Scl

The Nidhipradipa Of Sri Siddha Srikanthasambhu

K_sambasiva_sastri

PDF Proofread

Front matter

No text on this page.

TRIVANDRUM SINSKRIT SERIES
No. CV.
Sri Setu Laksmí Prasadamalā
No, XV11.
THE
NIDHIPRADIPA
Śri Siddha Srikanthasambhu
EDITED BY
K, SAMBAŠIVA, SĀSTRI
Curator of the Department for the Publication
* Sanelcrit Manuscripts, Trivandrum.
PUBLISHED UNDER THE AUTHORITY OF THE GOVERNMENT OL
FER HIGENESS THE MAHARANI REGENT OF TRAVANCORE.
TRIVANDRUM:
PRINTED BY THE SUPERINTENDENT, GOVERNMENT PRESS,
1930.
All Rights Reserved.]

No text on this page.

अनन्तशयनसंस्कृतग्रन्थावलिः ।
ग्रन्थाङ्क: १०५.
श्रीसेतुलक्ष्मीप्रसादमाला ।
ग्रन्थाङ्कः १७.
निधिप्रदीपः
श्रीसिद्धश्रीकण्ठशम्भुविरचितः
।
संस्कृतग्रन्थप्रकाशनकार्याध्यक्षेण
के. साम्बशिवशास्त्रिणा
संशोधितः ।
सच
अनन्तशयने
महामहिमश्रीसेतुलक्ष्मीमहाराज्ञीशासनेन
राजकीयमुद्रणयन्त्रालये तदध्यक्षेण
मुद्रयित्वा प्रकाशितः।
कोलम्बाब्दाः ११०५, ऊस्ताब्दाः १९३०.

No text on this page.

॥ श्रीः॥
श्रीपअनामसेवि-
न्यखिलश्रीवर्धनी महाराज्ञी।
श्रीसेतुलक्ष्म्यभिख्या
प्रत्यक्षा जयति वञ्चिभूलक्ष्मीः ।।
ग्रन्थावलिरियमिन्धे
प्रसाधिता तत्प्रसादगुणगुम्का ।
श्रीसहितसेतुलक्ष्मी-
प्रसादमाला सुवर्णमणिचित्रा ॥
ISBN

? "कृष्णाजपित्तं च मयूरपित्त- मशोकमूलं गतमुत्तराशाम् । 781ETRIA TAI सर्वाञ्जनं नाम शिवोपदिष्टम् ॥ पुष्यनक्षत्र योगेन पिण्डीतगरमूलिकाम् । षडङ्गुलमितं कार्य शलाका रक्षयेत् ततः ॥" (p. 29), occur in the 15th Upadeśa of the Mantrakhanda of the Rasaratnākara by Sri Devīputra Nityanātha, while the introductory verse of the latter work, "यद्यदुक्तं हि शास्त्रेषु तत्तत्सर्वं विलोकितम् । शाम्भवे यामिले शाक्ते कुलकौले च डामरे ॥ silys that it is an abridgment from 'ſambhava" (the Sāstra of Samblu). If Sambhu referred to in the word Šambhava in the Rasuratnākara was the same as Siddha Śrīkaņţha Šambhu, then Nidhipradipa may ke taken as the source from which Rasaratnakara quoted the above verses. This work dealing as it does with various means of finding out hidden treasures may be considered as a valuable addition to the Trivandrum Sanskrit Series. The poet says that 'the earth is vast and time is unlimited' and it is not certain that an Adhikari of this work may not turn up. I have therefore thought it advisable to preserve the work by publishing it in this Sanskrit Series, in accordance with the practice of protecting the work dealing with Dārghasatra, The edition of the work is based on the following three manuscripts. (1) Belonging to the Palace Library, Trivandrum. (2) Do. Brahmasri Rana Vadhyar Lasi Van dhyar, Mahadanapuram. (3) Do. Brahmasri Devan Narayanan Namburipad, Kartigapalli, Haripad. Thesa manuscripts are complete and are respectively marked as , & and at. The first inanuscript appears to be about 4 centuries old. The second looks less old than the first and the third, more modern than the second. K. SAMBAŠIVA ŚĀSTRI निवेदना। निधिप्रदीपनामायं प्रतिपाद्यमहिन्ना कोऽप्यपूर्व एव ग्रन्थः । इह सन्ति चत्वारः परिच्छेदाः, येष्वादिमः प्रतिज्ञाकीर्तनेन, द्वितीयः प्रतिमालक्ष- णेन, तृतीयः परीक्षादर्शनेन, अन्तिमा निधिसङ्ग्रहणेन च यथावत् कृतविभागः । अस्य कर्ता Ramesome "निधिप्रदीपनामायं सिद्धश्राकण्ठशम्भुना । क्रियते सारमादाय सिद्धानां हितकारणम् ॥" हति ग्रन्थोपक्रमकारिकया सिद्धश्रीकण्ठशम्भुनामा कोऽपि सिद्ध इति ज्ञा- यते । क्रतुनिर्वणकृते निधनेभ्य ऋषिभ्यः शम्भुना भगवता समुदापितोऽयं प्रदीप आम्नायवत् प्रभुसम्मितः प्रवृत्तिमात्रप्रतीक्षो भवत्यप्रतक्या किमरि प्रमाण- मकाण्डम् । इदं च ऋषिशम्भुसंवादप्रस्तावनया "यष्टव्याः कथमस्माभिः क्रतवो निधनैरिव ।” (पु • १. श्लो०५) "प्रवक्ष्यामि मुनिश्रेष्ठा! दारिद्रयार्णवतारणम् ।” (पु० २. श्लो० १०) इत्याभिः कारिकाभिः कविरास्फोरयति । ग्रन्थावसितौ "यज्ञार्थमर्थसापेक्षा ऋषयो धर्मतत्पराः!। निधिसङ्ग्रहणं सर्व मया प्रोक्तं यथाक्रमम् ॥ सर्वसम्पत्करं श्रेष्ठं सर्वदारिद्यनाशनम् । सर्वसौल्यमिदं शास्त्रं शबरेणैव भाषितम् ।।" इति दर्शनाद् "यष्टव्याः कथमस्माभिः क्रतवो निर्धनरिव ।। इत्यादिनोपक्रान्तस्य समुचित उपसंहारः समर्थितः । शवरभाषितस्यानुवादकता परमात्मनः प्रतिजानानेन साममत्वमस्य प्रदीपस्य साधितम् । सोऽयं शबरः साक्षान्महेश्वरश्चेत् किरातवेषधारी, तदा पूर्वोपक्रान्तस्य ऋषिशम्भुसंवादस्यास्ति सामरस्यम् । GRIHD ३ "इति शबरभाविते मालिनीशास्त्रे निधिप्रदीपे चतुर्थः परिच्छेदः।" इति परिसमाप्तिगतं वाक्यं शबरीयं किमप्यन्यद् मालिनीशास्त्रमाकरग्रन्थं स्पध्माच चन्नायं निधिप्रदीपनमार्गः किमप्यङ्ग सङ्गच्छते । अन्यच्च - श्रीदेवीपुत्रनित्यनाथविरचिते रसरत्नाकरे मन्त्रखण्डे पञ्चदश उपदेशे दृश्यमानाभिः 'नकुलस्य च भेकस्य लोचनाने समाहरेत् । स्रोतोञ्जनसभायुक्तं मेषीतलेन पेषयेत् । असिताक्षो नरस्तेन निधि पश्यति निश्चयम् ॥" इति, "कुङ्कुम रोचनं श्वेतकाञ्चनल्य तु पल्लवम् ! सुश्वेतां च जपायुपं नन्यावर्त समं मधु । सर्वाञ्जनमिदं ख्यातं पातालनिषिदर्शनम् ॥" - इति, ३. "कृष्णाजविरं च मयूरपित्तमशोकमूलं गतमुत्तराशाम् । शशाङ्क:रोचनमाक्षिकं च सर्वाजन नाम शिवोपदिष्टम् ॥" "पुष्यनक्षत्र योगेन पिण्डीतारमूलिकाम् । षडङ्गुलमितं कार्य शलाका रक्षयेत् ततः ॥" इति च निधिप्रदीपकारिकाभिः, तदानुगुण्यात् कस्यचन शम्भोः कृति सप्रमाणं द्योतयता तत्रैव रसरत्नाकर उपक्रम "यद्यदुक्तं हे शास्त्रेषु तत्तत् सर्वं विलोकितम् । शाम्भवे यामले शाक्त कुलकौले च सामरे ।" इत्यादिना सारसमुद्धरणाधारतया 'शाम्भव' इति वचनेन च यद्ययं शम्भुर- सत्तिद्धश्रीकण्ठशम्भुरेव सम्भवेत् तदा रसरत्नाकरकारस्यापि प्रमाणभूतो निधिप्रदीपकारस्ततोऽपि प्राचीनः शक्यमभ्यूहेितुम् , इति । १. निधिप्रदीप पार्श्व ३२. श्लो० १३०,१३१. , ३१., १२१,१२२. १०८,१०३. ” " ३ .. इतोऽधिकमदसीयं जीवितसमयादिकं प्रति न किमप्यवगम्यते । सर्वथा रत्नगर्भाया भुवो गर्ने निभृतनिहितानां निधीनां स्थिति सिद्धि- बलाद् बहिरुदित्वरीभिस्तत्तन्मूलिकाभिरभिव्यञ्जिकाभिः सूक्ष्मेक्षिकयावगत्य नि- रूपितमिदं निधिशास्त्रमवश्यप्रकाश्यमस्मद्ग्रन्थावलेरपूर्वः कोऽपि निधिरेव । 'कालो ह्ययं निरवधिर्विपुला च पृथ्वी' इति महाकविवचनानुसारेण तत्तदधिकारिसम्पत्तेरसम्भाव्यतानिश्चयाभावाद् दी- सनलक्षणवद् मन्य एवमादीनि शास्त्राणि संरक्षणीयानि प्रसाधने प्रमुखानि । अस्य निधिप्रदीपस्य प्रसाधनप्रकाशनयोः परिशोधनोपयोगिन्यः समग्रा मातृकास्तिस उपलब्धाः । आसु- अस्सन्महाराजग्रन्थशालीया। द्वितीया - महादानपुरं ब्रह्मश्री रामवाध्यार् काशिवाध्याखामकी । तृतीया - कार्तिकप्पळ्ळि हरिप्पाडु पडिब्बारे पुल्लांवळिमळं ब्रह्मश्री देवन् नारायणन्नम्पूरिप्पाडुस्वामिका । ताश्च यथाक्रमं क-ख-ग- चिह्निताः । आसु पूर्वपूर्वा जरती । विशिष्य च प्रथमा माकी चतुश्शतवत्सरीज्या- re प्रथमा यसी। अनन्तशयनम्, १.-१२-१०५. साम्बशिवशास्त्री.

No text on this page.

