University Library,gurukul Kangri Vishwavidyalaya
गद्यमञ्जरी
Front matter
गद्यमञ्जरी
काव्यतीर्थसाहित्याचार्योपाधिधारिणा
श्रीमता श्रीधरशर्मणा
संग्रहीता.
:५
छात्रहितकारी पुस्तकालय
दारागंज, प्रयाग
प्रथमसंस्करणम् ]
१९३०
[ मूल्य १)
विषय-सूची
१०
२०
५६
सुमतिसचिरकथा
उपमन्युकथा
ध्रुवकथा
श्रीशङ्कराचार्यः
हरिशर्मकथा
कालिदासराक्षसकथा
चरमश्लोकः
एकलव्यकथा
कादम्बरीकथाया भूमिका
चन्द्रापीडवैशम्पायनयोर्जन्मबाल्यकथा
शुकनासस्योपकथा
दमयन्तीस्वयंवरः
विभीषणस्य शिक्षा
शिवराजापजलखानयोयुद्धम्
कर्णपर्व
६०
६३
६८
७४
८२
८८
१०७
सुमतिसचिवकया कस्मिश्रिद्देशे शरसेनो नाम राजाऽऽसीत् । स मुत- निर्विशेष प्रकृतीः पालयन् मुखेन कालं निनाय । सुमति म तस्य मन्त्री । नृपतिस्तस्मिन्मत्यर्थ प्रीति- मानासीत् । तस्य सचिवस्य ईश्वरे परमा प्रीतिर्वभूव । 'जगतीह नक्तन्दिवं यत् किश्चिद् घटते तत् सर्वमेव शुभाय' इत्येव तस्य बुद्धिरासीत् । शुभवाप्यशुभं किञ्चिद्धीरस्यास्य चित्तं विकलयितुं न प्रभवति स्म । विधाविहितं सर्व स मङ्गलायैव मन्यते स्म । “भगवता विधात्रा यदेव विधीयते तत् सर्वमेव शुभाय" इति स सर्वदैवाकथयत् । नृपतिरपि तस्य मुखादनिशम् एवमाकर्णयन् कदाचिद- चिन्तयत्-"अहो ! किमप्येनं वीतधैर्य कर्तुं नालम् । भवतु सावदहमस्यधैर्या परीक्षिप्ये। सुतनिर्विशेषम्-पुत्रवत् । प्रकृती:-प्रजाः। कालं निनाय. समयं व्यतीतमकरोत् । अत्यर्थम्-अत्यधिकम् । प्रीतिमान्- स्नेहवान् । प्रीतिः-भकिः । नर्कदिवम् रात्री दिने च। घटते-भवति । विकलयितुम्-व्याकुलं कर्तुम् । न प्रभवति सम-समय न बभूव । अनिशम्-सर्वथा। बीतधैर्यम्-अधी- रस् । न मलम्- समर्थम् । J ( २ ) अथ दैवेन नृपतेरङ्गुल्या स्फोटका सञ्जातः । तेन सोऽत्यर्थ विश्यमानो 'मन्त्रिणमेवं विज्ञापय' इति आदिश्य कशिद् दूतं प्रेरितवान् । सचिवस्तस्य मुखतः प्रवृत्तिम् एतामासाद्य स्वभाव- धीरतया "भगवता विधात्रा यदेव विधीयते तदेव शुभाय" इति प्रतिभाषणं प्रेषयामास । नृपतिस्तदवगमात् कोपस्फुटितलोचनोऽवदत्-"अहो! घिगिमं जाल्मम् । यत् क्लिष्टमपि मां नानुकम्पते । तस्ये- दमौदासीन्यं न मया कदापि सोढव्यम्" । अथ कदाचित् पीडयास्याङ्गुलिः स्खलिता भू राजा च भूयसा क्लेशेन संशयितजीवितोऽभवत्-'मन्त्रिणं ज्ञापय' इति आदिश्य भूयः कश्चिद् दूतं प्रेरितवांश्च ॥ सचिवोऽपि निशम्यैतत् " भगवता विधात्रा यदेव विधीयते तदेव शुभाय" इति प्रतिवचनं ददौ । आदिश्य-आशां दत्वा । प्रवृत्तिम्-वृत्तान्तम् । प्रति- माषणम्-प्रत्युत्तरम् । जाल्मम्-दुष्टम् । न अनुकम्पते-सहानु- भूर्ति न प्रकाशयति । स्खलिता-गलिता। संशयितजीवितः- मंदिग्धजीवनः निशम्य-श्रुत्वा । प्रतिवचनस्-प्रत्युत्तरम् ।
( ३ ) नृपतिरपि श्रुत्वैतदचिन्तयत् 'स्वस्थश्चेत् नूनमेनं हनिष्यामि। अथ दिष्टया स रोगान् निर्मुक्तो बभूव । गतेषु दिनेषु असौ सदः समेत्य प्रजानामानन्दं वर्द्धयामास । सचिवोऽपि राजसकाशमागत्य यथाविधि तमभि- ननन्द । नृपतिस्तु न मधुरवाचा तं पुनः सम्भाषयामास । अथैकदा राजा मृगयायै यातुकामो मन्त्रिणं पाह- " भो मन्त्रिन् ! यथारीति मृगयागमनोद्योग विधेहि"। सोऽपि च 'देवपादा यथाज्ञापयन्ति' इत्युक्त्वा सर्व- मेवानुष्ठितवान् । ततः स नृपतिरश्वमारुह्य बहुभिर्लोकैरनुगम्यमानो मन्त्रिणा सह प्रतस्थे । निबिडकाननाभ्यन्तरमासाद्य अनु' चरान् सर्वानादिदेश-"युष्माकं दूरमनुसरणेनालम् । मन्त्रिणानुगतोऽहं दूतरवनमध्यमवगाहिष्ये । भवन्तव स्वस्थ:-नीरोगः। सदा-सभाम् । राजसकाशम्-राक: समीपम् । अमिननम्ब-तुराव। मृगयायै आखेटाय । यातुकाम:- गमनेच्छुः । प्रतस्थे (चल पड़ा)। युष्माकम्.. मळम्-युष्माभिर्मया सह बहुदरं याषत् नागन्तव्यम्। अवगाहिये-भूमिष्यामि ।
( ४ ) सायं यावत् मे प्रत्यावर्त्तनमपेक्ष्य गृहं प्रतिनिवर्तन्ताम् । ततो राजा मन्त्री च अश्वमारुह्य द्रुतं गभीरवनमध्यं प्रविवेश। सहसा कूपमेकमालोक्य नृपतिरचिन्तयत्--"अव- सरोऽयं सम्यगस्माकं सङ्कल्पसिद्धेः । तृषाव्याजमवलम्ब्य जलानयनार्थ मन्त्रिणमादिशामि । कूपसन्निहितं चैन कूपमध्ये पातयामि" इत्यवधार्य मन्त्रिणं प्राह-"सुमते! महती मे पिपासा जाता । नाहं दूरतरं गन्तुं शक्रोमि । कूपोऽयमाराद् दृश्यते । पश्य, तत्र जलमस्ति न वा"। मन्त्री नृपतेराज्ञया कूपसन्निधिं गत्वा नततुण्डो याव- ज्जलं निरीक्षते तावद् राजा झटिति पृष्ठतस्तं कूपे निचिक्षप। सचिवोऽपि पतन्नेव "भगवता विधात्रा यदेव विधीयते तदेव शुभाय" इत्युक्त्वा कूपमध्ये पपात । प्रत्यावर्तनम्-निवर्तनम् । अपेक्ष्य-प्रतीक्ष्य । सहसा-मकस्मात् तृषाव्याजम्-पिपासामिषम्- (प्यासका बहाना)। आदिशामि-आशापयामि । भाराद- समीपे ।मततुण्डा-मावाङ्मुखः (मुंह नाचा करके)।
( ५ ) राजापि विवृत्तवदनस्तूर्ण ततः प्रतस्थे । तदा सन्ध्या समागतासीत् । भगवान् काश्यपेयः स्वीयमयूखान् संहृत्य अस्ताचलशिखरारोहणोन्मुखो बभूव । दिनकरविरहेण सन्तापितचित्ता धरणी तमोवसनं पिन व वयसां रुतव्याजेन मानसी व्यथां प्रकटयामास । श्वापदोः सर्वे प्रहृष्टमनसो विवरानिष्क्रम्य समन्ताद परिधावितुमारेभिरे। नृपतिः कथश्चिद् वनपथाद् बहिरायातुमसमर्थः समि- हितं वृक्षमेकमारुह्य अवतस्थे । अश्वोऽपि तदधस्तात्तस्थौ। अथ निशीथसमयः सम्भूतः । सहसा वनभागं प्रकम्प- यभिव तत्रैव महान् कोलाहलः समुत्थितः। नरपतिस्तु 'कश्चिदतर्कितो विपत्पात आपतितोऽयम्' विवृत्त वदनः-पराङ्मुखी भूय (मुंह फेर कर) काश्येपयः-सूर्यः । मयूखान्-किरणान् । संहृत्य-संकोच्य | धरणी-पृथ्वी वसनं- वस्त्रम् । पिना-आच्छाद्य (ओढ़ कर)। वयसाम्-पक्षिणाम्। रुतव्याजेन-शब्दामिषेण | श्वापदार-व्याघ्रादिहिंस्रजन्तवः । विधरात्-बिलात् । निकम्य-बहिरागत्य । परिधाषितुम् आरेभिरे-( दौड़ने लगे)। अवतस्थे-स्थितः । निशीथसमय:---मध्य-राना । भतर्किता-अचिन्तितः।
( ६ ) इति मत्वा यावत् पश्यति तावदारात् समागच्छतो बहून् लोकानवलोकयामास । सेपि शनैः शनैर्वृक्षाभ्याशमेत्य सजिततुरङ्गमेक- मालोक्य परस्परं कथयामासुः "सिद्धमेव साम्प्रतमस्मा- कमभिलषितम् इति । तुरङ्गमेन 'मानवसमागमोत्र' इति संसूच्यते । इदानीमेनमनुसन्धाय राजसकाशं नेष्यामः। अस्माकं नृपतिरपि श्वः पातश्चामुण्डायै बलिमुपहारीकृत्य सिद्धकामो भविष्यति"। इत्याकर्ण्य नृपतिवृक्षारूढः संज्ञाहीन इव पत्रान्तरा- लमध्यवर्ती तस्था । सहसा तेषामेकतमो "वृक्षेऽस्मिन् मानवो दृश्यते मानवो दृश्यते" इत्युच्चैरपरान् ज्ञापयामास । तत्क्षणमेव कश्चिद् वृक्षमारुह्य राजानं बद्ध्वा वृक्षात तस्मादवतारयामास । अथैनमश्वमारोप्य विजयगीतिं गायन्तः सर्वे यथा- गतं चलिताः। अभ्याशम्-समीपम् । अनुसंधाय-भाम्विष्य । उप- हारीकस्य-निवेच । संज्ञाहीन:-चेतनारहितः । अषता- रयामास-अवरोहयामास (उतारदिया)।मारोप्य-(चढ़ाकर ।
) ( राजा च 'आत्मकर्मफलानुरूपमेतद्' इति विज्ञाप स्थानुवत् तस्थौ। ते च स्वं नृपतिमुपागम्य 'आसादितोऽयं बलि' इति निवेदयामासुः । राजा च 'एनं कारागृहे स्थापय' इति आदिश्य चामुण्डामन्दिर ययौ। अथ क्रमेण निशावसानमभूव । ढकादुन्दुभिपटह- निनादैर्नृपभवनमचिरेण पूर्णमभवत् । समीरणैः समन्ततः सञ्चाल्यमानै रक्तध्वजैरुपशोभितं देवीमन्दिरं बभूव । राजा च परिहितरक्तवसनो रक्तचन्दनानुलिप्तो रक्तमाल्यो- पशोभितो "मातश्चामुण्डे ! प्रसीद प्रसीद बलिमिमं गृहाण" इति कथयन् यावद् देव्याः पुरतो वन्दिनं राजानं संस्थाप्य तस्यावयवं निरीक्षाश्चक्रे,तावत् तमङ्गुष्ठेन हीनमा- लोक्य "आः पापाः किमिदम्, हीनाङ्गुष्ठ नराममं कथं बलिरूपेण चामुण्डामै दास्यामि" इति कथयित्वा तं दूरी- आत्मकर्म फलानुरूपमेतद्-यारशं मया कर्म कृतम्, ताडोमव तस्य फलमपि लब्धम् -इति भावः। स्थाणुवत्- कीलवद, निश्वेष्टाः। कारागृहे-(जेलखाने में) । अव- सानम्-अन्तः। अचिरेण-स्वल्पकालेन । समीरण:-वायु- मिः। परिहितम्-धारितम् । वन्दिनम्-(कैदी)।
(८)
पकार । पूर्णावयवमन्यमेकमानेतुमादिदेश ।
नृपतिरयं दिष्ट्वा प्राणान् प्राप्य पलायाञ्चके।
अथ स काननमासाद्य चिन्तयामास-"अहो।
यदेव सचिवनोक्तं सत्यमेव तावत् सर्वम् । 'भगवता विधात्रा
यदेव विधीयते तदेव शुभाय' इति मयाद्य सम्यक् परी-
क्षितम् । अङ्गुष्ठहीनं नूनमय स मां नावधीत् ।
अहो ! कुत्र स मे मन्त्री, कुन स मे भगवत्परायणो
पार्मिककुलशेखरो विवेकचूडामणिर्ममैकबन्धुः ! धिमा
यदहं कारणमन्तरेण तं हतवान् । किमद्यापि स जीवति?
भवतु, गत्वा तत्र द्रक्ष्यामि ।"
तावदवधार्य स लघुपदं तत्पसन्निधावागत्य,
"धार्मिकप्रवर ! सुमते ! ममैकप्रियवन्धो ! सचिवराज !
किमद्यापि जीवसि १ देहि मे प्रतिवचनम्" इत्युच्चैस्तमा-
जुहाव ।
नृपतेवर्चः श्रुत्वा मन्त्री कूपादतीवार्तस्वरेण प्रोवाच
दिष्ट्या-देवात् सौभाग्यन | पलायाञ्चके-प्रधाषितः ।
नूनम्-दिनचयेन । शेखरा-भूषणम् । चूडामणिः-शिरोमाणिः ।
अन्तरेण-विना । लघुप-शीनम् । आजुहाव-संबोधयामास
भास्वरेण-दुखितस्वरेण ।
( १ ) "महाराज ! मृतकल्पोऽत्र विष्ठामि, यदीच्छसि मामुदर, ततो नृपतिस्तूर्ण तं कूपादुज्जहार । वारशश्चात्मदोषं स्वीकृत्य क्षमस्वेति भूयो भूयश्रानुनयि मन्त्रिणं प्रसाद- यामास। मन्त्रिणोक्तम्-"महाराज! किमिदम्, किमेवं कथ- यसि, किमापतितं भवतां देवपादानाम्, कथमीदृशीमव- स्थामापमोऽसि, कथं हि ते दृष्टिरियं कातरा वर्तते ।। ततो राजा प्राह -"मन्त्रिन् ! सत्यमुक्तं भवता । भग वता विधात्रा यदेव विधीयते तदेव शुभाय' इत्यत्र नास्ति मे कश्चित् सन्देह" इत्युक्त्वा तस्यादितो यद् वृत्तं तत् सर्व कथयामास । तदाकर्ण्य मन्त्री किञ्चित् विहस्य प्रोवाच-"महा राज! ममापि कूपे निक्षपो भगवता अनुमोदित एव । हीनाङ्गस्य भवतो मुक्तिश्चेदपि त्वत्सङ्गिनः पूर्णावयवस्य ममैव परित्राणं न कथमप्यभविष्यत् । अतो ज्ञायतामेतद् देवपादैर्यद् भगवता विधात्रा विधीयते तदेव शुभाय" । ततस्तौ परस्परं प्रीतौ स्वराज्यं प्रतिनिवृत्तौ ।। मृतकल्प-मृतसदृश | उद्धर-बहिनि कासय | उज्जहार बहिनिष्कासितवान् , अनुनीय-आश्वास्यासकातरा-सभया । मनुमोदितम्-समर्थितः। प्रीती-प्रसन्नी।
उपमन्युकथा धौम्यस्यापोदस्य ऋषेः उपमन्यु म शिष्य आसीत्, वमुपाध्यायः प्रेषयामास-'वत्सोपमन्यो ! गा रक्ष' इति । स उपाध्यायवचनाद् गा अरक्षत् । स चाहनि गा रक्षित्वा दिनक्षये गुरुगृहमागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे। तसुपाध्यायः पीनमपश्यद् , उवाच चैनम् "वत्सोप- मन्यो ! केन वृत्तिं कल्पयसि, पीवाऽसि दृढम्" इति । स उपाध्यायं प्रत्युवाच -- "भो! भैक्ष्येण वृत्तिं कल्प- यामि" इति । तमुपाध्यायः प्रत्युवाच-"मय्यनिवेद्य भक्ष्यं नोप- मोक्तव्यम्" इति । स ' तथा' इत्युक्त्वा मैक्ष्यं चरित्वोपाध्यायाय न्यवेदयत् । - दिनक्षपे-सायंकाले | उपाध्यायस्य-गुरोः, अध्यापकस्य । पानम्-पुटम् । केन-केन प्रकारेण । वृत्तिम्-जीवननिर्वाहम्। कल्पयसि-करोषि । पावा-पुष्टः । भैक्ष्यण-भिक्षया । भनिवेष- मसमय।
( ११ ) स तसादुपाध्यायः सर्वमेव भैक्ष्यमगृह्णात् । स तथा' इत्युक्त्वा पुनररक्षद् । गा अहनि रक्षित्वा निशामुखे गुरुकुलमागत्य गुरोः पुरवः स्थित्वा नमश्चक्रे। तमुपाध्यायस्तथापि पीवरमेव दृष्ट्वोवाच - "सर्व- मशेषतस्ते भैक्ष्यं गृहामि केनेदानी वृत्तिं कल्पयसि"इति । स एवमुक्त उपाध्यायं प्रत्यभाषत-"भगवते निवेद्य पूर्वम् , अपरं चरामि, तेन वृत्तिं कल्पयामि" इति । तमुपाध्यायः प्रत्यवदत्-"नैषा न्याय्या गुरुवृत्तिः, अन्येषामपि भैक्ष्योपजीविनां वृत्त्युपरोधं करोषीत्येवं वर्त- मानो लुब्धोऽसि" इति । स 'तथा' इत्युक्त्वा गा अरक्षद् । रक्षित्वा च पुनरु- पाध्यायगृहमागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे । तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वा पुनरुवाच- "वत्सोपमन्यो ! अहं, ते सर्व भक्ष्यं गृहामि, न चान्यच्च- - भैक्ष्यंचरित्वा-मिक्षां याचित्वा । निशामुखे-प्रदोष- काले. दिनान्ते । पावरम्-पुष्टम् । अपरं चरामि पुनर्मिसा याचामि | न्याय्या-उचिता | भैश्योपजीविनाम्-भिक्षावृति कुर्वताम् । वृत्युपरोधम्-जीविकानिरोधम् ।
( १२ ) रसि, पीवाऽसि भृशं केन वृत्ति कल्पयसि" इति । एवमुक्तः स उपाध्यायं प्रत्युवाच-"भो! एतासांगवां पयसा वृत्ति कल्पयामि" इति । तमुवाचोपाध्यायो-"नैतन्न्याय्यम् । पय उपभोक्तुं भवतो मया नाम्यनुज्ञातम्" इति । स 'तथा' इति प्रतिज्ञाय गा रक्षित्वा पुनरुपाध्याय- गृहमुपेत्य गुरोरग्रतः स्थित्वा नमश्चक्रे । तमुपाध्यायः पीवरमेव दृष्ट्वोवाच --"वत्सोपमन्यो! मैक्ष्यं नानासि, न चान्यञ्चरसि, पयो न पिबसि,पीवाऽसि भृशं केनेदानी वृत्ति कल्पयसि" इति । स एवमुक्त उपाध्यायं प्रत्युवाच- "भोः ! फेनं पिबामि, यमिमे वत्सा मातॄणां स्तनान् पिबन्त उद्भि- रन्ति" इति । तमुपाध्यः प्रत्युवाच-"एते त्वदनुकम्पया गुण- वन्तो वत्साः प्रभूततरं फेनमुगिरन्ति, तदेषामपि वत्सानां अभ्यनुज्ञातम्-अनुमतम् । अझनासि-भुक्षे । फेनम्- (साग) । उगिरन्वि-उद्वमन्ति (उगलते हैं ) । अनुकम्पया- त्यया।
( १३ ) वृत्युपरोध करोग्येवं वर्तमानः । फेनमपि भवान् न पातुमईति" इति । स 'तथा' इति प्रतिश्रुत्य निराहारः पुनररक्षद् गाः। तथा प्रविषिद्धो भैक्ष्यं नानाति, न चान्यञ्चरति, पयो न पिवति, फेनं नोपभुक्ते। अथ स कदाचिदरण्ये चुधार्किपत्राण्यभक्षयत् । तदा तैरर्कपत्रैक्षितः क्षारतिक्तकदुरूस्तीक्ष्णविपाकैशबु ध्युपहतोऽन्धो बभूव । ततः सोऽन्धोऽपि चक्रम्यमाणः कूपेऽपवत् । अथ तस्मिन्ननागच्छति सूर्ये चास्ताचलावलम्बिनि शिष्यानवददुपाध्यायः-"मयोपमन्युः सर्वतः प्रतिषिद्धः, स नियतं कापतस्ततो नागच्छति, चिरगतस्त्वसौ तस्मा- दन्वेषयत" इत्येवमुक्त्वा शिष्यैः सार्धमरण्यं गत्वा तस्याहानाय शब्दं चकार-"भो उपमन्यो ! कासि वत्स, एहि" इति । प्रातिश्रुत्य-प्रतिज्ञाय । उपहत:-पारितः । स्यमाणः-तस्ततो भमन् । नियतम्-अवश्यम् । चिर- गत:-पस्थ गतस्य विरं जातम् । मन्वेषयत-हो)।
( १४. ) स उपाध्यायस्याहानवचनं श्रुत्वा प्रत्युवाचोच्चैः- "अयमस्मिन् कूपे पतितोऽहम्" इति । तमुपाध्यायः प्रत्युवाच "कथं त्वमस्मिन् कूपे पतित' इति । स उपाध्यायं प्रत्यभाषत-"अर्कपत्राणि भक्षयित्वा- ज्धीभूतोऽस्म्यतश्चक्रम्यमाणः कूपे पतित' इति । तमुपाध्यायः प्रत्युवाच-"अश्विनौ स्तुहि, तौ देवभिषजौ त्वां चक्षुष्मन्तं कर्तारौ" इति । एवमुक्त उपाध्यायेनोपमन्युः स्तोतुमुपचक्रमे देवाव- श्विनौ-"स्तोतुं न शक्नोमि गुणैर्भवन्तौ, चतुर्विहीनः पथिसम्प्रमोहः । दुर्गेऽहमस्मिन् पतितोऽस्मि कूपे, युवां शरण्यौ शरणं प्रपद्ये ॥" एवमादिभिः पद्यैः तेनाभिष्टुतावश्विनावाजग्मतुरा- हतुश्चैनम्-"प्रीतौ स्वः, एष तेऽपूपोऽशानैनम्" इति ॥ अश्विनौ-अश्विनीकुमारौ।देवभिषजी-देवानां वैद्यौ। उपचक्रमे मआरम्भ कृतवान् । संप्रमोहः-भ्रान्तिः शरण्यौ-शरणागत. रसको । प्रपद्ये प्रामोमि । आहतुः-उकवन्तो प्रतिभावः। मपूप:-पूमा ] अशान-भुक्ष्व । प्रत्यनुनय-प्रार्थये- [चिरीरी करवाएं]
( १५ )
स एवमुक्तः प्रत्युवाच "नानृतमचतुर्भगवन्तौ, न
त्वहमेतमपूपमुपभोक्तुमुत्सहे गुरवेऽनिवेद्य इति" |
ततस्तमश्विनावूचतुः-"आवाभ्यां पुरस्ताद्रवत
उपाध्यायेनैवमभिष्टुताम्यामपूपो दत्त उपभुक्तस्तेन स
गुरवेऽनिवेद्य, त्वमपि तथा कुरुष्व यथा कृतमुपाध्या-
येन" इति ।
स एवमुक्तः प्रत्युवाच-'एतत् प्रत्यनुनये भवन्ताव
श्विनौ, नौत्सहेऽहमनिवेद्य गुरवेऽप्पमुपभोक्तुम्' इति ।
तमश्विनावाहतुः--'प्रीतौ स्वस्तवानया गुरुभक्त्या
चक्षुष्मान् भविष्यसि, श्रेयश्चावाप्स्यसि' इति ।
स एवमुक्तोऽश्विभ्यां लब्धचक्षुरुपाध्यायसकाशमा
गत्याभ्यवादयत् सर्वमाचचक्षे च ।
सोऽस्य प्रीतिमान् बभूवाह स्म चैनम् 'यथाऽश्विना
वाहतुस्तथा त्वं श्रेयोऽवाप्स्यसि, सर्वे च ते वेदाः प्रतिभा
स्यन्ति, सर्वाणि च धर्मशास्त्राणि' इति ।
न उत्सहे-उत्साई न करोमि । श्रेयः कल्याणम् ।
अस्यवादयत्-पूणनाम । प्रतिभास्यन्ति-प्रकाशिष्यन्ते ।
