Sringeri Sharada Peetham
Anandashramasamskrutagranthaavali
Front matter
5
आनन्दाश्रमसंस्कृतग्रन्थावलिः ।
ग्रन्थाङ्कः ५
ईशावास्योपनिषत्सटीकशांकरभाष्योपेता
205
रत्नागिरिनिवासिभिर्वेदशास्त्रज्ञेमहामहोपाध्यायः आगाशे इत्युपाहै.
लिशास्त्रिभिः संशोधिता ।
ब्रह्मानन्दसरस्वतीकृतमीशावास्यरहस्यम् ।
शंकरानन्दकृतेशावास्यदीपिका ।
रामचन्द्रपण्डितकृतेशावास्यरहस्यविवृतिः ।
एतत्पुस्तकत्रितयमानन्दाश्रमस्थपण्डितैः संशोधितम् ।
उवटार्यकृतमीशावास्यभाष्यम् ।
आनन्दमट्टोपाध्यायकृतमीशावास्यभाप्यम् ।
अनन्ताचार्यकृतमीशावास्यभाष्यम् ।
इदं पुस्तकत्रयं मुंबापुरीनिवासिभिर्वेदशास्त्रज्ञैर्महामहोपाध्यायः
बोडस इत्युपाहै राजारामशास्त्रिभिः संशोधित च
एतानि
हरि नारायण आपटे
इत्यनेन
पुण्याख्यपत्तने
आनन्दाश्रममुद्रणालये
आयसाक्षरैमुदयित्वा
प्रकाशितानि।
द्वितीयेयमङ्कनावृत्तिः ।
शालिवाहनशकाब्दाः १८२७
(अस्य सर्वेऽधिकारा राजशासनानुसारेण स्वायत्तीकृताः)
मूल्यम् ४१४ आणकाः।
अथेशावास्योपनिषद्भूमिका ।
भो भोः सुधियो विद्वांसो विदितमेवैतत्तत्रभवतां, यकिल संप्रत्यास्मिञ्जगति
विभिन्नेषु द्वीपेषु विभिन्नेषु देशेषु च ये ये धर्मास्तत्प्रतिपादका ग्रन्थाश्चोपलभ्यन्ते ।
तेषु वैदिकधर्मस्य वैदिकग्रन्थानां चातिप्राचीनत्वं मूलमूतत्वं च निर्विवादमेक सबै.
राद्रियते । यद्यपि स्वस्वधर्माभिमानग्रहगृहीताः केचन वेदस्य प्राचीनत्वे विक्दन्तो
दृश्यन्ते । ते तथैव विवदन्तु नाम । तथाऽपि निमत्सराः समधियो विवेकिनो नात्र
विप्रतिपद्यन्ते । त इमे आर्याणां चतुर्विधपुरुषार्थसाधनभूताश्चतुर्दशविद्यानां चतुः-
पष्टिकलानां च मूलभूता वेदा भगवता जगत्कारणेन परमात्मनाऽऽदिकवये ब्रह्मणे
हदैवोपदिष्टाः। स च ब्रह्मा तानितरेभ्यः प्रकाशयामास । तद्यथा-
समाहितात्मनो ब्रह्मन्ब्रह्मणः परमेष्ठिनः।
हृयाकाशादभूनादो वृत्तिरोधादिभाव्यते ॥
ततोऽभूत्रिदोंकरो योऽव्यक्तमभवः स्वराट् ।
स्वधानो ब्रह्मणः साक्षाद्वाचकः परमात्मनः ।।
स सर्वमन्त्रोपनिषद्वेदबीजं सनातनम् ।
तस्य ह्यासंस्त्रयो वर्णा अकाराद्या भृगदह।।
धार्यन्ते यैस्त्रयो भावा गुणनामार्थवृत्तयः ।
ततोऽक्षरसमाम्नायमसृजद्भगवाननः ।
अन्तस्थोष्मस्वरस्पर्शह्रस्वदीर्घादिलक्षणम् ।
तेनासौ चतुरो वेदांश्चतुभिर्वदनर्विभुः॥
सव्याहृतिकान्सोंकराश्चातुर्होत्रविवक्षया ।
पुत्रानध्यापयत्तांस्तु ब्रह्मर्षीन्ब्रह्मकोविदान् ॥
ते तु धर्मोपदेष्टारः स्वपुत्रेभ्यः समादिशन् ।
ते परम्परया प्राप्तास्तत्तच्छिष्यैर्धतव्रतः ॥
चतुयुगेष्वथ व्यस्ता द्वापरादौ महर्षिभिः । इति ।
एवं ब्रह्मणः सकाशात्तत्पुत्रा ये मरीच्यादयस्तेभ्यः। शिष्यप्रशिष्यादिपरम्परया
वेदाः प्रसूता बभूवुः । द्वापरादिषु वेदविस्तरकर्तारोऽन्ये वेदव्यासा आसन ।
अस्मिन्नप्यन्तरे-
पराशरात्सत्यवत्यामंशांशकलया विभुः।
अवतीर्णो महाभाग वेदं चके चतुर्विधम् ॥
(२) ताश्च . ऋगर्वयजुस्साम्नां राशीनुद्धृत्यं वर्गशः। चतस्रः संहिताश्चक्रे मर्मणिगणा इव ।। इति । ऋग्यजुःसामाख्यिाश्चतस्रः : संहिताः - संहिताः... पैलवैशंपायन नैमिनि- मुमन्तुसंज्ञकैश्चतुर्भिः स्वशिष्यग्रहियामास भगवान्पाराशर्यो वेदव्यासः । ते प पैलादयः स्वस्वशिप्यानध्यापयामासुः स्वां स्वां . संहिताम् । तत्र गजुर्वेद- धरस्य वैशंपायनस्य याज्ञवल्क्यप्रभृतयो बहवः शिष्या आसन् । अथ कदाचिद्भगवान्वैशंपायनो ब्रह्महत्यां बालहत्यां स्वस्नीयहत्यां चावाप्तवाना- कस्मिकेन दैवयोगेन । तदुक्तं विष्णुपुराणे- ऋषिोऽद्य महामेरौ समाजे नाऽऽगमिष्यति । तस्य वें सप्तरात्रात्तु ब्रह्महत्या भविष्यति ।। पूर्वमेवं मुनिगणैः समयोऽभूत्कृतो द्विज । वैशंपायन एवैकस्तं व्यतिक्रान्तवांस्तदा ।। स्वतीयं बालकं सोऽथ पदा स्पृष्टमघातयत् । इति । एवमृषिकृतसमयानुसारेण मेरुपर्वत ऋषिसमानेऽगमनाद्ब्रह्महत्यामनिच्छयाऽपि पदा स्पृष्टस्य बालस्य मरणात्स्वस्नीयहत्यां बालहत्यां च लब्धवतो वैशंपायनस्य शिप्या गुरोनिदेशेन तत्पापशान्तय उग्रं तपश्चेरुः । अतस्तेषां चरकाध्वर्यव हात प्रथाऽऽसीत् । एवं तपश्चरतोऽन्यानसहाध्यायिनोऽवजानन्निव- याज्ञवल्क्यश्च तच्छिष्य आहाहो भगवन्कियत् । चरितेनाल्पसाराणां चरिष्येऽहं सुदुश्चरम् ।। सतीनिधिक्षिपता याज्ञवल्क्येन- इत्युक्तो गुरुरप्याह कुपितो याह्यलं त्वया । विप्रावमन्ना शिष्येण मदधीतं त्यजाऽऽश्विति ॥ सोऽपि प्रभाववाशिप्यो याज्ञवल्क्यो. गुरोशंपायनादधीतं यजुषां गणं छर्दित्वा तदन्तिकान्निर्गतः । अब . तच्छहितान्यजुर्गणान्वीक्ष्य वेदलोलुपा ऋषयश्चर्दि- तम्य विप्ररूपेणाऽऽदानमनुचितमिति विचार्य तित्तिरसंज्ञकपक्षिरूपेण याज्ञवल्क्यत्य- तान्यजुर्गणानाददुः । ततश्च सा तैत्तिरीयेति प्रसिद्धा शाखाऽभवत् । अथ याज्ञवल्क्यो गुरोर्वेशंपायनादप्यधिकानि यजूपि गवेषयन्भगवन्तमकं चतुर्णा वेदानामीश्वरमुफ्तस्थे । तथा च श्रुतिः ऋग्भिः पूर्वाह्न दिवि देव ईयने । यजुर्वेदे तिष्ठति मध्ये अहः । सामवेदनास्तमय महीयते । वदरशून्यस्त्रिभिरेति सूर्यः ॥ इति । - (1) तस्य भक्त्या सुष्टो भगवानादित्यो वानिरूपधरो मत्वा यजूंष्ययातयामानि मुनयऽहात्मसादितः । इति । एवं याज्ञवल्क्योऽकौवदमधीत्य कण्वमध्यंदिनप्रभृतीस्वशिष्यानध्यापया- मास । ते प रविणाऽश्वरूपण वाजेभ्यः केसरेभ्या वाजेन वेगेन वा संन्यस्तास्त्यकाः शाखा वाजसनीसंज्ञास्तासां ग्रहणाद्वाजसनेयिन इत्याचक्षते । तदेवं यजुर्वेदस्य द्वौ भदौ । वैशंपायनन महर्वेदव्यासारचंता चरकावर्यवादी स्वशिष्यानध्यापिता संहिता कृष्णयजुःसंहितेत्यभिधीयते । याज्ञवल्क्येन वानिरू. पधरात्सूर्यादधीता कण्वमध्यंदिनादीनध्यापिता संहिता शुक्लयजुःसंहितेत्याचक्षते । शुक्लयजुर्वेदस्य पञ्चदश शाखाः । तदुक्तं होलीरभाष्य- आदित्येनाधायित्वादादित्यान्युच्यन्ते । वाज इत्यनस्य नामधेयम् । ' अन्नं वै वाज' इति श्रुतेः । वाजस्य सनिर्दानं यस्य महर्षरस्ति सोऽयं वाजसनिः। तस्य पुत्रो वाजमनेयः । तस्य याज्ञव- त्य इति नामधेयम् । तेन याज्ञवल्क्ये. न तानि यजूंषि महर्पिभ्यः पञ्चदश समर्पितानि"। केपांचिन्मते सप्तदश भेदाः । तदेवं शाखाभेदेऽपि न संहिताभेदः । केवलं पाठ. भेद एव । सेयं शुक्लयजुःसंहिता काण्डहयात्मिका । “ऋभिः स्तुवन्ति यजुभिर्यजन्ति " इत्य- भिधानाधजनात्मिकायामस्यां संहितायां प्रथमाध्यायस्य प्रथममन्त्रमारभ्यैकोनच- त्वारिंशाध्यायसमाप्तिपर्यन्तं दर्शपूर्णमामाद्यश्वोधान्तं कर्मकाण्ड प्रतिपादितम् । अन्तिमे चत्वारिंशेऽध्यायेऽष्टादशभिमन्त्रैर्ज्ञान काण्डं प्रतिपादितम् । तस्य च ज्ञान- काण्डप्रतिपादकत्वाद्ब्रह्मविद्यापराणां सहेतोः संभारस्या यन्तोच्छेदकत्वाद्ब्रह्मविद्योपनि- षदित्यभिधीयते । उपनिषदिति इत्यस्यान्तर्भावितण्यर्थस्य विशरणार्थस्य धातोः क्विपि रूपम् । उपनितरां सादयति संसारहेतुभूतामविद्या नाशयतीत्युपनिषद्ब्रह्मविद्या । तदर्थप्रतिपादकग्रन्योऽप्युपचारादपनिषदित्यभिधानवान्भ- वति । यथाऽऽहुराचार्याः- " उपनीयेममात्मानं ब्रह्मापास्तयं ततः। निहन्त्यविद्या तज्नं च तस्मादुपनिषन्मता" ॥ इति । षद्ल विशरणे , (४) सेयं संहितोपनिषदिति ईशावास्यमित्यादिमं मन्त्रमुपजीव्येशावास्योपनिषदिति चामिधीयते । नन-“ईशावास्यादयो मन्त्राः कर्मस्वविनियुक्ताः । तेषामकर्मशेषस्याऽऽत्मनो याथा- त्म्यप्रकाशकत्वात् " इत्येतेषां मन्त्राणां कर्मस्वविनियोगे कारणमुक्तम् । तत्र प्रथ- माध्यायमारभ्युकोनचत्वारिंशत्तमाध्यायपर्यन्तं तेषां तेषां मत्राणां तेषु तेषु दर्शपूर्ण- मासाद्यश्वमेधान्तेषु यथा विनियोगस्तथैव कर्मप्रतिपादकत्वाभावेऽपि ' सहस्रशीर्षे ' त्यादिवदीशावास्यादीनामपि मन्त्राणां कर्मसु यथाकथंचन विनियोगः किं नस्यात्-! इति चेत् । मैवम् । ऋचा पुरुषं ब्रह्माणं दक्षिणतः पौरुषेण नारायणे. नाभिष्टौति । ' सहस्रशीर्षा पुरुष ' इत्यनेन षोडशचॅन"। इत्यादिवत्कर्मसु प्रमाणतो विनियोगाभावात्कर्मप्रतिपादकत्वाभावाच । तार्ह याग- कल्पना कुतो न क्रियत-इति चेत् । न । विशेष परिहृत्यैव सा कल्पना भविष्यति । अत एव श्रीमदाचार्यभगवत्पादैः- विराधादेवाविनियोगस्तेषां मत्राणां कर्मणि" इति प्रतिपादितम् । तस्माद्विहितकर्मणा शुद्धान्तःकरणस्याधिकारिण आत्मस्वरूप प्रकाशनेन शोकमोहादिसाधनाज्ञाननिवृतिपूर्वकम त्मस्वरूपं दर्शयतीत्यभिधेयसंबन्ध. प्रयोजनवानयमीशावास्यादिमन्त्रसमूहः । सेयमुपनिषद्भायटी कादीपिकारहस्यादिसंवलिता सर्वसुलमा भवत्विति विचार्याss. नन्दाश्रमाधिपतिना स्वकीयग्रन्थावल्यां संगृहीता । इयं च कलिकाताराजधान्यां वङ्गदेशीयास्यातिकसामाजानुमत्यो शंकरभाष्यानन्दगिरिकृतटीकासहिता मुद्रिताss- सीत् । सा चाधुना दुष्प्राप्या संवृत्ता । किंच तत्रोवटादिभाष्यत्रयरहस्यदीपि. कादिसंग्रहामावान्न सा विदुषां प्रीतयेऽलमितीयं पुनर्मुद्रिता । अस्यां च- १ आनन्दज्ञानविरचितटोकाप्सनाथमीशावास्यशांकरभाष्यम् । २ उवटायर्याथवोवटाचार्यकृतमीशावास्यभाप्यम् । ३ ब्रह्मानन्दकृतमीशावास्यरहस्यम् । ४ शंकरानन्दकृतेशावास्यदीपिका । १ केषुचित्पुस्तकेष 'आनन्दज्ञान ' इतिकेषु चित्पुस्तकेषु अनन्दगिरि ' रिति चोपलभ्यते तथाऽपि तत्र न कावद्भेदः । नामद्वयमेकस्यैवेति विदुषां मतम् ।
(५) ९ रामचन्द्रपण्डितकृतेशावास्यरहस्यविवृतिः । ६ आनन्दमट्टोपाध्यायकृतमीशावास्यभाप्यम् । ७ अनन्ताचार्यकृतमथवाऽऽनन्ताचार्यकृतमीशावास्यमाष्यम् । एतानि सप्त संगृहीतानि सन्ति । तत्रोवटार्यानन्दभट्टोपाध्यायानन्ताचार्यकृतं भाष्यत्रयं न केवलमस्या उपनिषद एव, अपि तु समग्राया अपि शुक्लयजुःसंहिताया भाष्याणि तैः कृतानीत्यन्तिमवाक्यात्प्रतीयते । आनन्दमट्टोपाध्यायोऽनन्ताचार्यश्च काण्वावेवेति प्रतीयते । उवटार्यस्तु माध्यंदिनः । तेन तच्छाखापाठमाश्रित्यैव व्या. ख्यातम् । ' रहस्यविवृति ' स्तु स्वतत्रैव । न सा ब्रह्मानन्दकृतरहस्यविवृतिः । तेन प्रथमं श्लोककोण संक्षेपतो रहस्यं विरच्य तस्यैव विवृतिः कृतेति प्रतीमः । शुक्ल. यजुःसंहितायां सायणमाधवाचार्यकृतं महीधरकृतं च भाष्यद्वयं वर्तते । शार्मण्यदेशमु- द्रितपुस्तके टिप्पणीरूपेण द्वयमपि:संगृहीतम् । कालिकातामुद्रितपुस्तके महीधरभाष्य. मेकमेव वर्तते । भाष्यद्वयमपीदं प्रसिद्धत्वान्मुद्रितत्वात्संप्रत्यपि सुलमत्वाञ्च नास्माभिः संगृहीतम् । स एष प्रयत्नो विदुषां मोदमावहन्सर्वत्र विजयतामित्याशास्ते- तु तत्रमवदन्तेवासी- वामनशास्त्रिशर्मा. मुंबई,-गिरगांव मार्गशीर्ष शुक्लप्रतिषत् १८१० ।
ईशावास्योपनिषत्सटीकभाष्योपेता ॐ तत्सद्ब्रह्मणे नमः। ॥ अथ शांकरभाष्यम् ॥ ईशावास्यमित्यादयो मन्त्राः कर्मस्वविनियुक्तास्तेषामकर्मशेष स्याऽऽत्मना याथात्म्यप्रकाशकत्वात् । याथात्म्यं चाऽऽत्मनः शुद्धत्वापापविद्धवैक- स्वनित्यत्वाशरीरत्वसर्वगतत्वादि वक्ष्यमाणम् । तच्च कर्मणा विरुध्येतेति युक्त एवैषां कर्मस्वविनियोगः। न वंलक्षणमात्मनो याथात्म्यमुत्पाद्य ॥ आनन्दगिरिटीका ॥ येनाऽऽत्मना परेणेशा व्याप्तं विश्वमशेषतः । सोऽहं देहद्वयीसाक्षी वर्जितो देहतद्गुणैः ॥ १ ॥ ईशा वास्यमित्यादिमन्त्रान्व्याचिख्यासुभगवान्भाष्यकारस्तेषां कर्मशेषत्वशङ्कां ताव. व्युदस्यति । तथाहि कर्मजडाः केचन मन्यन्ते स्म । ईशा वास्यमित्यादयो मन्त्राः कर्मशेषा मन्त्रत्वाविशेषादिषे स्वादिमन्त्रवत् । अतः पृथक्प्रयोजनाद्यभावा- दव्याख्येया इति तान्प्रत्याह-ईशा पास्यमित्यादय इति । कर्मस्वविनियुक्ता इति । इषे त्वेति शाखां छिनत्तीत्यादिवद्विनियोजकप्रमाणादर्शनात्प्रकरणान्तर- त्वाचेत्यर्थः । श्रौतविनियोगाभावेऽपि बहिर्देवसदनं दामीत्यस्य वहिर्लवनप्रकाशन- सामर्थ्यावहिलवने यथा विनियोगस्तथा कर्मशेषात्मप्रकाशनसामर्थेन कर्मस्वेषां विनियोग इत्यपि नाऽऽशङ्कनीयमित्याह-तेषामिति । शुद्धादिविशेषणस्याऽऽत्मनः कर्मशेषत्वे प्रमाणाभावात्तद्याथात्म्यं न केवलं कर्मानुपयोगि किंतु कर्मणा विरु- ध्यते चेत्याह-याथात्म्यं चेति । शुद्धोऽहं स्वभावतोऽनागन्तुकेनापि पाप्पना विद्धः सर्वत्रैकोऽशरीर आकाशोपम इति जानन्न कटाक्षेणापि कर्म वीक्षते । किंत्वापा. तप्रतिपत्तिरप्येतादृशी निरुणद्धयेव कर्मप्रवृत्तिमित्यर्थः । किंच यः कर्मशेषः स उत्पायो दृष्टो यथा पुरोडाशादिः । विकार्यः सोमादिः । आप्यो मन्त्रादिः । संस्कार्यो ब्रोह्यादिस्तदुत्पाद्यादिरूपत्वं व्यापकं व्यावर्तमानमात्मयाथात्म्यस्य कर्म- शेषत्वमपि व्यावर्त यति । तथाऽऽत्मयाथात्म्यं कर्तृ भोक्तृ च न भवति । येनं ममेदं समीहितसाधनं ततो मया कर्तव्यमित्यहकारान्वयपुरःसरः कन्वयः स्यादित्याह- नोवमिति । ननूपनिषदां जपोपयोगित्वादन्यस्य च प्रमाणस्यादर्शना- १ घ. ङ छ. ज मात्तत्र क° । २ च. ज. शुद्धत्वादि । ३ क. ख. झ. तो न तु के। ४.घ. 3. छ. त्यधिकारा'। ५ क. ख. झ. नान्न निरूप्यमेवैता।
ईशावास्योपनिषत्- शा• भा० विकार्यमाप्यं संस्कार्य कर्तृभोक्तृरूपं वा येन कर्मशेषता स्यात् । सर्वा- सामुपनिषदामात्मयाथात्म्यनिरूपणेनैवोपक्षयात् । गीतानां मोक्षधर्माणां चैपरत्वात् । तस्मादात्मनोऽनेकत्वकर्तृत्वभोक्तृत्वादि चाशुद्धत्वपाप. विद्धत्वादि चोपादाय लोकबुद्धिसिद्धं कर्माणि विहितानि । यो हि आ० टी० नास्त्यवैतादृशमात्मयाथात्म्यं तत्राऽऽह-सर्वासामिति । यत्परः शब्दः स शब्दार्थ इति मीमांसाप्रसिद्धेः सर्वासामुपनिषदां चैकात्म्ये तात्पर्यदर्शनान्न जपोपयोगित्वमुपनिषदां शक्यं वक्तुम् । तथाहि ईशा वास्यमित्युपक्रम्य स पर्य- गाच्छुक्रमित्युपसंहारादनेजदेकं तदन्तरस्य सर्वस्येत्यभ्यासदर्शनान्नैनद्देवा आप्नु- वन्नित्यपूर्वतासंकीर्तनात्को मोहः कः शोक एकत्वमनुपश्यत इति फलवत्तासं- कीर्तनात्कुर्वन्नेवेहेति जिजीविषोर्मेंददर्शिनः कर्भकरणानुवादेनासुर्या नाम त इति निन्दयकात्म्यदर्शनस्य स्तुतत्वात्तस्मिन्नपो मातरिश्वा दधातीनि युक्त्यभिधानाच्चा- स्यास्तावदुपनिषद ऐकात्म्यतात्पर्य दृश्यते । एवमन्यासामप्युपनिषदामुपक्रमो. पसंहारैकरूप्याभासापूर्वताफलवत्तार्थवादयुक्त्युपपादनानि षट् तात्पर्यलिङ्गानि विकल्पेन समुच्चयेन चास्माभिस्तत्त्वालोके दर्शितानीति नेह प्रतन्यन्ते । किंच प्रत्ययसंवादोऽपि बलवत्त्वे कारणं प्रसिद्धम् । विद्यते चोपनिषदर्थे गीतादिसंवाद स्तस्मादृपनिषत्पदसमन्वयेनावगम्यमानमैकात्म्यं न प्रमाणान्तरामुपलम्भविरोधेनापल- पनीयम् । यथेन्द्रियान्तरेणानवगम्यमानमपि रूपं चक्षुषाऽवगम्यमानं नान्हूयते तथैकात्म्यमपि नापहवाहमित्याह-गीतानामिति । 'समं सर्वेषु भूतेषु तिष्ठन्तं परपेश्वरम् । विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ' इत्यादिगीतानाम्। 'एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् इत्यादिमोक्षशास्त्राणां चैकात्म्यपरत्वादित्यर्थः । यतादृशमात्मतत्त्वं तर्हि निरधि. कारित्वात्कर्मकाण्डमुच्छिद्यतेत्यपि नाऽऽशङ्कनीयमित्याह-तस्मादिति । औपनिष. दात्मयाथात्म्यविज्ञानवत इष्यत एव कर्मकाण्डाप्रामाण्यम् । यथा न हिंस्यात्सर्वा *भूतानीति निषेधशास्त्रार्थनिश्चयवत इष्यत एव श्येनादिविध्यप्रामाण्यम् । यथा च तीव्रकोधाकान्तस्वान्तं प्रत्येव श्येनादिविधिप्रामाण्यं तथा मिथ्यात्मदर्शिनं प्रत्येव कर्मविधिप्रामाण्यमित्यर्थः । अत्र जैमिनिप्रभृतीनां संमतिमाह-यो हीत्यादिना । अर्थित्वादियुक्तस्य कर्मण्यधिकारः षष्ठेऽध्याये प्रतिष्ठापितः । अथित्वादि च मि- * च. ड. सर्वभूतानीत्यत्र बहुपुस्तकेषु सर्वा भूतानीत्येव पाठो दृश्यते स श्रुतिमूलक इत्यनुमी- यते सर्वा इति सर्वाणीत्यर्थकमेवाऽऽर्षत्वादिति ज्ञेयम्। १ क. ख. तीत्यभिधायिन्याश्चास्या' झ. तीतियुक्त्यभिधायिन्याश्चास्या' । ३ क. ख. झ. वत्कार' । ३ क. स्त्र. झ. धेनोपलम्भनी । र क. ख. पहनुवते।
