Canegie Mellon Univeristy
Sankhya Karika Vol.1
Front matter
No text on this page.
August 1922. THE 16 CHOWKHAMBA SANSKRIT SERIES: COLLEOTION OXRAREA EXTRAORDINARY SANSKRIT WORKS, NO. 296. Rennsterel Accord साङ्खचकारिका Act ईश्वरकृष्णविरचिता। माठराचार्यविरचित-माठरवृत्तिसहिता। साहित्योपाध्याय पं० विष्णुप्रसाद शर्मणा संशोधिता। SÂNKHYA KARIKA BY of 1867. (All Righls Reserved.) ISWALA KRISHNA With cu comitentary of Malharc Charya. Edited by Sahrtya Charya, P. Vish124 Prasad Sarma. FASCICULUS I- PUBLISHED I SOLD BY TILE SECRETARY, CHOWKHAMBA SANSKRIT SERIES OFFICF, BENARES AGENTS.-OTTO HARRASSOWITZ, LEIPZIG. PANDITA JYESHTHARAM MUKUNDAJI, BOMBAY PROBST HAIN & O; BOOKSELLERS LONDON. Printed by Jai Krishna Das Gupta, at the Vidya Vilas Press, Benares. 1922.
॥ श्रीः॥ आनन्दवनविद्योतिसुमनोभिः सुसंस्कृता ।। सुवर्णाऽङ्कितभव्याभशतपत्त्रपरिष्कृता ॥१॥ चौखम्बा-संस्कृतग्रन्थमाला मञ्जुलदर्शना ॥ रसिकालिकुलं कुर्यादमन्दाऽऽमोदमोहितम् ॥ २ ॥ स्तबकः-२९६ भूमिका । ROD साङ्खघदर्शनमधिकृत्य सतोरपि तस्वसमास-साङ्ख्यप्रवचन- सूत्रग्रन्थयोरस्य साङ्ख्यसप्ततिग्रन्थस्य प्राचीनत्वाद्विशदत्वाच म- हती प्रतिष्ठा । श्रीशङ्कराचार्यैः प्राचीनबौद्धनग्रन्थकारैश्च तत्र तत्र सावन्धमतनिरूपणे तत्खण्डने वा साङ्ख्यसप्ततेरेवार्या उदाहृताः, न तु सूत्रग्रन्थयोः कानिचिदपि सुत्राणीति सूत्रग्रन्थयोःप्राचीनतरत्वे संशयः। सतीध्वपि बहोषु टीकासु साङ्ख्यसप्ततिग्रन्थस्य, अत्र प्र. थमवारं मुद्रणतां नीता माठरवृत्तिः प्राचीनतरा सरलतरा चेति सायसिद्धान्तजिज्ञासूनामतीवोपकारिणी । तत्र कदाऽस्याः प्रादु- र्भावो जात इति विचार्यमाणे मूलभूनायाः सालय सप्ततेविरवन- लमयस्यादौ निर्णय आवश्यकः । ईश्वरकृष्णः। साथसप्ततेः कर्ता ईश्वरकृष्णो नाम सात्याचार्यः, 'भगवान्' भगवताकम्' इत्यादिबहुमानसूचकैः पदैर्माठरवृत्तौ लक्षितः । चीन- भाषायां परमार्थनाना बौद्धपण्डितेन स्वगुरोर्वसुबन्धोश्चरितं निब- द्वम् । तस्माज्ज्ञायते यव सुबन्धोगुरुवुद्धमित्रा भतृवुद्धो वा साङ्ख्या- चार्येण वार्षगण्यशिष्येण विन्ध्यवासिना वादे पराजितः, येन हि- रण्यसप्ततिः सुवर्णसप्ततिरिति वा ग्रन्थो रचितः । एतस्मात्केचन पण्डिता विन्ध्यवास्येव ईश्वरकृष्ण इत्यनुमिमते । एतदशुद्धमि. त्यने प्रतिपादयिष्यते । इदमपि वसुबन्धुनोक्तं यद्विन्ध्यवासिप्रणी. तस्य ग्रन्थस्य खण्डनं वसुबन्धुना परमार्थसप्ततिरित्याख्यया कृत्या- ऽऽविष्कृतमिति । केषांचिदपरेषां चीनदेशीयपण्डितानामैतिह्ये स्वीश्वरकृष्णस्य घसुबन्धुशिष्येण दिङ्नागाचार्येण सह विवादः सातः, तस्मिन्नी. श्वरकृष्णः पराजितोऽपि समयानुबन्धमविगणय्य बौद्धधर्म न स्वी. चकार, तेन दिङ्नागो विषण्णो लोकोपदेशाद्विरराम, पश्चाचार्यमा जुश्रीप्रेरणया प्रमाणसमुखयाख्यं प्रन्थं रचयामासेति । बहून्न पण्डितानां मतानुरोधेन पसुबन्धोस्तु समयः (वि.
(२) सं०४७६-५५६, ई. सं० ४२०-५००) वर्तते । दिङ्नागसमयः-(वि० सं० ५३६-५७६, ई० सं० ४८०-५२०, परमार्थलमयस्तु (वि० सं०५५५-६२५, ई० सं० ४९९-५६९, वर्षसम्मितः । यद्यपि वसुबन्धोः कालः कश्चित् एतस्मादपि शतवर्षपूर्वमनुमीयते, तथापि वामनीयकाव्यालङ्कारसूत्रवृत्तौ समुद्धृतस्य "सोऽयं सम्प्रति चन्द्र. गुप्ततनयः" इत्यादिश्लोकार्धस्य वृत्तौ "आश्रयः कृतधियामित्यस्य वसुबन्धुसाचिव्योपक्षेपपरत्वात् साभिप्रायत्वम् ” इति दर्शनेन वसुबन्धुर्गुप्तवंशीयमहाराजद्वितीयचन्द्रगुप्तकुमारस्य महाराजकु- मारगुप्तस्य समये ( वि० सं० ४७१-५११, ई० सं० ४१५-४५५) आसीदिति ज्ञायते । अत ईश्वरकृष्णो भवतु वसुबन्धोस्तच्छिध्य- स्य दिङ्नागस्य वा समकालीनः, तथापि ( वि० सं० ५११ ई० सं० ४५५) परिसरे वर्तमानोऽभूदिति प्रतीयते । प्रयुक्तपदमार्याख्यस्य कोशस्य कर्ता ईश्वरकृष्णकालिदासः अयमन्यो वा इति न ज्ञायते। एतत्पूर्वीयाः साङ्ख्याचार्याः । ईश्वरकृष्णेन पूर्वेषां साङ्ख्याचार्याणां मतं सङ्क्षिप्येयं सप्ततिर्वि- रचितेति ७१ । ७३ । आर्याभ्यां स्फुटम् । तत्र परमर्षिः कपिलः साङ्खयदर्शनस्याद्यद्रष्टेति सर्वसम्मतम् । तेनैव तत्वसमासाख्यसाङ्ख्यसूत्राणि प्रणीतानीति प्राची मतम् । नवीनास्तु तथा न मन्यन्ते । आसुरिनामा तच्छिष्यः । अस्थ- "विविक्ते दृक्परिणती बुद्धौ भोगोऽस्य कथ्यते । प्रतिबिम्बोदयः स्वच्छे यथा चन्द्रमसोऽम्भसि ॥" इति श्लोकस्य गुणरत्नसूरिकृतायां षड्दर्शनसमुश्चयटीकायां (३।४४) समुद्धरणेन ज्ञायते यदनेन कोऽपि कारिकाबद्धः प्रब- धो निर्मितः। अस्य शिष्यः पञ्चशिस्त्रो नाम । स च विज्ञानभिक्षुमतेन (ब्र. ह्मसूत्रऋजुव्याख्यायां ) तत्त्वसमासाख्यभाष्यस्य कर्ता । तथाहि त. च्छिष्यः भावागणेश:- 'समाससूत्राण्यालम्ब्य व्याख्यां पञ्चशिखस्य च ।" इति तत्वयाथार्थ्यदीपने भिहितवान्। तथा तत्र (पृ०-८१) तेनैव एक श्लोकः “उक्तं च पञ्चशिवाचार्यः"इत्यवतरणपूर्व समुद्धृतः। योगसूत्रव्यासभाष्ये ( १ । ४) "तथा च सूत्रम्-एकमेव दर्शनं ख्यातिरेव दर्शनम् इति" इत्यस्य टीकायाम् "इदं पञ्चशिखाचार्य. स्थ सूत्रम्" इति वाचस्पतिमिश्रः । तथा तस्मिन्नेव भाष्ये (२०१३) "स्यात्स्वल्पः सङ्करः सपरिहारः" इत्यादिकमवतारितम् । तदपि पञ्चशिखवचनमिति वाचस्पतिः । इदं च पञ्चशिखसूत्रमिति साङ्खय. तत्वकौमुदीटीकायां स्वप्नेश्वरः। तथा तत्रैव (३ । १३) "रूपातिश- या वृत्त्यतिशथाश्च विरुध्यन्ते' इति, तदपि पञ्चशिखाचार्यसम्मति. रित्याह वाचस्पतिः । अतः पञ्चशिखाचार्येणापरः कोऽपि सा- ख्ययोगमन्नात्मको ग्रन्थो व्यरचि इत्यनुमायत । वार्षगण्योऽपि कश्वन प्राचीनः साङ्खघयोगाचार्यः । एतस्य एक वचनं व्यासभाध्ये (३। ५३ ) उपलभ्यते । एतदुत्तरं कस्मिंश्चित्काले जातो विन्ध्यवासिनामकः प्रसिद्ध आचार्यः । अयमेवेश्वरकृष्ण इति केषांचिन्नवीनानां मतम् । अपरेषां तु नव्यानां वार्षगण्यो विन्ध्यवासी चोभौ ईश्वरकृष्णात् परस्ता- जानौ इति मतम् । तदिदं मतद्वयमपि दुष्टं भाति । तथाहि-"अथ च्याडिविन्ध्यस्थो नन्दिनीसुतः । मेधावी च" (२।७।२४-२५) इति त्रिकाण्डशेषात , “अथ व्याडिविन्ध्यवासी नन्दिनीतनयश्च सः।" (३।५।६) इति हैमकोशात् , “अव्याधो विन्ध्यवाली च मरुदन- न्दन इत्यपि।” (१०) इति संयमिनाममालायाश्च स्फुटमवगम्यते यद् व्याडिरेव विन्ध्यवासीति । स च भगवतो वर्षस्य शिष्यो न- न्दसमकालीनः ( कथासरित्सागरे ११२). पाणिनिसूत्राणां सङ्ग- हाख्यटीकायाः कस्यचित् कोशस्थ च कर्ता, दाक्षायणः पतञ्जले. रपि पुरोगामी, साङ्ख्ययोगाचार्यश्च । देवभद्रकृतन्यायावतारटि- प्पणे गुणरत्नसूरिकृतषड्दर्शनसमुच्चयटीकायां (३ । ४१ ) च "वि. ध्यवासी त्वेवमाचष्टे- "पुरुषाऽविकृतात्मैव स्वनिर्भासमवेतनम् । मनः करोति सान्निध्यादुपाधिः स्फटिकं यथा ॥” इति । वादशहाचे च-"बुद्धि दर्पणसङ्क्रान्तः” इत्यादिकम्य तत्कृत- श्लोकस्य दर्शमादयमाप्रिन्थकर्तुरीश्वरकरुणाद्भिन्न एव । हरि- भद्रसूर्यादिभिः प्राचीनेरपि द्वयारुल्लखा भिन्न एव कृतः ।
(४) यत्नु कश्चित् ७१ आर्यावृत्तौ भार्गवादिप्राचीनसावधाचार्याणां जामनिर्देशे वार्षगण्यविन्ध्यवासिनो मादर्शनेन तयोरीश्वरकृष्णा- दर्वाचीनत्यं मतम् , तदरमणीयम् । वृत्तिस्थप्रभृतिशब्देन पराहत. स्वात, चीनैति ह्यात् तयारीश्वरकृपयात पूर्ववृत्तित्वस्थावगमात, प्राचीनतरे व्यासभाध्ये (वि० सं० ३५० ई०सं० ३००) वार्षगण्यन स्थस्योवाहतत्वात् , विन्ध्यवासिनश्च व्याडेरेष नामान्तरत्वात् । अपि च भोजगजेन पातञ्जलयोगसूत्रवृत्ती ( ४ । २२ ) एकमेव विन्ध्यवासिवचनम्-"सत्वतप्यत्वमेव पुरुषतप्यत्वम्" इत्युपन्यस्त- म् । तत्तु गद्यात्मकं सत् तस्य कस्याप्यपरस्य टीकाग्रन्थस्य गद्यग्रन्थ. स्य वा कर्तृत्वं द्योतयति। भोजवृत्तौ तत्रैव "प्रतिविम्बे प्रतिबिम्बमान." इत्याद्यपरं वाक्यं विन्ध्यवासिन उकिरिति सम्भ्रान्तम् , तवाक्यस्य 'अन्यत्रापि' इति पूर्वकस्वात् । अयं योगसूत्रवृत्तिकारो भोजराजः प्रसिद्धात् मालधपतेः सरस्वतीकण्ठाभरणादिप्रणेतुभोजराजात (वि० सं० १०६६ ई० १०१०) अन्य एव तस्मात् सार्धशतवर्षपूर्वव- ती । तथाहि कश्मीरभूभर्तुः शङ्करवर्मश (वि० सं० ९३९-९५८, ई० सं० ८८३-९०२) काले जयन्तभट्टः स्वकृती न्यायमञ्जो प्रत्य- क्षलक्षणानां दूषणावसरे ईश्वरकृष्णोक्तं "प्रतिविषयाध्यवसायो दृष्टं (सां० स०५) इति लक्षण दूषयन् “यत्तु राजा व्याख्यातवान् 'प्र. तिराभिमुख्येन वर्तते तेनाभिमुख्येन विषयाध्यवसायः प्रत्यक्षम्,इति" इत्यादिकं लिखितवान् । सोऽयं राजा साथसप्तति टीकाकृत्, कस्य- चितव्याकरणग्रन्थस्यस्य,पातञ्जलसूत्रस्योपरि राजमार्तण्डाख्यवृत्ते, वैद्यके च राजमृगाङ्कास्यस्य प्रन्थस्य कर्ता (योगसूत्रवृत्तौ श्लो० ५)। अयमेव राजवार्तिकस्यापि कर्ता स्यात् । अस्य रणरङ्गमल्ल इति नाम विरुदं वा इत्यपि तत एव शायते। एतत् किमपि मालवपतेोजरा- जस्य नोपलभ्यते । अत इमो द्वौ भिन्नौ एव इति सुव्यक्तम् । तत्र रण- रडमल्लः भोजानां विदर्भाणां राजा इति भोजराज इति ख्याति. मगात् इति सम्भाव्यते । यथा रामायणचम्पूकाव्यस्य कर्ता वि- दर्भराजा भोजराज इति। षष्टितन्त्रम्। सत्यपि पञ्चशिखादिप्रणीतप्राचीन ग्रन्थकदम्बे सायलहति. स्तु षष्टितन्त्राख्यं प्रन्थमनुसृत्येश्वरकृष्णेन प्रणीतेति ७२ । ७३ आ- (५) ) योभ्यामवगम्यते । "गुणानां परमं रूपं" इत्यादिका एका कारिका व्यासभाष्ये (४।१३) समुद्धृता, सा षष्टितन्त्रस्था इति तट्टीका वाचस्पतिमिश्रः । माठरवृत्तो ( गौडपादीये च) १७ आर्या व्याख्याने तत एव कश्चिद्द्यभागोऽपि समुद्धृतः । अतस्तत् विष्णु पुराणादिवदद्यपद्यात्मकं स्यादिति भाति । चीनदेशीयपण्डितानां मते पञ्चशिस्त्र एवास्य कर्ता । परन्तु बहु भिस्तत्सन्दिह्यते । अस्य ना. नस्तन्त्रान्तत्वं तस्यातिप्राचीनत्वं बोधयति । अस्य नामाद्युल्लेखोऽपि पाश्चरात्राणामहिर्बुध्न्यसंहितायां जैनानामनुयोगद्वारसूत्रे च धर्तते । । माठर इनि न व्यक्तिविशेषस्याभिधानम्, अपि तु ग्रन्धकर्तुः गो- प्रखं नाम कश्यपगोत्रभेदे मठरगोत्रीयत्वात् माठर इति । यथा न्या. यसुत्रभाध्यं पक्षिलस्वामिना कृतं वात्स्यायनेन कृतमिति, विष्णुगु- सकृतमर्थशास्त्रं कौटिल्यकृतमिति, उद्योतकराख्यविरचितं न्याय. धार्तिकं भारद्वाजीयं भारद्वाजकृतमिति वेति तत्तत्कर्तुर्गोत्रनाम्नैव प्रथिनान्यभूवन् , तथैवेयं वृत्तिरपि माठराचार्यकृति कर्तुर्गोत्रनामा प्रसिद्धिमुपगता । इयं वृत्तिर्मूलनन्थेन सह चीनभाषायां परमार्थ. पण्डिलेन (वि० सं०६ १३.६२५, ई० सं० १९७-६६९ ) मध्ये प. राधर्तितेत्युभयभाषाविद्भिः सामर्थ्यते । (तिलकास्यपण्डितस्तु त. था न मनुने ( संस्कृतरिसर्च पु० १ पृ० १०८ , सत इयं वृत्तिः वि० सं० ४५० वर्षादर्वाचीना नेति केषांचिद्विदुषां मतम् । चीन- भाषापरावर्तने वृत्तिकारस्य नाम न निर्दिष्टमिति शोच्यम् । अत्रेदमप्यन्यद्विचारणीयम् यत् ३९ आर्यावृत्तौ "यथा दर्पणाभाष आभासहानौ" इत्युदाहरणं हस्तामलक (संवाद) स्तोत्रात्समुधृतं दृश्यते । तच्च स्तोत्रं श्रीशङ्कराचार्यसमकालीनम् (वि० स०८३६- ८६८ ई० सं०७८०-८१२) इति प्रसिद्धमेव । ततः अयम्, "अहङ्कारो त्रियं ब्रूते" इत्यादयः केचनापरे चांशा अद्वैतमतानुकूला अत्र प्र. क्षिप्ता हति माठरवृत्त्या अतिप्राचीनत्वाभिमानिभिर्वक्तव्यम् । भ. न्यथा एतस्याः शङ्कराचार्यनमयान् परस्ताद्विरचनं स्वीकार्यम् । यत्तु साय सतत्या गाँउपादीय माध्यम् (वनारस-संस्कृतसी. -- (१) उरिष्टादुक्त: 'यथादर्पणाभाव' इत्यंशः।
. रिजाख्यग्रन्थमालायां मुद्रितम) तत्तु माठरवृत्त्याः केनचित्कृतः सझे प इति भाति । नहि परकृतेः सलेपकृत्वं श्रीशङ्कराचार्यपरमगुरुषु गौडपादेषु सम्भवति । अस्य च उत्तरगीताव्याख्यायाश्च प्रणेता क- श्चिपदरो गौडपादः सम्भाव्यते। मलधारि-राजशेखरमूरिणा (वि० सं० १३५०, ई० सं० १२९४) स्वकृतषड्दर्शनसमुच्चये माठरो गौडपादश्च साङ्ख्यग्रन्थकर्तारौ पृथ. गुक्तौ । तदुनुसारी गुणरत्नसूरिरपि हरिभद्रीयषड्दर्शनसमुच्चय- टीकायाम् (३ । ४३ )-"सावन्यानां तर्कग्रन्थाः षष्टितन्त्रोद्धाररूपं साथसप्ततिनामक,माठरभाष्य,..गौडपादं च" इत्युक्त्या द्वयोः पृथक्त्वं सूचयति । अतो गौडपादीयं माठरवृत्त्या एव सङ्केप इति भाति । मूलकारिकासङ्ख्याविवेकः । माठरवृत्तौ व्याख्यातानां कारिकाणां सङ्ख्या ७३ परिमिता वर्त- ते । वाचस्पतिमिश्रकृतटीकायां नारायणतीर्थकृतटीकायां च अत्र- स्था अन्तिमा आर्या नोपलभ्यते अतस्तयोरार्यासङ्ख्या ७२ मिता। गौडपादीयं तु ६९ आर्या यावर्तते । चीनभाषापरावर्तने तु ६३ तमी आर्या प्रभ्रष्टेति तत् ७१ आर्यासम्मितम् । प्रकृते "सप्तत्यां किल येऽर्थाः ।" (७२) इत्युक्तत्वात् आर्यास यायां चोक्तप्रकारेण न्यूनाधिक्यदर्शनेन तत्र पण्डितानां विवाद: । तत्र केचन ६९ आर्याया ऊर्ध्व स्थितमार्याचतुष्टयं प्रक्षिप्तं मन्यन्त। मध्ये च कुत्रचिदेकाऽऽर्या प्रभ्रष्टेति च सप्ततिसङ्ख्यापूरणाय तर्कय- न्ति ! नत्र वस्तुतस्तु अन्तिममार्गचतुष्टयं न प्रक्षिप्तम् । तथाहि शेष. মাথা » শাখালপ্ল ব্যাথানায় সওগাখ वर्तन्ते । तथापि तत्र अवतरण रुपामाद्यामार्या ग्रन्थकर्तृनामादिप्रका- शिकांचरमामार्या विहाय वेदान्तसिद्धान्तस्तु तन्मध्यस्थे पश्चाशीति- सङ्खयाके आर्यासमूहे प्रतिपादित इति आर्यापञ्चाशीतिरित्याख्ययैव तस्य व्यवहारः । तथा अभिनवगुप्ताचार्यप्रणीते परमार्थसारे १०५ आर्या वर्तन्ते । तथापि आरम्भे आर्यात्रयमवतरणरूपमन्ते चार्याद्वय- मुपसंहारात्मकम्, सिद्धान्तस्तु तन्मध्यस्थेन आर्याशतकेन निबद्ध इति तेनैव तत्र प्रकाशितम् । “आर्याशतेन तदिदं सङ्क्षिप्तसारमति. गूढम् । अभिनवगुप्तेन मया" ( १०५) इत्यादि । एवमन्यत्रापि ब. हुषु शतकान्तनामसु लघुकाव्येषु वृत्तसङ्ख्यायाः शतकाधिक्यदर्श- .
(७) । नेऽपि तेषां शतकमित्यनेनैव पदेन व्यवहारः। तत्र तत्र च प्रतिपाद्यं निर्दिष्ट सङ्ख्याकैः पद्यैरेव प्रतिपादितम् । तथैव साथसप्ततिरिति अस्य संज्ञायामपि बोध्यम् । अतो नान्तिममार्याचतुष्टयं प्रक्षिप्तम् । एवं प्रकृतेऽपि सालय सप्ततिरिति ग्रन्थनाम्नाऽत्र सिद्धान्त- प्रतिपादिकानामार्याणां सप्ततिरपेक्षिता । परन्तु स सर्वपुस्तकेषु ६९ आर्याभिरेवोक्तो लभ्यते । अतः निलोपालो गङ्गाधरसून लप. ण्डितः ६१ कारिकाया माठरवृत्ति सूक्ष्मक्षिकया विचाय तद्गतः "तत्र सुकुमारत्वं वर्णयति" (पृ. ७५ पं० ९) इत्यारभ्य “सुकुमा. रतरम् इत्येततत् वाक्यशेषः कृतः।" पृ० ७६ ५० १२-१३) इत्य. न्तो वृत्तिभागोऽपरार्याविशेषस्य व्याख्यानमित्यवधार्य तन्मात्- "कारणमीश्वरमेके पुरुषं कालं परे स्वभावं वा। प्रजाः कथं निर्गुणतो, व्यक्तः काल. स्वभावश्च ।" इत्यार्थी सङ्कलितवान, तां च ६२ संख्यया अङ्कयिरमा सप्ततिल वाघापूरणं कृतवान् । इयमंतदार्थका वा एका आर्या लेखकादिप्रमा. देन मूलाद्मष्टा इति तस्य गावप इदमप्यत्र विचारशीयम् यदशहमिहिरकृतबृहत्संहिताया वि. वृतौ (अ०१। ७) भट्टोत्पलकृतायां (वि० सं० १०२२, ई० सं०९६६) २७ आर्यायाः "सङ्कल्पकमत्र मनस्तञ्चन्द्रियमुभयथा समाख्यातम् । अन्तस्त्रिकालविषयं तस्मादुर्भयप्रचारं तत् ।" इति पाठो दृश्यते । अत्रोत्तरार्धस्य पाठः प्रचलितपाठाद्भिन्नः । तत इदमपि सन्देग्धुं शक्यं यन्मद्रितोत्तरार्धमधिकृत्य तस्य पूर्वा- घे भ्रष्टम् । तेन सह "गुणपरिणामविशेषात्" इत्याद्युत्तरार्धात्मिका आर्या २८ संख्याङ्किता स्यादिति । अकार्याविषयको निर्णयो विशेषान्वेषणाधीनः । उपसंहारः। श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मेषु कपिलासुरिपञ्चशिखा- नां मतानि लभ्यन्ते । तत्र तेषामभिप्रायाः सालयसप्ततिप्रक्रियाया बहुवंशेषु भिन्ना अपूर्णाश्च । उपनिषद्वाक्यविशेषानुपजीव्य साथ- योगदर्शन्योः पुरातनकाले प्रवृत्तिर्जाता । तत्र केवलं तत्वविवेचन.
