Uttarpara Jaykrishna Public Library, Hooghly

Kathkopanipat

Apte, Vinayak Ganesh · 2010/04/6

PDF Proofread

Front matter

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

आनन्दाश्रिमसंस्कनप्रन्थावलिः। अन्याहू: काठकोपनिषत् । .. सटीकादयाभाष्योगना । मास्टर ऑफ आर्टस् इन्युपपदधागि फर्णम कालेजस्थ- संस्कृतभाषाध्यापकः गजबडे इत्यु गढ- जनाथशर्मभिः मंशोपिना। Indon -- वी . इत्युपपदध पणा विनायक गणेश आपटे रमलेन ५१५५ श्रीमन · महादेव चिमाजी आपटे इत्यभिधय- मामागनिष्ठा पित आनन्दाश्रममुद्रणालये प्रमाक्षरेमेनिया प्रमिला। षष्टी पहनानत्तिः। शालिबाशकादा। १८४९ सिताब्दा १९२५ dowhema ( अस्य सर्वेऽधिकारा गजशासनानुसारेण स्वायत्तीकृताः । मूल्यं सपादस्यका (१)।

आनन्दा श्रममुद्रणालयस्थग्रन्थानां सूचीपत्रम् । ap ६ ६ .... १ १ ग्रन्यनाम । मूश्यम् । आ. १ गणेशाथर्वशीर्षम्-सभाष्यम् । २ रुद्राध्यायः-सायणाचार्यभट्टभास्करप्रणीतभाष्याभ्यां संवलितः । ३ पुरुषसूक्तम्-सायणभाष्योपेतम् । ४ योगरत्नाकरः-वैद्यकशास्त्रीयमन्थोऽतीव पुरातनः ५ ईशावास्योपनिषत्---सटीकशांकरभा याद्युपेता । १४ ६ केनोपनिषत्---सटीकशांकरभाप्याटपेता। ७ काठकोपनिषत्----टीकाद्वयसहितशांकरभाष्योपेता । ८ प्रश्नोपनिषत्---सटीकशांकरभाप्याद्युपंता । ९ मुण्डकोपनिषत्—सटीकशांकरभाष्याशुपता । १० माण्डूक्योपनिषत्-. सटीकशांकरभाष्यगौडपादीयकारिकायुपता। २ ११ ऐतरेयोपनिषत्---सटीकशांकरभा' यायुपेता । १२ तैत्तिरीयोपनिषत--सटीकशांकरभाष्याशुपता । १२ १३ तैत्तिरीयोपनिषद्भाष्यवार्तिकम्-सुरेश्वराचार्यकृतं सटीकम् । २ १४ छान्दोग्योपनिषत्----सटीकशांकरभाष्योपेता । १५ बृहदारण्यकोपनिषत्---सटीकशांकरभाष्योपेता। १६ बृहदारण्यकोपनिषदभाष्यवार्तिकम्-भागत्रयात्मकम् । २२ १७ श्वेताश्वतरोपनिषत्– भाप्यदीपिका पेता । .... १८ सौरपुराणम्-श्रीमद्वैपायनप्रणीतमुपपुराणम् । १९ रसरत्नसमुच्चयः- श्रीमद्वाग्भटाचार्यविरचितः । वैद्यकमन्थः १२ २० जीवन्मुक्तिविवेकः-विद्यारण्यविरचितः सटीकः । .... १२ २१ ब्रह्मसूत्राणि--- सटीकशांकरमा योपेतानि भागद्वयात्मकानि । १२ २२ श्रीशकरदिग्विजयः-विद्यारण्यकृतः, टीकाटिप्पणीभ्यां सहितः । ६. २३ वैवासकन्यायमालाविस्तरः----भारतातीर्थमुनिप्रणीतः । १२ २४ जैमिनीयन्यायमालांविस्तर:--- श्रीमाधवप्रणीतः । २५ सूतसंहिता-- माधवकृतटीकोपेता मागत्रयात्मिका । ११ २६ हस्त्यायुर्वेदः-पालकाप्यमुनि विरचितः । २७ वृन्दमाधवः-श्रीमद्न्दप्रणीतः सटीकः । वैयकमन्थः । १२ २ ५ .... ८८ ८ २ ४ ३ .... .... ३ ३ ८ .... ८ ७ ur ....

, १२ १२ १२ * * १ २ .... ४ ८ ३ .... .... ८ ४ [२] २८ प्रमपुराणम्-- श्रमदव्यासविरचितम् । प्रथमं महापुराणम । २९ उपनिषदां समुच्चय:-श्रीनारायणशंकरानन्दकृतदीपिकासहितः । ६ ३. नृसिंहपूर्वोत्तरतापनीयोपनिषत्-भाष्याशुपता । .... ३१ बृहदारण्यकोपनिन्मिताक्षरा----श्रीनित्यानन्दमुनिविरचिता । २ ३२ ऐतरेयब्राह्मणम्- भायणभाप्यसमेतम् । भागद्वयात्मकम् । १०. ३३ धन्वन्तरीयनिघण्नु:-धन्वन्तरिविरचितः । वैद्यकग्रन्थः । ६ ३४ श्रीमद्भगवद्गीता-- शांकरभाप्योपेता । ३४ श्रीमद्भगवद्गीता- · सटीकशांकरणप्योपेता । ३५ संगीतरत्नाकरः-- शादवकृतः सटीको द्विभागः । गानशास्त्रभ । १० ३६ तैत्तिरीयारण्यकम् । सायणभाप्यसमेतं भागद्वयात्मकर । ३७ तैत्तिरीयब्राह्मणम् सायणभाष्यमगेतं भागत्रयात्मक! । १४ ३८ एरियारण्यकम्--- यणभा यहिन । ३९ संस्काररत्नमाला-- गोपीनाथभट्टविचिना भागद्वयात्मिका । १२ ४० संध्याभाष्यसमुच्चयः-- खण्डानशाकु'णपाण्डितादिप्रणीतः । ४१ अग्निपुराणम्-महिपन्यासप्रणीतम् । महापुराणम् । ४२ तैत्तिरीयसंहिता- सायणभा यता भागनवकात्मिका । ४३ वैयाकरणसिद्धान्तकारिक्षाः-पट्टजीदीक्षितकृताः सटीकाः । ४४ श्रीमद्भगवद्गीता--. येशानभाष्यसमता । ४५ श्रीमद्भगवद्गीता-- मधुसूदनश्रीधरकृनटीकोपेता । ४६ याज्ञवल्क्यस्मृतिः अपरायकृतटीकासहिता भागद्वयात्मिका । १३ ४७ पातञ्जलयोगसूत्राणि---भाग्य-त्तिभ्यां समेतानि । ४८ स्मृतीनां समुच्चः - अङ्गिरःप्रतिस्प्तविंशतिस्मृत्यात्मकः । ४९ वायुपुराणम्- -- महर्षिव्यासप्रणीत । महापुराणम् । ५० यतीन्द्रमतदीपिका -श्रीनिवासदार कृता । प्रकाशटीकोपेता । ५१ सर्वदर्शनसंग्रहः --- माधवाचार्यप्रणीतः । ५२ श्रीमद्गणेशगीता- · नीलकण्टकृतीकोपेता । ५३ श्रौतसूत्रम्----सत्यापादविरचितं भागदशकाताकम् । २८ ५४ मत्स्यपुराणम्-श्री वायनमुनिप्रणीतम् । महापुराणम् । ५५ पुरुषार्थचिन्तामणिः-आठवलेइत्युपाविष्णुभट्टकृतः । ५६ नित्याषोडशिकार्णवः-भास्कररायोन्नीतटीकासहितः । ३ ५७ आचारभूषणम् --हिरण्यकेश्याहनिकगोकोपावग्यम्पककृतम् । १० १२ ८ ... ४ ३ ४ १२ .... ४ २ २ .... ५ ६ ८ .... २ ... १२ .... २ .... ३ १२ سہ or w ur ४ ८ .... ... १२ .... .... १ ४ .... or "... १० १२ w ur [३] ५८ आचारेन्यु:--माटेइत्युपाहव्यम्बकविरचितः । ५९ श्रादमञ्जरी-केळकरोपाहबापूभट्टविरचिता । ६०.यतिधर्मसंग्रहः, विश्वेश्वरसरस्वतीकृतः । ६१ गौतमप्रणीतधर्मसूत्रम्--हरदत्तकृतटीकासमेतम् । १२ शकेनकठप्रश्नमुण्डमाण्डूक्यानन्दवल्लीभृगूपनिषदः-सटीकाः।२ ६३ छान्दोग्योपनिषत्--रङ्गरामानुजविरचितप्रकाशिकोपेता । ६४ बृहदारण्यकोपनिषत्--रङ्गरामानुजविरचितप्रकाशिकोपेता । ६५ शाङ्खायनब्राह्मणम्-ऋग्वेदान्तर्गतबाप्कलशाखीयम् । ६६ काव्यप्रकाशः---उद्द्योतयुतप्रदीपसहितः । ६७ ब्रह्मसूत्राणि-दीपिकासमेतानि । ६८ बृहद्ब्रह्मसंहिता-नारदपञ्चरात्रान्तर्गता । ६९ ज्ञानार्णवतन्त्रम्----ईश्वरप्रोक्तम् । तन्त्रशास्त्रग्रन्थः ।.... ७० स्मृत्यर्थसारः---श्रीधराचार्यविरचितः । ७१ बृहद्योगतरङ्गिणी---त्रिमल्लमविरचिता भागद्वयोपेता । १० ७२ परिभाषेन्दुशेखरः- वैद्यनाथकृतगदाख्यटीकायुतः । ७३ गायत्रीपुरश्चरणपद्धतिः-श्रीमच्छंकराचार्यविरचिता । ७४ द्राह्यायणगृह्यसूत्रवृत्तिः-रुद्रस्कन्दप्रणीता । ७५ ब्रह्मसूत्रभाष्यार्थरत्नमाला----मुब्रह्मण्यविरचिता । ७६ ईशकेनकठोपनिषदः--दिगम्बरानुचरकृतव्याख्यासमेताः । ७७ वेदान्तसूत्रमुक्तावलिः--ब्रह्मानन्दसरस्वतीविरचिता । ७८ त्रिस्थलीसेतुः--नारायणभट्टविरचितः । ७९ छान्दोग्योपनिषत्----मिताक्षराव्याख्यासमेता । ८० वाक्यवृत्तिः-श्रीमच्छंकराचार्यकृता सटीका । ८१ आश्वलायनश्रौतसूत्रम्---नारायणकृतवृत्तिसमेतम् । ८२ ब्रह्मसूत्रवृत्तिः--हरिदीक्षितविरचिता । ८३ संक्षेपशारीरकम्-व्याख्यासहितं भागद्वयोपेतम् । ८४ अद्वैतामोदः-अभ्यंकरोपाहवासुदेवशास्त्रिप्रणीतः । ८५ ज्योतिर्निबन्धः-शूरमहाठश्रीशिवराजविरचितः । ८६ विधानमाला-श्रीनृसिंहभट्टविरचिता । ८७ अमिहोत्रचन्द्रिका-किंजवडेकरोपाहवामनशास्त्रिभिः कृता । ८८ निरुक्तम्-दुर्गाचार्थकृतवृत्तिसमेतम् । भागवयात्मकम् । १६ २ १ .... .... ४ .... .... २ ६ ... १२ २ .... ... ० ८ ११ M .... .... १५ ४ २ १४ आनन्दाश्रमसंस्कृतग्रन्थावलिः। ग्रन्थाङ्कः ७ जूना गणगाव काठकोपनिषत् सटीकाद्वयशांकरभाष्योपेता। मास्टर ऑफ आर्ट्स इत्युपपदधारिभिः फर्ग्युसनकालेजस्थ- संस्कृतभाषाध्यापकैः ‘राजवाडे । इत्युपाद्वै- वैजनाथशमभिः संशोधिता। साच बी. ए. इत्युपपदधारिणा विनायक गणेश आपटे इत्यनेन पुण्याख्यपत्तने आनन्दाश्रममुद्रणालये आयसाक्षरैर्मुद्रयित्वा प्रकाशिता । षष्ठीयमडून्नावृत्तिः। शालिवाहनशकाब्दाः १८४९ खिस्ताब्दाः १९२७ ( अस्य सर्वेऽधिकारा राजशासनानुसारेण स्वायत्तीकृताः ) मूल्यमेको रूपकः सपादः । (१.४)

No text on this page.

a आदर्शपुस्तकोल्लेखपत्रिका। अस्य ग्रन्थस्य संस्करणे महादेव चिमणाजी आपटे' इत्येतैः प्रेषि- तानि यानि मुद्रितहस्तलिखितपुस्तकानि क. ख. इत्याद्यक्षरैरङ्कितान्यु- पयुक्तानि तेषु- 'क' इतिसंज्ञितम् पुस्तकम्-कलिकातायां 'बिब्लीओथिका इण्डिका' इति ग्रन्थावल्यां मुद्रितं कै० वे० शा० सं० बाल- शास्त्री देव इत्येतेषामधिकारिभ्योऽधिगतम् । 'ख' इतिसंज्ञितम्-इन्दुरवासिभ्यां किंवकुलोत्पन्नाभ्यां भाऊसाहेब बाळासाहेब इन्येताभ्यामधिगतम् । 'ग' 'घ' इतिसंज्ञिते द्वे-रावसाहेब विंचुरकर इत्येतेभ्योऽधिगते । '' 'च' इतिसंज्ञिते द्वे-पुण्यनगरवासिभ्यः श्रीगुरुमहाराज इत्येतेभ्यो:- धिगते । - 'छ इतिसंज्ञितम्-भाऊसाहेब नगरकर इत्येतेभ्योऽधिगतम् । 'ज' इतिसंज्ञितम् - कोल्हापुरवासिभ्यः श्रीगुरुमहाराज इत्येतेभ्योऽ- धिगतम् । 'झ' इतिसंज्ञितम्-काश्यां मुद्रितं रा० रा. आपटे इत्येतेभ्योऽ- धिगतम् । 'अ' इतिसंज्ञितम्-वटोदरनिवासिभ्यः कृष्णराव भीमाशंकर । इत्येतेभ्योऽधिगतम् । '' इतिसंज्ञितम्-अष्टेग्रामनिवासिभ्यः · गोविन्दराव लिपये' इत्ये- तेभ्योऽधिगतम् । *'' इतिसंज्ञितम्-काठकोपनिषत् । गोगलेन्द्रयतीश्वरटीकायुतभा- प्योपेता | नागपुरनिवासिनां श्रीयुतानां रा. रा. ' अप्पासाहेब बुटी' इत्येतेषाम् । एतेषु 'क''' इति द्वे पुस्तके विहायेतराणि सर्वाणि हस्तलिखि- तान्येव । 'म' इत्यस्य मुद्रणकालः संवत् १९३० इति वर्तते । — क इत्यस्य गलितमुखपृष्ठत्वात्कालो न ज्ञायते किंतु तदाधुनिकमेव । 'कु' - * इदं तु तत्स्वामिसकाशाच्छोधनकालादूर्व प्राप्तमतस्तदानन्दाश्रमस्थैरेव पण्डितैः समीक्ष्य तत्पाठान्तराणि स्वीकृतानि ।

क, ख,ज - ट [२] इति शके १६७७ युवनामसंवत्सरे लिखितम् । 'ज' इत्यस्य लेखनकाला संवत् १८७८ इति वर्तते । इतराणि सर्वाणि शकविहीनान्येव । एतेषां साम्यभेदाभ्यां । ग, घ, च'', श, ष,ट' इति च त्रयो वर्गा भवन्ति । प्रथमो वर्गः कलिकातास्थानीय इत्यभिहितः । अन्तिमः काशीस्थानीयः । मध्यमस्य स्थानोल्लेखाभावामामकरणं कर्तु न शक्यते । त्रिषु वर्गेषु · घ, ज, झ, ञ, इति शुद्धान्युपलब्धानि । इतराप्यती. वाशुद्धान्यविश्वसनीयानि च । पाठभेदे शुद्धानां यत्रैकमत्यं स पाठः स्वीकृत एव । वैमत्ये तु वरीयस्त्वं 'घ, च इत्येताभ्यां दत्तम् । एतयोर्विसंवादे यत्र बहूनां पक्षपातः स गृहीतः । तेन प्रायशो 'ग, घ, च, ङ, झ, ञ, इत्येतेषां साहचर्य दृष्टम् । सर्वथा शंकराचार्यकृतभाष्यस्याक्षरशः प्रत्युपस्थापने यत्नः कृतः स कियतांऽशेन सफलीभूत इति न निश्चीयते । छ' पुस्तके काठकोपनिपन्मूलमेव वर्तते । ‘ग, घ, च' पुस्तकेषु भाष्य मेव । इतराणि समूलानि सभाष्याणि टीकायुक्तानि च ' च, ख, ज' पुस्त- कान्यानन्दज्ञानकृतटीकायुक्तानि · झ, ञ, ट' इत्येतानि च गोपालेन्द्रयति- कृतटीकासहितानि भवन्ति । आनन्दज्ञानकृतविवरणस्य कार्यागोपालेन्द्रय- तिना तस्यैव विस्तरः कृत इति तत्र तत्र टीकासाम्याद्भाति । आधुनिकमुद्रणे द्वे अपि टीके अर्थसौलभ्याय समावेशित । पाठान्तराणि प्रतिपृष्ठमूले प्रका- शितानि । वैजनाथ काशीनाथ राजवाडे, चतुर्थावृत्तिमस्ताविका। द्वितीयावृत्तावस्यामुपनिषदर्थपरिशीलनकर्तृणामर्थसौलभ्यसंपादनाय तत्र तत्र भाष्य एवावतरणि काया अग्रतो मूलं समावेशितम् । अथ च पूर्वावृत्ती यद्यत्र यत्र शोधनकर- गनियुक्तजनानामनवधानतया खलितमासीत्तदप्यत्र संशोध्य संस्कृतमिति विद्वद्भिर- भ्यहनीयम् । तथा प्रतिमन्त्रविभागाद्यप्रतीकवर्णानुक्रमोऽप्यत्र संगृह्य मुद्रितः । इत्यल- मत्यल्पसूचिकया प्रस्ताविकया । . युप्मदीयः आपटे इत्युपह्वो नारायणतनूजो हरिशर्मा, काठकोपनिषदन्तर्गतमन्त्रपतीकानां वर्णानुक्रमणिका। मन्त्रप्रतीकानि अ० व० म० पृ. मन्त्रप्रतीकानि अ० व. म. पृ० अ. उ. " २ 1. ६ संपरि० १ १ २ ३ ५ अग्निर्यथैको भुवनम् २ २ ९ ९९ उत्तिष्ठत जाग्रत...१ ३ १४ ७३ अङ्गुष्ठमात्रः पुरुषः २ १ १२ ८९ उशन्ह वै वाजश्रवसः१ १ , १३ ९० ३ १७ १२४ ऊर्ध्वमूलोऽवाक्शाखा२ ३ १ १०७ अजीर्यताममृतानाम् १ १ २८ २८ ऊर्ध्व प्राणमुन्नयति २ अणोरणीयान्महतः १ २ २० ५२ ऋतं पिबन्तौ मुकृत०१ ३ अनुपश्य यथा पूर्वे १ १० १ ५८ अन्यच्छ्रेयोऽन्यत् १ २ १ ए. अन्यत्र धर्मादन्यत्र १ एको वशी सर्वभूता०२ २ १२ १०२ २ १४ ४६ अरण्योर्निहितः...२ ८६ एतच्छुत्वा २ १३ ४५ अविद्यायामन्तरे १ ३५ एतत्तुल्यं यदि मन्यसे १ १ २४ २५ अव्यक्तात्तु परः...२ ८ ११४ एतदालम्बन श्रेष्ठम् १ २ १७ अशब्दमस्पर्शम् ....१ ३ १५ ७५ एवद्धचेवाक्षरम्....१ २ ११ अशरीर५ शरीरेषु १ २ २२ ५५ एष तेऽग्निर्नकिचेतः१ १ १९ २० अस्तीत्येवोपलब्धन्यः२ ३ १३ १२० एष सर्वेषु भूतेषु....१ ३ १२ अस्य विनंसमानस्य २ ९६ का. कामस्याऽऽप्तिं जगत्१ २ ११ ४३ आत्मान५ रथिनम् १ ३ जानाम्यहशेवधिः १ २ १० ४२ आशाप्रतीक्ष संगत५१ ११ आसीनो दूरं व्रजात २ २१ तरह कुमार५ सन्तम् । इ. तदेतदिति मन्यन्ते २ २ १४ १०५ इन्द्रियाणां पृथग्भावम२ ३ ६ ११३ तमब्रवीत्प्रीयमाणः १ १ १६ १७ इन्द्रियाणि हयानाहुः१ ३ ६२ तं दुर्दर्श गूढम् १ २ १२ इन्द्रियेभ्यः परं मनः२ ३ ७ ११४ तां योगमिति मन्यन्ते२ ३ ११ ११७ इन्द्रियेभ्यः पराः १ ३ १० ६६ तिस्रो रात्रीर्यदवा- इह चेदशकद्बोद्धम् २ ३ ४ १११ सीः... १ १ ९ १२ ७० आ. त. २ ७ ४ ४४ [२] " १ ६ ९ ५ ७ य. मन्त्रप्रतीकानि अ० व. म. पृ- मन्त्रप्रतीकानि अ० व० म० त्रिणाचिकेतस्त्रयम् १ १ १८ १९ पु. त्रिणःचिकेतस्त्रिभिः १ १ १७ १८ पुरमेकादशद्वारम् २ २ १ ९२ द. दूरमेते विपरीते...१ २ ४ ३४ प्र ते ब्रवीमि तदु १ १ १४ १५ देवैरत्रापि विचि० १ १ २१ २२ ब. " २२ २३ बहूनामेति प्रथमः १ न. भ. न जायते म्रियते वा१ २ १८ १९ भयादस्याग्निस्तपति २ ३ १११ न तत्र सूर्यो भाति २ १ १५ १०५ म. न नरेणावरेण... २ ३८ मनसैवेदमाप्तव्यम् २ १ ११ ८९ म प्राणेन नापानेन २ २ ९६ महतः परमव्यक्तम् १ ३ ११ ६९ न वित्तेन तर्पणीयः १ १ २७ २७ मृ. नसंदृशे तिष्ठति २ ३ ९ ११५ मृत्युप्रोक्तानाचिकेतः२ ३ १८ १२४ न सांपरायः प्रति०१ २ ३६ ना. य इमं परमम् ३ १७ नाचिकेतमुषा- य इमं मध्वदम् २ ख्यानम्....१ ७७ य एष मुप्तेषु जागति२ २ ८ ९९ नायमात्मा प्रवचनेन १ २ २३ ५५ यच्छेद्वाङ्मनसी १ ३ १३ ७२ नाविरतो दुश्चरितात्१ २ २४ ५७ यतश्चोदेति सूर्यः २ ९ नि. यथाऽऽदर्श तथा २ ३ ५ ११२ नित्यो नित्यानाम् २ २ १३ १०३ यथा पुरस्ताद्भवित १ १ ११ नै. यथोदकं दुर्गे वृष्टम् २ १ १४ ९० नैव बाचा न मनसार ३ १२ ११८ यथोदकं शुद्धे शुद्धम् २ १ १५ ९१ नैषा तर्केण मतिः १ २ ९ ४१ यदा पञ्चावतिष्ठन्ते २ ३ १० ११६ यदा सर्वे प्रभिद्यन्ते २ ३ १५ १२२ पराच: कामाननु २ १ २ ८१ यदा सर्वे प्रमुच्यन्ते२ ३ १४ १.२१ पराश्चि खानि.- यदिदं किंच जग. व्यतृणत् २ १ १ सर्वम् २ ११० पी. १ १० पीतोदका जग्धतृणा १ ७ / यस्तु विज्ञानवान् २ ३ ६ ६४ १ ६ प. २ ३ यदेवेह तदमुत्र २ سر Aadhubuna- अ० व. म. " on २ ६ ६ स. २ ३ मन्त्रप्रतीकानि मन्त्रप्रतीकानि अ० व० म० पृ. ६५ शतायुषः पुत्रपौत्रान् १ १ २३ २४ यस्त्वविज्ञानवान् १ ३ ६ ६३ शान्तसंकल्पःसुमनाः १ १ १० १३ श्र. यस्मिन्निदं विचि० १ १ २९ २९ श्रवणायापि बहुभिः १ २ ३७ यस्य ब्रह्म च क्षत्रम् १ २ २५ ५७ श्रेयश्च प्रेयश्च २ ३२ यः पूर्व तपसः... २ ८५ श्वोभावा मर्त्यस्य १ १ २६ २६ यः सेतुरीजानानाम् १ ३ २ ६० या. स त्वमग्निम्वर्यम् १ १५ या प्राणेन संभवति २ १ ७ ८६ ये. सत्वंप्रियान्प्रियरूपा १ सर्वे वेदा यत्पदम् १ येन रूपरसम्... २ १ २ १५ ८२ येयं प्रेते विचिकित्सा १ १ २० २ ३ १९ १२५ ये ये कामा दुर्लभाः १ १ २५ २५ स होवाच पितरम् २ १ ४ ८ यो. सू. योनिमन्ये प्रपद्यन्ते २ २ ९८ सूर्यो यथा सर्वलोक २ २ ११ १०१ लो. स्व. लोकादिमाग्नम् १ १ १५ १ १५ १६ स्वप्नान्तं जागरिता २ १ ४ वा. स्वर्ण लोके न भयम् १ १ १२ १४ पायुर्यथैको भुवनम् २ २ १० १०१ ह. विज्ञानसारथिर्यस्तु १ ९ ६५ वैश्वानरः प्रविशति १ ११ हसः शुचिपद्वसुः २ २ २ श. हन्त त इदं प्रव० २ २ शतं चैका च हृदयस्य १ ३ १६ १२३ हन्ता चेन्मन्यते २ १९ ५१ २१ सह नाववतु ७ ३ ७ १ समाता चेयं मन्त्रप्रतीकवर्णानुक्रमणी ।

No text on this page.

ॐ तत्सब्रह्मणे नमः। काठकोपनिपत आनन्दगिरिगोपालयतीन्द्रविरचितटीकाव्यसंवलितेन श्रीमच्छांकरभाष्येण समेता। ॐ सह नाविति शान्तिः । ॐ नमो भगवते वैवस्वताय मृत्यवे ब्रह्मविद्याचार्याय नचिकेतसे च । आ० टी०-धर्माधर्माद्यसंसृष्टं कार्यकारणवर्जितम् ।। कालादिभिरविच्छिन्नं ब्रह्म यत्तन्नमाम्यहम् ॥ १ ॥ यः साक्षात्कृतपरमानन्दो यावदधिकारं याम्ये पदे वर्तमानोऽकर्तृब्रह्मात्मतानुभवबलतो भूतयातनानिमित्तदोषरलिप्तम्वभाव आचार्यो वरप्रदानेन परब्रह्मात्मैक्यविद्यामुपदिदेश यस्मै चोपदिदेश ताभ्यां नमस्कुर्वन्नाचार्यभक्ते विद्याप्राप्त्यङ्गत्वं दर्शयति- ॐ नमो भगवते वैवस्वतायेति । गो० टी०-ब्रह्माद्वयं परानन्दं धर्मादीनामगोचरम् । कार्यकारणनिर्मुक्तं शिवं परमुपास्महे ॥ १ ॥ नत्वा देवमुमाजानि स्मृत्वा गुरुपदाम्बुजम् । ध्यात्वा गौरीमहं कुर्वे कठभाप्यविवेचनम् ॥ २॥ व भाप्यमतिगम्भीरं क्व चाहं मन्दबुद्धिगः । तथाऽपि गुरुवर्याणां पादसंस्मृतितो यते ॥ ३ ॥ भगवान्भाष्यकारो यमनचिकेतःसंवादरूपेण प्रवृत्ताः कठवलीळचिख्यासुश्चिकीर्षि- तस्य भाष्यस्य निर्विघ्नप्रचयगमनादिप्रयोजनाय ब्रह्मविद्याचार्यनतिलक्षणं मङ्गलमाचरन्नादौ यमं नमस्करोति-नम इति । मृत्यवे नम इत्यन्वयः । ननु न यमो नमस्कार्यों मार- यतीति मृत्युरिति व्युत्पत्त्या भूतयातनादिकर्तृत्वेन दोषवत्त्वानिर्दुष्टो ह्याचार्यों नाम भव- तीत्याशङ्कयाऽऽह-भगवत इति । उत्पत्तिं च विनाशं च भूतानामागतिं गतिम् । वेत्ति विद्यामविद्यां च स वाच्यो भगवानि[नी तिम्मृतेर्यमः करतलीकृतब्रह्मतत्त्वोऽपि यावद- धिकार याम्ये पदे वर्तमानः प्रारब्धमतिवाहयन्नकर्तृब्रह्मात्मतानुभवचलतो भृतयातनादिदोषै- -- १ झ. ट. ट. °न्तिः । शं नो मित्रः शं वरुण इति शान्तिः । ॐ । २ घ. इ. मो'।

२ टीकायसमेतशांकरभाष्योपेता- [अध्या०१ वल्ली१] रलिप्तस्वभाव इति युक्तं तस्य नमस्कार्यत्वमिति भावः । तस्य हिरण्यगर्भात्मकसूर्यप्रम. वत्वेन महत्त्वं दर्शयति-वैवस्वतायेति । विवस्वतोऽपत्यं पुमान्वैवस्वतस्तस्मै वैवस्व- ताय भगवते ब्रह्मविद्याचार्याय मृत्यवे नम इत्यन्वयः । एवं यमनतिं कृत्वा वरप्रदानेन यस्मै यमो नचिकेतसे ब्रह्मविद्यां प्राह यस्माच्च ब्रह्मविद्या लोके वृद्धिं गता तं नमस्करो. ति-नचिकेतस इति । नम इति संबन्धः । चकारो मङ्गलद्वयसमुच्चयद्वारा भक्तर्विद्या- प्राप्त्यङ्गत्वसूचकः । अथ काठकोपनिषदल्लीनां सुखार्थप्रबोधनार्थमल्पन्था वृत्तिरारभ्यते । सदेर्धातोर्विशरणगत्यवसादनार्यस्योपनिपूर्वस्य विपत्ययान्तस्य रूप- मुपनिषदिति । उपनिषच्छब्देन च व्याचिख्यासितग्रन्थप्रतिपाद्यवेधव- स्तुविषया विद्योच्यते । केन पुनरर्थयोगेनोपनिषच्छब्देन विद्योच्यत इत्युच्यते । ये मुमुक्षवो दृष्टानुश्रविकविषयवितृष्णाः सन्त उपनिषच्छ ब्दवाच्यां वक्ष्यमाणलक्षणां विद्यामुपसद्योपगम्य तनिष्ठतया निश्चयेन शीलयन्ति तेषामविद्यादेः संसारबीजस्य विशरणादिसनाद्विनाशनादि- त्यनेनार्थयोगेन विद्योपनिषदित्युच्यते । तथा च वक्ष्यति-"निचाय्य तं मृत्युमुखात्प्रमुच्यते" इति । आ० टी०--अथशब्दो मङ्गलार्थः । चिकीर्षितं प्रतिनानीते-काठकेति । ननूप- निषदो वृत्तिर्नाऽऽरब्धव्या प्राणिनां कामकलुषितचेतसामुपनिषच्छ्वणात्पराङ्मुखत्वाद्विशिष्ट- स्याधिकारिणो दुर्निरूपत्वाइन्धस्य च सत्यस्य कर्मभ्य एव निवृत्तरुपनिषज्जन्यविद्याया नि- प्रयोजनत्वाज्जीवस्य चासंसारिब्रह्मात्मतायाः प्रतिपादयितुमशक्यत्वेन निर्विषयत्वाच्चेत्या- शङ्कयोपनिषच्छन्दनिर्वचनेन विद्याया विशिष्टाधिकार्यादिमत्त्वप्रदर्शनेन तज्जनकस्य ग्रन्थ- स्थापि विशिष्टाधिकार्यादिमत्त्वेन व्याख्येयत्वं दर्शयितुं प्रथममुपनिषच्छब्दस्वरूपसिद्धिं तावदाह-उपनिपूर्वस्येति । ब्रह्मविद्यायामुपनिषच्छब्दस्योपनिषदं भो बृहीत्यादिप्रयोगदर्श- नाद्धात्वर्थमाह-उपनिषच्छब्देनेति । क्लृप्तावयवशक्त्यैव प्रयोगसंभवे समुदायशक्तिरुप- निपच्छब्दस्य न कल्पनीयेत्याह--केन पुनरिति । षद्ल विशरणगत्यवसादनोप्वति धातो. विशरणमर्थमादाय योगवृत्तिमाह-उच्यत इति । विषयेषु क्षयिष्णुत्वादिदोषदर्शनाद्वि- रक्ताः केचन मुमुक्षवः प्रसिद्धा न सर्वे भवादृशाः कामुका एवेति यच्छब्देन प्रसिद्धा. वद्योतकेन कथयति । आनुश्रविकाः शब्दप्रतिपन्नाः स्वाभोगादयः । उपसद्योति । आचार्योपदेशाल्लब्ध्वा यावत्साक्षात्कारं शीलयन्ति संसार्यसंसायक्यासंभावनादि निरस्य- न्तीत्यर्थः । १ . ट. सुखेनार्थबो । २ ग. च. थेप्रतिबोधनम । ३ ख. ङ. 'बोधनम । ४ ङ. म. 8. 'प्रन्धवृ । ५ ङ. झ. म. ठ. च्यतेऽत्रोच्य । ६ ङ. च. झ. न. "नुश्रावि । ७ इ. . म. ट. °च्छब्देन वा । ८ ग. च. "ठया ।'९ ग. ट. °णा द्विशसमावि ।

[अध्या० १ वाली १] काठकोपनिषत् । ३ गो० टी०-यदर्थ मङ्गलाचरणं कृतं तत्प्रतिज्ञानीते-अयेत्यादिना । अथ- शब्दो मङ्गलार्थः । काठकोपनिषद्वल्लीनां मृत्युनचिकेतःसंवादपरिसमाप्तिपर्यन्ता काठको- पनिषत् । तदेकदेशा वल्ल्यो लताः कल्पलतावदीष्टफलदाः । तासां वृत्तिर्भाष्यं तल्लक्ष- णसत्त्वादारभ्यते प्रक्रम्यत इत्यर्थः । ननु भर्तृप्रपञ्चादिभिरेव व्याख्यातत्वान्नाऽऽरम्भणीया वृत्तिरित्यत आह-अल्पग्रन्थेति । अन्येषां शब्दतो बहुत्वादर्थतश्च न्यूनत्वात्तैरगतार्थ भाष्यम् । अल्पा ग्रन्थाः शब्दा यस्याः सा तथोक्ता । ननु · अत्ता चराचरग्रहणात् ' इत्या- दिभिरधिकरणैरेव निर्णीतार्थत्वादुपनिषन्न व्याख्येयेत्यत आह-सुखार्थेति । सुखेनाना- यासेनार्थस्य वाक्यार्थस्य प्रबोधनार्थं सम्यग्ज्ञानाय पदार्थज्ञानपूर्वकवाक्यार्थज्ञानायेति यावत् । ननूपनिषदो वृत्तिर्नाऽऽरब्धन्याऽधिकारिप्रयोजनविषयसंबन्धानामभावात् । तथा प्राणिनां कामकलुषितचेतसामुपनिषच्छ्वणात्पराङ्मुखत्वेन विवेकादिमतोऽधिकारिणो दुर्लभत्वादुपनिषद्भिः कर्तृत्वादिविशिष्टजीवस्यासंसारिब्रह्मात्मतायाःप्रतिपादयितुमशक्यत्वेन ब्रह्मात्मैक्यविषयाभावादेव प्रयोजनमपि न लम्यते बन्धस्य सत्यत्वेन विद्यायास्तन्नि- वर्तकत्वायोगात्कर्मभिरेव तन्निवृत्तेः संभवाचात एव संबन्धो नेत्याशङ्कयोपनिषच्छब्द- निर्वचनेन विद्याया विशिष्टाधिकार्यादिमत्त्वप्रदर्शनेन तज्जनकग्रन्थस्यापि विषयादिमत्त्वं दर्शयितुमादावुपनिषच्छब्दस्वरूपनिष्पत्तिप्रकारं तावदाह--उपनिपूर्वस्योति । शिथि. लीकरणप्राप्तिनाशार्थकस्य विविति प्रत्ययोऽन्ते यस्य स तथा । तस्य सदेर्धातो- रुपपूर्वस्य निपूर्वस्य रूपं निष्पन्नशब्दस्वरूपमुपनिषदित्यर्थः । एवमुपनिषच्छब्दस्वरूपं निरुच्योपनिषदं भो बृहीत्यादौ ब्रह्मविद्यायामुपनिषच्छन्दप्रयोगदर्शनादुपनिषच्छब्देन ब्रह्मविद्योच्यत इत्याह-- उपनिषच्छब्देनेति । उक्तश्रुतिप्रसिद्धिद्योतकश्चशब्दः । व्याख्यातुमिष्टो ग्रन्थ उपनिषद्रूपस्तस्य प्रतिपाद्यमधिकारिणश्च वेद्यं यद्वस्तु ब्रह्मा- स्मैक्यं तद्विषयो यस्याः सा तथा । ननूपनिषच्छब्देन विद्या किं समुदायशक्त्याऽभिधीयत उतावयवशक्त्या । नाऽऽद्यः । लोके विद्यायामुपनिषच्छब्दस्य प्रयोगाभावेन समुदायशक्ते. रक्लृप्तत्वात्कल्प्यायाश्च क्लप्ताक्यवशक्त्या बाध्यत्वात् । न द्वितीयः । योगवृत्ते- रन्यत्रापि संभवादिति शङ्कते-केनेति । अर्थयोगोऽर्थसंबन्धस्तेन कमर्थसंबन्ध- मादायोपनिषच्छब्देन विद्योच्यत इत्यर्थः । उक्तरीत्या न समुदायार्थो नाप्यवय. वार्थ इति भावः । षद्ल विशरणगत्यवसादनेविति स्मृतरुपनिषच्छब्दस्यावयववृत्ति विद्यायां दर्शयिष्यामीत्याह-उच्यत इति । प्रथममुपशब्दलक्ष्यार्थमाह-य इति । दृष्टाः प्रत्यक्षेण स्त्रक्चन्दनवनितादयः शब्दश्रवणमनुगम्या आनुश्रविकाः । ते च ते विषयाश्च तेभ्यः क्षयिष्णुत्वसातिशयत्वादिभिर्हेतुभिर्विगता तृष्णाऽऽशा येषां ते तथा- रूपाः सन्तः । इदमुपलक्षणं शमादेः । मुमुक्षवो मोक्षेच्छवः प्रसिद्धाः । शान्तो दान्त इत्यादौ वक्ष्यमाणलक्षणं स्वरूपं यस्याः सा तां विद्यामुपसद्योपगम्य प्राप्येत्यर्थः । १ अ. सिद्धत्वेन । द. सत्त्वेन ।

४ । टीकाद्वयसमेतशांकरभाष्यांपेता। [ अध्या० १ वाली १ निशब्दार्थमाह-तनिष्ठयेति । तस्यां निष्ठाऽनन्यव्यापारता येषां ते तनिष्ठास्तेषां भावस्तनिष्ठता तया निश्चयेन फलावश्यकत्वबुद्धया शीलयन्त्यसंसायक्यासंभावनां निर- स्यन्ति साक्षात्कारपर्यन्तमित्यर्थः । धात्वर्थद्वयं संगृह्याऽ:ह-तेषामिति । संसारची- जम्य कर्तृत्वादिकारणस्याविद्यादेरादिपदेन कामकर्मादिपारग्रहः । विशरणादित्यस्य व्याख्यानं विशसनादिति । शिथिलीकरणादित्यर्थः । अवसादनार्थमाह--विनाशना- दिति । उत्तार्थमुपसंहरति – इत्यनेनेति । उक्तेऽर्थे श्रुतिं प्रमाणयति-तथा चेति । पूर्वोक्तविशेषणान्मुमुक्षून्वा परं ब्रह्म गमयतीति ब्रह्मगमयितृत्वेन योगाद्ब्रह्मविद्योपनिषत् । तथा च वक्ष्यति--" ब्रह्म प्राप्तो विरजोऽभू. द्विमृत्युः" इति । लोकादिब्रह्मजज्ञो योऽग्निस्तद्विषयाया विद्याया द्वितीयेन वरेण प्रार्थ्यमानायाः स्वर्गलोकफलमाप्तिहेतुत्वेन गर्भवासज- न्मजराग्रुपद्रववृन्दस्य लोकान्तरे पौनःपुन्येन प्रवृत्तस्यावसादयितृत्वेन शैथिल्यापादनेन धात्वर्थयोगादाग्निविधाऽप्युपनिषदुच्यते । तथा च वक्ष्यति-"स्वर्गलोका अमृतत्वं भजन्ते " इत्यादि । ननु चोपनिषच्छ. ब्देनाध्येतागे ग्रन्थमप्यभिलेपन्ति । उपनिषदमधीमहेऽध्यापयाम इति च । एवं नैष दोषोऽविद्यादिसंसारहेतुविशरणादेः सदिधात्वर्थस्य ग्रन्थ- मात्रेऽसंभवाद्विद्यायां च संभवात् । ग्रन्थस्यापि तादयेन तच्छब्दत्वो- पपत्तेः । आयुर्वं घृतमित्यादिवत् । तस्माद्विद्यायां मुख्यया वृत्त्योपनि- षच्छब्दो वर्तते ग्रन्थे तु भक्त्योति । एवमुपनिषनिर्वचनेनैव विशिष्टोऽ- धिकारी विद्यायामुक्तः । विषयश्च विशिष्ट उक्तो विद्यायाः परं ब्रह्म प्रत्यगात्मभूतम् । प्रयोजनं चास्या उपनिषद आत्यन्तिकी संसारनिवृ. त्तिर्ब्रह्ममाप्तिलक्षणा। संबन्धश्चैर्वभूतप्रयोजनेनोक्तः । अतो यथोक्ता- धिकारिविषयप्रयोजनसंबन्धाया विद्यायाः करतलन्यस्तामलकवत्प्रकाश कत्वेन विशिष्टाधिकारिविषयप्रयोजनसंबन्धा एता वल्लयो भवन्तीति । आ० टी०-गत्यर्थमादायाऽऽह-पूर्वोक्तेति । अग्निविद्यायामप्यवसादनमादायोपनि. पच्छब्दस्य वृत्तिमाह- लोकादिरिति । भूरादिलोकानामादिः प्रथमजो ब्रह्मणो जातो ब्रह्मजः स एव जानातीति ज्ञः । ग्रन्थे तु भक्त्येत्युपचारेणोपनिषच्छब्दप्रयोग इत्यर्थः । १ घ. ननूप । २ ख. लषन्ति । ३ ग. च. हेऽध्यापयामह इ । ४ ग. च नैव । ५ क. ज. °णादेर्धात्व । ग. घ. च. णात्सदेर्धात्व । ६ क. ख. ज.तु भाक्त्ये' । ग. ड. झ. म. ट. तु भाक्त इति । ७ ङ. झ. अ. ट. पच्छब्दनिर्व' । ८ क. ख. ज. या उक्तः । ९ ङ. श. म. ट. संबन्धप्रयोजनायाः। ४ [ अध्या० १ वल्ली १] काठकोपनिषत् । - उपनिषच्छब्दनिर्वचनेन सिद्ध मर्थमाह-एवमित्यादिना । आत्यन्तिको निदाननिवृत्त्या निवृत्तिर्विवक्षिता । निदानं चान्वयव्यतिरेकशास्त्रन्यायेभ्यःसं ारस्याऽऽत्मकत्वाविद्या। सा च न कर्मणा विनिवर्ततेऽतो विद्यायाः प्रयोजनेन साध्यसाधनलक्षणः संबन्ध इत्यर्थः । गो० टी०–सदेर्गत्यर्थमादायाऽऽह-पूर्वोक्तति : कर्तृत्वाद्यनर्थमूलाविद्यां निहत्य पूर्वोक्तविशेषणान्साधनचतुष्टयसंपन्नान्सादयति परब्रह्म गमयतीति व्युत्पत्त्या ब्रह्मगमयितृ- स्वयोगेन योगासंबन्धाद्ब्रह्मविद्योपनिषच्छब्देनोच्यत इत्यर्थः । उक्तेऽये व्याख्येयश्रुतिवाक्य प्रमाणयति- तथा चेति । विद्यया ब्रह्म प्राप्तो विगतं रजो यस्मात्स विरजोऽज्ञानशू- न्योऽभूत् । अत एव कार्यनिवृत्तिरित्याह-विमृत्युरिति । मृत्योर्मरणोपलक्षितसंसारा- द्विगत इत्यर्थः । ननु व्याचिख्यासितग्रन्थप्रतिपाद्यविद्योपनिषच्छब्देनोच्यत इत्युक्तम् । तथात्वेऽग्निविद्याप्रकाशनापत्तरित्याशङ्कय सदेराग्निविद्यायामवसादनविशरणार्थावादायोपनि- पच्छब्दस्य वृत्तिमाह-लोकादिरिनि । लोकानामादिः प्रथमनो ब्रह्मणो जातो ब्रह्मजः स एव जानातीति शम्तद्विषयाया अग्निविषयायाः । जरादीत्यादिपदेन मरणादिसंग्रहः । वृन्दस्य समूहस्यावसादयितृत्वेन धात्वर्थयोगादग्निविद्या:प्युपनिषच्छब्देनोच्यत इत्यन्वयः । इतरक्रियातो वैषम्यमाह-लोकान्तर इति । उक्तेऽर्थे वाक्यशेषं प्रमाणयति- तथा चेति । स्वर्गलोका यजमाना अमृतत्वं देवत्वं भजन्ते प्राप्नुवन्तीत्यर्थः । उपनिष- च्छब्दग्य ग्रन्थेऽध्यापकाध्येतृप्रसिद्धिविरोधं शङ्कते–नन्विति । प्रथमचकार एवका- रार्थः क्रियान्वयी । द्वितीयः प्रयोगद्वयसमुच्चयार्थः । उपपादितयोगार्थस्य विद्यायामेव संभवात्सव तच्छब्देनोच्यत इति परिहरति-नैष दोष इति । प्रतिज्ञायां हेतुमाह- आविद्योति । अविद्याकामकर्मेत्येवमादियः संसारस्तस्य कर्तृत्वादेर्हेतुस्तम्य विशरणादेरा. दिपदेन गत्यवसादयोर्ग्रहणं भवति । ननु ग्रन्थे प्रयोगः कथमित्यत आह-ग्रन्थस्या- पीति । तादयेनेति सोऽर्थः प्रयोजनं यस्य स तदर्थस्तस्य मावस्तादर्थ्य तज्जनकत्वे- नेति यावत् । स शब्द उपनिषदिति यस्य स तच्छन्दस्तस्य भावस्तच्छन्दत्वं तस्योपपत्ते: संभवादित्यर्थः । तज्जनके तच्छब्दप्रयोगे दृष्टान्तमाह-आयुरिति । आयुष्प्रदे घृत आयु- प्पदवदित्यर्थः । उपसंहरति-तस्मादिति । ग्रन्थे तु भक्त्येति लक्षणयोपनिषच्छब्द- प्रयोग इत्यर्थः । उपनिषच्छब्देन सिद्धमर्थमाह-एवमित्यादिना । उपनिषन्निर्वचन- मुपनिषच्छब्दस्य योगार्थकथनं तेन विशरणावसादनार्थानुगमेन विद्याया विवेकादिविशे- षणविशिष्टोऽधिकार्युक्तो गत्यर्थानुगमेन मुमुक्षुशब्दितत्वंपदलक्ष्यप्रत्यगात्मभूतं परं ब्रह्म विद्याया विशिष्टोऽसाधारणो विषय उक्तोऽस्या विद्यायाः प्रयोजनं चाविद्यानिवृत्तिद्वारा संसारनिवृत्तिरात्यन्तिक्यारोपिताभावस्याधिष्ठानात्मकत्वेन ब्रह्मप्राप्तिलक्षणः निवृत्तिः । अथवा ब्रह्मप्राप्तेम्तद्रूपनिरतिशयानन्दप्राप्तेर्लक्षणा ज्ञापिकेत्यर्थः । संबन्धमाह-संबन्धश्चेति । एवंभूतप्रयोजनेन संसारनिवृत्त्यादिप्रयोजनेन । संवन्ध उक्तो ज्ञानादीनामिति शेषः । अयं टीकाद्यसमेतशांकरभाष्योपेता- [अध्या० १ वल्ली १] - भावो न हि सर्वो लोकः कामादिपरतन्त्रस्तद्वदनेकजन्मार्जितसुकृतपारपाकाच्छुद्धसत्त्वस्या- धिकारिणः कस्यचित्संभवाइन्धस्य च मिथ्यात्वेनाविद्याकल्पितत्वात्कर्मभिनिवृत्त्ययोगादन्व. यव्यतिरेकाम्यां शुक्तितत्त्वज्ञानेनेव रजतभ्रान्तेायेन शास्त्रेण च ज्ञानेनैव बन्धनिवृत्तेरत एवाकर्तृब्रह्मात्मैक्यविषयस्यापि संभवः । एवं ज्ञानेनाविद्यानिवृत्तेर्जन्यजनकभावः संबन्ध इत्याद्यूहनीयमित्यधिकारिविषयप्रयोजनसंबन्धत्वेन विद्यायास्तज्जनकवल्लीनामपि तैः संबन्धा। दधिकार्यादिमत्त्वमित्यभिप्रेत्याऽऽह-अत इति । प्रकाशकत्वेन जनकत्वेन । विशिष्टेति- विशिष्टान्यधिकारिविषयप्रयोजनानि तैः संबद्धा एता व्याख्येयत्वेन बुद्धिस्थाः । तासां व्याख्येयत्वमुपसंहरति-इत्यत इति । अतस्ता यथाप्रतिभान व्याचक्ष्महे- ॐ उशन्ह वै वाजश्रवसः सर्ववेदसं ददौ । तस्य ह नचिकेता नाम पुत्र आस ॥ १ ॥ तत्राऽऽख्यायिका विद्यास्तुत्यर्था । उशन्कामयमानो है वा इति वृत्तार्थस्मरणार्थों निपातौ । वाजमन्नं तदानादिनिमित्तं श्रवो यो यस्य स वाजश्रवा रूढितो वा तस्यापत्यं वाजश्रवसःकिल विश्वजिता सर्वमेधे- नेजे तत्फलं कामयमानः। स तस्मिन्क्रती सर्ववेदसं सर्वस्वं धनं ददौ दत्तवान् । तस्य यजमानस्य ह नचिकेता नाम पुत्रः किलाऽऽस वभूव ॥१॥ आ० टी०-वश कान्तावित्यस्य शत्रन्तं रूपमुशन्निति । श्रवः कीर्तिः । सर्वमेधेन सर्वस्वदक्षिणेने यजनं कृतवानित्यर्थः । सदसि यज्ञसभायां येऽन्ये मिलिता ब्राह्मणास्ते- भ्यश्च ॥ १ ॥ गो० टी०-औद्धत्यं परिहरति -यथेति । यथाप्रतिभानं यथाज्ञानं व्याचक्ष्महे न्याख्यानं कुर्महे । नन्वन्यच्छ्य इत्यारम्यैवोपनिषद्वयाख्यानार्दा विद्याजनकत्वात्प्रथमाया- श्वाऽऽख्यायिकारूपत्वेन विद्यानङ्गत्वादित्यत आह-आख्यायिकेति । विद्यायां प्रवृत्ति- हेतुस्तुत्युपयोगित्वेन तदधिकारहेत्वग्निविद्याप्रतिपादकत्वेनाऽऽद्याया अपि व्याख्येयत्वमिति भावः । वश कान्तौ कान्तिरिच्छा । वशधातोः शतृप्रत्यय उशन्निति रूपं, वृत्तार्थों भूतार्थः । यशः कीर्तिः । रूढितो वा वाजश्रवा इत्यनुवर्तते सर्वमेधेन सर्वस्वदक्षिणाके- नेने यजनं कृतवानित्यर्थः । तत्फलं विश्वजितः फलम् । अर्थान्तरप्रसिद्धचवद्योती द्वितीयो निपातः ॥ १॥ ३ ङ झ. ज. ट.ह वै वृ । २ क. इ. वो यस्य । ३ क. ख. ज. स चैत । घ. स च त ४ रु. म. स्वध।

[ अध्या० १ वल्ली १] काठकोपनिषत् ।
त५ ह कुमार५ सन्तं दक्षिणासु नीयमानासु
श्रद्धाऽऽविवेश सोऽमन्यत ॥ २ ॥
तं ह नचिकेतसं कुमारं प्रथमवयसं सन्तमप्राप्तमजननशक्ति बालमेव
श्रद्धाऽऽस्तिक्यबुद्धिः पितुर्हितकामप्रयुक्ताऽऽविवेश प्रविष्टवती । कस्मि-
काल इत्याह-ऋत्विग्भ्यः सदस्येभ्यश्च दक्षिणासु नीयमानासु
विभागेनोपनीयमानासु दक्षिणार्थासु गोषु स आविष्टश्रद्धो नचिकेता
अमन्यत ॥२॥
आ० टी०- ॥२॥
गो. टी.-अप्राप्तप्रजननशक्तिमप्राप्ता प्रजनने प्रजोत्पादने शक्तिर्येन स तं श्रद्धाऽऽ.
विवेशेत्यन्वयः । ननु गुर्वधीनः स्वार्थ न व्यापारयेदिति न्यायात्कथं स्वेष्टानुकूला श्रद्धे.
त्यत आह-पितुरिति । काम्यत इति कामो हितश्चासौ कामश्च हितकामः स्वर्गादि-
रिति यावत् । तेन प्रयुक्ता जनिता जनकोद्देशज्ञानाधीनेत्यर्थः । प्रविष्टवतीति । स
श्रद्धावाञात इति भावः । दक्षिणास्वित्यादिवाक्यमाकाङ्क्षापूर्वकमपोक्षतं पूरयन्व्याक-
रोति-कस्मिनिति सदस्येभ्यश्चेति । ऋत्विग्भ्योऽन्ये सदसि यज्ञसमायां ये मिलि.
तास्तेभ्यश्च विभागेनेत्येतस्यैतावदित्युपनीयमानासु दीयमानासु दाक्षिणास्विति व्याचष्टे-
दक्षिणार्थीस्विति । विशेष्यं पूरयति-गोविति । ऋत्विगादिभ्यो गोषु दीयमानासु
तं श्रद्धाऽऽविवेशेत्यन्वयः ॥ २ ॥
पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः ।
अनन्दा नाम ते लोकास्तान्स गच्छति ता ददत्॥३॥
कथमित्युच्यते-पीतोदका इत्यादिना । दक्षिणार्था गावो विशे-
ज्यन्ते । पीतमुदकं याभिस्ताः पीतोदकाः । जग्धं भक्षितं तृणं याभिस्ता
जग्धतृणाः । दुग्यो दोहः क्षीराख्यो यासां ता दुग्धदोहाः । निरिन्द्रिया
अप्रजननसमर्था जीर्णा निष्फला गाव इत्यर्थः । यास्ता एवंभूती गा
ऋत्विग्भ्यो दक्षिणाबुद्धथा ददत्प्रयच्छन्ननन्दा अनानन्दा असुखा नामे.
त्येतो ते लोकास्तान्स यजमानो गच्छति ॥३॥
१ क. ख. °स्तिकी बु । २ झ. अ. 'न्यताऽऽलोचितवान् ॥ २ ॥ ट. "न्यताऽऽलोकि-
तवान् ॥ २ ॥ ३ ख. ज. र्थः । यतस्ता । ४ झ. अ. द. "ता ऋ । ५ ग. ब. 'मुखनामान
इत्ये । ६ क. ख. ज. ति ता ददत् ॥ ३ ॥

टीकाद्वयसमेतशांकरभाष्योपेता- [अध्या० १ वल्ली १ ] आ० टी०-पीतमुदकं प्रागेव नोत्तरकालं पानशक्तिरप्यस्तीत्यर्थः ॥ ३ ॥ । ४० गो० टी०-मननप्रकारं प्रश्नपूर्वकमवतारयति-कथमित्यादिना । विशेष्यन्ते पीतोदकत्वादिविशेषेण संयुज्यते । पतिमुदकं प्रागेव नोत्तरकालं पानशक्तिरप्यस्तीत्यर्थः । एवं दानोत्तरकाले तृणभक्षणे दोहने च न शक्तिरित्यर्थो द्रष्टव्यः । अप्रजननसमर्थाः प्रजनने वत्सप्रसवे सामर्थ्यशून्याः । निष्फला इति । शकृदपि द्रवीभूतेति निष्फला इत्युच्यन्ते । यः प्रयच्छन्स गच्छतीत्यन्वयः । कानित्यपेक्षायामाह-त इति । तच्छब्दः प्रसिद्धार्थक इत्याह-य इति । प्रसिद्धा लोका इत्यर्थः । कीदृग्विधा इत्यपेक्षायामाह- अनन्दा इति । न नन्दा आनन्दयन्तीति नन्दाः सुखजनकास्ते न भवन्तीत्यनन्दास्तदाह- अनानन्दा असुखनामान इत्येतदिति ॥ ३ ॥ स होवाच पितरं तत कस्मै मां दास्यसीति । द्वितीयं तृतीयं त होवाच मृत्यवे त्या ददामीति ॥ ४ ॥ तदेवं कन्वसंपत्तिनिमित्तं पितुरनिष्टं फलं मया पुत्रेण सता निवार- णीयमात्मप्रदानेनापि ऋतुसंपत्तिं कृत्वेत्येवं मत्वा पितरमुपगम्य स होवाच पितरं हे तत तात कम्मै, ऋत्विग्विशेषाय दक्षिणार्थ मां दास्यसि प्रयच्छसीत्येतत् । एवमुक्तेन पित्रोपेक्ष्यमाणोऽपि द्वितीयं तृती- यमप्युवाच कस्मै मां दास्यसि कम्मै मां दारयसीति । नायं कुमार- स्वभाव इति क्रुद्धः सन्पिता तं ह पुत्रं किलोवाच मृत्यवे वैवस्वताय त्वा त्वां ददामीति ।। ४ ।। आ० टी०-॥४॥ गो० टी० -मननप्रकारमुपसंहरन्नुत्तरवाक्यमुपसंहरति-तदेवमित्यादिना । एवं पूर्वोक्तगोदक्षिणया क्रतोरसंपत्तिरसाङ्गता निमित्तं यम्य फलस्य तथा । पुत्रेण सता पुंनाम्नो नरकात्रायत इति व्युत्पत्तेः सत्पुत्रेणेति यावत् । अपिशब्दो द्रव्यान्तरम्वातन्त्र्याभावयोः सूचकः । आत्मप्रदानेनापि क्रतुसंपत्ति कृत्वा पुत्रेण सता मया पितुरनिष्टं फलं निवा. रणीयमित्यन्वयः । दीर्घामावश्छान्दस इत्याह- तातेति । दास्यसीति स नचिकेताः पितरमुवाचेत्यन्वयः । एवं पूर्वोक्तवचसोक्तेन प्रेरितेन द्वितीयं द्वितीयवारं तृतीयं तृती- यथारं पुनः पुनरप्युवाचेत्यर्थः । किमित्यत आह– कस्मा इति । अपेक्षितं पूरयन्नुत्तर- मवतारयति-नायमिति ॥ ४ ॥ १ कु. म ट. 'निष्टफ° । २ क. ख. ज. 'स्यसीति प्र' । ३ क. ख. घ. ज. तेनापि ।

[ अध्या० १ वल्ली १ काठकोपनिषत् । बहूनामेमि प्रथमो बहूनामेमि मध्यमः। कि स्वि- यमस्य कर्तव्यं यन्मयाऽय करिष्यति ॥ ५ ॥ स एवमुक्तः पुत्र एकान्ते परिदेवयांचकार । कथमित्युच्यते-बहूनां शिष्याणां पुत्राणां वैमि गच्छामि प्रथमः सन्मुख्यया शिष्यादिवृत्त्ये. त्यर्थः । मध्यमानी च बहूनां मध्यमो मध्यमयैव वृत्त्यैमि । नाधमया कदाचिदपि । तमेवंविशिष्टगुणमपि पुत्रं मां मृत्यवे त्वा ददामीत्युक्त- वान्पिता स किंस्विद्यमस्य कर्तव्यं प्रयोजनं मयाँ प्रत्तेनं करिष्यति यत्कर्तव्यमद्य । नूनं प्रयोजनमनपेक्ष्यैव क्रोधवशादुक्तवान्पिता। तथाऽपि तत्पितुर्वचो मृषा मा भूदित्येवं मत्वा परिदेवनापूर्वकमाह पितरं शोका- विष्टं किं मयोक्तमिति ॥५॥ आ०टी०-यथावसरं गुरोरिष्टं ज्ञात्वा शुश्रूषणे प्रवृत्तिर्मुख्या। आज्ञावशेन मध्यमा । तदपरिपालनेनाधमा । मया दत्तेन यत्कर्तव्यमद्य यमस्य करिष्यति तत्किं कर्तव्यमासी- माऽऽसीदेव विधानाभावात् । कथं तर्युक्तवानित्यत आह--नूनमिति ॥ ५ ॥ गो० टी०- एवमुक्त इति । पित्रेति शेषः । परिदेवयांचकार दीर्घचिन्तां कृत- वानित्यर्थः । चिन्ताप्रकारं प्रश्नपूर्वकमवतारयति-कथमित्यादिना । बहूनां मुख्यवृत्ति- मतामिति शेषः । मुख्यया यथावसरं ज्ञात्वा शुश्रूषणे प्रवृत्तिरूपयेत्यर्थः । शिष्यादी- त्यादिपदेन पुत्रभार्यादयो गृह्यन्ते । मध्यमवृत्तिमाजां शिष्यादीनां मध्यमानाम् । चकारो वृत्तिद्वयं कालभेदेन नचिकेतसि विद्यत इति द्योतनार्थः । मध्यमयैवेति । आज्ञादिवशेन शुश्रूषणे प्रवृत्तिरूपयेत्यर्थः । नाधमया पित्रादिना कोपितः सशुश्रूषणेऽप्रवृत्तिरूपया । पित्रादिना कोपितः कदाचिदप्यधमया नैमीति संबन्धः । एवंविशिष्टगुणं हीनवृत्तिरहि- तम् । मुख्यमध्यमवृत्तिमांजो गुणवतः पुत्रस्य मृत्यवे दानमनुचितमित्याह--अपि पुत्र- मिति। मया प्रत्तेन दत्तेन द्वारा यत्कर्तव्यमद्य यमस्य करिष्यति तत्त्रयोजनं किं कर्तव्य- मासीन्नाऽऽसीदेव विधानाभावात् । कथं तर्युक्तवानत आह-नूनमिति । नूनं निश्चयः । अपेक्षितं पूरभुत्तरमवतारयति--तथाऽपीति । तद्वचः पितुर्मूषा मा भूदित्येवं परिदेव- नापूर्वकं किं मयोक्तमिति शोकाविष्टं पितरमाहेत्यन्वयः ॥ ५ ॥ १ज. प्यतीति । २ अ. °णां पा शिष्यादीनां वै । ३ ग. च. नां वा ब° १४ क. ख. ग. च. ज. ड. बेद । ५ ग. °या दत्ते । ६ क. 'न किं क । ७ घ. अ. ३. "द्वयसमुच्चये का । ट. "तः क । ९ठ. भाजां गु । २ १० टीकाद्वयसमेतशांकरभाष्योपेता- [ अध्या० १ वल्ली १) अनुपश्य यथा पूर्व प्रतिपश्य तथाऽपरे । सस्यमिव मर्त्यः पच्यते सस्थमिवाऽऽजायते पुनः ॥ ६ ॥ अनुपश्याऽऽलोचय निभालयानु क्रमेण यथा येन प्रकारेण वृत्ताः पूर्वेऽतिक्रान्ताः पितृपितामहादयस्तव । तान्दृष्ट्वा च तेषां वृत्तमास्थातुम- हसि वर्तमानाश्चापरे साधवो यथा वर्तन्ते तांश्च प्रतिपश्याऽऽलोचय तथा। न च तेषु मृषा करणं वृत्तं वर्तमानं वाऽस्ति । तद्विपरीतमसतां च वृत्तं मृषा करणम् । न च मृषा कृत्वा कश्चिदर्जरामरो भवति । यतः सस्य- मिव मयों मनुष्यः पच्यते जीर्णो म्रियते । मृत्वा च सस्यमिवाऽऽ- जायत आविर्भवति पुनरेवमनित्ये जीवलोके किं मृषाकरणेन । पाल. याऽऽत्मनः सत्यम् । प्रेषय मां यमायेत्यभिप्रायः॥६॥ आ० टी०--॥६॥ गो० टी०–निभालयेति । दीर्घालोचनं कुर्वित्यर्थः । उपसर्ग व्याचष्टे- अन्विति । क्रमेण । पितृपितामहाः क्रमेण वृत्ताः स्वधर्मे सत्यवचनादौ स्थिताः । तव पितृपितामहादयो येन प्रकारेण वृत्तास्तं प्रकारमालोचयेत्यन्वयः । तद्वृत्तालोच. नेन मम किं स्यादित्यत आह-तानिति । वृत्तं सत्यवचनाद्यास्थातुं प्राप्तुमर्हसि योग्यो भवसीत्यर्थः । आलोचयेत्यनन्तरं तांश्च दृष्ट्वा तेषामपि वृत्तं प्राप्तुमर्हसीत्य- नुषङ्गः । न च तवृत्तमसत्यवचनादिसहितमित्याह-नचेति । वृत्तं भूतम् । ननु भूताभावेऽपि वर्तमानं भावि वा स्यादित्यत आह-वर्तमानमिति । वाशब्दोऽ. नुक्तभविष्यदुपसंग्रहार्थः । प्रत्यक्षादिप्रमाणविरोधात्तेष्वसद्वृत्तं नेति भावः । ननु मृषा- करणं चेद्देवत्वादिप्राप्तिहेतुस्तदा तत्त्यागोऽनुचित इत्याशङ्कय तदेव नेत्याह-न चेति । तत्र हेतुत्वेन वाक्यमवतारयति-यत इति । सस्यमिवेति । यथा सस्यं फलितं रस- वियुक्तं नश्यत्येवं मनुष्योऽपि जीर्णो वृद्धावस्था प्राप्य म्रियते देहं त्यतीत्यर्थः । न केवलं जरामरणवानेव किं तु जनिमानपीत्याह- मृत्वा चेति । अवस्थाद्वयसमुच्चयार्थ- श्वकारः । सस्यमिवेति । प्रावृट्काले वर्षधारासिक्तं सस्यं यथा प्रादुर्भवति तथा संचि. सकर्मोद्भवे मनुष्योऽपि देहान्तरं प्राप्नोतीत्यर्थः । पुनराविर्भवति म्रियते च यतोऽतो न कश्चिन्मृषा कृत्वाऽजरोऽमरो भवतीत्यन्वयः । प्रतिपदं व्याख्याय तात्पर्यार्थमाह-एव. मिति । किं प्रयोजनं न किमपीत्यर्थः । यमाय प्रेषय तदन्वात्मनः सत्यं पालये. त्यन्वयः ॥ ६ ॥ १२. म. ट. हसीति । २ ग. ङ. च. झ. म. ट. तेषां । ३ ज. "नै भविष्यद्वाऽस्ति । ४. घ. च. 'रणं वा । न । ५. ड. अ. ब. ट. °जरोऽम । ६. म. ट. च तत एव स । R. 6. 'जराम ।