ध्रुवकथा स्वायम्भुवस्स मनोः प्रियव्रतोत्तानपादौ द्वौ सुतावास्ताम् । उत्तानपादस्य द्वे भार्ये बभूवतुः। अभीष्टायां सुरुच्यामुत्तमो नाम तस्यात्यन्तवल्लभः पुत्रो जज्ञे। सुनीत्यां नाम अपरस्यां राश्यां ध्रुवो नाम तनयः सम्भूतः। एकदा राजासनस्थितस्य पितुरङ्कमाश्रितं भ्रातरमुत्तमं दृष्ट्वा ध्रुवोऽपि तमारोढुं मति चक्रे । भूपतिस्तु प्रेयस्याः सुरुच्याः समक्षं प्रणयेनागतमु- सङ्गारोहणोत्सुकं पुत्रं नाभ्यनन्दन । अङ्कारोहणोत्सुकंध्रुवं दृष्ट्वा सुरुचिस्तमुवाच'-वत्स' एष महान् मनोरथः किं क्रियते । एतद्राजासनं ममैव पुत्रस्य योग्यम् । किमात्मा क्लिश्यते त्वया । सत्यं, त्वमस्य राज्ञः सुतोऽसि, न पुनर्म- दुदराज्जात' इति । तद्वचनं श्रुत्वा बालः पितरमुत्सृज्य कुपितो मातुर्मन्दिरं जगाम । पुत्रं कुपितमीपत्स्फुरिताधरं दृष्ट्वा सुनीतिरकमा- स्वायम्भुस्व-स्वयम्भू पुत्रस्य । अमीशायाम्-प्रियायाम् । राजासनम्-सिंहासनम् । मतिश्चक्रे-इयेष । प्रणयेन- प्रेम्णा । उत्सा-महः । न अम्यनन्दत्-अङ्ग उपवेश्य न सम्मानयामाल | मनोरया-मामिलापत्स्फुरितापर ( १७ ) रोप्य तमभाषत 'वत्स, कः कोपहेतुस्ते; यस्तवापराध्यति स किं तव पितरं न जानाति' इत्युक्तो ध्रुवो मात्रे सर्व यथावृत्ते कथयामास । सुतवचनं निशम्य दुर्मनायमाना दीना सुनीति रवदत् 'पुत्र, सुरुचिः सत्यमेवाह । त्वं स्वल्पभाग्योऽसि । नैव तात त्वयोद्वेगः कार्यः। राजासनं, छत्रं, वराश्वाश्च यस्या- न्यजन्मकृतानि पुण्यानि तस्यैव भवन्ति । एवं विचार्य शान्तिं व्रज। सुरुच्याः पुत्र उत्तमः पुण्योपचयसम्पनो मम पुत्रस्तु भवानल्पपुण्यः सञ्जातः। तथापि दुःखं कर्तुं नाहसि। यस्य यावद्भाग्यप्राप्तं तावतैव बुद्धिमान् सन्तोषमेति सुरुच्या वचसा चेदत्यर्थ दुःखितो भवांस्तदा पुण्योपचये यत्नं करोतु धर्मात्मा, प्राणिहिते रतः सुशीलश्च भव' इति । ध्रुवः प्रत्यवदत् । अम्ब, मम प्रशमाय यत्त्वयोक्तं तदुष्ट वचसा भिन्ने मम हृदये नान्तरं लभते । अहं तथा यतिष्ये यथा निखिलस्य जगतःपूजनीयमुत्तमोत्तमं स्थानंप्राप्स्यामि उत्तमो मम भ्राता पित्रा दत्तं राजासनमाप्नोतु, अहं पुनः स्वकर्मणा शाश्वतं स्थानमिच्छामि । इत्युक्त्वा ईषत्-किञ्चित् , स्फुरित:-स्पन्दितः अधरः-अधरोष्ठोध्यस्य सः (बाहुबी०) अपराध्यति-अपरायं करोति । दुर्मनायमाना- दुखितचिता| मिम्ने-विदीर्णे। अन्तरम्-अवकाशम् स्थानम् ।
( १८ ) मातहानिर्गत्य नगराबहिरुपवनं ययौ । तत्र पूर्वागतान सप्तर्षीन्ददर्श । स गजपुत्रस्तान्सर्वान्प्रणिपत्य प्रश्रया- वनतोऽभ्यभाषत । भो ऋषयः,मां सुनीत्यां जातमुत्तानपाद- तनयं ध्रुवं निर्वेदाधुष्माकमन्तिकं प्राप्त निबोधतेति । ऋषय ऊचुः । वत्स,पञ्चवर्षीयो नृपनन्दनस्त्वं नैव च किञ्चिनिर्वेद कारणं पश्यामः। किंनिमित्तस्ते निर्वेदस्तत्कथ्यतामिति । ततो धुवस्तेभ्यः सर्व शशंस । तनिशम्य ऋषयः परस्परं प्रोचुः । अहो क्षात्रं परं तजो यद्वालस्यापि हृदयात्सपत्न्या मातुरुक्तं नापसर्पतीति । ते ध्रुवमभाषन्त-भोः क्षत्रिय,निर्वे- दाद्यत्त्वयाऽधुना कर्तुं व्यवसितं तदस्मभ्यं कथय । यच्चास्मा- भिस्तव साहाय्य कार्य तदपि बहीति । ध्रुवोऽब्रवीत्। नाह धनं राज्यं वेच्छामि यत्पुराऽन्येन नैव प्राप्त तदेवैक स्थानं कामये। कथमेतादृशं स्थान प्राप्यते तन्मह्यं कथयन्तु भवन्त इति । मरीच्यादयः सप्तर्षय ऊचुः । अनाराधितगो- विन्दैनरैः श्रेष्ठं स्थानं न प्राप्यते। तस्मादच्युतमाराधयेति। तस्याराधनं मया कथं कर्तव्यामिति ध्रुवेण पृष्टे सप्तर्षय . प्रथयावनता-विनयेन कृतप्रणामः । परम्-उत्कृष्टम् । मापसर्पति-न दूरी भवति । व्यवसितम-निश्चितम् ।
१९ ) माता ऊचुः । अखिलान्बाह्यार्थान् विहाय मनो जगद्धाम्नि विष्णो निश्चलं कुरु । एवमेकाग्रचित्तेन तन्मयेन त्वया, ओं नमो वासुदेवायेति जप्तव्यमिति । एतनिशम्य तानृपीन्प्रणम्य ध्रुवस्तस्मादुपयनाभिर्गत्य यमुनातटे मधुवनं गत्वा तपस्तेपे । तस्य सुनीतिस्तस्य पुरतः स्थिता करुणां वाचमुवाच । पुत्र, अस्माच्छरीरव्ययाभिवर्तस्व, दीनां मां परित्यक्तुं नाहसि। क्व च त्वं पञ्चवर्षीयः कचैतद्दारुणं तपः । अयं तेऽध्ययनस्य क्रीडायाश्च काल। पर तेन तपश्चर्या न त्यक्ता । महता तपसेश्वर भक्तथा च स परमं पदं प्राप ॥ जगदधामिन-जगदाधारे। मधुवनम्-मथुराम् | शरीर- व्ययात्-शरीरनाशात्, शरीरनाशहेतोस्तपसः।
श्रीशङ्कराचार्यः निवृत्तिमार्गमूलकोऽहिंसापरमधर्माधारः प्राणिनां पर- मोपकारको चौद्धधर्मो बहुशताब्दीव्यापिकालक्रमेणानुया- यिनामनयेन परिवर्तमानोऽनेकदोपक्षितस्त्रुटितश्चाभवत् । धर्मरक्षणार्थ बुद्धदेवेन संस्थापितो भिचुकाणां सङ्घः प्रथमं पतितावस्थां प्रापत् । धर्मरक्षकाश्श्रमणा एव धर्मभक्षका भूत्वा पापपङ्के न्यमअन् । परमं धर्ममहिंसामपहाय सर्वविधानि मांसान्य- वभक्षन् । भिक्षुकाणां विहारा विलासानां विहारास्स- मपद्यन्त। निरीश्वरवादस्तेषां धर्मस्य प्रधानराद्धान्तोऽजायत । सर्वव्यापकसवेशकदेवविश्वासविवर्जिता अपि ते दुर्बलहृदयाः कमपि देवं विना स्थातुमशक्कवन्तो, बुद्धदेवमेव निजेष्टदेवं मन्यमानास्तस्य प्रतिमाः पूजयन्तः, क्रमेण नानादेवो- पासनरता जडद्रव्योपासकाः प्रेतपूजकाथाभवन् । अहिंसापरमधर्माधार:-अहिंसा एव परमो धर्मस्य आधारः यत्र सः । अनुयायिनाम्-चौद्ध धर्मानुयायिनाम् । अनयेन-अनोत्या, अत्याचारेण | श्रमणा:-बौद्धसंन्यासिनः । निरीश्वरवादः-ईश्वरो नास्ति' इति सिद्धान्तः । राधान्त:-सिदान्तः ।
८५० ( २१२ र १३ १४ NUAR LDREAM कर्मकाण्डिनां संप्रदायेन साकमेव नॉनोदेवोपासका स्वस्य स्वस्थाराध्यदेवं सर्वोत्कृष्टं मन्यमानाः, परेष्टदेवता विगर्हमाणाः, परस्परविरुद्धपूजापद्धतीः परिचरन्तः, शैव- शाक्त-पाशुपत-क्षपणक-कापालिक-भैरव-सौर-गाण- पत्यादिनानामतानि सर्वतः प्रासीसरन् । तेषु कौलभैरवा- दयः कतिपये सम्प्रदाया ब्रह्महत्यासुरापानादिमहापातका- न्यपि निजधर्माङ्गत्वेनाङ्गीकृत्य निजानिरययानं विस्तारया- मासुः । धर्मसङ्कटोऽयं सनातनशङ्करस्य शङ्करीङ्करुणामुदबोध- यत् । यथादिसृष्टेस्समये समये पापस्य प्रवृद्धौ महात्मानो महापूरुषा विशिष्टं ज्योतिरादाय संसारेऽस्मिन् प्रादुर्भवन्ति, तथैव जगदुद्धारकश्श्रीशङ्कराचार्योऽपि संसारभूत्यै विशेष तेजः संधार्य धरामिमां स्वजन्मनालश्चकार । पुरा किल केरलदेशे पूर्णाभिधाया (सांप्रतमैलेवोइति- ख्यातायाः ) निम्नगायास्तटे श्रीगोविन्दनाथस्य विगहमाणाः-निन्दन्तः। पूजापदती:-पूजनप्रकारान् । परिचरन्त:-सेवमाना-प्राश्रयन्तः । प्रासीसरन्-प्रसारया- मासुः। निरययानम्-नरकमार्गम् । सनातनशङ्करस्य-नित्यस्य कल्याणकारिणः परमेश्वरस्याशङ्करीम्-कल्याणकरीम् । भूत्यै- कल्याणाय । पूर्णाभिधाया:-पूर्णानाम्न्याः। निम्नगाया-नद्याः।
( २२ )
श्रीवृषाद्रिनाथस्य च मन्दिराभ्यामलङ्कते कालदीनाग्नि
प्राचीनेऽग्रहारे वेदवेदाङ्गपारगः, कर्मठस्सदाचाररतो,
धर्मैकग्राणो विद्याधिराजनामा भूसुरः । अभूञ्च तस्य
शिवगुरुनामा तनयः।
स च यथाशास्त्रमधीतसाङ्गोपाङ्गवेदविद्यो गुरोराज्ञया
गृहमागतो गुरोः पित्रोश्चाग्रहणानुरूपां सुलक्षणामार्याम्बा
नाम्नी विदुषी वधूं परिणिनाय । न लेभाते सर्वगुणा-
लङ्कतौ सर्वविधसम्पत्समेतावपि दम्पती चिराय सन्ततिम् ।
कुलवधूवरिष्ठार्याम्बा एकत्रिंशदुत्तरपट्दिशतिशततमे
युधिष्ठिराब्दे, शुभे मुहूर्ते, भानुवासरे, उदगयने,
वैशाखशुक्लपञ्चम्यां, मध्यान्हे, सुलक्षणोपेतं सुतमस्त :
सुतजन्महर्पितश्शिवगुरुर्नवजाततनयं दृष्ट्वा तस्य शङ्कर
इति नाम चक्रे । म शिशुश्शङ्करस्यानुग्रहेण प्रादुर्भूतो
।
अग्रहारे-ग्रामे । कर्मठ:-कमंशूरः । भूसुर:-ब्राह्मणः ।
परिणिनाय-विवहति स्म (Married) । लेभाते-लब्धवन्तौ ।
वरिष्ठा-भेष्ठा । एमत्रिंशदुत्तरषड्विशतिशतसमे-२६३१ ।
युधिष्ठिराब्द-युधिष्ठिरप्रचारिते संवत्सरे । उदगयने-
उचरायणे । नवजातम्-नधोत्पन्नम् ।
( २३ ) जनानां शङ्करोऽन्वर्थशरोऽभूत् । बालश्शङ्करोऽलौकिकी प्रतिभा चमत्कारकारिणी शेमुषीश्च धारयामास । स प्रथमाब्दपूर्त्यामेवैतादृशं बुद्धि- वैभवं प्रदर्शयामास, यत्पिता तृतीय एव वर्षे तं वर्णमाला- भ्यासं कारयामास । श्रीशङ्करो बाल्यादेवैकश्रुतिधरो बभूव, म यत्किञ्चिच्छब्दजातमेकदा शुश्राव तदेव श्रुत- मात्रं कण्ठाग्रमकरोत् । श्रीचित्सुखाचार्यस्य लेखानुसारं श्रीशङ्करः पञ्चमे वर्षे गुरुणोपनीतो वर्षयुग्माभ्यन्तर एव मव्याकरणं ससाहित्यं सर्वशास्त्रसमूहं सरहस्यं वेद- ञ्चाधिजगाम । बालश्शङ्करस्सहजप्रतिभया, विलक्षणवि- द्यया, रधुर स्वभावेन,दयालुहृदयेन च कालटीवास्तव्यानां तत्प्रान्तीयानाञ्च जनानां मनाम्याचकर्ष, तेषां प्रशंसा- भाजनञ्च बभूव । अनेनैव क्रमेण श्रीशङ्करोऽष्टमे वर्षे सर्वशास्त्राणां पारमगमत् । तस्य कुशाग्रबुद्धिरधीतायाश्श्रुतेः प्रत्येकांशे अन्वर्थशङ्करः-परमार्थतः जनानां कल्याणकर्ता। अलो- किकोम् (अनोखी)। प्रतिभाम्--नवनवोन्मेषशालिनी प्रक्षाम्। शेमुषीम-बुद्धिम् । एकभुतिधरः-एकवारमेव श्रुतमर्थ यः सर्वदा धारयति सः । सहजप्रतिभया-नैसनिकमाया । वास्तव्यानाम्-निवासिनाम् ।
२४ ) तेन पश्चात्प्रचारिताद्वैतवादस्याधारभूतं प्रबेक्यसिद्धान्तस्य बीजमनायासं ददर्श । दुदवेन तस्य पिता तस्य विद्यासमाप्तिं द्रष्टुं सौभाग्य- शाली नासीत् । वर्षीयान् शिवगुरुश्शङ्करस्याष्टमे वर्षारम्भ एवेहलोकलीलया विरराम। दुर्घटनैषा शङ्करस्य सहजां वैराग्यप्रवृत्तिमुद्धोधयामास । स च संसारं त्यक्त्वा तुरीया- श्रमं प्रवेष्टुं मनश्चक्रे । परं सर्वसम्मानास्पदस्य पतिवियोगकातराया मातुः प्रीतिपरवशो वर्ष यावत्स्वमनोरथं पूरयितुं न शशाक । सन्यासदीक्षायै मातरं निर्वधनमपि स तस्याअनुमति न लेभे। अथैकदा श्रीशङ्करो मात्रा सह स्नानार्थ नद्यामवतीर्णो जलचारिणा प्राहेण पदेऽधियत । "हा अम्ब! विकृतोरुमुखेन बलवता ग्राहेण धृतोऽस्म्येकपदमपि चलितुं न पारये । अपूर्णसंन्यासमनोरथस्यैव पञ्चत्वप्राप्तस्य म आत्मा पर- लोके शमं नैष्यतीति सकरुणं मातरमवदत् । माता तस्य तां अद्वैतवादस्य-ब्रह्मवेदं सर्वजगत्, ब्रह्मातिरिकं न किम प्यास्ति' इति सिद्धान्तस्य । अनायासम्-आयासः-परिभमः। तं विनैव । वर्षीयान्-अतिवृद्धः | तुरीयामम्-चतुर्थाभमं संन्यासम् | दीक्षा-मंत्रग्रहणम् । निर्वधन्-आमहकुर्वन् । अवतीर्ण प्रविष्टः ग्राह-नकः । पारय-समर्थोऽस्मिा ( २५ ) वाचं श्रुतवता,तदवस्थं पुत्रं पश्यन्ती, तत्प्रतीकारमपश्यन्ती च तत्क्षणमेव तमापत्संन्यासग्रहणायानुमेने । शङ्करश्च संन्यासदीक्षां जग्राह, नक्रश्च तस्य पादं मुमुचे । तत:- संन्यासी भूत्वा नक्रयाहान्मुक्तस्सलिलादुत्ततार । एवं जलादुत्तीर्णो,मात्रे कृतप्रणामो"ऽम्ब यदा त्वं मां मरिष्यसि तदा त्वत्सन्निधौ त्वदाज्ञापरिपालनाय सबद्धो भविष्या- मी"ति मातरं सान्त्वयन् , श्रीशङ्करोऽल्पे वयस्येव संसारं संन्यस्यन्नपि स्वकर्मक्षेत्रं निजावासग्रामस्य सङ्कीर्णावधे- विश्वजनीनसमस्तवसुधायां विस्तारयन, परमपावनं तुरी- याश्रमं प्राविशत् । युवा संन्यासी स्वप्रतिज्ञा मात्रे पुनर्निवेद्य कर्मसंन्या- सदीक्षायै गुरुमन्वेष्टुमेकाक्येवोदचलत् । मार्गमनुसरन् सागरस्य पश्चिमवेलायां स्थितां गोकर्णनामप्राचीननगरी प्राप्तः । कालयामाचार्यकुलेऽधीयानेन निजपूर्वसतीर्थेन विष्णुशर्मणा संगतस्तं चित्सुखनाम्ना वशिष्यत्वेना- अनुमेने अनुमति ददौ | उत्ततार-बहिराजगाम! सान्त्वयेन् आश्वासयन् | संन्यस्यन्-स्यजन् | सङ्कीविधेस्वल्पसीमातः। विश्वजनीना-सर्वजनहितकारिणी वेलायाम्-तटे | अर्धायानन पटता। सतीयेन-सहपाठिना ।
( २६ ) जीचकार । एष एव चित्सुखाचार्य एकनवत्युत्तरषड्विंश- तिशततमे युधिष्ठिरशके (२६९१ यु.) श्रीद्वारकामठस्य पीठं श्रीब्रह्मस्वरूपाचार्यानन्तरं तृतीयाचार्यत्वेनाधिरुरोह, अशीतिवर्षवयसि च परमपदं प्रपेदे । स श्रीशङ्करस्यायोपान्तचरितस्य साक्षी तस्मात्पञ्चवर्षा- धिकवयास्तस्य शिष्यश्चासीत् । बृहदाकारत्वाद्धृहच्छ- करविजयेति गुरुशंकरविजयेति वा नाम्ना प्रसिद्ध तत्प्र- गीते शङ्करचरिते श्रीशंकरस्य सुरेश्वरस्य च समग्राणि चरितानि ताभ्यां कृता विविधा ग्रन्थाश्च वर्णिताः। भाष्याणि तु नाम्नैव निर्दिश्य श्रीशंकरस्य सर्वे लववो निबन्धास्तेषांनिर्माणावसरानिर्देशपुरःसरमत्र संगृहीताः । ग्रन्थोऽयं 'पूर्वाचार्यसत्पथ', 'शङ्कराचार्यसत्पथ', 'सुरेश्वराचार्यसत्पथे' ति प्रकरणत्रये विभक्तः । एत- दुपादेयपुस्तकमयावधि मुद्रयित्वा प्रकाशतां न नीतमिति खेदावहम् । तत्कर्ता चित्सुखो वेदान्तभाष्यस्य चित्सु- खीति नाम्ना प्रसिद्धस्य विवरणस्यापि प्रणेता प्रतीयते । परमपदम्-मोक्षम् । उपादेयम्-संग्रहीतं योग्यम् । खेदावहम्-खेदजनकम् ।
( २७ ) अनेनैव चित्सुखेन सहोत्तरभारतं परिभ्रमन् श्री- शङ्कराचार्यश्चत्वारिंशदुत्तरषड्विंशतिशततमे युधिष्ठिराब्दे ( २६४० यु०) फाल्गुन शुक्लद्वितीयायां नर्मदातटस्थेऽ- मरकण्टके श्रीगोविन्दयोगिना समगच्छत । गोविन्दयोगी पूर्व गृहस्थाश्रमे चन्द्रशमॆति चन्द्राचा- यति वा नाम्ना प्रगिद्धो, विख्यातवैयाकरणः, प्राक्पाच्य- देशाधिवासी, पश्चादुअयिन्यां वसन्, चातुर्वर्ण्यस्यै- कैकाश्चतस्रो भार्याः परिणीय तासु क्रमशो भतहरि-विक्र- मादित्य-भट्टि-वररुचिनाम्नः पुत्रानुत्पादयामास । यद्यपि गोविन्दभगवत्पादो निजगुरुश्रीगौडपादा- चार्यसमो विद्याविभवेन संपन्नो ग्रन्थप्रणेता च नासीत्, तथापि स श्रीशुकयोगींद्रवत्सहजसिद्धो योगीच। तत्प्रणीतं "योगतारावली", "अद्वैतानुभूतिः" "ब्रह्मामृतव- र्षिणी"ति ग्रन्थत्रयं प्रसिद्धम् । श्रीशंकरो गोविदयागिन सानन्दं स्वसंन्यासदीक्षकमाचार्य वत्रे, श्रीगोविन्दयोगी चातिशयेन मुदा तं स्वसुयोग्यशिष्यत्वेन जग्राह । एवं श्री- समगच्छत-सम्मिलितः। वैयाकरणः-व्याकरणपण्डितः । चातुर्वर्ण्यस्य-चतुर्णावर्णानाम्-बाह्मणक्षत्रियवैश्यशुदाणं । यत्रे-वृतवान् स्वीकृतवान् इत्यर्थः।
( २८ ) चित्सुखाचार्यवर्णनानुसारं श्रीशङ्करो वर्षद्वयं निजाचार्यस्य पावनं चरणारविन्दं सेवमानो वेदान्तस्य तदानीं प्रचलित- दर्शनानाञ्च समग्रान् ग्रन्थान् तस्मादधिजगाम । गुरोरधीतेषु ग्रन्थेषु श्रीगौडपादाचार्यस्य कारिकाः शङ्करं बलवत्प्रभावयामासुः । तासु वटबीजवृक्षवनिहितं पश्चानिजशारीरकभाष्ये प्रपञ्चितमद्वैततत्त्वस्य मूलं प्राप्य स तासां भाष्यनिर्माणाय परमगुर्वनुमति प्राप्तुकामस्तं साक्षात्कर्तुमियेष। कामनयानया प्रीतो गोविन्दभगवत्पाद- रशंकर हिमालये श्रीबदरिकाश्रमं वसतो निजगुरोगौंड- पादाचार्यस्य सामीप्यं प्रापयत् । शंकरो ब्रह्मनिष्ठारतं विंशत्युत्तरशतवर्षवर्षीयांस (१२०) परमगुरुं संवीक्ष्य परमानन्दमविन्दत,चत्वारि वर्षाणि च तस्मात्साक्षाच्छास्त्रा- ण्यध्यैष्ट । तेष्वेव दिवसेष्वेकदा शंकरः परमगुरोः माण्डू- क्योपनिषत्कारिकाणां भाष्यरचनायानुमतिं लब्ध्वा प्रस्थानत्रय्या भाष्यस्योपोद्धातरूपं तद्भाष्यं प्रणिनाय । कारिकाभाष्येण सन्तुष्टो गौडपादाचार्यः श्रीशङ्करं प्रस्थानत्रय्यास्तत्समानभाष्यं प्रणेतुं तेन च संसारे वेदा- न्तदर्शनस्य प्राधान्यं संस्थापयितुमादिदेश । तेष्वेव चतुर्यु कारिका-सूत्ररूपानश्लोकान् । पूञ्चितम्-विस्तृतम्-साक्षात्- कर्तुम् द्रष्टुम् | अविन्दत-पाप्नोत्अध्यैष्ट -अपाठीत् । पूस्थान प्रया-गीता,वेदान्तसूत्रम्, उपनिषदश्च । पूणेतुम्-निर्मातुम् ।
( २९ ) वर्षेषु श्रीशंकरो वेदान्तप्रस्थानत्रय्याः प्रख्यातषोडशमा- 'प्यनिर्माणेन विलक्षणां प्रतिभामलौकिकं कार्यसाधनसा- मथ्यश्च प्रदर्शयामास । ततः श्रीगौडपादाचार्यः श्रीगोन्विदभगवत्पादश्च श्रीशं- करमद्वैतसिद्धान्तप्रचाराय वाराणसीं गन्तुं प्रेरयामासतुस्त- स्यां यात्रायाश्च तमाशीर्भिरयुङ्क्ताम् । तदङ्गीकृत्य चिर- मित्रेण नवदीक्षितशिष्येण चित्सुखन सह शंकरो वाराणसी प्रस्थातुं प्रस्तुते, तत्सगोत्रोऽग्निशर्मा, कालयां वसन्त्या वार्षिष्ठया तन्मात्रार्याम्बया वणरत्नानि दत्त्वा प्रेषितः, आगतः, शंकराय तान्युपायनीकृत्य, वृद्धाया मातुरसाध्य रोगवृत्तेन तं निराशाहतं चाकितं चाकरोत् । सहसैव स विश्रब्धेनानुचरेण शिष्येण चित्सुखेन सह कालटीमुदच- लत्, वृद्धा मातरञ्च द्रष्टुमुत्सुकः पर्वतकाननान्यतिक्रामन् निजजन्मभूमिमवाप । कृशकलेवरातिदुर्वलापि तन्माता प्राङ्गणे परिभ्रमितुं समर्था निजान्तिमे क्षण एकाकिन पुत्रं दृष्ट्वा परमां मुदमवाप । शंकरोऽपि संन्यासिनां नियमान् न्यक्कृत्य मातरं प्रति धावनत्यादरेण तच्चरणौ पस्पर्श, प्रस्तुते-सन्नथे । वर्षिष्ठया-अतिवृद्धया|विश्रब्धेन-विश्वास पात्रेण ग्यकत्य-उपेक्ष्य ।
( ३० ) पुत्रोचितभक्त्या च तामाशिश्लेष । पुत्रवत्सला माता पुत्रा लिङ्गनेनात्मानं सर्वथा रोगनिर्मुक्तं पूर्णप्रसन्नमनुभवन्त्री शंकरं तस्य महाकार्य आशेिषा संयोज्य परमानन्देन योगवि तनुमत्यजत् । करेलीय-प्राचीनब्राह्मणानां प्रथाश्चानुसृत्य निजावास- पृष्ठाङ्गणे चितायां मातुर्देहं ददाह स्वयं शङ्करः। दाहावसरे तेन कृतं मातृस्तुतिनाम पञ्चपद्यमयं लघुकाव्यं वृद्धाया मातुस्तस्यासीमभक्त्याः परमं प्रमाणम् । परमां मातृभक्ति धारयनरशंकरस्य कवितामया एत उद्गाराः स्वाभाविका एव। तंदैव सनन्दननामा युवा ब्राह्मणः कालटीमागतः श्रीशङ्कराय बदरिकाश्रमादमरकण्टके नर्मदातटस्थं खाश्रमं प्रतिनिवृत्तस्य प्रबलरुजातस्य तस्य सम्मान्यगुरोः श्रीगोन्विदभगवत्पादस्य स्वपरलोकप्रयाणात्पूर्व प्रियशिष्य शङ्करावलोकनोत्कण्ठात्मकं संदेशमुपाहरत् । शङ्करचरितस्य प्राचीनलेखको चित्सुखानन्दगिरी सनन्दनं श्रीलक्ष्मीनरसिंहमन्दिरेण प्रसिद्धाहोचलनगर- प्रथाम्-रीतिम् । उद्गाराः-हदयभावा) निवासिनोर्लक्ष्मीमहादेवनाम्नोर्धनादयधार्मिकदम्पत्योःपुत्रं वर्णयतः। शिववरण प्राप्तस्य तस्य पितरौ बाल्य एव परलोकपान्थौ बभूवतुः, स च पूर्वमीमांसायाः प्रसिद्धा- चार्यस्य प्रभाकरस्य शिष्येण निजमातुलेन दिवाकराध्व- रिणा संवर्धितःशिक्षितोऽचिरेणैवलौकिकवैदिकसाहित्ययोः पारंगतोनिच्छन्नपि मातुलस्य दुहितुः पाणिं ग्राहितो मातुलस्य मीमांसामतमस्वीकुर्वश्च नवोढया भार्यया जीवनं सुखविवर्जितमत्यवाहयत्, मातुलेन च कलहायमानस्तस्य गृहं धनञ्च त्यक्त्वाध्यात्मज्ञानार्जनाय सद्गुरुमन्वष्टुमुद- चलत्,श्रीशङ्करस्य च कीांकृष्टस्तं बदिरकाश्रमस्थं श्रुत्वा तत्स्थानं गतो रुग्णस्य तस्य गुरोर्गोविन्दभगवत्पादस्य नर्मदातटस्थाश्रमयात्रया, श्रीशंकरस्य च पूर्वमेव परलोक- प्रयाणप्रस्तुताया मातुस्सकाशं गमनेनोद्विग्नचंते अमरेश्वरं यावद् गोविन्दभगवत्पादमनुसरन् कालयां श्रीशंकर- मायात् । तस्यादन्तेन संतुष्टः श्रीशंकरस्तं प्रधानशिष्यत्वे गृही त्वा, गुरुदर्शनानन्तरं तस्मै संन्यासदीक्षापूर्वकं वेदान्तो- परलोकपान्थी-परलोकपथिकौ-मृतौ । नवाढया-नव परिणीतया। अत्यवाहयत्-व्यतियापयामास। कलहायमान:- कलहं कुर्वन् उदन्तेन वृत्ताम्तेन।
