्करस्य तु यो भक्तः सप्तजन्मान्तरं नरः । तस्यैव तुःप्रसादेन विष्णुभक्तः प्रजायते । त्रिभिः प्रजापतेर्भक्तः सप्तभिश्शङ्करस्य तु । विंशत्या- ऽग्नीन्द्रसूर्यादेः विष्णुभक्तः प्रजायते । इत्यादिन्यायादनुग्रहोपदेशधर्मप्रवर्तनादिद्वारा स्यात् । लीलात्वोक्तिरिह तेषां भगव- दनुग्रहेण सृष्ट्यादेः प्रियत्वयुकरत्वसूचनार्था । त्वदाश्रितानामप्येवं, तव तु किं पुनरिति चाभिप्रेतम् । वैदिकविधीनां भगवदाश्रितमनोनुसारित्वं च * अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकित्सा वा स्यात् ये तत्र ब्राह्मणास्सम्मर्शिनः युक्ता आयुक्ताः अलक्षा धर्मकामास्स्युः यथा ते तत्र वर्तेरन् तथा तत्र वर्तेथाः अथाभ्याख्यातेपु ये तत्र ब्राह्मणा- स्सम्मर्शिनः युक्ता आयुक्ताः अलक्षा धर्मकामाम्म्युः यथा ते तेषु वर्तेरन् तथा तेषु वर्तेथाः एष आदेशः एष उपदेशः इत्यादिश्रुतिसिद्धम् । स्मयते च * श्रुतिस्मृतिस्सदाचारः, * वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदामिति विधिशब्द इह वैदिकानुष्ठानपरो वा । पूर्वयोजनायां च भगवता धर्मसंस्थापनार्थ क्रियमाणानि वैदिकधर्मानुष्ठानानि ग्राह्याणि । नन्विह भगवता परमसाम्यमापन्नानां मुक्तानां जगद्यापारादेरुक्तिः किं न गृह्यते ? उक्तं हि परमसंहितायां * केन रूपेण भिद्यन्ते मुक्तास्तव शरीरिणः । एतदाचक्ष्व मे देव ! गुह्याद्गुह्यतरं परमिति ब्रह्मणा पृष्टे प्रत्युक्तम्-- * अहमेव भवन्त्येते न भेदस्तत्र कश्चन । यथाऽहं विहराभ्येवं तथा मुक्ताश्च देहिनः इतीति । अतो मुक्तस्य भगव- दैक्यात् जगद्व्यापारादि स्यादिति । मैवम् ; तत्रापि * तव शरीरिण इत्यनूदितसर्वशरीरित्वानुगुणमैक्यव्यपदेशस्य श्रुति- स्मृतिसिद्धपरमसाम्यविवक्षया नेतव्यत्वात् । * रामसुग्रीवयो रैक्यमित्यादिन्यायाच्च । अन्यथा * यथाऽहं विहरामीत्यादिना दृष्टान्तदाान्तिकभावेन भेदव्यपदेशो न घटते । तदिह मुक्तानां विहारसाम्यवचनं * जक्षत् क्रीडन् रममाणः * सङ्कल्पादेवास्य पितरस्समुत्तिष्ठन्तीत्युपनिषदुक्तपरिच्छिन्नव्यापारविषयम् । तदेव हि तत्रान्तिमे पटले दर्शितं-*सायुज्यं ..
६० श्रीमद्वेदान्तदेशिकग्रन्थमाला प्रतिपन्ना ये तीवभक्तास्तपस्विनः । किङ्करा मम ते नित्यं भवन्ति निरुपद्रवाः इति । एवं मुक्तानां जगद्व्यापारे शक्ति- रस्ति तत्प्राप्तिनास्तीति पक्षोऽपि न विचारार्हः । न हि मुक्तानां सर्वशरीरित्वम् , अश्रुतत्वादनुपपतेश्च ; तदभावे कथं * बहु स्यामिति सङ्कल्पशक्तिः ; तथाविधशक्तिशालिनः तदप्राप्तिश्चात्र दुर्वचा । तथैव नित्यानामपि । उक्तं हि भाष्येऽनन्तपदव्याख्याने *'सातिशयस्वरूपा नित्या व्यावृत्ताः इति । अतो यथोक्त एवार्थः ॥ २० ॥ ॥ नमो नमो वाङ्मनसातिभूमये नमो नमो वाङ्मनसैकभूमये । नमो नमोऽनन्तमहाविभूतये नमो नमोऽनन्तदयैकसिन्धवे ॥ २१ एवं प्रतिपादितप्रकारेण निरुपाधिकस्वामिनि निरपेक्षस्वतन्त्रे निरवधिकसौलभ्ये भगवति स्वात्मनस्वरूपनिबन्धनं गुणकृतं च दासत्वमनुभवंस्तदुचितां वृत्तिमप्याचरति-नमोनम इति ॥ नमस्कारप्रकरणे च नमश्शब्द एवं निरुच्यते- * याः काश्चन कृतयो मम भगवति । न मम ममताऽस्ति तासु । भगवत एव ताः । अममोऽहं भगवति । अहमपि न मम । भगवत एवाहमस्मीत्येवमममतां योजयत्यतो नमः-इति । इमसेवार्थमभिप्रेत्योक्तं महाभारते * व्याक्षरस्तु भवे- मृत्युस्त्यक्षरं ब्रह्मणः पदम् । ममेति ब्यक्षरो मृत्युः न ममेति च शाश्वतमिति । नमस्कारप्रभावश्च श्रीविष्णुधर्मादिषु प्रसिद्धः । यथा-* प्रणम्य कृष्णं सहसा पांमुक्लिष्टे महीतले । निष्कल्मपो भवेत्सद्या ललाटे पांयुमण्डनात् ॥ दुर्ग- संसारकान्तारमपारमभिधावताम् । एकः कृष्णनमस्कारो मुक्तितोरस्य देशिकः ।। *एकोऽपि कृष्णे सुकृतः प्रणामो दशा- श्वमेधावभृथेन तुल्यः । दशाश्वमेधी पुनरेति जन्म कृष्णप्रणामो न पुनर्भवाय ॥ * अतसीगुच्छ सङ्काशं पीतवाससमच्यु- तम् । ये नमस्यन्ति गोविन्दं न तेषां विद्यते भयम् ।। *नमस्कारः कृतो यज्ञः सर्वयज्ञोत्तमो मतः । नमस्कृत्य महायज्ञ- मश्वमेधफलं लभेत् ॥ *प्रणम्य दण्डवभूमौ नमस्कारेण योऽर्चयेत् । स यां. गतिमवामौति त तां ऋतुशतैरपि ॥ *नम इत्येव यो व्यान्मद्भक्तरश्रद्धयाऽन्वितः । तम्याक्षयो भवेल्लोकः श्वपाकस्यापि नारद !, * हरिममरगणार्चिताचिपमं प्रण- मति यः परमार्थतो मनुष्यः । तमपगतसमस्तपापबन्धं व्रज परिहत्य यथाऽग्निमाज्यसिक्तम् , * एको बहूनि दुरितानि सुदुस्तराणि भक्त्या प्रयुक्त इव चक्रधरे प्रणाम इत्यादिभिः । अत्र नमश्शब्दम्य वीप्सा पुनःपुनरावृत्तिश्च *नित्याञ्जलि- पुटा हृष्टा नम इत्येव वादिनः इतिवत् परत्वसौलभ्यानुवन्धिविभूतिगुणानन्त्यानुभवजनितभक्तिपकर्ष व्यनक्ति । श्रुत्यादिपु चैवं वीप्सादिकं दृश्यते । आहुश्च * प्रशंसायां प्रतिज्ञायां प्रलापे तर्जनेऽपि च । भये च विजये चैव पौनःपुन्यमलं- कृतिः इति । वाङ्मनमातिभृमय इत्यादिषु चतुर्वपि पूर्वापरसंबुद्ध्यादिसामर्थ्यात्तुभ्यमिति लभ्यते । अतिभूमये अतिक्रान्तभूमय इत्यर्थः । * यतो वाचो निवर्तन्ते अप्राप्य मनसा सह, * यद्वाचाऽनभ्युदितमित्यादिप्वभिप्रेतं परमयो- गिनामपि वाङ्मनसाभ्यामपरिच्छेद्यत्वमिह विवक्षितम् । कुदृष्टिसंमतात्यन्तागोचरत्वविवक्षायां श्रुप्यन्तरस्ववचनादिविरोध- मभिप्रेत्याह-वाङ्मनसैकममय इति । श्रयते हि * सर्वे वेदा यत्पदमामनन्ति, * सर्वे वेदा यत्रैकं भवन्तीति । स्मयते च * वेदैश्च सर्वैरहमेव वेद्य इति * नतास्म सर्ववचसां प्रतिष्ठा यत्र शाश्वतीति च । यद्वा स्वप्रसादभाजां गोपगोपि- कादीनामपि वाङ्मनसयोरेकविषयभूतायेत्यर्थः । विषयान्तरवैमुख्यव्यञ्जनार्थमेकपदम् । उक्तं वाङ्मनसातिभूमित्वं स्थाप- यति-अनन्तमहाविभृतय इति । अनन्ता अनवधिका अत एव ब्रह्मादिविभूतिभ्योऽपि महती विभूतिर्यस्य स तथोक्तः । * नेति नेति इत्यादिनिषेधस्तु * प्रकृतैतावत्त्वं हि प्रतिषेधतीति सूत्रितम् । विभूतिप्रकर्षवचनं पूर्वोक्तगुणप्रकर्षस्योपल- क्षणम् । अनन्तदयैकसिन्धव इत्यनेन वा सर्वगुणप्रकर्षोपलक्षणम् । दयानन्त्यमाश्रितानां वामनसैकभूमित्वे हेतुः । * - व्याख्यानविभागे स्तोत्ररत्नभाष्यम्-श्लो. २२ अक्षोभ्यत्वादिविवक्षया सिन्धुशब्दः । स्वभावतस्तावत् दयाया एवासावाश्रयः । एतस्य दैत्यादिनिग्रहीतृत्वमप्याश्रितेषु दयातिशयात् तद्रक्षणविश्रान्तमिति भावः । तदेवमत्र चतुर्थ्यन्तैः प्रागुक्तपरत्वसौलभ्यनिगमनं प्राप्यत्वशरण्यत्वसंग्रहश्च । अत्र नमश्शब्देन वक्ष्यमाणानन्यप्रयोजनप्रपत्त्यधिकारिणः [प्राप्य प्राप्तुः परशेषतैकरसस्य तदधीनस्वरूपादिशोधनमपि सिध्यति ॥ अधिकारे प्रपित्सूनामुपायोत्तरकृत्ययोः । फले च पारतन्त्र्यादि बोध्यमत्र नमोष्टके ।। किंच सर्वत्र निवृत्तिधर्मसाधारणापेक्षितं तत्त्वज्ञानं निर्ममत्वं च चतुर्थयन्तैनमोभिश्च स्थिरीक्रियते । अनुकूलाभि- सन्धिः प्रतिकूलनिवृत्तिश्चात्र दृश्यत इति तन्मुखेन तदनिका शरणागतिरप्युपक्षिप्ता भवति । वा भरन्यासरूपा प्रपत्तिरेवात्र नम इति संग्रहेण प्रस्तूयते । आवृत्तिरिह * सत्यं सत्यं पुनस्सत्यमुद्भत्य भुजमुन् पादिवदुक्तस्थिरी- करणार्था । नमश्शब्दस्य शरणागतिविपयत्वं दमयन्तीवृत्तान्त व्यक्तं-*शरणं प्रति देवानां मान.. ममन्यतेत्युक्तेऽर्थे * वाचा च मनसा चैव नमस्कारं प्रयुज्य सेत्यभिधानात् । तथा * सर्वेषामेव लोकानां पिता माता च माधवः । गच्छध्वमेनं शरणं शरण्यं पुरुषर्षभाः ! इति मार्कण्डयोक्तशरणागतिविषयश्च नमश्शब्दः प्रयुज्यते-* एवमुक्तास्त्रयः पार्था यमौ च भरतर्षभाः । द्रौपद्या सहितास्सर्वे नमश्चक्रुर्जनार्दनमिति । एतत्प्राशस्त्यं च ववचा आमनन्ति * यस्स- मिधो य आहुतयो वेदेन ददाश मत्यो अग्नये यो नमसा स स्वध्वर इति । उपबृंहितं चैतदहिर्बुध्न्येन * समित्साधन- कादीनां यज्ञानां न्यासमात्मनः । नमसा याऽकरोदेवे स स्वब्बर इसारित इति । यद्वा स्वाधीनस्वार्थकतत्वभोक्तृत्व- भ्रमरहिततया प्रार्थयिष्यमाणपरमफल पक्षेपार्थोऽयं नमश्शब्दः । अत्र भववित्यध्याहार्यम् । उपायप्रयोगात्पूर्वमेव हि फलार्थित्वम् ? एतदुपजीवनेनानन्तरश्लोके फलं न कण्ठोक्तम् । अत्र वावृत्तिस्तीत्रभक्त्या त्वरातिशयं नित्यानुवृत्ति च व्यनक्ति ॥ २१॥ न धर्मनिष्टोऽस्मि न चान्मवेदी न भक्तिमांस्त्वञ्चरणारविन्दे । अकिञ्चनोऽनन्यगतिश्शरण्य त्वत्पादमूलं शरणं प्रपद्ये ॥ २२ एवं प्राप्यस्य शरण्यस्य प्राप्तुश्च शरणार्थिनः स्वरूपादिषु भगवता प्रकाशितेषु तद्विश्लेषमसहमानस्तस्मिन्नेव स्वरूपानुरूपपुरुषार्थविरोधिनिवृत्त्यर्थ स्वाधिकारोचितां प्रपत्ति विशदं प्रयुङ्क्ते-न धर्मेति ॥ धर्मे निष्ठा स्थितिर्यस्य स धर्मनिष्ठः ; धर्मरूपा निष्ठा यस्येति वा धौ नितिष्ठतीति वा । अहं धर्मनिष्ठो नामि यथावस्थितकर्मयोगतत्परिकरानह इत्यर्थः । अत एव न चात्मवेदी न परिशुद्धात्मवेदनशोलः । ज्ञानयोगरूपं तदपेक्षितं वा पुष्कलं ज्ञानं मे नास्ती- त्यर्थः । तदुभयाभावादेव न भक्तिमान् * भक्त्या त्वनन्यया शक्य इत्यादिषूक्ता भक्तिमें न विद्यते । अत्र * शरणं त्वां प्रपन्ना ये ध्यानयोगविवर्जिताः । तेऽपि मृत्युमतिक्रम्य यान्ति तद्वैष्णवं पदमिति ब्राह्मवचनमनुसन्धेयम् । त्वच्चर- णारविन्द इत्यनेन पवित्रत्वभोग्यत्वे व्यज्यते। अत्रायं क्रमः-शास्त्रार्थतत्त्वज्ञानतः कर्मयोगः, तेन जितस्वान्तस्य परि- शुद्धात्मभावनारूपो ज्ञानयोगः । तद्वारा वा साक्षात्कर्मयोगेनैव वा आत्मावलोकनम् ; तेन लब्धाधिकारस्य भक्तियोगः; ततस्तत्प्राप्तिरिति । अस्मिन् जन्मनि कर्मयोगाभावेऽपि पूर्वजन्मकृतेन ज्ञानयोगस्स्यात् । इदानीं तदुभयाभावेऽपि * जन्मान्तर- सहस्रष्वित्यादिप्रतिपादितक्रमेण भक्तियोगस्स्यादित्युत्तरोत्तरनिषेध इत्यपि गमनिका । एवमनन्यसाधनोऽहमित्यभि- प्रायेणाह-अकिञ्चन इति । यद्वा कर्मयोगादिहेतुभूनगुणक्रियादिसंपादनदौकर्याभिप्रायेणाकिञ्चनत्वोक्तिः । ईदृशस्य .. । .. ।
, - ६२ श्रीमद्वेदान्तदेशिकग्रन्थमाला ते किं मया ? शरण्यान्तरं प्रयोजनान्तरं वा परिगृह्यतामित्यत आह-अनन्यगतिरिति । शरण्यान्तरप्राप्यान्तररहित इत्यर्थः । उभयत्र हेतुमभिप्रेत्याह-शरण्य त्वत्पादमूलमिति । शरण्येति संबुद्धया * मामेकं शरणं व्रज, * मामेक- मेव शरणमात्मानं सर्वदेहिनाम् । याहि सर्वात्मभावेन यास्यसि ह्यकुतोभयमिति स्ववाक्यानि सूच्यन्ते । तथा * सर्व- लोकशरण्याय, * शरण्यं शरणं च त्वामाहुर्दिव्या महर्षयः इत्याद्यपि । तथा लैङ्गेऽपि * य एकः पुरुषश्रेष्ठः परमात्मा सनातनः । यस्माद्ब्रह्मा ततस्सर्व तमाश्रित्यैव मुच्यत इति । पुराणसारसमुच्चये च * नान्यं देवमुपासीत विष्णोः परमकारणात् । मायामुत्तर्तुकामो वै मायी यो देवतागणः ॥ न चान्यज्ज्ञानकर्मभ्यां नान्यभक्त्या परं पदम् । प्राप्नोति पुरुषस्तस्मात् तमेव शरणं व्रजेदिति । सङ्कर्षणसंहितायां च * सर्वधर्मान् परित्यज्य तमेव शरणं व्रजेत् । भगवन्तं वासुदेवं परानन्दविभूतिदमिति । जयाख्यसंहितायां च * तमेव सर्वभावेन प्रयाहि त्वं महामुने!, * अन्यत्सर्वं परि- त्यज्य तमेवं शरणं व्रजेदिति । विष्वक्सेनसंहितायां च * सर्वधर्मान् सर्वकामानैहिकामुष्मिकानपि । सन्त्यज्य विधिना नित्यं षड्डियां शरणागतिम् । आचार्यानुज्ञया कुर्याच्छास्त्रदृष्टेन वर्मनेति । *कालेष्वपि च सर्वेष्वित्यादि प्रसिद्धम् । ततो- ऽन्यत्र सर्वत्र भयातिशयं व्यञ्जयितुं त्वत्पादमूलमित्युक्तम् । परमप्राप्यस्य तवैव पादमूलं प्रविष्टानामेवापुनरावृत्तिः । अत- स्तद्धारणं मे फलमित्यपि सूच्यते । अनन्यगतिरित्येतत्सामर्थ्याच्च तत्सिद्धिः । *मुमुक्षुर्वे शरणमहं प्रपद्य इतिश्रुत्युक्तमाह- शरणं प्रपद्य इति । एतावता स्वनिष्ठावचनेन मन्त्रे पूर्वखण्डश्शब्दतोऽर्थतश्च दर्शितः । प्रपत्तिप्रकरणे शरणशब्द उपायपर इत्यहिर्बुध्यसंहितायामुक्तम्-* उपाये गृहरक्षित्रोश्शब्दश्शरणमित्ययम् । वर्तते सांप्रतन्त्वेष उपायार्थंकवाचक इति । प्रपत्तिप्रयोगश्चैवं प्रदर्शितः-* अहमस्म्यपराधानामालयोऽकिञ्चनोऽगतिः । त्वमेवोपायभूतो मे भवेति प्रार्थना- मतिः । शरणागतिरित्युक्ता सा देवेऽस्मिन् प्रयुज्यतामिति । तन्माहात्म्यं चै प्रकाशितम्-* अनेनैवं प्रपन्नस्य भगवन्तं सनातनम् । तस्यानुबन्धाः पाप्मानः सर्वे नश्यन्ति तत्क्षणात् ॥ कृतान्यनेन सर्वाणि तपांसि तपतां वर ! । सर्वतीर्थास्सर्वयज्ञासर्वदानानि तत्क्षणात् ॥ कृतान्यनेन मोक्षश्च तस्य हस्ते न संशय इति । सकलफलसाधन- त्वं चोक्तं-* यद्येन कामकामेन न साध्यं साधनान्तरैः । मुमुक्षुणा यत्साहयेन योगेन न च भक्तितः ॥ प्राप्यते परमं धाम यतो नावर्तते यतिः । तेनतेनाप्यते तत्तन्न्यासेनैव महामुने ! ॥ परमात्मा च तेनैव साध्यते पुरुषोत्तम इति । अत्र * अनन्यसाध्ये स्वाभीष्टे महाविश्वासपूर्वकम् । तदेकोपायता याच्या प्रपत्तिश्शरणागतिरिति भरतमुनिप्रणीतं लक्षणमपि सुसङ्गतम् । इह चानन्यसाध्य इति प्रपत्तव्यव्यतिरिक्तेन स्वेनान्येन चासाध्यत्वं प्रपत्तव्यस्य साध्यत्वं च विवक्षितम् । स्वाभीष्ट इति सुखस्य दुःखनिवृत्तेः तत्साधनानां च संग्रहः । तत्र प्रमाणविरुद्धं न फलम् । शरण्य- विरुद्ध चानुकूल्यसङ्कल्पादिना न सङ्गच्छते । स्वाधिकारविरुद्धं तु निपुणस्य स्वाभीष्ट इत्यनेन निरस्तम् । उपायलाघ- वादिभिरकम्पनीयो विश्वासो महाविश्वासः । तदेकोपायताशब्देन पश्चात् स्वयत्ननरपेक्ष्यं च व्यज्यते, प्रपत्तिश्शारणागति- रिति पर्यायपाठः । * आनुकूल्यस्य सङ्कल्प इत्यादौ तु पाडिन्योक्तिरङ्गाङ्गिसमुच्चयाभिप्राया । * षडङ्गं तमुपायं चेत्यत्र षडङ्गत्वोक्तिरष्टाङ्गयोगव्यपदेशवत् । अन्यथा * निक्षेपापरपर्यायो न्यासः पञ्चाङ्गसंयुतः । प्रपत्तिं तां प्रयुञ्जीत स्वाहैः पञ्चभिरावृतामित्यादिभिर्विरोधप्रसङ्गात् । * शाश्वती मम संसिद्धिरियं प्रह्वीभवामि यत् । पुरुषं परमुद्दिश्य न मे सिद्धिरितोऽन्यथा ॥ इत्यङ्गमुदितं श्रेष्ठं फलेप्सा तद्विरोधिनीत्यहिर्बुध्न्योक्तमङ्गान्तरं तु निश्रेयसार्थप्रपत्तिनियतम् । भङ्गिनश्चात्र भरन्यासरूपत्वम् * आत्मात्मीयभरन्यांसो ह्यात्मनिक्षेप उच्यत इति निर्धारितम् । तदिह पूर्वश्लोकस्थनमः- प्रयोगेणानुकूल्यसङ्कल्पप्रातिकूल्यवर्जने दर्शिते । न धर्मनिष्ठ इत्यादिभिरकिञ्चनाधिकारत्वं कार्पण्यरूपमङ्गं च । रक्षि- ॥ ।
६३ व्याख्यानविभागे स्तोत्ररत्नभाष्यम्--लो. २३ प्यतीति विश्वासस्तु शरण्येति संबुद्ध्या व्यज्यते । रक्षणसमर्थः कारुणिकश्च शरण्यः । स च प्रपन्नं मां रक्षिष्यतीति विनम्भणीयः । सोपसर्गधातुविशेषश्चात्राध्यवसायवैशिष्ट्यं व्यनक्ति । त्वत्पादमूलं शरणं प्रपद्य इत्यनेनैव गोप्तृत्ववरणा. त्मनिक्षेपौ सिद्धौ । प्रार्थनान्वितो हि भरन्यासः प्रपत्तिः, [र]भिक्षादिमात्रप्रार्थनायामाज्ञादिपूर्वकभरन्यासे च प्रपत्तिशब्द- प्रयोगदर्शनात् । न चात्र गुरुलघुविकल्पानुपपत्त्या प्रपत्तभक्त्यङ्गत्वं शङ्कनीयम् । स्नानादिविकल्पवदधिकारि]रभेदेन व्यवस्थापनात् ॥ प्रणवादिनयादत्र प्रपत्तेस्तत्त्ववेदिभिः । यथाधिकारमङ्गत्वं स्वतन्त्रत्वं च दर्शितम् ॥ अत्र प्रपद्य इति वर्तमानव्यपदेशश्च * बर्हिदेवसदनं दामीत्यादिवदनुष्ठानकालाभिप्रायः ॥ २२ ॥ न निन्दितं कर्म तदस्ति लोके सहस्रशो यन्न मया व्यधायि । सोऽहं विपाकावसरे मुकुन्द ! क्रन्दामि सम्प्रत्यगतिस्तवाग्रे ॥ २३ अथ सप्त श्लोकाः प्रस्तुतोपायप्रयोगस्थिरीकरणार्थाः । तेषु क्रमात्परस्य सर्वविरोधिनिवर्तनोचितगुणविशेष[वत्त्वं]- त्वं रक्ष्यरक्षकयोरितरेतरलाभः स्वपरित्यागे परस्यानिष्टप्रसङ्गः स्वस्यानन्यगतित्वेन तत्प्रहाणानहत्व शरण्यस्य भोग्यतमत्वेन प्रयोजनान्तरवैमुख्यम् उपायस्य सौकर्य स्वादुतमत्वं च तात्पर्यतः स्थाप्यते । तत्रादिमे यद्यप्येवमुपायपरम्परा नास्ति, तथाऽप्यपाया न सन्ति चेत् तदवलम्बनेन क्रमाकर्मयोगादीनुत्पाद्य मोक्षफलं लभस्व । किं तदर्थं प्रपत्त्येत्यत्र स्वस्याकि- ञ्चनत्वमेव स्थिरीकरोति-न निन्दितमित्यर्धेन ॥ निन्दितं गर्हितम् । * यत्त्वार्याः क्रियमाणं प्रशंसन्ति स धर्मः, यद्गर्हन्ते सोऽधर्म इत्यापस्तम्बः । अत्र निन्दितशब्देन काम्यकर्मापि संगृह्यते ; मुमुक्ष्वपेक्षया तस्यापि निन्दितत्वात् । लोके- सर्वस्मिन् संसारिजने । अथवा लोक्यते अनेनेति लोकः प्रमाणं तस्मिन् , नास्ति अप्रामाणिकमित्यर्थः । अत्र शास्त्र- रूपप्रमाणविशेषविवक्षा । सहस्रश इत्यसङ्ख्यातावृत्तिपरम् । * शतं सहस्रमयुतं सर्वमानन्त्यवाचकमिति पठन्ति । यत् शरणागतपरित्यागाद्यपि ; तदपि वेदनिन्दितम् । यथाऽऽह मनुः-* शरणात्तं परित्यज्य वेदं विप्लाव्य च द्विजः । संवत्सरं यवाहारस्तत्पापमवसीदतीति । * बालनांश्च कृतघ्नांश्च विशुद्धानपि धर्मतः । शरणागतहन्तुंश्च स्त्रीहन्तुंश्च न संवसेदिति । रघुश्च राक्षसं प्रत्याह-* शक्तोऽपि रक्षणे लोभात् भयाद्वा शरणागतम् । यस्त्यजेत् पुरुषो लोके ब्रह्महत्यां स विन्दति ॥ प्रायश्चित्तेन शुद्धयन्ति महापातकिनो हि ये । शरणागतहन्तृणां शुद्धिः कापि न विद्यते ॥ पूयन्ते हयमेधेन महापातकिनोऽपि हि । शरणागतहन्तारो न त्वेव रजनीचर ! इति । * अपि चेत्सुदुराचारः केनापि नरका- त्पुमान् । मुच्यते न तु पापात्मा शरणागतहिंसक इत्यादि । ब्रह्मणा च गीतम् । बृहस्पतिरुवाच-* न चास्य वीज रोहति रोहकाले न चास्य वर्ष वर्षति वर्षकाले । भीतं प्रपन्नं प्रददाति शत्रवे न सोऽन्तरं लभते त्राणमिच्छन् , * मोघमन्नं विन्दते अप्रचेताः स्वर्गाल्लोकान्नश्यति भ्रष्टचेष्टः । भीतं प्रपन्नं प्रददाति शत्रवे सेन्द्रा देवाः प्रहरन्त्यस्य वज्रमिति । एवं * शास्त्रेषु निष्कृतिर्दृष्टा महापातकिनामपि । शरणागतहन्तुस्तु न दृष्टा निकृतिः कचित् ॥ लोभा- द्वेषाद्भयाद्वाऽपि यस्त्यजेच्छरणागतम् । ब्रह्महत्यासमं तस्य पापमाहुर्मनीषिण इत्यादि द्रष्टव्यम् । आह च रघुपति- रभयप्रदानप्रकरणे-*ऋषेः कण्वस्य पुत्रेण कण्डुना परमर्षिणा । शृणु गाथां पुरा गीतां धर्मिष्ठां सत्यवादिना ।। बद्धाञ्जलि- पुटं दीनं याचन्तं शरणागतम् । न हन्याच्चानृशंस्यार्थमपि शत्रु परन्तप ॥ आतों वा यदि वा दृप्तः परेषां शरणा- गतः । अरिः प्राणान्परित्यज्य रक्षितव्यः कृतात्मना ॥ स चेद्भयाद्वा लोभाद्वा कामाद्वाऽपि न रक्षति । स्वया शक्त्या ॥ ॥
६४ श्रीमद्वेदान्तदेशिकग्रन्थमाला . यथासत्यं तत्पापं लोकगर्हितम् ॥ विनष्टः पश्यतस्तस्य रक्षिणश्शरणागतः । आदाय सुकृतं तस्य सर्व गच्छेदरक्षितः ॥ अस्वयं चायशस्यं च बलवीर्यविनाशवमिति । एवंविधशरणागतपरित्यागाद्यपि यन्मया न कृतं तन्नास्ति । मया- रागादिदृषितचित्तेन भोगमरुकान्तारपान्थेनेति भावः । एवमनन्तप्रतिबन्धकाक्रान्तस्वावस्थामनुवदन् भगवतोऽशरण्यशरणत्वं च स्वाध्यवसितमुत्तरार्धन व्यनक्ति-सो- ऽहमिति । अद्यापि तादृशस्वभावः प्रायश्चित्तावसरे त्वच्चोदितेषु तत्तत्प्रायश्चित्तेष्वप्रवृत्तस्तदिच्छाधिकारशकनानुशयानभिज्ञ- श्चेति भावः । संप्रति विपाकावसर इत्यन्वयः । प्रायश्चित्तकालातिक्रान्तौ दुर्निवारोद्गमानां फलानां भोगादन्येन क्षपयितुमशक्यावस्थायामित्यर्थः । मुकुन्द !-प्रपन्नानामनादिप्रवृत्तमपराधजातमनादृत्य मुक्तिभूमिप्रद । यथोक्तं श्री सात्वते-*दुराचारोऽपि सर्वाशी कृतघ्नो नास्तिकः पुरा । समाश्रयेदादिदेवं श्रद्धया शरणं यदि ॥ निर्दोषं विद्धि तं जन्तुं प्रभावात्परमात्मन इति । श्रीपुण्डरीकोपाख्याने च * अश्वमेधशतैरिष्ट्रा वाजपेयशतेन च । न प्राप्नुवन्ति सुगतिं नारायणपराङ्मुखाः ॥ ये नृशंसा दुरात्मानः पापाचाररतास्तथा । तेऽपि यान्ति परं धाम नरा नारायणाश्रया इति । क्रन्दामि-आक्रोशामि । अनेन * गोविन्देति यदाक्रन्दत् कृष्णा मां दूरवासिनम् । ऋणं प्रवृद्धमिव मे हृदया- नापसर्पतीति शरण्यवाक्यं सूच्यते । अगतिः-पुण्यविपाकादपि भृशं भीततया पूर्वोक्तानन्यगतिः । * तस्मादपि वध्यं प्रपन्नं न प्रतिप्रयच्छन्तीति सर्वेषां शरण्यानां सामान्यतः प्राप्तम् , किं पुनः * विभीषणो वा सुग्रीव ! यदि वा रावणः स्वयमित्यादिवादिनो भवत इत्यभिप्रायेणाऽह-तवेति । अग्रे विश्वसाक्षात्कारिणस्तव सार्वत्रिकसन्निधावित्यर्थः । सविग्रहस्य वा शरण्यस्याभिमुख्यमिहाभिप्रेतम् ।। न ह्यसमर्थानामकारुणिकानां च सन्निधौ विपन्नैराक्रोष्टव्यमिति भावः । यद्वा संसार- तन्त्रवाहितया पुण्यपापफलप्रदातुस्त्वत्त एव भीतस्त्वदने क्रन्दामि । रागानुवृत्तिहेतुभूतपुण्यफलादीतिरधिकमाक्रोश- कारणम् । अथवा भक्तियोगमनुष्ठाय तत्फलमलब्धवानिव युक्तदण्डस्य तवांग्रे आक्रोशनेनाप्यपराध्यामीति भावः । एवं पूर्वश्लोके सपरिकरोपायान्तराभाव उक्तः । अत्र तु तन्निदानमपायबाहुल्यमनुसंहितम् । शारण्येत्युक्तं मुकुन्देत्यनेन स्थापितम् । तदिह दुर्विषहसंसारनिवर्तनोपायनैराश्यजनितशोकाविष्टश्शरण्यगुणाध्यवसायवानपवर्गार्थप्रप- त्यधिकारीति दर्शितं भवति । तथा चोक्तम्-* अहं भीतोऽस्मि देवेश ! संसारेऽस्मिन् भयावहे । त्राहि मां पुण्डरीकाक्ष ! न जाने शरणं परम् , * वृथैव भवतो याता भूयसी जन्मसन्ततिः । तस्यामन्यतमं जन्म संचिन्त्य शरणं व्रज ॥ अथ पातकभीतस्त्वं सर्वभावेन भारत ! । विमुक्तान्यसमारम्भो नारायणपरो भव ॥ सर्वयोग्यमनायासमप्रमादम[नौ]नूपमम् । प्रणतार्तिहरं विष्णु शरणं गन्तुमर्हसीत्यादि ॥ २३ ॥ निमजतोऽनन्त भवार्णवान्तश्चिराय मे कूलमिवासि लब्धः । त्वयाऽपि लब्धं भगवन्निदानीमनुत्तमं पात्रमिदं दयायाः ॥ २४ नन्वनादौ संसारे संप्रति केन विशेषणाक्रन्द्यत इत्यत्रानन्यगतिश्शरण्येत्युभाभ्यां सूचितं रक्ष्यरक्षक्योरितरेतर- लाभप्रतिबोधस्याद्यतनत्वमाह-निमजत इति ॥ अनादिप्रवृत्तनिमज्जनमिदानीमप्यनुपरतमित्यभिप्रायेण वर्तमाननिर्देशः । अनन्त !-स्वरूपरूपगुणविभूतिभिरपरिच्छेद्य । सर्वत्र सर्वदा सन्निहिते हि त्वयि, *एष ब्रह्म प्रविष्टोऽस्मि ग्रीष्मे शीत- मिव ह्रदम् । शाम्यामि परिनिर्वामि सुखमासे च सर्वदेत्युक्तं निमज्जनं सर्वेषामनन्यशरणानां प्राप्तम् । अहं तु भवार्णवे निमज्जामि । यद्वा अनन्तत्वं भवार्णवविशेषणम् । निवर्तकस्य तव माहात्म्यमिव निवर्तनीयस्संसारोऽपि मे निरवधिरिति व्याख्यानविभागे स्तोत्रस्नभाष्यम्-श्लो. २५ ६५ . भावः । भवस्यार्णवत्वरूपणेन * संसारार्णवममानां विषयाक्रान्तचेतसाम् । विष्णुपोतं विना नान्यत्किञ्चिदस्ति परायणम् , * संसारसागरं घोरमित्यादिप्रमाणानि सूच्यन्ते । सनकादिवन्न तीरासन्नप्रदेशस्थोऽहमित्यभिप्रायेणान्तश्शब्दः। इतःपूर्व- मनादौ काले न लब्ध इति निर्वेदाभिप्रायेणाद्यतनलाभसन्तोषाभिप्रायेण वा चिरायेत्युक्तम् । मे-कर्मणः प्रवाहैरितः पूर्वमुत्तारोपायानभिज्ञस्य मम । * मामेकं शरणं व्रजेतिवादिनं त्वामुपेक्षितवतः इदानीमपि मज्जनहेतूनार्जयतः त्वयैव त्वदाश्रयणाय सङ्कल्पितस्येति भावः । अत्र मे लब्ध इति संबन्धसामान्ये षष्ठी। मे कूलमिवेति वाऽन्वयः । अर्णवान्त- मज्जतः कूलमिवेत्याश्चर्यपरम् । अनन्तत्वात्तत्राप्यसौ सन्निहित इति शरण्यसौलभ्यव्यञ्जनं च । लब्धोऽसि-उपायतया लब्धव्यशेषं नास्ति, न च लब्धस्य प्रच्युतिरिति भावः । न केवलं ममैव लाभः ; किंतु त्वयाऽपि लब्धं सर्वसमत्वसं- रक्षणाय सदाचार्यवीक्षणादिव्याजविशेषापेक्षिणा तत्संपत्तिसन्तुष्टेनेति तात्पर्यम् । अत्र भगवन्निति संबुद्ध्या तस्यैकस्यैव सर्वहितवेदित्वं तन्निप्पादनशक्त्यादिकं च व्यज्यते । ज्ञानबलादिपूर्णस्य तव पुनरयं महोदयलाभः । ततश्च त्वमेव वेत्सि त्वयाऽपि दुरपह्नवमिति च । इदानीं-नाथमुनिप्रभृतिसद्गुरुसमीक्षणदशायामित्यर्थः । अयं चापर्यनुयोज्यानादिसामग्री- प्रवाहानुगुण्येन त्वयैव सङ्कल्पितः काल इत्याकूतम् । एकवचनान्तानुत्तमादिशब्दैर्दयापात्रस्य निस्समाभ्यधिकत्वं सूच्यते । समसद्भावेऽप्यधिकनिषेधमात्रं वा विवक्षितम् । पात्रं विषयः । वाङ्मनसापरिच्छेद्यानन्तापराधिनमात्मानमिदमिति साभिनयं निर्दिशति । एतत्परित्यागे कस्मिन् विषये तव दयादिगुणजातं चरितार्थ स्यात् , न ह्यतोऽधिकः कृपाविषयोऽस्ति । * अपि कश्चि-मुमुक्षुस्स्यादिति हि त्वत्कृपा जगज्जनयति । अतस्त्वत्प्रपत्तेरन्यन्न मे कर्तव्यमस्ति । आक्रन्दनमप्येतत् अरतिमात्रकृतम् । तव तु स्वीकृतभरम्य * मोक्षयिष्यामीति स्वेनैवोक्तं कर्तव्यमवशिप्यत इति भावः ॥ २४ ॥ अभूतपूर्वं मम भावि किं या सर्व सहे मे सहजं हि दुःखम् । किं तु त्वदग्रे शरणागतानां पराभवो नाथ ! न तेऽनुरूपः ॥ २५ अथ स्यात्परतन्त्रस्य शेषभूतस्य स्वतन्त्रस्वाम्यभीष्टविनियोगस्सोढव्यः । अन्यथाऽपि दुर्निवारश्च । किंच * हरि- दुःखानि भक्तेभ्यो हितबुद्धया करोति हि । शस्त्रक्षारामिकर्माणि स्वपुत्राय यथा पिता ॥ *परीक्षां च जगन्नाथः करोत्यदृढ- चेतसाम् , * यस्यानुग्रहमिच्छामि तस्य वित्तं हराम्यहम् । बान्धवैश्च वियोगेन सदा भवति दुःखितः । तेन दुःखेन सन्तप्तो यदि मां न परित्यजेत् ॥ तं प्रसादं करिष्यामि यस्पुरैरपि दुर्लभ इत्यपि स्मयते । अतस्स्वकर्मविपाकः क्षन्तव्यः, किं कन्दितेनेत्यत आह-अभूतपूर्वमिति ॥ इतः पूर्व सञ्जातेभ्यो विलक्षणमित्यर्थः । मम * अज्ञो जन्तुरनीशोऽयमात्म- नस्सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेव वेत्युक्तस्वभावस्य गर्भजन्मजरामरणनरकादिदुःखचक्रमध्यवर्तिनः । भावि-भविष्यत् । किंशब्दः क्षेपार्थः । वाकारः स्वानभ्युपगतसोढव्यत्वपक्षान्वारोहार्थः । तेनासह्यत्वाभिप्रायमन्तर्धायाह- सर्व सह इति । कर्मपरतन्त्रतया यथापूर्वमनुभूतजातीयं सर्व दुःखमनुभविष्यामि । मे सहजं हि दुःखम् अनर्थ- पर्यन्तापुरुषार्थसक्तस्य मम कर्मप्रवाहैरात्मस्वरूपानुबन्धिवदपरिहार्यमित्यर्थः । तथाऽप्यन्यदसह्यमापतिप्यतीत्यभिप्रायेणाह- । त्वदग्रे अपारकारुण्यस्य सर्वत्र सन्निहितस्य सर्वस्वामिनस्सर्वशक्तेस्तव सन्निधौ । शरणागतानामिति बहुवचन- मन्येष्वपि प्रपन्नेष्वयमेव न्याय इति द्योतनार्थम् । मत्परिभवस्त्वदेकान्तिनां सर्वेषां चित्तक्षोभहेतुरिति वाऽभिप्रेतम् । पराभवः कर्मभिः कामक्रोधादिभिरिन्द्रियैर्विषयैश्च घोरैः त्वद्विमुखीकरणम् । नाथेति संबुद्धया भगवतो भरस्वीकार- C-9 ६६ श्रीमद्वेदान्तदेशिकमन्थमाला योग्यत्वं स्वस्य सनाथत्वेन निर्भरत्वं च व्यनक्ति । उक्तं हि युधिष्ठिरकार्यार्थ बलभद्रं प्रति सात्यकिना-* ये नाथक्न्तो हि भवन्ति लोके ते नात्मकर्माणि समारभन्ते । कार्येषु तेषां प्रभवन्ति नाथाश्शैब्यादयो राम ! यथा ययातेरिति । भगवच्छास्त्रे च * प्रपन्नश्चातको यद्वत्प्रपत्तव्यः कपोतवत् । रक्ष्यरक्षकयोरेतलक्ष्य लक्षणमेतयोरिति । स्वतन्त्रस्याकर्म- वश्यस्य मे शरणागतपरित्यागेऽपि को दोष इत्यत्राह-न तेऽनुरूप इति । ते * स्थिते मनसि, * सकृदेव, * सर्वधर्मा- नित्यादिवादिनः । नानुरूपः न च तद्युक्तम् । * रामो द्विर्नाभिभाषते, * अनृतं नोक्तपूर्व मे न च वक्ष्ये कदाचने- त्यादिस्ववचनविरोधप्रसङ्गात् । ततश्च *तस्य नाम महद्यश इति श्रुतिसिद्धवैपरीत्यं स्यात् । अतो मया सहजदुःखभाजनेन सर्वमपि दुःखं सोढुं शक्यम् । त्वया तु नित्यनिरवद्येन दोषप्रसङ्गो न सोढव्य इत्यनिष्टलाभस्ते मत्तोऽप्यतिरिच्यते । मम च स्वाम्यवद्यप्रसङ्गोऽनिष्टतमः । तस्मान्मद्रक्षणेन द्वयोरनिष्टपरिहारस्त्वयैव कार्य इति भावः । तदिदं व्याजमात्रेण स्वार्थ रक्षिष्यतीति विश्वासदायव्यञ्जनपरम् । शेषभूतस्य स्वलाभकथनं स्वार्थप्रार्थनं चायुक्तमिति शङ्का च प्रधानभूत- परलाभोक्त्या परावद्यप्रसङ्गपरिहारप्राधान्येन च निरस्ता ॥ २५ ॥ निरासकस्यापि न तावदुत्सहे महेश ! हातुं तव पादपङ्कजम् । रुषा निरस्तोऽपि शिशुः स्तनन्धयो न जातु मातुश्चरणौ जिहासति ॥ २६ अस्त्वेवं प्रतिबुद्धस्य तव मदवलम्बनम् , तथाऽपि मदनुगृहीतेन त्वया सर्वेषां पापानां क्रमात्प्रतिपदोक्तानि प्रायश्चित्तानि क्रियन्ताम् । पुण्यक्षयार्थ भोगाश्च भुज्यन्ताम् । मत्स्वभावश्चैवं प्रसिद्धः * शरीररोग्यमांश्च भोगांश्चैवा- नुषङ्गिकान् । ददाति ध्यायतां नित्यमपवर्गप्रदो हरिरिति । अतः * भुक्त्वा च भोगान्विपुलानित्यादिक्रमेण मुक्तिं प्राप्स्यसीति भगवतोऽभिप्रायमाशङ्कय पूर्वोक्तमनन्योपायत्वमनन्यप्रयोजनत्वं चानन्तर श्लोकद्वयेन प्रपञ्चयिष्यन् स्वस्य भगवत्पदप्राप्तौ विलम्बाक्षमत्वं विज्ञापयति-निरासकस्येति ॥ पूर्व दुःखस्य स्वतः प्रतिकूलतया दुस्सहत्वेन हेयत्व- मुक्तम् । अनयोस्तु परमपुरुषार्थप्रतिकूलतया सुखस्यापि हेयत्वमुच्यत इति विशेषः । निरासकस्य निरङ्कुशस्वातन्त्र्यात्स्वा- वा सोढाऽपि क्षुदैरुपच्छन्दनैर्मी प्रतार्य मदभिमतमप्रदायान्यत्र प्रेरयितुमिच्छत इति भावः । अपिशब्देन दयापरवशस्त्वं दीनस्य मम निरासे कथं क्षम इति व्यज्यते । तावच्छब्दोऽवधारणार्थः । नोत्सहे-न शक्नोमीत्यर्थः । महेश ! संभा- वितस्वपदभ्रंशानामपूर्णानां त्वदन्येषां हि स्वाश्रितेष्वसूयोपेक्षादिस्स्यात् यथेन्द्रादीनां ययातिप्रभृतिषु । भवतस्तु निरु- पाधिकस्वामित्वस्वातन्त्र्यवतः निरवधिकदयाम्बुधेर्मामीदृशीमवस्थां प्रापयतो मन्निरसने हेतुर्नास्ति । मम च त्वामेकमेव सर्वेश्वरमधिगच्छतो न हि त्वत्परित्यागे कारणमस्तीति भावः । मातुरिति वक्ष्यमाणपदस्थाने महेशशब्दः। तेन *माता पिता भ्रातेत्यादिश्रुतिप्रसिद्धस्वभावसूचनम् । हातुमित्यत्र उपायतया फलतयेति योज्यम् । तदुभयं तव पादपङ्कजमित्युभाभ्यां सूच्यते । सर्वभूतसुहृद- संसारनिवृत्त्युपायभूतस्य भवतो देवदानवसामान्यदैवतं निरवधिकभोग्य पादपद्ममिति भावः । उक्तमर्थं सर्वलोकसंमतार्था- न्तरनिदर्शनेन स्थापयति-रुपेति । अपिशब्द इह स्वतो निरासार्हत्वं स्तनदेशनादिजनितक्रोधलेशवशात्कदाचित्तत्संभवं च द्योतयति । शिशुः स्तनन्धय इति पदाभ्यां स्वरक्षणे स्वयमसमर्थस्य बालस्य तदेकरक्ष्यत्वं तदेकाधीनजीवनत्वं च सूच्यते । जातु क्रोधदशायां प्रसाददशायां चेति भावः । मातुरित्यनेन सर्वदोषप्रसहनानुगुणवात्सल्यं व्यज्यते । चर- णावित्यत्र निरासाय विनियुक्तावपीति काका ग्राह्यम् । हातुमिच्छाऽपि न संभवति किमुत हानमित्यभिप्रायेण सन्प्रयोगः ।।
व्याख्यानविभागे स्तोत्ररत्नभाष्यम्-श्लो. २८ ६७ २७ , तवामृतस्यन्दिनि पादपङ्कजे निवेशितात्मा कथमन्यदिच्छति । स्थितेऽरविन्दे मकरन्दनिर्भरे मधुव्रतो नेक्षुरकं हि वीक्षते ॥ ननु नासौ निरासः यत्प्रजापतिप्रभृतिभोगेभ्योऽतिशयितभोगप्रदानम् ; माभूद्रा केवलभोगपरता ; इदानीं मद्द- तभोगान् भुझ्व ; पश्चान्मोक्षमपि दास्यामीति भगवतोऽभिप्रायमुत्प्रेक्ष्य विलम्बाक्षमः प्राप्यतया हातुमशक्यत्वं विवृ- णोति-तवामृतेति ॥ तव * रसो वै सः, * सर्वगन्धस्सर्वरस इत्यादिषु सर्वप्रकारनिरतिशयभोग्यतया प्रसिद्धस्य सर्व- स्वामिनः । अमृतस्यान्दिनि मोक्षप्रदे भोग्यतमतया च श्रुतिस्मृतिप्रसिद्धे । निवेशितात्मा रक्षणोन्मुखेन * ददामि बुद्धियोगं तमित्यादिवादिना त्वयैव दृढावस्थापितबुद्धिरित्यर्थः । तस्मादितः परं पुरुषार्थान्तरे मनो निवेशयितुं न शक्यमिति भावः । अत्र सामान्यनिर्देशस्त्वत्प्रसादविषयभूतानां मादृशानां सर्वेषां साधारणोऽयं स्वभाव इति ज्ञापनार्थः । त्वत्पादपद्मे मनो निवेशयन् त्वमेवात्र परिचोदनीय इत्यभिप्रायेण कथंशब्दः । अन्यत् अल्पमस्थिरमनर्थमिच्छताऽतीच्छानिवृत्तिवच- नात्तदर्थप्रवृत्तिरप्यत्र निरस्ता भवति । उक्तमर्थ निदर्शनेन द्रढयति-स्थितेऽरविन्द इति । भोक्तृणामक्लेशेन भोग्यतमतयोप- स्थितवतीत्यभिप्रेतम् । अरविन्दशब्द इह सुरभित्वसुखस्पर्शत्वादिव्यञ्जकः । प्रथमविकसितावस्थामभिप्रेत्याह-मकरन्दनि- भर इति । मधुव्रतशब्देन तदेकजीवनत्वं तत्रापि सारतमग्राहित्वं च व्यज्यते । स्वाभिमतविपरीतैरुपच्छन्दनोपदेशत- र्जनादिभिर्दुर्निवारत्वं सूचयितु तिर्यग्दृष्टान्त उक्तः । इक्षुरकं कण्टकावृतमस्थिरात्यल्परसं भ्रमरस्पर्शमात्रेऽपि म्लानता- मश्नुवानं देवार्चनाद्यनर्ह निर्गन्धं किमपि क्षुद्रपुष्पम् । तन्न वीक्षते अत्यासन्नमपि मकरन्दलिप्सया नाद्रियते । तदुपस- दनं तु दूरतो निरस्तमिति भावः ॥ २७ ॥ त्वदङ्घिमुद्दिश्य कदाऽपि केनचिद्यथा तथा वाऽपि सकृत्कृतोऽञ्जलिः । तदैव मुष्णात्यशुभान्यशेपतश्शुभानि पुष्णाति न जातु हीयते ॥ २८ अथ गुरुतरोपायसाध्यं पुरुषार्थ लघुतरेणोपायेन कथं लप्स्यस इत्यत्र ततोऽपि लघुतरस्य निवृत्तिधर्मकोटिनिवि- टस्याञ्जल्यादेः प्रभावं त्वदकिमित्यादिश्लोकद्वयेन निदर्शयन्नाश्रयणसौकर्यादपि हातुमशक्यत्वमेव स्थापयति । तत्र प्रथमेन लघुतरकायिकव्यापारविशेषप्रभाव उच्यते-त्वदविमिति ॥ त्वदझिं सर्वलोकशरण्यस्य तव पादपङ्कजम् । न तु साक्षान्मोक्षप्रदानानधिकृतस्य हिरण्यगर्भादेरिति भावः । तदुक्तं मोक्षधर्मे-* ब्रह्माणं शितिकण्ठं च याश्चान्या देवतास्मृताः । प्रतिबुद्धा न सेवन्ते यस्मात्परिमितं फलमिति । अत्र भगवत्स्वरूपस्य शुभत्वेऽप्यनिष्पन्नसमाधीनां प्रथम भावयितुमशक्यतया तद्विग्रहस्यैव शुभाश्रयत्वम् । तत्रापि * अनतिक्रमणीयं हि चरणग्रहणमिति न्यायात् , * स भ्रातु- श्वरणौ गाढमित्यादि दर्शनाच्चाङ्घरुदेश्यत्वमुच्यते । उद्दिश्य-उपायतया कैकर्यलक्ष्यतया चाभिसन्धायेत्यर्थः । एवमन- न्यदेवताकत्वमनन्यप्रयोजनत्वं चोक्तं भवति । ईदृशस्याधिकारिणोऽञ्जलिवन्धरूपे सुकरे प्रसादने दर्शपूर्णमासादिवत्तिथि- नक्षत्रपक्षमासत्वयनहायनादिकालनियमो नास्तीत्याह-कदाऽपीति । विधेयहस्तस्य शास्त्रीयव्यापारान्तररहितदशायां सर्वदेत्यर्थः । एतेन कालविशेषप्रतीक्षणविलम्बाभावाद्यदेच्छति तदैव सहसा कर्तुं शक्यतयाऽपि सौकर्य सूचितम् । उक्तः कालनियमाभावः * जातपुत्रः कृष्णकेशोऽमीनादधीतेत्यायुक्तकृष्णकेशत्वाद्यवस्थानियमाभावस्य देशनियमाभावस्य चोपलक्षणम् । एवं वर्णाश्रमवेदवेदाङ्गयुक्तत्वादिनियमाभावेन सामान्यधर्मतया सत्यवचनादिवत्सर्वाधिकारत्वमाह-केन- चिदिति । आस्त्रीबालपण्डितमाब्रह्मश्वपाकं च सुकरत्वं शास्त्रीयत्वं चात्र विवक्षितम् । कर्मान्तरवदुष्करप्रकारविशेषव्यव- " ॥ %3D ६८ श्रीमद्वेदान्तदेशिकग्रन्थमाला स्थाऽप्यत्र नास्तीत्याह-यथा तथा वाऽपीति । अत्र विकल्पसमुच्चयविषयाव्ययद्वयस्यैवमभिप्रायः-परावरतत्त्वहितपुरुषा- थेषु विशदा बुद्धिर्भवतु वा मा वा, मस्तिष्कसम्पुटादिषु यथेष्टप्रकारश्च भवतु, विधेयहस्तरहितस्य वाचा मनसा वा स्यात् , अस्तु वाऽञ्जलिरचनायां किंचिदचातुर्यम् ; सर्वथा सफल एवायमिति । न पुनः * एकेन पाणिना यस्तु प्रणमेत्पुरुषो- त्तमम् । न्याय्यस्तस्य करच्छेद इति वेदविदो विदुः ॥ एकहस्तप्रणामश्च एकं चापि प्रदक्षिणमिति शक्तं प्रत्युक्त एक- हस्तप्रणामनिषेध इह प्रतिषिध्यते । * तौ युतावञ्जलिः पुमानिति च नैघण्टुकाः । गत्यभावे तु सर्वत्र यथाशक्तिकर- णमनुज्ञातम् ; * सकृत्कृतश्शास्त्रार्थ इति सामान्यप्राप्तस्यात्र निरपवादत्वात् । * वसन्ते वसन्ते ज्योतिषा यजेतेत्यादि- वदावृत्त्यपेक्षाऽपि नेत्याह-सकृत्कृत इति । यद्यपि प्रीत्यादिप्रकर्षादस्यावृत्तिर्भवति, तथाऽप्यत्र सकृत्कृतस्य फलाविना. भावेन प्रभावातिशयप्रतिपादने तात्पर्यम् । * सकृत्स्मृतोऽपि गोविन्दो नृणां जन्मशतैश्चितम् । पापराशि दहत्याशु तूलराशिमिवानलः, * सकृदुच्चारितं येन हरिरित्यक्षरद्वयम् । बद्धः परिकरस्तेन मोक्षाय गमनं प्रति, * ऋचो यजूंषि सामानि योऽधीते सकृदजसा । सकृदष्टाक्षरं जप्त्वा फलं तस्य समश्नुते ॥ विष्णोरायतनं नित्यं सायं प्रातर्दिनेदिने । प्रदक्षिणद्वयं कुर्यादश्वमेधफलं लभेत् ॥ उत्सवे बलिदाने च तथा कुर्वन् प्रदक्षिणम् । पदे पदेऽश्वमेधस्य फलं दश- गुणं भवेत् ।। यानि यानि च पापानि जन्मान्तरकृतानि च । तानि तानि प्रणश्यन्ति प्रदक्षिणपदे पदे । इत्यादिपूक्तस्य सकृत्स्मरणसङ्कीर्तनादिप्रभावस्य प्रदर्शनमिदम् । * सर्वेषामेव धर्माणामुत्तमो वैष्णवो विधिः । रक्षते भगवान्विष्णुभक्ता- नात्मशरीरवदिति सर्वाधिकत्वेन कथितेभ्यस्सम्मार्जनोपलेपनमाल करणदीपारोपणादिप्रसा [ध] दनान्तरेभ्यस्समधिकं बहु- वित्तव्ययायासनिरपेक्षं विवक्षितस्य सुकरं स्वरूपमाह-अञ्जलिरिति । * अञ्जलिः परमा मुद्रेति ह्युच्यते । श्रीम- द्रामायणे च * कृतापराधस्य हि ते नान्यत्पश्याम्यहं क्षमम् । अन्तरेणाञ्जलिं बद्धा लक्ष्मणस्य प्रसादनादिति । नारा- यणास्त्रवृत्तान्तोऽप्यत्रानुसन्धेयः । * क्षिप्रं देवप्रसादिनीत्युक्तमाह-तदेति । अवधारणेन शरीरान्तरकालान्तरभाविफल- साधनेभ्यः कर्मभ्यो व्यावृत्तिः । यद्यप्यनादिवासनावशात्सांसारिकपुण्यरूपनिगलभङ्गः पुरुषस्यानिष्टम्स्यात् । तथा- ऽप्यभकापथ्यपरिहारन्यायेन तान्यपि चोरयतीत्यभिप्रायेण मुष्णातीत्युक्तम् । अशुभानि शुभप्रतिभटानि । यथार्हमप- र्गतदुपायविरोधोनीत्यर्थः । अशेषतः कास्न्येन । एतेन कृच्छ्रचान्द्रायणादिवत्प्रतिनियताशुभमात्रनिवर्तकत्वं व्युद- स्यते । न केवलमनिष्टनिवर्तकत्वमात्रम् , * तस्मिन् प्रसन्न किमिहास्त्यलभ्यमिति न्यायेनात्रत्यानुभवप्रभृतिपरिपूर्ण- कैकयपर्यन्तसापेक्षितसाधकत्वं चास्तीत्याह-शुभानि पुष्णातीति । कर्तर्येकस्मिन्नुपकृतमपर्याप्त मन्यमानस्य भगवतः प्रसादात्तदनुबन्धिनामपि तद्वदुपकाराय भवतीत्यभिप्रायेणाह-न जातु हीयत इति । * यज्ञोऽनृतेन क्षरतीत्यादिवदस्य न केनापि हानिरिति भावः । यद्वा स्वर्गादिवदेव तत्साध्यस्य परमफलस्य न कदाचिदपि विनाश इत्यभिप्रायः । अथवा फलभूताञ्जलिरूपेण स्वयं सन्तन्यत इति विवक्षितम् । दृश्यते हि * नित्याञ्जलिपुटा हृष्टा इत्युक्त्वा, * ये तु मुक्ता भवन्तीह नरा भरत- सत्तम । तेषां लक्षणमेतद्धि यच्छ्रेनद्वीपवासिनामिति । ननु च यथाधिकार न्यासोपासनरूपौ द्वौ मोक्षोपायौ शास्त्रेषु निर्णीतौ ; तत्कथमञ्जलिमात्रस्य तत्साधनत्वोक्तिः ? इत्थम् ; यद्यसावाकिञ्चन्यादिलाभात्प्रपत्त्यधिकारिणः पुरुषस्य स्वरक्षणार्थ- स्वव्यापारान्तरनिवृत्तिव्यञ्जकमुद्रात्मनाऽवतिष्ठते, तदा तदुपलक्षितायाः प्रपत्तेः प्रागुक्तसकलफलसाधनत्वरूपप्रभावप्रतिपादने तात्पर्यान्न विरोधः । यदा तु प्रदक्षिणप्रणामादिवदयमपि भक्त्यङ्गकर्मविशेषः, तदा * नेहाभिक्रमनाशोऽस्ति इत्यादि- न्यायाकल्मषनिबर्हणसत्त्वोन्मेषसम्यग्ज्ञानभक्त्यादिपरम्परया मोक्षसाधनत्वमिति निष्कण्टकोऽयं घण्टापथः । , - -- व्याख्यानविभागे स्तोत्ररत्नभाष्यम्-श्लो. ३० अतिवादपक्षस्त्वत्र संभवन्त्यां गतौ न युज्यते । अधिकारिविशेषमाश्रित्याञ्जलिरूपलधुतरक्रियामात्रस्य साक्षा- मोक्षसाधनत्वकथने कर्मान्तराणामपि तथात्वप्रसङ्गः । तदभ्युपगमस्तु सर्वप्रमाणाननुगुणो भाष्यादिविरुद्धः ; वक्तुर्यामुन- मुनेः प्रागनुष्ठितगुरुतरविश्वासादिगर्भप्रपत्तिवैयर्थं च स्यात् । ननु * ध्यायन् कृते यजन् यज्ञैस्त्रेतायां द्वापरेऽर्चयन् । यदामोति तदाप्नोति कलौ सङ्कीर्त्य केशवम् ॥ कलेर्दोषनिधे राजन् ! अस्ति ह्येको महान् गुणः । कीर्तनादेव कृष्णस्य मुक्तबन्धः परं व्रजेदिति कालविशेषव्यवस्थया सङ्कीर्तनमात्रस्यैव साक्षान्मोक्षसाधनत्वमुच्यते । सत्यम् ; तथाऽपि तस्मिन् काले धर्मान्तरमनपेक्ष्य सङ्कीर्तनमात्रस्यैवाव्यवहितमोक्षोपायनिष्पादकत्वे तात्पर्य ग्राह्यम् ; अन्यथा चरमयुगे प्रपत्तिर- प्यनपेक्षिता स्यात् ; तदयमञ्जलिभक्तिवत्प्रपत्तिवच्च प्रयोजनान्तरपराणां यथार्ह तत्तदभिमतसाधनं स्यात् । अनन्यप्रयो- जनानां तूक्तेनैव प्रकारेणापवर्गपर्यवसायीति ॥ २८ ॥ उदीर्णसंसारदवाशुशुक्षणिं क्षणेन निर्वाप्य परां च निर्वृतिम् । प्रयच्छति त्वच्चरणारुणाम्बुजद्वयानुरागामृतसिन्धुशीकरः ॥ २९ अथाञ्जलिमात्रानर्हाणामपि * विषये ते महाराज ! रामव्यसनकर्शिताः । अपि वृक्षाः परिम्लानास्सपुप्पाकुरको- रका इत्युक्तकोसलजनपदपादपन्यायेनानुरागलेशमात्रेणापि शरण्यचित्तरञ्जनेन प्राप्तकाले परमपुरुषार्थसिद्धिस्स्यादित्याह- उदीर्णेति ॥ उदीर्णः नित्यमप्यात्मानमसत्कल्पं कर्तुमनुपरमेण जाज्वल्यमान इत्यर्थः । संसारः कर्मिणः पुरुषस्य पूर्व- पूर्वदेहप्रहाणेनोत्तरोत्तरदेहेरेकीकृत्याविच्छिन्नसंसरणरूपावस्थाप्रवाहः । दवामित्वरूपणेन तापत्रयप्रचुरतया दुस्सहतम- त्वमन्यैरनुपशमनीयत्वं च व्यज्यते । आर्तिपौष्कल्यवतां प्रपन्नानामविलम्वेन सर्वानिष्टप्रशमनमभिप्रेत्याह-क्षणेन निर्वा- प्येति । न केवलमनिष्टप्रशमनमात्रमित्याह-परां च निवृतिं प्रयच्छतीति । निवृतिस्युवम् । अत्र संभवन्त्या निर्वृतेः मुक्तानुभवसाम्यं मुक्तिदशायां परिपूर्णानुभवरूपत्वं चाभिप्रेत्य परामिति विशेषितम् । त्वच्छब्देन * एष ह्येवा- नन्दयाति, * रस ह्येवायं लब्ध्वाऽऽनन्दी भवति इत्यान्नातमाकारद्वयमभिप्रेति । सूत्रितं च * तद्धेतुव्यपदेशाच्च, *अस्मिन्नस्य च तद्योगं शास्तीति । चरणस्यारुणाम्बुजत्वरूपणेन विग्रहस्य श्यामतया परभागशोमा व्यज्यते । अन्योन्य- सन्निकर्षजनितशोभयाऽप्यनुरागातिशयहेतुत्वमभिप्रेत्य द्वयोपादानम् । अनुरागः * नाथ ! योनिसहस्रेषु या प्रीतिरवि- वेकिनामित्यादिनिदर्शिता विषयस्वभावनिबन्धना निरतिशयप्रीतिः । अमृतसिन्धुत्वरूपणेन सञ्जीवनत्वं स्वयं प्रयोजनत्व- मक्ष [२] यत्वं च व्यज्यते । भाग्यविशेषवशात् भगवति निरुपाधिकभोग्यताविर्भावेन स्वयंप्रयोजनभक्तिलेशोऽपि परम- भक्तिदशां प्राप्य नित्यकैयपर्यन्तस्स्यादित्यभिप्रायेण शीकरशब्दः ॥ २९ ॥ विलासविक्रान्तपरावरालयं नमस्यदार्तिक्षपणे कृतक्षणम् । धनं मदीयं तव पादपङ्कजं कदा नु साक्षात्करवाणि चक्षुपा ॥ ३० तदेवमिह तत्त्वज्ञानादिपूर्वकं मोक्षार्थतया प्रवृत्तस्य प्रपत्तिशास्त्रार्थस्याधिकारेण * न निन्दितमित्यादिभिस्सप्तभि. सामर्थ्यभागस्समर्थितः । अथ *विलासेत्यादिभिः सप्तदशभिः उत्तरखण्डार्थप्रदर्शकैः प्राप्यवैलक्षण्यप्रपञ्चनपूर्वकमर्थित्वभागः स्पष्टीक्रियते । तत्र प्रथमेन स्वविषयभक्तिप्रभावप्रतिपादनप्रीतेन भगवता यथामनोरथं सर्वं करिष्यामीत्युक्ते तद्दत्ततीव्रभक्तेः स्वस्य तत्सादारविन्दसन्दर्शने कालक्षेपाक्षमत्वं व्यनक्ति-विलासेति ॥ परावरशब्दाभ्यां हिरण्यगर्भादयो मनुष्यादयश्च गृह्यन्ते । तेषामालयाः पृथिव्यादयस्सत्यान्ता लोकाः ते विलासेन विक्रान्ता येन तद्विलासविक्रान्तपरावरालयम् । * यस्यो- श्रीमद्वेदान्तदेशिकग्रन्थमाला रुषु त्रिषु विक्रमणेषु अधिक्षियन्ति भुवनानि विश्वा, * क्रान्त्वा धरित्री गगनं तथा दिवमित्यादिप्रमाणप्रसिद्धमिदम् । विक्रमस्यानायासलीलारूपत्वव्यञ्जनाय विलासशब्दः । अत्र सर्वसुलभत्वं च सूच्यते । एवं सुलभस्यायनसेव्यत्वमनिष्ट- निवर्तकत्वं चाह-नमस्यदार्तिक्षपणे कृतक्षणमिति । नमस्यतां प्रवीभवतां तदैवाशेषार्तिविनाशने कृतक्षणं दत्तावसरं निवृत्तव्यापारान्तरं वा । * क्षणो व्यापारवैकल्ये कालभेदाल्पकालयोरिति नैघण्टुकाः। धनं मदीयम् -अनन्योपायस्य ममाभिमतसाधनं पुरुषार्थभूतं च । तव पादपङ्कजं स्वरूपादिभिर्निरतिशयभोग्यस्याश्रितवत्सलस्य मुमुक्षुध्येयं मुक्तभोग्य च पादारविन्दम् । कदेत्यादि । *न चक्षुषा पश्यति कश्चनैनम् , *स्वाध्यायश्चक्षुरुत एकमस्य योगो द्वितीयमभिवीक्षणाय अध्ययनमनननयनोऽस्य द्रष्टा * न मांसचक्षुरभिवीक्षते तम् , *न मांसचक्षुषा द्रष्टुं ब्रह्मभूतस्स शक्यते, *प्रत्यक्षोऽसि न कस्यचित् इत्यादिषु मादृशैर्दुदर्शतया प्रसिद्ध वामद्यैवानेनैव चक्षुषा साक्षात्कर्तुमिच्छामीत्यभिप्रायः । एतेन * तासा- माविरभूच्छौरिरितिन्यायेन धनञ्जयादिषु दिव्यचक्षुःप्रदानन्यायेन च दिदृक्षूणां यथामनोरथं सहसैव दृश्यो भवतीति प्रकाश्यते । अत्र मुक्तिदशाविवक्षायां *स वा एष दिव्येन चक्षुषा मनसेतिवत्स्वाभाविकज्ञानरूपेण चक्षुषेति योज्यम् ।। कदा पुनश्शङ्खरथाङ्गकल्पकध्वजारविन्दाङ्कशव व्रलाञ्छनम् । त्रिविक्रम त्वचरणाम्बुजद्वयं मदीयमूर्धानमलङ्करिष्यति ॥ ३१ अथ * दिव्यं ददामि ते चक्षुरितिवदपेक्षितं साक्षात्कारं दास्यामीति भगवतोक्ते दूरस्थस्य कालान्तरेऽपि तत्संभव- माशङ्कय शीघ्र स्वोचितं तत्संश्लेषविशेषमपेक्षते-कदा पुनरिति । पुनश्शब्दस्साशङ्कत्वद्योतकः । साक्षात्कारमात्रा- द्विशेषद्योतको वा । * शङ्खचक्रगदापौरङ्कितं पादपङ्कजम् । शरच्चन्द्रप्रतीकाशनखराजिविराजितम् ॥ सुरासुरैर्वन्द्यमान- मृषिभिश्चिन्तितं सदा । मूर्धानं मामकं देव! तावकं मण्डयिष्यति, .* सञ्चिन्तयेद्भगवतश्चरणारविन्दं वज्राङ्कुश- ध्वजसरोरुहलाञ्छनाढ्यमित्यादिप्रसिद्धमाकारमनुसन्धत्ते-शङ्खरथाङ्गेत्यादिना । * एष ब्रह्मलोकस्सम्राडिति होवाच, * राजाधिराजस्सर्वेषामिति श्रुतिस्मृतिप्रसिद्धसाम्राज्यचिहत्वाभिप्रायेण लाञ्छनशब्दः । तथा चोक्तं नारदीये * भृङ्गा- रासनवाजिकुञ्जररथश्रीवत्सचापेषुभिर्मालाकुण्डलचामराङ्कुशयवैशैलध्वजैस्तोमरैः । मत्स्यस्वस्तिकवेदिकाव्यजनकैश्शङ्खात- पत्राम्बुजैः पादे पाणितले नरा नृपतितां यान्ति स्त्रियो राज्ञितामिति । त्रिविक्रमेति सम्बुद्वया निम्नोन्नतविभागानादरेण सर्वेषां शिरसि कृतपदन्यासत्वं स्वस्य तदलाभेन निर्वेदश्च सूच्यते । त्वचरणाम्बुजद्वयम् * अप्राप्यः केशवो राजन् ! इन्द्रियैरजितै रैरित्यादिप्वजितेन्द्रियैर्दुर्लभतया प्रसिद्धस्य तव लक्ष्मीभूमिलीलाकमलं शङ्खादिरेखालंकृताभरणस्थानीय चरणयुगलम् । मदीयमूर्धानम् अत्यन्तनिहीनस्य त्वत्पादस्पर्शानर्हस्य दुष्टतमतया कालियवत्पादपद्मदमनीयस्य मे चिरकालं * न नमेयमिति त्वत्प्रणामविरहेण दूषितमुत्तमाङ्गम् । अलङ्करिष्यति पश्यतां सत्त्वस्थानां प्रेक्षणीयं करिष्यतीति भावः । एतेन कलिदोषनिवृत्तिरप्यर्थिता भवति ।. उक्तं हि महाभारते * यावत्सपादपद्माभ्यां पस्पशैमां वसुन्धराम् । तावत्प्र- थ्वीपरिप्वङ्गे समथों नाभवत्कलिरिति । संसारामिदग्धोऽहं त्वत्पादस्पर्शेन परीक्षिदिव यथार्ह सञ्जीविष्यामीति भावः । अत्र * यावन्न चरणौ भ्रातुः पार्थिवव्यञ्जनान्वितौ । शिरसा धारयिष्यामि न मे शान्तिर्भविष्यतीति भरतवाक्यम् , * तत्य ताम्रतलौ तात चरणौ सुप्रतिष्ठितौ । सुजातमृदुरक्ताभिरङ्गुलीभिरलंकृतौ ॥ प्रयत्नेन मया मूर्ना गृहीत्वा ह्यभि- वन्दिताविति मार्कण्डेयवचनं च दर्शनीयम् । यद्वा मुक्तिदशायां परिगृहीताप्राकृतशरीरस्य स्वस्य परमपदपर्यकनिलय- भगवत्पादमूलपवेशे त्वरातिशय इह प्रकाश्यते ॥ ३१ ॥ । ॥
व्याख्यानविभागे स्तोत्ररत्नभाष्यम्-श्लो. ३३ ७१ विराजमानोज्ज्वलपीतवाससं मितातसीसूनसमामलच्छविम् । निमग्ननाभिं तनुमध्यमुन्नतं विशालवक्षस्स्थलशोभिलक्षणम् ॥ ३२ उक्तप्रकारसन्दर्शनसंश्लेषसमनन्तरभाविसर्वविधकैङ्कयोद्देश्यं भगवन्तं समस्तकल्याणगुणदिव्यमङ्गलविग्रहादिविशिष्ट- तया प्राप्यं चतुर्दशभिर्विशदमनुसन्धत्ते । तत्र प्रथमश्लोकस्य पूर्वा धैन पीताम्बरपरभागविचित्रिताम् * अतसीपुष्पसकाशः पीतवासा जनार्दनः । व्यभ्राजत सभामध्ये हेनीवोपहितो मणिरिति महाभारतोक्तां दिव्यस्वरूपस्य समुदायशोभामनुभ- वति–विराजमानोज्ज्वलपोतवाससमिति ॥ पोताम्बरस्य श्यामवर्णविग्रहयोगात्स्वतश्च विराजमानत्वमुज्ज्वलत्वं भास्वरत्वं च । स्मितशब्दोऽत्र विकासार्थः । अतसीसूनम् अतसीप्रसूनम् । श्यामलरमणीयतया विग्रहस्य तत्समत्वम् । अमल- च्छविम् उज्ज्वलकान्तिम् । ध्यायतां दोषप्रतिभटद्युतिमिति वा। अवयवेषु * प्रथममजनिष्ट च कस्य नाभेरिति प्रागुक्त- पारम्यव्यञ्जकं पितामहोत्पत्तिस्थानं निर्दिशति-निमग्ननाभिमिति । निम्ननाभिमित्यर्थः । उदरस्याशेषभुवनगर्भत्वेऽपि कृशत्वेनाद्भुतत्वमभिप्रेत्याऽह-तनुमध्यमिति । तथा चाहुः श्रीवत्साङ्कमिश्राः-* अण्डानां त्वदुदरमामनन्ति सन्तः स्थानं तद्वरद कथं नु कायमस्य । माहात्म्यं स्वत इह येषु नूनमेषामृद्धिस्स्यान्महिमकरी न हीतरेषामिति । उन्नतम्- अतिहस्वत्वादिदोषरहितसर्वाधिकत्वव्यञ्जकदिव्यविग्रहमित्यर्थः । विशालेत्यादि । अतिविशालभुजान्तरशोभमानप्रकृति- तत्त्वनिरूपकलक्ष्मीनिवासश्रीवत्सलक्षणम् । अत्र द्वितीयान्तानां सर्वेषां * भवन्तमिति वक्ष्यमाणेनान्वयः ॥ ३२ ॥ चकासतं ज्याकिणकर्कशैशुभैश्चतुर्भिराजानुविलम्बिभिर्भुजैः । प्रियावतंसोत्पलकर्णभूषणश्लथालकाबन्धविमर्दशंसिभिः ॥ ३३ भुजमध्यशोभाऽनुसंहितां । अथ तीरशृङ्गारचित्रितां भुजशोभामनुसन्धत्ते-चकासतमिति ॥ अवतारदशायां विरोधिनिराकरणार्थव्यापारव्यञ्जकैाकिणैरङ्कितत्वं परविग्रहभुजेप्वपि तदभेदानुसन्धानेन निर्दिशति-ज्याकिणकर्कशै- रिति । शुभैः औदार्यवीर्यसौन्दर्यादिशालिभिः । पररूपेऽपि चतुर्भुजत्वं प्रमाणसिद्धमिति प्रकाशयितुमाह-चतुर्भि- रिति । यथोक्तं विष्वक्सेनसंहितायां * वैकुण्ठे तु परे लोके श्रीसहायो जनार्दनः । उभाभ्यां भूमिनीलाभ्यां सेवितः परमेश्वरः ॥ महायोगी जगद्धाता दिव्यसिंहासनोपरि । दिव्यसंस्तरणोपेते शेषाहिफणमण्डिते ॥ पञ्चोपनिषदा- म्नातदिव्यमङ्गलविग्रहः ॥ अप्राकृततनुर्देवो नित्याकृतिधरो युवा ॥ नित्यातीतो जगद्धाता नित्यैर्मुक्तैश्च सेवितः । बद्धाञ्जलिपुटैर्हष्ट्रनिर्मलैर्निरुपद्रवैः ॥ चतुर्भुजश्श्यामलाङ्ग: श्रीभूभ्यां सह नीलया। विमलभूषणैनित्यैर्भूषितो नित्य- विग्रहः ॥ पञ्चायुधैस्सेव्यमानश्शङ्खचक्रधरो हरिः । सहस्रस्थूणसंयुक्ते मण्डपे परमेश्वरः ॥ विन्यस्य वामकं बाहुमासने वामपार्श्वके । दक्षिणं जानुके न्यस्तं लम्बयन् जगतां पतिरिति । एवमेव ध्यानं भाष्यकारैर्नित्ये प्रोक्तम् । बलपौ- ष्करे तु * देवो वैकुण्ठनाथस्तु अनन्तासनसंस्थितः । सेव्यः श्रीभूमिनीलाभिः प्रादुर्भा वैस्तु चाखिलैः ॥ शङ्खचक्रधरो नित्यं जानुन्यस्तैकहस्तवान् । अभयप्रदहस्तश्च नोलजीमूतसन्निभः ॥ ध्यातव्यो नित्यलोकस्थो भुक्तिमुक्तिफलपद इति । अत्र अभयप्रदहस्तत्वादिवैषम्यमवस्थाभेदादुपपद्यते । यत्तु कैश्चिदुक्तं-* मुखं किमस्य को बाहू * बाहू राजन्यः कृत इति पुरुषसूक्तवाक्याभ्यां * दशहस्त्या अङ्गुलयो दश पद्या द्वावूरू द्वौ बाहू आत्मैव पञ्चविंश इत्यैतरेयोक्त्या, * पाणि- भ्यां त्रयीं संभरतीत्यादिरहस्याम्नायोक्त्या च परस्य द्विभुजत्वं सिध्यतीति, तदयुक्तम् ; तेषां वाक्यानां प्रकरणादिभिरन्य- परत्वेन परस्य चतुर्भुजत्वप्रतिषेधादर्शनात् । यच्चोक्तं श्रीसावते * नादावसानगगने देवोऽनन्तस्सनातनः । शान्त- ॥ ॥
भोमवेदान्तदेशिकमन्थमाला
॥
संवित्स्वरूपस्तु भक्तानुग्रहकाम्यया ॥ अनौपम्येन वपुषा समूतों मूर्ततां गतः । विश्वमाप्याययन् कान्त्या पूर्णेन्द्रयुततु.
