Shri Jain Swetamber Khartargacch Sangh, Jaipur

Gurgavali

Suri, Shri Sundar · 2011/03

PDF Proofread

Front matter

No text on this page.

No text on this page.

No text on this page.

मोविजयजैनग्रन्थयाला.[.४ ] :
अहम् ।।
श्रीमुनिसुन्दरसूरिविरंचिता
गुर्वावली
द्वितीयात्तिः
घोर संवत् २४३७ 1.
PAIKTED, AND PUBLISHED BY SHAH HARKHCHAND BHURABHAI
AT THE OHARMABHYUDAYA PRESS,
Benares City.
मूल्यं -४-०॥

No text on this page.

0000000000000000000000000000
अहम्
श्रीयशोविजयजैनग्रन्थमाला[४]
00000000000000000000000008
Co00000000000000mgaibaggoodpeacocoangood
श्रीमुनिसुन्दरसूरिविरचिता
गुर्वावली।
रंगूनस्थश्रीश्वेताम्बरजैनसङ्घसाहाय्येन
वाराणस्यां
श्रेष्ठिभूराभाईतनुजहर्पचन्द्रेण निजधर्माभ्युदययन्त्रालये
मुद्रितां प्रकाशिता च।
10000०००००
द्वितीयावृत्तिः ।
पीरसंवत् २४३७ ।
मूल्यं ०-४-1
100000000000000000000000000000000

No text on this page.

प्रस्तावना।
-
अस्त्ययं लधीयानपि वरीयान् गुर्वावलीनामा ग्रन्थः पर्युपणापर्ववि-
ज्ञप्तित्रिदशतरङ्गिणीनाम्नो महाग्रन्थस्य गुरुवर्णनप्रवाहरूप एकस्तृतीयो
विभागः। विनिर्मातारश्चास्य समस्तशास्त्रपारावारपारदृश्वानः कविचक्रच-
क्रवर्तिनःश्वेताम्बरजैनाचार्यास्त एव श्रीमन्मुनिसुन्दरसूरयः, ये परमा-
वधिमधिगतेन निजेन प्रतिभाप्रकर्पण, सहस्रस्यावधानानां विधायिन्या
च लोकोत्तरशक्त्या विश्वस्मिन्नपि विश्वे परां प्रसिद्धिमासादितवन्तः,
ये च तदानीन्तनैस्तच्चातुर्वेद्यवैशारद्यचमत्कृतचित्तैस्तत्तद्देशीयविबुधवृन्दैः
कालीसरस्वती-वादिगोकुलपण्डप्रभृतिभिरप्रतिमविरुदैरनल्पं समा-
नास्पदमकारिपत, ये पुनस्तैस्तैः स्वीयैरनन्यसाधारणैर्गुणगणैर्जिनशासन
महीयांसं प्रभावमापीपदन् । तथा च तन्निर्मलगुणप्रतिपादकानां तत्तद्ग-
न्थानामुल्लेखाः, विज्ञाय तदुपयोगितां, अत्रोद्धियन्ते-
श्रीजिनहर्पगणिकृते विंशतिस्थानकविचारामृतसंग्रहे-
" तच्छिप्यः प्रथमः समर्थमहिमा त्रैविधगोष्ठीगुरुः
सूरिः श्रीमुनिसुन्दरः सुरगुरुः ख्यातः क्षितौ प्रज्ञया
१ यदाहुः सूरय एवैतद्ग्रन्थप्रान्ते-
" इति श्रीयुगप्रधानावतार-श्रीमत्तपागच्छाधिराजवृहद्रच्छनायकपूज्यारा-
ध्यपरमाप्तपरमगुरुश्रीदेयसुन्दरसूरिंगणराशिमहिमाणवानुगामिन्यां तद्विनेयश्रीमुनिसु.
न्दरगणिहदयहिमयदवतीर्णश्रीगुरुप्रभावपद्महदप्रभवायो धीमहापर्वाधिराजश्रीपर्युप-
णापर्वविज्ञप्तित्रिदशतरङ्गिण्यो तृतीये श्रीगुरुवर्णनस्रोतसि गुर्वावलीनाम्नि " इति ।
२ एतद्घन्धविरचनाकालस्तत्कर्तृभिस्तयं निरदेशि...
वीरमगामाख्यपुरे युग्म-व्योमेन्दु-पथभिः ।
प्रमिते वत्सरे हर्षानिनहर्षेण साधुना
"
"
॥१५॥

( २ ) श्रीहेमहंसगणिविरचितायां न्यायार्थमञ्जूपायाम्- " मारियन निवारिता सुरकृता संसूत्र्य शान्तिस्तव स श्रीमान् मुनिसुन्दराभिधगुरुदीक्षागुरुर्मेऽभवत्"। श्रीरत्नशेखरसूरिप्रणीते आचारप्रदीपे- मारीत्यवमनिराकृति-सहस्रनामस्मृतिप्रभृतिकृत्यैः । श्रीमुनिसुन्दरगुरवश्चिरन्तनाचार्यमहिमभृतः" ॥ ८ ॥ श्रीप्रतिष्ठासोमगणिविनिर्मिते सोमसौभाग्यकाव्ये पष्टे सर्गे- "व्यतिज्ञपद् विज्ञशिरोमणिश्च गच्छाधिपं स्वच्छमतिप्रसारम् । श्रीसूरिदीव्यत्पदभूमिवित्तव्ययस्य निर्मापणतः प्रसीद ॥ ततो गुरुः सौवविनेयवृन्दे ददौ सदौन्नत्यगुरुः स्वदृष्टिम् । श्रीवाचकेन्द्रे मुनिसुन्दराद्धे विशेषतो योग्यतया तया च ।। जल्पत्यनल्पं सविकल्पजालं सदाप्यनुस्यूतमतिप्रभूतम् । स्राक् संस्कृतं प्रोन्मदवादिवृन्दं ननाश यस्मिन् किल काकनाशम् ॥ स्वसाध्यसिद्ध्यै संति यन्त्र हेतूपन्यासमातन्वति वादभूमौ । प्रावादुकोन्मादभरः शरीरे स्वेदेन सार्धं किल जागलीति ।। मन्निर्मिता श्रीगुरुभव्यकाव्यविज्ञप्तिगङ्गा गुणसत्तरङ्गा । प्रक्षालयन्ती कलिकश्मलोघं हृष्टानकापात् सुमनःसमूहान् ॥ १ श्रीयशोविजयग्रन्थमालायां मुद्रितोऽयं ग्रन्थः । एतनिर्माणसमयस्तु- "श्रीमद्विक्रमवत्सरे तिथिंतिथौ शुक्लद्वितीयातिथौ पूर्वाह्ने मृगलाञ्छने मृगशिरःशृङ्गाप्रशारिणि । शुक्रस्याहनि शुक्रमासि, नगरे श्रीसागरेऽहम्मदा- वादे निर्मितपूर्तिरेष जयताद् प्रन्थः सुधीवल्लभः" ॥ १४ ॥ इति तत्प्रशस्तिश्लोकेन स्फुटं विनिर्णीयते । २ अयं ग्रन्थः कर्तृभिः पोडशाधिकपञ्चदशशतमिते वर्षे व्यधायि, यदाहुस्तत्रैव ते- "एषां श्रीसुगुरूणां प्रसादतः षट्-कु-तिथिमिते वर्पे । जग्रन्थ ग्रन्थमिमं सुगमं श्रीरत्नशेखरः सूरिः" ॥ १२ ॥ ३ एतद्ग्रन्थविरचितिसमयं तत्कर्तारः प्रान्त एवं विनिवेदयन्ति- पारावार-कर-स्मरेपु-हिमरुग्वर्षेऽतिहर्षाद् व्यवाद् विज्ञानां हृदयङ्गमं च सुगम क्लप्तेन्दिरासंगमम्"।

येन प्रक्लप्साः स्तुतयः स्तवाश्च गाम्मीर्यभृग्नव्यसदर्थसार्थाः । श्रीसिद्धसेनादिमहाकवीनां कृतीमतीछा भनुचक्रिरे ताः ॥ साक्तिभृत्संस्कृतजल्पशकिः सहस्रनाम्नां कथनकशक्तिः । तात्कालिकी नन्यकवित्वशक्तिन यं विनाऽन्यत्र समीक्ष्यतेऽद्य ॥ विद्या न साऽऽस्ते निरवद्यताभृत् कला नसा चाऽस्ति वरा धरायाम् । यस्यां न यस्याऽगिगणार्चितस्य बुद्धिर्विशुद्धा प्रसरीसरीति म मेधाविनः सन्ति परःसहस्रा भदूष्यवैदुष्यधरा धरायाम् । परं न यस्य प्रसरत्यकर्पप्रज्ञस्य विज्ञस्य तुलाभृतः स्युः ।। तं वाचकं सूरिपदाहमहन्मतोसतिस्फातिकरं विमृश्य । वचोऽनुमेने सुमना महेभ्यराश्रीदेवराजस्य गणाधिराजः ॥ अगादसा धाम निकाममन्तश्चित्तं प्रहटः कृतिनां गरिष्ठः । साक् प्राहिणोत् कुखमपनिकाश्च कीया समं भूमितलेऽखिलेऽपि ॥ समागमन् सङ्घजनाश्च तेनाऽऽहूताः प्रभूताः परिपूतचित्ताः । तदा च रूपास्तसुपर्वगर्वैस्तैस्तरपुरं वःपुरवद् विरेजे ॥ मेाद्यवाद्यानि जगजुर्जस्वलानि मङ्गल्यरवाऽतुलानि । समं च तैः साक् सुकृतानि तानि पुराकृतानि प्रथितानि तस्य ॥ वातोमिवेलच्छुचिकेतनानि निकेतनानि व्यवहारिनेनुः । यमासिरे तस्य गुणान्वितस्य श्रद्धोज्ज्वलानीच लसन्मनांसि ॥ तदा च सुबामपुरस्य शोभा शुभां विभर्ति स्म पुरं तदुचैः । पदे पदे यत्प्रमदप्रदात्री निरीक्ष्यतेऽसर्वसुपर्वराजिः ॥ सर्वानाचार्वाभरणाभिरामा रामाः सकामाः प्रददुस्तदानीम् । न केवलं सद्धवलानि सर्वोतृश्रुतीनामपि च प्रमोदम् ॥ महोत्सवेषु प्रथितेषु तेपु समन्ततः संततमद्भुतेषु । सोरकर्पहर्पण पुरात् पुराणः शोकस्तदानीं निरकासि सद्यः ॥ मुहूर्तयनेऽथ रमासनाथयुगादिनाथस्य पृथूचचैत्ये । अमण्डि नन्दिप्रुभिस्त्रदानीमुव्यों च गुयी स्वयशःसमृद्धिः॥ महामहोघे प्रसरत्यनपे माल्यजल्पेऽखिलबन्दिनां च । श्रीवाचकानां परसूरिमन्त्रं प्रादाद् मुदा श्रीतपगच्छनाथः ।। सङ्घाधिपश्रीयुतदेवराजः सदावदातरवदातकीर्तिः । उत्कर्पतो दानजलं प्रवर्मन् प्रावृड्यनामो ददृशे तदानीम् ॥ माणिक्यरत्नैः प्रवरैश्च चौरैर्विभूपणैन्यक्कृतदूपणैश्च । प्रचक्रिरे तेन नरेन्द्रकल्पाः कल्पांहिपाभेन चनीपकौघाः ॥ मुक्ताफलैर्निर्मलकान्तिकान्ताचिरनरत्नर्विशदाक्षतश्च ।

( ४ ) १ वर्धापयामासुरसीमरूपाः स्त्रियः श्रियः सद्युतिभिर्गुरूंस्तान् ।। गर्जत्यूर्जितवर्यतूर्यनिकरे दिक्चक्रकृक्षिभरि ध्वाने सद्धवलध्वनौ च नितरां प्रोत्सर्पति. स्त्रीमुखात् । हूहूतुम्बुरुजैनगायनगणैर्विस्तार्यमाणे च स- गीते श्रीगुरवो विनेयसहिताः श्रीधर्मशालां ययुः । प्राञ्चत्पेशलखण्डिकामृदुलसन्नर्मप्रतिष्ठानिका- श्रीखण्डोज्ज्वलपमुख्यसियश्चञ्चत्प्रभासञ्चयः । रम्यश्रीयुतसोमसुन्दरमहासूरीश्वराणां व्यधात् पूजां श्रीश्रितदेवराजमहिमा श्रीदेवराजस्तदा ॥ पक्वान्नैर्विविधैः स धीरमुकुटः सद्गन्धकूरोत्करें- लिस्फातिततैः ससौरभघृतै|लामृतश्चामितैः । श्रीसद्धं सकलं कलङ्करहितश्रीर्जेमयामास त- त्पूजां चीरचयैर्व्यधाच्च गणनातीतैः प्रतीतैर्गुणैः ।। श्रीमान् सूरिपदे पदेऽथ यशसां कारापिते श्रीगुरो-.. रादेशाद् मुनिसुन्दरतिवरश्रीसूरिणा संयुतः। युक्तः पञ्चशतीमितैश्च शकटैरुद्य टैर्भूयसा सद्धेनाप्यनघेन तूर्णमचलत् श्रीतीर्थयात्रां प्रति ॥ भेर्याथूर्जितहृयवाद्यनिनदैव्योमाङ्गणं गर्जयन् रङ्गत्तुङ्गन्तुरङ्गमक्रमखुराघातैः क्षिति कम्पयन् । चञ्चद्वर्णसुवर्णदण्डकलशैर्देवालयैरुन्नतैः शोभां बिभ्रददभ्रशुभ्रयशसा शुक्लं सृजन् क्ष्मातलम् । श्रीशत्रुञ्जयपर्वतेऽपि च गिरौ श्रीरैवते दैवतं श्रीनामेयजिनं निरंस्तवृजिनं नेमीश्वरं भास्वरम् । नत्वा तत्र महोत्सवान् नवनवान् कृत्वा च दत्त्वा धनं भूत्वा संघपतिः कृती निजगृहं चागात् स सङ्घोऽनघः ॥ श्रीगच्छेन्द्रगिरा सुधारसकिरा शिष्योत्करैः संयुता- गर्वाखर्वकुवादिसिन्धुरवटावित्रासपन्चाननाः । पूर्णेन्दुप्रतिमानना धनजनाहादप्रकर्पप्रदाः श्रीमन्तो मुनिसुन्दराहगुरवः क्षोणी विहारं व्यधुः ॥ दशमे सर्गे च- श्रीसोमसुन्दरयुगोत्तमसूरिपट्टे श्रीमान् रराज मुनिसुन्दरसूरिराजः । श्रीसूरिमन्त्रवरसंस्मरणशक्तिर्यस्यांभवद् भुवनविस्मयदानदक्षा ॥ श्रीरोहिणीति विदिते नगरे ततेतिपश्चात्कृतेः किल चमत्कृतहृत् पुरेशः ।

जरीचकार मृगयांकरणे निषेधं प्रावर्तयन्निखिलनीति चाप्यमारिम् ॥ प्रागेव देवकुलपाटकपत्तने यो मारेपेद्रवदल दसयाचकार । श्रीशान्तिकरस्तवनतोऽयनतोत्तमाङ्गभूपालमौलिमणिपृष्टपदारविन्दः ।। श्रीमानदेवशुचिमानसमानतुनमुख्यान प्रभावकगुरून् स्मृतिमानयद् यः । श्रीशासनाभ्युदयदप्रथितावदातस्तैरतश्चमत्कृतिकरैः कुमुदावदातैः" । श्रीसोमचारित्रगणिगुम्फिते गुरुगुणरत्नाकरकान्ये- "अथ श्रीमुनिसुन्दरसूरीश्वराणां सर्वगुणसंपूर्णानामपि कियद्गुणवर्णनम्- अध्यात्मकल्पद्रुमवलगुगुर्वावलीविचित्राप्तपतिस्तवादीन् । ग्रन्यान् बहून् ग्रेथुरजिझमत्या येऽपास्तवाचस्पतिदर्पदीप्त्या ॥ ६७ ॥ श्रीसूरिमन्त्रस्मरणातिशेषान् पष्ठाप्टमादेच तपोविशेषान् । प्रत्यक्षतामाययुरार्यपद्मावत्यादिदेव्यः प्रमदेन येपाम् ॥ ६८ ॥ निर्माय यः शान्तिकरं स्तवं नवं निवारिता मारिरिहाऽतिदुसरा । ध्यानात् तथा तिहभरेतिरक्षसा जागद्गुणजेनमतमभावकैः ॥ ६९ ॥ पीयूषयूपमधुरात्मगिरा दुरन्त- मानेमुपामिहं विमोहविपं हरन्तः। भव्योत्सवं भुवि विहारविधि सृजन्तः श्रीमानतुगगुरुवद् महिमर्धिमन्तः ॥ ७० ॥ सक्षुल्ललाभमनिमश्रुतसंविदेका- ऽऽलोकात् समीक्ष्य मुनिसुन्दरसूरिराजाः । स्वाश्रय्युमापुरमुमापुरनामधेयं प्रामं प्रमादनुपमं तमुपागमते ॥ ७१ ॥ श्रीदेवविमलगणिभिर्गुम्फिते हीरसौभाग्यमहाकाव्ये चतुर्थे सर्गे- "पश्रियाऽस्य मुनिसुन्दरसूरिशके संप्रासया कुवलयप्रतियोधदक्षे । कान्तेव पद्मसुहृदः शरदिन्दुविम्बे प्रीतिः परा व्यरचि लोचनयोजनानाम् ॥ १२४ ॥ १ श्रीयशोविजयजनप्रन्थमालायां मुद्रितम् । इदंनिर्माणसमयस्त- आक्षेपाद विधु-वेद-वष्म वसुधावर्षे सुमिसौद्भवे' इति प्रन्यान्तभागे कर्तृभिरेव स्पटं निक्षितः। " योगिनीजनितमायुपप्लवं यग शान्निपारमंगवानिए । पर्पणादिन तपतप्तमो नारवा निवान अतिरे ।। १३" ! মাথি হাত মিশনিখানানি শা শান্ত। अष्टोत्तरं पतलिकानिनादशतं रम निः पियां निधियः ॥ २६ ॥ भलम्भि याग्यो दिशि गेन कालीसम्यगरि ब्रिग धम्मः । वरदीच्यामिव सन्न तेजोतिरिच्यते यत्पुनरन घिसम्" ।। १२७ ॥ श्रीधर्मसागरोपाध्यायग्रथितायां तपागच्छपट्टावन्या च- "येनानेकप्रासादपाचपट कारकमियागुप्तकाममनोमनमुरीमद्रास. নাজিমীৱমাননায়ানিবিলাকাবাসা নাৰায়ৰমাণায়ানময়িকামিন্যায়- योत्तरशतहस्तमितो लेखः श्रीगुरूणां प्रेरितः । घागुपैगमेशारयनिधिरुपदेश- रत्नाकरममुखग्रन्यकारकः । म्नम्भतीर्थे दफरमानेन वादिगोकुलपण्ड इति भ- णितः। दक्षिणस्यां कालीसरस्वती इति मातविरदः । अष्टवर्षगणनायकत्यान- न्तरं वर्पत्रिक युगप्रधानपदव्युदयाति जनगणः । अष्टोत्तरशतनलिकानावो. पलक्षकः । बाल्येऽपि सहनाभिधानधारकः । सन्तिकरमिति समदिमलवनकर- णेन योगिनीकृतमायुपद्वनिवारकः । चतुविशनिवार विधिना सूरिमन्ना- राधकः । तेष्वपि चतुर्दशवार यदुपदेशतः स्वस्वदेशेषु घन्पकराजदेयाधारादि. राजभिरमारिः प्रवर्तिता। सीरोहीदिशि सहलमल्लरानाप्यमारिपरिपनने हते सति येन तिहकोपदवो निवारितः" । उक्तसूरीणां जन्म-दीक्षादिसमयोऽपि श्रीमद्धर्मसागरोपाध्यायनिजे तपागच्छपट्टावलीग्रन्थ एवमुदटकि- "श्रीमुनिसुन्दरसूरेवि० पत्रिंशदधिके चतुर्दशशत (१४३६) बर्षे जन्म । त्रिचत्वारिंशदधिके (१४४३)बतम् । पट्पष्टयधिक (१९६६) वाचकपदम् । अष्ट- सप्तत्यधिके (१४७८) द्वात्रिंशत्सहस्र (३२०००) हव्ययेन वृद्धनगरीयसं० देव- राजेन सूरिपदं कारितम् । व्युत्तरपञ्चदशशत (१५०३) वर्षे का० शु० प्रतिपदिने स्वर्गभा"। एतेनैतेषां सूरिवर्याणां सत्तासमयो विक्रमात् पञ्चदशशताब्दीरूप- इति स्पष्टं विनिश्चीयते । संवदन्ति चैतत् वयं सूरयोऽपि तत्र तत्र स्वीयग्रन्थविरचनाकालमुपनिबध्नन्तः- तथाहि- अत्रैव (गुर्वावल्याम्)- "रस-रस-मनुमितवर्षे मुनिसुन्दरसूरिणा कृता पूर्वम् ।

सध्यस्थैरवधार्या गुर्वालीयं जयनीदा ॥ १३ ॥ मित्रचतुष्ककभायामपि च- "वेदाष्टमनुमितेऽदे मुनिसुन्दसूरिभिः सुमुखवृत्तम् । भन्यानुमहोतोः श्रेयाप्राप्य व्यधायीयम्" ॥१॥ एभिः पूज्यपादैरन्येऽपि विद्वत्तापरिपूर्णा वह्वो ग्रन्था जग्रन्थिरे, तत्रैतावन्तस्त्विदानीमप्युपलभ्यन्ते-- १ विद्यगोठी। २ अध्यात्मकल्पद्रुमः । ३ उपदेशरत्नाकरः सटीकः । ४ जयानन्दचरित्रम् । ५ मित्रचतुष्ककथा । ६ चतुर्विशतिजिनस्तोत्रम् । ७ जिनस्तोत्ररत्नकोपः। ८ शान्तिकरस्तोत्रम् । इयं च द्वितीयावृत्तिः प्रथमावृत्तेः, शास्त्रविशारदजैनाचार्यश्री- विजयधर्मसूरीश्वराणामेकस्याः प्राचीनाया अतिशुद्धाया हस्तलिखित- प्रतेश्वावलम्बनेन सम्यक् संशोध्य मुद्रिता, तथापि 'मनुष्यसहभू - न्तिदुर्निवारा' इति या काचित् स्खलनाऽत्र संजाता भवेत् तां कृपा विधाय धींधनाः परिशोधयन्तु- इति प्रार्थयन्ते- यशोविजयजैनग्रन्थमालाव्यवस्थापकाः।

No text on this page.