( ३२ ) पदेशं प्रतिशृण्वस्तेन चित्सुखेन च सहामरेश्वरं प्रस्थितो, मासेन च गुरोराश्रमं प्राप्तो मध्येनर्मदं वैदूर्यपर्वते मान्धातृद्वीपेऽतिवृद्धं गतचेतनं गुरु गोविन्दभगवत्पादं निजपुत्रेण भर्तृहरिणा मुख्यरन्यरिशष्यैश्चान्वासितं, प्राणो स्क्रमणं प्रतीक्षमाणं ददर्श । प्रियशिष्यशंकरस्य मधुर- ध्वनिना लब्धचेतनो गोविन्दभगवत्पादस्वस्थ इव शय्यो- त्थितः, प्रेम्णा तं परिष्वजमानोऽद्वैतस्थापनाय भारत वर्षे दिग्विजययात्रामङ्गीकर्तु तमादिदेश, स्वानशेषान् शिष्यांश्च शंकराज्ञामनुवर्तितुमाज्ञापयामास । अन्तिमे क्षणे दिग्विज- ययात्रायां शंकरमाशिषा संयोजयन् प्रणवश्वोच्चारयन् कार्तिक शुक्लपूर्णिमायां वैक्रमाब्दाच्च पत्रिंशदुत्तरचतु:- शतवर्षपूर्व (४३६ वि० पू० ) योगेन तनुमत्यजत् । गोविन्दभगवत्पादस्पौवंदीहकसमाधिक्रियानन्तरंश्री- शङ्कराचार्यः सनन्दनप्रार्थनया तं कापायप्रदानपूर्वकं सन्या- साश्रमे प्रवेश्य, पद्मपादनामानश्च कृत्वा, तस्याद्वैततत्वो- प्रतिशृण्वन्-प्रतिजानन् | मध्यनर्मदम्-नर्मदाया मध्ये । अन्यासितम्-अधिष्ठितपार्श्वम् । प्राणोत्क्रमणम्-प्राणनिर्ग- तिम्-मरणम् ।
( ३३ ) पदेशार्थमात्मबोधनामकं कवितामयं प्रसिद्धवेदान्तप्रकरणं कृत्वा, तं स्वशिष्यत्वं गतान् गोविन्दभगवत्पादशिष्याँश्चा- पाठयत् । ततः श्रीशङ्कराचार्यः सर्वशिष्यैस्सह दिग्विजययात्रायै प्रतस्थे । सर्वतःप्रथमं स सनातनविद्यापीठं, प्रसिद्धतीर्थ- राजं प्रयागमागतश्शास्त्रार्थैर्वेदान्ततत्त्वोपदेशैश्च प्रसिद्धि प्राप्तो नानादेशेभ्यो नवागतानसंख्यान् शिष्यान् प्रसा- नत्रयीभाष्यमध्यापयामास । एकदा वेदान्तं प्रचारयन् श्रीशंकराचार्यः सशिष्या प्रयागाभ्यासे पारेगमंस्थितां चन्द्रवंशिनां प्राचीनराजधानी प्रतिष्ठानपुरीं तदा श्रीवल्लीनाम्ना प्रसिद्धं द्विजाग- हारमगच्छत् । संप्रति स्थानमेतद्वहिना भससात्कृत भग्नावशेषमेलाहाबादस्थाकबरदुर्गसंमुखं गङ्गाया अपर तटे झोसीनाम्ना विख्यायते । पारेगनम-गङ्गायाः पारम् ।
( ३४ ) तस्य द्विजाग्रहारस्याग्रगण्यकुमारिलभट्टस्य प्रशस्यशिष्यः, पूर्वमीमांसायाः प्रख्यातपक्षपोषकः, प्रथितानुभावः प्रभाकराध्वरी प्रतिवसति स्म । प्रभा- कराध्वरी कर्ममीमांसापक्षे वसाद्गुरोरपि व्यशिष्यत । स वैदिकयज्ञादिकर्माकुर्वतस्सर्वान् विगहमाणो वेदो- ककर्मकाण्डमेव सर्वशाखेषु सर्वोपरि कर्तव्यत्वेनोपदिष्ट मेने । निजपक्षं सर्वोपरि मन्यमानः प्रभाकराध्वरी श्रीशंकराचार्य स्वाग्रहारे सुशोभितं ज्ञात्वा तमपि निजानु- यायिनं विधित्सुरसंख्यैरनुयाथिभिः प्राप्तस्तसै खकर्मका- ण्डपक्षस्य सर्वप्रधानत्वं निवेदयामास । शंकराचार्यः शान्त्या तेन विवदमानो मुहूर्तमात्रेणेव तत्पक्षेणैव तं ब्रह्मज्ञानस्य सर्वोत्कृष्टत्वं, मोक्षप्राप्तेश्वरमसा- धनत्ववेदोक्तकर्मकाण्डस्य च चित्तशुद्धे पराभक्तेश्चापाय- मात्रत्वं, स्वीकारयामास । तस्यानिराकार्यकोटिक्रमेण प्रभाकराध्वरी ससर्वाग्रहारः श्रीशंकरस्यानुयायी समजा- अध्वरी-अग्निहोत्री । व्याशिष्यत-विशिष्टो ऽभवत् । विधित्सुः कमिछुः । विविदमान:-शास्त्रार्थ कुर्वन् | भनिराकार्यकोटि-अखण्डनीयस्तर्कः।
( ३५ ) यत । प्रभाकरो निजपुत्र पृथ्वीधरमाचार्यचरणारविन्देषु न्यपातयत्, श्रीशंकराचार्यः प्रणिधानेन बालं सहजयोगिनं बाल्यादेव ब्रह्मज्ञानिनं, पित्रा विधीयमानस्य विविधक्रि- याकलापस्य परीहारार्थ धृतमूकवृत्तिमवेदीत् । प्रथित- प्रभावः शंकरः पाणिना बालं स्पृशन् दृशा तमुबोधयन्- "कस्त्वं शिशो कस्य, कुतोऽसि गन्ता, किनाम ते, त्वं कुत आगतोऽसि ! एतद्वद त्वं, मम सुप्रसिद्धं, मत्प्रीतये प्रीतिविवर्धनोऽसि" इत्यपृच्छत् । बाला पृथ्वीधरश्च तदुत्तरे द्वादशपद्यमयं कमनीयं काव्यमश्रावयत् । तस्याथं पद्यमिदम्- "निमित्तं मनश्चक्षुरादिपवृत्ती, निरस्ताखिलोपाधिराकाशकल्पः । रविलोकचेष्टानिमित्तं यथा यः, ॥ - प्रणिधानेन-योगलमाधिना। सहजयोगिनम्-स्वभावसिद्ध योगनिष्ठम् । परीहरार्थम्-त्यागार्थम् । मूकवृत्तिः-मानम् । अवदत्-अशासीत् । प्रथितः-प्रख्यातः कमनीयम्-मनोहरम् । निरस्ताखिलोपाधि-निरस्ता अखिला उपाधयः कर्तृत्व- कर्मवादयो धर्मा यस्मात् सः। आकाशकल्पा-आकाशसरश:
( ३६ ) स नित्योपलग्धिस्वरूपोऽहमात्मा ॥ सर्वस्यास्य स्तोत्रस्य सारोऽसिन् पद्ये निबद्धोऽस्ति । "नाहं मनुष्यो न च देवयचो, न ब्रामणः क्षत्रियवैश्यशद्रः। न ब्रह्मचारी न गृही वनस्थो, भिक्षुश्च नाहं निजबोधरूपः ॥" हस्तस्थामलकवच्चित्स्वरूपवर्णनेन संतुष्ट आचार्यस्त- स्याः पद्यावल्यास्तत्पूणेतुश्च हस्तामलकाख्यामकरोत् । बालस्य पद्यपाठेन संन्यासदीक्षापार्थनया च प्रभावितः पूमाकरोऽपि श्रीशंकराचार्य तस्य तुरीयाश्रमप्रवेशमदैव- तत्वोपदेशञ्चप्रार्थयामास । आचार्योऽपि तदङ्गीकृत्य चतुः पञ्चाशदुचरषडविंशतिशततमे [२६५४ यु०] यौधिष्ठि- रान्द आश्विनशुक्लैकादश्यां तं संन्यासे दीक्षयामास, वत्थण एव स्वरचितेन तत्वोपदेशनाम्ना पद्यपूकरणेन च अमज्ञानमुपदिदेश । ततः पूभृति हस्तामलका श्रीशंकरस्य पूधानशिष्योऽद्वैतपक्षस्य च पूबलसमर्थका समजायत । प्रभाकरस्य श्रीशंकराचार्यपक्षग्रहणेन तदनेडमूक- पुत्रस्यं पृथ्वीधरस्य च तदनुग्रहाद्वाग्मितां सिद्धहस्तहस्ता- नित्योपलग्धिस्वरूपा-नित्यज्ञानरूपारामनेडमूक भूकबधिरा।
( ३७ ) मलकरूपधारणेन तस्य प्रभावः प्रतापच प्रयागे तदम्यासे च सहसा व्यानशे, सहस्रशो जनाश्च तदनुयायितां प्रपेदिरे । देशिकेश्वरतां गत आचार्यः शिष्याणां सहस्रेस साधुवादेन जयघोषेण च सह भारद्वाजाश्रमं ययौ । दाक्षिणात्यबामणः कुमारिलभट्टो यथानियममाचा- संकुलवासेन वेदवेदाङ्गपारं गतो जैमिनेर्वेदोक्तकर्मकान्द- विधायिनी पूर्वमीमांसां विशेषतोऽभ्यस्य, तस्याः शावर- भांध्योपरि टीकाञ्च प्रणीय, देशदेशान्तरे वेदोक्तर्कमकाण्ड प्रचारयन्, सनातनवैदिकपथ, विक्रमात्पूर्वमष्टम्यां शतान्छ पार्श्वनाथप्रवर्तितेन पश्चात् षष्ठयां शतान्यां वर्धमान- महावीरेण पुष्टेन, जैनमतेनाकान्तं दृष्ट्वा, जैनान् विजि- गीपुरुन्मुमूलयिषुश्च, तन्मतरहस्यानि विजिज्ञासुजैनानां विश्वासायात्मानमब्रामणं नाटयम्, जैनवेषतो वर्धमान- व्यानशे-वितस्तार । देशिका-अध्यात्मवानप्रचारका [•Spiritual teachers] दाक्षिणात्य दक्षिण देशवासी। विजिगीषुः-विजेतु मिच्छु । उन्मुमूलयिपुर-निर्मूलं कर्तु- मिछु । नाटयन्-वर्शयन् ।
( ३८ ) महावीरस्य शिष्यता जग्राह, तदन्तेवासिभिः समं कति- चिद्धायनानि पठन् जैनसिद्धान्तानीषीत् तैस्सह वेद- मार्ग दक्षयनखिलेषु जैनरहस्येषु निष्णातश्चाभवत् । एकदा ब्रह्मद्वेषी वर्धमानमहावीरः शिष्यानध्यापयन् वेदान विप्रान् यज्ञान् देवांश्चातीवादूषयत्-तद्विजल्पितं वेदविगर्हणं दुराकये समाकर्ण्य विदीर्णमनसः कुमारिलस्याक्षिभ्यां स्थूलमुक्ताफलाकृतयो जलबिंदवो न्यपतन् । तदृष्ट्वा तत्सहाध्यायिषु महावीरशिष्येष्वश्रुविपातकारणं पृच्छत्सु कुमारिलः कपटेन "महावीरस्य युक्तयुक्तिश्रवणेनानन्दा- भूणि विनिर्गतानी" त्युवाच । जैनशिष्यास्तदुक्तावविश्व- सन्तस्तं द्विजाग्रं मत्वा गुरवे वृत्तान्तामिमं निवेदितवन्तः कुमारिलं प्रासादात्पातयित्वा बहिश्चक्रुः । "यदि वेदाप्रमाणं स्युर्जीवेय"मिति चेतसि कृत्वा प्रासादात्पतितः कुमारिलो यदीति संशयोक्तेर्गुरुद्रोहाचै- कस्य नेत्रस्य परिक्षति प्राप्याप्यक्षतगात्रस्तस्मात्प्रदेशाभि- क्रम्य भुवि सर्वत्र जिनवादान् तदुक्ताभियुक्तिमित्यन् हायनानि-वर्षाणि । जैनरहस्येषु-जैनसिम्तममंसु । निष्णाता-निपुणः । दुराकण्र्यम्-भोतुमशक्यम् | परिक्षतिम्- विनाशम् । जिनवादान्-जैनासिवान्तान् ।
( ३९ ) सौराष्ट्रनृपतेः सुधन्वनो राजसभायां तान् शास्त्रार्थेषु परा- जित्य जैनमतं भारतादुन्मूलयामास,स्थिरतरं वेदोक्तकर्मका- ण्डश्च पुनः स्थापयामास । परं कपटाचारेण गुरुद्रोहेणच प्राप्त विद्याया निजविजयेनापि ग्लानिं गतःकुमारिलमस्तुषानले देहपातरूपेण प्रायश्चित्तेनात्मशोधनं विदधे । अन्तसमये श्रीशङ्कराचार्येण संगतो भस्मीभृताङ्गः कुमारिलमा " कर्मकाण्डज्ञानकाण्डयोः कः श्रेयानि"त्यस्मिन् विषये तस्य शास्त्रार्थपिपासां प्रतिकर्तुमशक्कवस्तं कर्ममार्गस्य समान पक्षपोषकमात्मनस्समकक्ष मण्डनमिश्रं वादार्थ गन्तुमादिशन् परलोकपथपान्थो बभूव । कुमारिलभट्टस्य स्वसुः पाणिग्राहः कृतविद्यो मण्डन- मिश्रः षड्दर्शनीमधीयानेन शिष्यमण्डलेन मण्डितो दासी- दाससेवितो विविधसंविधासंवेष्टितो "विद्यालये" ति प्रसिद्धं तद्देशवासिभिस्तु “विजिलबिंदु" रिति नाना ख्यातं स्थानं निवासेनालश्चकार । श्रीशङ्कराचार्यः पब- तुषानखे-तुषानो (भुस की भागमें ) । प्रतिकर्तुम्- रामयितुम् | पाणिपाहा-पतिः । कृषियः-पण्डितः । संविधा-उपकरणम्।
४० ) पादादिशियान्दैः परिवृतः मारिलभट्टादेशेन तदेव स्थानं प्रति प्रतस्थे। पुरोपकण्ठं प्राप्य मण्डनमिश्रनिकेतनं मार्गयनगरान्तरालमुदचलत् । मार्गे कूपोपर्युदकमुदा- न्तीर्दासीदृष्ट्वा ता मण्डनपण्डितावासं पप्रच्छ । तासा- अचराणि श्रीशङ्करदिग्विजये मनोज्ञैः पद्यैर्निबद्धानि सन्ति । तद्यथा- स्वतः प्रमाणं परतः प्रमाणं- कीराङ्गना यत्र गिरो गिरन्ति । द्वारस्थनीडान्तरसंनिरुद्धा- अवेहि तन्मण्डनपण्डितौकः ॥१॥ फलप्रदं कर्म फलप्रदोऽजः, कीराङ्गना यत्र गिरो गिरन्ति । द्वारस्थनीडान्तर संनिरुद्धा- अवेहि तन्मण्डनपण्डितौकः ॥२॥ जगद्धवं स्याञ्जगदधुवं स्यात्, पुरोपकण्ठम्-नगर समीपम् । निकेतनम्-गृहम् । उदन्ती:-उद्धरम्तीः। मनो-मनोहरी नीडान्तरे-पारान्तरे (पीजरे में)। प्रोकः-स्थानम् । अवेहि-जानीहि । अजा- परमेश्वरः । ध्रुवम्-अधिनाशि, मध्रुषम्-विनाशि ।
( ४१ ) कीराङ्गना यत्र गिरो गिरन्ति । द्वारस्थनीडान्तरसनिरुद्धा- अवेहि तन्मण्डनपण्डितौकः ॥३॥ इत्यादिकान् सकलशास्त्रसिद्धान्तसारसमायुतान् च- मत्कृतिचणान् दासीवचनसमूहान् संश्रुत्य, सविसय आचार्यों विद्यावदारकदम्बकमतीत्य, तासामभिज्ञाव- चनैर्मण्डनमण्डितमभ्रषं प्रासादभिज्ञाय, कपाटगुतं दुधवेशञ्च लभमानो, योगबलेन गगनमार्गेणान्तःप्रविष्टः, श्राद्धविधि विदधतो मण्डनमिश्रस्याग्रे तूष्णीं तस्थौ । वेदोक्त क्रियाकलापमेवेतिकर्तव्यं निश्चिन्वानः,कर्मत्यागिनः संन्यासिनश्च सदा तिरस्कुर्वाणः, श्राद्धसमये मुण्डितमस्तकं संन्यासिनमुपलभमानः, कोपकषायितो मण्डनमिश्रोऽरुण- नयनेनाचार्य निपीय कर्कशस्वरेणतीब्रमाचिक्षेप । चमत्कृतिचणान्-चमत्कारयुक्तान् । विद्यावहार- कदम्बकम्-परिडतखीममूहम् । अभिक्षावचनैः-परि- चायकवचनैः । अनकषम्-उच्चतरम्। अभिशाय-परिचिस्य । कोपोकषायित:-कोपपरक्तः । अरुणनयनेन-रकनेत्रेण । निपीय-रष्टवा।
( ४२ ) इत्थं तौ परस्परपरुषोक्तिपरौ दृष्ट्वा श्राद्धे निम- न्त्रिता ब्रामणास्तयोः कलहं प्रियवचनैः शमयन्तो "गृहा- गतस्यातिथिरूपदेवताया अभ्यर्चनं गृहस्थस्य ते धर्म" इति च मण्डनमुपदिदिशुः । मण्डनमिश्रस्तेषामाज्ञां शिरसा वह- अतिथियतिवर्याय पाद्यार्थ्यपरो बभूव । पायप्राप्तिसमये "भवद्भिस्संवादार्थमागतोऽसीति" गुरुर्जगाद । मण्डन- मिश्रोऽपि तत् सहर्ष स्वीकृत्यातिथ्यश्राद्धयोरनन्तरं वादो भवितेति प्रविजझे। यथाविध्यातिथ्यं पितृकर्म च निवर्त्य वादार्थसन्नद्धौ मण्डनमिश्रः श्रीशङ्कराचार्यश्च पणमेवं जगृहतुः। “गृहस्थो- ऽहमपि यदि पलायितः संन्यासी भवेयमिति"मण्डनमिश्रा, " अहमपि यदि वादे पराजितो गृहस्थो भवामीति" श्रीशङ्कराचार्यश्च प्रतिज्ञातवन्तौ । उभयपक्षग्रहणसमर्था मण्डनमिश्रपत्नीं 'भारती'ति 'सरसवाणी'ति 'विद्याधरी'ति परुषोक्तिपरी-कटुमाषणं कुर्वन्तौ । अभ्यर्चनम्-सत्कारः। पाचम्-पादप्रक्षेलिनार्थ जलम् । अयम्-अर्घार्थ जलम् । मातिर्यम्-अतिथिसत्कार, धांधम्-पिण्डदानादि पितुकर्म । निर्वर्त्य-सम्पाय | पणम् प्रतिक्षाम् । पलोयितः-विजितः।
( ४३ ) 'सरस्वती' ति विविधनामभिर्विविधैः कविभिराख्यातां मध्यस्थां विधाय वादे प्रवृताते । यावद्वादोऽभूत्तावत्प्रत्यह भारती "मिक्षार्थमागच्छे" त्याचार्य "भोजनार्थ मागच्छे"ति पतिश्चाहयोभाभ्यां भिक्षाशने अदात् । एवं वेदादिसर्वविद्यासु वादे क्रियमाणे सप्तमादिना- त्परं कर्मकाण्डात्मकस्य पतिपक्षस्य स्खालित्यं श्रुत्वा, तस्य पराजयश्च निश्चित्य, श्रीशङ्कराचार्यस्य ज्ञानकाण्डस्य सर्वश्रेष्ठत्वं स्थापितं मत्वा,महानसात्पतिसमीपं गत्वा विदुषी भारती प्रतिदिनं शङ्कराचार्यमिव मण्डनं किलेदमनवीर- "स्वामिबेहि भिक्षायै"। भारत्या भणितिभङग्यानया विदितात्मपराजयो मण्डनमिश्रोपि श्रीशङ्कराचार्य चरणारविन्दं नतः, "शरणं देदी" ति ब्रुवाणोऽद्वैततत्वो पदेशपूर्वकं संन्यासदीक्षाप्रार्थनापरो बभूव । "मामनिर्जित्य कथं मत्पतिर्जितः" इति भाषमाणाया भारत्या मध्य आगमनमाचार्येण सह तस्याः संवादप्रार्थना, वादे प्रवृत्ते तं प्रति तस्याःकामशास्त्रप्रश्नास्तदुत्तरासमर्थत्वात् प्रवृताते-प्रवृत्तौ । स्वालित्यम्-विचलिताम्- निर्बलस्वामितिभावः।महानसात्-पाकशालया।भणितिमाया- बचनशैल्या।
( ४४ ) - कथा कामशास्त्रज्ञानायाचार्यस्य योगबलेन स्वदेहत्यागपूर्वक मृतामरुकनृपशवप्रवेशं,पुनरुज्जीवितेनामरुकरूपेण कामशा- स्त्रोपलग्धि, ततस्तेन स्वशरीरे पुनः प्रविश्य काम- शास्त्रेऽपि भारत्याः पराजयं, तेन मन्त्रबद्धाया भारत्याश्च शृङ्गापुरमानीय मठे स्थापनमित्यलौकिकीः वर्णयन्ति । श्रीशङ्कराचार्याख्यस्याचार्यचरितस्य लेखको दाक्षिणात्य आर्योपाह्वयः श्रीकृष्णखामी गाथयानया मण्डनपराजयस्य तस्य संन्यासग्रहणस्य च पश्चादा- चार्यप्रार्थनया भारत्यपि काषायाणि गृहीत्वा संन्यासिनी भूत्वा शृङ्गगिरिमठेऽवसदित्यनुमानं करोति, तत्राद्यापि भारतीपूजायाः प्रचलितत्वात् । यद्भवतु तद्भवतु, विनिश्चित- मेतद्यच्छ्रीमच्छङ्कराचार्यो मण्डनमिश्रं पराजित्य तत्प्रार्थ- नया तं विक्रमात्त्रयस्त्रिंशदुत्तरचतुःशतवर्षपूर्व (४३३ वि० पू०), चैत्रशुक्लनवम्यां संन्यासेन संदीक्ष्य, सुरेश्वरनामानं कृत्वा, अद्वैतविद्यां सम्यगुपदिश्य, विक्रमात्त्रयस्त्रिंश- दुसरचतुःशतवर्षपूर्व (४३३ वि पू०), माघशुक्लसप्तम्यां शव:-मृतशरीरम् | आर्योपायः-मार्योपनामकः । काषायाणि-कापोयवस्त्राणि (गेरुवे कपड़े)।
( ४५ ) द्वारावत्यां शारदामठं संस्थाप्य, तस्मिन् प्रथमपीठाध्यक्ष मभ्यषिचत् । महाराष्ट्रे ब्रामणानां मल्लारिसम्प्रदाय आसीत् । माल्ला- रिणाः श्रुतिमूलकाचारस्य दुर्निर्वहत्वात्त्वमपि सशिष्यः परं मुक्तिकारणमसदाचारग्रहणं कुरु,भवद्धारणयोग्यानि वराट- कानि दास्याम"इति श्रीशङ्कराचर्यमूचुः। श्रीमदाचार्य एका- द्वितीयसर्वसाक्षिसर्वकारणसर्वव्यापकपरमात्मन एव सर्वो- पासनायोग्यत्वं संस्थाप्य, मल्लारिप्रभृतिक्षुद्रदेवतार्चना- नहत्वं, शुनाश्च निकृष्टजन्तुत्वात् पापरूपत्वाच्च तदीय- स्पृष्टया स्नानस्य ब्राह्मणानां सिद्धत्वात् तद्वेषचिन्हस्य चाधार्यत्वं, साधयामास । तस्य युक्तिप्रमाणैः पराजित माल्लारिणाः परमगुरुचरणारविंदयोः कृतापराधिन इव कि- लापतन् । दयारसाभिषिक्ततनुराचार्यखामी समीक्ष्य वान् "तिष्ठते"त्युक्त्वा तेषां पापविशोधनं कर्तुमत्यन्तानपुणान- खिलज्ञान् स्खशिष्यान् पद्मपादहस्तामलकप्रमुखाना- अभ्यषिचत्-अभिषिक्तवान् । मालारणा:-मसारि- मतानुयायिनः।
( ४६ ) झापयामास । ते किल तेषां शिरोमुण्डनं महानद्यां स्नाना- दिप्रायश्चित्तञ्च कारायत्वा तानद्वैतवादिनो विदधुः। एवं मल्लारिमतं निराकृत्य श्रीमदाचार्य उञ्जयिन्याख्यं पुरमगच्छत् । तत्र तावदुन्मत्तभैरवनामा कश्चित् कापालिक- श्चितिभस्मपूर्णकलेवरो, विरचितजटाजूटो, व्याघ्रचर्म- रचितकटिसूत्रकौपीनः, कपालयुतवामकरः, "शम्भुभैरव अहो कालीश" इति मुहुर्मुहुर्जल्पनाचार्यस्वामिनमिद- मनवीद-"स्वामिन्, किं कापालिकमते न्यूनतास्ति, तदन्यत्र किं फलमस्ति, न मे जात्या प्रयोजनं वर्तते, अविवेकस्यैव जातिः कारणं, ब्रह्मादिपिपीलिकान्तर्गत- देहस्य भौतिकत्वात् कस्य जातिवक्तव्या, शरीरस्य चर्ममांसास्थ्यादिसप्तधातुमयस्य समत्वेनैव सर्वपाणिषु वर्तमानस्य विशेषाविशेषत्वं भवद्भिः कल्पितं, भैरवाज्ञया मात्योनेरुत्पनस्य नीचोच्चकृत्तित्वं मन्दा अपि नाङ्गीकुर्वन्ति; अतोऽस्माकं न हि प्रमाणं जातिः, किन्तु जातिद्वयं दृश्यते स्त्रीत्वं पुंस्त्वञ्चति, तयोर्मध्ये स्त्रीजातिः निराकृत्य-खएडयित्वा | चितिभस्म-दग्धशवभस्म । व्याघ्रचर्मरचितकटिसूत्रकोपोना-च्याघ्रस्य चर्मणा रचितं कटिसूत्रं (करधनी) कोपीनंच (लंगोट) येन सः।
