Scl
Vaiyakarana Siddhanta Laghu Manjusha No 253
Front matter
॥ श्री। आनन्दवविधानितुमनोभिः जुलुसंस्कता । सुवर्णातिभन्याभशनपत्त्रपरिष्कृता ॥ १ ॥ बौखम्बा-संस्कृतनाथमाला मन्जुलदर्शना ।। रलिकालिकुलं कुर्यादान्दाऽऽमोदमाहितम् ॥ २ ॥ स्तवकः-२५३ १ अस्या चौखम्बा---संस्कृतवन्धमालायां गतिमाम पृष्ठानको सुन्दरः सीतकारहन मे पने एकः स्तवको मुद्रथिन्वा प्रकाशने । एकस्मिन् स्तवके एक एव ग्रन्थों मुले । २ मानना दुर्लभाश्रामुद्रिता मीभासावदान्तादिदर्शनमाकरणधर्मशाम काहिन्यपुगणादिनन्या एवाऽय सुगारवृत्य नु यून्त । ३ काशिकराजकीय धानमनपाठशालामा पगिडना अन्ये च शानदृष्टय विद्वाम एनपरिधिनादिकार्यकारिणो भवन्ति । ५ नारनवगाय ,बहादरी,सिंहल द्वीपवासिभिश्चैताहकदेयं वार्षिकमान मं मन्यम्-मुद्रा. आन काः८ ५ अन्य प्रतिस्तव ६ प्रापणम्परः पृथग नास्ति। " ... ... ... माम्म मुत्य मागा पन्थाः- त्रा यतीन्द्रीय विद्वानमितम्या- (1) मस्काररन्नमाला । गोपीनाथ मना ख्यानग। ममम । (वेक्षन्तः) ६ खण्डे (५) मादामनगमांडणनिर्मिता सम्पूर्णा २ (२) शब्दकौस्तुभः । गोजिदीक्षितकृतः २२ (१०) सिद्धिय पम्-विशिष्टादून वननिरूपणपरम् (३ ) श्लोकवार्तिकम् । गागारिलविरचितम श्रीभागकना परमगुरुनिः श्रीश्रीयानुन- पार्थसारथिमिकतन्यायरत्नाकराख्यया- मुनिमिविरचितम । सम्पूर्णम बनान्तः १ व्याख्यया सहितम् । सम्पूर्णम् । १० (११) आयगकरन्दः । श्रीमदानन्दलाधभट्टा- (४) भाष्योपहितं तत्त्वत्रयम् । विशिटा रका वामगृहीतः । आचार्यचित्सुख- ऐतदर्शनप्रकरणम् । श्रीमश्लोकाचार्षप. मुनि विरचिनव्याख्योपेतः ( वेदान्तः)४ णीतम् । श्रीनारायणतीयविराचेनमार- .(१२) विभदन्वर्थनिर्णयो न्यायानुसारिप्रथमादि- भाषाप्रकाशमहितं सम्पूर्णम् (वेदान्तः): समविभामिविस्तृतविचाररूप: म० म० (५) करणप्रकाशः । श्रीबहादेवविरचितः २ श्रीगिरिधरोपाध्यायविरचितः । सम्पूर्णः (६) भादृचिन्तामणिः । महामहोपाध्यायधी (न्यायः) ... गागाभट्टविरचिता । तर्कपाद मीमामा)२ (१६) विधिरसायनम् । श्रीअप्प यदीक्षितकन- (6) न्यायरत्नमाला-श्रीपार्थमा राथमिश्रविर म् । सम्पूर्णम् ( मी मासा ) चिता संपूर्णा ( मीमांसा ) (१४) न्यायसुधा ( नन्त्रवार्तिकटीका ) भ. (८) अप्रभूधभाष्यम् -बादरायणप्रणीतवेदान्त सोमेश्वरविरचिता । (मीमांसा ) १६. .. ५ तिनिरूपणम् । १००१ वदता सर्वाधानमेव निषिध्यते अत एवोक्तरीत्या लौगाक्षिसङ्गतिः रित्यपि दीक्षितायुक्तमपास्तमित्याद्यन्यत्र स्पष्टम् । *धनेति । लौ. किकेत्यादिः । ननु तत्सत्वानिवृत्तिरेव कुतो नात आह *प्रतिष्ठति । तत्र रागोत्कच्यादेव तत्र न द्वेष इति तद्भाने ऽपि न निवृत्तिरिति भावः । *अत एव-उक्तोऽर्थः । व्याख्यानग्रन्थमाह * दम्भइति। पदा. धिक्यं निराचष्टे *अपिचेतीति । अस्य तात्पर्यमाह *यद्यपीति । *अयम्-अग्निहोत्रादिः । अन्यदपि तत्रोक्तमित्याह *विधीति । अन्न- दानरहितम् । वस्तुतस्तद्वत्तस्य तत्त्वकल्पनाऽपि न, मानाभावात, गौरवाञ्च, कि वन्यथा व्यवस्थैवोचितेत्याह *किञ्चति । इदमन्य- त्राप्यावश्यकमित्याह *अत एवेति । ततो व्यवस्थौचित्यादेवेत्य- र्थः । एतेनेत्यस्यार्थमाह *उत्तोति । युक्कं चैतदित्यायुक्तदोपमुद्धरति *तत्चदिति ॥ ३३ ॥ ननु भीमकण्वादीनां पायोक्तयोः- वैयाघूपधगोत्राय सांकृत्यप्रवराय च । गङ्गापुत्राय भीष्माय आजन्मब्रह्मचारिणे ।। अपुत्राय ददाम्धेतडकं भीष्मवणे । इत्यादितपणनन्त्र- वसूनामवताराय शन्तनोरात्मजाय च । अव्यं ददामि भीमाय आबाल्यब्रह्मचारिणे ॥ इत्यर्घ्यदानमन्त्रयोर्नित्यन्त्रह्मचर्यश्रवणादपत्नीक- तथा ऽपत्नीकस्य च पत्नीबदस्याग्निहोत्रं भवति' इत्यादि- वचनैरग्निसाध्ये कर्मण्यनधिकारात्कथं तद्नुष्ठानम् ? । 'अयं पितरमाज्ञाय कामात शन्तनुं पुरा । उर्ध्वरेतसमात्मानं चकार'इति वचनाच्च । 'भा- व्यनूर्ध्वरेतस्त्वमावृत्योर्ध्वरेतसं चकार'इति तदर्थः । आवाल्यब्रह्मचारिणे इत्याधेकवास्यत्वात् । १२६ - १००२ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । त्वां हि राज्ये स्थितं स्फीते समग्राङ्गमरोगिणम् । स्त्रीसहस्रैः परिवृतं पश्यामीहोर्ध्वरेतसम्॥ इति- शान्तिपोक्तिस्तु दास्यादिभिरप्युपपन्ना । स्त्री- शब्दस्य पत्नीपोयत्वाभावाद । अनेकसहस्रविवाहा. भावाच । अद्यप्रभृति मे दाश ब्रह्मचर्य भविष्यति । इत्यस्या दाशाने कृतप्रतिज्ञायाः पुनर्ब्रह्मचर्य भ. विष्यतीत्यर्थः। किञ्च पूर्व ब्रह्मचर्याभावे अमोघवीयत्वेन कथं तस्य पुनाभावः स्यात् । किञ्च अनेकसहस्रपत्नीसत्त्वे "ऋतुलातां तु यो भार्याम्" इत्यादिदोषश्रवणात् तत्प्रतिज्ञाया अत्यनौ- चित्यं स्यात् । दाशो वा कथं तत्र पर्यनुयुञ्जीत । प. श्यामीवेति पाठे 'ऊर्ध्वरेतसं शिवमिव पश्यामि'- इत्यर्थः। ऋते शान्तनवादीष्मान्न पश्याम्यूर्ध्वरेतसम् ॥ इत्युत्तराधपाठः क्वचित् । ऊर्ध्वरेतस्त्वं चाष्टविध- मैथुनेच्छारहितत्वम् । एतेनैतबलात्तस्य पत्नीकल्पनम- पास्तम्। नच नित्यस्य ऋतुकालिकस्युपगमस्य नैमित्ति- केन पित्रथमङ्गीकृतेन ब्रह्मचर्येण बाधः । षोडश्या- मेव संनिहितं प्रति अनेन नित्येन तत्तनैमित्तिकस- कलनिषेधस्य बाधदर्शनात् । अत एव 'ऋतौ श्राद्धदि- ने ऽपि भार्या गच्छतो न ब्रह्मचर्यहानिः इति मिताक्ष- रा। तस्य अग्निहोत्रादिसत्त्वे मानं तु तन्मरणकाले-
तिङयनिरूपणम् । १००३
महता राजयोगेन परिवारण संवृतः ।
स्तूयमानो महातेजा मीष्मस्याग्रीन नुवजन् ।।
प्राप्तोऽस्मि समर्थ राजन्ननीनादाय ते विभो ।
इत्यादि भारते युधिष्ठिरवाक्यश्रवणम् ।
य एष रोपात्तपन् बलस्थो
यो नः सेनां सिंह इवाररक्ष ।
स एष भीष्मः कुरुवंशकेतुः
येनाहृतास्त्रिदशा वाजिमेधाः ॥
इत्यादि च ।
त्रिशतं वाजिमेधा इति कचित्पाठः । नोऽस्मत्तः,
सेनां स्वसेनामित्यर्थः।
कण्वस्य तु महाकविना कालिदासेन शकुन्तला-
नाटके शकुन्तलोपाख्याने भारतोक्तमूर्ध्वरेतस्त्वं प्रथ-
माङ्के स्वयमुक्त्वा चतुर्थे तस्य वैतानिकाग्निवर्णनं कृत.
म् । एवमाधुनिकानामप्यनधिकारिणां तत्कर्मणि प्रवृ.
त्तिरिति चेन्न। बचब्राह्मणे "अपत्नीकोऽग्निहोत्रमाह-
रेनाहरे३" इति विचारमुपक्रम्य "आहरेदित्याहुः,
यदि नाहरेदनद्धा पुरुषः स्याद् ,कोऽनद्धा पुरुषो न देवा-
न पितृन न मनुष्यानिति, तस्मादपत्नीकोऽप्य ग्निहो-
त्रमाहरेदिति तस्मात्सौम्यं याजयेद्" इत्युक्तरपत्नीक-
स्याप्यग्निसाध्ये कर्मण्यधिकारात् । अद्धेति सत्यनाम
तद्विपरीतोऽनडा इत्यर्थः । न देवानिति पूजयेदिति
शेषः । मनुष्यानतिथीन् । अत्रापत्नीकोऽपीत्य.
पिना तस्या विद्यमानत्वे तां विना यज्ञाद्यभावं सू.
चयति ॥ ३४ ॥
१००४ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । (कुं० टी० ) ऊर्ध्वरेतप्तमिति । नच गृही भूत्वा वनी भवेद्वनी भूत्वा प्रव्रजेद्"इति जावालश्रुत्या आश्रमा नियमिताः। स्मृतिरपि- अनधीत्य द्विजो वेदाननुत्पाद्य तथाऽऽत्मनान् । अनिष्ट्वा चैव यज्ञैस्तु मोक्तुमिच्छन् बजत्ययः ॥ इति- चेत्सत्यम् । नेह "हृदयस्याग्रे ऽद्यति अथ जिह्वाया अथ वक्षसः" इतिवत् क्रमो विवक्षितः, "यदिवेतरथा ब्रह्मचर्यादेव प्रव्रजेद्"इत्यादिश्रुतेः । *स्त्रीसहस्टेरिति । स्त्रीसहस्रमध्यस्थत्वे. ऽपि मनःक्षोभाभावादूर्वरेतस्त्वमित्यर्थः । दास्यादिभिरिति । वस्तुतस्तु स्वर्ग भाविस्तीसहस्त्रकथनमिदम् । *नित्यस्येति । नित्यस्याप्येकादश्युपवासादेनैमित्तिकेन चान्द्रायणनिमित्तकभोजनेन बाधवद् इति भावः। कचिन्नित्यस्यैव पावल्यं दर्शयति षोडश्यामिति । रजोदर्शनादिनादारभ्य षोडश निशा ऋतुः । यो हि षोडश्यामेव निशायां पत्नीसंनिधिमान् तत्र श्राद्धादिदिनेऽपि स्त्रियमुपगच्छेदेवत्यर्थः । *नित्येनानेन-ऋ. तुकालिकगमनेन । *चैतानिकेति । वितानो ऽग्नीनां विस्तारः । तत्र भवो गार्हपत्यादिः । *आहरेदिति । “वीरहा वा एष देवानां योऽग्निमुद्वासयते नापुत्रस्य लोकोऽस्ति"इत्यादिश्रुतेश्च भार्यादेपादिना यो बुद्धिपूर्वपनिमुद्रासयते सवीरहेत्यर्थः । *अपत्नीको ऽपीति । दैववशाद् देशान्तरगमने अग्निं सह नयेदित्यर्थः कुतो नेति चिन्त्यम् ॥ ३४ ॥ (क० टी०) *पाझोक्तयोरिति । हेमाद्रौ स्पष्टमिदम् । *इत्या- दीति । आदिना- भीष्मः शान्तनवो वीरः सत्यवादी जितेन्द्रियः ।
तिङर्थनिरूपणम् । १००५ आभिरद्भिरवाप्नोतु पुत्रपौत्रोचितां क्रियाम् ॥ इत्यस्य- परिग्रहः। *तर्पणेति । माघसिताष्टस्यामिति भावः । इदं च न ब्राह्मणस्य तस्य क्षत्रियत्वेन ब्राह्मणपितृत्वाभावात् । स्पष्टं च. दं रामार्चनचन्द्रिकायाम् । *नित्येति । आजन्मब्रह्मचारिणे, आबा. ल्यब्रह्मचारिणे इत्युक्तरिति भावः । *आवृत्येति । पाठे तन्निरस्येत्यः र्थो वोध्यः । भारतमाह *अयमिति । वाल्यशब्दो हि कौमारपरो- नत्वपत्यपर्यायः । एतेन वाल्यशब्दोऽयं राजकुमार इतिवदपत्यप. र्याय इत्यपास्तम् । राजकुमार इत्यस्य हि राजशिशुन तु राजे. त्यर्थः । राजापत्यत्वमारभ्य ब्रह्मचारिणे इत्यर्थे ऽपि वा बाधका. भाव इति न त्वदिष्टसिद्धिः । आदिना "जायापती अग्नी आदधी- याताम्" इत्यादि । अनूर्ध्वरेतस्त्वं ब्यावृत्त्योद्घति पाठः । तन्निरासेने- त्यर्थः । आदिना । भाजन्मेत्यस्य परिग्रहः । एवं जितेन्द्रिय इत्यस्या- पि । सङ्कोचे मानाभावेन वैयाघ्रत्यग्रेऽपुत्रायेति पाठेऽपि प्रागुक्तपाठा. न्तरविरोधं पारेहराते त्यांहीति । दास्यादीत्यादिना वेश्यापरि- ग्रहः । *अभावाञ्चति । असम्भवात् । अन्यथा बहुवचनासङ्गतिरेव. स्यादिति भावः । भारतमेवाविरोधान्तरायाह #आधेति । *कृतति । आदिपर्वणोति भावः । *पुनः-पुनरपि । तथाचदमुभयं न दारप- रिग्रहसाधकमिति तात्पर्यम् । *पुत्राभाव इति । सच तर्पणमन्त्रे, 'अद्यप्रभृति' इत्यस्योत्तरार्धं च 'अपुनस्यापि ये लोका भविष्य- न्त्यक्षया भुवि' इत्यत्र स्पष्टः । स्मृतिपादे ऽपूर्वार्थशिष्टाचारमामा. ण्यप्रतिपादके "अपि वा कारणग्रहणे प्रयुक्तानि प्रतीयेरन्” इति सूत्रे जैमिनीये भट्टाचार्योक्ति खण्उयति *एतेनेति । पाठभेदेन प्रा- गुक्तसर्वदोपेणेत्यर्थः । पुनरपि तदुक्ति खण्डयति *नचेति । य. था चैतत्तथा सर्व स्पष्टीकृतं मिताक्षराव्याख्यायां लक्ष्म्याम् । *त- स्य-भीष्मस्य । आदिना 'अग्नयस्ते समानीताः' इत्यादिपरिग्रहः । न केवलं तावन्मानं किन्तु यज्ञाद्यनुष्ठानश्रवणमपि प्रमाणन्तत्र. त्यमित्याह *य एषे इति । विरोधाभावमाह नोऽस्मत्त इति । अ- वधेः शेषत्वविवक्षायां षष्ठीति भावः । *स्वसेनाम्-स्वीयसेनाम् । *महेति । अभियुक्ततमेनेत्यर्थः । *भारतोक्तमिति । तत्प्रति. पादकभारतोक्तमित्यर्थः । *शकुन्तलोपेति । वहुव्रीहिर्वा । उपाख्याने करणे ल्यडा ।
टीकाद्वयोपेतायां लघुमञ्जूषायाम् । ऊर्दूरेता महाभागे भगवाल्लोकपूजितः । चलेद्धि वृत्ताधर्मोऽपि न चलेच्छंशितव्रतः ॥ कथं त्वं तस्य दुहिता सम्भूता वरवर्णिनी । संशयो भे महानत्र तं मे छत्तुमिहार्हसि ॥ इति- शकुन्तलां प्रति तत्र दुष्यन्तवाक्यम् । अस्वयमिति । वि. रोधसूचनाय । 'राजा-भगवाल्काश्यपः परे ब्रह्मणि निष्णात इति,वः सखी शकुन्तला तदात्मजा' इति तत्रोक्तम् । *चतुर्थ इति । 'काश्यपः- वत्से इतः सद्यो हुनाननीन्प्रदाक्षिणीकुरुष्व । सर्वे परिकामन्ति । काश्यपः-ऋक्छन्दसमाशास्ते- अग्नि वेदि परितः गलतधिष्ण्याः समिद्वन्तःप्रान्तविस्तीर्णदर्भाः। आनन्तो दुरितं हव्यगन्धैर्धेतानास्त्वां वह्नयः पालयन्तु ॥ इति- तत्रोक्तम् । यद्यपि तत्रादावाग्निमित्येकवचनान श्रीताग्निर्नापि स्मा- तॊऽग्निःऋपीश्वराणामाश्रमे असत्त्वातू, तथापि वैताना इत्यत्राग्ने वितानसंबन्धित्वं स्पष्टमेवेति न विरोधः । *कृतमिति । अन्यथा शास्त्रविरुद्धकथनेन काव्यदोषेषु तस्य प्रकाशादावुक्तत्वेन तस्य दुष्टत्वमेव स्यादिति भावः। एतेन हरिवंशे एकादशाधिकशत- तमेऽध्याये- वृष्णीनामन्धकानां च गुरुर्गाग्र्यो महामनाः । ब्रह्मचारी स भूत्वा वै न स्म दारान्स विन्दति ॥ तथा हि वर्तमानं तमूर्ध्वरेतसमव्ययम् । श्वालो ऽभिशस्तवान् गार्ग्यमपुमानिति राजनि ।। सोऽभिशस्तस्तदा राजन्नगरे त्वजितेन्द्रियः । अलिप्सुस्तु स्त्रियं चैव सपस्तेपे सुदारुणम् ॥ इत्युक्तेरूवरेतसो ब्रह्मचारिणो ऽपि भार्यासद्भावः सिद्धः । दारान्विद्यमानानपि न विन्दति नाध्यगच्छत् । नचोर्ध्वरेतस्त्वान्न भार्येति वाच्यम् । श्यालपदासङ्गत्यापत्तेः । यद्यपि श्यालपदस्य रा- ष्ट्रिकार्थकतया न तदनुरोधेनोवरेतसो ब्रह्मचारिणो गाय॑स्य भा- कल्पनं तथापि राष्ट्रिको यादवो वा ऽभिशप्तुमसमर्थः पूजक- तत्सम्बन्ध्यन्यतरत्वात् । राजसभायामपुमानित्यभिशापो ऽपि स्त्रीसत्त्वे एव घटते । अतः पत्नीभ्राता श्याल एवात्र विवक्षितः । -- तिर्थनिरूपणम् । १००७ श्यालपदस्य राष्ट्रिकपर्यायत्वाभावश्चेत्यर्थादित्यपास्तम् । तत्रापि श्यालपदस्य भावितत्त्ववत्परत्वेनादोषादिति दिक् । अस्य पूर्वपक्षस्य प्रकृतसङ्गतिमाह *एवमिति । यथा यु- गान्तरे पत्न्यभावप्रयुक्तानधिकारे सत्यप्यनुष्टानं तद्वदित्यर्थः । अपत्नीकोऽपीति पाठः । तथैव तत्र सत्त्वात् । *तदाहुरित्यादिः । अत्र प्लुतिद्वयं विचारार्थम् । तत्र निर्णयमाह *आहरेदित्याहुरिति । अननुष्टाने वाधकमाह * यदीति । प्रश्नोत्तराभ्यामनद्धाशब्दार्थ नि- श्चिनोति *कोग्नद्धा इति । उत्तरमाह *नदेवानिति । स्वपक्ष- मुपसंहरति *तस्मादिति । ऋत्विजमाह *तस्मादिति । सौम्य अपत्नीकम् । विपरीतः-अनृतः । तथा च तादृशः पुरुषो भवेदिति तदर्थः । *अतिथीनिति । तथा च यो देवपित्रतिथीन्न पूजये. सो ऽनद्धेत्यर्थः । अग्निहोत्राद्यननुष्ठाने देवपूजाद्यभावादनद्धात्व- मिति भावः । *तांविनेति । तथा च तस्याः सति सम्भवे आवश्य- कत्वमिति भावः ॥ ३४॥ नचेयं श्रुतिमतपत्नीकपरा। सामान्यप्रवृत्तश्रुतेः संकोचेन व्याख्यानस्यायुक्तत्वात् । अत एव या यजमानस्य पत्नीसाऽभिद्रुत्यावहन्ति यो वा कश्चिदविद्यमानायाम्'इत्यापस्तम्बसूत्रव्याख्याने रुद्रदत्तविद्यारण्याभ्यामुक्तम्-'अवहन्तीत्यनुकृष्यते । अविद्यमानायामनालम्भुकात्वादिना निमित्तेनासंनि- हितायामभावे च तस्या इत्यर्थः । अविशेषात् । वक्ष्यति च 'पत्न्यभावे तेजआदि लुप्यते' इति । किंच 'अस्याग्निहोत्रं में इति यजमानस्यैव स्वामित्वख्यापनेन 'व्रीहियवपश्वाज्यकपालपत्नीसंबन्धानिइति प्रसिद्धा- समभिव्याहारेण च तस्या अङ्गत्वेन तदभावेऽपि तत् । किञ्च विद्यमानायास्तस्याः सहाधिकारेऽपि न यजमानसाम्यम् । 'यदुक्तमाशीब्रह्मचर्य तन्न पत्न्या ..
१००८ टीकाद्वयोपेतायां लघुमञ्जूपायाम् । अतुल्यत्वाद् इति मीमांसकोक्तः। किञ्च "वसन्ते ब्राह्मणोऽसिमादधीत" "दर्शपूर्ण- मासाभ्यां स्वर्गकामो यजेत"इत्यादिकर्मचोदना अपि यजमानमेवाधिकुर्वन्ति न पत्नीम् । बचब्राह्मणेऽप्युक्तम् "तस्मादपत्नीकोऽप्यग्नि माहरेद" इति। किंच आचारोऽपत्र दृष्टः शिष्टतमानां पूर्व- षाम्-यथा कण्वविभाण्डकभीष्मादीनाम्, यथा च भगवतो दाशरथः' इति । अत्रान्त्यो ऽसनिहितपनीकः । आद्यास्तदभा. ववन्तः । अत्रैवं बदना विद्यारण्येन श्रुतेः सङ्को- चेन व्याख्यानं स्वाभिमतामिति दर्शिनम् । अने- नाचारणासंकोचेन व्याख्यानस्यैव लाभात् । 'पत्नीवदस्याग्निहोत्रं भवति' इति सूत्रे च रुद्रदत्ते. नैवमुक्तम्-'अग्निहोत्रं पत्नीवत् सन्निहितपत्नीकम् । "स्वे आयतने पत्न्युपविशति" इत्युत्तरसूत्रेण सिद्धे पत्नीवचनं तस्या विद्यमानत्ये आदरार्थन् । अस्ये- ति वचनायजमानस्यैव कर्मणि स्वाभ्यं न पत्न्या इति ख्यापितं भवति । तच्च दर्शितं प्राग्' इति । एतेन यद् रामाण्डारेण 'श्रुतिर्मतपत्नीकविषया अत्रत्यमस्येति वचनं तु प्रवृत्तसत्राणां कस्य चि. न्मरणे तन्नेदिष्ठं तत्स्थाने दीक्षयित्वा तेन सह सत्र- समापनमुक्तम् । एवं च कुण्डपायिनामयने मासम- ग्निहोत्रानुष्टाने नेदिष्ठपत्न्या सह प्रयोगः प्राप्तः तथा मा भूत् मृतपत्न्यैव सह कर्तव्यमित्यर्थ'इत्युक्तम्, तिर्थनिरूपणम् । तदपास्तम् । विना घाधं प्रकरणान्तरे निवेशस्यायुक्त- त्वात् । किश्चैतयाख्याने ऽस्येत्यस्य पत्नीविशेषणत्वे पत्नीवदिति वृत्तिरयुक्ता स्यात् । “सविशेषणानां वृ. त्तिन"इत्युक्तः । मृतस्यात्रानुपस्थितेश्च । अत एव काव्यदोषषु प्रकाशादावुक्तशास्त्रविरु- द्धत्वदोषदुष्टकथनेन शकुन्तलानाटकरूपकाव्यस्य दु. ष्ठत्वं न। नचैवमपि भीष्मादीनां वेदाध्ययनोत्तरं कृतसमा- वर्तनानामपि केनचिन्निमित्तेनानिच्छया वा अकृतदा. रपरिग्रहाणामनाथमित्वदोषापत्तिः। अग्निहोत्रानुष्ठा- नातिथिपूजनादिना तस्य गृहस्थाश्रमसिद्धेः । आग्नि- होत्रिविधुरवद् अग्निहोत्रादिना देवर्णमुक्तिस्तेषाम् । पितृऋणापाकरणं भीष्मस्य पितृभक्त्या, अन्येषां द- त्तकादिभिस्तपोचलेन मानसपुत्रैर्वा सिद्धम् । अत एव "कण्वादिभ्यो गोत्रे” इति गर्गादिषु कण्वपाठश्च संगच्छते ॥ यद्यपि "त्रिभित्रणवान् जायते ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्य एष वाऽनृणो यः पुत्री यज्वा ब्रह्मचारी च"इति श्रूयते तथापि नैष्ठिकब्रह्मचर्यादे तत् । तदृणापाकरणस्य चर्येणाग्निकार्यादिना सिद्धेः स्मृतिषूक्तत्वात् । एतेन 'अत्र 'वाजिमेधाः' इत्येतत्तत्समफलकदानादिपरम् । पत्न्यभावेन मुख्ययज्ञासंभवात् । 'अग्नीनादाय'इत्य- पि संस्कारकाग्निपरम्'इति यत्कश्चिदुक्तम्, एतदेव त. स्थ पत्नीकल्पकम'इत्यन्यैरुक्तम्, तत् परास्तम्। अग्नी. ब्रह्म- १२७ १०१० टीकाद्वयोपेतायां लघुमञ्जूषायाम् । निति बहुवचनासङ्गतेश्च । इदानीन्तनानां न तदनुष्टा- नम्, तथा आचाराभावात् । प्रागुक्तोवरेतस्त्वादि- गुणवतामेव तथाऽनुष्ठानौचित्येन इदानीन्तनानां प्रा- यस्तत्त्वासंभवाञ्चत्यलम् ॥ ३५ ॥ (कुं०टी०) *व्रीहियवेति । व्रीह्यादिवत्पत्न्या अप्यङ्गत्वमे- व प्रतीयते इत्यर्थः । तदभावे ऽपि-पल्यभावे ऽपि । *तत्- अग्निहोत्रम् । ननु 'विना ऽग्निभिर्यदा पनी नदीमप्यब्धिगामिनीम् ॥ अतिक्रामेत्तदाऽग्नीनां विनाशः स्यादिति श्रुतिः । योगीश्वरोऽपि- दाहयित्वाऽग्निहोत्रेण स्त्रियं वृत्तवती पतिः । आहरेविधिवदारानग्नींश्चैवाविलम्बयन् ॥ इति । एवं च सपनीकस्यैवाग्निहोत्रं लभ्यते । तथा- विहायानीन्सभार्यश्चेत् सीमामुल्लङ्घय गच्छति । होमकालात्यये तस्य पुनराधानमिष्यते ॥ पत्नी सीमामतिक्रान्ता यजमानो गृहे यदि । आहोमाद्यदि नागच्छेत्पुनराधानमर्हति । इति चेत् । सत्यम् । स्मार्तो गृह्याग्निरौपासनावसथ्यपर्यायोऽपत्नी- कस्यापि भवति । यो ऽगृहीत्वा विवाहाग्निं गृहस्थ इति मन्यते । अन्नं तस्य न भोक्तव्यं वृथापाको हि स स्मृतः॥ इति- स्मृतेः स्मार्ताग्नेरपि नित्यत्वात् । अतएव 'दाहयित्वा- ऽग्निहोत्रेण' इति प्रतीकमुपादाय मिताक्षरायां व्याख्यातम्- अग्निहोत्रेण श्रौतानिनेति । एवंच श्रौतामिदाहेऽपि स्मार्ताग्नि- तिङर्थनिरूपणम् । १०११ रवशिष्यते एव । स्मातामिना दाहे तु तस्यापि निवृत्तिरस्तु । स्मार्ताग्निग्रहणं तु दाहकाले दायादकाले वेति कालभे- देन स्मृतौ विकल्पितम् । तत्काले ग्रहणाभावे प्रायश्चित्तेन का- लान्तरे ग्रहणम् । रामचन्द्रादीनां तु पनी मंनिधानाभाव एवास्ति न तु पनीमरणमतः पत्नीप्रतिनिधिकल्पनम् । पल्याः प्रवासविषये पुनराधिरुदाहृतः । वाक्यैर्मनीषिभिः प्रोक्तैरेकभार्यस्य सेष्यते ।। इति- भार्यान्तरसंनिधानस्यावश्यकत्वात् । किंच रामचन्द्रस्य एकभार्यस्य पनीप्रवासानिमित्तकपुनराधानेनामिसंरक्षणमस्तु । भीष्मपितामहादीनां तूपनयनागिरेवास्तु । अकृत्वा भैक्षचरणमसमिध्य च पावकम् । अनातुरः सप्तरात्रमाकीर्णिवतं चरेद् ॥ इति- ब्रह्मचारिणो ऽप्यमिपरिचर्याया नित्यत्वात् । अत्रेदं तत्त्वम्-कमण्डलुविधारणमिति कलिवज्र्येषु परिग- णितं कमण्डलुविधारणं नैष्ठिकब्रह्मचर्यम् । तथा 'वानप्रस्था- श्रमस्यापि प्रवेशो विधिवोधितः' इति कलौ निषिद्धः। 'संन्यासं चाग्निहोत्रं च'इत्यादिना संन्यासोऽपि निषिद्धः । तस्मादिदानी गृहस्थाश्रम एव । न्यायागतधनस्तत्त्वज्ञाननिष्ठोऽतिथिपियः । श्राद्धकृत्सत्यवादी च गृहस्थोऽपि विमुच्यते॥इतिस्मरणात् । ननु "स्वर्गकामो यजेत"इत्यादौ पुंस्त्वस्याविवक्षया खिया अप्य- धिकारोऽस्ति, नहि लिङ्गं प्रातिपदिकार्थः किंतु टावाद्यर्थः। नच भार्या पुत्रश्च दासश्च त्रय एवाधनाः स्मृताः । इति- स्त्रिया धनाभावेन यागासंभव इति वाच्यम् । पित्रादिदत्त- स्य धनस्य संभवात् । किञ्च "सौमे वसानावग्निमादधीयाताम्" १०१२ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । इत्यत्र कतद्वित्वस्य क्षोमस्य च विधाने वाक्यभेदप्रसङ्गः। तस्मा- द् दम्पत्योः सहाधिकारात् तद्वित्वमनूध क्षौममात्रं विधीयते इति मीमांसकसिद्धान्तात् कथं स्त्रिया नाधिकार इत्याशङ्ख्याह *न यजमानसाम्यमिति । तथाच जैमिनिसूत्रम् "तस्या यावदुक्तमा- शीब्रह्मचर्यमतुल्यत्वाद्"इति । (पू० मी० अ० ६ पा० १ अधि० ६ मू० २४)। आशीरिति-'इदं मे प्रातःसवनं माध्य- न्दिनं सवनमनुसंतनुत'इत्यादिराशी:, "अगन्म सुवः" इत्यादि- मन्त्रकरणकादित्योपस्थानादिकं यजमानेनैव कार्य न पन्या,अ- ध्ययनाभावात् । आज्यावेक्षणादिकं वचनाद्भवतीति सिद्धान्तः। *कर्मचोदनाः-कर्मविधयः । ननु आधानं विना ऋतुर्न संभव- तीति अर्थादाधानमाक्षिप्तं किंतु कालविशेष विधातुं ब्राह्मणादयो ऽनूयन्ते इति कथं कर्मविधित्वम् ? । सत्यम् , लौकिकाग्नौ होमस्य संभवान्न सर्वथा ऽनेराक्षेपोऽस्तीति अप्राप्तमेव वसन्तादिकाले आधानं विधीयते । *दर्शपूर्णमासाभ्यामिति । यद्यपि "आग्ने. योऽष्टाकपालो भवति" इत्येतद्विधिविहितस्य कर्मणः फलसम्ब- न्धं "दर्शपूर्णमासाभ्याम्" इति वाक्यं विधचे इत्यधिकार- विधित्वमेवास्य, यदि तु अस्यैवोत्पत्तिविधित्वं स्यात् “तदा आग्नेयोऽष्टाकपाल"इतिवाक्यस्य वैयर्थ्यं स्यात् ,तथाऽपि फला- थै कर्मबोधनात्कर्मचोदनात्वे बाधकाभावः । अत एवाधिकार- विधित्वमेव वोधयितुमधिकुर्वन्तीत्युक्तम् । *न पत्नीमिति । तस्याः साहित्यमात्रेणोपयोगेऽपि न स्वातन्त्र्यमिति भावः । *अनेनाचारेण-भीष्माचारेण । ननु- श्रुतिस्मृत्युदितो यश्च साधुभिर्यश्च सेवितः। तमाचारं निषेवेत धर्मकामो जितेन्द्रियः ॥ इति- विष्णुस्मृतिवचनात्स्वातन्त्र्येणानुष्ठितानां कयं सदाचार- N तिर्थनिरूपणम्। १०१३ त्वम् । यत्तु- नोल्ड्यनीयाः कुलदेशधर्मा मूलं हि तेषां च्युतवेदशाखा । इति। तन्न । यस्य देशस्य यो धर्मः प्रवृत्तः सार्वकालिकः । श्रुतिस्मृत्यविरोधेन देशधर्मः स उच्यते ॥ इति- बृहस्पतिविरोधादिति चेन्न । श्रुत्यायविरोधिसदाचा- रेणापि मूलभूतश्रुतेरनुमानात् । तत्रानुमानं स्मृतिद्वारेति मीमांसकाः । साक्षादिति तार्किकाः । ननु ज्योतिष्टोमा- दिश्रुतयः स्ववोधितयागनिष्पादकमाधानं प्रयोजयन्तीति मी. मांसकसिद्धान्तस्तथाच तदर्थनामेवाधानादौ प्रवृत्तिरस्त्विति चेत् । सत्यम् । स्मृतिष्वनाहितामिताया दोषश्रवणानित्यश्रुत- यो ऽप्याधानस्य प्रयोजिकाः । अत एव दर्शपूर्णमासादिभि- रेवाधानस्याक्षेप इत्यपि नाशक्यम् ॥ *नेदिष्ठमिति । सत्रे हि यजमाना एव ऋत्विजो भवन्तीत्येकस्य मृतावन्ये. न समाप्यते । *कुण्डपायिनामिति । तत्र हि "उपसद्भिश्च- रित्वा मासमग्निहोत्रं जुहोति"इति श्रूयते । तत्र नित्याग्निहोत्रम- नृद्य मासरूपो गुणो विधीयते इति पूर्वपक्षः । नित्याग्निहोत्रस्य प्रकरणान्तरस्थत्वात्कर्मान्तरमेवेदम् , अग्निहोत्रशब्दस्तु तद्धर्मा- तिदेशार्थ इति सिद्धान्तः । *अनामित्वेति । अनाश्रमी न तिष्ठेत क्षणमेकमपि द्विजः। इति स्मरणात् । अत एव "अन्तरा चापि तु तदृष्टेः" (उ० मी० अ०३ पा०४ अधि०९ मू० ३६) इति सूत्रेण विधुरादी. नामाश्रमकाभावे ऽपि विधुराधिकारोऽस्तीत्युक्त्वा "अत- स्त्वितरज्ज्यायः"इति सूत्रितम् । (उ० मी० अ० ३ पा० ४ अधि० ९सू० ३९) । अनाश्रामित्वापेक्षया आश्रमित्वं ज्याय १०१४ टीकाद्वेयोपतायां लघुमञ्जूपायाम् । इति तदर्थः । किश्च विधुरादीनामपि जपोपवासादिविशेपैरेव विद्यानुग्रहः इति "विशेषानुग्रहश्च" इति (उ० मी० अ० ३ पा० ४ अधि० ९ ० ३८) मूत्रेण लभ्यते । विधुरो मृतपत्नीकः । अत्रेदं चिन्त्यते-मृतभार्यस्य पुनर्विवाहाशक्तौ "निर्मन्थ्येन पत्नीम्" इतिभरद्वाजोक्तेनिर्मन्थ्येन पत्नी दग्ध्वाऽग्निहोत्रेत्यादि निर्वाह्यम् । तथाच विष्णुः-गृह्योत्तरपरिशिष्टं च- मृतायामपि भार्यायां वैदिकाग्निं न हि त्यजेत् । उपाधिनाऽपि तत्कर्म यावज्जीवं समाचरेत् ॥ उपाधिश्चसुवर्णकुशपत्न्यादि । अन्ये कुशमयीं पत्नी कृत्वा तु गृहमेधिनः । अग्निहोत्रमुपासन्ते यावज्जीवं समा द्विजाः ॥ इत्यपरार्को- दाहृतस्मृतेः । सौवर्णसीतां कृत्वा रामेणापि तद्विधानाद् । ऋणानि त्रीण्यपाकृस मनो मोक्षे निवेशयदिति- स्मृतिविरोधमाशङ्ग्याह *अग्निहोत्रादिनेति । जौमिनिस्तु प्रजोत्पादनं निसमाह "ब्राह्मणस्य सोमविद्यापजानृणवाक्येन संयोगाद् इति । सोमपानं विद्याध्ययनं प्रजोत्पादनमित्य- र्थः । परे तु अधीतवेदान्तस्य कर्माववोधात्मागपि ब्र. ह्मजिज्ञासोपपत्तेः "त्रिभिर्कणवान्"इत्यत्र 'गृहस्थः सम्पद्य- मानः' इति व्याख्येयमित्याहुः । *तपो बलेनेति । मान- सोत्पत्तौ हेतुः । *अत एव-कण्वस्थापत्ययोगादेव । आजीवं ब्रह्मचारी नैष्ठिकः । *नतदिति। अत एव “अन्तरा चापि तु तदृष्टेः" इति व्याससूत्रमुपादाय "अनामिणामपि भीष्मादीनां ब्रह्मविद्याधिकारदर्शनाद्" इति शारीरकभाष्यकारा व्याचख्युः । *अलमिति । "तस्याश्रमविकल्पमेके" इति गौतमः, "ब्रह्मचर्य- तिर्थनिरूपणम् । १०१९ वान् प्रबजेद्"इति बौधायनः, 'एषां महर्षिचर्याणान्त्यक्त्वा ऽन्यतमया तनुम् इति याज्ञवल्क्यः, 'सर्वेषु यथोपदेशं वर्तमानः क्षेमं गच्छति'इत्यापस्तम्बः, 'सर्वेऽपि क्रमशस्त्वते यथाशास्त्रं निषेविता:' इति मनुश्च समुच्चयमाह ।। ३५ ।। (क० टी० ) यद्यपीयं श्रुतिर्विद्यारण्यैर्मृतपत्नीकपरतया व्या- ख्याता 'यदा पुरुषे जीवति भार्या मृता तस्याश्वाहितान्येनाग्निना दाहः कृतः 'आहायणाहिताग्निं पत्नींच'इत्याश्वलायनोक्तस्तदास वि- वाहेच्छारहितत्वादद्रव्यत्वाखापत्नीक एव तत्परेयम्'इति, तथापि तन्न युक्तमित्याह *नचेयमिति । रुद्रदत्ताशयेनाह *सामान्येति । मानाभावादिति भावः । विचारण्यसम्मतमपीदसेवेति ध्वनय- नाह *अत एवेति । तस्यार्थस्यायुक्तत्वादेवेत्यर्थः । *उक्तमिति । दाशरथेरित्यन्तेन । तदेवाह *अवहन्तीति । योवेत्युत्तरत्रेति भावः । स्वोक्तेऽर्थे सूत्रलम्मतिमाह *वशति चेति । अविशेषादित्यत्रा- प्यन्वयः । ननु 'पत्तीवदस्याशिहोनं भवति'इत्यादिना कर्मणः पत्नीवत्त्ववचनातनाये कथं करीत *किञ्चति 'अत्र 'अस्य'इतिवचनाद्यजमानस्यैव कर्मणि स्वाम्यं न पत्न्या इति ख्यापितं भवति' इति रुद्रदत्तः । अङ्गत्वे युक्त्यन्तरमाह *बी. हीति । *तस्याः-पत्न्याः । तथा चाङ्गत्वादेव नोक्तदोष इति भावः । “जायापती अग्निमादधीयाताम्" इत्याद्युक्तेराह *सहेति । वाल्मीक्याश्रमगमने ऽपि मरणाभावादाह *असंनिहितेति । . योर्विद्यारण्यीयत्वसाम्येऽपि आचारसंवादेनास्यैव प्रावल्यमाह *अ- त्रैवमिति | *यायजमानस्येति । तत्सूत्रव्याख्यानावसरे युक्ति- भिरुक्तार्थे आचारमुदाहरतेत्यर्थः । *व्याख्यानमिति । “अपत्नीकोs- पि"इति श्रुतेः स्वयंकृतमपीत्यर्थः । तदेवाह *अनेनेति । नच सा श्रुतिरपि शब्दस्वारस्यात्सपत्नीकस्याग्निहोत्रावश्यकतावोधिकैवेत्ये. तदुक्तवती । “तदेषाऽभियज्ञगाथा गीयते- यजेत्सौत्रामण्यामपत्नीकोऽप्यसोमपः । मातापितृभ्यामनुणार्थाद्यजेति वचनाच्छतिः ॥ इति"। यज्ञमभिलक्ष्य गाथा याशिकैर्गीयते इत्यर्थः। आह - १०१६ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । अपत्नीकोऽपि पुमान्सौत्रामण्यां यजेत सौत्रामणीयागमपि कुर्यात् किमुताग्निहोत्रादिकम् । सोमयागे तु नाधिकारोऽस्य किं तु हविर्य- शेष्वेवाधिकार इत्याह असोमप इतीति वाच्यम् । एवं व्या- ख्याने रामस्याश्वमेधादौ प्रवृत्तेरसाङ्गत्यापत्तः । तस्मादन्यथा व्याख्यानं तस्याः-यथा असोमपो ऽपि सौत्रामणीं करोति त. थाऽपत्नीकोऽपि, यथा पत्नीरहितोऽपि मातापितृभ्यां श्राद्धादि द- दाति तथाऽग्निहोत्रमपि कुर्यात् । तत्र हेतुरनृणार्थाद् । ऋणपरिहार- निमित्तमित्यर्थः । “त्रिभिक्रणवान् जायते ब्रह्मचर्येण ऋषिभ्यो यो- न देवेभ्यः प्रजया पितृभ्य एष वा अनृणो यः पुत्री यज्वा ब्रह्म चारी च” इति शाखान्तरे श्रूयते । तथा यजेति श्रुतेर्वचना- त् । तस्मादनुष्ठानपक्ष एव । तदेतदभिप्रेत्यैवान्वर्थमुपसंहृतं तत्र-"तस्मात्सौम्यं याजयेद्"इति । पत्नीरहितत्वाहणानपाकर- णदोषासहिष्णुत्वाञ्च सौम्यत्वम् । नन्वेवं “पत्नीवद्" इति सूत्रस्य का गतिरत आह *पत्नीवदिति । *आदरोति । अत एव सीताया मुन्याश्रमवासपर्यन्तं भगवतो यज्ञानुष्ठाने सुवर्णपत्नीक- रणं ततो गमनानन्तरं तत्र तदकरणं पुराणे स्पष्टम् । *तच्चेति । "या यज"इतिसूत्रव्याख्यानावसरे इत्यर्थः । *इतिस्तदुक्तिसमाप्तौ । *श्रुतिः-'अपत्नीकः' इति । *अत्रत्यम्-'पत्नीवदस्य' इतिसूत्र- स्थम् । इत्यर्थमित्यत्रान्वयः । *नेदिष्ठम्-निकटवर्तिनम् । *एवमपि तेषां तत्राधिकारे ऽपि । एतेनेत्यस्यार्थमाह *विनाबा. धमिति । एतेन पत्नीवदिति वचनादपत्नीकस्याग्निहोत्रेऽनधि. कारबचब्राह्मणोक्तं तु जनपटलोक्तदारकर्मणि यद् 'यशआत्मा- र्थमग्न्याधेयम्' इत्येतद्विषयम् । तत्रासामर्थ्याद् अग्निहोत्रार्थमग्नीनिति धूर्तभाष्योक्तमप्यपास्तम् । उक्ताशयेनैव *किञ्चैतदिति । नित्यसापे- क्षत्वेनास्योद्धारे दोषान्तरमाह *मृतस्यति । मरणस्येत्यर्थः । *अत एव-अपत्नीकस्याधिकारादेव । ब्रह्मचर्यसत्त्वेन ऋपिऋणान्मुक्तेः स्पष्टत्वादाह *अग्निहोत्रोते । *अन्येषाम्-कण्वादीनाम् । पुत्रिकापु. त्रस्याप्यसम्भवादाह *दत्तेति । कलौ दत्तौरसान्यनिषेधे ऽपि तदा सत्त्वादाह *आदीति । विभाण्डकस्य मृगीपुत्रस्य ऋष्यशृङ्गस्य प्रसिद्धत्वेऽपि अन्येषां तदप्रसिद्धेराह *तप इति । नेत्यत्रान्वयः । कथनेनेत्यस्य दुष्टत्वमित्यत्रान्वयः । *पवमपि- अस्य तिङर्थनिरूपणम् । तेषान्तत्राधिकारऽपि । *केनचित्-पित्रर्थ कृतप्रतिज्ञारूपेण । उक्त- रीत्या तस्याग्निहोत्राद्यनुष्ठानं भवत्येवेत्याह *अग्नीति । आदिना श्राद्धादि । *तस्य-भीष्मादेः । इदमन्यत्राप्यावश्यकमित्याह *अ. ग्निहोत्रीति । एतेन कृतसमावर्तनस्याकृतदारपरिग्रहत्वकल्पने मा- नाभावः । नच तस्य स्त्रीसत्वे ऽपि न मानम्। अग्निहोत्रसद्भावस्यैव तत्सत्त्वे मानत्वात् । नच विधुरे ऽपि तत्कल्पनापत्तिः। मृतपत्नीका. ग्निहोत्रस्य भाष्यकारैरेवाभ्यनुज्ञानेन तदसम्भवात् । नचाप्रमा- णं भाष्यकारवचनम् , निरंकुशेन तथा वक्तुं शक्यत्वे ऽवन्येन विदुषा तथा दुर्वचत्वादित्यपास्तम् । उक्तयुक्तेः, तेनैव तथा- ध्वनितत्वस्योक्तत्वाञ्च । उक्तार्थे पाणिन्यादिसम्मतिमप्याह *अ- त एवेति । दत्तकादिपुत्रादिसद्भावादेवेत्यर्थः । द्वितीयमानमाह *गादिष्विति । उक्तार्थे श्रुतिविरोधमापाततो भासमानमुक्ताश- येनेव परिहरति * यद्यपीत्यादि । आदिना कृतसमावर्तनप्रागुत- परिग्रहः । * तत्-ऋणम् । *तहणेति । त्रिविधणेत्यर्थः । आदिना तत्रोक्तानिमिनसङ्ग्रहः । যৰ লাহফাযা নাভি- त्राद्यनुष्ठानमिति सूचितम् । *इदानीलिति । चतुःशलाधिकलन सहस्त्रवर्षान्तर्गतानामित्यर्थः। * तदिति । आगोवादीत्यर्थः । ति पाठे तद्वदित्यर्थः । अत एवाह *तथाचरति । पृथ्वीचा ल्यादाह *प्राय इति । सांप्रतं तु निपिद्धत्वाशमाधिकार इत्याद मेव प्रतिरादितम् । देवऋणमुक्तिस्तु पञ्चमहायज्ञादिनवेति योस ! तदाह *इत्यलमिति ॥ ३५ ॥ नित्यनैमित्तिकयोरपि प्रत्यवायपरिहारः फ. लम् । वेदसहस्त्रैरपि बोधिते निष्फलत्वज्ञानदशा- यामप्रवृत्तेः । उक्तरीत्या विधिबलेन प्राप्तस्य प्रत्यक्षा- यस्य तत्करणे परिहारावश्यंभावात् । - 'अफलाकाविभिर्यज्ञो विधिदृष्टो य इज्यते । स साविकः' इति गीतावच बरोधः । यज्ञादी- १२८ १०१८ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । - न्युपक्रम्य- यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ! एतान्यपि तु कर्माणि सङ्गं त्यत्का फलानि च ॥ कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् । इत्यष्टादशे गीताथामेव पावनत्वोक्तः। सङ्गः, क तत्वाभिमानः । तस्मादनुद्दिष्टोपि प्रत्यवायपरिहारः फलमिति स्वर्गादिफलं त्यक्त्वाऽपि क्रियमाणस्य पा- वनत्वमिति तदाशयः । नित्ये शुचिजीवत्वमेवाधि- कारः । नित्यत्वं च प्रत्यवायहेत्वभावप्रतियोगिः त्वम् । अहरहरित्यादिवीप्तायावज्जीव सदापदादिक च तत्तात्पर्य ग्राहकम् । चैत्रनिष्ठसन्ध्यावन्दनविषयकृ- तिसामान्याभाववतस्तत्तत्सन्ध्याकालस्य पापहेतुत्वा- दून कृतसन्ध्यावन्दनस्य कृतौ नष्टायां पापोत्पत्तिः । सन्ध्यामुपासते ये तु सन्ततं शंसितव्रताः। विधूतपापास्ते यान्ति ब्रह्मलोकमनामयम् ।। इति- कचिन्नित्ये फलश्रवणमप्यस्ति । नन्वयमर्थवादः स्तावको न तु फलबोधकः,प्रशस्तत्वरूपश्रुतिश्च प्ररोच- नद्वारा पुरुषप्रवृत्त्यर्थेति चेन्न । "सर्वेभ्यः कामेभ्यो दर्शपूर्णमासौ" इत्यादेरपि तथात्वापत्तेः । चतुर्थी तु “ऊर्जा ऽवरुद्धयै” इत्याद्यर्थवादस्थचतुर्थीवन्नार्थ साधिका । “दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत" इत्यादितः फलाकाङ्क्षानिवृत्तेश्च । तत्तत्फलजनकत्वरूपं च प्राशस्त्यम् । धर्मा. न्तररूपं प्राशस्त्यं तु न प्रवृत्त्युपयोगि । विधित तिर्थनिरूपणम् । १०१९ इष्टावगमे ऽपि तस्यावान्तररूपेण बोधनद्वारा क- चित्कचिच्छीघ्रोत्पत्तिज्ञापनद्वारा त्वरितप्रवृत्तयेऽर्थ- वादा इतीदृशार्थवादानां फलबोधकत्वमपीति बोध्यम् । अत एव सर्वशत्यधिकरणे काम्यं यथा फलायो- पदिष्टं तथा नित्यमपीति भट्टैरुक्तम् । कर्मविपाकप्रायश्चित्तप्रवर्तनया दुःखानुत्पादरूपे. ष्टसाधनताऽनुमानम् । अन्यत्र पापध्वंससाधनतानु- मानन् । अनुमाने पक्षश्च धात्वर्थे करणीभूतो याग- स्तत्करणको व्यापारो वा । यत्तु तद्विषयकृतिपक्षकं तद् इति । तन्न, क्रियेष्ट- साधनताज्ञानादपि प्रवृत्तिदर्शनात् । पाकादेरिष्टसा- धनताज्ञानं विना तत्कृताविष्टसाधनत्वस्य ज्ञातु- मशक्यत्वाचेत्यन्यत्र विस्तरः ॥ ३६ ।। (कुं० टी० ) ननु नित्ये सन्ध्यावन्दनादाविष्टाभावात्कथं प्रवृत्तिः, ब्रह्मलोकादिफलकल्पनायां काम्यत्वापत्तिरित्याश- याह *नित्येति । *प्राप्तस्येति । अकरणे इत्यादिः । * तस्मादिति । “तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन" इत्यादिश्रुत्या यज्ञादीनामन्तःकरणशुद्धिद्वारा विद्योत्पत्तिसाधनत्वादेवेत्यर्थः । *स्वर्गादिफलमिति । तस्मान्नात्र विश्वजिन्न्यायः । तदाशय इति । अत एव "कुर्वन्नेवेह कर्माणि"इति श्रूयते । जातायां च विद्यायां क्रियाकारककला- पलक्षणस्य प्रपञ्चस्याविद्याकृतस्य विरोध एव । “यत्र त्वस्य सर्वमात्मैवाभूत् तत् केन कं पश्येद्"इति श्रुतेः। अत एव "किं मजया करिष्यामो येषां नोऽयमात्माऽयं लोकः इति प्रजादिव्य- टीकाद्वयोपेतायां लधुमञ्जूषायाम् । तिरेकेणापि विद्योत्पत्तिः श्रूयते। "अनचर्यादेन परिव्रजेद्" इत्या- दिशा चाश्रमान्तरपरिग्रहो ऽपि । अधिकारिणैव कर्मानुष्ठानादाह *नित्ये इति । शुविजीवित्वमेवेति। नतु काम्यकामनावचमपि। अन एव तत्कामनारहितस्यापि तत्र प्रवृत्तिः । अशुचरनधि- कारित्वेन सन्ध्याकरणे प्रत्यवायामाकाटुक्ला *शुचीति । *प्रत्यवायेति । प्रत्यवायहेतुरभावः सन्ध्यावन्दनाघभावः । अय कथमभावरूपस्य मन्ध्याय करणस्य भावरूपदुरितादृष्टजन- कन्नड. 'नाभावाद्भाव उत्पद्यते इति मवादाद् इति चेत् । सत्यम् । मयमयं नियमः ! तार्किकाणां पागभावस्य कार्यजनकत्वात्, मीमांसकानामनुपलब्रेरभावमाजनकत्वात् । किञ्च कार्यमा कृतिजन्यमित्यपि न नियमः, ध्वंसे व्यभिचारात् । संशितं स- सम्पादितम् । *फलश्रवणमपीति । ग्रहणश्राद्धादौ नि- नमित्तिकन्वयोरिश नित्यस्य काम्यत्वे ऽपि वायकाभावा- ने भावः । सर्वनः कामेभ्य इति । नन्वत्र लिङा- अभावान्न फले विधिः सम्भवति, तस्माद्वाक्यान्तरविहि- तफलस्यानुवादो ऽस्तु । नच “दर्शपूर्णमासाभ्यां स्वर्गकामः'" इत्यनेन स्वर्ग एव फलं प्राप्तं नान्यदिनि वाच्यम् । तदङ्ग- लानां प्राप्तत्वात् । सामिधेनीप्रकरणे “एकविंशतिमनुब्रूयाब्रह्म- वर्चसकामस्य"इत्यादिश्रुतेरिति चेन्न । तादर्थचतुर्थैव फलत्वप- तीतेः । *सन्ध्यामिति । “सन्ध्यामुपासीत"इतिविधिना इष्टाव- गमेऽपि शीघ्रोत्पत्तिज्ञापनद्वारा प्रवृत्तिविशेपार्थमर्थवादः । अथ किमिदं नित्यत्वं यदकरणे प्रत्यवायो भवति तन्नित्यमिति चेत् । नैमित्तिकेऽतिप्रसङ्गात् । ननु नियतकालकर्तव्यत्वेन विहितं नि. त्यमिति चेत् । ग्रहोपरागादिरूपनियतकालविहितस्नाना- देरपि नित्यताप्रसङ्गात् । उपरागो न नियत इति चेत् । एका.
नियनिरूपणम् । १०२१ दश्यादेशपि वृद्रिहासाभ्यामनियतत्वात् । अत्रोच्यते । वीप्सा- दिलिङ्गवत्ने सति यदकरणे प्रत्यवायस्तनित्यम् । वीप्सा, नि- त्यपदम् , सदापर, पावत्पदर, अकरणे दोपश्रुतिः, अत्यागचो- दना,फलाश्रुलित्यादीनि निस्पतालिकानि । एतल्लिङ्गरहितत्वे सति अकरणे प्रत्यवायजनकत्वं नैमित्तिकालन् । “वसन्ते बसन्ते ज्योतिपा यजेन" इत्यनापि वीप्ताश्रवणानित्यत्वे इष्टाप- त्तिरेव । यद्यपि निलमसलं काय सफलं तथाऽपि सन्ध्यो- पासनादिवदेकस्योभयरूपालदिए । एकस्सेब खादिरस्य वीर्यकानार्थत्वयागार्थत्ववत् । अर्थोऽवरुद्ध्याइति । “औदुम्बरो यूको भवति" इत्यस्थानन्तरम् "उर्ज पशुनामोति ऊर्जाऽवरुद्ध्यै" इति श्रूयते । अत्यन्तधारभूनो ऽचरस ऊ । अध्वर्युर्यजमानायौ- दुम्बररूपयोर्जा पशुरूमा मातीत्यर्थः । तत्र अर्नोऽवरुध्यै इति चतुर्थीश्रवणादोदुम्बरतासाध्यं फलं गम्यते इति पूर्वपक्षः, अविहिताया औदुम्बरतायाः फलं न सम्भवति । नहि द्रव्यमा. त्रात्फलं भवति । तस्मात् स्तुतिद्वारा विधिः कल्प्यः । धर्मान्तरेति । वलपदनिष्टाननुवन्धित्वादिरूपेत्यर्थः । विधित इति । "वायव्यं श्वेतमालमेत भूतिकामः" इत्यनेनैव फलबोधने ऽपि “वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयति"इत्यर्थवादे. न वायुदेवताककर्मस्तुत्या शीघ्रफलदातृत्वं बोध्यते । वायुः शीघ्रगामिनी देवता। यो वायुं स्वेन भागेनोपधावति तं स भूति प्रापयतीति तदर्थः । * सर्वशत्यधिकरणे इति । तत्र- हि सर्वाङ्गानुष्ठानसमर्थस्यैवाधिकार इति पूर्वपक्षे नित्य- मशक्याङ्गपरित्यागेनाप्यनुष्ठेयमिति सिद्धान्तितम् । *नित्य- मपीति । तथा च दर्शपूर्णमासयोः फलश्रवणेऽपि नित्यत्वम-' १०२२ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । विरुद्धम् । वस्तुतस्त्वत्र स्वर्गशब्दोऽपरिमितश्रेयोनिःश्रेयसयपरः। "पश्चहोतारमपानीधे स्वर्गकामस्य"इत्यत्र भाष्यकारस्तथैव व्याख्यानात् अकरणे ऐन्द्राग्नपश्वादिविधानायेति ? । य. स्मिन् क्षणे सूर्येण सङ्गनश्चन्द्रः स दर्शः, तयुक्तत्वात्सम्पूर्णो ऽप्यहोरात्रो दर्शस्तत्र दर्शेष्टिः, सा प्रतिपदि यद्यपि क्रियते तथापि पातरन्बादधाति स्वोभूने यजतेत्यादिना दिनद्वयसाध्य- स्वावगमाद् दर्शशब्दोऽहोत्रपपरः, एवं पूर्णमासशब्दो ऽप्य. होरात्रद्वयपरो वोध्यः । यद्यपि पौर्णमास्यामुपक्रम्य दर्शयागः क्रियते तथाऽप्यल्पान्तरत्वाद्दर्शशब्दस्य पूर्वप्रयोगः ॥ ३६ ॥ (क० टी०) ननु काम्यस्थले भवदुक्तरीत्या प्रवृत्तिसम्भवे ऽपि न नित्यादौ, तत्र फलान द्देशादत आह *नित्येति । ननु वेद- बोधितत्वान्निष्फले ऽपि प्रवृत्तिरिति किमर्थं तस्य तत्त्वकल्पन- मत आह *वेदेति । पामरादेरपीति भावः । ननु तत्रैव न मा. नमिति कथं तस्य तत्त्वमत आह *उक्तति । नित्यादौ प्रेर- णया ऽवश्यानुष्ठेयत्वमपि बोध्यते तेन तदभावे प्रत्यवायसिद्धिरिति प्रागुक्तेत्यर्थः । *सइति । 'यष्टव्यमेवेति मनः समाधाय'इत्यादिः । *उपेति । 'यज्ञदानतपः कर्म न त्याज्यं कार्यमेव तद्'इत्यनेन । द्वयोर. विरोधायाशयमाह *तस्मादिति । नन्वेवं तदनिच्छोरनधिकारापत्ति. रत आह *निन्यइति । अत एव अफलत्वं नित्यत्वमित्यपि नेत्याह *नित्यत्वं चेति । ननु साम्यात्कथं विवेको ऽत आह *अहरहरिति । *तत्त्वे-नित्यत्ववोधने । ननु सन्ध्यावन्दनविषयकृत्यभावस्य पाप- हेतुत्वे तत्तत कोल कृतसन्ध्यावन्दनस्यापि कालान्तरे तदभाव- सत्त्वात्पापापत्तिरत आह *चैत्रेति । अवच्छेदकतासम्बन्धेनेति भावः। नित्ये सर्वत्र स एव फलमिति नियमो नेत्याह सन्ध्या- मिति । *शंसितव्रताः-अनुष्ठितव्रताः। ननु का सा स्तुतिः क उप- योगश्च तस्या अत आह *प्रशस्तत्वेति । आदिना "सर्वेभ्यः का- मेभ्यो ज्योतिष्टोमः"इत्यस्य परिग्रहः। *तथात्त्वेति । स्तावकत्वेत्यर्थः। ननु 'सर्वेभ्यः' इति चतुर्थ्याः फलसमर्पकत्वमिति वषम्यमत तिर्थनिरूपणम् । १०२३ आह *चतुर्थीविति । नन्वेवं तयोः फलाकालानिवृत्तिर्न स्यादि- ति तस्य फलबोधकत्वमावश्यकमत आह *दर्शति । आदिना "ज्यो. तिष्टोमेन स्वर्गकामो यजेत" इत्यस्य परिग्रहः । किञ्चार्थवादत्वे ऽपि स्तुतिवैयर्थ्यमेव । नच प्ररोचनार्थ सा। तस्या अपि व्यर्थत्वात् । नच प्रवृत्तिस्तत्फलम् । अर्थवादाप्रामाण्यं जानतस्तदनुपपत्तेः। 'बहुदुग्ध. यं गौः' इति वाक्याप्रामाण्यं जानतस्तद्वाक्यादिव अर्थवादस्य स्वर्गा- धर्थकतायामप्रामाण्ये ऽपि प्राशस्त्यवोधकत्वद्वारा स्तावकत्वमि- त्यभ्युपगते ऽर्थे प्रामाण्यमिति चेत् तत्राह *तत्तदिति । तद- न्यप्राशस्त्यस्य काप्यकल्पनात् । प्राशस्त्यं तु ज्ञातं सद् एतत्ता- त्पर्यमाह *विधित इति । एवं चेत्यादिः । “सन्ध्यामुपासीत” "सर्व- भ्यः कामेभ्यः" इत्यादाविति भावः । *कचित्, द्वितीय । आये आह *क्कचिदिति । अत एव-नित्यादिस्थले फलसत्त्वादेव । *सर्वेति । "सर्वशक्तौ प्रवृत्तिः स्यात्तथाभूतोपदेशाद्"इति तदधिकरणपूर्वपक्ष- सूत्रे पुरुषार्थस्य भाव्यस्योभयत्रापि तुल्यत्वादित्युक्तं तैः। तद्याख्यानग्र. न्थमाह *काम्यमिति। नैमित्तिकविशप विशेषमाह *कमेति । *अन्य. वेति । तद्भिन्ने नैमित्तिके नित्यं च । *धात्वर्थ-व्यापारे । प्राधान्या- दाह तदिति । येषां मते कृतिरेव भावनेति तन्मतरीत्योक्तं दूषयति * यत्त्विति । आवश्यकत्वेन तदेव युक्तमित्याह *पाकादेरिति । तस्मात्प्रवर्त्तनैव विध्यर्थो नान्यद् इति प्रागुक्तं युक्तमिति । अन्येषा- मुक्तिरन्यथाऽयुक्तैवेति वोध्यम् । तदाह *इत्यन्यत्रेति । गुरु- मञ्जूपादावित्यर्थः ॥ ३६॥ तत्र लिपा शाब्दी भावना त्र्यंशा भा. व्यकरणेतिकर्तव्यताभिः । तत्र तस्याः सविषयत्वेन विषयाकाङ्क्षायां समानपदोपात्तत्वप्रत्यासत्यांऽशत्र- यविशिष्टाऽऽर्थी भावना प्रवृत्तिरूपा विषयः । इयमेव भाव्याकाङ्क्षा साध्याकाङ्क्षति चोच्यते । साध्यत्वाख्य. विषयतयैव तस्या विषयत्वात् । साध्यत्वं च सा- क्षात्परंपरासाधारणम् । एवं तस्याः साध्यत्वे ऽवग.