(८) मवलम्ब्य साडयदर्शनं निरीश्वरवादे परिणतं, क्रियाविशेषात्मक योगदर्शनं च लेश्वरवादे परिणतम् । साङ्ख्यदर्शनं योगदर्शनस्य शेष्यपि द्वे पुरा भिन्ने एव मते । प्रकृतिपुरुषयोः पृथकरणं द्वयोरेव लक्ष्यमासीत् । ततः पुराकाले भगवीतादिषु अर्वाचीने च विज्ञान- भिक्ष्वादिभिस्तयोः समन्वये प्रयतितम् । तत्र साङ्खयं विचारप्रधान, योगं च क्रियाप्राधान्यम् , द्वयोरङ्गाङ्गिभावश्च सम्बन्धः प्रतीयते । लायमतविकासादिचीया विस्तरभियाऽत्रैव विरम्यते । इति । अस्यां वृत्तौ “यथा पङ्कन पकाम्भः" इत्युदाहृतः श्लोकः (पृ०८), श्रीमद्भागवते (१ ! ८ । ५२) वर्तते, तथैव "एष आतुरचित्तानां" (पृ०६९) इत्यपि तत्रैव (श्रीमद्भागवते १।६।३१) किञ्चित्पाठभेदेन पृश्यते । अतोऽनुमीयते यत् श्रीमद्भागवतं माठरवृत्तिसमयात्पुरा तनम् ॥ इति । विदुषामनुचर:- त्रिपाठयपाहो श्रीमनःसुखरामात्मजः तनुसुखरामशर्मा । सेयं वृत्तिः तत्वकौमुद्याद्यपेक्ष्य अन्ययैव सरण्या सरलतया वैशयन च कारिकार्थ साङ्ख्यीयविषयजातं च तथा प्रतिपादा यथा साधारणजना अप्यनायासेन साङ्खयरहस्यान्यवबोर्बु शक। घन्ति इत्यपूर्वाया अमुद्रितचराया अप्यस्या एकमेव पुस्तकं नाति- शुद्धप्रायमुपरिस्थभूमिकाकर्तृमहाशयसकाशाल्लब्ध्वा श्रीविष्णुप्र. सादविदुषा संशोधय्य मुद्रणतां नीता। तदत्र सपरिश्रमं कृतशोधनेऽपि मानुष्यकनान्तरीयकानवधा- नजनितान् दोषान् मर्षयित्वा तितिक्षावद्भिर्गुणैकपक्षपातिभिः स्व- कीया अपूर्वसालयप्रथदिक्षा सफलं विधास्यत इति- विद्धविधेय:- जयकृष्णदासगुप्तः चौखम्भा-संस्कृतसिरीज़ बनारस ।
३७ निरुक्त माठरवृत्तौ प्रमाणत्वेन समुद्धृतानां वाक्यादीनां वर्णानुक्रमणी। प्रतीकम् पृष्ठम् अक्के चेन्मधु अझो जन्तुरनीशोऽयं अनाधितः कर्मफलं ४० भगवद्गीतायाम् ६।१। अप्यक्षरवर्ण० अभक्ष्यपरिहारस्तु अवश्यमेव भोक्तव्यं अस्तित्वमेकत्वमा अहङ्कारो धियं ब्रूते अहिंसा प्रतिष्ठायां ८१ योगसूत्रम् २॥३५॥ आगमो ह्याप्तवचनं १३ इहोपपत्तिर्मम केन ३ उत्पत्ति प्रलयं चैव एतावानेव पुरुषो २९ एष आतुरचित्ताना ६९ भागवते १६:३५ कालः सृजति भूतानि ७६ दक्षिणेन तु विन्ध्यस्य देहे मोहाश्रये भग्ने धारणार्थो धृत्रित्येष नहि हस्तावमृग्दिग्धौ नाभुक्तं क्षीयते कर्म नासतो विद्यते भावो २७ भगवद्गीतायाम् ॥१६॥ पञ्चविंशतितत्त्वज्ञो" ३८ (१) अत्र श्रुतिवाक्यानि न सगृहीतानि । (२) शाबरभाष्ये ( २।२।४ ) (३) महाभारते (३।३० ३८) (१) अयं श्लोकं “तथा चोक्तं पञ्चशिखेन प्रमाणवाक्यं" इत्युल्लेखपूर्वमुद्धृतस्तत्त्वया- थार्थ्यदीपने हरिभद्रसूरिणा (वि. स. १८१, ई० सं० ०२५ ) च शामवार्तासमुच्चये।
(२) पृष्ठम् ४० भगवद्गीतायाम् ॥२४॥ ८ भागवते १२८.५२ ८१ भमवद्गीतायाम् ४.३७ २ प्रतीकम् पुनाहः समुत्पन्नः पुष्पिताक्षः शलाकी च ब्रह्मार्पणं ब्रह्महविः मयि तिष्ठत्यहङ्कारे मशकोदुम्बरेषीका. यथा दर्पणाभाव आभासं० यथा पङ्केन पङ्काम्भः यथैधांसि समिद्धोऽग्निः यानि कानि च मूलानि येन शुक्लीकता हंसाः योऽसौ सर्वेश्वरो देवः रजसो मिथुनं सत्त्वं वितर्कबाधने वितको हिंसादयः विषया विनिवर्तन्ते वृक्षान् छित्वा पशन हत्वा वैद्य वैद्य नमस्तुभ्यं षः शतानि नियुज्यन्ते सोमवृष्ट्यनरेतांसि स्थान्युपनिमन्त्रणे स्वकर्मण्यभियुक्तो यः हस पिब लल मोद नित्य 3 ८१ योगसूत्रम् २॥३३॥ २।३४॥ ३९ भगवद्गीतायाम् २०५९॥ ८ ८१ योगसूत्रम् ३६५१॥ (१) हस्तामलकस्तोत्र । (२) यस्य कस्य तरोर्मूलं' इत्यादिः पाठ प्रसिद्ध । (३) आगम' अयामिति द्वादशकारिकाटीकाया वाचस्पतिभिश्र (वि०स० १०३२ ई०सं० ९७६ (४) वैद्यराज नमस्तुभ्यं' इति पाठः प्रसिद्धः । (५) यजुर्वेदसहिताया २४ अध्यायऽन्तिममन्त्रस्य महीधरभाष्ये अस्योत्तरार्धे 'अश्वमेधस्य यज्ञस्य नवमिश्चाधिकानि च' इति पाठभेद उपलभ्यते । (६) अयं गुणरत्नमरिणा षड्दर्शनसमुच्चयटीकाया (३३३ ) “तदुक्तं माठरप्रान्ते (भाष्ये') 'हस पिब लल खाद मोद नित्य, भुय च भोगान्यथाभिकामम् । यदि विदित ते कापलमतं तत्प्राप्स्यसि मोक्षमचिरेण ।" इति पाठभेदेन समुद्धृतम् ।
शुद्धिपत्रम् । पृ० पं० অন্তত वेदान्तवादिनां परिमाणवदव विषया, ०लक्षणा गुण लाक्षणात्रैविध्यम् योज्य । परस्परावरुद्धा. होश्वित् शिवदकर्तेति । शुद्धम् क्रुद्ध वेदवादिनां परिमाणवदेव विषयाः, लक्षणागुण लक्षणात्रैविध्यम् योज्य। परस्परविरुद्धा- होस्वित् स्विदकर्तेति । २४ ૨૪ ३२ १३ स्तै सह स्तैः सह ४१ ३ ९ ४४२२ तावहर्शनार्य साकित्त्वरूपाणि एवं विधाया वदति कर्म आहोश्वित् अथै स्वभावेनेति । ध्यवमाय गन्धं- नामाभिपायः। पकाशकरम्। प्रकाशत सुप्त माधर्य सूक्ष्मशररिम तावदर्शनार्थ साविकरूपाणि एवंविधाया ..(?) आहोस्वित अथै- स्वभावेन वेति ध्यवसाय गन्धं नामाभिप्रायः । प्रकाशकरम् । प्रकाशित सुप्तं माधुर्य- सूक्ष्मशरीरम ६ ૮ ૨૨ ४९१० (२) पृ० प० ki ६४ १३ অহং ०वासनवत् ? सुगमम् एवत्यर्थः। केन साधु आहोश्वित् दुः खप्राया भूतमर्गः जरामणर शुद्धम् वासनवत् । (१) सुगमम् ॥४७॥ एवेत्यर्थः। केन- साधु- आहोस्वित् दुःखप्राया भूतसर्गः জ ७१ १२ ७१ १४ ७१ २१ - भहदादि છરે છે ૭૨ ૨૦ महदादि इव स्नुषा केचिदा० केचित् सहसैव के चिदा० के चित् सहसैवं विशूची कि सर्वनिषेध हेतोरु-प- विशेषवृत्तिः - विसूची किं- सर्वनिषेधो हेतोरुत्प व शेषवृत्तिः + ॥ श्रीः ॥ साङ्ख्यकारिका। . दुःखत्रयाभिघाताजिज्ञासा तदभिघातके हेतौ । कृष्टे साऽपार्था चेन्नैकान्तात्यन्ततोऽभावात् ॥ १ ॥ दृष्टवादानुश्रविकः स ह्यविशुद्धःक्षयातिशययुक्तः । तद्विपतिःश्रेयान् व्यक्ताव्यक्तक्षविज्ञानात् ॥२॥ मूलप्रकृतिरविकृतिर्महदाधाः प्रकृतिविकृतयः सप्त । षोडशकस्तु विकारो न प्रकृतिई विकृतिः पुरुषः ॥३॥ दृष्टमनुमानमाप्तवचनं च सर्वप्रमाणसिद्धत्वात् । त्रिविधं प्रमाणामिष्टं प्रमेयसिद्धिःप्रमाणाद्धि ॥ ४॥ प्रतिविषयाध्यवसायो दृष्टं त्रिविधमनुमानमाख्यातम् । तल्लिङ्गलिङ्गिपूर्वकमाप्तश्रुतिराप्तवचनं तु ॥ ५ ॥ सामान्यतस्तु दृष्टादतीन्द्रियाणां प्रतीतिरनुमानात् । तस्मादपि चाऽसिद्धं परोक्षमाप्तागमात्सायम् ॥ ६ ॥ अतिदूरात्सामीप्यादिन्द्रियघाताम्मनोऽनवस्थानात् । सौक्ष्माद्यवधानादभिभवात्समानाभिहाराच्च ॥७॥ सौक्ष्म्यात्तदनुपलब्धिर्नाऽभावात् कार्यतस्तदुपलब्धिः । महदादि तश्च कार्य प्रकृतिविरूपं सरूपं च ॥ ८॥ असदकरणादुपादानग्रहणात्सर्वसम्भवाभावात् । शक्तस्थ शक्यकरणात् कारणभावाच सत्कार्यम् ॥ ९ ॥ हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् । सावयचं परतन्त्रं व्यक्तं विपरीतमव्यक्तम् ॥ १० ॥ त्रिगुणमविवेकि विषयः सामान्यमचेतनं प्रसवधर्मि । व्यक्तं तथा प्रधानं तद्विपरीतस्तथा च पुमान् ॥ ११ ॥ प्रात्यप्रीतिविषादात्मकाः प्रकाशप्रवृत्तिनियमार्थाः। अन्योन्याभिभवाश्रयजननामिथुनवृत्तयश्च गुणाः ॥ १२ ॥ सत्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलं च रजः ।
सांख्यकारिका। गुरु वरणकमेव तमः प्रदीपवश्चाऽर्थतो वृत्तिः ॥ १३ ॥ अविवेक्यादिः सिद्धस्त्रगुण्यात्तद्विपर्ययाभावात् । कारणगुणात्मकत्वात् कार्यस्याऽध्यक्तमपि सिद्धम् ॥१४॥ भेदानां परिमाणात् समन्वयात् शक्तितःप्रवृत्तेश्च । कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य ॥ १५ ॥ कारणमस्त्यव्यक्तं प्रवर्तते त्रिगुणतः समुदयाश्च । परिणामतः सलिलवत् प्रतिप्रतिगुणाश्रयाविशेषात् ॥ १६ ॥ सङ्घातपरार्थत्वात्रिगुणादिविपर्ययावधिष्ठानात् । पुरुषोऽस्ति भोक्तृभाषात् कैवल्यार्थप्रवृत्तेश्च ॥ १७ ॥ जन्ममरणकरणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च । पुरुषबहुत्वं सिद्ध त्रैगुण्यविपर्ययाश्चैव ॥ १८ ॥ तस्माच्च विपर्यासात्सिद्धं साक्षित्वमस्य पुरुषस्य । कैवल्यं माध्यस्थ्यं द्रष्ट्टत्वमकर्तृभावश्च ॥ १९ ॥ तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् । गुणकर्तृत्वेऽपि तथा कर्तेव भवत्युदासीनः ॥ २० ॥ पुरुषस्य दर्शनार्थ कैवल्यार्थ तथा प्रधानस्य । पङ्ग्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः ॥२१॥ प्रकृतेमहांस्ततोऽहकारस्तस्माद्णश्च षोडशकः । तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानि ॥ २२ ॥ अध्यवसायो बुद्धिर्धर्मो ज्ञानं विराग ऐश्वर्यम् । सात्त्विकमेतद्रूपं तामसमस्माद्विपर्यस्तम् ॥ २३ ॥ अभिमानोऽहङ्कारस्तस्मात् विविधः प्रवर्तते सर्गः। ऐन्द्रिय एकादशकस्तन्मात्रपञ्चकश्चैक ॥२४॥ साविक एकादशकः प्रवर्तते वैकृतादहङ्कारात् । भूतादेस्तन्मात्रः स तामसस्तैजसादुभयम् ॥ २५ ॥ बुद्धीन्द्रियाणि श्रोत्रत्वक्चक्षुरसननालिकाख्यानि । वाक्पाणिपादपायूपस्थान कर्मेन्द्रियाण्याहुः ॥ २६ ॥ उभयात्मकमत्र मनः सङ्कल्पकमिन्द्रियं च साधम्यात् । गुणपरिणामविशेषान्नानात्वं ग्राह्यभेदाच ॥२७॥ शब्दादिषु पञ्चानामालोचनमात्रमिष्यते वृत्तिः । घचनादानविहरणोत्सर्गानन्दाश्च पञ्चानाम् ।। २८॥
सांख्यकारिका । स्वालक्षण्या वृत्तिस्त्रयस्य सैषा भवत्यसामान्या। सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च ॥ २९ ॥ युगपञ्चतुष्टयस्य हि वृत्तिः क्रमशश्च तस्य निर्दिष्टा । दृष्टे तथाऽप्यदृष्टे त्रयस्य तत्पूर्विका वृत्तिः ॥ ३० ॥ स्वा स्वां प्रतिपद्यन्ते परस्पराकूतहेतुकां वृत्तिम् । पुरुषार्थ एव हेतुर्न केनचित्कार्यते करणम् ॥ ३१ ॥ करणं त्रयोदशविधं तदाहरणधारणप्रकाशकरम् । कार्य च तस्य दशधाऽऽहार्य धार्य प्रकाश्यं च ॥ ३२ ॥ अन्तःकरणं त्रिविधं दशधा बाह्यं त्रयस्य विषयाख्यम् । साम्प्रतकालं बाह्यं त्रिकालमाभ्यन्तरं करणम् ॥ ३३ ॥ बुद्धीन्द्रियाणि तेषां पञ्च विशेषाविशेषविषयाणि । वाग्भवति शब्दविषया शेषाण्यपि पश्चविषयाणि॥३४॥ सान्तःकरणा बुद्धिः सर्व विषयमवगाहते यस्मात् । तस्मात्रिविधं करणं द्वारि द्वाराणि शेषाणि ॥ ३५ ॥ पते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः । कृत्स्नं प्रकाश्य बुद्धौ प्रयच्छन्ति ॥ ३६॥ सर्व प्रत्युपभोगं यस्मात्पुरुषस्य साधयति बुद्धिः। सैव च विशिनष्टि पुनः प्रधानपुरुषान्तरं सूक्ष्मम् ॥ ३७ ।। तन्मात्राण्यविशेषास्तेभ्यो भूतानि पञ्च पञ्चभ्यः॥ एते स्मृता विशेषाः शान्ता घोराश्च मूढोच ॥ ३८ ॥ सूक्ष्मा मातापितृजाः सह प्रभूतैत्रिधा निशेषाः स्युः । सूक्ष्मास्तेषां नियता मातापितृजा निवर्तन्ते ॥ ३९ ॥ पूर्वोत्पन्नमसक्तं नियतं महदादिसूक्ष्मपर्यन्तम् । संसरति निरुपभोगं भावैरधिवासितं लिङ्गम् ॥ ४० ॥ चित्रं यथाऽऽश्रयमृने स्थाण्वादिभ्यो विना यथा च्छाया। तद्वाद्विना विशेषैस्तिष्ठति न निराश्रयं लिङ्गम् ॥४१॥ पुरुषार्थहेतुकमिदं निमित्तनैमित्तिकप्रसङ्गेन । प्रकृतेर्विभुत्वयोगानटवद्यवतिष्ठते लिङ्गम् ॥ ४२ ॥ सांसिद्धिकाश्च भावाः प्राकृतिका वैकृताश्च धर्माद्याः । दृष्टाः करणाश्रयिणः कार्यायिणश्च कललाद्याः॥४३॥ धर्मेण गमनमूर्ध्व गमनमधस्ताद्भक्त्यधर्मेण । पुरुषस्याऽर्थ
सांख्यकारिका।
ज्ञानेन चापवर्गो विपर्ययादिष्यते बन्धः ॥ ४४ ॥
वैराग्यात्प्रकृनिलयः संसारो राजसाद्भवति रागान् ।
ऐश्वर्यादविघातो विपर्ययात्तद्विपर्यासः ॥ ४५ ॥
एष प्रत्ययसो विपर्ययाशक्तितुष्टिसिद्ध्याख्यः ।
गुणवैषम्यविमर्दैन तस्य भेदास्तु पञ्चाशत् ॥ ४६ ।।
पञ्च विर्ययभेदा भवन्स्यशक्तिश्च करणवैकल्यात् ।
अष्टाविंशतिभेदा तुष्टिनवधाऽष्टधा सिद्धिः॥४७॥
भेदस्तमसोऽष्टविधो मोहस्य च दशविधो महामोहः।
तामिस्रोऽष्टादशधा तथा भवत्यन्धतामिनः ॥४८॥
एकादशेन्द्रियवधाः सह बुद्धिवधैरशक्तिरुद्दिष्टा ।
सप्तदश वधा बुद्धविपर्ययात्तुष्टिसिद्धीनाम् ॥ ४९ ॥
आध्यात्मिक्यश्चतस्त्रः प्रकृत्युपादानकालभाग्याख्याः।
बाह्या विषयोपरमात् पञ्च नव चतुष्टयोऽभिमताः॥५०॥
ऊहः शब्दोऽध्ययनं दुःखविघातत्रयं सुहृत्प्राप्तिः।
दानं च सिद्धयोऽष्टौ सिद्धेः पूर्वोऽङ्कुशस्त्रिविधः ॥ ५१ ॥
न विना मावैर्लिङ्गं न विना लिनेन भावनिर्वृत्तिः ।
लिलाख्यो भावाख्यस्तस्मात द्विविधः प्रवर्तते सर्गः॥५२॥
अष्टविकल्पो दैवस्तैर्यग्योनश्च पञ्चधा भवति ।
मानुष्यश्चैकविधः समालतो भौतिकः सर्गः ॥ ५३ ॥
उर्व सत्त्वविशालस्तमोविशालश्च मूलतः सर्गः।
मध्ये रजोविशालो ब्रह्मादिस्तम्बपर्यन्तः ॥५४॥
अत्र जरामरणकृतं दुःखं प्राप्नोति चेतनः पुरुषः ।
लिङ्गस्याऽविनिवृत्तेस्तस्मात् दुःखं समासेन ॥ ५५ ॥
इत्येष प्रकृतिकृतो महदादिविशेषभूतपर्यन्तः ।
प्रतिपुरुषविमोक्षार्थ स्वार्थ इव परार्थ आरंम्भः ॥१६॥
उत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरशस्य ।
पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य ॥ ५७ ॥
औत्सुक्यनिवृत्त्यथै यथा क्रियासु प्रवर्तते लोकः ।
पुरुषस्य विमोक्षार्थ प्रवर्तते तद्वदव्यक्तम् ॥ ५८ ॥
रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात् ।
पुरुषस्य तथाऽऽस्मानं प्रकाश्य विनिवर्तते प्रकृतिः॥५९ ॥
सांख्यकारिका । ५ नानाविधैरुपायैरुपकारिण्यनुपकारिणः पुंसः । गुणवत्यगुणस्य सतस्तस्याऽर्थमपार्थक चरति ॥ ६०॥ प्रकृतेः सुकुमारतरं न किञ्चिदस्तीति म मतिर्भवति । या दृष्टाऽस्मीति पुनर्न दर्शनमुपैति पुरुषस्य ॥ ६१ ॥ तस्मान्न बध्यते नापि मुच्यते नाऽपि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥ ६२॥ रूपैः सप्तभिरेवं बनात्यात्मानमात्मना प्रकृतिः। सैव च पुरुषार्थ प्रति विमोचयत्येकरूपेण ॥६३ ॥ एवं तत्वाभ्यासान्नाऽस्मि न मे नाऽहमित्यपरिशेषम् । अविपर्ययाद्विशुद्धं केवलमुत्पद्यते शानम् ॥ ६४ ॥ तेन निवृत्तप्रसवामर्थवशात्सप्तरूपविनिवृत्ताम् । प्रकृति पश्यति पुरुषः प्रेक्षकवदधास्थितः स्वस्थः ॥ ६५ ॥ दृष्टा मयेत्युपेक्षक एको दृष्टाऽ हमित्युपरमत्यन्या । सति संयोगेऽपि तयोः प्रयोजनं नाऽस्ति सर्गस्य ॥६६॥ सम्यग्ज्ञानाधिगमाद्धर्मादीनामकारणप्राप्तौ। तिष्ठति संस्कारवशाञ्चक्रभ्रमवत् धृतशरीरः ॥ ६७॥ प्राप्त शरीरभेदे चरितार्थत्वात्प्रधानविनिवृत्तौ। ऐकान्तिकमात्यन्तिकमुभयं कैवल्यमाप्नोति ॥ ६८ ॥ पुरुषार्थज्ञानमिदं गुह्य परमर्षिणा समाख्यातम् । स्थित्युत्पत्तिप्रलयाश्चिन्त्यन्ते यत्र भूतानाम् ॥६९ ॥ एतत्पवित्रमग्यं मुनिरासुरयेऽनुकम्पया प्रददौ । आसुरिरपि पञ्चशिखाय तेन च बहुलीकृतं तन्त्रम् ॥ ७० ॥ शिष्यपरम्परयाऽऽगतमश्विरकृष्णेन चैतदार्याभिः । सङ्क्षिप्तमार्यमतिना सम्यग्विज्ञाय सिद्धान्तम् ॥ ७१ ॥ सप्तत्यां किल येऽर्थास्तेऽर्थाः कृत्स्नस्य षष्टितन्त्रस्य । आख्यायिकाविरहिताः परवादविवर्जिताश्चाऽपि ॥ ७२ ॥ तस्मात्समासदृष्टं शास्त्रमिदं नार्थतश्च परिहीनम् । तन्त्रस्थ [१][च] बृहन्मूर्तेर्दर्पणसङ्क्रान्तमिव बिम्बम् ॥ ७३ ॥ ॥ इतीश्वरकृष्णविरचितसाधकारिका समाप्ता। [१] अत्र कारसत्त्वे छन्दोमाञ्चकार प्रामादिक इति प्रतिभाति ।
साङ्ख्यकारिकाया अकारादिक्रमेण- 4 सूची । अ. का. पृ. १४ ७१ mr २३ ४ अतिदुरात्सामीप्यात् अत्र जरामरणकृतं अध्यवसायो बुद्धिः अन्तःकरणं त्रिविधं अभियानोऽहङ्कारः अविवक्यादिः सिद्धः अष्टविकल्पो दैवः असदकरणादुपादान २४ १४ .. ७० ८ १६ ९ ६६ आध्यात्मिक्यश्चतस्रः है. इत्येष प्रकृतिकृतः ७२ उ. ११ उभयात्मकमत्र मन: ५४ ७१ १२ १३ कर्व सत्व विशाल ऊहः शब्दोऽध्ययनं एकादशेन्द्रियवधाः १४ १५ ६५ ८३ एतत् पवित्रमग्य [२] पृ एते प्रदीपकल्पाः एवं तत्त्वाभ्यासात् ६४ ७८ १७ १८ एष प्रत्ययसर्गः ६३ औ. ७३ २० ३२ ४८ २१ १६ औत्सुक्यनिवृत्त्यर्थ क. करणं त्रयोदशविध कारणमस्त्यव्यक्त च. चित्रं यथाऽऽश्रयमृते ज. जन्मरणकरणानां २२ ४१ ५८ २३ १८ ३१ २४ ३८ १९ २० ६२ ३२ ३३ २६ २८. ६५ ७८ तन्मात्राण्यविशेषाः तस्माच्च विपर्यासात् तस्मात्तत्संयोगात् तस्मान बद्ध्यतेऽद्धा तस्मात्समादृष्टं तेन निवृत्तप्रसा त्रिगुणमविवेकि विषयः द. दुःखत्रयाभिघातात दृष्टमनुमानमा दृष्टवदानुश्रविका दृष्टा मयेत्युपेक्षक ११ ३१ ३२ ४ १० २ धर्मेण गमनमूर्ष न विना भावलिङ्ग नानाविधरुपायैः व. ६४ ३८ ३९ २१ ८२ ६९ ४२ ४१ ४२ पश्च विपर्ययभेदाः पुरुषस्य दर्शनार्थ पुरुषार्थज्ञानमिदं पुरुषार्थहेतुकमिदं पूर्वोत्पन्नमसक्तं प्रकृतेमहांस्ततोऽहसार प्रकृतेः मुकुमारतरं प्रतिविषयाध्यवसायो प्राप्त शरीरभेदे प्रसिप्रीतिविषादा ब. बुद्धीन्द्रियाणि चक्षुः बुद्धीन्द्रियाणि तेषां २२ ६१ ४५ ३६ ७५ १२ १८ २० ६८ १२ ४८ २६ ४२ ४९ १ ४८ ६४ ६० भेदस्तमसोऽष्टविधः भेदानां परिमाणात् १५ २५ ५२ मूलप्रकृतिरविकृतिः य. युगपञ्चतुष्टयस्य हि ३० [४] पृ. ४७ रङ्गस्य दर्शयित्वा रूपादिषु पञ्चाना रूपैः सप्तभिरेवं ४५ २८ ६३ ৩ वत्सविद्धिनिमित्तं वैराग्यात्मकृतिलयः शिष्यपरम्परयाऽऽगतं १७ २९ ६० ६१ ६२ २३ ६७ ५२ ४२ २५ ६६ सङ्घातपरार्थत्वात् सत्त्वं लघु प्रकाशकं सप्तत्यां किल येऽर्थाः सम्यग्ज्ञानाधिगमात् सर्व प्रत्युपभोगं सात्त्विक एकादशकः सान्तःकरणा बुद्धिः सामान्यतस्तु दृष्टाद सांसिद्धिकाश्च भावाः सूक्ष्मा मातापितृजाः सौक्ष्म्यात्तदनुपलब्धिः स्वालक्षण्या वृत्तिः स्वां स्वां प्रतिपद्यन्ते ह हेतुदमनित्यमव्यापि ६ १४ ६८ १५ २९ ७१ ७२ ४८ ७३ १८
No text on this page.
अथ माठरवृत्तिसहिता साङ्य- कारिका। aantyam सर्वविद्याविधातारमादित्यस्थं सनातनम् । नतोऽस्मि परया भत्त्या कापिलं ज्योतिरीश्वरम् ॥ १॥ कपिलाय नमस्तस्मै येनाविद्योदधौ जगति मग्ने । कारुण्यात्साङ्क्षयमयी नौरिह विहिता प्रतरणाय ॥ २ ॥ नमस्कृत्य तु तं तस्य वक्ष्ये ज्ञानस्य कारणम् । हिताय सर्वशिष्याणामल्पग्रन्थसमुच्चयम् ॥ ३॥ दुःखत्रयाभिघाताजिज्ञासा तदभिघातके हेतो। दृष्टे साऽपार्था चेन्नै कान्तात्यन्ततोऽभावात् ॥ १॥ अस्या आर्याया उपोद्घातः क्रियते-- स्थानं निमित्तं वक्ता च श्रोता श्रोतृप्रयोजनम् । सम्बन्धाद्यभिधानं च उपोद्धातः स उच्यते ॥ इह हि भगवान्महर्षिः सांसिद्धिकधर्मज्ञानवैराग्यश्वर्यसम्पन्नो भगवतः पुराणपुरुषस्यावतारो जगदनुनिघृक्षया प्रजापते. कर्द- मस्य पुत्रः स्वायम्भुवस्य मनोदुहितरि देवहूत्यां कपिलो नाम वभूव । स तेन गुणपुरुषान्तरोपलब्धिरूपेण ज्ञानेनापारपारं दिदर्शिपया हस्तावलम्बेनेव, कालाहिदंदश्यमानजगतः सुधा- मणिनेव, दुश्चिकित्स्यस्य भवव्याधेरपनयनाय सम्यगौषधेनेव, अविद्यान्धकारमध्वंसनप्रदीपेनेव, मुक्तिमार्गविरोधिमोहवृक्षावि- व्रश्चनकुठारेणेवाऽमुनाऽवबोधेन सम्पन्नोऽन्धे तमसि मज्जज्जग. दिदमद्राक्षीत् । तदवलोक्यास्य कारुण्यमुदपादि। अहो खल्विदं साधकारिका ननु दुःखेभ्य एव जिज्ञासा समुत्पन्ना कथं तेषामेवाभा- वाय कारणत्वमुपयाति । न हि जनयित्रीसकाशादुत्पन्नस्तनय- स्तस्या एव व्यापादनं कुरुते । सत्यम् । इह लोके ययस्मादु. त्पद्यते तत्तस्यापि विपत्तिकारणं दृश्यते । यथा कर्कटकोऽश्व. तरो वा जनयिव्याः समुत्पन्नस्तामेव व्यापादयति । यद्वा यथा कश्चिदाशीविषः शुष्कतृणबहुलप्रदेशे स्थित. प्रतिसर्प दृष्ट्वा कुद्ध- स्तस्य मुखनिःश्वासनिगतो वह्निम्तृणानि तं वाऽपि सर्प ददाह । अपुना न्यायेन दु खेभ्य एव जिज्ञासा निष्पना दुःखानामेवा- भावं करिष्यतीत्यर्थसङ्गतिः। अत्रोच्यते । दृष्टे साऽपार्था चेत् । चेदित्ययं निपात शङ्कायां वर्तते । इह लोके सकलसमुत्पन्नदुःखानां प्रतीकारो. ऽस्त्येव किं तदर्थ कपिलोपसपणेनेति भावः । तमेव हेतुं दृष्ट दर्शयति । शारीराध्यात्मिकानां ज्वरातीसारादिसकलव्याधी- नां सन्त्येवागदवारा अष्टाङ्गायुर्वेदविदो भिषजः कायशल्य. शलाकाविषोन्मादल्लीबजराकुमारचिकित्सानिपुणाः । मानसस्या- ध्यात्मिकतापस्य प्रतीकारः प्रियवस्तुसंयोगादप्रियस्य दूरतः परिहरणाच्च । आधिभौतिकस्य तु ग्रामनगरादिकल्पनया प्रहा- णोपपत्तिः । आधिदैविकस्य अभिवातयातप्रावरणावरणादि. भिः । अतस्तदभिघातकारणात् किं कपिलोपसपणेनेति भावः । तथा च लौकिकानामाभाणक: अर्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत् । इष्टस्य लीलया सिद्धौ को विद्वान् यत्रमाश्रयेत् ।। अत्रोच्यते-न । न इत्ययं पूर्वपक्षवाक्यनिषेधे । नैवं वाच्य. मित्यर्थः । एकान्तात्यन्ततोऽभावात् । एकान्ततोऽवश्यं माठरवृत्तिमहिता। वक्तहेतुभिर्न प्रतीकार. । यतश्चिकित्सकानां सुप्रयुक्तागदानां यथाशक्ति यततामपि कदाचिज्जन्तुर्विपद्यते कदाचिज्जीव- ति। वैद्यगृहेऽपि वधूपुत्रकलबभ्रातृपितृप्रभृतीनामपरिहार्यमरणद- शनानायमैकान्तिकप्रतीकार आध्यात्मिकस्थ । अपरम् अत्यन्त- तोऽपि नासौ प्रतीकारः । अगदेन नीरुजीकृतानामपि ज्वरादी- नां पुनः कतिपयदिवसैरुत्पत्तिदर्शनात् । अतः सर्वथा आत्य- न्तिकोऽपि न दृष्ट. प्रतीकार आध्यात्मिकदुःखापनयने समर्थः । वसन्तादीनामपगतानामपि पुनरागमनवत् । भवन्ति चात्र श्लोकाः- पुनर्दाहः समुत्पन्न पुनर्जातश्च वेपथु । बाधते च पुनर्हिक्का ज्वरश्च पुनरागतः ॥ अन्यच्च- पुष्पिताक्ष. शलाकी च कुष्ठी कायचिकित्सकः । पृच्छन्ति बालभिषजं कथं ते दारका मृताः ॥ किश्च नास्ति सम्यग्धानुपरिज्ञाननिपुणतया भैषज्यम् । तथा हि- यानि कानि च मूलानि येन केन च पेषयेत् । यस्मै कस्मै च दातव्यं यद्वा तद्वा भविष्यति ।। अन्यच्च-कार्यार्थिजनद्रव्यभक्षणाय स्वशक्तिख्यापनाय च स्वल्पमपि रोगं पुरस्ताद्वर्धयन्ति भिषजः । ततश्च कदाचिद- सौ तेषामेवासाध्यतामायाति । तथा च- वैद्य वैद्य नमस्तुभ्यं क्षपिताशेषमानव । त्वयि विन्यस्तभारोऽयं कृतान्तः सुखमेधते ॥ एवमसौ दृष्टेनागदादिहेतुना, एकातन्तोऽवश्यम्, अत्यन्त. तः सर्वथा, शारीरस्याध्यात्मिकदुःखस्य न प्रतीकारः । एवं - - साधकारिका है मानसस्यापि शब्दादिप्रिय संयोगादपि कदाचिन्न निवृत्तिः । एवमाधिभौतिकमप्युपायै कदाचित् व्यपैति कदाचिच्च नाते । एवमाधिदैविकमपि कदाचिद्व्यपैति कदाचिच्च न । किञ्च व्यपगतिरपि दु खस्य पुनरुत्पादादनार्थिकेति । अस्य तु शिष्य- स्यैकान्तिक आत्यन्तिकश्च दुःखव्यपगमे हेतुरिष्ट । तस्मायुक्तं तदर्थ गुरूपसर्पणमिति ॥ १ ॥ यद्येवं तदा दृष्टव्यतिरेकेण प्यानुश्रविकः श्रुतिप्रणीतः स्व- र्गादिसाधनरूपो यज्ञादिर्हेतुरस्तु। नाकपृष्ठेऽपि तापत्रयासम्भवात् । तत्रैकान्तिकमात्यन्तिकं वा श्रये वेदे श्रूयते । गुरुणोक्तं पश्चाद्रे शृण्वन्ति शिष्या इत्यनुश्रवो वेद । तत्र भव आनुश्रविकः । श्रौतो यज्ञादिरूपोऽय दु खत्रयप्रतीकारहेतुरुाचतोऽस्ति इति । एवं ह्याह---'तरति मृत्यु, तरति शोकं, तरति पाप्मानं, तरति ब्रह्महत्यां योऽश्वमेधेन यजते' इति । यच्चनं देवाः पुनरप्याहु 'अपाम सोमममृता अभूमागन्म ज्योतिरविदाम देवान् । किं नूनमस्मांस्तृणवदरातिः किल धूर्तिरमृतमर्त्यस्य' इति । इह श्रुतावै कान्तिकमात्यन्तिकं च फलं श्रूयते । अत्रास्य व्याख्या- कदाचित् किलेन्द्रो देवानुपस्थितानिशम्य इत्यवोचत् । भो भो देवत्वादन्यदपि किमप्यस्ति सुखम् । ततस्ते देवा ऊचुः नास्त्यन्यत्सुखम् । अत एवास्मन्निवासस्थ नाक इत्यभिधानम् । कमिति सुखनाम तस्य निषेध अकम् असुखं तन्न इति नाकम् । केवलं सुखमेव । द्वौ नौ प्रकृतमर्थ गमयत । तत प्राहेन्द्रः- कथ- मिति । ततस्ते ऊचुः-अनेन हेतुना अपाम पीतवन्तः । सोमं यज्ञे सोमरसं, तेन तत्पानेन अमृता अमरा अभूम सम्पन्नाः । किं च अगन्म प्राप्तवन्तः ज्योतिः स्वर्गम् । अन्यच्च अविदाम जानी- मः देवान् । अस्मिन् स्वर्गे इयन्तो देवा इति विद्यः । किमित्या- माठरवृत्ति सहिता। क्षेपे । नूनं निश्चितम् । अस्मान् अस्माकम् विभक्तिविपरिणा- मः । तृणवत् कर्ता । अरातिः शत्रुसृत्युः । किंवा धूर्तिर्जरा अ- स्माकं करिष्यति । अमृतमय॑स्य अमृतपायिनां मानाम् इति । 'बहुलं छन्दसीति वचनविपरिणाम । एवमन्योऽपि यः सोमं पास्यति तस्यैकान्तिकोऽवश्यमात्यन्तिक सर्वथा दुःखत्रया- भिघातो भविष्यति । अतो ब्रूमः कि प्रवज्यया साङ्ख्यज्ञानेन वा कार्य वेदोक्तं करिष्यामः । दुःखप्रतीकारश्च स्वर्गो भावीति वेदान्तवादिनां वचनमुपश्रुत्य साङ्ख्याचार्य स्तन्निवारणाय स्व- मतप्रतिष्ठायै च द्वितीयामार्यामाह-- दृष्टवदानुश्रविकः स ह्याविशुद्धः क्षयातिशययुक्तः । ताद्विपरीत श्रेयान् व्यक्ताव्यक्तज्ञविज्ञानात् ॥ २ ॥ य एष आनुश्रविक श्रौतोऽग्निहोत्रादिक स्वर्गसाधनतया तापत्रयप्रतीकारहेतुरुक्तः सोऽपि दृष्टवत् अनैकान्तिकः प्रतीका. रः । तथा हि 'मध्यमपिण्डं पुत्रकामा पनी प्राश्नीयात् 'आधत्त पितरो गर्भम् इति मन्त्रेण । तदेवं वेदवचसा बहून् पिण्डान् परःश तानश्नाति यावदेकोऽपि पुत्रो न जायते । तथा “पश्येम श- रद. शतं जीवेम शरदः शतम्" इति श्रुतावास्ते । परं गर्भग्थो जातमात्रो बालो युवापि कुमारो म्रियते । किं चान्यत्-स श्रौतो हेतुः अविशुद्धः पशुहिंसात्मकत्वात् । क्ष ययुक्त पुन पाता- त्। अतिशययुक्तः तत्रापि स्वामिभृत्यभावश्रवणात् । उक्तं च- "षट्शतानि नियुज्यन्ते पशूनां मध्यभेऽहनि । अश्वमेधस्य वचनानानि पशुभित्रिभिः ।।" पशुवधोऽग्निष्टोमे मानुपवधः गोसवव्यवस्था सौत्रामण्यां सुरापानं रण्डया सह स्वेच्छालापश्च ऋत्विजाम् । कल्प- सूत्रेऽन्यदपि अकृत्यं भूरि कर्तव्यतयोपदिश्यते । 'ब्रह्मणे ब्रा- :
८ साङ्ख्यकारिका - ह्मणमालभेत क्षत्राय राजन्यं मरुद्यो वेश्यं तपसे तस्कर नारकाय वीरहणम् इत्यादिश्रवणात् । किञ्च-- यथा पङ्केन पङ्काम्भः सुरया वा सुरा कृतम् । भूतहत्यां तथैवेमा न यज्ञैमाष्टुमर्हति ।। न हि हस्तावसृग्दिग्धौ रुविरेणैव शुद्ध्यतः । 'तद्यथाऽस्मिन् लोके मनुष्या पशुनश्नन्ति तथाभिभुञ्जत एवममुष्मिन् लोके पशवो मनुष्यानश्नन्ति इति श्रुतिशतश्रव- णात् । अन्यञ्च- वृक्षान् छित्वा पशून हत्वा कृत्वा रुधिरकर्दमम् । यज्ञैश्चेद्गम्यते स्वर्गो नरकः केन गम्यते ।। इत्यविशुद्धियुक्त सर्वथा श्रोतो दुःखत्रयप्रतीकार हेतुः । अथ 'अपाम सोमममृता अभूम' इति प्रागुक्तम् । तत्रेदं प्रत्युत्तरम् । सोमयायिनामपि नृगनहुपेन्द्रययातीनां वधबन्धपरिक्लेशा बहु- विधा । कर्मण उपभोगादितरेषां पतन च । एकाहादीनां स- त्राणां दिनपरिमाणवतां कारणानां परिमाणवदेव स्वर्गादि कार्य दृष्टम् । कारणानुगमत्वात्कार्यस्य । परिमाणवन्मृत्पिण्डा- परिमाणवानेव घट. स्यात् । एवमानुश्रविकाणां फलपरिमाण- त्वात् पुन. क्षयः । अतिशययुक्तश्च । यथा आव्यमवलोक्य दरि- द्रस्य दुःखं स्यात् , सुरूपं च वीक्ष्य कुरूपस्य, प्राज्ञं दृष्ट्वा मूर्खस्य तथा शताप्सरसं स्वर्गिणं दृष्ट्वा पञ्चाप्सरसस्तं दृष्ट्वैकाप्सरसो दुःखमुत्पद्यते। एवमयं दृष्टवत् । तदेवमन्योन्यातिशयात् स्वर्गेऽपि दुःखमव्यावृत्तम् । तस्मात् तद्विपरीतः श्रेयान् । ताभ्यां दृष्टानुश्रविकाभ्यां हेतुभ्यां विपरीतो विसदृश ऐकान्तिक आत्य- न्तिको विशुद्धः अक्षय अनन्तफलः कैवल्यान्निरनिभायो हेतु.
