Uttarpara Jaykrishna Public Library, Hooghly

Srimadbhaktirasayanam

Madhusudan · 2011/06/3

PDF Proofread

Front matter

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

अच्युतप्रन्यमानाया- वितीयपुष्पम्। श्रीभगवद्भक्तिरसायनम् परमहंसपरिव्राजकाचार्य-विश्वविख्यातवैदुषीक- श्रीमधुसूदनसरस्वतीयतिवर- विरचितम् । प्रथमोल्लासे मूलकृद्रचितया टीकया शेषड्योल्लासे MI - श्रीमन्माध्वसंप्रदायाचार्यदार्शनिकसार्वभौम- साहित्यदर्शनाचाचार्यतर्करबन्यायरत्र- गोस्वामिदामोदरशास्त्रिणा रचितया प्रेमप्रपया सहितम् प्रेममपाकृतैव संशोध्य संपादितम् । गोयनकाश्रीगौरीशंकरश्रेष्ठिना काश्यां- माधवविष्णुपराडकरद्वारा शानमण्डल-मुद्रणालये संसद्रव्य, प्रकाशितम् । १९८४ वैकमाब्दे। प्रथमसंस्करणम् ] [ मूल्यम्

No text on this page.

श्रीः संपादकस्य वक्तव्यम्- श्रीमबनुमनीममध्वान्तर्यामिरामकृष्णपदच्यासात्मकसचिदानन्दविग्रह- पूर्णतमाहादिनीशत्यमिन्नीकृतस्वरूपप्रेमावतारभगवत्श्रीश्रीगौरकृष्णः शरणम हेलोलितखेदया विशदया प्रोन्मीलदामोदया शांम्पच्छाखविधादया रसदया चित्तार्पितोन्मादया। शश्वद्भक्तिविनोदया समदया माधुर्वमर्यादया श्रीचैतन्य दयानिधे! तव दया भूयादमन्दोदया ॥ इह किलानादिसंसारस्रोतसोममानप्राणिसार्थप्रवृत्तिनिवहेषु चेष्टात्त्वानुमित- किग्निदुहेश्यकस्वयटकफलस्वरूपजिज्ञासाप्रसक्तौ मुख्यामुख्यसाधारण्येन तदनन्त- स्वेऽपि धर्मार्थकाममोक्षविधाभिस्तवतुष्टु संगिरस्ते तन्त्रशा इति हि पुमर्थवादिनां- दध्वन्यमानः पटहः । मत्रेदमालोच्यते-अदृष्टोपायत्वेन धर्मस्य; दृष्टोपायत्वेवास्थ; जन्पमुख्यफल- त्वेन कामस्य; नित्यमुख्यफलस्वेन मोक्षस्य; समर्पकत्वेन तसत्तमापकवचनामाचारि- ताऽपि; भूम्ना शास्त्रेपलम्पमानानां मुकेरप्यनमिलषणीयतामवग मयता- "त्वत्कंभाऽमृतपाथोधौ विहरन्तो महामुदः। कुर्वन्ति कृतिनः केचिषतुर्वर्ग तृणोपमम् ॥ तपा "वसाक्षात्करणाहादपिशुदाग्विलितल मे। सुखानि गोमदायन्ते माझाग्यपि जगद्गुरो॥ "न साधयति मां योगो न सांख्य धर्म उद्धव!। न स्वाध्यापखपस्सागो यथा भफिर्ममोर्जिताए। इत्यादीनां संप्रतिकाममाणमावानां समानामुमबन्यतममध्यपरिगृह- बाडूनां सावकाशवाषा दुखणदतवा वर्षमा सम्पीति सरणि का चित्लद- ( २ ) न च पुमर्येषु प्रथमचरमयोरुपायत्वात्तृतीयस्य नाशित्वेनानहत्वेऽपि तुरीयपर- तैवोक्तवाक्यानां वक्तव्येति सांप्रतम् ? ब्राह्मचतुर्वर्गादिपदोपादानासस्याप्यनङ्गीकृति. स्फोरणाद, न च मोक्षपदव्यपदेश्यानां नानात्वेन सायुज्यस्यैव तश्चतुष्टयघटकता; तदन्येषा- मुक्तवाक्वीयतात्पर्यविषयतेति वाच्यम् ?, विशेषग्राहकामावादुकवाचोयुक्तरप्रामा- णिकत्वात, तमादुक्तजातीयवचनानां भगवत्प्रेमस्वरूपफलपरत्वमेव न्याय्य, यच्च क चन साधनभक्तिपराणां वचसामपि पुमर्थचतुष्टयानाग्रहित्वं तदपि साध्याभिप्राय- कतया सुयोजम् , एवं च तादृशप्रेम्णः पञ्चमपुरुषार्थतोक्तिः सुसमजसैव श्रुतिस्मृ- त्यादिशास्त्रेषु, न च भगवत्प्रेमिण मुक्तर्नान्तरीयतया तचतुष्टेनैवोपपत्तौ पुमर्थेषु पञ्चमसि- बान्तोऽनतिप्रयोजनक इति शक्यम् ? भर वित्प्रेमाणमुद्दिश्य साधने प्रवृत्तस्य पुंसस्तत्ममत्वस्यैवोद्देश्यताऽवच्छेदकत्वं. युक्तं न खानुषङ्गिकमुक्तित्वस्य; प्रधानेन व्यपदेशा भवन्तीति न्यायाद, एवं सिद्ध भगवत्प्रम्णः पञ्चसपुरुषार्थत्वे तदधिगमोपायकुक्षिप्रविष्टाः कायिक- याचिकमानसिकव्यापाराः सर्वेऽपि साधनभक्तिव्यवहार्याः, तथा च भक्तिशद्वो भजन- भक्तिरिति व्युपत्रमा प्रेमवाचको भजत्यनयेति व्युत्पत्त्या श्रवणादिसाधनवाचकवेति न किमप्यसौष्ठवम्, एवं च पुरुषेणार्यमाने धर्मार्थकाममोक्षप्रेमपञ्चके प्रथमद्वयं स्वरूपतः फलतश्च ताीयीक स्वरूपतः प्राकृतमत एव नश्वरतया विवेकिभियपक्षे निक्षिप्तं, यद्यपि धममात्रस्य नेयं दशा; प्रत्यवायप्रयोजकीभूताभावप्रतियोगिकर्मजन्यधर्मस्य स्वाश्रय- शोधनविधया तुरीयपञ्चमपुमर्थाधिगमप्रयोजकतयाऽस्यन्तमुपादेयत्वात्; तथाऽपि तदितरस्मिन्तथाऽऽन्मतायामविवादाद, शिष्टौ द्वौ तु स्वरूपतोऽप्राकृतावपि प्राकृते- व साधनेवायतेते। तानि च साधनानि कर्माष्टाङ्गज्ञानभक्तियोगाश्चत्वार:- "योगानयो मया प्रोक्ता नृणां श्रेयोविधिल्सया । ज्ञानं कर्म च भक्ति नोपायोऽन्योऽस्ति कुत्र चि॥ इति श्रीमुखोके, यवपि माहिकयाष्टाङ्गयोगोऽत्र नोक्तः, तथाऽपि सानान्त.

र्गतत्वेनोक्तप्राय एवेति के चिदु, वस्तुतस्तु व्यञ्जनलवणन्यायेनानुक्तोऽपि स नान्त- रीयकतयाऽवगम्यत एव, तत्रादौ नित्यकर्मानुष्ठानादु विशुद्धेऽन्तःकरणे; वैराग्योपोदलिते चेतस्यद्रुतचि- तानां तत्त्वज्ञानोदयान्मुक्त्यधिगमः, यद्वा-श्रवणादिसाधनसाहायकाद् द्रुते चेतसि रुच्यादिक्रमेण भगवति प्रेमोदयः, इत्थमधिकारिभेदेन व्यवस्था निर्धारिता शास्त्रैः, एवं चादतचित्तानां वान्यन्यत्र प्रदर्श्य; द्रुतचित्तानामेतत्प्रदिदर्शयिपुर्विपश्चि- दप्रेसरः श्रीमधुसूदनसरस्वतीयतिभंगवद्भक्तिरसायन ग्रन्थं निबध्नन् संदर्भसौक- ायात्र चिकीर्षितोल्लासत्रये; प्रथमे तावदुलासे स्वरूपभूमिकासाधनसहितं. भक्तिसामान्यं प्रदश्य, द्वितीयेऽस्मिन् भक्तिविशेषानिरूप्य; तृतीये तस्मिन् सपरि- करं सोपपत्तिकं भक्तिरसं व्यवातिष्ठिपत् । अस्मिनिबन्धे प्रधानतयोपपाधस्य भक्तिरसस्य संक्षेपतस्तत्वमवजिगमिषूणा- मुत्कण्ठाविनोदायैतत्संबद्धावश्यज्ञेयसंकलनस्य प्रतुष्टुपया किंचिदुपक्रम्पते- इह तावद् रससंबद्धाः प्रश्नाः सक्षेपतश्चत्त्वारः समापतन्ति-रमः किंप्रमाणकः? प्रियोजनः ? किस्वरूपः? कथं चापलब्धव्यः ? इति, - "मानाधीना मेयसिद्धिर्मानसिद्धिश्च लक्षणादु"- इत्यभियुक्तोक्त दिशा रसो येन प्रमित्सितव्यस्तदीये हि स्वरूपे यथार्थज्ञानसाधन- त्वात्मके फलतः सर्वसिद्धान्तरीत्या पर्यवसिते तत्संख्यायां तैर्थिकानां सगोत्रकलह- स्यानपेक्षणीयत्वेनोत्थापनानहत्वात् प्रकृताचार्यानुमोदितानामेव प्रमाणानामुप- गन्तव्यतायां रसप्रस्थानिभिराचाय्यः : प्रत्यक्षानुमानागमा एवं प्रमाणत्वेनोपेयन्त- इति वक्तुं युज्यते, यद्यपि प्रमेयविशेपनिरूपणप्रवणतावशंवदेन शास्त्रकारेण “परमतमप्रति- षिद्धमनुमतं भवतीति नयमनुरुध्य; प्रकृतविषयकसवोंक्तिवातस्यानुसत्र्तव्यताप्र- सक्तावपि रसनादाभिन्नतानिबन्धनसमानतन्त्रसिद्धान्तादरेण संगीतशास्त्रोदि- तत्वप्रयुक्तं; रसप्रत्यायनपूर्वहतयाऽत्यादतव्यञ्जनायां यदुपज्ञताऽस्ति तेषां वैयाकर- णानां राद्धान्ते महाभाष्यकारादिभिर्व्यवहृतत्वायत्त'; चरमोपेयतया पारमार्थिकस्व- रूपप्रदर्शनपरायणानां महर्षिशाण्डिल्यादीनां सूत्राक्षरतो वा लब्धं त्रैविध्यमुक्त निष्ठमेवेति प्रकृते निर्दिष्टा प्रमाणत्रय्येवेहानुमुद्यत इति पक्षः शक्यस्वीकरणः, ( ४ ) परेवामपान्तावादेवत्रिकेणैव रसः प्रमातम्यः, वपि रसस्य प्रकाशामिा- ..या नापरेण प्रकाश्यताऽपेक्षा; तथाऽपि कथमपेक्षेत्यादिकमुपरिटानिपुणतरमुपपा- रनीयम् , तत्र प्रत्यक्ष तावसाव्यदर्शिनां सहदयानामानुभविकमेवेति नेह किमपि विवक्षणीयम् ; अनुमानमपि पक्षीकृतात्मनि “आत्मनस्तु कामायणस्यादिभिः अतिभगवतीमिः प्रमापिसेन निरतिशयप्रेमास्पदत्वेन हेतुना खल्वानन्दात्मकाय- साधकतया स्वभ्युपगममेव, निरतिशयानन्दस्य रसात्मकतयाऽऽत्मनबरसाभिातया- तदमिळामिास्य तदात्मकताया भौत्सर्गिकत्वादिकमपिस्वरूपविवेचने प्रतिपि. पादयिष्यमाणम्, मागमस्तु "रसो वै स इत्यादिरपिकिलोपक्रमोपसंहारा- दिमिनिर्णीततत्परताको नैव तिरोहित इति प्रमाणसिद्धरसतत्त्वे न का चिह्न विमतिः, ततश्च निरतिशयानन्दसाक्षात्कार एवं प्रयोजनत्वेनावधार्यतेऽत्रेन्या- स्माकीनः समयः। प्रयोजने चेदमीये निश्चिकीषितव्येऽयमेव प्रयोजनात्मेति सिद्धान्तः-तथा हि प्रयोजन हि फलं, तच्च मुख्यगौणरूपतया द्विविधं फलान्तरेच्छाऽधीनेच्छाविषयत्व- गौणवं, तदनधीनेच्छाऽऽस्पदत्वं तु मुख्यत्वं, तत्त्वं च सुख एव विश्राम्यतीत्यत्र नैव विवादो विश्वजनीनानुभवसिद्धत्वादु, यद्यपि लोके सुखत्वेन व्यवहियमाणं न वस्तुतः सुखं, विनाशित्वेन दुःखाधा- यकस्वाद, यदाहुमहर्षिपतञ्जलिपादा:-"परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरो- धाच सर्वमेव दुःखं विवेकिनः" अत एव दुःखमिश्रितत्वेन सुखस्यापि मधुसं- कगरलवदेयत्वात्तदपि दिध्वंसयिषितव्यमेवेति महर्षि गोतमपादा व्यवातिष्ठिपन्, तथाऽपि वास्तविकसुखमलममानाः संसारिणस्तदाभासेनैव कृतकृत्यंमन्यमानाः समवलोक्यन्ते, वस्तुतः सुखं च "आनन्दं ब्रह्मणो विद्वान्" "तस्यैवानन्दस्यान्येमात्रामुपजी- वन्तीगत्यादिमिर्भगवतीमिः श्रुतिभिरेवावगमितं, तथात्मस्वरूपघटकतया परिणामा- दिदुःखकालुप्यासंपृक्तमित्यात्मस्वरूपावगल्या स्ववगममोपनिषदप्रस्थानाध्वनीनैः, अतएवेदं विविध्यमानं रसतवं साहित्यदर्शनपरमजीवातुरूपात्मस्वरूपोपजीव्यत- माऽऽनित्य चतुर्मुखादिभरतमुन्यन्ताचार्याणामाप्रमाणोपबृंहितं रसशाचत्वेन म्यव. देश्य न दर्शनान्तरैर्गतार्थमाशक्तिव्यम्, ( ५ ) दर्शनान्तरेषु किल लोकायतिकसौगतानामान्मनः शाश्वतिकतेक दुमति निर्दिष्टदूषणं जागरूकमेव, विवसनसमये कथमपि नित्यत्वेऽपि तस्वानन्दता शकविपासायमानैव, नैयायिकवैशेषिकाणां मते तन्नित्यत्वेऽपि निरानन्दतैवैतस्य स्वरूप, सानन्दता तु दुःखवत्ताऽऽवृतैवेति न सिषाधयिषितसिद्धिः, कापिलपातञ्जलानामपि तयात्वेन तथात्वमेवेति नाभीरपूर्तिः, अध्वरमीमांसाविदां नयेषु प्रायेणोक्तचयवाशान्तिः क चिन्मुक्तौ नित्वसुखा- भिव्यत्तयभ्युपगमेऽपि दुर्निवारार्थान्तरता; मुक्तितः पूर्वं तदीयव्यक्तरसत्कस्पत्वाद, अनयैव दिशांऽऽत्मनोऽनानन्दतावादिनामवशिष्टदर्शनानां सिद्धान्तेभ्योऽप्य- गतार्थता विवेक्तव्या, औपनिषदसिद्धान्तिनां त्वद्वैतविशिष्टाद्वैतशुद्धाद्वैतद्वैताद्वैतद्वैतवादिना पड़ा- नामपि प्रस्थानेषु चात्मतत्त्वस्य नित्यतयाऽऽनन्दतया च महतः संवादस्य सम्वपि न तथाऽऽनुकूल्यं यादृशप्रयोजनसंपिपादयिषयाऽऽचार्या रसशाममुपनिविसाय- एनदाविरबीभवन्, एतच्चानुपदमेव स्वरूपनिर्णये वक्ष्यते । रसस्वरूपजिज्ञासायां तावदात्मैव रस इति रसदर्शनिनां राद्धान्तः- रसो के स" "आनन्दं ब्रह्मणो विद्वान्, "आनन्दादुध्येवेमानी" ति श्रौतवचनानि स्वरूपतट- स्थलक्षणाभ्यामात्मानमेव लक्षयन्ति, आत्मा चात्र यद्यपि ब्रह्मपरमात्मादिपायो भगवानेवोपक्रमोपसंहारादिभिस्तात्पर्यास्पदतयाऽवजिगमिषितस्तथाऽपि प्रतिबिम्ब तया परिच्छिन्नतया वस्तुतया वा “यथाऽग्नेविस्फुलिङ्गाः" "ममैवांशो जीवलोके "अंशो नानाव्यपदेशाद”इत्यादिश्रुतिस्मृतिब्रह्मसूत्रादिभिर्व्यवस्थापितो जीवोऽपि तत्वदृशा सच्चिदानन्दात्मा; परन्तु सिन्धोविन्दुरिव तत्स्वमावः कणकल्पः सुतम् तदुपात्तसरणितः सर्वाश एव न तादृशो, नातो जगत्कर्तृत्वाचापत्तिरय चैनं तकॉम ष्टब्धानि “जगदव्यापारवर्जमि"त्यादिप्रमाणान्युपोद्वलयन्ति, अत एवायं सदीयतट- स्थशक्त्यात्मकतया शास्त्रेषु व्यवहियते, सच्चिदानन्दस्वरूपस्य भगवतः किल तिस्रः शक्तयः शामिताः स्वरूपातट. स्थाबहिरङ्गाख्यास्तासां स्वरूपाख्यायां पुनस्तावस्यो भिदाः संधिनीसंविदहादिनी- नामिकाः, तथा च तत्त्वतो भगवत्स्वरूपसजातीयः सर्वथा तद्विजातीयवहिरजातो विलक्षणः सन् जीवः तटस्थ इति गीयते, एवं चोक्तस्वरूपो जीवोऽपि रखपद- -- बाध्यता नाईतीति न, न खलु रससमुद्रस्य विन्दू रसान्यो भक्तुिमर्हति, एतदेवाभि- प्रेत्य रसशास्त्राचार्याः प्राकृताप्राकृतभेदतो दैविध्यं रसस्य संगिरमाणास्तथैवोपा- पीपदन् , मूलं चैतदीयमाम्नेयपुराणादिषु व्यक्तमेव, आचार्यभरतमुनिना तु यानुपचिकीर्षुणा न्यबन्धि नाट्यशास्त्रं, ते किलानादिकालतो बम्भ्रम्यमाणप्रपञ्च- चकचकमणताचणा; अपरिशीलितचरपरमपुमर्थप्रापकपद्धतयः सुकुमारमतयो- द्विविधवासनावासितहृदयाः काव्यार्थचिन्तनालङ्कर्मीणयोग्यतापरिपचेलिमचातु- रीका विनेयाः, तानेनान् "असत्ये वर्मनि स्थित्वा ततः सत्यं समीहत- इत्यादिस्वरूपेण गुडजिहिकान्यायेन चरमगन्तव्यदिक्संमुखीनीकर्तुकामेन परमरसास्वादमाधुरीसंपल्लंशोऽपि यदवधि नानुभवगोचरीकार्यत तदवधि कथ- मिवादसीयमर्म स्पहृयालवोऽमी क्रियेरनिति विचिन्त्य दुष्करप्रवृत्यास्पदानि निःश्रे- यसप्रापणपटूनि श्रवणादीनि साधनान्यव्यापार्यापि निखिलानर्थनिदानाज्ञानमः- नुन्मूल्यापि चिरसंचितचरकर्मकलापानपरिप्लुष्यापि जनैर्यथा तादृशं वस्वास्वा- दपदवी नीयेत यादृशं तत् तान्यव्यापाय्य, तदुन्मूल्य; तान् परिप्लुप्य सूरिभिस्तथा क्रियते, स प्रकारो दिव्यज्ञानमन्दरेण निगमपयोधीप्रमथ्य नाट्याम्नायपी- झूषवपुराविरकारि, सुतरां प्रथमभूमिकारूढानामधिकारिणामुपकारः प्राकृतर- सपरिचयेनं यथा सुकरो; न तथाऽप्राकृतरसज्ञापनेनेत्यधिकारानुरूपमुपदेष्टारः श्रद्धयवचनाः फलेपहियत्नाश्च भवन्ति नापरथा, अतो मुनिनाऽस्यैव प्रबन्धो निर्ब- न्धेनाबन्धि नापरस्य, नैतावता स नास्त्येव नानुमत एव वेत्यवगन्तव्यं, कथम- न्यथाऽऽत्मदर्शनासाधनतायामस्य शास्त्रस्य दर्शनता, कथं चोपक्रम एव चतुर्वर्गा- प्तिप्रयोजकतोक्तिरस्य संगच्छत कथं च रसताऽपि जीवस्वरूपघटकानन्दस्य ? रसत्वप्रतिपादिका हि भगवती श्रुतिः उपक्रमोपसंहारादिपरिचारकवृन्दसेविता खलु स्वेष्टमाप्नोति, न च तत्सधीचीनश्रुतितात्पर्यविषयाभिन्नत्वाजीवस्य नोक्तापत्तिरिति वाच्यम् ? तयोरभेदस्य याथातथ्यचिन्तायामुदस्यापि संप्रतिपन्नभेदकालेऽभेदोक्तेरनुपयु- कत्वात्, प्रदर्शितविधया शास्त्रप्रवृत्त्युपजीन्यविरोधाश, एतेन ज्ञानकाण्डेन रसका- एडस्य गतार्थतया काण्डान्तरारम्भचर्चा मुधैति वदन्तो निरस्ताः, प्रयोजनपार्थक्य हि प्रस्थानपार्थक्य प्रयोजयति, तचैहिकमामुष्मिक वा, उत्कृष्टमपकृष्टं वांऽशतइत्यन्यदे- ( ७ ) तद्ध, इत्थं वैष रतः प्राकृतालम्बनकतया प्राकृत इति व्यवहियते, अप्राकृतालम्बन- कोऽप्राकृत इति शास्त्रविदां मर्यादा व्यवहारासंकरार्थमादरणीयैर, द्वैविध्यं चैतदा- चार्यभरतेनापि बहुशोधनितमन्यनधिकार्यत्वेन नाभिहितं, तदेव पुनराग्नेयादी स्पष्टमुक्तं नेयता काऽपि क्षतिः । यत्तु प्राकृताप्राकृतौ रसौ क्रमेण लौकिकालौकिकावित्युच्येते इति तन्न समी- चीनम् , उभयोरप्यलौकिकत्त्वाद्, न हि जातु लौकिको रसोऽध्यात्मविद्यानां प्रधान- त्वेन प्रतिपाद्यो भवितुमर्हति, स हि तृतीयपुमर्थगृह्योऽन्यथा प्रस्थानभेदानु- पपत्त्या बाभ्रव्यादिसंहितानामानर्थक्यमापतेदित्यादिभूयानुपपलवः स्याद्, अलौ- किक-वं चैनयोलांकिकमर्यादाऽतिशायित्वाद्, दर्शयिष्यते चानुपदमेतद्, प्राकृतत्व- च पादविभूतिविला पविजृम्भित वं, त्रिपादवैभवं चाप्राकृतमिति वस्तुस्थितिः, अत्र प्राकृतो रस उच्यते, अप्राकृतस्तु भाव इति नाट्यशास्त्रीया परिभाषा, वस्तुतस्त्वप्राकृतो भक्तिरस उच्यते-रसत्वव्यपदेशजीवातोस्तादशानन्दात्म- कताया उभयत्र सत्त्वादिति । रसोपलब्धिप्रकारचेषः-वक्ष्यमाणस्य पकैविभावानुभावसात्विकसंचारिभिर्व्य- तो व्यक्तिविषयीकृतः स्थाय्येव रमतां भजतेऽयमर्थस्तु यावद्सदनिभिरनुमोदितोऽ- पि स्थायिस्वरूपे तद्व्यक्तोच प्रक्रियाभेदो मतमेदनिबन्धनोऽस्येव-तत्र-भाहंकारिके चित्ते कारणविशेपोदबुद्धसत्त्वे स्वेतरगुणावभिभूय प्रकाशमाने जातु चिदनुभूनर या- दिस्थायिसंस्कारोऽप्युदबुद्धीभूय प्रतीयमान उपचीयमानः पुष्यमाणोऽभिन्झायमानने- दिष्टचिच्छक्त्याऽऽ मीयत्वेन भुज्यमानो रसव्यपदेशभागिति कापिली प्रक्रिया, परन्त्व- सौ जडत्वपरप्रकाश्यत्वप्राकृतत्वादिमत्त्वाद्भिनमेव वस्तु नास्माकीनो रसः, भौतिके चित्ते हेतुविशेशादुदितम्रदिमनि मुद्रितो रत्यादिस्थाय्याकारः संस्कारः सोबोधक- महिमतिरस्कृतावृतिकचिद्विशिष्टो रस इत्यौपनिषदैकदेशिनां सरणिः, अत्र पूर्वोक्त- दोषासत्त्वेऽपि चितोऽङ्गत्वोत्तया श्रुतिस्वारस्यभङ्गोऽस्न्येव, एनदोषं परिहर्त्तकामैः कैश्चित् स्थाय्यवच्छिन्नभग्नावरणचिदेव रस उक्तः, किन्त्वेवमपि गौणत्वभानप्रयुक्ता- स्वारस्ये समाहितेऽप्यव्यवहितोसरवाक्यसहितवाक्यैकवाक्यतास्वारस्यभङ्गस्तदवस्थ- एव, तद् वाक्यं च-"रसं ह्येवायं लब्ध्वाऽऽनन्दीभवतीति; एतवाक्यघटकायं. पदाथकर्तृकलाभकमैव भवता रसत्वेन विवक्षातेऽतः स्पष्ट एवं स्वारस्यभङ्गो- भग्नावरणचैतन्यस्यैवायंपदार्थतया कर्तृकर्मणोरभेदापत्तेः ।

( ) न सावरलस्यैवायत्वेनकर्तृतयाऽनावरणस्य कर्मतयोपाधिकभेदेनाविरोधात स्वारस्यभाइति वाच्यम् ? स्वप्रकाशवादे किलावरणभङ्गमन्तरेमेतरखानपेक्षणादा- वरणमादेवानन्दीभवनप्राप्तः पूर्वाशवैयर्यस्य वज्रलेपायितस्वाद, एतेन सावरणोऽयमनावरण रसं लब्ध्वेत्यादिवाचोयुक्तयः प्रत्युक्ताः, सावरणोऽ- नावरणः सनित्यादिनैव भवदिष्टसिद्धेः, तस्मादखिलानि कण्टकितसंकीर्णवान्यु- न्सृज्य परिष्कृतघण्टापथेन संचरिष्णूनां रसविदामेष सिद्धान्तः-सः प्रकृतः स्वरूपतटस्थलक्षणलक्षितो ब्रह्मपरमात्मपर्यायो भगवान्, वै= निश्चयेन, रसः= रसपदार्थः, तमेनं रसमेव = नापरं लब्ध्वा हि = यतः, अयं = स्वल्पानन्दो जीवः, आनन्दीभवति प्रशस्तानन्दो भवतीति, इत्यमेवोक्तौ प्रकृतशास्त्रस्य दर्शनताऽपि परमपुमर्थप्रापकतया संगच्छते, न चावरणभङ्गवैशिष्ट्येऽपि परमपुमर्थसंपादकत्वाक्षतिरिति वाच्यम् ? तथा सन्युत्तरमीमांसयैव गतार्थतायां भवन्मते शास्त्रस्यानारम्भणीयताऽऽपत्तः, न'चेष्टापत्तिः, अन्यैर्भवदभिमतानारम्भणेऽपि तुल्ययुक्त्येष्टापत्तेः सुवचत्वाद, न चोसरमीमांसायामपि प्रस्थानान्तरे कथंकारं रसशास्त्रारम्भणीयतानिर्वाह- इति शङ्कयम् ? गुडजिहिकान्यायेन तथोपेयप्रतिपत्त्या इत्यादिपूर्वोक्तयुक्तः सार्थक्यसंभवाद, न चास्माभिरपि सार्थक्यमेवं सुसंपादमिति वक्तव्यम् ? अपारमार्थिकतापिशा- चीमयादेवमुपगन्तु भवतोऽसामर्थ्यात, प्रकृतशासकृदभिमतरसस्य भवन्मते चरमो- पेयत्वाभावाचा तथा च परमर्षिभरताचार्यसूत्रं-"विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्ति" इति, भत्र विभावयन्ति आविर्भावयन्ति = उद्बोधयन्ति प्रसुप्तस्थायिनमिति विभावा मालम्बनानि उद्दीपनानि च, एवं च विषयतासंबन्धेन स्थायिविशिष्टमालम्बनं, स्वोदोषजनकतासंबन्धेन स्थायिविशिष्टमुद्दीपन, स्थायिपोषकत्वे सयालम्बन- चेष्टारूपोऽनुभावः, आलम्बनाऽवच्छेदेनाविभूष्णुतिरोभूष्णुः स्थायिपोषकरूपो न्यमि- चारीति विवेचनीयं, सूत्रे पञ्चमी हेत्वा, हेतुत्वं तु कारकत्वज्ञापकत्वाम्यतररूप, ज्ञापकन्वं च-तद्विषयकज्ञानजनकज्ञानविषयत्वं, ज्ञानं चात्र त्रिविधं-प्रत्यक्षम्, अनुमितिः, शावधीत्र, प्रत्यक्षं तु द्विविध-यथार्थमयथाऽर्थ च, द्वितीयं पुनर्दिया दोपजन्यं भ्रमत्वेन प्रसिद्धम्, इच्छाजन्यम् आरोपत्वेन ख्यातम् !

( 8 ) एवं च-दमयन्त्यादिदर्शनजनलादिसमवेतरसाधुबोधस्य तत्कार्यकटाक्षादि- सहचरितोत्कण्ठाऽऽदीनां चानुकार्यनलादिनैव संबन्धात्तत्रैव रस उत्पनो; नटे तु वत्तदनुकृत्या सादृश्यमूलकारोप इति महलोल्लटादयः । के चन नाव्यादिषु प्रकटविभावादिषु म्यञ्जनया नलादौ दमयन्यादिरतौ ज्ञातायां भावनादोषेण कल्पितनलत्वाचवच्छिन्ने स्वस्मिन् समुत्पन्नोऽनिर्वचनीयो- दमयन्त्यादिविषयकरत्यादिरेव रस इति समगिरिषत । अन्ये तु व्यञ्जनाऽनिर्वचनीयख्यात्यनुपगमाद् भावनादोषेणात्मनि नलायमेद- ग्राहीदमयन्त्यादिरतिमदभेदबोधोविषयासत्त्वेऽपि मानसोभ्रम एव रस इत्यास्थिपत। परे तु श्रीशङ्ककानुपायिनः नलस्वेन गृहीते नटात्मके पक्षेऽकृत्रिमत्वेन गृहीतै- विभावादिहेतुमिनलादिगतरत्यादिरनुमीयमानो रस इत्युपागमन् । अपरे च नाट्यादिना व्यक्तिविशेषवृत्तित्वनिरूपितत्वाभ्यां जनितेऽपि स्थायि- संह ज्ञाने भावनया तयोः प्रमोषाद रतित्वादिनैव प्रतीतरत्यादेः स्ववृत्तिरत्यादिसाजात्ये. संहेन . नानुभूतचररत्यादिसंस्कारोबोधे ज्ञानस्य स्वप्रकाशत्वेन सस्बोदकेणानन्दरूपी रसः शब्दस्य भोगाख्यतृतीयव्यापारेण साक्षात् क्रियत इत्यभ्युपागुर्भट्टनायकानुवर्तिनः । इत्थं स्वस्वशेमुषीविकाससाहायकमवलम्ब्य, पारमर्षसूत्रबटकसंयोगपञ्चमीनि. पत्यर्थविविधतयाऽभियुक्ताः स्वस्त्रमतानुरूप्येण रसतत्त्वं प्राचीकशन, परन्तु मुनि- संमतरहस्यानाकलाच्छास्वसिद्धान्तिनामननुमतान्येवाखिलान्येवोक्तमतानि तदनुसा- रीणीतराणि चानिर्दिष्टान्येकदेशिमतानि। इमानि चाश्रद्धाबीजानि संक्षेपतः प्रधानानि- तत्र प्रथमे तावद् विप्रकृष्टत्वादलौकिकत्त्वात् काल्पनिकारोपविषयत्वादर्थान्तरता। द्वितीयसिन् विमतानिर्वचनीयत्वाद् भ्रमविषत्वात्तथात्वम् । तृतीयेऽपि भ्रमासदत्वं तादृशमेव । तुरीये भेदग्रहेण बाधात् कथमपि भेदाग्रहेऽपि नलादौ भैम्यादिरतिप्रहस्य सामाजिकप्रवृत्त्यनौपयिकत्वात्, व्यस्थले पक्षधर्मताज्ञानविरहाचाभिमतरसपरिप- थिताऽनिबार्यो। पञ्चमे तु प्रमाणागोचरस्य शब्दनिष्ठक्रमिकन्यापारत्रयस्यैवारन्तुदतेति। श्रीमदभिनवगुप्ताचार्यास्तु-विभावानुभावव्यभिचारिभिः संयोगाद= यज- नाद, स्थाप्युपहितचिदानन्दात्मनः, निष्पतिः -स्वरूपप्रकाश इति रसस्य स्यम्, (१०) सूत्रार्थ सिद्धान्तयन्ति स, फलबलकल्प्येन विभावादीनां साधारणीकरणात्मना व्यापारेण सर्वथा हि विशेषांशप्रमोषात् सामाजिकात्मनि स्थायी व्यज्यमानो रसः, दशमस्त्वमसीत्यादिरीतितः शब्दादप्यरोक्षज्ञानाभ्युपगमाश पारोक्ष्यप्रयुक्तमपि वैर- उक्तालौकिकव्यापारमहिना लौकिककारणकार्यभावाभावाद् दुःखजनकतया कृशेभ्योऽपि सुखोत्पत्तेः सुरतक्षगवत्यंधरदशनादाविवानुभविकत्त्वादन्तःकरणा- वृत्तित्वाञ्चालौकिकत्वं निष्प्रत्यूहमेव, कार्यत्त्वज्ञाप्यत्त्वाभावाद् भूतवत्तमानभविष्यत्त्व- वैधुर्य्यात् सविकल्पकनिर्विकल्पकवेद्यत्त्वविरहाच तादृशत्वं सुचचं, नित्यत्वानन्दत्व- स्वप्रकाशत्त्वादिकं त्वात्मत्वादेव निर्विवादमेव, उत्पादविनाशिकादाचित्कवादिव्य- वहारा अपि चर्वणानिबन्धना भवितुमर्हन्ति, इत्येव निष्कर्ष तत्रभवन्मम्मटभट्टाः समाद्रियन्ते स्म, अन्येऽपि रसशास्त्रनिबन्धारः प्रायेणैनामेव दिशमनुसनुः । इयाँस्तु विशेषः-सम्मप्येतद्दिग्दर्शनविधया विनेयोन्मुखीकरणाय भरताचार्येण प्राकृतरसनिरूपणव्याजेन प्रदर्शितं, वास्तविकनयोद्देश्यभूतोऽप्राकृतरसस्तु श्रीभग- वदालभ्बनक एव तस्यैवाखिलशेपित्वेन चरमप्राप्यतया परमपुमर्थफलत्वेन चोपनि- पत्स्मृतिपुराणादिषु व्यवस्थापितत्वेन निखिलशास्त्रदर्शनानां साक्षात्परम्परासाधार- ण्येन तनिरूपणोपयिकभूयःप्रकारानाश्रित्य तत्रैव पर्यवसानस्याखिलसंमतत्वाद । एवं च निसर्गतोऽलौफिके तस्मिन् यादृगलौकिकतासंपादनाय नाट्यादिषु ताद्- शानन्दानुभवानुगुणसाधारणीकरणोररीकरणमुपेयते तादृशत्वस्योत्सर्गिकतयाऽऽ- नन्दव्यक्तिप्रयोजकत्वांशे फलानुराधानेऽपि परत्रोपयोगित्वेन नाप्रयोजकताऽत एव प्रकारभेदोनयनायाचाय्य रेप भक्तिरसनाम्ना व्यपदिश्यते व्यतानि चायमितोऽपि बंहिष्ठविधाभिः श्रीकृष्णद्वैपायनादिभिराचायरिति न तिरोहितं विशेष विदुषां,- रसमात्रस्य चास्य गौणमुख्यादिभेदाः तत्प्रभेदा विभावादीनां चातिभूमानं प्राप्ता- विभेदप्रकाराः प्रबन्धेन बहुषु निबन्धेषु निरूपिताः तत्तत्प्रकीर्णत्वादिरूपैस्तत्सर्व- पुनरवसरे कदापि विज्ञसहृदयेभ्य उपायनीकरिष्यते, यत्तूपहतं तनिजसौजन्प्रग- रिभ्णा मरालचातुरीधुरीणाः स्वपरविवेचनविधुरा नैरपेक्ष्यपवित्रमनसाऽङ्गीकुर्वन्त्वि- त्याशासानो विरमति मुधा विस्तराद । इदानी ग्रन्थकृत्संबद्ध यथाविदितमितिहासप्रियलोकानां मुदे सूच्यते-अयं हि भगवद्भक्तिरसायनस्य का श्रीमधुसूदनसरस्वतीयतिः पूर्वबङ्गेषु फरीदपुरनगरा- भ्यर्णकोटालीपाड़ाग्रामस्थवैदिकश्रेणिकब्राह्मणरामचन्द्रभट्टाचार्य्यवंशजः पुरन्दरमिश्र- - ( ११ ) तनयः कमलनयननामा श्रीनवद्वीपधामस्थाद हरिरामतर्कवागीशादधीतान्वीक्षिकीकः विश्वेश्वरसरस्वतीतोऽधिगतप्रव्रज्यासंस्कारमधुसूदनसरस्वत्याख्यो माधवसरस्वती. कृपयाऽवाप्तब्रह्मविद्योऽधिकाशि चिरमुवासेति; वृत्तं श्रीनवद्वीपस्थनव्यन्यायास्स- दध्यापकमहामहोपाध्यायपरमपूज्य श्रीयदुनाथशर्मनैयायिकसार्वभौमभहर्चायचरणे- भ्योऽध्ययनवेलायामेव प्रसङ्गतोऽस्माभिराकर्णि। काशीमधिवसंश्चायं महाभागोऽनेकानन्तेवासिनोऽध्यापयन्; तदानीं काशीस्थ- प्रतिष्ठितान्ववायिनं शेषोपाख्यगोविन्दनामानं छात्रमप्यध्यजीगपत, स खलु श्रीमच्छङ्काराचाय्यंपादनिबद्धस्य "सर्ववेदान्तसिद्धान्तरहस्याख्यग्रन्थस्य टीका- निर्मायान्ते- "गुरुणा मधुसूदनेन पत् करुणाऽऽपूरितचेतसोपदिष्ठम् । तदिदं प्रकटीकृतं मयाऽस्मिन् भगवच्छंकरपूज्यपादमूले" पधमदो निबबन्ध, अयं च शेषगोविन्दपण्डितः: कंसवधपारिजातहरणचम्पूकत्तुः शेषकृष्णविद्वद्व- रस्य तनयः इत्यपि तट्टीकाऽवसाने चूर्णिकालेखतः स्पष्टमेव प्रतीयते, शेषकृष्णमहोदयस्तु पेरुभट्टस्य विद्यागुरुरासीदिति तदानीन्तनभारतसम्राजः शाहजहाँनस्य विशिष्टप्रीतिकृपाऽऽस्सदतां भजमानस्य जगनाथपण्डितराजस्य रस- गङ्गाधरारम्भपयांशतः स्फुटमवगम्यते, सुतरामुक्तसम्राट्समयासमकालवस्येव प्रकृतग्रन्थकार इति संभवमवलम्ब्य, षोडशी शताद्वी किलास्य समय इति निर्वि. चिकित्सम, इदमिन्थन्तया तु समयो नाधुनाऽप्यवरतः। श्रीमधुसूदनसरस्वतीकृता निबन्धास्त्वेतावन्तः समुपलभ्यन्ते- १ अद्वैतसिद्धिः। २ वेदान्तकल्पलता। ३ अद्वैततत्त्वरक्षणम् । ५ श्रीमद्भागवतटोका। ५ श्रीभगवद्गीताव्याख्या गूढार्थदीपिका । ६ संक्षेपशारीरकव्याख्या सारसंग्रहः। - ( १२ ) श्रीशंकराचार्यपादकृताया “न भूमिर्न तोयमिणस्पादिदशश्लोक्या व्याल्या "सिद्धान्तविन्दु" नामिका। ८ पुष्पदन्ताचार्यकृतस्थ.श्रीशिवमहिमस्तवस्य हरिहरपरा टीका। ९ वोपदेवकृतहरिलीलाऽऽयग्रन्थस्य टीका । १. भगवद्भक्तिरसायनम् । एषु तुरीयादिनवमान्ता निबन्धा व्याल्याऽऽत्मकाः, शिष्टाचत्वारस्तु सतन्त्राः, तुरीयमानं विहाय सर्वे पूर्णाः सुप्रापात्र । प्रकृतस्य भगवद्भक्तिरसायनस्योल्लासत्रयघटितस्य टीकाऽपि मूलकृतवारब्धा परन्तु प्रथमोल्लासमात्रं व्याख्यातुमपारि, परस्तादन्तरायाकुलतया नारचीति किं- वदन्याभियुक्ती। सोऽयं ग्रन्थः प्रौढिनोपयोगितयाऽनितरत्रोपलब्धप्रमाणतर्कयुक्तयुपष्टब्धत्वेन च जगतः कियदुपकारालङ्कीणतामावक्ष्यतीति विचक्षणाः सर्वपथीनशेमुषीका निर्म- सराः शास्त्रसिद्धान्तमर्मानुसंघित्सव एवालोचनेनावगन्तारस्तदर्थमिह नायास्यतेऽ- - साभिः। कतिपयाब्दतः पूर्व पूर्वबनान्तर्गतपावनाप्रान्तीयताडासाबधीशेन राज्ञाऽस- दीयशिष्येण भगवदैकान्तिकभक्तिभाजा वनमालिदासमहोदयेन श्रीवृन्दावनसेविना श्रीभगवाधाविनोदविग्रहं प्रतिहाप्य; भक्तिकाण्डप्रन्यान् प्रचिकाक्षयिषुणाऽनेका- नेनान् प्रकाशय्यैकदैवोऽपि अन्यः; प्रख्यातचरवैदुषीकैद्वैतरहस्यप्रतिष्ठापकधुरीणैर्मा- ध्वसंप्रदायाचारर्चनीयचरणैरमतातगोस्वामिश्रीगोपीलालमहाराजैर्महता पस्नेन संगृह्य पुरुषकमायाते स्वेन वर्धिते व श्रीवृन्दावनस्पेसदीयश्रीमदनगोपालपुस्त- कालये रक्षितस्तत्र विराजमानेभ्यः संगीतागमपारदर्शिभ्यो मावसंप्रदायाचाई. भ्यः पूज्यपादाममातृविचाभूषणनीवनमालिलालमहाराजेम्य भानीय तदानी. तत्संबद्ध प्रबन्धकेन नित्यस्वरूपब्रह्मचारिणा परिचायितेन केनापि संशोधन्य मुद्रितः किन्तु शोधकानवधानादिनाऽस्यन्तमशुद्धिपूर्ण एव मूलष्टीकाऽन्वितः प्रथमोल्ला- सात्मकः प्रकाशमलभत, तदेवं जातेऽप्यस्य मुद्रणेऽशुद्धिय हिम्नाऽपूर्णतया चालतुदतामयाध्या, पुनर- स्य प्रकाशनमिछुमिरात्मीयैरमिवार्यानुरोधैरवमिटोलासपटीकापूवेशमनुरुध्य- मानेन मया यथामति स्वरचितया प्रेमप्रपापवाटीकपा पिटीकोडासाहबमडीकि, ( १३ ) परन्वतदहेणापि जनेनैनेनानुष्ठीयमान साहसमेतत्क्षमिष्यन्ते सौजन्यधौरेया इति मत्वैव कश्मीरजमहाघवने शणवासःखण्डस्यूतिः कृता। तदिदं पूर्णटीकया समं भक्तिरसायनं विषयसूच्यादिना सधीचीनं श्रीमता विद्याऽऽलयादिविविधानुकरणीयसत्कर्तव्यसार्थकी क्रियमाणकमलेन विज्ञवरेण विद्या- ऽनुरागिणा सौजन्यादिगुणशेवधिना भगवद्भक्तिभाजा श्रेष्टिवर्येण गोयनकोपाख्येन श्रीगौरीशंकरगुप्तमहोदयेन प्रकाश्यमानायामच्युतग्रन्थमालायां द्वितीयपुष्पस्वेन काश्यां विकासितम्। ग्रन्थस्यास्य पुस्तकमेकं पूर्वोक्तं मुद्रितमादिमोल्लासात्मकं सटीकं, द्वितीयं च मूलमात्रं श्रीवृन्दावनस्थमुक्तचरमसदीयं, तृतीयं तु नानाग्रन्थसंग्रहैकरसिकस्य काशि- कस्य देशोपकारकत्वप्रसिद्धस्य बाबूश्रीशिवप्रसादगुप्तस्य प्रतिलिप्यात्मकं यत् किलावत्यविश्वविद्याऽऽलयेऽध्यापकेन श्रीमता एम० ए० पदवीकेन महतोपनाम- केन पण्डितश्रीगङ्गाप्रसादशर्ममहोदयेन स्वयं विलिख्यामभ्यं दत्तम् , एवं भगवत्कृपया निर्विघ्नं समाप्तमुद्रणेऽसिमिबन्धरत्ने कृतज्ञतापाशितोऽनेक- धन्यवादैरुक्तमहतामहोदयमभिनन्दयन्, शेषे च येन सूचिपत्रादिसंपादनेन भूयानस्मदायासो विभज्यातः तं वस्तिमण्डलवास्तव्यं सरयूपारीणं पतिपावना- न्वयजं काशिकविश्वविद्याऽऽलयीयोच्चश्रेणावायुर्वेदमधीयानं स्वशिष्यं श्रीब्रह्मशंकर- शर्माणमप्यदभ्राशिषैधयमानः, प्रकृतनिबन्धरसास्वादलोलुपानमिरूपरूपान् मानु. यकनान्तरीयकदोषजास्त्रुटीरुपेक्ष्यैतदालोचनायानुरुन्धमनावश्यकविस्तरादुपरमन्; प्रीयतां चानेन व्यापारेण भगवान् श्रीराधिकारमणतनुः श्रीगौरकृष्ण इति प्रार्थयते- - श्रीमन्माध्वसंप्रदायाचार्य्यदार्शनिकसार्वभौमसाहित्यदर्शनायाचार्य- तकरबन्यायरत- वै० सं० १९८४ श्रीवसन्तपञ्चम्यां- काश्याम् गोखामिदामोदरशात्री। इति शम् ।

No text on this page.

श्रीः सटीकभगवद्भक्तिरसायनस्य विषयानुक्रमः-- ... ... ... ... । ... ... विषयसख्या, पृ.-प.- १ अन्थारम्भे मङ्गलाचरणम् । ... २ ग्रन्थस्य सनामोल्लेखं प्रयोजनादेशः १३-६ ३ भगवद्भक्तिरसस्य सामान्यलक्षणम् १३-१३ ४ चित्तस्य द्रवत्वोक्तिः १४-१२ ५ चित्तद्रावकनिर्देशः १४-२० ६ दुतिप्रयोजनम् १५-२ • दुतिपूर्वावस्थायाश्चित्तशिथिलतायाः संस्काराऽऽधानानुपयोगित्वम् १५-६ ८ तत्र विनिगमकप्रदर्शनम् ... १५-१४ ९ द्रुतचित्तप्रविष्टभावस्य स्थायित्वोक्तिः १० स्थायिनः परमानन्दत्वोक्तिः १८-१७ ११ लोकेऽपि रसानामानन्दत्वोक्तिः १९-४ १२ तस्य भानप्रकार: २०-१ १३ तत्र रसताविशेष २०-१३ १४ औपनिषदरसत्वप्रदर्शनोपसंहारपूर्वकसांख्यानुसारिरस- निर्वचनोपक्रमः २०-२१ १५ प्रसङ्गाऽऽगता सायरीतिः १६ एकजातीयवस्तुनोऽपि वासनाभेदाढलक्षण्यम् २२-१ १७ उक्तार्थस्यैवोपपादनम् २२-७ १८ तत्फलितोक्तिः २२-१६ १९ प्रसङ्गाऽऽगतं चित्ताऽणुत्वनिरसनम् '२३-५ • २० चित्तस्य विषयाऽऽकारतायां वेदान्तसाहुययोः सम्प्रतिपतिः... २६ दुतचित्त विषयाकारतायाः प्रमाणम् २५-१ २ ... ... ... ... ... ८ ... २५-१२ ... २५-१६ ... ... ... २६-१३ २६-१८ २६-२२ २७-४ ... २७-१२ २८-१७ ... ४१-३ ... ३३ द्वितीया " ( २ ) विषयसंख्या, २२ तत्रैवानुमानम् २३ तत्रैव भाष्यवार्तिककारयोः सम्मतिः २४ अत्रैव विद्याऽऽरण्यमतम् २५ मानसवस्तुनो वहिर्भेदप्रतीतिः २६ बाह्याभ्यन्तरभावयोमिथो वैलक्षण्यान्तरम् २७ चित्तभावस्य विशेषनिरूपणोपक्रमः २८ चिरस्य भगवद्विषयकतायामेव कृतकृत्यता" २९ उपेक्षायाः प्रकृतानुपयोगित्वम् ३. शास्त्रनिर्दिष्टोपायश्चित्तस्य भावद्विषयकतासम्पादनम् ३१ शास्त्रीयोपायानाम् भूमिकाभेदः ३२ प्रथमा भूमिका महत्सेवा तयापात्रता ३४ तृतीया तद्धर्मेषु श्रद्धा ३५ चतुर्थी हरि गुणश्रुतिः रत्यङरोत्पत्तिः स्वरूपाधिगतिः ३८ सप्तमी प्रेमबृद्धिः परानन्दस्फूतिः स्वतो भगवद्धर्मनिष्ठा ४१ दशमी तद्गुणशालिता ४२ एकादशी प्रेम्णः पराकाष्ठा ५३ स्वरूपभूमिकासाधनसहितभक्तिसामान्यनिरूपणोपसंहार. पूर्वकप्रथमोल्लाससमाप्तिः ४४ द्वितीयोलासारम्भः १५ भक्तिविशेषनिरूपणारम्भः ४६ चित्तदुतिभेदाक्तिभेदः कामस्य चित्तद्रावकत्वोक्तिः ... ... ... " .. ४. ३६ पञ्चभी ३७ षष्ठी " ... ४१-१० ... " ७ ३९ भष्टमी ४० नवमी ४१-११ ... ... ... ... ४१-१२ ... ... ६७-२१ ... ६८-६ ... ... ६९-१९ ...

