Donor
Shriiraamalin'gheishvarasthavaraaja
Front matter
श्रीरामलिङ्गेश्वरस्तवराजः ।
'श्रीविद्वत्कविसार्वभौमे' त्यादिदशबिरुवादित
श्रीपुल्योमामहेश्वरशास्त्रिविरचितः ।
No text on this page.
श्रीमहावाण्यै नमः। श्रीरामलिङ्गेश्वरस्तवराजः। 'श्रीविद्वत्कविसार्वभौमे त्यादिदशबिरुदाङ्कित श्रीपुल्योमामहेश्वरशास्त्रिविरचितः । गुण्ट्ररुपण्डलस्थतेनालिनगरवास्तव्य- श्रीमुदिगोण्ड सुब्रह्मण्यशर्मणां द्रव्यसहकारेण भट्नविल्लिश्रीशारदामुद्रणालये मुद्रापितो विजयतां तमाम् । .. विलम्बिसंवत्सरवैशाखे प्रकाशीकृतः । अस्य ग्रन्थस्य सर्वेऽधिकारा ग्रन्थका स्वायत्तीकृताः। मूल्यम् 0-50 DONATED TO TTD CENTRAL LIBRARY
श्रीमुदिगोण्ड सुब्रह्मण्यशाभिनन्दन
पद्यरत्नमाला।
लो॥श्रीमच्छवाढ्यपीठाधिपगुरुमणिनिध्युद्भटाराध्यवंश
श्रीचूडारत्नसूतीसदनितमुदिगोण्डाख्यगोत्राकरोत्थः ।
कन्नय्याख्योरुहीरश्शरभमनुमहोपासनालब्धसिद्धि.
विज्ञानी सत्तपस्वी मनुमहिमजगत्सर्वपीडापहारी ॥१॥
यत्सन्दर्शाभिकांक्षिण्युपगतजनताऽऽगारिकद्वारदेश
पश्यन्ती स्वेप्सिताप्त्यै सदनबहिरवस्थानगा दर्शनेन ।
प्राप्ताभीष्टातितुष्टा बहुतरनुतिभिः प्रत्यगादात्मवासान
श्रीनारायपेटाधिपतिरुरुतरैर्माननैर्य पुपूज ॥२॥
तत्पुत्रः कोटिलिङ्गस्सुगुणमणिखनिस्तद्यशोवर्धकोऽभूत्
यस्मै मल्लायपालेजनपदपतयस्सिङ्गमाख्यान्वयोत्थाः ।
लक्ष्मीशा विष्णुभक्ता अपि च हरिहराभेदभावं वहन्त
स्सीतानाम्नी स्वकन्याग्दुरधिकमुदाऽत्युचभूम्या सहार्याम् ।।
तत्सनु गलिङ्गाभिध उरुगुणवान्प्राणलिङ्गार्चनाये
शेवोपास्तिप्रभेदेस्सततमपि शिवाराधनायत्तचित्तः ।
अम्बानाम्नी सुगुण्यां बुधनुतचरितस्साधुवृत्तां सतीभिः
स्तुत्यां साध्वीललामामुदवहदमलौदार्यमुख्याभिरामाम् ॥४॥
तहम्पत्योः कुमारोऽपर इव शिवयो मतोऽपीडयवृत्त
श्रीसुब्रह्मण्यशर्मा विमलगुणगणैरभ्युदीतो बुधेन्द्रः
भारद्वाजर्षिगोत्राभरणमिव महोदार्यधैयादियों
वीर्य यस्यार्यमार्यादरविधिषु समर्यादमुशिवयम् ॥५॥
(2)
शौर्य श्रीशैवसेवास्वनिशमपि मतग्रन्थमार्गानुरोधा-
दौदार्य दीनरक्षाविधिषु बहुविधार्थानुसन्धानधुर्यम् ।
गाम्भीयं भूरिकार्याचरणविधिषु सद्धर्यमात्मोद्यमेषु
प्रक्रान्तेषूनतेषु प्रतिभटविजयेष्वप्रधृष्यं च वीर्यम ॥६॥
श्रीवाणीकीर्तिकान्ताधरणिधृतकरं धर्मपत्न्यन्नपूर्णा
न्वाख्या पञ्चमी साऽवृणुत सुगुणसंलुब्धहुन्माधुवृत्ता।
चातुर्य यस्य पश्च प्रियमरमणीरक्षणे साम्यदृष्टया
विद्वद्वर्यप्रशंस्यं समितिषु विदुषां काव्यजाले कवीनाम् ।।
विसादानेषु दानेष्वपि च विभजने पात्रतापात्रतादे-
स्त्यागे दीनेषु मुद्रागणनविरहिते नैपुणी विस्मयाहा।
सेवन्ते यं तु नित्यं निजविविधबृहत्कार्यसन्धानकामा
स्सिद्धार्था यं स्तुवन्ति श्रितसुरतरित्यर्थिसास्सिदापि॥८॥
यत्पत्तावन्नपूर्णामृतकरपरिविष्टान्नमश्नन्ति भक्ष्ये-
भोज्यलेबैश्च चोष्यैरतिथिवरसमभ्यागताश्चापि विप्राः ।
सन्तृप्ता वर्धयन्ते निजविविधशुभाशीभिरार्या यदीय
दाम्पत्यं दीनजाता अपि विविधजना अर्थिनोभाय दृष्टाः ॥
निष्णाता वेदशास्त्रेष्वपि विविधकलावल्लभाः काव्यकन्या
दातारस्स्वीयगोष्ठीविततिभिरनिशं मोदयन्ते यमायोः ।
यदत्तार्थादितुष्टा यदखिलशुभशतोदीतिकांक्षां वदन्त.
स्स्वीयैः पद्यैश्च गधैरहरहरपि यं नोनुवत्याप्तकामाः ॥१०॥
No text on this page.
श्रीमहावागीश्चर्य नमः ।
श्रीमहागणाधिपतये नमः ।
श्रीरामलिङ्गेश्वरस्तवराजः।
'विद्वत्कविसार्वभौम
पुल्य उमामहेश्वरशास्त्रिविरचितः ।
श्लो॥ अद्वैतमधदेहेन द्वैतं पृथगवस्थितेः ।
दर्शयन्पार्वतीनाथो रामलिङ्गेश्वरोऽवतात् ।।
क्षीरारामक्षेत्रे स्वयमुदितं जगदनुग्रहेच्छया शम्भुम् ।
शिरसि जटामकुटधरं स्फाटिकलिङ्गाकृति भजे हृदये ॥२॥
इन्द्रादयोपि दिविजा विविधा मुनीन्द्राः
सायं भवत्सुभगरूपदिदृक्षयेश ।
आयान्ति हि प्रतिदिनं विममालयं ते
स्वार्थप्सवो भजनतो भवतस्त्वरात्ताः ॥३॥
तद्भक्तलोकसमनुग्रहणाय शम्भो!
योग विहाय निजलिङ्गतनोः कृपावान् ।
उत्थाय दिव्यवपुषा सुभगेन होत
नृत्यत्यलं सह गणैः परितस्समाजे ॥४॥
श्रीरामलिङ्गेश्वरस्तवराजः ।
आनन्दताण्डववपुस्तव तनिरीक्ष्य
तौर्यत्रिकेण बहुधा नुतिभिश्च धन्याः ।
आनन्दवाष्पलितास्सकला भवन्तम्
सामाजिका उपचरन्ति सदा महेश! ॥५॥
नृत्यत्पदद्वयरवानुकृतार्यगीत-
वाद्यान्वितांगचलनैरुदितो महान्यः ।
आनन्द आत्मसु समाजगतेषु नाद-
तत्त्वानुसन्धिगमितस्स कदा मम स्यात्? ॥६॥
व्याघ्राजिनेन कटिगेन गजाजिनेन
बाहुद्वयोवंचलता गलगाहिना च ।
नृत्यत्फणेन च जटामकुटस्थगङ्गा-
नृत्यार्जकस्य तव ताण्डवरूपमीडे ॥७॥
नृत्यानेहसि ते सुरूपकलनं लभ्यं सुराणामपि
श्रीयोगेश घटेत नाऽन्यसमये योगार्हलिङ्गानुगे ।
त्वय्यमास्किल नृत्यकालमदिशस्त्वपसन्दशने
सर्वेषामपि सर्वसुन्दरवपुस्तत्ते शिवायास्तु नः ॥८॥
ये सायसमये शिवारहदः पश्यन्ति मारिशवम्
लिङ्गात्मानमिहामृताशिनिवहाराध्यात्मनृत्योद्यतम् ।
मा दृश्यमनोहराकृतिजुषं पश्येयुरेने शिवम्
धन्या अन्यजनाविति स मुनयः प्राहुमहान्तो ध्रुवम् ॥९॥
an
३
श्रीरामलिड्नेश्वरस्तवराजः ।
यद्पं तव ताण्डवेषु मुनिभिदृष्टं यथा वर्णितम्
तत्ते मादृशमानवाद्यसुलभालोकं मुनीडथं मुहुः ।
आलम्ब्यात्मनि किंचिदीडितुमशक्तोपि प्रवर्ते शिव!