सटीकभाष्योपेता। 1 . ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ ॐ शान्तिः शान्तिः शान्तिः । हरिः ॐ। ईशा वास्यमिद५ सर्वं यत्किंच जगत्यां जगत् । शा० भा० कर्मफलेनार्थी दृष्टेन ब्रह्मवर्चसादिनाऽदृष्टेन स्वर्गादिना च द्विजातिरह न काणकुब्जत्वाचनधिकारप्रयोजकधर्मवानित्यात्मानं मन्यते सोऽधिक्रियते कस्विति ह्यधिकारविदो वदन्ति । तस्मादेते मत्रा आत्मनो याथात्म्य. प्रकाशनेनाऽऽत्मविषयं स्वाभाविकमज्ञानं निवर्तयन्तः शोकमोहादिसंसारथः मविच्छित्तिसाधनमात्मैकत्वादिविज्ञानमुत्पादयन्ति । इत्येवमुक्ताधिकार्य- भिधेयसंबन्धप्रयोजनान्मत्रान्संक्षेपतो व्याख्यास्यामः ॥ ईशा वास्यामित्यादि। ईशा ईष्ट इतीद् तेनेशा । ईशिता परमेश्वरः परमात्मा सर्वस्य । स हि सर्वभीष्टे सर्पजन्तूनामात्मा सन्प्रत्यगात्मतया तेन स्वेन रूपेणाऽऽत्मनेशा वास्यमाच्छादनीयम् । किम् । इदं सर्व यत्किच यत्कि- चिजगत्यां पृथिव्यां जगत्तत्सर्व स्वेनाऽऽत्मनेशेन प्रत्यगात्मतयाऽहमेवेदं मा० टी० थ्याज्ञाननिदानम् । न हि नभोवन्निष्क्रियस्य स्वत एव दुःखासंसर्गिणः परमानन्दस्वभावस्य सुखं मे स्याहुःख मे मा भूदित्यर्थित्वं शरीरेन्द्रियसाम- येन च समर्थोऽहमित्यभिमानित्वं मिथ्याज्ञानं विना संभवतीत्यर्थः । यस्मादा- त्मयाथात्म्यप्रकाशका मन्त्रा न कर्मविधिशेषभूता न च मानान्तरविरुद्धास्त. स्मात्प्रयोजनादिमत्त्वमपि तेषां सिद्धमित्याह-तस्मादेत इति । व्याख्येयत्व- मुक्त्वा प्रतिपदं व्याचष्टे-ईशति । ईश ऐश्वर्येऽस्य धातोः क्विपि लुप्ते कृदन्तरूपमीट्तस्य तृतीयैकवचनमीशेति । ननु कर्तरि क्विविधानात्परें- मात्मनश्चाविक्रियत्वात्कथं क्विवन्तशब्दवाच्यतेति तत्राऽऽह-ईशितेति । मायो- पाधेरीशनकर्तृत्वसंभवात्विवन्तशब्दवाच्यता न विरुध्यते निरुपाधिकस्य च लक्ष्यत्वं भविष्यतीत्यर्थः । ईशित्रीशितव्यभावेन तर्हि भेदः प्राप्त इत्याशङ्कयाऽऽह- सर्वजन्तूनामात्मा सन्निति । यथाऽऽदर्शादिषु प्रतिबिम्बानामात्मा सन्बिम्बभूतो देवदत्त ईशिता भवति तथा कल्पितभेदेनेशित्रीशितव्यमावसंभवान्न वास्तवभेदानु- मानं संभवतीत्यर्थः । वस आच्छादने । अस्य रूपं वास्यम् । तत्त्वत ईश्वरात्मकमेव सर्व भ्रान्त्या यदनीश्वररूपेण गृहीतं तत्सर्वमीश्वर एवाऽऽत्मैवेति ज्ञानेनाऽऽच्छाद- १ क. ख. ग. ककर्मविज्ञा। २ क. ख. झ.म. ट. सन्, तेन स्वेनाऽऽत्म । ३ क. स. म. म. त्मनाई। ४ क. ख. झ. 'रमेश्वरस्य चाकि।
४ ईशावास्योपनिषद- तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्धनम् ॥ १॥ • भा० समिति परमार्थसत्यरूपेणानृतमिदं सर्व चराचरमाच्छादनीयं स्वेन पर- मात्मना। यथा चन्दनागर्वादेरुदकादिसंबन्धजक्लेदादिजमौपाधिक दौर्गन्ध्यं तत्स्वरूपनिघर्षणेनाऽऽच्छाद्यते स्वेन पारमार्थिकन गन्धेन तदेव हि स्वात्म. न्यध्यस्तं स्वाभाविकं कर्तृत्वभोक्तृत्वादिलक्षणं जगद्वैतरूपं जगत्यां पृथिव्यां जगत्यामित्युपलक्षणार्थस्वात्सर्वमेव नामरूपकर्माख्यं विकारजातं परमा- थसत्यात्मभावनया त्यक्तं स्यात् । एवमीश्वरात्मभावनया युक्तस्य पुत्रायेषणा त्रयसंन्यास एवाधिकारो न कर्मसु । तेन त्यक्तेन त्यागेनेत्यर्थः । न हि त्यक्तो मृतः पुत्रो वा भृत्यो वाऽऽत्मसंबन्धिताया अभावादात्मानं पालयत्यतस्त्या. गेनेत्ययमेव वेदार्थः । भुञ्जीथाः पालयेथाः। एवं त्यक्तैषणस्त्वं मा गृधः, गृ. भाटी नीयम् । सर्वात्मक ईश्वरोऽस्मीति ज्ञातव्यमेष तत्त्वोपदेशश्छान्दोग्ये तत्त्वमसीति- वदित्यर्थः। 'ब्रह्मैव सर्वमात्मैव सत्प्रकाशविशेषतः । हेयोपादेयभावोऽयं न सन्स्वप्नव. दीर्यते। उक्तं च-'नबन्धोऽस्ति न मोक्षोऽस्ति न विकल्पोऽस्ति तत्त्वतः नित्यप्रकाश एवास्ति विश्वाकारो महेश्वरः' इति । यस्यौपदेशिकज्ञानमात्रेणानृतदृष्टिने तिर- स्क्रियते तस्य विचारादिप्रयत्नेन तत्त्वप्रकाशे सत्यनृतदृष्टिस्तिरस्क्रियतेत्यभिप्रेत्य दृष्टान्तमाह-यथेति । चन्दनाग देरुदकादिसंबन्धादाद्रीभावादिना जातं यद्दौ- Hध्यमोपाधिकं मिथ्या तद्यथा तत्स्वरूपनिघर्षणाभिव्यक्तेन स्वाभाविकेन गन्धे. नाऽऽच्छाद्यते तद्वद्विचारीदेः स्वरूपसद्भावान्मिथ्याबुद्धेधिकत्वं संभवतीत्याह- तद्वदेव हीति । स्वभावोऽनादिरविद्या सत्कार्य स्वाभाविकमित्यादिबाधयोग्य- त्वप्रदर्शनार्थ विशेषणम् । एवं विचारादिप्रयत्नवतोऽनृतदृष्टितिरस्कारसंभावना- मुक्त्वा युक्त्यनभिज्ञस्य सर्वमिदमहं चेश्वर एवेति भावनायामधिकृतस्य युक्ति- कुशलस्य च विचारेऽधिकृतस्य सर्वकर्मसन्यास एवाधिकार इह मन्त्रे विवक्षि- तस्तेन त्यक्तेनेत्यत्र त्यागपरामर्शात् । त्यसतैव हि तज्ज्ञेयं त्यक्तुः प्रत्यक्परं पदमित्यन्यत्राप्युक्तत्वात्पुत्राद्यषणायाश्चित्तविक्षेपहेतुत्वेन प्रसिद्धत्वाचेत्यभिप्रेत्याss- ह-एवमीश्वरात्मेति । चिकीर्षितं संन्यासं स्तौति-तेन त्यक्तेनेति । त्यागेनाऽऽत्मा रक्षितः स्यानिष्क्रियात्मस्वरूपावस्थानानुकूलत्वात्त्यागस्येत्यर्थः । संन्यासिनः शरी- रसंघारणोपयुक्तकोपीनाच्छादनभिक्षाशनादिव्यतिरिक्तेऽपि कथंचिद्व्यपरिग्रहे रागश्चत्प्राप्नोति तन्निरोधे यत्नः कर्तव्यः । तस्य प्रधानविरोधित्वादित्यभिप्रेत्य नियमविधिमाह-एवं त्यक्तैषण इति । स्विदिति निपातस्य सामान्यार्थ- क. ख ग झ. अ. ट. नेवार्थः । २ घ, ङ. ठ. "रादेव वस्तुबलस। च, छ. ज. 'रादेवस्तुबलस। । घ. रु. छ. ज. ठ. विवित्सितं । 3 सटीकभाष्योपेता। कुर्वन्नेवेह कर्माणि जिजीविषेच्छतः समाः । शा•भा धिमाकसां मा कार्षीर्धनविषयाम् । कस्यस्विद्धनं कस्यचित्परस्य स्वस्य वा धनं मा काङ्क्षीरित्यर्थः। स्विदित्यनर्थको निपातः। अथवा मा गृधः । कस्मात् । कस्यस्विद्धनमित्याक्षेपार्थो न कस्यचिद्धनमस्ति यद्गृध्येत । आत्मैवेदं सर्वमितीश्वरभावनया सर्व त्यक्तमत अत्मन एवेदं सर्वमात्मैव च सर्वमतो मिथ्याविषयां गृधि मा कार्षीरित्यर्थः ॥ १ ॥ एवमात्मविदः पुत्राधेषणात्रयसंन्यासेनाऽऽत्मज्ञाननिष्ठतयाऽऽत्मा रक्षित. व्य इत्येष वेदार्थः। अथेतरस्यानात्मज्ञतयाऽऽत्मग्रहणायाशक्तस्यदमुपदिशति मत्रा-कुर्वमेवेति । कुर्वमेवेह निर्वर्तयन्नेव कर्माण्यग्निहोत्रादीनि जिजीवि. ज्जीवितुमिच्छेच्छतं शतसंख्याकाः समाः संवत्सरान् । तावद्धि पुरुषस्य पर- मायुनिरूपितम् । तथा च प्राप्तानुवादेन यजिजीविषेच्छतं वर्षाणि तत्कुर्व- भेव कर्माणीत्येतद्विधीयते । एवमेवंप्रकारेण त्वयि जिजीविषति नरे नर- मात्राभिमानिनीत एतस्मादग्निहोत्रादीनि कर्माणि कुर्वतो वर्तमाना. सकारादन्यथा प्रकारान्तरं नास्ति येन प्रकारेणाशुभं कर्म न लिप्यते कर्मणा न लिप्यत इत्यर्थः । अतः शास्त्रविहितानि कर्माण्यग्निहोत्रादीनि कुर्वन्नेव जिजीविषेत् । कथं पुनरिदमवगम्यते । पूर्वेण मन्त्रेण संन्यासिनो माननिष्ठोक्ता द्वितीयेन तदशक्तस्य कर्मनिष्ठेत्युच्यते । मानकर्मणोर्वि- भा०टी० त्वेऽपि कस्यस्विदिति वितर्कार्थत्वमन्यत्र प्रसिद्धं तदिह न गृह्यत इत्यनर्थक- मित्युक्तम् । व्यवहारदृष्टयाऽप्यात्मन एवेदं सर्व शेषभूतं जडस्य चित्परतव्रत्वा- दतोऽप्राप्ते विषये नाऽऽकाङ्क्षा कर्तव्या। परमार्थतस्त्वात्मैव सर्वमित्याकाक्षाविषय एव नास्तीत्यर्थः ॥ १॥ आद्यमन्त्रस्य पूर्वार्धेन तत्त्वोपदेशः कृतस्तृतीयपादेनापरिपक्वज्ञानस्य संन्यास. विधिरुक्तश्चतुर्थपादेन संन्यासिनो नियमविधिरुक्त इति प्रतिपदं व्याख्याय संक्षि- प्यार्थमनुवदत्युत्तरस्य संबन्धाभिधित्सया---एवमात्मविद इत्यादिना । पूर्वमन्त्रेण ज्ञानं विहितं यस्य तस्यैवोत्तरमन्त्रेण कर्म विहितं ततः समुच्चयानुष्ठाने तात्पर्य मन्त्रद्वयस्येत्येकदेशी शङ्कामुद्भावयति-कथं पुनरिति । शुद्धब्रह्मज्ञानक. मणोरकाधिकारे विरुद्धत्वाहतुगमनत्रिदण्डिधर्मवदस्त्येव तत्रापि क्रमेणेककर्तृक- त्वमिति चेन्न । विशिष्टरूपभेदाद्भिन्नाधिकारत्वात् । यच्चोक्तं ज्ञानकर्मणोदविहि- १ क. ख. अ. अ.णाश° । २ क. ख. झ. अ. ट. °गुरुविनम् । ३ क ख. ज. झ. ट. °म् । यथा प्रा। ४ क. ख. झ. अ. ट. रे त्व। ५ क. ख. ग. 'प्यस इ ६ क. ख. च. झ. दतः प्रा।
ईशावास्योपनिषत- एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥ २॥ मा०मा रोषं पर्वतवदकम्प्यं यथोक्तं न स्मरसि किम् । इहाप्युक्तं यो हि जिजी विषेत्स कर्म कुर्वन् । ईशा वास्यमिदं सर्व तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनमिति च । न जीविते मरणे वा गृधिं कुर्वीतारण्यमि. यादिति च पदम् । ततो न पुनरियादिति संन्यासशासनात् । उभयोः फलभेदं च वक्ष्यति । इमौ द्वावेव पन्थानावनुनिष्क्रान्ततरौ भवतः क्रिया- यश्चैव पुरस्तात्संन्यासश्चोत्तरेण निवृत्तिमार्गेणेषणात्रयस्य त्यागः । तयोः संन्यासपथ एवातिरेचयति । न्यास एवात्यरेचयदिति च तैत्तिरी- यके । द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः । प्रवृत्तिलक्षणो धर्मों भा-टी तत्वेन शुद्धिसाम्याद्विरोधोऽसिद्ध इति तदप्तत् । ऋतुगमनत्रिदण्डिधर्मयोरप्य- विरोधप्रसङ्गात् । तदुभयं नैकस्य विहितमिति चेत्तुल्यमेतत्प्रतिषेधात्तत्र न समुच्चय इति चेदिहापि न कर्मणा न प्रजया नानुध्यायाहूञ्छब्दानित्यादिप्रतिषेधस्तुल्यः। केवलकर्मविषयो निषेध इति न च वाच्यं केवलपदव्यवच्छेद्याभावात्समुच्चय- विधेरद्याप्यनिश्चितत्वात्तस्मान्न समुच्चये तात्पर्य मत्रद्वयस्येत्याह-- ज्ञानकर्मणो- विरोधमिति । कर्तृत्वाद्यध्याप्साश्रयं कर्म शुद्धत्वाकर्तृत्वादिज्ञानेनोपमृद्यत इति संबन्धग्रन्ये यथोक्तं सहानवस्थानलक्षणं विरोधं किं न स्मरति येनकाधिकारत्वं तयोः कल्पयतीत्यर्थः । मन्त्रलिङ्गादपि तयोभिन्नाधिकारत्वं प्रतीयत इत्याह-इहा- प्युक्तमिति । निजीविषो रागिणः कर्म विहितं सर्वमीश्वर एवेति ज्ञानवतस्त्यागो विहितः । किंच धनसंपन्नस्यैव कर्मण्यधिकारः। प्रथममन्त्राधिकारिणश्च धना- काङ्क्षानिषेधेन कर्माधिकारनिषेधः प्रतीयत इत्यर्थः । जिजीविषा हि कर्मा- धिकारिण एव न ज्ञानाधिकारिण इत्यत्र प्रमाणमाह-न जीवित इति । अरण्यं स्त्रीजनासंकीर्णमाश्रममियाद्गच्छेदिति पदं वेदशास्त्रस्थितिस्ततोऽरण्यवासोपलक्षिता- संन्यासान्न पुनरियाकर्मश्रद्धया न प्रत्यावृत्तिं कुर्यादिति जिजीविषादिरहितस्य संन्यासविधानादित्यर्थः । इतश्च नैकफल कामस्य ज्ञानकर्मणोरधिकारः प्रति- पत्तव्य इत्याह-उभयोरिति । को मोहः कः शोक एकत्वमनुपश्यत इति सनि- दानानर्थप्रहाणं ज्ञानफलं वक्ष्यति । संसारमण्डलान्तर्गतमेव च देशान्तरप्राप्त्या- यत्तं हिरण्यगर्भपदप्राप्त्यादिलक्षणं कर्मफलं वक्ष्यति । अग्ने नय सुपथेत्यन्तेने. त्यर्थः । नारायणोपनिषद्वाक्यमपि भिन्नाधिकारित्वे प्रमाणयति-इमौ द्वावेवेति । १ क. ख. 'ध्यायेद्द ।
सटीकभाष्योपेता। असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः । तास्ते प्रेत्याधिगच्छन्ति ये के चाऽऽत्महनो जनाः ॥३॥ शाभा• निवृत्तश्व विभावित इत्यादि पुत्राय विचार्य निश्चितमुक्तं व्यासेन वेदा- चार्येण भगवता । विभागं चानयोर्दयिष्यामः ॥२॥ अथेदानीमविद्वमिन्दार्थोऽयं मन्त्र आरभ्यते--असुर्याः परमात्मभावमद- यमपेक्ष्य देवादयोऽप्यसुरास्तेषां च स्वभूता लोका असुर्या नाम । नाम- शब्दोऽनर्थको निपातः । ते लोकाः कर्मफलानि लोक्यन्ते दृश्यन्ते भुज्य- न्त इति जन्मानि । अन्धेनादर्शनात्मकेनाज्ञानेन तमसाऽऽवृता आच्छादि- तास्तास्थावरान्तान्त्य त्यक्त्वेमं देहमभिगच्छन्ति यथाकर्म यथाश्रुतम् । ये के चाऽऽत्महनः । आत्मनं घ्नन्तीत्यात्महनः । के ते जना येऽविद्वांसः। कथं त आत्मानं नित्यं हिंसन्ति । अविद्यादोषेण विद्यमानस्याऽऽत्मनस्ति- रस्करणात् । विद्यमानस्याऽऽत्मनो यत्कार्य फलमजरामरत्वादिसंवेदनलक्षणं तदतस्येव तिरोभूतं भवतीति प्राकृताविद्वांसो जना आत्महन उच्यन्ते । तेन ह्यात्महननदोषेण संसरन्ति ते ॥ ३ ॥ मा०टी० पुरस्तात्सृष्टिकालेऽनुनिष्क्रान्ततरौ भूतसृष्टिमनुप्रवृत्तौ मिन्नाधिकारित्वादुभयोः संन्यास एवातिरिक्तः श्रेष्ठो भवति परमपुरुषार्थाव्यवधानादित्यर्थः । व्यासवाक्यमपि संवादकमाह-द्वाविमाविति ॥ २ ॥ आद्यमन्त्रार्थ प्रपञ्चयितुं प्रथममविद्वन्निन्दा क्रियत इत्याह-अथेति । ते लोका इति तच्छब्दो यच्छब्दार्थे । यथाश्रुतमिति । येन यादृशं प्रतिषिद्धं विहितं बा देवतादिज्ञानमनुष्ठितं स तदनुरूपामेव योनिमाप्नोतीत्यर्थः । आत्महन्तृत्वस्योद- रभेदिनि प्रसिद्धः कथमविद्वांस आत्महन इत्याह-कथं तइति । उदरभेदिनोऽ- ध्यात्माधिकारे प्रसङ्गाभावादशुद्धत्वाध्यासेन तिरस्कार एवाऽऽत्महन्तृत्वमित्याह- अविद्यादोषेणेति । यथा कस्यचिच्छुद्धस्य मिथ्याभिशापोऽशस्त्रवध उच्यते तद्वदात्मनि पापित्वाद्यध्यासोऽपि हिंसैवेत्यर्थः । अजरामरत्वादिलक्षणोऽहमिति संवेदनमभिधानं च यत्कार्य तद्धतस्येव न दृश्यत इति हननमुपचर्यत इत्याह- विद्यमानस्येति । अस्याऽऽत्मघातस्य प्रायश्चित्तविधानादर्शनात्संसरणमेव फैलमि- त्याह-तेन हीति ॥ ३ ॥ - १ क. ख. वृत्तौ च वि। घ. ह. च. ट. ठ 'वृत्तिश्च विभाषित । झ. न. 'वृत्तौ चैव भाषित। २ ग. 'न्ति योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्येऽनुसर्पन्ति य । ३ ज. इति शङ्कते-क । ४ ख. घ. ज. नो यात्मा । ५ घ. ड. च. ज. ठ. फालतमि ।
८ ४ ईशावास्योपनिषत् - अनेजदेकं मनसो जवीयो नैनदेवा आप्नुवन्पूर्वमर्षत् । शाभा यस्याऽऽत्मनो हननादविद्वांसः संसरन्ति तद्विपर्ययेण विद्वांसो जना मुच्यन्ते ते नाऽऽत्महनः। तत्कीदृशमात्मतत्त्वमित्युच्यते-अनेजदिति । अने. जद, न-एजत् । एजृ कम्पने । कम्पनं चलनं स्वावस्थापच्युतिस्तद. जितं सर्वदैकरूपमित्यर्थः । तच्चैकं सर्वभूतेषु । मनसः संकल्पादिलक्षणा- ज्जनीयो जववत्तरम् । कथं विरुदमुच्यते ध्रुवं निश्चलमिदं मनसो जवीय इति च । नैष दोषः । निरुपाध्युपाधिमत्त्वेनोपपत्तेः । तत्र निरुपाधिकेन स्वेन पेणोच्यतेऽनेजदेकमिति । मनसोऽन्तःकरणस्य संकल्पविकल्पलक्षणस्यो. पाधेरनुवर्तनादिह देहस्थस्य मनसो ब्रह्मलोकादिरंगमनं संकल्पेन क्षणमा- त्राद्भवतीत्यतो मनसो जविष्ठत्वं लोके प्रसिदम् । तस्मिन्मनसि ब्रह्मलोकादी. द्रुतं गच्छति सति प्रथमं प्राप्त इवाऽऽत्मचैतन्यावभासो गृह्यतेऽतो मनसो जवीय इत्याह । नैनदेवा द्योतनादेवाश्चक्षुरादीनीन्द्रियाण्येतत्प्रकृतमात्मतत्वं नाऽऽप्नुवन प्राप्तवन्तः । तेभ्यो मनो जवीयो मनोव्यापारव्यवहितत्वात् । आभासमात्रमप्यात्मनो नैव देवानां विषयी भवति । यस्माज्जवनान्मनसोऽपि पूर्वमर्षत्पूर्वमेव गतम् । व्योमवद्व्यापित्वात् । सर्वव्यापि तदात्मतत्त्वं सर्वसं. सारधर्मवर्जितं स्वेन निरुपाधिकेन स्वरूपेणाविक्रियमेव सदुपाधिकृताः सर्वाः संसारविक्रिया अनुभवतीवाविवकिनां मूढानामनेकमिव च प्रतिदेहं प्रत्य- वभासत इत्येतदाह-तद्धावतो द्रुतं गच्छतोऽन्यानात्मविलक्षणान्मनोवागि. भा-टी० उत्तरमन्त्रमवतारयति-यस्याऽऽत्मन इत्यादिना । अविक्रियमेकं चेदात्मतत्त्वं कथं तर्हि केचन स्वर्गगामिणः केचन नरकगामिण इति सांसारिकव्यवस्था स्यादिति चेन्मनउपाधिनिबन्धनेत्यभिप्रेत्याऽऽह-मनस इत्यादिना । उपाधेरैनुवर्तनात् । विक्रियादिव्यवहाराश्रयत्वमिति शेषः । ननु मनसो देहान्तःस्थत्वाबहिर्गमनायोग्य- त्वात्कथं वेगवत्त्वमित्याशङ्कयाऽऽह-देहस्थस्येति । जवीयस्त्वादश्वादिवत्तर्हि चक्षुरा- दिग्राह्यत्वं प्राप्तमित्याशङ्कयाऽऽह-नैनदेवा इति । चक्षुरादिप्रवृत्तेर्मनोव्यापारपूर्वक- त्वात्तदविषयत्वे चक्षुरादिविषयत्वमप्यात्मनो न संभवतीत्यर्थः । मनसो वा कथं न विषय आत्मेत्यत आह-यस्मादिति । यथा मनस्थं परिमाणं मनसो न विषयोऽ- । घ. रु. छ. °मर्शत् । २ क. स. 'नं स्थिरत्वप्र । ३ क. ख. ग. ह. च. छ. झ. ठ. मत्त्वोप। ४ ज. °धिकः स्वे'। ५ क. ख. ग. घ. रु. च. ड. रस्थसंकल्पनं क्ष'। ६ घ. ह. 'मर्शत् । ७ ज. ठ. इत्यत आह। ८ ठ. 'रनिव क. स्व. अ. 'रनुवर्तमाना। ९घ. रु. च. छ. ठ.त् । कि सटीकभाष्योपेता। 3 तद्धावतोऽन्यानत्यति तिष्ठत्तस्मिन्नपो मातरिश्वा दधा- ति ॥ ४ ॥ तदेजति तन्नैजति तद्दूरे तदन्तिके । तदन्त- रस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ॥ ५॥ शा० भा० न्द्रियप्रभृतीनत्येत्यतीत्य गच्छतीव । इवार्थ स्वयमेव दर्शयति-तिष्ठ. दिति । स्वयमविक्रियमेव सदित्यर्थः। तस्मिन्नात्मतत्वे सति नित्यचैतन्यस्व. भावे मातरिश्वा मातर्यन्तरिक्षे श्वयति गच्छतीति मातरिश्वा वायुः सर्व प्राणभृरिक्रयात्मको यदाश्रयाणि कार्यकरणजातानि यस्मिन्मोतानि प्रोतानि च यत्सूत्रसंज्ञक सर्वस्य जगतो विधारयितु स मातरिश्वा । अपः कर्माणि प्राणिनां चेष्टालक्षणानि । अग्न्यादित्यपर्जन्यादीनां ज्वलनदहनप्रकाशाभिव. र्षणादिलक्षणानि दधाति विभजतीत्यर्थः । धारयतीति वा । भीषाऽस्माद्वातः पवत इत्यादिश्रुतिभ्यः । सर्वा हि कार्यकारणादिविक्रिया नित्यचैतन्या- त्मस्वरूपे सर्वास्पदभूते सत्येव भवन्तीत्यर्थः ॥ ४ ॥ न मन्त्राणां जामितास्तीति पूर्वमन्त्रोक्तमप्यर्थं पुनराह-तदेजतीति । तदास्मतत्त्वं यत्प्रकृतं तदेजति चलति तदेव च नैजति स्वतो नैव चलति स्वतोऽचलमेव सचलतीवेत्यर्थः । किंच तहूरे वर्षकोटिशतैरप्यविदुषाम- प्राप्यत्वादूर इव । तत् उ अन्तिक इति च्छेदः । तद्वन्तिके समीपेऽत्यन्तमेव विदुषामात्मत्वान केवल दरेऽन्तिके च । तदन्तरभ्यन्तरेऽस्य सर्वस्य । य आत्मा सर्वान्तर इति श्रुतेः । अस्य सर्वस्य जगतो नामरूपक्रियात्मकस्य तदु अपि सर्वस्यास्य बाबतो व्यापकत्वादाकाशवनिरतिशयसूक्ष्मत्वादन्तः । प्रज्ञानघन एवेति च शासनान्निरन्तरं च ॥ ५ ॥ भा० टी०. त्यन्ताव्यवधानात्तथाऽऽत्माऽप्यत्यन्ताव्यवधानान्मनसो न विषयस्तद्वयापक- त्वाचेत्यर्थः। उक्तात्मसंभावनायोगपत्तिमाह-तस्मिन्नात्मतत्ते सतीति । श्रौतानि कर्माणि सोमाज्यपयःप्रभृतिभिरद्भिः संपाद्यन्त इति संबन्धालाक्षणिकोऽशब्दः कर्मसु प्राणचेष्टायाश्चाग्निमित्तत्वप्रसिद्धेः । कारणवाचकः शब्दः कार्ये लक्षणया प्रयुक्त इत्यर्थः । ईश्वरस्यापि हिरण्यगर्भस्य नियतप्रवृत्त्यन्यथानुपपत्त्याऽधिष्ठाता परमेश्वरः संभाव्यत इत्युक्तमिदानी मातरिश्वग्रहणमुपलक्षणार्थमादाय · तात्पर्यमाह-सर्वा हीति ॥ ४ ॥ जामिताऽऽलस्यं व्यापित्वाद्वाह्यतोऽस्ति निरतिशयसूक्ष्मत्वादन्तश्चेदस्ति तर्हि निरन्तरमेकरसं न स्यान्मानाभावादित्याशङ्कयाऽऽह-प्रज्ञानघन एवेति ॥ ५ ॥ १ घ. च. ठ. इममर्थ । २ ज. ठ. र्यकार। ३ अ.म. ट. कर।४ घ. च, छ. दिकि। ५ क. ख. प्राणिचे।