अहम् श्रीविजयधर्मगुरुभ्यो नमः । श्रीमुनिसुन्दरसूरिविरचिता गुर्वावली। । जयश्रियं रातु जिनेन्द्रचन्द्रमाः स वर्द्धमानप्रभुरद्भुतां सताम् । निजाऽभिधानाऽनुगुणास्तनोति यः स्तुतक्रमः प्रार्थितसौख्यसम्पदः॥१॥ पदारविन्दं सकलेप्टसाधकं प्रणम्य तस्यैव जगत्प्रभोर्मुदा । तदीयसन्तानकियद्गुरुक्रमस्तवेन कुर्वे ववशाः शिवश्रियः ॥ २ ॥ शिवानि तस्याऽऽदिमशिप्यनायकस्तनोतु सङ्काय स गौतमो गुरुः । गणाधिपख्यातिधरोऽपि शङ्करो बभूव लोके पुरुपोत्तमश्च यः ।। ३ ।। जाते समं वीरजिनेन वादे विभावयामो जयमेव तस्य । अगोत्रजोऽप्येष यदस्य कोशं रत्नत्रयाढ्यं स्ववशीचकार ॥४॥ क्षमाधरेन्द्रस्तनुतांस पञ्चमः श्रीमान सुधर्मा २ गणभृत् सुखश्रियम् । विभाति गङ्गेव यदुत्थसन्ततिः पुरः पुरो 'विस्तृतिभाक् स्वपाविनी।।५।। शिष्योऽस्य जम्बू ३ ददतां शिवं सतामपश्चिमः केवलसम्पदः पतिः । न्ययुक्त यः पुण्यवसूनि रक्षितुं प्रभुविवेकी परिमोपिणोऽप्यहो ! ॥६॥ आरक्षको वीरविभोर्न जम्बूसमोऽभवत् पञ्चशतानि चौरान् । चक्रे समं यश्चरणे नियम्य शिवाध्वरःकरतान् मुमुक्षुन् ॥ ७ ॥ प्रावाजीद यो भगवान् परिहत्य द्रविणकोटिनवनवतिम् । सखीनतजनकजननीजायाचौरादिसम्बोधः ॥ ८॥ प्रभुः स जीयात् प्रभवो ४ महामतिर्जम्बूगुरोः कोशहरः सुचौरराट् । यो रनकोटी: परिमुच्य गेहगा रत्नत्रयं मानसभूस्थमप्यलात् ।।९।। १ विस्तर इति च पाठः ।

२ श्रीमुनिसुन्दरनरिविरचिता शय्यम्भव५स्तत्पदमण्डनः सतां तनोतु तातो मनकस्य सम्पदः । अजीगमद् यो जिनराजदर्शनं सुदर्शनं मुक्तिरमानिदर्शनम् ॥ १८ ॥ सूरियशोभद्र६इति प्रसिद्धः शिष्यस्तदीयः स ददातु भद्रम् । गजाऽब्धिचन्द्र१४८ प्रमिते गुरुयो बभूव वर्षे जिनमोक्षकालात् ॥११॥ सम्भूतविजयनामा ७ तस्य विनयस्तनोतु शं प्रथमः । यत्पदपद्मोपान्ते प्रत्रजितः स्थूलभद्रगुमः ॥ १२ ॥ अपश्चिमः पूर्वभृतां द्वितीयः श्रीभद्रबाहुन ७ गुरुः शिवाय । कृत्वोपसर्गादिहरस्तवं यो ररक्ष सङ्घ धरणाचितांहिः ॥ १३ ।। नियूंढसिद्धान्तपयोधिराप स्वर् यश्च वीरात् सनगेन्दुवर्षे १७० । तयोविनेयः कृतविश्वभद्रः श्रीस्थूलभद्रश्च ८ ददातु शर्म ।। १४ ।। स्त्रीसङ्गवह्नावपि यस्य शीलट्ठमोऽभवत् पल्लवपेशलश्रीः । सूत्राञ्च पूर्वाणि चतुर्दशाऽपि वभार यो दर्शितलब्धिलीलः ॥१५|| (विशेषकम्) तिथिद्विसङ्खये २१५ त्रिदिवं गतस्य तस्याऽन्दके वीरजिनेन्द्रमुक्तः । महागिरि ९ स्तत्प्रथमो विनेयः श्रियेऽभवद् यो जिनकल्पिकल्पः ॥१६॥ जीयात् सुहस्ती९ च गुरुद्वितीयो योऽथबुधत् सम्प्रतिभूविभुं तम् । अचीकरद् यो जिनसझरम्यां पृथ्वी त्रिखण्डाधिपतिः सुदाता॥१७॥ स गुरुविधुनिधिपाणिप्रमिते २९१ वीराद् गतोऽब्दके स्वर्गम् । सुस्थितसुप्रतिबुद्धौ कोटिककाकन्दिको शिप्यौ १० ॥ १८ ॥ तस्याऽभूतां चोभौ कोटिकनामाऽभवञ्च तद्गच्छंः । कोट्यंशः श्रीवजं यावदभूत् सूरिमन्त्रो यत् ।। १९ ।। तत्रेन्द्रदिन्नसूरिः११श्रीदिन्नं१२श्चाभवत् पदे तस्य । सिंहगिरि१३स्तस्यापि हिं वज्रस्वामी१४ चं तंच्छिप्यः ॥२०॥ या प्रज्ञा यच्च सौभाग्यं यः प्रभावश्च या मंतिः श्रीमद्बज्रगुरावासंस्तानि नाऽन्यत्र विष्टपे ॥ २१ ॥ १ 'कोटीशः' इत्यपि । २ 'प्रभा' इति च । .

गुर्वावली 1-1. ३ नभोगविद्याकृतसङ्घरक्षः स वनशाखाप्रभवस्य मूलम् । ददातु भद्रं दशपूर्व्यधीशो वाल्येऽपि जातिस्मृतिमान् सुराऽय॑ः ॥२२॥ खर्वेददन्तीपुमिते५८४स वर्षे यातो जिनात् प्रेप्य निजं विनेयम् । सोपारके श्रीमति वज्रसेनं तदा चतुर्वन्धुविवोधहतोः ।। २३ ।। श्रीयनसेना१५ञ्च ततो बभूवुः कुलानि चत्वारि सुविस्तृतानि । नागेन्द्रचान्द्रे अथ नैवृतं च वैद्याधरं वादिजस्निाना ॥ २४ ।। विचित्रशाखाकुलगच्छमूलं नैके बभूवुर्गुरवश्व तेषु । प्रणम्य तांश्चान्द्रकुलेऽथ सूरीन् स्तवीमि कांश्चित् क्रमतो गणेन्द्रान ।। नखर्तुवर्षेऽथ६२० जिनाद् दिवं स श्रीवसेनोऽधिगतः श्रियेऽस्तु । श्रीचन्द्रसूरि २६ श्च पदे तदीयेऽभवद् गुरुश्चन्द्रकुलस्य मूलम् ।।२६।। एवं क्रमेण गुरुवः प्रोक्ताः क्वचन क्रमान्तरेणापि । भन्यानां भवभीति हरन्तु तन्वन्तु च श्रेयः ॥२७॥ अथो गुरुश्चन्द्रकुलेन्दुदेवकुलादिवासोदितनिर्ममत्वः । सामन्तभद्रः१७श्रुतदिष्टशुद्धतपस्क्रियः पूर्वगतश्रुतोऽभूत् ।। २८॥ . युद्धस्ततोऽभूत् किल देवसूरिः १८ शरच्छते विक्रमतः सपादे १२५ । कोरण्टके यो विधिना प्रतिष्ठां शङ्कोळधा नाहडमन्त्रिचैत्ये ।।२९।। प्रद्योतनः सूरि१९ रभूत् पदेऽस्य ततोऽपि चासीद् गुरुमानदेवः २० । यस्यांसयोर्गी:कमले समीक्ष्य साक्षात्प्रतिष्ठासमये पदस्य ॥ ३०॥ भ्रंशोऽस्य मावीति विचारणातो. विखिन्नचित्तं गुरुमाकलय्य :- वल्याज यो भक्तकुलाप्तभिक्षामाजीवितान्तं विकृतीश्च सर्वाः ॥ ३१ ।। (युग्मम्) पद्मा जयां च विजयामपराजितां च साक्षायदंहिसमुपास्तिपरां निरीक्ष्य । नारीवृतोऽयमिति निर्मितदुर्विकल्प कश्चिद् नरं लघुविमुग्धमशिक्षयंस्ताः ॥ ३२ ॥ पर्पसु नड्डूलपुरस्थितोऽपि शाकम्भरीनाग्नि पुरे प्रभूताम् । . तदागतश्राद्धगणाऽर्थनातः शान्तिस्तवाद् मारिमपाइरद यः ।। ३३ ।। पर श्रीमुनिसुन्दरसुशिविरार्चिता स यः संयमाढ्यमुनिपञ्चशतीगणेन्द्रः सर्वातिशायिमहिमा गुणरत्नवाद्धिः । निन्ये जिनेश्वरमतं परमां प्रतिष्टां लाध्यःस कस्य न गुरुः खलु मानदेवः २० ॥३४|| आसीत् ततो दैवतसिद्धिनद्धः श्रीमानतुझोऽथ गुरु:२१ प्रसिद्धः । भक्तामराद् वाणमयूरविद्याचमत्कृतं भूपमबोधयद् यः ।। ३५ ।। भयहरतः फणिराजं यश्चाकादि वशम्बदं भगवान् । भक्तिभरेत्यादिनमस्कारस्तवन्धबहुसिद्धिः ।। ३६ ।। जज्ञे चैत्ये प्रतिष्टाकृन्नेमे गपुरे नृपात् । त्रिभिर्वशतैः३००किञ्चिदधिकैरिसूरिराट् २२ ।। ३७ ।। क्रमाद् बभूवुर्जयदेव २३ देवानन्दौ २४ गुरू विक्रमसुरिराट् २५ च । नरादिसिंह२६श्व गुरुर्नरादिसिंहे पुरे बोधितहिं यक्षः ।। ३८ ।। खोमाणभूभृत्कुलजस्ततोऽभूत् समुद्रसूरिः २७ स्ववशं गुरुयः । चकार नागदपाश्वतीर्थ विद्याम्बुधिदिग्बसनान विजित्य ॥ ३९ ।। अभूद् गुरुः श्रीहरिभद्रामित्रं श्रीमानदेवः पुनरेव सूरिः २८ । यो मान्यतो विस्मृतसूरिमन्त्रं लेभेऽम्बिकास्यात् तपसोजयन्ते ॥४॥ जज्ञे श्रीविबुधप्रभोर्गुरु २९ रदःपट्टे च विद्यानिधि- विश्वानन्दकरो गुणैरथ जयानन्द ३० स्ततः सूरिराट् । नड्डूलाहपुरे प्रतिष्ठितवरश्रीनेमिचैत्यस्ततो- ऽप्यासीद् वर्षशतै रविप्रभगुरु:३१श्रीविक्रमात् सप्तभिः ७०० ॥४१॥ अजनि रजनिजानिन गरब्राह्मणानां विपुलकुलपयोधौ श्रीयशोदेवसूरिः ३२ । प्रवरचरणंचारी भारतीकण्ठनिष्का- भरणविरुदधारी शासनोद्योतकारी ।। ४२ ।। प्रद्युम्नसूरिश्च ततो बभूव प्रद्युम्नदानलवारिवाहः । प्रणीतसद्युक्त्युपधानवाच्यग्रन्थश्च तस्मादपि मानदेवः ।। ४३ ।। (केचिदिदं सूरिद्वयमिह न वदन्ति) गुर्वावली। सतः प्रसिद्धोऽजनि चिन्नकूटे स हेमसिद्धिविमलेन्दुसूरिः ३३ । अपूजयद्यं विपमेऽपि वादे सद्यो जिते गोपगिरेनरेन्द्रः ।। ४४ ॥ तत्पट्टभूपाकृदभूद् मुनीनां त्रिभिः शतैः सेव्यपदः सदाऽपि । उद्द्योतनः सूरि ३४ रवद्यहीन विद्यानदीविश्रमसिन्धुनाथः ।। ४५ ।। समस्त्यथो शैलकुलावचूलः श्रीअर्बुदस्तीर्थपवित्रिताल्मा । नानापुरमामतटाकवापीधुनीवनभ्राजिततुङ्गमौलिः ॥ ४६॥ कथं भवेद् नो हिमधामभूभृतस्तनूभुवः क्षोणिधरेषु राजता । नीचैल्ठद्भिः किल यस्य सर्वतः पादा निपेच्या विविधैः क्षमाधरैस४ि७॥ यन्मूर्ति गोपीगणकेलिगीतश्रीमयुगादीशगुणामृतानाम् । ग्रहाः प्रयान्तश्चिरपानलोलाः सर्वेऽपि वाञ्छन्ति शनैश्वरत्वम् ॥४८॥ यदुमशृङ्गेपु मृगैश्वरद्भिमिलन्विधोरमृगः प्रयातः । हयेयाश्चार्करथस्य युक्ताः स्वजातिजाऽऽतिथ्यसुखं लभन्ते ॥ ४९ ॥ यदुच्चमौलिस्थितकाननेषु तमीपु सर्वासु विभान्ति वृक्षाः । शाखागणान्तर्गततारकौघा इवाऽखिलर्तृगतपुष्पगुच्छाः ।। ५०॥ विभाति नानाविधनन्दनाश्रितो यो भद्रशालावलिभिस्तथाऽऽचितः। परिस्फुरनिप्पमपाण्डुकम्बलो विभ्रत्सुमेरोरतिशायिनीं श्रियम् ॥५१॥ यन्मौलिमौलि: प्रभुरादिमोऽहंतां चकास्ति नागेन्द्रमुखैः प्रतिष्ठितः । उच्चैः पदं यान्ति निनसयाऽपि मे पराङ्मुखाश्चाध इतीव दर्शयन् ॥५२॥ चतुर्नवत्याऽभ्यधिकैः शरच्छतैः श्रीविक्रमार्का नवभिः स सूरिराट् । पूर्वावनीतो विहरन्नथागमद् यात्राकृते तस्य गिरेरुपत्यकाम् ।। ५३ ।। टेलीखेटकसीमसंस्थितवटस्याधः पृथोस्तत्र सः प्राप्तः श्रेष्ठतम मुहूर्तमतुलं ज्ञात्वा तदाऽतिष्ठिपत् । सूरीन सौवकुलोदयाय भगवानष्टौ जगुस्त्वेककं केचिद् वृद्धगणोऽभवद्बटगणाभिख्यस्तदादि९९४त्वऽयम् ॥५४॥ न्यप्रोधगच्छेऽथ बभूव तस्मिन् श्रीसर्वदेवः ३५प्रथमो मुनीन्द्रः। श्रीसूरिमन्त्रातिशयद्धिधारी विश्वोपकारी गणिसंपदादयः ।। ५५ ।। चरित्रशुद्धिं विधिवन्जिनागमाद् विधाय भन्यानभितः प्रयोधयन् ।

६ श्रीमुनिसुन्दरसूरिविरचिता चकार जैनेश्वरशासनोन्नति यः शिष्यलब्ध्याऽभिनवोऽनु गौतमः॥५६ नृपाद् दशाये शरदां सहस्रे १०१०: यो रामसैल्याइपुरे चकारः। नाभयचैत्येऽष्टमतीर्थराजविम्वप्रतिष्ठां विधिवत सदर्यः ।। ५७ ।। चन्द्रावतीभूपतिनेत्रकल्पं श्रीकुङ्कुणं मन्त्रिणमुच्चऋद्विम् । निर्मापितोत्तुङ्गविशालचैत्यं योऽदीक्षयत् शुद्धगिरा प्रबोध्य ॥५८|| एकोनविंशः प्रभुवर्धमानात् श्रीचन्द्रसूरि१र्गणनायकोऽभूत् । बभूव तस्मादनु चैकविंशः सूरीश्वरोऽयं किल सर्वदेवः ४०॥५९|| श्रीप्रद्युम्नसूरिं सदुपधानग्रन्थकारकश्रीमानदेवसूरि केचिद् न वदन्ति तन्मते, एकोनविंशः प्रभुः एकोनविंशश्च ततोऽपि जज्ञे सूरीश्वरोऽयं किल सर्वदेव:३८इति पाठः। श्रीसम्भूतविजयसूरि श्रीभद्रबाहुसूरि : श्रीआर्यमहागिरिसूरि श्रीसुह- स्तिसूरि २ श्रीसुस्थितसूरि श्रीसुप्रतिबुद्धसूरि ३ रूपयुगलबये एकैकस्यैव स- न्तानप्रवर्तकपट्टभृतः स्रेर्गणने- श्रीवर्द्धमानादिह पोडशोऽभूत् 'श्रीचन्द्रसूरिः खलु गच्छनेता। एकोनविंशश्च ततोऽपि जज्ञे सूरीश्वरोऽयं किल सर्वदेवः ३५।। इति पाठः। अत्रैव श्रीप्रद्युम्नसूरिसदुपधानग्रन्थकर्तृश्रीमानदेवसूरिगणने च- श्रीवर्द्धमानादिह पोडशोऽभून् श्रीचन्द्रसूरिः१६किल गच्छनेता। बभूव तस्मादनु चैकविंशः सूरीश्वरोऽयं किल सर्वदेवः ३७॥५९।। इति वा पाठः। अयं चात्र गण्यते, विशेष तु विशेषज्ञा विदन्ति । गच्छश्च तस्य बहुसूरिमुनीश्वराद्यै- राज्यत्वतो भुवि दधो क्रमतः प्रसिद्धिम् । विव॒हद्ण इति स्तुतिमायमानः सर्वैबृहत्तरतया चरितैर्गुणैश्च ।। ६० ।। शिष्यस्तत्र बभूव सद्गुणनिधिः श्रीसर्वदेवप्रभोः व्रतो' इति च।

'गुवारली रूपश्रीरिति भूपदत्तविरुदः श्रीदेवसूरिः ३८ प्रभुः। जज्ञेऽस्मान्महिमोदधिः पुनरपि श्रीसर्वदेवो ३९गुरु- स्तस्माद् दिद्विरदोपमाः समभवनष्टौ च सूरीश्वराः ॥ ६१ ॥ आयो यशोभद्रगुरुवितन्द्रः ४०सूरिद्वितीयः किल नेमिचन्द्रः ४० । ताभ्यामभूत् श्रीमुनिचन्द्रसूरिः ४१ वशेमुपीर्जितनाकिसूरिः ॥६२॥ उक्तं च- “गुरुवन्धुविनयचन्द्राध्यापकशिष्यं स नेमिचन्द्रगुरुः । यं गणनाथमकात् िस जयति मुनिचन्द्रसूरिगुरुः” इति ।।६।। यशोभद्रं च संप्राप्तो यशोभद्रगणाधिपः । चिन्तामणिमिव प्राप्य यं शिष्यं भुवनोत्तमम् ॥ ६४ ॥ श्रीविनयचन्द्रवाचकविन्ध्यगिरस्ते जयन्तु किल पादाः । भद्गजकलभलीलां श्रीमुनिचन्द्रो दधी येपु ॥ ६५ ॥ सौवीरपायीति तदेकवारिपानाद् विधिज्ञो विरुदं वभार । जिनांगमाम्भोनिधिधौतबुद्धिर्यः शुद्धचारित्रिपु लन्धरेखः ।। ६६ ।। संविनमौलिविकृतीः समस्तास्तत्याज देहेऽप्यममः सदा यः । विद्वद्विनेयालिवृतप्रभावः प्रभागुणौधैः किल गौतमाभः ।। ६७ ॥ हरिभद्रसूरिरचिताः श्रीमदनेकान्तजयपताकाद्याः । प्रन्थनगा विबुधानामप्यधुना दुर्गमा येऽत्र ॥ ६८ ॥ सत्पखिकादिपद्या विरचनया भगवता कृता येन । मन्दधियामपि सुगमास्ते सर्वे विश्वहितबुद्धया ॥ ६९॥ पटतर्की परितककलिरसिको यः शैववादीश्वरं प्रज्ञाऽधःकृतवाक्पतिं नृपसभे जित्योगहेत्वामुगः । प्रत्यक्षं विदुपां चकार विजयश्रीभाजनं शासनं वन्धोऽसौ मुनिचन्द्ररिसुगुरुः केषां न मेधाजुपाम् ||७०॥ आनन्दसूरिप्रमुखा मुनीश्वराः श्लाघ्या न पामिह तस्य बन्धवः । ये दीक्षिताः श्रीमुनिचन्द्रसूरिणा प्रतिष्ठिताः सूरिपदे च शिक्षिताः॥७१।। अष्टहयेशमिते ११७८ ले विक्रमकालादू दिवं गतो भगवान् ।