[ अध्या०.१. वल्ली १] काठकोपनिषत् । ११ वैश्वानरः प्रविशत्यतिथिाह्मणो गृहान् । तस्यैता५ शान्ति कुर्वन्ति हर वैवस्वतोदकम् ॥ ७ ॥ स एवमुक्तः पिताऽऽत्मनः सत्यतायै प्रेषयामास । स च यमभवनं गत्वा तिस्रो रात्रीरुवास यमे प्रोषिते । मोण्याऽऽगतं यमममात्या भार्या वा ऊचुर्बोधयन्तो वैश्वानरोऽग्निरेव साक्षात्मविशत्यतिथिः सन्ब्राह्मणो गृहान्दहनिव तस्य दाहं शमयन्त इवानरेतां पाासनादिदानलक्षणां शान्ति कुर्वन्ति सन्तोऽतिथैर्यतोऽतो हराऽऽहर हे वैवस्वतोदकं नचिके- तसे पाघार्थम् । यतश्चाकरणे प्रत्यवायः श्रूयते ॥ ७ ॥ आ० टी०-श्रुत्यनुक्तपूर्वभाषणादिकमपि कथायामपेक्षितं पूरयति--स एव. मुक्तः पितेति ॥ ७॥ गो० टी०-श्रुत्यनुक्तपूर्वभाषणादिकं कथायामपेक्षितमिति पूरयति-स एवमुक्त इति । सत्यतायै वचःसत्यत्वाय । प्रोषिते ब्रह्मभवनं गते । स नीचकेता यमभवनं गत्वा तिस्रो रात्रीरुवासेत्यन्वयः । प्रोष्य ब्रह्मभवनं गत्वा तस्मादागतं यमं बोधयन्त ऊचुरित्य- न्वयः । अतिथिः सन्ब्राह्मणः साक्षादग्निरिव दहन्निव गृहान्प्रविशति । तस्याग्नेर्दाह शमयन्त इव सन्तोऽतिथेः शान्ति कुर्वन्ति यत इत्यन्वयः । किमर्थमित्यपेक्षायामाह- नचिकेतस इति । नन्वतिथेः पूजा किमिष्टप्राप्तयेऽथानिष्टनिवृत्तये । नोमयं मानाभावा- दित्याशङ्कय यस्याग्निहोत्रमित्यादिश्रुतेरकरणे प्रत्यवायान्नित्यकर्मवत्करणेऽभ्युदय इति मत्वाऽऽह--यत इति । चकारः शिष्टाचारावगताभ्युदयहेतुत्वे समुच्चयार्थः ।। ७ ॥ आशाप्रतीक्षे संगत५ सूनृतां चेष्टापूर्ते पुत्रपशूश्च सर्वान् । एतढङ्क्ते पुरुषस्याल्पमेधसो यस्यानश्न- न्वसति ब्राह्मणो गृहे ॥ ८ ॥ आशाप्रतीक्षे अनि तप्राप्येष्टार्थनाऽऽशा निर्माताप्यार्थप्रती- क्षणं प्रतीक्षा ते आशाप्रतीक्षे । संगतं तत्संयोगजं फलं सूनुता च सूनृता हि पिया वाक्तनिमित्तं च । इष्टापूर्ते इष्टं यांगजं पूर्तमारामादि- क्रियाज फलम् । पुत्रपशृंश्च पुत्रांश्च पशृंश्च सर्वानेतत्स यथोक्तं वृत आवर्जयति विनाशयतीत्येतत् । पुरुषस्याल्पमेधसोऽल्पप्रज्ञस्य । यस्या- १ घ. गतममा । २ ठ. मिरेव । ३ क. ङ. च. प्राप्तीष्टा । ग प्राप्त इष्टा' । ४ क. ग. घ.स.च. प्राप्त्यर्थ । ५ ग. ह. च, गयो । ६ ग. घ. ङ. झ. न. ट. 'ता प्रि | ७ झ. अ. ट. यागादिर्ज।

१२ टीकाद्वयसमेतशांकरभाष्योपेता। [ अध्या.१ ली । नश्ननभुञ्जानो ब्राह्मणो गृहे वसति । तस्मादनुपेक्षणीयः सर्वावस्था- स्वप्यतिथिरित्यर्थः ॥ ८॥ आ० टी०-॥८॥ गो० टी०-श्रवणमेव व्याकरोति--आशेत्यादिना । अनिख़तोऽत्यन्तमज्ञातः प्राप्यः प्राप्तुं योग्यः कनकाचलादिस्तस्य प्रार्थना मम भूयादितीच्छा । नितरां प्रत्यक्षा. दिना ज्ञातः प्राप्योऽर्थो राज्यादिर्यस्याः सा प्रतीक्षेत्यर्थः । योगो देवताध्यानं तज्जं संग- तमित्यर्थः । तन्निमित्तमिति । सा प्रियवानिमित्तं यस्य तत्तन्निमित्तं फलमित्यनुव. तते । यागनं स्वर्गाद्यारामादिक्रियानं पितृलोकादि । कीदृग्विधस्येत्यल्पमेधस इति । को नाशयतीत्यपेक्षायामाह-यस्येत्यादिना । यस्य गृहेऽभुञ्जानो ब्राह्मणो वसतीत्यन्वयः। तात्पर्यार्थमाह-तस्मादिति । यस्मादनश्नन्नतिथि सर्व नाशयतीति प्रत्यवायः श्रूयते यस्माच्च वृद्धाः पाद्यादिभिरतिथिं पूजयन्ति तस्मादित्यर्थः । सर्वावस्थास्विति । कष्टायामप्यापदीत्यर्थः । अपिशब्दात्स्वस्थावस्थायां किमु वक्तव्यमिति भावः ॥ ८ ॥ तिस्रो रात्रीर्यदवासीहे मेऽनश्नन्ब्रह्मन्नतिथिन- मस्यः । नमस्तेऽस्तु ब्रह्मन्स्वस्ति मेऽस्तु तस्मात्प्रति त्रीन्वरान्वृणीष्व ॥ ९ ॥ एवमुक्तो मृत्युरुवाच नचिकेतसमुपगम्य पूजापुरःसरम् । तिम्रो रात्रीर्यद्यस्मादवान्सीरुपितवानसि गृहे मे ममानश्नन्हे ब्रह्मम्मतिथिः सन- मस्यो नमस्कारार्हश्च तस्मान्नमस्ते तुभ्यमस्तु भवतु । हे ब्रह्मन्स्वस्ति भद्रं मेऽस्तु तस्माद्भवतोऽनशनेन मद्गृहवासनिमित्ताहोपात्तत्याप्त्युपशमेन । यद्यपि भवदनुग्रहेण सर्वं मम स्वस्ति स्यात्तथाऽपि त्वदधिकसंप्रसादना- र्थमनशनेनोपोषितामेकैकां रात्रि प्रति त्रीन्वरान्वृणीष्वाभिप्रेतार्थविशेषा- न्मार्थयस्व मत्तः॥१॥ आ० टी०-॥५॥ गो० टी०-एवमुक्तो भार्याभिरमात्यैश्चेति शेषः । पूजापुरःसरं नचिकेतसमुपसं- गम्य समीपं गत्वा मृत्युरुवाचेत्यन्वयः । वचनप्रकारमेव प्रतीकमादाय व्याचष्टे-तिस्र इति यस्माद्गृहेऽनशनपूर्वकमुषितवान्नमस्कारयोग्यश्च तस्मादित्यर्थः । तस्मादित्युत्तरवाक्यादि- पदोक्तादोषादुपशमनं प्रार्यते-स्वस्तीति। अनशनेनानशनपूर्वकम् । तत्प्राप्त्युपशमने दोषप्राप्ठेरुपशमो निरासस्तेन द्वा (म्तवा) रा । नन्वतिथ्यनुग्रहेणैव सर्व संपत्स्यते किं वरदा. १ ग. च. स्विव । २ ख. ज. मे स्व । ३ कु. झ ञ, द. 'कर' । ४ च... ट. नोषि।

[अध्या. १ वल्ली १] काठकोपनिषत् । १३ नेनेत्याशङ्कय परिहरति-यद्यपीत्यादिना । प्रसादनं प्रार्थनम् । उपिता स्थिताम् । अभिप्रेता इच्छाविषयास्तान् ॥९॥ शान्तसंकल्पः सुमना यथा स्याद्वीतमन्युौतमो मोऽभि मृत्यो । त्वत्प्रसृष्टं माऽभिवदेत्यतीत एतत्र- याणां प्रथमं वरं वृणे ॥ १० ॥ नचिकेतास्त्वाह-यदि दित्सुर्वरांशान्तसंकल्प उपशान्तः संकल्पी यस्य मां प्रति यमं प्राप्य किंतु करिष्याति मम पुत्र इति स शान्तसंकल्पः सुमनाः प्रसन्नमनाश्च यथा स्याद्वीतमन्युर्विंगतरोषश्च गौतमो मम पिता माऽभि मां प्रति हे मृत्यो किंच त्वत्प्रसृष्टं त्वया विनिर्मुक्तं प्रेषितं गृह प्रति मामभिवदेत्यतीतो लब्धस्मृतिः स एवायं पुत्रो ममाऽऽगत इत्येवं प्रत्यभिजाननित्यर्थः । एतत्प्रयोजनं त्रयाणां वराणां प्रथमाधं वरं वृणे प्रार्थयेयं यत्पितुः परितोषणम् ॥ १० ॥ आ० टी०-प्रेतीभूतोऽयमागतो नावलोकनीय इति मत्वोपेक्षां यथा न करोति तथा प्रसादं कुर्वित्याह-किंच त्वत्प्रसृष्टामिति ॥ १० ॥ गो० टी- दित्सुर्दातुमिच्छु: ! यमं प्राप्य किंनु करिष्यति मत्पुत्र इति संकल्पः शान्तो मां प्रति यस्य स शान्तसंकल्प इत्यन्वयः । मृत्यो मां प्रति शान्तसंकल्पः सुमना वीतमन्युश्च यथा स्यान्मत्पिता गौतम एतत्प्रयोजनमित्यन्वयः । प्रेतीभूतो यमादागतोऽन. वलोकनीय इति मत्वोपेक्षां यथा न करोति तथा प्रसादं कुर्वित्याह-किंच त्वत्पत्सृष्ट. मिति । माऽभि मां प्रति लब्धम्मृतिरित्येतद्व्याचष्टे-स एवेति । यत्पितुः परितोषण. मेतत्त्वहत्तानां वराणामाद्यं वरं वृण इत्यन्वयः ॥ १० ॥ यथा पुरस्ताद्भविता प्रतीत औद्दालकिरारुणिर्म- त्यसृष्टः । मुख रात्रीः शयिता वीतमन्युस्त्वां ददृशिवान्मृत्युमुखात्पमुक्तम् ॥ ११ ॥ मृत्युरुवाच-यथा बुद्धिस्त्वयि पुरस्तात्पूर्वमासीत्स्नेहसमन्विता पितु. स्तव भविता प्रीतिसमन्वितस्तव पिता तथैव प्रतीतः प्रतीतवान्सबौदा. लकिः । उहालक एवौदालकिः । अरुणस्यापत्यमारुणिवर्यामुण्यायणो १ ख. ममाभि । २ ग. च. अ. 'रान्भगवञ्शा। ३ ग. च 'न्युतिक्रोधरों । घ. 'न्यु:- तरो । ४ ग. घ. च. °मा माम° । ५ ग. घ. च. पुत्रः समा । ६ घ. 'माधव' । ७. ज. स. म. ड. ये य । ८ छ. °न्युस्त्वा द । ९ ख. ज. ततो मृत्युरुवाच । ग. तन्मृत्युरुवाच । १० घ. च. "तः प्रीता टीकाद्वयसमेतशांकरभाष्योपेता- [अध्या० १ बल्ली १] वा मत्मसृष्टो मयाऽनुज्ञातः सनितरा अपि रात्रीः सुखं असममनाः शयिता स्वप्ता वीतमन्युर्विगतमन्युश्च भविता स्यात्त्वां पुत्रं ददृशिवान्ह टवान्से मृत्युमुखान्मृत्युगोचरात्ममुक्तं सन्तम् ॥ ११ ॥ आ० टी०-औदालकिरिति सद्धितः स्वार्थे व्याख्यातोऽपत्यार्थे व्याख्येय इत्याह- यामुण्यायणो वेति । अमुष्य प्रख्यातस्यापत्यमामुष्यायणः । द्वयोः पित्रोः पूर्वभाषा- दिना संबन्धी चासावामुष्यायणश्च । न जारज इत्यर्थः ॥ ११ ॥ गो० टी०- प्रथमेन वरेण पितुः सौमनस्यं वृण्वते नचिकेतसे वरप्रदानपरत्वेनोत्तर- मवतारयति-मृत्युरिति । पूर्व वैवस्वतगमनात्त्वत्पिता यथा स्नेहसमन्वित आसीत्तथैव प्रीति. मान्प्रतीतवान्प्रत्यभिनानन्भवितेत्यन्वयः । यथा बुद्धिम्त्वयि पुरस्तात्पूर्वमासीत्स्नेहसमन्विता भविता प्रीतिसमन्वितस्त्वत्पिता तथैव प्रतीतः । प्रतीतवान्सन्निति पाठे यथा पूर्वस्नेहसम- न्विता बुद्धिस्त्वय्यासीत्तथैव बुद्धिः पितुर्भवितेत्येकोऽन्वयः । द्वितीयम्तु यथा पूर्व प्रीति- समन्वितस्त्वत्पिता तथैव प्रतीतवान्सन्स एवायं पुत्र इतिप्रत्यभिज्ञावान्संस्त्वत्पिता प्रीति- समन्वितो भवितेति । प्रतीत इत्यस्य प्रतीतिमानिति क्वचित्पाठः । औदालकिरिति । तद्वितं स्वार्थे व्याख्यायापत्यार्थे व्याचष्टे-यामुष्यायण इति । अमुष्य प्रख्यातस्याप. त्यमामुप्यायणः । उत्पन्नः पुत्रोऽस्यामुभयोरिति भाषादिना द्वयोः संबन्धी व्यामुष्यायणो न जारज इत्यर्थः । अनुज्ञातोऽनुग्रहसंपन्नः । सुखमनायासं स्वप्ता स्वापकर्ता स्यात्प्रमुक्तं सन्तं त्वां दृष्टवान्वीतमन्युः स्यान्मया यमाय पोरतो मद्वचनमुल्लय समागत इतिबुद्धि- रहितः स्यादित्यर्थः ॥ ११ ॥ स्वर्गे लोके न भयं किंचनास्ति न तत्र वं न जरया बिभेति । उसे तीर्वाऽशनायापिपासे शोका- तिगो मोदते स्वर्गलोके ॥ १२ ॥ नचिकेता उवाच-स्वर्गे लोके रोगादिनिमित्तं भयं किंचन किंचि- दपि नास्ति । न च तत्र त्वं मृत्यो सहसा प्रभवस्यतो जरया युक्त इह लोकंवत्त्वत्तो न बिभति कुतश्चिनत्र । किंचोभे अशनायापिपासे तीर्वाऽतिक्रम्य शोकमतीत्य गच्छतीति शोकातिगः सन्मानसेन दुःखेन वर्जितो मोदने हृष्यति स्वर्गलोके दिव्ये ॥ १२ ॥ १ ग. घ. च ता सुप्तो वी° । २ ग. घ. च. न्युर्गत° । ३ ज. °ता स्म स्या । ४ ग. ह. स.म. ट. 'न्सन्मृत्यु । ५ ङ. झ. न. ठ. °खान्मद्गोच । ६ ग. कु. झ. अ. ट. "क इव च त्वत्तो । ७ च. 'ति काश्च । ८ ख. गः झ. अ. ° न च ।

[ अध्या० १ वली १] काठकोपनिषत् । १५ आ० टी०- स्वर्गसाधनमग्निज्ञानं प्रष्टुं स्वर्गस्वरूपं तावदाह-स्वर्गे - लोक इति ॥ १२ ॥ गो० टी० पितुः सौमनस्ये दत्ते स्वर्गसाधनमग्निज्ञानं प्रष्टुं स्वर्गरूपं तावदाह- स्वर्गे लोक इति । आदिपदादाधिभौतिकाधिदैविकचौरादिसंग्रहः । ननु रोगादिनिमि- तमयाभावेऽपि मन्निमित्तं स्यादित्यत आह-न चेति । सहसा प्रभवसि झटिति प्रम- वसीत्यर्थः । यत एवमतो जरादियुक्तः सन्निह लोक इव तत्र कश्चिदपि त्वत्तो न बिभेती- त्यन्वयः । उभे तीत्वेति वाक्यमन्वयमुखेन व्याचष्टे-कि चेत्यादिना । अतिक्रम्या- प्राप्येत्यर्थः । शोकातिगः सञ्शोकमतिक्रान्तः सन् । शोकशब्दार्थमाह---मानसेनति चकाराद्वाह्यनिमित्तदुःखराहित्यमुच्यते । दुःखाभावे सुखस्य संभावितत्वादाह--मोदत इति ॥ १२ ॥ स त्वमग्नि स्वय॑मध्येषि मृत्यो प्रबहि त्वर श्रद्द धानाय मह्यम् । स्वर्गलोका अमृतत्वं भजन्त एतद्वितीयेन वृणे वरेण ॥ १३ ॥w एवंगुणविशिष्टस्य स्वर्गलोकस्य प्राप्तिसाधनभूतमग्निं स त्वं मृत्युर- ध्यषि स्मरसि जानासीत्यर्थः । हे मृत्यो यतस्त्वं प्रब्रूहि कथय श्रद्द- धानाय श्रद्धावते मह्यं स्वर्गार्थिने । येनाग्निना चितेन स्वर्गलोकाः स्वर्गों लोको येषां ते स्वर्गलोका यजमाना अमृतत्वममरणतां देवत्वं भजन्ते प्राप्नुवन्ति तदेतदनिविज्ञानं द्वितीयेन वरेण वृणे ॥ १३ ॥ आ० टी०-॥ १३ ॥ गो० टी०–एवंगुणविशिष्टस्यति । भयमरणाशनायापिपासाशोकरहितत्वगुणेन विशिष्टस्येत्यर्थः । अवबोधहेतुमाह-हे मृत्यो इति । देवतात्वाज्ज्ञानमस्तीति भावः । ज्ञानफलं किमित्यपे. यामाह- यत इति । अत इत्यध्याहारः । अग्निज्ञानं श्रद्धारहि. ताय तत्फलेच्छाविरहिणे च न वाच्यमित्यत आह-श्रद्दधानायेति । श्रद्धया स्वर्गा- थित्वमुपलक्ष्यत इत्याह- स्वर्गार्थिन इति । देवत्वप्राप्तौ हेतुमाह-येनेति । चिते- नोपासितेनेत्यर्थः । यस्मादमृतत्वसाधनमग्निस्तस्मादेतस्याग्नेर्विज्ञानं वृणे प्रार्थये ॥१३॥ पते ब्रवीमि तदु मे निबोध स्वय॑मनिं नचिकेतः प्रजानन् । अनन्त लोकाप्तिमथो प्रतिष्ठां विद्धि त्वमेतं निहितं गृहायाम् ॥ १४ ॥ १ क. इ. झ. म. ट. तर । २ क. ख. ज. निं स्वयं स 1 ३ घ. मृत्यो अध्ये । ४ च. 'त्यो यम य । ५ डा. श. म ट. "तस्तं प्र' । ६ क. ख. स्वर्गलो । ७ घ, अमरणत्वं दे।

१६ टीकाद्वयसमैतशांकरभाष्योपेता- [ अध्या० १ वल्ली १ ) २३ स मृत्योः प्रतिज्ञेयम् । प्र ते तुभ्यं प्रब्रवीमि । यत्त्वया पार्थितं तदु मे मम वचसो निबोध बुध्यस्वैकाग्रमनाः सन्स्वयं स्वर्गाय हितं स्वर्गसाधनमग्निं हे नचिकेतः प्रजानन्विज्ञातवानहं सन्नित्यर्थः । अब्रवीमि तन्निबोधेति च शिष्य- बुद्धिसमाधानार्थ वचनम् । अधुनाऽग्निं स्तौति-अनन्तलोकाप्तिं स्वर्गलोकफ- लमाप्तिसाधनमित्येतत् । अथो अपि प्रतिष्ठामाश्रयं जगतो विराँड्रूपेण तमेत- ममिं मयोच्यमानं विद्धिं जानीहि त्वं निहितं स्थितं गुहायां विदुषां बुद्धी निविष्टमित्यर्थः ।। १४ ॥ आ० टी०--इयं च वक्ष्यमाण मृत्योः प्रतिज्ञाऽवगन्तव्या । त्रेधाऽऽत्मानं व्यकुरुत " इति श्रुतेरग्निवाय्वादित्यरूपण समष्टिरूपो विराडेव व्यवस्थित इति तेन विरारूपेणाग्निर्नगतः प्रतिष्ठेत्युच्यते ॥ १४ ॥ गो० टी०-प्रब्रवीमीत्यन्वयः । उ यदित्यर्थे । यत्त्वया प्रार्थितं तत्प्रब्रवीमि मे वचसो निबोधेत्यन्वयः । अस्मच्छब्दस्य वचने लक्षणेत्याह-वचस इति । वाक्यादे- काग्रमनाः सावधानचित्तः सन् । हितार्ये यत्प्रत्यय इत्याह-स्वर्गायेति । प्रतिज्ञायाः संबोधनस्य च किं प्रयोजनमित्यपेक्षायामाह-प्रब्रवीमीति । समाधानं विषयान्तरव्या- वृत्तिपूर्वकं चित्तस्यैकविषयत्वापादनं तदर्थमित्यर्थः । प्ररोचनायाः प्रवृत्तिहेतुत्वमित्यभि- प्रेत्याऽऽह-अधुनेति । स त्रेधाऽऽत्मानं व्यकुरुतेति श्रुतेरग्निवायवादित्यरूपेण समष्टिरूपो विराडेव व्यवस्थित इति तेन विरापेणाग्निर्जगतः प्रतिष्ठेत्युच्यते ॥ १४ ॥ लोकादिमनिं तमुवाच तस्मै या इष्टका यावती; यथा वा । स चापि तत्पत्यवदद्यथोक्तमथास्य मृत्युः पुनरेवाऽऽह तुष्टः ॥ १५॥ इदं श्रुतेर्वचनम् । लोकादि लोकानामादि प्रथमशरीरित्वादग्निं तं प्रकृतं नचिकेतसा प्रार्थितमुवाचोक्तवान्मृत्युस्तस्मै नचिकेतसे । किंच या इष्टकाश्चेतव्याः स्वरूपेण । यावती; संख्यया । यथा वा चीयतेऽग्नियन प्रकारेण सर्वमेतदुक्तवानित्यर्थः। स चापि नचिकेतास्तन्मृत्युनोक्तं यथा वत्मत्ययेनावदत्प्रत्युच्चारितवान् । अथ तस्य प्रत्युच्चारणेन तुष्टः सन्मृत्युः पुनरेवाऽऽह वरत्रयध्यतिरेकेणान्यं वरं दित्सुः ॥ १५ ॥ १५. म् । ते । २ झ. वीमीति । य । ३ घ. 'मि । तत्त्वत्प्रार्थि । ४ म. °थः । ते प्र । ५. प्र तेति प्रब । ६ ग. घ. अ.न्तस्वर्गलो । ७ ङ. झ. म ट. राट्स्वरू' । ८ ग. प. द्धि विजा । ९छ. ज. 'नराह । १० ग. ङ. न. ट रीरत्वा । ११ श. म. ट. पन्तेऽसौ येन । १२ क. ख. ज. "स्तत्प्रत्यवदद्याक्तमथास्य प्र । १३ झ. अ. ट. क्तं प्रत्यवदत् । य" १४.म. ट. अथास्य ।

वै पुरुष उच्यते । [ अध्या० १ वल्ली ११ काठकोपनिषत् । १७ आ० टी०- सप्रपञ्चमग्निज्ञानः चयनप्रकरणाद्दष्टव्यमिति श्रुतिरस्मान्बोधयती- त्याह-इदं श्रुतेर्वचनमिति ॥ १५ ॥ गो० टी०-सप्रपञ्चमग्निज्ञानं च येन प्रकारेण द्रष्टव्यमिति श्रुतिरस्मान्बोधयती- त्याह--इदं श्रुतेर्वचनमिति । " स वै शरीरी प्रथमः स आदिकर्ता स भूतानां ब्रह्माऽग्रे समवर्तत "।। इति स्मृतेर्विराजोऽग्नेरादित्वं प्रकृतत्वं व्याचष्टे-नचिकेतसेति । वक्ष्यमाणमपि श्रुतेर्वचनमित्याह-किंचति । चेतव्या उपधातव्याः स्वरूपेणेति पूर्वेणान्वितम् । यथा- शब्दार्थमाह-येनेति । तत्तदिएकाप्रकाशकतत्तन्मन्त्रोच्चारणेनेत्यर्थः । तदग्निज्ञानं यथोक्तावधारणसामर्थ्य नचिकेतस आह--यथावदिति । यथोक्तमग्निं यमं प्रति प्रत्युच्चारितवान्प्रतिपादितवानित्यर्थः । अथ नचिकेतसः प्रत्युक्त्यनन्तरमस्य नचिकेतसः प्रत्युच्चारणेन तुष्ट। मृत्युर्वरत्रयव्यतिरेकेणान्यं वरं दिसुर्दातुमिच्छुः पुनरेवाऽऽहोक्तवा- निति योजना ॥ १५ ॥ तमबधीत्पीयमाणो महात्मा बरं तबेहाय ददामि भूयः । तवैव नाम्ना भविताऽयमग्निः सृकां चेमा- मनेक रूपां गृहाण ।। १६ ॥ य.थं तं नचिकेतसमब्रवीत्पीयमाणः शिष्ययोग्यतां पश्यन्प्रीयमाण: पीतिमनुभवन्महात्माऽक्षुद्रबुद्धिवरं तव चतुर्थमिह प्रीनिनिमित्तमंधे. दानी ददामि भूयः पुनः प्रयच्छामि । तवै नचिकेतसा नाम्नाऽभि- धानेन प्रसिद्धो भविता मयोच्यमानोऽयमग्निः । किंच सृकां शब्दवती रत्नमयीं मालामिमाममेकरूपां विचित्रां गृहाण स्त्री कुरु । यद्वा मुंङ्कामकुत्सितां गति कर्ममयीं गृहाण । अन्यदपि कर्मविज्ञानमनेकफल. हेतुत्वात्स्वी कुर्वित्यर्थः ॥ १६ ॥ आ० टी०-1॥१६॥ गो० टी० --वदनमेव प्रश्नपूर्वकमाह--कथमित्यादिना । शिष्ययोग्यतां यथो तार्थग्रहणपूर्वकधारणाख्याम् । मदुक्तं ग्रहीप्यतीत्यतिलोभबुद्धिः क्षुद्रबुद्धिः सा न विद्यते यस्य सोऽक्षुद्रबुद्धिः । चतुर्थमिति । पितुः सौमनस्याग्निविद्यात्मविद्यापेक्षया चतुर्थमि- त्यर्थः । इहेति व्याचष्टे-प्रीतिनिमित्तामिति । प्रीतिनिमित्तं प्रयोजक यम्य तत् । १ क. घ. इ. च. 'मथेदा । २ क. च. यः प्र । ३ ग. हु. ल. व च न । ४ क. च. "मिः । स । ५. क. च. सृङ्कामाकु । इ. सुकां वा कु । - १८ टीकाद्वयसमेतशांकरभाष्योपेता- [अध्या० १ वली) किं तत्प्रयोजकमित्यपेक्षायामाह-- तवैवेति । प्रसिद्ध इति । नाचिकेत इति त्वन्नाम्ना प्रसिद्धिं गमिष्यतीत्यर्थः । नैतावन्मानं वरमन्यदपीति नचिकेतसं प्रलोभयन्नाह-- किंचेति । शब्दवत्तवे हेतुमाह-रत्नवतीमिति । रत्नमयीमिति पाठान्तरम् । योग्य तयेदंशब्दम्य संनिहितमालार्थकत्वमित्याह--मालामिति । अनेकरूपामनेकानि रूपाणि नीलादीनि यस्यां सा तामत एव विचित्रामित्यर्थः । सृनिधातोर्गत्यर्थमादायाऽऽह-- यद्वेति । अकुत्सितां गतिमिति । अकुत्सिता गतिधूमादिनाऽचिरादिना च प्राप्यं फलं तामित्यर्थः । नन्वकृते कर्मणि लाभाभावात्कथं वरप्रदानेन कर्मफलप्राप्तिरित्याशङ्कय तात्पर्यार्थमाह-- अन्यदपीत्यादिना । कर्मविज्ञानं सङ्काशब्दलक्ष्यं फलतोऽनेकरूपं शास्त्रसिद्धं स्वी कुर्वित्यर्थः ।। १६ ॥ पुनरपि कर्मस्तुतिमेवाऽऽह-- त्रिणाचिकेन स्त्रिभिरेत्य संधिं त्रिकर्मऊत्तरति जन्ममृत्यू। ब्रह्मजज्ञं देवमीडयं विदित्वा नि. चायेमाशान्तिमत्यन्त मेति ॥ १७ ॥ त्रिणाचिकेतस्त्रि:कृत्वो नाचिकेतोऽग्निश्चितो येन स त्रिणाचिके. तस्तद्विज्ञानस्तदध्ययनस्तदनुष्ठानवान्वा । निभिर्मातृपित्राचार्यरेत्य माध्य संधि संधानं संबन्ध मात्राद्यनुशासनं यथावत्माप्येत्येतत् । तद्धि प्रामा ण्यकारणं श्रुत्यन्तरादवगम्यते । यथा मातृमान्पितृमानित्यादेः । वेदस्मृ. तिशिष्टैर्वा प्रत्यक्षानुमानागमै; । तेभ्यो हि विशुद्धिः प्रत्यक्षा त्रिकर्म- कृदिज्याध्ययनदानानां कर्ता तरत्यतिक्रामति जन्ममृत्यू । किंच ब्रह्मजन ब्रह्मणो हिरण्यगर्भाज्जातो ब्रह्मजः । ब्रह्मनश्चासौ ज्ञश्चेति ब्रह्मजज्ञः सर्वज्ञो ह्यसौ । तं देवं द्योतनाज्ञानादिगुणवन्तमीड्यं स्तुत्य विदित्वा शास्त्रतो निचाय्य दृष्ट्वा चाऽऽत्मभावनेमां स्वबुद्धिप्रत्यक्षा शान्तिमुपर- तिमत्यन्तमेत्यतिशयेनेति । वैराजं पदं ज्ञानकर्मसमुच्चयानुष्ठानेन पामो तीत्यर्थः ॥ १७ ॥ आ० टी०-विशुद्धिरिति धर्माद्यवगतिः । दृष्ट्वा चाऽऽत्मभावेनेति । अयमर्थः- विंशत्यधिकानि सप्त शतानाष्टकानां संख्या संवत्सरस्याहोरात्राणि च तावत्संख्यकान्येव संख्यासामान्यात्तैरिष्टकास्थानीयश्चितोऽग्निरहमित्यात्मभावेन ध्वात्वेति ॥ १७ ॥ । १ झ. अ..ट. ट. प्राप्यफलता । २ ज. स.ट. ज्ञानवान्वा तदध्ययनवान्वा । ३ क. च. ६ न. त्वा 'नस्तदनु । ४ क. ख. च. ज. 'मानि । ५. ख. च. 'न्म च मृत्युं च जन्ममृ । गृहीत्वा शा।

[ अध्या० १ वल्ली १] काठकोपनिषत् । १९ मो० टी०-प्रीतिनिमित्ताधिकरदानानन्तरमवशिष्टमग्निज्ञानस्य फलं वदिष्यन्पुनरपि तत्स्तुतिमाह-पुनरपीति । त्रि:कृत्वत्रिवारं नाचिकेतोऽग्निधितो येन तद्विज्ञानवता स त्रिणाचिकेत इति । अर्थान्तरमभिप्रेत्याऽऽह-तद्विज्ञानवान्वति । यथावद्यथाकाल. मुपनयनपर्यन्तं मातृतो वेदाध्यनपर्यन्तं पितृत आचार्यतः शिक्षा प्राप्येत्यर्थः । तदनुशा- सनमनपेक्ष्य कर्मविज्ञानमात्रात्रिकर्मकृत्स्यादित्याशङ्कयाऽऽह-तद्धीति । तदनुशासनम् । हिशब्दः स्मार्तप्रसिद्धिद्योतकः । प्रामाण्यकारणं धर्मज्ञानस्येति शेषः । यथा मातृमान्पि- तृमानाचार्यवान्ब्रूयात्तथा तच्छैलिनोऽब्रवीदितिश्रुत्यन्तरान्मात्राद्यनुशासनं प्रामाण्यकारणम- वगम्यत इति योजना । वेदाश्च स्मृतयश्च शिष्टाश्च तैः प्रत्यक्षं चानुमानं चाऽऽगमश्च तैः संधिमेत्येत्यर्थः । विशुद्धिर्धर्माद्यवगतिः । इज्या ज्योतिष्टोमादियागोऽध्ययन वेदस्य दानं बहिर्वेदि दीयमानम् । यथा त्रिकर्मकृत्तरति तथा त्रिणाचिकेत इति स्तुतिद्वारा फलं प्रदर्य फलान्तरमपि सविज्ञानमाह-किंचेति । हि यम्माद्धिरण्यगर्भाशस्तस्मादसौ सर्वज्ञ इत्यर्थः । द्योतनादिगुणवन्तमादित्यादिरूपत्वादिति शेषः । ईडयं प्रतिमासमृषिभिर्देवगन्ध- पैश्च स्तूयत इति पुराणे प्रसिद्धम् । दृष्ट्वा चाऽऽत्मभावेनेति । अयमर्थः-विंशत्य- धिकानि सप्त शतानीष्टकानां संख्या संवत्सरस्य च प्रातःसायंकालयोरनुष्ठीयमानान्यग्निहो- त्राणि तावत्संख्याकान्येव तैरिष्टकास्थानीयश्चितोऽग्निरहमित्यात्मभावेन ध्यात्वेति स्वबुद्धिः स्वेन कर्तव्या बुद्धिरुपासना तया साक्षात्कृतां शान्ति वि(वै)रानं फलम् । तात्पर्यार्थमाह- वैराजमिति । ज्ञानमुपासनं चयनं कर्म ॥ १७ ॥ इदानीमग्निविज्ञानचयनफलमुपसंहरति प्रकरणं च- त्रिणाचिकेतस्वयमेतद्विदित्वा य एवं विद्वा*श्चिनुते नाचिकेतम् । स मृत्युपाशान्पुरतः प्रगोय शोका- तिगो मोदते स्वर्गलोके ॥ १८ ॥ त्रिणाचिकेतस्त्रयं यथोक्तं या इष्टका यावतीर्वा यथा वेत्येतद्विदि- त्वाऽवगम्य यश्चैवमात्मरूपेणाग्निं विद्वांश्चिनुते निवर्तयति नाचिकेतमग्निं ऋतुं स मृत्युपाशानधर्माज्ञानरागद्वेषादिलक्षणान्पुरतोऽग्रतः पूर्वमेव शरी- रपातादित्यर्थः । प्रणोद्यापहाय शोकातिगो मानसर्दुःखैर्वजित इत्येतत् । मोदते स्वर्गलोके वैराजे विराडात्मस्वरूपप्रतिपत्त्या ॥ १८ ॥ आ० टी०-॥१८॥ गो० टी०-चशब्द उपसंहरतीतिक्रियानुकर्षणार्थः । त्रयं किमित्यतो व्याचष्टे- -- १ ट. केतः स्वय । २ ख ङ. थोक्तयाव ।

२० टीकायसमेतकरभाष्योपेता- [अध्या०.१ बल्ली. १.] यथोक्तपिति । इष्टकानां स्वरुपं संख्याप्रकारश्चैतत्पूर्वोक्तम् । पशब्दः कर्मसमुन्द्रयार्थः। एवंशब्दार्थमाह-आत्मरूपेणेति । अग्निशब्देन तद्विषयकध्यानमुच्यत , इत्याह- ऋतुमिति । संकल्पं ध्यानमिति यावत् । यो ध्यानं निर्वर्तयति यत्नेन करोति से इत्यः न्वयः । पाशशब्दो बन्धकत्वगुणयोगादधर्मादीनभिधत्त इत्याह - अधर्मेत्यादिना । कस्मादित्यपेक्षायामाह--शरीरोति । रागादिरहितो भूत्वाऽपहाय वैराने पद इति शेषः । किंभूयेत्यपेक्षायामपेक्षितं पूरयति-विराडिनि ॥ १८ ॥ एष तेऽग्निर्नचिकेतः स्वयर्यो यमवृणीथा द्वितीयेन वरेण । एतमग्निं तवैव प्रवक्ष्यन्ति जनासस्तृतीयं वरं नचिकेतो वृणीष्व ॥ १९ ॥ एष ते तुभ्यमग्निर्वरो हे नचिकेतः स्वर्यः स्वर्गसाधना यमग्निं वर- मवृथाः प्रार्थितवानसि द्वितीयेन वरेण सोऽग्निरो दत्त इत्युक्तोप- संहारः । किंचैतमग्निं तवैव नाम्ना प्रवक्ष्यन्ति जनासो जना इत्येतदेष वगे दनो मया चतुर्थस्तुष्टेन । नृतीयं वरं नचिकेतो वृणीष्ट । तस्मि- न्ह्यदत्त ऋणवॉनहामित्यभिप्रायः ॥ १०॥ आ० टी० ॥ १९॥ गो० टी०-उक्तमुपसंहरति-एप इति । स्वर्ग्यः स्वर्गसाधनामित्यर्थः । द्विती. येन वरेण यमग्निं वृतवानम्येष तेऽग्निर्वरोऽग्निरुक्त इत्यन्वयः । पौनरुक्त्यं परिहरति उक्त इति । इदमप्युक्तोपसंहार इत्याह--किंचेति । ननु प्रार्थनामन्तरेण स्वयमेव प्रेरणमनुचितमित्यत आह--अदत्त इति । तृतीये वर इति शेषः ॥ १९ ॥ एतावद्धयतिक्रान्तेन विधिप्रतिषेधार्थेन मन्त्रब्राह्मणेनावगन्तव्यं यद- रद्वयसूचितं वस्तु नाऽऽत्मतत्त्वविषययाथात्म्यविज्ञानम् । अतो विधि- प्रतिषेधार्थविषयस्याऽऽत्मनि क्रियाकारकफलाँध्यारोपेणलक्षणस्य स्वा- भाषिकस्याज्ञानस्य संसारबीजस्य निवृत्त्यर्थ तद्विपरीतब्रह्मात्मैकत्ववि. ज्ञानं क्रियाकारकफलाध्यारोपणलक्षणशून्यमात्यन्तिकनिःश्रेयसप्रयोजन वक्तव्यमित्युत्तरो ग्रन्थ आरभ्यते । तमेतमर्थ द्वितीयवरमाप्त्याऽप्यकृता- र्थत्वं तृतीयवरगोचरमात्मज्ञानमन्तरेणेत्याख्यायिकया प्रपश्चयाति- येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नाय. घ. स्वयों न । २ . झ. अ. ट. ट. धनं य। ३ घ. त्यष । ४ ख. झ. देव व। ५ ग. घ. वानेवाह । ६ ख. ग. घ. °षयं या । ७ क. ख. ज. र्थस्य वि । ८ ग. च. अ. ट. "लाद्यध्या । ९ क. ङ. च. ज. पल । १० ग. च. झ. ट. पल । ११ठ. वरं प्राप्याप्य' । - -- " [ अध्या० १ बल्ली १] काठकोपनिषत् । ३१ मस्तीति चैके । एतद्विद्यामनुशिष्टस्त्वयाऽहं वराणा- मेष वरस्तृतीयः ॥ २० ॥ यतः पूर्वस्मारकर्मगोचरात्साध्यसाधनलक्षणादनित्याद्विरक्तस्याऽऽत्म- ज्ञानेऽधिकार इति तन्निन्दार्थ पुत्राग्रुपन्यासेन प्रलोभनं क्रियते । नचिकेता उवाच तृतीयं वरं नचिकेतो वृणीष्वेत्युक्तः सन् । येयं विचिः कित्सा संशयः प्रेते मृते मनुष्येऽस्तीत्येकेऽस्ति शरीरेन्द्रियमनोबुद्धिव्य- तिरिक्तो देहान्तरसंबन्ध्यात्मेत्येके नायमस्तीति चैके नायमेवंविधोड- स्तीति चैकेऽतश्चास्माकं न प्रत्यक्षेण नापि वाऽनुमानेन निर्णयविज्ञान- मेतद्विज्ञानाधीनो हि परः पुरुषार्थ ईत्यन एतद्विद्या विजानीयामहमनु- शिष्टो ज्ञापितस्त्वया । वराणामेष वरस्तृतीयोऽवशिष्टः ॥ २० ॥ आ० टी०-पितापुत्रस्नेहादिस्वर्गलोकावसानं यद्वरद्वयसूचितं संसाररूपं तदेव कर्म- काण्डप्रतिपाद्यमात्मन्यारोपितं तन्निवर्तकं चाऽऽत्मज्ञानमित्यध्यारोपापवादभावेन पूर्वोत्तर- ग्रन्थयोः संबन्धमाह--एतावद्धीति । प्रथमवल्लीसमाप्तिपर्यन्त ख्यायिकाया अवान्तर- संबन्धमाह-तमेतमर्थमिति । देहव्यतिरिक्तात्मास्तित्वे वादिविप्रतिपत्तेः संशयश्चेत्तर्हि प्रत्यक्षादिना स्वस्यैव निर्णयज्ञानसंभवात्तनिर्णयस्य निष्प्रयोजनत्वाच्च न तदर्थः प्रश्नः कर्तव्य इत्याशङ्कयाऽऽह--अतश्चास्माकमिति । प्रत्यक्षेण स्थाणौ निर्णीते पुरुषो न वेप्ति संदेहादर्शनाद्व्यतिरिक्तात्मास्तित्वे च संदेहदर्शनान्न प्रत्यक्षेण निर्णयः परलोकसं- वन्ध्यात्मना च कस्यचिल्लिङ्गस्याविनाभावादर्शनान्नानुमानेनापि निर्णय इत्यर्थः ॥२०॥ गो० टी०-पितुः सौमनस्यमारभ्य म्वर्गलोकपर्यन्तं यद्वरद्वयसूचित संसाररूपमेव कर्मकाण्डप्रतिपाद्यमात्मन्यागेपितं तन्निवर्तकं चाऽऽत्मज्ञानमित्यध्यारोपापवादत्वेन पूर्वो- त्तग्ग्रन्थयोः संबन्धमाह -- एतावद्धीनि । यस्माद्वरद्वयमूचिनं पितापुत्रस्नेहादि यद्वम्त्वे. तावदेवावगन्तव्यमित्यन्वयः । हिशब्द एवकारार्थः । विधिप्रतिषेधार्थेन प्रवृत्तिनिवृत्त्यर्थ- केन मन्त्रब्राह्मनोपनिषद्व्यतिरिक्तेनावगन्तव्यम् । एवकारावर्त्यमाह-नाऽऽत्मेति । आत्मतत्त्वविषयं यद्याथात्म्यविषयं विज्ञानम् । एवमारोपं प्रदर्य तस्य स्वरूपहेतुफलै- रनुवादपूर्वकमपवादमाह - अत इति । यतो निवृत्त्यविषयत्वं कर्मकाण्डस्यात इत्यर्थः । विध्यर्थः प्रवृत्तिनिषेधार्थो निवृत्तिस्तद्विषयस्येत्यनेन प्रमाणोपन्यासः । स्वरूपम ह- .. १ ख. ज. ते म । २ ग. घ. च. °ध्येऽस्ति । ३ ग. च. केऽतोऽस्मा । ४ क. ख. न. नाप्यनु । घ. च. नापि चानु । ५ अ. निर्णय । ६ ख. ग. इत्येतद्वि' । ० झ. अ. ठ. "व्यावत्तिमा ।

२२ टीकादयसमेतशांकरभाष्योपेता- [अभ्या० १ वल्ली । आत्मनि क्रियेति । आदिशब्देन प्रमातृप्रमेयादिसंग्रहः । हेतुमाह--स्वाभाविक- स्येति । अस्य व्याख्याऽज्ञानस्येति । तस्यानर्थहेतुत्वं स्फुटयति-संसारबीजस्येति । तस्माद्विपरीतं संसारभिन्नं ब्रह्मात्मैकत्वमेव वृत्त्यारूढविज्ञानम् । तद्विपरीतं स्फुटयति- क्रियति । आत्यन्तिकनि.श्रेयसं सवासनाविद्यानिवृत्तिरानन्दावाप्तिश्च तदेव प्रयोजनं यस्य तत्तथा । प्रथमवल्लीसमाप्तिपर्यन्ताख्या.यकाया अवान्तरतात्पर्यमाह--तमेतमिति । तं श्रुत्यादिप्रसिद्ध मेतं विद्वदनुभवप्रसिद्धम् । आत्मज्ञानमन्तरेण द्वितीयवरं प्राप्याप्यकृ- ताथत्वमित्याख्यायिकया प्रपञ्चयतीत्यन्वयः । कामादिप्रलोभनाख्यायिकाया विशेष. माह--यत इति । पूर्वस्मात्पूर्वकाण्डोदितात्कर्मगोचरः कर्मसाध्यः । तस्मादत एवानि- त्यत्वसातिशयत्वदोषेण दुष्टत्वात्तस्माद्विरक्तस्य । इति तस्मादित्यर्थे । तन्निन्दार्थ कर्म- निन्दार्थ निन्दा न निवृत्तावुपयुज्यते । आदिशब्दः पौत्रादिपरिग्रहार्थः । प्रलोभनं रागानुकूलो व्यापारः । अपेक्षितं समर्पयन्नुत्तरमवतारयति नचिकेता इति । उक्तः सन्नुवाचेत्यन्वयः । या सर्वसाधारणा । इयं प्रत्यक्षसिद्धा। मनुष्यग्रहणं प्राणिमात्रोपल. क्षणार्थम् । शरीरे पतित आत्माऽस्ति वा न वेति संशयो यः प्रसिद्धम्तद्विषगात्मास्तित्वं विशामित्यन्वयः। संशयस्य वादिविप्रतिपत्तिहेतुत्वात्तामाह-अस्तीति । शरीरव्यतिरिक्तो नेत्येका विप्रतिपत्तिः । इन्द्रियव्यतिरिक्तो नेत्यपरा । मनोव्यतिरिक्तो नेत्यन्या । बुद्धि- व्यतिरिक्तो नेत्यधिका । कर्ता भोक्ता वा न वेतिविप्रतिपत्तिमूलकोऽशनायाद्यतीतब्रह्माभेदवि- षयः संशयोऽन्यत्र धर्मादित्यत्र द्रष्टव्यः । वादिविप्रतिपत्तिमूलकः संशयश्चेत्तर्हि प्रत्यक्षा- दिना स्वस्यैव निर्णयसंभवात्तन्निर्णयार्थ प्रश्नोऽनर्थक इत्यत आह-अतश्चेति । स्थाणी निर्णीते पुरुषो न वेतिसंदेहादर्शनादेहादिव्यतिरिक्तात्मास्तित्वं च संशयदर्शनान्न प्रत्यक्षेण तन्निर्णयः । परलोकसंबन्ध्यात्मव्याप्यलिङ्गाभावान्नानुमानेन निश्चय इत्यर्थः । ननु तद्विज्ञानं निष्फलमित्याशङ्कयाऽऽह-एतद्विज्ञानेति । यस्मात्तदधीनपरमपुरुषार्थोऽत इत्यर्थः । एतदात्मास्तित्वम् । ननु पितुः सौमनस्यमप्यग्न्यात्मविद्यापेक्षया तृतीयं तत्कथमेष वरस्तृतीय इत्याशङ्कय पाठक्रमापेक्षयाऽवशिष्टार्थकम्तृतीयशब्द इत्याह-अवशिष्ट इति ॥ ॥ . किमयमेकान्ततो निःश्रेयससाधनात्मज्ञानार्हो न वेत्येतत्परीक्षणार्थ- माह-- देवैरत्रापि विचिकित्सितं पुरा न हि सुज्ञेयम- १ झ. अ. ट. थत्वादित्या । २ झ. ट. 'लोभामाख्या । ३ ग. घ. च. 'नायाऽऽत्म। ४ क. स. ज. रीक्षार्थे । ५ क. छ, झ. अ. द. मुविज्ञे ।

[ अध्या० १ वल्ली १] काठकोपनिषत् । २३ गुरेष धर्मः । अन्यं वरं नचिकेतो वृणीष्व मा मोपरोत्मीरति मा सुजैनम् ॥ २१ ॥ ॥ देवैरप्यत्रैतस्मिन्वस्तुनि विचिकित्सितं संशयितं पुरा पूर्व न हि मुज्ञेयं सुष्टुं ज्ञेयं श्रुतमपि प्राकृतैर्जनैयतोऽणुः सूक्ष्म एष आत्माख्यो धर्मोऽतोऽन्यमसंदिग्धफलं वरं नचिकेतो वृणीष्व मा मां मोपरोत्सीरुप- रोधं मा कार्षीरधमर्णमिवोत्तमणः । अतिसृज विमुश्चैनं वरं मा मां प्रति ॥२१॥ आ० टी०--॥ २१ ॥ गो० टी०-- नन्वात्मास्तित्वे पृष्टे तद्वत्त व्यं तत्कथमन्यदुच्यत इत्याशङ्कयाऽऽशय. माह -किमयमिति । एकान्ततो नियमेनार्थित्वेन विवेकादिकं संगृहीतम् । विवेकादि- शालिन एव ज्ञानयोग्यतेति परीक्षणार्थमुत्तरो ग्रन्थ इत्यर्थः । अपिशब्द भिन्नक्रमेण योज. यति-देवैरपीति । देवा अप्येतद्विषयकसंशयवन्त इत्यर्थः । नन्वप्रतिहतज्ञाना देवा इति प्रसिद्धेः कथं संशयस्तत्राऽऽह-पुरेति । सृष्टिकाले । अपिशब्दादन्येषां संशयः सुप्रसिद्ध इति गम्यते । तैः श्रुतमपि दुर्जेयमित्याह-नहीति । तत्र हेतुमाह- यत इति । ननु नाणुपरिमाणस्तत्कथमणुरात्माऽत आह-सूक्ष्म इति । दुर्विज्ञेय इत्यर्थः । पूर्व सुविज्ञेयमिति वस्तुशब्देन निर्देश इहाऽऽत्मशब्देनेति पुंलिङ्गनिर्देशः । अत इति । आत्मज्ञानादित्यर्थः । असंदिग्धफलं पशुपुत्रादि । उपरोधं निर्बन्धम् । तत्र दृष्टान्तमाह - अधमणमिवति । उत्तमणे धनदाता । अधमर्णाः प्रतिग्रहीता ॥ २१ ॥ एवमुक्तो नचिकेता आह. देवैरत्रापि विचिकित्सितं किल त्वं च मृत्यो यन्न सुज्ञेय मात्थ । वक्ता चास्य त्वाहगन्यो न लग्यो नान्यो वरस्तुल्य एतस्य कश्चित् ॥ २२ ॥ देवैरत्राप्येतस्मिन्वस्तुनि विचिकित्सितं किलेति भवतै एंव नः १ घ. ज. सुविज्ञे । २ ग. घ. च. विज्ञ' । ३ ख. ज. व मां । ४ ग. च. मा मो ५ झ. अ. ट. 'सीस्तदुप । ६ म. ट. °य इति । ७ ख. ज. नचिकेता उवाच दे । ८ क. झ. ट. सुधिज्ञ । ९ घ. भगव । १० क. ख. ज. एवापत्र । दा. एव ननु श्रु । झ. ट. एव भू ।

टीकाद्वयसमेत शांकरभाष्योपेता- [अध्या० १ वल्ली १ ] .. श्रुतम् । त्वं च मृत्यो यद्यस्मान सुज्ञेयमात्मतत्त्वमात्थ कथयस्यतः पण्डि. तैरप्यवेदनीयत्वाद्वत्ता चास्य धर्मस्य त्वादृक्त्वत्तुल्योऽन्यः पण्डितश्च न लभ्योऽन्विष्यमाणोऽपि । अयं तु वरो निःश्रेयसमाप्तिहेतुरतो नान्यो- वरस्तुल्यः सदृशोऽस्त्येतस्य कश्चिदप्यनित्यफलत्वादन्यस्य सर्वस्यैवेत्य- भिप्रायः ॥ २२ ॥ आ० टी०-॥ २२ ॥ गो० टी०---उपदेशनीयत्वादित्यनन्तरं त्वमुपदिशेति शेषो द्रष्टव्यः । ननु पण्डितै- रुपदेशनीयत्वेऽन्ये पण्डिताः सन्ति तत्र याहीत्यत आह-वक्तेति । धर्मस्याऽऽत्मा- ख्यस्य । न लभ्य इति कथमन्विष्यतां तत्राऽऽह- अन्विष्यमाणोऽपीति । यद्यपि लोके यमादन्ये ब्रह्मविदः सन्ति तथाऽपि यमस्य संनिहितत्वादन्यत्र गमनमाशङ्कचैवमु. सम् । एतस्य कश्चिदपि तुल्यो वरो नेत्यन्वयः । तात्पर्यार्थमाह--अनित्येति॥२२॥ एवमुक्तोऽपि पुनः प्रलोभयनुवाच मृत्युः- शतायुषः पुत्रपौत्रान्वृणीष्व बहून्पशून्हास्तहिरण्य- मश्वान् । भूमेमहदायतनं वृणीष्व स्वयं च जीव शरदो यावरिच्छसि ॥ २३ ॥ शतायुषः शतं वर्षाण्यापि येषां ताशतायुषः पुत्रपौत्राणीष्व । किंच गवादिलक्षणान्वहू-पशून । हस्तिहिरण्यं हस्ती च हिरण्यं च हस्तिहिरण्यम् । अश्वांश्च । किंच भूमेः पृथिव्या महद्विस्तीर्णमायतनमा- श्रयं मण्डलं राज्यं वृणीष्य । किंच सर्वमप्येतदनर्थकं स्वयं चेदल्पायु- रित्यत आह-स्वयं च जीव त्वं जीव धारय शरीरं समग्रेन्द्रियकलापं शरदो वर्षाणि यावदिच्छसि जीवितम् ॥ २३ ॥ आ० टी०--|| २३ ॥ गो० टी०-शिष्याय सम्यक्शोधिताय विद्या देयेत्यभिप्रायेण यमस्य पुन क्ति- रित्याह-एवमित्यादिना । बहुनिति हम्त्यादिप्प्यन्वेति । हस्ती चेति जात्येकव- १ म. सुविझे । २ ख. अ. झ. अ. ट. तैरुपदेशनी । ३ घ. 'माणः । अ° । ४ ख. ग. घ. ब. शतव । ५ ख तावयवपु । ६ इ. ट. "त्रानुत्तमो वृणी । ७ घ. 'शून्हस्ती । ८ क. ग. लं साम्राज्यं वृ: च. अ. ब. ट. ल° वृ । ९ क. ख. च. ज. रिति चाऽऽह । १० ग. घ. च. ये एवं। ११. व जी । झ. अ. ट. ठ. व धा ।

अध्या० १ वल्ली १] काठकोपनिषत् । २५ चनं हिरण्यमित्यपि । आयतनशब्दो जनपदरक्षणे लक्षणया वर्तत इत्याह-मण्डलेति । चत्वारिंशद्योजनमिते देशे सम्राजः कर्म साम्राज्यं जनपदरक्षणमित्यर्थः । धारणकर्म दर्शयति-शरीरमिति । इन्द्रियपाटवादिशून्यजीवनस्याप्रयोजनवादाह - समग्रेति । समग्राः संपूर्णा अविकला इति यावत् । जीवितुं यावदिच्छसि तावद्धारयेत्यन्वयः।।२३॥ एतत्तुल्यं यदि मन्यसे वरं वृणीष्व वित्तं चिरजी- विकां च । महाभूमौ नचिकेतस्त्वमेधि कामानां त्वा कामभाजं करोमि ॥ २४ ॥ एतत्तुल्यमेतेन यथोपदिष्टेन सदृशमन्यमपि यदि मन्यसे वरं तमपि वृणीष्व । किंच वित्तं प्रभूतं हिरण्यरत्नादि चिरजीविकां च सह वित्तेन वृणीष्वेत्येतत् । किं बहुनां महत्यां भूमौ राजा नचिकेतस्त्वमेधि भव । किंचान्यत्कामानां दिव्यानां मानुषाणां च त्वा त्वां काममाज कामभा- गिनं कामाह करोमि सत्यसंकल्पो ह्यहं देवः ॥ २४ ॥ आ० टी०-एकैकं पुत्रधनादीनां वरत्वेनोपन्यस्य समुच्चितमिदानीमुपन्यम्यति- किंच वित्तं प्रभूतमिति । अस् भुवीति धातोर्लोमध्यमपुरुषेकवचनान्तम्य निपात एधीति ततो भवेति व्याख्यातम् ॥ २४ ।। गो० टी० -सदृशमित्यधिकोपलक्षणार्थम् । प्रथमोऽपिशब्दः पुत्रादिममुच्चयार्थों द्वितीयो वरसमुच्चयार्थः । अथ पुत्रधनादीनामकैकपरत्वेनोपन्यस्य समुच्चितमिदानीमुपन्य. स्यति -किंच वित्तं प्रभूतमिति । प्रभूतमधिकं हिरण्यं रत्नमादिर्यस्य तत्तथा । चशब्दार्थमाह-सहेति । क्रियापदानुषङ्गमाह-वृणीष्वेति । भवनक्रिपायाः कर्तार- मध्याहरति- राजेति । अस् भुवीतिधातो.ग्मध्यमैकवचनान्तस्यधीति । दिव्यानां दिवि भवा दिव्या रम्भोर्वशीकल्पवृक्षकामधेन्वादयस्तेषां मानुषाणां मनुष्यसंबन्धिनो मानुषाः स्रक्चन्दनवनितादयस्तेषां च । कामाई कामयोग्यमित्यर्थः । नन्वकृतकर्मणः पुंस इष्ट- प्रदाने तव सामर्थ्य कुत इत्याशङ्कयाऽऽह--सत्यसंकल्प इति । हि यस्मादहं देवोऽ. प्रतिहतज्ञानेश्वर्यतेजोबलवांस्तम्मात्सत्यसंकल्पः । तम्मात्सामर्थ्य यमस्येत्यर्थः ॥ २४ ॥ ये ये कामा दुर्लक्षा मर्त्यलोके सर्वान्कामा श्छन्दतः प्रार्थयस्व । इमा रामाः सरथाः सतूर्या न हीदृशा लम्भनीया मनुष्यैः । आभिर्मत्पत्ताभिः १ ङ. स. अ. ट. न्यदपि । २ क ख. अ. "ना महाभूमौ म । ३ क. ङ. 'नुष्याणां । ४ २६ टीकादयसमेतशांकरभाष्योपेता। [ अध्या०१ वल्ली १] परिचारयस्व नचिकेतो मरणं माऽनुपाक्षीः ॥२५॥ ये ये कामाः प्रार्थनीया दुर्लभाश्च मर्त्यलोके सर्वीस्तान्कामांश्छन्दत इच्छीतः प्रार्थयस्व । किंचेमा दिव्या अप्सरसो रमयन्ति पुरुषानिति रामाः सह रथैर्वर्तन्त इति सरथाः । सतूर्याः सवादित्रास्ताश्च न हि लम्भनीयाः प्रापणीया ईदृशा एवंविधा मनुष्यैर्मयैरस्मदादिप्रसादम- न्तरेण । आभिर्मलत्ताभिर्मया दत्ताभिः परिचारिणीभिः परिचारय- स्वाऽऽत्मानं पादप्रक्षालनादिशुश्रूषां कारयाऽऽत्मन इत्यर्थः । नचिकेतो मरणं मरणसंबद्धं प्रश्नं प्रेतेऽस्ति नास्तीति काकदन्तपरीक्षारूपं माऽनु- पाक्षीमवं प्रष्टुमर्हसि ।। २५॥ आ० टी०--॥ २५ ॥ गो० टी०-कामा इत्यस्य व्याख्या प्रार्थनीया इति । दिवि भवाः पुरुषा अननु- कूला न भोग्या इत्याशङ्कयाऽऽह-रमयन्तीति। ननु पुरुषरमयितृत्वं भूलोकस्थानामपी- त्याशङ्कय भौमस्त्रीवैलक्षण्यमाह--सहेत्यादिना । तूर्य वाद्यविशेषो वादित्रं हस्तवा. यम् । ननु देवप्रसादादीदृशा अपि प्रापणीया इत्याह-- अस्मदादीति । आभिः पूर्वो- ताभिरात्मानं परिचारयस्वेत्यन्वयः । तात्पर्यार्थमाह-पादति । मरणशब्दस्य तत्संब- धिनि प्रश्ने लक्षणामभिप्रेत्याऽऽह--मरणसंबद्धमिति । काकदन्तपरीक्षारूपं प्रश्नं माऽनुप्राक्षार्मा कार्कीरित्यर्थः । मानुप्रयोगस्यार्थमाह-मैवमिति ॥ २५ ॥ एवं प्रलोभ्यमानोऽपि नचिकेता महादवदक्षोभ्य आई-- श्वोभावा मर्त्यस्य यदन्नकैतत्सर्वेन्द्रियाणां जरयन्ति तेजः । अपि सर्व जीवितमल्पमेव तवैव वाहास्तव नृत्यगीते ॥ २६ ॥ श्वो भविष्यन्ति न भविष्यन्ति वेति संदिह्यमान एव येषां भावो भवनं त्वयोपन्यस्तानां भोगानां ते श्वोभावाः । किंच मर्त्यस्य मनुष्यस्यान्तक है मृत्यो यदेत सर्वेन्द्रियाणां तेजस्तज्जरयन्त्यपक्षयन्त्यसर:मभृतयो १ क. 'न्दतःप्रा । ड. झ.म. ट.°न्दतश्छन्दन प्रा । २ ग. घ. च. 'च्छातो मत्तः प्रा । ३घ. 'चारणी । ४ क. घ., ङ. च. प्रेत्यास्ति । ५ झ. ब. ट. °वं मृत्युना । ६ ग. घ. इ. स. अ. ठ. ह । श्वोमावा वो भव । ७ घ. च. "न्ति चेति । ८ घ. च “नमव । ९ च. झ. 'यो हि भो।

। [ अध्या० १ वल्ली १] काठकोपनिषत् । २७ भोगा अनर्यापर्यते । धर्मवीयप्रज्ञातजोयशःप्रभूतानां क्षयितृत्वात् । यो चापि दीर्घजीविका त्वं दित्ससि तत्रापि शृणु । सर्व यह्मणोऽपि जीवितमायुरल्पमेव किमुतास्मदादिदीर्घजीविका । अतस्तवैव तिष्ठन्तु पाहा रथादयस्तों नृत्यगीते च ॥ २६ ॥ आ० टी०-॥ २६ ॥ गो० टी०-सर्वतो विरक्तस्य शमादिमतो ज्ञानाधिकार इत्याख्यायिकया सूचयन्नु- तरमवतारयति-मृत्युनेति । एवं पुत्रादिना प्रकारेण त्वया यमेनोपन्यस्तानामुदाहृतानां येषां भवनं संदिह्यमानमेव त इत्यन्वयः । अपि च न ते पुरुषोपकारिण इति निन्दाया. मतिशयमाह-किंचेत्यादिना। अपक्षयं नाशं कुन्ति । क इत्यपेक्षायामाह-अप्सरः- प्रभृतय इति । हिशब्देन प्रत्यक्षानुमानाभ्यां विषयाणां तेज.क्षपयितृत्वं प्रसिद्धमेव धोत्यते । अथवा हि यस्मादप्सरःप्रभृतयः क्षपयन्ति तम्मादेतेऽनायवेत्युत्तरेणान्वयः । तत्र पूर्वोक्तं तेनःक्षपयितृत्वमुपलक्षणीकृत्य हेतुमाह-धर्मेति । धर्म इष्टापूर्तादि वीर्य सामर्थ्य प्रज्ञा शास्त्रार्थावगाहनशक्तिस्तेजः प्रागल्भ्यं त्वग्गता वा दीप्तिर्यशः कीर्तिः । ननु त्वयोक्तं सत्यं तथाऽपि चिरजीवने विषयोपभोगः पुरुषार्थ इत्याशङ्कय तत्रापि दोषं शण्वित्याह-यां चापीति । चकारापिकारी विषयदोषसमुच्चयार्थो । दित्ससि दातुमिच्छसि । श्रुतिस्थापिशब्दापेक्षितं पूरयित्वा क्रियापदमध्याहरति-ण्विति । सर्व- शब्दप्रयोगाद्धिरण्यगर्भायुर्गृह्यते । सर्वायुषां तत्रान्तर्भावात् । एवकारद्योतितकैमुतिक- न्यायमाह-किमुतेति । जीविका यत एवं जाताऽतरतदधीनविषयभोगन्तुच्छ इत्याह- अत इति ॥ २६ ॥ न वित्तेन तर्पणीयो मनुष्यो लप्स्यामहे वित्तमद्राक्ष्म चेत्त्वा । जीविष्यामो यावदीशिष्यसि त्वं वरस्तु मे वरणीयः स एव ॥ २७ ॥ किंच न प्रभूतेन वित्तेन तर्पणीयो मनुष्यः । न हि लोके वित्तलाभः कस्यचित्तृतिकरो दृष्टः । यदि नामास्माकं वित्ततृष्णा स्याल्लप्स्यामहे माप्स्यामह इत्येतद्वित्तमद्राक्ष्म दृष्टवन्तो वयं त्वा त्वाम् । जीवितमपि तस्यैव जीविष्यामो यावान्ये पदे त्वमीशिप्यसीशिष्यसे प्रभुः स्याः । E १५. हु. नाम् । अपक्षयि । २ हु. झः ज. ट. ट. "णु यत्सर्वे । ३ क. ङ. 'विकामत । ४ क. ख. ज. °था तव नृ' । ५ झ. ट. चेत्वाम् । ६ ग. घ. च. "हि वित्तलाभो लोके क° । ७ ग. घ. च. ज. वितेऽपि । ८ घ. "द्याम्यप । ९ क. ख. च. "प्यसि त्वमीशि° । घ. च. °ष्यसि ।

टीकाद्वयसमंतशांकरभाग्योपेता- [अध्या. १ ली १ ] कथं हि मयस्त्वया समेत्याल्पधनायुर्भवेत् । बरस्तु मे करणीयः स एवं यदात्मविज्ञानम् ॥ २७॥ आ० टी०-॥२७॥ गो० टी०-दृढवैराग्याथै पूर्वोक्तं सर्व निन्दनीयमित्याह-किंचेति । प्रभूतेना- धिकेन तर्पणीयः प्रीणनीयः । ननु वित्तं चेत्प्रीतिकरं भवत्येवेति चेनेत्याह-न हीति । हिशब्देन तृप्तिकरत्वाभावो लोके प्रसिद्ध इति द्योत्यतेऽर्थानामर्नने दुःखमिति न्यायात् । किंचातृप्तिकरे वित्ते तृष्णव नास्ति । अथापि नामास्तु तथाऽपि वरं विनव लप्स्यामह इत्याह-यदि नामेति । त्वां वयं दृष्टवन्तश्चेद्वित्तं लप्स्यामहे प्राप्स्यामह इत्यन्वयः । वित्तन्यायमन्यत्राप्यतिदिशति जीवितेऽपीति। याम्ये यमस्य स्थान याम्यं तस्मिस्थित्वेति शेषः । ईशिष्यसीति परस्मैपदं छान्दसमित्याह-ईशिष्यस इति । प्रभुरिति । पुण्यपापवतां नियामकः स्याः । यावत्कालं प्रभुः स्यास्तावत्कालं त्वदर्शनेन जीविष्याम इत्यन्वयः । त्वदर्शनेनैव सर्व लप्स्यामहे किमुत त्वया समेत्य त्वत्समीपं प्राप्य संभाषणादिकं कृत्वेति कैमुतिकन्यायं मनसि निधायाऽऽह-कथं हीति । हिश. ब्देन देवतासमागमादिनाऽभीप्सितप्राप्तिः श्रुतिस्मृतिलोकसिद्धेत्युच्यते । अल्पेति धनायुषो- विशेषणम् । किं तवेप्सितं तदाह-वर इति । किं तदाह-यदिति ॥ २७ ॥ अजीर्थताममृतानामुपेत्य जीर्यन्मर्त्यः कंधःस्थः प्रजानन् । । अभिध्यायन्वर्णरतिप्रमोदानतिदी जीविते को रमेत ॥ २८ ॥ यतश्चाजीर्यतां वयोहानिर्मप्राप्नुवताममृतानां सकाशमुपेत्योपगम्याss- त्मन उत्कृष्ट प्रयोजनान्तरं प्राप्तव्यं तेभ्यः प्रजानबुपलभमानः स्वयं तु जीर्यन्मयो जरामरणवान्कधःस्थः कुः पृथिव्यधश्चान्तरिक्षादिलोकापे. क्षया तस्यां तिष्ठतीति कधःस्थः सन्कथमेवमविवेकिभिः प्रार्थनीयं पुत्रवि- तहिरण्याद्यस्थिरं वृणीते । क तदास्थ इति वा पाठान्तरम् । अस्मिन्पक्ष चाक्षरयोजना तेषु पुत्रादिष्वास्थाऽऽस्थितिस्तात्पर्येण वर्तनं यस्य स तदास्थस्ततोऽधिकतरं पुरुषार्थ दुष्पापमपि प्रापिपयिषुः क तदास्थो भवेन कश्चित्तदसारजस्तदर्थी स्यादित्यर्थः । सर्वो छुपर्युपर्येव बुभूषति झ. वधस्थः । अ. ट. वधस्तः ।२ क. ख. ज. ममर्त्यानां । ३ क. ख. ग. 'लभ्यमा। ४ घ. 'व्यधोऽन्त । कु. झ. अ. ट. "व्यधश्चासावन्त । ५ घ. °थम । ६ घ. 'ति पा । ७५. 'म् । तीस्म । ८ घ. क्षेऽक्ष । ९ झ. अ. ट. दास्थो जरामरणवांस्त' । १० घ. "तरपु। ११५. ङ. प्रापयिष्णुः । .