ईशावास्योपनिषत्- यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति । सर्वभूतेषु चाऽऽत्मानं ततो न विजुगुप्सते ॥ ६ ॥ यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः । तत्र को मोहः कः शोक एकत्वमनुपश्यतः॥ ७ ॥ शा० भा॰ यस्तु । यः परित्रामुमुक्षुः सर्वाणि भूतान्यव्यक्तादीनि स्थावरान्ता- न्यात्मन्येवानुपश्यत्यात्मव्यतिरिक्तानि न पश्यतीत्यर्थः । सर्वभूतेषु च तेष्वेव चाऽऽत्मानं तेषामपि भूतानां स्वमात्मानपात्मत्वेन यथाऽस्य देहस्य कार्यकारणसंघातस्याऽऽत्माऽहं सर्वप्रत्ययसाक्षिभूतश्चेतायता केवलो निगु- णोऽनेनैव स्वरूपेणाव्यक्तादीनां स्थावरान्तानामहमेवाऽऽत्मेति सर्वभूतेषु चाऽऽत्मानं निर्विशेष यस्त्वनुपश्यति स ततस्तस्मादेव दर्शनान्न विजुगुप्सते विजुगुप्सां घृणां न करोति । प्राप्तस्यैवानुवादोऽयम् । सर्वा हि घृणाऽऽत्म- नोऽन्यद्दुष्टं पश्यतो भवत्यात्मानमेवात्यन्तविशुद्ध निरन्तरं पश्यतो न घृणानि- मित्तमर्थान्तरमस्तीति प्राप्तमेव । ततो न विजुगुप्सत इति ॥ ६ ॥ इममेवार्थमन्योऽपि मत्र आह-यस्मिन्सर्वाणि भूतानि । यस्मिन्काले यथोक्तात्मनि वा तान्येव भूतानि सर्वाणि परमार्थात्मदर्शनादात्मै. वाभूदात्मैव संवृत्तः परमार्थवस्तु विजानतस्तत्र तस्मिन्काले तत्राऽऽत्मनि वा को मोहः कः शोकः। शोकश्च मोहश्च कामकर्मवीजमजानतो भवति न वात्मैकत्वं विशुद्धं गगनोपमं पश्यतः । को मोहः कः शोक इति शोक- मोहयोरविद्याकार्ययोराक्षेपणासंभवप्रदर्शनासकारणस्य संसारस्यात्य- न्तमेवोच्छेदः प्रदर्शितो भवति ॥ ७ ।। भा० टी• उक्तात्मज्ञानस्य फलं विधिनिषेधातीतजीवन्मुक्तस्वरूपेणावस्थानमित्याह- यस्त्विति ॥ ६॥ निरतिशयानन्दस्वरूपमत एव दुःखास्पृष्टमात्मानमजानतः शोको भवति हा हतोऽहं न मे पुत्रोऽस्ति न मे क्षेत्रमिति । ततः पुत्रादीकामयते तदर्थ देवताराधनादि चिकीर्षति न त्वात्मैकत्वं पश्यतस्ततोऽन्वयव्यतिरेकाम्यां शोका- देरविद्याकार्यत्वावधारणान्मूलाविद्यानिवृत्त्यैव शोकादेरात्यन्तिकी निवृत्तिर्विद्या- फलत्वेन विवक्षिता लयमात्रस्य सुषुप्तेऽपि भावादित्याह-शोकेश्च मोहश्चे- त्यादिना ॥ ७ ॥ १ घ. अ. त्मन्नेवा । २ विचिकित्सतीत्ययं पाठ उवटभाष्यपुस्तकस्थः । ३. क. स. घ. छ. ठ. ड. °मबीजमज्ञान' । ४ च. 'मज्ञानवतो । ५ घ, ङ, च. छ. कमोहयोरित्या सटीकभाष्योपेता। ११ स पर्यगाच्छुक्रमकायमव्रणमस्त्राविर शुद्धमपाप- विद्धम् । कविर्मनीषी परितः स्वयंभूर्याथातथ्य- तोऽर्थान्व्यदधाच्छाश्वतीभ्यः समात्यः ॥ ८ ॥ *अन्धं तमः प्रविशन्ति येऽविद्यामुपासते । शा० भा० योऽयमतीतर्मत्रैरुक्त आत्मास स्वेन रूपेण किंलक्षण इत्याहायं मत्र:- स पर्यगात्स यथोक्त आत्मा पर्यगात्परि समन्तादगाद्तवानाकाशवया- पीत्यर्थः । शुक्र शुद्धं ज्योतिष्मद्दीप्तिमानित्यर्थः । अकायमशरीरो लिङ्गश- रीरवर्जित इत्यर्थः। अत्रणमक्षतम् । अनाविरं स्नावाः शिरा यस्मिन्न विद्यन्त इत्यस्नाविरम् । अत्रणमनाविरमित्याभ्यां स्थूलशरीरप्रतिषेधः । शुद्धं निर्मलमविद्यामलरहितमिति कारणशरीरप्रतिषेधः । अपापविद्धं धर्माधर्मा- दिपापवर्जितम् । शुक्रमित्यादीनि वचांसि पुंलिङ्गत्वेन परिणेयानि । स पर्यगादित्युपक्रम्य कविर्मनीषीत्यादिना पुंलिङ्गत्वेनोपसंहारात् । कविः क्रान्तदर्शी सर्वदृक् । नान्योऽतोऽस्ति द्रष्टेत्यादिश्रुतेः । मनीषी मनस 'ईषिता सर्वज्ञ ईश्वर इत्यर्थः । परिभूः सर्वेषां पर्युपरि भवतीति परिभूः । स्वयंभूः स्वयमेव भवतीति येषामुपरि भवति यश्चोपरि भवति स सर्वः स्वयमेव भवतीति स्वयंभूः । स नित्यमुक्त ईश्वरो याथातथ्यतः सर्वज्ञ- त्वाद्यथातथा भावो याथातथ्यं तस्माद्यथाभूतकर्मफलसाधनतोऽर्थान्कर्त- व्यपदार्थान्व्यदधाद्विहितवान्यथानुरूपं व्यभजदित्यर्थः । शाश्वतीभ्यो नित्याभ्यः समाभ्यः संवत्सराख्येभ्यः प्रजापतिभ्य इत्यर्थः ॥ ८ ॥ अत्राऽऽयेन मन्त्रेण सर्वैषणापरित्यागेन ज्ञाननिष्ठोक्ता प्रथमो वेदार्थः । ईशा आ० टी० योऽयमिति । स्वप्रक्षरणे धातुः। स्नावयन्ति शरीरमिति नावाः शिराः क्रान्तमतिक्रान्तं नष्टमित्युपलक्षणं भूतमविष्यद्वर्तमानदर्शी ॥ ८ ॥ प्रकरणविभागं दिदर्शयिष्व॒त्तमनुवदति-अत्राऽऽद्येनेति । यदुक्तं भास्करण * उवटभाष्येशावास्यरहस्येशावास्यविवृतिषु तु नवमदशमयोर्मन्त्रयोदशत्रयोदशयोश्च य- थासंख्यं वैपरीत्यं तथा चतुर्दशैकादशयो(परीत्यं तथाऽने नयेति मन्त्रः षोडशः । तथा वायुरनिल- मिति पञ्चदशः । किंच वायुरनिलमित्यस्योत्तरार्धस्थाने ॐ तो स्मर क्लिबे स्मर कृतर स्मरेति तथा हिरण्मयेनेति सप्तदशः । किंच हिरण्मयेनेत्यस्योत्तरार्धस्थाने योऽसावादिये पुरुषः सोऽसावहम् ॥ १७ ॥ ॐ ख ब्रह्मेति तथा पूषन्नेकर्ष शति मन्त्रो नास्त्येव तथाऽसुर्या नामेतिमन्त्रान्तर्गतप्रेत्याभि- गच्छन्तीत्यस्य स्थाने प्रेत्यापि गच्छन्तीति पाठस्तथा षष्ठमन्त्रस्थविजुगुप्सत इत्यस्य स्थाने विचि- कित्सतीति पाठः । पिच दशममन्त्रस्य पूर्वार्धस्य स्थाने 'अन्यदेवाहुर्विद्याया अन्यदाहुरविद्यायाः एवं पाठ इति ज्ञेयम् । १ क, ख. ज. झ ईशिता। .
१२ ईशावास्योपनिषत्- ततो भूय इव ते तमो य उ विद्याया५ रताः ॥ ९ ॥ शा० भा• वास्यमिदं सर्व मा गृधः कस्य स्विद्धनमित्यज्ञानां जिजीविषूणां ज्ञान- निष्ठासंभवे कुर्वन्नेवेह कर्माणि जिजीविषेदिति कर्मनिष्ठोक्ता द्वितीयो वेदार्थः। अनयोश्च निष्ठयोविभागो मत्रप्रदर्शितयोवृहदारण्यकेऽपि प्रदर्शितः सोऽकामयत जाया मे स्यादित्यादिना । अज्ञस्य कामिनः कर्माणीति मन एवास्याऽऽत्मा वाग्जायेत्यादिवचनात् । अज्ञत्वं कामित्वं च कर्मनिष्ठस्य निश्चितमवगम्यते। तथा च तत्फलं सप्तानसर्गस्तेष्वात्मभावेनाऽऽत्मस्वरूपा- वस्थानं जायाधेषणात्रयसंन्यासेन चाऽऽत्मविदां कर्मनिष्ठापातिकूल्येनाऽऽ. स्मस्वरूपनिष्ठेच दर्शिता किं प्रजया करिष्यामो येषां नोऽयमात्माऽयं लोक आ० टी• सर्वाऽप्युपनिषदेकं ब्रह्मविद्याप्रकरणं ततः प्रकरणभेदकरणमनुचितमिति । तद. सत् । प्राणाद्युपासनविधानस्याप्युपनिषत्सु दर्शनात् । न च तदपि ब्रह्मज्ञानाङ्ग- मिति वाच्यम् । पृथक्फलश्रवणाः । तेनापि व्याकृताव्याकृतोपासनसमुच्चयविधा. नस्य प्रकरणभेदेनैवेष्टत्वाद्वयाकृताव्याकृतोपासनस्य प्रकारान्तरत्वात्तस्माद्यथा कर्म- काण्डेऽग्निहोत्रादिप्रकरणं भिन्नमेवेष्यते भिन्नाधिकारत्वात्तत्तत्कर्मणस्तथोपनिषत्स्वपि भिन्नाधिकारत्वात्कर्माविरुद्धतद्विरुद्धविद्याप्रकरणभेदो न विरुध्यो । मन्त्रार्थे ब्राह्मणसंमति दर्शयितुमपक्रमते--अनयोश्चेत्यादिना । तत्र वाक्ये कथमज्ञत्व- मवगम्यत इत्याशङ्कयाऽऽह-मन एवेति । जाया मे स्यादथ प्रजायेयाथ वित्तं मे स्यादथ कर्म कुर्वीयेति कामयमानस्य सर्वथैव बाह्यो जायादिर्यदा न संपद्यते तदाऽ ध्यात्मजायादिसंपत्तिं दर्शयति-एतच्चाज्ञत्वलिङ्गं मनआदिष्वात्मत्वाद्यभिमान. स्याज्ञानकार्यत्वात् । यथा च बाह्यकामिन्यलाभे सुप्तो मनोविजृम्भितकामिनीमुप- भुञ्जानोऽज्ञः प्रसिद्धस्तद्वदयमपीत्यर्थः । तेषां च कर्मणां फलं संसाराप्तिरेवेत्यपि तत्रैव दर्शितमित्याह-तथा चेति । एकं साधारणमन्नं यदिदमद्यते द्वे देवानां हुतप्रहुते दर्शपूर्णमासौ वा त्रीण्यस्य भोगप्ताधनानि मनोवाक्प्राणलक्षणानि पश्चर्यमेक तत्पय इति सप्तानसर्गो दर्शितः श्रुत्या यत्सप्तान्नानि मेधया तपसाऽजनयत्पिते- त्यादिना । अत्रैकैको यजमान एवं विहितप्रतिषिद्धज्ञानकर्मानुष्ठानात्सर्वस्य संसा- रस्य साक्षात्पारम्पर्याभ्यां जनकत्वात्पितोच्यते । तेषु च सृष्टेष्वन्नेषु तस्य पितुरह- मिदं ममेदमित्यात्मत्वाध्यासेन मन आदिष्वितरेषु च संबन्धाध्यासेनावस्थानं संसार: प्रसिद्ध इत्यर्थः । एवं मन्त्रप्रदर्शिते निष्ठाद्वये ब्राह्मणसंमति दर्शयित्वा प्रकरणविभागं १ च. 'वासूपनिषत्स्वेक । २ क. ख झ. 'त् स्वेना । ३ ज. तेन भास्करेणापि । १ घ. ङ. ठ. नस्यापकान्तत्वा' । ५३. ज. प्रकान्तत्वा। ६ क. झ. °ध्यात्म जा। ७ घ. इ. च. ज. ठ. त्रीणि स्पस्य । ८ ज. . को । ७ ।
सटीकभाष्योपेता। शा०भा० इत्यादिना। ये तु ज्ञाननिष्ठाः संन्यासिनस्तेभ्योऽसुर्या नाम त इत्यादि- नाऽविद्वन्निन्दाद्वारेणाऽऽत्मना याथात्म्यं स पर्यगादित्येतदन्तैमन्त्रैरुपदिष्टम् । ते छत्राधिकृतान कामिन इति । तथा च श्वेताश्वतराणां मनोपनिषदि अत्या. श्रमिभ्यः परमं पवित्रं प्रोवाच सम्यगृषिसंघजुष्टमित्यादि विभज्योक्तम् । ये तु कर्मिणः कर्मनिष्ठाः कर्म कुर्वन्त एव जिजीविषवस्तेभ्य इदमुच्यते- अन्धं तम इत्यादि। कथं पुनरेवमवगम्यते न तु सर्वेषामित्युच्यते-अकामिनः साध्यसाधनभेदोपमर्दैन यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः । तत्र को मोहः कः शोक एकत्वमनुपश्यत इति । यदात्मकत्वविज्ञानं तन्न केन चित्कर्मणा ज्ञानान्तरेण वा ह्यमूढः समुच्चिचीपति । इह तु समुच्चिचीष- याऽविद्वदादिनिन्दा क्रियते । तत्र च यस्य येन समुच्चयः संभवति न्या. यतः शास्त्रतो वा तदिहोच्यते । यद्देवं वित्तं देवताविषयं ज्ञानं कर्मसंव- भा० टि• दर्शयति-ये तु ज्ञाननिष्ठा इत्यादिना । अत्याश्रमिभ्य इति। उत्तमाश्रमिभ्य इत्यर्थः । साध्यसाधनभेदोपमर्दैन यदात्मैकत्वविज्ञानं यस्मिन्सर्वाणि भूतान्यात्मैवा- भूदित्यवधारणेनोक्तं पूर्वार्धेनोत्तरार्धेन च संसारनिवृत्तिफलकमुक्तं तन्न श्रौतेन स्मार्तेन वा कर्मणा केनचिदमूढः समुच्चिचीपति। अन्धं तम इत्यादौ तु समुच्चिचीष- याऽविद्वदादिनिन्दा दृश्यते । ततः किमित्यत आह-तत्र च यस्यति । कस्य तहि ज्ञानस्य कर्मसमुच्चयः संभवतीत्यत आह-यदैवं वित्तमिति । यच्चोक्तं भास्करणेशा वास्यमिति मन्त्रे ब्रह्मविद्यायाः प्रक्रान्तत्वात्तस्या एव समुच्चिची- षया निन्दोच्यत इति । तदसत् । न हि प्रकृतमित्येतावता संबध्यते किंतु संबन्धयोग्यम् । शुद्धब्रह्मात्मैकत्वविद्यायास्तु कर्तृत्वाद्यध्यासोपमर्दकत्वान्नास्ति कर्मसंबन्धयोग्यता । किंच यस्मिन्निष्पन्नेऽपि फलस्य व्यवधानं संभाव्यते तस्यैव सहकारिसमुच्चय इष्यते दीदरिह त्वेकत्वमनुपश्यतः को मोहः कः शोक इत्ये. कत्वदर्शनसमकालमेव मोहादिनिवृत्त्यभिधानान्न कालान्तरीयफलम् । ततो न सहकारिसमुच्चिचीषा । किंचास्या मन्त्रोपनिषदो ब्राह्मणे ब्राह्मणा विविदिषन्ति यज्ञेनेत्यादौ तृतीयाश्रुत्या यज्ञादेरिष्यमाणवेदने करणत्वेन संबन्धः प्रतीयते । तत्कथं दुर्बलेन प्रकरणेन सहकारितया संबन्धः प्रकल्प्यते । प्रधानस्य च विद्यायाः सहकारिसंबन्धविधित्सया निन्देत्यप्ययुक्तम् । अत एव चाग्नीन्धनाद्यनपेक्षे- तिसूत्रविरोधा समुच्चयश्च परेणापि नेष्यते । विरोधेने च परिजह तस्मात्कर्मा- विरुद्धदेवताज्ञानस्यैवात्र समुच्चयो विधित्स्यते । ननु देवताज्ञानस्य कर्मफलाति- १ २ १च. ते यथा दी २ झ औरवेह। ३ घ. १. ज. ठ. किं च ब्राह्मणा वि । ४ च. ज. श्व अमीन्धनोपलक्षितकर्मसमझ। ५ ग. च. छ. ज. न चापाचके त° । ३. उ. 'न चापाचक्रमे त ।
ईशावास्योपनिषत् अन्यदेवाहुविवयाऽन्यदाहुरविद्यया । इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १० ॥ विद्यां चाविद्यां च गन्तदोभय सह । शा०भा० न्धित्वेनोपन्यस्तं न परमात्मज्ञानम् । विद्यया देवलोक इति पृथक्फलश्र- वणात् । तयोर्ज्ञानकर्मणोरिहैकैकानुष्ठाननिन्दा समुच्चिचीषया न निन्दा- परैवैकैकस्य पृथक्फलश्रवणात् । विद्यया तदारोहन्ति । विद्यया देव- लोकः। न तत्र दक्षिणा यन्ति । कर्मणा पितृलोक इति । नहि शास्त्रवि हितं किंचिदकर्तव्यतामियात् । तत्रान्धं तमोऽदर्शनात्मकं तमः प्रवि- शन्ति । के । येऽविद्यां विद्याया अन्याऽविद्या तां कर्मेत्यर्थः । कर्मणो विद्याविरोधित्वात् । तामविद्यामग्निहोत्रादिलक्षणामेव केवलामुपासते तत्प- राः सन्तोऽनुतिष्ठन्तीत्यभिप्रायः। ततस्तस्मादन्धात्मकात्तमसो भूय इव बहुतरमेव ते तमः प्रविशन्ति । के, कर्म हित्वा ये उ ये तु विद्यायामेव देव- ताज्ञान एव रता अभिरताः। तत्रावान्तरफलभेदं विद्याकर्मणोः समुच्चय. कारणमाह । अन्यथा फलवदफलवतोः संनिहितयोरङ्गाङ्गितव स्यादि. त्यर्थः ॥९॥ अन्यदेवेत्यादि । अन्यत्पृथगेव विद्यया क्रियते फलमित्याहुर्वदन्ति विद्य- या देवलोको विद्यया तदारोहन्तीतिश्रुतेः। अन्यदाहुरविद्यया कर्मणा क्रियते कर्मणा पितृलोक इति श्रुतेः । इत्येवं शुश्रुम श्रुतवन्तो वयं धीराणां धीमतां वचनम् । य आचार्या नोऽस्मभ्यं तत्कर्म च ज्ञानं च विचचक्षिरे व्याख्या- तवन्तस्तेषामयमागमः पारम्यर्यागत इत्यर्थः ॥ १० ॥ यत एवमतो विद्यां चाविद्यां च देवताज्ञानं कर्म चेत्यर्थः । यस्तदेतदुभयं आ० टी०रिक्तफलभावात्समुच्चयो न संभवतीत्यत आह-विद्ययेति । ननु समुच्चिची- षया निन्देति किमिति व्याख्यायते । अध्ययनविधेर्मोक्षादापर्यवप्तानानुपप- त्तर्देवलोकादिप्राप्तेः फलाभासत्वोत्प्रहाणार्थैव निन्दा किं नेष्यते तत्राऽऽह-तयोर्जा- नकर्मणोरिति । न फलशब्दो मोक्षे रूढो मोक्षमनिच्छतामपि समीहिते फलव्यवहारदर्शनात्ततो यो देवलोकादिमुपादित्सते तस्य तदपि फलं भवत्येवे- त्यर्थः ॥ ९॥ १० ॥ ११ ॥ , "विद्याया अन्य । २। 'विद्यायाः।इ। उवटाभष्यस्थाविमौ पाठौ । ३ झ. म. ट. णोऽविद्याविरोधाभावात् । ग. घ. रु. च. छ. ज. ठ. एतेष्विदं नास्त्येव । ग. झ. म. ट. हितायां जामितै' । क. ख. 'ङ्गितया जामिते । ५ ज. वात्कर्मणो 'निन्दा: मुण्डकादिषु श्रूयते प्लवा ह्येते अहटा यज्ञरूपाः प्रहा । ६ ज. °पि वाछितस । a सटीकभाष्योपेता। अविद्यया मृत्यू तीर्खा विद्ययाऽमृतमश्नुते ॥ ११ ॥ अन्धं तमः प्रविशन्ति येऽसंभूतिमुपासते । ततो भूय इव ते तमो य उ संभूत्या ५ रताः ॥ १२ ॥ अन्यदेवाऽऽहुः संभवादन्यदाहुरसंभवात् । इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १३ ॥ शा० भा० सहकेन पुरुषेणानुष्ठेयं वेद तस्यैवं समुच्चयकारिण एवैकपुरुषार्थ- संबन्धः क्रमेण स्यादित्युच्यते-अविद्यया कर्मणाऽग्निहोत्रादिना मृत्यु स्वाभाविकं कर्म ज्ञानं च मृत्युशब्दवाच्यमुभयं तीर्वाऽतिक्रम्य विद्यया देवताज्ञानेनामृतं देवतात्मभावमश्नुते प्रामोति । तद्ध्यमृतमुच्यते यद्देवता- त्मगमनम् ॥ ११॥ अधुना व्याकृताव्याकृतोपासनयोः समुचिचीषया प्रत्येकं निन्दोच्यते- अन्धं तमः प्रविशन्ति येऽसंभूतिं संभवनं संभूतिः सा यस्य कार्यस्य सा संभूतिस्तस्या अन्याऽसंभूतिः प्रकृतिः कारणमविद्याऽव्याकृता. ख्या तामसंभूतिमव्याकृताख्यां प्रकृति कारणमविद्या कामकर्मबीजभूताम- दर्शनात्मिकामुपासते ये ते तदनुरूपमेवान्धं तमोऽदर्शनात्मकं प्रविशन्ति । ततस्तस्मादपि भूयो बहुतरमिव तमः प्रविशन्ति य उ संभूत्यां कार्यब्रह्म णि हिरण्यगर्भाख्ये रताः ॥ १२ ॥ अधुनोभयोरुपासनयोः समुच्चयकारणमवयवफलभेदमाह-अन्यदेवेति। अन्यदेव पृथगेवाऽऽहुः फलं संभवात्संभूतेः कार्यब्रह्मोपासनादणिमाद्यैश्वर्य- लक्षणं व्याख्यातवन्त इत्यर्थः । तथा चान्यदाहुरसंभवादसंभूतेरव्याकृता. दव्याकृतोपासनाद्यदुक्तमन्धं तमः प्रविशन्तीति प्रकृतिलय इति च पौरा- णिकैरुच्यत इत्येवं शुश्रम धीराणां वचनं ये नस्तद्विचचक्षिरे व्याकृताव्या- कृतोपासनफलं व्याख्यातवन्त इत्यर्थः ॥ १३ ।। भा०टी० चित्तन्त्रा माया परमेश्वरस्योपाधिः । मायां तु प्रकृति विद्यान्मायिनं तु महेश्वर- मित्यादिश्रुत्यन्तरप्रसिद्धाऽत्रासंभूतिशब्देनोच्यते न ब्रह्म । तस्य निर्विकारस्य साक्षा- प्रकृतित्वानुपपत्तेः। भास्कराभिमतस्तु परिणामवादस्तत्त्वालोके निरस्त एवास्मामिः। सांसारिकदुःखानुभवाभावेन च सुषुप्तिवत्प्रकृतिलयस्य पुरुषेणार्थ्यमानताऽप्युपप. द्यते । फलं च कर्मोपासन इव प्रकृत्युपासनेऽपि परमेश्वर एव दास्यति । ततो जडत्वा- त्प्रकृतेः फलदातृत्वानुपपत्तेरुपास्यत्वानुपपत्तिरित्यपि कुचोद्यमेव ॥१२॥ १३॥१४॥ १ क. स. तितन्त्रत्वा । १ १६ ईशावास्योपनिषत्- संभूतं च विनाशं च यस्तद्वेदोभय ५ सह । विनाशेन मृत्युं तीर्खा संभूत्याऽमृतमश्नुते ॥ १४ ॥ हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् । तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥ १५॥ 'यत एवमतः समुच्चयः संभूत्यसंभृत्युपासनयोयुक्त एवैकपुरुषार्थत्वाचे. त्याह-संभूतिं च विनाशं च यस्तद्वेदोभय सह । विनाशेन विनाशो धर्मो यस्य कार्यस्य स तेन धर्मिणाऽभेदेनोच्यते विनाश इति । तेन तदु. पासनेनानैश्वर्यमधर्मकामादिदोषजातं च मृत्यु तीा हिरण्यगर्भोपासनेन हाणिमादिप्राप्तिः फलम् । तेनानैश्वर्यादिमृत्युमतीत्यासंभूत्याऽव्याकृतो. पासनयाऽमृतं प्रकृतिलयलक्षणमभुते । संभूतिं च विनाशं चेत्यत्रावर्ण- लोपेन निर्देशो द्रष्टव्यः । प्रकृतिलयफलश्रुत्यनुरोधात् ॥ १४ ॥ मानुषदैव वित्तसाध्यं फलं शास्त्रलक्षणं प्रकृतिलयान्तम् । एतावती संसा- रगतिः । अतः परं पूर्वोक्तमात्मैवाभूद्विजानत इति सर्वात्मभाव एव सबै- षणासंन्यासज्ञाननिष्ठाफलम् । एवं द्विप्रकारः प्रवृत्तिनिवृत्तिलक्षणो वेदा. र्थोऽत्र प्रकाशितः । तत्र प्रवृत्तिलक्षणस्य वेदार्थस्य विधिप्रतिषेधलक्षणस्य कृत्स्नस्य प्रकाशने प्रवर्यान्तं ब्राह्मणमुपयुक्तम् । निवृत्तिलक्षणस्य वेदा. र्थस्य प्रकाशनेऽत अर्ध्व बृहदारण्यकमुपयुक्तं तत्रनिषे कादिश्मशानान्तं कर्म कुर्वञ्जिजीविषेद्यो विद्यया सहापरब्रह्मविषयया तदुक्तं विद्यां चाविद्या च यस्तद्वेदोभय सह । अविद्यया मृत्यु तीवा विद्ययाऽमृतमभुत इति । तत्र केन मार्गेणामृतत्वमश्नुत इत्युच्यते-तयत्तत्सत्यमसौ स आदित्यो य एष एतस्मिन्मडले पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुष एतदुभयं सत्यं ब्रह्मोपासीनो यथोक्तकर्मकृच्च यः सोऽन्तकाले प्राप्ते सत्यात्मानमात्मनः प्राप्तिद्वारं याचते हिरण्मयेन पात्रेण । हिरण्मयमिव हिरण्मयं ज्योतिर्मय- मित्येतत् । तेन पात्रेणेवापिधानभूतेन सत्यस्यैवाऽऽदित्यमण्डलस्थस्य ब्रह्म- णोऽपिहितमाच्छादितं मुखं द्वारं तत्त्वं हे पूषन्नपावृण्वपसारय सत्य- भा०टी० विस्तरेणोक्तमर्थनातं संक्षिप्योपसंहरति--मानुषदेववित्तसाध्यमित्यादिना । शरीरपाटवं गोभूहिरण्यादिसाधनसंपत्तिश्च मानुषं वित्तम् । देवं वित्तं देवताज्ञान- सटीकभाष्योपेता। पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन्समूह । तेजो यत्ते रूपं कल्याणतम तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि ॥ १६ ॥ वायुरनिलममृतमथेदं भस्मान्त शरीरम् । मा० भा धर्माय तव सत्यस्योपासनात्सत्यं धर्मो यस्य मम सोऽहं सत्यधर्मा तस्मै मामथवा यथाभूतस्य धर्मस्यानुष्ठात्रे दृष्टये तव सत्यात्मन उपलब्धये ॥१५॥ पूषन्निति । हे पूषन् । जगतः पोषणात्पूषा रविस्तथैक एव ऋषति गच्छ- तीत्येकर्षिः । हे एकर्षे । तथा सर्वस्य संयमनाद्यमः । हे यम । तथा रश्मीनां प्राणानां रसानां च स्वीकरणात्सूर्यः। हे सूर्य । प्रजापतेरपत्यं प्राजापत्यः । हे प्राजापत्य । व्यूह विगमय रश्मीन्स्वान् । समूह, एकी कुरु उप- संहर ते तेजस्तापकं ज्योतिः । यत्ते तव रूपं कल्याणतममत्यन्त शोभनं तत्ते तवाऽऽत्मनः प्रसादात्पश्यामि । किंचाहं न तु त्वां भृत्यवद्याचे योऽसावा. दित्यमण्डलस्थो व्याहृत्य वयवः पुरुषः पुरुषाकारत्वात्पूर्ण वाऽनेन प्राण- बुद्धयात्मना जगत्समस्तमिति पुरुषः पुरि शयनाद्वा पुरुषः सोऽहमस्मि भवामि ।। १६ ॥ वायुरिति । अथेदानीं मम मरिष्यतो वायुः प्राणोऽध्यात्मपरिच्छेदं हित्वाs- घिदैवतात्मानं सर्वात्मकमनिलममृतं सूत्रात्मानं प्रतिपद्यतामिति वाक्य- शेषः । लिङ्ग चेदं ज्ञानकर्मसंस्कृतमुत्क्रामत्विति द्रष्टव्यम् । मार्गया. भा०टी०मुत्तरग्रन्थस्य संबन्धाभिधित्सयाऽर्थविशेषमनुवदति-तत्र निषेकादीत्यादिना । तदुक्तमिति तं प्रत्युक्तं मन्त्रेण विद्यां चेत्यादिनाऽऽपेक्षिकामृतत्वं फलमित्युक्तम- स्माभिरिति ॥ १५ ॥ व्याहृत्यवयव इति । तस्य भूरिति शिरः भुवै इति बाहुः सुवरिति प्रतिष्ठा पादा- वित्यर्थः ॥ ११ ॥१०॥ १च. सत्यधर्मस्तस्मै । यद्यप्ययमेव पाठो मूलानुसारेण समीचीन इति भाति तथाऽपि च- व्यतिरिक्तपुस्तकेषु सत्यधर्मा तस्मै, इत्येव पाठ उपलब्धः । अतः स एव शंकराचार्याभिप्रेत इति गम्यते । कुत इति चेदुच्यते-मूले सत्यधर्मायेति पदं वर्तते तत्तु भाषायां वैयाकरणरीत्या न सिध्यति किं ताई धर्मादनिच्केवलादिति पाणिनिसूत्रेण समासान्तानिच्प्रत्ययेन भाव्यं तथा च सत्य. धर्मण इति स्यादत आचार्यः सत्यधर्मायेत्यस्याऽऽर्षत्वप्रदर्शनार्थ भाष्येऽनिजन्तसत्यधर्मशब्दस्य प्रथमैकवचनस्य प्रदर्शितत्वादिति ज्ञेयम् । २ ज. वः परोक्षोऽसौ शास्त्रदृष्ट्या प्रत्यक्षः पु। ३ च धरिति बाहू सु। ३ १८ ईशावास्योपनिषत्- ॐ क्रतो स्मर कृत स्मर तो स्मर कृत स्मर ॥ १७ ॥ अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान् । शा०भा०चनसामर्थ्यात् । अथेदं शरीरमग्नौ हुतं भस्मान्तं भूयात् । ओमिति यथोपा. सनोप्रतीकात्मकत्वात्सत्यात्मकमग्न्याख्यं ब्रह्माभेदेनोच्यते । हे क्रतो संकल्पात्मक स्मर यन्मम स्मर्तव्यं तस्य कालोऽयं प्रत्युपस्थितोऽतः स्मरै- तावन्तं कालं भावितं कृतमैग्ने स्मर यन्मया बाल्यप्रभृत्यनुष्ठितं कर्म तव स्मर । क्रतो स्मर कृतं स्मरेति पुनर्वचनमादरार्थम् ॥ १७ ॥ पुनरन्येन मत्रेण मार्ग याचते- अग्ने नयेति । हेऽग्ने नय गमय सुपथा शोभनेन मार्गेण । सुपथेति विशेषणं दक्षिणमार्गनिवृत्त्यर्थम् । निविण्णोऽहं दक्षिणेन मार्गेण गतागतलक्षणेनातो याचे त्वां पुनः पुनर्गमनागमनवर्जि- तेन शोभनेन पथा नय । राये धनाय कर्मफलभोगायेत्यर्थः । अस्मान्ययो. क्तधर्मफलविशिष्टान्विश्वानि सर्वाणि हे देव वयुनानि कर्माणि प्रज्ञानानि वा विद्वाञ्जानन् । किं च युयोधि वियोजय विनाशयास्मदस्मत्तो जुहुराणं कुटिलं वञ्चनात्मकमेन: पापम् । ततो वयं विशुद्धाः सन्त इष्टं प्राप्स्याम इत्यभिप्रायः । किंतु वयमिदानी ते न शक्नुम परिचर्या कर्तुं भूयिष्ठां बहुतराम् । ते तुभ्यं नमउक्तिं नमस्कारवचन विधेम नमस्कारेण परिचरेमेत्यर्थः । अविद्यया मृत्यु तीा विद्ययाऽमृतमश्नुते । विनाशेन मृत्यु तीवा संभृत्याऽमृतमश्नुत इति श्रुत्वा कोचित्संशयं कुर्वन्ति । अतस्त. निराकरणार्थ संक्षेपतो विचारणां करिष्यामः । तत्र तावकिनिमित्तः संशय इत्युच्यते। विद्याशब्देन मुख्या परमात्मविद्यैव कस्मान्न गृह्यतेऽमृतत्वं च । ननूक्तायाः परमात्मविद्यायाः कर्मणश्च विरोधात्समुच्चयानुपपत्तिः । सत्यम् । विरोधस्तु नावगम्यते विरोधाविरोधयोः शास्त्रप्रमाणकत्वात् । यथाऽविद्यानुष्ठानं विद्योपासनं च शास्त्रप्रमाणकं तथा तद्विरोधाविरोधावपि । यथा च न हिंस्यात्सर्वा भूतानीति शास्त्रादवगतं पुनः शास्त्रैणैव बाध्यतेऽ- भा०टी० मन्त्रान्पदशो व्याख्याय संक्षेपतो विचारमारभते - अविद्यया मृत्यु तीवे. त्यादिना । अमृतत्वं चेति । अमृतत्वं च मुख्यमेव कस्मान्न गृह्यत इति संबन्धः । शास्त्रीययोर्ज्ञानकर्मणाविरोधाविरोधौ शास्त्रीयावेव ग्राह्यौ न तर्कमात्रेणेति परेणोक्त १ प. कु. च. छ. ठ. कम' । २ ग. ब्रह्मैव ओमित्युच्य । क. ख. घ. 'मग्रे स्म। क. स. ग. अ. ट. स्तनिर्धार । ५ घ. अ. ट. ड. स्यात्सर्वभू' । एतदन्यपुस्तकेषु सर्वा, इत्येव पाठो दृश्यते । अतः सर्वाणीत्यर्थ कसर्वा, इतिपदघटितवाक्यस्य श्रुतिस्थत्वमनुमीयते ।
सटीकभाष्योपेता। युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्तिं विधेम ॥ १८ ॥ इत्युपनिषद् ॥ इति वाजसनेयसंहितोपनिषत्संपूर्णा ॥ ॐ पूर्णमदः शिष्यते ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ शा. भा० ध्वरे पशुं हिंस्यादिति । एवं विद्याविद्ययोरपि स्यात् । विद्याकर्मणोश्च समुच्चयो न दूरमेते विपरीते विषूची अविद्या या च विघतिश्रुतेः । विद्या चाविद्यां चेतिवचनादविरोध इति चेन्न । हेतुस्वरूपफलविरोधात् । विद्या विद्याविरोधाविरोधयोर्विकल्पासंभवात्समुच्चयविधानादविरोध एवेति चेन्न सहसंभवानुपपत्तेः । क्रमेणैकाश्रये स्यातां विद्याविद्ये इति चेन्न । विद्यो. त्पत्तावविद्याया ह्यस्तत्वात्तदाश्रयेऽविद्यानुपपत्तेः । न ह्यग्निरुष्णः प्रका. शश्चेति विज्ञानोत्पत्तौ यस्मिन्नाश्रये तदुत्पन्नं तस्मिन्नेवाऽऽश्रये शीतोऽग्निरप- काशो वेत्यविद्याया उत्पत्तिर्नापि संशयोऽज्ञानं वा । यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः । तत्र को मोहः कः शोक एकत्वमनुपश्यत इति शोकमोहाद्यसंभवश्रुतेः । अविद्यासंभवात्तदुपादानस्य कर्मणोऽप्य. आ० टी० सिद्धान्ती शास्त्रसिद्ध एव विरोध इत्याह-न दूरमेते इति । विषूची नानागती विद्याविधे दूरं विपरीते अतिशयेन विरुद्धे इत्यर्थः । सहसंभवानुपपत्तेरिति । काऽनुपपत्तिः। काठके विरोधश्रवणात् । तद्गतविद्या विद्ययोर्विरोधोऽस्तु । इह त्वविरो- धश्रवणादविरोधो भविष्यतीति न च वाच्यम् । विरोधाविरोधयोः सिद्धत्वेन विकल्पासं- भवादुदितानुदितहोमयोहि पुरुषतन्त्रत्वाद्युक्तो विकल्प इत्युक्तं, तहविरोध एवास्तु समुच्चयविधिवलादिति चेन्न । मुख्यब्रह्मविद्याविद्ययोः शुक्तिविद्याविद्ययोरिव सह- संभवानुपपत्तेः समुच्चयविधिरसिद्धः । सिद्धे समुच्चयविधौ तबलादविरोधावगमोऽ. विरोधावगमाच्च समुच्चयसिद्धिरित्यन्योन्याश्रयः स्यादित्यर्थः । सहसंभवानु- पपत्तावपि क्रमेणकाश्रये विद्याविद्ये स्यातामिति चेद्यदि पूर्वमविद्या पश्चात्तु विद्येति क्रमस्तहीष्यत एव यदि पश्चात्तासंभव इत्याह-न विद्योत्पत्ताविति । पूर्वसिद्धाया अविद्यायाः प्रध्वस्तत्वादन्यस्याश्चीत्पत्तौ कारणासंभवान्मूलाभावेन भ्रमसंशयाग्रहणानामपि विदुषोऽनुपपत्तिरित्यर्थः । विद्योत्पत्तौ मा भूदविद्या कर्म तु भविष्यति विदुषोऽपि व्याख्यानभिक्षाटनादिदर्शनादित्याशङ्कयाऽऽह-अविद्या- संभवादिति । चोदनाप्रयुक्तानुष्ठानं हि कर्म ज्ञानेन सह तव समृच्चिचीषित १ घ. ङ. च. छ. ज. ठ. ड °ति ज्ञातेति श्रु । २ ग. घ. च. ज. ठ. न विरोधावि ॥ ॐ ईशावास्योपनिषत्सटीकभाष्योपेता। शा० भा० नुपपत्तिमवोचाम । अमृतमभुत इत्यापेक्षिकममृतं विद्याशब्देन परमात्म- विद्याग्रहणे हिरण्मयेनेत्यादिना द्वारमार्गादियाचनमनुपपन्नं स्यात्तस्मादुपा- सनया समुच्चयो न परमात्मविज्ञानेनेति यथाऽस्माभिर्व्याख्यातं एव मत्रा- णामर्थ इत्युपरम्यते ॥ १८॥ इति श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य परमहंसपरिव्राजकाचार्यस्य श्रीशंकरभगवतः कृतौ वाजसनेयसंहितोपनिषद्भाष्यं संपूर्णम् ॥ तत्सत् ॥ भा० टी• ब्रह्मात्मैकत्वं तु साक्षादनुभवतो न चोदना संभवति कामामावात्कामिनो हि सर्वाश्चोदनाः । · अकामिनः क्रिया काचिदृश्यते नेह कस्य चित् । यद्यद्धि कुरुते जन्तुस्तत्तत्कामस्य चेष्टितम् ' इति स्मरणात् । विद्वच्छरीरस्थितिहेत्वविद्यालेशाश्रय- कर्मशेषनिमित्तं तु विदुषो भिक्षाटनादि, न कर्म, चोदनाभावास्किंतु यावत्प्राणश- रीरसंयोगमावि तत्कर्माभासं तच्च विद्वान्न स्वगतं मन्यते कर्माध्यासोपादानाविद्याया असंभवान्नैव किंचित्करोमीति प्रत्ययाच्चेति भावः । यदुक्तममृतशब्देन मुख्यमेवामृ. तत्वं किं न गृह्यते । विद्याशब्देन च परमात्मविद्येति तत्राऽऽह-अमृतमिति । मुख्यामृतत्वग्रहणे हिरण्मयादिमन्त्रेण द्वारमार्गयाचनमनुपपन्नं स्यात् । न तस्य प्राणा उत्क्रामन्त्यत्र ब्रह्म समभुत इत्यादिश्रुतेः । ततो मुख्यार्थवाधाद्गौणार्थग्रहणं युक्त. मित्यर्थः । यस्मादर्थान्तरं न संगच्छते तस्मादित्युपसंहारः ॥ १८ ॥ ईशाप्रभृतिभाष्यस्य शांकरस्य परात्मनः । मन्दोपकृतिसिद्धयर्थ प्रणीतं टिप्पणं स्फुटम् ॥ इति श्रीपरमहंसपरिव्राजकाचार्यश्रीशुद्धानन्दभगवत्पूज्यपादशिष्यभगवदानन्द- ज्ञानकृता वानसनेयसंहितोपनिषद्भाप्यटोका समाप्ता ॥ तत्सत् ॥ १ क. ख. ग. झ. न.ट स्माद्यथोपा । २ घ. इ. छ. ज. ठ. 'ते किचित्तत्त। ३ घ... च. ज. इ.तेः । अतो मुख्यार्थे वा ।
॥ अथेशावास्यभाष्यमुवटार्यकतम् ॥ ॐ । समाप्तं कर्मकाण्डं ज्ञानकाण्डमिदानी प्रस्तूयते । ईशा वास्य तिस्रोऽनुष्टुभः । दध्यथर्वण ऋषिः स्वं शिष्यं पुत्रं वा गर्भाधा. नादिभिः संस्कारैः संस्कृतशरीरमधीतवेदमुत्पादितपुत्रं यथाशक्त्यनुष्ठितयन- मपापं निःस्पृहं यमनियमवन्तमतिथिपूजापनीतकिल्विषं मुमुक्षुमुपसनं शिक्षय- माह-ईशा वास्यमिद सर्वमिति । ईश ऐश्वर्ये विपि तृतीयान्तस्यैतद्रूपं यदीशाऽनेन वास्यं वासनीयं ममेदमित्यनया भावनयाऽऽच्छादनीयमिदं सर्व- मिति प्रत्यक्षतो निर्दिशति यत्किच यत्किंचशब्दो भिन्नक्रमः किंच यज्जगत्यां पृथिव्यां जगन्जङ्गमादि स्वस्वामिसंवन्धालिङ्गितं स्यात्तेनानेन सर्वेण त्यक्तेन त्यक्तस्वस्वामिसंबन्धेन भोगान्भुञ्जीथा अनुभवेः । मा गृधः। गृधु अभिका- क्षायामिति माऽभिकाङ्क्षय मा कृथा ममेदामिति । किं कारणं कस्य स्विद्धनं स्विदिति निपातो वितर्कवचनः । कस्य पुनरेतद्धनं न कस्यचिदपीत्यर्थ इत्य. भिप्रायः । सर्वाण्ययथार्थानि हि द्रव्याण्युत्पद्यन्ते । तद्यथा स्त्रियं पतिरन्यथा भुङ्क्तेऽन्यथा पुत्रोऽन्यथा पांघूर्णकः । तथा च कटककेयूरकुण्डलादीन्यलंकरणा- न्यन्यं चान्यं च पुरुषमुपतिष्ठमानानि दृश्यन्ते । अतः सर्वार्थस्य यः स्वस्वामि- संबन्धो ममेदमिति बुद्धिः सा त्वविद्या । निःस्पृहस्य योगेऽधिकार इति वाक्यार्थः ॥१॥ निस्पृहस्यापि योगिनो ज्ञाननिमित्ते कर्मण्यधिकार इत्येतमर्थमाह-कुर्वन्नेव । कुर्वन्नेव कर्माणि मुक्तिहेतुकानीहलोके जिजीविषेजिजीविषेरिति पुरुषव्यत्ययः प्रत्यक्षकृतत्वान्मन्त्रस्य जीवितुमिच्छेः पथ्यहितमितभक्षणेन शतं समा इत्युपल- क्षणार्थम् । एवं त्वयि तवेति विभक्तिव्यत्ययः। मुक्तिरस्तीति शेषः । नान्यथे- तोऽस्तीतः प्रकारादन्यथा मुक्तिर्नास्ति । एतदुक्तं भवति-यथा स्वर्गप्राप्तौ नानाभूताः प्रकाराः सन्ति न तथा मुक्तावित्यर्थः । ननु कर्मणः फलेन भवि. तव्यम् । अथ कथं मुक्तेः प्राप्तिरित्येतदाशङ्कयाऽऽह-न कर्म लिप्यते नरे। न हि मुक्त्यर्थ कर्म क्रियमाणं नरे मनुष्ये संबध्यते मुक्तिदानेनोपक्षीणशक्ति- त्वात् । तथा च वृहदारण्यकम् -तमेतं वेदानुवचनेन विविदिषन्ति ब्रह्मचर्येण तपसा श्रद्धया यज्ञेनानाशकेन चेति । विविदिषन्ति वेदितुमिच्छन्ति । अनेनैतदर्शयति यावदिच्छाप्रवृत्तिस्तावत्कर्मस्वधिकार इति ॥ २॥ १ क. र्वार्था । २ क. प्राधुणिकः । ३ क. 'त्यक्षं कृत्वा मन्त्र' ।