१०२४ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । ते केनेत्याकाङ्क्षायां प्रवृत्त्यनुकूलव्यापारबोधकत्वेन ज्ञातपदज्ञानं करणत्वेनान्वेति । करणत्वं च भा. वनाभाव्यनिर्वर्तकत्वम् । एवं कुठारादेरपि पुरुषव्या- पारनिर्वय॑च्छदनिर्वर्तकत्वेनैव करणत्वाद् । भावना भाव्यकरणाकाङ्क्षच च भावनाकरणाका त्युच्यते। तत्र 'कष्टं कर्म' इतिन्यायादुपाये द्वषेणालस्यादिना वा अप्र- वतमानं पुरुष प्रशस्तफलबत्ताज्ञापनेन द्वेषाद्यपसार- णद्वाराऽर्थवादवाक्यजन्या पूर्वोक्तप्राशस्त्यवत्तारूपा स्तुतिः सहकारिकारणमिति इयमितिकर्तव्यतोच्यते। ननु शब्दानुपस्थितकरणादेः कथमन्वय इति चेन्न । शब्दोपस्थितप्रवर्तनाया उक्तत्रयाकाङ्क्षायाः शब्दादुपस्थितैस्तत्सहकारेण मनसोपस्थितैश्च पदा }स्त द्विषयमानसबोधस्य तात्पर्यवशेनाङ्गीकारात् । तथाहि लिकादेः ओनेणोपस्थितिः। तस्य भावनायो- धकत्वेन ज्ञातत्वमपि मनसोपस्थितम् । एवं चार्थी भावना प्रवर्तनाशेधकतया ज्ञातपदज्ञानेन भावये- दिति बोधः। एवमर्थवादानामुपस्थितिः श्रोत्रेश, प्राशस्त्यस्य तु लक्षणया, ज्ञाततायास्तु मनसेत्यर्थवादैः प्रशस्तत्वे. न ज्ञास्वतीतिकर्तव्यतासंबन्धः । प्राशस्त्यं तु शीघ्र- फलदातृत्वरूपम् । यत्तु स्वतः फलतो वा बलवदनिष्टाननुबन्धित्व- रूपप्राशस्त्यमर्थवादैवाध्यते इति । तन्न । श्येनफलस्य शत्रुवधस्थानिष्टहेतुत्वेन फलतोऽनिष्टहेतोश्यने रागौ- कट्यन प्रवृत्तिदर्शनेन तदर्थवादस्तद्वोधनासंभवात् ।
तिर्थनिरूपणम् । १०२६ प्राशस्त्यज्ञानजननेन विधेः प्रवृत्तिजनने सा. हाय्यमर्थवादैः क्रियत इति विधिस्तत्साकाङ्गः । एवमर्थवादा अपि भूनार्थानुवादकाः स्वाध्यायविध्या- पादितप्रयोजनवत्वस्य लाभाय विध्याकासाः । त. त्रार्थवादानां प्रयोजनांशो विधिना पूर्यते, विधेः श. ब्दभावनाया इतिकर्तव्यतांशो ऽर्थवादैरिति उभय. श्रवणे सम्पूर्ण वाक्यमेकश्रवणे त्वन्यस्य कल्पनेति बोध्यम् । एवमार्थी भावनाऽपि व्यंशा यथा,यजेतेति,अत्र'यज देवपूजायाम' इत्युक्तेदेवपूजाकरणकव्यापारो यजरेर्थः । देवपूजा च मन्त्रकरणको देवतोद्देश्यको द्रव्यवि. षयस्त्यागः । अयमेवयागः । भाव्यस्तु स्वर्गकामादि. पदोपस्थाप्यः स्वर्गोऽर्थतो लभ्यते। यद्यपि स व्यापार स्त्यागविषयोऽपि, तथाऽपि तस्य करणत्वेनैवोपस्थि- त्याऽसुखरूपत्वेनापुरुषार्थतया च न भाव्यत्वमिति बहिर्भूतस्वर्गस्यैव साध्यत्वम् । अत एव ज्योतिष्टोमे- नेत्यादौ तृतीया । करणभूते धात्वर्थत्यागेऽभेदेन अन्वयात् । यत्तु भाव्याकामा 'किम्'इतिशब्देन मीमांसकैर्द- र्शिता, तदयुक्तम् । 'भावयेद् इति पदस्योत्पत्त्यनुकूल- व्यापारवाचितया सकर्मकत्वेन तदुपस्थिते तथाऽऽका- सौचित्येऽपि यजेतेत्यादितस्तेन रूपेणावोधात्तदुपस्थाप्ये तथा ssकालानौचित्यात् । ततोऽपि तथा बोधाङ्गीकारे भावयेदितिवत् 'स्वर्ग यजेत'इत्यापत्तेः । अतः 'किम- र्थम्' इत्येव तदाकार उचितः। अत एवेदृशानां कामा. १२२ १०२६ टीकादयोपेतायां लघुमञ्जूपायाम् ! न्तपदेन चतुर्था वोल्लेखः । अत एव"धर्म जैमिनिः" इति सूत्रे वाचस्पतिमिश्रा:-'स्वर्गस्य भावनाव्याप्यः स्वाभावेऽपि तदुद्देश्यत्वम् इत्याहुः । करणन्तु धात्वर्थयागः । करणत्वं भावनाभाव्यनि- तकत्वमुक्तमेव । सहकारिकारणाकाङ्क्षारूपकथंभा- वाकाङ्क्षा तु संनिधिपठिताश्रूयमाणफलक्रियाजातरू- पेतिकर्तव्यतया निवर्तते तैर्विना यागेनापूर्वाजनना- त्। पचतीत्यादौ सकर्मकस्थले तण्डुलादिरूपकर्माकासा- ऽप्यधिका । करणाकाङ्क्षाऽन्त्र बहिर्भूतकाष्ठादिपदैनि- वर्तते । बाह्यफलाकाङ्क्षायां 'तृतये'इत्याद्यपि प्रयुज्यते । नच विशिष्टस्य धात्वर्थत्वात्तदर्थस्वर्गभावनोद्देशेन यागस्य विधेयत्वं न स्यादिति वाच्यम् । विधिप्र- त्यययोध्यप्रवर्तनाविषयत्वरूपविधेयत्वस्य प्रकृत्यर्थे सम्पूर्णधात्वर्थे शब्दावोधेऽपि स्वर्गस्य सुखरूपत्वेन स्वत एवेष्टतया तव्यापार स्वरसत एव प्रवृत्तेः सिद्ध- त्वेन च विशेषणे फले तत्त्वप्रतीत्याऽदोषात् । यथा "लोहितोष्णीषा ऋत्विजः प्रचरन्ति"इत्यादौ । उपपा- दयिष्यामश्चेदं समासे। इदञ्च'भावनायाः प्रत्ययार्थत्वम् इति मीमांसकमते ऽप्यावश्यकम्, तेषामपि समानपदोपात्तत्वप्रत्यास- त्या लिथप्रवर्तनायाः प्रथमतस्तदुपात्तभावनायाम- न्वयादिति दिक् ॥ ३७ ॥ (१) कर्मविपाकेत्यारभ्य इत्यर्थः'इत्यन्तो ग्रन्थः पत्रिशदङ्कतः प्राग शेयः ॥
निराणाम् । १०२७ -- ई०टी०) * मेडियाकोक्ति : दुरितविपाक एव प्रायश्चित्त- मियर्थः । अलि । भाइटसाधनम्' इत्यनुपाने इत्यर्थः । * अंशेति । तथाहि यत्यास्पातलामान्यस्य शत्त्या र्यपुरुपप्रवृशिया भावनाऽर्थः । सिकादिविशेपशक्त्या च मवर्तनाल्या भावनांच्यते । मवर्तना च पुरुषात्यनुकूलो व्या- पारः । सव वेदे लिङादिप्रयोगः । तस्यैत्र प्रवर्तकत्वात् । इय मेव शाब्दी भावना । सा चेयमंशत्रया। तत्रार्थी भावना सा- ध्यत्वेन संबध्यते । लिडादिज्ञानं तु करणत्वेन संबध्यते, प्राशस्त्यज्ञानं वितिकर्तव्यतात्वेन संबध्यते । तच्च माश- स्त्यज्ञानं "वायु क्षेपिष्ठा" इत्याद्यर्थवादैजन्यते । अर्थवादा हि स्वार्थः प्रतिपादने प्रयोजनमलभमाना लक्षणया क्रतो प्राशस्यं प्र- तिपादयन्ति । *परेति । एकप्रत्यगोपालवादार्थवावनैव शाब्द- भावनायां साध्यत्वेनान्वेतीत्यर्थः । इयमेवेति । शाब्दी भावनैव। *भाव्येति । भाव्यामार्थभावनानाकासति । *तस्याः-आर्थः भावनायाः । *साक्षात्परम्परेति । भावनायास्तत्साध्यया- गस्प च साध्यत्वात् । *ज्ञातपदेति । प्रवृत्त्यनुकूलव्यापा- रवाचकत्वेन ज्ञातं यल्लिकादिपदं तज्ज्ञानं करणम् । ननु भट्टमते लिङादीनां करणत्वात्तनिष्ठो ऽभिधैव व्यापारः । स्वमते तु लिङादिज्ञानस्य कथं करणत्वं व्यापारादिमत्त्वाभावादत आ- ह *करणत्वं चेति । शाब्द्या भावनया भाव्या आर्थी भा. वना तनिर्वतकत्वाल्लिङादिज्ञानं करणमित्यर्थः । लोकेऽपि हि एवंविधमेव करणत्वं दृष्टमित्याह *कुठारादेरपीति । *स्तु. तिरिति । इदं च निन्दादेरुपलक्षणम् । तद्यथा-"एष वाव प्रथमो यज्ञानां यज्ज्योतिष्टोमो य एतेनानिष्ट्वा अन्येन यजते स गर्ने पतति" इति निन्दारूप एनार्थवादः । तथा "तस्माद्वा एतेह- * १०२८ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । पुरा ब्राह्मणा अस्तौपन्यज्ञं प्रतन्महे" इत्यादिः पुराकल्पो ऽपर्थवादः इतिकर्तव्यताशब्देनोच्यते । नन्वार्थी भावना शब्दोपस्थिता भाव्यत्वेनान्वेतु शब्दादनुपस्थितं तु करणं कथमन्वेतीत्याशयाह *शब्दानुपस्थितेति । शब्दानुपस्थिताः शब्दसहकारेण मनसा उपस्थिता ये पदार्थास्तेषां मानसो वोध इत्यर्थः । *एवं चेति । प्रवर्तनावोधकत्वेन ज्ञातं यल्लि. जगदिपदं तज्ज्ञानेनार्थी भावनां भावयेदित्यन्वयः । कथं भावयेदित्याकालायामर्थवादोक्तप्रशस्तत्वं तत्रान्वेति-संवध्यते, तेन चेतिकर्तव्यतात्वं लभ्यते । वेदो द्विविधः मन्त्री ब्राह्मणं च । ब्राह्मणं द्विविधं विधिरर्थवादश्च । तत्र विधिः साक्षात्प्रवर्तकः । अर्थवादानां तु स्तावकत्वेनोपयोग इत्याह *एवमर्थवादानामिति । ननु भूतार्थानुवादकत्वे प्रामाण्यं "स्वा- ध्यायोऽध्येतव्यः" इत्यनेन सप्रयोजनाध्ययनस्य लाभात् । यद्य- पि विधिविहितस्यानुवदनमनुवाद इति मूत्रेणार्थवादापेक्षयाऽनु- वादः पृथगुक्तः। स चद्विविधः विध्यनुवादो विहितानुवादश्चेति । द्विविधस्यापि विभागस्य विधिसमभिव्याहारे, भूतार्थवादरूपाणां वेदान्तवाक्यानां तत्रानुवादकानां च प्रामाण्यम् ,याहीत्युक्त्यपेक्षया याहि याहीत्युक्तौ शीघ्रप्रत्यायनवत् , तथाऽपि अनुवादतुल्य- त्वादर्थवादानामनुवादत्वम् । तत्राह *अर्थवादैरिति । *एव- मार्थी भावनाऽपीति । अयम्भाव:-“यजेत स्वर्गकामः" इत्यादौ धात्वर्थलिङर्थयोः परस्परमन्वये भावयेदित्यर्थः सम्पद्यते । तत्र किं भावयेदित्याकाङ्क्षायां फलं स्वर्गादि संवध्यते, केने- त्याकाङ्क्षायां तु यागादिर्धात्वर्थः, कथमित्याकाङ्क्षायां तु सोमादिद्रव्यदेवतादीनीति । पुरुषपत्तिरूपा आर्थी भावना ऽपि अंशत्रयवती। ननु लिङर्थभावनायां धात्वर्थस्यैव भाव्यत्वमुचि. * तिङर्थनिरूपणम् । १०२९ तम् , समानपदोपात्तत्वरूपश्रुतेः प्रबलत्वात् । स्वर्गादिफलं तु वाक्यलभ्यं दुवैलमत आह *अर्थत इति । पुरुषमवर्तनैव लिङः, पुरुपश्च स्वाभिलषिते प्रवर्तते इति अर्थात्स्वर्गस्य भाव्य- त्वमिति भावः । तथापीति । यागस्य करणत्वाद् दुःखत्वाच न भाव्यत्वमित्यर्थः । कथं तर्हि "दना जुहोति"इत्यादौदना होमं भावयेदित्येव धात्वर्थस्य साध्यत्वमिति चेत्सत्यम् । तत्र हो. मस्प "अग्निहोत्रं जुहुयाद्" इति वाक्येन प्राप्तत्वादधिरूपगुणमा- त्रं विधीयते । “अग्निहोत्रं जुहुयात्स्वर्गकामः" इत्यत्र तु अग्निहोत्रहोमेन स्वर्ग भावयेदियों भवत्येव । “सो. मेन यजेत" इत्यत्र तु सोमयागयोरुभयोरमाप्तन्वादुभयोरपि विधानं 'सोमवता यागेनेष्टं भावयेद्' इति । पृथग्विधाने तु वाक्यभेदप्रसङ्गः । नाऽपि सोमेन यागम्, यागेनेष्टं भावयेदिति वैयधिकरण्येन संबन्धः । साधनत्वेनोपस्थितस्य यागस्य साध्यत्वेनान्वयासम्भवात् । तस्मान्मत्वर्थलक्षणया सोम- वता यागेनेत्यर्थः । स्यादेतत् । “दना जुहोति" इतिवत् “सो- मेन यजेत" इत्यत्रापि गुणविधिरेवास्तु किं मत्वर्थलक्षणया ? | नच यागस्यामाप्तत्वान्न तदुद्देशेन सोमविधानं' सम्भवतीति वाच्यम् । “ज्योतिष्टोमेन स्वर्गकामो यजेत" इतिवाक्येन या- गस्य प्राप्तत्वादिति चेत्सत्यम् । ज्योतिष्टोमेनेत्यस्याधिकार- विधित्वेनोत्पत्तिविधित्वाभावात् । कर्मस्वरूपमात्रवोधको वि- धिरुत्पत्तिविधिः फलविशेषसंबन्धवोधकत्वं चाधिकारविधि- त्वम् । अतएवेति । धात्वर्थस्य करणत्वादेव । *कि- मिति शब्देनेति । 'किं भावयेद्' इत्याकारिका भाव्याकासा द- र्शितेत्यर्थः । *तथाकाङ्केति । कर्माकासा । * तेनरूपेणेति । उत्पत्त्यनुकूलव्यापारत्वरूपेण । *ततोपीति । यजेतेत्यतोऽपि - टीकायापलयां लघुगपायाम् । *धर्म जैमिनिरिति । जैमिनिराचार्यः धर्म फलदातारं मन्यने इति तत्भूत्रार्थः । *अपूर्वाजननादिति । यागेनेत्यादिः । यथा कुठारेणाप्युश्चमननिपतनादीतिकर्तव्मतारहितेन विना द्वैधीभा- वो न जन्यते । अविशिष्टस्येति । देवतोद्देश्यकत्यागविशिष्ट- व्यापारस्य यज्मथैत्वादित्यर्थः । *विधिप्रत्ययेति । वि. शिष्टे विधेयत्वप्रतीतावपि विशेषणांशे फलनीत्यर्थः । *फले- यागे । *तत्त्वेति । विधेयवेत्यर्थः । *लोहितोष्णीपाइति । अत्रं ऋत्विभचारणम्यान्यनः प्राप्तत्वाल्लोहितोष्णीपतमात्रं विर्घायते यथा “दना जुहोति' इत्यत्र होमस्य प्राप्तत्वादधि- विधानं तद्वत् ॥ ३७॥ (क० टी०) बोधप्रक्रियामाह *तति । विधिघटितवा- क्ये इत्यर्थः । *व्यंशेति । तदुक्तम्- लिडो ऽभिधा सैव च शब्दभावना भाव्या च तस्याः पुरुषप्रवृत्तिः। सम्बन्धवोधः करणं तदीयं प्ररोचना चाङ्गतयोपयुज्यते ॥ इति। *तत्र-उक्तांशानां मध्ये । प्रेरणात्वेन सविषयत्वस्य प्रागुक्तत्वा. दाह *तस्या इति । शाब्दभावनाया इत्यर्थः । * इयमेव-विषया- काझैव । ननु विषयत्वमतिप्रसक्तमिति कथमिदमत आह *सा. ध्यत्वेति । तस्याः-आर्थभावनायाः। एवमग्रे ऽपि । *एवम्-उक्त- प्रकारेण । ननु तस्य न तत्साधनत्वमत आह *करणत्वं चेति । लोकसिद्धमपीदमित्याह *कुठारादेरपीति । नन्वेवं शाब्दभाव. नाया न करणाकाङ्क्षा ऽत आह *भावनेति । *तत्र-यागादौ । अप्रवृत्तावन्वयः । *पूर्वोक्तेति । तत्तत्फलजनकत्वरूपेत्यर्थः । आर्थभावनायाः शब्दोपस्थितत्वेन भाव्यतयाऽन्वयसम्भवादा. ह *शब्दानुपति । आदिनेतिकर्तव्यता । * आकाङ्क्षयेति । आका- झाया इति पाठे हेतुपञ्चमी । तेषामुपयोगस्य तथोक्तत्वादा. ह *प्राशस्त्यञ्चेति । तद्वोध्यं तदेव प्रवृत्त्युपयोगीति भावः । भूषणादिमतं खण्डयति यत्त्विति । तस्योत्तेजकत्वादाह *रागौ- कल्येनेति । इतिकर्तव्यतासम्बन्ध उभयाकाङ्क्षया । तत्रार्थवादकृ.
तिथनिरूपणम् । १०३३ . तस्तु उपकार उक्त एवेत्याह *प्राशस्त्येति । तत्र-तयोर्मध्ये । *एवम्-शाब्दभावनावत् । उदाहरति *यथायजेतेति । तत्र तामु- पपादयति *अत्रेत्यादिना । त्रितयान्यतमाभावे न तत्त्वमिति सू. चयनाह *अत्रेति । चतुर्दान्तानुल्लेखात्प्रत्यासत्तश्चाह *स्वर्गेति । तस्य च तत्र तत्वेनान्वयस्तत्र तस्या इत्यादि प्रागुत्तरीत्या वाच्यः । तम समानपदोपात्तत्वप्रत्यासत्या शङ्कने *यद्यपीति । हेत्व- न्तरमाह * अलुखेति । उक्तयुक्तेराह *स्वर्गस्यैवति । आये मा. नमाह *अत एवेति । करणत्वेनोपस्थितेरेवेत्यर्थः । ननु ता- वताऽपि कथं तृतीया तत्र, अत आह *करणेति । *अभेदेने- ति । इतरसंसर्गानवच्छिन्नविशेषणविशेष्यभावेनेत्यर्थः । *त. तो ऽपि-यजेतेत्यादितोऽपि । तथानिटत्वादाह *आपत्तेरिति । *अत एव-तथाऽऽकारीचित्यादेव । ततस्तस्य साध्यत्वे ऽवग- ते केनेत्याकाङ्क्षा समानाभिधानश्रुत्योपस्थितयागेन निवर्तते इत्याह *करणस्विति । प्रत्याशत्तिं तदाकाङ्क्षां चाह *सं. निधीति । *जालेति कलापेत्यर्थः । विधेरपि तदा- काजामाह #तैरिति । स्वर्गसाधकपरमापूर्वत्यर्थः । समस्ता- पूर्वाणामेव तजनकत्वाद्, अन्यथा तदानर्थक्यापत्तेरिति भावः । स- कर्मकधातुस्थले आह *पचतीति । *बाह्येति । धात्वर्थभूत- विक्लित्त्याद्यन्येत्यर्थः । *विशिष्टस्य-यागविशिष्टभावनारूपस्य । *तदर्थेति । धात्वर्थभूनस्वर्गफलकभावनेत्यर्थः । तथाऽन्वये भेदेनो- पस्थितेस्तन्त्रत्वादिति भावः । युक्त्यन्तरमाह *तदिति । *फले- त्यागरूपे । * तत्त्वेति । विधेयत्वेत्यर्थः । ननु दृष्टान्ते कथं तथा पर्यवसानमत आह *उपेति । *इदं च-उक्तरीत्या पर्यवसानम् । *तदुपात्तेति । लिङपात्तेति पश्चादुक्तरीत्या तथेति भावः । वस्तुतस्तथाऽन्वये भिन्नपदोपस्थितस्तन्त्रत्वाभावस्य वक्ष्यमाणत्वेन शब्दतोऽपि आदावेव तथाऽन्वयः सुवचनशङ्केवेति तथाऽङ्गीकारो वृथैवेति बोध्यम् । तदाह *इतिदिगिति ॥ ३७ ॥ । औपनिषदास्तु त्यागानुकूलो व्यापार एव यजे. : पच्यादरिव । नत्र याग एव भाव्यः, स्वर्गस्तु पु. रर्थः १८३२ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । रुषव्यापाररूपभावनाव्यवहिनोत्तरवर्तित्वाभावानत. द्भाव्यः,यागद्वारातु स साध्यः। तथाहि विधिरप्रवृत्तप्रव- तकत्ये सतिप्रेर्यमाणष्टप्रयोजनसाधनविषयोपदेशरूपः। तस्य धर्मस्य ज्ञापक उपदेशो विधिरित्यर्थकात्"तस्य ज्ञा- नमुपदेशः" इति जैमिनिसूत्रात् । तत्र ज्योतिष्टोमादिवा- क्ये प्रेर्यस्वर्गकामस्येष्टप्रयोजनसाधनतया यागावगति. विधिस्वभावात् । यागस्तु कर्मणां दुःखत्वेन चेतनसमी. हाविषयत्वाभावान्नोक्तस्वरूपविधिबोध्यभावनोद्देश्यः किन्तु स्वर्गादय एव, तेषां नामपदोपात्तत्वेऽपि काम- पदात्साध्यत्वप्रतीतः । प्रवृत्त्यव्यवहितप्राग्वतःच्छावि. षयत्वेनोपस्थितेश्च प्रीत्यात्मकत्वेन समीहितत्वाच । एवं च स्वर्गीयेत्यध्याहृत्य स्वर्गाय यागं भावयेत् स्वर्गकाम इति बोधः। यागे भावनाभाव्यत्वरूपसा- ध्यत्वस्य स्वर्गसाधनत्वेन विरोधाभावात् । अनेक- विशेषणविशिष्टक्रियाविधिसत्त्वेनोपयोर्भाव्यत्वे ऽपि न वाक्यभेदः । अत्र करणाकाङ्क्षा बायह्यादि- भिनिवर्तते । यत्तु धात्वर्थस्य त्यागरूपस्य भावनां प्रति करणत्व- मुक्तम् । तन्न । कारकाधिकारे"साधकतमं करणम्" इति सूत्रस्य क्रियाजनकेषु क्रियायाः प्रकृष्टं जनकं करण- संज्ञकमित्यर्थो भाष्यादिसम्मतः । अत एव वृत्तिकृदा. दिभिः क्रियासिद्धौ प्रकृष्टोपकारक करणमित्युक्तम् । हरिरप्याह- क्रियायाः परिनिष्पत्तियव्यापारादनन्तरम् । विवक्ष्यते यदा यत्र करणं तत्तदा स्मृतम् ॥ इति- ।
तिङयनिरूपणम् । अत एव करणस्य व्यापार: "कारके" इति सूत्रे भाष्ये दर्शितः । तद्यापारस्य धात्वर्थत्वे करणस्थ क- र्तृत्वं च तद्भाष्ये उक्तम् । स्वागश्च न भावनाजनको नापि व्यापारवानिति तस्य करणताया दुरुपपादत्य- म् । भावनामाव्यनिर्वर्तकत्वं करणत्वमित्यर्थल सूत्रभाष्यादितो लाभात् । व्यत्ययानुशासनमपि उक्तेष्वर्धष्वेव व्यत्ययबोधकम्, नतु पस्मिन्करिम- श्चिदर्थे तद्वोधकमिति स्पष्टमेव । किञ्च "स ब्रह्म हत्यान्तरति योऽश्वमेधेन यजते" इत्यादौ यच्छन्दयोगादनुवादके वाक्ये तृतीयानाप- त्तिः । नहि तत्र यजते इत्यस्य यागेन भावयतीत्यर्थः, भाव्यानुपस्थित्या साकाहत्वात् । “स ब्रह्महत्याम्" इतिवाक्यान्तरेण हि ब्रह्महत्यातरणरूपभाव्योपस्थि- तिः । तस्यानुवादकवाक्ये भाव्यत्वेनान्वयस्तु न युक्तः । तच्छन्दयोगेन तस्य विधेयसमर्पकत्वात् ॥ किञ्च तस्यैवान्वये 'यो घटमुत्पादयति स धर्ट ल- भते' इतिवाक्यवदस्य वैदिकवाक्यस्य विसंष्ठुलता. पत्तिः। किन्तु वाक्यद्वयजबोधोत्तरमेतत्कामो ऽश्व- मेधेन यजेतेति विधिः कल्प्यते इत्येव वृद्धमर्यादा। यदपि वाजपेयादिपदानि सुराद्रव्यादिगुणवि- धायकानीति पक्षे एककरणावरुद्धे नेतरकरणान्वय इति तदन्वयानुपपत्तिरिति, तदपि न । अस्यास्य श्रुतिस्मृतियोधितत्वाभावात् । किञ्चैवं फलरूपकर्मावरुद्धायां भाबनायां बाह्य- कर्मान्तरयोगानापत्तिः, तव सर्वकारकाणां भावमा- १०३४ टीकाद्वयोपतायां लघुमञ्जूपायाम् । न्वयनियमात् । तत्र फलद्वारैव भावनान्वये त्वत्रापि त्यागद्वारैव भावनान्वये बाधकाभावः । त्यागेऽपि सु. राद्रव्यस्थ जनकत्वात्।अवदानग्रहणमेव च तद्यापारः। किश्च वाजपेयेनत्यादेविशिष्टेनेत्यध्याहारेण वाक्य- कदेशन्यायेन वा यज्यधयागेन गुणविधावपि मंबन्ध उपपद्यते।नच लक्षणा, नापि वाक्यभेदः, विशिष्टविधे. रिति विभाव्यताम् । तस्मादक्तपरंपरोपदेशेन कचिद् "यो ऽश्वमेधेन यजते" "सप्तदशदीक्षा वाजपेयः" इ- त्याधनुवादेनच ज्योतिष्टोमेनेत्यादेः पदपरस्य स्वज्ञा. नद्वारा करणत्वेनान्वयो भावनायाम् । तस्यापि संक- ल्पद्वारा यागभावनाकरणत्वात् । पदस्थ करणत्वं चोपस्थितयागविशेषणत्वेनैव संकल्पादिद्वारेति या- गनामधेयत्वमपि सिद्धम् । स्पष्टं चेदं “धर्म जैमि. निः" इत्याधिकरणे भाष्यभामत्योरित्याहुः ॥ ३८ ॥ (कुं० टी०) *यागानुकूलइति । द्रव्यत्यागस्य यागत्वाद्या- गानुकूलव्यापार इत्यर्थः । अत एव समानपदोपात्तत्वाधागो भाव्यः । प्रेर्यमाणेति । प्रेर्यमाणस्य इष्टुं प्रयोजनं स्वर्गस्तस्य साधनं यागः । तस्य ज्ञानमिति । अपौरुषेये वेदे आज्ञारूपवि- धेरसंभातज्ज्ञानमेवोपदेश इति सूत्रार्थः । ननु स्वपदोपात्तत्वात साक्षाद्भावनाभाव्यत्वाच्च यागे एव विधियोध्यभावनोद्देश्यत्वमस्तु इत्यत आह * यागस्त्विति । इतिवोधइति । स्वर्गसाध्यिका स्वर्गसाधनयागानुकूला भावना तद्विषया प्रेरणेत्यर्थः । ननु साध्यस्य यागस्य सिद्धत्वाभावात्कथं स्वर्गफलं प्रति साध- नत्वं सिद्धत्वसाध्यत्वयोर्विरोधादत आह *यागेइति । विध्यु- नियनिरूपणम् । १०३५ पात्तभावनामाव्यत्वरूपसाध्यत्वस्य स्वर्गसाधनेत्यनेन विरोधश- भावात् । ननु यागस्वर्गयोरुभयोर्विधेयत्वे वाक्यभेदापत्तिरत आह *अनेकविशेषणेति । स्वर्गोदेश्यकयागकर्मकभावनेत्यर्थः। ननु य. जेतेत्यत्र यागभावनयोःकरणत्वं कर्मत्वं चोभयं बोधयितुमशक्य- मिति चेन्न । सम्बन्धमात्रमेव ह्यत्र श्रुतं तत्र भावनां प्रति यागस्य साध्यत्वं फलं प्रति च साधनत्वमित्युभयोरपि संभवात् । कर- णाकाझ्या यागः सम्बध्यत इत्येतन्निराकरोति *अत्रेति । करणत्वं व्यापारनियतमिति दर्शयितुमाह *कारकाधिकारे इत्यादिना । * एककरणावरुद्ध इति । वरुद्धायां स्वर्गभावनायां वाजपेयस्य करणत्वासंभवाद् गुण- वीधरयम् । "दनेन्द्रियकामस्य जुहुयाद्" इत्यत्र दध्यादिवदि- त्यर्थः । *अस्यार्थस्येति । एककरणावरुद्ध अन्यस्य करण- तया नान्त्रय इत्येतस्येत्यर्थः । *सर्वकारणमिति । फलं कर्म- कारकं यागस्तत्करणम् । नच क्रियायोगमन्तरेण कारकाणां परस्परमन्वयः सम्भवति । तस्माद्भावनायामुभयोरन्वय इति भावः। * अत एवेति । "वेगावद्यति""द्विरवत्तं गृह्णाति"इति वचनात् । *विशिष्टेनेति । वाजपेयविशिष्टेन यागेनेत्यर्थात् ॥३८।। यागरूपकरणा- (क० टी०) भाष्यसंमतवाचस्पतिमिश्रोक्तमतं प्रागुक्तं मीमांस. करीत्येति सूचयितुं सिद्धान्तत्वेनाह * औपनिषदाइति। तत्त्वज्ञा इत्य- थः । अत एव तुः। एवेन स्वर्गानुकूलव्यापारव्यवच्छेदः । अत्र वैरूप्यं नेत्याह *पच्यादेरिति । भाव्याकाङ्क्षायामाह * तत्रेति । व्यापा- रे इत्यर्थः । समानपदोपात्तत्वात् । एवेन भिन्नपदोपात्तपुरुषवि- शेषणस्वर्गव्यवच्छेदः । तस्य तदभाव्यत्वे युक्त्यन्तरमाह *स्व. गस्त्विति । तुश्चार्थे । सच किञ्चत्यर्थे आदी योज्यः । *न तद्भा. व्यः-साक्षाद्भावनाभाव्यो न । अत एवाह *यागेति । ननु विनि- गमनाविरहो ऽत आह *तथाहोति । प्रेरणाविषयपुरुषसम्वन्धीष्ट- १०३६ टीकाद्वयोपेनायां लघुमञ्जूषायाम् । व्युः फलसाधनेत्याद्यर्थः । उपदेशस्वरूपं प्रागुक्तम् । ज्ञानशब्दे करणे डित्याह *ज्ञापकइति । तत्र-तस्य तद्रूपत्वे सति । *इष्टेति । बहु- बीहिः । सतिसप्तम्या सूचितमाह *विधीति । ननु यागस्यैव भावना. भाव्यत्वात्स्वपदोपात्तत्वाञ्च भावनोद्देश्यत्वमुचितं न स्वर्गादेरत आह स्वर्गस्त्विति । स्वर्गश्चेत्यर्थः । ननु तेषां सिद्धबोधकनामपदोपा. तत्वात्कथं तत्त्वमत आह *कामेति । नन्वेवमप्युक्तदोष एवात आ. है *प्रवृत्त्येति । उक्तव्यतिरेकमाह *प्रीत्येति । * एवं च-स्वर्गस्यै- व तदुद्देश्यत्वे च । परमतेनाह *स्वायतीति । स्वर्गोद्देश्यिका स्वर्गसाधनयागानुकूला या भावना तद्विषया प्रेरणेति यावत् । नन्वेवमेकत्र यागे साध्यत्वं साधनत्वं च विरुद्धमिति मीमांस. कायुक्तमेवात आह *यागेइति । *स्वर्गेति । विधिपदार्थस्वरूप. निरूपणलब्धेनेत्यर्थः । नन्वेवमपि एकत्र भावनाया यागस्वर्गयोर्वि- धेर्वाक्यभेदापत्तिरत आह *अनेकेति । *क्रिया-भावना । नियम- तः स्वर्गादेरद्देश्यत्वसत्त्वात्स्वर्गसाधने यागादौ स्वर्गकामादेरधिकारः सिद्ध इति बोध्यम् । नन्वेषं केनेति करणाकालानिवृत्तिर्न स्यादत आह *अति । मीमांसकादिमतं प्रागुक्त खण्डयति *यस्वित्यादिना निषेधत्वादित्यन्तेन । हेतुमाह कारकेत्यादिना । *सूत्रस्य-कारक- पठितस्य । *क्रियाजनकेषु-तेषां मध्ये । *क्रियायाः-फलस्य । *अत पव-करणस्य सव्यापारत्वात्तदनन्तरं फलनिष्पत्तेरेव । अस्योभय. चान्वयः । *व्यापारः-उद्यमननिपतनादिरूपः । चो व्युत्क्रमे उक्तश्च । नन्तावता किमत आह *त्यागश्चेति । चस्त्वर्थे । स्वर्गजनकत्वे आ- ह *नभावनेति । कारकाधिकारपाठात्तस्वावश्यकत्वमिति भावः भावनाजनकत्वे आह *नापीति । ननु प्राकरणत्वमन्यादृशमे- वोकमत आह *भावनोत । ननु व्यत्ययानुशासनलब्धः सो अर्थो ऽत आह *व्यत्ययेति । अभ्युपेत्य दोषान्तरमाह #किश्चेति । यद्यपि "तरति ब्रह्महत्यां यो ऽश्वमेधेन" इति तैत्तिरीयश्रुतौ पठितम्, तथापि य इत्यस्य माकाकत्वादाह सम्रह्मेति । ननु तस्यानु- वादत्वेन भात्रयेदित्यर्थाभावे ऽपि लडन्तार्थसम्भवेनोक्तरीत्यैव तृतीया ऽत आह *नहोति । ननु तद्वत्स्ववाक्यानुपस्थितावपि माक्यान्तरोपस्थित्या तस्य तत्त्वमत आह *स ब्रह्मेति । वाक्ये- हदर्यभावनायाम् । “योगेन-आर्थिकेन । ननु तथाऽप्युभयाकाला- तिर्थनिरूपणम् । १०३७ यामन्यथाऽनुपपत्त्या तथाऽङ्गोकारो ऽत आह *किञ्चेनि । अनु. स्पादकस्यापि घटलामवत्तत्तरणलाभसत्याद्विसंष्ठुलत्वम् । एवं प. रमते ऽनिर्वाहमुक्ता सिद्धान्तमुक्तरीत्या तत्राह किन्विति । रात्रि- सन्नादिवदिति भावः । *द्वयजेति । अश्वमेधकरणिका यत्कर्तृका यागानुकूला भावना तत्कर्तृकं ब्रह्महत्याकर्मकन्तरणमित्येवमित्यर्थः । प्रसङ्गादन्यदपि मीमांसकोक्तं खण्डयति *यदपीति । वाजश. ब्दस्यानपरत्वेऽपि पेयपदसमभिव्याहारादाह सुरेति । तस्या अ- नविकारविशेषत्वात् । तत्र कर्मधारय इति भावः । *पक्षे-पूर्व- पक्षे । एकति । समानपदोपात्तयागरूपेत्यर्थः । * इतरेति । भि. अपदोपात्तसुरादीत्यर्थः । * तदिति । वाजपेयेनेत्यादीत्यर्थः । ननु न तस्य स्वार्थे तात्पर्य किं तु तस्य करणाकाङ्क्षायामुक्त प्रत्यासत्या तस्यैवान्वयेन तन्निवृत्तौ न तदन्वय इत्याशयो ऽतो लौकिकवाक्ये दोषमाह किञ्चवमिति । तत्र तदनन्वये इत्यर्थः। इष्टापत्तावाह *तवेति । *तवापीति । एवं च तदुपादानमुमयत्रा- नर्थकमेव स्यादिति भावः । फलस्यापि प्रागुक्तरीत्या क्रियात्वेनाह त्यागेऽपीति । ननु तत्र को व्यापारोऽत आह *अवदानेति । उक्त. दोषमभ्युपेत्यापि अन्यथा तत्र पक्षे तदन्वयसम्भवात्तदनुपपत्तिरूप- दोषो ऽयुक्त एवेत्याह *किञ्चति । परमतेनाह *विशिष्टेनेति । सि- द्धान्तेनाह *वाक्यैकेति । भाषनया ऽसम्बन्धेऽप्याह *यज्यर्थेति । तत्पक्षेऽपि तेन सवाजपेयेनेत्याः सम्बन्ध इत्यर्थः। विशिष्टविधिपक्ष तदुक्तदोषमुद्धराति *नचेति । लक्षणाभावश्चेत्यर्थः । प्रागुक्तरीत्या दोषान्तरमपि नात पवेत्याह *नापीति । ननु एवं सिद्धान्ते तत्र कथं तृतीयाsत आह *तस्मादिति । कचिदित्यस्य मध्यमणिन्यायना- स्वयः । नच वाजपेयपदेन सुराद्रव्यस्यैव विधानापत्तिः, प्रकरणे द्रव्यान्तरविधिवैयर्थ्यात् । तत्सामाद्विकल्पकल्पनापक्षया पद. परत्वकल्पनाया एवाचित्यात् । सुराद्रव्यस्यापि मानान्तरेण लाभाच । अत एव सोमेनेत्यादौन पदपरता । तत्र द्रव्यस्य मा. नान्तरेणालामात् । तदेतदभिप्रेत्याह *ज्योतीति । साक्षादसम्भ- बादाह स्वज्ञानेति । ननु पदस्य तद्वारा ऽपि न यागभाव. माकरणत्वमत आह तस्यापीति । अपि हादिसमुश्चये । 'ज्योति- शोमेन यक्ष्ये' इत्यादिसङ्कल्पेत्यर्थः । बन्धेवमधिकरणसिदान्ता- १८३८ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । सिद्धिरत आह *पदस्थेति । द्वितीयाभावादाह *सङ्कल्पेति । आदि- ना को याग इत्युत्तरपरिग्रहः। शब्दार्थयोस्तादात्म्यादाह *यागे- ति । *धर्ममिति । तृतीयद्वितीये "धर्म जैमिनिरन एवं"इतिपूर्व- पक्षसूत्रम् । “स्वर्गकामो यजेत" इत्यादिश्रुनेराशुनश्वरान्फलायोगे. नावश्यकल्प्यापूर्वमेव यागोऽत्तरावस्थारूपम् फलदातृ । फलदातृत्वे वैषम्यनैघृण्यापत्तः । यत एव श्रुत्युपपत्तिभ्यामीश्वरस्य फलदा- तृत्वं सिद्धान्तिसंमतमत एव श्रुत्युपपत्तिभ्यां धर्म फलदातारं जैमिनिराहेत्यर्थः । *भाष्येति । तत्राहि "स्वर्गकामो यजेत" इत्येवमादिषु वाक्येषु विधिश्रुतेविषयभावोपगमाद्यागः स्वर्गस्यो. त्पादकोऽन्यथा हननुष्ठातृको याग आपद्येत उपदशवैयर्थ्य स्था- दित्युक्तम्भामत्यामिति ॥ ३८ ॥ "न हिंस्यात्सर्वा भूतानि"इति निषेधाद्यागीयपश्चा- लम्भे पापं भवत्येव । नचाग्नीषोमीयं पशुमालभेतेत्या- दिर्यागीयहिंसाविधिनिषेधस्य विहिनेतरहिंसापरत्वं बोधयतीति वाच्यम् । विधिना प्रकरणेन च तस्या आ- प्सप्रेरणाविषयत्येनेष्टहेतुत्वक्रत्वर्थत्वयोधनेऽपि उक्तरी- त्याऽनिष्ठाहेतुत्वबोधने मानाभावेन निषेधस्य हिंसा- यां पुरुषानिष्टहेतुत्ववोधकत्वेन विरोधाभावात् । पर- कीयसुन्दरीगमनादौ समावेशदर्शनात् । किञ्चालम्भनमत्र स्पर्शः । अग्निहोत्रप्रकरणपठिते "वत्समालभेत" इतिवाक्ये तदर्थकत्वनिर्णयात्। हिंसा त्वङ्गयागविशसनप्रकारोपदेशाभ्यामाक्षेपलभ्या। ए- वं चाक्षेपलभ्यार्थेन विरोधे ऽपि वेदस्याप्रामाण्यप्रस- स्यभावेन तत्सङ्कोचे न मानम् । अन्यतराप्रामाण्य- भ्रान्त्या हि सङ्कोचः।पापसत्त्वऽपि तद्दोषसहिष्णोरेव श्येनादाविव रागवशीकृतस्य ज्योतिष्टोमादावपि प्र- .