श्रेयः केन न कांक्ष्यते सकलसच्छ्यःप्रदे किं स्तवे ॥१०॥
मृढोऽहं विषयावलीढहृदयः कामाघरीणां वशो
विद्यावाप्यविवेकगन्धरहितस्संसारसेवापरः।
तन्निर्वाहकृतेऽर्थकामचयने नक्तंदिवं व्याप्तो
नानाक्लेशसहिष्णुरप्यहह! ते सेवां न चैवाचरः ॥११॥
एवं संसरतस्सदा बहुविधक्लेशार्जकस्याधुना
विद्युत्स्फूर्तिरिखात्मनीषदमिपन्छम्भो स्वविद्याद्युतिः।
'मृढ! त्वं श्रय सर्वदं परशिवं सर्वज्ञसर्वेश्वरं
संसाराम्बुधितारिणं, किमपरैस्स त्वां समुत्तारयेत्' ॥१२॥
इत्यन्तस्स्फुरणेन केनचिदहो सर्वज्ञसर्वेश्वरः
क काऽहं जडधीस्तदाश्रयणमप्याराद्घटेन का वा ।
केन स्याद्विधिनेति चेतसि विकल्प्येह स्तुतौ ते यते
बलालापवदीश मामकगिरस्ते सन्तु मोदावहाः ॥१॥
श्रीवाणीधरणीविभूतिविलसत्सद्वर्णसङ्घोल्लम-
क्षीरारामपुरीकृताधिवसतिश्श्रीरामलिङ्गेश्वरः
पार्वत्या सहितो निजार्धवपुषा सूर्यादिभिस्स्वैः परी.
वारर्देवगणैर्धोतरनिजाभिख्यस्स्वयं नोऽवतात् ॥१४॥
श्रीरामलिङ्गेश्वरस्तवराजः ।
शैवक्षेत्रवरेषु पञ्चसु पवित्रारामसंज्ञेषु य.
न्मूर्धन्यं कथितं शिवस्स्वयमवातारीजटाजूटधृत् ।
लिङ्गाकारतया सितेन वपुषा स्वीयेन साक्षाजग-
द्रक्षायै निजपार्वतीदयितया गोदाख्यगङ्गान्तिके ॥१५॥
पावें यस्य च दक्षिणे गणपतिस्स्त्रीयालये संस्थितो
गोकर्णेश्वर आत्मनोऽमलतनुस्तदक्षिणेऽवातरत् ।
स्कन्दस्तुत्तरभागगोऽस्ति तनयो यस्यालये स्वे ततो
लक्ष्मीश्चापि जनादनो निवसतो यस्यालये सुन्दरौ ॥१६॥
सालग्रामशिलामयो निवसति श्रीनन्दिकेशो दिशि
प्राच्या द्वारयुगं त्ववन्नभिमुखं स्व सेवमानस्सदा ।
यस्याज्ञामनुपेत्य कोपि सदनान्तस्थं शिवं वीक्षितुम्
नो शक्नोति सुरेश्वरोपि मनुजो वाऽन्योपि कुत्रापि वा॥१७
प्रारद्वारात्तव दक्षिणे निजकरैस्सम्भासयन्त्रालयम्
सूर्यः पाति ततस्तु दक्षिणतले विश्वेश्वरोऽसि प्रभो।
तत्पार्वे तव पार्वती प्रियतमा सर्वाङ्गसौन्दर्यभा
माता लोकततेस्तवेश हृदयं याचूचुरद्योगिनः ॥१८॥
यस्या दृष्टिनिपातनानि करुणापीयूषवर्षीण्यलम्
भक्तेभ्योऽखिलकामदानि सततं निर्यान्ति नेत्रद्वयात् ।
फुल्लाम्भोरुहभासुराननसमालोकेन दीनात्मना-
माधिव्याधिमुखव्यधाविलयनादानन्दलीलोदयः ॥१९॥
श्रीरामलिङ्गेश्वरस्तवराजः । तत्पार्वे नगरेश्वराख्यतनुभृत्वं दक्षिणे संस्थितः क्षीराराममहापुरीमयसि भोः! प्रेम्णाखिलैश्वर्यदः । तत्स्थायै निजभक्तलोकततये कौबेरसख्यं भृशम् शंसन्स्वं सह वीरभद्रतनयेनात्मीयपाश्र्वे विभो! ॥२०॥ पश्चादक्षिणदिक्तटे तव विभो या मातृकास्सप्त ता लोकान्पान्त्यनिशं कृपाहृदयस्त्वस्था पयो रक्षितुम् । आधिव्याधिविपन्नदीनमनसो मान्विपद्धसिनी रापन्नार्तिनिवारणे तव कृपाऽनन्यादृशी शङ्करः ॥२१॥ पश्चादुर्गमदुःखनाशनधृतात्मीयत्रतानारत दुर्गा श्रीकनकात्मिका निवसति श्रीरामलिङ्गेश्वर निर्देशात्तव भक्तरक्षणकृते ब्रह्मा ततो भारती पश्चात्त्वद्भजनाय शङ्कर कुमारोऽथात्मजस्त्वां भजन ॥२२॥ या दुर्गाऽखिलदुर्गतिप्रशमनी लोकस्य, भक्तावलि त्राणायावततार दुष्टमहिषाभिख्यासुरं सिंहगा। हन्तुं देवगणैरजय्यमभयं दत्तेऽखिलाभीष्टदा सा चाष्टादशबाहुभिश्शिवसुतात्पश्चादिहास्ते परा ॥२३॥ तस्या उत्तरदिक्तटेऽत्र वसति वन्मूर्तियुग्मं विभो श्रीमत्सुन्दरताण्डवेश्वरपदख्यातं मनोहन्नृणाम् । यद्वीक्षाव्यथितात्मनोऽप्यतितरामानन्दवीचीभ्रम द्वंसत्वं मनसो विधाय तनुते भक्तिं स्थिरां त्वय्यलम्।।२४॥
श्रीरामलिङ्गेश्वरस्तवराजः ।
यस्याऽत्युग्रतपोविशेषदृढसद्भक्तिप्रतुष्टात्मना
यद्दौवारिकताऽद्भुता पुरमुखे शम्भो त्वया स्वीकृता ।
सोऽयं त्वद्भजनाय बाणदितिजो भक्ताग्रणीस्सन्ततम्
श्रीमत्ताण्डवमूर्तितोऽथ वसति श्रीरामलिंगेश्वर ॥२५॥
दत्तात्रेयवपुर्धरोऽसि भगवन्विज्ञानसिद्धिप्रद-
स्तस्मात्प्राग्दिशि कालभैरवयुतस्स्कन्दस्ततः प्राविभो ।
पापघ्नेश्वरनामतोऽसि भगवन्नन्वर्थनामा ततो
द्रष्ट्रणां शिव पापभंजक हह श्रीरामलिंगेर र ॥२६॥
एवं स्वैः परिवारकैस्सह धृतान्योपाधिनामवजे-
नानारूपधरस्वमूर्तिभिरिह श्रीरामलिंगेश्वर ।
पार्वत्या सहितस्वभक्तविततित्राणाय सर्वेश्वर
क्षीरारामपुरेऽतिपूतवसतौ व्यक्तस्स्वयं पासि नृन् ॥२७॥
गोः कर्णात्क्वचिदीशं कुक्कुटतनोः कुत्रापि वाराङ्गना-
चूडातः क्वचिदीश हिंस्रकमहाव्याघ्राक्वचित्ते जनिः ।
चित्रा भक्तजनावनाय बहुधा सर्वात्मतादर्शिनी
श्रीमद्भक्तमनोनिवास भगवन् श्रीरामलिंगेश्वर ॥२८॥
देवास्सन्तु सहस्रशो दिवि नृणामिष्टार्थदास्सेवना
त्सव्यासव्यविधिक्रमोपकलितात्क्षिप्रं प्रसाद्याश्चिरम् ।