८ श्रीमुनिसुन्दरसूरिविरचिता श्रीमुनिचन्द्रमुनीन्द्रो ददातु भद्राणि सङ्घाय || ७२ ।। तस्मादभूदजितदेवगुरु ४२ गरीयान् प्राच्यस्तपःश्रुतनिधिजलधिर्गुणानाम् । श्रीदेवसूरिरपरश्च जगत्प्रसिद्धो वादीश्वरोऽस्तगुणचन्द्रमदोऽपि वाल्थे ।। ७३ ।। येनार्दितश्वतुरशीतिसुवादिलीला- लब्धोल्लसज्जयरमामदकेलिशाली । बादाहवे कुमुदचन्द्रदिगम्बरेन्द्रः श्रीसिद्धभूमिपतिसंसदि पत्तनेऽस्मिन् ।। ७४ ॥ स्याद्वादरत्नाकरतर्कवेधा मुदे स केषां नहि देवसूरिः । यतश्चतुर्विशतिसूरिशाखं यस्यैव नाना विदितं बभूव ।। ७५ ।। वेदमुनीशमितेऽब्दे ११७४ देवगुरुर्जगदनुत्तरोऽभ्युदितः । श्रीमुनिचन्द्रगुरोरिति शिष्या वहवोऽभवन् विदिताः ।। ७६ ।। तेष्वादिमाद् विजयसिंहगुरु ४३चभासे विद्यातपोभिरभितः प्रथमोऽथ तस्मात् । सोमप्रभो ४४मुनिपतिविदितः शतार्थी- त्यासीद् गुणी च मणिरत्नगुरुद्वितीयः ।। ७७ ।। प्रज्ञापराभूतसुपर्वसूरिः श्रीसर्वदेवात् स किलाष्टमोऽभूत् । मुदं भदन्ताः ! ददतां तदेवं बृहद्गणस्य प्रभवः क्रमेण ।। ७८ ॥ इति श्रुतः सच्चरणश्रियः पदं न दीनताभाक् पुरुषोत्तमालयः । अमेयभास्खद्गुणरत्नसङ्गन्तो बृहद्णो वारिधिवद् वभूव सः ॥७९॥ अभूत् तदुल्लासनलालसोदयो विनेयवृत्तिर्मणिरत्नसद्गुरोः । गवां विलासैरमृतं निदर्शयन् श्रीमान् जगच्चन्द्रगणेन्द्रचन्द्रमाः ॥८॥ स सौम्यमूर्तिः सकलागमानां सूनेष्वधीती परिनिश्चितार्थः । संविग्नमौलिर्दधते स्म सूरेर्गुणान् समग्रान् गणिसम्पदश्च ॥ ८१ ॥ : अथ कलिघनदुर्दिनावतारे प्रसरदसजडसञ्चये समन्तात् । प्रतिहतजिनराजभानुतेजोमहिमभरेऽनवबोध्य मुक्तिमार्गे ॥ ८२ ।।

गुर्वावली। निजगणसरणी प्रमादपले चरणरथं प्रविलोक्य गाढमनम् । गुरुरयमसमस्तमुद्दिधीपुर्वृषभ इवाऽपरमीक्षते सहायम् ॥ ८३ ।। (युग्मम् ) अथ चैत्रपुरे वीरप्रतिष्ठाकृद् घनेश्वरः। चन्द्रगच्छेऽभवत् सूरिस्तस्माद् चैत्रगणोऽभवत् ।। ८४ ॥ कालाद् भुवनचन्द्राहस्तत्र जज्ञे गुरुर्गुणी । शुद्धसंयमीस्तस्माद् देवभद्रश्च वाचकः ।। ८५ ।। संवेगरङ्गाऽम्बुधिधौतबुद्धिं जिनागमात् क्लसचरित्रभुद्धिम् । विघीयमानाऽऽहतधर्मवृद्धि शुद्धगुणैः प्राप्तजगत्प्रसिद्धिम् ॥ ८६ ।। अधीविनं सारजिनायमानां सूत्रेपु चाऽर्थेषु च वेदिनं च । आम्नातिनं साधुविशुद्धसामाचार्या प्रवृत्तं च यथावस्याम् ॥८७॥ श्रीदेवभद्राभिधवाचकेन्द्रं तं श्रीजगञ्चन्द्रगुरुः प्रबुद्धः । अथोपसम्पद्विधिना प्रपद्य स तद्वितीयो धुरमस्य द्धे ।। ८८ ।। (विशेषकम् ) समुद्धृतः सोऽथ वृपोत्तमाभ्यां ताभ्यामभूत् सर्वधुरीणकाभ्याम् । स्वारूढनिस्सह्यमुमुक्षुमोक्षपुरेन्दिराप्रापणशक्तिशाली ।। ८९ ॥ एवं रामगुणः स लक्ष्मणनतः शुद्धक्रियां स्वप्रियां प्रौढोद्यत्कलिनाऽरिणा वनभुवः किञ्चिद् प्रमादाद् हृताम् । नीवा मोहमहाम्बुधिं रिपुमिमं जित्वाऽपिल श्रय- नानिन्ये स्वगणालये किल जगच्चन्द्रो गणेन्द्रस्तदा ।। ९० ॥ कलौ युगान्तोपमितेऽवतीर्णे प्रमादपकाकुलमोहवार्द्धः । तथाऽऽहंत शासनमुधार स भूतलं त्वादिमहावराहः ।। ९१ ।। गुरुर्ममत्वं न कदापि भेजे प्रामे फुले वा नगरे घ देशे शरीरशम्योपधिपु प्रमादं स दूरयन् गां विजहार चाऽय ।। ९२ ॥ तुलारोदेऽय योभोति नीचत्वं भास्वतोऽपि हि । इतीव जगति प्रैधे स तुलातिक्रमं व्यधान ॥ ९३ ।। * पोऽवनभुव इति पोख्यम् ।

श्रीमुनिसुन्दरसूरिविरचिता ... -- समानपदयोगेऽपि तत्प्रभां नाऽऽपुरन्यके । मेषयाने समानेऽपि भास्वानुचोऽमितोऽन्यथा ॥ ९४ ॥ यावज्जीवितमाचामाम्लतपोऽभिग्रही व्यधात् तानि । द्वादशवण्यङ्गेऽप्यममोऽसौ श्लाघ्यधीभगवान् ॥ ९५ ।। तदादिवाणद्विपभानुवर्षे १२८५ श्रीविक्रमात् प्राप तदीयगच्छः । बृहद्गणाहोऽपि तपेतिनाम श्रीवस्तुपालादिभिरच्यमानः ॥ ९६ ।। वीराच्छरेप्वश्वधरामितेऽढे १७५५ श्रीचन्द्रगच्छस्य ततो बभूव । ताहक्तपस्कर्मत एव तस्य गुरोस्तपानाम जगत्प्रसिद्धम् ।। ९७ ।। श्रीचन्द्रगच्छोऽथ बृहद्गणश्च तपागणश्चेत्यधुना स वाच्यः । चान्द्रं कुलं कोटिकनानि गच्छे वानीच शाखेति पुरा प्रसिद्धिः।।९८॥ गणं प्रमादो न न जाड्यमेपणा- दोपा न तस्मिन् गणनायकेऽवति। न वादिनो वा तमिहोपटुवुः सुरक्षक क्षेत्रमिवाण्डजनजाः ।। ९९ ॥ कलिद्विपा भग्नपदस्थितिखसन् परासुतासन्नदशोऽपि तं गणम् । दुर्ग:तु लब्धाऽस्य विभोः समाश्रया-.. च्चरित्रधर्मः पुनरुन्जिजीव सः ।। १०० ॥ श्रीदेवेन्द्रमुनीन्द्रो गच्छे विजयेन्दुनामकश्चापि । श्रीदेवभद्रवाचकमुख्या भूषाकृतस्तस्य ।। १०१ ॥ चारित्रोद्धरणसखेऽभ्यधिकं श्रीदेवभद्रगणिराजे। वहुमानं वहमानों गुरुवद्गणनां चकारैषः ॥ १०२ ।।. देवभद्रगणीन्द्रोऽपि संविग्नः सपरिच्छदः । गणेन्द्र श्रीजगच्चन्द्रमेव भेजे गुरुं मुदा ॥ १०३ ।। जात्यज्ञानतपस्तेजा हीरवत् स गुरुष्वऽभात् । तेन हीरजगच्चन्द्रसूरिरित्यभवत् श्रुतः ॥ १०४ ।। विशेषश्चैवं श्रूयते- गुर्वावली। देव्या गिरो भवनगं स्वधियाऽधिगम्य . सारस्वतं किमपि यन्त्रमगम्यमन्यैः । तस्याः प्रसादवशतो नृपतेः सभाया- 'माघाटनामनि पुरे चतुरङ्गवादे ।। १०५ ॥ द्वात्रिंशतं विकट दिक्पटवादिराजान् द्राग् सार्ववैद्यविदुरानजयत् कमात् सः । भमो न होर इव फैश्चिदिति प्रसिद्ध भूपात् तदाऽऽप विरुदं फिल हीरलेति ॥ १०६ ।। (युग्मम् ) सेन स्वस्य पदे न्यस्ती देवेन्द्रविजयेन्दुको । सूरीन्द्रौ शासने भाती जम्बूद्वीपे रवी इव ।। १०७ ।। शिष्येऽन्यदा सर्वधुरीणवृत्ती देवेन्द्रसूरौ स गणस्य भारम् । विन्यस्य विश्वस्य हराविवेन्द्रः स्वःशर्म भेजेऽथ शिवाय वोऽस्तु ॥१०॥ । अथो जगच्चन्द्रमुनीन्द्रपट्टभृत् श्रीमान् स देवेन्द्रगुरुः४६ शमाम्बुधिः। नाना गुणैरप्यभवद् गुरोः समो महाप्रभाभू: शिवभूतिदायकः।।१०९।। स दिगुते यालसुधाकरप्रभः प्रभुभवाधःकृतिकर्मनिमित्तौ । : सदर्चनीयो विवुधालितुष्टिकद् निरअनैकोदितपुण्यसत्कलः ॥ ११ ॥ समविद्यातपसां प्रणेतृतामणीतसन्मानसविस्मयाऽद्वयः। स जमसेऽन्याखिलसूरिमण्डलीमहांसि माद्यन्महिमैककान्तिभिः ।।११।। सोऽभूद् गुरुः फोऽपि नवः कविस्तुतो मित्रारमाध्यस्थ्यधरो बुधप्रियः । सत्त्वोक्तिभिर्नास्तिकदर्शनं क्षिपन् शिवकरो मार्गयुतोऽपि देहिनाम् ।। ११२ ।। किं सर्वागमदुग्धवारिधिभवाः स्फारा लहयों घमूः किं मोहाहिविघोमिमूच्छित्तजगजीवातवोऽग्थ्याः सुधाः । फि वा शासनसौधमासनचणा दीप्राः प्रदीपधियो' भावभ्वान्तभिदः सतामिति मात तेनुस्तदीया गिरः ।। ११३ ।।

१२ श्रीमुनिसुन्दरसूरिविरचिता .. - श्रीस्तम्भतीर्थकुमरप्रासादे सर्ववेदनिणेतुः । . व्याख्यानेऽस्याऽष्टादशशतानि मुखपोतिका आसन् ।। ११४ ।। वाचकपदं द्विधापि च दधति सुघोपाढ्यहेमकलशगणौ। सभ्येषु वस्तुपालादिपु नौवित्तद्विजादिषु च ।। ११५ ॥ षट्दर्शनिसाधारणबोधकृतस्तस्य सद्गुरोर्वाचः सौभाग्यमाहिमभारं तदाऽभजन् कञ्चनाऽमेयम् ।। ११६ ।। सारवृत्तिदशाः कर्मग्रन्थदीपास्तमोहराः । तस्य प्रवचनावासे भान्ति प्रेष्ठार्थदर्शकाः ।। ११७ ।। नानास्तवनप्रकरणरत्नानि समुद्धृतानि समयाव्धेः । पुरुषोत्तमेन तेनाऽलङ्कृतये शासनस्यासन् ॥ ११८ ॥ पञ्चाशिकासिद्धविचारवाच्या भाष्याणि वृत्तं च सुदर्शनायाः । उपासकानां दिनकृल्यसूत्रवृत्ती च टीकाऽपि च धर्मरत्ने ।। ११९ ।। देवेन्द्राङ्का श्राद्धयामोद्यभनिग्रन्थाद्याऽन्याप्यस्त्यनेकाऽस्य सृष्टिः । एवं नानाग्रन्थसोपानपतया स्वारोहं तन्मुक्तिसौधं व्यधात् सः ॥१२०॥ : (युग्मम् ) योऽभूत् तदीयोऽथ लघुः सतीर्थ्यस्तदाऽऽग्रहादाऽऽप्तपदप्रतिष्ठः । सूरिः सुविद्वान् विजयेन्दुनामा प्रावर्तयत् सोऽथ पृथक् स्वशाखाम्१२१ इति चेह तत्सम्बन्धः श्रूयते तथाहि- पुरा विजयचन्द्रोऽभूद् वस्तुपालस्य मन्त्रिणः । सचिवो लेख्यके देये क्षिप्तः कारागृहेऽन्यदा ।। १२२ ॥ देवभद्रगणीनां स द्विधा शिक्षाकृतेऽर्पितः। नाना विजयचन्द्रोऽभूत् प्राक् तदाप्याप्तशास्त्रवित् ।। १२३ ।। श्रीजगच्चन्द्रगच्छेशैः शिष्यवात्सल्यशालिमिः । न्यस्त: सूरिपदे देवभद्रगण्युपरोधतः ।। १२४ ।। साहाय्यायांऽपि देवेन्द्रः सूरीन्द्राणां गणाऽवने । ... १ 'देवभद्रगणीन्द्रैः स बोधितो मन्त्रिराजतः। विमाच्य श्रीजगच्चन्द्रसूरिपार्श्वेऽग्रहीद् व्रतम् ॥ १२३॥ इत्यपि पाठः ।

गुविली.।. अहयुत्वान्निपिद्धोऽपि वस्तुपालेन मन्त्रिणा ॥ १२५ ॥ । श्रीजगच्चन्द्रसूरीन्द्रे स्वर्गतेऽसावनेहसम् । कियन्तं विनयी जज्ञे श्रीदेवेन्द्रगणेश्वरे ॥ १२६ ॥ विहरत्यन्यदा तस्मिन् गणेन्द्र मालवे चिरम् । तस्थौ श्रीस्तम्भतीर्थेऽसौ पूजितः पूर्वसंस्तुतैः ॥ १२७ ।। चैत्यादिद्रव्यसंस्कारदूपिता वृहतीति या। प्रसिद्धा तत्र शालाऽभूद् वृद्धगच्छगुरुस्थितेः ॥ १२८ ।। पार्श्वस्थाऽयस्थता भुक्ता त्यक्ता शुद्धक्रियाहतौ । श्रीजगच्चन्द्रसूरीन्द्रदेवेन्द्रगुरुणाऽपि सा 11 १२९ ।। तस्यां लोकानुरोधेन नित्यवासप्रमादभाक् । आत्मसात्कृतलोकोऽसौ तस्थौ द्वादशवत्सरीम् ॥ १३०॥ सामाचारी स दुप्पालां किञ्चिच्छिथिलयन्नपि । गच्छमावर्जयामासानुकूलाचरणादिभिः ॥ १३१ ॥ गुर्वादेशं विना दीक्षादीनि कार्याणि चाऽसृजत् । आगतेऽथ गणाधीशे विनयं नाकरोत् तथा ॥ १३२ ।। नोदितो नित्यवासेऽपि निर्ममेत्यादि सोऽपठत् । आचारभ्रंशभीरुस्तत् श्रीदेवेन्द्रगणाधिपः ॥ १३३ ॥ सविनपरिकराठ्यो योधानई प्रमादिन शात्वा । पुस्तकशालादियुतं तं मुक्त्वाऽस्थात् पृथग्वसतौ ॥ १३४ ॥ (युग्मम्) देवेन्द्रसूरिसुगुरोः ख्याताः शिप्यास्तु वृद्धशाखायाः । संविग्नत्वाच्च गुरुर्विहरयः स एवासीत् ।। १३५ ।। विजयेन्दुविनेयाश्च ख्याता मुग्धेषु वृद्धशालायाः । विज्ञाः पुनर्जगुस्तान लघुगुरुशालाभवान् युक्तम् ॥ १३६ ॥ संप्रामसौणिकपूर्वजस्तदा पार्थक्यमालोक्य गुरुद्वयस्य तत् । अयामि फ नन्विति संशयाकुलः सदैवतं विम्बमुपास्थिताऽर्हतः ॥१३७ १. बहिवत्यैव धिक् कलिम् ..इत्यपि ।

१४ श्रीमुनिसुन्दरसूरिबिरचिता देवेन्द्रसूरिसरतोत्तमो गुरुयुगोत्तमाभो भविता महान्वयः । तमेव सेवस्व यदीहसे शिवं तमादिदेशेति च देवता निशि ।। १३८ ।। दत्तशुद्धवसतिततोऽभजत्तं गुरुं स वहुनैगमान्वितः । दापितस्वजनसंयमो मुदेतीभ्यभीमप्रमुखाः परेऽपि च ॥ १३९ ।। श्रीदेवेन्द्रमुनीन्दोर्विद्यानन्दादयोऽभवन् शिष्याः । लघुशाखायां तु गुरोविजयेन्दोश्च त्रयः पट्टे ॥१४०॥ . .. श्रीवज्रसेनसूरिः पद्मेन्दुः क्षेमकीर्तिसूरिश्च । रदविश्वमिते १३३२ वर्षे विक्रमतः कल्पटीकाकृत् ।। १४१ ।। अथ हेमकलशसूरिस्तत्पदमौलिगुरुयशोभद्रः । रत्नाकरस्ततोऽपि च शिष्यो रत्नप्रभश्चाऽस्य ॥ १४२ ।। मुनिशेखरस्तदीयः शिष्यः श्रीधर्मदेवसूरिरपि । श्रीज्ञानचन्द्रसूरिः सूरिः श्रीअभयसिंहश्च ।। १४३ ।। अथ हेमचन्द्रसूरिर्जयतिलकाः सूरयस्ततो विदिताः । जिनतिलकसूरयोऽपि च सूरिर्माणिक्यनामा च ॥ १४४।। कालानुभाववशतः शाखापार्थक्यचेतसो ह्यधुना । सर्वे ते गुणवन्तो ददतां भद्राणि मुनिपतयः ।। १४५ ॥ अथ वृद्धगुरोः शाखा प्रस्तुता स्तूयतेऽग्रतः । विनयातिक्रमो नास्ति यस्यां काले कलावपि ॥ १४६ ॥ देवेन्द्रसूरिः स गुरुर्गुणोत्तरो बभूव संवेगरमानिकेतनम् । समुद्धरन् धीरतयोप्रदुःपमापकौघसंपाति जिनेन्द्रशासनम् ।।१४७॥ विश्वैकस्पृहणीयरूपसुभगां त्रैलोक्यकुक्षिम्भरि तत्कीर्ति नु विधाय शेषदलकैश्चक्रे विधातोज्ज्वलान् । कैलासं भुजगेश्वरं हरमिभं वाहं च नाकिप्रभोः क्षीराम्भोनिधिमिन्दुकुन्दकुसुदप्रालेयशङ्खादिकान् ॥ १४८ ।। किं त्रातुं समवातरत् सुगतवद् वीक्ष्याऽदितं शासनं खं सर्पत्कलिना गतोऽपि हि शिवं श्रीमान् सुधर्मा भुवि किं वाऽयं गुरुगौतमः किमथवा श्रीवीरनेता स्वयम् ..