( ४७ ) श्रेष्ठा,कथमित्युक्ते, तत्संयोगेनानन्दभैरवनन्दनस्य विद्यमा- नत्वात् । तस्य प्रमाणशून्यं जल्पनं श्रुत्वाचार्यों विविधश्रुतिस्मृतिभिस्तत्पक्षस्यासारत्वं संसाध्य, सदाचार- स्य वर्णाश्रमधर्मस्य चावश्यकर्तव्यत्वं संस्थाप्याद्वैततत्व- स्योपदेशन तमपि प्रायाश्चित्तपूर्वकं शुद्धं व्यधात् । एवमेव जैन-बौद्ध-चावाक-सौगत-क्षपणकादिविवि- धानि वेदविरुद्धानि मतमतान्तराणि दक्षिणापथे निराकृत्य तन्मतावलंबिनश्च यज्ञोपवीतधारणपूर्वकं वैदिकधर्मे संपूर्व- श्य, निजपरमाचार्याश्रमं बदरिकाश्रमं पुनर्दिक्षुरुत्कृष्टभू- खण्डमुत्तराखण्डमयात् । तत्रापि वेदविरुद्धमार्गदूषणदत्त- दृष्टिः,सत्पथप्रचारपरो, ज्योतिर्मठं विक्रमादष्टाविंशत्युत्तर- चतुःशतवर्षपूर्व (४२८ वि०पू०) समस्थापयदानन्दगिरीति पूर्वनामधारिणं श्रीतोटकाचार्यश्च तदाचार्यश्चक्रे । ततःसशिष्यो यथापूर्व दिग्विजयायेंद्रदिग्भागमुद चलत् । तत्र विविधविद्यापीठेषु राजधानाधु च यात्राकुंवन् श्रुतिविमुखानाचारान् निरस्यन्, वेदपूतिपादितांच पूचारयन्नुत्कलानागतः, पुरुषोत्तमक्षेत्रं जगनाथपुरी प्राप्तस्तस्यां वेदान्तगभस्तिपूसाराय गोवर्धनं मठं विक्रमात् ऐन्द्रादगभागम्-पूर्व दिशम् । निरस्यन्-खण्डयन् । उत्कलान्-(उड़ीसा देश में) । गभस्ति-किरणः ।
( ४८ ) सप्तविंशत्युत्तरचतुःशतवर्षपूर्व (४२७ वि० पू०) निर्माय, सनन्दनेतिपूर्वनामानं श्रीपअपादाचार्य तस्व प्रधानपदे पूत्यस्थापयत् । ततः कामरूपेषु शाक्त मतं पूबलं प्राप्य तत्खण्डन उद्युञ्जान, आत्मना पराजितेनाभिनवगुप्तनाम्ना केनचि- च्छाक्तमतावलम्बिनाभिचारितो,विषादिग्राहितोवा, भग- न्दररोगेणाक्रम्यत । मारकेण रोगेण तेन दैनंदिनं क्षीणक- लेवरोऽपि कञ्चित्कालं किञ्चिदुल्लाघः वासवीककुभो प्राचीतः अवाची प्रति धर्मराजदिशं निवर्तमानो, दक्षिणा- पथं प्राप्तः, श्री शृङ्गेरीपुरमाययौ । तत्र शुद्धाद्वैतव- दिकसंप्रदायप्रवर्तनाय, प्रस्थानत्रयीभाष्याणां प्रचाराय च दक्षिणस्यां दिशि हस्तामलकनायकत्वे श्रीशृङ्गापुर्या शृङ्गागरिपीठं विक्रमात् षडविंशत्युत्तरचतुःशतवर्षपूर्व (४२६ वि०पू ) समस्थापयत् । प्रत्यस्थापयत्-प्रतिष्ठापितवान् | कामरूपेषु-कामरूपदेशे शाकाः-शरुपासका । उद्युञ्जान:-उदयोगं कुर्वन् । अभिचारितः कृताभिचारः । अभिचार:-मारणमोहनादि प्रयोगः। विषादि पाहितं येन (प्रयोज्यकर्षा) सः । दैनं दिनम्-प्रतिदिनम् । नोरोगः-उल्लाघः। प्राचीन:-पूर्वस्य दिशः । अवाचीम्-दक्षिण दिशम्।
( ४९ ) एवं स सर्वत्र वेददुन्दुभिमुद्घोषयन् वेदविगहितनि मन्दमतान्युन्मूलयन, वेदवाखान् मुद्राणादिकदा- चारान् कदर्थयभागमानुमोदिताचारान् विस्तारयन् सर्व- स्मिन् भारते वर्षेऽद्वैताति प्रोद्योतयन् श्री शंकरभगवत्पादः श्रीकामाक्षीमन्दिरमण्डितं श्रीराजसेन- राजधानी प्रसिद्धविद्यापीठं, काचीनगरमाजगाम । तत्रान्तिम कामकोटिमठं विक्रमाचतुर्विशत्युत्तरचतुः शतवर्षपूर्व (४२४ वि० पू०) क्लप्त्वा, स्वयमेव पीठा- ध्यक्षासनमलङ्कुर्वन्, स्वदेहपातानन्तरञ्च सर्वत्रसंझं स्वशिष्यं तस्य भाविनमाचार्य विधाय तत्रैव कञ्चित्कालं स्थित विक्रमादेकोनविंशत्युत्तरचतुःशतवर्षपूर्व (४१९ वि० पू०) द्वात्रिंशद्वर्षवयसि (३२) स्वविनश्वरी तनुं त्यक्त्वा परमपदमवाप । धार्मिकसंप्रदायानां दर्शनस्य च पाचीनाचीनेति- वृत्ते शंकरभगवत्पादान कोऽप्युच्चतर स्थानमर्हति, न च कोऽपि माहात्म्ये, शान्तौ, दान्तौ, कुशाग्रमतौ वा तस्य कदाचाराच-दुराचारान् । कदर्थयन्-विगहितान् कुर्वन् । विनश्वरीम्-विनाशशीलाम्।
( ५० ) समकक्षामवगाहते। कल्मषमलीमसे कलिकाले स एव स्वजीवनेनादित्यब्रह्मचर्यस्यादर्श दर्शयामास । अभिनव- विषयपूवेशे, पाण्डित्ये, विचारगाम्भीर्य, पूबलतर्कणायां, दर्शनकल्पनायाश्च तस्य शमुषी परमोत्कृष्टा । स्वसमये पूचलितानां विविधसंपदायानां दर्शनानाच समाधाने तस्याद्वितीयकौशलभपूर्वविचारशैली, प्राचीनपूमाणवा- क्यानां विभिभाशयानां तत्कृतसंगति, तत्पूणीतभाष्याणां वैशयं, सारल्यं, प्रगल्भवाक्यविन्यासं, कमनीयत्वमभेद्य- युक्तियुक्तत्वश्च दर्शदर्श तदुचरवर्तिनो मनीषिणो, दार्श- निकाः, कोविदाः, समालोचका, विचारकाश्चाश्चर्यचकिता भवन्ति । 'एकस्य बहुषु गवेषण' मिति दर्शनस्य लक्षणं सनातनादायाति,परं 'बहुष्वेकस्यान्वेषण'मिति जटिलप्रश्नो दर्शनस्य, संसारस्य, सदाचारस्य, धर्मस्य, समाजस्य, राजनीतेर्वा दृष्ट्याऽद्वैततत्वं व्याख्याय भगवता शंकर- पादेनैव समुद्घाटितः। कल्मषमलीमसे-पापैर्मलिने। आदर्शम् उदाहरणम् । संगतिम्- व्यवस्थाम् । वैशद्यम्-स्पष्टताम् । सारल्यम्-सरलताम् । प्रगल्मा-प्रौढग कमनीयत्वम्-मनोहरत्वम् । अमेयाः- मस्खण्डनीयाः। वर्श दर्शम्-दृष्ट्वा दृष्ट्वा । कोविदा:-विशाः, समुद्घाटित:-प्रकटीकृतः।
हरिशर्मकथा
कस्मिंश्चिद्ग्रामे हरिशर्मा नाम दरिद्रो मूर्खश्च विप्र
आसीत् । तस्यायमपरो गण्डस्योपरि स्फोटः सम्भूतो यद्-
वृति विरहेऽपि वहपत्यता । एकदा सकुटुम्बो मिक्षार्थ
भ्रमन्कसिंश्चिन्नगरे स्थूलदत्ताख्यं महाधनं गृहस्थमाजगाम ।
वपुत्रानगवादिरक्षकान् विधाय भार्या च कर्मकरी सेवक
चात्मानं कृत्वा तस्य गृहे न्यवसत् ।
अथ गच्छति काले स्थूलदत्तस्य सुतायाः परिणयो-
त्सवो महानागतः । तत्र च महानासीजनसंमर्दः । तदा
हरिशर्मा मनस्यकरोत् । आकण्ठं घृतमांसं मयाऽधुना
लब्धव्यमिति । किन्तु महोत्सवे हरिशर्मा न केनापि
स्मृतः। ततोऽनाहारनिर्विण्णो निशि भार्यामब्रवीत् ।
मम दारिद्रयान्मोख्याचेदृशमगौरवम् । तसात्कपटमा-
चरिष्यामि येनाहमस्य स्थुलदत्तस्य बहुमतो भवेयम् ।
गण्डस्य-गलगण्डस्य (गीलड़ के) | स्फोटः (फोड़ा)।
वृत्तिविरहे-जीविकाया अभावे | बलपत्यता-बहुपुत्रता ।
परिणयोत्सवः-विवाहोत्सवः । जनसंमदः-ममुजसंबाधा-
(भीड़) । निविएण:-दु:खितः अगौरषम-अप्रतिष्टा । बहुमत:-
मादरणीयः ।
( ५२ ) त्वं चावसरे प्राप्तेऽहं ज्योतिशास्त्रपारङ्गत इत्यस्मै निवेदयेति । एवं वामुक्त्वा सुप्ते जने जामातवाहनो हयस्तेन स्थूल- दत्तगृहाआहे, दूरे च प्रच्छन्नं स्थापितः। सेवका इतस्ततस्तं विचिन्वन्तोऽपि न लेमिरे । हरिशर्मणो भार्या हयचौरगवे- पिषममङ्गलवित्रस्तं स्थूलदत्तमेत्योवाच । मदीयो भर्ता ज्योतिर्विद्याकोविदः । किमर्थं स न पृच्छ्यत इति । क्छुत्वा स्थूलदत्तो हरिशर्माणमाह्वयत् । हरिशर्मोवांच- सोऽहं विस्मृतोऽध हयेऽपहृते स्मृतोऽसीति । स्थूलदत्तस्तं सान्त्वपूर्वमुवाच । विस्मृति नः क्षमस्व । केनाश्वोऽपहृतस्त- मः कथयेति । हरिशर्मा ततो मिथ्या रेखाः कुर्वन्नुवाच- इतो दक्षिणसीमान्ते चौरैयः संस्थापितः । यावदसो चोरैरं न नीयते तावदानीयतामिति। तच्छुत्वा धावितैनरैः सोऽश्वस्तत्क्षणमेवानीतः। सर्वे च हरिशर्मणो विज्ञानं प्रशशंसुः । ततो ज्ञानीति सर्वैः पूज्यमानः स्थूलदत्तगृहे हरिशर्मोवास । हया-प्रश्वः । जहे-हतः। प्रच्छन्नम्-गुप्तम्-केनाप्ययिदितम्। विचिन्वन्त:-अन्वेषणं कुर्वन्ता गषिणम्-अम्वेषिणम् | सास्य- पूर्वम्-अनुनयपूर्वकम् ।
गच्छत्सु दिवसेषु केनापि चौरेण राजगृहाद्भरि सुव- गोदि चोरितम् । यदा चौरो नाज्ञायत तदा ज्ञानिप्रसिद्धितो राजा हरिशर्माणमानाययामास । सचानीतापातर्वक्ष्यामीति कालं क्षिपन् राज्ञा वासके सुरक्षितः स्थापितः। तसिन्राज- कुले काचिच्चेटी जिद्दति ख्यातासीत् । तया च भ्रात्रा साध राजगृहाभ्यन्तरात्तत्सुवर्ण चोरितम् । सारात्रौ वासकं गत्वा हरिशर्मणो ज्ञानाच्छादिता द्वारि कर्ण ददौ । हरिशर्मा च तदैकाकी भूत्वा मृषाविज्ञानवादिनी खजिह्वामेवं निनिन्द । दुराचारे जिह्वे, भोगलम्पटया त्वया किमिदमकार्य कृतम् । अधुना निग्रहं सहस्वेति । तच्छ्रुत्वाऽनेन ज्ञानिनाहं ज्ञातासीति भीता सा चेटी युक्त्या सदन्तिकं प्रविश्य तस्य पादयोः पतित्वा तमब्रवीत् । भो ज्ञानिन् ! इयं सा जिह्वा या त्वयाऽर्थ- हारिणीति ज्ञाता । तत्सुवर्ण मयाऽस्थैव मन्दिरस्य पृष्ठतो दाडिमस्याधो भूतले निखातम् । तस्मान्मां रक्ष । यब तिपन्-व्यतीतं कुर्वन् । वासके-गृहे । चेटी-दासी । मृषा-मिथ्या । भोगलम्पटया-विषयभोगासक्तया। अकार्यम्- दुष्कर्म । नग्रहम्-दण्डम् । दाडिमस्य-(अनारके पेड़के )। निखातम-( गाड़ दिया )।
( ५४ ) किश्चिन्मे हस्तग धनं विद्यते तदपि तुभ्यं ददामीति । एतच्छुत्वा हरिशर्मा सगर्व तामुवाच । गच्छ दुराचारे, अहं भूतं भव्य भवत्सर्व विजानामि । शरणागतां त्वां नोद्घाटयिष्यामि यदि स्वहस्तगतं सर्व धनं मह्यं दास्य- सीति । एवं तेनोक्ता सा चेटी तथेति प्रतिपद्याशु निर्जगाम । गतायां तस्यां हरिशर्मा व्यचिन्तयत् । अभिमुखे विधावसाध्योऽप्यर्थो लीलयैव सिध्यति । अनर्थ उपस्थिते महान्मेऽर्थः सिद्धः। स्वजिह्वां यावभिन्दामि तावन्मम पुर- तश्चौरी जिहा समागता । प्रच्छान्नपातकिनःशङ्कयैव प्रका- शन्त इति । एवं विचार्य तां रात्रि निनाय । प्रातश्योद्याने नृप नीत्वा निखातं धनं तद्धस्ते समर्पितवान् । चौरश्च कञ्च- नांशमपनीय पलायित इति शशंस । कथं शास्त्रं विना ज्ञानमीदृशं स्यादिति मत्वा तुष्टो राजा तस्मै ग्रामान्दातुमियेष। मन्त्री तु कर्णे राजानमुवाच-देव, प्रतिपद्य-स्वीकृत्य । अभिमुने-अनुकूले । विधो-दैवे- भाग्ये वा । लीलयैव-अनायासेनैव । अनर्थ-आपत्तौ। प्रच्छन्नपातकिनः-(छिपे पापी) | अपनीय-हत्वा । इयेष- इच्छति स्म।
( ५५ ) नूनमयं चौराणांसहाय तस्मात्सकदन्यया युक्त्या परीक्ष्य- तामसौ ज्ञानीति । ततोऽन्तःक्षिप्तमण्डूकं सपिधानं नवं घटमानाय्य राजा हरिशर्माणमब्रवीत् । नमन् ! यदस्मिन् घटे स्थितं तबदि भवान्वदति तर्हि सुमहती पूजा करिष्यामीति । तच्छुत्वा नाशकालमागतं मत्वा पित्रा बाल्ये क्रीडाकृतं मण्डूक इति स्वनाम स्मृत्वा परिदेवनं कुर्वन्सहसैवमब्रवीत् । मण्डूक ! तवावशस्य विनाशायाय घटः सञ्जात इति । तच्छुवा महाज्ञानिनाऽनेन भेकोऽपि विदित इति जनास्तं सानन्दं प्रशशंसुः । ततो हरिशाणं महाज्ञानिनं मन्यमानो राजा तस्मै बहून् ग्रामान् ददौ । क्षणाच्च स हरिशर्मा सामन्तसभिभो जज्ञे । इत्थं देवेन केचिदर्थाः सहसैव साध्यन्ते । सकत्-एक वारम् । सपिधानम्-आच्छादनसहितम् । ढकने सहित) । अवशस्य-असमर्थस्य-असहायस्य । परिदेवमम्-शोकम् । मेका-मण्डूकः (मैडक) | सन्मिमः- सदृशः।
कालिदासराचसकथा कदाचिदाजेन विलासार्थ नूतनगृहान्तरं निर्मितम् । तत्र गृहान्तरे गृहप्रवेशात्पूर्वमेकः कश्चिद् ब्रह्मराक्षस: प्रविष्टः । स च रात्रौ तत्र ये वसन्ति तान्मक्षयति । ततो मान्त्रिकान्सामहूय तदुचाटनाय राजा यतते स । स चागच्छन् मान्त्रिकानेव भक्षयति । किं च स्वयं कवि- त्वादिकं पूर्वाभ्यस्तमेव पठस्तिष्ठति । एवं स्थिते तत्रैव रक्षमि राजा 'कथमस्य निवृत्तिः' हीत व्यचिन्तयत् । तदा कालिदासः प्राह-'देव, नूनमयं राक्षसः सकल- शास्त्रप्रवीणः सुकविश्व भाति । अतस्तमेव तोषयित्वा कार्य साधयामि । मान्त्रिकास्तिष्ठन्तु । मम मन्त्रं पश्य' इत्युक्त्वा स्वयं तत्र रात्रौ गत्वा शेते स । प्रथमयामे ब्रह्मराक्षसः समागतः । स चापूर्व पुरुषं दृष्ट्वा प्रतियाममे- कैका समस्यां पाणिनिसूत्रमेव पठति । येनोत्तरं तद्धृदय- गतं नोक्तम्, 'अयं न ब्राह्मणः अतो हन्तव्यः' इति निश्चित्य हन्ति । तदानीमपि पूर्ववदयमपूर्वः पुरुषः । अतो मया समस्या पठनीया । न चेद्वक्ति सदृशमुत्तरं मान्त्रिकान्-मन्त्रविद्याविशारदान् । उचाटनाय-दूरो- करणाय । यतते स्म-यनमकरोत् । प्रतियाम-प्रतिप्रहरम ।
( ५७ ) - - तस्यास्तदा हन्तव्य इति बुद्धधा पठति- 'सर्वस्य हे इति । तदा कालिदासः प्राह- 'सुमतिकुमती संपदापत्तिहेतू' इति । ततः स गतः। पुनरपि द्वितीययामे समागत्य पठति- 'वृद्धो यूना' इति । तदा कविराह- 'सह परिचयात्यज्यते कामिनीभिः'। इति । तृतीययामे स राक्षसः पुनः समागत्य पठति- 'एको गोत्रे इति । ततः कविराह- 'प्रभवति पुमान्यः कुटुम्ब बिभर्ति' इति । ततश्चतुर्थयाम आगत्य स राक्षसः पठति- खीं 'पुंवच' इति । ततः कविराह- 'प्रभवति यदा तद्धि गेह विनष्टम् । इति । ततः स राक्षसो यामचतुष्टयेऽपि स्वाभिप्रायमेव बात्वा तुष्टः प्रभातसमये समागत्य तमाश्लिष्य प्राह- - कामिनीभिः-स्त्रीभिः | गोत्रे-वंथे। बिति-पालयति।
( ५८ )
'मुमते, तुष्टोऽस्मि । किं तवाष्टिम्' इति । कालिदासः
'त्वमसद्गृहाभिस्सर' इत्याह । सोऽपि 'तथा' इति गतः
अनन्तरं तुष्टो भोजः कविं बहु मानितवान् ।
चरमश्लोकः
ततः कदाचिद्भोजराजः कालिदासं प्रति प्राह - 'सुकवे,
त्वमस्माकं चरमग्रन्थं पठ' ततः क्रुद्धो राजानं विनिन्ध
कालिदासःक्षणेन तं देशं त्यक्त्वा एकशिलानगरं प्राप।
ततः कालिदासवियोगेन शोकाकुलस्तं कालिदासं मृगयितुं
राजा कापालिकवेष धृत्वा क्रमेणैकशिलानगरं प्राप । ततः
कालिदासो योगिनं दृष्ट्वा तं मामपूर्व पप्रच्छ-योगिन् ! कुत्र
तेऽस्थितिः' इति । योगी वदति-'सुकवे, अस्माकं
धारानगरं वसतिः' इति । ततः कविराह
कुशली किम् । 'ततो योगी प्राह-' किं मया वक्तव्यम्'
इति । ततः कविराह-तत्रातिशयवार्तास्ति चेत्सत्यं कथय'
तत्र भोजः
चरम:-अन्तिमः । मृगयितुम्-अन्वेष्टुम् | सामपूर्वम्-
शाम्तवचनं पुरस्सरम् । वसति:-निवासः।
( ५९ ) इति । तदा योगी प्राह-'मोजो दिवं गतः' इति । ततः कविर्भूभौ निपत्य प्रलपति-'देव त्वां विनास्माकं क्षणमपि भूमौन स्थितिः। अतस्त्वत्समीपमहमागच्छामि,इति कालि- दासो बहुशो विलप्य चरमश्लोकं कृतवान्- अद्य धारा निराधारा निरालम्बा सरस्वती। पण्डिताः खण्डिताः सर्वे भोजराजे दिवं गते ॥१॥ एवं यदा कविना चरमश्लोक उक्तस्तदैव स योगी भूतले विसंज्ञः पपात । ततः कालिदासस्तथाविधं तमवलोक्य अयं भोज एव, इति निश्चित्य 'अहह महाराज, तत्र- भवताहं वञ्चितोऽस्मि' इत्यभिधाय झटिति तं श्लोकं प्रकारान्तरेण पपाठ- अद्य धारा सदाधारा सदालम्बा सरस्वती । पण्डिताः मण्डिताः सर्वे भोजराजे भुवि स्थिते ॥२॥ ततो भोजस्तमालिङ्गय प्रणम्य धारानगरं प्रति ययौ। - निरालम्बा-निराभया। विसंबा-मूतिः ।
" एकलव्यकथा अर्जुनस्य धनुर्वेदे परमं प्रावीण्यं वीक्ष्याचार्यों द्रोणः परां प्रीति गतस्तमुवाच । प्रयतिध्ये तथा कतुं पथा नान्यो धनुर्धरस्त्वत्समो लोके भविता,सत्यमेतद्ब्रवीमीति। द्रोणस्य कौशलं श्रुत्वा धनुर्वेदजिघृक्षवो राजानो राज- पुत्राश्च सहस्रशः समाजग्मुः । ततो निषादराजस्य हिरण्य- धनुषः सुत एकलव्यो द्रोणमभ्याजगाम । निषादोऽयमिति मत्वा द्रोणोऽर्जुनादीनामवेक्षया तमेकलव्यं नैव प्रतिजग्राह, द्रोण उवाच-एकलव्य, मम शिष्योऽसि, शरप्रयोगे च बलवत्तरः । गृहानेव निवर्तस्वेति । एवमुक्त एकलव्यो द्रोणस्य पादौ शिरसि कृत्वा वनमनुसम्प्राप्य द्रोणस्य मृण्मयी पूतिमा व्यदधात्, तस्यां चाचार्यवृत्तिमकल्पयत् । प्रावीण्यम्-पक्षताम् । प्रायतिध्ये-प्रयवं-करिष्यामि । धनुर्वेदजिघृक्षपा-धनुर्विद्यां पठितुमिच्छन्तः। अर्जुनादीना- मवेश्या-अर्जुनादीन्-राजपुत्रान् अवेक्ष्य ' नेते राजपुत्रों निषादजातिजमेनं स्वसहपाठिनमनुमंस्यन्ते' इति मनसि- कृत्य । प्रतिजग्राह-स्वीचकार । आचार्यवृत्तिम्-मावायें यादृशीवृत्ति:-प्रणामादिव्यवहार उचितः ताम् ।
( ६१ ) तां मूर्ति सदैव पूजयित्वा परया श्रद्धयोपेतो विमोक्षादान- सन्धाने परं लघुत्वमाप । एकदा द्रोणेनाभ्यनुज्ञाताः कौरवपाण्डवा मृगयां कर्तु निर्गताः। कश्चित् पुरुषः श्वानमादाय पाण्डवाननुजगाम । सवा चराभितस्ततो मलदिग्धाङ्गं कृष्णाजिनजटाधरमेकल व्यं समालक्ष्य तदन्तिके भषस्तस्थौ । तदा भषतस्तस्य शुनो मुखे स्वस्यास्त्रविद्यायां लाघवं दर्शयन् सप्त शरान् युगपत् मुमोच । स श्वा शरपूर्णास्यः पाण्डवाना- जगाम । तं दृष्ट्वा परं विस्मयमपत्रास्ते वनेऽन्विष्यानिशं शरानस्यन्तमेकलव्यं ददृशुः । विकृतदर्शनं तं नाम्पजा- नन्को भवानिति च पर्यपृच्छन् । एकलव्य उवाच । निषादाधिपतेः सुतं धनुर्वेदकृतश्रमं द्रोणशिष्यं मां वित्तेति। परया-उत्कृपया। विमोक्षा-वाणमोचनम् । आवानम्-तूणीराद्- बाणग्रहणम्, संधानम्-धनुर्गुणेन वाणस्य योजनम् । लघुत्वम्-क्षिप्रकारिताम्-हस्तलाघवम् | कृष्णाजिनम्-कृष्ण मृगस्य चर्मदिग्धम् व्याप्तम् । भषन्-बुकन् (भौंकता हुआ) अस्यन्तम्---क्षिपन्तम् | विकृतदर्शनम्-विकताकारम अभ्यजानन्-पर्यविन्धन् । वित-जानीत ।