तोष्याश्च त्वमुमापते क्षणमुहूर्ताद्यल्पकालानुस-
न्धानप्राप्यकृपादृच्छ्रितविपद्ध्वंस्याशुतोषी स्मृतः ॥२९॥
श्रीरामलिङ्गेश्वरस्तवराजः।
धातृश्रीपतिवासवादिदिविजाः पुरूपिणोऽभीष्टदा
दीर्घेणेन्द्रियशोषिकछूतपसाऽसाध्येन यागादिना ।
त्वं त्वेकाग्रहदा मुहूतमितसत्कालेन निध्यायिनां
भक्तानामखिलार्थदोऽखिल विपद्वातासमुत्तारयन् ॥३०॥
आत्मानं किमितीश लिंगवपुषा संछादयम्यंजसा
नाऽन्ये ब्रह्ममुस्वास्सुरा इह परं साङ्गैस्स्थिता विग्रहः ।
मन्येऽहं परमात्मतामुपनिषद्बोध्या विशुद्धां स्थिरी
स्थाणुत्वेन च सूचयस्यतितरामाद्यन्तहीनामिति ।।६१॥
ज्ञानानन्दमयं स्वमन्तरनिशं लिंगे स्थितो वीक्षसे
धिक्कृत्याऽखिलजागतं नु विकृतवातं सदा शङ्कर ।
बाह्यं प्राकृतमेतदीश मलिनं योगापकर्षक्षम
नैगुण्यं स्वगतं व्यनक्षि जगतो लिङ्गात्मना संस्थितः॥३२॥
नैर्गुण्यं गुणनिर्गतेस्तु भवतो नात्यन्तिकाभावत-
स्तत्तद्वैकृतलेपमात्ररहितत्वाशंसकं मन्महे ।
सागुण्यं गुणवैकृताश्रयतया मूर्तेष्वमूर्तेष्वपि
ख्यातं जागतवस्तुषु स्फुटतमं नैतद्विरुद्धं विभो ॥३३॥
'जन्माघस्य यतोऽन्वयादितरत' श्चेत्याह पाराशरि-
र्भूतानामुदयं स्थिति लयमपि त्वत्तश्श्रुतिषिते ।
नैगुण्यं गुणशून्यता यदि घटेतान्योन्यविद्विष्टयो-
स्सामानाधिकरण्यमीश्वर कथं तद्धमयोमन्महे ॥३४॥
८
श्रीरामलिङ्गेश्वरस्तवराजः ।
धत्तेवार्य विकारिसारसदलं लिप्येत नेपत्तत-
सूर्य भौमरजो न लिम्पति या नाकाशमग्न्यादिकम् ।
एवं त्वां प्रकृतिर्न लिम्पति जडा वत्सन्निधानाजग-
कार्यालिं विदधाति देहवदहो जीवात्मसान्निध्यतः ॥३५॥
माया सात्वविकारिणी गुणमयी चिच्छक्तिरूपा त्वयि
ज्योत्स्ना चन्द्रमसीव वारिणि यथा वीचिः प्रभा पूषणि ।
इच्छाज्ञानकृतिस्वरूपकलिता जीवे सुषुप्तौ यथा
कल्पे निश्चलतां गता त्वयि पुनस्सृष्टौ विचित्रक्रिया ॥३६॥
भेदस्तत्र हि यत्पृथग्विषयतामापद्यतेऽन्यात्स्वयम्
यन्नैवं न ततस्तदन्यदिति संविज्ञायते विद्वरैः ।
शक्तेश्शक्तिमतो गुणस्य गुणिनो नैवापृथग्भानतो
मायायास्त्रिगुणात्मनस्तव भिदा शक्तेन कापीश्वर ॥३७॥
शक्ति वाऽन्यगुणान्विहाय भगवन्नात्मा न सन्दृश्यते
नात्मानं च विहाय तेऽत्र सकलं द्रव्यं गुणैरन्वितम् ।
हित्वा द्रव्यमिह स्थितिगुणततेः कुत्रापि नालोक्यते
तद्भेदः कृतिभेदजः कृतिकृदप्यात्मा त्वमेवेश्वर ॥३८॥
देहे गेह इवानुविश्य करणैस्तैस्तैर्गुणैश्शक्तितो
नानाकार्यततिं करोषि भगवस्त्वं जागतीमिच्छया ।
सृष्टा चित्रमिदं जगद्बहुविधं रक्षस्यपि स्वेच्छया
सर्व संहरसीह नर्तक इव स्वं नाटकं जागतम् ॥३९॥
१]
श्रीरामलिङ्गै वास्तवराजः ।
कर्तत्वं प्रकुडामपि च नामाहः कथं वा लगे-
धनात्मा न वसेजडस्म उदितो भिन्नश्च यस्त्वा-मना।
आत्मव्यापृतिमन्तरा न करणेष्वीक्ष्येन कापि क्रिया
कर्तृत्वं तदधिष्ठितेस्तव विभो विद्मोऽखिलव्यायः ॥१०॥
मायोपाधिका तेऽन्यजीवनिवहस्याविद्यकोपाधिक-
स्याद्वतं प्रवदन्ति तात्तिकवुधास्तन्माधु पन्गामहे ।
राज्ञो भृत्यगणस्य भेदरदिहोपाध्योः प्रभेदात्तथा
शक्तीनां च विभेदतो हर भिदा दृश्येत वान्यतः॥४१॥
नैवोपाधिमृते महोपि भगवन्कुत्रापि मन्दृश्यते
मायां शक्तिमयीमुपाधिमवलम्ब्या निर्यथा दाहिकाम् ।
शक्ति सूक्ष्मतमामनुप्रविशसि म्यूए मवेघहो!
दादिष्विव लिङ्गदेहमुपयन्जीवा मरूपश्शिन ॥ २॥
सृष्टयर्थे तब लिङ्गदेहधरणान्नानाक्रियानुष्ठिते
म्त्वच्छक्तिप्रकृती क्रमादधिगतं मालिन्यमस्मादिमाम् ।
श्रीरामेश्रर मन्महेऽखिलबुधा आहुम्त्व 'वद्यामिति
त्वां जीवं च तदाश्रितं त्रिजगतीस्थूलात्मसंस्थ विभु।। ५३ ॥
इच्छाज्ञानकृतिप्रभृत्यखिलमच्छक्त्यात्ममायामयो
पाधिस्थस्य तान्तरान्मविरहात्कापि क्रिया नो भवेत् ।
तद्राहित्यमवैकृताय निभृत वा पापि हेतम्ता
श्रीमनिष्क्रिय निर्विकार भगन्नित्यानमोद प्रभो! ॥४४॥
१०
श्रीलामलिङ्गेश्वरस्तवराजः ।
जीवेऽन्तःकरणं गुणाश्च विषमाः कर्माणि नानाविधा
न्यन्तश्शतगणस्स्वभाव इति चाऽविद्यापि शम्भो सदा।
तत्तद्भौतिकदेहवेशनमुखा नित्या विशिष्टा इमे
श्रीरामेश परात्मरूपसहिते शुद्धस्य निष्कर्मणः ॥४५॥
इच्छाशक्तिविजृम्भणात्प्रथमतस्सृष्टौ निजज्ञानवि
प्फूर्तस्त्रीपुरुषात्मभागकृतिशक्त्याप्तार्धनारीश्वर ।
शुद्धान्तःकरणादिराजितवशीभृतात्ममायावला-
ब्रह्मादीनसृजस्ततो खिलजगत्सृष्टयादि सर्वेश्वर! ॥१६॥
स्थूलोपाधय ईश! तेऽतिविमलासर्वज्ञ सर्वेश्वर
श्रीमायाऽखिलशक्तिमयपपि वशा विश्वस्य सम्मोहिनी ।
नानाकर्मसु चोदनेन सततं हत्पुण्डरीकस्थितो