[ अध्या० १ वाली १] काठकोपनिषत् । २१ लोकस्तस्मान पुप्रवित्तादिलोभैः प्रलोभ्योऽहम् । किंचाप्सरःप्रमुखाच- र्णरतिप्रमोदाननवस्थितरूपतयाऽभिध्यायनिरूपयन्यथावदतिदीचे नीषिते को विवेकी रमेत ॥ २८ ॥ आ० टी०-किंचोत्कृष्ट पुरुषार्थलाभे संभवत्यधर्म कामयमानो मूर्ख एवाहं स्यां ततोऽपि मम स एव वर इत्याह-यतश्चाजीयतामित्यादिना ॥ २८ ॥ गो० टी०-किंचोत्कृष्टपुरुषार्थलाभे संभवत्यधर्म कामयमानो मूर्ख एव स्यात्ततो मम स एव वर इत्याह-यतश्चाजीयतामित्यादिना । सकाशं निकटं तेभ्यो वित्ता- दिभ्यो देवेभ्यो वा प्रयोजनान्तरं प्राप्तव्यमित्यन्वयः । ननु सर्वे किमिति प्रार्थयन्ते वित्तादिदोषं पश्यन्त इत्याशङ्कयाविवेकित्वात्तेषां विवेकिनो मम न प्रार्थनेत्याह-प्रजान- मिति । तेभ्यः प्राप्तव्यं प्रयोजनं प्रजानन्नित्यन्वयः । एवमविवेकिवद्वृणीत इत्यन्वयः । प्रजानन्प्रयोजनमुपलभमानः क्व तदास्थ इत्यन्वयं मनसि निधाय पाठान्तरं व्याचष्टे- अस्मिन्पक्ष इति । नन्वधिकतरपुरुषार्थानवगमे तेषु पुत्रादिष्वास्था स्यादित्याशङ्कया. पेक्षितं पूरयति-तत इति । दुष्प्रापमपीतरजनैरिति शेषः । दुप्पापमप्यधिकतरं पुरु. पार्थ प्रापिपयिषुः क्व तदास्थो भवेदित्यन्वयः । तात्पर्यार्थमाह-न कश्चिदिति । तत्र हेतुमाह--सर्व इति । बुभूषति भवितुमिच्छति । इयता प्रबन्धेनोक्तम्य प्रयोजनमाह- तस्मादिति । यस्मादहं विवेकादिमांम्तम्मादित्यर्थः । वर्णों गीतिः क्रीडा रतिः प्रमोद. स्तज्जं सुखं निरूपयन्यथावदुत्पत्तिस्थितिनाशैविचारयन्नित्यन्वयः । अतिदीर्धे बहुसंवत्सर- परिमिते जीविते जीवने प्राणधारणे ॥ २८ ॥ यस्मिन्निदं विचिकित्सन्ति मृत्यो यत्सांपराये महति ब्रूहि नस्तत् । योऽयं वरो गृढमनुप्र- विष्टो नान्यं तस्मान्नचिकेता वृणीते ॥ २९ ॥ इति काठकोपनिषदि प्रथमाध्याये प्रथमा वल्ली समाप्ता ॥ १ ॥ अतो विहायानित्यैः कामैः प्रलोभनं यन्मया प्रार्थितं यस्मिन्मेत इदं विचिकित्सनं विचिकित्सन्स्यास्ति नास्तीत्येवंप्रकारं हे मृत्यो सांपराये परलोकविषये महनि महत्प्रयोजननिमित्त आत्मनो निर्णयविज्ञानं यत्तद्रूहि कथय नोऽस्मभ्यम् । किं बहुना योऽयं प्रकृत आत्मविषयो वरो गूढं गहनं दुविवेचनं प्राप्तोऽनुमविष्टस्तस्माद्वादन्यमविवेकिभिः रात १ ग. घ. च अ. ट. °दिलाभैः । २ . झ. अ. ट. 'कित्सितं वि । ३ क. ख 'कृतात्म। ४ इ. स. न. ट. गहनं । ५ ग. घ. ङ. च. °विष्टो वरा । ६ ख. ग. घ. इ. च. स्तद्व ।

३० टोकाद्वयसमेतशांकरभाष्योपेसा- [ अध्या० १ वल्लो २] प्रार्थनीयमनित्यविषयं वरं नचिकेता न वृणीते मनसाऽपति श्रुतेर्वच- नमिति ॥ २९॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्य- श्रीमदाचार्यश्रीशंकरभगवतः कृतौ काठकोपनिषद्भाष्ये प्रथमाध्याये प्रथमवल्लीभाष्यं समाप्तम् ।। १ ॥ आ टी-॥ २९ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचिते काठकोपनिषद्भाष्यव्याख्याने प्रथमा वल्ली समाप्ता ॥ १ ॥ गो० टी०-यतो जीवितेऽप्याशाऽपगताऽतो मम प्रलोभनां विहाय प्रार्थितं प(व)रं प्रदेहीत्याह-अत इति । परलोकविपयेऽस्ति नास्तीत्येवं प्रकारं यस्मिन्विचिकित्सनं विचिकित्सन्ति तम्याऽऽत्मनो निर्णयविज्ञानं यन्महत्प्रयोजननिमित्ते मोक्षार्थे तब्रूहीत्य- न्वयः । नचिकेतसं विषयीकृत्यान्यस्याप्यधिकारनिर्णयार्थ संवादरहितं श्रुतेर्वच नमि- त्याह-किंबहुनति ॥ २९ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यवर्यश्रीमहालगोपालेन्द्रयतश्विरविरचिते काठको- पनिषद्भाप्यविवरणे प्रथमाध्याये प्रथमा वल्ली समाप्ता ॥ १ ॥ परीक्ष्य शिष्यं विद्यायोग्यतां चावगम्याऽऽह- अन्यच्छेयोऽन्यदुतैव प्रेयस्ते उभे नानार्थे पुरुष५ सिनीतः । तयोः श्रेय आददानस्य साधु अवति हीयतेऽर्थाद्य उ प्रेयो वृणीते ॥ १ ॥ अन्यत्पृथगेव श्रेयो निःश्रेयसं तथाऽन्यदुताप्येव प्रेयः प्रियतरमपि ते प्रेयःश्रेयसी उभे नानार्थे भिन्नप्रयोजने सती पुरुषमधिकृतं वर्णाश्रमा- दिविशिष्टं सिनीतो बध्नीतस्ताभ्यामात्मकर्तव्यतया प्रयुज्यते सर्वः पुरुषः । श्रेयःमेयसो भ्युदयामृतत्वार्थी पुरुषः प्रवर्तते । अतः श्रेयः- प्रेयःप्रयोजनकर्तव्यतया ताभ्यां वद्ध इत्युच्यते सर्वः पुरुषः । ते यद्य- प्येकैकपुरुषार्थसंबन्धिनी विद्या विद्यारूप वाविरुद्धे । इत्य यतरापरि. 1. ग. ङ. अ. चास्याव । २ ख. ज. मृत्युरुवाच । अ । ३ क. इ. ज. दुत एवापि च प्रे। घ. च. 'दुतापि च प्रे' । ४ ङ. झ. अ. ट ते प्रेयःश्रेय । ५ क. ख. ज. "स्ताभ्यां विद्याविद्या- भ्यामा' । ६ च. षः । श्रेयःप्रेय' । ७ ज. र्थी सन्पुरु । ८ झ यः क । ९ ग. झ. अ. सर्वपु । १० घ. स. प.ट रुषसं।

[ अध्या० १ वली २] काठकोपनिषत् । ३१ .. त्यागेनैकेन पुरुषेण सहानुष्ठातुमशक्यत्वात्तयाहित्वाऽविद्यारूपं प्रेयः श्रये एव केवलमाददानस्योपादानं कुर्वतः साधु शोभनं शिवं भवति । यस्त्व- दृग्दर्शी विमूढो हीयते वियुज्यतेऽस्मादर्थात्पुरुषार्थात्पारमार्थिकात्प्रयो- जनानित्यात्मच्यवत इत्यर्थः । कोऽसौ य उ प्रेयो वृणीत उपादत्त इत्येतत् ॥ १ ॥ आ० टी०- अभ्युदयनिःश्रेयसविभागप्रदर्शनेन विद्याविद्यावि गगप्रदर्शनेन च केवल- विद्यार्थितया शिष्यं प्रथम स्तोतीत्याह-परीक्ष्यति ।श्रेयःप्रेयसोरन्यतरपरित्यागेनैवान्यत- रोपादाने हेतुमाह-ते यद्यपीति । ते यद्यप्येकैकपुरुषसंबन्धिनी तथाऽपि विरुद्धे ॥१॥ । गो० टी-अभ्युदयनिःश्रेयसविभागप्रदर्शनेन विद्याविभागादर्शनेन च केवलविद्या- प्रार्थितया शिष्यं प्रथमं सोतीत्याह--परीक्ष्येति । अवगम्य तस्मिन्निति शेषः । पृथ- गेव प्रेयसः सकाशादित्यर्थः । निःश्रेयसं मोक्षस्तत्साधनत्वाज्ज्ञानमत्र निःश्रेयसम् । तथेति । यथा श्रेयः पृथक्तथेत्यर्थः । प्रियतरमप्यभ्युदयसाधनं ज्योतिष्टोमाद्यन्यदित्यन्वयः। भिने प्रयोजने ययोमते भिन्नप्रयोजने । अधिकृतमित्यस्य विशेषणम्-वर्णाश्रमादीति । आदिपदेन वयोवस्थादिपरिग्रहः । वर्णविशिष्टस्याधिकारे--" ब्राह्मणो बृहस्पतिसवेन यजेत " इत्यादि शास्त्रं प्रमाणम् । आश्रमविशिष्टम्याधिकारे-" गृहस्थः सदृशी भार्या. मुपेयात् " इत्यादि । वयोविशिष्टस्याधिकारे--" जातपुत्रः कृष्णकेशोऽग्नीनादधीत " इत्यादि । अवस्थाविशिष्टस्याधिकारे--" अविचिकित्सितव्याधेरपां प्रवेशो वा" इत्यादि प्रमाणम् । पिञ् बन्धन इति धात्वर्थमादाय व्याचष्टे--सिनीत इति । ननु विद्यावि. घयोः कथं बन्धकत्वमित्यत आह--ताभ्यामिति । सर्वः कर्मणि वर्णाश्रमादिविशि. ष्टोऽधिकृतो विद्यायां साधनचतुष्टयसंपन्नम्ताभ्यां प्रयुज्यते । तयोः प्रेरकत्वं वा कथमि- त्याशङ्कयाऽऽह--आत्मकर्तव्यतयेति । आत्मनि विद्याविद्ययोः कर्तव्यता कृतिसाध्यता तया । विधितस्तद्विपयज्ञानेनेत्यर्थः । ननु धकर्तव्यताज्ञानद्वारा विद्याविद्याभ्यां पुरुषः प्रेर्थत इत्ययुक्तं विधेविशेषकर्तव्यताबोधित्वात्सामान्यतः सिद्धे केनचित्कर्तव्यताज्ञाने तत्स्यात्तदेव नास्तीत्याश चाऽऽह--श्रेयःप्रेयसोरिति । अभ्युदयार्थी प्रेयसि कर्म- ण्यमृतत्वार्थी श्रेयसि मोक्षसाधने प्रवर्तत इति यथासंख्यमन्वयः । एवं फलकामनया सामान्यतस्तत्साधनं कार्यमिति ज्ञानमभूदिति भावः । हिशब्दः प्रसिद्भिद्योतकः । यदो- तरत्रान्वेति । हि यस्मात्सामान्येन कामनया कर्तव्यताज्ञानं सिद्धमत इत्युपसंहारेणान्वयः । १ ख. ग. झ, ञ. 'ते कस्मा।

३२ टीकाद्वयसमेतशांकरभाष्योपैता- [ अध्या० १ वल्ली २] श्रेयसे प्रेयसे च कर्तव्ये विद्याविद्ये तयोर्भावः कर्तव्यता तयेत्यर्थः । ताभ्यां विद्याविद्या- भ्याम् । ननु कर्मणो जन्मादिहेतुत्वेन बन्धकत्वेऽपि विद्यायास्तन्निवर्तकत्वात्कथं बन्धकत्व- मिति चेत्कर्मणो जन्मादिहेतुत्वेनालाभेन च विद्याया बन्धकत्वमिति भावः । तयोरन्यतर- त्यागेनान्यतरपरिग्रहे हेतुमाह--ते यद्यपीति । तथाऽपि विरुद्धे । तत्र हेतुः-- विद्येति । इति यस्मादर्थे । यस्माद्विद्याविद्ये विरुद्धे तस्मादन्यतरापरित्यागेनानुष्ठातुमश. क्यत्वादित्यन्वयः । नन्वेकेनैका परेणापरा कतुं शक्येत्यत आह-एकेनेति । ननु क्रमेणानुष्ठातुं शक्येत्यत आह--सहेति । हेतुमुपन्यस्याक्षराणि गृहीत्वा व्याचष्टे- तयोरिति । निर्धारणे षष्ठी । अविद्यारूपं कर्म प्रेयो हित्वेत्यन्वयः । अपेक्षिताध्याहारेण सर्व वाक्यं सावधारणमिति न्यायेनाऽऽह--श्रेय एवेति । शिवमानन्दरूपम् । विद्यो- पादातुः श्रेय इत्युक्त्वा तद्विपरीतस्यानर्थप्राप्तिमाह--यस्त्विति । तुशब्दोऽविद्योपादा. तुर्वलक्षण्यार्थः । अदूरदर्शीत्यस्य व्याख्या विमूढ इत्यविवेकीत्यर्थः । ननु कर्मकर्तुः फलं स्यादिति शङ्कते-कस्मादिति । नन्वर्थान्न हीयत इत्युक्तमत आह--पारमार्थि- कादिति । मोक्षादित्यर्थः । ननु मोक्षः स्वर्गाद्यन्यतम इत्यत आह-नित्यादिति । विमूढत्वमक्षरव्याख्यानेन दर्शयति--कोऽसाविति । उ एवोपादत्तेऽनुतिष्ठतीत्यर्थः । इत्येतदुपादत्त इत्युक्ते यावानर्थस्तावान्वृणीत इत्यर्थः ॥ १ ॥ याभे अपि कर्तु स्वायत्ते पुरुषेण किमर्थ प्रेय एवाऽऽदत्त बाहुल्येन लोक इत्युच्यते-- श्रेयश्च प्रेयश्च मनुष्यमेतस्तो संपरीत्य विविनक्ति धीरः । श्रेयो हि धीरोऽभि प्रेयसो वृणीते प्रेयो मन्दो योगक्षेमावृणीते ॥ २ ॥ सत्यं स्वायत्ते तथाऽपि माधनतः फलतश्च मन्दबुद्धीनां दुर्विवेक. रूपे सती व्यामिश्रीभूते इव मर्नुष्यमेतं पुरुषमा इतः प्राप्नुतः श्रेयश्च प्रेयश्च । अतो हंस इवाम्भसः पयस्तौ श्रेयःप्रेयःपदार्थों संपरीत्य सम्यक्परिगम्यं मनसाऽलोच्य गुरुलाघवं विपिनक्ति पृथकरोति धीरो धीमान् । विवियं च श्रेयो हि श्रेय एवाभिवृणीत प्रेय. सोऽभ्यर्हितत्वात् । कोऽसौ धीरः । यस्तु मन्दोऽल्पबुद्धिः स विवे- १ ग. प. कु. च. इवते । २ झ. ञ, ट. "नुष्यं पु। ३ झ. अ. ट. इतोऽश्रुतः प्रा। ४ क. ख. घ. अ. भ्य सम्यङ्मन' । ५ ङ. झ. ज. लोक्य गु। ६ क. ख. ज. °च्य श्रे' । ७ क. इ. 'ते श्रेय । ८ झ... ठ. सदसद्विवे।

[ अध्या० १ वल्ली २] काठकोपनिषत् । ३३ कासामाद्योगक्षेमाद्योगक्षेमनिमित्तं शरीराग्रुपचयरक्षणनिमित्तमित्येत- प्रेयः पशुपुत्रादिलक्षणं वृणीते ॥ २ ॥ आ० टी०-॥२॥ गो० टी०--नन्वधिकृतेन पुरुषेणोभे अपि विद्याविद्ये कर्तुमन्वायत्ते यदि ताह किमर्थं पुरुषो बाहुल्येन श्रेय एव न गृह्णातीत्याशङ्कय सत्यं द्वे अपि स्वाधीने तथाऽपि फलतः साधनतो मन्दमतीनामशक्ये मिलिते इव प्रेयःश्रेयसी पुरुषमधिकृतं प्राप्नुत इत्याह---याभे इत्यादिना । एत इत्यापर्वकेणगताविति धातो रूपमित्याह--आ इत इति । तस्य व्याख्याऽश्नुत इति । तद्वयाचष्ट---प्राप्नुत इति । परम्पर समुच्चयार्थी चकारौ व्यामिश्रद्योतको । यतः श्रेयःप्रेयसोः स्वरूपतः फलतश्च विवेकामावालोकः प्रेय एवाऽऽदत्तेऽतो बुद्धिमान्हंसो ययाऽम्भसः सकाशात्क्षीरं विविच्य भुङ्क्ते तथा प्रेयसः सकाशाद्विविच्य श्रेयो ज्ञात्वा तदेव साधन: संपादनीयमित्याह-अत इत्यादिना । गुरुलाघवमिति । कर्मणोऽनुष्ठाने महानायासः फलमपि दुःग्वसंवलितं विद्याप्राप्तावन्वय- व्यतिरेकदृष्टानर्थनिवृत्तिरानन्दावाप्तियत्नाभाव इति विचिनक्ति विवेचयति गुरुलाघवमि- त्यर्थः । नियुक्तं दर्शयति--धीर इति । संस्कृतमतिरिति यावत् । गुरुलाघवविचारस्य फलमाह--श्रेय इति । हिरेवार्थः । छन्दसि प्रादयो व्यवहिताश्चेत्याशयेनाऽऽह- अभिवृणीत इति । तत्र हेतुमाह - -प्रेयस इति । कर्तृपदं माकासमाह---कोऽसा- मिति । यत्पदाध्याहारेण प्रेय इति व्याचष्टे-यस्त्विति । तुशब्दो बुद्धिमलक्षण्यार्थः । अल्पबुद्धिरल्पाऽसंस्कृता बुद्धिर्यस्य सः । प्रेय एवं वृणीत इत्यत्र हेतुमाह-विवेकति । योगस्य प्राप्तस्य क्षेमो रक्षणं तन्निमित्तं तदाह--शरीरेत्यादिना । शरीरत्यादिशब्दे- नेन्द्रियादिपरिग्रहः । उपचयो वृद्धिः । तल्लक्षणनिमित्तं तत्म्वरूपनिमित्तम् । प्रयःशब्दा- र्थमाह-पश्चिति । अत्र श्रेयः शब्दः फलपरः ॥ २ ॥ --- स त्वं प्रियान्प्रियरूपाश्च कामानअिध्यायन्नचिके- तोऽत्यसाक्षीः। नैता सङ्कां वित्तमयीमवाप्नो यस्यां मज्जन्ति बहवो मनुष्याः ॥ ३ ॥ स त्वं पुनः पुनर्मया प्रलोभ्यमानोअप प्रियान्पुत्रादीनियरूपांश्चाप्सरः- प्रभृतिलक्षणान्कामानभिध्यायश्चिन्तयंस्तेपामनिन्यत्वासारत्वादिदोपान्हे नचिकेतोऽत्यस्राक्षीरतिसृष्टवान्परित्यक्तवानस्य हो बुद्धिमत्ता नव नैतामवा- १ स. स. ट. यनलक्ष । २ ख. घ. नित्यासा' ।

३४ टीकाद्वयसमेतशांकरभाष्योपता- [अध्या० १ वल्ली २ ] सवानसि सङ्की मृति कुत्सितां मूढजनप्रवृतां वित्तमयीं धनमायाम् । यस्यां मृतौ मज्जन्ति सीदन्ति बहवोऽनके मूढा मनुष्याः ॥३॥ आ० टी०--॥३॥ गो० टी०-पुत्रादीनां गौणात्मत्वात्प्रियत्वम् । प्रियरूपान्प्रियं रूप्यते जन्यते यस्तेऽप्सरःप्रभृतिलक्षणास्तदादिस्वरूपान् । चिन्तयन्नित्यपेक्षितं पूरयति- तेषामिति । वृतयमोक्तेस्तात्पर्य दर्शयति- अहो इति । अनेन शिष्यस्तुतिः कृता । मूढजनेषु प्रवृत्ता मूढजनप्रवृत्ता तां धनप्रायां धनप्रचुरामित्यर्थः । सृतौ मार्गे । बहुशब्दस्य त्रित्वे न पर्य- वसानमित्याह--अनेक इति । ॥ ३ ॥ दूरमेते विपरीते विषूची अविद्या या च वियेति ज्ञाता । विद्याभीप्सिनं नचिकेतसं मन्ये न त्वा कामा बहवोऽलोलुपन्त ॥ ४ ॥ तयोः श्रेय आददानस्य साधु भवति हीयतेऽाद्य उ प्रेयो वृणीत इत्युक्तं तत्कस्माद्यतो दूरं दूरेण महताऽन्तरेणैते विपरीते अन्योन्यव्या. वृत्तरूपे विवेकाविवेकात्मकत्वात्तमःप्रकाशाविव । विषूची विषूच्यो नाना गती भिन्नफले संसारमोक्षहेतुत्वेनेत्येतत् । के ते इत्युच्यते-या चावि- धा प्रेयोविषया विद्योत च श्रेयोविषया ज्ञाता निर्माताऽवगता पण्डितै- स्तत्र विद्याभीप्सिनं विद्यार्थिनं नचिकेतसं त्वामहं मन्ये । कस्माघस्मा- दविद्वबुद्धिप्रलोभिनः कामा अप्सरःप्रभृतयो बहवोऽपि त्वा त्वां नालो- लुपन्त न विच्छेदं कृतवन्तः श्रेयोमार्गादात्मोपभोगाभिवाञ्छासंपाद- नेन । अतो विद्यार्थिनं श्रेयोभाजनं मन्य इत्यभिप्रायः ॥ ४ ॥ आ० टी०-॥४॥ गो० टी०-पौनरुक्त्यमाशङ्कय दूरमेते इति वाक्यस्य व्याव| शङ्कामाह- सयोरिति । विशेषो न दृश्यत इति भावः । परिहारमवतारयति-यत इति । दूरमि- त्यस्य व्याख्या-दूरेणेत्यादि । अन्तरेण भेदेन । एते वक्ष्यमाणे । परस्परभिन्नत्वे हेतुमाह-विवेकति । तत्र दृष्टान्तः-तम इति । सुब्लोपश्चान्दस इत्याह-विष्- च्याविति । भिन्नफलत्वं व्याचष्टे-संसारोति । संसारहेतुरविद्या मोक्षहेतुर्विद्येत्या- काङ्क्षापूर्वकं व्याचष्टे-के ते इति । या कर्मकाण्डे प्रसिद्धा प्रेयोविषया । इति. - भ १. कां संसृ । २ घ. च. 'वृत्तिं वि । ३ क. वृत्तय । ४ ङ. झ. न. ट. कामा अात".: ५ स्वां न लो । ६ पन्तो न ।

[ अध्या० १ वाली २] काठकोपनिषत् । शब्दो वेदान्तप्रसिद्धयर्थः । परस्परसमुच्चयार्थश्वकारः । श्रेयो मोक्षो विषयः साध्यं यस्याः सा तथा । प्रसिद्धत्वात्कर्तृपदमाह-पण्डितैरिति । तत्र विद्याविद्ययोर्मध्ये किमतोऽन्यं नचिकेतसं जानाति नेत्याह-वामिति । नचिकेतसो विद्यायोग्यताया. माकाक्षापूर्वकमुत्तरवाक्यं हेतुपरत्वेन ब्याचष्टे-कस्मादित्यादि । अविद्वबुद्धिप्रलो. भिनोऽविवेकबुद्धिवशीकरणसमर्थाः । काम्यन्त इति कामाः । श्रेयोमार्गाज्ज्ञानमार्गान विच्छेदं कृतवन्तो विच्छिन्नसंबन्धं न कृतवन्तः । संबन्धविच्छेदे हेतुमाह-आत्मेति । आत्मनाऽप्सरःप्रभृतिकामेन जनितो यो (?) (य उप) भोगः मुखं तस्य वाञ्छेच्छा तस्या उत्पादनद्वारा न विच्छेदं कृतवन्त इत्यन्वयः । तात्पर्यमाह-अत इति । यतस्तैर्न वशं नीतोऽत इत्यर्थः । भाजनं पात्रं योग्यमित्यर्थः ॥ ४ ॥ अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितं- मन्यमानाः । दन्दम्यमाणाः परियन्ति मूढा अन्धे- नैव नीयमाना यथाऽन्धाः ॥ ५॥ ये तु संसारभाजना अविद्यायामन्तरे मध्ये घनीभूत इव तमसि वर्त- माना वेष्टयमानाः पुत्रपश्चादितृष्णापाशशतैः स्वयं वयं धीराः प्रज्ञावन्तः पण्डिताः शास्त्रकुशलाश्चेति मन्यमानास्ते दन्द्रम्यमाणा अत्यर्थ कुटिला- मनेकरूपां गतिं गच्छन्तो जरामरणरोगादिदुःखैः परियन्ति परिग- च्छन्ति मूढा अविवेकिनोऽन्धेनैव दृष्टिविहीनेनैव नीयमाना विषमे पथि यथा बहवोऽन्धा महान्तमनर्थमृच्छन्ति तद्वत् ॥ ५ ॥ आः टी०--॥५॥ गो० टी०-विद्याभिनिवेशायाविद्याधिकारिणो दर्शयति--ये वित्यादिना । संसारभाजनाः संसारयोग्याः । अन्तरं कार्यकरणसंघातसारभूतो मध्यमो देशस्तत्र वर्त. मानास्तादात्म्याभिमानवन्तः । वेष्टयमाना बध्यमानाः । कैरित्याकाङ्क्षायामाह-पुत्रोति । पुत्रादितृष्णा एव पाशशतानि तैरित्यर्थः । अत एव स्वयं धीराः प्रज्ञावन्तो वय. मेव लौकिके प्रज्ञाशालिनः शास्त्रीयप्रज्ञाशालिन इति मन्यमाना इत्यर्थः । कार्यकारणा. घभिमानशालिनां गतिमाह-त इति । यङन्तद्रम गतावितिधात्वर्थमादाय दन्द्रम्यमाणा इति पदं व्याचष्टे-कुटिलामित्यादेना । अनेकरूपामुत्तरायणादिरूपां गतिं मार्ग- मिच्छन्तः प्रार्थयन्तः । जराशब्दो दुःखहेत्ववस्थोपलक्षणार्थः । रोगो धातुवैषम्यम् । १ क. ज. °मानाः प । २ छ. पर्यन्ति । ३ क. ख. छ. 'भाजो ज । ग, हु, च. भाज- नोऽवि । घ. 'भाजोऽवि। ४ क. ग. घ. च. यं धी। न. यं च धी। ५ झ. अ. ठ. स्तेऽतो द। ६ म. गतिमिच्छ । ७क. अ. न्धेनेव । ८ ङ. व नी । ९ क. नेनेव ।

.. ३६ टीकाद्वयसमेतशांकरभाष्योपेता- [ अध्या० १ वल्ली २] आदिशब्देन मन:पीडादिपारग्रहः । तेननितैर्दुःखैः परिगच्छन्ति परितः स्वर्गादिषु भ्रम- न्तीत्यर्थः । अविवेकिनः । संसारावध्यदर्शिनः । तत्र दृष्टान्तमाह-अन्धेनैवेति । नयनस्थानमाह-विषय इति । कण्टकपाषाणादिगर्तादिसहित इत्यर्थः । यथाऽन्धा, इति श्रुतिपदं व्याचष्टे-बहव इति । महान्तमनर्थ कण्टकतोदनपङ्गत्वदेशविशीर्णत्वा- दिरूपमृच्छन्ति प्राप्नुवन्ति यथा तद्वद्भ्रमन्त्यविवेकिन इत्यन्वयः ॥ ५ ॥ न सांपगयः प्रतिभाति बालं प्रमायन्तं वित्तमो- हेन मूढम् । अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे ॥ ६ ॥ अत एव मूढत्वान्न सांपरायः प्रतिभाति । संपरैयत इति संपरायः परलोकस्तत्माप्तिप्रयोजनः साधनविशेपः शास्त्रीयः। सांपरायः स च बालमविवेकिनं प्रति नै प्रतिभाति न प्रकाशते नोपतिष्ठत इत्येतत् । प्रमावन्तं प्रमादं कुर्वन्तं पुत्रपश्चादिप्रयोजनेष्वासक्तमनसं तथा वित्त- मोहेन वित्तनिमित्तेनाविवेकेन मूहूं तमसाऽऽच्छन्नं सन्तमयमेव लोको योऽयं दृश्यमानः स्न्य नपानादिविशिष्यो नास्ति परोऽदृष्टी लोक इत्येवं मननशीलो मानी पुनः पुनर्जनित्वा वैशं मदधीनतामापद्यते मे मृत्यो- मम जननमरणादिलक्षणदुःखप्रवन्धारूढ एव भवतीत्यर्थः । प्रायेण ह्येवं- विध एव लोकः॥ ६ ॥ आ०टी०- सम्यक्पराकाले देहपातादृर्श्वमेवेयते गम्यत इति शेषः ॥ ६ ॥ गो० टी०-पूर्वोक्तार्थ हेतुत्वेनाऽऽदायोत्तरं व्याचष्टे- अत एवेति । अतःशब्दा- र्थमाह --मूढत्वादिति । परे काले देहपतनादूर्व सम्यगीयते गम्यत इति संपरायः । अथवा सम्यक्पर इत्युपलक्षणम् । परापरब्रह्मप्राप्तिकाले प्रारब्धविगमानन्तरमित्यर्थः । तत्प्राप्तिप्रयोजनः परापरब्रह्मप्राप्तिः प्रयोजनं यस्य स तथा । साधनविशेषश्चोंकारध्या- नादिः शास्त्रीयः प्रसिद्धो यः स बालं पुत्रपश्चादिष्वासक्तत्वादविवेकिनं प्रति नोपति- ठते बालो नानुतिष्ठतीत्यर्थः । प्रमादं कुर्वन्तं व्याचष्टे-पुत्रेति । पुत्रादिसाध्यप्रयो- जनेषु न केवलमासक्तमनसं न भाति किं त्वन्यथाऽपीत्याह-तथेति । मूढमिति । १ घ. यः संपरायः। प्र । २ झ. ट. "पर ईयत इ° । ३ ख. रे सम्यक्परे काल ईयत इ। ग, घ रे सम्यक्परे लोक ईयत इ । ४ झ. अ. ट. स बा । ५ क. ख. ज. न भा। ६ क. ग. घ. इ. च. छ. ज. 'नस्तया वि। ७ झ. न. सन्तं न त्वय । ८ च. 'मानोऽन्न । ९ ख. °नः स्वन । १० , भ. रोऽप्यद । ११ घ. 'टो मनुष्यालोक । १२ क. वशम । १३ ख. घ. ग.शंस म।

[ अध्या० १ वल्ली २] काठकोपनिषत् । वित्तातिरिक्तपुरुषार्थमपश्यन्तं तदर्जनादौ व्यासक्तचित्तमित्यर्थः। अत एव तमसाऽऽच्छा- मित्याह-तमसेति । अविवेकनेत्यर्थः । तमसा सांपरायो न मातीत्यन्वयः । ननु द्रव्यासक्ततयाऽयं लोको न भायात्परस्तु भातीत्याशङ्कय कैमुतिकन्यायेनाऽऽह- न त्वयमेवेति । लोकं विशिनष्टि-रूयन्नेति । इतिशब्द उक्तपरामी। मानाति : वित्ततृष्णयाऽभिमानवानित्यर्थः । सकृदुत्पन्नस्य पुनः पुनर्यमवश्यताऽनुपपन्नेत्यत आह- जनित्वेति । प्रबन्धः प्रवाहः । ननु धर्मार्थकामेषु सर्व एव लोक आसक्तश्चेद्विद्याधिका- रिणोऽभावादुपनिषदां व्यर्थतेत्याशङ्कयाऽऽह-प्रायेणेति । उत्सर्गतः कामाधासक्त एव जन इत्यर्थः । हिशब्दः प्रसिद्धार्थकः ॥ ६ ॥ श्रवणायापि बहुभिर्यो न लायः शृण्वन्तोऽपि बहवो यं न विद्युः। आश्चर्यो वक्ता कुशलोऽस्य लब्धाऽऽश्चर्यो ज्ञाता कुशलानुशिष्टः ॥ ७ ॥ यस्तु श्रेयोर्थी सहस्रेषु कश्चिदेवाऽऽत्मविद्भवति त्वद्विषो यस्माच्छ्व- णायापि श्रवणार्थ श्रोतुमपि यो न लभ्य आत्मा बहुभिरनेकैः शृण्व- न्तोऽपि बहवोऽनेकेऽन्ये यमात्मानं न विद्युन विदन्त्यभागिनोऽसंस्कृ- तात्मानो न विजानीयुः । किंचास्य वक्ताऽप्याश्चर्योऽद्भुतवदेवानेकेषु कश्चिदेव भवति । तथा श्रुत्वाऽप्यस्याऽऽत्मनः कुशलो निपुण एवाने. केषु लब्धा कश्चिदेव भवति । यस्मादाश्चर्यो ज्ञाता कश्चिदेव कुशलानु. शिष्टः कुशलेन निपुणेनाऽऽचार्येणानुशिष्टः सन् ॥ ७ ॥ आ० टी०-॥ ७॥ गो० टी०-यस्त्वनेकजन्मार्जितसुकृतप्रसादासादितशुद्धबुद्धिः कामादिविमुखो निर- तिशयपुरुषार्थ ब्रह्म प्रत्यक्त्वेन जानाति सहस्रेषु नचिकेतःसदृशः कश्चिदेव भवतीत्याह- यास्त्विति । तत्र हेतुपरमुत्तरमाह-यस्मादिति । ननु मेघसंदेशायसन्नप्यर्थः श्रूयत इत्याशङ्कचाऽऽह-श्रवणार्थमिति । तस्य व्याख्या-श्रोतुमपीति । अनेकैः श्रोतुमपि यो न लभ्य इत्यन्वयः । अयमाशयः- श्रवणस्य दृष्टफलत्वानिर्विष. यस्य च साक्षात्काराजनकत्वाजनितस्यापि प्रतिभाप्रत्ययवद्धान्तित्वादात्माऽविषय एवे. ष्टव्य इति । केषांचिच्छ्रोतुं दुर्लभोऽन्येषां ज्ञातुं दुर्लभ इत्याह-शृण्वन्तोऽपीति । अन्य इति पूर्वोक्ताधिकारिभ्य इत्यर्थः । न विदन्तीत्येतद्धेतुपूर्वकं व्याचष्टे--अभागिन इति । तद्व्याचष्टे---असंस्कृतति । नित्यनैमित्तिकैरसंस्कृत आत्माऽन्तःकरणं येषां ते तथोक्ताः । यस्माच्छ्रोतारश्च ज्ञातारश्च दुर्लभास्तस्मात्कश्चिदेवाधिकारी भवतीति पूर्वेणा- १ ग. 'देक आत्म । २ . स. ट. °पि न ।

३८. टीकादयसमेतशांकरभाष्योपेता- [अध्या० १ वल्ली २ न्वयः । एवं श्रोतारं महीकृत्य वक्तारं मही करोति-किंचति । न केवलं श्रोता दुर्लभी वक्ताऽपीत्यर्थः । अस्याऽऽत्मनः । आश्चर्यशब्दोऽद्भुतवाचीति तत्सदृशे लक्षणे- त्याह-- अद्भुतवदेवेति । यथाऽनेकेषु पदार्थेषु कश्चिदेव पदार्थ आश्चर्यकर एवं . वक्ताऽपि कश्चिदेव भवतीत्यर्थः । वक्तृत्वदौर्लम्यानन्तरं श्रोतृष्वनेकेषु लब्धाऽप्यात्मनः कुशल एव कश्चिदेव भवतीत्याह-तथेति । यथा वक्ता दुर्लभस्तथेत्यर्थः । कुशल एव युक्त्यनुभवसमर्थ एव । तत्र हेतुमाह--यस्मादिति । निपुणेन साक्षात्कृतब्रह्मतत्त्वे. नाऽऽचार्येणानुशिष्टो वेदान्तैः शिक्षितः सञ्ज्ञाता साक्षात्कारवान्कश्चिदेव मवति यस्मात्त. स्मात्कश्चिदेवाऽऽत्मनो लब्धेत्यन्वयः ॥ ७ ॥ कस्मात्-- न नरेणावरेण प्रोक्त एष सुविज्ञेयो बहुधा चिन्त्य- मानः । अनन्यप्रोक्ने गतिरत्र नास्त्यणीयान्ह्य- तळमणुप्रमाणात् ॥ ८॥ नाहि नरेण मनुष्येणावरेण प्रोक्तोऽवरेण हीनेन प्राकृतबुद्धिने- त्येतदुक्त एष आत्मा यं त्वं मां पृच्छसि । न हि सुष्टु सम्यग्विज्ञेयो विज्ञातुं शक्यो यस्माद्बहुधाऽस्ति नास्ति कर्ताऽकर्ता :शुद्धोऽशुद्ध इत्या- घनेकपा चिन्त्यमानो वादिभिः । कथं पुनः सुविज्ञेय इत्युच्यते-- अनन्यप्रोक्तेऽनन्येनापृथग्दर्शिनाऽऽचार्येण प्रतिपाद्यब्रह्मात्मभूतेन प्रोक्त उक्त आत्मनि गतिरनेकोऽस्तिनास्तीत्यादिलक्षणा चिन्ता गतिरत्रा- मित्रात्मनि नास्ति न विद्यते सर्वविकल्पगतिप्रत्यस्तमितत्वादात्मनः । अथवा स्वात्मभूतेऽनन्यास्मिन्नात्मनि प्रोक्तेऽनन्योक्ते गतिरत्रान्याऽव. मतिर्नास्ति ज्ञेयस्यान्यस्याभावान् । ज्ञानस्य ह्येषा परी निष्ठा यदात्मै- कलाविज्ञानम् । अतोऽवगन्तव्याभावान गतिरत्रावशिष्यते । संसारग- निर्वाऽत्र नास्त्यनन्य आत्मनि भोक्ते नान्तरीयकत्वात्तद्विज्ञानफलस्य मोक्षस्य । अथवा प्रोच्यमानब्रह्मात्मभूतेनाऽऽचार्येण प्रोक्त आत्मन्यग- तिलवबोधोऽपरिज्ञानमत्र नास्ति । भवत्येवावगतिस्तद्विषया श्रोतुस्त- देस्म्यहमित्याचार्यस्येवेत्यर्थः । एवं सुविज्ञेय आत्माऽऽगमवत्ताऽऽचार्ये. * ' बहुधा चिन्त्यमानः' इत्यस्य स्थाने अणुरेष धर्म इति वर्तते ट. पुस्तके । १ क. 'मनुप' । २ ख. ङ च ज. अ. ट. "वरप्रो । ३ घ 'प्रोक्तो नरे । ४ झ.. ट. "धास्ती'। ५ च. म. क्षणचि । ६ कु. °ल्पप्र । ७ घ. नन्येऽस्मि । ८ घ. प्रोक्ते ग । ९क. ख. ज. 'प्रोक्तेऽत्र गतिरन्यस्याव । १. झ. अ. ट. "रा काष्ठा । ११ घ. न्यनवग। १२ क. ख. प. उ. च. ज. 3. दनन्योऽह । ट, दहमस्म्यह।

कृपय नाम [ अध्या० १ वल्ली २] কাশীধাম काठकोपनिषत् । ३९ राणय णानन्यतया पोक्तः । इतरथा [ह्य ]णीयानणुप्रमाणादपि संपचत आत्मा । अतयंमतयः स्वर्बुद्धयाऽभ्यूहेन केवलेने तर्केण । तय॑र्मा- णेऽणुपरिमाणे केनचित्स्थापित आत्मनि ततो ह्यणुतरमन्योऽभ्यूहति ततोऽप्यन्योऽणुसममिति न हि कुतर्कस्य निष्ठा कचिद्विद्यते ॥ ८ ॥ आ० टी०- अणुत्वं परोक्षत्वम् ॥ ८ ॥ गो० टी०--ननु वाक्यार्थव्युत्पत्तिमताऽप्याचार्येणानुशिष्टोऽधिकारी स्वाधिकारसा- माज्ज्ञास्यति लब्धा च भविष्यतीत्याशङ्कते--कस्मादिति । श्रोत्रियं ब्रह्मनिष्ठमिति- श्रुत्यन्तरे व्युत्पत्तिव्यतिरेकेण ब्रह्मनिष्ठताया आचार्यविशेषणत्वेन श्रुतत्वात्तादृगाचार्योक्त आत्मा ज्ञातुं लब्धं च शक्य इत्याशङ्कयाऽऽह-न नरेणेत्यादिना । मनुष्येण मनुष्य- त्वाभिमानवताऽत एवावरण । अवरपदार्थमाह--हीनेनेति । प्राकृतबुद्धिना प्रकृतित आगतेषु पश्वादिष्वभिमानरूपा बुद्धिर्यस्य स प्राकृतबुद्धिस्तेनेत्यर्थः । यं पृच्छसि येयमि- त्यादिनेति शेषः । तत्र हेतुमाह-- यस्मादिति । शून्यवादिव्यतिरिक्तवादिभिरस्तीति चिन्त्यमानस्तैर्नास्तीति चिन्त्यमानोऽस्तति पक्षे सांख्यव्यतिरिक्तैः कर्ताऽशुद्ध इत्यकर्ता शुद्ध इति वेदान्तिभिश्च स एव ब्रह्माभिन्न इति चिन्त्यमानो यस्मात्तस्माद्विप्रतिपत्तिमत्ता ( ता ) ह्यपदिष्टोऽर्थो न लब्धुं शक्य इति भावः । केनाऽऽचार्येणोपदिष्ट आत्मा ज्ञातव्य इति पृच्छति--कथमिति । प्रतिपाद्यब्रह्मात्मभूतेन जीवन्मुक्तेन शिष्यबुद्धिपरिपाकप्रेरणा- वता छुपदिष्ट आत्मा लब्धुं शक्य इत्याह-उच्यत इति । नान्योऽनन्यस्तेन (ब्रह्मणः सकाशादिति शेषः । विषयेण विषयी लक्ष्यत इत्याह-अपृथग्दर्शिनेति । अभेददर्शि- नेत्यर्थः । तदेव विवृणोति-प्रतिपायेति । वेदान्तः प्रतिपाद्यो ज्ञेयो योऽभिन्नात्मा तत्स्वरूपणेत्यर्थः । आत्मन्युक्ते सतीत्यन्वयः । गतिशब्दस्य पूर्वोक्तविकल्पविषयचिन्तापर- त्वमादाय व्याचष्टे- मतिरिति । सर्वे च ते विकल्याश्च सर्वविकल्पास्तद्विषया गतय. (ति ) चिन्ता प्रत्यस्तमिता लीना यस्मिंस्तस्य भावस्तत्त्वं तस्मात् । आचार्यपदाध्याहा- रेणार्थान्तरमाह- अथवेति । स्वात्मभूते ब्रह्मात्मभूतेऽनन्य इत्येवंरूपेणाऽऽत्मनि प्रोक्ते प्रकर्षणोपदिष्टे सतीत्यन्वयः । अत्राऽऽत्मनि ब्रह्माहमस्मीत्यवगतेरन्येति शेषः । ज्ञेयस्या- न्यस्याभावादिति । ब्रह्मात्मैक्याद्भिन्नस्याभावादित्यर्थः । आत्मैकत्वेन विज्ञप्तिरभिव्यक्ति- १ फ. ख. ज. प्रोक इत्यर्थः । इ । २ ग. . झ. ज. ठ. "णुतरोऽणुप्र' । ३ क. य॑मणु- प्रमाणो न त । ख. ज. 'यमणुप्रमाणादत° । ४ क. ख. ज. बुद्धयभ्यू । ग. च. बुद्ध्यूहे । ५ क. घ. च. °न तय॑ । ६ क. ग. माणोऽणु । ७ डा. ग. ट. °णुप्रमा । ८ क. ख. ग. ङ. च. ज. स.ट. ट. ततोऽणु । ९ ग. च. तोऽप्यणुतरमि । १० 6. "तरमि । ११ क. ख. घ. क. ज. ठ. हि त° । १२ द. छ, आत्मभूते । .

। ४० टीकाद्वयसमेतशांकरभाष्योपेता- [अध्या० १ वल्ली २] रात्मैकत्वविज्ञानम् । फलितमाह --अत इति । यतो ब्रह्मात्मैकत्वमेव ज्ञेयं तज्ज्ञानं गति- रत इत्यर्थः । गन्तव्याभावाद्गन्तव्यान्तराभावाद्यतो न प्राप्तव्यान्तरमतो गतिर्ज्ञानान्तरं नाव. शिष्यत इत्यर्थः । गतिरत्र नास्तीत्यंशस्यार्थान्तरमाह-संसारगतिवेति । अनन्य आत्मनि गुरुणा प्रोक्त आत्मनि संसारगतिः संसारप्रतिभासः सत्यत्वेन नास्ति कर्तृत्वादेः संसारस्यामा- स एव प्रत्यय इति भावः । ननु विज्ञानस्य न संसारनिवृत्तिमुख्यं फलं तत्कथं संसारावगतिनि- षेध इति । नेत्याह-नान्तरीयकत्वादिति । विज्ञानफलस्य मोक्षस्याऽऽनन्दावाः संसारनिवृत्तिर्ना ( ना ) न्तरीयकत्वादित्यर्थः । अगतिरिति परिच्छेदेनार्थान्तरमाह- अथवेति । प्रोच्यमानं यद्ब्रह्म तदात्मभूतेनाऽऽचार्येण शिप्यबुद्ध्या बिम्बेश्वरभूतेनोपदिष्ट आत्मनि शिष्यस्याधिकारिणोऽनवबोध आत्मविषये नास्त्येव, बोधो भवत्येवेत्यर्थः । इद. मुपलक्षणं प्रतिबद्धबोधस्यापि । बोधे प्रतिबन्धो न भवतीति भावः । श्रोतुर्बोधमभिनीय दर्शयति-तदस्म्यहमिति । तत्प्रत्यगभिन्नमहमस्मीत्यर्थः । तदनन्योऽहमिति पाठेऽप्य- यमेवार्थः । तत्रोपमानमाह-आचार्यस्येवेति । वृत्तानुवादपूर्वकमुत्तरवाक्यमवतारयति- एवमिति । अनन्यतया स्थितेनाऽऽचार्येण प्रोक्त आत्मा मुविज्ञेय इति प्रथमव्याख्या- नुवादः । न केवलमाचार्येणोपदिष्ट आत्माऽपि त्वागमेनापीत्याह-- आगमवतेति । अव. गमवतेति पाठः सुगमः । द्वितीयव्याख्यान आचार्य णानन्यतयाऽनन्य इत्येवंरूपेण प्रोक्त आत्मा सुविज्ञय इत्यनुवादः । तृतीये समः । चतुर्थ आचार्येणैव प्रोक्त आत्मा सुविज्ञेय इत्येवकाराध्याहारेणानुवादो व्याख्येयः । पृथग्दर्शिना तूपदिष्ट आत्मा परोक्ष एवेत्याह- इतरवेति । पृथग्दर्शिनोपदिष्ट आत्माऽणुः परोक्षः परोक्षादपि परोक्षोऽणीयानणुप्रमाणा- दप्यल्पपरिमाणादप्यणीयान्संपद्यत इत्यर्थः । हिरप्यर्थः । अल्पपरिमाणादप्यणुतरः संपद्यत आत्मेत्यत्र हेतुमाह-अतळमिति । अणीयानित्युपक्रमे पुंलिङ्गनिर्देशादतर्यामिति नपुंसकः पुंलिङ्गत्वेन विपरिणेय इत्याह- अतयं इति । तर्केण ज्ञेयस्तयों न तक्योऽतळः । ननु तर्कस्यानुमानत्वेन प्रमाणत्वाच्छृतिवद्वस्त्ववबोधकत्वात्कथं तर्का. गम्य आत्मेत्यत आह– स्वबुद्ध्याऽभ्यूहेनेति । स्वाधीना बुद्धिः स्वबुद्धिर्न गुर्वाधु- पदेशेन संस्कृता तयाऽभ्यूह आरोपस्तेन तर्केणेत्यर्थः । तथा सत्यनुमानस्य मन्तव्य इति श्रुत्या वेदान्तसहायत्वमुक्तं बाधितं स्यादित्याशङ्कयाऽऽह-केवलेति । श्रुत्य- सहायेनेत्यर्थः । तथा च श्रुत्यनुकूलतर्कस्य समूलत्वात्प्रामाण्येऽपि केवलस्य नार्थनि- श्चायकतेति भावः । केवलेन तर्केणातयं इत्यन्वयः । विपक्षे दण्डमाह--तय॑माण इति । तय॑माण आत्मनि केनचित्तार्किकेणाणुपरिमाणे स्थापित इत्यन्वयः । एकेना- । * एतदनुरोधेन भाष्येऽपि गन्तव्याभावादिति पाठः स्यादित्यनुमीयते । Maint- ------mummmm १. प्र. द. “येण प्रो।

[अध्या० १ वल्ली २] काठकोपनिषत् । ४१ णुत्वेन स्थापित आत्मन्यन्योऽपि तार्किकंमन्योऽन्यथाऽम्यूहतीत्याह-तत इति । ततः पूर्वस्मात्परिमाणादणुतां ततोऽपि परोक्षतामन्यस्तार्किक उहति । हि प्रसिद्धमेतत् । ततोऽपीति । पूर्ववत् । ननु कश्चित्तार्किकाग्रणीः परिमाणस्य निष्ठां वेत्स्यतीति नेत्याह- न हीति । कुत्सिततर्कः कुतर्क उत्प्रेक्षामात्रनिबन्धनस्तस्य निष्ठा कस्मिंश्चिद्विषये परि- समाधिः काचिदपि न विद्यत इत्यर्थः ॥ ८ ॥ नैषा तर्केण मतिरापनेया प्रोक्तोऽन्येनैव सुज्ञानाय प्रेष्ठ । यो त्वमापः सत्यतिबंतासि ताङ्नो भूया. नचिकेतः प्रष्टा ॥ ९ ॥ अतोऽनन्यप्रोक्त आत्मन्युत्पन्ना येयमागमपातपाद्यातऽऽममतिनैषा तर्केणं स्वबुदयभ्यूहमात्रेणाऽऽपनेया न पापणीयेत्यर्थः । नापनेतव्या वाँ न हातव्या । तार्किको ह्यनागमज्ञः स्वबुद्धिपरिकल्पितं यत्किचिदेव कथयति । अत एव च येयमागमप्रभूता मतिरन्येनैवाऽऽगमाभिज्ञेनाऽs. चार्येणैव तार्किकात्मोक्ता सती सुज्ञानाय भवति । हे प्रेष्ठ प्रियतम । का पुनः सा तर्कागम्या मतिरित्युच्यते । यां त्वं मति मदरमदानेनाऽऽपः प्राप्तवानसि । सन्याऽवितथविषया धृतिर्यस्य तव स त्वं सत्यधृतिर्बता- सीत्यनुकम्पयन्नाह मृत्युर्नचिकेतसं वक्ष्यमाणविज्ञानस्तुतये । त्वादृक्त्व- तुल्यो नोऽस्मभ्यं भूयाद्भवताद्भवत्वन्यः पुत्रः शिष्यो वा प्रष्टा । कीट- ग्याक्त्वं हे नचिकेतः प्रष्टा ॥ ९ ॥ आ० टी०-॥ ९॥ गो० टी०--फलितमाह--अत इति । यतस्तर्कानधीनाऽत इत्यर्थः । अनन्येना- पृथग्दर्शिना प्रोक्ता आत्मनि विषय आगमप्रतिपाद्या तरति शोकमात्मविदित्यागमेन फल- स्वेन प्रतिपाद्या येयं मतिरेषा तर्केण न प्रापणीया न परिणेयेत्यर्थः । पुनर्नकारग्रहणमन्व- यार्थम् । अर्थान्तरमाह--नापनेतव्येति । न हातव्या न बाधनीया । वाशब्दः पक्षा- न्तरद्योती । प्रथमपक्षे ह्यात्मविषया मतिर्न तर्केण जननीयेत्यर्थः । द्वितीये कुतर्कादि. नाऽऽगमननितमतिर्न बाधनीयेत्यर्थः । नन्वागमानुकूलतर्कस्यापि निषेधः स्यादित्याशङ्कय १ ट. क्ता ह्यन्येन सु। २ ख. ज ण मतिः स्व । ३ घ. झ. ज. ट. बुद्धयाऽभ्यू । ४ क. घ. द. वा न हन्तव्या । ख. ज. झ. न. ट. ठ. वा नोपहन्तव्या । ५ ख. ग. कल्पय । ६ क. ख. ज. प्रसूता। ७ घ. 'रनन्ये । ८ च. °र्किकप्रोक्ता ! ९ ग. ङ, च. तिरुच्य । १० ग. झ. म. द. द्रवत्व । .

४२ टीकादयसमेतशांकरभाष्योपेता- [अध्या० १ वल्ली२ ] कुतर्कस्यैव निषेध इत्याह-- तार्किक इति । यत्किचिदेव कथयतीत्यन्वयः । यत्किचि. त्प्रत्यगभिन्नस्य तटस्थत्वादिकम् । तदपि प्रमाणमूलमिति चेन्नेत्याह-स्वबुद्धिपरिक- ल्पितमिति । तत्र हेतुः-अनागमज्ञ इति । हि यस्मादाममार्थानभिज्ञस्तार्किकस्तस्मा- स्वबुद्धिपरिकल्पितमेव यत्किचित्कथयतीत्यन्वयः। अपृथग्दर्शिनाऽऽचार्येणोपदिष्ट आत्मा ज्ञातुं शक्य इत्युक्तमर्थ श्रुतिर्निगमयतीत्याह--अत एवेति । यतस्तर्कजन्या न भवतीत्यत इत्यर्थः । कस्मादन्येनेत्यपेक्षायां पूरयति--तार्किकादिति । प्रोक्ता प्रकर्षे- णोपदिष्टेत्यर्थः । सुज्ञानाय साक्षात्काराय । प्रियतमेति संबोधनं नचिकेतसः । आका. सापूर्वकमुत्तरवाक्यमवतारयति--का पुनरिति । मतेरुत्तरक्षणे प्राप्यमाणत्वात्प्राप्तवा- नसीति निर्देशः । वरप्रदानस्याग्निविद्यादिप्राप्तिपर्यन्तत्वाद्वाऽसीति निर्देशः । अवितथः परमार्थ आत्मा विषयो यस्याः सा तथा । अनुकम्पयन्दयां कुन्नित्यर्थः । नचिकेतस- मनुकम्पयन्वक्ष्यमाण[विज्ञानस्तुतय आहेत्यन्वयः । हे नचिकेतो यादृक्त्वं प्रष्टा त्वत्तु- ल्योऽस्मभ्यं तादृक्पुत्रः शिष्यो वा भवत्वित्युत्तरवाक्यान्वयः ॥ ९ ॥ पुनरपि तुष्ट आह- जानाम्यह५ शेवधिरित्यनित्यं न ह्यधुवैः प्राप्यते हि ध्रुवं तत् । ततो मया ना(न)चिकेतश्चितोऽनि- रनित्यैईव्यैः प्राप्तवानस्मि नित्यम् ॥ १० ॥ जानाम्यहं शेवधिनिधिः कर्मफललक्षणो निधिरिव प्रार्थ्यत इति । असावनित्यमनित्य इति जानामि । न हि यस्मादनित्यैरध्रुवैर्नित्यं ध्रुवं तत्माप्यते । परमात्माख्यः शेवधिः । यस्त्वनित्यसुखात्मकः शेवधिः स एवानित्यैव्यैः प्राप्यते। हि यतस्ततस्तस्मान्मया जानताऽपि नित्यमनि- त्यसाधनैर्न प्राप्यत इति ना ( न )चिकेतश्चितोऽग्निरनित्यैव्यैः पश्चा- दिभिः स्वर्गसुखसाधनभूतोऽग्निनिवर्तित इत्यर्थः । तेनाहमधिकारापन्नो नित्यं याम्यं स्थानं स्वर्गाख्यं नित्यमापेक्षिकं प्राप्तवानस्मि ॥१०॥ आ० टी०-मया जानताऽपि बह्वायासं कर्म कृतं त्वं दीयमानमपि तत्फलं न गृह्णासि मत्तोऽधिकप्रज्ञोऽसीति संतोषात्स्तोतीत्याह--पुनरपि तुष्ट आहेति ॥ १० ॥ गो० टी०-मया जानताऽपि बह्वायासं कर्म कृतं तत्फलं दीयमानमपि न गृह्णासि १ झ. म. ट. °फलं ल । २ क. ख. ग. "त्यमिति । ३ ख. ज. झ. म. द. वैयनित्यं ४ ख. ज. 'माख्यः । ५ क. ख. ज. यस्तु नि । ६ झ. अ. ति । नचि । ७ क. र्थः । ततोऽह।

[ अध्या.० १ वाली २] काठकोपनिषत् । ४३ ततो मत्तोऽप्यधिकतरप्रज्ञोऽसीति संतोषात्स्तोतीत्याह-पुनराप तुष्ट आहेत्यादिना । शेवधिशब्देन निधिशब्दपर्यायेण कथं कर्मफलमुच्यते भूस्थापितहिरण्याद्यर्थकस्वानिधि- शब्दस्येत्याशङ्कय कामनाविषयत्वगुणयोगाच्छेवधिशब्दः कर्मफले विद्यत इत्याह- निधिरिवेति । शेषधिशब्दस्य पुंलिङ्गत्वादाह--अनित्यमनित्य इतीति । तन्न प्राप्यत इत्यन्वयः । ध्रुवशब्दार्थमाह-परमात्मति । तबनित्यसुखप्राप्तिः केनेत्यत आह-यस्त्विति । हे नचिकेतो नित्यमनित्यसाधनैर्न प्राप्यत इति जानताऽपि मयाऽग्निश्चित इत्यन्वयः । पदार्थमुक्त्वा वाक्यार्थमाह-अनित्यरिति । तेन चितेना- ग्निनाऽधिकारापन्नो धर्माधर्मफलयोः प्रदानेन जन्तूनां नियन्तृत्वमापनः । याम्यमिति । यमयति नियच्छतीति यमस्तस्येदं याम्यं तेनाधिष्ठितमिति यावत् । ननु कर्मफलस्य तद्यथेहेत्यादिश्रुत्याऽनित्यत्वश्रवणात्कथं नित्यत्वं तत्राहि-आपेक्षिकमिति । किंचि. कालावस्थायीत्यर्थः ॥ १० ॥ कामस्याऽऽप्ति जगतः प्रतिष्ठां तोरनन्त्यमभयस्य पारम् । स्तोममहदुरुगायं प्रतिष्ठां दृष्ट्वा धृत्या धीरो नचिकेतोऽत्यनाक्षीः ॥ ११ ॥ त्वं तु कामस्याऽऽप्तिं समाप्तिम् , अत्रैवेहैव सर्वे कामाः परिसमाप्ताः, जगतः साध्यात्माधिभूताधिदेवादेः प्रतिष्ठामाश्रयं सर्वात्मकत्वात् , तोः फलं हैरण्यगर्भ पर्दैमनन्त्यमानन्त्यम् । अभयस्य च पारं परां निष्ठाम् । स्तोमं स्तुत्यं महदणिमाद्यैश्वर्याद्यनेकगुणसंहतं स्तोमं च तन्म- हल निरतिशयत्वात्स्तोममहत् । उरुगायं विस्तीर्णा गतिम् । प्रतिष्ठा स्थितिमात्मनोऽनुत्तमामपि दृष्ट्वा धृत्या धैर्येण धीरो धीमान्सचिके- तोऽत्यसाक्षीः परमेवाऽऽकाङ्क्षन्नतिसृष्टवानसि सर्वमेतत्संसारभोगजा- तम् । अहो बतानुत्तमगुणोऽसि ॥ ११ ॥ आ० टी०--॥ ११ ॥ गो० टी०-आहिरण्यगर्भपदाद्विरक्तस्य ब्रह्मविद्यायामधिकार इत्येतद्दर्शयितुं प्रष्टारं स्तौति-त्वं त्विति । अत्रैवेति पदं व्याचष्टे-इहैवेत्ति । हिरण्यगर्भपद इत्यर्थः । १ क. छ. स. अ.ट. स्तोमं म । २ क. ख. घ. ङ. च. ज. झ. ठ. अत्र हि स । ३ ख. ज. श. म. ट. ठ. तोरुपासनायाः फ°। ४ व. दमा । ५ ट. स्तुत्यमाण । ६ अ. महच्चाणि । ७क. ख. च. ज. °णसहितं । ८ घ. संगतं । १. ङ. ट. "त्वादुरु । १० ग. घ. झ. अ. स्तोम म। ११ घ. 'स्तीर्णग । १२ ख. 'मानाचि । १३ ग. घ. इ. च. 'नत्य । १४ घ. °सि त्वम् ।

टोकादयसमेतशांकरभाष्योपेता- [अध्या० १ बल्छी २] हिरण्यगर्भपदस्याध्यात्माधिभूतादिसहितसर्वजगदाश्रयत्वे हेतुमाह-सर्वात्मकत्वादिति । आनन्त्यपदापेक्षितक्रतुफलं हिरण्यगर्भपदमित्याह-क्रतोः फलमित्यादिना । ऋतु. हिरण्यगर्भोपासना । आनन्त्यमापेक्षिकम् । एवमुत्तरपदेष्वपि द्रष्टव्यम् । भाष्ये प्रथम- चकार आनन्त्याभयसमुच्चयार्थः । द्वितीयः स्तोममहत्त्वगुणसमुच्चयार्थः । संहतमिति । विशिष्टमित्यर्थः । पदार्थमभिधाय तदनुवादेन हेतुं दर्शयति--स्तोमं चेत्यादिना । अनेककालावस्थायि हिरण्यगर्भपदं गम्यत इति व्युत्पत्त्या विस्तीर्णगतिरित्युच्यते । हे नचिकेत इति संबोधनमत्यनाक्षीरित्यत्र द्रष्टव्यम् । किं त्यक्तवानसीत्यपेक्षायां प्रोक्तहिरण्यगर्भपर्य. न्तसंसारभोगजातमित्याह-सर्वमेतदिति । उपक्रान्तश्रोतृप्रशंसामुपसंहरति-अहो बतति ॥ ११ ॥ तं दुर्दशं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम् । अध्यात्मयोगाधिगमन देवं मत्वा धीरो हर्षशोको जहाति ॥ १२ ॥ यं त्वं ज्ञातुमिच्छस्यात्मानं तं दुर्दशै दुःखेनं दर्शनमस्येति दुर्दर्शोs- तिसूक्ष्मत्वात् । गूढं गहनमनुप्रविष्टं प्राकृतविषयविकारविज्ञानैः प्रच्छन्न- मित्येतत् । गुहाहितं गुहायां बुद्धौ स्थित तत्रोपलभ्यमानत्वात् । गहरेष्ठं गहरे विषमेऽनेकानर्थसंकटे तिष्ठनीति गहरेष्ठम् । यत एवं गूढ- मनुपविष्टो गुहाहितश्चातो गह्वरेष्ठः । अतो दुर्दर्शः । तं पुराणं पुरातनम- ध्यात्मयोगाधिगमेन विपयेभ्यः प्रतिसंहृत्य चेतस आत्मनि समाधानम- ध्यात्मयोगस्तस्याधिगमस्तेन मत्वा देवमात्मानं धीरो हर्षशोकावात्मन उत्कर्षापकर्षयोरभावाज्जहाति ॥ १२ ॥ आ० टी०- यश्च त्वया देहव्यतिरिक्त आत्मा पृष्टस्तस्यैव परमार्थस्वरूपज्ञानं संसा- रनिवर्तकं परमानन्दप्राप्तिसाधनं धर्म्य च नातःपरं श्रेयःसाधनमस्तीति पृष्टस्य वस्तुनः प्रशंसया च प्रष्टारं प्रशंसति-यं त्वं ज्ञातुमिच्छसीत्यादिना ॥ १२ ॥ गो० टी०-यश्च त्वया देहव्यतिरिक्त आत्मा पृष्टस्तस्यैव परमार्थस्वरूपविज्ञानं सनिदानसंसारनिवर्तकं परमानन्दप्राप्तिसाधनमतः परं श्रेयःसाधनं धर्मश्च नास्तीति पृष्टस्य वस्तुनः प्रशंसया च प्रष्टारं प्रशंसते(ति)--यं त्वं ज्ञातुमिच्छसीत्यादिना । यमा. त्मानं ज्ञातुमिच्छसि तमित्यन्वयः । यं च त्वमिति क्वचित्पाठः । दुःखेनेति । अत्य- १ ख. ज. न च द । २ क. ख. ङ. झ. ट. दर्शमति' । ३ ग. रु. च. 'यविज्ञा। ४ घ. झ. ट. कारैर्विज्ञा । ५ ख. झ.अ. स्थितमाहितं निहितं त । ६ क. ग. घ. स. न. ट. ठ. 'भ्यत्वा । ७ ख. मे स्थानेऽने । ८ ख. ड. झ. अ. ट. °रो धीमान्हर्ष ।