तिर्थनिरूपणम् । १०३९ वृत्तिरुपपद्यते । एतन तक्रकौण्डिन्यन्यायेन अविरोधे ऽपि निषेधस्य विहितेतरहिंसापरत्वं विशेषविधिना बोध्यते इत्यपास्तम् , हिंसाविधेरभावात् । नच निषेधस्य पुरुषार्थत्वेन यदर्थों निषेधस्तदर्थ- मेव निषेध्यम्'इति नियमेन पुरुषार्थहिंसाया एव स निषेध इति वाच्यम् । पुरुषार्थस्युपगमादिनि- षेधस्य क्रत्वर्थत्वदर्शनन त्वदुक्तनियमस्य व्यभिचरि- तत्वात् । क्रत्वहिंमाया अपि परम्परया पुरुषोप- कारकत्वेन पुरुषार्थत्वाच्च । नच- यज्ञार्थ पशवः सृष्टाः स्वयमेव स्वयंभुवा। यज्ञोऽस्य भूत्यै सर्वस्य तस्माद्यज्ञे बधोऽवधः ॥ या वेदविहिता हिंसा नियताऽस्मिंश्चराचरे । अहिंसामेव तां विद्याद्वेदाधर्मो हि निर्बभौ । इति- मनुवाक्यादिभिः पापाभावप्रतिपादकनिन्दाप्रा- यश्चित्तोपदेशाद्यसमभिव्याहृतविधिवाक्यवोध्यप्रव. तनायाः स्वविषयप्रवृत्तिविषये धात्वर्थे सामान्यतो. ऽनर्थहेतुन्वप्रतिक्षेपकत्वकल्पनेन सामान्यनिषेधस्य तदतिरिक्तपरत्वम् । आक्षेपलभ्याया अपि विधिता- त्पर्यविषयत्वेन तत्राप्यनयहेतुताप्रतिक्षेपात् । अत- एवान्यत्र "हिंमा चैवाविधानतः" इति अविधाने- न हिंसेव पापजनिकोक्ता। श्रुतिरपि “अहिंसत् सर्व- भूतानि अन्यत्र तीर्थेभ्यः" इत्याह । तीर्थ यज्ञः। तीर्थ शा- स्त्राध्वरेति कोशात् । अतएव मरणान्तप्रायश्चित्ताहवा- भिमुखहननाचितदण्डरूपचारहननादीनां न पापजन- १०४० टीकाद्वयोपेतायां लघुमपायाम् । कत्वम् । शुद्ध्यर्थ मरणे तस्यायुक्तत्वात्। 'न दोषो हिंसा- यामाहवं-'इत्युक्तेश्च । चोराद्यवधे राज्ञो दोषश्रवणाच । तस्मादहितहिंसातिरिक्तविषयोऽयं निषेधः। अगहि- ता चानुपदिष्टप्रायाश्चत्तिका हिंसा । एवं सर्वनिषेधेषु द्रष्टव्यमिति वाच्यम् । मनुवचने ऽवध इत्यत्र 'अनुदा कन्या' इत्यादाविवाल्पार्षे नमः सत्त्वात् । अन्य. था 'घटरोऽघटः' इतिवदस्याबोधकत्वेनावधपदस्थ पापा- जनकत्वलक्षणा पत्तेः । यज्ञानुपक्रम्य- अहिंसा परमो धर्मों गीतो वै मनुना पुस । इति- ब्रह्मवैवर्ते प्रथमखण्डे उरुतया मदुक्ता स्यैवौचित्यात् । परमत्वं च पापाजनकत्वेनास्य- अल्पीयःप्रायश्चित्तेन परिहतुं शक्यत्वात्, न तत्र देषः । किंच महतः फलस्य कामनया क्षुद्रेन द्वेषः, तत्र पशुहिंसाजन्यस्य पातकस्याल्पप्रायश्चित्तोपदेशेन ब- हुवित्तव्ययायाससाध्ययागजन्यस्वर्गात्प्रथममप्यल्प. स्य मनुना यागविषयेऽत्यल्पत्वबोधनात् । एवंच न तद. लेन विधेः स्वविषयेऽनर्थहेतुताप्रतिक्षेपकत्वम् ।। ३९ ॥ ( कुं० टी०) *नहिंस्यादिति । अत्र प्राभाकराः रागतः प्राप्ताया एव हिंसाया निषेधः, क्रत्वर्थसंज्ञपने तु न रागतः प्र- त्तिरस्ति किन्तु विधिवलादिति व्यवस्थापयन्ति । अत्र कौमारि. लतार्किका:-रागं विना प्रवृत्त्यसम्भवानेयं व्यवस्था युक्ता किन्तु विधिवोधितस्य निषेधायोगात् "पदे जुहोति"इत्यनेनावनी. यहोमादेः संकोचवत् क्रत्वर्थसंज्ञपनातिरिक्तविषयो निषेध इति बदन्ति । तान् दूषयति *पापंभवत्येवेति । विधिनेति । ऋतुप- करणे विहितवादग्नीषोमीयपश्वालम्भस्य ऋतूपकारकत्वमेव, तिङर्थनिरूपणम् । २०४३ "न हिंस्याद्" इत्यनेन चाधर्मजनकत्वबोधनेन विरोधाभा- वासमावेश एवेत्यर्थः। अत्र केचिन् क्रत्वर्थमारणं हिसिधातुवाच्यं न भवति, यथा- हि रोपादिकृते शरीरच्छेदादौ निग्रहो भवति न रागादिकृते तद्वत् । किञ्च "न वा उ एतन् म्रियसे न रिष्यसि न देवां इदि- देपि यथा सत्। यत्र यन्ति सुकृतो नापि दुष्कृतस्तत्र देवस्त्वा स- विता दधातु" इति श्रुत्या पशुस्वर्गार्थतयाऽनुग्राहकत्वमित्याहुः । अन्येतु मरणफलोपहितक्रियाकरणत्वं हिसिधातोः प्रवृत्ति- निमित्तम् । मरणकारणत्वमात्रस्य योग्यतारूपस्य ग्रहणे ल- क्ष्योद्देश्यकखड्गादिप्रक्षेपादन्यस्य वधेऽतिव्याप्तिः । मरणफलक- त्वमात्रस्य निवेशे गवादिमरणकतडागादिनिर्माणेऽतिव्याप्तिः । नच क्रत्वर्थहिंसाया अपि हिंसात्वे पश्वनुग्रहत्वानापत्तिः । व्रण- शान्त्यर्थच्छेदादेः छिदिधातुवाच्यत्वेऽप्यनुग्रहत्ववत्पशुहिंसा याः हिंसात्वेऽप्यनुग्रहत्वसम्भवादित्याहुः । तन्न । तस्या अपि हिंसात्वे स्वीकृते "न हिंस्याद्" इति निषेधस्य दुर्वारत्वात् । नच रागप्रयुक्तहिंसाया एव निषेधो न विधिवोधिताया अपीति वाच्यम् । विधिना क्रत्वर्थत्ववोधनेऽपि हिंसात्वप्रयुक्तनिपे- धस्य दुर्वारत्वात् । *स्पर्श इति । “विशये प्रायदर्शनाद" इत्यधिकरणे मीमासंकैरालम्भगन्दे स्पर्शार्थकत्वोक्तेः । आ- लम्भपिञ्जविसरघातोन्माथवधा अपीत्यमरे तु भाविवधा- भिप्रायेण । अत एव ब्रह्मचारिणां निपेध्येषु स्त्रीप्रेक्षणा- लम्भनेति गौतमेन सूत्रितम् । आलम्भनं स्पर्श इतिच हरदत्तः । अत एव त्रिदर्थाधिकरणे "त्रिदग्निष्टुदमिष्टोमः"इत्यत्र त्रैगु- ण्यवाची उत स्तोत्रीयानवकार्थ इत्युपक्रम्य विवृद्वहिष्पवमान- मित्युक्तेः स्तोत्रीयाणां नवकवाचीति संशये स्तोत्रीयानवके तत्र
१०४२
टीकाद्वयोपेतायां लघुमञ्जूषायाम् ।
प्रयोगदर्शनात् “त्रिदाग्निष्टुदग्निष्टोमः" इत्यत्रापि तदेव ग्राह्यमिति
सिद्धान्तितम् । *अङ्गयागेति । "पाशिरसं प्रत्याशिरसंवा ब.
हिषि उत्तरपादं निधाय प्रागनाभेस्तृणवानमन्त(यर्तिपरु दित्वा
धपामुद्धरे इत्यादिविधानात् । वधं विना देवतोद्देश्यकद्रव्यत्या-
गरूपयागासम्भवाद् । विशसनं वधः । एवंच समानार्थत्वाभावान
बाधसम्भवः । नचैवमन्यतः सिद्धरेतत्सिद्धौ हिंसाया यागाङ्गत्वं न
लभ्येत पनीसंयाजानां जाघनीवदिति वाच्यम् । पशुत्वसाधकैः
प्राचीनपशुसंस्कारैर्यागालनिर्णयात् । * पुरुषार्थत्वेनेति । अयं
भावः-"न हिंस्याद् इति निपेषः पुरुषार्थहिंसायाः शीघ्रोपस्थि-
तिकत्वात् न क्रत्वर्था या विलम्बोपस्थितिकत्वात् । आख्यातस्यैव
कर्तृवाचकतया पुरुषार्थत्वस्यैव न्याय्यत्वात् । भावनार्थकत्वेऽपि
तया कर्तुराक्षेपः । नच क्रत्वाक्षेपकं किंचिदस्ति येन “अथातो.
ऽग्निष्टोमेन यजति" इत्यत्राग्नेर्यजिवाच्ययागशेषत्ववदिह स्यात् ।
तवापि पर्णताया जुदाक्षिप्तक्रतुशेषत्ववत् । नापि “नानृतं वदेद्"
इत्यत्र प्रकरणाज्योतिष्टोमाङ्गत्ववदिह स्यादिति । * पुरुषार्थेति।
"न स्त्रियमुपेयाद्"इत्याख्यातेन पुरुषार्थत्वं प्रकरणात्क्रत्वर्थत्वम् ।
*आक्षेपलभ्याया अपीति । अत एव जुहा क्रतोराक्षेपेण
पर्णतायाः क्रत्वर्थत्वम् । गौतमसूत्रमाह *नदोषइति । *आह-
वे-यथोचितयुद्धे । हिंसायां न दोष इत्यर्थः । *अल्पार्थेइति ।
अल्पत्वं चाल्पपापजनकत्वात् । ननु प्रकारान्तरेण नद्या-
दितरणेन त्वां नावं मन्ये इत्यत्र तस्मिन्नपि तद्भिन्नत्वं प्रत्या-
रयत एवेत्यत आह *लक्षणापत्तेरिति । *अहिंसेति । अत एव
याज्ञवल्क्येनापि अहिंसा सत्यमस्तेयमितिधर्मसाधनमुक्तम् । गृहे-
ऽपिनिवसन् विप्रो मुनिर्मासविवर्जनादितिवत्तत्राविहितस्य पृथ.
गेव निषेधाद्विहितस्यापि त्यागार्थमिदम् ॥ ३९ ॥
तिङर्थनिरूपणम् । १०४३ (कुंटी०) निषेधविधिप्रसङ्गादाह * नहिंस्यादिति । एतेन मा हिंस्यादिति पाठः प्रत्युतः । पापाभावे सकलतान्त्रिकोक्तयुक्ति खण्डयति * चेति । आदिना "सप्तदश प्राजापत्यान्पशूनालभते" इत्यादि । विधिनत्यस्याप्तत्यादौ, प्रकरणेन चेत्यस्य क्रत्वर्थत्वे ऽन्वयः । *तस्याः-यागीयहिंसायाः। *इष्टेति । पुरुषप्त्यर्थः । *उक्ते- ति । निषेधविषयतया पापभवनेनेत्यर्थः । ननु विरुद्धार्थकत्वेन तदौचित्यमेवात आह * परकीयेति । इदं च तस्य हिंसाविधित्वमा भ्युपेत्य । वस्तुतस्तदेव नेत्याह *किंचेति। *स्पर्शः-ल एव । *अग्नी- ति।तत्र तस्योत्सर्गसत्त्वात् । “विशये प्रायदर्शनादु"इत्यधिकरणे इदं सिद्धान्तितम्। तथाच त्रिवृदाधिकरणन्यायेन सर्वत्र स्पर्शार्थकत्वं सिध्यति । नन्वेवं कथमत्र हिंसालाभोऽत आह *हिंसात्विति । ननु पत्नीसंयाजादियागाङ्गजाधनीवदन्यतः सिद्धाङ्गैरेव तत्सिद्देन प्रयो- गान्तः सालभ्याऽत आह *विशसनेति । नन्वेवं कथं तत्र प्रवृत्तिरत आह *पापेति । बाह्यहिंसाजन्यपापतुल्येत्यादिः । सहिष्णुत्वे हेतुगर्भविशेषणमाह *रागेति । भाष्यसिद्धान्तमाह *तक्रति । एते- नेत्यस्यार्थमाह *हिंसेति । पापाभावे प्राभाकरोक्तयुक्ति खण्डयति *न चेति । अयं भावः-फलसाधनेऽपि रागत एव प्रवृत्तेन विधेः प्रवर्तकत्वं साक्षात् किन्तु मदिष्टसाधनताज्ञानलिङ्गकमत्कृतिसाध्य. त्वज्ञानद्वारा, तेन श्येनस्य रागजन्यप्रवृत्तिविषयत्वेन विधेरौदासी. न्यान्न तस्यानर्थहेतुत्वं विधिनाऽपाक्रियते । अग्नीषोमीयहिंसायां तु अङ्गभूतायां फलसाधनत्वाभावेन विधिरेव प्रवर्तकः । सच स्ववि- षयस्यानर्थ हेतुतामुक्तरीत्या प्रतिक्षिपतीति प्रधानभूना हिंसा दो- पाय न क्रत्वर्थेति । अनारभ्याधीतत्वादाह *पुरुषेति । एवेन क- त्वहिंसाव्यवच्छेदः । *सः-ज हिंस्यादिति । तथा स्मृतौ पाठादाह * पुरुषेति । आदिना मांसभक्षणादि । श्रुतौ तत्प्रकरणपाठादाह *क. स्वधैति । तद्रीत्या प्रकृतेऽपि समावेशमाह *क्रत्वति । तत्र त. दभावे प्रकारान्तरं भाटानुसार्युक्तं खण्डयति *नवेति । च्यमित्यत्रान्वयः । *अस्य-सर्वस्याधिकारिणः । तत्र हेतुमाह *वे. दादिति । आदिना निषेधः । ननु मात्र हिंसा शाब्दी किंवार्थीति प्रागुक्तत्वेन शाब्द्यां विधितात्पर्यविषयभूतायां तत्कल्पने ऽपि आ. मित्र तदतात्पर्यविषयभूतायां कथं तत्कल्पनमत आह *क्षे. वा- १०४४ टीकाद्वयोपेतायोलघु मञ्जूषायाम् । पैति । या वेदविहिता हिंसेत्युलेरिति भावः । आदिपदार्थमेव विशदयन्नाह *अत एवति । ततस्तस्य तदन्यपरत्वादेवेत्यर्थः । * अन्यत्र-रसृत्यन्तरे । स्कान्दे दशपापगणनावसरे । *अत एव- विधाने पापाभावादेव। तत्प्रकारमाह * आहवेति । आहयेऽभिमुखस्य अश्यीभूततया विज्ञाप्य स्थितस्य हनने इत्यर्थः। अन्यदाह *उचितेति। अन्यथाकरणे दोष एवेति सूचितम् । तथा च स्मृतिः- द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ । परिवाड् ब्रह्मनिष्टश्च रणे चाभिमुखो हतः ॥ राजभिधृतदण्डश्च कृत्वा पापानि मानवाः । निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥ स्तेनः प्रकीर्णकेशो मुशली राजानमियात्कर्म चाचक्षाणः । फलतो वधमोक्षाभ्यामनननखी राजा ॥ इति । अत एवेत्यस्यार्थमाह *शुद्ध्यर्थमिति । ननु हिंसकस्य न वि. धिरिति तस्य दोष एवात आह *न दोष इति । द्वितीये आह *चोराद्येति । पूर्वपक्षमुपसंहरति *तस्मादिति । *अयम्-न हिंस्यादिति । निन्दायाः सर्वत्रासत्त्वादाह *अगर्हितेति । उक्त- न्यायमन्यत्रातिदिशति *एवमिति । सामान्यनिषेधेष्वित्यर्थः। सां. ख्यपातञ्जलाद्यनुरोधेनाह *नन्विति । ननु लक्षणायामिष्टापत्ति- रत आह *यशानिति । एतेन तदन्यहिंसाया अधर्मत्वपर- मिदमित्यपास्तम् । उपक्रमविरोधापत्तेः । चो व्युत्क्रमेऽन्ते योज्यः । *अस्य-अहिंसारूपधर्मस्य । पूर्व बाह्यसमपापत्वे द्वेषोत्पत्त्यारागस्यो- त्तेजकत्वेन प्रवृत्तिरुपपादिता । अत्र पक्षे तु द्वेष एव नेत्याह *अल्पाय इति । वहुतरसुखानुविद्धतया दुःखनान्तरोयकभ्रमे इव तदभाव इत्यपि वोध्यम् । पशुहिंसाया अहिंसात्वमिति तु शवरभाष्येऽप्येवं बोध्यम् । प्रमादतः प्रायश्चित्तानाचरणे ऽप्याह *किन्त्विति । क्षुद्र. त्वमेवाह *पश्चादिति । * एवंच-मनुवाक्यस्योक्ततात्पर्ये च ॥ ३९ ॥ अत एव गीतायां 'यज्ञानां जपयज्ञोऽस्मि'इत्या- दिना जपयज्ञस्याहिंसारूपत्वेन प्राशस्त्यमुक्तम् । तथा-.
तिर्थनिरूपणम् । १०४५ स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि । धाद्धि युद्धाशेयोऽन्यत् क्षत्रियस्य न विद्यते ॥ इत्युपक्रम्य- सुखदुःखे समे कृत्वा लाभालाभौ जयाजयो। ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥ इत्यनेन विहिते ऽपि युद्धे पापं वदता ऽतादृशस्य यज्ञे ऽपि तद् उक्तप्रायमेव । नचापशब्दज्ञानजाधर्मस्य कूपखानकन्यायेन सुशन्दज्ञानजधर्मेण नाशः फलान्तरं चेति भाष्ये पस्पशायामुक्तम् । कूपखानकस्तत्खननवेलायां मृदा लिप्तस्ततो जलं लब्ध्वा तं लेपं दूरीकरोति फलान्तरं च लभते । तेन न्यायेन तत्पापनाशः, फलान्तरं चेति न दोष इति वाच्यम् । अपशब्दज्ञाना. दधर्मस्य वाचनिकत्वेन केवलं वैपरीत्यमात्रेण क- ल्प्यस्यातिस्वल्पत्वाद् उत्कृष्टेन साधुशब्दज्ञान- जधर्मेण नाशे ऽपि 'न हिंस्याद्' इतिवचनबो. धितपापस्य तेन धर्मेण वचनं विना नाशायोगात् । उक्तगीतावाक्याच्च । अत एव चेन्द्रादेः शताश्वमेध. फलस्वर्गभोगसमये ऽनकशो रावणमहिषासुरादिभ्यो दुःखधाराश्रुतिपुराणादिषूपवर्णिता। यज्ञान्तर्गतहिंसा- दिजन्यपापफलस्य यज्ञफलभोगान्तरुत्पत्तेरुपपत्तिसि- द्धत्वात् । एतेन "अध्वर इति यज्ञनाम ध्वरतिहिसा- कर्मा तत्प्रतिषेधो ऽध्वरः" इति निरुक्तम् , 'अहिंस्रः' इति तद्भाष्यमपि व्याख्यातम् । नञोऽल्पार्थत्वात् ।
- १०४६ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । अत एव 'तस्मादभ्युदययोगादहिंस्र इत्युपपद्यते' इति तद्भाष्ये उपसंहतम् । उक्तं च- स्वर्गेऽपि पातमीतस्य क्षयिष्णोनास्ति निवृतिः॥इति। "अहिंसत्सर्व-"इतिश्रुतिस्त्वदधहिंसात्यागस्ये- ष्टसाधनत्वं वैध्याश्च तत्त्वमाह नतु वैध्या अनिष्टसाध- नत्वाभावम् । हिंसाविधयो ऽपि हिंसायाः स्वर्गसाध. नत्वमात्रमाहुर्न त्वनर्थहेतुताप्रतिक्षेपमपि । अल्पा- युष्टवाद्यनिष्टबोधकस्मृतिविरोधात् । तदुक्तं पाता- लभाष्ये "यदि कथं चित्पुण्यपापगता हिंसा भ- वेत् तदा तत्र सुखप्राप्तावप्यल्पायुर्भवेद"इनि । अत एवं क्षत्रियाणामपि युधिष्ठिरादीनां स्वधर्मयुद्धेन जातजातिहिंसायां प्रायश्चित्तश्रवणम् । तथा च भा. गवते मुचुकुन्दं प्रति कृष्णवाक्यम्- क्षत्रधर्मस्थितो जन्तून्यवधीमंगयादिभिः । समाहितस्तत्तपसा जह्यघं मदुपाश्रितः ॥ इति । आदिना युद्धम् । मार्कण्डेयेऽपि- तस्माद्यास्याम्यहं तात दृष्ट्वेमं दुःखसन्निधिम् । त्रयीधर्ममधर्माढ्यं किंपाकफलसन्निभम् ॥ इति । किम्पाको निम्बः । इन्द्रवारुणीत्यपरे । मोक्षधर्मे भारते पितापुत्रसंवादे- तातैतद्वहुशो ऽभ्यस्तं जन्मजन्मान्तरेष्वपि । अयोधर्ममधर्माढ्यं न सम्यक् प्रतिभाति मे॥ इति । तथा केनचिदुग्छवृत्तिना मृगरूपिणो धर्मस्य प्र. --- -
ये
तिङर्थनिरूपणम् । १०४७
लोभनावाक्यैर्वधे कृते उक्तम्-
तस्य तेनानुभावेन मृगहिंसात्मनस्तदा ।
तपोमहत्समुत्सनं तस्माद्धिसान यज्ञिया । इति ।
यज्ञियाऽपि हिंसा न केवलं धर्मायेत्यर्थः । एवं चौ-
षधीयज्ञे एव सात्त्विकब्राह्मणस्थाधिकारः।
नमो ब्राह्मणयज्ञाय च यज्ञविदो जनाः।
स्वं यज्ञं ब्राह्मणा हित्वा क्षन्नयज्ञमिहास्थिताः ।।
यदेव सुकृतं हव्यं तेन तुष्यन्ति देवताः ।
नमस्कारेण हविषा स्वाध्यायैरौषधस्तथा ॥ इति-
वनपर्वणि जाजलिसवादे उक्तंश्च ।
अव्यवस्थितमर्यादिमूिर्नास्तिकैः परैः।
संशयात्मभिरव्यक्तहिसा समनुवर्णिता ।
सर्वकर्मस्वहिंसां हि धर्मात्मा मनुरब्रवीत् ।
कामकाराद्धि हिंसन्ति बहिर्वेद्यां पशून्यथा। इति-
हिंसायुक्तयज्ञनिन्दापूर्वकम्-
विष्णुमेवाभिजानन्ति सर्वयागेषु ब्राह्मणाः ।
पायसैः सुमनोभिश्च तस्यापि यजनं स्मृतम् ॥ इति-
मोक्षधर्मेषु विचख्युवाक्याच्च ।
सा यथा पापाय तथा वेद्यन्तर्गन्तापीतितदर्थः।ना-
स्तिकैरिति करणे तृतीया । तैः करणभूतैस्तानुद्दिश्ये.
ति यावत् । विष्णुमेवेति विष्णुत्वेनैव सर्वदेवता जा.
नन्तीत्यर्थः । अत एव यागेषु ब्राह्मणानां पायसपुष्पैरेव
तद्भागकल्पनेत्यर्थः । एतेनेदं स्वातन्त्र्येणापूर्वविष्णु-
यागविधायकमित्यपास्तम् ।
तैत्तिरीयश्रुतावपि-"परागावर्तते ऽध्वर्युः पशोः
१०४८ टीकाद्वयोपेतायो लघुमञ्जूपायाम् । संज्ञध्यमानाद्" इत्युक्तम् । तत्र पापसत्त्वे एव हि ततः परागावतेनं युक्तं नान्यथा "रिच्यत एव वा एष प्रैव वा रिच्यते यो याजयनि प्रति वा गृहाति याजयित्वा प्रतिगृह्य वा ऽनश्नन् त्रिः स्वा- ध्यायमधीयीत" इति ऋत्विजां प्रायश्चित्तोपदेशाच । सोऽपि पापलत्वे एव युक्तः । एतेनोक्तपुराणानि अपशुचातुर्मास्यस्तावकान्येवेत्यपास्तम् । सर्वकर्म स्वहिंसामिति विचख्युवाक्ये श्रवणाच । हिंसाम- यानां नित्यत्वोक्तिरपि तामसं मांसभक्षणादिरागा. न्धं वेदमार्ग प्रवर्तयितुं न तु तत्त्वदृष्ट्या । अत एव भागवते- मुन्यन्नस्तु परा प्रीतिस्तथा न पशुहिंसया । इत्युपक्रम्य- द्रव्ययज्ञैर्यक्ष्यमाणान् दृष्ट्वा भूतानि बिभ्यति । एष माऽकरुणो हन्यादतज्ज्ञो ऽसुतृपो भृशम् ।। तस्माद्यथोपपन्नेन मुन्यन्ननैव धर्मवित् । सन्तुष्टोऽहरहःकुर्यान्नित्यनैमित्तिकी क्रिया।।इति. द्रव्यमत्र पशुः। पशुयज्ञैरिति पाठान्तरम् । तेन मु- न्यन्नेन तुष्टस्य तेनैव यज्ञोऽर्थात्तेनासन्तुष्टस्य मांसादि- लुब्धस्थ तेनति सूचितम् । तेषान्तामसाधिकारिकत्वं कपिलस्यूमरश्मिसंवा- दे मोक्षधर्मे स्पष्टमेवा लोकेव्यवायामिषमद्यसेवेतिश्लो- के भागवते ऽपि स्पष्टमेतत् ।तच्चैवकारवादे निरूपितम् । स्थलान्तरेऽपि भगवद्वाक्यम् । हिंसायां यदि रागः स्याद्यज्ञ एव न चोदना ।
तिब्णनिरूपणम् । १०४५ हिंसाविहारायालब्धैः पशुभिः स्वसुखेच्छया । यजन्ते देवता यज्ञैरिति। हिंसायां तत्फलमांसभक्षणे यदि रागस्तहि यज्ञ- एवेत्यनुज्ञाद्वारा तादृशरागवतः प्रति परिसंख्येयं न तु सर्वान् प्रत्यावश्यकत्वेनेयश्चोदनेत्यर्थः। नित्यत्वा. दिकमपि तान् प्रत्येवेत्यर्थकमुक्त्वा, वेदस्य हृदयं लोके नान्यो मवेद कश्चन । इत्युक्तम् । मत् मत्तोऽन्यो न वेदेत्यर्थः । अत एव पतञ्जलिना योगसूत्रे एषां शुक्लकृष्णत्वेन व्यवहारः कृतः । गीतायामपि- अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् । भवत्यत्यागिनां प्रेत्य न तुसन्न्यासिनां कचिद् ॥ इत्युक्तम् । कर्मण इति जातावेकवचनम् । कस्य चित्कर्मण इष्टं सुखमेव फलम्, कस्यचिद् अनिष्टं दुःखमेव कस्यचिन्मिश्रम् । एतत्सर्वमत्यागिनां कर्मफलात्यागिनांप्रेत्य देहान्त- रसंबन्धे भवति न तु सन्न्यासिनां तत्फलत्यागिनाम् । यनु अत्यागिनां कर्मफलत्यागे ऽपि कर्मानुष्ठायिनां सत्त्वशुद्धः प्रागेव मृतानां तत्तत्कर्मफलं कर्मत्रैविध्या- विविधशरीरग्रहणरूपं भवति,पापस्यानिष्टं तिर्यगादि- देहरूपम् । पुण्यस्येष्टं देवादिदेहलक्षणम् । मिश्रस्य पा. पपुण्ययुगलस्येष्टानिष्टयुक्तं मनुष्यदेहलक्षणम्।सन्न्या- सिनां मुख्यसंन्यासिनाम् । तेषां ज्ञाननिवृत्त्या देहस- म्बन्धाभावाद् इति । तन्न । तिर्यगादिदेहस्याप्युभयार- ब्धत्वात् । तत्रापि सुखदुःखोभयानुभवात । १३२ टीकाद्वयोपेतार्या लघुमञ्जूषायाम् । नाहि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः। यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥ इत्युक्तश्लोकस्थत्यागस्यैवात्र त्यागपदेन ग्रहीतु. मौचित्याच्च । उक्तत्यागफलकथनपरत्वात् । पतञ्जल्ये. कवाक्यतया मदुक्तार्थस्यैवौचित्याच । संन्यासिपदेना- प्युक्तश्लोकस्थत्यागिन एव ग्रहणमुचितम् । तस्य गृ. हीतदेहस्यापि जीवन्मुक्तदशयाऽवस्थानात् कर्मफलप्रा. प्तिजन्यहर्षविषादाभाव इति तापर्यात् । यत्तु “ये इष्टापूर्तादिकर्मणा चन्द्रलोकं गतास्तत्र भुक्तभोगाः पुनर कतारलमये ब्रीह्यादावन्याधिष्ठिते ऽनुशयिनः संसर्गभाज एव न तु तत्र भोगस्तेषां भोगप्रापककर्माभावात्" इति सिद्धान्तिनोक्त पशुहि- सादियोगादिष्टस्याशुद्धत्वात्तस्य तत्र भोगप्रापक- त्वमस्त्विति पूर्वपक्षे सिद्धान्तप्रबोधकं व्यास- मूत्रम् "अशुमिति चेन्न शब्दाद्" इति । तस्यायमर्थ:- अशुद्धमेवेति चेन्न । धर्मत्वाधर्मत्वयोःशब्दैकगम्यत्वा- वैधहिंसाया धर्मत्वेनोक्तेन सा अधर्म एवेति । अल्प- पापत्वादेव वैधहिंसा न पूर्णदोषायेत्येव मीमांसका. शयः । अत एव तस्याल्पपापस्याल्पायुष्ट्वादिकं फल- मुक्तम् । स्थावरभावो हि सर्वथा ऽशुद्धस्यैव कर्मणः फलमिति व्यासाशयः। किञ्च यत्राल्पं सुखमधिकं दुःखं समे वा ते त- त्रापि रागान्धास्तिकस्य परकीयसुन्दरीगमने इव तत्सुखे उत्कटेच्छावशात्प्रवृत्तिरुपपद्यते । दुःखस्या- ल्पत्वे तु सुतराम् । अत एव मरणरूपानिष्टसाधने तिर्थनिरूपणम् । ॥ ऽपि सहगमनवेणीप्रवेशादाबात्माहुत्यङ्गके सर्वस्वा- रयज्ञादौ च प्रवृत्त्युपपत्तिः । पुरुषस्य प्रत्यवाये ऽपि यागस्य साङ्गत्वमक्षतमेव । यो नाम ऋतुमध्यस्थः कलक्षादीनि अक्षयेत् नक्रतोस्तत्र वैगुण्यं यथाचोदितासद्वितः॥ इत्युक्तेः। तदुक्तं पञ्चशिवाचाय:-'कुशलं खेव बह्वन्य- दल्पमस्ति स्वर्गेऽप्यल्पममर्षमनुभवति' इति । किञ्च जैमिनरेव सर्ववस्तुतत्वज्ञत्वाभावो मा- कण्डेय पुराणादरगम्यते सुनरान्तदीयानाम् । तत्र हि व्यासशिष्यो जैमिनिर्भारतविषयेषु केषुचि- त्पदार्थेषु सन्दिहानो नार्कण्डेयं प्रपच्छ स च न मेऽवसरस्तस्मात्सर्वज्ञान विन्ध्याचलवासिनश्चतुरः प. क्षिणः पृच्छेत्युक्तवान् । तस्थायमाशयः-व्यासशिष्योऽप्ययमशुद्धचित्त- तथा व्यासोक्तंन साधु मन्यते सर्वम् , फलदं परमेश्वर तत्त्वेन न मनुते किन्तु कमैव फलदमिति । तथा देवति. यगादीनां व्यासोक्तं ज्ञानाधिकारं न मन्यते असम्भ- वाद । “अनधिकारं जैमिनिः" इति व्यासोक्तः । अत. स्तिरश्चां शिष्यो भूत्वा तेषां ज्ञानाधिकारे ज्ञाते सर्वत्र व्यासोक्त विश्वस्तो भवेदिति देवासुरसङ्ग्रामादेस्त- न्मुखतः श्रवणे तेषामविग्रहत्वाभिमानं च त्यक्ष्यती. ति।तस्मात्पाताले भाष्ये व्यासोक्तमेव श्रद्धयमिति । अत एव रामायणे वाल्मीकीये वालिवधे कृते तेन भगवतो रामस्याधिक्षेपे कृते भ्रातृजायापहा. रेण तस्य पापित्वमुक्तं भगवता । अज्ञतिरश्चां तु १०५२ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । -- कर्मानधिकारः । तथा पराशरस्मृतिव्याख्यायां माध- वाचार्यों जैमिनिमतानुसारिणो जहास- ईशासिद्धिभयावेदशास्त्राप्रामाण्यमीयुषाम् । शास्त्रकृज्जैमिनिमुनिः केन मानेन सिध्यति॥ इति। ईशसिद्धीत्युपलक्षणम् देवताविग्रहादेरपि । इत्थं हि तदीयानामुक्तिः-प्रवलाध्यक्षविषयं भेदं दुर्वलवे- दगीमिथ्यात्वान्निःस्वरूपाच न निषेधुमलं किलोति, इति दिक् ॥ ४० ॥ (कुं०टी०) वेपथुश्च शरीरे मे रोमहर्षश्च जायते । इति- अर्जुनोक्ते- उत्तरमाह *स्वधर्ममपि चेति । चकारेणात्मनो नाशा- भावः । नच श्रेयो ऽनुपश्यामीस्योत्तरमाह *धाद्धीति । *अवाचनिकत्वेनेति । 'यावद्वचनं वाचनिकम्'इतिन्यायेना. पशब्दप्रयोगस्यैवाधर्महेतुत्वं न तु ज्ञानस्येति भावः । *दुःख- धारेति । अत एवाकृते प्रायश्चित्ते परिपच्यत एव तद् दुःख- मिति सांख्याः । *तत्त्वम्-इष्टसाधनत्वम् । इष्टं च यागादि- कमेव । *प्रतिक्षेपम्-निवृत्तिम् । त्रयीधर्ममिति । त्रय्यां जडीकृतमतिर्मधुपुष्पितायां वैतानिके महति कर्मणि वर्तमान इति भागवतेऽपि । * यज्ञनिन्देति । किञ्च- त्रैवार्षिकाधिकानो यः स हि सोमं पिवेद द्विजः । इति- धनवत एव यज्ञेऽधिकारः । जीवेद्वाऽपि शिलोच्छेन श्रेयानेषां परः परः । इति स्मृत्या चोञ्छस्यैव मुख्यत्वबोधनान्नास्ति पापसम्भवः।