मायाशक्तिनटीयुनो नटयसि त्रेधा जगन्नाटकम् ॥४७||
आत्मानं प्रविभज्य कार्यभिदया धृत्वा तु मूर्तित्रयम्
स्वीयाभिस्सह शक्तिभिरिशव नयस्यङ्कत्रयं जागतम् ।
सृष्टि ब्रह्मवपुस्थिनि हरिवपू रुद्रात्मवांस्तल्लयं
नानाऽत्यद्भुतकर्मतत्फलमुखैर्जीवबजे सन्ततम् ॥४८॥
मायां स्वां प्रणिधाय सद्यवनिकां लोकालिरङ्गस्थले
स्वस्वप्राक्तनकर्मलब्धविविधाकारान्निधायात्मनः ।
तत्तत्कर्मविशेषभोग्यफलसन्धानानुकूलक्रियामेदै-
नर्तयसि त्वमीश बहुधा दुःखं सुखं भोजयन् ॥४९॥
श्रीरामलिङ्गेश्व
श्वरस्तवराजः ।
पुण्यं पापमिति द्विधाऽत्र विभजन्कारिखलं पुण्यतः
प्राप्तव्यं सुखमीप्सितं बहुविधं दुःखं तु पापात्पुनः ।
एवं वेदमुखात्प्रबोध्य भगवस्त्वं कर्मसूत्रं दृढं
संस्थाप्यानुगुणं फलं विदधसे प्राणिव्रजस्येश्वर ॥५०॥
आत्माऽभीष्टसुखोपधायककृतिव्रातप्रबोधेपि ते
मायामोहवशाः प्रजा विदधते पापानि घोराण्यपि
तत्र त्वं कुरुप किमीश फलदः कमंत्रजस्यात्मनां
बद्धा कर्मफलव्यवस्थितिरियं नित्या विभिन्ना कथन् ।५.१ ।।
अन्तर्यामितया महेश विविधोपाधिस्थितः कर्मसु
वं जीवानिह चोदयन्द्विफलकेष्वानोह्य मायावलात् ।
श्रीरामेश सुखं ददास्यपि पुनदुःखं च तेभ्योद्भुतम्
किंन्वेतललितं च की गति नो विद्मो वयं शङ्कर ! ॥५२॥
उद्भिजादिजरायुजस्थितमृगान्तोपाधिकात्मवजे
धर्माऽधर्मविधाहताविरहिने प्रारब्धभोगाम्पदे ।
हिंसाधुन्नतदोषकृत्यपि न वा शिक्षा विधन्से काचिन्
स्वस्वोच्चात्मगतिं ददासि मनुजांस्त्वं शिक्षसे दोषिणः ५३॥
स्वातव्यं सदसत्क्रियाचरणगं दत्तं क्रिया दर्शिता
स्ता वेदेस्सफलास्तदौपयिकमप्पङ्ग मह ज्ञानतः ।
स्वाभीष्टं सुखमजयेति गदिनेप्येषोऽशुभे वर्तने
चेच्छिक्षे तमितीरणं किमुचितं धीचोदिनस्ते शिव! ॥५४॥
१२ श्रीरामलिङ्गेश्वरस्ताराजः। बुद्धीः कर्मसु सासु सर्वसुखदेप्देवात्मनां चोदयेः किं नेतीश्वर कारणं तु न वयं विद्यो नचाहुः परे । दुष्कर्मव्रजचादनं तदनुगा नेकव्यधापादनम् कि युक्तं शिवदोसि शङ्करः सदा लोकस्य सर्वेश्वर ॥५५|| जीवत्वं परमेश्वरत्वमपि ते सोपाधिकं ब्रह्मण- श्शुद्धस्यागतमीश! कुन समये मागापि सम्मोहिनी। प्राप्ता वात न वेदयन्ति जगाप्येतच्छतिज्ञाः पर- न्वाहुस्सवमनायुपा धरहितं ब्रह्माऽस्ति तत्कुत्र वा ॥५६॥ सर्वोपाधिपु सवलोकविततावन्तवहिव्योमव ब्रह्मास्ति स्वकसर्वशक्तिकालत विज्ञानवेद्यं विभु। शुद्ध प्राकृतवैकृतादिरहित चान्यरूपं मह- इश्रीरामेश वदन्ति ता त्वबुधास्तत्त्वां तु मन्यामहे ॥५७॥ तञ्चतन्यमनिन्द्रियालिविश्य वाचा न वाच्यं मनोऽ- नृह्य निवचनाऽशकं श्रुति गरामीहक्तयेदन्तया । को वेत्तु प्रभवेन्महेश्वर दृढाविद्यावृतात्मा जन- स्सक्नेह भवत्प्रसादमनवाप्याऽशेषलोकप्रभो! ॥५८॥ निर्वक्तुं यदिहाहमीश भुवने केनापि वा तत्सत- स्तद्ज्ञातु प्रयतत तस्य मुस्वतो जिज्ञासुलोकश्शिव! । यच्चानिवचनीयमेतदखिलेः ब्रह्माऽवगन्तुं तु त- सवज्ञ त्वदनुग्रहेण तु विना शम्भो कथं शक्नुयात्।! ५९॥
श्रीरामलिङ्गश्चरस्तवराजः ।
१३
यच्चाणोरणु यन्महच्च महतश्शब्दाद्यवेद्यं च य-
त्सर्वत्रानुगतं जगत्यपि मनोवेद्यं च नेहक्तया ।
विश्वस्येन्द्रियगोवरस्य यदधिष्ठानं परोक्षस्य च
श्रीरामेश! विभो विना तव कृपां तद्ब्रह्म वेद्यं कथम् ॥६०॥
वेदा एव न वेदयन्त्यविशयं शुद्रात्मतत्त्वं जग-
तवं चेश्वरतत्त्वमीटगी गति विस्पष्ट तु दिष्टैस्सह ।
सृष्टिं विष्टपसंहतेः स्थितिलयो जीवात्मतत्वं च वा
श्रीरामश विना कृपां तब जडा विद्मः कथंन्वञ्जसा ॥६१॥
ज्ञानेन त्वदुपाहिोन विमलेनात्मानमालोडय
नज्ञानेन तिरोहितं शिव यथा सुक्ष्मानलं भस्मना ।
वेत्येकोऽत्र महामांतस्स्वहृदयान्तस्थं त्वमोह्याऽखिलम्
मालिन्य निजरूपभागविरतानन्दी निवृत्तक्रियः ॥६॥
ब्रह्मात्मानुभवेकवेद्यमितरोपायरषेद्यं रसा
आस्वादेन यथा फलाधनुगता अन्यानवेद्या इह ।
जायेतानुभवस्स तापककृपालब्धामलज्ञानतो
नो तर्केन च वागमादिपठनमोहापनोदश्शिव ॥६३॥
मोहोऽयं किल जागतो विषयगोऽनादिर्जगत्या सह
प्राप्तो मायिक आत्मनः करणतो ब्रह्मादिकपी मुहुः ।
जीवस्येश बराकरूपिण इहाभाष्यो भवेकीश-
स्यात्सर्वज्ञ भवत्कृपाधिगतविज्ञान कनाश्यरिशव ॥६४॥