गुर्वावली-1... तस्मिन्नित्यभवन युगोत्तमगुणाधारे विकल्पाः सताम् ॥ १४९ ॥ निश्शेपस्वपरागमार्थनिलयः पद्तय॑भिज्ञाप्रणीः कोशः सद्गणिसंपदा त्रिजगतः सारैरिवात्तैः कृतः । भारत्याश्व रणश्रियश्च भरतोत्कृष्टः पतिः सोऽभव. नान्यस्त्वाऽऽईतशासनोपनिपदस्तस्योपमानं गुरोः ॥१५० ॥ प्रायेण वंशाः पृथवोऽपि मूलतः परे वनुत्वं दधते पुरः पुरः । अमुप्य वंशस्तु दधौ विशालतां मूले तनीयानपि चामतोऽप्रतः।।१५१॥ तथाहि- अथागमद् सूरिरय विदूरयंस्तमस्ततिं मालबमण्डलावनौ । तत्रोजयिन्यां जिनचन्द्रसंज्ञयाऽभवद् महेभ्यो जिनसाधुभक्तिभृत् ।। अस्ति वीरधवलाहयस्य स स्वाङ्गजस्य करपीडनोत्सवम् । कारयन्नसमरूपया समं यावदिभ्यगजपालकन्यया ॥ १५३ ।। तावदेव स गुरोः समागम संनिशम्य नतयेऽगमद् सुतः । संनिपीय च सुदेशनासुधां मोहतापविलयात् प्रयुद्धवान् ॥ १५४ ॥ भीतो भवाद् तस्य गुरोः पदान्ते स मानयित्वा पितरौ प्रवीणः । ततः प्रवत्राज विहाय जम्यूरिव स्वबन्धून रमणी वृतां च ॥ १५५ ।। विद्यानन्दाभिधः पाणिखविश्वाऽन्दे १३०२ स दीक्षितः । क्रमाद् विद्याम्बुधिर्जज्ञे गणिसंपत्पदं मुनिः ॥ १५६ ।। भीमसिंहोऽनुजोऽप्यस्य गुरुणा तेन योधितः । दीक्षितो धर्मकी-हो मुनिरासीद् गुणोदधिः ॥ १५७ ।। धरासारतरे तुङ्गचनचैत्यालिशालिनि । प्रहादनपुरेऽथागात् स गुरुर्विहरन कमात् ॥ १५८ ।। श्रीकरीयुतसुखासनयानाः कुर्वते चतुरशीतिमिटेभ्याः। तत्र तद्गगणपतरुपदेशाद् धर्मकर्म विविधं जनताश्च ।। १५९ ।। प्रहादन विहारे तु सौवर्णकपिशीर्षके । तदा मूढकमानाचाझवाः प्रत्याहमागमन् ॥ १६० ॥ प्रतिगोणि तु देवस्य दायं पूगीफलं जनाः ।

श्रीमुनिमुन्दरसूरिविरचिता ददतो ददिरे प्रायो मणान्यहनि पोडश ।। १६१ ।। भोगं पाञ्चशतीसंख्यवीसलप्रियिकं तथा । प्रत्यहं ससृजुः श्राद्धाः पूजामित्यपरामपि ।। १६२ ।। अथान्यदा प्रौढविचित्रपुण्यप्रवीणसङ्घप्रथितार्थनाभिः । गणाधिनेताऽभिमतं स विद्यानन्दं मुनीन्द्रगुणलक्ष्मिपात्रम्।।१६।। श्राद्धमहेन्द्ररिव निर्मितोत्सवैः प्रमोदि विश्वं स्वपदे न्यवीविशत् । प्रह्लादनोर्वीपतिचैत्यमण्डपे त्रिदन्तभूमीमितवत्सरे१३२३ नृपात् १६४ केचित् १३०४ प्राहुः, तथा च-वेदाऽभ्रवतिक्षितिवत्सरे १३०४नृपादिति पाठः विशेपनिर्णयं तु विशेषज्ञा विदन्ति । गुरोविनेयस्य च तैर्गुणैस्तदा सुरैः प्रह!महिमा व्यधीयत । यत्कुङ्कुमाम्भः स ववर्ष मण्डपस्तदाचिलीनं वसनेषु कोविदैः।।१६५।। अम्वा पात्रावतीर्णावक् महिमानं सुरैः कृतम् । तज्जनेभ्यस्तदा प्रीता गुणैस्तद्गुरुशिप्ययोः ।। १६६ ।। विन्यस्य तं शासनभासनेन्दुमिव प्रबोधाय गतः स भास्वान् । क्षेत्रान्तरं स्वर्गमिपाच्छिवं च संघस्य देवेन्द्रगुरुस्तनोतु ।। १६७ ।। तादृग्गुणस्य स गुरोः स्वर्गतिमवगत्य सत्यभक्त्याऽस्मिन् । सङ्घाधिपभीमोऽन्न वीणि द्वादशात्याक्षीत् ।। १६८ ।। तत्पट्टेऽथो सं प्रसिद्धप्रभावः श्रीमान् विद्यानन्दसूरिः४७श्रिये स्तात् । नव्योद्भिन्नं यं द्विप वीक्ष्य मोहश्छन्नश्छन्नः कापि भीतश्वचार १६९।। विद्यानार्यों हृदयभवनेऽस्यास्तसंख्याः समन्ता- दालिङ्ग्यताः कथमपि गुणास्तद्वराश्चाप्यवात्सुः । तत्सम्भूतास्त्वतिवहुतया सद्यशोऽपत्यसङ्खा- स्वैधेऽप्यस्मिन् जगति न ममुः स्थानयोगाद्विवृद्धिः ॥ १७०।। :' विद्यानन्दाभिधं तेन कृतं व्याकरणं नवम् । भाति सर्वोत्तमं स्वल्पसूत्रं बह्वर्थसंग्रहम् ॥ १७१ ।। वेलेवोल्लासिनी तद्गीविद्यापारसागरे । चिक्षेप प्रोन्मदान् दूरं वादिनः कर्करानिव ॥ १७२ ।।

१७
गुर्वावली।
शिष्योऽथ देवेन्द्रगुरोद्धितीयकः
श्रीधर्मघोषः ४७ सुकृतान्धिपोषकः ।
शोपं नयनन्ययशः सरस्वती.
योगान् वभौ पल्लवयन् वसन्तवत् ॥ १७३ ।।
देवात् त्रयोदशदिनान्तरतो गते स्वः
शैलद्विविश्वशरदि १३२७ स्वगुरुद्वयेऽपि ।
यो वाधकोऽधिगतसूरिपदः स्वगोत्रि-
सूरेजधान किल मत्सरिणां कदाशाः ॥ १७४ ।।
स च श्रीधर्मकीाहः श्रीविद्यानन्दवान्धवः।
जित्वा मत्सरिणः शक्त्या भविश्वाव्देऽ १३२८भवद्गणी॥१७५।।
तपस्कियोत्कर्पितसद्गुणश्रिया प्रकृष्टसौभाग्यरमानिकेतनम् ।
समृद्धयोऽष्टावपि वे युगोत्तमं समं श्रिता निर्मितकार्मणा इव ।।१७६॥
अथान्यदा मालवमण्डलावनेविभूपणे मण्डपदुर्गनामनि ।
पुरे स पृथ्वीधरसाधुमार्हतं प्रावुधद् धर्ममुदारधीगुरुः ।। १७७ ।।
त्रिकालवेचा भगवान् स पञ्चमव्रतेऽपि लक्षा द्रविणस्य मुत्कलाः ।
अनाढ्यमप्येतमचीकरत् प्रमुः प्रपन्नसम्यक्त्वचतुखिकवतम् ॥१७८||
स च क्रमाद् मालवमण्डलेशितुः प्रजाभिरर्य सचिवत्वमाश्रितः ।
वभूव ऋद्धया धनदोपमो हि किं न ज्ञानिनांभाग्यवतां च गोचरे ? १७९
मुवं स चैत्यैहृदयानि सद्गुणैर्मनीषिणां व्याप च कीर्तिभिर्दिशः ।
धनैश्च कोशान् प्रशशासच प्रभूनपि क्षमाया विदिवोरुपड्गुणः।।१८०॥
स पट्सहस्न्याधिकजीर्णटवायुतत्रयस्याथ मुदा व्ययेन ।
श्रीधर्मघोपे स्वगुरी समेतेऽन्यदा प्रवेशोत्सवमाततान ।। १८१ ।।
प्रसेदुपाऽसौ गुरुणाऽर्पितक्रमः क्रमाऽवयुद्धद्रविणव्ययास्पदः ।
अचीकरच्चैत्यचतुष्टयाधिकाशीति स्फुरच्छारदवारिदभ्रमाम् ||१८२।।
अनुत्तरैस्वैः किल चिन्तनातिगैरुदारधीरैश्चरितैरसस्मरत् ।
चिराद् व्यतीतं हरिपेणचक्रिणं स सम्प्रति चापि कुमारभूपतिम्।।१८३।।
१ 'पग्मासा स्वगुरुसर्गात् ' इति वा पाठः ।
३

१८ श्रीमुनिसुन्दरसूरिविरचिता ४ मौक्तिकश्रीसमायुक्तजिननायकमण्डिताः । हारा इव विहारास्त आन्ति सुभामिनीहृदि ॥ १८४ ॥ कोटाकोटिरिति प्रसिद्धमहिमा शान्तेश्च शत्रुक्षये श्रीपृथ्वीधरसंज्ञया सुरगिरी श्रीमण्डपाद्रौ तथा । प्रासादा वहवः परेऽपि नगरप्रामादिषु प्रोन्नता- भ्राजन्ते भुवि तस्य मुक्तिवलभीनिःश्रेणिदण्डा इव ।। १८५ ॥ भत्र श्रीपृथ्वीधरसाधुकारितप्रासादस्यानसंख्यामूलनायकजिननामादि वाच्यम् , पूज्यगुरुश्रीसोमतिलकरिपादः कृतं स्तोत्रमवतार्य पठनीयम्; तञ्चेदर- श्रीपृथ्वीधरसाधुना सुविधिना दीनादिषूद्दानिना अक्तश्रीजयसिंहभूमिपतिना खौचित्यसत्यापिना । अर्हद्भक्तिपुषा गुरुकमजुपा मिथ्यामनीपामुपा सच्छीलादिपविनितालजनुषा प्रायःप्रणश्यद्रुषा ।। १८६ ॥ नैकाः पौषधशालिकाः सुविपुला निर्मापयित्रा सता मन्त्रलोचविदीर्णलिझविवृत्तश्रीपाचपूजायुजा । विद्युन्मालिनुपर्वनिर्मितलसदेवाधिदेवाह्वय- ख्यातज्ञाततनू इन्नतिकृतिस्फूर्जत्सपासृजा ।। १८७ ।। निःकाले जिनराजपूजन विधि नित्यं द्विरावश्यक साधौ धार्मिकमात्रकेऽपि महती भक्तिं विरक्तिं भवे । तन्वानेन सुपर्वपौषधवता सार्मिकाणां सदा वैयावृत्त्यविधायिना-विधता वात्सल्यमुच्चैर्मुदा ॥ १८८ ।। श्रीमत्तम्प्रतिपार्थिवस्य चरितं श्रीमत्कुमारक्षमा- पालस्याप्यथ वस्तुपालसचिवाधीशस्य पुण्याम्बुधः । स्मारं स्मारसुदारसम्मसुधासिन्धूमिपून्मज्जता श्रेयःकाननसेचनस्फुरदुरुप्राबृड्भवाम्भोमुचा ।। १८९ ।। सम्यङ्न्यायसमर्जितोजितधनैः सुस्थानसंस्थापितै- ये ये यन्त्र गिरौ तथा पुरवरे ग्रामेऽथवा यत्र ये।

गुर्वावली
प्रासादा नयनप्रसादजनका निर्मापिताः शर्मदा-
स्तेपु श्रीजिननायकानभिधया सार्द्ध स्तुवे श्रद्धया ॥ १९०॥
(पञ्चभिः कुलकम् )
श्रीमद्विक्रमतत्रयोदशशतेवव्देष्वतीवेप्वथो
विंशत्याऽभ्यधिकेपु मण्डपगिरौ शत्रुजयभ्रातरि ।
श्रीमानादिजिनः १ शिवाजजिनः श्रीउज्जयन्तायिते
निम्बस्थूरनगेऽरथ तत्तलभुवि श्रीपार्श्वनाथः ३ श्रिये ॥ १९१ ।।
जीयादुज्जयिनीपुरे फणिशिराः ४ श्रीविक्रमाख्ये पुरे
श्रीमान्नेमिजिनो ५ जिनौ मुकुटिकापुर्या च पार्धादिमौ ७ ।
मलिः शल्यहरोस्तु विन्धनपुरे ८ पार्श्वस्तथाऽऽशापुरे ९
नाभेयो बत! घोपकीपुरवरे १० शान्तिर्जिनोऽर्यापुरे ११॥१९२।।
श्रीधारानगरेऽथ वर्द्धनपुरे श्रीनेमिनाथः पृथक् १२,१३
श्रीनाभेयजिनोऽथ चन्द्रकपुरीस्थाने १४ स जीरापुरे १५ ।
श्रीपार्थो जलपद्र १६ दाहडपुरस्थानद्वये १७ सम्पदं
देयाद्वीरजिनश्च हंसलपुरे १८ मान्धातृमूलेऽजितः १९ ।। १९३॥
आदीशो धनमातृकाभिधपुरे २० श्रीमङ्गलाख्ये पुरे २१
तुर्यस्तीर्थकरोऽथ चिक्खलपुरे श्रीपार्श्वनाथः श्रिये २२ ।
श्रीवीरो जयसिंहसंक्षितपुरे २३ नेमिस्तु सिंहानके २४
श्रीवामेयजिनः सलक्षणपुरे २५ पार्श्वस्तथैन्द्रीपुरे २६ ॥ १९४ ।।
शान्यै शान्तिजिनोस्तु ताहणपुरेऽ२७ रो हस्तनाये पुरे २८
श्रीपार्श्वः करहेटके २९ नलपुरे ३० दुर्गे च नेमीश्वरः ३१ ।
श्रीवीरोऽथ विहारके ३२ स च पुनः श्रीलम्बकर्णीपुरे ३३
खण्डोहे किल कुन्थुनाथ ३४ऋपभः श्रीचित्रकूटाचले ३५||१९५।।
आद्यः पर्णविहारनामनि पुरे ३६ पावश्च चन्द्रानके ३७
पदयामादिजिनोऽ३८ थ नीलकपुरे.जीयाद् द्वितीयो जिनः३९ ।
आद्यो नागपुरेऽ४० य मध्यकपुरे श्रीअश्वसेनात्मजः ४१
श्रीदर्भावतिकापुरेऽष्टमजिनो ४२ नागदे श्रीनमिः ४३ ॥१९॥

२०. श्रीमुनिसुन्दरसूशिविरार्चिता श्रीमल्लिर्धवलकनामनगरे ४४ श्रीजीर्णदुर्गान्तरे ४५ श्रीसोमेश्वरपत्तने च फणमल्लदमा ४६ जिनो नन्दतात् । विंशः शङ्खपुरे जिनः ४७ स चरमः सौवर्तके ४८ वामन- स्थल्यां नेमिजिन:४९शशिप्रभजिनो नासिक्यनाम्न्यां पुरि५०||१९७॥ श्रीसोपारपुरेऽ५१ थ रूणनगरेऽ५२ थो नङ्गलेऽ५३थ प्रति- टाने पार्श्वजिनः ५४ शिवात्मजजिनः श्रीसतुबन्धे ५५ श्रिये । श्रीवीरो वटपद्र ५६ नागलपुरे ५७ टकारिकायां ५८ तथा श्रीजालन्धर ५९ देवपालपुरयोः ६० श्रीदेवपूर्व गिरी ६१ ।। १९८ ।। चारूप्ये मृगलाञ्छनो जिनपति ६२ नेमिः श्रिये द्रोणते ६३ नेमी रत्नपुरेऽ६४ जितोऽर्बुकपुरे ६५ मल्लिच कोरण्टके ६६ । पार्थो ढोरसमद्रनींवृति ६७ सरस्वत्याहये पत्तने कोटाकोटिजिनेन्द्रमण्डपयुतः ६८ शान्तिश्च शत्रुजये ६९ ॥ १९९ ।। श्रीतारापुर ७० वर्द्धमानपुरयोः ७१ श्रीनाभिभूसुव्रतौ नाभेयो वटपद्र ७२ गोगपुरयो ७३ श्चन्द्रप्रभः पिच्छने ७४ । ओङ्कारेऽद्भुततोरणं ७५ जिनगृहं मान्धातरि त्रिंक्षणं ७६ नेमिविकाननाम्नि ७७ चेलकपुरे श्रीनाभिभू ७८ भूतये ॥ २० ॥ इत्थं पृथ्वीधरेण प्रतिगिरिनगरग्रामसीमं जिनाना- मुच्चैश्चैत्येषु विष्वग् हिमगिरिशिखरैः स्पर्द्धमानेषु यानि । विम्बानि स्थापितानि क्षितियुवतिशिरःशेखराण्येप वन्दे तान्यप्यन्यानि यानि त्रिदशनरवरैः कारिताऽकारितानि ॥२०१॥ इति पृथ्वीवरसाधुकारितचैत्यस्तोत्रं १६ कान्यं पूज्यश्रीसोमतिलकसूरिकृतम् । नमोगङ्गां रणध्वजसितपतत्रालिकलितां सवच्चन्द्राश्माऽद्भिः स्फटिककलशेन्दु च विशदः । शिरःकोटौ बिभ्रद् मरकतमणीनीलितगल: श्रयेतूं तस्य ज्योत्स्नाहरविलसितं चैत्यनिकरः ॥ २०२ ।।

- गुर्वावली । किं वर्ण्यतेऽसौ मुहुरेकविंशय॑याद् घटीनां कनकस्य यो मुदा । अचीकरद्वैर्ममयाऽऽदिमप्रभोः शत्रुअये सद्म सुमेरुशृङ्गवत् ।।२०३।। उदारमाख्यान्वऽथवाऽमितम्पचं तदङ्ग झण्झणदेवमुत्तमाः । शत्रुञ्जये रेवतकेऽप्यहो! ददौ सुवर्णरूप्यध्वजमेकमेव यः ।। २०४॥ केचिदाहुः सुवर्णस्य स पद्पञ्चाशतं घटी: । व्ययित्वा लीलयापीन्द्रमालां परिदधौ मुदा ।। २०५॥ दिशां त्रये कूर्मवराहशेषाः, पृथ्वीं दधाना बहुकप्टभाजः । तस्याश्चतुर्थ्यां दिशि.धारकं तं पृथ्वीधरं प्राप्य मुदं दधुते ।। २०६ ।। कैवल्यदानप्रतिभूजिनोक्तसमप्रशास्त्राऽवलिलेखनेन । अबीभरत् सप्त स सारकोशान् सरस्वतीकेलिगृहानिवोच्चैः ॥ २०७ ॥ श्रीस्तम्भतीर्थे निवसन प्रभावको वेपं स भीम: प्रजिघाय सङ्घराट् । पृथ्वीधरस्याप्युचितं समर्चयन् शीलप्रपत्तौ निखिलान् सधर्मकान्।।२०८॥ युतः सुपत्न्या प्रथमिन्यभिख्यया तथैव साधर्मिकतां विभावयन् । द्वात्रिंशवोऽपि भटो जितस्मरः प्रपद्य शीलं तमथो स पर्यधात।।२०९।। प्रियापि साऽस्य प्रथमिन्यभिख्या ख्याता सतीपु प्रथमाऽऽत्तरेखा। कदापि या काऽपि न पुण्यकृत्यैरहीयताऽस्माद् गुरुदेवभक्ता ॥२१०।। नित्य त्रिजिनपूजनं गुरुनतिः साधर्मिकाऽभ्यर्चनं दीनाशुद्धरणं सुशास्त्रपठनं पर्वस्वथो पौपधः । कृत्यानीति गुरूपदेशवशगः स द्वि:मतिकान्तिकृत् भूपालार्पितमालवाऽवनमहाचिन्तोऽन्यहो ! निर्ममे ॥ २११ ॥ अनुत्तरोदारसंमप्रसद्गुणः स पड्विधावश्यकतत्परः सदा । रत्नमहद्गुरुभक्तिभाग मतप्रभावकोऽलङ्करणं भुवोऽभवत् ॥ २१२ ।। प्रबोधकोऽथास्य गुरुः स चाऽन्यदा दुष्टाङ्गनाभिवटकान् सकार्मणान् । विहारितान् साधुजनैरतत्यजन् प्रगे शिलाखण्डमयाश्च तेऽभवन्॥२१३।। ततोऽभिमन्त्र्यापितपट्टकासनास्ताः सम्भयित्वा दययाऽमुचन्नताः । तथैव विद्यापुरकेशगुल्मकून स्त्रियोऽथ सहार्थनया मुमोच सः।।२१४|| १'शति धटीययित्वा' इति च । २'मयमादिमप्रभोः' इत्यपि पाटः ।

२२ श्रीमुनिसुन्दरसूरिविरचिता क्वचित पुरे द्वानिशि शाकिनीभियाऽभिमन्त्र्य दीयेत ततोऽस्सृतेऽन्यदा! गुरुस्तदुत्पाटितपट्टिवीक्षणे. संस्तभ्य वाचा वशिता सुमोच ताः।।२१५।। श्रीशारदालब्धवरो निशकयाऽष्टभिः स कृत्वा यमकैरलङ्कृताः ।। स्तुतीर्जिनानां ज्ञमदज्वरौषधीरबूबुधद् गुर्जरराजमन्त्रिणम् ।। २१६ ।। सोमेशपत्तनगतः स्मरणानुभावात् सोऽध्यक्षतागमितजीर्णकपर्दिराजम् । मिथ्यात्वतो भवगमी चिरमेपमा भूरेवं प्रबोध्य विदधे श्रितजैनबिम्बम्२१७ शिष्यार्थनाविहितमन्त्रनुतिप्रभावाद्रत्नाकरोऽप्यकृत मण्युपदां तरङ्गैः स्थानेऽस्य तत्तदतिथेः पुरुषोत्तमस्य गम्भीरताभिभवनाद् लुठतः पदाने२१८ अथ च- वलाद्वैतालमालाविदलनकुशल: सिद्धझोटीङ्गवृन्द- स्तन्त्रैर्मन्त्रैरमात्रैः समजनि विकटैश्चेटकैश्चोत्कटो यः । आकर्षोच्चाटवश्यादिभिरपि स तदा शक्तिभिः कोऽपि योगी, कम्प्रीकुर्यात् त्रिलोकी गिरिमपि चलयेच्छोषयेद्वारिधि वा ॥२१९|| निषिद्धसाधुस्थितिकोजयिन्यां श्वमूपकौत्वादिविकुर्वणाद्यैः । तं भाययन्तं स्वमुनीन् निवथ्य प्रपीड्य मन्त्रैरमुचत् स नम्रम्।।२२॥ (युग्मम्) संक्षेपोऽयम् ; व्यासावदातस्त्वेवम्- वलाद्वेतालमालाविदलनकुशल: सिद्धझोण्टीवृन्द- स्तन्त्रैमन्त्रैरमात्रैः समजनि विकटैश्चेटकैश्चोत्कटोऽथ । योगी कोऽप्युज्जयिन्यां नृपसचिवमुखैः पूजितः सर्वलोकै- नाशिष्यैः परीतोऽधदऽणिमवशित्वेशताद्याश्च शक्तीः ॥२२१।। वर्णाद्रि शिरसा मिलनि लिखिलानाकर्षयामि ग्रहान् फूत्कृत्या दिवसुरिक्षपामि च गिरीन संशोपयाम्यम्बुधीन् । त्रैलोक्य खवशीकरोमि बिधे खर्भूर्भुवो व्यत्ययं देवेन्द्रैः सह लोठयामि पदयोब्रह्मेशनारायणान् ॥ २२२ ।। ओ भो दर्शनिनः ! समस्ति पटुता कस्यापि चेत्तन्मया साध वादरणं करोत्वभिमतं कृत्वा पणं सोऽधुना ।