[अध्या० १ वल्ली २] काठकोपनिषत् । ४५ न्तायासेनेत्यर्थः । तदुक्तं कश्चिन्मां वेत्ति तत्त्वत इति । तत्र हेतुमाह- अतिसूक्ष्मत्वा. दिति । समिति । परमसूक्ष्माकाशादेरपि कारणत्वादतिसूक्ष्ममतो दुर्दर्शमित्यर्थः । गूढ- मनुप्रविष्टमित्यस्य तात्पर्यार्थमाह-प्राकृतति । विषयाः शब्दादयः । नन्वनन्तायामवि- स्तारस्य न बुद्धौ स्थितत्वमिति (त्या) शङ्कयाऽऽह-तत्रेति । बुद्धावित्यर्थः । अनर्था रागद्वेषादयस्तैः संकटेऽत्यन्तायासजनके कार्यकारणसंघात इत्यर्थः । गूढमनुप्रविष्टत्वं गुहा- हितत्वं च गह्वरेष्ठत्वे हेतुस्तञ्च दुर्दर्शत्वे हेतुरित्याह—यत एवमित्यादिना । यतो गह्वरेष्ठोऽत इत्यर्थः । पुरातनं सनातनमित्यर्थः । अधिगमेनेति । प्राप्त्येत्यर्थः । धारोऽ- ध्यात्माधिगमेन देवमात्मानं मत्वा हर्षशोको नहातीत्यन्वयः। हर्षशोकोपलक्षितसंसारनिवृत्तौ हेतुमाह - आत्मन इति । स्वोत्कर्षप्रयुक्तं सुखादि परोत्कर्षप्रयुक्तं दुःखादि स्वापकर्ष- प्रयुक्तं दुःखादि परापकर्षप्रयुक्तं सुखादि तयोरभावस्तस्मादपगच्छत इत्य ( च्छतीत्य )- र्थः । अत्र धीरो बुद्धिमानिति श्रवणमननसत्त्वमुच्यते । अध्यात्मयोगशब्देन निदिध्यास- नमुच्यते । मत्वेति साक्षात्कार उच्यते ॥ १२ ॥ एतच्छ्रुत्वा संपरिगृह्य मर्त्यः प्रवृह्य धर्म्यमणुमेत- माप्य । स मोदते मोदनीय हि लब्ध्वा विवृतर सद्म नचिकेतसं मन्ये ॥ १३ ॥ किंचैनदात्मतत्त्वं यदहं वक्ष्यामि तच्छ्रुत्वाऽऽचार्यप्रसादात्सम्यगात्म- भावेन परिगृह्योपादाय मर्यो मरणधर्मा धर्मादनपेतं धर्म्य प्रवृह्यो। धम्य पृथक्कृत्य शरीरादेरणुं सूक्ष्ममेतमात्मानमाप्य प्राप्य स मर्यो विद्वान्मोदते मोदनीय हर्षणीयमात्मानं लब्ध्वा । तदेतदेवंविधं ब्रह्मसम भवनं नचिकेतसं त्वां प्रत्यपातद्वारं विवृतमभिमुखीभूतं मन्ये मोक्षार्ह त्वां मन्य इत्यभिप्रायः ॥ १३ ॥ आ० टी०-॥ १३ ॥ गो० टी०--आत्मतत्त्वज्ञानस्य सनिदानसंसारनिवर्तकत्वमादाऽऽनन्दावाप्तिसाध- नतामाह-किंचति । वक्ष्यामीति । न जायत इत्यारभ्येति द्रष्टव्यम् । स्वाधीनश्र. वणं व्यावर्तयति-आचार्यप्रसादादिति । अथवाऽऽचार्यप्रसादात्परिगृह्येति योजना । आत्मभावेन परिगृह्येति मननेन ब्रह्मतत्त्वं श्रुतं प्रत्यगात्मत्वेन निश्चित्येत्यर्थः । प्रायेण मनुष्याधिकारत्वाच्छास्त्रस्येति मर्त्यग्रहणम् । तत्त्वज्ञानस्योत्तमधर्मत्वमाह-धर्मादिति । १ ज. क्ष्याम्येत °+२ ग. मि श्रुत्वा। ३ क.-ख. घ. १. ज. . 'यसकाशात्स | ४ क, ख.ज. 'यं हि ह । ५ च. ण. °धं सद्ब्रह्म भ°।

टीकाद्वयसमेतशांकरभाष्योपेता- [अध्या० १ वाली २.] कस्मात्पृथक्कृत्येत्यपेक्षायामाह--शरीरादेरिति । पृथक्करणं निदिध्यासनम् । प्राधिः साक्षात्कारः । मोदनीयमात्मानं लब्ध्वा स विद्वान्मोदत इत्यनेनाऽऽनन्दावाप्तिरुक्ता । एवं वस्तुप्रशंसां कृत्वा प्रष्टारं प्रशंसतीत्याह--तदेवमित्यादिना । तदिति । तस्मादि- त्यर्थः । यस्माद्विद्वान्साक्षात्कारान्निरतिशयब्रह्म प्राप्नोति तस्मादित्यर्थः । एवंविधमिति । निरतिशयानन्दस्वरूपमित्यर्थः । ब्रह्मैव सद्म ब्रह्मसन भवनं गृहं प्राप्य स्थातव्य(न)- मित्यर्थः । अभिमुखीभूतपिति । प्रसन्नमित्यर्थः । यमेवैष वृणुत इति श्रुतेः । पदा- र्थमुक्त्वा तात्पर्यार्थमाह--मोक्षाहमिति ॥ १३ ॥ अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृतारुतात् । अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद ॥ १४ ॥ यद्यहं योग्यः प्रसनश्चासि भगवन्मा प्रत्यन्यत्र धर्माच्छास्त्रीयाद्धर्मा. नुष्ठानात्तत्फलात्तत्कारकेभ्यश्च पृथग्भूतमित्यर्थः । तथाऽन्यत्राधर्मात्त थाऽन्यत्रास्मात्कृताकृतात् । कृतं कार्यमकृतं कारणमस्मादन्यत्र । किंचा. न्यत्र भूताचातिकान्तात्कालाद्भव्याच्चै भविष्यतश्च तथा वर्तमानात् । कालत्रयेण यन्न परिच्छिद्यत इत्यर्थः । यदीदृशं वस्तु सर्वव्यवहारगी- चरातीतं पश्यसि जानासि तद्वद मह्यम् ॥१४ ।। आ० टी०-यदि देहव्यतिरिक्तस्याऽऽत्मनः प्रथमं पृष्टस्य परमार्थस्वरूपज्ञानमेव श्रेयःसाधनं तर्हि तदेव ब्रूहीत्याह--यद्यहं योग्य इत्यादिना । अत एव वरदान- व्यतिरेकेणापूर्वोऽयं प्रश्न इति नाऽऽशङ्कनीयं पूर्वपृष्टस्यैव याथातथ्यप्रश्नः पृष्टस्य वस्तुनो विशेषणान्तरज्ञानसाधनं वक्तमित्यर्थः ॥ १४ ॥ गो० टी०--यद्यादौ पृष्टस्य देहव्यतिरिक्तस्याऽऽत्मनः पारमार्थिकस्वरूपज्ञानमेव श्रेयःसाधनं तर्हि तदेव ब्रूहीति नचिकेता आह--यग्रहं योग्य इत्यादिना । अत एव वरदानन्यतिरेकेणापूर्वोऽयं प्रश्न इति नाऽऽशङ्कनीयम् । येयं प्रेत इत्यादिना पृष्टस्यैव देहव्यतिरिक्तस्याऽऽत्मनो याथात्म्यप्रश्नोऽयं पृष्टस्य वस्तुन ओंकारोपासनादिरूप. विशेषणान्तरं ज्ञानसाधनं वक्तुमित्यर्थः । मां प्रति यदि प्रसन्नश्चासि मह्यं तद्वदे- त्यन्वयः । किं तदित्यपेक्षायामाह-अन्यत्रेत्यादिना । धर्मत्वेन प्रसिद्धचैत्य- वन्दनादेरधर्मत्वख्यापनाय शास्त्रीयादिति विशेषणम् । ननु धर्मानुष्ठानादन्यदित्युक्ते तत्फलं तत्कारकं चाऽऽत्मा स्यादित्याशङ्कय धर्मग्रहणस्योपलक्षणत्वान्न दोष इत्याह-तत्फलादित्यादिना । अधर्मादन्यदित्यत्राप्युपलक्षणं तुल्यम्-अन्यत्रोत । अन्यदित्यर्थः । कार्यकारणपरिच्छेदकात्कालादप्यन्यदित्याह--किंचेति । प्रथमश्च- १ क. ख. ज. च यत्तद्भवि । २ ल. क. °न्तरं ज्ञा।

। अध्या० १ वल्ली २] काठकोपनिषत् । ४७ कारोतिऽतिक्रान्तवस्त्वन्यत्वसमुच्चयार्थः। भवितव्यतश्च कालादित्यनुवर्तते । द्वितीयश्चकारो भविष्यत्कालपरिच्छिन्नवस्त्वन्यत्वसमुच्चयार्थो वर्तमानकालान्यत्वतत्परिच्छिन्नवस्त्वन्यत्वस- मुच्चयोपलक्षणार्थश्च । पदार्थमुक्त्वा वाक्यार्थमाह-कालेति । ईदृशं वस्त्विति व्याचष्टे- सर्वेति ॥ १४ ॥ इत्येवं पृष्टवते मृत्युरुवाच पृष्टं वस्तु विशेषणान्तरं च विवक्षन्- सर्वे वेदा यत्पदमामनन्ति तपास सर्वाणि च यद्वदन्ति । यदिच्छन्तो ब्रह्मचर्य चरन्ति तत्ते पद संग्रहेण ब्रवीम्योमित्येतत् ॥ १५ ॥ सर्वे यत्पदं पदनीयं गमनीयमविभागेनाऽऽमनन्ति प्रतिपादयन्ति तपांसि सर्वाणि च यद्वदन्ति यत्प्राप्त्यर्थीनीत्यर्थः । यदिच्छन्तो ब्रह्मचर्य गुरुकुलवासलक्षणमन्यद्वा ब्रह्मपाप्त्यर्थ चरन्ति तत्ते तुभ्यं पदं यज्ज्ञातु. मिच्छसि संग्रहेण संक्षेपतो ब्रवीमि, ओमित्येतत् । तदेतत्पदं यबुभु. त्सितं त्वया यदेतदोमित्योंशब्दवाच्यमोंशब्दप्रतीकं च ॥ १५ ॥ आ० टी०-सर्वे वेदा इति । वेदेकदेशा उपनिषदः । अनेनोपनिषदो ज्ञानसा- धनत्वेन साक्षाद्विनियुक्तास्तपांसि तेषां कर्माणि शुद्धिद्वारेणावगतिसाधनानि । मन्दाधिका- रिणो विचारासमर्थस्य क्रमेणावगतिसाधनं संक्षिप्याऽऽह-संग्रहेणेति । यस्य शब्दस्यो- चारणे यत्स्फुरति तत्तस्य वाच्यं प्रसिद्धं समाहितचित्तस्योंकारोच्चारणे यद्विषयानुपरक्तं संवेदनं स्फुरति तदोंकारमवलम्ब्य तद्वाच्यं ब्रह्मास्मीति ध्यायेत्तत्राप्यसमर्थ ओंशब्द एव ब्रह्मदृष्टिं कुर्यादित्यर्थः ॥ १५ ॥ गो० टी०- उत्तरमवतारयति-एवमिति। विशेषणान्तरं चेति । ओंकारोपासन- मित्यर्थः । सर्वे वेदा इति तदेकदेशा उपनिषद उच्यन्ते तं त्वौपनिषदमित्यादिश्रुत्या साक्षाज्ञानसाधनत्वेन विनियुक्ताः । गमनीयमिति । प्राप्तव्यमित्यर्थः । अविभागेना. विप्रतिषेधेनैककण्ठयेनेत्यर्थः । तपांसि कर्माणि । ननु कर्मणां शुद्धिद्वारेण ज्ञानसाधनत्वात्प्र. माणत्वाभावाद्वदन्तीत्येतदनुपपन्नमित्याश्.ङ्कय वदन्ति (ति)रत्र लक्षणयेत्याह-यत्माप्त्य- नीति। *यदिति । गुरुकुलवासलक्षणमिति। नैष्ठिकं ब्रह्मचर्यमित्यर्थः । अन्यदिति। * “ यदिति " इत्यधिकं त्रुटितं वैतदये किंचिदिति भाति । १. झ.जाट. न्तरेण च । २ घ. "त्पदमामनन्ति प" । ३ ख. प. उ. ज.ट नीयवि । ४. 'मभिमानेनाऽऽम' । ५ ग. घ. 'विगाननाऽऽम° । ६ क. ख. ज. °न्ति त । ७ स.. उ. थी भवन्तीत्य । ८ ग. च. यं चरन्ति गु" । ९ ज. ठ. 'विगानेना' ।

४८ टीकाद्वयसमेतशांकरभाष्योपेता। [ अध्या० १ वल्ली २] इन्द्रविरोचनाख्यायिकाभिहितब्रह्मविद्याङ्गं ब्रह्मचर्यमित्यर्थः । मन्दाधिकारिणोऽवगतिसाधनं संक्षिप्याऽऽह-संग्रहेणेति । यस्य शब्दम्योच्चारणे यत्स्फुरति तत्तस्य वाच्यम् । समा. हितचित्तस्योंकारोचारणे यत्साक्षिसंवेदनं स्फुरति तदोंकारमवलम्ब्योंकारवाच्यं सत्त्वप्रधान- मायावच्छिन्नमोकारोपाधिकं ब्रह्माहमस्मीति ध्यायेदित्यर्थः । यदि तत्राप्यसमर्थस्तर्हि प्रणवे ब्रह्मदृष्टिं कुर्यादित्याह-ओशब्दप्रतीकं चति ॥ १५ ॥ एतख्येवाक्षरं ब्रह्म एतद्ध्यवाक्षरं परम् । एतद्धये- वाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥ १६ ॥ अत एतद्धयेवाक्षरं ब्रह्मापरमेतद्धयेवाक्षरं परं च । तयोहि प्रतीकमे- तदक्षरम् , एतद्धयेवाक्षरं ज्ञात्वोपास्य ब्रह्मोति यो यदिच्छति परमपरं वा तस्य तद्भवति । परं चेज्ज्ञातव्य[म]परं चेत्माप्तव्यम् ॥ १६ ॥ आ० टी०-॥ १६ ॥ गो० टी०--तत्त्वविचारानधिकृतानामोंकारोपासनां विधाय तत्फलं दर्शयन्नोंकारं स्तौतीत्याह-अत इति । यत ओंकारो ब्रह्मवाचको ब्रह्मप्रतीकोऽत इत्यर्थः । एतद- क्षरमपरं ब्रह्मैवेत्यन्वयः । हिद्वयमत इत्यर्थे । एतदक्षरं परं ब्रह्मैव । चकारः परापरात्मक- त्वसमुच्चयार्थः । हिद्वयार्थ स्फुटयति-तयोहीति । हिश-दो वाचकत्वसमुच्चयार्थः । अथवा प्रतीकपदेनैव वाचकत्वमुपलक्ष्य हि वेदान्तेपु प्रणवस्य वाचकत्वप्रतीकत्वप्रसिद्धयों व्याख्येयः । फलवचनं व्याचष्टे-एतदिति । हिशब्दो भवतीत्यत्रान्वेति । एतदक्षर- मुपास्यं परमपरं ब्रह्मेति ज्ञात्वोपास्य योऽधिकारी यत्परमपरं वेच्छति तद्भवति हीत्यर्थः। ननु परापरोपासनयोस्तत्प्राप्तिः फलमित्युक्तं चेत्सम्यग्ज्ञानं व्यर्थमित्याशङ्कयोपासनाद्वयस्य फलविभागमाह -परं चेदि]ति । परं चेत्तदालम्बनत्वेनोपास्य स्थितमिति वा तदा ज्ञातव्यं सत्प्राप्तव्यम् । अपरं चेत्तदा प्राप्तव्यमेवेत्यध्याहारेण योज्यम् । अथवा तदालम्ब- नत्वेन स्थितं परं चेदिच्छति तदा तज्ज्ञातव्यं भवत्यपरं चेत्तदालम्बनत्वेन स्थितमिच्छति तदा तत्प्राप्तव्यमेव भवतीत्यन्वयः ॥ १६ ॥ एतदालम्बन श्रेष्ठमेतदालम्बनं परम् । एत- दालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥ १७ ॥ यत एवमत एतदालम्बनमेतद्ब्रह्मप्राप्त्यालम्बनानां श्रेष्ठं प्रशस्यतमम् । १ क. तदेवा । २ ख. ज. तद्धथे । ३ ज. रं च त । ४ ग. घ. ङ. च. झ. म. द. ठ. एतद्र।

[ अध्या० १ वल्ली २] काठकोपनिषत् । ४९ एतदालम्बनं परमपरं च परापरब्रह्मविषयत्वात् । एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते । परस्मिन्ब्रह्मण्यपरस्मिंश्च ब्रह्मभूतो ब्रह्मवदुपास्यो भवतीत्यर्थः ॥ १७ ॥ आ० टी०-॥१७॥ गो० टी०--अत इति । परापरप्राप्तिसाधनत्वादित्यर्थः । एवमुक्तप्रकारेण । एत- च्छ्रेष्ठमित्यन्वयः । केषां मध्य इत्यपेक्षायामाह--* ब्रह्मेति । प्राप्त्यालम्बनानामिति गायत्र्यादीनां मध्य इत्यर्थः । परशब्दोऽपरस्याप्युपलक्षणार्थ इत्याह-अपरं चति । तत्र हेतुमाह-परापरेति । ब्रह्मैव लोको ब्रह्मलोकस्तस्मिन्महीयते पूज्यो भवतीत्यर्थ- माह--परस्मिनित्यादिना ॥ १७ ॥ अन्यत्र धर्मादित्यादिना पृष्टस्याऽऽत्मनोऽशेषविशेषरहितस्याऽऽल- म्बनत्वेन प्रतीकत्वेनं चौकारो निर्दिष्टः । अपरस्य च ब्रह्मणो मन्दम- ध्यमप्रतिपत्तृन्मति । अवेदानीं तस्योंकारालम्बनस्याऽऽत्मनः साक्षात्स्व- रूपनिर्दिधारयिषयेदमुच्यते- न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित् । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ १८ ॥ न जायते नोत्पद्यते म्रियते वा न म्रियते चोत्पत्तिमतो वस्तुनोऽनि- त्यस्यानेकविक्रियास्तासामाद्यन्ते जन्मविनाशलक्षणे विक्रिये इहाऽऽत्मनि प्रतिषिध्येते प्रथमं सर्वविक्रियाप्रतिषेधार्थ न जायते म्रियते वेति । विपश्चिन्मेधावी, अविपरिलुप्तचैतन्यस्वभावात् । किंच नायमात्मा कुत- श्चित्कारणान्तराद्धभूर्व । स्वस्माचाऽऽत्मनो न बभूव कश्चिदर्थान्तरभूतः। अतोऽयमात्माऽजो नित्यः । शाश्वतोऽपक्षयविवर्जितः। यो ह्यशाश्वतः सोऽपक्षीयते । अयं तु शाश्वतोऽत एव पुराणः पुराऽपि नव एवेति । यो खवयवोपचयद्वारेणाभिनिर्वय॑ते स इदानीं नवो यथा कुम्भादिस्त- द्विपरीतस्त्वात्मा पुराणो वृद्धिविवर्जित इत्यर्थः । यत एवमतो न हन्यते *ब्रह्मप्राप्त्यालम्बनानामिताति प्रतीकग्रहणं युक्तम् । १. स. घ. च. 'त् । अत ए। २ घ. "न वोका । ३ ग. च. ते वोत्प। ४ क. 'वी सर्व- हो । ५ ग. घ. च भावत्वात् । ६ क. ख. घ. ज. ठ. °व । अ° । ग. °व तस्मा । ७ झ.. 3. यरहितः । ८ क. 'तः सोऽप्यप । ९ ग. घ. यथाऽङ्करादिस्त ।

५०
टीकाद्वयसमेतशांकरभाष्योपेता- [अध्या० १ वल्ली २ ]
न हिंस्यते हन्यमाने शस्त्रादिभिः शरीरे । तत्स्थोऽप्याकार्शवदेव ॥१८॥
आ० टी०--साधनहीनायोपदेशोऽनर्थक इति मत्वोच्चावचमवगतिसाधनमुक्त्वा
वक्तव्यस्वरूपं यत्पृष्टं तदभिधानायोपक्रमत इत्याह--अन्यत्र धर्मादित्यादिनेति ।
यद्यात्मनोऽन्यद्ब्रह्म म्यात्तत्र जन्मादिप्राप्त्यभावादप्राप्तनिषेधः स्यादतो जन्मादिप्रतिषेधेन
ब्रह्मोपदिशन्नात्मस्वरूपमेवोपदिशतीति गम्यते । मरणनिमित्ता च नास्तित्वाशङ्काऽऽत्मनो
मरणाभावेऽस्तित्वविषयप्रश्नस् पाप्येतदेव वचनं भवतीति द्रष्टव्यम् ॥ १८ ॥
।
गो० टी०–साधनहीनायोपदेशोऽनर्थक इति मत्वा मन्दमध्यमाधिकारभेदेनोत्कृ-
टापकृष्टसाधनमभिधायान्ते यत्स्वरूपं पृष्टं तदभिधानायोपक्रमत इत्याह-अन्यत्र धर्मादि-
त्यादिनेति । परमार्थतः सर्वधर्मविनिर्मुक्तस्योपाधिमन्तर्भाव्य मन्दमध्यम प्रत्यालम्बनत्वेन
प्रतीकत्वेन वो(ों)कारो निर्दिष्ट इत्यर्थः । अपरस्य च ब्रह्मण आलम्बनत्वेन प्रतीकत्वेन
वो(चों)कारो निर्दिष्ट इत्यन्वयः । अथ साधननिरूपणानन्तरम् । इदानीमिति प्राप्तावस-
रत्वमुच्यते । तस्येति । उपासनार्थ सोपाधिकस्येत्यर्थः । ओंकारालम्बनस्योंकारोपाधिक-
स्याऽऽत्मन इत्यर्थः । साक्षादित्युपाध्यनन्तर्भावनेत्यर्थः । निर्दिधारयिषया निर्धारयितुमि-
च्छयेदमुत्तरम् । ननु यद्यन्यत्र धर्मादित्यादिना पृष्टस्योत्तरं तहस्तित्वप्रश्नस्य किमुत्तरं न
चेदमेवेति चेद्भिन्नात्मनोरेकोत्तरासंभवादिति चेन्नाऽऽत्मभेदासिद्धेर्यदि परमात्मनः सकाशा.
जीवो भिन्नस्तर्हि परमात्मप्रश्नस्य न जायत इत्युत्तरं न स्याज्जन्मादिसंबन्धस्य परमात्मन्य-
प्रसङ्गात्तयोरेक्ये जीवांशप्रसक्तिमादाय निषेध उपपद्यत इति तयोरेकमेवोत्तरमिति भावः ।
नन्वन्येऽपि विकाराः सन्ति ते किमिति प्रथमं न निषिध्यन्त इति तत्राऽह-उत्पत्तिमत
इत्यादिना । अनित्यस्य विनाशिन इत्यर्थः । विक्रियाः सन्तीति शेपः । समापद्यन्त
इति पाठः कादाचित्कः । प्रथमं जन्मविनाशलक्षणे विक्रिये न जायते म्रियते वेतीहाऽऽ.
त्मनि प्रतिषिध्येते इत्यन्वयः । प्रथमप्रतिषेधे प्रयोजनमाह-सर्वेति । क्रमेणेति द्रष्टव्यम् ।
मेधावीत्यनेन गुणगुणिसंबन्धे प्राप्ते प्रत्याह-अविपरिलुप्तेति । हेतुं पृच्छति-कुत इति।
अथवा देवदत्ततो जातो नष्ट इति प्रतीतेः कथं तत्प्रतिषेध इति शङ्कते-कुत इति । न
बभूवेत्यन्वयः । न बभूवेत्यत्र हेत्वन्तरानुपादोनात्स्वस्मादिति लभ्यत इत्याह-स्वस्माच्चा.
ऽऽत्मन इति । तत्र हेतुमाह--अर्था-तरेति । देहादिभ्यो भिन्न इत्यर्थः । तथा च पूर्वोक्तप्र-
तीतदेहादिविषयकत्वान्नाऽऽत्मन उत्पत्तिविनाशाविति फलमाह-अजो नित्य इति ।
शाश्वतत्वं व्यतिरेकमुखेणोपप दयति---यो हीति । अत एवेति । शाश्वतत्वादित्यर्थः ।
१ झ. म. ट. श इव । २ क. व भवतीत्यर्थः ॥ १८ ॥

------- [ अध्या० १ वल्ली २] काठकोपनिषत् । पुराणत्वमुपपादयति-यो होति । अभिनिवर्त्यत इति । निष्पाद्यत इत्यर्थः । यत इति । एते धर्माः शरीरस्य नाऽऽत्मनो यस्मादत इत्यर्थः । ननु शरीरसंश्लिष्टगर्भवच्छ. रीरे हन्यमान आत्माऽपि हन्यत इत्यत आह - तत्स्थोऽप्याकाशवदिति । यथाss- काशः शस्त्रघातादिभिर्न व्यथामश्नुतेऽसङ्गस्वभावत्वादेवमात्मा शरीरस्थोऽपि शस्त्रादिभिः शरीरे हन्यमाने न हिंस्यत इत्यर्थः ॥ १८ ॥ हन्ता चेन्मन्यते हन्तु हतश्चेन्मन्यते हतम् । उसो तौ न विजानीतो नाय हन्ति न हन्यते ॥ १९ ॥ एवंभूतमप्यात्मानं शरीरमात्रात्मदृष्टिहन्ता चेयदि मन्यते चिन्तयति हन्तुं हनिष्याम्येनमिात योऽप्यन्यो हतः सोऽपि चेन्मन्यते हतमात्मानं हतोऽहमित्युभावपि तौ न विजानीतः स्वमात्मानं यतो नायं हन्ति अविक्रियत्वादात्मनस्तथा न हन्यत आकाशंवदविक्रियत्वादेव । अतोऽ. नात्मज्ञविषय एव धर्माधर्मादिलक्षणः संसारो न ब्रह्मज्ञस्य श्रुतिप्रामा. ण्यान्यायाञ्च धर्माधर्माद्यनुपपत्तेः ॥ १९ ॥ आ० टी०-यद्यविक्रिय एवाऽऽत्मा तर्हि धर्माद्यधिकार्यभावात्तदसिद्धौ संसारो- पलम्भ एव न स्यादित्याशङ्कयाऽऽह-अनात्मज्ञविषय एवेति । यदज्ञानात्प्रवृत्तिः स्यात्तज्ज्ञान.त्सा कुतो भवेदिति न्यायाचाऽऽत्मज्ञस्य धर्मादि नोपपद्यतेऽत आत्मज्ञः सदा मुक्त एवेत्याह--न्यायाचति । तदुक्तम् - - विवेकी सर्वदा मुक्तः कुर्वतो नास्ति कर्तृता । अलेपवादमाश्रित्य श्रीकृष्णजनको यथा " इति ॥ १९ ॥ गो० टी०-एवंभूतमिात । असङ्गस्वभावमित्यर्थः । शरीरमेव शरीरमात्रं तस्मि- नात्मत्वेन दृष्टिर्यस्य स तथोक्तः । इच्छामभिनीय दर्शयति- हनिष्याम्येनमितीति । मननं विज्ञानं तस्याऽऽकारं दर्शयति–हतोऽहमितीति । स्वमात्मानं न विजानीतः शरीरमात्रदृष्टित्वादिति शेषः । तत्र हेतुमाह---यत इति । न हन्ति हननरूपाधर्मेण न संयुज्यते । तत्र हेतुमाह--अविक्रियत्वादिति । तथा धर्मविषयत्वमप्यात्मनो नेत्याह-तथा न हन्यत इति । पूर्वोक्तहेतुमाह--अविक्रियत्वादिति । यद्य- विकिय एवाऽऽत्मा तर्हि धर्माद्यधिकार्यभावात्तदसिद्धौ संसारोपलम्भ एव न स्यादित्या- शङ्कयाऽऽह--अतोऽनात्मज्ञविषय इति । देहादौ तादात्म्याचभिमानविषय इत्यर्थः । इति तु कामयमान इत्यनात्मज्ञस्य संसारमनुवदति । अथाकामयमान इत्यात्म. १ ख. ग. हन्तुमिच्छति ह । २ घ. 'ति वारयितुं योऽ° । ३ क ग. च. "शवदेवावि । घ. "श इवावि । ४ ग. °दतोऽ । ५ ख. च. °च धर्माद्य ।

टीकास्यसमेतशांकरभाष्योपेता- [अध्या० १ वल्ली १ ज्ञस्य तदभावं दर्शयति--श्रुतिप्रामाण्यादिति । स्मृतिरप्यथ वर्णाश्रमा इत्याद्या संसा- रमज्ञस्यानुवदति । स्थितप्रज्ञस्य का भाषेत्याद्या तदभावं दर्शयति । यदज्ञानात्प्रवृत्तिर्या तज्ज्ञानात्सा कुतो भवेदिति न्यायाच्चाऽऽत्मज्ञस्य धर्मादिनॊपपद्यते स मुक्त एवेत्याह- न्यायाचति । तदुक्तम् --" विवेकी सर्वदा मुक्तः कुर्वतो नास्ति कर्तृता । अलेपपदमाश्रित्य श्रीकृष्णजनको यथा" इति ॥ ९ ॥ कथं पुनरात्मानं जानातीत्युच्यते- अणोरणीयान्महतो महीयानात्माऽस्य जन्तोनि- हितो गुहायाम् । तमक्रतुः पश्यति वीतशोको धातुप्रसादान्महिमानमात्मनः ॥ २० ॥ अणोः सूक्ष्मादणीयाश्यामाकादेरणुतरः । महतो * महत्परिमाणा- न्महीयान्महत्तरः पृथिव्यादेः । अणु महद्वा यदस्ति लोके वस्तु तत्तेनै- वाऽऽत्मना नित्येनाऽऽत्मवत्संभवति । तदा-मना विनिर्मुक्तमसत्संपद्यते। तस्मादसावेवाऽऽत्माऽणोरणीयान्महतो महीयान्सर्वनामरूपवस्तूपाधि- कत्वात् । स चाऽऽत्माऽस्य जन्तोब्रह्मादिस्तम्बपर्यन्तस्य प्राणिजातस्य गुहायां हृदये निहित आत्मभूतः स्थित इत्यर्थः । तमात्मानं दर्शनश्रव- णमननविज्ञानलिङ्गमऋतुरकामो दृष्टादृष्टबाह्यविषयोपरतबुद्धिरित्यर्थः । यदा चैवं तदा मनआदीनि करणानि धातवः शरीरस्य धारणात्मसी- दन्तीत्येषां धातूनां प्रसादादात्मनो महिमानं कर्मनिमित्तवृद्धिक्षयरहितं पश्यत्ययमहमस्मीति साक्षाद्विजानाति । ततो वीतशोको भवति ॥२०॥ आ० टी०-अकामत्वादिसाधनान्तरविधानार्थमुत्तरवाक्यमवतारयति-कथं पुन- रिति । एकस्याणुत्वं महत्त्वं च विरुद्धं कथमनूधत इत्याशयाणुत्वाद्यध्यासाधिष्ठा- नत्वादणुत्वादिव्यवहारो न तत्त्वत इत्यविरोधमाह-अणु महद्वेति ॥ २० ॥ गो० टी०-कामवर्जितत्वादिसाधनविधानार्थमुत्तरवाक्यमवतारयति-कथं पुन- रिति । पृथिव्यादेर्महत्परिमाणादित्यन्वयः । नन्वेकस्याणुत्वं महत्वं च कथं विरुद्धमनद्यत इत्याशङ्कयाणुत्वाद्यध्यासाधिष्ठानत्वादणुत्वादिव्यवहारो न * व्यधिकरणबहुव्रीहिणा कथंचिनेयमेतत् । १ झ. ट. कृष्णार्जुन। २ क. ट. धातुः प्र । ३ कु. अ. "वत्सत्संभ । ४ क. 'मो दृष्ट । ५ ग. 'दन्त्येषां । ६ घ.न्तीति तेषां । ७ क. ख. 'तं पश्यति बीतशोकोऽय। घ. तं धातुप्रसादा- न्महिमानमात्मनोऽय' । ८ क. ख. घ. रु. ज. द. तो विगत। तत्त्वत [ अध्या० १ वल्ली २] काठकोपनिषत् । ५३ इत्याह-अणु महद्वति । नित्येन तेनैवेत्यन्वयः | आत्मस्वरूपवत्सत्प्रत्ययविषय इत्यर्थः । यस्मात्तदात्मनैवाऽऽत्मवत्तद्विनिमोंके न भवति तम्मादित्यर्थः । सर्वात्मकत्वे सर्वाधिष्ठानत्वं हेतुमाह-सर्वेति । वस्तुपध्देन कर्मोच्यते । तेषामुपाधित्वादाश्रयत्वादि- त्यर्थः । तस्य सर्वाधिष्ठानत्वेन सर्वरूपत्वं सहेतुकमाह-स चेति । हेतुमाह-गुहाया- मिति । आत्मभूतः । प्रत्यक्त्वेन स्थित इत्यर्थः । प्रत्यब्रह्मदर्शनसाधनं विद- धाति-तमित्यादिना । तं पश्यतीत्यन्वयः । ननु दर्शने कामराहित्यमात्रं न कारण- मत आह-दर्शनेति । दर्शनोद्देशेन विहितं यच्छ्रवणं मननं विज्ञानं निदिध्यासनं लिङ्ग साधनं प्रतिबन्धकनिरासद्वारा यस्य स तथा तम् । दृष्टा ऐहिका अदृष्टा आमुष्मिका विषयास्तेभ्य उपरतबुद्धिरित्यर्थः । कामराहित्यमिन्द्रियप्रसादे हेतुरित्याह-यदा चैव- मिति । एवमुपरतबुद्धित्वम् । ननु धातुशब्दः कथमिन्द्रियवाची शिरा (शुक्रा?)दिवा- चित्वादित्याशङ्कय योगवृत्त्येत्याह-शरीरस्यति । धारणादिन्द्रियैरिति शेषः । कर्म- निमित्तौ वृद्धिक्षयौ शरीरादेर्नाऽऽत्मनोऽतस्तद्रहितम् । अऋतुर्धातुः प्रसादात्तमात्मनो महि- मानं पश्यतीत्यन्वयः । दर्शनप्रकारमभिनीय दर्शयति-अयमहस्मीति । दर्शनफल- माह -ततो वीतशोक इति ॥ २० ॥ अन्यथा दुर्विज्ञेयोऽयमात्मा कामिभिः पाकृतपुरुषैः, यस्मात्- आसीनो दूरं व्रजति शयानो याति सर्वतः । कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति ॥ २१ ॥ आसीनोऽवस्थितोऽचल एव सन्दूरं व्रजति शयानो याति सर्वत एव- मसावात्मा देवो मदामदः समदोऽमदश्च सहर्षोऽहर्षश्च विरुद्धधर्मवान- तोऽशक्यत्वाज्ज्ञातुं कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति । अस्मदादे- रेव सूक्ष्मबुद्धेः पण्डितस्य सुविज्ञेयोऽयमात्मा स्थितिगतिनित्यादिवि. रुद्धानेकधर्मोपाधित्वाद्विरुद्धधर्मवत्त्वाद्विश्वरूप इव चिन्तामणिवदव- भासते । अतो दुर्विज्ञेयत्वं दर्शयति करतं मदन्यो ज्ञातुमर्हतीति । कर- णानामुपशमः शयनं करण जनितस्यैकदेशविज्ञानस्योपशमः शयानस्य भवति । यदा चैवं केवलसामान्य विज्ञानत्वात्सर्वतो यातीवं यदा विशे. धविज्ञानस्थः स्वेन रूपेण स्थित एव सन्मनआदिगतिषु तदुपाधिकत्वा- दूरं व्रजतीव । स चेहैव वर्तते ॥ २१ ॥ १ क. कृतैः पु । २ ट. 'न्यो वेत्तुम । ३ ङझ. ट. 'हषोऽह । ४ ग. ह. च. स. अ. ट. स्य वि । घ. "स्य सवि' । ट. "स्य कस्यचिद्विशे । ५ क. कविधि । च. "कविधध। ६ श. अ. ट. मत्वाद्वि' । ७ क. 'ते । इति दु । ८ ङ. श. ट. दुज्ञेय । ९ झ. अ. व तदा । १०. षज्ञा । ११ घ. ज्ञानः स्वे। ।

५४ टीकाद्वयसमेतशांकरभाष्योपेता- [अध्या० १ वल्लो २ ] टी०-विरुद्धानेकधर्मवत्वादुर्विज्ञयश्चेदात्मा कथं तर्हि पण्डितस्यापि सुज्ञेयः स्यादित्याशङ्कयाऽऽह-स्थितिगतीति । विश्वरूपो मणिर्यथा नानारूपोऽवभासते परं नानाविधोपाधिसंनिधानान्न स्वतो नानारूपः, चिन्तामणौ वा यद्यञ्चिन्त्यते तत्तचिन्तोपाधि- कमेवावभासते न तत्त्वतः, तथा स्थितिगतिनित्यानित्यादयो विरुद्धानेकधर्मा येषां तदुपा. धिवशादात्माऽपि विरुद्धधर्मवानिवावभासत इति योजना । इति तस्य सुविज्ञेयो भवति । उपाध्यावविक्तदार्शनस्तु दुर्विज्ञेय एवेत्यर्थः । स्वतो विरुद्धधर्मवत्वं नास्तीत्येतदेव श्रुतियो- जनया दर्शयति-करणानामित्यादिना । एकदेशविज्ञानस्येति । मनुष्योऽहं नीलं पश्यामीत्यादिपरिच्छिन्नविज्ञानस्येत्यर्थः ॥ २१ ॥ गो० टी०-कामराहित्यमन्वयव्यतिरेकाभ्यां हेतुरित्याह-अन्यथेति । मोक्ष- कामिणो वारयति-माकृतेति । दुर्विज्ञेयत्वे विरुद्धधर्मवत्त्वेन प्रतिभासमानत्वं हेतुमाह- यस्मादिति । अचल एव समिति । जाग्रत्स्वप्नयोर्मनआदिव्यापारसाक्षित्वेन कूटस्थः सस्थित एवेत्यर्थः । दूरं बजतीति । मनआदिव्यापारेषु विषयदेशं गच्छत्सु तत्प्रतिनि- म्वरूपेण गच्छतीत्यर्थः । शयान इति । करणेखूपरतेषु विशेषविज्ञानरूपाभावाच्छयानो यातीति । सर्वत इति । विज्ञप्तिसामान्यरूपेणावस्थानात्सर्वतो यातीत्युच्यते । एवम- साविति । विरुद्धधर्मवानित्यर्थः । इतश्च विरुद्धधर्मवानित्याह-देव इति । अतो विरुद्धधर्मत्वादित्यर्थः । अतो ज्ञातुमशक्यत्वात्तं मदन्यः को ज्ञातुमर्हतीत्यन्वयः । अ[न?]- धिकारिणो ज्ञातुमशक्य इति तात्पर्यार्थमाह- अस्मदादेरेवेति। सूक्ष्मबुद्धित्वमन्वयव्य- तिरेककुशलत्वं पाण्डित्यं श्रवणादिपरत्वम् । कस्यचिदिति । पुरुषधौरेयस्येत्यर्थः । मनु- याणां सहस्रष्विति स्मृतेः। नन्वनेकधर्मवत्त्वादुर्विज्ञेयश्चेदात्मा कथं पण्डितस्यापि सुविज्ञेय इत्याशङ्कयाऽऽह-स्थितिगतीति । यथा विश्वरूपो मणिर्नानारूपोऽवभासते तथा परोऽपि नानाविधोपाधिसनिधानान्नानारूपो भासते न स्वतो नानारूपता । चिन्तामणि यद्यञ्चिन्त्यते तत्तच्चिन्तोपाधिकमेवावभासते न तत्त्वतस्तथा स्थितिगतिनित्यानित्यादयो विरुद्धानेकधर्मा येषां तदुपाधिकत्वादात्माऽपि विरुद्धधर्मवानिवावभासत इति योजना । तस्य सुविज्ञेयो भवतीत्यर्थः । वस्तूपाध्यविवेकदर्शी स तु न जानातीत्याह- अतो दुर्विज्ञेयत्वामिति । अत उपाध्यविवेकदर्शनादित्यर्थः । आत्मनो न स्वतो विरुद्धधर्मत्वं किंतूपाधित इत्येतच्छ्रतियोजनया दर्शयति---करणानामिति । एक- देशविज्ञानस्येति । मनुष्योऽहमिदं पश्यामीत्यादिपरिच्छिन्नविज्ञानस्येत्यर्थः । एव- मिति । उपरवविशेषविज्ञानमित्यर्थः । तदेति शेषः । केवलेति । केवलं यत्सामान्य सोपाध्यनुस्यूतस्वरूपं विज्ञान तत्स्वरूपत्वादात्मन इत्यर्थः । केवलं विशेषोपाधिशून्य- मित्यर्थः । इशब्दान्न वस्तुत इति भावः । यदेति । स्वेन रूपेण प्रत्यङ्मा- १ ख. परोऽपि ना' । २ ख. वतीत्यर्थः । उ । ३ ख. वेत्याह । अतो। ४ म. ठ. ते तचि।

५५ [ अध्या० १ वल्ली २] काठकोपनिषत् । त्रतया स्थित एव सन्विशेषविज्ञानस्थो यदा भवति तदेति पदद्वयमध्याहृत्य योजनीयम्। तदुपाधि[ क ]त्वान्मनआदिगत्युपाधित्वात् । दूरं बनतीव न वस्तुत इत्यर्थः । इव- शब्दार्थ स्फुटयति-स चेति । इहेति देहोक्तिः ॥ २१ ॥ तद्विज्ञानाच्च शोकात्यय इत्यपि दर्शयति- अशरीर५ शरीरेष्वनवस्थेष्ववस्थितम् । महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ २२ ॥ अशरीरं स्वेन रूपेणाऽऽकाशकल्प आत्मा तमशरीरं शरीरेषु देवपि- तृमनुष्यादिशरीरेण्वनवस्थेष्ववस्थिनिरहितेष्व॑नित्येष्ववस्थितं नित्यमवि- कृतमित्येतत् । महान्तं महत्त्वस्याऽऽपेक्षिकत्वशङ्कायामाह-विभुं व्यापि. नमात्मानम् । आत्मग्रहणं स्वतोऽनन्यत्वप्रदर्शनार्थम् । आत्मशब्दः प्रत्य- गात्मविषय एव मुख्यस्तमीदृशमात्मानं मत्वाऽयमहमिति धीरो धीमान शोचति । न ह्येवंविधस्याऽऽत्मविदः शोकोपपत्तिः ॥ २२ ॥ आ० टी०-॥ २२ ॥ गो० टी०- उत्तरवाक्यं व्याचिख्यामुभूमिकामारचयति-तद्विज्ञानादिति । आभि- मानिकसशरीरत्वं व्यावर्तयति-स्वेनेति । ननु शरीराणां स्थितिमत्त्वात्कथमनवस्थित- त्वमत आह-अनित्येष्विति । संश्लेषं वारयति-नित्यमविकृतमिति । स्वत इति न क्रियासाध्यं किंतु स्वाभाविकं प्रत्यब्रह्मैक्यमिति दर्शयितुम् । आत्मशब्दः प्रत्यगात्मवा. चको मुख्य इत्यर्थः । मत्वेति । अहमेव परं ब्रह्मेति साक्षात्कृत्येत्यर्थः । अन्वयव्यति. रेकसिद्धं विज्ञानफलमाह-न ह्येवामिति ॥ २२ ॥ यद्यपि दुर्विज्ञेयोऽयमात्मा तथाऽप्युपायेन सुविज्ञेय एवेत्याह- नायमात्मा प्रबचनेन लायो न मेधया न बहुना श्रुतेन । यमेवैष वृणुने तेन लायस्तस्यैष आत्मा विवृणुते तनूः स्वाम् ॥ २३ ॥ नायमात्मा प्रवचनेनानेकवेदस्वीकरणेन लभ्यो ज्ञेयो नापि मेधया ग्रन्थार्थधारणशक्त्या । बहुना श्रुतेन केवलेन । केन तर्हि लभ्य इत्यु- च्यते यमेव स्वात्मानमेष साधको वृणुते प्रार्थयते तेनैवाऽऽत्मना वरित्रा- १च. 'यमभिद । २ क. इत्यभिद । ग. घ. डा. इति द' । ३ क. ख. ज. ध्वनित्ये. ज्ववस्थितिरहितेष्ववस्थितं । ४ घ. ध्वव । ५ झ. ब. ट. 'नमत्राऽऽत्म" । ६ क. ग. "रणाश" ७ ग. घ. भ्यत इ । ८ क. ख. ग. घ. दु. ज. द. व स्वमात्मा ।

५६ टीकादयसमेतशांकरभाष्योपेता- अध्या० १ वल्ली २ ) स्वयमात्मा लभ्यो ज्ञायत एवमित्येतत् । निष्कामस्याऽऽत्मानमेव पार्थ- यंत आत्मनैवाऽऽत्मा लभ्यत इत्यर्थः । कथं लभ्यत इत्युच्यते- तस्याऽऽत्मकामस्यैष आत्मा विवृणुते प्रकाशयति पारमार्थिकी तनूं स्वा स्वकीयों स्वयाथात्म्यामित्यर्थः ॥ २३ ॥ - आ० टी०--न बहुना श्रुतेनेति। आत्मप्रतिपादकोपनिषद्विचारातिरिक्तशास्त्रश्र- वणेन न लभ्य उपनिषद्विचारेणापि । केवलेनेति । सिद्धोपदेशरहितेन न लभ्यत इत्यर्थः । परमेश्वराचार्यानुग्रहेण तु लभ्यत इत्याह-यमेवेति । स्वात्मानमेव साधकः श्रवणमननादिमिर्वृणुते संभजते श्रवणादिकालेडापे सो हमित्यभेदेनैवानुसंधत्त इत्यर्थः । तेनैवेति । लक्षणया परमात्मानुग्रहेणैव वरित्राऽभेदानुसंधानवता यथानुसंधानमात्मतयैव परमात्मा लम्यो भवतीत्यर्थः । वैपरीत्येन वा योजना । आत्मा त्वेष प्रकरणी परमात्माऽ. न्तर्यामिरूपेणाऽऽचार्यरूपेण वा व्यवस्थितो यमेव मुमुखं वृणुते भजतेऽनुगृह्णाति तेनैव परमेश्वरानुगृहीतेनाभेदानुसंधानवता लभ्यत इत्यर्थः ॥ २३ ॥ गो० टी०-ननूपायं विना पण्डितस्य सुज्ञेयश्चेदनात्मज्ञस्यापि तथा स्यादित्याश- कचोपायं विना न पण्डितस्यापि ज्ञेय इत्याह- यद्यपीति । दुर्विज्ञेयः पण्डितस्यापीति शेषः । न ज्ञेय इत्यन्वयः । न बहुनेति । आत्मप्रतिपादकोपनिषद्विचारातिरिक्त-शास्त्रेण न लम्य इत्यर्थः । केवलेनेति । गुरूपदेशरहितेनेत्यर्थः । ईश्वराचार्यानुग्रहेणाऽऽत्मा लभ्य इत्याकाङ्क्षापूर्वकमाह-केनेत्यादिना स्वात्मानमेव प्रत्यक्चैतन्यमेवेत्यर्थः । साधकोऽधिकारी प्रार्थयते भजते श्रवणादिकालेऽपि प्रत्यग्ब्रह्मैवाहमित्यनुसंधत्ते । तेनै- वाऽऽत्मना तदनुग्रहेण [ वरित्रा ] संपरिज्ञत्रा पूर्वोक्तानुसंधानवता यथानुसंधानं स्वयं प्रत्यगात्मतयाऽऽत्मा परमात्मा लभ्य इत्यर्थः । अथवैष प्रकरणी परमात्माऽन्तर्यामिरूपे. णाऽऽचार्यरूपेण वा व्यवस्थितो यमेव साधकं वृणुतेऽनुगृह्णाति तेन परमेश्वरानुग्रहलब्धप्र. त्यग्बौक्यानुसंधानवता मुमुक्षुणा लभ्य इत्यर्थः । पदार्थमुक्त्वा वाक्यार्थमाह-एवमिति । तेन लभ्यत ( लभ्य ) इतिवाक्यविवरणत्वेनोत्तरमवतारयति-कथमित्यादिना । अधि- कारिणः परमं तत्त्वमीश्वरानुग्रहात्प्रकाशत इत्यर्थः ॥ २३ ॥ १ झ. म. 2. भ्यो ज्ञातव्य ए°।२ क. ख. घ. हु. ज. स. अ. द. ठ. 'त इत्ये। ३ क.ख. च. ज. कामश्चाऽऽस्मा । ङ, कामनं स्वमात्मा" । ४ च. मेष प्रा । क. ख. उ. च. ज. "यते आ ।' झ. अ. 2. प्यमानस्याss° । ६ च. झ. म. ट. 'भ्य इ । ७ ग. स. म. ट. भ्य इ । ८ क. ख. ज. °की स्वां तनूं स्व । ९ क. °कीय स्व' । १० क. . यांया । ग. घ ङ. 'यां स्वं या।

[ अध्या० १ वल्ली २ काठकोपनिषत् । ५७ किंचान्यत्- नाविरतो दुश्चरितानाशान्तो नासमाहितः । नाशान्तमानसो वाऽपि प्रज्ञानेननमाप्नुयात् ॥ २४ ॥ न दुश्चरितात्मतिषिद्धाच्छ्रतिस्मृत्यविहितात्पापकर्मणोऽचिरतोऽनुपरतः। नापीन्द्रियलौल्यादशान्तोऽनुपरतः । नाप्यसमाहितोऽनेकाग्रमना विक्षि- सचित्तः । समाहितचित्तोऽपि सन्समाधानफलार्थित्वाचाप्यशान्तमानसो व्यापृतचित्तः । प्रज्ञानेन ब्रह्मविज्ञानेनैवं प्रकृतमात्मानमाप्नुयात् । यस्तु दुश्चरिताद्विरत इन्द्रियलौल्याच समाहितचित्तः समाधानफलादप्युपशा. न्तमानसश्चाऽऽचार्यवान्मज्ञानेन यथोक्तमात्मानं प्रामोतीत्यर्थः ॥ २४ ॥ आ० टी०-दुश्चरितं कायिकं पापम् ॥ २४ ॥ गो० टी० -इतश्चेश्वरानुग्रहलब्धप्रसादषताऽनेकसाधनवता च ज्ञातव्य आत्मेत्याह- किंचान्यदिति । दुश्चरितं कायनिर्वयं पापम् । अनुपरतः प्रज्ञानेनैनमा (नं नाऽऽ ?) प्नुयादिति संवन्धः । एवमुत्तरत्र द्रष्टव्यम् । इन्द्रियाणां लौल्यं विषयप्रवणता । तद्विपरीत एव प्राप्नुयादित्याह-यास्त्वति । विषयेभ्य इन्द्रियसमाधाने पुण्यलोकः श्रूयते तस्मा- दपि समाहितचित्त इत्याह-समाहितेति ॥ २५ ॥ यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः। मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः ॥ २५ ॥ इति काठको पनिषदि प्रथमाध्याये द्वितीया बल्ली समाप्ता ॥२॥ यस्त्वनेवभूतो यस्याऽऽत्मनो ब्रह्मक्षेचे सर्वधर्मविधारक अपि सर्व प्राणभूते उभे ओदनोऽशनं भवतः स्याताम् । सर्वहरोऽपि मृत्युर्यस्यो- पसेचर्नमेवौदनैस्याशनत्वेऽप्यपर्याप्तस्तं प्राकृतबुद्धिर्यथोक्तसाधनरहितः १ क. ख. ज. "त् दु । २ क. ख. ज. °णो नावि। ३ घ. °सोऽव्या । ४ क. ख. च. न. 'चित्तो वाऽऽत्मानं प्राप्नुयात् । प्र । ५ क. °त्तः केन प्राप्नुयादित्युच्यते प्र । ६ क. ज. "ह्म च क्षत्र च ब्रह्मक्ष । ७ क. वप्राण । ज. वत्रानुभू" । ८ क. ख, भ. "दनमश । च. °दनान भ' । ९ग. प. ज. 'नमिवों । १० अ. द. नस्योपसेचन । TI ५८ टीकाद्वयसमेतशांकरभाष्योपेता- [अध्या० १ वल्ली३ ] सन्क इत्था इत्थमेवं यथोक्तसाधनवानिवेत्यर्थः । वेद विजानाति यत्र स आत्मेति ॥ २५ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्य. श्रीमदाचार्यश्रीशंकरभगवतः कृतौ काठकोपनिषद्भाष्ये प्रथमाध्याये द्वितीयवल्लीभाष्यं समाप्तम् ॥ २॥ आ० टी०-यस्त्वनेवंभूत उक्तसाधनसंपन्नो न भवति स कथं वेदेति संबन्धः । अशनत्वेऽप्यपर्याप्त इति । अन्नत्वेऽप्यसमर्थः शाकस्थानीय इत्यर्थः । यत्र स्वे महिम्नि स विश्वोपसंहर्ता तथाभूतं तं को वेदेति संबन्धः ॥ २५ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचिते काठकोपनिषद्भाप्यव्याख्याने द्वितीया वल्ली समाप्ता ॥ २ ॥ गो. टी०- यस्त्वनेवंभूत इति । उक्तसाधनसंपन्नो न भवति स कथं वेदेति संबन्धः । यहह्मसाधनवता विज्ञेयं तनिशिति-यस्येति । सर्वधर्मविधारकत्वं सर्वत्राणे हेतुः । सर्वत्राणभूते अपीत्यन्वयः । अशनत्वेऽप्यपर्याप्त इत्यन्नत्वेऽप्यपर्याप्तः शाकस्था. नीय इत्यर्थः । क इतिशब्दार्थमाह- प्राकृतबुद्धिरिति । इत्थाशब्दार्थमाह-एवमिति । यत्र स्वम हीन्न सोऽत्ता वर्तते तथाभूतं को वेदेत्यन्वयः ॥ २५ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यवर्यश्रीमहालगोपालेन्द्रयतीश्वरविरचिते काठकोप. निषद्भाष्यविवरणे प्रथमाध्याये द्वितीया वल्ली समाप्ता ॥ २ ॥ ऋतं पिबन्तावित्यस्या वल्ल्याः संबन्धः । विद्याविद्ये नानाविरुद्ध- फले इन्युपन्यस्ते न तु सफले ते यथावभिणीते । तनिर्णयार्थी रथरूप- ककल्पना, तथा च प्रतिपत्तिसौकर्यम् । एवं च प्राप्तृपाप्यंगन्तृगन्तव्य- विवेकार्थ द्वावात्मानावुपन्यस्येते ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे (ध्ये) । छायातपो ब्रह्मविदो वदन्ति पञ्चानयो ये च विणाचिकेताः ॥ १ ॥ ऋतं सत्यमवश्यंभावित्वात्कर्मफलं पिबन्ती । एकस्तत्र कर्मफलं पिवति भुङ्क्ते नेतरस्तथाऽपि पातृसंवन्धारिपचन्तावित्युच्यते छत्रिन्या- १ ख. ज. र्थाय र' । २ ग. 'ड. च. ज झ. म. ट. "प्राप्यप्राप्तृग । ख. घ. प्राप्तृप्राप्तग । ३ ग. च. 'प्यगन्त° । ४ क. ख. च. ज, थं रथरूपकद्वारा द्वा । - [ अध्या० १ वल्ली ३] काठकोपनिषत् । ५९ येने । सुकृतस्य स्वयंकृतस्य कर्मण ऋतमिति पूर्वेण संबन्धः । लोकेऽ. स्मिशरीरे । गुहां गुहायां बुद्धौ प्रविष्टौ । परमे बाह्यपुरुषाकाशसंस्था- नापेक्षया परमम् । परस्य ब्रह्मणोऽध स्थानं पराध (ध्य?)म् । तस्मिन्हि परं ब्रह्मोपलभ्यते अतस्तस्मिन्परमे परार्धे (ध्ये?) हार्दाकाशे प्रविष्टावि- त्यर्थः । तौ च च्छायातपाविव विलक्षणौ संसारित्वासंसारित्वेन ब्रह्म- विदो वदन्ति कथयन्ति । न केवलमकार्मिण एव वदन्ति । पञ्चायो गृहस्थाः । ये च त्रिणाचिकेताः, त्रि:कृत्वो नाचिकेतोऽग्निश्चितो यैस्ते त्रिणाचिकेताः ॥ १॥ आ०.टी०--रथरूपककलानोति । प्रसिद्धरथसादृश्यकल्पनेत्यर्थः । ऋतपान. कर्ता जीवस्तावदेकश्चेतनः सिद्धो द्वितीयान्वेषणायां लोके संख्याश्रवणे समानस्वभावे प्रथमप्रतीतिदर्शनाचेतनतया समानस्वभावः परमात्मैव द्वितीयः प्रतीयते । तस्य चोप- चारादृतपातृत्वमित्यर्थः । बाह्यपुरुषाकाशसंस्थानं देहाश्रय आकाशप्रदेशः । पञ्चाग्नय इति । गार्हपत्यो दक्षिणाग्निराहवनीयः सभ्य आवसथ्यश्चेत्येते पञ्चाग्नयो येषां ते यथोक्ताः । धुपर्जन्यपृथिवीपुरुषयोषित्स्वाग्निदृष्टिं ये कुर्वन्ते (न्ति ) तेऽग्निहोत्रादिका- रिणस्ते वा पञ्चाग्नय इत्यर्थः ॥ १ ॥ गो० टी०--पूर्वोत्तरवल्लीनां संबन्धं दर्शयन्नुत्तरवल्लया अगतार्थत्वमाह-ऋतमि- त्यादिना । संबन्ध इति । पूर्वाभ्याममिधीयत इति शेषः । नानाफले इत्युक्ते पशुव्र- ह्मवर्चसादिवदविरुद्धत्वं स्यात्तद्वारयति--विरुद्धति । इतिरुक्तपरामर्शी । उपन्यस्ते इति । पूर्वयोर्वल्लयोरिति शेषः । न त्विति । सफले ते विद्याविद्य यथावत्स्वरूपतः साधनतः फलतश्च न निर्णीते इत्यर्थः । ननु ते एव निर्णी (णे ) तव्ये किमिति रथि- रथादिकल्पनेत्यत आह-तनिर्णयार्थेति । यद्यपि स्वरूपतो निरूप्येते तथाऽपि ज्ञाने सौकर्यमित्याह-तथा चेति । ननु रूपकेण विद्याविद्ये निरूप्ये किमिति द्वावृतपानकर्ता- रावभिधीयते इत्यत आह-एवं चेति । रूपके रथी प्राप्ता प्राप्यं पदं गन्ता ज्ञाता गन्तव्यं विष्णोः पदम् । कश्च गन्ता किंच पदं गन्तव्यमिति विवेकार्य द्वावात्मानावुपन्य- स्येते इत्यर्थः । नन्वात्मशब्दश्चेतनावाची न च द्वौ चेतनौ प्रतीयेते ऋतपानकमात्रप्रतीते. । १२. अ. ट. 'न । न हि केवलस्याऽऽत्मनो भोतृत्वमस्ति । बुद्धयाग्रुपाधिकृतमेव भोक्तृत्वम् । एवं च सति वक्ष्यमाणरथकल्पनया वैष्णवस्य * पदस्याऽऽत्मतया प्रतिपत्तिरुपपद्यते नान्यथा सुकृ । २ क. रमे परार्धे प० । ग. घ. °रमे । प°। ३ क. ख. ग. च. अ. °स्य च ब्र' । ४ क. 'हार्दाकाशं त।५ घ. झ. म. परब । ६ क. "लक्ष्यते । ७ क. ख. घ. ङ. ज. झ. 'ते । तस्मि । ट. ट. 'ते । तत। * इ. वस्यापादस्याऽऽत्म' । ग. वस्य पद ।

६० टीकायसमेतशांकरभाष्योपेता- [अध्या० १ बल्ली ।" स्तत्कथमात्मानावित्युच्यते इति चेन्न । एकस्तावत्कर्मफलभोक्ता जीवश्चेतनः सिद्धो द्वितीयान्वेषणायां सत्यां संख्याश्रवणेऽस्य गौर्द्वितीयोऽन्वेष्टव्य इत्युक्ते गौरव द्वितीयोऽ. विष्यते नाश्वो लोक एवं चेतन एवं द्वितीयो ऋतपानकर्ता प्रतीयत इति नाऽऽत्मशब्दे विरोध इति भावः । अत्रर्तशब्दः सत्यवचनोऽपि गुणयोगात्कर्मफलवाचीत्याह-ऋतमि- त्यादिना । नन्वस्मिन्वाक्ये जीवेश्वरावेव चेतनावुपन्यस्येते न च द्वयोः कर्मफलसंबध ईश्वरस्य तदसंभवात्कथं पिबन्तावित्यत आह-एक इति । जीव इत्यर्थः। इतर ईश्वर इत्यर्थः । कथं पिबन्तावित्यत आह-तथाऽपीति । पातृसंबन्धादिति । पाता जीवस्तत्संबन्धादित्यर्थः । छत्रिन्यायेति । यथा लोके छत्रिणो गच्छन्तीति प्रयोगे सपरिवारे राज्ञि गच्छति छन्यच्छत्रिसमुदाये छत्रिशब्दो वर्तत एकसमूहवाचित्वेनैवं पिबदपिबत्समुदाये पिबतिर्वर्तत इत्यर्थः । सुकृतस्य लोक इत्यन्वयभ्रमं वारयति- ऋतमितीति । बाह्यपुरुषाकाश [सं] स्थानं देहाश्रय आकाशप्रदेशः । स्थानमित्यनन्तर. महतीति द्रष्टव्यम् । परार्ध इति क्वाचिन्कः श्रुतिपाठस्तस्मिन्पक्षे सुगमम् । परार्ध(य॑?) त्वमुपपादयति-तस्मिमिति । अत इति । यतः परब्रह्मोपलब्धिस्थानमत इत्यर्थः । गार्हपत्यो दक्षिणाग्निराहवनीयः सभ्य आवसथ्यश्चैते पञ्चाग्नयो येषां ते पञ्चाग्नयः । ग्रुप. जन्यपृथिवीपुरुषयोषित्सु येऽग्निदृष्टिं कुर्वन्ति ते वा पश्चाग्नयः । पञ्चाग्नयत्रिणाचिकेत- लक्षणा वदन्तीति संबन्धः ॥ १॥ यः सेतुरीजानानामक्षरं ब्रह्म यत्परम् । अभयं तितीर्षतां पारं नाचिकेत शकेमहि ॥ २ ॥ यः सेतुरिव सेतुरीजानानां यजमानानां कर्मिणां दुःखसंतरणार्थत्वा- मौचिकेतोऽग्निस्तं वयं ज्ञातुं जेतुं च शकेमहि शक्नुवन्तः । किंच यश्चा- भयं भयशून्यं संसारंपारं तितीर्षतां तर्तुमिच्छतां ब्रह्मविदां यत्परमाश्र- यमक्षरमात्माख्यं ब्रह्म तश्च ज्ञातुं शकेमहि शक्नुवन्तः । परापरे ब्रह्मणी कर्मब्रह्मविदाश्रये वेदितव्ये इति वाक्यार्थः । एतयोरेव घुपन्यासः कृत ऋतं पिबन्ताविति ॥ २॥ आ० टी०-ननु न सन्ति ब्रह्मविदः पश्चाग्निविदश्च सांप्रतमनुपलम्भादित्याशङ्कय पूर्वविद्वदनुभवविरोधमाह-यः सेतुरिवेत्यादिना । पूर्वेषां यद्यपि ब्रह्मवित्त्वादि संभ- वति प्रभावातिशयात्तथाऽपि नाऽऽधुनिकानामल्पप्रज्ञानां संभवतीत्याशङ्कय चेतनत्वात्स्वा. भाविकी ज्ञातृत्वयोग्यताऽस्तीत्यमिप्रेत्य तात्पर्यमाह-परापरे इति ॥ २ ॥ १ क. 'माचिकेत नाचि । २. केतस्तं व । ३ क. रस्य पा' । ४ क. ख. अ. ब. हि । ५। ५ ख. घ. र्थः । ययो । ङ. "र्थः । तयों। ।

[अध्या. १ वल्ली ३] काठकोपनिषत् । ६१ गो० टी०- ननु न सन्त्येव ब्रह्मविदः पञ्चाग्निविदश्चानुपलम्भादित्याशङ्कय पूर्ववि. द्वदनुभवविरोधमाह--यः सेतुरिति । कर्मिणामिति । कर्मानुष्ठानवतामित्यर्थः । विरा- रूपानेः सेतुत्वं व्युत्पादयति- दुःखेति । दुःखाय संतरणं निवृत्तिः सैवार्थः प्रयोजन यस्य तस्य भावस्तत्त्वं तस्मादित्यर्थः । नाचिकेतोऽग्निरुक्तहेतोः सेतुरिव सेतुर्य इति पूर्वेण संबन्धः । तं नाचिकेताग्निं न केवलं ज्ञातुं किंतु कर्तुमत्यिाह-चेतुमिति । संकोचक- प्रमाणाभावात्सर्वभयातीतमित्याह-संसारपारमिति । संसारातीतमित्यर्थः । ततुमिच्छता प्राप्तुमिच्छताम् । आश्रयमवलम्बनम् । न क्षरतीत्यक्षरं षड्भावविकारशून्यं न परोक्षं किंतु प्रत्यग्भूतमित्यर्थः । चकारादपरब्रह्मात्मकाग्निं ज्ञातुं चेतुं परब्रह्म ज्ञातुमेव शक्नुवन्त इत्येतत्समुच्चयोऽवगम्यते । ननु यद्यपि पूर्वेषां ब्रह्मवित्त्वं संभवति महामहिमत्वात्तथाऽपि नाऽऽधुनिकानामरूपप्रज्ञानामित्याशङ्कय प्रमातृमात्रस्य चेतनत्वेन ज्ञातृत्वशक्तियोग्यतेश्व- रानुग्रहादिना संभवतीत्यभिप्रेत्य तात्पर्यमाह-परापरे इति । कर्मविदाश्रयोऽपरं ब्रह्म ब्रह्मविदाश्रयः परं ब्रह्मेति विभागः । ननु नर्तपानकोर्ब्रह्मवित्प्रसिद्धत्वमन्ययोरेवेत्याश- याऽऽह-एतयोरिति । कर्मब्रह्मविदाश्रययोः परापरब्रह्मणोर्ऋतं पिबन्तावित्यत्रोपन्यासो हि यस्मात्कृतम्तस्मान्नान्यत्वाशङ्केत्यर्थः ॥ २ ॥ आत्मानर रथिनं विद्धि शरीर५ रथमेव तु । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ ३ ॥ तत्र य उपाधिकृतः संसारी विद्याविद्ययोरधिकृतो मोक्षगमनाय संसारगमनाय च तस्य तदुभयगमने साधनो रथः कल्प्यते । तत्र तमा- त्मानमृतपं संसारिणं रथिनं रथस्वामिनं विद्धि जानीहि । शरीरं रथमेव तु रथबद्धहयस्थानीयैरिन्द्रियैराकृष्यमाणत्वाच्छरीरस्य । बुद्धिं तु अध्य- वसायलक्षणां सारथिं विद्धि बुद्धिनेतृप्रधानत्वाच्छरीरस्य । सारथिनेतृ- प्रधान इव रथः । सर्व हि देहगतं कार्य बुद्धिकर्तव्यमेव प्रायेण । मनः संकल्पविकल्पादिलक्षणं प्रहं रशनां विद्धि । मनसा हि प्रगृहीतानि श्रोत्रादीनि करणानि प्रवर्तन्ते रशनयेवाश्चाः ॥ ३ ॥ आ० टी०-तत्रेति । तयोः प्रथमग्रन्थोक्तयोरात्मनोमध्ये ॥ ३ ॥ गो० टी०-रथरूपकवाक्यमवतारयति-- तत्रेति । जीवात्मपरमात्मनोर्मध्ये । उपाधिकृत उपाधिपरिच्छिन्न इत्यर्थः । ईश्वरं व्यावर्तयति--संसारीति । मुक्तजीवं * अत्र टीकानुरोधेन विकल्पशब्दोऽधिकः । १२. भ. ट. कृतोऽतो मो। २ क. °ल्प्यत इत्याह त । ३ क. ख. ग. घ. ङ. म. ठ. तत्राऽऽत्मा । ४ का ख. ज. महमेव च र । .