. ७१-१८ ... ... ... ... ... ... ७६-१ ... ... ... ७८-१३ ( ३ ) विषयसंख्या, ५४ रतद्वैविध्यम् ४९ क्रोधस्त्र चित्तद्रावकत्वोक्तिः ५. द्वैषस्य द्विविधफलकत्वम् ५१ उक्तद्वैविध्यप्रदर्शनम् ५२ भयलक्षणम्- ५३ स्नेहलक्षणं. तद्वैविध्यञ्च ५४ द्वितीयविधायाः पुनस्वैविध्यम् ५. हर्षलक्षणं तत्प्रकाराश्च ५६ प्रथमविधानिरूपणम् ५७ द्वितीयविधानिरूपणम् ५८ तृतीयविधानिरूपणम् ५९ चतुर्थविधानिरूपणम् ६. शोकलक्षणम् ६१ प्रसङ्गप्राप्तदयालक्षणम् ६२ जुगुप्सात्रैविध्यम् ६३ दयोत्साहलक्षणम् ६४ दानोत्साहलक्षणम् - धर्मोत्साहलक्षणम् ६६ शमलक्षणम् ६७ उक्तान्यभावानां चिसागावकत्वम् ६८ विसद्भुतीनां स्थायित्वम् ६९ भावषट्कस्याभक्तिरूपता ७० तत्र कारणम् १ भावविशेषस्य भगवद्विषयकत्वेऽप्यभक्तित्वम् ७९ तत्रैव हेतुः ७३ भक्तित्वयोग्यभावाः ७४ एषां भक्तिरसत्वम् ... ... ... ... ७९-१८ ... ... ... ८०-१७ ... ... ... ८१-१० ... ८२-२ ... ... ८९-२० ... ... ... ...

पृ.-प.. ९१-९ ... ... ... ९३-२३ ... ... ... ... ... ... ९४-२५ ... ... ९५-२० ... ... ९६-१५ ९७-१४ ९७-२४ ... ... ... १०३-९ ... १०३-२१ १०४-२४ विषयसंख्या, ७५ भक्तिरसनिर्देशः ७६ अमिश्ररतिनिर्देशः ७७ अमिश्ररतिस्थायिकरसाः ७८ शृङ्गाररसनिर्देशः ७९ रसानां पुनश्चातुर्विध्यम् ८० तेषां निरूपणम् ८१ भक्केः प्रकारान्तराणि ८२ उक्तप्रकारेषु द्वयोरेव रतित्वम् ८३ प्रकारान्तरेण भक्तः पुनसैविध्यम् १४ उक्तत्रविध्यविशदीकरणम् ८५ भक्तिम्प्रति द्रुतेः कारणत्वम् ८६ रतिप्रीत्योस्तादात्म्यम् ८७ रतेस्तारतम्यम् ८८ रतेः पुनरल्पाधिकत्वे तत्वैविध्यञ्च ८९ उक्तत्रैविध्यस्य स्थलप्रदर्शनम् ९. उक्तत्रैविध्याया भक्तेः पुनर्भेदाष्टकम् ९. समारोपजायां विशेषः ९२ उक्तभक्तः पुनद्वविध्यम् ९३ अनुपाधिभक्तिरेकैव ९४ सोपाधिभक्तिविधा ९५ निरुपाधिभक्तिविवरणम् ९६ तत्रैव वैलक्षण्यम् ९७ साधनदिगुपदेशः ९८ गौणरतितो रसस्थितिः ९९ स्वरूपभाग्भक्तः स्वरूपम् १०. भगवद्भक्त रसत्वस्थापनम् १०१ तत्रैव प्रतिवन्दी ... १०५-१७ ... ... १०८-१ १०९-१३ ... ... १०९-१८ ... ... ११०-२ ... ११०-८ ... ११०-१७ ... ... १११-२२ ... ११२८ ... ... ११२-१३ ११३-४ ... ... ... ... ११३-१९ ... ११४-१० ... ... ... ... ११५-९ ... ... ११५-१९ १२८-१९ १२९-१४ ... १२९-२३ : १३०-२० १३१--२ ... १३१-९ ... ... १३१-१५ ... ( ५ ) विषयसंख्या, १०२ द्वितीयोल्लाससमाप्तिश्च १०३ तृतीयोल्लासारम्भः १०४ रससम्बद्धशङ्काचतुष्टयम् १०५ प्रथमशङ्कोत्तरम् i०६ द्वितीयशङ्कोत्तरम् १०७ स्थायिनो द्वैविध्यम् १०८ तत्र कारणम् १०९ तस्य विशदीकरणम् ५१० विभावतायोग्यवस्तुनिर्देशः १११ अनुभावतायोग्यतनिर्देशः । ११२ सञ्चारितायोग्यतनिदेशः ११३ मिलितानामेषां कारणत्वम् ११४ तेषामलौकिकत्वप्रतिपादनम् ११५ रसस्य दैविध्यम् ११६ मतान्तरे रसव्यवस्था ११७ रसस्य संलक्ष्यक्रमत्वे युक्तिः ११८ प्रसङ्गात् संरक्ष्यक्रमनिर्देशः ११९ असंलक्ष्यक्रमध्वनिविशदीकरणम् १२० प्रसङ्गतो रसप्रतिबन्धकनिर्देशः १२१ तत्साधकनिर्देशः १२२ पूर्वोक्ततृतीयशङ्कोत्तरम् १२३ शाब्दज्ञानस्याऽपि प्रत्यक्षत्वम् १२४ चतुर्थशङ्कोत्तरम् १२५ अन्योक्तरमवैलक्षण्ये सम्प्रतिपत्तिः १२६ निष्कृष्टसिद्धान्तः १२७ उक्तार्थे मीमांसकानुमोदनम् १२८ तत्रैव प्रभाकरानुमतिः ... १३२-७ ... ... १३२-२३ ... १३५- ... ... १३५-१५ ... ... १३६-१२ ... ... १३८-६ ... १४०-२१ ... ... ... १४१-२ १४१-१० १४१-२० ... ... १४२-१२ ... १४३-७ १४४-१७ .... १४५-२

६ )
पृ.-प.-
...
...
१४५-८
विषयसंख्या,
१२९ एकदेशिमतनिराकरणम्
३० शब्दस्य नियोगपरत्वनियमभङ्गः
१३. अत्रैवाद्वैतवादिनामप्यनुमोदनम्
३२ ग्रन्थस्योपसंहारः
...
...
.
१४५-१७
...
...
१४६-३
...
...
१४६-१५
ग्रन्थान्ते सौकर्थाथ पार्थक्येन मूलकारिकापाठश्च

. सटीकम् भक्तिरसायनम् । भक्तिसामान्यनिरूपणनामकः प्रथम उल्लासः। - पदनखनिविष्टमूर्तिक एकादशतामिवावहनिष्ठाम् । यं समुपास्ते गिरिशस्तं वन्दे नन्दमन्दिरे कश्चित् ॥. ग्रन्थारम्भे सम्भावितविघ्ननिवारणबुद्ध्या भगवदनुध्यान- रूपं मङ्गलमङ्गीकुर्वन्नादौ प्रेक्षापूर्वकारिमवृत्त्यङ्गतयाऽभिधेयप्रयोजन- सम्बन्धानाचष्टे शिष्टाग्रणीन्यकार:-~- नवरसमिलितं वा केवलं वा पुमर्थ- परममिह मुकुन्दे भक्तियोगं वदन्ति । निरुपमसुखसंविद्रूपमस्पृष्टदुःख- तमहमखिलतुष्ट्य शास्त्रदृष्ट्या व्यनज्मि ॥१|| कर्मयोगोऽष्टागयोगो ज्ञानयोगो भक्तियोग इति चबारः पुमर्थत्वेन प्रसिद्धा योगाः। योगास्त्रयो मया प्रोक्ता नृणां श्रेयोविधित्सया । ज्ञानं कर्म च भक्तिश्च नोपायोऽन्योऽस्ति कुत्र चिद् ॥ [श्री. भा० ११ ।२.] इति भगवदचनेनाष्टाङ्गयोगोऽपि ज्ञानयोगान्तर्गतो द्रष्टव्यः।

सटीके भक्तिरसायने- मन एकत्र संयुञ्ज्याज्जितश्वासो जितासनः। वैराग्याभ्यासयोगेन ध्रियमाणमतन्द्रितः ।। [श्री. भा० ११ । ९] इत्यादिना तस्यापि व्युत्पादनात् । तत्र "गर्भाधानपुंसवनसीमन्तोनयनजातकर्मनामकरणान- प्राशनचौलोपनयनानि चवारि वेदव्रतानिस्नानं सहधर्मचारिणी- संयोगः पञ्चानां यज्ञानामनुष्ठानमष्टकाद्या पार्वणः श्राद्धं श्राव- एयाग्रहायणी चैत्र्याश्वयुजी चेति सप्त पाकयज्ञसंस्थाः, अग्न्याधेय- मग्निहोत्रं दर्शपौर्णमासौ गतुर्मास्यान्याग्रयणेष्टिः निरूढपशुबन्धः सौत्रामणी चेति सप्त हविर्यज्ञसंस्थाः, अग्निष्टोमोऽत्यनिष्टोम उक्थ्यः षोडशी बाजपेयोऽतिरात्रोऽसोर्यामइति सप्त सोमसंस्था” श्वेत्या- दिशास्त्रविहितो वर्णाश्रमधर्मरूपः कर्मयोगोऽन्तःकरणशुद्धिसा धनत्वेन तावत्पर्यन्तमनुष्ठेयः। तावत् कर्माणि कुर्वीत नो निर्विघेत यावता । मत्कथाश्रवणादौ वा श्रद्धा यावन जायते ॥ [श्री. भा० ११ । २०] इति भगवद्वचनाद, निदिएणचित्तं ब्राह्मणं ब्रह्मिष्ठं गुरुमुपासीतेत्यादिश्रुतेश्च । अन्तःकरणशुद्धिसाधनत्वं च तस्य "धर्मेण पापमपनुदति तस्माद्धर्म परमं वदन्ति", "येन केन यज्ञेनापि चा दर्विहोमे नानुपहतमना एव भरती"त्यादिश्रुतिसिद्धम् । ततश्चाद्रुतचित्तस्य निर्वेदपूर्वक तत्त्वज्ञानं द्रुतचित्तस्य तु भगवत्कथाश्रवणादिभागवतधर्मश्रद्धापूचिका भक्तिरित्यवधि- त्वेन द्वयमप्युपात्तम्, ततोऽन्तःकरणशुद्ध्याष्टाङ्गयोगमनुष्ठाय तैल- धारावदविच्छिमभगवदेकाकारप्रत्ययपरम्पराऽऽत्मकैकाग्रतायोग्यं- मनः सम्पादयेत् ।

३ प्रथमोल्लासः। यदाऽऽरम्भेषु निविएणो विरक्तः संयतेन्द्रियः । अभ्यासेनात्मनो योगी धारयेदंचलं मनः ।। धार्यमाणं मनो यहि भ्राम्यदावनस्थितम् । अतन्द्रितोऽनुरोधेन मार्गेणात्मवशं नयेद् ॥ [श्रा० भा० ११ । २.] इत्यादिभगवद्ववचनात् । तमिश्च सति- "प्रमानित्वमदम्भित्व" मित्याचारभ्य "एनज्ज्ञानमिति मोक्त-" मित्यन्तेन ग्रन्थेन [१३ अ० ७-११] भगवद्गीतोपनिष- दुपदिष्टो ज्ञानयोगः प्रतिष्ठितो भवति देहेन्द्रियायनासङ्गात्मकः । साङ्ख्येन सर्वभावानां प्रतिलोमानुलोमतः । भवाप्ययावनुध्यायेन्मनो यावत् प्रसीदति ॥ निबिएणस्य विरक्तस्य पुरुषस्योतवेदिनः । मनस्त्यजति दौरात्म्यं चिन्तितस्थानुचिन्तया । यमादिभिर्योगपथैरान्वीक्षिक्या च विद्यया । ममार्बोपासनाऽऽद्यैर्वा नान्यैर्योग्यं स्मरेन्मनः ॥ [श्री. भा० ११ । २० इत्यादिभगवद्वचनात् । अत्र "मनो यावत् प्रसीदती"ति भक्तियोग एव ज्ञानावधि- त्वेनोक्तः, भक्तियोगं विना मनसः सम्यकप्रसादाभावाद, "मनस्त्यजति दौगत्म्य"मित्यत्रापि स एव योगः। “ममार्ची- पासनाऽऽयुर्वे"ति "मयि चानन्ययोगेन भक्तिरव्यभिचारिणी". ति ज्ञानयोगान्तर्गतया साधनभक्त्येत्यर्थः । ततश्च- प्रोक्तेन भक्तियोगेन भजतो माऽसकृन्मुने ।। कामा हृदय्या नश्यन्ति सर्वे मयि हृदि स्थिते ।। [श्री. भा० १२० सटीके भक्तिरसायने- इत्यादिभगवद्वचनानुसारिण्या साधनभक्तिनिष्ठया निखिल- मपि प्रमाणं भगवत्येव प्रतिष्ठापयतः सकलविषयविमुखमनसो. महाभागस्य कस्य चिद्भगवद्गुणगरिमग्रन्थनरूपग्रन्थश्रवण- जनितद्रुतिरूपायां मनोवृत्ती सर्वसाधनफलभूतायां गृहीत- भगवदाकारायां विभावानुभावव्यभिचारिसंयोगेन रसरूपतया "विभावानुभावव्यभिचारिसंयोगाद रसनिष्पत्तिरि"ति; विभावो द्विविधः-आलम्बनविभाव उद्दीपनविभावश्च, तत्रालम्बनविभावो भगवान् , उद्दीपनविभावः तुलसीचन्द- नादिः, अनुभावो नेत्र विक्रियाऽऽदिः, व्यभिचारिणो भावा- निर्वेदादयः, व्यक्तीभवद्भगवदाकारतारूपरसाख्यः स्थायी भावः परमानन्दसाक्षात्कारात्मकः प्रादुर्भवति स एव भक्तियोग इति तं परमं निरतिशयं पुरुषार्थ वदन्ति रसज्ञाः3; 'तस्मान्मद्भक्तियुक्तस्य योगिनो वै मदात्मनः । न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेदिह ।। यत्कर्मभिर्यत्तपसा ज्ञानवैराग्यतश्च यत् । योगेन दानधर्मेण श्रेयोभिरितरैरपि ॥ सर्व मद्भक्तियोगेन मद्भक्तो लभतेऽञ्जसा । स्वर्गापवर्ग मद्धाम कथञ्चिद् यदि वाञ्छति ॥ न किञ्चित् साधवो धीरा भक्ता ह्यकान्तिनो मम । वाञ्छन्त्यपि बया दत्तं कैवल्यमपुनर्भवम् ।। नैरपेक्ष्यं परं पाहुनिःश्रेयसमनल्पकम् । तस्मानिराशिषो भक्तिनिरपेक्षस्य मे भवेत् ॥ न मय्येकान्तभक्तानां गुणदोषोद्भवा गुणाः। साधूनां समचित्तानां बुद्धः परमुपेयुषाम् ।। [श्री. भा० ११०२०] प्रथमोल्लासः। ५ इत्यादिवचनानि तदनुभवितारश्च । दुःखासम्भिन्नसुखं हि परमपुरुषार्थ इति सर्वतत्रसिद्धान्तः। धर्मार्थकाममोक्षाश्चवारः पुरुषार्था इति प्रसिद्धिस्तु लागलं जीवनमितिवत् साधने फलस- वचनादौपचारिकी, अतो न सुखमेव पुरुषार्थ इति पक्षहानिः । मुखं दुःखाभावश्च द्वौ पुरुषार्थाविति तार्किकाः, तन्न-लाघवेन मुखमात्रस्यैव पुरुषार्थखकल्पनात् । इच्छाजनकत्वे हि ज्ञानस्य मुखविषयकलमेवावच्छेदकन तु सुखदुःखाभावान्यतरविषयकत्वं गौरवाद, दुःखाभावस्य तु सुखपरिचायकत्वेनोपयोगः । यत्तु न्यायनिबन्धकारैः शङ्कितं दुःखाभावस्य सुखार्थत्वेनै- वोपयोगेऽभिहिते सुखस्यापि दुःखाभावार्थिनोपयोगो वक्तुं शक्यते विनिगमनाविरहात् तस्मादुभयं पुरुषार्थ इति । तदयुक्तम्-व्याप्यव्यापकभावस्यैव विनिगमकत्वाद, यदा सुखं तदा दुःखाभाव इति हि व्याप्तिः सर्वसम्मता निरुपाधि- सहचारदर्शनाद, अतो दुःखाभावस्य सुखकालेऽवश्यम्भाबिखात् सुखपरिचायकत्वमुपपद्यते तद्व्यापकत्वात्तस्य,यदा दुःखाभावस्तदा . मुखमिति न तद्वव्याप्तिः सुषुप्तिप्रलयादौ व्यभिचाराद, अतो दुःखाभावस्य सुखाव्याप्यत्वान तत्परिचायकत्वं सुखस्य, व्याप- कत्वं हि व्याप्यस्थितिहेतुत्वनान्यथासिद्धं, सुखश्च न दुःखा- भावव्यापकमतस्तदेव स्वतन्त्रः पुरुषार्थः, दुःखाभावस्य सुवार्थ- त्वेनोपयोगे सर्वदुःखशून्यस्य दुःखाभावस्य मोक्षस्य पुरुषार्थत्वं- न स्यादिति चेद ? दोयतां जलाञ्जलिस्तस्मै,परमानन्दरूपत्वेन तु तस्य पुरुषार्थत्वं वेदान्तविदो वदन्ति;अतो भगवद्भक्तियोगस्यापि दुःखासम्भिन्त्रमुखत्वेनैव परमपुरुषार्थत्वमित्याह-"निरुपममुख- संचिद्रूपमस्पृष्टदुःख"मिति । एतेन भक्तिर्न पुरुषार्थो धर्मार्थकाममोशेष्वमन्नर्माणा- दित्यादिकं सर्वमपास्तम् ।

६ सटीके भकिरसायने- . धर्मार्थकामानां स्वतःपुरुषार्थत्वाभावात् तज्जन्यमुखस्यैव पुरुषार्थत्वे गौरवादननुगमाच, धर्मजन्य त्वादिविशेषणं परित्यज्य मुखमात्र पुरुषार्थ इति स्थिते समाधिमुखस्येव भक्तिमुखस्यापि खतन्त्रपुरुषार्थत्वात्, तस्य मोक्षसमीपवर्तितया मोक्षान्तर्भूतत्वे योगजधर्मजन्यतया धर्मान्तर्भूतत्वे वा; भक्तिसुखस्यापि भाग- वतधर्मजन्यतया धर्मान्तर्भावस्य श्रद्धाजडान प्रति वक्तुं शक्य- त्वाद भक्तस्य संसारमोक्षस्यावश्यकत्वाद् मोक्षान्तर्गतो वा भक्तियोगः, तस्मात् पुरुषार्थचतुष्टयान्तर्गतत्वेन वा स्वातन्त्र्येण वाऽयं भक्तियोगः पुरुषार्थः परमानन्दरूपत्वादिति निर्विवादम् । तस्य परमानन्दरूपतामुपपादयन्नवान्तरविभागमाह- "नवरसमिलितं वा केवलं वे" ति, स्पष्टमेतदुपारष्टात् करि- ष्यते । “मुकुन्द" इति भक्तियोगस्य विषयनिर्देशः सर्वान्तर्यामी सर्वेश्वर एव भक्तिरसालम्बनविभाव इति वक्ष्यते, ग्रन्थादौ मङ्गलमाचरतां- सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम् । येषां हृदि स्थितो सानाद् मङ्गलायतनं हरिः ॥ इति स्मृतेः, "तमहं व्यनज्मी”ति अभिधेयसम्बन्धनिर्देशः, "शास्त्रदृष्टये”त्यमूलत्वनिवारणम् , “अखिलतुष्टया"यिति प्रयो- जननिर्देशः, साधूनां हि तुष्टिः स्वाभाविकी; अन्येषामप्येतद्- ग्रन्योक्तयुक्तिभिरसम्भावनाविपरीतभावनाऽऽदिनिवृत्याऽन्तःकर- पशुद्धहे तोरित्यभिप्रायः। के पुनर्भक्तियोगस्य पुमर्थवादाः १ शृणु तान् - नतोऽयः शिवः पन्था विशतः संमृताविह । पाहदेवे भगवति भक्तियोगो यतो भवेत् ॥ [भी० मा०२।२] प्रथमोल्लासः। धर्मः स्वनुष्ठितः पुंसां विश्वक्सेनकथासु यः । नोत्पादयेद् यदि रतिं श्रम एव हि केवलम् ॥ [श्री. भा० ।।२] दानव्रततपोहोमजपस्वाध्यायसंयमैः । श्रेयोभिर्विविधैश्वान्यैः कृष्णे भक्तिहिं साध्यते ॥ [ श्री. भा० १० । ४७ ] भगवान् ब्रह्म कात्स्र्नेन त्रिरन्वीक्ष्य मनीषया । तदध्यवस्यत् कूटस्थो रतिरात्मन् यतो भवेत् ।। [श्री. भा० २।२] एनावानेव लोकेऽस्मिन् पुंसां निःश्रेयसोदयः । तीव्रण भक्तियोगेन मनो मय्यर्पितं स्थिरम् ।। [श्री. भा० ३ । २५] या निर्वृतिस्तनुभृतां तव पादपद्म- ध्यानाद्भवज्जनकथाश्रवणेन वा स्यात् । सा ब्रह्मणि खमहिमन्यपि नाथ ! मा. भूत् किन्त्वन्तकासिलुलितात् पततां विमानाद् ।।, [श्री. भा० ४।९] इत्यादयः। भत्र हि सर्वसुकृतसाधत्वेन सर्ववेदतात्पर्यविषयत्वेन चार्थानिःश्रेयसनिशिब्दाभ्याश्च साक्षादेव पुरुषार्थत्वं दर्शितम् । गीतासु च- योगिनामपि सर्वेषां मद्तेनान्तरान्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥ [गीता ] इत्यादिना । ननु भक्तियोगस्य साधनत्वमपि बोधयन्त्यन्ये वादा:- सटीके भक्तिरसायने- बासुदेबे भगवति भक्तियोगः प्रयोजितः । जनयत्याशु वैराग्यं ज्ञानं यत्तदहैतुकम् ॥ [श्री. भा० ।।२ अकामः सर्वकामो वा मोतकाम उदारधीः । तीव्रण भक्तियोगेन यजेत पुरुषं परम् ॥ [श्री. भा० २।३] के चित् केवलया भक्त्या वासुदेवपरायणाः । अघं धुन्वन्ति कात्स्न्येन नीहारमिव भास्करः ।। [श्री. भा० ६ । १] गीतासु च- भक्त्या मामभिजानाति यावान् यश्चास्मि तत्त्वतः । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥ [१८ अ । ५५ ] इत्यादयः । अत्रान्यसाधनत्वेन सातादपुरुषार्थत्वं स्पष्ट- मेवोक्तम् ? अत्रोच्यते-फलसाधनभेदेन भक्तिद्वैविध्योपपत्तेरदोषः, तथा हि-"भजनमन्तःकरणस्य भगवदाकारतारूपं भक्ति"रिति भावव्युत्पत्त्या भक्तिशब्देन फलमभिधीयते, तस्य च निरतिशय- पुमर्थत्वात् पूर्वोक्तवादानां प्रामाण्यमव्याहतम् , तथा "भज्यते सेव्यते भगवदाकारमन्तःकरणं क्रियतेऽनये"ति करणव्युत्पत्त्या भक्तिशब्देन श्रवण कीर्तनादि साधनमभिधीयते, तस्य च स्वयं- पुरुषार्थत्वाभावात् साधनत्ववादानामपि प्रामाण्यमविरुद्धम् । यथा "विज्ञप्तिर्विज्ञान"मिति भावव्युत्पत्या 'विज्ञानमानन्दो- ब्रह्म' [३। ६ । २८ बृ० प्रा० उ० ] इत्यत्र विज्ञानशब्दो- ब्रह्मणि वर्चते, "विज्ञायतेऽनेने"ति करणव्युत्पत्त्या 'विज्ञान- यई तनुते' [२। ५ । १ । तैत्ति० उ० ] इत्यादावन्तःकरणे वर्त्तते तद्वत् । एतच्च स्पष्टीकृतं प्रबुद्धेन- - प्रथमोशाला। सरन्तः, स्मारयन्तश्च मिथोऽघोषहरं हरिम् । भक्त्या सातया भक्त्या विभ्रत्युत्पुलका तनुम् ॥ इति [श्री. भा० ११ स्क० ३.] अत्र करणव्युत्पत्त्या प्रथमभक्तिशब्दो · भागवतधर्मेषु प्रयुक्तः, द्वितीयस्तु भावव्युत्पत्त्या फले । इति भागवतान् धर्मान् शिलन् भत्त्या तदुत्थया । नारायणपरो मायामञ्जस्तरति दुस्तराम् ।। [श्री. भा० ११ स्क० ३ ० ] इत्युपसंहारे प्रथमभक्तिपदस्थाने भागवतधर्मशब्दप्रयोगाद। न चाध्ययनस्याक्षरग्रहणात्मकस्याप्यक्षरग्रहणमेव फलं गुबधी- नखतदनधीनखाभ्यां विशेषाद, एलमत्रापि भागवतधर्मरूपा भक्तिरेव गुर्बधीनत्वेन साधनं तदनधीनत्वेन च निष्ठां प्राप्ता सती सैव फलमिति, न साधनफलभेदेन भक्तिद्वैविध्योपपति- रिति वाच्यम्, क चिद्रुदन्त्यच्युतचिन्तया क चि- दसन्ति नन्दन्ति बदन्त्यलौकिकाः। नृत्यन्ति गायन्त्यनुशीलयन्त्यज- भवन्ति तूष्णीं परमेत्य निर्वृता इति मध्ये कृतकृत्यलपरामर्शाद, यदा ह्यध्ययनफलस्याक्षरग्रहण- स्यार्यज्ञानानुष्ठानादिवद्ध भागवतधर्माजनिताया भक्तरपि फला- न्तरसाधनत्वमभविष्यत् तदा परं पुरुषार्थ प्राप्य निर्वृतास्तूष्णीं- भवन्तीति कृतार्थतां नावच्यद,मपि तु तदनन्तरमनुष्ठेयान्तरमपेक्षेत न च निर्दिशति; तस्मात् साधनफलभेदेन भक्तिदैविध्योपपत्तेः, साधनसवचनानां फलखवचनानाच विषयविभागेन सर्वत्रा- विरोधः सिद्धः, "अपंधुन्वन्ति कात्स्येने” त्यादिफलसाधनयों समानफलस्पाया अपि भक्तर्दृष्टादृष्टरूपताया वक्ष्यमाणसाद, एवं - - सटीके भक्तिरसायने- इदं हि पुंसस्तपसः श्रुतस्य वा खिष्टस्य सूक्तस्य च बुद्धदत्तयोः । अविच्युतोऽर्थः कविभिनिरूपितो- यदुत्तमश्लोकगुणानुवर्णनम् ॥ [श्री. भा० १ स्क० ५ ० ] निवृत्ततरुपगीयमानाद भवौषधाच्छोत्रमनोऽभिरामाद । क उत्तमश्लोकगुणानुवादात पुमान् विरज्येत विना पशुनाद [श्री. भा० १० स्क० १ ० इत्यादौ साधनवचनं फलपरतया योजनीयम्, 'गोभिः श्रीणीत- मत्सर' मितिवद, अत्र हि गोप्रभवः तीरैर्मत्सरंसोमं मिश्रयेदित्यर्थः स्थितः पूर्वतन्त्रे, उत्तरतन्त्रे च महतः परमव्यक्तमित्यत्राव्यक्त- शब्दस्तत्मभवशरीरमाचष्ट इति स्थितमानुमानिकाधिकरणे "सूक्ष्मन्तु तदर्थवादि” त्यत्र । एवमत्रापि गुणानुवर्णनगुणानु- वादशब्दौ तज्जन्यप्रीतिपरतया योज्यौ, अन्यथा परमपुरुषार्थवा- योगात् । ननु तर्हि नामान्तरेण ब्रह्मविवि भगवद्भक्तिरित्युक्त- तया हि- - तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति । यझेन दानेन तपसाऽनाशकेन [४ । ४ । २२ । वृ० आ० उ.] इत्यादिश्रुत्या सर्वसुकृतसाध्यत्वेन ब्रह्मविद्या प्रतिपादिता सर्वापेक्षाऽधिकरणे च तथैव निर्णीता, इहापि पूर्वोदाहृतवचनैः सर्गसकृतसाध्यत्वेन लक्षणेन भगवद्भक्तब्रह्मविद्यारूपतायाः पति- पादनाद, तस्याश्च निरतिशयपुमर्थवस्य चतुर्लक्षणमीमांसयाऽ- ११ " , प्रयमोबासः। पतिपत्तिविमतिपत्तिनिवारणेन व्यवस्थापितबाद व्यर्थोऽयं विचा- रारम्भ इति चेद ? न-खरूपसाधनफलाधिकारिवैलक्षण्याद भक्तिब्रह्मवि- घयोः, द्रवीभावपूर्विका हि मनसो भगवदाकारता सविकल्पक- वृत्तिरूपा भक्तिः, द्रवीभावानुपेताऽद्वितीयात्ममात्रगोचरा निबि- कल्पकमनसो वृत्तिर्ब्रह्मविद्या, भगवद्गुणगरिमग्रन्थनरूपग्रन्थश्रवणं- भक्तिसाधनम् , 'तत्वमस्या दिवेदान्तमहावाक्यं ब्रह्मविद्यासाध- नम्, भगवद्विषयकप्रेमप्रकर्षो भक्तिफलम् , सर्वानर्थमूलाज्ञाननि- वृत्तिर्ब्रह्मविद्याफलम्, प्राणिमात्रस्य भक्तावधिकारः, ब्रह्मविद्या- यान्तु साधनचतुष्टयसम्पन्नस्य परमहंसपरिव्राजकस्याधिकारः। सर्वयज्ञदानादिसुकृतसाध्यत्वं समानं भक्तिब्रह्मविषयोः वर्ग- विविदिषयोरिव, यथा “स्वर्गकामो दर्शपौर्णमासाभ्यां यजेते"ति स्थित एव स्वर्गसाधनत्वे सर्वकामेभ्यो "दर्शपौर्णमासा" विति वाक्येन फलान्तरसाधनसमपिबोध्यते, तथा"तमेतं वेदानुवचनेने". त्यादिना स्थित एव फलसाधनत्वे संयोगपृथक्वन्यायेन विवि- दिषासाधनत्वमपि बोध्यते, एवं भक्तिब्रह्मविद्ययोरपि स्वर्गब्रह्म- विद्ययोरिव फलसाधनभावाभावश्च तुल्यसाधनसाध्यखश्च भवि- ष्यति, सामयैक्ये हि काय्यॆक्यं न तु कारणमात्रैक्येऽतिप्रसङ्गात्। ननु ब्रह्मविद्याऽतिरिक्तत्वे भक्तेः स्वर्गादिवर निरतिशय- पुरुषार्थत्वं न स्यादिति चेद् ? न-स्वर्गादेनियतदेशकालशरीरेन्द्रियादिभोग्यत्वेन सर्वत्रो. पभोक्तुमशक्यखात् क्षयिवपारतन्त्र्यलक्षणदुःखद्यावृषिद्धत्वेन निरतिशयवाभावेऽपि; भक्तिसुखधारायाः सर्वदेशकालशरीरे- न्द्रियादिसाधारण्येन ब्रह्मविद्याफलवदुपभोक्तुं शक्यखात् चयिन- पारतन्त्र्यलक्षणद्वयानुरोधाभावेन निरतिशयिखोपपत्तेः, तदुक्तम्- १५ सटीके भक्तिरसायन हिला स्वधर्म चरणाम्बुजं हरे- भंजनपकोऽथ पतेत्ततो यदि । यत्र क वाऽभद्रमभूदमुष्य किं- कोवाऽर्थातो भजतां स्वधर्मतः॥ [श्री. भा० । स्क. ५.] न वै जनो जातु कथञ्चनाजे- न्मुकुन्दसेव्यन्यवदङ्ग ! संसृतिम् । स्मरन्मुकुन्दाध्युपगृहनं पुन- विहातुमिच्छेन्न रसग्रहो यतः ।। [श्री. भा० १ स्क० ५ भ० सकृन्मनः कृष्णपदारविन्दयो- निवेशितं तद्गुणरागि यैरिह । न ते यमं पाशभृतश्च तभटान्- खमेऽपि पश्यन्ति हि चीर्णनिष्कृताः॥ [ श्री. भा० ६ स्क० १ अ. इत्यादि । अत एवापत्चावपि दुःखासंस्पर्शिवप्रतिपादनाया- स्पृष्टदुःखमिति विशेषणमुपात्तम्, अत एव च न परिणतिविर- सेन स्वर्गादिना साम्यम्, एतेन लौकिकरसवैलक्षण्यमपि व्या- ख्यातम् । तस्यापि शास्त्राविहितत्वेन पापक्षयाहेतुत्वेनापत्तौ दुःख- संस्पर्शित्वात, भक्तस्तु दृष्टादृष्टफलतया महान् विशेषो वक्ष्यते । नन्वेवं सति भक्तिमुखाद्वैराग्यासम्भवेन मुमुक्षुखासम्भवा- पदधिकारिकचतुर्लक्षणमीमांसाऽऽरम्भो न स्यादिति चेत् ? सत्यम्, भक्तिमुखासक्तान् प्रति तस्या अनारम्भाद, भजनीयख- रूपनिर्णयार्थ भक्तानामपि तद्विचारस्यावश्यकलाच, भक्तिसुखा- देराग्यं न स्यादिति बिष्टमेव; नापादितम् ।

१३ प्रथमोल्लासः। आत्मारामाच मुनयो निर्ग्रन्था अप्युरुक्रमे । कुर्वन्त्यहेतुकी भक्तिमित्यम्भूतगुणो हरिः॥ [श्री० भा० १ स्क० ७ ० •]] इत्यादिना जीवन्मुक्तानामपि भगवद्भक्तिमतिपादनात् ॥१॥ तस्मादस्य ग्रन्थस्य नामकथनद्वारा प्रयोजनमुद्दिशति- संसाररागेण बलीयसा चिरं- निपीडितैस्तत्पशमेऽतिशिक्षितम् । इदं भवद्भिर्बहुधा व्ययातिगं- निपीयतां भक्तिरसायनं बुधाः ॥ २ ॥ स्पष्टम् ॥ २ ॥ भगवद्भक्तरसरूपतया पुमर्थतां वक्तुं प्रथमं सामान्यलक्षण- माचष्टे-- द्रुतस्य भगवद्धर्माद्धारावाहिकतां गता। सर्वेशे मनसो वृत्तिभक्तिरित्यभिधीयते ॥३॥ भगवद्धर्मश्च भगवद्गुणश्रवणं न तु धर्मबुद्ध्या तदनुष्ठान- पर्यन्तं विवक्षितम्- "तस्मात् केनाप्युपायेन मनः कृष्णे निवेशयेद" [श्री० भा० ७ स्क० । अ० इत्यत्रापि केनाप्युपायेनेति धर्मबुख्याऽनुष्ठितेनायबसिदेन वा भगवदगुणश्रवणेनेत्यर्थः । तेन शिशुपालादौ नान्यातिः, भगवद्गुणथवणेन वक्ष्यमाणकामक्रोधाद्दीपनद्वारा द्रवावस्था- माप्तस्य चित्तस्य धारावाहिकी या सर्वेशविषया वृत्तिर्भगवदा- कारतेत्यर्थः तदाकारतैव हि सर्वत्र वृत्तिशब्दार्थोऽस्माकं दर्शने. तः सा भक्तिरित्यभिधीयते शास्त्रविद्भिः, ]

सटोके भक्तिरसायने-
-
तथा च शास्त्रम्-
मद्गुणश्रुतिमात्रेण मयि सर्वगुहाशये।
मनोगतिरविच्छिन्ना यथा गङ्गाम्भसोऽम्बुधौ ॥
लक्षणं भक्ति योगस्य निर्गुणस्य युदाहृतम् ।
[श्री. भा०३ स्क० २९ अ.]
अत्राविच्छिन्नेति धारावाहिकता दर्शिता, यथा गङ्गाम्भस-
इति दृष्टान्तेन दान्तिकेऽपि मनसि द्रवावस्था, मयि सर्वगुहा-
शये मनोवृत्तिरिति सर्वेशाकारता, तेनाद्रवावस्थायां धारावाहि-
क्यपि वृत्तिवावस्थायामाशु विनाशिनी सा द्रवखधारावाहिक-
बमयुक्ताऽप्यसर्वेशविषया न भक्तिरित्युक्तम् ॥ ३॥
तदेव स्पष्टयितुं चित्तचेष्टितमाचष्टे-
चित्तद्रव्यं हि जतुवत् स्वभावात् कठिनात्मकम् ।
तापकैर्विषयैोंगे द्रवत्वं प्रतिपद्यते ॥४॥
जतुनो हि दहनात्मकतापकयोगमन्तरेण काठिन्यशान्तिन
भवति; सौरालोकादियोगे तु शिथिलीभावमानं न द्रुतिरिति
सर्वसिद्धम्, एवं चित्तस्यापि वक्ष्यमाणकामादिविषयात्मकतापक-
संयोगं विना न द्रवीभावो विषयमात्र संयोगपाटवे तु शिथिली-
भावमात्रमिति तापकपदोपादानेन सूचितम् ॥ ४ ॥
तानेव तापकानाह-
कामक्रोधभयस्नेहहर्षशोकदयाऽऽदयः ।
तापकाश्चित्तजतुनस्तच्छान्तौ कठिनन्तु तत् ॥५॥
एषां प्रत्येक लक्षणं भेदांश्च वक्ष्यति, यद्विषये कामादीना-
मुद्रेकस्तविषये चित्तस्य द्रवीभावः; पुनर्विषयान्तरसश्चारादिना
कामादितिरोभावे काठिन्यमेवेत्यर्थः ॥ ५ ॥

प्रथमोहासः द्रवीभावप्रयोजनमाह- द्वते चित्ते विनिक्षिप्तः स्वाकारों यस्तु वस्तुना । संस्कारवासनाभावभावनाशब्दभागसौ ॥६।। न तु विनश्यता ज्ञानेन जनितस्तार्किकादिपरिकल्पित प्रात्म- गुण इत्यर्थः ॥ ६॥ शिथिलीभावमात्रन्त मनो गच्छत्यतापकैः । न तत्र वस्तु विशति वासनात्वेन किञ्चन ॥७॥ तु; ईषदर्थे, अतापकैरीषत्तापकैः सौरालोकादिस्थानीयैर्विषोंगे सति मनः किश्चिदवयवविशरणमात्रं पामोति, अतः शिथिली- भूते जतुनीव तादृशे मनसि न किश्चिद्वस्तु वासनात्वेन विशति, किन्तु वासनावैलक्ष्यण्येन तदाभासत्वेनैव विशतीत्यर्थः ॥ ७॥ चित्तद्रुतौ भवति वासना; शिथिलीभावे तु वासनाऽऽभास- इत्यत्र विनिगमकमाह- द्रवतायां प्रविष्टं सद्यत् काठिन्यदशांगतम् । चेतः पुनर्वृतौ सत्यामपि तन्नैव मुञ्चति ॥८॥ द्रवावस्थामविष्टहिङ्गलादिरगस्य जतुनः पुनः काठिन्यापन- यनेन काष्ठादिसंयोगे जायमाने यथा स एव रङ्गः प्रतिभासते शैथिल्यावस्थापविष्टस्तु रखो न तथा, एवं द्रवावस्थे चेतसि यद- स्तुस्वरूपं प्रविष्टं सत् काठिन्यदशापर्यन्तं स्थितं तत् पुनर्देवी- भावान्तरेण विषयान्तरे गृह्यमाणेऽपि प्रकाशमानलाचेतसा न त्यज्यतेऽतः सा वासनेत्युच्यते, शैथिल्यावस्थामविष्टन्तु काठिन्या- वस्थापय॑न्तं न तिष्ठति तिष्ठद्वा विषयान्तरग्रहणसमये चित्तेन त्यज्यत इति स वासनाऽऽभास इत्यर्थः । यात एव यस्यैव द्रुते चित्ते स्थाया सटीके भक्तिरसाचने- भगवदाकारता प्रविष्टा स सर्वदा तद्भानात् कृतकृत्यो भवती- त्युक्तम् , सर्वभूतेषु यः पश्येद्भगवद्भावमात्मनः। भूतानि भगवत्यात्मन्येष भागवतोत्तमः ॥ [श्री. भा० ११ स्क. २ अ.] इति सर्वभूतग्रहणसमयेऽपि द्रवावस्थापविष्टाया भगवदाका- रताया एव प्रकाशनाज्जतुरङ्गवत् सर्वभूते भगवद्भानोपपत्तिः स च भागवतोचमः, एतादृशसंस्कारस्याविनाशिखादिति भावः । अत एव ब्रह्मविदेवैतादृश इत्यपास्तम्, तस्य ब्रह्मविदो दवाब- अनपेक्षितत्वेनोत्तममध्यममाकृतभक्तष्वगणनीयवाद, भत्र तु द्रवांवस्थापरिपुष्टौ "सर्वभूतेषु यः पश्ये" दित्यवस्थायां- भागवतोत्तमः उक्तः, ईपद्वावस्थायान्तु वासनाऽऽभासेन- ईश्वरे तदधीनेषु बालिशेषु द्विषत्सु च । प्रेममैत्रीकृपोपेक्षा यः करोति स मध्यमः ॥ [श्री. भा० ११ स्क० २ अ.] इत्युक्तम् , एतादृगवस्थावतोऽग्रे द्रवावस्थाया उत्पत्स्यमान- नादित्यर्थः । यस्य तु चित्ते न द्रवावस्थी पुष्टा नापीषदुत्पन्ना किन्तु स्वयं तदर्थं भागवतधर्मान् श्रद्धयाऽनुतिष्ठति स काठि- न्यावस्थाविनाशसामग्यविशिष्टः- भयामेव हरये पूजां यः श्रद्धयेहते । न तद्भक्तेषु चान्येषु स भक्तः प्राकृतःस्मृतः॥ [श्री. भा० ११ स्क० २ अ.] इत्युक्तम्, प्रकृतिरारम्भस्वस्यां वर्तमानः प्राकृतः, साम्मतं- पारम्भमक्तिसाधनानुष्ठान इत्यर्थः । नयमेव द्रवावस्था प्रणयानुरागस्नेहादिशब्दैरपि सङ्कीर्यते, . यथा- प्रथमोल्लासः। विसृजति हृदयं न यस्य साक्षा- द्धरिरवशाभिहितोऽप्यंघोषनाशः। प्रणयरशनया घृताधिपद्मः- स भवति भागवतप्रधान उक्तः ॥ [ श्री. भा० १: ० २ अ.] प्रणयो द्रवावस्था स एव रशना रज्जुबद् बन्धनसाधनं- तस्यां वावस्थायां प्रविष्टस्य पुनर्निर्गमनाभावादित्यर्थः, द्रवा- वस्थापविष्टभगवत्स्वरूपभानस्य त्रिविधखादुत्तमभागवतोऽपि त्रिविधः, तत्राचं प्रपश्चसत्यखभानसहितं यथा-- खं वायुमनि सलिलं महीञ्च ज्योतींषि सत्त्वानि दिशो द्रुमादीन् । सरित्समुद्राँश्च हरेः शरीरं- यत् किश्च भूतं प्रणमेदनन्यः ।। [श्री. भा० ११ स्क० २ भ.] इत्यादि, अनेन प्राकृतो भागवतोत्तमः । द्वितीयं प्रपञ्च- मिथ्याखभानसहितं यथा- तस्मादिदं जगदशेषमसत्वरूपं- खमाभमस्तधिषणं पुरुदुःखदुःखम् । वय्येव नित्यमुखबोधतनावनन्ते मायात उद्यदपि यत् सदिवाबभाति ।। [श्री. भा०१० स्क० १४ भ. अनेन मध्यमो भागवतोत्तमः। तृतीयं प्रकारद्वयेनापि प्रपञ्च- भानरहितं यथा- ध्यायतश्चरणाम्भोज भावनिस्तचेतसा । भौत्कराव्याश्रुकलाक्षस्य हृद्यासीन्मे शनैरिः ।।

सटीके भक्तिरसायन प्रेमातिभारनिर्भिन्नपुलकाङ्गोऽतिनिर्वृतः । मानन्दसम्लवे लीनो नापश्यमुभयं मुने ! ॥ [श्री. भा० १ स्क० ६ ० ] अनेनोत्तमो भागवतोत्तमः साधनाभ्यासपरिपाकेणोत्तम- भूमिलाभः ॥८॥ द्रवावस्थामविष्टविषयाकारस्यानपायित्वे स्थायिशब्दोऽपि तत्र मुख्य एव न पारिभाषिक इत्याह- स्थायिभावगिराऽतोऽसौ वस्त्वाकारोऽभिधीयते । व्यक्तश्च रसतामेति परानन्दतया पुनः ||६}} विभावानुभावव्यभिचारिसंयोगेनाभिव्यक्तः स्थायिभाव एव सभ्याभिनेययोर्भेदतिरोधानेन सभ्यगत एव सन् परमानन्द- साक्षात्काररूपेण रसतामामोतीति रसविदां मर्यादा । तदुक्तमाचार्यभरतेन- 'विभावानुभावव्यभिचारिसंयोगाद रसनिष्पत्ति'रिति, अतो भक्तरपि रसतां वक्तुं स्थायिभावो निरूप्यत इति भावः ।।६।। स्थायिभावस्य रसखोपपत्तये परमानन्दरूपतामुपपादयति- भगवान् परमानन्दस्वरूपः स्वयमेव हि । मनोगतस्तदाकाररसतामेति पुष्कलम् ॥१०॥ बिम्बमेव ह्युपाधिनिष्ठत्वेन प्रतीयमानं प्रतिबिम्बमित्युच्यते, परमानन्दश्च भगवान् मनसि प्रतिबिम्बितः स्थायिभावतामासाद्य रसतामापादयतीति भक्तिरसस्य परमानन्दरूपत्वं निर्विवादम् , राप्यालम्बनविभावस्थायिभावयोरैक्यं बिम्बप्रतिबिम्बभावत्वेन भेदस्य व्यवहारसिद्धबाद, ईशजीवयोरिव ॥१०॥ - - .