( ६२ ) पाण्डवा वने वृत्तं सर्व द्रोणायाचख्युः । अर्जुनस्तु रहो द्रोणं समासाद्य प्रणयादब्रवीत् । अहं भवता पूर्वमुक्तो न मे शिष्यस्त्वद्विशिष्टो भविष्यतीति । अथ कस्मान्मद्विशिष्टो लोकादपि च बलीयाभिषादाधिपतेः सुतो भवतः शिष्योऽस्तीति । द्रोणो मुहूर्त चिन्तयित्वाऽर्जुनमादायकलव्यं गतः । जटिलं चीरवासस धनुष्पाणिमनिशं शरानस्यन्तमेकलव्यं ददर्श । एकलव्यस्तु द्रोणमायान्तमवलोक्य प्रत्युद्गम्य शिरसा प्रणम्यात्मानं शिष्यं निवेद्य द्रोणस्याग्रतःप्राञ्जलि- स्तस्थौ । द्रोण एकलव्यमुवाच । यदि मे शिष्योऽसि गुरु- दक्षिणा दीयतामिति । एकलव्यः पूत्यवदत्-किं प्रयच्छामि। भवानाज्ञापयतु । न हि किश्चिद् गुरवेऽदेयं ममेति । द्रोण- स्तमब्रवीत् । दक्षिणोऽङ्गुष्ठो दीयतामिति । द्रोणस्य दारुण- वचः श्रुत्वाऽऽत्मनः प्रतिज्ञा रक्षन्सत्यवादीनिषादाधिपतेः सुतोऽदीनमानसोऽङ्गुष्ठं छित्वा द्रोणाय प्राददात् । ततौ शरमकलव्योऽङ्गुलीभिरेव व्यकर्षत् । न च तथा शीघ्रोऽ- भवद्यथा पूर्वमासीत् जटिलम्-अटाधारिणम् | चीरघाससम्-जीर्ण- वस्त्रधारिणम् (चीथड़े पहने हुए) । प्रत्युद्गम्य- स्वागतं कर्तु प्रावित्रपदाम्यप्रे चलित्वा | निवेध-बोधायित्वा । प्राअलि-पसाबलिः।
कादम्बरी कथाया भूमिका आसीद्वेत्रवतीतटे विदिशा नाम काचित्पुरी मण्डनं भूमण्डलस्य पुरुहूतपुरस्पर्धिविभवा । तस्यां निजमुज- वीर्यविजितसकलारातिमण्डल आखण्डल इव श्रीमानराजा शूद्रकोऽभवत् । तस्यानन्यलम्यानां सुखानां पारदृश्वनो यूनोऽपि विषयपराङ्मुखं मनो बभूव । अथैकदा प्रतीहारी विनयावनम्रा व्यजिज्ञपत् । देव काचिच्चण्डालकन्यकाऽऽश्व- विहं शुकमादाय देवदर्शनलालसा तमुपायनीकर्तु देवपादमूलमागता । श्रुत्वा देवः पूमाणामिति । क्षणं विमृश्य मन्त्रिणां मुखमालोक्य को दोषः, प्रविशत्विति समादिदेश । राज्ञानुज्ञाता सा . चण्डालकन्यका सह केनापि हस्तस्थसशुकस्वर्णपञ्जरेण चण्डालस्थविरेण नृपाङ्गणं प्रविवेश । तस्यास्तदद्भुतं रूपं विलोक्य नृपतिः परं विस्मयं ययौ । सा च प्रविश्य महीपालमनाकुलेन चक्षुषा वक्ष्यि पूगल्भवनितेव पूणनाम । ततः पूणतकन्धरः स्थविरोऽब्रवीत् । अयं वैशम्पायननामा शुकोऽद्भुतं रत्नम् । पुरुहूतपुरम्-इन्द्रनगरम्-अमरावती। आखणला- इद्रः। पारहश्वन:-पारदर्शिनः । प्रतीहारी-द्वाररक्षिका | स्थविर-वृद्धः ।
( ६४ ) सकल वनतलरतानां चोदधिरिवैकभाजनं देवः । इति स्वामिदुहित्राऽयं शुक आदरेणोपाहतः । विहगं परिगृह्य प्रसादः क्रियतामिति । एवमुक्त्वा राज्ञोऽप्रतो मणिकुट्टिमे पञ्जरं विनिधाय तं पूणभ्य सपूश्रयमपासरत् स्थविरः । प्रतीहार्या विकृतद्वारसम्पुटात्पञ्जराद्विहङ्गमो निर्ययो । स दक्षिणं पादमुत्क्षिप्य जयशब्दमुदीर्य च प्रयुक्तवेदमन्त्रा- शीरिमामार्यामपठत् । स्तनयुगमनुस्नातं समीपतरवर्ति हृदयशोकानेः । चरति विमुक्ताहारं व्रतमिव भवतो रिपुस्त्रीणाम् ।। इति । तामाकर्ण्य विस्मयोत्फुल्ललोचनो महीपाल: कुमारपालनामानं मुख्यसचिवमब्रवीत् । ईदृशमाश्चर्य भवद्भिः कुत्रापि दृष्टं श्रृंत वेति । अमात्य उवाच । देव, पूर्वसंस्कारोपजनिता एतादृशा अतिशया प्राणिनां भवन्त्येव । कोऽत्र विस्मय इति । एवमुक्तवति सचिव वारगम्भीरो मध्याहपटहध्वनिरुदभूत् । अस्याश्चण्डाल- कन्यकायाः सुखायावसथादिकं बहिः प्रकल्प्यतामयं च उपाहता-मानीतः । मणिकुहिम-मणिरचितवनभूमौ । समभयम्-सषिमयम् । भतिशया:-विशेषाः। तार-तीनः । भाषसथादिकम्-निवासादिकम्।
६५ ) 'विहङ्गमयरोऽम्पन्तरं प्रवेश्यतामिति प्रतीहारीमादिश्य सेवार्थमामतं राजन्यचक्रं विसृज्य राजा सभामौत् । ततः कृताल्पव्यायामः स्वात्वा देवपूजां विधाय भुक्त्वा च शय्यागृहं ययौ । पर्यके मुहर्तमात्रं स्थित्वा शुकमन्तः- पुरविश्रान्तं कञ्चुकिनाऽऽनाययामास । कचिद्भवता- ऽऽस्वादितोऽभिमताहार इत्युक्त्वा कौतुकाक्षिप्तहदयः पप्रच्छ । वैशम्पायन, को नु त्वं, क जातः, कुत इदं ते शाखपाटवं, केन वा भवतो विप्रजनोचितं नाम कृतं, कथे ते चण्डालजनसम्पर्कोऽभूत्कथं वेहागम इत्यात्मनो वृत्त कास्न्येन वक्तुमर्हसीति । एवं क्षितिपेन सबहुमानं पृष्टः शुक आत्मवृत्तान्तं वक्तुं प्रचक्रमे । देव, भवतः श्रुतिपथमागतैव विन्ध्याटवी, यदेकदेशे कण्डूलगण्डेभदलितद्रुमे दण्डकारण्ये ससीतौ रामलक्ष्मणा- बुषितौ । यत्र चागस्त्यमुनेः पावनमाश्रमपदं वर्तते । यस्यो- पकण्ठे पुण्यसलिलं पम्पाख्यं सरोऽस्ति । तस्य पश्चिमे तीरे जीर्णः शाल्मलिपादप आरोहपरिणाहाभ्यां व्याप्तव्यो- मदिगन्तरो वर्तते । तस्मिन् कृतकुलायानि विहङ्गमसह- औज्यत्-तत्याज । कण्डलम्-खयुक्तम् । इभानस्ती । मारोहपरिणाहाभ्याम्-उच्चताविस्ताराभ्याम् । व्योम- माकाशम् । कुलाय: मीरा (घासला)।
६६ ) स्राणि निवसन्ति । दिवा यत्र कुत्रापि प्राणयात्रा निर्वर्त्य रात्रौ स्वनीडेषु सुखं शेरते । तस्मिमेव वृक्षे जायया सह वर्तमानस्य परिणतवयसः पितुरहमेवैकः सूनुरभवम् । तीब्रां प्रसववेदनां सोढुमसमर्था मदीया जननी पञ्चत्वं गता | मत्तातो जायावियोगदग्धोऽपि पुत्रस्य कृते शोक-- मुत्सृज्य मत्प्राणधारणे सयनो बभूव । प्रेम्णाऽऽत्मनः प्राणवृत्तयेऽपि बहिर्गन्तुंन मतिं चक्रे । मां वक्षसि निधाय दिवानिशं नीड एवास्त । अतिक्रामति काले,किश्चिदुद्भिभप- क्षतौ मयि सम्भ्रान्तमृगपक्षिकुलश्रुतः कलकलस्तस्मिन- रण्येऽकस्मादेव समुद्भूतः । ततस्तातस्योरसः शिरोधरा किश्चिदुबमय्य कुतूहलवशाचक्षुर्दिन निक्षिप्तवानहम् । असंख्यातकिरातपरिवारितं शवरसेनान्यं मृगयारसादा- यान्तमपश्यम् । स सेनापतिगयाजनितश्रमः पम्पास- रस्तीरे शादले क्षणं विश्रभ्य पीत्वाऽपः बालमृणालिकाः प्राश्य पुलिन्दैः सहाभिमतं देशं जगाम । एको जरत्पु- प्राणयात्राम-भोजनम् । निर्वर्त्य-कत्वा | पक्षतिः- पक्षमूलम् ( Wings)| शिरोधराम-प्रीधाम् | किराता:- मिल्ला । शबरेसनाम्यम्-भिल्लानां सेनापतिम् । शाहले हरितवणाच्छादिते भूमागे (green) प्राश्य-भुक्त्वा । पुम्लिदै:- ( ६७ ) लिन्दस्त्वाजातपिशितलाभो विलम्ग्य शाल्मलौ दृष्टि चिक्षेप । तस्य दुरारोहस्य तरोरारोहणे यतं कृत्वा नीड- निवासिनः शुकान्हत्वा भूमावपातयत् । क्रमेण स दुराचार- स्तातस्यापि शिरोधरां बभब्ज । विगतजीवितं तातं चा- धोऽक्षिपत् । तदा मम चेतसि न शोको नान्यद्वा किश्चि- दासीदेकं सहजातं भयं विहाय । ततोऽहं पितुरुत्सङ्गा- द्विनिर्गत्य शीर्णानां पर्णानां राशिं तूर्णमाविशम् । स पापोऽपि शाल्मलेरवरुह्य मूलवर्तिनो गतासूञ् शुकानादा- यागच्छत् । अहं विधिवशाज्जीर्णपर्णसमानवर्णत्वात्तेन नालक्षितः । तस्मिन्दरमतिकान्ते मां पिपासा पर्यबाधत । उड्डयनसामर्थ्याभावात्पयामेव यथाकथंचित्पम्पातीरं गन्तुमैच्छम् । तमेव पापपुलिन्दं पदे पदे शङ्कमान इतस्त- तोऽनभ्यासात्पतन्हा तातेति शोचन्कण्ठान्तर्वतिभिः प्राणैरायास्यमानोऽहमतिष्ठम् । तस्मात्सरसो नातिदूरे तपसां निधेर्जावाले म मुनेराश्रमोऽस्ति । तस्य सुतो हारीतनामा तस्मिन्सरसि स्नातुमागतो मां तदवस्थं विलोक्य जातदयः केनापि पापेन कुलायाच्छुकः पातित इत्युक्त्वा मां करेऽगृहात् कतिचिच्च पयोबिन्दूनपाययत् । शप।पिशितम्-मांसम् । सहबातम्-स्वाभाविकम् ।
( ६८ ) छवाहिकम हारीतो मां पितुराश्रममनयद । तत्र भगवन्तं जामलिं महारमभिस्तपोवनैः परिहत जराधलितमूर्धान वेजसा ज्वलन्त साक्षादिव पितामहमद्राक्षम् । स त्रिकाल- दर्शी भगवान्मां क्षणं वीक्ष्य स्मयमान इवाब्रवीत् । स्वस्यैवाबिनयस्य फलमनेनानुभ्यत इति । - चन्द्राडवैशम्पायनयोर्जन्मवाल्यकथा अथावन्तिषु गुणसम्पदा निधिविभूतिनिर्जितल- कालकामरावती नगर्युज्जयिनी नाम । तस्यां भरतभगो- रथोपमस्तारापीड इति पृथिवीपतित्रभूव । तस्यामात्यः प्रज्ञाविभवविहसितदेवगुरुः शुकनासो नाम ब्रामण आ- सीत् । स राजा नाम्नैव निर्भिन्नसकलारातिकुल एकवि- क्रमाक्रान्तभुवनतलो जहासेव वासुदेवं विक्रमत्रयाक्रान्त- भुवनम् । तस्मिन्प्रज्ञाशालिनि मन्त्रिणि राज्यमारं चिक्षेप । समग्राणि सुखान्युपभुजानोऽपि सुतमुखालोकनसमुद्र- वमेवैकं सुखं नान्वभवत् । यथा यथा कालेनास्य नवं वयो व्यतीयाय तथा तथा निरपत्यतया शोकोऽवर्धत । कृताहिका-विदितसंध्यावन्दनादिः। अलका कुबेरपुरी। देवगुरु-गृहस्पतिः।
।
(६९)
अन्तःपुरकदम्बके तस्य मुख्या राजी विसासवती नामा-
सीत् । सा भर्तुरनुज्ञया गौरीमर्चयितुं देवतायतनमगच्छत् ।
तत्र च पुराणे वाध्यमानेऽपुत्रस्य कुतो लोकाः शुभा इति
सुश्राव । तच्छ्रुत्वा कामपि वेदनां गता । खमवनं
निवृत्ता वस्त्रेण मुखमावृत्य भूमावुपविष्टा रुरोद । सखीभिः
प्राय॑मानापि नाकरोदाहारं नापि विरराम रोदनात् ।
परिजनात्तस्या अवस्थां निशम्य राजा तां सान्त्वयबाह
स। प्रिये किमिदमारब्धं त्वया, किमकारणं रुद्यत इति ।
यदा सा किश्चिन्नोवाच तदा नृपतिः सखीभिः पारगृही-
तार्थः कृतः । राजापि ततः शोकपरायणो बभूव । महिषी
सान्त्वयनराजा सगद्गदं जगाद । देवि, इयमेव चिन्ता
मामपि सुचिरं दुनोति । महदपि राज्यं न मे सौख्यमावहति।
विफलं मम जीवितम् । न खलु क्यमनुप्राधा देवतानाम् ।
कुतोऽसाकामियती भाग्यसम्पद्यत् तवोत्सङ्गं पुत्रपूर्ण
द्रक्ष्याम इति । एवं बाष्पाकुललोचने राज्ञि विलपति
शुकनासो वाता श्रुत्वा सत्वरमाययौ । तस्यापि गृहिणी
रादिति स्मानपत्यतया । किं तु स्वामिदुःखापनयनाय
धीरमभ्यधात् । क धीरप्रकृतिर्देवः, केयं विक्लवचित्तता ।
भवादृशां हृदये शोको नैव पदं लभते । आधीयतां धैर्ये
परिगृहीतार्थ:-सातार्थः।
। ७. ) धर्मे च धीः। धर्ममूलं हि सर्वम् । विप्रेभ्यो वसु दयिताम्, देवताःपूज्यन्ताम् । वापीकूतपडागादीनि खन्यन्तामिति । इदं शुकनासवचः श्रुत्वा विगतशोकौ तौ दम्पती स्वाः क्रिया निवर्तयामासतुः शुकनासोक्तं यथावदन्वतिष्ठद्राजा। एकदा राजा स्वमे विलासक्त्या वदनं प्रविशन्तं निशाक- रमद्राक्षीत् । शुकनासश्च स्वगृहिणी मनोरमां सपुण्डरीकाङ्कां व्यलोकयत् । अन्येारुदिते भानुमण्डले तं स्वमं राजा शुकनासाय शशंस । सोभिदधे । देव सम्पबास्ते मना- रथाः। पूर्णेन्दुसुन्दरं पुत्रमाचिरादेव देवी सोष्यत इति । केषुचिदिनेष्वतीतेषु विलासवती गर्भमधत्त । दशमे मासि शुभायां वेलायां देवी सुतमसूत । राजा शुकनासेन सहौत्सुक्यात्सूतिकावासं गत्वा तत्र नयनानन्दकरं कुमारसुदयरागाई नवमिन्दोविम्बमिव ददर्श । अत्रान्तरे मन्त्रिगृहादागत्य द्वाररक्षकः शुकनासगृहे पुत्रजन्मोत्सव- मकथयत्। तच्छुत्वा प्रमोदनिर्भरो महीपतिः शुकनासमा- लिङ्गय तस्योत्तरीयं पूर्णपात्रमिति स्वयं जग्राहोवाच च । पश्येदं विधरानुकूल्यं यत्सुखस्योपरि सुखमपरं विहित- लोध्यने-उत्पादयिष्यति । श्चिन्हम् । पूर्णपात्रम्-हर्षप्रेम्णो- ( ७१ ) मिति । ततोऽनपेक्षितनीचोच्चव्यवहारोऽनवरतवादित- -सूर्यादिमङ्गलवायो महोत्सवः प्रववृते । जातकर्मादौ कृते विलासवत्यां स्नातायां प्रशस्तऽहनि महीपतिः स्नात्वा द्विजोत्तमान्सुवर्णलक्षण पूजयित्वा परिजने भूषणानि वासांसि च वर्षन् दैवज्ञैरनुज्ञातो बालस्य स्वमसदृश चन्द्रापीड इति नाम निर्ममे । शुकनासोऽपि स्वसुतस्य द्विजजनोचितं वैशम्पायन इति नाम चक्रे । चन्द्रापीडः क्रमणालक्ष्यदन्तमुकुलाननेनाव्यक्तवर्णैरालापैश्च पित्रोर्मनी जहार | समाप्तप्राये षष्ठे वर्षे राजा चन्द्रापीडस्य कृते नगराबहिर्विद्यागृहमकारयत्तत्र च तं विद्याधिगमाय निवेश्य धनुर्वेदविशारदान्दण्डनीत्यादिनिपुणानाचार्यान्य र्यकल्पयत् । शुकनासोऽपि यथाविधि पुत्रमुपनीय राज- पुत्रानुगं चक्रे । गुरुकुले स्थितं पुत्रं द्रष्टुं राजा तारा- पीडः सह देव्या वारंवारमगच्छत् । देव्या विसवत्या प्रार्थ्यमानोऽपि तं स्वगृहं कदापि नैवानाययत् । पूर्णे षोडशे वर्षे कुशाग्रधी राजपुत्रः सर्वशास्त्रार्थतत्वज्ञोऽनेक- भाषाकोविदः सकलकलानिपुणो व्यायामसेवनेन च प्राप्तसर्वाङ्गसौष्ठवः प्रलम्बबाहुः पीनांसः पृथुवधास्तन्दरा सजात:। पर्यकल्पयत्-ययूयुजत् । पीमांस:-स्थूलस्कम्धः ।
( ७२ ) शुकनाससुतस्तस्य प्रतिबिम्बमिवाभवद्विमा महाप्रमाणशरी- रम् । राजा पुत्रं कृतविधं पुद्ध्वा गुरुवेश्मन आनेतुमुपचक्रमे । वाहिनीपति बलाहकनामानं राजपुत्रसहस्रपरिवृतं शुभगुणा- तिशयितीचैःश्रवस्केनेन्द्रायुधनामावाजिनोपेतं प्राहिणोत् । बलाहको विद्यागृहं गत्वा राजपुत्रं सादरं प्रणम्य राजाज्ञा- मुक्त्वा तसै सनामग्रहणं राजपुत्रान्न्यवदेवत । पर्याणर- त्मज्योतिर्भिनितन्द्रायुधप्रभमिन्द्रायुधं प्रवेश्य बलाहका प्राह स्म-पारसीकाधिपतिना देवस्योषायनीकृतमिमम- श्वमारोहेति । तं तुरङ्गमं दृष्ट्वा परं विस्मयमापनश्चन्द्रापीडो- ऽचिन्तयत् । नैष सत्यं तुरङ्गमः । कोऽपि महात्मा शापवशात्तुरङ्गतां प्राप्त इति । बलाहकसमर्पितकुसुमत्र- गलकारदुकूलकृतमण्डनश्चन्द्रापीडो गुरूनामन्त्र्य ब्राह्मणै- देवाशीम्तुरगाधिरूढेन वैशम्पायनेन सहेन्द्रायुधमारुह्य विद्यागृहामिर्जगाम । शनैर्नगरी च प्रविवेश । नृपभवनहारं प्राप्य तुरगादवतीर्य हर्षवाष्पाचक्षुः पितुश्चरणौ ववन्दे । राजा तमालिङ्गय शिरस्युपाघ्रायोत्साझे निषेशमितुमैच्छश्चन्द्रापीडस्तु भूमावेवोपाविशत् । ततो कृताधम्-अधीतविद्यम् । पर्याणम्-अश्वपीठास्तरणम् (नि) । उचैःश्रवः-इन्द्रस्याश्वः। गुरुन् भामय- गुरूणामनुशामाधिगम्य ।
( ७३ ) राज्ञा विसृष्टो मातरं विलासपती सर्वांण्यन्तःपुराणि शुक- नासं तत्पत्नी मनोरमांच प्रणनाम । सर्वत्रावासाशी- अन्द्रापीडः सर्वोपकरणोपेतं पित्रा तदर्थे पूर्वमेव प्रकल्पित कुमारभवनं जगाम । शुकनासस्योपदेशः कियत्स्वपि दिनेष्वतीतेषु राजा चन्द्रापीडस्य यौव- राज्याभिषेके मतिं चकार । सनिकृष्टाभिषेकं दर्शनार्थमुपागतं चन्द्रापीडं शुकनास उवाच-तात, विज्ञातशास्त्रस्य विनयाचारशालिनो विदितवेदितव्यस्य स्थिरमतस्तव नाल्पमप्युपदेष्टव्यमस्ति । किं तु लोकोशरा लक्ष्मीनयना- भिरामं वपुर्नवं वयः प्रकृष्टा शक्तिरिति महतीयमनर्थप- रम्परा । एकैकमप्येतेषां सर्वाविनयानां स्थानं किं पुनस्तेषां समवायः । लक्ष्मी म परं पुंसां चेतोविकार- कारणम् । हृदयानुप्रवेशिभिधूतैर्मुखमधुभिरापातरमणीयेषु विषयेषु राजानः प्रयन्ते । तस्मात्कुमार तथा प्रयतेथाः यौवराज्यम्-युवराजपदम् । विदितवेदितव्यस्य-छातक्षात व्यस्य । लोकोत्तरा-अद्भुता । मापातरमणीयेषु-बाबदृष्टया मनोहरेषु । वस्तुतः परिणामे दुःखदेषु। अभिरामम्-मपीयम्। समवाया-समुदायः।
( ७४ )
यथा धून वञ्च्यसे,साधुभिर्न निन्यसे,कामैश्च न प्रबाध्यसे ।
कामं भवान् प्रकृत्यैव धीरः पित्रा च महता प्रयत्नेन
समारोपितसंस्कारः । तथापि भवद्गुणसम्पत्सन्तोष एव
मां मुखरीकरोति । अयमेव कालस्तवोपदेशस्य । विरला
हि राज्ञामुपदेष्टारः । पित्रा निवेशितां राज्यधुरां सम्यगु-
द्वहेति । ततः पुण्येऽति स्नातं विधिवत्कृतमङ्गलं पुत्रं
तारापीडो यौवराज्येऽभ्यषिञ्चत् ।
दमयन्ती-स्वयंवरः
निषधेषु वीरसेनसुतो धर्मार्थकोविदो रूपधानिष्टगुणे-
रुपपनो नलो नाम महीपतिरासीत् । देवेन्द्र इव देवानां
स सर्वेषां मनुजेन्द्राणां मूतिष्ठत् । तस्य द्यूतमतीव
प्रियमासीत् । तथैव विदर्भेषु भीमपराक्रमोप्रजाः प्रजा-
कामः सर्वगुणोपेतो भीमो नाम नृपो बभूव । तेन नृपेण
महर्षिनारदः सयत्नं सत्कृतस्तोषितश्च । प्रजैककामाय
मुखरीकरोति-वक्तुं प्रेरयति । पुण्ये-पवित्र । अप्रजा:-
सन्तानहेत:
( ७५ ) तस्मै नारदः प्रसनः सन् वरं ददो-तव महिषी दमयन्ती नाम कन्यारत्नं दम दान्तं दमनं च त्रीनुदारान्कुमाराव् जनयिष्यतीति । दमयन्ती गच्छता कालेन बाल्यात्परां दशामध्युवास । तदा साऽनवद्याङ्गी सर्वाभरणभूषिता सखीनां मध्ये विद्युदिवाशोभत । तादृशी नयनाभिरामा बाला न मानुषेषु यक्षेषु देवेवपि वा दृष्टपूर्वा श्रुतपूर्वा वा । नलोऽपि भुवि रूपेणातुलेनापरः कन्दर्प इवाभवत् । नलस्य समीपे जना दमयन्त्या रूपगुणादिसम्पदं कुतूह- लाद् भृशं प्रशशंसुः । तेन च नलस्य दमयन्त्यामनुराग- स्तथा ववृधे यथा हृद्गतं कामं धारयितुमशक्नुवन्सोऽन्तः पुरसमीपस्थे वन एकाक्येव रहोऽवसत् । एकदा सुवर्णपक्षधरान्हंसान् वने विचरतो दृष्ट्वा तेषामेकं स जग्राह । खगो नलं व्याजहार-" राजन् ! अक्रूरमतिः खगोऽहं, न त्वया हन्तव्यः, यदि मम प्रा- मानक्षसि तव प्रियं सम्पादयिष्यामि । दमयन्त्याः सकाशे त्वां तथा प्रशंसिष्यामि, यथा त्वदन्यं पुरुषं सा महिषी- राशी। बाल्यात् परां दशाम्-युवावस्थाम् । मनवयम्-सुन्दरम् व्याजहार-उवाच ।
( ७६ ) न कदापि मंस्थते तवैव च भार्या भविष्यसीति" । एवमुक्तो राजा हंसमुत्ससजे । सर्वे हंसाः समुत्पत्य विदन्गित्वा दमयन्तीमुपसृत्य भूमौ निपेतुः । ससखी दमयन्ती प्रेक्ष्य तेषामद्भुतं रूपं विस्मिता तान्ग्रहीतुमैच्छत् । हंसास्तु दमयन्त्या सखीभिश्चानुगम्यमानाः सर्वतः प्रमदावने विससृपुः । ये हंसमन्वधावद्दमयन्ती स मानुष्या गिरा तामुवाच-"दमयन्ति ! निषधेषु नलो नाम गुणराशिर- श्विनोस्तुल्या रूपेण शासिता प्रजानां मनुरिव भूपतिर्व- तते । तस्य यदि त्वं भार्या भवस्तर्हि सुदति ! तव जन्म सफलं भवेत् । नरेषुनलो वरस्त्वं च स्त्रीणां रत्नम् । यदि युवयोः सङ्गमो भवेत् तर्हि स रत्नेन काञ्चनस्येव सर्वेषां प्रतिये कल्पेतेति" । एवमुक्ता दमयन्ती हंसमादिशत्- त्वमप्यतदेव नलं वदेति । हंसः सकलमुदन्तं नैषधाय निवेदयांचक्रे ! हंसवचनादारभ्य दमयन्ती स्वास्थ्यं न लेभे। नल- बद्धपरमानुरागा सा विवर्णवदना कृशा तत्क्षणं बभूव । तस्यास्तामवस्थां सखीजनो राज्ञे न्यवेदयत् । विदर्भपतिः कन्यां प्राप्तयौवनां दृष्ट्वा दमयन्त्याः स्वयंवरं कार्यममन्यत। इंसवचनादारभ्य-हंसोक्तिश्रवणानन्तरम् । सुदति- शोभनदन्ते । उदम्तम्-वृत्तान्तम् ।।