माठरवृत्तिमहिना। ९ स श्रेयान प्रशस्यः । कथं पुनरमा भवतीत्याह-व्यक्ताव्यक्तज्ञ- विज्ञानात् । व्यक्तं च अव्यक्तं च ज्ञश्च तेषां त्रयाणां वि- ज्ञानादनुभवात् । भवति ह्यसौ अवश्यं फलदानादकान्तिकः, प्रकृतिज्ञानादात्यन्तिकः, यमनियमादिमत्त्वात् शुद्धः, शरी- रभेद पुनरनावश्यत्वादक्षयफलः । कैवल्यादनुत्तरत्वाच्च नि- रतिशयफलमिति वाक्यशेषः तत्र व्यक्तं बुद्ध्यहकारे- न्द्रियतन्मात्रभृनभेदात्रयोविंशतिकम् । अव्यक्तं प्रधानम् । व्यक्तोत्पत्तिकारणम् । न ह्यकारणं कार्यमित्यस्य सिद्धिः । ज्ञः पुरुषः । सनिधिसत्तामात्रेण चुम्बक इव लोहस्य प्रवृत्ति- कारणम् । अतः प्रधानस्य जडस्य प्रवृत्तिहेतुरयमस्तीति सिद्धिः । एतानि पञ्चविंशतितत्वानि व्यक्ताव्यक्तज्ञसंज्ञानि । याद्विज्ञानाद- वश्यं सर्वथा तापत्रयेण विमुच्यते ॥ २ ॥ नन्वमीषां कतिधा प्रविभाग इत्यत्रोच्यते चतुर्धा । कथ. मिति चेत्तदुच्यते- मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकस्तु विकारो न प्रकृतिन विकृतिः पुरुषः ॥३॥ मूलप्रकृतिः प्रधानं मूलभूतत्वात् । मूलं सप्तानां प्रकृति- विकृतीनामादिरित्यर्थः । प्रकरणात्प्रकृतिः । प्रसवधर्मकत्वात्सा प्रकृतिः । न विकृतिरविकृतिरन्यस्मादनुत्पत्तेः । कारणमेव सा न कार्यमित्यर्थः । अनुत्पन्नत्वादुत्पादकत्वाच । महदायास्तु सप्त प्रकृतयो विकृतयश्च । महानहङ्कारः पञ्चतन्मात्राणि चेति सप्त प्रकृतयोऽन्येषां कारणतया, विकृतयश्च कार्यतया स्वयम् । तत्र व्यक्तिमाह-प्रधानात् बुद्धिरिति विकृतिः, सा च अहङ्कारं ज- नयतीति प्रकृतिः । अहङ्कारो महत उत्पन्न इति विकृतिः, त- ૨ १० साड्डयकारिका न्मात्राणि जनयतीति प्रकृतिः । तन्मात्राण्यहङ्कारादुत्पन्नानीति विकृतयः पञ्चापि,ततः पञ्च महाभूतानि जायन्त इति प्रकृतयः । उत्पन्नत्वादुत्पादकत्वाच सप्तेमाः प्रकृतयो विकृतयश्च । तन्मा- त्राणि शब्दस्पर्शरूपरसगन्धाख्यानि। षोडशकस्तु पुनर्विकार एव कार्यत्वात् । न तु तस्य प्रकृतित्वमकारणत्वात् । तद्यक्तिमाह- वैकृतिकादहङ्कारादुत्पन्नान्येकादशेन्द्रियाणि तन्मात्रेभ्यः पञ्चम- हाभूतानीति षोडशकोऽयं गणो विकारोऽन्यस्मादुत्पन्नो न हि ततोऽन्यदुत्पद्यत इत्यर्थः । उत्पन्नत्वादनुत्पादकत्वाच्च । पुरुषस्तु पुनर्न प्रकृतिरनुत्पादकत्वात् न च विकृतिरनुत्पन्न- त्वात् । नैवासौ कारणं न च कार्यमित्यर्थः । एवमेष प्रकृतिः, प्रकृतिविकृतिः, विकृतिः, न प्रकृतिर्न च विकृतिरितिभेदाचतुर्धा प्रकृतिविकृतिविभागोऽभिहितः ॥ ३ ॥ एषां व्यक्ताव्यक्तज्ञानां प्रमेयाणां साधनाय प्रमाणान्याह । प्रमाणप्रमेयप्रमातृप्रमितिक्रमेण हि सकलस्य सिद्धिदृष्टा । दृष्टमनुमानमासवचनं च सर्वप्रमाणसिद्धत्वात् । त्रिविधं प्रमाणमिष्टं प्रमेयसिद्धिः प्रमाणाद्धि ॥४॥ दृष्टमिति प्रत्यक्षपर्यायः । अक्षमिन्द्रियं प्रतीत्य यदुत्पद्यते ज्ञानं तत् प्रत्यक्षं दृष्टमुच्यते । यथा श्रोत्रादीनां शब्दादयः पञ्चेन्द्रियार्थाः पञ्चानां दृष्टं प्रमाणम् । प्रथममिदं मुख्यं सकल- प्रमाणानाम् । योऽर्थोऽमुना दृष्टेन साधयितुं न पार्यते तत्रानुमा- नस्यावकाशः । तच्च त्रिसाधनं पञ्चसाधनं वा। व्यवयवं पञ्चा- वयवमित्यपरे । तच्च त्रयस्त्रिंशदाभासरहितं प्रत्यक्षाभावे प्रतन्यते ऽनुमानम् । कमपि हेतुमन्वीक्ष्य तस्य हेतोः पश्चान्मीयत इत्य- नुमानम् । यथा धूमं हेतुमन्वीक्ष्य महानस इव पूर्व वृह्निदर्श- माठरवृत्तिमाहता। । नादग्नेरस्तित्वं साध्यत इत्यनुमानम् । प्रत्यक्षानुमानाभ्यां यो- ऽर्थः साधयितुं न शक्यस्तत्रामवचनम् । यथा स्वर्गेऽप्सरसः सन्ति, नन्दनं वनं, तत्र विशेषाः शब्दादयो विषया, विमाने- ऽधिवास इति । आता रागद्वेषादिरहिता ब्रह्मसनत्कुमारादयः, श्रुतिर्वेदः, ताभ्यां उपदिष्टं तथेतिश्रद्धेयमाप्तवचनम् । नवपत्तिः सम्भवोऽभावः प्रतिभा ऐतिह्यमुपमानं चेति- प्रभृतीनि सन्ति बहूनि प्रमाणान्तराणि कथमत्र त्रिविधं प्रमाण- मिति सङ्गतिः । अत्रोच्यते-सर्वप्रमाणसिद्धत्वात् । सर्वाणि हि प्रमाणानि प्रमाणत्रयेऽविरुद्धानि । तत्र पीनो देवदत्तो दिवा नं भुक्त इत्युक्ते रात्रौ भुङ्क्त इत्यर्थः । सार्थापत्तिरनुमान- मेव । प्रस्थ इत्युक्ते चत्वारः कुडवा इति बोधः सम्भवः । सोऽप्यनुमानमेव । अभावश्च मागितरेतरप्रध्वंसात्यन्ताभावभे- दाच्चतुर्दा । यथा ब्रीहिशोषणदर्शनान वृष्टो देव इति वृष्टेरभावं साधयति । सोऽप्यनुमानभेदः । प्रतिभा यथा- दक्षिणेन तु विन्ध्यस्य सह्यस्य तु यदुत्तरम् । पृथिव्यामासमुद्रायां स प्रदेशो मनोरमः ॥ इत्युक्ते तत्र शोभना गुणाः सन्तीति प्रतिभोत्पद्यते । प्रति- भा जानतां ज्ञानम् । साऽप्यनुमानवमेव । ऐनिह्यं यथा-अस्मिन् वटे यक्षिणी प्रतिवसति इति जना वदन्ति इत्युक्ते, सा विघ्नं करो- ति, धनादि यच्छ्तीति ज्ञानं, तदप्यनुमानमेव । उपमानम्-यथा गौस्तथा गवय इत्यप्यनुमानमेव । किं च (१)षितस्याञ्जलिना, क्षुधितस्य पञ्चाङ्गुलियोगात्, पृथुलाक्षिप्रभृतिदर्शनात् दुर्बलस्य, तर्जनीपङ्कदर्शनात् ? ज्ञानमित्याद्यनुमानमेव । तस्मात्रिष्वेवान्यद- न्तर्भवतीति युक्तमभिहितं त्रिविधं प्रमाणम् । इष्टमिति अभिप्रे- (१) कैश्चित्प्रमाणतया परिगृहीतं चेष्टादिकं निरस्यति ।
१२ साङ्खयकारिका तमित्यर्थः । तेन प्रमाणेन किं साध्यमित्याह-प्रमेयसिद्धिः प्रमाणाद्धि । यस्मात्प्रमेयं सकलं प्रमाणेन प्रमीयते यथा तुल- या चन्दनादि, कर्षादिना घृतादि, प्रस्थादिना वा ब्रह्यिादीत्या. दिवत् । प्रत्यक्षानुमानागमाः प्रमाणानि । प्रमेया व्यक्ताव्य- क्तज्ञाः । प्रमाता आत्मा । तत्र त्रयोविंशतिकं व्यक्तम् । अव्यक्तं प्रधानम् । ज्ञः क्षेत्रज्ञः । तदमीषां मध्ये किञ्चित्प्रत्यक्षे- णान्यदनुमानेनेतरदाप्तानुमानाभ्यां प्रमीयते । तस्मादाचार्येण भगवता युक्तमभिहितम्-'प्रमेयसिद्धिः प्रमाणाद्धि' इति ॥ ४ ॥ तत्र त्रिविधस्य प्रमाणस्य पृथक् लक्षणमुपन्यस्यते । प्रतिविषयाध्यवसायोदृष्टंत्रिविधमनुमानमाख्यातम्। तल्लिङ्गलिङ्गिपूर्वकमाप्तश्रुतिगतवचनं तु ॥५॥ विषयं विषयं प्रति योऽध्यवसायो नेत्रादीनामीन्द्रियाणां पश्चानां रूपादिषु पञ्चसु, तत्प्रयक्ष प्रतिपत्तिरूपं दृष्टाख्य- म् । अनुमानं त्रिविधम् । त्रिसाधनं व्यवयवं पञ्चावयव- मित्यपरे । तदाख्यातं कथितम् । पक्षहेतुदृष्टान्ता इति व्यव- यवम् । पक्षः प्रतिज्ञापदम् । यथा-वह्निमानय प्रदेशः । सा- ध्यवस्तूपन्यासः पक्षः । इतरे पक्षाभासाः प्रत्यक्षविरुद्धादयो नव । त्रिरूपो हेतुः । त्रैरूप्यं पुनः पक्षधर्मत्वं सपक्षे सत्त्वं विपक्षे चासत्वमिति । अत्रोदाहरणं यथा धूमवत्त्वादिति । अन्ये हेत्वाभासाः चतुर्दश असिद्धानकान्तिकवि- रुद्धादयः । साधर्म्यषैधाभ्यां द्विविधं निदर्शनम् । यथा महानसम् । इतरे निदर्शनाभासा दश । एवं त्रयस्त्रिं- शदाभासरहितं व्यवयवमनुमानम् । पञ्चावयवमित्यपरे । तदाह-अवयवाः पुनः प्रतिज्ञापदेशनिदर्शनानुसन्धानपत्यान्ना- माठरवृत्तिसहिता। याः। एवं पञ्चावयवेन वाक्येन स्वनिश्चितार्थप्रतिपादनं परार्थ- मनुमानम् । तच त्रिविधम् । पूर्ववत् शेषवत् सामान्यतोदृष्टं च । तत्र विशिष्टमेघोन्नतिदर्शनात् भवित्री वृष्टिं सम्भावयति । पूर्वमि- यं दृष्टेति पूर्ववन् । नदीपूरदर्शनादुपरि वृष्टो देव इति वा प्रती- निः । शेषवद्यथा-समुद्रोदकविन्दुं प्राश्य शेपस्य लवणभावो- ऽनुमीयते इति शेषवत् । सामान्यतो दृष्टम्-पुष्पिताम्रदर्शना- त् अन्यत्र पुष्पिता आम्रा इति । पुनर्यथा-बहिरुयोत इति के. नाप्युक्तं, तत्रापरेणाप्युक्तम् । चन्द्र उदितो भविष्यतीत्यर्थ- सङ्गतिः । तल्लिङ्गलिङ्गिपूर्वकामिति । लिङ्गेन त्रिदण्डादि- दर्शनेनादृष्टोऽपि लिङ्गी साध्यते नूनममौ परिव्राडस्ति य- स्येदं त्रिदण्डमिति । आप्तश्रुतिराप्तवचनं तु । तृतीयं प्रमाणम् । आप्ता ब्रह्मादय आचार्याः, श्रुति(१)र्वेदस्तदेत- दुभयमाप्तवचनम् । आप्तिः साक्षादर्थप्राप्तियथार्थोपलम्भः तया वर्तत इत्याप्तः साक्षात्कृतधर्मा यथार्थाप्त्या श्रुतार्थग्राही तदुक्त- माप्तवचनम् । तत्रापि प्रसिद्धिलक्षणा गुणयोगात्तिस्र शब्द- वृत्तयः । तत्र लाक्षणात्रैविध्यम् । जहल्लक्षणाऽजहल्लक्षणा जहदजहल्लक्षणा चेत्यादि प्रमाणशास्त्रेषु बहुतरः प्रपञ्च आस्ते । तत्र प्रक्रान्तमेव तावदभिधीयते भगवतः कपिलस्य मतम् । आगमो ह्याप्तवचनमाप्तं दोषक्षयाद्विदुः । क्षीणदोषोऽनृतं वाक्यं न ब्रूयाद्धत्वसम्भवात् ॥ स्वकर्मण्यभियुक्तो यो रागद्वेषविवर्जितः । पूजितस्तद्विधैर्नित्यमाप्तो ज्ञेयः स तादृशः ॥ तदेवमेतत्रिविधं प्रमाणम् ॥ ५॥ (१) आर्षत्वादेकवचनम् । सहितशब्देन सह मध्यमपदलोपी समासो वा ।
माययकारिका तदेवं व्यक्ताव्यक्तज्ञाख्यस्य प्रत्यक्षादित्रिविधप्रमाणेषु केन कस्य सिद्धिः स्यात् इति अत्रोच्यते- सामान्यतस्तु दृष्टादतीन्द्रियाणां प्रतीतिरनुमानात् । तस्मादपि चासिद्धं परोक्षमाप्तागमात्साध्यम् ॥ ६ ॥ अत्र प्रधानपुरुषावतीन्द्रियौ तयोः सामान्यतो दृष्टादनु- मानात्सिद्धिः । यस्मान्महदादि लिङ्गं त्रिगुणं दृष्ट्वा कार्य तत्का- रणमदृष्टमप्यस्ति त्रिगुणं चेति साध्यते प्रधानम् । न ह्यसतः सदुत्पत्तिः स्यादिति । न च कारणासदृशं कार्य स्यादिति । व्यक्तं तु प्रत्यक्षेणैव साधितमिति तदर्थे न प्रयत्नः। यस्माज्जटम- पि प्रधान प्रमूतिक्रियायां प्रवर्तते तस्मादस्ति लोहस्य चलन- क्रियाशक्तिहेतुचुम्बकवदवश्यं पुरुष इति ज्ञसिद्धिः ॥ ६ ॥ ननु प्रत्यक्षेण योऽर्थो नोपलभ्यते स सर्वथा नास्तीति मतं सङ्गच्छते । यथा द्वितीयमनीश्वरशिरः, तृतीयो बाहुः, श- शविषाणादयो वा । एवं प्रधानपुरुषो नोपलभ्येते तस्मात्तावपि न स्त इत्याशङ्कानिरासायाह- अतिदूरात्सामीप्यादिन्द्रियघातान्मनोऽनवस्थानात् । सौम्यायवधानादभिभवात्समानाभिहाराच्च ॥ ७ ॥ इह लोके सतामप्यर्थानामष्टधा नोपलब्धिः । तथा हि दर्श यति-यथा सतामपि देवदत्तविष्णुमित्रयज्ञदत्तानां देशान्तरगता- नामतिदूरान्नोपलब्धिः । तत् किं ते न सन्ति । यथा वा च- क्षुरतिसामीप्यात् कजलं नोपलभते । तत्किमिदं नास्ति । यथा बधिरान्धौ शब्दरूपे नोपलभेते । तत्कि ते न स्तः । अन वस्थितचित्तो राजानमपि यान्तं न पश्यति । तत्किमसौ न गतः । धूमोष्मत्रुटिनीहारपरमाणवो नोपलभ्यन्ते । तत्किममी- - मालयकारिका १५ पामभावः । कुड्येन व्यवहितं नोपलभ्यते । तत्कि नास्ति । मू- यदितेजमाऽभिभूतानां ग्रहनक्षत्रतारकादीनामनुपलम्भात् ते- पां किमभावः शक्यते परिकल्पयितुम् । मुद्गराशिकुवलयामलक- मौक्तिककपोतादिनिकुरम्बे क्षिप्त समानं यदि नोपलभ्यते तदवे- दपिति । तकि नास्ति । एवमष्टधा सतामप्यनुपलम्भो- ऽभिहितः । इदानीमसतां चतुर्धा भवति । तत्रोच्यो- प्राक्प्रध्वंसेतरेतरात्यन्ताभावभेदात् । तत्र मृत्पिण्डे घटः प्रागुत्पत्तेनोंपलभ्यत इति प्रागभावः । प्रध्वंसाभावो यथा मुद्गराभिघातात् प्रध्वस्तो घटो नोपलभ्यते । इतरेतराभावो यथा अश्वे गोत्वम् , गवि अश्वत्वम् । अत्यन्ताभावो यथा द्विती- यमनीश्वरशिरः, तृतीयो वाहुः, शशविपाणादयो वा । एवमियं द्वादशधा अनुपलब्धिः । सतामष्टधा ह्यसतां चतुर्धा । एवं प्रधा नपुरुषावपि सन्तौ नोपलभ्यते ॥ ७ ॥ तदीपा मध्ये केन हेतुनेमौ नोपलभ्यते । तदुच्यते- सौश्यात्तदनुपलब्धि भावान् कार्यतस्तदुपल पब्धिः । महदादि तच्च कार्य प्रकृतिविरूपं सरूपं च ॥८॥ तस्य प्रधानस्यानुपलब्धिरनवगमः सौक्ष्यात् हेतो भा- बान् । सूक्ष्म प्रधानं शब्दावलक्षणन्वात् परमाण्वादिवत् । न पुनरेवं, यन्नास्ति प्रधानमतो नोपलभ्यते । किं तु अस्ति प्रधानं नोपलभ्यते सौक्ष्म्यात्परमाण्यादिवत् । तर्हि कथमुपल- भ्यत इति । अत्राह-कार्यतस्तदुपलब्धिः। कार्यं दृष्ट्वा कारण- मनुमेयं वटधान्यवत् । यथा वटधान्यं कारणं वटं कार्यमालो- क्यानुमीयते । एवं सदेव प्रधान कारणं महदादेः सतः कार्या- दनुमीयते । न ह्यसतः सदुत्पत्तिर्भवतीति । महदादि- १६ माठरवृत्तिसहिता। महानहङ्कारः पञ्चतन्मात्राणि एकादशेन्द्रियाणि पश्च हाभूतानि चेति त्रयोविंशतिकम् । एतन्महदादि कार्य त्रिगुणं दृष्ट्वाऽनुमीयते अस्ति प्रधानमपि त्रिगुणं कारणं यस्येदं त्रिगुणं कार्यमिति । किं चान्यत् । तच कार्य प्रकृतिविरूपं मरूपं च । प्रधानाद्विसदृशं सदृशं चेत्यर्थः । सन्ति ते हेतवो येरे- तत् प्रधानं विसदृशं सदृशं च । यथा लोके पुत्रः पितुः सदृशो विसदृशः स्यात् यदि रूपेण तदा न गुणैः यदा गुणैस्तदा न रूपेणेति यावत् । तांश्च हेतू नुपरिष्टावक्ष्यामः ॥ ८॥ तिष्ठतु तावदेतत् । अन्यत्पृच्छामः-किमतन्महदादि प्रागुत्प- तेः प्रधाने सत् जायते उतासत् सम्भवति । अत्राचार्याणां विप्र- तिपत्तिरतः संशयः । अत्र वैशेषिका विप्रतिपना असतः स- द्भवतीति मन्यन्ते । मृत्पिण्डे हि प्रागुत्पत्तेर्घटो नास्तीति व्य- वसितास्ते। अस्ति नास्तीति वराका जीवकाः । नैवास्ति न च नास्ति । एष बौद्धानां पक्षः । एवमन्योन्यविरोधवादिषु दर्शिषु को नाम निश्चयः । तदुच्यते । तत्र तावत्सदस- द्वादिनो जीवकाः स्ववचनविरोधेनैव निरस्ताः । यदि सत्तदाऽसन भवति । उतासत्तदा सद्भावो न । यतः सदसतोरेकत्र विरोधात् । अत्र दृष्टान्तो यथा देवदत्तो मृतो जीवति चेतिवत् । बौद्धानां तु नास्ति न च नास्तीति पक्षपरिग्रहाभावात्तैः सह स- अल्प एव न युज्यते । वैशेषिकाणां तु असतः सद्भवतीति मतप्रतिषेधाय उच्यते- असदकरणादुपादानग्रहणात् सर्वसम्भवाभावात् । शकस्य शक्यकरणात् कारणभावाच्च सत् कार्यम्॥९॥ इह लोक सदेव सद्भवति । असतः करणं नास्ति । यदि - माठरवृत्तिहिता। १५ स्यात्तदा सिकताभ्यस्तैलं, कूर्मरोमभ्यः पटप्रावरणम्, वन्ध्या- दुहितभूविलास, शशविषाणं, खपुष्पं च स्यात् । न चास्ति तस्मादनुमीयते प्रधाने मागुत्पत्तेर्महदादिकमस्त्येव । उपादा- नग्रहणात् । इह लोके यो येनार्थी स तदुपादानग्रहणं करो. ति । तनिमित्त पादते । तद्यथा दध्यर्थी क्षीरस्योपादानं कुरुते । यदि चाऽसत्कार्य स्यात्तदा दध्यर्थी उदकस्याप्युपादानं कुर्यात्, न च कुरुते, तस्मात् प्रधाने महदादि कार्यमस्तीति । किं च सर्वसम्भवाभावात् । इह लोके यब् यस्मिन् विद्यते तस्मा- देव तदुत्पद्यते । यथा तिलेभ्यस्तैलं, दनो घृतम् । यदि चाऽस- कार्य स्यात्तदा सर्व सर्वतः सम्भवेत्ततश्च तृणपांसुवालुकादिभ्यो रजतसुवर्णमणिमुक्तापयालादयो जायेरन् । न च जायन्ते । त- स्मात्पश्यामः सर्वसम्भवाभावादपि महदादि कार्य प्रधाने सदेव सद्भवतीति । अतश्चास्ति-शक्तस्य शक्यकरणात् । इह लोके शक्त. शिल्पी करणादिकारणोपादानकालोपायसम्पन्न. शक्या. देव शक्यं कर्म आरभते नाशक्यमशक्यात् । शक्तः कुम्भकार. शक्यादेव मृत्पिण्डात् शक्यदण्डचक्रसूत्रो- दकविदलतलादिभिः सम्पन्नो घटशरावोदश्चनादीन्यारभमा- णो दृष्टः । न च मणिकादि, अशक्यत्वात्तावता पिण्डेन तस्य । यदि पुनः करणनियमो न स्यात् अशक्यादप्यशक्य- मारभ्येत । तस्मात् सत् कार्य स्थानासत् । किं च-कारणमा- वाच । कार्य सदेव स्यात् । इह लोके यल्लक्षणं कारणं तल्ल- क्षणं कार्य स्यात् । यथा कोद्रवेभ्यः कोद्रवा, ब्रीहिभ्यो व्रीह- यः स्युः । यदि चाऽसत्कार्य स्यात् तदा कोद्रवेभ्यः शालीनाम- पि निष्पत्तिः स्यात् । न च भवति । तस्मात्कारणभावादपि पश्यामः प्रधाने महदादि कार्यमस्तीति । साधिनमेवमेतैः तद्यथा- ३ । १८ साधकारिका पञ्चभिर्हेतुभिः सत् कार्यम् । 'सदेव सोम्येदमग्र आसीदेकमेवा- द्वितीयं तद्धक आहुरसदेवेदमग्र आसीत्' इत्यारभ्य 'सत्त्वेव सोम्येदमग्र आसीत् [छां०अ० ६ । खं०२] इति श्रुतेः ॥ ९ ॥ तत्र यदुक्तं पूर्वस्यामार्यायां 'प्रकृतिसरूपं विरूपं च इति । तत्साधर्म्यवैधर्म्यप्रतिपादनाय इदमारभ्यते-~- हेतुमदनित्यमव्यापि सक्रियमनकमाश्रितं लिङ्गम् । सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम् ॥ १० ॥ हेतुमादिति । यस्योत्पत्तिकारणमस्ति तद्धेतुमत् । हेतुरप- देशो निमित्तं प्रकृतिः कारणमित्यनान्तरम् । प्रधानस्यैते प- र्यायशब्दाः । तस्मात्प्रधानेन हेतुना सकारणमिदं महादिभूतप- र्यन्तं त्रयोविंशतिकं लिङ्गम् । तथा हि- महत् बुद्धितत्त्वं तत्प्रधानेन हेतुमत् । तेनाहङ्कारोऽमुना एकादशेन्द्रियाणि तन्मात्राणि च । तैश्च भूतानीति सर्वमेवेदं परस्परहेतुमत् । अथ च द्विविधो हेतुः कारको ज्ञापकश्च तत्र प्रधानबुद्ध्यहङ्कारतन्मात्र- लक्षणश्चतुर्विधः कारकः । विपर्ययाशक्तितुष्टिसिद्ध्यनुग्रहभेदात्प- श्वधा ज्ञापकः । तत् द्विविधेनापि हेतुना युक्तं हेतुमदिदं सिद्धम् । किं च-अनित्यम् प्रलयं गच्छति । यस्मादुत्पत्तिमत्त- स्मादनित्यम् । अकारणवत् नित्यमिति नित्यस्य लक्षणम् । तद्विपरीतमिदमतोऽनित्यम् । तद्यथा-मृत्पिण्डादुत्पन्नो घटः स चानित्यो दृष्टः । एवं महदादि प्रधानादुत्पन्नं तस्मादनित्यं त- स्मिन्नेव च लीयते । तथा हि-प्रधाने बुद्धिस्तस्यामहङ्कारस्त- स्मिन्निन्द्रियाणि तन्मात्राणि च तेषु भूतानि प्रलयकाले ली. यन्ते । तस्मादनित्यम् । किञ्च-अव्यापि असर्वगतम् । यथा प्रधानपुरुषौ सर्वगतौ न तथेदमित्यर्थः । इदं हि यस्मिन्ने- . माठरवृत्तिमहिता। व प्रदेशेऽवस्थितं तस्मिन्नेव वर्तते । किं च-सक्रियम् । यस्मात्संसरणकाले महदादि कार्य सूक्ष्मशरीरमाश्रित्य संसर- ति तस्मात्सक्रियम् । किं च-अनेकम् बहुविधं त्रयोविंशतिप्र- कारम् । इतरच-आश्रितम् । यत् यस्मादुत्पद्यते तत्तदाश्रितम् । बुद्धिः प्रधानमाश्रिता, तां चाहङ्कारः, तं चेन्द्रियाणि तन्मा- त्राणि च, तानि महाभूतान्याश्रितानि । एवमाश्रितम् । लयं गच्छतीति लिङ्गम् । साययवमिति । अवयन्तीत्यवयवा यथा पिण्डस्य हस्तपादाद्याः । शब्दस्पर्शरसरूपगन्धाद्यवयवसम्पन्नं व्य- तम् । किं च-परतन्त्रम् पराधीनम् । यथा पितरि जीवति पुत्रो न स्वतन्त्र एवं व्यक्तम् । प्रधानतन्त्रा बुद्धिः, बुद्धितन्त्रोऽहङ्कारः, अहङ्कारतन्त्राणि इन्द्रियाणि तन्मात्राणि च, तन्मात्रतन्त्राणि महाभूतानीति । एवं परतन्त्रम् । व्यक्तमुक्तम् । एतद्विपरीतलक्ष- णमव्यक्तम् । अहेतुमत् अनुत्पन्नत्वात् । नित्यम् अकारणवत्त्वा- त् । व्यापि सर्वगतत्वात् । आब्रह्मस्तम्बपर्यन्तं पुरुषवत् व्याप्य प्रधानमवस्थितम् । निष्क्रियं सर्वव्यापकत्वात् । एकं सर्वकारण- त्वात् । अनाश्रितं प्रभविष्णुत्वात् । अलिङ्गमनुत्पत्तिकत्वात् । निरवयवममूर्तत्वात् । स्वतन्त्रं सर्वोत्पत्तिकारणत्वात् ॥ १० ॥ एवमनया आर्यया व्यक्ताव्यक्तयोर्वधर्म्यमभिहितम् । सा- धर्म्यमुच्यते- त्रिगुणमविवेकि विषयः सामान्यमचेतनं प्रसवधर्मि। व्यक्तं तथा प्रधानं तद्विपरीतस्तथा च पुमान् ॥ ११ ॥ त्रिगुणं व्यक्तं महदादि । प्रधानमपि त्रिगुणस् । का- रणानुगतत्वात्कार्यस्य । यथा कृष्णतन्तुः कारणं पटः कार्य- मपि कृष्णमेव भवति । त्रिगुणेन कार्येणास्य कारणमपि साझारिका निगुगं भवतीति प्रधानं साध्यते । किं चान्यत् अविवेकि व्यक्तम् । अमी गुणा इदं व्यक्तमिति विवक्तुं न पार्यते, प्रधानमपि इदं प्रधानं अमी गुणा इति न शक्यते पृथक् कर्तुम् । किं च-विषयो सक्तं महदादि । सुखदुःखमोहतया भोग्य तत् पुरुषस्य । स हि तस्य भोक्ता । तथा प्रधानमपि सर्वपुरुषा- णां क्षेत्रज्ञानां भोग्यम् । सामान्य व्यक्तम् । गणिकावत् सर्वपुरु- पाणाम् । तथा प्रधानमपि । अचेतनं व्यक्तम् । सुखदुःखमोहान्न चेतयति । तथा प्रधानमपि(१) । प्रसवधर्मि व्यक्तम् । बुद्धेरह- कारस्तत इन्द्रियाणि तन्मात्राणि च तेभ्यो भूतानि जायन्ते । एवं प्रधानमपि बुद्धिं प्रसूयते । उक्तमिदं व्यक्ताव्यक्तयोः साधर्म्यम् । इदानीं 'सद्विपरीतस्तथा च पुमान् इत्युक्तं, तत्प्रतिपादयति । ता- भ्यां व्यक्ताव्यक्ताभ्यां विपरीतः। तयोर्यत्साधर्म्य 'त्रिगुणमविवे- कि विषयः सामान्यमचेतनं प्रसवधर्मि' इत्युक्तम् । ततोऽसौ विपरी- तो विधर्मी । अगुणो विवेकी अविषयोऽसामान्यः चेतनोप्रसवध- भी चेति । वैधर्म्यमभिधाय साधन मर्थमाह-तथा च पुमानिति। "हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् । सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम् ॥ इत्युक्तम् । तत् यथा व्यक्ताद्विसदृशं प्रधान तथा प्रधानसधर्मा पुरुषः । तथा हि अहेतुमानित्यो व्यापी निष्क्रिय एकोऽनाश्रितोऽलिङ्गो नि- रवयवः स्वतन्त्र इति ॥ ११ ॥ तत्र त्रिगुणं व्यक्तमव्यक्तं च निर्गुणः पुरुष इत्युक्तम् । किमात्मका गुणा इत्यत्रोच्यते- प्रीत्यप्रातिविषादात्मकाः प्रकाशप्रवृत्तिनियमार्थाः । अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः ॥१२॥ (१)कशम् ? अनुमीयते । इहाचेतनास्मृतिपण्डादचेतन एव घट उत्पद्यते। NARENA माठरवृसिलहिला। - तत्रायं समासः। भीतिश्चाप्रीतिश्च विपादश्च ते आत्मा स्वरूपं यहां गुणानां ते भवन्ति प्रीत्यप्रीतिविषादान्यकाः। तेषां लक्षण- मुच्यते । तत्र प्रीत्यात्मकं सत्वम् । आत्मशब्दः स्वभावे वर्तते । कस्मात्सुखलक्षणत्वात् । यो हि कश्चित् कचित् प्रीतिं लभते तत्र आर्जवमार्दवसत्यशौचहीबुद्धिक्षमानुकम्पाज्ञानादि च । तत्सत्वं प्रत्यंतव्यम् । अप्रीत्यात्मकं रजः । कस्पात् । दुःखलक्षणत्वात् । यो हि कश्चित्कदाचित् काचित् अमीतिमुपलभते तत्र द्वेषद्रोहमत्स- रनिन्दास्तम्भोत्कण्ठानिकृतिवञ्चनाबन्धवधच्छेदनानि च(१) । तद्रजः प्रत्येतव्यम् । निषादात्मकं तमः । कस्मात् । मोहलक्षण- स्वात्। यो हि कश्चित् कदाचित् कचित् मोहमुपलभते तत्र अज्ञान- मदालस्यभयदन्याकर्मण्यतानास्तिक्यविषादस्वमादि च। तत्तमः प्रत्येतव्यम् । किं चान्यन्-प्रकाशप्रवृत्तिनियमार्थाः(२) । प्रकाशश्च प्रवृत्तिश्च नियमश्च ते अर्था येषां तथोक्ताः । तत्र प्रकाश- यितव्यमिति सत्त्वस्य, प्रवर्तितव्यमिति रजसः, नियन्तव्यं संहर्त व्यमिति तमसः । किं चान्यत्-अन्योन्याभिभवाश्रय- जननमिथुनवृत्तयश्च गुणाः । तत्रापि समासः । अन्योन्या- भिभवाश्च अन्योन्याश्रयाश्च अन्योन्यजननाश्च अन्योन्यमिथुना- श्च येषां गुणानामन्योन्यवृचयश्च विद्यन्ते तथोक्ताः । चशब्दः समुच्चये द्रष्टव्यः । प्रीत्यादयश्च तावत् प्रागभिहिताः । अन्यो- न्याभिभवाश्चेति रजस्तमसोरभिभवात् शान्ता वृत्तिरुत्पद्यते सत्त्वस्य धर्माद्या । सत्त्वतमसोरभिभवात् रजसो घोरा वृत्तिरु- त्पद्यते अधर्माद्या । सवरजसोरभिभवात् तमसो मूढा वृत्तिरु- (१) निकृतिः शाठयम् । 'कुसृतिनिकृतिः शाख्यम्' इत्यमरः । (२) अर्थशब्दः सामर्थ्यवाची प्रयोजनार्थों वा। तथाच प्रकाश- क्रियास्थितिशीला गुणा इत्यर्थः ।