- प्रथमोलासः। नन्वेवं भगवदाकारस्य परमानन्दरूपस्य स्थायिभावत्वेन भक्तिरसस्य परमानन्दरूपलमस्तु, कान्ताऽऽदिविषयाणां शृङ्गा- रादिरसानामतथात्वात् कथं परमानन्दरूपता ? इत्यत आह- कान्ताऽदिविषयेऽप्यस्ति कारणं सुखचिद्धनम् । कार्याकारतया भेदेऽप्यावृतं मायया स्वतः ।।११।। "आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते आनन्देन जातानि जीवन्ति आनन्दं प्रयन्त्यभिसंविशन्ति" ( तै० उ० भृ० व० ) इत्यादिश्रुत्या हि परमानन्दरूपं ब्रह्म जगदुपादान- मिति प्रतिपादितम्। “जन्मायस्य यतः” (७० मू० १ अ० १ पा० २ मू०) इति न्यायेन तथैव नितम् । उपादानाभिन्नञ्च सर्व कार्य मृदभिन्नघटवत् सर्वत्र दृष्टम् “सर्वं खल्विदं ब्रह्म' (छा०३ अ० १५ ख०) “इदं सव्वं यदयमात्मा” (बृ० अ० ४) "सदेव सोम्येदमग्र आसीत्" (छा० ६ अ० २ ख०) इत्यादिश्रुतिभिश्च तथैव प्रतिपादितम् “तदनन्यत्वमारम्भण- शब्दादिभ्यः” (ब्र० मू० २ आ०१ पा० १५ सू०) इति न्यायेन च निर्णीतम् । एवं सत्यप्यखण्डानन्दाद्वयाकारेण तदभाने हेतू मायानिमित्तावावरणविक्षेपावित्याह-कार्येति । अकार्यस्यापि कार्याकारेण भानं विक्षेपः, अखण्डानन्दाकारेण स्वतोभानमा- वरणम्। तदुक्तम्- ऋतेऽर्थ यत् प्रतीयेत न प्रतीयेत चात्मनि । तद्विद्यादात्मनो मायां यथा भासो यथा तमः ॥इति११॥ [श्री. भा० २ स्क० ९ अ.] कथं तर्हि तस्य भानमित्यत आह- २० सटीके भक्तिरसायने- सदज्ञातञ्च तद्ब्रह्म मेयं कान्ताऽदिमानतः । मायावृतितिरोधाने वृत्त्या सत्त्वस्थया क्षणम् ॥१२॥ अज्ञातज्ञापकत्वेनैव हि सर्वेषां मानानां मानता, अन्यथा स्मृतेरपि मानताऽऽपत्तेः, अज्ञातच स्वप्रकाशतया भासमानचैत- न्यमेव, न जडं तस्य भानाप्रसक्त्या तत्रावरणकृत्याभावाद, अतः कान्ताऽऽदिगोचरमानानामज्ञातज्ञापकत्वेन प्रामाण्याय तत्तदवच्छि- बचैतन्यमेव विषयो वाच्यः, अन्यथा तदयोगात् , तथा च सात्त्विक्या प्रमाणजनितापरोक्षल्याऽऽवरणतिरोभावे सति तत्त- द्विषयावच्छिन्नत्वेन भासते, वस्तुतः परमानन्दरूपविषयोपादान- चैतन्यावच्छिन्नचैतन्यम्वरूपाभानाच न सद्यो मुक्तिः स्वप्रकाश- भङ्गो वा ॥ १२ ॥ ततः किमत आह- अतस्तदाविर्भावित्वं मनसि प्रतिपद्यते। किञ्चिन्यूनाञ्च रसतां याति जाड्यविमिश्रणात्॥१३॥ विषयावच्छिन्नचैतन्यमेव द्रवावस्थमनोवृत्त्यारूढतयाऽऽवि- र्भावित्वं प्राप्य रसतां प्रामोतीति न लौकिकरसस्यापि परमान- न्दरूपताऽनुपपत्तिः, अत एवानवृच्छिन्नचिदानन्दघनस्य भगवतः स्फुरणाद्भक्तिरसेऽत्यन्ताधिक्यमानन्दस्य, लौकिकरसे तु विषया- वच्छिन्नस्यैव चिदानन्दांशस्य स्फुरणात् तत्रानन्दस्य न्यूनतैव, तस्माद्भक्तिरस एव लौकिकरसानुपेक्ष्य सेव्य इत्यर्थः ॥१३॥ इति वेदान्तसिद्धान्तस्थापिना रसतोदिता। साइपमिद्धान्तमाश्रित्याप्यधुना प्रतिपद्यते ॥१४॥ स्थायिनो रसतेत्यनुषङ्गः ।। १४ ॥

२१ प्रथमोल्लासः। एतावदेव व्युत्पादयितुं सायसिद्धान्तं व्युत्पादयति- तमोरजःसत्त्वगुणा मोहदुःखसुखात्मकाः । तन्मयी प्रकृतिहेतुः, सर्व कार्यञ्च तन्मयम् ।।१५।। तथा हि-साङ्ख्या एवमाचक्षते--सर्वे भावाः सुखदुःख- मोहात्मकैकसामान्यप्रकृतिकाः सुखदुःखमोहात्मकत्वेन प्रतीयमा- नखात् . ये यदात्मकत्वेन प्रतीयन्ते ते तदात्मकसामान्यप्रकृतिकाः, यथा मृदात्मकतया प्रतीयमाना मृत्सामान्यप्रकृतिका घटशरा- वादयः, अनुगतकारणातिरिक्तसामान्यानभ्युपगमाद, न घटवा. दिना व्यभिचारः, सुखदुखमोहात्मकत्वेन चैते प्रतीयन्ते तस्मा- त्तत्सामान्यप्रकृतिका इत्यनुमानेन सुखदुःखमोहात्मकप्रकृति- सिद्धिः, तत्र यत् सुखं तत् सत्त्वं, यदुःखं तद्रजः, यो 'मोहो- विषादः स तम इति तस्मात्रिगुणात्मकतासिद्धिः । न च परमाणुभिर्ब्रह्मणा चार्थान्तरता, परमाणुवादे कार्य- कारणयोंर्भेदाभ्युपगमेन तेषामतीन्द्रियत्वेन च तदात्मकतया कस्यापि कार्यस्य प्रतीयमानखाभावात् परमाणुषु प्रमाणाभावाच सर्गाधकालीनकार्योपादानानुमानस्य लाघवतर्कसहकारेणै- कोपादानविषयकखात् तित्यादिकत्रनुमानस्यैककविषयकखवत कार्यकारणयोरभेदाभ्युपगमेऽपि न जगतो ब्रह्मात्मना प्रतीयमा- नत्वं सम्भवति, ब्रह्मणः सर्वलौकिकमानागोचरत्वाभ्युपगमात्, सद्रूपेण ब्रह्मापि सर्चप्रमाणगोचरः, तथा च तदात्मना कार्यस्य प्रतीयमानत्वमस्त्येवेति चेत् ? किमनेनाकाण्डताण्डवेन ब्रह्मणो- निःसामान्यविशेषत्वेन नानारूपासम्भव इति साङ्ख्यसङ्ख्या- वतामभिमानः ॥ १५ ॥ ननु भवतामगिद्धो हेतुः सुखदुःखमोहानामान्तराणां बाह्य- घटादितादात्म्यासम्भवात् , सम्भवे वा सर्च वस्तु सर्व प्रमातारं. प्रति व्याकारतया प्रथेत ? इत्यत आह- .

२२
-
सटीके भक्तिरसायने-
त्रिगुणात्मकमेकैकं वस्तु त्र्याकारमीक्ष्यते ।
निजमानससङ्कल्पभेदेन पुरुषेत्रिभिः ॥१६॥
न तावदान्तरबाद्ययोस्तादात्म्यसम्भवः, बाह्यानामेव मन:-
प्रतिविम्बितत्वेनान्तरखात्, नापि सर्बान प्रति तुल्यभानप्रसङ्गः
तत्तद्वासनारूपसहकारिभेदात् ॥ १६ ॥
एतदेवोदाहरति-
कामिन्याः सुखता भर्ता सपत्न्या दुःखरूपता ।
तदलाभात्तथाऽन्येन मोहत्वमनुभूयते ॥१७॥
भर्तारं प्रति हि कामिन्याः सत्त्वांश एवोद्रिच्यते, सपनी-
प्रति तु रजोऽश एव, तां कामयमानमन्यश्च तामविन्दन्तं तमोऽश-
एव, अतः क्रमेण तेषु सुखदुःख विषादाः प्रादुर्भवन्त्यतो व्यव-
स्थोपपत्तिः वासनाभेदेनैकस्मिन्नपि भानभेदो भट्टाचार्यैरप्युक्तः
"परिवाडकामुकशुनामेकस्यां प्रमदाननौ ।
कुणपः कामिनी भक्ष्यमिति तिस्रो विकल्पना” इति ॥१६॥
फलितमाह-
एवं सति सुखाकारः प्रविष्टो मानसे यदा ।
तदा स स्थायिभावत्वं प्रतिपद्य रसो भवेत् ||१८||
क्रोधादिभावस्यापि रजस्तमोऽमिश्रितखोद्रेकनिवन्धनचित्त-
द्रुतिफलितखात् सुखमयत्वमित्यभिप्रायः, द्रवीभावस्य सत्त्व-
धर्मवात्तं विना च स्थायिभावासम्भवात् सत्त्वगुणस्य च सुख-
रूपलात सर्वेषां भावानां सुखमयत्वेऽपि रजस्तमोऽशमिश्रणा-
तारतम्यमवगन्तव्यम् , अतो न सर्वेषु रसेषु तुल्यसुखानुभवः ।
उपरिष्टाच स्पष्टीकरिष्यते ॥ १८ ॥

प्रथमोल्लासः। २३ अत्राहुस्तार्किकाः-नित्यं निरवयवमणुपरिमाणं मनस्तस्य कथं सावयवदृष्टान्तेन द्रवीभावद्वारा विषयाकारपरिणामो वक्तुं- शक्यते? नहि निरवयवस्य हासद्धी सम्भवतः, तस्मादुक्तस्थायि- भावनिरूपणमसङ्गतमिति तत्राह- परमाण्वेकरूपन्तु चित्तं न विषयाकृति । इत्यादिमतमन्येषामप्रामाण्यादुपेक्षितम् ॥१६॥ आदिशब्दाद्विभु मन इति प्राभाकराणां; समनन्तरप्रत्यय- एवोत्तरज्ञानकारणतया मन इति सौगतानाञ्च; मतं सहीतम् । अयं भावः-करणलात् परमाण्वादिवत् , इन्द्रियखाचक्षुरादिवत् मनसो मध्यमपरिमाणत्वमनुमीयते, न चाणुवानुमाने किञ्चि- लिङ्गमस्ति । नापि नित्यन्द्रियखाच्छोत्रवत् विभुखानुमानं, नित्य- वस्यासिद्धत्वाद, आकाशस्यापि नित्यत्वाभावेन तत्कार्यश्रोत्रस्य मुतरां नित्यत्वाभावाद, अत एव जन्यस्य विभुखाभावान्मध्यम परिमाणखानुमानस्य श्रोत्रेण व्यभिचारः, यदिन्द्रियं यद्गुणग्राहक- तदिन्द्रियं तद्गुणवदिति व्याप्तः, यथा चक्षुरादेः स्वग्राह्यगुणवद्भ- तारभ्यत्वं साध्यत तथा मनसोऽपि पञ्चमहाभूतग्राहकत्वेन तद्व- त्वनिश्चयात् स्वग्राह्यगुणवत्येव भूतारभ्यत्वं साध्यतां विशेषा- भावात् । च विजातीयानामनारम्भकत्वं विशेषः, सुवर्णसूत्रैः षट्टसूत्रः कासमूत्रैश्च विजातीयरेकपटारम्भदर्शनात् । तत्रा- वयव्यनङ्गीकारेऽन्यत्रापि तथाऽनङ्गीकारसम्भवादवयविनो दत्त- जलाञ्जलिताप्रसङ्गात्, तस्मादपञ्चीकृतपश्चमहाभूतारभ्यं सत्त्व- प्रधानं सङ्कोचविकाशशीलं स्वच्छद्रव्यचक्षुवन्मूर्त्तद्रव्याभिघा- तयोग्यश्च देहपरिमाणं मनोऽभ्युपगन्तव्यं, सिद्धान्ते सुख- न ..

२४ सटीके भक्तिरसायने . दुःखेच्छाज्ञानादीनां तदाश्रयत्वाभ्युपगमात् , तेषाश्च सर्वशरीर- व्यापित्वेनोपलम्भात् , तदाश्रयस्य मनसोऽपि सर्वशरीरव्यापि- बाद अणुखाभावे युगपत्सर्चेन्द्रियसम्बन्धसम्भवाद युगपन्नानाज्ञा- नोत्पत्तिप्रसङ्ग इति चेद ?न-एकेनेन्द्रियेणैकदैकमेव ज्ञानं जन्यत- इति नियमस्तावदावयोः समः, अन्यथा युगपञ्चाक्षुषज्ञानद्वयोत्पत्तिः किं न स्यात् ? नानेन्द्रियजन्यज्ञानानान्तु युगपदुत्पत्तिरिष्यत- एव दीर्घा शष्कुर्ली भक्षयतः शब्दस्पर्शरूपरसगन्धानां युग- पदनुभवात्, सुषुप्त्यन्यथाऽनुपपत्त्या खड्मनःसंयोगजं ज्ञानमत्र कारणत्वेन वयाऽभ्युपगमाद् रसनावच्छिन्नवअनःसंयुक्तस्य गुडस्य युगपद्रसस्पर्शोपलम्भस्तवापि दुर्निवारः, तस्मानास्म- दभ्युपगते मनसि श्रुतिस्मृतिन्यायसिद्ध विमतिः सम्भवति, सम- नन्तरमत्ययस्त्वतिनियुक्तिकत्वादुपेक्षितः, विस्तरस्त्वस्मदीयवेदा- न्तकल्पलतायामनुसन्धेयः ॥१६॥ अतः स्वच्छस्वभावस्य सावयवस्य मनसो दर्पणादिवद विषयाकारग्राहकत्वं वेदान्तशास्त्र साङ्यशास्त्रे च यनिरूपितं- तत् प्रामाणिकखाद्वेदान्ते समीचीनमेवेत्याह- गृह्णाति विषयाकारं मनो विषययोगतः । इति वेदान्तिभिः साङ्ख्यैरपि सम्यनिरूपितम्।।२०॥ यद्यपि साङ्ख्यानामाहङ्कारिकं मनः; ब्रह्मवादिनान्तु मते भौतिकमिति महान् विशेषस्तथाऽपि विषयाकारग्राहकत्वं समान- पिति तुल्यवदुभयोरुपन्यासः ॥२०॥ द्रवीभावपूर्वकं चित्तस्य विषयाकारभजनमित्यत्र भाष्य- कारवचनमुदाहरति- २५ - प्रथमोल्लासः। मूषासिक्तं यथा तानं तन्निभं जायते तथा । घटादि व्याप्नुवञ्चित्तं तन्निभं जायते ध्रुवम् ॥२१॥ मुषायां पुटकपाकयचे तद्वाराद्रवीभूतं तानंयन्त्रप्रतिमाऽऽद्या- कारपटिते मृदादिसंस्थानविशेषे सिक्तं सत्तदुदरस्थसंस्थाना- कारं भवति द्रुतसाद , एवं रागद्वेषादिना द्रवीभूतं चित्तं चक्षुरा- दिद्वारा यत्र सिक्तं भवति स्वयमपि तद्विषयाकारं भवतीति कारिकार्थः ॥२१॥ यद्यप्यस्मिन् वाक्ये सामान्यत एव द्रवीभाव उक्तस्तथाऽप्य- नुभवबलाद रागद्वेषादिविषये व्यवस्थाप्यते तदभावे तु शिथिली- भावमात्रमित्युक्तमधस्ताद, मनो विषयाकारं विषयगतावरणनि- वर्तकलादालोकवदित्यनुमानमस्मिन्नर्थे प्रमाणमाह- व्यञ्जको वा यथाऽलोको व्यङ्ग्यस्याकारतामियात् । सर्वार्थव्यञ्जकत्वाद्धीर्थाकारा प्रदृश्यते ॥२२॥ व्यञ्जकस्य तदाकारखाभावे तदतावरणनिहत्तरदर्शना- दित्यर्थः ॥२२॥ भगवत्पूज्यपादानामियमुक्तिः सयुक्तिका । तथा वार्तिककारैरप्ययमों निरूपितः ॥२३॥ व्यञ्जको वेत्यापक्तिर्वार्तिककाराणामपि युक्तिरनुमानरूपा दर्शिता। वार्तिककाराणां वाक्यान्तरमुदाहरति- मातुर्मात्राभिनिष्पत्तिनिष्पन्न मेयमेति च । मेयाभिसङ्गतं तच्च मेयाभत्वं प्रपद्यते ।। मातृश्चिदश्चिन्द्रन्थिरूपात्सचित्कादन्तःकरणाद वृत्तिज्ञाना- ख्यस्य द्रवीभावपूर्वकस्य मातशब्दवाच्यस्य परिमाणविशेष.

२६ सटीके भक्तिरसायने- स्याभिनिष्पत्तिर्भवति तच्च परिमाणविशेषात्मकं मानं निष्पन- सच्चक्षुरादिद्वारा घटादिविषयपर्यन्तं गच्छति, शरीरावच्छिन्नम- न्तःकरणमत्यजदेव कुन्याजलवद, ततश्च घटादिसम्बद्धं सद् मेयाकारतां प्राप्नोति, ततश्च तत्र चैतन्याभिव्यक्तथा घटाघुपलम्भ- इति कारिकाऽर्थः। सर्चा चेयं प्रक्रियाऽस्माभिर्विस्तरेण सिद्धान्त- विन्दो प्रतिपादिता, ग्रन्थगौरवपिया नोदाहियते ॥ २३ ॥ पञ्चदश्यां विद्यारण्यैरप्ययमयों दर्शितः, तमुपसंहारव्याजेनाह- अतो मांसमयी योषित् काचिदन्या मनोमयी। मांसमय्या अभेदेऽपि भिद्यतेऽत्र मनोमयी ॥२४॥ मनोमयाकारभेदं विनैकस्मिन् भौतिके पिण्डे भेदप्रत्यया- योगांत् ॥२४॥ भेदप्रतीतिमेव सर्वसिद्धामुदाहरति- भार्या स्नुषा ननान्दा च याता मातेत्यनेकधा । जामाता श्वशुरः पुत्रः पितेत्यादि पुमानपि ॥२५॥ भिद्यत इत्यनुषङ्गः ॥२५॥ एकानेकत्ववैधर्म्यमुक्त्वा विनाशित्वाविनाशित्ववैधा- न्तरमाह- बापिण्डस्य नाशेऽपि तिष्ठत्येव मनोमयः । अतः स्थायीति विद्भिरयमेव निरूपितः ॥२६॥ अपिशब्दाद्वाह्यस्य देशकालादिना व्यवधानेऽपि मनोमयो- ऽव्यवहित एवेत्यर्थः ॥२६॥ एवं स्वभावतो भावस्वरूपमुपवर्णितम् । • विशेषेण तु सर्वेषां लक्षणं वक्ष्यते पृथक् ॥२७॥ मनोमयो विषयाकार एवाविनाशित्वात् स्थायीति कथि- २७ . प्रथमहासः। तम् , तस्य तु रतिहासादिरूपेण भेदस्तल्लक्षणं च वक्ष्यतेऽनन्त- रोल्लास इत्यर्थः । यस्माद द्रुतचित्तमविष्टो विषयाकारोऽनपायो- ऽस्मात्स्थायी भावः ॥२७॥ भगवन्तं विभु नित्यं पूर्ण बोधसुखात्मकम् । यद् गृह्णाति दूतं चित्तं किमन्यदवशिष्यते ॥२८॥ विभुमिति सदेशव्यापकत्वं, नित्यमिति सर्वकालव्याप- कत्वं, पूर्णमित्यद्वितीयतया सर्बद्वैतपमाऽधिष्ठानत्वं, बोधमुखात्म- कमिति निरतिशयपुमर्थत्वं दर्शितम् , एतादृशेन भगवदाकारेण मनोगतेनानादिकालपविष्टासङ्ख्यविषयाकाराणां कबलीकर- णात्तन्मात्रपरिस्फूर्त्या कृतकृत्यो भवतीत्यर्थः ॥२८॥ द्रवीभावस्य प्रयोजनं पूर्वोक्तमेव स्मारयति तत्र प्रयनदााय- कठिना शिथिला वा धीन गृह्णाति न वास्यते । उपेक्षाज्ञानमित्याहुस्तबुधाः प्रसरादिषु ॥२६॥ कठिना धीन गृह्णात्येव शिथिला तु गृह्णात्यपि न वास्यते द्रवीभावाभावादिति पूर्वमेवोक्तं, द्रवीभावः काठिन्यमीषद द्रवत्वं- शैथिन्यं, तच्च द्रवावस्थाकार्यभूतसात्त्विकभावादित्यवसेयम् , तेच स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभक्कोऽय वेपथुः । वैवर्यमा प्रलय इत्यष्टौ सात्त्विका गुणाः ।। इत्यभिप्रायः, अत एव भगवदविषये काठिन्यं निन्द्यते- तदश्मसारं हृदयं बतेदं यद् गृह्यमाणहरिनामधेयैः । न विक्रियेताथ यदा विकारो नेत्रे जलं गात्ररुहेषु हर्षः ।। [श्री. भा. २१.० ३.] कथं विना रोमहर्ष द्रवता चेतसा विना । विनाऽऽनन्दाश्रुकलया शुद्धयेद्भक्तया विनाऽऽशयः ॥ (श्री. भा० "स्क१४.) .

२८ सटीके भक्तिरसायने- ८ भक्तिश्च द्रवता चेतसा विना कथं स्यात् १ द्रवञ्चित्तश्च कथं- रोमहर्षमानन्दाश्रु विना जायत इत्यर्थः। अश्रुपुलकयोरभिभान- स्तम्भस्वेदादीनामप्युलक्षणम् , यतो द्रवत्वाभावे चित्तं न वास्यते- ऽतो बुधाः पण्डिताः कामक्रोधादिनाऽस्यन्दीभूतपाषाणादि- प्रतिमतया ज्ञानमुपेक्षाज्ञानं संस्काराजनकमित्याहुः । तथा चाहुयायवार्तिककृतः- "यन सुखसाधनं न दुःखसाधनं तदेवोपेक्षणीय"मिति मुखसाधने रागः संस्कारहेतुर्दुःखसाधने द्वेषस्तथा तदुभयाभावे तु चित्तद्रवत्वाभावान जायते संस्कार इत्यर्थः, एतावान् हि सर्वेषां शास्त्राणां रहस्यभूतोऽर्थो यद् विषयाकारतानिराकर- णपूनकं चित्तस्य भगवादाकारतासम्पादनम् सर्वेषामपि शास्त्राणामत्र व व्यापारभेदेन पर्यवसानात् ॥२६॥ नन्वनादिकाले द्रवचित्ते प्रविष्टतत्तदिष्टानिष्टविषयकोटिस- ङ्कीर्णता चित्तस्य स्वभावभूता शीततेव तोयस्योष्णतेव दह- नस्य सञ्चरिष्णुतेव पवनस्य कथं निवर्त्ततां धम्मिणि सत्यसति वा स्वभावानुपमर्दादित्यत आह- काठिन्यं विषये कुर्याद द्रवत्वं भगवत्पदे । उपायैः शास्त्रनिर्दिष्टैरनुक्षणमतो बुधः ॥३०॥ विषयाकारता हि न चित्तस्य स्वभावभूता तस्या आगन्तु- कहेतुजन्यखात, तथा हि-स्थूलविषयाकारताहेतुरिन्द्रियसभि- कर्षादि जागरणे, सूक्ष्मविषयाकारताहेतुर्मनोगतवासना स्वमे, तदुभयाभावे तु सुषुप्तिवनिविषयमेव चित्तं भवति, सुषुप्तौ चित्तलयाभिधानं निविषयकत्वाभिमायमेव एतच्च भगवता सूत्रकारेणैव प्रदर्शितम्- "तदापीतेः संसारव्यपदेशात् (ब्रह्मसू।४।।सू) अपीति- प्रथमोल्लासः। २६ लयः, मर्यादायामा पापीति लयं मर्यादीकृत्य तस्य मनसो- लयात् पूर्वकाले संसारव्यपदेशः, न तु तल्लये सतीति सूत्रार्थः । तथा च सुषुप्तावपि पुनरुत्थानेन संसारव्यपदेशस्य सत्त्वान मनोलयः, विवरणकाराणान्तु "केयं मूक्ष्मता नामे" त्यादिना मनोलयाभिधानं तत्परमतखण्डनाभिप्रायेण न तु स्वमतानु- सारेण मूत्रविरोधादिति भावः ॥ ३० ॥ भगवदाकारता तु चित्तस्य स्वाभाविकी तस्य कारणीभूत- सूक्ष्मकारणानिर्वचनीयविचित्रानेकशक्तिमन्मायाधिष्ठानस्य विभोः सर्वान्तर्यामिणः सर्वत्रानुगतवाद यथा घटस्य जलादिपूर्णता कारणसाध्या; आकाशपूर्णता तु स्वतस्तस्य सर्वव्यापकत्त्वा- त्तद्वत् , तदुक्तं वार्तिककारपादैः- वियद्वस्तुस्वभावानुरोधादेव न कारकात् । वियत्सम्पूर्णतोत्पत्तौ कुम्भस्येव दशा धियाम् ॥ घटदुःखादिरूपत्वं धियां धादिहेतुतः । स्वतः सिद्धाऽऽत्मसम्बोधव्याप्तिर्वस्त्वनुरोधत इति, चित्तस्य भगवदाकारतायाः स्वाभाविकत्वेन हेत्वनपेक्षायां- शास्त्रस्य कोपयोग इति चेद् ? अन्याकारताविरोधिभगवदाकार- तासम्पादनयित्यवेहि । या हि स्वाभाविकी भगबदाकारता चित्तस्य; विषयाकारतासहचरितत्वात् तत्साधकत्वाच्च न तद्वि- रोधिनी, शास्त्रजन्या तु साधनोपक्रमे परोक्षे भासमानाभ्यास- क्रमेण विषयाकारतां शनैः शनैस्तिरोदधती साधनपरिपाके- वापरोतता नीता सती तां समूलघातमुपहन्ति, अत एवोक्तम्- यजनाभचरणैषणयोरुभक्त्या चेतोमलानि विधमेद् गुणकर्मजानि । तस्मिन् विशुद्ध उपलभ्यत आत्मतत्त्वं- साक्षाद् यथाऽमलदृशोः सवितुः प्रकाशः ।। (श्री. भा. " स्क. ३०) ३० सटीक भक्तिरसायन- यथाऽमिना हेम मलं जहाति ध्मातं पुनः सम्भजते च रूपम् । आत्मा च कर्मानुशयं विधूय मद्भक्तियोगेन भजत्यथो माम् ।। यथा यथाऽऽत्मा परिमृज्यतेऽसौ मत्पुण्यगाथाश्रवणाभिधानैः। तथा तथा पश्यति वस्तु सूक्ष्म- चक्षुर्यथैवाञ्जनसम्पयुक्तम् ॥ विषयान् ध्यायतश्चित्तं विषयेषु विषज्जते । मामेव स्मरतश्चित्तं मय्येव पविलीयते ।। तस्मादसदभिध्यानं यथा स्वममनोरथम् । हित्वा मयि समाधत्स्व मनो मद्भावभावितम् ॥ (श्री. भा० ११ स्क० १४ अ.) एतावान् योग आदिष्टो मच्छिष्यैः सनकादिभिः । सर्वतो मन आकृष्य मय्यद्धाऽऽवेश्यते यथा ॥ (श्री. भा० ११ स्क० १३ अ० .) स च श्रीकपिलदेवेनोक्तः अनिमित्तनिमित्तेन स्वधर्मेणामलात्मना । तीवया मयि भक्त्या च श्रुतसम्भृतया चिरम् ।। ज्ञानेन दृष्टतत्त्वेन वैराग्येण बलीयसा । तपोयुक्तेन योगेन तीब्रेणात्मसमाधिना ॥ प्रकृतिः पुरुषस्यह दह्यमाना त्वहर्निशम् । तिरोभवित्री शनकैरग्नोनिरिवारणिः ॥ (श्री. भा० ३ ०० २७ भ०) ३१ प्रथमोल्लासः। प्रकृतिः स्वाभाविकी विषयाकारतेत्यर्थः । हंसगीतासु च- गुणेष्वानिशते चेतो गुणाश्चेतसि च प्रभो ! । कथमन्योन्यसन्त्यागो मुमुतोरतितितीर्षोः ।। (श्री. भा० । क. १३ अ.) इति सनकादिप्रश्नस्योत्तग्म् भगवानुवाच- मनसा वचसा दृष्टया गृह्यतेऽन्यैरपीन्द्रियैः । अहमेव न मत्तोऽन्यदिति बुध्यध्वमज्जसा ।। (श्री. भा० ११ क १३ अ.) जाग्रत्स्वमसुषुप्तञ्च गुणतो बुद्धिवृत्तयः । तासां विलक्षणो जीवः साक्षित्वेन व्यवस्थितः ॥ यहि संमृतिबन्धोऽयमात्मनो गुणवृत्तिदः । मयि तुर्ये स्थितो जह्यात् त्यागस्तद्गुणचेतसाम् ।। अहङ्कारकृतं बन्धमात्मनोऽर्थविपर्ययम् । विद्यान् निर्विद्य संसारचिन्तां तुर्ये स्थितस्त्यजेत् ।। यावन्नानार्थधीः पुंसो न निवर्तेत युक्तिभिः । जागर्त्यपि स्वपन्नज्ञः स्वग्ने जागरणं यथा ॥ असत्त्वादात्मनोऽन्येषां भावानां तत्कृता भिदा । गतयो हेतवश्चास्य मृषा स्वमधियो यथा ॥ यो जागरे बहिरनुक्षराधर्मिणोऽर्थान् भुङ्क्ते समस्तकरणैर्हदि तत्सदृक्षान् ।। स्वमे सुषुप्त उपसंहरते स एकः स्मृत्यन्वयात् त्रिगुणत्तिदृगिन्द्रियेशः ।। एवं विमृश्य गुणतो मनसस्त्रयवस्था- मन्यायया मयि कृता इति निश्चितार्थाः । संछिय हाईमनुमानसदुक्तितीक्ष्ण- ज्ञानासिना भजत माऽखिलसंशयाधिम् ।। [ श्री. भा. ११ का १३४० ) ३२ सटीक भक्तिरसायन- - एवं जिज्ञासयाऽपोह्य नानात्वभ्रममात्मनि ।' उपारमेत विरजं मनो मय्यर्पा सगे । इत्यादि । [श्री. भा० ११ स्क० ११ भ. ] अयमत्र निष्कर्षः-चित्तेष्वाकारसमर्पका विषयास्ते भग- बद्यतिरिक्ता न भवन्ति भगवत्यध्यस्तत्वाद् भगवत एव सद्रूपतया घटः मन् पटः सन्नित्यादिसदाकारेणैव सर्वविष- याणां स्फुरणात् । “सर्व खल्विदं ब्रह्म" "तज्जलानि" ति छान्दो० ३।१४।१श्रुत्या भगवदेकोद्भवत्वभगवदेकस्थितत्वभगव- देकलयत्वेन मृघटवदभेदबोधनात् स्वमादिप्रपञ्चवद्वाध्यत्वाच । अत एव भगवदाकारस्फूा ते सर्वे निवर्तमाना सद्रूपा- एव भवन्ति, अधिष्ठानज्ञाननिवर्त्यत्वादध्यस्तानाम् । एवं सति विषयनिष्ठः सर्वोऽपि प्रेमा भगवत्येवार्पितो भवति तयति- रिक्तास्फुरणाद; एतादृशी चावस्था प्रह्लादेन प्रार्थिता- या प्रीतिरविवेकानां विषयेष्वनपायिनी। वामनुस्मरतः सा मे हृदयान्मापसर्पतु ।। इति (वि० पु. १ अंश २० अ० १९) तस्मादेताशयुक्तयनुसन्धानेन सर्वाधिष्ठानसन्मात्रं परि- पूर्णसच्चिदानन्दघनं भगवन्तमद्वयमात्मानं निश्चिन्वता स्वामिक- विषयेष्विव जाग्रदविषयेष्वप्यनुगतानुसन्धानेन वैराग्यं महदुप जायते वशीकाराख्यम् , एतच्च मूत्रितं भगवता पतञ्जलिना- "दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम्” इति (पात० सू०) चतुर्विधं हि वैराग्यं साध्यसाधनभावापन्नमागमप्रसि- दम् ; तत्र महता प्रयासेनापि चित्तदोषानवश्यं निराकरिष्या- मीत्यध्यवसायात्मकं प्रथमं यतमानसंज्ञा वैराग्यम् । ततो निर- न्तरमुपायानुष्ठाने क्रियमाण एतावन्तो दोषा इदानी क्षीणा- .

३३ प्रथमोल्लासः। एतावन्तश्वावशिष्यन्त इति चिकित्सकवत् प्रतिक्षणमवधान- द्वितीयं व्यतिरेकसंज्ञा वैराग्यम् ; एवं प्रतिक्षणं भूमिकाद्वयाभ्यासं- कुर्चतः सर्वतो भावेन बहिरिन्द्रियाणां विषयेष्वप्रवृत्तिर्याऽन्तःक- रणवासनायां सत्यामपि सा तृतीयमेकेन्द्रियसंज्ञा वैराग्यम् , एवं- भूमिकात्रयाभ्यासाद् दृष्टेषु वनिताऽऽदिष्वानुश्रविकेषु स्वर्गादिषु चेन्द्रियैह्यमाणेष्वपि दोषदर्शनपरिपाकज़न्या स्पृहाऽऽत्मिका या चित्तवृत्तिः सा चतुर्थ वशीकारसंज्ञा वैराग्यम् । तदपि द्विविध- मपरं परश्च; द्वितीयं मूत्रितं पतञ्जलिना-"तत्परं पुरुषख्या- तेर्गुणवैतृष्ण्यम्” इति, पुरुषख्यातिरात्मज्ञानं तदनन्तरं तद्गुणेषु शब्दादिषु वैतृष्ण्यं वैराग्यं तत्परं श्रेष्ठफलरूपत्वात् , ततः पूर्व- न्वपरं साधनरूपखादित्यर्थः, तस्य च लिङ्गमितरफलनिरपेक्षत्वेन मोक्षमात्रस्पृहयालुत्वं, यथा मुचुकुन्दस्य-~- न कामयेऽन्यं तव पादसेवना- दकिञ्चनप्रार्थ्यतमाद वरं विभो !। आराध्य कस्वामपवर्गदं हरे ! वृणीत आर्यो वरमात्मबन्धनम् ॥ तस्माद्विसृज्याशिष ईश ! सर्वतो- रजस्तमःसत्त्वगुणानुबन्धनाः। निरञ्जनं निर्गुणमद्वयं परं- खां ज्ञप्तिमात्रं पुरुषं व्रजाम्यहम् ॥ चिरमिह जिनार्तस्तप्यमानोऽनुतापै- रवितृषषडमित्रोऽलब्धशान्तिः कथञ्चित् ।। शरणद ! समुपेतस्वत्पदाब्जं परात्म- नभयममृतशोकं पाहि माऽऽपनपीश ! ॥ इति । [श्री. भा० १० स्क० ५१ भ० ५ ३४ सटीक भक्तिरसायने- - एतादृशदशायाश्च भगवत्सेमाऽऽ नन्दपराकाष्ठामधिरोहतीति तं पति भगवतोक्तम्- क्षात्रधर्मास्थितो जन्तुनवधीमंगयाऽऽदिभिः । समाहितम्तत्तपसा जयघं मदपाश्रयः ।। जन्मन्यनन्तरे राजन् ! सर्वभूतसुहत्तमः । भूखा द्विजवरस्त्वं वै मामन्ते ब्रह्म यास्यसि । इति । [ श्री. भा० : ० स्क० ५१ अ.] अपरवैराग्यश्च मूत्रितम् पतञ्जलिना--- "दृष्टानुश्रविकवि- षयवितृष्णस्य वशीकार संज्ञा वैराग्यम्” इति । तेन च न प्रेमका- ठेति न तदानीमेव कृतार्थता परवैगग्याभावेन भक्तिप्रकर्षा- भावात् तस्यैव च कृतकृत्यताहेतुखादित्यर्थः । परवैराग्यलिङ्ग- मोक्षपर्यन्तं सकलफलनिरपेक्षत्वं, यथा- इमं लोकं तथैवामुमात्मानमुभयायिनम् । आत्मानमनु ये चेह ये रायः पशवो गृहाः॥ विसृज्य सानन्यांश्च मामेवं विश्वतो मुखम् । भजन्त्यनन्यया भक्तया तान् मृत्योरतिपारये ॥ [ श्री. भा० ३ स्क० ३५ अ० ] सालोक्यसाष्टिसामीप्यसारूप्यैकलमप्युत । दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः ।। [ श्री. भा० ३ स्क० २९ अ.] नैकात्मतां मे स्पृहयन्ति के चि- न्मत्पादसेवाऽभिरता मदीहाः । येऽन्योन्यतो भागवताः प्रसज्य सभाजयन्ते मम पौरुषाणि ॥ [श्री. भा० ३ स्क. २५ अ.]

प्रथमोल्लासः। ३५ •] न पारमेष्ट्यं न महेन्द्रधिष्ण्यं- न सार्वभौमं न रसाऽधिपत्यम् । न योगसिद्धीरपुनर्भवं वा वाञ्छन्ति यत्पादरजः प्रपन्नाः ॥ [श्री. भा० ११ १.० १४ अ. प्रह्लाद:-अहं त्वकामस्त्वद्भक्तस्त्वन्तु स्वाम्यनपाश्रयः । नान्यथेहावयोरर्थो राजसेवकयोरिव ।। [ श्री. भा० ७ १० १० १० पृथुः -न कामये नाथ ! तदप्यहं ध्रुवं- न यत्र युष्मचरणाम्बुजासवः। महत्तपान्तर्हदयान्मुखच्युतो- विधत्स्व कर्णायुतमेष मे वरः ॥ [श्री. भा० ४ स्क० २० प्रा० ध्रुवः-या निर्वृतिस्तनुभृतां तव पादपद्म- ध्यानाद्भवजनकथाश्रवणेन वा स्यात् । सा ब्रह्मणि स्वमहिमन्यपि नाथ ! मा भूत् । किन्वन्तकासिलुलितात् पततां विमानात् ।। [श्री. भा० ५ स्क० ९ अ०] महिष्यः -न वयं साध्वि ! साम्राज्यं स्वाराज्यं भौममप्युत । वैराग्यं पारमेष्ठ्यं वा आनन्त्यं वा हरेः पदम् ।। कामयामह एतस्य श्रीमत्पादरजःश्रियः । कुचकुङ्कुमगन्धाढ्यं मून्ना वोढुं गदाभृतः ।। [श्री. भा० १० स्क० ८३ म इन्द्रः-प्रत्यानीताः परम ! भवता त्रायतानः स्वभागा- दैत्याक्रान्तं हृदयकमलं त्वद्गृहं प्रत्यबोधि । कालग्रस्तं कियदिदमहो नाथ ! शुश्रूषता ते मुक्तिस्तेषां न हि बहुमता नारसिंहापरैः किम ॥ [ श्री. भा० ७ स्क. ८ अ. •] ३६ सटीके भक्तिरसायने- - ११ अ० नथा –यस्य भक्तिर्भगवति हरौ निःश्रेयसात्मनि । विक्रीडतोऽमृताम्भोधौ किं तुच्छः खातकोदकैः॥ [श्री. भा० ६ स्क. १२ अ.] वृत्र:-न नाकपृष्ठं न च पारमेष्ठ्यं- न सार्वभौम न रसाधिपत्यम् । न योगसिद्धीरपुनर्भवं वा समञ्जस ! त्वां विरहय्य काङले ॥ (श्री. भा० ६ स्क० ४०) श्रुतयः-दुरधिगमात्मतत्त्वनिगमाय तवात्ततनो- चरितमहामृताब्धिपरिवर्तपरिश्रमणाः । न परिलषन्ति के चिदपवर्गमपीश्वर ! ते चरणसरोजहंसकुलसङ्गविसृष्टगृहाः ।। (श्री. भा० १० स्क० ८७ अ०) एवमन्यदप्यूहनीयम् । एतादृशमोक्षपर्यन्तसकलफलनिर- पेक्षस्वरूपे परवैराग्ये सति; फलान्तरे प्रेम्णोऽनुदयात् परमानन्द- रूपे परमात्मन्येव प्रेमा परां काष्ठामारोहति यथा त्रस्य- अजातपक्षा इव मातरं खगाः स्तन्यं यथा वत्सतराः क्षुधाऽऽताः । प्रियं प्रियेव व्युषितं विषण्णा मनोऽरविन्दात ! दिक्षते खामिति ॥ [ श्री. भा० ६ स्क० ११ भ. अत एव ज्ञानं विना परवैराग्याभावस्तदृते च भगवत्मेम- परकाष्ठाऽभावात्तदर्थ ज्ञानवैराग्ये दृढीकर्तव्ये, तदुक्तम्- असेवयाऽयं प्रकृतेर्गुणाना- ज्ञानेन वैराग्यविजृम्भितेन । योगेन मय्यापतया च भक्त्या मां प्रत्यगात्मानमिहावरुन्धे ॥ [श्री. भा० ३ स्क० २५ अ.] ] प्रथमोल्लासः । ३७ ज्ञानवैराग्ययुक्तेन भक्तियोगेन योगिनः । क्षमाय पादमूल मे प्रविशन्त्यकुतोभयम् ॥ [श्री. भा० ३ स्क० २५ भ० ] इत्यच्युताधिं भजतोऽनुवृत्त्या भक्तिविरक्तिर्भगवत्मबोधः। भवन्ति वै भागवतस्य राजन् ! ततः परां शान्तिमुपैति साक्षात् ।। [श्री. भा० ११ स्क० २ अ० भागवतस्य भगवद्धर्मानुष्ठातः पुण्यगाथाश्रवणकर्तुः प्रथम- भगवत्मबोधस्ततः परं वैराग्यं ततः प्रेमलक्षणा भक्तिरित्यर्थः । एतच्च दर्शितमुद्धवाय श्रीभगवता- ज्ञानिनस्वहमेवेष्टः स्वार्थो हेतुश्च सम्मतः। स्वर्गश्चैवापवर्गश्च नान्योऽर्थो महते प्रियः ।। ज्ञानविज्ञानसम्पन्नाः पदं श्रेष्ठं विदुर्मम । ज्ञानी प्रियतमोऽतो मे ज्ञानेनासौ बिभर्ति माम् ॥ [श्री. भा० ११ स्क० १९ अ.) कीदृशं तज्ज्ञानमित्याकाङ्क्षार्या सङ्क्षपेण तदुक्तम्- खय्युद्धवाश्रयति यस्त्रिविधी विकारो- मायाऽन्तरापतति नाद्यपवर्गयोर्यत् । जन्मादयोऽस्य यदमी तव तस्य किं स्यु- राधन्तयोर्यदसतोऽस्ति तदेव मध्ये ॥ (श्री. भा० ११ स्क० ५९ अ०) भगवद्व्यतिरिक्त सर्व मायामयत्वात् खमवन्मायिकं तुच्छं- दुःखरूपश्च हेयं, भगवान् प्रत्यगभिन्नपरमात्मैव सत्यः स्वमका- शपरमानन्दरूपो नित्यो विभुश्चोपदेय इतिस्वरूपं ज्ञानमित्यर्थः। भदवद्गीतासु च तदेवोक्तम्- ३ सटीक भक्तिरसायने- - गीता ७ अ० - चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ! । आतॊ जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ! ।। तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते । प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ।। उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् । आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ।। बहूनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यते । वासुदेवः सर्वमिति स महात्मा मुदुल्लभः ।। इति ॥ वासुदेवातिरिक्तं सर्व नास्ति मायिकत्वेन तुच्छखाद, वासुदेव एवात्मत्वात् प्रियतमः सत्यः स्थायिभाव इत्यर्थः । एतादृशज्ञानपूर्वकवैराग्यश्च दर्शितम्- श्रुतिः प्रत्यक्षमैतिामनुमानं चतुष्टयम् । प्रमाणेष्वनवस्थानाद्विकल्पात् स विरज्यते ।। कर्मणां परिणामिलादावैरिञ्चयादमङ्गलम् । विपश्चिनश्वरं पश्येददृष्टमपि दृष्टवत् । [ श्री. भा० ११ १० १९ अ० कर्माण्यारभमाणानां दुःखहत्यै सुखाय च । पश्येत् पाकविपर्यासं मिथुनीचारिणां नृणाम् ।। नित्यार्तिदेन वित्तेन दुर्लभेनात्ममृत्युना । गृहापत्याप्तपशुभिः का प्रीतिः साधितैश्चलैः ।। एवं लोकं परं विद्यान्नश्वरं कर्मनिर्मितम् । सतुल्यातिशयध्वंसं यथा मण्डलवर्तिनाम् ।। इति ।। [श्री. भा० ११ ९क० ३ भ.] कीदृशी भगवद्धर्मानुष्ठातुर्ज्ञानवैराग्यपूर्विका भगवति भक्ति- रुदेतीत्याकाचायामुक्तम्- तथाऽन्यत्र- प्रथमोल्लासः। ३४ यद्यनीशो धारयितुं मनो ब्रह्मणि निश्चलम् । मयि कर्माणि सर्वाणि निरपेक्षः समाचर ॥ श्रद्धालुमें कथाः शृण्वन् सुभद्रा लोकपावनीः । गायन्ननुस्मरन् जन्म कर्म चाभिनयन् मुहुः ।। मदर्थे धर्मकामार्थानाचरन् मदपाश्रयः । लभते निश्चला भक्तिं मय्युद्धव ! सनातने । [ श्री. भा० ११ स्क० ११ अ.] तथा- भक्तियोगः पुरैवोक्तः प्रीयमाणाय तेऽनघ !। पुनश्च कथयिष्यामि मद्भक्तः कारणं परम् ।। श्रद्धाऽमृतकथायां मे शश्चन्मदनुकीत्तनम् । परिनिष्ठायान्तु पूजायां स्तुतिभिः स्तवनं मम ।। आदरः परिचर्यायां सङ्गैिरभिवन्दनम् । मद्भक्तपूजाऽभ्यधिका सर्वभूतेषु मन्मतिः ।। मदर्थेष्वङ्गचेष्टा च वचसा मद्गुणेरणम् । मय्यर्पणश्च मनसः सर्वकामविवर्जनम् ।। मदर्थेऽर्थपरित्यागो भोगस्य च सुखस्य च । इष्टं दत्तं हुतं जप्तं मदर्थे यद् व्रतं तपः ॥ एवं धम्मै मनुष्याणामुद्धवात्मनिवेदिनाम् । मयि सञ्जायते भक्तिः कोऽन्योऽर्थोऽस्यावशिष्यते ।। [ श्री० मा० ११ ०० १९ अ० तथाऽन्यत्र- तस्माद गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् । शाब्दे परे च निष्णातं ब्रह्मण्युपशमाश्रयम् ।। तत्र भागवतान् धर्माञ्छितेद्गुर्वात्मदैवतः । अमाययाऽनुवृत्त्या यैस्तुष्येदात्माऽऽत्मदो हरिः। ] - सटीके भक्तिरसायन- सर्वतो मनसोऽसङ्गमादौ सङ्गश्च साधुषु । दयां मैत्री प्रश्रयश्च भूतेष्वद्धा यथोचितम् ।। शौचं तपस्तितिक्षां च मौनं स्वाध्यायमार्जवम् । ब्रह्मचर्यमहिंसाश्च समत्वं, द्वन्द्वसंज्ञयोः ।। सर्वत्रात्मेश्वरान्वीतां कैवल्यमनिकेतताम् । विविक्तं चीरवसनं सन्तोषं येन केन चित् ।। श्रद्धा भागवते शास्त्र निन्दामन्यत्र चापि हि । मनोवाकायदण्डश्च सत्यं शमदमावपि ।। श्रवणं कीर्तनं ध्यानं हरेरद्भुतकर्मणः । जन्मकर्मगुणानाञ्च तदर्थेऽखिलचेष्टितम् ॥ इष्टं दत्तं तपो जप्तं वृत्तं यच्चात्मनः प्रियम् । दारान् सुतान् गृहान् प्राणान् यत् परस्मै निवेदनम् ।। एवं कृष्णात्मनाथेषु मनुष्येषु च सौहृदम् । परिचर्या चोभयत्र महत्सु नृषु साधुषु ।। परस्परानुकयनं पावनं भगवद्यशः । मिथो रतिर्मिथस्तुष्टिनितिर्मिथ आत्मनः स्मरन्तः स्मारयन्तश्च मिथोऽधौघहरं हरिम् । भक्त्या सजातया भक्त्या विभ्रत्युत्पुलका तनुम् ।। क चिट्ठदन्त्यच्युतचिन्तया क चि- सन्ति नन्दन्ति वदन्त्यलौकिकाः । नृत्यन्ति गायन्त्यनुशोलयन्त्यजं- भवन्ति तूष्णीं परमेत्य निर्दृताः ।। इति भागवतान् धर्मान् शिक्षद्भक्त्या तदुत्थया । नारायणपरो मायामञ्जस्तरति दुस्तराम् ॥ इति । [ श्री. भा० ११ स्क० ३ भ० तस्मादेवंविधैः शास्त्रीयैरुपायैर्मनःशुदि सम्पादयेदित्यर्थः ।३०। - ] - प्रथमोझासः। शास्त्रीयानेवोपायान् प्रतिपन्नजनबुद्धिसौकाय भूमिका- भेदन वक्तुं प्रतिजानीते- उपायाः प्रथमस्कन्धे नारदेनोपवर्णिताः । सक्षेपात्तानहं वक्ष्ये भूमिभेदविभागतः ॥३१॥ स्पष्टम् ॥ ३१ ॥ तानेवाह- प्रथमं महतां सेवा तयापात्रता ततः । श्रद्धाऽथ तेषां धर्मेषु ततो हरिगुणश्रुतिः ॥३२॥ ततो रत्यकुरोत्पत्तिः स्वरूपाधिगतिस्ततः । प्रेमबृद्धिः परानन्दे तस्याथ स्फुरणं ततः॥३३॥ भगवद्धर्मनिष्ठातः स्वस्मिंस्तद्गुणशालिता। प्रेम्णोऽथ परमा काष्ठेत्युदिता भक्तिभूमिका ॥३॥ तथा व्यासनारदसंवादे नारदः- अहं पुराऽतीतभवेऽभवं मुने ! दास्याश्च कस्याश्चन वेदवादिनाम् । निरूपितो बालक एव योगिनां- शुश्रूषणे प्रावृषि निर्विविक्षताम् ।। ते मय्यपेताखिलचापले के दान्तेऽधृतक्रीड़नकेऽनुवर्तिनि । चक्रुः कृपां यद्यपि तुल्यदर्शनाः शुश्रूषमाणे मुनयोऽन्पभाषिणि ॥ उच्छिष्टलेपाननुमोदितो द्विजैः सकृत्म भुजे तदपास्तकिल्विषः ।

४२. सटीके भकिरसायने- - एवं प्रवृत्तस्य विशुद्धचेतस- स्तदर्म एवात्मरुचिः प्रजायते ॥ तत्रान्वहं कृष्णकथाः प्रगायता- मनुग्रहेणाशृणवं मनोहराः। ताः श्रद्धया मेऽनुपदं विशृण्वतः प्रियश्रवस्या ! ममाभवद्रुचिः ।। तस्मिंस्तदा लब्धरुचेमहामते ! मियश्रवस्यस्खलिता मतिर्मम । ययाऽहमेतत् सदसत्स्वमायया पश्ये मयि ब्रह्मणि कन्पितं परे ।। इत्थं शरत्माषिकातू हरे- विशृण्वतो मेऽनुसवं यशोऽमलम् । संकीर्त्यमानं मुनिभिर्महात्मभि- भक्तिः प्रवृत्ताऽऽत्मरजस्तमोऽपहा ।। तस्यैवं मेऽनुरक्तस्य प्रश्रितस्य हतैनसः । श्रद्दधानस्य बालस्य दान्तस्यानुचरस्य च ॥ ज्ञानं गुह्यतमं यत्तत् साताद्भगवतोदितम् । अन्ववोचन गमिष्यन्तः कृपया दीनवत्सलाः ॥ येनैवाहं भगवतो वासुदेवस्य वेधसः । मायाऽनुभावमविदं येन गच्छन्ति तत्पदम् ।। एतत् संसूचितं ब्राँस्त्वया यद्विचिकित्सितम् । यदीश्वरे भगवति कर्म ब्रह्मणि भावितम् ।। आमयो यश्च भूतानां जायते येन सुव्रत ! तदेव ह्यामयं द्रव्यं न पुनाति चिकित्सितम् ।। एवं नृणां कियायोगाः सर्वे संमृतिहेतवः । त एवात्मविनाशाय कम्पन्ते कल्पिताः परे ।