६२ टीकाद्वयसमंतशांकरभाष्योपेता। [ अध्या०१ वल्ली १] व्यावर्तयति- विधेत्यादिना । साक्षात्कारकर्मणोरित्यर्थः । कस्मै प्रयोजनायेत्याकाङ्- क्षोयामाह-मोक्षति । विद्यायामधिकृतो मोक्षगमनायाविद्यायामधिकृतः संसारगमनायेति विभागः । तस्येति । विद्याविद्ययोरधिकृतस्य तदुभयगमनसाधनः संसारमोक्षगमनसाधनः। रथगमनागमनजन्मफलभोक्तृस्वामिसाम्यं विवक्षित्वा तमाह-तमिति । शुद्धचैतन्यं व्यावर्तयति-ऋतपमिति । ईश्वरं व्यावर्तयति--संसारिणामिति । रथस्वामिन- मिति । रथतादात्म्यामिमानिनमित्यर्थः । शरीरस्य रथत्वसाम्ये हेतुमाह--रथवदिति । अन्तःकरणस्यैक्येऽपि वृत्तिभेदेन भेदं विवक्षित्वा सारथिप्रग्रहकल्पनेत्याह-बुद्धिं त्विति। अध्यवसायलक्षणाम् । अध्यवसायो निश्चयो लक्षणं स्वरूपं यस्याः सा तामित्यर्थः । पूर्ववत्साम्ये हेतुमाह-बुद्धीति । बुद्धिर्नेता प्रापयित्री प्रधानं स्वतन्त्र भूता यस्य शरी- रस्य तत्तथा तस्य भावस्तत्त्वं तस्मादित्यर्थः । तत्र दृष्टान्तमाह-सारथिनेतृप्रधान इव रथ इति । सारथिर्नेता प्रापायता प्रधानः स्वतन्त्रो यस्य स इवेत्यर्थः । ननु मनआदीन्यपि शरीरनेतृणि तत्कथं बुद्धेरेव नेतृत्वेन सारथित्वमत आह—सर्व हीति । देहातं सर्व कार्य गमनागमनादि प्रायेण बुद्ध्या कर्तव्यं हि यम्मात्तस्मात्प्रायिकाभिप्रायेण बुद्धरेव नेतृत्वात्सारथित्वं युक्तमित्यर्थः । सारथिहस्ते विद्यमान हयाकर्षणसूत्रं प्रग्रहश- ब्दितं मन इत्याह-मन इति । संकल्प इदमेवं करिष्य इति वृत्तिः । आदिशब्देन विकल्पो गृह्यते स्थाणुर्वा पुरुषो वेत्यादिः, तत्स्वरूपमित्यर्थः । तस्य रशनात्वं प्रसिद्ध- रशनासाम्येनोपपादयति -मनसेत्यादिना । प्रगृहीतान्याकृष्टानि । रशनयेति । यथा सूत्रेणावा आकृप्यन्ते तद्वदित्यर्थः ॥ ३ ॥ इन्द्रियाणि हयानाहुर्विषयाश्स्तेषु गोचरान् । आत्मेन्दिमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ।। ४ ।। इन्द्रियाणि चक्षुरादीनि हयानाडू रथकल्पनाकुशलाः शरीररथाकर्ष- णसामान्यात् । तेष्वेन्द्रियेषु हयत्वेन परिकल्पितेषु गोचरान्मार्गान्रुपा- दीन्विषयान्विद्धि । आत्मन्द्रियमनोयुक्तं शरीरेन्द्रियमनोभिः सहित संयुक्तमात्मानं भोक्तेति संसारीत्याहुर्मनीषिणो विवेकिनः । न हि केव- लस्याऽऽत्मनो भोक्तृत्वमस्ति बुद्धयाद्युपाधिकृतमेव तस्य भोक्तृत्वम् । तथा च श्रुत्यन्तरं केवलस्याभोक्तृत्वमेव दर्शयति-ध्यायतीव लेलाय- तीवेत्यादि । एवं च सति वक्ष्यमाणरथकल्पनया वैष्णवस्य पदस्याऽऽ- मतया प्रतिपनिरुपपद्यते नान्यथा स्वभावानतिक्रमात् ॥ ४ ॥ १ ट. नोभोक्तं । २ . अ. द. तेष्विन्द्रि । ३ घ. च. भोक्तारं स ।

[अध्या० १ वल्ली ३] काठकोपनिषत् । आ० टी०-आत्मा रथस्वामी यः कल्पितम्तस्य भोक्तृत्वं च न स्वाभाविकमि- त्याह-आत्मेन्द्रियमनोयुक्तमिति । औपाधिक भोक्तृत्वेऽन्वयव्यतिरेको शास्त्रं च प्रमाणमित्याह-न हि केवलस्यति । वैष्णवपदप्राप्तिश्रुत्यनुपपत्त्याऽपि न स्वामाविक भोक्तृत्वं वाच्यमित्याह-एवं च सतीति ॥ ४ ॥ गो० टी०-प्रग्रहवत्सारथिस्वाभ्या(म्याधिष्ठितरथाकर्षकहयतुल्यानीन्द्रियाणीत्याह- इन्द्रियाणीति । क इत्याकाङक्षायामाह-रथेति । रथत्वेन शरीरं कल्पयन्ति निरू. पयन्ति येऽध्यात्मविदस्त इत्यर्थः । पूर्ववत्साम्ये हेतुमाह-शरीरेति । आकर्षण हयधर्म- स्तत्साम्यादित्यर्थः । यथा भद्रसेनस्य राज्ञो रथिनो रथहयगन्तव्यमार्गाः कुरव एवमिन्द्रि. यहयगन्तव्य[मार्गा] विषया इत्याह--तेष्विति । तच्छब्दं व्याचष्टे-इन्द्रियेष्वित्या. दिना । आदिशब्देन स्पर्शशब्दरसगन्धा गृह्यन्ते । रथस्वामित्वेन य आत्मा कल्पितस्तस्य भोक्तृत्वं च न स्वाभाविकमित्याह- आत्मेन्द्रियमनोयुक्तमिति । औपाधिकभोक्तृ- त्वेऽन्वयव्यतिरेको शास्त्रं च प्रमाणमित्याह-न हि केवलस्योत । उपाध्यपरिच्छिन्न- स्येत्यर्थः । शास्त्रमुदाहरति-तथा चेति । ध्यायतीव लेलायतीवेत्यादिश्रुत्यन्तरमुपाध्य- नवच्छिन्नस्यासंसारित्वमेव दर्शयति न संसारित्वमित्यर्थः । वैष्णवपदप्राप्तिश्रुत्यनुपपत्त्याऽपि न स्वाभाविकसंसारित्वमित्याह-एवं च सतीति । औपाधिके भोक्तृत्वे सतीत्यर्थः । वक्ष्यमाणा या रथकल्पना विज्ञानसारथिर्यस्त्वित्यादिना तया वैष्णवस्य पदस्य व्यापक स्वरूपस्याऽऽत्मतया प्रत्यगभिन्नत्वेन प्रतिपत्तिः प्राप्तिरवस्थानमुपपद्यत इत्यर्थः । नान्य- थेति । अन्यथा संसारित्वस्य स्वाभाविकत्वेन प्रतिपत्तिोपपद्यत इत्यन्वयः । तत्र हेतु- माह-स्वभावानतिक्रमादिति । स्वभावस्य पारमार्थिकस्य संसारित्वस्यानतिक्रमाद- तिक्रमाभावात्याग:भावादसंसारिवैष्णवपदप्राप्तिर्नेत्यर्थः ॥ ४ ॥ यस्त्वविज्ञानवान्भवत्ययुक्तेन मनसा सदा । तस्पेन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ॥५॥ तत्रैवं सति यस्तु बुद्ध्याख्यः सारथिरविज्ञानवाननिपुणोऽविवेकी प्रवृत्तो च निवृत्तौ च भवति यथेतरो रथचर्यायामयुक्तेनापगृहीतेनास- माहितेन मनसा प्रग्रहस्थानीयेन सदा युक्तो भवति तस्याकुशलैस्य बुद्धिसारथेरिन्द्रियाण्यश्वस्थानीयान्यवश्यान्य*शक्यान्यनिवारणीयानि दुष्टाश्वा अन्तिाचा इवेतरसारथर्भवन्ति ॥ ५ ॥ * अशक्यनिवारणानीति पाठो युक्तस्तस्यैव टीकाकृताऽऽदृतत्वाच्च । १ झ. म. ट. त्तौ नि । २ घ. "ति तथं । ३ ज. लस्यात् । ४ ग. इ. स. म. द. "दान्ता ।

६४ टीकास्यसमेतशांकरभाष्योपैता- [अध्या० १ वल्ली ३) आ० टी०-॥५॥ गो० टी० - पूर्वोक्तान्वयव्यतिरेकावुपसंहरति-तत्रेति । तत्र संसारित्वस्यास्वा. माविकत्वे । एवमुक्तप्रकारेण । यस्त्विति । यथा येन प्रकारेणेतरः सारथी रथगमने प्रग्रहेणायुक्तस्तथाऽसमाहितेन प्रग्रहस्थानीयेन मनसा युक्तो यस्तु कर्तव्याकर्तव्ययोरनिपुणो भवतीत्यर्थः । अविज्ञानवत्त्वेन न विज्ञानसामान्याभावः किंतु बुद्धिगतातिशयाभावः । सोऽ. प्यविवेकरूप इत्यर्थः । अबु(र्थः । बुद्धिसारथेरविवेकसारथेः । अशक्यनिवारणीयानी- (रणानी)ति । विषयेभ्य इति शेषः । इतरसारथैलौकिकस्यादान्ताश्वाः कुमार्गाद्यथा निवर्तयितुं न शक्यन्ते तथा बुद्धिसारथेरसमाहितानीन्द्रियाण्यशक्यनिवारणानि भवन्ती- त्यन्वयः ॥५॥ यस्तु विज्ञानवान्भवति युक्तेन मनसा सदा । तस्यन्द्रियाणि वश्यानि सदश्वा इव सारथेः ॥ ६ ॥ यस्तु पुनः पूर्वोक्तविपरीतः सारथिर्भवति विज्ञानवान्मगृहीतमनाः समाहितचित्तः सदा तस्याश्वस्थानीयानीन्द्रियाणि प्रवर्तयितुं निवर्त- यितुं वा शक्याने वश्यानि दान्ताः सदश्वा इवेतरसारथः ॥६॥ आ० टी०-॥६॥ गो• टी०---पूर्वोक्तविपरीत इति । अविवेकसारथेभिन्न इत्यर्थः । मनोनियतौ हेतुमाह-समाहितेति । विषयम्मरणवच्चित्तनिग्रहे विषयविकल्पात्मकं मनो निगृहीतं भव- तीति भावः । शक्यानि कर्तव्याकर्तव्ययोरिति शेषः । सत्पदस्यार्थमाह-दान्ता इति । लौकिकसारथिशिक्षिताश्वा इव समाहितचित्ततया प्रगृहीतमनसः शक्यानीन्द्रियाणि कर्त- व्याकर्तव्ययोनिग्रहीतुमित्यर्थः ॥ ६ ॥ तस्य पूर्वोक्तस्याविज्ञानवतो बुद्धिसारथेरिदं फलमाह- यस्त्वविज्ञानवान्भवत्यमनस्कः सदाऽशुचिः । न स तत्पदमामोति ससारं चाधिगच्छति ॥ ७ ॥ यस्त्वविज्ञानवान्भवति । अमनस्कोऽप्रगृहीतमनस्कः स तत एवा- शुचिः सदैव । न स रथी तत्पूर्वोक्तमक्षरं यत्परं पदमामोति तेन सार- १ क. ख. ग. घ. रीतसा । २ क. ख वानिपुणो विवेकवान्युक्तेन मनसा प्रगृ । अ. पानिपुणो विकेकवान्प्र । ३ ख. ज. °नि दा । ४ क. ख. घ. इ. च. ज. ट. ट. तत्र पू । ५. झ.म. ट स्कोऽपरिग । ६ ग. झ, ञ. न सारथी । ७ ग. घ. च. रं ब्रह्म य । ८ ड. स. अ. द. पदं प्राप्नों। - [ अध्या० १ वल्ली ३] काठकोपनिषत् । ६५. - ॥ थिना । न केवल कैवल्यं नाऽऽप्नोति संसारं च जन्ममरणलक्षणमधि. गच्छति ॥ ७॥ आ. टी०--॥७॥ गो० टी०-अविवेकबुद्धेरनियतेन्द्रियम्य फलपरत्वेनोत्तरं वाक्यमवतारयति- तस्येत्यादिना । मनोनिग्रहाभावेऽविवेकित्वादिन्द्रियपारवश्येन पाप्मोपचये दूषितान्त:- करणोऽशुचिरित्याह-तत एवेति । कार्यब्रह्मव्यावृत्त्यर्थमाह-परमिति । ननु चेत. नस्य बन्धो यस्य बन्धस्तस्य मोक्षो बुद्धेश्च बन्धाभावाद्यत्परं पदं तदक्षराख्यं सारथि- र्नाऽऽमोतीति कथमुच्यते तत्राऽऽह-तेनेति । चेतन इति शेषः । कैवल्यं राजपुर- प्रवेशस्थानीयमित्यर्थः । जन्ममरणादिलक्षणं कण्टकपाषाणाद्युपप्लुतदेशतुल्यम् ॥ ७ ॥ यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः । स तु तत्पदमामोति यस्माद्भूयो न जायते ॥ ८ ॥ यस्तु द्वितीयो विज्ञानवान्विज्ञानवत्सारथ्युपेतो रथी विद्वानित्येतत् । युक्तमनाः समनस्कः स तत एव सदा शुचिः स तु तत्पदमामोत । यस्मादाप्तात्पदादप्रच्युतः सन्भूयः पुनर्न जायते संसारे ॥ ८ ॥ आ० टी०--|| ८॥ गो० टी०-तद्विपरीतस्य पदप्राप्तिरित्याह-यस्त्विति। कर्तव्याकर्तव्यवि. वेको विज्ञानं तद्वान्यः सारथिर्बुद्धिरूपस्तेनोपेत इत्यर्थः । विद्वानिति । क्रमेणेति शेषः । तत एव निगृहीतमनस्कत्वादेव । सदा शुचिरिति । स्वच्छान्तःकरण इत्यर्थः । तच्च पदं न सातिशयमित्याह- यस्मादिति ॥ ८ ॥ किं तत्पदमित्याह- विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः । सोऽध्वनः पारमामोति तद्विष्णोः परमं पदम् ॥ ९ ॥ विज्ञानसारथिर्यस्तु यो विवेकबुद्धिसारार्थः पूर्वोक्तो मनःप्रग्रह- बान्मगृहीतमनाः समाहितचित्तः सन्शुचिर्नरो विद्वान्सोऽध्वनः संसा- रगतेः पारं परमेवाधिगन्तव्यमित्येतदामोति मुच्यते सर्वसंसारबन्धनः । १ क. °लं तनाऽऽनो । ख. ग. घ. इ. च. ज. झ. ट. ट. लं ना। २ ठ. 'ति- यस्त्वित्या । ३ क. ख. ज. वान्भवति विज्ञा । ४ ङ. च. 'चिः संस्तु त । ५ घ. स त । ६ ङ. स.न. ट. °दात्मनः पदा । ७ घ. दच्यु । ८ कु. झ. अ. ट. कसा । ९ ख. ग. घ. च र्वोक्त- म ! १० घ. वान्गृही । ११ इ. च. ज. ट. "तेः परं पार । १२ घ. ङ. 'रं पारमे । १३ ङ. झ. म. ट. परमिवा । १४ क. ख. ग. ज. पूर्वैः सं । १५ ख. घ. ङ च. "नैः । विष्णो । १२ १४ ।

टीकास्यसमेतशांकरभाष्योपेता- [ अध्या० १ वल्ली ३ ] तद्विष्णोर्म्यापनशीलस्य ब्रह्मणः परमात्मनो वासुदेवाख्यस्य परमं प्रकृष्टं परं स्थानं सतत्त्वमित्येतद्यदसावाप्नोति विद्वान् ॥ ९ ॥ आ० टी०--|| ९ ॥ गो० टी०-तत्र हेतुत्वेन पदस्वरूपमाकाङ्क्षापूर्वकं दर्शयति--किमित्यादिना । निगृहीतमनास्तत्त्वंपदार्थविवेकवानात्मनि समाहितचित्तः संनिदिध्यासनवांस्तेन गतप्रति- बन्धः शुचिर्नरो विद्वानप्रतिबन्धेन साक्षात्कारवान्यः सोऽध्वनः संसारान्तर्भूतदेवयान- दक्षिणायनाधोगतिरू पाया गतेः पारं तदप्राप्यं तदाप्नोतीत्यर्थः । नन्वात्मस्वरूपस्य नित्या- तत्वादाप्नोतीति कथं तत्राऽऽह-मुच्यत इति । प्रत्यगितरयोरावरकाज्ञाननिवृत्तावाप्नो. तीत्यौपचारिकमिति भावः । आकाशं व्यावर्तयति—ब्रह्मण इति । हिरण्यगर्म व्याव. तयति---वासुदेवाख्यस्येति । वासुदेव इत्याख्या यस्य सः । वासयति भूतानि स्वस्मिन्निति वासुः स चासौं देवश्च दीव्यत इति स्वप्रकाशः स वासुदेव इत्यर्थः । अनेन तत्पदवाच्यमभिहितम् । तस्य लक्ष्यमाह-परमामति । अथवा षष्ठी राहोः शिर इतिवदीपचारिकी । व्यापकं प्रकृष्टं पदामित्यर्थः । सतत्त्वं स्वरूपम् ॥ ९ ॥ अधुना यत्पदं गन्तव्यं तस्येन्द्रियाणि स्थूलान्यारभ्य सूक्ष्मतारतम्य- क्रमण प्रत्यगात्मतयाऽधिगमः कर्तव्य इत्येवमर्थमिदमारभ्यते-- इन्द्रियेश्यः परा ह्या अर्थवश्च परं मनः । मनसंस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥ १० ॥ स्थूलानि तावदिन्द्रियाणि तानि यरथैरात्मप्रकाशनायाऽऽरब्धानि तेभ्य इन्द्रियेभ्यः स्वकार्येभ्यस्ते परा ह्याः सूक्ष्मा महान्तश्च प्रत्यगात्म- भूताश्च । तेभ्योऽप्यर्थेभ्यश्च परं सूक्ष्मतरं महत्मत्यगात्मभूतं च मनः । मनःशब्दवाच्यं मनस आरम्भकं भूतसूक्ष्मम् । संकल्पविकल् गाद्यारम्भक- स्वान्मनसोऽपि परा सूक्ष्मतरा महत्तरा प्रत्यगात्मभूतां च बुद्धिशब्द- वाच्यमध्यवसायाद्यारम्भकं भूतसूक्ष्मम् । बुद्धरात्मा सर्वप्राणिबुद्धीनां प्रत्यगात्मभूतत्वादात्मा महान्सर्वमहत्त्वादव्यक्तावत्प्रथमं जातं हेरण्यगर्भ तत्त्वं बोधावोधात्मकं महानात्मा बुद्धः पर इत्युच्यते ॥ १० ॥ - १ अ. लब । २ क. तत्पदमेवाऽऽमोति वि । ख. ज. "तस्य पदमवाप्नोति वि । घ. तत्प- दमाप्नोति वि । ३ क. सश्च प० । ४ ख. ज. तेभ्यो ह्यर्थे । ङ. तेभ्योऽर्थे । ५ ङ झ.म. ट. "हन्महदादिपदं सर्वत्र व्यापकत्वेन ज्ञेयमत्र प्रत्य । ६ ग घ. कल्पकाद्या । ७ ग. घ. सूक्ष्मा म । ८ क. ज. झ. "ता बु° । ९ घ थमना । १० क. ख. हु. ज. 'तं हरण्यगर्भत । च. 'तं हिर। छ. "तं हिरण्यगर्भत ।

[ अध्या० १ वल्ली ३] काठकोपनिषत् । ६७ आ० टी०-प्रत्यगात्मभूताश्चति । प्रत्यगनपायिस्वरूपभूता इत्यर्थः । नन्व- र्थेभ्यो मनस आरम्भकं भूतसूक्ष्मं परम् । तस्माद्बुद्धयारम्भकं भूतसूक्ष्मं परमिति न युक्तम् । कार्यापेक्षया छुपादानमुपचितावयवं व्यापकमनपायिस्वरूपं च प्रसिद्धम् । यथा घटादेर्मुदादिः । न चेह भूतसूक्ष्माणां परस्परकार्यकारणभावे मानमस्ति । सत्यम् । तथाऽपि विषयन्द्रियव्यवहारस्य मनोधीनतादर्शनान्मनस्तावद्वयापकं कल्प्यते । तच्च परमार्थत एवाऽऽत्मभूतमिति केषांचिन्द्रमस्तन्निरासायोक्तं मनःशब्दवाच्यं भूनसूक्ष्ममिति । अन्नमयं हि सोम्य मन इत्यादिश्रुतेौतिकत्वावगमादन्नभावाभावाभ्यामुपचयापचयदर्शनाद्भौतिकमेव तत् । तस्य च संकल्पादिलक्षणस्याध्यवसायनियम्यत्वाद्बुद्धि (द्धेः) स्ततः पर [त्व] मिति । बुद्धिश्चाऽऽत्मेति केषांचिदभिमानस्तदपनयार्थमाह-बुद्धिशब्दवाच्यमिति । करणत्वादिन्द्रियबुद्धेभौतिकत्वं सिद्धम् । करणत्वं च स्वबुद्धयाऽहमुपलभ्य इत्यनुभवा- सिद्धम् । ततो भूतावयवसंस्थानेष्वेवार्थादिषत्तरोतरं परापरत्वं (परत्वं) कल्प्यं परम- पुरुषार्थदिदर्शयिषया । न त्वर्थादीनां परत्वं प्रतिपिपादयिषितं प्रयोजनाभावाद्वाक्यभेदप्र. सङ्गाचेति । सुरनरतिर्यगादिबुद्धीनां विधारकत्वात्सातत्यगमनादात्मोच्यते । सत्रसंज्ञकं हैरण्यगर्भतत्त्वमित्यर्थः । बोधावोधात्मकमिति । ज्ञानक्रियाशक्त्यात्मकमित्यर्थः । अथ- वाऽधिकारिपुरुषाभिप्रायेण बोधात्मकत्वमव्यक्तस्याऽऽद्यः परिणाम उपाधिरपञ्चीकृतभूता- त्मकस्तेन रूपेणाबोधात्मकत्वं हिरण्यगर्भस्येत्यर्थः ॥ १० ॥ गो० टी०-ननु तत्पदलक्ष्यविष्णोः प्रकृष्टं पदमाप्तव्यमित्युक्तं तत्कि केनचिन्मार्गेण देशविशेषे गन्तव्यं तदपि भिन्नतया प्रामाधिगमनवद्गन्तव्यं तथात्वे मोक्षम्यानित्यत्वापत्ति- स्तस्य प्रकृष्टत्वं च कथमित्याशङ्कयाऽऽह---अधुनेत्यादिना । असावधिकारी यदा- मोतीत्येतद्वयाचष्टे-यत्पदमिति । तस्य पदस्याधिगमः कर्तव्य इत्यन्वयः । कथं प्रकृष्ट- त्वमित्यस्योत्तरमाह-इन्द्रियाणीति । सूक्ष्मेति । विषयमनोबुद्धयादिक्रमत्यर्थः तत्कि केनचिन्मार्गेण देशविशेषे भिन्नतया प्राप्तव्यं तथा चानित्यत्वापत्तिः स्वर्गादिवदित्य- स्योत्तरमाह-प्रत्यगात्मतयेति । न देशपरिच्छिन्नं फलं किंतु माहव्यवहितं तदपगमे प्रत्यग्रूपेणावस्थानमिति तद्रूपेण साक्षात्कारः संपद्यत इत्येवमर्थमुत्तरो ग्रन्थ आरभ्यत इत्यर्थः। तावच्छब्दः क्रमेणोत्तरोत्तरापेक्षया पूर्वपूर्वम्य स्थूलत्वज्ञापनपरः । इन्द्रियेभ्योऽर्थपरत्वे कारणत्वं संभावितहेतुमाह-यैरिति । आत्मप्रकाशनाय विषयज्ञानाय यैरथुरारब्धानि तानीन्द्रियाणि तेऽर्थाः परा इत्यन्वयः। केभ्य इत्याकाङ्क्षायां विषयकार्यभूतप्रकृतेन्द्रियेभ्य इत्याह--तेभ्य इति । त्रिधा परशब्दार्थ हिशब्दद्योतितमाह--सूक्ष्मा इत्यादिना। इन्द्रियानुम्यूतत्वात्ततः सूक्ष्मा महान्तश्च व्यापकाः । अत्र परस्परसमुचितं (नत्वं) परत्वे विवक्षितमिति चशब्दद्वयम् । ननु विषयाणामनात्मत्वात्प्रत्यगात्मभूतांश्चेति कथमिति चेद्यथा प्रत्यगवस्थाऽनपायिन्येवं विष या इन्द्रियेवन गायिन इनि प्रत्यगात्मभूता इत्युच्यन्त टोकादयसमेतशांकरभाष्योपेता- [अध्या० १ बली १] इति भावः । तेभ्योऽपीति । इन्द्रियेभ्यः परत्वेनोक्तेभ्योऽपीत्यर्थः । ननु देहपरिच्छि. नस्य मनसो न व्यापकत्वादिविषयान्प्रति सूक्ष्मत्वादिकमुपपद्यतेऽकारणत्वात्कारणस्य हि कार्यापेक्षयोक्तत्रितय रूपत्वं यथेन्द्रियापेक्षया विषयाणां तथा च मनसः कथं सूक्ष्मत्यादि. कमित्याशङ्कय मनस आरम्भकं भूतसूक्ष्मं मनःशब्दवाच्यमेकदेशेन मनोरूपेण परिणा- मिविषयान्टति भूताकारेण कारणमतो मनसः परत्वं विषयेभ्यो युज्यत इत्याह--मनः शब्दवाच्यमित्यादिना । बुद्धेर्मनसः सकाशात्परत्वे हेतुं वदन्वाक्यमवतारयति-संक- ल्पति । तादृशस्य मनसोऽध्यवसायनियम्यत्वात्ततः परा बुद्धिरित्याह-मनसोऽपीति । अर्थेभ्यः परादपीत्यपेरर्थः । मनःकारणत्वाभावाबुद्धेः कथं परत्वमित्याशङ्कय परशब्दा. र्थकथनपूर्वकं बुद्धिशब्दार्थमाह-सूक्ष्मेत्यादिना । आदिशब्देन बुद्धिवृत्त्यवान्तरविशेषा गृह्यन्ते । ननु मनस आरम्भकभूतसूक्ष्मं प्रति कथं बुद्धयारम्भकभूतसूक्ष्मस्य कारणता मानाभावाद्भेदाभावाच्च विज्ञानशक्तिमदन्तःकरणम्यापञ्चीकृतभूतसूक्ष्मसात्त्विकांशसमष्टितो विशेषेण जन्माङ्गीकारात्तदारम्भकाणामैकात्म्येन भेदाभावादिति चेदत्र न भूतसूक्ष्मशब्दे- नापञ्चीकृतानां ग्रहः किंतु पञ्चीकृतान्नरूपभूतसूक्ष्माणामिह ग्रहणं तेषामन्नमशितमित्यादि- नाऽणिष्ठभागस्य प्रसिद्धेस्तस्य मनःशब्दवाच्यान्तःकरणोपचयहेतुत्वेनोपचितान्तःकरणका. रणत्वादन्तःकरणम्य च निश्चयसंकल्पशक्तिद्वयशालित्वेन निश्चयशक्तिमत्त्वात्साध्यत्वादि. तरस्यैतदारम्भकभूतसूक्ष्मयोः कार्यकारणभावसंभवान्मनःशब्दवाच्याणिष्ठभागस्य कारण. त्वसंभवात्परतत्त्वमुपपद्यते । तर्हि बुद्धिमनसोरेव ग्रहे संभवति भूतसूक्ष्मपर्यन्तधावनं किमर्थ- मिति चेत्तद्ग्रहस्य तदारम्भकभूतसूक्ष्माधीनत्वात्तावत्पर्यन्तधावनमिति भावः । अथवा नन्वर्थेभ्यो मनस. आरम्भकं भूतसूक्ष्मं परं नस्माद्बुद्ध्यारम्भकं भूतसूक्ष्मं परमिति न युक्तं कार्यापेक्षया हि कारणमुपचितावयवं व्यापकमनपायस्वरूपं परं प्रसिद्धं यथा घटादेर्मू- दादिः । न चेह भूतसूक्ष्माणां परस्पर कार्यकारणभावे मानमस्ति । सत्यम् । तथाऽपि विषयेन्द्रियव्यवहारस्य मनोधीनत्वात्ततो मनो व्यापकं कल्प्यतेऽस्मिन्प्रकरणे यद्यदधीनं तत्तस्यापरमितरत्परमिति हि स्थितेः । ननु भाष्ये मनःशब्दवाच्यं भूतसूक्ष्म परमिति कथमुक्तमिति चेत्केषांचिन्मन आत्मेति भ्रमस्तन्निरासाय मनसो भौतिकत्वेनानात्मत्वं वक्तुं भूतसूक्ष्ममित्युक्तमेवं बुद्धिस्थलेऽपि द्रष्टव्यम् । तस्य मनसोऽध्यवसायनियम्यत्वा- बुद्धिः परा । भूतोपचयापचयाभ्यां मनसो भौतिकत्वेनानात्मत्वं बुद्धेः करणत्वेनानात्मत्वं द्रष्टव्यम् । ततोऽर्थादिषु भूतसंस्थानेष्वेव परत्वं कल्प्यते परमपुरुषार्थदिदर्शयिषया न त्वर्थादीनां परत्वं प्रतिपिपादयिषितं प्रयोजनाभावाद्वाक्यभेदप्रसङ्गाच्चेत्यपि द्रष्टव्यम् । आत्मशब्दस्य परशब्दार्थव्यापकत्वांशेन पौनरुक्त्यमाशङ्कयापुनरुक्तमर्थमाह---सर्वेति । सुरनरतिगादिबुद्धीनां विधारकत्वात्सातत्यगमनादात्माच्यत इत्यर्थः । आत्ममहच्छ. ब्दयोः पौनरुक्त्ये सर्वबुद्धिव्यापकताऽऽत्मशब्दार्थः । बुद्धितदितरव्यापकता महच्छ- [ अध्या० १ वल्ली ३] काठकोपनिषत् । ब्दार्थ इत्याह-सर्वेति । तत्र हेतुमाह-अव्यक्तादिति । हैरण्यगर्भ तत्त्वामिति । सूत्रसंक्षिप्तमित्यर्थः । बोधाबोधात्मकं ज्ञानक्रियाशक्त्यात्मकमित्यर्थः ॥ १० ॥ महतः परमव्यक्तमध्यतात्पुरुषः परः । पुरु. षान्न परं किंचित्सा काष्ठा सा परा गतिः ॥ ११ ॥ महतोऽपि परं सूक्ष्मतरं प्रत्यगात्मभूतं सर्वमहत्तरं चाव्यक्तं सर्पस्य जगतो बीजभूतमव्याकृतनामरूपसतत्त्वं सर्वकार्यकारणशक्तिसमाहार- रूपमव्यक्ताव्याकृताकाशादिनामवाच्यं परमात्मन्योतमोतभावेन समा. श्रितं वटकणिकायामिव वटवृक्षशक्तिः । तस्मादव्यक्तात्परः सूक्ष्म तरः सर्वकारणकारणत्वात्प्रत्यगात्मत्वाच महांश्च । अत एव पुरुषः सर्वपूरणात् । ततो न्यस्य परस्य प्रसङ्ग निवारयन्नाह-पुरुषाभ परं किंचिदिति । यस्मानास्ति पुरुषाच्चिन्मात्रघनात्परं किंचिदपि वस्त्व. न्तरं तस्मान्सूक्ष्मत्वमहत्त्वप्रत्यगात्मत्वानां सा काष्ठा निष्ठा पर्यवसानम् । अत्र हीन्द्रियेभ्य आरभ्य मूक्ष्मत्यादिपरिसमाप्तिः । अत एवं च मन्तणां सर्वगतिमतां संसारिणी परा प्रकृष्टा गतिः। यद्गत्वा न निवर्तन्त इति स्मृतेः ॥ ११ ॥ आ० टी०. प्रलये सर्वकार्यकारणशक्तीनामवस्थानमभ्युपगन्तव्यं शब्दार्थसंबन्धशक्ति. लक्षणस्य नित्यत्वनिर्वाहाय । तासां शक्तीनां समाहारो मायातत्त्वं भवति ब्रह्मणोऽसङ्ग- त्वादिति शक्तिसमाहाररूपमव्यक्तमित्यर्थः । ' तद्धेदं तहव्याकृतमासीदेतस्मिन्खल्वक्षरे गााकाश ओतश्च प्रोतश्च । " मायां तु प्रकृति विद्यान्मायिनं तु महेश्वरम् ।" इत्या- दिश्रुतिप्रसिद्धं चाव्यक्तम् । तस्य सांख्याभिमतप्रधानाद्वैलक्षण्यमाह-परमात्मनीति । शक्तित्वेनाद्वितीयत्वाविरोधित्वमाह--बटकणिकायामिवेति । भाविवटवृक्षशक्तिमद्व- टबीनं स्वशक्त्या न सद्धि(द्वितीयं कथ्यते तद्ब्रह्मापि न मायाशक्त्या सद्धि(द्वि). तीयम् । सत्त्वादिरूपेण निरूप्यमाणे व्यक्तिरस्य नास्तीत्यव्यक्तम् । ततोऽन्यक्तशब्दा- दप्यताविरोधित्वं द्रष्टव्यम् । सर्वस्य प्रपञ्चस्य कारणमव्यक्तम् । तस्य परमात्मपरत- न्त्रत्वात्परमात्मन उपचारेण कारणत्वमुच्यते न त्वव्यक्तवद्विकारितयाऽनादित्वादव्यक्तस्य पारतन्ध्यं च पृथक्सत्वे प्रमाणाभावादात्मसत्तयैव सत्तावत्त्वाच्चेत्यर्थः ॥ ११ ॥ गो० टी०- परमव्यक्तमित्यन्वयः । हिरण्यगर्भतत्त्वमेव सूक्ष्ममतिशयेन सूक्ष्मं सूक्ष्म- तरमव्यक्तं प्रत्यग्वदनपायि सर्वस्माद्व्यापकमित्यर्थः । हिरण्यगर्भाद्वैलक्षण्यमाह-सवेति। १ झ. न. ट. 'टश । २ क. ख. ज. "तमः स । ३ घ. °णत्वा । ४ घ.स्य प्र। ५ झ. ढ. 'न्मात्राच्चिद्धना' । ६ झ. द. "माप्तम् । अ° । ७ घ. व ग° । ८ क. ख ज. °णां सा प । .

७० . । टीकाद्वयसमेतशांकरभाष्योपेता- [अध्या० १ बल्ली ३) आरम्भवादं निराकरोति-अव्याकृतति । अव्याकृतयोर्नामरूपयोः सतत्त्वं स्वरूपमि- त्यर्थः । ननु सृष्टेः प्रागव्याकृतव्यतिरेकेणाभावात्कथं सर्वेषां कार्याणां कारणानां च शक्ति- समुदायरूपमव्यक्तमिति चेत्प्रलये सर्वशक्तीनामवस्थानं वक्तव्यं २.ब्दार्थसंबन्धस्य शक्ति- लक्षणस्य निर्वाहाय तासां च शक्तीनां मायातत्त्वे समाहारो भवति ब्रह्मणोऽसङ्गत्वादिति समुदायरूपमव्यक्तमित्यर्थः । तत्र प्रमाणमाह-अव्याकृतेति । "तद्धेदं तीव्याकृतमा. सौदेतस्मिन्खल्वक्षरे गार्याकाश ओतश्च प्रोतश्च' 'मायां तु प्रकृतिं विद्यात् " इत्यादि श्रुतिप्रसिद्धमित्यर्थः । सांख्याभिमतप्रधानाद्वैलक्षण्यमाह-परमात्मनीति । ननु शक्ति. रेकाऽऽत्मा चैक इति सद्वितीयत्वापत्तिरित्याशङ्कयाऽऽत्मव्यतिरेकेण तस्या असत्त्वं दृष्टान्ते- नाऽऽह-वटोति । वटबीज इत्यर्थः । यदर्थ पूर्वपूर्वापेक्षयोत्तरोत्तरस्य परत्वं प्रतिपादित तद्वैष्णवपदमवतारयति-तस्मादित्यादिना । पूर्वोक्तात् । नन्वात्मनः सूक्ष्मतरत्वं वक्तुं शक्यतेऽव्यक्तादपि दुर्विज्ञेयत्वात्कारणत्वरूपपरत्वं कथं कारणत्वे वाऽव्यक्तवाद्विका- रित्वेनासत्त्वापत्तेरिति चेदधिष्ठानपरतन्त्रत्वादारोपम्याधिष्ठानस्योपचारेणाऽऽत्मनः कार गत्वमुच्यत इति न दोषः । पारतन्ध्यं चाव्यक्तस्य पृथक्सत्त्वे प्रमाणभावादात्मसत्तयैव सत्तावत्त्वाच्चेति भावः । प्रत्यगात्मेति । पूर्वत्र सापेक्षप्रत्यक्त्वमत्र तु स्वाभाविकमेव दिदर्शयिषितं वस्तुत्वादिति भावः। अत एव निरतिशयमहत्त्वादेवेत्यर्थोऽवधियत इत्याह- तत इति । प्रसङ्गं सत्त्वस्येति शेषः । पुरुषात्परं किंचिन्नेत्यर्थ हेतूकृत्य सेत्यादिवाक्यं म्याचष्टे-यस्मानास्तीत्यादिना । पर्यवसानमुपपादयति--अत्र हीति । आत्मनी- त्यर्थः : । अत एव सूक्ष्मत्वादिपर्यवसानभूमित्वादेव । प्रकृष्टगतित्वे प्रमाणमाह-यदिति । तद्धाम परमं ममेति वास्यशेषः ॥ १५ ॥ एष सर्वेषु भूतेषु गूढोऽऽत्मा न प्रकाशते । दृश्यते त्वपया बुझ्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ १२॥ ननु गतिश्चेदांगत्याऽपि भवितव्यं कथं यस्माद्भूयो न जायत इति। नैष दोषः । सर्वस्य प्रत्यगात्मत्वादवगतिरेव गतिरित्युपचर्यते । प्रत्यगा. त्मत्वं च दर्शितमिन्द्रियमनोबुद्धिपरत्वेन । यो हि गन्ता सोऽगतमपत्य ग्रूपं गच्छत्यनात्मभूतं न विपर्ययेण । तथा च श्रुति:-- ध्वगा अध्वसु पारयिष्णवः" इत्याद्या । तथा च दर्शयति प्रत्य- गात्मत्वं सर्वस्य । एष पुरुषः सर्वेषु ब्रह्मादिस्तम्बपर्यन्तेषु भूतेषु गूढः संवृतो दर्शनश्रवगादिकर्माऽविद्यामायाछनोऽत एवाऽऽत्मा न प्रकाशत आत्मलेन कस्यचित् । अहो अतिगम्भीरा दुरवगाया १ ठ. सूक्ष्मतमत्वं । २ क. ख. ज. सोऽयम । ३ झ. म. द. पं पररूपं ग° । ४ ङ. झ. म. ट. मोप्सवः"इ।५ क. 'छन्न आ' । अन- अध्या० १ वल्ली ३] काठकोपनिषत् । ७१ विचित्रा माया यं यदयं सर्वो जन्तुः परमार्थतः परमार्थसतत्वोऽप्येवं बोध्यमानोऽहं परमात्मेति न गृह्णात्यनात्मानं देहेन्द्रियादिसंघातमात्मनो दृश्यमानमपि घटादिवदात्मत्वेनाहममुष्य पुत्र इत्यनुच्यमानोऽपि गृह्णाति । नूनं परस्यैव मायया मोमुह्यमानः सर्वो लोकी बंभ्रमीति । तथा च स्मरणम्-- नाहं प्रकाशः सर्वस्य योगमायासमावृतः इत्यादि । ननु विरुद्धमिदमुच्यते मत्वा धीरो न शोचति न प्रकाशत इति च । नैतदेवम् । असंस्कृतबुद्धरविज्ञेयत्वान्न प्रकाशत इत्युक्तम् । दृश्यते तु संस्कृतयाऽप्रयाः अमिवाग्रया तयैकाग्रतयोपेतयेत्येतत्सूक्ष्मया मूक्ष्मवस्तुनिरूपणपरया । कैः । सूक्ष्मदर्शिभिरिन्द्रियेभ्यः परा ह्या इत्यादिप्रकारेणं सूक्ष्मतापारम्पर्यदर्शनेन परं सूक्ष्मं द्रष्टुं शीलं येषां ते मूक्ष्मदर्शिनस्तैः सूक्ष्मदर्शिभिः पण्डितैरित्येतत् ॥ १२ ॥ आ० टी०-पारयिष्णव इति । संसारपारं गन्तार इत्यर्थः । न प्रकाशते चेत्तर्हि नास्त्येवेति न वाच्यं लिङ्गदर्शनादित्याह । दर्शनश्रवणादीनि कर्माण्यस्येति तथोक्तः । जीवस्य प्रकाशत्वे ब्रह्मात्मत्वे सत्यपि योऽयं ब्रह्मस्वरूपानवमासः स केनापि प्रतिबन्धेन कृत इति कल्प्यते । तच्च प्रतिबन्धकं न वस्तु ज्ञानान्मुक्तिश्रुतेर्बाधप्रसङ्गात् । ततोऽविद्यैव प्रतिबन्धिकेत्याह--अविद्यामायाछन्न इति । निदिध्यासनप्रचयेनैकाग्रयमापन्नमन्तः- करणं यदा सहकारि संपाद्यते तदा तत्सहकृतान्महावाक्यादहं ब्रह्मास्मीति या बुद्धिवृत्तिरु- त्पद्यते तस्यामभिव्यक्तो ब्रह्मभाव इति स्वतोऽपरोक्षतया व्यवहियत इति दृश्यत्वमुपचर्यते। यो हि यत्प्रयुक्तव्यवहारः स तदृश्यं इति प्रसिद्धम् ॥ १२ ॥ गो० टी०--गतिशब्दम्य यथाश्रुतमर्थ गृहीत्वा शङ्कते-जन्विति । परिहरति- नैष दोष इति । प्रत्याग्भिन्नस्य हि गत्याऽवाप्तिर्मुख्या तस्य तूपचारणेत्यत्र पूर्वोक्तं हेतुमाह- -प्रत्यात्मत्वं चेति । तर्हि प्रतीचः प्रातत्वेन ज्ञानादिवैयर्थ्यमित्याशङ्कया- विद्ययाऽनात्मरूपमापन्नो यः सोऽधिकारी तं प्रत्यगात्मानमनात्मव्युदासेन प्राप्नोतीत्याह- यो हीति । हिशब्दसूचितां श्रुतिमाह--तथा चेति । अनध्वगा मार्गरहिताः । पार- यिष्णवः संसारपारं गन्तार इत्यर्थः । गरौपचारिकत्वे सर्वस्य प्रत्यगात्मत्वं श्रुतिर्दर्शयती- त्यवतारयति-तथा चेति । संवृतो न प्रकाशत इत्यन्वयः । न प्रकाशते चेत्तहि नास्त्यवेति न वाच्यं लिङ्गदर्शनादित्याह- दर्शनेति । दर्शनश्रवणादीनि कर्माण्यस्येति १ ग. "हाति नूनं । २ क. ख. ज. °कोऽयं बं । ३ ख. ज. रति ना। ४ क. द्धमित्युच्य। ५१. अ. ट. ते त्वग्या संस्कृतयाऽप्र । ६ झ. न ट "ण सर्वविशेषसू ।

७२ टीकादयसमेतशांकरभाष्योपेता- [अध्या. १ बल्ली ३] तथा । ननु जीवस्य प्रकाशे ब्रह्मा-मत्वे कुतोऽनवभासस्तत्राऽऽह-अविद्यामायाछन इति । अविद्येति ज्ञाननिरस्यत्वमुच्यते । मायेति मिथ्यात्वमुच्यते । अत एव यतश्छन्नः कस्यचिदप्यात्माऽऽत्मत्वेन न प्रकाशतेऽहं पर एवेति व्यवहारयोग्यो न भवतीत्यर्थः । एष इत्यादिश्रुतेरक्षरार्थमुक्त्वा प्राणिप्वनुकम्पा दर्शयन्श्रुतेस्तात्पर्यार्थमाह-+अत इति । यतः स्वप्रकाशप्रत्यक्चैतन्यावरिकाऽविद्याऽतोऽतिगम्भीरः नक्रादिसंवलितगङ्गाद इवावि- मर्शनीयस्वरूपा यत एवमतो दुरवगाह्या मायायां स्थित्वा मायाकृता विभूतिरियतीति निर्धार- यितुं न शक्यते केनचिदतः सा । एवंभूतमायायाः सविलासकत्वं प्रदय स्वरूपावरकत्वे हेतुमाह-विचित्रा चेति । इयमहमज्ञ इत्यनुभवसिद्धा नानाशक्तियुक्ता घटनघटनाप- टीयसी । तात्र हेतुमाह-यदिति । यस्मादित्यर्थः । अयं संसरन्दृश्यमानः सर्वप्राणी वस्तुतः परमार्थस्वरूपोऽप्येवं बोध्यमानः पर एवाऽऽत्मा नासि संसारीत्यहं पर एवाऽऽत्मेति न गृह्णाति, घटादिवदात्मनो दृ३५मानमपि देहेन्द्रियादिसंघातमनात्मानं त्वं देवदत्तपुत्रो विष्णुमित्र इत्यनुच्यमानोऽप्यनुपदिश्यमानोऽप्यहममुप्य पुत्र इत्यात्मत्वेन गृह्णातीत्यन्वयः। स्वस्वरूपमखण्डाद्वितीयमुच्यमानमपि न गृह्णातीत्यनुक्तमप्यनात्मस्वरूपमात्मत्वेन गृह्णाती- त्यत्र को हेतुरिति विचार इदं निश्चितमित्याह-नूनमिति । मोमुह्यमानः पुनः पुनरतिशयेन वा मोहमापद्यमानो.बंभ्रमीति पुनः पुनरतिशयेन भ्रमतीत्यर्थः । मायाधीनमोहादात्माप्रकाशे संसरणे च भगवतः स्मरणं प्रमाणयति-तथा चेति । योगमायासमावृत इति वाक्य- शेषः । चोद्योत्तरवाक्यं व्याचष्टे-नन्वित्यादिना । एतद्विरुद्धत्वमेवं त्वदुक्तप्रकारेण न भवति श्रुत्योर्विषयभेदात् । न प्रकाशत इत्यस्यार्थ दर्शयति- असंस्कृतति । निदिध्यासनप्रचयजन्यसंस्काररहिताया बुद्धेरित्यर्थः । मत्वा धीरो न शोचतीत्यस्याऽऽशयं श्रुतिः स्वयमेव दर्शयति-दृश्यते विति । संस्कृतया निदिध्यासनप्रचयजन्यसंस्कार- युक्तया । एकं ब्रह्मात्मैक्यमग्रं मुख्य लक्ष्यं यस्याम्तम्या भाव एकाग्रता तया सहितयेत्ये- तत् । सूक्ष्मं दुर्विज्ञेयं वस्तु ब्रह्मात्मैक्यं तस्य निरूपणे निश्चये तात्पर्यवत्या । कर्तृपदमा- काङ्क्षापूर्वकं व्याचष्टे-कैरिति । सूक्ष्मदर्शिभिः पण्डितैः सूक्ष्मयाऽप्रयया बुद्धयाऽऽ. स्मा दृश्यत इति योजना ॥ १२ ॥ तत्पतिपत्त्युपायमाह-- यच्छेद्वाङ्मनसी प्राज्ञस्त यच्छेज्ज्ञान आत्मनि । ज्ञानमा- त्मनि महति नियच्छेत्त यच्छेच्छान्न आत्मनि ॥१३॥ + भाष्येऽहो इत्यस्य स्थाने, अत इतिपाठानुरोधेनेदमिति भाति । एतदनुरोधेन तथा पार्टी भाष्ये स्यादित्यनुमेयं भाष्यानुरोधेनात्र वा तथा पाठः कल्प्यः ।

[भध्या० १ वल्ली ३] काठकोपनिषत् । ७३ पच्छेभियच्छेदुपसंहरेत्माज्ञो विवेकी । किम् । वाग्वाचम् । वागत्रोप- लक्षणार्या सर्वेषामिन्द्रियाणाम् । के । मनसी मनसीति च्छान्दसं दै. ध्र्षम् । तच्च मनो यच्छेज्ज्ञाने प्रकाशस्त्ररूपे बुद्धावात्मनि । बुद्धिर्हि मन- ऑदिकरणान्यामोतीत्यात्मा प्रत्यक्तेषाम् । ज्ञानं बुद्धिमात्मनि महति प्रथमजे नियच्छेत् । प्रथमजंवत्स्वच्छस्वभावकमात्मनो विज्ञानमापादये- दित्यर्थः । तं च महान्तमात्मानं यच्छेच्छान्ते सर्वविशेषप्रत्यस्तमितरू. पेऽविक्रिये सर्वान्तरे सर्वबुद्धिपत्ययसाक्षिणि मुख्य आत्मनि ॥ १३ ॥ आ० टी०-॥ १३ ॥ गो० टी०-ब्रह्मज्ञानसाधनत्वेनोत्तरं वाक्यं व्याचष्टे--तदिति । तस्याऽऽत्मनः प्राप्तिस्तत्साधनीभूतं ज्ञानं तदुपायमित्यर्थः । ननूपसंहारेऽपि वाच इतरेन्द्रियाणां सव्या- पाराणामनुपसंहारे तन्मात्रं न ज्ञानसाधनमित्याशङ्कयाऽऽह--वागत्रोपलक्षणार्थेति । आकाङ्क्षापूर्वकमाधिकरणं निर्दिशति--- केति। देय॑स्य गतिमाह-मनसीतीति । संकल्प. विकल्पात्मकमनमो बुद्धितन्त्रत्वात्तस्य तम्यां लयम्य कर्तव्यतया प्रकाशसामान्य ज्ञान शब्देन मनआदिकरणव्याप्त्या तेषां प्रत्यगात्मा बुद्धिस्तच्छब्देनोच्यत इत्याह-ज्ञान इत्यादिना । हि यस्मादर्थे । नन्वात्ममहच्छब्दाभ्यां व्यापकप्रत्यगात्मनोऽभिधानात्कथं प्रथमजे हिरण्यगर्भे बुद्धौ व्यष्टिबुद्धेः प्रविलापनमित्याशङ्कय तदुत्तरपर्याये शान्त आत्मेति विशेषणात्प्रत्यस्तमितसर्वविशेषणवत्येतस्य लयप्रतिपादनात्तस्य ग्रहणं न विरुध्यते । न च व्यष्टिबुद्धेः समष्टौ लयश्चेत्तस्याः परमकारणे लयो वाच्यस्तद्विना (?) निर्विशेषे लयः कथमिति वाच्यम्, आत्ममहच्छब्दाभ्यां सकारणससूत्रहैरण्यगर्भबुद्धे- ग्रहान्न दोष इति भावः । समष्टिव्यष्टयोः साम्ये लयनिमित्तमाह--स्वच्छेति । स्वच्छ- स्वभावकं प्रथम विज्ञानं प्रत्यगात्मोपाधिभूतविज्ञानमापादयदित्यर्थः । सर्वेति । सर्वे विशेषाः प्रत्यस्तमिता लीना यस्मिंस्तत्तच्च तद्रूपं च तस्मिन् । तत्र हेतुः । अविक्रिय इति । एवमुत्तरोत्तरं हेतुत्वेन व्याख्येयम् । मुख्य आत्मनि तं यच्छेदित्यन्वयः ॥१३॥ उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत ।क्षुरस्य धारा निशिता दुरत्यया दुग पथस्तत्कवयो वदन्ति॥१४॥ - १. ख. ज. सर्वेन्द्रि । २ झ. म. ट. छ । मनसि । छा"। ३ क. ख. ग. घ. ए. च. ज. ठ. 'नसि । छन्द' । ४ झ. अ. ट. दीर्यम् । ५ ख. ग. घ. ङ. च. °आदीनि क° ! ६ क ख. ज. "त्मा तेषां प्रत्यक् । झा । ७ स. न. ट. जत्वात्स्व । ८ क. ख. ज. °वमा । ९ ङ. ज. ट. "तस्वरू। ११ ७४ टीकाद्वयसमेतशांकरभाष्योपेता- [ अध्या० १ ली ३] एवं पुरुष आत्मनि सर्व प्रविलाप्य नामरूपकर्मत्रयं यन्मिध्यामानवि- जृम्भितं क्रियाकारकफललक्षणं स्वात्मयाथात्म्यज्ञानेन मरीच्युदकरज्जु. सर्पगगनमलानीव मरीचिरज्जुगगनस्वरूपदर्शनेनैव स्वस्था प्रशान्तात्मा कृतकृत्यो भवति यतोऽतस्तदर्शनार्थमनायविधामसुप्ता उत्तिष्ठत हे जन्तव आत्मज्ञानाभिमुखा भवत, जाग्रताज्ञाननिद्राया घोररूपायाः सर्वानर्थ. बीजभूतायाः क्षयं कुरुत । कथम् । प्राप्योपगम्य वरान्मकृष्टानाचार्या- स्तद्विदस्तदुपदिष्टं सर्वान्तरमात्मानमहमस्मीति निबोधतावगच्छत । न छुपक्षितव्यामिति श्रुतिरनुकम्पयाऽऽह मातृवत् । अतिसूक्ष्मबुद्धिविषयवा- ज्ज्ञेयस्य किमिव सूक्ष्मबुद्धिरित्युच्यते । क्षुरस्य धाराऽयं निशिता तीक्ष्णीकृता दुरत्यया दुःखेनात्ययो यस्याः सा दुरत्यया । यथा सा पद्भया दुर्गमनीया तथा दुर्ग दुःसंपाद्यमित्येतत्पथः पन्थानं तत्त्वज्ञानल. क्षणं मार्ग कवयो मेधाविनो वदन्ति । ज्ञेयस्यातिसूक्ष्मत्वात्तद्विषयस्य ज्ञानमार्गस्य दुःसंपाद्यत्वं वदन्तीत्यभिप्रायः ॥ १४ ॥ आ० टी०-क्रमेवं विषयदोषदर्शनेनाभ्यासेन च बाह्यकरणान्तःकरणव्यापार- प्रविलापने सति प्रविलापनं कर्तुः कः पुरुषार्थः सिध्यतीत्यत आह-एवं पुरुष इत्यादिना ॥ १४ ॥ गो० टी०-विषयदोषदर्शनेन बाह्यान्तःकरणव्यापारप्रविलापने तत्कर्तृकः कः पुरुषार्थः सेत्स्यतीत्याशङ्कयाऽऽह-एवं पुरुष इत्यादिना । एवं यच्छेदित्यादिक्रमेण प्रत्यगात्मस्वरूपसाक्षात्कारेण समस्तं प्रकर्षेण विलाप्य कृतकृत्यो भवतीत्यन्वयः । आत्म. व्यावृत्त्यर्थं सर्व विशिनष्टि-नामेति । शब्दार्थक्रियात्रयमित्यर्थः । तस्य सत्यत्वं व्यावर्तयति-यदिति । मिथ्या च तदज्ञानं च मिथ्याज्ञानं तेन विजृम्भितं निष्पादितं यत्तत्सर्वमित्यन्वयः । ज्ञानफलं न कर्मसाध्यमिति ज्ञापयितुं कर्मफलं संसारान्तर्गतमे- वेति दर्शयति--क्रियेति । सम्यग्ज्ञानेन सर्वविलापने कृतकृत्यतेत्या दृष्टान्तमाह- मरीचीति । मरीच्यादिदर्शनेन तदुदकादि प्रविलाप्य लौकिकः पुमान्यथा स्वस्थ- स्तथा स्वस्थः सर्वबाह्यन्द्रियव्यापाररहितः प्रशान्त आत्माऽन्तःकरणं यस्य सर्वमनो. व्यापाररहितः प्रशान्तात्मा कर्तव्याभावात्कृतकृत्यो भवतीत्यर्थः । उक्तमर्थ हेतूकृत्यो- त्तरं वाक्यमवतारयति--- यतोऽत इति । तदर्शनार्थ कृतकृत्यताहेतुदर्शनार्थम् । अनाद्यविद्यायां प्रसुप्तास्तत्तन्त्राः । आत्मज्ञानाभिमुखा इति । ईश्वराप्तिकर्मतश्चित्त- १ झ. म. ट. नेनेव । १ क. ख. ग. घ. हु. च. ज. ट. शान्तः कृत। ३५. "नप्रायाः स। ४ घ. च. 'स्तत्वविद । ५ घ. ज. अ. अ. 'वदिति । अ° । ६ क. ख. ज. त्वाद्विज्ञेय । ७ इ. च. दुःखसं। •• । .

[ अध्या० . १ वल्ली ३] काठकोपनिषत् । शुद्धिविविदिषाक्रमेण श्रवणादिपरा इत्यर्थः । घोरो दुःखबहुलः संसारदावो रूपं यस्याः सा । तस्या घोररूपत्वं विवृणोति--सर्वेति । क्षयं कुरुत साक्षात्कारेणेति शेषः । तत्साक्षात्कार आचार्याधीन इत्याकाक्षापूर्वकं दर्शयति--कथमित्यादिना । तेषां परत्वं व्याचष्टे-तद्विद इति । निबोधतेत्यस्यापेक्षितं कर्म पूरयति- तदित्यादिना । अक्षरार्थमुक्त्वा तात्पर्यार्थमाह--न हीति । तदुपेक्षणेऽनर्थप्राप्तिसूचको हिशब्दः । इतिर्वक्ष्यमाणप्रकारार्थः । आदरेण श्रुत्यभिधाने हेतु:--अतिसूक्ष्मेति । आकाङ्क्षा- पूर्वकमुत्तरवाक्यं व्याचष्टे--किमिवेति । तीक्ष्णीकृता पाषाणादाविति शेषः । पदार्थ. मुक्त्वा विवक्षितं वाक्यार्थमाह-यथेति । छान्दसत्वाद्वचनव्यत्यय इत्याह-पन्था- नामिति । ननु वस्तुनः सुज्ञेयत्वे ज्ञानस्यापि तथात्वादुर्गमन्वमसिद्धमित्याशङ्कय कवयो वदन्तीत्यस्य तात्पर्यार्थमाह-ज्ञेयस्येति ।। १४ ॥ तत्कथमतिसूक्ष्मत्वं ज्ञेयस्येत्युच्यते । स्थूला तावदियं मेदिनी शब्द- स्पर्शरूपरसगन्धोपचिता सर्वेन्द्रियविषयभूता तथा शरीरम् । तत्रकैक- गुणापकर्षण गन्धादीनां सूक्ष्मत्वमहत्त्वविशुद्धत्वनित्यत्वादितारतम्यं दृष्टमवादिषु यावदाकाशमिति ते गन्धादयः सर्व एव स्थूलत्वाद्विकाराः शब्दान्ता यत्र न सन्ति किमु तस्य सूक्ष्मत्वादिनिरतिशयत्वं वक्तव्यमि- त्येतदर्शयति श्रुतिः-- अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यतू । अनायनन्तं महतः परं ध्रुवं निचाय्य तन्मू- त्युमुखात्यमुच्यते ॥ १५॥ अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत् । एत. याख्यातं ब्रह्माव्ययम् । यदि शब्दादिमत्तव्येतीदं त्वशब्दादिम- वादग्ययंत्र व्यति न क्षीयते, अत एवं च नित्यं यद्धि व्यति तदनित्यमिदं तु न व्येत्यतो नित्यम् । इतश्च नित्यमनायविमान आदिः कारणमस्य तदिदमनादि । यद्धयादिमत्त कार्यत्वादनित्यं कारणे प्रलीयते यथा पृथिव्यादि । इदं तु सर्वकारणवादकार्यमकार्यत्वाग्नित्यं न तस्य कारणमस्ति यस्मिन्पलीयते । तथाऽनन्तमविद्यमानोऽन्तः कार्य- मस्य तदनन्तम् । यथा कदल्यादेः फलादिकार्योत्पादनेनाप्यनित्यत्वं य १ घ. 'थमिति सू । २ ग. घ. च. व नि । ३ श. म. ट. 'नमादि का । ४ ग. च. रणं यस्य । ५ क. ख. ङ. ज. ठ. यच्चाऽऽदि" ! ग. घ. यद्यच्चादि । ६ क ख. 'नन्तं नित्यम ।

७६ टीकादयसमेतशांकरभाष्योपेता- [अध्या० १ बल्ली दृष्टं न च तथाऽप्यन्तवत्त्वं ब्रह्मणोऽतोऽपि नित्यम् । महतो महत्तरवा. बुद्धयाख्यात्परं विलक्षणं नित्यविज्ञप्तिस्वरूपत्वात्सर्वसाक्षि हि सर्वभू- तात्मत्वाद्ब्रह्म । उक्तं ह्येष सर्वेषु भूतेष्वित्यादि । ध्रुवं च कूटरचं नित्यं न पृथिव्यादिवदापेक्षिकं नित्यत्वम् । तदेवंभूतं ब्रह्मात्मानं निचोरया. वगम्य तमात्मानं मृत्युमुखान्मृत्युगोचरादविद्याकामकर्मलक्षणात्प्रमुच्यते वियुज्यते ॥१५॥ आ० टी०-यावद्यावद्गुणापचयस्तावत्तावत्तारतम्येन सौक्ष्म्यं दृष्टं पृथिव्यादिषु परमात्मनि तु गुणानामत्यन्ताभावान्निरतिशयं सौक्ष्म्यं दृष्टं सिध्यतीत्याह-स्थूला तावदि. त्यादिना ॥ १५ ॥ गो० टी०---तदेवासिद्धमित्याशङ्कते-कथमिति । स्थूलसूक्ष्मतारतम्यविश्रान्ति. स्थानत्वादतिसूक्ष्म ज्ञेयं ब्रह्मेत्याह-उच्यत इति । यावद्यावद्गुणापचयस्तावत्तावत्तार. तम्येन सौक्ष्म्यं पृथिव्यादिषु दृष्टं परमात्मनि गुणानामत्यन्तमभावानिरतिशयं सौक्ष्म्यं सिध्यतीति पृथिव्यादिषु तारतम्येन सौक्ष्म्यमुपपादयति-स्थूलेत्यादिना । शब्दादि- रूपेण वृद्धौ हेतुमाह---सर्वेति । पृथिव्युक्तं न्यायं पार्थिवे शरीरेऽतिदिशति--- तथेति । तत्र पृथिवीतच्छरीरयोरपकर्षे ऽ(र्षोऽ! )पगमेऽ(मोऽ!)बादिषु सूक्ष्मत्वादितार- तम्यं दृष्टमित्यन्वयः । तारतम्यदृष्टाववधिमाह-यावदाकाशमिति । यावच्छब्दोऽ- भिव्याप्तौ। आत्मनो निरतिशयं सूक्ष्मत्वादि कैमुतिकन्यायेनोपपादयति-त इति । ते गन्धादयः शब्दान्ताः * स्थूलत्वादिक रणाः स्थूलत्वसूक्ष्मत्वसूक्ष्मतरत्वसूक्ष्मतमत्वादिका. रणा ज्ञापकाः सर्व एव यत्र न सन्ति प्रतीचि तस्य सूक्ष्मत्वादोनरतिशयत्वं किमु वक्त व्यमित्यन्वयः । उक्तेऽर्थे श्रुति योजयति-- इत्येतदिति । शब्दादिराहित्यमव्ययत्वेऽ- व्ययत्वं नित्यत्वे हेतुरिति पाठक्रममविवक्षित्वाऽऽह---यद्धीति । नित्यत्वे हेत्वन्तर- माह---इतश्चेति । उक्तमर्थमुपपादयति । यद्धीति । नन्वात्मनोऽपि लयोऽस्ति कार- णसंसर्गलक्षण इत्याशङ्कय न तस्य कार्य करणं च विद्यत इति श्रुत्यन्तरान्न कारणे लय इत्याह--न तस्येति । स्वतो लयाभावेऽपि कार्यद्वारा लयमाशङ्कयाऽऽह-- तथेति । कार्यद्वारा नाशे दृष्टान्तमाह-यथेति । फलितं दर्शयति-अतोऽपीति । विलक्षणत्वे हेतुमाह --नित्यति । तच्च नास्तीति वक्तुं न शक्यत इत्याह--सर्वभू- तेति । न ह्यात्मनः प्रतिषेधः संभवतीति भावः । ब्रह्म निरतिशयमहदित्यर्थः । उक्केऽ- ** भाष्ये स्थूलत्वाद्विकारा इत्यत्र स्थूलत्वाद्विकारणा इतिपाठानुरोधेनेदम् । भाष्य एतदनु- रोधी पाठः कल्पनीयः । १ ग. घ. च. "प्ति । २ झ. ब. साक्षी हि । ३ च. द. क्षि स । ४ श. म. ट. 'चाय्य दृष्ट्वाऽव। . .