निधिप्रदीपः। निधिप्रदीपनीला तित्रीकण्ठशम्भुना । क्रियते सौरमादाय सिद्धानां हितकारणम् ॥ १ ॥ अन्यैश्चतुष्परिच्छेदैः पौरासुटुभैरिह । शतानि पञ्च पद्यालि विना नन्त्रपदैर्बुध ! ॥ २ ॥ दारिद्यानलततानामगतीनां शरीरिणाम् । यायावरा महालान ऋषयो वेपारगाः ॥ ३ ॥ अग्निष्टोमादिकान यटुं कर्मयज्ञा यथेप्सितम् । समेत्य नैमिशारण्यं मन्त्रयामासुराहताः ॥ ४ ॥ यष्टव्याः कथमस्माभिः ऋतवो निधनैरिव । उपायः को भवेदन येन स्मो धनिनो वयम् ॥५॥ देवतानाम् ऋषीणां च ऋणलेतद् भविष्यति । इत्येवं चिन्तितानां च ऋषीणां भगवान् हरः ॥६॥ आजगाम महायोगी ऋषीणां धर्महेतुकम् । ऋषय ऊचुः देवदेव ! महादेव ! नीलग्रीव ! महेश्वर!॥ ७ ॥ 'श्च भया कृतः सर्वार्थसिद्धये । सलक्षं सा' ख. पाठः, २० 'तु सङ्ग्राह्यमा' ग. पाठ:. ३. 'शब्दरतं नृप॥' क. पाठः. ४. 'नि तावद्वाक्यपदैर्बुधः ॥', ५. 'यज्ञकामान् यथेप्सितान्।', ६. कृषालय MDIO CATETAILS १. म' ग. पाठः P. T. 1503, 500, 16.1-1106. D २ निधिप्रदीप केनोपायेन मुच्यन्ते ब्राह्मणाः क्लेशंसागरात् । दारिद्यस्यैव हात्यै यत् तद् वाक्यं अक्तुमर्हसि ॥ ८ ॥ शम्भुः तदिदानी प्रवक्ष्यामि शृणुध्वं मुनिपुङ्गवाः!! निधिशास्त्रमिदं गुह्यं त्रिदशैरपि दुर्लभम् । ९ ॥ प्रवक्ष्यामि मुनिश्रेष्ठा ! दारिद्यार्णवतारणम् । यत् कृत्वा तु लरः कश्चिद् दारिद्यान्मुच्यते तथा॥१०॥ पैंञ्चपातकयुक्तोऽपि कुबेरसदृशो भवेत् । सहायलक्षणं वक्ष्ये निमितं च शुभाशुभम् ॥ ११ ॥ तिथिनक्षत्रवाराणां मुहूर्तनियम तथा । जलस्थलदिविष्ठाना निधीनां च विभेदतः ॥ १२ ॥ स्थानेषु च निधानानां परीक्षा च यथाक्रम । परीक्षा बहुधा वृक्षलतागुल्मादिभेदतः ॥ १३ ॥ गोमृगाः कृमयश्चापि भूतयोग तथैव च । विपरीतफलं पुष्पकण्ट भेदं तथैव च ॥ १४ ॥ महासत्त्वस्य संयोगं प्रतिशङ्का तथैव च । गुल्मागुल्मविभेदं च सहस्राक्षधनुस्तथा ॥ १५ ॥ एवमादीनि चान्यानि लक्षणानि परीक्षयेत् । बिम्बलक्षणभेदं च वर्तीनां च यथाक्रमम् ॥१६॥ १. 'शपारगाः।', २. 'ब्धिप्रणाशनम् ।' ग. पठः. ३. 'स्थानेषु च निधिस्थानं दारिद्यात् प्रतिमुच्यते।' क. पाठः, ४, “महापा', ५. 'नि- षण्णानां', ६. 'म् । स्थानानि च निधानानि निर्णयश्च यथाक्रमम् । प' ७. 'शत्रुस', ८. 'ब्दफलं तथा।' क. पाठः. ९. यु. समायुरप्रवि' ना. पाठः १०. न तथा वदेत् ।' क. पाठः, ग.. पाठः प्रथमः पारच्छेदः औषधं च परीक्षाणां कृमिपुष्पादिभेदतः । कुमारकन्यकापादजातानां चैव सर्वशः ॥ १७ ॥ सर्वाञ्जनं च कथ्यन्ते खननग्रहणं तथा । निधिरक्षाविभेदं च तद्विरोधफलं तथा ॥ १८ ॥ एवमादीनि चान्यानि शृणुध्वं मुनिसत्तमाः!! अतःपरं प्रवक्ष्यानि सहायानां च लक्षणम् ॥ १९ ॥ सहायाः शोभनाः कार्याः सप्त पञ्च त्रयोऽथवा । वित्ताधिकं यथा तत् तु सहायानां समासतः॥२०॥ नासहायेन कर्तव्यं मन्त्रिणां निधिसाधनम् । तत्रापि लक्षणं वक्ष्ये सहायानां समासतः ॥ २१ ॥ ग्राह्याग्राह्यविभेदेन श्रीमच्छङ्कराषितम् । सर्वसत्त्वहिताः शान्ता मदमात्सर्यवर्जिताः ॥ २२ ॥ धार्मिकाः शीलसम्पन्ना हिंसाडम्भविवर्जिताः । बलवन्तः सदाचारा ब्राह्मणाः क्षत्रिया विशः ॥ २३ ॥ शूद्रा अपि सदाचारा मद्यमांसविवर्जिताः। सहायाः शोभना ह्येते कथ्यन्ते येऽप्यनिन्दिताः ॥२४॥ सत्त्वहीना दुराचारा नास्तिकाः साधुदूषकाः । देवद्विजगुरुस्त्रीणां निन्दितानृतवाचकाः ॥ २५ ।। मूकं हीनं शस्त्रपाणिं वक्रात्मानं च वर्जयेत् । सुनिमित्तान्यथो वक्ष्ये येषु लाभो भवेन्निधेः॥ २६ ॥ गौः सवत्सा सुरा मांसं रोचना दधि चन्दनम् । पूर्ववस्त्रज्वलद्वह्निर्ऋषभाः पाँशसंयुताः ॥ २७ ॥ १. 'ऋषिस', २. 'दं च एतच्छबर', ३. 'कुलीना विभवान्विताः।', ४. 'ये', ५. 'त्व', ६. 'समोदनं द', ७. 'मेघशब्दभाः ॥ स्व' ग. पाठः, .. " , , : स्वस्तिकं वर्धमानेषु सालङ्कारा वराङ्गनाः। शुक्लवस्त्राणि पुष्पाणि पछुवं दुग्धसर्पिषी ॥ २८ ॥ कुमारो गोमयं राजा गजाश्वध्वजचामराः । घेणुवीणामृदङ्गानां शब्दो वा दर्शनं शुभम् ॥ २९ ॥ चकोरश्चक्रभृज्जीवाचक्रवाकसुरॉनिकाः । मयूरचातकादीनां शब्दो नूपुरशिञ्जितम् ॥ ३० ॥ पुष्पमूलफलं पूज्या रक्ता? त्ना)द्याभरणानि च । पूर्णकुम्भोत्तमा नारी सपुत्रों च सभर्तृका ॥ ३१ ॥ शुभं दर्शनमित्यादि गच्छतां लाभसूचकम् । मुण्डिकास्तैलिका नग्नाः कृशाङ्गाः क्षतपाणयः॥ ३२ ॥ शशमार्जारकाकारिभुजङ्गा(वाग्मवीरुहाः १) । व्याधिता दुःखिता भीता एतेषां दर्शनेऽशुभम् ॥ ३३ ॥ तिथिनक्षत्रवाराणां मुहूर्त च यथोदितम् । हिताहितविभागेन कथ्यते निधिकर्मणि ॥ ३४ ॥ सोमार्के निधिलाभः स्यावायां नच लभ्यते । पुष्ये तृप्ते च विद्वांसो! ध्रुवं सिद्धिः पुनर्वसौ ॥ ३५ ॥ आश्लेषायां भवेद् वस्तुविग्रहोऽप्यथ बन्धनम् । फल्गुन्यां धनलाभः स्यान्मखायां मरणं ध्रुवम् ।। ३६ ॥ चित्रायां कलहोद्वेग उत्तरा सिद्धिदा स्मृता । विवादो जायते स्वात्यां विशाखा मृत्युदायिनी ॥ ३७ ॥ १. 'जोनड्डांश्च चामरः' क. पाठः. २. 'ने', ३. 'शुक्लगुञ्जी च', ४. 'दा', ५, 'ला' ग. पाठः. ६. “जा', ७. 'म्भधरा ना', ८. 'त्रा सहभ', ९. 'सुहृद्दर्श', १०. 'द्वामिरुरुहः', ११. 'सौम्ये नि', १२. धारण संज्ञितम्' क, पाठः, १३. 'द्धिकृन्मता' ग. पाठः, १२ १३ , ६ २ प्रथमः परिच्छेदः । अनुराधा वरा प्रोक्ता ज्येष्ठायां सिद्धिरुत्तमा । पूर्वाषाढ़े भवेदत्र मूले शोणितदर्शनम् ॥ ३८ ॥ धनिष्ठायां भवेत् क्लेशः श्रवणे सिद्धिरुत्तमा। पूर्वभाद्रपदे क्षेमो भरण्यां मरणं ध्रुवम् ॥ ३९ ।। अश्विनी रेवती पुण्या कृत्तिका कार्यनाशिनी। रोहिण्यां सिद्धिरित्युत्तं नक्षत्रफलमेव च !! ४० ॥ क्रूरवारास्त्रयो वा भौमार्कशनिवासराः । व्यतीपाते त्र्यहं वयं वैधृतौ च दिनत्रयम् ॥ ४१ ॥ दिनक्षये व्यहं वयं दिनादौ प्रहरद्वयम् । आषाढे मित्रनक्षत्रे यावत् स्वपिति नो हरिः॥४२॥ एतदन्तरमासाद्य खन्यं कुर्वीत मन्त्रधीः । मार्गशीर्षे शुभे भासि नक्षत्रे चन्द्रदैवते ॥ ४३ ।। खन्यं कुर्वीत सहारे यावदाषाढकं हितम् । न कुर्यात् परतः खन्यं यदि कुर्यादसिद्धिदम् ॥ ४४ ॥ उभे ते मैत्रनक्षत्रे अनूराधा विशेषतः । मृगशीर्ष पुनश्चात्र प्रशस्तं खन्यकर्मणि ॥ ४५ ॥ शतसङ्ख्याधनं ग्राह्यं सहायत्रितयं शुभम् । तुषस्तृष्णाभिहस्ता च जराजर्जरसन्धयः :: ४६ ॥ निषादा रक्तवस्त्राश्च काषायाम्बरधारिणः । लाक्षाङ्गारकधूमाग्निनियमस्थो नरोत्तमः । ४७ ॥ १. 'दित्यशनैश्चराः', २. 'वित् । मा' ग. पाठः. ३. 'र्षपुरश्चन्द्रः प्र' क. पाठः. ४. 'शुभानूर्णनिहस्ता च मुरार्जनरसैन्धवम् । नि' ग. पाठः. ५. 'रकालो वायुना तथा । गुणवस्तु वयो ज्ञेय अजपञ्चश' क. पाठः, निधिप्रदीये द्विगुणस्तु वयो ज्ञेयो अष्टपञ्चशतेषु च । चत्वारिंशतसहस्रेषु षोडशद्विगुणा मताः ॥ ४८ ॥ कोटिवित्तं भवेद् यत्र सहायानां शतं च वै। कोट्यधं च तदर्धेन तदर्धे द्विशतं तथा ॥ ४९ ॥ तदेतद् द्वित्रिचत्वारिपञ्चषट्सप्तधा मताः । सप्तविंशतिसङ्ख्यानि कोटिवित्ते यथामतम् ॥ ५० ॥ इति शाम्भव(सिद्धे)न निधिकर्म प्रकीर्तितम् ॥ ५० ॥ इति निधिप्रदीपे प्रथमः परिच्छेदः ॥ अथ द्वितीयः परिच्छेदः। निधिस्थानानि कथ्यन्ते जलस्थलदिवस्तथा। नदीतटाककूपेषु वापीपुष्करणीषु च ॥ १॥ समुद्रस्थानमित्याहुः स्थलस्थं चोच्यतेऽधुना। विष्णुस्थाने शिवस्थाने मातृस्थाने तथैव च ॥ २ ॥ अन्येषु देवतास्थानेष्वथो ग्रामस्य मध्यमे । ग्रामसीमासु चान्यस्मिन् सीमास्थाने तथैव च ॥ ३ ॥ गृहे विप्रनृपाद्यानामन्येषां विभवान्विते । चत्वरे द्वारि पृष्ठे च तोरणे मण्डपे तथा ॥ ४ ॥ गजाँजिगृहे चापि महावृक्षस्य मूलके । एकशीर्षेषु वृक्षेषु वनेषूच्चस्थलेषु च ॥ ५ ॥ १. 'स्तु सहो ज्ञे', २. 'द्वादशस्तथा', ३. 'धिकर्मप्रदीपिके प्र', 'शालां वाजिशालां म' ग. पाठः, द्वितीयः परिच्छेदः। नीचस्थाने श्मशाने च वने चोद्यानकेऽपिच । गोपालभवने गुह्ये सोपाने धान्यशालके !! ६ ॥ शून्यागारे खवटे च समे विषमभूमिषु । नदीसमुद्रयोगेषु प्राकाराणां च सैन्धिषु ॥ ७ ॥ कोष्ठद्वारे गृहद्वारे स्रोतसां च तथैव च । आन्तरिक्षाणि कथ्यन्ते गिरिसानुगुहादिषु ॥ ८॥ प्रासोदे गोपुरे चैव विमाने कुंड्यकेषु च । एवमादीनि चान्यानि अन्तरिक्षगतं धनम् ॥९॥ ततः परं प्रवक्ष्यामि जैलस्थानस्य लक्षणम् । प्रावृट्काले प्रसन्ने च यत्र निष्कलुषं जलम् ॥ १० ॥ येषु स्थानेषु सर्वत्र तेषु विद्याद् धनं ध्रुवम् । यदुष्णं शीतकाले तु ग्रीष्मे यच्छीतलं जलम् ॥ ११ ॥ तस्मात् प्रतिकृति भित्त्वा तत्र विद्याद् धनं ध्रुवम् । धूम्रमुत्पलपत्रं तु यत्र पुष्पं प्रसूयते ॥ १२ ॥ जले तत्र ध्रुवं विद्यान्निधानमिति बुद्धिमान् । अतः परं प्रवक्ष्यामि भौमस्यापि च लक्षणम् ॥ १३ ॥ व्याप्ता भूमिरियं कृत्स्ना द्रव्येणापि यथा जलैः । तत्रादितो हविष्यं स्यात् पुंसां दुष्कर्मसञ्चये ॥ १४ ॥ वहन्निधानं होमाय सोऽयं वै दर्शयन्ति हि (?) । स्थानानि विधिनान्यत्र निधीनां कल्पयन्ति च ॥ १५ ॥ १. 'सिद्धिपु', २. 'कारे गो', ३. 'गुह्यके', ४. 'नि- धिस्था', ५, 'मेयस्य च', ६. 'भविष्या स्या', 'दुष्कृत्यस', ८. 'हं निधानं भोगोऽयं स्वयं वै' ग, पाठः.