ल्यया । वरदाभयदेनैव शङ्खचक्राङ्कितेन च । त्रैलोक्योद्धृतिदक्षेण युक्तः पाणिद्वयेन सः इति, तदिदं तत्रत्यहृद्याग-
विशेषविधिपरम् । श्रीपौष्करे * द्विभुजं पुरुषाकारं युक्तमादित्यसन्निभैः । ध्वजैराभरणैश्चिकैश्शङ्खचक्रादिसंज्ञितैरिति ।
सौमन्तवे च * निरस्त्रा द्विभुजा सौम्या शङ्खचक्रकराङ्किता । महापुरुषरूपा च सुप्रसन्ना विलक्षणेति । भारद्वाजे
च * द्विबाह्वोश्चक्रधृत्पाणिर्दक्षिणश्शङ्खधृत्परः । उपविष्टं तु मोक्षार्थी उत्थितं विश्वसिद्धय इति । साङ्कर्षणे च * पुरुषो-
तमस्य देवस्य शुद्धस्य स्फटिकत्विषः । समपादस्य पद्मो ह्येकवक्त्रस्य संस्थितिः ॥ वरदाभयहस्तौ द्वावप्रवृत्ताख्य-
कर्मण इति । एतान्यन्यानि चैवंविधानि वाक्यानि तत्तद्रूपसद्भावमात्रपराणि । यत्पुनरानन्दाख्यसंहितायामुक्तं * स्थूल-
मष्टभुजं प्रोक्तं तस्मादेतत्त्रयं यजेदिति । एतदपि पररूपमधिकृत्यैव बहीषु संहितासु चतुर्भुजत्वप्रतिपादनात् , इच्छा-
गृहीताभिमतोरुदेहस्य देवस्य वैकल्पिकध्यानपरतया सुसङ्गतम् । दृश्यते च नृसिंहकृष्णाद्येकैकरूपेष्वेव द्विभुजत्वचतुर्भुज-
त्ववर्णभेदाद्यवान्तरवैषम्यम् । परस्मिंश्च नित्योदितशान्तोदितादिविभागस्सम्प्रतिपन्न इति सर्व सुस्थम् । अत्र श्लोके ज्याकि-
णेत्यादिना स्वभक्तसंरक्षणार्थ महावीरत्वं प्रियावतंसेत्यादिना स्वानुरूपवीरपत्नीसंबन्धस्तत्पुरस्कारेण सर्वैरभिगमनीयत्वं च
सूच्यते ॥ ३३ ॥
उदग्रपीनांसविलम्बिकुण्डलालकावलीबन्धुरकम्बुकन्धरम् ।
मुखश्रिया न्यक्कृतपूर्णनिर्मलामृतांशुविम्वाम्बुरुहोज्ज्वलश्रियम् ॥
३४
एवं पीताम्बरप्रभृत्यारोहणक्रमेण भुजानुभवानन्तरं दिव्यकण्ठशोभां मुखशोभां चानुसन्धत्ते-उदग्रेति ॥ उदग्रमु-
न्नतं पीनमकृशमुदग्रपीनांसविलम्बिभ्यां कुण्डलालकावलिभ्यां बन्धुरा सुन्दरा कम्बुवदभिरामा त्रिरेखालंकृता कन्धरा यस्य
तथोक्तः । * रेखात्रयाङ्किता ग्रीवा कम्बुग्रीवेति कथ्यते । कुण्डलालकसमभिव्याहारः परभागकान्तिव्यञ्जनार्थः । * पापं
हरति यत्पुंसां स्मृतं सङ्कल्पनामयम् । तत्पुण्डरीकनयनं विष्णोक्ष्याम्यहं मुखमित्यादिप्रसिद्धां पावनमनोहरां मुखशोभा-
मनुभवति-मुखश्रियति । मुखकान्त्येत्यर्थः । न्यक्कृतेत्यादि । यस्य मुखश्रिया न्यकृतं पूर्णनिर्मलामृतांशुबिम्बमम्बु-
रुहोज्ज्वलश्रीश्च स एवमुदीरितः । अम्बुरुहश्रिय उज्ज्वलत्वं नूतनविकासकान्तिसौकुमार्यादिभिः । अमृतांशुबिम्बाम्बु-
रहयोर्वा द्वन्द्वः । तयोरुज्ज्वलश्रीरिति तत्पुरुषः ॥ ३४ ॥
प्रबुद्धमुग्धाम्बुजचारुलोचनं सविभ्रमभ्रूलतमुज्ज्वलाधरम् ।
शुचिस्मितं कोमलगण्डमुन्नसं ललाटपर्यन्तविलम्बितालकम् ।।
३५
उक्तप्रकारां मुखशोभा प्रत्येकावयवभावनया पुनरपि निर्विशति-प्रबुद्धेति ॥ प्रबुद्धं विकसितं मुग्धं नूतनं
सौम्यं वा । तथा च नैघण्टुकाः * मुग्धं सौम्ये नवे मूढ इति । अम्बुजवल्लोचनयोश्वारुत्वमाश्रितदर्शनप्रीतिविकसित-
त्वेन, तदनुग्रहयोगसौन्यतया कान्त्यतिशयाच्च । सविभ्रमभ्रूलतमित्यनेनापि स्वभक्तसम्प्राप्ति जनितोल्लासातिशयसूच्यते ।
उज्ज्वलाधरं प्रवालादिभ्योऽप्यधिकप्रकाशमानाधरम् । विद्रुममौक्तिकन्यायेनाधरशोभया विशेषितां स्मितशोभामाह-शुचि-
स्मितमिति । अवदातस्मितमित्यर्थः । अथवा * स्मयन्निव नृपो हन्तीतिवद्विरुद्वाभिसन्धि परिहर्तुमिह शुचित्वोक्तिः ।
एवं चोक्तं श्रीपोष्करे * पूर्वकर्मानलार्लानां ध्यायतां खेदशान्तये । स्वदन्तेन्दुचयोत्थेन हादयन् गोगणेन त्विति ।
कोमलगण्डं सुकुमारकपोलम् । उनसम् उन्नतनासावंशम् । अलकानां पश्चादंसलम्बित्वं प्रागुक्तम् । अत्र तु पुरस्ता-
ललाटो भागलम्बित्वमाह-ललाटपर्यन्तविलम्बितालकमिति ॥ ३५ ॥
व्याख्यानविभागे स्तोत्ररत्नभाष्यम्-श्लो. ३७ ७३ . स्फुरकिरीटाङ्गदहारकण्ठिकामणीन्द्रकाञ्चीगुणनू पुरादिभिः । रथाङ्गशङ्खासिगदाधनुर्वरैर्लसत्तुलस्या वनमालयोज्ज्वलम् ॥ ३६ ईश्वरत्वेन शङ्कनीययोः ब्रह्मरुद्रयोरादिमं रूपं तापसवेषेण कर्मवश्यत्वव्यञ्जकम् । भगवतस्तु किरीटादियोगात् सर्वेश्वरत्वख्यापकमित्यभिप्रायेणाऽह–स्फुरत्किरीटेति ॥ कण्ठिका कण्ठभूषणं मणीन्द्रः कौस्तुभः, स च जीवतत्त्वाभि- मानी । आदिशब्देनापरिमितानि दिव्याभरणान्तराणि संगृह्यन्ते । रथाङ्गादयः पञ्च मनस्तत्त्वतामसाहङ्कारसम्यग्ज्ञानबुद्धि- तत्त्वसात्विकाहङ्काराभिमानित्वेन प्रसिद्धाः । स्पर्शरूपगन्धविशेषैर्लसन्ती तुलसी लसत्तुलसी तया ; यद्वा लसन्ती तुलसी यस्यास्सा तयेति वनमाला विशेष्यते । स्फुरदुज्ज्वलमिति पदाभ्यामाभरणादेविग्रहस्य चान्योन्ययोगादपि शोभमानत्वं ख्याप्यते । अत्र * स्रग्वस्त्राभरणैर्युक्तं स्वानुरूपैरनूपमैः । चिन्मयैस्स्वप्रकाशैश्च अन्योन्यरुचिरञ्जितैरित्यादिकं द्रष्टव्यम् । चिन्मयैः अस्पृष्टसंसारतत्तद्देवतात्मकरित्यर्थः ॥ ३६ ॥ चकर्थ यस्या भवनं भुजान्तरं तव प्रिय धाम यदीयजन्मभूः । जगत्समस्तं यदपाङ्गसंश्रयं यदर्थमम्भोधिरमन्थ्यबन्धि च ॥ ३७ ईदृशकिरीटादिभिस्सर्वेश्वरत्वेन व्यञ्जितस्य भगवतस्साम्राज्यं सलक्ष्मीकस्येति त्रिभिः श्लोकैः सहेतुकमनुसन्धत्ते । तत्र * ततोऽवलोकिता देवा हरिवक्षःस्थलस्थया * श्रियमुन्निद्रपद्माक्षीं विष्णुवक्षस्थले स्थिताम् , * का चान्या त्वामृते देवि! सर्वयज्ञमयं वपुः । अध्यास्ते देवदेवस्य योगिचिन्स्यं गदाभृत इत्यादिपूक्तमाह-चकर्थ यस्या भवनं भुजान्तर- मिति ॥ * एष नारायणः श्रीमान् क्षीरार्णवनिकेतनः । नागपर्यङ्कमुत्सृज्य ह्यागतो मधुरां पुरीमित्यादिप्रसिद्धमाह- तव प्रियं धाम यदीयजन्मभूरिति । ब्रह्मादीनां सर्वेषां तत्कटाक्षाधीनवैभवत्वमाह-जगत्समस्तं यदपाङ्गसंश्रय- मिति । यथोच्यते * त्वया देवि! परित्यक्तं सकलं भुवनत्रयम् । विनष्टप्रायमभवत्त्वयेदानीं समेधितम् ॥ त्वया- ऽवलोकितास्सद्यश्शीलाद्यैस्सकलैर्गुणैः । धनैश्वर्यैश्च युज्यन्ते पुरुषा निर्गुणा अपि ॥ स श्लाध्यस्स गुणी धन्यः स कुलीनस्स बुद्धिमान् । स शूरस्स च विक्रान्तो यं त्वं देवि निरीक्षसे ॥ इत्यादि । श्रीमहाभारते च श्रीवासवसंवादे स्वयमेव देवदेव्या स्ववैभवं प्रदर्शितं-* पुण्येषु त्रिषु लोकेषु सर्वे स्थावरजङ्गमाः । ममात्मभावमिच्छन्तो यतन्ते परमा- त्मना ॥ साऽहं वै पङ्कजे जाता सूर्यरश्मिप्रबोधिते । भूत्यर्थं सर्वभूतानां पद्मा श्रीः पद्ममालिनी ॥ अहं लक्ष्मीरहं भूमिः श्रीश्चाहं बलसूदन! । अहं श्रद्धा च मेधा च सन्नतिविजितिस्मृतिः ॥ अहं धृतिरहं सिद्धिरहं त्वद्भतिरेव च । अहं स्वाहा स्वधा चैव सन्नतिनियतिः कृतिः ॥ राज्ञां विजयमानानां सेनाग्रेषु ध्वजेषु च । निवासे धर्मशीलानां विषयेषु पुरेषु च ॥ जितकाशिनि शूरे च संग्रामेष्वनिवर्तिनि । निवसामि मनुष्येषु सदैव बलसूदन ! ॥ धर्मनित्ये महाबुद्धौ ब्रह्मण्ये सत्यवादिनि । प्रश्रिते दानशीले च सदैव निवसाम्यहम् ॥ यत्राहं तत्र मत्कान्ता मद्विशिष्टा मदर्पणाः । सप्त देव्यो मदष्टम्यो वासं चैप्यन्ति चाष्टधा ॥ आशा श्रद्धा धृतिः क्षान्तिर्विभूतिस्सन्नतिः क्षमा ॥ अष्टमां विद्धि मां तासां पुरोगां पाकशासनेति । श्रीविष्णुस्मृतेरन्ते ब्रह्मपुराणे च सहस्रनामस्तोत्रे भगवच्छास्त्रे च हिरण्यगर्भका- श्यपमङ्कणधनदादिसंहितासु ब्रह्मरुद्रेन्द्रादीनां तदधीनवैभवत्वं विस्तरेण द्रष्टव्यम् । यदर्थं यत्प्राप्त्यर्थमिति यावत् । परस्परविश्लेषप्रसङ्गरहितयोरेव लक्ष्मीतद्वल्लभयोः विश्लेषाभिनयेन पुनः प्राप्तिरुच्यते । स्वसङ्कल्पनियता च स्वतन्त्रलीला । । ॥ । C-10
७४
श्रीमद्वेदान्तदेशिकग्रन्थमाला
न पर्यनुयोगमर्हति । अमन्थि विष्ण्ववतारे । अबन्धि रामावतारे । यथोक्तं * ततः स्फुरत्कान्तिमती विकासिकमले
स्थिता । श्रीदेवी पयसस्तस्मात् उत्थिता धृतपङ्कजेत्यारभ्य * दिव्यमाल्याम्बरधरा स्नाता भूषणभूषिता । पश्यतां सर्वदेवा-
नां ययौ वक्षःस्थलं हरेरिति, * एष सेतुर्मया बद्धस्सागरे मकरालये । तव हेतोविशालाक्षि ! नलसेतुस्सुदुष्कर इति
च । अत्र जगत्समस्तमिति पादेनानुरूपत्वं पादान्तरैरभिमतत्वं च प्रख्यापितम् ॥ ३७ ॥
स्ववैश्वरूप्येण सदाऽनुभूतयाऽप्यपूर्ववद्विस्मयमादधानया ।
गुणेन रूपेण विलासचेष्टितैः सदा तवैवोचितया तव श्रिया ॥
३८
उक्तमेवाभिमतानुरूपत्वमनन्तरश्लोकेन प्रपञ्चयति-स्ववैश्वरूप्येणेति ॥ स्वस्य विश्वशरीरकत्वेनेत्यर्थः । सदा-
ऽनुभूतया * यो वेत्ति युगपत्सर्वं प्रत्यक्षेण सदा स्वत इतीदृशेन सहजप्रत्यक्षेण सदा साक्षात्कृतयेत्यर्थः । एतदभिप्रायेण
तदविनाभूतवैश्वरूप्यस्य हेतुत्वोक्तिः । यद्वा स्वरूपादिसर्वाकारेण *शान्तानन्तेत्यादिप्रक्रियया सर्वदा गाढोपगूढत्वेनानु-
भवो विवक्षितः । अपूर्ववत् अदृष्टपूर्ववत् । यद्वा इतःपूर्वमनालोचितवत इवेत्यर्थः । विस्मयम् अद्भुतरसहेतुभूतं
भावम् , अनवधिकं प्रीतिविशेषमित्यर्थः । आदधानयेत्यत्रापि सदेत्यभिप्रेतम् । एतेन स्वभावसिद्धमभिमतत्वं प्रपञ्चितम् ।
गुणेनेत्यादिना तु सर्वप्रकारानुरूपत्वमुच्यते । गुणशब्द इह ज्ञानकारुण्यादिविषयः । रूपेणाप्राकृतेनाखिलजगन्मातृ-
त्वाभिव्यञ्जकेन दिव्यविग्रहेण । विलासैः भगवदभिमतैलीलाविशेषैः । चेष्टितैः आश्रितरक्षणावतारादिभिः । तवै-
वोचितयेत्यनेन * तुल्यशीलवयोवृत्ताम् , * देवत्वे देवदेहेयम् * देवतियङ्मनुष्येष्वित्यादिपूक्तमनुरूपत्वं प्रतिपाद्यते ।
तव श्रियेत्यनेन * विष्णोः श्रीरनपायिनीत्यादिप्रसिद्धं नित्यव्यवस्थितपतिपारार्थ्य प्रतिष्ठापितम् । तृतीयान्तानां तयेत्यु-
त्तरश्लोकस्थपदेनान्वयः ॥ ३८ ॥
तया सहासीनमनन्तभोगिनि प्रकृष्टविज्ञानबलैकधामनि ।
फणामणिबातमयूखमण्डलप्रकाशमानोदरदिव्यधामनि ।।
३९
वैकुण्ठे तु परे लोके श्रिया साध जगत्पतिः । आस्ते विष्णुरचिन्त्यात्मा इति पुराणप्रसिद्धमाह-तया
सहेति ॥ भूम्यादिपन्यन्तरवतोऽपि श्रियः प्राधान्यादिह तदुक्तिः ; तदपेक्षयाऽपि भगवतः प्राधान्यव्यञ्जनाय सह-
शब्दः । आसीनमित्यनेन * सहस्रस्थूणे विनिर्मिते दृढ उग्रे यत्र देवानामधिदेव आस्ते इति तवल्कारश्रुतिः स्मार्यते ।
उपात्ता चेयमभियुक्तैः-* सर्वात्मसाधारणनाथगोष्ठीपूरेऽपि. दुप्पूरमहावकाशम् । आस्थानमानन्दमयं सहस्रस्थूणादि-
नाऽऽम्नातमवाप्मवानीति । अनन्तभोगिनि * गन्धर्वाप्सरसस्सिद्धास्सकिन्नरमहोरगाः । नान्तं गुणानां गच्छन्ति
तेनानन्तोऽयमुच्यते इति सुप्रसिद्धानन्तनाम्नि विश्वभराधारणविनियुक्त महाभोगिनि । प्रकृष्टविज्ञानवलैकधामनि प्रकृष्टयो-
विज्ञानबलयोरेकाश्रये । अस्य सङ्कपणाख्यव्यूहाभिमानविशेषयोगात्तदनुगुणौ गुणाविह निर्दिश्येते । पञ्चविधज्योतिस्सि-
द्धान्तप्रवर्तकत्वेन ज्ञानप्रकर्पोऽस्य प्रसिद्धः । सर्वाधारभूतभगवद्विग्रहधारणेन बलप्रकर्षोऽस्य व्यक्तः । * तेनेयं नागवयेण
शिरसा विधृता मही। विभर्ति माला लोकानां सदेवासुरमानुषामित्यादिभिश्च । यस्य फणामणिबातमयूखमण्डलैः
प्रकाशमानोदरं दिव्यधाम स एवमाश्चर्याकारतयोत्तरार्धेनोक्तः । दिव्यधामशब्दोऽत्र वैकुण्ठाख्यमप्राकृतं नित्यं दिव्यं
भगवद्विमानं वदति ॥ ३९ ॥
व्याख्यानविभागे स्तोत्ररत्नभाष्यम्-श्लो. ४०-४२ ७५ ४० निवासशय्यासनपादुकांशुकोपधानवर्षातपवारणादिभिः । शरीरभेदैस्तव शेषतां गतैर्यथोचितं शेष इतीरिते जनैः । उक्तप्रभाव पर्यभोगिनं वृत्तिविशेषानुगुणसमाख्यान्तरेणापि विशिनष्टि-निवासेति ॥ निवासो दिव्यायतनम् । शय्यात्वं योगनिद्रावस्थायाम् । आसनं पर्यङ्कविद्यादिष्वाम्नातं दिव्यसिंहासनम् । पादुके * अधिरोहार्य ! पादाभ्यां पादुके हेमभूषिते । एते हि सर्वलोकस्य योगक्षेमं विधास्यत इत्यवतारदशायां प्रसिद्धवैभवे । अंशुकं पीताम्बरादि । उपधानमुत्तमाङ्गधारकं पादधारकं च । वारणशब्दस्य द्वन्द्वात्परत्वाद्वर्पवारणमातपवारण चेति योज्यम् । आदिशब्देन पादपीठादिसंग्रहःः । शरीरभेदैरित्यनेन * अपरिमितधा भवतीतिन्यायोऽभिप्रेतः । तव कैङ्कयोद्देश्यदिव्यमङ्गलविग्रह- विशिष्टस्य । शेषतां स्वोपकारताप्राधान्यानादरेण परोपकारार्हताम् । * शेषः परार्थत्वादिति सूत्राभिप्रेतं वेदार्थसंग्रहे विवृतं *परगतातिशयाधानेच्छयोपादेयत्वमेव यस्य स्वरूपं स शेष इति । यथोचितम् उक्तप्रवृत्तिनिमित्तानुगुणमित्यर्थः । जनैरित्येतत्पामरपरीक्षकसर्वलोकप्रसिद्धिज्ञापनार्थम् ॥ ४० ॥ दासस्सखा वाहनमासनं ध्वजो यस्ते वितानं व्यजनं त्रयीमयः । उपस्थितं तेन पुरो गरुत्मता त्वदघिसंमर्दकिणाङ्कशोभिना । ४१ एवमनन्तवत्तत्तदवसरोचितसेवार्थनानाविधरूपभेदैः किंकुर्वाणेन गरुत्मता सेवितत्वमाह-दास इति ॥ पूर्वश्लोके शेषत्वमुक्तम् । अत्र तु दासशब्देन तदेव विशेप्यते । शेषत्वं हि अचेतनत्वं प्रत्यचेतनस्यापि भवति । दासत्वं तु चेतनं प्रत्येव चेतनस्यैव स्यात् , तथैव लोकव्यवहारात् । अत्र प्रथमं दास इत्युक्तिस्सखित्वाद्यवस्थायामपि स्वाभाविकस्य दासत्वस्यानपगमद्योतनार्था । उच्यते हि * लोकनाथस्य रामस्य सखा दासोऽस्मि रावणेति । गरुत्मतस्तु सखित्वं कदाचिदभिनयप्रयुक्तम् । यद्वा * समानचित्तवृत्तित्वं सखित्वमिति दर्शितमित्याद्यक्तचित्तवृत्तिसाम्यमिह विवक्षितम् । वाहनत्वादिकं तु गमनाद्यवस्थामु यथार्ह भाव्यम् । त्रयीमयः सर्ववेदमयविग्रह इत्यर्थः । श्रूयते हि *सुपणोऽसि गरुत्मान् त्रिवृत्ते शिरो गायत्रं चक्षुरित्यादि । तथा * तस्य गायत्री जगती च पक्षावभवताम् , उष्णिक च त्रिष्टुप् च पृष्ठ्यौ अनु- टुप् च पङ्क्तिश्च धुर्यो, बृहत्येवोक्तिरभवत् , स एतं छन्दोरथमास्थाय, एतमध्वानमनुसमचरदिति । पुरः उपस्थित पुरस्तादाभिमुख्येन सेवितमित्यर्थः । त्वदघिसम्मर्दकिणाङ्कशोभिनेत्येतत्पूर्वोक्तज्याकिणन्यायेन कर्मवश्यत्वाभिनयदशायां भाव्यम् ॥ ४१ ॥ त्वदीयभुक्तोज्झितशेषभोजिना त्वया निसृष्टात्मभरेण यद्यथा । प्रियेण सेनापतिना न्यवेदि तत्तथाऽनुजानन्तमुदारवीक्षणैः ॥ ४२ अथ भगवतस्स्ववैभवानुरूपं स्वसङ्कल्पकल्पितनित्याधिकारसेनापतिसेवाप्रकारमभिदधानः * श्रीशभुक्तोज्झितशेप- जीवन इति तन्मन्त्रोक्तमाह-त्वदीयभुक्तोज्झितशेषभोजिनेति ॥ त्वदीयभुक्तं त्वद्भुक्तमित्यर्थः । यद्भोक्तव्यतया भोजनपात्रनिहिते किंचिदभुक्तं स्यात् तद्भक्तोज्झितमित्युदीर्थते । तदेवात्र भुक्तशिष्टतया शेषशब्दार्थः । यद्वा भुक्तो- ज्झितैकदेशविषयोऽयं शेषशब्दः, अंशान्तरस्यान्यार्थतया विभजनीयत्वोक्तेः । त्वया निसृष्टात्मभरेण स्वच्छन्दवृत्तिना त्वया समर्पितात्मभरेणेत्यर्थः । असुरनिराकरणादिषु सेनानिर्वहणादिभारस्सेनापतित्वेन कल्पिते ह्यस्मिन् विन्यस्यते । . ."
७६ श्रीमद्वेदान्तदेशिकग्रन्थमाला अतस्तन्नियोगपूर्वकमन्ये प्रवर्तन्ते । जगत्सृष्टयादिभारोऽस्मिन् समर्पित इति केषांचियाख्यानं तु भगवदधीनतत्प्रभावातिशय- प्रशंसार्थम् । एकस्यैव हि सर्वशरीरिणो * बहु स्यामिति सङ्कल्पक्षमत्वमिति प्रागेव स्थापितम् । अत एव * श्रीमति विष्वक्सेने न्यस्तसमस्तात्मैश्चर्यमिति श्रीवैकुण्ठगद्योक्तिरपि भक्तानां स्वामिसेवाविघ्नप्रशमने परिजननियोगादौ च योजनी- या । विष्वक्सेनमन्त्रे तु * विश्वसृज इति पदं मुक्तवत्प्रभूतसृष्टिमात्रपरम् । विशेष्यभूतपरमात्मपर्यन्तं वा नेतव्यम् । नित्यानां ज्ञानभोगयोः ईश्वरेण मिथश्चात्यन्तसाम्येऽपि विग्रहाधिकारयोर्वैषम्यं भगवन्नित्येच्छासिद्धम् । प्रियेणेत्येतदन- न्तगरुडादिष्वपि समानम् । अत्र तु विज्ञापनाधिकारिणि वाक्यानतिलङ्घनार्थं विशेषत उक्तम् । निवेदितमिति पाठे यदित्यस्य तदिति प्रतिनिर्देशोऽध्याहर्तव्यः । न्यवेदि तदिति पाठस्समीचीनः । यद्त्ते पूर्व प्रयुक्ते तद्वृत्तमनन्तरं प्रयो- क्तव्यमेवेति ह्याहुः । सेनापतिनिवेदितस्य भगवदभिमतत्वमाह-तत्तथाऽनुजानन्तमुदारवीक्षणैरिति । भगवति तत्परि- जने च सर्वज्ञेऽप्येवं निवेदनप्रेक्षणादिव्यापारास्स्वच्छन्दलीलाप्रवृत्ताः । यद्यथा तत्तथेति स्वरूपप्रकारयोरविसंवादार्थम् । वीक्षणानामुदारत्वमैश्वर्यव्यञ्जकतया सौन्दर्यादिगुणातिशयात्तदाज्ञाभिप्रायगर्भतयाऽऽनन्दप्रदत्वाच्च ॥ ४२ ॥ हताखिलक्लेशमलैः स्वभावतस्त्वदानुकूल्यैकरसैस्तवोचितैः । गृहीततत्तत्परिचारसाधनैनिषेव्यमाणं सचिवैर्यथोचितम् ।। ४३ त एते नित्यसूरिषु प्रधानतमास्त्रय उक्ताः । अथ तद्वदसङ्ख्यातनित्यसूरिसेवाप्रकारमात्मनः प्राप्यत्वेनाभिसन्धा- याह-हताखिलेति ॥ अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः त एव मलत्वेनोच्यन्ते । तदविनाभूतत्रिगुणात्मक- प्रकृतिसंबन्धो वा । अप्रतिबुद्धास्सर्वक्लेशाक्रान्ताः, प्रतिबुद्धास्तु कतिपयक्लेशरहिताः, उपायतो निवृत्तनिखिलक्लेशास्तु मुक्ताः, नित्यास्त्वनादिनिधूतनिखिलक्लेशा इत्यभिप्रायेण स्वभावत इत्युक्तम् । श्रूयते हि * तद्विष्णोः परमं पदं सदा पश्यन्ति सूरय इति । न वेतन्मुक्तप्रभावविषयं, सदा दर्शनकर्तृणां बहूनामभिधानात् । नित्यसर्वज्ञत्वादेव क्लेशादे- रनवकाशः । एतेषां * तद्विप्रासो विपन्यवो जागृवांसस्समिन्धत इत्युक्तमनुभवप्रकारमभिप्रेत्याह-त्वदानुकूल्यैकरसै- रिति । त्वच्छेषत्वानुरूपपारतन्व्यानुगुणकैङ्कयकरुचिभिरित्यर्थः । सदानुकूल्येति पाठेऽप्ययमेवार्थः । तवोचितैः अनादिसर्वज्ञत्वाप्राकृतविग्रहत्वादिभिस्त्वदनुरूपैरित्यर्थः । एतद्विशेषणत्रयमेतेषां भगवदायत्तम् । इदं चानन्तगरुडादीना- मपि समानम् । परिचारसाधनानि छत्रचामरादिसेवोपकरणानि । सचिवैः-आसन्नसेवायां तत्तद्विभूतिशेषनिर्वहणे च नियुक्तैस्सूरिभिः । यथोचितं तत्तदधिकारनियोगस्य सेव्याभिप्रायस्य स्वाभाविकदासत्वस्य चानुगुणमित्यर्थः ॥ ४३ ॥ अपूर्वनानारसभावनिर्भरप्रबद्धया मुग्धविदग्धलीलया । क्षणाणुवक्षिप्तपरादिकालया प्रहर्षयन्तं महिषी महाभुजम् ।। ४४ ईदृशस्य भगवतस्सर्वेषु व्यापारेषु लक्ष्मीसामरस्यमभिप्रेत्याह-अपूर्वेति ॥ उक्तं च श्रीवत्साङ्कमित्रैः-* क्रीडेयं खलु नान्यथाऽस्य रसदा स्यादैकरस्यात्तयेति । अपूर्वशब्देन रसभावपरंपरायामुत्तरोत्तरस्य विलक्षणत्वमननुभूतजातीयवदा- श्चर्यत्वं वा विवक्षितम् । रसभावाः गान्धर्ववेदप्रदर्शिताः वीरशृङ्गारादय उत्साहादयश्च । तैनिर्भरप्रबद्धया-प्रभूतस- न्ततया । मौग्ध्यवैदग्ध्यसम्भेदादद्भुतत्वमभिप्रेत्याह-मुग्धविदग्धलीलयेति । लीलाया नित्यनिरतिशयत्वं व्यनक्ति- क्षणाणुवक्षिप्तपरादिकालयेति । क्षणमेव पर्वतस्थानीयं कृत्वा तस्याणुस्सूक्ष्मतम एकदेश इति कल्पितोऽयं दृष्टान्तः, ४६ - व्याख्यानविभागे स्तोत्ररत्नभाष्यम्-श्लो. तद्वत्परादिकालः क्षिप्त इत्यतिशयोक्तिः । चतुर्मुखस्यायुः परो नाम कालः । आदिशब्देनासङ्ख्यातचतुर्मुखातिक्रान्तिका- लव्यञ्जनम् । स्मयते हि * गङ्गायास्सिकताधारा यथा वर्षति वासवे । शक्या गणयितुं लोके न व्यतीताः पितामहा इति । महिषी प्रधानपत्नीं श्रियमित्यर्थः । उक्तं च तस्याः प्रधानतमत्ववैषम्यं श्रीवैकुण्ठगद्य-* शेषशेषाशनादिसर्वपरि- जनं भगवतस्तत्तदवस्थोचितपरिचर्यायामाज्ञापयन्त्येति । प्रहर्पयन्तमिति वर्तमाननिर्देशस्सदातनत्वाभिप्रायः । एवं प्रहृष्टायाः प्रियायाः * बभूव हृष्टा वैदीही भर्तारं परिषस्वज इत्युक्तप्रकारेण सर्वस्वभूतपरिप्वङ्गप्रदानानुगुणं प्रियस्य भुजवैभवमाह- महाभुजमिति । उक्तं ह्यवतारे तद्भुजमहत्त्वं * बाहुच्छायामवष्टब्धो यस्य लोको महात्मन इति ॥ ४४ ॥ अचिन्त्यदिव्याइतनित्ययौवनखभावलावण्यमयामृतोदधिम् । श्रियः श्रियं भक्तजनैकजीवितं समर्थमापत्सखमर्थिकल्पकम् ॥ ४५ अथ प्रथमप्रस्तुतां यौवनविशेषितां सर्वचित्ताकर्षकसमुदायशोभामाश्रयणीयत्वभोग्यत्वौपयिकगुणविशेषांश्च सङ्क- लय्यानुभवति-अचिन्त्येति ॥ अचिन्त्यं परमयोगिभिरप्यपरिच्छेद्य कुतरसंभावितमिति प्रतिक्षेप्तुमशक्यं च । दिव्य- मप्राकृतम् । अद्भुतं सदाऽनुभूतत्वेऽप्यदृष्टपूर्ववदाश्चर्यावहम् । नित्यं कौमारवार्धकावस्थापरिच्छेदरहितम् । यौवनं लोके बाल्यानन्तयेणोपलक्षणीयः कश्चिद्रमणीयसंस्थानविशेषः । स एव स्वभावः स्वासाधारणधर्मो यस्य स इत्यमृतोदधिर्विशे- प्यते, स च लावण्यमयः लावण्यप्रचुरः । लावण्यं समुदायशोभा । तदेतल्लक्षयन्ति * भूयिष्ठं तेज एवाद्भिर्बहुलाभि- सृदृकृतम् । चक्षुरानन्दजननं लावण्यमिति कथ्यत इति । निरतिशयभोग्यमहत्तराकारत्वमभिप्रेत्यामृतोदधित्वोपचारः । अप्राकृतामृतद्रव्यात्मकत्वं वा विवक्षितम् । पूर्व * कः श्रीः श्रिय इति परत्वस्थापनायोक्तम् । अत्र तु कैङ्को द्देश्य निरतिशयभोग्यं रूपं सपत्नीकमिति ज्ञापयितुमाह-श्रियाश्रियमिति । भक्तजनकजीवितं भक्तजनानां प्रधानजीवितम् । * मच्चित्ता मद्गतप्राणा इत्यादिकमिह भाव्यम् । यद्वा भक्तजना एव जीवितं यस्य स तथोक्तः । तथाविधप्रीत्यतिशया- देव हि स्वयमेवाह-* ज्ञानी त्वात्मैव मे मतमिति, * मम प्राणा हि पाण्डवा इति च । समर्थं जगत्सृष्ट्यादाविवाश्रि- तानां सात्म्यभोगप्रदाने तद्विरोधिनिरसने च प्रतिबन्धकैः प्रतिहन्तुमशक्यमिति भावः । तथा च गीयते-* परित्राणाय साधूनामित्यादि । आपत्सखम् आश्रितानामापदि प्रियसखन्यायेन समानार्थतयाऽवस्थितमित्यर्थः । अर्थिकल्पकमित्यत्र स्वार्थे कः । अर्थिनां कल्पद्रुमवत् सर्वापेक्षितप्रदमिति यावत् । तथा च सूत्रितम्-*फलमत उपपत्तेरिति । यद्वा अर्थिनः कल्पद्रुमभूता यस्य सोऽर्थिकल्पकः ; तदाह-* उदारास्स एवैत इति । अथवा स्वयमर्थिनः कल्पयतीत्यर्थः । क्षेत्रज्ञानां तत्तत्पुरुषार्थाधिकारदशाऽपि हि परमपुरुषकल्पिता ॥ ४५ ॥ भवन्तमेवानुचरनिरन्तरं प्रशान्तनिश्शेषमनोरथान्तरः । कदाऽहमैकान्तिकनित्यकिंकरः प्रहर्षयिष्यामि सनाथजीवितः ॥ ४६ एवं प्राप्यं भगवन्तं यथावस्थितमनुसन्धाय तज्जनितहर्षप्रकर्षेण परमपुरुषार्थकाष्ठाभूतं निरुपाधिककैकयमभ्यर्थ- यते-भवन्तमिति ॥ प्राप्यप्रापकत्वानुगुणप्रागुक्तसर्वाकारपरिपूर्णमित्यर्थः । कर्माधीनसेव्यान्तरनिवृत्तिव्यञ्जनार्थ एवकारः । एतेन * गीतिज्ञो यदि योगेन नाप्नोति परमं पदम् । रुद्रस्यानुचरो भूत्वा तेनैव सह मोदत इत्यादिवृक्तं रुद्राद्यनुचरणं च व्यवच्छिन्नं भवति । यद्वा मुक्तस्य स्वेच्छया भगवत्परिजनसेवाऽपि तच्छेषिपर्यन्तत्वबुद्धिपूर्विकेत्यभिप्रायः । अनुचरन् ७८ श्रीमद्वेदान्तदेशिकग्रन्थमाला , ४७ तत्तदवस्थोचितवृत्त्या सेवमान इत्यर्थः । अत्र त्ववान्तरसेवाव्यावृत्त्यर्थं निरन्तरमित्युक्तम् । उत्तरावधिराहित्यमभिप्रेत्य वर्तमानव्यपदेशः । * एतमानन्दमयमात्मानमुपसंक्रम्य इमाँल्लोकान् कामान्नी कामरूप्यनुसञ्चरन्निति श्रुतिश्चानेन सूच्यते। अत्र * कुरुष्व मामनुचरम् , * भवांस्तु सह वैदेह्या गिरिसानुषु रंस्यते । अहं सर्वं करिष्यामि जाग्रतस्स्वपतश्च ते, * तवानुभूतिसंभूतप्रीतिकारितदासताम् । देहि मे कृपया देव न जाने गतिमन्यथा ॥ सर्वावस्थोचिताशेषशेषतैकरति- स्तव । भवेयं पुण्डरीकाक्ष त्वमेवैवं कुरुष्व मामित्यादिकमनुसन्येयम् । एवंविधकैयसिद्धयर्थं प्रयोजनान्तरेच्छा त्वयैव प्रशमनीयेत्यभिप्रायेणाह-प्रशान्तनिश्शेपमनोरथान्तर इति । ऐकान्तिकः एकस्मिन्नेव नियतः । यद्यपि ब्रह्मरुद्रप्राप्ती कचिदपुनरावृत्तिरुच्यते, तथाऽपि * ब्रह्मणा सह ते सर्व संप्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पद- मित्युक्तन्यायात् क्रमेण मुक्तिपर्यन्तत्वं तत्राभिप्रेतम् । अतोऽत्र नित्यशब्देन देवतान्तरकिङ्करत्वव्यवच्छेदः । तदेतत् * क्वाहमत्यन्तदुर्बुद्धिरित्यादिवादिनं पुण्डरीकं प्रति भगवतोक्तम्-* आगच्छ वत्स भद्रं ते पुण्डरीक महामते । मद्रूप- धारी नित्यात्मा मम पादपरिग्रह इति । प्रहर्षयिष्यामि त्वद्दासभूतस्य मे त्वत्प्रहर्ष एवं प्रधान प्रयोजनमिति भावः । एवं स्वाधीनस्वार्थकर्तृत्वभोक्तृत्वभ्रमरहितकैङ्कयप्रार्थना कृता भवति । इतः पूर्वं त्वदुपेक्षया त्वत्सनाथोऽपि नाथहीन इवाहमासम् । ईदृशं दैन्यं त्वत्सङ्कल्पादेव हि मे निवर्तिप्यत इत्यभिप्रायेणाह-सनाथजीवित इति ॥ ४६॥ धिगशुचिमविनीतं नि[भ]दयं मामलजं परमपुरुप योऽहं योगिवर्याग्रगण्यैः । विधिशिवसनकाद्यैर्ध्यातुमत्यन्तदृरं तव परिजनभावं कामये कामवृत्तः ।। नन्वेवं मुमुक्षुदशां मया त्वं प्रापितोऽसि ; इयं च मद्गुणास्वादगर्भतया मुक्त्यवस्थासमाना त्वया सनकादिभिरिख कञ्चित्कालमनुभूयतामिति भगवदभिप्रायमाशङ्कय स्वस्य कार्पण्यस्थन्ने विलम्बाक्षमतया त्वरातिशयव्यञ्जनाय च दुर्लभ- प्रार्थिनं स्वात्मानं निन्दति-धिगशुचिमिति ॥ धिक्शब्दयोगात् द्वितीया । ननु * आत्मनिन्दाऽऽत्मपूजा चेति स्वनिन्दाऽपि निषिद्धा । सत्यम् ; न तु सर्वत्र । यथा खल्वाञ्जनेयादेः स्वप्रशंसा क्वचिद्गुणः तथाऽऽत्मनिन्दाऽप्येतस्य स्वदैन्यख्यापनस्थल इति । अशुचिं त्वत्कैङ्कयविरुद्धप्रकृतिसंस्पृष्टं तदनुवन्धिक्लेशकर्मादिदूषितं भावशुद्धिरहितत्वेऽपि तद्वत्तां भावयन्तं च । नित्यशुद्धामसूरयश्शान्तदोषा मुक्तश्च त्वत्कैङ्कीयोग्याः । तत्र कोऽहमिति भावः । नन्वाचार्य- वन्तमात्मानं किमर्थं निन्दसीत्यत्राह-अविनीतमिति । यद्वा आचार्यनियोगे ममावस्थानं स्यात्तदा क्षत्रबन्धुवत् क्रमेण मुक्तस्स्याम् , मम त्वाचार्यवत्ताऽपि विनयाभावात्सात्त्विकविडम्बनाथैव संवृत्तेति भावः । अयोग्यस्य दुर्लभाभिलाषः * पर- द्रव्येप्वभिध्यानं मनसाऽनिष्टचिन्तनम् । वितथाभिनिवेशश्च त्रिविधं मानसं स्मृतमिति स्मरणादपचारस्स्यात् । अतः पुरोडाशार्थिनश्शुन इव मे दण्डघातस्म्यादिति भयरहितोऽहमित्याह-निर्भयमिति । निर्दयमिति केषांचित्पाटे तु परम- भागवतभोग्ये परमामृते विष सञ्जनयन्तमिति व्याचव्युः । अत्र च मदपराधेन मदनुबन्धिनामपि प्रत्यवायो भवेदिति ज्ञात्वाऽपि प्रवृत्ततया तेषु दयारहितोऽहमिति व्याख्यातुं युक्तम् । माम्-अहङ्कारादिग्रस्तमित्यभिप्रायः । घटदास्यास्सार्व- भौमपरिष्वङ्गाभिलाषवत् अनुचितविषयोऽस्य मनोरथ इति सद्भिः परिहास्यतामनुसन्धायाह-अलजमिति । सूरिसेव्यस्य भगवतस्स्वसंबन्धानह तुङ्गत्वं व्यनक्ति--परमपुरुषेति । स्वस्य निहीनतमत्वप्रसिद्धिमिदानीमपि दोषानुवृत्तिं चाभिप्रेत्याह- योऽहमिति । योगिषु वर्याः योगिवर्याः भगवद्भक्ताः । तथा च गीयते-* योगिनामपि सर्वेषामित्यादि । तेष्वग्र- गण्याः प्रथमपरिगणनीयाः । विधिशिवसनकाद्यैरित्युभयभावनानां ब्रह्मभावनानां च सर्वेषां संग्रहः । ध्यातुमत्यन्त- व्याख्यानविभागे स्तोत्ररत्नभाष्यम्-श्लो. ४९ ७९ । ४८ दूरमित्यनेन किंपुनः प्राप्तुमिति व्यज्यते । तव परिजनभावं स्वानुरूपानन्तगरुडाद्यपरिमितपरिजनवत्तया निरपेक्षं त्वां प्रति किकरत्वम् । यद्वा परिजनक्रियां सेवामित्यर्थः । कामये न मे केवलं सङ्गमात्रं किंतु विलम्बाक्षमतीव्रतमश्रद्धा- वानस्मीत्याशयः । कामतो वृत्तं यस्य सः कामवृत्तः । लोकशास्त्रानादरेणापरीक्षितयथेष्टकारीत्यर्थः । * लोकयात्रा भयं लज्जा दाक्षिण्यं धर्मशीलता । पञ्च यत्र न विद्यन्ते न कुर्यात्तेन सङ्गतिमिति सर्वपरित्याज्योऽहं कथं त्वत्प्राप्त्यर्ह इति भावः ॥ ४७॥ अपराधसहस्रभाजनं पतितं भीमभवार्णवोदरे । अगतिं शरणागतं हरे कृपया केवलमात्मसात्कुरु ॥ यद्येवं स्वेनापि निन्दनीयस्त्वमिदानीमप्यपराध्यसि, तर्हि कथं ते शीघ्रं मत्प्राप्ति दास्यामीत्यत्रानहस्यापि ममा- त्यन्तदयनीयतया त्वत्प्राप्त्यर्हतापादनमात्मसात्करणं च कृपया स्वयमेव कुर्वित्याह-अपराधेति ॥ * न निन्दितमिति पूर्वोक्तमत्रापराधसहस्रभाजनमित्यनृदितम् । तच्च क्षमादिगुणैकभाजनेन त्वया सर्वं क्षन्तव्यमिति सूचनार्थम् । * निमज्जत इति प्रागुक्तं पतितमित्यादिना पुनर्गृहीतम् । ज्ञानिनां पुण्यफलांशोऽपि रागानुवृत्तिहेतुतयाऽत्यन्तभयावह इत्यभिप्रायेण भीमशब्दः । एवं संसारस्यातिघोरत्वोक्त्याऽपि स्वम्य परप्राप्तौ विलम्बाक्षमत्वं प्रतिष्ठाप्यते । अगतिमित्यनेन प्रागुक्ता- नन्यगतित्वं स्थूणानिवनन्यायेन स्थिरीक्रियते । शरणागतमिति च पूर्वप्रयुक्तरक्षणव्याजानुवादः । तेन च * शरणं च प्रपन्नानां तवास्मीति च याचताम् । प्रसादं पितृहन्तॄणामपि कुर्वन्ति साधव इति सामान्यप्राप्तं त्वयि कैमुत्यसिद्धमिति व्यज्यते । शरण्येत्युक्तं हरिशब्देन स्थापितम् । समर्थः कारुणिको हि शरण्यः ; तत्रानितरसाधारणं भगवतस्सामर्थ्यम् । * ब्रह्माणमिन्द्रं रुद्रं च यमं वरुणमेव च । प्रसह्य हरते यस्मात्तस्माद्धरिरितीर्यते इति पुराणोक्तम् । तथा कारुणिकत्वं चाश्रितानामनिष्टानि हरतीति विवक्षया व्यञ्जितम् । स्मयते हि * हरिहरति पापानि, * देव प्रपन्नार्तिहरेत्यादि । उक्तं च परमसंहितायां-* यस्माद्व्याप्तं जगत्तेन तस्माद्विष्णुरिति स्मृतः । हरणादेव दुःखानां हरिरित्यभिधीयत इति । * ज्ञातं मया वसिष्ठेन पुरा गीतं महात्मना । महतीमापदं प्राप्य स्मर्तव्यो भगवान् हरिः, * परमापदमापन्नो मनसा चिन्तयेद्धरिमित्यादिकमप्येतदभिप्रायम् । कृपया लब्धावसरयेत्यभिप्रेतम् । केवलमितः परं मध्यापारनिरपेक्षमिति भावः । एतेत साधनानन्तरनिप्पादनद्वारकं रक्षण व्यवच्छिद्यते । आत्मसात्कुरु-दासभूतं मामुपायोपेयान्तरवैमुख्यकरणेन स्व- कैङ्कथैकरसं कुरुप्वेत्याशयः । * धिगशुचिमिति पूर्वोक्तस्वात्मतिरस्कारानुवृत्त्याऽऽत्मन्यनादरद्योतनायात्र मामित्यनुक्तिः ।। अविवेकघनान्धदिङ्मुखे बहुधा सन्ततदुःखर्पिणि । भगवन् भवदुर्दिने पथः स्खलितं मामवलोकयाच्युत ॥ ४९ *न धर्मनिष्ठोऽस्मात्यारभ्य अकिञ्चन इत्यन्तेनोक्तं प्रपञ्चयति-अविवेकेति ॥ अविवेकानैरन्धानि प्रकाश- रहितानि दिङ्मुखानि यस्य तत्तथोक्तम् । बहुधा-तापत्रयरूपेण शारीरमानसादितदवान्तरभेदैश्च । संततदुःखवर्षिणि अविच्छेदेन प्रतिकूलवर्ग सर्वत्र विदधाने । भगवन्-हेयप्रतिभटकल्याणैकतान, त्ववेव मां मोचयितुमर्हसीति भावः । प्रकाशगतिविरोधितया भवस्य दुर्दिनत्वरूपणम् । पथः-कर्मयोगादिनिवृत्तिधर्मरूपमुक्तिमार्गात् ; स्खलितं–प्रभ्रष्ट- मित्यर्थः । मां *त्वत्पादमूलं शरणं प्रपद्ये इतिवादिनमिति भावः । अवलोकय–अनुगृह्णीप्वेत्यर्थः । अच्युत-* नत्यजेयं कथंचनेत्यादिवादिनं त्वामाश्रितः च्युतो न भवतीत्यभिप्रायः । * मूढोऽयमल्पमतिरल्पविचेष्टितोऽयं क्लिष्टं मनोऽस्य विषयै- । ॥
श्रीमद्वेदान्तदेशिकग्रन्थमाला ने मयि प्रसङ्गी । इत्थं कृपां कुरु मयि प्रणतेऽखिलेश त्वां स्तोतुमम्बुजभवोऽपि हि देव नेश इति क्षत्रबन्धुक्तं, * सोऽहं ते देवदेवेशेत्यादि कालियवाक्यं चानुसन्धेयम् ॥ ४९ ॥ न मृषा परमार्थमेव मे शृणु विज्ञापनमेकमग्रतः । यदि मे न दयिष्यसे ततो दयनीयस्तव नाथ दुर्लभः ॥ ५० अथ संसारिणामानन्त्येन त्वदधिकदयनीयलाभात् तत्रैव मे त्वरा युक्ता किं त्वदवलोकनेनेत्यत्र त्वयाऽपि लब्धमभूतपूर्वमित्याद्युक्तं मुखान्तरेण शरण्यस्याप्यनिष्टप्रसङ्गं सूचयन् द्रढयति-न मृषेति ॥ स्ववाक्यसत्यत्वाभिसन्धि- द्योतनायात्र व्यतिरेकतोऽन्वयतश्च निर्देशः । परमार्थमेव विज्ञापनं शृण्वित्यत्र नेदं स्वरक्षणप्रोत्साहनमात्रेण प्रयुक्तमित्यव- धारणाभिप्रायः । विज्ञापन सर्वज्ञेऽपि स्वामिनि दासोचितं स्वकार्यार्थवाक्यमित्यर्थः । शृण्विति चानादरपरिहारपरम् । एकं रक्ष्यरक्षकयोयोरपि लाभार्थतया प्रधानभूतम् । अथवा इदमेकमेव विज्ञापनम् । वक्ष्यमाणं सर्वमेतत्परिकरबन्ध इति भावः । अग्रतः न हि त्वं दूरस्थस्सन् पुरुषान्तरमुखेन विज्ञाप्यस इति भावः । मे कर्मयोगादिसुकृतलेशरहितस्या- पराधसहस्रभाजनतया सर्वाधिकदुःखभागिनः । अत्र * अधीगर्थदयेशां कर्मणीति षष्ठी । तव दयाविषयान्वेषिण इति भावः । तव दयनीय इत्यन्वयः । दुर्लभ इत्यनेनान्वये तु संबन्धसामान्ये षष्ठी नेतव्या। मम च शरण्यान्तरं दुर्लभमित्यभिप्रायेण नाथेति संबुद्धिः । उक्तं हि पूर्व * चिराय मे कूलमिवासि लब्ध इति । * पराभवो नाथ न तेऽनुरूप इति प्रागुक्तं चात्र प्रतिसन्धेयम् ॥ ५० ॥ तदहं त्वदृते न नाथवान्महते त्वं दयनीयवान्न च । विधिनिर्मितमेदि]मन्वयं भगवन् पालय मा म जीहपः ॥ ५१ अस्त्वेवं दुर्लभस्ततः किं कर्तव्यमित्यत्र ममैव लाभेऽपि त्वया त्वरितव्यम् ; किं पुनस्तवापि लाभे सति ; तस्मादावयोरिष्टभङ्गानिष्टप्रसङ्गपरिहारार्थ त्वन्मूलत्वत्प्रवृत्तिसिद्धं रक्ष्यरक्षकत्वरूपं संबन्धं निवारकरहितनिरङ्कुशस्वातन्त्र्या- निष्फलीकर्तुं नार्हसीत्यभिप्रायेणाह-तदहमिति ॥ तत् उक्तस्याथस्य सत्यत्वादित्यर्थः । अहं मुमुक्षुम्सन्नाकिश्चन्यधनः । त्वदृते न नाथवान् सर्वशक्तेः परमकारुणिकात्त्वत्तोऽन्येन शरण्यवान्न भवामीत्यर्थः । मदृते त्वमित्यादि । अपरिच्छे- द्यापराधफलभूतानन्तदुःखाकरान्मत्तोऽन्येन त्वं दयाविषयवान्न भवसि । मत्परित्यागे मादृशाम्सर्वेऽपि तव परित्याज्या- स्स्युः । एवं सति विषयालाभात् दयागुणस्ते हीयेतेति भावः । सर्वस्मात्संसारिवर्गात् स्वकार्यसिद्धयर्थं स्वदोषाधिक्यमा- रोप्य वा मदृत इत्युक्तम् । विधिनिर्मितम् अनतिक्रमणीयतया दिष्ट्या निर्मितम् । अज्ञातसुकृतविशेषरूपव्याजाव- लम्बिन्या त्वत्कृपयैवावसरे क्लप्तमिति यावत् । एतमन्वयं दयावत्त्वदयनीयत्वरूपं संबन्धम् । एतदन्वयमिति केचि- त्यठन्ति । तत्रापि स एवार्थः । एतयोरावयोस्संबन्धमिति वा । भगवन्नित्यनेन मोक्षप्रदत्वमुक्तपाप्यत्वानुगुणमुभयलिङ्ग- त्वमुद्धाट्यते । पालय सफलीकुरुष्वेति भावः । मा स्म जीहपः यद्यप्यहमपर्यनुयोज्यदुष्कर्मवशादिमं संबन्धं हातुमि- च्छामि, तथाऽपि त्वया न तथा प्रवर्तनीयोऽहमिति भावः ॥ ५१ ॥ वपुरादिषु योऽपि कोऽपि वा गुणतोऽसानि यथातथाविधः । तदयं तव पादपद्मयोरहमद्यैव मया समर्पितः ।। ५२ . । ।