गुर्वावली । - २३ नौचत्यकमदा मदीयमखिला: सेवध्वमद्वियं दूरं यात पलाय्य वाऽपि सकेलान् नोचेदिलाम्येप वः ॥२२३॥ इति प्रतिज्ञा प्रवदन् मदात्तदा जगत्त्रयेऽप्यप्रतिमल्लता विदन् । वित्रासिताऽन्याऽखिलदर्शनिवजोनैवोजयिन्यां स ससाह संयतान।२२४। श्रीधर्मयोपः प्रभुरन्यदाऽगमत् स तत्र धान्यां विहरन् महर्पियुक् । अमुष्य शिष्यांश्च स वीक्ष्य वमनि क्रुधा कुधीर्दष्टरदच्छदोऽवदत्।।२२५।। इहागता: किं नु पुरे सिताम्बराः! विहाय मूढाः! विपुलं धरातलम् । मुमू(गोधा नु निपादपाटकं न वीक्षितश्चेत्तदहं श्रुतोऽपि न ।। २२६ ॥ पलाय्य तद्गच्छत मर्पयाम्यहं स रकाणामपराधमेककम् । भ्रक्षेपमात्रादपि कम्पितामरोऽन्यथा पतङ्गिष्यथ मे रुपानले ॥ २२७॥ जगुर्मुनीन्द्राः प्रभवन्ति दुर्मते! सर्वज्ञपुत्रेषु न ते विभीपिकाः । मृगेपु सिंहस्य यथा हि विक्रमः स्फुरत् तथा नो शरभाभकेप्वपि ।।२२८॥ न योगिराजाऽन्यकुदर्शनिवजैः समानतां विभ्रति सूनवोऽहंतः । करैरपि ध्वान्तरिपोविलुप्यते नै तारकाणामुदितैः किमु प्रभा ? ॥२२९।। प्रभुः किमद्यापि न नः श्रुतो जयी गुरुभवदर्पतमोदिवाकरः । यमेव विद्या निखिलाः समं श्रिताः सरित्पति सिन्धुंगणा इवाधुना।।२३०॥ गतं गजेन्द्रस्य यथा न जम्बुकैर्नवा मृगैः शौर्यविजृम्भितं हरेः । नभःप्लुति नो मशकैगरुत्मतो रखेन खद्योतकरैर्युतां भेरम् ॥ २३१ ॥ नगर्न गाङ्गेयगिरेर्यथोच्चता जलाशयों जलधेरगाधताम् ।। द्रुमैः प्रभाव नच कल्पशाखिनो न दुर्गतैः श्रीस्फुरितंच चक्रिणः॥२३२।। यथा न भूतैलीलतं सुरेशितु- न तीथिकैतीर्थकृतोऽर्थदेशनाम् । समप्रविद्याविदुरैर्न नो गुरो- स्तथाऽनुकतु चरितं प्रगल्भ्यते.॥ २३३ ॥ चतो मुघा गर्जसि गर्वपर्वतो मन्यामह त्वां न तृणाय दुर्मते !! अस्मद्रोमन्नसमारणोद्भुतो श्रीमुनिसुन्दरसूरिविरचिता . न. तूलकल्पः स्थिरता प्रधास्यसि ।। २३४ ।। सृगस्य सिंहस्तमसश्च भानुमा- नसिमृणालस्य तृणस्य चाऽनलः । अहेर्गरुत्सानिव लीलयाऽप्यलं तवाऽपहर्तु मदजीवितं गुरुः ।। २३५ ।। निशम्य योगीति रुपा स लब्ध्या जान्वायतस्थूलरदास्यभीष्मम् । विधाय रूपं विकृतं जिघत्सु- : रिवाभ्यधावत् चलयन् भुवं तान् ॥ २३६ ।। मुमुक्षवस्तद्रनुपातसूचिनी ... क़फोणिसुद्भर्य पलाय्य च द्रुतम् । . सकम्पमात्रास्तरलेक्षणा भया-::.:: ... गुरुं वसत्यां शरणं प्रपेदिरे ॥ २३७ ॥ मा भैष्ट मा सैप्ट कुत्तो तु वो भयं । मयि प्रभौ त्रातरि हे विनेयकाः!। ::: इतीरिताः श्रीगुरुणाथ संभ्रमा- दाश्वस्य वृत्तं मुनयोऽपि तंद् जगुः ।। २३८ ॥ यावत् तदाकर्ण्य करोति रोपतो. : ध्रुवं ललाटप्रणयोद्धृतां गुरुः । तावत् प्रदोष विचकार दूरगोड- ....., प्यहो ! स योगीह विभीपिका इमाः ॥ २३९ ।। तथाहि- स्फारैः स्फूत्कारवारैर्भरितसुरपथा भूमिपीठे समन्ता-: द्रीष्मा भोगीन्द्रभाराः फणमणिकिरणोतिताशाः प्रसस्नुः । शालान्तः पुस्तकाद्योपकरणवलकस्तम्भसुख्याऽखिलार्थान् खादन्तो वज्रतुण्डा भयंदपृथुवपुर्मूपकाश्वोपरिष्टात् ।। २४० ॥ फेत्कारान् स्फोरयन्तो बहिरथ वसतेश्चण्डफेरण्डसचा- :

गुचविली । २५ घलान्मार्जारवारीः पृथुरदेवदना मण्डलाश्चाप्यसड्ज्याः । दृष्टा वान् भीमरणोत्तरटिचनयनाः कम्प्रगांवा न नष्टुं स्थातुं वाऽशक्नुवन्तो निजगुरुमबदन पाहि पाहीति शिष्याः ॥२४॥ त्राताऽयं वोऽस्मि विश्वप्रकटमहिमभृदु भैष्ट मा भेष्ट मा भोः! आश्वास्यैवं विनयान् गुरुरपि विगतक्षोभशङ्क- सदापि । . यावदा ध्यानावलम्बी जपति जयकर सिद्धमन्वं स तावत् सर्पाद्याः क्वापि जग्मुः प्रमुदितमनसः साधवश्वाप्यभूवन ॥२४२॥ योगी सोऽप्युप्रबन्धैरविपयिविपया! म्रिये रे! म्रिये रे ! शिप्याः! यद्वाऽखिलाङ्गः कुरुत फुरत भो! कांचनाशूपचारान। आस्तावद् यसिद्धा अपि हि विफलतां भेजिरे चेटकाद्याः सर्वे मन्त्राश्च दैवं धिगहह ! किमभूदु धीरियं मेऽधुनाऽपैः।।२४३।। क्रन्दन्नित्युप्रकष्टः सकलपुरजनदृश्यमानो विमानो धावद्भिर्व्याकुलैः स्वैनिखिलपरिजनैश्चापि हाहारवान्यः । आकृष्टो जैनमन्त्रः स्मृतिमपि गमितश्चेटकारशक्य- खातुं न्योना समागाद् गुरुपदकमलोपान्तमानम्रमौलिः ॥२४४।। उवाच योगी भगवन् ! दयानिधेऽपराधमेकं मम मर्पयाधुना । विमुश्च मामेप पवामि पादयोन वो विरुद्ध विदघे हाऽतः परम्।।२४५|| जगुर्जनाध्यापि न धर्तुमर्हसि प्रभो!प्रकोप प्रणते दयास्पदे । न्यवादय स्खक्रमरेणुना गुरुः शमी खभावस्थमिमं लसहयः॥२४॥ त्वं शङ्करः सर्वजनेष्टकर्ता ब्रह्मा त्वमेवासिलनानिष्ठः । त्वमेव सत्यं पुरुषोत्तमोऽसि त्वमेव बुद्धः सकलार्थवेदिन् ! ॥२४॥ अबुद्धतत्त्वस्य मुधाऽभिमानिनो ममाऽसि बुद्धः सुचिराद् जगद्गुरुः। त्वदीयपादाइजरजोऽणुनाऽपि चेत् । तुलां लभे तर्हि भजे कृतार्थवाम् ।। २४८ ॥ समप्रविद्याविभवात्मकस्य ते पुरोऽणवत्येप सुसिद्धिभागपि.]

२६ श्रीमुनिसुन्दरसूरिविरचिता . ; विभर्ति यस्माल्लघिमानमुञ्चकैः । पुरः सुमेरोनिखिलोऽपि भूधरः ।। २४९ ।। इति स्वनिन्दामुखरः सविस्मयः सुभक्तिभाक् सर्वजनस्य पश्यतः । स्तुवन् मुदाऽऽनम्य गुरुं सहानुगै- जंगाम विद्वान् स्वपदं स योगिराद् ।। २५० ।। अहो ! जयत्याऽऽहतशासनं प्रभु- गुरुः स यस्पेशशक्तिमानयम् । इति स्तुवन्तोऽपि जना यथागतं. गता व्यहाीद् गुरुरप्यथाऽन्यतः ।। २५१ ॥ दुष्टोऽन्यदाऽथ स गुरुः फणिना विपेण : मूर्छन्नुपायविधुरं निशि सङ्घमूचे । प्रातः समेष्यति लता विपहृत् प्रतोल्यां 'मौलिकाष्ठभरवन्धनकृद् विशुद्धा ।। २५२ ।। देयास्त देशवदने मम तां प्रघृष्ये- सेवं च तेन विहिते पटिमानमाप्तः । सत्यक्तसर्वविकृतिभंगवांस्तदादि . चक्रे जिनप्रवचनोन्नतिमुग्रतेजाः ।। २५३ ।। तत्कीर्त्या धवलाद्वयेऽपि भुवने त्रैधे कृते शङ्करे दुर्लक्षे विहिते हिमाद्रितनयाचेतस्तदाऽतूतुपत् । नो गाङ्ग सलिलं विधुर्न न वृपो नैवापि चक्षुःश्रवः स्वामी किन्तु गरो विनीलितगलाङ्काविर्भवद्भर्तृकः ॥२५४॥ चित्राणि सिद्धान्तपथानुगानि स्तोत्राणि सङ्घाचरणं च शास्त्रम् । इत्याद्यताकृतिरस्य कस्या- ज्ञानज्वरच्छेदमहौषधी.न ।। २५५ ।। यः स्वर्गमापतू तुरगेषुविश्व- '.. : .

- . गुर्वावली । २७ मितेऽ१३५७ ब्दफे विक्रमतः क्षितीन्द्रोत् । श्रीधर्मघोपः कृतपुण्यपोपः सरांतु सङ्घायं विभुः सुखानि ॥ २५६ ।। तदीयपट्टाम्बरभासनोवतः. सोमप्रमः सूरिवरो ४८ बभूव सः । यो दीयमानां गुरुयाऽपि नाग्रही. संचारिशुद्धय किल मन्त्रपुस्तिकाम् ॥ २५७ ।। ये मोदन्ते कृपणमतयः क्लेशभाजो धनाद्यैः शास्लादिद्विपमदहरैचाप्यतः कियाद्भिः। प्राप्ताभिर्वा लघिमवर्शिताकर्षमुख्यद्धिभिर्ये सर्वे साम्याऽमृतरसमुजस्तेऽनुकम्प्या हि तस्य ।।.२५८ ।।. भास्वान् सच्चरणाश्रिया विशदया विश्वोत्तरमोल्लस- च्चातुर्वैद्यरमाविलासनिलयः श्रीचित्रकूटाचले। ! कृत्वाऽऽशु द्विजराजमण्डलमसौ छन्नप्रभ गोमरैः.... सर्पदमजीजन जिनमतानन्तप्रकाशोद्यम् ।। २५९ ।। तथाहि- शर्वशैलशिखरोपरिस्फुरच्चन्द्रमौलिमुकुटेंन्दुरश्मिभिः । पूरिते सरसि मानसेऽभितः केरवाणि विकसन्ति वासरे ॥२६॥ बिना विचारस्खलनेन शीघ्रमेतत्समस्यापदपूरणेन । ... साहित्यवादे विजितद्विजोधः श्रीचित्रकूटे शमबोधयंत्सः॥२६॥ सर्वाङ्गपाठी निखिलागमार्थान विनापि वृत्त्यादि हि सोऽययादत् । केऽप्यन्यके नैपुणधारिणोऽपि विद्यासु सर्वास्वपि नातवादत्।।२६२॥ श्रुतातिशायी पुरि भीमपल्ल्यां वसु चाद्येऽपि हि कार्तिकऽऽसौ। अगात् प्रतिक्रम्य विवुद्ध्य भावि भङ्गं परैकादशसूर्यबुद्धम् ॥२६॥ भक्तप्वपि श्रावकपुङ्गवेषु :: ममत्रमुक केवलसंयमाथी ।, १. द्विजमण्डलं गुरमतेः' इसपि.पाठ।

२८ श्रीमुनिसुन्दरसूरिविरचिता । शुद्धाम्ब्वलाभाम्बुविराधनाभ्यां सोऽमूमुचत् स्वैर्मरुकुङ्कुर्याम् ।। २६४ ।। यतिजीतकल्पयत्राखिलादिजैनेन्द्रसंस्तुतिप्रमुखा। विपुलमतेस्तस्य कृतिहरते हृदयानि विबुधानाम् ।। २६५ ।। दिग्विश्ववर्षे १३१० जननं कुपाणि- विश्वे १३२१ व्रतं प्राप्य रत्रिचन्द्रे १.३३२ । पदप्रतिष्ठां च गुरुर्जगाम त्रिसप्तविश्वे १३७३ च स देवधाम ।। २६६।। ददात्वसौ मम्जुलमङ्गलाली जगत्पवित्रीकरणाभिधानः ! ... श्रुतासु यद्धर्म्यकथास्वपीह भवेत् सतां साम्यरसानुभूतिः ॥ २६७ ।। चत्वारस्तस्य गुरोः शिष्याः ख्यात्तेः पदं च सकलदिक्षु । आसन् जिनपतिशासनसौधोद्धाराय तु स्तम्भाः ।। २६८ ।। :: . . .श्रीमानिहाऽऽद्यो विमलप्रभोऽभवत् प्रबोधलब्ध्योद्धृतवान् दयाम्बुधिः । खदेशनावाणिगणान् वितत्य यो मिथ्यात्वरूपाद् गृहिणां शंतत्रयम् ।। २६९ ।। श्रीमत्परमानन्दः परमानन्दप्रदः स्वमूर्त्यापि । · गुरुरद्वितीयभाग्यो जज्ञे शिष्यो द्वितीयस्तु ।। २७० ॥ आसीत् सुविहितमुकुटः स्फुटसंयमशुद्धिरिद्धगुणजलधिः ।। । श्रीपद्मतिलकसूरिस्तार्तीयीकस्तु तच्छिष्यः ।। २७१ ।। । श्रीसोमतिलकनामा ४९ सूरिविश्वोत्तमश्च तुर्योऽभूत् । ३. महिमाम्बुधौ यदीये लीनास्त्रिजगन्मनोमीनाः ।। २७२ ।। ... स वाणवाणत्रिकुवर्ष १३५५ माघे :: ::: जातः पदाभ्यामनुकूलखेटैः । नन्दाङ्गविश्वे १,३६९ व्रतमाप्य भेजे .. . A गुर्वावली। बन्यश्वविश्वे १३७३ ऽपि पदप्रतिष्ठाम् ।। २७३ ।। सूरीन्द्रसोमप्रभपट्टभास्करो वालोऽप्यसौ प्राप्तपदप्रभोदयः ।। क्षमाभृतां मौलिनिघृष्टपादभृद् विदियुते स्फारयशःप्रतापवान् ।। २७४ ॥ अयं निजः सूरिगुणैरनुत्तरैः सूरिन कैरप्युपमामशिनियत् । येनोपमीयत सरोऽम्बुराशिना न चाम्बुराशिः सरसाम्बुद्धिभिः ।। २७५ ।। अल्पायुप्द्वात् सूरित्रितयस्यैकोऽप्यसावपाद् गच्छम् । रक्ष्यत्येकोऽपि वनं सिंहो न तु लक्षशोऽपि मृगाः ।। २७६ ।। न कैर्गजः सद्धपतिः प्रशस्यते स जबरालव्यवहारिमण्डनः । यष्टकसा युतयामल २५००० व्यया-': दचीकरत् तत्पदमद्भुतोत्सवैः ।। २७७ ।। क्षोणीभूपणजङ्घरालनगरालकारवीरालये प्राप्ताचार्यपदस्य तस्य सुमहोभाग्यस्य दृष्टयाप्यहो !। भूतप्रेतकुशाकिनीच्छलरिपूच्चाटस्फुरत्कार्मणा- शुत्योपद्रवमण्डलानि निखिलान्याशु प्रणेशुनृणाम् ॥ २७८ ।। नो दुष्टाः पशवः स्वभावरिपकः प्रायोभुवु! खला- स्तस्योत्कृष्टयशःप्रतापसुगुणा व्यापुश्च सर्वा दिशः। तत्तनिर्जिवका इवापरमहासूरीश्वराणां च ते दूर कापि पलायिता बुबुधिरे कैश्चिद् यथा नो पुनः ।। २७९ ।। पदतर्फीपरितर्ककर्फशमतिप्रोत्सर्पिदपोत्कर- स्फूर्जदुर्दमवादिसंमदमदापस्मारविस्मारके । एतस्मिन्नवति प्रभी जिनमतं तद्वेषिणः क्वाप्यगु. शिछन्नोत्साहमतिप्रभावरुचयः फष्टं जिजीवुः परम् ।। २८०।।

श्रीमुनिसुन्दरसूरिविरचिता विश्वव्यापिनि तस्य विश्रुतयश:पद्माकरे सर्वतः कम्पाकोत्पतदम्बुशीकरतुलारूढोडुमालाचितम् । नीलाम्भोजति तावंदम्बरतलं स्फेष्ठाष्टकाष्ठादलं सूर्याचन्द्रमसौ मरालतुलनादोलामथारोहतः ।। २८१ ।। तस्याखिलश्वेतपटाधिपस्य शक्नोति कः श्वेतपटान् प्रमातुम् । एको यशःश्वेतपटो यदस्य दिगङ्गानाङ्गाऽऽवरणं विधत्ते ।। २८२।। किंबहुना- - ध्वस्ता वादिमदा हतः कलिमलो मिथ्यात्वमुग्रं तम- श्छिन्नं मण्डलमण्डलप्रसृमरं प्राप्तं नृपेभ्योऽर्चनम् । क्लुप्तौ शासनभा युगोत्तमगुणैराऽऽता तुला गौतमी- त्युद्यल्लब्धिगुणप्रभावचरितैः सूरिः समोऽन्योऽस्य न || २८३ ।। वृद्धक्षेत्रसमाससप्ततिशतस्थानादिशाखैनवैः पात्रैराऽऽगमवारिधेरतिगुरोः पूर्णैः स्वधींगाहितात् । उद्धृत्यार्थसुधारसान् सुमनसः संसारतापापहान् सोऽपीप्यत् पुरुपोत्तमः स्वतिशयप्रौढिश्रिया संश्रितः ॥ २८४ ॥ शिष्यांस्त्रीन् समताऽस्थपद् निजपदें प्रांज्ञान् स तेष्वादिमः ख्यातः श्रीगुरुचन्द्रशेखर इति त्रैवैद्यवारांनिधिः। प्रौर्णोनोत् किल चन्द्रशेखरमहो ! नाम्नाऽपि पास्पर्द्धतं योऽसोढा भुवने स्वकीर्तिपटलैंनिर्माय शौक्ल्याद्वयम् ॥२८५॥ अभिमन्त्रितरजसाऽपि हि गृहहरिकादुर्द्धरश्चं मृगरांजः । दूरं नेशुर्यस्मात् सपरिकाराद् महिमवारिनिधेः ।। २८६ ।। न धीरं गोक्षीरं न मधु मधुरं किं तु विधुरं मनः साक्षाद् द्राक्षा न हरति सुधा साऽपि हि मुधा । न सान्द्रा वा चान्द्रा न वमरुचयः साधुशुचयः श्रुता चेद् यद्वाणी भवरिपुकृपाणी नवरसा ।। २८७ ।। वासिकभोज्यकथानकशत्रुञ्जयरैवतस्तुतिप्रमुखा । चित्राकृतियदीया कविकुलमोदप्रदा जयति ।। २८८ ।। - ....