तिङयनिरूपणम् । १०५३ * अपरिवति । पशुरहितेत्यर्थः। *नचोदनेति । न विधिः, रागत एव प्राप्तत्वादित्यर्थः। एवमृतौ स्त्रीगमनस्यापि परिसंख्या- स्वमेव । तत्र चान्यत्र च प्राप्तत्वात् । नियमार्थत्वे तु ऋतौ गच्छे. देवेत्यर्थः स्यात् । न च "द्वादशरात्रं संवत्सरं वा ब्रह्मचर्यम्" इति तदा स्मृतिविरोधः । संवसरात्माग् ऋतौ तत्र गमनापत्तेः । त- स्माहताव गच्छेदिति परिसंख्यैवेति । नियमेन च प्राप्तवाधादि- दोषत्रयापत्तेः । फलत्यागस्य फलमाह * अनिष्टमिति । इदं सर्व- मत्यागिनां सकामानां प्रेत्य परत्र भवति न तु संन्यासिनां क- मफलत्यागिनाम् । अत्यागिनामित्यस्य सकामानामित्यर्थमपहाय निष्कामकर्मात्यागिनामित्यर्थमाह*फलत्यागेऽपीति । अत एव संन्यासिनामित्यस्य मुख्यसन्न्यासिनामित्यर्थं वक्ष्यति । फल- त्यागो ऽतो गौणसंन्यासिनः । ननु कर्मफलत्यागाद्वरं सर्वकर्मत्यागस्तथा सति कर्मविक्षे- पाभावेन ज्ञाननिष्ठत्वमत आह नहिदेहभृतेति । *कर्मफल- त्यागीति । तत्वज्ञानस्यैव मुक्तिं प्रति सन्निपत्योपकारककर्म- स्वेऽपि कर्मणामपि सत्त्वशुद्धिद्वारा उपकारकत्वमस्त्येवेति भावः। * इष्टेति । इष्टं यागम् , आपूर्त तडागादि । *चन्द्रलोकामिति । यज्ञेन तपसा दानैर्ये हि स्वर्गगता नराः। धूमं निशां कृष्णपक्षं दक्षिणायनमेव च ।। पितृलोके चन्द्रमसं वायु वृष्टिं जलं महीम् । क्रमाते संभवन्तीह पुनरेवं व्रजन्ति च ॥ इति स्मृतेः । अयं भावः-"अथ परमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते. धूममभिसम्भवन्ति"इति “आकाशाच्चन्द्रमसम्"इतिच श्रुतेधूमा- दिना पितृयानेनाकाशाच्चन्द्रमसं प्राप्य भुक्तभोगा अवरोहन्ति । तथाच श्रुतिः- । टीकाद्वयोपेनायां लघुमजूषायाम् । "अयैतमेवाध्यानं निवर्तन्ते पथेतमाकाशो भूत्वाऽऽकाशाद्वायुं वायुर्भूत्वा धूमो भवति धूषो भूत्वा अभ्रं भवति अनं भूत्वा मेघों भवति मेघो भूत्वा प्रवर्षति त इह व्रीहियवाः ओषधिवनस्पतयः तिलमाषा इतेि जायन्ते"इति । पथेतमित्यस्य पथाऽऽगतमित्यर्थः। तत्राकाशो भूत्वेत्यस्याकाशादिसदृशो भूत्वेत्यर्थः । आकाशस्त्र- रूपापत्तौ तु वायुर्भूत्वेति रूपान्तरापत्तरसङ्गतेः । तत्राकाशसा- दृश्यं सूक्ष्मत्वात् । वायुभूत्वेत्यस्य वायुवशो भूत्वेत्यर्थः । धूमा- दिभिस्तु संपृच्यत इयर्थः । * अन्याधिष्टिनेति । अन्य वैर- धिष्ठितेपु ब्रीह्यादिषु संसर्गमात्रं प्रतिपद्यन्ते न तत्सुःखदुःख- भाजो भवन्ति । यथा हि धूमादिभावस्तत्संश्लेपमानं तथा च पारमर्षे सूत्रम्-"अन्याधिष्ठिते पूर्ववदभिलापाद् इति । पूर्वव- व धूमादिवत् । * अनुशयिनः-कर्मशेपवन्तः । कृतात्यये जु- शयवानिति व्यासमूत्रात् । कृतस्य कर्मणोऽत्य ये सतीति तद. र्थः। अत्र केचित् स्वर्गार्थस्य कर्मणो भुक्तफलशेपोऽनुशय इति । तदसत् । स्वर्गार्थस्य कर्मणः स्वर्ग एव फलजनकत्वात् । यदि तु तस्यैव लेशोऽनुशयः स्यात्तदाऽनुशयविभागश्रुतिर्वि- रुध्येत । "तद्य इह रमणीयचरणा अभ्यारोहन्ते रमणीयां यो. निमापोरन ब्राह्मणयोनि वा क्षत्रिययोनि वा अथ य इह- कपूयचरणा अभ्यारोहन्ते कपूयां योनिमापचेरन् श्वयोनि वा शुकरयोनि वा इति । चरणमाचारः । कपूयः कुत्सितः। तत्र त- स्यैव शेषे रमणीय एवैकोऽनुशयः स्यात् । तस्मात्पारलौकिक- कर्मफले भुक्ते अवशिष्टमैहिकफलं कर्मान्तरमनुशयः। *न- तुतत्रभोगइति । तस्मिन्विधौ शरीरानिष्पत्तेरुपभोगासंभवात् । *पशुहिंसादीति । हिंसादियुक्तकर्मणो ऽशुद्धत्वादनुशायनां मुख्यमेव ब्रीह्यादिजन्मास्त्वित्यर्थः । *अशुद्धमेवेति । पक्षि- तिर्थनिरूपणम् । हिंसाया अपि हिंसात्वेन पापजनकत्वाद् दुःखहेतुत्वमिति भा- वः । *शब्देकगम्यत्वादिति । न हि हिंसायाः पापहेतुत्वे हिंसात्वं प्रयोजकं किन्तु निपिद्धत्वं तच्चात्र नास्ति "वा- यव्यं श्वेतम्" इत्यादिशब्दविहितत्वादिति भावः । *इत्येव मी- मांसकाशयइति । नतु सर्वथा दोषाभावः । *व्यासाशयइति । अशुद्धमित्यादिम्बाशयः । *तहगमनेति । तिसः कोव्यो ऽधकोटी च यानि रोमाणि मानुपे । तावत्कालं वसेत् स्वर्गे भर्तारं याऽनुगच्छति ।। इति- स्मृतेः ।*कुशलमिति। कुंशलं बहु, अन्यदकुशलम् अल्पम् । कुशलाकुशलोभयमिश्रत्वं च स्वर्गेऽप्यमर्पश्रवणादित्यर्थः । अत एवोक्तं भागवते- यथा पकेन पङ्गाम्भः सुरया वा सुराकृतम् । भूनहत्यां तथैवैकां न यज्ञैर्माष्टुभहतीति । *किन्तुकर्मैवेति ।। अयं भावः- यजेतेति पदेन सागस्यैव साध्यत्वं प्रतीयते तस्यैव सम्बन्धो न्याय्यो न सिद्धाया देवतायाः, प्रत्यक्षस्य ह- विषो देवताभोगः प्रत्यक्षविरुद्धश्चेति । देवतायाः फलदातृत्व. प्रवादस्तु मन्त्रिणा ग्रामो दत्त इतिवत् । देवतानामपि तपश्चर- णश्रवणेन कर्मण एवं फलदातृत्वम् । किंचैकैच देवता दने. न्द्रियं ददाति पयसा पशुमित्यत्र सुरभाव एव हेतुरिति । "एप ह्येव साधुकर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीपते" इति ईश्वरस्यैव फलदातृत्वाश्रवणात् । *असम्भवादिति । आदित्यादीनामुपास्यत्वश्रवणात् तेषामुपासकत्वासम्भवादित्य- र्थः । *अतइति । आदित्योपासनादेरसम्भवेऽपि ब्रह्मविद्यायां देवानामधिकारोऽस्ति । ननु तेषामुपनयनादि नास्तीति चेन ।
१०५६ टीकाद्वयोपेताया लघुमञ्जूषायाम् । उपनयनार्थत्वेन तेषां स्वत एव वेदावभासात् । तेषामिति । कर्मवैजात्येन जातिस्मरत्वत् ॥ ४० ॥ (क० टी० ) अत एव यागीयहिंसाजन्यपापसत्त्वादेव । अन्य- दप्याह *तथेति । * अतादृशस्येति । तत्रासमरित्यर्थः । अन्यथा निषेधोक्तिरसङ्गतैव स्यादिति भावः । अत्रोत्तरोत्तरं हेतुता वो. ध्या । प्रकारान्तरेण तद्रूपेण तनिरासं परोक्तं निराचष्टे *न. चेति । न्यायस्वरूपमाह कूपेति । अभ्युपगमे आह *उक्तेति । स्वधर्ममपीत्यायुक्तविरोधापत्तेश्चेत्यर्थः । *अतएवेति । तत्र स्वल्प- पापसत्त्वादेव । ननु सा ततः पूर्वमनन्तरमुचितेति तत्र क- थमुपवर्णिता ऽत आह *यज्ञान्तरिति । एतेनेत्यस्यार्थमाह *नाइति । भाष्यसम्मतमपीदमेवेत्याह *अतएवेति । अल्प- पापसत्त्वादेवेत्यर्थः । अन्यथा स्वत एव तत्वेन तथोक्तिरस. तैव स्यादिति भावः । *उक्तं चेति । नन्वेवं प्रागुक्तश्रुतिवि- रोधो ऽत आह * अहिंसन्निति । न दोषो हिंसायामित्यपि नमो ऽल्पार्थपरं समदृष्टिपरं वा । अभ्युपेत्याप्याह *हिंसेति । स्मृतेः खपुष्पायमाणत्वं निराचष्टे *तदुक्तमिति । *पुण्यति । बीजवद्धर्मक्षेपमध्यगतेत्यर्थः । सर्वत्र तदभावाद्यदीत्युक्तम् । कथं चिदित्यनेन तस्याविहितत्वमाक्षेपलभ्यत्वं चेति सूचितम् । *अतएवेति । अनर्थहेतुताप्रतिक्षेपकत्वाभावादेव । प्राग्वदाह *त- थाचेति । त्रयीधर्मस्य विशेषणद्वयम् । भारतान्तरमाह तथेति । *उक्तम्-व्यासादिना । *समुत्सन्नम्-अत्यन्तं नष्टम्। उपक्रमाद्यविरो- धाय तुर्यपादं व्याचष्टे । प्रागुक्तसर्वतात्पर्यमाह *एवं चेति । तत्र पापसत्त्वे चेत्यर्थः । अन्यस्य तत्राधिकारस्योक्तत्वादाह *सा- विकेति । मानान्तरमाह *नमइति । *सुकृतं हव्यम्- अधर्म- १ एतद्विवरणादहिंसन्निति नान्तः पाठः प्रतीयते मूलत्रितये अहिंसदिति तान्तपाठोपलब्धेः श्रौतत्वाश्चास्य प्रयोगस्य श्रुति- स्थलविशेषस्य चाज्ञातत्वेन यथावत्पाठदर्शनस्याशक्यत्वात् श्रु- तेश्चाविपरिवर्तनीयत्वाद्यथादृष्टमेव मूले तान्तमवस्थापितम् ।
तिनिरूपणम् । १०५७ -- जनकत्वानाक्रान्तम् । तदेवाह *नमस्कारेति । मानान्तरमाह *अव्यवस्थितेति एतेषां कर्तृत्वेऽर्थासङ्गतराह स्तिकैरिति । अन्यान्यस्य विशेषणानि एतद्विवरणपराणि । तथा च तत्तुल्या रागान्धा आस्तिका एव तादृशा विवक्षिता न तु वास्तवनास्तिकास्तेषामहिंसाया एव परमधर्मत्वात् । करणत्वमपि तेषां न वास्तवं किं तूद्देश्यस्य तत्त्वविवक्षेति वैवक्षिकमित्याह *तानिति । बाह्यहिंसापरमेवेदामिति निरासायाह *सायथेति । सादृश्यादेवाल्पत्वसिद्धिरिति न पूर्वविरोधः । पूर्वार्द्ध भिन्नं वाक्यमित्याह *विष्णुत्वेनैवेति । अ. निममेतत्सिद्धार्थपरमेकमित्याशयन तत्तात्पर्यमाह *अतएवेति । तत्त्वेन ज्ञानादेवेत्यर्थः। पूर्वानुषङ्गादिना आह *सर्वेति । *तत्तदिति । यथा चैतत्तथा पाखण्डखण्डनावसरे पिष्टपशुप्रतिपादनावसरे प्रति- पादितं तत एव बोध्यम् । एतेन-उक्तसर्वैकवाक्यतालाभेन । अन्यथा श्रुतिद्वयकल्पनापत्त्या गौरवामिति भावः । तत्र पापसत्त्वे तैत्तिरीयश्रु- न्युक्तमेव हेत्वन्तरमाह *रिच्यते इति। एतेन-उक्तश्रुतिद्वयविरोधे. न । * उक्तति । भागवतादीनीत्यर्थः। प्रागुक्तमेव दोषान्तरमाह*सर्वे. ति । ननु तत्र पापसत्वे कथं तेषां भिन्नत्वं सात्त्विकाननुष्ठेयत्वादत आह *हिंसेति । *तत्त्वेति । वस्तुतत्त्वेत्यर्थः। *उपक्रम्य-उक्त- मिति शेषः । *भूतानि-प्राणिनः । *अतज्ज्ञः-अतत्त्वज्ञः । *असुतृपः- प्राणशोषकः । यथाश्रुतासङ्गतेराह *द्रव्यमिति । तत्फलितमाह *तेनचेति । यदन्नादः स्वयं तदनादस्तस्य देवता इति न्याये. नाह *समुत्पनेनेति । तत्र हेतुगर्भविशेषणमाह *मांसादीति । उक्तेऽर्थे मानान्तरमप्याह तेषामिति । हिंसामयानामित्यर्थः । *तत्रैव-भागवत एव । यथाश्रुतासङ्गतेराह *तत्फलेति । *विहारा:-क्रीडाः । अन्यदपि तत्रत्यमाह *नित्यति । *तान्-अता- मसान् । *इत्यर्थकम्-वाक्यम् । *अतएव-पापसत्त्वादेव । मिश्चत्वे संमत्यन्तरमध्याह *गीतायामिति । यथाश्रुतासनतेराह *कर्मेति । सर्व वाक्यमिति न्यायेनाह सुखमेवेति । तयाख्याकारोक्तं खण्डयति यत्त्विति । तत्र लिङ्गमाह *तत्रापीति । तत्र दोषान्तरमाह *नहीति । *शक्यमिति । जातावेकवचनम् । *अ- शेषतः-अशेषाणि । नहि कश्चित्क्षणमपीत्युक्त्या निःशेषेण क- १३३ ।
१०५८ टीकाद्वयोपेतायो लघुमझूषायाम् । मत्यागस्य दुःशकत्वादिति भावः | *उक्तेति । अव्यवहि- तोक्त्यर्थः । एवं सत्येकवाक्यतामाह *उक्तति । युक्त्यन्त- रमाह *पतञ्जलीति । शुक्लकृष्णत्वकथनपरेत्यर्थः । तत ए. वाह सन्न्यासीति । नन्वेवं कर्मफलस्य तेषामपि सत्त्वा. स्कथं तनिषेधो ऽत आह *तस्येति । त्यागिन इत्यर्थः । वैदिकाहिंसाया अपि पापहेतुत्वे दुःखं भवत्विति शङ्कते *अ. शुद्धति । नहि हिंसायाः पापहेतुत्व हिंसात्वं प्रयोजकं किन्तु निषिद्धत्वं तचात्र नास्ति, “वायव्यं श्वेतम्" इत्यादिशब्दैर्विहित त्वादित्याह *शब्देतीति । यद्यपि व्याख्यातं भूपणकारादिभिस्तथा- पि नेदं व्यासाभिमतमित्यन्यथा तद्विरोधमुक्तार्थे परिहर्तुमाह * यत्त्विति । “अन्याधिष्ठिते पूर्वबदभिलापाद"इति। ततः पूर्वसूत्रार्थ- माह *य इत्यादि । छान्दोग्ये स्पष्टमेतत्सर्वम् । *अन्ये-जीवान्तरे- त्यर्थः । अन्वित्यस्य व्याख्या *संलगंति । कण्डनादिना ऽधि- ष्ठातु शस्ततस्तदन्नद्वारा तस्यानुशयिनो रेतःसिग्योगस्ततस्त- द्योगाद्योनिसम्बन्धेन पुनः शरीरमिति प्रक्रिया । आदिना सुरा- पानम् । *इष्टस्य-ज्योतिष्टोमादियागकर्मणः । सर्व वाक्यमितिन्या- येनाह *अशुद्धमेवेति । एवं च मिश्रत्वं सिद्धमिति न त. द्विरोधः। मीमांसकविरोधो ऽपि नेत्याह * अल्पति । *अत एव-अ. ल्पपापसत्त्वादेव । व्यासोक्तमेवोक्तमाह तस्येति । नन्वेवमपि मिश्रस्य तत्र भोगप्रापकत्वं कुतो नात आह *स्थावरेति । वि- शेषं वक्तुं प्रागुक्तमेव सविशेषमाह *किञ्चेति । आदिना भृ. गुपतनादि । यत्त्वेवं सति साङ्गयागाननुष्ठानापत्तिरिति तत्खण्डय- ति *पुरुषस्येति । कत्रधिकरणस्थभट्टोक्तिमाह *योनामेति । पातञ्जलभाष्ये भगवता व्यासेनोदाहृतमाह *कुशलमिति । स्या. स्स्वल्पः सङ्करः सुपरिहरः कुशलस्य नापकर्षणायालं कस्मादि- स्यादिः । अस्यार्थों भूषणे स्पष्टः । जैमिनीयानां पापाभाव- कथनं मूलाज्ञाननिबन्धनमेवेत्याह *किञ्चेति । *तस्य-मार्क- ण्डेयस्य । सामान्योक्तमेव विशिष्याह *सर्वेति । *तत्वेन-फ. लदातृत्वेन । अत एवाह *किन्विति । "धर्म जैमिनिरत एव" इति व्यासोक्तरुतत्वात् । विशेषान्तरमाह *तथेति । अत्र हेतुमनुक्त- माह असम्भवादिति । *च त्यक्ष्यति-त्यक्षति चेत्यर्थः । इति- तिङर्थनिरूपणम् । १०५९ राशयसमाप्तौ । उपसंहरति *तस्मादिति । तश्च प्रागुक्तम् । *अतएव-तिरश्चां शानाधिकारसत्त्वादेव । तस्माज् ज्ञानिनामेव तेषां कर्माधिकार इति सिद्धम् । तत्फलितमाह *अज्ञेति । जैमिनीयानामज्ञाने मानान्तरमाह *तथेति । न्यूनतां निराचष्टे *ई. शेति । ननु तदप्रामाण्यप्रतिपादिका का तेषामुक्तिरत आह *इत्थं- होति । *अध्यक्षम्-प्रत्यक्षम् । दौर्बल्ये हेतुर्मिथ्यात्वादिति । एवं च घेदविहितहिंसा न दुष्टेति सकलतान्त्रिकोक्तं भूषणदाद्युक्तं चायु तमेवेति बोध्यम् । तदाह *इतिदिगिति ॥४०॥ एवं च- यन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम् । अभिलाषोपनीतं च तत्सुखं स्वःपदास्पदम् ॥ इति। एतेनापि सूचितमेतत् । आद्यपादेन तत्रैहिक रत्यन्तकालदुःखसदृशदुःखसमानदुःखनिरासः । नच- ग्रस्तमित्यनेन तदधिकदुःखनिरासः । अनन्तरमित्य- नेन निद्राकालवद्वैषयिकोभयरहितदिनरूपकालनि: रासः, अन्यथा सकलदुःखाभावस्याधपादेनैव प्रति- पादने सिद्धे नचग्रस्तमित्यस्य वैयपित्तेः। आभ- लाषोपनीतत्वेन विषयसम्पादनक्लेशनिरासः । स्वर्ग- पि वैषयिकमेव सुखमिति "अप्सरस एतं जायाभूत्वो. पशेरते" इत्यग्निष्टोमादिफलकथनेन “एकः पूर्वपरयोः" इति सूत्रे भाष्ये स्पष्टमुक्तम् । एवं च विजातीयसुख- त्वमेव स्वर्गत्वम् । तस्मान्महिषासुरादिजन्यं दुःख. मस्त्येवेति सूचितम् । यहा स्वनान्तरीयकाव- श्यंभाविदुःखान्यदुःखजनकाधर्मानारब्धदेहोपभोग्य- मुखत्वं तत् । सहगमनादौ मरणान्तप्रायश्चित्तादौ चोक्तरीत्या न पापजनकत्वम् ।
१०६० टीकादयोपेतायां लघुमञ्जूषायाम् । । अन एव सज्जन्य- न तन्त्र अन्ये तु तत्र अल्पं पापं भूयान्धर्मों ज्योतिष्टी- मन्यायेनेति वदन्ति इति दिक् । श्येनफलीभूतस्य शत्रुवधस्य रागतः प्रवृत्तिविष- यस्य विधिविषयत्वाभावेन "न हिंस्थाद"इतिनिषेध विषयत्वं पूर्णमेव । यज्ञान्तःपातिवधस्यैव म. नुनाऽल्पवधत्वयोधनात् पापे बलवद्वेषवतां शिष्टानामपेक्षितवैरिवधसा- धनत्वे ऽपि प्रवृत्तिः । श्येन- स्तु मरणानुकूलव्यापारो ऽपि न हिंसा मरणोद्देशेन प्रवृत्तस्य श्रौतविधिबोधितस्य तदनुकूलव्यापारस्यैव हिंसात्वात् । तस्मात्स्वेनैव वीर्येण निगृह्णीयादरीन् द्विजः । श्रुतीरथर्वाङ्गिरसीः कुर्यादित्यविचारयन् ॥ क्षत्रियो बाहुवीर्येण तरेदापदमात्मनः । धनेन वैश्यशूद्रौ तु जपहोमैर्द्विजोत्तमाः ॥ इत्यादिना श्रौतस्य मनुनाऽभ्यनुज्ञानात् । श्रुती- रित्यस्य तद्वोधिताभिचारकर्माणीत्यर्थः । कूपादौ विनष्टे गधि कूपकर्तुहिसकत्ववारणाय मरणोद्देशेनेति। मरणकामनयेत्यर्थः । एवमन्योद्देशेन प्रक्षिप्तनाराचहते ब्राह्मणे न तत्क्षेप्तुर्ब्रह्महन्तृत्वम् । ब्राह्मणमरणकामन- या तदप्रक्षेपात् । तथा काशीमरणोद्देशेन कृतशिवपू. जनादेन हिंसात्वम् । 'यदा मे मरणं भवति तदा का- श्यां भवतु'इत्येवं कामनया मरणस्य काश्यधिकरणत्व- विषयतया तदाचरणेऽपिमरणकामनया ऽनाचरणात्। एवं चात्र हिंसात्ववारणाय दृष्टाद्वारकत्वविशेषणं तिर्थनिरूपणम् । वदन्तो मान्या एव । मरणोद्देशेन कृतस्य तु हिंसा- त्वं भवत्येव । श्रौतविध्यबोधितेत्युक्तेस्तन्त्रायुक्ता- भिचाराणां हिंसात्वमेव । श्येनादावपि शिष्टा- नांविगानं तु श्येनादधो वधाच नरक इतिप्राप्तिसन्धा- नेन बोध्यम् । श्येनानुष्ठानकाले शत्रून् हन्तीति प्रयो. गस्तु गौण एव । उपपातकेष्वभिचारगणनं तु वैदिके- तराभिचारपरम् ।स्मृत्यपेक्षया श्रुतेबलवत्त्वात्। एवं च श्येने कृते प्रतिप्रयोगादिना देवाद्रिपोरमरणे श्येनक- तुन किश्चिदपि प्रायश्चित्तम् । शत्रोमरणे तु तत्र तस्य प्रयोजककर्तृत्वात्प्रयोजकस्य यत्प्रायश्चित्तमुक्तं ताव- देव न संपूर्णम् । मरणजनकरोगादिकं प्रति अन्यकर्तृ- कखड्गाभिघातादिकं प्रति च श्येनस्य हेतुताया वेदे. न बोधनात् । श्येनवधप्रयुक्तमत्यल्पं भवत्येव । तान्त्रि- काभिचारकर्तुर्मरणसिद्धौ तत्तद्वधप्रयोजकत्वप्रयुक्त- मुपपातकप्रयुक्तं च प्रायश्चित्तम्। कृतेऽभिचारे देवाद- मरणे तु उपपातकप्रयुक्तमेव । ब्राह्मणविषये त्वभिचा. रस्य मन्वादिस्मृतौ निषेधात्तत्राधिकं प्रायश्चित्तम्। श्येनादिौताभिचारकरणे ऽपि प्रायश्चित्तं तद्विष. ये । भाडा अपि श्येनो विहितत्वादिष्टसाधनत्वा- च धर्म एव तत्फलं वैरिवधस्त्वनर्थहेतुत्वादधर्म एवे- ति प्रतिपन्नाः। परे त्वेवं सति "चोदनालक्षणो ऽर्थो ऽघ- म" इत्यत्रार्थपदं व्यर्थ निषिद्धकलञ्जभक्षणादि तु न चोदनालक्षणमिति न तव्यावृत्तिफलकं तत् । तस्मा. त श्येनो विहितत्वान्नाधर्मः नरकसाधनहिंसाफलक- १०६२ टीकाद्वयोपेतायो लघुमञ्जूषायाम् । स्वाच न धर्म इति प्रतिपन्ना इत्पलम् ॥ ४१ ॥ (कुं०टी०) यन्नदुःखेनेति। अत्र "सुखदुष्ख तरिक्रयायाम"इति मू- धन्योपधपाठेन दुखेणेति णत्वं पितृचरणा वदन्ति। मूलकृता तु तत्रापि विसर्गोपधपाठ एव स्वीकृतः । संभिन्नम्-मिश्रम् । *स्वः- पदास्पदम्-स्वर्गपदवाच्यम् । यद्वेति । दुःखाजनकोऽधर्मानाश्यो यो देह इत्यर्थः । * सहगमनेति । यत्तु आत्ममरणस्य निषिद्धत्वे ऽपिप्रवृद्धस्वर्गाभिलापाया निषेधशास्त्रमालोचयन्त्याः सहगमनो- पदेशः श्येनादिवद् इति । तन्न । तथा हि ये वदन्ति श्येनकर- णिकायां हिंसारूपभावनायां विधिसंस्पर्शो नास्तीति प्रतिषेध- संस्पर्शस्यानर्थत्वमिति । तन्मते सहगमनशास्त्रेणात्महिंसाया एव स्त्रिया विधानेन प्रतिषेधसंस्पर्शो नास्ति । ये तु वदन्ति- मरणानुकूलव्यापाररूपत्वात् श्येनोऽपि हिंसैव श्येनश्च रागादि- प्रयुक्तहिंसारूपत्वात्पतिपिद्ध इति तन्मते ऽपि मरणस्यैव स्वर्ग- साधनतयाऽनुगमनशास्त्रेण विधानाद् रागप्रवृत्तेऽपि मरणे नि- षेधस्पर्शाभावात् । *अथर्वाङ्गिरसीरिति । आर्थवणवेदीया- गिरसशाखायां मारणादिप्रयोगानां विधानात् । * कूपादाविति । तत्र हि कूपोऽनेन खानितोऽतोऽहमात्मानं व्यापादयामीत्येवं कूपखनननिमित्तव्यापादने तस्मात्कूपकर्तुः कारणकारणत्वमेव । औषधादियत्नानन्तरं मरणे तु वचनादेव प्रायश्चित्ताभावः । *प्रयोजकस्य यदिति । कथं पुनः प्रयोजकव्यापारस्य हिंसात्वम् । तन्मरणाननुकूलत्वात् । अन्यथा मातापित्रोरपि हिंसकत्वाप- तेः। सत्यम् । यत् खलु स्वरूपव्यतिरिक्तकार्योत्पत्त्यनुकूलव्या- पारं तत्कारणम् । “यदि रथन्तरसामा सोमः स्यादैन्द्रवायवा- ग्रान् ग्रहान् गृह्णीयाद्"इत्यत्र हि यथा नैन्द्रवायवाग्रतायां सोम- तिङर्थनिरूपणम् । एव गौतमेन यागः स्वरूपेण कारणमेवं मातापितरावपि । *प्रायश्चित्तमिति । ननु प्रायश्चित्तरपैत्येनो यदज्ञानकृतं भवेदिति स्मृतेः काम- कृतस्य कथं प्रायश्चित्तेन नाशः । अत नहि कर्म क्षीयत इति प्रायश्चित्चानाश्यत्वमुक्तमिति चेत्स- त्यम् । “तरति ब्रह्महत्यां यो ऽश्वमेधेन यजते" इति विधिप्रा- माण्यमाश्रित्य कुर्यादित्यपरे इति गौतमेनैव सिद्धान्तितम् । योगीश्वरोऽपि विहितं यदकामानां कामात्तद् द्विगुणं भवेदिति । अत एव श्रोत्रियवधादौ परणान्तिकप्रायश्चित्तम् । *विहि- तत्वादिति । श्येनयागाङ्गभूतपशुहिंसाविधिनिवन्धनास्ता न नि षिद्ध्यन्ते । या तु तेनाभिचारयागेज शत्रुधात्मिका हिंसा सा द्वेषनिबन्धनैवेति विध्यसंस्पर्शानिषिध्यत इत्यर्थः । *चोदनाल- क्षणइति । चोदना विधिः लक्षणं यस्य तादृशो ऽर्थः । बलवदनिष्टाननुवन्धीष्टसाधनं य सः धर्मः । अर्थो धर्म इत्युक्ते भोजनादावतिव्याप्तिः । तस्य विधिममाणकत्वाभावानिरासः । श्येनस्यापि विधिप्रमाणकत्वात् तद्वारणायार्थ इति । श्येनस्तु हिं- साजनकत्वादलवदनिष्टनरकानुवन्धीति तनिरासः । सचायं क्रियारूपो यागहोमादिः द्रव्यरूपो गोदोहनादिः गुणरूपो नीचैस्त्वोच्चैस्त्वादिः । एवं च धर्मे प्रमाणं चोदनेति सिद्धम् । तथाहि विधिवाची लिङादिश्वोदनेत्युच्यते ।तदुक्तं वार्तिके- प्रवर्तते इति ज्ञानं येन शब्देन गम्यते । स चोदनोच्यते शब्दः प्रवर्तनफला मतिः ॥ इति । चोदनाया वैदिकवाक्यनिष्ठत्वात् घटं कुवित्यादिलौकि- कवाक्यव्युदासालिङादिश्च प्रवर्तनारूपविधिबोधकः । प्रवर्तना- च इष्टसाधने भवतीति यागादेरिष्टसाधनत्वं गम्यते ॥ ४१ ॥ (क० टी०) उक्तार्थे परसंमतिमप्याह *यन्नेति । एततू-अल्प- . १०६४ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । पापसत्त्वम् । तदेवाह *आद्येति । *तत्र-स्वर्गे । *सदृशेति विशेषणम् । *तदिति । सुखेत्यर्थः । *उभयम्-सुखं दुःखं च । आद्यार्द्धस्योक्तानाशयकत्वेन दुःखसामान्याभावाशयकत्वम् । ननु स्वर्गे विषयसुखस्यैवाभावात्कुतस्तत्संपादनक्लेशो ऽत आह *स्व. गैऽपीति । *एवं च-द्वयोरेव निरासेनाल्पदुःखसत्त्वे च । उपसंहरति *तस्मादिति । उक्तार्थस्य ततो ऽस्पष्टतया प्रती. तेर्विनिगमकाभावाचाह *यद्वेति । *स्वम्-स्वर्गसुखम् । *उक्तेति । पञ्चशिखाचार्यायुक्तरीत्येत्यर्थः । वैपरीत्यनिरासायाह *ज्यो. तिष्टोमेति । एतेन तत्र तद्वन्न पापमिति पूर्वोक्तम् । एवं 'यन्न दुःखे- न"इत्यर्थवाद एवेत्यपि तथा । एवं चक्तिवाक्यतः पापस्याल्पत्वक- ल्पनमयुक्तम् । सकृत्प्रवृत्तायाः किमवगुण्ठनपटेनेति न्यायन निषेध. कल्पपापस्य समांशे एव संकोचकत्वासंभवात संकोचस्याप्येकदे. शवाधकत्वादिति अनयवानुपपत्त्या इष्टोत्पत्तिनान्तरीयकदुःखाधिक- दुःखाजनकत्वमपि विधिशक्तौ प्रवेशयन्त इष्टसाधनवं कृतिसाध्य- त्वम्-हत्यादित्रयम् विधिशक्यम् ज्योतिष्टोमादौ पशुहिंसाज. न्यपापापत्त्या शिष्टानामप्रवृत्त्यापत्तिवारणाय तृतीयमिति चायुक्तमे वेति स्पष्टं भूषणे । तदाह *इतिदिगिति । ननु श्येनेनेत्यादिविधेस्त. जन्यारिमरणस्यापि वैधहिंसात्वन निषेधविषयत्वं नस्यात् । या वेदे. विहितेत्यादिस्मृतिबोधितमल्पहिंसात्वं वा स्यादत आह *श्येनेनेति। *विधीति। विधिजन्यप्रवृत्तिकर्मत्वरूपविधीत्यर्थः। तथाच तत्र वि. धिना नर्थहेतुत्वाप्रतिक्षेप इति भावः । द्वितीये दोषमाह *यशान्त- रिति । *अत एव-पूर्णनिषेधविषयत्वादेव। *तत्-वधरूपम्। तत्र- श्येने । तस्याधर्मत्वापत्तिरत आह *श्येनस्विति। ननु वदतोव्या- घातोऽत आह *मरणोद्दशेनेति । प्रकृते श्रौतेत्यनेन तत्वनिरास इति तस्य तल्लक्षणाक्रान्तत्वाधर्मत्वमेव । एतेन नहिंस्यादिति हिसिधा- तुप्रवृत्तिनिमित्तं मरणान्तत्वविशिष्टं तदिति अन्योक्तम्, तदन्यत्व. रूपपुरुषार्थप्रतियोगित्वविशिष्टं तदिति अन्योक्तम् । पुरुषार्थनिषेध. प्रतियोगित्वमात्रविशिष्टं तत वैधस्य विधिविरोधान निषेधविषयते. स्यपदीक्षितोक्तमप्यपास्तम् । नन्वदृष्टाद्वारकेति विशेषणमेवो. तेष्टसाधकं कुतो न दचमत आह *तस्मादिति । न ब्राह्मणो वेदयीत किञ्चिद्राजनि धर्मवित् ।
तिर्थनिरूपणम् । १०६५ । स्ववीर्येणैव तान् शिष्यान्मानवानपकारिणः । स्ववीर्याद्राजवीर्याच स्ववीर्य बलवत्तरम् ॥ इत्यादिः । स्ववीर्यमेव द्विजस्याह * श्रुतीरिति । प्रकारान्तरमाह *क्ष- त्रियइति । *श्रौतस्यैवेति । प्रायश्चित्ताल्पत्वात् । एतेन तान्त्रिकव्य. वच्छेद इत्यनुपदमेव स्फुटीभविष्यति। अतस्तथोक्तम् । यथाश्रुतास- तेराह *श्रुतीति । *गवि-बलीव । अस्य फलान्तरमाह *एव- मिति । अस्यार्थमाह *ब्राह्मणेति । तथाव्याख्यानफलमाह *तथे- ति । नन्वत्र तथा वारणे ऽपि मरणकामनया कृतस्यापि तत्त्व- वारणाय तद्विशेषणमावश्यकमत आह *मरणोद्देशेनेति । मर- णकामनयेत्यर्थः । यद्यप्यदृष्टाद्वारकेति विशेषणेनापि श्येने न दोषस्तथापि मन्वनुरोधेन तथोक्तस्य फलान्तरमप्याह *श्रौते. ति । उक्तमानवे श्रुतीरित्युक्त्या तन्त्रायुक्ताभिचाराणामुपपात- कत्वाद्धिंसात्वाच्चाधर्मत्वलाभेनेदमेव विशेषणं ज्याय इति भावः । नन्वेवं श्येने ऽविगानेन शिष्टानां प्रवृत्तिः स्यादत आह* श्येनादाविति । नन्वेवं श्येनकरणकाले शत्रु हन्तीति प्रयोगो न स्यात्तस्याहिंसात्वादत आह *श्येनेति । ननूपपातकप्रकरणे 'अभिचारो हीनकर्म च'इति मनूक्तेरभिचारत्वेनोपपातकत्वान्नरक- जनकत्वेन कथं तस्य धर्मत्वम् । न च तद्वैधेतराभिचारपरम् । सर्वे. षामभिचाराणां वैधत्वादत आह *उपेति । *एवं च-तस्योपपात- कत्वाभावेच । ननु साक्षात्कर्तृत्वमेव कुतो नात आह *मरणेति । एवं च किञ्चिन्निमित्तं विना तदसंभवेन तेनान्यथासिया न तस्य तत्त्वमिति भावः । तदधिकरणपूर्वपक्षमतेनाह *श्येनेति । तस्य वधेत्यर्थः। सिद्धान्ते तु अग्नये रुद्रवते पशुरिति पशुवधो बोध्यः। तत्रैवाह *कृते इति । *ब्राह्मणेति च । *मन्वादीति । विधाता शासिता वक्ता मैत्रो ब्राह्मण उच्यते । तस्मै नाकुशलं ब्रूयान शुक्तां गिरमीरयेद् ॥ इति मनुः । अकुशलं अकुशलसंपादकाभिचारम् । शुक्ता गीराक्रोशवाक्यम्। *तद्विषये-ब्राह्मणविषये । परसंमतमपीदमित्याह *भाट्टाइति । तत्रा- र्थपदव्यावर्त्य तु निषिद्धकलाभक्षणायेवेति भावः । शिष्टाशिष्टयो- स्ते तु प्रागुक्त एव । इदं दूषयति *परेत्विति । ननु व्यावय॑मु. १३४ टीकाद्वयोपेतायो लघुमजूषायाम् । तमेवात आह निषिद्धेति । *तस्मादिति । एतेनार्थपदव्यावर्त्य- स्वादधर्मत्वमेवेति गुरूक्तमप्यपास्तम् । तदाह * इत्यलमिति ॥४१॥ यत्तु मीमांसकैः "वाजपेयेन यजेत"इत्यादौ वाजपे. यपदे न द्रव्यं सुरारूपं स्वपदोपात्तयागरूपकरणावरु- द्वायां स्वर्गभावनायां बहिर्भूतद्रव्यस्य करणत्वेनान्व- यासम्भवाद्, वाजपेयवतोति बोधे तु मत्वर्थलक्षणा, वाजपेयेन यागं भावयेद् यागेन स्वर्ग भावयेदिति बोधे वाक्यभेदापत्तिस्तस्माद् तन्नामधेयमिति सिद्धान्त इत्युक्तम्। तत्र मत्वर्थलक्षणेत्यस्य तत्कृतासाधुत्वं दोष इत्यर्थः । तदर्थे तेषां प्रत्ययानां साधुत्वबोधकव्या. करणेन तत्रार्थे लक्षणया प्रकृतिप्रयोगस्थासाधुत्ववोध. नात् । 'कुन्ताः प्रविशन्ति'इत्यादावपि कुन्तत्वादीनां तत्संयोगिन्यारोपो नतु कुन्तसंयोगित्वेन लक्षणा। अत एव बाभ्रव्य इत्यर्थे बभ्ररित्यादीनामसाधुत्व. मुक्तं "परश्च"इति सूत्रे भाष्ये । नच तद्भाष्यं शक्तिभ्रमे ण बोधेऽप्यसाधुत्वपरम्। शक्तिभ्रमस्य दुरुपपादतायाः प्रागुक्तत्वात्। तत्सम्बन्ध्यपत्यमित्यर्थे ऽणादिप्रत्ययस- मासयोः साधुत्वस्य मूत्राद्वोधेन तत्रार्थे ऽन्यशब्दस्य लक्षणया ऽप्यसाधुत्वमित्यर्थस्य सूत्रस्वारस्येन लाभा. च । एतन्मूलक एव 'विभक्तौ न लक्षणा'इति प्रवादः । रघूणामन्वयमित्यादौ तदपत्ये रघुत्वारोपो बोध्यः । "सोभन यजेत" इत्यादौ छान्दसी मत्वर्थलक्षणेति बोध्यम् । अर्शआद्यजन्तं वा सोमपदम् । अत एव "प्रोक्ताल्लुम्" इति सूत्रे प्रोक्तार्थकप्रत्य- यान्तादित्यर्थे प्रोक्तादिति भाव्यमित्याशय सौ.