प्रथमालासः
यदत्र क्रियते कर्म भगवत्परितोषणम् ।
ज्ञानं यत्तदधीनं हि भक्तियोगसमन्वितम् ।।
कुर्वाणा यत्र कर्माणि भगवच्छिक्षयाऽसकृत् ।
गृणन्ति गुणनामानि कृष्णस्यानुस्मरन्ति च ।।
ॐ नमो भगवते तुभ्यं वासुदेवाय धीमहि ।
प्रद्युम्नायानिरुद्धाय नमः सङ्कर्षणाय च ।।
इति मूर्त्यभिधानेन मन्त्रमूर्तिममूर्तिकम् ।
यजते यज्ञपुरुषं स सम्यग्दर्शनः पुमान् ।।
इमं स्वनिगमं ब्रह्मन्नवेत्य मदनुष्ठितम् ।
अदान् मे ज्ञानमैश्वर्य स्वस्मिन भावन केशवः ।।
[श्री० भा० १ क. ५.]
भगवत्सेवा द्विविधा, भगवद्भक्तसेवा साताद्भगवत्सेवा
च, तत्राचा यथा-
महत्सेवा द्वारमाहुर्विमुक्ते-
स्तमोद्वारं योषितां सङ्गिसङ्गम् ।
महान्तस्ते समचित्ताः प्रशान्ता-
विमन्यवः सुहृदः साधवो ये ।
ये वा मयीशे कृतसौहृदार्था-
जनेषु देहम्भरवार्तिकेषु ।
गृहेषु जायाऽऽत्मजरातिमत्सु
न प्रीतियुक्ता यावदाश्च लोके
[ श्री. भा० ५ स्क. ५० ]
तथा-
प्रसङ्गमजरं पाशमात्मनः कवयो विदुः ।
स एव साधुषु कृतो मोक्षद्वारमपावृतम् ।।

सटीके भक्तिरसायने-
तितिक्षवः कारुणिकाः सुहृदः सर्वदेहिनाम् ।
अजातशत्रवः शान्ताः साधवः साधुभूषणाः ॥
मय्यनन्येन भावेन भक्तिं कुर्वन्ति ये दृढाम् ।
मत्कृते त्यक्तकर्माणस्त्यक्तखजनबान्धवाः ।।
मदाश्रयाः कथामृष्टाः शृण्वन्ति कथयन्ति च ।
तपन्ति विविधास्तापा नैतान् मद्गतचेतसः ।।
त एते साधवः साध्वि ! सर्वसङ्गविवर्जिताः ।
सङ्गस्तेष्वय ते पार्थ्यः सङ्गदोपहरा हि ते ।।
[श्री. भा० ३ ० २५ अ०
तथा-
यत्पादसंश्रयाः सूत ! मुनयः प्रशमायनाः।
सद्यः पुनन्त्युपस्पृष्टाः स्वर्धन्यापोऽनुसेवया ॥
[श्री. भा. १ स्क १ अ.]
तुलयाम लवेनापि न स्वर्ग नापुनर्भवम् ।
भगवत्सङ्गिसङ्गस्य मानां किमुताशिषः ।।
[श्री. भा० १ स्क० १८ अ.
तथा-
दुर्लभो मानुषो देहो देहिनां क्षणभङ्गुरः ।
तत्रापि दुर्लभं मन्ये वैकुण्ठप्रियदर्शनम् ।।
भत आत्यन्तिकं क्षेमं पृच्छामो भवतोऽनघाः !
संसारेऽस्मिन् क्षणार्दोऽपि सत्सङ्घः शेवधिर्नृणाम् ॥
(श्री. भा० ११ स्क० २ १०)
तथा-
न रोधयति मां योगो न साङ्य धर्म उद्धव !
न स्वाध्यायस्तपस्त्यागो नेष्टापूर्त न दक्षिणाः ॥
व्रतानि यज्ञाश्छन्दांसि तीर्थानि नियमा यमाः ।
यथाऽबरुन्धे सत्सङ्गः सर्वसङ्गापहो हि माम् ।।

प्रथमोल्लासः।
૫
-
सत्सङ्गेन हि दैतेया यातुधाना मृगाः खगाः।
गन्धर्वाप्सरसो नागाः सिद्धाश्चारणगुह्यकाः ।।
विद्याधरा मनुष्येषु वेश्याः शूद्राः स्त्रियोऽन्त्यजाः ।
रजस्तमः-प्रकृतयस्तस्मिंस्तस्मिन् युगेऽनघ !
वहवो मत्पदं प्राप्तास्त्वाष्ट्रकायाधवादयः ।।
साताद्भगवत्सेवा यथा-
वृषपर्वा बलिर्बाणो मयथाथ विभीषणः ।
सुग्रीवो हनुमानृक्षो गजो गृध्रो वणिकपथः ।।
व्याधः कुब्जा बजे गोप्यो यज्ञपत्न्यस्तथाऽपरे ।
ते नाधीतश्रुतिगणा नोपासितमहत्तमाः ॥
अव्रतातप्ततपसः सत्सङ्गान्मामुपागताः ।
केवलेन हि भावेन गोप्यो गावो नगा मृगाः ।।
येऽन्ये मूढधियो नागाः सिद्धा मामीयुरञ्जसा ।
यं न योगेन साङ्खयेन दानव्रततपोऽध्वरैः ।
व्याख्याखाध्यायसंन्यासैः प्राप्नुयाद् यत्नवानपि ।
[श्री. भा० ११ स्क० १२ अ.]
मत्कामा रमणं जारमस्वरूपविदोऽपलाः ।
ब्रह्म मां परमं प्रापुः सङ्गाच्छतसहस्रशः ।।
तस्मात् त्वमुद्धवोत्सृज्य चोदनां प्रतिचोदनाम् ।
प्रवृत्तिश्च निवृत्तिश्च श्रोतव्यं श्रुतमेव च ।।
मामेकमेव शरणमात्मानं सर्वदेहिनाम् ।
याहि सर्वात्मभावेन यास्यसि ह्यकुतोभयः ।।
[श्री० भा० ११ स्क० १२ १०
तदयमत्र निष्कर्षः-भगवत्सङ्ग वा भगवत्सङ्गिसङ्गं वा यथा-
योग्यमन्तरेण न भगवति भक्तिरुदेति । एवावांस्तु विशेष:-
भगवत्सङ्गिनां कृतार्थत्वान्नान्यसङ्गापेक्षा, भगवत्सङ्गिसङ्गानान्तु

सटीके भक्तिरसायने-
वियत एव फलतया भगवत्सङ्गापेक्षेति, व्याख्याता द्विविधा
महत्सेवा । तदयापात्रता ततः । तेषां महतां स्वविषयात्
स्वकीयैः मुशीलताऽऽदिगुणैर्भवति ते च गुणा भगवतोक्ताः-
कृपालुरकृतद्रोहस्तितिक्षुः सर्वदेहिनाम् ।
सदासारोऽनवद्यात्मा समः सर्वोपकारकः ।।
कामैरहतधीर्दान्तो मृदुः शुचिरकिश्चन ।
अनीहो मितभुक् शान्तः स्थिरो मच्छरणो मुनिः ।।
अप्रमत्तो गभीरात्मा धृतिमान् जितषड्गुणः ।
अमानी मानदः कन्पो मैत्रः कारुणिकः कविः ॥
(श्री. भा० ११ स्क० ११ अ.)
तथा
मदभिज्ञं गुरुं शान्तमुपासीत मदात्मकम् ।
अमानी मत्सरो दक्षो निर्ममो दृढ़सौहृदः ॥
असत्वरोऽर्थजिज्ञासुरनसूयुरमोधवाक् ।
जायाऽपत्यगृहक्षेत्रस्वजनद्रविणादिषु ॥
उदासीनः समं पश्यन् सर्वेष्वर्थमिवात्मनः।
[ श्री. भा. ११ स्क० १० अ०
इत्यादि । उदाहरणं प्रह्लादो यथा-
तस्य दैत्यपतेः पुत्राश्चत्वारः परमाद्भुताः ।
प्रह्लादोऽभून्महाँस्तेषां गुणैर्महदुपासकः ।।
ब्रह्मण्यः शीलसम्पन्नः सत्यसन्धो जितेन्द्रियः ।
आत्मवत् सर्वभूतानामेकः प्रियमुहत्तमः ।।
दासवत् संनतार्यानिः पितृवत् दीनवत्सलः ।
भ्रातृवत् सदृशः स्निग्धो गुरुष्वीश्वरभावनः ।
विद्याऽऽर्थरूपजन्माव्यो मानदम्भविवर्जितः ॥

प्रथमोहालः। ४७ ] नोद्विग्रचित्तो व्यसनेषु निस्पृहः श्रुतेषु दृष्टेषु गुणेष्ववस्तुदृक् । दान्तेन्द्रियमाणशरीरधीः सदा प्रशान्तकामो रहितासुरोऽसुरः ॥ [श्री० भा० ७ स्क० ४ अ. एतादृशशिष्यगुणाभावे तु महत्तमसङ्गो निरर्थक इति तद्दयापात्रता भवति द्वितीया भूमिका । साऽपि द्विविधा- स्वप्रयत्नानपेक्षा तत्सापेक्षा च, तत्राद्या यथा- तप्तहेमनिकाया शितिकण्ठं त्रिलोचनम् । प्रसादसुमुखं वीक्ष्य प्रणेमुर्जातकौतुकाः ।। स तान् प्रपन्नातिहरो भगवान् धर्मवत्सलः । धर्मज्ञान शीलसम्पन्नान् प्रीतान प्रीत उवाच ह ।। श्रीरुद्र उवाच- यूयं वेदिषदः पुत्रा विदितं वश्चिकीर्षितम् । अनुग्रहाय भद्रं व एवं मे दर्शनं कृतम् ।। यः परं रंहसः साक्षात् त्रिगुणाजीवसंज्ञितात् । भगवन्तं वासुदेवं प्रपन्नः स पियो हि मे ।। स्वधर्मनिष्ठः शतजन्मभिः पुमान् विरिश्वतामेति ततः परं हि माम् । अव्याकृतं भागवतोऽथ वैष्णवं- पदं यथाऽहं विबुधाः कलाऽत्यये ।। अथ भागवता यूर्य प्रियाः स्थ भगवान् यथा । न मद्भागवतानाच प्रेयानन्योऽस्ति कर्हि चित् ।। इदं विविक्तं जप्तव्यं पवित्रं मालं परम् । निःश्रेयसकरजापि श्रयतां तद्वदामि वः ।। - सटीके भक्तिरसायने- ] इत्यनुक्रोशहृदयो भगवानाह ताञ्छिवः । बद्धाञ्जलीन राजषुत्तान् नारायणपरो वचः ॥.. [भी० भा० ४ स्क० २४ अ० इत्यादौ रुद्रप्राचेतससंवादे, यथा वा ते मय्यपेताखिलचापलेभके। [श्री. भा० १ स्क० ५ अ.] इत्यत्र । स्वमयत्नापेक्षा यथा ध्रुवनारदसंवादे ध्रुवः- सोऽयं शमो भगवता सुखदुःखहतात्मनाम् । दर्शितः कृपया पुंसा दुर्दर्शोऽस्मद्विधैस्तु यः ।। अथापि मेऽविनीतस्य चात् धर्मामुपेयुषः । सुरुच्या दुर्बचोबाणैर्न भिन्ने श्रयते हृदि । पदं त्रिभुवनोत्कृष्टं जिगीषोः साधु वर्त्म मे । ब्रह्मस्मपितृभिर्ब्रह्मन्नन्यैरप्यनधिष्ठितम् ।। नूनं भवान् भगवतो योऽङ्गजः परमेष्टिनः । विनुदन्नटते वीणां हिताय जगतोऽवत् ॥ इत्युदीरितमाकर्ण्य भगवान् नारदस्तदा । प्रीतः प्रत्याह तं बालं सद्वाक्यमनुकम्पया । श्रीनारद उवाच- जनन्याभिहितः पन्थाः स वै निःश्रेयसस्य ते भगवान् वासुदेवस्त्वं भज तत्मवणात्मना ।। धर्मार्थकाममोक्षाख्यं य इच्छेच्छेय आत्मनः । एक ह्येव हरेस्तत्र कारणं पादसेवनम् ।। तत् वात ! गच्छ भद्रं ते यमुनायास्तटं शुचि । पुण्यं मधुवनं यत्र सांनिध्यं नित्यदा हरेः॥ [श्री. भा० ४ स्क० ८ १० - ४४ प्रयमोझासः। इत्यादि । श्रद्धाऽय तेषां धर्मेषु पूर्वोक्तगुणसम्पन्नस्य महत्तमान् सेवमानस्य तादृशधर्मानुष्ठानादहमपि कृतार्थो- भवेयमिति रुचिविशेषरूपा श्रद्धा तद्धर्मेषु भवति, ततश्च खयमनुतिष्ठति, तदुक्तम्- शुश्रूषोः श्रदधानस्य वासुदेवकथारुचिः । स्यान्महत्सेवया विप्राः ! पुण्यतीर्थनिषेवणात् ।। यदनुध्याऽसिना युक्ताः कर्म ग्रन्थिनिबन्धनम् । छिन्दन्ति कोविदास्तस्य को न कुर्यात् कथारतिम् ।। [ श्री. भा० १ स्क० २ ४०] ज्ञानं यदा प्रतिनिवृत्तगुणोम्मिचक्र- मात्मप्रसाद उभयत्र गुणेष्वसङ्गः । कैवन्यसम्मतपथस्त्वथ भक्तियोगः को निळतो इरिकथासु रतिं न कुर्यात् । [श्री० मा० २ स्क० ३ भ० इत्यादि । हरिकथापदमन्येषामपि भागवतधर्माणामुप- लक्षणम् । यथाऽह ब्रह्मा- तदस्तु मे नाथ ! स भूरिभागो- भवेत्र वाऽन्यत्र तु वा तिरश्वाम् । येनाहमेकोऽपि भवज्जनानां- भूखा निषेवे तव पादपल्लवम् ॥ [ श्री. भा० १० क १४ अ. इत्यत्र पादसेवनम् । एवमन्यदप्यूह्यम् । इयश्च श्रद्धा साध- नपरिपाकेन वर्दमानैहिकामुष्मिकसविषयारुचिमुपजनयन्ती बुभुक्षेव भक्ष्यमत्रैकशरणं भगवद्धर्माचरणैकजीवनं पुण्यमा- सादयति । .]

५० सटीके भक्तिरसायने- तथा परीक्षितः- नैषातिदुःसहा तुन्मां त्यक्तोदमपि बाधते । पिबन्तं त्वन्मुखाम्भोजच्युतं हरिकथामृतम् ।। [श्री. भा. २ स्क. अ.] इत्यादि । अथ वा शौनकादीनाम्- मायुहरति वै पुंसामुद्यन्नस्तश्च यन्नसौ । तस्यते यः क्षणो नीत उत्तमश्लोकवार्तया ॥ [ भा० २ स्क० ३ ० १७ ] बिले बतोरक्रमविक्रमान् ये न शृण्वतः कर्णपुटे नरस्य । जिहाऽसती दाईरिकेव सूत ! न चोपगायत्युरुगायगाथाः॥ भारः परं पट्टकिरीटजुष्ट- मप्युत्तमान नमेन्मुकुन्दम् । शावौ करो नो कुरुतः सपर्या- हरेलसत्काञ्चनकङ्कणौ वा ॥ बर्हायिते ते नयने नराणां- लिङ्गानि विष्णोर्न निरीक्षतो ये । पादौ नृणां तो दुमजन्मभाजी क्षेत्राणि नानुव्रजतो हरेयौँ । जीवञ्चवो भागवताहि रेणून न जातु मत्योऽभिलभेत यस्तु । श्रीविष्णुपया मनुजस्तुलस्पाः श्वसञ्छवो यस्तु न वेद गन्धम् ।। तदश्मसारं हृदयं बतेदं- यह गृह्यमाणैर्हरिनामधेयैः।

५१ प्रथमोल्लासः। न विक्रियेताथ यदा विकारो- नेत्रे जलं गात्ररुहेषु हर्षः॥ [श्री. भा० २ स्क० ३ मा० इत्यादि । श्रद्धाविहीनास्तु विषयभोगपराः, के चित् पाण्डि- त्यादिगण भगवद्भक्तनिन्दापराः सन्तो निरयेऽपि निन्द- नीया एव ते भवन्ति । तत्र प्रथमे यथा- यन्न वजन्त्यपभिदो रचनाऽनुवादा- च्छृण्वन्ति येऽन्यविषयाः कुकथा मतिनीः । यास्तु श्रुता हतभगैर्नुभिरात्तसारा- स्तांस्तान क्षिपन्त्यशरणेषु तमासु हन्त ।। [ श्री. भा ३ ०० १५० ] तरवः किं न जीवन्ति भस्त्राः किं न श्वसन्त्युत । न खादन्ति न मेहन्ति किं ग्रामपशवोऽपरे ॥ श्वविवराहोष्ट्रखरैः संस्तुतः पुरुषः पशुः । न यत्कर्णपथोपेतो जातु नाम गदाग्रजः ।। [श्री. भा० २ स्क० ३ अ० ] इत्यादि । भगवद्भक्तनिन्दापरा यथा- मुखबाहूरुपादेभ्यः पुरुषस्याश्रमैः सह । चत्वारो जज्ञिरे वर्णा गुणैर्विप्रादयः पृथक् ॥ य एषां पुरुषं साक्षादात्मप्रभवमीश्वरम् । न भजन्त्यवजानन्ति स्थानाद भ्रष्टाः पतन्त्यधः ।। दूरं हरिकथाः के चिद दूरे चाच्युतकीर्तनाः। स्त्रियः शूद्रादयश्चैव तेऽनुकम्प्या भवादृशाम् ॥ [श्री. भा० ११ स्क० ५ अ० । रजसा घोरसङ्कल्पाः कामुका महिमन्यवः । दाम्भिका मानिनः पापा विहसन्त्यच्युतप्रियान् ।।

लटाक मारताया वदन्ति तेऽन्योन्यमुपासितस्त्रियो- गृहेषु मैथुन्यपरेषु चाशिषः। यजन्त्यसृष्टानविधानदक्षिणं- वृत्त्यै परं नन्ति पशूनतद्विदः॥ श्रिया विभूत्याऽभिजनेन विद्यया त्यागेन रूपेण बलेन कर्मणा । जातस्मयेनान्धधियः सहेश्वरान् सतोऽवमन्यन्ति हरिप्रियान् खलाः॥ सर्वेषु शश्वत् तनुभृत्ववस्थितं- यथा स्वमात्मानमभीष्टमीश्वरम् । वेदोपगीतश्च न भृण्वतेऽबुधा- मनोरथाना प्रवदन्ति वार्त्तया ॥ [श्री० भा० ११ स्क० ५७ हित्वाऽत्यायासरचिता गृहापत्यसुहृच्छियः । तमो विशन्त्यनिच्छन्तो बासुदेवपराङ्मुखाः ॥ [श्री० भा० ११ स्क० ५ न भजति कुमनीषिणां स इज्यां- हरिरचनात्मधनमियो रसज्ञः। श्रुतधनकुलकर्मणां मदैये विदधति पापमकिञ्चनेषु सत्सु ॥ एवमन्यदप्यूहनीयम् । तस्माद्भगवद्धर्मश्रदा भवति तृतीया भूमिका। ततो हरिगुणश्रुतिः। इत्थं परस्य निजवमरिरचयाऽऽत्त- लीलातनोस्तदनुरूपविडम्बनानि । श्री. भा०४ स्क०३११ यथा- - ५३ प्रथमोल्लासः। कर्माणि कर्मकपणानि यत्तमस्य श्रूयादमुष्य पदयोरनुवृत्तिमिच्छन् । मर्त्यस्तयाऽनुसवमेधितया मुकुन्द- श्रीमत्कथाश्रवणकीर्तनचिन्तयेति । तद्धाम दुस्तरकृतान्तजयापवर्ग ग्रामादनं तितिभुजोऽपि ययुर्यदर्थाः ।। [ श्री. भा० १० स्क० ९० भ० संसारसिन्धुमतिदुस्तरमुत्तितीषों नान्यः स्लवो भगवतः पुरुषोत्तमस्य । लीलाकथारसनिषेवणमन्तरेण पुंसो भवेद्विविधदुःखदवादितस्य ।। [श्री. भा० १२ स्क० ४ अ.] निवृत्ततरुपगीयमाना- द्भवौषधाच्छोत्रमनोऽभिरामात् । क उत्तमश्लोकगुणानुवादात् पुमान् विरज्येत विना पशुघ्नात् । [श्री. भा० १० स्क० । अ०] हरिगुणश्रुतिरिति कृत्स्नभागवतधर्मोपलक्षणम् । तथा च- को नु राजनिन्द्रियवान् मुकुन्दचरणाम्बुजम् । न भजेत् सर्वतोमृत्युरुपास्यममरोत्तमैः॥ [ श्री. भा० ११ स्क० २ १० ] तच्च भजनं विटतम्- श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् । अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ।।

પુર सटोके भक्तिरसायने- - - इति पुंसार्पिता विष्णौ भक्तिश्चेत्रवलक्षणा। क्रियेत भगवत्यद्धा तन्मन्येऽधीतमुत्तमम् ॥ [श्री. भा० ७ स्क० ५.] तदेवं संक्षिप्तम्- तस्माद् भारत ! सर्वात्मा भगवानीश्वरो हरिः । श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यश्चेच्छताऽभयम् ॥ [श्री० भा० २ स्क० ६ अ० ] क्रमेणोदाहरणम्- सङ्कीय॑मानो भगवाननन्तः श्रुतानुभावो व्यसनं हि पुंसाम् । पविश्य चित्तं विधुनोत्यशेष- यथा तमोऽर्कोऽभ्रमिवातिवातः ॥ मृषागिरस्ता ह्यसतीरसत्कथा- न कथ्यते यद्भगवानधोऽक्षजः। तदेव सत्यं तदिहैव मालं- तदेव पुण्यं भगवद्गुणोदयम् ।। तदेव रम्यं रुचिरं नवं नवं- तदेव शश्वमनसो महोत्सवम् । तदेव शोकार्णवशोषणं नृणां- यदुत्तमश्लोकयशोऽनुगीयते ॥ न तद्वचश्चित्रपदं हरेर्यशो- जगत्पवित्रं प्रगृणीत कर्हि चित् । तद ध्वाङ्कतीर्थ न तु हंससेवितं- यत्राच्युतस्तत्र हिसाधवोऽमलाः ॥ स वाग्विसों जनताऽघसंसवो- यमिन् प्रतिश्लोकमबद्धवत्यपि । - - ५५ प्रथमोहासः। नामान्यनन्तस्य यशोऽडितानि यत् शृण्वन्ति गायन्ति गृणन्ति साधवः ॥ [श्री. भा. १२ स्क. १२ अ०) यशःश्रियामेव परिश्रमः परो-- वर्णाश्रमाचारतपःश्रुतादिषु । अविस्मृतिः श्रीधरपादपायो- गुणानुवादश्रवणादरादिभिः ।। अविस्मृतिः कृष्णपदारविन्दयोः क्षिणोत्यभद्राणि समं तनोति च । सत्त्वस्य शुद्धिं परमात्मभक्ति- ज्ञानश्च विज्ञानविरागयुक्तम् ।। श्री. भा० १२ स्क. १२ भ० ] स्मरतः पादकमलमात्मानमपि यच्छति । किं वर्थकामान् भजतो नान्याभीष्टान् जगद्गुरुः ॥ दृष्टं तवाघ्रियुगलं जनतापवर्ग- ब्रह्मादिभिर्हदि विचिन्त्यमगाधबोधैः । संसारकूपपतितोत्तरणावलम्बं- ध्यायंश्वराम्यनुगृहाण यथा स्मृतिः स्यात् ।। [ श्री. भा० १० स्क० ६९ म.] तं नः समादिशोपायं येन ते चरणाब्जयोः । स्मृतिर्यथा न विरमेदपि संसरतामिह ।। [श्री. भा० १० स्क. ७३ अ.] तस्माद्रजोरागविषादमन्यु- मानस्पृहादैन्यभयाधिमूलम् । हिला गृहं संमृतिचक्रवालं- नृसिंहपादं भजताकुतोभयम् इति । श्री. भा. ५ सक. १८ अ.]

५६
सटीके भक्तिरसायने-
بس
अहो वतैषां किमकारि शोभनं-
प्रसन्न एषां खिदुत स्वयं हरिः।
यैर्जन्म लब्धं नृषु भारताजिरे
मुकुन्दसेवौपयिकं स्पृहा हि नः ॥
[श्री. भा ० ५ स्क० १९ अ०
याः सम्पर्यचरन् प्रेम्णा पादसंवाहनादिभिः ।
जगदगुरुं भर्तबुद्ध्या तासां किं वयते तपः ॥
[वि. पु.]
वैदिकस्तात्रिको मिश्र इति मे त्रिविधो मखः ।
त्रयाणामीप्सितेनैव विधिना मां समर्चयेत् ॥
[श्री० भा० ११ स्क० २७ अ०
एवं क्रियायोगपथैः पुमान् वैदिकतात्रिकैः ।
अर्चन्नुभयतः सिद्धि मत्तो विन्दत्यभीप्सिताम् ।।
[श्री. भा० ११ स्क० २७ भ.
यत्पादयोरशठधीः सलिलं प्रदाय
दूर्वाङ्कुरैरपि विधाय सती सपाम् ।
भप्युत्तमा गतिमसौ भजते त्रिलोकीं-
दावानविक्लवमनाः कथमार्त्तिमृच्छेत् ।।
[वि. पु.]
अहो प्रणामाय कृतः समुद्यमः
प्रपन्नभतार्थविधी समाहितः।
यलोकपालैस्तदनग्रहोऽमरै-
रलब्धपूर्वोपसदे सुरेर्पितः॥
[वि. पु.]
तचेऽनुकम्पा सुसमीक्षमाणो-
भुञ्जान एवात्मकृतं विपाकम् ।

५७ प्रथमोल्लासः। हृद्वाग्वपुर्भिविदधन्नमस्ते जीवेत यो मुक्तिपदे स दायभाक् ।। [ श्री. भा० १० स्क० १४ अ.] ममाद्यामङ्गलं नष्ट फलवांश्चैव मे भवः । यन्नमस्य भगवतो योगिध्येयाङ्घि, पङ्कजम् ॥ [ श्री. भा० १० स्क० ३८ भ. पतितः स्खलिता वार्तः चत्वा वाऽप्यवशो गृणन् । हरये नम इत्युचैः मुच्यते घोरकिल्विपात् ॥ [श्री० भा० १२ स्क० १२ १० ] नताः स्प ते नाथ पदारविन्दं- बुद्धीन्द्रियमाणमनोवचोभिः । यच्चिन्त्यतेऽन्तहदि भावयुक्त- मुमुक्षुभिः कर्ममयोरुपाशात् ॥ गीतासु च- मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥ | गीता १८ भ.] यन्नामश्रुतिमात्रेण पुमान् भवति निर्मलः । तस्य तीर्थपदः किं वा दासानामवशिष्यते ॥ [श्री. भा० ९ स्क० ५ भ.] किं चित्रमच्युत ! तवैतदशेषबन्धो ! दासेष्वनन्यशरणेषु यदात्मसात्वम् । योऽरोचयत्सह मृगैः स्वयमीश्वराणां- श्रीमकिरीटतटपीडितपादपीठः ॥ [ श्री. भा० ११ स्क० २९..]

५८ सटीके भक्तिरसायने- कायेन वाचा मनसेन्द्रियैर्वा बुद्धयाऽऽत्मना वाऽनुसतस्वभावात् । करोति यद्यत् सकलं परस्मै नारायणायेति समर्पयेत् तत् ॥ : श्री. भा० ११ स्क० २ अ० अहो भाग्यमहो भाग्यं नन्दगोपनजौकसाम् । यन्मित्रं परमानन्दं पूर्ण ब्रह्म सनातनम् ॥ [ श्री० भा० १० स्क० १४ अ. इत्थं सतां ब्रह्मसुखानुभूत्या दास्यं गतानां परदैवतेन । मायाऽऽश्रितानां नरदारकेण साकं विजह्नः कृतपुण्यपुजाः ॥ [ श्री० भा० १० स्व.० १४ अ० मयो यदा त्यक्तसमस्तका निवेदितात्मा विचिकीर्षितो मे । तदाऽमृतत्वं प्रतिपद्यमानो- मयाऽऽत्मभूयाय च कल्पते वै॥ [ श्री. भा० ११ स्क० २९ अ० धर्मार्थकाम इति योऽभिहितस्त्रिवर्ग- इक्षा त्रयी नयदमौ विविधा च वार्ता । मन्ये तदेतदखिलं निगमस्य सत्यं- स्वात्मार्पणं स्वसुहृदः परमस्य पुंसः ॥ [ श्री. भा० ७ स्क० ६ अ.] देवर्षिभूतात्मनृणां पिता- न किङ्करो नायमृणी च राजन् ! ६ ५४ ]] प्रथमोल्लासः। सर्वात्मना यः शरणं शरण्यं- गतो मुकुन्दं परिहत्य कर्त्तम् ।। [ श्री. भा० ११ स्क० ५ अ. तस्मादेवंरूपेण यथाशक्ति भागवतधः धर्मानुष्ठानं भवति चतु- थभूमिका, एतच्चतुष्टयं साधनमेव । ततो रत्यङ्कुरोत्पत्तिः । भक्तिर्नाम भक्तिरसस्थायिभावो- द्रुतचित्तप्रविष्टभगवदाकारतारूपः संस्कारविशेष इति वच्यते, स एव धर्मो भगवतो धर्मानुष्ठानात्मकबीजस्य । तदुक्तम्- सतां प्रसङ्गान्मम वीर्यसंविदो- भवन्ति हृत्कर्णरसायनाः कथाः। तज्जोषणादाश्वपवर्गवर्मनि श्रद्धा रतिर्भक्तिरनुक्रमिष्यति ॥ [श्री० भा० ३ स्क० २५. अ० श्रद्धा भक्तिरसानुभवे, ततो रतिः स्थायी भावः, ततः स एव भक्तिरसतां प्राप्तोऽनुक्रमेण भविष्यतीत्यर्थः। एवं मनः कर्मवशं प्रयुङ्क्ते अविद्ययाऽऽत्मन्युपधीयमाने । प्रीतिन यावन्मयि वासुदेवे न मुच्यते देहयोगेन तावत् ॥ भवापवर्गो भ्रमतो यदा भवे- जनस्य तर्यच्युत ! सत्समागमः । सत्सङ्गमो यहि तदैव सक्ती परावरेशे त्वयि जायते रतिः ।। • भा० १० स्क० ५१ अ० ] त्वयि मेऽनन्यविषया मतिर्मधुपतेऽसकृत् । रतिमुद्रहतादद्धा गङ्गेचौयमुदन्वति ।। [वि. पु.] [श्री.

६० सटीके भक्तिरसायने- - कर्मभिर्धाम्यमाणानां यत्र कापीश्वरेच्छया । मङ्गलाचरितैर्दानै रतिर्नः कृष्ण ईश्वरे ॥ [श्री. भा० १० स्क० ४७ अ.] इयं पञ्चमी भूमिका भक्तः स्वरूपम् , एतस्या एव परिपाक- विशेषादन्याः षड् भूमिकाः फलभूताः । स्वरूपाधिगतिस्ततः । प्रत्यगात्मस्वरूपस्य स्थूलमूक्ष्मदेह- द्वयातिरिक्तत्वेन साक्षात्कारः पष्ठी भूमिका । अन्यथा देहेन्द्रिया- दिवितेपेण जाताया अपि रतेरनिर्वाहात् । तदुक्तम्- ज्ञानं निःश्रेयसाय पुरुषस्यात्मदर्शनम् । यदाहुवर्णये तत्ते हृदयग्रन्थिभेदनम् ।। अनादिरात्मा पुरुषो निर्गुणः प्रकृतेः परः । प्रत्यग्धामा स्वयंज्योतिर्विश्वं येन समन्वितम् ।। स एष प्रकृति सूक्ष्मां देवीं गुणमयीं विभुः । यदृच्छयैवोपगतामभ्यपद्यत लीलया ॥ गुणैर्विचित्राः सृजती स्वरूपाः प्रकृति प्रजाः । विलोक्य मुमुहे सद्यः स इह ज्ञानमूहया ॥ [वि. पु.] एवं पराभिध्यानेन कर्तृत्वं प्रकृतेः पुमान् । कर्मसु क्रियमाणेषु गुणैरात्मनि मन्यते ।। तदस्य संमृतिबन्धः पारतत्रयश्च तत्कृतम् । भवत्यकर्तरीशस्य साक्षिणो निर्वृतात्मनः ।। [ श्री. भा० ३ स्क० २६ अ.] तथा- आत्मा नित्योऽव्ययः शुद्ध एकः क्षेत्रज्ञ आश्रयः । अविक्रियः स्वगहेतुापकोऽसङ्गचनावृतः ॥

प्रथमोल्लासः। एतैर्दादशभिर्विद्वानात्मनो लक्षणैः परः । अहंगमेत्यसद्भावं देहादौ मोहजं त्यजेत् ।। ( श्री. भा० ७ स्क. ७ अ०) एवं शुद्ध त्वंपदलच्येऽवगते तत्पदलच्येण सहाभेदज्ञान- भवति । तदप्युक्तम् कृष्णमेनमवेहि त्वमात्मानमखिलात्मनाम् । जगद्धिताय सोऽप्यत्र देहीवाभाति मायया ।। ( श्री. भा० १० स्क० १४ अ.) इत्यादि । एतादृशज्ञानस्य च भक्तुयत्तरकालत्वं दर्शितम्- वासुदेवे भगवति भक्तियोगः प्रयोजितः । जनयत्याशु वैराग्यं ज्ञान यदहैतुकम् ॥ ( श्री. भा० १ स्क० २ अ०) श्रेयःमृति भक्तिमुदस्य ते विभो ! क्लिश्यन्ति ये केवलबोधलब्धये । तेषामसौ क्लेशल एव शिष्यते नान्यद् यथा स्थूलतुषावघातिनाम् ।। [श्री० भा० १० स्क० १४ अ.] इत्यादि । एतादृशतत्त्वज्ञाने सति वैराग्यदााद भगवति प्रेम्णो बृद्धिर्भवतीति सप्तमी भूमिका यथा- न्यस्तक्रीडनको बालो जडवत् तन्मनस्तया । कृष्णग्रहगृहीतात्मा न वेद जगदीदृशम् ।। आसीनः पर्यटन्नश्नन शयानः प्रपिबन् ब्रुवन् । नानुसन्धत्त एतानि गोविन्दपरिरम्भितः ।। क चिद्रुदति वैकुण्ठचिन्ताशबलचेतनः । क चिद्धसति तचिन्ताहाद उद्गायति क चित् ।।

६२ सटीके भक्तिरसायने- ] तथा- नदति क चिदुत्कण्ठो विलज्जो नृत्यति क चित् । क चित् तद्भावनायुक्तस्तन्मयोऽनुचकार ह ॥ क चिदुत्पुलकस्तूष्णीमास्ते संस्पर्शनिवृतः । अस्पन्दप्रणयानन्दसलिलामीलितेक्षणः ।। स उत्तमश्लोकपदारविन्दयो- निषेवयाऽकिञ्चनसङ्गलब्धया। तन्वन् परां नितिमात्मनो मुहु- दुःसङ्गदीनस्य मनःशमं व्यधात् ॥ [ श्री. ना. ७ स्क० ४ अ० एवं निर्जितषड्वर्गः क्रियते भक्तिरीश्वरे । वासुदेवे भगवति यया संलभ्यते रतिः ।। निशम्य कम्माणि गुणानतुल्यान् वीर्याणि लीलातनुभिः कृतानि । यदातिहर्षात्पुलकाश्रुगद्गदं- प्रोत्कण्ठ उद्गायति रौति नृत्यति ॥ यदा ग्रहग्रस्त इव क चिद्धस- त्याक्रन्दते ध्यायति वन्दते जनम् । मुहुः श्वसन वक्ति हरे ! जगत्पते ! नारायणेत्यात्मगतिर्गतत्रपः॥ तदा पुमान् मुक्तसमस्तबन्धन- स्तद्भावभावानुकृताशयाकृतिः । निईग्धवीजानुशयो महीयसा भक्तिप्रयोगेण समेत्यधोक्षजम् ॥ अधोऽतजालम्बमिहाशुभात्मनः शरीरिणः संमृतिचक्रशातनम् । T:.

प्रथमोल्लासः। तद्ब्रह्मनिर्वाणसुखं विदुर्बुधा- स्ततो भजध्वं हृदये हृदीश्वरम् ।। [श्री० भा० ७ स्क० अ० एवमन्यदप्यूहनीयम् । एतादृशस्य सप्तमीपर्यन्त एव साध- नाभ्यासः, अतः परन्तु भूमिकाचतुष्टयमयनसाध्यम्। तस्याथ स्फुरणं ततः, तस्य प्रेमास्पदीभूतस्य भगवतः साक्षात्कारः प्रेमातिशयहेतुकोऽष्टमी भूमिका, तदुक्तम् -- नैकात्मतां मे स्पृहयन्ति के चि- न्मत्पादसेवाऽभिरता मदीहाः । येऽन्योन्यतो भागवताः प्रसज्य सभाजयन्ते मम पौरुषाणि ॥ पश्यन्ति ते मे रुचिराण्यम्ब ! सन्तः प्रसन्नवक्त्रारुणलोचनानि । रूपाणि दिव्यानि वरप्रदानि साकं वाचं स्पृहणीयां वदन्ति ।। तैर्दर्शनीयावयवरुदार- विलासहासेक्षितवाममुक्तः । हृतात्मनो हृतप्राणांश्च भक्ति- रनिच्छतो गतिमण्वीं प्रयुक्त ।। [ श्री. भा० ३ स्क० २५ अ० ] एवमन्यदप्यूह्यम् । भगवद्धर्मनिष्ठाऽतः, यथा श्रीविष्णुपुराणे- शालग्रामे महाभागो भगवन्यस्तमानसः । उवास रुचिरं कालं मैत्रेय ! पृथिवीपतिः॥ अहिंसाऽऽदिष्वशेषेषु गुणेषु गुणिनां वरः । अवाप परमां काष्ठां मनसश्चापि संयमे ।।

६४ सटीके भक्तिरसायने- - [वि. पु.] यज्ञेशाच्युत ! गोविन्द ! माधवानन्त ! केशव ! कृष्ण ! विष्णो ! हृषीकेशेत्याह राजास केवलम् ।। नान्यजगाद मैत्रेय ! किञ्चित् स्वमान्तरेष्वपि । एतत्परं तदर्थश्च विना नान्यदचिन्तयत् ॥ समित्पुष्पकुशादानं चक्र देवक्रियाकृते । नान्यानि चक्रे कर्माणि निःसङ्गो योगतापसः ॥ पृथिवीपतिर्भरतः । श्रीभागवते च- अम्बरीषो महाभागः सप्तद्वीपवती महीम् । अव्ययाश्च श्रियं लब्ध्वा विभवश्चातुलं भुवि ॥ मेनेऽतिदुर्लभं पुंसां सर्व तत् स्वमसंस्तुतम् । विद्वान् विभवनिर्वाणं तमो विशति यत् पुमान् ॥ वासुदेवे भगवति तद्भक्तेषु च साधुषु । प्राप्तो भावं परं विश्वं येनेदं लोष्टवत्स्मृतम् ।। स वै मनः कृष्णपदारविन्दयो- चासि वैकुण्ठगुणानुवर्णने । करौ हरेमन्दिरमार्जनादिपु श्रुति चकाराच्युतसत्कथोदये ॥ मुकुन्दलिनालयदर्शने दृशौ तभृत्यगात्रस्पर्शेऽङ्गसङ्गमम् । घाणश्च तत्पादसरोजसौरभे श्रीमत्तुलस्या रसनां तदर्पिते ।। पादौ हरेः क्षेत्रपदानुसपणे शिरो हृषीकेशपदाभिवन्दने । कामश्च दास्ये न तु कामकाम्यया यदुत्तमश्लोकजनाश्रया रतिः ॥

प्रथमोल्लासः।
६५
एवं सदा कर्मकलापमात्मनः
परेऽधियज्ञे भगवत्यधोक्षजे ।
सर्वात्मभावं विदधन्महीमिमां-
तनिष्ठविप्राभिहितः शशासह ॥
[श्री. भा० ९ स्क० ४ अ.
यथा वा-
तं मोपयातं प्रतियन्तु विषा-
गङ्गा च देवी धृतचित्तमोशे ।
द्विजोपसृष्टः कुहकस्तक्षको वा
दशत्वलं गायत विष्णुगाथाः ॥
पुनश्च भूयाद्भगवत्यनन्ते
रतिः प्रसङ्गश्च तदाश्रयेषु ।
महत्सु यां यामुपयामि सृष्टि-
मैत्रयस्तु सर्वत्र नमो द्विजेभ्यः ।।
इति स्म राजाऽध्यवसाययुक्तः
प्राचीनमूलेषु कुशेषु धीरः।
उदङ्मुखो दक्षिणकूल प्रास्ते
समुद्रपल्याः खसुतन्यस्तभारः ॥
[ श्री. भा० १ स्क० १९ भ.
राजा परीक्षित् ।
एवं हि तस्मिन् नरदेवदेवे
पायोपविष्टे दिवि देवसङ्घाः ।
प्रशस्य भूमौ व्यकिरन् प्रसूनै-
सुंदा मुहुर्दुन्दुभयश्च नेदुः ।।
{श्री. भा० १ स्क. १९०]
]

सटीके भक्तिरसायने-
]
यथा वा-
वयन्त्विह महायोगिन् ! भ्रमन्तः कर्मवमसु ।
बद्वार्तया तरिष्यामस्तावकैर्दुस्तरं तमः ॥
[श्री. भा० ११ स्क० ६ अ० ]
खयोपभुक्तस्रगगन्धवासोऽलहारचच्चिताः ।
उच्छिष्टभोजिनो दासास्तव मायां जयेम हि ॥
[श्री. भा० ५१ स्क० ६ भ.
एवमन्यदप्यूहनीयम् । भगवद्धर्मनिष्ठा प्रयत्नपूर्विका-
साधनं, स्वतःसिद्धा तु भगवद्धर्मनिष्ठा भवति फलभूता नवमी
भूमिका । स्वस्मिंस्तद्गुणशालिता, गथा-
अथो विभूतिं मम मायया चिता-
पैश्वर्यमष्टाङ्गमनुप्रवृत्तम् ।
श्रियं भागवती वा स्पृहयन्ति भद्रां-
परस्य मे तेऽनुवते तु लोके ॥
[ श्री. भा. ३ रू. २५ अ.]
न कर्हि चिन्मत्पराः शान्तरूपे
नङ्क्षयन्ति नो मेऽनिमिषो लेढि हेतिः ।
येषामहं प्रिय आत्मा सुतश्च
सखा गुरुः सुहृदो दैवमिष्टम् ।।
[श्री० भा० ३ स्क० २५ अ०
एवमविनश्वरभगवत्तुल्यगुणाविर्भावो भवति दशमी भूमिका ।
प्रेम्णोऽथ परमा काष्ठा प्राणपरित्यागावधिविरहासहि-
ष्णुतारूपा, यथा-
गोपीनां परमानन्द आसीद्रोविन्ददर्शने ।
तणं युगशतमिव यासां येन विना भवत् । ।
[श्री. भा० • स्क० १९ अ.]
.

प्रथमोल्लासः। ६७ - - . अटति यद्भवाननि काननं- त्रुटियुगायते बामपश्यताम् । कुटिलकुन्तलं श्रीमुखश्च ते जड उदीक्षतां पचमकृद् दृशाम् ।। [श्री. भा० १० स्क० ३१ अ.} यद्यम्बुजानापससार भो भवान् कुरून् मधून वाऽथ सुहृद्दिदृक्षया । तत्राब्दकोटिप्रतिमः क्षणो भवे- द्रवि विनाऽक्ष्णोरिव नस्तवाच्युत ! ॥ [श्री मा० . स्क० ११ अ० अन्तहगताः काश्विद्गोप्योऽलब्धविनिर्गमाः । कृष्णं तद्भावनायुक्ता दध्युगीलितलोचनाः ।। दुःसहभेष्ठविरहतीव्रतापधुताशुभाः। ध्यानप्राप्ताच्युताश्लेषनिवृत्या क्षीणमङ्गलाः ॥ तमेव परमात्मानं जारबुद्धयाऽपि सङ्गताः । जहुर्गुणमयं देहं सद्यः प्रक्षीणबन्धनाः ॥ [ श्री. मा० ५० स्क० २९ अ.] इत्यादि । अनन्तरोल्लासे चैतत्समपञ्चमुदाहरिष्यते प्रेमे- त्युपरम्यते । लक्षणं भगवद्भक्तेः साधनं सोपपत्तिकम् सभूमिकं स्वरूपञ्च यथाबुद्धीह वर्णितम् ॥३७॥ इति श्रीपरमहंसपरिव्राजकाचार्यश्रीमधुसूदनसरस्वतीविरचिते भगवद्भक्तिरसायने स्वरूपभूमिकासाधनसहितभक्तिसा- मान्यनिरूपणं नाम प्रथम उल्लासः समाप्तः ।।