अकण्टकाश्च ये निधिप्रदीप यत्र धूमायते भूमियों च भूमिश्च निस्तृणा । यत्र विज्वलिता भूमिभौमोऽयमिति निर्दिशेत् ॥ १६ ॥ रात्रौ विज्वलिता भूमिर्दिवा नैव च दृश्यते । हर्ष वा जायते भूमौ भौमोऽयमिति निर्दिशेत् ॥ १७ ॥ यत्र पूर्वसुगन्धः स्यादाज्यधूमाकृतिश्च यः ! वसन्तवनगन्धो वा भौनेयं तत्र निर्दिशेत् ॥ १८ ॥ वृक्षगुल्मलतादीनां लक्षणं तु विधीयते । अपुष्पाश्च सपुष्पाश्च अफलाः सफलाश्च ये॥ १९ ॥ वृक्षा भौमेयं तत्र निर्दिशेत् । पुष्पोपरिष्टात् पुष्पं च भौमेयं तत्र लिर्दिशेत् ॥ २० ॥ स्वभावाद् विपरीतैश्च पत्रपुष्पलाङ्कुरैः । द्रुमाः पर्णप्रमाणैश्च भौमेयं तत्र निर्देशेत् ॥ २१ ॥ स्वभावादपि वृक्षस्य नवन्तो रक्तबिन्दवः । विश्रुतः प्रतिशब्दश्च तत्र वित्तं विनिर्दिशेत् ।। २२ ॥ द्रुमप्रमाणैरा वृक्षात् प्ररोहं यत्र सुश्चति । प्ररोहे दृष्टमात्रे तु वसु विद्यादसंशयम् ॥ २३ ॥ एकाङ्गुलपरीणाहे प्ररोहे लभते धनम् । द्वात्रिंशोदिति वा पृष्ठे पञ्चपञ्चाशतेऽपि वा ॥ २४ ॥ षष्ठयर्थेङ्गुपरीणाहे विद्यात् पञ्चशतं धनम् । षोडशाङ्गुलिके ज्ञेयं सहस्रं नात्र संशयः ॥ २५ ॥ विंशत्यङ्गुलिके विद्यात् सहस्राणि बहूनि च । त्रिंशदङ्गुलिके ज्ञेयं सहस्राणां शतं वसु ॥ ॥ २६ ॥ १. 'लताङ्कु', २. 'शदति वा पृष्टौ प' ग. पाठः, द्वितीयः पारदः । अतः परं प्रवृद्धे तु कोटिं तत्र विनिर्दिशेत । मृगपक्षिकृमीणां च लक्षणं तु विधीयते ॥ २७ ॥ अधोमुखोऽपि यस्तिष्ठेद् वृषो दृष्टश्चतुष्पथे । रमते गजेते वापि तत्र वित्तं विनिर्दिशेत् ॥ २८ ॥ कृकलासाः शुनश्चैव गर्दभाश्चैव सूकराः! दृश्यन्ते यत्र क्रीडन्ति तत्र विद्यान्न संशयः ।। २९ ॥ वराहोऽप्यथवा नित्यं ज्वलते च महीतले । तत्र वित्तं विजानीयान्महाकालवचो यथा ॥ ३० ॥ यत्र चेन्द्रधनुर्नित्यं वल्मीकेषु च तिष्ठति। न चेत् तु वर्षाकाले तु तत्र वित्तं विनिर्दिशेत् ॥ ३१ ॥ यत्र गत्वा सदाकालं शिवा रावं विमुञ्चति । अधोमुखं विलिखिते तत्र वित्तं विनिर्दिशेत् ॥ ३२ ॥ पक्षिणां लक्षणं चैव विधानं शृणु साम्प्रतम् । श्येनाः काका बकाः श्वीना अन्येषां बहुपक्षिणाम् ॥ ३३ ॥ सततं यत्र तिष्ठन्ति निधिस्तत्र न संशयः। यत्र गत्वा सदाकालं रमते सेवते द्विजः॥ ३४ ॥ खनते चैव पादेन तत्र विद्यान्महानिधिम् । गृध्रो वल्मीकमारुह्य पादेनकेन तिष्ठति ॥ ३५ ॥ खनते वान्यपादेन तत्र वित्तं विनिर्दिशेत् । कृमिकीटादिभेदानां लक्षणं तु विधीयते ॥ ३६ ।। पाण्डुश्वेतसिताद्युक्तं हेमपीतोऽरुणो भवेत् । कारुणं तथा तानं कृष्णां श्यामं च नीलता ॥ ३७ ॥ १. 'टिवित्तं वि', २. 'शौनकाश्च बकाछीका अ', ३, ते सदा ॥', ४. 'ने', ५. म्रा' ६. 'ण' ग. पाठः, १ .. १० निधिप्रदीपे अन्योन्यं शत्रवो यत्र कृमिकीटसरीसृपाः । क्रीडन्ति सहिता यत्र औमेयं तत्र निर्दिशेत् ॥ ३८ ॥ अन्येषां चैव भीमानां लक्षणं तु विधीयते । चतुरश्रं त्रिकोणं वा भूतलं यत्र दृश्यते ॥ ३९ ॥ तत्र कल्लूरिका नाम निधिदेवविनिर्मिता । भिन्नमस्तकसङ्काशः प्ररोहो दृश्यते बटे ॥ ४० ॥ तस्याधः संस्थितं द्रव्यं जानीयादुक्तलक्षणम् । स्थलजाश्च जले वृक्षा जलजाः स्थलभूमिषु ।। ४१ ॥ अक्षीराः क्षीरवृक्षाश्च सक्षीराः क्षीरवर्जिताः । विपरीतफलोद्भेदा दृश्यन्ते यत्र भूरुहाः ॥ ४२ ॥ अवश्यं तत्र वित्तं स्यात् साधयेद् विधिना बुधः। करिहस्तसमाकारः प्ररोहो दृश्यते व(देत् ? टे)॥४३॥ रक्तं सवति भिन्ने च तत्र वित्तं न संशयः । कूर्माकृतिप्ररोहः स्यात् सहस्रं शिवचोदितम् ॥ ४४ ॥ अव्यक्तकलशाकारे गोधाकारप्रकारके । पद्मपुष्पे शुभे शुक्ले तदधोनिधि निर्दिशेत् ॥ ४५ ॥ ध्वजमीनसमाकारः प्ररोहो दृश्यते वदेत् ? टे)। शतसाहस्रकं वित्तं तदधो लभ्यते ध्रुवम् ॥ ४६ ॥ ग्रीष्मे सूर्याशुभिर्दग्धा शोषं नायाति या मही । दावानलेन दग्धा वा तोयसम्पर्कवर्जिता ॥ ४७॥ १. 'यं नात्र संशयः ॥', २. 'प्रभूतं य', ३. 'प्रदरो दृ', ४. 'देत् ॥', ५. क्षीरिणी भूत्वा स ग. पाठः. ६, 'धः । जीर्णो- द्यान' क.ग, पाठः, द्वितीयः परिच्छेदः । ११ प्रदेशे कुत्रचित् तत् स्यात् पत. सेवितो यदि। कोमलः शाइवलो रच्यो दृश्यते पांसुसञ्चयः ॥ ४८ ।। गोकुलैबहुभिः स्निग्धैः खाद्यमानोऽपि नित्यज्ञाः। पुनश्च तादृशो भूयान्निधानं तत्र लक्षयेत् ॥ ४९ ॥ अनारोहेषु वृक्षेषु यद्यारोहः प्रदृश्यते । निधानं लक्षयेत् तत्र लभ्यं भाग्यवतां नृणाम् ॥ ५० ॥ बहूनां यत्र वृक्षाणामेक एव तरौ खगाः । वसन्ति सकलं कालं निधानं तत्र लक्षयेत् ॥ ५१ ॥ जीर्णोद्यानतटाकेषु शून्यप्रामवनेषु च । मातरो यत्र तिष्ठन्ति निधिस्तत्र न संशयः ।। ५२ ।। गोधू + ++मै+र्य निखनेच्छङ्कितस्थले। सप्तरात्रे व्यतिक्रान्ते यदि जीर्यन्ति तेषु ते ॥ ५३ ॥ तथा तत्र धनं ज्ञेयं कुलिशेन च भाषितम् । अधोमुखेषु वृक्षेषु प्रान्ते तत्र धनं भवेत् ॥ ५४ ।। सोदके प्रावृषः काले तृणं यत्र न जायते। दृश्यते शाडवलं ग्रीष्मे तत्र वित्तं विनिर्दिशेत् ॥ ५५ ॥ ज्वालां वै वर्षकाले तु प्रसूयेत वसुन्धरा । अपत्राः पत्रिणश्चैव सपत्राः पत्रवर्जिताः ॥ ५६ ॥ अत्युष्णाः शीतकाले तु तत्र विद्यान्निधिं स्थितम् । उध्यो षष्टिसहस्राणि अशीतिधूनदर्शने ॥ ५७ ॥ १. 'बदेत्', २. 'उ', ३. 'शरद्धेनन्त वर्षा नु स' ज. पाठः, १२ निधिप्रदीप कोटिस्तु ज्वलिते ज्ञेयमित्याह भगवाञ्छिवः । श्वेता रक्ता च पीता च गोधा चैव तु मूषिका ॥ ५८ ॥ चित्तिर्वा स्वपते यत्र तत्र वित्तं विनिर्दिशेत् । एकत्र सर्पनकुलौ रमेते वैसतौ यति ॥ ५९ ॥ तत्र वित्तं विजानीयान्महाकालवचो यथा । यत्र यत्र च सन्दृष्टो यक्षो वा राक्षसोऽपि वा ॥ ६ ॥ तत्र वित्तं विजानीयान्महाकालवचो यथा । गिरिगह्वरदेशे तु प्रतिशब्दं विमुञ्चति ॥ ६१ ॥ गृहगह्वरदेशे वा तत्र वित्तं विनिर्दिशेत् । चतुष्पथे कृते वृक्षे वल्मीको यदि मुञ्चति ॥ ६२ ॥ विवर्णफलपुष्पं वा तत्र वित्तं विनिर्दिशेत् । धूमायते यथा वृक्ष ऊष्माणं च तथा ध्रुवम् ॥ ६३ ।। प्रतिशब्दं विमुञ्चत धनं तत्र शिवोऽब्रवीत् । वल्ली गृहप्रदेशे तु रात्रौ प्रज्वलिता यदि॥ ६४ ॥ क्षते तु स्रवते क्षीरं तत्र वित्तं विनिर्दिशेत् । अर्चितस्य तु लिङ्गरय विपरीतं तु दृश्यते ॥ ६५ ॥ पत्रं पुष्पं फलं वापि निधिं तत्रेश्वरोऽब्रवीत् । क्रमुकं नालिकेरं वा तालं खजूर मेव वा ॥ ६६ ॥ द्विशिरास्त्रिशिरा वापि तत्र वित्तं विनिर्दिशेत् । श्मशाने यत्र दृश्यन्ते बुद्धस्य प्रतिमा यदि ॥ ६७ ॥ निर्जलं पङ्कजं वापि तत्र वित्तं विनिर्दिशेत् । वृक्षगुल्मलतालक्ष्मीजलजाः स्थलजा अपि ॥ ६८ ॥ १. 'च्छि', २. 'सेवते य, ३. 'ग्रहगहरंगेहे वा' ग, पाठः.

१३ तु तु द्वितीयः परिच्छेदः । प्रकृतेर्विकृतं प्राप्ते तत्र वित्तं न संशयः । लिखिता यत्र पाषाणे दृष्टा येऽन्योन्यशत्रवः ।। ६९ ॥ तस्मिन् परीक्षयेद् धौमाञ् शिलापट्टे तु निर्दिशेत् । पञ्चसप्तशिरस्का वा त्रिशिरस्काश्च पन्नगाः ॥ ७० ॥ पाषाणे लिखिता यत्र एकान्तं भौमलक्षणम् । लक्षणं भूमिजं भौमं मया प्रोक्तं समासतः ॥ ७१ ॥ अन्तरिक्षस्थभौमानां लक्षणं साम्प्रतं शृणु । नवाकृतियुता यत्र प्रतिमा यत्र तिष्ठति ॥ ७२ ॥ मुखवाग + रे वापि तत्र वित्तं विनिर्दिशेत् । नाभौ तु नाभिमात्रं स्तने स्तनमादिशेत् ॥ ७३ ॥ कपोले कर्णदेशे तु कर्णमात्रं तु तद् भवेत् । अन्योन्यदर्शने वापि प्रतिमासु परस्परम् ॥ ७४ ॥ तत्र वित्तं विजानीयान्महाकालबचो यथा । प्रतिमादेवता यत्र प्रतिमा यत्र तिष्ठति ॥ ७५ ॥ मुखेवजेजले वापि तत्र वित्तं विनिर्दिशेत् । प्रतिमा देवता(का? गा)रे प्रतिशब्द विमुञ्चति ॥ ७६ ॥ मुखे तु तिष्ठते वित्तं महाकालवचो यथा । विहारे प्रतिमा यत्र यत्र रूपं सुशोभनम् ॥ ७७ ॥ अनिन्दितं हि विद्येत धनं तत्र विनिर्दिशेत् विनायकस्य प्रतिमा स्थापिता चोत्तरामुखम् ॥ ७८ !! कुम्भमस्तकमध्यान्ते तत्र वित्तं विनिर्दिशेत् । प्रस्तरोहे प्ररोहे वा निधि तत्र विनिर्दिशेत् ॥ ७९ ॥ १. तिर्थ गायत्रिन ज. ३. 'दृश्येत' ग. पाठः, १ • निधिप्रदीपे आत्मान प्रतिमा यत्र परस्मै दर्शयेद् यदि । अङ्गुल्यग्रेण वा सम्यक् पतते वा यथाक्रमम् ॥ ८ ॥ एतत्स्थानमतो नौतासंशयं निर्भयं धनम् । यस्माद् बिलेशयाः केचित् संहिता नगरादिषु ॥ ८१ ॥ क्रीडन्ति प्रतिमा यत्र निधानं तद्गतं विदुः । कीडन्ति बाहवो यस्य दर्शने च सकृत् सकृत् ॥ ८२ ॥ महोदरा या प्रतिमा निधानं तद्गतं विदुः। बिलेशया द्विपुच्छास्तु तत्र चास्ति ध्रुवं धनम् ॥ ८३ ॥ यावत्ससहितो यत्र शैल तद् दृश्यते यदि । बहु चैकस्थितं वापि तदन्तर्गतमामिषम् ॥ ८४ ॥ ऊर्ध्ववक्राप्यधोदृष्टिरेकस्थाधिकरोदिनी। जलं स्रवति वा यत्र तत्र वित्तं विनिर्दिशेत् ॥ ८५ ॥ अश्रुपूर्णमुखी देवमातृका यत्र दृश्यते । निधानं तत्र विज्ञेयं शीघ्रसाध्यं न संशयः ॥ ८६ ॥ एकैव प्रतिमा यत्र माता भवति तत्तले । तत्र वित्तं विजानीयान्मन्त्रविन्नविवर्जितम् ॥ ८७ ।। विकृतप्रतिमा यत्र सप्ताश्रं पद्मपाणिका । तस्याः पार्दतले विद्यात् कोटिसङ्ख्यधनं बृहत् ॥८८॥ एकनेत्रा भवेद् यत्र देवी मातापराजिता । तत्र पञ्चसहस्राणि साधयेद् बलिदानतः ॥ ८९ , १. 'म' क. ग. पाठः, २. 'मायां तु नि', ३. 'हि', ४. 'शै- लद दृश्यते।' ग. पाठः. ५. 'षु', ६. 'वी' क. ग. पाठः, ७. 'तत्र चेत् । स्थितं वि' ग, पाठः. ८. 'णि' क. पाठः. ९. 'ता ततः' ग• पाठः, द्वितीयः परिच्छेदः। १५ ऊर्ध्ववक्रा भवेद् यत्र देवी तत्र धनं तयोः । मातृमण्डलमध्यस्थं यत्रान्यद् रूपकं भवेत् ॥ ९ ॥ सहस्रैकं मतं वित्तमुद्धरेद् विनवर्जितम् । स्वज मीनसमाकारः लम्बयद् यत्र दृश्यते ॥ ९१ ॥ घटस्थं तत्र जानीयाद् वित्तमीश्वरभाषितम् । मुसलोलूखलाकारः प्ररोहो यत्र दृश्यते ॥ ९२ ॥ दशसाहस्रकं वित्तं तदधो लभ्यते ध्रुवम् । कुम्भीलैमकरे कोष्ठमवगच्छ वृषाकृति ।। ९३ ॥ खजूरफलसङ्काशा तथा तालफलोपमा । वाहमिश्रफलाकारैर्जम्बूकफलसन्निभैः ॥ ९४ ॥ माषाकृतिः प्ररोहः स्यात् तदधः संस्थितो निधिः । भौमानामन्तरिक्षे तु लक्षणं समुदाहृतम् ॥ ९५ ।। हेमवर्णगता ज्वाला छत्राकारेण दृश्यते । निधिोलागले ज्ञेयः साधयेत् तं विधानतः ॥ ९६ ॥ ज्वालामात्रं हिरण्याभं यत्र स्यात् तत्र निश्चितम् । सहस्रहितयं विद्वानादिशेदविचारतः ॥ ९७ ॥ हेमाभा छत्ररूपेण यत्र ज्वाला भवेद् भुवि । पुरुषस्य प्रमाणेन तत्र वित्तं न संशयः ॥ ९८ ॥ यत्र व्यक्ता भवेज्ज्वाला विविधा तत्र लक्षयेत् । कोट्यध रत्नसंमिश्रं वित्तं विद्यान्न संशयः॥ ९९ ॥ प्रदिशेन्निधिमानीय पर्वतं वा तिरोहति । धूम्राभा कृष्णवर्णाभा ज्वाला सूक्ष्मा तटित्प्रभा॥१०॥ १. 'त', २. 'लं कमरक्ताष्टाम', ३, 'स', ४, 'रैः करजस', 'सु', ६. 'ते' ग, पाठः, ६ १६ निधिप्रदीपे २ अतसीपुष्पसङ्काशा सिन्दूरसदृशापि वा। नवज्वाला तु सा ज्ञेया वर्जनीयातिदूरतः ॥ १०१॥ नक्रमण्डूकनकुलकूर्माकारास्थिभस्मनाम् । वल्मीतरुपुलेऽखानि यत्र तत्र तथा निधिः ।। १०२॥ निर्णयेन शिलोत्पन्ना मुसली स्थूलमूर्ध्वजा । ऊर्ध्वसीमाथवा यत्र दृश्यते प्रतिमा क्वचित् ॥ १०३॥ षट्सहस्राणि तत्कुक्षौ सञ्चितानेन उच्यते । रेणुका नार्दिका चण्डा चण्डोत्पलसमन्विता ॥ १०४ ॥ पिष्ट्वा तक्रेण तत्कुक्षितल्लेपात्तत्र भेदकः । यत्र दृष्टिर्भवेल्लीना प्रतिमायां विनिर्दिशेत्॥१०५ ।। निधानं तत्र घोरेण बलिनान्नेन साधयेत् । शिरःकीलसमायुक्तं प्रतिमायां भवेत् कचित् ॥ १०६ ॥ तस्याः शिरसि जानीयात् पूर्वयोगेन चोद्धरेत् । एकाङ्गा व्यङ्गता सा चेत् तस्याः पादगतं धनम् ॥१०७॥ छत्रं प्रदृश्यते यत्र विकृतं यस्य कस्यचित् । तत्तले संस्थितं वित्तं जानीयादविचारतः ॥१०८॥ बिन्दुयुक्ता प्रशोणा च प्रतिमा संस्थिता भवेत् । तत्कुक्षिसंस्थितं वित्तमवश्यं शबरोऽब्रवीत् ॥ १०९ ।। स्वबाहुमीक्षमाणा तु प्रतिमा यत्र दृश्यते । तस्या बाहुगतं वित्तं सहस्रैकं न संशयः ॥ ११० ॥ १, 'ताम्', २, 'ल', ३. 'जाः', ४. 'दि', ५. 'मा वापि नि', ६. 'क्तं प्रणाशं च', ७. 'वा' ग. पाठः.