तिर्थनिरूपणम् । १८६५ अत एव त्री निर्देश इति भाष्ये समाहितम् । "गुणवचनेभ्यो मतुपो लु- वक्तव्यः"इति वचनं वार्तिकताऽऽरब्धम् । अन्यथा तदति लक्षणयैव सिद्धे तययं स्पष्टमेय । लुगपि स. मानाधिकरणद्रव्यवाचकसत्त्वे एव । लक्षणाऽपि तत्स- त्वे एव । तत्रैवानुपपत्तिप्रतिमन्धानात् । नचलुकापि लक्षणैवान्याख्यायत इति वाच्यम् । शास्त्रबोधितत्वेन तत्र साधुत्वस्य निर्वाधत्वात् । गुणगुणिनोरभेदस्या. पि सत्त्वेन तत् प्रत्याख्यातमित्यन्यत् । “गुणवचना- नामाश्रयतो लिङ्गवचनानि"इत्यनेन तत्र पक्षे लिङ्गा- दिसिद्धिबोध्या । अन्यत्रापि नामधेयस्वबीजं पूर्वमी- मांसायां स्पष्ठम् । नामधेयत्वे च वाजपेयादिपदं पदप- रम् । मत्वथैलक्षणायामसाधुत्वे ऽप्यस्यां तत्त्वाभावा- त । स्वरूपस्यापि पदशक्यत्वाच्च । पदतदर्थयोश्चा- भेदाध्यवसायस्थ पूर्वमुपपादितत्वेन 'वाजपेयपदा- भिन्नो यागः' इति बोधे पश्चात्साङ्गोपाङ्गविधिपर्यालो. चने प्रवृत्तिनिमित्तरूपवैजात्योपस्थिती 'विजातीयो- ऽयं यागो वाजपेयपदशक्यः' इति शक्तिग्रहे ऽन्य- व तेन पदेन यागविशेषोपस्थितिः । 'इह सहका- रतरौ मधुरं पिको रौति'इत्यादौ सहकारतर्वधिकर- णकं मधुररवणं यत्कर्तृकं स पिकपदाभिन्न इति यो. धे सहकारे कोकिलत्वजाक्तिमत एव मधुररवणं जा- नतस्तदैजात्योपस्थितौ तदवच्छिन्ने पिकपदशक्तिन- हे तेनरूपेण बोधः। यन पदस्य वाच्यतासम्बन्धन यागेऽन्वय इति १०६८ टीकाद्वयोपेतायां लघुमञ्जूपायाम् । तन्न। सम्बन्धाप्रसिद्धःपूर्वमनुपस्थितसम्बन्धस्य भाना- ङ्गीकारे ऽपि सर्वथा ऽप्रसिद्धस्याज्ञातस्य संबन्धस्य भानाननुभवात् । वाजपेयपदोत्तरतृतीयाया असाधु- तापत्तेश्च । करणाभेदेन हि सेति सिद्धान्तः । यदपि वाजपेयपद कचिच्छक्तमिति सामान्याका- रशक्तिग्रहेण सामान्यतो वाजपेयपदशक्य इत्युप- स्थित्या ऽभेदान्वय इति । तदपि न । तथोपस्थितेः कारणाभावात् । किंचिदित्येवोपस्थितेश्च । नहि किं. चिदभिन्नो याग इति बोधो ऽनुभवसिद्धः । किंच वाजपेयपदस्य योगेन सुराद्रव्ये शक्ति- ग्रहसत्त्वेनेह शक्तिग्रहासम्भवादित्यलम् ॥ ४२ ॥ (कुं० टी०) *सुरारूपमिति । विधीयत इति शेषः । तथा च गुणविधिरयम् । *असम्भवादिति । यागस्य तु त्यागरूपस्य क्रियावाभावेन तत्र कारकान्वयासम्भवात् । *वाजपेयेनयागमिति । ननु यदि यजेत्याख्यातेन क- मत्वं यागस्योच्येत तदा वाजपेयगुणेन यागं कुर्यादिति वा. क्यार्थः स्यात् । यदि तु करणत्वं स्यात् तदा यागेन स्वा. राज्यं भावयेदिति स्यात् तत्कथमुभयसबन्धसम्भव इति चेत् । सत्यम् । यागभावनयोः संबन्धमा यजेतेति श्रुत्या उच्यते । तच्चाविशेषाद्वाजपेयगुणं प्रति योगस्य कर्मता, फलं प्रति कर- णताऽपि । *वाच्यभेदापत्तिरिति । विधेयभेदादिति भावः । नच तन्त्रेण यागस्य उभयान्वयः शङ्ख्यः । गुणं प्रति विधे- यत्वं फलं प्रत्यनुवाद्यमिति विरुद्धत्वापत्तेः । तस्माद् वाज सुराद्रव्यं पेयमस्मिन्निति सुराग्रहविधानान्नामधेयत्वम् । *तदर्थे . तिर्थनिरूपणम् । १०६९ इति । मतुवर्थे । मतुवादिसाधुत्ववोधकव्याकरणेन लक्षणया प्र. कृतिमात्रप्रयोगस्यासाधुत्वं वोध्यत इत्यर्थः । *दुरुपपादताया इति । शक्तेः पदतदर्थघटितत्वात् । कथं तर्हि सोमेनेत्यस्य सोमवतेत्यर्थस्तत्राह *छान्दसीति । सोमादिपदानां द्रव्ये प्रसिद्धतया सामानाधिकरण्यासम्भवात् । *अन्यत्रापीति । तद्यथा "चित्रया यजेत"इत्यत्र चित्रत्वस्त्रीत्वयोर्गुणयोर्विधाने वाक्यभेदप्रसङ्गाचित्राशब्दो नामधेयम्, एवम् “अग्निहोत्रं जुहो- ति"इत्यत्र वाक्यान्तरेण कर्मणो विहितत्वाभावेन तदनूद्य गुण- विध्यसम्भवाद् नामधेयत्वम् । "श्येनेनाभिचरन्यजेत"इत्यत्र "यथा वै श्येनो निपत्यादत्ते" इत्युपमया स्तुतिदर्शनाद श्येनो नामधेयम् । ननु “अग्निहोत्रं जुहोति"इत्यस्य कथं कर्मविधित्वं द्रव्यदेवतयोरभावात् । तस्माद्दध्यादिवाक्यविहितकर्मणो ऽनुवा- दोऽस्तु इति चेत्, सत्यम् । तथा सति कर्मणो विहितत्वाभावेन दधिरूपगुणविधानं कुत्र स्यात् । ननु वाजपेयादिशब्दानां पदपरत्वे लक्षणापत्तिस्तदवस्थैवेत्यत आह *मत्वर्थेति । वस्तुतो लक्षणा नास्तीत्याह *स्वरूपस्यापीति अन्यत्राप्येषैव गतिरित्याह *इहसहकारेति त्रापि हि प्रथमं सामान्यरूपेण शक्तिग्रहः श्वाद्विशेषबोधः । *पदस्येति । वाजपेयादिपदस्य *वा. च्यतासंबन्धेनेति । वाजपेयपदवाच्येन यागेनेत्यर्थः । *संब- धापसिद्धेरिति । वाजपेयपदवाच्यस्य ज्ञातत्वाभावात् । शाब्द- बोधे योग्यताज्ञानस्यापि हेतुत्वान् । तदहेतुत्ववादे ऽपि सं. सर्गाशे तात्पर्यज्ञानस्य हेतुत्वात् । *अनुपस्थितस्येति । श्रु. स्यादिभिः संबन्धसामान्योपस्थितौ प्रकरणादिवशाद्विशेषो- पस्थितिरिति भावः । *सर्वथा प्रसिद्धस्येति । उपस्थिता. प.
१०७० टीकास्योपनायां लघुमनूषायाम् । नामेव संवन्धानां मध्ये प्रकरणादिवशाद्विशेषावमायः । इह तु वाजपेयपदवाच्यस्याज्ञानत्वान्न तत्संभव इति भावः । ये वदन्ति तात्पर्यग्रहो न शाब्दबोधे हेतुरपितु प्रामाण्यग्रह एव, न. द्रीत्याऽपि दोषमाह * साधुतापत्तश्चेति । वाजपेयपदोपानतृतीय- या यागस्य करणत्वबोधासम्भवात् । * अभेदान्वयइति । वा- जपेयपदशक्याभिन्नेन यागेनेत्याकारकः । *तथोपस्थिते:- सामान्योपस्थितः । *कारणाभावात्-उत्पादकाभावात् । * मुराद्रव्ये इति । वाजं मुराद्रव्यं पेयं यस्मिन्निति व्यु. पत्तेः । तत्र च सुराग्रहा गृह्यन्ते इति श्रुतिर्मूलम् ॥ ४२ ॥ (क० टी०) प्रसङ्गान्मीमांसकोक्ति यथाश्रुतां सङ्गनां तत्सि. द्धान्तस्य सम्मतत्वात्परिष्करोति *यत्त्विति । *मीमांसकट्टानुया. यिभिः । वाजो ऽनं तद्विकारः सुरा वाजं च तत्पेयं चेति व्युत्प. त्तिस्तदाह *नद्रव्यमिति । *यागेनचेति । तादृशेत्यादिः । *वाक्य भेदेति । विधेयानेकत्वात् । तस्माद्-गुणविधावुकदोषत्रयात् । *नामेति । वाजं पेयं योनि योगेन तत्प्रख्यन्यायेन । सुराद्रव्यस्य व- चनान्तरेण विधानात् । लक्षणाया जघन्यवृत्तित्वेऽपि स्वतो दुष्टत्वा- दाह *तति । ननु गङ्गामित्यादौ न तत्कृतासाधुस्वं दृष्टमत आह *तदर्थे इति । नन्वेवं कुन्तादिपदस्य तत्संयोगिनि लक्षणे- त्यसङ्गतं स्यादत आह *कुन्ताइति । तत्पदप्रवृत्तिनिमित्तानामि त्यर्थः । निरूपितं चैतच्छक्तिवादे । *अत एव-व्याकरणस्यासाधुत्व बोधकत्वादेव । *इत्यर्थे-इत्याद्यर्थे । *दुरुपपादतायाइति । पदतदर्थ- घटितत्वात् । तत्रैव दोषान्तरमाह #तत्सम्बन्ध्यति । अपिना भ्रमः । एवंच सङ्कोचो न युक्तः । *एतदिति । असाधुत्वेत्यर्थः । दीक्षितायु- तेरसाङ्गत्यायोक्तैव गतिरन्यत्रापीत्याह रघूणामिति । इत्यादाव. पीत्यर्थः । नन्वेवं सोमद्रव्यस्यान्यतो ऽप्राप्तत्वात् तत्र का गतिरत आह *सोमेनेति । अगत्येति भावः । इदमपि मीमांसकमतेन न सिद्धान्ते इत्याह *अर्शप्राधजिति । *अत एव-प्रकारद्वयाङ्गीकारा.
तिर्थनिरूपणम् । १०७१ देव । सौत्र इत्यस्य तत्वेन छान्दस इति अर्शआद्येतिसूत्रकृत- इति वेत्यर्थः । *अत एव-तया तत्र प्रयोगे ऽसाधुत्वादेव । तदेवाह *अन्यथेति । तदसत्त्वे इत्यर्थः । ननु पदान्तरसमभिव्याहारे ल- क्षणायाः सिद्धावपि न केवले इति तदर्थ वार्तिकमावश्यकमत आह *लुगपीति । केवले मतुप एवाभावात् । गमकाभा- वाल्लघवादाह *न चेति अपिनोक्तभाष्यसमुच्चयः । स. म्भावनायां वा । तात्रताऽपि नोक्तदोष इत्याह *शास्त्रेति । ननु सिद्धान्ते वार्तिकं प्रत्याख्यातमिति कथं प्रकृते तत्साध. कमत आह *गुणेति । अपिना भेदः । ननु प्रत्याख्याने तेषां गुणवा- चकत्वेनाजहल्लिङ्गत्वम् , तस्य चैकत्वात्कथं लिङ्गादिसिद्धिरत आह *गुणेति । *तत्र पक्षे-प्रत्याख्यानपक्षे । आदिना द्विवचनादिः । *अन्यत्रापीति । अयं भावः-उक्तरीत्यैवोद्भिद पदमपि फलोद्भेदन. कारित्वयोगेन तथा, अग्निहोत्रपदमपि 'यदग्नये च'इत्युक्तेरग्निदेव- ताप्राप्त्या देवताविध्यसम्भवाइवताकत्वयोगेन तथा, श्येने तु "यथा व इति वाक्यशेषदर्शितापमानोपमेयभावेन तथा इत्यादि बोध्यम् । तत्र तत्त्वं न तदुक्तरीत्या किन्त्वौपेतिप्रागुक्तसि. द्धान्तरीत्येत्याह *नामेति । नन्वेवं लक्षणातादवस्थ्यमताह “मत्वर्थेति । * अस्याम्-पदे लक्षणायाम् । वस्तुतो नात्र सेत्याह *स्वरूपति । *पूर्वम्-आरम्भे। *पोलोचने-प्रवृत्तिनिमित्तविशेषप. रिचये सति । *अन्यत्र-सङ्कल्पादौ । इयं गतिरन्यत्राप्यावश्यिकत्या. ह इहेति । नेयायिकनव्योक्ति खण्डयति *यत्त्विति । ननु वाक्या. थस्यापूर्वत्वेन तत्र कथमत आह *पूर्वमिति । ननु योग्यताज्ञानवत्सं- सर्गाशे तात्पर्यग्रहो ऽपि न शाब्दबोधहेतुः किन्तु प्रामाण्यज्ञान एवेति नोक्तदोषो ऽत आह *वाजेति । जीर्णनैयायिकोक्ति खण्डयति *यदपीति । शक्तिग्रहोपस्थितिबोधानां नप्रकारत्वनियमादाह तथा ऽपि इष्टापत्तावाह *नही- ति । अभ्युपेत्येदम् । वस्तुतः स एव नेत्याह किञ्चेति । त. त्र पूर्वपक्ष आह *सुरेति । किञ्च तेनाभेदेनान्वयस्य बाधाद् ब. हुव्रीहिरूपयोगेनापि न निर्वाहस्तथा सति 'द्रव्यं घटः' इतिवत्सामा. ग्यविशेषभावेन ततो वैजात्यरूपंण बोधानापत्तिस्तस्मादुक्तरीति- रव शरणम् । लदाह * अलमिति ॥ ४२ ॥ समा- १०७२ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । प्रवर्तना च लिङादेोत्या पचेत्यादी विनाऽपि लिङादिकं प्रवर्तनाप्रतीतेः । अन्तर्भावितण्यर्थे प्रवर्त. नाया धात्वर्थत्वस्य दृष्टत्वाच । कादिष्वपि द्योत्य- ताया एव दृष्टत्वाच्च । अत एव 'निमन्त्रयेय भवन्तः म्'इत्यादौ धातुना निमन्त्रणस्योक्तत्वे ऽपि लिङ्सि- द्धिः । यहा ऽत्र "अर्हे कृत्यतृचश्च" इति लिङ्लोटौ निमन्त्रणादिनिष्ठमहत्वं चावश्यकर्तव्यतालक्षणम् । किञ्च तस्या वाच्यत्वे तस्या एव विशेष्यत्वेन तत्रै. कत्वेन द्विवचनानापत्तिः। संख्यायाः स्ववाचकप्रत्यया. न्तजयोधविशेष्य एवान्वयात् । कर्तृगतसंख्यायास्त- निष्ठधात्वर्थ इव तद्विषयकप्रवर्तनायामप्यारोपणात्त- साधुत्वमित्यपि क्लिष्टम् । तत्र धातूपस्थितव्यापाराणां मध्ये प्रयोजकव्यापारस्य विषयितया विशेषणत्वम् । इतेरषां तु विषयतया विशेष्यत्वम् । एवंच पचे. दित्यादावेककर्तृका प्रवर्तनाविषयीभृता पाकानुकूला क्रियेत्यादिरीत्या बोधः । यत्तु द्योतकत्वे ऽपि प्रवर्तना विशेष्यति तन्न। द्यो. त्येऽर्थे विशेषणताया एव न्याय्यत्वात् । किंच तस्या विशेष्यत्वे देवदत्तादेः प्रधानभूत. धात्वर्थानाश्रयत्वेनाकर्तृत्वे कर्तरि तिङाद्यनापत्तिः। किंच “स्वाध्यायोऽध्येतव्यः" इत्यादौ सत्त्वप्रधाने कृदन्ते प्रवर्तनाया विशेषणत्वमावश्यकमिति सर्वत्र तथैवोचितम् । तत्र हि प्रवर्तनाविषयाध्ययनकर्म स्वा. ध्याय इति बोधः । प्रवर्तनाविषयत्वेन बुद्धस्य धात्वर्थ- स्य भाव्यत्वेन ग्रहात् । कथंभावाकाङ्क्षा गुरूपसदना- तिर्थनिरूपणम् । १०७३ दिविधिना निवर्तते । करणाकासा च बारिध्ययन- नियमविधिभिनिवर्तते । फलाकासा च यज्ञादिवि- घिभिः । यहा गुरूपसदनं करणं नियमश्चेतिकर्तव्यता। अयं विधिः सम्पूर्णवेदस्य प्रयोजनवदर्थपर्यवसायि- त्वबोधकः । निष्कारणः षडङ्गो वेदो ऽध्येयो ज्ञे. यश्चेति वाक्यान्तरादध्ययनस्य नित्यत्वमपीति नि. त्यकाम्यमेतदित्याहुः । तत्र सकलकारकविशिष्टे धा. त्वर्थे प्रवर्तनाया विशेषणत्वे विधिप्रत्ययस्तात्पर्य- ग्राहकः । एवंच प्रवर्तनाऽक्षिप्तनज्ञातज्ञाप्यत्वं श्रे. यःसाधनत्वं च विशिष्टे एव । धात्वर्थस्य प्राप्त त्वे तु तात्पर्यतो गुणांशे पर्यवस्यति । प्रवर्तनाऽत्र वर्तमानकालैव भासते शब्दशक्तिस्वभावात् । इत- रधात्वर्थस्तु भविष्यत्काल एव तत एव । एतेन प्रेर- णाप्रयोज्यपाकवर्तमानतादशायां पचेदिति स्थादित्य. पास्तम् । विधिलिङदावुत्तमस्तु न । स्वप्रवृत्ती स्वप्रेरणाया अकारणत्वेन तज्ज्ञानानुपयोगात् । इदमेवाभिप्रेत्यो- त्तमपुरुषो विधिशक्तिप्रतिबन्धक इति तान्त्रिकाः । एवं यच्छन्दयोगवकारादियोगो ऽपि विधिशक्तिप्र- तिबन्धक इति बोध्यम् । इति तिर्थविचारः ॥ ४३ ।। (कुं० टी०) *अतएव द्योतकत्वादेव । विशेष्य- १ अयं-आहुः-अयं पाठः कलानुरोधी एकस्मिन्नेव मूलपुस्तके उपलब्धोऽत्रावस्थापितः। १३५ २०७४ टीकाद्वयोपेनायो लघुमञ्जूषायाम् । खेनेति । पचेदित्यादौ पाकविषयिका प्रेरणेत्यर्थात् । ज्ञा- नेच्छादीनामेव सविपयकत्वमिति नियमे तु मानाभावः । अ- न्यत्रापि तदनुभवात् । *स्ववाचकेति । कर्तृगतद्वित्वादेः क्रिया. यामारोपात् । *विषयतयेति । प्रेरणाविषयः पाकः इत्यर्थात *देवदत्तादेः-प्रयोज्यस्य । *करणाकाङ्क्षा-प्रवर्तकाकाङ्क्षा । *तत एव-शब्दशक्तिस्वभावादेव । *इतिस्यादिति । पाकस्य वर्तमानत्वात् । *अकारणत्वेन-अनपेक्षितत्वेन । *यच्छन्दयो- गेति । तेनानुवाद्यत्वप्रतीतेः । इति तिर्थविचारः ॥ ४३ ॥ (क० टी० ) एवं साधिते प्रवर्तनाया लिङर्थत्वे परसंमतवा- चकतापक्षनिरासेन सिद्धान्ते द्योतकतापक्षमाह *प्रवर्तनाचेति । अ. पूर्वकल्पना नेत्याह *अन्तरिति । पञ्चभिर्हलैः कृषतीत्यादावित्यर्थः । एकवाक्यताऽप्यत्रेत्याह *क दीति । *अत एव-द्योतकत्वादेव । तत्समुञ्चयस्यान्यत्र दृष्त्वात् । संभवात्पक्षान्तरमाह *यद्वति । *ल. क्षणम्-लक्षणमेव । एवमदुष्टं द्योतकत्वमुपपाद्य पक्षान्तरे दोषमा. ह *किश्चेति । तद्विपयमादाय न तदित्याह संख्याया इति । ननु तत्र यथा निर्वाहस्तथा ऽत्रापीत्यत आह *कर्तृगतेति । प्रत्यासत्ति सूचयन्नाह *तनिष्ठेति । प्रत्यासत्तरेव आह *क्लिष्टमिति । बोधप्रक्रि- यामाह * तत्रेति । द्योतकत्वे सतीत्यर्थः । लिङाद्यन्ते वा। प्राचीन- मतं खण्डयति *यत्त्विति । *तस्याइति । यतो द्योतकत्वे इत्यादिः । ऐकरूप्यायाह *किञ्चेति । *सर्वत्र-पचेदित्यादावपि । नन्वप्रधान- त्वे तस्याः कथं व्यंशात्वमत आइ *प्रवर्तनेति । *भाव्यत्वेन-सा. ध्यत्वेन । आकांक्षायां हेतुरयम् । आद्ययोर्विनिगमनाविरहादाह *यद्वेति । अर्थवादपादे सकलमीमांसकोक्तं सिद्धान्तमाह *अयम्- विधिरिति । *पर्यवेति । पर्यवसाय्यध्ययनकर्मत्ववोधक इत्यर्थः । एवं च काम्यत्वं सिद्धम् । अत एवाह निष्कारणेति । *वाक्यान्त. रात्-श्रुत्यन्तरात् । आहुरित्यरुचिबीजं तु प्राक् प्रतिपादितं ध्येयम् । *नित्यामिति । तादृशविधिना संपूर्णवेदस्य स्वरूपतः प्रयोजनवदर्थ- पर्यवसायित्ववोधने ऽप्यध्ययनस्य तत्वाबोधनात् । अत एव ना सनाधर्थनिरूपणम् । १०७५ " तद्विरोधोऽपीतिाअत एवायमित्याहुरित्यन्तः पाठोन दृश्यते क्वचित् । *तत्र-तयोर्विशेषणविशेष्यभावे सति । *विधीयते । तेन कर्तुर्वो. धनात्कारकान्वयं बिना धात्वर्थस्य निरूपयितुमशक्यत्वात् । *एवं च-कारकविशिष्टक्रियाया एव प्रवर्तनाविषयत्वे च *गुणांशेइति । यथा “दधना जुहोति" इत्यादौ ! *अत्र-लि. डादौ । *तत एव-शब्दशक्तिस्वभावादेव । *पतेन-तत एव तस्य तत्त्वेन । *तान्त्रिका:-मीमांसकाः । स्पष्टं चेदं "विधिमन्त्र. योरैकार्थ्यमैकशब्द्याद्" इत्यधिकरणे द्वितीयाध्यायादिभाग। “देवांश्च याभिर्यजते, अग्नीदग्नीन्विहर, बर्हिदेवसदनं दामि यस्योभय हविः" इति तत्रोदाहृतम् । * एवकारेति। अत एव “औदुम्बरो युपो भवति' इत्यादेः “यदष्टाकपालो भवति गायव्यवनम्" इत्यादश्चार्थवादत्वं सि- द्धान्तितं पूर्वमीमांसायाम् । एवं च तच्छब्द एवकारश्च स्यादुपादे. यलक्षणम्'इत्यभियुक्तोक्तं विन्त्यमेव । आदिना वाऽपिशब्दादिप- रिग्रह इति स्पटम्। लक्षणं मिताक्षराव्याख्यायाम्। सम्बोधनविभक्त. रपि इति तत्त्वं बोध्यम् । इति तिर्थविचारः ॥ ४३ ।। पिपठिषतीत्यादौ सनर्थ इच्छा । तस्याः प्राधा. न्यानुभवात् । तत्र धात्वर्थस्य कर्मत्वसमानकर्तृक- स्वैतदुभयसम्बन्धेन विशेषणता । "धातोः कर्मणः समानकर्तृकादिच्छायां वा" इति सूत्रस्वरसात्। “गमे- ग्रामः कर्म इस्तू भे कर्मणी"इति सन्मूत्रस्थभा- ष्योक्तः : । अस्मात्कर्मण्यपि लादयः । अत एव निदिध्यासितव्यो विजिज्ञासितव्य इत्यादिप्रयोगाः सङ्गच्छन्ते। ननु ज्ञानस्वभावत्वाद्वर्तमानाऽप्याशंसा विषयभवि- व्यत्वाद्भविष्यत्कालेति"आशंसायां भूतवच"इतिसूत्रे उक्तम्, तद्रीत्या वर्तमानाया अपीच्छाया विषयभवि- व्यत्वेन भविष्यत्कालत्वात्सन्नन्ताद्वर्तमानप्रत्ययास- १०७६ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । अतिरिति चेन्न । सन्प्रत्ययार्थच्छायाः प्रधानत्वेन गुण- भूतप्रकृत्यर्थाननुयायित्वात् । आशंसा तु न प्रत्ययार्थ इति प्रधानार्थानुयायिन्येव । आवाधादिवत् । प्रयोक्त. धर्मो ह्याशंसा । आशंसे इत्यादिशब्दप्रयोगे प्रयोक्त. धर्मः सा गम्यत इत्यन्यत्र विस्तरः । श्वा भुमूर्षति, कूलं पिपतिषतीत्यादौ आशङ्काणां सन् । श्वकर्तृकमरणविषयाऽऽशङ्केति बोधः। इच्छाss. रोपेणात्र प्रत्यय इति भाष्यसम्मते पक्षे उक्तोऽर्थः पश्चान्मानसबोधविषय इति बोध्यम् । सन्नन्ते पिपठिषति गन्तुमित्यादिवारणायैकार्थी- भावः । तस्य पदविधित्वाभावे ऽपि "वावचनानर्थ. क्यं नित्यत्वात्सनः । इह द्वौ पक्षो वृत्तिपक्षश्चात्तिप. क्षश्च । तत्र स्वभावत एतद् भवति वाक्यं वृत्तिश्च" इति भाष्यात्सः । वृत्तेरेकार्थीभावविषयत्वाद्वाक्यस्य व्यपेक्षाविषयत्वाद्भिन्नार्थत्वेन बाध्यबाधकभावाप्रसङ्ग इति कैयटाच्च । पुनःपुनरतिशयेन वा पचति पापच्यत इत्यादी या प्रकृत्यर्थगतं पौनःपुन्यं बाहुल्यं वा द्योत्यते। बा. हुल्यं कारस्न्यम् । कचित्कौटिल्यगर्हाद्यपि। “नित्यं को. टिल्ये गती" "लुपसदचर-"इत्यादिशास्त्रमामाण्यात्। तद्विषये क्रियासमभिहारे यङ् न । अनभिधानात् । पाचयतीत्यादौ णिज्वाच्या प्रेरणा न तु द्योत्या । विशेषणत्वापत्तेः । एवं च तदाश्रयस्थ कर्तृत्वा- नापत्तौ ण्यन्तात्प्रयोजककर्तरि लाद्यनापत्तिः । अत एव द्योतकतापक्षस्य तत्र भाष्ये प्रकृत्यर्थः सनाद्यर्थनिरूपणम् । १०७७ गत्य. विशेषणशब्देनोल्लेखः कृतः । किश्चैवमपि प्रयोजकस्य कर्तृत्वाङ्गीकारे ग. मितो ग्रामं देवदत्तो यज्ञदत्तनेत्यादौ प्रयो. जकव्यापारस्य गमिवाच्यत्वात्प्राधान्येन र्थत्याच प्रयोजकर्तरि क्तस्यापत्तिः । द्योत्यस्य वि. शेष्यत्वाङ्गीकारे ऽपि पाचयति देवदत्तश्चैत्रेणेत्या. दौ प्रधानीभूतव्यापारानाश्रयत्वेन प्रयोज्यस्य कर्त त्वानापत्तिः । मम तु धातुभेदान्न दोषः । नच स्वतन्त्रपदेन शब्दतः प्रधानस्येवार्थतः प्रधान- स्थापि ग्रहादुभयोः कर्तृत्वं तत्र प्रेरणायाः विशेषण- स्वेऽपि तस्या अन्यानधीनत्वलक्षणमार्थ प्राधान्यमिति वाच्यम् । प्रयोज्ये कर्तरि तृतीयेव ण्यन्ताल्लादेर- प्यापत्तेः । दुहादीनामप्रधाने कर्मण्यपि लादिस्वीकारेण लादिविधौ कत्रोद्यंशे प्रधानन्यायाप्रवृत्तेः । तत्रार्थ. प्राधान्यस्य सत्त्वाच । किश्चैवमन्त वितण्यर्थे ऽप्युभयोः कर्तृत्वापत्तिः। स्वसाध्यक्रियाजनकप्रयोक्तृत्वं स्वतन्त्रत्वमिति पक्षे ऽपि स्वतन्त्रं कारक क्रियाजनकं कतैत्यर्थे बाध- काभावेन क्रियायाः प्रधानभूताया एव ग्रहणान्नोभ- योस्तत्त्वम् । मम तु नत्र प्रयोज्यकर्तुः प्रायेण करणत्वेन विव. क्षा तक्रियाया अपि धातुना प्रायेण करणत्वेनैव बोधान्न तदाश्रयस्य कर्मत्वम् । कचित्तु तदपि । यथा गर्गाः शतं दण्ड्यन्तामित्यादौ । तत्र प्रयोज्यव्यापारानुकूलव्यापारो धात्वर्थ इति १०७८ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । बोध्यम् । अत एव चारेणाहं परसैन्यमनुप्रविश्य संकल- यानीत्यादौ प्रयोज्यकतुश्चारादेः करणत्वमुक्तं भाम- त्याम् । चारेणेत्यस्यानुप्रवेशलान्वये ऽपि करणे एवं तृतीयेति बोध्यम् । वाचकत्वे तु न दोषः। प्रयोज्यस्य प्यन्तप्रकृत्यर्थकर्तृत्वेऽपि ण्यन्तार्थकर्तृत्वाभावात् । "भयन्तात्प्रधानकर्तरि लः" इति भाष्ये प्रधानत्वं लप्र. कृत्यर्थकर्तृत्वरूपम् । स्पष्टं चेदं "हेतुमतिच"इति सूत्रे भाष्ये । इति सनाद्यर्थविचारः ॥ ४४ ॥ (कुं०टी०) ननु पुत्रीयतीत्यादौ पुत्रकार्मिका इच्छा इत्यर्थाद्धातुनैव कर्माभिधानात् कर्मणि न प्रत्ययः। एवं पिपठिपतीत्यत्रापि पाठ. कर्मिका इच्छा इत्यर्थेन कर्मणि लकारोन स्यादित्याशङ्याह *इ. पेस्तूभेइति । गमेग्रामः कर्मेत्युक्तमं ग्रामाय वा गन्तुमिच्छतीति गत्यर्थकर्मणि द्वितीयाचतुर्योः सिद्धिः। इष्यते ग्रामो गन्तुमित्यत्र तु इच्छाकर्म ग्रामो ऽपीति प्रथमा । तस्मिन्नेव च कर्मणि लादयः। एवम्"आत्मा जिज्ञासितव्यः' इत्यत्रापि इच्छाकर्मणि कृत्यप्रत्य- यः । *ज्ञानस्वभावत्वादिति । आशङ्कासंभावनयोरविशेष इति तत्सूत्रे वार्तिककृना आशङ्कितत्वात् । आशंसा अभिमतविषयिणी इच्छा, भवितव्यमनेनेति ज्ञानं संभावनमिति तु तयोर्भेदः । ज्ञानस्वभावत्वादित्यनेन ज्ञानवद् इच्छाया अपि भविष्यद्विषयत्वं सूचितम् । वर्तमानाऽपीति । इच्छारूपाऽऽशंसा यद्यपि वर्तमा- ना तथाऽपि इच्छाविषयस्य भविष्यत्वाद्भविष्यकाला अतस्तत्र भूतवद्वर्तमानवच्च लाभार्थम् “आशंसायां भूतवच्च"इति सूत्रमिति भावः । *समन्तादिति । उक्तरीत्या पाठस्य भविष्यत्वेन पाठ. विषयकेच्छाया अपि भविष्यवाल्डाद्यनुपपत्तिरित्यर्थः सनाद्यर्थनिरूपणम् । १०७९ *प्रधानत्वेनेति । लडाग्रुपस्थाप्यकालस्य प्रकृत्यर्थे एवान्वयात् । *गुणभूतेति । नहि गुणानुरोधि प्रधानम् । पूर्वोक्तभाष्यविरो- धं परिहरति * आशंसाविति । तत्र हि आशंसा विषयभूता । आशास्यमा क्रियावचनाद्धातोभूतवद्वर्तमानवच्च प्रत्यय इत्यर्थः । * आवाधादिवदिति । यहि पीडाविशिष्टः कर्ता तत्र द्वित्वं विधीयते अन्यथा तु पीडितादिशब्द एव स्यादिति भावः । * आशङ्कार्थ इति । सा च प्रयोधर्मः । शङ्के कूलं पिपतिषती. त्यर्थात् । अत्र स्वार्थे प्रत्यय इति कैयटोक्तेः । आशङ्काविषयभूतं श्वकर्तृकं मरणमिति बोधः । *इच्छाऽऽरोपणेति । यथाहि प्रवृत्ति- रूपमिच्छाकार्य चेतनेष्वस्ति एवमचेतनानायपीच्छाकार्यसादृश्या- दिच्छाऽऽरोप्यते । 'यथा हि संनद्धरज्ज्वादिपाणिं दृष्ट्वा अद्धा अयं कटं चिकीर्षतीत्यनुमीयते, एवं लोष्टानां शीर्णतां भिदां च दृष्ट्वा कूलस्य पिपतिषाऽनुमीयते' इति भाष्योक्तेरिति भावः । * पश्चा- मानसेति । श्वकर्तृका मरणविषयिणी इच्छेत्येव तु शाब्दो बोधः। तच्च मरणस्याप्रियत्वादाशङ्कायां पर्यवसानम् । ननु क्यजादीनां सुबन्ताद्विधानेन पदविधित्वान्महान्तं पुत्रमिच्छतीत्यादौ सा- पेक्षे अस्तु वृत्त्यभावः । सनस्तु पदविधित्वाभावात् गन्तुं पिपति- पतीत्यपि स्यादत आह *पदाविधित्वाभावेऽपीति । अत एव प्रकर्तुमिच्छति प्रचिकीर्षतीत्यादावुपसर्गस्य द्योतकत्वात्स इति स्पष्टं भाष्यकैयटयोः । एतेन सनपि एका भावविषय एवेति भावः । *पदविधित्वाभावेऽपि-पदविधित्वाभावेऽपि उक्तप्रयोगवारणाय एकार्थीभाव इत्यन्वयः । अत्रैव मानमाह- * वावचनेति । *स:-एकार्थीभावः । वाग्रहणं विनाऽपि कैयटो विकल्पमुपपादयति वृत्तरिति । यङन्ते निरूपयनि *पुनःपुनरिति । *बाहुल्यं चेति ।