( ७७ ) तेन सर्वेभ्यो नृपेन्यो दमयन्तीस्वयंवरवार्ताख्यापनार्थ दूता विसृष्टाः । हस्त्वश्वस्थपोषण वसुधां पूरयन्तो वि- चित्रमाल्यामरणैर्विविधायुधधारिमिर्बलैरुपेता राजानो द- मयन्त्या स्वयंवरममिजग्मुः भीमेन कृतामातिथेयी सरिक्रयां अत्रान्तरे महाप्राझी महर्षिसत्तमौ देवराजस्य मघोनो भवनं गतौ नारदपर्वतौ तेन सुपूजितौ तस्मा ऊचतुः । मघवन् ! विदर्भराजस्य दुहिता दमयन्ती योषिद्वग स्वयं- वरमास्थास्यति । तां लोकस्य ललामभूतां महीक्षितः प्रार्थयन्त इति । अनवसितवचने नारदेऽग्न्यादयो लोक- पालां देवराजसभामागत्य नारदवचो निशम्याब्रुवन् । वयमपि तत्र गच्छाम इति । सेन्द्रा लोकपाला विद- भानभिप्रतस्थिरे । नलोऽपि दमयन्ती भ्यायन्विदर्भा- नम्यगच्छत् । लोकपाला रूपेण रविमिव भ्राजमानं नलं दृष्ट्वा तस्य रूपसपम्दा विस्मिता अन्तरिक्षे विमानानि विष्टभ्य नभस्तलादवतीर्याब्रुवन्-भोः सत्यवत नल, आतिथयाम्-अतिथियोग्याम् । मघोनः-इन्द्रस्य । पर्वतः-पर्वतनामक ऋषिः । ललामभूताम्-मनोहराम् । अनवसितम्-असमाप्तम् । विष्भ्य-माश्रित्य ।
( ७८ ) तो भूत्वास्माकं साहाय्यक कुर्विति । करिष्य इति तेभ्यः प्रतिश्रुत्य ताबला पर्यपृच्छत् । के भवन्तः, कस्य दौत्यं मया कार्य, कस्मिन्कर्मण्यहं नियुक्त इति । मघवा प्रत्यभाषत । अस्मान्दमयन्त्याः कृते समागतानमराभि- बोध । इंद्रो वरुणोऽग्निर्यमश्च त्वां दिदृक्षवः समागताः तेषामेकतमं पति वरयस्वेति दमयन्त्यै निवेदयस्वेति । नलः प्राञ्जलिः प्रत्युवाच । यत्र बद्धभावा यूयं तत्रैव ममानुराग इति मां प्रेषयितुं नाहथेति । शचीपतिः पुनरब्रवीत् । करिष्य इति पूर्व प्रतिश्रुत्य किमर्थमधुना स्ववचनं न करोषि । ब्रज विलम्ब मा कु- विति । एवं देवैरुक्तो नलोजीत् । सुरक्षितानि राजसद- नानि प्रवेष्टुमहं कथं शक्ष्यामीति । अस्मत्प्रभावेण शक्ष्य- सीति शक्र उवाच। तथेत्युक्त्वा नलो दमयन्त्या निवेशं जगाम । तत्र वपुषा देदीप्यमानां सुकुमाराङ्गी तनुमध्यां वदनकान्त्या चन्द्रमसमपि प्रत्यादिशन्ती सखीगणसमावृतां तां दृष्ट्वा प्राथलि:-प्रक्षालिं बम्वा । पद्धभावा-कुतानुरागाः । शका-इन्द्र | तनुमभ्याम् शकटिम् । प्रत्यादिशम्तीम्- प्रत्याचक्षाणामा ( ७९ ) तस्य कामो ववधे,सत्यनिष्ठस्तु कथं कथमपि तमधारयन् । नलमप्रतिमरूपं दृष्ट्वा सख्यो विस्मिताः किश्चिदपि व्याहतु- मक्षमा अभवन् । दमयन्ती तु स्मितपूर्व नलमभ्यभाषत । सर्वानवद्याङ्ग वीर, कस्त्वं कुतः समागतः कथं चात्रालक्षि- तस्ते प्रवेशः । इदं वेश्म सुरक्षितं वर्तते राजा चोप्रशासन इति । नलःप्रत्युवाच । कल्याण,देवानां दूतं मां नलं विद्धि। तेषामेव प्रभावणाहमलक्षितोऽत्र प्रविष्टः । शक्रा- ग्निवरुणयमानामेकतमं पतिं वरयेति । दमयन्ती देवेभ्यो नमस्कृत्य प्रहस्याब्रवीत् । राजन्, यत्तुभ्यं रोचते तत्कुरु किं करवाणि । अहं यच्चान्यत् किश्चिन्ममास्ति तच सर्व तव चरणेऽर्पितं, तवैव कृते मयैते नृपाः संनिपातिताः । त्वयि बद्धानुरागां मां यदि प्रत्याख्यास्यसि तर्हि विष- मग्नि जलं रज्जुं वास्थास्य इति । नलः प्रत्युवाच येषामहं पादरजसाऽपि न तुल्यस्तेषां लोकपालानां प्रणयं विहत्य कथं मां मानुषं पतिमिच्छसि । देवानां विप्रियं कुर्वनरो मृत्यु- मृच्छति । तस्मात्सुरोत्तमान्वरयस्वेति । शोकजलाप्लुतनेत्रा दमयन्ती नैषधमवोचत् ! भोः सत्यवत नल, सर्वेभ्यो सनिपातितास्वयंवरे समिधातुमामन्त्रितः । प्रत्या- स्थास्यसि-निषेधिष्यासि । विप्रियम्-विरुद्धम् ।
( ८० ) देवेभ्यो नमस्कृत्याहं त्वामेव भारं वृण इति । राजा तामुवाच । चारुहासिनि, देवानां दौत्येनात्रागत्याहं स्वार्थमेव सम्पादयितुं नोत्सह इति । ततो दमयन्ती बाष्पाकुलां वाचं प्रत्याहरन्ती स्मित्वा राजानमब्रवीत् । नरेश्वर, इन्द्रपुरोगमा देवा आयान्तु तेषामेव सन्निधा- वहं त्वां वरयिष्ये । एवं कृते न ते कोऽपि दोषो भवि- व्यतीति । ततो नलो देवानाजगाम । ते च तं सर्वमेव वृत्तान्तमपृच्छन् । स च सर्व यथावृत्तं तेभ्यो न्यवेदयत् । पुण्येऽहनि भीमो महीपालान्स्वयंवर आजुहाव । नृपाः कनकस्तम्भरुचिर तोरणेन विराजितं रक्षं प्रविश्य विविधष्वासनेष्वासत । देवैः सह नलोऽपि गजसमिति प्रविवेश । ततः शुभानना राज्ञां चचूंषि मनांसि च प्रभया मुष्णती दमयन्ती रङ्गं प्राविशत् । राज्ञां नामसु सँकीत्य- मानेषु भैमी नलतुल्याकारान्पश्च पुरुषान्ददर्श · वयोवेश- रुपैस्तुल्यानां तेषां यं यं ददर्श तं तं नलं मेने । प्राञ्जलि- भूत्वा वेपमानदमब्रवीत् । यदि मनसा वचसा चाह प्रस्याहरन्ती-निरुग्धाना । रजम्-स्वयंवरभूमिम् । सोर- णेन विराजितम् -मण्डपद्वारेण सुशोभितम् ( adorned with ardhways मेहराबदार (रास्तों से सजाया हुआ) मुण्यातील ( ८१ ) नातिचरामि तर्हि देवा नलं में भर्तारं प्रदिशत, स्वं रूपच धारयध्वं येनाहं पुण्यश्लोकं नलमभिजानीयामिति । दमयन्त्यास्तत्करुणं परिदेवनं श्रुत्वा तस्याश्च नैषधे परममनुरागं दृष्ट्वा देवाः स्वानि चिह्वान्यधारयन् । सा सर्वान् विबुधानस्वेदानम्लानस्रजो रजोहीनान् दृष्ट्वा नलं च तद्विपरीतं दृष्ट्वा विलअमाना तस्य वस्त्रान्तं जग्राह परमशोभनां सजं च तस्य स्कन्धेऽसृजत् । नलः प्रहृष्टान्तरात्मा दमयन्तीमुवाच । कल्याणनि, प्रार्थयमा- नानां देवानामपि समिधौ यत्त्वं मामेव भारं वरयसे तस्माद्यावजीवं तव वचने रतोऽहं भवेयमिति । नलो दमयन्ती च देवाशरणं जग्मतुः। चत्वारो लोकपाला नलायाष्टौ वरान्दत्वा त्रिदिवं गताः । पार्थिवेन्द्रेषु गतेषु भीमो नलस्य दमयन्त्याश्च विवाहं कारयामास । नैषधस्तत्र कानिचिदिनान्युषित्वा वैदर्भेण समनुज्ञातः स्वं नगर जगाम । राजा दमयन्त्यासह विविधान् कामान् भुञ्जानःप्रजा धर्मेण परिपालयस्ता अरञ्जयत् । इन्द्रसेनं सुतमिन्द्रसेना नाम कन्यां च दमयन्त्यां जनयामास । भतिचरामि-उल्लास्यामि । परिदेवनम्-विलापम् ।
विभीषणस्य शिवा ततो विनिद्रं कृतदेवतार्चमाविष्कृताङ्गप्रतिकर्मरम्यं दृष्टयैव चित्तप्रशमं किरन्तं विभीषणं मातोवाच । आयुष्मन् ! नाकसदामानन्दनस्त्वमतिमदोद्धतस्य जगन्ति प्रबाधमा- नस्य सोदरस्य विषस्यामृतमिव तूर्णं प्रशान्ति कुरुष्व । तथा कुर्या येन रावणो विषादनाहारपरीतमूर्ति सीता जहाति । कुलानन्द ! यावदसौ रावणो भयङ्करो विषस्य पिण्ड इव हरेण न संग्रस्यते पुरुषोत्तमेन, तावद्यवस्व । जनस्थाननिवासिनः खरदूषणादयो राक्षसा निहताः, लकापुरी जितभटोत्खातमा च विहिता, समानि च दग्धानि, तमादित्थं गते सति यद्वन्धुना विधेयं तस्मि- न्घटस्वेति । सीताप्रत्यर्पणे पूर्वमेव कृतमतिः स विभीषण एवमतिमात्रं शुभयैव बुद्धथा मात्रा प्रेर्यमाणश्चिरं ध्यान- परोऽभूत् । ततो विभीषणो निशाचरैः परिरक्षितं रावण- मन्दिरस्य द्वारं ययौ । प्रतीहारेण दूरादेव नतोऽनावेदित- प्रतिकर्म-प्रसाधनम्-अलारणम् । नाकसदाम्-देवता- नाम् । जनस्थानम्-दण्डकारण्यम् । उत्खातद्रुमा-उत्पादित ( ८३ ). संप्रविष्टो निशाचरैः सगौरवं दसपथो विभीषणो भ्रातरं सिंहासनाधिरूढं दृष्टवान् । स विहितप्रणामः सिंहासने चारं पाहुं निक्षिप्य किरैः कल्पितं पीठमध्यास्त । ततो दशास्यः पाणि प्रसार्य समिति बभाष । शक्ती- तिनाम्नातिभिर्बुद्धिमद्भिरूपायविद्भिर्युष्मद्विधः सार्ध सुम- त्रितानि कार्याणि सिध्यन्ति । बालिखरादिनाशे सत्यु- पेक्षिते सागरमुत्तितीषौ द्विषां रामसुग्रीवादीनां सैन्ये यद्युक्तं तद्बतेति । प्रहस्तप्रमुखा यातुधाना भुजांसवक्ष:- स्थलकार्मुकासीन्दाः शूलानि च परामृशन्तो दशास्य प्रोचुः-अखण्ड्यमानमाखण्डलं परिखण्ड्योदणदण्डस्त्वं हे नृपश्रेष्ठ! नराभियोग गुरुत्वं किं नयसि । नियत्स्फुलि- ङ्गाकुलधूमराशिं भानुं कि भूमौ पिनषाम । किं घोरघो- ऽस्तु, अथवा क्षितिरन्तरिक्षे भवतु । का वा गणना सराघवेषु वानरेषु येऽस्माकं मध्यात्कस्यचिदपि प्रात- राशाय नालम् । त्वदीयैर्भूत्यैः समोधतश्चापल्ययुक्तस्य प्राम्नातिभिः कृताभ्यास:-पण्डितैः। परामृशन्त:-स्पृशतः। पिनषाम-वर्णयाम । प्रातराय-कल्यम् (कलेवा) ( ८४ ) हनूमतो बालधिभाक्कशानुर्लयामधाक्षीदिति । अनन्तरं, विभीषणो यातुधानान्वभाषे । राज्ञा युद्धाय सुभृतैर्भ- वद्भिर्यदुक्तं तत्संभावनाया उचितमेव । किंतु प्रव मन्त्रेधिकृता न शौर्यम् । यो जिगीषुर्वृद्धिक्षयौ प्रसमी- क्षमाणः सन्ध्यादिषु गुणेषु घटते तं, चञ्चलाऽपि लक्ष्मीन मुश्चति । एकेन शत्रुणा सन्धिरपरेण विग्रहः कार्यः । जिगीषुद्धिं प्रसमीक्ष्याहितात्मसारं विजाननेता नीती: प्रयुञ्जीत । त्वया तु लोके विरामो जनितः, प्रकोपित चेन्द्रमुख्यं विबुधमण्डलम् । रामे तु सर्वमेवैतद्विपरीतम् । यदैवैकेन शरेण बाली निहतः, सुग्रीवश्च राजा कृत- स्वदैव भवतो विनष्टं कार्यम् । षड्वर्गवश्यः परिमूढ- बन्धुरुच्छिन्नमित्रो विगुणैरुपेतस्त्वं मा रामेण सह युद्ध कार्षीः । प्रणम तम् । रामोऽपि दाराहरणेन तप्तो हतैश्च बन्धुभिर्वयं तप्ताः, तस्माद्यथा तप्तस्या- यसस्तन तथा नो रामेण सह संधिरस्तु। सीतां विमुश्च । पद्यपि दण्डेन कोशेन चात्मानमरेः प्रकृष्टं मन्यसे तथापि रिक्तस्य रामस्य पूर्णेन त्वया वृथा विनाशः, पूर्णस्य तव भङ्गे तु बहु हीयते । सुनीती रामो जेतुं न शक्यते, तेन बालधिः-पुच्छम् । पपी-कामक्रोधादिः ।
( ८५ ) सह कलहे ध्रुवं तर विनाशः स्यात् । कपीन्द्रः सुग्रीवो भयालोभाद्वा न राममभिगतो येन विभेयो भवेत् । सतां वर्त्मनि स्थितः सुग्रीवः प्रतिप्रियं चिकीर्ष राममभिगतः । रामेण विरोधे सति यं वयमुपाश्रयेम तं रामादीधंक तत्समं वा न कश्चिदपि पश्यामि । स्वयंभूर्नास्माकं शरणं यतो वरं दत्त्वाऽधुनासौ सानुशयो वर्तते । तस्माद्रामेण सन्धानमस्तु । निरूप्यमाणोऽपिनान्य उपायोऽस्ति । यदि विग्रहे मति करिष्यसि तर्हि कपयोऽचिरेण सर्व- मेतबाशं नेष्यन्तीति । विभीषणोक्तं बहु मन्यमानो रावणस्य मातामहो माल्यवानाम वार्धककम्प्रमूर्धा परिणामननं देहं प्रोनम्य रावणमुवाच । य एकः पदातिधनुष्मान् वियद्गतान्यनेकमायानि चर्तुदश रक्षःसहस्राण्यादीत् तत्र का वो मानुषमात्रशङ्का । सन्तापितैः सदेवैमार्षिभिन्नं रात्रिचरक्षयाय नराकृतिर्वानरसैन्यशाली जगत्यजय्योऽम्यु पायो विहितः । प्रमादवान् क्षतधर्मवा मुनीनामपि शत्रुभावं गतस्त्वं चेत्स्वकुलस्य शान्तिं बहु मन्यसे तर्हि विभीषणोक्तं कुरुष्वति । तेन प्रहस्तादिघोषेण प्रतिलन्ध- संज्ञो निद्राविलाक्षः श्रुतकार्यसारः कुम्भकर्णस्ततो मेष सानुशय:-सपश्चातापः । आत्-पीडयामास ।
( ४६ ) इव साम्बुरन्तरिक्षे वाक्यमभाषत । मध्यगताप भानुरोष्ण्यं त्यजेदथवा हिमांशुर्निशायां शैत्यं त्यजेब पुनः पौलस्त्यो भुवनावमानी सर्वानर्थम्लं मानं त्यजेदिति मन्ये । तथापि यमद्विधाः सिद्धिमभीप्सवस्त्वां विलामचेष्टं प्रसभं वक्तुं यतन्ते तत्स्नेहमूलम् । क्रूराः क्रिया प्राम्य- सुखेषु सङ्ग इति यो पद्धैः पुण्यस्य संक्षयहेतुरुक्तोऽसौ भवताऽतिमात्र निषेवितः । तस्य फलमचिरादेव लप्स्यसे त्वत्प्रसादेन मया किं नोपभुक्तम् । तस्मादित्यं कृतार्थस्य मम यदि त्वदर्थे मृत्युः स्यात्तदा मम जन्म सफल भवेदिति । एवमुक्त्वा प्रसुप्ते कुम्भकर्णे विभीषणो राक्ष- सेन्द्रं पुनरुवाच । विपरीतानि निमित्तानि दृश्यन्ते । असौ विवस्वानुत्पातजं वक्त्राकृति च्छिद्रं व्याहाय धूसर- रश्मिराशिर्जनानत्तुं कीर्णसटः सिंह इवाभ्युदेति । क्ष्मां कम्पयन्त्यश्चोल्का निपतन्ति । भृगालादयो रुवन्त: परितो नो भ्राम्बन्ति । यस्मादेवं विनाशसूचकानि निमित्तानि तस्मात्वं सीतां प्रत्यर्प्य रामेण सह सन्धिं कुर्विति । दशाननो भीषणरूक्षचतुर्भूभङ्गमाधायोग्रपदा गिरं विभीषणं जगाद । उदके शिलावरणं, रवान्त- स्यन्दः, इन्दोवहिनिःसुतिः, विजिगीपोर्मम परेणापजय ( ८७ ) इत्येतानि चत्वारि तुल्यानि । ज्ञातय आत्मनोऽपि वयमिच्छन्ति न पुनस्तुल्यकुलस्य लक्ष्मीम्, तथा च शत्रूममन्ति न च सन्तप्यमानैहृदयैर्बन्धुवृद्धिं सहन्ते । त्वयाध लकाभिमवेऽतिहर्षादतिमात्रं दुष्टोऽन्तरात्मा विवृतः । धिक्त्वामिति । इदं वदन्रावणस्तस्य शिरसि पाणि ददौ । ततो विभीषणो रोपं क्षमया मन्युं धैर्येण गर्व विनयेन मोहं धिया निगृहन्समं चतुर्भिः सचिवैरुद- विष्ठत् । रावणं चोवाच । महाराज मया विना सुखमा- स्स्व । यन्मूर्ख आतुरा पथ्यकटूननश्नन्सामयो भवति स किं भिषजां दोषः । यो विवेकशून्य आत्ममानी प्रभुः स्फुटमुच्यमानो वैरं करोति, श्रोत्रसुखैरपथ्यैश्च प्रतुष्यति, स सुहृदा महतेऽनाय भवति । धर्म्य पथि स्थितस्य मे पादेन योऽयं भवता प्रहारो दत्तः स कस्य लाघवमादधातु, तत् सह मन्त्रिमुख्यस्त्वया चिन्तनीयमिति । एवं रजनी- चरपतिमुक्त्वा विभीषणो लङ्काया निरगच्छत् । पाणिं ददौ-पादाघातमकरोत् । सामयः-रोगी । मात्ममानी-विलितः ।
शिवराजापजलखानयोयुद्धम् इतस्तु यवनकुलभुज्यमानविजयपुराधीशप्रेषि- तस्तस्यान्यतमः सेनानीरपजलखानः प्रतापदुर्गाद विदूरे एव शिववीरेण सह युद्धक्रीडया चिक्रीडिपुर ससेनस्तिष्ठति स्म। ततः संवृत्ते किचिदन्धकारे धूपधूमेनेव व्याप्तासु दिक्षु, भुशुण्डी स्कन्धे निधाय निपुणं निरीक्षमाण आगत- प्रत्यागतं च विदघानः प्रवापदुर्गदौवारिकः कस्यापि पादपध्वनिमिवाश्रौषीत् । ततः स्थिरीभूय पुरतः पश्यन् सत्यपि दीपप्रकाशेऽवतमसवशादागन्तारं कम- प्यनवलोकयन् गम्भीरस्वरेण समवादीत् "कः कोऽत्र मो ? "कः कोऽत्र भोः" इति । अथ क्षणानन्तरं पुन: स एव ध्वनिरश्रावि, इति भूयः साक्षेपमवोचत् “क एष मामनुत्तरयन् मुमूर्षुः समायाति बधिरः" १ ततो "दोवा- रिक ! शान्तो भव किमिति व्यर्थ मुमूर्षुरिति बधिर इति । अथ "तरिक नाज्ञाय्यद्यापि भवता प्रभुवाणामादेशो यद् दौवारिकेण प्रहरिणा वा त्रिपृष्टो च वदासि" सेनानी:-सेनापतिः। अवतमसम्-गादान्धकार।
- ( ८९ ) ऽपि प्रत्युत्तरमददद्धन्तव्य इति " इत्येवं भाषमाणेन द्वाास्थेन "क्षम्यवामेष आगच्छामि, आगत्य च निखिलं निवेदयामि" इति कथयन् द्वादशवर्षेण केनापि भिक्षु- वटुनाऽनुगम्यमानः कोऽपि काषायवासा धृततुम्बीपात्रो रुद्राक्षमालिकासनाथितकण्ठो भव्यमूर्तिः संन्यासी दृष्टः। ततस्तयोरेवमभूदालापः- (संन्यासी) कथमस्मान् संन्यासिनोऽपि कठोरभाष- गैस्तिरस्करोषि ? (दौवारिक:) भगवन् ! संन्यासी तुरीयाश्रमसेवीति प्रणम्यते, परन्तु प्रभूणामाज्ञामुल्लङ्ग्य निजपरिचयमदद- देवायाति इत्याक्रुश्यते । (सन्यासी) सत्यं क्षान्तोऽयमपराधः, परमद्यावधि संन्यासिनो, ब्रह्मचारिणाः, पण्डिताः,स्त्रियो, बालाश्च न किमपि प्रष्टव्याः, आत्मानमपरिचाययन्तो ऽपि च प्रवेश- नीयाः। (दीवारकः) संन्यासिन् ! संन्यासिन् ! बहूक्तं विरम । न वयं दौवारिका ब्रह्मणोऽप्याज्ञां प्रतीक्षामहे, किन्तु - प्रतीक्षामहे-गलयामः ( ९० ) यो वैदिकधर्मरथावती, यश्च संन्यासिना ब्रह्मचारिणां तपस्विनां च सन्यासस्य ब्रह्मचर्यस्य तपसश्चान्तरायणां हन्ता, येन च वीरप्रसविनीयमुच्यते कोकणदेशभूमि- स्तस्यैव महाराजशिववीरस्याज्ञां वयं शिरसा वहामः ।। (संन्यासी) अथ किमप्यस्तु, पन्थानं निर्दिश, आवां शिववीरनिकटे जिगमिषावः । (दौवारिक:) अलमालप्यापि तत् । प्राइणे महाराज- स्य सन्ध्योपासनसमये भवादृशानां प्रवेशसमयो भवति, न तु रात्रौ । (संन्यासी) तत्कि कोऽपि न प्रविशति रात्रौ ? (दौवारिका) [साक्षेपम्] कोऽपि कथं न प्रविशति, परिचिता वा प्राप्तपरिचयपत्रा वा आहूता वा प्रविशन्ति, न तु भवादृशाः, ये तुम्बी गृहीत्वा द्वाराद् द्वारम् इति कथयमेव तत्तेजसेव धर्षितो मध्य एव विरराम । ( संन्यासी ) [स्वगतम् ] राजनीतिनिष्णातः शिववीरः, सर्वथा दौवारिकतायोग्य एवायं द्वारपाला स्थापितोऽस्ति । परीक्षितमप्येकास्मन् विषये पुनः परीक्षिष्ये वावद [ प्रकटम् ] । दौवारिक ! इन अन्तरायाणाम्-विधानांम् । अलमाखप्य-न बकम्यम् मा-प्रभाते।