साधकारिका त्पद्यते अज्ञानाधा । किं चान्यत्-अन्योन्याश्रयाश्च गुणाः । सत्त्वं हि प्रवृत्तिनियमावाश्रित्य प्रकाशयति । रजः प्रकाश- नियमावाश्रित्य प्रवर्तयति । तमः प्रकाशप्रवृत्ती आश्रित्य निय- मयति । त्रिदण्डाविष्टम्भवदमी वेदितव्या इति । किं चान्य- त्-अन्योन्यजननाश्च गुणाः । अन्योन्यं जनयन्ति । क- दाचित् सत्त्वं रजस्तमसी जनयति । कदाचित्तमः सत्त्वरजसी जनयति । यथा सपरिकरकुम्भकाराधिष्ठितो मृत्पिण्डो घटं जन- यति तद्वज्जनयन्ति । अन्योन्यं बोधयन्तीत्येतत् प्रतिगृह्यते । यथा देवदत्तयज्ञदत्तौ परस्परं बोधयत एवं बुद्धिस्था गुणाः सत्त्वरजस्तमांसि परस्परं बोधयन्ति । एवमन्योन्यजनका गुणाः। किं चान्यत्-अन्योन्यमिथुनाश्च गुणाः । अवियोगकधर्म- त्वात् । एवं बाहु:- रजसो मिथुनं सत्वं सत्त्वस्य मिथुनं रजः । उभयोः सत्वरजसोमिथुनं तम उच्यते ॥ किं चान्यत्-अन्योन्यवृत्तयश्च गुणाः । अन्योन्यस्य कृत्तिं जनयन्ति । यथा काचित् स्त्री नयविनयविलासली- लावती भर्तुरात्मनो बन्धुवर्गस्य च प्रीतिं जनयति । सैव सप- स्त्रीषु दुःखमोही जनयति । एवं सत्त्वेन स्त्रीभूतेन रजसस्तमसञ्च वृत्तिनिता । एवमन्येष्वपि योज्यम् ॥ १२ ॥ अत्राह-न खलु सत्त्वरजस्तमांसि जात्यन्तराणि । कुतः । स्वभावष्ववस्थानात् । इह खलु रूपयौवनदाक्षिण्यमातसाधुत्वस्मृ- त्युग्रभावाभावलीलाविलाससम्पन्ना स्त्री सत्त्वस्य रूपमुपदिश्यते । सा च भर्तुः सुखावहा भवति, सपनीनां दुःखाय रागिणां मोहाय च। तथा क्षत्रिया दुःखाहरणकृतापराधां दस्युसेनामभिनिघ्नती रजसो रूपमित्युपदिश्यते। तेन च दस्युभिरुपद्रुतानां दार्यमाणानां - माठरवृत्तिसहिता। २३ सुखावहा भवति । दस्यूनां दुःखाय मोहाय च । तथा घनाघनो महाकृष्णो मेघस्तीयाध्मातोऽवलम्बी असमान इव नभो भूमि चाभिवर्धमानः सबलाकः सविद्युद्गम्भीरस्तनितस्तमसो रूप. मित्युपदिश्यते । स च कर्षकाणां सज्जीकृत जोपकरणानां सुखो भवति । स एवानाच्छादितशरणानामनुपार्जितभक्तस्नेहल- वणानामप्रगुणितणकाष्ठानां प्रोषितवधूनां च दुःखो मूढश्च । तदेवमवस्थितस्वभावत्वादेकं सत्त्वरजस्तमांसि । अत्रोच्यते जात्यन्तरममूनि त्रीणि । लक्षणपृथक्त्वव्यव- स्थानात् । कथमिति चेत्तदुच्यते- सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलं च रजः। गुरु वरणकमेव तमः प्रदीपचच्चार्थती वृत्तिः ॥ १३ ॥ अत्र यत् पूर्वस्यामार्यायामभिहितं सत्त्वलक्षणं तल्लघुत्व- प्रकाशकलक्षणं च । यदा सत्त्वमुत्कटं भवति देवदत्ते तदा लघून्यङ्गानि, विशुद्धानीन्द्रियाणि स्वविषयग्रहणसमर्था- नि भवन्ति । तदा मन्तव्यमद्य मे सत्त्वमुत्कटत्वेन वर्तते । इष्टं च स्वरूपसाधनहेतुत्वात् । उपष्टम्भकं चलं च रजः । उपष्टम्भकं प्रेरकमुन्नाडिरित्यर्थः । यथा मत्तवृषो वृषं दृष्ट्वा उद्ध- तो भवति तद्वत् । अथ वा गर्वश्चला क्रियेत्यर्थः । एवं यस्मिन् देवदत्ते यज्ञदत्ते वा रज उत्कटं भवति स कलहं मृगयते । कि चान्यत् चलचित्तश्च भवति ग्रामं गच्छामि स्त्रियं कामये तपः करोमि इत्यादि । एवं नित्यमुत्सुकमना भवति । एतत् रजोल- क्षणम् । तम आह-गुरु वरणकमेव तमः । यद्गुरुत्वमाव- रणत्वं चास्ति तत्तमः । यदा गुरूण्यङ्गानि भवन्ति । इन्द्रिया- ण्यलसानि स्वविषयग्रहणासमर्थानि भवन्ति । तदानीं मन्तव्य- २४ सावधकारिका मेतत्तम उत्कटत्वेन वर्तत इति । तस्माज्जात्यन्तराण्येव सत्त्वरज- स्तमांसि । यत्पुनरभ्यधायि-स्त्री क्षत्रिया मेघश्चेति । अत्र त्रयेऽपि ब्रूमः। सत्त्वं रजस्तमसी आश्रित्य स्वेन रूपेणाङ्गाङ्गिमावं गच्छति । तस्यापकारादुःखमुत्पद्यते । एवं रजस्तमसी योज्ये । परस्पर- विरुद्धानां गुणानां कथमेका वृत्तिर्भवतीत्यत्राह-परस्परविरुद्धाः शत्रवो न होकमर्थं कुर्वन्ति । इमे च गुणाः परस्पराव- रुद्धा अपि पुरुषार्थ कुर्वन्ति । कुतः । प्रदीपश्चार्थता वृप्तिः। प्रदीपेन तुल्यं प्रदीपवत् । अर्थतः कार्यवशात् । परस्परविरुद्धा- नामप्यमीषां वृत्तिष्टा । यथा तैलानिवर्तिकासंयोगात्परस्पर- विरुद्धा अपि पदार्थाः संहत्य एकमर्थ प्रकाशरूपं निष्पादयन्त्येवं गुणा अपि परस्परविरुद्धाः संहत्य पुरुषार्थ कुर्वन्ति ॥ १३ ॥ अत्राह-अयमन्तरः प्रश्नो हि । यदुक्तं पूर्वस्यामार्यायां "त्रिगुणमविवेकि विषयः सामान्यमचेतनं प्रसवधर्मि । व्यक्तम्-' तत्कथमेवं ज्ञायतेऽव्यक्तमपि त्रिगुणत्वादियुक्तम् । अत्रोच्यते-- अविवेक्यादिः(१) सिद्धबैगुण्यात्तद्विपयर्याभावात् । कारणगुणात्मकत्यात् कार्यस्थाव्यक्तमपि सिद्धम् ॥१४॥ योऽयमविवेक्यादिर्गुणः प्रसवधर्मान्तः स व्यक्तेऽपि मि- द्धोऽव्यक्तेऽपि सिद्धः । कथं गम्यते । त्रैगुण्यात् । यत्तिगुणं तदविविक्तम् , यत् अविविक्तं तद्विपयं, यद्विषयं तत्सामान्यं, यत्सामान्यं तदचेतनम् , यदचेतनं तत् प्रसवधर्मि । तस्माद विवेक्यादिर्गुणस्वैगुण्यादेव सिद्धः । तद्विपर्ययाभावात्(२)। इह हि यत्र तन्तवस्तत्रैव पटः यत्र पटस्तत्रैव तन्तवः, यस्तन्तून् (१) अविवोकत्वादिकम् । (२) तस्य अविवेकित्वादेविपर्ययो विवेकित्वादिकम् तस्य अभावात् । एतदेव दर्शयति यत्र तन्तव इत्यादिना ।
माठरवृत्तिसहिता। २२ पश्यति स पटं पश्यति, यो वा पटं पश्यति स तन्तून् पश्यति । एवमेव तन्तुपटयोरिव व्यक्ताव्यक्तयोः सम्बन्धः। दूरे हि प्रधानं सन्निकृष्टे व्यक्तम् । यो हि व्यक्तं पश्यति स चाव्यक्तमपि पश्य- ति। योवा योगी प्रधानं पश्यति स व्यक्तमपि पश्यति । तस्माद्वि- पर्ययाभावादविवेक्यादिगणेन सिद्धमव्यक्तम् । इतश्च सिद्धम् । कारणगुणात्मकत्वात् कार्यस्याव्यक्तमपि सिद्धम् । कारणस्य गुणाः कारणगुणास्ते आत्मा स्वभावो यस्य तद्भावः कारणगुणात्मकत्वम् । आत्मशब्दः स्वभावे वर्तते । कारणगुणस्व- भावत्वात् कार्यस्य । इह लोके यदात्मकं कारणं तदात्मकमेव कार्यमपि भवति । कारणानुगतत्वात् कार्यस्य । यथा कटुनिम्ब- वृक्षात् कटुरेव रसो भवति मधुराञ्च मधुरो द्राक्षादिरसा | त- स्मादविवक्यादिगणेन सिद्धमव्यक्तम् । तत्र यदुक्तं भवता तत् कथमेवं ज्ञायते अव्यक्तमविवेक्यादिगणेन युक्तमिति तदेवमेव त्रिभिर्हेतुभिः प्रतिपादितम् । अत्राह-इह लोके यन्न विद्यते तन्नास्ति । यथा द्वितीयमनीश्वरशिरः, तृतीयः पाणिः, शशविषाणं, वन्ध्यापुत्रिकाभ्रूविलासादयो वा । नैव तावत् प्रधानपुरुषावुप- लभ्येते, तौ कथं हि स्त इति गम्यते । हिमवत उपलगणपरि- माणं नोपलभ्यते । किं तन्नास्ति । एवं प्रधानपुरुषाचनुपलभ्य- मानावप्युपलभ्येते हेतुभिः । तांश्च हेतूनुपरिष्टावक्ष्यामः ॥ १४ ॥ त उच्यन्ते- भेदानां परिमाणात् समन्वयात् शक्तितः प्रवृत्तेश्च । कारणकार्यविभागादविभागाळेश्वरूप्यस्य ॥ १५ ॥ अस्ति प्रधानम् । कुतः । भेदानां परिमाणात् । लोके यत्र कर्तास्ति तस्य परिमाणं दृष्टम् । यथा कुलालः परिमितात् मृत्पिण्डान् परिमितमेव घटं कुरुते प्रस्थग्राहकमाढकग्राहक वा ।
साडधकारिका एवं व्यकं परिमितम् । एका बुद्धिरेकोऽहङ्कारः पञ्च तन्मात्राणि एकादशेन्द्रियाणि पञ्च महाभूतानि इति त्रयोविंशतिकम् । एव- मेतत् परिमितं व्यक्तं दृष्ट्वाऽनुमानेन साधयामोऽस्त्यस्य कारणं प्रधानं यब्यक्तं परिमितमुत्पादयति । यदि च प्रधानं कारणं न स्यानिष्परिमाणमिदं व्यक्तं स्यात् । अस्ति चास्य परिमाणं तस्मा- दस्ति प्रधानम् । इतश्चास्ति समन्वयदर्शनात् । कस्य समन्वयात् भेदानामेव । अस्मादेव कारणात् शकलकपालमात्रसमस्तसम- न्वयः। भूषणादीन् दृष्ट्वा तत्त्वेन दर्शयति । सामान्यप्रकरणाल्लो- कभेदानामेकैकजातिसमन्वयो दृष्टः । तेषां धर्मोऽन्वयः तस्मा. समन्वयदर्शनात् पश्यामोऽस्ति प्रधानं कारणमिति । इतश्चास्ति- शक्तितः प्रवृत्तेश्च । इह यो यस्मिन्नर्थे शक्तः स तस्मिन्नेव प्रवर्तते । तद्यथा कुम्भकारो घग्घटिकाशरावोदश्चनादिकरणे शक्तः । अतः साधयामः प्रधानस्याप्यस्ति शक्तिर्यया शक्त्या व्यक्तमुत्पादयति । सा च शक्तिनिराश्रया न भवति । तस्मा- दस्ति प्रधानं यत्र शक्तिरवतिष्ठते । इतश्चास्ति- कारणकार्य- विभागात् । करोतीति कारणम् , क्रियत इति कार्य तयोविभा. गस्तस्मात् । तद्यथा मृत्पिण्डः कारणं घटः कार्यम् । स एव हि मधूदकपयःप्रभृतीनां धारणे समर्थो न तु मृत्पिण्डः । एवं व्य- क्ताव्यक्तयोविभागः । अन्यत् व्यक्तं महदहङ्कारतन्मात्रेन्द्रिय. महाभूतपर्यन्तं, तच्च कार्यम् । अन्यच्च अव्यक्तं प्रधानं विपरीतं कारणमिति । तस्मादस्ति प्रधानम् । इतश्चास्ति-अविभागा. द्वैश्वरूप्यस्थ । न विभागोऽविभागः । विश्वरूपस्य भावो वै. (१)समन्वयात्समानधर्मदर्शनात् । व्रतचारिणं बटुं दृष्ट्वा सम- म्वीयते नूनमस्यास्ति ब्राह्मण्यम् । एवमिदं त्रिगुणं महदादि दृष्ट्वा साधयामोऽस्य यत्कारण भविष्यतीति ।
साङ्खयकारिका त्रिगुणतः प्रवर्तत त्रिधा व्यवहारः । ससुदयाच्च । यथा ग. कायां स्रोतांसि समुदितानि गङ्गामारभन्ते, यथा वा तन्तवः म- मुदिताः पटं कुर्वन्ति एवं सत्वरजस्तमांसि त्रयो गुणाः समुदिताः प्रधानस्था व्यक्तं कुर्वन्ति । अत्राह-इह लोके द्विविधं कारणं परिणामकत्वादपरिणामकत्वाच । तत्रापरिणामकत्वात् मृत्पि- ण्डदण्ड स्त्रोदकविदलान् पश्यामः । परिणामतश्च क्षीरं दधी- ति । तत्र प्रधानं कथं कारणामित्यत्रोच्यते-परिणामतः। यथा क्षीरं दधिभावेन परिणमति, यदेव क्षीरं तदेव दधि, एवं प्र- धानं व्यक्तभावेन परिणमति । दधिवत् व्यक्तं क्षीरवत् प्रधान मित्यर्थः । यदेवाव्यक्तं तदेव व्यक्तमिति । तस्मादुच्यते परिणा- मतः प्रधान कारणमिति । अत्राह को दृष्टान्तः? तदुच्यते-साल- लवत् । यथा सलिलमेकं हिमवत् हिमभावेन परिणमति, यथा च इक्षुरसो रसिकाषण्डमत्सरिकाशर्कराफाणितगुडभावेन परि- णमति । यथा वा क्षीरं द्रप्स्यदधिमस्तुनवनीतघृतारिष्टकिलाट- कृर्चिकादिभावेन परिणमति । एवमेवाव्यक्तम् आध्यात्मिकेन बुद्ध्यहङ्कारतन्मात्रेन्द्रियभूतभावेन परिणमति, आधिदैविकेन शीतोष्णवातवर्षादिभावेन परिणमति । अत्राह-एकस्मात्प्रधानाव उत्पन्नास्त्रयो लोकाः कथं विषमाः । इह ये देवास्ते सुखिनो मनुष्यास्ते दुःखिनस्तियञ्चो मूढाः । एकस्मात्मधानादुत्पन्नानां त्रयाणां लोकानां कथं वैषम्यं मूढत्वादिनेसत्रोच्यते-प्रति- प्रतिगुणाश्रयविशेषात् । तद्यथा एकरसमन्तरिक्षात् जलं प- तितम् । तच्च मेदिनीं प्राप्य नानारसतां याति। पृथग्भाजनविशे. पात् । एवमिमे त्रयो लोका एकस्मादपि प्रधानादुत्पन्ना गुण (१) प्रतिप्रतीति वीप्सा गुणानामाश्रयस्तस्य विशेषस्तं गुणा- श्रयविशेष प्रतिनिधाय अङ्गीकृत्य गुणाश्रयविशेषं परिणामात्प्रवर्तते ।
माठरवृत्तिसहिता। वैषम्यात् पृथग्भावं गताः । यथा देवेषु सत्त्वमुत्कटं ततस्ते सुखिनः, तत्रापि रजस्तमसी गौणतया स्तः । मनुष्येषु रज उत्कटं ततस्ते दुःखिताः, तेष्वपि सत्त्वतमसी स्तः । तिर्यग्यो- निगतेषु तम उत्कटं ततस्ते मूढाः । तेष्वपि सवरजसी स्तः । एवमकस्मादुत्पन्नानां त्रयाणां लोकानां वैषम्यं भनति ॥ १६ ॥ एवं द्वाभ्यामार्याभ्यां प्रधानस्याधिगमः कृतः । अत ऊर्य पुरुषस्याधिगमं करिष्यामः । अत्राह-केचिदाचार्या इति मन्यन्ते शरीरेन्द्रियवुद्ध्यादिव्यतिरिक्तो नास्ति परमात्मा । आपच- एतावानेव पुरुषो यावदिन्द्रियगोचरः । इति । अत्रोच्यते- शरीरेन्द्रियबुद्ध्यादिव्यतिरिक्त आत्मा अस्ती- ति । को दृष्टान्तः ? यथा असिकोशवत् । मुओषीकावत् । उक्तं च- मशकोदुम्बरेषीकामुञ्जमत्स्याम्भसां यथा । एकत्वेऽपि पृथग्भावस्तथा क्षेत्रात्मनोर्नृप ।। एवं शरीरेन्द्रिपबुद्धयादिभिः क्षीरनीरचदेकीभूतोऽपि तद्यति- रिक्तोऽस्ति परमात्मा पुरुषोऽपि । प्रधानवन सूक्ष्मत्वान्नोपलभ्यत इति तदधिगमाय हेतुरभिधीयते- सङ्घातपरार्थत्वात् त्रिगुणादिविपर्ययादधिष्ठानात् । पुरुषोऽस्ति भोक्तभावात् कैवल्यार्थप्रवृत्तेश्च ॥ १६ ॥ अस्ति पुरुषः । सङ्घातपरार्थत्वात् । यतः सङ्घातश्च परार्थः । तस्मात् हेतोः । इह लोके ये सङ्घातास्ते परार्थी दृष्टाः पर्यङ्करथशरणादयः । एवं गात्राणां महदादीनां सङ्घातः समुदा- यः परार्थ एव । (तम्मादस्ति नूनमन्योन्याधिष्ठितो यदर्थोऽयं सङ्घात इति सङ्गतिः ।) पर्यङ्करथादयः काष्ठसङ्घाताः । गृहादयः काष्ठेष्टकादिसङ्घानाः । न हि ते रथगृहपर्यादयः किमपि स्वा-
३०
सालयकारिका
थं साधयन्ति । न वा परस्परार्थाः । किं तु अस्ति असौ देव.
दत्तादिर्योऽस्मिन् पर्यङ्के शेते रथेन गच्छति गृहे निवसतीति ।
(चेतसः प्रतीत्या) । एवममी महदादयश्चक्षुरादयो न स्वार्था न
च परस्परार्थाः, किं तु परार्थाः । यश्चासौ परः स चात्मा ।
तस्मादनुमीमहे अस्ति पुरुषः, यस्यार्थे चक्षुगादिसङ्घानः शरीर-
मुत्पन्नमिति । इतश्चास्ति-त्रिगुणादिविपर्ययात् । त्रयो गुणा
यस्य गणस्यादौ सम्भवन्ति स त्रिगुणादि । त्रिगुणादेविपर्ययः ।
तस्मात्पश्यामोऽस्ति पुरुष इति । उक्तं पूर्वस्यामार्यायाम
त्रिगुणमविवेकीत्यादि व्यक्तप्रधानसाधर्म्यम् । 'तद्विपरीतस्तथा
च पुमान्'इति । अगुणविवेक्यविषयासामान्यचेतनामसत्र.
धर्मादिविपर्ययादात्मनोऽस्तित्वं पृथक्त्वं च सिद्धम् । अतश्चा
स्ति । अधिष्ठानात् । न ह्यन्तरेणाधिष्ठातारं भवति वस्तुजात.
म् । तद्यथेह लोके लङ्घनप्लवनधावनसमर्थैरश्वैर्युक्तो रथः सार-
थिनाधिष्ठितः प्रवर्तते । अथ सारथिनानधिष्ठितः प्रवर्तते ततः
शरीरनाशः स्यात् । न चात्मविनाशाय प्रवर्तने । अपि चोक्तं षष्टि-
तन्त्रे-'पुरुषाधिष्ठितं प्रधानं प्रवर्तते' इति । ततः पश्यामोऽसौ प.
रमात्मा आस्ति पुरुषो येनाधिष्ठितं प्रधानं महदहङ्कारतन्मात्रेन्द्रि-
यभूतान्युत्पादयति । तस्मादस्ति पुरुष इति । इतश्चास्ति-भो.
क्तभावात् । इह मधुराम्लतिक्त लवणकटुकषायाः षट् रसाः ।
एतैः षड्भी रसैर्युक्तं भोजनं दृष्ट्वा भोक्ता साध्यते । अस्ति भो-
का यस्येदं भोजनम् । एवमिदं व्यक्ताव्यक्तं दृष्ट्वा साधयामो-
त्यसौ परमात्मा पुरुषो यस्येदं भोक्तुर्व्यक्ताव्यक्तं भोग्य-
मिति । इतश्चास्ति-कैवल्यार्थप्रवृत्तेश्च । केबलभावः कैवल्य
मोक्ष इत्यर्थः । या तस्य प्रधानस्य प्रवृत्तिः सा कैवल्यार्थी प्र.
त्तिः प्रधानस्येति ॥ १७ ॥
माठरवृत्तिसहिता। अत्राह-गृह्नीनस्तावदभिः पञ्चभिरधीतैहेतुभिः शरीरव्य- तिरिक्तोऽसौ पुरुषोऽस्तीति । स किं सर्वशरीरेष्वेकः पुरुष आ- होश्वित् प्रतिशरीर भिन्नः पुरुष इति । कुतः संशय इति चेच्चो- दक आचार्यविप्रतिपत्तेः संशयः । इह केचिदाचार्या वेदवादि- न इति मन्यन्ते-एकोऽयं पुरुषः सर्वशरीरघुपलभ्यते मणिमूत्र- वत् । इह रसनार्या यावन्तो मणयस्तेषु सर्वेष्वेकमेव सूत्रं प्रव- तते । एवं मणिभूतेषु शरीरेषु किमेकः सूत्रभूनः परमात्मा । आहोश्चित जलचन्द्रवत् पुरुष इति एक एव बहुषु नदीकूप- तडागादिष्विवोपलभ्यते इति । अतः संशयः किमेकः पुरुषो गुणसूत्रन्यायेन आहोश्वित् बहवः पुरुषाः । अत्रोच्यते-बहवः पुरुषाः कथमिति चेत्तदुच्यते- जन्ममरणकरणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च । पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाच्चैव ॥ १८ ॥ जन्ममरणकरणानामिति । जन्मनियमात् इह के चिन्नीचजन्माना, के चिन्मध्यमजन्मानः, केचिदुत्कृष्टजन्मा- नः । यदि पुनरेकः पुरुषः स्यात्स एवं नीचकुले- त्पन्नः स्यात् स एव उत्कृष्टकुलोत्पन्नः स्यात् । कस्मात् ? पुरुषकत्वात् । अस्ति चायं नियमः, अन्ये अधमा अन्ये उत्कृ ष्टाः । तस्मादहवः पुरुषाः । अतश्च-मरणनियमात् । मरणेऽपि नियमो दृष्टो मम भ्राता मृतो मम पिता च । तस्मादहवः पुरुषाः । अपरे पुनरित्थङ्कारं वर्णयन्ति-जन्ममरणनियमात् । इह कश्चित्कदाचिन्म्रियते तदैव परो जायते । यद्यकः पुरुषः स्यात् तर्हि एकास्मिन् जायमाने सर्वेऽपि जायेरन् । न चैवम् । नियमाणे सर्वे म्रियेरन् । न चैवम् । तस्मादहवः पुरुषाः । इत- श्व पश्यामः । करणनियमात् । करणानीन्द्रियाणि श्रोत्रादी.
३२ सायकारिका नि । इह लोके के चिवधिरान्धमूकादयः । इतरे च पटुतरक- रणाः । अतः पश्यामो ये उपहनेन्द्रियास्ते अन्ये, ये चातुप. हतेन्द्रियास्ते चान्ये । तस्मात्मानिनियतकरणत्वादपि पश्यामो ऽने के पुरुषा इति । (१)इतश्च पश्यामः । त्रैगुण्यविपर्ययाच्चैध । चः समुच्चये। पूर्वोक्तैहे तुभिः । अस्माच्च हेतोरित्यर्थः । इहै- कस्य ब्राह्मणस्य त्रयः पुत्राः सब्रह्मचारिण एकेनैव एकस्यां भार्यायां जाताः । तत्रैकः सात्त्विको मेधावी शुचिः मु. खी । द्वितीयो राजसो दुर्मेधावी दुःखी । तृतीयस्तामसो मूढो नास्तिकः । यधक आत्मा स्यादेकस्मिन् साधिके राजसे ता- मसे वा सर्वे तथा स्युः । न तथा भवन्ति । अतः पश्यामोऽने- के पुरुषाः ॥ १८ ॥ अत्राह-अयं संशयः । किं खलु कर्ता पुरुषोऽस्त्याहो- श्विदकर्तेति । कुतः संशय इति चेत्, आचार्यविप्रनिपनेः । लो- के तावत् पुरुषो गच्छति धावति तिष्ठति शोचति, पुरुपणे कृ- तमिति विप्रतिपत्तिः । एवमाचार्या वेदवादिनी ब्रुवते । वैशेषि- का अपि कर्ता इति मतं प्रतिपन्नाः । अतः संशयः । अत्रोच्य. ते-अकर्ता पुरुषः । कथमिति चेत्तदुच्यते- (२)तस्माच्च विपर्यासात् सिद्धं साक्षित्वमस्य पुरुषस्य । कैवल्यं माध्यस्थ्यं द्रष्दृत्वमकर्तृभावश्च ॥ १९ ॥ तस्माच विपर्यासादिति । (३)कर्वकारणानां को (१) अत्र 'अयुगपत्प्रवृत्तेश्च' इत्यस्य व्याख्यानग्रन्थस्त्रुटितो भाति । (२) पूर्वोत्कत्रिगुणविपर्ययात् वैपरीत्यात् त्रैगुण्यस्य । निर्गुणः पुरुषो विवेकीति विपर्यय उक्तः, तस्मात्सत्त्वरजस्तम सु कर्तृभूतेषु साक्षित्वं सिद्धं पुरुषस्य, गुणा एव प्रवर्तते कर्तार.। साक्षी न प्रवर्तते नापि निवर्तते । (३) अनापि ग्रन्थस्त्रुटितो भाति ।
माठरवृत्तिलहिता। ३३ विशेषः अत्रोच्यते । तद्यथा कश्चिद्यमनियमरतः सायपो- गाचार्यरतो भिक्षुर्नगरे प्रतिवसति । स च जनादिषु प्र- तिवर्णाश्रमविहितासु क्रियानु प्रवर्तमानानां तन्नगरवासिना साक्षिमात्रो भवति । ऋतुवशात् शीतोष्णादीनायाताननुभवति । तद्वदयं नानावस्थे गुणविमर्दै वर्तमानो वैधात् क्षेत्रज्ञः साक्षिमात्रः स्यात् । एवं साक्षित्वं सिद्धमस्य पुरुषस्य । केवलभावः कैवल्यं नाम त्रिभ्यो गुणेभ्योऽन्यत्वम् । यथाऽसौ भिक्षुः कदाचिन्नागराणां विवदतां(१) वक्ता भवति त्वया साधु- कृतमिति त्वयाऽसाध्विति । किमेवं पुरुषो भवति । अत्रोच्यते- माध्यस्थ्यम् । नास्य केन चित्कृत्यमस्ति । उदासीनो ह्ययम् । (२)अत्राह-यद्यकर्त्ता तत्किं परकृतानां प्रयोक्ता । अत्रोच्यते- कर्तृभावश्च द्विविधो हि, प्रयोक्ता कर्ता च । अत्रोदासीनस्य पुरुषस्य कर्तृवं प्रतिषिद्धं गुणलक्षणेन ॥ १९ ॥ अत्राह-यद्यकर्ता पुरुषः, अध्यवसायं तर्हि किं करोति धर्म करिष्याम्यधर्म चेति । यदि गुणा अध्यवसायं कुर्वन्ति तर्हि तेषां सचेतनत्वं स्यात् । अमीषां चाचेतनत्वमेव प्रागुपन्यस्तम् । अथ पुरुषोऽध्यवसायं कुरुते तदा तस्य कर्तृत्वप्रसङ्गः । तस्मा- दुभयथापि दोष इति । अत्र समाधीयते नायं दोषः । कथमिति चेत् , तदुच्यते- तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् । गुण कर्तृत्वेऽपि तथा कर्तेव भवत्युदासीनः ॥ २० ॥ यस्माचेतनस्वभावः पुरुषः तस्मात् तत्संयोगादचेतनं महदादि लिङ्गम् अध्यवसायाभिमानसङ्कल्पालोचनादिषु वृत्तिषु (१) आर्थोऽयं प्रयोगः। (२) अत्र 'अत एव द्रष्टा अत एव अकर्ता' इत्यपेक्षितः।
सासयकारिका चेतनावत् प्रवर्तते । को दृष्टान्तः-तद्यथा-अनुष्णाशीतो घटः शीताभिराद्भिः संस्पृष्टः शीतो भवति । अग्निना संयुक्त उष्णो भवति । एवं महदादि लिङ्गमचेतनमपि भूत्वा चेतनावद्भवति । तस्मादध्यवसायं कुर्वन्ति गुणाः कार्यादिषु । यदप्युक्तम्-लो- कोपचारात् कर्ता पुरुष इति । अत्र यः- गुणकर्तृत्वेऽपि तथा कर्नेव भवत्युदासीनः । अत्र दृष्टान्तश्च । के चि. किल चौरा ग्रामं हत्वा द्रव्यं गृहीत्वा ग्रामान्तरं गच्छन्ति कृत- कार्याः । तैः सह सार्थेन श्रोत्रियो ब्राह्मण पन्थानं गच्छति । तत्पदानुसारिभिरारक्षिभिस्ते गृहीताः । कृतापराधस्तै सह सो पि ब्राह्मणो गृहीतस्त्वमपि चोर इति । तद्यथाऽसावचोरस्त- त्ससर्गदोषेण चौरतया प्रतीतस्तैः । तथा सत्त्वादयो गुणाः कारस्तैः संयुक्तः पुरुषोऽपि अकर्ताऽपि कर्ता भवति । कर्तृ- संसर्गात् कर्तृव । परं परमार्थतया अकर्ता पुरुषः ॥ १० ॥ अत्राह-तस्मात्तत्संयोगात् इति प्रधानपुरुषसंयोग इति चेत् , संयोगः कः। अनेकविधो हि संयोगः। अन्यतरकर्मजो यथा स्थाणुश्येनयोः, (१)सम्पातजो द्वयोर्वा संयोगो यथा ब्यङ्गु- लाकाशयोः, स्वाभाविको यथाग्न्युष्णयोः, शक्तिहेतुको यथा म. त्स्योदकयोः,यादृच्छिकः सुपर्णयोर्वाऽऽकरिमकः । अतः संशयः । अत्रोच्यते-अन्यतरकर्मजसंयोगश्च(२) संयोगो नैव प्रधानपुरुष- योः विभुत्वात् निष्क्रियत्वात् । नारित स्वाभाविकोऽपि । तयोर्नित्यत्वात् मोक्षाभाव. स्यात् अवियोगत्वात् । एवमेव विषयहेतुकशक्तिहेतुकत्वे च । अत्राह-कस्तर्हि प्रधानपुरुपयोः संयोग इति । अत्रोच्यते । अर्थहेतुकः । कश्चासावर्थ इत्यत्राह- (१) अत्र 'उभयकर्मज' इत्यधिक अपेक्षितः । अग्रे च 'द्यङ्गुला- काशयोः' इत्यत्र द्वयोरगुल्योरिति पाठः समीचीनः । (२) अन्यतरकर्मज उभयकर्मजश्व संयोग इति पाठ. समीचीनः।
माठरवृत्तिसाहिता। पुरुषमा दर्शना कैवल्यार्थ तथा प्रधानस्य । पजवन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः ॥२१॥ पुरुषस्य तावदर्शनार्य संयोगः । पुरुषः प्रधानेन सह सं- युज्यते मुगुणां प्रकृतिं द्रक्ष्याम्ययार्थः । केवल्यार्थ तथा प्रधा- नस्य संयोगः । अस्य तपस्विनः पुरुषस्य ज्ञाने वर्तमानस्य कै- वल्यं करिष्यामीति । कैवल्यं मोक्ष इत्यर्थः । यथा राजा पुरुषे- ण संयुज्यते प्रेषणं मे करिष्यतीति । पुरुषोऽपि राज्ञा संयुज्य- ते वृत्तिं मे दास्यतीति । एवं तावद्राजपुरुषयोरर्थहेतुकः सम्ब- न्धः । तथा प्रधान पुरुषयोरप्यर्थहेतुकः सम्बन्धः संयोगः । किं चान्यत् । पङ्ग्वन्धवदुभयोरपि संयोग इति । अपि चात्र दृष्टान्तः । यथा किल कश्चिदन्धः सार्थेन समं पाट- लिपुत्रं प्रस्थितः स च सार्थश्चौरैरभिहतः । अन्धोऽपि अव- शेषजीवितः कृच्छेण महता निर्जगाम । स च सर्वस्वजनविरहित इतश्चेतश्च परिभ्राम्यन् पन्थानमपश्यन् समन्ताच्चक्रममाणः केन चिद्वनमध्यस्थेन पङ्गुना दृष्टः प्रोक्तश्च । भोभो अन्ध मा भैषी- रहं पङ्गुर्मार्गदर्शने कुशलो गन्तुमसमर्थः । अन्धेन प्रतिवचनं प्रो- क्तम्-भो पङ्गो यथा भवान् गमनाशक्तस्तथाऽहमपि न शक्नोमि द्रष्टुं गन्तुं मम सामर्थ्यमस्ति । तव दर्शनसामर्थेनाहं भवन्तं स्कन्धेनादाय गच्छाम्येवमुभयोर्दुःखपरिहारलक्षणा कार्यसिद्धि- रस्तु । एवं तयोर्यथा स्वार्थलब्धिहेतुकः सम्बन्धः संयोग- स्तुल्यः । तद्वत् । पङ्ग्वन्धवत् प्रधानपुरुषौ द्रष्टव्यौ । पङ्गु- वत् पुरुषो द्रष्टव्यः । अन्धवत् प्रधानम् । पुरुषस्य दृक्- शक्तिः । प्रधानस्य क्रियासामर्थ्यम् । * एवं प्रधानमपि पुरु- * अत्र 'यथा चानयोः पङ्ग्वन्धयोर्विभागले भविष्यतीप्सित.. स्थानप्राप्तयोः' इत्यधिकः पाठोऽपेक्षितः ।
द साड्वयकारिका पस्य मोक्षं कृत्वा निवर्तते । पुरुषः प्रधानं दृष्ट्वा मोक्षं गच्छति । किं चान्यत्- तत्कृतः सर्गः। तच्छब्देन प्रधानपुरुषौ सम्बध्ये- ते । ताभ्यां प्रधानपुरुषाभ्यां कृतस्तत्कृतः सर्गः । तद्यथा-स्त्री. पुरुषसंयोगात् पुत्रः सम्भवति । एवं प्रधानपुरुषसंयोगात्सर्गो- त्पत्तिर्भवति । सर्गशब्देन महदादिलिङ्गोत्पत्तिरिति ब्रुवते ॥२१॥ तामुत्पत्तिं ब्रूमः- प्रकृतेमहांस्ततोऽहङ्कारस्तस्माद्गुणश्च षोडशकः । तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानि ॥२२॥ प्रकृतिः प्रधानमाधिकुरुते । ब्रह्म अव्यक्तं बहुधात्मक मायेति पर्यायाः । तस्याः प्रकृतेर्महानुत्पद्यते प्रथमः कश्चित् । महान् , बुद्धिः, मतिः, प्रज्ञा, संवित्ति', ख्यातिः,चितिः, स्मृतिरासुरी हरिः, हरः, हिरण्यगर्भ इति पर्यायाः। ततोऽहङ्कारः। तस्मान्महतोऽह- ङ्कार उत्पद्यते । तस्य इमे पाया.-वैकृतस्तैजसो भूतादिरभिमा- नोऽस्मिता इति । चतुःषष्टिवर्गः(१) परादिवैखरीपर्यन्ताभिधेयैर्य- किमप्यभिधीयते बुद्धया समर्थ्य तत्सकलमाद्यन्ताकारहकार- वर्णद्वयग्रहणेनोपरिस्थितपिण्डीकृतानुकारिणा बिन्दुना भूषितः प्रत्याहारन्यायेनाहङ्कार इत्यभिधीयते। तस्मात अहङ्कारात् षो. डशको गण उत्पद्यते । तामसात् भूतादिनाम्नः पञ्चतन्मात्राणि शब्दादीनि । अत एव तानि मूढानि । सात्त्विकात् वैकृताभिधा- नात् बुद्धिकर्मात्मकानि मनःसहितानि एकादशेन्द्रियाणि । (१) स्वरा एकविशतिः । इस्वदीर्घपलुन प्रयोगण अ-इ-उवर्णा- स्त्रिविधा नव, ऋवर्णः प्लुतहीनो द्विविधः, लकारोऽपि विविध एव दीर्घहीनः, सन्ध्यक्षराणि ए ऐ इत्यादीनि एवमेवाष्टो, एवमेकविंशतिः स्वराः । स्पर्शाः पञ्चविंशति । यादयो हान्ता अष्टौ अन्तस्था ऊष्मा. पाश्चेति । अनुनासिकाः पञ्च । अनुस्वारविसर्जनीयजिह्वामूलीयो- पध्मानीयाः । एव त्रिषष्टिवैखरी चतुःषष्टिर्मुखतः ।
माठरवृत्तिसहिता। अत एव तानि किं चित् जानन्ति । राजसात् तैजसा- भिधानादुभयम्(१) । मूढत्वादि तमः । प्रकाशत्वात् सत्त्वम् । उभयगुणयोगात् षोडशको गणः अहङ्कारादुत्पद्यते । त- स्मादपि षोडशकात् मध्ये यानि पञ्च शब्दादितन्मात्राणि तेभ्यः पञ्च भूतानि आकाशादीनि । तत्र शब्दतन्मात्रा- दाकाशं, स्पर्शतन्मात्रात् वायुः,(२) रूपतन्मात्रात्तेजः, रस. तन्मात्रादापः, गन्धतन्मात्रात्पृथिवी इत्यादिक्रमेण पूर्वपूर्वा- नुप्रवेशेनैकद्वित्रिचतुष्पञ्चगुणानि आकाशादिपृथ्वीपर्यन्तानि महाभूतानीति सृष्टिक्रमः(३) । अत एव भूतानामुत्पत्तिप्रलया- वबोधनात् भ इति । आगतिगतिपरिज्ञानात् ग इति । विदन्यो- गी इति व । अनति चलतीति अन् । सकलवर्णसम्प्रदायात् भगवानित्यभिमानसिद्धिः । 'अप्यक्षरवर्णसामान्याबियान संस्कारमाद्रियेत' इति नैरुक्तश्रुतिप्रामाण्यात् । उक्तं च- उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम् । वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ।। श्रीविष्णुपुराणे षष्ठंऽशे परादारवचः । यदुक्तम्-व्यक्ताव्यक्तज्ञ- विज्ञानान्मोक्षः प्राप्यत इति । तत्र महदादिभूतपर्यन्तमित्येतत् व्यक्तं व्याख्यातम् । अव्यक्तमपि भेदानां परिमाणात्' इत्या- (१) एकादशेन्द्रियाणि तन्मात्राणि च । (२) अत्र 'शब्दतन्मात्रसहितास्पर्शतन्मात्राद्वायुः, शब्दस्प. तिन्मात्रसहितादूपतन्मात्रात्तेजः, शब्दस्पर्शरूपतन्मात्रसहिताद्रस. तन्मात्रादापः, शब्दस्पर्शरूपरसतन्मात्रसहितागन्धतन्मात्रात्पृथिवी' इति पाठ उचितः । (३) भगवता कपिलेनोक इत्यधिकः पाठोऽत्रापक्षित उत्तर- ग्रन्थस्वारस्येन।