द्वितीयः परिच्छेदः १७ त्रिशूलं पट्टेसं वापि यस्या उरसि दृश्यते । तत्कुक्षिसंस्थितं वित्तं शतद्वयमुदाहृतम् ॥१११ ॥ दे१रो मस्तके यस्याः प्रतिमार्योः प्रदृश्यते। शतानि पञ्च वित्तस्य तत्र स्थाने शिवोदितम् ।। ११२ ॥ एकोन्नतं भवेद् यत्र प्रतिमा चारुहासिनी। तस्याः स्तनगतं वित्तं विघ्नं न स्याच्छतद्वयम् ॥ ११३ ।। शिरोद्वयं भवेद् यस्य तस्य मस्तकसंस्थितम् । सहस्रकं धनं विद्धि तदृष्टं तत् प्रसाधयेत् ॥११४ ।। काणा कुब्जा भवेत् तस्याः काणाया लोचने शतम् । कुब्जापादतले वित्तं ग्राह्यं मन्त्रौषधे विना ॥११५ ।। पाशहस्ता नराकारा प्रतिमा यत्र दृश्यते । तत्र पञ्च सहस्राणि साधयेद् विनवर्जितम् ॥ ११६ ॥ नाभिहीनं च यद् रूपं दृश्यते नाभिदेशतः । निर्विघ्नं वित्तमुद्दिष्टं बलिमन्त्रविवर्जितम् ॥ ११७ ॥ पादमाक्रम्य पादेन जंधिका चाथ जङ्घयोः । शतानि पञ्च तिष्ठन्ति शङ्खपद्मे न संशयः ॥ ११८ ॥ निगलं बध्यते दृष्ट्वा स्त्रियो वा पुरुषोऽथवा । प्रतिमा कोटिसङ्ख्याकं धनं तत्र विनिर्दिशेत् ॥ ११९ ॥ कुञ्चितौ चरणौ यस्य प्रतिमा यत्र दृश्यते । सहस्रपञ्चकं तस्य पादाधस्तिष्ठति ध्रुवम् ।। १२० ॥ १. दृिशं वा' क. पाठः. २. 'तदुरो, ३. 'स्य', ४. 'यां', ५. वेद्यानि त' ग. पाठः, ६. 'यः स्वापत्तौ शतं वित्तं विनं यस्या शत', ७. 'त' ग. पाठः. ८. 'जङ्घाया चाथ जाचिका ।' क, जङ्घापद्ये न', १०, ११. 'पि' ग. पाठः, पाठः. 2.

१ १८ निधिप्रदीप श्मशाने यदिवा रथ्ये बालवृक्षे चतुष्पथे । अलिङ्गप्रतिमाः सत्त्वं स्थितेंऽशं तद्गतं धनम् ?॥१२१ ।। ऊर्ध्वबाहुरतिक्रूरा प्रतिमा यत्र दृश्यते । अनिर्दिष्टं भवेद् वित्तमविघ्नं तत्तले स्थितम् ॥ १२२ ॥ अजस्य प्रतिमा यत्र खड्गहस्ता प्रदृश्यते । तस्याः स्कन्धे स्थितं द्रव्यं सहस्रं विनवर्जितम् ॥ १२३ ॥ ऊर्ध्वकेशा भवेद् यत्र गणेशप्रातेमा यदि । सहस्रपञ्चकं तस्याः शिरोधो निर्दिशेद् बुधः ।। १२४ ।। अजरूपा त्रिनेत्रस्य प्रतिमा यत्र दृश्यते । चत्वारिंशतसहस्राणि तत्तले फलमादिशेत् ॥१२५ ॥ प्रासादे प्रतिमा यत्र जल्पति श्रूयते यदि । निधानं तत्र विज्ञेयं बलिमन्त्रेण साधयेत् ॥ २२६ ॥ त्रिपादप्रतिमा यत्र चक्रहस्ता प्रदृश्यते । हस्तमात्रोदये वित्तं निर्विघ्नं साधयेद् बुधः ॥ १२७ ॥ एकपादा भवेद् यत्र प्रतिमा दृश्यते वदेत् । सहस्रं तत्र निर्दिष्टं जपात् स्पृष्टावशीर्यते ॥ १२८ ॥ नागस्य प्रतिमा यत्र दृश्यते नरवाहना । अफणा सर्पशीर्षा वा निधिं तत्र समादिशेत् ॥ १२९ ॥ इति निधिप्रदीपे शिलादिप्रतिमालक्षणे द्वितीयः परिच्छेदः॥ Ta १, “दि' ग. पाठः, अथ तृतीयः परिच्छेदः । परीक्षालक्षणं वक्ष्ये कृमिपुष्पौषधादयः । परीक्षया विना यत्र न्यासस्थानं न दृश्यते ॥१॥ परीक्षाया विधानेन भौमेयं कर्तुमर्हथ । ऋषयो वाञ्छितोः सन्ति सहायाश्चात्र नासहाः ॥२॥ वृथा श्रमो भवेदेषा तत्परीक्षा न कारयेत् । सुपरीक्षा तु कर्तव्या सम्यक् तु फलमिच्छता ॥ ३ ॥ प्ररोहप्रतिमायाश्चेत् परीक्षा यत्र दृश्यते । प्ररोहमात्रे दृष्टे तु निस्सन्देहः परीक्षयेत् ॥ ४॥ भौमेयं सुपरीक्ष्यं तु संशयच्छेदनाय तु । प्रशस्तेऽहनि नक्षत्रे सौम्ये संवत्सरे गुणे ॥ ५ ॥ मातृवाहाः कर्कटश्च बहवो यत्र सैङ्गिनः । यस्मिन् सम्पिण्डिताः सर्वे तत्राप्येव न संशयः ॥६॥ निधिं तत्र विजानीयान्नात्र कार्या विचारणा । आत्मनां तु विपक्षास्तु मल्लिका दधिलेपिताः॥७॥ अधोमुखाः प्रतिष्ठाप्य सन्ध्यायां पञ्च सप्त वा । मन्त्रेणानेन संस्पृश्य स्थाप्यन्ते मल्लिकास्तदा ॥८॥ वसु यद्यस्ति तंत्रस्थं दधिवर्णं विमुञ्चति । पीतं वा रक्तकृष्णं वा अन्यद्वात्र भवेद् यदि ॥९॥ १. 'सि', २. 'तान् हन्ति', ३. 'णम् ॥' ग. पाठः. 'संस्थिताः।' क. पाठः, ५. 'तु', ६. 'तत् तत्र द' ग. पाठः.

२० निधिप्रदीपे ततो निस्संशयो भूत्वा तत्र तन्मल्लिका भवेत् । तत्रारम्भं ततः कुर्यात् तद् दृष्ट्वोपस्थिता जनाः ॥१०॥ कार्पासास्थिमयान् मूलान् गोमूत्रेण प्रलेपयेत् । आमं शरावं सन्दीप्य दत्त्वा भूमौ निधापयेत् ॥ ११ ॥ प्रभाते यदि सम्पश्येदग्निदग्धसमप्रभम् । व्यक्तं तत्र विजानीयात् कर्म तत्र समारभेत् ॥ १२ ॥ शिखिपित्तं हे हरिद्रे मरिचोदुम्बरं तथा । कार्पासास्थितुषाश्चैव समभागं विलेपयेत् ॥ १३ ॥ शिरःकण्ठकपालाना प्रलेपोऽयं विवर्णकः। निधि तत्र विजानीयाद् विशेषेणोपलक्षितः ॥ १४ ॥ हरिद्राकल्कसंस्पृष्टं क्षीरं भूमौ निषेचयेत् । प्रभातें भस्मसङ्काशा भूमिः स्यात् तत्र निश्चितम् ॥१५॥ पद्मपत्राणि चालोक्य शङ्कास्थाने निधापयेत् । यस्यैरण्डस्य पत्राणि पूर्णानि निशितानि च ॥१६॥ श्वेता भूमिथथान्यानि लक्षणेन च लक्षयेत् । गन्धपाषाणभागेन हरितालं मनश्शिला ॥ १७ ॥ तच्चूर्णं पद्मपत्रेण वर्तिकां पूजयेद् बुधः । औदुम्बरफलं गृह्य सुरया सह पेषयेत् ॥ १८ ॥ स्वभावाद् विपरीतश्चेत् तत्र वित्तं विनिर्दिशेत् । शालिपिष्टमयीं वर्ति तैलमिश्रां विचक्षणः ॥ १९ ॥ सुरया सह सम्मिश्रं शङ्कास्थाने निधापयेत् । रात्रौ वाऽस्तमिते काले दपिवत् सम्प्रकाशते ॥ २० ॥ * इत परं श्लोकत्रयं ग-पुस्तके न दृश्यते ।