२ उवटार्यकृतम्- इदानी स्वर्गादिप्राप्तिहेतुभूतानि कर्माणि ये कुर्वन्ति ते निन्यन्ते-असुर्या नाम । अमुर्याः परमात्मभावमद्वयमपेक्ष्य देवादयोऽप्यसुरा असुराणां स्वभूता एवंसंज्ञकास्ते लोकाः । अन्धेन तमसाऽज्ञानलक्षणेन तमसाऽऽवृताः संव- तास्ताल्लोकांस्त जनाः प्रेत्य मृत्वाऽपि गच्छन्ति । ये के चाऽऽत्महनो जनाः । ये जना आत्मानं निघ्नन्ति ये स्वर्गप्राप्तिहेतुभूतानि हि नूनं कर्माणि कुर्वन्ति ते हि जनित्वा म्रियन्ते मृत्वा जायन्त एवं महतीं विनष्टिं प्राप्नुवन्ति ॥ ३ ॥ इदानीं यमनियमवतां मुमुक्षणां यथाभूतं परं ब्रह्म आत्मत्वेनोपास्यं तदाह- उक्तं च-'अहं ब्रह्मास्मि संवुध्य इदं सर्वं च मन्मयम् । मयि विद्या समुद्दिष्टा विमुक्तिर्यनिबन्धनी' इति । अनेजदेकम् । त्रिष्टुब्यदनेजदचलत्तत्त्वमस्ति एक- मद्वितीय विज्ञानघनरूपेण मनसो जवीयः । मनस्तावच्छीघ्रं भवति ततोऽपि शीघ्रतरं प्रसवदानेन कारणभूतत्वात् । नैनदेवा आप्नुवन् । नचैतत्तत्त्वं देवा अपि प्राप्तुं शक्ताः सूक्ष्मत्वात् । पूर्वमर्शत् । रिशतिहिंसाकर्मा पूर्व पूर्वमपि विद्यमानं सदर्शद्रिशतीति रिशन्न रिशदर्शत् । धातोरिकारलोपश्छान्दसः । इकारलोपे कृतेऽर्शद्भवत्यविनश्यदास्तेऽनादिनिधनमित्यर्थः । तद्धावतस्तदः स्थाने यदो वृत्तिरुद्देश्यत्वात् । यच्च धावतोऽन्यान्पुरुषादीनत्येत्यति- क्रम्य गच्छति तथा तिष्ठत्सर्वत्र स्थितं सर्वगतत्वं सर्वशक्तित्वमनेन व्याख्या. यते । तस्मिन्नपः । यस्मिंश्चापः कर्माणि मातरिश्वा वायुर्दधाति स्थापयति सर्वाणि कर्माणि यज्ञदानहोमादीनि समिष्टयजुषि वायौ स्थाप्यन्ते स्वाहा वातेधा इति वायुप्रतिष्ठत्वाभिधानात् । समष्टिव्यष्टिरूपो ह्यसाविति वायुरपि यस्मिन्कर्माणि स्थापयति यागहोमदानानां परमं निधानमित्यर्थः ॥ ४ ॥ एवं कारणरूपमात्मानमुद्दिश्याथेदानी कार्यरूपेणोदिशति-तदेजति । अनु. शुभस्तिस्रः । तदेव सर्वरूपेणावस्थितं सदेजति कम्पवद्भवति क्रियावद्भवति तदेव नैजति न चलति स्थावररूपावस्थितं तद्रे तदेव दूर आदित्यनक्षत्रादि- रूपेण । तद्वन्तिके तदेव चान्तिके पृथिव्यादिरूपेण सर्वं खल्विदं ब्रह्मेत्येतद्द- र्शनार्थो ग्रन्थः । तदन्तरस्य सर्वस्य प्राणिजातस्य विज्ञानघनरूपेणान्तर्मध्यत आस्ते तदु सर्वस्यास्य बाह्यतः । तदेव सर्वस्यास्य प्राणिजातस्य बाह्यतो जड. रूपेण व्यवस्थितमास्ते चेतनाचेतनरूपमनन्तं सर्वगतं ब्रह्मेत्यर्थः । अस्या उपा. सनाया अचिरादिचिन्तनं नास्तीति केचिदाहुरिहैव ब्रह्मप्राप्तेः ॥५॥ यस्तु । तु शब्दो विशेषणार्थः । यः पुनः सर्वाणि भूतानि चेतनाचेतनान्या. स्मन्नात्मन्येवानुपश्यति मय्येव सर्वाणि भूतान्यवस्थितानि न मयति- १ क. °म् । इति वि।
३ ईशावास्यभाष्यम् । रिक्तान्यहमेव परं ब्रह्म सर्वभूतेषु चाऽऽत्मानमवस्थितमव्यतिरिक्तं पश्यति ततो न विचिकित्सति । एवंपश्यतो योगिनो हि सर्वाणि भूनानि परब्रह्मरूपाण्या- स्मसंस्थितानि भवन्ति विज्ञानघनानन्दैकत्वादित्यतो विचारो निवर्तते ॥ ६॥ किंच-यस्मिन्सर्वाणि । यस्मिन्नवस्थाविशेषे सर्वाणि भूतानि चेतनाचेतना- न्यात्मैवाभूत्संभवति विजानत आत्मैवेदं सर्वम् । सर्वं खल्विदं ब्रह्मेत्येवमादि. वाक्यविचारणावधृतविज्ञानस्य कृतचेतसोऽवस्थाविशेषे तत्र तस्यामवस्थायां योगिनः को मोहः कः शोको न कश्चिदपीत्यभिप्रायः । शोकमोहावपरिज्ञात- तत्त्वस्य भवतो नैकत्वमनुपश्यतो ध्यायतः ॥ ७ ॥ स पर्यगात् । जगती । य एवमात्मानमुपास्ते स पर्यगात्परिगच्छति शुक्रं शुक्लं विज्ञानानन्दस्वभावमचिन्त्यशक्तिमकायं न विद्यते कायः शरीरं यस्य स तथोक्तोऽत्रणं कायरहितत्वादेवास्ताविरं स्नायुरहितमकायत्वा- देव शुद्धमनुपहतं सत्वरजस्तमोभिरपापविद्धं क्लेशकर्मविपाकाशयैरसंस्पृष्टमकाय- मत्रणमनाविरमिति पुनरुक्तान्यभ्यासे भूयांसमर्थ मन्यन्त इत्यदोषः । इत्थं. भूतं ब्रह्म प्रतिपद्यते । अथाऽऽत्मोपासनायुक्तस्य फलमाह-यश्च कविः कान्त- दर्शनो मनीषी मेधावी परिभूः सर्वतो भविता विज्ञानबलात्स्वयंभूः स्वयं ज्ञानबलाद्ब्रह्मरूपेण भविता याथातथ्यतोऽर्थान्व्यदधाद्यथास्वरूपमर्यान्विहि- तवान् । त्यक्तस्वस्वामिसंबन्धैरथै श्चेतनाचेतनैरुपभोगं कृतवान् । शाश्वती- भ्योऽनन्ताभ्यः समाभ्योऽर्थायानन्तवर्षप्राप्तये च कर्म कृतवान् । ननु कर्म- जाड्याल्लोकः कर्मवानेव भवति । सत्यमात्मसंस्कारकं तु कर्म ब्रह्मभावजनकं स्यात्तस्मात्सोऽपि गच्छति शुक्रमकायं ब्रह्म ॥८॥ इत उत्तरमुपासनामन्त्राः प्रोच्यन्ते-अन्धं तमः । षडनुष्टुभो लोकायतिका: प्रस्तूय निन्द्यन्ते येषामेतदर्शनं जलवुद्दवजीवा मदशक्तिवद्विज्ञानमित्यन्धं तमः प्रविशन्ति । ये चासंभूतिमुपासते मृतस्य सतः पुनः संभवो नास्त्यत: शरीरग्रहणादस्माकं मुक्तिरेव न हि विज्ञानात्मा कश्चिदनुच्छित्तिधर्माऽस्ति यो यमनियमैः संबध्यते । एवं येऽध्वानमुपासते तेऽज्ञानलक्षणं तमः प्रवि. शन्ति । ततोऽपि भूयो बहुतरमिवानर्थकमन्धं तमः प्रविशन्ति । ये उ उकार: कर्मोपग्रहणार्थाय ये संभूत्यामेव रता आत्मैवास्ति नान्यत्किचिदस्तीत्यभि- प्रायः । कर्मपराङ्मुखा यत्कर्मकाण्डज्ञानकाण्डयोरसंबन्ध इत्यभिप्रायः । स्वबु- दिफल्गुतां विभावयन्त आत्मज्ञानमात्र एव रताः ॥९॥ - .. १ क. च्छिन्नध।
४ उवटार्यकृतम्- अन्यदेव । अन्यदेव फलमाहुः संभवात्संभवपरिज्ञानादन्यदाहुः फलम संभवादसंभवपरिज्ञानात् । इत्येवं शुश्रुम श्रुतवन्तो वयं धीराणां वचांसि ये धीरा नोऽस्माकं तद्ब्रह्म विचचक्षिरे व्याख्यातवन्तः ॥ १०॥ संभूति च । समस्तस्य जगतः संभवैकहेतुं च परं ब्रह्म विनाशं च विनाशि च शरीरं यो योगी तदुभयमेव वेद जानाति सहकीभूतं शरीरग्रहणेन ज्ञानो- त्पत्तिहेतूनि कर्माणि करोति स विनाशेन विनाशिना शरीरेण मृत्यु तीवों- तीर्य संभूत्याऽऽत्मज्ञानेन विज्ञानेनामृतमश्नुतेऽमृतत्वं प्रामोति ॥ ११ ॥ अन्धं तमः प्रविशन्ति । अज्ञानलक्षणं तमः प्रविशन्ति येऽविद्यां स्वर्गा- र्थानि कर्माण्युपासतेऽनुतिष्ठन्ति ततोऽपि ते भूय इव बहुतरं तमः प्रविशन्ति । ये पुनर्विद्यायामेव रता आत्मज्ञान एव त्यक्तकर्माणो रताः ॥ १२ ॥ अन्यदेव । अन्यदेव फलमाहुर्विद्याया आत्मज्ञानादन्यच्चाऽऽहुरविद्यायाः कर्मण इति शुश्रुमेत्यादि व्याख्यातम् ॥ १३ ॥ विद्यां च । आत्मज्ञानं चाविद्यां कर्म च यस्तदुभयं वेद जानाति सह- कीभूतं कर्मकाण्डं ज्ञानकाण्डस्य गुणभूतमथ कर्मकाण्डं ज्ञानकाण्डं चैकी- कृत्याविद्यया कर्मकाण्डेन मृत्यु तीवोत्तीर्य कृतकृत्यो भूत्वा विद्यया ब्रह्म- परिज्ञानेनामृतत्वं मोक्षमश्नुते प्राप्नोति ॥ १४ ॥ इदानीमित्थं कृतब्रह्मोपासनस्य योगिनः शरीरपातोत्तरकाले यद्भवति तदाह-वायुरनिलम् । वायुग्रहणमिन्द्रियाण्येकादश महाभूतानि पञ्च जीवात्मक एवं सप्तदशकलिङ्गोपलक्षणार्थ वायुः प्राणोऽनिलं स्वकीयां प्रकृतिमापद्यतेऽ. मृतं परं ब्रह्म तद्धि तद्विज्ञाय संपद्यते । अथेदं स्थूलशरीरं कीदृशं तदा भवति भस्मैव भवति कृतप्रयोजनकत्वात् । इदानीं योगिन आलम्बनभूतम- क्षरं कथ्यते-ॐ नाम वा प्रतिमा वा ब्रह्मणः । इदानीमन्तकाले योगी स्मरणं करोति । क्रतो स्मर । योऽमिब्रह्मचर्यादारभ्य परिचरितः स मनःश्वासरूपेणा- वस्थितः संबोध्यते । हे क्रतो मां स्मरेदानीमुपस्थितः प्रत्युपकारस्य काल इत्यभिप्रायः । ऋतुर्वा यज्ञः संबोध्यते । क्रतो स्मर*क्लिबे स्मर क्लृप्ताय लोकाय स्मर कृतं स्मर मया यत्कृतं तत्स्मर ॥ १५ ॥ अग्ने नय । हेऽने नय सुपथा देवयानेन मार्गेण राये मुक्तिलक्षणाय धना- यास्मान्विश्वानि सर्वाणि देव दानादिगुणयुक्त वयुनानि प्रज्ञानानि विद्वा- जानानो युयोधि पृथक्कुरु च प्रतिबन्धकमेनः । यतो बहुतरां तव नमस्का- रोक्तिं कुर्मो व्याख्यातायाः पुनर्वचनं विशेषार्थम् ॥ १६ ॥ * क्लाबात वा। १ क. मनसि बासनारूपेणावस्थितिः सं।
१ ईशावास्यभाष्यम् । इदानीमादित्योपासनमाह-हिरण्मयेन पात्रेण । यद्यपि हिरण्मयरूपेण पात्रेण पिवन्त्यस्मिन्नवस्थितानसावश्मय इति पात्रं मण्डलं मण्डलेन सत्यस्या- विनाशिनः पुरुषस्यापिहितमन्तर्हिनं मुखं शरीरं तथाऽपि योऽमावादित्ये पुरुषो योगिभिरुपलभ्यते सोऽसाव हमास्मि । इत्थं चोपासनां कुर्यात् । ॐ खं ब्रह्म । ओमिति नामनिर्देशः। खमिति रूपनिर्देशः । आकाशरूपं ब्रह्म ध्यायेत् । आत्मत्वेने मनोभूरचेतन आकाशश्चेतनस्त्वात्मा तद्यथा विज्ञानघना- नन्दं ब्रह्म तत्राऽऽनन्दप्रतिपादकं वाक्यं तथा स यो मनुष्याणां राद्धः समृद्धो भवतीत्युपक्रम्याथ ये शतं प्रजापतिलोक आनन्दाः स एको ब्रह्मलोक आनन्द इत्यन्तम् । तथा सर्वनियन्तृत्वं दर्शयति- एतस्य वा अक्षरस्य प्रशा- सने गार्गीत्युपक्रम्य द्यावापृथिवी विधृते तिष्ठत इति । तथा सर्वज्ञत्वं दर्शयति- तद्यथा एतदक्षरं गार्यदृष्टं द्रष्ट्रित्यादि । तथा सत्यसंकल्पादयोऽस्य गुणाः श्रूयन्ते सत्यसंकल्पः सत्यधृतिरित्यादयः । एवं तर्हि एतद्वै तदक्षरं गार्गि यस्मिन्नाकाश ओतश्च प्रोतश्चोते सामान्याद्याकाशशब्देनैवैतद्रूपं ब्रह्माभिहितं स्यादित्ययमेव ब्रह्मवित्सिद्धान्तः ॥ १७ ॥ इति श्रीमद्जटभट्टोपाध्यायात्मजसकलनिगमविचूडामणिश्रीमदुवटभट्टार्य- विरचिते श्रीयजुर्वेदस्य वाजसनेयपञ्चदशभेदावान्तरमाध्यंदिनशा- खासंहितामन्नार्थप्रकाशभाष्ये चत्वारिंशत्तमोऽध्यायः ॥ ४० ॥ समाप्तमिदमुवटार्यभाष्यम् ।। - --- १ क. 'खं सुषिरं । २ क. 'न तनुर। .
अथ ब्रह्मानन्दकृतमीशावास्यरहस्यम् ॥ ॐ येनाऽऽत्मना परेणेशा व्याप्तं विश्वं चराचरम् । सत्यज्ञानस्वरूपेण तदेवाहं सदात्मकम् ॥ १॥ ईशा वास्यादयो मना न कर्मप्रतिपादकाः । अखण्डैकरसे शुद्ध ब्रह्मण्येव समन्विताः ॥ २॥ कर्मसंबोधका वेदा न च ते ब्रह्मबोधकाः। इति मीमांसकाः प्राहुस्तभ सत्यं कथंचन ॥ ३ ॥ अकर्मशेषमात्मानं निर्गुणं प्रकृतेः परम् । अशरीरं सदा मुक्तं नित्यं शुद्धस्वभावकम् ॥ ४॥ सत्यं ज्ञानमनन्तं च निष्कलं निष्क्रिय ध्रुवम् । बोधयन्ति यतः सत्यं सर्वे वेदाः षडङ्गकाः॥५॥ अत एव हि ते मन्त्रा ब्रह्मतश्वप्रबोधकाः। ईशा ईशेन संव्यासं त्रैलोक्यं सचराचरम् ॥ ६॥ वासितं भुवनं सर्व सत्यमेवं श्रुतिर्जगौ । यत्किचित्सर्वमेवेदं जगत्यामुपलक्षणम् ॥ ७ ॥ जगबींव परमं ब्रह्मैवेदमिति श्रुतेः। यस्माद्ब्रह्मात्मकं सर्व तस्मात्त्यक्तेन सर्वदा ॥ ८॥ पालयेथाः स्वमात्मानं स्वस्वरूपं निरञ्जनम् । त्यागशब्देन चाप्यत्र संन्यासः परिकीर्तितः ॥९॥ संन्यस्य सर्वकर्माणि ब्रह्मैवास्मीति भावयन् । रक्षणीयः स्वयं चाऽऽस्मा संसारादवकल्पितात् ॥ १० ॥ आत्मैवेदं जगत्सर्व धनं नैवास्ति कस्यचित् । गृधि वै धनविषयां मा कार्षीस्त्वं कथंचन ॥ ११ ॥ स्विदित्यनर्थको वाऽत्र चाऽऽक्षेपो वा भविष्यति । आत्मभिन्न परं स्वं किं कस्यचिद्विद्यते धनम् ॥ १२ ॥ सुगन्धचन्दनेनैव दुर्गन्धश्छायते यथा । नामरूपात्मक विचमात्मनाऽऽच्छादितं तथा ॥ १३ ॥ तस्मादात्मैव द्रष्टव्यः श्रोतव्यः सर्वदैव हि । इत्येष एवं वेदार्थः प्रथमो वै निरपितः ॥१४॥ ॥ इत्येको मन्त्रो व्याख्यातः॥
ईशावास्यरहस्यम् ।
सर्वकर्माणि संन्यस्य मन्तव्यः परमेश्वरः।
तदशक्तस्य कर्माणि कर्तव्यानि श्रुतिर्जगौ ॥१॥
अग्निहोत्रादिकर्माणि व्यवहारान्सदा नरः।
कुर्वञ्जीवितुमिच्छेदै शतं संवत्सरान्स्वयम् ॥ २॥
तावद्धि पुरुषस्याऽऽयुः शतायुरिति च श्रुतेः ।
एवंप्रकारे तु त्वयि नरमात्राभिमानिनि ॥ ३ ॥
प्रकारान्तरं नैवास्ति न कर्म लिप्यते यथा ।
ईश्वरार्पणबुद्ध्या तु कर्म कुर्वन्न लिप्यते ॥ ४ ॥
प्रमीदति परो ह्यात्मा शुद्धान्तःकरणे स्वयम् ।
इति द्वितीयमन्त्रार्थः सम्यगेव निरूपितः ॥ ५॥
॥ इति द्वितीयो मत्रो व्याख्यातः॥
अविवेकात्तु संसारो विवेकानैव विद्यते ।
अविवेकनिवृत्त्यर्थ मन्त्रोऽयं संप्रवर्तते ॥१॥
आत्मज्ञानमुपेक्ष्याथ देवा ये भोगलम्पटाः ।
असुरा एव ते ज्ञेया आत्मधर्मवहिष्कृताः॥२॥
येऽन्यथा सन्तमात्मानमकर्तारं स्वयंप्रभम् ।
कर्ता भोक्तेति मन्यन्ते त एवाऽऽस्महनो जनाः ॥३॥
स्वान्मनः स्वस्वरूपस्य तिरस्करणहेतुतः ।
अदर्शनात्मकेनैव चान्धन तमसाऽऽवृताः ॥ ४ ॥
प्रेत्य देहं परित्यज्य संसरन्ति पुनः पुनः।
ये के च परमात्मानं न जानन्ति परात्परम् ॥ ५ ॥
योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते।
किं तेन न कृतं पापं चौरेणाऽऽत्मापहारिणा ॥६॥
इति वाक्यं श्रुतिः शास्ति सत्यमेतन्न संशयः।
अपि गच्छन्ति पाठे तु ज्ञानाभावे न चान्यथा ॥७॥
तस्माज्ज्ञानं पुरस्कृत्य संन्यसेदिह बुद्धिमान् ।
स्वात्मानं परमं ज्ञात्वा मुच्यते जन्मबन्धनात् ॥८॥
॥ इति तृतीयो मत्रो व्याख्यातः ॥
कीदृशं तत्परं तत्त्वं पूर्वमन्त्रेण कीर्तितम् ।
तदर्थप्रतिपत्त्यर्थं चतुर्थोऽयं प्रवर्तते ॥ १ ॥
ईशावास्यरहस्यम् । अनेजत्परमं तत्त्वं स्वतश्चलनवर्जितम् । एज कम्पन इति च धात्वर्थोऽपि तथाविधः॥२॥ अचलं सत्परं ब्रह्म नित्यमुक्तस्वभावकम् । एकमेवाद्वितीयं च सत्यज्ञानस्वरूपकम् ॥ ३ ॥ संकल्पलक्षणाचास्मान्मनसो वेगवत्तरम् । नैनत्तत्वं प्राप्तवन्तो देवा ये चक्षुरादयः ॥ ४ ॥ पूर्वमेव हि संव्याप्तं व्योमवन्निर्मलं परम् । तद्धावतोऽन्यान्वेगेन सर्वान्व्याप्यैव तिष्ठति ॥ ५ ॥ तस्मिस्तिष्ठति पूर्णेऽस्मिन्परे ब्रह्मणि केवले । अपः कर्माणि सर्वाणि मातरिश्वा दधाति च ॥ ६ ॥ अन्तरिक्ष स्वयं याति सूत्रात्मा पवनः स्वयम् । कर्म चैतत्फलं चैव धारयत्येव सर्वदा ॥ ७ ॥ इति संक्षेपतो मनश्चतुर्थोऽपि समापितः । प्रसीदतु परो देवः सर्वभूतगुहाशयः ॥ ८॥ ॥ इति चतुर्थो मन्त्रो व्याख्यातः ।। न मत्राणां जामितादिदोषः कश्चन विद्यते । उक्तमेव वदत्यर्थ ब्रह्मतत्वप्रकाशकम् ।। १ ।। दुर्विज्ञेयं परं ब्रह्म सत्यज्ञानमनन्तकम् । निष्कलं निष्क्रियं शान्तं निरवा निरञ्जनम् ॥ २॥ अमृतस्य परं सेतुं दग्धेन्धनमिवानलम् । इति वाक्यं यतः शास्ति ब्रह्म सत्यं पुनातु माम् ॥ ३ ॥ तदेजति परं ब्रह्म ब्रह्मविष्णुशिवात्मकम् । साकारं मायया भाति निराकारं तु वास्तवम् ॥ ४ ॥ उपाधिचलनेनैव चलनं तु विभाव्यते । तजति परं ब्रह्म निर्गुणं प्रकृतेः परम् ॥ ५ ॥ तच्च दूरे परं ब्रह्म सर्वदैवाविवेकिनाम् । अप्राप्यत्वात्परं ब्रह्म वर्षकोटिशतैरपि ॥६॥ तदेव ह्यन्तिके ब्रह्म स्वात्मरूपं विवेकिमाम् । तद्वाह्याभ्यन्तरे ब्रह्म कार्यकारणवस्तुनः ॥ ७ ॥ १ ग. क्षेश्वसितीति। २ ख. स्वपितीति । ३ घ. निष्कम्प नि ।
१ ईशावास्यरहस्यम् । विश्वातीतं परं ब्रह्म विश्वस्याभ्यन्तरे स्थितम् । नीरपं सर्वगं ज्ञात्वा मुच्यते जन्मबन्धनात् ॥ ८॥ इति पञ्चममत्रोऽयं समासेन निरूपितः । मायातीतं परं शुद्ध रहस्यं च प्रकीर्तितम् ॥ ९ ॥ ॥ इति पञ्चमो मत्रो व्याख्यातः ॥ तद्ब्रह्म परमं शुद्ध कर्मणा नैव लभ्यते । कर्मत्यागी परं ब्रह्म प्राप्य सम्यक्प्रमुच्यते ॥ १॥ कर्मणा लभ्यते ब्रह्म ज्ञानानैव तदाप्यते । इति मीमांसकाः प्राहुस्तेषां पक्षो निरस्यते ॥ २॥ यस्तु सर्वाणि भूतानि परिवादस्वयमेव हि । तानि सर्वाणि भूतानि स्वस्मिन्नेव प्रपश्यति ॥३॥ सर्वभूतेषु चाऽऽत्मानं सर्वभूतगुहाशयम् । तस्मादेव तु विज्ञानान्न चैव विचिकित्सति ॥४॥ स्वस्वरूपपरिज्ञानात्संदेहं न करोत्ययम् । माध्यंदिनस्य पाठे तु व्याख्यानं परिकीर्तितम् ॥५॥ घृणा दया जुगुप्सा वा जायते भेददर्शिनः। न तु निर्भेदमद्वैतमात्मैकत्वं प्रपश्यतः ॥ ६ ॥ इति षष्ठोऽपि मन्त्रोऽयं समासेन मयोदितः । अनेन प्रीयतां देवः सर्वभूतगुहाशयः ॥ ७॥ ॥ इति षष्ठो मन्त्रो व्याख्यातः ॥ परिव्राडेव तद्वेत्ति स्वात्मानं प्रकृतेः परम् । इति प्रदर्शनार्थ तु सप्तमोऽयं प्रवर्तते ॥ १॥ यश्च संपश्यते ज्ञानं स वेत्ति परमेश्वरम् । इति शङ्कानिवृत्त्यर्थ तुशब्दोऽयं प्रवर्तते ॥२॥ यस्मिन्ब्रह्मस्वरूपे तु निर्विकल्पे परेऽव्यये । सर्वाण्यास्मैव संवृत्तं ब्रह्मतत्त्वं विजानतः ॥ ३ ॥ ब्रह्मैव सकलं विश्वमहमस्मीति तत्पदम् । पद्यते गम्यते नित्यं स्वस्वरूपं स्वयंप्रभम् ॥ ४॥ शोकमोहादिसंबन्धस्तस्मिन्नैव तु विद्यते । अमाणो ह्यमनाः शुभ्र इत्यादिश्रुतिशासनात् ॥५॥ १ ग, 'मैह्रन चल..