३८ साड्डधकारिका दिभिः पञ्चभिर्हेतुभिर्व्याख्यातम् । (१)यदुक्तम्- पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः । जटी मुण्डी शिखी वाऽपि मुच्यते नात्र संशयः ॥ २२॥ अत्राह-प्रकृतेर्महानित्युक्तम् । तस्य महतः किं लक्षणमि- त्यत्रोच्यते- अध्यवसायो बुद्धिर्धो ज्ञानं विराग ऐश्वर्यम् । सात्त्विकमेतद्वपं तामसमस्माद्विपर्यस्तम् ॥ २३ ॥ अध्यवसायो बुद्धिरिति । अध्यवसायो निश्चयः प्र. तिपत्तिः अयं स्थाणुरयं पुरुष इति बुद्धेर्लक्षणम् । सा च बु- दिरष्टाङ्गा । सात्त्विकतामसरूपभेदात् । तत्र बुद्धेः सा- विकं रूपं चतुर्विधं भवति धर्मो ज्ञानं वैराग्यमैश्वर्यमिति । तत्र धर्मो नाम वर्णिनामाश्रमिणां च समयाविरोधेन यः प्रोक्तो यमनियमलक्षणः स धर्मः । तत्र पञ्च यमाः पञ्च नियमाः । आहिंसासत्यास्तेयब्रह्मचर्याऽपरिग्रहा यमाः । शौचसन्तोषतपः- स्वाध्यायेश्वरप्रणिधानानि नियमाः । एभिर्यमनियमैर्यः सा- ध्यते स धर्मः। धारणार्थो धृजित्येष धातुः शाब्दैः प्रकीर्तितः । दुर्गतिप्रपतत्याणिधारणात् धर्म उच्यते ॥ तत्र या स्थावरजङ्गमानां भूतानां वाङ्मनःकायकर्मभिरद्रो- हता सा अहिंसा । तथा यत् भूतहितमत्यन्तं दृष्टश्रुतानुमिति- विज्ञातेष्वर्थेषु यथाऽन्तःकरणप्रत्ययोपस्थितं तथैव इन्द्रियाणि (१) 'पुरुषोऽपि सङ्घातपरार्थत्वादिभिर्हेतुमियाख्यातः । एव मेतानि पञ्चविंशतितत्त्वानि यस्तैस्त्रैलोक्यं व्याप्तं जानाति स मुच्य- ते' इत्यधिकमत्रापक्षितम् ।
माठरवृत्तिसहिना। अविलुप्य वञ्चनाभ्रान्तिप्रतिपत्तिबन्ध्यताविरहितवागुच्चारणं तत् सत्यम् । तथा यत्सम्भ्रमेष्वन्येषु वात्यन्तिकेषु प्रयोजनेषु स्वे स्वे स्थाने समत्वात् ग्रहणस्योपरमः तदस्तेयम् । तथा स्त्रीपुरुषसंयोगे परस्परलिङ्गसंयोगे शब्दस्पर्शरसरूपगन्धेषु यः सङ्गव्युदासः श्रोत्राद्युपरतिः असङ्कल्पश्च मनस उपरतिः स अष्टाङ्गं ब्रह्मचर्यम् । एवं ह्याहुः संयोगशब्दस्पर्शरसरूपगन्धस- ङ्कल्पस्मृतिधर्मफलत्यागाद्यष्टाङ्गं ब्रह्मचर्यमिति । अन्यच्च । ब्रह्म वीजं रेतस्तच्चरति न मुञ्चतीति ब्रह्मचारी । ब्रह्म वेदं वा गु- रुणा प्रदत्तं चरतीति । ब्रह्मा स्वयम्भुस्तस्यायं दण्डकमण्डलु- धारणादिरूप आकारो ब्रह्मवञ्चरतीति वा । एवमर्जनक्रय- विक्रयादिकल्पनाभेदानामनुपादानं सर्वथा सर्वस्यास्वीकरणा- परिग्रहः । इति पञ्च यमाः । (१)यश्चेन्द्रियाणामन्तःकरणोपर- मस्तच्छौचं बाह्यं मृजलादिना । अभक्ष्यपरिहारस्तु संसगश्चाप्यनिन्दितैः । स्वधर्मे च व्यवस्थानं शौचमेतत्प्रकीर्तितम् ।। तथा यद्भक्षार्जितेन हविषा प्राणयात्रा । आध्यात्मिकस्या- ग्नेमन्त्रगृहीतेन होमः कर्तव्यः । अहन्यहनि यज्ञशेष अशनार्थमे- तदाहारलाघवं सन्तोषः । स यांप्रथमामाहुति जुहुयात् प्राणाय स्वाहा"(छां० उ० अ० ५ । खं० १९) इत्यारभ्य “स य इदमविद्वानग्निहोत्रं जुहोति यथाद्रारानपोद्य भस्मनि हुतं ताक् तत्स्यात्"(छां० उ० अ० ५ । खं० २४ ।) इति श्रुतेः । तपः कृच्छ्रचान्द्रायणादि शरीरशोषणरूपम् । विषया विनिवर्तन्ते निराहारस्य देहिनः । इति स्मरणात् । नातपस्विनो योगः सिद्ध्यति । अनादिवा- (१) अत्र किश्चित् त्रुटितं भाति ।
मासयकारिका सनाविचित्रा प्रत्युपस्थितविषयजाला चाशुद्धिर्नान्तरेण तपः सम्भेदमापद्यत इति तपस उपादानम् । तच्च चित्तप्रसादनमवाध- मानमासेव्यमिति मन्यन्ते । स्वाध्याय. प्रणवादिपवित्राणां जपः । ईश्वरप्रणिधानं क्रियाणां परमगुरावर्पणं तत्फलसंन्यासो वा । "ब्रह्मार्पणं ब्रह्महविः' इति । “अनाश्रितः कर्मफलम्" इति श्रवणात् । इत्यमीषां यमनियमादीनां सेवनात् 'अहिंसाप्र- तिष्ठायां तत्सनियौ वैरत्याग' (पा० यो० पा० २ । ५० ३५) इत्याद्याः सिद्धयः । वैपरीत्ये तु वितर्कबाधने प्रतिपक्षभावन- म्' । (पा० यो० पा० २ । सू० ३३ । ) 'वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम्' । ( पा० यो० पा० २ । सू० ३४ ) एवं च वर्तमानस्य योगिनः 'स्थान्युपनिमन्त्रणे सङ्गस्मया- करणं पुनरनिष्टप्रसङ्गात्' । ( पा० यो० पा० ३ । मृ० ५१ ।) इति भिक्षोरेते यलनियमाः। एभिर्यमनियमैर्वा साध्यते स धर्मो व्याख्यातः । अधुना ज्ञानमाह-ज्ञानं द्विविधम् । बाह्यमाभ्यन्तरं च । तत्र बाह्यम्-वीणापणवगन्धर्वचित्रकथागणितव्याकरणशा- स्त्राणि । आभ्यन्तरम्-गुणपुरुषान्तरोपलब्धिलक्षणम् । अन्ये गुणाः सत्त्वरजस्तमांसि अन्यः पुरुष इति । बाह्येन ज्ञानेन लोकोपप- त्तिराभ्यन्तरेण मोक्ष इति । एतत् ज्ञानं विषयोपरमात् । वैराग्य- माह-(१)अजनरक्षणक्षयावृप्तिहिंसादिदोपान् दृष्ट्वा यो विषयेभ्यो विरक्तस्तम्य मोक्षो नास्तीति । आभ्यन्तरेण ज्ञानपूर्वकेण वैरा- ग्येण मोक्षो भवति बाह्येन संसार इति । ऐश्वर्य ईश्वरभावेने- (१) अत्र 'वैराग्यमपि द्विविधम् । आभ्यन्तरं बाह्य च । आभ्य- न्तर प्रधानमप्यत्र स्वप्नेन्द्रजालसदशमिति विरक्तस्य मोक्षप्सोर्यदु. त्पद्यते तत्' इत्यधिकमपेक्षितम् ।
माठरवृत्तिसहिता। ४१ त्यष्टविधम् । अणिमा लघिमा गरिमा महिमा प्राप्तिः प्राकाम्य- मीशित्वं वशित्वं यत्रकामावसायित्वमिति(१) । एतानि धर्मा- दीनि चत्वारि साकित्त्वरूपाणि बुद्धः । यदा सत्त्वेन रजस्तमसी अभिभूते स्तस्तदा सत्त्वोद्विक्तः पुमानेतान् गुणानामोति । किं चान्यत् । तामसमस्मात् विपर्यस्तम् । अस्मात् सात्त्विका- दादेः विपर्यस्तं विपरीतम् अधर्माज्ञानायं चतुर्धा बुद्धे रूप तामसम् । ये हिंसादयो वितर्का एकाशीतिभेदाः। पृथक् दशापि यमनियमाद्याः(२)। तथा अधर्मोऽज्ञानमवैराग्यमनैश्वर्यमित्यष्टधा सात्त्विकतामसभेदा बुद्धिः । अस्या एवं विधाया बुद्धेरहङ्कारो जायते ॥ २३ ॥ इदानीमहङ्कारस्य लक्षणं व्याख्यास्यामः । तदुच्यते- अभिमानोऽहङ्कारस्तस्माद्विविधः प्रवर्तते सर्गः । ऐन्द्रिय एकादशकस्तन्मात्रपञ्चकश्चैव ॥ २४ ॥ अभिमानोऽहङ्कार इति । रूपे(३) अहम् रसे अहम् गन्धे अहम्, अहं विद्वान् , अहं दर्शनीय इत्येवमायभिमानोऽहङ्कारः । तस्मात् अभिमानलक्षणादहङ्कारात् द्विविधः प्रवर्तते सर्गः ! सर्ग इति सृष्टेः पर्यायः । कश्चासौ सर्गः ? तदुच्यते । ऐन्द्रिय एकादशकः । श्रोत्रादीनीन्द्रियाणि मनःपर्यन्तानि । तन्मात्र- पञ्चकश्चैव । तन्मात्राण्यत्र शब्दादीनि गन्धपर्यन्तानि । एवमे- कादशन्द्रियाणि पञ्चतन्मात्राणि चोत्पन्नानि ।। २४ ।। Conth (१) यत्रकामावसायित्वशब्दस्तान्त्रिक्या परिभाषया सत्य- सङ्कल्पत्वार्थः। यत् यदत्वेन सङ्कल्पयति तत् तस्मै प्रयोजनाय क- ल्पते विषमप्यमृतकार्ये सङ्कल्प्य भोजयन् जीवयति न मारयतीत्यर्थः । (२) अत्र त्रुटितं भाति । (३) अत्र रूपयामि रसयामि जिघ्रामि इति प्रयोगाः साधवः । ६
साजयकारिका
-
अत्राह-त्रिविधोऽहङ्कारस्तं व्याख्यास्यामः । तत्र कतरस्मा-
दहकारात् इन्द्रियाणि उत्पद्यन्ते, कतरस्माद्वा तन्मात्राणीति ।
अत्राच्यते-
सात्त्विक एकादशकः प्रवर्तते वैकृतादहङ्कारात् ।
भूतादेस्तन्मात्रः स तामसस्तैजसादुभयम् ।। २५ ॥
सात्विक इति । यदा सत्त्वमुत्कटं भवति अहङ्कारे तेन च
सवेन रजस्तमसी अभिभूते स्यातां तदा सात्त्विकोऽहङ्कार उ.
च्यते । तस्य सात्त्विकस्य वैकृतिक इति पूर्वाचार्यैः संज्ञा कृता ।
स वैकृतिको भूत्वा अहङ्कार एकाशेन्द्रियाणि उत्पादयति । तस्मा.
त्सात्त्विकानीमानि विशुद्धानि स्वविषयग्रहणसमर्थानि भवन्ति ।
तस्मादुच्यते-'सात्त्विक एकादशकः प्रवर्तते वैकृतादहङ्कारात्'
इति । भूतादेस्तन्मात्रः । भूतादेः तमोबाहुल्यात् गौणीभूतस-
क्वरजसो भूतादिनाम्नः पूर्वाचार्यैर्निरूपितादहङ्कारात् तन्मात्रः
शब्दादिपञ्चको गणो जायते । अभिभूतसत्वतमसो राजसात्
तैजसाभिधानादहङ्कारात् प्रवृत्तिकर्मण उभयं प्रकाशात्मकमेका-
दशेन्द्रियकं मोहात्मकं तान्मात्रिकं चासीदिति सम्बन्धः । तैजस
एव राजसेऽहङ्कारे क्रियाशक्तिरस्ति । सत्वं निष्क्रियमेकाकि न
शक्नोति उत्पादयितुम् । तमश्च मूढत्वादक्रियमसमर्थ विना रजः
सृष्टिमुत्पादयितुम् । अत उभे सत्त्वतमसी सृष्टिविषये रजसाऽनु-
गृहीते ऐन्द्रियकं तान्माविकं च गणद्वयं जनयत इति तात्प-
र्यार्थः ॥ २५ ॥
तत्र कानि बुद्धीन्द्रियाणि कानि कर्मेन्द्रियाणीति ? उच्यते-
बुद्धीन्द्रियाणि श्रोत्रत्वक्वलरसननासिकाख्यानि ।
वाक्पाणिपादपायूपस्थान् कर्मेन्द्रियाण्याहुः ॥ २६ ॥
गाठरवृत्तिमाहिता। श्रोग्रादीनि बुद्धीन्द्रियाणीति उच्यन्ते । शब्दस्पर्शरूपरसग- धान् बुद्ध्यन्त इति बुद्धीन्द्रियाणि । इन्द्राण्येव तानीन्द्रियाणि । इ- न् इति विषयाणा नाम, तानिनः विषयान् प्रति द्रवन्तीति इन्द्रियाणि । वाक्पाणिपादपायूपस्थान् कर्मेन्द्रियाण्याहुः । कर्म कुर्वन्ति कारयन्ति च । कर्मेन्द्रियाणां वृत्तिः । वाक् वदतिकर्म, हस्तौ ग्रहणकर्माणौ, पादौ विषमसमनिम्नोन्नतभूप्रदेशेषु क्राम- तः, पायुर्यथाभुक्तानोदकमलमुत्सृजति, उपस्थ आनन्दं करो- नि पुनमुत्पादयतीत्यर्थः । एवमेताः कर्मेन्द्रियाणां वृत्तयो व्या- , हाता:॥ २६ ॥ ? अत्राह- मन इन्द्रियं तत् किं लक्षणमिति । अत्रोच्यते- उभयात्मकमत्र मनः सङ्कल्पकमिन्द्रियं च साधात् । गुणपरिणामविशेषानानात्वं ग्राह्यभेदाच्च ।। २७ ।। उभयात्मकमत्र मनः । कर्मेन्द्रियेषु कर्मेन्द्रियम् , बुद्धी- न्द्रियेषु बुद्धीन्द्रियम् । यथा देवदत्तो गोपालमध्ये स्थितो गोपालवं कुरुते मल्लमध्ये स्थितो मल्लत्वं कुरुते । कस्मात् ? यस्मात् बुद्धीन्द्रिया- णां वृत्तिं सङ्कल्पयति कर्मेन्द्रियाणांच । तस्मादुभयात्मकं मनः। किं चान्यत् । इन्द्रियं च साधात् । सहधर्मस्य भावः साधर्म्यम् । यस्मात् कर्मेन्द्रियाणि बुद्धीन्द्रियाणि च सात्त्विकादहङ्कारादुत्प- धन्ते,मनोऽपि तस्मादेव उत्पद्यते। तस्मादिन्द्रियं मनः। तत्र मनसः का वृत्तिः ? सङ्कल्पो वृत्तिः । बुद्धीन्द्रियाणां शब्दादयो वृत्तयः, कर्मेन्द्रियाणां वचनादयः । एवमेकादशेन्द्रियाणि सह वृत्तिभि- ाख्यातानि । अत्राह-एकादशेन्द्रियाणि केन कृतानि पुरुषे. ण ईश्वरेण आहोश्वित् स्वभावेनेति । कुत इयमाशङ्केति चेत्, इमान्येकादशेन्द्रियाणि एकादशविषयग्राहकाणि भवन्ति ।
४४ साडधकारिका तत्रान्तःकरणप्रधानबुद्ध्यहङ्काराधचेतनम् । ततश्च नूनं चेतनेन पुरुषणश्वरेण वा स्वभावेनेति । अत्रोच्यते-गुणपरिणाम- विशेषान्नानात्वं ग्राह्यभेदाच । सत्वादयस्त्रयो गुणास्ने यथा परिणमन्ति तस्माद्गुणपरिणामविशेषादिमान्येकादशेन्द्रियाणि नाना । तदर्थानि भिन्नानि । शब्दस्पर्शरूपरसगन्धाः पश्चानां, वचनादानविहरणोत्सर्गानन्दाः पञ्चानां, सङ्कल्पश्च मनसः । एतेषामेव एकादशानामिन्द्रियाणि ग्राहकाणि भविष्यन्ति । अथै तन्नानात्वं नेश्वरेण न बुद्ध्या नाहङ्कारेण न प्रधानेन न पुरुष- ण न स्वभावेन कृतम्, गुणपरिणामेनेति । यद्यपि उक्तमचे- तनानां गुणानां वृत्तिरयुक्तति । तन्न । कस्मादिति चेत् , तदुच्य. ते । अचेतनानामपि प्रवृत्तिद्रष्टा । वक्ष्यति हि- 'वत्सविद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य । पुरुषस्य विमोक्षार्थ तथा प्रवृत्तिः प्रधानस्य ॥ इति । तस्मादचेतना अपि गुणा एकादशन्द्रियभावेन परिणमन्ति । अत्राह-गृह्णीमस्तावदेकादशेन्द्रियाण्यहङ्कारादुत्पन्नानीति । एने- पामिन्द्रियाणां यथास्थाननिक्षेपः केन कृतः । चक्षुरुच्चैः सन्नि- विष्टं दूरालोकने समर्थ भविष्यतीति । शिरःप्रदेशे श्रोत्रं सन्नि- विष्टं दगत् श्रवणसमर्थं भविष्यतीति । त्वक् शरीराभ्यन्तरे बहिश्च सन्निविष्टा नानास्पर्शग्रहणसमर्था भविष्यतीति । जिहा मन्तमुखसन्निविष्टा नानारसग्रहणसमर्था भविष्यतीति । एवं ना. सिका(१) वाक्। एचपिन्द्रियाणां निक्षेपः पुरुषेण वा कृत ईश्वरेण वा स्वभावेनेति । अत्रोच्यते-इह साङ्खये पुरुषेश्वरस्वभावा न कारणम् । किं तर्हि-अस्मिन्नहङ्कारे स्थितैः सत्त्वरजस्तमोभिस्त्रि. भिर्गुणौनिक्षेपः कृतः। तस्माद्यूमः-'गुणपरिणामाविशेषान्नानात्वं (१) अत्र 'वागादि च' इति पाठोऽपेक्षितः ।
माठरवृत्तिसहिता। ४५ ग्राह्यभेदाच' । गुणपरिणामविशेषादेकादशेन्द्रियाणां भेदः । ग्राह्य भेदाच्च । ग्राह्या एकादशोन्द्रयार्थास्तेषां भेदादपीन्द्रियाणां भेदः ॥ २७॥ अत्राह-का कस्य वृत्तिः ? उच्यते- रूपादिषु पञ्चानामालोचनमात्रमिष्यते वृत्तिः। वचनादानविहरणोत्सर्गानन्दास्तु पश्चानाम् ॥२८॥ मात्रशब्दो विशेषार्थः । यथा भिक्षामात्रं लभ्यते नान्यो विशेषः । तथा चक्षुः । गतार्थे आलोचनमात्रमिति । एकैकस्य प्रतीन्द्रियं स्वविषयग्रहणसामर्थ्यमेव । न हि चक्षुः श्रवणसमर्थ दानादानसमर्थ वा ॥ २८ ॥ अत ऊर्ध्व बुद्ध्यहङ्कारमनोवृत्तिं वक्ष्यामः । तदुच्यते- स्वालक्षण्या वृत्तिस्त्रयस्थ सैषा भवत्यसामान्या । सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च ॥२९॥ स्वालक्षण्यति । बुद्धरध्यवसाय उक्तः प्राक् लक्षणम् । तस्याः स एवाध्यवसायो वृत्तिः । एवमभिमानोऽहङ्कारलक्षणम् । तस्य वृत्तिरपि स एव । मनसः सङ्कल्पो लक्षणम् । तस्यापि स एव वृत्तिः । येन येन लक्षणेनामी लक्ष्यन्ते तेषां स एव वृत्तिः । एवं या बुद्धीन्द्रियाणां न सा कर्मेन्द्रियाणाम् । या च कर्मेन्द्रि- याणां न सा बुद्धीन्द्रियाणाम् । बुद्ध्यहङ्कारमनसा वृत्तिरभिहि. ता। साऽप्यसामान्या । अध्यवसायाभिमानसङ्कल्पलक्षणा । सैषा भवत्यसामान्या असाधारणा एक्मुक्त अर्थात् गम्यते सामान्याऽपि साधारणाऽपि वृत्तिरस्ति । यदपेक्षयाऽसामान्येत्यु- च्यते । एवमिन्द्रियाणामसामान्या वृत्तिराख्याता कुलस्त्रीस- स्थानीया । अत ऊर्च सामान्या वृत्तिरुच्यते । सामान्यकरण- सायकारिका वृत्तिः प्राणाद्या वायवः पञ्च। सामान्यकरणत्तिः-समस्त- स्यान्तःकरणस्येसर्थः। प्राणाया वायवः पञ्चेति प्राणापानोदान- समानव्यानाः सर्वेषामिन्द्रियाणां सामान्यं कुर्वन्ति । स प्राणो नाम यो मुखनामान्तरगो बाह्ये चास्य विषये वृत्तिः । प्राणनात् प्राण एष इत्यभिधीयते । अस्मिन् प्राणे यत् स्पन्दनकर्म तत् कत- मेन कृतम् इत्यत्रोच्यते-त्रयोदशविधेन करणेन कृतम् । यत- चैवम् तस्मात् प्राणकर्म सर्वस्य करणग्रामस्य वृत्तिः सामान्या । अपि चात्र दृष्टान्त:-यथा कस्मिंश्चित् राजगृहे पञ्जरे शुकाः प्रतिवसन्ति । तेभ्यो देवदत्तेन ओदनो दर्शिनः । ओदनं दृष्ट्वा सबै प्रचलिताः । तदा पञ्जरकमपि चलितम् । यत् पञ्जरस्य प्रचल- नं कर्म तत् सर्वेषां शुकानां सामान्यम् । तद्वत् प्राणे यत् स्पन्द- नकर्म तत् सर्वेषामिन्द्रियाणां सामान्यम् । किं चान्यत्-अपाने. नोत्सृजति । इतश्चापक्रमणादपान इत्युच्यते । अपानबहुलश्च देव- दत्तः सर्प दृष्ट्वा अपसर्पति एषोऽपानः । तस्मिनपाने यत स्पन्दन- कर्म तत् सर्वेषामिन्द्रियाणां सामान्या वृत्तिः । आरोहणादर्थोत्कर्षे उदान इत्यभिधीयते। नाभिप्रदेशादुत्थितं गच्छति। उदानवृत्तिश्च देवदत्त आनन्दोत्कर्ष मृगयति । अहमादयोऽस्मादाब्यतरः कथं स्यामित्येष उदानः । अस्मिन्नुदाने यत्स्पन्दनकर्म तत् सामान्या वृत्तिः सर्वेन्द्रियाणाम् । किश्चान्यव-हृयवस्थानं सहभावश्च तेन समानः । यो वायुः हृद्देशे वर्तते स समानः । तद्बहुलश्च एकाकी न रमते एष समानः । तस्मिन् यत् स्पन्दनकर्म तत् सर्वेन्द्रि- याणां सामान्यत्तिः । किश्चान्यत्- शरीरव्यापित या व्यानः । आनखादाकेशान्तं शरीरं व्याप्य अनति चलतीति व्यानः । व्यानबहुलो देवदत्तश्च अत्यन्तमन्येन विना रमते । तस्मिन् व्या. यत् स्पन्दनकर्म तत् सर्वेषामिन्द्रियाणां सामान्पत्तिः । ने माठरवृत्तिमहिना। ४७ तदेवं सामान्यकरणत्तिः पाणाद्या वायवो व्याख्याताः ॥२९।। वृत्तिं व्याख्यास्यामः । तदुच्यते- युगपञ्चतुष्टयस्थ हि वृत्तिः क्रमशश्च नस्य निर्दिष्टा । दृष्ट तथाऽप्यदृष्ट त्रयस्थ तत्पूर्विका वृत्तिः ॥३०॥ बुद्धिरहङ्कारो मनश्चक्षुरित्येतानि चत्वारि युगपत् रूपं प- श्यन्ति अयं स्थाणुरयं पुरुष इति । एवं शब्दं स्पर्श रमं गन्धं. चत्वारि युगपत् गृह्णन्ति । एवमेषा युगपञ्चतुष्टयस्य वृत्तिः । किं चान्यत् । क्रमशश्च तस्य निर्दिष्टा बुद्ध्य हङ्कारमनश्चक्षुश्चतुष्टय- स्य क्रमशो वृत्तिर्भवति । द्वारिद्वारविभागोपदेशात् इस्वकालत्वात् विभागो न शक्यते वक्तुं ततो युगपदित्युच्यते । यथा बाल. पत्रशतं सूच्यग्रेण विद्धमिति । तद्यथा । देवदत्तः पन्थानं गच्छन् स्थाणुं पश्यति तत्र तस्य संशयो भवति किमयं स्थाणुरुत पुरुष इति । तत्र स्थाणुरूपं पश्यति शकुनिं च तत्रस्थं तनोऽस्य बुद्धिर्भवति स्थाणुरयमिति । आकुञ्चनप्रसारणे करोति ततोऽपि पुरुषोऽय- मिति प्रतीतिः । एवं बुद्ध्यहङ्कारमनश्चक्षुषां क्रमशो वृत्तिदृष्टा च- क्ष रूपं पश्यति, मनः सङ्कल्पयाति, अहङ्कारोऽभिमानयति, बुद्धि- रध्यवस्यति । एवं रसनादिष्वपि द्रष्टव्यम् । किं चान्यत्-दृष्ट तथाऽप्यदृष्टे । (१)त्रयस्य तत्पूर्विका वृत्तिः । तच्छब्देन समनन्तरोक्तानि बुद्धीन्द्रियाणि भवन्ति । रूपे चक्षुःपूर्विका, श- ब्दे श्रोत्रपूर्विका, स्पर्शे त्वक्पूर्विका, रसे जिलापूर्विका, गन्धे घ्रा- णपूर्विका बुद्ध्यहङ्कारमनसां वृत्तिरिति ॥ ३० ॥ अत्राह--अचेतनानीन्द्रियाणि बुद्ध्यहङ्कारौ मनश्चेति । केन हेतुना स्वां स्वां वृत्ति प्रतिपद्यन्ते इत्यत्राह- - (१) किश्चित् त्रुटितं भाति ।
साङ्ख्यकारिका - स्वां स्वां प्रतिपद्यन्ते परस्पराकूतहेतुकां वृत्तिम् । पुरुषार्थ एव हेतुर्न केनचित् कार्यते करणम् ॥ ३१ ।। स्त्री स्वामिति वीप्सामिच्छन्ति । (इति त्रयोदशविधस्य कर- णस्य ग्रहणं कृतं भवति)। प्रतिपद्यन्ते गृहन्तीत्यर्थः । किं चान्यन्- परस्पराकूतहेतुकांवृत्तिम्।बुद्धेराकूनं ज्ञात्वा अहङ्कारोऽभिमा- नयति, मनः मङ्कल्पयति, इन्द्रियाणि स्वां स्वां वृत्तिं प्रतिपद्यन्ते । आकूतं नामाभिप्रायः। यथा किल चौरसेना ग्रामं हन्तुं गच्छति तत्र चौरसेनापतिना सङ्केतः कृतोऽस्ति यदाऽहं हा हेति ब्रवीमि सदा सर्वैः समवायेन प्रवेष्टव्यम् । यदा पुनरहमहा हेति ब्रवीमि तदा निर्गन्तव्यम् । एतां चौरसेनापतेराज्ञामाकूतं ज्ञात्वा चौराः प्रविशन्ति निर्गच्छन्ति च । तथेह चौरसेनापतिस्थानीया बुद्धिः चौरस्थानीयानीन्द्रियाणि। किं स्वार्थ विषयं प्रतिपद्यन्ते आहो- स्वित् परार्थमिसत्रोच्यते । परार्थ गम्यते । यस्मादाह-पुरुषार्थ एव हेतुः पुरुषार्थः कर्तव्य एव इति गुणानां प्रवृत्तिः । तस्मा- देतत् त्रयोदशविधं करणं पुरुषार्थः प्रवर्तयति । यदप्युक्तम्- अचेतनानि करणानि कथं प्रवर्तन्त इति । अत्र ब्रूपः-न केन चित् कार्यते करणम् । नेश्वरेण नापि पुरुषेण । स्वभावो नाम कश्चित्पदार्थो (ना)स्ति । यस्मात्स्वयमेव च त्रयोदशविध करणं स्वे स्वे विषये प्रवर्तते इति ॥ ३१ ॥ अत्राह-उक्तं च भगवता न केन चित् कार्यते करणमिति । तत् कतिविधं करणमिति ? अत्रोच्यते- करणं त्रयोदशविधं तदाहरणधारणप्रकाशकरम् । कार्य च तस्य दशधाऽऽहार्य धार्य प्रकाश्यं च ॥ ३२ ॥ यदा करणमित्युक्तं तत् त्रयोदशाविधमिति बोध्यम् । पश्च माठरवृत्तिसहिता। कर्मेन्द्रियाणि, पश्च बुद्धीन्द्रियाणि, बुद्ध्यहङ्कारौ मन इति एतत् त्रयोदशविधं करणमिति । अत्राह-आहारकं धारकं प्रकाशकं च तदिति । तत्राहारकमिन्द्रियलक्षणम् । धारकमभिमानलक्षणम् । प्रकाशकं बुद्धिलक्षणम् । अत्राह-किं तदस्ति यस्याहरणं धारणं भकाशनं च क्रियते । अत्रोच्यते-कार्य च तस्य दशधाऽऽहाय धार्य प्रकाश्यं च । कार्यमिति शब्दस्पर्शरसरूपगन्धाः पञ्च, वचनादानविहरणोत्सर्गानन्दाः पञ्च । एते दश विषयाः का- यमित्युच्यते । तं दशविधं विषयं बुद्धीन्द्रियैः प्रकाशितमर्थ कर्मे- न्द्रियाण्याहरन्ति धारयन्ति च । तद्यथा तमसि स्थितं प्रदीपेन प्रकाशितं घटं हस्त आदत्ते धारयति च । तदेवं यथा घटं तथा शेपाण्यपि ॥ ३२ ॥ अन्तःकरणं त्रिविधं दशधा बाह्यं त्रयस्य विषयाख्यम्। साम्प्रतकालं बाह्यं त्रिकालमाभ्यन्तरं करण ॥ ३३ ॥ . अन्तःकरणं त्रिविधमिति बुद्ध्यहङ्कारमनसां ग्रहणम् । एतत् त्रिविधमन्तःकरणसंज्ञितम् । दशधा बाह्यं बुद्धिक- मेन्द्रियभेदात् । किं चान्यत् । त्रयस्य विषयाख्यं बुद्ध्य- हङ्कारमनसां त्रयाणामन्तःकरणानां बाह्यं दशविधं करणं विषयाख्यं विषय उपभोग्यमिति । आभ्यन्तरं त्रिकं स्वा- मिभूतं बाह्यं दशविधं भृत्यभूतमित्यर्थः । कि चान्य- व-साम्प्रतकालं बाह्यम् । यदेतद्वाह्यं दशविधं करण- मुक्तं तत् साम्प्रतकालं वर्तमानविषयग्राहकं भवति । श्रोत्रत्व- चक्षुर्जिहाघ्राणानि वर्तमानान्येव शब्दादीनि गृह्णन्ति । नाती- तानि न च भावीनि । एवं वाक्पाणिपादपायपस्थानि वर्तमानेषु वचनादेयभुमिमलोत्सर्गानन्देषु प्रवर्तन्ते नातीतभविष्यतोः ।
सायकारिका - - किंचान्यत्-त्रिकालम् आभ्यन्तरं मनोऽहङ्कारबुद्धिरूपं करणं प्रवर्तते । बुद्धिर्वर्तमानं घट बुद्ध्यते अतीतं भविष्यन्त च स्मर- ति । तद्यथा-युधिष्ठिरभीमसेनावास्ताम् अतीतविषयग्राहिणी बुद्धिः । कल्की भविष्यति भाविवस्तुग्राहिणी । एवमहङ्कारोऽपि त्रिकालवान् । यथाऽहमस्मिन् गृहे स्वामी आसं भविष्यामि चेति । एवं मनोऽप्यतीतं सङ्कल्पयति वर्तमानं भावि च । यत एवं तस्मादुच्यते 'त्रिकालमाभ्यन्तरं करणम्'इति ॥ ३३ ॥ अत्राह-कानि इन्द्रियाणि सविशेष विषयं गृह्णन्ति, कानि निर्विशेषम् । अत्रोच्यते- बुद्धीन्द्रियाणि तेषां पञ्च विशेषाविशेषविषयाणि। धारभवति शब्दविषया शेषाण्यपि पश्च विषयाणि॥३४॥ तेषाम् करणानां मध्ये येषामयमधिकारो वर्तते तेषां यानि बुद्धीन्द्रियाणि श्रोत्रत्वक्चक्षुर्जिहाघ्राणानि पञ्च तानि सविशेष गृहन्ति अविशेषमपि विषयं गृह्णन्ति । अत्राह-कस्य सविशेष विषयं गृह्णन्ति कस्य निर्विशेषमिति । अत्रोच्यते शब्दस्पर्शरस- रूपगन्धाः पञ्च देवानां तन्मात्रसंज्ञिता निर्विशेषाः केवलमुखल- क्षणत्वात् । यस्मात्तत्र दुःखमोहौ न स्तः तस्मानिर्विशेषास्ते इति । तथा हि । विशिष्यन्ते शान्तघोरमूढत्वादिनेति विशेषाः तैः सह सविशेषाः, केवला निर्विशेषा इति तात्पर्यम् । एवं शब्दादयो मनुष्याणां सविशेषाः सुखदुःखमोहयुक्ता इत्यर्थः । देवानां तु बुद्धीन्द्रियाणि निर्विशेषं सुखात्मकं प्रकाशयन्ति । उक्तानि बुद्धी- न्द्रियाणि देवानां मानुषाणां च । कर्मेन्द्रियाणि वक्ष्यामः । वाग्भवति शब्दविषया शेषाण्यपि पश्च विषयाणि । सत्र देवानां वाक् पादं पादाध श्लोकमुच्चारयति । अस्माकमपि माटरवृत्तिसाहिता। तथैव । अतो देवानामस्माकं च वागिन्द्रियं तुल्यमित्यर्थः । किं चान्यत्-शेषाण्यपि पञ्चविषयाणि इति । तेषां चतुर्णामेकैक पञ्चविषयम् । पाणिस्तावत् शब्दस्पर्शरसरूपगन्धयुक्तः । एवं पञ्चलक्षणमेव पाणीन्द्रियं सन्निकृष्ट पश्चलक्षणं घटं गृह्णाति । (यस्मात् पश्चलक्षणं हस्तं इस्तेन्द्रियं च) । एवं शब्दादिपञ्चल- क्षणः पादः पञ्चात्मिकायामेव भुवि विहरति । एवं पञ्चलक्षणे पायू- पस्थे अपि पञ्चलक्षणावुत्सर्गानन्दौ कुरुतः । तस्मात् युक्तम- भिहितम्-'शेषाण्यपि पश्चविषयाणि' इति ॥ ३४ ॥ इदानी बुद्धिविषयख्यापनाय इदमुच्यते-- सान्तःकरणा बुद्धिः सर्व विषयमवगाहते यस्मात् । तस्मात्रिविधं करणं द्वारि द्वाराणि शेषाणि ॥ ३५ ॥ सान्तःकरणा अन्तःकरणे अहंमनसी ताभ्यांसह वर्तते या बुद्धिः सा तथोक्ता। सा बुद्धिः सर्व विषयं निरवशेष त्रिष्वपि का- लेषु यस्मादवगाहते व्याप्नोति गृहाति शब्दाचं पञ्चविधं तस्मा- देव तन्मनोबुद्ध्यहङ्कारलक्षणं त्रिविधमेव करणं साधनं, क्रियते ऽनेनेतिकृत्वा । शेषाणि पुन: द्वारि बाह्ये यानि बुद्धिकर्मेन्द्रिय- तया प्रतीतानि श्रोत्रवाक्प्रभृतीनि दश तानि तस्या एव मनो. ऽहकारयुक्ताया बुद्धेविषयग्रहणाय द्वाराणि प्रतीकान्येव न तु करणतया सान्वयानि । तथा एतैदर्शभिरैः सान्तःकरणा बु- दिरेव विषयान् गृह्णातीति त्रिविधमेव करणमित्यर्थः ॥ ३५ ॥ किश्चान्यत्- एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः । कृत्स्नं पुरुषस्यार्थ प्रकाश्य वुद्धौ प्रयच्छन्ति ॥ ३६ ॥ एते इति बुद्धिकर्माकरणभेदाः त्रयोदश प्रदीपकल्पाः ..