तृतीयः परिच्छेदः। भौम तत्र विजानीयाद् भगवानीश्वरोऽब्रवीत् । स्थाप्य नीवारपिष्टं तु दधिमिश्रं विचक्षणः ॥ २१ ॥ स्वभावाद् विपरीतश्चेत् तत्र वित्तं विनिर्दिशेत् । जातीमुकुलकं वापि कैदम्बमुकुलोऽथवा ॥ २२ ॥ सुरायोः क्षीरसम्पृक्तो परीक्षा तत्र कारयेत् । पायसं तैलसम्मिश्रं स्थापयेद् रविवासरे ॥ २३ ॥ . धनं तत्र विजानीयाद् विवर्ण तु यदा भवेत् । जम्बूकत्वक्कषाये तु तिलतैलं विभावयेत् ॥ २४ ॥ दधिम(धन्थ) समायुक्तं विपरीतं धनं भवेत् । प्रातःकाले तु विप्रेन्द्राः! परीक्षा कथिता मया ॥ २५ ॥ सर्षपं तिलपिष्टं तु सुरया सह पेषयेत् । स्वभावाद् विपरीतश्चेत् तत्र वित्तं विनिर्दिशेत् ॥ २६ ॥ सर्पनिर्मोचनं ग्राह्य हरितालं मनश्शिला । गन्धपाषाणचूर्णेन क्षौद्रेण सह पेषयेत् ॥ २७ ॥ उपवासी शुचिर्भूत्वा काले वर्तिं प्रदापयेत् । गोधूमैर्घटमापूर्य निखनेच्छङ्कितस्थले ॥ २८ ॥ गोक्षीरेणाभिसम्पेष्य राजिकान् कोद्रवांस्तिलान् । शणबीजानि मृत्स्थाने शङ्कित तैनिषेचयेत् ॥ २९ ।। सुदर्शनसमायुक्तं नृहरिं तत्र पूजयेत् । तस्मिन् हेमप्रभे दृष्टे प्रभाते निधिमादिशेत् ॥ ३० ॥ अर्जुनस्य कदम्बस्य लोध्रस्य खदिरस्य च । ब्रह्मवृक्षस्य पत्राणि काञ्चिकेनातिपेषयेत् ॥ ३१॥ १. 'बिसकामुकुलेन वा', २. 'भ', ३. धवलस्य' ग. पाठः, ३ २ ३ २२ निधिप्रदीपे निशायां लेपयेत् तेन भूमिके मन्त्रवित् ततः । प्रभाते दृश्यते भूमिरतत्र वित्तं विनिर्दिशेत् ॥ ३२ ॥ कुङ्कुमरय करञ्जस्य नालिकेरस्य पल्लवान् । शुण्ठयाश्च काञ्चिकेनाथ पिष्ट्वा भूमि प्रलेपयेत् ॥ ३३ ॥ प्रभाते दृश्यते भूमिस्तत्र वित्तं विनिर्दिशेत् । बिल्वं कदम्बमादाय काश्चिकेनाथ पेषयेत् ॥ ३४॥ प्रदेश लेपयेत् तेन विवर्ण धनमादिशेत् । सिंहपादाङ्कितं पढें प्रलेपाद् यत्र दृश्यते ॥ ३५ ॥ सिंहिकाव्याघ्रपादाश्च तत्र वित्तं न संशयः। मुखे मुख सहस्राणि ज्ञातव्यानि चतुर्दश ॥ ३६ ॥ अतसीपुष्पसङ्कल्क लिप्तमात्रे विशीर्यते । नक्रमण्डूकयोमैदोयुक्तास्तक्रेण लेपिताः ॥ ३७ ।। शिलाः स्फुटन्ति मन्त्रेण पुण्डरीकेण मन्त्रिणा । अनेन मनुना ग्राह्य निधानं मन्त्रिणा सदा ॥ ३८ ॥ दारुसङ्घट्टपट्टानां शिलानां च विभेदतः । विनशान्तिश्च कर्तव्या पुण्डरीकेण मन्त्रिणा ॥ ३९ ॥ कृष्णायां तु चतुर्दश्यां तत्र नारायणं स्मरन् । मनुना ग्राह्यकं देवं निदानं मन्त्रिणा सह ॥ ४ ॥ दारुसङ्घट्टपट्टानां शिलानां च विभेदतः । विनशान्तिश्च कर्तव्या पुण्डरीकेण मान्त्रिणा ॥ ४१ ॥ १. 'गुण्ड्याश्च', २. 'तं विनिर्दिशेत् ॥', ३. 'ख' ग. पाठः, ६ तृतीयः परिच्छेदः । कृष्णायां तु चतुर्दश्यामहोरात्रोषितो नरः । नीलोत्पलैर्महेशानं पूजयेत् स शुचिर्भवेत् ॥ ४२ ॥ मन्त्रायुतं जपो होम देशांशेन विधीयते । तिलैर्गव्याज्यसंयुक्तस्तत्रं सिद्धो भवेन्मनुः ।। ४३ ॥ पञ्चहस्तो यदा पट्टो दृश्यते यत्र कुत्रचित् । हरिताङ्गारवर्णाभा त्रिशूलं वृषभाकृतिः ॥ ४४ ॥ सहस्राणां च पञ्चाशद् वित्तं कोणेषु संस्थितम् । लिप्ताङ्गकमथासीनः पुण्डरीकेण जापिना ।। ४५ ॥ सफला जायते शीघ्र निधिर्वहता यथा । तत्र वातायने देवी शिखर योजयेद् बुधः ॥ १६ ॥ अष्टहरता यदा पट्टा कोकाकारा मनोहरा । जालिनी ब्रह्मदण्डा च निर्यासं कमलोद्भवः ॥ ४७ ॥ एभिर्विलिखितः पट्टो रङ्गिणां मन्त्रयोगतः । शीर्यते योगतो वज्रसाधितः पर्वतो यथा ॥४८॥ धुधूरैः कल्कहं देहलशुनं सुरदारु च । विलङ्क हस्तिमूत्रेण पिष्ट्वा मन्त्री विलेपितः॥ ४९ ॥ द्विधा सञ्जायते पट्टे ब्रह्मशापहतो यथा । उद्धृते मालिनीमन्त्रं सर्वपट्टीविभेदनम् ॥ ५० ॥ १. 'त्रयुक्तं', क. पाठः. २. 'पेद्धोमं', ३. 'सहस्रं तु वि', १. 'संमिऔरत', ५. 'त', ६. 'ल', ७. 'प्तगन्धकमासी' ग. पाठः, ८. 'हस्तादादाय पट्टा तु कककारा' क. ख. पाठः, ९. 'षु हृल्लेपिका पट्टे र', १०. 'दृ' ग. पाठः, निधिप्रदीप कृष्णे श्वेतधिवः पट्टो रेखान्तो यदि दृश्यते । सहस्रपञ्चसङ्ख्या च तस्य मध्ये स्थितं धनम् ॥ ५१ ॥ आरनालेन सम्पिष्टं मुनिवृक्षस्य पल्लवम् । मालिनीमन्त्रजप्तेन तल्लेपेन धनोदयम् ।। ५२ ॥ आरग्वधस्य मूलानि मुनिवृक्षस्य पल्लवम् । वटवल्कललोभ्रं च माञ्जिष्ठा च समासतः ॥ ५३ ॥ अरसारजसम्मिश्रं कुलत्थं तत्र लेपयेत् । पिटवा महिषमूत्रेण पैश्चात् तत्र प्रलेपयेत् ॥ ५४ ॥ एवं भववचो योगि सर्वपट्टप्रभेदनम् । दत्तं त्रिदशभूदेवनक्षत्रं मन्त्रसमन्वितम् ॥ ५५ ॥ यया जयन्ति धीमन्तो वसुधाधरितं धनम् । तां वदामि महावर्तिमञ्जनान्यखिलान्यपि ॥ ५६ ॥ जीवजातिसमं किञ्चिद् यत्र यत्रोपयुज्यते । जीवस्वरिक्षितं ग्राह्यमथवा कालयोगतः ॥ ५७ ।। अर्कतूलमयी वर्तिः श्यामातैलेन भाविता । वेष्टिता नागवल्लीभिज्वलन्ती दर्शयेन्निधिम् ॥ ५८ ॥ गोधा चुचुन्दरी वैचसधा बहुभाविता । अर्कतूलमयी वर्तिभूमिगां दर्शयेन्निधिम् ॥ ५९॥ अर्कतूलमयी वर्तिर्भकतैलेन भाविता । गोशृङ्गस्थापिता दीप्ता पाताले दर्शयेन्निधिम् ॥ ६० ॥ १. 'कृष्ण श्येनाधिवा पट्टो लेपते यदि', २. 'वल्कलम्' ३. 'बह्वापढें प्र', क. पाठः. ४. 'नतिनं ग्रीशम', ५. 'जातयासुब' क. पाठः, ६. तिः केतकीतै ग, पाठः. ४ ६ , ग. पाठः.

२५ तृतीयः परिच्छेदः। विभीतैरण्डतैलेने वसा नकुलकर्कटे । अर्कतूलमयी वर्तिनष्टद्रव्यं प्रदर्शयेत् ॥ ६१ ।। अर्कतूलाहिनिर्मोकतूलमेरण्डजं वसा । अर्के तस्यार्जतन्तुश्च तत्कृता वर्तिरुत्तमा ॥ ६२ ॥ सवर्गस्य वसा प्रच्छे अर्कतूलेन वेष्टयेत् (?) । तत्र तावत् पथी कूलः कार्पासेन पुनस्तथा (2) ॥ ६३ ॥ वेष्टयेद् वर्मसूत्रेण पुष्यार्के स तु मन्त्रवित् । गोशृङ्गे स्थापयेत् पश्चात् तत् तु कालेन तापयेत् ॥ नक्रमण्डूकयोमदो मूलिका वेतसोद्भवा । वेष्टिता चार्कतूलेन वर्तिरेकार्थदर्शिनी ॥ ६५ ॥ मूलिका वेतसोद्भूता तथा कलिकोद्भवा । महामूले त्रयो वर्तिरुत्तमा शङ्करोदेिता (2) ॥ ६६ ॥ माघमासे चतुर्दश्यां कृष्णपक्षे नदीतटे । शाकोटिसिंहयोर्मूले गृह्णीयात् सकदलाश्चिते (?)॥६७॥ कटुतैलेन तूलेन तेन वर्तितयो भवेत् (१)। महातैलेन संयुक्तं वर्तिं कुर्यात् सदा बुधः ॥ ६८ ॥ माषमात्रे पतन्त्याशु एष साध्यं न संशयः । कटुतैलेन तद् विद्वान् बोधिता निपतेद् यदि ॥६९॥ ज्योतिर्यत्र धनं तत्र निश्चयं निर्दिशेद् धनम् ज्योतिर्विन्यस्ततैलेन सहस्राणामथापि वा ॥ ७० ॥ १ 'वावसनाकु' क. पाठः, २. 'सत्वगस्य वसा पुच्छे', ३. 'दी' ग, पाठः. ४. 'धू' क. ख. पाठः. ५. 'दशोद्भ', ६. 'मू', ७. 'न्द', ८. 'ब' ग. पाठः.

२६ निधिप्रदीप वर्तेः प्रज्वाल्यमानायाः शिखा तस्मिन्नधोमुखा । प्रहतैर्महितैः कुर्याच्चूगरेतैः सुपूजितैः ॥ ७१ ॥ अर्कतूलमयी वर्तिीमयं तत्र दृश्यते । लोहगन्धकगन्धेन चूर्ण्यन्ते त्वर्कतूलकैः (१) ॥ ७२ ॥ वेष्टयित्वा च सूत्रेण वर्ति कुर्यात् तथा भवेत् । नागस्य च वसा वापि वात वति निबोधकः ॥ ७३ ॥ सहाभिमन्त्रिता बतिः कर्तव्याविप्रसिद्धये। परिभाष भवेत्तत्वातावद् वर्तिनियोशक (?) ।। ७४ ।। सुवर्णे पीतवर्णाला रजते रजतप्रमा। ताने भवेद् वा तात्रामा नीलके नीलका भवेत् ॥ ७५ ॥ विमिश्रां तु यदा पश्येद् विधात् तेषां सुवर्णकम् । मनश्शिलां हिलादितिलतैलेन योजयेत् ॥ ७६ ॥ अर्कतूलमयी वर्तिः सर्पपाणानथापि वा। ऊर्णासूत्रमयीं वर्ति औमेयं तु परीक्षयेत् ॥ ७७ ॥ गन्धपाषाणमागेन हरितालं मनश्शिला। पूर्णेन पद्मसूत्रेण वर्ति कुर्याद् विचक्षणः ॥ ७॥ ज्योतिष्मत्यास्तु तैलेन सर्वपेणैव वा पुनः। प्रज्वाल्य क्षरिता यत्र योऽभिगच्छेद् ध्रुवं धनम् ॥ ७९ ॥ कपिलाज्यं सुरान्यानि गोधामेदो मनश्शिला । अर्कतूलमयी वर्ति महातैलेन भावयेत् ॥ ८॥ १. 'कारैर्महतः कु', २. 'न्धानां चूर्णैश्चैत्यसमूलकैः', ३. 'त् । स भूनागस्य च वसा विवान्ता बोधवर्ति' ग, पाठः, २७ तृतीयः परिच्छेदः । सूचयन्ति च तीनलिलाह भगवान् शिवः । चुच्छुन्दरीवसा गोधा नागवल्ल्या मनावयेत् ॥ ८१ ॥ प्रसूचयन्ति तद्व्यमित्याह भगवान् शिवः । अर्कतूलमयीं वति महातलेन भावयेत् ॥ ८२ ।। गोधावसाहिसंयुक्तं गोचङ्गे मान्य दर्शयेत् । अर्धरात्रे प्रदोषे वा नेटमन्वेष येद् ध्रुवम् ॥ ८३ ।। झषमण्डूकगोधानां बसा चैव मनश्शिला। पद्मसूत्रमयीं वर्ति प्रधान धनसूचकम् ।। ८४ ॥ मनश्शिला पद्मसूत्रं फेनं पारावतस्य च । उलूकस्य वसायुक्तां वति तो परिभावयेत् ॥ ८५ ।। कपिलाज्येन संयुक्ता प्रतिद्धा बतिस्त्तमा । गन्धपाषाणलागेन पासून समरिशला ॥ ८६ ॥ वसा चैव तु गोधानां नमन्वेषयेद् ध्रुवन् । मूषिकस्थ वसायुक्ता पतिः लन्देहतारका ८७ ।। आद्यन्तं सूचयेद् पतिः कारिलेन तु दीपिता। दीपे प्रज्वाल्यमाने तु लक्षणं तु निगयते ।। ८८ ॥ विस्फुलिङ्गो भवेत् पूर्व शब्द वा कुरुते धनम् । प्रज्वाल्यमाने कुरुते शब्देन अधुरस्वरान् ॥ ८९ ॥ पीता वतिर्भवेत् स्वर्णे रजते पाण्डरा सिता । लोहे ताने च रक्ता स्यादतिनीला प्रजायते ॥ ९० ॥ भुक्ता पीताथवा सुता सिता कृष्णा च वर्तिनाम् । एतचिह्नकरो ज्ञात्वा आदिशेत् तद् धनं बुधः ॥ ९१ ॥ १. 'धनम' ग. पाठः २. 'गा', ३. 'ताम्रा स्या', ता तथा सुप्तवर्तिनां पतने स्थितम्' क. पाउ:.

२८ निधिप्रदीप अतःपरं प्रवक्ष्यामि अञ्जनानां विधिं परम् । समासात् सम्प्रवक्ष्यामि यथाशास्त्रमुदीरितम् ॥ १२ ॥ तेनाञ्जितं तु नयन छिद्रां पश्यति मेदिनीम् । स्रोतोञ्जनस्य भागेन हरितालं मनश्शिला ।। ९३ ।। मण्डूकहदि संयुक्तमञ्जनं निधिदर्शनम् । स्रोतोञ्जनमुलूकस्य भावयेदात्मवारिणा ॥ ९४ ॥ *तस्यैव मान्धः(?) निक्षिप्य सप्ताहं भावयेद् बुधः । अञ्जिताक्षो नरोऽनेन निधि पश्यति निश्चितम् ॥९५ ॥ काषायपूरितां कृत्वा रवितूलेन वेष्टयेत् । (शरत्काले तु संगृह्य भूतालं रक्तवर्तिकाम् ।) वर्ति कृष्णतिलानां तु तैलेनैवोत्तरायणे ॥ ९६ ॥ प्रज्वाल्य वारयेद् भूमि कज्जलं सुसमाहितः । अनेनाञ्जितनेत्रस्तु निधि पश्यति मानवः ॥ ९७ ॥ परिमाणं च जानाति गृह्णाति च यथासुखम् । गिरिसारं वचा लोधं रेणुका चाञ्जनं तथा ।। ९८ ॥ कृष्णपक्षे चतुर्दश्यां मेलयित्वा समासतः । अनेन स्थापयेत् पश्चात् सम्पुटे ताम्रपात्रके ॥ ९९ ॥ पूजां कृत्वा महेशस्य सोपवासो जितेन्द्रियः । चक्रराजं समाधित्य जपेदष्टसहस्रकम् ॥ १० ॥ १, २. 'सञ्जि' क. ख. पाठः. ३. 'दस्य वा' ख. पाठः. ४. 'णामं च' क. पाठः. ५. 'हरितालं वा', ६ 'ध' ग. पाठः 'इतः परं श्लोकद्वयं' ग-पुस्तके. न दृश्यते । .