) ( ९१ ) आयाहि किमपि कर्णे कथयिष्यामि । (दौवारिकः) [तथा कृत्वा ] कथ्यताम् । (सन्यासी ) निरीक्षस्व, त्वमधुना दौवारिकोसि, प्राणानगणयन् जीविका निर्वहसि । त्वं सहस्र वा अयुतं वा मुद्रा राशीकृताः कदापि प्राप्स्यसीति न कथमपि संभाव्यते । (दौवारिकः ) आम्, अग्रे कथ्यताम् । (संन्यासी) वयं च संन्यासिनो वनेषु गिरिकंदरेषु च विचरामः, सर्व रसायनतत्वं विप्रः । (दौवारिकः) स्यादेवम्, अग्रे अग्रे । (संन्यासी) तद् यदि त्वं मां प्रविशन्तं न प्रतिरुन्ध. स्तदधुनैव परिष्कृतं पारदभस्म तुभ्यं दद्यां यथा गुञ्जामात्रेणापि द्वापश्चाशत्संख्याकतुलापरिमितं तानं सुवर्ण विधातुं शकुयाः । (दौवारिक:) हंहो कपटसन्यासिन् ! कथं विश्वासघातं शिक्षयसि स्वामिवञ्चनं च ते केचन अन्ये भवन्ति जारजाता ये उत्कोचलोभेन स्वामिनं वञ्चयित्वा आत्मानमन्धत- मसे पातयन्ति, न वयं शिवगणास्तादृशाः (सन्यासिनो ( ९२ ) हस्तं धृत्वा) इवस्तु सत्यं कथय, कस्त्वं कुतआ यातः, केन वा प्रेषितः (संन्यासी) [स्मित्वेव] अथ त्वं मां कं मन्यसे ? (दौवारिक:) अहं तु त्वामस्यैव ससेनस्यायातस्य अपजलखानस्य- (सन्यासी) (विनिवार्य मध्ये एव ) धिर धिक ! (दौवारिक:) कस्याप्यन्यस्य वा गूढचरं मन्ये । तदादेशं पालयिष्यामि प्रभुवर्यस्य [ हस्तमाकृष्य ] आगच्छ दुर्गाध्यक्षसमीपे, स एवाभिज्ञाय त्वया यथो. चितं व्यवहरिष्यति । ततः संन्यासी तु "त्यज नाहं पुनरायास्यामि, नाह पुनरेवं कथयिष्यामि, महाशयोऽसि, दयस्व दयस्व" इति सहस्रधा समचकथत्, तथाऽपि दौवारिकस्तु तमाकृष्य नयम्भव प्रचलितः । अथ यावद् द्वारस्थस्तम्भोपरि संस्थापितायां काच मजूषायां जाज्वल्यमानस्य प्रबलपूकाशस्य दीपस्य समीपे समायातस्तावत्संन्यासिनोक्तं "द्रौवारिक ! अपि मा पूर्वमपि कदाप्यद्राक्षी" ! ततो दौवारिका पुनस्वं ( ९३ ) निपुणं निरीक्षमाणो मन्द्रेण स्वरेण अरुणापागाभ्यां लोचनाभ्यां, गौरतरेण वर्णेन, चुम्बितयौवनेन वयसा, निर्भीकेण च हारिणा मुखमण्डलेन पर्यचिनोत, भुशुण्डी समुत्तोलनकिणकर्कशकरग्रहमपहाय सलज्ज इव च नम्री- भूय प्रणमन्नुवाच-"आः कथं श्रीमान् गौरींसंह आर्यः ! क्षम्यतामनुचितव्यवहार एतस्य ग्राम्यवराकस्य" तदवधार्य तस्य पृष्ठे हस्तं विन्यस्यन् सन्यासिरूपो गौरसिंहः समवोचत्-"दौवारिक, मया बहुशः परीक्षितोऽसि, ज्ञातोऽसि च यथायोग्य एव पदे नियुक्तोऽ- सीति । त्वादृक्षा एव प्रभूणां पुरस्कारभाजनानि भवन्ति, लोकद्वयं च विजयन्ते। तव प्रामाणिकतां जानात्येवात्र भवान् प्रसुवर्यः, परमहमपि विशिष्य कीर्तयिष्यामि, निर्दिश तावत् कुत्र श्रीमान्, किश्चानुतिष्ठति । ततः पुनर्बद्धाञ्जलेदौवारिकस्य किमपि कर्णे कथितमा- कर्ण्य, प्रधानद्वारमुल्लङ्घ्य नेदीयस्यामकस्यां निम्बवरुतल- वोदिकायां सहचरं समुपवेश्य, तुम्बीमेकतः संस्थाप्य, स्वाङ्गरक्षिकावरणं काषायवसनं चैकतो निम्बशाखायाम किणम्-आघातचिन्हम् । नेवीयस्याम्-समीपस्थायाम्।
( ९४ ) बलम्न्य , पटखण्डेन पक्ष्मणोः कपोलयोः कर्णयोर्भुवो विबुके नासायां केशप्रान्तेषु च च्छुरितामिव विभूति प्रो ज्य , स्कन्धयोः पृष्ठे च लम्बमानान् मेचकान् कुशि- वान् कचानावध्य, सहचरपोटलिकात उष्णी- षमादाय शिरसि चाधाय सुन्दरमुत्तरीयं चैकं स्कन्धयोनि- क्षिप्य दौवारिकनिर्देशानुसार श्रीशिववीरालङ्कृताम- झालिकां प्रति प्रातिष्ठत । शिववीरे तत्सहचरेषु चापजलखानदमनविषयकवा- तामारिप्मुष्वेव कश्चिद्वेत्रहस्तः प्रतीहारः प्रविश्य वेत्रं कक्षे संस्थाप्य शिरो नमयित्वाजलिं बद्ध्वा न्यवीविदत् "प्रभो श्रीमान् गौरसिंहो दिदृक्षतेऽत्र भवन्तम् ।" वदाकर्ण्य "आंपूवेशय पूवेशय" इति सानन्दं सोत्साहं च कथितवति महाराष्ट्रमण्डलाखण्डले प्रतीहारो निवृत्य सपद्येव तं प्रावीविशन् । कुशलपूनानन्तरं तेषामेवमभूदा- तापः। शिववीर:-अथ कथ्यतां को वृत्तान्तः ? काच व्यवस्था अस्मन्महात्रताश्रमपरम्परायाः ? छुरिताम्-लमाम् । मेचकान्-कृष्णवर्णान् । कुञ्चितान- कुटिलार । प्रारिमुष-प्रारमिछुषु ।
( ९५ ) , गौरसिंहा-भगवन् ! सर्व सुसिद्धम् प्रतिगव्यूत्यन्त रालमङ्गीकृतसनातनधर्मरक्षामहावताना धारितमुनिवे- पाणां वीरवराणामाश्रमाः सन्ति, प्रत्याश्रमंच वलीकेषु गोपयित्वा स्थापिताः परश्शताः खङ्गाः,पटलेषु तिरोभांविताः शक्तयः, कुशपुजान्तः स्थापिताः भुशुण्डयश्च समुल्लसन्ति। उञ्छस्य च शिलस्य समिदाहरणस्य इङ्गुदीपर्यन्वेषणस्य सत्सङ्गस्य च व्याजेन केचन जटिलाः परे मुण्डिन इतरे कापायिणोऽन्ये मौनिनोऽपरे ब्रह्मचारिणश्च बहवः पटवो बटवश्वराः संचरन्ति । विजयपुरादुडीयात्रागच्छन्त्या मक्षिकाया अप्यन्तःस्थितं वयं विद्यः, किं नामैषां यवन हतकानाम्। शिववीरः-साधु साधु कथं न स्यादेवम् । भारतवर्षीया यूयम् तत्रापि महोच्चकुलजाताः, अस्ति चेदं भारतं वर्षम्, भवति च स्वाभाविक एवानुरागः सर्वस्यापि स्वदेशे, पवित्रतमश्च यौष्माकीणः सनातनो धर्मः, तमेते जाल्माः समूलमुच्छिन्दन्ति, महान्तो हि धर्मस्य कृते लुण्यन्ते, पात्यन्ते, हन्यन्ते न च धर्म त्यजान्त, किन्तु धर्मस्य रक्षायै सर्वसुखान्यपि त्यक्त्वा निशीथेष्वपि,वर्षास्वपि ग्रीष्मधर्म- गम्यूति:-क्रोशद्वयम् । बलीकेषु-नीधेषु | राज्यस्य-कथा- मादानस्य । शिलस्य-कणिशाधजेनस्य । यौमाकीय- युध्माकम् । जामा-मसमीक्ष्यकारिणः ।
प्वपि, महारण्येष्वपि, चन्द्रहासचमत्कारेष्वपि च निर्भया विचरन्ति । तद् धन्याः स्थ, यूयं वस्तुतः आर्यवंशीया वस्तुतश्च भारतवर्षीयाः । अथ कथ्यतां कोऽपि विशेषोऽवगतो वापजल खानस्य विषये? गौरसिंहः-अवगतः, एकं पत्रं दर्शयामि । तत्पत्रं तेनैकं यवनयुवकं निहत्य प्राप्तमासीत् । सर्वे च विजय- पुराधीशमुद्रामवलोक्याश्चर्यचकिता बभूवुः । शिववीरः-दर्यतां, प्रसार्यता, पठथतामिदम् । गौरसिंहः-भगवन् ! सर्पाकारैरक्षरैः पारस्यभाषायां लिखितं पत्रमेतदस्ति । एतस्य सारांशोऽयमस्ति-विजय पुराधीशः स्वप्रेषितमपजलखान सेनापति सम्बोध्य लिखतियत् “वीरवर ! महाराष्ट्रराजेन सह योद्धं प्रस्थितोऽसीति मा स्म भूत्कश्चनान्तरायस्तव विजये । शिवं युद्धे जेष्यसि चेत् पद्भ्यां सिंहं जितवानीति मंस्थे, किन्तु सिंहहननापेक्षया जीवतः सिंहस वशीकार एवाधिक प्रशस्यः । तद्यदि च्छलेन जीवन्तं शिवमानये- स्वद् वीरपुङ्गवोपाधिदानसहकारेण तव महतीं पदाद्धिं कुर्य्याम् । गेपिानाथपण्डितोऽपि मया तव निकटे प्रस्था- चन्द्रहासा-खगः।-(मुद्राम्सोहर) ( ७ ) पितः । स मम तात्पर्य विशदीकृत्य तव निकटे कथ- मिष्यति, प्रयोजनक्शेन च शिवमपि साक्षात् करिष्यतीति । शिववीरः-ज्ञायते कश्चिद् वृत्तान्तो गोपीनाथपण्डि- तस्य ? यावद् गौरसिंहः किमपि विवक्षति तावत्प्रतीहारः प्रविश्य, "विजयतां महाराज" इति त्रिया॑हत्य करौ सं- पुटीकृत्य शिरो नमयित्वा कथितवान् “भगवन् ! दुर्गद्वारि कश्चन गोपीनाथनामा पण्डितः श्रीमन्तं दिक्षुरुपतिष्ठते । नायं समयः प्रभूणां दर्शनस्य, पुनरागम्यताम्" इति बहुशः कथ्यमानोऽपि “किश्चनात्यावश्यक कार्यम्" इति प्रति- मानाति । तदन प्रभुचरणा एव प्रमाणम् ।" तदवगत्य "सोऽयं गोपीनाथा, सोऽयं गोपीनाथ" इति साने सतर्क सोत्साहं च व्याहृतवत्सु निखिलेषु शिववी- रेण मिज़बाल्यप्रियो माल्यश्रीकनामा सम्बोध्य कथितो यद् गम्यता दुर्गान्तरे महावीरमन्दिरे तसै वासस्थानं दी- यताम् , भोज्यपर्यकादिसुखदसामग्रीजातेन च सक्रियताम्, ततोऽहमपि साक्षात्करिष्यामि" इति । ततो वाढमित्युक्त्वा प्रयाते माल्यश्रीके "महाराज, विवक्षति-वक्तुमिच्छति । प्रतीहारः-द्वारपालः । साने- डम्-पुनः पुनः । पर्यन्म-(पलङ्ग)।
( ५ ) आज्ञा चेदहमद्यैवापजलखानं कथमपि साक्षात्कृत्य तस्या- खिलं व्यवसितं विज्ञाय प्रभुचरणेषु विनिवेदयामि । नाधुना मम क्षान्तिः शान्तिश्च यतः संन्यासिवेषोऽहं समागच्छन् द्वयो- यवनभटयो वार्तयावागमं यत् श्व एवैते युयुत्सन्ते" इति गौर- सिंहो मन्दं कर्णान्तिकं व्याहार्षीत् । ततो "वीरकुशलोसि, सर्व करिष्यसि, जाने तव चातुरीम् तद् यथेच्छं गच्छ, नाहं व्याहन्मि तवोत्साहम्, नीतिमार्गान्वेसि । किन्तु परिपन्थिन एते अत्यन्तनिर्दयाः, अति कदाः, अतिकूटनीतयश्च सन्ति । एतैः सह परमसावधा- नतया व्यवहरणीयम्" इति कथयित्वा शिववीरस्तं विससर्ज। गौरसिंहस्तु त्रिःप्रणम्योत्थाय निवृत्य निर्गत्य, अवतीर्य गायकवेषं धारयित्वापजलखानशिविराभिमुखं प्रतस्थे । ततः प्रहरिणादुर्भाषायां "कोऽय, कोऽयं" इति पृष्टो गौरसिंहोऽवोचत् "गायकोऽहं, श्रीमन्तं दिक्षे" इति । ततो "गम्यतामन्येऽपि गायका वादकाश्च सम्प्रत्येव गताः सन्ति" इति कथयति प्रहरिणि शिविरमण्डलं प्रविवेश । तत्र गत्वा तेनापजलखानः साक्षात् कृतः, अखिले शिविरे व्यवसितम्-चिकीर्षितम् । व्याहन्मि-भग्नं करोमि । प- रिपन्थिनः-शत्रवः । अतिकदर्याः--कुकर्मपरायणाः । शिविरम- कटकम् (छावनी) । प्रहरी-यामिकः।
गोपीनाथ:-राजन् ( ६ ) परिभ्रमता सर्वावस्था दृष्टा । इतस्तु प्रतापदुर्गे विहिताहारव्यापारे रजतपयंतिका- मेकामधिष्ठिते, किञ्चित् तन्द्रापरवशे इव गोपीनाथे, शनैः शिववीरः उपसृत्य प्रणम्य उपाविशदवोचच्च । "अहोभाग्यमसाकं यदालयं युष्मादृशा भूदेवाः स्व- पादरजोभिः पावयन्ति" इति । अथ तयोरेवमभूवनालापाः। ! कोत्र सन्देहः, सर्वथा भाग्य- वानसि, परं साम्प्रतं नाहं पण्डितत्वेन, कवित्वेन वा समा- यातोऽस्मि, किन्तु यवनराजदुतत्वेन, तच्छूयता, यदह निवेदयामि । शिववीरः- शिव ! शिव ! खलु खलु खल्विदमुक्त्वा! येषां श्रीमतां चरणेनाङ्कितं विष्णोरपि वक्षःस्थलमैश्वर्यमुद्रयेव मुद्रितं विभाति, न तेषां ब्राह्मणकुलकमलदिवाकराणां यवनकै- कर्यकलङ्कपको युज्यते, यं शृण्वतोऽपि मम स्फुटत इव की, तथापि कुलीना निरभिमाना भवन्ति इति आनीतश्चेत् कश्चित् सन्देशस्तदेष आझाप्यतां श्रीमच्चरणकमलचञ्चरीकः। गोपीनाथ:-वीर ! कलिरेष कालो, यवनाक्रान्तोऽयं अल इदमुक्त्वा न वक्तव्यम् । कैडूर्यम्-दासत्वम् चश्चरीकः-भ्रमरः।
( १०० )
भूभागस्तमासाकं तथा तानि तेजांसि यथा वर्णयसि ।
साम्प्रतं तु विजयपुराधीशवितीर्णा वृत्ति भुञ्ज इति तदा-
झामेव परिपालयामि, तच्छ्यतां तदादेशः ।
शिववीरः-आर्य अवदधामि ।
गोपीनाथ:-कथयति विजयपुरेश्वरो यद् “वीर ! परि-
त्यज नवामिमां चञ्चलतामस्माभिः सह युद्धस्य, त्वदपेक्षया
अत्यन्तमधिकं बलिनो वयं, प्रवृद्धोध कोषो, महती सेना,
बहूनि दुर्गाणि, बहवश्च वीराः सन्ति । तच्छुभमात्मानमि-
च्छसि चेत्, त्यक्त्वा निखिला चश्चलतां शस्त्रं दूरतः
परित्यज्य करप्रदतामङ्गीकृत्य समागच्छ मत्सभायां
तन्मत्तः प्राप्तपदश्चिरं जीविष्यसि, अन्यथा तु सदुर्दशं नि-
हतः कथावशेषः संवय॑सि, सत् केवलं त्वयि दययैव
सन्देशं प्रेषयामि"।
शिववीरः-भगवन् ! कथयेदेवं कश्चिद् यवनराजा,
परं किं भवानपि मामनुमन्यते यद्-ये अस्मदिष्टदेवमूर्ती-
भकृत्वा, मन्दिरााण समुन्मूल्य, तीर्थस्थानानि पक्कणीकृत्य,
पुराणानि पिष्टवा, वेदपुस्तकानि विदार्य च आर्यवंशीयान्
प्रवदधामि-सावधानोऽस्मि । संवत्स्य॑सि-भविष्यसि ।
पक्कणीकृत्य-शबरालयान् विधाय ।
( १०१ ) बलाद् यवनीकुर्वन्ति, तेषामेव चरणयोरञ्जलिं बद्ध्वा लालाटिकतामङ्गीकुर्याम् ! एवं चेद् धिङ्मा कुलकलङ्क- क्लीवम् यः प्राणभयेन सनातनधर्मद्वेषिणां दासेरकता वहेत् । यदि चाहमाहवे नियय, वध्येय, ताज्येय वा तदैव धन्योऽहं, धन्यौ च मम पितरौ । कथ्यतां भवाशां विदुषा- मत्र का सम्मतिः गोपीनाथः-(विचार्य) राजन् ! धर्मस्य तस्वं जानासि, तमाहं स्वसम्मति कामपि दिदर्शयिषामि । महती ते प्रतिज्ञा, महत्तवोद्देश्यमिति प्रसीदामितमाम् । नारायणस्तव साहाय्यं विदधातु । शिववीरः-करुणानिधान ! नारायणः स्वयं प्रकटी- भूय न साहाय्यं विदधाति, किन्तु भवादृशमहाशयद्वारैव । तत्प्रतिज्ञायती कापि सहायता । गोपीनाथः-राजन् ! कथ्यता किमहं कुर्य्या, परं यथा न मामधर्मः स्पृशेत् तथैव विधास्यामि । शिववीरः-शान्तं पापं, कोजाधर्मः। केवलं श्वोऽस्मि- न्नुद्यानप्रांतस्थपटकुटीरे यवनसेनापतिरपजलखान आनेयो यथा तेनैकाकिनाऽहमेकाकी मिलित्वा किमप्यालपामि । बाबाटिका-सेवकः । दासेरकताम्-दासताम् । शान्तं पापम्-प्रवक्तव्यमिदम् । पटकुटीरम्-(तम्बू)-उपकार्या ।
( १०२ ) गोपीनाथः-तत् सम्भवति । ततःपरं गोपीनाथेन सह शिववीरस्य बहुविधा आलापा अभूवन, यैः शिववीरस्य उदारहृदयता, धार्मिकतां शुरता चावगत्य गोपीनाथोऽतितरां पर्यतुष्यत् । तदा कपटगायको गौरसिंहः शिववीरेण सह बहुश आलप्य सेनाभिनिवेशविषये च सम्मन्त्र्य तदाज्ञातः स्व- वासस्थानं जगाम । शिववीरोऽप्यन्यसेनापतीन् यथोचितमादिश्य खशय- नागार प्रविश्य होरात्रयं यात्किन्चन निद्रासुखमनुभूय अल्पशेषायामेव रजन्यामुदतिष्ठत् । शिववीरसेनास्तु यथासङ्कतं प्रथममेव इतस्ततो दुर्ग- प्राचीरान्तरालेषु, गहनलताजालेषु, उच्चावचभूभागव्यवधा- नेषु सजाः पर्यवातिष्ठन्त । बहवोऽश्वारोहाः यवनपटकुटीर- कदम्बकं परिक्रम्य ततःपश्चादागत्य अवसर प्रतिपालयन्ति स। "बहवो वयमद्य शिवमवश्यमेव विजेष्यामहे, परं तथापि न जानीमहे किमिति कम्पत इव हृदयम् , अहो विलक्षणः प्रताप एतस्य, पवनेऽपि प्रवहति, पतत्रेऽपि पतति, पत्रेऽपि मर्मरीभवति, स एवागत इत्यभिशक्यतेऽस्मामिः" इति प्रतिपालयन्ति-प्रतीक्षन्ते । मर्मरीभवति-(खड़खड़ायमाने)।
( १०३ ) चिन्ताचक्रमारूढा अपि च कथं कथमाप कैश्चिद् वीरवरै- वर्द्धितोत्साहाः समरभूमिमवातरन् । अथ कथंचित्प्रकाशबहुले संवृत्ते गोपीनाथपण्डितो वारमेकं शिवत्रीरदिशि परतश्च यवनसेनापतिदिशि गता- गतं विधाय सेनाद्वयस्य मध्ये एव कसिंश्चित् पटकुटीरे अप- जलखानमानेतुं प्रबबन्ध । शिववीरोऽपि कौशेयकञ्चुकस्यान्ताहवर्मपरिधाय सुवर्णसूत्रग्रथितोष्णीषस्याप्यधस्तादायसं शिरस्त्राणं संस्थाप्य सिंहनखनामकं शस्त्रविशेषं करयोरारोप्य, दृढबद्धकटि- रपजलखानसाक्षात्काराय सजस्तिष्ठति स । अपजलखानोऽपि च “यदाहमेनं साक्षात्कृत्य करता. डनमेकं कुय्यो, तथैव तालिकाध्वनिसमकालमेव अमुकामुकैः श्येनैरिवापत्य पाशैरेष बन्धनीयः, सेनया च क्षणात् तत्- सेना झञ्झया घनघटेवापनेया" इति सङ्केत्य सूक्ष्मवसन- परिधानो विविधवर्णवर्णनीयशिविकामारुह्य निर्दिष्टपट- कुटीराभिमुखं प्रतस्थे । इतस्तु तुरङ्गं नर्तयन् , गौरसिंहेनानु- गम्यमानो माल्यश्रीकप्रभृतिभिरिवरयुद्धसजैः सतर्क निरी- क्ष्यमाणः शिवचीरोऽपि तस्यैव सङ्केतितस्य समागमस्थानस्य विशि-(भोर) । मझया-वेगवाहिना प्रभञ्जनेन (मांधी से)।
( १०४ ) निकटे एक सन्यकरण वलगामाकुण्याश्वमवारुधत् । ततस्तु इतोऽश्वात् शिववीरस्वतस्तु शिविकातोऽपजल- खानोऽपि युमपदेवावावरत् , परस्परं साक्षात्कृत्य चोभा- वत्युत्सुकाया नयनाम्यां सत्वराभ्यां पादाभ्यां वागताने- डनतत्परेण वेदनेन आश्लेषाय प्रसारिताभ्यां च हस्ताभ्यां, कौशेयास्तरण विरोचितायां बहिर्वेदिकायां धावमानों परस्परमालिलिङ्गन्तुः। शिक्वीरस्तु आलिङ्गनच्छलेनैव स्वहस्ताम्यां तस्य स्कन्धौ दृढं गृहीत्वा सिंहनखै भुणी कन्धरंच समचूर्णयत् , रुधिर- दिग्धं च तच्छरीरं कटिप्रदेशे सहनोल्य भूपृष्ठेऽपोषयत् । तत्क्षणादेव च शिवतीरध्वजिन्यां महाध्यम एका समुच्छ्रितः । तत्समकालमेव पवनाशिविरस्य पृष्ठस्थिता शिववीरसेना शिविरमग्निसा असमती, पुरःस्थित्तसेनासु च अकस्मादेव महाराष्ट्र केसरिणः सख्वान् । तेषां हर हर महा- देव गर्जनपुरस्सरं छिन्धि मिकिपास्य विपोथय कोलाहला प्रत्यर्थिनां च खुदातोबाल्लादि मारस्यपदामयः कलकलो रोदसी समपूरयत् । वल्गाम-(बगाम)। जवणी-स्कन्यासन्धी । कन्धरम- ग्रीवाम् । समुत्तोल्य-उत्याप्य । अपोयमअपातयत् (पटक दिया)। ध्वजिन्यां-सेनायाम् । विपोथय-ताडय । प्रत्यर्थिनाम्- शत्रूणाम् । रोदसाम-द्यावापृथिन्योर्मभ्यम्-अन्तरिक्षम् ।
( १०५ ) ततः केचन यवना महाराष्ट्रासिभुजङ्गिनीभिर्दन्दश्यमा- नास्त्रायस्व त्रायखेति साम्रडं व्याहर-माणाः पलायन्त, अन्ये धीरा वीराश्च "तिष्ठत रे तिष्ठत धूर्तधुरीणा महाराष्ट्रहतकाः, किमिति चौरा इव लुण्ठका इव दस्यव इव च यवनसेना- पतीनाक्रम्यथ " इति सवडं संगमे युद्धाय सजा: समतिष्ठन्त । तेषां चाश्वानां सव्यापसव्यमार्गः खुरक्षुण्णा व्यदीर्यत वसुधा, खड्गखटखटाशब्दैः सह च प्रादुरभूवन स्फुलिङ्गाः। रुधिरधाराभिः जपासुमनस्समाच्छन्नमिवाभूद्रणाङ्गणम् । तदवलोक्य गौरसिंहो मृतस्यापजलखानस्य शोणित- शोणं शरीरं प्रलम्बवेणुदण्डाग्रेषु बद्ध्वा सम्मुत्तोल्य सर्वान् संदर्य सभेरीनादं घोषितवान् यद् "दृश्यतां दृश्यतामितो हतोऽयं यवनसेनापतिस्ततश्चाग्निसात्कृतानि सकलसामग्रीजातानि शिविराणि परितश्च बहूनि विनाशि- तानि यवनवीरकदम्बकानि, तत् किमिति अवशिष्टा यूयं मुधा वृकगृध्रशृगालानां भोज्याः संवर्तध्वे । शस्त्राणि त्यक्त्वा पलायध्वं पलायध्वं यथा नेयं भूः कदुष्णैर्भवतां सद्यश्छिन्नगलवुधिरप्रवाहराद्राभवेदिति । सक्ष्वेडम-सगर्वम् । स्फुलिङ्गाः-अग्निकणाः । संवर्तध्वे- भवथा ( १०६ ) तदवधार्य दृष्ट्वा च रुधिरदिग्धं क्रीडापुत्तलायितं स्व खामिशरीरं सर्वेऽपि हतोत्साहा विसृज्य शस्त्रास्त्राणि भय- दुताः दिशो मेजुः। ससेनः शिववीरश्च विजयशङ्खनादैः रोदसी संपूर्य रणाङ्गणशोधनाधिकारं माल्यश्रीकाय समर्प्य प्रतापदुर्ग प्रविश्य मातुश्चरणौ प्रणनाम।