साङ्ख्यकारिका - प्रदीपतुल्याः । किं चान्यत् । परस्परविलक्षणाः । भिन्नलक्षणा विसदृशा इयर्थः । श्रोत्रं हि शब्दं गृह्णाति, न स्पर्शादीन् । एवमितरत्र । वाग्वक्त्येव न गृह्णाति गच्छति विहरत्यानन्दति । एवं पाण्यादिषु । मनः सङ्कल्पयति नाहं कुरुते । अहङ्कारश्वाभिमनुते न सङ्कल्पयति । एवं द्वादशापि स्वं स्वमर्थ पुरुषभोग्यतया प्रकाश्य बुद्धौ प्रयच्छन्ति निक्षिपन्ति । तत् बु. द्विस्थं विषयं सुखदुःखाचं पुरुष उपलभते ।। ३६ ॥ किश्चान्यत् - मर्व प्रत्युपभोगं यस्मात्पुरु त्रस्य साधयति बुद्धिः । सैक च विशिनष्टि ततः प्रधानपुरुषान्तरं सूक्ष्मम् ॥३॥ निर्विशेषं त्रिष्वपि कालेषु यो यो विषयं प्रति उपभोगो देवतिर्यक्योनिषु तं तं पुरुषस्य यस्मात् हेतोः बुद्धिरेव साध- यति निष्पादयति । राजामात्यवत् । यथा सर्वेषां भृत्यानां म- न्त्री उपलब्धि विधाय राजनि निवेदयति । एवं कर्मेन्द्रियाणि प्रकाश्य बुद्धौ प्रयच्छन्ति । बुद्धिरपि पुरुषाय प्रयच्छति समर्प- यति । अनेन प्रकारेण बुद्धिरभ्युदयफलेन यावज्ञानं नोत्पद्य- ते तावत् पुरुषं योजयति । स्वैरिणीव कामुकं मुढविज्ञानं घृता- ग्रुपचारैः । बुद्धिप्रेरिता अहंमनोबुद्धिकर्मेन्द्रियाख्या विषयान् न स्वार्थ न च बुद्ध्यर्य किं तु पुरुषार्थमेव साधयन्ति । यथा सलक्ष्मीकस्वैरिणीगृहे दास्यस्तदादेशेन रसवतीं न स्वार्थ न च स्वामितयाऽवस्थितस्वैरिण्यर्थ किं तु तयापहृतविवेकविज्ञान- स्य कामुकस्य कृते निर्वर्तयन्ति तद्वत् । यावदसौ विमूढस्ता- घदनया बुद्ध्या स्वैरिण्येव कामुको विषयैरुपहियते । यदासौ कथमपि गुरुशास्त्रात्मानुभवादिभिरात्मानं चेतयते तदा स्वैरि- माठरवृत्तिमहिना। णीव बुद्धिरपि पुरुषं विहाय संशाम्यति । ततोऽसौ केवल. तयाऽवतिष्ठते । तदनुभवावस्थितिर्मुक्तिरिति यत् किश्चिदिदम- प्रस्तुतम् । प्रस्तुतमुच्यते। किञ्चान्यत् । अतः सैव च विशिन- ष्टि ततः प्रधानपुरुषान्तरं सूक्ष्मम् । सूक्ष्म दुर्विज्ञेयम् । प्र. धानपुरुषान्तरं नानात्वम् । सूक्ष्मत्वादतीव दुर्बोधमिति यावत् । बुद्धिर्हि अध्यवसायात्मिका स्वव्यापारेण चाध्यवसायेन सा- धयति । अहङ्कारेन्द्रियतन्मात्रभृताध्यवमायेन जगत् प्रधान- पुरुषान्तरविवेचनेन विविच्य स्वयं म्रियते । अत एवोक्तम्- अहङ्कारो धियं ब्रूते मैनं मुप्त प्रबोधय । प्रबुद्धे परमानन्दे न त्वं नाहं न तज्जगत् ॥ मयि तिष्ठत्यहङ्कारे पुरुषः पञ्चविंशकः । तत्त्ववृन्दं परित्यज्य स कथं मोक्षमिच्छति ।। योऽसौ सर्वेश्वरो देवः सर्वव्यापी जगद्गुरुः । देहीतिपदमुच्चार्य हा मयात्मा लघुः कृतः ॥ अकृतपुण्यचरणैर्न मायं प्रधानपुरुषयोनानात्वम् । तयोरे- वान्तरं दर्शयति । त्वमन्यमात्मानं न वेत्सि । प्रधानमन्यत् । सत्त्वरजस्तमांसि त्रयो गुणाः प्राधानिका अमूर्ताः साम्या- वस्थायां प्रधानाख्याः । तेषामेकतमोद्रेकात्रिगुणा बुद्धि- रन्या, अन्योऽहङ्कारः, पञ्चतन्मात्राण्यन्यानि, एकादशेन्द्रिया- ण्यन्यानि इति बुद्धा तत्त्वानि मोक्षं गच्छन्ति । न हि भगवतः कपिलस्य मते किमपि कर्तव्यमनुष्ठेयतया, किं तु साङ्ख्यानां पञ्चविंशतितत्त्वज्ञानमेव साधर्येण वैधयेण च निःश्रेयसहेतुः । उक्तं च- इस पिब लल मोद नित्यं विषयानुपभुञ्ज कुरु च मा शङ्काम् । यदि विदितं ते कपिलमतं तत्माप्स्यसे मोक्षसौख्यं च ॥३७ ।
मायकारिका अत्राह-उक्तं भगवता पूर्वस्यामार्यायां 'विशेषाविशेषविष- याणीन्द्रियाणि' इति । तत्र के विशेषा केऽविशेषा इति । अत्रोच्यते- तन्मात्राण्यविशेषास्तेभ्यो भूतानि पञ्च पञ्चभ्यः । एते स्मृता विशेषाः शान्ता घाराश्च मूढाश्च ॥ ३८॥ यानि भूतादिसंज्ञातामसादहङ्कारादुत्पन्नानि पञ्च तन्मात्रा- णि शब्दादीनि तान्यविशेषा इत्युच्यन्ते । देवानां तन्मा- पाणि सुखलक्षणा विषयाः तत्रापि रजस्तमसी स्तः किं तु त. त्र सत्वमुत्कटत्वेन वर्तते तस्मादविशेषा इत्युच्यन्ते । न वि- शिष्यन्ते शान्तघोरमूढत्वादिभिः सत्त्वोद्रेकात् केवलसुखतया इत्यर्थः । तर्हि विशेषाः के ? अत्राह-तेभ्यो भूतानि पञ्च पञ्चभ्यः । शब्दादिभ्यः पञ्चभ्यः आकाशादीनि पञ्चमहाभू- तानि पूर्वपूर्वानुप्रवेशादेकद्वित्रिचतुष्पञ्चगुणान्युत्पद्यन्ते । विशेषाः । अत्राह-एतेषां किं लक्षण- मिति । अत्रोच्यते । एतानि पञ्च महाभूतानि मनुष्याणां विष- याः । शान्ता घोरा मूढाश्च । तत्राकाशं शान्तं घोरं मुद्धं च । शान्तं तावत् सुखलक्षणम् । यथा कश्चिद्गर्भगृहात् निष्क्रान्तः अवकाशस्थितः तस्य तदाकाशं सुखहेतुत्वाच्छान्तं स्यात् । तदेवोष्णशीतवातादिसंयोगात् दुःखत्वात् घोरं स्यात् । पथि गच्छतः कान्दिशीकस्य केवलं सर्वत्राकाशं पश्यतो मार्गाधनभिज्ञस्य पुंसस्तदेव मुढं स्यात् । एवं वायौ त्रैविध्यम् । यथा गर्भगृहवासिनो वातायनद्वारेण वायुः प्रविशन् सुखहेतु- त्वाच्छान्तः । तेनैवोष्णमासि सम्पन्नेन दुःखोत्पादकतया दुःखी स्यात् इत्यसौ वायुर्घोरः । स एव वायुः शीतकाले शीतं ज- नयन् मूढः । एवमग्निः शीतार्तस्य शान्तः । ग्रीष्मकाले तापात- एते स्मृता माठरवृत्तिसहिना। ५५ । स्य घोरः । ग्रामादिदाइ प्रवृद्धोऽग्निः पुंसो मोहोत्पादकतया मूढः । एवमापो घर्तिस्य सुखदत्वाच्छान्ताः । हेमन्ते दुःखद- त्वात् घोराः । समुद्रमध्यगतस्य पुंसः तीरमपश्यतो मोहहेतुत्वा- न्मूढाः । एवं पृथ्वी नवशाहलोपचिता प्रावृषि सुखकारिणीति शान्ता । ग्रीष्मकाले उष्णवालुका घोरा । सैव पथिकस्य मागा- नभिज्ञस्य प्राणिग्रामाद्यपश्यतो मूढा । एवं देवानां निर्विशेषा वि- षयाः । तन्मात्रसंज्ञिता निर्विशेषाः केवला एवानन्दमयाः शा. न्तघोरमूढतयाविशिष्टाः स्वभावरूपाः शर्कराकटुतिक्तादिरसा निश्चितं स्वभावमाधुर्यामृता उपमेयसुखशालिक्षीरमिव । माधुर्य क्षारकवादिपार्थिवगुणसंपृक्तं स्वभावरसं जलमिवामी विष: याः(१) । देवानामेवं निर्विशेषाः स्युः । तन्मात्रसंज्ञिताः सुग्वलक्ष- णा एव । मनुष्याणां वियदादिभूतमयत्वात् भूतानीव सुखदुःख. मोहलक्षणास्ते इत्यर्थः ॥ ३८ ॥ अत्राह-किमेतावन्त एव विषयाः, न हि । किं त्वन्येऽपि सन्ति । के पुनस्ते इति ? उच्यते । सूक्ष्मा मातापितृजाः सह प्रभूतस्त्रिधा विशेषाः स्युः सूक्ष्मास्तेषां नियता मातापितृजा निवर्तन्ते ।। ३९ ।। तत्र सूक्ष्मास्तावत् पञ्चतन्मात्रकाः तैरेवादिसर्गे: सूक्ष्मशरी- राणि त्रयाणामपि लोकानां प्रारब्धानि । तत् सूक्ष्मशरीरम- तुकाले मातुरुदरं प्रविशति । मातू रुधिरं पितुः शुक्रम् । वेदा- न्तवादिनोऽप्येवमाहुः । प्राणिनः स्वर्गनरकादिषु स्वकर्मभो- गानन्तरमत्राजिगमिषवः सोममण्डले लीना भूत्वा वृष्टयो भव- न्ति । ततोऽत्रम्, तत् स्त्रीपुंसाभ्यामुपभुक्तं शुक्रशोणिते, ततः पुरुष इति । "वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषव- सायकारिका चस (छां० उ० अ० ५ नं. ३ कं० ३।) इत्यारभ्य "इति तु पश्चम्यामाहुतावाप" (छो० उ० अ० ५ खं० ९ कं० १) इत्याहुः । पुराणेष्वपि सोमवृष्ट्यभरेतांसि पुरुषस्तत्र पश्चमः । स जीवत्यग्नये पश्चाद्धरन्त्यस्माद्यतोऽभवत् ।। इति । तदेवं सूक्ष्मशरीरस्योपचयं करोति । मातुरशितपीना- भरसो मातृनाडीसम्बन्धेन प्रविश्य सूक्ष्मशरीरस्य शुक्रशोणि. तमयस्योपचयं कुरुते । मातुश्च नाड्या बालस्य नाभिरन्ध्र प्रविशति । यथैकेन मार्गेण शाकवाटस्याप्यायनमुदकं करोति । एवमन्नपातस्य रसो मातृनाडीगतो बालस्य नाभिं प्रविशति । प्रविश्य बालशरीरस्याप्यायनं करोति । तत्र सूक्ष्मशरीरस्याक- तिः यादृग्लक्षणा बहिःशरीरस्य भवति हस्तपादाशरःपृष्ठो दरजङ्घागुल्फ इति । अपि च शिष्टा वदन्ति बहिःशरीरं षा- ट्रकौशिकमिति । रुधिरमासत्वर्चा मातृजा स्नायवस्थिमज्जानः पितृजाः । एवमेतद्वाह्यशरीरमाभ्यन्तरसूक्ष्मशरीरस्योपचयं कुरु- ते । तस्यैव बहिःशरीरापचितस्य सूक्ष्मशरीरस्य प्रसवका. ले योन्या निर्गतस्य मातुरुदरात् बाह्यानि पञ्चमहाभूतानि पृथिव्यादीनि विहरणसंस्थानीयानि कृतानि । यथा कस्य चि. व राजकुमारस्य मातापितृभ्यामुपचितस्य पञ्चमहाभूतानि - तानि । आकाशमवकाशने, भूमिर्विहरणे, आपः पिण्डीकरणे शुद्धौ च, अग्निराहारपचने, वायुयुंहने अस्य शरीरस्यैवमेते विशेषाः त्रिविधाः । सूक्षमा मातापितृजाः सह प्रभूतैः । प्र इत्युपसर्गः । एवं सूक्ष्मा मातापितजा भूतानि चेत्यर्थः । तानि च पृथिव्यादीनि । एवमेते त्रिधा विशेषाः । ये चान्ये प्रा- गभिहिता विशेषाः शान्ता घोरा मूढाश्च । अत्राह-एतेषु त्रिष्वपि माठरवृत्तिसहिता। विशेषेषु के नित्याः केऽनित्या इत्यत्रोच्यते-सूक्ष्मास्तेषां नियताः । सूक्ष्मा इति पैरादिसर्गारम्भस्ते नियता नित्या इत्यर्थः । तैरारब्धं सूक्ष्मशररिमस्मिन् स्थूलशरीरे पतति तदधर्मेण संयुक्तं पशुमृगपक्षिसरीसृपस्थावरान्तानि पञ्च स्थाना- नि पश्यति । धर्माधर्मयोः साम्येन ब्राह्मणादीनि चण्डालान्ता- नि पश्यति । एवं सूक्ष्मशरीरं नियतं यावत् संसारमित्यर्थः । तत् यावत् ज्ञानं गुणपुरुषान्तरोपलब्धिरूपं नोन्पद्यते तावत्सं- सरति उत्पन्ने ज्ञाने निवर्तते । तस्मिंश्च निवृत्ते पुरुषो मोक्षं गळलि । उक्तं च- देहे मोहाश्रये भग्ने युक्तः स परमात्मनि । कुम्भाकाश इचाकाशे लभते चैकरूपताम् ।। "यथा दर्पणाभाव आभासहानी" इत्यादि । तस्मादेतत् सूक्ष्मम(१) । मातापितृजा निवर्तन्ते तत् सूक्ष्मशरीरं परित्यज्य मरणकाले मातापित् पतति । तत् सूक्ष्मशरीरं ज्ञानमविदुषां संसरति ॥ ३९ ॥ अत्राह-उक्तं च भगवता-मातापितजा निवर्तन्ते तत् सूक्ष्म संसरतीत्यर्थः । (२)अनोच्यते- पूर्वोत्पन्नमसक्तं नियतं महदादिसूक्ष्मपर्यन्तम् । संसरति निरुपभोगं भावरविवासित लिङ्गम् ॥ ४० ॥ पूर्वोत्पन्नमित्यादि । सर्गोत्पत्रमित्यर्थः । पावत् ज्ञानं नो. त्पद्यते तावत् संसारे स्थिरतरं स्थितमित्यर्थः । किश्चान्यत्-अ: सक्तं, कचिन्न सक्तमित्यसक्तम् देवमानुषतिर्यक्षु सूक्ष्मत्वात् । नियतं नित्यमित्यर्थः । पञ्च कर्मेन्द्रियाणि पश्च बुद्धीन्द्रियाणि (१) अत्र 'नियतम्' इत्यपेक्षितम् । (२) अत्र 'कथमिति चेत्' इत्यपेक्षितम् । । - .
५८ सायकारिका पञ्च तन्मात्राणि मनोबुद्धिरहङ्कार एवमष्टादश-महदादिसूक्ष्म पर्यन्तमिति । महान्यस्यादौ, सूक्ष्माणि तन्मात्राणि शब्दादिवि षयाख्यान्यन्ते यस्य तत्तथोक्तम् । अन्तःकरणबहिःकरणानि त्रयोदश तन्मात्राणि पञ्च चेति । अत्राह-तत्किं करोति । अत्रो- च्यते-संसरति देवमानुषतिर्यक्योनिषु जीवभाव मागच्छति । तद्धि निरुपभोगं शब्दादयो विषया उपभोगास्तविरहितम् । त्रयोदशकरणात्मकमेवेत्यर्थः । भावैरधिवासितं देवमानुषति- यभावाधिवासितमेवेत्यर्थः । यथा तिलपतनवस्त्रवासनवत् ? तद्वत् शान्ता भावा भवन्ति । देवभावाः शुभेन मिश्रेण मानुषा अशुभेन तिर्यक्त्वं । लिङ्गं प्रलयकाले प्रधाने लयं गच्छति इति लिङ्गम् । प्रकर्षेण धीयते क्षिप्यतेऽत्र सर्वमिति प्रधानम् ॥ ४१ ।। अत्राह-सूक्ष्मशरीरेण नास्ति प्रयोजनम् । तर्हि त्रयोद. शविधं करणमेव कथं संसरतीति ? अत्रोच्यते- चित्रं यथाऽऽश्रयमृते स्थापबादिभ्यो विना यथा छाया। तदछिना ऽविशेषैस्तिष्ठति न निराश्रयं लिङ्गम् ॥४१॥ इहाश्रयाश्रयिणोः सम्बन्धो दृष्टः । न ह्याश्रयं विनाऽऽश्र. यी तिष्ठति । कुड्यपटाश्रयं कृत्वा चित्रमवतिष्ठते । तदिदं सूक्ष्म- शरीरं कुड्यपटस्थानीयं चित्रसंस्थानीयं त्रयोदशविधं करणम् । तदेवं सति यदुक्तं भवता त्रयोदशाविधं करणमेव संसरति इति त- न्मिथ्याकिं चान्यत्-स्थाण्वादिभ्यो विना यथा छाया इति । स्थाणुपुरुषादिभिर्विना यथा छाया न भवति । छायां विना ते च न भवन्ति । यथाऽमिना विना प्रकाशो न भवति । तददिना. विशेषैस्तिष्ठति न निराश्रयं लिङ्गमिति । अविशेषा इति तन्मात्राणि स्वाभाविकक्षीरजलवत् शान्तघोरमूढत्वरहितत्वात् ।
माठरवृत्तिसाहिता। तैरारब्धं सूक्ष्मशरीरम् । तेन सूक्ष्मशरीरेण सर्गादिप्रारब्धेन विना निराश्रयं त्रयोदशकरणाख्यं लिङ्गं न तिष्ठति । अतो यदुक्तं भवता 'किमविशेषेरारब्धसूक्ष्मशरीरकल्पनया प्रयोजनं त्रयोद. शविधं करणमेव संसरति इति' तत् मिथ्या ॥ ४१ ॥ अत्राह-मूक्ष्मशरीरं त्रयोदशविधकरणसम्पन्नं केन हेतु- ना संसरतीति ? अत्रोच्यते- पुरुषार्थहेतुकमिदं निमित्तनैमित्तिकप्रसङ्गेन । प्रकृतर्विभुत्वयोगानटवयवतिष्ठते लिङ्गम् ॥ ४२ ॥ पुरुषार्थः कर्तव्य इति प्रधानस्य तावत् प्रवृत्तिः । स चार्थों द्विविधः । शब्दाधुपलब्धिलक्षणो गुणपुरुषान्तरोपलब्धिलक्ष- णश्च । शब्दायुपलब्धिर्ब्रह्मलोकादिषु भोगावाप्तिर्गुणपुरुषा. न्तरोपलब्धिर्मोक्ष इति । तस्मादुक्तम्-पुरुषार्थहेतुकमिदं सूक्ष्मशरीरमिति । किंचान्यत्-निमित्तनैमित्तिकप्रसङ्ग- न । तत्र निमित्तं धर्माद्यष्टविधम्(१) । तत् पुरस्तात् व- क्ष्यामः 'धर्मेण गमनमूर्ध्वम्' इत्यादि । प्रकृतिः प्रधानम् । विभु. त्वं प्रभुत्वं तस्य योगात् (तद्विभुत्वयोगात्) । यथा कश्चित् राजा प्रभुत्वयोगेन स्वराष्ट्र यत् यत् इच्छति तत् तत् करोति । एवं प्रधा- नमपि प्रभुत्वयोगेन मानुष्यं वा दैवं वा तैर्यक्योन्य वा कुरुते । एवं सूक्ष्मशरीरं त्रयोदशविधेन करणेन संयुक्तं हस्तिन्या उदरं प्रविश्य हस्ती भवति । स्त्रीशरीरं प्रविश्य मनुष्यो भवति । (२)प- शुर्भवति । तस्मात् न(३) दवत् व्यवतिष्ठते लिङ्गम् ॥ ४२ ॥ (१) अत्र 'नैमित्तिकमूर्ध्वगमनादि'इत्यपेक्षितम् । (२) अत्र 'पशुशरोरं प्रविश्य' इत्यपेक्षितम् । (३) यथा नटः पटान्तरेण प्रविश्य देवो भून्वा निर्गच्छति पु- साङ्ख्यकारिका अगह-उक्तं पुरा भावैरधिवासित लिङ्गं सूक्ष्मशरीरं सं. सरति । तत्के भावा इति ? अत्रोच्यते-- सांसिद्धि काश्च भावाः प्राकृतिका वैकृताश्च धर्माद्याः। दृष्टाः करणाश्रयिणः कार्याश्रथिणश्च कललाद्याः ॥४॥ त्रिविधा भावाश्चिन्त्यन्ते । तत्र केचित् सांसिद्धिकाः, के. चित् प्राकृतिकाः, केचित् वैकृताः । तत्र सांसिद्धिकास्तावत् । यया कपिलस्य भगवतः परमर्षेरादिसर्ग उत्पन्नस्य इमे चत्वा. रो भावाः सहोत्पन्ना धर्मों ज्ञानं वैराग्यमैश्वर्यमिति । एते सांसिद्धिका उच्यन्ते । प्राकृतिका नाम ब्रह्मणः पुत्राः किल सनकादयो बभूवुः । तेषामुत्पन्नकार्यकारणानां शरीरवतां षोड- शवर्षीणामेवैते चत्वारो भावा अकस्मादेवोत्पन्ना निधिदर्शनव- त् । एते च प्राकृतिका भावा उच्यन्ते । वैकृतिका यथा-आचा. र्यादिमूर्तिमधिकृत्य उत्पन्ना वैकृतिका इत्युच्यन्ते । आचार्य निमित्तं कृत्वा ज्ञानमुत्पद्यते । ज्ञानात् वैराग्य, वैराग्याद्धर्मो, धर्मादेश्वर्यम् । एवमेते चत्वारो भावा अस्मदादिष्वपि वर्तन्ते । तदेवं वैकृता इत्युच्यन्ते । एवमेते विधा भावा व्याख्याता ये- रधिवासितं महदादि लिङ्ग संसरति । अत्राह-धर्मो, ज्ञानं, बैरा- ज्यमैश्वर्यम् अधर्मोऽज्ञानमवैराग्यमनैश्वर्यम् । एवमेतेऽष्टौ भावाः क वर्तन्ते ? पूर्वर्षिभिः दृष्टाः करणाश्रायणः । करणान्यु- च्यन्ते बुद्धिकर्मान्तःकरणभेदाः त्रयोदश । तान्याश्रियाष्टो भावाः प्रवर्तन्ते । उक्तं हि "अध्यवसायो बुद्धिर्धर्मों ज्ञानं विराग ऐश्वर्यम्” इत्येवमादि । किं चान्यत्-कार्यायिणश्च कल. लाद्याः । यथा सूक्ष्मशरीरमुत्पत्तिकाले मातुरुदरं प्रविशति । नर्मानुषः । एवं लिङ्ग निमित्तनैमित्तिकप्रसङ्गेन उदरान्तः प्रविश्य मानारूपं धत्ते।
माठरवृत्तिसहिता। मातुः रुधिरं पितुः शुक्रं तस्य सूक्ष्पशरीरस्योपचयं कुरुते । कललबुबुदधनमांसपेशीगर्भकुमारयौवनस्थाविरादयोऽनपानर- सनिमित्ता उत्पद्यन्ते । तत उच्यते-'कार्याश्रयिणश्च कललाद्या' इति । कललग्रहणं विरागनिमित्तम् ।। ४३ ॥ उक्तं पूर्वस्यामार्यायां 'निमित्तनैमित्तिकमसङ्गेन' 'नटवत् व्यवतिष्ठते लिङ्गम्' इति । तत्र किं निमित्तं किं च नैमित्तिक- मित ? अत्रोच्यते- धर्मेण गमनमूवं गमनमवस्तात् भवत्यधर्मग । ज्ञानेन चापवर्गो विपर्ययादिष्यते बन्धः ॥ ४४ ॥ तत्र धर्मो निमित्तम् । इह लोके धर्म यः कुरुते तन्निमित्तं कृत्वा सूक्ष्मशरीरमूर्ध्व गच्छति । ऊमिति अष्टानां देवयो. नीनां ग्रहणम् । तत्र आद्यं ब्राह्मम् । प्राजापत्यम् , ऐन्द्रं, पित्र्यं, गान्धर्व, याक्ष, राक्षम, पैशाचम् इत्येतान्यष्टौ स्थानानि सूक्ष्म- शरीरं गच्छति । तत्र धर्मो निमित्तम् , अर्चगमनं नैमित्तिकम् । किं चान्यत्-गमनमधस्ताद्भवत्यधर्मेण । इह लोके यमनि. यमलक्षणो धर्मस्ताविपरीतो ह्यधर्मः तेनाधर्मेण सूक्ष्मशरीरमध- स्तादच्छति पश्चादि । पशुमृगपक्षिसरीसृपस्थावरमिति पश्चधा तिर्यक् स्थावरान्तम् । अत्राऽधर्मो निमित्तम् अधोमगनं नैमि- त्तिकम् । किं चान्यत्-ज्ञानेन चापवर्गः । यत् पञ्चविंशति- तत्त्वज्ञानं तेन ज्ञानेन तत्वक्ष्मशरीरं निवर्तते । परमात्माऽपवर्ग प्राप्नोति मोक्षं गच्छत्यिर्थः । अतो ज्ञान निमित्तं अपवर्गों ने- मित्तिकः । अन्यच्च विपर्ययादिष्यते बन्धः । कस्य विपर्य- यात् । ज्ञानस्य विपर्ययोऽज्ञानं, तेनाज्ञानेनाहं दर्शनीयः सुभगो. ऽहं भोक्ताऽहमिति मन्यते । तेनाज्ञानेन मनुष्पतिर्यकदेचेष्वात्मानं साधकारिका निबध्नाति । न मोक्षं गच्छ नीत्यर्थः । अतोऽज्ञानं निमित्तं बन्धो नैमित्तिकः । स च बन्धस्त्रिविधः । प्रकृतिबन्धो वैकारिकबन्धो दक्षिणाबन्धश्चेति । तत्र प्रकृतिबन्धो नामाष्टासु प्रकृतिषु परत्वे. नाभिमानः । बैंकारिकबन्धो नाम ब्रह्मादिस्थानेषु श्रेयोबुद्धिः । दक्षिणाबन्धो नाम गवादिदानेज्यानिमित्तः । एवं चतुर्विध निमित्तनैमित्तिकं व्याख्यातम् ॥ ४४ ॥ अन्यदप्येवंविधमुच्यते चतुर्धा- वैराग्यात्प्रकृतिलयः संसारो राजसाद्भवति रागात् । ऐश्वर्यादविघातो विपर्ययात्तविपर्यासः ॥ ४५ ॥ यथा कस्यचिद्वैराग्यमस्ति । ( जितेन्द्रियो विषयेभ्यो विर- तो न यमनियमपरः केवलम् ) न तु ज्ञानमस्ति गुणपुरुषान्त- राख्यम् । तेनाज्ञानेन वैराग्यपूर्वेण नास्ति मोक्षः । केवलमष्टासु प्रकृतिषु लयो भवति प्रधानबुद्ध्यहङ्कारतन्मात्रेषु । तत्र लीनमा- स्मानं मुक्तमिसवगच्छति । भूयः संसरणकाले संसरति त्रिषु लोकषु शरीरोत्पत्तिर्भवति । तत्र वैराग्यं निमित्तं प्रकृतिलयो नै मित्तिकः । किं चान्यत-संसारो राजसाद्भवति रागात् । योऽयं राजसो रागोऽवैराग्यम् यज्ञं करोति दानं ददाति अमु- ना अमुष्मिन् लोके सुखं मे भावीति । तेन रागेण संसारो भ- वति । ब्रह्मादिस्थानषु जन्म भवति । तब रागो निमित्तं संसारो नैमित्तिकः । किं चान्यत्-ऐश्वर्यादविधातः यत्पूर्वमैश्वर्थम- णिमादिकमष्टविधं निर्दिष्टं तस्मादैश्वर्यात् प्रार्थितानामविघातो भवति न मुक्तिः। अविघातोऽस्खलनम् । विपर्ययात्तद्विप. यासः । विपर्ययादनैश्वर्यात्तद्विपर्यासः प्रार्थितानाममाप्तिरिख- र्थः । तत्रानैश्वर्य निमित्तम् । प्रार्थितस्याप्राप्तिलक्षणो विपर्यासो - माठरवृत्तिसाहिता। नैमित्तिकः । एवं पोडशको नित्यनैमित्तिकप्रसङ्गो व्याख्यातः । प्रकृतिलयः प्रकृतिबन्ध इत्युच्यते । यज्ञादिभिर्दक्षिणावन्ध इत्यु- च्यते । ऐश्वर्यादिनिमित्तो भोगो वैकारिक इत्युच्यते ॥ ४५ ॥ ननु निमित्तनैमित्तिकप्रसङ्गः किमात्मक इति ? अत्रोच्यते- एष प्रत्ययसर्गो विपर्ययाशक्तितुष्टिसिद्धयाख्यः । गुणवैषम्यविमर्दैन तस्य भेदास्तु पञ्चाशत् ॥ ४५ ॥ एष हति। आर्याद्वयेन षोडशविधो नैमित्तिकः सर्ग उक्तः। प्रत्ययसर्ग उच्यते । प्रत्ययाव बुद्धरुत्पन्नो यस्मात् तस्मात् प्रत्य- यसर्ग इत्युच्यते । उक्तं हि पुरस्तात् 'अध्यवसायो बुद्धिः' इत्या- दि । सोऽयं प्रत्ययसो भूयश्चतुर्दा भिद्यते । यस्मादाह-विप- र्ययाशक्तितुष्टिसिद्धयाख्यः । संशयबुद्धिर्विपर्ययः स्थाणुर- यं पुरुषो वेति । भूयोऽपि स्थाणुं प्रसमीक्ष्य न शक्नोत्यन्नरं गन्तुमेवमस्याशक्तिरुत्पन्ना । ततस्तृतीयः(१) तमेव स्थाणुं ज्ञातुं संशयितुं वा नेच्छति किमननाम्माकमित्येषा तुष्टिः । भूयश्चतुर्थो (दृष्ट यस्तास्मिन्) स्थाण्यादिरूढां वल्लीं पश्यति शकुनि वा । ततो- ऽस्य निश्चय उत्पद्यते स्थाणुरयमित्येषा सिद्धिः । एवमेष प्र. त्ययसर्गो भिन्नश्चतुर्धा विपर्ययाशक्तितुष्टिसिद्धयाख्यः । तस्य चतुर्विधप्रत्ययसर्गस्य गुणवैषम्यविमर्दैन पञ्चाशत् भेदा भव- न्ति । सत्वरजस्तमांसि त्रयो गुणास्तेषां वैषम्यं तद्विमर्दैन । य- दा सच्चमुद्रिक्तं तदा रजस्तमसी गौणे। यथाऽऽदित्योदयात्र- क्षत्रतेजसो गौणत्वम् । एवं यदा रजसा सत्त्वतमसी तमसा सत्त्व- रजसी गौणे तदा तद्विमर्दो भवति । तेन विमर्दैन तस्य चतुर्विधस्य प्रत्ययसर्गस्य पञ्चाशत् भेदा भवन्ति ॥ ४६ ॥ (१) विपर्यय इति शेषः।