व्याख्यानविभागे स्तोत्ररत्नभाष्यम्-श्लो. ५३ अस्त्वेवं त्वदुक्तं सर्व सत्यमुचितं च ; तथाऽपि * ज्ञानानन्दमयस्त्वात्मा शेषो हि परमात्मन इत्याद्युक्तस्वरूप- ज्ञानमन्तरेण स्वरूपानुरूपपुरुषार्थापेक्षापूर्वकतदुपायः कथं ते निष्पन्नः ? त्वयि च सहजसंबन्धपरित्यागिनि ममापि रक्ष्य- रक्षकत्वसंबन्धपरित्यागे को दोषः ? * त्वं मेऽहं म इति चावयोरनादिविवाद इदानीमपि न शान्त इत्यत्र * स्वामिन्नित्या- दिभिः प्रागपि संक्षिप्तं, *तद्वा एतदनुज्ञाक्षरं द्धि किंचानुजानात्योमित्येव तदाहेति च्छान्दोग्याधीतानुज्ञाक्षरप्रदर्शितशेष- त्वाभ्युपगमेनोत्तरमाह-वपुरादिष्विति ॥ आदिशब्द इन्द्रियादिसंग्रहार्थः । यथोक्तमात्मसिद्धौ-* देहेन्द्रियमन:प्राण- [[दि]धीभ्योऽन्योऽनन्यसाधनः । नित्यो व्यापी प्रतिक्षेत्रमात्मा भिन्नस्स्वतस्सुखीति । योऽपि कोऽपि वा-अहं वपुरा- दिषु यः कश्चित् स्याम् । प्रमाणसिद्धस्याहमर्थस्य सारभूते त्वच्छेषत्वे मम निर्बन्धः । सामान्यतश्च स्वानुगुणसारग्रहण- मुच्यते * यावानर्थ उदपाने, * बहुभ्यश्च महद्भ्यश्च शास्त्रेभ्यो मतिमान्नरः । सर्वतस्सारमादद्यात् पुष्पेभ्य इव षट्पद इत्यादिभिः । अत्र देहात्मभ्रमाद्यनुवृत्तिर्भवतु वा मा वा, * योऽहमस्मि स सन् यज इति न्यायमिहाश्रयामीति भावः । तथाऽपि ज्ञातृत्वकर्तृत्वभोक्तत्वादिविवेकमन्तरेण कथमुपायानुष्ठानं फलितं वा स्यादित्यत्राह-गुणतोऽसानि यथातथा- विध इति । अणुत्वविभुत्वमध्यपरिमाणत्वजडत्वाजडत्वनित्यज्ञानत्वकरणाधीनज्ञानत्वादिविवेकोऽत्र नातीवापेक्षितः । अपेक्षितत्वेऽप्यात्मस्वरूपप्रकारयोरत्यन्तपरिज्ञाने मम शक्तिर्नास्ति । स्वतस्सर्वज्ञस्त्वमेव योऽसौ यत्प्रकारश्चेति मन्यसे स तथाऽहमिति सामान्यतः प्रबुद्धोऽहमिति भावः । तत्-एतावताऽपि प्रस्तुतशास्त्रार्थविरोधाभावादिति यावत् । अयमहं- त्वदनुसंहितयथावस्थिताकारशरणवरणानुगुणार्थित्वसामर्थ्यवानहमित्यर्थः । आत्मस्वरूपनिरूपणदशायामहंशब्दप्रयोगादह- मर्थ एवात्मेति स्थापितं भवति । तव पदपद्मयोस्समर्पितः-* यस्यास्मि न तमन्तरेमीति न्यायात्त्वच्छेषत्वेन न्यस्त इत्यर्थः । मया त्वद्दत्तकरणकलेबरबुद्धिश्रद्धाकार्पण्यादिशालिना । स्मयते हि * विचित्रा देहसंपत्तिरीश्वराय निवेदितुम् । पूर्वमेव कृता ब्रह्मन् ! हस्तपादादिसंयुतेति । इतः परं त्वया सह विवादो मे न भविष्यतीत्यभिप्रायेणाह-अद्यैवेति । अत्र यदि क्षणिकमेव मम स्वरूपम् , तथाऽपि तस्मिन्नेव क्षणे निक्षिप्त इति केषांचियाख्यानं त्वतिवादमात्रम् । एवं मुमुक्षूणामात्मात्मीयं सर्वं भगवच्छेषत्वेनानुसन्धेयमिति निवृत्तिधर्मसारो निष्कृष्टः । उक्तं चैतदुपरिचराख्याने * आत्मा राज्यं धनं मित्रं कलत्रं वाहनानि च । एतद्भगवते सर्वमिति तत्प्रेक्षितं सदेति । श्रीविष्णुतत्त्वे च-* स्वत्वमात्मनि संजातं स्वामित्वं ब्रह्मणि स्थितम् । उभयोरेष संबन्धो न परोऽभिमतो मम ॥ स्वोज्जीवनेच्छा यदि ते स्वसत्तायां स्पृहा यदि । आत्मदास्य हरेस्स्वाम्यं स्वभावं च सदा स्मरेति । सर्वसंशयनिर्मोक्ता नारदश्च पुण्डरीकसंवादे पाह- *दासोऽहं वासुदेवस्य देवदेवस्य शाङ्गिणः । शङ्खचक्रगदापाणेस्त्रैलोक्यस्यैकचक्षुष इति । ईश्वरसंहितायां महादेवश्वाह * दासभूतास्स्वतस्सवै ह्यात्मानः परमात्मनः । अतोऽहमपि ते दास इति मत्वा नमाम्यहमिति ॥ ५२ ॥ मम नाथ यदस्ति योऽस्म्यहं सकलं तद्धि तवैव माधव । नियतस्वमिति प्रबुद्धधीरथवा किं नु समर्पयामि ते ॥ ५३ ननु मया समर्पित इत्यत्र स्वशेषत्वानुसन्धानपूर्व स्वाधीनकर्तृत्वबुद्धया समर्पयसि चेत् * योऽन्यथा सन्तमा- त्मानमन्यथा प्रतिपद्यते । किं तेन न कृतं पापं चोरेणात्मापहारिणेत्युक्तात्मापहारादिदोषः परिहतो न स्यादित्यत्र स्वोक्ताभिप्रेतं विवृणोति-मम नाथेति ।। अत्र जीवपरमात्मयाथात्म्यविषयः प्रमाणगणः पदद्वये प्रतिसन्धेयः । यदस्तीति स्वानुबन्धितया प्रमाणसिद्धगुणविग्रहादिसर्वसंग्रहः । ममेति व्यतिरेकोक्त्या देहात्मभ्रमादिः परिहृतः । ब्यक्षरब्रह्मणि C-11 ८४ श्रीमद्वेदान्तदेशिकग्रन्थमाला तेषामपि नमोनम इत्यादि द्रष्टव्यम् । इतरावसथेषु अभागवतनिवासेषु । चतुर्मुखात्मनाऽपि जन्म मा म भूत्-किं. पुनर्मनुष्याद्यात्मनेति तात्पर्यम् । त्वन्नाभिपद्मे चतुर्मुखात्मनाऽपि जन्म मदभिसन्धिविरुद्धमित्यभिप्रायेण पुनरपि मे इत्यु- क्तम् । एतेन भागवतानामभागवतसंसर्गः परिहार्य इत्युक्तं भवति । तथा च बहवचा आमनन्ति * नेदंविदनिदंविदा समुद्दिशेन्न सह भुञ्जीत न वसथमाविश्यादिति । स्मर्यते च * शैवान्पाशुपतान् स्पृष्ट्वा लोकायतिकनास्तिकान् । विकर्म- स्थान् द्विजान् शूद्वान् सवासा जलमाविशेदिति । * असतां दर्शनात् स्पर्शात् सम्पर्काच्च सहासनात् । धर्माचाराः प्रणश्यन्ति यथा सैकतमम्भसेति च । शाण्डिल्यस्मृतौ च * मूढैः पापरतैः क्रूरैस्सदागमपराङ्मुखैः । संबन्धं नाचरे- द्भक्तिर्नश्यत्येतैस्तु सङ्गमादिति । वैष्णवे च पुराणे * पुंसां जटाभरणमौण्ड्यवतां वृथैव मोघाशिनामखिलशौचबहिष्कृता- नाम् । तोयप्रदानपितृपिण्डविनाकृतानां संभाषणादपि नरा नरकं प्रयान्तीति । अन्यत्र च * वरं हुतवहज्वालापञ्जरान्त- यवस्थितिः । न शौरिचिन्ताविमुखजनसंवासवैशसमिति । तथा * अद्यप्रभृति हे लोकाः ! यूयं यूयं वयं वयम् । अर्थ- कामपरा यूयं नारायणपरा वयम् ॥ नास्ति सङ्गतिरस्माकं युष्माकं च परस्परम् । वयं तु किङ्करा विष्णो!यमिन्द्रिय- किङ्करा इति । पितृभिश्चैवमुक्तं * मा जनिष्ट स नो वंशे जातो वा द्राग्विपद्यताम् । आजन्ममरणं यस्य वासुदेवो न दैवतमिति । * अवैद्यः प्राकृतः प्रोक्तो वैद्यो वैष्णव उच्यते । अवैद्येन न केनापि वैद्यः किञ्चित्समाचरेदिति ॥ ५५ ॥ सकृत्त्वदाकारविलोकनाशया तृणीकृतानुत्तमभुक्तिमुक्तिभिः । महात्मभिर्मामवलोक्यतां नय क्षणेऽपि ते यद्विरहोऽतिदुस्सहः ॥ ५६ एवमभागवतसंसर्गपरिहारेण भागवतैस्सन्निकर्षस्तव भवतु, तैस्ते किं साध्यमित्यत्राह-सकदिति ॥ सदा दर्श- नस्यापेक्षितत्वेऽपि सकृद्विलोकनोक्तिस्तस्य पुरुषार्थभूयस्त्वव्यञ्जनार्था । तथर चायोध्यावासिनां वाक्यम्-* अलमद्य हि भुक्तेन परमार्थैरलं च नः । यथा पश्याम निर्यान्तं रामं राज्ये प्रतिष्ठितम् ॥ *इच्छामो हि महाबाहुं रघुवीरं महाबलम् । गजेन महता यान्तं रामं छत्तावृताननमिति । तथा * मेघश्यामं महाबाहुं स्थिरसत्त्वं दृढव्रतम् । कदा द्रक्ष्यामहे रामं जगतश्शोकनाशनम् ॥ दृष्ट एव हि नश्शोकमपनेष्यति राघवः । तमस्सर्वस्य लोकस्य समुद्यन्निव भास्कर इति । * यश्च रामं न पश्येत्तु यं च रामो न पश्यति । निन्दितस्स भवेल्लोके स्वात्माऽप्येनं विगर्हतीति चोक्तम् । अनुत्तम- भुक्तिः-ब्रह्मादीनां भुक्तिः । सा च मुक्तिश्च यैस्तृणीकृते अनादृते तैस्तृणीकृतानुत्तमभुक्तिमुक्तिभिः । अनुत्तमशब्दस्य मुक्तावन्वयेऽपि न मुक्त्यन्तरं व्यवच्छेद्य, मुक्तितारतम्यस्य प्रागेव निरस्तत्वात् । भगवन्तमनुभवतां तदन्यतृणीकारः श्रयते * किं प्रजया करिष्यामो येषां नायमात्मेत्यादि । पुराणे चोक्तं * पत्युः प्रजानामैश्वर्य पशूनां वा न कामये । अहं कदम्बो भूयासं कुन्दो वा यमुनातट इति । निदर्शनविवक्षया चोच्यते * तृणं नारी विरक्तस्य तृणं शूरस्य जीवितम् । तृणं ब्रह्मविदो विश्वं निस्पृहस्य नृपस्तृणमिति । * महात्मानस्तु मां पार्थ, * स महात्मा सुदुर्लभ इति भगवदुक्तं सूचय- नाह–महात्मभिरिति । उज्जीवनत्वे पुरुषार्थत्वे च भूयस्त्वापेक्षया बहुवचनम् । मां-त्वत्कटाक्षेक्षणात्पूर्व राजसतामस- दृष्टिगोचरतया दूषितमिदानीं त्वदवेक्षणेन प्रतिबुद्धमिति भावः । अवलोक्यताम्-अवलोकनयोग्यताम् । तिष्ठतु तद्भवनेषु जन्म ; तत्कटाक्षविषयत्वमात्रमपि मे पुरुषार्थ इति चाभिप्रेतम् । प्रख्यातो हि भागवतावलोकनप्रभावः * यस्यानुभवपयन्ता बुद्धिस्तत्त्वे प्रतिष्ठिता । तदृष्टिगोचराः सर्वे मुच्यन्ते सर्वकिल्बिषैरिति । नय–एतावदुपकर्ता त्वमेव शेषं पूरयेति भावः। यथा त्वया तद्विश्लेषो दुस्सहः, तथा मया तदवलोकनविरहोऽतिदुस्सह इत्यभिप्रायेणाह-क्षणेऽपि ते यद्विरहोऽति- ।
८५ व्याख्यानविभागे स्तोत्ररत्नभाष्यम्-श्लो. ५८ दुस्सह इति । तदिदमामनन्ति तैत्तिरीयाः-* सन्धां च याँ सन्दधे ब्रह्मणैषः । रमते तस्मिन्नुत जीणे शयाने । नैन जहात्यहस्सु पूर्येष्विति । स्वयमप्याह-* न त्यजेयं कथंचन, * ज्ञानी त्वात्मैव मे मतमिति । आहुश्च महर्षयः- * पराङ्मुखानां गोविन्दे विषयासक्तचेतसाम् । तेषां तत्परमं ब्रह्म दूरादरतरे स्थितम् ॥ तन्मयत्वेन गोविन्दे ये नरा न्यस्तचेतसः । विषयत्यागिनस्तेषां विज्ञेयं च तदन्तिके इति । तथा * नारायणेति यस्यास्ये वर्तते नाम मङ्गलम् । नारायणस्तमन्वास्ते वत्सं गौरिव वत्सलेति । * वसन्ति वैष्णवा यत्र तत्र सन्निहितो हरिरिति च । अत्र विरहशब्देन सर्वव्यापिनस्सर्वज्ञस्य भक्तानां स्वविग्रहाद्यनुभवविच्छेदो विवक्षितः । नतु तद्विरहो विश्लेषः । दुस्सहशब्देन खेदो न विवक्षितः, सर्वशक्तेहेयप्रत्यनीकस्य तदयोगात् । अतस्तादृशावस्थावतां स्वविश्लेपं नोत्पादयतीत्येव तात्पर्यम् । यत्कर्तृक- वियोगस्ते निराकर्तुमिष्टतम इति वा विवक्षितम् । * अवबोधितवानित्यादिश्लोकत्रयेण स्वयंप्रयोजनोत्तरकृत्ये काम्य- निषिद्धसंभेदप्रसङ्गोऽपि निरस्तः ॥ ५६ ॥ न देहं न प्राणान्न च सुखमशेषाभिलपितं न चात्मानं नान्यत्किमपि तव शेपत्तविभवात् । बहिर्भूतं नाथ ! क्षणमपि सहे यातु शतधा विनाशं तत्सत्यं मधुमथन ! विज्ञापनमिदम् ॥ एवमिष्टं सर्वं दास्यामि ; अनिष्टं त्विह किं ते निवर्तनीयमित्यत्राह-न देहमिति ॥ यद्वा भागवतकटाक्षलब्धरुचि- विशेषात् सपदि सर्व विरोधिवर्ग संग्रहेण निर्दिश्य तन्निवृत्तिमभ्यर्थयते । अशेपाभिलपितमित्येतत् देहादिषु सर्वेष्व- न्वेति ; अन्येषां सुखार्थत्वात् प्रधानभूते सुखमात्रे वा । आत्मानं स्वस्वरूपमित्यर्थः । पुत्रमित्रगृहक्षेत्रादिकं दूरतो निरस्तमित्यभिप्रायेणाह-नान्यत्किमपीति । तव शेषत्वविभवावहिर्भूतं-त्वच्छेपत्वफलभूतकैङ्कर्याख्यसमृद्धेरनुपयुक्त- मित्यर्थः । न हि विश्वपतेरशेषभूतं किंचित् कदाचित् संभवति । नाथशब्देन सर्वशेषित्वमिह विवक्षितम् । क्षणमपि सहे इत्येतत् न देहमित्यादौ सर्वत्र योज्यम् । आत्माभिमानार्हतया दुस्त्यजपरिग्रहस्य देहादेब्रह्मादिस्थावरान्तसर्वापे- क्षितस्य प्रभूतस्याल्पस्य वा सुखस्य तद्भोक्तः * आत्मार्थे पृथिवीं त्यजदिति स्वेतरसकलपरित्यागेनापि परिग्राह्यस्यात्मनः तदनुबन्ध्यैश्वर्यादेरपि प्रत्येकमसह्यत्वद्योतनाय नप्रयोगावृत्तिः । अत्र * यस्त्वया सह स स्वों निरयो यस्त्वया विना, * न देवलोकाक्रमणं नामरत्वमहं वृणे । ऐश्वर्य वाऽपि लोकानां कामये न त्वया विना, * न च सीता त्वया हीना न चाहमपि राघव । मुहूर्तमपि जीवावो जलान्मस्याविवोद्भुतौ ॥ * नहि मे जीवितेनाओं नैवानं च भूषणैः । वसन्त्या राक्षसीमध्ये विना रामं महारथमित्यादिपृक्तः प्रकारोऽनुसन्धेयः । एवमसह्यत्वादेव तेषामत्यन्तनिवृत्तिः कार्येत्यभिप्राये- णाह-या तु शतधा विनाशमिति । निरवयवस्य नित्यस्यात्मनश्शतधा विनाशप्राप्तययोगात् कैयविरुद्धावस्थानिवर्तन- मेवात्र विवक्षितम् । ननु सर्वेष्वसंभावितार्थत्वादहृदयमेतद्वाक्यमित्यत्राह-तत्सत्यमिति । न हि त्वदन्य ईदृशप्रबल- विरोधिनिवर्तनक्षम इति सूचयति-मधुमथनेति । पूर्व * शृणु विज्ञापनमेकमित्युक्तम् ; तद्वदिदमपि दयनीयत्वानुवन्धि- विज्ञापनमित्याह-विज्ञापनमिदमिति । तदिदं विज्ञापनं सत्यमिति समानाधिकरणं वा । विज्ञापितमिति केचित्पठन्ति । मुमुक्षुणा भगवत्कैकर्यानुपयुक्तपरिग्रहस्त्याज्य इत्युक्तं भवति ।। ५७ ॥ दुरन्तस्यानादेरपरिहरणीयस्य महतो निहीनाचारोऽहं नृपशुरशुभस्यास्पदमपि । दयासिन्धो बन्धो निरवधिकवात्सल्यजलधे तव स्मारंसारं गुणगणमितीच्छामि गतभीः ॥ ५८ ८६ - श्रीमद्वेदान्तदेशिकग्रन्थमाला एतत्सर्वमत्यन्तानहस्त्वं किमवलम्ब्य प्रार्थयस इति पुनर्भगवता पूर्वोक्तार्थस्थिरीकरणाय पृष्ट आह-दुरन्तस्येति ॥ प्रायश्चित्तानवसरातिघोरविपाकस्येत्यर्थः । अनादेः-पूर्वकोटिरहितप्रवाहस्य । अपरिहरणीयस्य-सर्वशक्तेस्तवैव सङ्कल्प- मन्तरेण दुप्परिहरस्य । महतः-महापातकातिपातकादिरूपस्यासङ्ख्यातस्य वा । अनाचारदोषादप्यहमुपहत इत्याह- निहीनाचार इति । अत्यन्तनिकृष्टाचार इत्यर्थः । अत्र * सन्ध्याहीनोऽशुचिनित्यमनर्हस्सर्वकर्मसु । यदन्यत्कुरुते कर्म न तस्य फलभाग्भवेत् , * आचारहीनं न पुनन्ति वेदा इत्यादि द्रष्टव्यम् । अहं-मदन्यः क ईदृश इति भावः । नृपशुः नरजातीयतया चतुष्पायावृत्तः पशुः, सम्यग्ज्ञानयोग्यजन्मलाभेऽपि * ज्ञानेन हीनः पशुभिस्समान इत्युक्तः । अशुभ- स्यास्पदं त्वदपचारत्वदीयापचारादीनां सर्वेषामेकाश्रयः । अहमशुभस्यास्पदम् , त्वं तु * गुणानामाकरो महानिति प्रसिद्ध इति हृदयम् । अपिशब्देन विरोधद्योतनम् । एवंविधस्वदोषपरिहारौपयिकगुणविशेषवत्तया संबोधयति-दया- सिन्धो इति । बन्धो *माता पितेत्यादिना निरुपाधिकसर्वविधबन्धुत्वेन प्रसिद्ध । निरवधिकवात्सल्यजलधे *रिपूणा- मपि वत्सल इति युक्तम् । अत्र दयावात्सल्यसिन्धुत्वरूपणेनातितुङ्गानामपि स्वापराधानां तत्र निमज्जनं सूच्यते । तव- स्वाभाविकासंख्यातगुणवत्तया शास्त्रप्रसिद्धस्य । गुणगणं-ज्ञानशक्तिकारुण्यादिकम् । स्मारंमारं-स्मृत्वा स्मृत्वा । निर्बा- धतया विस्मर्तुमशक्यतया च निरन्तरमनुसन्धायेति भावः । तेनैव गतभी:-विरोधिभूयस्त्वदर्शनजन्यभयरहितः । इती- च्छामि-* विलासविक्रान्तेत्यादिभिः * अवबोधितवानिमां यथेत्यादिभिश्चोक्तप्रकारेण निरन्तरेच्छावान् भवामीत्यर्थः ।। अनिच्छन्नप्येवं यदि पुनरितीच्छन्निव रजम्तमश्छन्नश्छमस्तुतिवचनभङ्गीमरचयम् । तथाऽपीत्थंरूपं वचनमवलम्ब्यापि कृपया त्वमेवभूतं धरणिधर ! मे शिक्षय मनः ॥ ५९ यद्येवमिच्छसि तदा ते सर्वमिष्टं संपत्स्यते । शास्त्रजन्यपरोक्षज्ञानमात्रेणादुष्टतयाऽवगतेऽपि प्रत्यक्षवासनावशाद- न्यत्र रुच्यनुवृत्तावसत्कल्पाहृदयप्रार्थनामात्रेण यदि मुक्तिं दास्यामि, तदा तवानिष्टमेव मया कृतं स्यादित्यत्राह-अनि- च्छनिति ॥ इत आरभ्य सप्तभिः श्लोकैः शिक्षणीयत्वे तन्मुखेन रक्षणीयत्वं च हेतुविशेषा उच्यन्ते । यदीत्यत्र यद्यपीति योज्यं, तथाऽपीति प्रतिनिर्देशात् । पुनश्शब्दोऽन्याभिप्रायत्वेऽपि संग्राह्यत्वरूपविशेषद्योतनाथः । इतीच्छनिवे- त्यादिना * साङ्कत्यं पारिहास्यं वा स्तोमं हेलनमेव वा । वैकुण्ठनामग्रहणमशेषाघविनाशनम् , * हरिहरति पापानि दुष्टचित्तैरपि स्मृतः । अनिच्छयाऽपि संस्पृष्टो दहत्येव हि पावकः, * अवशेनापि यन्नाम्नि कीर्तिते सर्वपातकैः । पुमान् विमुच्यते सद्यस्सिहत्रस्तैमृगैरिख, * एतावताऽलमघनिर्हरणाय पुंसां संकीर्तन भगवतो गुणकर्मनाम्नाम् । आक्रुश्य पुत्रमघवान्यदजामिलोऽपि नारायणेति म्रियमाण उपैति मुक्तिम् , *नारायणेति शब्दोऽस्ति वागस्ति वशवर्तिनी । तथाऽपि नरके घोरे पतन्तीत्येतदद्भुतम् , * रोगापद्भयदुःग्वेभ्यो मुच्यन्ते नात्र संशयः । अपि नारायणेत्येतच्छब्दमात्रालापिन इत्यादीनि प्रमाणानि सूच्यन्ते । रजस्तमश्छन्नः-स्वकर्मोपात्तप्रकृतिगुणभूतरजस्तमोभ्यामावृतज्ञानतया यथावस्थितस्वपर- प्रकाशरहित इति भावः । छद्मस्तुतिवचनभङ्गी-कुहनाप्रयुक्तस्तोत्ररूपकुटिलवाक्यप्रक्रियामित्यर्थः । इत्थंरूपं वचन- मवलम्ब्यापि-द्वयार्थविषयच्छद्मवाक्यरूपं ब्याजमङ्गीकृत्यापीति यावत् । एवंविधवचनमात्रेऽपि हि यमभयनिवृत्तिः स्मयते * कमलनयन वासुदेव विष्णो धरणिधराच्युत शङ्खचक्रपाणे । भव शरणमितीरयन्ति ये वै त्यज भट ! दूरतरेण तानपापानिति । कृपया-स्वसङ्कल्पितयत्किञ्चव्याजमात्रापेक्षिण्येति हृदयम् । त्वमेव-* राघवं शरणं गत इत्यपरीक्षित- वाक्यमवलम्ब्य * न त्यजेयं कथंचन, * दोषो यद्यपि तस्य स्यादिति हि त्वयैवोक्तमिति भावः । यद्वा * सुहृदं सर्व- ।
व्याख्यानविभागे स्तोत्ररत्नभाष्यम्-श्लो. ६० , ६० ॥ भूतानाम् , * ददामि बुद्धियोगं तमित्यादिवादी । एक्कारेणान्यनैरपेक्ष्यमन्याशक्यत्वं च द्योत्यते । एवंभूतं-स्वतस्सर्वज्ञ त्वामपि विप्रलब्धुमुद्यतमित्यभिप्रायः । धरणिधरेति संबुद्धिस्सर्वलोकहितैषिण्या सर्वसहया क्षमया युक्तस्त्वमिति सूचयति । अत्र वसुन्धरोद्धरणनिदर्शनेन स्वात्मसमुद्धरणार्हत्वमपि प्रकाश्यते । उक्तं हि भगवच्छास्त्रे-* नमस्सकलकल्याणदायिने चक्रपाणये । विषयार्णवमग्नानां समुद्धरणहेतव इति । मे-अन्यैश्शिक्षयितुमशक्यस्येति भावः । यथोच्यते * एकश्शा- स्ता न द्वितीयोऽस्ति, * शास्ता विष्णुरशेषस्येति । शिक्षय-छमरहितं सम्यगिच्छायुक्तं कुरुप्वेत्यर्थः । * शङ्खप्रान्तेन गोविन्दस्तं पस्पर्श कृताञ्जलिम् । उत्तानपादतनयं मुनिवर्यं जगत्पतिः ॥ ततः प्रसन्नवदनस्तत्क्षणान्नृपनन्दनः । तुष्टाव प्रणतो भूत्वा भूतधातारमच्युतमिति न्याय इहानुसन्धेयः ॥ ५९ ॥ पिता त्वं माता त्वं दयिततनयस्त्वं प्रियमुहत्त्वमेव त्वं मित्रं गुरुरसि गतिश्चासि जगताम् । त्वदीयस्त्वद्भत्यस्तव परिजनस्त्वद्गतिरहं प्रपन्नश्चैवं सत्यहमपि तवैवास्मि हि भरः ।। एवं स्वचेतश्शिक्षणेऽन्यानपि सामान्यतो विशेषतश्च बहुविधान् हेतूनाह-पितेति ॥ पिता त्वम्-उत्पादकस्त्वं हितप्रवर्तकश्च । माता त्वं सा हि पुत्रार्थं भूयांसि कर्माण्यारभमाणा प्रियप्रवर्तनशीला च, तादृशस्त्वम् । सर्वाधिक- प्रीतिविषयतया निरयनिस्तारकतया प्राप्तावसरेषु रक्षकतया च दयिततनयस्त्वम् । प्रियश्चासौ सुहृचेति प्रियसुहृत्- निरतिशयानन्दस्वरूपत्वं नित्यहितैपित्वं चात्र विवक्षितम् । उक्तसर्वप्रकारविशिष्टस्त्वदन्यो नास्तीति व्यञ्जनार्थमेवकार- स्सर्वत्र योज्यः । *निवासश्शरणं सुहृदिति मुबालोपनिपदि, गीतोपनिषदि चाधीतम् । त्वं मित्रं-हितकार्येषु सव- यास्सर्वरहस्ययोग्यश्च मित्रमित्युच्यते, त्वमपि तादृशः ; गुहधनञ्जयगोपालादिषु तथात्वव्यक्तिः । उच्यते च-*मित्रमौप- यिकं कर्तुम् , * तेन मैत्री भवतु ते, * अहो भाग्यमहो भाग्यं नन्दगोपनजौकसाम् । यन्मित्रं परमानन्दं पूर्ण ब्रह्म सनातनमिति । गुरुरसि-सर्वेषां यथाधिकारं * मन्मना भव मद्भक्तः, *मामेकं शरणं व्रजेत्यादिभिस्तत्त्वहितपुरुषार्थोप- देष्टा, तत एव सर्वाज्ञाननिवर्तकश्च । तथा च निरुच्यते * गुशब्दस्त्वन्धकारस्स्यात् रुशब्दस्तन्निरोधकः । अन्धकार- निरोधित्वात् गुरुरित्यभिधीयत इति । गतिश्चासि--उपायः प्राप्यश्चासि । श्रयते हि * अमृतस्यैष सेतुरिति * यमेवैष वृणुते तेन लभ्य इति च । जगतामित्यनेन * पिताऽहमस्य जगतो माता धाता पितामहः *भूतानां योऽव्ययः पिता, * चराचरगुरुं हरिम् , * ममाप्यखिललोकानां गुरुनारायणो गुरुः, * तमिमं सर्वसंपन्नमाचार्य पितरं गुरुम् । अर्य- मर्चितुमिच्छामस्सर्वे संमन्तुमर्हथ, * पिताऽसि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुगरीयानित्यादिषूक्तं देवदानवादि- सर्वसाधारण्यं व्यज्यते । एतत्सर्वं पूर्व शरण्यबन्धुशब्दाभ्यां संगृहीतस्य प्रपञ्चनम् । अथ त्वदीय इत्यादिना स्वगतान् हेतूनाह । त्वच्छेषत्वप्रतिबोधवानहमस्मीति भावः । त्वद्भत्य:-त्वयैव भरणोयः, पोषणीयश्च । तव परिजनः-स्वत- स्त्वत्सेवाहः स्तुतिरूपसेवायां त्वया नियुक्तश्च । त्वद्गतिः-स्वदेकप्रयोजनः । अहं-ईदृशीमवस्था त्वयैव प्रापितइति भावः । प्रपन्नश्च * त्वत्पादमूलं शरणं प्रपद्य इति यथाहृदयमहृदयं वा भावितभरन्यासः । एतेन * सोऽहं त्वां शरणमपारम- प्रमेयं संप्राप्तः परमपदं यतो न किंचित् , *अहमात्मा न देहोऽस्मि विष्णुशेषोऽपरिग्रहः । तमेव शरणं प्राप्तस्तत्कैकर्य- चिकीर्षयेत्यादिष्विव स्वनिष्ठा विज्ञाप्यते । भगवत्प्रपन्नस्य चैवं विशेष उच्यते-* देवर्षिभूतात्मनृणां पितॄणां न किकरो नायमृणी च राजन् । सर्वात्मना यश्शरणं शरण्यं नारायणं लोकगुरुं प्रपन्न इति । त्वद्गतिरहं प्रपन्नश्चेत्युभाभ्यामनन्य- प्रयोजनतया भगवन्तमाश्रितानां नरकादिनिवृत्तिश्च सूच्यते । श्रूयते हि रहस्याम्नाये-*तत्किममी यमविषयं गच्छन्ति । . . .
८८ श्रीमद्वेदान्तदेशिकग्रन्थमाला यमो वैतान् यातयतीति न भो इत्याह न खलु भागवता यमविषयं गच्छन्ति किं तीं है वैषां केचिदुपक्लेशा भवन्ति काणा भवन्तीत्यारभ्य * तानुपक्लेशान्सहेरन् इति । वैष्णवे च पुराणे * स्वपुरुषमभिवीक्ष्य पाशहस्तं वदति यमः किल तस्य कर्णमूले । परिहर मधुसूदनप्रपन्नान्प्रभुरहमन्यनृणां न वैष्णवानामिति । वामने च * देवं शार्ङ्गधरं विष्णुं ये प्रपन्नाः परायणम् । न तेषां यमसालोक्यं न च ते नरकौकस इति । श्रीनारसिंहे * पुण्डरीकाक्ष देवेश नरसिंह त्रिविक्रम । त्वामहं शरणं प्राप्त इति यस्तं समुद्धरेति । तथाऽन्यत्र * यस्मिन् कस्मिन् कुले जाता यत्र कुत्र निवासिनः । वासु- देवरता नित्यं यमलोकं न यान्ति त इति । एवं सति-त्वयि भरस्वीकारार्हे मयि च भरन्यासवाक्यप्रयोक्तरि स्थिते सतीत्याशयः । अहमपीत्यनेन पूर्वोक्तसर्वदोषाकरोऽपि छद्मस्तुतिकर्ताऽपीति सूच्यते । यद्वा यथा प्राचीनाः पूर्णप्रपत्ति- निष्ठाः त्वया भरत्वेन स्वीकृताः तथाऽहमपीति भावः । तव-प्रस्तुतप्रभूतभरस्वीकारे प्राप्तस्य समर्थस्य च । न ह्येता- दृशं भरं सोढुमहं वाऽन्यो वा त्वद्व्यतिरिक्तः कश्चित्समर्थ इत्यवधारणाभिप्रायः । हिशब्देन * मनीषिणो हि ये केचि- द्यतयो मोक्षकासिणः । तेषां वै छिन्नतृष्णानां योगक्षेमवहो हरिः ॥ *स्थिते मनसीत्यादिप्रमाणप्रसिद्धिोत्यते ; स्वाङ्गी- कारस्य सिद्धवत्कारं वा व्यनक्ति । भरः-*रक्षितव्यास्त्वया राजन् गर्भभूतास्तपोधना इति महर्षिवाक्यप्रकारेण मध्यापार- निरपेक्षं रक्षणीय इति भावः ॥ ६०॥ जनित्वाऽहं वंशे महति जगति ख्यातयशसां शुचीनां युक्तानां गुणपुरुषतत्त्वस्थितिविदाम् । निसर्गादेव त्वच्चरणकमलैकान्तमनसामधोऽधः पापात्मा शरणद निमजामि तमसि ॥ ६१ ॥ * अहमपि तवैवास्मि हि भर इत्युक्ते महायोगिकुलप्रसूतत्वमपि हेतुरस्तीत्यभिप्रायेणाह-जनित्वेति ॥ यद्वा योगिवंशप्रसूतेन त्वया कथमत्यन्ताकिञ्चनत्वं पुरस्कृत्य मय्येव भरन्यासः क्रियत इत्यत्र प्रागुक्तकिञ्चनत्वमेवासमञ्जवदभि- जनविरुद्धस्वभावतयाऽपि स्थापयति ॥ जनित्वा-* एतद्धि दुर्लभतरं लोके जन्म यदीदृशमित्युक्तदुर्लभतरं जन्म लब्ध्वा- ऽपीति भावः । अहमित्यनेनास्मिन्वंशेऽहमेक एव विपरीतवृत्त इति व्यज्यते । वंशे महति-अमानित्वाद्यात्मगुणसम्य- वृत्तविद्यादिभूयिष्ठे महाभागवतकुले । * भूतले श्लाध्यमेतद्धि कुलं विष्णुपरिग्रहमिति च स्मयते । ईदृशवंशजन्मनः कृच्छलभ्यत्वं वाराहे प्रोक्तं * वर्णाश्रमाचारपरस्सप्तजन्मानि यो द्विजः । एकान्तसूर्यभक्तस्स्यात्स विप्रस्सप्तजन्मसु ।। ततस्तत्पुण्यमाहात्म्याद्रुद्रभक्तो भविष्यति । तथैव सप्त जन्मानि शिवभक्तिपरायणः ॥ महता तेन पुण्येन वैष्णवत्वं लभेत सः । विष्णुभक्तिपरस्तद्वत्सप्तजन्मानि मानवः ॥ एकान्तभगवद्याजी विप्रो भागवतान्वये । ततस्स लभते जन्म देवैरत्यन्तदुर्लभमिति । जगति ख्यातयशसां-* यद्वंशोऽधीत्य वेदानित्यायुक्तपकारेणानुकूलप्रतिकूलरूपसर्वजनप्रसिद्ध- कीर्तिनाम् । शुचीनां-*योऽर्थे शुचिस्स हि शुचिर्न मृद्वारिशुचिश्शुचिः, *क्षेत्रज्ञस्येश्वरज्ञानात् विशुद्धिः परमा मतेत्या- दिप्रसिद्धसर्वप्रकारशुद्धिमताम् । एतेन प्रयोजनान्तरसङ्गरूपाशुद्धिराहित्यं चाभिप्रेतम् । युक्तानाम्-आत्मावलोकनक्षमा- णाम् , यद्वा त्वया सह नित्ययोगमाशंसमानानाम् , त्वदनुभवविश्लेषरहितानामिति वा । गुणपुरुषतत्त्वस्थितिविदां-त्रि- गुणात्मकप्रकृतेः पुरुषस्य च तत्त्वस्थिति याथात्म्यप्रतिष्ठां विजानताम् । यद्वा प्रकृतिपुरुषतत्त्वयोः स्वरूपस्वभावादिव्यव- स्थितिवेदिनामित्यर्थः । निसर्गादित्यादि जन्मप्रभृतित्वचरणारविन्दनियतभक्तीनामित्यर्थः । ईदृशव्यतिरिक्तो हि निन्दितः पितृभिः * मा जनिष्टेत्यादिना । अत्र युक्तानामित्यादिपदत्रयं स्वपूर्वेषु यथार्ह कर्मयोगज्ञानयोगभक्तियोगान्वयं वा विव- क्षति । पापेष्वात्मा बुद्धिर्यस्य स पापात्मा; यद्वा पापमेव स्वरूपं स्वभावो यस्य सोऽहं पापात्मेति स्वनिन्दाप्रकर्षार्थ ॥
व्याख्यानविभागे स्तोत्ररत्नभाष्यम्-श्लो. ६२ औपचारिकः प्रयोगः । स्मर्यते हि *मानुष्यं प्राप्य लोकेऽस्मिन् मूको वा बधिरोऽपि वा । नापक्रामति संसारात्स खलु ब्रह्महा भवेदिति । वाराहे च * लब्ध्वा तु मानुषं देहं पञ्चभूतसमन्वितम् । मामेव न प्रपद्यन्ते ततो दुःखतरं नु किमिति । नारसिंहे च * शुभमिदमुपलभ्य मानुषत्वं सुकृतशतेन वृथेन्द्रियार्थहेतोः । रचयति कुरुते न मोक्षमार्ग स दहति चन्दनमाशु भस्महेतोरिति । अधिकारानुरूपमुपायं त्वमेव प्रयच्छेत्यभिप्रायेण संबोधयति-शरणदेति । यद्वा मत्स्वभावादसत्कल्पमपि महायोगिवंशजननं त्वत्स्वभावात्त्वमेव प्रस्तुतविषयमच्छिक्षणव्याजतया स्वीकृत्योपायपूर्ति कुरु- प्वेति भावः । तमस्यधोऽधो निमजामीत्यन्वयः । तमश्शब्द इह सम्यक्प्रकाशविरुद्धमज्ञानं चाभिसन्धत्ते । तमो गुणमयी प्रकृतिर्वा । तमसस्समुद्रस्थानीयत्वमभिप्रेत्य मज्जनशब्दः । एतेन स्वपरप्रकाशराहित्यं च सूच्यते । मद्वेश्या- स्त्वदनुभवरसे निमज्जन्ति, अहं तु तमसि निमजामीति निवेदविशेषश्च । * महता पुण्यपण्येन क्रीतेयं कायनौस्त्वया । प्राप्तुं दुःखोदधेः पारं त्वर यावन्न भिद्यत इति संसारतरणहेतुतया त्यदत्तेन शरीरेणैव संसारे निमज्जामीत्युक्तं भवति । अधोऽध इत्यनेन स्वेनान्यैश्च स्वस्याशक्योद्धरणत्वमभिप्रेतम् । निमज्जामीति वर्तमानव्यपदेशः पापवशात्तादृशस्य तमसो- ऽद्याप्यनुवृत्तिं द्योतयति । एतेन स्वयमुपायान्तरानहस्य मे त्वत्प्राप्त्यर्थं सर्वसहे त्वयि भरन्यासश्छद्मस्तुतिनिबन्धोऽपि त्वयैव यथावस्थितः कार्य इति विज्ञापितं भवति ॥ ६१ ॥ अमर्यादः क्षुद्रश्चलमतिरस्याप्रसवभूः कृतघ्नो दुर्मानी स्मरपरवशो वञ्चनपरः । नृशंसः पापिष्ठः कथमहमितो दुःखजलधेरपारादुत्तीर्णस्तव परिचरेयं चरणयोः ॥ ६२ यदि सर्वशक्तिः परमकारुणिकस्त्वमकिञ्चनस्य प्रपत्तिवाक्यमुखरमुखस्य मम शिक्षणे च न प्रवर्तसे, तदा महत्तर- विपरीतगुणगणभराक्रान्तोऽहं कथं संसारजलधिमुत्तीर्य त्वत्पादपरिचर्चा प्रामुयामिति प्रागुक्तकार्पण्यस्थेम्ने स्वदोषागीतस्य शरण्यगुणैराश्वसनीयत्वं द्रढयितुं च * पापात्मेति संगृहीतमेव विस्तृणीते-अमर्याद इति ॥ * वयसः कर्मणोऽर्थस्य श्रुतस्याभिजनस्य च । वेषवाग्वृत्तिसारूप्यमाचरन्विचरेदिहेत्यादिषूक्तां श्रुतिस्मृतिमर्यादामतिक्रान्तोऽहम् । क्षुद्रः-उपाय- दारिद्यहेयपुरुषार्थकार्पण्यादियुक्तः । * क्षुद्रो दरिद्रे कृपणे नृशंसेऽल्पनिकृष्टयोरिति निघण्टूक्तेषु नृशंसत्वस्य पृथगुक्तत्वा- च्छेषं यथोचितं ग्राह्यम् । *पण्डितैरर्थकार्पण्यात्पण्यस्त्रीभिरिव स्वयम् । आत्मा संस्कृत्यसंस्कृत्य परोपकरणीकृतः । चल- मतिः-बहुभ्यो बहुशश्च सम्यक्छुतेष्वपि शास्त्रेष्वप्रतिष्ठितबुद्धिः । असदथेषु तु *दृढपूर्वश्रुतो मूर्यो धर्माणामविशारदः । वृद्धानपृच्छन्त्संदेहानन्धः श्वभ्रमिवछंतीत्यादिपूक्तं स्थिरमतित्वमपि हि दोषः । * व्यवस्थितः प्रशान्तात्मा कुपितोऽप्य- भयङ्करः । अव्यवस्थितचित्तस्य प्रसादोऽपि भयङ्कर इत्याद्यपि ग्राह्यम् । असूयाप्रसवभूः-गुणेषु दोषाविष्करणमसूया । तद्वतः प्रकारं * राजन् ! सर्पपमात्राणि परच्छिद्राणि पश्यसि । आत्मनो मेरुमात्राणि पश्यन्नपि न पश्यसीत्यादिभिराहुः । तस्याः प्रथमप्रादुर्भावस्थानम् । * असूयकायानृजवे जनाय न मां ब्रूयाः, *असूयकाय मां मा दा; *न च मां योऽभ्य- सूयतीत्यादिष्वसूयावान् विद्याप्रदानादिषु परिहरणीय उच्यते । कृतघ्नः त्वदन्यैस्त्वया च परमोपकारकेण कृतमनन्त- मुपकारमपद्रुत्यापकारेप्वपि प्रवृत्त इति भावः । स चासौ सर्वेभ्यः पापकृद्भयस्समधिकस्मयते-* गोप्ने चैव सुरापे च चोरे भन्मवते तथा । निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥ सत्कृताश्च कृतार्थाश्च मित्राणि न भवन्ति ये। तान्मृतानपि क्रव्यादाः कृतघ्नं नोपभुञ्जत इति । एतस्य कल्मपनिबर्हणार्थप्रायश्चित्तसंभवेऽपि संसर्गानर्हताऽपि स्मयते- * शरणागतबालस्त्रीहिंसकान्संवसेन्न तु । चीर्णव्रतानपि सतः कृतघ्नसहितानिमानिति । दुर्मानी-निकृष्टमप्यात्मानम् C--12 - ९२ श्रीमद्वेदान्तदेशिकग्रन्थमाला नुबन्धियत्किचिन्निरसनीयत्वक्लप्तेरवश्यापेक्षितत्वात् , तदर्थमेकाक्षिहरणेऽपि सव्यदक्षिणभागसंचारितारकाव्यापारकल्पनेन दृष्टिद्वयफलसिद्धेः । दुष्प्रकृतेः काकस्य भूयोऽपराधभयानुवृत्त्यर्थं स्वल्पावयवखण्डनस्यापि शिक्षारूपत्वात् , तस्य काक- जात्यनुबन्धत्वक्लप्तेस्सर्वत्र सर्वेषां प्रस्तुतवृत्तान्तप्रख्यापनार्थत्वाचेति भावः । एवं दयाक्षमयोरुदाहरणान्तरमाह-यच्चेति ॥ अत्र कृष्णशब्देन सर्वलोककर्षणार्थमवतीर्णत्वं * कृषिभूवाचक- श्शब्दो णश्च निर्वृतिवाचकः । तयोरैक्यं प्रकुर्वोत कृष्ण इत्यभिधीयत इति निरुक्तिश्च सूच्यते । प्रतिभवमपराद्धरित्यनेन काकादप्याधिक्योक्तिः । जन्मत्रये सर्वदाऽपराधशीलस्येत्यर्थः । *अविज्ञातेतिवदपराधक्षमाभिप्रायेणाह-मुग्धेति । मुग्धो ह्यपराधमनपराधं च विवेक्तुं न शक्नोति । अयं तु विविक्तं पश्यन्नपि * क्षमया पृथिवीसम इत्युक्तगुणविशेषेणापश्यन्निव भवतीति मुग्धत्वोपचारः । तस्मिन्नेव लयमुपययाविति पराशरवाक्याभिप्रेतमाह-सायुज्यदोऽभूरिति । नात्र लयशब्देन जीवप्रध्वंसो विवक्षितः ; श्रुतिस्मृतिसूत्रैर्जीवनित्यत्वस्थापनात् । न चैक्यापत्तिः * परमात्मात्मनोयोगः परमार्थ इतीप्यते । मिथ्यैतदन्यद्दव्यं हि नैति तद्द व्यतां यत इति तत्प्रतिषेधात् । * ब्रह्म वेद ब्रह्मैव भवतीत्यादिकं तु परमसाम्यापत्तिपरम् , *निरञ्जनः परमं साम्यमुपैति, *यथोदकं शुद्ध शुद्धमासिक्तं ताहगेव भवति । एवं मुनेर्विजानत आत्मा भवति गौतम, * इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागता इत्यादिश्रुतिस्मृत्यनुसारात् । सूत्रितं च * भोगमात्रसाम्यलिङ्गाचेति । अत- स्सालोक्यसारूप्यादिशब्दवत्सायुज्यशब्दोऽपि युक्साम्यपरः । सर्वं हि भगवता मुक्तेन च भोग्यत्वेन युक्तं * ते सर्व सर्वतः प्राप्य धीरा युक्तात्मानस्सर्वमेवाविशन्ति, * सर्व ह पश्यः पश्यति सर्वमानोति सर्वश इत्यादिश्रुतेः, * ब्रह्मवि- दामोति परमित्यादिकर्मकर्तृव्यपदेशाच्च । अत्र पदवाक्यप्रमाणानभिज्ञैस्सायुज्यमैक्यमिति परिकल्पितम् * एतासामेव देवतानाँ सायुज्यं साष्टिताँ समानलोकतामाप्नोति इत्यत्र युगपत्क्रमेण वाऽनेकदेवतासायुज्ये तत्तदैक्यापत्तेरघटितत्वात् । सायुज्यं प्रतिपन्ना ये तीवभक्तास्तपस्विनः । किङ्करा मम ते नित्यं भवन्ति निरुपद्रवा इति परमसंहितायामुक्तम् । शाण्डिल्यस्मृतौ च श्यादृग्रुपस्तु भगवान् यत्रयत्रावतिष्ठते । मुक्तश्च पञ्चकालज्ञः तादृशस्सह मोदत इति । सायुज्य- शब्देन * शरवत्तन्मयो भवेदित्यादिपूक्तसंयोगविशेषो विवक्षित इति वदन्तस्त्वर्थविरोधाभावान्मर्षणीयाः । आगश्शब्दो- ऽपराधवाची । तस्य ते क्षमायाः किमपदमागः ? न किंचिदस्ति । सर्वदर्शिना त्वया दृष्टमस्ति चेद्वद । त्वयाऽपि द्रष्टुं वक्तुं च न शक्यमिति भावः । दयाक्षमयोरिहाविनाभावात् अन्यतरोक्तावितरदन्तर्गतम् । ननु देहपातावधि- निरन्तरापराधस्य शिशुपालस्य केन व्याजेन मुक्तिः प्राप्तेति चेत् ; इह तावत्यागेव भगवल्लोकविशेषवासिनश्शापाकान्तस्य प्रतिकूलजन्मत्रयान्ते मुक्तिर्भविष्यतीति प्रतिविधाननियतिः परमं निदानम् । अत एव ह्युपात्तचक्रे वधोद्यते भगवति शिशुपालस्य प्रद्वेषसंस्कारभूयस्तयाऽपि निरन्तरस्मृतिमतः प्रकाशितपारम्यं भगवद्रूपं पश्यतोऽनुकूलावस्थाप्राप्तिरुच्यते । अपगतद्वेषानुबन्धो भगवन्तमद्राक्षीत् , तावच्च भगवच्चक्रेणाशु व्यापादितः, तत्स्मरणदग्वाखिलाघसञ्चयो भगवताऽन्त- मुपानीतस्तस्मिन्नेव लयमुपययाविति ॥ ६३ ॥ ननु प्रपन्नस्सदेव नाथ ! तवाहमस्मीति च याचमानः । तवानुकम्प्यस्मरतः प्रतिज्ञा मदेकवर्ज किमिदं व्रतं ते ॥ ६४ एवं त्वत्क्षमाविशेषदर्शनान्निर्भयोऽस्मि, तथा त्वद्रतविशेषानुसन्धानान्निभरश्चास्मीत्यभिप्रायेण * सकृदेव प्रपन्नायेति श्वाकाक्तं ममापि साधारणमित्याह-नन्विति ॥ * सकृत्कृतश्शास्त्रार्थ इति स्वतःप्राप्तस्य विद्यान्तरनयादत्रापवादशङ्कायां .