१४ श्रीरामलिङ्गश्वरस्तवराजः तत्त्वं ब्रह्मण ईश्वरस्य जगतो जीवस्य कीदग्भवे दित्यालोडनमात्मनौपनिषदायुक्त्यन्त्रितेस्साह्यतः । मायामोहनिवर्तकं न भवति प्राझवजम्याप्यहो! श्रीरामेश भवत्कृपामृतरसासेकं विना मुक्तिदम् ॥६. ।। प्रत्यक्षं जगदेतदीदृशमिति ज्ञातुं न शक्नोति य. स्सोऽप्रत्यक्षपरात्मतत्त्वमखिलं वेत्तुं कथं शक्नुयात् । स्वान्तस्थं त्वहमात्मना प्रतिकलं सम्यकाफुरन्तं मुहुः स्वात्मान स्वयमीदृशोऽहमिति नो वेत्तीश्वरं हां कथम् ।। बीजोघं विविधं विचित्रविविधाकरोद्मप्रापकम् सृष्ट केन कथं, कथं परिणतं भिन्नात्मनाऽनेकधा । तत्तद्यक्तिविचित्ररूपकलनं वेत्तुं न शक्नाति यो लोकेऽत्यद्भुतसर्वशक्तिकलितं त्वां वेत्ति को वा परम्॥६५॥ ब्रह्माण्डानि बहूनि वक्ति फिल स व्यासोऽद्भुतानि स्वयम् चेतोवागतिगाकृतीनि पस्तो भृलोकतोऽस्माभृशम् । सौभाग्येन च सम्पदा च सुखतस्सृष्टानि मन्ति त्वये. तीशावैमि कथं महामहिमवत्वत्कारुणीमन्तरा ॥६८॥ एकस्यापि च वस्तुनो भुवि परीणामं विभिन्न त्मना सृष्टिं तस्य तथा न वेद य इह प्राज्ञात्ममानी नरः । वेत्तुं त्वां यतते समस्तजगतीस्रष्टारमीश ताहो मोहात्वत्करुणां विना कथमयं त्वां वेदितुं शक्नुयात् ।।
श्रीरामलिङ्गेश्वरस्तवराजः ।
१५
भक्त्या त्वत्पदपद्मचिन्तनपरः कृत्वा शरण्यं दृढम्
त्वामेवात्मनि चेतमा सुभजते सर्वेश्वरं सन्ततम् ।
तस्मिन्नाशु भवान् प्रसद्य दिशति ज्ञानं विमोहापहम्
सर्वज्ञत्वमुपेत्य मुक्त इह स स्यान्नान्यथेति ध्रुवम् ॥७०॥
वेदा यन्मुखनिर्गताः प्रथमतो विश्वादयविज्ञानदाः
रूपैस्स्वयमभिष्टुवन्ति सततं वेदा द्वयोः पार्श्वयोः ।
स्थित्वा वेत्ति च यस्त्रिकालगतमप्येष प्रभो विश्वसृट
स्वां शम्भो तनयामियेष हि वधू व्यामुह्य मायारलात् ॥
वेदान्व्यम्य पराशरस्य तनयः सर्वान्विदित्वा स्वयम्
वेदव्यास इति प्रपञ्चनिचये ख्यातिं गतो मौ नराट् ।
सूर्योऽभिदधे तदोपनिषदं ब्रह्मान्मतत्त्व स्फुटम्
पुत्र मोहमवाप्तवानतितरां तिर्यग्युगावेक्षणात् ॥७२॥
विश्वामित्रपगशरादिमुनयो वेद्याथसंवेदिनो
युक्तात्मान उपात्ततीव्र पसो मोहं गता मायिकम् ।
एवं वैषयिकात्ममोहविवशा लोके महायोगिनोऽ
पीश प्राकृतमोहबन्धभिदुरा त्वेकेन ते कारुणी ॥७३॥
ब्रह्माऽनिर्वचनीयमेव शिव सा मायाप्यशक्या पुन:
निर्वक्तुं जगदप्यनादि विविधाकार विचित्रक्रियम् ।
जन्मोदीतिलयस्वभावकमिदं प्रावाहिकं नैत्यकम्
दृश्येतेश्वर तावकीनकरुणे वैका विमुक्तिप्रदा ॥७॥
१६
श्रीरामलिङ्गेश्वरस्तवराजः ।
मायामेव नटी विधाय भगवंस्त्वं सूत्रधारत्वभा-
क्पात्राणीह विचित्रकर्मनिवहानास्थाप्य जीवनजान् ।
नानारूपधरान्विचिरफलकव्यापारनिहिण-
इशं शोक कलयन्नहो! नटयसे चित्रं जगन्नाटकम् ॥७५॥
सृष्टियङ्के तु रजोगुणाश्रयमजं संस्थाप्य सर्गो चतां
शक्ति तत्सहकृत्वरीमपि विधापानङ्गमुख्यैर्नटः ।
शृङ्गार नगिन्विमोह्य च मिथस्त्री पुसरूपं प्रजो-
त्पादायस्त्रिजगत्मदाशिव सदा संसारयस्यद्भुतम् ॥७६॥
स्थित्यके सकलानसानभिनयन्जीमनुष्यादिभिः
पात्रमोहमुदश्चयन्प्रकुतिज सांसारिकं भोगगम् ।
कमक्रोधमुखात्तवैकृतविधिवातंहपीकाहित
श्चिः कमभिरीश नतयसि भो सर्वं जगत्सर्वदा ॥७॥
विष्कम्भा बहवोऽत्र तु प्रतिरसं तत्तस्त्रिवर्गाश्रया-
चित्रानेक्चरित्रदर्शनपराः केचित्सुखान्ताः परे।
दुःस्वान्ताम्सुखदुःखमिश्रकृतयसंसारम्ोहाश्रिता
नानानायकनायिकालिकलिता दयन्त ईश त्वया ॥७॥
अन्योन्याकृतिमुग्धयोस्मरशरव्याघातसंरब्धयो-
संयोगत्वरमाणमानसगतिप्रक्रान्तविब्बोकयोः ।
प्राप्तात्मीयरतान्तरायहतयोः पश्चाद्यजीः कामिनोः
शृङ्गार द्विवध कथालिकतं शम्भो क्वचिददर्शयः ॥७९॥
१] श्रीरामलिङ्गेश्वरस्तवराजः ।
राष्ट्राक्रान्तिनिरीक्षिणोनिजबलप्तात्मनोः क्रुद्धयो-
रल्पेनाऽप्यराधतो रणयुजोस्सैन्यावलीचोदिनोः ।
राज्ञोश्शस्त्रपरिभ्रमोद्विरदहङ्कारोक्तिवारैर्मियो
वीरं रङ्गतलेषु दर्शयसि तत्सैन्यावलेश्वेश्वर! ॥८॥
आधिव्याधिविपद्वजप्रतिहतीनैनितान्तं जन-
रातश्शङ्कर दीनरक्षक विभो दीनं भृशं पाहि माम् ।
यातस्त्वां शरणं त्वनन्यगतिकश्शम्भो इति व्याहतेः
क्षिप्रैतत्परिरक्षणेषु करुणं शम्भो समादर्शयः ॥८१॥
चापं मेरुगिरि शरं हरिमुरुं मौर्वी च तं वासुकि
सुणीरं जलधिं विधाय रथमप्याधाय विश्वम्भराम् ।
चक्रे भानुविधृ हयांश्च निगमानक्षं तु धर्म प्रभो!
मायावित्रिपुरासुरालिहनने प्रादर्शयस्त्वद्भुतम् ।।८२।।
गङ्गां मूर्ध्नि दधासि वल्लभतया त्वामर्धदेहेन किं
भूति वांछसि सर्वदा प्रकृतिजा सर्वस्य सा न प्रिये ।
दिव्यालंकृतिभूषितो हरिरहं त्वत्तो न किं भूषित-
स्त्वेवं नर्मवचस्सुहास्यमुमया सन्दर्शयस्यात्मना ।।८३॥
वैयाधू परिधाय हास्तिनमुपर्याधाय चर्म प्रभो!
फालाग्नि ज्वलयन रुषा फणिवरैहालाहलोद्गारिभिः ।
भसच्छन्नवपुस्त्रिशुलमुपयन्नुग्रं करे वेगत.