साजयकारिका - - । तानाह- पश्च विपर्ययभेदा भवन्त्यशक्तेश्च करणवैकल्यात् । अष्टाविंशतिभेदा तुष्टिनवधाऽष्टधा सिद्धिः ॥ ४७ ॥ सुगमम् । विपर्ययस्य च तमो माहो महामोहस्तामिस्रोऽन्धतामित्र इति पञ्च भेदाः । तेषां भेदान्तराण्याह- भेदस्तमसोऽष्टविधो मोहस्य च दशविधो महामोहः। तामिस्रोऽष्टादशधा तथा भवत्यन्धतामिस्रः ॥ ४८॥ तमसस्तावदष्टविधा प्रकृतिः । तद्वस्तु मलयतीति तमः । तस्य परमष्टासु प्रकृतिषु लयो भवति । तद्यथा प्रधानं बुद्धिम्हङ्कारः पञ्चतन्मात्राणीत्येतेषु । तत्र लीनमात्मानं मुक्तोऽहमिति मन्यते । स च तस्य विपर्ययः । एवं तमसोऽष्टधा भेदः । मोहस्य च अष्ट- विध एवेत्यर्थः । यत्तदणिमाद्यष्टविधमैश्वर्य मुक्तं तस्मिन् सक्ता ब्रह्मादयो देवता न मोक्षपदमिच्छन्ति । तस्यैश्वर्यस्य शुभकर्म- गोपात्तस्य क्षय पुनः संसरन्ति । अयमष्टविधो मोहस्यापि भेदः। महामोहस्य दशविधो भेदः । देवानां शब्दादयः पञ्चतन्मात्राख्या विषया अविशेषाः केवलानन्दरूपा निरुपाधिदुग्धवच्छान्तादिस- जातसुखादिविरहिता ये भवन्ति स्वर्गप्राप्तौ । एवं मनुष्या णां भौतिकशरीरतया मुखदुःखमोहसम्पन्नाः शान्तघोरमूढा भवन्तीत्येष दशविघा महामोहः । तदेतेषु दशसु ब्रह्मेन्द्रादयो देवा मनुष्याश्च तिर्यग्योन्यासक्ताश्च दृश्यन्ते । ते न हि विषयेभ्यः परमस्तीति मृढविज्ञानास्तदासत्त्या गुणपुरुषान्तरोपलब्धिरूपं नित्यनिरतिशयमुखाभिव्यक्तये ज्ञानावबांध न कुर्वन्ति इत्यष महामोहः। तेनामी ते मुक्तिं न भजन्ते । तामिस्रोऽष्टादशधेति।
माठरवृत्तिसहिता। देवमनुष्याणां दश विषयाः प्रागाभिहिता अविशेषसविशेषतया । अणिमाद्यैश्वर्यं चाष्टगुणम् एवमष्टादशधा भवति । तेभ्यः केन चिद्वैगुण्येनाप्राप्त्याऽभिहतस्य यः क्रोधः स तामिस्र इत्युच्यते । तथा अष्टादशधा चेत्यर्थः । अन्यतामिस्रोऽपि भवति तत्सङ्ख्य एव । तथा एवमष्टादशधात्रापि । (१)नेषु च मरणत्रासात् दुःखमु- त्पद्यते । ऐश्वर्ये विद्यमान ऐश्वर्य परित्यज्य मृत्युना हियमाणस्य गच्छामीति सङ्कल्पयतो यस्त्रासः सोऽन्धतामिस्र इत्युच्यते । दश विषयानैश्वर्य प्राप्यापि भोक्तुं न लभते अन्तरालेऽपि म्रिय- त इति यावत् । एवममी विपर्ययस्य तमःप्रभृतयः पञ्च भेदा विभिद्यमाना द्विषष्टिमेदाः सञ्जाताः । अत उर्वमशक्तेरष्टाविं- शतिभेदान् वक्ष्यामः ॥ ४८ ॥ एकादशोन्द्रियवधाः सह बुद्धिवधैरशक्तिसहिष्टा । सप्तदश वधा बुद्धविपर्ययातुष्टिसिद्धीनाम् ॥ ४९ ॥ 'एकादशेन्द्रियवधाः आन्ध्यवाधिर्यघ्राणपाकजडत्वकुष्ठ- स्वमूकत्वकृणित्वपङ्गुत्वगुदावतेक्लैब्योन्मादा इत्येकादशेन्द्रियव- धाः । इन्द्रियाणां स्वविषयग्रहणासामर्थ्य वध इव वधः । यथेह लाके कश्चित् देवदत्तो यज्ञदत्तमाहूय अब्रवीत्-भो दुःखितोऽस्मि किं करवाणीति । स तेनोक्तः साङ्खथज्ञानाधिगमं कुरुष्व दुःखान्तमोक्ष प्राप्स्यसीति । एवमुक्तोऽसावाह-नाहमेतदभ्यास कर्तुमलम् । बाधिर्यात् गुरुवचनं न श्रृणोमि, शुश्रूषायामसमर्थो- ऽस्मि । आन्ध्यकुणित्वपङ्गुत्वादिदोषाश्रयत्वात् कुतो मम ज्ञाना- धिगम इति । एवमेवान्ध्यमूकत्वोन्मादादय इन्द्रियोपघाता विद्या- ग्रहणे असमर्था(२) बोद्धव्याः । एवमेते एकादशन्द्रियवधा अ- (१) अन्न किञ्चित् त्रुटितं भाति । (२) प्रतिबन्धा इत्युचितम् ।
६६ साङ्ख्यकारिका केरुच्यन्ते । किञ्च-सह बुद्धिवधैरिति । बुद्धवधा बुद्धिवधा- : सह । के ते बुद्धिवधाः ? सप्तदशसङ्ख्याः । ते च सप्तद- शापि-नव तुष्टिभेदा अष्टौ सिद्धयः । तनिरूपणप्रस्तावे व्या- ख्यास्यामः ॥४९॥ तत्र नवधा तुष्टिमाह- आध्यात्मिक्यश्चतस्रः प्रकृत्युपादानकालभाग्याख्याः। बाधा विषयोपरमात् पश्च नव चतुष्टयोऽभिहिताः५०॥ (१)मात्मन्यधिकृत्य प्रवर्तन्ते ताश्चतस्रस्तुष्टयः । प्रकृतितुष्टि- रुपादानतुष्टिः कालतुष्टिः भाग्यतुष्टिश्चेति । यथा कश्चित्प्रकृति- मात्रं वेत्ति न तु जानीते सगुणागुणत्वनित्यानित्यत्वचेतनाचे. तनत्वसर्वगतत्वधर्मानस्याः केवलं प्रकृत्यस्तित्वमात्रज्ञानेन अहं जानामीति तुष्टः प्रत्रजितस्तस्य नास्ति मोक्षः । एषा प्रकृतितु. ष्टिः। कश्चित् त्रिदण्ड कुण्डिकाक्षमालाकृष्णाजिनोपादानमात्रेणैवा- हं मुक्त इत्यभिमानी ब्रूते । तेन मम मोक्षो भावीति । एताव- न्मात्रेण तुष्टो ज्ञानाधिगमे न प्रवर्तते । तस्यापि न मोक्ष इत्ये. षा उपदानतुष्टिः । कश्चिदेवं ब्रूते कालेन स्वयं मोक्षो भावी किं बच्चाविज्ञानेनेति । ज्ञाने अप्रवृत्यैव तुष्टः । तस्यापि न मोक्ष इति कालतुष्टिः । कश्चिदेव महाभाग्येनैव मुक्तो भवति । तस्मात् ज्ञानमसाधकं मुक्तेः स्यात् इति तावता तुष्टः तस्य न मोक्ष एषा भाग्यतुष्टिः । एवमेता आत्मन्याधिकस जायन्ते इत्याध्या- त्मिक्यश्चतस्रस्तुष्टयः । बाधास्तु पञ्च तुष्टयः । पञ्चानां विषया. णामुपरमाद्भवन्ति अर्जनरक्षणक्षयातृप्तिहिंसादोषान् भावय. तः पञ्च । एवमुभयत्र नत्र तुष्टयः । तत्रार्जनं नाम विषयाणां (१) अध्यात्मं भवा आध्यात्मिक्य इति समुचितम् ।
माठरवृत्तिसाहिता। तदर्थ कृषिपाशुपाल्यादिव्यवसायदुःखमवधार्य तेभ्य एवोपरत- स्तुष्टिं लभते । एषा पञ्चमी सुष्टिः । अर्जितानामपि राजचौरा- दिभ्यो दुःखं विषयाणां रक्षणं कर्तुं तस्मान्न विषयैः कार्यमि- त्युपरतस्तुष्टिं लभते सा षष्ठी तुष्टिः । रक्षणेऽपि कृते उपभुज्यमा- नास्ते क्षीयन्ते इति न तैः कार्यमित्युपरतस्तुष्टिं लभते एषा स- तमी । तथाऽर्जनक्षयादिप्रतीकारैरपि कृतैर्नास्ति इन्द्रियाणां वै. तृष्ण्यम् तस्मान्न तैः कार्यमित्युपरतस्याष्टमी तुष्टिः । प्रोक्ता- नां प्रतीकारे कृतेऽपि अर्जनादिप्रवृत्तेन हिंसामन्तरेण भूता- परोधं विनामी न प्राप्यन्ते तस्मान तैः कार्यमित्युपरतः तुष्टिं लभते एषा नवमी तुष्टिः । एवमेताः पञ्च वाद्यास्तुष्टयः । उभयं (१)नव भवन्ति । (एवामेताभिस्तुष्टिभिः ज्ञानं विना मोक्षो- ऽस्तीति केवलेन वैराग्येण तुष्टः ।) आमां नवानामपि तुष्टीनां ग्रन्थान्तरे संज्ञान्तराणि । तद्यथा-अम्भः सलिलम् ओघो वृष्टिः तारं मुतारं सुनेत्र सुमरीचम् उत्तमाम्भसिकमिति । आसा विपरीता अतुष्टय अनम्भ इत्याद्याः । एवं तुष्टयतुष्टयो व्या- ख्याताः ॥ ५० ॥ इदानीं सिद्धयो व्याख्यायन्ते- ऊहः शब्दोऽध्ययनं दुःख विधातत्रयं सुहृत्प्राप्तिः । दानं च सिद्धयोऽष्टौ सिद्धेः पूर्वोऽङ्कुशस्त्रिविधः ॥५१॥ तत्र ऊहो नाम यथा कश्चित् चिन्तयति, किं परं याथात्म्यं, किं निःश्रेयसम् , किं कृत्वा सुखं प्राप्यते । एवमस्य चिन्तयतो ज्ञानमुत्पद्यते स्वतः शास्त्रतो गुरुतो वा। यत् प्रधानबुद्धयहङ्कारतन्मात्रेन्द्रियभूतान्यन्यानि अहमन्य (१) मिलित्वति शेषः ।
साधकारिका इति ततो मोक्षं गच्छति एषा ऊहसिदिः प्रथमा । चौरसाधु तदनुगामिस्वामिपथिकसंयोगादिवत् प्रकृतिपुरुषशिष्यगुरुक- मज्ञानम् । तद्यथा ग्राममाच्छिद्य चौरा यान्ति । तत्सार्थमध्ये साधुरेको गच्छति । तदनुगामी च स्वामी । चतुर्थः पथिक- स्तदभिः । पथिकचौरमध्ये साधुरपि चौरगुणास्पृष्टोऽपि तद- नुगामिना चौरतथा प्रतीतस्तादृग्गणनायां (प्रतीतः)तदभिज्ञेन पथिकेन स्वामी सम्बोधितो यदहं सर्व जानामि अमी चौरा अयं साधुरेव तत्सार्थानुवर्तीति । एवं चौरस्थानीयो बुद्धयः हङ्कारतन्मात्रीन्द्रियभूतसमवायः, साधुस्थानीयश्च पुरुषः, तद- नुगामिस्थानीयः शिष्यो, भेदेन बोयाः । पथिकस्थानीयो गुरुः । तस्माज्ज्ञानं प्रतीकत्रयेणैवावगम्यते-गुरुतः, शास्त्रतः, स्वत इत्यूहासद्धिः प्रथमोक्ता । भान्दो नाम यथा कस्यचि- पठतः (तमस्य जनं ) शब्दं श्रुत्वाऽन्यत् प्रधानमन्योऽहमिति तन्मार्गप्रवृत्तिप्रबुद्धो मोक्षं गच्छति एवमेषा द्वितीया सिद्धिः शब्दत उत्पन्ना । कश्चित् गुरूपासनया ततोऽर्धात्यावगम्य सकलं ज्ञानमाप्नोति । तृतीयाध्ययनसिद्धिः साङ्खयज्ञानमधीस स- जाता। एवमेतास्तिस्रः सिद्धयः । शेषा व्याख्यायन्ते । दुःखवि- घातम्रयमिति । यथा कश्चिदादावभिहिताध्यात्मिकादिदुःख- त्रयेणाभिभूतोऽस्य प्रतीकाराय ऊहं शब्दमध्ययनं वा प्रतिप- ध ज्ञानमधिगम्य मोक्षं यातीति दुःखविघाताय यत्रोहादित्रय- मधिकुरुते तदपि सिद्धित्रयम् । एवं षट् सिद्धयः । कश्चिद्दुर्मेधा गुरोः सकाशात् नावधारयति । तत् केनचित् प्रत्युपकारानपे- क्षेण सुहृदा तस्मात् संसारकूपात उज्जिहीर्षुणा तदनुकूलतया कृपावता मुगमवचोभिर्वैराग्यपूर्वकं गुणपुरुषान्तरोपलब्धिरूपं साङ्क्षयज्ञानमुपदिशता समुद्धृतमालाक्याह भगवान् शास्त्रकारः माठरवृत्तिसहिता। ६९ सुहृत्प्राप्तिरिति । ते हि सुहृदस्तथोपदिशन्ति सुहृत्तया यथा पाषाणोऽप्यवबुध्यते । उक्तं च- एष अातुरचित्तानां मात्रास्पर्शेच्छया विभुः । भवसिन्धुप्लवो दृष्टो यदाचार्यानुवर्तनम् ॥ एषा सप्तमी सिद्धिः । कश्चिदावाहनसंवाहनभिक्षापात्रवस्त्र- च्छत्रकमण्डलुप्रभृतिदानेन गुरूनाराध्य साङ्ख्यमधिगम्ग मोक्ष गच्छतीत्येषाऽष्टमी सिद्धिः दानादिभिरुपायै निष्पन्ना । आ- सामष्टानां पूर्ववन्नामान्तराणि । तारं मुतारं तारतारं प्रमोदं प्र- मुदितं मोहनं रम्यकं सदाप्रमुदितमिति । विपरीता असिद्धयः। तद्यथा अतारामित्याद्याः । ततश्च एकादशोन्द्रयवधा, नवानां तु. टीनां विपर्ययाः प्रकृत्युपादनकालभाग्याख्यानां पञ्चविष- योपरमतुष्टीनां च । अष्टानां सिद्धीनां विपर्यया अनूहादयः । सप्तदश वधा बुद्धरेवमकादश सप्तदश चाष्टाविंशतिभेदा अशक्ते- रभिधीयन्ते । एवं विपर्ययाशक्तितुष्टिसिद्धीनामुद्देशः(१) कृत इति वाक्यशेषः । सिद्धेः पूर्वोऽङ्कुशस्त्रिविधः । या ऊहाया अ- टधा मिद्धिस्तस्याः पूर्वो विपर्ययाशक्तितुष्टिरूपो ऽङ्कुशो नियाम- कः । त्रिविधस्त्रिप्रकार इत्यर्थः । यथा अङ्कुशेन गृहीतो गजो वश्यो भवति । एवं विपर्ययाशक्तितुष्टिरूपं त्रिविधं प्रत्ययसर्ग हित्वा सिद्धिः संसेव्या सिद्धेस्तत्त्वज्ञानं तस्माच्च मोक्ष इति तात्पर्यम् ।। ५१ ॥ अत्राह-भगवता उक्तं पूर्वस्यामार्यायां भावरधिवासितं लिङ्ग संसरति । तत्र किं लिङ्गं पूर्वोत्पन्नम् आहोश्वित् भावा इत्यत्रोच्यते-लिङ्गं तावत्सूक्ष्म तान्मात्रिकं शरीरमनादिकालोत्प. नं त्रयोदशविधेन करणेन संयुक्त भावधिवासितं संसरति । (१) अत्र निर्देश इति पाठोऽधिकोऽपेक्षितः।
सायकारिका करणानि बुद्ध्यहङ्कारमनोवुद्धिकर्माख्यानि त्रयोदश । एवं त्रयो- दशविधकरणमाश्रित्य सूक्ष्मशरीरं तान्मात्रिक संसरति । शरी- रं करणानि च एतल्लिङ्गमित्यत्रोच्यते । भावैरधिवासितमिति भावा धर्मज्ञानवैराग्यश्वर्याणि चत्वारः सात्त्विकाः । विपरीता- स्तामसाः । एवमष्टौ भावाः । तत्र सन्देहः । किं लिङ्गं पूर्वो- त्पन्नम् उतस्वित् भावा इति । उच्यते- न पिना भावैलिङ्गन विना लिङ्गेन भावनिर्वृत्तिः । लिङ्गाख्यो भावाख्यस्तस्माद्भवति द्विधा सर्गः ॥१२॥ लिङ्गेन विना भावो न भवति भावैश्च विना लिङ्गं न भवति । यथाऽग्निना विना नोष्णत्वमुष्णत्वं विना नाग्निः । एव. मेतयोलिङ्गभावयोयुगपदुत्पत्तिः । गोविषाणवत् , कुमारी- स्तनवत् । यत्र लिङ्गं तत्र भावा यत्र भावास्तत्र लिङ्गम् । तस्मादुच्यते-लिङ्गाख्यो भावाख्यः । लिङ्गेन आख्यायते स लिङ्गाख्यः । भावैराख्यायत इति भावाख्यः । तस्मात् द्विधा सर्गो भवति जायते ॥५२॥ अत्राह-किं विविध एव सर्गः किं तस्मादन्यस्तृतीयोऽप्य- स्ति इति । अत्रोच्यते- अष्टविकल्पो दैवस्तैर्यग्योनश्च पञ्चधा भवति । मानुष्यश्चैकविधः समासतो भौतिकः सर्गः॥ ५३ ॥ अष्टविकल्पो दैव इति । तद्यथा-ब्राझं प्राजापत्यम् ऐन्द्र पैत्रं गान्धर्व याक्षं राक्षसं पैशाचमिसेवमष्टविधो देवसर्गः । तैर्यग्योनश्च पञ्चधा भवति । अत्र तुल्यालिङ्गत्वाद्भवति पशुपक्षिमृगसरीसृपस्थावरान्तश्व इति । मानुष्य एकविधस्तुल्य. लिङ्गत्वात् ब्राह्मणादिचाण्डालान्तः । समासतः सझेपेण । माठरवृत्तिसहिना। ७१ त्रिविधोऽयं भूतमयः सर्गः । एवं चतुर्दशावधः ॥ ५३ ॥ अत्राह-एतेषु त्रिषु स्थानेषु कतरो गुण उत्कटत्वेन वर्तते अचं सत्त्वविशालस्तमोविशालश्च मूलतः सर्गः। मध्ये रजोविशालो ब्रह्मादिस्तम्बपर्यन्तः ॥ ५४ ॥ ऊर्ध्वमिति। ब्रह्मादिपिशाचान्तो योऽष्टविधः सर्गः । असौ सचबहुलः। यस्मात्तेषु सत्त्वमुत्कटत्वेन वर्तते । तत्रापि रजस्तम. सी स्तः किं तु सत्त्वस्योद्रिक्तता । तस्मात्सुखपाया देवाः। तमो. विशालश्च मूलनः पश्वादिषु तमस उद्रेकात् पश्वादिस्थाव- रपर्यन्तः(१) यस्मात्तेषु तम उत्कटत्वेन वर्तते तत्रापि गौणतया. सत्वरजसी स्तः । तस्मात्ते तमोबहुलाः।मध्ये रजोविशालः। तत्रापि सच्चतमसी स्तः । किंतु रज उत्कटत्वेन वर्तते । तस्मा- दुः खपाया मनुष्याः । ब्रह्मादिस्तम्बपर्यन्तः चतुर्विध एष स्वेदजाण्हनादिना भूतसर्गः ॥ ५४ ॥ अवाह-भूतसर्ग उत्पन्नो भावसर्गः सम्पन्नो लिङ्गसर्गः सम्पन्न इति यत्र सर्गाः प्राधानिका इति प्रधानकार्य समाप्तमि- ति । उत्पन्नास्त्रयो लोकाः प्रधानं चोपरतमुत्पाद्य लोकान् इति तेषु देवमनुष्यतियग्योनिगतेषु दुःखं कोऽनुभवति । कि चतुर्विंशतितमं प्रधानम् , आहोस्वित् महदादित्रयोविंशतिकम् , उतस्वित्पुरुष इति ? अत्रोच्यते- अत्र जरामणरकृतं दुःखं प्राप्नोति चेतनः पुरुषः । लिङ्गस्याविनिवृत्तस्तस्माद्दुःखं समासेन ॥५५॥ अत्र त्रिषु लोकेष्विति । देवलोके मनुष्यलोके तिर्यग्योनौ (१) अत्र 'तमोबटुल'इत्यधिकमपक्षितम्। ते ७२ सावधकारिका च जरामरणकृतं दुःखं प्राप्नोति चेतनः पुरुषः । तत्र जराकृतं वळीपालतैरभिभूतः कासश्वासः परिगृहीतो यष्टिविष्टम्भगामी पुत्रस्नुषाधभिभूतो यदुःखमनुभवति तज्जराकृतम् । मरणकृत- मिति । अष्टविधमैश्चर्यमास्त यत्पागभिहितमणिमादि, दशा विषयाः सन्ति । देवानां पश्चाविशेषाः केवलसुखरूपाः । म- नुष्याणां सविशेषास्त एव शब्दादयः सुखदुःखमोहसम्पन्नाः तन्मरणपातावस्थायां यदुःखमुत्पद्यते तन्मरणकृतमित्येव । ए वमेतैर्दुःखैरन्तकाले च जनितदुःखानि सर्वाणि प्राप्नोति चेतनः पुरुष एवं प्रधानादीनामचेतनत्वात् । तस्मात्तस्यैव विज्ञानितया दुःखं न तु जडानां प्रधानादीनाम् । तर्हि किय. न्तं कालं पुरुषो दुःखमाप्नोति । अत्रोच्यते-लिङ्गस्याविनि- वृत्तेः यावन्महदादि लिङ्गं न निवर्तते तावत्कालं पुरुषो दुः खभोक्ता । तस्माद्दुःखं समासेन-सझेपेण प्राप्नोति चेतनः पुरुषः । यदा तु तत्प्रतिनिवर्तते भहदादिलिङ्ग ज्ञानोत्पत्या ततो मोक्ष प्रामोति । मोक्षं गतस्य दुःखं नास्ति । ज्ञानेन हि लिङ्ग निवर्तते । यदा प्रत्येकं प्रधानमहदहंतन्मात्रेन्द्रियभूतान्य- न्यानि अहमन्य इति ज्ञानं तदा लिङ्गाभावः ॥ ५५ ॥ प्रकृतेः किं निमित्तमारम्भ इत्यत्रोच्यते- इत्येष प्रकृतिकृतो महदादिविषयभूतपर्यन्तः । प्रतिपुरुषविमोक्षार्थ स्वार्थ इय परार्थ आरम्भः॥५६॥ इत्येष प्रकृतिकृत इति । एवमादिर्यः पूर्वमुपवर्णितो लिङ्गसर्गो महदादिभूतपर्यन्तः, एष प्रकृतिकृत इति । अत्राह-एवं लिङ्गसर्गः प्रधानेन किमर्थ कृत इति ? अत्रोच्यते । प्रतिपुरुषवि- मोक्षार्थम् पुरुषं पुरुषं प्रति विमोक्षस्तदर्थं प्रतिपुरुषविमोक्षा- माठरवृत्तिसाहिता। ७ थम् । देवलोकगतानां मनुष्यलोकगतानां तिर्यग्योनिगतानां च मोक्षार्थमित्यर्थः । स्वार्थ इव परार्थ आरम्भः । स्वकीयोऽर्थः स्वार्थः । इवोपमायाम् । यथा कश्चित् स्वार्थमिव मित्रार्थ करोति तथा स्वार्थमिव प्रधानं पुरुषार्थ करोति । स चार्थो द्विविधः । शब्दाशुपलब्धिरादिर्गुणपुरुषान्तरोपलाधरन्तश्च । त्रिषु लोकेषु शब्दादिविषयैः पुरुषं योजयति । अन्ते च गुण- पुरुषान्तरोपलब्ध्या मोक्षं कुरुते ॥ ५६ ।। अत्राह-उकं भगवता प्रधानं स्वार्थमिव परार्थमारभते । अथ च त्वया प्रधानमचेतनमुक्तं तत्कथं प्रवर्तते । (१)अचेतना- नामपि प्रवृत्तिष्टा निवृत्तिश्च । वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृतिरशस्थ । पुरुषविमोक्षानिमित्तं तथा प्रवृत्तिःप्रधानस्य ॥ ५७ ।। यथा तृणोदकं गवा भक्षितं पीतं च क्षीरभावन परिणमति, वत्सहादिं करोति, पुष्टे वत्से निवर्तते । एवं पुरुषविमोक्षनिमित्तं प्रधानस्याज्ञस्य प्रवृत्तिः॥ ५७ ।। औत्सुक्यनिवृत्त्यर्थं यथा क्रियासु प्रवर्तते लोकः । पुरुषस्य विमोक्षार्थ प्रवर्तते तद्वव्यक्तम् ॥ ५८ ।। यथा लोक इष्टविषयौत्सुक्ये सति तस्य निवृश्यर्थ क्रियामु गमनागमनासु प्रवर्तते कृतकार्यों निवर्तते । तथाऽव्यक्तं पुरु- षस्य विमोक्षार्थ शब्दादिभोगलक्षणं गुणपुरुषान्तरोपलब्धिलक्ष- गं द्विविधं पुरुषार्थ कृत्वा निवर्तते ॥ ५८ ॥ किश्चान्यत्- (१) अत्र उच्यते' इत्यपक्षितम् ।
७४ साधकारिका रङ्गस्य दयित्वा निवर्तते नर्तकी यथा नृत्यात् । पुरुषस्य तथाऽऽत्मानं प्रकाश्य विनिवर्तते प्रकृतिः॥१९॥ यथा नर्तकी शृङ्गारादिरसैविभावैश्च निबद्धगीतवादित्रनु त्यानि रङ्गस्य दयित्वा कृतकार्या नृयानिवर्तते । एवं प्रकृतिमह- दहङ्कारतन्मात्रोन्द्रयभूतभावेन देवमानुषतिर्यग्रूपामु योनिषु मुख- दुःखमोहाकृतिः शान्तघोरमूढविषया सती आत्मानं पुरुषस्य प्रकाश्य निवर्तते । तस्यां च निवृत्तायामसौ केवलः पुरुषो दुःख- त्रयं नानुभवति । यथा जलवाहकस्य घटामावे तदाधेयस्थोदक- स्याभावः । तथा दुःखाभावः । ततोऽसौ मोक्षं गच्छति ॥१९॥ अत्राह-यथा नर्तकी नृत्यादिभिरुपायैरात्मानं प्रकाश्य रक्षात् विनिवर्तते, एवं प्रकृतिः पुरुषस्य कैरुपायैरात्मानं प्रका. श्य विनिवर्तते ? अत्रोच्यते- नानाविधैरुपायैरुपकारिण्यनुपकारिणः पुंसः । गुणवत्यगुणस्य सतस्तस्यार्थमपार्थकं चरति ॥६०॥ नानाविधैरुपायैः शब्दस्पर्शादिभिरुपकतुं शीलमस्याः सा तथोक्ता । अनुपकारिणः पुंसः निष्क्रियत्वादिति यावत् । तस्योपकारिणी प्रकृतिः तस्योपकृयाहमन्या त्वमन्य इति निव. तते (प्रकृतिः) । किं चान्यत्-गुणवती सा सत्त्वरजस्तमो- मयी । अगुणस्य सतः पुंसः निष्क्रियोदासीनामूर्तादिलक्षण- वत्वात् । एवमस्य पुंसोऽगुणस्यापि सतः (निसस्य) सेयं गुणवती अर्थमपार्थक चरति करोति । यथा कश्चिद- नुरक्तो मित्रमुहृत्वमवलम्ब्य मित्रार्थमनुक्तमपि प्रत्युपकारमन- पेक्ष्य कुरुते । एवं प्रधानं पुरुषस्य द्विविधमपि विषयोपलब्धि- मोक्षात्मकमर्थं कुरुते । पुमान् पुनः प्रधानस्य किमपि न प्रत्युप- । माठरवृत्तिसहिता। करोति । तत् प्रधानमोः शिखिपिच्छवदेकपक्षचित्रन्यायः॥६॥ निवृत्ता किं करोति एतदाह- प्रकृतेः सुकुमारतरं न किञ्चिदस्तीति मे मतिभवति । या दृष्टास्मीति पुनर्न दर्शनमुपैति पुरुषस्य ॥ ६१॥ प्रकृतिरपि प्रधानमपि कुरुते । यथेह इनुषा ब्रीडया स्वगृ. हान्तः प्रविशति अतो ब्रवीति इयं विशिष्टतरेति । एवामियं प्र. कृतिः सुकुमारतरा । तस्मात्यकृतेः सुकुमारतरं नान्यदस्तीति । एवं पुरुषस्य परमात्मनोऽपि मतिरुत्पन्ना। नास्तीति मे मतिभवति । ममेति पुरुष आत्मानं ब्रवीति । तत्र मुकुमारतरत्वं वर्णयति ईश्वरः कारणमिति के चिदाचार्या ध्रुवते । उक्तं च- "अज्ञो जन्तुग्नीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत्स्वर्ग नरकमेव चा ॥ वेदवादिनः पुनरित्थं कारणमाहुः । 'पुरुष एवेदं मम्' इत्यतः पुरुषः कारणमाहुः । अपरे स्वभावमाहुः । स्वभावः कारणमिति । तथा हि-- येन शुक्लीकृता हमाः शुकाश्च हरितीकृताः । मयूराश्चित्रिता येन स नो वृत्तिं विधास्यति ॥ अत्र साङ्ख्या वदन्ति । ईश्वरः कारणं न भवति । कस्मात् निर्गुणत्वात् । इमाः सगुणाः प्रजाः । सत्त्वरजस्तमांसि त्रयो गुणाः ते च प्रजासु सन्ति । तांश्च गुणान् दृष्ट्वा साधयामः । प्रकृतोरमाः समुत्पन्नाः प्रजाः । यदीश्वरः कारणं स्यात्ततो निर्गु- णादीश्वरान्निर्गुणा एव प्रजाः स्युः । न चैवम् । तस्मादीश्वरः कारणं न भवति । एवं पुरुषोऽपि द्रष्टव्यः । स्वभावो नाम न कश्चित्पदार्थोऽस्ति । यतः प्रजानामुत्पत्तिसङ्गतिः स्यात् । तस्मा.