अथ श्रीमधुसूदनसरस्वतीविरचितभक्तिरसायनस्य प्रेमप्रपासहितो- भक्तिविशेषप्रतिपादको- द्वितीयोल्लासः। श्रीश्रीगौरकृष्णः शरणम् । सच्चित्सौख्यात्मदेहे प्रकृतिगुणकणेनाप्यसंसृष्टरूपे शक्तित्रैविध्ययुक्तेऽनुपधिनिजकृपामात्रतो जीवलभ्ये ।। दानाबद्धे जनन्या प्रणयरशनया गोपसीमन्तिनीभिः कृष्णे चैतन्यदेवे निरवधिरमलप्रीतिरस्माकमास्ताम् ।। १ यः श्रीबृन्दाविपिनवसतिं श्रीलगोपालभट्ट- शालिग्रामात्मकटिततनुर्भक्तजीवातुरूपः ।। श्रीमद्राधारमणवपुषाऽऽश्वास्य विभ्राजमानोऽ- द्याप्यस्त्येवाखिलनतजनाभीष्टपूर्ति विधातुम् ॥ २ ॥ श्रीमदानन्दतीर्थादितत्त्वारामान्तिमान् गुरून् । श्रीमद्विद्यागुरून सर्वान् साञ्जलि प्रणमाम्यहम् ॥ ३ ॥ यतिकुञ्जरमधुसूदनसरस्वतीवैदुषीसिद्धे ।। भगवद्भक्तिरसायनभक्तिरसायननिबन्धेऽस्मिन् ॥ ४ ॥ उल्लासत्रयशालिन्यायेऽस्मिन् मूलकट्टीका ॥ शिष्टद्वये विटीकेऽपेक्षितटीके चिकीय॑ते टीका ॥५॥ निजयोग्यायोग्यत्वे न कृता चिन्ता मयोकहृदयेन । भक्तिरसायनसेवनमाश्रयितुं तापततेन ॥ ६ ॥ - द्वितीयोल्लासः। दैवात् सरस्वतीयां सरस्वती वै सरस्वतीं प्राप्य ।। तीर्थोदिधीषुभावोऽप्युचितोऽस्ति मिम चित्तस्य ॥ ७ ॥ मत्सरशालिन इह चेत्कृयुनिजकार्यमस्ति न हि खेदः ॥ जीयासुः कलहंसितमनसो भगवत्प्रसादेन ॥८॥ इह किल चिरादौपकर्णिकतामचकलद वृत्तमेतदैतिह्यमु- द्राऽङ्कितं विद्वद्गोष्ठीगरिष्ठपारम्परीतः अमृतम्-पारावारकूलङ्कष यशाः परमहंसपरिब्राजकतल्लजो विपश्चिन्मएडलीमण्डनः श्रीमधु- सूदनसरस्वतीमहानुभावोऽद्वैतवादसमरभेरीयमाणाद्वैतसिद्ध्यादि- निबन्धमख्यातप्रावीण्योऽपि ज्योतिरानन्दसमुद्रे संचरिष्णुरपि ज्योतिष्मदानन्दाकृष्टिवशंवदतया भागवतभावसुभगम्भावुकता- मनुभवन् प्रस्तूयमानं ग्रन्थं कारिकाऽऽत्मकं ग्रन्थित्वैनं विपरीतु- कामः प्रथममेवोल्लासं वित्योपररामोपरतिश्चयं देहोपरतौ कार- णान्तरोपरतौ वाऽऽयतिष्टेयं विचिकित्साऽप्यतिह्यानुगृहीतैवेत्थं- कारमव्याख्यानैवेदमीयोल्लासदयी प्रथमानाऽऽस्ते, सैवाधुना व्याचिख्यास्यते- एवं ग्रन्थकारस्तावत्सप्तत्रिंशत्कारिकाभिः स्वरूपभूमिका- साधनसहितस्य भक्तिसामान्यस्य निरूपणेन प्रथमोल्लासं समाप्य; तदन्ते प्रतिज्ञातं भक्तिविशेषनिरूपणमारभते-द्रुत इत्यादिना । द्रुते चित्ते प्रविष्टा या गोविन्दाकारता स्थिरा ॥ सा भक्तिरित्यभिहिता विशेषस्त्वधुनोच्यते ॥१॥ अनन्तरोल्लासे कथितमकारेण "चित्तद्रव्यं हि जतुवत्खभावात्कठिनात्मकम् । तापकैर्विषयोंगे द्रवत्वं प्रतिपद्यते" ।। इत्यादिना तचैव "कामक्रोधभयस्नेहहर्षशोकदयाऽऽदयः । - सटीके भक्तिरसायने- तापकाश्चित्तजतुनः इत्यादिनोक्तः कामादिभिश्चित्ते द्रुति नीयमाने; "द्रुते चित्ते विनिक्षिप्तः स्वाकारो यस्तु वस्तुने". त्यायुक्तरीत्या प्रविष्टा या भगवदाकारता स्थिरेत्यनेनोक्ता- कारतायाः स्थायित्वं द्योतितं; यथा तत्रैव- "स्थायिभावगिराऽतोऽसौ वस्त्वाकारोऽभिधीयते" इत्युक्तः, सा भक्तिरिति कथिता "द्रुतस्य भगवद्धर्माद्धारावाहिकतां गता। सर्वेशे मनसो वृत्तिर्भक्तिरित्यभिधीयते" इति. प्रतिपादितदिशा; अधुना-द्वितीयोल्लासे, विशेष:= भक्तिसामान्यस्यावान्तरभेदः प्रतिपाद्यते ॥ १ ॥ प्रतिज्ञातविशेषस्य सकारणकतां दर्शयति-चित्तद्रुतेरिति । चित्तद्रुतेः कारणानां भेदाद् भक्तिस्तु भिद्यते ।। तान्युक्तानि तु संक्षेपाद व्याख्यायन्तेऽधुना स्फुटम् २।। चित्तस्य मनसो द्रुतेद्रवीभावस्य म्रदिन इति यावत् कार- णानाम् उत्पादकानां भेदाद-वैलतण्याद्, भक्तिरपि; तुरप्यर्थः, भिद्यते पृथक्मकारा भवति, तानि-कारणानि संक्षेपादेव, उद्देश- मात्रेणैव तुरेवार्थः, संक्षेपश्च तदीयलक्षणाद्यनुक्तिरूपः, उक्तानि प्रथमोल्लासे कामक्रोधेत्यादिकारिकयेति शेषः, तान्येवात्रोल्लासे लक्षणनिर्वचनादिना विशदीक्रियन्त इति तुरीयचरणार्थः ॥२।। संक्षिप्योक्तान् चित्तद्रावकान् विवरीतुं प्रथममुद्देशक्रमेण स्वरूपलक्षणभेदैः कामं वितृणोति-काम इति । • कामः शरीरसंबन्धविशेषः स्पृहयालुता ॥ संनिधानासंनिधानभेदेन स भवेद् द्विधा ।।३।। %3- द्वितीयोझासः। यद्यपि भावार्थकप्रत्ययान्तस्य विशिष्टवाचकपदस्य विशेष- णपरताया आनुभविकत्वेन स्पृहयालुताऽपि स्पृहैव सा चेच्छे- ति काम इच्छाऽऽत्मक एवात्र पर्यवस्यति, तथाऽपि प्रकृते सामा- न्यवाचकपदानां विशेषपरत्वं लक्षणया योगरून्या वासंपाच विष- यविशेषविषयकेच्छात्वेनेच्छाविशेषस्य विवक्षिततया शरीरसंबन्ध- विशेषत्वेन सा लिलतयिष्यते, शरीरशदशात्रौचित्यात्सात्मक- शरीरबोधकः, संवन्धश्च विषयतारूपस्तं विशिनष्टि अवगाहते तथा च सात्मकशरीरविषयावगाहिनीच्छेति फलति, ताशवि- षयस्य नैकट्यानैकट्याभ्यां वैविध्यमुपपादयति-संनिधेत्यादिना, अत्र च सांनिध्यं न संयोगादिरूपम् , असांनिध्यं च तदभाव- रूपमित्यास्थेयं; तथा सति मानविप्रलम्भेऽतिव्याः, क चिदसं- युक्तावस्थे संभोगे चाव्यासः किन्तु रतिस्थायिकत्वे सति संयो- गभागस्मीत्यनुभवसाक्षिकचित्तवृत्तिविशेषशालितायां संभोगः, रतिस्थायिकत्वे सति न संयोगभागस्मीत्यनुभवसातिकचित्त- त्तिविशेषशालितायां विप्रलम्भ इति विवेचनीयं रसः ॥३॥ उक्तसंनिधानासंनिधानाभ्यां क्रमेण संभोगविप्रयोगौ भवत- इत्याह-तज्जेति । तज्जन्यायां द्रतौ चित्ते या स्याच्छीकृष्णनिष्ठता ।। संभोगविप्रयोगाख्या रतिःसा सा क्रमाद् भवेत् ॥४॥ एवं च संनिधानपयुक्तद्रवशालिनि चित्ते या श्रीकृष्णा- कारता निविष्टा सा रतिः संभोगाख्या, तथाऽसंनिधानप्रयुक्तद्र- वशालिनि चित्ते या श्रीकृष्णाकारता निविष्टा सा विप्रलम्भाख्या रतिरुच्यत इत्याशयः। यद्यपि भगवद्विग्रहमात्रस्यैव साम्यातिशयविनिर्मुक्तसच्चिदा- - सटीके भक्तिरसायने- नन्दषनात्मकतया रसत्वेनाविर्भावः प्रतिपिपादयिषितस्तथैवोक्त- च मूलकृता "भगवान् परमानन्दस्वरूपः स्वयमेव हि ॥ मनोगतस्तदाकाररसतामेति पुष्कलम्" इत्यादिना तथाऽपि यावद्रसस्वरूपतयाऽऽविर्भावरूपफलोपधायकता पूर्णतमत्वप्रकाशनेन विशिष्टधर्मिणि श्रीकृष्णाख्य एवेति रहस्य- मार्पिकावरो मूलकारः श्रीकृष्णनामैवोद्दिष्टवान्, युक्तं चैतत् पादविभूतो नित्यप्रकटलीलायां शान्तदास्यसख्यवात्सल्यमाधु- यान्तमुख्यभक्तिरसनिर्यासरूपता यादृशविशिष्टप्रकारैरभिव्य. ञ्जिता भगवता तादृशविशिष्टप्रकारैरेवोपासकैरास्वादनीयताम- इति सर्वथोपास्ये नापरथेति, ध्वनितश्चायमर्थो- ये यथा मां प्रपद्यन्ते ताँस्तथैव भजाम्यहमि- त्यादिना, पराक्रान्तं चात्र मूरिभिर्भक्तयाचारन्यत्र भूरीति तत एवावधारणीयं नेह विस्तरभिया तत्पतायते । अत्र यद्यपि ग्रन्थान्तरेषु रसशास्त्रनिबन्धकैर्बहुभिक्ति- भजमानस्यैव रसविशेषस्य संयोगवियोगविशेषावुक्तौ तन्मूलं- चाचार्यभरतमहर्षेः "तस्य द्वे अधिष्ठाने संभोगो विप्रलम्भश्चे". ति चूर्णकं प्रतिभाति; तथाऽपि प्रकृते मूलकारः संभोगविषयो- गाख्येत्यनेन रति व्यशिंषदित्यत्र प्रमाणं विदमेव यथा शृङ्गार- रसस्थायिताऽवच्छेदकतयारतिवसामान्यसिद्धिस्तथा विमलम्भा. दिस्थायिताऽवच्छेदकतया तद्विशेषात्मकस्य रतिगतवैलक्षण्य- स्यापि सिद्धि को नाम वारयितुमीष्टे, ध्वन्यते स्म चैषा पद्धतिरा- चार्यभरतमहर्षिप्रणीताद "दृश्यते हि भावेभ्यो रसानामभिनिई- 'तिरि"त्यादिसूत्रतः, तस्मात्साधुरेव रतेरपि तादृशविशेषणी- कृतिमूलकत इति सर्वमनवद्यम् । एतयोरुदाहरणे क्रमेण यथा- - ७३ -. द्वितीयोल्लासः। बाहुप्रसारपरिरम्भकरालकोरु- नीविस्तनालभननर्मनखाग्रपातैः। वेल्याऽवलोकहसितैत्रजमुन्दरीणा- मुत्तम्भयन् रतिपतिं रमयांचकार ॥ [ श्री. भा० स्क० १० अ० २९] गत्याऽनुरागस्मितविभ्रमेक्षितै- मनोरमालापविहारविभ्रमैः । आतिप्तचित्ताः प्रमदा रमापते-- स्तास्ता विचेष्टा जगृहुस्तदात्मिकाः ॥ ४ ॥ [श्री० भा० स्क० १० अ० ३०] क्रमप्राप्तं क्रोधं लतयन् तत्पयुक्तद्रुतिशालिनि चित्ते निवि- टाकारतां रतितो भिनत्ति-क्रोध इति । क्रोध ईर्ष्यानिमित्तं तु चित्ताभिज्वलनं भवेद् ॥ तजन्यायां द्रुतौ सा तु द्वेषशब्देन गृह्यते ॥ ५ ॥ पराभ्युदयायंसहिष्णुताऽऽत्मकेाजनितं मनसो दीप्तत्वं क्रोधो भवति, तुशब्देने]तरनिमित्तं व्यवच्छिन्नं ज्ञेयं, तेन क्रोधेन जन्यायां चित्तद्रुतौ निविष्टा सा श्रीकृष्णाकारता द्वेषपद- वाच्या भवति, अत्रापि तुना क्रोधान्यद् द्रावकं निरस्तंबोध्यम् ॥५॥ उक्तस्य चित्ताभिज्वलनस्य फलभेदेन द्वैविध्यं दर्शयति-अत्रेति । अत्र चेतोव्याकुलत्वं सोपद्रावकदर्शनात् ।। उपदावकनाशार्थं तत्पीत्यर्थं च तद् द्विधा ।। ६ ।। अत्र-द्वेषे सति, चेतसो व्याकुलत्वं विक्षेपो जायते, अस्मि- श्व सति मनस्तापादीनामुपद्रवजनकानासुदयात् तन्नित्तिरि- ष्यते, सा च द्वेषसाफल्येन भवतीति चित्तव्याकुलत्वस्योपद्रावक- -- सटीके भक्तिरसायने- - नाशार्थकता लभ्यते, तदेवोक्तम्- "उपद्रावकनाशार्थमि"ति, कदा चिच चित्तप्रीतयेऽपि तदव्याकुलत्वं पर्यवस्यति, अत उक्त- तत्त्रीत्यर्थ चेति, उपपत्तिश्चैतदीयाऽनन्तरकारिकाविवरणे व्यक्ती. भाविनी ॥६॥ पूर्वोक्तं वैविध्यं विशदयति-तत्रेति । तत्रायं द्वेष एव स्याद् द्वितीयं रतिशब्दभाक् ॥ उपरिष्टात्तदुभयं मया स्पष्टीकरिष्यते ॥ ७ ॥ तत्र-तयोरुपद्रावकनाशार्थकतया तत्प्रीत्यर्थकतया च द्विवि- धयोाकुलत्रयोः, प्रथमं व्याकुलत्वं द्वेष उच्यते, द्वितीयं च रतिविशेषः, या रतिर्मानाख्यविप्रलम्भतां भजते, तत्र यद्यपि रतिरेव स्थायिभावः; तथापि किंचिद्विप्रियदर्शनश्रवणादिप्रयु- ताकषायितत्वं विपलम्भविशेषताप्रयोजकतासमर्पकाभ्यामन्व- यव्यतिरेकाभ्यां वैशिष्टयं प्रत्याय्यमानं दुरपन्हव मिति रसमार्मि- का विदाकुर्वन्तु, उपरिष्टाद="ईजिभयजौ द्वेषौ” “कामजे द्वे रती" इति वक्ष्यमाणाभ्यां कारिकाभ्याम् , उभयं-द्वेषरतिद्वयं- मया कारिकारूपमूलकृता, स्पष्टीकरिष्यते विवरिष्यते । द्वेषे प्रत्युदाहरणं यथा- इत्थं निशम्य दमघोषमुतः स्वपीठा- दुत्थाय कृष्णगुणवर्णनजातमन्युः । उत्तिप्य बाहुमिदमाह सदस्यमर्षी संश्रावयन्भगवते परुषाएयभीतः ।। अत्र श्रीभगवद्विषयकेय॑या प्रदीप्तचेतसः शिशुपालस्य द्वेषः । [श्री. भा० स्क० १० अ० ७४ ] प्रीतिप्रयोजकायामुदाहरणं यथा- राधामञ्जुलमन्दिरादुपगतश्चन्द्रावलीमूचिवान् . द्वितीयोल्लासः। राधे ! क्षेममिहेति तस्य वचनं श्रुखाऽऽह चन्द्रावली । कंस ! क्षेममये विमुग्धहृदये ! कंसः क दृष्टस्त्वया राधा केति विलज्जितो नतमुखः स्मेरो हरिः पातु वः ।। अाहेतुको मानश्चन्द्रावन्याः ॥ ७ ॥ क्रमप्राप्तं भयं लक्षयति-द्वेषेति । देषाहेतुः स्वमन्तूत्थं वैक्लव्यं चित्तगं तु यत् ॥ तजन्यायां द्रतौ याऽऽस्ते रतिः सा भयमुच्यते ॥८॥ यद्यपि द्वेषभयस्थले रतिरेव स्थायिनी किन्तु संकीर्णमि- श्रता केवलमिश्रिता वा; नैषा शुद्धा, द्वेषे चित्तव्याकुलत्वस्य विरोधिनः सत्त्वात् , प्रीत्यर्थकतायामेव विमलम्भयोग्यतया स्थायि- बम् , उपद्रावकनिरासार्थकतायां न स्थायित्वम् , अत एव "तत्राद्य द्वेष एव स्याद” इत्युक्तया तत्त्वं पर्युदस्तं, भयेऽपि संकीर्णमिश्रिततया केवलमिश्रिततया वा रतेः स्थायित्त्वं, तत्तु "ईजिभयजौ द्वेषौ भगवद्विषयावपि । न भक्तिरसतां यातः साक्षाद् द्रुतिविरोधतः" इत्यादिना मूलकार एव निषेधमुखेनोपपादयिष्यति, तथा ऽपि "प्रीतिभीविस्मयास्तथा” “तथा प्रीतिभयानकः” इत्युपसं- हरन् कारिकाकृद् भयमपि भक्तिरसे संकीर्णविधयोपात्तवान् , तदेवाभिसंधायात्र द्वेषाहेतुरिति विशेषणमुपादत्ते, अयं भावः चित्तगतं निजापराधजनितं वैक्लव्यं विजातीयत्रासविशेषो मृत्यु- शरणानुसंहित्यादिजनकं यदा भवेत्तदाऽनेन सधीचीना रति- भयानकभक्तिरसतां विन्दते, द्वेषजनकतायां तु न तथात्वं भजते द्वेषस्य तापकतया चित्तद्रवशोषणादिति परमार्थः ॥८॥ उद्देशरीत्या प्राप्तं स्नेहं वितृणोति-स्नेह इति ।

सटीके भक्तिरसायने- .. - स्नेहः पुत्रादिविषयः पाल्यपालकलक्षणः। सेव्यसेवकभावोऽन्यः सोऽप्युक्तस्त्रिविधो बुधैः ॥६॥ सोऽपि सेव्यसेवकभावरूपोऽपि, त्रिविधखमव्यवहितोत्तर- कारिकया वच्यते, स्पष्टमन्यत् ॥ ६ ॥ द्वितीयप्रकारकम्नेहस्योक्तं वैविध्यं पद्यार्धन विभज्य स्नेहं- विवृणोति सार्धपद्येन-भगवेति । भगवद्दास्यसख्याभ्यां मिश्रितं चापरं जगुः ।। या कृष्णाकारता चित्ते तज्जन्यतिशालिनि ॥१०॥ पाल्यपालकभावेन सा बत्सलरतिर्भवेत् ॥ सेव्यसेवकभावेन प्रेयोतिरितीर्यते ॥११॥ भगवनिरूपितं दास्यं तत्संपर्कि सख्यं चेति द्वे, एनयो- मिश्रणे चैकमित्थं त्रिधा सेव्यसेवकभावमूचुः प्राचीना रसशास्त्रा- चार्याः, अत्र यद्यपि मूलकृतोक्ते सेव्यसेवकभावे त्रैविध्यप्रयो- जकं किमपि नासूचि तथाऽपि रसज्ञेष्वभियुक्ततमैः प्रीतिस्थायिको- दास्यरसः विश्रम्भस्थायिकः सख्यापरनामकः प्रेयान् रस इत्थं- दास्यसख्यरसद्वयी व्यवास्थापि सैवेहोपादेया परमतमपतिषिद्ध- मनुमतमिति न्यायेन समानतन्त्रसिद्धान्तरीत्या चेति प्रभुताज्ञा- ननिबन्धनसादरचाञ्चल्यात्मकसंभ्रमस्थायिकत्वेन, मुक्तसंभ्रम- गाढ़विश्वासपाणविश्रम्भस्थायिकत्वेन च दास्यसख्ययोर्भेद- इति बोध्यम् । एवं चोक्तसंभ्रमविश्रम्भप्रयुक्तद्रवशालितायां- चित्ते क्रमेण निविष्टा श्रीकृष्णाकारता संभ्रमरतिः विश्रम्भरति- श्रोच्यते, पाल्यपालकरूपे स्नेहे सति द्रुतचित्ते तदाकारता वात्सन्यरतिर्भवति, सेव्यसेवकभावेन द्रुतचित्ते तदाकारता प्रेया- द्वितीयोलालः। रतिः, निष्कृष्टप्रकारेणेयमेव प्रेयोरतिरुद्दिष्टनामद्वयवती यथायथं- व्यवहियत इति भावः ॥१०-११।। क्रमागतं हर्ष लक्षयन् तत्पकारांश्च दर्शयति–हर्ष इति । हर्षश्चित्तसमुल्लासः कथ्यते स चतुर्विधः ॥ एकः परानन्दमयः श्रीशमाहात्म्यकारणम् ॥१२॥ हर्पत्वं हीष्टप्राप्त्यादिजन्यत्वे सति सुखविशेषत्वं, तदेव समु- लासपदेनाभिलप्यते समुदुपसृष्टस्य लसतेस्तागर्थकलात, स- चतूरूपः, तेष्वाद्यमाह-"एकः परानन्दमयः", एकः प्रथमः, प्रधानं वा "एतदन्तं हि शास्त्रेषु साधनाम्नानमिष्यत-" इत्युपसंहारात्, परानन्दमय:-निरतिशयानन्दप्रचुरः, एत- दीयमाधान्यं सूचयति-"श्रोशमाहात्म्यकारणम्” अत्र माहात्म्य- रूपविषयेण विषयि तज्ज्ञानमुपलक्ष्यते, अन्यथा तन्माहात्म्यस्य शाश्वतिकतया तत्कारणापसिद्धरसंगत्यापत्तेः, तथा च भगवन्म- हत्त्वानुभवजनकत्वयोग्य इति पर्यवस्यति ॥१२॥ तज्जन्यां रति वितृणोति-तजति । तजन्यायां द्रुतौ शुद्धा रतिगोविन्दगोचरा । एतदन्तं हि शास्त्रेषु साधनाम्नानमिष्यते ॥१३॥ तज्जन्यायां चित्तद्रुतौ भगवद्विषयिका रतिः शुद्धा, अपरैः संकरमिश्रणाभावादिति भावः, प्राधान्यं निगमयति-एतदन्त- मिति, शास्त्रेषु परमपुमर्थोपलब्ध्युपायप्रतिपादकेषु, हि निश्चयेन, साधनाना-परभपुमर्थप्रापकाणाम् , आम्नानम्-उपदेशः, इष्यते परमपुरुषार्थिभिरिति शेषः । उक्तं चैतत् स्वयमेव भगवता श्री. मदृषभेण- - सटीके भक्तिरसायने- पराभवस्तावदबोधजातो यावन्न जिज्ञासत आत्मतत्त्वम् । यावत् क्रियास्तावदिदं मनो वै कर्मात्मकं येन शरीरबन्धः ॥ एवं मनः कर्मवशं प्रयुक्त अविद्ययाऽऽत्मन्युपधीयमाने । प्रीतिन यावन्मयि वासुदेवे न मुच्यते देहयोगेन तावद् ॥ इत्यादिना ॥१३॥ [ श्री• भा० स्क० ५ अ० ५] हर्षस्य द्वितीयं प्रकारं दर्शयति-ब्रीडेति । ब्रीडाविकृतवागवेषचेष्टाऽऽदिजनितोऽपरः ।। तजन्यायां द्रुतौ चेतोविकासो हास उच्यते ॥१४॥ लज्जया विरूपैर्वाग्वेषचेष्टाऽऽदिभिरुत्पादितो द्वितीयविधो- हर्षः, चित्तस्यैतज्जन्ये द्रवे यो विकासो विस्तारः स हासः ॥१४॥ तस्यैव तृतीयं तं निरूपयति-लोकोत्तरेति । लोकोत्तरचमत्कारिखस्तुदर्शनजः परः॥ तजन्यायां द्रुतौ चेतो विकासो विस्मयो मतः॥१५॥ लोकोत्तरस्य-अस्वाभाविकस्य, चमत्कारिणः-सुखविशेष- जनकस्य वस्तुनो, दर्शनाद-ज्ञानाद, अत्र दृशिनिसामान्यपरः श्रवणादपि तादृशस्य तदुत्पत्तेः, जातो हर्षस्तृतीयभेदः, तेन जनितायां द्रुतौ चित्तस्य यो विकास उल्लासः स विस्मयः ॥१५॥ तदीयं तुरीयं प्रकारं कथयति-युद्धेति । युद्धादितापजनितो वीराणां जायतेः परः॥ . जितचित्तस्य विस्तारो द्रुतस्योत्साह उच्यते ॥१६॥ युद्धादितो यस्तापः प्रज्वलनं ततो जनितो बीराणां शूरा- णां हर्षः परश्चतुर्थः, वीरेषु योधिप्रतियोधिनोः कतरीयोऽयमत- ७९ द्वितीयोल्लासः आह-जितेति, जितस्य चित्ते निर्दिष्टतापतो द्रुते यो विस्तार- औन्नत्यापरपर्यायः स उत्साहः कथ्यते ॥ १६ ॥ यथोद्देशं शोकं लतयति-इष्टेति । इष्टविच्छेदजनितो यश्चिने क्लिष्टतोदयः ।। तज्जन्यायां द्रतौ विष्टा रतताशोक उच्यते ॥१७॥ इष्टस्य-प्रियस्य, विच्छेदाद-वियोगतो जनितो यः चित्ते क्लिष्टतायाः व्याकुलवस्य, उदयस्तजन्यायां द्रुतौ प्रविष्टा रतिः शोक उच्यते ॥ १५ ॥ चित्तद्रावकत्वेन निर्दिष्टेषु संदर्भशुद्ध्यर्थ दयां लक्षयति- दयेति । दया घृणा स्याविषयतुच्छत्वज्ञानदीर्घिका ।। तया द्रुते तु मनसि जुगुप्सा जायते त्रिधा ॥१८॥ विषयाणाम् इन्द्रियार्थानां, तुच्छवस्य-जुद्रवस्य ज्ञानेन दीर्घा महती, घृणां दया स्यात्, तुच्छवज्ञानं च त्रिधा भवति विषयेषु, तेषामुद्वेजकत्वेन क्षोभकत्वेन विवेकानास्पदत्वे न च, अत एव जुगुप्साऽपि दयया द्रुते चित्ते त्रिधा व्यवहियते ॥१८॥ वैविध्यमेव कारिकाद्वयेन दर्शयति-पूतीत्यादिना । प्रतिबणादिविषये कथितोदेगिनी बुधैः॥ श्मशानोत्थपिशाचादिविषया क्षोभिणी भवेत् ॥१६॥ देहेन्द्रियादिदुःखे त्वविचारणपुरःसरा ॥ घृणाशुद्धेति कविभिः साजुगुप्सा प्रकीर्तिता ॥२०॥ दुर्गन्धव्रणादिविषयिका जुगुप्सोदेगिनी, श्मशानपिशा- चादिविषयिकेयं क्षोभिणी, शरीरेन्द्रियादिनिबन्धनदुःखविषयि- .

3.
सटीक भक्तिरसायने-
का सा शुद्धा घृणा बाह्योपाधिसंपर्काभावाद, एषा तु विवेकवै-
धुयप्रयुक्ता, एवं दया त्रिविधा भवति ॥ १९-२० ॥
प्रसङ्गमाप्तान् उत्साहविशेषान् लक्षयन् पूर्व दयोत्साहं निर्दि-
शति-या विति ।
या तु शोच्यस्य रक्षार्थ प्रवृत्तिरनुकम्पया ।।
तया द्रुते तु मनसि दयोत्साहः स्मृतो बुधैः ॥२१॥
शोच्यस्य दयनीयस्य, रक्षार्थ दुःखप्रहाणार्थम् , अनुक-
म्पया-कृपया या प्रवृत्तिः चेष्टा तया मनसि द्रुते दयोत्साह-
उदेति ॥ २१ ॥
दानोत्साहं तत्तयति-सर्वेति ।
सर्वस्वमपि दास्यामि प्रार्थयेति च यो महान् ।।
उद्यमो द्वतचित्तस्य दानोत्साहः स उच्यते ॥२२॥
हे अर्थिन् ! त्वं प्रार्थय-स्वाभीष्टं वस्तु याचस्व, तुभ्यं सर्व-
स्वमपिदास्यामि, इत्याकारो यो महान् प्रशंसनीयः, उद्यमः उत्सा-
हो दातुः स दानोत्साहः कथ्यते ॥ २३ ॥
धर्मोत्साहं लत्तयति-तथेति ।
तथा स्वधर्मरक्षार्थ या प्रवृत्तिः प्रयत्नतः ।।
तया चित्तस्य विस्तारो धर्मोत्साहोद्वतौ भवेद ॥२३॥
एवं स्वधर्मस्य रक्षाऽर्थ परिपालनाय, वास्तविकी या चेष्टा;
तया द्रुते चित्ते य उत्साहो भवेत् स धर्मोत्साह उच्यते ॥२४॥
चित्तद्रावकनिर्देशिकायां कारिकायामुक्तनादिशब्देन ग्राह्यं-
शमं लक्षयति-वशीति ।
वशीकाराख्यवैराग्यंयत् कामास्पृहताऽत्मकम् ॥
तेन द्रुतस्य चित्तस्य प्रकाशः शम उच्यते ॥२४॥

द्वितीयोल्लासः।
यत् कामस्य-कामनाविषयत्वावच्छिन्नस्य, अस्पृहता-राग-
शून्यता, तत्स्वरूपं वशीकाराख्यं वैराग्यं वीतरागता, यथादुर्भ-
गवत्पतञ्जलिपादाः-"दृष्टानुश्रविकविषयवितृष्णस्य वशीका-
रसंज्ञा वैराग्यम्", दृष्टेषु ऐहलौकिकेषु, आनुश्रविकेषु-पारलौ-
किकेषु, विषयेषु वितृष्णस्य वीतरागस्य वैराग्यं वशीकारपद-
वाच्यं भवति, तेन निरुक्तवैराग्येण द्रुते चित्ते प्रकाश: आलोकः,
शमः-शान्तिरुच्यते ॥ २४ ॥
एवं चित्तद्रावकान् प्रदी; भावान्तरेषु चित्तद्रुतिजनकत्वा-
भावं प्रदर्शयति-इतोऽन्यथेति ।
इतोऽन्यथा तु चित्तस्य न द्रुतिर्विद्यते क चित् ॥
तदभावात्तु भावो न निरुक्तान्योऽस्ति कश्चन ॥२५॥
इतः कामक्रोधभयस्नेहहर्षशोकदयाशमैश्चित्तं यथा दाव्यते
तादृशपकाराद, अन्यथा प्रकारान्तरेण, क चित् सहृदये,
चित्तस्य द्रतिनानुभविकी,
द्रतिनानुभविकी, तदभावात्-चिचद्रुत्यजननाद,
उक्ताद् भावाष्टकाद भिन्नः कोऽपि भावः स्थायिभावो नास्ति,
अयं भावः-निरूपणीयत्वेन प्रकृते सर्वस्मिन्नपि सावान्तर-
भेदे भक्तिरसे जीवातुतया स्थायिभावस्यैव प्रयोजकतेति
निर्विवादमेव, स्थायिता च तनिरूपिता रतिखावच्छिन्नस्य
साधारणे साधारण्याः असाधारणेऽसाधारण्या इत्यन्यदेतद्,
स्थायिभूता-रतिस्तु "स्थायिभावगिराऽतोऽसौ वस्त्वाकारोऽ-
भिधीयत" इत्युक्तदिशा भगवदाकारतैव, तदाकारता च
"द्रुते चित्ते विनिक्षिप्तः स्वाकारो यस्तु वस्तुने" त्यादिरीत्या
चित्तद्रवमपेक्षते, तदीयद्रुतिश्च द्रावकाधीना, द्रावकाच कामाद-
योष्टावेव नान्ये, इत्यादागतोक्ताष्टकातिरिक्तेषु स्थायित्वा-
योग्यता, तस्मादुपपन्नं भावो न निरुक्तान्योऽस्तीति ॥ २५ ॥

सटीक भक्तिरसायन-- उक्तमेवान्वयमुखेन विशदयति-यावेति । यावत्यो द्रुतयश्चित्ते भावास्तावन्त एव हि ॥ स्थायिनो, रसतां यान्ति विभावादिसमाश्रयात् ॥२६॥ यद्यपि यावत्या द्रुतयश्चित्ते तावन्त एव स्थायिभावा इत्या- पाततः प्रतीयमानोऽप्यों नासंगतस्तथाऽपि प्रातिस्विकरूपेण द्रुतिसमसंख्यकत्वे स्थायिनामानन्त्यनेषामियत्ता दुरवधारणैव स्यात, न स्याच नियमोऽपि किंजातीयस्थायिनः किंजातीयद्रु- तिका इत्यत्र, अतोऽनुगमकं रूपं किंचिद् वक्तुमुचितं, द्रावका- पां कामादीनां परम्परयाऽनुगमकत्वं तेषामपि स्वतोऽननुगत- त्वेन कथमिवापरानुगमकता भवेत्तस्माद् अनुगतैः कामवा. दिभिः उपाधिताऽवच्छेदकैरनुगतीकृतैः कामादिभिरुपाधिभिरु- पाहिताश्चित्तीया द्रुतयोऽप्यनुगमयितव्यतामासाद्य; स्वात्मकान् स्थायिनोऽनुगमयन्तीति चित्तद्रावकताऽवच्छेदकानां कामवादी- नामष्टत्वेन तदवच्छिन्नकामाधुपाधिनिरूपितोपाधेयताऽवच्छेदका- वच्छिन्नचित्तद्रुतीनामप्यष्टतया तदभिन्नाः स्थायिनोऽपि तावन्त- एवेति स्वनुगमास्त, नियमश्च तादृशस्तदीयःमुकर इत्यभिसंधायैव मूलकृता “यावत्यो द्रुतय" इत्याद्युक्तमिति प्रतिभाति । तावन्त एव स्थायिन इत्युक्त्या ते रसत्वेनाविर्भूष्णुताशालिन इति प्रत्ययस्य यद्यपि यादृश्या द्रुत्या स्थायित्वेनाभिमतया रसाविर्भा- वोपयिकविभावादिसाकल्पसमवधानं कुतोऽपि प्रतिबन्धकाना- सादितं तामादायाप्रमात्वं दुर्वारमेव, न चोक्तमत्ययो प्रामाणिक- एवेति वाच्यम्, "रसावस्थः परं भावः स्थायितां प्रतिपद्यते" इति सिद्धान्ताद यस्य भावस्य रसावस्थाऽवश्यं भाविनी तस्यैव स्थायित्वोपगमाव; तथापि रसाविर्भावस्वरूपयोग्यत्वस्यो- क्तस्थलीयद्रुताबपि सत्वेनादोषात, तथा च रसत्वेनाविर्भावयो.

द्वितीयोल्लासः। ग्यताऽवच्छेदकावच्छिन्नस्यैव रसनिरूपितस्थायितमिष्यत इति रसदर्शनविदा राद्धान्त इति दिक् ॥ २६ ॥ चित्तद्रुतिसामान्यानां स्थायिनां रसतां भगवद्विषयकत्वे- ऽपवदति-धर्मोत्साह इति । धर्मोत्साहो दयोत्साहो जुगुप्सा त्रिविधा शमः ॥ पडप्येतेन विषया भगवद्विषया न हि ॥२७॥ एतेन-विभावादिसमाश्रयाद् यावदुक्तद्रुत्यात्मकस्थायिनां- रसभावेन, धर्मदयोत्साही जुगुप्सात्रयं शमः षडपि विषयाः- लौकिकविभावादिप्रयोज्यरसास्वादस्य स्थायित्वेन विषया भव- न्ति, परन्तु भगवद्विपया न हि भवन्ति । अथ वा-एते नेत्यत्र पदद्वयम्, एते षड़पि प्रकृतस्य भक्तिरसस्य न विषयाः- न स्थायिनः, हि-यतः, न भगवद्विषयाः, भजनीयविषयकला- भावाद् भक्त्यङ्गखासंभव इत्यर्थः। इत्थं व्याख्यान एव मूलक- तोऽपि स्वारस्यमव्यवहितोत्तरकारिकातः प्रतायते ॥ २७ ॥ उक्तमेवार्थ द्रढयति-धर्मेति ।। धर्मवीरो दयावीरो बीभत्सः शान्त इत्यमी । अतो न भक्तिरसतां यान्ति भिन्नास्पदत्वतः ॥२८॥ धर्मानुबन्धी वीररसो दयाऽनुबन्धी वीररसो जुगुप्सात्रय- निष्ठस्थायितानिरूपको बीभत्सः शान्त इमे षडपि भक्तिरसता- नामुवन्ति भजनीयालम्बनकवाभावात् , तदेवाह-"भिन्नास्पद- खतः” भजनीयभिन्नालम्बनकलादित्यर्थः, स्पष्टपतिपत्यर्थ- भक्तिरसप्रत्युदाहरणविधते प्रदर्श्यन्ते, तत्र धर्मवीरो यथा- राज्यं च वसु देहश्च भार्या भ्रातृसुताश्च ये । यच्च लोके ममायत्तं तद् धर्माय सदोद्यतम् ॥ २ ४ सटीके भक्तिरसायने- अत्र महाराजयुधिष्ठिरस्योत्साहो धमविषयकः, दयावीरो यथा- स त्वं मदीयेन शरीरवृत्ति देहेन निवर्तयितुं यतस्व । दिनावसानोत्सुकबालवत्सा विमुच्यतां धेनुरियं महर्षेः ।। अत्र महाराजदिलीपस्योत्साहो धेनुविषयकदयाऽनुबन्धी, उद्वेगिन्या जुगुप्साया स्थायिन्या निरूपको बीभत्सो यथा- विकीर्णहरिचन्दनद्रविणि यत्र लीलाऽलसा- निपेतुरतिचञ्चलाश्चतुरकामिनीदृष्टयः । तदेतदुपरिभ्रमन्निविड़गृध्रजाल जनै- लुंठत्कृमि कलेवरं पिहितनासिकैर्वीक्ष्यते ॥ क्षोभिण्या जुगुप्साया स्थायिन्या निरूपको बीभत्सो यथा- उत्कृत्योन्कृत्य कृत्तिं प्रथममथ पृथूच्छोयभूयांसि मांसा- न्यंसस्फिक्पृष्ठपिण्डायवयवसुलभान्युग्रपूतीनि जग्ध्वा ॥ प्रातः पर्यस्तनेत्रः प्रकटितदशनः प्रेतरङ्कः करङ्का- दङ्कास्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्रमत्ति ।। दुःखनिबन्धनाया शुद्धजुगुप्सायाः स्थायिन्या निरूपको- बीभत्सो यथा- गात्रं संकुचितं गतिविगलिता भ्रष्टा च दन्तावलि- दृष्टिनश्यति बर्धते बधिरता वकृत्रं च लालायते । वाक्यं नाद्रियते च बान्धवजनैर्भार्या न शुश्रूषते । हा कष्टं पुरुषस्य जीर्णवयसः पुत्रोऽप्यमित्रायते ॥ अत्रायं विशेष:-अविवेकसमानाधिकरणायामेवास्यां घृ. णायां बीभत्सविशेषस्थायिता, तत्सामानाधिकरण्ये तु शान्त- निरूपिता संचारिता ज्ञेया। - द्वितीयोनासः। ८५ - शान्तस्य यथा- प्रास्तामकण्टकमिदं वसुधाधिपत्यं- त्रैलोक्यराज्यमपि नैव तृणाय मन्ये । निःशङ्कसुप्तहरिणीकुलसंकुलासु चेतः परं वलति शैलवनस्थलीषु ।। इत्थं षट्त्स्वप्येषु भिन्नास्पदतया भक्तिरसता नास्ति । अत्र शान्तस्य रसत्वे रसदर्शनिनां सगोत्रकलहविरादनुव- र्तते-तत्राचार्यभरतमहर्षिणा तु- "शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः । बीभत्सादभुतसंज्ञाश्चेत्यष्टौ नाट्ये रसाः स्मृताः ॥ एते ह्यष्टौ रसाः प्रोक्ता द्रुहिणेन महात्मने”ति सूत्रयताऽष्टौ रसानुकता स्थायिनोऽप्यष्टावेवोक्तास्तदव्य- वहितोत्तरं च निर्वेदादयः संचारिणो निर्दिष्टाः, एतदेवानुरु- न्धाना अत्रभवन्मम्मटभट्टा अपि रसाष्टकमेव प्रोच्या "निर्वेदस्थायिभावोऽस्ति शान्तोऽपि नवमो रसः" इति भङ्गयन्तरेण शान्तं निर्दिश्य रसानुपसमहार्षः, एवमि- तरेऽप्येतदनुयायिनो निबन्धारस्तथैवोक्तवन्तः, एवं स्थिते के चन ऋजवोऽष्टावेव रसा नस्तुतयेत्यवादीधरन् , "शान्तस्य शमसाध्यबानटे च तदसंभवात् । अष्टावेव रसा नात्ये न शान्तस्तत्र युज्यते" इत्युपापीपदंश्योक्तमर्थम् , किन्त्वतन्त्र समीचीनं, सिद्धान्ते नटे रससामान्यस्यैवानुत्पत्त्या तनिष्ठः शमाभावोऽकिश्चित्करोऽन्यथा तत्र रत्याधभावाद्रसान्तराणामप्यनुपपत्तिरत एव संगीतरत्नाकरे नृत्याध्याये श्रीमन्निशङ्कशाङ्गदेवाः- "तदचारु यतः किंचिन रसं वदते नटः । सामाजिकास्तु लिहते रसान् पात्रं नटो मतः" ।।

-६ सटीके भक्तिरसायने- "ते शुद्धहृदयाः शान्तं स्वविभावविभावितम् । एकाग्रचेतसः सन्तोऽनुभवन्तीति युज्यते" "रतिहासशुचः क्रोधोत्साहौ भयजुगुप्सुते । विस्मयश्चाथ निर्वेदः स्थायिभावा नवेत्यमी" इत्यादिना नवरसीमभ्युपगच्छन्तो नव स्थायिनो व्यवा- तिष्ठिपन् , न च संगीतशास्त्र तथोक्तः प्रकृते किमायातमिति शङ्कनी- यम्, चरमोपेयरसप्रतिपादकत्वेन समानतन्त्रसिद्धान्तनयेन तदुक्ते- निर्विवादमादरणीयतमखाद, न चैवमपि मुनिवचनविरोधो दुष्परिहरो निर्मूलकता चेति दोषद्वयमापततीति वाच्यम् , एतदेवाशय तत्रैव नृत्याध्याये- "उद्दिश्य स्थायिनः प्राप्ते समये व्यभिचारिणाम् । अमङ्गलमपि ब्रूते पूर्व निर्वेदमेव यत्" । मुनिर्मनेऽस्य तन्ननं स्थायिताव्यभिचारिते । पूर्वापरान्वयो ह्यस्य मध्यस्थस्यानुषङ्गतः" इति समादधिरे ते, तथा च निर्वेदस्य स्थायिनामन्ते संचा- रिणामादावुल्लेखान्मध्यमणिन्यायेन देहलीदीपकन्यायेन वोभय- तैव महर्ण्यनुमतेति कन्प्यते, न च तदीयकल्पनायामपि किं मूलमिति चोयम् ? श्रीमदग्निपुराणे रसनिरूपणाध्याये- शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः। बीभत्सादभुतशान्ताख्याः इति वचनेन नवत्वं रसानां भगवच्छीकृष्णद्वैपायनपादा- अपि समनुमन्यन्ते स्म, अत एव पण्डितराजा.अपि रसानां नववस्थापने "मुनिव- चनं चात्र मानमि”ति सममूसुचन्, तत्रत्यमुनिशद्धेनाग्निपुराण- - - द्वितीयोझासः। स्मर्तपादा एव, न तु नाट्यस्मृतिस्मर्तपादा ग्राह्याः, नाट्यसूत्रेषु निर्दिष्टवचनानुलम्भादिति सर्वपथीना विपश्चितोऽनुशीलयन्तु, न चैवं स्थितेऽग्निपुराण एव "स्थायिनोऽष्टौ रतिमुखाः", इति वचनोपलब्ध्या कतमः स्थायी निर्वासनीयः कतमस्य वा रसबमुचिच्छित्सितव्यमिति संकटे विवादाकुलतया शमशान्तयो- रेवैतत्सौभाग्यं फलिष्यतीत्यपि सांपतम् , क्लप्ते खलु शान्तस्य रसत्वं तनिरूपिता स्थायिता कत्येति विचारणायां परम्पराऽऽग- तान् मतभेदान् श्रीशाङ्गदेवा एवोदटङ्कयन्- "जुगुप्सां स्थायिभावं तु शान्ते के चिद्रभाषिरे । उत्साहमाहुरन्ये, ऽन्ये शमं सर्वान् परे विदुः" । इति प्रतिपादयन्तः। एवं च शान्तीयस्थायित्वे मतचतुष्टये नाट्यमूत्रानुमतं तृतीय- मतम् , आग्नेयानुमोदितं प्रथमं द्वितीयं वाऽस्तु: द्वयोरप्यष्टान्तर्गत- खाविशेषात् , स्थायिविषयकमतभेदस्य- "उपेयप्रतिपत्त्या उपाया अव्यवस्थिताः” । "गुणे बन्याय्यकल्पना" इत्यादिरीत्याऽकिंचित्करखात्, "स्थायिनोऽष्टौ रतिमुखाः” इत्यानेयवचनघटकस्थायिपदस्य स्थायिताऽवच्छेदके तात्पर्य, तेन न वैषम्यं, तात्पर्यग्राहिका च तत्रत्यैव रसानां नवखोक्तिः। नन्वेवं शान्तीयस्थायिभावविषये मतचतुष्टये जुगुप्साखा- दीनां चतुर्णा शान्तव्यक्तिकारणताऽवच्छेदकतया व्यभिचारात् कार्यकारणभावानुपपत्तिरिति चेद ? न-ईदृशस्थले कार्यताऽव- च्छेदककुतावव्यवहितोत्तरबनिवेशस्य सर्वानुमोदितवाद, न च सर्वान् परे विदुरिति तुरीये मते जुगुप्साऽऽदित्रयस्यापि स्था- यित्वे कतमीयधर्मस्य स्थायिताऽवच्छेदकत्वं स्यादिति शङ्कयम् ?

सटीके भक्तिरसायने- अत्र मते जुगुप्सात्वोत्साहवशमत्वेषु शान्तीयस्थायिताऽवच्छेदक- तायां व्यासज्यवृत्तिवस्योपगमात् ,परन्त्वेतत्सर्वमपि प्राकृताल- म्बनकतया प्राकृतरसाभिमायकं ज्ञातव्यम् , प्रकृते तु भक्तिरसं- निरूपयितुं प्रवृत्तो मूलकारोऽभाकृतं भजनीयं भगवन्तमालम्ब- माना ये स्थायिनो रसपदवीमध्यासितुमर्हन्ति त एव भक्तिरस- ताभाजो भवन्तीति सिद्धान्तमनुसरन् शान्तस्यापि भक्तिरसतां- पर्युदास्थत् । परमार्थतस्तु-रसतत्त्वाभिरूपतल्लजा भक्तिरसेषु मधुरा- न्तिमान् मुख्यान् रसान् प्रतिपादयन्तः तेष्वादिमं शान्तं मुख्य भक्तिरसं पाहुः-उपपत्तिश्चात्थम्-भक्तिरसमात्रं प्रति भग वद्विषया रतिः स्थायिभाव इति तु क्लुप्तमेव, तदुक्तं- "स्थायी भावोऽत्र स मोक्तः श्रीकृष्णविषया रतिः" इयं च रतिर्मुख्या गौणी चेति द्विधा, तत्र "शुद्धसत्त्वविशेषात्मा रतिर्मुख्येति कीर्तिता" - तथा "विभावोत्कर्षजो भावविशेषो योऽनुगृह्यते । संकुचन्त्या स्वयं रत्या सा गौणी रतिरुच्यते," एवं मुख्यां गौणी च रतिं लक्षयिता; "शुद्धा प्रीतिस्तथा सख्यं वात्सल्यं प्रियतेत्यसा"वि- त्यादिना मुख्यायाः पञ्चविधत्वमुपपाध; "सामान्याऽसौ तथा खच्छा शान्तिश्चेत्यादिमा विधे"- त्यादिना शुदाया एव रतेर्विशेषः शान्तिरित्युक्तं, ततश्च "प्रायः शमप्रधानानां ममतागन्धवर्जिता । परमात्मतया कृष्णे जाता शान्ती रतिर्मता"- इत्यादिना शान्त्यात्मिका रतिरुपसंहृता, एवं च शान्तिर- तिस्थायिकः शान्तो भक्तिरसः सिद्धः, उदाहृतश्व- 8 द्वितीयोल्लासः। हरिवल्लभसेवया समन्तादपवर्गानुभवं किलावधीयं । धनसुन्दरमात्मनोऽप्यभीष्टं परमं ब्रह्म दिक्षते मनो मे ॥ न चैतदखिलमप्रामाणिकमिति भ्रमितव्यम् ? आग्नेये किल अक्षरं ब्रह्म परमं सनातनमजं विभुम् । वेदान्तेषु वदन्त्येकं चैतन्यं ज्योतिरीश्वरम् ।। आनन्दः सहजस्तस्य व्यज्यते स कदाचन । व्यक्तिः सा तस्य चैतन्यचमत्काररसाहूया ॥ इत्यादिना भूयसा प्रबन्धेनोपपादितबाद, इतोऽपि विशेषः श्रीमदभागवतादिषु द्रष्टव्यः, नाट्यसूत्रे तु प्राकृतरसनिरूपणानु- रोधादास्यसख्यवात्सल्यानां भावतोक्ता, सैव च प्राकृतरस- निरूपणप्रवृत्तनिबन्धकारैः प्राच्यैरुदीच्यैश्वानूदितेति तदनुक्ति- मात्रतो नापामाणिकता, नापि न्यूनता, नतरां विरुद्धता च, प्रक- तमूलकारश्च शान्तरसस्य भक्तिरसबहिष्वं विषयविरागात्मकनि- वेदपायं शममभिप्रेत्यैवोक्तवान् , बीभत्से च तथात्वं भगवदा- लम्बनकरत्या साक्षादनु पस्कृतखाज्जुगुप्सायाः, धर्मदयोत्साह- योस्तु स्पष्टैव भिन्नालम्बनकतेति विचिन्त्यैव सुसूक्ष्मदृशा सु- धियोऽवधारयन्त्विति सर्वमवदातम् ।। २८ ॥ भक्तिरसताऽनहताप्रसङ्ग स्थलान्तरमपि तादृशं दर्शयति- ईयेति । ईर्ष्याजभयजद्वेषौ भगवद्विषयावपि ।। न भक्तिरसतां यातः साक्षाद् द्रुतिविरोधतः ॥२६॥ ईोक्तस्वरूपा तज्जन्यो भयजन्यश्च द्वेषौ भगवन्तं विषयी- कुर्वन्तावपि साक्षादेव चित्तद्रवविरोधिनायतो न भक्तिरसता- मजतः, १२ सटीके भक्तिरसायने- - अयं भावः-यथा जुगुप्साऽऽदयो हि चित्तद्रावकाः सन्तो. ऽपि भगवदनालम्बनकतया भक्तिरसवपदवी प्राप्तुं नोत्सहन्ते; तथोक्तद्वेषद्वयमपि भगवद्विषयकमपि चित्तद्रावकत्वाभावान् भ- क्तिरसीभवितुं न क्षमते, एवं च भगवद्विषयकत्वे सति चित्त- द्रावकभाववमेव मूलकृन्मते भक्तिरसोदयखावच्छिन्नजन्यतानि- रूपितजनकताऽवच्छेदकमिति न का चिदनुपपत्तिरापत्तिति॥२६॥ उक्तद्वेषयोः सत्वे भक्तानास्वाद्यतां सहेतुकमाह-शुद्धइति । शुद्धो रौद्ररसस्तत्र तथा रौद्रभयानकः ॥ नास्वाद्यः सुधिया प्रीतिविरोधेन मनागपि ॥ ३०॥ शुद्ध ईयाजनितक्रोधस्थायिको रोदरसः तथाजन्य. द्वेषसंकीर्णभयस्थायिको रौद्रभयानकश्च यद्यपि परत्र रसौ भवतो- भक्तिरसत्वं तु तत्र नायाति, तत्र हेतुः प्रीतिविरोधेनेति, अयं- भावः-अपर्यनुयोज्यो हि वस्तुस्वभावः तेन यद्विषयेा भवेन जातु तद्विषयिका प्रीतिरुदेति ततश्च भक्तिरसास्वादलिप्सु- मतिना किंचिदपि तत्राखादो न प्राप्यते ॥ ३० ॥ तर्हि के भावा भगवद्विषयीभावार्हा इत्याह-कामजे इति । कामजे द्वे रती शोकः प्रीतिभीविस्मयास्तथा ॥ उत्साहो यदि दाने च भगवद्विषया अमी॥ ३१ ॥ कामजे द्वे रती-संभोगविप्रलम्भीये, शोकप्रीतिभीविस्मया- दानोत्साहश्च, एते भावा भगवद्विषया भवन्ति ॥ ३१ ॥ एतेषां रसत्वं भक्तिरसत्वं चाह-व्यामिश्रेति । ध्यामिश्रभावरूपत्वं यान्त्येते क्षीरनीरवत् ।। विभावादिसमायोगे तथा भक्तिरसा अपि ॥ ३२ ॥ .