७७ [ अध्या० १ वल्ली. ३.] काठकोपनिषत् । थें श्रुति प्रमाणयति-उक्तं होति । तच्च न पृथिव्यादिवत्परिणामि नित्यमित्याह- ध्रुवामिति । एवं ब्रह्मास्मनोऽतिसूक्ष्मत्वेन दुर्विज्ञेयत्वात्तज्ज्ञानस्यापि दुःसंपाद्यतामुक्त्वा ब्रह्मात्मज्ञानं सफलमुपसंहरति-तमित्यादिना ॥ १५ ॥ प्रस्तुतविज्ञानस्तुत्यर्थमाह श्रुतिः-- नाचिकेतमुपाख्यानं मृत्युप्रोक्त सनातनम् । उक्त्वा श्रुत्वा च मेधावी ब्रह्मलोके महीयते ॥१६॥ नाचिकेत नचिकेतसा प्राप्तं नाचिकेतं मृत्युना प्रोक्तं मृत्युमोक्तमि- दमाख्यानमुपाख्यानं वल्लीत्रयलक्षणं सनातनं चिरंतनं वैदिकत्वादुक्त्वा ब्राह्मणेभ्यः श्रुत्वाऽऽचार्येभ्यो मेधावी ब्रह्मैव लोको ब्रह्मलोकस्तस्मि- न्महीयत आत्मभूत उपास्यो भवतीत्यर्थः ॥ १६ ॥ आ० टी०-॥ १६ ॥ गो० टी०-ननु विज्ञानस्य सफलम्योक्तत्वादुत्तरग्रन्थः किमित्याह-प्रस्तुतति । प्रकृ. तब्रह्मात्मविज्ञानसाधनस्तुत्यर्थमाख्यायिकामाह श्रुतिरित्यर्थः । चिरंतनत्वे हेतुमाह-वैदि- कत्वादिति । षष्ठीसमासभ्रमं व्यावर्तयति-ब्रह्मैवेति । वाक्यार्थमाह-आत्मति ॥१६॥ य इमं परमं गुह्यं श्रावयेद्ब्रह्मसंसदि । प्रयत: श्राद्धकाले वा तदानन्त्याय कल्पते तदान न्त्याय कल्पत इति ॥ १७ ॥ इति काठकोपनिषदि प्रथमाध्याये तृतीया वल्ली समाप्ता ॥ ३ ॥ इति काठकोपनिषदि प्रथमोऽध्यायः समाप्तः॥१॥ यः कश्चिदिमं ग्रन्थं परमं प्रकृष्टं गुह्यं गोप्यं श्रावयेद् ग्रन्थतोऽर्थतश्च ब्राह्मणानां संसदि ब्रह्मसंसदि प्रयतः शुचिर्भूत्वा श्राद्धकाले वा श्राव- येद्भुञ्जानानां तच्छ्राद्धमस्याऽऽनन्त्यायानन्तफलाय कल्पते संपद्यते । द्विवचनमध्यायपरिसमाप्त्यर्थम् ॥ १७ ॥ इति काठकोपनिषदि प्रथमाध्याये तृतीयवल्लीभाष्यं समाप्तम् ॥ ३ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्य- श्रीमदाचार्यश्रीशंकरभगवतः कृतौ काठकोपनिषद्भाष्ये प्रथमोऽध्यायः समाप्तः ॥ १ ॥ १च. 'दमु । २ क. नम्, व" । ३ क. ख. ज. "स्मिन्ब्रह्मलोके मही° । ४ ग. ध. च. 'नां श्राद्ध। ५ रु. स. अ. "मप्यान । ६ ग. घ. ह. 'ते समयते । ७ क. समर्थते । ८ घ. ऊ. च. स. म. यस।

टीकाद्वयसमेतशांकरभाष्योपेता। [ अध्या०२ वल्ली ।। .. मा०. टी----॥ १७॥ इति काठकोपनिषद्भाष्यटीकायां प्रथमाध्याये तृतीया वल्ली समाता ॥ ३ ॥ इति श्रीमत्परमहंसपारब्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशियानन्दज्ञानविरचिते काठकोपनिषद्भाप्यव्याख्याने प्रथमोऽध्यायः समाप्तः ॥ १ ॥ गो० टी०--प्रयत इत्युभयत्रान्वेति । अनन्तफलाय क्रमेणेति शेषः ॥ १७ ॥ इति प्रथमाध्याये तृतीया वल्ली समाप्ता ॥ ३ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यवर्यश्रीमद्वालगोपालेन्द्रयतीश्वरविरचिते काठकोप- निषद्भाष्यविवरणे प्रथमाध्यायः समाप्तः ॥१॥ अथ द्वितीयोऽध्यायः। एष सर्वेषु भूतेषु गूढोऽऽत्मा न प्रकाशते दृश्यते त्वरयया बुद्धयेत्यु- कम् । कः पुनः प्रतिबन्धोयाया बुद्धेर्येन तदभावादात्मा न दृश्यत इति संदर्शनकारणप्रदर्शनार्था वल्ल्यारभ्यते । विज्ञाते हि श्रेयःप्रतिबन्धका- रणे तदपनयनाय यत्न आरब्धुं शक्यते नान्यथेति-- पराश्चि खानि व्यतृणत्स्वयंभूस्तस्मात्पराङ्प- श्यति नान्तरात्मन् । कश्चिद्धीरः प्रत्यगात्मान- भैक्षदावृत्तचक्षुरमृतत्वमिच्छन् ॥ १ ॥ पराश्चि परागश्चन्ति गच्छन्तीति खानि तदुपलक्षितानि श्रोत्रादीनी. न्द्रियाणि खानीत्युज्यन्ते । तानि पराञ्च्येव शब्दादिविषयप्रकाशनाय मवर्तन्ते । यस्मादेवं स्वाभाविकानि तानि व्यतृणद्धिसितवान्हननं कृत- बानित्यर्थः । कोऽसौ । स्वयंभूः परमेश्वरः स्वयमेव स्वतन्त्रो भवति सर्वदा न परतन्त्र इति । तस्मात्परॉपराग्रूपाननात्मभूताशब्दादीन्पश्य. त्युपलभर्त उपलब्धा नान्तरात्ममान्तरात्मानमित्यर्थः । एवंस्वभावेऽपि सति लोकस्य कश्चिनद्याः प्रतिस्रोतः प्रवर्तनमिव धीरो धीमान्विवेकी * एवंस्वभावका नीति पाठो युक्तः । टाकायां तस्यैव गृहीतत्वात् । १ क. तद्भावा । २. झ. अट. दभिभवा । ३ ख. ग घ. . च ज. ठ. तददर्श । ४ क. ख. ग. घ. इ. च. ज. ठ: 'नि खोप । ५ ङ. झ ट. 'वान् कोऽ । ६ क. ख. भूः, यः प"। म. भूः स्व । ७ क. 'राप्रत्यर्पू । ८ घ. °त इत्युप । ९ झ. अ. ट. 'मनन्त । १० क. रु. 'ति श्रोतः। .

अध्या० २ वल्ली १] काठकोपनिषत् । -७९ प्रत्यगात्मानं प्रत्यक्चासावात्मा चेति प्रत्यगामा । प्रतीच्येवाऽऽत्मशब्दो रूढो लोके नान्यस्मिन् । व्युत्पत्तिपक्षेऽपि तत्रैवाऽऽत्मशब्दो वर्तते " यच्चाऽऽनोति यदादत्ते यच्चात्ति विषयानिह । यच्चास्य संततो भावस्तस्मादात्मेति कीर्यते" इत्यान्मशब्दव्युत्पत्तिस्मरणात् । तं प्रत्यगात्मानं स्व स्वभावमैक्षदपश्य त्पश्यतीत्यर्थः । छन्दसि कालानियमात् । कथं पश्यतीत्युच्यते-आ. त्तचक्षुरावृत्तं व्यावृत्तं चक्षुः श्रोत्रादिकमिन्द्रियजातमशेषविषयायस्य स आवृत्तचक्षुः । स एवं संस्कृतः प्रत्यगात्मानं पश्यति । न हि बाह्य- विषयालोचनपरत्वं प्रत्यगात्मेक्षणं चैकस्य संभवति । किमर्थ पुनरित्थं महता प्रयासेन स्वभावप्रवृत्तिनिरोधं कृत्वा धीरः प्रत्यगात्मानं पश्यती. त्युच्यते-अमृतत्वममरणधर्मत्वं नित्यस्वभावतामिच्छन्नात्मन इत्यर्थः॥१।। आ० टी०--अनादिरविद्या प्रतिबन्धः प्रागुक्तोऽधुनाऽऽगन्तुकप्रतिबन्धदर्शनायोत्तर. वल्लयारम्भ इति संबन्धमाह--एष सर्वेष्वित्यादिना । यदीन्द्रियाण्यन्तर्मुखानि(णि) स्युस्तदा तान्यात्मनिष्ठतयाऽमृतत्वमीयुरत इन्द्रियाणि बहिर्मुखानि(णि सृष्टानीति यत्तत्तेषां हननमेव कृतमित्यर्थः । आप्ल. व्याप्ताविति धात्वर्थानुसारेण व्यापक आत्मशब्दार्थः । यद्यस्मादादत्ते सहरति स्वात्मन्येव सर्वमिति जगदुपादानं लभ्यते विषयानत्तीत्यात्मेति व्युत्पत्त्या स्वचैतन्याभासेनोपलब्धृत्वमात्मशब्दार्यः । येन कारणेनास्याऽऽत्मनः संततो निरन्तरो भावः कल्पितम्याधिष्ठानसत्तामन्तरेण मत्ताभावाद्यथा रज्ज्वामध्यस्ते सर्प रज्ज्वाः सातत्यं तथा कल्पितं सर्व येन स्वस्वरूपवत्त आत्मेत्यर्थः ॥ १ ॥ गो० टी०-अनाद्यविद्याप्रतिबन्धः प्रागुक्तोऽधुनाऽऽगन्तुकप्रतिबन्धप्रकाशनायोत्तर- बल्लघारम्म इति संबन्धमाह --एप इति । इत्युक्तमनेन वाक्येनानायविद्याप्रतिबन्ध स्वरूपमिति शेषः । कः पुनरिति। पुनः कीदृशोऽनाद्यविद्याया अन्यः प्रतिबन्धः, यस्य प्रतिबन्धस्य कादाचित्कस्यामावादात्माऽग्रयया बुद्धया दृश्यते स प्रतिबन्धोऽयाया बुद्धेः कः कीदृशः किंस्वरूपः किंकार्यक इत्यर्थः । इत्येवमाकाङ्क्षायां तदर्शयति-तदर्शनेति । कादाचित्कप्रतिबन्धस्य दर्शनं ज्ञानं तस्य कारणं लिङ्गं निमित्तं तस्य : प्रदर्शनायेत्यर्थः कादाचित्कातिबन्धश्चाध्यास इति भावः । ननु प्रतिबन्धकतन्निमित्तनिरूपणमनर्थकं निवर्त. १२. अ. ट. ते तदुक्तं य । २ घ. कीर्तितः । ३ क. ख ज. न स्वस्व'। ४ ख. "त्त च । ५. ख. ज. वतीति ।

८. टीकाद्वयसमेतशांकरभाष्योपेता- [अध्या० २ वल्ली १) कोपदेशात्तन्निवृत्तेरित्याशङ्कयाऽऽह-विज्ञात इति । हि यस्मादध्यासनिमित्ते सम्य- ज्ञाते निमित्तस्य निवृत्तये यत्न आस्थातुं शक्यत इत्यर्थः । नान्यथेत्यनन्तरं तस्मादध्यास- निमित्तनिरूपणमुचितमिति शेषः । अक्षराणि व्याचष्टे- पराश्चीत्यादिना । खशब्दो. पात्तश्रोत्रमेदशङ्कां वारयति-तदिति । खोपलक्षितानीत्यर्थः । खोपलक्षितानीत्यपि पाठः । तेषां पराक्त्वं विवृणोति--तानीति । पराञ्च्येव पराविषयप्रकाशनसमर्थान्येवेत्यर्थः । फलमाह-- शब्दादीति । एवंस्वभावकानि पराग्विषयाभिमुख[त्व] स्वभावानि तानीन्द्रि- याणि । हननं कृतवानिति कथम् । तेषां हननं नाशो नष्टानां च न विषयोपनयनद्वाराऽन- यहेतुतेति चेद्यदैवेन्द्रियाण्यन्तर्मुखानि(जि) म्युस्तदा तान्यात्मनिष्ठतयाऽमृतत्वसाधनानीत्यत इन्द्रियाणि बहिर्मुखानि(ण) सृष्टानीति यत्ततेषां हननमेव कृतमिति भावः । कर्तृपदमाका- झापूर्वकं व्याचष्टे-कोऽसाविति । हिरण्यगर्भशङ्का प्रकरणेन वारयति-परमेश्वर इति । स्क्यं भवति प्रभवतीति योगवृत्तिमर्थतस्तस्मिन्दर्शयति- स्वयमेवेति । एवकार- व्यावत्यै दर्शयति --नेति । तस्मादिति । यस्मात्खानि पराश्चि व्यतृणत्तस्मादित्यर्थः । उपलब्धोपलभत इन्द्रियैरिति शेषः । विभक्तिलोपश्छान्दस इत्याह-नेत्यादिना । नन्वि- न्द्रियाणां प्रत्यक्प्रावण्याभावादात्मदर्शनमेव न मृग्यमधिकार्यभावादित्याशङ्कयाऽ:ह-- एवमिति । अनात्मभूतशब्दादिविषयोपलब्धृस्वभावत्वेऽपीत्यर्थः । कश्चिदित्यधिकारिदौ- लम्यं द्योतयति । यथा कश्चित्कार्तवीर्यादिनद्या नर्मदादिरूपायाः प्रतिस्रोतःप्रवर्तनं करोति एवमनेकजन्मसंसिद्ध इन्द्रियप्रवृत्तिनदीप्रतिस्रोतःप्रवर्तनं कृत्वा गुरुमुपगतो विवेकी तत्त्वंप- दार्थविवेकवान्प्रत्यगात्मानं स्वं स्वभावं पश्यतीति संबन्धः । प्रत्यगात्मपदं व्याचष्टे-प्रत्य. क्चति । नन्वात्मशब्दवाच्यः प्रत्यग्देहादिरपि भवतीत्याशङ्कयाऽऽह--प्रतीच्येवेति । अन्यस्मिन्देहादावात्मशब्दप्रयोगस्तु तादात्म्याभिमानादिति भावः । यौगिकी वृत्तिस्तत्रैवे. त्याह-व्युत्पत्तीति । तत्रैव प्रत्यगात्मन्येव । आप्ल व्याप्ताविति धात्वर्थानुगमादात्मा व्यापक इत्याह-- यच्चाऽऽमोतीति । यच्छब्दाः सर्वे यस्मादर्थे द्रष्टव्याः । आदत्ते संहरति स्वात्मन्येव सर्वमिति लयाधिष्ठानमुच्यते । कार्यस्य च कारणे लय इत्यात्मनोऽनया व्युत्पत्त्योपादानकारणत्वं लभ्यते । इह लोके । विषयानत्तीत्यनेन योगेनोपलब्धृत्वमात्मनो लभ्यते । अस्य जगतः संततो निरन्तरो भावः सत्ता येनाधिष्ठानसत्तातिरिक्तसत्ताशून्यवा- दारोपितस्य रजतस्येव तस्मादात्मेत्यधिष्ठानत्वं लभ्यते । नन्वपश्यदिति भूतकालनिर्देशान्ना- धुनातनानां दर्शनमित्याशङ्कयाऽऽह--पश्यतीति । कथं भूतलकारो वर्तमानार्थक इति तत्राऽऽह--छन्दसीति । दर्शनप्रकारमाङ्क्षापूर्वकं दर्शयति--कथनित्यादिना । चक्षुर्महणमुपलक्षणमित्याह--श्रोत्रादिकमिति । व्यावृत्तत्वं कस्मादित्याकाक्षायामपे- सित पूरपति-अशेषेति । सोऽधिकारी, एवं संस्कृतो विषयेभ्य इन्द्रियनियमनसंस्कार- •• [ अध्या० २ वल्ली १] काठकोपनिषत् । ८१ संस्कृतान्तःकरण इत्यर्थः । ननु बाह्येषु विषयेषु शोभनाध्यासरूपालोचनपरस्यापि तत्त्व- मसीति वाक्यादात्मेक्षणं सेत्स्यतीत्याशङ्कयाऽऽह-न हीति । ननु विषयालोचनपर- स्वापरोक्षभ्रमनिवर्तकज्ञानानुदयेऽपि तन्नियमनसंस्कृतस्योत्पन्नमपि ज्ञानं व्यर्थमित्याशङ्क- ते-किमर्थ पुनरिति । परिहरति-उच्यत इति । अमरणधर्मत्वं मरणादिसंसारा- भावोपलक्षितस्वरूपत्वमत एव नित्यस्वभावत्वमात्मन इच्छन्नित्यन्वयः ॥ १ ॥ पराचः कामाननुयन्ति बालास्ते मृत्योर्यन्ति बितनस्य पाशम् । अथ धीरा अमृतत्त्वं विदित्वा ध्रुवमधुवेष्विह न प्रार्थयन्ते ॥ २ ॥ यत्तावत्स्वाभाविकं परागेवानात्मदर्शनं तदात्मदर्शनस्य प्रतिबन्धका- रणमविद्या तत्प्रतिकूलत्वाद्या च पराश्वेवाविद्योपदर्शितेषु दृष्टादृष्टेषु भोगेषु तृष्णा ताभ्यामविद्यातृष्णाभ्यां प्रतिबद्धात्मदर्शनाः पराचो वहि- तानेव कामान्काम्यान्विषयाननुयन्ति अनुगच्छन्ति बाला अल्पप्रज्ञास्ते तेन कारणेन मृत्योरविद्याकामकर्मसमुदायस्य यन्ति गच्छन्ति विततस्य विस्तीर्णस्य सर्वतो व्याप्तस्य पाशं पाश्यते बध्यते येन तं पाशं देहेन्द्रि- यादिसंयोगवियोगलक्षणम् । अनवरतजन्ममरणजरारोगाद्यनेकानर्थवातं प्रतिपद्यन्त इत्यर्थः । यत एवमथ तस्माद्धीरा विवेकिनः प्रत्यगात्मस्वरू- पावस्थानलक्षणममृतत्वं ध्रुवं विदित्वा । देवाद्यममृतत्वं ह्यध्रुवमिदं तु प्रत्य- गात्मस्वरूपावस्थानलक्षणं न कर्मणा वर्धते नो कनीयांनिति ध्रुवम् । तदेवंभूतं कूटस्थमविचाल्यममृतत्त्वं विदित्वाऽध्रुवेषु सर्वपदार्थेष्वनित्येषु निर्धार्य ब्राह्मणा इह संसारेऽनर्थप्राये न प्रार्थयन्ते किंचिदपि प्रत्यगा- त्मदर्शनपतिकूलत्वात् । पुत्रवित्तलोकेपणाभ्यो व्युत्तिष्ठन्त्येवेत्यर्थः।।२।। आ० टी०-॥ २॥ गा० टी०-पराचः कामानिति व्याख्यातुं भूमिकामारचयति-यदिति । स्वाभा- विकं शास्त्रानपेक्षम् । परागेवेत्यस्य व्याख्याऽनात्मदर्शनमिति । प्रतिबन्धम्य दुर- १ झ. शक्यते । २ छ. झ. अ. ट. अतो धी। ३ घ. "गेवाऽऽत्म । ४ घ. रु. झ. अ. ट. 'रणं त । ५ ख. . च. ज. ‘पद । ६ घ. "दृष्टभो । ७ च. झ. अ. ट. स्तेन । ८ झ. स. . 'श्यन्ते बध्यन्ते ये । ९ क. ख. ग. घ. हु. च. छ. ज. अ. ट. ट. रतं ज° । १० घ. °मत. स्तस्मा । ११ ख. ङ. ज. झ. अ. "त्मनः स्व । १० घ. ङ. "नम' । १३ क. ख. ज. ° ध्रुवं न १४ क. ख. च. ज. तिश्रुतेः । त। १५ घ. ध्रुवं श्रुतेः । त । १६ क. "धु वा।

टीकाद्वयसमेतशांकरभाष्योपेता- [अध्या० २ वल्ली १] दृष्टादेः कारणमनात्मदर्शनमित्यत्र हेतुमाह-प्रतिकूलत्वादिति । अविधेति शेषः । तृष्णास्वरूपं दर्शयति-या चेति । पराक्ष्वेवेत्यस्य व्याख्या दृष्टेत्यादि । पराक्त्वे हेतु- माह--अविद्येति । भुज्यन्त इति भोगास्तेषु । ताभ्यामनात्मदर्शनभोगेच्छारूपाम्याम् । प्रतिबद्धमात्मनः परात्मत्वेन दर्शनं येषां ते तथा। पराच इत्यस्य व्याख्या बहिरित्यादि। अल्पज्ञानानामनुगमनं नामानात्मदर्शनतृष्णाप्रेरिताः सन्तः कामानां लब्धारो भवन्तीत्ये. तत् । तेन कारणेन विषयानुगमेन कारणेन । विततस्य मृत्योः पाशं यन्तीत्यन्वयः । मृत्यु- शब्दार्थमाह- आवद्येति । विततशब्दार्थमाह-विस्तीर्णस्येत्यादि । अवयवव्युत्प. त्तिपूर्वकं पाशशब्दार्थमाह-पाश्यन्त इति । अर्थान्तरमाह--अनवरतेति :अनवरते. त्यादि तु पूर्वविशेषणं वा । अनर्थस्य बातो यस्मिन्निति विशेषणपक्षे विग्रहो भवति । यन्तीत्यस्यार्थमाह-प्रतीति । अथवा पदार्थमुक्त्वा वाक्यार्थमाह--अनवरतेति । एवमनात्मप्रवणस्य संसार उक्तप्रकारेण यत इत्यर्थः । प्रत्यक्स्वरूपावस्थानरूपं ध्रुवत्व- मुपपादयति-देवादीति । प्रत्यक्स्वरूपममृतत्वं ध्रुवमित्यत्र श्रुतिमुदाहरति-नेति। अवि- चाल्यमकार्यमध्रुवेषु सर्वपदार्थेषु कूटस्थममृतत्वं निर्धात्यन्वयः । ब्राह्मणा ब्रह्मविदः, किंचिदपि न कामयन्त इत्यत्र हेतुमाह-प्रत्यगात्मेति । तात्पर्यार्थमाह-पुत्रेति ॥२॥ यद्विज्ञानान किंचिदन्यत्मार्थयन्ते ब्राह्मणाः कथं तदधिगम इति । उच्यते- येन रूपं रसं गन्धं शब्दान्स्पर्शाश्च मैथुनान् । एतेनैव विजानाति किमत्र परिशिष्यते । एतदै तत् ॥ ३ ॥ येन विज्ञानस्वभावेनाऽऽत्मना रूपं रसं गन्धं शब्दानस्पश्चि मैथु- नन्मैिथुननिमित्तान्सुखप्रत्ययान्विजानाति विस्पष्टं जानाति सर्वो लोकः । ननु नैवं प्रसिद्धिलॊकस्याऽऽत्मना देहादिविलक्षणेनाहं विजानामीति । देहादिसंघातोऽहं विजानामीति तु संवों लोकोऽवगच्छति । ने त्वेवम् । देहादिसंघातस्यापि शब्दादिस्वरूपत्वाविशेषाद्विजेयत्वविशे- पाञ्च न युक्तं विज्ञातृत्वम् । यदि हि देहादिसंघाँतो रूपाद्यात्मकः सनरूपादीन्विजानीयाँद्वाहा अपि रूपादयोऽन्योन्यं स्वं स्वं रूपं च १ ख. ज. म उ । ग. घ. 'नान्मिथु । ३ छ. ज. नैव प्र । ४ ख. ज. सर्वलो । ५ क. प. नन्वेव । ६ क. ज. ट. 'दि दे । ७ ख. ज. घातः स्वरूपतः । स । ८ क... 'यात्तदा वाथा । ९ प. 'न्यं स्वस्वरू।

. [ अध्या०.२ वल्ली १] काठकोपनिषत् । ८३ विजानीयुः । न चैतदस्ति । तस्मादेडादिलक्षणांश्च रूपादीनेतेनैव देहा- दिव्यतिरिक्तेनैव विज्ञानस्वभावेनाऽऽत्मना विजानाति लोकः । यथा येन लोहो दहति सोऽमिरिति तदद । आत्मनोऽविज्ञेयं किमत्रास्मिल्लोके परि- शिष्यते न किंचित्परिशिष्यते सर्वमेव त्वात्मना विज्ञेयम् । यस्याऽऽत्म- नोऽविज्ञेयं न किंचित्परिशिष्यते स आत्मा सर्वज्ञः । एतद्वै तत् । कि तघनचिकेतसा पृष्टं देवादिभिरपि विचिकित्सितं धर्मादिभ्योऽन्यद्विष्णोः परमं पदं यस्मात्परं नास्ति तद्वा एतदधिगतमित्यर्थः ॥ ३ ॥ आ० टी०-कथं तदधिगम इति किं वैदिकत्वाद्धर्मवत्परोक्षत्वेन किंवा घटादिव- सिद्धत्वादपरोक्षत्वेनापीत्याकाङ्क्षायामात्मत्वाद्ब्रह्मणोऽपरोक्षत्वेनैवावगमः सम्यगवगम इत्युच्यते-येनेत्यादिना । मूढानां व्यतिरिक्तेनाऽऽत्मना देहादवेद्यत्वं यद्यपि न प्रसिद्धं तथाऽपि विचारकाणां व्यतिरिक्तेनैव वेद्यत्वं प्रसिद्धं ततो यच्छब्देन प्रसिद्धव. त्परामर्शो न विरुध्यत इति परिहरति-न त्वेवं देहादीत्यादिना । देहिकाः शब्दा- दयो न स्वात्मानमन्यं च विजानीयुः शब्दादित्वादृश्यत्वाच्च बाह्यवत् । विपक्षे बाध- कमाह-यदि हीति ॥ ३ ॥ गो० टी०-किं धर्मवत्परोक्षत्वेनोत घटवत्प्रत्यक्षत्वेन वाऽऽत्मनोऽधिगम इत्याका. क्षापूर्वकमुत्तरं व्याचष्टे--यद्विज्ञानादित्यादिना । देहादिविलक्षणविज्ञानस्वभावत्व- मात्मनोऽप्रसिद्धमित्याक्षिपति-नन्विति । विजानामीति । शब्दादीनी ( नि ) ति शेषः । सार्वलौकिकप्रीतिं दर्शयति-देहादीति । तथा च येनेति प्रसिद्धार्थकयच्छ- ब्दप्रयोगोऽनुपपन्न इति भावः । यद्यप्यात्मनो लोकतोऽविलक्षणत्वप्रसिद्धिस्तथाऽपि विचा. रकाणां व्यतिरिक्तत्वेनैवाऽऽत्मस्वरूपप्रसिद्धेर्यच्छब्दविरोधो नास्तीति परिहरति-नेत्या- दिना । देहादेर्विज्ञातृत्वाभावे हेतुद्वयमाह-शब्दादीत्यादिनां । गुणगुणिनोरभेदा- च्छब्दादिस्वरूपत्वं संघातस्य द्रष्टव्यम् । कार्यकारणसंबन्धिनः शब्दादयः स्वात्मानमन्यं च न जानीयुः शब्दादित्वादृश्यत्वाद्वाह्यशब्दादिवत् । विपक्षे दोषमाह-यदि हीति । एतच्छब्दादेः स्वरूपविज्ञानं नास्तीत्युक्ते फलितमाह-तस्मादिति । लोकः संघातात्मा व्यतिरिक्तस्वभावेन संघातस्य विज्ञातृत्वे दृष्टान्तमाह-यथेति । येनोष्णप्रकाशात्मना तव्यतिरिक्तात्मना संघातो जानातीत्यर्थः । शब्दादिकतिपयविज्ञेयोपादानादसर्वज्ञत्वमाश- कयाऽऽह-आत्मनेति ( स्मन इति) । अविज्ञेयमिति च्छेदः । सर्वस्य विज्ञेयत्वे फलितमाह-यस्येति । तत्त्वविज्ञानमुपसंहरति-एतदिति । तदैक्यविषयमिनि, प्रकृतम. नुद्रवति-यदित्यादिना । यदित्यादिवाक्याभ्यां त्वंपदलक्ष्यनिर्देशोऽन्यदिति तत्पदल. १ श. म. द. र्वज्ञ एव । ए° । २ क. इ. च. झ. अ. ट. तद्वैत । ..

. ८४ टीकादयसमेतशांकरभाष्योपेता- [अध्या० १ वाली क्ष्यनिर्देशः । नास्तीत्यन्तेन वाक्यार्थनिर्देशः । वैशब्दः सर्वोपनिषदे( दे )करूप्य- प्रदर्शनार्थः ॥ ३ ॥ अतिसूक्ष्मत्वादुर्विज्ञेयमिति मत्वैतमेवार्थ पुनः पुनराह- स्वमान्तं जागरितान्तं चोभी येनानुपश्यति । महान्तं विशुमात्मानं मत्वा धीरो न शोचति ॥ ४ ॥ स्वप्नान्तं स्वप्नमध्यं स्वप्नविज्ञेयामित्यर्थः। तथा जागरितान्तं जागरि तमध्यं जागरितविज्ञेयं च । उभौ स्वप्नजागरितान्तौ येनाऽऽत्मनाऽनुप- श्यति लोक इति सर्व पूर्ववत् । तं महान्तं विभुमात्मानं मत्वाऽवग- म्याऽऽत्मभावेन साक्षादहमस्मि परमात्मेति धीरो न शोचति ॥ ४ ॥ आ० टी०-॥४॥ गो० टी–विज्ञेयपरिसमाप्तरुत्तरग्रन्थवैयर्थ्यशङ्कायामाह--अतिसूक्ष्मत्वादिति । आह प्रकारान्तरेणेति शेषः । त्रिपुटीसंग्रहार्थमाह-- स्वप्नविज्ञेयमिति । एवमुत्तरत्र । पूर्ववदिति । यच्छब्दाक्षेपसमाधानादि सर्व पूर्ववदित्युच्यते । महान्तं व्यापकम्, विभुं विविधं भवत्यम्मादिति विभुं सर्वकल्पनाधिष्ठानमित्यर्थः । इति साक्षान्मत्वेति संबन्धः । साक्षात्कार एव धैर्य तद्वानित्यर्थः ॥ ४ ॥ किंच-- य इमं मध्वदं वेद आत्मानं जीवमन्तिकात् । ईशानं भूतभव्यस्य न ततो विजुगुप्सते । एतद्वै तत् ॥५॥ यः कचिदिम मध्वदं कर्मफलभुजं जीवं प्राणादिकलापस्य धारयि- तारमात्मानं वेद विजानात्यन्तिकादन्तिके समीप ईशानमीशितारं भूत- भव्यस्य कालत्रयस्य, ततस्तद्विज्ञानादूर्ध्वमात्मानं न विजुगुप्सते न गोपायितुमिच्छत्यभयप्राप्तत्वात् । यावद्धि भयमध्यस्थोऽनित्यमात्मानं मन्यते तावद्गोपायितुमिच्छत्यात्मानम् * । यदा तु नित्यमद्वैतमात्मानं विजानाति तदा किं कः कुतो वा गोपायितुमिच्छेदेतदै तदिति पूर्ववत् ॥ ५॥ आ० टी० ॥ ५॥ गो० टी०- कर्मफलभोक्तृत्वप्राणादिकलापधारयितृत्वोपलक्षितमात्मानं त्वंपदलक्ष्य कालत्रयपरिच्छेद्यवस्त्वीशितृत्वोपलक्षिततत्पदलक्ष्यं यः कश्चिदधिकारी वेद साक्षात्क- * अत्र टीकानुरोधेन षष्ठयन्तपाठोऽपेक्ष्यते । १ घ. 'च्छत्यात्मानं यदा ।

[ अध्या० २ वल्ली १] काठकोपनिषत् । रोति स तस्मादनन्तरमात्मानं नरकपातादिभयान्न रक्षितुमिच्छतीति प्रकारान्तरमाह- किंचति । मधु कर्मफलमत्तीति मध्वदस्तमिति व्युत्पत्त्याऽऽह--मध्वदमिति । सामीप्यं चात्राभेदः । अभेदेन वेदेत्यर्थः । अरक्षणे हेतुमाह--अभयमाप्तत्वादिति । उक्त व्यतिरेकेणोपपादयति--यावद्धीति । आत्मन इति कर्मणि षष्ठी । अन्वयमाह-यदेति । नित्यस्यापि द्वितीयसंबन्धाद्भयशङ्का तन्नेत्याह--अद्वैतमिति । पूर्वमिति । यन्नचिके. तसा पृष्टं देवादिभिर्विचिकित्सितं धर्मादिभ्योऽन्यद्विष्णोः परमं पदं यस्मात्परं नास्ति तद्वा एतदधिगतमित्यर्थः ॥ ५ ॥ यः प्रत्यगात्मेश्वरभावेन निर्दिष्टः सं सर्वात्मेत्येतदर्शयति- यः पूर्व तपसो जातमङ्ग्यः पूर्वमजायत । गुहां प्रविश्य तिष्ठन्तं यो भूतेभिर्व्यपश्यत । एतद्वै तत् ॥ ६ ॥ यः कश्चिन्मुमुक्षुः पूर्व प्रथमं तपसो ज्ञानादिलक्षणाद्ब्रह्मण इत्येतज्जा- तमुत्पनं हिरण्यगर्भम् । किमपेक्ष्य पूर्वमित्याह अद्भ्यः पूर्वमप्साहितेभ्यः पञ्चभूतेभ्यो न केवलाभ्योऽद्भय इत्यभिप्रायः । अजायत, उत्पमो यस्तं प्रथमजं देवादिशरीराण्युत्पाद्य सर्वप्राणिगुहां हृदयाकाशं प्रविश्य तिष्ठन्तं शब्दादीनुपलभमानं भूतेभिभूतैः कार्यकारणलक्षणैः सह तिष्ठन्तं यो व्यपश्यत यः पश्यतीत्येतत् । य एवं पश्यति स एतदेव पश्यति यत्तत्प्रकृतं ब्रह्म ॥ ६॥ आ० टी०-यः कश्चित्पूर्व तपसो जातं पश्यति स प्रकृतं ब्रह्मैव पश्यतीति संबन्धः । अद्भयः पूर्वमित्यादिना हिरण्यगर्भस्य विशेषेणान्तःकरणांशेन जीवावच्छेदकत्वाज्जीवतादा- म्यविवक्षया विशेषणं शब्दादीनुपलभमानमिति । यदिति । 'यम्माल्लोके सुवर्णाज्जातं कुण्डलं सुवर्णमेव भवति तद्ब्रह्मणो जातो हिरण्यगर्भोऽपि ब्रह्मात्मक एवेत्यर्थः ॥ ६ ॥ गो० टी०-उत्तरसंदर्भम्य तात्पर्यमाह-य इति । यः पूर्व तपसो जातं हिरण्य. गर्भ पश्यति स यत्तत्प्रकृतं ब्रह्म तदेव पश्यतीति संबन्धः । आकाङ्क्षापूर्वकं हिरण्यगर्भ विशिनाष्टि-किमित्यादिना । प्रथम पश्यतीत्यन्वयः । तस्यैव विशेषणान्तरमाह- देवादीति । शब्दादीनुपलभमानमिति । ननु हिरण्यगर्भस्य प्रतिदेहं भोगाभावात्कयं शब्दादीनुपलभमानर्मिती]ति चेद्धिरण्यगर्भम्यान्तःकरणांशेन जीवोपाधित्वाज्जीवतादात्म्य. १ ख. ज. स एवाऽऽत्मे । २ ख. ज. हृदाका । ३ ग. च. झ. र्यकर । ४ क. ज. 'ती. त्यर्थः । य।

टीकाद्वयसमेतशांकरभाष्योपेता- [अध्या० २ वल्ली १] विवतया विशेषणं शब्दादीनुपलभमानमि[ती]ति भावः । ननु हिरण्यगर्भदर्शनं प्रकृत. मादर्शनं कथमिति चेत्सुवर्णाज्जातं कुण्डलं सुवर्ण यथा तद्ब्रह्मणो जातो हिरण्यगर्मोऽपि ब्रमात्मक एवेति बोध्यम् ॥ ६ ॥ किंच- या पाणेन संभवत्यदितिर्देवतामयी । गुहां प्रविश्य तिष्ठन्ती या भूतभिर्व्यजायत । एतद्वै तत् ॥ ७ ॥ या सर्वदेवतामयी सर्वदेवतात्मिका प्राणेन हिरण्यगर्भरूपेण परस्मा. मणः संभवति शब्दादीनामदनाददितिस्ता पूर्ववद्गुहां प्रविश्य तिष्ठन्ती- मदितिम् । तामेव विशिनष्टि-या भूतेभिर्भूतैः समन्विता व्यजायत, उत्पनेत्येतत् ॥ ७॥ मा० टी०-हिरण्यगर्भस्यैव विशेषणान्तरमाह-किंचेति ॥ ७ ॥ मो० टी०-हिरण्यगर्भस्यैव विशेषणान्तरमाह-किंचेति । अदनाद्भक्षणात् । पूर्ववदन्तःकरणद्वारा जीवतादात्म्यापन्नत्वाद्गुहायां स्थितिरित्यर्थः ॥ ७ ॥ किंचं- अरण्योर्निहितो जातवेदा गर्भ इव सुश्तो गर्भि णीभिः । दिवे दिव ईडयो जागृवद्भिहविष्मद्भिर्मनु- येभिरमिः ॥ एतद्वै तत् ॥ ८ ॥ योऽधियज्ञ उत्तराधरारण्योर्निहितः स्थितो जातवेदा अग्निः पुनः सर्वहविषां भोक्ताऽध्यात्मं च योगिभिर्गर्भ इव गर्भिणीभिरन्तर्वत्नीभि- रगर्हितामपानभोजनादिना यथा गर्भः सुभृतः सुष्टु सम्यग्भृतो लोक इवेत्थमेवत्विग्भिर्योगिभिश्च सुभृत इत्येतत् । किंच दिवे दिवेऽहन्यह नीडयः स्तुत्यो वन्द्यश्च कमिभियोगिभिश्चाध्वरे हृदये च जागृवद्भिर्जा- गरणशीलवद्भिरप्रमत्तैरित्येतद्धविष्पद्भिराज्यादिमद्भिानभावनावद्भिश्च मनुष्येभिर्मनुष्यैरमिरेतद्वै तत्तदेव प्रकृतं ब्रह्म ॥ ८ ॥ आ० टी० ॥८॥ मो० टी०-कटुकषायवर्नितं पानं श्लेष्मवातकरभिन्नस्य भोजममगर्हितम् । दा . न्तिकमाह-इत्यामिति । यत्प्रकृतं ब्रह्म तदेतदग्निवि(वि)गड्पमित्यर्थः ॥ ८ ॥ १ क. ख. ज. दिनाऽयं य । २ क ख. ज. °क इतीत्य' । ग. च. म. क इदिस्य । घ. 'क इवेत्येतविग्भि । ३ ग. घ. श्व संभृ । ४ क. ख. ज. रशीलैर । ५ ग. "देतत्प्रक।

७ [ अध्या० २ वल्ली १ काठकोपनिषत् । किंच- यतश्चोदेति सूर्योऽस्तं यत्र च गच्छति । तं देवाः सर्वे अर्पितास्तदु नात्योते कश्चन । एतद्वै तत्॥९॥ यतश्च यस्मात्माणादुदेत्युत्तिष्ठति सूर्योऽस्तं निम्लोचनं यत्र यस्मिन्नेव च प्राणेऽहन्यहनि गच्छति तं प्राणमात्मानं दवा अग्न्यादयोऽधिदैवं वामा- दयश्चाध्यात्म सर्वे विश्वेऽरा इव रथनामावर्पिताः संप्रवेशिताः स्थिति- काले । सोऽपि ब्रह्मैव । तदेतत्सर्वात्मकं ब्रह्म । तदु नात्येति नातीत्य तदात्मकतां तदन्यत्वं गच्छति कश्चन कश्चिदपि । एतद्वै तत् ॥ ९ ॥ आ० टी०-॥ ९॥ गो० टी०-प्राणाद्धिरण्यगर्भात् । सर्वात्मकं ब्रह्मोपसंहरति - तदेतदिति । उशब्द एवार्थोऽत्येतीत्यनेन संबध्यते । कश्चिदप्यज्ञोऽपि जनः, सुषुप्तौ प्राधान्येन तदात्म. कतां जाग्रत्स्वप्नयोस्तत्संबन्धितां च गच्छतीत्यर्थः । अथवा फलार्थी ज्ञानेन संभृतकर्मानु- छाता तत्संबन्धिहिरण्यगर्भात्मकतां गच्छति निरतिशयपुरुषार्थी केवलात्मज्ञानेन तदात्मकता गच्छतीत्यर्थः । एतद्वै तदिति पूर्ववद्वयाख्येयम् ॥ ९ ॥ यद्ब्रह्मादिस्थावरान्तेषु वर्तमानं तत्तदुपाधित्वादब्रह्मपदवभासमान संसार्यन्यत्परस्माद्ब्रह्मण इति मा भूत्कस्यचिदाशन्तीदमाह- यदेवेह तदमुत्र यदमुत्र तदन्विह । मृत्योः स मृत्यु- मामोति य इह नानेव पश्यति ॥ १० ॥ यदेवेह कार्यकारणोपाधिसमन्वितं संसारधर्मवदवभासमानमाविवे- किनां तदेव स्वात्मस्थममुत्र नित्यविज्ञानघनस्वभावं सर्वसंसारधर्मवर्जितं ब्रह्म । यच्चामुत्रामुष्मिनात्मान स्थितं तदेवेह नामरूपकार्यकारणोपाधि- मनु विभाव्यमानं नान्यत् । तत्रैवं सत्युपाधिस्वभावभेददृष्टिलक्षणया:- विद्यया मोहितः सैन्य इह ब्रह्मण्यनानाभूते परस्मादन्योऽहं मत्तोऽन्य- १ क. ख. ज. देवाः सर्वेऽग्न्या । २ क. ख. ज. न. 'दिषु स्था' । ३ हु. म. म. ट. 'मान मुपा' । ४ क. ख. ज. यन्यः पर' । ५ ग. घ. झ. ट. 'यकर । ६ हु. स. अ. ट. भविष। क ख ज. "तं तदन्विह त । ८ ग. घ. झ. ट र्यकर° । ९ ख. ज. सति य उपा।१० क. क. ज. हितो यः सनिह । ११ ख. ज. स इ । - ८८ टीकास्यसमेतशांकरभाष्योपेता- [ अध्या० २ बल्ली १] त्परं ब्रह्मति नानेव भिन्नमिव पश्यत्युपलभते स मृत्योर्मरणान्मरणं मृत्यु पुनः पुनर्जन्ममरणभावमामोति प्रतिपद्यते । तस्मात्तथा न पश्येत् । विज्ञानकरसं नैरन्तर्येणाऽऽकाशवत्परिपूर्ण ब्रह्मैवाहमस्मीति पश्येदिति वाक्यार्थः ॥ १०॥ आ० टी०-सर्वात्मकं ब्रह्मोक्तं तदसत् , उपाध्यवच्छिन्नचैतन्यस्य जीवस्य संसा- रित्वाद्विरुद्धधर्माक्रान्तयोरक्यायोगादित्याशङ्कय विरुद्धधर्मत्वस्योपाधिनिबन्धनत्वात्स्व- मावैक्ये न किंचिदनुपपन्नमित्याह-यब्रह्मादीत्यादिना । अमुष्मिञ्जगत्कारणत्वोपाधौ । उपाधिस्वभावश्च भेददृष्टिश्च ताभ्यां कारणतया लक्ष्यत इत्युपाधिस्वभावभेददृष्टिलक्षणा । न ह्यन्तःकरणाद्युपाधेर्मेंददृष्टेश्चानिर्वाच्याविद्यामन्तरेण संभवः कार्यकारणभावस्य संवित्संब. न्धस्य च दुर्निरूपत्वात् । नानेवेत्युपमार्थ इवशब्दः । यथा स्वप्ने नानात्वाभावेऽपि नानात्व- मध्यारोप्य सत्यत्वाभिनिवेशेन व्यवहरति तथा जागरितेऽपि नानात्वमध्यारोप्य सत्यत्वा- भिनिवेशेन यो व्यवहरति तम्य निन्दितत्वादेकरमं ब्रह्मैवास्मीति प्रतिपत्तव्यमित्यर्थः॥१०॥ गो० टी०--ननु सर्वात्मकं ब्रह्मोक्तं तदसत्तत्तदुपाध्यवच्छिन्नचैतन्यस्य संसारि- त्वाब्रह्मणश्चासंसारित्वाविरुद्धधर्माकान्तयोरेक्यायोगादित्याशङ्कते--यड्रह्मादिष्विति । तत्तदुपाधिकत्वात्स्थावरान्तोपाधिमत्त्वादब्रह्मवदवभासमानं तच्चैतन्यं संसारी स च परस्माद्र- मणोऽन्ध इति संबन्धः । उत्तरमाह-मा भूदिति । इत्याशङ्का कस्यचिन्मा भूदितीदं विरुद्धधर्मवत्त्वस्योपाधिनिबन्धनत्वान्न स्वविक्ये किंचिदनुपपन्नमित्युत्तरमाहेत्यर्थः । इह जीवोपाधौ । अवभासमानमिति विशेषणद्वयान्वयि । ननु प्रत्यक्चैतन्यं यच्छब्दवाच्यं विवकिनां नैवं भासते तत्राऽऽह- अविवेकिनामिति । तदेवामुत्र कारणोपाधावित्य. न्वयः । ननु विशिष्टनीवचैतन्यस्य कथं तत्पदार्थरूपत्वं तत्राऽऽह-स्वात्मस्थमिति । लक्षितमित्यर्थः । ब्रह्म भवतीति शेषः । व्यतिहारमाह-यच्चेति । अमुप्मिन्कारणोपाधौ । अन्वित्यस्यार्थमाह-अनु विभाव्यमानमिति । अभेददाढाथ भेदनिन्दामवतारयति- तत्रेति । जीवेश्वरोपाध्योर्मध्ये । एवं सति तद्गतचैतन्यैकत्वे सति । उपाधिस्वभावश्च भेददृष्टिश्च ताभ्यां कारणतया लक्ष्यत इत्युपाधि[स्वभाव] मेददृष्टिलक्षणा तया । न ह्यन्त:- करणायुपाधेर्मेंददृष्टेश्वानिर्वाच्याविधामन्तरेण संभवः कार्यकारणभावस्य संवित्संबन्धस्य च दुर्निरूपत्वादिति भावः । भिन्नदर्शनमनुकरोति-परस्मादिति। नानेवेत्युपमार्थ इवशब्दः। यथा स्वप्नेऽनानात्वस्वभावे प्रत्यगात्मनि नानात्वमध्यारोप्य सत्यत्वाभिनिवेशेन व्यवहरति तथा जागरितेऽपि नानात्वमध्यारोप्य सत्यत्वामिनिवेशेन यो व्यवहरति तस्य निन्दित- १ क. स्त्र. ज. °णान्मृत्युं मरणं पु । २ . झ अ.ट. जननम" ।

८९ [ अध्या० २ वल्ली १] काठकोपनिषत् । त्वादेकरसं ब्रह्मास्मीति प्रतिपत्तव्यमित्यर्थः । मरणग्रहणमुपलक्षणमिति व्याचष्टे-पुन:- पुनरिति ॥ १० ॥ मनसैवेदमाप्तव्यं नेह नानाऽस्ति किंचन । मृत्योः स मृत्युं गच्छति य इह नानेव पश्यति ॥ ११ ॥ पागेकत्वविज्ञानादाचार्यागमसंस्कृतेन मनसेदं ब्रह्मैकरसमाप्तव्यमा- स्मैव नान्यदस्तीति । आप्ते च नानात्वप्रत्युपस्थापिकाया अविद्याया निवृत्तत्वादिह ब्रह्मणि नाना नास्ति किंचनाणुमात्रमपि । यस्तु पुनर. विद्यातिमिरदृष्टिं न मुञ्चति नानेव पश्यति स मृत्योर्मृत्युं गच्छत्येव स्वल्पमपि भेदमध्यारोपयन्नित्यर्थः ।। ११ ॥ आ० टी०–एकरसं चेद्ब्रह्म कथं ज्ञातृज्ञेयविभाग इत्याशङ्कयाझं प्रति कल्पित. भेदेनेत्याह--प्रागेकत्वविज्ञानादिति ।। ११ ॥ गो० टी०--एकरसं चेद्ब्रह्म कथं ज्ञातृज्ञेयविभाग इत्याशङ्कयाझं प्रति कल्पित- भेदेनेत्याह- मागेकत्व विज्ञानादिति । इति यस्मान्नान्यदम्ति तस्माद्ब्रह्मवेत्यन्वयः । ज्ञानानन्तरं फलमाह-आप्ते चेति । नानादर्शननिन्दामुपसंहरति-यस्त्विति ॥११॥ पुनरपि तदेव प्रकृतं ब्रह्माऽऽह- अगुष्ठमात्रः पुरुषो मध्य आत्मनि। ईशानो भूत- भव्यस्य न ततो विजुगुप्तते । एतदै तत् ॥ १.२।। अङ्गुष्ठमात्रोऽङ्गुष्ठपरिमाणः । अङ्गुष्ठपरिमाणं हृदयपुण्डरीकं तच्छि. द्रवय॑न्तःकरणोपाधिरडन्टमात्रोऽङ्गुष्ठमात्रवंशपर्वमध्यवर्त्यम्बरवत् । पु. रुषः पूर्णमनेन सर्वमिति । मध्य आत्मनि शरीरे तिष्ठति यस्तमात्मानमी- शानं भूतभव्यस्य विदित्वा न तत इत्यादि पूर्ववत् ।। १२ ।। आ० टी०---अगुष्ठपरिमाणं जीवमनूय ब्रह्मभावविधानाद्विधीयमानविरोधादङ्ग- ठमात्रस्याविवक्षितत्वाद्ब्रह्मपरमेव वाक्यमित्याह--पुनरपि तदेवेति ॥ १२ ॥ गो० टी०--अङ्गुष्ठपरिमाणं जीवमनूद्य ब्रह्मभावविधानाद्विधीयमानविरोधादगुष्ठ- मात्रत्वस्य चाविवक्षितत्वाद्ब्रह्मपरमेव वाक्यमित्याह-पुनरपीति । तस्य पुण्डरीकस्य च्छिद्रं तत्प्राधान्येनाऽऽधारमस्ये(धारोऽम्ये)ति * तच्छिद्रवदन्तःकरणमुपाधिर्यस्य स तथोक्तः * भाष्य एतदनुरोधेन तच्छिद्रवदन्तःकरणोपाधिरिति पाठः स्यात । १क. 'नसैवेदं । २ ग. च. °णि नेह ना । ३ घ. यश्च पु । ४ क. चतीह ब्रह्मणि ना। ५ ख. ज. ति मृत्यो । ६ ख. छ. झ "शानं भू । ७ क. ख. ज. ततो विजुगुप्सत एतद्वै तदि- त्यादि पू। १२ टीकास्यसमेतशांकरभाष्योपेता- [अध्या० २ वल्ली १) उपाधिप्रयुक्तमात्मनोऽङ्गुष्ठमात्रत्वमित्यत्र दृष्टान्तमाह--अङ्गुष्ठमात्रेति । अङ्गुष्ठपार- मितवेणुवाकाशस्योपाधिवशादगुष्ठपरिमाणत्वं यथा तद्वदात्मन इत्यर्थः। प्रत्यगात्मा- नमनूद्य तस्य सामानाधिकरण्यलब्धतत्पदलक्ष्यस्वरूपतामाह- य इति । ततस्तद्विज्ञाना- दूर्ध्वमात्मानं न गोपायितुमिच्छतीत्यभयस्य प्राप्तत्वादिति व्याख्यानं तत इत्यादेः पूर्व- वदित्याह--न तत इति ॥ १२ ॥ किंच- अगुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः । ईशानो भूतभव्यस्य स एवाय स उ श्वः । एतद्वै तत। १३॥ अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकोऽधूमकमिति युक्तं ज्योतिष्पर- त्वात् । यस्त्वेवं लक्षितो योगिभिर्हृदय ईशानो भूतभव्यस्य सं नित्यः कूटस्थोऽयेदानी प्राणिषु वर्तमानः स उ श्वोऽपि वर्तिष्यते नान्यस्तत्स- मोऽन्यश्च जनिष्यत इत्यर्थः । अनेन नायमस्तीति चैक इत्ययं पक्षो न्यायतोऽपाप्तोऽपि स्ववचनेन श्रुत्या प्रयुक्तस्तथा क्षणभङ्गवादश्च।।१३।। आ० टी०-॥ १३ ॥ गो० टी०-नायमस्तीति द्वितीयपक्षस्योत्तरत्वेनोत्तरं वाक्यमवतारयति-किंचेति । युक्तं पठनमिति शेषः । तत्र हेतुमाह-ज्योतिरिति । परत्वाद्विशेषणत्वादित्यर्थः । यः प्रत्यगात्मा भूतभव्यस्येशानः सलैंक्षित इत्यन्वयः । उरप्यर्थे व्याख्यातः । एवका- रार्थमाह-नान्य इति । यदर्थ वाक्यमवतारितं तमाह-अनेनेति । नन्वस्य कृत. हानाकृताभ्यागमादिदोषात्प्राप्तिरेव नेत्यत आह-न्यायत इति । प्रत्युक्तो दाढार्थ- मिति शेषः । प्रत्युक्त इत्यन्वयार्थश्चकारः ॥ १३ ॥ पुनरपि भेददर्शनापवादं ब्रह्मण आह यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति । एवं धर्मान्पृथक्पश्यंस्तानेवानुविधावति ॥ १४ ॥ यथोदकं दुर्गे दुर्गमे देश उच्छिते दृष्टं सिक्तं पर्वतेषु पर्वतवत्सु निम्न प्रदेशेषु विधावति विकीर्ण सद्विनश्यति एवं धर्मानात्मनो भिन्नान्पृथक्प- श्यपृथगेव प्रतिशरीरं पश्यस्तानेव शरीरभेदानुवर्तिनोऽनुविधावति । शरीरभेदमे पृथक्पुनः पुनः प्रतिपद्यत इत्यर्थः ॥ १४ १ क. ग. घ. च. 'मित्युक्तं । २ क. स. ज. स एव नि'। ३ ग. च. वत्सु। ४ . . म. ट नुधा । ५ क ख. °व पु ।

[ अध्या० २ वल्ली १] काठकोपनिषत् । ९१ आ० टी०-॥१४॥ गो० टी०-पौनरुक्त्यं परिहरन्संबन्धमाह-पुनरपीति । उच्छूित उन्नते । दधत इति धर्मा इत्याह-आत्मन इति । अनु[ वि ]धावतीत्यस्य तात्पर्यार्थमाह- शरीरेति ॥ १४॥ यस्य पुनर्विधावतो विध्वस्तोपाधिकृतभेददर्शनस्य विशुद्धविज्ञानघ नैकरसमयमात्मानं पश्यतो विजानतो मुनेमननशीलस्याऽऽत्मस्वरूपं कथं संभवतीत्युच्यते- यथोदकं शुद्ध शुद्धमासिक्तं ताहगेव भवति । एवं मुनेर्विजानत आत्मा भवति गौतम ॥ १५ ॥ इति काठकोपनिषदि द्वितीयाध्याये प्रथमवल्ली समाप्ता॥१॥(४) यथोदकं शुद्धे प्रसन्ने शुद्ध प्रसन्नमासिक्तं प्रक्षितमेकरसमेव नान्यथा ताहगेव भवत्यात्माऽप्येवमेवं भवत्येकन्वं विजानतो मुनेर्मननशीलस्य हे गौतम । तस्मात्कुतार्किकभेददृष्टिं नास्तिककुदृष्टिं चोज्झित्वा * मातृ- पितृसहस्रेभ्योऽपि हितैषिणा वेदेनोपदिष्टमात्मैकत्वदर्शनं शान्तराद- रणीयमित्यर्थः ॥ १५ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्द भगवत्पूज्यपादशिप्यश्रीमदा- चार्यश्रीशंकरभगवतः कृतौ काठकोपनिषद्भाप्ये द्वितीयाध्याये प्रथमवल्लीभाष्यं समाप्तम् ।। १ ॥ (४) आ. टी०- ॥१५॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिप्यानन्दज्ञानविर- चिते काठकोपनिषद्भाष्यव्याख्याने द्वितीयाध्याये प्रथमवल्ली समाप्ता॥१॥(४) गो० टी०- यथोदकं शुद्ध इति वाक्यमपेक्षितं पूरयन्व्याचष्टे-यस्येत्यादिना । उपाधिरविद्यादिः । संपूर्णवल्ल्यास्तात्पर्यार्थमाह-तस्मादिति । यस्माद्बहुशो भेदो निन्दितस्तस्मादित्यर्थः । नास्तिकभेददृष्टिः क्षणिकविज्ञानात्मसंतानात्मभेददृष्टिस्ताम् । * मध्यमपदलोपी समासः । १२. ज. ट. ज्ञानकर । २ घ. ज. °थं भवति य । ३ ज. त्मा संभ । ४ क. ख. ज. "वमेवाऽऽत्मा भौं । ५ ख. ज. मातापि ।

९२ टीकाद्वयसमेतशांकरभाष्योपेता- [अध्या० २ वल्ली २] सर्वापेक्षया पित्रोहितवत्कृत्यं प्रसिद्धम् । श्रुतितोऽन्यस्य सम्यग्वितैषित्वं नेति श्रुत्युक्त- मद्वैतदर्शनमेवाऽऽदरणीयं श्रद्धाभक्तिभ्यामित्यर्थः ॥ १५ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यवर्य श्रीमहालगोपालेन्द्रयतीश्वरविरचिते काठकोप- निषद्भाप्यविवरणे द्वितीयाध्याये प्रथमवल्ली समाप्ता ॥ १ ॥ ( ४ ) पुनरपि प्रकारान्तरेण ब्रह्मतत्त्वनिर्धारणार्थोऽयमारम्भो दुर्विज्ञेयत्वा- हह्मणः- परमेकादशद्वारमजस्यावक्रचेतसः । अनुष्ठाय न शोचति विमुक्तश्च विमुच्यते । एतद्वै तत् ॥ १ ॥ पुरं पुरमिव पुरम् । द्वारपालाधिष्ठात्राघनेकपुरोपकरणसंपत्तिदर्शना- च्छरीरं पुरम् । पुरं च सोपकरणं स्वात्मनाऽसंहतस्वतन्त्रस्वाम्यर्थ दृष्टम् । तथेदं पुरसामान्यादनेकोपकरणसंहतं शरीरं स्वात्मनाऽसंहतराजस्था- नीयस्वाम्यर्थ भवितुमर्हति । तच्चेदं शरीराख्यं पुरमेकादशद्वारमेकादश- द्वाराण्यस्य सप्त शीर्षण्यानि नाभ्या सहाळश्चि त्रीणि शिरस्येकं तैरेका- दशद्वारं पुरं कस्याजस्य जन्मादिविक्रियारहितस्याऽऽत्मनो राजस्थानी- यस्य पुरधर्मविलक्षणाय । अवक्रचेतसोऽवक्रमकुटिलमादित्यप्रकाशवनि- त्यमेवावस्थितमेकरूपं चेतो विज्ञानमस्येत्यवक्रचेतास्तस्यावक्रचेतसो राजस्थानीयस्य ब्रह्मणः । यस्येदं पुरं तं परमेश्वरं पुरस्वामिनमनुष्ठाय ध्यात्वा । ध्यानं हि तस्यानुष्ठानं सम्यग्विज्ञानपूर्वकम् । तं सर्वेषणावि. निर्मुक्तः सन्समं सर्वभूतस्थं ध्यात्वा न शोचति । तद्विज्ञानादभयांतिः शोकावसराभावाकुतो भयेक्षा । इहैवाविद्याकृतकामकर्मवन्धनर्विमुक्तो भवति । विमुक्तश्च सन्विमुच्यते पुनः शरीरं न गृह्णातीत्यर्थः ॥१॥ आ० टी०-पीनरुक्त्यं परिहरन्संबन्धमाह-पुनरपीति । भूयोऽपि पथ्यं वक्तव्य. मिति न्यायेनोपायान्तरेण ब्रह्म ज्ञाप्यते तत्रोपाया एव मिद्यन्ते नोपेयस्य भेदोऽस्तीति । पुरेणासंहतत्वं स्वामिनः पुरोपचयापचयाभ्यामुपचयापचयराहित्यम् । तत्सत्ताप्रतीतिमन्त- रेण सत्ताप्रतीतिमत्त्वं स्वातन्त्र्यम् ॥ १ ॥ १ . झ. अ. ट, °णार्थेऽयमा । २ क. अर्थोऽप्यय । ३ झ. न. ट दुज्ञेय । ४ घ. °नीय स्वा। ५ अ. ट. स्वात्मार्थ । ६ : च. झ. अ. ट. "हावाश्चि शि'। ७ . अ. ट. यस्याजस्य । ८ घ. र्वकं स । ९ क. ख. ग. झ. सर्वेष । १० घ च. प्राप्तिः शो' . ११ क. घ ङ. च. कुत इ। ख. ज. °त्कुतो भयेच्छा । ग. कुतो भयापेक्षा ।

[ अध्या० २ वल्ली २] काटकोपनिषत् । ९३ गो० टी-नन्वनेकप्रकारमात्मतत्त्वं प्रतिपादितं किमर्थमुत्तरवल्लयारम्भ इति चेदात्मतत्त्वस्य दुर्विज्ञेयत्वात्प्रकारान्तरेण तदुक्तिरिति पौनरुक्त्यं परिहरन्संबन्धमाह- पुनरपीत । भूयोऽपि पथ्यं वक्तव्यमिति न्यायेनोपायान्तरेणापि ब्रह्म ज्ञाप्यते तत्रो- पाया एव भियन्ते नोपेयस्य भेदोऽस्तीति भावः । अक्षराणि व्याचष्टे-पुरमिति । पुरं शरीरमिति संबन्धः । पुरसादृश्यमाह -द्वारोत । दृष्टान्ते द्वारपाला भटाः, तेषाम- धिष्ठातारोऽधिपतयः । आदिशब्देन मन्त्रिबन्दिसप्तप्राकारयन्त्राट्टालिकादिर्गृह्यते । दार्टी. न्तिके तु मूर्धनाभिसहितचक्षुःश्रोत्रनासिकामुख धोरन्ध्राणि द्वाराणि द्वारपालाश्चक्षुरादीन्द्रि- याणि । नाभेः समानो मूर्ध्नः प्राणम्तेपामधिष्ठातारो दिग्वातादयः । आदिशब्देन त्वङ्मांस- रुधिरमेदोमज्जास्थिस्नायवः प्राकारसदृशाः । मूलाधारा [द्या] ज्ञाता(न्ता)न्यट्टालिकासदृशानि संधयो यन्त्राणि रोमाणि प्राकारोपरिस्थितविशाखसदृशानीत्यादि द्रष्टव्यम् । शरीरस्य पुरत्वरूपकोक्तेः प्रयोजनमाह-पुरं चेति । स्वात्मना पुरेणासंहतत्त्वं स्वामिनः पुरोपच- यापचयाभ्यामुपचयापचयराहित्यम्, पुरसत्ताप्रतीतिमन्तरेण सत्ताप्रतीतिमत्त्वं स्वातन्त्र्यम् । तथेति । यथा पुरेणासंहतः स्वतन्त्रो यः स्वामी तच्छेषतया पुरं दृष्टं तथा पुरसादृश्याद. नेकोपकरणसहितं प्रत्यक्षं शरीरं शरीरेणासंहतो राजस्थानीयः स्वतन्त्रो यः स्वामी तदर्थ भवितुमर्हतीत्यर्थः । तत्स्वाम्यर्थम् । विशेषणसमुच्चयार्थश्वकारः । विशेषगमेव व्याचष्टे- एकादशेति । पुरस्वामिनमाकाङ्क्षापूर्वकं सविशेषं संनिर्दिशति-कस्योत । जन्मा. दीति । पड्भावरहितस्येत्यर्थः । दृष्टान्ते राज्ञोऽवक्रचेतस्त्वं सर्वप्रकृत्यनुकूलत्वम् । प्रकृते तु यथा सविता स्वाविनाभूतप्रकाशवानित्युच्यते तथा जन्मादिरहिताखण्डरूपेणावस्थितनित्य- विज्ञप्तिरूपत्वमित्याह--अवक्रमित्यादिना । अनुष्ठायेत्यादिवाक्यमपक्षितं पूरयन्व्या. चष्टे--यस्येति । ननु पुरस्वामिनो जीवत्वात्तस्येश्वरत्वनिर्देशः कथमिति चेदनस्येति जीवस्यावक्रचेतस इतीश्वरत्वनिर्देशात्सामानाधिकरण्यादभेदे प्रत्यगभिन्नेश्वरस्य पुरस्वामित्व- निर्देशो घटत इति भावः । आत्मनः क्रियाविषयत्वाभावादनुष्ठानमात्मनि ध्यानमेव योग्य- तावशादित्याह-ध्यानं हीति । सम्यग्विज्ञानपूर्वकामिति । अप्रतिबद्धापरोक्षसा- क्षात्काररूपं विज्ञानं पूर्वमुद्देश्यं यस्य तत्तथा । अन्यथा सम्यग्विज्ञानानन्तरं ध्यानायोगा- साक्षात्कारार्थत्वे ध्यायतेर्लक्षणार्थत्वापत्तेतद्विज्ञानादभयप्राप्तिरित्युत्तरभाष्यपिरोधादित्य- धिकारिणं निर्दिशति-- सर्वेति । भयेक्षा भयस्य दर्शनमित्यर्थः । विमुक्तश्च विमुच्यत इति पदयोः पौनरुक्त्यं परिहरति-इहैवति ॥ १ ॥ स तु कशरीरपुरवत्यैवाऽत्मा किं तर्हि सर्वपुरवती । कथम्- हमः शुचिषद्सुरन्तरिक्षसद्धोता वेविषदतिथि?रो- - १ झ ञ. ट. "कपु।