৩
सायकारिका
यो ब्रूते स्वभावः कारणमिति तन्मिथ्या । के चित् कालं कार-
णतया वर्णयन्ति ।
कालः सृजति भूतानि कालः संहरते प्रजाः ।
कालः सुप्तेषु जागर्ति तस्मात्कालस्तु कारणम् ।।
तदपि साङ्ख्यो निराकुरुते । कालो नाम न कश्चित्पदार्थों
ऽस्ति । व्यक्तमव्यक्तं पुरुष इति त्रय एव पदार्थाः । तत्र
कालोऽन्तर्भूतः । एवं प्रधानं हित्वा नास्त्यन्यत् कारणम् ।
तत्प्रधानावगमं प्रति यदा पुरुषस्य सम्यग् ज्ञानमुत्पद्यने
तदा तेन ज्ञानेन दृष्टा प्रकृतिः पुरुषसङ्गाभिवर्तते । स्वैरिणीव
पुरुषेणोपलक्षिता । अये इयमसाध्वी मां मोहयति तस्मान
ममानया कार्यमितिवत् । तस्यां च निवृत्तायां मोक्षं गच्छति ।
एवमीश्वरादीनि अकारणानि । सुकुमारतरम् इत्येतत् वाक्यशेषः-
कृतः । यस्मात्सुकुमारतरं प्रधानं तस्मादुच्यते-प्रकृतेः सुकु-
मारतरं न किञ्चिदस्तीति मे मतिर्भवति इति में पुरुषस्य ।
अत्राह- सा दृष्टा पुरुषेण कथं निवर्तते प्रकृतिः । अत्रोच्यते-या.
दृष्टास्मीति पुनर्न दर्शनमुपैति पुरुषस्य । यथा काचि-
स्कुलस्त्री साध्वी स्वगृहद्वारि स्थिता पुरुषेण सहसैवागतेन दृष्टा
सहसैवं व्रीडमाना त्वरितं गृहं प्रविष्टा सा एवं मत्वा दृष्टाऽह-
मनेनेति न पुनदर्शनमुपैति पुरुषस्य । एवं प्रकृतिः परमात्मना
पुरुषेण ज्ञानचक्षुषा दृष्टा सब्रीडा कुलस्त्रीवन्न पुनदर्शनमुपैति
पुरुषस्य । तस्यां च निवृत्तायां पुरुषो मोक्षं गच्छति ॥ ६१॥
अत्राह- लोके शिष्टा वदन्ति पुरुषो बद्धः, पुरुषो मुक्तः,
पुरुषः संसरति । अत्रोच्यते
तस्मान्न बध्यते नापि मुच्यते नापि संसरति कश्चित् ।
संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥ ६ ॥
७७ माठरवृत्तिसहिता। पुरुषो न बध्यते सर्वगतत्वात् , अविकारत्वात्, निष्क्रि- यत्वात् , अर्तृत्वात् । यस्मान्न बध्यते तस्मान्न मुच्यते । मुक्त एव सः । अबद्धः कुतो मुच्यते । कस्याभुक्तेन विशूची भवति । न संसरति सर्वगतत्वात् । सर्वगतस्य बन्धमोक्षौ कुतः। अनधिगतप्रापणार्थ संसरणमित्युपदिश्यते । तेन च मुनिपुणं सर्व प्राप्तम् । पुरुषं न विदन्ति ये त एवं वदन्ति । पुरुषो बद्धः पु. रुषो मुक्तः पुरुषः संसरति । अवाह-यदि पुंसो बन्धमोक्षसंस- रणानि न स्युः तर्हि कस्य भवन्ति । तदुच्यते-संसरतिबध्य- ते मुच्यते च नानाश्रया प्रकृतिः। प्रकृतिरात्मानं बध्नाति, मोचयति, संसरति च । यत्तत्सर्गादौ सूक्ष्म शरीरं तान्मात्रिक प्रागुक्तं त्रयोदशविधेन करणेन संयुक्तं त्रिविधेन बन्धेन बद्धं संसरति । स च बन्धस्त्रिविधः पूर्वमाख्यातः(१) । तदेव सूक्ष्मशरीरमुत्पन्ने ज्ञाने त्रिधा बन्धान्मुच्यते । तस्मान्मुच्यते बध्यते संसरति नानाश्रया प्रकृतिः । नानाश्रया देव- मनुष्यतिर्यक् शरीरभूतेत्यर्थः । एवं यत् प्रधानं तत् सूक्ष्मं शरीरं तत् प्रधान प्रकृतिरियनर्थान्तरम् । तत्र यः पुंसो बन्धमोक्षसंस- रणानि ब्रूते स मूढः ॥ ६२ ॥ अत्राह-सा प्रकृतिः कैर्गुणैरात्मानं बन्धयति, कैर्वा मोच- यतीति ? अत्रोच्यते-- रूपैः सप्तभिरेवं बध्नात्यात्मानमात्मना प्रकृतिः । सैव च पुरुषस्यार्थ प्रति विमोचयत्येकरूपेण ॥६३ ॥ सप्तभी रूपैरियमेवं प्रकृतिधर्मादिभिर्विना ज्ञानम् आत्म- (१),प्रकृतिबन्धो वैकारिकबन्धो दक्षिणाबन्धः। प्राकृतेन च बन्धे. न तथा वैकारिकण च । दाक्षिणेन तृतीयेन बद्धो शानेन मुच्यते ।
७॥ सासयकारिका - . नाऽऽत्मानं बध्नाति । सैव च प्रकृतिः गुणपुरुषान्तरोपल. धिरूपं प्रति एकरूपेण ज्ञानेनात्मानं विमोचयति ॥ ६३ ॥ कथं तत् ज्ञानमुत्पद्यते- एवं तत्वाभ्यासान्नास्मि न मे नाहमित्यपरिशेषम् । अविपर्ययाद्विशुद्धं केवलमुत्पद्यते ज्ञानम् ॥ ६४ ॥ एवमिति । यथा एतानि पञ्चविंशतितत्त्वानि पुरुषायानि भूतपर्यन्तानि तेषामभ्यासस्तत्वाभ्यासः । अभ्यालेनैव तत्वदर्श- नम् । तस्मादभ्यासात् पुरुषस्य बुद्धिरुत्पद्यते । नास्मि तत्त्वानि, न मे तत्वानि, नाहं तत्वानां, किं तु प्राधानिकान्ये- तानि । तस्मात् ज्ञानमुत्पद्यते एवमादि । अपरिशेषं निरव- शेषमित्यर्थः(१) । किं चान्यत् (ज्ञानं यस्मादाह)-अविपर्य- यात् । विपर्ययः संशयस्तद्विपरीतोऽविपर्ययस्तस्मादविपर्ययाद- संशयाद्यथाभूतार्थदर्शनाद्विशुद्धम् निरवद्यमव्यामिश्रं केवल(२) ज्ञानमुत्पद्यते प्रादुर्भवति । किं ज्ञानम् गुणपुरुषान्तरोपल- ब्धिरूपमित्यर्थः ॥ ६४ ॥ अत्राह-तेन ज्ञानेन पुरुषः किं करोति । अत्रोच्यते- तेन निवृत्तप्रसवामर्थवशात्सप्तरूपचिनिवृत्ताम् । प्रकृतिं पश्यति पुरुषः प्रेक्षकवदवस्थितः स्वस्थः ॥६५॥ यथा कश्चित्प्रेक्षको रङ्गस्थितो गीतवादित्रनृत्यादिभिर्वर्तमा- नां नर्तकी स्वस्थो निर्विकल्पः पश्यति । एवं पुरुष आत्मक. तेन ज्ञानेन तासु तासु अवस्थासु वर्तमानां प्रकृतिं पश्य. ति इयं सा प्रकृतिर्या सर्वपुराणमात्मानं बध्नाति । प्रे. (१) न मे शरीरं यतोऽहमन्यः शरीररमन्यत् नाहम् इत्य परि- शेषम् अहङ्काररहितम् । (२) मोक्षकारणं पञ्चविंशतितत्त्वज्ञानं । - ७९ माठरवृत्तिसहिता। क्षकवत् प्रेक्षकेण तुल्यः स्वस्थः स्वस्मिन् भावे स्थितः । किं भूनां प्रकृतिम् निवृत्तप्रसवाम् । निवृत्तबुद्ध्यहङ्कारकार्याम् । अर्थवशात्सप्तरूपविनिवृत्ताम् निर्वितोभयपुरुषमयोजन- वशात् यः सप्तभिः रूपैर्धर्मादिभिरात्मानं वनाति तेभ्यो रूपेभ्यो विनिवृत्ताम् । यावज्ज्ञानचक्षुषा दृष्टा प्रकृतिः पुरुषेण तया च पुमान् दृष्टः ॥६५॥ अत्राह-ज्ञानचक्षुषा दृष्ट्वा प्रकृति पुरुषः किं करोति । अत्रोच्यते- दृष्टा मयेत्युपेक्षक एको दृष्टाऽहमित्युपरतान्या । सति संयोगेऽपि तयोः प्रयोजनं नास्ति सर्गस्थ ॥६६॥ यथेमा रङ्गगतां नर्तकी सवास्तवस्थामु वर्तमानां दृष्ट्वा वि- रमति रङ्गात् प्रेक्षकः दृष्टा मयेत्युपेक्षक एकः केवलः शुद्ध पुरुषः । तथा प्रकृतिरपि अनेन अहं दृष्टति निवृत्ता । एका त्रैलोक्यस्यापि प्रधानकारणभूता न द्वितीया प्रकृतिरास्ति । नर्त- क्यपि अहमनेन दृष्टा इत्युपरमते नृत्यात् एवं पुरुषोऽपि दृष्टा- मया इयं ज्ञानचक्षुषा प्रकृतिः इति प्रेक्षकवत् उपरमते मोक्ष गच्छृतीत्यर्थः । तथा प्रकृतिरपि दृष्टाऽहमनेनेति स्वव्यापारात उ. परमत्येव । अत्राह-प्रकृत्योः सर्वगतत्वात् सर्वनिषेधा न शक्य- वक्तुम् । तदस्य संसारसर्गस्य विनिवृत्तिरेव । तत्कथमिदं साधनं समीचीनमिति । अत्रोच्यते-सति संयोगेऽपि तयोः प्रयोजनं नास्ति संगस्थति । यद्यपि प्रधानपुरुषयोः सर्वग- तयोः संयोगो भवत्येव । तस्मिश्च सति सर्गसम्भवस्तथाऽपि ना- सौ सर्गः स्यात् प्रयोजनाभावात् । यस्मात् प्रधानस्य पुरुषार्था प्रवृत्तिः । स च पुरुषार्थो द्विविधः । शब्दाद्युपलब्धिरादिर्गुण- । ते सालयकारिका पुरुषान्तरोपलब्धिरन्तश्च । ब्रह्मादिस्थावरान्नेषु पुरुषः शब्दादि- भिर्विषयैर्योजायतव्यः । अन्ते च गुणपुरुषान्तरोपलब्ध्या मोक्ष- यितव्यः। एवं पुरुषदर्शनार्थ सम्पयोगः कृतः । एवं प्रकृतिपुरुष- योस्तयोः शरीरोत्पत्तिास्ति पुनः ऋणिकधारिणकवत्(१) य. थेह लोके ऋणिकधारिणको उत्तमाधमर्गौ देवदत्तयज्ञदत्तौ यो. ऽस्मिन् ऋणं धारयति स उत्तमर्णस्तेनाधर्मण उक्तः ऋणं मे दे- हीति । ततस्तेन तद्दत्तं । ततस्तौ कृतप्रयोजनौ परस्परमर्थेन स. न्त्यक्तावथ तयोर्भूयः संयोगो भवति । तथाऽपि नार्थकृत्यं प्रयो- जनाभावात् । यथा वा वृद्धसंयोगादपत्यं न भवति प्रयोजना- भावात् । तथा प्रधानपुरुषयोः कृतप्रयोजनयोः प्रयोजनं ना. स्तीति सिद्धम् ॥ ६६॥ किंचान्यत् यदि पुरुषस्य उत्पन्ने ज्ञाने मोक्षस्तर्हि मम क- स्मान्न भवति । अत उच्यते- सम्पज्ञानाधिगमात् धर्मादीनामकारणप्राप्तौ । तिष्ठति संस्कारवशाचक्रभ्रमवदूधृतशरीरः ॥६७॥ यदा पुरुषेण पञ्चविंशतितत्त्वज्ञानमधिगतं भवति तदा धर्मादीन्यकारणानि प्राप्तानि पुनर्जन्मसमर्थानि न भवान्त । को दृष्टान्तः यथेह लोके बीजान्यानदग्धानि न परोहसमर्थानि भव. न्ति । धर्मो येषाम् आदिस्तानि धमादीनि तेषाम् अकारणानां प्राप्तिरकारणप्राप्तिः। तथा सत्यां पुर्नजन्म न भवति । अत्राह यदि सम्यक् ज्ञानात् मोक्षो भवति तत्राचार्यस्योपदेष्टुः सम्यक् ज्ञान- मुत्पन्नं किमर्थ मोक्षं न गतोऽस्ति अथ वा त्वत्प्रसादात्तत् ज्ञानं ममापि सञ्जातं किमहं मोक्षं न गच्छामि । अत्रोच्यते-तिष्ठति mamta (१) ऋणिकधनिकवत् इति पाठः समुचितः।
माठरवृत्तिसहिता। ८१ संस्कारवशात् । संस्कारो नाम धर्माधाँ निमित्तं कृत्वा शरी- रोत्पनिर्भवति तिर्यकमनुष्यदेवादिषु । तस्य संस्कारेण ग्रहणम् । स च संस्कारः फलमदत्वा क्षयं न गच्छति उत्पन्नज्ञानस्यापि तस्मादिदं शरीरं विनाशं यास्यति । तन्निमित्ताभावादिदं शरीरं पतिष्यति । यथा च विद्वान् मोक्षं यास्यति । तस्मात् हेतोरुप- नज्ञानस्यापि धर्माधर्मवशात् तिष्ठति शरीरम् । को दृष्टान्तः ? अत्रो- ध्यते-चक्रभ्रमवत् धृतशरीरः यथा कुलालश्चक्रं भ्रमयति घट करिष्यामीति । स कुलालो घटं कृत्वा यथा स्वस्थो भव. ति अवतिष्ठते । यस्मिंश्चावतिष्ठमाने चक्रं भ्रमत्येव । संस्कारव- शाल-कर्मवशादित्यर्थः । एवमेव पूर्वकृतयोधर्माधर्मयोबळवच्चात् दुर्बलत्वात् ज्ञानस्य उत्पन्नेऽपि ज्ञाने विद्वांस्तिष्ठति संस्कारवशाद चक्रभ्रमवत् धृतशरीरः ॥ ६७ ।। अत्राह-उत्पन्नज्ञानः फलनिरपेक्षं कर्म निजि कुर्वन्न देहमा- रमते, आरब्धफलं यावत् जन्मदायि 'नामुक्तं क्षीयते कर्म' 'अव- श्यमेव भोक्तव्यं कृतम्' इति क्षपयन् , अनारब्धफलेषु 'यथैधासि समिद्धोऽग्निः' इति परिहारेण भस्मीकरणम् । एवं कर्मणां ध्वंसे उत्पन्ने ज्ञानेऽपि कदा विद्वान् मोक्षं गच्छतीति ? अत्रोच्यते- प्राप्त शरीरभेदे चरितार्थत्वात्प्रधानविनिवृत्तौ । ऐकान्तिकमात्यन्तिकमुभयं कैवल्यमाप्नोति ॥ ६८॥ तदेवं सति शरीरभेदे देहनाशे प्राप्ते आयाते इत्यर्थः । चरितार्थत्वात् । स चार्थो द्विविधः (शाब्दात्मिकः) पूर्वमुक्तः। तस्पार्थस्य चरितार्थत्वात् कृत्वेत्यर्थः । प्रधानविनिवृत्तौ। यदा पूर्वकृत्तयोधर्माधर्मयोः क्षयो भवति तदा शरीरं भियते । तस्मिश्च शरीरे भिन्ने पूर्वोक्तेन ज्ञानेन शरीरं प्रधानाख्यं कारणमाविशे- साङ्ख्यकारिका - अतिसजिप्तम् । तदाह- शिष्यपरम्परयागतमीश्वरकृष्णेन चैतदार्याभिः । सङ्क्षिसमार्यमतिना सम्यक् विज्ञाय सिद्धान्तम् ॥७२॥ शिष्यपरम्परयागतमिति । कपिलादासुरिणा प्राप्तमि. दं ज्ञानम् । ततः पञ्चशिखेन, तस्मात् भार्गवोलूकवाल्मीकिहारी- तदेवलप्रभृतीनागतम् । ततस्तेभ्य ईश्वरकृष्णेन प्राप्तम् । तदेव षष्टितन्त्रम् आर्याभिः सङ्क्षिप्तम् आर्यमतिना विस्तीर्णमतिना सम्यक् विज्ञाय सिद्धान्तम् कार्यकारणसिद्धस्य शरीर- स्यान्तोऽपुनर्भावो मोक्षस्तस्य तादात्म्यामित्यर्थः । तत्सिद्धस्य शरीरस्य सूक्ष्मस्य तान्मात्रिकस्य सर्गादिभवस्यान्तो मूर्तिनाश इति वा। एष षष्टितन्त्र इति तात्पर्यम् ॥ ७१ ॥ सप्तत्यां किल येऽर्थास्तेऽर्थाः कृत्स्नस्य षष्टितन्त्रस्य । आख्यायिकाविरहिताः परवादविवर्जिताश्चेति ॥७२॥ ये षष्टितन्त्रे पदार्था अभिहितास्ते सप्तत्यां व्याख्याताः क- थिताः । षष्टिभेदाः प्राक् व्याख्याताः । 'भेदस्तमसोऽष्टविध' इति आर्यायां 'पञ्च विपर्ययभेदा' इत्यत्र चाभिहिता इत्येते पञ्चाशत् प्रत्ययाः । इमे चान्ये दश मौलिकाः । तथा हि- (१)अस्तित्वमेकत्वमथार्थवत्वं पारार्थ्यमन्यत्वमथो निवृत्तिः ।* योगो वियोगो बहवः पुमांसः स्थितिः शरीरस्य विशेषवृत्तिः॥ तत्र 'भेदानां परिमाणात्' इत्येतैः पञ्चभिर्हेतुभिः प्रधानास्ति- (१) अत्र एकत्वार्थवत्त्वपरार्थत्वानि प्रधानगतानि, अन्यत्वाक- र्तृत्वबहुत्वानि पुरुषगतानि, अस्तित्वयोगवियोगा उभयगताः स्थितिः शरीरस्य शेषगता वृत्तिः स्थूलसूक्ष्मगता । इत्यवधेयम् । * मथोनिवृत्तिरित्यस्य स्थाने मकर्तृताच इति पाठः समुचितः ।
माठरवृत्तिसाहिता। स्वमेकत्वमर्थवत्त्वं च सिद्धम् । 'सङ्घातपरार्थत्वात्' इति परा- र्थत्वमुक्तम् । 'जन्ममरणकरणानाम्' इति पुरुषबहुत्वं सिद्धम् । 'चक्रभ्रमवत् धृतशरीर' इतिस्थितिः सिद्धा, एते दश, ‘पञ्च विपर्ययाः' अष्टाविंशतिधा अशक्तिः, नवधा तुष्टिः अष्टधा सिद्धिरिति पञ्चाशत् । उभयं मिलत्वा षष्टिपदार्थाः षष्टितन्त्रे । तन्यन्ते व्युत्पाद्यन्ते पदार्था इति तन्त्रम् । षष्टिपदार्थानां तन्त्र- मिति सङ्गतिः। आख्यायिकाविरहिताः परवादविवर्जिता. श्चेति । परेण सहवादः परवादः तेन वर्जिताश्च । इति परि- समाप्तमिति ॥ ७२ ॥ अत्राह-कथमेतदल्पग्रन्थं शावं कृत्स्नस्य वाचक भविष्य. ति ? अत्रोच्यते- तस्मात्समासदृष्टं शास्त्रमिदं नार्थतश्च परिहीनम् । तन्त्रस्य च बृहन्मूर्तेर्दर्पणसङ्क्रान्तमिव बिम्बम् ॥७३॥ यस्मात् षष्टितन्त्र(१)इति हेतुः। समासदृष्टं सझेपतो ग्रन्थमित्यर्थः । शास्त्रमिति । शास्यते येनोत्पथादिति शास्त्रम् । तीर्थोदकमह- स्फलम् । कर्ता भोक्ता भोज्यं मोक्षश्चात्र चिन्त्यते । अथ दुःखानां शासनात् शास्त्रम् । इदम्-इमां सप्ततिं दर्शयति । नार्थतश्च प- रिहीनम् । षष्टिपदार्थविचारणायामहीनमित्यर्थः। तन्त्रस्येति। यथा स्वल्पेऽपि दर्पणे महतो रूपस्य निरूपणं स्यात् । एवमल्प. शास्त्रे षष्टितन्त्रस्य कृत्स्नस्यापि व्यक्तिरभिहितसर्थः॥ ७३ ॥ इत्याचार्य ईश्वरकृष्णप्रोक्तायाः साङ्खथसप्तत्या दृत्तिराचा. र्यमाठरकृतिः समाप्ता। (१) बृहत् तस्मात् इत्यपेक्षितम् ।
No text on this page.
जयकृष्णदास-हरिदासगुप्तः-चौखम्बासंस्कृतसीरीज़ आफिस बनारस सिटी। चौखम्बासंस्कृतसीरीज़ १ अस्या चौखम्बा- सस्कृतग्रन्थमालाया प्रतिमास पृष्ठशतके सुन्दरैः सीसकाक्षरैरुत्तमषु पत्रेषु एकः स्तबको मुदयित्वा प्रकाश्यते । एकस्मिन् स्तबके एक एव ग्रन्थो मुद्यते । २ प्राचीना दुर्लभाश्चामुद्रिता मीमासावेदान्तादिदर्शनव्याकरणधर्मशास्त्रसाहित्यपुराणादिग्रन्था यात्र सुपरिष्कृत्य मुद्यन्ते । "३ काशिकराजकीयप्रवान सस्कृतपाठशालाध्यापका पण्डिता अन्ये च शानदृष्टयो विद्वास एतत्परिशोवनादि- कार्यकारिणो भवन्ति । भारतवर्षीय , ब्रह्मदेशीयः, सिहलद्वीपवासिभिश्चैतग्राहकैर्देय वार्षिकमग्रिम मूल्यम्-मुद्राः १० आणकाः ८ ५ अन्यैर्देय प्रतिस्तबक ६ प्रापणव्यय पृथग् नास्ति । ... ... (१) सस्काररत्नमाला । गोपीनाथभट्टकृता ख० २ ३) (१८) अद्वैतसिद्धिसिद्धान्तमार । पण्डिनप्रवरश्रीसदानन्दव्या- (२) शब्दकौस्तुभ ! भट्टोजिदीक्षितकृत प्रथमाध्यायमारभ्य सप्रणीतस्तत्कृतव्याख्याममलड्कृत । (वेदान्त) ४॥) तृतीयाध्यायद्वितीचपादचतुर्था यायपर्यन्तम् ३३) (१९) कात्यायनश्रौतसूपम् । महामहोपाध्यायश्रीकर्काचार्य- (३) श्लोकवार्तिक भट्टकुमारिलविरचित पार्थमाराथि बिरचितभाष्यसहितम् (यन्त्रम्थ) मिश्रकृतन्यायरत्नाकराख्यया व्याख्यया सहितम् १५) (२०) ब्रह्मसूत्रभाष्यम् । श्रीभास्कराचार्यविरचितं भाष्योपवृहित तत्त्वत्रयम् । विशिष्टद्वितदर्शनप्रकरणम् । (२१) श्रीहर्षप्रणीत खण्डनगवण्डखाद्यम् । आनन्दपूर्णविर- श्रीमहोकाचार्यप्रणीतम् । श्रीनारायणतीर्थविरचित- चितया खण्डनफकिकाविभजनाख्यया व्याख्यया मातृभाषाप्रकाशसहित सम्पूर्णम् (वेदान्त ) ३) विद्यासागरीति प्रसिद्धया समेतम् । (वेदान्त) २१) (५) करणप्रकाश । श्रीब्रह्मदेवविरचित (२२) आख्यातचन्द्रिका श्रीभट्टमलविरचिता (६) भादृचिन्तामणि । महामहोपाध्यायश्रीगागाभट्टविर- चित तर्कपाद (मीमास) (२६) श्रीलक्ष्मीसहस्त्रम्-बालबोधिनीव्याख्ययाऽवतरणिकया ३) (७) न्यायरत्नमाला श्रीपार्थसारथिमिश्रविरचिता सम्पूर्णा ३) च सहितम् १२) (८) ब्रह्मसूत्रभाष्यम्-बादरायणप्रणीतवेदान्तसूत्रस नीन्द्र- (२४) ब्रह्मसूत्रवृत्ति मरीचिका श्रीत्रजनाथभट्टकृता । श्रीमद्विज्ञानभिक्षुकृतव्याख्यान । सम्पूर्णम्। (वेदान्त )९) (२५) क्रोडपत्रसग्रह । अत्र श्रीकालीशङ्करसिद्धान्तवागीश- (९) स्याद्रदमञ्जरीमल्लिघेणनिर्मिता सम्पूर्णा । विरचितानि अनुमानजागदीश्या प्रत्यक्षानुमानगादाध- (१०) सिद्वित्रयम्-विशिष्टाद्वैतब्रह्मनिरूपणपरम् श्रीभाष्यकृता र्या प्रत्यक्षानुमानमाथुर्या व्युत्पत्तिवादस्य शक्तिवादस्य परमगुरुभि श्री ६ श्रीयामुनमुनिभिर्विरचितम् । १॥) मुक्तिवादस्य शब्दशक्तिप्रकाशिकाया' कुसुमाञ्जलेश (११) न्यायमकरन्द । श्रीमदानन्दबोधभट्टारकाचार्यस गृहीत । क्रोडपत्राणि ख० ७ १०) आचार्यचित्सुखमुनिविरचितव्याख्योपेत (वेदान्त) ६) (२६) ब्रह्मसूत्रम् , द्वैताद्वैतदर्शनम् । श्रीसुन्दरभट्टरचितसिद्धा- (१२) विभक्त्यर्थनिर्णयो न्यायानुसारिप्रथमादिसप्तविभक्तिवि न्तजाह्नवीयुतम् स्तृतविचाररूप म० म० श्रीगिरिवरोपाध्यायविरहित (२७) षड्दर्शनसमुच्चय । बौद्धनैयायिककापिलजैनवैशेषिक- सम्पूर्ण (न्याय) जमिनीयदर्शनमक्षेप । मणिभद्रकृतटीकया सहित । (१३) विधिरसायनम् । श्रीमदप्पय्यदीक्षितकृत सम्पूर्ण ३) हरिभद्रमूरिकृत (१४) न्यायसुवा (तन्त्रवार्तिकटीका) भट्टसोमेश्वरविरचिता । (२८) शुद्धानमार्तण्इप्रकाशव्याख्यासहित प्रमेवरनार्णव १७) (मीमासा २१) (२९) अनुमानचिन्तामणिव्याख्याया शिरोमणिकृतदीधित्या (१५) शिवस्तोत्रावली । उत्पलदेवविरचिता श्रीक्षेमराजविर जागदीशी टीका चितवृत्तिसमेता (वेदान्त) ३) (३०) वीरमित्रोदय महामहोपा-याय श्रीमित्रमिश्रविरचित प- (१६) मीमासाबालप्रकाश । जैमिनीयद्वादशाऽन्यायार्थमंग्रह रिभाषा-सस्कारप्रकाशात्मक : सापिण्यदीपकश्च१६॥) श्रीभट्टनारायणात्मअभट्टशङ्करविरचित । (मीमासा) ३) (३) कीरमित्रोदय । महामहोपाध्यायश्रीमिश्रमिअविरचित (१७) प्रकरणपश्चिका प्रभाकरमतानुसारि-मीमासादर्शनम् । आहिकप्रकाश महामहोपाध्यायशालिकनाथमिविरचितम् श्रीशङ्कर- (३२) स्मृतिसारोद्धार विद्वदविश्वम्भरत्रिपाठिसकलित ६) भट्टकृत मीमासासारसग्रहश्च सम्पूर्ण (मीमासा) २ (३३) नरत्नमञ्जूषा । श्रीभगवत्पुरुधेत्तमाचार्यकृता ।"
Managin जयकृष्णदास-हरिदासगुप्त -चौखम्बासंस्कृतसीरीज़ आफिस बनारस सिटी! चौखम्बासंस्कृतसीरीज़। -- । (१४) प्रस्थानरबार । गोस्वामिश्रीपुरुषोत्तमजीमहाराज- (४८) वीरमित्रोदय । लक्षणपकाश । महामहोपण यायत्री- विरचित मित्रमिश्राविरचित खण्डा ७ (१५) बदा तगरिजातसौरभ नाम ब्रनमीमासाभाष्य श्रीनिम्बः- (४९) बृहदारण्यकवर्निकस्गर श्रीमद्विद्यारयस्वामिविरचित । काचार्यविरचितम् महेश्वग्नीथमनयालधुसग्रहाख्ययादीकयासमलकन १५ (३६) योगदर्शनम् । परमहमपरिव्राजकाचार्यनारायणतीर्थ-(५०) वीरमित्रोदय । राजनीनितकश । महामहोपा य - विरचित-योगसिद्धान्तवन्द्रिकासमाख्यया व्याख्यया श्रीमित्रमिथविरचित सवन्तिम ३) । (५१) पूर्वमीमासा भधिकरणकौमुदी । श्रीमन्महाम, 71 (३७) वेदान्तदर्शनमू। परमहंसपरिव्राजकाचार्यश्रीरामानन्द- प. रामकृष्णभट्टाचार्गविरचिता नेने इन्यु य सरस्वतीम्यामिकतनाऽमृनवर्षिणीममाख्यव्याख्यामद- 1 गोगलशाश्त्रिणा परिशिष्टाधिकरणनिरूपणपूर्वक टे- दिनम् (३.८) विश्वप्रकाश । कोश विद्रद्वरश्रीमहेश्वरभूरिविरचित ३) (१२) प्रशस्तपारभायटीकासग्रह । तत्र कगादरहस्सम् ! (३५) श्रमुबहिनी । वल्लभाचार्यविनिर्मिता श्रीमद्भागवत श्रीशकरमिश्रविरचितम् २०२ विनितांतसहिता । श्रीमद्भागवतदशमरकन जन्म-(३) क्रमदोपिका । श्रीम-महामहोपा याय काश्मीरिककेश- प्रकरण श्रीमुने निटिपण्यो -प्रकाश गोस्वामि वमट्टविरचिता । विद्याविनोटश्रीगोविन्दभट्टाचार्यकनवि- श्री पुरुषोत्तमजामहाराज विरचित वरणोपेता (४०) दीमिरोदय । महामह ा-यायश्री मित्र मिश्रविरचित (५४) वीरमित्रोदय । तीर्थप्रकाश । महामहोपाध्याय में- पूजाप्रकार अमिश्रविरचित खराडा (४१) वेदान्तसिद्वान्तसग्रह श्रुतिमिवान्नापरनामक ! (५५) साख्यसग्रह । तत्र साख्यतत्त्वविवचनम् प्राषिमान श्रीब्रमवारिवामाशिमिश्रविरचिन । वेदान्तकारिकार 'क्षेमेन्द्र' विरचितम् । सांख्यतत्त्वयाथार्थ्यदीपनम् भा ली श्रीपुरुषोत्तमामाद शर्मकृता अ-यात्मसुधातरङ्ग वगणेशविरचितम् । समाससूत्रव्याख्या सोपका ण्याख्यटक्या महिला रिणी । कपिलमूत्रसक्षितवृत्ति । तन्वसमाससूत्र विवर (४२) स्वानुभवादर्श । श्रीमन्यग्महसपरित्राजकाचार्यनाराय- णम् । तत्त्वसपाससूत्रवृत्ति । साख्यतत्त्वप्रटीपिका गाश्रमशिष्यमाधवाधरिचित स्वकृतटीकावि- ख्यतत्त्वप्रदीप । ब्वमीमासा । सामरिभाषा भूषितश्च चखग्डे २ (४३) याज्ञवल्क्यस्मृति मालम्भट्टीसनास्पधाग्यासमलड्- (५६) न्यायपरिशुद्धि । श्रीमद्वेङ्कटनाथ श्रीवेदान्ताचा प्रसा तमिनान परिना । व्यवहार न्याय दिता । श्रीनिवासाचार्यविरचित न्यायसारसमात्यय (१४) गादाघरो। गदाधरभट्टान चक्रवर्तिकता। श्रीगङ्गे- टीच्या युता ख० ५ शोपा-या शिरचनतनाचन्तामण्या श्रीरघुनाथतार्कि- (५७) निर्णयसिन्धु-कमलाकरभट्टविरचित , कृष्णभट्टकृत काशिरोमणिविविादी पन्या च गर्भिता ख १३ १०॥) मासहित खण्डा ८ (४९) शनदीपिका । श्री यमार थिमिश्रप्रणता । रामक- (५) प्रकाश, श्रीमदापदेवविरचित । श्रीमनन्तदेव बाविचितयुक्तिस्नेहपपूरण्याख्ययावाया सहितात- विरचितया "भाहालङ्कारात्य" व्याख्ययासहिता ५) पाद राख्यतत्वकौमुदी-पदर्शनबम्पत्तिमिविरचि- (४६) वैयाकरणार द्ध तलघुमन्या म० म० श्रीनागेश ना । पण्डितगड-वशीधरभिश्रविरचत तत्त्वविभा पट्टविरचिता । श्रीमदृटुर्बलाचार्य- बालम्भटाभ्या वर कर"श्रीकासहिता खण्डे ५ दितकुञ्जिकाक टाक द्रवस पलिता ख० २१ ११) १६० न्यायदर्शन सभा यसटीक स्वद्योत सहितम्-खण्डे ) (४७) ज्याक्ग्णमिद्वान्तमुध निधि । पर्वतीय विश्वेश्वरमूरि-६१) सासचका रिका ईश्वरकृष्णविरचित । माठराव विर- विरचित रखएडा १ चिता---माठरवृत्तिमहिना । १८। anRNANCIAINIONS जयकृष्णदारू गुप्तः सेक्रेटरी चौखम्बासस्वतसीरीज़ आफिस बनारस सिटी।
No text on this page.