व्याख्यानविभागे स्तोत्ररत्नभाष्यम्-श्लो. ६५ ९३ । .. तन्निरासार्थ एवकारः। सकृदेवेत्यस्य सहसैव सर्वागसां निष्कृतिमकृत्वेति कैश्चिद्व्याख्यातम् । आवृत्तिव्यवच्छेदे तु प्रसिद्धिप्रकर्षः प्रयोजनभूयस्त्वं * सकृदेव हि शास्त्रार्थः, * मयि निक्षिप्तकर्तव्यः कृतकृत्यो भविष्यतीत्यादिप्रमाणानुगुण्यं च विद्यते । अत एव * सकृदेव ददामीति व्यवहितान्वयश्चात्र न युक्तः ॥ प्रचयापचयध्वंसप्रत्यूहरहिता प्रभौ । प्रपत्तिः क्लुप्तकाले तु फलतीत्यपि सूच्यते ॥ अत्र नाथशब्देन * लोकनाथः पुरा भूत्वा सुग्रीवं नाथमिच्छति, *सर्वलोकशरण्यायेत्यादिकं ख्याप्यते । शर- ण्यत्वं कैकयों द्देश्यत्वं च तवैव प्राप्तमिति भावः । तवाहमस्मीति च याचमानः तव दासभूतोऽहमित्येवंविधानुसन्धान- पूर्वकं शेषवृत्तिं प्रपत्तिफलत्वेन प्रार्थयमान इत्यर्थः । अस्मीत्यस्य स्यामिति वाऽभिप्रेतम् । तदाऽपि तवाहं किङ्करः स्यामिति फलप्रार्थना । अत्र गोप्तृत्ववरणमात्मनिक्षेपश्च यथार्ह पृथनिर्दिश्यत इति केचित् ; मानसी वाचिकी चेत्येके ; प्रयोजनान्तरार्थप्रपत्तिरनन्यप्रयोजनप्रपत्तिश्चेत्यन्ये ; प्रपत्तिभक्तिश्चेत्यपरे । तकानुकम्प्य इत्यादिना लोकरक्षार्थमवतीर्णस्य दक्षिणसागरवेलायां महापरिषदि दुरपह्नवप्रतिज्ञाकर्तृत्वं सूच्यते । प्रतिज्ञाम्--* अभयं सर्वभूतेभ्यो ददामीत्येवंरूपाम् । अत्र नित्यसिद्धसर्वसाक्षात्कारस्य भगवतः स्मरत इत्युक्तिलौकिकबुद्ध्यनुसारादौपचारिकी । अनुकम्प्यः-त्वत्प्रतिज्ञाभङ्ग- परिहारार्थं त्वयैवानुकम्पा कर्तव्येति भावः । ननु यदर्थ मया प्रतिज्ञातं तेषु विभीषणादिषु प्रत्तिज्ञा सफला, किं वयेत्य- त्राह-मदेकवर्ज किमिदं व्रतं ते इति । प्रपन्नाय याचत इति हि सामान्यतस्त्वया प्रतिज्ञातम् ; * विभीषणो वा सु- ग्रीव यदि वा रावणस्स्वयम् । आनयैनं हरिश्रेष्ठ दत्तमस्याभयं मयेति चोक्तम् । न च त्वया तदानीं मध्यतिरिक्ताया- भयं ददामीति व्रतमुपात्तम् ; अतोऽहमपि त्वद्रतविषयभूत इति व्यज्यते । सर्वसाधारणस्वामित्वशरण्यत्वयोगं * रामो द्विर्नाभिभाषत इत्यादिवट्यात्स्वधाक्यस्य व्यावृत्तिविशेषणात्स्वप्रक्षेपार्हत्वं च सूचयितुं पुनरपि त इत्युक्तम् ।। ६४ ॥ अकृत्रिमत्वच्चरणारविन्दप्रेमप्रकर्षावधिमात्मवन्तम् । पितामहं नाथमुनिं विलोक्य प्रसीद मवृत्तमचिन्तयित्वा । ६५ ननु काकस्य *स पित्रा च परित्यक्तस्पुरैश्च समहर्षिभिः । त्रींल्लेकान्संपरिक्रम्य ततेव शरणं गतः ॥ स तं निप- तितं भूमौ शरण्यश्शरणागतम् । परिवून विषण्णं च..... इत्युक्तावस्थाविशेषोऽस्ति ; वैद्यस्य च प्राचीननियतिर्मातुर्वरविशे- षश्च विद्यते; तव पुनस्स्वोक्तानाममर्यादत्वादीनामाकरस्योपायानुष्ठाने फलप्रार्थनायां च छद्मस्तुतिमात्रवादिनोऽनन्यथा- सिद्धन केन हेतुना क्षन्तव्यत्वं शिक्षणीयत्वं रक्षणीयत्वं चेत्यत्र * पिता त्वं माता त्वम् , * दयासिन्धो बन्धो, * रघु- वर, * ननु प्रपन्न इत्यादिभिश्शरण्यगतास्स्वरक्षणौपयिकगुणविशेषा ये प्रतिपादिताः; ये च * अकिञ्चनोऽनन्यगतिः, * दयनीयस्तव नाथ, * त्वदीयस्त्वद्धृत्य इत्यादिभिस्स्वगतगुणाः प्रदर्शितास्तेभ्यस्सर्वेभ्यस्समधिकं निरङ्कुशस्वातन्त्र्येण सर्वेश्वरेणाप्यनतिलङ्घनीयस्वासाधारणस्वाङ्गीकारहेतुमाह-अकृत्रिमेति ॥ क्रियया निवृत्तः कृत्रिमस्तदन्योऽकृत्रिमः, भग- वत्कटाक्षविशेषाधीनमहावंशसंभवादेतस्मिन् जन्मनि प्रभूतयत्ननिरपेक्ष इत्यर्थः । अकृत्रिमत्वमिह प्रेमविशेषणम् । स्वच्छ- ब्देन प्राप्यत्वप्रापकत्वौपयिकसर्वाकारवैशिष्टयं सूच्यते । चरणारविन्दशब्देन तु दासभूतस्य स्वतःप्राप्तसेव्यत्वं पावन- तमत्वं निरतिशयभोग्यतमतया परमप्रेमाहत्वं च प्रकाश्यते । * अनुरागमहिमातिशयान्तसीम्न इति प्रागुक्तमेव विधेया- न्तरार्थमनुवदति-प्रेमप्रकर्षावधिमिति । लोके च राजादयस्स्वभक्तानुबन्धिनामपि रक्षणं कुर्वन्तीति भावः । आत्म- - श्रीमद्वेदान्तदेशिकग्रन्थमाला वन्तं-जितमनस्कमित्यर्थः । तेन प्रयोजनान्तरवैमुख्यं व्यञ्जितम् । तदपि प्राप्तविषये प्रेमप्रकर्षहेतुः । तादृशप्रेम्णा सपरि- करभक्तियोगसामयेऽपि विलम्बाक्षमतया प्रपत्तिनिष्ठत्वं सूच्यते । यद्वा यथावस्थितभगवत्प्रेमजनिततद्ध्यानादिभिर्लब्धा- स्मेति पदद्वयाभिप्रायः । अयं च स्वभावो गीतार्थसंग्रहेऽपि * ज्ञानी तु परमैकान्तीत्यारभ्य, * भगवद्ध्यानयोगो- क्तिवन्दनस्तुतिकीर्तनैः । लब्धात्मा तद्गतप्राणमनोबुद्धीन्द्रियक्रिय इत्युक्तः । * आचार्यों वेदसंपन्नो विष्णुभक्तो विम- त्सरः । मन्त्रज्ञो मन्त्रभक्तश्च सदा मन्त्राश्रयश्शुचिः । गुरुभक्तिसमायुक्तः पुराणज्ञो विशेषतः । एवं लक्षणसम्पन्नो गुरुरित्यभिधीयत इत्यादिपूक्तानामाचार्यगुणानां सर्वेषां सार इह संगृहीतः । तस्यैवं गुणवत्वे तव किमायातभित्यत्राह- पितामहमिति । अत्र विद्यया जन्मना चेति भाव्यम् । एतेन * नास्यावरपुरुषाः क्षीयन्ते नास्याब्रह्मवित्कुले भवतीति श्रुत्यर्थस्सूच्यते । नाथमुनि-श्रीरङ्गनाथ इति त्वन्नामधारिणं त्वदेकमननशीलं चेति भावः । विलोक्य-* पशुभनुष्यः पक्षी वेत्यादिन्यायादनुबन्धिपर्यन्तमनुग्राह्यत्वेन मत्वेत्यर्थः । * आचार्यस्य प्रसादेन मम सर्वमभीप्सितम् । प्राप्नुयामिति यस्यास्ति विश्वासम्स सुखी भवेदित्युक्ताचार्यप्रसादोऽपि भगवत्प्रसादहेतुरित्यभिप्रायेणाह-प्रसीदेति । अनाद्यनन्तमद- पराधजनितकालुप्यं विहाय मामैकान्तिकात्यन्तिककै कर्यसाम्राज्यधन्यं कुरुष्वेत्यभिप्रायः । मद्वत्तमचिन्तयित्वा-मदीय- ममर्यादत्वादिप्रतिकूलवृत्तमुपायोपेयविषयच्छद्मस्तुतिवचनाद्यनुकूलवृत्ताभासं चातन्त्रीकृत्येत्यर्थः । स्मयते हि-* पापिष्ठः क्षत्रबन्धुश्च पुण्डरीकश्च पुण्यकृत् । आचार्यवत्तया मुक्तौ तस्मादाचर्यवान्भवेदिति । अत्र पूर्वकृतप्रपत्त्यादिकमपराधकोटौ निवेश्य प्रपदनान्तरमुच्यत इति वादोऽप्याचार्यसंबन्धप्राधान्यपरः ; अन्यथा सर्वशास्त्राणां, संप्रदायस्य, *त्वदङ्घिमुद्दिश्ये- त्यादिस्ववचनानां च विरोधस्स्यात् । स्वकृतप्रपत्तवैकल्यमाशङ्कय पूर्णप्रपत्तिनिष्ठमाचार्य स्वरक्षणाय पुरस्करोतीति पक्षेऽपि मत्प्रपत्तिर्विकला चेदविकलां कुरुष्वेति तात्पर्य ग्राह्यम् । अत्र वृत्तशब्देन प्रतिकूलवृत्तमात्रविवक्षायां तु न किञ्चिचोद्यम् ॥ तदिह यामुनाचार्यस्त्रय्यन्तरहस्यभूतं द्वयार्थगर्भ स्तोत्रं चिकीर्षुरादौ पञ्चभिश्श्लोकैः कृतज्ञताप्रकाशनपूर्वकं प्रकृतौ- पयिकसम्यग्ज्ञानप्रदातॄन् प्रणनाम । षष्ठेन प्राप्यप्रापकसंग्रहपूर्वकं स्तोत्रारम्भं समकल्पयत् । सप्तमेन स्तोत्रारम्भाक्षेपमुखेन भगवतः परत्वं समगृह्णात् । अष्टमनवमाभ्यां तत्समाधानमुखेन सौलभ्यं प्राचीकशत् । * नावेक्षस इत्यादिभिर्दादशभि- नारायणशब्दवाच्यस्यैव सर्वस्मात्परत्वं सौलभ्यं च प्रपञ्च्य प्रवीबभूव । एवं सर्वशरण्यत्वे निरूपिते *न धर्मनिष्ठोऽस्मी- त्यनेन तद्विषयां साधिकारां सपरिकरां चानन्यप्रयोजनशरणागतिं प्रायुक्त । एतावता शब्दतोऽर्थतश्च पूर्वखण्डोऽपि प्रत्यभिज्ञापितः । * न निन्दितमित्यादिभिः पञ्चभिः * अकिञ्चनोऽनन्यगतिश्शरण्येत्युक्तमेव व्यवृणुत । * त्वदत्रि- मुद्दिश्येत्यादिद्वाभ्यां फलगौरवोपायलाघवनिमित्तशङ्काव्युदासाय लघुतरभगवद्धर्मप्रभावमुदाजहार ॥ * विलासेत्यादिभि- स्सप्तदशभिश्चतुर्थ्यन्तपदद्वयाभिप्रेतं व्यस्तृणीत ॥ तत्र * प्रहर्षयिष्यामीति सर्वदेशसर्वकालोचितनिरुपाधिकनिरवधिकसर्व- विधकैकर्यस्य परमप्रयोजनतया नमश्शब्दतात्पर्यमप्यसूचयत् ।। * धिगशुचिमिति श्लोकेन स्वनिन्दाव्याजेन स्वापेक्षित- परमपुरुषार्थस्य सर्वातिशायित्वं स्वस्य त्वरां च व्यञ्जयामास ॥ * अपराधेत्यादिभिश्चतुर्भिश्शरण्यगुणविशेषेण प्रपत्त्यैव सर्वविरोधिनिवृत्तिं प्रादर्शयत् ॥ *वपुरादिषु, *मम नाथेति द्वाभ्यां शेषवृत्तेः पुरुषार्थत्वाय स्वस्य नित्यनिरुपाधिकानन्या- हशेषत्वाध्यवसायमाचष्ट || * अवबोधितवानिमामित्यादिभिश्चतुर्भिरनन्यप्रयोजनस्य स्वस्यात्रत्यामिष्टप्राप्तिमनिष्टनिवृत्तिं च प्रार्थयामास ॥ *दुरन्तस्येति श्लोकेन स्वनिन्दाव्याजेन स्वापेक्षितपुरुषार्थस्य सर्वातिशायित्वं स्वस्य त्वरां च सूचयन् शरणा- गतस्य प्रपत्तव्यगुणविशे पैरेव प्रार्थितं सर्व सिध्यतीति प्रागुक्तमेव स्थूणानिखनन्यायेन स्थिरोचकार ॥ * अनिच्छन्निति व्याख्यानविभागे स्तोत्ररत्नभाष्यम्-श्लो. ६५ ९५ श्लोकेनानन्यप्रयोजनस्य रक्षणोद्यतो भगवान् * नेहाभिक्रमनाशोऽस्तीति न्यायात्स्वयमेव शेषं पूरयतीत्यभाषत ॥ तत्र * त्वमेवेत्यादिनाऽभिप्रेतं * पिता त्वमित्यादिना विवृण्वन् परगतैः स्वगतैश्च हेतुभिश्शरण्यस्य स्वाभिमतभरस्वीकारेण स्वस्य निर्भरत्वं निरणैषीत् ॥ * जनित्वाऽहम् * अमर्याद इति द्वाभ्यां स्वस्योपायान्तरेण परमपुरुषार्थप्राप्तिर्न संभवतीति पूर्वोक्तमेव पुनः प्रतिसमाधत्त ॥ *रघुवरेति श्लोकेन शरण्यस्य प्राक्तनानुष्ठानन्यायात्स्वस्मिन्नपि सर्वापराधक्षमा प्राप्तेत्याह ।। * ननु प्रपन्न इति श्लोकेन शरण्यव्रतविशेषस्वभावादपि तदेव प्रथयामास ॥ अथान्तिमेन स्वपरंगतेषु स्वरक्षणहेतुषु भगवत्कटाक्षविशेषजनितसदाचार्यसंबन्ध एव प्रधानतम इतिनिर्धार्य तदधीनभगवत्प्रसादेन निर्भयः प्रहृष्टश्चासीत् ॥ इति किल निगमान्तभागधेयस्तुतिपरिवाहसमीक्षया प्रपत्त्या । अलभत परमं पदं मुरारेरनघमनोरथ एष यामुनेयः ॥ कथिताकथिते विभाव्य सद्भिस्सदसद्वेदिभिरत्र सावधानः । बलवत्प्रथितप्रमाणदृष्टया बहुमन्तव्यमिदं यदस्मदुक्तम् ॥ उपनिषदुपधेयस्तोत्रतात्पर्यमेतद्यतिपतिरवधत्ते यामुनार्यस्स्वयं वा । महमिह तु नियुक्तस्सद्भिराचार्यनिग्नैरधिगतशुकवृत्तिर्व्याक्रियामन्वभूवम् ।। स्वकमिति हरिदत्तं यामुनस्तोत्रवृत्त्या व्यवृणुत निगमान्ताचार्यकं वेङ्कटेशः । अगणि सदसि सद्भिर्यस्समस्यासहस्री कविकथकमृगेन्द्रस्सर्वतन्त्रस्वतन्त्रः ।। CAREERORERESEAS8ODE.SEEEEEEEEER 286002008 इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु रहस्यरक्षायां हDECOICEI6 ॥ स्तोत्ररत्नभाष्यं समाप्तम् ॥ elessecences 10969690969CORDCORRECTRESODERRORERVEDEOOOSERIEO28626228600 ॥ चतुश्श्लोकीस्तोत्ररत्नयोः अकारादिक्रमेण श्लोकाः ॥ लाकारम्भः पुटसंख्या । श्लोकारम्भः पुटसंख्या श्लाकारम्भः पुटसंख्या ३४ प्रबुद्धमुग्धाम्बुज- ७२ भ अकृत्रिमत्वञ्चरण अचिन्त्यदिव्याद्भुत- अनिच्छन्नप्येवं ७७ 19७ तत्त्वेन यस्य ९३ तदहं त्वते तया सहासीनम् ८६ तव दास्यसुखैक- ७९ तवामृतस्यन्दिनि ७६ तस्मै नमो मधुजित् ७४ भवन्तमेवानुचरन् ८३ भूयो नमोऽपरिमित- अपराधसहस्त्र- म मम नाथ यदस्ति ८१ माता पिता युवतयः ३१ अपूर्वनानारस- अभूतपूर्व मम अमर्यादः क्षुद्रः अवबोधितवान् अविवेकघनान्ध- ६७ य ५९ यदण्डमण्डान्तर- यद्वा श्रमावधि ३५ ई ५० यन्मूर्ध्नि मे ईषत्त्वत्करुणा- (चतुश्श्लोकी) ८९ त्वनिमुद्दिश्य ८२ त्वदाश्रितानां जगत् ७९ त्वदीयभुक्तोज्झित. त्वां शीलरूपचरितैः २० द दासस्सखा वाहनम् ७२ दुरन्तस्यानादेः ध ५८ धिगशुचिमविनीतं यस्यास्ते महिमान (चतुश्श्लोकी) १७ उ र रघुवर यदभूस्त्वं उदग्रपीनांस- उदीर्णसंसार- उपर्युपर्यन्ज- उल्लंधितत्रिविध- व न क वपुरादिषु योऽपि वशी वदान्यो विराजमानोज्वल- विलासविक्रान्त- वेदापहारगुरुपातक- ६२ ७१ ६९ कदा पुनश्शङ्ख- कश्श्रीः श्रियः फस्योदरे हर. कान्तस्ते (चतुश्श्लोकी) किं चैष ६३ ९२ श न देहं न प्राणान् न धर्मनिष्ठोऽस्मि न निन्दितं कर्म तदस्ति ४७ ननु प्रपन्नस्सकदेव १३ न मृपा परमार्थमेव ३६ नमोऽचिन्त्याद्भुता- नमो नमो वाडान ७३ मावेक्षसे यदि ततो ७१ निमजतोऽनन्त- निरासकस्यापि न ८८ निवासशय्यासन- शान्तानन्तमहा (चतुश्श्लोकी) २१ ६० स चकर्थ यस्या भवनं चकासतं ३६ सकृत्वदाकार- ६४ स्फुरत्किरीटाङ्गद- ६६ स्ववैश्वरूप्येण ७३ जनित्वाऽहं वशे स्वाभाविकानवधिका- ३७ त प ho तत्त्वेन यश्चिदचित् २९ पिता त्वं माता त्वं ८७ हताखिलफ्लेश- ७६ ॥ श्रीरस्तु॥ श्रीमत्प्रणतातिहरवरदपरब्रह्मणे नमः। श्रीमते हयग्रीवाय नमः। श्रीमते रामानुजाय नमः श्रीमते निगमान्तमहादेशिकाय नमः । ॥ श्रीमद्देदान्तदेशिकग्रन्थमाला॥ श्रीभगवद्रामानुजमुनिभिरनुगृहीतं ॥ गद्यत्रयम् ॥ ॥ शरणागतिगद्यम् ॥ भगवन्नारायणाभिमतानुरूपस्वरूपरूपगुणविभवैश्वर्यशीलायनवधिकातिशयासंख्येयकल्याण- गुणगणां पद्मवनालयां भगवतीं श्रियं देवीं नित्यानपायिनीं निरवद्यां देवदेवदिव्यमहिषीम् अखिलजगन्मातरम् अस्मन्मातरम् अशरण्यशरण्याम् अनन्यशरणः शरणमहं प्रपद्ये ॥ १ ॥ कवितार्किकसिंहसर्वतन्त्रस्वतन्त्रश्रीमद्वेदान्तदेशिकविरचितं ॥ गद्यत्रयभाष्यम् ॥ श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी। वेदान्ताचार्यवों मे सन्निधत्तां सदा हृदि । ॥ रहस्यरक्षायां पृथुगद्याधिकारः ॥ प्रख्यातश्रुतविभवान्गुरूनशेषान्प्रश्रित्य प्रणयति वेङ्कटेशसूरिः । लक्ष्मीशप्रपदनवैभवप्रतिष्ठां रागान्ध्यप्रशमकरी रहस्यरक्षाम् ॥ १ ॥ लक्ष्मीपतेर्यतिपतेश्च दयैकधाम्नोर्योऽसौ पुरा समजनिष्ट जगद्धितार्थम् । प्राच्यं प्रकाशयतु वः परमं रहस्यं संवाद एष शरणागतिमन्त्रसारः ॥ २ ॥ अत्र भगवान्भाष्यकारः सदाचार्यसंप्रदायागतद्वयवचनेन स्वयमनुष्ठितं न्यासाख्यविद्याविशेषं स्वानुबन्धिसंजिजीव- यिषया यथावत्प्रकाशयन् , *सीतामुवाचातियशा राघवं च महाव्रतम् , *सीतासमक्ष काकुत्स्थमिदं वचनमब्रवीदित्यादि- प्रकारेण श्रीप्रपत्तितदनुग्रहपूर्वकं स्वस्य भगवता संजातं स्वयंप्रयोजनसंवादविशेषं निबध्नाति । प्रतिवचनांशस्तु शरणागति- वशीकृतशरण्याभिप्रायविशेषोन्नयनेन निबध्यत इत्येके । इह *संपत्स्यते इत्यन्तं श्रीमच्छन्द भिप्रेतप्रदर्शनम् । *अखिले- C-13 ९८ श्रीमद्वेदान्तदेशिकग्रन्थमाला त्यादिकम् *अशरण्यशरण्य इत्यन्तं नारायणशब्दार्थविवरणम् । तन्मध्ये श्रीमन्नारायण इति द्विःपठनमुपायोपेयवाक्ययोः सिद्धरूपप्रधानांशव्यञ्जनम् । * अनन्यशरणोऽहमित्युत्तमपुरुषाभिप्रेताधिकारिविशेषोक्तिः । * त्वत्पादारविन्दयुगलम् इत्यादिकमप्यर्थतः स्वरूपतश्च मान्त्रवर्णिकपदत्रयज्ञापकम् । एवं प्रधानतमेन सिद्धोपायेन सिद्धप्राप्येन च सह महा- वाक्यार्थपर्यवसानभूमितया शाब्दप्राधान्यवान्साध्योपायांशो दर्शितः । साध्यप्राप्यमपि * पारमार्थिक इत्यादिना संक्षिप्त- मिति ज्ञापयितुं मध्ये * द्वयम् इति व्याख्येयसमाख्यानिर्देशः । * पितरमित्यादिभिर्जितंताविशेषभगवद्गीतादिपठितैरुक्त- संवादकैरुपबृंहणग्रन्थैः, प्रस्तुतोपायविशेषपरिग्रहं शरण्यस्वभावानुसंधानपूर्वकं प्राप्यविरोधिनिवृत्तिप्रार्थनांशं च प्रपञ्चयिष्य- माणद्वयार्थतया संग्रहेण संकलय्याह । * मनोवाक्कायैः इत्यादिभिरर्थक्रमेण नमःशब्दार्थविवरणपूर्वकं चतुर्थ्यभिप्रेतपरम- पुरुषार्थप्रार्थना प्रकाश्यते । प्रतिवचनवाक्यैस्तु, प्रकृताधिकारिनिर्भरत्वाय स्वीकृतभरस्य शरण्यस्य स्वाभाविकदयार्द्रमुत्तर- खण्डोक्तपरमफलाकुरकल्पमभिप्रायं व्यवृणुत । अतः कृत्स्नमिदं गद्यं द्वयविचरणमिति साधीयान्संप्रदायः । इह च भग- वत्प्रपदने समुद्यतस्य सम्यग्ज्ञानसंपादनपुरुषकारपुरस्कारादिकं पूर्वकृत्यम् । साङ्गस्वरक्षाभरसमर्पणं तत्कालकृत्यम् । स्वनिष्ठानुसन्धानपूर्वकं स्वाधिकारोचितकैंकर्यादिकमुत्तरकृत्यम् । शरण्यस्य तु पूर्वकृत्यं पुरुषकारप्ररोचनादिकम् । तत्काल- कृत्यं समर्पितसर्वभरस्वीकरणम् । उत्तरकृत्यं तु स्वयंप्रयोजनभक्त्यादिप्रदानान्तिमदशाप्रबोधनप्रभृति परिपूर्णकैंकर्यरूप- मुक्तिप्रदानपर्यन्तम् । एतदखिलमिह शब्दतोऽर्थतश्च यथास्थानमनुसंधेयम् । किंच- संबोधनैः परं तत्त्वं न्यासोक्त्या परमं हितम् । प्रार्थनाभिश्च परमः पुमर्थ इह दर्शितः ॥ नन्वेवं सकलफलप्रदो भगवानेव तत्पपत्तिसिद्ध्यर्थमप्याश्रीयताम् ; किमिह लक्ष्मीप्रपदनेन ? मैवम् ; यदि भगवत्प्रपदनमिदानीं शक्यमिति निश्चिनुयात् , तदा मोक्षार्थमेव तदुपाददीत ; न पुनम्तदर्थ तत्प्रयुञ्जीत ; अनिश्चिते तु शक्यत्वे नतराम् । ननु विदितश्चेत्प्रपत्तिशास्त्रार्थः, स च सुकरः ; तदा स्वयमेव मोक्षार्थमनुष्ठीयताम् ? मैवम् ; दुष्कर- कर्माद्यङ्गविरहात् , सौकर्येऽपि महाविश्वासाद्यङ्गकप्रपत्तिस्वरूपे * श्रूयते किल गोविन्दे * सत्यं शतेन विघ्नानामिति न्यायेन संभवत्प्रतिबन्धे मात्रया दौष्कर्यात् । उक्तं च-*उपायः सुकरः सोऽयं दुष्करश्च मतो ममेति । अतः *स्थिते मनसि इत्यादिप्रक्रियया विषयतः स्वरूपतश्च विशिष्टाकारप्रपत्त्यनुष्ठाने प्राप्याभिलाषप्रापकाध्यवसायप्रापकान्तरानन्वयानु- वृत्त्यनुगुणमनस्समाधानाद्यर्थमिह तत्प्रार्थ युक्तम् । एवमपि सुकृतविशेषैरेव लक्ष्मीप्रपत्तिवत् भगवत्प्रपत्तिरप्यस्तु ; मैवम् ; तदर्थ एव ह्ययं सुकृतविशेषः । न चात्रापि पूर्ववदशक्यत्वचोदना, स्वतन्त्रबुद्ध्यैव पूर्व तावन्मात्रशक्तिपदानात् । तदभिप्रायेण युक्तं भगवता शौनकेन-* वाचः परं प्रार्थयिता प्रपद्येन्नियतः श्रियमिति । श्रीसात्वते च-* यामालम्ब्य सुखेनेनं दुस्तरं हि गुणोदधिम् । निस्तरन्त्यचिरेणैव व्यक्तध्यानपरायणाः इति । सा चैव स्वयमाह-* प्रायश्चित्तप्रसङ्गे तु सर्वपापसमुद्भवे । मामेकां देवदेवस्य महिषीं शरणं श्रयेत् इति । न चैवं तदर्थ प्रपत्त्यन्तरापेक्षयाऽनवस्थाप्रसङ्गः, स्वतन्त्रसंकल्पेन व्यवस्थितत्वात्सामग्रीविशेषाणाम् । सामग्रीप्रवाहानवस्था तु सर्वस्मिन्नपि कार्ये सर्वैः सिद्धान्तिभिः स्वी- कर्तव्यता स्वीकृता चेति नासौ दोषः ।। (भगवदित्यादि ॥) अतोऽपवर्गार्थभगवत्प्रपत्तिसिद्धये *यज्ञविद्या महाविद्या गुह्यविद्या च शोभने । आत्मविद्या च देवि त्वं विमुक्तिफलदायिनी ॥ * विद्यासहायवन्तं मामादित्यस्थं सनातनमित्यादिभिः सर्वविद्याप्रवर्तकतया तत्तद्विद्यात्वेन निर्दिष्टां सम्यग्ज्ञानव्यवसायोपायादिप्रदाने विशेषाधिकारवतीमनुग्रहैकस्वभावां श्रियमादौ प्रपद्यते-भगवदिति ॥ अत्र .. ..
व्याख्यानविभागे गद्यत्रयभाष्यम्-शरणागतिगद्यम् ९९ । * अशरण्यशरण्याम् इति वक्ष्यमाणस्योपयुक्ता विशेषा नवभिः पदैः ख्याप्यन्ते । ननु * विष्णुपत्नी विष्णुवल्लभेत्यादिषु भास्करण प्रमेव पत्याऽसौ निरूप्यताम् । यथोक्तं ताभ्यामेव-*अनन्या हि मया सीता, *अनन्या राघवेणाऽहम् इति । इह तु तया तन्निरूपणे व्याख्येयस्थे किमिति भगवताऽसौ निरूप्यते ? प्रस्तुतोपयोगार्थमिति ब्रमः । भगवदभिमतानु- रूपत्वे हि, तस्यास्तेनेच्छाविघाताभावात् तद्विरुद्धेच्छाविरहाच्च ततोऽस्मदिष्टं सिध्येत् । 'प्रभया प्रभावत इव व्याख्येयगतं तया तस्य निरूपणमपि श्रीवल्लभादिव्यपदेशेन दर्शयिष्यति । इदं च परस्परनिरूप्यत्वमन्यत्राप्युक्तम्-* तदेतत्सूक्ष्म- मिथुनं परस्परविचिह्नितम् । आदावन्योन्यमिश्रत्वादन्योन्यप्रतिपादकमिति । आदावन्योन्यमिश्रत्वात्-* शान्तानन्तेति प्रकारेण नित्यमन्योन्यसंबद्धत्वादित्यर्थः । न च परस्परनिरूप्यत्वेऽन्योन्याश्रयदोषः, प्रभाप्रभावतोरिव प्रमाणतः प्रकारा- न्तरेणापि तयोनिरूपणात् । अत्र द्विषट्काष्टाक्षरगताभ्यां भगवन्नारायणशब्दाभ्यां शुद्धे महाविभूत्याख्ये, *नरसंबन्धिनो नाराः इत्यादिभिर्निरुक्ताभ्यामुभयलिङ्गत्वमुभयविभूतिमत्त्वं च ख्याप्यते । भगवच्छब्दस्य * उत्पत्तिं प्रलयं चैवेत्यादि- प्रदर्शितक्रमेण * अन्यत्र ह्युपचारतः इत्यौपचारिकप्रयोगप्राचुर्यमस्ति । नारायणशब्दस्य तु तन्नास्ति । कारणवाक्येषु चानन्यथासिद्धनिःसंदेहविशेषनिर्धारणोपयुक्तश्चायम् , * एको ह वै नारायण आसीत् न ब्रह्मा नेशानः इत्यादिश्रुतेः । * सहस्रशीर्षमित्यनुवाके च तेनैव सर्वपरविद्यावेद्यनिर्धारणम् । अतस्तेनात्र विशेष्यस्य निर्देशः । ततश्च तद्विशेषणतया भगवच्छब्दोऽनादृतरूढिरुभयलिङ्गत्वव्यक्त्यर्थमेव ॥ (अभिमतेत्यादि ।) उक्तप्रकारं भगवतः स्वरूपं निरतिशयानन्दतया मुक्तानां नित्यानामिव च स्वस्याप्यभि- मतम् ; ततोऽपि स्ववल्लभायास्स्वरूपादिकमित्यभिप्रायेण अभिमतेत्युक्तम् । श्रयते हि-*श्रियं लोके देवजुष्टामुदारामिति । निरवधिकक्रीडादिमता निरुपाधिकदेवेन भगवता प्रीतिविषयीकृतामित्यर्थः । सापेक्षनिरपेक्षयोनिरपेक्षसंप्रतिपत्तेः, बाधकस्य चाभावात् , औचित्यातिशयात् , तथैव वेदवि च्या]ख्यातत्वाच्च देवशब्दोऽत्र वासुदेवपरः । देवैर्जुष्टामिति तु मन्दम् । स्मयते च-* प्राणेभ्योऽपि गरीयसीमिति, * अस्या देव्या मनस्तस्मिंस्तस्य चास्यां प्रतिष्ठितम् । तेनेयं स च धर्मात्मा मुहूर्तमपि जीवतीति च । अभिमतत्वेऽप्यननुरूपत्वम् , अनुरूपत्वेऽप्यनभिमतत्वं च लोके दृष्टमिति तद्व्यवच्छेदार्थ- मुभयोक्तिः ; यथा * चकर्थ यस्या भवनमित्यादि श्लोकयोः । लोके केनचिदाकारेणाभिमतानुरूपत्वम् , आकारान्तरेण तदभावश्च क्वचिदृश्यते ; तद्वयुदासाय स्वरूपरूपादिसर्वोक्तिः ॥ तत्र स्वरूपस्य गुणत्वायोगात् , स्वरूपं रूपं गुणः विभवः ऐश्वर्यशीलाद्यनवधिकातिशयासंख्येयकल्याणगुणगण- श्चेति द्वन्द्वः । अनुरूपत्वमिह संबन्धे सति प्रकृष्टं सादृश्यम् ; यथा-* परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितैरिति । रत्न- काञ्चनमुक्ताप्रवालादेरिव स्वसंबन्धेन शोभातिशयहेतुत्वरूपमौचित्यं वा ; यथा-* अतीव रामः शुशुभेऽतिकामया विभुः श्रिया विष्णुरिवामरेश्वरः इति, * तुल्यशीलवयोवृत्तां तुल्याभिजनलक्षणाम् । राघवोऽर्हति वैदेहीं तं चेयमसितेक्ष. णेति च । अत्र वयोलक्षणयोस्तुल्यशब्द औचित्यपरः, दम्पत्योन्यूनाधिकवयस्कत्वात् , स्त्रीपुंसलक्षणानां च भिन्नप्रकार- त्वात् , तत्सहोक्त्या शीलादिष्वपि औचित्यपर एव, तुल्यशब्दोक्तार्थस्य * अर्हतीति समुदायनिर्देशाच्च । यद्वा, अर्ह- त्त्वस्य साधकतया तुल्यशब्देन सदृशत्वमुच्यते । वयसः सदृशत्वम् * घनकनकद्युती युवदशामपि मुग्धदशामित्युक्त- मासन्नतरत्वम् । लक्षणस्य सदृशत्वं पतिलक्षणवत्सर्वोत्कर्षव्यञ्जकत्वम् ; येन स पुरुषोत्तमः, सा च * सर्वलक्षणसंपन्ना नारीणामुत्तमेत्युच्यते । * सदा तवैवोचितया तव श्रिया, * आहुः स्वैरनुरूपरूपविभवैरित्यादिकमत्रानुसंधेयम् ॥ . - . ..
१०० श्रीमद्वेदान्तदेशिकग्रन्थमाला . भगवत्स्वरूपादेरेतत्स्वरूपादीनां यथाक्रममानुरूप्यमूह्यम् । तत्र स्वरूपं स्वासाधारणधर्मनिरूप्यं धर्मि ; तस्या- नुरूप्यं * नानयोर्विद्यते परमित्यादिषु ग्राह्यम् । रूपं * हिरण्यवर्णामित्याद्याम्नातम् ; तस्यानुरूपत्वं हि अतिरमणीयत्व- नित्यत्वाप्राकृतत्वादिविशिष्टमद्भुततमत्वम् । *नित्यैव इत्युपक्रम्य *विष्णोदेहानुरूपां वै करोत्येषाऽऽत्मनस्तनुमिति च निग- मितम् । अत्र रूपादनन्तरो गुणशब्दः सौन्दर्यादिदिब्यविग्रहगुणपरः, * गुणाद्रूपगुणाचापि प्रीति यो व्यवर्धत इति- वत् । विग्रहगुणानां स्वरूपगुणानां च पृथनिर्देशः प्रीत्यतिशयद्योतनार्थः । विभवः * फणिपतिः शय्यासनं वाहनमि- त्यादिभिरुक्तं विभूतिद्वयम् ; यथोक्तम्-* अस्या मम च शेषं हि विभूतिरुभयात्मिका इति । उक्तं च श्रीराममित्रैः- * उभयाधिष्ठानं चैकं शेषित्वम् इति । एवं द्वयोर्विभवस्यैकत्वेऽपि तदानुरूप्यवचनम् अन्यूनानतिरिक्तविभूतिमत्त्वपरम् । यद्वा, * अर्थो विष्णुरियं वाणी इत्यादिभिलौकिकदम्पतिन्यायेन विभज्य निर्दिष्टो विभूत्यंशः । स्वासाधारणविभूषादिकं च विभवः । * निधिः पद्मो निधिः शङ्खश्चतुर्दन्ती गजस्तथा । कल्याणसर्पः पञ्चास्यः [चिक्लीतो] शिक्षितो गृहरक्षकः इत्यादि च पुराणप्रसिद्धमानुरूप्यमिह यथार्ह ग्राह्यम् । ऐश्वर्य शीले च अन्वितेनादिशब्देन परत्वसौलभ्यौपयिकगुणवर्ग- द्वयसंग्रहः ; *सर्वैश्वर्यगुणोपेता नित्यं तद्धर्मधर्मिणी इत्यादिभिरेतत्सिद्धिः । अत्र परस्परेच्छाविघाताभावादैश्चर्यमनुरूपम् । शीलं च गुहादिषु रामस्येव, त्रिजटादिषु तस्याः प्रसिद्धम् । एवं पतिपारार्थ्ययुक्ततदितरसर्वशेषित्वान्वितानामन्येषामपि गुणानामानुरूप्यं सुगमम् ॥ (अनवधिकेत्यादि ॥) * ब्रह्मेशादिसुरव्रजः सदयितस्त्वदासदासीगणः इत्युक्तेभ्यः सातिशयसंख्यातगुणेभ्यो व्यावृत्त्यर्थमाह-अनवधिकातिशयासंख्येयेति ॥ अनवधिकत्वमिह स्वापेक्षयोत्कर्षावधिराहित्यम् । ननु भगवत एवैश्वर्यमनवधिकातिशयम् , * तमीश्वराणां परमं महेश्वरम् , * सर्वेश्वरेश्वरः कृष्णः, * न तत्समश्चाभ्यधिकश्च दृश्यते, * न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यः इत्यादिभिस्तथोक्तेः । * पुंप्रधानेश्वरेश्वरो इति नाम तु स्त्रीप्रत्ययानुपपत्तेः श्रुत्यादिविरोधाचान्यथा नेयम्-'प्रधानयोः गोबलीवदन्यायेन विशेषत उक्तानां ब्रह्मादीश्वराणां च भगवान् ईश्वरः, तत्पनीयम्-इति । * पुंयोगादाख्यायामिति स्त्रोप्रत्ययोपपत्तिः । पुप्रधाने स्वशक्त्यैव नियच्छति, ईश्वरं च वालभ्येनेति निर्वाहो विरूपः क्लिष्टश्च । * ईश्वरी५ सर्वभूतानाम् इत्येतदप्येतेन गतार्थमिति । अत्रोच्यते ; यद्यपि नाम्नि तथा निर्वाहः ; तथाऽपि श्रुतौ न तथा स्यात् , * सर्वभूतानामिति षष्ठयन्वयवैघट्यप्रसङ्गात् । स्त्रीप्रत्ययस्तु बाहुलकेन नेयः । * अस्येशाना जगतो विष्णुपत्नी इति च मन्त्रान्तरेणोक्तम् ; तदपि हि तद्विभूतिभूतभूमिविषयत्वात् तत्पर्यवसाय्येव । श्रीवैकुण्ठगद्ये च शेषादीनामपि तदाज्ञानुविधायित्वमुक्तम्-* शेषशेषाशनादिसर्व परिजनं भगवतस्तत्तदवस्थोचितपरि- चर्यायामाज्ञापयन्त्या इति । आहुश्च भगवद्यामुनाचार्याः-* यस्यास्ते महिमानमात्मन इव त्वद्वल्लभोऽपि प्रभुर्नालं मातुमियत्तया निरवधि नित्यानुकूलं स्वतः इति । वेदार्थसंग्रहे चोक्तम्-* स्वाभिमतस्वानुरूपस्वरूपरूपगुणविभवैश्वर्य- शीलाद्यनवधिकमहिममहिषी इति । उक्तं च श्रीवत्साङ्कमित्रैः-* देवि त्वमहिमावधिर्न हरिणा नापि त्वया ज्ञायते इति । तदात्मजैश्च-* प्रशकनबलेल्यारभ्य * तव. भगवतश्चैते साधारणा गुणराशयः इति । न चैतावता भगक्तो निःसमाभ्यधिकत्वविरोधः ; प्रत्युत तत्प्रतिष्ठापनमेव, * ह्रीश्च ते लक्ष्मीश्च पत्न्याविति श्रुतेः । न ह्येवंविधपत्नी- विशिष्टत्वं कस्यचित्तदन्यस्यास्ति, येन तत्साम्यादिशङ्का स्यात् । उपबृंहितं च-* अप्रमेयं हि तत्तेजो यस्य सा जनका- मजा इति । एवमस्याः शीलादीनामनवधिकातिशयत्वेऽप्यविरोधः ।
. , व्याख्यानविभागे गद्यत्रयभाष्यम्-शरणागतिगद्यम् १०१ यथा प्रभागुणोत्कर्षे भास्करो निःसमाधिकः । श्रीमानपि तथैव स्यात्पतिः पत्नीगुणोन्नतौ ॥ ज्ञानभोगसमानत्वे नित्यमुक्तेश्वरेषु च । यथा 'वैषम्यनियतिस्तथैवात्रेत्यनाविलम् ॥ शास्त्रेषु बहुधा भगवद्गुणत्वादिरूपेण निर्दिष्टायास्तस्याः कैश्चिन्निर्गुणत्वादिकं शङ्कयते इति तद्वयुदासाय कल्याण- गुणोक्तिः । गुणत्वादिनिर्देशास्तु अस्या द्रव्यत्वाद्यविरोधेन अन्यपरा इति तत्र तत्र द्रष्टव्यम् । * ततोऽवलोकिता देवाः, * त्वयाऽवलोकितः सद्यः, * स श्लाघ्यः स गुणी इत्यादिभिरेतदवलोकनाक्षुद्राणामपि गुणसिद्धौ सर्वकल्याणगुणशालि- त्वमस्याः कैमुत्यसिद्धम् । कल्याणत्वं मोक्षपर्यवसायितत्त्वज्ञानादिमङ्गलावहत्वं स्वयं नित्यानुकूलत्वं च । * न ते वर्णयितुं शक्ता गुणान् जिह्वाऽपि वेधसः इत्याद्यभिप्रेतसर्वापरिच्छेद्यगुणानन्त्यातिशयसूचनाय गणशब्दः ; ऐश्वर्यादेरनेकावान्तर- गुणसमुदायात्मकत्वाद्वा, * प्रकृष्ट विज्ञानमित्यादिन्यायात् ॥ (पद्मवनेत्यादि।) अथ विभूतितोऽपि मङ्गलनिर्वाहकत्वं प्रदर्शयति-पद्मवनालयामिति ॥ एतेन *पद्मे स्थितां पद्मवर्णाम् , * गन्धद्वारामित्याद्याम्नातसौवर्ण्यसौगन्ध्यातिशयोऽपि सूचितः। तच्छरणवरणमन्त्रे चोक्तम्-* तां पद्मनेमी शरणमहं प्रपद्ये इति । नाभिस्थानीयकर्णिकावस्थानात् , पद्ममस्या नेमिवद्भवति । पद्ममेव नेमिः नयनसाधनं यस्याः सा पद्मनेमीति केचित् । * मातरं पद्ममालिनीम् , *आर्द्रा पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम् , *श्रीनिलयमालाधारिणी, * प्रियाणि तस्याः पुष्पाणि कमलानि विदुर्बुधाः, * विकासिकमलस्थिता इत्यादिप्वप्यस्या विशेषतः पद्माङ्गीकारश्रुतेः, श्रीविष्णुस्मृत्यादिषु विस्तरेणोक्तानां मङ्गल्यविभूतिभेदानामियं विशेषतो देवतेति ज्ञापयितुमिह सुप्रसिद्धमुख्यमङ्गल- भूतपद्मवनोदाहरणम् । *यत्र पद्मवनानि चेति भगवतो विशेषसंनिधिस्थाने पद्मवने तद्विग्रह इवासौ विशेषेण संनिधत्ते । एतेन * साऽहं वै पङ्कजे जाता सूर्यरश्मिप्रबोधिते । भूत्यर्थं सर्वभूतानां पद्मा श्रीः पद्ममालिनी इति श्रीवासवसंवादोक्तं सर्वभूतोज्जीवनार्थावतारसौलभ्यमपि प्रदर्शितं भवति । एवं मङ्गलगुणविभूतियोगेन निर्दोषत्वमपि संकलय्याह-भगवती- मिति ॥ * ज्ञानशक्तिबलेल्यारभ्य * विना हेर्यैर्गुणादिभिरिति हि मर्यते । अथ उक्तवक्ष्यमाणसर्वातिशयस्थापिकया सुप्रसिद्धस्वासाधारणसमाख्यया सर्वसमाश्रयणीयत्वादिकमाह-श्रियमिति ॥ एवं हि श्रीशब्दो निरुच्यते-* शृणाति निखिलान्दोषान् श्रीणाति च गुणैर्जगत् । श्रीयते चाखिलैनित्यं श्रयते च परं पदम् ॥ इति, * श्रयन्तीं श्रीयमाणां च शृणन्तीं शृण्वतीमपि । इति च । अस्य च नाम्नः सर्वप्रकारोत्कर्षज्ञापकत्वमाहुः-* श्रीरित्येव च नाम ते भगवति ब्रूमः कथं त्वां वयम् इति, * श्रीरसि यतः इति च । भगवन्नारायणपदोक्तस्यानुरूप्यं च * भगवतीम् , * श्रियम् इति पदाभ्यां दर्शितम् । श्रीपदनिरुक्तिभिः संश्रितदोषनिराकरणम् , प्राप्यरुचिप्रापकाध्यवसायादिप्रदानम् , उपायस्वरूप- निर्वर्तकत्वम् , * पितेव त्वत्प्रेयान् इत्युक्तं पतिप्रसादजनकत्वं च सिद्धम् । एवमाश्रितार्थव्यापारास्तदनुगुणावतारादयश्च न कर्मकृता इत्याह-देवीमिति ॥ भर्तुलीलायामैकरस्यात्तदनुगुणव्यापारोपपत्तिरिति भावः । * भगवतीमित्यादिपदत्रयेण द्विषटकार्णस्थभगवद्वासुदेवपदार्थानुरूप्यं च ज्ञाप्यते । श्रियं देवीमिति समभिव्याहारेण, * श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम् , * श्रीदेवी पयसस्तस्मादुत्थिता धृतपङ्कजेत्यादिश्रुतिस्मृतयः सूच्यन्ते । * श्रियः श्रीश्च भवेदप्रयेत्युक्तं पतिसंबन्धेन द्योतमानत्वादिकमपि देवीमित्यनेन गम्यते ॥ (नित्यानपायिनीम् ॥) एवम् * क्रीडार्थमवतीर्णस्य तस्येत्याद्युक्तलोकानुकम्पाहेतुकावताराया अपि तस्याः * पश्यतां सर्वदेवानां ययौ वक्षःस्थलं. हरेः, * मया विना शुष्यति शोकदीनमित्यादिभिरागन्तुकसंक्षेपविश्लेषादिव्यप- - " १०२ श्रीमद्वेदान्तदेशिकान्थमाला देशात्कथमपराधभीतानां तत्तदवस्थासु तत्पुरस्कारेण भगवदाश्रयण स्यादित्यत्राह-नित्यानपायिनीमिति । * श्रीवत्स- वक्षा नित्यश्रीः, * नित्यैवैषा जगन्माता विष्णोः श्रीरनपायिनी, * अन्येषु चावतारेषु विष्णोरेषाऽनपायिनी, * भगवद्वासु- देवस्य नित्यैवैषाऽनपायिनी, * महाविभूतेः संपूर्णपाड्गुण्यवपुषः प्रभोः । मम सर्वात्मभूतस्य नित्यैवैषाऽनपायिनी ॥ इत्यादिभिरनयोर्न कदाचिदपि विश्लेषः । अवतारेष्वपि कदाचिद्विश्लेषशोकादेरभिनयमात्रमेव ; इदं च श्रीमद्रामायणान्ते सूचितम्-* रामस्य सव्यपाधं तु पद्मा श्रीः समवस्थिता । दक्षिणे हीविशालाक्षी व्यवसायस्तथाऽग्रतः इति । एवं देवी- मित्यन्तेन व्याख्येयस्थश्रीशब्दार्थों दर्शितः । तन्मुखेन नित्यं भगवतः सुखप्रसादनीयत्वं व्यञ्जयितुं नित्यानपायिनी- मित्यन्तेन तत्रत्यमतुबर्थश्चोक्तो भवति ॥ (निरवद्याम् ॥) ननु भगवतीमित्यादिभिः स्वतो निर्दोषत्वादौ नित्यसंबन्धे च सिद्धेऽपि, स्त्रीत्वोपाधिवशात् कदाचित्पतिपारायंवैमुख्यं, पतिप्रतिकूलाभिप्रायत्वम् , अविमृश्यकारित्वम् , नृशंसत्वम् , निग्रहरुचित्वं च, * शतहदानां लोलत्वं मत्स्यानां प्रतिकूलताम् । गरुडानिलयोः शैघयमनुगच्छन्ति योषितः ॥ * विद्यते स्त्रीषु चापल्यं किं न कुर्वन्ति योषितः । इत्यादिभिः प्रसिद्धं यदि स्यात् ; तदा कथं नित्यमशरण्यशरण्यत्वं स्यादित्यत्राह-निरवद्यामिति ॥ सामा- न्यतः स्त्रीत्वनिबन्धनदोषवचनं क्षेत्रज्ञेष्वेव कोपाधिविशेषनियतं प्रायिकं चेति नास्यास्तत्प्रसङ्गः । उक्तं च तथैव- * अनवद्याऽनवद्याङ्गी नित्यं तद्धर्मधर्मिणी इति । श्रीमद्रामायणे च-* इयं तु भवतो भार्या दोषैरेतैर्विवर्जिता इति । किं च, *आनृशस्यं परो धर्मस्त्वत्त एव मया श्रुतः इति स्मारयन्त्या नृशंसत्वप्रसङ्ग एव नास्ति । निग्रहरुचिश्च समर्थाया एवास्या अत्यन्तापकारिष्वपि न संभवतीति स्ववाक्यसिद्धम् , * असंदेशातु रामस्य तपसश्चानुपालनात् । न त्वां कुर्भि दशग्रीव भस्म भस्मार्ह तेजसेति । एतद्विभूतिभूतदेवतादिषु कर्मवशादीदृशदोषसंभवेऽपि नास्यास्तन्मूलभूतः संकल्पः । * त्वया देवि परित्यक्तं सकलं भुवनत्रयम् । विनष्टप्रायमभवत् त्वयेदानी समेधितम् ॥ * संत्यक्ता ये त्वयाऽमले इत्यादिषूकसंत्यागोऽप्युपेक्षामात्रम् , तच्च प्रीतिकोपविरहेणावस्थानम् ।। (देवदेवेत्यादि ।) नन्वेवं भगवदभिमतत्वादिकं शरण्यत्वौपयिक सर्व तत्पल्यन्तरेऽपि स्यात् , *विष्टम्भो दिवो धरुणः पृथिव्याः इत्यादिभिस्तन्माहात्म्यप्रसिद्धेः ; तारतम्यं तु दुरूहम् ; अतः कथम् * अशरण्यशरण्यामनन्यशरणः इत्युच्यते? तत्राह-देवदेवदिव्यमहिषीमिति ॥ यथा मनुष्यादिभ्योऽधिकानां ब्रह्मादिदेवतानां मनुष्यस्थानीयानां सर्वप्रकारसमधिकतया भगवान् देवः, तथा ब्रह्मादिदेवपत्नीभ्यः समधिकानां भगवत्पत्नीनामप्यसौ प्रधानतमेत्यभिप्रायेणात्र दिव्यशब्दः । इयं बुभयाधिष्ठानेकशेपित्वसाम्राज्येन सर्वमङ्गलपदायित्वादिभिश्च प्रकृष्यत इति भगवच्छास्त्रे उक्तम् । तथा ब्राह्मे पुराणेऽपि-* अनन्तनामधेया च शक्तिचक्रस्य नायिकेति । पत्न्यादिषु शक्तिशब्दस्तद्विहारादिकार्योपयुक्त- विशेषणत्वाभिप्रायः । तदिदं प्राधान्यम् , * कृताभिषेका महिषी इति विशेषणात् महिषीशब्देनैव वा विवक्षितम् ; तदा दिव्यशब्दः तद्विग्रहस्य भगवद्विग्रहस्येवाप्राकृतत्वादिकं न्यनक्ति ॥ (अखिलेत्यादि ॥) एवं चिकीर्षितभङ्गपरिहाराय प्रत्याख्यानानर्हत्वाय च पतिवाल्लभ्यातिशय उक्तः । अथ तथा- विधोत्कर्षस्वनिकर्षस्वापराधदर्शनजनितसाध्वसपरिहाराय प्रजावात्सल्यातिशयमाह-अखिलजगन्मातरमिति ॥ जगच्छब्द इह चेतनपरः । * नमामि सर्वलोकानां जननीमब्धिसंभवाम् , *त्वं माता सर्वलोकानाम् इत्यादिभिरस्याश्चतुर्मुखादीन्सर्वान जन्तून्प्रति मातृत्वात् लोकमातेति नाम पठ्यते । एवमुपबृंहणबलात् * निचदेवी मातरमित्यादिषूक्तमस्या मातृत्वं भगवत व्याख्यान विभागे गद्यत्रयभाष्यम्-शरणागतिगद्यम् १०३ पितृत्वेन समानविषयम् । न हि मदेकवर्जमिदमस्या मातृत्वमित्यभिप्रायेण अखिलशब्दः । तदिदं विश्वमातृत्वप्रदर्शित निरुपाधिकवात्सल्यं रिपूणामपि वत्सलस्य पत्युरनुरूपतमम् । तच्च हितचिन्तारहितेषु अहितचिन्तकेष्वपि कयाचिन्नियत्या कदाचित्फलति ; किं पुनरिदानी हितचिन्तोन्मुखे मयीति भावः । दुःसहनिरन्तरापराधे दोषैकनिधौ रावणेऽपि हि सोन्मादपुत्र इव जननीत्वेनैव जातवात्सल्या * मित्रमौपयिकं कर्तुम् , * विदितः स हि धर्मज्ञः, * प्रसादयस्व त्वं चैनमित्यादिभिः सर्वाधिक रहस्यमुपदिश्य, तद्भमप्रशमने प्रयतते स्म । एवमखिलजगन्मातरमित्यन्तैः पदै- श्चिकीर्षितायास्तत्प्रपत्तेरतिशयितामोघधर्मत्वं सूचितम् ; यथोक्तं काश्यपीये-* नारायणात्मिकां देवीं श्रियं त्रैलोक्यमातरम् । भजमानो महाभाग परमो धर्म उच्यते ॥ इति । अयं च तदात्मकत्वव्यपदेशस्तत्पत्नीत्वाभिप्रायेण । अत्र *अस्मत्स्वामि- नितिवत् * अस्मन्मातरमित्यपि श्रीविष्णुचित्तादयः पठन्ति ; व्याचक्षते च * यामुनमुनिवंशजननेन पुनश्च विशेषेण अस्मन्मातरमितीति ॥ (अशरण्यशरण्याम् ।।) उक्तैः स्वभावैः सिद्धमपेक्षितानुगुणमाकारमाह-अशरण्यशरण्यामिति । येषां मोक्षोपाय- निष्पत्तिकामानां सर्वलोकशरण्योऽपि न भवेच्छरण्यः, तेषामप्यसौ शरण्या; यथोक्तं त्रिजटया-* भसितामपि याचवं राक्षस्यः किं विवक्षया । राघवाद्धि भयं घोरं राक्षसानामुपस्थितम् ॥ * प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा । अल- मेषा परित्रातुं राक्षस्यो महतो भयादिति । वानरपरिषदि चैतदनुवदन्वायुसूनुराह-* अलमेषा परित्रातुं राघवाद्राक्षसी- * ततस्सा ह्रीमती बाला भर्तुर्विजयहर्षिता । अवोचद्यदि तत्तथ्यं भवेयं शरणं हि वः ॥ इति । * पापानां वा शुभानां वेत्यादीनि च प्रभञ्जनसुतं प्रति तद्वाक्यानि । कुपितनरसिंहसमीपागतिभीताश्च प्रजापतिप्रभृतयस्तामेव विश्व- मातरमाश्रित्य तत्पुरस्कारेण तमुपसेदुरिति पुराणप्रसिद्धम् । आहुश्च-* मातर्मैथिलि राक्षसीस्त्वयि तथैवापिराधास्त्वया रक्षन्त्येत्यादि । (अनन्येत्यादि ॥) भवत्वेवमशरण्यशरण्यत्वं तस्याः ; भवतस्तेन किमायातमित्यत्र तदेकप्रपत्तियोग्यां स्वावस्था दर्शयति-अनन्यशरण इति । अन्यत् शरणं यस्य नास्ति सोऽनन्यशरणः । शरणमुपायः * उपाये गृहरक्षित्रोः शब्दः शरणमित्ययम् । वर्तते सांप्रतं त्वेष उपायार्थंकवाचकः ॥ इति [व्यवस्थापनात् । एवमुत्तरत्रापि द्रष्टव्यम् । उत्तमपुरुषे- णैव स्वान्वये सिद्धे अहम् इत्यधिकोक्त्या स्वस्य दुष्करोपायान्तराशक्तिः सूच्यते । प्रपद्य इत्यत्र यद्यपि गत्यर्थेन धातुना बुद्ध्यर्थेन सता अध्यवसायमात्रमुपस्थाप्यते, तथाऽपि प्रमाणानुसारात् शरणशब्दतात्पर्या नुसारा]च्च प्रार्थनाद्यन्वितभर- न्यासं करोमीत्युक्तं भवति । प्रार्थ्यते चानन्तरं फलविशेषः । यस्तु परस्परोपकारेण दक्षिणादानेन प्रशासनेन वा भर- न्यासः, नासौ प्रपत्तिः । नन्विदं मुमुक्षोरेव भगवयवच्छेदेन तदन्यप्रपदने तदैकान्त्य विहन्यात् ; मैवम् ; यथा कर्म- योगादिकमनन्योपासनार्थतयोपादीयते, तथाऽनन्यप्रपदनार्थतयोपादीयमानमिदं तद्वदैकान्त्यमेव स्थापयति । यथा स्वाधि- कारोचितपरिकरार्चनेऽनन्यत्वाविरोधः, तथेहापि । * आप्तो विष्णोरनाप्तश्च द्विधा परिकरः स्मृतः । नित्यो वन्द्यो न चानित्यः कर्मवश्यो मुमुक्षुभिरिति चोक्तम् । एवं घटकतया वरणेऽपि न विरोधः ; अन्यथा गुरुभजनतत्पुरस्कारादिक- मपि विरुध्येत । अथ * तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् * आचार्यमुपासीतेत्यादिभिस्तादर्थ्यात् तत् संगृह्यते ? इद- मपि पूर्वोक्तैस्तथैव, अविशेषात् । किंच, श्रियः प्रपत्तिम् * चन्द्रां प्रभासामिति मन्त्रेण अलक्ष्मीनाशनार्थमामनन्ति ; तथा * ऋचः सामानि यजूषि सा हि श्रीरमृता सतामिति । या मुमुक्षूणां मोक्षहेतुर्विद्यैव लक्ष्मीः, तदभावनाशोऽनया -- व - १०४ श्रीमद्वेदान्तदेशिकग्रन्थमाला क्रियत इति तदर्थ शरण्याभिप्रायसंवादिनी तन्महिषीप्रपत्तिर्युक्तैवेति सिद्धम् । एवं सेयं साक्षात् परंपरया वा सर्वफल- साधिका । * उदारामिति श्रौतं पदं ह्यनवच्छिन्नविषयम् । तच्च * सर्वकामप्रदां रम्यां संसारर्णवतारिणीम् । क्षिप्र- प्रसादिनी लक्ष्मी शरण्यामनुचिन्तयेदित्यादिस्वायंभुवादिवचनैरुषबंहितम् । व्याचख्युश्च-* ऐश्वर्यमक्षरगतिं परमं पदं वा इत्यारभ्य * कथय कोऽयमुदारभावः इति । व्यतिरेकमुखेन चैतत्स्थिरीकृतं चतुःश्लोक्याम्--*श्रेयो न हरविन्दलोचन- मनःकान्ताप्रसादादृते संसृत्यक्षरवैष्णवाध्वसु नृणां संभाव्यते कर्हिचित् इति ॥ १ ॥ पारमार्थिकभगवचरणारविन्दयुगलैकान्तिकात्यन्तिकपरभक्तिपरज्ञानपरमभक्तिकृतपरिपूर्णा- नवरतनित्यविशदतमानन्यप्रयोजनानवधिकातिशयप्रियभगवदनुभवजनितानवधिकातिशयप्रीति कारिताशेषावस्थोचिताशेषशेपतैकरतिरूपनित्यकैंकर्यप्राप्त्यपेक्षया पारमार्थिकी भगवच्चरणारविन्द- शरणागतियथावस्थिता अविरताऽस्तु मे ॥ २ ॥ अस्तु ते ॥३॥ तयैव सर्व संपत्स्यते ॥ ४ ॥ तत्किमत्रापेक्षितमित्यत्राह-पारमार्थिकैति । पारमार्थिकशब्दस्य चरणारविन्दविशेषणत्वे अर्थशब्दः प्रयोजन- वाची । पारमार्थिक परमार्थ इत्यर्थः । यद्वा, परमप्रयोजनभूतानुभवग्राह्यं परमभोग्यमित्यर्थः । एतेन परभक्त्यादिजनना- हत्वं व्यज्यते । निर्दोषगुणवत्स्वामिचरणयोः सेक्कस्य भक्त्यतिशयः स्यादित्यभिप्रायेण भगवच्चरणशब्दः । अरविन्दत्व- रूपणं चोपायदशायामपि स्वादुत्वसूचकम् । * स भ्रातुश्चरणौ गाढम् , * यावन्न चरणौ भ्रातुः, * तस्य ताम्रतलौ तात चरणौ सुप्रतिष्ठितौ । सुजातमृदुरक्ताभिरङ्गुलीभिरलंकृतौ ॥ प्रयतेन मया मूर्धा गृहीत्वा ह्यभिवन्दितावित्यादिष्विवान्योन्य- योगादपि शोभमानत्वद्योतनाय युगलशब्दः । पारमार्थिकशब्दस्य परभक्त्यादिविशेषणत्वे अनुभवविशेषणत्वेऽपि परम- प्रयोजनत्वं भ्रमकैतवराहित्यं वा विवक्षितम् । ऐकान्तिकत्वं प्रयोजनान्तरानन्वयेन तदेकनियतत्वम् ; तत एव नित्यानु- वृत्तत्वमात्यन्तिकत्वम् , अन्यार्थत्वे हि तत्सिद्धौ निवर्तेत । निरतिशयत्वमात्यन्तिकत्वमिति चाहुः । अत्र परभक्तिः उत्त- रोत्तरसाक्षात्कारेच्छात्मिका धीः ; सा च * या प्रीतिः इत्यादिष्विव विषयस्वभावजा, न त्विष्टसाधनत्वबुद्धिजा । पर- ज्ञानम् उत्तरोत्तरसाक्षात्कारः । साक्षात्कृते निरन्तरानुबुभूषा परमभक्तिः । अनुभवस्त्विहानुकूलतमत्वेन साक्षात्कार एव । नित्यानां मुक्तानां च नित्यानुवृत्तकरूपानुभवः क्षणभेदेन परभक्तित्वाद्याकारभेदैश्च विकल्प्यते । पूर्वपूर्वक्षणेषुत्तरोत्तर- क्षणावच्छिन्नस्वरूपस्येष्टतमत्वमभिप्रेत्य कृतत्वव्यपदेशः; तस्य मुख्यत्वं तु योगविशेषजन्यानुभवे । नन्विहोपायभूतपर- भक्त्यादिभिर्मुक्तदशानुभवस्य कृतत्वं मुख्यमेवास्तु ; तथासत्युपरि श्लोकत्रयोदितज्ञानस्य स्थानत्रयोदितपरभक्तेश्च प्रार्थन- मुपपद्येत । तदर्थं च यथाभाप्यं संप्रतिपन्नाङ्गप्रपत्तिरिह प्रार्थिता स्यात् ? मैवम् ; * प्रकृति स्थूलसूक्ष्मरूपां विसृज्य तदानीमेव मत्प्रसादलब्धमच्चरणारविन्दयुगलैकान्तिकात्यन्तिकपरभक्तिपरज्ञानेत्यादिवक्ष्यमाणसरूपतया तदनुगुणमिह व्याख्यातुमुचितत्वात् । न च भगवत्प्रपत्तेः स्वतन्त्रतया मोक्षसाधनत्वं नास्तीति वाच्यम् ; श्रुतिस्मृतिभगवच्छास्त्रेषु तत्स्वातन्त्र्यदृष्टेः । * यो ब्रह्माणम् इत्यादिके हि श्वेताश्वतरमन्त्रे हिरण्यगर्भादिकारणभूतपरमपुरुषशरणागतिर्मुमुक्षुणाऽनुष्ठेयेति प्रतीयते । न च क्वचिदङ्गत्वदर्शनात् गुरुलघुविकल्पानुपपत्तेश्चात्र व्यवहितसाधनत्वं कल्प्यम् ; अधिकारिभेदेन व्यवस्थापनात् । तथा चोपबृंहितं ब्राह्मे पुराणे-* शरणं त्वां प्रपन्ना ये ध्यानयोगविवर्जिताः । तेऽपि मृत्युमतिक्रम्य यान्ति तद्वैष्णवं पदमिति । अहिर्बुध्न्येन च सुस्पष्टमुक्तम्-* यद्येन कामकामेन न साध्यं साधनान्तरैः । मुमुक्षुणा यत्सांख्येन योगेन । .. ।
व्याख्यानविभागे गद्यत्रयभाष्यम्-शरणागतिगद्यम् १०५ न च भक्तितः ॥ प्राप्यते परम धाम यतो नावर्तते यतिः । तेन तेनाप्यते तत्तन्न्यासेनैव महामुने ॥ परमात्मा च तेनैव प्राप्यते पुरुषोत्तमः । इति । प्रपत्तिप्रयोगश्चाविलम्बितफलप्रद एवमुदाहृतः-* अहमस्म्यपराधानामालयोऽकिंचनोऽगतिः। त्वमेवोपायभूतो मे भवेति प्रार्थनामतिः ॥ शरणागतिरित्युक्ता सा देवेऽस्मिन्प्रयुज्यताम् । तस्यानुबन्धाः पाप्मानः सर्वे नश्यन्ति तत्क्षणादिति । अत्रापि * त्वमेवोपायभूतो मे भव इत्यादिभिासात्मकत्वं सूच्यते । * तेषां तु तपसां न्यास- मतिरिक्तं तपः श्रुतमिति चाह । न्यासशब्दस्य चात्र शरणागतिविषयत्वं दर्शितम्-* निक्षेपापरपर्यायो न्यासः पञ्चाङ्ग- संयुतः । संन्यासस्त्याग इत्युक्तः शरणागतिरित्यपीति । * न्यास इत्याहुर्मनीषिणो ब्रह्माणम् इत्यत्र न्यासशब्दसामानाधि- करण्यं त्वन्यपरम् । एवं स्वतन्त्रप्रपत्तिसिद्वौ * भक्त्या परमया वाऽपि प्रपत्त्या वा महामते । प्राप्योऽहं नान्यथा प्राप्यो मम कैंकर्यलिप्सुभिः ॥ इति विकल्पोऽपि व्यवस्थितविषय उपपद्यते । श्लोकत्रयोदितज्ञानादिकमप्यत्र स्वयंप्रयोजनतया प्रार्थ्यत इति न विरोधः । न च प्रपत्तिस्वातन्त्र्ये भाष्यविरोधः ; तथा हि-* चतुर्विधा भजन्ते मामित्यादिना उपासन- स्येव प्रपदनस्यापि *तावदार्तिस्तथा वाञ्छा तावन्मोहस्तथाऽयुग्वम् । यावन्न याति शरणं त्वामशेषाघनाशनम् ॥ *प्रपत्तेः कचिदप्येवं परापेक्षा न विद्यते । सा हि सर्वत्र सर्वेषां सर्वकामफलप्रदेत्यादिभिः सर्वाभिमतसाधनत्वावगतः, सर्वफल. साधारणमपि तत्र चरमश्लोकविधेयं प्रकृतोपायविरोधिपापनिवर्तनरूपोदाहरणविशेषे प्रदर्शयामास । इह तु साध्यान्तर- साधनान्तररहितमन्त्रविवरणप्रवृत्तत्वात् प्राप्तिविरोधिनिरसनार्थतयोदाहरति । तस्मान्नोपायभक्त्यादिकमिहोच्यत इति सिद्धम् । परभक्त्यादिभिः साध्यमनुभवादिकं तदभावेऽपि मे प्रपत्तिमात्रेण भवत्विति विवक्षायां प्रस्तुतविरोधाभावेऽपि, वक्ष्यमाणानुसारेण विवक्षान्तरं दर्शितम् । आतॊपच्छन्दनं गद्य भाप्यं तु पररञ्जनम् । इत्याविलधियोऽप्येवं प्रसीदेयुः प्रमाणतः ॥ पुनश्च मुक्तानुभवं परिपूर्णेत्यादिभिः पड्भिर्विशिनष्टि । अत्र हि मुमुक्षुणां भगवदनुभवविशेषेषु यथासंभवं सुकृततारतम्येन परिमिताकारगोचरत्वम् , खद्योतस्फुरणवत्सान्तरत्वम् , कंचित्कालं निरन्तरत्वेऽपि सारस्वतस्रोतोन्यायेन विच्छिन्नप्रवाहत्वम् , सामान्यतः सर्वविषयत्वेऽपि परोक्षरूपत्वम् , स्वयंप्रियत्वेऽपि मधुरभेषजनयेन मुक्तिरूपस्वप्रयोजन- साधनत्वबुद्ध्या उपादेयत्वम् , अत एव सावधिकरसत्वं च स्यात् ; निःशेषनिवृत्तप्रतिबन्धस्य तु न तथेति भावः । अत्र प्रीतिहेतुत्वाभिधानेऽपि तदर्थबुद्ध्या उपादेयत्वाभावादनन्यप्रयोजनत्वमविरुद्धम् । तत्र हेतुरनवधिकातिशयप्रियत्वम् । * भगवदनुभवेत्यनेन मुक्तौ पाषाणकल्पत्वपक्षः, स्वात्ममात्रानुभवनिर्गुणप्राप्त्यादिवादश्च व्युदस्यते ; सर्वविशिष्टब्रह्मानुभवे प्रधानानुभाव्यं च व्यञ्जितम् ॥ अत्रानुभवजनितप्रीतिर्नाम * निरतिशयानुकूलोऽयं विपयो मयाऽनुभूयते इति स्वयमपि निरतिशयानुकूल्यवती कृतार्थताबुद्धिः, * कृतार्थोऽस्मीत्यमन्यत इतिवत् ; सा च सामग्रयनुवृत्त्या प्रतिक्षणभाविनी प्रवाहविच्छेदरहिता चेत्येके । अन्ये तु-प्रीतेः स्वरूपतोऽनुवृत्तत्वेऽपि पूर्ववदनुभवस्यैव प्रयाज्यप्रयोजकाकारविभागेन जन्यजनकवाचोयुक्ति:-इति । अस्याश्च प्रीतेरनवधिकातिशयत्वं प्रीत्यन्तरापेक्षया निकृष्टत्वविरहात् ; ईश्वरस्य नित्यानामपि हि न मुक्तेभ्योऽतिशयिता प्रीतिः, *श्रोत्रियस्य चाकामहतस्य *भोगमात्रसाम्यलिङ्गाच्चेति समानभोगव्यवस्थापनात् , ईश्वरनित्यमुक्तभोगानामुपचयाप- चयतारतम्यवादयोरपन्यायमूलत्वाच्च । कैंकर्यस्य भगवदिच्छाकारितत्वेऽपि, * प्रहर्षयिष्यामि इति तत्प्रीत्युद्देशेन प्रवृत्तत्वे. ऽपि, * प्रीतिकारितेत्यादिना * यथार्ह केशवे वृत्तिमिति न्यायात् प्रीतेः प्रेरकत्वातिशयेन स्वरसप्रवृत्तिः, नियोगनैरपेक्ष्यं , - C-14 १०६ श्रीमद्वेदान्तदेशिकग्रन्थमाला . च द्योत्यते । एवं प्रीत्या प्रवृत्तस्यापि कैंकर्यविशेषेषु स्वाम्यभिमतिविशेषास्त्वनुरोधनीयाः । तादृशमेव च कैंकर्यम् * एतत्साम गायन्नास्ते * जक्षत्क्रीडन् रममाणः * स यदि पितृलोककामो भवतीत्यादिष्वप्युक्तम् । अशेषावस्थाशब्देन परव्यूहादयः स्थानासनशयनादयो जगत्सृष्टयादयश्च भगवतोऽवस्थाः, स्वस्य च सशरीरत्वाशरीरत्वानेकशरीरत्वरूपा गृह्यन्ते । कैंकर्यस्य तत्तदवस्थोचितत्वम् , यथालोकं यथागमं च चामरग्रहणादिना भोक्तृतया भोग्यतया च संनिधाय कृतत्वात् । अशेषशेषता आत्मनः आत्मीयस्य च सर्वस्य परशेषभावः । यद्वा, सर्वप्रकारशेषवृत्तिः । अनन्तगरुडादि- प्रतिनियताधिकारकृत्येषु मुक्तस्येच्छाविरहात् , इष्यमाणेष्वपि सर्वेषु * एकधा भवति * तावन्ति चक्रे रूपाणि भगवान् देवकीसुतः इति प्रकारेण शेषशेषिणोर्यथाभिमतरूपपरिग्रहेण मुक्तस्य स्वाभिमतसर्वशेषवृत्तिः स्यादेव; तस्याम् एक- शब्देन स्वप्रयोजनप्राधान्यव्युदासः । अथ वा, नित्यानां मुक्तानां च भगवत्प्रीतिफलासु सर्वासु शेषवृत्तिषु परकृतासु स्व- कृतासु च प्रीत्यविशेषो विवक्षितः, * नित्याभिवाञ्छितपरस्परनीचभावैः * याभिस्त्वं स्तनबाहुदृष्टिभिरिवेत्यादिन्यायाच्च । एकरूपा वा रतिः एकरतिः, कालभेदेन संकोचाद्यभावात् । रतिरिह प्रीतिरिच्छा वा ; तया हेतुभूतया कैंकर्य निरूप्यत इत्यभिप्रायेण रूपशब्दः । * शेषतैकरतिरित्येतत् श्रीवैकुण्ठगद्ये * परिचयॆकमनोरथः इत्यनेन विवृतम् । अत्रानुभव- रतिकैकर्यशब्देषु ज्ञानचिकीर्षाप्रयत्नक्रमश्च प्रकाशितः । यद्वा, शेषतकरतिरेव कैङ्कर्यस्य प्रधानं स्वरूपम् ; तत्परिवाहतया तु व्यापारान्तराणि भवन्तीत्यभिप्रायः । प्राकृतप्रलयादिष्वप्यविच्छिन्नप्रवाहतया अत्रत्यकैकर्याध्यावृत्त्यर्थं नित्यत्वोक्तिः ; * प्रलये न व्यथन्ति चेति हि गीतम् । स्वामिसमादेशापेक्षी तच्चोदितकारी किंकरः, तस्य वृत्तिः कैङ्कर्यम् ; तस्यान्यै- १ष्पापत्वेनालभ्यलाभत्वसूचनार्थम् , इतः पूर्व प्राप्तेरभावात् अप्राप्तप्राप्तिपक्षव्युदासेनापेक्षाहत्वज्ञापनार्थ चाधिकः प्राप्ति- शब्दः । * संपद्याविर्भावः इत्यादिकं हि नित्यसिद्धेष्वेवाकारेषु मुख्यम् , न तु साध्ये निरङ्कुशविकासे तत्पूर्वक- व्यापारे च । तत्र तु निवृत्तप्रतिबन्धस्वरूपोपाधिकत्वसूचनार्थम् * आविः स्युर्मम सहजकैकर्यविधयः इत्यभियुक्तैरुक्तम् । आत्माभिमानानुगुणपुरुषार्थव्यवस्थया । भगवत्पारतन्व्यादि प्रबुद्धस्य सुखायते ।। परेच्छायत्तभूम्नोऽपि स्वेच्छाया अविघाततः । सर्वं परवशं दुःखमित्याद्यं नात्र बाधकम् ॥ स्वतः शेषत्वकैङ्कय न कुत्राप्यसुखावहे । कर्मजत्वात्तथात्वस्य लोके च व्यभिचारतः ।। महानन्दमहिम्ना च प्राग्दुःखावेक्षणादपि । मोहदुःखे तदा स्यातामिति मूढस्य जल्पितम् ॥ सुखस्य मोहनत्वं च तामसत्वाद्युपाधिभिः । सुखाय च भवेत्वापि पूर्वदुःखावमर्शनम् ।। एवमिह * अपेक्षयेत्यन्तं व्याख्येये सोपबृंहणचतुर्थ्यभिप्रेतस्य प्रपञ्चनम् । भगवत एव शरणत्वे वक्तव्येऽपि, दिव्यविग्रहस्य शरण्यगुणादिव्यञ्जकत्वम् , चरणग्रहणस्य कृषोत्तम्भकत्वातिशयेनानतिक्रमणहेतुत्वं चाभिप्रेत्य चरणशब्दः। अरविन्दशब्द उपायदशायामपि भोग्यत्वं सूचयति । अत्र भगवच्छब्दो निरपेक्षरक्षणौपयिकाकारपौष्कल्यप्रदर्शकः । कृत्वविदपि भाष्यकारः प्रश्रयप्रकाशनाय * पारमार्थिकी * यथावस्थितेति सामान्यतो निर्दिशति, * त्वमेव मे वर वृणीप्व यं त्वं मनुष्याय हिततमं मन्यसे; * यद्धितं मम देवेश तदाज्ञापय माधव इतिवत् । एतेन भगवत्प्रपत्तेमोक्ष- साधनत्वमित्येतावन्मया निर्णीतम् ; सा यत्स्वरूपा, यत्प्रकारेति च न जाने; अतस्त्वयैव वत्सलतया मोक्षार्थभगवत्प्रपत्तेः स्वरूपादिकं यथाप्रमाणं ज्ञापयित्वा अनुष्ठापनीयोऽहमिति विशेषनिष्कर्षरहितानामपि विज्ञापनप्रकारः शिक्षितो भवति । एवं सामान्यत उक्तेऽपि सर्वज्ञा सर्वहितैषिणी देवी स्वयमेव सर्व विधास्यतीति तात्पर्यम् । * देवानां गुह्यम् इत्याद्युक्तं गोपनीयतमत्वम् , तत एव तत्रतत्र तदनुगुणनिर्देशैः प्रपत्तिस्वरूपादेदैरवगाहत्वं च सामान्यनिर्देशेन द्योत्यते । ननु
व्याख्यानविभागे गद्यत्रभाष्यम्-शरणागतिगद्यम्
१०७
.