द्वितीयोल्लासः। एते भावा विभावादीनां समायोगे-संबन्धे समानविषयि- कत्वे विभावादिविषयकसमूहालम्बनज्ञानविषयताशालित्वे सतीति यावद् व्यामिश्रतां पार्थक्यप्रतीत्यनहताऽऽख्येन विशेषेण; आस मन्ताचर्वणाविश्रान्तिक्षणावधि मिश्रणं प्रातिखिकरूपेणाविवे- च्यतां भजन्ति, तत्र दृष्टान्तः-तीरनीरवदिति, तीरनीरयोर्यथा मिश्रणे किंचिदपि पार्थक्यं नोपलभ्यते तथा, तदा चैते रसपद- वाच्या भवन्ति, भगवद्विषयकन्वे तु भक्तिरसा उच्यन्ते।। ३३ ।। तानेवोदिशति-शृङ्गोति । शृङ्गारः करुणो हास्यस्तथा प्रीतिर्भयानकः ॥ अद्भुतो युद्धवीरश्व दानवीरश्च मिश्रिताः ॥ ३३ ॥ पायेणेयं कारिका स्पष्टा, मिश्रिता इति, अयंभावः-मूल- कृताऽनुपदमेव भावानां चातुर्विध्यं वक्ष्यते, तदनुसारेण रसाना- मपि तथात्वं विवक्ष्यते, तत्र भावानां भगवद्विषयकत्वेन विभा- वादिसंपर्के मिश्रितत्वेन परिभाषेष्यते, तदेवोक्तं मिश्रिता इति, श्रतएव प्रीतिरप्यत्र सख्याख्या ज्ञेया, दास्यवात्सल्ययोः शृङ्ग- ग्राहिकया शुद्धत्वेन वच्यमाणत्वादिति भावः । एषामुदाहरणेषु- संभोगशृङ्गारो यथा- दोा संयमितः पयोधरभरेणापीडितः पाणिजै- राविद्धो दशनैः तताधरपुटः श्रोणीतटेनाहतः । हस्तेनानमितः कचेऽधरसुधापानेन संमोहितः कृष्णः कामपि तृप्तिमाप तदहो कामस्य वामा गतिः ।। विप्रलम्भशृङ्गारस्तु-- अभिलाषविरामवासशापहेतुकतया पञ्चविध इति तत्र- भवन्मम्मटभहाः प्राहुः, के चित्तु- ६२ सटीके भक्तिरसायने- "पूर्वानुरागमानाख्यप्रवासकरुणात्मना । विमलम्भाभिधानोऽयं शृङ्गारः स्याच्चतुर्विधः" इत्थं तच्चतुष्टुं वदन्ति, रसशास्त्राचार्याभियुक्ततल्लजास्तु-पूर्व- रागमानप्रवासप्रेमवैचित्यभेदात्तस्य चातुर्विध्यमुपगच्छन्ति, पूर्वमत- विरोधस्तु नोदभाव्यः-पूर्वरागेणाभिलाषस्य, मानेनेायाः, प्रेमवैचित्त्यस्य विशेषेण विरहस्य, शापस्य च शप्तयोरैकाधिकर- एये पाण्डुमाद्योरिव विरहेण: वैयधिकरण्ये यक्षतत्कान्तयोरिव प्रवासेनान्तर्भावं प्रतिपादयन्ति, दिङ्मात्रेणोदाहियते- अकस्मादेकस्मिन् पथि सखि मया यामुनतदं- वजन्त्या दृष्टो यो नवजलधरश्यामलतनुः । स दृग्भङ्गया किं वाऽकुरुत न हि जाने तत इदं- मनो मे व्यालोलंकचन गृहकृत्ये न लगति ।। अत्र पूर्वरागः। करुपो यथा- तं नागभोगपरिवीतमदृष्टचेष्ट- मालोक्य तत्मियसखाः पशुपा भृशार्ताः। कृष्णेऽपितात्ममुहृदर्थकलत्रकामा- दुःखाभिशोकभयमूढधियो निपेतुः ॥ हास्यो यथा- यास्याम्यस्य न भीषणस्य सविधे जीर्णस्य शीर्णाकृते- तिर्नेष्यति मां पिधाय कपटादाधारिकायामसौ। इत्युक्खा चकिताक्षमभुतशिशाबुद्दीतमाणे हरौ हास्यं तस्य निरुन्धतोऽप्यतितरां व्यक्तं तदाऽऽसीन्मुनेः ।। दास्यनामा प्रीतिर्यथा- नवाम्बुधरवन्धुरः करयुगेन वक्ताम्बुजे निधाय मुरलीं स्फुरत्पुरटनिन्दिपट्टाम्बरः ।

द्वितीयोल्लासः।
शिखण्डकृतशेखरः शिखरिणस्तटे पर्यटन
प्रभुर्दिवि दिवौकसो भुवि घिनोति नः किङ्करान् ।।
भयानको यथा-
दंष्ट्राकोटिकठोरकूटकटुना ब्रह्माण्डमाण्डस्थितं-
सर्व चर्वयसीव हन्त वदनेनोद्गीर्णपूर्णविषा ।
जिहाग्रेण समग्रमुग्रमहसा लेलिबसे रोदसी
ग्रस्तं मामिह पाहि पाहि भगवन् पार्थोऽप्यपार्थोऽभवम् ।
अद्भुतो यथा--
चित्रं बतैतदेकेन वपुषा युगपत्पृथक् ।
गृहेषु यष्टसाहस्रं स्त्रिय एक उदावहत् ।।
युद्धवीरो यथा-
गुणं कर्णाकृष्टं करकिसलयं तृणशिखरे
धनुश्चक्रीभूतं निपतदिषुवृन्दं तत इतः ।
रिपून भूमौ सुप्तान् कलयति समं देवनिकरे
जरासंधस्याजौ जयति भुजवीर्य मुरभिदः ।।
दानवीरो यथा-
यजन्ति यज्ञं क्रतुभिर्यमादृता-
भवन्त आम्नायविधानकोविदाः ।
स एव विष्णुर्वरदोऽस्तु वा परो-
दास्याम्यमुष्मै तितिमीप्सितां सुने ! ।।
सर्वेष्वेषूदाहरणेषु भगवदालम्बनकत्वेन भक्तिरसः ॥३४॥
मिश्रितवप्रसङ्गादमिश्रां रतिं निर्दिशति-शुद्धति ।
शुद्धा च वत्सलरतिः प्रेयोरतिरिति त्रयी ।।
भावान्तरामिश्रितत्वादमिश्रा रतिरुच्यते ॥३४॥

६४
सटीके भक्तिरसायने-
ते
स्पष्टैषा कारिका ॥३४॥
उक्तरतिस्थायिकान् रसानाह-विशुद्ध इति ।
विशुद्धो वत्सलः प्रेयानिति भक्तिरसास्त्रयः॥
रसान्तमिश्रितास्ते भवन्ति परिपष्कलाः॥ ३५ ॥
इतिशब्दो हेतो, यतो रतिस्विविधा ततो रसा अपि त्रयो-
भवन्ति, शुद्धरतिस्थायिको विशुद्धाख्यो, वत्स नरतिस्थायिको-
वत्सलाभिधः, प्रेयोरतिस्थायिकः प्रेयोनामा, त्रिविधा रसाः,
रसा भावान्तरामिश्रितस्थायिकतयैव रसान्तरामिश्रिता अत-
एव परिपुष्कलाः निसर्गपूर्णस्वभावका इत्यर्थः ।
एषामुदाहरणानि यथा-
तत्र विशुद्धभक्तिरसः-
हरिवल्लभसेवया समन्तादपवर्गानुभवं किलावधीय॑ ।
घनसुन्दरमात्मनोऽप्यभीष्टं परमं ब्रह्म दिक्षते मनो मे ॥
वात्सल्यभक्तिरस:-
मुतमलिभिः स्नुतस्तनी चिवुकाग्रे धती दयाऽऽधीः ।
समलालयदालयात् पुरः स्थितिभाजं ब्रजराजगेहिनी ।।
प्रयोभक्तिरस:-
श्रीदामदोविलसितेन कृतोऽपि काम-
दामोदर ! खमिह दर्पधुरादरिद्रः ।
सद्यस्वया तदपि कत्थनमेव कुला
देव्यै हिये त्रयमदायि जलाञ्जलीनाम् ॥३॥
वैशिष्ट्यं विवक्षुः सिंहावलोकितकेन पुनः शृङ्गारमाह-
शृङ्गेति ।
शृङ्गारो मिश्रितत्वेऽपि सर्वेभ्यो बलवत्तरः।
तीव्रतीव्रतस्त्वं तु रतेस्तत्रैव वीक्ष्यते ॥३६॥

१५
द्वितीयोल्लासः।
मिश्रितत्वेऽपि कामेनेति शेषः, "तजन्यायां द्रुतौ चित्ते"
इत्यादिना पूर्वोक्तत्त्वात् शृङ्गारः सर्वेभ्यः केवलसंकीर्णमिश्रित-
स्वेतरकेवलमिश्रितशुद्धेभ्यः, बलवत्तरः निरतिशयचमत्कारा-
स्मकः, तपपि कर्त्तव्ये तरबुक्तिः शृङ्गारतदितरयोनिर्धार्यतानि-
रूपकतामाश्रित्य; बोध्या, तादृशत्वे हेतुमाह-तीति, रतेः
संभोगे तीव्रता, विप्रलम्भे तीव्रतरता, उपलक्षणं चैतत् तत्रापि
तीव्रतमता पूर्वरागे ज्ञेया, कुतस्त्येयं मधुररतेविधेत्यस्य तु नैसर्गि-
कीत्येवोत्तरं; तदुक्तम्-
"नदीनां ललनानां च भुजङ्गानां तथैव च ।
प्रेम्णां चैव गतिर्वका कारणं तत्र नाप्यते” ॥ इति ॥३६॥
रसानां चातुर्विध्यं दर्शयति-के चिदिति ।
के चित् केवलसंकीर्णाः केचित् संकीर्ण मिश्रिताः।
केचित् केवलमिश्राश्वशुद्धाश्च स्युश्चतुर्विधाः ॥३७॥
तत्र रतर्भावान्तरयोगे केवलसंकीर्णा रसाः, भावान्तर-
संकीर्णत्वे सति भगवद्भिनालम्बनकत्वे संकीर्णामिश्रितास्ते,
भगवद्विषयकत्वेऽपि भावान्तरयोगे केवलमिश्रितास्ते, भावान्तरा-
सध्रीचीनतायां शुद्धाः, भगवद्विषयकत्वं सत्रानुक्तमपि बोध्यमेव
भक्तिरसस्य प्रकरणाद् ॥३७॥
इदमेव विशदयति-तत्रेत्यादिकारिकात्रयेण-
तत्र केवलसंकीर्णा रौद्रो रौद्रभयानकः ।
धर्मवीरो दानवीरो बीभत्सः शान्त इत्यपि ॥३८॥
मिश्रा एवान्यविषयाः प्रोक्ताः संकीर्णमिश्रिताः ।
भगद्विषयास्ते तु ख्याताः केवलमिश्रिताः ॥३६॥

सटीके भक्तिरसायने- शुद्धात्रयः पुरैवोक्ताः संकीर्य्यन्ते न केन चित् । एवं निरूपिता भक्तिः संक्षेपादुच्यते पुनः ।।४०॥ तत्र क्रोधभयोत्साहजुगुप्सानिवेदसंयोगतः संकीर्णाः रौद्रा- दिशान्तान्ता उच्यन्ते, किन्त्वेतैरपि रसत्वेन सालम्बनकैर्भवित. व्यमेव, तथा च भगवदालम्बनकत्वे केवलमिश्रिताः, तद्भिना- लम्बनकत्वे संकीर्णमिश्रिताः, भावान्तरासंयुक्ततादशायामेव भगवद्विषयाः शुद्धाः, एवं प्रभेदायप्रदर्शनपूर्वककथनात्मकात् संपाद भक्तिरसो निरूपितः, पुनः कथ्यते प्रकारान्तरिति शेषः । एवं कारिकात्रयस्य वर्तुलार्थोऽत्र ज्ञेयः, उदाहरणानि च केवलमिश्रितानां शुद्धानां च प्रदर्शितान्येव, केवलसंकीर्णानां तु संकीर्ण मिश्रितानामेवान्तर्गतानि, एषां तु प्रकृतानुपयोगितया न दर्शितानि, भगद्भिन्नविषयकत्वेन सुज्ञानानि, बहुत्र बहुभिरुक्ता- न्येवातो जिज्ञासुभिस्तत एव ज्ञयानि ॥३८-३६-४०॥ तान्येव भक्तः प्रकारान्तराणि द्वाभ्यामाह-राजसीति । राजसी तामसी शुद्धसात्त्विकी मिश्रिता च सा ॥ ईर्ष्याजदेषजाऽऽद्या स्याद् भयजदेषजा परा ॥४१॥ हर्षजा शुद्धसत्त्वोत्था कामशोकादिजेतरा ॥ सत्त्वजत्वे तु सर्वासां गुणान्तस्कृता भिदा ॥४२॥ पुनर्भक्तिः चतुर्विधा-रजःप्रधाना, तमःप्रधाना, सत्त्वा- भिभूतरजस्तमाः, मिश्रिता च, मिश्रिता च, तातो जाताद् द्वेषाज्जाता आधा-राजसी, भयतो जाताद् द्वेषाज्जाता परा-तामसी, हर्षतो जाता तृतीया, कामतः शोकतः श्रादिपदग्राह्येभ्यः ईजिनकभिन्नभयस्नेहहर्षदयाऽन्तेभ्यो जाता; इतरा-मिश्रिता, द्वितीयालासः। अत्रेदमनुसंधेयं-प्रथमोल्लासे प्रथममौपनिषदमस्थानसं- पतरसमक्रिया, चरमं सांख्यमस्थानानुसारिणी तद्रीतिरुक्ता, तत्र प्रथममतेन सार्धकारिकया भक्तिचतुष्टमुक्तं, तुपदेन सांख्यरीति- माश्रित्याह-सत्वेति, यद्यपि सांख्यनये- "एवं सति सुखाकारः प्रविष्टो मानसे यदे"- त्यादिनोक्तविधया सर्वासामेव त्रिगुणात्मकतायामप्य- भिभूतेतरगुणद्वयीकसत्त्वोदभूतत्वेन सत्त्वजत्वव्यवहारस्तथाऽपि वृत्त्युदयोत्तरकालोपनिपतितकारणान्तरपयुक्तरजस्तमःमकटतावि शेषसहचरीणां तासां राजसीखादिव्यवहारोऽपि सुकर- इत्याह-गुणान्तरकृता भिदेति, तथा च तदानीं यदीयं प्राधान्यं- तन्नामोल्लेखः “प्रधानेन व्यपदेशा भवन्ती"ति न्यायनेति निष्कर्षः ॥ ४१॥ ४२ ॥ उक्तचतुर्विधभक्तिस्थायिषु वैलतण्यमाह-तत्रेति । तत्र ते रतितां नैव यातः सुखविरोधतः ॥ रतिशब्दं तु भजतः सुखमय्यौ परे द्रुती ।। ४३॥ तत्र-तासु भक्तिषु, ते प्रथमोद्दिष्टे राजसीतामस्यौ रतितां- रतिस्वभावं, नैव यातः जाखपि न प्राप्नुतः, तत्र हेतुः सुख- वियोगतः-सुखविरोधिदुःखानुशयिनो द्वेषस्योदयो विरुन्ध्यादेव मुखं; न पुनरनुरुन्ध्यादिति भावः, यथाहुर्भगवत्पतञ्जलिपादाः "मुखानुशयी रागः," दुःखानुशयीद्वेषः," इति, परे चरमोद्दिष्टे तुद्रुती सत्त्वभाधान्योदिते सत्यौ सुखमय्यावतो रतिशब्दं भजतः= चित्तस्य रमणादन्वर्थतया रतिपदवाच्ये भवत इति भावः ।।४३।। उक्ताया भक्तः पुनः प्रकारान्तरैस्वैविध्यमाह-भक्तिरिति । भक्तिश्चतुर्विधाऽप्येषा भगवद्विषया स्थिरा ।। दृष्टादृष्टोभयकैकफला भक्तिस्त्रिधा भवेत् ।। १४ ॥ -- १३ ke सटीके भक्तिरसायने- पूर्वोक्तचातुर्विध्याऽप्येषा भक्तिर्भगवद्विषया सती स्थिरा चेहू दृष्टादृष्टोभयफला, .दृष्टमात्रफला, अदृष्टमात्रफला, एवं- विधा भवेत् ॥ ४४॥ अविशिष्योक्तं त्रैविध्यं व्यवस्थापयितुमाह-राजसीति । राजसी तामसी भक्तिरदृष्टफलमात्रभाक् ।। दृष्टादृष्टोभयफला मिश्रिता भक्तिरिष्यते ॥ ४५ ॥ पूर्वोक्तभक्तिचतुष्टये राजसीतामस्यौ भक्ती केवलमदृष्टफले, मिश्रिता च भक्तिदृष्टादृष्टोभयफला भवति ॥ ४५ ।। उभयफलाया रूपान्तरं स्थलं च दर्शयन् दृष्टफलायाः पात्रमाह-शुद्धति । शुद्धसत्त्वोद्भवाऽप्येवं साधकष्वस्मदादिषु॥ दृष्टमात्रफला सा तु सिद्धेषु सनकादिषु ॥ ४६ ॥ दृष्टादृष्टोभयफला भक्तिः पूर्वोक्तासु शुद्धसत्त्वाऽपि भवति, सा चासदादिषु-साधकेषु सुखरूपदृष्टफलस्य दुरितनिवृत्त्याघ- भ्युदयनिःश्रेयसादिरूपादृष्टफलस्य चोत्पादिका, दृष्टमात्रफला तु सा सिद्धेषु-निसर्गादाप्तकामेषु सनकादिषु कुमारयोगीन्द्रमहा- भागवतेषु; तेषामदृष्टफलोत्पत्तिक्षेत्रताविरहाद, न च तेषामाप्त- कामत्वेन दृष्टफलयोग्यताऽपि न संभवतीति वाच्यम् ? प्राप्त- कामानामपि कर्मनिबन्धनबासनाधीनफलकामनाया भभावेऽपि भगवद्भक्तिरसानुबुभूषायां बाधकामावाद, यथोक्तं- मात्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे ।। कुर्वन्त्यहैतुकी भक्तिमित्यम्भूतगुणो हरिः ॥ अयं भावः-बन्धप्रयोजककामना एवं हेयपने निचिता- न तु बन्धविरोधिन्यः, किं चाप्तकामा न पाकृतवस्वभावेन प्रवर्तितास्तत् कामयन्ते, परन्तु भजनीयभगवत्स्वरूप एव ताशी द्वितीयोबासः। लोकातीता का चन शक्तिर्या ह्यात्मारामानप्याकर्षति, सिद्धा चेयं धर्मिग्राहकमानतस्तादृशस्वभावेति न पर्यनुयोज्यतामर्हति, खभावस्यापर्यनुयोग्यत्नात् तदुक्तं-श्रीमदक्षपादमहर्षिचरणैः- "दृष्टानुमितानां निषेधपर्यनुयोगानुपपत्तिः" इति ॥ ४६ ॥ भक्तर्दृष्टादृष्टफलकलमुपपादयति-दृष्टेति । दृष्टादृष्टफला भक्तिः सुखव्यक्तर्विधेरपि ।। निदाघदूनदेहस्य गङ्गास्नानक्रिया यथा ॥४७॥ भक्तः सुखव्यक्तिः प्रत्यक्षेति दृष्टफलकत्वं, विधेः भक्तिवि- धायकशास्त्रतः, तच्च "प्रात्मेत्येवोपासीते," त्यादिभगवती श्रुतिः, "तस्माद भारत ! सर्वात्मा भगवान् हरिरीश्वरः। श्रोतव्यः कीर्तितव्यश्च मर्तव्यश्चेच्छताऽभयम्' इति परमहंससंहिताश्रीमदभागवतादि, न चैतावता विधि- रवगतः फले किमायातमिति वाच्यम् १ अत्रैवाभयस्य फलत्वेन निर्देशाद्, न चैवमस्याधिकारविधित्वेनोत्पत्तिविधिलायोगात्कयं- भक्तिविधायकवमिति वाच्यम् , निर्दिष्टचर्याः श्रुतिभगवत्या- एव भक्तिविधायकत्वात्तस्मादुभयफलकत्वं निर्विवादम, भत्र दृष्टान्तः-निदाघेति,—गङ्गास्नानात्तापनिवृत्त्यादिकं दृष्टफलं, दुरितध्वंसादिकमदृष्टफलं-चेत्युभयं यथा; तथेहापीति भावः॥४७॥ राजसीतामस्योरदृष्टमात्रफलकतामुपपादयति-रजेति । रजस्तमोऽभिभूतस्य दृष्टांशः प्रतिबध्यते ॥ शीतवातातुरस्येव नादृष्टांशस्तु हीयते ॥४८ रजसा तमसा चाभिभूतस्य-अभिभूतसत्त्वकस्य जनस्य, दृष्टांशः दृष्टफलभागः, प्रतिबध्यते निरुध्यते, वर्तमानदेहा- वच्छेदेन क्रियमाणकर्मफलोपभोगं प्रति तदेहावच्छेदेनेन पार- धकर्मणामसति विरोधिनि प्रतिबन्धकताया उत्सर्गसिद्धला.

१०० % 3D सटीके भक्तिरसायन- दिति तात्पर्यम्, अदृष्टांशः = अदृष्टफलभागः, न तु हीयते नैव निरुध्यते, भाविशरीरावच्छेदेन भोक्ष्यमाणकर्मफलोपभोग- प्रति प्रारब्धकर्मणामप्रतिबन्धकलादिति भावः, तत्र दृष्टान्तः- शीतेत्यादि, यथा शीतवातादिभिरातस्य गङ्गानाने जन्यमान- सुखं प्रतिरुध्यते; न तु जनिष्यमाणमामुष्मिकमभ्युदयादिकं- तथेत्यर्थः ॥४८॥ अदृष्टमात्रफलविरोधः कुत्रति दर्शयनि-तथैवेति । तथैव जीवन्मुक्तानामदृष्टांशो न विद्यते ।। स्नात्वा भुक्तवतां भूयो गङ्गायाँ क्रीडतां यथा ॥४६॥ यथा रजस्तमोऽभिभूतानां दृष्टांशः प्रतिबध्यते; तथैव जीव- न्मुक्तानामदृष्टांशो न विद्यते = प्रतिबध्यते, तेषां चरमदेहकतया; चरमदेहध्वंसस्य भाविभोगे प्रतिबन्धकखाद्, अथ वा-न विद्यते- नोत्पद्यते, कर्मफलभोगवावच्छिन्नं प्रति कर्मजन्यशरीरस्याव- च्छेदकतासंबन्धेन कारणवाद, अन्तिमदेहानां जीवन्मुक्तानां- तु प्रारब्धकर्माधीनदेहत्यागोत्तरं भोगाईदेहस्यैवाभावाद, यद्वा समवायेन भोगं प्रति समवायेनादृष्टस्य कारणतया; तेषामदृष्टा- भावाददृष्टफलाभावः, अत्र दृष्टान्तः-स्नात्वेति । स्नातमुक्तवतां- गङ्गास्नानस्यावैधतयाऽपूर्वजनकवाभावान्नादृष्टफलपयोजकता,दृष्ट- फलं बस्त्येव यथा; तथा प्रकृतेऽपि, न च भोजनाद्युत्तरमपि गङ्गास्नानस्योपरागादिप्रयुक्तत्वे वैधत्वं संभवतीति वाच्यम् ? क्रीडतामिति स्नातृविशेषणस्वारस्येन चिक्रीडिषानिवन्धन एव तत्लानेऽदृष्टफलानुत्पादकत्वे तात्पर्य्यादिति ॥ ४६ ।। • दृष्टादृष्टे स्वयं निबूते-वर्तमानेति । वर्तमानतनुप्राप्यं फलं दृष्टमुदाहृतम् ।। भाविदेहोपभोग्यं यत्तददृश्मुदीरितम् ।।५०॥

द्वितीयाल्लासः । १०१ स्पष्टार्थेयं कारिका ।। ५० ।। राजस्यां तामस्यां वा भक्तौ रत्यनुरोध विशदयति-रजे. त्यादिद्वाभ्याम् । रजस्तमःप्रचण्डत्वे सुखव्यक्तिरसत्समा ।। तीव्रवायुविनिक्षिप्तदीपज्वालेव भासते ।।५१|| तस्मात्स्वयंप्रभाऽऽनन्दाकाराऽपि मतिसंततिः।। प्रतिबन्धकवशान्न स्यात्सखव्यक्तिपदास्पदम् ॥५२॥ रजस्तमउद्रेके वर्तमानाऽपि सुखव्यक्तिः सुखास्वादापति- ठानादसत्कल्पा, स्वकार्याकरणादिति भावः, यथा प्रखरपवन- कम्मा प्रदीपशिखा स्वकर्त्तव्यसमुनितवस्तुप्रकाशाक्षमाऽसत्समाना तथेयमतः स्वतःप्रकाशमुखात्मिकाऽपि चित्संततिः खलु रजस्त- मोऽतिरेकरूपप्रतिबन्धतः मुखात्मतया न भासते, स्वतःप्रकाश- वसुखरूपत्वे तु विस्तरभिया नेह प्रतायेते महत्याऽरभव्याऽन्य- त्रोपपादित तत एवावगन्तव्ये ।। ५१ ।। ५२ ।। रजोऽभिभूतरतेः स्थलमाह-रजइति । रजःप्रबलसत्त्वांशादीाजद्वेषमिश्रिता । मनोवृत्तिः परानन्दे चैद्यस्य न सुखायते ॥५३॥ रजः प्रबलं यस्मात्तादृशात्सत्त्वांशादुदिताया ईष्यातो- जातेन द्वषेण मिश्रिता मनोवृत्तिः सुखावहा न भवति यथा शिशुपालस्य, उदाहरणं तु पूर्वोक्तमनुसंधेयमिति ।। ५३ ।। तमोऽभिभूतरतेः स्थलमाह-तम इति । तमःप्रवलसत्त्वांशाद् भीतिजदेषमिश्रिता । मनोवृत्तिः परानन्दे कंसस्य न सखायते ॥५॥ तमः प्रवलं यस्मात्ताशात्सत्वांशादुद्भूताया भीतितो- मटीके भक्तिरसायन- जातेन द्वेषेण मिश्रिता मनोवृत्तिरपि सुखावहा न भवति यथा कंसस्य- मासीनः संविशस्तिष्ठन् भुञ्जानः पर्यटन्महीम् ।। चिन्तयानो दृषीकेशमपश्यत्तन्मयं जगत् ॥ कंसो; हरेवरानुवन्धकदिति चानुस्यूते ।। ५४ ॥ एवं रजस्तमोऽभिभूतसत्त्वस्थले रतेष्टफलाभावं प्रदा- दृष्टफलं दर्शयति-नयोरिति । तयो विशरीरे तु प्रतिबन्धक्षये सति । सैव चित्तदतिर्भक्तिरसतां प्रतिपद्यते ॥५५॥ तयोः चैद्यकंसयोः, भाविशरीरे-भगवद्धस्ततो निधन- सौभाग्यलाभोत्तरलब्धदिव्यदेहे, सति तु प्रतिवन्धतयेशापा- दिपयुक्तनियतकालादिकैहिकभोगोपयोगिदेहावसाने, सैव अतिपूर्व लब्धा, चित्तद्रुतिः भगवदाकारताऽऽत्मा, स्पष्टमन्यद, अत्र प्रमाणं तु-"भूयो ममान्तिकमितां तदनुग्रहो में" इत्या- दि "ददर्श चक्रायुधमग्रतो यस्तदेव रूपं दुरवापमाप” इत्यादि च श्रीमदभागवतादिवचनानि द्रष्टव्यानीति ॥ ५५ ॥ प्रतिबद्धदृष्टफलकभक्तिकाः पूर्व चैद्यादय एवासन्नैवं चोध्यं, किन्स्विदानीमपि तादृशा वर्तन्त इत्याह-अधुनेति । अधुनाऽपि भजन्तो ये द्वेषात् पाशुपतादयः । तेषामप्येवमेव स्यादथ वाऽनेन तुल्यता ॥५६॥ अधुनाऽपि वर्तमानसमयेऽपि, ये भगवति द्वेषवन्तः स्वस्खा- भीष्टं भजन्ते, पाशुपतपदं भगवत्मातिकूल्यमाचरतामखिला- नामुपलक्षणम्, मादिशब्दः सदृशपरः, तेषामपि भगवविद्वे- पिणामपि, एवमेव-भगवत्कृपया प्रतिबन्धनिरासे देहान्तर- एव भक्तिमुखानुभूतिः, तुन्यता-भागवतजनकपातो वा यथा द्वितीयोल्लासः। तस्माप्तिः, न चैषां भगवद्भक्तिरेव नासीत्कुतः प्रतिबन्धापममे तदाविर्भाव इति विचिकित्सितव्यम् , "येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः॥ तेऽपि मामेव कौन्तेय ! यजन्त्यविधिपूर्वकमिति" श्रीमुखवाक्यतस्तेऽपि भगवतो विधिरूपतदाज्ञाविरुद्धभकारै- स्तमनुसरन्त आज्ञाऽतिक्रमप्रयुक्तापराधजनितभोगोत्तरमनुसरण- फलभाजो भवन्तीति तात्पर्यादिति ॥ ५६ ॥ भक्तिं प्रति द्रुतेः कारणत्वं दर्शयति-दुताविति । द्रुतौ सत्यां भवेद् भक्तिरद्रुतौ तु न किं चन। चित्तद्रुतेरभावेन वेनस्तु कतमोऽपि न ॥७॥ निष्कर्षमाह-द्रुतौ सत्यां भगवद्भक्तिरुदेतुमर्हति, द्रुत्यभावे तु न किमपि दृष्टादृष्टोभयात्मकेष्वन्यतममपि, फलमिति शेषः मत- एव वेन: परमभागवतमहाराजचक्रवर्तिपृथोर्जनकः; न कतमोऽ. पि-सात्त्विकराजसतामसभक्तिमत्सु मध्य इति शेषः ॥ ५७ ॥ फलितमाह-रजेति। रजस्तमोविहीना तु भगदिषया मतिः। सुखाभिव्यञ्जकत्वेन रतिरित्यभिधीयते ॥५८|| उक्तमायार्थकत्वेन स्फुटेयं कारिका ॥ ५ ॥ सुखविशेषाभिव्यञ्जकत्वेन सिद्धाया रतेः खरूपमाह- स्नेहेति । स्नेहस्यैव विकारः प्रिययोरत्यन्तभावनादनिशम् । विरहासहिष्णुतामा प्रीतिविशेषो रति म ॥५६॥ स्नेहस्य-संस्कारताऽऽत्मकानागततां विझयोदोघं प्रास- स्यात एव प्रथमावस्थतयाऽनवासपरिपोषस्य मुखविशेषस्य, सटीक भक्तिरसायने- एवपदेन भावान्तरासंसृष्टस्य यो विकार:=परिणामः, प्रिययो:- स्निग्धयोः-खत्यालम्बनतानिरूपकवस्ववृत्त्याश्रयतानिरूपकत्वै- तदन्यतरसंबन्धेन वस्तुविशिष्टेन स्नेहेनालम्बनताऽऽश्रयताऽन्यत- रसंबन्धेन विशिष्टयोरिति यावद् इत्थमनुक्तौ यत्किचिद्विषयक स्नेहाश्रययोरन्योन्यमुदासीनयोर्ग्रहणेऽतिप्रसङ्गः स्यात् ; तत्समवे- ताद अनिशम् धारावाहित्वेन, अत्यन्ताद-भावनीयेतरानवगा- हिनो, भावनात्सोत्कण्ठचिन्तनाद विरहस्य-अभीष्टविष- यकरत्यक्षाभावज्ञानस्य, यद्यपि परत्र विरहशब्देनाभावो बुध्यते; किन्तु प्रकृते विशिष्टाभावज्ञानं विवक्ष्यते, ज्ञानानुक्तौ यत्र प्रेम- वैचित्यादौ तादृशप्रत्यक्षसत्त्वेऽप्यभावबुद्धौ विरहोद्गारोऽनुभ वसिद्धस्तत्रानुपपत्तेः, याऽसहिष्णुता-परिहार्यखप्रकारकदुः- खविषयकज्ञानाभावः, तथा च तादृशदुःखकारणे व्यवहियमाणे सहासात्वे भाक्त, तदात्मा-तत्मवृत्तिनिमित्तकः प्रीतिविशेषो- रतिः, एवं च-वस्तुविशिष्टस्नेहविशिष्टव्यक्तिसमवेतविषयान्त- रानवगाहिधारावाहिसोत्कण्ठचिन्तनप्रयुक्तोऽभीष्टविषयकप्रत्यक्षा- भावपयोज्यपरिहार्यवप्रकारकदुःखविषयकज्ञानाभावविशिष्ट : भावान्तरासंसृष्टस्नेहपरिणामप्रीतिविशेषो रतिरिति फलितम्, स्नेहे वैशिष्टयं च-स्ववृत्त्यालम्बनतानिरूपकवस्ववृत्त्याश्रय- तानिरूपकत्वैतदन्यतरसंबन्धेन, व्यक्ती वैशिष्ट्यंच-आलम्बनता. ऽऽश्रयताऽन्यतरसंबन्धेन,प्रीतिविशेषे तादृशाभाववैशिष्ट्यं चस्वा- अयसमवेतत्वस्वप्रतियोगिज्ञानविषयदुःखप्रयोजकाभावप्रतियोगि- प्रत्यत्तविषयाभीष्टविषयकत्वैतदुभयसंबन्धेनेति निष्कर्षः ॥५६।। रजस्तमोऽपसरणानुसारेण रतेस्तारतम्यमाह-रजेति । रजस्तमःसमुच्छेदतारतम्येन गम्यते । तुल्येऽपि साधनाभ्यासे तारतम्यं रतेरपि ॥६०|| ૧૫ द्वितीयोल्लासः। साधनस्याभ्यासे समानेऽपि रजसस्तमसचोच्छेदेऽल्पे रते- रपि सुखावहताऽल्पा, रजसस्तमसश्च तस्मिनधिकेऽस्या अप्येषा- ऽधिका प्रतीयते ।। ६० ।। प्रकारान्तरेण रतेरल्पाधिकते दर्शयति--विरह इति । विरहे यादृशं दुःखं तादृशी दृश्यते रतिः । मृदुमध्याधिमात्रत्वाद् विशेषोऽत्रापि वीक्ष्यते ॥६॥ वियोगे यत्परिमाणं दुःखमनुभूयते तत्परिमाणा रतिरु- देति, कारणं चात्र द्रुतितारतम्यमेव, विरहतापानुसारिणी चेतो- द्रुतिः, तदनुसारिणी व रत्युद्भूतिः, अत्रापि दुःखानुसा- रिणि रतितारतम्येऽपि, मृदुतया मध्यतया तीव्रतया विशेषस्ता. रतम्यमनुभूयते ।। ६१ ॥ उक्तत्रैविध्यस्य स्थलं दर्शयति-वैकुण्ठ इति । वैकुण्ठे द्वारकार्या च श्रीमदुबृन्दावने तथा । मृदुतीब्रा मध्यतीबा तीव्रतीत्रा च सा क्रमात् ॥६॥ स्पष्टार्थयं कारिका ।। ६२॥ उक्तत्रैविध्यायाः पुनरष्टौ भेदानाह- इयमिति । इयं निसर्गसंसर्गौपम्याध्यात्माभियोगजा। संप्रयोगाभिमानाभ्यां समारोपे स्थिता तथा ॥६॥ इयं मृदुतीव्रत्वादिभेदवती, निसर्गजा- "निसर्गः सुदृढाभ्यासजन्यः संस्कारउच्यते" इत्युक्तलक्षणात्संस्कारविशेषात्मनिसर्गाज्जाता, संसर्गजा- संसर्गः संवन्धः, सच- "संवन्धः कुलरूपादिसामग्रीगौरवं भवेद्र" १०६ सटीके भक्तिरसायने- उपमा- इत्युक्तलक्षणात्तस्माज्जाता, औपम्यजा-औपम्यम्= "यथा कथं चिदप्यस्य सादृश्यमुपमोदिता" इत्युक्तलक्षणादौपम्याजाता, अध्यात्मजा-एतस्या एव नामान्तरं स्वरूपजा, तदुक्तं- "अजन्यस्तु स्वतः सिद्धः स्वरूपं भाव उच्यते" अस्माज्जाताऽध्यात्मजा, अभियोगजा- "अभियोगो भवेद भावव्यक्तिः" इत्युक्ताभियोगजा, संपयोगजा- "संभोगे जायते या तु रतिः सा संप्रयोगजा" इत्युलक्षणसंप्रयोगजा, अभिमानजा- "सन्ति भूरीणि रम्याणि प्रार्थ्यं स्यादिदमेव मे । इति यो निर्णयो धीरैरभिमानः स उच्यते" इत्युक्तरूपादभिमानाजाता, समारोपजा-इयं वैषयिकीना. म्नाऽपि व्यवहियते-तत्र "शब्दस्पर्शादयः पञ्च विषयाः किल विश्रुताः" इति प्रसिद्धेभ्यो विषयेभ्योजाता। आसामुदाहरणानि- तत्र निसर्गजायाः- असुन्दरः सुन्दरशेखरो वा गुणैविहीनो गुणिनां वरो वा। देषी मयि स्यात्करुणाम्बुधिर्वा कृष्णः स एवाध गतिर्म- - मायम् ॥ - - संबन्धजायाः- वीर्य कन्दुकिताद्रिरूपमखिलक्ष्मामण्डले मण्डनं- जन्माभीरपुरन्दरस्य भवने पारेपराध गुणाः। लीला कापि जगच्चमत्कृतिकरीत्येतस्य लोकोत्तरा वृत्तिर्वेणुधरस्य दुर्मुखि ! धृतिं कस्याः क्षणं रतति ॥

द्वितीयोलासः। प्रौपम्यजाया:-- नवाम्बुधरमाधुरी स्फुरति मृतिरुवीवले कृशोदरि ! दृशोरियात्पथि किमीशो वा युवा । पुरः सुमुखि ! गोपतेः सदसि संनिविष्टस्य मे पितुर्वितनुते नटो यमनुकृत्य नृत्यक्रमम् ॥ अध्यात्मजाया:-- इयं व्यक्तिर्गोपी न भवति पुरः किं तु कुतुकी हरिनारीवेषो यदखिलसुरवीधुवति नः। जगन्नेत्रश्रेणीतिमिरहरणायाम्बरमणि- विना कस्यान्यस्य प्रियसखि ! भवेदौपयिकता ।। अभियोगजायाः- मदधरविलुठविलोचनान्त- मृदुललतानवपल्लवं दशन्तम् । सखि ! हरिमवलोक्य भानुजाया- स्तटविपिने स्फुटदन्तराऽस्मि जाता ।। संपयोगजायाः- सहोष्यतामिह प्रेष्ठ ! दिनानि कति चिन्मया । रमख नोत्सहे त्यक्तुं सङ्गं तेऽम्बुरुहेक्षण! ।। अभिमानजाया:- स्फुरन्तु बहवः तितौ मधुरिमोमिधौरेयकाः- विदग्धमणयों गुणावलिपतिवराभिर्वताः । न यस्य शिखिचन्द्रकः शिरसि नैव वेणुर्मुखे न धातुरचना तनौ सखि ! तृणाय मन्ये न तम् इति ॥६३॥ समारोपजायां विशेषमाह-स्पर्श इति ।

- -- -- १०० सटीके भक्तिरसायने- स्पर्शे शब्दे तथा रूपे रसे गन्धे च केवले । समुचिते च सा तत्रेत्येकैका षड्विधा भवेत् ॥६॥ केवलात् स्पर्शादितः; समुदितात्तत्पञ्चकाच, तत्र-समा- रोपे, सा = मृदुतीव्रलादिभेदा, एकैका प्रत्येकमपि, षोढा ज्ञेया ।। अस्याः क्रमादुदाहरणानि- स्पर्शजायाः- वजं मुष्टिग्राह्ये तमसि निगिरत्यङ्गमिह मे सखि ! स्पर्श दैवाघदवधि परं कस्य चिदगात् ।। गृहीता जागर्या तदवधि सहैवाङ्गजगणैः सशङ्कर्या पश्य क्षणमपि न साऽद्याप्युपरता ॥ शद्वजाया:- एकस्य द्रुतमेव लुम्पति मतिं कृष्णेति नामातरं- सान्द्रोन्मादपरम्परामुपनयत्यन्यस्य वंशीकलः ॥ एष स्निग्धघनद्युतिर्मनसि मे लग्नः सकृद्वीक्षणा- कष्टं धिक् पुरुषत्रये रतिरभून्मन्ये मृतिः श्रेयसी । रूपजायाः- कृताकृष्टिक्रीडं किमपि तव रूपं मम सखी सकृद् दृष्ट्वा दूरादहितहितबोधोझितमतिः । हताशेयं प्रेमानलमनुविशन्ती सरभसं- पतङ्गीवात्मानं मुरहर ! मुहुर्दाहितवती ।। रसजाया:- पुलकयति यदङ्ग सेवते गात्रभङ्ग- वहति हृदि तरङ्गं सघ एवाय मुग्धा । तदघदमनवनोदगीर्णताम्बूलमल्पं- स्फुटमविदितमास्ये न्यस्तमस्यास्त्रयाऽऽलि ! ॥ - -

द्वितीयोल्लासः।
१०६
गन्धजाया:-
विभ्राजन्ते क सखि ! मुखिनः शाखिनो मोहनास्ते
येषां पुष्पैरियमनुपमा वैजयन्ती कृताऽस्ति ।
पश्याकृष्टभ्रमरपटला यातयामाऽपि काम-
या भूयोभिर्मम परिमलैः स्तम्भयत्यद्य चेतः ॥
समुच्चितविषयजायाः-
दृष्टः स्वमेषु सख्या अपहृतिमकरोः स्वान्तबाह्येन्द्रियाणां-
तस्मादेव क्षणात्सा व्रजपतितनय ! व्याकुलाऽऽस्ते नितान्तम् ।
चक्षु रूपे निमग्नं मृदुलतमतनुस्पर्शभिक्षुस्वगासीद्र
घ्राणं ते गात्रगन्धे रसनमधरगं स्निग्धवाक्येषु कर्णः ।।
अनयैव दिशा तीव्रतीव्रतरयोरप्युदाहरणानि ज्ञेयानि॥६४॥
उक्ताया भक्तः पुनद्वैविध्यमाह-शुद्धति ।
शुद्धा व्यामिश्रिता चेति पुनरेषा द्विधा भवेत् ॥
तत्रानुपाधिः शुद्धा स्यात्सोपाधिर्मिश्रितोदिता॥६५॥
अत्रोपाधिरन्याभिसन्धिः स चानुपदं स्पष्टीभावी, शेषः
स्पष्टः ॥६५॥
एतयोरनुपाधि दर्शयति-अन्विति ।
अनपाधिः परानन्दमहिमैकनिबन्धना ॥
भजनीयगुणानन्त्यादेकरूपैव सोच्यते ॥ ६६ ॥
पर: साम्यातिशयशून्यो, य आनन्दः तस्य महिमा एक-
मद्वितीयं निवन्धनं प्रयोजकं यस्या भक्तेः सा, निरुपाधिः, ननु
भगवतो गुणानालम्ब्येयं बहुधा भवितुमर्हतीति चेद ? न-
तदीयगुणानामानन्त्यात्तथा गणनाऽसंभविनीत्येकैवं वक्तुं सुश-
केति ॥६६॥

सटीके भक्तिरसायने- - सोपाधि दर्शयनिरुपाधि विकृणोति-कामेति । कामसंबन्धभयतः सोपाधिस्त्रिविधा भवेत् ॥ विभावादिसमायोगे शुद्धभक्तिरसो भवेत् ।। ६७॥ पूर्वार्धे स्पष्टमेव, यदा च भक्तिरसस्य विभावादयः समुदीयुः किन्तु भक्तिरसस्थायिनी रतिराश्रयगतभावान्तरेण न संकी- येत तदा शुद्धा भक्तिर्भवेत् ॥ ६७ ।। निरुपाधि विकृणोति कारिकाद्वयेन- शृङ्गेत्यादिना । शृङ्गारमिश्रिता भक्तिः कामजा भक्तिरिष्यते॥ संबन्धजा रतिर्याति पूर्वोक्तां रसतां द्वयोः ॥ ६॥ एको बत्सलभक्तयाख्यः प्रेयोभक्तिस्तथाऽपरा ।। भयजा रतिरध्यास्ते रसं प्रीतिभयानकम् ॥ ६६ ॥ अत्र कामजा रतिः पूर्व दर्शिता, संवन्धजाऽपि सा द्वयोः- वात्सल्यसख्ययोरसयोः, रसतां यातीत्यपि दर्शितम्, प्रेयोभक्ति- रसः सख्यम्, भयकारणजन्यचेतोद्रुत्यात्मा रतिः प्रीतिभया- नकाख्यमिश्रितरसस्य स्थायिनी भवतीति भावः॥ ६८, ६६ ॥ तन्मिश्रणे सति वैलक्षण्यमाह-एकेति । एकदा यद्यपि व्यक्तमिदं रतिचतुष्टयम् ।। तदा तु पानकरसन्यायेन परमो रसः ॥ ७० ॥ यदि तु कारणसामग्रीसमवधानाद एकदा कामसंबन्धद्वय- भयजानां रतीनां चतुष्टयमेकाश्रय एवोदीयात् तदा तु पानके समुचितलामरिचसंयुक्तसितामधुरतमीकृतपानीयविशेषे, रसस्य रंसनाग्राह्यगुणविशेषस्य न्यायेन विलक्षणो रसोऽनुभूयते, तत्र यथा चित्ररसोऽत्रापि तथा चित्ररसोऽनुभवसिद्धो दुरपन्हव- इति हार्दो भावः ॥ ७० ॥ ..

द्वितीयोल्लासः। नन्वनेकरतिस्थले यदि पानकरसरीत्या चित्ररस एव स्या- तदा रसानां पार्थक्येनावादानुपपत्तिरत आह-एकेति । एकट्यादिरसव्यक्तिभेदादसभिदा भवेत् ।। तस्मात् व चित्तदभ्यासं कुर्यादतिचतुष्टये ॥ ७ ॥ पृथक् पृथग्रसव्यक्त्या रसानां भेदः सुकरः, तस्मात् कापि यत्रान्तर्यामिप्रेरणादिना चित्तमुन्मुखीभवेत् तत्रैवाभ्यासं कुर्यात् साधनेच्छुरिति शेषः, निर्धाय॑माणतानिरूपकमाह-रतिचतु- ष्टय इति, अत्रेदमाकूतम्- रतिचतुष्टयपदेनानुपदोक्तानां शुद्धका- मजसंबन्धजभयजानां रतीनां ग्रहणं कर्त्तव्यं, यद्यपि संवन्धजे द्वे रती स्त इति तासां पश्चतयत्वं तथाऽपि संबन्धजखस्य विभा- जकताऽवच्छेदकसमाश्रित्य चतुष्टयत्वं संगमयितव्यं, भयशब्दस- मावेशात्तु न भेतव्यमृजुमतिभिः, नात्र व्यालादेरिव भयं विव- तितं, परन्तु दासैौरवमर्यादारक्षणसंभ्रमादितो यथा प्रभुतो- भेतव्यं, तादृशमेव निविवेशयिषितम्, एतच्चानुगुणं दास्यस्था- यिन्याः प्रीतेः, तत एव प्रीतिशब्दः संसृष्टः, एवं च पश्चापि मुख्या भक्तिरसाः संग्रहीताः--शुद्धया रत्या शान्तः, भयजयाऽ- नया दास्यम् , संबन्धजया त्वेनया सख्यबात्सल्ये, कामजया तया शृङ्गार इति सुधीभिर्विवेचनीयमिति निखिलं चतुरश्रम् ॥ ७१ ॥ सर्वप्रधानभक्तेषु तचतुष्टयं दर्शयन् साधनदिकमदर्शनमुप- दिशति-व्रजेति। ब्रजदेवीषु च स्पष्टं दृष्टं रतिचतुष्टयम् ॥ तच्चित्तालम्बनत्वेन स्वचित्तं तादृशं भवेत् ॥ ७२ ॥ व्रजदेवीषु रतिचतुष्टयं शास्त्रप्रसिद्धं, ततश्चान्येनापि तत् . .