३ गुर्वावली । अग्न्यश्ववहीन्दुमिताब्दजातः १३७३ शरेभविश्वे १३८५ यमितामवाप्य । द्विनन्दविश्वे १३९२ च पदप्रतिष्टां त्रिदोर्मनुष्वा १४२३ प च यः सुरौकः ॥ २८९ ।। शिष्याध्यापनकौशलं निपुणता सा सार्ववैद्य गिरी माधुर्य प्रशमादयो जनहितं चारित्रमप्युज्ज्वलम् । विश्वाप्यायकदेशनातिसुपमा चैवं परो विश्रुतै- यस्याऽभूत् सदृशो गुणैर्न स गुरुः सङ्घाय देयात् सुग्नम् ॥२९॥ श्रीसोमतिलकसूरिस्तस्य गुरुस्तदनु चैकवर्षेण । जिनभुवने १४२४ स्वर्गमितस्तनोतु सङ्घाय कल्याणम् ।। २९१ ।। तस्य स्वर्गतिसमये सुरकृतखोद्योतनादिमहिमानम् । वीक्ष्य जनाः प्रोचुरहो ! विमानमागाद् गुरोरस्य ।। २९२ ।। पात्रावतीर्णदेवी जगी सुरेभ्यः श्रुतं मया मेरौ । सौधर्मेन्द्रसमाना जजुरिमे श्रीतपाचार्याः ।। २९३ ।। शिष्यो द्वितीयस्त्वभवत् तदीयः श्रीमान् जयानन्दगुरुः स योऽभूत् । कलिद्विपः क्लप्सजयाद् विधायाऽऽ- नन्दं सतां सार्थकनामधेयः ।। २९४ ।। जातोऽन्तरिक्षद्विपविश्ववत्सरे १३८० द्विनन्दवहीन्दुपु १३९२ योऽभवद् प्रती ! : स्नेहाद् निपेधप्रवणेऽप्रजन्मनि प्रयोधिते देवक्या प्रभावकः ॥ २९५ ।। पदं नितः सोत्तरसूरिरभ्रदो- मनुष्व १४२० मेयातिशयश्रियां निधिः । घकार रम्यं शकटालजन्मनो - वृत्तं गमी द्यां फुयुगाब्धिगोषु १४४१ यः ॥२९६।। यद्देशनाशैवलिनीनिलीनाः 1 .

३२ श्रीमुनिसुन्दरसूरिविरचिता प्रौज्झन् द्विजौघी अपि कल्कपङ्कम् । तदेकलीना जनचित्तमीना- - स्तथा परोद्यद्वकवृत्तिभीतिम् ॥ २९७ ॥ यदीयविद्याविभवादकोविदं शेष स्म सबै प्रतिभाति विष्टपम् । दधाति यदुर्विधता विधि पुरो महेन्द्रभूतेः सनरामरं जगत् ।। २९८ ।। - युगोत्तमाभो जगदुत्तरो गुणै- यो भारतीभारतसंयमश्रियोः । आधारभूतः समभूत् प्रभावभू- स्तनोतु सङ्घस्य स सातसन्ततिम् ।। २९९ ।। श्रीदेवसुन्दरयुगोत्तमसूरिराजाः ५० शिष्या जगत्त्रयशो जयिनस्तृतीयाः । यै स्वरैः स गणराट् पुरुषोत्तमोऽपि भूत्येशतामभृत सोमललामसूरिः ।। ३०० ।। पण्नवाग्निविधुवत्सर १३९६ जाताः .. . प्राव्रजन् जलधिखाब्धिमहीपु १४०४। ये महेश्वरपुरे नखरत्ने १४२० पत्तने च पदसम्पदमापुः ॥ ३०१ ।। येषां जगद्विस्मयमोदकारिणं गर्द्धिऋद्धो विदधे पदोत्सवम् । सौर्णिकः सहपतिर्नुपप्रभः सिंहोऽहतो ज्ञानमहं नु वासवः ॥ ३०२ ।। अथ तेपामवदातैतिशप्रकटनं किञ्चित् क्रमात्- बाल्येऽपि येषां किलमश्चिकाजुषां सुलक्षणैः लक्षणवेदिनः पदौ । समीक्ष्य केचिद् विबुधा जगुः परां चिरं भवित्री महनीयतां भुवः।।३०३।। कोटीनाराहपुरे गणभृच्छ्रीसोमतिलकसूरीणाम् । . ..

.." -- . गुर्वावली.1., . गणमारोद्धरणपटुं पात्रं, जिज्ञासमानानाम् 11 ३०४॥ सुभ्यानलीनमनसा विशदगुणैाविनो.युगवरामाः । क्षुहवेऽपि च कथिता येऽम्बिकयाऽनन्तभाग्ययुजः ।। ३०५ ।। (युरमम्) अभूत् विशत्या वरयोगिनां वृतो- ऽन्यदोदयीपाभिधयोगिनायकः। कृतस्थितिः पत्तनगुगडीसर- स्यनेकमन्त्रादिसमृद्धिमन्दिरम् ।। ३०६॥ हरन् गरान् स्थावरजङ्गमानयं, जलानलव्यालहरीभभीहरः। अनागतातीतविदद्भुतास्पद नृपेभ्यमन्त्र्याधखिलप्रजातिः ॥ ३०७॥ निरीक्ष्य दूरादपि यानरियूतो.मुदाऽऽशु दण्डवतकृत् सहानुगैः । अवन्दत व्यजितभक्तिडम्बरः प्रजासमक्ष.बहुधा स्तुवन् गुरुन् ॥३- सहाधिपनरियायैः पृष्ठो नमनादिहेतुमाख्यच्च । गुरुरादिदेश दिव्यज्ञानादिः कणयरीपा माम् ।। ३०९ ॥ पद्माक्षदण्डपरिकरचिह्ररुपलक्ष्य सूरयो बन्धाः। भवता युगप्रधानाः शिवदा इत्यादि तद् व्यनमम् ॥ ३१०॥ धाराभिधश्रावकपुङ्गवेन पक्षोपवासैर्वशितः सुपर्वा । प्रपृच्छय सीमन्धरसाईमाख्यत् त्रिभिर्भवैर्मुक्तिपदं हि येपाम् ॥३११ सारङ्गमन्त्री घटपद्रवासभाम् । द्विपन जिनोतीरपि पूर्वजक्रमात् । नियुध्य देवस्य गिरा:युगोत्तमा- . नभिप्रहात् सिद्धपुरेऽभिगम्य यान् ॥ ३१२ ।। चैदादिशास्त्रः कृतनफनोदनः सप्रत्यययद्वचनामृतमदा। विधूय मिथ्यात्वगरं ननिस्तुतीः श्रीमुनिसुन्दरसूरिविरचिता 4 3 सृजन् प्रबुद्धो जिनधर्समग्रहीत् ।। ३१३ ॥ महाधनः श्राद्धवरः प्रभावक्र: : ... सुदर्शनाणुव्रतभृत् सुशास्त्रवित् । दिने चतुष्मासुकद्रव्यभोजन- व्रतोऽस्ति नानाद्भुतपुण्यकर्मठः ।। ३.१४॥ गुणद्धिसंवादिसुपर्वभापितै- रपीति तेवेव युगप्रधानताम् । निश्चित्य युक्तं गुरुधीनिवेशनं, ; शिवाय विज्ञैरधुना प्ररूप्यते ।। ३.१५ ।। देवानां खलु सुन्दरो गुरुरिमामास्थाय नव्यां तनूं .. दृष्ट्वा शासनमर्दितं कुकलिता तच्चिन्तकेन्द्रार्थितः । अर्हद्भक्ततयाऽत्र तत्सुखयितुं गच्छेऽवतीर्णस्तपा- :: ! संज्ञे तत् किल देवसुन्दरगुरुप्वाह्वाऽपि तेवित्यसौ ॥ ३१६ ॥ विद्याभरोऽसंख्यमुनीन्द्रबृन्दै- निपीयमानोऽपि हि.वर्धमानः : ............ कथं तुलां यातु पयोधिनैपां. निःशेषमेकोऽपिः प्रपौ मुनिर्यम् ।। ३१७.॥ : तेषां त्रैवैद्यपाथोधेरूर्म्युल्लासितशीकरान् । . . ....... पिबन्ति गुरुशुक्रज्ञास्तत् किलैतेऽपि पण्डिताः ॥ ३१.८ ।। सर्वतः प्रसरभाजि यशांसि. ........:": क्षीरनीरनिधयन्ति यमीशाम् । तानि तत्र परसूरिततीनां. शीकरावलिरिवाथ विभान्ति ।। ३१९ ॥ तेषांः परेषामथ सूरिराजां.. चिकीर्षता विश्वकृता यशांसि। उन्मानवीजानि विचक्रिरे प्राक्. १ सद्यौवनेऽप्येकसुतोऽपि शीलवान' इत्यपि पाठः। ... .... ..

7 गुर्वावली। ३५ पूर्णेन्दुविम्ब किल तारकाच ।। ३२ उत्कल्लोलरिदरदनच्छेदकुन्दविंदातैः .. शुष्ठाद्वतं त्रिजगति गमिते तैर्यशोभिः प्रपूर्य । अन्येषां चेद् वरिवृतति तदा तल्लवा नैव लभ्या सत्ता यस्माद् विरमति सरितां सिन्धुना संगतानाम् ।।३२१ कोऽवेदयिष्यत् तुलनामतीतान् । श्रीगौतमादीन गणिनों व्यतीतान् । युगोत्तमास्ते यदि नाभविष्यन् । निदर्शयन्तः स्वगुणश्रिया तान् ।। ३२२ ।। वीरेण ये शासनधारका महा. चार्याः स्वनिर्वाणपादनृदिताः ।. ... .... एतेऽवगम्याः खलु'ते गुणोचय "... T: रातदीयैव शिवाय तत्कृता । ३२३ ॥ नालं यस्याहिनेता हरगिरिरमल कर्णिकावन्यन्धु- माद्यदिग्दन्तिदन्ता लततिरतुला पूर्णचन्द्र कोशः । व्योत्स्नापूरः परागः सितकरकिरणाः केसरालीव भान्ति स्फीतं तत् तद्यशोऽन्ज त्रिभुवनसरसिव्योमभृङ्गानुपङ्गि ।।३५ न विद्यया नैव तपोखिरनिमें- न वा महिम्ना न च भाग्यसंपदा।। गुणद्धिभिर्वाऽप्यधिकः समोऽथवा..:.., न कोऽपि तेपामधुनेह 'वीक्ष्यते ।। ३२५ ।। तदीयपट्टे गुरवो जयन्ति ये: ये चाऽऽपुरिन्द्रांतिथितां विधेर्वशात् । तन्नामसंकीर्तनपुण्यवारिभि-:: गिरं पवित्रा विधेऽधुना मुदा ॥ ३२६ ।।' श्रीज्ञानसागरगुरुप्रभवों ५१ वभूवु- राधा यदीक्षकबुधा इति चिन्तयन्ति । " . - Her:." . --HTI..

श्रीमुनिसुन्दरसूरिविरचिता मुक्तोऽपि गौतमगुरुः समवातरत् स्वं वीक्ष्यान्वयं सुगतवत् किल दुःस्थमेषः ।। ३२७ ।। - अन्तःसाम्यसुधाहदप्रसृमराः किं प्रोचवीचीचया हेलापीतजिनागमाम्बुधिभुवः प्रोदारमाला: किमु ? । किंवा वक्त्रसुधागुतेर्तृतिभराः पीयूपदिग्धाः सता- मेवं स्मोदयते विकल्पनिकरो यद्देशनानीलहो ! ॥ ३८ ॥ संमील्याऽखिलसाम्यकाम्यकणकान् विश्वस्य किं योगिनां सारान् कांश्वन वा निचित्य जगतां पीयूषवीचीकणान् । सर्वद्वीपसुधांशुमण्डलमिलत्सौम्यत्वलक्ष्मीलवान् किंवाऽऽदाय विनिर्मितेयमिति यन्मूर्तिबुधस्तर्किता ।। ३२९ ॥ शरणं समसूरिसंपदा हरणं कल्मपसंहतेः सताम् । वरणं खलु निवृतिश्रियां न मुदे कस्य यदीयदर्शनम् ।। ३३० ।। असमा जगति श्रुतश्रियो न पथे संयमशुद्धता गिराम् । समतीततुला च सौम्यतेत्यभवंस्ते जगदुत्तरा गुणैः ।। ३३१ ।। किं मूर्ति नवमः श्रितो रसपतिः सिद्धान्ततत्त्वनियां कोश: किं गुणसंपदा मितिमुचां चन्द्रद्युतां किं निधिः । जीवातुः कलिविद्विषा प्रतिहतः श्रीजैनधर्मस्य किं दुर्गः किं भवभीतजन्तुनिवहस्येत्यूहितास्ते बुधैः ?॥ ३३२ ।। न ग्रामे न कुले तनौ न न मुनौ तेषां मनो बन्धभाक् शय्याऽनौषधपानकादि नितरां तैः शुद्धमेवाऽऽहतम् । चातुर्वैद्यरमा झधारि भुवनोत्कृष्टा न चैतद् मद- स्तत्त्वं तेन वदाम्यहो ! जिनमतस्याऽसूपमास्तेऽभवन् ॥३३३।। धन्यो धनः सङ्घपतिः पदोत्सवान् श्रीस्तम्भस्तीर्थे विविधाद्भुतप्रथम् । तेषामहो! स्तम्भनकेशपार्श्व- चैत्ये महाराजवलादचीकरत् ।। ३३४ ॥. ते लेभिरे जन्म मनुप्रमाऽन्द-: .

. AU .. -- गुर्वावली । शतेपु यातेप्वधिकेषु वाणैः १४०५ । हयेन्दुभिः १४१७ संयममिन्दुवेदैः १४४१ पदं खतनिदिवं १४६० च तुर्यम् ।। ३३५ ।। खमायुरन्ते स्वयमाकलय्य ते निषिध्य भक्तं बहुसङ्घसाक्षिकम् । संवर्मितां साम्यसुधारसोमिभिर्यद्योगिमुद्रां विशदां दधुस्तदा ॥३३६ यच्छ्वासकासौ च कफान्वितौ द्रुतं न्यनेशतां कोटिगयोगविद्रुतौ । तेषां हि गम्या तदनुत्तरा गतिः संवादमा त्रिदशोक्तयः पुनः ।। ३३७ ।। ताश्चमा:- खरतरपक्षश्राद्धो मन्त्रिवरो गोवलः सकलरात्रिम् । अनशनसिद्धी भक्त्या गुरुकर्पूरादिभोगकरः ।। ३३८ ।। ईपन्निद्रामाप्याऽपश्यत् स्वप्ने सुदिव्यरूपधरान् । तानिति बदतस्तुर्ये कल्पे स्मः शक्रसमविभवाः ।। ३३९ ।। (युग्मम्) श्रीगुणरत्नगुरून ये स्वप्ने स्वरराजरूपिणो दृष्टाः । शिष्टाशिष्टविशेपाापलम्भं लम्भयामासुः ।। ३४० ।। मैमित्तिकोऽपि वीरोऽपश्यत् तुर्यस्वरिन्द्रसमविभवान् । तदनुत्तरगतिलाभाद् युगोत्तमांस्तान विनिश्चिनुमः ॥ ३४१ ।। तेषां निखातेधुवमुत्तमैर्गुणैः सतां प्रपूर्णानि मनांस्यहो ! तथा । यथोत्र केपामपि तेषु तेऽधुनाऽवकाशमायान्यगुरूपिणोऽपि न ||३४२ तेषां गुणानामचिरस्य चायुपः प्रमोदखेदाचभरैः स्मृतेर्मम । यः स्यात् समं सैप निदानभेदतः फायें भिदैकान्तमतं निरस्यति ।। ३४३ ॥ १ 'भरं स्मरनहं लभे समं यं स नि' इत्यपि पाठः ।

श्रीमुनिसुन्दरसूरिचिराचिता . विरार्विक्लवंतखिलायित कले वो भाग्यविपर्ययोऽथवा । पूतीबुभूषा त्रिदिवख वाऽभजन निदानतामत्र चिरं तदस्थितौ ।। ३४४ 11. श्रीसोमसुन्दरगुन्प्रमुखास्तदीयं त्रैवैद्यसागरमगाधमिहावगाए । प्राप्योत्तरार्थमणिराझिमन लक्ष्मी- लीलापदं प्रदधते पुरुषोत्तमत्त्रम् ।। ३४५ ।। न स्थैर्य सुमनःपये प्रविदधद् नैवापि.वर्णोज्ज्वल: प्रोद्यच्चापल उल्लसन्नडतया यो निम्नगोल्लासकृत् । चद्दर्जत्यपि मादशो जलदखल सौच्चैःपदे संश्रितः तत्वैवैद्यमहाधिशीकरकणाऽऽदानस्य तज्जृम्भितम् ॥३४६ सारखते प्रवाहे तेषां शोपं गतेऽधुना कालात् । शिष्यरुपंक्रियन्ते विद्याम्भ:कूपकैलोकाः ।। ३४७ ॥ दीनायुद्धरणात् पदोत्सवकृतेस्तीर्थेषु यात्रादिभिः सत्रैर्दुस्समये गुरुप्रणमनैर्भक्त्या सदावश्यकैः । चैत्योद्धारविंधापनर्वितरणः क्षेत्रेषु सप्तस्वीप प्रौढैः पुण्यभरैः प्रभावपदवीं येनाऽऽप्यते शासनम् ॥३४८॥ सर्वेभ्यमालामुकुटस्य तस्य श्रीगोतसाहोच्छूितमाननस्य । कर्णावतीमण्डनचाचसूनो सङ्घाधिपेन्दोर्गुणराजनाम्नः ॥३४९।। धन्धुः प्रबुद्धो वचनैर्गुरूणां तेषां महामोहतमोवृत्तोऽपि । आम्रः प्रवन्नाज विमुच्य पत्नीपुत्रादिकानद्भुतभाश्च लक्ष्मीः ॥३५० श्यामलनाममहेभ्यस्तेभ्यो बुद्धश्च नव्यरूपवयाः । प्रात्राजीत् परिमुच्याऽनुरागरूपोंत्तरां जायाम् ॥ ३२१ ॥ सुनीशिदारोऽर्धचतुर्थविशाः प्रावोध्यं चाऽन्येऽपि हि दीक्षितास्तैः । गुद्धिपात्राणि विचित्रचञ्चज्ज्ञानादिसंपत्पदवीं भजन्ते ॥ ३५२ ।। मेदपाटपतिलक्षभूमि द्रक्ष्यदेवकुलपाटके पुरे ।

३ १ 5. गुर्वावलोayari मेघवीसला केहहेमसद्धीमनिम्बकटकायुपासकःt. श्रीतपागुरुगुरुत्वबुद्धिभिः कारित तदुपदेशसंश्रुते. तः प्रविष्ठितमथाऽऽदिमाऽहंतो मन्दिरं इरजमोषम,निया॥३५४|| ....... ....युगमम् ) कान्ताया गणिसंपदो गणभृतस्तत्पूर्वजस्याऽभव... in स्तस्मिन् सिद्धिमिते, सतीप्रतजुषो या नो कमप्यस्पृशन् । सा योगातिजरा चलानगृहिरे तैः कीर्तिकन्याश्चात- संयोग जनितास्तथापि चरितं तेपामाहो ! लाध्यते ॥ ३५५ । किञ्चिच्छान्तमपि प्रमाणपठनैजाड्यं पुरा वादिनां.. भैषज्यैरिव लघ्वलकविपनद्वादे पुनः प्रास्फुरत् ।... नव्यादेविव तेषु दुर्धरतस्याद्वादगर्जारवं : achtant क वर्पत्याप्तमहोन्नतिष्यनुपमोपन्यासपूरामृतम् ।।.२५६ ।। पीत्वा विनाशिताम्भोधि पीताधि का प्रशंसति : . पीतस्याब्धेन यस्याऽस्थादुरे विन्दुरप्यहो। ३५७॥ चन्द्रशेखरसूरीणां ज्ञानाधिस्तैस्वशेषत: aler पीत्वा हदि धृतासर्वः स्वादुर्दत्तोऽयवर्धत || ३४८, .*': ... :: (युएम.) .. स्त्रीपुंसाद्यातिभिरदिवे वाह्यरूपैरविद्या-wi. .... शक्त्या.मातस्तदपुगमताश्चिन्मयैकात्मलीनमः ।....... सनामात्र नं यदुपगवं तत्त्वतोऽस्मिन् विवते चित्तं तेषां तदपि विपयग्रामवद्धं कथं साव ...Ans | साम्यारामे स्थिरतरलयात् सर्वदोन्मीलदेका-... .... मन्दावादेऽपमृतसफलोपाधिजन्याकुलवे, शान्यालेपप्रणायिनि यदात्मन्युदेतीह सौख्यं : ....... रम्भाभोगोडवमिव हरिस्तत एवाऽन्वभूवन् || ३६...' । मूलग्रन्थचतुर्दिन शासनीकोऽर्थदीपिकाPi... दीपिका इव राजन्ते तत्प्रणीताऽवचूर्णयः ।।:३६१।।

१०. श्रीमुनिसुन्दरसूरिविरचिता का तत्कृतिवेला जल्पति पीतत्रैवैद्यवाधिगाम्भीर्यम् । भूगुपुरघोघातीर्थस्तोत्रमुखा विहितचित्तसुखा ।। ३६२ ।। ते सत्पदोन्नतिभृतः सुगभीरघोपा : निर्वापिताखिलजनाऽघनिदाघतापाः । प्राप्ता घनांगमरमाममृतं ददाना घोस्था भवन्तु भुवि मङ्गलवल्लिपुष्टय ।। ३६३ ।। सूरीश्वराः श्रीकुलमण्डनाहा- स्तेषां विनेया अभवन् द्वितीयाः । भाग्यं यदीयं पुनरद्वित्तीयं ख्यातं यशश्च त्रितयेऽपि.लोके ।। ३६४ ।। संवित्तिरेव सततं हृदि वावसीति. ::. नोऽसंवृतिस्तु लभतेऽपि पदप्रवेशम् । क्रुद्धेति साऽऽप्यपरवादिततीविरुद्धा- :: स्तेषां जघान किल कल्पजकेलिशर्म ॥ ३६५ ॥ तदीयचातुर्यरमावलोकः संभाव्यतेऽपीन्द्रगुरोः स्म मूर्खिमा । शेश्रीयते गोष्पदतां यतः सरो महाम्चुराशेः पुरतोऽपि मानसम् ॥ ३६६ ।। अहो ! नवः कश्चन बोधदीपस्तेपां जगद्भासनशक्तिशाली । निःश्वासवातैर्जितवादिनां यः प्रगल्भते स्माऽत्तभवादिदर्पः ॥३६७।। ।. जन्माङ्कखैरभ्यधिकेपु शके- प्व१४०९श्वौषधीशैव्रत१४१७मक्षिवेदैः:१४४२ । .. सूरेः पदं चाप शरेपुभि १४५५स्ते चैत्रे ययुः स्वर्जगतामभाग्यात् ।। ३६८.॥ विधेर्जरा० ॥ ३६९ ।। निजतीथिकपरिकल्पितकुमतोद्धरशैलदलनशतधारः । तनिर्मितो विजयते. सिद्धान्तालापकोद्धारः ।। ३७२ ।। .