.
.
..
,
सर्वलोकसर्वागमप्रसिद्धायाः प्रपत्तेः कथं दुरवगाहत्वम् ? इत्थम्-केचित् भक्तिप्रपत्त्योर्व्यतिकरितप्रयोगादैक्यमिच्छन्ति ।
लक्षणभेदात् भेदमिच्छन्तोऽपि केचिस्वातन्त्र्येण मुक्तिसाधनत्वं नानुमन्यन्ते । अन्ये तु स्वाताव्याभ्युपगमेऽपि
* पड्डिधा शरणागतिः इति वचनानुरोधात् आमेयादिषट्कवत् संभूय साधकत्वमाहुः । तत्रैव षण्णां प्रत्येकं साधनत्व-
मपरे । तेष्वेव यथेष्ट केचित्कतिपयोपेक्षया कतिपयपरिग्राहिणः । नियतैकसंग्रहेऽपि स्वरूपन्यासमात्रत्वम् , प्रार्थनाभर-
न्यासयोरन्यतरमात्रत्वम् , तयोरेव यथेष्टमङ्गाङ्गित्वम् , विकल्पं वा, केचिदाहुः । इतरे च प्रपत्तेरविधेयज्ञानरूपत्वम् ,
अनिवारणादिरूपत्वम् , दक्षिणाज्ञादिहेतुकभरन्यासाविशिष्टत्वम् , अनङ्गत्वम् , द्वित्राद्यङ्गत्वम् , सर्वधर्मस्वरूपत्यागाद्या-
कत्वम् , भक्तियोगवत् आप्रयाणादनुवर्तनीयत्वम् , भक्तियोगाद्यजकत्वम् , आरब्धकार्यपुण्यपापनिवर्तनाक्षमत्वम् , किं
बहुना-गृहागमनाञ्जलिप्रणामादिमात्रतां च, प्रतिपादयन्ति । एवं विप्रतिपत्तियोग्यतया दुष्करः प्रपत्तेर्निष्कर्षः ; स तर्हि
कथं स्यात् ? उच्यते ; तत्र तावत् भक्त्यैक्यादिपक्षान्निक्षेपरक्षादिषु निराकानूं । पाड़िध्योक्तिरपि * न्यासः पञ्चाङ्ग-
संयुतः इति वचनबलात् अष्टाङ्गयोगोक्तिवत् अङ्गाङ्गिसमुच्चयेन स्थापिता । अत एव हि * षडङ्गं तमुपायं चेत्यादिकमपि
संगच्छते । स्वरूपन्यासस्यात्रापेक्षितत्वेऽपि * आत्मात्मीयभरन्यासः, * त्वयि निहितभरोऽस्मि सोऽहं यतः, * तव
भरोऽहमकारिषि धार्मिकैः इत्यादिप्रमाणसंप्रदायैभरन्यासप्राधान्य सिद्धम् । यदप्युक्तं भरतमुनिना-* अनन्यसाध्ये
स्वाभीष्टे महाविश्वासपूर्वकम् । तदेकोपायतायाच्या प्रपत्तिः शरणागतिः ॥ इति ; यदपि च अहिर्बुध्न्येन-*प्रार्थना-
मतिः शरणागतिः इति ; तत्रापि पूर्वोक्तप्रमाणानुसारात् , अनन्यसाध्यत्वतदेकोपायत्वोक्तितात्पर्याच्च, प्रार्थनापूर्वकभर-
न्यासात्मकत्वसिद्धिरित्येषा दिक् । अतो दुरवगाहत्वद्योतनाय * पारमार्थिकी इत्यादिसामान्यनिर्देश उपपन्न इति ॥
एवमीदृशभरन्यासात्मकतया शरण्यत्वोपयुक्ताकारविशिष्टपरतत्त्वविषयतया च निरूप्यायामस्यां प्रपत्तौ स्वरूपतो
विषयतश्च तमःकार्यवैपरीत्यविरहः पारमार्थिकत्वम् । प्रकारतोऽङ्गतश्च रजःकार्यप्रकारान्यथाभावराहित्यं यथाप्रमाणं
फलसङ्गकर्तृत्वादित्यागश्चात्र यथावस्थितत्वम् । राजसतामसबुद्धिप्रकारश्च *यया धर्ममधर्म च, *अधर्म धर्ममिति या इति
श्लोकाभ्यां गीतः । एतेन अनाप्तागमसिद्धत्वम् , नित्यागमसिद्धत्वेऽपि पुरुषबुद्धया अन्यथाकल्पितत्वं च निरस्तं भवति ॥
एवं तु व्याख्यातं व्यासायैः-* पारमार्थिकीति तमःकार्यव्युदासः । आनुकूल्यादिशरीरवती च सा । तद्धि
तस्या उपायान्तरेभ्यो व्यावृत्तं स्वरूपम् । यथावस्थितेति रज:कार्यव्युदासः । प्रपत्तव्यविषयसंबन्धरूपः प्रकारः, तत्साहि-
त्यमभिप्रेतम् । शरणवरणानहें शरण्यत्वधी_यथावस्थिता स्यादिति । अविरता-आमोक्षदानादविश्रान्तव्यापारेत्यर्थः ।
व्यापारश्चात्र शरण्यप्रसादविशेष एव । * सकृदेव हि शास्त्रार्थः, *सकृदेव प्रपन्नाय, * ननु प्रपन्नः सकृदेव नाथेत्यादि-
बलादङ्गतः स्वरूपतो वा अनुवृत्तिरिह न विवक्षिता । व्याख्येये * प्रपद्ये इति वर्तमाननिर्देशस्त्वनुष्ठानकालाभिप्रायः ।
व्यापारानुवृत्तिकथनात्तु भाष्योदाहृतभक्त्यङ्गप्रपत्तिव्यवच्छेदः; सा हि मध्ये साधनरूपं साध्यान्तरमुत्पाद्य विरतव्यापारा
भवति ; तदेव तु मुक्तिं साधयति । * अस्त्वित्याशासनेन भगवत्प्रपत्तेः स्वरूपतोऽपि स्वादुतमत्वं सूच्यते । मे-
अकिंचनतमस्यानन्यशरणस्य ॥ २ ॥
एवं विज्ञापिताया विष्णुपत्न्याः प्रतिवचनं निबध्नाति-अस्तु ते इति ॥ रावणेऽपि * तेन मैत्री भवतु ते इति
वादिन्याः शरणागतविषये कैमुत्यसिद्धमिदं वरप्रदानवाक्यमित्युत्प्रेक्ष्य प्रोक्तम् । ते मयि न्यस्तभरस्य मया स्वोकृतभरस्य च ।
उपायदानमेतस्यास्तदिदं पतिसंमतम् । यथा तस्याः प्रसीदन्त्या हारदानं हनूमते ॥ ३ ॥
१०८ श्रीमद्वेदान्तदेशिकग्रन्थमाली भगवत्प्रपत्ते: पूर्वोक्तनित्यकैङ्कर्यप्राप्तिपर्यन्तफलाविनाभावमाह-तयैव सर्व संपत्स्यते इति ॥ एवकारेण अत्रो- पायान्तरव्यवधाननरपेक्ष्यं द्योत्यते । यद्वा, * अस्तु ते इत्येतावनैव पयाप्ते *तयैवेत्यादिकं विभीषणसहागतराक्षसन्यायेन यथाभिमतानुबन्धिरक्षणाभिप्रायम् । अथवा, श्लोकत्रयोदितज्ञानित्वादिकमत्र परत्र च यत्प्रार्थयिष्यते, तसर्वमिह सर्वशब्दा- र्थः ; उक्तेन सह वक्ष्यमाणमनुक्तं चानुबन्धिरक्षणमभिमतत्वाविशेषात्संकलथ्य प्रोच्यते । *संपत्स्यते इति भविष्यन्निर्देशः प्रपत्त्यनन्तरक्षणप्रभृति तत्तदुचितकालाभिप्रायः । वदान्यत्वव्यञ्जकं चेदं वाक्यद्वयम् ; प्रियवाग्दानशीलो हि वदान्यः॥४॥ अखिलहेयप्रत्यनीककल्याणैकतानस्वेतरसमस्तवस्तुविलक्षणानन्तज्ञानानन्दैकस्वरूपस्वाभि- मतानुरूपैकरूपाचिन्त्यदिव्याद्भतनित्यनिरवनिरतिशयोज्ज्वल्यसौन्दर्यमौगन्ध्यसौकुमार्यलावण्य - यौवनाद्यनन्तगुणनिधिदिव्यरूप, स्वाभाविकानवधिकातिशयज्ञानवलैश्वर्यवीर्यशक्तितेज सौशील्य - वात्सल्यमार्दवार्जवसौहार्दसाम्यकारुण्यमाधुर्यगाम्भीर्योदार्यचातुर्यस्थैर्यधैर्यशौर्यपराक्रमसत्यकामसत्य संकल्पकृतित्वकृतज्ञताद्यसंख्येयकल्याणगुणगणोघमहार्णव, स्वाचितविविधविचित्रानन्ताश्चर्यनित्य- निरवद्यनिरतिशयसुगन्धनिरतिशयसुखस्पर्शनिरतिशयोज्ज्वल्यकिरीटमकुटचूडावतंसमकरकुण्डल वेयकहारकेयूरकटकश्रीवत्सकौस्तुभमुक्तादामोदरबन्धनपीताम्बरकाश्चोगुणनू पुराधपरिमितदिव्य भूपण, स्वानुरूपाचिन्त्यशक्तिशङ्खचक्रगदासिशााद्यसंख्येयनित्यनिरवद्यनिरतिशयकल्याणदिव्या- युध, स्वाभिमतनित्यनिरवद्यानुरूपस्वरूपरूपगुणविभवैश्वर्यशीलायनवधिकातिशयासंख्येयकल्याण- गुणगणश्रीवल्लभ, एवंभूतभूमिनीलानायक, स्वच्छन्दानुवर्तिस्वरूपस्थितिप्रवृत्तिभेदाशेपशेषतैकरति- रूपनित्यनिरवद्यनिरतिशयज्ञानक्रियैश्वर्याद्यनन्तकल्याणगुणगणशेपशेषाशनगरुडप्रमुखनानाविधान- न्तपरिजनपरिचारिकापरिचरितचरणयुगल, परमयोगिवाङ्मनसापरिच्छेद्यस्वरूपस्वभावस्वाभिमत- विविधविचित्रानन्तभोग्यभोगोपकरणभोगस्थानसमृद्धानन्ताश्चर्यानन्तमहाविभवानन्तपरिमाणनित्य- निरवद्यनिरतिशयवैकुण्ठनाथ, स्वसंकल्पानुविधायिस्वरूपस्थितिप्रवृत्तिस्वऔपतकस्वभावप्रकृतिपुरुष- कालात्मकविविधविचित्रानन्तभोग्यभोक्तृवर्गभोगोपकरणभोगस्थानरूपनिखिलजगदुदयविभवलय- लील, सत्यकाम, सत्यसंकल्प, परब्रह्मभूत, पुरुषोत्तम, महाविभूते, श्रीमन् , नारायण, वैकुण्ठनाथ, अपारकारुण्यसोशील्यवात्सल्यौदायैश्चर्यसौन्दर्यमहोदधे, अनालाचितविशेषाशेपलोकशरण्य, प्रण- तार्तिहर, आश्रितवात्सल्यैकजलधे, अनवरतविदितनिखिलभूतजातयाथात्म्य, अशेपचराचरभूत- निखिलनियमननिरत, अशेपचिदचिद्वस्तुशेपिभूत निखिलजगदाधार, अखिलजगत्स्वामिन् , अम्मत्स्वामिन् , सत्यकाम, सत्यसंकल्प, सकलेतरविलक्षण, अर्थिकल्पक, आपत्सख, श्रीमन् , नारायण, अशरण्यशरण्य, अनन्यशरणः त्वत्पादारविन्दयुगलं शरणमहं प्रपद्ये ॥ ५ ॥ एवं श्रीमच्छब्दाभिप्रेतमर्थमुपयोगविशेषपर्यन्तमुदाहृत्य, प्राप्यत्वप्रापकत्वोपयुक्तसर्वाकारसंग्राहकनारायणशब्द न्याचिख्यासुः, तत्र तत्पुरुषव्युत्पत्तौ अयनशब्दार्थम् , बहुव्रीहौ अन्यपदार्थ च दिव्यात्मस्वरूपं तावदाह-अखिलेति ॥ अत्र संबुद्धयन्तप्रयोगाव्याख्ययेऽपि तथात्वेन स्वच्छन्दाध्याहार इति केचित् । * श्रीमन्नारायण स्वामिन्नित्यादौ मन्त्रा - व्याख्यानविभागे गद्यत्रयभाष्यम्-शरणागतिगद्यम् १०९ । .. , .. न्तरे च तत् द्रष्टव्यम् । अन्ये तु, प्रार्थनानुगुणतात्पर्यानुसारेण संबुद्धिरिह प्रयुज्यत इत्याहुः । अखिलहेयप्रत्यनीकत्वम् अखिलहेयात्यन्ताभाववत्त्वम् ; तेन कतिपयहेयरहितेभ्यो व्यवच्छेदः । कल्याणैकतानत्वं कल्याणानां सर्वेषां गुणानां साधारणाश्रयभूतविस्तारत्वम् । नित्यादीनामपि न सर्वमङ्गलगुणवत्त्वम् । * समस्तहेयरहितं विष्ण्वाख्यं परमं पदम् , * तेजोबलैश्वर्यमहावबोधसुवीर्यशक्त्यादिगुणैकराशिः * स च सर्वगुणोपेतः इत्यादिप्रसिद्धः उभयलिङ्गाधिकरणार्थ उप- योगातिशयात्प्रथममिहोक्तः । * नराज्जातानि तत्त्वानीत्यायुक्तकारणत्वादिशतितमचिद्गतं चिद्गतं च विकारापुरुषार्थादिकं प्रणतोपेक्षादिपर्यन्तमवद्य न किंचिदप्यस्यास्ति ; न च कल्याणगुणेष्वस्य अविद्यमानः कश्चिदित्यर्थः । पश्चातु ज्ञान- बलादिगुणोक्तिरेतद्विवरणम् । स्वरूपनिरूपकं ज्ञानत्वादिकमप्यत्र कल्याणशब्देन सामान्यतः संगृहीतम् । एवं सगुण- निर्गुणश्रुत्योर्विषयभेदेन अविरोधात् कुदृष्टिपक्षश्च निरस्त: । यद्वा, कल्याणैकतानं प्रदेशभेदेन कालभेदेनाप्यकल्याणत्व- रहितमित्यर्थः । * ज्ञानानन्दैकस्वरूप इति तु तद्विशदीकरणम् ; ज्ञानतया आनन्दतया च कात्स्न्येन कल्याणत्वमुक्तं भवति । जडात् भोग्यात् प्रतिकूलोदासीनरूपज्ञानाभ्यां च व्यवच्छेदाय ज्ञानानन्दयोरुभयोरप्युक्तिः । आनन्दकल्याण- शब्दौ स्वपरापेक्षया आनुकूल्यं ब्रतः । एवम् * आनन्दादयः प्रधानस्य * अक्षरधियां त्ववरोधः इत्यधिकरणद्वयोक्तं स्वरूपनिरूपकवर्गद्वयं व्यञ्जितं भवति । अथ वा, हेयप्रत्यनीकत्वम् आश्रितानां यथोपायं स्वेच्छया हेयनिवर्तकत्वम् ; तथा सति लोके स्वसंकल्पायत्तहेयसद्भावस्य न विरोधः । न च विरुद्धघटनशक्तिकल्पना, स्वरूपमात्रेण हेयनिवर्तकत्व- स्यानङ्गोकारात् , अन्यथाऽतिप्रसङ्गात् । कल्याणकतानत्वम् , आश्रितानामभिमतेपु कल्याणेवैकाग्रयम् , अनिष्टनिवर्तन- मिष्टप्रापणं चेत्यर्थः । स्वस्य निर्दोषमङ्गलगुणाकरत्वमप्यत्रार्थसिद्धम् ; * फलमत उपपत्तेरित्यधिकरणार्थश्च दर्शितः ।। (स्वेतरेत्यादि ।) त्रिविधानां चेतनानामचेतनानां च पराधीनत्वादिसाम्यादेवभूतं वस्त्वन्तरं नास्तीत्यभिप्राये- णाह-स्वेतरसमस्तवस्तुविलक्षणेति ॥ एतेन ज्ञानभोगसाम्येऽपि सर्वप्रकारसाम्यनिषेधः सिद्धः । * नित्यं विभुं सर्वगतं सुसूक्ष्मम् * विश्वमेवेदं पुरुषः इत्यादिप्रसिद्धं त्रिविधपरिच्छेदराहित्यं प्राधान्यतः पृथगाह-अनन्तेति ॥ सर्वव्यापित्वात् देशपरिच्छेदराहित्यम् ; सर्वकालवर्तित्वात् कालपरिच्छेदाभावः; साक्षात्परंपरया वा सर्वप्रकारित्वेन सर्ववस्तुसामानाधि- करण्याहत्वाद्वस्तुपरिच्छेदविरहः ; येन केनापि प्राशस्त्येन स्वस्मादुत्कृष्टैः कश्चिद्वस्तुभिरधरीकृतत्वाभावाद्वा । तद्विग्रहादीनां सन्ताऽपि केचिदतिशयास्तद्विभूतिगता एवेति तैरपि तस्यैवोत्कर्षः । वितस्त्यादिभिः प्रस्थनुलादिभिश्च परिच्छेदो देशपरिच्छेदान्तर्गत एवेति तन्निषेधेन सोऽपि निषिद्धः । वस्त्वन्तरशून्यत्वाद्वा सर्ववस्तुस्वरूपैक्याद्वा वस्तुपरिच्छेदाभाव इति पक्षौ तु सर्वप्रमाणविरुद्धौ, अनन्तपदपूर्वापरश्रुतिविरुद्धौ च ।। (स्वाभिमतेत्यादि ।) यद्यपि दिव्यात्मस्वरूपापेक्षया सर्वेषामाधेयत्वं समानम् ; यद्यपि च विग्रहस्य गुणनियाम्य- तया गुणानामन्तरङ्गत्वम् : तथाऽपि स्वरूपवद्धपणास्त्रस्वरूपनिग्विलजगदाधारत्वेन तदनुरूपत्वात् , तादृशस्वरूपव्यञ्जक- त्वात् , सालम्बनयोगविषयत्वेन मुमुक्षणां शुभाश्रयत्वाच्च प्राधान्यं दर्शयितुं गुणेभ्योऽपि पूर्व विग्रहमाह-स्वाभिमतानु- रूपेति ॥ निरवधिकानन्दरूपस्य स्वस्याप्यभिमतमनुरूपं च दिव्यरूपम् । स्वरूपस्य नित्यनिरवधिकानुकूलत्वमन्याभिमति न बाधते, सर्वस्य सर्वदा विशिष्टैकानुभवगोचरत्वेन प्रमाणसिद्धत्वात् । सा चाभिरूपस्य आभरणाभिमतिवत् न स्वरूपानु- कूल्यबाधिका ; एवं भूषणादावप्यभिमतत्वाविरोधः । अनिष्टावहशरीरादिव्यावर्तकैरप्राकृतत्वध्येयत्वप्राप्यत्वादिभिरपि विग्र- हादेरानुरूप्यम् । सर्वदा उक्तप्रकारविशिष्टत्वमेकरूपत्वम् । नानारूपेष्वपि व्यूहविभावार्चावतारेप्वप्राकृतशुभाश्रयत्वादिकम् तु . , . ११० श्रीमद्वेदान्तदेशिकग्रन्थमाला * समस्ताः शक्तयश्चैताः, *समस्तशक्तिरूपाणि, *बिम्बाकृत्यात्मना बिम्बे समागत्यावतिष्ठते । अर्चाऽपि लौकिकी या सा भगवद्भावितात्मनाम् । मन्त्रमन्त्रेश्वरन्यासात्साऽपि षाड्गुण्यविग्रहा इत्यादिभिरुच्यते । परव्यूहादिविग्रहवत् तत्तद्विग्रहानुप्रवे- शात् अर्चाऽपि षाड्गुण्यप्रकाशकशुद्धसत्त्वद्रव्यमयीत्यर्थः । देवतियङ्मनुष्यादिविचित्रावतारदशायामपि * आदित्यवर्ण तमसः परस्तात् इत्यादिप्रसिद्धस्य परमपदनिलयविग्रहस्य संनिवेशैकरूप्यं वा विवक्षितम् । चिन्त्यत्वेन चोदितस्याप्यचिन्त्य- त्वोक्तिः इतरसजातीयतया चिन्तयितुमशक्यतामाह ; तेन अनित्यत्वादिसाधकसावयवत्वाद्यनुमानानां धर्मिग्राहकमान- बाधोऽभिप्रेतः । दिव्यशब्दौ द्रव्यतः संनिवेशादिभिश्च वैलक्षण्यपरौ, अप्राकृतस्थानवर्तित्वाप्राकृतत्वप वा, *रूपं विशिष्टं दिवि संस्थितं च, * न भूतसंघसंस्थानो देहोऽस्य परमात्मनः । * न तस्य प्राकृता मूर्तिसिमेदोस्थिसंभवा इत्यादिभि- स्तथोक्तेः । अद्भुतत्वम् * तस्य ह वा एतस्य पुरुषस्य रूप यथा माहारजनं वासः, * सर्वाश्चर्यमयं देवम् , * तेनाश्चर्य- परेणाहम् , * अपूर्वरूपसंस्थानमित्यादिप्रसिद्धनिरतिशयवैचित्र्यवत्त्वम् । नित्यत्वमपि * नित्यालिङ्गा स्वभावसंसिद्धिः, * नित्यं नित्याकृतिधरमित्यादिभिरुक्तम् । तेन शुभाश्रयपरविग्रहस्य कल्पितत्वकृतकत्वादिपक्षाः प्रतिक्षिप्ताः । अवतार- विग्रहाणामपि सत्यानामेव तत्रैव विभागाविभागावुपदिष्टौ ; तेषां प्रत्येकमपि नित्येच्छाधीनतां केचिदाहुः । निरवद्यत्वं क्षेत्रज्ञशरीरवत् कर्ममूलत्वदुःखावहत्वादेरभावात् । दिव्यात्मस्वरूपे प्रक्रान्तयोगपुरुषापेक्षयोक्तमनालम्बनत्वरूपमप्यवद्य दिव्यविग्रहे नास्ति, तस्य यथाश्रुतं यथादर्शनं च सुग्वानुसंधेयत्वात् । इह खल्वीश्वरापेक्षया न किंचिदपि प्रतिकूलम् , सर्वस्य तदनुकूलतयैव प्रमाणसिद्धत्वात् । तस्य तु परप्रतिकूलसर्वाश्रयस्यापि स्वप्रतिकूललेशरहिततया समस्तहेयरहित- त्वोक्तिः । एवं मुक्तनित्यापेक्षयाऽपि न कस्यचित्पातिकूल्यम् , तेषामीश्वरेण समानभोगत्वात् । अचेतनापेक्षया तु प्रति- कूलानुकूले कदाचिदपि न स्तः । [अत एव] तस्य हेयमुपादेयं च नास्ति । तस्य सावद्यत्वोक्तिस्तु चेतनविशेषप्रतिकूल- स्वभावयोगितया तदपेक्षा । क्षेत्रज्ञानां तु स्वप्रतिकूलदुःखतत्कारणसंबन्धात्सावद्यत्वम् । ईश्वरबुद्धिविशेषरूपस्य क्षेत्रज्ञकर्म- साध्यनिग्रहस्यापि कर्मवश्यगोचरतया तद्दोषत्वमेव ; ईश्वरस्य स्वसौ प्रशासनरूपतया गुण एव । एवं स्थिते दिव्यविग्रहस्य निरवद्यत्वोक्तिरीश्वरापेक्षया तदाश्रितापेक्षया च शरीरत्वादिशङ्कितप्रतिकूलस्वभावरहित्यपरा । निरतिशयत्वम् औज्ज्व- ल्यादिषु सर्वेष्वन्वीयते; तच्च तदपेक्षयोत्कृष्टाभावात् , अनुत्तमत्ववत् । ओज्ज्वल्यम् *आदित्यवर्णम् , *दिवि सूर्यसहस्र- स्येत्यादिपूक्तं भास्वरतमत्वम् । सौन्दर्यम् अवयवशोभा; येन * साक्षान्मन्मथमन्मथः इत्युच्यते । * सर्वगन्धः इति श्रुतिरनुकूलगन्धविषया । स्रक्चन्दनादि चात्र कृतकरमित्यभिप्रायेण सौगन्ध्यशब्दः । सौकुमार्य महाबलत्वेऽपि * पुष्पहासः इति नाम दुहानं मार्दवम् ; यथोक्तम्-* सुकुमारौ महाबलौ इति । लावण्यं समुदायशोभा; * भूयिष्ठं तेज एवाद्भिर्बहुलाभिम॒द्कृतम् । चक्षुरानन्दजननं लावण्यमिति कथ्यते ॥ इत्याहुः ।। यौवनमिह न कालकृतावस्था ; किंतु तादृशो विग्रहस्वभावः, तद्यौवनस्य नित्यत्वात् । अन्येषामपि हि यौवने कौमारानन्तरभावित्वमुपलक्षणमात्रमेव, युवतयैव केषांचिदुत्पत्तिश्रवणात् । आदिशब्देन शुभाश्रयादिप्रकरणोक्तसर्वगुण- संग्रहः । तत एवानन्त्यम् । निधिशब्द इहाश्रयपरो निरतिशयभोग्यत्वव्यञ्जकश्च ॥ (स्वाभाविकेत्यादि ।) एवमुपकारकतमत्वाद्यभिप्रायेण गुणेभ्यः पूर्व विग्रह उक्तः । अथेदृशविग्रहाभिव्यङ्ग्य- प्रकृष्टगुणभूयिष्ठतामाह-स्वाभाविकेति ॥ अत्र सर्वगुणकन्दभूतैराश्रितानाश्रितगोचरव्यापारभेदसाधारणै नादिभिः पर- त्वम् , आश्रितरक्षणैकान्तैः सौशील्यादिभिः सौलभ्यं च व्यज्यते । स्वाभाविकशब्देन नित्यत्वमनन्याधीनत्वं चात्र विव- व्याख्यानविभागे गद्यत्रभाष्यम्-शरणागतिगद्यम् १११ .. क्षितम् ; ताभ्यां मुक्तनित्यज्ञानादिभ्यो व्यवच्छेदः । तद्बलादिभ्यो व्यवच्छेदस्तु अनवधिकातिशयत्वादपि । अनवधि- कातिशयशब्दः पूर्ववत् । *पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च इत्याम्नातं स्वाभाविकत्वं परत्वं च सर्वेषु गुणेषु योज्यमिति भावः । संकर्षणादिव्यूहत्रयाभिव्यक्तिक्रमेण ज्ञानादिगुणद्वन्द्वत्रिकोक्तिः । प्रत्येकं च गुणद्वन्द्वेषु पौर्वापर्यहेतुर्भगवच्छास्त्रोक्तः ; यथा-* बलं वीर्य तथा तेज इत्येतत्तु गुणत्रयम् । श्रमाद्यवद्याभावाख्यं ज्ञानादेरुपसर्जन- मिति । ज्ञानमिह सर्वसाक्षात्काररूपम् , * यः सर्वज्ञः सर्ववित् * सर्वदर्शी स्वाधीनोऽनादिः सर्वेश्वरः सर्वदृगित्यादिभ्यः । उक्तं च नाथमुनिभिः-* यो वेत्ति युगपत्सर्व प्रत्यक्षेण सदा स्वतः इति । बलं नाम श्रमप्रसङ्गरहितं सर्वधारणसाम- र्थ्यम् ; *एष सेतुर्विधरणः, * यत्र विश्वं भवत्येकनीलम् , * तत्सवितुर्वरेण्यम् , * ध्रुवमचलममृतं विष्णुसंज्ञं सर्वाधार धाम, *यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः । * परमात्मा च सर्वेषामाधारः परमेश्वरः इत्यादिसिद्धम् । ऐश्वर्यम् * एष सर्वेश्वरः, * सर्वेश्वरेश्वरः कृष्णः इत्यादिपूक्तम् अव्याहतेच्छं सर्वनियन्तृत्वम् ; * अजः सर्वेश्वरः इति च तन्नाम- पाठः । वीर्य सर्वोपादानत्वे सर्वधारणे सर्वनियमनेऽपि विकाररहितत्वम् ; यथोक्तम्-* विकारविरहो वीर्य प्रकृतित्वेऽपि मे सदा इत्यादि । शक्तिः स्वेतरसर्वनिर्वाहिका * जगत्प्रकृतिभावो मे यः सा शक्तिरितीर्यते इत्यादिषूक्ता सर्वोपादान- त्वात्मिका । यद्वा, यत् अन्यैरशक्यत्वादघटितमिव भाति, तद्बटनसामर्थ्यरूपा। तेजः अम्वाधीनसहकार्यनपेक्षत्वम् ; तदुक्तम्-*तेजस्त्वन्यानपेक्षता इति, * सहकार्यनपेक्षा मे सर्वकार्यविधौ हि या। तेजः षष्ठगुणं प्राहुस्तमिमं तत्त्ववेदिनः इति च । *न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः *ज्योतींप्यादित्यवद्राजन् कुरून्प्रच्छा- दयन् श्रियेत्यादिनिदर्शितं पराभिभवनसामर्थ्य तेजः केचित्प्रचक्षते । लोके कश्चित् स्वापाद्यवस्थायां स्वविभूति न जानाति, जानन्नपि न धारयति ; ज्ञात्वा धारयन्नपि न सर्वथा नियन्तुं शक्नोति ; शक्तोऽपि धारणनियमनाभ्यां ग्लानो अग्लानोऽपि न तत्सत्तास्थितिहेतुः स्यात् ; तद्धेतुश्च पराधीनसहकारिसापेक्षः स्यात् ; क्रमोक्तितापर्यम् । अथ * तवानन्तगुणस्यापि पडेव प्रथमे गुणाः । यैस्त्वयेव जगत् कुक्षावन्येऽप्यन्तनिवेशिताः, *प्रकृष्टं विज्ञान- मित्याद्युक्तषाड्गुण्यविततिरूपा आश्रितसंग्रहणरक्षणयोर्विशेषत उपयुक्ता गुणा उच्यन्ते । तत्र सौशील्यं शोभनशीलत्वम् ; तच्च अतिमहीयसोऽप्यतिहीनेषु गुहगोपालादिष्वपि साध्वसप्रशमनानन्यप्रयोजननीरन्ध्रसंश्लेषस्वभावत्वम्-*गुहेन सहितो रामः, *अहं वो बान्धवो जातः इत्यादि । वात्सल्यम् *शरणागतवत्सलः इत्याद्यभिप्रेता स्वरक्षणीयतयाऽभिमतेषु दोष- तिरस्कारिणी प्रीतिः । दोषाणां गुणत्वेन दर्शनमिति त्वतिवादः । क्षमाकाष्ठाभूतवात्सल्यकथनेन क्षमाऽप्युक्ता भवति ; * अपिचेत्सुदुराचारो भजते मामनन्यभाक् । साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥ * अपि पापेष्वभिरता मद्भक्ताः पाण्डुनन्दन । मुच्यन्ते पातकैः सर्वैः पद्मपत्रमिवाम्भसेति चाह । मार्दवम् * तं विना कैकयीपुत्रमित्यादि- वादिन आश्रितविरहाक्षमतया सुप्रवेशत्वम् , सापराधेषु शासनोन्मुखस्यापि सामप्रधानत्वं वा ; यदाह-* सामोपहितया वाचा रूक्षाणि परिवर्जयन् इति । आर्जवम् * ऋजुबुद्धितया सर्वमाख्यातुमुपचक्रमे इत्यादिपूक्तं मनोवाक्कायव्यापाराणां मिथःसंवादित्वम् ; तेन संश्रितेषु विप्रलिप्सानुदयः । सौहार्दम् * सुहृदं सर्वभूतानाम् , * उरसा प्रतिजग्राह पार्थ सं- छाद्य माधवः इत्यादिप्रसिद्धं सामान्यतो विशेषतश्च हितैषित्वम् ; तच्च विषयभेदात्कचित् * एष एवासाधु कर्म कारयति तमित्याद्युक्ताधोनिनीषया न विरुध्यते । साम्यं जातिगुणवृत्तादिनिम्नोन्नतत्वानादरेण सर्वैराश्रयणीयत्वम् ; यथा-*शबर्या पूजितः सम्यक् , * धन्योऽहमर्चयिष्यामीत्याह माल्योपजीवनः इत्यादि । अत एव *समोऽहं सर्वभूतेष्वित्याह । एतेन भवति । नैवमसाविति गुण- - ११२ श्रीमद्वेदान्तदेशिकग्रन्थमाला - । स्वतोऽपक्षपातित्वम् , आश्रितेषु यथार्हमादरसंभावनाक्रमवैषम्यरहितत्वं च सिध्यति ; यथाकर्म फलदायिन ईश्वरस्य आश्रयणोपाधिकपक्षपातोऽपि समत्वाविरोधी । कारुण्यम् अनुद्दिष्टस्वप्रयोजनान्तरा परदुःखनिराकरणेच्छा। परदुःख- दुःखित्वादिकं तु न लक्षणम् , अव्याप्तेरतिव्याप्तेश्च । सर्वप्रशासितुः सापराधनिग्रहस्यापि शास्त्रसिद्धत्वात् तदविरोधेन कारुण्यं नियन्तव्यम् , लोकेऽपि तथैव व्युत्पत्तेः । माधुर्य क्षीरवदुपायभावेऽपि स्वादुत्वम् ; तच्च * माधुर्य परमित्यादि- पूक्तम् । द्वेषवतां जिघांसितानामपि दृष्टिचित्तापहारित्वेन रसावहत्वं वा; येन शिशुपालस्य तादृशी चरमदशा, अनन्य- मनसाम् * मच्चित्ता मद्गतप्राणाः इत्याद्युक्तावस्था च । वधोद्योगप्रदर्शनेऽपि हि सौम्यत्वम् * एह्येहि फुल्लाम्बुजपत्रनेत्रे- त्यादिषु प्रसिद्धम् । गाम्भीर्य भक्तानुग्रहवदान्यत्वादेरा-मूलतो दुरवगाहत्वम् ; आश्रितापराधेषु प्रतिग्रहीतृनिकर्षादिषु च सतोऽपि स्वज्ञानस्य गोपनेन दुर्ज्ञानत्वं वा । तदभिप्रायेण हि सर्वज्ञस्याप्यविज्ञातृत्वोक्तिः । औदार्य पात्रलाघवं देय- गौरवं चानादृत्य दायविभागन्यायेन प्रत्युपकारादिनिरपेक्षं वितरणरसिकत्वम् , प्रभूतं दत्वाऽप्यतृप्तत्वं च । अत एव ह्यर्थिनः सर्वान्स्वयमुदारानाह । चातुर्यम् रक्षणीयेषु * जनयन्प्रत्ययं तदेत्यादिप्रसिद्धमतिशङ्काशमनदोषगोपनादिरूप- मजडक्रियत्वम् ; येन विभोषणसुमुखादिपु विरुद्धानप्यनुकूलयति, शुभाश्रयस्वाकारप्रदर्शनाद्ययत्नोपाविषयवैराग्यादिकं च जनयति । स्थैर्य शरणागतसंग्रहे दोषप्रदर्शकैरन्तरङ्गैरप्यकम्पनोयत्वम् ; तथा चाह-* मित्रभावेन संप्राप्तं न त्यजेयं कथंचनेत्यादि । धैर्यम् * अप्यहं जीवितं जह्यामित्यादिपूक्तमत्यन्ताभिमतवियोगप्रसङ्गेऽप्यभिन्नप्रतिज्ञत्वम् । भीष्माद्याश्रित- प्रतिज्ञारक्षणाय स्वप्रतिज्ञाभङ्गेऽप्येतादृशप्रतिज्ञासिद्धिः ; अत एव * द्योः पतेत्पृथिवी शीर्थत् हिमवान् शकलीभवेत् । शुप्येत्तोयनिधिः कृष्णे न मे मोघं वचो भवेदित्यादिभिरविरोधः । व्यत्ययेन वा स्थैर्यधैर्ये व्याख्यातव्ये । अतर्कितोप- नतेऽपि बलवति प्रतिपक्षे सावज्ञदृढचित्तत्वं वा धैर्यम् ; यथाऽऽहुः- * कपोले जानक्याः इत्यादि । जीवत्यपि महाबले रावणे सागरेऽप्यलचिते विभीषणमभिषिञ्चता दर्शितोऽयं गुणः । शौर्यम् असहायस्यापि भीमे परबले स्वबल इव निर्भय- प्रवेशसामर्थ्यम् , यथा-जनस्थानयुद्धमूलबलनिवर्हणादिषु । पराक्रमः प्रविष्टस्य परसैन्यै * छिन्नं भिन्नं शरैर्दग्वमित्या- द्युक्तो व्यापारः । * अभियाता प्रहर्ता च इत्याद्युक्ताविमौ द्वौ गुणौ आश्रितविरोधिभङ्गार्थों , धैर्यादयस्त्रयो वा ।। अथेष्टप्रापणार्थी गुणावाह-सत्यकामसत्यसंकल्पेति ॥ इह एतौ [शब्दौ] भावप्रधानौ कर्मधारयवृत्तौ वा । काम्यन्त इति कामाः, स्वेन स्वाश्रितैश्च भोग्या विभूतयः ; ते च सत्याः नित्या इत्यर्थः । अमिथ्याभूतकामत्वम् अप्रति- हतेच्छत्वं च नैरर्थक्यपुनरुक्तिभ्यां नात्र विवक्षितम् । सत्यसङ्कल्पत्वं स्वावताराद्यपूर्वभाग्यान्तरसृष्टौ जगव्यापारमोक्ष- प्रदानादिषु चामोघसङ्कल्पत्वम् ; तेन तत्सङ्कल्पादभिमतलाभे निःसंशयत्वं स्यात् ।। उक्तगुणवर्गादधिकोपकारकं गुणद्वयमाह-कृतित्वकृतज्ञतेति ॥ कृतमिह उपकारः, कृतज्ञादिशब्दे तथा दृष्टेः ; तद्वत्त्वं कृतित्वम् , उपकर्तृत्वमित्यर्थः । यद्वा, * अभिषिच्य च लङ्कायामित्याद्युक्तमाश्रितकार्यपूरणेन कृतकृत्यत्वम् , कर्तव्यशेषरहितेषु कृतिशब्दप्रयोगात् । * न मे पार्थास्ति कर्तव्यमित्युक्तं विहितानुष्ठाननैरपेक्ष्यं धर्मप्रवर्तनार्थानुष्ठानत्वं वा विवक्षितम् ; तेनापि परोपकारार्थमेव प्रवृत्तत्वमुक्तं भवति ; श्रूयते च-* न कर्मणा वर्धते नो कनीयानिति ; तथा च श्रुत्यन्तरम्-* स न साधुना कर्मणा भूयान् नो एवासाधुना कनीयानिति । अथवा *आदिकर्मणि क्तः ; कृतं कर्त- व्यत्वेनोपक्रान्तम् आश्रितानां यद्धितम् , तत्सर्वं पूर्वमेवानेन प्रयोजकका प्रारब्धमित्यर्थः । स्वेन कृतं परोपकार प्रत्यपि स्वस्यैव शेषित्वं वा कृतित्वम् । कृतज्ञता परैः कृतस्यानुकूल्यलवस्य पश्चात्तैरनन्तापकारकरणेऽपि स्वयं चानन्तप्रत्युपकार- । -- ..