११२ सटीके भक्तिरसायने- - सिषाधयिषुणा तासां चित्तमालम्ब्य कृते साधने ताशचित्त- तामाप्तिस्वरूपयोग्यता शक्यसंपादना, न चैतदप्रमाणकमिति भ्रमितव्यम् १ पातञ्जलदर्शने हि वीतरागचित्तालम्बिनस्तादृश- चित्तता सिद्धान्तिता, तुल्ययुक्त्या भगवद्रतिरञ्जितचित्तालम्बनेन ताशचित्तताऽपि निर्विवादा, ध्वनितश्चायमों "वीतरागवि- षयं वा चित्तम्" अस्मिन् प्रकरणे तत्रेति ॥ ७२ ।। अधुना गौणरतितो रसस्थितिमाह-रसेति । रसान्तरविभावादिसंकीर्णा भगवदतिः॥ चित्ररूपवदन्याग्रसतां प्रतिपद्यते ॥ ७३ ॥ हास्यादिविभावादिसमवधाने भगवदतिः चित्रस्सतां भ- जति, नानावर्णकसूत्रारब्धचित्रपटवदिति भावः ॥७३॥ अन्यविभावादिराहित्ये कीदृशो रसस्तमाह-रसान्तरेति । रसान्तरविभावादिराहित्ये तु स्वरूपभाक् ।। दशमीमेति रसतां सनकादेखिाधिकाम् ॥७४ ॥ अत्र भगवदतिरित्यनुवर्तते, तथा च रसान्तरविभावादिरा- हित्ये तु भगवदतिः स्वरूपभाक्-भगवत्वरूपभाक् सती सन- कादीनां रतिरिवाधिकामत एव दशमी रसतां भजते, अत्र प्राकृतरसेषु व्यवहियमाणं नवलमपेक्ष्यैवाधिकत्वं दशमत्वं ज्ञेयं,- न च शान्तेऽन्तर्भावात्कथमधिकसमिति शङ्कयम् ? शान्तस्य निर्वेदस्थायिकताया एवान्यत्र प्रसिद्धबाद, यदि तु मुख्यरसेषु शुद्धरतिस्थायिकः शान्तो गृह्येत, तदा दशमबोक्तिरसंगता स्यात् , प्रकृतकारिकायां विभावशब्देनोद्दीपनं ग्राह्यं, भगवत पालम्ब- नस्य सर्वत्राद्वितीयतयाऽनुस्यूतलात्, तद्राहित्ये हि निरालम्बना रतिरेव न स्याद दूरे रसताचर्चेति विवेचनीयम् ॥ ७४ ।।

११३ द्वितीयोल्लासः। भगवद्विषया रतिर्न रसीभावाहों; वा स्वसामग्रीपुष्टा न रसत्वेन व्यवहार्येति शङ्कां परिहरति-रतिरित्यादिभिश्चत- मृभिः कारिकाभिः। रतिर्देवादिविषया व्यभिचारी तथोर्जितः ॥ भावः प्रोक्तो रसो नेति यदुक्तं रसकोविदैः ॥७५ ॥ देवान्तरेषु जीवत्वात् परानन्दाप्रकाशनात् ।। तद्योज्यं परमानन्दरूपे न परमात्मनि ॥ ७६ ॥ कान्तादिविषया वा ये साद्यास्तत्र नेदृशम् ॥ रसत्वं पुष्यते पूर्णसुखास्पर्शित्वकारणात् ॥ ७७ ॥ परिपूर्णरसा क्षुद्ररसेभ्यो भगवदतिः॥ खद्योतेभ्य इवादित्यप्रमेव बलवत्तरा ॥ ७८ ।। देवादीत्यत्रादिना पूज्यमित्रपुत्रजातीयानां संग्रहः, ऊर्जितो- व्यञ्जनया प्रत्यायितो व्यभिचारी, जीवनात्-तुद्रानन्दात्मक- खात्, तस्य तथालमौपाधिकं वास्तविकं वेत्यन्यदेतद्, ईदृशम्= पूर्णानन्दस्वभावम् , परिपूर्णरसा परिपूर्णरसीभवनाही, अन्य- सर्वमतिरोहितम् ।। ७५-७८ ॥ उक्तापत्ति प्रतिबन्धाऽपि परिहरनुल्लासमुपसंहरति--क्रोधे- त्यादिना द्वाभ्याम् । क्रोधशोकभयादीनां साक्षात्सुखविरोधिनाम् ।। रसत्वमभ्युपगतं तथाऽनुभवमात्रतः ॥ ७६ ॥ इहानुभवसिद्धेऽपि सहस्रगुणितो रसः ॥ जडेनेव त्वया कस्मादकस्मोदपलप्यते ॥ ८०॥ १५ सटीके भक्तिरसायने- इति श्रीपरमहंसपरिव्राजकाचार्यश्रीमधुसूदनसरस्वतीविर- चिते भगवद्भक्तिरसायने भक्तिविशेषप्रतिपादको नाम द्वितीयो- लासः । ये साक्षात् सुखपतिकूलाः क्रोधादयः, तेषां रसत्वं विभा- वादिव्यापारसाधारणीकरणानुभवगृह्यतयाऽभ्युपगतं यदि, तर्हि भगवतीनां श्रुतीनाम् "एतस्यैवानन्दस्यान्य आनन्दा मात्राम- पजीवन्ती"त्येवंजातीययथार्थानुभवसहस्रसिद्ध साम्यातिशय- रहितपरिपूर्णानन्दरूपे भगवति रते रसता सहसाझेनेव कुतो- निवार्यते रसझमन्येन बया, तस्मादुक्तनिवारणमप्रामाणिकमिति भावः॥ ७९-८० ॥ इति श्रीमन्माध्वसंप्रदायाचार्यदार्शनिकसार्वभौमसाहित्यदर्श- भाघाचार्यतरत्नन्यायरत्नगोस्वामिश्रीदामोदरशास्त्रि- विरचितायां भक्तिरसायनव्याख्यायां प्रेम- प्रपायां भक्तिविशेषप्रतिपादको नाम द्वितीयोमासः अथ श्रीमधुसूदनसरस्वतीविरचितभक्तिरसायनस्य प्रेमप्रपासहितो- भक्तिरसप्रतिपादकः तृतीय उल्लासः। श्रीश्रीगौरकृष्णः शरणम् । एवं कारिकाणामशीत्या ग्रन्थकारो भक्तेः स्वरूपविशेषान् प्रदय क्रमायातं भक्तिरसं प्रतिपादयितुं तृतीयमुल्लासमारभमा- णः प्रथमं रसस्वरूपादिकं निरूपयितुकामः पृच्छति-नन्विति । ननु कोयं रसो नाम किनिष्ठो वा भवेदसौ। अस्य प्रत्यायकःको वा प्रतीतिरपि कीदृशी॥१॥ नन्विति वाक्यारम्भे; "वाक्यारम्भेऽप्यनुनयामन्त्रणानुयोरयीति हैमः, न तु प्रश्ने तस्य किंशब्दशक्त्यैव लाभाद, अयंवर्णनीयत्वेन संनि- कष्टः, नामेति प्रसिद्धौ- "नाम प्राकाश्यसंभाव्यक्रोधोपशमकुत्सने” इत्यमरः, तथा च प्रसिद्धोऽयं रसः कः ? किनिष्ठो वा ? अस्य का वा बोधकः १ प्रतीतिश्च कीगिति ॥१॥ तत्र प्रथमप्रश्नमुत्तरयति-विभेति । विभावरनुभावैश्च व्यभिचारिभिरप्युत । स्थायीभावः सुखत्वेन व्यज्यमानो रसः स्मृतः॥२॥ भावश्च पूर्वोक्तसंस्कारात्मा रत्याख्यः, तस्य स्थायित्वं- सजातीयैर्विजातीयैर्वाऽनुपमर्यत्वं, तदुक्तम्- सटीके भक्तिरसायने- - "सजातीयैर्विजातीयैरतिरस्कृतमूर्तिमान् । यावसं वर्तमानः स्थायी भाव उदाहृतः" ॥ अयमेव भावो विभावैरनुभावैर्व्यभिचारिभिः सुखरूपतया प्रतीयमानो रस उच्यते, तत्र विभावयति वासनाऽऽत्मतथा स्थितां रतिमास्वादारयोग्यर्ता नयति, इति विभाव आलम्बन- त्वेनोद्दीपनत्वेन द्विविधः, तदुक्तम्- "विभाव्यते हि रत्यादिर्यत्र येन विभाव्यते । विभावो नाम स द्वेधाऽऽलम्बनोदीपनात्मकः” ॥ तत्रालम्बनो यथा- अयं कम्बुग्रीवः कमलकमनीयातिपटिमा तमालश्यामाङ्गद्युतिरतितरां छत्रितशिराः । दरश्रीवत्साडूः स्फुरदरिदराघडिन्तकरः करोत्युच्चैोदं मम मधुरमृतिमधुरिपुः ॥ उद्दीपनो यथा- ध्यानं वलात् परमहंसकुलस्य भिन्दन् निन्दन् सुधामधुरिमाणमधीरधर्मा । कन्दर्पशासनधुरां मुहुरेव शंसन् वंशीध्वनिर्जयति कंसनिषूदनस्य ॥ अनु पश्चात् स्थाय्युद्धोधानन्तरं भावयति स्थायिनमावा- दयतीत्यनुभावः, अयमपि स्वाभाविकोपाधिकलाभ्यां द्विधा, तत्र पूर्वधर्माकान्ताः सात्त्विका उच्यन्ते, परधर्माकान्ता अनु- भावा:-तदुक्तम्- "ते स्तम्भस्वेदरोमाश्चाः स्वरभङ्गोऽथ वेपथुः । वैवण्यमश्रु प्रलय इत्यष्टौ सात्त्विकाः स्मृताः ।।

तृतीयोझासः। - तथा- "मितं गीतं कटाक्षश्च भुजक्षेपश्च हुंकृतिः । तनुमोटनजृम्भाऽऽदिश्वानुभावः प्रकीर्त्यते” इति च, तत्र सात्त्विकीया दिग्यथा- कुन्दैर्मुकुन्दाय मुदा सृजन्ती स्रजं वरां कुन्दविडम्बिदन्ती । वभूव गान्धवरसेन वेणो- र्गान्धर्विका स्पन्दनशून्यगात्री ।। अपरा यथा- रागडम्बरकरम्बितचेताः कुर्वती तव नवं गुणगानम् । गोकुलेन्द्र ! कुरुते जलता सा राधिकाऽद्य सुहृदां दृषदां च ।। विशेषेणाभिमुख्येन चरन्तीति व्यभिचारिणः, तदुक्तम्- "विशेषादाभिमुख्येन चरन्तो व्यभिचारिणः । स्थायिन्युन्मग्ननिर्मग्नाः कल्लोला इव वारिधौ” इति, ते च- "निर्वेदग्लादिशङ्काऽऽख्यास्तथाऽस्यामदश्रमाः। आलस्यं चैव दैन्यं च चिन्ता मोडः स्मृतिधृतिः ॥ ब्रीडा चपलता हर्ष आवेगो, जडता तथा । गर्वो विषाद औत्सुक्यं निद्राऽपस्मार एव च ।। मुप्तिर्विबोधोऽमर्षश्चावहित्थस्तथोग्रता । मतियाधिस्तथोन्मादस्तथा मरणमेव च ॥ त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः । त्रयस्त्रिंशदमी भावा रसस्य सहकारिणः ॥

सटीके भकिरसायने-
तत्र निर्वेदः-
महात्तिविभयोगेासद्विवेकादिकम्पितम् ।
खावमाननमेवात्र निर्वेद इति कथ्यते ॥
अत्र चिन्ताऽश्रुवैवयंदैन्यनिश्चसितादयः ।
यथा-
भवतु माधवजल्पमशृण्वतोः
श्रवणयोरलमश्रवणिर्मम ।
तमविलोकयतोरविलोकनिः
सखि ! विलोकनयोस्तु किलानयोः ।।
ग्लानि:-
मोजः सोमात्मकं देहे बलपुष्टिकदस्य तु ।
तयाच्छमाधिरत्यायेग्लानिर्निष्पाणता मता ॥
कम्पाङ्गजाड्यवैवर्ण्यकार्यदृग्भ्रमणादिकृत् ।
-
यथा-
गुम्फितुं निरुपमा वनस्रजं-
चारुपुप्पपटलं विचिन्वती।
दुर्गमे क्लमभरातिदुर्बला
कानने क्षणमभून्मृगेक्षणा ॥
शङ्का-
खीयचौर्यापराधादेः परक्रौर्यादितस्तथा ।
स्वानिष्टोत्प्रेक्षणं
यत्तु
सा शङ्कत्यभिधीयते ॥
अत्रास्यशोषवैवयदिक्प्रेक्षालीनताऽऽदयः।
यथा-
सतर्णकं डिम्भकदम्बकं हरन्
सदम्भमम्भोरुहसम्भवस्तदा ।

तृतीयोल्लासः।
तिरोभविष्यन् हरितश्चलेतणे-
रष्टाभिरष्टौ हरितः समीक्षते ॥
असूया
द्वेषः परोदयेऽसूया स्यात् सौभाग्यगुणादिभिः ।
तत्राऽनादराक्षेपा दोषारोपो गुणेष्वपि ॥
अपवृत्तिस्तिरोबीक्षा ध्रुवोर्भङ्गुरताऽऽदयः ।
यथा-
अस्या अमूनि नः क्षोभं कुर्वन्त्युच्चैः पदानि यत् ।
यैकाऽपहत्य गोपीनां धनं भुङ्क्तेऽच्युताधरम् ।।
मद:-
विवेकहर उल्लासो मदः स द्विविधो मतः ।
मधुपानभवोऽनङ्गविक्रियाभरजोऽपि च ।।
गत्याचाणीस्खलनहग्धूर्णारक्तिमादिकृत् ।
यथा-
भमनमति मेदिनी ललललम्बते चन्द्रमाः
कृकृष्ण ! ववद द्रुतं हहहसन्ति किं वृष्णयः ।
सिसीधु मुमुमुश्च मे पपपपानपात्रे स्थितं-
मदस्खलितमालपन् हलधरः श्रियं वः क्रियात् ॥
श्रमः-
श्रध्वनृत्यरताद्युत्थः खेदः काम इतीर्यते ।
निद्रास्वेदानसमर्दजृम्भावासादिभागसौ ॥
यथा-
तासां रतिविहारेण श्रान्तानां वदनानि सः ।
मामृजत् करुणः मेम्णा शन्तमेनाग ! पाणिना ॥

सटीके भक्तिरसायने- भालस्यम्- सामर्थ्यस्यापि सद्भावे क्रियाऽनुन्मुखता हि या। तृप्तिश्रमादिसंभूता तदालस्यमुदीर्यते ।। अत्रामङ्गो जृम्भा च क्रियाद्वेषोऽतिमर्दनम् । शय्याऽऽसनैकप्रियतातन्द्रानिद्राऽऽदयोऽपि च ॥ यथा- मुष्ठु निःसहतनुः सुबलोऽभूत् पीतये मम विधाय नियुद्धम् । मोटयन्तमभितो निजमङ्गं नाहवाय सहसाऽऽहयतामुम् ॥ दैन्यम्- दुःखत्रासापराधाधैरनौनित्यं तु दीनता। चाटुकुन्मान्द्यमालिन्यचिन्ताऽङ्गाजडिमादिकृत् ॥ यथा- - अभिवति मामीश ! शरस्तप्तायसः प्रभो!। कामं दहतु मां नाथ ! मा मे गर्भो निपात्यताम् ।। चिन्ता- ध्यानं चिन्ता भवेदिष्टानाप्त्यनिष्टाप्तिनिर्मितम् । श्वासाधोमुख्यभूलेखवैवयोनिद्रता इह ।। विलापोत्तापकशता बाष्पदैन्यादयोऽपि च । यथा-- कृत्वा मुख्यान्यवशुचः श्वसनेन शुष्य- बिम्बाधराणि चरणेन भुवं लिखन्त्यः। मनरुपात्तमषिभिः कुचकुङ्कुमानि तस्थुर्मजन्त्य उरुदुःखभराः म तूष्णीम्

तृतीयाझालः।
मोहः
मोहो हन्मूढता हर्षा विश्लेषाद् भयतस्तथा ।
विषादादेश्व; तत्र स्यादेहस्य पतनं भुवि ।।
शून्येन्द्रियत्वं भ्रमणं तथा निश्चेष्ट नाऽऽदयः ।
यथा-
कृष्णं महाबकग्रस्तं दृष्ट्वा रामादयोऽर्भकाः।
बभूवुरिन्द्रियाणीव विना प्राणान् विचेतसः ॥
स्मृति:-
या स्यात् पूर्वानुभूनार्थप्रतीतिः सदृशेक्षया ।
हढाभ्यासादिना याऽपि सा स्मृतिः परिकीर्तिता ॥
भवेदत्र शिरःकम्पो भ्रूविक्षेपादयोऽपि च ।।
यथा-
विलोक्य श्याममम्भोदमम्भोरुहविलोचना।
स्मारं सारं मुकुन्दं सा स्मारं विक्रममन्वभूत् ।।
धृतिः-
धृतिः स्यात् पूर्णताज्ञानदुःखाभावोत्तमाप्तिभिः ।
अगतातीतनष्टार्थानभिसंशोचनादिकृत् ।।
यथा-
हरिलीलासुधासिन्धोस्तटमप्यधितिष्ठतः ।
मनो मम चतुर्वर्ग तणायापि न मन्यते ॥
ब्रीडा-
नवीनसङ्गमाकार्यास्तवावज्ञाऽऽदिना कृता ।
अधृष्टता भवेद ब्रीडा तत्र मौनं विचिन्तनम् ॥
अवगुण्ठनभूलेखौ तथाऽधोमुखताऽऽदयः ।
-
१६

१२२
सटीके भक्तिरसायने-
यथा-
गोविन्दे खयमकरोः सरोजनेत्रे !
प्रेमान्धा वरवपुरर्पणंमखि ! बम्
कार्पण्यं न कुरु दरावलोकदाने
विक्रीते करिणि किमड्डशे विवादः ॥
चपलता-
रागद्वेषादिभिश्चित्तलाघवं चापलं भवेत् ।
तत्राविचारपारुष्यस्वच्छन्दाचरणादयः ।।
यथा-
यो भाविनि खमजितोरहने विदर्भान्
गुप्तः समेत्य पृतनापतिभिः परीतः ।
निर्मथ्य चैद्यमगधेशवलं प्रसह्य
मां राक्षसेन विधिनोदह वीर्य्यशुन्काम् ।।
हर्षः
अभीष्टेक्षणलामादिजाता चेतःमसनता ।
हर्षः स्याद; इह रोमाञ्चः स्वेदोऽश्रुमुखफुचता ॥
आवेगोन्मादजडतास्तथा मोहादयोऽपि च ।
:
यथा-
तत्रैकांऽसगतं बाहुं कृष्णस्योत्पलसौरभम् ।
चन्दनालिसमाघ्राय दृष्टरोमा चुचुम्न ह ॥
मावेग:-
चित्तस्य संभ्रमो यः स्यादावेगोऽयं स चारधा।
पियापियानलमरुदोत्पातगजारितः ॥
प्रियोत्थे पुलक सान्त चापल्याभ्युन्मादयः।

इतीयोशासः
यथा-
प्रेक्ष्य वृन्दावनात् पुत्रमायान्तं प्रस्तुतस्तनी ।
संकुला पुलकैरासीदाकुला गोकुलेवरी ।।
जडता-
-
जाड्यमपतिपत्तिः स्वादिष्टानिष्टश्रुतीक्षणैः ।
विरहाचैश्च तन्मोहात् पूर्वावस्थाऽपराऽपि च ।।
अनानिमिषतातूष्णींभावविस्मरणादयः ।
यथा-
-
गोविन्दं गृहमानीय देवदेवेशमाहतः ।
पूजायां नाविदत् कृत्यं प्रमोदोपहतो नृपः ॥
गर्वः
साभाग्यरूपतारुण्यगुणसर्वोत्तमाश्रयैः ।
इष्टलाभादिना चान्यहेलनं गर्व ईर्यते ।।
तत्र सोल्लुण्ठवचनं लीलाऽनुत्तरदायिता ।
स्वानेता निन्हवोऽन्यस्य वचनाश्रवणादयः॥
यथा-
हस्तमुत्तिप्य यातोऽसि बलात् कृष्ण ! किमद्भुतम् ।
हृदयापदि निर्यासि पौरुषं गणयामि ते ॥
विषाद:--
इष्टानवाप्तिमारब्धकार्यासिदिविपत्तितः ।
अपराधादितोऽपि स्यादनुतापो विषण्णता ॥
अत्रोपायसहायानुसन्धिश्चिन्ता च रोदनम् ।
विलापश्वासवर्ण्यमुखशोषादयोऽपि च ।।
यथा--
पश्येश मेऽनार्य्यमनन्त प्राधे
परात्मनि खग्यपि माथिमायिनि ।

१२४ सटीके भक्तिरसायने- मायां वितत्येक्षितुमात्मवैभव- यहं कियानच्छमिवार्चिरयौ ।। औत्सुक्यम्- कालातमखमौत्सुक्यपिष्टेनाऽऽप्तिस्पृहाऽऽदिभिः। मुखशोषत्वराचिन्तानिश्वासास्थिरताऽऽदिकृत् ॥ यथा- प्राप्तं निशम्य नरलोचनपानपात्र- पौत्सुक्यविश्लथितकेशदुकूलबन्धाः । सद्यो विसृज्य गृहकर्म पतींश्च तल्पे- द्रष्टुं ययुर्युवतयः स्म नरेन्द्रमार्गे ॥ निद्रा- चिन्ताऽऽलस्यनिसर्गक्लमादिभिश्चित्तमीलनं निद्रा । तत्रानभाजृम्भाजाड्यश्वासातिमीलनानि स्युः ।। यथा- संक्रान्तधातचित्रा सुरतान्ते सा नितान्ततान्ताऽद्य । वत्तसि निक्षिप्ताङ्गी हरेविशाखा ययौ निद्राम् ॥ अपस्मार:- - दुःखोत्थधातुवैषम्यादद्भुतश्चित्तविलवः । अपस्मारोऽत्र पतनं धावनास्फोटनभ्रमाः॥ कम्पः फेनस्रुति हुक्षेपविक्रोशनादयः। यथा- - फेनायते प्रतिपदं तिपते भुजोर्मि- माघूर्णते लुठति कूजति लीयते च ।

१२५ तृतीयोल्लासः। अम्बा तवाद्य विरहे चिरमम्बुराज- वेलेव वृष्णितिलक ! ब्रजराजराशी ।। खमः - सुप्तिर्निद्रा विभावा स्यानानाऽर्थानुभवात्मिका । इन्द्रियोपरतिश्वासनेत्रसंमीलनादिकृत् ।। यथा- कामं तामरसात ! केलिरभितः पादुष्कृता शैशवी दर्पः सर्पपतेस्तदस्य तरसा निधूयतामुद्रधुरः । इत्युत्वमगिरा चिराद् यदुसमा विस्माययन् स्माययन् निःस्वासेन दरोत्तरगदुदरं निद्रां गतो लागली ।। विबोध:- अविद्यामोहनिद्राऽऽदेवसादोधः प्रबुद्धता । यथा- विन्दन विद्यादीपिका स्वस्वरूपं. बुद्ध्वा सद्यः सत्यविज्ञानरूपम् । निष्पत्यूहं तत् परं ब्रह्म मूर्त- सान्द्रानन्दाकारमन्वेषयामि ॥ अमर्षः- अधिक्षेपापमानादेः स्यादमर्षोऽसहिष्णुता । तत्र स्वेदः शिरःकम्पो विवर्णत्वं विचिन्तनम् ।। उपायान्वेषणाक्रोशवैमुख्योत्ताड़नादयः॥ - यथा- निधौंतानामखिलधरणीमाधुरीणां धुरीणा कल्याणी मे निवसति वधूः पश्य पार्वे नवोढा । अन्तर्गोष्ठे चटुल ! नटयनत्र नेत्रत्रिभाग- निःशडस्त्वं भ्रमसि भविता नाकुलत्वं कुतो मे ॥

सटीके भक्तिरसायने- अवहित्यम्- अवहित्थाऽऽकारगुतिर्भवेद भावेन केन चिद् । अत्रानादेः पराऽभ्यूहः स्थानस्य परिगृहनम् ।। अन्यत्रेता वृथा चेष्टा वाग्भङ्गीत्यादयः क्रियाः । यथा- सात्राजितीसदनसीमनि पारिजाते नीते प्रणीतमहसा मधुसूदनेन । द्राधीयसीमपि विदर्भभुवस्ता- सौशील्यतः किल न कोऽपि विदाम्बभूव ।। उग्रता- अपराधदुरुत्यादिजातं चण्डखमुग्रता । वधवन्धशिर कम्पभर्त्सनोचाटनादिकृत ।। यथा- स्फुरति मयि भुजबीगर्भविभ्रंसिकीत्तौं विरचयति मदीशे किन्विषं कालियोऽपि । हुसभुजि बत कुर्या जाठरे बौषडेन- सपदि दनुजहन्तुः किन्तु रोषाद्विभेमि ।। मति:- शास्त्रादीनां विचारोत्थमर्थनिर्धारणं मतिः । अत्र कर्तव्यकरणं संशयभ्रमयोश्छिदा । उपदेशश्च शिष्याणामूहापोहादयोऽपि च । यथा- व्यामोहाय चराचरस्य जगतस्ते ते पुराणागमा- स्ता तामेव हि देवतां परमिकां जल्पन्तु कल्पावधि सिद्धान्ते पुनरेक एव भगवान् विष्णुः समस्तागम- व्यापारेषु विवेचनव्यतिकरं नीतेषु निधीयते ।।

१२० तृतीयोझासः। न्याषि:- दोषोद्रेकवियोगाद्यैाधयस्तु ज्वरादयः । अत्र स्तम्भः श्लथाङ्गत्वं श्वासोत्तापक्रमादयः॥ यथा- तव चिरविरहेण प्राप्य पीडामिदानी- दधदुरुजडिमानि ध्मापितान्यङ्गकानि । श्वसितपवनधाटीदाहितघ्राणवाट- लुठति धरणिपृष्ठे गोष्ठवाटीकुटुम्बम् ।। उन्माद: उन्मादो हृदभ्रमः प्रौढानन्दापद्विरहादिजः । अत्राहहासनटनं संगीतं व्यर्थचेष्टितम् ।। प्रलापधावनक्रोशविपरीतक्रियाऽऽदयः ।। यथा- - - गायन्त्य उच्चैरमुमेव संहता- विचिक्युरुन्मत्तकवद वनाद्वनम् । पपच्छुराकाशवदन्तरं बहि- भूतेषु सन्तं पुरुषं वनस्पतीन् । मरणम्- विषादव्याधिसंत्राससंपहारकमादिभिः । माणत्यागो मृतिस्तस्यामव्यक्तातरभाषणम् ॥ विवर्णगात्रताधासमान्द्यहिकाऽऽदयः क्रियाः । यथा- अनुशासचासा मुहुरसरलोत्तानितहशो-. विद्यएवन्तः काये किमपि नववैवर्यमभितः । हरेनामाव्यक्तीकृतमलघुहिकालहरिभिः प्रजल्लन्तः प्राणान् जहति मथुरायां सुकृतिनः ।।

१२८ सटीके भकिरसायने- - - - प्रासः सोमो हदि तदिघोरसत्त्वोग्रनिस्वनैः । पार्श्वस्थालम्बरोमाञ्चकम्पस्तम्भभ्रमादिकृत् ।। यथा- बाट निविडया सद्यस्तडिता ताडितेक्षणः । रक्ष कृष्णेति चुक्रोश कोऽपि गोपीस्तनन्धयः ॥ वितर्क:- विमर्शात् संशयादेश्च वितर्कस्तूह उच्यते । एष भूक्षेपणशिरोजलिसंचालनादिकृत् ।। यथा- असो किं तापिच्छो न हि यदमलश्रीरिह गतिः पयोदः किं वाऽयं न यदिह निरङ्को हिमकरः । जगन्मोहारम्भो गुरुमधुरवंशीध्वनिरितो- ध्रुवं मूर्धन्यद्रविधुमुखि ! मुकुन्दो विहरति ॥ इति ॥ अत्र च "विभागनुभावव्यभिचारिसंयोगाद्रसनिष्पत्ति"- रिति पारमर्षसूत्रं प्रमाणमवगन्तव्यम् , विस्तरस्वस्य "सरसः के चि" दित्यत्र प्रदर्शयिष्यते ॥२॥ संपति किनिष्ठो वेति द्वितीयप्रश्नमुत्तरयति-मुखेति । सुखस्यात्मस्वरूपत्वात्तदाधारो न विद्यते ॥ तद्व्यञ्जिकाया वृत्तेस्तु सामाजिकमनः प्रति ॥३॥ रसात्मकस्य सुखस्य "रसो वै सः” रसं हवायं लब्ध्वाऽs- नन्दीभवति" "एष होवानन्दयाति" इत्यादयो भगवत्यः श्रुतयः परमात्मनो रसरूपत्वं संगिरन्ते, अतश्चात्मन एव जगदाधारता "कृतिस्थाखिलभुवनमि"त्याचागमैरवधारिता, तदाधारस्य वास्तविकस्यामसिद्धराह-"तदाधारो न विद्यते" इति १२६ तृतीयोल्लासः। तुशद्वेन मुख्यतदाधारापसिद्धावपि तदव्यञ्जकवृत्त्याधारस्य गौणतदाधारत्वं तु सुवचमिति सूचयन्नाह-सामेति, तथा च वृत्तरित्यत्र षष्ट्यर्थस्य निरूपितवस्याधारतायामन्वयात्ः तद्व्य- ञ्जकव्यक्तिनिरूपिताधारता तु सामाजिकमनसीति भावः, मन:- शद्वोत्तरं द्वितीया च प्रतियोगनिबन्धनेति ज्ञेयम्। अत्र यद्यपि तच्छदेन रसस्यैव परामर्शः किन्तु रसस्य स्वयं- प्रकाशत्वेन वृत्तिफलव्याप्यता स्थायिनि विवक्षितेति तद्व्यञ्जि- केत्यत्र स्थायिव्यञ्जिकेत्यर्थे तात्पर्य पर्यवस्यति, सामाजिकशब्देन चानुकार्यानुकत्र्तुगतत्वं रसस्थाननुमतमिति मूचितं; परन्तु पाक- तस्थलीयेयं व्यवस्थेति तु न विस्मर्त्तव्यम् , अप्राकृतस्थले तु रसात्मैवानुकार्य इति विशेषः ॥३॥ इदानीं स्थायिनो लौकिकालौकिकत्वे व्यवस्थापयति- काव्येति- काव्यानिष्ठा रत्याद्याः स्थायिनः सन्ति लौकिकाः॥ तबोधृनिष्ठास्त्वपरे तत्समा अप्यलौकिकाः ॥॥ काव्ये योऽर्थो वर्णनीयोऽभिनेयो वा तन्निष्ठा रत्यादयो- लौकिकाः लोकसिद्धनियमानुसारिणः सुखकारणसहकृताः सुख- जननस्वभावाः; दुःखकारणसहकृता दुःखजननस्वभावा इति यावद, अयमपि नियमः प्राकृतस्थलीय एवावधार्यः । रसानुभवितसामाजिकनिष्ठास्वपरे समानविषयकवादिना तत्तुल्या अपि किलालौकिका उच्यन्ते ॥४॥ उक्तवैषम्ये बीजमाह-बोध्येति । बोयनिष्ठा यथास्वं ते सुखदुःखादिहेतवः ।। बोद्धृनिष्ठास्तु सर्वेऽपि सुखमात्रैकहेतवः ॥५|| ते स्थायिनो रतिक्रोधादयः, वोध्यनिष्ठा: वर्णयितव्या- " १७

१३०
सटीके भक्तिरसायने-
,
भिनेतव्यनिष्ठाः; यथास्वं-मुखजननस्वभावाः सुखहेतवः; दुःख-
जननस्वभावा दुःखहेतवो भवन्ति लोकनियमाक्रान्ततया न तं-
व्यभिचरन्तीत्यर्थः, सर्वेऽपि पुनः सामाजिकवृत्तयः केवलसुख-
जनकाः, अयमत्राभिसंधिः-लोके हि पुत्रादेर्जन्मादीनां सुख-
कारणत्वं तस्य मरणादीनां दुःखकारणत्वं च यदानुभविकं तन्न
पुत्रसामान्यस्य; किन्तु स्वनिरूपितत्वविशिष्टत्वेन ज्ञातस्यैव,
शत्रुपुत्रादेस्तेषां प्रत्युत व्यत्ययेन तथात्वदर्शनाद, काव्ये तु धर्मि-
ग्राहकमानसिद्धस्य व्यक्तिविशेषनिरूपितत्वादिप्रमोषणात्मकसा-
धारणीकरणव्यापारस्य महिम्ना दुःखप्रयोजकविशेषांशाभाना-
त्रैव
दुःखाधायकता, न च तुल्ययुक्तया सुखप्रयोजकविशेषांशा-
भानस्यापि प्रतिबन्धात्सुखाधायकताऽपि कथंकारं स्यादिति
वाच्यम्, प्रमोषस्य फलबलकल्प्यत्वेन दुःखाननुभवात्तत्प्रमोषः
कल्प्यते, सुखानुभवाद निधुवनसहचराधरक्षतादिवत् तत्पमोषा-
खीकाराद्ध, अथ वा मा भूदेवान्तःकरणजं सुखं, साधारणीकर-
व्यापृतित एव भग्नावरणचिदात्मकरसस्यैवानन्दात्मकतयोल्ला-
सात्सुखसाक्षात्कृतेरवर्जनीयवाद, दुःखप्रत्ययस्तु कुतस्त्यः स्याद,
विगलितवेद्यान्तरसंपर्कस्यापि रसेऽनुभवसिद्धतया तदभाना-
योग्यत्वाच्चेति साधूक्तं मुखमात्रैकहेतव इति ॥ ५ ॥
उक्तमर्थ विशदयति-अत इति ।
अतो न करुणादीनां रसत्वं प्रतिहन्यते ।।
भावानां बोद्धृनिष्ठानां दुःखाहेतुत्वनिश्चयात् ॥६॥
सामाजिकनिष्ठानांभावानां-स्थाय्यादीनां यतो दुःखजनका-
भावस्य निश्चयोऽतः करुणभयानकादीनां रसत्वं न विरुध्यते,
अन्यथा तेषामनुभवार्थ जनानां साग्रहा प्रवृत्तिर्नोपपद्यत; प्रवृत्ति-
प्रतीष्टसाधनत्वज्ञानस्य कारणत्वादिति भावः ॥६॥

१३१ तृतीयोल्लासः। भावप्रसङ्गतो विभावतायोग्यं वस्तु निर्दिशति-तत्रेति । तत्र लौकिकरत्यादेः कारणं लौकिकं तु यत् ।। काव्योपदर्शितं तत्त विभाव इति कथ्यते ॥७॥ तेषु भावेषु लौकिकरत्यादेयत् कारण लोके विषयता- संबन्धेनेति शेषः, तदेव काव्येषूपदर्शितं वर्णितम् ; अभिनीतं च विभाव इति कथ्यते; विभावयति साधारणीकरोतीति व्युत्प- त्येत्यर्थः ॥७॥ क्रमिकमनुभावतायोग्यं तनिर्दिशति-लौकिकेति । लौकिकस्यैव रत्यादेलोंके यत् कार्यमीक्षितम् ॥ काव्योपदर्शितं तत्स्यादनुभावपदास्पदम् ॥८॥ लोक एव व्यवहृतस्य रत्यादेर्यत् कार्य भ्रूविक्षेपकटाक्षादि तदेव काव्येष्वनुभावपदवाच्यं भवेदलौकिकानुभावनव्यापार- वत्वादिति भावः ॥८॥ व्यभिचारितायोग्यं तनिर्दिशति-लौकिकस्यैवेति । लौकिकस्यैव रत्यादेयें भावाः सहकारिणः ॥ काव्योपदर्शितास्ते तु कथ्यन्ते व्यभिचारिणः ।।६।। लोकोत्पन्नरत्यादीनां सहकारिणो निमित्तभूता भावा- ब्रीड़ादयो हि काव्येषु व्यभिचारिण उच्यन्ते, पूर्ववदेवालौकिक- व्यभिचारणव्यापारवत्त्वादित्यर्थः ॥६॥ मिलितानामेषां रत्याशुद्धोधप्रति कारणलमाह-अलौकिकेति। अलौकिकस्य रत्यादेःसामाजिकनिवासिनः ।। उद्बोधे कारणं ज्ञेयं त्रयमेतत्समुच्चितम् ॥१०॥ सामाजिकनिष्ठस्यात एवालौकिकस्य रत्यादे- स्थायिन-

१३२
सटीके भक्तिरसायने-
:
उद्बोधे विभावानुभावव्यभिचारिणां त्रयं समुदितं कारणं भव-
तीति ज्ञातव्यम्, अयं भावः-यद्यपि लोके रत्यादिकं प्रति
कारणकार्यसहकारिताऽऽपन्नानि वस्तूनि; तथाऽपि काव्येषु
पानकरसन्यायेनास्वादं प्रति कारणतामाञ्जि संपद्यन्ते, पदार्थ-
स्वभावस्य पर्यनुयोगानहलादिति तु तत्त्वम् ॥१०॥
उक्तालौकिकासबोधकलमेव भावानामुपपादयति-ज्ञातेति ।
ज्ञातस्वपरसंबन्धादन्ये साधारणात्मना ।।
अलौकिकं बोधयन्ति भावं भावास्त्रयोऽप्यमी ॥ ११॥
त्रयोप्यमी भावाः विभावानुभावव्यभिचार्याख्याः, ज्ञातः
वस्य परस्य च संबन्धो निरूपितलाश्रयवादिको यस्य तादृशाद-
लौकिकात् कारणादेः, अन्येऽलौकिकव्यापारसाधारणीकरणा-
ख्यशालितयाऽलौकिकाः सन्तोऽलौकिक-साधारणीभूतं; भावं.
स्थायिनं बोधयन्ति ॥ ११ ॥
ततः किं फलतीत्याह-भावेति ।
भावत्रितयसंसृष्टस्थायिभावावगाहिनी ॥
समूहालम्बनात्मैका जायते सात्त्विकी मतिः ॥१२॥
भावानां-विभावानुभावसंचारिणां त्रितयेन समुदायेन संस-
ष्टो यथायथमुद्बोधितः प्रत्यायितः परिपोषितो यः स्थायि-
भावस्तद्विषयिका समूहालम्बनं नानाप्रकारतानिरूपितनानावि-
शेष्यतानिरूपकं यज्ज्ञानं तद्रूपा समुद्रिक्तसत्त्वकचेतःपरिणामा-
त्मिका त्तिर्जायते, प्रपानकरसन्यायेनेति भावः ॥१२॥
तया किं क्रियत इत्याह-सेति ।
'सानन्तरक्षणेऽवश्यं व्यनक्ति सुखमुत्तमम् ॥
तद् रसः, के चिदाचार्यास्तामेव तु रसं विदुः ॥१३॥

१३३ . तृतीयोल्लासः। सा-पूर्वोक्ता मतिः, अनन्तरक्षणे स्वाव्यवहितोत्तरक्षणे, मुखं लोकोत्तरानन्दमत एवोत्तममवश्यमसंशयं व्यनक्ति व्यञ्जन- याऽवगमयति; तद व्यक्तीकृतं सुखं रसः कथ्यते, के चिदाचार्यास्तु तामेव-समूहालम्बनात्मिकां मतिमेव रसं वदन्ति; एवपदेन तादृशमत्या व्यज्यमानसुखस्य रसत्वं- व्यवच्छिद्यते । अत्र रसविषये बहवो मतभेदाः सन्ति, सर्वेषां चैषां मूलं. तत्रभवदाचार्यभरतर्षिसूत्रं यथा-"विभावानुभावव्यभिचारिसं- योगाद्रसनिष्पत्तिरि"ति, अत्र संयोगादियंपञ्चमी हेला, हेतुत्वं च कारकखज्ञापकखान्यतररूपं, ज्ञापकत्वं तु तद्विषयकज्ञानजनक- ज्ञानविषयत्वरूपं, ज्ञानं चेह त्रिविध-प्रत्यक्षम् , अनुमितिः, शाद- धोश्च, प्रत्यक्षं च द्विविधं यथाऽर्थमयथाऽर्थं च, द्वितीयं पुनर्द्विधा- दोषजन्यं भ्रमत्वेन प्रसिद्धम् , इच्छाजन्यमारोपत्वेन ख्यातम् , एवं च दमयन्त्यादिदर्शनजनितनलादिसमवेतरत्यायोध- स्य तत्कार्यकटाक्षादिसहचरितोत्कण्ठाऽऽदीनां चानुकायेनलादि- नैव संबन्धात्तत्रैव रसस्योत्पत्तिः; नटे तु तत्तदनुकृत्या सादृश्य- मूलकारोप इति भलोल्लटादीनां मतम् । के चन नाट्यादिषु प्रकटविभावादिषु व्यञ्जनया नलादौ दमयन्त्यादिरतौ ज्ञातायां भावनादोषेण कल्पितनलखावच्छिन्ने स्वस्मिन् समुत्पन्नोऽनिर्वचनीयो दमयन्त्यादिविषयकरत्यादिरेव रस इति समगिरिषत। अन्ये तु व्यञ्जनाऽनिर्वचनीयख्यात्यनभ्युपगमाद् भावना- दोषेणात्मनि नलायमेदग्राही दमयन्त्यादिरतिमदभेदबोधो. विषयासत्त्वेऽपि मानसो भ्रम एव रस इत्यास्थिषत । श्रीशङ्ककानुयायिनस्तु नलत्वेन गृहीते नटात्मके पक्षेऽक- .

१३४ सटोके भक्तिरसायने- त्रिमत्वेन गृहीतैर्विभावादिहेतुभिर्नलादिगतरत्यादिरनुमीयमानो- रस इत्यभ्युपागमन् । भटनायकानुवर्तिनस्तु-नाट्यादिना व्यक्तिविशेषवृत्तित्र- निरूपितत्राभ्यां जनितेऽपि स्थायिज्ञाने भावनया तयोः प्रमोषाद रतिवादिनैव प्रतीतरत्यादेः स्वत्तिरत्यादिसानात्येनानुभूतचरर- त्यादिसंस्कारोबोधे ज्ञानस्य स्वप्रकाशत्वेन सत्त्वोद्रेकेणानन्दरूपो- रसःशब्दस्य भोगायतृतीयव्यापारण साक्षात क्रियत इत्युपागुः । इत्थं स्वस्वशेमुषोविकाससाहायकमवलम्ब्य पारमर्षसूत्रघटक- पञ्चमीनिष्पत्तिपदार्थवैविध्येनाभियुक्ताः स्वस्वमतानुसारेण रस- तत्वं प्रत्यपीपदन् , परन्तु मुनिसंमतरहस्यानाकलनाच्छास्त्र- सिद्धान्तिनामश्रद्धयान्येवाखिलान्युक्तमतानि तदनुसारोणि परा णि चानिद्दिष्टान्येकदेशिमतानि । तत्राश्रद्धावोजानि चेमानि संक्षेपतः प्रधानानि-प्रथमे तावद विप्रकृष्टलाल्लौकिकलात् काल्पनिकलादर्थान्तरता । द्वितीयस्मिन् विमतवादनिर्वचनीयस्य भ्रमविषयलाच तथाखम् । तृतीयेऽपि भ्रमास्पदत्वं तादृशमेव । तुरोये भेदग्रहेण बाधात् कथमपि भेदाग्रहेऽपि नलादौ भैम्यादिरतिग्रहस्य सामाजिकमवृत्त्यनौपयिकलात् श्रव्यस्थले पक्षधर्मताज्ञानविरहाच्चाभिमतरसपरिपन्थिताऽनिवार्यो। पञ्चपे तु प्रमाणागोचरस्य शब्दनिष्ठक्रमिकव्यापारत्रयस्यैवा- रुन्तुदतेति । अभिनवगुप्ताचार्यमम्मटभट्टादयस्तु-साधारणीकृतिव्यापा- रमहिमभग्नावरणचिद्विशिष्टस्थायी रस इति सिद्धान्तयन्ति स । एतदेव मतं मूलकारेण के चिदित्यादिना सूचितम् , अखरसबीजं त्वत्र श्रुतिविरोध एव, श्रुतौ हि "रसो वै सः" १३५ तृतीर्योल्लासः। "रसं ह्येवायं लब्ध्वाऽऽनन्दी भवती"त्यादिनाऽऽत्मैव रस उक्तः, कथितमते तु तद्विशिष्टस्थायीति तत्प्राधान्याप्राधान्यादिविरोधः स्फुट एव । वस्तुतस्तु तादृशस्थायिविशिष्टश्चिदात्मैव रसः सोऽपि न जीवात्मा परन्तु सच्चिदानन्दविग्रहः परमात्पैव, अन्यथोक्तद्विती- यश्रुतिवाक्यार्थानुपपत्तेस्तादवस्थ्यं स्यादित्यलं बहुना ।।१३।। तेषां प्रत्येकविज्ञानं कारणत्वेन तैर्मतम् । स्थायीभावो रस इति प्रयोगस्तृपचारतः ॥१४॥ के चिदिति मते व्यवस्थामाह तेषामिति । तैः समूहालम्बना त्मिकां मति रसमभ्युपगच्छदभिः, तेषां विभावादोनां, प्रत्येकविज्ञानं कारणमुच्यते रसपतीते- रिति यावत्, स्थायिभावस्य रसत्वेन व्यवहारस्तूपचारतः कारणे कार्यबोधकशब्देन व्यपदेशो गौण इत्यर्थः ॥१४॥ एवमव्यवधानेन क्रमो यस्मान्न लक्ष्यते असंलक्ष्यक्रमव्यय ध्वनि तस्मादिमं विदुः ॥१५॥ रसस्यासंलच्यक्रमव्यङ्ग्यत्वेन व्यवहारमुपपादयति- एवमिति । समूहालम्बनमतेरव्यवहितोत्तरतणे रसव्यक्ताववश्यं क्रमो- ऽनुमीयमानोऽस्ति, किन्तूत्पलपत्रशतवेधन्यायेन तिप्रभावितया न लक्ष्यते, तदेवोक्तमत्रभवभिर्मम्मटभट्टः- "न खलु विभा- वानुभावव्यभिचारिण एव रसोऽपि तु रसस्तैरित्यस्ति क्रमः केवलमसौ लाघवान लक्ष्यते" इत्यादिना, अत एव चासंभव- क्रममनुकताऽसंलत्यक्रमः कथ्यते, एतदेवाह-एवमव्यवधाने- नेत्यादिनेति निष्कृष्टोऽर्थः, ध्वन्यतेऽर्थोऽनेनेति व्यञ्जनव्यापारोऽ- सटीके भक्तिरसायने- - . पि ध्वनिशब्दव्यवहार्यः, स चाभिघालतणाव्यापारयोरेकत- रस्याव्यवहितोत्तरं प्रसरतीत्यतोऽभिधामूला, लक्षणमूला च पूर्व द्विधोच्यते व्यञ्जना, इयं किल विवक्षितान्यपरवाच्यध्वनि- रविवक्षितवाच्यध्वनिश्च क्रमेणोच्यते, तत्र मूलभूतलक्षणाया- अन्वयानुपपत्तितात्पर्यानुपपत्तिपयुक्ततया वैविध्येन; तन्मूलध्व- निरपि क्रमेणात्यन्ततिरस्कृतवाच्योऽर्थान्तरसंक्रमितवाच्यचोच्यते, तथा विवक्षितान्यपरवाच्योऽभिधामूलोऽपि ध्वनिर्द्विप्रकारो- व्यङ्ग्यप्रतीतिक्रमस्य लक्ष्यखालक्ष्यवाभ्यां, प्रथमः संलक्ष्य- क्रमोऽन्योऽसंलक्ष्यक्रमः, सोऽयं प्रकृतकारिकया प्रतिपादित- इति ॥१५॥ प्रसङ्गात्सलक्ष्यक्रमध्वनिमपि दर्शयति-व्यवेति । व्यवधानाक्रमो लक्ष्यो वस्त्वलंकारयोर्खनौ । लक्ष्यव्यङ्ग-यक्रम तस्माद ध्वनिमेतं प्रचक्षते ॥१६॥ अयंभावः-वाच्यबोधोत्तरं व्यञ्जिजिषितप्रतीत्यौपयिक- सामग्रीसंधानेन व्यवधीयमाना भवति व्यङ्ग्यव्यक्तिरत आह- व्यवधानादिति, इदमिहावधेयं-पूर्वोक्ता व्यञ्जना प्रकारान्तरेण पुनर्द्विविधा-शादी तथाऽऽर्थी, तत्र- "अनेकार्थस्य शदस्य वाचकत्वे नियन्त्रिते ।। संयोगाभैरवाच्यार्थधीकृद्ध व्यापृतिरञ्जनम्" इत्युक्तप्रकारा शादी, तथा- "वक्तबोधव्यकाकूनां वाक्यवाच्यान्यसंनिधेः ।। प्रस्तावदेशकालादेवशिष्टयात् प्रतिभाजुषाम् ।। योऽर्थस्यान्यार्थधीहेतुर्व्यापारो व्यक्तिरेव सा" इत्युक्तरीत्या चार्थी, संयोगादयश्च--महाभाष्याद्वितीयमार्मिक- महावैयाकरणमहाकविमहायोगिमहाराजभर्तहरिणा निर्दिष्टाः-

१३७
तृतीयोल्लासः।
"संयोगो विप्रयोगश्च साहचर्य विरोधिता।
अर्थः प्रकरणं लिङ्गशवस्यान्यस्य संनिधिः ।।
सामर्थ्यमौचिती देशः कालो व्यक्तिः खरादयः ।।
शद्धार्थस्यानवच्छेदे विशेषस्मृतिहेतवः” इति,
एवं च शाब्दध्वनिः संलक्ष्यक्रमो विधात्रयवान्-तदुक्तम्-
"अनुस्वानाभसंलक्ष्यक्रमव्यङ्ग्यस्थितिस्तु यः ।
शब्दार्थोभयशक्त्युत्थस्त्रिधा स कथितो ध्वनिः" ।
--
तत्र शद्वशत्युत्थः-
"अलंकारोऽथ वस्त्वेव शब्दापत्रावभासते ।
प्रधानत्वेन स ज्ञेयः शब्दशक्युद्भवो द्विधा" ।।
इति रीत्याऽलंकारात्मना वस्त्रात्मना च द्विधा, तदेतदुक्तं-
"वस्वलंकारयोर्ध्वनावि" ति-
तत्रालंकारात्मा ध्वनिर्यथा-
सोऽयं वसन्तसमयः समियाय यस्मिन्
पूर्ण तमीश्वरमुपोडनवानुरागम् ।
गूढग्रहा रुचिरया सह राधयाऽसौ
रङ्गाय संगमयिता निशि पौर्णमासी ॥
अत्र प्रकृतश्रीकृष्णवर्णनेप्रकृतचन्द्रवर्णनमसंबद्धं मा भूदिति
चन्द्रकृष्णयोरुपमानोपमेयभावे पर्यवसानादलंकारध्वनिः ।
वस्तुरूपोऽयं यथा-
अध्वानं व्रजधूर्त ! मा वृणु पुरः पश्याम्बरान्ते दृशं-
निक्षिप्योरुपयोधरोनतिमिमां नष्टेन्दुलेखाश्रियम् ।
नव्या कञ्चलिकोज्वला तनुरियं रागेण वल्गुश्रिया
यावन स्तिमिता सती कुटिल ? मे वैवर्यमापद्यते ॥

१३८ सटीके भक्तिरसायने- - अत्राध्यान-व्रज-मा-अम्बरपयोधरेन्दुलेखारागादिपदैः खा- भिप्रायाविष्कृतिरूपं वस्तु व्यज्यते । एवं दिङ्मात्रमुदाहृतं विस्तरभियाऽर्थशक्युभयशच्युत्थभेद- तत्पभेदा न दर्शिताः ॥१६॥ असंलक्ष्यक्रमध्वनिविषयं विशदयति-रसेति । रसभावतदाभासभावशान्त्यादिरक्रमः॥ अनन्तरक्षणे यस्माद् व्यज्यतेऽवश्यमेव सः ॥१७॥ असंलच्यक्रमव्यङ्गयो न केवलं योगरूळ्यनुगृहीतो रसःकिन्तु योगाश्रयाद्रस्यत इति रसव्युत्पत्त्या रसो भावो रसाभासो भावा- भासो भावशान्तिर्भावोदयो भावसंधिर्भावशबलत्वं चेत्यष्टावपि रसपदार्थाः । अन्यत्पूर्वमुक्तम् । एषामुदाहरणानि- तत्र रसो यथा- धृते पाणिद्वन्दे झटिति झणितं रनवलयै- हृते नीवीग्रन्यौ मुखरितममन्दं रशनया । प्रियायाः खानन्दप्रतिहतधियः किन्वपघनो- घनोत्तृष्णं कृष्णं प्रति समतनोत्तर्जनमिव ।। भावश्च- "रतिर्देवादिविषया व्यभिचारी तथाऽञ्जितः" इत्युक्तरूप:- स यथा- दिवि वा भुवि वा ममास्तु वासो- नरके वा नरकान्तक! प्रकामम् । अवधीरिवशारदारविन्दौ- चरणौ ते मरणेऽपि चिन्तयामि ॥

१३९
-
-
तृतीयोल्लासः।
अत्र भगवद्विषयकबादतेर्भावत्वम् ।
"तदाभासा भनौचित्यप्रवर्तिताः"
तदुक्तम्-
"अनौचित्यादृते नान्यद रसभङ्गस्य कारणम्” इति,
ततश्चानौचित्यप्रवृत्तो रसो भावश्च रसाभासभावाभासौ क्रमाद
भवतः, तत्र रसाभासो यथा-
गन्धर्वि ! कुर्वाणमवेक्ष्य लीलामग्रे धरण्यां सखि ! कामपालम् ।
आकर्णयन्ती च मुकुन्दवेणुं भिन्नाऽद्य साध्वि ! स्मरतो द्विधाऽसि ॥
अत्र बले कृष्णे चैकस्या गन्धाः कस्याश्चिद्रतिरनुचिता,-
तदुक्तम्-
"एकत्र चेदनासक्तिस्वियम्लेच्छगता रतिः ।
योषितोऽनेकरक्तिश्च रसाभासस्त्रिघोदितः" ।।
भावाभासो यथा-
राकासुधाकरमुखी तरलायताक्षी
सा स्मेरयौवनतरङ्गितविभ्रमाङ्गी ।
तत् किं करोमि विदधे कथमत्र मैत्री-
तत्स्वीकृतिव्यतिकरे क इवाभ्युपायः ॥
अत्र श्रीजानकीपणयविषयिका दशाननचिन्ताऽनुचितेति
तदाभासता।
भावशमो यथा-
म्लानाऽसि किं प्रेयसि !, मामकीनं-
हृत् पृच्छ, पृच्छामि तदित्युरोऽस्याः।
स्पृशन्निदं स्वस्थमिदं स्म कृष्णो-
ब्रवीति, सा नम्रमुखी बभूव ।।
अत्र विषादस्य शान्तिः ।