स्त्वायान्हन्तुमरीन्भयानकरसं शम्भो क्षिपस्याजिषु ॥८॥
श्रीरामलिङ्गेश्वरस्तवराजः।
तत्तच्छखनिकृत्तवा शिरसश्छिन्नोरुजानूदरा-
निर्यद्रक्तझरीवसादिपिशितच्छेदौघपङ्कस्थितान् ।
शतन्वीक्ष्य रणाजिरेषु चतुरङ्गानीकभनाङ्गकैः
बीभत्सं रसमाप्नुयान पुरुषः कोवात्मना ते शिव ॥८५॥
रक्षोऽसुक्षपणार्थतीक्ष्णहृदयक्षोभोत्थरोषानलो
क्षेपोद्रिक्ततृतीयवीक्षणशिखाश्रेण्या दहन्कांश्चन ।
हुङ्कारैश्च परास्त्रिशूलनिशितक्षेपैः पिनाकेषुभि-
वन्यान्नन् लयनेषु दर्शयसि भो रुद्र त्वदीयं रसम् ॥८६॥
भक्तानामभयप्रदानविपदुत्तारात्मरक्षास्वहो
देयादेयविमर्शवर्जमखिलाभीष्टार्थदानेष्वपि ।
वात्सल्यं शिव साध्वसाधुसमतां सन्दर्शयस्यात्मना
मार्कण्डेयदशास्यवाणमुखसद्भक्तेष्विवान्येषु च ॥८॥
शान्तं सर्वजगत्समावनविधावात्मानुसन्धौ सदा
योगेनाऽविकलेन शिष्यततये विद्योपदेशेऽवलम् ।
जीवब्रह्मविशुद्धतत्त्वविवृतौ दुर्वारमायामहा-
मोहोर्म्युग्रभवार्णवोत्तरणकृयोगोपदेशेषु च ॥८८॥
संसारे सकलानसानभिनयन्सर्वेश्च जीवैविभि-
नाकार्बहुवेषभाषणयुतैर्नानाविधव्याप्रियः ।
चित्रात्मीयकृतिप्रसूतफलवैचिच्यानुसन्धायिभि-
र्मायामोहविकारदर्शिभिरहो! सम्भ्रामयेस्सन्ततम् ॥८९॥
श्रीरामलिङ्गेश्वरस्तवराजः ।
१९
कल्पान्ते जगतो लयाय पृथिवीं वायुं च वह्नि जलम्
सूर्य विप्लवरूपकानिह विभो संचोद्य रोषाग्निना ।
फालाग्नि ज्वलयन्नुदग्रविविधोत्पातैः क्षणाद्भस्मसा-
न्सर्ववपूंषि नृत्यसि महारुद्रोग्रकाल्या सह ॥९०॥
अकादशभिस्सम समुदितैस्तिग्मांशुभिस्तापय-
नत्युग्राग्निशिखाभिरीश परितम्सन्दाहयन्भूतलम् ।
झंझावातयुताऽतिवृष्टिभिरिलामाप्लाव्य चाध्यूमिभि-
भूकम्पैरशनिवजैश्च बहुधा जीवासुहर्ता हर! ॥९१॥
जीवान् स्वप्रकृतौ विलाय्य विपुलं कालं स्वचिच्छक्तियु-
क्स्वानन्दं भजसे तमस्यतितरां यावच्च जीवावले ।
कर्माण्यात्मफलानुभावकपरीपाकं व्रजेयुर्विभो
पश्चाद्भूतततिं पुनस्सृजसि भो को वेद लीला इमाः ॥२२॥
सृष्टिः पुष्टिरथ प्रणष्टिरिति भों लोकस्य लीला इमा
आहुनित्यश ईश निर्गुण सदानन्दात्मरूपस्य ते ।
संसारोऽतिमहान् सदाऽद्भुततमस्संवीक्ष्यते जागतो
मूढानामिह मादृशां भवगतिस्स्यात्कीदृशी दुस्तरा ॥९३॥
कामक्रोधमुखारिवर्गविजयी वश्यात्ममायम्सदाऽऽ
नन्दी निर्विकृतिर्जगद्विधिफलवातानुभावादिषु ।
तत्तज्जीवकृतक्रियाफलततेर्दानेपु सक्तस्सदा
संसारं विदधासि जागतमहो सर्वज्ञ सर्वेश्वर! ॥१४॥
२०
श्रीरामलिङ्गेश्वरस्तवराजः ।
माया तेऽस्तु वशा वशानि करणानीशान सन्त्वंजसा
जन्मव्याधिजरामृतिप्रभवजं दुःखं न जात्वस्तु वा ।
आत्मानन्दमहाविभूतिकलने योगेन शम्भो जग-
संसारः प्रतिबन्धको न हि कुतोऽत्यापनरक्षादिभिः ॥९५॥
गार्भ मातमितीह मर्त्यसहजं सन्त्यज्य दुःखद्वयं
संसारे परदुःखहीनमनुजस्सम्राङ्दरिद्रोपि वा।
नो दृश्येत भवत्समग्रकरुणापीयूषभाकश्चन
स्याचेत्कोटिमितेषु शकर भवेन्मत्येषु वाऽन्येषु वा ॥१६॥
सेनानीः सदां तवौरससुतस्कन्दो गणानां पति-
थान्यस्तावकसर्वशक्तिकलितौ द्वावर्थदेहे वथः ।
एका मूर्त्यपरा कुटुम्बमपरं प्राणिप्रपश्चात्मकम्
मर्तव्यं भवतो भवेऽतिविपुलो रागोऽज्ञहगोचरः ॥९७॥
सर्वाङ्गीणकभूतिधारणमलं वासश्श्मशानावनी
मुण्डस्रग्धरणं कपालकरता नागालिभूषाकृतिः ।
दिग्यासस्त्वमशेषविष्टपमहासाम्राज्यनाथस्य ते
वैराग्यं भवगाम्यनन्यसदृशं सुव्यंजयन्तीश्वर! ॥९८॥
रागारागयुगं भवे भव तवाऽऽयत्तं तु लोकोत्तरं
मायाया मनसोपि वक्ति वशतां लोकोत्तरामीश्वर ।
संसारे सरतां मनो यदि वशं मायापि सा स्याद्वशा
वश्ये ते यदि पद्मपत्रजलवदधाति तानो भवः ॥९९॥
श्रीरामलिङ्गेश्वरस्तवराजः।
वश्यं यस्य मनो विवेकवशगं वश्यानि सर्वेन्द्रिया
ण्याक्रष्टुं विषयान शक्नुयुरपावृत्तात्मवृत्तेस्ततः ।
आनन्दस्सहजस्फुरेद्धृदि न तं लिम्पेत्तु बाह्यं सुखम्
दुःखं वा विषयागतं बधिरजात्यन्धादिवच्छङ्कर ॥१००॥
विद्या सद्गुरुसम्प्रसादसमनुप्राप्ता विवेकं दिशे
धर्मो निष्फलकामनस्सुविहितस्तं वर्धयेच्चेतसः ।
शुद्धिं संविदधच्छमायुपहितामन्तवहि कल्मषे
निर्गुह्येश्वर निर्मलां त्वयि दृढां भक्तिं दिशेत्तारिकाम् ॥
अज्ञानं विविधं रुणद्धि हृदयं प्रज्ञानमीपच्च नो
विज्ञानं विविधं वशं तव विभो सर्वज्ञ सर्वेश्वर ।
संसाराम्बुधिशोकवीचिवलयभ्रान्तस्य मेऽहनिशं
भक्तिं चेत्तरणिं ददासि न कदा वा स्यात्कथं निर्वृतिः ॥
ब्रह्मानन्दमहाविभूतिगमकं ज्ञानं प्रभो दुर्लभम्
कामक्रोधमुखारिवश्यविषयवाताऽतिमुग्धात्मनाम् ।
दूराणां शममुख्यमित्रविततेस्संसारदुर्वासना-
दुष्टानां सततार्थकामसुखसन्धानातुराणां शिव! ॥१०३॥
साङ्गां वेदचतुष्टयौं पठतु वा षड्दर्शनीसंयुतां
वेदान्तानखिलांश्च भाष्यनिवहः क्रोडैरधीतां बुधः ।
नाऽन्तश्शत्रुहृषीकवर्गविजये कित्वर्थकामार्जने
साधीतिस्सहकारिणी कथमहो! ज्ञानोदयोऽस्येश्वर ॥१०॥