व्याख्यानविभागे गद्यत्रयभाष्यम्-शरणागतिगद्यम् ११३ ॥ ॥ ॥ करणेऽपि अकृतप्रत्युपकारवत् तदनुबन्धिपर्यन्तसंरक्षणाय तस्यैवानुदर्शनम् ; यथोक्तम्-* न स्मरत्यपकाराणां शतमप्या- स्मवत्तया । कथंचिदुपकारेण कृतेनैकेन तुष्यति ॥ इति * गोविन्देति यदाक्रन्दत्कृष्णा मां दूरवासिनम् । * त्वदकि- मुद्दिश्येत्यादि च । एतेन संश्रितानां पश्चाद्दोषसंभवेऽपि हितैषिणः शिक्षणमात्रप्रवृत्तत्वं सिध्यति । अथवा, अर्थिषु नियमान्तरानुसारेण स्वकृतं तादात्विकप्रत्याख्यानमकृत्यवज्ञानातीति कृतज्ञः ; यदूचे-* शिरसा याचतस्तस्य वचनं न कृतं मयेति । इदं च प्राप्तावसरे भरतस्येवापेक्षापूरणाय स्यात् ।। आदिशब्देन * आनृशंस्यमनुक्रोशः इत्यादिप्रसिद्धसर्वगुणसंग्रहः । असंख्येयशब्द: * यथा रत्नानि जलधेरस- ख्येयानि पुत्रक । तथा गुणा ह्यनन्तस्याप्यसंख्येया महात्मनः इत्यादिवचनस्मारकः । आश्रितविरोधिनिरसनार्थतया क्रोधादेरपि कल्याणशब्देन संग्रहः । * चतुर्मुखायुर्यदि कोटिवक्रः, *वर्षायुतैर्यस्य गुणा न शक्याः इत्यादिप्रसिद्धापरि- च्छेद्यगुणानन्त्यं तापत्रयप्रशमनत्वं दुरवगाहत्वं च व्यनक्ति-गुणगणौघमहार्णवेति ॥ एकैकगुणस्यावान्तरानेकगुणगर्भत्वं गणशब्देन व्यज्यते । गुणगणा एव ओघाः जलप्रवाहाः, तेषां महार्णव इवायमेकाश्रयभूत इति भावः ॥ अथ स्वरूपस्य विग्रहवत् गुणवच्च विग्रहस्य शोभातिशयहेतुभूतानि भूषणान्युच्यन्ते-खोचितेति ॥ उक्त- स्वरूपरूपगुणवतः स्वस्यानुरूपत्वं स्वाचितत्वम् । किरीटत्वादिभेदस्य तत्तत्स्वरूपोपादानसिद्धत्वात् , आश्चर्यत्वस्य पृथगु- क्तेश्च अत्र विविधविचित्रशब्दौ हेमरत्नमुक्तादिमयत्वेन तत्तदवान्तरशिल्पविशे पैश्च प्रत्येकं वैषम्यं व्रतः । अनन्तशब्द- श्वाश्चर्यविशेषकः । असंख्येयत्वविवक्षायामपरिमितशब्दः पृथुतरत्वपरः । नित्यनिरवद्यत्वाभ्यां प्राकृतभूषणव्यावृत्तिः, * स्रग्वस्त्राभरणैर्युक्तमिति हि नित्यं रूपं प्रतिपाद्यते । सर्वदा निरवद्यत्वेन वा कादाचित्कावद्यशङ्काव्युदासः । सर्व- गन्धस्यापि दिव्यरूपस्यामोदातिशयहेतुतया निरतिशयसुगन्धत्वम् । अनभिमतकाठिन्याद्यभावात् निरतिशयसुखस्पर्शत्वम् । सूर्यादितेजोभिभावुकदिव्यविग्रहतेजसाऽप्यनभिभूतत्वात् निरतिशयौज्ज्वल्यत्वम् । कर्णिकामकुटव्यावृत्त्या सर्वाधिपत्य- सूचनार्थ किरीटशब्देन मकुटविशेषणम् ; धारकपुरुषभेदेन हि मकुटद्वैविध्यं शिल्पशास्त्रादिप्रसिद्धम् । यद्वा, * नाकु- ण्डली नामकुटी इति प्रयोगात् शिरोभूषणमात्रे मकुटशब्दः । अथ वा, किरीटस्योर्ध्वभागो मकुटशब्देनोच्यते । मकरसंनिवेशं कुण्डलं मकरकुण्डलम् । अविभक्तलक्षणरूपस्यापि श्रीवत्सस्य भूषणसमानतया भूषणत्वोक्तिः । तादृशपृथ- क्संस्थानयोगाच्च, भूषणदेवताध्याने तदभिव्यक्तिः । मुक्तादामानि एकावलीत्रिसरादीनि । पीताम्बरस्य भूषणतयोक्तिः शोभातिशयहेतुत्वमहार्घत्वाद्यभिप्राया ; यथा-* अतसीयुप्पसंकाशः पीतवासा जनार्दनः । व्यभ्राजत सभामध्ये हेम्नीवोप- चितो मणिरिति । आदिशब्देन च हस्तवन्धाङ्गुलीयकादिसंग्रहः । उक्तगुणोत्कर्षहेतुभूतद्रव्यवैलक्षण्यज्ञापनाय भूषणा- युधयोदिव्यशब्दः ।। एवमाश्रितानामनुभवार्थानि भूषणान्युक्त्वा तदनुभवतद्रक्षणयोरुपयुक्तानि दिव्यायुधान्याह-स्वानुरूपेति ॥ पूर्वोक्तविग्रहादिविशिष्टापेक्षया स्वशब्दः । तत्तदानुरूप्यं यथोचितं ग्राह्यम् । सर्वेषामायुधानां सर्वायुधकार्य[शक्त करत्वात् अचिन्त्यशक्तित्वोक्तिः । कुठारटङ्ककुद्दालादिकार्य सालशैलवसुधातलभेदनमेकेन हि शरेण कृतमुच्यते * बिभेद च पुनः सालान् , * सहायकृत्यं किं तस्येत्यादिभिः । यद्रा, नित्यसूरिसमाविष्टतया तदिच्छानुगुणविचित्रकार्यसामर्थ्यमिह विवक्षितम् ; उक्तं चोत्तरश्रीरामायणे-* शरा नानाविधाश्चापि धनुरायतविग्रहम् । अन्वगच्छन्त काकुत्स्थं सर्वे पुरुषविग्रहाः इति । चक्रस्य हेतिराजत्वेऽपि शङ्खस्य पूर्वोक्तिः, सर्वशक्तेर्भगवतो मोक्षप्रदानशक्तिसूचकतया अभ्यहित- C--15 . . . ११४ श्रीमद्वेदान्तदेशिकग्रन्थमाला त्वाभिप्राया ; यथोक्तं परमसंहितायाम्-* सृष्टिबीजं तथा पद्मं चक्रं स्थितिनिबन्धनम् । गदा संहारबीजं तु शङ्ख मुक्तिनिवन्धनम् ॥ इति । एवमन्यत्रापि । अत्र पञ्चानां कण्ठोक्तिः प्राधान्यात् । पञ्चायुधानि पञ्चभूतशक्तिरूपाणीति भारते]गवते प्रोक्तम् ; अस्त्रभूषणाध्यायादिषु तु महदादितत्त्वरूपाणीति ; तदुभयं तात्पर्यभेदादविरोधेन नेयम् । आदि- शब्देन हलमुसलादिसंग्रहः । सहस्रभुजविश्वरूपादिविग्रहेष्वायुधानामसंख्येयत्वम् * अनेकदिव्याभरणं दिव्यानेकोद्यता- युधमित्यादिभिः सुव्यक्तम् । नित्यनिरवद्यत्वं पूर्ववत् । शुभलक्षणपौष्कल्यात् , आभरणकोटावपि निविश्य शोभातिशय- हेतुत्वात् , अनुकूलतमस्वभावत्वात् , मुमुक्षुध्येयविग्रह विशेषणतया मोक्षोपयोगित्वाच्च निरतिशयकल्याणत्वम् ॥ (स्वाभिमतेत्यादि ॥) अथैवंविधभूषणायुधादिविशिष्टस्य निरुपाधिकभोग्यस्य भर्तुः प्रधानभोक्तृत्वेनावस्थिता देवीः प्रतिपादयन् प्रथमं व्याख्येये प्राप्यप्रापकदशयोनित्यान्वितत्वेन निर्दिष्टां श्रियमादरातिशयादुक्तप्रकारविशिष्टत्वे प्रमाणदाळद्योतनाय पूर्ववत्पुनराह-स्वाभिमतेति ॥ श्रियो वल्लभ इति विग्रहे * नित्यानुकूलं स्वतः इत्यादिप्रसिद्ध- स्वभावायाः श्रियोऽप्यसौ नित्यनिरतिशयभोग्य इति दर्शितं स्यात् । श्रीः वल्लभा यस्येति विग्रहे तु, प्रियतमया तया निवेदितं न प्रत्याख्यातीति फलति । ईदृशं चाभिमतत्वम् * न जीवेयं क्षणमपि विना तामसितेक्षणाम् , * न त्वहं तां विना सीतां जीवेयं हि कथंचन, * कच्चिन्न तद्धेमसमानवर्णम् , * कुशली यदि काकुत्स्थः, * मत्कृते काकमात्रे तु, * यदि रामः समुद्रान्ताम् , * दुष्करं कृतवान् रामः इत्यादिभिस्तात्पर्यवृत्त्या व्यज्यते ॥ नित्यनियतप्राधान्यतारतम्यक्रमेण श्रिया सहैकासनस्थे देव्यौ तच्छायासंकाशतया दर्शयति-एवंभूतेति ॥ तदाहुः-* देवि त्वामनु नीलया सह मही देव्यः सहस्रं तथेति । उपदिश्यमानधर्माधारादतिदिश्यमानधर्माधारस्य स्वतः प्राप्त वैषम्याविरोधेन साम्यं व्यवस्थाप्यम् । पररूपेऽपि देवीत्रयसंबन्धः प्रमाणसंमतः ; यथोक्तं बलपौष्करे-* देवो वैकुण्ठनाथस्तु अनन्तासनसंस्थितः । सेव्यः श्रीभूमिनीलाभिः प्रादुर्भावैस्तु चाखिलैः । शङ्खचक्रधरो नित्यं जानुन्यस्तैक- हस्तवान् । अभयप्रदहस्तश्च नीलजीमूतसंनिभः ।। ध्यातव्यो नित्यलोकस्थो भुक्तिमुक्तिफलप्रदः ॥ इति । नित्यग्रन्थो- क्तध्याने तु * नागभोगे विन्यस्तवामभुजमित्येतत् संहितान्तरमूलम् । एतेन वर्णभुजादिविप्रतिपत्तिरपि निरस्ता । अचिन्त्यशक्तेरीश्वरस्य स्वच्छन्दवृत्तेः परसंज्ञितरूपेऽपि तत्तत्प्रतिपत्त्यर्थं तत्तत्संहितोक्ता विशेषा नान्योन्यं बाधमर्हन्ति । यथा नरसिंहरूपे सप्तसप्ततिभेदाः ; यथा च कृष्णरूपाण्यनन्तानीत्युच्यते । एवं परव्यूहादिष्वपि यथोपदेशं सर्वस्य सत्यत्वम् । गीयते च-* पश्य में पार्थ रूपाणि शतशोऽथ सहस्रशः इति । कचिद्वलभतया क्वचिन्नायकतया निर्देशस्य तत्तद्देव्यनुगुणं तात्पर्य ग्राह्यम् ॥ एवं देवीपर्यन्तैरामेडितातिशयस्य परमभोग्यस्यारण्यचन्द्रिकात्वव्युदासाय नित्यभोक्तर्गमाह-स्वच्छन्देति ॥ सूरयो हि स्वाम्यभिमतं स्वयं साक्षात्कृत्य, आत्मात्मीयं सर्वं तदर्थं विनियुज्य, तमनुवर्तन्त इति ज्ञापनाय स्वच्छन्दानु- वर्तीत्युक्तम् । स्वशब्दः पूर्वोत्तरवदीश्वरविषयः । स्थितिरिह स्वरूपस्य सर्वकालानुवृत्तिः । प्रवृत्तिः एषां कैंकर्यरूपो व्यापारः । स्वरूपादीनां भेदः तत्तत्प्रतियोग्यपेक्षया विलक्षणव्यवहारहेतुभूत आकारः । अशेषेत्यादिकं व्याख्यातम् । स्वरूपनित्यत्वे सर्वात्मसाधारणेऽपि सूरि विशेषत उक्तेन सदासर्वज्ञत्वलक्षणेन नित्यत्वेन मुक्तव्यावृत्तिः, नित्यनिरवद्य- तया वा ; निरवद्यत्वं हि दुःखादिदोषगन्धरहितत्वम् ; यथोक्तम्-* हताखिलक्लेशमलैः स्वभावत इति । ज्ञानादिविशेषणं वा नित्यनिरवद्यत्वम् ; तेन कैकय स्वाधीनस्वार्थकर्तृत्वभोक्तृत्वभ्रमराहित्यसिद्धिः । ज्ञानस्य निरतिशयत्वमीश्वरज्ञानवत्. - ..
.. .. व्याख्यानविभागे गद्यत्रयभाष्यम्-शरणागतिगद्यम् ११५ सर्वविषयत्वम् । क्रियाया ऐश्वर्यस्य च निरतिशयत्वं कैकयमात्रे स्थाप्यम् । सर्वविषयत्वे तु परवत्सर्वशरीरत्वादिप्रसङ्गः । अत एव शक्तानामपि जगद्व्यापारेषूदासीनत्वमित्यापातास्तिकपक्षोऽपि निरस्तः । प्रवृत्तिशब्देन क्रियायाः पृथनिर्दिष्टत्वा- दत्र क्रियाविषयमैश्चर्यमिति वा योज्यम् । तदप्येषां परार्थं पराधीनं च । आदिशब्देन कैंकर्यानुगुणबलवीर्यादि- संग्रहः । तत्तत्सेवाविशेषनियतासंख्यातावान्तरेच्छादिवैचित्र्याभिप्रायेण अनन्तगुणगणशब्दः । शेषादीनां विशेषाः * तया सहासीनमित्यादिश्लोकेषु द्रष्टव्याः । आसनवाहनसेनेशद्वारपालादिभेदेन नानाविधत्वम् । अनन्तत्वमिह असं- ख्यातत्वम् । परिजनाः छत्रधारकादयः । परिचारिकाः अनुग्रहाविमलाद्याः, तथा कान्तिवारुणीसूत्रवतीरुद्रासुकीर्ति- प्रभृतयः शेषादिपन्यः ; ता अपि हि तेषां यथार्ह सान्तःपुरस्वामिसेवाविशेषार्था एव । एवम् * गुणैर्दास्यमुपागत इति न्यायेन स्वामिविग्रहगुणैरपि कैंकये प्रेरितत्वमभिप्रेत्याह-परिचरितचरणयुगलेति ॥ एवं नित्यविग्रहादियुक्तस्य नित्यसूरिसेव्यस्य मुक्तगम्यं निवासस्थानमाह-परमेति ॥ * परमयोगिवाङ्मनसापरि- च्छेद्यस्वरूपस्वभाव इति संबुद्धयन्तं केचिद्व्याचक्षते ; तदा पूर्वोक्तानां सर्वेषां परत्वसौलभ्योपयोगित्वज्ञापनाय तदुभयं स्वरूपस्वभावशब्दाभ्यां विवक्षितम् , स्वरूपनिरूपकं निरूपितस्वरूपविशेषकं चेति धर्मवर्गद्वयं वा । एवं सति पूर्वोक्तमेव मुखान्तरेणानवसरे निगमितं स्यात् ; इतो वरमनुक्तपरमव्योमप्रकर्षकथनम् । तथा च तद्विशेषणतयैव सप्तम्यन्तत्वेन श्री- वकुण्ठगद्येऽप्येतत्पठितम् । परमयोगिनः साक्षात्कृतपरब्रह्मस्वरूपाः श्वेतद्वीपवासिनः ; *ये तु मुक्ता भवन्तीह नरा भरत- सत्तम । तेषां लक्षणमेतद्धि यच्छेतद्वीपवासिनामिति हि मर्यते । परमव्योम्नः स्वरूपं शुद्धसत्त्वमयम् । तमसः परस्यापि परमव्योमस्वरूपस्यापरिच्छेद्यत्वमूर्खादिभागेन व्यवस्थाप्यम् । तत्स्वभावो भोग्यतमत्वादिरूपः । विविधशब्दो भोग्य- प्रभृतिषु त्रिप्वप्यन्वेतव्यः । भोग्यम् अप्राकृतं स्वाश्रयं शब्दादि । तदुपस्थापकतया स्वीकृतानि भोगोपकरणानि । भोगस्थानानि क्रीडापर्वतादीनि । स्वरूपगुणसंस्थानादिवैचित्र्यातिशयेन नित्यमपूर्ववदनुभाव्यतया अनन्ताश्चर्यत्वम् । प्रत्येकं महद्भिरसंख्यातैश्च रत्नभूषणभद्रासनादिभियोगादनन्तमहाविभवत्वम् ; पर्यङ्कविद्यादिषु हि विचित्रनदीहदसभादि- विशिष्टं मुक्तगम्यं स्थानमुपदिश्यते-*सहस्रस्थूणे विमिते दृढ उग्रे यत्र देवानामधिदेव आस्ते इति च तलवकारा अधीयते । पूर्वोक्तापरिच्छेद्यत्वे हेतुरनन्तपरिमाणत्वम् । अनित्यसावद्यस्थानान्तरव्यवच्छेदार्थमिह नित्यनिरवद्यत्वोक्तिः । अत्र पञ्चोपनिषत्प्रतिपाद्यानां भूतानां तत्संघातरूपाणां च केषांचित् भगवन्नित्येष्टत्वेन नित्यत्वमविरुद्धम् । त्रिगुणवत्कर्मिणां भगवत्स्वरूपतिरोधानादिहेतुत्वाभावान्निरवद्यत्वम् । निरतिशयत्वं स्थानगुणैः सर्वैः सर्वस्थानातिशायित्वम् । यथोक्तं महा- भारते-* रम्याणि कामचाराणि विमानानि सभास्तथा इत्युपक्रम्य, * एते वै निरयास्तात स्थानस्य परमात्मनः इति, * आत्मा केवलतां प्राप्तो यत्र गत्वा न शोचति । ईदृशं परमं स्थान निरयास्ते च तादृशाः इति च । * कुठि गतिप्रति- घाते इति धातुः; गतिरवगतिः । ज्ञानप्रतिघातककर्मप्रसङ्गरहिता नित्यसूरयो विकुण्ठाः, तैः संबन्धादत्र वैकुण्ठशब्दोऽप्रा- कृतस्थानपरः ; * विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः । सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ॥ इत्यादिभिस्त- सिद्धिः । अत्र हि व्यतिरेकविभक्तिस्वारस्यात् परमे व्योमन् इत्यादिभिरैकार्थ्याच्च परमपदशब्दो न परमात्मस्वरूपपरः । * नाकस्य पृष्ठमारुह्य गच्छेद्ब्रह्मसलोकताम् , * दिव्यं स्थानमजरं चाप्रमेयम् * एकान्तिनः इत्यारभ्य * तेषां तत्परमं स्थानं यदै पश्यन्ति सूरयः इत्यादिभिः स्थानविशेषस्य स्पष्टोक्तेः । न चैतेषामण्डान्तवर्तिभगवल्लोकविषयत्वम् , तदन्त- वर्तिनां सर्वेषामुत्पत्तिविनाशश्रवणात् , एतस्य च नित्यत्वाक्षरत्वाजरत्वोक्तेः, * अण्डं भित्त्वा तथोद्गता इत्यादिभिरण्डबहि- ११६ श्रीमद्वेदान्तदेशिकग्रन्थमाला .. . . .. भूतत्वसूचनाच्च । तथाऽपि त्रिगुणान्तर्भावोऽस्त्विति चेत् , तन्न ; तमस्तत्त्वादाचां सुबालोपनिषदि प्रलयप्रतिपादनात् , मुक्तगतौ शीर्षकपालप्रभृति तम:पर्यन्तं तत्त्वभेदेन गन्तव्यदेशाभिधानात् , * आदित्यवर्ण तमसः परस्तात् , * तमसः परमो धाता शङ्खचक्रगदाधरः इत्यादेश्च । नाथः ईश्वरः । * नानाधृ याच्ोपतांपैश्वर्याशीःषु इति नाथते रैश्वर्यार्थत्व- वचनात् तस्मिन् दिव्यदेशे भगवत ऐश्वर्य स्वेनाप्यपह्रोतुमशक्यमिति भावः ॥ (स्वसंकल्पेत्यादि ।) एवं नित्यविभूतियोग उक्तः । अथ तत्प्रतिद्वन्द्विलीलाविभूतियोगं वदन् * कारणं तु ध्येयः, *यो ब्रह्माणं विदधाति पूर्वम् , इत्यादिप्रसिद्धस्य मुमुक्षुसमाश्रयणीयस्य * यतो वा इमानि भूतानि जायन्ते * जन्माद्यस्य यतः इत्याद्युक्तं लक्षणमप्याह-स्वसंकल्पेति ॥ बद्धानामीश्वराभिमतापरिज्ञानेन प्रायशः प्रवृत्तिरिति ज्ञाप- यितुम् अचित्समभिव्याहारेण सर्वचिदचित्साधारणं संकल्पानुविधायित्वमुक्तम् ; प्रकृत्यादीनां स्वरूपस्थित्योरीश्वरनित्येच्छा- वशेन नित्यसिद्धत्वमिहाभिप्रेतम् ; प्रवृत्तिषु तु संकल्पजन्यत्वम् ; प्रकृतेः स्वरूपं त्रैगुण्येन निरूप्यम् ; संसारिपुरुषस्य तु संकुचितज्ञानत्वेन ; कालस्य तु कलामुहूर्तादिमयत्वेन ; त्रयाणां स्थितिः पूर्ववत् । प्रवृत्तिः व्यापारः । अत्र प्रकृतिग्रहणं प्राकृतानामप्युपलक्षणम् । तेन नारायणशब्देन * नराज्जातानि तत्त्वानि इत्याद्युक्तनिरुक्तिः सूच्यते । प्रकृत्यात्मकजग- दुक्त्या वा कार्यतत्त्वसंग्रहः । लीलाविभूतेरशेषत्वान्यशेषत्वभ्रमसंभवस्थानत्वात् तदपनोदनाय अत्र स्वशेषतैकस्वभावत्व- मुक्तम् । शेषत्वस्य शरीरलक्षणत्वसिद्धयै यावत्सत्ताकत्वमिह विवक्षितम् ; तथा निरुपाधिकान्यशेषत्वराहित्यं च । अत्र शरीरस्वभावेष्वाधेयत्वादिषु संकल्पानुविधायित्वोक्त्या नियाम्यत्वं शाब्दम् । आधेयत्वमप्यभिप्रेतम् । प्रकृत्यात्मकत्वं भोग्यभोगोपकरणादौ । समष्टिव्यष्टिपुरुषविभागरूपतया पुरुषात्मकत्वं भोक्तृवर्गे । अत्र भोक्तत्वं कर्मोपाधिकम् । परमपदे तु निरुपाधिकभोक्तृणां सतामप्यनुक्तिस्तत्रत्यानां स्वाधीनस्वार्थभोक्तत्वभ्रमराहित्याभिप्रायेण । क्षणलवादिषु कालावच्छेदेषु कालात्मकत्वम् । तेषां जगच्छब्देन ग्रहणम् अभूत् अस्ति भविष्यतीत्यादिरूपेण जगद्विशेषणत्वप्रतीत्यनुसारात् । व्याप्त- स्यापि कालस्य लीलाविभूतिमात्रे पठनम् * कालं स पचते तत्र न कालस्तत्र वै प्रभुः, * कलामुहूर्तादिमयश्च कालो न यद्विभूतेः परिणामहेतुरिति नित्यविभूतेरकालकाल्यत्वज्ञापनार्थम् । तत्र तत्तदनित्यसद्भावेऽपि लीलाविभूतिवत् काल- नियमो नास्तीति विशेषः । भोग्यप्रभृति सर्व प्रत्येकं विविधम् । तत्तदवान्तरविशेषविवक्षया विचित्रत्वोक्तिः । आश्चर्य- तया वा ; * जगदेतन्महाश्चर्य रूपं तस्य महात्मनः इति ह्युच्यते । एकैकवर्गव्यक्तीनामसंख्यातत्वादनन्तत्वम् । भोग्य- भोगोपकरणादीनि पूर्ववत् । प्राकृतत्वादिरिह विशेषः । भोगश्चात्र सुखदुःखानुभवात्मकः । महदादीन्यनन्तब्रह्माण्डा- दीनि च संगृह्णता निखिलशब्देन कतिपयजगत्कारणविरिञ्चादिव्यावृत्तिः । निखिलजगदुदयादेरेकैकस्यैव ब्रह्मलक्षणत्वे संभवत्यपि व्यष्टिसृष्टयादिनीत्या संभवन्तीं भिन्नकर्तृकत्वशङ्कां निरसितुमिह त्रितयोक्तिः । जगन्निष्ठानामुदयविभवलयानां परमपुरुषलीलात्वोक्तिः सर्वशरीरतया तत्तद्विशिष्टरूपेण तत्तदवस्थो भवतीत्युपादानत्वसूचनार्था । परिपूर्णतया प्रयोजन- निरपेक्षस्य कथं जगद्व्यापार इति शङ्कानिरसनाय लीलाशब्दः । * क्रीडतो बालकस्येव, * क्रीडा हरेरिदं सर्वम् * हरे विहरसि क्रीडाकन्दुकैरिव जन्तुभिः, * लोकवत्तु लीलाकैवल्यमित्यादिभिस्तत्सिद्धिः । लीलारूपप्रयोजनवतोऽप्यवाप्त- समस्तकामत्वं सर्वत्राविहतेच्छत्वम् ॥ एवं नारायणशब्दोक्तं शरण्यत्वं यथानिरुक्ति संबोधितम् ; अथ * सत्यकाम इत्यादेः पूर्वापरपुनरुक्तिपरिहाराय मागुक्तेष्वेवार्थेषु इदं समाख्याष्टकं प्रमाणीक्रियत इति केचिद्याचख्युः । तत्र चतुर्णा समाख्यात्वं व्यक्तम् । सत्यकामादि- । ८ ..
15 व्याख्यानविभागे गद्यत्रयभाष्यम्-शरणागतिगद्यम् ११७ शब्दानां कथंचित्समाख्यात्वं कल्प्यम् । परब्रह्मभूतेत्यत्र तु ब्रह्मशब्दमात्रं समाख्या ; अन्यथाऽपि नामत्वकल्पने गौरवं स्यात् । अत्र परशब्देन विशेषणं त्वौपचारिकप्रयोगव्यवच्छेदार्थम् । सत्यकामसत्यसंकल्पशब्दौ पूर्व विशेषणमात्र- परतयोक्तौ ; इह तु तत्प्रमाणतया यथाश्रुति तत्तद्विशिष्टविषयतयेति विशेषः । लीलापदसूचि जगन्निमित्तत्वमपि सत्य- संकल्पत्वेन स्थापितम् ; जगदुदयादिलीलात्वद्योतितमुपादानत्वं तु * परब्रह्मभूत इत्यनेनाभिप्रेतम् , * सर्वं खल्विदं ब्रह्म तज्जलानित्याद्यनुसारात् । एवमभेदश्रुतिबलादुपादानत्वाभिमतस्य ब्रह्मणः स्वरूपपरिणामपक्षेण चिदचिद्गतसर्वदोषान्वयः शक्यतेति तत्परिहाराय स्वयमेव गीतं श्रुत्यर्थमाह-पुरुषोत्तमेति ॥ अत्र पञ्चम्यादिविभक्तित्रयेऽपि समासो द्रष्टव्यः । नन्वेवं भेदाभेदश्रुत्योर्विरोधादन्यतरबाधः स्यादित्यत्र घटकश्रुतिसिद्धमाह-महाविभूते इति । विभूतिशब्दोऽत्र नियन्तव्यपरः । * यदण्डम् इति श्लोकार्थ इहानुसंधेयः । शरीरतया विभूतित्वादत्र स्वरूपभेदेऽपि सामानाधिकरण्यं मुख्यमिति भावः । एवं सर्वविलक्षणस्य सर्वनियन्तुर्जगद्व्यापारलीलायां स्ववल्लभासामरस्यमभिप्रेत्याह-श्रीमनिति ॥ * विभूतिं प्रति शेषित्वं द्विष्ठमित्यभिप्रयन्नाह-श्रीमन्नितीति व्यासार्याः । विभूतीनामाधेयत्वादिनियमैः शरीरत्वं व्यञ्जयितुमाह-नारायणेति ॥ नित्यविभूतियोगं शुद्धसृष्ट्युपादानत्वं च प्रभूतोपकारकत्वज्ञापनाय विशेषतः सूचयति- वैकुण्ठनाथेति ॥ इदं संबुद्धिद्वयं वा ; तदा तु तत्त्वादिसाक्षात्कारप्रतिघातुकरहितदेशादिसंबन्धी वैकुण्ठः । अपेक्षित- सिद्धयर्थं सर्वैरपि याचनीयस्तत्प्रदानादावीश्वरश्च नाथः ।। एतत् * सत्यकामेत्यादिपदाष्टकं प्राप्याकारनिष्कर्थिमिति पक्षमपि प्रगुणीकुर्मः-* सोऽश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चिता इति कामशब्दोदितानां ब्रह्मगुणानामपि प्राप्यतोक्तिमभिप्रेत्याह-सत्यकामेति ॥ प्राप्यानुप्रविष्ट- नित्यविग्रहविभूतिद्वययोगेऽपि केचित्सत्यकामशब्दं प्रमाणयन्ति । यद्वा, मुमुक्षूणां भोक्तव्यसृष्टेभोगस्य चोपकरणतया मता नित्याः पदार्था अस्य सन्तीति भावः । प्राप्तिदशायां विभूतिद्वयेऽप्यपूर्वानन्तभोग्यस्रष्टत्वमाह-सत्यसंकल्पेति ॥ प्रकृष्टभोग्यतयापि निरतिशयबृहत्त्वमाह-परब्रह्मेति ॥ * ब्रह्म वेद ब्रह्मैव भवतीत्यादिभिरभेदापत्तिशङ्कां परिहरन् बद्धमुक्तविलक्षणतया कैकयोद्देश्यत्वसंभवमाह-पुरुषोत्तमेनि ॥ कैकयस्थानोपकरणादिसमृद्धिमत्त्वमाह-महाविभूते इति ॥ सपत्नीकस्य कैकयों द्देश्यत्वं सूचयति-श्रीमन्निति ॥ संबन्धगुणविभूतिव्यापारैः सर्वैरपि भोग्यत्वातिशयं प्रकाश- यितुमाह-नारायणेति ॥ सूरिसेव्यविग्रहविभूतिविशिष्टस्य देवयानपथिकविश्रमस्थानत्वमभिसंधायाह-वैकुण्ठनाथेति ॥ अत्र तृतीयमपि पक्षं ब्रूमः-प्रकृतस्य शरण्यस्य स्वीकृतसर्वभरनिर्वहणक्रमः सत्यकामादिभिरष्टभिः पदैरेव बोध्यते। सत्यकाम! काम इह प्रपन्नेभ्यो निरतिशयानन्दप्रदानेच्छा, तस्याः सामर्थ्याविनाभावात्सत्यत्वम् ; तच्च अमोघल्वम् । सत्यसंकल्पोऽत्र प्रतिबन्धनिवर्तनविषयः । * सर्वपापेभ्यो मोक्षयिष्यामि इति हि त्वमेवात्थेति भावः । परब्रह्मभूत निरतिशयबृहत्त्वविशिष्टस्त्वं स्वाश्रितानपि ज्ञानतो भोगतश्च परमसाम्यपर्यन्तं बृंहयिताऽसि । पुरुषोत्तम * यो मामेव- मसंमूढ इत्यादिना त्वद्विदां कृतकृत्यत्वोक्त्या त्वन्निर्वाह्यसर्वभरत्वं त्वयैव सूचितम् । यद्वा * षणु दाने पुरु सुनोतीति पुरुषः ; बहुप्रदेभ्यः सर्वेभ्य उत्तमत्वात् पुरुषोत्तम । महाविभूते विभूतिरिह विभवनम् , प्रभवनम् , नियमनमित्यर्थः । तस्य महत्त्वमपरिच्छिन्नत्वम् ; संश्रितान्संसारकारागृहान्निर्गमय्य तदर्थतया सर्व नियच्छसीति भावः ; * अनन्तो देश- कालादिपरिच्छेदविवर्जितः । महाविभूतिरित्युक्तो व्याप्तिः सा महती यतः ॥ इत्यत्रापि नियन्तृत्वेन व्याप्तिर्विवक्षिता । श्रीमन् श्रिया नित्यसंयुक्तस्त्वं त्वदभिमतमाश्रितकृत्यं निर्वहसि । नारायण संबन्धमनुसंधाय दायविभागन्यायेन स्वामि- ..
११८ श्रीमद्वेदान्तदेशिकग्रन्थमाला " तया स्वार्थ स्वयं स्वात्मानं प्रापयितासीति भावः । वैकुण्ठनाथ दिव्यपर्यङ्कसुखासिकायां निजपादमूलसेवां दातुमव- स्थितोऽसि । इति त्रिप्वपि पक्षेषु मुखभेदैः पुनरुक्तिपरिहारः सिद्धः ॥ (अपारेत्यादि ।) अथ शरण्यस्य समर्पितसर्वभरस्वीकरणानुगुणाः स्वम्य चाधिकारोपायनिष्पादका उक्ताश्चा- नुक्ताश्चाकारा अष्टादशभिः पदैनिष्कृप्यानुसंधीयन्ते ; तत्र स्वापराधस्वनिकर्षस्वहेयसंबन्धस्वरक्षणविसंवादादिदोषपरिहारोप- युक्तानां गुणविशेषाणां प्रकर्षः प्रथममुच्यते-अपारेति ।। कारुण्यस्यापारत्वम् अवश्यदण्डनीयेष्वस्मादृशेष्वपि प्रवृत्तेः; यथा-* वधार्हमपि काकुत्स्थः कृपया पर्यपालयदिति । स्वेनाप्युक्तम्-* मच्छरैस्त्वं रणे शान्तस्ततः पूतो भविष्यसि इति, गच्छानुजानामि रणार्दितस्त्वम् इत्यादि च । न्यूनाधिकत्वदर्शनजनितावज्ञासाध्वसपरिहारार्थमिह सौशील्योक्तिः । तस्यापारत्वं विशेषज्ञेषु विरिञ्चादिषु विष्ण्वाद्यवतारैः, अनभिज्ञेषु च मत्स्यकूर्मादिषु तत्तत्स्वरूपैरवतारैः निर्विशेषनीरन्ध्र- संश्लोषात् । वात्सल्यस्य अपारत्वं * रिपूणामपि वत्सलः इत्युक्तम् । औदार्यस्यापारत्वम् अर्थिपूदारत्ववचनहेतुभूतमर्थित- प्रदाने स्वप्रयोजनाभिसन्धिमत्त्वम् , संश्रितेभ्यः सविभूतिकं स्वात्मानं दत्त्वा तदनुवन्धिषु पशुमनुष्यपक्ष्यादिष्वपि अवि- श्रान्तत्वं वा; श्रयते हि-*नास्यावरपुरुषाः क्षीयन्ते इति, *नास्याब्रह्मवित्कुले भवतीति च । ऐश्वर्यस्य कथनमिहानादि- कालं स्वरक्षणविपरीतवृत्तान् केनचिट्याजेन स्वयमेव नियम्याभिमुखीकरोतीति ज्ञापयितुम् । तस्य अपारत्वम् * संसार- न्यूनताभीतास्त्रिदशाः परिपन्थिनः इति न्यायेन ब्रह्मादिषु देवेषु सुग्रीवादिषु सुहृत्सु वा विरुधानेषु तानपि शरणागतानु- गुणीकतुं समर्थत्वम् । सौन्दर्यस्य अपारत्वं विरुद्धप्रकृतीनां शूर्पणखादीनां सत्त्वस्थानामृषीणामप्यविशेषेण दृष्टिचित्ताप- हारितया तुष्टूषाजनकत्वम् , असद्वासनादिशामकत्वं च ; असद्वासनादिशामकत्वं च ; यथोक्तं श्रीपौष्करे अर्चावतारप्रकरणे-*संदर्शनादकस्माच्च पुंसां संमूढचेतसाम् । कुवासना कुबुद्धिश्च कुतर्कनिचयश्च यः । कुहेतुश्च कुभावश्च नास्तिकत्वं लयं व्रजेदिति । अति- सुन्दर नित्य] विग्रहेण भगवतः परत्वानुसंधानं तत्सांनिध्यकारणमिति च तत्रोक्तम्-* नित्यसिद्धे तदाकारे तत्परत्वे च पौष्कर । यस्यास्ति सत्ता हृदये तस्यासौ संनिधि बजेदिति । तत्सूचनार्थमैश्चर्यसौन्दर्ययोरिहाव्यवहितपठनम् ॥ *सर्वस्य शरणं सुहृत् , *सुहृदं सर्वभूतानाम् , *सर्वलोकशरण्याय, *सर्वयोग्यमनायासमित्यादिप्रसि आवस्य वायसवानरराक्षसादिविशेषानादरेणाङ्गीकुर्वतस्ते मादृशजनेऽपि गुणवृत्तादिनिकर्षो न त्यागकारणमित्याह-अनालोचित- विशेषेति ॥ अत्र विशेषशब्दविवक्षितमनालोचितगुणगणेति श्रीवैकुण्ठगद्ये व्यञ्जितम् । प्रपत्तेः सर्वाधिकारत्वमपि अनेन प्रकाशितम् । *दुर्गसंसारकान्तारमपारमभिधावताम् । एकः कृष्णनमस्कारो मुक्तितीरस्य देशिकः, *प्रणम्य कृष्ण सहसा, * एकोऽपि कृष्णे सुकृतः प्रणामः इत्यादिपूक्तमल्पयत्नप्रसाद्यत्वमाह-प्रणतातिहरेति ॥ अनेन स्वस्य एवंविधा- वस्थाहेतुः अवतारविशेषोऽप्यनुसंहितः ; उक्तं हि स्वयमेव-* निरस्तेतरभोगाशो वरदं शरणं गतः इति । अत्र प्रणत- शब्शः प्रकृतानुगुण्यात् , *प्रपन्नार्तिहरं विष्णुमित्याद्यनुसाराच प्रकृष्टप्रह्वीभावयुक्तप्रपन्नविषयो वा । प्रस्तुतावतारे व्यक्त- तमं स्वस्मिन्नुपकारतमं च वात्सल्यगुणं पूर्व द्विरुक्तमपि * मित्रभावेन संप्राप्तम् * दोषो यद्यपि तस्य स्यादित्यादि- स्मरणाय पुनराह -आश्रितेति ।। वात्सल्यगुणोदधौ निग्रहादिकं निमग्नं भवतीत्यभिप्रायेण एकशब्दः । अत एव हि सर्वज्ञत्वादौ स्थितेऽपि अविज्ञातृत्वाद्युक्तिः । उपायान्तरं स्वीक्रियतामित्यत्र * अस्मान्वेत्थ परान्वेत्थ इति प्रकारेण मादृशानामकिंचनानामधिकर्तव्यं हिततमं त्वमेव जानासि ; त्वदायत्तानुकूल्यस्य च शेषवृत्तिविधानेऽपि *न त्वं सुप्तो न वा [मृ]गतः; सर्वज्ञस्य ते, *त्वयाऽपि लब्धं भगवन्निदानीम् , *यदि मे न दयिष्यसे इत्यादिकं न विज्ञापनीयमित्यभिप्राये- , .. .
" व्याख्यानविभागे गद्यत्रयभाष्यम् , शरणागतिगद्यम् ११९ णाह-अनवरतेति ॥ अनवरतनिखिलशब्दाभ्यां ज्ञानस्य कालतो विषयतश्च संकोचो व्युदस्तः । *त्वमेवैवं कुरुष्व माम् , * कुरुष्व मामनुचरमित्यादिन्यायेन त्वदधीनव्यापारस्य मे त्वयैव प्रातिकूल्यनिवर्तनादिकमपि कार्यमित्याह-अशेषचरा- चरेति ॥ निखिलशब्दः स्वरूपस्थित्यादिनियन्तव्यकाऱ्यापरः, सार्वकालिकनियमनकार्यपरो वा । आगमैराचार्यादिभि- रन्तरात्मतया च बहुप्रकारं हि नियमनम् । न हि अविधेयं ते किंचित् , येन मे अभिमतं प्रतिबन्धाद्विलम्वेत, अलभ्यं वा स्यात् , इति भावः । परिपूर्णस्य मे त्वदङ्गीकारेण न किंचित्प्रयोजनमित्यत्राह-अशेषचिदचिदिति ॥ न हि मदेकर्ज तव सर्वशेषित्वम् , अतो ममाप्यतिशये तव चार्थः प्रकल्पत इति भावः । तथाऽपि यथावस्थितरक्षापेक्षा तव नास्ति, कथं च त्वं रक्षणीयः ? इति शङ्कायामाह-निखिलजगदाधारेति ॥ गुणादिवत् त्वदपृथक्सिविशेषणस्य ममापेक्षामन्तरेणैव मत्सत्तादिकं त्वयैव रक्ष्यते, तत्साफल्यार्थं रक्षापेक्षादिकमपि त्वयैव कारयितव्योऽहम् , न हि त्वदधीनसत्ताकस्य मे त्वन्निरपेक्षप्रवृत्तिः संभवतीत्यभिप्रायः । एवमेव हि शेषभूतानां स्वतन्त्रस्वामिना त्वयैव यथेष्टं स्वमुद्दिश्य विनियोगः क्रियते इत्याह अखिलजगत्स्वामिन्निति ॥ इष्टानिष्टप्रदानसाधारणेऽस्मिन् मद्विनियोगे किं तवायातमित्यत्राह- असत्स्वामिन्निति ॥ मदाचार्यसन्ततिसांमुख्येन ममैवंविधत्वत्संबन्धज्ञानाद्यवस्थाप्रदानरूपोपकारे प्रवृत्तेन त्वया शेष- पूरणं कार्यमिति भावः । परिपूर्णतया पूर्वोपकारप्रत्युपकारनिरपेक्षस्य तव अकिंचननित्यसापेक्षसंश्रितरक्षणमात्मीयनित्य- गुणपरित्राणमिति सूचयति-सत्यकामेति ॥ सर्वशक्तेस्तव नित्यसूरिवगै मन्निवेशनमीषत्करम् , न हि त्वद्रतं केनापि हन्तुं शक्यमित्याह-सत्यसंकल्पेति ॥ तथाऽप्यपेक्षितार्थमन्यः कश्चिदाश्रीयताभित्यत्राह-सकलेतरविलक्षणेति ।। * विष्णुपोतं विना नान्यत्किंचिदस्ति परायणम् * भवतां कथ्यते सत्यं विष्णुरेकः परायणमित्यादिभिः अन्येभ्यस्तव मोक्षप्रदत्वादिरूपं विशेषं पश्यन्नहं मुमुक्षुः कमन्यमाश्रयेयम् ; न हि परतन्त्रः कश्चित् स्वतन्त्रकृत्यं प्रार्थनीयः; न च त्वं परतन्त्र इति भावः । यद्यर्थिनं मां नाद्रियसे कथं तव औदार्यप्रथा जावेदित्यभिप्रायेणाह-अर्थिकल्पकेति । अर्थी च कल्पकश्चेति विग्रहः । अर्थिनां कल्पद्रुम इति वा । उक्तं हि-* स सर्वानर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य चेति । अर्थिनः कल्पद्रुमा यस्य सः अर्थिकल्पक इति वा विवक्षितम् ; यदगीयत--* उदाराः सर्व एवैते इति । अभिमतपुरु- पार्थदानार्थमर्थिनांमुत्पादकः शास्त्रादिमुखेनार्थित्वापादकश्चेति वा । एवं पूर्वोक्तस्याप्यौदार्यस्य अतिशयप्रदर्शने तात्पर्या- दपुनरुक्तिः । *ज्ञातं मया वसिष्ठेनेत्यादिकमनुसंदधानः पाञ्चालीगजेन्द्रादिवदापन्नस्यानन्यगतिकस्य मम एतामापदमवेक्ष्य रक्षितुमर्हसीत्याह-आपत्सखेति ॥ आपदि सखिवत् संरक्षक इत्यर्थः । विश्वसनीयत्वस्नेहविषयत्वादिसूचनाय सखि- शब्दः । शत्रुमपि * तस्मात्परिश्रान्त इति व्यवस्य न त्वा शरैर्मृत्युवशं नयामीत्यवोचत् ॥ एवं द्वाभ्यामिष्टप्रापकत्वम् , अनिष्टनिवर्तकत्वं च दर्शितम् । अथ तत्र समानाभिप्रायतया नित्ययुक्तामखिलजग- न्मातरं पुरस्कुर्वतो मे महान्तोऽप्यपराधास्त्वया क्षन्तव्या इत्याह-श्रीमन्निति ॥ संबन्धगुणविभूतिप्रयोजनव्यापारास्ते मदुपेक्षया मन्दफला मा भूवन् , अत आत्मानं नातिवतथा इत्याह-नारायणेति ॥ उत्तरखण्डस्थापेक्षया पूर्व श्रीम- नित्याद्युक्तम् ; इह तु पूर्वखण्डस्थापेक्षया उक्तैः स्वभावैः फलितमाह-अशरण्यशरण्येति ॥ स्मयते हि-* अगतीनां गतिर्भवानिति । अत एव अनालोचितेत्यादिना न पुनरुक्तिः, तत्र हि तारतम्यानादरे तात्पर्यम् । एतत्सर्वं व्याख्येय- विवक्षितप्राप्यप्रापकाकारप्रपञ्चनम् । अस्म्यहमेवम् , एतावतापि किं त्वया लब्धम् , सर्वत्र हि शास्त्रार्थ अधिकारोऽपे- क्षित इत्यत्राह-अनन्यशरण इति ॥ तत्त्वविदोऽनन्यप्रयोजनस्य मम सिद्धोपायान्तरं नास्ति, * अहमस्म्यपराधानाम् ॥
१२० श्रीमद्वेदान्तदेशिकग्रन्थमाला * न धर्मनिष्ठोऽस्मीत्याद्युक्तावस्थाविशेषविदश्च मे साध्योपायान्तरमपि नास्तीति प्रतिबुद्धोऽस्मि ; अयमेव हि ममात्राधि- कार इति भावः । इदं तु व्याख्येयस्थोत्तमपुरुषाभिप्रेतमिति ज्ञापनाय, अहमपि न मम शरणमिति व्यञ्जनाय च, अधिकोऽहंशब्दः । अथवा अनन्यशरण इत्युपायान्तरशून्यत्वम् , अहमित्युपायभीरुत्वम् , अतिशङ्काराहित्यम् , प्रयो- जनान्तरतदुपायपरित्यागित्वम् , मोक्षार्थप्रपत्त्युन्मुखत्वं च व्यज्यते । एतत्सूचितः कार्षण्यविस्तरः प्रतिवचनवाक्येषु गद्या- न्तरयोश्च द्रष्टव्यः । त्वदित्यादिना पूर्वग्नण्डपदक्रमानुसरणम् । त्वच्छब्दः शरण्यत्वापयुक्तसर्वाकारवैशिष्टयपरः । पादे- त्यादिकं प्रागुक्तार्थम् । अत्र द्वयम् ॥ पितरं मातरं दारान् पुत्रान्बन्धून्सखीन्गुरून् । रत्नानि धनधान्यानि क्षेत्राणि च गृहाणि च ।। सर्वधर्माश्च संत्यज्य सर्वकामांश्च साक्षरान् । लोकविक्रान्तचरणौ शरणं तेऽवजं विभो ॥६॥ अत्र द्वयमित्यस्य व्याख्यातप्रायमिति शेषः ; तात्पर्य तु पूर्वमेवोक्तम् । यद्वा द्वयम् अर्थानुसंधानेन सह एवमुक्तमिति वा, वक्तव्यमिति वा विवक्षितम् । वाक्यान्तरैः पुनःपुनः प्रपद्यत इति तु नाशङ्कनीयम् , एकसाध्यसिद्धयर्थ प्रपत्त्यावृत्तेः प्रतिषेधात् , इह साध्यान्तरायोगाच्च । पितरमित्यादिकं तु स्ववाक्यवन्निबन्धनसंवादमुखेन अनन्य- शरणत्वादिकं विशदीकृत्य वक्ष्यमाणफलप्रार्थनाप्रस्तावनात्मकमिति द्वयार्थस्य समुदितोक्तिः। तथा ह्यत्र सोपाधिकभोग्य- तदुपायत्यागं निरुपाधिकभोग्यतदुपायविशेषपरिग्रहं च स्पष्टयित्वा प्रसादय इत्यादिना सोडुमित्यन्तेनोत्तरखण्डस्य दोष- निवृत्तिप्रार्थना संगृह्यते । पित्रादीनां त्यागोक्त्या भृत्यादिचेतनान्तरत्यागः कैमुत्यसिद्धः । बन्धुशब्द इह संबन्ध्यादिपरः । रत्नानीत्यादिकमुत्कटभोग्यत्वभोगसाधनत्वानामचेतनान्तराणामुपलक्षणम् । चकारेण वा अनुक्तसमुच्चयः । प्रियेषु हितेषु च मोक्षतदुपायानुपयुक्तेषु कुत्रचित् सङ्गोऽपि न युक्त इति ज्ञापनाय पितरमित्यादिविविधोक्तिः ।। एवं लोकसिद्धप्रियहितान्युदाहृत्य सर्वधर्मानित्यादिना शास्त्रवेद्यानि साधनानि साध्यानि चाह । तत्र सर्व- धर्मशब्दः सिद्धसाध्यरूपसपरिकरधर्मकायैपरः । सर्वकामानिति हिरण्यगर्भादिपदपर्यन्तकाम्यविषयः । अक्षरशब्द इह आत्ममात्रानुभवगोचरः । धर्माणां कामानां च उपयोगित्वेन वा पित्राद्युदाहरणम् । तच्च यथासंभवं द्रष्टव्यम् । पित्रादीनां त्यागश्चात्र काम्यधर्मोपयोगितया अर्थकामोपयागितया वा अनुपादानम् । अत एव * मातृदेवो भव, पितृदेवो भव, आचार्यदेवो भव, * वृद्धौ च मातापितरावित्याद्युक्तभगवदाज्ञानुपालनं न विरुध्यते । सर्वधर्मशब्देन मोक्षसाधनभृतोपासनवर्गसंग्रहेऽपि तन्निवृत्तौ * विहितत्वाचाश्रमकर्मापि इति न्यायेन वर्णाश्रमधर्माणामनिवृत्तिः । तदिह त्रैवर्गिकधर्मेषु प्रयोजनान्तरेषु मोक्षापायान्तरेषु च साधारण नैराश्यं त्यागः ; तत्र पुरुषार्थान्तरेष्वल्पास्थिरत्वादि- दोपदर्शनान्नैराश्यम् । तत एव तदुपायेप्वपि मुक्तिसाधनेष्वन्येषु स्वावस्थादर्शनेन दुष्करत्वादिना नैराश्यमिति विशेषः । संत्यज्य सम्यक् त्यक्त्वा, सवासनं परित्यज्येत्यर्थः । यद्वा पञ्चाङ्गसंयुक्तायाः प्रपत्तेरङ्गत्वेनाङ्गित्वेन वा अनुपादान- मिह धर्माणां त्यागः । सोऽयं प्रपत्त्युपकारकत्वबुद्धिविरहः संप्रतिपन्नेषु पुरुषार्थान्तरतदुपायेषु मुक्त्युपायान्तरेषु नित्य- नैमित्तिकेषु च समान इति सहोक्तिः । लोकविक्रान्तचरणाविति चरणे लोकविक्रान्तत्ववचनमनाश्रितानामप्यात्म- प्रकाशनेन सौलभ्यादिव्यञ्जकम् । लोकविक्रान्तेति व्यस्तं वा ; तदा तु लोकेषु विक्रान्तः अधिष्ठातेत्यर्थः । ते स्वतन्त्र- - ते व्याख्यानविभागे गद्यत्रयभाष्यम् शरणागतिगद्यम् १२१ स्वामिनः परमप्राप्यस्य च । विभुशब्देन फलप्रदानौपयिकगुणपौष्कल्यं व्यज्यते । यद्वा विभुशब्देन परत्वम् , इत्यनेन सौलभ्यं च संगृह्यते । अब्रजम्-व्रजामीत्यर्थः । अनद्यतनत्वमत्राविवक्षितम् ; भूतत्वेन निर्देशस्तु कर्तव्यशेष- नैरपेक्ष्यव्यञ्जनपरः । त्याज्यानां त्यागस्य पूर्वमस्पष्टत्वादिह तत्प्रपञ्चने तात्पर्यम् ॥ ६ ॥ त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च गुरुस्त्वमेव । त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देवदेव ॥ ७ ॥ उपायत्वमुपेयत्वं च * माता पिता भ्रातेत्यादिश्रुतिसिद्धसर्वविधबान्धवस्य नारायणस्यैवेत्यभिप्रायेण त्यक्तं सर्व त्वमेवेत्याह-त्वमेवेति ॥ त्वत्पादेत्यत्र त्वच्छब्दाभिप्रेतं चानेन बिशदीकृतम् । सर्वेषां जन्तूनां सर्वेषु जन्मसु सर्व- विधोपकारकत्वं त्वयि समुच्चितमित्यभिप्रायेण प्रत्येकं त्वमेवेति सावधारणावृत्तिः । मातापित्रादयो हि तत्प्रयुक्तास्तत्सह- कृताश्च तदभिमतयत्किंचित्करणेनोपकुर्युः, अयं चानन्यप्रयोज्यो निरपेक्षश्च स्वेच्छयैव सर्वप्रकारेणोपकरोति । माता, प्रलयदशायामुदरे स्थापयित्वा प्रसवनात् । प्रियप्रवर्तकत्वादिभिश्च पिता ; * अहं जीवप्रदः पिता इति ह्याह । हित- प्रवर्तकश्च बन्धुः, संबन्धान्तरेणाप्यहितनिवर्तनार्हः । गुरुः, * गुशब्द इत्याद्युक्तान्धकारनिरोधित्वात् ; तत्र चासौ गुरुशरीरक आदिगुरुश्च । विद्या, उपायभूतविद्याप्रवर्तकत्वात् तत्फलप्रदत्वाच्च, अकिंचनानामुपासनरूपविद्यायाः स्थाने निवेशाद्वा । द्रविणम् , * अमृतं साधनं साध्यं यं पश्यन्ति मनीषिणः इत्युक्तात् साधनत्वात् , साध्यत्वाच्च । त्वमेव सर्वमिति उक्तानुक्तसर्वकान्यपरम् । मम-तत्त्वविदोऽकिंचनस्य त्यक्तान्यसाध्यसाधनस्य त्वयि न्यस्तभरस्य च । देव- देवेति सर्वप्रकारोत्कर्षपरम् ॥ ५ ॥ पिताऽसि लोकस्यं चराचरस्य त्वमस्य पूज्यश्च गुरुगरीयान् । न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव ॥ ८॥ तस्मात्प्रणम्य प्रणिधाय कार्य प्रसादये त्वामहमीशमीडयम् । पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम् ॥ ९॥ एवं स्वविषयेऽनुसंहितस्य सर्वविधबन्धुत्वस्य सर्वविषयत्वेन निरुपाधिकत्वं सूचयति-पिताऽसीति ॥ लोकस्य- हिरण्यगर्भादिजन्तुजातस्य । पूज्यश्च–पितृत्वगुरुत्वादिभिः सर्वकर्माराध्यत्वश्रुतेश्च समाराध्यः । * गरीयान् ब्रह्मदः पिते- त्युक्तमाह-गरीयानिति ॥ * गरीयान् पूज्यतम इति तु भाष्योक्तम् । लोकत्रये-बद्धमुक्तनित्यरूपचेतनवर्गत्रये । यद्वा लोकत्रयशब्देन सर्वलोकवर्तिनां लक्षणा, प्रभावतोऽप्रतिमत्वस्य कण्ठोक्तत्वात् । * न त्वत्समोऽस्तीत्यादिकमिह कारुण्यादिषु योजितम् ॥ तस्मात् तवैव सर्वविधबन्धुत्वात् , प्रभावतः कारुण्यादिगुणैश्च सर्वाधिकत्वात् , त्वद्विषयापरा- धस्य पित्रादिसर्वविषयापराधरूपत्वात् सर्वविषयापराधानां त्वदाज्ञातिलचनरूपत्वेन त्वदपराधत्वाचेति भावः । प्रणम्ये- त्यादिकं प्रपद्य इत्यस्य विवरणम् । प्रकृष्टपहीभावश्चात्र प्रकरणात् प्रपत्तिरूपः । स च पूर्वकृत एव फलविशेषप्रार्थनार्थ- मिहानूद्यते । कायप्रणिधानमत्र स्वरक्षणार्थस्वव्यापारान्तरनिवृत्तिव्यञ्जकमात्रम् । प्रणम्य प्रसादये-प्रपदनरूपं प्रसादन- मनुतिष्ठामि । भक्तिवत् प्रपत्तिरपि प्रसादनविशेषः । मदिष्टविघातानिष्टप्राप्तिहेतुभूतमत्कृतापराधजनिताप्रीतिरूपकालुप्य- रहितं करोमीत्यर्थः । त्वां-स्वतः सर्वभूतानां सुहृदं मदपराधात्कलुषितबुद्धिम् । अहम्-अकिंचनोऽनन्यगतिः त्वत्पल्या . C-16 . १२२ श्रीमद्वेदान्तदेशिकान्थमाला दत्तवरः त्यक्तत्वदितरसाध्यसाधनश्च । ईशम्-सापराधनिग्रहादिसमर्थम् । ईडथम्-क्षमादिभिः स्तुत्यम् । * न तस्येशे कश्चन तस्य नाम महद्यशः इति श्रुत्युक्तमनेन पदद्वयेन दर्शितम् । क्षुद्रोऽपि जन्तुः संबन्धविशेषादपराधं सहते, किं पुनस्त्वमित्यभिप्रायेण पित्रादिदृष्टान्तः । प्रियः प्रियाय-मत्पीतिविषयस्त्वं त्वत्प्रीतिविषयाय मह्यम् । * प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः इति हि स्वयमेवात्थ । अर्हसि देव सोढुमिति वक्ष्यमाणसंग्रहः । संसारमोचनमपि ते लीलैवेति देवशब्दाभिप्रायः । एतावदन्तं पूर्वखण्डविवरणमिति केचित् ॥ ८ ॥ ९ ॥ मनोवाकायैरनादिकालप्रवृत्तानन्ताकृत्यकरणकृत्याकरणभगवदपचारभागवताप- चारासह्यापचाररूपनानाविधानन्तापचारान् आरब्धकार्यान् , अनारब्धकार्यान् , कृतान् , क्रियमाणान् , करिष्यमाणांश्च सर्वान् अशेषतः क्षमस्व ॥ १० ॥ अथोत्तरखण्डस्थस्यापि सविशेषणनारायणशब्दस्य पूर्वमेव व्याख्यातत्वात् , अवशिष्टयोश्च चतुर्थीनमसोः पाठ- क्रमादर्थक्रमस्य बलीयस्त्वात् प्रथमं मनोवाक्कायैरित्यादिभिस्त्रिभिर्वाक्यैरिष्टप्राप्तेः पूर्वभाविनी ममकारनिवृत्तिवाचिनमःशब्द- विवक्षितां सर्वानिष्टनिवृत्तिं प्रार्थयते । तत्र सर्वस्य चानिष्टस्येष्टविघातस्य च कर्ममूलत्वात् तन्निवृत्तिः पूर्वमभ्यर्थ्यते । मानसादिभेदेन त्रिविधः पापराशिः, तद्विपाकश्च मन्वादिभिर्विभक्त इति ज्ञापनाय करणत्रयोपादानम् । अकृत्यकरणादे- रहेतुकत्वमन्योन्याश्रयादिकं च परिहर्तुमाह-अनादिकालप्रवृत्तेति ॥ हितप्रवृत्तियोग्यैः करणैरेतावन्तं कालमहिते प्रवृ. तोऽस्मीति निवेदश्चात्र व्यञ्जितः । * यद्ब्रह्मकल्पेत्यादिप्रक्रियया अनादिकालप्रवृत्तम् , अत एवानन्तम् । प्रथमोऽनन्त- शब्दोऽकृत्यकरणकृत्याकरणरूपसामान्यापचारयोरन्वेतव्यः । द्वितीयस्तु भगवदपचारादौ । अकृत्यकरणादिपञ्चकमुत्तरोत्तरं क्रूरतरम् । यद्यपि केषांचित् कृत्यानामकरणमकृत्यकरणात्मकम् , तथाऽपि शरणागतरक्षणादिकृत्याकरणं महत्तरपातककोटौ स्मर्यत इति ज्ञापयितुमकृत्यकरणादुत्तरं कृत्याकरणोक्तिः । अकृत्यकरणान्तर्गतस्यापि भगवदपचारादेः ब्राह्मणपरिव्राजक- न्यायेन प्रकृष्टत्वज्ञापनाय पृथगभिधानम् । यद्यप्यकृत्यकरणादेरप्याज्ञातिलङ्घनरूपतया भगवदपचारत्वम् , तच्चात्रापचारा- निति विशेष्यनिर्देशेन व्यज्यते; तथाऽपि शिशुपालादीनामिवाव्यवधानेन भगवत्परिवादादिकमिह भगवदपचारशब्दोक्तम् । अकृत्यकरणशब्देन तु स्ववर्णाश्रमादिनिषिद्धानुष्ठानमात्रम् । कृत्याकरणशब्देन स्ववर्णादिनियतधर्मत्य प्राप्तकाले शक्ते- नाननुष्ठानम् । भगवदपचाराश्च द्वात्रिंशदपचारादिप्रकरणेषु द्रष्टव्याः । भगवदीयेषु वस्तुषु स्वीयत्वबुद्धिः, अर्चावतार- पर्यन्तेष्ववतारेषु प्राकृतत्वबुद्धिः इत्यादयोऽपि भगवदपचाराः । त्वदपचारेति वक्तव्येऽप्यत्र भगवदपचारशब्दस्तत्तत्प्रमाणो- पात्तप्रकारसूचनार्थः । अयथाशास्त्रमाद्युपाधिभिर्भागवतविरुद्धाचरणमिह भागवतापचारः । इमौ विपर्यासेन केचित् वर्णयन्ति । एतयोरेवापचारवर्गयो: * न क्षमामि इत्यादिभिर्विशेषिताः केचित्पूर्वोक्तन्यायादसह्यापचारा इति विभज्यन्ते । ते च * विद्याचोरो गुरुद्रोही, * एकाक्षरप्रदातारम् , * यः शूद्रं भगवद्भक्तम् , * मयि द्वेषानुबन्धोऽभूत् संस्तुतावुद्यते तवेत्यादिषु द्रष्टव्याः ॥ एवं निर्निबन्धनभगवद्भागवतद्वेषावज्ञापरिहासादयश्च यथालोकमसह्यापचारा इत्यनुशिष्यन्ते । एते पञ्चापि प्रत्येकमवान्तरोपाधिभिः नानाविधाः तत्तद्विधास्वपि अवान्तरव्यक्तिमेदैरनन्ताः । आरब्धकार्यान्-जात्यायुभोंगरूपविपाक- संज्ञफलपदाने प्रवृत्तान् । यद्यपि, *अनारब्धकार्य एव तु पूर्व तदवघेरिति उपासने सूत्रितम् , तथाऽपि * साध्यभक्तिस्तु सा हन्त्री प्रारब्धस्यापि भूयसी इति प्रपत्तौ विशेषवचनादत्रारब्धकार्योपादानम् । अर्थितार्थप्रदस्य शरण्यस्य प्रपत्णा- " - । । व्याख्यानविभागे गद्यत्रयभाष्यम्-शरणागतिगद्यम् १२३ मातितारतम्यानुसारेण यथाप्रार्थितफलप्रदानात् तदिष्टदेहाद्यनुवृत्तौ न प्रत्यक्षादिविरोधः । अनारब्धकार्यान्-प्रारब्ध- कार्यकर्मनिरुद्धावसरतया अनुपक्रान्तफलान् । द्विविधानपि कृतानित्यवच्छिनत्ति । क्रियमाणान्-आनुकूल्यसङ्कल्यादि- मत्त्वेऽपि देशकालादिवैगुण्यात् पूर्वनियुक्तदूरस्थदुर्निवारभृत्यादिमुखेन वा उपक्रान्तानपरिसमाप्तान् । करिष्यमाणान्- तद्वदनुबन्धादिमुखेनागत्या प्रमादाद्वा संपतिष्यतः, बुद्धिपूर्वोत्तराधानां पश्चादेव प्रायश्चित्तविधानात् । तेषामप्यत्र संग्रहे तु यथार्हप्रायश्चित्तप्रेरणं क्षमाफलं ग्राह्यम् । सर्वानशेषत इति व्यक्तिशक्तिकायपरम् । सन्ति हि पापानां बह्वयः शक्तयः तत्त्वतिरोधायकत्वम् , प्रत्यवायजनकत्वम् , कर्मान्तरानहतापादकत्वम् , सजातीयापारम्भरुचिजनकत्वं चेति । एतास्वन्तिमा वासनेत्युच्यते । सा च प्रत्युत्तरे व्यक्तमनुवदिष्यते । पापशक्तिश्च निग्रहसंज्ञः परमपुरुषबुद्धिविशेष एवेति क्षमस्वेत्यनेन व्यज्यते । निग्रहनिवृत्तिरूपो हि प्रसादविशेष इह क्षमा । अत्र भागवतापचारेषु तद्विदितेषु तत्प्रसादन- मुखेन भगवतः प्रसादनम् । * मया त्वं परुषाण्युक्तस्तच्च त्वं क्षन्तुमर्हसीति न्यायात् । तदविदितेषु तु अव्यवधानेन, रहस्यप्रायश्चित्तन्यायात् ॥ १० ॥ अनादिकालप्रवृत्तं विपरीतज्ञानमात्मविषयं कृत्स्नजगद्विषयं च विपरीतवृत्तं चाशेषविषयमद्यापि वर्तमान वर्तिष्यमाणं च सर्व क्षमस्व ॥ ११ ॥ एवं निषिद्धक्षमा प्रार्थिता । अथ सहेतुककाम्यक्षमा प्रार्थ्यते अनादिकालेति ॥ क्षुद्रपुरुषार्थकामनाया विपरीत- ज्ञानसापेक्षतया अपचाराणामिव शास्त्रार्थज्ञानपूर्वककाम्यानामपि मात्रया भ्रान्तिहेतुक त्वं व्यञ्जयितुमिह विशेषतो विपरीतज्ञानस्य सहोक्तिः । यथावस्थितविषयविरुद्धाकारावगाहिज्ञानमिह विपरीतज्ञानम् । तच्चात्र * योऽन्यथा सन्त- मात्मानमित्यादिभिरुक्तः स्वात्मनो जगतश्च स्वनिष्ठत्वस्वतन्त्रत्वस्वशेषत्वभगवदन्यनिष्ठत्वादिभ्रम इत्यभिप्रायेणाह-आत्म- विषयं कृत्स्नजगद्विषयं चेति ॥ वृत्तशब्दस्य शास्त्रीये प्रसिद्धिप्रकर्षमुपजीव्य विपरीतवृत्तमिति बन्धकं काम्यकमों- च्यते ; अन्यथा पूर्वोक्तेन पुनरुक्तिप्रसङ्गात् । काम्यस्य च विपरीतवृत्तत्वं सात्त्विकत्यागसमदर्शित्वादिविशिष्टहिततमधर्म- विपरीतत्वात् । विपरीतवृत्तेऽपि स्वविषयतया पुत्रादिपरविषयतया च [वै] वैविध्यं दर्शयति-अशेषविषयमिति ।। अद्यापि वर्तमानं वर्तिष्यमाणं च । सद्गुरूपदेशादिभिः परोक्षसम्यग्ज्ञाने निष्पन्नेऽपि बाधितानुवृत्त्यादिनयाद्वासनारागादिभि- रनुवर्तमानमित्यर्थः । अत्र चकारेण पूर्वकृतविपरीतवृत्तसमुच्चयः । अद्यापीत्यनेन च अनादिविपरीतवृत्तसन्ततिः सूच्यते। अत्रापि सर्वशब्दः पूर्ववत् का परः । अशेषत इति चानुसन्धेयम् ॥ इह यथाधिकारं यथाचोदितमनुष्ठितानामपि संसारहेतुधर्माणामभिचाराणामिव अनर्थपर्यवसायितया मुमुक्ष्वपेक्षया पापत्वोक्तेः स्वर्गादिहेतुभूतस्वतन्त्रसंकल्पेऽपि निग्रहविशेषत्वबुद्ध्या काम्यक्षमाप्रार्थनं युक्तम् । यद्यप्येवं पूर्वकृतेषु काम्येषु गतिः, तथाऽपि वर्तमानवर्तिप्यमाणकाम्यक्षमार्थिनां स्वयं तदारम्भ एव न संभवतीति कथं तत्क्षमाप्रार्थनम् ? इत्थम्-अज्ञातयादृच्छिकसुकृतन्यायात् सुहृज्जनबुद्धया वा संभवत्सु नेदं चोद्यम् । स्वबुद्धिपूर्वमपि वर्तमानेषु काम्येषु मध्ये निर्विण्णानामपि प्रक्रान्तसमापनमन्तरा लब्धवृष्टेः कारीरीशेषसमापनन्यायेन स्यात् । तत्र पश्चिमांशस्याज्ञासिद्धत्वान्न काम्यत्वदोषः । पूर्वांशस्य तु क्षुद्रफलकामनामूलस्य तत्फलजनकत्वाभावेऽपि तादृशवासनाजनकत्वसंभवात् कर्मयोगस्येव * नेहाभिक्रमनाशोऽस्तीति न्यायेन केषांचित्कर्मणामसमाप्तानां कृतांशस्य विलम्बकारिसाधनान्तरपर्यवसितफलजनकत्वात् तरक्षान्तिः प्रार्थनीया । अत्र पूर्वापरांशयोरधिकारभेदेऽग्यासमाप्ते रैककाद्वर्तमानव्यपदेशोऽपि युक्तः । उत्तरकालेऽपि .. ॥
॥ १२४ श्रीमद्वेदान्तदेशिकग्रन्थमाला केनचिद्धेतुना निवेदविच्छेदात् नित्यत्वभ्रमात् स्वप्नदोषाद्वा काम्यं संभाव्यते । तस्यानुत्पन्नस्यापि क्षमावेक्षण शीघ्र स्वोचितप्रायश्चित्तप्रेरणार्थम् , सौभर्यादिन्यायेन क्रमेण वैराग्यजननार्थं वा । उक्तं हि प्रपन्नमधिकृत्यैव-* अथोपाय- प्रसक्तोऽपि भुक्त्वा भोगाननामयान् । अन्ते विरक्तिमासाद्य विशते वैष्णवं पदमिति ॥ ११ ॥ मदीयानादिकर्मप्रवाहप्रवृत्तां भगवत्स्वरूपतिरोधानकरी विपरीतज्ञानजननीं स्खविषया- याश्च भोग्यबुद्धेर्जननी देहेन्द्रियत्वेन भोग्यत्वेन सूक्ष्मरूपेण चावस्थितां दैवी गुणमयीं मायां दासभूत। शरणागतोऽसि तवास्मि दास इति वक्तारं मां तारय ॥ १२ ॥ एवं कर्मनिवृत्तिः प्रार्थिता । अथ कर्महेतुप्रकृतिसंबन्धनिवृत्तिः कर्मनिवृत्त्यैव भवन्त्यपि सवेश्वरबुद्धिविशेषाधीनेति ज्ञापयितुमभ्यर्थ्यते मदीयेति ॥ ईश्वरस्य वैषम्यनैघेण्यपरिहारार्थ मदीयेत्युक्तम् । अन्योन्याश्रयनिवारणाय बीजाकुर- न्यायमभिप्रेत्याह-अनादिकर्मप्रवाहप्रवृत्तामिति ॥ प्रकृतिस्वरूपस्य पुरुषवत् अनादित्वात् तत्प्रवृत्तिमात्रे कर्महेतुक- त्वमुक्तम् । तत्र च * गुणमायासमावृतः इत्यादिप्रसिद्धं प्रतिकूलप्रवृत्तित्रयं भगवत्स्वरूपेत्यादिभिराह-भगवत्स्वरू- पेति ॥ तिरोधानं नाम क्षेत्रज्ञानां भगवत्स्वरूपविषयज्ञानप्रसरनिरोधः । तथा चात्यन्ततिरोधानादसत्त्वबुद्धिं, सामान्यतो विदितेऽपि भगवति सर्वाश्रयत्वादिधर्मतिरोधानादवरत्वादिबुद्धिं, तदन्येषु स्वनिष्ठत्वादिबुद्धिं च करोतीत्याह-विपरीत- ज्ञानजननीमिति ॥ इदं च जीवस्वरूपतिरोधानतन्मूलदेहात्मभ्रमादेरुपलक्षणम् । एवं तत्त्वत्रयतिरोधानफलभूतं विपरीत- ज्ञानान्तरमाह-स्वविषयाया इति ॥ प्रकाशमानेषु वस्तुषु तिरोधानं नाम तत्तद्भेदकधर्मग्रहणनिवारणम् । इदमेव हि सर्वत्र भ्रान्तेनिंदानम् । उक्तस्या[प]कारत्रयस्य हेतुभूतमवस्थाचतुष्टयं देहेत्यादिभिरुच्यते । देहेन्द्रियत्वेन-भोगायतनतया भोगोपकरणतया च । भोग्यत्वेन-शब्दादिगुणविशिष्टभूतपञ्चकरूपत्वेन । सूक्ष्मरूपेण-देहादिपरिणामरहितांशेन । सेयं प्रकृतिरिदानी चतुर्भिरप्यशैरपकरोति । प्रलयदशायां तु सूक्ष्मरूपेणैव तिरोधानमात्रं करोतीति व्यवस्था *देहयोगाद्वा सोऽपीति सूत्रभाष्ये द्रष्टव्या। ईदृश्याः प्रकृतेः दुरत्ययत्वं स्वतन्त्रलीलाप्रवृत्ततयेति * दैवी ह्येषा गुणमयी इत्यादिना त्वयैव गीतमिति सूचयति-दैवीमिति ॥ तिरोधानादिहेतुभूतैरवस्थाचतुष्टयानुवृत्तेर्बन्धहेतुभिः सत्त्वादिगुणैः प्रचुरतामाह- गुणमयीमिति ॥ सत्त्वादिगुणसमुदाय एव प्रकृतिरिति सांख्यपक्षस्तु * गुणाः प्रकृतिसंभवाः, * प्रकृतेर्गुणसंमूढाः इत्यादिव्यधिकरणप्रयोगबलात् निरस्तः । कचित्तु सत्त्वरजस्तमःशब्दानां द्रव्यपर्यन्तः प्रयोगः * तद्गुणसारस्वात्तु तद्व्यपदेशः इति न्यायेन नेतव्यः । एवमनन्तैर्विभागापारैः परिणामैर्गुणैश्च प्रख्यातमाश्चर्यत्वं समाख्याविशेषेणाह-मायामिति ॥ मायां मां तारयेति द्विकर्मकतयाऽन्वयः । दासभूत इत्यादिभिर्मूलमन्त्रपदत्रयार्थः सूच्यते । * दासभूताः स्वतः सर्वे, * आत्मदास्यं हरेः स्वाम्यमित्यादिप्रसिद्ध स्वभावतो दासत्वं विप्रत्ययाभावेन व्यज्यते । द्वयेऽपि नारशब्दवाच्यानां जीवानां तात्पर्यवृत्त्या दासत्वं ग्राह्यम् । दूरं पलायितेऽपि मयि त्वत्संबन्धस्तावत् दुस्त्यजः । दास्यप्रतिबोधश्च मे संप्रति जात इति भावः । * शरणागतोऽस्मि तवास्मि दासः इति पूर्वोत्तरखण्डार्थनिष्ठत्वं समुच्चित्योक्तम् । स्वरूपभरलाभेषु तवैव नं ममेति यत् । प्रपन्नस्यानुसन्धानं सारं तदिह दर्शितम् ॥ असीति प्रार्थनाभिप्रायम् । दासोऽस्मि-दासवृत्तिपरः स्यामित्यर्थः । अन्यथा तु दासभूत इत्युक्तस्यैव पुनर्वचनमात्रं स्यात् । शरणागतोऽस्मि तवास्मि दासः इति निर्देशौ प्रार्थनात्मनिक्षेपपराविति केचित् । आतों वा दृप्तो
१२५
व्याख्यान विभागे गद्यत्रयभाष्यम्-शरणागतिगद्यम्
वा द्वयवक्ताऽहं तव दयनीय इत्यभिप्रायेणाह-इति वक्तारमिति ॥ यद्यप्यत्र फलप्रार्थनार्थ प्रपत्तिकर्तृत्वानुवाद एव
युक्तः, तथाऽपि तद्वचनकर्तृत्वानुवादः * भव शरणमितीरयन्तीत्याद्यभिप्रेतवचनप्राशस्त्यादिव्यञ्जनार्थः । मां-* स्वयं
मृत्पिण्डभूतस्येत्यादिप्रसिद्धस्वरक्षणासमर्थम् । त्रिगुणद्रव्यस्य नित्यतया नाशाभावात् तारयेत्युक्तम् । एतेन, * दुरत्यया
इत्युक्त स्वयत्नेन दुस्तरत्वं, * मामेव ये प्रपद्यन्ते इत्यादिनाऽभिप्रेतं पराधीनतरणं च गम्यते । एवं नमःशब्दे निव-
तनीयतयाऽभिप्रेतस्य पापस्य भ्रमस्य प्रकृतिसंबन्धस्य च मिथःकार्यत्वं कारणत्वं च यथायोगं द्रष्टव्यम् ॥ १२ ॥
* तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते । प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥
* उदारास्सर्व एवैते ज्ञानी त्वात्मैव मे मतम् । आस्थितः सहि युक्तात्मा मामेवानुत्तमां गतिम् ॥
* बहूनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यते । वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ।।
इति श्लोकत्रयोदितज्ञानिनं मां कुरुष्व ॥ १३ ॥
अथ निवेदमान्द्यादीषद्विलम्बक्षमाणामत्रत्यविशदज्ञानभक्त्योरपि कैङ्कयोपयोगितया चतुर्थ्यभिप्रेतफलकोटिघटित-
त्वात् स्वयंप्रयोजनं तदुभयं तेषामित्यादिना प्रार्थ्यते । * तत्पादभक्तिज्ञानाभ्यां फलमन्यत् कदाचन । न याचेत्
पुरुषो विष्णु याचनान्नश्यति ध्रुवम् ॥ इति तावन्मात्रप्रार्थना ह्यनुज्ञाता । अत्र परभक्तिवचनं तदनन्तरभाविपरज्ञानपरम-
भक्त्योरप्युपलक्षणम् । तच्च प्रतिवचनभागे व्यञ्जयिष्यते । ज्ञानी-* प्रकृतिं विद्धि मे परामित्यादिप्रतिपादितभगव-
च्छेषतैकरसात्मस्वरूपवित् भगवन्तमेव परमप्राप्यं मन्वानः । नित्ययुक्तः-ऐश्वर्याद्यर्थिनां स्वाभिलषितप्राप्तौ सिद्धायां
भगवता योगो निवर्तते, ज्ञानिनस्तु न तथेति भावः । एकभक्तिः-न तु प्रयोजनान्तरविभक्तभक्तिरित्यर्थः । एतदुभयं
ज्ञानी विशिष्यत इत्यस्य हेतुः । अत्यर्थम्-अत्यभिधेयम् ; सर्वज्ञेन सर्वशक्तिना मयाऽपि दुर्वचमिति भावः । * स च
मम प्रियः इत्यत्राप्यत्यर्थमित्येतदनुषज्यते । यद्वा स्वप्रीत्यपेक्षया स्वभक्तपीतेः प्रकर्षोक्त्या स्तुतिः । आत्मैव-
सर्वान्तरात्मनो ममाप्यन्तरात्मैव । नन्विदं प्रमाणविरुद्धमित्यत्राह-मे मतमिति ॥ प्रकृष्टप्रीतिविषयत्वेनातिवादान्न
विरोधः । तथाऽत्यादरहेतुमाह-आस्थित इति ॥ युक्तात्मा-मद्विरहस्यातिदुःसहतया मयि नित्ययोगप्रवृत्तमनाः ।
अनुत्तमां गतिम्-परमप्राप्यम् । जन्मनाम्-पुण्यजन्मनाम् । ज्ञानवान्-पूर्वोक्तज्ञानवान् । * वासुदेवः सर्वमिति
प्रपद्यत इत्यन्वयः । सर्वम्-प्राप्यप्रापकादि । * रामस्य व्यवसायज्ञः इत्यादिनिदर्शितज्ञानविशेषवत्त्वात् महात्मत्वोक्तिः ।
* महामनाः इति भाष्यम् । सुदुर्लभः-मत्तः प्रयोजनान्तरार्थिन आर्तादयोऽपि दुर्लभाः । अयं तु कर्मवश्यमध्ये
भक्तलाभार्थिना मया देशिकार्थिभिश्चान्यैः सुदुर्लभः, लब्धश्चेदयमलभ्यलाभ इति भावः । उक्तं हि श्रीपौष्करे
*दुर्लभा भगवद्योगभाविनो भुवि मानवाः । तद्दर्शनात्तालापात्सुलभं शाश्वतं पदम् ॥ इति । माम्-*अज्ञो जन्तुरनीशो-
ऽयमित्युक्तेषु मूर्धाभिषिक्तम् । श्लोकत्रयोदितज्ञानिनं कुरुष्व क्रियाफलं त्वद्नामीत्यात्मनेपदेन व्यज्यते । अव्यवहि-
तत्वादिह श्लोकत्रयेत्युक्तम् । परभक्तिश्लोकानां भिन्नप्रकरणस्थतया स्थानत्रयेत्युक्तम् । माम्-* या प्रीतिरविवेकानामि-
त्युक्तेषु बाह्यविषयसक्तेष्वग्रगण्यम् ॥ १३ ॥
* पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया, * भक्त्या त्वनन्यया शक्यः,
* मद्भक्तिं लभते पराम् इति स्थानत्रयोदितपरभक्तियुक्तं मां कुरुष्व ॥ १४ ॥
१२६ श्रीमद्वेदान्तदेशिकग्रन्थमाला परभक्तिपरज्ञानपरमभक्त्येकस्वभावं मां कुरुष्व ॥१५॥ परभक्तिपरज्ञानपरमभक्तिकृतपरिपूर्णानवरतनित्यविशदतमानन्यप्रयोजनानवधि- कातिशयप्रियभगवदनुभवोऽहं तथाविधभगवदनुभवजनितानवधिकातिशयप्रीति- कारिताशेषावस्थोचिताशेषशेषतैकरतिरूपनित्यकिङ्करो भवानि ॥ १६ ॥ अथ शरीरपातसमयभाविनो बुद्ध्याकारानभ्यर्थयते--परभक्तीति । अथवा मुक्तिदशाभाविनां परभक्त्यादीना- मिदमपेक्षणम् । एकस्वभावत्वोक्तिर्हि अत्रत्यपरभक्त्यादिव्यवछेदार्था । उक्तानामेव तत्रत्यपरभक्त्यादीनां सादरानुवादेन कैयपर्यन्ततां याचते-परेति । अत्र त्वदिति वक्तव्ये भगवच्छब्दः अनुभाव्यपौष्कल्यस्फुटीकरणार्थः । किंकरविशेषणे शेषतैकरतिरूपशब्दे शेषतैकरतिरेव रूपं निरूपकं यस्येति भाव्यम् । भवानीति प्रार्थना । त्वत्किङ्करभावात्पूर्वमसत्क- ल्पोऽहमिति च सूच्यते । एवं द्वयार्थो व्याख्यातः ॥ सर्वज्ञेऽपि स्वतो देवे याच्ञाविज्ञापनादिभिः । तत्तदिष्टप्रदित्सात्मा प्रीतिरेव प्रसाध्यते ॥ तदेव चोदनोपज्ञमपूर्व तत्त्ववेदिनाम् । आराध्येन्द्राद्यपायेऽपि फलदानाय तिष्ठति ॥ १४ ॥ १५ ॥ १६ ॥ एवंभृतमत्कैङ्कर्यप्राप्त्युपायतयाऽवक्लमसमस्तवस्तुविहीनोऽपि अनन्ततद्विरोधिपापाक्रान्तो- ऽपि, अनन्तमदपचारयुक्तोऽपि, अनन्तमदीयापचारयुक्तोऽपि, अनन्तासह्यापचारयुक्तोऽपि, एत- कार्यकारणभूतानादिविपरीताहकारविमूढात्मस्वभावोऽपि, एतदुभयकार्यकारणभूतानादिविपरीत- वासनासंबद्धोऽपि, एतदनुगुणप्रकृतिविशेषसंबद्धोऽपि, एतन्मूलाध्यात्मिकाधिभौतिकाधिदैविक- सुखदुःखतद्धेतुतदितरोपेक्षणीयविषयानुभवज्ञानसकोचरूपमञ्चरणारविन्दयुगलैकान्तिकात्यन्तिक - परभक्तिपरज्ञानपरमभक्तिविघ्नप्रतिहतोऽपि, येनकेनापि प्रकारेण द्वयवक्ता, त्वं केवलं मदीययैव दयया निश्शेषविनष्टसहेतुकमचरणारविन्दयुगलैकान्तिकात्यन्तिकपरभक्तिपरज्ञानपरमभक्तिविघ्नः, मत्प्रसादलब्धमञ्चरणारविन्दयुगलैकान्तिकात्यन्तिकपरभक्तिपरज्ञानपरमभक्तिः, मत्प्रसादादेव साक्षा- स्कृतयथावस्थितमत्स्वरूपरूपगुणविभूतिलीलोपकरणविस्तारः, अपरोक्षसिद्धमन्नियाम्यतामदास्यैक- स्वभावात्मस्वरूपः, मदेकानुभवः, महास्यैकप्रियः, परिपूर्णानवरतनित्यविशदतमानन्यप्रयोजनान- वधिकातिशयप्रियमदनुभवस्त्वं तथाविधमदनुभवजनितानवधिकातिशयप्रीतिकारिताशेषावस्थोचिता- शेषशेषतैकरतिरूपनित्यकिङ्करो भव ॥ १७ ॥ अथैवमभ्यर्थितस्य भगवतस्तदभ्यनुज्ञादिविषयैः प्रपत्तिजनितप्रसादपरिवाहैः प्रतिवचनैः प्रकृतौपयिकवक्ष्यमाणचरम- श्लोकार्थोऽपि प्रतिबोध्यते । तथाहि-अत्र प्रतिहतोऽपीत्यन्तेन अशक्तिपूर्त्या अनागतानन्तकालसमीक्षयाऽप्यदृष्टसन्तारो- पायतां प्रकाशयता * अनन्यशरणः इत्युक्तविस्तररूपेण प्रथमपादतात्पर्योक्तिः । येनकेनापीत्यादिना त्वमित्यन्तेन द्वितीय- पादोक्ताधिकारिकृत्यलाघवादिव्यञ्जनम् । केवलमित्यादिना तु * अहं त्वा इति वाक्याभिप्रेतानिष्टनिवृत्तिपूर्वकष्टप्राप्ति- प्रकाशनम् । एवंभूतोऽसीत्यादिभिः प्रपन्नविषयशोकापनोदनवाक्याभिप्रेतप्रपञ्चनमिति [विषय)विभागः । एवंभूतमत्कैहये- व्याख्यानविभागे गद्यत्रयभाष्यम्--शरणागतिगद्यम् १२७ त्यत्र एवंभूतेति कैयविशेषणम् । उपायतयेत्यत्र गद्यान्तरोक्तक्रमेण साक्षात् परम्परया वेति भाव्यम् । अवक्लप्तम्- मन्नित्येच्छानियमितमित्यर्थः, मदादेशात्मकैः शास्त्रैर्विहितमिति वा । समस्तवस्तुशब्देन प्रस्तुतप्रपत्तिव्यतिरिक्तास्तत्त्व- ज्ञानपूर्वकाः कर्मयोगादय उपासनपर्यन्ता निवृत्तिधर्माः, तदुपयुक्ताश्चामानित्वाद्यात्मगुणाः संगृह्यन्ते । एतेन परिशब्द- द्योतितसपरिकरत्यागव्यञ्जनम् । एवं पश्चादपि तदर्हता न संभवतीति नैराश्यरूपत्यागसिद्धयर्थमाह-अनन्ततद्विरो- धीति ॥ उपासनादिविरोधित्वात् प्रवृत्तिधर्मोऽप्यत्र पापशब्देन संगृहीतः । अनन्तमदपचारेत्यादिभिः पूर्ववत् विशेषा- पचाराभिभूतत्वस्य पृथगुक्तिः । एकैकवर्गस्य दुस्तरत्वद्योतनाय प्रत्येकमानन्त्यनिर्देशः । उक्तानां पापानां निदानं भक्ति- योगादिप्रतिबन्धे द्वारभूतम् * अहंकारविमूढात्मेत्यादिषु प्रसिद्धं पूर्व विपरीतज्ञानशब्दोपात्तेप्वन्यतममाह-एतत्कार्येति ॥ कार्यस्याप्यहंकारस्यानादित्वं बीजाकुरन्यायात्प्रवाहरूपेण भाव्यम् । * अथातोऽहंकारादेशः इत्याद्युक्तयथावस्थिताहंकारा- व्यवच्छेदार्थ विपरीतशब्दः ; अनहमथै अहंत्वाभिमानात् स्वातन्त्र्यारोपाच्च विपरीतत्वम् । विमूढत्वमिह तिरोहितत्वम् । नित्यं प्रकाशमानस्याप्यात्मनस्तिरोहितत्वमाधेयत्वविधेयत्वशेषत्वादिधर्माणामनवमासादिति ज्ञापनाय स्वभावशब्दः । पापस्याहंकारस्य च प्रवाहनिर्वाहकम् *अशेषतः इति पूर्वत्र संक्षिप्तं विशदमनुभाषते-एतदुभयेति ॥ वासनाया अपि प्रवाहरूपेणानादित्वम् । यथावस्थिततत्त्वहितपुरुषार्थव्यावृत्त्यर्थाऽत्र विपरीतत्वोक्तिः । पापस्य वासना पापान्तरारम्भ- रुचिजनकनिग्रहांशः ; अहंकारस्य वासना भूयोभूयस्तादृशभ्रमजनकबुद्धिसंस्कारः । * भगवत्स्वरूपतिरोधानकरीमित्या- द्युक्तमनुवदति-एतदनुगुणेति ॥ एतच्छब्देन पूर्वोक्तपापाहंकारवासनारूपत्रितयपरामर्शः । अत्रापि कार्यत्वं कारणत्वं च विवक्षितम् । सात्त्विकप्रकृतिव्यवच्छेदाय विशेषशब्दः । संबद्धः-दृढबद्ध इत्यर्थः । एतच्च मितगद्ये दुर्विवेचेति पदेन विवृतम् । प्रकृतिसंबन्धस्याभिमतप्रतिबन्धकत्वे द्वारं प्रपञ्चयति एतन्मूलेति ॥ दुःखस्य संसारोद्वेगजनकत्वमपि संभवति । सुखस्य तु संसाररुचिजनकत्वेन विघ्नत्वमधिकमित्यभिप्रायेण पूर्व सुखस्योक्तिः । दुःखवत् सुखमपि आध्यात्मिकादिभेदेन त्रिविधम् । आध्यात्मिकम्-आत्माश्रिताचित्समुदायप्रधानहेतुकम् । तादृशं दुःख द्विविधम्- शारीरं मानसं चेति । तत्र शारीरं * शिरो [यक्ष्मा] रोगः प्रतिश्यायः इत्यादिनोक्तम् ; मानसं * कामक्रोधभयद्वेष- त्यादिना । आधिभौतिकं तु * पशुपक्षिमनुष्याचैरित्यादिना । आधिदैविकं च * शीतोष्णवातवर्षाम्बुवैद्युतादिसमु- द्भवम् इति । अत्र दुःखशब्दस्य पूर्वकालीनदुःखविषयत्वात् उत्तरत्र दुःखविघ्नगन्धरहितत्वोक्तरुत्तरकालस्वास्थ्यपरत्वात् तितिक्षायां वा तात्पर्यादविरोधः । त्रिविधमप्येतत् प्रत्येकमवान्तरहेतुस्वरूपवैषम्यादनन्तप्रकारमिति सूचयितुं तद्धेतु- शब्दः । सुखदुःखहेतवश्च स्वरूपतो बुद्धिविषयतयाऽपि परभक्त्यादिविघ्नाः । तदितरेति उपेक्षणीयविशेषणम् । उपे- क्षणीयविषयश्च तृणादिः ; तदनुभवोऽपि अब्रह्मात्मकानुभवरूपत्वेन पूर्वोक्तविपरीतज्ञानविशेषतया स्वरूपतः संस्कारतश्च प्राप्तविषयानुभवविरोधी । ज्ञानसंकोचः-तोपदेशसहकृतैः शास्त्रैरपि परावरतत्त्वविषययथावस्थितज्ञानप्रसराभावः । मच्चरणारविन्दयुगलेति स्वयमुक्तिः न दोषाय, ईश्वरस्य यथाभूतार्थशंसिनः सर्वत्र स्वगुणाविष्क्रियादोषरहितत्वात् , तेनापि चरणयोः स्वाश्रितरक्षणसाधनतया संप्रीतिविषयत्येन स्तुत्यत्वोपपत्तेश्च । तथा चाहुः-* तस्य स्वात्मप्रदाने तु साधनं स्वपदद्वयमिति । अत्र परभक्त्यादिशब्दैः देहपातात्पूर्वभाविनः पश्चाद्भाविनश्वावस्थाविशेषाः संगृह्यन्ते । प्रतिहतोऽपी- त्यन्तेषु अपिशब्दैस्त्यागानुवादो द्योत्यते । धर्मान्तरनरपेक्ष्यविशिष्टविधानमपि द्वयवक्तेत्यनेन सूचितम् । न चैतावता प्रपत्तेस्तदविनाभूताजानां वा निवृत्तिः, * शरणमहं प्रपद्ये इति पूर्वोक्तानुवादत्वेन प्रपत्त्युपश्लिष्टस्यैव द्वयवचनस्यात्र विव-
१२८
श्रीमद्वेदान्तदेशिकग्रन्थमाला
क्षितत्वात् । येन केनापीत्यस्य तु * आतों वा यदि वा दृप्तः, * मित्रभावेन संप्राप्तम् , * विभीषणो वा सुग्रीव यदि वा
रावणः स्वयमित्याद्युक्ताधिकारिविशेषानियमे तात्पर्यम् । शरण्यस्य प्रपन्नेष्वादरातिशयादीदृशव्याजमात्रानुभाषणमिति
केचित् । एतेन जीवव्यापारनिरपेक्षमोक्षप्रदानादिपक्षाश्च निरस्ताः ।
इतः परं त्वत्प्रवृत्त्यन्तरमनपेक्षितमित्याह-केवलमिति ॥ मदीययैव-नान्यदीयया, न सहकार्यन्तरापेक्षयेति
भावः । दयाऽत्र प्रपत्त्युल्लसिता रक्षणेच्छा। प्रपत्तिजनितप्रसादवैशिष्टये सत्यपि सहजदयायाः प्राधान्यमिह सूचितम् ।
कर्मणां सुखदुःखजननशक्तिवत् तिरोधायकत्वादिशक्तिरपि निवृत्तेत्यभिप्रायेण निःशेषशब्दः । तेन अशेषत इत्युक्तस्या-
नूक्तिः । हेतुभूतपापादिसद्भावे पुनरपि विघ्न उत्पद्यतेति तत्परिहारार्थमुक्तम्-सहेतुकेति ॥ विघ्नाः पूर्वोक्ताः । एव-
मनिष्ठनिवृत्तिरुक्ता ; अथेष्टप्राप्तिं वदन् प्रथमं * तेषां ज्ञानी इत्यादिप्रार्थितज्ञानपूर्वकपरभक्त्यादिप्रदानमाह-मत्प्रसाद-
लब्धेति ॥ इह हि परभक्त्यादिवचनं तत्पूर्वभाविज्ञानविशेषस्याप्युपलक्षणम् । अत्र प्रसादशब्दः प्रपतिजनितप्रसाद-
निरस्तप्रतिबन्धनिरुपाधिकसौहार्दपरः । एवं * मत्प्रसादादेव इति वक्ष्यमाणेऽप्यवधारणेन सहकारिनरपेक्ष्यं द्योत्यते ।
मत्स्वरूपेत्यादिकमुत्तरखण्डस्थनारायणशब्दार्थः । विभूतिशब्दोऽत्र नित्यविभूतिविषयः । उपायदशायां शास्त्रविहित-
तत्तत्स्थानगुणादिपरिछिन्नस्वरूपाद्यनुभवाघ्यावृत्त्यर्थं यथावस्थितविस्तारशब्दौ; आरोपशङ्कानिवृत्त्यर्थं वा यथावस्थितशब्दः ।
हेत्वभावादत्र भ्रमाभावः । एवं सर्वविशिष्टपरमभोक्तव्यसाक्षात्कारे नारशब्दार्थस्वस्वरूपाविर्भावमपि स्वाधीनस्वार्थकर्तृत्व-
मोक्तत्वभ्रमनिवृत्तिपूर्वकतद्भोक्तत्वज्ञापनाय पृथगाह-अपरोक्षेति ॥ नियाम्यत्वोक्त्या अत्र व्याप्यत्वधार्यत्वे चाकृष्टे,
* अन्तः प्रविष्टः शास्ता, * एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः इति श्रुत्यनुसारात् । एतेन
* स स्वराडित्युक्तेऽपि मुक्त पारतन्त्र्यादेरनपायो दर्शितः । नियाम्यत्वं चिदचित्साधारणम् ; दासत्वं तु चेतनैकनिष्ठम् ;
तयोः प्रातिस्विकं प्रयोजनमाह-मदेकानुभवो मदास्यैकप्रिय इति ॥ ऐश्वर्यकैवल्यपुरुषार्थयोरिव स्वनिष्ठतया स्वतन्त्र-
तया च स्वात्मानुभवप्रसङ्गोऽपि तदा न संभवतीत्यभिप्रायेण मदेकानुभवशब्दः । स्वाम्यनुभवप्रधाने स्वानुभवे स्वप्राधान्य-
गन्धनिवृत्त्यर्थ महास्यैकप्रिय इत्युक्तम् । पूर्वोक्तमेवानुभवं परमपुरुषार्थत्वप्रतिबोधाय पूर्ववत् पौष्कल्यादिभिर्विशिनष्टि-
परिपूर्णेति ॥ तत्प्रयुक्तप्रीतिं तत्परिवाहं च * नित्यकिकरो भवानीत्यन्तेन प्रार्थितं प्रयच्छति-तथाविधेति ॥ १७ ॥
एवंभूतोऽसि ॥ १८ ॥
ईदृशस्वकैङ्कर्यसाम्राज्ययोग्यतामलभ्यलाभत्वव्यक्त्या संतोषार्थमुत्तरकृत्यविधानार्थ चानुवदति-एवंभूतोऽसीति ।।
प्रकृत्यात्मविवेकाद्धार्मिकः, परावरतत्त्वविवेकाद्भागवतः, परावरपुरुषार्थविवेकादनन्यप्रयोजनः, स्वपराधिकारविवेकादनन्य-
साधनः, पूर्वोक्तात् * अस्तु ते इत्यनुग्रहविशेषात्प्रमितानुष्ठितभरन्यासः, ततश्च मया स्वीकृतभरः, * नित्यकिङ्करो भवेति
दत्तवरश्च त्वं मुक्तप्रायोऽसीत्यर्थः । आख्यातेन * सन्तमेनमित्यवस्था व्यज्यते । यद्वा नित्यकिङ्करो भवेति सत्यसंकल्पे-
नोक्ते तेन वा स्वेन वा प्रत्याख्यातुमशक्यत्वे निवारकान्तराभावे च तदानीमेव तथाविधात्मानमपश्यतः क्रमात्तत्सिद्धि-
माह-एवमिति ॥ एवं भवितुमुपक्रान्तोऽसीत्यर्थः ॥ १८ ॥
आध्यत्मिकाधिभौतिकाधिदैविकदुःखविनगन्धरहितस्त्वं द्वयमर्थानुसन्धानेन
सह सदैवं वक्ता यावच्छरीरपातमत्रैव श्रीरङ्गे सुखमास्स्व ॥ १९ ॥
व्याख्यानविभागे गद्यत्रयभाष्यम्-शरणागतिगद्यम् १२९ भयावहायां देहेन्द्रियादिविशिष्टदशायां कथं कुत्र च निरपायः कालक्षेप इत्यत्राह-आध्यात्मिकेति ॥ अत्र- त्योत्कटसुखस्याप्युपलक्षणार्थमिह दुःखोक्तिः । श्लोकत्रयायुक्तज्ञानभक्तिशालिनं प्रति प्रातिकूल्याविशेषाद्वा दुःखशब्देन सुखस्यापि संग्रहः । गन्धशब्देन वा तद्विवक्षा । तेन सर्वसाधारणः क्षुदादिर्वाऽभिप्रेतः । दुःखस्य द्वयार्थानुसन्धान प्रति विघ्नत्वं स्यात् , अतस्तद्राहित्योक्तिः । इह च पूर्णविवेकानामाभिमानिकं दुःख सुख च नास्ति । सांस्पर्शिकानां तु प्रारब्धकर्मवशात्संभवतामपि प्रतिदिनं कर्मक्षयमोक्षासक्तिदर्शनप्रीत्या द्वयार्थानुसंधानविनत्वं नातीवास्ति । अतो न प्रत्यक्षादिविरोधः । त्वम्-अत्रित्य]नन्यज्ञानभक्त्यादिप्रार्थनावान् । उच्चारणं प्राधान्येन स्तोतुमर्थानुसन्धाने सहशब्दः । एबमर्थानुसंधानेनेत्यन्वयः । एवम्-* अखिलहेयमित्याद्युक्तविशदप्रकारेणेत्यर्थः । एतच्चात्र कृतकृत्यत्वप्रतिसंधानप्रीत्य- र्थम् , अस्य च स्वयंप्रयोजनकैङ्कयरूपत्वात् । *यन्मुहूर्तमित्यादिन्यायेन भगवदनुभवप्रीत्यनुवृत्त्यर्थ, संभवद्वन्द्वतितिक्षार्थ, निर्भरत्वानुसन्धानरसानुवृत्त्यर्थ, निषिद्धकाम्यादिसङ्गनिवृत्त्यर्थं च सदेत्युक्तिः । इदं तु स्वभावार्थशास्त्रप्राप्ताविरोधेन नेयम् , अन्यथा सर्वप्रमाणविरोधात् । * तस्य तावदेव चिरं यावन्न विमोक्ष्ये *प्रारब्धमात्रं भुक्त्वात्र तत्त्ववित्सुखमाप्नु- यात् । * प्रारब्धमेव भोक्तव्यं कर्म ब्रह्मविदामपि । * अनारब्धकार्ये एव तु पूर्वं तदवधेः इति दर्शितः प्रक्रान्त- कर्मफलभोगोऽपि प्रपन्नस्य यथाभिलाषं प्रपत्त्युत्पत्तिशरीरावधिरित्यभिप्रायेणाह-यावच्छरीरपातमिति ॥ आतितारतम्याद- वत्यस्थितितारतम्यम् । अत्रैव-अत्यन्तासन्नमत्सेवानुगुणे, नतु मकैकर्यविरुद्धदेशेष्वित्यर्थः । अत्रानेकपुराणादिप्रसिद्ध- श्रीरङ्गोपादानं भागवताभिमतस्वयंव्यक्तादिभगवत्क्षेत्रान्तराणामप्युपलक्षणम् । सुखमास्स्व-कृतकृत्यत्वप्रतिसन्धानेन प्रति- दिनं कर्मक्षयदर्शनेन अविलम्बितानायासपरमपुरुषार्थलाभव्यवसायेन विषमधुकल्पवैषयिकरसवमुख्यहेतुभूतद्वयार्थानुसन्धान- सारस्येन च संतुष्टो वर्तस्वेत्यर्थः । स चायमत्रत्यसेवासौकर्यार्थ उपदेशः; सुखी भवेतिवदनुग्रहोक्तिर्वा । एवमर्थानु- संधानद्वयवचनसुखासिकाभिर्मनोवाक्कायानामयोग्यव्यापारनिवृत्तिरपि स्यात् ।। १९ ।। शरीरपातसमये तु केवलं मदीययैव दयया अतिप्रबुद्धो मामेवावलोकयन् , अप्रच्युतपूर्व- संस्कारमनोरथः, जीर्णमिव वस्त्रं सुखेनेमां प्रकृति स्थूलसूक्ष्मरूपां विसृज्य, तदानीमेव मत्प्रसाद- लब्धमच्चरणारविन्दयुगलैकान्तिकात्यन्तिकपरभक्तिपरज्ञानपरमभक्तिकृतपरिपूर्णानवरतनित्यविशद- तमानन्यप्रयोजनानवधिकातिशयप्रियमदनुभवजनितानवधिकातिशयग्रीतिकारिताशेपावस्थोचिताशेष- शेषतैकरतिरूपनित्यकिङ्करो भविष्यसि ॥ २० ॥ भवत्वेवं कृतकृत्यस्योत्तरकृत्यं फलम् । देहपातदशा कीदृशी? परमफलं च कदा? इत्याकापायां प्रारब्धशरीरानु- वर्तकप्रतिबन्धनिवृत्तौ दयार्णवस्य दिव्यशक्तेः स्वस्य पूर्वकृतरक्षासंकल्पानुगुणमन्यैरनिवार्यमुत्तरकृत्यमाह-शरीरपातसमय इति ॥ *वाङ्मनसीत्यादिश्रुतिसिद्धाया मनःसंपत्तेः पूर्वावस्थायामित्यर्थः । एतेन निशि नेतिचेदित्याद्युक्तः कालनियमा- भावश्च सूचितः, * ततस्तं म्रियमाणं तु इतिवत् । अत्र तुशब्दोऽधिकार्यन्तराद्विशेषमनुग्रहकार्य द्योतयति ; यद्वा काष्ठ- पाषाणसंनिभतया स्वेन वा परैर्वा तदानीं प्रवोधस्य दुःसंपादत्वम् । एवं तुशब्दद्योतितमेव विशेष व्यक्ति केवलमित्या- दिना ॥ केवलं-पूर्वाभ्यासानपेक्षम् , * यं योगिनः इत्याद्युक्ततादात्विकस्वयत्ननिरपेक्षं च । मदीययैव-मत्स्वभाव- भूतयैव, नान्यदीयया, नापि पूर्वोक्तक्षेत्रवासद्वयार्थानुसंधानजन्यया, नच तादात्विकप्रार्थनासापेक्षयेत्यर्थः । अतिप्रबुद्धः- शरीरपातात्पूर्वकाल इव ज्ञानपौष्कल्यवान् । यद्वा न केवलं संकोचाभावमात्रम् , किंतु प्रत्यूषप्रकाशकल्पपूर्वावस्थातोऽति- .. . C-17 १३० श्रीमद्वेदान्तदेशिकग्रन्थमाला शयोऽपि स्यादित्यर्थः । अपरिच्छन्नस्तु प्रबोधो विशिष्टदेशगत्यनन्तरभावी । अन्तिमदशायामादिभरतादिवदन्यदर्शनं तव न स्यादित्याह-मामेवावलोकयन्निति ॥ नित्यमनुचिन्तितं मामेव शुभाश्रयविग्रहविशिष्टं विशदमनुसंदधान इत्यर्थः । अविच्छिन्नसाक्षात्कारं कुर्वन्निति वा, तदानीमवलोकनीयं सर्वं भगवदपृथक्सिद्धतयैव भातीति वा अवधारणस्याभिप्रायः । एवं ज्ञानदर्शने प्रोक्ते ; अथ वक्ष्यमाणायाः प्राप्तेः पुरुषार्थत्वाय तदिच्छानुवृत्तिमाह-अप्रच्युतेति ॥ भगवानेव मे परमप्राप्य इति शास्त्रजन्यानुभवसंस्कारस्य कालविप्रकर्ष कायविश्लेषक्लेशादिभिः प्रच्युतिन भविष्यति ; तत एव संस्कारमूल: प्राप्तिमनोरथोऽपि तदानीं भवतस्त्य[I]ज्यमानेषु देहतदनुवन्धिषु रागाद्वा, किं भविष्यतीति भयाद्वा न प्रच्यवत इति भावः । * अतिप्रबुद्धः इत्यादिभिः परभक्त्यादित्रयं वा, परमात्मनि विश्रमादनन्तरभाविप्रबोधादिकं वा विवक्षित- मिति केचित् । लब्धनूतनशुभवस्त्रान्तरस्य जीर्णवस्त्र इव अत्यासन्नदिव्यदेहलाभस्य चिरपरिचितेऽपि भोगायतने जिहासोत्पत्तिम- नायासहानप्रीतिं च निदर्शयति-जीर्णमिव वस्त्रमिति ॥ * कृतकृत्याः प्रतीक्षन्ते * नोपजनं स्मरन्निदं शरीरमित्यादि- भिरभिप्रेतं लब्धपरित्यागक्लेशाभावम् , यमकिंकरादिभयाभावम् , चिकित्सकशल्यप्रयोगन्यायशङ्कितोत्क्रमणदुःखाभावम् , अत्यासन्नपरमपुरुषार्थानुसन्धानहार्दानुग्रहतादात्विकभगवदनुभवातिवाहिकदर्शनजनितहर्षप्रकर्ष च अभिप्रेत्याह-सुखे- नेति ॥ इमाम्-अनाद्यनुवृत्तां भगवत्स्वरूपतिरोधानादिभिरपकारिणी कारागृहनरकादिवदनुसंहितां दुरत्ययां मदन्यैः त्याजयितुमशक्यां चेति भावः । प्रकृतिम्-सततविकारशीलं त्रिगुणद्रव्यम् । उत्क्रान्तिपादे च अचिरादिपादे चोक्तं सर्वमभिप्रेत्याह-स्थूलसूक्ष्मरूपां विसृज्येति ॥ स्थूलप्रकृतित्यागोऽत्रैव ; सूक्ष्मप्रकृतित्यागस्तु * त्रिभावभावनातीतो मुक्तये योगिनां नृप । देवयानं परः पन्था योगिनां क्लेशसंक्षयः ॥ इत्याद्युक्तदेवपथेन दिव्यदेशगमनदशायामेव भवति * एष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य *स एवं विद्वानस्माच्छरीरभेदादूर्ध्वमुत्क्रम्यामुष्मिन् स्वर्ग लोके सर्वान् कामानाप्त्वा अमृतः संभवतीत्यादिषु ब्रह्मप्राप्तिपर्यन्ताभिधानात् तिरोधायकसूक्ष्मप्रकृतिविश्लेषोऽप्यभिप्रेतः । सुबालोपनिषदि तु-*अपुनर्भवाय नाड्या कोशं भिनत्ति, कोशं भित्त्वा शीर्षकपालं भिनत्ति, शीर्षकपालं भित्त्वा पृथिवीं भिनत्तीत्यारभ्य * अक्षरं भित्त्वा मृत्यु भिनत्तीत्यन्तेन स्थूलशरीरत्यागपूर्वकतम:पर्यन्तसर्वतत्त्वातिक्रम उक्तः । तदेवं क्रमेण सूक्ष्मप्रकृतिविमोक्षानन्तरं स्वस्यैव प्रसादेन अविलम्बितमनोरथपूर्तिमाह-तदानीमेवेति ॥ अपेक्षणीयान्तराभावात् न विलम्ब इति भावः । प्रसाद इह तिरोधायकांशपर्यन्तस्य निग्रहरूपकालुप्यस्य निःशेषनिवृत्त्या सूरिष्विव स्वभावत एवावस्थितं सौहार्दम् ; तच्चात्र निर्दुःखनित्यनिरतिशयानन्दमनुभवत्वसावितीच्छैव ॥ २० ॥ मा ते भूदत्र संशयः ॥ २१ ॥ अत्र तावदस्ति क्षुद्रफलेप्वप्युपायगौरवम् ; मोक्षे तु * अनेकजन्मसंसिद्धः * क्लेशेन महता सिद्धैः * क्षप- यित्वाऽधिकारान् स्वान् शश्वत्कालेन भूयसेत्यादिभिः कृच्छ्रसाध्यतयोक्ते विधिशिवसनकाद्यैर्ध्यातुमत्यन्तदूरे गुरूपायसाध्ये न्यासमात्रनिष्ठस्य मादृशस्य निर्यनलब्धिवचनमुपच्छन्दनमिति केषांचिच्छङ्का जायेत, अतस्तान् विस्रम्भयितुं भाष्यकार- मपदिश्याह-मा ते भूदत्र संशय इति ॥ ननृपायलाघवप्राप्यगौरवादिनिमित्तशङ्काविधूननेन महाविश्वासपूर्वकं शरण- मुपगतस्य संशयप्रसङ्गाभावादत्र तत्प्रतिषेधो निरर्थकः ? मैवम् ; तादात्विकमहाविश्वासेनोपाये निष्पन्नेऽपि तस्य फला- विनाभावेऽपि केषांचित्प्रारब्धकर्मविपाकवैचित्र्यात् संशयोऽपि संभवति ; न च तेनोपायवैकल्यम् , फलप्रतिबन्धो वा । . % 3B व्याख्यानविभागे गद्यत्रयभाष्यम्-शरणागतिगद्यम् १३१ मतिकालुप्यनिवृत्तिस्तु अत्रत्यपरभक्तयादिवत् स्वयं पुरुषार्थः ; अतः प्रसन्नेन भगवता संशयनिवर्तनमुपपद्यत इति । यद्वा, यावत्फललामं विमर्शदशायामक्षोभणीयो विश्वासो महाविश्वासः ; स च तात्कालिक उपायाङ्गम् ; पश्चात्तु मदभिप्राय मद्वाक्यं च परामृशता मदनुग्रहादेव संशयो न भवत्येवेति ज्ञापनार्थमिह * मा ते भूदित्यादि * निःसंशयः इत्यन्त- मुच्यते इति । ते-निश्चितशास्त्रार्थस्य सर्वसुहृदि सर्वशक्तौ च मयि न्यस्तभरस्य च । अत्र-मत्प्रयोजनप्रधानायां मन्नित्य- .. किंकरत्वप्राप्तौ ॥ २१॥ . * अनृतं नोक्तपूर्व मे न च वक्ष्ये कदाचन, * रामो द्विाभिभापते, * सकदेव प्रपन्नाय तवासीति च याचते । अभयं सर्वभूतेभ्यो ददाम्येतद्रुतं मम ॥ * सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ इति मयैव युक्तम् ॥ २२ ॥ यद्येतदुपच्छन्दनं तदा मे स्ववचनविरोधः-स्यादित्यभिप्रायेणाह-अनृतं नोक्तपूर्व मे इति ॥ इयमनृतानुक्ति- राश्रितविषया, आसुरेषु प्रतारणदर्शनात् । अनुक्तपूर्वमप्यनृतं पश्चात् स्वातन्त्र्यादुच्यतेत्यत्राह-न च वक्ष्ये कदा- चनेति ॥ इतः पूर्वमिवेति भावः । इदमपि त्वद्वाक्यतया पूर्ववदाशकनीयमित्यत्र * सत्यवादी च राघवः इति प्रसिद्ध लोकोक्तिच्छायया स्वयमेवाह-रामो द्विर्नाभिभापत इति ॥ स्वोक्तविरुद्धं नाभिभाषत इत्यर्थः । मम सकृ- दुक्त्यैवार्थिनामपेक्षितार्थः सिध्येदिति वा तात्पर्यम् । एवं सामान्यतः प्रत्यायितस्य प्रकृतपर्यवसानाय रावणानुजपरिग्रहे पार्थोपदेशपर्यवसाने च विशेपत उक्तं श्लोकद्वयमाह-सकदेवेति, सर्वधर्मानिति च ॥ वेदवैदिकवाक्यमात्रातिशायि- नोरनयोः शरण्यवाक्ययोरर्थं तदधिकारयोरभिधास्यामः । इदं मोक्षप्रदानोत्सुकेन मयैवोक्तम् ; न तु मदादेशभूतदुरधि- गमार्थवेदमुखेन वा संभवक्रमादिदोषपुरुषान्तरमुखेन वेत्याह-मयैव युक्तमिति ॥ हिः प्रसिद्धौ, हेतौ वा ॥ २२ ॥ अतस्त्वं तव तत्त्वतो मज्ज्ञानदर्शनप्राप्तिषु निस्संशयः सुखमास्स्व ॥ २३ ॥ अन्त्यकाले स्मृतिर्या तु तव कैकर्यकारिता । तामेनां भगवन्नद्य क्रियमाणां कुरुष्व मे ॥ २४ ॥ ॥ इति श्रीभगवद्रामानुजविरचिते गद्यत्रये शरणागतिगद्याख्यं पृथुगद्यम् ॥ उक्तमेव स्थिरीकरणाथ संतोषातिशयार्थं च निगमयति-अत इति ॥ अतः सत्यवादिना सत्यव्रतेन मयो- तत्य वाक्यस्य विश्वसनीयतमत्वात् । त्वम् प्रामाणिकः । तव-* ये प्रपन्ना महात्मानस्ते मे नयनसंपदः इति मत्प्रशंसनीयस्य मत्स्वीकृतभरस्य च । तत्वतः-संशयविपर्ययराहित्येन । मज्ज्ञानदर्शनप्राप्तिषु, यथायोगमत्र परत्र चापेक्षितास्विति शेषः । * निःसंशयेषु सर्वेषु नित्यं वसति वै हरिः । ससंशयान् हेतुबलान्नाध्यावसति माधवः ।। इत्यादिप्रमाणसूचनायाह-नि:संशय इति ॥ सिद्धस्यैव ज्ञानस्य अनुवृत्तौ संशय इह निवार्यते । अनेनैव निर्भरत्वादि- कमप्याकृष्यते । सुखमास्स्व * आध्यात्मिकेत्यादिना पूर्व मयोक्तमेव तवोचितमिति भावः । * यावच्छरीरपात- मिति पूर्वोक्तस्यानुक्तेरयमभिप्रायः-मत्प्राप्तेः प्रारब्धकर्मप्रतिनियतायुरवसाननिर्बन्धो नास्ति ; यावदत्रत्यमदनुभवापेक्षा ताव- दत्र सुखमास्स्व ; परिपूर्णानुभवालाभादिह सुखासिकायामप्युद्वेगे सति आयु:शेषशृङ्खलामप्यपोह्य आत्यन्तिकमत्कैकर्याय मत्पदं गमिष्यसि इति । एतेनानादिकालमाज्ञातिलङ्घनमूलभगवदप्रसादेन संसरतो मे भगवत्कृपामूलसदाचार्याङ्गीकारेण द्वयोच्चारणानुच्चारणपूर्वकस्वरक्षाभरन्यासे सिद्धे, प्रसादनेष्वस्मादभ्यधिकस्याभावात् स्वीकृतभरः श्रियःपतिर्नारायणः काल- ..