ईशावास्यरहस्यम् । अविद्याकार्यनिर्मुक्ते संविपे परात्मनि । शोकमोहादिसंबन्धः कथं ब्रह्मणि भाव्यते ॥६॥ इत्ययं सप्तमो मन्त्रः स्वरूपप्रतिपादकः। सोऽहमस्मि स एवाहं ब्रीवास्मीति वाक्यतः ॥७॥ ॥ इति सप्तमो मन्त्रो व्याख्यातः ।। ब्रह्माऽऽत्मा सकलं विश्वं तस्मिन्विश्वं प्रतिष्ठितम् । जीवाज्ञानवशादेव चाष्टमोऽयं प्रवर्तते ॥१॥ आत्मानं सर्वगं शुद्धं निरूपयितुमञ्जसा । आमोति सकलं कार्य तस्मादात्मेति गीयते ॥२॥ स पर्यगात्परो ह्यात्मा सर्व व्याप्य व्यवस्थितः । यच्च किंचिज्जगत्सर्व दृश्यते श्रूयतेऽपि वा ॥ ३ ॥ अन्तर्बहिश्च तत्सर्व व्याप्य नारायणः स्थितः । इति मन्त्रो यतः शास्ति तस्माद्भेदो न विद्यते ।। ॥ निर्विभागः स्वयंज्योतिरात्मैव सकलं जगत् । शुक्लज्योतिःस्वभावोऽयं नित्यचिन्मात्रविग्रहः ॥५॥ लिादेहविनिर्मुक्तः सर्वभूतगुहाशयः । एकीभूतः स्वयं चाऽऽत्मा सर्व व्याप्य प्रतिष्ठितः ॥ ६ ॥ तमात्मानं परं शान्तं देहत्रयविवर्जितम् । निरिन्द्रियं परं ज्ञात्वा मुच्यते सर्वबन्धनात् ॥ ७ मायापाशविनिर्मुक्तं धर्माधर्मविवर्जितम् । मनसोऽपि नियन्तारं सर्वसाक्षिणमव्ययम् ॥ ८॥ उपर्युपरि सर्वेषां भवितारं स्वयंभुवम् । विभुं सर्वात्मकं ज्ञात्वा मुक्त एव भवत्यसौ ॥९॥ अथ वा स परो देवः सर्वव्यापी निरञ्जनः। सर्वगः सकलं व्याप्य स्वयमेव व्यवस्थितः ॥१०॥ व्यवहारेऽपि शुद्धोऽसौ देहद्वयविवर्जितः । बीजधर्मविनिर्मुक्तो नियन्ता सर्वदेहिनाम् ॥ ११ ॥ परिभवति कार्याणि परिभूः स्वयमेव हि । स्वातन्त्र्येण भवतीति स्वयंभूः पारविश्वदृक् ॥ १२ ॥ १ ख. ह्मात्मस । २ क. ग. शुक्रं ज्यों
w
ईशावास्यरहस्यम् ।
याथातथ्यत एवायं कर्तव्यार्थान्स्वयं प्रभुः ।
शाश्वतीभ्यः समाभ्यश्च प्रजापतिभ्य एव हि ॥ १३ ॥
प्रजाभ्यश्च विभज्यैव दत्तवान्परमेश्वरः ।
तदेवं परमात्मानं नित्यमुक्त स्वभावकम् ॥ १४ ॥
सोऽहमस्मीति विज्ञाय मुक्त एव भवत्ययम् ।
इत्येवमष्टमो मन्त्रः सम्यगर्थनिरूपकः ॥ १६ ॥
समाप्तः सर्वगो ह्यात्मा नित्यं सर्वस्वभावकः ।
सोऽहमस्मीति विज्ञाय मुच्यते सर्वतोभयात् ॥ १६ ॥
॥ इत्यष्टमो मन्त्रो व्याख्यातः ॥
संन्यस्य सर्वकर्माणि ज्ञातव्यः परमेश्वरः ।
इति प्रथमो वेदार्थः सम्यगेव प्रदर्शितः ॥ १॥
अग्निहोत्रादिकर्माणि तदशक्तेन सर्वदा ।
कर्तव्यानि द्वितीयोऽपि वेदार्थोऽयं प्रदर्शितः ॥ २ ॥
विरोध दर्शयित्वा तु तयोरेव हि मन्त्रयोः ।
बृहदारण्यके शास्त्रे व्यवहारोऽपि दर्शितः ॥ ३ ॥
कामुकस्य तु संसारो निष्कामस्य परा गतिः।
इति प्रदर्शनार्थस्तु नवमोऽयं प्रवर्तते ॥ ४ ॥
अन्धं मूढं तमो यान्ति ये मायां समुपासते ।
विरक्ता अपि संसारान्नैष्काम्यं ये विदुराः ॥ ५ ॥
असंभूतिवचसाऽत्र मायातचं प्रकथ्यते ।
मायातत्त्वात्तु संसारो जायते सर्वदेहिनाम् ॥ ६ ॥
भूयः पुनस्तमो यान्ति संभूत्यां ये रता नराः ।
संभवनं च संभूतिलिङ्ग सप्तदशात्मकम् ॥ ७॥
मायावीजस्य कार्य तत्सूत्रात्मानं प्रचक्षते ।
कार्यकारणनिर्मुक्तं ज्ञात्वाऽऽत्मानं विमुच्यते ॥ ८ ॥
नवमोऽपि समाप्तोऽयं संक्षेपार्थप्रदर्शकः ।
समुच्चयचिकीषार्थ दशमोऽपि प्रवर्तते ॥ ९ ॥
॥ इति नवमो मन्त्रो व्याख्यातः ॥
संभवादन्यदेवाऽऽहुः फलं कार्यस्य चिन्तनात् ।
कारणाद्रीजरूपस्य चिन्तनादन्यदेव हि ॥ १॥
.. ईशावास्यरहस्यम् । इत्याहुर्वेदविद्वांसः फलभेदं विचक्षणाः। श्रुतवन्तो वयं पूर्वमाचार्याणां महात्मनाम् ॥ २ ॥ व्याख्यातवन्तो येऽस्मभ्यं गुरवस्तत्वदर्शिनः । तेषामेव हि तद्वाक्यं फलभेदमदर्शकम् ॥ ३ ॥ मतिभेदात्तु भेदोऽयं दर्शितो न तु वस्तुतः । धीराणां परमं वाक्यं ब्रह्मतत्वमदर्शकम् ।। ४ ॥ सत्यं ज्ञानमनन्तं च ब्रह्मैव परमं ध्रुवम् । इत्थं दशममत्रोऽपि समासेन समापितः ॥ ५ ॥ ॥ इति दशमो मत्रो व्याख्यातः ।। संभूति कार्यरूपं च विनाशं कारणात्मकम् । एकादशोऽपि मनोऽयं तयोरेकत्वदर्शकः ॥१॥ कार्यकारणयोरक्यं यो वेद सततं नरः । विनाशेन मृत्यु तीवा संभूत्याऽमृतमश्नुते ॥२॥ यस्मिन्विनश्यति कार्य विनाशं कारणं परम् । मायाबीजं च तत्प्रोक्तं चैतन्यकवलीकृतम् ।। ३ ।। तयोपासनया मृत्यु तीा स्वाभाविकं तमः ॥ हिरण्यगर्भोपासनया संभूत्या मुच्यते बुधः ॥ ४ ॥ आत्मविद्यावधिः सोऽथ परं कारणमुच्यते । साक्षी चेता जगदीजमन्तर्यामीति च श्रुतौ ॥५॥ कार्यकारणरूपं च ब्रह्मैव केवलं शिवम् । कार्यकारणनिर्मुक्तं परं ज्ञात्वा विमुच्यते ॥ ६ ॥ इत्येकादशमन्त्रोऽपि समाप्तस्तत्त्वबोधकः । ब्रह्मैव परमं शुद्धं ब्रह्मैवाहं सदद्वयम् ।। ७ ॥ ॥ इत्येकादशो मत्रो व्याख्यातः ॥ कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते । इति प्रदर्शनार्थे तु द्वादशोऽयं प्रवर्तते ॥ १ ॥ अन्धं मूढं तमो यान्ति केवलं कर्मचिन्तकाः । देवतोपासका ये च तेऽपि यान्ति पुनस्तमः ॥२॥ एकैकोपासनां भिन्नां निन्दयित्वा पुनः पुनः । एकेनैव द्वयं सेव्यं श्रुतिराह पुनः स्वयम् ॥ ३ ॥ १ ख. सदाऽद्ध। ५ ईशावास्यरहस्यम् । इति द्वादशमन्त्रोऽपि समासार्थप्रदर्शकः । समापितः स्वयं शुद्धं ब्रह्मैवाहं सदद्वयम् ॥ ४॥ ॥ इति द्वादशो मत्रो व्याख्यातः ।। एकत्वं तु न चैवास्ति रविशार्वरयोरिव । पृथगेव दर्शयितुं कर्मविज्ञानजं फलम् ॥ १ ॥ त्रयोदशोऽपि मत्रोऽयं स्वयमेव प्रवर्तते । विद्याया अन्यदेवाऽऽहुः पृथगेव फलं बुधाः ॥२॥ अविद्याया अन्यदाहुरग्निहोत्रादिकर्मणः । श्रुतवन्तो वयं वाक्यं धीराणां तत्त्व-शनाम् ॥ ३ ॥ व्याख्यातवन्तो येऽस्मभ्यं गुरवो ब्रह्मतत्पराः। तेषां वाक्यं ब्रह्मतत्त्वबोधकं परमं ध्रुवम् ॥ ४॥ इति त्रयोदशो मत्रः पृथगर्थप्रदर्शकः। बोधको ब्रह्मतत्त्वस्य समासेन निरूपितः ॥५॥ ॥ इति त्रयोदशो मत्रो व्याख्यातः ।। पृथक्फलं विद्यते चेदग्निहोत्रादिकर्मणाम् । उपासनफलं चैव कथं वा क्रियते तदा ॥ १ ॥ प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते । फलं सम्यक्प्रवक्तव्यं कैवल्यप्रतिपत्तये ॥२॥ अग्निहोत्रं च विद्यां च देवतोपासनं परम् । एकीकृत्य चिन्तितं चेत्कैवल्यं लभते पदम् ॥ ३ ॥ पद्यते गम्यते चेति स्वस्वरूपं निरञ्जनम् । द्विविधं तत्परं ब्रह्म सगुणं निर्गुणात्मकम् ॥ ४ ॥ निर्गुणं वास्तवं ब्रह्म सगुणं परिकल्पितम् । कर्म विद्यां चैकीकृत्य यस्तद्वेदोभयं बुधः ॥ ५ ॥ मृत्यु ती कर्मणा तु विद्ययाऽमृतमश्नुते । हिरण्यगर्भमात्मानं ब्रह्मलोकनिवासिनम् ॥६॥ तं प्राप्य तेन सार्ध तु परं ब्रह्माधिगच्छति । इत्थं चतुर्दशो मन्त्रः संक्षेपेण निरूपितः ।। ७ ॥ ॥ इति चतुर्दशो मन्त्रो व्याख्यातः ॥
ईशावास्यरहस्यम् । उपासकफलं वक्तुं मन्त्रः पञ्चदशः स्वयम् । शाश्वतं कार्यरूपं च कृपया तत्परं पुनः॥१॥ तत्रैवोपासकः साक्षाद्वायुं प्रार्थयते स्वयम् । सूत्रात्मानं परं दिव्यममृतं शिवमव्ययम् ॥२॥ माणो गच्छतु मे शीघ्रं लयं गच्छतु निश्चलम् । शाश्वतं शिवमव्यक्तं ब्रह्मवाहं सनातनम् ॥ ३ ॥ अथेदानी शरीरं मे भस्मी भवतु वै ध्रुवम् । अमृतात्मस्वरूपस्य ब्रह्मीभूतस्य केवलम् ॥ ४॥ क्रतो स्मर निर्बीजाय कृतं कर्म शुभाशुभम् । द्विरावृत्तिरादरार्थी क्रतो संकल्प हे स्मर ॥५॥ कृतमुपासनं कर्म फलं दातुं च शाश्वतम् । सत्यं तत्परमं ब्रह्म नित्यमव्ययमेत्ययम् । इति पञ्चदशो मन्त्रः समाप्तः स्वार्थसाधकः ॥६॥ ॥ इति पञ्चदशो मत्रो व्याख्यातः ॥ उपासकेन गन्तव्यं केन मार्गेण सांप्रतम् । इति प्रदर्शनार्थं तु षोडशोऽयं प्रवर्तते ॥१॥ मत्रो मार्ग दर्शयितुं ब्रह्मलोकगति प्रति । अग्ने प्रकाशरूपोऽसि शोभनेन पथा नय ॥२॥ प्रापयास्मान्महाभाग ब्रह्मलोकमनामयम् । विश्वानि देव सर्वाणि ज्ञानानि वयुनानि च ॥३॥ विद्वाञ्जानासि सर्वज्ञ प्रसीद वरदो भव । वियोजय जुहूराणं कौटिल्यं पातकं मम ॥ ४ ॥ अन्तकाले चरीकर्तुमशक्तास्ते परेश्वर । नमउक्ति विधेम त्वं प्रसीद परमेश्वर ॥५॥ षोडशोऽपि च मन्त्रोऽयं संक्षेपेण समापितः । निष्कलं ब्रह्म परमं तदेवाहं सदोमिति ॥ ६ ॥ ॥ इति षोडशो मत्रो व्याख्यातः ॥ द्वारं विना कथं गन्तुं शक्यते ब्रह्म तत्परम् । सत्यलोकस्य चाऽऽत्मानं सूत्रभूतं सनातनम् ॥ १॥ १ ग. "सनफ।
ईशावास्यरहस्यम् । सत्माप्तिसाधनद्वारं मनः सप्तदशः स्वयम् । प्रवर्तते प्रार्थयितुमादित्यं सर्वरूपकम् ॥ २॥ हिरण्मयेन पात्रेण सत्यस्य ब्रह्मणो मुखम् । तीक्ष्णेन ज्योतिषा व्याप्तं गन्तुं नैव तु शक्यते ॥३॥ रश्मिजालं निराकृत्य द्वारं मे देहि भास्कर । सत्यलोकस्य सत्याख्यं ब्रह्म गन्तुं च मे प्रभो ॥४॥ भृत्यवत्वां नैव याचे स्वरूपोऽहं तवाच्युत । अहं ब्रह्मैव परमं भवान्ब्रह्मैव केवलम् ॥ ५ ॥ आवयोरेकता नित्यं सत्यमेतदवीम्यहम् । पूर्णत्वात्पुरुषश्चायं योऽसावादित्यमण्डले ॥ ६ ॥ देहेन्द्रियधियां साक्षी सोऽसावहमिति स्वयम् । ब्रह्म वै परमं शुद्धं ब्रह्मैवाहं सदद्वयम् ॥ ७॥ संपूर्णो निखिलस्यास्य कार्यकारणवस्तुनः । पुरुषोऽयं भवेदात्मा पूर्णत्वाद्योऽद्वयात्मकः ॥ ८॥ इति वाक्यं यतः शास्ति सत्यं ब्रह्मैव केवलम् । ब्रह्म सत्यं परं ज्ञात्वा मुच्यते जन्मबन्धनात् ॥९॥ इति सप्तदशो मन्त्रः समासेन निरूपितः । सत्यस्य परमं सत्यं ब्रह्म सत्यं च पातु माम् ॥ १० ॥ ईशावास्यरहस्यं तु ब्रह्मानन्दविनिर्मितम् । ब्रह्मानन्दमयं ज्ञात्वा मुच्यते सर्वबन्धनात् ॥ ११ ॥ ब्रह्मैव सत्यं परमं विशुद्धं सर्वान्तरस्थं सदसद्विहीनम् । निरञ्जनं निष्कलमद्वितीयं तदेव चाहं सततं विमुक्तः ॥ १२ ॥ ॥ इति सप्तदशो मत्रो व्याख्यातः ।। ईशावास्यरहस्यं च शुक्लतीर्थोत्तमे शुभे । रामानन्दसरस्वत्या लिखितं स्वात्मलब्धये ॥ इति श्रीब्रह्मानन्दसरस्वतीकृतमीशावास्यरहस्यं समाप्तम् ॥
अथ शंकरानन्दशावास्यदीपिका ॥ ॐ ईशावास्यादयो मत्रा विनियुक्ता न कर्मणि । प्रमाणाभावतस्तेषां कुर्वे व्याख्यामकर्मगाम् ।। १॥ ईशा ईष्ट इतीद ईश्वर आनन्दात्मा तेन वास्यमाच्छादनीयं निवासयोग्य चेदं विविधप्रत्ययगम्यं सर्व निखिलम् । सर्वशब्दार्थमाह-यत्किंच यत्कि- चिऋतभौतिक जगत्यां ब्रह्माण्डकटाहभूमौ जगच्चेतनात्मकमीश्वर एवेदमिति बुद्धिः करणीयेत्यर्थः । तदुदयुत्पादे साधनमाह-तेन जगता त्यक्तेन तदु ख्या गृहीतेन भुञ्जीथा ईश्वरतत्त्वसाक्षात्कारलक्षणं भोजनं कुर्याः । जगबुद्धे- रनुत्पादे सर्वसङ्गपरित्यागलक्षणमुपायमाह-मा गृधः, माभिलाषं कार्षीः । अभिलाषो हि विषयघटितो विषयाश्चानेके तेषामन्यतमपरित्याग उपायो मा • भूदित्येतदर्थमाह-कस्यस्विल्लोकद्वयस्यापि तत्र हेतुर्धनमभिलाषस्य विषयो यः कश्चन धर्मोऽपि धनरूपः । धनं च हिरण्यादिकं सर्वक्लेशबीज प्रसिद्धम् ॥ १॥ यस्त्वमुमुक्षुर्धनाभिलाषी नास्य त्यागेऽधिकार इति तं प्रति सकरुणा मातेव श्रुतिराह-कुर्वन्नेवेति । स्पष्टम् । इहास्मिन्कर्माधिकारे लोके कर्माणि नित्यान्य- मिहोत्रादीन्यन्यानि च जिजीविषेज्जीवितुमिच्छेच्छतं समाः।धने वैराग्याभावे यावदायुः शतसंवत्सरं न्यूनमधिकं वा । कर्मणां करणे कारणमाह-एवं शतसं- वत्सरं यथोक्तकर्मानुष्ठानवति त्वय्यधिकारिणि वर्तमाने धनविषयेऽपि वैराग्यं भविष्यतीति शेषः । ननु यथा मुमुक्षोः कर्मपरित्यागेनैव पुरुषार्थसिद्धिस्तथाऽ- न्यस्यापि स्यादित्यत आह-नान्यथेतोऽस्ति । इतः स्ववर्णाश्रमोचितयथो. कानुष्ठानादन्यप्रकारेण मुमुक्षोरिव पुरुषार्थो नास्ति । नानुतिष्ठामि विपरीते- नानुतिष्ठामीत्यध्यासेन मसभमुपचीयमानदुरितत्वात्तदनुष्ठाने च तन्न भवती- त्याह--नकर्म विपरीतानुष्ठानरूपं लिप्यते न संवध्यते । कस्मिन्नरे यथोक्त- कर्मानुष्ठानवति त्रैवर्णिकेऽधिकारिणि त्वयि । सूत्रभूतावेतौ मत्रौ । शिष्टमे- तयोरेव व्याख्यानम् ॥२॥ मा गृध इत्यादेाख्यानमनेन मत्रेण धनाभिलाषवतां कष्टसंसारप्राप्ति- रुच्यते-असुर्या नामासुरसंबन्धिनः प्रसिद्धास्ते धनाभिलाषवतामात्मज्ञान- शून्यानां ये श्वसूकरादिदेहरूपास्ते लोकाः कर्मफलरूपा देहविशेषा अन्धेन १ ग. मणाम् ।
शंकरानन्दकृता- तमसा क्लेशचतुष्टयानुविदेन पञ्चमेनान्धतामिस्रणाममाभिनिवेशरूपेणाऽऽकृता: संवृताः। तानुक्ताँल्लोकास्ते धनाभिलाषेणेश्वरज्ञानशून्याः प्रेत्येदमधिकारिशरीरं परित्यज्याभिगच्छन्ति सर्वतः प्रामुवन्ति । तच्छब्दार्थमाह-ये के चाऽऽत्म- इन आत्मानमीशं सर्वतः परिपूर्ण चिदानन्दं परेण धनरूपेण नन्ति तिरस्कु. वन्ति ये त आत्महन इदं सर्वमहमेवेति ज्ञानशून्या इत्यर्थः । जनाः संसार- चक्रे पुनः पुनः प्रादुर्भाववन्तः ॥३॥ ईशब्दार्थमाह-अनेजत् । कम्पनमकुर्वदनेन वायुप्राणौ निराकृतौ । एकं देहादिभेदेन भेदशून्यमिदमित्थं चेत्स्यान्मनसा प्राप्यमित्यत आह-मनसो जवीयो मनसोऽपि वेगवत्तरम् । मनसा साक्षादनाप्यानामपि रूपादीनां चक्षुरादिभिराप्यत्वदर्शनादिदमपि तथाऽस्त्वित्यत आह-नैनदिति। नैनदीश्वर- स्वरूपं देवाश्चक्षुरादय आप्नुवन्नधिगतवन्तो मनसेन्द्रियैश्वानाप्यत्वेन । परिच्छेदशङ्कां प्राप्तां वारयति-पूर्व प्रथममर्शद्वतवत्सर्वतो गतमित्यर्थः । सर्व तोगतत्वे हेतुः-तदीश्वरस्वरूपं धावतो गतिं कुर्वतोऽन्यान्कालवावादीन- येत्यतीत्य गच्छति । तद्देष्वेव किंचिदतिवेगवदित्यत आह-तिष्ठद्गतिमकुर्वत् । इदानीमसाधारणलक्षणमाह-तस्मिन्सर्वगत एकस्मिन्मनसेन्द्रियैश्चाप्राप्ये सर्वा- धिके गतिशून्ये निश्चलेऽप: कर्माण्यध्यात्माद्याश्रयाणि शरीरारम्भादिकार- णानि मातरिश्वा मातर्याकाशेऽव्याकृते श्वसिति सत्तां पामोति सूत्रात्मा स जीवसंघो यः स मातरिश्वा प्रथमं कार्य ज्ञानक्रियाशक्तिमित्यर्थः । दधाति विधारयति सूत्रात्मजनकत्वेन जगत्कारणं भवतीत्यर्थः ॥ ४ ॥ एवं मूर्तामूर्तविलक्षणमीशशब्दार्थमुक्त्वा प्रथमपादार्थमाह-तदीशस्वरूपमे जति मूर्तरूपेण कम्पते तदीश्वरस्वरूपं नजति नैजत्याकाशादिरूपेण तदीश- स्वरूपं दूर एकस्य मूर्तस्यापेक्षया मूर्तान्तरेण रूपेण तदु ईश्वरस्वरूपमेवा- न्तिके सर्वस्यापि समीपे । तदीश्वरस्वरूपमन्तमध्येऽस्य जगतः सर्वस्य निखिलस्य तदु सर्वस्यास्य व्याख्यातं बाह्यतो बहिरपि ॥५॥ तृतीयपादार्थमाह-यस्तु । तुशब्दो जगदृष्टिनिवारणार्थः । यो विरक्तो मुमुक्षुः सर्वाणि भूतानि स्पष्टम् । आत्मन्येवास्मिन्नीशस्वरूप आनन्दात्मनि स्वयंज्योतिष्येव । आत्मेश्वरयोर्भेदनिवारणार्थ एवकारोऽनुपश्यतीशा वास्य- मित्यादिश्रवणानन्तरं मय्येवाध्यस्तानि सर्वाणि भूतानीमानीति साक्षात्करोति । १ क.वसर्गों यः। २ ग. क्तिरित्य।