२२ श्रीरामलिङ्गेश्वरस्तवराजः। अत्युच्चाम्रशिरोगतं फलमिवाधस्थस्य पङ्गोर्यथा दुष्प्राप्यं भवभोगमुग्धमनसां ज्ञानं परब्रह्मणः । कस्मिन्वापि युगे भवत्सुकरुणालब्धात्मतत्त्वान्विना घोरे दुर्विषयेकभोगनिरतस्वान्ते कथं स्यात्कलौ ॥१०५|| श्रीरामेश पुरा श्रितावनपरश्श्रीदक्षिणामूर्त्यभि ख्याकात्मा वटवृक्षमूल वसतिवद्धात्मशिष्यालये । मौनेनैव परात्मतत्त्वमखिलं प्रादर्शयस्सम्यगि त्याहुस्तत्त्वविदस्तथा यदि कृपा ज्ञानं सुलभ्यं तदा ॥१०६ अस्मिन्नेव कलौ युगे निगमवाक्सिद्धान्तसम्बोधन द्वारेणात्मपरात्मतत्त्वगमकं भाष्यं तु शारीरकम् । सम्बध्यापि च पद्मपादमुखसच्छात्रेभ्य ईश स्वयम् श्रीमच्छङ्करदेशिकेन्द्रवपुषा तत्त्वं न वोपादिशः ॥१०७॥ बौद्धादिश्रुतिमार्गरोधिकुंमतव्याप्ते धरामण्डले नष्टप्रायसमस्तधर्मनिवहे श्रीशङ्कराज्यातरः । कालेयानि मतानि तान्युपनिषत्तत्त्वान्वयैयुक्तिभि- वादे खण्डयता त्वया श्रुतिशिरोमार्गस्मुसंस्थापितः ॥१०८ दत्तात्रेयमुखावतारनिवहं स्वीकृत्य नानाकला. गूढार्थानुपदिष्टवान्करुणया शिष्येभ्थ ईशाऽखिलान् । वात्सल्यं कियदस्ति ते श्रितततौ श्रीजामदग्न्याय त त्पुत्रेणैव सहाखिलश्रुतिकलाध्याप्ति स्फुटं वक्ति नः ॥१०९।
श्रीरामलिङ्गेश्वरस्तवराजः ।
संसारे विषयोपभोगविततिप्राप्यार्थकामार्जने
संसक्तस्य सदापि धर्ममधरीकृत्य प्रवृत्तस्य मे ।
प्राप्ता दुःखततिविरक्तिरपि वा विश्रान्तिरीपञ्च न
क ज्ञानेऽधिकृतिर्न वाऽनवरता भक्तिश्च का मे गतिः ॥
नाऽऽनायोदितकर्मजालमसकृन्नित्यं च नैमित्तिकम्
सश्रद्धं चरितं क्व चेष्टमपि वा पूर्त जनावत्र मे।
चेतरशुद्धिरिहाप्यमुत्र च सुखवातस्य भुक्तिश्च वा
शम्भो स्यान्नु कथं विमुक्तिसरणिस्त्वत्यन्तदुरा प्रभो! ॥
कर्माण्याचरितानि वैधविदितस्स्वीयं फलं प्रापय-
न्त्यात्मानं च पुनन्ति कामरहितं वेदोदितानि प्रभो! ।
काम्यान्यल्पनिजाङ्गलोपघटनेऽप्यत्यन्तसोपद्रवा-
ण्यारानन्ति च देव! सत्फलगति विधेईकृतात् ॥११२॥
कर्माण्याचरितुं शरीरकरणाात्मशक्त्यादिकं
श्रद्धा चापि दृढाऽलसत्वविरहाद्यावश्यकानीश्वर! ।
क्वैतान्यत्र कलावधर्मगमके सर्वांशदौर्बल्यदे
नास्तिक्यप्रबलेऽर्थकामनिरते नृणां घटेग्न्प्रमो! ॥११३॥
जातानां मरणं न पश्यति जनः को वा नृणां भूतले
वृद्धिं वा जननं च नित्यश इदं नित्यक्रियाचक्रकम् ।
वीक्ष्यापि स्वकनित्यतां तु मनुते मोहादकृत्येष्वलं
भोगार्थी यतते सदेन्द्रियवशो मर्त्यः कथं निर्वृतिः ॥११४॥
२४ श्रीरामलिङ्गेश्वरस्तवराजः । एका भक्तिमिह स्थिरां त्वयि कलौ संसारसन्तारिका- माहुर्वद्धजनास्समस्तसुखदां तापत्रयोन्मूलिनीम् । सत्सङ्गाचरितश्रुतेस्समुदिता नामानुकीतः स्मृते. मूर्तेस्ते गुणसंस्तुतेर्मनुजपाभ्यर्चादिभिस्सा स्थिरा ॥११५|| जिह्वा वक्ति सहस्रशः प्रतिदिनं स्वीयार्थकामाश्रयान् शब्दानैहिककार्यसिद्धयनुगुणान्नानाविधान्मे शिव! । अत्रामुत्रसुखप्रदानखिलदुष्पापाटवीदाहकान शब्दांस्त्वद्गुणनामकीर्तनपरानो वक्त्यभीष्टार्थदान् ॥११६॥ श्रोत्राभ्यां परमेश तावककथा नाकर्णिताश्श्रद्धया हस्ताभ्यां न शिरोऽभिषेचितमलं शुद्धोदकेन प्रभो । लूनबिल्वदलादिभिस्तव पदद्वन्द्वं न वा पूजितं पादाभ्यां न गतं त्वदालयपदं शम्भो! कथं निर्वृतिः ।। अष्टाङ्गैरभिवन्दनं तव पदाम्भोजाय जानामि नो चेतो जातु न तावकस्मृतिरतं संसारसम्मोहितम् । जानामीश भवत्पदाब्जयुगलीसेवां भवोत्तारिका तच्छोकानुभवेपि मुश्चति न मां मोहः पिशाचो यथा ॥ आपत्सु स्मरण गुणस्तुतिमुखैस्तनिस्सृतेविस्मृतिः सम्पत्सु स्मरणं न जातु तनुते चौर्यन्विदं चेतसः । आस्तिक्यं विपदीश सम्पदि पुनर्नास्तिक्यमेतत्कला- वास्तिक्यं निजकामपूर्तिफलकं शम्भो कथं निर्वृतिः ॥
[4]] श्रीरामलिङ्गेश्वरस्तवराजः । २५ या विद्या पठिता मया गुरुकृपासाह्येन सा शङ्कराऽ- श्रान्तं स्वीयकुटुम्बपोषणविधौ पर्यापिताऽभूदहो! धर्मानुष्टितये परात्मगतये भक्त्या भवत्सेवने नवासीत्सहकारिणी परमघानुष्ठानतोऽवारयत् ।।१२०॥ पापान्याचरितान्युरूणि न मया पुण्यानि वा कानिचि नित्यानीश! यथाकथञ्चन निमित्ताप्लान्यका विभो! आस्तिक्यं हृदयेस्ति दुहगतेश्चित्तं त्वदाराधने लग्नं नैव भवेन लम्पटमिहामुत्रापि का मे गतिः ॥१२१॥ ऐश्वर्य विविधं कलाश्च सक्ला अज्ञाननिर्मूलक विज्ञानं विविधं परात्मविषयं ज्ञानं तु तत्तात्विकम् । सर्वाश्शक्तय ईश तेऽतिविवशा नादेयमीपच्च ते भक्तेभ्यरिशव मूढधीन भजते त्वामाशुसन्तोषिणम् ॥१२२॥ पुष्पैबिल्वदलैस्सिताक्षतमुखैर्गन्धादिभिः पूजने श्रान्तिः काऽमलवारिणाऽभिषवणे मन्त्रानुवादेस्समम् । त्वत्पश्चाक्षरमन्त्रमानसजपे त्वन्मूर्तिसन्दर्शने त्वन्नामोधरणेपि हन्त विमुखं चित्तं कलेः प्राभवात्॥१२३॥ संसारेऽस्ति कियत्सुखं कियदथो दुःखं च जानेऽखिलं दुःखान्येव निरन्तराणि सततं भुक्तानि किंचित्सुखम् । तच्चापि क्षणिकं तदर्जनकृते दुःखं तु नानाविधं शम्भो भुज्यत एव किंतु विरत संसारतो मे न हृत् ॥ ज्ञात्वापीश! भवत्पदाब्जभजन सर्वार्थसंसाधकं नासारज्जुविकृष्यमाणवृषवद्यामोहपाशैदृढम् ।
२६ श्रीरामलिङ्गेश्वरस्तवराजः । कृष्टसंसृतिगैश्चरामि सततं विनोऽर्थसंसिद्धये सापि स्यात्कथमीश! तावककृपापाङ्गप्रसारं विना ॥१२५॥ ये प्राचीनजनिव्रजेऽनितरया भक्त्या समाराध्नुवन ध्यानमन्त्रजपैस्तवैरभिषवैरादिभिश्रद्धया । सर्वेश्वर्ययुता अवाप्य मनुजानन्दैरशेषैर्युताः प्रज्ञानप्रतिभाञ्चितात्मधिषणा विज्ञानतेजोन्विताः ॥१५६।। ते त्वामन च जन्मनीश्वर भवत्पादारविन्दाश्रयाः प्राग्जन्मानुगतात्मसंस्कृतिबलादाराध्नुवन्ति प्रभो! । धन्या भुक्तिमिहाप्यमुत्र विविधामासाद्य मुक्ति जना अन्ते प्राप्नुयुरीश भक्तिबलसम्प्राप्तात्मबोधोदयात् ॥ २७॥ ये च त्वत्पदपप्रभक्तिविमुखास्संसारसेवारता धर्मे मुक्तिपथं विहाय गिरिजानाथार्थकामाश्रयाः । तेषां प्राक्तनपुण्यपाकवतो भुक्तेरिहाणोर्गता वप्यामुष्मिकमुक्तिरीश कंथमासीदेद्विमुक्तिः कथम् ॥१२८॥ भक्त्या त्वत्पदपथचिन्तनपरः कृत्वा शरण्यं दृढ़ त्वामेवात्मनि चेतसा सुभजते सर्वेश्वरं सन्ततम् । तस्मिनाशु भवान्प्रवान्प्रसद्य दिशति झानं विमोहापई सर्वज्ञत्वमुपेत्य मुक्त इह स स्यामान्यथेति ध्रुवम् ॥१२९॥ मोहं मे हर संसृतौ हृदयगं तापत्रयं निर्गुदन विश्रान्ति दिश चेतसो जहि रिपूनन्तस्थितान् शङ्कर! भक्ति मे दिश भुक्तिमुक्तिफलदा नानाविधां सुस्थिर मायां मय्यपवर्तयाशु शरणं यातोऽस्मि किंवा दिश ॥