१०८० टीकाद्वयोपेतायां लघुमञ्जूषायाम् । पौनःपुन्यं भृशार्थों वा क्रियासमभिहार इत्युक्तेः । *गर्दाद्यपीति । *योत्यन्त इति पूर्वणान्वति । *तद्विषये. कौटिल्यादिदिषये । णिजथं निरूपयति *णिज्वाच्यापेरणे. ति । पाच यतीत्यस्य पाकविषयिका प्रेरणेत्यर्थः । *विशेषणत्वा- पत्तेरिति । प्रेरणाविषयपाके एव प्रयोजकस्य कर्तृत्वेनान्व- यात् । योत्यत्वे विशेषणत्वापत्तिरियत्र मानमाह *अतएवे- ति । *किश्चैवमिति । प्रेरणाया अपि गत्यर्थत्वात्कर्तरि क्तः स्यादित्यर्थः । प्रयोज्यस्येति । प्रेरणाया एवं प्रधानत्वात् । *धातुभेदादिति । णिजन्तस्य णिप्रकृतेश्च धातुत्वात् । * उपयो- रिति । स्वव्यापारे उभयोरपि स्वन्त्रत्वात् । चारो दूतः । इति सनाद्यर्थविचारः ॥ ४४ ॥ (क० टी०) अथ धातुप्रकृतिकसनाद्यर्थ निरूपयति *पिपठीति । *सनर्थ:-सन्वाच्यः । *तत्र-इच्छायाम् । *लादय इति । तेच न धात्वर्थकर्मणि तत्सङ्ग्रहीतकर्मत्वेन अकर्मकत्वात् , किन्तु ग्रा- मादिकर्मणि तदाह *श्रत एवेति । द्वितीयकर्मसत्त्वादेवेत्यर्थः । *ज्ञानेति । तथात्वे हेतुमाह *आबाधेति । *इत्यन्यति । आशङ्कायामिति वार्त्तिकविषये आह *श्वति । एककोटिकं ज्ञानमा. शङ्का । वार्तिकप्रत्याख्यानप्रकारमाह *श्वकर्तृकेति । इदं पक्षान्तर- स्याप्युपलक्षणम् । अत्र-कुलं पिपतिषतीत्यादौ । *पश्चादिति । तत्र चेदृशसमभिव्याहारः कारणम् । ननु फलसत्त्वे ऽपि सनो ऽपदविधित्वात्सूत्राप्राप्तः कथं सो ऽत आह *तस्यति । सन इत्यर्थः । भाष्यमाह *वावचनेति । तत्रत्यकयटमाह *वृत्तरिति । यङर्थमाह *पुनरिति । तस्य तद्विशेषणत्वादाह *द्योत्यत इति । अपौनरुक्त्यायाह *कात्य॑मिति । प्रायिकमिदमित्याह *क्वचिदिति । *गर्हाद्यपि-द्योत्यमादिग्राह्यं चिन्त्यम् । *तद्विषये- कौटिल्यादिविषये । दीक्षिताधुक्तेरसाङ्गत्यायाह *अनभीति । णिजर्थमाह *पाचयतीति । *कर्तृत्वेति । तल्लक्षणे प्रधानी. - कदर्थनिरूपणम् । १०४२ भृतेति विशेषणात् । अत एव-तत्र तस्य तत्वेन विशेषण- स्वादेव । *एवमपि-धोत्यत्वे ऽपि । अङ्गीकारे-स्वतन्मत्वविवश या । दोषान्तरमाह *द्योत्यस्येति । सिद्धान्ते आद्यदोषासादे ऽदि घरमदोषमुद्धरति #ममात्विति। तस्मादुभयं दुर्वचमित्युलदोपात्या पाच्यत्वमेव न द्योत्यत्वमिति भावः । तत्र हीति पाठः । धा. स्वर्थे शब्दत इत्यर्थः । ननु प्रधानाप्रधानन्यायन :- दोषो Sत आह *दुहेति । अवैलप्यायाह *कायशे इति । सूत्रैकदेशे इत्यर्थः । तदभावमभ्युपेत्येदम् । वस्तुतस्तत्सत्त्वमेवेत्याह *तति । *एवम्-तत्रोक्तरीत्या । उभयोः कर्तृत्वे स्वत्वनिवेशे ऽपि नापत्ति- रित्याह *स्वसाध्येति । अधिकारादाह *कारकमिति । तदर्थमाह *क्रियेति । नन्वेवं कथं सिद्धान्ते तत्रान्तर्भावितण्यर्थे तृतीया ऽत आह *ममविति । प्रायेणेत्यस्य फलमाह *क्वचितिति । प्रधान- क्रियान्वये प्रोक्तरीत्या दोषाभावादाह *अनुप्रविश्येति । अपिना ण्यर्थः । ननु सिद्धान्ते प्रयोज्यकर्तृरि तृतीयावण्ण्यन्ताल्लादेरप्याप- त्तिरेवात आह *वाचकेति । ननु किमेतावता प्रधानन्यायस्य तु असंचार उक्त एवात आह *ण्यन्तादिति । *स्पष्टमिति । तत्र हि द्योतकतापक्षे उभयोरविधानापत्तिमुक्त्वा वाचकतापक्षे उक्तरीत्या समाहितम् । तस्योक्त एवाशयो न कैयटोक इत्युद्योते स्पष्टम् । इति सनाद्यर्थविचारः ॥ ४४ ॥ कर्तृकर्मविहितकृतां कर्तृकर्मणी वाच्ये । तयोरेव च लिङ्गाद्यन्वययोग्ययोः प्राधान्यम् । “सत्त्वप्रधानानि नामानि"इत्युक्तः । कर्मकृति च फलव्यापारयोw- त्यास इत्युक्तम् । तत्र शतृशानजन्तार्थस्याख्यातार्थक्रियाविशेषण- स्वमित्ययों लिखन्नास्ते भूमिमइत्यत्र चतुर्थोल्लासे स्पष्टः काव्यप्रकाशे। हरिरप्याह- चक्रम्यमाणो ऽधीवात्र जपंश्चक्रमणं कुरु । - १०८२ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । तादर्थ्यस्याविशेषे ऽपि शब्दाझेदः प्रतीयते॥इति। अध्ययनमन्त्र जपः । उभयत्रापि जपस्यैव वि. धिः । शब्देन त्वाये जपस्य प्राधान्यमन्ते तस्य गुण- भाव इति तदर्थः । कचित्तु शत्रन्तार्थस्याबुद्धिपूर्वकत्वादिरूपमप्रा- धान्यं प्रकरणादिवशायञ्जनया वा प्रतीयते । यथा 'लिखन्नास्ते' इत्यादौ । एवं च तदर्थे समानाधि- करणनामार्थस्य विशेषणत्वमेव । अन्यथा तत्र दिशे. षणतामापन्नस्याख्यातार्थे विशेषणत्वं न स्यात | गल. द्रक्तधारेत्यादौ समासे तद्विग्रहवाक्ये च विपरीत. मिति न गलदित्यादेः पूर्वनिपातासिद्धिः । भावार्थानां कृत्यसंज्ञकतव्यादीनां खलानां नपुंसके भावे क्तस्य च साध्यावस्थापन्नधात्वर्थानुवा- दकत्वमेव । साध्यावस्थस्थापि पचतिरूपमित्यादा- विव लिङ्गयोगः । अत एवैधितव्यमित्यादौ न क्रिया- न्तराकासा । अतस्तेष्वेकवचनमेव । “सत्त्वप्रधानानि नामानि"इत्युक्तेः । तत्र लिङ्गान्तरासम्भवाल्लिङ्गसर्व नामत्वाच नपुंसकत्वमेव । लिङ्गान्वयित्वमेव च तत्र सत्त्वम् । शयितव्याद्यर्थे विभत्त्या लिङ्गान्वयोपयो- गिसिद्धत्वावेदनमिति कश्चित। घनादिवाच्यस्स सिद्धावस्थापनः । पाक इत्यादी क्रियान्तराकाडादर्शनात्, सर्वसंख्यादियोगदर्शनाच। तत्रापि प्रकृत्या साध्यावस्थापन्नस्यैवोपस्थित्या 'ओदनस्य पाकः' इत्यादौ न कारकान्वयहानिः ।
कृदर्थनिरूपणम् । १०८३ अध्याहृततिङन्तार्थक्रियायां तत्र कारकान्वय इति तु न युक्तम् । “नलोक-"इतिनिषेधेन कृद्यो- गषष्ठ्यनापत्तेः । "कर्तृकर्मणोः" इत्यस्य वैयोप- तेश्च । 'काठैः पाकः' इति त्विष्टापत्तिग्रस्तम् । नचैकस्यैव सिद्धत्वसाध्यत्वाभ्यामुपस्थितिः क- थम्, विरोधादिति वाच्यम् । यथा सम्बन्धिभेदेनैक- त्रैवाचार्यत्वं मातुलत्वं च, तथा कारकलिङ्गादिसम्ब- न्धिभेदेन साध्यत्वस्य सिद्धत्वस्य चैकत्र विरोधस्यै- वाभावात् । यथा वा 'मृगो धावति पश्य'इत्यादौ धावनस्य मृगं प्रति साध्यत्वं दर्शन प्रति च साधन- त्वं तद्वत् । एकस्यैव धात्वर्थस्य साध्यत्वेन प्रकार. ता सिद्धत्वेन विशेष्यता । एकनिष्ठत्वाच्च तयोन स्फुटं ग्रहो बोधे। एतेन घञ्चाच्यो भावः प्रधानमिति ग्रन्था व्या- ख्याताः। तदुक्तं "कर्तरि कृद"इति सूत्रे भाष्ये "घनादि- वाच्यो भावो बाह्यः प्रकृत्यर्थात्" इति । "तुमुनादिवाच्यस्त्वभ्यन्तरः" इति "तुम"इति सूत्रे भाष्ये। तत्र शोभनार्थस्य धात्वर्थफलान्वये शो- भनं पाकः' इत्येव । “कर्तृकर्मणोः इति षष्ठी तु न । कर्तसाहचर्येण कर्मणां धात्वर्थे भेदेनान्वयिन एव तत्र ग्रहणात् । स्पष्टं चेदं "पूजनात्पूजितम्" इत्यत्रा. ष्टमे भाष्ये। एतच निरूपितम्-“कर्तृकर्मणोः" इति सूत्रे शब्दे- १०८४ काद्वयोपेतायां लघुमञ्जूषायाम् । न्दुशेखरे । व्यापारान्वये तु 'शोभना पाक'इत्येव । तस्यक मैत्वाभावेन तद्विशेषणे द्वितीयाया अप्राप्तः । ति. ङन्तार्थव्यापारान्वये तु नपुंसकतव । एतेन घनादीनां प्रयोगसाधुतामात्रमित्यपास्तम्। तदुक्तम्- आख्यातशब्दे भागाभ्यां साध्यसाधनवर्तिता। प्रकल्पिता यथा शास्त्रे स घनादिष्वपि क्रमः ।। साध्यत्वेन क्रिया तत्र धातुरूपनिवन्धना । सिद्धभावस्तु यस्तस्याःस घादिनिबन्धनः॥इति। सिद्धभावः सिद्धत्वम् । यथा पचतीत्यादौ कल्पि. तान्वयव्यतिरेकाभ्यां धातुभागः क्रियायां प्रत्ययः का. रके इति कल्पनाऽऽश्रीयते, तथा प्रकृतिः साध्यस्वभा- वमाचष्टे, घम् तस्याः सत्त्वभावमित्यर्थ इति हेलारा- जः । अनेनात्रापीयं शास्त्रकृत्कल्पनैवेति दर्शय- ति । स्पष्टं चेदं "भावे" "सार्वधातुके य"इति सत्रयोभीष्ये । साध्यत्वेन भानादेव क्रियाक्रियो। पपदे विधीयमानतुमुनादिसिद्धिः-'भोक्तुं पाक'इ. त्यादि, क्रियापदस्य साध्यत्वविशिष्ट एव वृत्तेः । 'पदार्थः पदार्थेनान्वेति'इति न्यायस्तु क्रियातिरि- क्तविषय एव । 'भोक्तुं गतो' 'देवदत्तेन ग्रामो गतः' 'कृतपूर्वी कटम्' इत्यादौ कारकाणां गुणभूतक्रियाया- मन्वयात् । साध्यावस्थस्य प्रकारतया भानात् तस्य प्रसज्यप्रतिषेधरूपनार्थे ऽन्वयेन तेन द्वित्वावछिन्नपा- कदर्थनिरूपणम् । १०८५ कामावकर्तृका सत्तेति बोधाभिप्रायेण पाको ना. स्तीति न । वस्तुतो भोक्तुं पाको भोक्तुं गत इत्याचसा- ध्वेष । क्रियायां क्रियायामित्युक्त्या प्रत्यासत्या क्रिययोरेकजातीयत्वलाभेन स्वप्रकृतिकप्रत्ययार्थ प्र- त्यगुणीभूतायाः साध्यावस्थमात्राया एवं क्रियार्थ- क्रियाया ग्रहणात् । ध्वनितं चेदम् “उपपदमति" "गतिकारकोपपदात्कृ"इतिसूत्रयोर्भाष्य इत्यन्यत्र अपश्चितम् । किञ्च यत्र कार्य क्रियावाचकशब्दग्रहणं तत्रो. कक्रियाया एव ग्रहणम् , यत्र तु क्रियारूपार्थग्रहणं तत्र गुणीभूतादेरपि ग्रहणम् । अत एव गतपाकादियोगे कारकविभक्तिकृस्व- सुस्वादीनां साधुत्वमित्यन्यत्र विस्तरः ॥ ४५ ॥ (कुं०टी०) *कर्तृकर्मणीइति । नामार्थयोरभेद इति न्यायात् । *व्यत्यासइति । पक इत्यत्यत्र व्यापारजन्यविक्लित्याश्रय इति घोधात् । *लिखन्नास्तेइति । अतिमानवी प्रति सख्या इयमुक्तिः। दयितः भूमि लिखन् वहिरास्ते इत्यन्वयः । *अध्ययनमिति । जपन्नित्यस्य पठन्नित्यर्थः । * अबुद्धिपूर्वकत्वादीति । अत ए. व तत्र लिखतीति नोक्तम् । *गलद्रक्तेति । रामसैन्येन परिवृतां लङ्कां वीक्ष्य रावणस्येयमुक्तिः । छिमगलक्षरद्रता धाराप्रक्षालितशंभुचरणप्रसादस्य किमिदं फलमित्यर्थः । भावार्थानामित्यस्योचरत्र सर्वत्रान्वयः । धातोर्भावना .
१०८६ टीकाद्वयोपेसायां लघुमञ्जूषायाम् । र्थत्वे काष्ठैः पाक इत्यपि स्यादिति मीमांसकोक्तं नि. राकरोति *इष्टापत्तिग्रस्तमिति । * आचार्यत्वमिति । त. दुक्तं भाष्ये “मातुलस्य भागिनेय उपाध्यायस्य शिष्यमाह मातुलं भवानभिवादयतामिति स गत्वोपाध्यायमभिवादयते"। * वाह्यइति । तस्य लिङ्गसंख्यादियोगात् । *शोभनं पाक इति । व्यापार प्रति फलस्य कर्मत्वात् । मन्दं गच्छतीति प्रयोग सा. धयति *नपुंसकतैवेति । तुमुनादिसिद्धौ हेतुं दर्शयति *क्रि- यापदस्येति । साध्यस्यैव क्रियापदशक्यत्वादित्यर्थः । *प. दार्थ पदार्थेनेति । पदार्थैकदेशसाध्यक्रियायां कथमन्वय इत्यर्थः । *एकजातीयत्वेति । तच्च साध्यस्वभावत्वेन । ए. वंच तिङन्तयोगे एव तुप्लुनः साधुत्वमिति भावः । ध्वनि. तमिति । अतिङ्ग्रहणस्य क्रियावाचिनि लक्षणया कार- को गत इत्यत्र समासनिषेधायानिङ्ग्रहणमित्युक्त्वा नैतत् क्रिया- वाचीति तत्रोक्तः । *उक्तक्रियाया एक्-साध्यावस्थक्रियाया एव । *कृत्वसुजिति । यद्यपि अभ्यावृत्तिः क्रियाया एव भव. तीति "संख्यायाः क्रियाभ्यावृत्ति-"इति सूत्रे क्रियाग्रहणं साध्य- स्वभावक्रियालाभार्थं तथाऽपि "द्विवचनेऽचि"इति निर्देशान्सि- दक्रियाया अपि ग्रहणम् । क्रियाग्रहणं तुत्तरार्थम् । "कर्तृ- कर्मणोः" इत्यादिसूत्रं च कारकान्वये मानम् ।। ४५ ।। (क० टी० ) अथ धातुप्रकृतिकदर्थ निरूपयति * कर्तृकर्मेति। वाच्यत्वे बीजमाह *तयोरिवेति । आदिना संख्या । तत्र-तेषां मध्ये । *लिखनिति । तत्र हि पदैकदेशरचनावर्णेष्वपि रसादय इत्यस्य व्याख्यावसरे तिसुपोय॑झ्यस्य द्वितीयोदाहरणत्वेन- लिखनास्ते भूमि बहिरवनतः प्राणदायतो निराहाराः संख्यः सततरुदितोच्छूननयनाः ॥ ।
कुदर्थनिरूपणम् । १०८७ च-तस्य परित्यक्तं सर्व हलितपठितं पञ्जरशुकैः तवावस्था चेयं विसृज कठिने मानमधुना ॥ इति- संलिख्यात्र लिखन्निति नतु लिखतीति, तेन शत्रा लेखनस्या- प्राधान्यमबुद्धिपूर्वकत्वरूपम्, आस्ते इति-न त्वासीदिति, तेन त थावस्थानस्य प्रसादपर्यन्तता, भूमिमिति न तु भूमाविति तेन बुद्धिपूर्वकं भूमौ न किञ्चिल्लिख्यते इति व्यंग्यमित्युक्तम् । अग्रिमानुरोधेनाह *अध्ययनेति । तादर्थ्यस्येत्यस्य चंक्रमणे जपार्थत्वस्येत्यर्थः । तदाह *उभेति । तुर्यपादार्थमाह *शब्देन- विति । तत्राऽपि विशेषमाह *क्वचित्त्विति । उक्तमिदम् । *एवं तत्र विशेषणत्वे च । तत्र नामार्थे व्युत्पत्तिवैचि- ज्यादाह *गलदिति । कर्मधारयः। भावेत्युभयविशेषणम् । अत एव भेदेनाह *नपुंसक इति । *अतः-क्रियायां स्वत एक- स्वाद्, आरोपनिमित्ताभावाच ननु तथे कथं लिङ्ग- योगो ऽत आह *सत्त्वति दृष्टान्त दानेन तस्यादृष्टच. रत्वं निरस्तम् । तन्मूलकमेवानतिप्रसङ्गायाह *तत्रेति । लिङ्गानां मध्ये इत्यर्थः । लौकिकशास्त्रीयलिङ्गाभावादाह *लिङान्तरेति । बीजं तूक्तरीत्या निर्वाहे एतत्कल्पनमफलमिति । विशिष्योक्तः फलमाह *घञादीति । आदिना क्तिनादि । *क्रियान्तराकाङ्क्षति । सर्वसंख्यादियोगेति पाठान्तरम् ! यत्किश्चिद्योगस्य पूर्वत्रापि सत्वा- सर्वेत्युक्तम् । विवक्षया शास्त्रीयसम्भवे त्वाह *लिङ्गेति । सर्व- लिङ्गसाधारणत्वाच्चेत्यर्थः । ननु सत्त्वस्यान्याहशत्वे ततः कथं तत्सिद्धिरत आह लिनेति । तत्र-निरुक्ते । एकदे. शिमतमाह *शायतव्येति । आदिना लिङ्गत्वावच्छिन्नम् । नन्बोदनस्य पाक इत्यादी कारकान्वयो न स्यात् । सा. ध्यावस्थापनक्रियास्वेव तदन्वयव्युत्पत्तेरत आह *तत्रापीति । घअन्तेऽपीत्यर्थः । परमतं खण्डयति *अध्याहृतति । *क्रियायाम्- तस्यामेव । तत्र-ओदनस्य पाकइत्यादौ । तद्वत्तत्रापि तथैवेत्याह *इत्यस्येति । नन्वेवं काष्ठः पाक इत्यपि स्यादत आह *काष्ठः पाक इति । *कथम्-एकदेत्यादिः । *सम्बन्धीति । शिप्यभा- गिनेयेत्यर्थः । क्रियाविषयमेव दृष्टान्तमाह *यथावेति । एतेन १०८८ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । पाक इत्यादौ पारद्वयं बोधः स्यादित्यपास्तम् । ननु प्रत्ययार्थान्व- ये स्तोकः पाकः प्रकृत्यर्थान्वये स्तोकं पाक इति विरुद्धम् । सिद्ध. स्वान्वये पुंस्त्वस्य दुरुपपादत्वादत आह *एकस्येति । तयोः प्रकार- ताविशेष्यतयोः। बाह्यत्वस्य अन्यथाऽसम्भवादुक्तमेव तत्तापर्यम्। तत्र विशेषणोक्तिफलमाह *तुमुनादीति । तथा तत्र भेदाभावात् । तदेवाह तति । घनाद्यन्त इत्यर्थः । इत्येवेति । पाकादिप- देभ्यो ऽपि फलस्य साध्यत्वेनैवोपस्थापनात् । कथं स्पष्टमत आह *एतञ्चति । *तस्य-व्यापारस्य । * नपुंसकतैवति । ज्योतिष्टोमेन भक्तिपूर्व यजेतेत्यादौ परं तु प्रथमा नतु द्वितीया उक्तहेतोः । नै- यायिकनव्योक्ति खण्डयति * एतेनेति । उक्तप्रयोगाणामिष्टत्वेने. स्यर्थः । *घनादीनाम्-संख्यावर्तमानत्वाद्यबोधकानाम् । तदुक्तम्- हरिणा । पूर्वानुरोधेनाह *सिद्धत्वमिति । तदर्थमाह यथेति । सिद्धान्ते तयोरप्यसस्वस्य प्रागुक्तत्वादाह *कल्पितेति । प्राप्ता. प्रासविवेकन्यायेनाह *सत्त्वभावमिति । तस्य फलान्तरमाह *साध्यत्वेनेति नन्वेवं पदार्थः पदार्थेनेति न्यायविरो. धो ऽत आह *पदार्थइति । तत्र मानमाह *भोक्तुमिति । न. न्वेवं पाकादिपदोपात्तस्य प्रसज्यप्रतिषेधार्थकनअर्थेऽन्वयापत्तौ पा. कौ नास्तीत्याद्यपि स्यात्तथा बोधसम्भवादत आह *साध्येति । एकत्र विशेषणतयेति व्युत्पत्तेः । *तस्य-प्रकृत्यर्थस्य । घञ्योत्यस्तु न क्रियति न तत्र तस्यान्वयः। इदं प्राचीनमतमिति सूचयन्सिद्धान्तमाह *वस्तुत- इत्यादि । यद्यप्यायेनैवोभयनिरासस्तथाऽपि तस्याः स्वरूपमाह *साध्येति । *अन्यत्र-शब्देन्दुशेखरे । नन्वेवं पञ्चकृत्वः पाक इत्याद्यपि न स्यादत आह किश्चेति । अभ्यर्हितत्वादाह *कारकति । आदिना वत्तिः। अत एव द्विष्प्रयोगो द्विवंचनेऽचीत्यादि. प्रयोगसङ्गतिः। अतिप्रसङ्गस्त्वभिधानान्न तदाह *इत्यन्यत्रेति । उद् द्योतादावित्यर्थः ॥४५॥ - तुमुन्नादीनामसत्वभूतो भाव एवार्थः । “अव्ययकृ. तो भावे"इत्युक्तेः। पाक इत्यादाविव तुमुनर्थे वैलक्ष.
कृदर्थनिरूपणम् । १०८९ ण्याननुभवात् । एवं चायं धात्वर्थानुवादक एव । तत्र "तुमुण्ण्वुलौ क्रियायां क्रियार्थायाम्" इत्युक्तरु- देश्यत्वरूपं तादर्थ्यमपि तुमुन्द्योत्यम् । तच्च संसर्गः । प्रकृत्युपपदार्थयोस्तादर्थ्यवत्समानकर्तृकत्वमपीहाभि- धानबललभ्यः संसर्गः। क्रियान्तराकासानुत्थापकतावच्छेदकबैजात्येन तु न भानम् तदाकासादर्शनात् । कारकान्वययोग्यताव- च्छेदकजात्येन तु भानमस्त्येव । एतद्विहितण्वुल् तु कर्तर्येव । 'कृष्णं द्रष्टुं याति' 'तं दर्शको याति'इत्यादौ कृष्णकर्मकभविष्यदर्शनो- द्देश्यकं दर्शनकर्तृकर्तृकं यानम् , कृष्णकर्मकभविष्य- दर्शनकर्तृकर्तृकं तद्दर्शनोद्देश्यकं गमनमित्यादिरी- त्या बोधः। एवं क्त्वाणमुलादीनामपि असत्त्वभूतभाव एवा. र्थः । तुमुन्वत् क्त्वाप्रकृत्यर्थक्रियाऽपि क्रियान्तरे वि. शेषणम् । धातुसम्बन्धाधिकारात् । तयोः संबन्ध एककर्तृकत्वं पूर्वकालत्वोत्तरकालत्वं च । समा. नकर्तृकयोः पूर्वकाले क्त्वेत्यनुशासनात् । समानक- तकयोरिति निर्धारणे सुप् । पूर्वकाले इति बहुव्रीहिः । समानकर्तृकयोः क्रियारूपार्थयोर्मध्ये पूर्वकालसंबन्ध्य. र्थवाचकाद्धातोः क्त्वेत्यर्थः । एवं वाक्यशक्योक्त- सबन्धतात्पर्यग्राहकाः : क्त्वादयः । सूत्रबलादेव तयोः क्रिययोरेककर्तृकत्वबोधः। कचित्तु जन्यत्वव्याप्यत्वादिकमप्यधिक भास- ते । तत्तु टीकाद्वयोपेतायां लघुमञ्जूषायाम् । मानान्तरगम्यत्वान्न क्त्वाद्योत्यम् । यथा भुक्त्वैव तृप्तो न पीत्वा, अधीत्य तिष्ठती- त्यादौ । अत एवाध्ययनकालिकस्थितिमादायैवाधी- त्य तिष्ठतीति प्रयोगो न तदभावकालिकास्थितिमा- दाति बोध्यम् । तदपि संसर्गमर्यादयैव भासते। एतेन समानकर्तृकत्वं क्त्वावाच्यमित्यपास्तम् । संसर्गमर्यादयैव लाभेनान्यलभ्यत्वात् । "कर्तरि कृद्" इसस्य तु नात्र प्रवृत्तिः, 'अन्य. यकृतो भावे'इत्युक्तेः । तम्राच्यवाहितपूर्वकालत्वाधेय संसर्गः। अत एक वर्षान्तरीयभोजनमादाय भुक्त्वा व्रजतीति न। अव्यवधानं च तात्पर्यवशाद्दण्डमुवाहरादि- भिर्यथायथं बोध्यम् । तेनाद्य भुक्त्वा श्यो गन्ते- त्याग्रुपपत्तिः। नच पूर्वकालत्वादेः संसर्गत्वे मुखं व्यादाय स्व- पितीति न स्यात् । व्यादानस्य स्वापपूर्वकालत्वा- भावादिति वाच्यम् । व्यादानोत्तरमपि स्वापानुवृत्त्या तमादाय तदुपपत्तेः । अत्र कालिकसम्बन्धेन व्याप्यत्वमपि भासते। तेन व्यादानोत्तरं स्वापे कृते तदनुवृत्तावेव तथा प्रयोगो न तु मुखमीलने तथाप्रयोगः । तदातननि. द्रायास्तव्याप्यत्वाभावात् । "दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेत' इत्यादी कुदर्थनिरूपणम् । दशादियागवैशिष्टयस्य सोमयागे विधानम् । अतो द- र्शादितः प्राक् सोमकरणे प्रत्यवायसिद्धिः । दर्शमात्र करणे सोमाकरणे च तदलावसिद्धिः । आधानोत्तरं तावत्कालं संदिग्धजीवनस्वातिश्रद्धावतस्तु ततःप्राक् सोमानुष्ठाने ऽपि न प्रत्यवायः । 'प्रागपि सोमेनेक' इत्याइवलायनोक्त। उत्तरकालमा पूर्वकालमात्रं वा संवन्ध इति तु न युक्तम् । संबन्धस्योभयनिष्ठताऽऽवश्यक- स्वात् । तत्रोत्तरकालवृत्तित्वं न तद्वंसाधिकरण. कालवृत्तित्वं स्थित्वा पश्यतीत्यादावभावात् किन्तु तदधिकरणसमयध्वंसाधिकरणसमयोत्पत्ति कत्वम् । उत्तरकालस्य प्रत्ययार्थत्वं तु न युक्तं कृति प्रत्ययार्थस्य विशेष्यत्वदर्शनात्तस्य विशेष्य- त्वापत्तौ क्रियाप्राधान्यविरहेणाभीक्ष्ण्ये दिवाभावा- पत्तः । गुणभूतक्रियामाश्रित्य तत्प्रवृत्तौ पाचक इत्या- दावतिप्रसङ्ग इति प्राचः ॥ ४६ ।। (कुं० टी.) अमचभूतवाचकत्वे युक्तिमाह पाक इत्यादावित्रेति । यथाऽत्र लिङ्गसंख्यान्वयित्वरूपं वैलक्ष. ज्यमनुभूयते न तथा तुसुनादावित्यर्थः । * अयमिति । तुमुनि- त्यर्थः । *द्वयोः-वाक्ययोः । क्रमेण शाब्दबोधं दर्शयति- *कृष्णकर्मकेत्यादि। *वाक्यशक्येति । संसर्गस्य वाक्यल- भ्यत्वात् । एतेनैषां पराभिमतं क्त्वावाच्यत्वं निराकृतम् । तत्र चैत्रभोजनोत्तरं मैत्रस्य गमने चैत्रेण भुक्त्वा मैत्री गच्छतीति प्रयोगवारणाय समानककत्वस्य संसर्गता १०९२ टीकाद्वयोपेतायो लघुमञ्जूषायाम् । ननु- अवजानासि मां यस्मादतस्ते न भविष्यति । मत्प्रसूतिमनाराध्य प्रजेति त्वां शशाप सा ॥ इत्यत्र भिन्नकर्तृके कथं क्त्वापत्यय इति चेत्, तत्रानाराध्य स्थितस्येति क्रियान्तराध्याहारात् । ननु भुक्त्वैव तृप्तो न पीत्वे- ति प्रयोगानुपपत्तिः । तृप्तौ भोजनातृप्तस्येव पानातृप्तस्याप्यवि- शिष्टत्वादत आह *जन्यत्वेति । कदाचिदध्ययने अधीत्य तिष्ठतीति न प्रयोगः, किन्तु निरन्तराध्ययने एवेत्यभिप्रेत्या- ह व्याप्यत्वादिकमपीति । व्याप्यत्वं चात्र कालिकम् । तथा च स्थितिसमानकालिकाभावाप्रतियोगित्वमध्ययने लभ्य. ते । तत्र चैत्रीयाध्ययनसमानकालिकमैत्रस्थितौ कालिकन्या- प्यत्वसत्वादुक्तप्रयोगवारणाय सामानाधिकरण्यविशिष्टव्या- प्यत्वमेव संसर्गो बोध्यः । *मानान्तरेति । तात्पर्यादी. त्यर्थः । एतेन क्त्वो नानार्थत्वं वदन्तः परास्ताः । अधिकमित्यु- त्या पूर्वार्थसमुच्चयलाभेन नानार्थत्वाभावात् । व्याप्यत्वप्रतीतेरेव मुखव्यादानशून्यकाले मुखं व्यादाय स्वपितीति न प्रयोगः । “वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेत" इत्यत्र क्त्वामत्ययेन वाजपेयाङ्गत्वं बृहस्पतिसवस्य बोध्यत इति मीमांसकाः। *वर्षान्तरीयेति । न केवलं पौर्वापर्य सम्बन्धः किन्तु अव्यवधानगर्भमिति भावः । एतेन पूर्वकालत्वं क्त्वावाच्यमभ्युपेख व्यवधाने तथाप्रयो- गमभ्युपगच्छन्तः परास्ताः।