४ टीकाद्वयसमेतशांकरभाष्योपेता। [ अध्या०९ वल्ली २] णसत् । नृषदरसहतसव्योमसदब्जा गोजा ऋतजा अदिजा ऋतं बृहत् ॥ २॥ हंसो हन्ति गच्छत्तीति। शुचिषच्छुचौ दिव्यादित्यात्मना सीदतीति । वसुर्वासयति सर्वानिति । वाग्वात्मनाऽन्तरिक्षे सीदतीत्यन्तरिक्षसत् । होताऽग्निः, अग्नि होतेति श्रुतेः । वेद्यां पृथिव्यां सीदतीति वेदिषत् , इयं वेदिः परोऽन्तः पृथिव्या इत्यादिमन्त्रवर्णात् । अतिथिः सोमः सन्दुरोणे कलशे सीदतीति दुरोणसत् । ब्राह्मणोऽतिथिरूपेण वा दुरो. गेषु गृहेषु सीदतीति । नृपन्नृषु मनुष्येषु सीदतीति नृपत् । वरसद्वरेषु देवेषु सीदतीति । ऋतसहनं सत्यं यज्ञो वा तस्मिन्सीदतीति । व्योम- सद्वयोम्न्याकाशे सीदतीति व्योमसत् । अब्जा अप्सु शङ्खशुक्तिमक- रादिरूपेण जायत इति । गोजा गवि पृथिव्यां व्रीहियवादिरूपेण जायत इति । ऋतजा यज्ञाङ्गरूपेण जायत इति । अद्विजाः पर्वतेभ्यो नद्यादि- रूपेण जायत इति । सर्वात्माऽपि सन्नृतमवितथस्वभाव एव । बृहन्म- हान्सर्वकारणत्वात् । यदाऽप्यादित्य एव मन्त्रेणोच्यते तदाऽप्यस्याऽऽ. त्मस्वरूपत्वमादित्यस्याङ्गी( त्यस्येत्यङ्गी )कृतत्वाद्राह्मणव्याख्या- नेऽप्यविरोधः । सर्वव्याप्येक एवाऽऽत्मा जगतो नाऽऽत्मभेद इति मन्त्रार्थः ॥२॥ आ० टी०-या यज्ञे प्रसिद्धा वेदिः पृथिव्याः परोऽन्तः परस्वभाव इति वेद्याः पृथिवीस्वभावत्वसंकीर्तनात्पृथिवी वेदिशब्दवाच्या भवतीत्यर्थः । असौ वा आदित्यो हंमः शुचिषदिति ब्राह्मणेनाऽऽदित्यो मन्त्रार्थतया व्याख्यातः कथं तद्विरुद्धमिदं व्याख्यातमि. त्याशङ्कयाऽऽह-यदाऽप्यादित्य एवेति । सूर्य आत्मा जगतस्तस्थुषश्चेति मन्त्रान्म. ण्डलोपलक्षितस्य चिद्धातोरिष्यत एव सर्वात्मत्वमित्यर्थः ॥ २ ॥ गोटी-ननु पुरमिति विशेषणादेकपुरवर्तित्वमुक्तं तथात्वे परिच्छिन्नत्वापत्ति- रित्याशङ्कयाऽऽकाङ्क्षापूर्वकमुत्तरमवतारयति–स स्विति । तुशब्देनाऽऽशङ्का निव- य॑ते । हंसः ( सन्निति योजना ?। सन्नित्युत्तरेप्वपि द्रष्टव्यमिति व्युत्पत्त्या शुचि. पदादित्यः सन्नात्मेत्यर्थः । ननु वेदिशब्देन चतुरमुलखाता भूमिहच्यते कथं पृथिव्य- १ ग. ङ. च. श. ब. ट. र्वान् । वा । २ क ग. सद्रोणे । ३ झ. अ. ट. °षु यज्ञगृ । ४ ज. म. म. ट. °ति, अ° । ५ के.ख. ग. घ. ङ. च. ज. दाऽप्यात्म । ६ क. घ. पवश्वमा । ७ क. ज. श. अ. ट. . त्वाद्ब्रह्मणो व्या । ख. ज. वाद्ब्रह्मणि व्या' । ८ क. ख. ज. र्वथाऽप्ये । ग. बैधाऽपि व्या । इ.च. 'वथा व्या ।

[अध्या० २ वल्ली २] काठकोपनिषत् । ९५ भिधीयते तत्राऽऽह--इयमिति । या यज्ञे प्रसिद्धेयं वेदिः पृथिव्याः परोऽन्तः परः स्वभाव इति वेद्याः पृथिवीस्वभावत्वकीर्तनात्पृथिवी वेदिशब्दवाच्या भवतीत्यर्थः । सोम- रसाधारबृहत्पात्रं द्रोणकलशशब्देनोच्यते । अतिथिशब्दस्य रूट्यर्थमादायार्थान्तरमाह- ब्राह्मण इति । इति दुरोणसदित्यन्वयः । इति वरसदित्यन्वयः । एवमुत्तरत्र । ननु सर्वात्मत्वे सप्रपञ्चत्वेन मिथ्यात्वं स्यादात्मन इत्याशङ्कयाऽऽह--सर्वेति । पारमार्थिक- निरतिशयस्वभावमे( व ए)वेत्यत्र हेतुः- बृहदिति । तत्र हेतु:--सर्वेति । निरधि- छानभ्रमायोगाद्वैतभ्रमाधिष्ठानभूतात्मनो न मिथ्यात्वमिति भावः । नन्वसौ वा आदित्यो हंसः शुचिषदित्यादित्यो मन्त्रार्यतया व्याख्यातः कथं तद्विरुद्धमिदं व्याख्यातमित्याश- याऽऽह-- यदाऽप्यादित्य एवेति । अस्याऽऽदित्यस्येति संबन्धः । सूर्य आत्मा जगतस्तस्थुषश्चेति मन्त्रवर्णा-मण्डलोपललितचिद्धातोरिप्यत एव सर्वात्मत्वमित्यर्थः । सर्वव्यापीति । प्रतीचः केवलम्य मण्डलोपलक्षितचैतन्यम्य वा मन्त्रार्थत्वमित्यर्थः ॥२॥ आत्मनः स्वरूपाधिगमे लिङ्गमुच्यते-- ऊर्य प्राणमुन्नयत्यपानं प्रत्यगस्यति । मध्ये वामनमासीनं विश्वे देवा उपासते ॥ ३ ॥ ऊर्ध्व हृदयात्माणं प्राणवृत्तिं वायुमुन्नयत्यूचं गमयति । तथाऽपानं प्रत्यगधोऽस्यति क्षिपति य इति वाक्यशेषः । तं मध्ये हृदयपुण्डरीका- काश आसीनं बुद्धावभिव्यक्तविज्ञानप्रकाशनं वामनं संभजनीयं सर्वे विश्वे देवाश्चक्षुरादयः प्राणा रूपादिविज्ञानं बलिमुपाहरन्तो विश इव राजानमुपासते तादर्थेनानुपरतव्यापारा भवन्तीत्यर्थः । यदर्था यत्म- युक्ताश्च सर्वे वायुकरणव्यापाराः सोऽन्यः सिद्ध इति वाक्यार्थः ॥३॥ आ० टी०-येयं प्रेते विचिकित्सा मनुष्य इति या पूर्व विचिकित्सा प्रश्नमूल- त्वेनोद्भाविता साऽपि निर्मूलेत्येतदर्शयितुं देहव्यतिरिक्तात्मास्तित्वं साधयति-आत्मनः स्वरूपाधिगम इत्यादिना | सर्वे प्राणकरणव्यापाराश्चेतनास्तित्प्रयुक्ता भवितुमर्हन्ति जडचेष्ट(ष्टा)त्वाद्रथचेष्टावदित्यर्थः ॥ ३ ॥ गो० टी०- येयं प्रेत इति या पूर्व विचिकित्सा प्रश्नमूलत्वेने भाविता साऽपि निर्मूलेत्येतदर्शयितुं देहव्यतिरिक्तास्तित्वमात्मनः साधयति-आत्मनः स्वरूपाधिगम इत्यादिना । बुद्धेः प्राधान्येन हृदयाकाशवृत्तित्व त्तत्राभिव्यक्त आत्माऽऽसीन इत्युच्यत इत्याह-हृदयति । संभजनीयं मुमुक्षुभिरिति शेषः । उपासत इत्यस्य तात्पर्यार्थमाह- तादर्थेनेति । आत्मार्थत्वेनानुपरतव्यापाराः कार्याभिव्यक्तिकाल इति शेषः । यदर्था १ घ. पावग° २ घ. काशं वा । ३ क. "यं विश्वे स । ग. इ. यं सर्वे विश्वदे । । ।

९६ टीकाद्वयसमेतशांकरभाष्योपेता- [ अध्या० २ वल्ली २] इत्यनेनानुमानं सूचितम् । तथा हि सर्वे प्राणकरणव्यापाराश्चेतनास्तित्प्रयुक्ताश्च भवितुः मर्हन्ति जडचेष्टात्वाद्रथादिचेष्टावदिति । अन्यः प्राणेभ्य इति शेषः ॥ ३ ॥ किंच- अस्य विख्रसमानस्य शरीरस्थस्य देहिनः । देहा- द्विमुच्यमानस्य किमत्र परिशिष्यते । एतदै तत् ॥४॥ अस्य शरीरस्थास्याऽऽत्मनो विनसमानस्यावतंसमानस्य भ्रंशमा- नस्य देहिनो देहवतः । विसं मनशब्दार्थमाह-देहाद्विमुच्यमानस्यति । किमत्र परिशिष्यते प्राणादिकलापे न किंचन परिशिष्यतेऽत्र देहे पुर- स्वामिविद्रवण इव पुरवासिनां यस्याऽऽत्मनोऽगमे क्षणमात्रात्कार्यकर- णकलापरूपं सर्वमिदं हतबलं विध्वस्तं भवति विनष्टं भवति सोऽन्यः सिद्धः॥ ४॥ आ० टी०-शरीरं चेतनशेष तद्विगमे भोगानहत्वादानपुरवदित्यर्थः । किं चास्येति ॥४॥ गो० टी०-करणव्यतिरेकं साधयित्वा कार्यव्यतिरेकमाह-किंचति । पौन रुक्त्यं परिहरति-विलंसनेति । विमुच्यमानस्य प्रारब्धक्षय इति शेषः । माणादि- कलाप इति । कार्यकारणसंघात इत्यर्थः । यथा पुरस्वामिनो राज्ञोऽपगमे पुरवासिनो जना अन्यत्रापगच्छन्ति तद्वत्प्राणादय इति दृष्टान्तेनाऽऽत्मनो व्यतिरेकं साधयति-- अत्र देह इत्यादिना । हतबलमिति । चेतना चैतन्यस्य सामान्यवृत्तिः संघातस्य बलं तच्छ्न्यमित्यर्थः । अत एवाधः पततीत्याह--विध्वस्तमिति । अनेनेदमनुमानं सूचितम्--शरीरं चेतनशेषं तद्विगमे भो नर्हत्वाद्राजपुरवदिति ॥ ४ ॥ स्यान्मतं प्राणापानाद्यपगमादेवेदं विश्वस्तं भवति न तु तद्व्यतिरि- तात्मापगमात्माणादिभिरैच हि मया जीवतीति । नैतदस्ति-- न प्राणेन नापानेन मया जीवति कश्चन । इतरेण तु जीवन्ति यस्मिन्नेताबुपाश्रितौ ॥ ५ ॥ * शरीरमित्यादिग्रन्थात्पूर्व लिखितुं योग्यमेतत् । किंचतत्प्रतीकस्थाने विध्वस्तमितीतिप्रती- कग्रहणमुचितं भाति । १ कु. म. म. द. "नस्य स्रं । २ क. ग. च. °स्य दृश्यमा । ङ घ. ट. 'स्य दे। ३ झ.म. ट. 'लापो न । ४ घ. स्वामीव । ५ क. च. मिनि वि । ख. ज. 'मिनो वि । ६ ग. कु. सिनो य । ७ क. झ. ट. र्यकार' । ८ क. ख ग. घ. इ. च. ज. ट. तु व्यति' । ९ क. ख. ज. रेवेह म।

[ अध्या० २ वल्ली २ काठकोपनिषत् । ९७ न माणेन नापानेन चक्षुरादिना वो मयों मनुष्यो देहवान्कश्चन जीवति न कोऽपि विति । न ह्येषां परार्थानां संहत्यकारिवाज्जीवन- हेतुत्वमुपपद्यते। स्वार्थेनासंहतेन परेण केनचिदप्रयुक्तं संहतानामवस्थानं न दृष्टं गृहादीनां लोके तथा प्राणादीनामपि संहतत्वाद्भवितुमर्हति । अत इतरेणैव संहतमाणादिविलक्षणेन तु सर्वे संहताः सन्तो जीवन्ति पाणान्धारयन्ति । यस्मिन्संहतविलक्षण आत्मनि सति परस्मिन्नेतौ प्राणा- पानी चक्षुरादिभिः संहताबुपाश्रिती, यस्यासंहतस्यार्थे पाणापानादि। स्वव्यापारं कुर्वन्वर्तते संहतः सन्स ततोऽन्यः सिद्ध इत्यभिप्रायः ॥५॥ आ० टी०-अन्यथासिद्धिं शङ्कते-स्यान्मतमिति । ननु जीव प्राणधारण इति धातुस्मरणाच्छरीरस्य जीवनं नाम प्राणधारणं प्राणसंयोगश्च प्राणधारणं कुण्डे दधिधारणवत्तत्र च प्राणस्यैव हेतुत्वं संयोगाश्रयत्वात् । कथमुच्यते जीवनहेतुत्वं प्राणा- दीनां न संभवतीति तत्राऽऽह-स्वार्थेनासंहतेनेति । कादाचित्कस्य प्राणशरीरसंयो- गस्य स्वभावतोऽनुपपत्तेः संघातस्य च लोके परप्रयुक्तस्यैव दर्शनाद्भवितव्यमन्येन संघात- प्रयोजकेनेत्यर्थः ॥ ५ ॥ गो० टी०-हेतोरन्यथासिद्धिं शङ्कते–स्यान्मतामिति । तद्वयतिरिक्तेतिशब्दः प्राणादिव्यतिरिक्तार्थः । अन्वयमुक्त्वा व्यतिरेकमाह--प्राणादिभिरेवेति । लोकप्र- सिद्धयर्थको हिशब्दः । शङ्कासमाप्तिद्योतक इतिशब्दः । शङ्कोत्तरत्वेन वाक्यं योज- यति-नेतदिति । एतत्प्रागाद्यपगमाच्छरीरस्य हतबलत्वम् । प्राणेनापानेन वा न जीवति चेच्चक्षुरादिना जीविष्यतीत्याशङ्कय तयोर्ग्रहणमुपलक्षणार्थमित्याह-चक्षुरादिनेति । न जीवतीत्यत्र हेतुमाह-न हीति । संहत्य मिलित्वा कारित्वात्कार्यजनकत्वाचैतन्यसंब- न्धमन्तरेण न नीवनहेतुत्वसंभव इत्यर्थः । जीव प्राणधारण इति धातुस्मरणाच्छरीरस्य जीवनं नाम प्राणधारणं तत्संयोगश्च धारणं कुण्डे दधिधारणवत्तंत्र प्राणस्यैव हेतुत्वं, कथ- मुच्यते जीवनहेतुत्वं प्राणादीनां न संभवती । तत्राऽऽह-स्वार्थेनेति । स्वप्रयोजनोद्देशे- नेत्यर्थः । असंहतेन ग्र(ग)हपदार्थाप्रविष्टेन । संहतानां संघातापत्ति प्राप्तानाम् । दृष्टान्त- मुक्त्वा दार्शन्तिकमाह-सथेति । कादाचित्कस्य प्राणशरीरसंयोगस्य स्वभावतोऽनुपपत्तेः संघातस्य च लोके परप्रयुक्तस्य दर्शनाद्भवितव्यमन्येन संघातस्य प्रयोजकेनेत्यर्थः । अत इति संहतत्वं परामृश्यते । उपाश्रितपदस्यार्थकथनपूर्वकं तात्पर्यार्थमाह-यस्येति । संहतः सन्प्राणापानादिरित्यन्वयः ॥ ५॥ १ ख. ज. वा मनु । २ ग. 'ति । न ह्ये । ३ क. °ष्टं यथा गृ । ४ ग. डा. च. झ. अ.ट. 'स्यार्थ प्रा । ५ क ज दिः सर्वव्या । ६ ख. स्वत्वव्या" । झ. न. ट. स्वस्वव्या । ७ झ. अ. उ. असंहतः। १३ ९८ टीकाट्यसमेतशांकरभाग्योपेता- [अध्या. २ वल्ली ३) - हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम् । यथा च मरणं प्राप्य आत्मा भवति गौतम ॥ ६ ॥ हन्तेदानीं पुनरपि ते तुभ्यमिदं गुह्यं गोप्यं ब्रह्म सनातनं चिरंतनं प्रवक्ष्यामि । यद्विज्ञानात्सर्वसंसारोपरमो भवति, अविज्ञानाच यस्य मरणं प्राप्य यथाऽऽत्मा भवति यथा संसरति तथा शृणु हे गौतम ॥६॥ आ० टी०--येयं प्रेत इति प्रष्टुः परलोकेऽस्तित्वेऽपि संदेह आसीत् । विशेषत- स्तन्निवृत्त्यर्थमुच्यत इत्याह-हन्तेदानीमिति ॥ ६ ॥ गो. टी०-येयं प्रेत इति प्रष्टुः परलोकास्तित्वेऽपि संदेह आसीद्विशेषतस्तनिवृ. त्यर्थमुच्यत इत्याह--हन्तेदानीमिति । जीवः संसरतीत्यर्थे चशब्दार्थ हेतुं व्याचष्टे- यद्विज्ञानादिति । यस्याविज्ञानादिति संबन्धः ॥ ६ ॥ योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम् ॥ ७ ॥ योनि योनिद्वारं शुक्रबीजसमन्विताः सन्तोऽन्ये केचिदविद्यावन्तो मूढाः प्रपद्येन्ते शरीरत्वाय शरीरग्रहणार्थ देहिनो देहवन्तः, योनि प्रविशन्तीत्यर्थः । स्थाणुं वृक्षादिस्थावरभावमन्येऽत्यन्ताधमा मरणं पाप्यानुसंयन्त्यनुगच्छन्ति । यथाकर्म यद्यस्य कर्म तद्यथाकर्म यैर्याशं फर्मेह जन्मनि कृतं तदशेनेत्येतत् । तथा च यथाश्रुतं यादृशं च विज्ञान- मुपार्जितं तदनुरूपमेव शरीरं प्रतिपद्यन्त इत्यर्थः । यथाप्रज्ञं हि संभवा इति श्रुत्यन्तरात् ।। ७॥ आ० टी०-॥ ७॥ गो० टी०- अविद्यावत्त्वादविवेकिन इत्याह-मूढा इति । देहिन इति विशेष- गादसकदेहग्रहणं तत्प्रापककर्मानुष्ठानं च सूच्यते । तात्पर्यार्थमाह- योनिमिति । अत्यन्ताधमा इति महापातकिनो गृह्यन्ते । अनुगच्छन्तीति प्राप्नुवन्तीत्यर्थः । उक्तमर्थ स्पष्टयति-यैरिति । विज्ञानमुपासनं नग्नस्त्रीदर्शनादि च । यथाविज्ञानं शरीरग्रहणे प्रमाणमाह-यथति । प्रज्ञामनतिक्रम्य यथाप्रज्ञम् । संभवन्त्युत्पद्यन्त इति संभवाः प्रजा इति शेषः ॥ ७ ॥ १ ग. घ. च. यं ब्रह्म गोप्यं स । २ क. ख. ज. यथा चाऽऽत्मा । ३ प °ति सं: ४ ग. घ. मुढा अवप। ५ च. धन्तेऽवपद्यन्ते श'। ६ . तत्तथा । ७ घ. कर्म ।

[ अध्या. २ बली २] काठकोपनिषत् । यत्पतिज्ञातं गुखं ब्रमं वक्ष्यामीति तदाह- य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मि- माणः। तदेव शुक्र तद्ब्रह्म तदेवामृतमुच्यते । तस्मि- लोकाः श्रिताः सर्वे तदु नात्येति कश्चन । एतद्वै तत् ॥ ८॥ य एष सुक्षेषु प्राणादिषु जागर्ति न स्वपिति । कथम् । कामं कामं तं तमभिप्रेतं स्च्याघर्थमविद्यया निर्मिमाणो निष्पादयञ्जागर्ति पुरुषो यस्त- देव शुक्रं शुभ्रं शुद्धं तद्ब्रह्म नान्यद्गुह्यं ब्रह्मास्ति । तदेवामृतमविनाश्यु. च्यते सर्वशास्त्रेषु । किंच पृथिव्यादयो लोकास्तस्मिन्नेव सर्वे ब्रह्मण्या- श्रिताः सर्वलोककारणत्वात्तस्य । तदु नात्येति कश्चनेत्यादि पूर्वव- देव ॥८॥ आ० टी०--11॥ गो० टी०-प्रसङ्गादागतं परिसमाप्य प्रकृतप्रतिपादनपरमुत्तरं वाक्यमित्याह- यत्मतिज्ञातमिति । सुप्तेषु प्रलीनेषु प्राणेष्व (प्राणादिष्व)न्तःकरणव्यतिरिक्तेषु । अन्यथा साक्षिणः संनिधिमात्रेण कामाद्याकारपरिणाम्यन्तःकरणप्रेरणानुपपत्तोरति । काम्यत इति कामस्तम् । अविद्यया निद्रान्तःकरणरूपेणाभिव्यक्तया । य इत्यन्वयार्थ पुनरुच्यते । तद् त्यत्रैवकारानुषङ्गं सिद्धवत्कृत्य व्यावर्त्यमाह-नान्यदिति । स्वप्नावस्थायामति- स्फुटं साक्षिणः सकाशादन्यद्भिन्नं गुह्यं गोप्यतमं ब्रह्म परिवृढं नास्तीत्यर्थः । तद्ब्रह्मा- विनाशीति क्वोच्यत इत्याकाङ्क्षायामाह-सर्वेति । सर्ववेदोऽवत्यर्थः । भूरादिलोकानां प्रकृतब्रह्माश्रितत्वे हेतुमाह-सर्वलोकेति । पूर्ववदिति । तदेतत्सर्वात्मकं ब्रह्म, उ एव नात्यति नातिक्रामतीत्यर्थः ॥ ८॥ अनेकतार्किककुंषुद्धिविचालितान्तःकरणानां प्रमाणोपपनमप्यात्मै- कत्वविज्ञानमसकृदुच्यमानमप्यनृजुबुद्धीनां ब्राह्मणानां चेतसि नाऽऽधी- यत इति तत्प्रतिपादन आदरवती पुनः पुनराह श्रुति:- अग्निर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव । एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च ॥९॥ १ क. ख. म प्रवक्ष्यामि त । २ क. "रुषस्त । ३ क. ख. ग. घ. ह. अ. . ट. कबु- द्विचा । ४ घ. 'नमृजु । ५ क. ख. ज. ती श्रुतिः पुनः पुनराह । अ ।

१०० - टीकाद्वयसमेतशांकरभाष्योपेता- [अध्या० २ वल्ली १] अनिर्यथैक एव प्रकाशात्मा सन्भुवनं भवन्त्यस्मिन्भूतानीति भुवन. मयं लोकस्तमिमं प्रविष्टोऽनुपविष्टः । रूपं रूपं दादिदाखभेदं प्रती. त्यर्थः । प्रतिरूपस्तत्र तत्र प्रतिरूपवान्दाबभेदैन बहुविधो बभूव । एक एव तथा सर्वभूतान्तरात्मा सर्वेषां भूतानामभ्यन्तर आत्माऽति. सूक्ष्मात्वादादिष्विव सर्वदेहं प्रति प्रविष्टत्वात्मतिरूपो बभूव पश्चि स्वेनाविकृतेन [ स्व ] रूपेणोऽऽकाशवत् ॥९॥ आ० टी०-जन्ममरणकरणानां प्रति[प्राणि नियमादयुगपत्प्रवृत्तेश्च पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाचेति नानात्मानो व्यवस्थिता इत्यनेकतार्किकबुद्धिविरोधात्सर्वपुरवत्येक एवाऽऽत्मेत्यत्र न चित्तस्थैर्य संभवतीत्याशङ्क्यौपाधिकभेदसाधने सिद्धसाधनं स्वाभाविक- भेदसाधने चानैकान्तिकत्वं दर्शयितुं प्रक्रमत इत्याह--अनेकतार्किकेत्यादिना। प्रति- रूप उपाधिसदृशश्चतुष्कोणत्वादिधर्मके हि दारुणि तद्रूपो वह्निरपि लक्ष्यत इत्यर्थः॥९॥ गो० टी०- ननु जन्ममरणकारणानां प्रतिप्राणिनियमाधुगपत्तेषामप्रवृत्तेश्च पुरुषब- हुत्वं सिद्धं सत्त्वरजस्तमोगुणानां वैपरीत्याच्च नानात्मानो व्यवस्थिता इत्यनेकतार्किकबुद्धि- विरोधात्सर्वपुरवत्येक आत्मेत्यत्र न चित्तस्थैर्य संभवतीत्याशङ्कयौपाधिकमेदसाधने सिद्ध- साधनत्वं स्वभावभेदसाधने चानैकान्तिकत्वं दर्शयितुं प्रक्रमत इत्याह-अनेकतार्किके- त्यादिना । अनेके कुतार्किकाः पाखण्डाश्च तांगमावष्टम्भास्तदधीना या बुद्धिस्तयाऽऽ- कलितमाकुलितमन्तःकरणं येषां ते तथा तेषामित्यर्थः । अनेकतार्किकबुद्धिविचालितान्तः- करणानामिति पाठे तार्किका एव कुबुद्धयस्तैः स्वमतोपन्यासादिना विचालित श्रेयोमार्गादन्तःकरणं येषां ते तथा तेषामित्यर्थः । प्रमाणोपपन्नं तत्त्वमस्यादिवाक्यप्रति. पाद्यम् । प्रत्यग्ब्रह्मैक्यरूपविज्ञानमात्मैकत्वविज्ञानम् । प्रमाणेऽभ्यासादिलिङ्गसाहित्यं दर्श. यति-असकृदिति । अनुजबुद्धीनामिति पूर्वषष्ठ्यर्थे हेतुः । नाऽऽधीयते सम्यग्विज्ञा- नात्मकवृत्त्यारूढं न भवतीत्यर्थः । ऋजुबुद्धीनां ब्राह्मणानां चेतसीवेति पाठो व्यति. रेकदृष्टान्तार्थः । तत्प्रतिपादने विज्ञप्तिस्वभावप्रत्यग्ब्रह्मप्रतिपादने । आदरवती तात्पर्यवती । * दाह्यभेदं काष्ठादिविशेषम् । प्रतिरूप इति उपाधिरूपेण प्रतीयमानः, चतुष्कोणत्वादिधर्मके हि दारुणि तद्रूपे वहिरपि लक्ष्यत इत्यर्थः । तत्र तत्र दार्वादो, * भाष्ये दादिदायभेदमित्यत्र दायभेदमित्येतत्पाठानुरोधेनेदम् । तथा पाठोऽपि स्यात्क- चिदित्यनुमीयते । - १ च. °टः । रूपं प्र । २ च रूपः, तत्र प्र । ३ ग. घ. ङ. च. श. म. “दे बभू । ४ क. 1. ज. 'त्मा रूपं रूपं स । ५ . ट. . °णावसत् । ६ ठ. पाषण्डा ।

[ अध्या० २ वल्ली २] काठकोपनिषत् । दाह्यभेदेन दार्वादिविशेषेण । दृष्टान्तमुक्त्वा दार्टान्तिकमाह--एक एवेति । अभ्यन्तर- स्वेऽतिसूक्ष्मत्वं हेतुः । सदृष्टान्तं रूपं रूपमित्यादि व्याचष्टे-दादिष्विवेत्यादिना। रूपं रूपमित्यस्य सर्वदेहमिति व्याख्यानम् । विकारे प्रविष्टस्य विकृतिमाशक्य बहिश्चेति पदेन परिहार इत्याह-बहिश्चेति । स्वेनाविकृतेन स्वरूोणासंस्पृष्टस्वरूपेणेत्यर्थः॥९॥ तथाऽन्यो दृष्टान्त: वायुर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बसूव। एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च ॥ १० ॥ वायुर्यथैक इत्यादि । प्राणात्मना देहेष्वनुप्रविष्टो रूपं रूपं प्रतिरूपो बभूवेति त ( वेत्यादि स )मानम् ॥ १० ॥ आ० टी०-॥१०॥ गोटी-वायोरस्मिल्लोके कथं प्रवेशो दादिप्वनुपलम्भादित्याशङ्कयाऽऽह-प्राणा- त्मनेति । इत्यादि समानमिति । एकस्तथेत्यादिवाक्यव्याख्यानं पूर्ववदित्यर्थः॥१०॥ एकस्य सर्वात्मत्वे संसारदुःखित्वं परस्यैव तदिति प्राप्तमत इदमुच्यते- सूर्यो यथा सर्वलोकस्य चक्षुर्न लिप्यते चाक्षुषैर्वा- ह्यदोषैः । एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः ॥ ११ ॥ सूर्यो यथा चक्षुष आलोकेनोपकारं कुर्वन्मूत्रपुरीषाघशुचिप्रकाशनेन तदर्शिनः सर्वलोकस्य चक्षुरपि सन्न लिप्यते चाक्षुषैरशुच्यादिदर्शन- निमित्तैराध्यात्मिकः पापदोषैर्वायैश्चाशुच्यादिसंसर्गदोषैः । एकः संस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः । लोको अविद्यया स्वात्मन्यध्यस्तया कामकर्मोद्भवं दुःखमनुभवति । न तु सा परमार्यतः स्वात्मनि । यथा रज्जुशुक्तिकोखरगगनेषु सर्परजतोदकमलानि न रज्ज्वादीनां स्वतो दोषरूपाणि सन्ति । संसर्गिणि विपरीतबुद्धधयां सनिमित्तात्तदोषवद्विभाष्यन्ते । न तोपस्तेषी लेपो विपरीतबुद्धयध्या- १ क. ख. ज.त्मकत्वे । २ ग. घ. च. खित्वे प।३ ख. ग. घ. ह. च. च. म. म. ट. प्राप्त है।४ क. ग. अ. कोषर । ५ ग. रीते बुद्धयध्यासनिमित्तत्वात्त । ६ ख. 'ध्यासे विपरीतत्वात्त । ७ क. च. ज. 'मित्तत्वात्त' । ८ ख. ग. घ. च. °षां लोपो .

१०२
टीकादयसमेत शांकरभाष्योपेता- [अध्या० २ बली २]
सबाथा हि ते । तथाऽऽत्मनि सर्वो लोकः क्रियाकारकफलात्मकं विज्ञान
सादिस्थानीयं विपरीतमध्यस्य तनिमित्तं जन्ममरणादिदुःखमनुभवति
न त्वात्मा सर्वलोकात्माऽपि सन्विपरीताध्यारोपनिमित्तेन लिप्यते लोक-
दुःखेन । कुतः । बाह्यः । रज्ज्वादिवदेव विपरीतबुद्धयध्यासबायोहि
स इति ॥ ११ ॥
आ० टी०-परमात्मा दुःखी स्याददुःखा(ख्य)भिन्नत्वाल्लोकवादित्याह-एकस्य सर्वा-
त्मकत्व इति । अविद्यायां प्रतिबिम्बितश्चिद्धातुरज्ञो भ्रान्तो भवति । भ्रान्तश्च कामा-
दिदोषप्रयुक्तः कर्म कुरुते तन्निमित्तं च दुःखं स्वात्मन्यध्यस्यति । परमात्मा तु निरविद्य-
त्वादुःखसाधनशून्यत्वान्न दुःखी ततो न प्रयोजको हेतुरित्याह-लोको ह्यविद्ययेति।
स्वरूपेण भ्रमाविषयत्वं विपरीतबुद्धयध्यासबाह्यत्वं रज्ज्वादीनां तथा चैतन्यस्योपाधिस्वरू-
पेणाध्यासाश्रयत्वेऽपि निरुपाधिकबिम्बकल्पब्रह्मरूपेणाध्यासानाश्रयत्वान्न दुःखित्वप्राप्ति-
रित्यर्थः ॥ ११॥
मो० टी०-ननु परमात्मा दुःखी स्यादुःख्यभिन्नत्वाल्लोकवदित्याह-एकस्य
सर्वात्मत्व इति । तमेव परमात्मानमेव । परस्यैवेत्यपि पाठः । इदमुच्यते दृष्टान्तपू.
वकमुत्तरमुच्यते । अविद्यायां प्रतिबिम्बितश्चिद्धातुरज्ञो भ्रान्तो भवति भ्रान्तश्च कामादि-
दोषप्रयुक्तः कर्म कुरुते तन्निमित्तं च दुःखं स्वात्मन्यध्यवस्यति, परमात्मा तु निरवद्यत्वाद्दुः-
खसाधनशून्यत्वान्न दुःखी ततोऽप्रयोजको हेतुरित्याह-लोको ह्यविधयति । स्वरूपेण
भ्रमाविषयत्वं विपरीतबुद्धयध्यासबाह्यत्वं रज्ज्वादीनां यथा तथा चैतन्यस्याप्युपाधिस्थतारू-
पेणाध्यासाश्रयत्वेऽपि निरुपाधिकबिम्बकल्पब्रह्मरूपेणाध्यासानाश्रयत्वान्न दुःखितत्वप्राप्तिरि-
त्यर्थः । विपरीतबुद्धयारोपनिर्मितेन लोकदुःखेन न लिप्यत इत्यन्वयः। तत्राऽऽकाक्षा-
पूर्वकं हेतुमाह-कुत इत्यादिना । इति यस्मात्तस्मान्न लिप्यन इत्यन्वयः ॥ ११ ॥
किंच-
एको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा यः
करोति । तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां सुखं
शाश्वतं नेतरेषाम् ॥ १२ ॥
स हि परमेश्वरः सर्वगतः स्वतन्त्र एको न तत्समोऽभ्याधिको वाऽ.
न्योऽस्ति । बशी'सबै ह्यस्य जगद्वशे वर्तते । कुतः । सर्वभूतान्तरात्मा ।
१ क. 'न्मजराम । २ . श. म. ट. रणदुः । ३ क. बायो बहिष्कृतो बायो र । म. म.
ट. बाबर । ४ क. ख. ज. हि सः ॥ ११ ॥

[ अध्या० २ वल्ली २] काठकोपनिषत् । १०३ यत एकमेव संदेकरसमात्मानं विशुद्धविज्ञानरूपं नामरूपायशुद्धोपा- विभेदवशेन बहुधाऽनेकमकारं यः करोति स्वात्मसत्तामात्रेणाचिन्त्यश- क्तित्वात् । तमात्मस्थं स्वशरीरहृदयाकाशे बुद्धौ चैतन्याकारणाभिव्य- क्तमित्येतत् । न हि शरीरस्याऽऽधारत्वमात्मनः । आकाशवदभूतत्वात् । आदर्शस्थं मुखमिति यद्वत् । तमेतमीश्वरमात्मानं ये निवृत्तवाद्यवृत्तयोऽ. नुपश्यन्ति आचार्यागमोपदेशमनु साक्षादनुभवन्ति धीरा विवेकिनस्तेषां परमेश्वरभूतानां शाश्वतं नित्यं सुखमात्मानन्दलक्षणं भवति नेतरेषां बाबासक्तबुद्धीनामविवेकिनां स्वात्मभूतमप्यविद्याव्यवधानात् ।। १२ ।। आ० टी०--परोत्कर्षदर्शनं पारतन्त्र्यं च स्वस्य हीनत्वं दुःखकारणं प्रसिद्ध तदभावान्न परमात्मा दुःखी ततस्तत्प्राप्तिः परः पुरुषार्थो भविष्यतीत्याह-किं च स हीत्यादिना ॥ १२ ॥ गो० टी-स्वापेक्षया परस्योत्कर्षदर्शनं पारतव्यं च स्वस्य हीनत्वं दुःखकारणं प्रसिद्धं लोके तदभावान्न परमात्मा दुःखी ततस्तत्प्राप्तिः परमपुरुषार्थो भविष्यतीत्याह- किंच स हीत्यादिना । हिशब्दो न तत्समश्चाभ्यधिकश्च दृश्यत इतिश्रुतिप्रसिद्धत्व- योतनार्थः । वशित्वे हेतुमाह--कुत इत्यादिना । अन्तरात्मत्वे हेतुत्वेनोत्तरवाक्यं व्याचष्टे--यत इत्यादिना । स्वात्मसत्तामात्रेणोपाधिभेदमादाय बहुधाकरणे हेतुमाह- अचिन्त्येति । यत एवं करोत्यतः सर्वभूतान्तरात्मा यस्तमित्यन्वयः । नन्वात्मशब्दः शरीरवाच्यप्यतस्तत्सत्त्वं किमिति न व्याख्यायत इत्यत आह--न हीति । तर्हि तत्स्थ. त्वव्यवहारः कथमित्याशङ्कयाऽऽदर्शे प्रतीतिमात्रेणाऽऽदर्शस्थमुखमितिवच्छरीरस्थ इत्युप- चर्यत इत्याह-- आदर्शस्थमित्यादिना । तमात्मस्थमिति तत्त्वंपदयोः सामानाधिक- रण्यादैक्यं विवक्षित्वाऽऽह--त[मेत]मीश्वरमात्मानमिति । निवृत्ता बाह्येभ्यो विषयेभ्यो (वृत्ति) ष्टियेषां ते तथा । उपाधिबहुत्वाभिप्रायेण बहुवचनं नाऽऽत्मापेक्ष- येत्याह--परमेश्वरभूतानामिति । बाह्यासक्तबुद्धीनां बाह्येषु विषयेष्वासक्ता बुद्धि- र्येषां तेषाम् । स्वात्मभूतमपीति । सुखमित्यनुवर्तते । अविदुषामात्मभूतं सुखं नेत्यत्र हेतुमाह-अविद्याव्यवधानादिति ॥ १२ ॥ किंच-- नित्योऽनित्यानां चेतनश्चेतनानामेको बहूनां यो - ते १ क. घ. सदैक । २ क. "हुधा बहुप्रकारेण यः । ख. ज. "हुधा बहुप्रकारं यः । ३ क. रा.स.स. ट. शस्थमु । ४ ग. घ. च. श्वरात्मा । ५ ख. छ. स. न. नित्या नि ।

१०४ टीकादयसमेतशांकरभाष्योपेता- [अध्या० २ वली २] विदधाति कामान् । तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम् ॥ १३ ॥ नित्योऽविनाश्यनित्यानां विनाशिनाम् । चेतनश्चेतनानां चेतयितॄणां ब्रह्मादीनां प्राणिनामनिनिमित्तमिव दाहकत्वमननीनामुदकादीनामा- त्मचैतन्यनिमित्तमेव चेतयितृत्वमन्येषाम् । किंच सं सर्वज्ञः सर्वेश्वरः कामिना संसारिणां कर्मानुरूपं कामान्कर्मफलानि स्वानुग्रहनिमित्तांश्च कामान्य एको बहूनामनेकेषामनायासेन विदधाति प्रयच्छतीत्येतत् । तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिरुपरतिः शाश्वती नित्या स्वात्मभूतैव स्यानेतरेषापनेवविधानाम् ॥ १३ ॥ आ० टी०-इदानीं परमात्मन्युपपत्तिप्रदर्शनार्थमाह--किंच नित्य इति । सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयदित्यादिश्रुतेरकृताम्यागमकृतविप्रणाशप्रसङ्गपरिहाराच्च कल्पान्तरीयभावानां प्रलीनानां कल्पान्तरे सजातीयरूपेणोत्पादः प्रतीयते स तदा स्याद्यदि विनाशिनां भावानां शक्तिशेषो लयः स्यात् । ततः प्रलये विनश्यत्सर्व यत्र शक्तिशेष विलीयते सोऽभ्युपगन्तव्य इत्यर्थः । बुद्धिमतामपि ब्रह्मेन्द्रादीनां परमानन्दाभिमुख्यं हित्वा या बहिर्मुखा चेतनोपलभ्यते साऽपि नियन्तारं गमयतीत्याह-चेतनश्चेतनानामिति । ब्रह्मादिशब्दवाच्यानां संघातानां वा चेतभि यच्चैतन्यनिमित्तं सोऽस्ति पर आत्मे- त्यर्थः । विमतं कर्मफलं तत्स्वरूपाद्यभिज्ञेन दीयमानं व्यवहितफलत्वात्सेवाफलवदित्याह- किंच स इति ॥ १३॥ ------ गो० टी०-इदानी परमात्मन्युपपत्तिप्रदर्शनार्थमाह---किंचेति । सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयदितिश्रुतेरकृताभ्यागमकृतविप्रणाशप्रसङ्गपरिहाराय च कल्पान्तरी- यभावानां प्रलीनानां कल्पान्तरे सजातीयरूपेणोत्पादः प्रतीयते स तदा स्याद्यदि विना- शिनां भावानां शक्तिशेषो लयः स्यात्ततः प्रलये विनश्यत्सर्वं यत्र शक्तिशेष विलीयते सोऽभ्युपगन्तव्य इत्यनित्यानां नित्य इत्यस्यार्थः । बुद्धिमतामपि ब्रह्मेन्द्रादीनां परमानन्दा- भिमुख्यं हित्वा बहिर्मुखा चेतनोपलभ्यते साऽपि नियन्तारं गमयतीत्याह-चेतनश्चेतनाना- मिति । अनग्नीनामुदकादीनामग्निनिमित्तं दाहकत्वं यथा तथाऽन्येषां ब्रह्मादीनां प्राणिनामा- त्मचैतन्यनिमित्तमेव चेतयितृत्वमित्यन्वयः । ब्रह्मादिसंघातानां चेतयितृत्वं यच्चतन्यनिमित्तं सोऽस्ति परमात्मेत्यर्थः। विस्तृतं कर्मफलं कर्मस्वरूपाद्यभिज्ञेन दीयमानं भवितुमर्हति व्यवहित- १ ख. घ. ज. त्यानामवश्याना । ग. "त्यानाम् । चे । २ क. ख. ज. स सर्वेश्वरः सर्वशः का । ३ क. ख. ङ. ज. ति ददाति प्र ।

अध्या०२ च्छी २] काठकोपनिषत् । १०५ फलत्वात्सेवाफलत्वादित्याह-किंच [स] सर्वज्ञ इति । ननु कर्मवंशादेव तत्फलसि- देरीश्वरोऽकिंचित्कर इत्यत आह-स्वानुग्रहोते । कर्मणामीश्वरप्रसादद्वारा फलहे- तुत्वान्न दोष इति भावः ॥ १३ ॥ तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखम् । कथं नु तद्विजानीयां कि, भाति विभाति वा ॥ १४ ॥ यत्तदात्मविज्ञानं सुखमनिर्देश्यं निर्देष्टुमशक्यं परमं प्रकृष्टं प्राकृतपुरुष- वाङ्मनसयोरगोचरमपि सनित्तैषणा ये ब्राह्मणास्ते* यत्तदेतत्पत्य- क्षमेवेति मन्यन्ते, कथं नु केन प्रकारेण तत्सुखमहं विजानीयाम् । इद- मित्यात्मबुद्धिविषयमापादयेयं यथा निवृत्तैषणा यतयः। किमु तद्भाति दीप्यते प्रकाशात्मकं तद्यतोऽस्मबुद्धिगोचरत्वेन विभाति विस्पष्टं हश्यते किंवा नेति ॥ १४ ॥ आ० टी०-विद्वदनुभवोऽपि परमानन्दे प्रमाणमित्याह-यत्तदात्मविज्ञान- मिति । तस्मादसंभाविततया न जिहासितव्यं परमात्मदर्शनं किंतु श्रद्दधानतया विचार- यितन्यमेवेत्याह-कथं न्विति ॥ १४ ॥ गो० टी०--विद्वदनुभवोऽपि परमानन्दे प्रमाणमित्याह-यत्तदात्मविज्ञान- मिति । तदात्मसुखं परम[म]निर्देश्यमप्येतदिति मन्यन्त इत्यन्वयः । के.त इत्याकाङ्क्षा- यामाह-निवृत्तेति । त इति पदमध्याहर्तव्यम् । एतदित्यस्य प्रत्यक्षमेवेति व्याख्या- नम् । विद्वत्प्रत्यक्षत्वादात्मसुखस्यासंभाविततया न निहासितव्यं परमात्मदर्शनं किंतु प्रधानतया विचारयितव्यमेवेत्याह--कथं न्विति । यथा निवृत्तषणा यतयो विचारे- गाऽऽत्मबुद्धिविषयात्मसुखमापादयन्ति तद्वदात्मसुखमात्मबुद्धिविषयं कथमापादयेयमिति विचारयितव्यमित्यर्थः । ननु वाङ्मनसातीतस्यासंभावितत्वेन प्रकाशमानत्वाभावात्कथं बुदयारोह इति शङ्कते-किम्विति । उ इति वितर्के । यत इति यदि यथा । यत्प्र- काशात्मकमात्नज्योतिस्तदस्मबुद्धिगोचरत्वेन विस्पष्टं दृश्यते किमित्यन्वयः । वाशब्द न्याचष्टे-नेति । अथवा यतः प्रकाशात्मकं तदात्मज्योतिरतोऽस्मद्वद्धिविषयत्वेन विस्पष्टं दृश्यते किमिति संबन्धः । वाशब्दं व्याचष्टे---किं वा नेति ॥ १४ ॥ * अत्र टीकानुरोधेन त इति पदमधिकम् । १ ख. ज. "मु तद्भाति । २ छ. ति न भा। ३ ग. घ. ड. च. ज. झ. अ. ट. ठ. भान । ४ क. ख. ज. 'स्ते तदे। ५ ज. झ. ज. तोऽतोऽस्म'. । ६ क. ख. च. ज. ति ॥ १४ ॥ तत्रो।

टीकादयसमेतशांकरभाष्योपेता- [ अध्या०२१ अत्रोत्तरमिदं भाति च विभाति चेति । कथम्- न तत्र सूर्यो भाति न चन्दतारकं नेमा विद्युनो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुमाति सर्व तस्य भासा सर्वमिदं विभाति ॥ १५॥ इति काठकोपनिषदि द्वितीयाध्याये द्वितीया वल्ली समाप्ता ॥ २॥ (५) न तत्र तस्मिन्स्वात्मभूते ब्रह्मणि सर्वावभासकोऽपि सूर्यो भाति तद्ब्रह्म न प्रकाशयतीत्यर्थः । तथा न चन्द्रतारक नेमा विद्युतो भान्ति कुतोऽयमभिदृष्टिगोचरोऽग्निः । किं बहुना यदिदमादिकं सर्व भाति तत्तमेव परमेश्वरं भान्तं दीप्यमानमनुभात्यनुदीप्यते यथा जलोल्मुकाय. निसंयोगादग्निं दहन्तमनु दहति न स्वतस्तद्वत । तस्यैव भासा दीप्त्या सर्वमिदं सूर्यादि विभाति । यत एवं तदेव ब्रह्म भाति च विभाति च । कार्यगतेन विविधेन(?) भासा तस्य ब्रह्मणो भारूपत्वं स्वतोऽवगम्यते । न हि स्वतोऽविद्यमानं भासनमन्यस्य कर्तुं शक्यम् । घटादीनामन्याव- भासकत्वादर्शनाद्भौसनरूपाणां चाऽऽदित्यादीनां तदर्शनात् ॥ १५ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्य गोविन्दभगवत्पूज्यपादशिष्यश्री- मदाचार्यश्रीशंकरभगवतः कृतो काठकोपनिषद्भाष्ये द्विती- याध्याये द्वितीयवल्लीभाष्यं समाप्तम् ॥ २॥ (५) आ० टी०-॥१५॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानवि- रचिते काठकोपनिषद्भाप्यव्याख्याने द्वितीयाध्याये द्वितीय- वल्लीभाष्यटीका समाप्ता ॥ २ ॥ (५) गो० टी०---इदंशब्दव्याख्यानं भातीत्यादि । कुत इति । अल्पवीर्यत्वादित्यर्थः । जलं तप्तजलमुल्मुकमलातं तदादीत्यादिशब्देनायःपिण्डादि गृह्यते । ननु प्रकाशवि- शिष्टघटादेः स्ववृत्तिघटादिप्रकाशकत्वं दृष्टं तद्वदन्याधीनप्रकाशस्य ब्रह्मणः सूर्यादिप्रका- शत्वमित्याशङ्कयाऽऽह--न हीति । अविद्यमानेति पदच्छेदः । प्राधाप्राप्तविवे. १ घ. ड. झ. म. ट. स्मदोच । २ ग. घ. हु. च. झ. अ. ट. . के भा । ३ क.स. म. दारू । ४ क. ज पाणामादित्यादीनां च त ।

[भध्या. २ की १] काठकोपनिषत् । १०७ केन प्रकाशस्यैव भासकत्वान्न स्वतो घटादे सकत्वं तद्वदप्रकाशत्वे ब्रह्मणो नाऽऽदि- त्यादिप्रकाशकत्वं स्यादिति भावः ॥ १५ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यवर्यश्रीमहालगोपालेन्द्रयतीश्वरविर- चिते काठकोपनिषद्भाप्यविवरणे द्वितीयाध्याये द्वितीया वल्ली समाप्ता ॥ २ ॥ (५) ---- तूलावधारणेनैव मूलाधारण वृक्षस्य क्रियने लोके यथैवं संसारका- यवृक्षावधारणेन तन्मूलस्य ब्रह्मणः स्वरूपावदिधारयिषयेयं षष्ठी वल्लया- रभ्यते-- ऊर्ध्वमूलोऽवाशाख एषोऽश्वत्थः सनातनः । तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते ॥ तस्मिल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन । एतद्वै तत् ॥ १ ॥ ऊर्ध्वमूल ऊर्च मूलं यत्तद्विष्णोः परमं पदमस्येति सोऽयमव्यक्ता- दिस्थावरान्तः संसारवृक्ष ऊर्ध्वमूलः । वृक्षा व्रश्चनात् । जन्मजरामरण. शोकाचनकानात्मकः प्रतिक्षणमन्यथास्वभावो मायामरीच्युदकगन्धर्व- नगरादिवदृष्टनष्टस्वरूपत्वादवसाने च वृक्षवदभावात्मकः कदलीस्त- म्भवनिःसारोऽनेकशतपाँखण्डबुद्धिविकल्पास्पदस्तत्त्वविजिज्ञासुभिरनि- र्धारितेदतत्त्वो वेदान्तनिर्धारितपरब्रह्ममूलसारोऽविद्याकामकाव्यक्तबी- जभवोऽपरब्रह्मविज्ञानक्रियाशक्तिद्रयात्मकहिरण्यगर्भाङ्कुरः सर्वप्राणि. लिङ्गभेदस्कन्धतृष्णाजलासेकोतर्दो बुद्धीन्द्रियविषयप्रवालाङ्कुरः श्रुतिस्मृतिन्यायचिद्योपदेशपलाशो यज्ञदानतपाघनेकक्रियासुपुष्पः सु. खदुःखवेदनानेकरसः प्राण्युपजीव्यानन्तफलतत्तृष्णासलिलावसेकारू ढजडीकृतदृढबद्धमूलः सत्यनामादिसप्तलोकब्रह्मादिभू-पक्षिकृतनीडः माणिसुखदुःखोद्भूतहर्षशोकजातनृत्यगीतवादित्रक्ष्वेलितास्फोटितहसि. ताष्टकदितहाहामुश्चमुश्चत्याद्यनेकशब्दकृततुमुलीभूतमहारवो वेदान्त- १.ब. अ. ट. गेन मू । २ हु. झ. अ. ट. यद्वि । ३ ग. घ. च. °लः, वृश्च । ४ क. स. ग. . च. श. म. ट. 'श्व वृश्च । ५ क. ग च. ट. पाषण्ड । ६ ड झ. अ. ट. सुभिर्नि. थी। ख. उ. 'प्रभावोऽ । ८ क. ख. ज. अ. ट. ठ. 'न्धस्तत्तत्तृष्णा । ९ ग. ङ. च. ज. ब. 'दर्पबु । १० घ. झ. अ. द. "स्तत्तत्तृ । ११ झ. ज. पक्षीकृ । १२ ङ. ठ. 'हामुश्चे ।

१०८ टीकाद्वयसमेतशांकरभाष्योपैता- [मध्या. बली ] विहितब्रह्मात्मदर्शनासङ्गशखकृतोच्छेद एष संसारक्षोऽवत्योऽवत्वव- कामकर्मवातेरितनित्यप्रचलितस्वभावः । स्वर्गनरकतिर्यस्येतादिमिः शाखाभिरवाक्शाखः । सनातनोऽनादित्वाचिरं प्रवृत्तः । यदस्य संसा. रवृक्षस्य मूलं तदेव शुक्रं शुभ्रं शुद्धं ज्योतिष्मचैतन्यात्मज्योतिःस्वभावं तदेव ब्रह्म सर्वमहत्त्वात् । तदेवामृतमविनाशस्वभावमुच्यते कथ्यते सत्यत्वात् । वाचाऽऽरम्भणं विकारो नामधेयमनृतमन्यदतो मर्त्यम् । तस्मिन्परमार्थसत्ये ब्रह्मणि लोका गन्धर्वनगरमरीच्युदकमायासमाः परमार्थदर्शनाभावावर्गमनाः श्रिता आश्रिताः सर्वे समस्ता उत्पत्ति- स्थितिलेयेषु । तेंदु तद्ब्रह्म नात्येति नातिवर्तते मृदादिमिव घटादिकार्य कश्चन कश्चिदपि विकारः । एतद्वै तत् ॥१॥ आ० टी०-शाल्मल्यादितूलदर्शनेनादृष्टमपि वृक्षमूलं यथाऽस्तीत्वधार्यते तद्व- ददृष्टस्यापि ब्रह्मणोऽवधारणाय प्रक्रमत इत्याह-तूलावधारणेनेति । वृक्षशब्दे प्रवृत्तिनिमित्तमाह-व्रश्चनादिति । " वश्चू छेदने " अस्य धातोः सप्रत्ययान्तस्य रूपं वृक्ष इति । छेद्यत्वे युक्तिमाह-जन्मजरेत्यादिना । प्रसिद्धवृक्षसाम्याद्वा वृक्षशब्द- प्रयोग इत्यभिप्रेत्याऽऽह-अवसाने चेत्यादिना । प्रसिद्धो वृक्षः स्थाणुर्वा पुरुषो वेति विकल्पास्पदो दृष्टम्तथाऽयमपि संघातो वा परिणामो वाऽऽरब्धो वा सद्वाऽसद्वेत्यादीना- मनेकेषां शतसंख्याकपाखण्डबुद्धिविकल्पानां विषय इत्यर्थः । किंसंज्ञकोऽयं वृक्ष इत्यनध्य- वसायगोचरः कश्चिवृक्षो दृष्टस्तथाऽयमपीति साम्यम् । साम्यान्तरमाह-तत्त्वविनि ज्ञासुभिरिति । अपरब्रह्मणो विज्ञानक्रियाशक्तिद्वयात्मको हिरण्यगर्भः प्रथमोऽवस्थामे- दोऽकुरोऽम्येति तथोक्तः । बुद्धीन्द्रियाणां विषयाः ज्ञब्दादयः प्रवालाकुराः किसलया- न्यस्येति स तथोक्तः । श्रुत्यादीनि पलाशानि पत्राण्यस्येति । सुखदुःखे प्राणिवेदना एवानेको रसोऽस्येति । फलतृष्णैव सलिलावसेकम्तेन प्ररूढानि कर्मवासनादीनि सात्त्वि- कादिभावेन मिश्रीकृतानि दृढबन्धनान्यवान्तरमूलान्यस्य वटवृक्षस्येव तथोक्तः । सत्यनामा. दिषु सप्तलोकेषु ब्रह्मादीनि भूतान्येव पक्षिणस्तैः कृतं नीडं यस्मिन् । प्राणिनां सुखदुः. खाम्यामुद्भूतौ हर्षशोको ताभ्यां यथासंख्येन जातानि नृत्यादीनि रुदितादिशब्दाश्तैः कृतम्तुमुलीभूतो महारवो यस्मिन्निति विग्रहः ॥ १ ॥ १ ङ. °ना कृतशास्त्रोच्छे ! २ क. ट. 'गशास्त्र । ३ क. इ. च. ज. म. ट. ठ. चिरन । ४ झ. अ. शुक्र शु। ५ घ. "त् । एवा । ६ क. ख. ज. नाशिस्व।७ ग. प. कु. च. तेऽस। ८ क. गम्यमानाः । ट. गमाः श्रि । ९ घ. °लयादिषु । १० झ. तदेत । ११ क. ग. ज. दादि- कमिव । घ. 'दादिवघटा ।

[ अध्या० २ वल्ली ३] काठकोपनिषत् । मो० टी० शाल्मल्यादितूलदर्शनाददृष्टमपि वृक्षमूलं यथाऽस्तीत्यवधार्यते तद्वददृष्ट- स्यापि ब्रह्मणोऽवधारणाय प्रक्रमत इत्याह- तूलावधारणेनेति । स्वरूपावदिधार- विषया स्वरूपनिश्चयेच्छया । स्वरूपावधारणविषयेति पाटे विषयशब्दो निमित्तवाची । इयमन्तिमा वल्ली । ऊर्ध्वमित्युत्कृष्टमित्यर्थः । यद्विष्णोः परमं पदं तदस्य सोऽयमूर्ध्वमूल इत्यन्क्यः । इदंशब्दार्थ स्फुटयति-अव्यक्तादीति । अन्यक्तमज्ञातचैतन्यमादिर्यस्य सोऽयं तथा । स्थावरो वृक्षादिरन्तरे यस्य सोऽयं तथा । स चासौ स चेति पुनः कर्म- धारयः। संसार एव वृक्षः संसारवृक्षः । वृक्षशब्दप्रवृत्तिनिमित्तमाह-व्रश्चनादिति । ओनश्चू छेदन इत्यस्य धातोः सप्रत्ययान्तस्य रूपं वृक्ष इति । छेद्यत्वे युक्तिमाह-जन्मजरे- स्यादिना । क्वचिदवच्छिन्नजन्मजरेत्यादिपाठष्टिप्पणकारैर्गृहीतः। जन्म च जरा च मरणं च शोकश्च त एवाऽऽदिर्येषां ते तथा । तेऽनेकेऽनर्था आत्मा स्वरूपं यस्य वृक्षस्य स तथा। अनेकानर्थात्मकत्वादेव प्रतिक्षणमन्यथास्वभावत्वं सात्त्विकराजसतामसवृत्तिभेदेने. त्याह-प्रतिक्षणमिति । प्रतिक्षणमन्यथास्वभावत्वे दृष्टान्तमाह-मायेत्यादिना । मायेन्द्र- जालिकमाया । मायादिवत्प्रतिक्षणमन्यथास्वभावत्वे हेतुमाह-दृष्टेति । दृष्टं दर्शनं तत्समय एव प्रतीयते नोत्तरकालमित्यर्थः । अवयवार्थमादाय संसारो वृक्ष इत्युक्तम् । वृक्षसादृश्याद्वा वृक्षशब्दप्रयोगो भवति संसार इत्याह-अवसाने चेत्यादिना । चशब्दः पक्षान्तरद्योतकः । प्रसिद्धो वृक्षः स्थाणुर्वा पुरुषो वेतिविकल्पास्पदो दृष्टः । तथाऽयमपि संघातो वा परिणामो वाऽऽरब्धो वा न वेत्यादीनामनेकेषां शतसंख्याकपा- पण्डबुद्धिविकल्पानामास्पद(दो) विषय इत्यर्थः । किंसंज्ञकोऽयं वृक्ष इत्यनध्यवसायगोचरः कश्चिद्वृक्षो दृष्टस्तथाऽयमपीति साम्यान्तरमाह --- तत्त्वविजिज्ञासुभिरिति । स्वतोऽ- सारत्वे संसारस्य किं तस्य सारमित्यपेक्षायामाह--वेदान्तेति । वेदान्तैर्निर्धारितं परं ब्रह्मैव मूलं सारो यस्य स तथा। अविद्याऽध्यासः कामकर्माण्यव्यक्तमज्ञातचैतन्यमेतानि बीजं तस्मात्प्रभव उत्पत्तिर्यस्य स तथा । अपरस्य ब्रह्मणो विज्ञानक्रियाशक्तिद्वयात्मको हिरण्यगर्भः प्रथमोऽवस्थाभेदोऽङ्कुरोऽस्येति तथोक्तः । सर्वेषां प्राणिनां लिङ्गशरीरविशे. पास्त एव [ स्कन्धाः ] शाखामूलस्थानानि यस्य स तथोक्तः । तृष्णव सलिलं तेन सेकः सेचनं तेनोद्भुतो दपों गर्व उच्छायो यस्य स तथोक्तः । बुद्धीन्द्रियाणां ये विषयाः शब्दा- दयाते प्रवालाकुराः किसलयान्यस्येति तथोक्तः । श्रुत्यादीनि पलाशानि पत्राण्यस्येति तथा । यज्ञदानाचारादीन्यनेकाः क्रिया एव शोभनानि पुप्पाण्यस्येति तथा । क्वचिद्यज्ञदानत- पआदीति पाठः । सुखदुःखे प्राणिवेदना एवानेको रसोऽस्येति तथा प्राणिभिरुपजीन्यमन. न्तत्वेन फलं यस्मिन्स तथा । फलतृष्णैव सलिलावसेकम्तेन प्ररूढानि कर्मवासनादीनि जडीक- 17 १ ट. जटीकृ ।

टीकास्यसमेतशांकरभाष्योपेता। [ अध्या०२ कड़ी ३] लानि सात्त्विकादिमावेन मिश्रीकृतानि दृढबद्धान्यषान्तरमूलानि यस्येति स तथोकः सत्यना. मादिषु सप्तलोकेषु ब्रह्मादीनि भूतान्येव पक्षिणस्तैः कृतं नीडमास्पदं यस्मिन्स तथोक्तः। प्राणिना मुखदुःखाभ्यामुभूती हर्षशोको ताभ्यां यथासंख्येन जातानि नृत्यं च गीतं च गानं च वादिवं च बाद्यसामान्यं श्वेलितं च केलिविशेष आस्फोटितं च भुनाबन्धो हर्षितं चाऽऽमोदावशे. पस्तजन्यपरहस्ताधाकर्षणमाकृष्टं च तानि तथा तानि च रुदितादयोऽनेके शब्दाच तैः कृतस्तुमुलीभूतो महारवो यस्मिन्स तथेति विग्रहः । आस्फोटहसितेत्यपि पाठः सुगमः । वेदान्तस्तत्त्वमस्यादिभिर्विहितं जनितं यत्प्रत्यगभिन्नब्रह्मज्ञ.नं तदेवासङ्गशस्त्रमप्रतिबध्यमान. शस्त्रं तेन कृत उच्छेदो नाशो यस्य स तथोक्तः । अश्वत्यशब्दस्य संसारे गौणी वृत्ति- माह-अश्वत्थवदिति । कामकर्मणी एव वातस्तेनेरितो नित्यः प्रचलितः स्वभावो यस्य समायोक्तः । तिर्यक्शुनकादिजन्म । प्रेतोऽनग्निसंस्कृताज्ञजन्तूनामवस्थाविशेष आन्तरालिकः। मादिशब्देन स्वेदजन्यादयो ग्राह्याः । तादृशैः शाखाभिरवाक्शाखः । सनातनश्चिरं प्रवृत्त इल्यन्वयः । तत्र हेतुः-अनादित्वादिति । तदेवेत्यादिवाक्यमपेक्षितं पूरयन्न्याचष्टे- अदिति । अविनाशस्वभावत्वे हेतुमाह--सत्यत्वादिति । प्रपञ्चस्य तद्वैपरीत्यमाह- वाचेत्यादिना । कदेत्यपेक्षायामाह-उत्पत्तीति ॥ १ ॥ यदिदं किंच जगत्सर्व प्राण एजति निःसृतम् । महद्भयं वज्रमुखतं य एतद्विदुरमृतास्ते भवन्ति ॥ २ ॥ यद्विज्ञानादमृता भवन्तीत्युच्यते जगतो मूलं तदेव नास्ति ब्रह्मासन एवेदं निःसृतमिति तन्न । यदिदं किंच यत्किंचेदं जगत्सर्व प्राणे पर- स्मिन्ब्रह्मणि सत्यजनि कम्पते तत एवं निःसृतं निर्गतं सत्प्रचलति निय. मेन चेष्टते । यदेवं जगदुत्पत्त्यादिकारणं ब्रह्म तन्महद्भयम् । महल तद्भयं च विभेत्यस्मादिति महद्भयम् । वज्रमुद्यतमिव वज्रम् । यथा वनोद्यतकरं स्वामिनमभिमुखीभूतं दृष्ट्वा भृत्या नियमेन तच्छासने वर्तन्ते तथेदं चन्द्रादित्यग्रहनक्षत्रतारकादिलक्षणं जगत्सेश्वरं नियमेन क्षणमप्यविश्रान्तं वर्तत इत्युक्तं भवति । य एतद्विदुः स्वात्मप्रवृत्तिसा- क्षिभूतमेकं ब्रह्मामृता अमरणधर्माणस्ते भवन्ति ॥ २॥ आ० टी०-कार्यस्य शून्यतापर्यन्तं नष्टम्यासत्त्वपूर्वकमेव जन्म ततो नास्ति मूल- विति शङ्कते—यद्विज्ञानादिति । तन्न । शशविषाणादेरसतः समुत्पत्त्यदर्शनात्सत्पूर्व १ ग. घ. च. व सनिर्ग' । २ क. घ. ह. अ. अ. ट. ठ. "देव ज । ग च. देवेदं । ३ क. ख. ज. ने प्रव। F [ अध्या० २ वाली ३] काठकोपनिषत् । कत्वप्रसिद्धेश्वास्ति सद्रूपं वस्तु जगतो मूलं तच्च प्राणपदलक्ष्यं प्राणप्रवृत्तेरपि हेतुत्वा- दित्यर्थः ॥ २॥ गो० टी०-कार्यस्य शून्यपर्यन्तं नाशादसत्पूर्वकमेव जन्म ततो नास्ति मूलमिति सकते-यद्विज्ञानादिति । परिहरति-तनोति । शशविषाणादेरसत उत्पत्त्यदर्शना- कार्यस्य सत्पूर्वकत्वप्रसिद्धेश्वास्ति सद्रूपं वस्तु जगतो मूलं उच्च प्राणपदलक्ष्यं प्राणवृत्ते- रपि हेतुत्वादित्यर्थः । धात्वर्थ प्रकटयति-तत एवेति । नात्र वाक्येषु ब्रह्मणो विच्छेदोऽ. स्तीत्यभिप्रेत्योत्तरं वाक्यं व्याचष्टे-यदेवमित्यादिना । उद्यतं वज्रमिव वज्रमुद्यतम् । पदार्थमभिधाय तात्पर्यमाह--यथेत्यादिना । एतच्छब्दार्थमाह--स्वात्मेति । स्व. बन्ध्यन्तःकरणप्रवृत्तीनां साक्षिभूतमित्यर्थः । य एतद्विदुस्तेऽमृता भवन्तीत्यन्वयः ॥२॥ कथं तद्भयाज्जगद्वर्तत इत्याह- भयावस्यानिस्तपति भयाचपति सूर्यः । भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः ॥ ३ ॥ भयाद्रीत्या परमेश्वरस्यानिस्तपति भयात्तपति सूर्यो भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः । न हीश्वराणां लोकपालानां समर्थानां सतां नियन्ता चेद्वज्रोद्यतफरवन्न स्यात्स्वामिभयभीतानामिव भृत्यानां नियता प्रवृत्तिरुपपद्यते ॥ ३ ॥ आ० टी०-॥३ गो० टी०- सूर्यादीनां नियतप्रवृत्त्यनुपपत्त्या नियामकत्वेन संभावितं यत्पारमेश्वरं रूपं तदवगमायेह यत्नः कर्तव्य इत्याकाङ्क्षापूर्वकमाह-कथं तदित्यादिना । न हि नियता प्रवृत्तिरुपपद्यत इति संबन्धः ॥ ३ ॥ इह चेदशकद्बोधु प्राक्शरीरस्य विस्रसः । ततः सर्गेषु लोकेषु शरीरत्वाय कल्पते ॥ ४ ॥ तह जीवमेव चेघद्यशकच्छनोति शक्तः सञ्जानात्येतद्भयकारणं ब्रह्म बोधुमवगन्तुं प्राक्पूर्व शरीरस्य विस्रसोऽवयंसनात्पतनात्संसार बन्धनाद्विमुच्यते । न चेदशक द्वोढुं ततोऽनवबोधात्सर्गेषु सृज्यन्ते येषु स्रष्टव्याः प्राणिन इति सर्गाः पृथिव्यादयो लोकास्तेषु सर्गेषु लोकेषु १ स. न. ट. "त्याऽस्य प'। २ ङ. ' शरीरभा । ३ ख ज. °षु शरीरभा ।