श्रीरामलिङ्गेश्वरस्तवराजः। याचे नाहमिदन्तया किमपि यत्सर्वज्ञ मे वेत्सित देयं नित्यसुखप्रदं विविधदुस्तापापहं शङ्कर! भक्ति त्वत्पदपद्मयोरविरतामेको तु याचे सदा शक्ति दुर्विषयापवारणपटुं चित्तस्य निग्राहिणीम् ॥११॥ त्वन्नामानि गृणन्त्यजस्रमपि मे जिह्वाऽस्तु संशोधिता श्रोले त्वचरितामृताऽऽक्लनतस्स्यातां तु पूते सदा। नेत्र तावकदिव्यविग्रहसमालोकैश्च संशोधिते पाणी भव्यभवत्पदार्चनमुखस्म्यातां विभो शोधितौ ॥ चित्तं संसरतात्सदापि सकलस्साकं हृषीकैर्भव- त्पादाम्भोरुहचिन्तने च मनने नानामहिम्नां तव । मूर्धा सांजलिवन्ध ईशमहिमत्रातास्पदत्वत्पद द्वन्द्वाम्भोजयुगाभिवन्दनविधी नम्रम्सदा बनताम् ॥३३॥ माभूद्धर्मपराङ्मुख मम मनः कालेयदुर्वासना ग्रस्तं वा विषयोपभोगनिरतं भूयाद्विवेकाश्चितम् । मायामोहमहाहिपाशदृढसम्बद्धं भवाम्भोधिदु. र्वीचीभूतमहाव्यथाकुलहृदं मामुद्धराश्वीश्वर! ॥१६४॥ श्रीरामेश! भवत्प्रसादवशतः कर्मावनौ भारते प्राप्त मानवजन्म दुर्लभतमं तत्रापि विप्रान्वये । विद्याप्यागमिकी हिताऽहितपरिज्ञानं च किंचिद्यशो- प्येतत्सर्वमनर्थकं भवति मे त्वत्सेवनाभावतः ॥१३५॥ तारुण्यं वयसो गतं शिव चतुष्पष्टयात्मकं वर्तते प्राप्तं वार्धकमिन्द्रियेषु पटुता याताऽखिलांगेषु च ।
२८
श्रीरामलिङ्गेश्वरम्तवराजः ।
आधिव्याधिनिपीडितोऽस्मि सततं नैवार्थकामावपि
प्राप्तौ धर्मकथापि नैव कथमुत्तारो भवाम्भोनिधेः ॥१३६॥
व्यग्रोऽहं जनिमृत्युमोहलहरीशोकोग्रवीचीमहा
वेगाघातपरम्परातिभयदे संसारघोराम्बुधौ।
मनश्शर यापयामि समयं त्वद्भक्तिनौका कदा
लभ्येतेति सुखुपदा यदि दिशेस्तामत्र शम्भो सुखी १३॥
दीर्घायुर्दिश मे शरीरपटुतामरोग्यभाग्यान्विता-
माधीन्मे शमयहिकान्मम मनस्त्वत्सेवनव्याप्तम् ।
पूतत्वद्गुणवर्णनैकनिरतां मत्काव्यकन्यां कुरु
श्रीरामेश विभो त्वदीयकरुणामव्याजतस्सारय ॥१३८॥
मार्कण्डेयमहामुनिप्रभृतयम्त्वद्भक्तिकाष्ठाश्रयाः
श्रीमृत्युजय मृत्युमेव किल ते जित्वा सदोपासते।
सर्वज्ञास्सततं यतः प{पतिस्त्वं कीर्त्य से संसृतेः
पाशैर्बद्धमवेश मां करुणया त्वव्याजया शङ्करः ॥१३९॥
विश्रान्तिर्मनसः कदापि घटते सांसारिकव्यापृति-
वाताश्रान्तपरिभ्रमान्न शिव मे शिष्टार्थचिन्ताभरात् ।
ध्याने ते भगवन्मनोर्जपविधौ मूर्त्यर्चनादौ च वा
कालो मे लगति क्षणोपि न कथं संसारतो निस्सृतिः ।।
भक्तिमें त्वयि वर्तते हृदि दृढा श्रद्धापि सांसारिक
निणुद्याखिलतापवर्गममलं ज्ञानं दिशन् संसृतेः।
बन्धान्मोचयसि त्वमेव शरणीयोऽसीति चाऽथापि मे
दुष्कर्माप्तफलावरोधबलतो नोपासना सिद्धयति ॥१४॥
श्रीरामलिङ्गेश्वरम्तवराजः । अव्याजां करुणां प्रसार्य भगवन् दीन दयालोऽव मां शम्भो! संसृतिसागरोय॑भिहतं श्रीरामलिंगेश्वर मोहं मेऽपनुदात्मगं भगवतं ज्ञानं दिशाध्यात्मिक शम्भो! त्वां शरणं गतोऽस्मि शरणापन्नावनकवत ॥१४२।। कालेयाखिलकल्मपाक्रमणतो भ्रष्टान् स्वधर्मवजात सर्वाधर्मपगत्मनो नरपतीन्नूश्चापि दृष्ट्वा भृशम् । धर्माधर्मविदो मनश्शिव न वाचे खिद्यते विप्लव रव्याजां करुणां प्रसार्य कलिनिग्राहीह धर्मानव ॥१४॥ संसारोऽयमसार इत्यनुभवैनिन्नपि क्लेशकै नित्यं तैर्बहुरूपकैरुपगतैर्मोहो जहातीह न। त्वत्पादाश्रयणं सुखावहमहो प्राप्नोति नो जातुचित शम्भोऽव्याजकृपां प्रसार्य भगवन्मां पाहि दीनं विभो।। घोरे त्वत्र महाकलौ विपदि म ये त्वां स्मरेयुर्जनाः तान्पापानपि चाशुतोषिपदभाक्त्वं रक्ष कारुण्यतः । कालो दुरतरः कलेहरिकृपादत्तोऽस्ति कर्मावना वस्यां वैदिकवर्त्म रक्ष भगवन् श्रीरापलिंगेश्वर ॥११॥ ये भक्ता मननेन चात्मसु विमुक्त्यवानुसन्दर्शक स्तोत्रं तेऽवहितात्मभिः पुनरधीयेरन् दृढश्रद्धया । ते भक्त्येह भजेयुरीश भवसन्तापापहं त्वां सदा संसारे सुखिनो विमुक्तिपथगास्त्वत्कारुणीमाप्नुयुः॥११६॥ आत्रेयान्वयसिन्धुकौस्तुमसुधीलक्ष्मीनृसिंहात्मजः कल्यः पुल्य उमामहेश्वरकृती फण्यम्बिकागर्मजः।
३ ० श्रीरामलिङ्गेश्वरस्तवराजः । श्रीविद्वत्कविसार्वभौमपदभाक श्रीरामलिंगेश्वरं भक्त्याऽननवदम्त्वनेन भगवान्प्रीतोऽखिलार्थप्रदः ॥१४७॥ अभिनवपण्डितराजाद्यभिरूपसभाप्तबिरुदनवरत्नः। स उमामहेश्वरसुधीस्तवराजमिमं बभाण विबुधमुदेस्तु॥१४८॥ - इति श्रीमत्सप्तगोदारान्तर्गतोभयगोदावरीमध्यस्थ श्री कोनसीममण्डलमण्डनायमानमुङ्गडापरा- भिधानमुनिखण्डमहाग्रहारटास्तव्य. 'श्री विद्यावाचस्पति, विद्वत्कविरत्न, अभिनवपण्डितराज, महो. पाध्याय. वैयाकरणकेमरि, धर्मोपन्यासकेसरि' इत्यादि- विविधबिरुदविभूषित श्री विद्वत्कविसावभौम पुल्योमामहेश्वरकृतिकृतिषु श्रीरामलिंगेश्वर- स्तवराजस्मम्पूर्णः श्रीशिवपादारविन्द- समर्पितो विजयतां तमाम् । हेमलम्बिर्मार्गशिरशुक्लदशमीभानुवासरः । दि 1-12-67 || DONATED TO ITO CENTRAL LIBRARY
No text on this page.
No text on this page.