कृदर्थनिरूपणम् । , ननु क्रियान्तरानुकूलक्षणविलम्बाभाववश्वमव्यवधानम् । तत्र च क्षणे विषयान्तरसञ्चारे ऽपि भुक्त्वा बजतीति प्रयोगात्तादृशमव्यवधानं दुर्वचमतस्तदुत्पत्तिक्षणोत्पत्तिकध्वं- सप्रतियोगिकालत्वमेवाव्यवहितपूर्वकालत्वं वाच्यम् , तत्र च कालस्यानुगतस्य विशेषयितुमशक्यत्वमत आह * *तात्पर्यशा- दिति | *वैशिष्टयस्येति । दर्शायुत्तरकर्तव्यतायामावश्यकत्वेन तात्पर्यमिति भावः । *नप्रत्यवायइति । अत्रेदं चित्यते-एकस्यैव कर्मणः कथं मतभेदेन धर्माधर्म- जनकत्वम् । नहि षोडशिग्रहणाग्रहणयोः कदाऽप्यधर्मजनक- त्वम् । अत एवोदितानुदितहोमयोः सूत्रभेदेन विकल्पः । तस्मात्स्मर्तृभेदादुभयोरपि धर्मत्वमेव न्याय्यमिति । पूर्वकालत्वं न क्त्वावाच्यम् । भोजनपूर्वकालिकं गमन. मिति बोधापत्तेः किन्तु उत्तरकालिकत्वमिति मणिकारमत. निराकरोति *उत्तरकालस्येति ॥४६॥ ( कं० टी ) पूर्वत्र सस्वरूपताप्रतिपादनाद्विशेषमाह *तुमुनेति । द्वितीये मानमाह *अव्ययेति । आधे मानमाह * पाक इति । * एवं च-तस्यैव तदर्थत्वे च । *तत्र-तुमुन्नन्ते । तार्थ्यस्यानेकवि. धत्वादाह *उद्देश्येति । तस्यात्र न प्रकारत्वम्, अनन्यलभ्य इति न्यायादित्याह *तञ्चेति । *इह-तुमुनन्ते । *अभिधानम्- सूत्रम् । भूषणादिमतं खण्डयति *क्रियान्तरेति । स्वमते इष्टसिद्धि. माह *कारकेति । आदिपदग्राह्यो न पवुलित्याह *एतद्विहितेति । तत्र तुमुन्प्रकृत्यर्थ उपपदार्थ प्रति विशेषणं नात्रेत्याह *कृष्ण- मिति । आदिसंग्राह्यमेव विशदयति *एवमिति । अत्रादिग्राह्य चि. न्त्यम् । *एवार्थ इति । हेतुरुक्त एव । *तुमुन्वत-तुमुन्प्रकृत्यर्थ- क्रियावत् । अपिना णमुल्प्रकृत्यर्थक्रियासमुश्चयः । तत्र मानमाह *धाविति । प्रत्यया इति तु प्रत्याख्यातमेव । अन्यत्र विशे- १०९४ टीकाइयोपेतायां लघूमपायाम् -- पणत्वेनेति व्युत्पत्तिस्त्वसति गमक इति भावः । तयोः- धात्वर्थयोः । तत्र मानमाह *समानेति । एकेत्यर्थः । ततस्त- ल्लाभे साधनमाह *लमानेति । पष्ठीसतम्योः संग्रहायाह * मुविति । *एवं च-तथा सूत्रार्थे च । उक्तेति । एककर्तृत्वादीत्यर्थः । इद- मन्यदेव द्योतकत्वं प्रागुक्तेभ्यः । नन्वेतावना द्वितीयसंबन्धबोधेऽपि कथमाद्यसंबन्धवोधः,तस्य तदवाच्यत्वादत आह * सूत्रति। *समा- नेति। तद्विशेषणवलादेवत्यर्थः । तयास्तद्वत्तदापि सर्व क्त्वद्योत्यामिति। भूषणाद्युक्तेरसांगत्यायाह *क्वचित्रिवति । आदिना व्यापकत्वम्। *मा. नान्तरेति। एवकारतात्पर्यादीत्यर्थः। यथेति।आये जन्यत्वम् द्वितीये च्याप्यत्वम्। आदिना यथाक्रम भुक्त्वा ब्रजति ईश्वरो ज्ञात्वा तिष्ठती- त्यादि । *अतरव-तयोः कालिकव्याप्तेभीनादेव । प्रकारत्वादिनिरा. सायाह *तदपीति । जन्यत्वादिकमपीत्यर्थः । मीमांसकमतं खण्ड- यति * एतेनेति । अस्यार्थमाह *संसर्गेति । भुक्त्वा व्रजतीत्यादौ बाघलक्षणे एकैकाधिकरणे ऋत्विगभ्युच्चयाधिकरणेच समानका र्तृकत्वमर्थमादाय पूर्वपक्षसिद्धान्तो कृती तत इतिसमानकर्तृकता पूर्वकालता च प्रतीयत इति देवताधिकरणे भामत्युक्तिस्तु सिद्धा- न्ते नानुपपन्ना । तत्प्रकारकाधानुभवस्तु नास्त्येव । एतनापूर्वका. लिकत्वमात्रं शक्यमिति जीर्णनैयायिकोक्तम्, अव्यवहितपूर्वकालि- कत्वमात्रं शक्यमिति वक्ष्यमाणोपपत्तिकं ततो नव्योक्तम्, पूर्व- कालिकत्वं न शक्यं भुत्वा व्रजतीत्यादी भोजनोत्तरं व्रजतीत्यन्व. यबोधात् व्रजनपूर्वकाले भोजनमित्यबोधाच्च तस्मादुत्तरकालरूप- मानन्तर्य शक्यमिति ततो नव्योक्तमप्यपास्तम् । तदेतद् ध्वनयन्भू. षणकारादिमतमाह *तत्रेति । तयोर्मय॑ इत्यर्थः । अनतिप्रसङ्गा- याह * अव्यवति । दण्डो घटी। आदिना दिनादि । *तेनेति । तत्र दिनकृतव्यवधानाभावात् । *तदुपपत्तेः-तथाप्रयोगोपपत्तेः । नन्वेवं मुखव्यादानोत्तरं स्वापानुवृत्तावेव मध्ये मुखमीलने सति तथा प्रयोगापत्तिरत आह *अत्रेति । उक्तप्रयोग इत्यर्थः । दैशिकनि. रासायाह *कालिकेति । *तदिति । व्यादानानुवृत्तावेवेत्यर्थः । ननु पूर्वकालत्वादेः संसर्गत्वे सोमयागप्रकरणस्थवाक्ये सोम- यागपूर्वकालत्वस्य दर्शादौ विधानात्तथा सोमाकरणे दर्शा- दिमात्रकरणे प्रत्यवायापत्तिरत आह *दर्शति । विनिगमनाविरहेण कुदर्थनिरूपणम् । १०९५ तयोरत्यागादाह *दर्शादीति । विशिष्टविधावपि प्राप्ताप्राप्ताविवे- कन्यायेनेति भावः । अत्र मतान्तरमाह *आधानोत्तरमिति । *ताव- त्कालं दर्शादिपर्यन्तम् । उक्तार्थसिद्धरन्यथोपपत्त्या न तत्र तदैशिक- विधानमिति भूषणायुक्तं खण्डयति *उत्तरेति । इदं चारम्भे प्रपश्चि- तम् । नैयायिकनव्योक्तं खण्डयति तत्रोत्तरेति । विशिष्टसंबन्धमध्य इत्यर्थः । * तत्-पूर्वक्रिया । *स्थित्वेति। स्थितेईर्शनकालेऽपि सत्त्वा- त् । *तदधीति । पूर्वनियोत्पत्त्यधिकरणक्षणध्वसेत्याद्यर्थः । नैया- विकनन्योक्ति खण्डयति * उत्तरति । तद्रूपानन्तर्यस्येत्यर्थः । इष्टाप- सावाह *क्रियेति । ननु तत्र यथाकथंचिक्रियाग्रहणमत आह * गुणेति । *प्राञ्चः-भूषणकदादयः ॥ ४६ ॥ परे तु समानकर्तृकयोरर्थयोर्मध्ये पूर्वकालविशि- टार्थवृत्तेधातोः क्त्वेति मूत्रार्थात् पूर्वकालः क्वाप्रक- त्यर्थे प्रकारः, तबलादालन्तर्थलम्बन्धेन तस्य धात्वन्त- रार्थे ऽन्वयः । अत एव भाष्ये समानकर्तृकत्वेन पूर्व भुते प. श्वाजतीत्यत्र क्त्वाप्रत्ययमाशङ्ग्य स्वशब्देनोक्तत्वा- नेति परिहतम् । पूर्वशब्दस्यात्र पूर्वकालो ऽर्थों न तु धातोस्तत्र वृत्तिरिति तदर्थः । नतूक्तार्थाना- मप्रयोग इति तदर्थः । तथा सति"इह कस्मान्न भवति आस्यते भोक्तुम्" इति शङ्कापरभाष्यासङ्गतः। तत्रापि फलार्थकतुमुना पूर्वकालत्वस्यासिक्रियायां द्योतित. त्वेन तदप्राप्तेः । तत्र पूर्वकालत्वस्याप्रतीतौ तु कथं क्त्व आपादनम् । वासरूपन्यायेन लटा साधितमित्य- न्यत् । यदा स्वासेः क्त्वा तदा भुजेस्तुमुननभिधा- नान्नेति कैयटः । पूर्व भुक्त्वा पश्चाद्वजतीत्यादावन्ये. भयो भोक्तृभ्यः पूर्व भुक्त्वा अन्येभ्यो ब्रजितृभ्यः प- १०१६ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । चाइजनीत्यर्थ इनि । साधनोत्तरक्रियापेक्षपौर्वका- ल्यमिति "विभाषाऽग्रे"इति क्त्वा आनन्तर्यसम्बन्धे. न पूर्वकालिकदर्शादिवैशिष्ट्यं च सोमे विधीय. त इति न तत्र दोषः । एवंच पूर्वकाल इति कर्मधारय एव । भूत इति तु नोक्तं लाघवानादरात, तत्त्वेन बोधाननुभवाच । एवं च षष्ठयाः सम्बन्धवाचकत्ववदेषामपि समान- कर्तृकत्वादिरूपसम्बन्धवाचकत्वं वक्तुं शक्यमिति पाहुः॥४७॥ (कुं०टी०) *परेविति । समाने कर्तरीति वाच्ये निर्धारण- विभक्त्या द्योत्यत्वं लभ्यते । निर्धारणविभक्तिवलादेव च पूर्व काल इति वहुव्रीहिः । निर्धारणस्य च समानविषयत्वात् क्रिया लभ्यते । अत एवोक्तम्-*विशिष्टार्थत्तेर्धातोरिति । *प्रका- र इति । भुक्त्वा व्रतीत्यत्र पूर्वकालभोजनकर्तृकर्तृकं वजनमि- त्यर्थात् । तद्धलादिति । पूर्वकालत्वेनानन्तर्याक्षेपात् । *अत एवेति । पूर्वकालविशिष्टे ऽर्थे वर्तमानाद्धातोरित्यर्थकरणादेवेत्य- र्थः । *फलार्थकेति । भोजनस्य फलत्वे आसनस्य पूर्वकालत्वं दुर्वारमिति भावः । *विभाषाग्रेइति । साधनपौर्वापर्ये तेन क्त्वो ऽभिधानात् । *आनन्तर्येति । “वाजपेयेनेष्ट्वा बृहस्पति- सवेन यजेत" इत्यत्रानन्तर्यमात्रबोधान्न वाजपेयकाले शरदि कार्य किंतु स्वकाले वसन्त एव । ननु पूर्वकाल इत्येतावतैव गता- थता, भूतत्वं हि समभिव्याहृतक्रियापेक्षमेवेति पूर्वकालत्व एव पर्यवसानादत आह * भूतइतितुनोक्तमिति । एवं चेति । अत्र प्राभाकराः-समानकर्तुकत्वस्य नियमेन प्रतीतेस्तद् कुदर्थनिरूपणम् । वाच्यमेव, पूर्वकालत्वं तु न वाच्यमाक्षेपादेव लाभात् । भोजन- बूजनकोंरकत्वे ऽवगते हि अर्थादेकस्य पूर्वत्वलाभात् । यद्यपि यज्ञोपवीतं वहन् सभ्यान् पश्यन् व्रजतीत्यत्र युगपदनेकक्रियाकत वं सम्भवति तथाऽपि अनेकप्रधानक्रियाकर्तृत्वं युगपदेकस्य न सम्भवतीति युक्त एवाक्षेप इत्याहुः । । भुक्त्वा वूजतीत्यत्र बजनस्यापि पूर्वत्व- सम्भवेन भोजने नियमतः पूर्वकालत्वाक्षेपासंभवात् । नहि पूर्वोपस्थितक्रियाया एवं पूर्वत्वमिति नियमः सम्भवति । न व्रजति भुक्त्वेत्यत्र व्यभिचारात् । अत एव पूर्वभा. विक्रियावाचकपदं प्राक् प्रयुज्यत इत्यस्यापि न नियमः। अन्ये तु समानकर्तृकत्वं न वाच्यं भोजनबूजनकोंरभे- दस्य विशेष्यविशेषणभावमाहिम्नैव लाभात् भोक्तुं व्रजति पश्यन् व्रजतीत्यादिवत् । नहि तत्रापि समानकर्तृकत्वं वाच्य- तन्न म् ॥४७॥ (कं० टी० ) एतत्सूचितामरुचि प्रकाशयन्सिद्धान्तमाह परे- विति । तद्वलादेव-तस्य तत्र प्रकारत्वबलादेव । आनन्तर्य चोक्तरूपं न तु तथेति नोक्तदोषः । *अत एव-तस्य तत्र प्रकारत्वादेव । के- यटायुक्तेरसांगत्यायाह पूर्वेति । *शंकापरेति । तदग्रिमेत्यर्थः । अर्थग्रहणलब्धमाह *फलति । क्रियारूपेत्यर्थः | *तदेति । उक्तार्थत्वेनेत्यादिः । वैपरीत्येऽनिष्टमाह । *तत्रेति । नन्वशा. नेन शङ्कायामपि सिद्धान्तस्तथैवाभिमत इति नोक्तदोषो ऽत आह वालेति । *विधिना न्यायेनेति पाठान्तरम् । कैयटमपि तत्र साधकत्वेनाह यदाविति । ननु पूर्व भुते पश्चाद- जतीतिवदन्यत्रापि इष्टं तदनापत्तिरत आह *पूर्वमिति । इत्या- दावित्यस्य क्त्वा इत्यत्रान्वयः। स्पष्टं चेदं भाष्ये । दर्शपूर्णमा- साभ्यामित्यादावुक्तदोषोऽत्रापि मते इत्याह *आनन्तर्येति । एवं टीकाद्वयोपेतायो लघुमञ्जूषायाम् । च-तस्य तत्र प्रकारत्वे च । लाघवादाह *कर्मेति । एवेन प्रागुं. कबहुव्रीहिव्यवच्छेदः । ततोऽपि लाघवादाह भूत इति । पर्यायेति परिभाषया आह *लाघवेति । *तत्त्वेन-भूतत्वेन । प्राचां मते आह *एवञ्चति । तस्य तत्र प्रकारतया भाने चेत्यर्थः। *एषाम्-क्त्वादी- नाम् 1 आदिना पूर्वकालत्वोत्तरकालत्वम्, सिद्धान्तपरत्वे त्वस्य आदिना आनन्तर्यम् । अस्योत्कृष्टत्वादाह *प्रेति ॥ ४७ ।। नन्वेवमिष्टकाः पक्त्वा ऽहं भोक्ष्ये,अहं भुक्त्वा न. जामीत्यादौ तृतीयापत्तिः। नच तिङन्तेन कर्तुरभिधा- नान्न सेति वाच्यम् । तिङन्तार्थकतुरुक्तत्वेऽपि क्त्वा- न्तार्थकतुरभिधानाभावात् । अनभिहिते भवतीति पर्युदासात् । अत एव प्रासादे आस्ते इत्यत्र स. दिक्रियाधिकरणस्याभिधाने ऽप्यासिक्रियाधिकरण- स्यानभिधानात्सप्तमीति भाष्यादौ स्पष्टम् । तथा प. क्यौदनो भुज्यतं इत्यत्र द्वितीयापत्तिरिति चेन्न । क- चोदेरेकत्वे प्रधानतिङन्तार्थक्रियानिरूपितशत्तयभि. धाने क्त्वान्ताद्यर्थगुणक्रियानिरूपितशक्तरप्याभिहि- तत्वस्य भाष्यादिप्रामाण्येनाङ्गीकारात् । तदुक्तं हरिणा-- प्रधानेतरयोर्यत्र द्रव्यस्य द्रव्यस्य क्रिययोः पृथक् । शक्तिर्गुणाश्रया तत्र प्रधानमनुरुध्यते ॥ प्रधानविषया शक्तिः प्रत्ययेनाभिधीयते । यदा गुणे तदा तद्वदनुक्ताऽपि प्रतीयते ॥ क्रियान्तरसम्बन्धस्य बुद्धिविषयत्वे एव क्त्वः साधुत्वम् । एतेन पूर्व क्त्वान्तार्थमात्रस्प बुद्धिविषयत्वे कुदर्थनिरूपणम् । १०९९ तस्य कर्तृकर्माकासासत्त्वाद् अन्तरङ्गत्वेन द्वितीया- दिकं दुर्वारमित्यपास्तन् । ओदनं परत्वा ग्रामो गम्यते देवदत्तेने त्यादौ द्वितीया भवत्येव कर्म- शत्योरकनिष्ठत्वाभावात् । अत एव "स्वादुर्मि" इति सूत्रे भाष्ये कत्वातु- मुग्णमुलादयः समभिव्याहतेनानुप्रयुज्यमानेन समा. नाधिकरणे तबाच्यकारके वक्तव्याः, तेनोक्तविषये तृतीयादि नेत्युक्तम् । "अव्ययकृतो भावे"इत्याश्रि स्य च प्रत्याख्यातम् । तत्र समानशब्द एकपर्यायः । एवं च क्षुधं प्रतिहन्तुं शक्यमिति कैयटोक्तं चि. त्यम् , बचनारम्भे ऽसिद्धः । क्षुधः प्रतिघातमात्रविशेषणत्वमपि न युक्तम् । "गमेामः कर्म इषेस्तूभयम्"इति सन्मूत्रस्थभाष्य- विरोधात् । अत एव ग्रामो गन्तुमिष्यत इत्येव न तु ग्रामाय ग्रामं वेति । एवं चावृत्त्या उभयत्रापि शाब्दान्वय एव । प्रामो ग्रन्तुमिष्यत इत्यत्र गमिक्रियापेक्षे द्वितीयाच- तुथ्यों न कदाऽपि भवतस्तदपेक्षकर्मत्वस्याप्यभिहि- तवत्प्रकाशादिति कैयटोक्तः । हरिरपि- इषेश्च गतिसंस्पर्शाद ग्रामे यो लो विधीयते । तत्रेषिणैव निर्भोगः क्रियते गतिकर्मणः ॥ इति । संस्पर्शात् इषौ क्रियामुखेनैव द्रव्यसम्बन्धात् । - ११०० टीकाद्वयोपेतायां लघुमजूषायाम् । निर्भोगः, अभिधानम् । इषिणा तद्विहितलादिना। अत एव- पक्त्वा भुज्यत इत्यत्र केषां चिन्न व्यपेक्षते । ओदनं पचतिः सो ऽसावनुमानात्प्रतीयते ॥ इत्यत्र केषां चिदित्युक्तम् । प्रथमान्तदिनपदवा- ध्यस्यायोग्यत्वान्न पचिक्रियया सम्बन्धः, किन्तु भुजिनैवेति न पचिनिरूपिता शक्तिरुपात्ता ओ. दनपदार्थे किन्तु सामर्थ्याद् द्वितीयान्तौदनपदार्थ- स्तत्र गम्यते इति केषां चिन्मतमिति तदर्थ इत्यलम् । आख्यातवाच्यक्रियायाः प्राधान्यात्तां प्रत्येव क्त्वान्तोपस्थिताः सर्वा विशेषणं न तु तासां प. रस्परं सम्बन्धः, गुणानां च परार्थत्वादिति न्या. यात । अत एवानियतः प्रयोगः लात्वा भु- क्त्वा पीत्वा ब्रजति पीत्वा भुक्त्वा स्नात्वे. त्यादि च । आवाह्य षोडशोपचारैः पूजयेदित्यत्रोक्तस. म्बन्धेनावाहनविशिष्टे पूजने षोडशोपचारैरित्यस्य करणत्वम् । तेनावाहनस्य षोडशोपचारान्तर्गतत्वे- ऽपि न दोषः। दक्षिणदेशस्थैरप्राप्य गङ्गां पर्वत इत्यादौ "परा- घरयोगे च"इति क्वा प्राप्यत इत्यध्याहा- रः । अप्राप्यस्यस्य दक्षिणदेशस्थपुरुषकर्तृका नदी कर्मिका आरोपितप्राप्तिरर्थः । सा चोत्तरकालि. कत्वेन पर्वतकर्मकप्राप्तिक्रियान्वयिनी । अत्र परभू- कुदर्थनिरूपणम् । तया नद्या अप्राप्येत्येतद्वारका सम्बन्धः । एवमतिक्रम्य पर्वतं नदी इत्यत्रावरयोगः । उत्प- त्तिकालावच्छिन्नदक्षिणदेशस्थपुरुषककपर्वतकर्मक प्राप्तिध्वसोत्तरकालिकी नदीप्राप्तिरिति बोधः । तेनो- भयत्र क्रमेण प्रागभावसमानाधिकरणत्वं ध्वंस समा. नाधिकरणत्वं चेतरप्राप्तौ फलति । कचित्साक्षात् क्रियाया एक परावरयोगः । यथा अवेर्मा समिति विगृह्याधिकशब्दादुत्पत्तिरित्यत्र । तत्र विग्रहो विभिन्नत्वेन ज्ञानं तदुत्तरकालिकी अविकशब्दावधिका प्रत्ययकर्तृकोत्पत्तिरित्यर्थः । परत्वादिकमत्र लोकव्यवहारादैवक्षिकमित्यन्यत्र विस्तरः। इति कृदर्थविचारः ॥ ४८ ॥ (कुं० टी०) *नचैत्रमिति । क्त्वादीनां भावार्थकत्वे इत्यर्थः । तृतीयापत्तिरिति । भोक्ष्ये इत्यादिना कर्तुरभि- धानेऽपि पक्त्वा इत्यादिभिरनभिहितत्वात्तृतीयापत्तिरित्यर्थः । *प्रधानेतरयोरिति । प्रधानगौणक्रियानिरूपिता यत्र द्रव्ये शक्तिभिन्ना तत्र गौणक्रियानिरूपिता शक्तिः प्रधानमनु- रुध्यते । अनुरोधमेवाह प्रधानविषयेति । यदा प्रधानक्रियानिरूपिता शक्तिः प्रत्ययेनाभिधीयते तदा गुणनिरूपिता शक्तिरनुक्ताऽपि तद्वदेव उक्तवदेव भासत इत्यर्थः । एवं च न गौणक्रियाऽनुरोधेन कारकमिति भावः । *अनुपयुज्यमानेनेति । अनुपयुज्यमानक्रियावाच्ये कारके भवतीत्यर्थः । तेन पक्त्वौदनो भुज्यत इत्यत्र न द्वितीयेति भावः ।
११०२ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । अत्र वचनारम्भे प्रथमामात्रप्राप्त्या प्रत्याख्यानेऽपि तथैव व्याख्ये- यम् । नन्वेवं क्षुषानुपहन्तुमिति कैयटमयोगासङ्गतिः शक्यमित्यने- नाभिधानादिति सर्वतः प्रधानभूताया आख्यातवाच्यक्रियाया एव ग्रहणात् । एवं च क्षुदुपहन्तुं शक्यमित्यपि भवतीति मतं तद् निराकरोति *चिन्त्यमिति । *इपेश्चेति । इच्छते. गतिसबन्धाद् ग्रामे कर्मणि यो लकारो विधीयते तत्रेष्य. स इत्यनेनैव गतिकर्म अभिधीयत इत्यर्थः । *न दोष इति । आवाइनोत्तरकालिके पूजने घोडशोपचाराणाङ्करणत्वात् । *परावरयोगेचेतीति । अवरशब्दोऽत्र पूर्ववृत्तिवाची। परावरश- ब्दयोः सम्बन्धिशब्दत्वाद्यदपेक्षं परावरत्वङ्गम्यते तयोः प. रावराभ्यां योग उच्यते । अमाप्य गङ्गामित्यत्र गङ्गामाप्तिमा. गभावसमानाधिकरणः पर्वत इत्यर्थः । अतिक्रम्येत्यत्र तु पर्वतप्राप्तिध्वंससमानाधिकरणा नदीत्यर्थः । अव्यविकन्याय. स्य स्वरूपं भाष्यकारो दर्शयति अवेसिमिति विगृह्य अवि- कशब्दालत्ययोत्पत्तिरेवेति आविकं मांसमिति । अत्रावि. फशब्दादेव प्रत्ययस्तेनैव च विग्रह इति न्यायाशयं दर्श- यितुं विगृह्येत्यस्यार्थमाह-विभिन्नत्वेन ज्ञानमित्यर्थः । प्रकृत्य- दिविभागस्यातात्विकत्वादाह *वैवक्षिकमिति । अताविक- द्वाराश्रयेणैव शास्त्रप्रवृत्तेः ॥ ८॥ इति श्रीमद्देवीदत्तात्मजरामसेवकसून्वाचार्यकृष्णमित्रक. तायां मञ्जूषाकुञ्चिकायां कुदर्थविचारः ।। (क० टी०) यत्तु परिमले अप्पदीक्षितैरुक्तं समानकर्तृकयोः पूर्व- काले इति स्मरणात्कर्ता क्त्वाद्यर्थः, अन्यथेष्टकाःपक्त्वेत्यादि, सत्या- कुदर्थनिरूपणम् । २१.०३ । ण्डयाते *नन्वित्यादिना। *एवम्-पक्षद्वयेऽपि तस्य क्त्वाद्यर्थत्वाङ्गी- कारे । सिद्धान्तेनाह *तिङन्तेनेति । शक्तिमतोऽभेदेनाह *तिङन्ता- थेति । नन्वेतायताऽपि निषेधः कुतो नात आह *अनभीति । ननु प्र. सज्यप्रतिषेधः एवायमास्तामत आह*अत एवेतिापर्युदासाश्रयणादे- घेत्यर्थः । दोषान्तरमाह तथेति । धर्मभेदे ऽपि न धर्मिभेद इत्याह *कर्नादेरिति । वैपरीत्यनिरासायाह *प्रधानेति । शक्तिरित्यस्य मध्यमणिन्यायेनान्वयः। क्रियाद्वयनिरूपिता एकाश्रयनिष्टा भिन्ना श. क्तिरित्यर्थः । *तत्र-विषये । तयोर्मध्ये वा । अनुरोधमेवाह' *प्र- धानेति । तक्रियानिरूपितेत्यर्थः । *यदेति । पूर्वान्वयि । विशेष- माह क्रियान्तरेति । समानकर्तृकयोरित्युक्तरिति भावः । *बुद्धी- ति । पूर्वमित्यादिः । कैयटायुक्ति खण्डयति *एतेनेति । तथा स- त्यन्तरङ्गत्वाभावेनेत्यर्थः । मात्रपदेन क्रियान्तरसम्बन्धव्यवच्छेदः । आदिना तृतीया।* दुर्वारमिति । नहि तत्काले प्रधानक्रियानिरूपित. शक्तीनमस्ति नापि तदभिहितत्वस्येति भावः । एकनिष्ठेत्यस्य फल- माह *ओदनमिति । *कर्मेति । प्रधानक्रियागुणक्रियानिरूपितश. क्योरनेकत्वेन तदभिधाननैतदभिधानाभावादित्यर्थः ।भाध्यादीत्यु तभाष्यकैयटग्रन्थं प्रकाशयन् क्रियान्तरेत्युक्तार्थे भिन्ननिष्ठत्वे त. दिष्टत्वे च मानमाह *अत एवेति । उक्तरीत्या प्राप्ततदभावस्ये- टत्वादेवेत्यर्थः। तस्य व्याख्या *तद्वाच्यति । अन्यथा पचिकियाक- मैत्वादेरनभिधानात्तत्स्यात् । नन्वज्ञानेन तथोक्तावपि प्रत्याख्याना- शयः स एवात आह * अव्ययेति । प्रत्याख्यातं चेत्यर्थः । एतत्प्रती- कमुपादाय तत्र तृतीयाद्याशंक्याख्यातार्थः क्रिया प्रधानं क्त्वा- न्तार्थो गुणभूतः । तत्र प्रधानशक्त्यभिधाने गुणक्रियाशक्तिरभि- हितैव प्रधानानुरोधात् । गुणानां तद्विरुद्धकार्यारम्भकत्वाभावा- दिति कैयटेनोक्तम् । अन्त्यलाभोपायमाह *तत्रेति । भाष्यीयवार्ति. के इत्यर्थः । तद्वाच्यकारकाभिन्नं यत्र क्त्वान्तादि कारकं तदैव तत्र क्त्वादीति तदर्थः। एवंचत्यस्यार्थमाह *वचनेति । कैयटस्या- शयान्तरमपि व्याख्याकृदुक्तं खण्डयति *क्षुधइति। मात्रपदेन शक्या- र्थव्यवच्छेदः । *अत एव-उभयकर्मत्वादेव । *एवं च-तथा प्रयोगा- भावे च । सकदुपात्तस्य तदसंभवादाह *आवृत्त्येति । तत्र मानमाह ११०४ टीकाद्वयोपेताया लघुमञ्जूषायाम् । - *ग्रामइति। * हरिरपि-आह। अधिकरणस्य सम्बन्धित्वविवक्षया तत्र षष्ठीत्याह *इपाविनि । लक्ष्यार्थमाह *क्रियेति । अन्यथा तबल एव न स्यात् । यथाश्रुतासंगतेराह तद्धीति ।प्रकृतत्वादाह अभीति । इदमेव तत्सतमिति सूत्रयन्नाह *अत एवेति । नत्र तस्य तेना- भिधानादेवेत्यर्थः । पचतिरित्यन्तस्यः प्रागन्धयः । *सोऽसौ-ओ- दनः । अन्वयप्रयोजकरूपवत्त्वं योग्यतति सिद्धान्तनाह *अयो- ग्यति । *पचीति । तदर्थेत्यर्थः । तत एवाह *सामर्थ्यादिति । यो- ग्यत्वादित्यर्थः । एतन शब्दार्थान्वयभेदेनाभयं स्वीकुर्वन्तः स- कलग्रन्थकाराः परास्ता इत्यन्यत्र स्पष्टम् । तदाह *इत्यलमिति । अत्र सिद्धान्तमाह *आख्यातेति । एवव्यवच्छेद्यसाह *नविति । एतेनामीषां पूर्वमानयेत्युक्ते यथा मध्यमो नानीयते एवमत्रापि बहुक्रियासमभिव्याहारे मध्यमक्रियावाचकात्प्रत्ययो न स्यादित्य- पास्तम् । गुणानामिति न्यायस्त्वननित्यत्वे नासति गमके, इत्थं स. ति तासां मिथः सम्बन्धो ऽपि, गुणः कृतात्मसंस्कार इति न्या. योऽप्यत्रानुकूलः । अत एव हुत्वा दत्वा च धारयेदित्यत्र न दो. षस्तत्र गमकानि सुयज्ञोपवीतानि नवानि कृत्वा तदुक्तमन्त्रेण हुने दथा नौ स्वयं तु देवात्मपितृभ्य इत्थं दद्यात्ततो धार्यमिति । वेदारम्भणतः पूर्व सक्तुप्राशनतः परम् । नवयज्ञोपवीतानि हुत्वा दत्वा च धारयेद् । इति च । नवानि द्विजैःप्रथम हुत्वाऽऽदी गुरवे दत्त्वा पितृभ्यो धारयेत् इति च सप्तवतकार्णाजिनिगालववचांसि । वक्ष्यमाणादोषायाह *आवाह्येति । *इत्यत्र-इत्यत्रतु । सूत्रान्तरविषयमाह *द- क्षिणेति । सिद्धान्तेनाह आरोपितेति सूत्रस्यार्थद्वयमिति सूच- यन्नाह #अत्रेति । एतदिति । अर्थत्यर्थः । पर्वतस्येति भा. । अत एव द्वितीयोदाहरणमाह एवमिति । एतद्वारक इत्युक्तेः फलमाह * क्वचिदिति । ननु देशकालादिकृतमत्र पर- त्वमत आह *परत्वादीति । एतेनान्यथाऽत्र शाब्दवोधं वर्णय. न्तः प्राचीनाः परास्तास्तदाह *अन्यत्रेति । शेखरादावित्यर्थः । इति कृदर्थव्याख्या ॥ ४८॥ घः ... ... ... ३ ... (११) शिवस्तोत्रावली । उत्पलदेव विरचिता । प्रमेयरन्नार्णव श्रीक्षेमराजविराचनवृतिसमता (वेदान्तः) । (२५) अनुमानचिन्तामणि व्याख्याया. शिरोम- (१६) मीमासाबालप्रकाशः जैमिनीयहादशा णिकनदीधिन्या जागदीशी टीका। २३ ऽध्यायार्थसंग्रह: श्रीमहनारायणान्मज- ' (३०) भीगमित्रादयः । महामहोपाध्याय श्री मित्र- भशङ्करविरचितः। (मीमामा) २ मिश्रविरचितः परिभाषा-संस्कारप्रका- शात्मक । सापिण्यदीपकश्च (१०) प्रकरणपञ्चिका प्रभाकरमतानुमारि मी- मांसादर्शनम् । महामहोपाध्यायधीशालि- ! (१) बीमित्रोदय. । महामहोपाध्यायश्री- भित्रमिथाविरचितः आहिकप्रकाशः ६ कनाथमिश्रविरचितम श्रीशङ्करभकृता मीमासासारसंग्रहश्च सम्पूर्णः (मीमांसा) ३ (३) स्मृतिमारीद्धारः विद्वद्वरविश्वम्भरत्रिपा- टिमलितः (१८) अनामिद्धिमिद्धान्तसारः । पाण्डतपार- श्रीसदानन्दव्यासप्रणीतस्तत्कृतव्याव्यास- (२३) वदान्तरत्नमन्जूपा । श्रीभगवत्पुरुषो- तमाचार्यकृता । ... मलतः। (वेदान्तः) (३४) प्रस्थानरजाकरः । गोस्वामि श्रीपुरुषो- (१९) कात्यायन श्रोतमबम । महामहोपाध्याय नमजीमहाराजविराचतः... २ श्रीककर्काचार्यविरचितभाष्यसहितम् । १३ (५) वेदान्तपारिजात सौरभं नाम ब्रह्मभीमासा- (२०) ब्रह्मसूत्रमाध्यम् । श्रीभास्कराचार्यविर- भाध्यं श्रीनिम्बार्काचार्यविरचितम् । १ चितं संपूर्णम् (वेदान्तः) (११) श्रीहर्षप्रणीत खण्डनखण्डलायम । आ- (२६) योगदर्शनम् । परमहंसपरिव्राजकाचार्य - नारायणतीर्थविरचित-योगसिद्धान्त चन्द्रि- नन्दपूर्णविरचितया खगडनफांककावि.. काममारण्य या व्याख्यया संवलितम् । २ भजनाख्यया व्याख्यया विश्वासागरीति (३०) वेदान्तदर्शनम्। परमहंसपरिव्राजकाचार्य- प्रतिद्धया समेतम। (वेदान्तः) १४ श्रीरामानन्दसरस्वतीस्वामिकृत ब्रह्माऽमृत- (२२) आख्यातचन्द्रिका श्रीममाडविराचता ? वर्षिणीसमाज्यव्याख्यामवलितम् । (२३) श्रीलक्ष्मीमह स्रम् -बालबोधिनीव्याख्य- (६८) विश्वप्रकाशः । कोश । विद्वद्वरश्रीम- याऽवतरणिकया च सहितम् । हेश्वरसूरिविरचितः। (४) अनमूत्रवृनिः मरीचिका श्रीवजनाथ- (३९) श्रीमुबोधिनी 1 श्रीवल्लभाचार्यविनिर्मिता भट्टकृता (वेदान्तः) श्रीमद्भागवतव्याख्या गोस्वामीश्रीविठ्ठल- (२५) क्रोडपत्रसंग्रहः । अत्र श्रीकालीगङ्कर नाथदोनितविरचितटिप्पणीसहिता।श्रीम- सिद्धान्तबागीशविरचितानि अनुमानजा- ड्रागवतदशमन्धजन्म प्रकर्ण श्रीसुबो- गदोश्याः प्रत्यक्षानुमानगादाधर्याः प्रत्य- धिनी टिप्पण्या:--प्रकाशः गोम्बामि श्रीश्री क्षानुमानमाथुर्या व्युत्पतिवादस्य शक्ति- पुरुषोत्तमजीमहाराज विरचित ३ पादस्य मुक्तिवादस्य शब्दशकिप्रकाशि- (५०) वीरपित्रोदयः । महामहोपाध्यायोमि- कायाः कुसुमाञ्जलेश्न क्रोडपत्रआणि ३ अमि अविरचितः पूजाप्रकाश | ... (२६) ब्रह्ममूत्रम् , द्रेताद्वैतदर्शनमा श्रीसुन्दरभ- (४१) वेदान्तसिद्धान्तसंग्रहः । श्रुतिसिद्धा- हरचितसिद्धान्त सेतुकाऽभिधटीकासहित तापरनामकः । श्रीब्रहाचारिवनमालि- श्रीदेवाचार्यप्रणीतसिद्धान्तजाह्नवीयुतम मिविरचितः । वेदान्तकारकावली (२७) षड्दर्शनसमुच्चयः । बौद्धनैयायिकका श्रीपुरुषोत्तमप्रसाद. शर्मकृता अध्यात्म पिलजैनवैशेषिकजमिनीयदर्शनसंक्षेपः । सुधातरगिण्याख्य टीकया सहिता। ३ माणिभद्रकृतटोकया सहितः । हरिभद्र- (२) स्वानुभवादशः । श्रीमत्परमहंसपरिव्राज- मरिकृतः । কালামৃগমারামাধবাগমণি (२८) शुद्धानमार्तण्डःप्रकाशव्याख्यासहितः चतः । स्वकृतटीकाविभूषितश्च । ८ २ ... .. ... २ ... ... (५६) याज्ञवल्कस्मृतिः। बालग्भट्टीसमात्यल्या (५) विरामनोदयः । राजनीतिनकाशः। रूमामलङ्कृतमिताक्षरासहिता । प महपाध्यायश्रीमिअमिश्रविरचितः। वहाराध्यायः ११ । (५१)पूर्वमीमांसा अधिकरणकौमुदी। श्री (४४) गादाधरी । श्रीगदाधरभट्टाचार्यचक्रव- हामहोपाध्याय ५० रामकृष्णभट्टा तिकृता । श्रीगङ्गेशोपाध्यायविरचित विरचिता परिशिष्टाधिकरण निरूप तत्त्वचिन्तामण्या श्रीरघुनाथतार्किकशिरो के टिप्पण्या परित मणिविरचितोधित्या च गर्भित।। (५२) प्रसस्तपादाभ्यटीकासंग्रहः । तत्र (४५) शाखदीपिका । श्रीपार्थसारथिमिश्र प्रणि- णादरहस्यम् । श्रीशंकरमिश्रविरचित ता। रामकृष्णविराचेतयुनिस्नेहपुरण्या- (५६) क्रमदीपिका । श्रीमन्महामहोपा ग्यव्याख्यया सहिता तर्कपादः । ५ काश्मीरिककेशवभऋविरचिता । FE (५६) वैयाकरणमिद्धान्तलामचा महामहो विनोदश्रीगोविन्दभट्टाचार्यतविवणी पाध्याय-श्रीनागेशभटाविरविता। (५४) वीर गित्रादयः । तोर्थपकाशः।। श्रीमदुर्वजाचार्य-बालम्भहाभ्यां विर- महोपाध्याय श्रीमित्रमिथविरचितः । चितकुनिताकलाइटीकादसंवलिता । २१ (१५) सांख्यसंग्रहः । तत्र सांख्यतत्त्वविवरे (४०) व्याकरणमिद्धान्तमुधानिधीः । श्रीपिमानन्द (क्षभन्द्र ) विरचित पर्वतीय विश्वेश्वरसूरिविरचितः । सांग्ल्यतत्त्व याथार्थ्यदीपनम् भावागर (४८) विरमित्रोदयः । लक्षणप्रकाशः। महामहो- विरचितम् । समाससूत्रव्याख्या । पाध्यायधीमित्रमिश्रावरचितः। पकारिणी च । (४९) बृहदारण्यकवानिकमार श्रीमद्रियारण्यस्वा- (५६) न्यायपरिशुद्धिः । श्रीमद्रेङ्कटनाथ । मिविराचनः। महेश्वरतीर्थकृतयालघुसं- दान्ताचार्यपसादिना श्रीनिवासाचार्य प्रहाख्यया टीकयासमलंकृतः । चित न्यायसारसमाख्यया टीकयायुल ८ ६ पत्रादिप्रेपणस्थानम् हरिदासगुप्ता, चौखम्वा वनारस सिटी
No text on this page.