कर्णपर्व अथ दुर्योधनः कर्णमामन्त्र्याबमाषे–'सखेऽजराज, अध्यक्षीकृतौ हि भीष्मद्रोणौ प्रत्यहं येन केनापि व्यपदेशे- नासदीयानेव घातयित्वा, विवक्षितबा नाडम्बरेण या- पितार्धमासौ स्वयमशाम्यताम् । न खलु परत्र बद्धपक्षो है- मनस्तपन इव मन्दायमानतेजाः प्रतप्तुमीष्टे । तदास्ताम् । भवता तु मयि मदमित्रे च विभज्य संवर्धितयोः प्रीतिद्वेष- पादपयोरयमेवावसरः फलितुम् । तस्मात्समारुतेन धनञ्जये- नोपधूपितान् जीवनार्थिनोऽसाननुगृहाण । गृहाण चेदमा- ध्यक्ष्यम्' इति सप्रशंसं सेनाधिपत्येऽभिषिक्तवान् । तथा- भिषिक्तः स सोत्साहं परवाहिनीं प्रविश्य तीक्ष्णतरं प्रहरन् , आत्मनो वैवखतत्वं परेषां मनस्यर्थान्तरतया ग्राहयामास । तत्र तस्य वधप्राप्तं नकुलं कुन्तीप्रतिज्ञास्मृतिः सहसाविर्भूय ररक्ष । अत्रान्तरे दुर्योधनं हन्तुमुद्यतो युधिष्ठिरः कथं भवा- आमन्त्र्य-पाहूय, सम्बोध्य वा । व्यपदेशेन-व्याजेन (बहानेसे)। परत्र-शत्रौ, बद्धपक्षः-कृतपक्षपातः । हैमनः-हेमन्तस्य ऋतोः। तपनः-सूर्यः । प्रतप्तुम्-शत्रून संतापयितुम, सूर्यपक्षे तीब्रा- तपं जनयितुम् । ईष्टे-प्रभवति । फलितुम्-फलवन्ती-भवितुम् । मारुतः-भीमः । उपधूपितान-संतापितान् । प्राध्यदयम्- सेनापतित्वम् । परवाहिनीम-शत्रुसेनाम् । वैवखतत्वम्-यम- राजत्वम् । अर्थान्तरतया-रूपान्तरेण । बधप्राप्तम्-वधयोग्या- वसरं प्राप्त . - - ( १०८ ) नार्यतमोऽपि कदर्य इव परकीयाय स्पृहयति । ममांशभूता हि धार्तराष्ट्राः । तदलमेतस्य वधेन' इति भीमेन निषिद्धो विरराम । तावद् द्रौणिना पीड्यमाने स्वबले, कुपितौ माद्रेयौ द्रौपदेयैः सह परानीकं प्रविश्य कदलीवन- प्रविष्टाविव वेतण्डौ बहुशः पातयामासतुः । सप्तदशे दिवसे कर्णः सुयोधनं प्रोवाच-'महाराज, प्रहरणादिना मत्तोऽविशिष्टोऽपि पार्थो विशिष्यते श्लाध्य- भूतेन सूतेन । तसाच्छौरिकल्पं मद्रराजं मम सारथिं कल्पय, आकल्पय च गाण्डीविनः शिरखण्डेन तव केतुदण्डम् । तेन वाक्येन लब्धमनोरथ इव स मूढः सपदि शल्यमेत्य साभ्यर्थनमूचे-मातुल, अद्यत्वे भवान् कर्णश्च द्वावेव महारथौ महाशयौ च मन्मनोरथकल्पद्रुमौ । अतो मन्ये युवामपि कृष्णार्जुनाविवैकरथस्थावव समरं निर्वहन्तौ विज- योत्तरौ भविष्यतः। तत्र चार्जुनस्य कृष्ण इव भवान् कर्णस्य सारथ्यमास्थाय, तं सर्वास्खापत्सु गोपायतु । तच्छ्रुत्या स सक्रोधं प्रत्याह-ननु भोः किमेवमनह मन्त्रयस, यन्मां गौरिकल्पम्- कृष्णसहशम् । मद्रराजम्-शल्यम् । प्रा- कल्पय-अलङ्कुरुप्य । गाण्डीविनः-अर्जुनस्य । केतुदण्डम्- ध्वजदण्डम् । सपदि-तस्मिन्नेवक्षणे (फौरन)। विजयोत्तरी- विजयवन्तौ । अनहम्-अयोग्यम् । मन्त्रयसे-भाषसे ।
( १०९ ) कर्णादवहनिवलं तस्य नियोज्यं च चिकीर्षसि । कथं वा मू- विसिक्त आधिरथेभृत्यो भवतु । परेषु यं मम भागं कल्पयसि अथवा सर्वानेव तव द्विषः कथाशेषान् करिष्यामि । तदलं मा- न्यविमाननयेति । दुर्योधनस्तु पुनस्तं सानुनयमाह-'मातुल, भवन्तं वासुदेवसदृशं मत्वा कर्णस्य गुप्त्यर्थमर्थये, न पुनः कदर्थये । न च सूतकर्म कुर्वनर्वाचीन इति नियमः । श्रूयते हि त्रैपुरे सम्प्रहारे रुद्रस्य सारथ्यं कुर्वन्हिरण्यगर्भः । किं तस्य निकृष्टता । मा च कर्ण दौष्कुलेयं शतिष्ठाः । रूपमेव व्याचष्टे तस्य माहाकुलीनतां श्वैतच्छत्रिकतां च । अतो महानुभाव, तं महामार्ग विषमेषु धारयमाणो भवन् , व्य- सनार्णवे मनानां कुरूणां मद्रराजः कर्णधार इति कीर्ति प्र- पद्यस्व' इति । तदनु तदनुनयेन प्रवणीभूतः स युधिष्ठिर- वाक्यं संस्मृत्य प्रत्याह-'ननु मनीषिन् , सुविशारदा ते मनीषा, समृता ते भणितिः, यन्मम सारं वासुदेवस्येव निर्णीतवानसि । अतोऽप्रत्याख्येयं तेऽभ्यर्थनम् । किं तु नियोज्यम्-प्राज्ञावर्तिनं किङ्करम् । मूर्धावसिक्तः-क्षत्रियः । माधिरथेः-सूतपुत्रस्य-कर्णस्य । विमानना-तिरस्कारः । कवर्थ- ये-तिरस्करोमि । अर्वाचीन:--लघुः । त्रैपुरे--त्रिपुरासुरसम्ब- धिनि । सम्प्रहारे-संग्रामे । दौष्कुलेयम्-दुष्कुलोत्पन्नम् । अप्रत्याख्येयम्-निषेधायोग्यम् । - . ( ११० ) पार्थः कृष्णस्येव हितैषिणो ममावसरेषु खैरालापं मर्षण यद्यनुमन्ता कर्णस्तदा तस्य यन्ता स्याम्' इति । तथाभ्युपगच्छतः कर्णस्य रथ्यानां प्रग्रहान्गृह्णन् शल्यः 'अभिवानरध्वजमश्वांश्चोदय' इति तेन नुनस्तमूचे–'मूत- पुत्र, नेयं विहारसंसत् , यत्र खैरं विकत्थमानस्त्वमप्रगल्भै- महान्महीयसे । इदं तु पौरुषनिकषभूतं वीराशंसनं हि । यन्मन्यसेऽतिबलेन स्पर्धा आत्मन उत्कर्षायेति, तदपेशलम् । पश्य पावकेन वैरायमाणस्य पतङ्गस्य गतिम् । तसाधधात्मनः पथ्यमिच्छसि, तजहिहि पार्थाभियोगमनोराज्यम्' इति । तदनादृत्य 'नुद नुदाश्वान्' इति वदति कर्णे, तथा कुर्वन् शल्यस्तमुवाच-भोः, पश्य प्रथम एव विक्रमणे प्रस्खलतस्तव वाहान् । दृश्यन्ते च विपरीतान्येव निमित्तानि । अतो न प्रसीदति मे हृदयम् । यदि मद्ववचनमुल्लङ्य गमिष्यसि, तदा गमिष्यस्येवेति । तदप्यसत्कृत्य संग्रामभुवमवतरन् मर्षेण सहिष्णुतया । यन्ता-सारथिः । रथ्यानाम्- अश्वानाम् । प्रग्रहान्-रश्मीन् (बाग)। अभिवानरध्वजम्- अर्जुनभिमुखम् । चोदय--प्रेरय (हांको)। नुन्नः-प्रेरितः । विकत्थमानः-प्रात्मानं श्लाघमानः । अप्रगल्भैः-प्रविशिष्टबु- द्धिभिर्नरैः । महीयसे-आदरंखभसे । इदं तु-रणक्षेत्रम् । पौरुषनिकषभूतम्-(पराक्रम की कसौटी)। वीराशंसनम्- वीरा एव इदमाशंसन्ति-कामयन्ते, नेतरे । - - - ( १११ ) कर्णः सेनाग्रस्थानप्राक्षीत्--भूत क तिष्ठत्यर्जुनः । तं श्रुवन् पारितोषिकमादत्तामिति । तस्य तथा गर्जितमसहिष्णुः शल्यः कर्णमुवाच-'रे राधापुत्र, भीष्मद्रोणादयो बहवो दोघमन्तो, यत्समक्षमर्जुनन पराभृतास्तेषामेव पुरः कोऽयं वागाडम्बरः । परिहसन्ति त्वां वृथावाचाटोऽयमिति । त्वं तु निर्लओऽसि । तदलमनया निरर्थिकयारभट्या' इति । तदमृष्यमाणः कर्णस्तमधिक्षिप्तवान्-'अरे प्रच्छन्नशत्रो, न त्वामिदं पृच्छामि । स्वाधिकाराननुरूपमपृष्टोत्तरं च जल्पन्द- ण्ड्योऽसि । यदीदृशान्यक्षरमलानि पुनरपि जिह्वायां धारयसि, तदा तव जिह्वामनेन कृपाणधाराजलेन संस्कर्तास्मि' इति तं तर्जयामास । तत्प्रसङ्गेन कलहायमानावस्युद्यतौ च तौरथि- सारथी सान्त्वयित्वा सुयोधनस्ताभ्यां समं समरमध्यमवततार। तत्र शूरसेनान्पञ्चालानन्यांश्च बहूनिहत्य युधिष्ठिर व्यथयन्तं कर्ण विसंझं कुर्वन्वृकोदरस्तत्पुत्रं भानुसेनं तथा सप्त धार्तराष्ट्रांश्च निष्पिपेष । लब्धाश्वासः कर्णस्तु माद्रे- अधिक्षिप्तवान्-भत्सितवान् । अक्षरमलानि-दुर्वचांसि। तर्जयामास-भसयामास । अस्युद्यतौ-उद्यतखड्गौ। सान्त्व- यित्वा-अनुनीय । शूरसेनान्-शूरसेनदेशवासिनः चत्रियान् । पश्चालान्-पञ्चाबदेशवासिनः क्षत्रियान् । विसंज्ञम्-चेतना- रहितम् । वृकोदरः-भीमः । निम्पिपेष-चूर्णयामास । बधा- श्वास:-प्राप्तचेतनः।
( ११२ ) याभ्यां सह पुनयुद्धायापतन्तं युधिष्ठिरं भृशमर्दयन् प्राण- संशयं गतं तं रक्षितुकामेन शल्येनाख्यायि-भो महावीर कर्ण, विक्रान्तस्य तव किमेभिर्वराकैः । न खलु मृगेन्द्रो गजेन्द्राइतेऽन्यं मृगं मृगयते । तसादभियुज्यख धार्तराष्ट्र- कुलसर्वङ्कषं वृकोदरम् । तथेति निवृत्त कर्णे, युधिष्ठिरो माद्रेयाभ्यां सह त्वरिततरं शिबिरं प्रविश्य श्रान्तः शय्या- मधिशिश्ये। अत्रान्तरेऽल्पावशिष्टं संशप्तकगणं निहत्य तदाहवमव- भृथीकृत्य प्रतिनिवर्तमानः पार्थः संकुलयुद्धभुवि तीक्ष्णतरं प्रहरन्तं कर्ण वीक्ष्य, मृदङ्गध्वजाङ्कितं युधिष्ठिरस्य रथं, तथा शरमहंसलक्षणौ नकुलसहदेवयो रथौ चापश्यन् शङ्कितः सत्वरं सिंहध्वजं रथमभिपत्य तत्रस्थं बलवत्प्रहरन्तं भीमं 'क्वासाकं ज्येष्ठः' इति पप्रच्छ । नाहं जानामीति तेन प्रत्युक्ते ससंभ्रमं शिविरमासाथ तत्र तं पश्यन् हृष्टो- ऽर्जुनः कृष्णेन सह तस्य पादौ जग्राह । स त्वनवसरे प्रत्यागतौ सहर्ष प्रणमन्तौ च तो कृष्णार्जुनौ दृष्ट्वा, कर्ण निहतं निश्चित्य पप्रच्छ-'वत्स गाण्डीविन्, कथं तं दुरात्मानं सूतपुत्रं न्यवधीस्तद्विस्तरेण ब्रूहि । न हि भीष्म- आख्यायि-उक्तः । अभियुज्यख-युध्यस्व । सर्वडूषम्- पीडकम्।
( ११३ ) द्रोणौ चास्य कर्णस्य कलामप्यर्हतः। महानरातिरयममाकम् । अद्यापि न मुञ्चति मां तद्रणजनितः कम्पः । अथवा ईषजयोऽयं गाण्डीवसहायस्य तव, तथापि महत्कौतूहलम् । तदाचक्ष्व' इति । आर्य, तवादर्शनजेन खेदेनात्र प्रधावि- तोऽस्मि, न तु रिपुमर्दनजेन मोदेनेति तेन प्रत्युक्ते, आ- जन्मनोऽभूतपूर्पणामर्षेण दुर्निरीक्षो राजा युधिष्ठिरस्तं विज- गहें 'धिक्त्वां गेहेक्ष्वेडिनम् । यस्त्वं पूर्व प्रसङ्गे प्रसङ्गे कर्ण नखनिर्भेद्यमिव सावज्ञया गिरा तिरस्कृत्य, प्राप्तेऽवसरे एवं कातरोऽसि । ईदृशस्य तव किमनेन भारभूतेन गाण्डीवेन । दीयतामन्यसै यः कर्ण प्रतियोत्स्यते' इति । तत्क्षणं खड्ग परामृशनर्जुनः 'किमर्थमस्थाने शस्त्रमन्विष्यसि' इति मग- वता पृष्टः प्रत्याह-'सखे माधव, गाण्डीवमन्यस्मै देहीति यो मामधिक्षिपति, स मे वध्यः' इति ममेदमुपांशुव्रतम् , यथा तूबुरशब्देनाधिक्षेपे भीमव्रतम् । शृण्वत एव तव तिरस्कृतगाण्डीवस्यास्य शिरः खड्गेनोत्कृत्य सत्यव्रतो भवितुमाशंसे, इति । भगवास्तु तं धिकारपूर्व निर्भर्त्सयामास, अरातिः-शत्रुः। ईषजयः अञ्जसा जेतुं शक्यः। अमर्षेण- क्रोधेन । दुर्निरीक्षः-दुरालोकः । विजगहें-निनिन्द । गेहेत्वे- डिनम्-गेहेशूरम् । परामृशन्-स्पृशन्-गृह्णन् । प्रस्थाने अस- मये (बे मौके )। उपांशुव्रतम्-अन्यैरज्ञातं मनसि कृतं व्रतम् । - - ( ११४ ) 'आ पातकिन् , कथमादित्यमिव सर्वलोकनमस्कार्य, मूर्ति- मन्तमिव धर्माधिदेवं, समस्तकल्याणगुणनिधानं मृदुं शुचिं शान्तं सुगृहीतनामधेयं सम्राजं पितृकल्पं ज्येष्ठभ्रातरम- जातशत्रु जिघांसनापत्रपसे । अहो समीचीनमारब्धं त्वया। गुरुहत्ययाप्यवश्यं पालनीयं खल्विदं महाव्रतम् । कार्यानु- रोधेन हि सत्यधर्मयोर्व्यवस्था, न पुनर्यथाश्रुतमात्रेण । अन्यथा हि महाननर्थः स्यात् । श्रूयते हि पुरा कौशिको नाम तपस्यन् कश्चिद्राह्मणः प्राणभयात्स्वाश्रमे प्रलीनान् विप्रान् पृच्छद्भयो दस्युभ्यः 'मया सत्यमेव वक्तव्यं' इति निश्चित्य कथयामास । तैस्तषु बलानिहतेषु तत्पातकेन स तपस्वी नरकमियाय । एवं च तदिदं सत्यवचनं पीडामात्र- फलकत्वेनाधर्मो बभूव । गहना हि सत्यधर्मयोर्गतिः। पश्य । पुरा कश्चिद् व्याघ्रस्तोत्रेण तपसा बहून्वरानवाप्य लोकोपद्रवाय व्यजृम्भत । तेन जगतः क्षोभमाशङ्कय वि- धाता तं चक्षुामन्धं चकार । तथापि प्रचण्डवीर्यतया भयानकं व्याघ्र मारयन् कश्चिद् व्याधः सकुटुम्ब एव स्वर्ग- मियाय । तस्य सा हिंसा माहाजनिकतया धर्मों बभूव । पितृकल्पम्-पितृसहशम् । जिघांसन् हन्तुमिच्छन् । अपत्रपसे-खजसे । कार्यानुरोधेन कार्यानुसारेण । प्रली- नान्-अन्तर्हितान् (छिपे हुए)। व्यजृम्भत-व्यचेष्टत । माहा- जनिकतया-महाजनहितकारकत्वेन ।
यथा मम ( ११५ ) एवं स्थिते, खबुद्धिपरिकल्पितस्य निष्प्रयोजनस्य व्रतस्यार्थे गुरुहत्यामाचरंस्त्वं कथंतरामन्धतामिस्रं न विशेः । तदल- मनेन दुरध्यवसायेन' इति । तदाकर्ण्य संजातवेपथुः पार्थः प्रार्थयामास-भगवन् , सत्यव्रतत्वमार्यवधपातकनिवृत्तिश्चोभयमपि स्यात्तथा त्वमेव संचिन्त्य विधत्स्व' इति । 'भोः पार्थ, न्यक्कुरु ज्येष्ठ कतिपयाक्षरैरुपालम्भवचनैः । व- धादभ्यधिको हि मान्यानां तिरस्कारः । ततश्चोभयपरिहारं प्राप्स्यसि' इति तेन दर्शितोपायः स खड्गं न्यस्याग्रज गर्हयामास-'अरे भीरो, समरात्पलायमानस्य तव कथं युधिष्ठिरता । ईदृशस्त्वं वीरगणनासु कनिष्ठिकास्थं मां क्षिपन्न जिहेषि । यदि कदाचिद्भीमसेनो मामेवं गर्हयेत्तस्य तत्क्षमं स्यात् । अरातिकुलोन्मूलनऽलंकर्मीणो हि सः । त्वं पुनर्वित्तमर्जयितुं शत्रुमर्दयितुं वा अक्षमः क्षमामभि- नयन् , मद्वलार्जितानि धनानि दारांश्च कदर्थीकृत्य, मह- दिदमाक्षतिकं वैरं चोत्पाद्य, त्वदर्थ क्लिश्यमानानमानेव दुरध्यवसायेन-दुर्निश्चयन, दुष्टकर्मणा वा । वेपथुः- कम्पः। युधिष्ठिरता-युधि संग्रामे, स्थिरता-दृढत्वम् । जिदूषि- बजसे। अलंकर्मीणः-समर्थः । प्रावधूतिकम्-अक्षयूतेन जातम् । - . ( १९६ ) निन्दसि । धिक्त्वाम्' इति एवमधिक्षिप्य पुनः खड्गं परामृशन् सः 'किमन्यत्तवोपांशु व्रतम्' इति कृष्णेन पृष्टः सन् 'भगवन् , किमन्यत् । अनुद्यनामानमनवद्यमहिमान- मार्यमेवमपोद्य, को गति प्रतिपद्येय । तदद्यैव खशिरः संछिद्य तेन तदुष्कृतस्य निष्कृति चिकीर्षामि' इति प्रत्यु- तरयामास । कृष्णस्तु तं सावज्ञमाह-'अयि विवेकवि- आन्त, अनेन पश्चात्तापेनैव कृतप्रायश्चित्तोऽसि । तदलम- लमन्धतमसमाप्तिहेतुभूतया आत्महत्यया' इति तं निवार- यामास । तावत् 'भोः कृष्ण, श्रुतं श्रोतव्यम् । किमितः पर- मुक्केन । एवं विगीतकर्माहमधव वनं प्रवक्ष्यामि । कामं महात्मना भीमेन सह महावीरोऽर्जुनः सुखं वसतु' इति सनिर्वेदमुक्त्वोत्तिष्ठन्युधिष्ठिरः 'मत्कृते इदमेकमागःक्षन्तव्यं' इति पादयोर्निपत्य याचमानेन कृष्णेनानुनीतः प्रक- तिमापद्यत । अथ सुमनीकतेन तेनानुज्ञातौ कृष्णार्जुनौ यावयुद्ध- भुवमवतस्तस्तावत्कर्णः स्वपुत्रान् सुषेणादीन्हतान्वीक्ष्य क्रुद्धो बहूनि परवलानि क्षपयामास । अत्रान्तरे भीमो दुःशासनं हठादाकृष्य भूमौ निपात्य पद्मा तत्कण्ठं शिरश्चाक्रम्य अपोद्य-विनिन्ध निष्कृतिम्-प्रायश्चितम् । विवेकविश्रान्त- विवेकरहित । विगीतम्-निन्दितम् । प्रागः--अपराधः ।
( ११७ ) तिष्ठन्नुचैर्जगर्न 'भोः कुरवः, किमिति सर्वेऽपि यूयमुपेक्षध्वे पाश्चालीपराभवजनितक्रोधानलदह्यमानतयातिषितेन मया क्षतजपानाय विदीर्यमाणहृदयं युष्माकं युवराजं दुःशास- नम्' इत्युघुष्य गदाप्रहारोद्गमितं तद्वक्षोरुधिरं पायं पायं 'गौरॊः' इति ननत । तत्क्षणं प्रचण्डतरेण विकृतेन न त- दाकारेण भीतभीतेषु सर्वतः पलायितेषु चलेषु, 'आहर प्रहर' इत्यापतन्तो दश धार्तराष्ट्रास्तस्य महासाहसिकस्य प्रतापानले शलभांबभूवुः । अथ पश्यत एव कर्णस्य तत्पुत्रं वृषसेनं निहत्य युद्धो- यतेऽर्जुने स्वपत्रवधेनोपचितक्रोधेरिमभियुञ्जाने च कर्णे, दिवि युद्धदिदृक्षयागता देवा अर्जुनतः, आदित्याः कर्णतश्चा- भवन् । तत्र च 'जयतु पार्थः' इति 'कर्णः' इति च विव- दमानौ तत्पितराविन्द्रविकर्तनौ सान्त्वयन् पितामहः 'अ- स्मिन् संपरायेऽर्जुनस्य जयोऽस्तु, कर्णस्तु सांपरायिकं ज- यमप्रतिबन्धेन लभताम्' इति व्यवस्थापयामास । तौ कर्णा- र्जुनावुभावपि लघुहस्ततया कृतहस्ततया चानिमिषैरप्यन- वगाह्यप्रयोगान्तरौ प्रतिक्षणमनिलमयमचलमयमनलमयम- चतजम्-रुधिरम् । शलभांबभूवुः-शलभा इव अचेरुः-दग्धा इत्यर्थः । अभियुञ्जाने-माकामति । संपराये-संग्रामे । सांप- रायिकम-पारलौकिकम् ।
( ११८ ) भ्रमयमन्यमन्यं चास्रशस्त्रकलापं विसृजन्तौ सृजन्तौ च तेजे मयं तिमिरमयं शीतमयमशीतमयं च भुवनतलं, चि- रमप्यविश्रान्तावयुध्येताम् । अत्रान्तरे पूर्व खाण्डववने पार्थेन हतजननीकश्छिन्न- वालश्च संस्तस्मिन्बद्धवैरः समयाकाङ्क्षी च स्थितस्तक्षक- पुत्रोऽश्वसेनो नामोरगः स्वयं योगबलन कर्णस्य शरं प्रवि- वेश । तदविद्वान् कर्णस्तं शरं प्रयुञ्जानस्तद्विदा शल्येन नि- षिद्धोऽपि तदनादृत्य पार्थाय प्रयुयुजे । देवराजस्तु 'धिक्प- रस्यार्थे स्वजनाय द्रुह्यन्तम् । यदयं दुरात्माश्वसेनो यस्मा- न्मया प्रयत्नाद्रक्षितस्तमेव ममात्मजं जिघांसति' इति प्रव्य- थितो बभूव । तावत्सारथिना विश्वम्भरेण स्वपदाङ्गुष्ठ- निष्पीडिते किष्कुमात्रं भुवि मने तद्रथे, शिरो लक्ष्यीकृत्य प्रयुक्त तदस्त्रं किरीटिनः किरीटमाच्छिद्यापयातम् । तेन विषण्णस्ताक्षकिः कर्णे स्ववृत्तान्तमावेद्य, अभिहृदयं पुनः प्रयो- गाय तं चोदयामास । 'कथमेकमस्त्रं द्विः प्रयुञ्जीत कर्णः। कथं च वा पराश्रयेण स्वस्मिन्मिथ्यागौरवितो भवतु । त्वदृतेऽपि शक्त एवाहमर्जुनं हन्तुम् । तद् गम्यताम्' इति किष्कुमात्रम्-किष्कुः-परिमाणविशेषः, तन्मात्रम् । किरीटिनः-अर्जुनस्य । तामाकः-तक्षकपुत्रः । अभिहदयम्- हृदयाभिमुखम् । १ ( ११६ ) तेन प्रत्याख्यातः सोऽश्वसेनः स्वयमेव पार्थ जिघांसुरभि- पतन् ग्रीवां खण्डयता तेन स्वमातुः पदवी निन्ये । अनन्तरं प्रयुयुक्षिते ब्रह्मास्त्रेऽप्रतिभाते भुवि मग्ने च स्यन्दने, सम्भ्रान्तस्तूर्ण रथादवतीर्णः कर्णः 'भोः पार्थ, क्षणं विश्राम्यतु भवान् यावदहं रथं समेऽवस्थापयामि । न खलु वीरा विशस्त्र कार्यान्तरव्यग्रं वा शरस्य शरव्यं कुर्युः' इति प्रोवाच । 'अहो विषमस्थः सर्वोऽपि धर्म पश्य- ति, न सुखस्थः । किमयं धर्मो घूतकालेऽनेन नाधीतः । किं विलम्बसे । हन्यतामयं दुरात्माधुनैव' इति कृष्णेन नुन्नोऽर्जुनो दिव्यास्त्रेण भूमिष्ठमेव तं वीरप्रकाण्डं वीरशय्या- यां शाययति स्म । तस्य कर्णस्य शरीरोत्थं दिव्यं ज्योतिः पश्यतामेव सर्वेषां ज्योतिर्मालिनो मण्डलमाविवेश । सपदि पाण्डवबर्हन्यमानासु जयभेरीषु, दुर्योधन- स्तदुःखं सोढुमपारयन्विललाप-'हा पुरुषभूषण, पुरुष- पुंगव, पुरुषोत्तम, वैकर्तन कर्ण, सौन्दर्येण वीर्येण शौर्यैणी- दार्येण गाम्भीर्येण मेधया प्रतिभया वा त्वत्सदृशः पुरुषो न भूतो न च भावी । यस्य तवैकोद्यमजय्यं जगत्, पुरुष- शख्यम्-लक्ष्यम् । विषमस्थः-विपद्ग्रस्तः । ज्योतिर्मा- लिनः-सूर्यस्य । वैकर्तन-विकर्तनस्य-सूर्यस्य पुत्र ।
। १२० ) काम्यं रूपम् , सुरेश्वरार्थिकं वादान्यकम् , विपक्षाक्षोम्यं चित्तस्थैर्यम् । तादृशस्त्वमार्जवैकपरायणः कुसृतिशरणैः पापैरिमां दशां गमितोऽसि । त्वयि कीर्तिशेषे संवृत्ते कि मम जीवितेन' इति मुवि निपत्य मुमोह । पुनराश्वासितः स शल्यं सेनापतिं विधाय, तेन सह मितपरिवारः पुत्रशो- केनैव तिरोहिते विवस्वति, स्वशिविरमगात् । युधिष्ठरस्तु प्रहृष्टोऽर्जुनमालिङ्गय 'अद्य राजास्मि संवृत्तः' इति वदन कृष्णार्जुनादिभिः सह महता जयघोषेण मुखरायमाण- दिक्चक्रवालः खस्कन्धावारमासाद्य सुखमासांचक्रे । इति । सुरेश्वरार्थिकस्-इन्द्रोपि यत्र याचकः । वादान्यकम्- वदान्यता-दानशूरता । विवखति-सूयें।
No text on this page.