गुर्यावली. अष्टादशारचक्रं तैपां हारश्च हृदयसंस्पर्शात् । भापयते विबुधानपि चश्चद्वर्णस्फुरद्धाभृत् ।। ३७१ ।। क्षमाधरगणाकीर्णगच्छभूभारधारिणः । दिङ्नागफणिनाथाद्यैः स्पर्धन्ते ते स्म सन्ततम् ।। ३७२ ।। उभावती गुरू याती नेत्रे तु चरणश्रियः । स्खलत्येपा ततः सम्प्रत्यतिचारैः समेष्वपि ।। ३७३ ।। तेषां च सूरिगुणरत्नसमन्वितानां श्रीस्तम्भतीर्थनगरालिगसद्वसत्याम् । सौर्णिको लखमसिंह इति प्रसिद्ध- चक्रे पदोत्सवततीवरसङ्घनेता ।। ३७४।। गुरूचमाः श्रीकुलमण्डनास्ते प्रख्याततेजःप्रचयप्रभावाः । जगत्पवित्रीकरणाभिधानास्तन्वन्तु मङ्गत्यसुखानि सङ्के ।। ३७५ ।। देवसुन्दरगुरुक्रमपद्मोपास्तिविस्तृतसमस्तगुणा ये । वद्विनेयवृपमा विजयन्ते कीर्तयामि ततकीर्तिततीस्तान् ||३७६।। आद्या जयन्ति गुणरत्नमुनीन्द्रचन्द्राः सूरीश्वराः सुगुणरत्नविभूपणैर्यः । सा काऽप्यवापि सुभगत्वरमा यया तान् श्लिष्यन्ति सर्ववुधमानसचिनार्यः ।। ३७७ ॥ तेषां निर्जितवादिराजिकुयशोजन्यालजालाविले भ्रान्त्वा भूवलयेऽखिलेऽथ चलिता खं स्वर्गदण्डाध्वना । स्नान्ती श्रान्तिहतीच्छयेन्दुसरसि स्वैरं सुधाशीकरान् कीर्तिनि विकिरत्यमी प्रतिनिशं दृश्या ग्रहादिच्छलात्॥३७८।। यजाता हिमभूभृतः पशुपते: पत्नीति का प्रत्यय- स्तत्कीर्तिजनिताऽमुनेति तु सतां नूनं प्रतीतेः पथः । एषा यद्धवला हिमाऽपि जनयद् म्लानि जवाद् वादिनां १ 'अष्टादशारचक्रं तेषां हारश्च सपदि मापयते । विबुधानामपि हृदयं चञ्चद्' इत्यपि पाठः । २ 'यच्छिशिराऽर्जुनाऽपि' इति च पाठः। . ६ ४२ श्रीमुनिसुन्दरसूरिविरचिता वक्राम्भोजगणेषु निर्दहति च प्रोद्दामदर्पद्रुमान् ॥ ३७९ ॥ ग्रन्थेषु येपु न परस्य धियां प्रवेशो- ऽप्येतेप्वपि प्रसरतीह तदीयबुद्धिः । वेभाययत्यपि तटाश्रितमन्यमधि- यः सोऽपि दैत्यरिपुणा किमु नो ममन्थे ? ॥ ३८० ॥ जगदुत्तरो हि तेषां नियमोऽवष्टम्भरोपविकथानाम् । आसन्नां मुक्तिरमा वदति चरित्रातिनैमल्यात् ।। ३८१ ।। सिद्धत्वात् सार्ववैद्यस्य ते सिद्धपुरुषोत्तमाः । तदाप्ततत्कणाः शिष्या यदृशीकुर्वते जगत् ।। ।। ३८२ ।। सर्वव्याकरणावदातहृदयाः साहित्यसत्यासवो गम्भीरागमदुग्धसिन्धुलहरीपानकपीताब्धयः । ज्यायोज्योतिषनिस्तुषाः प्रदधतस्तपु चाऽऽचार्यक वादे तेऽत्र जयन्त्यशेषविदुषां त्रैवैद्यदर्पोष्मलान् ।। ३८३ ।। उत्कल्लोलं दिशि दिशि बुधाः कर्णपात्रैः पिबन्तः स्फीतं गीतं सुकृतिततिभिस्तद्यशःक्षीरपूरम् । तेषां शुद्धां चरणकमलां विभ्रतां श्रीगुरूणां सृष्ट्या स्रष्ट्रा जगदुपकृतं मन्वते सांप्रतं वै ॥ ३८४ ॥ परमेष्ठिमन्त्रतत्त्वाम्नायस्मरणेन देवतादेशैः । पात्रिक्यैहिकीस्ते प्रायो जानन्ति कार्यगतीः ।। ३८५ ॥ स्वदर्शने वा परदर्शनेषु वा ग्रन्थः स विद्यासु चतुर्दशस्वपि । समीक्ष्यते नैव सुदुर्गमेऽप्यहो ! यत्र प्रगल्भा न तदीयशेमुषी ।। ३८६ ।। या ज्ञानााद्यमप्रौढिर्या च नित्याऽप्रमादिता। या चैषां स्मरणाशक्तिः साऽन्यत्र श्रूयतेऽपि न ॥ ३८७ ।। चक्रुष्टीकाशलाकां ते षड्दर्शनसमुच्चये । ज्ञाननेत्राजनायेव सतां तत्त्वार्थदर्शिनीम् ।। ३८८ ।। ५ गुर्वावली । उद्धृत्य ये व्याकरणाम्बुराशितो विलोड्य युद्धिप्रसरामराऽद्रिणा । शुद्धक्रियारत्नसमुच्चयं सतामाश्चर्यभूतं विबुधालये ददुः ।।३८९।। लोकोत्तरां सच्चरणश्रियं मुदा सदा भजन्तश्च सरस्वती प्रियाम् । दुष्कर्मदैत्यव्यथका जयन्तु ते गुरुप्रवेकाः पुरुषोत्तमाश्विरम्॥३९०।। (युग्मम् ) विभ्रतेऽथ नवतां जयिनः श्रीसोमसुन्दरगुरुक्रमपद्माः ५१ । संस्मृता अपि विदध्युरनन्तं शीतिमानमघतापहृतेर्ये ॥ ३९१ ।। सरस्वतीमागमवाधिसंगतामवाप्य येषां सुरसमिर्मिताम् । पुपूपया स्वस्य नु सन्मनोगणत्यजेन्न तीर्थ प्रियमेलकं विदन् ॥३९२।। न नाममात्रादपि तु स्फुरत्प्रम- गुणप्रभावैर्नरसिंह एव सः। महोत्सवैयः कलिदैत्यहिंसनात् क्षमाभृतोऽमून सुपदे १४५७ न्यवीविशत् ॥ ३९३ ॥ तान् दूत्येवात्मका विशदसुभगताख्यापनादुत्सुकत्वं दत्त्वा नीता भजन्ते सकलसुमनसां यन्मनोवृत्तिनार्यः । लब्ध्वाऽऽगस्तद्गुरूणां निजनुतिसमयावाङ्मुखत्वावलोक- क्रुद्धाः प्रोद्यद्गुणोपा निगदितुमिव तत्कर्णपङ्क्ती विशन्ति॥३९ सौभाग्यतस्तेऽभ्यधिका हरेः पितुर्वैतादयविद्याधरसेव्यता पः। भजन्ति वामा न परं क्षमाभृतां ध्यायन्ति यत्तानं सुमनोऽवला अपि॥३९५ तैः पाल्यमाने जिनशासनेऽधुना नेशा विघातुं कुंमतत्रजा व्यथाम् । प्रकाशितं पद्मवनं विवस्वता पराभिभूयेत तमोभरैर्न यत् ॥ ३९६ ।। आराध्य देवानपि या दुरापा वाणी परैस्तेषु निसर्गतः सा । दुरासदाऽन्यविविधैरुपायैर्या श्रीहरेः साऽनुचरी स्वभावात् ॥३९ कि मोहाऽहिविपोमिमूच्छितजगजीवातवोऽमूः सुधा- १ 'सौभाग्यमेपामधिकं हरेः' इत्यपि पाठः। २ 'जुषाम् इति च।

४.४ श्रीमुनिसुन्दरमरिविरचिता . घाराः स्वागमदुग्धवारिधिभवाः स्फारा लयः किमु । किंवा शासनसौधभासनचणा दीप्राः प्रदीपश्रियः ? सर्वध्वान्तभिदः सतामिति मति तद्देशनास्तन्वते ।। ३९८॥. स एव धतु जिनशाशनं पतत् तद्दःषमापङ्कभरेऽधुनेशते । युगान्तवातोद्धतवाधिविप्लुतां महावराहाद न परो दधाति गाम् ।।३९९।। क्षमापरा इत्यपि साहसिक्यात् समारतो जेज्यति ते प्रवादान् । दन्दह्यते वा शिशिरेतिबुद्धया ऽप्यालिङ्गिन्तान्जानि न किं हिमानी ?॥४०॥ उपतदमपि संश्रिते विनेये विलसति बाग सुमनोमनोऽपही। गुणवति रमणे तदाश्रिते वा भवति रतिः किल योषितां.समाना ॥४०॥ प्रभवति महिमा यथा तदीयो जगति न कस्यचनाऽपरस्य तद्वत् । प्रसरति तरणेमरीचिचक्र वियति यथा न.तथा हि तारकाणाम् ।।४०२॥ निलं विवृद्धिगकलाः सदखण्डवृत्ताः प्राप्तोदयाः स्मरहृतोऽस्तकुरङ्गसङ्गाः । भ्रान्त्युज्झिता विदलयन्ति तमस्तथापि श्रीसोमसुन्दरतया प्रथिता अहो ! ते ॥ ४०३ ॥ ते शीतिमानमतुलं दधते भवस्या- धःकारकारककलावरवृत्तताऽऽढयाः । संदर्शितामृतरसा निजगोविलासैः श्रीसोमसुन्दरतया प्रथिताः सुयुक्तम् ।। ४०४।। नानागोचरमारवस्थलवतिभ्रान्त्युत्थतापोनृपः सौख्येच्छामृगतृष्णकाम्भसि न के ताम्यन्ति चेतोमृगाः ।

गुर्वावली '४५ -- खेलत्यात्मवने लयी स परमानन्दादिदूर्वाकुरा स्वादी साम्यसुधाइदे प्लबनकृत्तुष्यस्तदीयः पुनः ॥४०५॥ जिंतंद्राक्षा व्याख्या वचनलंलितं साम्यकलितं. गुरुस्फूतिर्मूर्ति वणिमकला दोपविकला। अहो! येषां पोषाद्वितसुचरणं सिद्धिवरणं विमुद्रं ते भद्रं वदतु भवत्तां धीधनवताम् ॥ ४०६ ।। श्रीसाधुरत्नगुरुविस्तृतमाभरोऽयं श्रीगच्छमौलिरमल: समलकरोति । श्रीजनशासननृपं निहतारिवर्ग-: स्फूर्जप्रतापमहिमाप्तजगत्प्रभुत्वम् ॥ ४०७ ।। वेलेबोहासिनी तद्गीत्रैवैद्याऽपारसागरे । दूरं विक्षिपते दृप्यद्वादिनः कर्करानिव ॥ ४०८ ।। आकौशलधरः काव्योऽप्यानैपुणधरो गुरुः। तेषां विद्यासु नैपुण्यावाचातुर्यमयं जगत् ।। ४०९।। प्रभावकाणां प्रथमः सिद्धिमा स सहनेता प्रथमः प्रशस्यते । अचीकरद् योऽद्भुततत्पंदोत्सव श्रीपत्तनेऽष्टेन्द्रियरत्नवत्सरे १४५८ ॥ ४१० ।। आहेमचन्द्रनिदिवं विधाय प्रभावकोत्पत्तिकथादरिद्रम् । सप्ट्राऽनुसृष्टया पुनरेव तेषां जैनेश्वरं शासनमन्वकम्पि ॥४११॥ वर्पत्सूनतवारिदष्विव मुहुर्यादेपु तामृत तेपूरैःपदसनतेपु भुवि या कीर्तिः सरिजायते । संपूर्योत्तममानसानि विदुपामुन्मूल्य दर्पट्ठमान् मिथ्यात्वोरुदवोपशान्तिमपि सा कृत्वाऽन्धिमालिङ्गति ॥४१२ फलन्दिकासौरभभृत्पदाम्बुजांश्रितस्य तेपी व्यथते न मूर्सिमा । १ यस्त्वयं, इत्यपि पाठः। २ धमापदेशामृतमिति वा पाठः। .

४६ श्रीमुनिसुन्दरसूरिविरचिता न नैशमन्धातमसं प्रगल्भते विलेप्तुमुष्णांशुकराम्बुजं यतः ॥४१३।। यतिजीतकल्पवृत्तिवृत्तिरिव चारित्रकल्पवृक्षस्य । तन्निमिता विजयतेऽतिचारचोरादिचारहरा ।। ४१४ ।। उत्फुल्लास्तनुलवणिमालोकनात् स्मेरचित्तै- ानाद्भाग्यार्पितगुणततेर्वाक्श्रुतेः प्रीतकर्णैः । ये मन्यन्ते विबुधनिकरेंगीतमस्याऽवतारः श्रेय श्रेणी ददतु जगते ते जयश्रीपरीताः ॥ ४१५ ।। श्रीदेवसुन्दरगुरुप्रभवो गणेशा अप्याश्रयन्ति गुरुभित्रिभिरेभिरेवम् । सूक्ष्मार्थवोधरतिकान्तहतिप्रगल्भै- नत्रैरिव त्रिभुवनेऽपि हि शङ्करत्वम् ।। ४१६ ।। . श्रीमद्च्छहिमालये लवणिमोत्कल्लोलपद्मदा- स्ते नुनं गुरवः सरित्ततिरिवतेभ्यो विनेयावली । उद्भूता भुवनेऽभितः प्रसृमरा वादिदुविद्राविणी पावित्र्यं तनुते हरत्यथ मलं मिथ्यात्वतापापहा ।। ४१७ ।। लसन्ति तेषां गणरत्नसिन्धौ मुनीन्द्ररत्नानि महाप्रभाणि । क्षमाधराणामपि मौलिमालाशोभाऽखिलाऽऽशासु विधीयते तैः ।।४१८॥ तथाहि- श्रीदेवशेखरगणिप्रथिताभिधाना: श्रीवाचकावलिशिरोमुकुटायमानाः । तेषां विशुद्धगुणसंयमभासमानाः शिष्या जयन्ति विगलत्कलिशत्रुमानाः ॥ ४१९ ॥ शिष्यस्तदीयोऽयमपीति मन्यते श्रीवाचकेन्द्रेष्वगुणोऽपि मादृशः । ग्रहप्रभोः पुत्र इति ग्रहावलौ न पूज्यते पङ्गुरपीह किं शनिः?॥४२०॥ अहो ! तेषां कराम्भोजवासानां सुप्रभावता-1 : जातो यमौलिगैोग्योऽप्यहकं मुनिसुन्दरः ॥ ४२१ ।। श्रीश्रुतसुन्दरवाचकवर्याः श्लाघ्या न कस्य गुणनिधयः ? । 1

गुर्वावली।
यदीःस्पर्धापापाद् मन्ये श्वभ्रे सुधाऽपप्तत् ॥ ४२२॥
जयचन्द्रवाचकैः किल जित्वा विद्यायलेन लघिमानम् ।
नीता गुरुवुधशुक्राः स्थेमानं दधति न कापि ॥ ४२३ ॥
श्रीभुवनसुन्दरा अपि वाचकवर्या न कस्य हाय ? ।
सत्यपि येषां वाणी प्रतिचतुरं लीयते हृदये ।। ४२४ ॥
श्रीजिनसुन्दरवाचकहृदयगृहेऽदोपवैर्यविपयतया ।
विनयो गुरुभक्त्या सह विलसति निश्शङ्कमनवरतम् ॥ ४२५ ॥
सम्यक्परिहृतसप्ताऽधिकदशभिदसंयमा विशदचित्ताः ।
कण्ठस्थाऽऽगमसूत्रस्फुरदर्थाः संवृताऽऽस्रवणाः ।। ४२६ ।।
जयवर्मनामविबुधाः स्थविरा गच्छेशवन्धवः कस्य ।
इलाघ्या नैतत्कालाऽनुत्तरगुणचरणकरणाढ्याः ॥ ४२७ ॥
(युग्मम् )
नानाऽनार्यप्रायान् देशान् दूरेऽप्यबुधन धीराः ।
स्थविराश्च देवमालविवुधा गुरुगच्छकार्यकृतः ।। ४२८ ॥
अन्येऽपि श्रुतसागरदेवप्रभरत्नसुन्दरा विवुधाः ।
अथ सर्वशेखराह्वाः ख्याताः क्षेमकराह्वाश्च ।। ४२९ ॥
संविग्नकमलचन्द्राः सदाश्रवा ज्ञानकीर्तयश्चापि ।
वुधसाधुसुन्दराऽभयसुन्दरमिश्रा यशःश्रीद्धाः ॥ ४३०॥
आनन्दवल्लभाह्वा विशद्गुणाः सहजधर्मनामानः ।
विवुधेन्द्रशीलकुम्भा विख्याताः शान्तिमूर्तिवुधाः ।। ४३१ ॥
निस्सनकरडा वनवासे सोमशेखरा लीनाः ।
गुर्वादेशधुरीणा विमलादिकमूर्तयश्चाऽपि ॥ ४३२ ॥
सर्वसमुद्राद्या अपि बहवो लुपान्यगणकतारकभाः ।
गच्छेशाऽर्ककरा इव दिशि दिशि निघ्नन्ति मोहतमः ॥ ४३३
(पञ्चभिः कुलकम् )
... प्रायो भान्ति गणेऽस्मिन् पदान्यहो! चतुरशीतिसहयानि ।
इव तावतां गणानां सारेविहितानि विधिनाऽऽत्तैः ॥ ४३४ ॥

४८ श्रीमुनिसुन्दरसूरिविरचिता है - गुरुविनयो गणभक्ति नचरित्रादयश्च निर्द्वन्द्वाः । .. आसन् महत्तरायां सुगुणाश्चारित्रचूलायाम् ।। ४३५ ।। यस्याः समयार्थमणीविडूरभूमेः पुरः श्रयेद् ब्राह्मी। आकौशलं प्रशस्या महत्तरा भुवनचूला सा.॥ ४३६ ॥ प्रवचन-धर्मकथाज्ञौ वादी नैमित्तिकस्तपस्वी च । विद्यावित् सिद्ध-कवी प्रभावकाश्चाऽष्ट तद्गच्छे ।। ४३७ ।। तथाहि- आचार्योपाध्याया गणेऽत्र वादाचशेपलब्धिजुपः । प्रायोऽष्टधाऽपि सर्वे शासनमुद्भासयन्त्यभितः ॥ ४३८ । विभागतोऽपि च- आचार्यादिपदस्था यतयः साध्व्यो महत्तराद्याश्च । श्राद्धाश्च तारतम्यात् प्रवचनकुशला विभान्यत्र ॥ ४३९ ।। श्रीजिनसुन्दरवाचकमनुमितशरदुदयरत्नमुन्याद्याः । हरिरिव भुवनान्युदरे विभ्रत्यङ्गानि निखिलानि ॥ ४४० ।। सर्वपदस्थाः प्रायो यतयः श्राद्धाश्च मन्त्रिहेमाद्याः । धर्मकथालब्धिभृतः करन्ति जिनधर्मसाम्राज्यम् ।। ४४१ ।। श्रीसूरिवाचकेन्द्रविद्याधनयाचकीभवद्धिषणैः । ध्रियतेऽत्र वादलब्धिविबुधैर्यतिभिश्च बहुभिज्ञैः ॥ ४४२ ।। संवृतसर्वास्रवणप्रबुद्धवरसर्ववल्लभप्रमुखाः । अवितनिमित्तविज्ञा गणरक्षणदक्षिणा बहवः ।। ४४३ ॥ गुरुगच्छवालवृद्धप्रमुखमहानेककार्यनिष्णाताः । सर्वधुरीणप्रवरा माध्यस्थ्याद्यैरनन्यसमाः ।। ४४४ ।। द्वादशधा तपसि रता गुणवर्धनसाधुसागरप्रमुखाः । लोकोत्तरगुणचरिता निवसन्ति मनस्सु नो केषाम् ? ।। ४४५ ॥ येषां तपःशक्तिहतप्रभावाः सप्तर्षयः शून्यमहो ! भ्रमन्तः । शानिषिद्धामपि रात्रिचर्या चरन्त्यदृश्याः किल लजयाऽह्नि ।।४४६|| मासद्वयोपवासप्रमुखैः संसारतारणमुखैश्च ।