११२ टीकाद्वयसमेतशांकरभाष्योपेतः- [अध्या० २ वली ३] शरीरत्वाय शरीरभावाय कल्पते समर्यो भवति शरीरं गृह्णातीत्यर्थः । तस्माच्छरीरविासनात्मागात्मबोधाय यत्न आस्थेयः ॥ ४ ॥ आ० टी०-सूर्यादीनां नियतप्रवृत्त्यनुपपत्त्या नियामकत्वेन संभावितं यत्पारमेश्वरं रूपं तदवगमायैवेह यत्नः कर्तव्य इत्याह-तच्चेति । इहैव बोर्बु शक्तः सन्निदेव चेन्जानाति तदा मुच्यत एवेति संबन्धः ॥ ४ ॥ गो० टी०--तच्चेहैव बोढुं शक्तः सन्निहैव चेन्जानाति तदा मुच्यत एवेति संबन्धः। तत इत्यस्य व्याख्यानमनवबोधादिति। परमात्मावगमाय यत्नः कार्य इत्युक्तमुपसंहरति- तस्मादित्यादिना ॥४॥ यस्मादिहेवाऽऽत्मनो दर्शनमादर्शस्थस्येव मुखस्य स्पष्टमुपपद्यते न लोकान्तरेषु ब्रह्मलोकादन्यत्र । स च दुष्पापः । कथमित्युच्यते- यथाऽऽदर्श तथाऽऽत्मनि यथा स्वमे तथा पितृलोके । यथाऽप्नु परीव ददृशे तथा गन्धर्वलोके छायातप योरिव ब्रह्मलोके ॥ ५॥ यथाऽऽदर्शे प्रतिबिम्बभूतमात्मानं पश्यति लोकोऽत्यन्तविविक्तं तथे- हाऽऽत्मान स्वबुद्धावादर्शवनिर्मलीभूनायां विविक्तमात्मनो दर्शनं भव तीत्यर्थः । यथा स्वमेऽविविक्तं जा सनोद्भूतं तथा पितृलोकेऽवि- वित्तमेव * दर्शनमात्मनः कर्मफलोपभोगासक्तत्वात् । ययाँ चाप्स्ववि. भक्ताययवमात्मरूपं परीव ददृशे परिदृश्यत इव तथा गन्धर्वलोकेऽवि. विक्तमेव दर्शनमात्मनः । एवं च लोकान्तरेष्वपि शास्त्रपामाण्यादवग. म्यते । छायातपयोरिवात्यन्तविविक्तं ब्रह्मलोक एवैकस्मिन् । स च दुष्पापोऽत्यन्तविशिष्टकर्मज्ञानसाध्यन्वात् । तस्मादात्मदर्शनायेहैव यत्नः कर्तव्य इत्यभिप्रायः ॥५॥ आ० टी०-॥५॥ गो० टी०- यथाऽऽदर्श इत्यादिवाक्यं व्याख्यातुं पातनिकामाह~-यस्मादित्या. damanane * दर्शनमात्मन इति ग्रन्थः क्वचिन स्यादिति टांकानुरोधेन ज्ञायते । १. ख. ज. मेवाऽऽत्मनो दर्शनं क । २ झ. य. ट. यथाऽप्स्व । ३ क. रु.च. था वाव | ४ ग. ह. परिद' । ५ झ. ज. ट. 'कऽविभक्त । ६ ग. घ. च. लो । ७. ख. न. रे स्थिति शा। ८ रु. झ. अ. ट. 'टधर्म ।

[ अध्या० २ वल्ली ३] काठकोपनिषत् । ११३ - दिना । इहैव मनुष्यदेह एव । यथाऽऽदर्शस्थस्य मुखस्य स्पष्टमुपलब्धिस्तथाऽऽत्मा यस्मादात्मनि स्पष्टमुपलभ्यते तस्मादिहवाऽऽत्मनो दर्शनमित्यन्वयः । एवकारल्यावर्त्य- माह-नेति । तर्हि ब्रह्मलोकेऽपि तदर्शनं न स्यादित्याशङ्कयाऽऽह-ब्रह्मेति । ननु तहि ब्रह्मलोक एवाऽऽत्मनो दर्शनं स्यादित्याशङ्कयाऽऽह–स चेति । आकासापूर्वक- मवतारितवाक्यं व्याचष्टे-कथमित्यादिना । स्वप्न इत्यत्राविविक्तमिति पदच्छेदः । पितृलोक आत्मदर्शनमिति शेषः । पितृलोके दर्शनस्याविविक्तत्वे हेतुमाह-कर्मफलति । गन्धर्वलोकग्रहणमुपलक्षणमित्याह-एवमिति । एकस्मिन्नात्मदर्शनमित्यनुवर्तते । दुष्प्रा- पत्वे हेतुमाह-अत्यन्तेति । विशिष्टं कर्माश्वमेधादि तत्सहितं ज्ञानमुपासनं तत्साध्य. त्वादित्यर्थः । पदतात्पर्यार्थमाह -तस्मादिति । इहैव मनुष्यशरीर एव ॥ ५ ॥ कथमसौ बोद्धव्यः किं वा तदवबोधे प्रयोजनमित्युच्यते- इन्द्रियाणां पृथग्भावमुदयास्तमयौ च यत् । पृथगुत्पद्यमानानां मत्वा धीरो न शोचति ॥ ६ ॥ इन्द्रियाणां श्रोत्रादीनां स्वस्वविषयग्रहणप्रयोजनेन स्वकारणेभ्य आकाशादिभ्यः पृथगुत्पद्यमानानामत्यन्त विशुद्धात्केवलाञ्चिन्मात्राम- स्वरूपात्पृथग्भावं स्वभावविलक्षणात्मकतां तथा तेषामेवेन्द्रियाणामुदया- स्तमयौ चोत्पत्तिमलयौ जाग्रत्स्वापांवस्थापेक्षया नाऽऽत्मन इति मत्वा ज्ञात्वा विवेकतो धीरो धीमान शोचति । आत्मनो नित्यैस्वभावस्या- व्यभिचाराच्छोककारणत्वानुपपत्तेः । तथा च श्रुत्यन्तरं तरति शोकमा. स्मविदिति ॥ ६॥ आ० टी०-॥६॥ गो० टी०-उत्तरं वाक्यमाकासापूर्वकं योनयति---कथमित्यादिना । इन्द्रिय. ग्रहणमुपलक्षणमित्याह-स्वविषयेति । विषयाः शब्दादयस्तेषां ग्रहणमेव प्रयोजन तेन सहेत्यर्थः । इन्द्रियाणां नित्यत्वं व्यावर्तयति--आकाशेति । पृथग्भावप्रतियोगिनं निर्दिशति--अत्यन्तति । विलक्षणात्मकतां मत्वेत्यन्वयः । एव मुत्पत्तिप्रलयौ मत्वे- त्यन्वयः । मननप्रकारं दर्शयति--जाग्रदिति । नाऽऽत्मनस्ताविति मत्वेति संबन्धः । E R १ग..च.. मठ स्ववि । २ ग. घ. . "दिभ्य उत्प' । ३ ह. झ. ज. ट. "न्तशु। ग. प. च 'स्मकस्व १५ क. स.ज. 'यौ च यत्पृथगुत्पद्यमानानामुत्प। ६ क ख. च. ज° गो बजा । ७.स.अ. ट. पापे । ८ क. ख. ज. 'कत्वस्व । ९ क. च. वत्वादव्य । १० क. स... च्छोकादिका । ११ म. ट. "ति । आत्म ।

३ ११४ टीफायसमेतशांकरभाष्योपेता- [ अध्या० २ कल्ली ३ ] उत्पत्तिप्रलयौ जाग्रत्स्वप्नावस्थापेक्षया नाऽऽत्मन इति पाठान्तरं सुगमम् । ज्ञाने साधन- माह-विवेकत इति । धीमान्प्रत्यब्रीक्यपर्यवसन्नमतिः । शोकाभावे हेतुमाह- आत्मन इति ॥ ६ ॥ यस्मादात्मन इन्द्रियाणां पृथग्भाव उक्तो नासौ बहिरधिगन्तव्यो यस्मात्मत्यगात्मा स सर्वस्य, तत्कथमित्युच्यते- इन्द्रियायः परं मनो मनसः सत्त्वमुत्तमम् । सत्त्वा. दधि महानात्मा महतोऽव्यक्तमुत्तमम् ॥ ७ ॥ इन्द्रियेभ्यः परं मन इत्यादि । अर्थानामिहेन्द्रियसमानजातीयत्वा- दिन्द्रियग्रहणेनैव ग्रहणम् । पूर्ववदन्यत् । सत्त्वशब्दाबुद्धिरिह ॥ ७ ॥ आ० टी. --इन्द्रियेभ्यः परा ह्या इति पूर्वमुक्तमिह त्वर्थानामग्रहणात्सर्वप्रत्यगा. स्मत्वं न संभवतीत्याशङ्कयाऽऽह-.-अर्थानामिहेति ॥ ७ ॥ गो० टी०-साध्याहारमुदयास्तमयौ च यदित्यत्र यच्छन्दं व्याचष्टे-यस्मा- दिति । तस्मान्नासौ बहिरव(धि)गन्तव्य इत्यर्थः । प्रकारान्तरेण व्याचष्टे-यस्मादिति । सर्वस्येति । तस्मान्न बहिरव(घि)गन्तव्यः । किंतु प्रत्यक्त्वेनैवावगन्तव्य इति शेषः । तदिति पृथग्भावप्रत्यक्त्वे । इन्द्रियेभ्यः परा ह्या इति पूर्वमुक्तमिह स्वग्रहणात्सर्वप्रत्य. गात्मत्वं न संभवतीत्याशङ्कयाऽऽह--अर्थानामिहेति । पूर्ववदन्यदिति । अन्यत्पर- त्वाद्युपवर्णनम् । पूर्ववदिन्द्रियेभ्यः परा ह्या इतिव्याख्यानवदित्यर्थः ॥ ७ ॥ अव्यक्तात्तु परः पुरुषो व्यापकोऽलिङ्ग एव च । यं ज्ञात्वा मुच्यते जन्तुरमृतत्वं च गच्छति ॥ ८॥ अव्यक्तात्तु परः पुरुषो व्यापको व्यापकस्याप्याकाशादेः सर्वस्य कारणत्वात् । अलिङ्गो लिङ्गयते गम्यते येन तल्लिङ्गं बुद्धयादि सद- विद्यमानमस्येति सोऽयमलिङ्ग एवं । सर्वसंसारधर्मवर्जित इत्येतत् । यं ज्ञात्वाऽऽचार्यतः शास्त्रतश्च मुच्यते जन्तुरविद्यादिहदयग्रन्थिभिर्जीव- बेव पतितेऽपि शरीरेऽमृतत्वं च गच्छति । सोऽलिङ्गः पैरोऽव्यक्तात्पु. रुष इति पूर्वेणैव संबन्धः ॥ ८ ॥ १ क. ड. 'त्मा सर्व । २ ग. घ. च. 'स्य कय । ३ क. 'रिहोच्यते ॥ ७ ॥ ४ ग. च. तत्करण लिङ्गं । ५ घ. 'ड्ग करणं बु । ६ क. ख. ज. °व च । स । ७ च. परो धन्य । ८ क. ख. ज. पेण सं।

[अध्या. १ ली।] काठकोपनिषत् । ११५ मा० टी०-बुद्धिसुखदुःखादिः साश्रयो गुणत्वाद्रूपवदिति वैशेषिका अनुमिमते तदसत् । साश्रयत्वमानसाधने सिद्धसाधनत्वान्मनस एव कामादिगुणवत्त्वश्रवणादात्मा- भयत्वकपने च निर्गुणत्वशास्त्रविरुद्धत्वादात्मना सह बुद्धयादेरविनाभावाग्रहणाच्च बु- द्वयादि नाऽऽत्मलिमित्याह-लिङ्ग यते गम्यते येनति ॥ ८ ॥ गो० टी०-व्यापकत्वे हेतुमाह-व्यापकस्यति । बुद्धयादि साश्रयं गुणत्वादू- पादिवदिति वैशेषिका अनुमिमते तदसत्साश्रयत्वसाधने सिद्धसाधनत्वान्मनस एव कामा- दिगुणवत्त्वश्रवणादात्माश्रयत्वकल्पने च निर्गुणवत्प्रतिपादकशास्त्रविरोधादात्मना सह बुद्ध्यादेरविनाभावाग्रहणाञ्च न बुद्ध्याद्यात्मालिङ्गमित्याह-लिङ्गम्यते गम्यते येनेति । मुच्यतेऽमृतत्वं च गच्छतीति वाक्ययोः पौनरुक्त्यं परिहरन्न्याचष्टे-यं ज्ञात्वेत्या- दिना ॥८॥ कथं तीलिङ्गस्य दर्शनमुपपद्यत इत्युच्यते- न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्च- नैनम् । हृदा मनीषा मनसाऽभिक्लुप्तो य एतद्वि- दुरमृतास्ते भवन्ति ॥ ९ ॥ न संदृशे संदर्शनविषये न तिष्ठति प्रत्यगात्मनोऽस्य रूपम् । अतो न चक्षुषा सर्वेन्द्रियेण । चक्षुर्ग्रहणस्योपलक्षणार्थत्वात् । पश्यति नोपल. भते कश्चन कश्चिदप्यनं प्रकृतमात्मानम् । कथं तार्ह तं पश्येदित्युच्यते- हृदा हुत्स्थया बुद्धया । मनीषा मनसः संकल्पादिरूपस्येष्टे नियन्तृत्वे- नेति मनीट् तया हृदा मनीषोऽविकल्पयित्र्या । मनसा मननरूपेण सम्यग्दर्शनेन अभिक्लृप्तोऽभिसमर्थितोऽभिप्रकाशित इत्येतत् । आत्मा ज्ञातुं शक्यत इति वाक्यशेषः । तमात्मानं ब्रह्मेतद्ये विदुरमृतास्ते भवन्ति ॥९॥ आ० टी०-कथं दर्शनमुपपद्यत इति प्रष्टुः कोऽभिप्रायः किं विषयतया दर्शनं वक्तव्यमुताविषयतयैव दर्शनोपायो वाच्यः प्रथमं प्रत्याह--न संदृश इति । रूपा- दिमत्तद्विशेषणं च दर्शनविषययोग्यं भवति तदभावादित्यर्थः । द्वितीयं प्रत्याह-कथं तहीति । बाह्यकरणग्रामोपरमेऽपि यदा मनो विषयान्संकल्पयते तदा मुमुक्षोर्बुद्धिस्तस्य नियन्त्री भवति । हे मनः किमर्थं त्वं पिशाचवत्प्रधावसि । न तावत्स्वप्रयोजना. र्थम् । तव जडत्वात्प्रयोजनसंबन्धानुपपत्तेविषयाणां च क्षयिष्णुत्वादिदोषदुष्टानां संब- १क ख. ग. तर्हि तस्यालि । २ क. ज. शे द° । ३ ङ. झ. ज. ठ. 'कृतात्मा' । ४ क. 'हिं तत्पश्ये । ट. हि प°।५ क. ख. ज°षा विकल्पवर्तितया । म । ६ इ. झ. म. ठ. "क्य ।

टीकाद्वयसमेतशांकरभाष्योपेता- [अध्या०.१ ली ३] न्धेन प्रयोजनानुपपत्तेः । नापि चेतनार्थम् । तस्यासनत्वात्परमानन्दस्वभावत्वाच्चेति नियन्तृत्वेन बुद्धिर्मनीडच्यत इत्याह-मनस इति । अविकल्पयिन्यति । विषय- कल्पनाशून्यया ब्रह्मास्मीत्यविषयतयैव ब्रह्मभावव्यञ्जिकया महावाक्योत्थया बुद्धिवृत्त्या ज्ञातुं शक्यत इति संबन्धः । कथंभूत आत्मेत्यत आह-मनसेति । यथन्मया दृश्यते बाह्य घटादि तत्तदहं यथा न भवामि तथाऽस्मिन्नपि संघाते यथदृश्यं तत्तदहं न भवामि किंतु योऽत्र ज्ञोऽशः सोऽस्मि सर्वशरीरेप्वेकलक्षणलक्षितत्वादेक एवेति विचारेण प्रथम संभावित इत्यर्थः ॥ ९ गो० टी--आलिङ्गत्वे दर्शनमनुपपन्नामिति पृच्छति-कथमिति । प्रष्टुः कोऽमि. प्रायः किं विषयतया दर्शनं वक्तव्यमुताविषयतयैव दर्शनोपायो वाच्य इति । प्रथम प्रत्याह--न संदृश इति । अस्य प्रत्यगात्मनो रूपं न संदर्शनविषये तिष्ठतीत्यन्वयः। रूपादिमदर्शनयोग्यं भवति तदभावादिति भावः । द्वितीयं प्रत्याह-कयं तीति । बाह्यकरणग्रामोपरमेऽपि यदा मनो विषयान्संकल्पयते तदा मुमुक्षोर्बुद्धिस्तस्य नियन्त्री भवति । हे मनः किमर्थ त्वं पिशाचवद्धावास न तावत्स्वप्रयोजनार्थ जडत्वात्प्रयोजनसं- बन्धानुपपत्तेविषयाणां च क्षयिष्णुत्वादिदोषदुष्टानां संबन्धेन प्रयोजनानुपपत्तेः । नापि चेतनार्थ तस्यासङ्गत्वात्परमानन्दस्वभावत्वाच्चेति नियन्तृत्वेन बुद्धिर्मनीडित्युच्यत इत्याह- मनम इति । अभिप्रकाशित इति । योऽत्र संघाते ज्ञोऽशः सोऽस्मिन्सर्वशरीरेष्वे. कलक्षणलक्षितत्वादेक एवेति विचारेण प्रथमं संभावित इत्यर्थः ॥ ९ ॥ सा हृन्मनीटकथं प्राप्यत इति तदर्थो योग उच्यते- यद। पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह । बुद्धिश्च न विचेष्टेति तामाहुः परमां गतिम् ॥ १० ॥ यदा यस्मिन्काले स्वविषयेभ्यो निवर्तितान्यात्मन्येव पर्थ ज्ञानानि । ज्ञानार्थत्वाच्छोत्रादीन्द्रियाणि ज्ञानान्युच्यन्ते । अवतिष्ठन्ते सह मनसा यदनुगतानि तेन संकल्पादिव्यावृत्तेनान्तःकरणेन । बुद्धिवाध्यवसायल- क्षणा न विचेष्टुति स्वव्यापारेषु नैं विचेष्टते न व्याप्रियते तामाहुः परमां गतिम् ।। १०॥ आ० टी०-श्रुतवेदान्तानामपि केषांचिद्रमास्मीतिबुद्धिस्थैर्यादर्शनादस्ति किंचि- प्रतिबन्धकान्तरं तदपनयोपायोऽप्यन्यो वक्तव्य इत्यभिप्रेत्याऽऽह-सा हदिति । श्रवणमननाभ्यां प्रमाप्रमेयासंभावनानिरासेऽपि चित्तस्यानेकाग्रतादोषः प्रतिबन्धकः संम. १ ठ. 'बन्धत्वेन । २ घ. दर्थे यो ।३ क. ख. च.टते ता । ४ क. ख. च. 'चाहानार्थ ५. क. च. दीनीन्द्रि। ६ क. ख. ज. 'टते स्व । ७ क. ख. च. ज. न चे [ अध्या० २ वल्ली ३] काठकोपनिषत् । पति तदपनयाय योगोऽनुष्ठातव्य उपदिश्यत इत्यर्थः । यदनुगतानीति । येन येन मन- साऽधिष्ठितानि तेन तेन सहावतिष्ठन्ते निवृत्तव्यापाराणि भवन्तीत्यर्थः ॥ १० ॥ गो. टी.-श्रुतवेदान्तानामपि केषांचिद्ब्रह्मास्मीतिबुद्धिस्थैर्यादर्शनादस्ति प्रतिबन्धा- न्तरं तदपन यनायान्योऽप्युपायो वक्तव्य इत्याह--सा हृन्मनीडिति । श्रवणमननाम्यां प्रमेयासंभावनानिरासेऽपि चित्तस्यानेकाग्रतादोषः प्रतिबन्धकः संभवति तदपनयनाय योगोऽनुष्ठेय उपदिश्यत इत्यर्थः । ज्ञायतेऽनेनार्थ इति व्युत्पत्त्या ज्ञानशब्देन श्रोत्रायुच्यत इत्याह--जानेति । यदनुगतानि संकल्पाद्यात्मकं यदन्तःकरणं तेनानुगतानि तेनान्तःकर- णेन सहावतिष्ठन्ते निवृत्तव्यापाराणि भवन्तीत्यन्वयः । बुद्धिश्चेति । येन येनेन्द्रियेण सह कृता विषयपरिच्छेदाय प्रभवति तेन तेन सहावतिष्ठते निवृत्तव्यापारा भवतीत्यर्थश्चकारा- गम्यते । परमां गतिमिति । उत्कृष्टफलसाधनत्वात्परमत्वम् ॥ १०॥ तां + योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम् । अप्रमत्तस्तदा अवति योगो हि प्रभवाप्ययौ॥११॥ तामीदृशीं तदवस्थां योगमिति मन्यन्ते वियोगमेव सन्तम् । सर्वान- थसंxयोगवियोगलक्षणा हीयमवस्था योगिनः । एतस्यां यवस्थायाम- विद्याध्यारोपणवर्जितस्वरूपमतिष्ठ भात्मा । स्थिरामिन्द्रियधारणां स्थिरामचलामिन्द्रियधारणां बाह्यान्तःकरणानां धारणमित्यर्थः । अप्रमत्तः प्रमादवर्जितः समाधान प्रति नित्यं यत्नवांस्तदा तस्मिन्काले यदैव प्रत्- त्तयोगो भवतीति सामर्थ्यादवगम्यते । न हि बुद्धयादिचेष्टाभावे प्रमाद- संभवोऽस्ति । तस्मात्यागेव बुद्धयादिचेष्टोपरमादप्रमादो विधीयते । अथवा यदैवेन्द्रियाणां स्थिरा धारणा तदानीमेव निरङ्कुशमप्रमत्तत्व मित्यतोऽभिधीयतेऽप्रमत्तस्तदा भवतीति । कुन: । योगो हि यस्मात्मभ- वाप्ययावुपर्जनापायधर्मक इत्यर्थोऽतोऽपायपरिहारायाप्रमादः कर्तव्य इत्यभिप्रायः ॥ ११॥ आ० टी०-वियोगमेव सन्तं योगमिति विरुद्धलक्षणया मन्यन्त इत्युक्तं तत्स्फु- टयति-सर्वान!ति । उपसंहृतं मनो यदि सुषुप्तिं गच्छेत्तदा साऽनर्थवीजावस्था + छान्दसत्वात्साधुत्वम् । x टीकायां संयोगपदोल्लेखो नास्ति । संयोगपूर्वको वियोग इति तु विग्रहो भवेत् । १ झ. अ. ट. 'दशीमव । २ अ. अ. ट. "र्जितः स्व । ३ झ. अ. द. 'रणाम।४ क. ज. "त्यं प्रय। ५ न. ट. तो विधी । घ. जनपा ।

टीकाद्वयसमेतशांकरभाष्योपेता- [अध्या० २ वडी ३]
भवति । तद्व्यावृत्तये पूर्ण ब्रह्मास्मीत्यावृत्तौ योजयेदावृतौ नियुक्तं विषयेषु विक्षिप्तं चेत्स्या-
तदोषदर्शनेन ततोऽपि न्यावर्तयेत् । न्यावृत्तमपि ततस्तटस्थं चेत्स्यात्साऽपि यावत्कषाया-
वस्था ततो निरुद्धं मनो यदा न जागर्ति न स्वपिति न चान्तरालावस्थं भवति पूर्णब्रह्माव-
भासकतयैव क्षीणं भवति तदा सर्वानर्थवियोगलक्षणा साऽवस्था भवतीत्यर्थः । योगारम्भ.
काले प्रमादवर्जनं विधेयतया व्याख्यायानुवादपरतया व्याचष्टे- अथवेति । विधिपक्षे
हेतुं पृच्छति-कुत इति ॥ ११ ॥
गो० टी०-वियोगमेव सन्तं योगमिति विरुद्धलक्षणया मन्यन्त इत्युक्तं तत्स्फुट.
यति-सर्वानर्थेति । यद्यहाह्य घटादि तत्तदहं न भवामि यथा तथाऽस्मिन्नपि संघाते
यद्यदृश्यं तत्तदहं न भवामि किंतु पूर्ण ब्रह्मास्मीत्येवमाकारवृत्तौ चित्तं योजयेत्तचित्तं
विषयेषु विक्षिप्तं चेत्स्याद्विषयदोषदर्शनेन व्यावतयेद्वयावृत्तं रागादिमचेत्स्यात्साऽपि कषा.
यावस्था ततो निरुद्धं मनो यदा न जागति न स्वपिति न चान्तरालावस्थं भवति न च
रसस्वादयुक्तं पूर्णब्रह्मावभासकतयैव क्षीणं भवति तदा सर्वेभ्योऽनर्थो वियोगोऽसंबन्ध
एवं ( व ) लक्षणं स्वरूपं यस्याः सा तादृशी भवतीत्यर्थः । हिशब्दो वेदान्तप्रसिद्ध्य.
वद्योतकः । अस्या अवस्थायाः प्रयोजनमाह -- एतस्यामिति । लयविक्षेपकषायरसस्वा-
दवर्जितायाम् । आत्मा ज्ञातुं शक्यत इति शेषः । कथंभूत आत्मेत्यत आह--अविद्या-
ध्यारोपणेति । क्वचिदविद्याध्यारोपणवर्जिता स्वरूपप्रतिष्ठाऽऽत्मन इति पाठान्तरम् ।
पूर्वोक्तामवस्थां विशिनष्टि--स्थिरामिति । योगारम्भकाले प्रमादवर्जनं श्रुतिर्विधत्त
इत्याह-अप्रमत्त इति । सामर्थ्यादिति । प्रमादवर्जनमन्तरा योगस्य दुप्पापत्वादित्यर्थः।
ननु योगोत्तरकालमेवाप्रमादो विधीयतामित्याशङ्कयाऽऽह--न हीत्यादिना । अभाव
इति पदच्छेदः । योगारम्भकाले प्रमादवर्नन विधेयतया व्याख्यायानुवादपरतया व्याचष्टे-
अथवेति । विधिपक्षे हेतुं पृच्छति-कुत इति ॥ ११ ॥
बुद्धयादिचेष्टाविषयं चेब्रह्मेदं तदिति विशेषतो गृह्येत बुद्धयागुपरमे
च ग्रहणकारणामावादनुपलभ्यमानं नास्त्येव ब्रह्म । यद्धि करणगोचरं
तदस्तीति प्रसिद्ध लोके विपरीतं चासदित्यतश्चानर्थको योगोऽनुपलभ्य-
मानत्वाद्वा नास्तीत्युपलब्धव्यं ब्रह्मेत्येवं प्राप्त इदमुच्यते । सत्यम्-
नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा ।
अस्तीति बुवतोऽन्यत्र कथं तदुपलश्यते ॥ १२ ॥

[ अध्या० २ वल्ली ३] काठकोपनिषत् । ११९ नैव वाचा न मनसां न चक्षुषा नान्यैरपीन्द्रियैः प्राप्तुं शक्यत इत्यर्थः। तथाऽपि सर्वविशेषरहितोऽपि जगतो मूलमित्यवगतत्वादस्त्येव कार्यम- विलापनस्यास्तित्वनिष्ठत्वात् । तथा हीदं कार्य सूक्ष्मतारतम्यपारम्पर्ये- णानुगम्यमानं सबुद्धिनिष्ठामेवावगमयति। यदाऽपि विषयपविलापनेन प्रविलाप्यमाना बुद्धिस्तदाऽपि सा सत्प्रत्ययगभैव विलीयते बुद्धिार्ह नः प्रमाणं सदसतोर्याथात्म्यावगमे । मूलं चेजगतो न स्यादसदन्वितमेवेदं कार्यमसदित्येवं गृह्येत न त्वेतदस्ति सत्सदित्येव तु गृह्यते । यथा मृदा- दिकार्य घटादि मृदाद्यन्वितम् । तस्माजगतो मूलमात्माऽस्तीत्येवोपल- धव्यः । कस्मात् । अस्तीति ब्रुवतोऽस्तित्ववादिन आगमार्थानुसारिणः श्रधानादन्यत्र नास्तिकवादिनि नास्ति जगतो मूलमात्मा निरन्वयमेवेदं कार्यमभावान्तं प्रविलीयत इति मन्यमाने विपरीतदानि कथं ताँ तत्त्वत उपलभ्यते न कथंचनोलम्यत इत्यर्थः ॥ १२ ॥ आ० टी०-उत्तरमन्त्रमवतारयितुं शङ्कामुद्भावयति-बुद्धयादिचेष्टाविषयं चेदिति । घटोऽस्ताति प्रतिपन्नस्य घटस्य मुद्राभिघाताद्विलापने घटाकार एव विलीयते नास्तित्वांशस्तस्य कपालादावप्यनुवृत्तिदर्शनात् । अतः कार्यप्रविलापनस्यास्तित्वनिष्ठत्वान्न शून्यतापर्यवसायी लय इत्युक्तमेतत्स्फुटयति--तथा हीति । स्थूलस्य कार्यस्य विलये सूक्ष्मं तत्कारणमवशिष्यते तस्यापि विलये ततः सूक्ष्ममिति यावद्दर्शनव्याप्तिमुपलभ्य यत्र न दृश्यते तत्रापि मूर्तविलयस्यावश्यंभावित्वात्सन्मात्रमेवामूर्तमवतिष्ठत इति कार्यमेव सौ(म्)- क्ष्मतारतम्यपारम्पर्येणानुश्रियमाणं सद्बुद्धिनिष्ठां पुरुषम्य ग (षस्यावर्ग) मयतीत्यर्थः । ननु यदृश्यं तदसद्यथा स्वप्नदर्शनमिति व्यातिदर्शनादास्तत्वेन दृश्यस्यासत्त्वात्सद्बुद्धिरपि नास्त्येवेत्याशङ्कयाऽऽह--यदाऽपीति। सद्बुद्धिरपि नास्तीत्येवंभूतः प्रत्ययोऽवश्यमस्ती. त्यम्युपगन्तव्यम् । अन्यथा निषेधव्यवहारायोगात् । अतोऽन्ततो गत्वा सद्बुद्धिः स्वीकृता स्यादित्यर्थः । ततः किमित्यत आह—बुद्धिहींति । व्यभिचारिप्वपि विषयेषु सन्मात्र- बुद्धेरन्यभिचारदर्शनाबुद्धेश्च स्वतः प्रामाण्यात्सन्मात्रं वस्त्वभ्युपगन्तव्यमित्यर्थः । इतश्च सदेव मूलं जगतो वाच्यमित्याह--मूलं चेदिति । नास्ति जगतो मूलं ब्रह्मेत्यवगमेऽपि प्रतियोगितया ब्रह्मज्ञानसंभवात्किमिति मुमुक्षुणा ब्रह्मज्ञानकामेनास्तीत्येवोपलब्धव्यमित्याह- १ क. हु. ट. चा वा म । २ झ. म. °सा च' । ३ झ. म. ट. "तथा हि स । ४ घ. 'विलयस्या । ५ घ. ङ. श. म. ट. ठ. तत्र हो । ग तथा हि तत्र ही । ६ ड. स. ख. 2. सत्यप्रत्य' । ७ क. च. ट. गर्भव । ८ ग. घ. च, ज. °सदसदि । ९ ग घ. मृदसत्वे का । १० क. ख. ज. "ब्धव्यम् । क । ११ ग. घ. च. "स्तिवा । १२ क. झ. स. ८. प्रली । १३ झ. . ट. 'ह्मतत्वमुप।

१२० टीकास्यसमेतशांकरभाष्योपेता- [ अध्या० २ वल्ली ३) कस्मादिति । प्रतियोगितया ज्ञानस्य निषेध्यत्वादात्मतया ज्ञानं न स्यादतो ब्रह्मज्ञानकामे. नास्ति जगन्मूलमित्यवगन्तव्यमेवेत्याह--अस्तीति ब्रुवत इत्यादिना ॥ १२ ॥ गो० टी०-उत्तरमन्त्रमवतारयितुं शङ्कामुद्भावयति-- बुद्धयादिचेष्टाविषयं चेदि- ति । घटोऽस्तीति प्रतिपन्नरय घटस्य मुद्गरप्रहाराद्विलापने घटाकार एव प्रविलीयते नास्तित्वांशस्तस्य कपालादावप्यनुवृत्तिदर्शनादतः कार्यप्रावेलापस्यास्तित्वनिष्ठत्वान्न शून्य- तापर्यवसायी लय इत्युक्तमेतत्स्फुटयति---तथा हीति । स्थूलस्य कार्यस्य विलये सूक्ष्म तत्कारणमवशिष्यते तस्यापि विलये ततः सूक्ष्ममिति यावद्दर्शनव्याप्तिमुपलभ्य यत्र न दृश्यते तत्राप्यमूर्तविषयत्वावश्यंभावित्वात्सन्मात्रमेवामूर्तमवतिष्ठत इति कार्यमेव सूक्ष्म- तारतम्यपारम्पर्येणानुभूयमानं सत्त्वबुद्धिनिष्ठां पुरुषस्य ग( पस्यावग )मयतीत्यर्थः । ननु यदृश्यं तदसद्यथा स्वप्नदृश्यमिति व्याप्तिदर्शनादस्तित्वेन दृश्यस्य सर्वस्यासत्त्वात्सदबुद्धिरपि नास्त्येवेत्याशङ्कयाऽऽह--यदाऽपीति । सद्बुद्धिरपि नास्तीत्येवं प्रत्ययोऽवश्यमभ्युपग- न्तन्योऽन्यथा निषेधव्यवहारायोगात् । अन्ततो गत्वा सद्बुद्धिः स्वीकृता स्यादित्यर्थः। ततः किमित्यत आह--बुद्धिहीति । व्यभिचारिप्वपि विशेषेषु सन्मात्रबुद्धेरव्यभिचारदर्श- नाबुद्धेश्च स्वतः प्रामाण्यात्सन्मात्रं वस्त्वभ्युपगन्तव्यमित्यर्थः । इतश्च सदेव जगतो मूल वाच्यामित्याह-मूलं चेदिति । ननु नास्ति यजगतो मूलं ब्रह्मेत्यवगमेऽपि प्रतियोगि- तया ब्रह्मज्ञानसंभवात्किमिति मुमुक्षुणा ब्रह्मज्ञानकामेनास्तीत्येवोपलब्धव्यमित्यत आह- त(क)स्मादिति । प्रतियोगितया ज्ञानस्य निषिद्धत्वादात्मतया ज्ञानं न स्यादतो ब्रह्म- ज्ञानकामेनास्ति मूलं जगत इत्यवगन्तव्यमित्याह-अस्तीति ब्रुवत इत्यादिना । तस्मादस्तीति ब्रुवत इति पाठस्त्वनारूढः ॥ १२ ॥ अस्तीत्येवोपलब्धव्यस्तत्त्वभावेन चोभयोः ॥ अस्तीत्येवोपलब्धस्य तत्त्वभावः प्रसीदति ॥ १३ ॥ तस्मादपोखासदादिपक्षमासुरमस्तीत्येवाऽऽत्मोपलब्धव्यः सत्कार्यों बुद्धयाग्रुपाधिः । यदा तु तद्रहितोऽतिक्रिय आत्मा कार्य च कारणव्य. तिरेकेण नास्ति वाचाऽऽरम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यमिति श्रुतेस्तदा तस्य निरुपाधिकस्यालिङ्गस्य सदसदादिप्रत्ययविषयत्वव. र्जितस्याऽऽत्मनस्तत्वभावो भवति । तेन च रूपेणाऽऽत्मोपलब्धव्य इत्यनुवर्तते । तत्राप्युभयोः सोपाधिकनिरुपाधिकयोरस्तित्वतत्वमा- १.स. अ. ट. 'त्येवोप । २ ख. ज. "ब्धव्यस्तावभावेन च स । ३ क. योस्त- दाव । ग. घ.योर्नास्तित्वमा ।

[ अध्या० २ वल्ली ३] काठकोपनिषत् । १२१ वयोः । निर्धारणार्थी षष्ठी । पूर्वमस्तीत्येवोपलब्धस्याऽऽत्मनः सत्का- योपाधिकृतास्तित्वप्रत्ययेनोपलब्धस्येत्यर्थः । पश्चात्पत्यस्तमितसर्वोपा- षिरूप आत्मनस्तत्त्वभावो विदिताविदिताभ्यामन्योऽद्वयस्वभावो नेति नेतीत्यस्थूलमनण्वहस्वमदृश्येऽनात्म्येऽनिलयन इत्यादिश्रुतिनिर्दिष्टः प्रसीदत्यभिमुखी भवति । आत्मप्रकाशनाय पूर्वमस्तीत्युपलब्धवत इत्येतत् ।। १३ ॥ आ० टी०--सोपाधिकस्याऽऽमनो ज्ञानान्मुक्त्यसंभवान्निरुपाधिकज्ञानायापि प्रय. तितव्यमित्याह--यदा विति । सोपाधिके प्रथमं स्थिरीभूतस्य तद्वारेण लक्ष्यपदार्था- वगमे सति क्रमेण वाक्यार्थावगतिः संभाव्यत इत्याह -तत्राप्युभयोरित्यादिना । सदुपलभ्यमानं कार्यमुपाधिर्यस्य कारणत्वस्य तत्कृतो योऽस्तित्वप्रत्ययः कारणत्वादस्ति पर आत्मेति तेनोपलब्धस्येति योजना ॥ १३ ॥ गो० टी०. -सोपाधिकस्याऽऽत्मनो ज्ञानान्मुक्त्यसंभवान्निरुपाधिकज्ञानाय प्रयः तितव्यमित्याह-यदा विति । सोपाधिकस्य प्रथमं स्थिरीभूतस्य तद्द्वारेण लक्ष्यपदा- विगमे सति क्रमेण वाक्यार्थावगमः संभवतीत्याह--तत्राप्युभयोरित्यादिना । सदु. पलभ्यमानं कार्यमुपाधिर्यस्य कारणत्वस्य तत्कृतोऽस्तित्वप्रत्ययः कारणत्वादम्ति पर आ- त्मेत्युपलब्धम्येति योजना ।। १३ ॥ यदा सर्व प्रमुच्यन्त कामा यऽस्य हृदि श्रिताः । अथ मयोऽमृतो भवत्यत्र ब्रह्म समश्नुते ॥ १४ ॥ एवं परमार्थदर्शिनो यदा यस्मिन्काले सर्वे कामाः कामयितव्य- स्यान्यस्याभावात्समुच्यन्ते विशीयन्ते येऽस्य प्राक्पतिबोधाद्विदुषो हदि बुद्धौ श्रिता आश्रिताः । बुद्धिर्हि कामानामाश्रयो नाऽऽत्मा । कामः संकल्प इत्यादिश्रुत्यन्तराच्च । अथ तदा मर्त्यः प्रासबोधादासीत्स प्रबो. घोत्तरकालमविद्याकामकर्मलक्षणस्य मृत्योविनाशा इमृतो भवति, गम- नयोजकस्य मृत्योर्विनाशाद्गमनानुपपत्तरत्रेहेच प्रदीपनिर्वाणवत्सर्वबन्ध नोपशमाब्रह्म समश्नुते ब्रह्मैव भवतीत्यर्थः ॥ १४ ॥ १ क. ख. ज. नेति ह्यस्थू । २ ग. घ. च. श्रुतेनिर्दिछ । ३ ग. घ. च. मात्मद । ४ ग. घ. प. व्यस्याभा । ५ स. अ. द. "त्स बो । ६ क. घ. 'स्य वा मृ" । ७ ख. ज. पत्तेः तेने है।

१२२ टीकाद्वयसमेतशांकरभाष्योपेता- [अध्या० २ वल्ली ३] आ० टी०--सर्वे कामा इति । प्रवृत्तफलकोपस्थापिते शरीरस्थितिनिमित्तान- पानादी प्रवृत्तिकारणेच्छाव्यतिरिक्ताः सर्वे कामाः काम्येन ज्योतिष्टोमादिना स्वर्ग प्राप्स्या. मि त्रैपुर्या(रा)राधनेन जनं वशी करिष्यामीत्येवमादयः स्वर्गादिदेहेष्वप्यहमेव तिष्ठामि तद्भोगाश्च प्राप्ता एवाप्राप्तविषयश्च कामो व्यों मिथ्या चासाविति विचारेण विशीर्यन्त इत्यर्थः । कामाश्रय आत्मेति वैशेषिकमतं श्रुतिबाह्यत्वान्नाऽऽदरणीयमेवेत्याह- बुद्धिहीति ।। १४ ॥ .. गो० टी०--सर्वे कामा इति । प्रवृत्तकर्मतत्फलोपस्थापिते शारीरस्थितिनिमि- त्तानपानादी प्रवृत्तिकारणेच्छाव्यतिरिक्ताः सर्वे कामाः काम्येन ज्योतिष्टोमादिना स्वर्ग प्राप्म्यामीति त्रिपुर्या ( रा ! ) राधनेन जनं च वशी करिष्यामीत्येवमादयः स्वर्गादि देहेप्वहमेव तिष्ठामि भोगश्च प्राप्ते विषयेऽप्राप्तविषयश्च कामो व्यर्थो मिथ्या चासाविति विचारेण विशीर्यन्त इत्यर्थः । कामाद्याश्रय आत्मेति वैशेषिकमतं श्रुतिबाह्यत्वादनादर- णीयमित्याह--बुद्धिहींति ।। १४ ।। कदा पुनः कामानां मूलतो विनाश इत्युच्यते- यदा सर्वे प्रभिद्यन्ते हृदयस्येह ग्रन्थयः । अथ मोऽमृतो भवत्येतावद्ध्यनुशासनम् ॥ १५ ॥ यदा सर्वे प्रभिद्यन्ते भेदमुपयान्ति विनश्यन्ति हृदयस्य बुद्धरिह जीवत एव ग्रन्थयो ग्रन्थिवढ्ढवन्धनरूपा अविद्यापत्यया इत्यर्थः । अहमिदं शरीरं ममेदं धनं सुखी दुःखी चाहमित्येवमादिलक्षणास्तद्वि- परीतब्रह्मात्ममत्ययोपजननाइवाहमस्म्यसंसारीति विनष्टेष्वविद्यान- न्थिपु तन्निमित्ताः कामा मूलतो विनश्यन्ति । अथ मोऽमृतो भवत्ये- तावद्धयेतावदेवतावन्मानं नाधिकमस्तीत्याशङ्का कर्तव्या । अनुशासन- मनुशिष्टिरुपदेशः सर्ववेदान्तानामिति वाक्यशेषः ॥ १५॥ आ० टी०-कामप्रविलयस्य सुषुप्तेऽपि भावादमृतत्वचिहत्वं न भवतीति मत्वाऽऽह- कदा पुनरिति ॥ १५ ॥ - १ ज. 8. ते शरी" । २ ४. 'षये भागोऽप्रा । ३ ट. "त्येतद्ब्रह्ममुपास' । ४ क. छ. स. न. वदनु । ५ इ. झ. अ. त्मज्ञाना । ६ ङ. झ. न. ट. बवास्म्य । ७ झ. अ. द. "मित्तिकाः का । ८ ख. हु. वदे । ९ १. झ. ब. द. वैतन्मा ।

[ अध्या० २ वल्ली ३] काठकोपनिषत् । १२३ गो०टी०-कामप्रविलयस्य सुषुप्तेऽपि मावादमृतत्वज्ञापकत्वं न संभवतीति मत्वाऽऽह- कदा पुनरिति । आवद्याप्रत्ययान्विशिनष्टि-अहमिदमित्यादिना । आत्मप्रत्ययेन तन्नाशं दर्शयन्कामोच्छित्तिमाह-तद्विपरीतेत्यादिना । इति प्रत्ययोपजननादिति संबन्धः । अथ तदेत्यर्थः । उपदिश्यत इति व्युत्पत्त्या प्रत्यगभिन्नः परमात्माऽभि- धीयते ॥ १५ ॥ निरस्ताशेषविशेषव्यापिब्रह्मात्मप्रतिपत्त्या प्रभिन्नसमस्ताविद्यादिग्र- न्यजीवत एव ब्रह्मभूतस्य विदुषो न गतिर्विद्यत इत्युक्तमत्र ब्रह्म सम- श्रुत इत्युक्तत्वान्न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन्ब्रह्माप्यतीति श्रुत्य. न्तराञ्च । ये पुनर्मन्दब्रह्मविदो विद्यान्तरंशीलिनश्च ब्रह्मलोकभाजो च तद्विपरीताः संसारभाजस्तेषामेष गतिविशेष उच्यते प्रकृतोत्कृष्ट- ब्रह्मविद्याफलस्तुतये । किंचान्यदग्निविद्या पृष्टा प्रत्युक्ता च । तस्याश्च फलप्राप्तिप्रकारो वक्तव्य इति मन्त्रारम्भः । नत्र-- शतं चैका च हृदयस्य गड्यस्तासां मूर्धानमभिनिः- सृतका । तयोर्धमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति ॥ १६ ॥ शतं च शतसंख्याका एका च सषुम्ना नाम पुरुषस्य हृदयाद्विनिः- मृना नाड्यः शिरास्तासां मध्ये मूर्धानं भित्त्वाऽभिनिःसृता निर्माता सुषुम्ना नाम । तयाऽन्तकाले हृदय आत्मानं वशीकृत्य योजयेत् । तथा नाड्योर्ध्वमुपर्यायन्गच्छन्नादित्यद्वारेणामृतत्वममरणधर्मत्वमापेक्षिकम् । आभूतसंप्लवं स्थानममृतत्वं हि भाष्यत इति स्मृतेः । ब्रह्मणो वा सह कालान्तरेण मुख्यममृतत्वमेति भुक्त्वा भोगाननुपमान्ब्रह्मलोकगतान् । विष्वट् नानाविधगतयोऽन्या नाड्य उत्क्रमणे निमित्तं भवन्ति संसारम- तिपत्त्यर्था एवं भवन्तीत्यर्थः ।।१६ ॥ आ० टी०-प्रकरणविच्छेदेनोक्तस्य संबन्धं दर्शयति--निरस्तादेपेत्यादिना । यदमाणि भास्करेण प्रकरणाद्ब्रह्मविद्विषयैवेयं गतिरिति तदसद्गतिश्रवणेन लिङ्गेन परिच्छिन्ने १ क. ख. ज. 'रशालि' । २ घ. 'मेव ग । १ ख. च. विश्वगन्या । ४ ग. ङ. भाष्यते । ख. ङ. अ. ट. °णा स । ६ ग. च. झ. अ. ट ठ. विधा ग° । ७ इ. झ. अ. ट. व संभ।

१२४ टीकादयसमेतशांकरभाष्योपेता- [अध्या० १ वल्ली ३] गमनयोग्येऽस्या गतेः संबन्धावगमे सति दुर्बलेन प्रकरणेन प्रकृतब्रह्मवित्संबन्धानुषपत्तेः। ना- ड्यन्तराणामपि तत्संबन्धप्रसङ्गाच्छृतिविरुद्धत्वप्रसङ्गाश्च । विस्तरश्च प्रकटार्थे द्रष्टव्यः॥१६॥ गो० टी०--प्रकरणविच्छेदोक्तस्य संबन्धं दर्शयति-निरस्ताशेषेत्यादिना । निरस्ता अशेषविशेषा यस्मात्तथा तच्च तद्वयापि च तदेव ब्रह्म तस्याऽऽत्मत्वेन प्रतिपत्ति- रुपलब्धिस्तया, प्रभिन्नाः समस्ता अविद्याकामकर्मादय एव ग्रन्थयो यस्मात्स तथो. क्तस्तस्य ॥ १६ ॥ इदानीं सर्वबल्लचर्थोपसंहारार्थमाह- अगुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये संनिविष्टः। तं स्वाच्छरीरात्प्रवृहेन्मुआदिवेषीको धैर्येण ॥ तं विद्याच्छुक्रममृतं तं विद्याच्छुक्रममृत- मिति ॥ १७॥ अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां संबन्धिनि हृदये संनि- विष्टो यथाव्याख्यातस्तं स्वादात्मीयाच्छरीरात्महेदुघच्छनिष्कर्षेत्पृय क्कुर्यादित्यर्थः। किमिवत्युच्यते-मुजादिवेषीकामन्तःस्था धेर्येणापमा- देन । तं शरीरानिष्कृष्टं चिन्मानं विद्याद्विजानीयाच्छुक्रममृतं यथोक्तं ब्रह्मेति । द्विवचनमुपनिषत्परिसमाप्त्यर्थमितिशब्दश्च ॥ १७ ॥ आ० टी०-॥१७॥ गोटी०-॥१७॥ विद्यास्तुत्यर्थोऽयमाख्यायिकार्थोपसंहारोऽधुनोच्यते- मृत्युप्रोनी नाचिकेतोऽथ लब्ध्वा विद्यामेतां योग- विधि च कृतम् । ब्रह्मप्राप्तो विरजोऽभूद्विमृत्युर- न्योऽप्येवं यो विदध्यात्ममेव ॥ १८ ॥ मृत्युमोक्तां यथोक्तामेती ब्रह्मविद्या योगविधि च कृत्स्नं समस्त १ ख ज. ग. "तं शुक्र' । २ क. ख. ज. विष्कर्षे । पृथ' । झ. अ. ट. "निष्कृष्यदि। ३ ख. ज. "तं शुक्रममृतं यः । ४ क. झ. °का नचि । ५ ट. ° केता यथा ल । ६ क. 'प्रो- तो य । ग. च 'तां विद्यां ।

[अध्या० २ वल्ली ३] काठकोपनिषत् । १२५ सोपकरणं सफलमिन्येतत् । नाचिकेतो वरपदानान्मृत्योर्लब्च्या माप्ये- त्यर्थः । किम् । ब्रह्मप्राप्तोऽभून्मुक्तोऽभवदित्यर्थः । कयम् । विद्यामाप्त्या विरजो विगतधर्माधर्मों विमृत्युविंगतकामाविद्यश्च सन्पूर्वामित्यर्थः । न केवल नाचिकेत एवान्योऽपि नाचिकेतर्वदात्मविदध्यात्ममेव निरुपच- रितं प्रत्यक्स्वरूपं प्राप्य तत्त्वमेवेत्यभिप्रायः । नान्यद्रूपमप्रत्ययूपम् । तदेवमध्यात्ममेवमुक्तप्रकारेणे वेद विजानातीत्येवं वित्सोऽपि विरजः सन्ब्रह्मप्राप्त्या विमृत्युर्भवतीति वाक्यशेषः ॥ १८ ॥ आ० टी०- आत्मानं देहमधिकृत्य वर्तत इत्यध्यात्मम् । प्रत्यक्स्वरूपमेव ब्रह्म प्राप्य विमृत्युभवति नान्यद्रूपमार्चरादिमागम्यं प्राप्य संयोगावसानत्वादित्यर्थः । एवं. शब्दस्य विच्छब्देन सह संबन्ध एवं विदिति ॥ १८ ॥ गो० टी०-आत्मानं देहमधिकृत्य वर्तत इत्यध्यात्मम् । प्रत्यक्स्वरूपं ब्रह्म प्राप्य विमृत्युभवति नान्यद्रूपमर्चिरादिमार्गगम्यं प्राप्य संयोगस्य वियोगावसानत्वादित्यर्थः॥१८॥ शिष्याचार्ययोः प्रमादकृतान्यायेन विद्याग्रहणप्रतिपादननिमित्तदोष- प्रशमनार्थेयं शातिरुच्यते- * सह नाववतु । सह नौ भुनक्तु । सह वीर्य करवा- वहै । तेजस्विनावधीतमस्तु मा विद्विषावहै ॥१९॥ ॐ शान्तिः शान्तिः शान्तिः ॥ इति काठकोपनिषदि द्वितीयाध्याये तृतीया वल्ली समाप्ता ॥ ३ ॥ (६) +इति काठकोपनिषदि द्वितीयोऽध्यायः समाप्तः ॥ २ ॥ * ' सह नाववतु ' इत्यस्य सर्वस्य स्थाने सह नाविति शान्तिः ॥३॥इति प्रन्थो वर्तते झ. अ. ट. पुस्तकेषु । छ पुस्तके सह नाववतु इति सर्वम् । ' इति द्वितीयाध्यायः ' इत्यस्य सर्वस्य पधाद्वति । + इति द्वितीयाध्याये तृतीया वल्ली । इति छ. पुस्तके वर्तते । १.स. अ. 'त् । नचिट. °त् । नचिकेता व । २ क. ख. ज. केतोऽध । ३क. ट. थैः । किंच। ४ क. ङ. झ. अ. ट. ल नचि । ५ क झ. 'पि नचिकेतोव । म. ठ. पिनचि। ६ क. स. स. वदध्या । ७ क. ख. ज. मेवं नि । ८ अ. स. म. 'त्ममु । ९ क. ख. ज. 'ण यो । १०. हु. ज. श. म. ट. 'रजाः स । ११ क. ख. ज. 'षश' । १२ क. ख. ज. "न्तिर- भिधीयते । ।

टीकाद्वयसमेतशांकरभाष्योता- [अध्या०२ वल्ली ३] सह नावावामवतु पालयतु विद्यास्वरूपप्रकाशनेन । कः । स एव परमेश्वर उपनिषत्प्रकाशितः । किंच सह नौ भुनक्तु तत्फलप्रकाशनेन नौ पालयतु । सहैवाऽऽवां विद्याकृतं वीर्य सामर्थ्य करवावहै निष्पाद. यावहै । किंच तेजस्विनौ तेजस्विनोरावयोर्यदधीतं तत्स्वधीतमस्तु । अथवा तेजस्वि नावावाभ्यां यदधीतं तदतीव तेजस्वि वीर्यवदस्त्वि.. त्यर्थः । मा विद्विषावहै शिष्याचार्यावन्योन्यं प्रमादकृतान्यायाध्ययना. ध्यापनदोषनिमित्तं द्वेषं मा करवावहा इत्यर्थः । शान्तिः शान्तिः शान्ति- रिति निर्वचनं सर्वदोषोपशमनार्थमित्योमिति ॥ १९ ॥ इति काठकोपनिषद्भाष्ये द्वितीयाध्याये तृतीया वल्ली समाता ॥ ३ ॥ (६) इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्य. श्रीमदाचार्यश्रीशंकरभगवतः कृती काठकोपनिषद्भाध्ये द्वितीयोऽध्यायः समाप्तः ॥ २ ॥ आ० टी०-॥१९॥ इति काठकोपनिषद्भाप्यटीकायां द्वितीयाध्याये तृतीया वल्ली समाप्ता ॥ ३ ॥ (६) इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिप्यानन्दज्ञान विरचिते काठकोपनिषद्भाप्यव्याख्याने द्वितीयाध्यायः समाप्तः ॥ २ ॥ गो० टी०-विद्याग्रहणनिमित्तः शिष्यस्य दोषो विद्याप्रतिपादनं प्रदान शिष्ये. म्यस्तानिमित्त आचार्यस्य दोषस्तदुभयप्रशमनार्थत्यर्थः । कर्ता क इत्याकाङ्क्षायां प्रकरणादीश्वर इत्याह-स एवेति । तेजस्विनावित्येकं पदं षष्ठ्यर्थे व्याख्याय नावि तिपदं छित्त्वा तृतीयार्थे व्याख्यानपूर्वक तेजस्विपदमधीतमित्यस्य विशेषणं करोति- अथवेत्यादिना । सर्वदोषेति । आध्यात्मिकाधिभौतिकाधिदैविकदोषपशमनार्थमित्यर्थः । १ ग. घ. ते स्वधी । २ ख. ज. 'मित्तदोषं । ३ क. ख. ज. नार्थमित्युपनिषत्समाप्त्यर्थः ॥ १९ ॥ई । ङ. अ. नार्थमुपनिषत्समाप्त्यर्थमित्योमिति ॥ १९ ॥ ४ घ. च. ट. 'मित्युपनि- घरसमाप्त्यर्थः ॥ १९ ॥ई।

काल माठी Amerimenew [ अध्या० २ वल्ली ३] काठकोपनिषत् । १२७ ओशब्दो मङ्गलप्रयोजनः कृत्स्नोपनिषदर्थस्मारक इतिशब्दो भाष्यसमाप्तिद्योतनप्रयोजन इति बोध्यम् ॥ १९ ॥ कठवल्लीभाप्यटीका कृता गोपालयोगिना ॥ अनया प्रीयतां देवो दक्षिणाशामुखः शिवः ॥ १ ॥ इति द्वितीयाध्याये तृतीया वल्ली समाप्ता ॥ २ ॥ (६) इति श्रीमत्परमहंसपरिव्राजकाचार्यवर्यश्रीमहालगोपालेन्द्रयतीश्वरविरचिते काठकोप- निषद्भाप्यविवरणे द्वितीयोऽध्यायः समाप्तः ॥ २ ॥ কাশীধাম পুস্তকাল इति परिसमाप्नेयं सटीकाद्वयभाष्योपता काठकोपनिषत् ॥

No text on this page.

४ ८ ८ .... .... ७ q २ .१२ ८ 10 [४] ४९ काव्यप्रकाश:--संकेताख्यर्गकासमेतः । ९० शाखायनारण्यकम -- ऋग्वेदान्तर्गतबाष्कलशाखीयम् । .... ९१ गौतमप्रणीतन्यायसूत्राणि-भाष्यवृत्तिभ्यां समेतानि । .... ९२ श्रीमद्भगवद्गीता--सटीकरामानुजभाष्ययुता । ९३ दर्शपूर्णमासप्रकाश:-किंजवडेकरोपाहवामनशास्विकृतः । ९४ संस्कारपद्धतिः---अभ्यंकरोपावभास्करशास्त्रिविरचिता । ९५ काश्यपशिल्पम्---महेश्वरोपदिष्टम् । ९६ करणकौस्तुभः--कृष्णदैवज्ञविरचितः । .... ९७ मीमांसादर्शनम्-सतन्त्रवार्तिकशाबरभाष्योपेतं भागपञ्चकात्मकम्। २१ ९८ धर्मतत्वनिर्णयः--अभ्यंकरोपाहवासुदेवशास्त्रिप्रणीतः । ९९ भास्करीयबीजगणितम्--नवाकुराटीकासहितम् । १०० प्रायश्चित्तेन्दुशेखर:--मागेशभट्टविरचितः । कुण्डार्कयुतः। .... १०१ शांकरपादभूषणम्--पर्वतइत्युपाहरघुनाथशास्त्रिकृतम् श्रीमत्पद्मपुराणम्--महापुराणान्तर्गतं चतुर्भाभात्मकम् । २० सिदान्तदर्शनम्--महर्षिवेदव्यासप्रणीतं निरञ्जनभाप्ययुतम् । आधानपद्धतिः--किंजवडेकरोपाहवामनशास्त्रिभिः कृता । पश्वालम्भमीमांसा -किंजवडेकरोपाहवायनशास्त्रिविरचिता । शिवभारतम्--कवीन्द्रपरमानन्दविरचितम् । १ or २ .... ८ ५ .... १४ १० .... - आनन्दाश्रममुद्रणालपमुदित ग्रन्थावल्या अकारादिवर्णानुक्रमेण ग्रन्थान मूल्याङ्कन च सहितं सूचीपत्रम् । २ ३ २ ४ ४ १ ३ ४ . १ २ ६ ३ ६ मूल्यम् । ग्रन्थाङ्काः मूल्यम् रू. आ. ४ ७९ छान्दोग्योप०(मिताक्षरा०)२ १४ २० जीवन्मुक्तिविवेकः १२ ० २४ जगिनीयन्यायमालाविस्तरः८ ६ ६९ ज्ञानार्णवतन्त्रम् ८५ ज्योतिर्निबन्धः १५ १४ । ३७ तैत्तिरीयब्राह्मणम् १४ ८ ११ ४२ तैत्तिरीयसंहिता १० ८:३६ तैत्तिरीयारण्यकम् • १२ तैत्तिरीयोपनिषत् १२ १४ १३तैत्तिरीयोपनिषद्भाध्यवार्ति०२ १२ । ७८ त्रिस्थल सेतुः १२ १० ९३ दर्शपूर्णमासप्रकाशः १२ ७४ द्राह्यायणगृह्यसूत्रवृत्तिः १ ४ ३३ धन्वन्तरीय निघण्टुरा०स०६ ९ ९८ धर्मतत्त्वनिर्णयः ४/५६ नित्याषाडशिकार्णवः ४, ८८ निरुक्तम् १६ ४ ३०नृसिंहपूर्वोत्तरतापनीयोप० १ १२ १.९१ न्यायसूत्राणि पद्मपुराणम् २० पश्वालम्भमीमांसा ६ ७२ परिभाषेन्दुशेखरः ८ ४७ पातञ्जलयोगसूत्राणि ३ पुरुषसूक्तम् ०५५ पुरुषार्थचिन्तामणिः १२। ८ प्रभोपनिषत् ४१ अमिपुराणम् ८७ अमिहोत्रचन्द्रिका ८४ अद्वैतामोदः ५७ आचारभूषणम् ५८ आचारेन्दुः आधानपद्धतिः ८१ आश्वलायनश्रौतसूत्रम् ४ ६२ ईशकनकठायुप०(रामा०)२ ७६ ईशकेनकठोपनिषदः ५ ईशावास्योपनिषत् २९ उपनिषदां समुच्चयः ३२ ऐतरेयब्राह्मणम् १० ३८ ऐतरेयारण्यकम् ११ ऐतरेयोपनिषत ९६ करणकौस्तुभः ७ काठकोपनिषत् ६६ काव्यप्रकाशः ८९ काव्यप्रकाशः ९५ काश्यपशिल्पम् ६ केनोपनिषत् ५२ गणेशगीता १ गणेशाथर्वशीर्षम् ७३ गायत्रीपुरब्बरणपद्धतिः १ ६१ गौतमसूत्रम् १. छान्दोग्योपनिषत् (शा०)५ ६३ छान्दोग्योपनिषत् (रामा०)३ سه ४ ९ mm w ur ३ ४ १ २ २ ३ २ ४ কাশীধাম পুস্তকালয় मुख्यम भा. or ८ ४ १२ ४ ४ १२ ar १२ १२ ६ ६ ४ ४ 'ভূদেব চতুষ্পসী। [२] मन्पामा नयम प्रन्या आ० १०० प्रायधिवेन्दुशेखरः १ २ रुद्राध्यायः १५ बृहदारण्यकोपनिषत् ८० बाक्यवृत्तिः ६४ (रामानुजटी०)३ ४८९ वायुपुराणम् ३१ (मिताक्षरा) २ १२ । ८६ विधानमाला १६ बृहदारण्यकोपनिषद्भा.२२ ८२७ वृन्दमाधवः ७१ बृहयोगतरङ्गिणी १० १२ ७७ वेदान्तसूत्रमुक्तावलिः २ ६८ बृहद्मसंहिता १२. ४३ वैयाकरणसिद्धान्तकारिकाः २८ ब्रह्मपुराणम् ४२३ वैयासकन्यायमालाविस्तरः २१ ब्रह्मसूत्राणि (शां०) १२ ०२२ शंकरदिग्विजयः ६७ ब्रह्मामृतवर्षिणी- १०१ शांकरपादभूषणम् ८ दीपिकासमेतानि ८६५ शालायनब्राह्मणम् ८२ ब्रह्मसूत्रवृत्तिः ७ ९० शाहायनारण्यकम् ३४ भगवद्गीता (शां०) २ शिवभारतम् (सटीकशां.) १ ५९ श्राद्धमञ्जरी (पैशाचभाप्य०) १ ८ १७ श्वेताश्वतरोपनिषत् (मधुसूदनीश्रीधरीटी.५ ४.९४ संस्कारपद्धतिः ९२ , ( रामानुजीया) ८.८३ संक्षेपशारीरकम् ९९ भास्करीयबीजगणि.सटी.२ ३५ संगीतरत्नाकरः १० ७५ भाष्यार्थरत्नमाला ५३ सत्याषाढश्रौतसूत्रम् २८ ५४ मत्स्यपुराणम् ६ ५१ सर्वदर्शनसंग्रहः १० माण्ड्क्योपनिषत् ५४० संध्याभाष्यसमुच्चयः २ ९७ मीमांसादर्शनम् २१ ९३९ संस्काररत्नमाला १२ ९ मुण्डकोपनिषत् सिद्धान्तदर्शनम् ६० यतिधर्मसंग्रहः १२ २५ सूतसंहिता ११ ५० यतीन्द्रमतदीपिका ४.१८ सौरपुराणम् ४६ याज्ञवल्क्यस्मृतिः ४८ स्मृतीनां समुच्चयः १ योगरत्नाकरः ०७० स्मृत्यर्थसारः १९ रसरलसमुचयः १२ २६ हस्त्यायुर्वेदः २ ० ५ ६ २ २ ४ ४ ४ २ २ १ ४ mr १०

No text on this page.

No text on this page.

No text on this page.

No text on this page.

Kathkopanipat

Author
Apte, Vinayak Ganesh
Title
Kathkopanipat
File name
Kathkopanipat
Text
OCR done
Citation
1927
Published
2010/04/6
Publisher
Anandashram Mudralay, Calcutta
Language
Sanskrit
Pages
152
Library
Uttarpara Jaykrishna Public Library, Hooghly
Classification
Sanskrit Verse
Keywords
Apte, Vinayak Ganesh
DLI number
513469
Barcode
4990010020446.00
Scanning centre
C-DAK, Kolkata
Digital publisher
Digital Library Of India
Rights
In Public Domain
VMLT id
rilkvMHxULj
Download PDF

Kathkopanipat