तृतीयः परिच्छेदः । २९ अष्टादशाक्षरी विद्यामञ्जयेल्लोचनह(योः ? ये) ! ततः पश्यति मेदिन्यां निधानानि नरो ध्रुवम् ॥ १.१॥ मूलं छिन्द्यादपामार्गात् कौबेयर्यां दिशि संस्थितम् कन्योत्पन्नस्तनक्षीरं दिव्याञ्जनमिति ध्रुवम् ॥ १०२ ।। पुष्यनक्षत्रयोगेन पिण्डीतगरमूलिकाम् । षडङ्गुलप्रमाणेन शलाकां कारयेद् बुधः ॥ १०३ । कुमारी वा कुमारं वा शिलायां स्नापयेद् बुधः । तच्छिलास्नानतोयेन रोचनं हेम गैरिकम् ॥ १०४ ॥ शिलायां पूजयेत् तस्य मौनी मन्त्रं सदा जपेत् । अजिताक्षो नरः पश्येत् कुमारैर्निहितं धनम् ॥ १०५ ॥ मधुदयमथो पुष्पी रक्तागस्तिः सुलक्षिता । मधुना सह पुष्यके ॥ १०६ ॥ पुण्यार्के छागवृक्षस्य मूलमुद्धृत्य वारिणा । सुपेष्य मधुना सार्धमञ्जयेल्लोचनद्वये ॥ १०७ ।। स पश्यति निधिं तेन भूतलस्थं न संशयः। कृष्णाजपित्तं च मयूरपित्त- मशोकमूलं गतमुत्तराशाम् । शशाङ्कगोरोचनमाक्षिकं च सर्वाञ्जनं नाम शिवोपदिष्टम् ॥ १०८ ॥ पारदो मधु कर्पूरं काकमाचीफलं तथा ॥ १०९ ॥ १. 'यां दन्तोरोलो', २. 'पठेत्', ३. पायं मधुना सह' कुशा च तिलपर्णी ग. पाठः, निधिप्रदीप सर्वाञ्जनामिदं ज्ञेयं सूर्यावर्तसमन्वितम् । प्रस्तरी तुलसी कृष्णा बीजं कार्यासनिम्बयोः ।। ११० ।। कर्पूरेण समायुक्तं सर्वाञ्जनमिई भवेत् । वत्रिणा मधु कर्पूररक्तस्नुहिसुलिका ॥ १११ ॥ सर्वाचनमिदं ज्ञेयं दिवावृत्तं समन्वितम् । पुण्यार्के श्वेतपर्णा च विधिना मूलमुद्धरेत् ॥ ११२ ॥ वकुलाक्षेण पिष्ट्वाथ हविषा तु समञ्जनम् । श्रोत्रोजनस्य सप्ताहं मधु क्रेडवताडके(?) ॥ ११३ ॥ हित्वा तज्ज्योतितद्युक्ते पातालं मधुनाञ्जनम् । दिवापि तत्र वित्तानि करस्थानीव पश्यति ॥ ११४ ॥ नरादिषु समुद्भूततैलं भागे जलान्वितम् । अवश्यमञ्जलादेव कुरुते पुरुषं सदा ॥ ११५ ॥ हरिद्रोलूकनेत्राणि पोटल्या भूलसंयुतम् । सुधाश्वेतजपातोयपृष्ठायां मधुमिश्रितम् ॥ ११६ ॥ अञ्जिताक्षो नरस्तेन निधि पश्यति भूगतम् । तिलपर्युद्भवं मूलं हस्तार्के विधिनोद्धृतम् ॥ ११७ ॥ जलपिष्टं च पातालमधुना युतमञ्जयेत् । निधिं पश्यत्यसौ तूर्णमाचार्ये सन्निधौ स्थिते ॥ ११८ ॥ अञ्जयेत् कन्यका वापि कुमारं पादयोर्निधिम् । पातालं वा तारिकं वा पश्यत्येव न संशयः ॥ ११९ ॥ १. 'खाटा', २. 'वाराध्य ख. पाठः. * 'इतः परं खाटालूक' इत्यवधिकोंऽशः ग-मातृकायां न दृश्यते ।

१ तृतीयः परिच्छेदः । शुभवन्नीरवा (१) कृष्णचतुर्दश्यां रवेर्दिने । गृहीत्वा वारिणा पिष्टा मधुना सह रञ्जयेत् ॥ १२० ॥ कुङ्कुमं रोचनं श्वेता काञ्चकस्य च पल्लवम् । सुश्वेतं च जपापुष्पं नन्द्यावत समं मधु ॥ १२१ ॥ सर्वाजनमिति ख्यातं पाताले निधिदर्शनम् । उलूकचक्षुः क्षौद्रं च सर्वाजनमतः परम् । १२२ ॥ समभागं तु संवृष्य रोचनं कुङ्कुमं शशि । रोचनं मधुकर्पूररक्तचन्दनमूलिका ॥ १२३ ॥ सर्वाजनमिदं ज्ञेयं राजावर्तसमन्वितम् । पुष्याः श्वेतगुञ्जी वा विधिना उद्धरेद् बुधः ॥ १२४ ॥ उलूकाक्षि समं पिट्वा मधुना स्वयमञ्जनम् । स्रोतोञ्जनं सखद्योतमुलूकाण्डे विनिक्षिपेत् ॥ १२५॥ सप्ताहान्ते समुद्धृत्य प्रभाते अञ्जयेद् दिवा । ++नक्षत्रवित्तानि करस्थानीव पश्यति॥ १२६ ॥ हरितालं वचा लोभं रेणुका चाञ्जनं तथा । कृष्णपक्षे चतुर्दश्यां चूर्णीकृत्य विनिक्षिपेत् ॥ १२७ ॥ सम्पुटे ताम्रजे तच्च अघोरेणाभिमन्त्रयेत् । अजिताक्षो नरः पश्येन्निधिं नानाविधं भुवि ॥१२८ ॥ हंसपादी जटामांसीदारुव्योममणिः शशी। सूतं मनश्शिला चैव समांशमपि पेषयेत् ॥ १२९ ।। १. 'चेत्थं वारिवालस्य', २. 'सुरौलकम्', ३. 'रोचना वज्रकं ४. 'पञ्चकं क्षौद्रमन्यं स' क. पाठः. शशि उ', निधिप्रदीपे दिव्याञ्जनमिति ख्यातं सर्वभूतवशीकरम् । नकुलस्य च भेकस्य लोचनानि समाहरेत् ॥ १३० ॥ स्रोतोञ्जनसमायुक्तं मेषतैलेन पेषयेत् । अञ्जिताक्षो नरस्तेन निधि पश्यति निश्चयम् ॥१३१॥ हेम्ना शलाकया पूर्वमञ्जयित्वाक्षिणी यतः । उपधानं जपेत् पश्चात् ततः पश्यति भूनिधिम् ॥ १३२ ॥ परितेथिः पूर्णीयाः प्रतिखाग्रे तु कजलम् । अजिताक्षो नरस्तेन निधिं पश्यति भूगतम् ॥१३३ ॥ रक्तेन कृकलासस्य भावयित्वा मनश्शिलाः । अज्जिताक्षो नरस्तेन निधिं पश्यति पूर्ववत् ॥ १३४ ॥ सृगालस्याक्षिचूर्णेनाभ्यञ्जयेल्लोचनद्वयम् । भूतं पश्यत्यसौ क्षिप्रं संप्राप्नोति महानिधिम् ॥ १३५ ॥ नानामन्त्रगणाधीते यथा भागं तथा शृणु। औषधग्रहणकाले ओषधिप्रतिष्ठामन्त्रः- येन त्वां विदधे ब्रह्मा येनेन्द्रो दैवतैः सह । तेन त्वा मा हरिष्यामि तिष्ठ तिष्ठ महौषधे! ॥ १३६ ॥ त्रिवर्णसूत्रबन्धनमन्त्रः सत्यं दर्शय भौमेयं दिव्यं सत्येन दर्शय । यदि भूमिगतं द्रव्यमात्मानं दर्शय स्वयम् ॥१३७ ।। जङ्गमं सत्यभाषाथ भौम्ने सत्यमंशेन नमोऽस्तुते सत्यं विरि- क्तयत्र्यव्यस्थितात्मानं निधि दर्शय पट्टभेदेन मन्त्राण म- न्त्रणि पुण्डरीकमन्त्रकम् - ओं नमो भगवते रुद्राय हर हंज स्फुटि स्फुटि नि स्रवे । १. 'त', २. 'द' ग. पाठः, demon तृतीयः परिच्छेदः। ३३ स बा CARREARRIN- मालिनिमन्त्रः तं त्रिगुणे त्रिगुणे मालिनि स्फुटम् । त्रक्षमन्त्रः ओं स्फुट स्फुट । नय हु फट त्रियव्य यदीयपवित्र- मन्त्राणि। ज्वालिनीमन्त्रः ज्वलन्त ज्योतिर्दशायां वै । बन्धनमन्त्रः ओं नमो भगवते वासुदेवाय शर बन्ध श्रीनकुल मतिसदर्पत्रिबन्धं दिशाबन्ध पातालं बन्ध मण्डलं बन्ध । ओं नमो भगवते भूरिभूच्यवते नमः स्वाहा । अञ्जनमन्त्राणि ओ ओं गं क्षं अं लोकिनिनिधिनिलोकिनि स्वाहा। खननोद्योगे अर्चनमन्त्रः- वराहम् । ओं हूं ओम् । भूमिमन्त्रः ओं भू भूमि ओं ओं रं अग्नये नमः। ओं धं धना- ध्यक्षाय वैश्रवणाय नमः । ओं नमोऽस्तु देवदेवाय शूलपाणये अत्रागच्छतु ठम् । ओं गौरी महागौरी गा रक्त गच्छ आगच्छ निधि बन्धय बन्धय स्वाहा ।

BREARNER
:
निधिप्रदीप
ओं घृणि सूर्य आदित्योम् ।
इन्द्रमन्त्रः
ओं नमो भगवते सहस्रा(क्षा)य परिरक्ष मां सहायैः
सार्धं कालि कालि महाकालि स्वाहा ।
यममन्त्र:
ओं नमो भगवते वैवस्वताय परिरक्ष मां सहायैः
सहितं स्वाहा ।
वरुणमन्त्रः
ओं नमो भगवते श्वेताय महाबलपराक्रमाय रुद्राय
परिरक्ष मां सहायैः सार्धं हरि स्वाहा ।
कुबेरमन्त्रः
ओं नमो भगवते वैश्रवणाय परिरक्ष मां सहायैः सार्ध
कुरु कुरु ठम्।
आग्नेयादिकोणमन्त्रः
ओं नमो भगवते रुद्राय किटि किटि भिटि मिटि
हरि हरि मरि मरि चिरि चिरि हन हन पच पच रक्ष रक्ष
ग्रह ग्रह बन्ध बन्ध तर तर हर हर वसि वसि सत्त्वपरिघाति
घोरे चण्डरौद्रे महारौद्रेस्सन्तु यस्सल्लोमते भञ्ज भञ्ज मारय मारय
सर्वसत्त्वान् सर्वविघ्नान् स्तम्भय स्तम्भय विमले अस्मत्सहा-
यांश्च रक्ष रक्ष मां च दिशां बन्ध पुरुषमण्डलं बन्धय बन्धय
ठम् । कुमुदाय नमः । कुमुदाक्षाय नमः । पुण्डरीकाक्षाय
नमः । वामनाय नमः।शङ्कुकर्णाय नमः । सर्वनेत्राय नमः।
सुमुखाय नमः । सुप्रतिष्ठाय नमः । इति पार्षदमन्त्रः।

तृतीयः परिच्छेदः । ३५ सूर्यसोमाग्निप्रकारमन्त्रः- ओं नमश्चक्राय हुं फट् ठम् । सुदर्शननरसिंहमन्त्रः ओं सहस्राय ज्वालावर्तिने सौं हन हन हुं फट् ठम्। इति सर्वरक्षा । खन्यकारणाभिमन्त्रः ओं नमो भगवते रुद्राय दुन्दुभिषः । कीलाभिमन्त्रः ओं दुं दुर्गाया हुं फट् ठम् । स्थानरक्षाबलिमन्त्रः- ओं नमो योगीश्वराय नमो मातृभ्यो नमो विश्वरूपि- णीभ्यः प्रतिगृह्णन्तु सिद्धये । इमं बलिं गृह गृह ठम् । वैश्रवणबलिमन्त्रः। ओं नमो वैश्रवणाय नमो वा यक्षेभ्यो नमो वा यक्षि- णीभ्यो नमो बलिः कृत्ये तायं ठम् । पिशाचबलिमन्त्रः ओं नमः पिशाचेभ्यः पिशाचाः प्रतिगृह्णन्तु सिद्धये मम बलिं गृह गृह । सेनाङ्गबलिमन्त्रः- ओं नमो रुद्राय योगीश्वराय नमोऽनन्तवासुकितक्षक- नागादिभ्यो नमो नागगणेभ्यो नागगणाः प्रतिग्रहन्तु सि- इये इमं बलिं गृह्ण गृह स्वाहा । १. "ह ठम् ।' ग, पाठः.

निधिप्रदीपे
राक्षसबलिमन्त्रः-
ओं नमो विश्वरूपाय त्रिनेत्राय नमो रुद्राय नमो
भीमाय नमो रक्षोगणेभ्यः प्रतिगृहन्तु सिद्धये इमं बलिं गृहे
गृह स्वाहा ।
मृगबलिमन्त्रः-
ओं नमः पशुपतये सिंहाननाय व्याघ्रचर्मवसनाय
मृगेश्वराय नमो मृगगणेभ्यो नमो मृगगणाः प्रतिगृह्णन्तु
सिद्धये इमं बलिं गृह्णन्तु स्वाहा ।
पक्षिबलिमन्त्रः-
ओं नमः शिवाय गगनचारिणे पतङ्गेश्वराय नमः
पक्षिगणेभ्यो नमः पक्षिगणाः प्रतिगृह्णन्तु सिद्धये इमं बलिं
गृह स्वाहा ।
विरोधशमनाय बलिमन्त्रः अङ्गारकप्रशमनमन्त्रः-
घीम् इन्द्राय वज्रहस्ताय स्वाहा ।
विषप्रशमनमन्त्रः-
कालदण्डाय वामाय स्वाहा।
जलविघ्नप्रशमनमन्त्रः
ओं वरुणाय स्वाहा।
इंषादिविरोधशमनमन्त्रः
ओं महाभ्र कुरु कुरु झिं स्वाहा ।
उष्णप्रशमनमन्त्रः
ओ स्वाहाप्रियाय धूम्राय अग्नये स्विष्टकृते स्वाहा।
१, २. "ह ठम् ।', ३, ४. 'ठम् ।' ग. पाठः. ५. तुषा-
भिवि' क. पाठः.
-
amam
"