१४०
सटीके भक्तिरसायने-
-
-
भावोदयो यथा-
आलीजनैमण्डनकेलिकाले
विभूष्यमाणा वृषभानुपुत्री।
उरोगते नीलमणीन्दुहारे
खिना सकम्पा पुलकाकुलाऽऽसीत् ।
अत्र हर्षस्योदयः।
भावसन्धिर्यथा-
सुचिरमनुचरीभिः पाठितां कृष्णगाथा-
सदसि शुकवधूभिः शृण्वती गीयमानाम् ।
प्रणयसदयमेकं तासु विन्यस्यतीयं-
चकितचकितमन्यन्नेत्रमास्ये गुरूणाम् ॥
अत्रौत्सुक्यवासयोः संधिः।
भावशाबल्यं यथा-
पतिरतिकुपितो मनः प्रमत्तं खलनिकरः किल दूषणाभिधायी ।
मुररिपुरपि वेषपेशलोऽसौ भण विमले ! कमुपायमाश्रयामि ॥
अत्र भयचपलताशङ्कौत्सुक्यानां शबलता । इति ॥१७।।
रसमसङ्गात तत्कारणेषु प्रदर्शनीयेषु बाधकैकसत्त्वे साधकस-
हस्रस्याप्यकिञ्चत्करबमिति न्यायेन तत्सामग्रीघटकं प्रतिबन्ध-
कामाचं निर्देष्टुमभावज्ञानकारणीभूतपतियोगिज्ञानविषयमाह-
श्रुतीति ।
श्रुतिदुष्टादयो दोषा ये रसप्रतिबन्धकाः ।।
तदभावोऽपि सामग्रयां निविष्टोऽनिष्टहानिकृत् ॥१८॥
रसस्य प्रतिबन्धका विरोधिनो ये दोषाः श्रुतिदुष्टादयः;
तेषामभावोऽपि रसव्यक्तिसंपादकसामग्रीघटकीकर्तव्यो, येना-
निष्टो रसमत्ययप्रतिरोधो न भवेदित्यर्थः ॥१८॥

तृतीयोल्लासः। १४१ बाधकामावमुक्त्वा संपति साधकविशेषानाह-या इति । या रीतियो ये च गुणास्तज्ज्ञानमपि कारणम् ।। अलंकाराश्च विज्ञाता भवन्ति परिपोषकाः ॥१६॥ भत्र रीतित्वं शब्दसंघटनाऽऽत्मकव्यापारविशेषत्वं, गुणत्वं-- च रसोत्कर्षकत्वे सति रसाव्यभिचरितस्थितिकखम् , अलंकार- त्वं तु रसादिभिन्नव्यङ्गभिन्नखविशिष्टशब्दार्थान्यतरनिष्ठविषयिता- संबन्धावच्छिन्नचमत्कृतिजनकताऽवच्छेदकताऽवच्छेदकलम् , एते च साक्षात्परम्परासाधारण्येन रसोपकारका इति वर्तलार्थः॥१६॥ अस्य प्रत्यायकः को वेति तृतीयप्रश्नमुत्तरयति-गुणेति । गुणालंकाररीतीनां भावानां च निवेदकः ।। तस्य प्रत्यायकः शब्दो वृत्त्या व्यञ्जनरूपया ॥२०॥ गुणादीनां तथा विभावादीनां बोधकः शब्दो रसस्य व्य- ञ्जनया वृत्त्या प्रत्यायको व्यञ्जक इत्यर्थः। वृत्तिवार्थबोधानु- कूलः शब्दनिष्ठः सम्बन्धविशेषः; स चाभिधैवेति वैयाकरणाः, लक्षणाऽपि द्वितीयेति नैयायिकादयः, व्यञ्जनाऽपि तृतीयेत्या- लङ्कारिकाः । एतस्या वृत्तित्वं खावश्यकमिति काव्यप्रकाशादौ महता संनाहेन प्रत्यपादीति जिज्ञासुभिस्तव एवावसेयमिह नैव वितायते विस्तरभियेति ॥ २० ॥ रसव्यक्तः शाब्दत्वेऽपि प्रत्यक्षतमुपपादयति-वृत्तिरिति । वृत्तिः कार्याऽपरोक्षाऽस्य शब्दस्य सुखगर्भिणी। दशमस्त्वमसीत्यादिवाक्योत्थमतिवृत्तिवत् ॥२१॥ अस्य-रसपत्यायकस्य शब्दस्य सुखविषयिकाऽपरोता वृत्तिः कार्या-स्वीकार्याऽनुभवानुरोधाद, अथ वा शब्दस्य प्रमाणस्य ताहगपरोक्षा वृत्तिः कार्यरूपा फलात्मिका ममितिरिति १४२ सटीके भक्तिरसायने- यावत् , तत्र निदर्शनं दशमेति-यथा “के चन दशजना ग्रामतो- गङ्गास्नानाद्यर्थं गताः स्नात्वेह वृक्षमूले समुदित्य सर्वे वयं गमि- ष्याम इति कृतसमयाः स्नातागतास्तत्रात्मानं विहाय स्वान् गणयन्तो नवत्वं प्रतीत्य सहचरवियोगभ्रमाद् चिक्रोशन्तः केनापि चतुरेणागत्य विक्रोशहेतुं पृष्टेभ्यस्तमाकये पुनर्गणना- यादिष्टेषु तेष्वन्यतमः पूर्ववत् स्वेतरान् यदा नवाजीगणत्तदैवैनेन दशमस्त्वमसीत्युक्ते तदीयवाक्यादात्मानं दशमत्वेन साक्षात्कुर्वति तस्मिन् सहर्षास्ते यथाऽऽगतं जग्मुः", तथाऽत्रापि शब्दतोऽप- रोक्षज्ञानं निबोधमिति भावः ॥ २१ ।। अधुना “प्रतीतिरपि कीदृशी"ति तुरीयं प्रश्नं समाधातु- माह-नित्यमिति । नित्यं सुखमभिव्यक्तं रसो वै स” इति श्रुतेः ॥ प्रतीतिः स्वप्रकाशस्य निर्विकल्पसुखात्मिका ॥२२॥ अयमभिसंधिः-सुखं द्विविधं प्रथममापामरगोचरताऽऽस्पदं- सत्त्वगुणपरिणामरूपं दुःखानुविद्धमतएव हेयकुतिनिक्षिप्त- मपि सहजाभिनिवेशवशंवदैराग्रहेण सादरमुपादीयमानं जड़त- समुदयाप्ययशालि, चरमं तु नित्यचिदानन्दात्मस्वरूपं वस्तुतः मुखपदवाच्यं विवेकिधुरीणरुपेयं नित्यं परन्वविद्याऽऽततया तथात्वेनानिशमननुभूयमानमावरणभङ्गेऽभिव्यज्यमानं रसत्वेन साक्षात् क्रियते, प्रकृते चावरणभङ्गो न प्रपञ्चकारणाविद्या- निवृत्तिनिवन्धनस्तादृशस्य श्रवणमनननिदिध्यासनायत्तत्त्वात, किन्तु विभावादिज्ञानप्रयुक्तसाधारणीकरणनिबन्धनस्तात्कालिक- स्तनिवृत्तौ तस्यापि निवृत्तिरेतावान् विशेषः, तादृशमुखस्य रसत्वे मानं भगवती श्रुतिरेव, तदाह-"रसोवै सः" आत्मलादेवास्य खमकाशस्य प्रकाशान्तरानधीनप्रकाशस्य प्रतीतिः साक्षात्कृति- .

तृतीयोल्लासः। निर्विकल्पमुखात्मिका, सुखात्मिकेति स्वरूपकथनं, निर्विकल्प- खोक्त्या विगलितवेद्यान्तरता तदानीन्तनी ध्वनिता ॥२२॥ एवं रससंबद्धं प्रश्नचतुष्टयं समाधायान्यैरुक्तं रसे वैलक्षण्यं- संपतिपत्त्याऽऽह-कार्येति । कार्यज्ञाप्यादिवैधयं यत्तु कैश्चिन्निरूपितम् ।। तदप्येतेन मार्गेण योज्यं शास्त्राविरोधतः ॥२३॥ यत्तु-रसे मृत्कुलालादीनां कार्यतो घटादेस्तथा दीपादीनां- ज्ञाप्यतस्तस्मादेव वैधयं वैलक्षण्यं कैरपि प्रदर्शितम् , अयं- भावः-रसस्य कार्यत्वेऽन्वयव्यतिरेकाभ्यां विभावादिज्ञानकार- णकत्वमेव वक्तव्यं, तच्चासंभवि; द्रव्येतरस्य समवायिकारणवस्या- दृष्टवाद,ज्ञानस्यात्मविशेषगुणतयाऽसमवायिकारणवस्यापि दुर्व- चखात्, परिशेषाद निमित्तत्वं वाच्यम्, एतदप्ययौक्तिकं तथात्वे विभावादिज्ञाननाशप्रयोज्यनाशमतियोगित्वं रसमतीतेरा- नुभविकं नोपपद्यते, न हि निमित्तकारणनाशात् कार्यनाशो लोके- दृष्टचर इति कार्यतो वैधम्य, ज्ञाप्यतोऽपि ज्ञापकसमसत्ताकत्वं- तत्स्फुटमेव, लोके हि ज्ञाप्यो घटादिपिकात् प्रदीपादेविषमसत्ताक- एव प्रसिद्धः, एवमुक्तं तद् वैधय॑म् ; एतेन मार्गेण श्रुतिपमि- तेन रसस्यात्मानन्यवनयेन योज्यं संगमनीयम् । नन्वेवं रसस्य कार्यज्ञाप्यविचित्रत्वे प्रदर्शितचरभरताचार्य- सूत्रघटकपञ्चम्यर्थासंगतिर्वज्रलेपायिताऽत आह-"शास्त्राविरो. धत" इति, इदमत्राकूतं-भग्नावरणचितो हि रसत्वे विशेष्यां- शमादाय कार्यज्ञाप्यवैधयं सुवचं, विशेषणांशमादाय तु पश्च- म्यर्थसमन्वय इति न कोऽपि विरोधः ॥ २३ ॥ निष्कृष्टसिद्धान्तमाह-परमेति ।

१४४
सटीके भक्तिरसायने-
-
परमानन्द प्रात्मैव रस इत्याहुरागमाः ॥
शब्दतस्तदभिव्यक्तिप्रकारोऽयं प्रदर्शितः ॥ २४ ॥
यद्यप्यापाततो भग्नावरणचित्त्वेन जीवात्मा रसः प्रतीयते
निर्दिष्टसूत्रेण; तथाऽपि रसप्रतिपादका आगमा:-"रसं ह्येवायं-
लब्ध्वाऽऽनन्दी भवति" "एष ह्येवानन्दयाति” "एतस्यैवानन्द-
स्यान्ये मात्रामुपजीवन्ती"त्यादयः; परमः साम्यातिशयशून्य-
आनन्द आत्मार्थात् परमात्मैव रस इत्याहुः, उपक्रमोपसंहारादि-
तात्पर्यनिर्णायकसमष्टिसध्रीचीना इति शेषः, परथा हिप्रामाण्यं-
तेषां दुरापं स्यादिति हृदयम् , उक्तमूत्रं तु गुड़जिहिकान्यायेन
लौकिकरसास्वादप्रत्यायनाय विनेयोन्मुखीकरणार्थ प्रवृत्तमपि
न परमात्मनो रसकेन्द्रतां वारयितुं प्रभवति, "यत्परः शब्दः स-
शब्दार्थ" इति न्यायादुभयत्र तात्पर्यसत्वे वाक्यभेदप्रसङ्गाच्च, तत-
शान्यतोऽवगमितं भगवतो रसत्वं शब्दतः खल्वभिव्यक्तुमयं-
प्रकारो भक्तिरसास्वादनौपयिकः प्रदर्शितः ॥ २४ ॥
उक्तप्रकारेण सुखाभिव्यक्तिः शब्दतो न केवलमस्माभिरेवो-
च्यते; किन्तु मीमांसकैरपि भङ्ग्यैषाऽभ्युपगतेति दर्शयति-अर्थेति ।
अर्थवादाधिकरणे नवशैलादिवर्णनम् ॥
श्रोतणां सुखमात्रार्थमिति भट्टैरुदाहृतम् ॥२५॥
पूर्वमीमांसायाः प्रथमाध्यायगतद्विवीयपादस्थार्थवादाधिक-
रणे “विधिना त्वेकवाक्यतात् स्तुत्यर्थेन विधीनां स्युः” इतिजै-
मिनीयसिद्धान्तसूत्रीयशाबरभाष्यव्याख्याने तन्त्रवार्तिके तत्रभव-
कुमारिलभट्टपादैः "के चित् स्वयमेव श्रृयमाणगन्धमादनवर्ण-
कप्रभृतयः प्रीतिं जनयन्ति” इत्यादिना संदर्भेण यदुक्तं; तत्
श्रोतणां मुखमात्रार्थमेवातः स्पष्टैच शब्दात्मुखव्यक्तिः ॥२५॥

१४५
तृतीयोल्लासः।
उक्तार्थे गुरुमभाकराणामपि न वैमत्यमित्याह-कार्येति ।
कार्यान्वितत्ववादेऽपि न विरोधोऽस्ति कश्चन ।।
यस्मात् कृतीप्सितत्वेन कार्य सुखमपीष्यते ॥२६॥
कार्यान्वितपदार्थानामेव शाब्दबोधो नान्येषामिति वदता-
गुरूणामपि मते कृत्याऽऽप्तुमेषणीयस्यैव कार्यपदार्थतयोक्तकार्य-
खस्य मुखेऽप्यततेरिति भावः ॥२६॥
एकदेशिमतं निगकरोति-अलौकिकेति ।
अलौकिकनियोगे तु न किंचिन्मानमीक्ष्यते॥
लोके वाचां च सर्वेषां तत्परत्वं न युज्यते ॥२७॥
लोकानवगतमवर्तनापरवाक्यस्यैव प्रामाण्यमिति मते न
किमपि साधकं प्रत्युत बाधकमस्ति, अयं भावः-प्रवृत्ति-
निवृत्तिप्रयोजकत्वं वाक्यविशेषस्य वेदे यथा; लोकेऽपि तथा,
न च लोके सर्वेषां व्यवहतॄणां प्रवर्तकादिवाक्यानां तादान-
योगे तात्पर्य वक्तुं सुशकम् , अनुभवविरोधादित्याशयः ॥२७॥
लोकविरोध प्रदर्श्य; तादृशनियोगपरन एव शब्दस्य प्रामा
एयमित्यपि निरस्यति-प्रयोजनेति ।
प्रयोजनवदज्ञातज्ञापकत्वं च मानता ।।
शब्दस्य कार्यपरता वाचायैरेख खण्डिता॥२८॥
चो देतो, यतो मानता प्रवर्तकज्ञानस्य प्रमाणता प्रयो-
जनववे सति यदज्ञातं मानान्तरानधिगतं तद्विषयकज्ञानजनक-
त्वं वेदलोकसाधारणं निर्विवादमास्थेयं, कार्यपरता तु शब्दस्य
प्रमाणभूतस्येति शेषः, प्राचार्यैः-मद्वैतवादतिष्ठापकतत्रभव-
श्रीशंकराचार्यैः खण्डिता, अमसूत्रभाष्ये समन्वयाधिकरणा-
दाचिति वाक्यशेषः ॥२८॥

सटीके भक्तिरसायने- इदानीमुक्ताचार्याशी प्रवृत्त्यताऽऽपमा प्रमा व्यवहा- रेऽनुमोदिता तादृशीं दर्शयति-देवतेति । देवताऽधिकृतिन्यायात् पदैरन्यपरैरपि ॥ प्रयोजनबदज्ञाताचाधितार्थमतिर्भवेद् ॥२६॥ उत्तरमीमांसायाः प्रथमाध्याये तृतीयपादे देवताऽधिकरणे "भावं तु बादरायणोऽस्ति हि", इति सिद्धान्तसूत्रेऽद्वैतभाष्य- काराचार्याः-"विध्युदेशार्थवादयोस्वर्थवादस्थानि पदानि पृथ- गन्वयं वृत्तान्तविषयं प्रतिपद्यानन्तरं कैमर्थ्यवशेन कामं विधेः स्तावकत्वं प्रतिपद्यन्ते”,इत्यादिप्रबन्धेनान्यपरैः विधेयस्तुति- तात्पर्यकैरपि पदैः अर्थवादघटकैः, फलवती मानान्तरान- वाप्ता मानान्तराबाधिता च प्रमा, प्रवृत्त्यामिति शेषः, भवेद, इति सिद्धान्तयन्ति स्म, तथा चान्यपरैरपि पदैर्धोधो दुर्निवार इति फलितम् ।।२६॥ एवं च प्रकृतेऽपि नानुपपत्तिरित्याह-तस्मेति । तस्मादन्यपरत्वे वा स्वातन्त्र्ये वा पदानि नः॥ व्यञ्जयन्ति परानन्दं सहकार्यानुरूप्यतः ॥३०॥ इति श्रीपरमहंसपरिब्राजकाचार्यश्रीमधुसूदनसरस्वतीविरचिते श्रीभगवद्भक्तिरसायने भक्तिरसपतिपादको- नाम तृतीयोलासः ॥ ग्रन्थश्च संपूर्णः। तसाद-मर्थवादस्थलायुक्तपकाराद, ना अस्माकं भकि- रसास्वादमभिलाषुकाणां पदानि स्वघटितवाक्यमतिपाद्यतरतारप- १५७ तृतीयोल्लासः। र्यकाणि स्वप्रयोज्यतात्पर्यपराणि वा सहकारिणां विभावा- नुभावव्यभिचारिव्यापाराणाम् आनुकूल्यात् परानन्दं साम्या- तिशयविनिर्मुक्तं भक्तिरसं व्यञ्जनया प्रतिपादयन्तीति निर्विवा- दमित्यखिलमवदातम् ॥३०॥ इति श्रीमन्माध्वसंपदायाचार्यदार्शनिकसार्वभौमसाहित्यदर्शना- द्याचार्यतरनन्यायरनगोस्वामित्रीदामोदरशास्त्रि- विरचितायां भगवद्भक्तिरसायनव्याख्यायां प्रेमप्रपायां भक्तिरसप्रतिपादको नाम तृतीयोल्लासः। निबन्धश्चसमाप्तः।।

No text on this page.

भक्तिरसायनम् । भक्तिसामान्यनिरूपणनामकः प्रथम उल्लासः। नवरसमिलितं वा केवलं वा पुमर्थ- परममिह मुकुन्दे भक्तियोगं वदन्ति ।। निरुपमसुखसंविद्रूपमस्पृष्टदुःखं- तमहमखिलतृष्टथै शास्त्रदृष्टया ज्यनज्मि ॥१॥ संसाररागेण बलीयसा चिरं निपीडितैस्तत्पशमेऽतिशिक्षितम् । इदं भवद्भिबहुधा व्ययातिगं निपीयतां भक्तिरसायनं बुधाः॥२ द्रुतस्य भगवद्धाद्धारावाहिकतां गता ।। सर्वेशे मनसो वृत्तिभक्तिरित्यभिधीयते ॥३॥ चित्तद्रव्यं हि जतुवत् स्वभावात् कठिनात्मकम् ॥ तापकैविषयैोंगे द्रवत्वं प्रतिपद्यते ॥४॥ कामक्रोधमयस्नेहहर्षशोकदयाऽऽदयः ।। तापकाश्चित्तजतुनस्तच्छान्तौ कठिनन्तु तत् ॥५॥ द्रुते चित्ते विनिक्षिप्तः स्वाकारो यस्तु वस्तुना ।। संस्कारवासनाभावभावनाशब्दभागसौ ॥६॥ शिथिलीभावमात्रन्तु मनो गच्छत्यतापकैः ।। न तत्र वस्तु विशति वासनात्वेन किञ्चन ॥७॥ द्रवतायां प्रविष्टं सद् यत् काठिन्यदर्शा गतम् ।। चेतः पुनतौ सत्यामपि तत्रैव मुञ्चति ॥८॥ २०

२
भक्तिरसायनम् ।
स्थायिभावगिराऽतोऽसौ वस्त्वाकारोऽभिधीयते ॥
व्यक्तश्च रसतामेति परानन्दतया पुनः ।।६।।
भगवान् परमानन्दस्वरूपः स्वयमेव हि ।।
मनोगतस्तदाकाररसतामेति पुष्कलम् ॥१०॥
कान्ताऽऽदिविषयेऽप्यस्ति कारणं मुखचिद्धनम् ।।
कार्याकारतया भेदेऽप्यावतं मायया स्वतः ॥११॥
सदज्ञातश्च तद् ब्रह्म मेयं कान्ताऽऽदिमानतः ।।
मायातितिरोधाने वृत्त्या सत्त्वस्थया क्षणम् ॥१२॥
अतस्तदाविर्भावित्वं मनसि प्रतिपद्यते ।।
किश्चिन्यूनाञ्च रसतां याति जाड्यविमिश्रणात् ॥१३॥
इति वेदान्तसिद्धान्तस्थापिना रसतोदिता ।।
साङ्ख्यसिद्धान्तमाश्रित्याप्यधुना प्रतिपयते ॥१४॥
तमोरजःसत्त्वगुणा मोहदुःखमुखात्मका ।।
तन्मयी प्रकृतिहेतुः, सर्व कार्यश्च तन्मयम् ॥१५।।
त्रिगुणात्मकमेकैकं वस्तु त्र्याकारमीत्यते ।।
निजमानससङ्कल्पभेदेन पुरुषैखिमिः ।।१६।।
कामिन्याः सुखता भर्ना सपन्या दुःखरूपता ।।
तदलाभात्तथाऽन्येन मोहलमनुभूयते ॥१७||
एवं सति मुखाकारः प्रविष्टो मानसे यदा ॥
तदा स स्थायिभावत्वं प्रतिपद्य रसो भवेत् ॥१८॥
परमाएकरूपन्तु चित्तं न विषयाकृति ।।
इत्यादिमतमन्येषामभामाण्यादुपेक्षितम् ॥१६॥
गृह्णाति विषयाकारं मनो विषययोगतः ।।
इति वेदान्तिभिः साङ्ख्यैरपि सम्यङ् निरूपितम् ॥२०
मूषासिक्तं यथा तानं तभिभं जायते तथा ।
घटादि व्याप्नुवञ्चित्तं तमिभ जागते ध्रुवम् ॥२१॥

प्रथम उल्लासः।
व्यजको वा यथाऽऽलोको व्यङ्ग्यस्याकारतामियात् ।।
सर्वार्थव्यञ्जकलाद्धीराकारा प्रदृश्यते ॥२२॥
भगवत्पूज्यपादानामियमुक्तिः सयुक्तिका ।।
तथा वार्चिककारैरप्ययमों निरूपितः ॥२३॥
अतो मांसपयी योषित् का चिदन्या मनोमयी ।
मांसमय्या अभेदेऽपि भियतेऽत्र मनोमयी ॥२४॥
भार्या स्नुषा ननान्दा च याता मातेत्यनेकपा ।।
जामाता श्वशुरः पुत्रः पितेत्यादि पुमानपि ॥२५॥
बाह्यपिण्डस्य नाशेऽपि तिष्ठत्येव मनामयः ।।
अतः स्थायीति विद्वद्भिरयमेव निरूपितः ॥२६॥
एवं स्वभावतो भावखरूपमुपवर्णितम् ।।
विशेषेण तु सन्वषां लक्षणं वक्ष्यते पृथक् ।।२७।।
भगवन्तं विभुं नित्यं पूर्ण बोधसुखात्मकम् ।।
यद् गृहात द्रुतं चित्तं किमन्यदवशिष्यते ॥२८॥
कठिना शिथिला वा धीन गृह्णाति न वास्यते ।।
उपेक्षाज्ञानमित्याहुस्तद् बुधाः प्रस्तरादिषु ॥२६॥
काठिन्यं विषये कुर्यात द्रवत्वं भगवत्पदे ।।
उपायैः शास्त्रनिर्दिष्टैरनुक्षणमतो बुधः ॥३०॥
उपायाः प्रथमस्कन्धे नारदेनोपवर्णिताः ।।
सक्षेपातानहं वदये भूमिभेदविभागतः ॥३१॥
प्रथम महतां सेवा तद्दयापात्रता ततः ।।
श्रदाऽथ तेषां धर्मेषु तनो हरिगुणश्रुतिः ।।३२।।
ततो रत्यङ्कुरात्पत्तिः स्वरूपाधिगतिस्ततः ।।
मेमबृद्धिः परानन्दे तस्याथ स्फुरणं ततः ॥३३॥
भगवदर्मनिष्ठातः स्वस्मिस्तद्गुणशालिता ।।
मम्णोऽथ परमा काष्ठेत्युदिना भक्तिभूमिका ॥३४॥

भक्तिरसायनम्। लक्षणं भगवद्भक्तेः साधनं सोपपत्तिकम् ।। सभूमिकं स्वरूपश्च यथाबुद्धोह वर्णितम् ॥३५॥ इति श्रीपरमहंसपरिव्राजकाचार्यश्रीमधुसूदनसरस्वतीविरचिते भगवद्भक्तिरसायने स्वरूपभूमिकासाधनसहितभक्तिसामान्यनिरूपणं नाम प्रथम उल्लासः समाप्तः ॥ भक्तिविशेषप्रतिपादको- द्वितीय उल्लासः। द्रुते चित्ते प्रविष्टा या गोविन्दाकारता स्थिरा ।। सा भक्तिरित्यभिहिता विशेषस्त्वधुनोच्यते ॥१॥ चित्तद्रुतेः कारणानां भेदाद भक्तिस्तु भिद्यते ।। तान्युक्तानि तु संपाद व्याख्यायन्तेऽधुना स्फुटम् ॥२॥ कामः शरीरसंबन्धविशेषः स्पृहयालुता ।। संनिधानासंनिधानभेदेन स भवेद् द्विधा ॥३॥ तजन्यायां द्रुतौ चित्ते या स्याछीकृष्णनिष्ठता ।। संभोगविप्रयोगाख्या रतिः सा सा क्रमाद् भवेत् ॥४॥ क्रोध ईर्ष्या निमित्तं तु चित्ताभिज्वलनं भवेद ॥ तज्जन्यायां द्रुतौ सा तु द्वेषशब्देन गृह्यते ॥२॥ अत्र चेतोव्याकुलत्वं सोपद्रावकदर्शनात् ।। उपद्रावकनाशार्थ तत्पीत्यर्थ च तद् द्विधा ॥६॥ तत्राचं द्वेष एव स्याद द्वितीयं रतिशतभाक् ॥ उपरिष्टात्तदुभयं मया स्पष्टीकरिष्यते ॥७॥ द्वेषाहेतुः स्वमन्तूत्थं वैक्ल व्यं चित्तगंतु यत् ।। तज्जन्यायां द्रुतौ याऽऽस्ते रतिः सा भयमुच्यते ।।८।।

. द्वितीय उल्लासः। स्नेहः पुत्रादिविषयः पाल्यपालकलक्षणः॥ सेव्यसेवकभावोऽन्यः सोऽप्युक्तस्त्रिविधो बुधैः ॥६॥ भगवदास्यसख्याभ्यां मिश्रितं चापरं जगुः ।। या कृष्णाकारता चित्ते तज्जन्यद्रुतिशालिनि ॥१०॥ पाल्यपालकभावेन सा बत्सलरतिभवेत् ।। सेव्यसेवकभावेन प्रेयोरतिरितीर्यते ॥११॥ हश्चित्तसमुल्लासः कथ्यते स चतुर्विधः॥ एकः परानन्दमयः श्रीशमाहात्म्यकारणम् ॥१२॥ तज्जन्यायां द्रुतौ शुद्धा रतिर्गोविन्दगोधरा ।। एतदन्तं हि शास्त्रेषु साधनान्नानमिष्यते ॥१३॥ ब्रीडाविकृतवागवेषचेष्टाऽऽदिजनितोऽपरः ।। तज्जन्यायां द्रुतौ चेतोविकासो हास उच्यते ॥१४॥ लोकोत्तरचमत्कारिवस्तुदर्शनजः परः ।। तजन्यायां द्रुतौ चेतोविकासो विस्मयो मतः ॥१५॥ युद्धादितापजनितो वीराणां जायते परः ।। जितचित्तस्य विस्तारो द्रुतस्योत्साह उच्यते ॥१६॥ इष्टविच्छेदननितो यश्चित्ते क्रिष्टतोदयः ॥ तजन्यायां द्रुतौ विष्टा रतता शोक उच्यते ॥१७॥ दया घृणा स्याद्विषयतुच्छत्वज्ञानदीर्घिका ॥ तया द्रुते तु मनसि जुगुप्सा जायते त्रिधा ॥१८॥ पूतिब्रणादिविषये कथितोद्वेगिनी बुधैः ।। श्मशानोत्थपिशाचादिविषया क्षोभिणी भवेत् ॥१६॥ देहेन्द्रियादिदुःखे बविचारणपुरःसरा ॥ घृणा शुद्धति कविभिः सा जुगुप्सा प्रकीर्चिता ॥२०॥ या तु शोच्यस्य रक्षार्थ प्रवृत्तिरनुकम्पया ॥ तया द्रुते तु मनसि दयोत्साहः स्मृतो बुधैः ॥२१॥ सवस्वमपि दास्यामि मार्थयेति च यो महान् ।। उद्यमो द्रुतचित्तस्य दानोत्साहः स उच्यते ॥२२॥ -- २० .

भक्तिरसायनम्।
तथा स्वधर्मरक्षार्थ या प्रवृत्तिः प्रयत्नतः ।।
तया चित्तस्य विस्तारो धर्मोत्साहो द्रुतौ भवेद ॥२३॥
वशीकारायवैराग्यं यत् कामास्पृहताऽऽत्मकम् ॥
तेन द्रुतस्य चित्तस्य प्रकाशः शम उच्यते ॥२४॥
इतोऽन्यथा तु चित्तस्य न तिर्विद्यते क चित् ।।
तदभावात्तु भावो न निरुक्तान्योऽस्ति कश्चन ॥२५॥
यावत्यो द्रुतयश्चित्ते भावास्तावन्त एव हि ॥
स्थायिनो, रसतां यान्ति विभावादिसमाश्रयात् ॥२६॥
धर्मोत्साहो दयोत्साहो जुगुप्सा त्रिविधा शमः ।।
षडप्यतेन विषया भगवद्विषया न हि ॥२७॥
धर्मवीरो दयावीरो बीभत्सः शान्त इत्यपी ।।
अतो न भक्तिरसतां यान्ति भिन्नास्पदत्वतः ॥२८॥
ईर्ष्याजभयजद्वेषौ भगवद्विषयावपि ।।
न भक्तिरसतां यातः साताद् द्रुतिविरोधतः ॥२६॥
शुद्धो रौद्ररसस्तत्र तथा रौद्रभयानकः ।।
नास्वाद्यः सुधिया प्रीतिविरोधेन मनागपि ॥३०॥
कामजे द्वे रती शोकः प्रीतिभीविस्मयास्तथा ।
उत्साहो यदि दाने च भगवद्विषया अमी ॥३१॥
व्यामिश्रभावरूपत्वं यान्त्येते तीरनीरवत् ।।
विभावादिसमायोगे तथा भक्तिरसा अपि ॥३२॥
शृङ्गारः करुणो हास्यस्तथा प्रीतिर्भयानकः ॥
अद्भुतो युद्धवीरश्च दानवीरश्च मिश्रिताः ॥३३॥
शुद्धा च वत्सलरतिः प्रेयोरतिरिति त्रयी।
भावान्तरामिश्रितत्वादमिश्रा रतिरुच्यते ॥३४ ।।
विशुद्धो वत्सलः प्रेयानिति भक्तिरसास्त्रयः ।।
रसान्तरामिश्रितास्ते भवन्ति परिपुष्कलाः ॥३॥

द्वितीय उल्लासः।
शृङ्गारो मिश्रितत्वेऽपि सर्वेभ्यो बलवत्तरः ।।
तीव्रतीव्रतरत्वं तु रतेस्तत्रैव वीक्ष्यते ॥३६॥
के चित् केवलसंकीर्णाः के चित् संकीर्णमिश्रिताः ॥
के चित् केवलमिश्राश्च शुद्धाश्च स्युश्चतुर्विधाः ॥३७॥
तत्र केवलसंकीर्णा रौद्रो रौद्रभयानकः ॥
धर्मवीरो दानवीरो बीभत्सः शान्त इत्यपि ॥३८॥
मिश्रा एवान्यविषयाः प्रोक्ताः संकीर्णमिश्रिताः ।।
भगद्विषयास्ते तु ख्याताः केवलमिश्रिताः ॥३६॥
शुद्धास्त्रयः पुरैवोक्ताः संकीर्य्यन्ते न केन चित् ।।
एवं निरूपिता भक्तिः संक्षेपादुच्यते पुनः ॥४०॥
राजसी तामसी शुद्धसात्त्विकी मिश्रिता च सा ॥
ईर्ष्याजद्वेषजाऽद्या स्याद् भयजद्वेषजा परा ॥४१॥
हर्षजा शुद्ध सत्त्वोत्था कामशोकादिजेतरा ॥
सत्त्वजत्वे तु सर्वासां गुणान्तरकृता भिदा ॥४२॥
तत्र ते रतितां नैव यातः सुखविरोधतः ।।
रतिशब्दं तु भजतः सुखमय्यौ परे द्रुती ॥४३॥
भक्तिश्चतुर्विधाऽप्येषा भगवद्विषया स्थिरा ॥
दृष्टादृष्टोभयैकैकफला भक्तिस्त्रिधा भवेत् ॥४४॥
राजसी तामसी भक्तिरदृष्टफलमात्रभाक् ।।
दृष्टदृष्टोभयफला मिश्रिता भक्तिरिष्यते ॥४॥
शुद्धसत्त्वोद्भवाऽप्येवं साधकेष्वस्मदादिषु ।।
दृष्टमात्रफला सा तु सिद्धेषु सनकादिषु ॥४६॥
दृष्टादृष्टफला भक्तिः सुखव्यक्तर्विधेरपि ।।
निदाघदूनदेहस्य गङ्गास्नानक्रिया यथा ॥४७॥
रजस्तमोऽभिभूतस्य दृष्टांशः प्रतिबध्यते ॥
शीतवातातुरस्येव नादृष्टांशस्तु हीयते ॥४८॥

भकिरसायनम् ।
तथैव जीवन्मुक्तानामदृष्टांशो न विद्यते ॥
स्नात्वा भुक्तवतां भूयो गङ्गायां क्रीडतां यथा ॥४६॥
वर्तमानतनुमाप्यं फलं दृष्टमुदाहृतम् ।।
भाविदेहोपभोग्यं यत्तददृष्टमुदीरितम् ॥५०॥
रजस्तमःमचएडत्वे मुखव्यक्तिरसत्समा ॥
तीव्रवायुविनित्तिप्तदीपज्वालेव भासते ॥५॥
तस्मात्स्वयंप्रभाऽऽनन्दाकाराऽपि मतिसंततिः ॥
प्रतिबन्धकवशान स्यात्सुखव्यक्तिपदास्पदम् ॥५२॥
रजमवलसत्त्वांशादीाजद्वेषमिश्रिता ।।
मनोवृत्तिः परानन्दे चैद्यस्य न सुखायते ॥५३॥
तमामबलसत्त्वांशाद भीतिजद्वेषमिश्रिता ॥
मनोवृत्तिः परानन्दे कंसस्य न सुखायते ॥५४॥
तयोर्भाषिशरीरे तु प्रतिबन्धक्षये सति ।।
सैव चित्तद्रुतिर्भक्तिरसता प्रतिपद्यते ॥५॥
अधुनाऽपि भजन्तो ये द्वेषात् पाशुपतादयः ।।
तेषामप्येवमेव स्यादथ वाऽनेन तुल्यता ॥५६॥
द्रुतौ सत्यां भवेद भक्तिरद्रुतौ तु न किं चन ॥
चित्ततेदुरभावेन वेनस्तु कतमोऽपि न ॥५७।।
रजस्तमोविहीना तु भगद्विषया मतिः॥
मुखाभिव्यञ्जकत्वेन रतिरित्यभिधीयते ॥८॥
स्नेहस्यैव विकारः प्रिययोरत्यन्तभावनादनिशम् ।।
विरहासहिष्णुताऽऽत्मा प्रीतिविशेषो रतिर्नाम ॥५॥
रजस्तमःसमुच्छेदतारतम्येन गम्यते ॥
तुन्येऽपि साधनाभ्यासे तारतम्य रतेरपि ॥६०॥
विरहे यादृशं दुःखं तादृशी दृश्यते रतिः॥
मृदुमध्याधिमात्रत्वाद विशेषोऽत्रापि वीक्ष्यते ॥६॥

•द्वितीय उल्लासः। वैकुण्ठे द्वारकायां च श्रीमद्वृन्दावने तथा ।। मृदुतीचा मध्यतीवा तीव्रतीत्रा च सा क्रमात् ॥६२॥ इयं निसर्गसंसर्गौपम्याध्यात्माभियोगजा ।। संप्रयोगाभिमानाभ्यां समारोपे स्थिता तथा ॥६॥ स्पर्श शब्दे तथा रूपे रसे गन्धे च केवले ॥ समुचिते च सा तत्रेत्येकैका षड्विधा भवेत् ॥६४॥ शुद्धा व्यामिश्रिता चेति पुनरेषा द्विधा भवेत् ।। तत्रानुपाधिः शुद्धा स्यात्सोपाधिर्मिश्रितोदिता ॥६५॥ अनुपाधिः परानन्दमहिमैकनिबन्धना ।। भजनीयगुणानन्त्यादेकरूपैव सोच्यते ॥६६॥ कामसंबन्धमयतः सोपाधिस्त्रिविधा भवेत् ।। विभावादिसमायोगे शुद्धभक्तिरसो भवेत् ॥६७।। शृङ्गारमिश्रिता भक्तिः कामजा भक्तिरिष्यते।। संबन्धजा रतिर्याति पूर्वोक्तां रसता द्वयोः ॥६॥ एको वत्सलभक्तयाख्यः प्रयोभक्तिस्तथाऽपरा ॥ भयजा रतिरध्यास्ते रसं प्रीतिभयानकम् ॥६६॥ एकदा यद्यपि व्यक्तमिदं रतिचतुष्टयम् ।। तदा तु पानकरसन्यायेन परमो रसः ॥७॥ एकद्वयादिरसव्यक्तिभेदाद्रसभिदा भवेत् ।। तस्मात् क चित्तदभ्यासं कुर्याद्रतिचतुष्टये ॥७॥ बजदेवीषु च स्पष्टं दृष्टं रतिचतुष्टयम् ।। तचित्तालम्बनत्वेन स्वचित्तं तादृशं भवेत् ॥७२॥ रसान्तरविभावादिसंकीर्णा भगवदतिः ।। चित्ररूपवदन्याहग्रसता प्रतिपद्यते ॥७३॥ रसान्तरविभावादिराहित्ये तु स्वरूपभाक् ।। दशमीमेति रसता सनकादेरिवाधिकाम् ।।७४॥

१०
भक्तिरसायनम् । .
रतिर्देवादिविषया व्यभिचारी तथोजितः ।।
भावः प्रोक्तो रसो नेति यदुक्तं रसकोविदः ॥७॥
देवान्तरेषु जीवत्वात् परानन्दापकाशनात् ।।
तद्योज्यं परमानन्दरूपे न परमात्मनि ॥७६॥
कान्तादिविषया वा ये रसाद्यास्तत्र नेदृशम् ।।
रसत्वं पुष्यते पूर्णसुखास्पर्शित्वकारणात् ।।७७॥
परिपूर्णरसा क्षुद्ररसेभ्यो भगवदतिः ।।
खद्योतेभ्य इवादित्यप्रभेव बलवत्तरा ॥७८||
क्रोधशोकभयादीनां साक्षात् सुखविरोधिनाम् ।।
रसत्वमभ्युपगतं तथाऽनुभवमात्रतः ॥७६ ।।
इहानुभवसिद्धेऽपि सहस्रगणितो रसः ।।
जडेनेव त्वया कस्मादकस्मादपलप्यते ॥८०॥
इति श्रीपरमहंसपरिव्राजकाचार्यश्रीमधुसूदनसरस्वताविरचिते भगवद्भक्तिरसायने
भक्तिविशेषप्रतिपादको नाम द्वितीयोल्लासः
भक्तिरसप्रतिपादकः
तृतीय उल्लासः।
ननु कोऽयं रसो नाम किंनिष्ठो वा भवेदसौ ।।
अस्य प्रत्यायकः को वा प्रतीतिरति कीहशी ॥१॥
विभावैरनुभावैश्व व्यभिचारिभिरप्युत ।।
स्थायी भावः सुखत्वेन व्यज्यमानो रसः स्मृतः॥२॥
सुखस्यात्मस्वरूपत्वात्तदाधारो न विद्यते ॥
तदन्यञ्जिकाया वृत्तेस्तु सामाजिकमनः प्रति ॥३॥
काव्यार्थनिष्ठा रत्याद्याः स्थायिनः सन्ति लौकिकाः ॥
तद्बोधृनिष्ठास्त्वपरे तत्समा अप्यलौकिकाः ॥४॥
बोध्यनिष्ठा यथास्वं ते मुखदुःखादिहेतवः ।।
बोधनिष्ठास्तु सर्वेऽपि मुखमात्रैकहेतवः ॥५॥

.
११
तृतीय उल्लासः।
अतो न करुणादीनां रसत्वं प्रतिहन्यते ॥
भावानां बोदधृनिष्ठानां दुःखाहेतुत्वनिश्चयात् ॥६॥
तत्र लौकिकरत्यादेः कारणं लौकिकं तु यत् ।।
काव्योपदर्शितं तत्तु विभाव इति कथ्यते ॥७॥
लौकिकस्यैव रत्यादेर्लोके यत् कार्यमीक्षितम् ।।
काव्योपदर्शितं तत्स्यादनुभावपदास्पदम् ॥८॥
लौकिकस्यैव रत्यादेर्ये भावाः सहकारिणः ॥
काव्योपदर्शितास्ते तु कथ्यन्ते व्यभिचारिणः ॥४॥
अलौकिकस्य रत्यादेः सामाजिकनिवासिनः ।।
उद्बोधे कारणं ज्ञेयं त्रयमेतत्समुच्चितम् ॥१०॥
ज्ञातस्वपरसंबन्धादन्ये साधारणात्मना ।।
अलौकिकं बोधयन्ति भावं भावास्योऽप्यमी ॥११॥
भावत्रितयसंसृष्टस्थायिभावावगाहिनी ॥
समूहालम्बनात्मैका जायते सात्त्विकी मतिः ॥१२॥
साऽनन्तरक्षणेऽवश्यं व्यनक्ति सुखमुत्तमम् ।।
तद रसः, के चिदाचार्यास्तामेव तु रसं विदुः ।।१३।।
तेषां प्रत्येकविज्ञानं कारणत्वेन तैर्मतम् ।।
स्थायीभावो रस इति प्रयोगस्तूपचारतः ॥१४॥
एवमव्यवधानेन क्रमो यस्मान्न लक्ष्यते ।।
असंलक्ष्यक्रमव्ययं ध्वनि तस्मादिमं विदुः ॥१॥
'ब्यवधानात्क्रमो लक्ष्यो वस्त्वलंकारयोर्ध्वनौ ।
लक्ष्यव्यङ्ग यक्रम तस्माद ध्वनिमेतं प्रचक्षते ।।१६।।
रसभावतदाभासभावशान्त्यादिरक्रमः ।।
अनन्तरक्षणे यस्माद् व्यज्यतेऽवश्यमेव सः ॥१७॥
श्रुतिदुष्टादयो दोषा ये रसमतिबन्धकाः ।।
तदभावोऽपि सामग्रयां निविष्टोऽनिष्टहानिकृत् ॥१८॥

१२ भक्तिरसायनम् । या रीतियो ये च गुणास्तज्ज्ञानमपि कारणम् ॥ अलंकाराश्व विज्ञाता भवन्ति परिपोषकाः ॥१३ । गुणालंकाररीतीनां भावानां च निवेदकः ।। तस्य प्रत्यायकः शब्दो वृत्या व्यञ्जनरूपया ॥२०॥ वृत्तिः कार्याऽपरोक्षाऽस्य शब्दस्य सुखगर्भिणी ।। दशमस्त्वमसीत्यादिवाक्योत्थमतित्तिवत् ॥२१॥ नित्यं सुखमभिव्यक्तं "रसो वै स" इति श्रुतेः ।। प्रतीतिः स्वप्रकाशस्य निर्विकल्पमुखात्मिका ॥२२॥ कार्यज्ञाप्यादिवैधयं यत्तु कैश्विनिरूपितम् ।। तदप्येतेन मार्गेण योज्यं शास्त्राविरोषतः ॥२३॥ परमानन्द प्रात्मैव रस इत्याहुरागमाः ।। शब्दतस्तदभिव्यक्तिप्रकारोऽयं प्रदर्शितः ॥२४॥ अर्थवादाधिकरणे नवशैलादिवर्णनम् ॥ श्रोतृणां मुखमात्रार्थमिति भट्टैरुदाहृतम् ॥२५॥ कार्यान्वितत्ववादेऽपि न विरोधोऽस्ति कश्चन ।। यस्मात् कृतीप्सितत्वेन कार्य सुखमरीष्यते ॥२६॥ अलौकिकनियोगे तु न किंचिन्मानमीक्ष्यते । लोके वाचां च सर्वेषां तत्परत्वं न युज्यते ॥२७॥ प्रयोजनवदज्ञातज्ञापकत्वं च मानता ॥ शब्दस्य कार्यपरता वाचायरेव खण्डिता ॥२८॥ देवताऽधिकृतिन्यायात् पदैरन्यपरैरपि । प्रयोजनवदज्ञाताबाधितार्थमतिर्भवेद ।।२६।। तस्मादन्यपरत्वे वा स्वातन्त्र्ये वा पदानि नः ।। व्यञ्जयन्ति परानन्दं सहकार्यानुरूप्यतः ॥३०॥ इति श्रीपरमहंसपरिवाजकाचार्यश्रीमधुसूदनसरस्वतीविरचिते श्रीभगवद्भक्ति- रसायने भक्तिरसप्रतिपादको नाम तृतीयोलासः । ग्रन्थश्च सम्पूर्णः ।।

श्रीः सटीकभक्तिरसायनस्य शुद्धिपत्रम्- ४-२२ शिषा ८६-१४ तन्नू ८७-२ नुपल ८९-१साव्ह १०१-२३ सुखा पृ० प० अशुद्धयः पृ०प० शुद्धयः पृ० १० अशुद्धयः पृ०प०शुद्धयः ३-१० नासङ्गा ३-१० नासङ्गा ५२-२३ ताया ५२-२३ तीया ४-२२ शिषो ५७-७लिता ५७.-७लितो ५-१४ दर्श ५-१४ दर्श ६८-२१ कत्त ६०-२१ कर्तु ५-२१ दाय ५-२१ दीय ६७-२१,३७ ६७-२१, ३५ ६-१८ निदशः ६-१८ निर्देशः ६९-७बाज ६९-७ वाज ७-१५ ह्मणि ७-१५ ह्मणि ६९-११ बिपरी ६९-११ विवरी १४-४ भक्ति १४-४ भक्ति- ६९-१६ सप्त ६०-१६ पञ्च योगस्य योगस्प ७६-२३ प्रेया ७६-२३ प्रेयो १४-१२ चित्त १४-१२ चित्त ८४-१धम १४-१ धर्म १५-६ शिथि १५--६ शिथि ८६-१४ तन्न १५-११ लक्ष्य १५-११ लक्ष ८७-२ नुल १५-६ जन्त १५-६ त्रन्तु ८५-१ साहू १७-३घृता १७-३ता १०१-२३ सखा १७-२० बभा १५-२० वभा १०२-५ हरेबै १०२-५ हरेवं २२-१५, १९ २२-१४,१७ १०९-१० अन १०९-१८ अनु २३-१६ बग २३-१६ वर्दू ११६-२४ वण्य ११६-२४ वयं २३-१८ वत्येव २३-१८ वगिरेव ११७-७ गान्धव १७-७ गान्धर्व भूतार भूतैरार १७-२१ क्य ११७-२१ क्य २३-२१ पट्ट ११८-१६ पुष्प ११८-१६ पुष्प २३-२४ द्रव्यचक्षुव २३-२४ गय ११९-१५ नम १९९-१५ भ्रम चक्षुर्व १२-४ान १२१-४ नि २७-४ पूर्ण २७-४ पूर्ण १२३-१२ सामा १२३-१२ सौभा २७-१९ प्रसरा २७-१३ प्रस्तरा १४१-८ वर्ग १४१-८ वत्तुं ३७-२५ पदेय ३७-२५ पादेय १४२-१७ त्वमु १४२-१७ रवमु ४९-२५ मत्रै ४९-२५ मात्र १४४-१८ श्रोत १४४-१८ श्रोत ५०-२३ लस्साः ५०-२३ लस्याः अत्र १३५ पृष्ठे-नवमी पङ्क्तिः सप्तमपक्तिस्थाने; तथा षोडशीसदश्यो पङ्क्ती चतुर्दशीपञ्चदश्योः पयोः स्थाने पठनीयाः । इति ।

No text on this page.

Srimadbhaktirasayanam

Author
Madhusudan
Title
Srimadbhaktirasayanam
File name
Srimadbhaktirasayanam
Text
OCR done
Citation
1928
Published
2011/06/3
Publisher
N.a
Language
Sanskrit
Pages
189
Library
Uttarpara Jaykrishna Public Library, Hooghly
Classification
Sanskrit Essay
Keywords
Manab
DLI number
553852
Barcode
4990010055117.00
Scanning centre
C-DAK, Kolkata
Digital publisher
Digital Library Of India
Rights
In Public Domain
VMLT id
sCtRjFpQAZr
Download PDF

Srimadbhaktirasayanam