१३२ श्रीमद्वेदान्तदेशिकग्रन्थमाला त्रयवर्तिनः सर्वानप्रसादहेतून् यथार्ह क्षान्त्वा, स्वयमेव स्वार्थमेव मां स्वज्ञानदर्शनप्राप्त्यादिप्रदानेन रक्षेदिति विश्वस्तो निर्भरो निर्भयः संतुष्टो भवे दि]ति निगमितं भवति ॥ २३ ॥ २४ ॥ इति शारणागतिगद्य यतीशरङ्गेशसंलपनरूपम् । व्यवृणुत देशिकदृष्ट्या विमृश्य निश्चित्य वेङ्कटेशकविः ॥ वितमसि निगमान्ते बिभ्रता देशिकत्वं कृतिभिरनुमतेन क्षेमबुद्ध्या मयैवम् । यतिपतिपृथुगद्यव्याक्रियायां यथावत्कथितमकथितं च क्षम्यतां नः सयूथ्यैः ।। ॥ इति रहस्यरक्षायां पृथुगद्याधिकार: प्रथमः ॥ . ॥ श्रीरङ्गगद्यम् ॥ चिदचित्परतत्त्वानां तत्त्वयाथात्म्यवेदिने । रामानुजाय मुनये नमो मम गरीयसे ॥ स्वाधीनत्रिविधचेतनाचेतनस्वरूपस्थितिप्रवृत्तिभेदम् , क्लेशकर्माद्यशेषदोपासंस्पृष्टम् , स्वाभा- विकानवधिकातिशयज्ञानवलैश्वर्यवीर्यशक्तितेजःसौशील्यवात्सल्यमार्दवार्जवसौहार्दसाम्यकारुण्यमा- धुर्यगाम्भीर्योदार्यचातुर्यस्थैर्यधैर्यशौर्यपराक्रमसत्यकामसत्यसङ्कल्पकृतित्वकृतज्ञताद्यसंख्येयकल्याण- गुणगणोधमहार्णवम् , परब्रह्मभूतम् , पुरुषोत्तमम् , श्रीरङ्गशायिनम् , अस्मत्स्वामिनम् , प्रबुद्ध- नित्यनियाम्यनित्यदास्यैकरसात्मस्वभावोऽहं तदेकानुभवस्तदेकप्रियः परिपूर्ण भगवन्तं विशद- तमानुभवेन निरन्तरमनुभूय, तदनुभवजनितानवधिकातिशयप्रीतिकारिताशेषावस्थोचिताशेषशेषतै- करतिरूपनित्यकिङ्करो भवानि ॥ १ ॥ ॥ रहस्यरक्षायां मितगद्याधिकारः ।। श्रीमल्लक्ष्मणमुनिना शिप्यहितैकाग्रचेतसा कथितम् । मितगद्यम[मृ]मितसारं व्यक्तं व्याख्याति वेङ्कटेशकविः ॥ अत्र द्वयार्थानुसंधानरसिकेन भगवता भाष्यकारेण बृहद्द्ये व्याख्यातमपि द्वयम् , बहुधा श्रोतव्यमिति मन्य- मानेभ्यः शिष्येभ्यः पुनरप्याकिंचन्यादिप्रपञ्चनपूर्वकस्वानुष्ठानप्रकाशनप्रक्रिययैव संक्षेपेण व्याक्रियते । तथा हि-अत्रादिमं वाक्यमुत्तरखण्डस्य विवरणम् ; द्वितीयं पूर्वखण्डस्य । तेनैवाधिकारविशेषः कार्पण्यरूपमङ्गं च प्रदर्शितम् । तृतीयं तु महाविश्वासाद्यङ्गान्तरज्ञापकम् । अनन्तरं श्लोकद्वयानुपठनेन पूर्वोक्त एवार्थः प्रमाणतः प्रतिष्ठाप्यते । ततः परेण वाक्येन पूर्णप्रपत्त्यकुशले जनेऽपि तत्पूरणानुगुणप्रपत्तिवाक्योच्चारणवैभवं ख्याप्यते । तत्सिद्धयर्थं पश्चाच्चतुर्दशभिः संवुद्धिभिर्नारा- यणशब्दोक्ताः शरण्याकारविशेषाः प्रकाश्यन्ते । * नमोऽस्तु ते इत्यनेन तु प्रकृतोपाये प्राधानभूतो भरन्यासांशः, फलप्रार्थनं वा निगद्यत इति विभागः ॥ (स्वाधीनेत्यादि ।) इह च प्रथमं सविभूतिकस्य भगवतः परमप्राप्यत्वादिसिद्धयर्थ चतुर्थ्यन्तपदप्रदर्शितं सर्वे- श्वरत्वादिकमाह-स्वाधीनेति ॥ स्वशब्देन मुक्तप्राप्यस्य कैकयोद्देश्यस्य सर्वेश्वरस्य श्रुत्यादिप्रसिद्ध निरतिशयानन्दत्वादिकं । .. व्याख्यानविभागे गद्यत्रयभाष्यम्-श्रीरङ्गगद्यम् १३३ सूच्यते । स्वाधीनशब्देन भगवत्स्वरूपाधीनत्वं तदिच्छाधीनत्वं च विवक्षितम् । सर्वस्य साक्षात्परम्परया वा तदा[श्रय]- श्रिततया तत्स्वरूपाधीनत्वन् । तत्र नित्यानां पदार्थानां तदिच्छाधीनस्वरूपत्वं तदभावे तेषामभावः प्रसजेदिति प्रसङ्ग- मुखेन स्थाप्यम् । तदभिप्रायेण ह्याहुः-*इच्छात एव तव विश्वपदार्थसत्ता नित्यं प्रियास्तव तु केचन ते हि नित्याः । नित्यं त्वदेकपरतन्त्रनिजस्वरूपा भावत्कमङ्गलगुणा हि निदर्शनं नः ॥ इति । अभाषि च शारीरकान्ते-* परमपुरुषभोगो- पकरणस्य लीलोपकरणस्य च नित्यतया शास्त्रावगतस्य परमपुरुषस्य नित्येष्टत्वादेव तथाऽवस्थानमस्तीति शास्त्रादवगम्यते इति । अनित्यानां तु तदिच्छाधीनस्वरूपत्वं तदायत्तोत्पत्तिकतया हि प्रसिद्धम् । गुरुद्रव्याणां पतनप्रतिबन्धेन धार्यत्व- मपि तदिच्छाधीनत्वविशेष एव । चेतनशब्द इह जीवविषयः; बद्धमुक्तनित्यरूपेण जीवानां त्रैविध्यम् । अचेतन- शब्दश्चात्र अचिव्यपरः । त्रिगुणकालशुद्धसत्त्वरूपेण अचेतनत्रैविध्यम् । द्रव्याणां तदधीनत्वोक्त्या तत्तद्धर्माणां तादधीन्यं कैमुत्यसिद्धमिति तदनुक्तिः : अचेतनद्रव्यस्यापि धर्मभूतज्ञानस्य चेतनग्रहणे विशेषणतयोपात्तत्वादत्र पृथगनु- पादानम् । चेतनमात्रे वा त्रैविध्यान्वयः । चेतनाचेतनानां स्वरूपं स्वासाधारणस्वभावनिरूप्यं धर्मि, तस्य भेदः तत्तद्वयक्तितो वर्गतश्च परस्परव्यावृत्तिरूपो धर्मः । स्थितिः-कालान्तरेऽपि विद्यमानता ; सा च द्रव्याणां स्वरूपेण सर्वकालानुवृत्तिरूपा । तेषां तत्तदवस्थाविशिष्टवेषेण तु कालपरिच्छिन्ना कालतारतम्यवती चेति तद्भेदः । प्रवृत्तिः- व्यापारः । निवृत्तिरप्यकरणसंकल्परूपा प्रवृत्तिविशेषः । एतद्भेदस्तत्तत्कार्यादिभिर्द्रष्टव्यः । अत्र स्वेच्छाधीनसर्वत्वोक्त्या स्वार्थसर्वोपादान]तृत्वसूचनात् सर्वशेषित्वमपि सिध्यति । तदाहुः-* उपादत्ते सत्तास्थितिनियमनायैश्चिदचितौ स्वमुद्दिश्य श्रीमानिति वदति वागौपनिषदी । इति । एवं भगवतः सर्वाधारत्वादिव्यञ्जनात् तदन्येषां चेतनाचेतनद्रव्याणां तं प्रत्याधेयत्वविधेयत्वशेषत्वनियमेन तदपृथक्सिद्धविशेषणतया तच्छरीरत्वं श्रुतिसिद्धं मुख्यमेव स्थापितं भवति । अत्र च कारणवाक्यार्थः, धर्मधर्मिभेदः, चिदचिढ़ेदः, जीवेश्वरभेदः, जीवानामन्योन्यभेदः, तेषां ज्ञातृत्वम् , तत एव कर्तृत्वभोक्तृत्वे, ज्ञातृत्वादेः सर्वथा पराधीनत्वम् , परस्य च विभूतिद्वयवत्त्वं सार्वत्रिकत्रैकालिकसर्वनियन्तृत्वं त्रिविध- परिच्छेदराहित्यम् , कालपरमव्योम्नोस्त्रिगुणविकारातिरिक्तत्त्वम् , प्राज्ञानधिष्ठितप्रकृतिकारणत्वनिरासादिकं च शारीरक- स्थापितमर्थसिद्धम् ॥ अथ भगवत उक्ताकारान्तर्गतसर्वकारणत्वसर्वनियन्तृत्वादिभिः शङ्कितान् दोषान् परिहरति-क्लेशकर्मेति ॥ अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः । पुण्यापुण्यरूपं कर्म । आदिशब्देन * क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः इत्यादिप्रसिद्धविपाकादिसंग्रहः । जात्यायुभोंगादयो विपाकाः । पूर्वानुभवभाविता आफलोदयं शयानाः संस्कारा आशयाः। कतिपयदोषरहितव्यावृत्त्यर्थमशेषशब्दः । असंस्पृष्टशब्देन स्वभावतोऽनहतया कदाचिदपि दोष- स्पर्शो नास्तीति विवक्षितम् । एवं पदद्वयेन * परः पराणां सकला न यत्र क्लेशादयः सन्ति परावरेशे इत्यस्यार्थ उक्तः ।। (स्वाभाविकेत्यादि ।) अथ * तेजोबलैश्चर्यमित्यादिभिरुक्तान् निरूपितस्वरूपविशेषकधर्मानाह-स्वाभावि- केति । स्वाभाविकत्वमिह नित्यत्वम् , अनन्याधीनत्वं च । तेन नित्यानां मुक्तानां च ज्ञानादिभ्य एतज्ज्ञानादेर्व्यव- च्छेदः । तद्बलादिभ्यो व्यवच्छेदस्तु अनवधिकातिशयत्वादपि । स्वापेक्षाया उत्कृष्टावधिरहितोऽतिशयो येषां ते अन- वधिकातिशयाः । ज्ञानमिह सर्वविषयनित्यसाक्षात्काररूपम् । बलम् अनाघातश्रमप्रसङ्गं सर्वधारकत्वम् । ऐश्वर्य सर्व- नियन्तृत्वम् । वोर्य सर्वोपादानत्वादावपि अविकृतस्वभावत्वम् । शक्तिः विश्वोपादानताहत्वम् , स्वेतरसर्वदुर्घटनशक्तिर्वा ।
. ३ श्रीमद्वेदान्तदेशिकग्रन्थमाला , । , तेजः अस्वाधीनसहकारिनिरपेक्षत्वम् , पराभिभवनसामर्थ्य वा । अत्र व्यूहव्यक्त्यादिक्रमेण ज्ञानबलादिद्वन्द्वत्रिक- निर्देशः । षाड्गुण्यस्य प्रथममुपादानम् अन्येषां गुणानां तदन्तर्भावेन तत्प्राधान्यात् परत्वज्ञापकत्वात् आश्रितानाश्रित- गोचरव्यापारभेदसाधारण्याच्च । अथ पाइगुण्यविततिरूपाः सौलभ्यज्ञापकाः संश्रितसंग्रहणादौ विशेषत उपयुक्ता गुणा उच्यन्ते । अत्र सौशील्यं महतो मन्दैः सह नीरन्ध्रसंश्लेषरसिकता । वात्सल्यम् आश्रितेषु दोषतिरस्कारिणी प्रीतिः । मार्दवम् अकठिनस्वभावतया सुप्रवेशत्वम् , दण्डनीयेष्वपि सामप्रधानत्वं वा। आर्जवं कायवाम्बुद्धिव्यापाराणां परस्परमवि- संवादित्वम् । सोहार्द स्वतः सर्वहितैषित्वम् । साम्यं सर्वैरप्याश्रयणीयत्वे समत्वम् , स्वतोऽपक्षपातित्वं वा । कारुण्यं स्वप्रयोजनान्तरानुद्देशेन परदुःखनिराचिकीर्षा । माधुर्यम् उपायदशायामपि रञ्जकत्वेन रसावहत्वम् , द्विषतां जिघांसिता- नामपि दृष्टिचित्तापहारित्वं वा । गाम्भीर्य भक्तानुग्रहादेरगाधत्वम् , आश्रितदोषदर्शनादेः सतोऽपि गोपनेन दुर्घहत्वं वा । औदार्य पात्रलाघवदेयगौरवप्रत्युपकाराद्यनादरेण वितरणशीलत्वम् । चातुर्य शुभाश्रयप्रकाशनाद्ययत्नोपायैर्विमुख- वशीकरणविस्रम्भजननसंश्रितदोषाच्छादनविरुद्धानुकूलीकरणादिपु कुशलत्वम् । स्थैर्य शरणागतसंग्रहे दोपप्रदर्शकैः सुहृ- द्विरप्यकम्पनीयत्वम् । धैर्यम् अभिमतवियोगप्रसङ्गेऽप्यभग्नप्रतिज्ञत्वम् । व्यत्ययेन वा स्थैर्यधैर्ययोर्व्याख्यानम् । प्रबल- प्रतिपक्षोपनिपातेऽपि सावज्ञदृढचित्तत्वं वा धैर्यम् । शार्य तु भीमेष्वपि परसैन्येषु असहायस्यापि स्वसैन्येष्विव निर्भय- प्रवेशसामर्थ्यम् ; तत्र प्रविष्टस्य परनिराकरणपर्यन्नो व्यापारः पराक्रमः । सत्यकामसत्यसंकल्पशब्दौ इह भावप्रधानौ, कर्मधारयवृत्तौ वा ; सत्यकामत्यं नित्यभोग्यवत्त्वम् ; सत्यसंकल्पत्वं स्वावतारपर्यन्तापूर्वभोग्यसृष्ट्यादावमोघसंकल्पत्वम् । कृतित्वं परोपकारकत्वम् , आश्रितरक्षणेन कृतकृत्यत्वं वा, * न मे पार्थास्ति कर्तव्यमित्याद्यक्तं विहितकर्तव्यनिरपेक्षत्वं वा, धर्मसंस्थापकानुष्ठानवत्त्वं वा, परेषां स्वहितप्रवृत्तेः पूर्वमेव कर्तुमुपक्रान्तपरहितत्वं वा, स्वेन कृतं सर्वं प्रति स्वस्यैव शेषित्वं वा । कृतज्ञता सकृदञ्जलिक रपि अनुबन्धिपर्यन्तसंरक्षणाय तत्कृतानुदर्शनम्', अवसरे संश्रितापेक्षितकरणाय स्वकृतप्रत्याख्यानानुदर्शित्वं वा; * शिरसा याचतस्तस्य वचनं न कृतं मयेनि ह्याह । आदिशब्देन तत्र तत्र प्रसिद्धा आनृशंस्यादयो गृह्यन्ते । * यथा रत्नानि जलधेरसंख्येयानि पुत्रक इत्यादिस्मारणाय असङ्ख्येयत्वोक्तिः । अत्र दोषा- संस्पृष्टत्वं कल्याणगुणयुक्तत्वं च बदता निर्गुणश्रुतेः पशुच्छागात्सर्गापवादनयाभ्यां दोषरूपविशेषनिषेधपरत्वं सूच्यते ॥ (परब्रह्मेत्यादि ।) उक्तं सर्वस्मात्परत्वं स्वसाम्यप्रदानपर्यन्तं सौलम्यं च * नारायणः परं ब्रह्म, * परं ब्रह्म परं धामेत्यादिश्रुतिस्मृतिसिद्धप्रकारेण स्थिरीकरोति-परब्रह्मेति ॥ यद्यपि * ब्रह्म परिवृढं सर्वतः इति निरुक्तकारवचनात् ब्रह्मशब्द एव परत्वं वदन्नाम च भवति, तथाऽप्यौपचारिकप्रयोगव्यवच्छेदाय परशब्दः । अत्र बृहति बृंहयतीति निरु- क्तिभ्यां व्यापित्वकारणत्वादिसिद्धया शङ्कितात् दोषान् परिहतुं भेदश्रुत्याद्यर्थगर्भया भगवद्गीतानिरुक्तया समाख्यया विशिनष्टि-पुरुषोत्तममिति ।। अनेन ब्रमशब्दार्थतया कुदृष्टिविकल्पितप्रकारान्तराणि, तामसतन्त्राद्युक्तव्यक्त्यन्तराणि च व्यवच्छिद्यन्ते । अस्य च पञ्चम्यादिविभक्तित्रयेऽपि समासः संभवति । एवं सर्वाधिकत्वेन अस्मदादिभिर्दुरधिगमः स्यादिति शङ्कां परिहरन् , द्वाभ्यां विशेषणाभ्यां सौलभ्यकाष्टां व्यनक्ति-श्रीरङ्गशायिनम् अस्मत्स्वामिनमिति ॥ स्वरूपाद्विग्रहस्य सुखानुसंधेयतया सौलभ्यमधिकम् ; तस्मादप्यर्चावतारस्य भक्ताभिमतसर्वदेशकालसंनिधायितया परव्यूहा- दिभ्योऽधिकतमम् । तदा काष्ठाप्राप्तं परत्वमपि तत्र भक्तोपलभ्यं शास्त्रादवसेयम् ; यथोक्तम्-* सर्वातिशायि षाड्- गुण्यं संस्थितं मन्त्रबिम्बयोरिति । अत्र मनुष्याणामपि कैकयोद्देश्यतया अवस्थितस्य निर्भयसेवादियोग्यत्वम् अस्मत्स्वामि- , व्याख्यानविभागे गद्यत्रयभाष्यमू-श्रीरङ्गगद्यम् १३५ ॥ । । शब्दाभिप्रेतम् । यथाऽऽहुः-*अर्यः सर्वसहिष्णुरचकपराधीनाखिलात्मस्थितिः इति । यद्वा स्वाचार्यसंतानसेवितत्वेन प्रीत्यतिशयहेतुत्वमभिप्रेत्यात्रास्मत्स्वामिशब्दः । प्राचीनरामानुज इव अहमप्यस्य शीलादिगुणैर्दास्यमुपागत इति च भावः ॥ एवं कैकर्यप्रतिसंबन्धितया अनुभाव्यं निर्धारितम् । अथात्माभिमानानुगुणपुरुषार्थव्यवस्थासिद्धयर्थमनुभवितुः किंकरस्य स्वात्मनः स्वरूपाविर्भावदशामाह-प्रबुद्धेति ॥ प्रबुद्धं प्रकर्षणावगतम् , स्वाधीनस्वार्थकर्तृत्वभोक्तृत्वभ्रमविरहेण सम्यग्दृष्टमित्यर्थः । नियाम्यत्वदासत्वे * स स्वराड्भवति इत्याम्नातायां मुक्तिदशायामप्यनुवृत्ते इति ज्ञापनाय द्वयोरपि नित्यत्वोक्तिः । निरपेक्षस्वातन्त्र्यनिरुपाधिकशेपित्वप्रसङ्गपरिहाराय एकरसशब्दः । अत्रात्मशब्दः स्वविषयः । स्वभावशब्दो यावदात्मभाव्याकारमाह । ईदृशात्मस्वरूपमपि * व्यतिरेकस्तद्भावभावित्वादिति नयेन परमप्राप्यविशेषणतया फलकोटि- निविष्टमनुसंधेयमिति व्यञ्जयितुम् अधिकोऽहंशब्दः । नित्यनियाम्यत्वप्रबोधकाष्ठामाह-तदेकानुभव इति ॥ तस्मिन्नेक- स्मिन्नेव प्रधानतया अनुभवो यस्य स तथोक्तः । आविर्भूतस्वरूपस्य हि भगवदपृथक्सिद्धविशेषणतया तत्प्रधानतयैव स्वानुभवम् * अविभागेन दृष्टवादित्यसूत्रयत् । नित्यदास्यैकरसत्याविर्भावस्य फलमाह-तदेकप्रिय इति ॥ स एव प्रधानतया नित्यं प्रियो यस्य स तदेकप्रियः । न हि तद्दास्यैकरसस्यास्य * रसो वै सः इत्यायुक्तस्वाभाविकनिरवधि- कातिशयरसस्वरूपात्तस्मादन्यत्तदानी प्रधानतयाऽऽस्वाद्य भवति ॥ तदेवमनुभाव्यानुभवितारातुक्तौ । अथावत्यानुभवाड्यावृत्तमनुभवप्रकारमाह-परिपूर्णमिति ॥ अनन्तगुणविभूति- विशिष्टस्वरूपे अननुभूतांशरहितमित्यर्थः । भगवन्तं पराशरादिनिरुक्तप्रकारेणाभयलिङ्गम् । तस्मिन् सामान्यतः सर्वा- कारविषयपरोक्षज्ञानात् परिमिताकारविषयप्रत्यक्षज्ञानाच्च व्यावृत्यर्थमाह-विशदतमानुभवेनेति ॥ तत्राप्यपरिच्छिन्न- विषयसान्तरप्रत्यक्षाव्यवच्छिनत्ति-निरन्तरमिति ॥ अनुभवेन अनुभूप-अनुभवेन विषयोकृत्येत्यर्थः । तदनुभवेत्यनेन पूर्वोक्तभगवदनुभवानुवादः ; यहा, तच्छब्देन भगवदनुभवः परामृश्यते ; तस्यानुभवोऽपि स्वयंप्रकाशस्य तस्यैव स्वरूपम् ; ईदृशोऽयमनुभूयते मयेत्यनुकूलतमभगवदनुभवस्वरूपोल्लेखांशेन जनिता प्रीतिरिहोच्यते । तस्या अनवधिकातिशयत्वेन ऐश्वर्याद्यनुभवजनितप्रीतर्व्यवच्छेदः । ईश्वरेच्छाधीनेऽपि कैथे स्वप्रीतिकारितत्वोक्तिः नियोगनैरपेक्ष्य प्रीतेः प्रेरकत्वाति- शयं च व्यनक्ति । कारितशब्द इह शेषतायां वा, तदेकरतौ वा, शेषवृत्ति प्रति प्रयोज्यकर्तरि किंकरे वा अन्वेतव्यः । अशेषावस्थाशब्देन सेव्यस्य भगवतः परत्वव्यूहत्वादयः, सेवकस्य च मुक्तस्य सदेहत्वविदेहत्वादिरूपा अवस्थाः सर्वा विवक्षिताः । शेषताऽत्र शेषवृत्तिः । अभिमतसर्वशेषवृत्तिषु अप्रतिघातमभिप्रेत्य अशेपशब्दः ; स्वामिप्रीत्यर्थत्वाविशेषण परस्परैकरस्यात्वरकृताऽपि शेषवृत्तिः स्वकृतेव भवतीति भावः । ईश्वरस्य मुक्तस्य च स्वच्छन्दानेकदेहपरिग्रहेण वा अनन्तगरुडादिवृत्तिसजातीयकैयसिद्धिः । आत्मा आत्मीयं वा सर्वमशेषशब्देनोच्यते; तदा तस्य शेषता शेषभाव एव । एवंविधायामशेषशेषतायामेव रतिः प्रीतिरिच्छा वा रूपं निरूपकधर्मो यस्य सः अशेषशेषतैकरतिरूपः । नित्य- किंकरो भवानि-उत्तरावधिरहितकैर्यसाम्राज्यवान् भवेयमिति भावः ॥ १ ॥ स्वात्मनित्यनियाम्यनित्यदास्यैकरसात्मस्वभावानुसन्धानपूर्वकभगवदनवधिकातिशयस्वा- म्याद्यखिलगुणगणानुभवजनितानवधिकातिशयप्रीतिकारिताशेषावस्थोचिताशेषशेषतैकरतिरूपनित्य- कैङ्कर्यप्राप्त्युपायभूतभक्तितदुपायसम्यग्ज्ञानतदुपायसमीचीनक्रियातदनुगुणसाचिकतास्तिक्यादि । .. , .
श्रीमदेदान्तदेशिकग्रन्थमाला समस्तात्मगुणविहीनः, दुरुत्तरानन्ततद्विपर्ययज्ञानक्रियानुगुणानादिपापवासनामहार्णवान्तनिर्मग्रः, तिलतैलवत् दारुवह्निवत् दुर्विवेचत्रिगुणक्षणक्षरणस्वभावाचेतनप्रकृतिव्याप्तिरूपदुरत्ययभगवन्माया- तिरोहितस्वप्रकाशः, अनाद्यविद्यासञ्चितानन्ताशक्यविषेसनकर्मपाशप्रग्रथितः, अनागतानन्तकाल- समीक्षयाऽप्यदृष्टसन्तारोपायः, निखिलजन्तुजातशरण्य, श्रीमन्नारायण, तव चरणारविन्दयुगलं शरणमहं प्रपद्ये ॥२॥ एवं न्यासोपासनसाधारणाधिकारसिद्धयै प्रथम फलपर उत्तरखण्डो विवृतः । अथोपायपरं पूर्वखण्डं विवृण्वन् , तत्रोत्तमपुरुषविवक्षितमाकिंचन्यरूपं प्रपत्तेर्विशेषाधिकार कार्पण्यरूपमङ्गं च व्यनक्ति-स्वात्मनित्यनियाम्येति ॥ स्वात्म- शब्दोऽनुसंधातृस्वरूपपरः । अत्र शेषशेषितत्कैकर्यचिन्तनरसेन तदनुवृत्तिवाञ्छया च पूर्वोक्तस्यैव परमपुरुषार्थस्य विस्तरेणानुवादः । नियाम्यशब्दोऽत्र भावप्रधानः । अनवधिकातिशयस्वाम्यम् अनवच्छिन्नसर्वविषयस्वामित्वम् । आदि- शब्देन तथाविधनियन्तृत्वादिसंग्रहः । ऐश्वर्यादिफलान्तरात् कादाचित्कभगवत्कैङ्कर्याच्च व्यावृत्त्यर्थ नित्यकैर्यशब्दौ । उपायभूतेति विप्रत्ययरहितप्रयोगेण मोक्षप्रदत्वं भगवद्भक्तेः स्वभावप्राप्तमिति व्यज्यते । भक्तिशब्द इह वेदान्तोदित. सपरिकरभक्तियोगपरः । ज्ञानक्रियाशब्दाभ्यां ज्ञानकर्मयोगी विवक्षितौ ; तयोः सम्यक्त्वं यथावस्थितसकलाङ्गोपसंहार- वत्त्वम् । ज्ञानयोगमन्तरेणापि कर्मयोगेनैवात्मावलोकनपूर्वकभक्तियोगाधिकारारोहणस्य भगवद्गीताभाष्यप्रपञ्चितस्याधिकारि- विशेषनियततया तदनादरेणात्र स्वारसिकक्रमनिर्देशः । सात्त्विकता * नित्यसत्त्वस्थाः इत्युक्तसत्त्वनिष्ठता ; तस्याः फलम् आस्तिक्यादिगुणजातम् , अवस्थाभेदेन तस्या हेतुश्च । * अमानित्वमदम्भित्वम् , * दया सर्वेषु भूतेष्वित्याद्युक्तात्मगुणा- न्तरसंग्रहाय समस्तशब्दः । प्रपत्त्यपेक्षितज्ञानविश्वासादेस्त्विह न प्रतिषेधः ।। (दुरुत्तरेत्यादि ।) एवमुपायान्तरतदुपायपरंपराहानिरुक्ता । अथ पूर्व पश्चाच्चोपायप्रतिबन्धकापायपरंपरान्वय- माह-दुरुत्तरेति ॥ दुरुत्तरत्त्वं भगवत्संकल्पमन्तरेण सनकादिभिरपि लवयितुमशक्यत्वम् । तच्छब्देन पूर्वोक्तसम्य- ज्ञानादिपरामर्शः । विपर्ययशब्दोऽत्र विपरीतपरः; स च ज्ञानादिषु त्रिप्वन्वीयते । त्रयाणां हेतुः पापवासना । बीजाङ्कुरन्यायसूचनाय अनादिशब्दः । पापानां वासना सजातीयपापान्तरारम्भरुचिहेतुभूतः स्वभावविशेषः । षडूमि- संकुलत्वादिविवक्षया महार्णवत्वरूपणम् । एवंविधस्य पापस्यात्मतिरोधायकत्वप्रकारमाह-तिलतैलवदिति ॥ दृष्टान्तद्वयेन दारुण्यग्निर्यथा तैलं तिले तद्वत्पुमानपि । प्रधानेऽवस्थितो व्यापी इति वचनं स्मार्यते । अल्पश्रुतैः पृथक् ज्ञातुम् , अयोगिभिः पृथक् द्रष्टुम् , अनीश्वरैः पृथकर्तुं चाशक्यतया दुर्विवेचत्वोक्तिः । चतुर्दशाध्यायोक्तगुणत्रयबन्धकत्वप्रकार- ज्ञापनाय त्रिगुणशब्दः । अनुकूलपरिणतेः क्षणमपि व्यवस्थापयितुमशक्यत्वमभिप्रेत्याह-क्षणक्षरणस्वभावेति ॥ * अचेतना परार्था च नित्या सततविक्रिया । त्रिगुणा कर्मिणां क्षेत्रं प्रकृते रूपमुच्यते ।। व्याप्तिरूपेण संबन्धस्तस्याश्च पुरुषस्य च । स ह्यनादिरनन्तश्च परमार्थेन निश्चितः ॥ इति परमसंहितोक्तम् अचेतनप्रकृतिव्याप्तिशब्दैदर्शितम् । प्रकृतौ व्याप्तिरनुप्रवेशः; प्रकृतेर्व्याप्तिः सर्वतः संबन्धः । अत्र तस्या इव तत्संबन्धस्यापि विचित्रसृष्टयुपयोगित्वाविशेषा- न्मायात्वोक्तिः । दुरत्ययभगवन्मायेत्यनेन * मम माया दुरत्यया इति पदत्रयसूचनम् । यद्यप्यात्मस्वरूपं नित्य- तथाऽपि तस्य भगवच्छेषत्वादिविशिष्टाकारगोचरधर्मभूतज्ञाननिरोधमभिप्रेत्य तिरोहितस्वप्रकाश इत्युक्तम् । स्वस्वरूप- तिरोस्वप्रकाशम् , धानवचनेन * भगवत्स्वरूपतिरोधानकरीमित्याद्युक्तमप्युपलक्ष्यते ।। .
व्याख्यानविभागे गद्यत्रयभाष्यम्-श्रीरङ्गगद्यम् १३७ . %3D (अनाद्यविद्येत्यादि ।) प्रकृतेस्तिरोधायकत्वं कमोपाधिकम् । कर्म च भोगैस्तत्तत्प्रतिपदोक्तप्रायश्चित्तैर्वा निः- शेषयितुमशक्यमित्यभिप्रायेणाह-अनाद्यविद्येति ॥ अत्र अविद्याशब्देन अज्ञानं देहात्मभ्रमादिक्कं च गृह्यते; तस्याश्च कर्महेतुत्वं रागद्वेषद्वारा। * यद्ब्रह्मकल्पेत्याद्यक्तप्रक्रियया अनाद्यविद्यासंचितत्वेनानन्त्यात् प्रत्येकं प्राबल्याञ्च भगवद्व्यति- रिक्तैरशक्यविस्रसनत्वम् । * पशवः पाशिताः पूर्वं परमेण स्वलीलया। तेनैव मोचनीयास्ते नान्यैर्मोचयितुं क्षमाः ॥ इत्याद्युक्तसूचनाय कर्मणः पाशत्वरूपणम् । प्रग्रथितः दृढं निबद्धः ; * नामुक्तं क्षीयते कर्म इति हि स्मयते । उक्त- प्रतिबन्धकभूयस्त्वात् * त्वत्पादकमलादन्यदित्याद्युक्तप्रकारेण कालान्तरेऽप्युपायान्तरसंभावनां प्राङ्न्यायेन प्रतिषेधति- अनागतेति ॥ वक्ष्यमाणश्रीमत्त्वनारायणत्वाभ्यां फलितम् * सर्वस्य शरणं सुहृत् , * देवानां दानवानां च, *सर्वलोक- शरण्याय, * विभीषणो वा सुग्रीव यदि वा रावणः स्वयमित्यादिप्रसिद्ध स्वसंग्रहोपयुक्तं स्वभावमाह-निखिलजन्तु- जातशरण्येति ॥ हिरण्यगर्भादीनामपि संग्रहाय निखिलशब्दः; तेऽपि हि कर्माधीनजन्मभागितया जन्तवः । *पशु- मनुष्यः पक्षो वा ये च वैष्णवसंश्रयाः । तेनैव ते प्रयास्यन्ति तद्विष्णोः परमं पदम् ॥ * एतन्निष्ठस्य मर्त्यस्य मुक्तिहस्त- स्थिता सदा । तत्संबधिन एवापि मुक्तिमेष्यन्ति वै ध्रुवमित्याद्यर्थमभिप्रेत्य जातशब्दः । स चात्र गुणप्रधानतया अन्वितव्रातपरः । पूर्वखण्डपदक्रमानुसारेण श्रीमदित्यादीनि पदानि । श्रीमच्छब्देन * लक्ष्म्या सह हृषीकेशः इत्या- द्युक्तं सूच्यते । सर्वशरण्यत्वोपयिकसंबन्धगुणविशेषादिप्रदर्शनाय नारायणशब्दः । कृपोत्तम्भकत्वातिशयादौचित्याच्च चरणग्रहणम् । उपायदशायामपि भोग्यत्वसूचनाय अरविन्दत्वरूपणम् । शरणशब्द इहोपायपरः । उत्तमपुरुषविवक्षिता- धिकारिविशेषव्यञ्जनाय अहंशब्दः; अधिकारविरहादुपायान्तरेषु निराशः, प्रत्यवायभयादिदानीमपायेभ्य उपरतः, शरण्यगुणविवेकादतिशङ्कानिर्मुक्तः, संसारे दोषदर्शनात्परित्यक्तप्रयोजनान्तरतदुपायः, परमपुरुषार्थसङ्गात्प्रार्थनान्वितभर- न्यासोद्यतश्चेति भावः । शरणं प्रपद्ये उपायतया आश्रयामि । अकिंचनोऽनन्यगतिरहं श्रीमति नारायणे स्वात्मरक्षाभरं निक्षिपामीत्युक्तं भवति । अत्र सविशेषणनारायणशब्देन विरोधिभूयस्त्वप्राप्यगौरवोपायलाघवादिमूलशङ्कानिरासहेतवः शरण्याकारा विवक्षिताः ॥ २॥ एवमवस्थितस्याप्यर्थित्वमात्रेण परमकारुणिको भगवान् स्वानुभवप्रीत्योपनीतैकान्तिकात्यन्तिक- नित्यकैङ्ककरतिरूपनित्यदास्यं दास्यतीति विश्वासपूर्वकं भगवन्तं नित्यकिङ्करतां प्रार्थये ॥२॥ अथ तत्फलितं सोपसर्गधातूक्तम् * रक्षिष्यतीति विश्वासादभीष्टोपायकल्पनम् । गोप्तृत्ववरणं नाम स्वाभिप्राय- निवेदनमिति विभज्य निर्दिष्टमङ्गद्वयम् * प्रार्थनामात्रसंतुष्टो जन्तोर्यच्छति वाञ्छितम् । इति निश्चित्य भगवत्प्रार्थना शरणागतिः ॥ इत्युक्तप्रकारविशेषोपलक्षितप्रकारि वैशिष्ट्याभिप्रायेणाह-एवमिति ॥ एवमवस्थितस्येत्यनेन अधिकार- वैगुण्यं विरोधिभूयस्त्वं च पूर्ववाक्योक्तमेव शरण्यगुणप्रकर्षव्यञ्जनायानूदितम् । अर्थित्वमात्रेणेति उपायलाघवोक्तिः ; अहृदयप्रार्थनावाक्यमात्रमपि * नेहाभिक्रमनाशोऽस्ति इति न्यायात् अन्ततः कार्यकरमिति भावः । अथ वा, अत्र सकृत्कर्तव्यभरन्यासलक्षणतया सद्यः स्वाभीष्टसिद्धिः । स्वानुभवप्रीत्येत्यादिना प्राप्यगौरवप्रकाशनम् । उक्तैहेतुभिः संभवन्तीं शङ्कामपाकर्तुं परमकारुणिको भगवानिति सुलभत्वपरत्वसूचकपदद्वयोक्तिः ; ईदृशस्य हि सर्वविरोधिनिवर्तनार्हता। समर्थस्य निर्दयत्वे दयालोश्चासमर्थत्वे शरण्यत्वं न स्यादिति तत्सिद्धयर्थमुभयोक्तिः । स्वानुभवेत्यत्र स्वशब्दः परमात्म- विषयः । ऐकान्तिकत्वम् अनन्यविषयत्वम् । आत्यन्तिकत्वमिह फलान्तरोपाधिकनिवृत्तिरहितत्वम् , अत एव पश्चाद्याव- C---18 १३८ श्रीमद्वेदान्तदेशिकग्रन्थमाला ॥ , कालमनुवर्तमानत्वं वा । दास्यकिंकरताशब्दाविह वृत्तिपरौ । रतिशब्देन विश्वासस्य महत्त्वरूपप्रकारोऽभिप्रेतः । प्रार्थना- शब्दस्य इच्छामात्रेऽपि प्रयोगसंभवात् तव्यावृत्यर्थम् * तदेकोपायता याच्नेत्युक्तयाचनरूपत्वं व्यञ्जयितुं द्विकर्मक- प्रयोगः । सर्वस्य प्रार्थितप्रदानसामर्थ्यम् , कैङ्कर्थप्रतिसंबन्धिनस्तस्योभयलिङ्गत्वं च ज्ञापयितुम्-भगवन्तमित्युक्तम् । अस्मिन् वाक्ये प्रातिकूल्यवर्जनस्य च आनुकूल्यसंकल्पस्य चार्थसिद्धत्वमवगन्तव्यम् ।। तवानुभूतिसंभूतप्रीतिकारितदासताम् । देहि मे कृपया नाथ न जाने गतिमन्यथा ॥४॥ उक्तप्रकारसाध्यसाधनरूपमर्थद्वयं व्याख्येयक्रमेण सुखप्रतिपयर्थमैतिहासिकश्लोकद्वयेन स्ववाक्यायमानेन संक्षि- प्याह-तवेति ॥ यद्यपि प्रथमश्लोकेऽपि पूर्वा धै फलमुपादीयते, तथाऽप्यसौ देहीत्युक्तप्रार्थनाप्राधान्यादुपायपरः । अत्र दासताशब्देन दासवृत्तिर्विवक्षिता, दासभावमात्रस्य च नित्यसिद्धत्वेन साध्यत्यायोगात् । मे अनन्यप्रयोजनस्य अनन्योपायस्य च । कृपया नाथेति पदाभ्यां गुणविशेषसंबन्धविशेषविशिष्टस्योपायभाव इति व्यज्यते ; नाथशब्दो हि नाथ्यत इति व्युत्पत्त्या रक्षणार्थ प्रार्थनीये स्वामिनि रूढः । न जाने गतिमन्यथा उक्त प्रकारात्पपत्तिमात्रवशीकार्यात् त्वत्तोऽन्यथाभूतं मदर्हमुपायं सर्वशास्त्रपरामशेऽपि न पश्यामि, देवतान्तराणां साक्षान्मोक्षप्रदत्वाभावात् मोक्षोपायतया चोदितस्य त्वदुपासनस्य मया दुःसाधत्वादिति भावः । यद्वा अन्यथेत्यनेन त्वय्यदातरीति विवक्षितम् ।। सर्वावस्थोचिताशेषशेषतैकरतिस्तव । भवेयं पुण्डरीकाक्ष त्वमेवं कुरुष्व माम् ॥ ५ ॥ एयं प्रार्थिते कैर्यरूपे पुरुषार्थे प्रीतिशब्दोक्तं हेत्वंशं विशिषन् , स्वाभीष्टप्रदाने स्वप्रयत्नान्तरनरपेक्ष्यं चापे- क्षते-सर्वेति ॥ सर्वावस्थाशब्दशेषताशब्दौ पूर्वोक्तार्थो । तत्तद्दशायां स्वाम्यभिमतप्रकार उचितशब्दः । * जायमानं हि पुरुषम् , *कृपामयमपाङ्गं ते सकृन्मयि निपातय इत्याद्युक्तेन सत्त्वोन्मेवहेतुना कटाक्षविशेषेण मामेवं कुरुष्वेत्यभिप्राये- णोक्तम्-पुण्डरीकाक्षेति ॥ यद्वा * पुण्डरीकं परं धाम इत्यादिनिरुक्तेनानेन नाम्ना परमपदवासिनः परिचरण प्रार्थ्यत इति सूच्यते । त्वदितराशक्येऽस्मिन्नथें त्वयि च निरपेक्षोपाये किमीदृशभरन्यासरूपव्याजातिरिक्तमत्प्रयत्नेनेत्यभिप्राये- णाह-त्वमेवेति ॥ त्वं सर्वज्ञः सर्वशक्तिः परमकारुणिकः । माम् आकिंचन्यानन्यगतित्वार्थित्वशालिनम् । जितोर्धा- त्वोरिह देहि कुरुष्वेति परस्मैपदात्मनेपदाभ्यां स्वस्य भगवतश्च यथार्ह क्रियाफलान्वयः सूच्यते ॥ एवंभूततत्त्वयाथात्म्यावबोधतदिच्छारहितस्याप्येतदुच्चारणमात्रावलम्बने- नोच्यमानार्थपरमार्थनिष्ठ मनस्त्वमेवाद्यैव कारय ॥ ६ ॥ नन्विह शरण्यशरणागतितत्फलविशेषनिर्धारणपूर्विका फलकामना हि अधिकारिविशेषणम् , न पुनस्तद्वत इव तथाविधतद्वचनमात्रमित्यत्र * अनिच्छन्नप्येवम् इति श्लोकोक्तप्रकारेण सप्रश्रयं प्रतिवक्ति-एवंभूतेति ॥ तदिच्छेति इच्छाविषयत्वेन परामृश्यमानार्थत्वात् तत्त्वशब्द इह पुरुषार्थपरः, पुरुषार्थविशेषनिष्कर्षाय जीवात्मपरमात्मतत्त्वपरो वा । अवबोधेच्छा वा तदिच्छेत्युच्यते ; तदा पुरुषार्थेच्छाविरहः कैमुत्यासिध्यति । श्रियःपतेस्तव प्रसादादद्य साधिकारोऽस्मि, निरधिकारत्वेऽपि लब्धव्याजेन त्वया शेषपूरणं कार्यमिति द्योतयितुम् अपिशब्दः । एवमधिकार- वैकल्यमङ्गवैकल्यमङ्गिवैकल्यं चान्वारुह्योक्तम्-उच्चारणमात्रेति । वैषम्यदोषप्रसङ्गपरिहारहेतुस्तव सिद्ध इत्यभिप्रायेण अवलम्बनशब्दः । उच्यमानार्थः उपायोपेयरूपः । एतच्छब्दोऽप्यत्र तद्विषयः । अन्यतरविषयत्वेऽपि तदितर- व्याख्यानविभागे गद्यत्रयभाष्यम्-श्रीरङ्गगद्यम् १३९ । स्यार्थात्सिद्धिः । परमार्थनिष्ठत्वम् अज्ञानसंशयविपर्ययरहितव्यवसायानुवृत्तिमत्त्वम् । मे-* सकृदुच्चारो भवति, * सकृ- दुच्चरितं येन, * भव शरणमितीरयन्ति ये इत्याद्युक्तवचनमात्रधनस्य त्वदायत्तसर्वसिद्धेः । मनः-* चञ्चलं हि मनः कृष्ण, * मनो दुर्निग्रहं चलम् , *बन्धाय विषयासङ्गीत्याद्युक्तदोषमपि हृषीकेशेन त्वया अनुगृहीतानां सम्यङ्मननसाध- नम् । शरण्यस्यापेक्षणीयान्तराभावम् , आत्मनस्त्वरातिशयं च व्यनाक्ति-त्वमेवाद्यैवेति ॥ कारयेत्यनेन प्रपत्तावपि स्वस्य प्रयोज्यकर्तृत्वम् , अध्यात्मशास्त्रैराचार्यमुखेनान्तर्यामितया च भगवतः प्रयोजककर्तृत्वं च प्रकाश्यते । अविकलप्रपत्ति- प्रयोगस्यापि भाष्यकारस्येदं वाक्यं विकलप्रयोगाणामन्येषामपि शरण्यानुकम्पया क्षिप्रमुपायपूर्तिः स्यादिति ख्यापनार्थम् ॥ अपारकरुणाम्बुधे, अनालोचितविशेषाशेषलोकशरण्य, प्रणतार्तिहर, आश्रितवात्सल्यैक- महोदधे, अनवरतविदितनिखिलभूतजातयाथात्म्य, सत्यकाम, सत्यसङ्कल्प, आपत्सख, काकुत्स्थ, श्रीमन् , नारायण, पुरुषोत्तम, श्रीरङ्गनाथ, मम नाथ, नमोऽस्तु ते ॥ ७ ॥ ॥ इति श्रीभगवद्रामानुजविरचिते गद्यत्रये श्रीरङ्गगद्यम् ॥ अथाधिकारोपायफलप्रदानेषु यथार्हमुपयुक्तान् भगवतः प्रकारान् वदन् , प्रथमं सर्वोपयोगिगुणविशेषप्रकर्षमाह- अपारेति ॥ स्वस्मिन्नपि व्याप्तिमभिप्रेत्य अपारत्वोक्तिः ; तत्फलितं स्वेनाप्याश्रयणीयत्वमभिप्रेत्याह-अनालोचितेति ।। जातिगुणादिनिकर्षानादरेण सर्वैः शरण्यतया वरणीयेत्यर्थः । अनेन प्रपत्तेः सर्वाधिकारत्वं दर्शितम् । कारुणिकोऽपि यदि विषमः स्यात्, समोऽपि यदि निघृणः स्यात् , न तदा सर्वशरण्यः स्यादिति तदर्थमुभयोक्तिः । शरणागतिसमनन्तर- लक्षणीयौ गुणावाह-प्रणतातिहर आश्रितवात्सल्यैकमहोदधे इति ॥ प्रणता इह प्रकृष्टप्रवीभावयुक्ताः प्रपन्नाः, तेषां तत्तदभिमतालाभनिमित्तामाति हरतीति प्रणतार्तिहरः । अनेन तु प्रपत्तेः सकलफलप्रदत्वं च सूच्यते । प्रणतशब्दस्य प्रह्वीभावमात्रपरत्वे तदार्तिहरणादल्पप्रयत्नप्रसाद्यत्वं प्रकाश्यते । वात्सल्येन गुणान्तरतिरस्कारमभिप्रेत्य एकशब्दः, येन सर्वज्ञोऽप्यविज्ञातेव स्वतन्त्रोऽप्यस्वतन्त्र इव स्यात् । कारुण्यादिसद्भावेऽप्यज्ञस्यापूर्णस्याशक्तस्य च निरपेक्षरक्षकत्वं न स्यात्, अतस्तत्सिद्धयर्थ गुणत्रयम् अनवरतेत्यादिभिरुच्यते । अनवरतनिखिलशब्दाभ्यां ज्ञानस्य कालतो विषयतश्च निःसकोचत्वोक्तिः ; मम अनिष्टनिवर्तनेष्टप्रापणोपयोगिष्वधिकारादिपु किचिदपि कदाचिदपि तवाज्ञातं नास्तीति भावः । न च तव मादृशाकिंचनपरित्यागहेतुभूतप्रत्युपकारपूर्वोपकारादिप्रयोजनान्तरसापेक्षत्वं गुणवैकल्यं वा कदाचिदप्यस्ति ; अतो मद्रक्षणेन स्वगुणान् संरक्षेत्यभिप्रायेणाह-सत्यकामेति ॥ नित्यभोग्यानन्तकल्याणगुणादिविशिष्टेत्यर्थः । संकल्प- मात्रसाधितजगत्सृष्ट्यादेस्तव मद्रक्षणेऽपि न हि संकल्पादतिरिक्तं संपादनीयमित्यभिप्रायेणाह-सत्यसंकल्पेति ॥ अमोघ- संकल्पेत्यर्थः ; त्वयैव ख्यापितं प्रपन्नविषयं त्वद्रतं न कैश्चिदपि प्रतिहन्तुं शक्यमिति भावः । उक्तगुणवर्गहेतुकद्रौपदी- गजेन्द्रादिसंरक्षणप्रकारं तद्वत्स्वस्याप्यापप्रशमनायोद्घाटयति-आपत्सखेति ॥ आपदि सखा भवतीत्यापत्सखः ; सखेव प्रीतिविश्वासगोचरः संरक्षकश्चेति भावः । तदेतत् निषादवानरराक्षससर्वजातिमुलभे सकृत्प्रपन्नसंरक्षणतिनि सर्वलोक- शरण्ये विषयवासमात्रसंरक्षितजङ्गमस्थावरजन्तुजाते अवतारविशेषे सुव्यक्तमित्यभिप्रायेणाह-काकुत्स्थेति ॥ अनेन * वधार्हमपि काकुत्स्थः कृपया पर्यपालयदित्यादिवाक्यमपि स्मार्यते । अस्य सापराधेष्वप्याश्रितेषु निग्रहोष्मलतानिवारि- कया सहधर्मचारिण्या नित्ययोगमाह-श्रीमन्निति ॥ परहितेष्वपि स्वार्थप्रवृत्त्यनुगुणसंबन्धादिविशेष व्यनक्ति-नाराय- णेति ॥ इदं च पदद्वयं व्याख्येयगतविशिष्टसिद्धोपायोपेयप्रकाशकम् । नारायणशब्दवाच्यजगत्संबन्धादिशङ्कित दोष- ॥
१४० श्रीमद्वेदान्तदेशिकग्रन्थमाला निवृत्त्यर्थ पञ्चदशाध्यायोक्तं काष्ठाप्राप्तं परत्वरूपं वैलक्षण्यं समाख्याति-पुरुषोत्तमेति ॥ पुरु सनोतीति पुरुषशब्द- व्युत्पत्त्या बहुप्रदेणूत्तमत्वं वा विवक्षितम्-स्वाश्रितेभ्यः स्वात्मानमपि सविभूतिकं ददातीति । सर्वापेक्षितसाधकसेवानु- गुणां सौलभ्यकाष्ठां सूचयति-श्रीरङ्गनाथेति ॥ उक्तं चार्चावतारं प्रस्तुत्य भगवता शौनकेन-* तामचयेत्तां प्रणमत्तां यजेत्तां विचिन्तयेत् । विशत्यपास्तदोषस्तु तामेव ब्रह्मरूपिणीमिति । श्रीपौष्करे तु अर्चावतारस्योपायविरोधिवर्गनिवर्तक- त्वमपि दर्शितम्-* संदर्शनादकस्माच्च पुंसां संमूढचेतसाम् । कुवासना कुबुद्धिश्च कुतर्कश्च कुनिश्चयः ॥ कुहेतुश्च कुभावश्च नास्तिकत्वं लयं ब्रजेदिति । स्थानविशेषोऽप्यत्र सेवकानां सत्त्वोन्मेषहेतुत्वाभिप्रायेणोपात्तः । स्वयंव्यक्तसैद्ध- वैष्णवरूपभगवत्क्षेत्रवासिनामपि फलविशेषः प्रदर्शितः श्रीसात्वते-*दुष्टेन्द्रियवशाच्चित्तं नृणां यत्कलुषैर्वृतम् । तदन्त- काले संशुद्धिं याति नारायणालये ॥ इति । तत्रापि स्वाचार्यपरम्पराचिरसेवनजनितप्रसादातिशयात् स्वदोषानादरेण स्वस्यैवंविधावस्थाप्रदत्वेन प्रार्थितपूरणानुगुणतामभिप्रेत्याह-मम नाथेति ॥ स्वापेक्षितसिद्धयर्थ याननीयः स्वामी नाथः । एवमभिमुखीकृते भगवति प्रकृतोपायस्य भरन्यासरूपं प्रधानांश दमयन्त्यादिवृत्तान्तेषु शरणागतिविषयतया प्रसिद्धेन भगवच्छास्त्रोक्तस्थूलसूक्ष्मादियोजनवता नमःशब्देन निगमयन् , प्रयुज्यमानः सोऽयमुपायस्त्वच्छेषतयैव स्वीक्रियता- मित्यभिप्रायेणाह-नमोऽस्तु ते इति ॥ यद्वा अत्र परत्र चापेक्षितं निर्ममत्वसंस्कृतं कैङ्कथं नमःशब्दाभिप्रेतम् । अस्त्विति आशासनम् । ते इत्यत्र प्रकृत्यंशेन प्राप्यत्वप्रापकत्वशेषित्वादिशालितया निरुपाधिकनमःप्रयोगयोग्यत्वमभि- प्रेतम् । चतुर्थी चात्र तादर्थ्यपरा । इदमेव वाक्यम् [आवृत्त्या]आवत्यमानं पृथुगद्योक्तस्य प्रतिवचनस्य संग्रहोऽपि भवति ; सूत्रादिष्विव प्रयोजनप्रकर्षे सत्यावृत्तेरभियुक्तसंमतत्वात् । तत्रायमर्थः-मत्प्रपन्नस्य ते यथामनोरथं मत्कैङ्कथं भवत्विति । तदेवं रहस्यत्रयोक्तशरण्यशरणागतितत्फलविशेषाः संदर्शिताः ।। . यदत्र संग्रहेणोक्तमनुक्तमपि किंचन । बृहद्गद्याधिकारे तयक्तं प्रत्यवमृश्यताम् ।। ॥ इति रहस्यरक्षायां मितगद्याधिकारः समाप्तः ॥
श्रीः ॥ श्रीवैकुण्ठगद्यम् ॥ - यामुनार्यसुधाम्भोधिमवगाह्य यथामति । आदाय भक्तियोगाख्यं रत्नं संदर्शयाम्यहम् ॥ १ ॥ स्वाधीनत्रिविधचेतनाचेतनस्वरूपस्थितिप्रवृत्तिभेदम् , क्लेशकर्माद्यशेषदोषासंस्पृष्टम् , स्वा- भाविकानवधिकातिशयज्ञानवलैश्वर्यवीर्यशक्तितेजःप्रभृत्यसंख्येयकल्याणगुणगणौघमहार्णवम् , परम- पुरुषम् भगवन्तं नारायणं स्वामित्वेन सुहृत्त्वेन गुरुत्वेन च परिगृह्य, ऐकान्तिकात्यन्तिकत- त्पादाम्बुजद्वयपरिचर्यैकमनोरथः, तत्प्राप्तये च तत्पादाम्बुजद्वयप्रपत्तेरन्यन्न मे कल्पकोटिसहस्र- णापि साधनमस्तीति मन्वानः, तस्यैव भगवतो नारायणस्य अखिलसत्पदयैकसागरस्य अनालो- चित [गुणागण] गुणगणाखण्डजनानुकूलामर्यादशीलवतः, स्वाभाविकानवधिकातिशयगुणवत्तया देवतियअनुप्याद्यखिलजनहृदयानन्दनस्य, आश्रितवात्सल्यैकजलधेः, भक्तजनसंश्लेषकभोगस्य, नित्यज्ञानक्रियैश्वर्यादिभोगसामग्रीसमृद्धस्य महाविभूतेः श्रीमतश्चरणारविन्दयुगलमनन्यात्मसंजी- वनेन तद्गतसर्वभावेन शरणमनुव्रजेत् ॥ २ ॥ ततश्च प्रत्यहमात्मोजीवनायैवमनुस्मरेत् ॥ ३ ॥ चतुर्दशभुवनात्मकमण्डं दशगुणितोत्तरं चावरणसप्तकं समस्त कार्यकारणजातमतीत्य वर्त- माने, परमव्योमशब्दाभिधेये, ब्रह्मादीनां वाङ्मनसागोचरे, श्रीमति वैकुण्ठे दिव्यलोके, सनक- विधिशिवादिभिरप्यचिन्त्यस्वभावैश्वर्यनित्यसिद्धरनन्तैर्भगवदानुकूल्यैकभोगैदिव्यपुरुषैर्महात्मभिरा - पूरिते, तेषामपि इयत्परिणामम् इयदैश्वर्यम् ईदृशस्वभावमिति परिच्छेत्तमयोग्ये दिव्यावरणशत- सहस्रावृते, दिव्यकल्पकतरूपशोभिते, दिव्योद्यानशतसहस्रकोटिभिरावृते, अतिप्रमाणे दिव्यायतने, कस्मिंश्चिद्विचित्रदिव्यरत्नमयदिव्यास्थानमण्टपे, दिव्यरत्नस्तम्भशतसहस्रकोटिभिरुपशोभिते, दिव्य- नानारत्नकृतस्थलविचित्रिते, दिव्यालङ्कारालंकृते, परितः पतितैः पतमानैः पादपस्थैव नानागन्ध- वर्णैदिव्यपुष्पैः शोभमानैदिव्यपुष्पोपवनैरुपशोभिते, सङ्कीर्णपारिजातादिकल्पद्रमोपशोभितेरसङ्गी- णैश्च कश्चिदन्तस्स्थपुष्परत्नादिनिर्मितदिव्यलीलामष्टपशतसहस्रोपशोभितैः सर्वदाऽनुभूयमानैरप्य- पूर्ववदाश्चर्यमावहद्भिः क्रीडाशैलशतसहस्रैरलंकृतैः कैश्चिन्नारायणदिव्यलीलासाधारणैः कैश्चित्पद्म- वनालयादिव्यलीलासाधारणैः साधारणैश्च कैश्चित् शुकशारिकामयूरकोकिलादिभिः कोमलकूजितै- राकुलैर्दिव्योद्यानशतसहस्रैरावृते, मणिमुक्ताप्रवालकृतसोपानैदिव्यामलामृतरसोदकैर्दिव्याण्डजवरै- रतिरमणीयदर्शनैरतिमनोहरमधुरस्वरैराकुलैरन्तस्स्थमुक्तामयदिव्यक्रीडास्थानोपशोभितैर्दिव्यसौग १४२ श्रीमद्वेदान्तदेशिकग्रन्थमाला न्धिकवापीशतसहदिव्यराजहंसावलीविराजितैरावृते, निरस्तातिशयानन्दैकरसतया चानन्त्याच प्रविष्टानुन्मादयद्भिः क्रीडोद्देशैविराजिते, तत्रतत्र कृतदिव्यपुष्पपर्यकोपशोभिते, नानापुष्पासवा- स्वादमत्तभृङ्गावलीभिरुद्दीयमानदिव्यगान्धर्वेणापूरिते, चन्दनागुरुकर्पूरदिव्यपुष्पावगाहिमन्दा- निलासेव्यमाने, मध्ये दिव्यपुष्पमञ्चयविचित्रिते महति दिव्ययोगपर्यङ्के अनन्तभोगिनि, श्रीम- द्वैकुण्ठैश्वर्यादिदिव्यलोकमात्मकान्त्या विश्वमाप्याययन्त्या शेषशेषाशनादिकं सर्व परिजनं भगवत- स्तत्तदवस्थोचितपरिचर्यायामाज्ञापयन्त्या शीलरूपगुणविलासादिभिरात्मानुरूपया श्रिया सहासी- नम् , प्रत्यग्रोन्मीलितसरसिजसदृशनयनयुगलम् , स्वच्छनीलजीमूतसङ्काशम् , अत्युज्ज्वलपीत- वाससम् , स्वया प्रभया अतिनिर्मलया अतिशीतलया [अतिकोमलया] स्वच्छया माणिक्याभया कृत्स्नं जगदुद्भासयन्तम् , अचिन्त्यदिव्याद्भुतनित्ययौवनस्वभावलावण्यमयामृतसागरम् , अतिसौकुमार्या- दीपत्प्रस्विन्नवदालक्ष्यमाणललाटफलकदिव्यालकावलीविराजितम् , प्रबुद्धमुग्धाम्बुजचारुलोचनम् , सविभ्रमभ्रूलतम् , उज्ज्वलाधरम् , शुचिस्मितम् , कोमलगण्डम् , उन्नसम् , उदग्रपीनांसविलम्बि- कुण्डलालकावलीबन्धुरकम्बुकन्धरम् , प्रियावतंसोत्पलकर्णभूषणश्लथालकाबन्धविमर्दशंसिभिश्चतुर्भि- राजानुविलम्बिभि जैबिंगजितम् , अतिकोमलदिव्यरेखालंकृताताम्रकरतलम् , दिव्याङ्गुलीयक- विराजितम् , अतिकोमलदिव्यनखावलीपिराजिता[नु]तिरक्ताङ्गुलीभिरलंकृतम् , तत्क्षणोन्मीलित- पुण्डरीकसदृशचरणयुगलम् , अतिमनोहरकिरीटमकुटचूडावतंसमकरकुण्डलङ्गवेयकहारकेयूरकटक- श्रीवत्सकौस्तुभमुक्तादामोदरवन्धनपीतांबरकाञ्चोगुणन पुरादिभिरत्यन्तसुखस्पशैर्दिव्यगन्धैर्धपणै- भूषितम् , श्रीमत्या वैजयन्त्या वनमालया विराजितम् , शङ्खचक्रगदासिशाििददिव्यायुधैः सेव्य- मानम् , स्वसङ्कल्पमात्रावक्लप्तजगजन्मस्थितिध्वंसादिके श्रीमति विष्वक्सेने न्यस्तसमस्तात्मैश्वर्यम् , वैनतेयादिभिः स्वभावतो निरस्तसमस्तसांसारिकस्वभावैर्भगवत्परिचर्याकरणयोग्यैर्भगवत्परिचयक- भोगैनित्यसिद्धैरनन्तैर्यथायोगं सेव्यमानम् , आत्मभोगनाननुसंहितपरादिकालम् , दिव्यामल- कोमलावलोकनेन विश्वमाह्लादयन्तम् , ईपदुन्मीलितमुखाम्बुजोदरविनिर्गतेन दिव्याननारविन्द- शोभाजननेन दिव्यगाम्भीर्योदार्यसौन्दर्यमाधुर्याद्यनवधिकगुणगणविभूपितेन अतिमनोहरदिव्य- भावगर्भेण दिव्यलीलालापामृतेन अखिलजनहृदयान्तराण्यापूरयन्तं भगवन्तं नारायणं ध्यानयोगेन दृष्टा, [ततो] भगवतो नित्यस्वाम्यम् आत्मनो नित्यदास्यं च यथावस्थितमनुसन्धाय, 'कदाऽहं भगवन्तं नारायणं मम कुलनाथं मम कुलदैवतं मम कुलधनं मम भोग्यं मम मातरं मम पितरं मम सर्वं साक्षात्करवाणि चक्षुपा? कदाऽहं भगवत्पादम्बुजद्वयं शिरसा संग्रहीष्यामि ? कदाऽहं भगव- त्पादाम्बुजद्वयपरिचर्याशया निरस्तसमस्तेतरभोगाशोऽपगतसमस्तसांसारिकस्वभावस्तत्पादाम्बुजद्वयं प्रवेक्ष्यामि ? कदाऽहं भगवत्पादाम्बुजद्वयपरिचर्याकरणयोग्यस्तदेकभोगस्तत्पादौ परिचरिष्यामि ?
व्याख्यानविभागे गद्यत्रयभाष्यम्-श्रीवैकुण्ठगद्यम् १४३ कदा मां भगवान् स्वकीयया अतिशीतलया दृशाऽवलोक्य स्निग्धगम्भीरमधुरया गिरा परिचर्याया- माज्ञापयिष्यति? इति भगवत्परिचर्यायामाशां वर्धयित्वा तयैवाशया तत्प्रसादोपहितया भगवन्त- मुपेत्य दूरादेव भगवन्तं शेषभोगे श्रिया सहासीनं वैनतेयादिभिः सेव्यमानम् समस्तपरिवाराय श्रीमते नारायणाय नमः इति प्रणम्योत्थायोत्थाय पुनःपुनः प्रणम्य, अत्यन्तसाध्वसविनयावनतो भूत्वा, भगवत्पारिपदगणनायकैारपालैः कृपया स्नेहगर्भया दृशा अवलोकितः, सम्यगभिवन्दितै- स्तैस्तैरेवानुमतो भगवन्तमुपेत्य श्रीमता मूलमन्त्रेण मामैकान्तिकात्यन्तिकपरिचर्याकरणाय परि- गृह्णीष्व इति याचमानः प्रणम्य, आत्मानं भगवते निवेदयेत् ॥ ४ ॥ ततो भगवता स्वयमेवात्मसंजीवनेनामर्यादशीलवता अतिप्रेमान्वितेनावलोकनेनावलोक्य सर्वदेशसर्वकालसर्वावस्थोचितात्यन्तशेपभावाय स्वीकृतोऽनुज्ञातश्च, अत्यन्तसाध्यसविनयावनतः किंकुर्वाणः, कृताञ्जलिपुटो भगवन्तमुपासीत ॥ ५ ॥ ततश्चानुभूयमानभावविशेषः, निरतिशयप्रीत्या अन्यत्किंचित्कर्तुं द्रष्टुं स्मर्तुमशक्तः, पुनरपि शेषभावमेव याचमानः, भगवन्तमेवाविच्छिन्नस्रोतोरूपेणावलोकनेनावलोकयन्नासीत ॥६॥ ततो भगवता स्वयमेवात्मसंजीवनेनावलोकनेनावलोक्य सस्मितमाहूय समस्तक्लेशापहं निरतिशयसुखावहमात्मीयं श्रीमत्पादारविन्दयुगलं शिरसि कृतं ध्यात्या अमृतसागरान्तर्निमग्न- सर्वावयवः सुखमासीत ॥ ७॥ ॥ इति श्रीभगवद्रामानुजविरचिते गद्यत्रये श्रीवैकुण्ठगद्यं समाप्तम् ॥ ॥ समाप्तं च गद्य त्रयम् ॥ अनया गद्यद्वयोक्तगमनिकयैव श्री वैकुण्ठगद्यमपि गतार्थप्रायम् । एतयोः स्वानुष्ठानोक्तिमुखेन शिष्यशिक्षणं कृतम् ; तस्मिंस्तु उपदेशमुखेनेति विशेषः । तत्र यदादौ पठ्यते-* यामुनार्यसुधाम्भोधिमवगाह्य यथामति, आदाय भक्तियोगाख्यं रत्नं संदर्शयाम्यहमिति ; इहासौ भक्तियोगशब्दः स्वयंप्रयोजनभगवदनुसंधानपरः; अन्यथा, * तत्प्राप्तये च तत्पादाम्बुजद्वयप्रपत्तेरन्यन्न मे कल्पकोटिसहस्रेणापि साधनमस्तीति मन्वानः इति वाक्ष्यमाणविरोधात् । अत एव * प्रत्यहमात्मोज्जीवनायेत्यादिकमपि न मुक्तितत्साधनपरम् ; अपि तु * ज्ञानी तु परमैकान्ती परायत्तात्मजीवनः इत्यादि- प्रसिद्ध अत्रत्यावस्थाविशेषे मरुदेशपथिकपानीयन्यायेन अलभ्यलाभाश्वासनाभिप्रायम् ॥ तेषामपीयत्परिमाणमियदैश्वर्यमीदृशस्वभावमिति परिच्छेत्तुमयोग्ये इति दिव्यायतनविशेषणे तु महत्तर- त्वमेव विवक्षितम् , दिव्यावरणसंवृतत्वादिकथनेनैव तत्परिमाणसिद्धेः । अत्र स्वभावशब्दोऽपि निरतिशयभोग्यत्वादि- विषयः । न ह्येवंविधविषयेषु परिच्छेदायोग्यत्वोक्त्या सूरीणां सार्वश्यहानिः, दिव्यायतनगुणप्रषे तात्पर्याच्च । प्रविष्टानुन्मादयद्भिः क्रीडीदेशैः इत्यत्रापि हर्षप्रकर्षजनकत्वे तात्पर्यम् । श्रीमद्वैकुण्ठैश्वर्यादिदिव्यलोकम् इत्यत्र तु वैकुण्ठशब्देन नगराद्यवान्तरप्रदेशो विवक्षितः ; स एव प्रशस्तविभूतिरूपत्वादैश्वर्यशब्देनोपर्यते । नित्यमुक्तविषयं . .. १४४ श्रीमद्वेदान्तदाशकान्थमाला देव्या आज्ञापनं परिचर्याविशेषेष्विच्छोत्पादनमात्रम् , तेषां सर्वज्ञत्वेन ज्ञानोत्पादननैरपेक्ष्यात् । पुण्डरीकसदृशचरण- युगलम् इत्यत्र पुण्डरीकशब्दः पद्मसामान्यमुखेन रक्ताम्बुजपरः । यत्तक्तम्-संकल्पमात्रावक्लप्तजगजन्मस्थिति- ध्वंसादिके श्रीमति विष्वक्सेने न्यस्तसमस्तात्मैश्वर्यम् इति, तत्र यद्यपि जगद्व्यापारमोक्षपदत्वे ब्रह्मलक्षणतया मुक्ते- ष्विव नित्यसूरिष्वपि सर्वेषु न संभवतः ; यद्यपि च भगवान् स्वतः सर्वज्ञः; तथाऽपि * प्रियेण सेनापतिना निवेदितं तथाऽनुजानन्तमुदारवीक्षणैरिति न्यायेन भगवद्दत्ततादृशाधिकारतया तत्तदवसरे जगत्सृष्टयाद्यर्थं भगवते विज्ञापनवाक्यं विष्वक्सेनो व्याहरति ; तदा स्वतः सर्वज्ञो भगवान् तन्निवेदितकारीव क्रीडति ; तावन्मात्रेण विष्वक्सेनस्य जगन्यापार- व्यपदेशरूपस्तुतिः ; न्यस्तसमस्तात्मैश्वर्यम् इत्येतदपि सेनानिर्वहणाद्यर्थाधिकारपदानपरम् ; * स यदि पितृलोककामो भवति संकल्पादेवास्य पितरः समुत्तिष्ठन्तीत्यादिन्यायेन परिमितविषयो वाऽत्र जगच्छब्दः; अतो हिरण्यगर्भादिवत् काचित्कप्रभूतसृष्ट्यादिमात्रान्नास्मिन् ब्रह्मलक्षणप्रसङ्गः । यदपि आत्मभोगेनाननुसंहितपरादिकालमिति, तदपि भगवतः कालविषयमज्ञानं नाभिप्रेति, आनन्दप्रकर्षप्रशंसायां तात्पर्यात् । यच्च तत्पादाम्बुजद्वयं प्रवेक्ष्यामि इति मुमुक्षोरभि- संधिरुच्यते, तत्र पूर्वोक्तस्य शिरसा संग्रहणस्य गाढतमत्वं प्रवेशशब्देनाभिप्रेतम् ॥ यदपि शेषभावाय स्वीकृतः इति, तत्र यावदात्मभाविकैकर्यकरणाय संकल्पित इत्यर्थः । एवमन्यदपि सर्व सुसंगतम् ॥ * .- द्वयवचनधनानां द्विःप्रयोगानपेक्षे मुषितनिखिलदोषे मुक्त्युपाये स्थितानाम् । अमृतमिव पयोधेराप्तमेतद्यतीन्द्रायवृणुत मितगद्य वेङ्कटेशः सुमेधाः ॥ इति रहस्यरक्षायां मितगद्याधिकारः समाप्तः ॥ इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु रहस्यरक्षायां ॥ गद्यत्रयभाष्यं समाप्तम् ॥ KN Seeeee HAMAHARAMAYANHARE IJE श्रीमद्वेदान्तदेशिकग्रन्थमालायां व्याख्यानविभागे ॥ प्रथमसम्पुटं समाप्तम् ॥ BREERRESTERSEHREFINE HERESEREERN फारम् 4-14, लिबर्टी प्रेस , मद्रपुरी,
No text on this page.
No text on this page.