ARTAINA CAMERIENDS चतुर्थः परिच्छेदः । ३७ कीटादिशमनमन्त्रः ओं पचि सुदिरिः स्वाहा । इति नैर्ऋते वेतालादि- शमनम् । नमो वायके गणलचारिणे स्वाहा । सिंहादिशमनमन्त्रः विधिरुद्राय मुदिरि स्वाहा महाविश्वादिमन्त्रः----- ओं नमः शिवाय प्रां नमः शालिपिष्टप्रकृति प्रतिगृह्न इमं बलिं महापशुपतये नितम्बलिरूपिणि स्वाहा । सर्वविघ्नप्रशमनमन्त्रः ओं हरि ठम् । इति निधिप्रदीपे तृतीयः परिच्छेदः ।। अथ चतुर्थ: परिच्छेदः। अथ वक्ष्यामि विप्रेन्द्रा निधिसङ्ग्रहणं परम् । सहायसंयुतः शान्त आचार्यों मन्त्रवित्तमः॥१॥ निधिस्थानविधानज्ञस्तल्लक्षणविचक्षणः। परीक्षा बहुधा तत्र स्थावरं जङ्गमं ततः ॥ २ ॥ खन्यलक्षणभेदज्ञो देवतामन्त्रसंयुतः । देशकालविधानज्ञस्तमाचार्य प्रचक्षते ॥ ३ ॥ यथोक्तदिवसं स्नात्वा विधिवद्यजनं ततः। वराहरूपिणं देवं यजेद् भूमिसमन्वितम् ॥ ४ ॥ तमाश्रयं यजेत् पश्चात् बलिं दत्त्वा सुमन्त्रवित् । उत्थाय प्रणिपत्याथ सिद्धिं विज्ञापयेद् बुधः ॥ ५॥ १, २. 'ठम् ।' ग, पाठः, : क्रूरा ३८ निधिप्रदीप ततोपकरणोपेतः सहायैः सह गच्छतु । पन्नगादिविरोधानां शमनं पदलेपयेत् ॥ ६॥ सुदर्शननृसिंहञ्च रक्षबन्धं शिखातले। अर्कस्य करवीरस्य पनसस्य च भूलिका ॥ ७ ॥ एतत्पादप्रलेपेन सर्वे नश्यन्ति पन्नगाः। मल्लिका गिरिकर्णी च जाग्रपर्णी वचा तथा ॥ ८ ॥ श्वेतार्कमूलिकाव्योषं पादलेपेन पन्नगाः। यक्षरक्षोरगाः ये चान्ये विनकारिणः ॥ ९॥ पलायन्ते पलाशेशमन्त्रयुक्तप्रलेपतः। चित्रकं जातिनीमूलं श्वेतार्क गिरिकर्णिका ॥ १० ॥ तदद्भिः सिन्दुवारश्च बचापीठासमन्विता । बककेसरबीजानि वज्रमूलसमाश्रितः॥ ११ ॥ एष नाराचको योगः सर्वविघ्नविनाशकृत् । अनेन पादलेपेन विषमध्यगतं धनम् ॥ १२ ॥ कूश्माण्डैरण्डबीजानि बीजानि पनसस्य च । जातिडाडिममूलानि समभागानि कारयेत् ॥ १३ ॥ पाठा गोमूत्रपिष्टा च दर्शयत्यघिलेपिता । गृह्यते नात्र सन्देहो धूर्जटीभाषितः स्वयम् ॥ १४ ॥ अगस्त्येन विना गृह्यनार्भकोऽपि स मन्त्रवित् । नासौ निधिमवाप्नोति सिद्धमन्त्रो विनिश्चितम् ॥ १५ ॥ निधिसंस्थानभासाद्य रक्षाकर्म समाचरेत् । सप्ताङ्गुलपरीणाहैश्चतुरभैः समन्ततः ॥ १६ ॥ १. 'विष्ठा च' ग. पाठः. २. 'टि' क. पाठः. २ - ३९ चतुर्थः परिच्छेदः। खादिरैरष्टभिः कीलं स्थापयेन्मन्त्रसंयुतम् । ऐन्द्रादीशानपर्यन्तं तत्तन्मन्त्रसमन्वितम् !! १७ ॥ अर्चयेद् गन्धपुष्पाद्यैर्गोचर्म वेष्टयेत् ततः । दध्योदनञ्च मांसञ्च रोचनापुष्पसर्षपाः ॥ १८ ॥ गोधूमाश्च निधेत्यादि दापयेद् बलिकर्मणि प्रथमं निधिपालस्य बलिं दत्त्वा ततः परम् ॥ १९ ॥ भूरिसूतपदातव्यमग्नेन्द्रातं तमाचरेत् (?)। वाहनायुधसंयुक्ताः सहायैः सह गच्छतु ॥ २० ॥ वाहनायुधसंयुक्ता रक्षेत्यक्त्वा दिगेश्वरान् । ततः पाद्यार्थ्यपूर्वाभिर्गन्धपुष्पादिभिस्ततः ॥ २१ ॥ कुमुदः कुमुदाक्षश्च पुण्डरीकश्च वामनः। शङ्कुकर्णः सर्वनेत्रः सुमुखः सुप्रतिष्ठितः ॥ २२ ॥ चतुर्भुजा महाकायाः सर्वायुधधरोद्यमः । भीमाक्षा भीमविक्रान्ता रक्षाकर्मविचारणाः ॥ २३ ॥ पायसं गुलमध्वाज्यनालिकेरफलान्वितम् । कदलीफलसंयुक्तं बलिं दत्त्वा विचक्षणः ॥ २४ ॥ पूर्वादीशानपर्यन्तं तन्मन्त्रेण नियोजयेत् । तदन्तः परमं ब्रह्म सुदर्शननृकेसरी ॥ २५ ॥ चक्रमध्यस्थमीशानं सृष्टिस्थित्यन्तकारणम् । सर्वरक्षाकरं ह्येतद् भावयेन्मन्त्रवित्तमः ॥ २६ ॥ उग्रं भीमाट्टहासं जननयनमहाभीतिहृद्घोरदंष्ट्र निर्दग्धाशेषदुष्टग्रहमखिलजगद्व्याप्तकालाग्निवर्णम् ।

निधिप्रदीप
दोर्भिश्चक्रासिशाङ्गाङ्कुशमुसलगदाशङ्खपाशायुधायै-
रष्टाभिर्विक्रमा.स्त्रिभुवनमखिलं आसयन्तं महान्तम् ॥
एवं ध्यात्वा जपेन्मन्त्रं सुदर्शननृकेसरी ।
तालपत्रे लिखेन्पन्न साध्यपादसमन्वितम् ॥ २८ ॥
अष्टोत्तरशतं चैव जपेदष्टाक्षरं भवेत् ।
अङ्गावरणमारभ्य दिग्बन्धाय तथैव च ॥ २९ ॥
चक्रमुद्रां ततः कुर्यात् सूर्यसोमाग्निमण्डलम् ।
आत्मरक्षां ततः कृत्वा महायानां च लक्षणम् ॥ ३० ॥
निधिरक्षाविधि वक्ष्ये समाहितमनाः शृणु ।
अग्निवैश्रवणो नाम धनाध्यक्षो महेश्वरः ॥ ३१ ॥
निधिरक्षाभ्यनुज्ञाता तस्य वैश्रवणस्तथा ।
यक्षभूतपिशाचाश्च नागा वा राक्षसस्तथा ॥ ३२ ॥
व्याघ्रसिंहगजा गृध्राः पक्षिणश्च महाबलाः ।
प्रेताश्च विविधाश्चैव नानारूपा बलान्विताः ॥ ३३ ॥
मातृकाश्चैव रक्षन्ति डाकिन्यश्चैवमादयः।
तेषां बलिविधानं च ज्ञातव्यं च पृथक् पृथक् ॥ ३४ ॥
वटवृक्ष चेष्वप्ये कलिङ्गे गुहासु च (?)।
डाकिन्यस्तत्र रक्षन्ति भातॄणां शासनेन तु ॥ ३५ ॥
वटवृक्षसमीपे च तथारामे महालये।
गोपुरेषु च रक्षन्ति भूतनित्यो धृतायुधाः ।। ३६ ॥
एतेषु चैव भागेषु समशाखे द्रुमेषु च ।
पिशाचास्तत्र रक्षन्ति स्थानेष्वायतनेषु च ॥ ३७ ॥

चतुर्थः परिच्छेदः । ४१ शून्यग्रामे तु वल्मीके नागो रक्षति तत्र तु । तथा हालाहलस्थाने चोग्रभीमे नदीतटे ॥ ३८ ॥ सिंहव्याघ्रगजा गृध्राः पक्षिणश्च महाबलाः । वृक्षाने कोटरे चैव श्मशानान्ते तथैव च ॥ ३९ ॥ गृध्रास्तु पक्षिणस्तत्र नियुक्ता रक्षणे चिरम् । चतुष्पथे तु ग्रामान्तेष्वनुक्तेषु तथैव च ॥ ४० ॥ सर्वे रक्षन्ति सहितास्तत्तत् सर्वं बलिं हरेत् । अथ सम्यक् परीक्षां तु कृत्वा तद्रक्षणं बुधः ॥ ४१ ॥ तेषां पृथक् पृथक् सम्यक् बलिकर्म नियोजयेत् । सर्ववन्यानि पुष्पाणि सर्वधूपोदयानि च ॥ ४२ ॥ मांसं पकं तथैवामं तिला लाजा बलिः स्मृतः । पायसोदकमिश्रं तु पिष्टासं तिलपिष्टकम् ॥ ४३ ॥ (जालवा ? लाज वा) मधुसंमिश्रं यक्षाणां बलिरिष्यते । भाषमुद्गौदनं चापि तिलपिष्टयुतं दधि ॥ ४४ ॥ लाजं रुधिरसम्मिश्र (पैलाशं? पैशाचो) बलिरिष्यते । पायसं च गुलान्नं च तथा त्रिमधुरं पुनः ॥ ४५ ॥ नागपुष्पं च लाजं च नागानां बलिरिष्यते । गरण ? ज)केसरपुष्पाणि हस्तिनां मद्यमेव च ॥ ४६॥ हस्तिचर्म च मांसं च मेदं चे+ न्वितं बुधः । मांसौदनं च दातव्यं गृध्रादीनां बलिविधिः ॥ ४७ ॥ प्रेतस्य चोदकं दत्त्वा एकलिङ्गे जलाञ्जलम् । तिलमिश्रं तु संगृह्य तथा दृष्टपितान्वितः (?) ॥ ४८ ॥ G

४२
४
निधिप्रदीपे
सर्वमन्त्रसमायुक्तं बलिं दत्त्वा तु बुद्धिमान् ।
नानाविरोधसंप्राप्तौ बलिं दत्त्वा विचक्षणः ॥ ४९ ॥
अङ्गारकं तुषं चैव दृश्यते यत्र कुत्रचित् ।
पक्वान्नं व्यञ्जनैर्युक्तं बलिमन्त्रैस्तु शाम्यति ॥ ५० ॥
पैशाचं राक्षसं क्रूरं विषं चैव तु दृश्यते ।
मत्स्यमांसबलिं दत्त्वा दमेनैव प्रशाम्यति ॥५१॥
स्थलोदकं महावृष्टिः शिलावृष्टिस्तथैव च ।
त्रिमधुञ्चैव पक्वान्नं बलिं पाशेन शाम्यति ॥ ५२ ॥
उ(षा ? षः)कालं नरं दृष्ट्वा दध्योदनबलिं क्षिपेत् ।
सौम्येनैव प्रशाम्यन्ति नात्र कार्या विचारणा ॥ ५३ ॥
उष्णज्वरप्रवेशश्च पित्तक्षोभं तथैव च ।
हविराज्यं बाल दद्यात् हव्यवाहेन शाम्यति ॥ ५४ ।।
कीटं पिपीलिका चैव मण्डूकै मूषिकोद्भवम् ।
पकमांसबलिं दद्यान्नैऋतेनैव शाम्यति ॥ ५५ ॥
वह्निज्वालाश्च वेताळमहाभूतं तथैव च ।
पिष्टोदकं हविर्दद्याद् वासुदेवेन शाम्यति ॥ ५६ ॥
सिंहव्याघ्रगजञ्चैव तुरङ्गं महिषं तथा ।
पक्कापक्कञ्च मांसच्च बलिं रुद्रेण शाम्यति ॥ ५७ ॥
विद्याधरं दानवञ्च कुमारञ्च स्त्रियं तथा ।
शाणाग्रहश्च नक्षत्रमुग्ररूपं तथैव च ॥ ५८ ॥
पायसञ्च बलिं दद्यारिदेवैः प्रशाम्यति ।
ततः समाहितो भूत्वा निधिमुर्तुमाहरेत् ॥ ५९ ॥

चतुर्थः परिच्छेदः । अथोपकरणं वित्तं निधिकर्मणि सम्मतम् । नाराचा मुद्गलः कीलं कुद्दालं कुरुलोद्धृताः ॥ ६० ॥ अभिमन्त्र्य महामन्त्रं सुदर्शननृकेसरी । प्रवीरो वीरशूरश्च सहायाश्चरतादृशाः ॥ ६१ ॥ एवं हस्तगतं द्रव्यं तावत् कर्म समाचरेत् । स्थानं संशयकाले वा अञ्जनं नेत्रयोलिखेत् ॥ ६२ ॥ अश्वपत्रं सप्ततन्तु नेत्रयोश्च पृथक् पृथक् । दुकूलैर्वेष्टयेत् पश्चात् कृष्णवर्णैस्त्रिभिस्तथा ॥ ६३ ।। यत्र संशयभूमिश्च वीक्ष्य तत्र धनं लभेत् । शौचं कृत्वा चतुर्भागं गुरोरेकं निवेदयेत् ॥ ६४ ॥ शेष वित्तं विभज्याथ सहायानां ददौ गुरुः । अवश्यं गोपयेत् पश्चादग्निष्टोमादिकान् यजेत् ॥६५॥ यज्ञार्थमर्थसापेक्षा ऋषयो धर्मतत्पराः । निधिसंग्रहणं सर्व मया प्रोक्तं यथाक्रमम् ॥ ६६ ॥ सर्वसम्पत्करं श्रेष्ठ सर्वदारिद्यनाशनम् । सर्वसौख्यमिदं शास्त्रं शबरेणैव भाषितम् ॥ ६७ ॥ इति शबरभाषिते मालिनीशास्त्रे निधिप्रदीपे चतुर्थः परिच्छेदः ॥ शुभं भूयात् ।

No text on this page.