गुर्वावली । ४ - . .. त्रिदिनोत्सर्गाद्यैरपिं विविधैर्वाह्याऽऽन्तरतपोभिः ॥ ४४७ ॥ ते सर्वदेवादिमुनीश्वराश्च निस्तन्द्रसंवेगसुधाभितृप्ताः । प्रत्याययन्तः किल धन्यमेघश्रीशालिवाहुप्रमुखाञ् जयन्ति ।। ४४८ श्रीवीरभक्त्या मदमुग् दशोनं पाण्मासिकं यो विर्दधे तपोऽग्न्यम् । महातपःकर्मसु नित्यलीनं तं 'शान्तिंचन्द्रं गणिराजमीडे ॥ ४४९ ॥ जानाना गुरुविहितं स्खलिते शकटालजन्मनो दण्डम् । गुप्तधना विद्याच्या बहवः सिद्धाश्च सन्यत्र ।। ४५० ।। किं वाच्यं कविसंपदि याला अपि यत्कवित्वगुणललितैः । चुधगुरुकविभिः स्पर्धागध गच्छेऽत्र वाभजति ।। ४५१ ।। किं वाणः को मुरारिन कविकुलकलः सोऽचलो नाऽमरो वा नाश्वासः कालिदासे विलसति न गिरां चाऽपि हर्षे प्रकर्पः। भोजः सौजःप्रभो नो न च हरति मनो भारविनैव माधः प्रेक्ष्यन्तेऽस्मिन् विचित्रा विशदमतिजुपःशंपुपश्चेत् कवीन्द्राः।।४५ अथ प्रभावककवित्वादीनि- अत्र स्वप्रतिभाप्रकर्षपदवीप्रास्तप्रवीणप्रभा बुद्ध्वा पारगतागमेप्ववितर्थ सूक्ष्मार्थसार्थप्रथाम् । तत्त्वज्ञानलसत्प्रदीपनिहतध्वान्ताभमिथ्याधियो- ऽनूचानादिमुनीश्वराः प्रवचनप्रावीण्यमाविभ्रति ।। ४५३ ।। अस्मिन् धर्मकथाप्रथास्ववितथप्रावीण्यलुभ्यत्प्रभा भ्राजन्ते निजदेशनानवरसैः पीयूपयूपोपमैः । कुर्वाणाः स्मृतिगोचरे सुमनसां श्रीसूरिमुख्या महा- लब्धीः पूर्वमुनीश्वरेषु विदिताः क्षीरास्रवत्वादिकाः ॥ ४५४ ॥ तर्कव्यासविलाससाधुविविधोपन्यासवात्यावलात् ' प्रोद्भुतेद्धमदप्रवादिविदुरपोचालतूलबजाः। भूपादिप्रकटप्रभावविभवा वादेषु लब्धप्रभा .: भ्राजन्ते प्रतिभाभिभूतधिषणा नैकेऽत्र वादीश्वराः ॥ ४५५ ॥ भौमाभ्रादिभवन्निमित्तविदुराः सम्यक्श्रुताभ्यासतः ५० श्रीमुनिसुन्दरसूरिविरचिता -- केचित् केऽपि च पात्रतामधिगताः सन्मन्त्रयन्त्रभिंयाम् । सिद्धाभिस्त्वनवद्यहृद्यविलसद्विद्याभिरन्येऽधिका नानाऽऽम्नायसमृद्धिभिस्तदपरे चूर्णादिसंवेंदिनः ॥ ४५६ ।। क्षीराम्भोनिधिजिद्गभीरहृदये गूढस्वशक्तिश्रियः प्रौढे च प्रविदर्यमानविभवाः संघादिकार्यनजे । अस्मिन् शासनभासनकनिरताः स्वाचारसंचारिणो द्योतन्ते मुनिनायका भवभिया सावद्यमुक्तक्रियाः ॥ ४५७ ।। (युग्मम् ) दुष्टादृष्टजकप्टपिष्टपटुभिः षष्ठाष्टमाद्यैः सदा सन्मासक्षपणादिकैश्च मुनयो वायैर्विचित्रक्रमैः । एकाहं यहकं त्र्यहं च विहितोत्सर्गादिभिश्चान्तरै. रस्मिन् शासनभासनं विद्धते प्रौढैस्तपःकर्मभिः ॥ ४५८ ।। सत्काव्यादिकलाकलापकुशलं संश्रुत्य येषां वचः । कारुण्यं दधते गुरौ सुमनसां प्राज्ञाः कवौ ज्ञेऽपि च । राजन्यावलिमौलिमौलिगमणीदीप्तांड्यः सूरय- स्तेनैकेऽत्र विभान्ति कोविदसभालङ्कारहारोपमाः।। ४५९।। प्रभावकैरेवमनुत्तरप्रभैरयं समग्रैरपि राजते गणः । न रत्नजातिः खलु सा प्रजायते रत्नाकरं या समतीत्य वर्तते ।।४६०॥ गणे भवन्त्यत्र न चैव दुर्मदा नहि प्रमत्ता न जडान दोपिणः । विडूरभूमिः किल सोपवीति वा कदापि किं काचमणीनपि क्वचित् ? ॥ ४६१ ।। कस्मात् कस्माद्विनिर्गत्य हेतुभिर्विशदेतरैः । कलौ प्रशाखाप्रतिमा बभूवुर्वहवो गणाः ।। ४६२ ।। प्रौढावदाततोऽयं तु प्राप्तोऽप्याह्वां नवा नवाम् । श्रीसुधर्मगणाधीशादारभ्याऽखण्डसन्ततिः ॥ ४६३ ।। ... आज्ञाभङ्गान्तरायोत्थानन्तसंसारनिर्भयैः ।

गुर्वावली । .. सामाचार्योऽपि पाश्चासैः प्रायः स्वैरं प्रवर्तिताः ॥ ४६४ ॥ उपधानप्रतिक्रान्तिजिनादिनिषेधतः । न्यूनिता दुःपमादोपात् प्रमत्तजनतानियाः ॥ ४६५ ।। यत्तत्प्रासुकमिष्टाम्बुप्रवृत्यादिसुखावहाः।. वीक्ष्यन्तेऽन्यगणेप्वत्राऽऽचरणा लक्षणोज्झिताः ॥४६६॥ (त्रिभिविशेपकम् ) या श्रीवीरमुधर्माद्यैः प्रणीता वागमानुगा ।" . आचीर्णा स्थविरैः कालानुरूपयतनाश्रिता ।। ४६७ ॥ सामाचारी गणेऽस्मिंस्तु शुद्धा सैवास्त्यखण्डिता । परम्पराऽऽगता सर्वगणान्तरगताधिका ॥ ४६८ ॥ (युग्मम् ) विनयाऽनीहताक्षांन्तिनग्रन्थ्यप्रमुखा गुणाः । दुर्लभा ये कली सर्वे तेऽपीक्ष्यन्तेऽत्र निर्मलाः ॥ ४६९ ॥ अत एव मिथो धर्मस्नेहः सूरिवरादिपु । संविग्नेवागमनेपु गणवन्धोऽपि निःसमः ॥ ४७011. न स्वः कोऽपि परो वाऽन नैहिकोपक्रियापि च । तथाप्येनं भजन्ति ज्ञाः सर्वे ज्ञानक्रियोत्तरम् ॥ ४७१ ।। अयमेव तदासेन्यो मध्यस्थैः स्वहितैपिभिः । उपेक्ष्य कुलगुर्वादिकदाग्रहहताम् जडान ।। ४७२ ।। मेयः कथं महिमवाधिरयं गणेश..' श्रीदेवसुन्दरयुगोत्तमसूरिराजाम् ? । यत्पारगाणि न चिरादपि सन्मनांसि यानि प्रयान्ति सुरशैलशिरोऽपि वेगात् ।। ४७३ ॥ एप प्रभावकावरा विलसन्ति गच्छे , . यद्वन् तथा नहि परेप्यपि शिप्यमात्राः । १ बाध्यन्ते चान्यगच्छेप्याचरणा लक्षणाऽस्थिताः' इत्यपि पारः । २ 'पादुकानाम् ' इति च पाठः । .

५२ श्रीमुनिसुन्दरसूरिविरचिता :: आवद्धमौलिमुकुटा इव चक्रिपुर्या- पुंष्ठकुरा अपि न कर्यटकेषु दृश्याः ॥ ४७४ ।। अहो ! रत्नत्रयी सैपामना कापि विष्टपे । रत्नकोटीरपि त्यक्त्वा यत् तामाददते वुधाः ।। ४७५ ।। एपां शुद्धवचःप्रबुद्धहृदया मन्त्रीशहेमादयो निस्सङ्गाः स्वजनादियूज्झितगृहारम्भानवद्याक्रियाः । तैस्तैः स्वैश्चरितैरुदारललितधर्मोपदेशामृतः प्रौदि संगमयन्त्यहो ! तदभयानन्दादिवच्छासनम् ।। १७६ ।। तदवाप्तधर्मदासङ्घपतिर्लल्लसूनुनाथाहः । गणधर्माऽऽधारकरः प्रभावको भाति नृपमान्यः ।। ४७७ एषां नानागुणमणिनिचितेऽपारगच्छाम्बुराशी दूरक्षिप्तातिचरणविलुठत्सङ्करे श्रीजयाउथे । उत्कल्लोले नवनवमहिमश्रीद्धशिष्यावदात्तैः सर्वेऽप्यन्ये प्रदधति गणकाः कण्ठकूपोपमानम् ॥ ४७८ ॥ सर्वतः प्रसरभाब्जि यशांसि क्षीरनीरनिधयन्ति यमीशाम् । तानि तत्र परसूरिततीनां शीकरावलिरिवाथ विभान्ति ॥४७९}} येपां परेपामथ सूरिराजां चिकीर्षता विश्वकृता यशांसि । उन्मानवीजानि विचक्रिरे प्राक् पूर्णेन्दुविम्बं किल तारकाच॥४८०॥ एभिः स्फीतैः शशधरकिरणक्षीरडिण्डीरगौरैः शुक्लाद्वैत त्रिजगति गमिते स्वैर्यशोभिः प्रपूर्य । अन्येषां चेद् वरिवृतति तदा तल्लवा नैव लभ्याः सत्ता यस्माद्विरमति सरिता सिन्धुना संगतानाम् ।।. ४८१ ।। कोऽवेदयिष्यत् तुलनामतीतान् श्रीगौतमस्वामिमुखानतीतान् । युगोत्तमामा यदि नाभविष्यन् निदर्शयन्तः स्वगुणैरिमे तान् ॥४८२॥ वीरेण ये शासनधारका महाचार्याः स्त्रनिर्वाणपदादनूदिताः । एतेऽवगम्याः खलु ते गुणोचौरा तदीयैव शिवाय तत्कृता ॥४८३॥ १ 'चरणानिकरावस्करे श्रीजयाढये' इत्यपि । .

गुर्वावली। है .. -- एतच काव्यपञ्चकं प्राग् लिखितमप्यधिकारसौष्ठवात् पुनरिहापि लिखितमिति । श्रीवीरतोऽभूद् गणराट् स सप्तत्रिंशो बृहद्गच्छपसर्वदेवः । तस्माज्जगचन्द्रगुरुस्तपाहामूलं गणेन्द्रो नवमश्च४५जझे ॥४८|| वस्माज्जयन्ति गुरवो गुरवोऽत्र पष्ठाः । श्रीदेवसुन्दरगणप्रभवो ५० धुनेमे । स्युादशाऽथ निखिलानधिकृत्य सूरी- नेभ्योऽपि पञ्च किल सप्तदशेति सर्वे ॥ ४८५ ।। एवं श्रीवीरजिनात् सन्ततिकृद्गच्छनाथगुरुगणने । एते स्युः पञ्चाशा आसन् ववोऽन्तराले च ॥ ४८६ ॥ निपञ्चाशचतुप्पञ्चाशत्वाद्यपि भजन्त्रिमे । श्रीसम्भूतजयानन्दादिगणेशक्रमाश्रयात् ।। ४८७ ।। विश्वातिशायिमहिमाम्बुधयो जयन्तु श्रीदेवसुन्दरयुगप्रवराश्चिराय । श्रीशासनोद्धरणधीरतमाः क्रियासुः श्रेयःश्रियं सुविपुलां विपुलाङ्गभाजाम् ॥ ४८८ ॥ श्रीवीरतीर्थकमले प्रवचनमातृप्रयुद्धदलकलिते । सूरैर्युगप्रधानः प्रकाशिते महिमसौरभ्ये ।। ४८९ ।। विलसन्ति राजहंसा यावच्ट्रीसङ्घलोकमधुपाश्च । दुष्प्रसहान्ता तावत् सन्ततिरेपां चिरं जयतु ॥ ४९० ॥ युगोत्तमानां गुणसिन्धुविन्दूनादाय वाणीति कृता पवित्रा। मयार्जितं यत्किल तेन पुण्यं ततोऽस्तु मे ज्ञानचरित्रशुद्धिः।।४९१ आमूलतः सुविहितावलिमौलिमौलि- श्रीमत्तपागणनमोऽर्कगुरुत्तमानाम् । श्रुत्वा गुरुप्रभुमुखाद् प्रथितेति किचि- दैतिहपतिरमला गुरुगच्छभक्त्या ।। ४९२ ।। रसमस-मनुमितवर्षे १४६६ मुनिमुन्दरसूरिणा कृता पूर्वम् । २ 'गुरवः किल पष्ठसंख्याः' इति च। .

५४ श्रीमुनिमुन्दरसूरिचिरचिता मध्यस्थैरवधार्या गुर्वालीयं जयश्रीद्धा ॥ ४९३ ।। प्रायो गुरूणां मुखतोऽधिगम्याऽन्यतोऽपि किञ्चिच्च विनिर्मितेयम् । यच्चाऽत्र किञ्चिद् वितथं बुधैस्तच्छोध्यं च मिथ्यास्तु च दुष्कृतं मे ४९४ जगत्त्रयख्याततपागणस्य शाखा स्तुतेयं वृहती मयेति । किञ्चिच्च लम्बी सकला अपीमाः श्रीवीरमार्गानुगमा जयन्तु।।४९५।। मूलं यस्य जिनेश्वरो राणभृतां स्कन्धोपमं सण्डलं शाखा: सन्ततयस्तताश्च यतिनां साध्व्यः प्रशाखाः पुनः । श्राद्धाः पत्रगणाश्च सञ्जरितुलारूढाश्च सुश्राविकाः सर्वाभीष्टफलप्रदः स जयति श्रीसङ्घकल्पद्रुमः ।। ४९६ ।। इति श्रीयुगप्रधानावतारश्रीमत्तपागच्छाधिराजबृहद्गच्छनायकपूज्याराध्यप- रमाप्तपरमगुरुश्रीदेवसुन्दरसूरिगणराशिमहिमाणवानुगामिन्यां . तद्विनेयश्रीमु- निसुन्दरगणिहृदयहिमवदवतीर्णश्रीगुरुप्रभावपद्महूदप्रभवायां श्रीमहापर्वाधिरा- जश्रीपर्युषणापर्दविज्ञप्तित्रिदशतरङ्गिण्यां तृतीये श्रीगुरुवर्णनस्रोतसि गुर्वावलीना- म्नि महादेऽनभिव्यक्तगणना एकपष्टिस्तरङ्गाः ।। ॥ सम्पूर्णश्चायं श्रीगुर्वावलानामा महादः ॥ ।। इति वृहत्तपागच्छश्रीगुर्वावली वृहती श्रीमुनिसुन्दरसुरिकृता ।।

अद्यावधि मुद्रिता.ग्रन्थाः। . "-५-०- १. प्रमाणन्यतत्त्वालोकालङ्कारः-जैनन्यायदर्शनस्यापूवोऽयं. प्रवेशग्रन्थः, कर्ता चास्य श्रीवादिदेवरिः मूल्यम् ०-८-१ २. इमलिङ्गानुशासनम्-अवचरिसहितम् । लिङ्गयोधकोऽयं मनोहरो ग्रन्थः । कर्ताऽस्य श्रीहेमचन्द्राचार्यः।-,०५.० ३. सिद्धहेमशब्दानुशासनम्-लघुविधातुपाठादिसद्दितम्- व्याकरणे व्युत्पिरमूनां सरोऽयं ग्रन्धः-फर्ताऽस्य श्रीदेम- . चन्द्राचार्यः। ३.0.0. ४. रत्नाफरावतारिकायाः टिप्पणपञ्जिकासहितायाः परिच्छे. दद्वयम्-प्रमाणनयतचालोकालकारस्य व्याख्यानरूपं रन- प्रभाचार्यविरचितम् । १-०.० ५. सिद्धमशब्दानुशासनम्-मूलमात्रम् । ६. मुद्रितमुदचन्द्रप्रकरणम्-श्रीश्रावकयशश्चन्द्रकृतम् ,,०-८-० ७. प्रियारनसमुचयः-गुणरवसरिरचितः-सफलषयाकरणा- ' नामुपकारी। ८. श्रीसिद्धहमशब्दानुशासनमूत्रपाठस्यांकारादिक्रमेण", .. मूचीपत्रम्। फविकल्पद्रुमः। १७. सम्मतितास्यभकरणस्य-अयमो विभागः, श्रीसिद्धसेन- दिवायरचितः । श्रीरानगच्छीयामयदेवगरिरचितया सोपविधायिन्या.प्याख्यया विभूपितः । अयं ग्रन्यों जनदार्गनिकातिपयस्य सम्यगायवेचयाः सकलन्यायग्रन्था- गां नीलिमुकुटनापावहति । ३.०.० २१. गगद्गुरुकायम् श्रीपासागरंगणिविरचितम् , 6-४-० १३. श्रीमालिभद्रचारिता-टिप्पणसदित, श्रीरामपारगुधिया चिनिनम् । अपूर्वोऽयं कायाः । २३, पर्वदापासंग्रहस्प अपना विमाना। " २-०.० " ०.४.० " ०-४-० " 2-2.० "१.० १७. श्रीशान्तिनासाव्यम्-श्रीमुनिभद्ररिविरचितम् । १४. पड्दर्शनसमुच्चयः-श्रीराजशेखरमरिविरचितः,, ०-४-० १५. शीलदूतम्-श्रीचारित्रसुन्दरगणिविनिर्मितम्। ,, ०-४-० १६. निर्भयभीमव्यायांग:-श्रीरामचन्द्रमरिविरचितः,, ०-४-० m ३-०.० १८. रत्नाकरावतारिका- श्रीरत्नप्रभाचार्यकृता- तृतीयपरि च्छेदादारभ्याटमपरिच्छेदपर्यन्ता । आद्यपरिच्छेद्यस्य। प्रथमाधष्टमान्तस्य संपूर्णस्य । १९. उपदेशतरङ्गिणी। ३-०-० २०. न्यायार्थमञ्जूषा खोपालचुन्याससहिता । ३-०-० २१. गुरुगुणरत्नाकरकाव्यम्-अस्मिन् लालित्यमये खण्डका- व्ये तपागच्छाचार्यश्रीलक्ष्मीसागरसूरीणां चरित्रमैतिहा- सिकदृष्ट्या सरसमुपवर्णितम् । अन्येपामपि तात्कालिकानां बहूनां महात्मनां चरित्राणि प्रसनन्तो निवेशितानि सन्ति । कर्ताऽस्य श्रीसोमचारिनगणिः । १२. विजयपशस्तिमहाकाव्यम्, सटीकम्-अस्मिन् महाकाव्यस- वलक्षणान्विते ग्रन्थे श्रीहीरविजयमूरि-श्रीविजयसेनमूरि- श्रीविजयदेवसूरीणांचरित्राणि रसायपिण्या सुसंवद्धपद्धत्या सम्यग् निर्वर्णितानि । मसिद्धनरपतिश्रीअकबरपातिशाहि: ना सह जातं. हीरविजयसूरीणां वृत्तान्तमपि यथार्थत्वेनों- प्रदर्शितम् । निर्माताऽस्य कविपुरन्दरः श्रीहेमविजयगणिः । प्राप्तिस्थानम्- शा. हर्पचन्द्र-भूराभाई अंग्रेजीकोठी, बनारस सिटी

No text on this page.

No text on this page.

No text on this page.

Gurgavali

Author
Suri, Shri Sundar
Title
Gurgavali
File name
Gurgavali
Text
OCR done
Citation
1960
Published
2011/03
Publisher
Banaras., Dharm Vidhya Press
Language
Sanskrit
Pages
74
Library
Shri Jain Swetamber Khartargacch Sangh, Jaipur
Classification
Devotional
DLI number
550784
Barcode
4990010031590.00
Scanning centre
C-DAK, Kolkata
Digital publisher
Digital Library Of India
VMLT id
rdCkNfW7nxq
Download PDF

Gurgavali