LIST OF SANSKRIT PUBLICATIONS FOR SALE RS. AS. P. HEHET Bhaktimanjari (Stuti) by H. H. Svāti Śrī ijāma Varma Mahārāja. 1 0 û स्यानन्दूरपुरवर्णनप्रवन्धः Syanandurapuravarnanaprabandha (Lāvya) by H. H. Svāti Śrī Rāma Varmá Mahārāja, with the commentary Sundarī of Rājarāja Varma Koil Tampuran. 2 0 0 Trivandrum Sanskrit Series. No. 1449 Daiva (Vyākaraṇa) by Deva with Puruşakāra of Krşñalīlāśukamuni (out of stock). 1 0 0 No. 2-अभिनवकौस्तुभमाला-दक्षिणामूर्तिस्तवौ Abhinavakaustubhamala and Daksinamurtistava by Krşņalīlāśukamuni (out of stock). 0 2 0 No. 37Tyg: Nalabhyudaya (Kāvya) by Vāmana Bhatta Bāņa (second edition). 04 0 No. 4-fraaistuia: Sivalilarnava (Kāvya) by Nīlakantha Dīkşita (out of stock). 2 0 0 No. 5--- Teri Vyaktiviveka (Alankāra) by Mahima-Bhatta with commentary (out of stock). 2 12 0 No. 6-gazart: Durghatavrtti (Vyākarana) by Saraṇadeva (out of stock), 2 0 0 No. 7-Hatchathi Brahmatattvaprakasika (Vedānta) by Sadāśivendrasarasvatī (out of stock). 2 4 0 No. 8-प्रद्युम्नाभ्युदयम् Pradyumnabhyudaya. (Nāțaka) by Ravi Varma Bhūpa (out of stock). 1 0 0 RS. AS. P. No. 9-FEETTTTTT Virupaksapancasika (Vedānta) by Virūpākşanātha with the commentary of Vidyācakravartin (out of stock). O 8 0 No. 10-AASTET Matangalila (Gajalakşana) by Nīlakantha (out of stock) 0 8 0 No 11-outdatu Tapatisamvarana (Nataka) by Kulasekhara Varma with the commentary of Sivarāma (out of stock). 2 4 0 No. 12-TATTETTA Paramarthasara ( Vedānta) by Adišeșa with the commentary of Rāghavānanda (out <if stuck). 0 8 0 No. 13-THST9TH Subhadradhananjaya (Nāțaka) by Kulasekhara Varma with the commentary of Śivarāma (out of stock). 2 0 0 No. 14-aart: Nitisara (Nīti) by Kāmandaka, with the commentary of Sankarārya (out of stock). 3 8 0 No. 15--Tatra Svapnavasavadatta (Nāțaka) by Bhāsa (second edition). 1 8( No. 16-afaritarar Pratijnayaugandharayana (Nā taka) by Bhāsa (out of stock). 1 8 0 No. 17-749-14 Pancharatra (Nā taka) by Bhāsa (out of stock). 1 0 0 No. 18-ATTITUTTTH Narayaniya (Stuti) by Nārāyana Bhatta with the commentary of Deśainangalavārya (out of stock). 4 0 0 No. 19- ANAHTEET: Manameyodaya (Mīmāmsā) by Nārāyaṇa Bhatta and Nārāyaṇa Paņạita (out of stock). 1 4 0 No. 20—37fahrte Avimaraka (Nataka) by Bhāsa (out of stock). 1 80 No. 21-TTA Balacarita (Nataka) by Bhāsa (out of stock). 1 0 0 3 RS. AS. P. We 0 0 No. 22-मध्यमव्यायोग-दूतवाक्य-दूतघटोत्कच-कर्णभारो. EITSTGT Madhyamavyayoga-Duta - vakya-Dutaghatotkaca-Karnabhara and Urubhanga (Nataka) by Bhāsa (out of stock). 1 1 8 0 No. 23-afaretulerint: Nanartharnavasam ksepa (Kośa) by Keśavasrāmin Part I, 1st and 2nd Kāņdas). (out of stock). 1 12 No. 24-GGETTUTT: Janakiparinaya (Kāvya) by Cakra Kavi (out of stock). 1 0 0 No. 25-TUTTERHEIT Kanadasiddhantacandrika Nyeiya) by Gangādharasūri (out of stock). 0 12 No. 26—3717 Abhisekanataka by Bhāsa (out of stock). 0 12 0 No. 27--BARCEFHET: Kumarasambhava (Kavya) by Kálidā sa with the two commentaries, Prakāśikā of Arunagirinātha and Vivarana of Nārāyaṇa Pandita (Part I, 1st and 2nd Sargas) (out of stock). 1 12 0 No. 28_EFTERY: Vaikhanasadharmaprasna (Dharmasūtra) by Vikhanas (out of stock). O 8 0 No. 29-ATTUTTEETT: Nanartharnavasam ksepa (Kośa) by Keśavasvamin (Part II, 3rd Kāņda) (out of stock). 2 4 0 No. 30-aregiae Vastuvidya (Śilpa) (out of stock), 0 12 0 No. 31-Tretturarcia: Nanartharnavasam ksepa (Kośa) by Keśavasvāmin (Part III, 4th, 5th and 6th Kāņdas). I CO No. 32-HTEETIH: Kumarasambhava (Kāvya) by Kālidāsa with the two commentaries, Prakāśikā of Arunagirinātha and Vivaraņa of Nārāyaṇa landita Part II, 3rd, 4th and 5th Sargas) (out of stuck). 2 8 0 4 RS. AS. P. No. 33-TES: Vararucasangraha (Vyākaraṇa) with the commentary Dīpaprabhā of Nārāyana (out of stock). 0 8 0 No. 34-APOTECOT: Manidarpana (Nyāya) by Rājacūļāmaņimakhin. 1 4 0 No. 33-HTETT: Manisara (Nyāya) by Gopinātha. 1 8 0 No. 36-BATTEITHI: Kumarasambhava (Kavya) by Kā lidāsa with the two commentaries, Prakāsikā of Arunagirinātha and Vivarana of Nārāyana Pandita (Part III, 6th, 7th and 8th Sargas). 3 0 0 No. 37–TraiaTCH Åsaucastaka (Smrti) by Vararuci with commentary. 0 4 0 No. 38-FHREFORMATH Namalinganusasana (Kośa) by Amarasimha with the commentary Tīkāsarvasva of Vandyaghatīya Saryānanda (Part I, 1st Kāņda). 2 0 0 No. 39-415 H Carudatta (Nătaka) by Bhāsa (out of stock). 0 12 0 12 0 No. 40-377&TEH Alankarasutra by Rājānaka Ruyyaka with the Alankārasarvasva of Mankhuka and its commentary by Samudrabandha (second edition). 2 8 0 No. 41-STETTCHUCOH Adhyatmapatala (Vedānta) by Apastamba with Vivarana of Śrī Saukara-Bhagavat-Pāda (out of stock). 0 4 0 No. 42-afchach Pratimanataka by Bhāsa (out of stock). 1 8 0 No. 43--Pafcsigarah Namalinganusasana (Koša) by Amarasimha with the two commentaries, Amarakośodghatana of Kșīrasvāmin and Tīkāsarvasya of Vandyaghatiya Sarvānanda (Part II, 2nd Kanda, 1-6 vargas). 2 2 8 0 No. 44-YEH Tantrasuddha by Bhattāraka Vedottama. 0 4 0 5 RS. AS. P. 1 0 No. 43–1927ECTF Prapancahrdaya. No. 46-91CHTICI: Paribhasavrtti (Vyakaraņa) by Nīlakantha Dīkşita. O 8 No. 47-FFETTHETF Sidhantasiddhanjana (Vedānta) by Kyşņānanda Sarasvatī (Part I.) 1 12 0 No. 48-सिद्धान्तसिद्धाञ्जनम् Do. Do. (Part II). 2 0 0 No. 49–1ocifceat Goladipika (Jyotişa) by Parameśvara. 0 4 0 No. 50 --Cerdagnet: Rasarnavasudhakara (Alankâra) by Singa Bhūpāla. 300 No. 51-नामलिङ्गानुशासनम् Namalinganusasana (Kośa) by Amarasimhia with the tivo commentaries, Amarakośodghātana of Kșīrasvāmin and Tīkāsarvasva of Vandyaghatīya Sarvānanda (Part III, 2nd Kanda, 7-10 vargas). 200 No. 52-AERIENTIERTE Namalinganusasana (Kośa) by Amarasimha with the commentary Tikâsarvasva of Vandyaghatîya Sarvânanda (Part IV, 3rd Kấnda). 1 8 0 No. 53-Jaafaurer: Sabdanirnaya (Vedânta) by Prakâśâtmayatîndra. 0 12 No. 54-TIETEE FORTICatt: Sphotasiddhinyayavichara (Vyakaraṇa). 0 4 0 No. 55-Aafra Mattavilasaprahasana (Nâțaka) by Mahendravikrama- 08 0 No. 56---Aq6|5T|FT Manusyalayacandrika (Šilpa) (out of stock). 0 8 0 No. 57 -tgrattata Raghuviracarita (Kârya). 1 4 0 No. 58-ferral HTPT Siddhantasiddhanjana (Vedânia) by Krşnânanda Sarasvati (Part III). 20 0 Varillan.

6 RS. AS. P. No. 59--Atrarea Nangananda (Nâţaka) by Harsadeva with the commentary Vimarsinī of Sivarâma (out of stock). 3 4 0 No. 60-grafa: Laghustuti by Laghubhattâraka with the commentary of Râyna vânanda, 0 8 0 No 61-सिद्धान्तसिद्धाञ्जनम् Siddhantasiddhanjana (vedânta) by Rşşnânanda Sarasvati (Part IV). 1 4 No. 62- FATETE: Sarvamatasangraha. 08 No. 63-facrarusirth Kiratarjuniya (Kavya) by Bhāravî with the commentary Sabdârthadīpika of Citrabhânı (1, 2 and 3 Sargas). 2 8 0 No. 64-TECT: Meghasandesa by Kálidāsa with the commentary Pradīpa of Dakşiņâvartanātha. 0 12 0 No: 65-74TH Mayamata (Śilpa) hy Mayamuni(out of stock). 3 4 0 No. 66—PETAT Maharthamanjari (Darśana) with the commentary Parimala of Maheśvarânanda. 24 0 NO. 67-FTTT: Tantraasamuccaya (Tantra) by Nârâyaņa with the commentary Vimarsinſ of Sankara (Part I, 1-6 Patalas) (out of stock).' 3 4 0 No. 68-a7aterat: Tattvaprakasa (Agama) by Šrī Bhojadeva with the commentary Tâtparyadīpikā of Śrī Kumāra. 1 120 No. 69-rata aula: Isenasivagurudevapaddhati(Tantra)by Isanaśivagurudevamisra Part I, Sâmānyapâda). 1 8 0 No. 70—377fasgatuhen. Aryamanjusrimulakalpa (Part I). 2 8 0 No. 71 -तन्त्रसमुच्चयः Tantrasamuccaya(Tantra) by Vârâyaņa with the commentary Vimarsinī of Sankara (Part II, 7-12 Patalās) (out of stock), 38 0 7 RS. AS. P. No. 72– FOTO Tafa: Isanasivagurudevapaddhati (Tantra) by Iśānasiragurudevamiśra (Part II, Mantrapäda), 4 0 0 No. 73-STATTFIT: Isvarapratipattiprakasa (Vedānta) by Madhusudanasarasvatī. 0 4 0 No. 74–TITZEPTega: Yajnavalkyasmrti with the commentary Balakridâ of Viśvarûpâcârya. (Part I. Acara and Vyavahâra Adhyâyās). 3 4 0 No. 75-fo@qca# Silparatna (Šilpa) by Śrīkumâra (Part I). 2 12 0 No. 76--Trasgefią 24: Aryamanjusrimulakalpa (Part II). 3 0 0 10. 77-rafateriyadayefa: Isanasivagurudevapaddhati (Tantra) by Isanaśiva. gurudevamiśra (Part III, Kriyā pāda 1-30 Patalās). 3 0 0 No. 78-TATTATTESTA Asvalayanagrhyasutra with the commentary Anāvilā of Haradattācārya. 2 6 0 No. 79-3 Tefatiet# Arthasastra of Kautalya with commentary by Mahāmahopadhyāya T. Ganapati Šāstri (Part 1-1 & 2 Adhikaraņās). 3 12 0 No. 80-37efatter Do. Do. (Part II—3—7 Adhikaraņās). 4 0 0 No. 81–TITE teata:Yajnavalkyasmrti with the commentary Balakrīda of Viśvarūpācārya (Part II. Prayaścittadhyaya). 2 0 0 No. 82—37FATTET Arthasastra of Kautalya with commentary by, Mahamabopādhyāya T. Ganapati Sāstri (Part III, 8-15 Adhikaraņās). 3 4 0 No. 83-raftagecanera: Isanasivagurudevapaddhati (Tantra) by Īsāna śivagurudevamiśra (Part IV, Kriyā pāda 37–64 Patalās and Yogapāda). 3 8 0 RS. AS. P. No. 84-721HGCT: Aryamanjusrimulakalpa (Part III). 2 0 0 No. 85-- FercorsięAT Visnusamhita (Tantra) 2 8 0 No. 86--Hatta Bharatacarita (Kâvya). by Krşņakavi. 1 8 0 No. 87—7 STERTETT: Sangitasamayasara (Sangīta) of Sangītåkara Pârsvadeva. 1 2 0 No. 88-27137: Kavyaprakasa (Alankâra) of Mammaţabhatta with the two commentaries the Sampradāyaprakāśinī of Śrī Vidyācakravartin and the Sâhityacîndâmaņi of Bhattagopala (Part I, 1-5 Ullâsās). 3 0 0 No. 89--FFEE Sphotasiddhi (Vyākarana) by Bharatamiśra. 0 8 0 No. 90-HIHIETASTE Mimamsaslokavartika with the commentary Kāśikā of Sucaritamiśra (Part I). 2 8 0 No. 91-TTTTET Horasastra of Varāhamihirācārya with the Vivarana of Rudra. 3 0 0 No. 92-cigara Rasopanisat. No. 93-agra FCHT Vedantaparibhasa (Vedânta) of Dharmarājādhvarīndra with the commentary Prakāśika of Peddadīkşita. 1 8 0 No. 94-eat Brihaddesi (Sangīta) of Matangamuni. 1 8 0 No. 95-tuetiaefit Ranadipika (Jyotişa) of Kumāraganaka. 0 4 0 No. 96-FEAT Rksamhita with the Bhāşya of Skandasvāmin and the commentary of Venkatamādhavārya (Part I, 1st Adhyāya in 1st Aştaka). 1 8 6 2 0 0 RS. AS. P. No. 9?- rukacitat Naradiyamanusamhita (smrti) with Eboja of Dhavastā min. 2 2 0 0 No. 99.--- Siivaratna (S. lya) by Srikumāra. 2 2 3 0 No. 99---Parishamn Mimamsaslokavartika (Mīmāmsa) with the commentary Käsikā of Sucaritamiśra (Part II). 300 No. 100–71334915:Kavyaprakasa (Alankar:) of Madagabhatta till the iwo commentarios, Sampradāyaprakāsinſ of Śrīvidyācukruvartin and Sahityacüdāmaņi uf Bhattagopāla. (Part II, 6-10 Ullāsās), 5 0 0 No. 101-17 HSRT4 Aryabhatīya (Jyotişa) of Āryabhatācārya with the Bhâșya of Nīlakanthasoinasutyan (Part I. Gaạitapāda). 2 8 0 No. 102--&TOH Dattila (Sangīta) of Dattilamuni. 0 4 0 No. 103-areat: Hamsasandesa (Vedanta) with commentary. 08 0 No. 104-साम्बपञ्चाशिका सव्याख्या Sambapachasika with commentary. 1 (0 No. 103~arsupia: Nidhipradipa of Siddhabrikanthasambhu. 0 4 0 Apply to: The Curator for the publication of Oriental Manuscripts, Trivandrum.

The Nidhipradipa Of Sri Siddha Srikanthasambhu

Author
K_sambasiva_sastri
Other authors
Ccl
Title
The Nidhipradipa Of Sri Siddha Srikanthasambhu
File name
The Nidhipradipa Of Sri Siddha Srikanthasambhu
Text
OCR done
Citation
1930
Publisher
The_superintendent_government_press
Language
Sanskrit
Pages
64
Library
Scl
DLI number
326602
Barcode
2020010008715.00
Scanning centre
City Central Library, Hyderabad
Digital publisher
par informatics, hyderabad
VMLT id
rS6PznGKxDl
Download PDF

The Nidhipradipa Of Sri Siddha Srikanthasambhu