. ईशावास्यदीपिका । भूतान्यध्यस्तानि निरात्मकान्यात्मनोऽत्यन्तभिन्नानीति शङ्कां वारयति- सर्वभूतेषु चाऽऽत्मानमात्मानमपि सर्वेषु भूतेषु वस्तुतस्त्वहमेवैतेषु भूतेष्ववस्थितो न मत्तोऽन्यान्येतानि भूतानीत्यर्थः । चकारोऽनुपश्यतीति क्रियासमुच्चयार्थः । तदर्शनफलमाह-तत आनन्दात्मा चिदेकरसोऽहमास्मि सर्वाभिन्न इति विज्ञा. नानन्तरं न विजुगुप्सते । किमपि न निन्दति स्तुतिनिन्दाशून्यो भव- तीत्यर्थः ॥६॥ अत्रोपपत्तिमाह-यस्मिन्नीश्वरस्वरूप आनन्दात्मनि सर्वाणि भूतानि । स्पष्टम् । आत्मैवाभूत्स्वं स्वं रूपं परित्यज्य कल्पितमकल्पितमानन्दात्मस्वरूप- मेवाभूत् । भूतानामानन्दात्मभवने कारणमाह-विजानत ईडात्मकमिदमहम- स्मीति विज्ञानवतस्तत्रेडात्मविज्ञातृस्वरूपे देशकालवस्तुपरिच्छेदशून्ये । क आक्षेपे । द्वैतभावो मोह आत्मावरणरूपकः क आक्षेपे पूर्ववत् । शोको विक्षेपरूपो दुःखवृक्षस्य बीजस्वरूपः सोऽपि क आवरणविक्षेपयोरभावे स्तुतिनिन्दादिकं दुरापास्तमित्यर्थः । विजानत इतिशब्दार्थमाह-एकत्व- मनुपश्यतः । स्पष्टम् । ईश्वरस्वरूपमिदं सर्वमहमस्मीति विजानतः ॥ ७ ॥ आवरणविक्षेपयोरभाव उक्तः सोऽयमनुपपन्न ईश्वरस्याप्यात्मत्वान्जीववच्छ- रीरादिसंबन्धः स्यादित्याशङ्कय दृष्टान्ते साध्यवैकल्यं साध्यसमत्वं चाऽऽह-स ईश्वरस्वरूपाभिन्न आत्मा पर्यगात्परितः समन्तादधिगतवान् । शुक्रं दीप्तिमदी. ट्स्वरूपमहमस्मीति शुक्रविशेषणानि । अकायं कायः सूक्ष्मदेहो न विद्यते यस्य तदकायं तत्र हेतुरवणं व्रणश्छिद्रं भेद इत्यर्थः । न विद्यते व्रणो यस्य तदत्रणम् । स्थूले सति सूक्ष्मस्यापि सुसंपाद्यत्वमित्यत आह-अस्नाविरं स्नावानि शिरा न विद्यन्ते यस्य तदस्नाविरं स्थूलशरीररहितमित्यर्थः । स्थूलशरीरराहिये हेतु:- शुद्धं पुण्यपापादिरहितं पुण्यपापादिराहिये हेतुरपापविद्धं पापं दुःखहेतुर- विद्या न तेन विद्धमपापविद्धं यस्मादेतादृशं शुक्रमहमस्मीति स जीवः पर्यगात्त. स्मात्सोऽप्येवंविशेषणो न तदृष्टान्तेनेश्वरस्य संसारित्वमित्यर्थः । अनेजदादिरूपं यदुक्तमीदस्वरूपं तदेवाय जीवोऽधिगन्ता पुंलिङ्गत्वेनोक्तोऽतस्तल्लिङ्गमुररी- कृत्याऽऽह-कविः क्रान्तदश्यहं ब्रह्मात्माऽपेतसमस्ताविद्योऽस्मीतिज्ञानवानि. त्यर्थः।मनीषी सर्वस्य हृदि सत्वेन मनसो नियन्तृत्वात्तदीयाभिप्रायोऽस्यास्तीति मनीषी परिभूः परितः समन्ताद्भवति-विविधै रूपैरविद्यावशादिति परिभूरविद्या चा परिभावयतीति परिभूः स्वयंभूः कारणान्तरनिरपेक्षः स्वयमेव भवतीति स्वयं. भूरविद्यादशायां याथातथ्यतः साध्यसाधनादिप्रतिनियतस्वरूपेणार्थीश्चतना- चेतनात्मकविविधपदार्थान्व्यदधाद्विविधं कल्पितवान् । ज्योतिष्टोमेनैव स्वर्गो ४ शंकरानन्दकृता- न कृष्यादिनेत्यादिना शाश्वतीभ्यः समाभ्यः संवत्सराभिधाभ्योऽस्मिन. स्मिन्काल इदमिदं भविष्यतीत्यादिनेत्यर्थः ॥ ८ ॥ इदानी यस्तूक्तमात्मतत्त्वं न जानाति न च संन्यासेऽधिकारी संसारें च नात्यन्तं प्रीतिमांस्तमुररीकृत्य द्वितीयं मन्त्रं चार्थान्याकर्तुमाह-अन्धं तमः। अहंममाभिमानरूपं प्रविशन्ति प्रकर्षणाधिगच्छन्ति । के, ये धनाभिलाषिणः प्रसिद्धा द्वितीये मन्त्रेऽधिकारिणोऽविद्यां कर्मविधिनिष्पाद्यं ज्योतिष्टोमादि उपासते तदेकनिष्ठाः सन्तो विद्यामनुतिष्ठन्ति । ननु तर्हि त्याज्यं कर्मोपा. स्याश्च देवता अथवाऽहं ब्रह्मास्मीति वक्तव्यमित्यत आह-ततस्तस्मादुक्ताद्भूय इवाधिकमिव ते देवतोपासका मुखतो ब्रह्मवादिनो वाऽनुत्पन्नसाक्षात्कारा कर्मत्यागिनस्तमोऽहंममाभिमानरूपं प्रविशन्तीत्यनुषङ्गः । य उ ये तु विद्यायां देवताज्ञाने केवल आत्मज्ञाने वा रतास्तदेकनिष्ठाः ॥९॥ ननूभयोनिन्दायामुभयमप्यफलमित्यत आह-अन्यदेव । कर्मणः फला पितृयाणलक्षणात्पृथगेव देवयानलक्षणमात्मप्राप्तिलक्षणं वा । अन्यच्छन्देन सफलत्वमेवशब्देनाङ्गाङ्गिभावनिषेध आहुः कथयन्ति । विद्यया देवताज्ञाने- नाऽऽत्मज्ञानेन वाऽन्यद्वियाफलात्पृथग्भूतम् । अत्रैवकाराभावादात्मज्ञानो- त्पादकत्वमपि कर्मणामवगम्यते । आहुः कथयन्त्यविद्यया द्वितीयमन्त्रोक्तेन कर्मणेत्यस्ति विद्याकर्मणोः फलम् । नचात्राङ्गाङ्गिभावोऽपि शङ्कनीयः । अन्यदन्यच्च तदित्यनेन प्रकारेण शुश्रुम श्रुतवन्तः । मन्त्रद्रष्टुरिदं वाक्यम् । धीराणां पूर्वोत्तरतवन्यायकुशलानां वेदविदाम् । तानाह-ये गुरवो नोऽस्म- भ्यमेतद्ब्रह्म कर्मसहितं विचचक्षिरे व्याख्यातवन्तः ॥ १०॥ एवं पक्षद्वयं च वैधत्वादिना सफलं चाभिधायेदानी देवताज्ञानस्य शाब्दस्य वा ब्रह्मज्ञानस्य कर्मणा सह समुच्चयमाह-विद्यां च देवताज्ञानं कोमलं ब्रह्म- ज्ञानं वा । अविद्यां च द्वितीयमत्रोक्तानि कर्माणि । चकारावुपायोपेयभावेन समुच्चयायौँ । यः संजातवैराग्यः कर्म परित्यक्तुमशक्तोऽन्तरालावस्थस्तत्कर्म ज्ञानं च वेद जानाति। उभयमुक्तमुपायोपेयभावेन सह कर्मोपायो ब्रह्मज्ञानमुपे- यमिति मिलितम् । एवमुपायोपेयज्ञानवतः फलमाह-अविद्यया द्वितीयमत्रोक्तेन कर्मज्ञानेन संयोगपृथक्त्वन्यायेन मृत्युमात्मज्ञानोत्पादप्रतिबन्धकं स्वाभाविक कर्म ज्ञानं च दुःखकारणं तीर्वाऽऽत्मज्ञानोत्पादेनातिक्रम्य विद्ययाऽहं ब्रह्मा- स्मीति साक्षात्कारेणामृतं ब्रह्मात्मत्वमश्नुते व्यामोति स एव भवतीत्यर्थः । यदा १ क. पक्षं द्वयं च द्विविधं विदित्वा स ईशावास्यदीपिका । तु ज्ञानकर्मणोरेव समुच्चयो नतु तज्ज्ञानयोस्तदोपायोपेयशन्दौ विहायाऽऽत्मज्ञा. नशब्दस्थले च देवताज्ञानमिति शब्दं पठित्वा--आभूतसंप्लवं स्थानममनत्वं हि भाष्यत इति न्यायेनामृतं ब्रह्मलोकमिति व्याकुर्यात् ॥ ११ ॥ इदानी व्याकृताव्याकृतयोरुपासनस्य समुच्चयार्थमाह-अन्धं तमः प्रविशन्ति येऽसंभूतिमुपासते । ततो भूय इव ते तमो य उ संभूत्या रताः। अन्यदेवाऽऽहुः० अश्नुते । संभूतिम् । संभूतिः सम्यग्भवनमुत्पत्तिर्यस्य तत्कार्य संभूतिः । तयतिरिक्तामव्याकृतरूपामसंभूति कारणं संभूत्यां कार्ये व्याकृते संभवाधा- कृतोपासनादसंभवादव्याकृतोपासनात्संभूतिमव्याकृतं विनाशेन विनाशवतः कार्यस्योपासनेन संभूत्या सम्यग्भवति यस्मात्कार्यं तत्कारणमव्याकृतं संभूति- स्तदुपासनेन शेषं कर्म देवताज्ञानसमुच्चयवन्मत्रत्रयेऽपि व्याख्येयम् ।। १२ ॥ ॥ १३ ॥ १४ ॥ कार्यकारणात्मादित्यमण्डलस्थः पुरुषः समुच्चयद्वयेनापि संपाप्योऽतस्तत्मा- र्थनामत्रा:-हिरण्मयेन । सुवर्णविकारेणेव ज्योतिर्मण्डलेन पात्रेण शरावसहशेन घटस्येव सत्यस्य बाधरहितस्यापिहितमाच्छादितं मुखं प्रतीकं प्रधानभूतं तद्धि- रण्मयं पात्रं त्वं कार्यकारणात्मा पूषन्हे पुष्टिकारिनपावृण्वपसारय । अपसा- रणे कारणमाह-सत्यधर्मायावितथभावाय भवते दृष्टये दर्शनार्थ तव दर्श. नार्थमित्यर्थः ॥ १५॥ इदानी तत्संबोधनानि कार्यान्तरार्थ पूषन्हे पूषन्नेकर्ष एकवासापिक- पिस्तत्संबोधनमेकर्ष एकाकित्वेन गन्तः । यम हे नियन्तः । सूर्य हे मुष्टुगमन प्राजापत्य हे प्रजापतेरपत्यभूत । इदानीं कार्यमाह-व्यूह, उपसंहर रश्मीन्कि. रणान्समूह सम्यक्स्वात्ममात्रं कुरु तेजश्चन्द्रमण्डलम् । तत्रापि प्रयोजनमाह- यत्प्रसिद्धं ते तव रूपं स्वयंज्योतिःस्वभावं कल्याणतमपतिशयेन कल्याणमा- नन्दात्मरूपं तदुक्तं ते तव पुनस्तशब्द उपचारनिवारणार्थः । पश्यामि साक्षात्करोमि। द्रष्टदृश्यप्रयुक्तं भेदं वारयति-यः प्रसिद्धोऽसावादित्यमण्डलस्थ: परोक्षोऽसौ शास्त्रदृष्ट्या प्रत्यक्षः पुरुषः परिपूर्णः स उक्तो यः प्रसिद्धः स एवाहमस्मत्प्रत्ययालम्बनोऽस्मि भवामि ॥ १६ ॥ एते मन्त्रा हिरण्मयेनेत्यारभ्य पठिताः समुच्चयानुष्ठायिनाऽसन्नित्यं पठ. नीयाः । अन्तकाले तु सर्वार्थानुसंधानपुरःसरमात्मानमादित्यरूपं ध्यात्वा वायुः प्राणरूपोऽनिलं बाह्यवायुं यात्विति शेषः । अमृतमानन्दात्मरूपं सोऽह. मस्मीति पूर्वेण संबन्धः । अथ वायुनिर्गमनानन्तरमिदं प्रत्यक्षं भस्मान्तम् । भस्मान्ते यस्मात्तद्भस्मान्तं शरीरं स्थूलं पार्थिवं पृथिवीं यात्विति शेषः। ॐ ॐ काराभिधेये शाभिमाऽऽत्मन्नादित्य क्रतो संकल्पात्मन्स्मर मां त्वा. ६ ६ शंकरानन्दकृतेशावास्यदीपिका । पासकं स्मर कृतं मयाऽनुष्ठितं ज्ञानं कर्म च स्मर । स्पष्टम् । क्रत आदित्याभिन्न संकल्पात्मन् । हे जीवाऽऽत्मानं स्मर स्पष्टम् । आत्मना कृतं स्मर ॥ १७॥ उपास्यां देवतां संपार्थ्य कर्मसाधनभूतां देवतां प्रार्थयते-अग्ने हेऽने नय प्रापय सुपथा सम्यङ्मार्गेण राये सुवर्णार्थ कर्मफलभूतायेत्यर्थः । अस्मान्समुच्चयानुष्ठातृन्विश्वानि सर्वाणि देव हे देव वयुनानि ज्ञानानि विद्वा. जानन्युयोधि वियोजयास्मदुपासकेभ्यो जुहुराणं कुटिलमेनः पापं भूयिष्ठाम- तिशयेनाधिका ते तुभ्यं नमउक्तिं नमस्कारोक्तिं विधेम विधास्यामः सर्वदा कुर्म इत्यर्थः ।। १८ ॥ इति श्रीशंकरानन्दकृतेशावास्पदीपिका संपूर्णा ॥
अथ रामचन्द्रपण्डितकृतेशावास्यरहस्यविवृतिः । ॐ सत्यं ज्ञानमनन्तमीशमखिलस्यान्तर्बहिश्च स्थित यहूरे निकटे च यच्च सकलं यत्स्वप्रभं तद्विदः । अक्षागोचरमक्षचालकमहो येनेदमाच्छादितं स्वात्माभिन्नमुपासते विजयते रामाभिधं तन्महः ।। १ ।। संसारबीजान्धतमिस्रनाशसर्वात्मताबोधजितारिषट्कम् । आनन्ददं सर्वसुहृत्तमं तं सिद्धेश्वरं सद्गुरुवर्यमीडे ॥२॥ श्रीमच्छकरभाष्यकृगुरुवरश्रीपादयुग्मं सदा ध्यात्वा हृत्कमले यथास्वमति तत्सिद्धान्तसूक्तीस्तथा । टीका नेकविधा विचार्य कुरुते रामोऽथ माध्यंदिन- स्थेशाख्योपनिषद्रहस्यविकृति श्रीसिद्धसूनुः कृती ॥ ३ ॥ इह खलु सर्वेषां वेदानामद्वैते ब्रह्मणि पर्यवसानमिति राद्धान्तस्तच्च ब्रह्म यथोक्ताधिकारिणे कथनीयम् । क्रियावन्तः श्रोत्रिया ब्रह्मनिष्ठाः स्वयं जुहत एका श्रद्धयन्तः। तेषामेवैतां ब्रह्मविद्यां वदेतेति मुण्डकोपनिषद्युक्तत्वात् । प्रशान्तचित्ताय जितेन्द्रियाय नहीणदोषाय यथोक्तकारिणे । गुणान्वितायानु. गताय नित्यं प्रदेयमेतत्सततं मुमुक्षवे । इति वचनाच । स चाधिकारश्चित्तशुद्धिं विना नोत्पद्यते। चित्तशुद्धिश्च स्ववर्णाश्रमोचितकर्माचरणेनेति प्रथमं कर्मकाण्डमे- कोनचत्वारिंशदध्यायैः प्रतिपादितम् । अथेदानी चित्तशुद्ध्यादियथोक्तगुण. वन्तमधिकारिणमुपदेष्टुं ज्ञानकाण्डमेतेन चरमेणाध्यायेनाऽऽरभ्यते । सेयमीशा- वास्योपनिषद्ब्रह्मविद्यापराणां सहेतोः संसारस्यात्यन्तोच्छेदाब्रह्मविद्योप- निषच्छब्दवाच्या । उपनीयेममात्मानं ब्रह्मापास्तद्वयं,पुनः । निहन्त्यविद्या तज्जं च तस्मादुपनिषन्मतेतिवचनाच । अन्तर्भावितण्यर्थस्य विशरणार्थस्य सद्धातोः किपि रूपम् । उप नितरां सादयति संसारहेतुभूतामविद्या नाश- यति । गत्यर्थस्य वा ब्रह्म प्रापयतीति । तदर्थप्रतिपादकग्रन्थोऽप्युपचारादु- पनिषत्केवलस्य वा सदेरुपाऽऽत्मनः समीपे निषीदति प्रतिपादकत्वेने त्यात्मयाथात्म्यप्रतिपादक इति । एषां च मन्त्राणां कर्मसु न विनियोगः । आत्मयाथात्म्यप्रतिपादकत्वात् । तच्च कर्मणा विरुध्यते । न हि वक्ष्यमाण- लक्षणविशिष्ट आत्मा संस्कार्यः कर्ता भोक्ता वा.। यो हि यथोक्ताधिकारवा- नई ममेदमिष्टसाधनं दृष्टं ब्रह्मवर्चसायदृष्टं स्वर्गादि च फलमाप्नुयामिति २ रामचन्द्रपण्डितकृता- मन्यते स कर्मण्यधिक्रियते । न हि स्वभावशुद्ध एकोऽशरीर्याकाशव- भिलपोऽहमिति शास्त्रत आपातज्ञानवानपि कर्मणि प्रवृत्तो दृश्यते । किमुतापरोक्षज्ञानवानत एषां मन्त्राणामैकात्म्यतात्पर्यकत्वम् । ईशा वा- स्यमित्युपक्रम्य सोऽसावहमित्युपसंहारः । अनेजत्तदेजतीत्यभ्यासः । नैन- रेवा आप्नुवनित्यपूर्वता । तत्र को मोह इति फलम् । असुर्या नाम त इति भेददृष्टीनां कर्मकारिणां निन्दयैकात्म्यदर्शनस्तुतिरथवा स पर्यगादित्या- दिनैकात्म्यदर्शिन ऐश्वर्यवर्णनं सदर्थवादः । तस्मिन्नपो मातरिश्वा दधा- तीत्युपपत्तिश्चेति षण्णां तात्पर्यलिङ्गानां दर्शनात् । तस्मादेते मत्रा भेद निवर्तयन्तः संसारोच्छत्तिसाधनमात्मैकत्वविज्ञानमुत्पादयन्ति । अत्र दुःख- हेतुस्वाज्ञाननिवर्तनेच्छुरधिकारी । आत्मनो याथात्म्यमभिधेयं विषयः । याथा त्म्यस्य तद्वाचकशब्दानां च प्रतिपाद्यप्रतिपादकभावः संबन्धः । स्वगताज्ञान- निवृत्त्या सत्स्वरूपानन्दाविर्भाव: प्रयोजनमित्यनुबन्धचतुष्टयम् । अथ मन्त्रा. संक्षेपतो व्याख्यास्यामः-ईशा वास्यमिति । ईष्ट इतीद ईश ऐश्वर्ये किए । तृतीयान्तमीशेति । ईश्वरणेदं प्रत्यक्षं सर्व भूतजातं वास्यं वासयो. ग्यमधिष्ठानेनाऽऽच्छादनीयं वा निवासार्थकादसेर्बाहुलकादधिकरणे ण्यत् । आच्छादनार्थस्य वा वसे रूपं कृत्यानां कर्तरि वेति षष्ठी विकल्पात्प तृतीया यच्छन्दो भिन्नक्रमः । चस्त्वर्थ यथोक्तानुभवसाधनमाह । किंतु यज्जगत्यामित्युपलक्षणं ब्रह्माण्डे जगत्स्थावरजङ्गमात्मकं तेन भूतजातेन त्यक्तेन न ममेति त्यक्तस्बीयत्वसंबन्धेन संन्यासेन यत आच्छादनीयमतो यत्किच पावज्जगत्यां जगत्तेन त्यक्तेन नामरूपत्यागेन तद्बुद्धया गृही. तेनेति वा धुञ्जीथाः पूर्वोक्तमात्मानमनुभवेः । वा यदृच्छाप्राप्तभोगाननुभवः । स्वात्मानं जननमरणादिदुःखात्पालयेथा वा । स्वसुखमनुभवोरिति वा । एतमेव प्रवाजिनो लोकपीप्सन्तः प्रव्रजन्तीतिश्रुतेस्त्यागेनैके अमृतत्वमानशुः परेण नाऊं निहितं गुहायां विभ्राजदेतद्यतयो विशन्तीतिश्रुतेश्च संन्यस्य श्रवणं कुर्यादित्युक्तेश्च । यदा मनसि वैराग्यं जायते सर्ववस्तुषु । तदैव संन्यसद्विद्वानन्यथा पतितो भवेत् ॥ इत्युक्तत्वादधिकारं विना संन्यासे कृते प्रत्यवायांपत्तिरित्यभिप्रा. पेणाऽऽह-मा गृधो माऽभिकाझीः। स्विदित्यनर्थकोऽप्यर्थको वा कस्यापि स्वस्य परस्य वा धनं भाग्यविषजातम् । ब्राह्मणाः पुत्रैष. गायाश्च वितैषणायाध लोकैषणायाच व्युत्थायाथ भिक्षाचर्य चरन्तीति सकैपणस्यैव संन्यासेऽधिकारात् । यद्वा स्विदिति वितर्के । लोके ईशावास्यरहस्यविवृतिः। -- कस्येदं धनं न कस्यापि न हि लोके नियतस्वामिकं किंचिदपि विषयजातं श्यते । प्रश्ने वा । अधिष्ठानेनाध्यस्तस्य स्वस्वामिभावायोगात्कस्येदं धनमि. त्यर्थः । अतो माऽभिकाङ्क्षीः । केवलेच्छयैव विषयाणामवश्यमाप्त्यभावान्म- मेदमिति रक्षितानां च स्थैर्याभावाद्विनाशे दुःखप्राप्तेश्च विषयेच्छात्यागपूर्व- कसंन्यासिना ब्रह्मणः सर्वान्तरस्थत्वं ज्ञेयमिति भावः । अथवा स्वात्मना विभुनाऽधिष्ठानेन ज्ञातेन रज्ज्वादिनाऽभ्यस्तसादिभासवदध्यस्तजगद्भास आच्छादित दूरीकृते सति स्वातिरिक्तस्य विषयस्याभावादिच्छानुत्पत्तेः स्वात्पनैव स्वसुखमनुभवनीयमिति तात्पर्यम् । आत्मक्रीड आत्मरतिः क्रियावानेष ब्रह्मविदां वरिष्ठ इति श्रुतेः। वासिष्ठे समाध्युस्थितस्य कचस्य- किं करोमि व गच्छामि किं गृह्णामि त्यजामि किम् । आत्मना परितं सर्व महाकल्पाम्बुना यथेति वाक्याच्च ॥ १ ॥ अत्रायं संग्राहकः श्लोक:- छाचं मयेशेन समस्तमेतज्ज्ञात्वेति संन्यस्य सुखं हि भोग्यम् । धनस्य गृदि न कुरु स्वमन्यत्स्वतोऽस्ति किं कस्य धनं त्रिलोक्याम्॥१॥ ईशावास्यस्य विवृतौ कृतायां रामशर्मणा। संपूर्णः प्रथमो मत्रः मीयतां तेन राघवः ॥२॥ त्यतैषणस्य संन्यासेऽधिकार इति श्रुत्वेषणात्यागसाधनं प्रष्टुकामस्य श्रोतुः प्रश्नात्पूर्वमेव सर्वज्ञा श्रुतिश्चित्तशुद्धिरीषणात्यागोपाय इत्यभिप्रायेण चित्तशुद्ध्यर्थ त्वया तावत्कर्माणि कर्तव्यानीत्युपदिशति । अथवाSS. त्मतत्त्वमुपक्रम्य स्वानुभवमदर्शनेन श्रोतारमभिमुखीकृत्य प्रष्टुमिच्छन्तं तमु- पदेष्टुकामा श्रुतिः शुद्धचित्तस्यैव श्रवणेऽधिकारादधिकारसिद्धये पूर्व तत्सा- धनमुपदिशति-कुर्वन्निति । एव शब्दो भिन्नक्रमः । इह नृलोके कर्माण्येव केवलानि नतु फलेच्छां कुर्वन् । कर्मण्येवाधिकारस्ते मा फलेषु कदाचनेति भगवतोक्तत्वात् । फलेच्छैव बन्धनकर्तीति भावः । त्वं जिजीविषेज्जिजीविषेः पुरुषव्यत्यय छान्दसः। भवाञ्जिजीविषेदिति वा शतं समा इत्युपलक्षणं सर्वस्य पुरुषायुषस्य यावदायुरित्यर्थः । अनेन मनुष्यस्यैव कर्माधिकार इति सूचितम् । जीवनेच्छोक्त्या संन्यासाधिकाराभावो न जीविते मरणे वा गृधिं कुर्यादरण्यमियादिति श्रीभगवत्पादैरिच्छारहितस्यैव संन्यासेऽधिका- रस्योक्तत्वादरण्यं स्त्रीजनासंकीर्णमाश्रमं संन्यासमित्यर्थः । ननु यदि फलेच्छाया अभावस्तदेष्टसाधनताज्ञानं विना प्रवृत्त्यनुपपत्या कर्मणि प्रवृत्तिरेव न स्यादिति चेत्सत्यं भगवदधीनोऽहं तस्मादसक्तः सततं कार्य कर्म समाचरेति गीतायामुक्तत्वात्तदाज्ञोल्लङ्घने प्रत्यवायोत्पत्त्या ममानिष्टं स्यादतोऽवश्यं मया कर्माणि कर्तव्यानीत्येवं निश्चयेन नित्यनैमि- ४ - रामचन्द्रपण्डितकृता- त्तिकादिकाम्यकर्मसु प्रवृत्तेः सूपपन्नत्वात् । ननु कर्मणा बन्धः स्यादिति चेन । असक्तो ह्याचरन्कर्म परमानोति पूरुष इति भगवतोक्तत्वा. निष्कामकर्मणा मुक्तिरेवेत्यभिप्रायेणाऽऽह-एवं निष्कामकर्माणि कुर्वत- स्त्वयि तव विभक्तिव्यत्यय'छान्दसः । वृक्षे शाखेतिवदधिकरणत्वविवक्षया वा सप्तमी । नरे नृदेहधारिणि कर्म न लिप्यते । कर्मफललेपो न स्यात् । किंतु चित्तशुद्धिद्वाराऽधिकारसंपत्त्या ज्ञानसिद्ध्या मुक्तिरेव स्यादिति भावः । अनेन मनुष्यस्यैव कर्मफलसंबन्ध इति बोधितम् । अधिकार- संपादकचित्तशुद्धः कर्मातिरिक्तसाधनासिद्धत्वं दर्शयति-इतो निष्कामकर्मा- चरणादन्यथा प्रकारान्तरं तव मुमुक्षोनास्ति येन त्वं शुद्धचित्तः सनधिकारी भविष्यसीत्यर्थः । आदौ स्ववर्णाश्रमवर्णिताः क्रियाः कृत्वा समासादि- तशुद्धमानस इति श्रीरामगीतायामुक्तत्वात् । स्ववर्णाश्रमधर्मेण तपसा हरितोषणात् । साधनं प्रभवेत्पुंसां वैराग्यादिचतुष्टयमिति भगवत्पादोक्तेश्च । यावदिच्छा तावत्कर्मस्वधिकार इति तात्पर्यम् । तावत्कर्माणि कुर्वीत न निर्वि- घेत यावतेति भागवतात् ॥ २ ॥ अत्रायं संग्राहकः श्लोकः- निष्कामकर्माणि तु यावदायुस्त्वमिच्छ कर्तुं खलु यन्मुमुक्षुः । एवं तव स्यान्नफले न लेपो न चित्तशुद्धावितरः प्रकारः ॥ १॥ ईशावास्यस्य विवृतौ कृतायां रामशर्मणा । मत्रो द्वितीयः संपूर्णः प्रीयतां तेन राघवः ॥ २॥ साधकस्य निष्कामकर्मस्वधिकार इत्युक्तमर्थं काम्यकर्मपराणां बलवदनि- टफलकथनव्याजेन काम्यकर्मनिन्दया प्रवलयति-अमुर्या इति । असुर्या असुषु प्राणेषु रमन्त इत्यसुराः प्राणपोषका ज्ञानहीनाः केवलप्राणपोषिणो देवा अप्यसुरा एव । अन्येष्वपि दृश्यत इत्यत्रापिशब्दस्य सर्वोपाधिव्यभि- चारार्थत्वात-रमधातोरपि डः । तेषामिमेऽसुर्याः । तद्धिता इति बहुवचन- स्यानुक्तसंग्रहार्थत्वादिदमर्थे । यन्नाम प्रसिद्धाः। ते यच्छब्दस्थाने तच्छब्दः। ये लोका लोक्यतेऽनुभूयते कर्मफलं येषु ते लोका जन्मानि स्थानानि वा तिर्यगादीनि नरकादीनि चान्धेन तमसा विचारशून्यत्वात्स्वाभाविकेना- ज्ञानेनान्धतामिस्रण वाऽऽकृता आच्छादितज्ञाना निरिन्द्रियप्रचारा वा तान्पूर्वोक्तोभयविधेष्वन्यतरान्स्वकर्मानुसारेण तत्रोत्पद्य ते जना नरा: प्रेत्यापि मरणं प्राप्य पुनरपि गच्छन्ति प्राप्नुवान्त । तच्छब्दोक्तानिर्दिशति- ये के च । अनेन जातिगुणादिनिरपेक्षत्वं सूच्यते । आत्महनो यथा गुरूणा- मवज्ञाकारी गुरुधातीत्युच्यते तथाऽतिपूज्यस्य सर्वप्रकाशकस्याप्यात्मनो ईशावास्यरहस्यवितिः। देह एवाहं नाऽऽत्मा कश्चनास्तीत्यवज्ञाकारिण आत्मघातिनस्ते । अनेन देहा- न्तरमाप्तिरपि नरदेहकृतसंचितकर्मबीजनिबन्धनेति सूचयति । प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म । एतच्छ्रेयो येऽभिनन्दन्ति मूहा जरामृत्यु ते पुनरेवापि यन्ति ॥१॥नाकस्य पृष्ठे सुकृतेऽनुभूत्वेमं लोकं हीनतरं वा विश- न्तीति च मुण्डकोपनिषद्युक्तत्वात् । तानहं द्विषतः करान्संसारेषु नराधमान् । क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥ १॥ आसुरी योनिमापन्ना मूढा जन्म- नि जन्मान। माममाप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥२॥ इति भगवद्वा- क्याच । प्राणपोषणार्थ नानाविधकाम्यकर्मपराणां पुन: पुन संसरणेन मुक्ति- नास्तीति तात्पर्यम् ॥ ३ ॥ अत्राय संग्राहकः श्लोकः- स्वात्मानभिज्ञा निजघातिनस्ते प्रमीय मां असुपोषिभोग्यान् । विचारशून्यानतिदुःखयुक्तान्प्रयान्ति देहान्खरनारकादीन् ॥१॥ ईशावास्यस्य विवृतौ कृतायां रामशर्मणा । मन्त्रस्तृतीयः संपूर्णः प्रीयतां तेन राघवः ॥२॥ कीदृशः स आस्मा यस्याज्ञानेन जनाः संसरन्तीत्याकाङ्क्षायामाह । अथ- वा येनेश्वरण सकलमाच्छादितं तस्य स्वरूपमाह । यद्वाऽनुभवसाधनं प्रदर्यो- पक्रान्तमात्मस्वरूपमुपसंहरति । अथवाऽन्वयव्यतिरेकाभ्यां निष्कामकर्मणः श्रवणाधिकारसाधनत्वं प्रदर्य श्रोतव्यमात्मतत्त्वमुपदिशति-अनेजदिति । नै. जति चलति तदनेजस्वावस्थापच्युतिश्चलनं तजितम् । अनेन वाल्या. दीनां जायदादीनां चाभावः । वाल्यादिष्वपि जाग्रदादिषु तथा सर्वास्त्र- वस्थास्वपि व्यावृत्तास्वनुवर्तमानमहमित्यन्तः स्फुरन्तं सदा स्वात्मानं प्रकटी करोतीति भगवत्पादैरुक्तत्वात् । एकमद्वितीयम् । एकमेवाद्वितीयं ब्रह्मेति श्रुतेः। अथवैकं सर्वदैकरूपं दृद्ध्यपक्षयविपरिणामशून्यं मनसो जवीयः संकल्पलक्षणादतिचञ्चलान्मनसोऽपि जवीयो वेगवत्तरम् । अपाणिपादो जवनो ग्रहीतेतिश्रुतेः । देहस्थस्यापि मनसः क्षणाब्रह्मलोकगमने व्यापकत्वात्तत्र पूर्व- गतमिवास्ति । परं त्वचिन्त्यत्वान्मनसा प्राप्तुमशक्यं न तु चक्षुरादिविषयव. न्मनसा साक्षादनाप्यं यत एनदात्मस्वरूपं देवा द्योतनात्मकानि चक्षुरा दीन्द्रियाणि नाऽऽप्नुवन्न प्राप्तवन्तः । अव्यपदेश्यत्वादिन्द्रियागोचरमित्यर्थः । मनोव्यापारपूर्वकत्वादिन्द्रियप्रवृत्तेर्यन्मनसोऽगोचरं तदिन्द्रियाणां सुतरामगोचरम् । यद्वाचाऽनभ्युदितं येन वागभ्युद्यते तदेव ब्रह्म त्वं विद्धीत्या- दिना मनःप्राणेन्द्रियापाप्यत्वस्य केनोपनिषद्युक्तत्वात् । पूर्वमनादि जन्मरहि- तमर्शत् । रिश हिंसायामित्यस्य शत्रन्तस्य रूपं न रिशदविनाशि धातोरि- कारलोप छान्दसः । तदादिमध्यान्तविहीनमेकमिति श्रुतेः । तद्ब्रह्म तिष्ठया: अथवा रामचन्द्रपण्डितकृता- पकत्वेन सर्वत्र स्थितिमत्सद्धावतो द्रुतं गच्छतोऽन्यान्कालवाय्यादीनत्येत्य- तिक्रम्य गच्छतीव तेषां गत्याऽप्राप्यमित्यर्थः । आसीनो दूरं ब्रजति शयानो याति सर्वत इति श्रुतेः । मातरिश्वा देहान्तर्गतो वायुस्तस्मिन्देहान्त- विद्यमाने सत्यप भाप्यन्ते प्राणादिसंज्ञा याभिस्ता आप आमोतेह्रस्वश्वे- ति करणे किप्ताः क्रियाः माणनादिचेष्टा दधाति धारयति । अथवा समि. एयजुषि वातेधा इति सर्वकर्मणां वायुस्थत्वोक्तेरपः श्रद्धा वा आप इति श्रुतेः श्रद्धाजन्यत्वादापः कर्माणि स्वस्थानि तानि वायुस्तत्र ब्रह्माण दधाति स्थापयति कर्मणां परमं निधानमित्यर्थः । अथवा तत्रान्तर्यामिाण सति वायुः सूत्रात्मा तपनवारिदादीनां कर्माणि तपनवर्षणादीनि। वायुना हि गौतम सूत्रे णायं च लोकः परश्च लोकः सर्वाणि च भूतानि संदृब्धानि भवन्तीति श्रुतेः क्रियाशक्तिमत्त्वाद्दधाति विभज्य धारयति । अन्तर्यामितया तस्यैव सर्वेशवाद- न्तर्यामिब्राह्मणे सर्वान्तयामित्वेन यः पृथिव्यां तिष्ठन्नित्यादिना तस्यैव सर्वनि- यामकत्वोक्तेीषाऽस्माद्वातः पवत इत्यादितैत्तिरीयश्रुतेश्च स वा अयमात्मा सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किंचेति स सेतुर्विधरण एषां लोकानामसंभेदायेति शारीरब्राह्मण उक्तत्वाचाचिन्त्य- मव्यपदेश्यं षडभावविकाररहितं सर्वदैकरूपं सर्वान्तर्यामिसर्वचालकं ब्रह्मेत्यर्थः ॥४॥ अत्रायं संग्राहकः श्लोकः- अकम्पमेकं मनसस्तरस्विःन देवता आपुरनाशि पूर्वम् । तिष्ठत्तदत्येत्यपि धावतोऽन्यान्वायुर्हि कर्माणि दधाति तत्र ॥ १ ॥ ईशावास्यस्य विवृतौ कृतायां रामशर्मणा । मन्त्रश्चतुर्थः संपूर्ण प्रीयतां तेन राघवः ॥ २॥ उक्तमर्थमन्योऽपि मत्रो वदति । अथवाऽऽत्मतत्वस्यतीतमन्त्रोक्तदुष्पाप. स्वान्तर्यामित्वव्यापकत्वानुवादेन तस्यैव सर्वात्मकत्वं मुखप्राप्यत्वं च श्रुतिरु- पपादयति । नात्र पुनरुक्तिर्न मन्त्राणां जामितादोष इति भगवत्पादैरुक्तत्वात् । जामिताऽऽलस्यं रहस्यम् । सकृदुक्तं चित्ते नाऽऽयातीत्यनलसा श्रुतिः सक- रुणा मातेव पुनः पुनरुपदिशति-तदेजतीति । तत्प्रकृतमात्मतत्त्वमेजति चलति जङ्गमं तनैजति न चलति स्थावरम् । पुरुष एवेदं सर्व यद्भूतं यच्च भव्यमि- ति श्रुतेः । तदात्मतत्त्वं दूरे विप्रकृष्टे तदु उ एवार्थे यदूरस्थं तदेवान्तिके समीपे समीपस्थमपि तदेव दूरस्थमन्तिकस्थं ब्रह्मैव सर्वगत्वात् । अथवा सर्व रूपत्वादूरस्थमन्तिकस्थं च ब्रह्मैव । अथवाऽज्ञानिनां वर्षकोटिभिरप्यप्राप्यत्वा- ७ ईशावास्यरहस्यविकृतिः। वाहूर इव स्थितम् । आत्मज्ञानिनां तु समीप एवाऽऽत्मत्वेन हृत्स्थत्वात्सुमाएं तद्ब्रह्मास्य प्रत्यक्षस्य सर्वस्य भूनजातस्यान्तरभ्यन्तरेऽन्तर्यामित्वेनास्ति । तदु तदेव सर्वस्यास्य बाह्यतो बाह्यप्रदेश उत्तमपुरुषत्वेन सार्वविभक्तिकस्तासः । अन्तर्बहिश्च तत्सर्व व्याप्य नारायणः स्थित इति श्रुतेः । वहिरन्तश्च भूताना- मचरं चरमेव च । सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तदिति । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते । उत्तमः पुरुपस्त्वन्यः परमात्मेत्युदाहृत इति च गीतावाक्याच ॥५॥ अत्रायं संग्राहकः श्लोकः- ब्रह्मैव तत्स्थावरजङ्गमात्म स्वाज्ञानिनां दूर इवाप्रकाशम् । तज्ज्ञानिनां भाति सदा समीपे विश्वस्य चान्तश्च बहिस्थितं तत् ॥ १॥ ईशावास्यस्य विवृतौ कृतायां रामशर्मणा । संपूर्णः पञ्चमो मन्त्रः प्रीयतां तेन राघवः ॥ २ ॥ उक्तात्मज्ञानस्य फलमाह-यस्त्विति । यस्तु तुशब्दो वैलक्षण्यद्योतको यः पुनर्लोकविलक्षणदृष्टिः सर्वाणि भूतान्यव्यक्तादिस्थावरान्तान्यात्मनात्मनि मुपां सुलुगिति टुंगधिष्ठानरूप एवानु गुरूपदेशानन्तरं पश्यत्यवलो. कयति च परं सर्वभूतेषु तेष्वात्मानमनु कारणात्मनाऽनुगतं पश्यत्य- नुभवति । तत ऐकात्म्यज्ञानात्स पुरुषो न विचिकित्सात संशयं न प्रामोति । संशय उभयकोटिकं ज्ञानं दैनं पश्यतो भवति नत्वैकात्म्यज्ञस्येति भावः । यदेत. मनुपश्यत्यात्मानं देवमञ्जसा । ईशानं भूतभव्यस्य न तदा विचिकित्सतीति बृह. दारण्यकश्रुतेः । सर्वभूतस्थमात्मानं सर्वभूतानि चाऽऽत्मनि । संपश्यन्ब्रह्म परमं याति नान्येन हेतुनेति कैवल्यश्रुतेश्च । अस्पा एव श्रुनेरुत्तरार्धं गीतायाम् - ईक्षते योगयुक्तात्मा सर्वत्र समदर्शन इति । छिद्यन्ने सर्वसंशयास्तस्मिन्टे परावर इति मुण्डकश्रुतेश्च ॥ ६ ॥ अत्रायं संग्राहकः श्लोकः- यः पश्यतीत्थं सकलानि भूतान्यात्मन्यथाऽऽत्मानमपीह विद्वान् । सर्वेषु भूतेषु स तत्ववेत्ता निःसंशयः स्यात्सकलैरानिन्धः ॥ १ ॥ ईशावास्यस्य विकृतौ कृतायां रामशर्मणा । मन्त्रः षष्ठोऽपि संपूर्णः प्रीयतां तेन राघवः ॥ २ ॥ अधुनाऽऽत्मज्ञस्य स्थितिमाह-यस्मिन्निति । यस्मिन्काले विजा. नत आत्मानं साक्षात्कुर्वतः सर्वाणि भूतानि ब्रह्मादिस्थावरान्तानि न प्रद्यतिरिक्तं किंचिदस्त्य हमेव सर्वरूप इत्यात्मैवाभूत्संवृत्तः । तत्र तस्मि. एकत्वममैकात्म्यमन्वनुस्यूतं पश्यतोऽनुभवतो मोह यावरणरूप: काल - पुनरात्मस्वरू रामचन्द्रपण्डितकृता- का किनिमित्तकः शोकश्च विक्षेपरूप: का किंनिमित्तक । आत्म. ज्ञानेनाविद्याया निरस्तत्वात्स्वरूपं जानतः समूलाविद्योच्छेदादावरण- विक्षेपयोरभावेन कामायनुदयाज्जीवन्मुक्तिस्थित्या तूष्णीभूत आस्त इत्यर्थः । यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येदित्यादिना तस्य निष्क्रियत्वाभि- धानान् । आत्मन्येव च संतुष्टस्तस्य कार्य न विद्यत इति भगवद्वाक्याच ॥७॥ अत्रायं संग्राहकः श्लोकः- सर्वाणि भूतानि मदात्मकानीत्येवंविदोऽभः सकलं यदात्मा । तदैकतां पश्यत आत्मरूपे मोहश्च शोकश्च भवेत्कथं स्वित् ॥ १॥ ईशावास्यस्य विकृतौ कृतायां रामशर्मणा । संपूर्णः सप्तमो मन्त्रः प्रीयतां तेन रावकः ॥ २॥ आत्मज्ञस्थितिमुक्त्वा लोकोत्तरैश्वर्यप्रदर्शनेनोपसंहर्तु वर्णयति–स पर्यगादिति । अत्र स इत्युत्तरार्धे च कविरित्यादिशब्दैः पुंलिङ्ग- खेन निर्देशाच्छुशुक्रमित्यादीनि विशेषगानि पुंलिङ्गत्वेन विपरिणम्यान्य- थवा स इति शब्दो भिन्नक्रम उत्तरार्धन संबध्यते । यत्तदोनित्यसंबन्धात् । यद्ब्रह्म पर्यगात्परिः सर्वतोभावे सर्वतो जगद्याप्याऽऽसीत् । शुक्रं शुद्ध दीप्तिपत्स्वप्रकाशम् । तमेव भान्तमनुभाति सर्व तत्य भासा सर्वमिदं विभातीति श्रुतेः । अकायं सूक्ष्मदेहरहितमत्रगं व्रणः क्षतं तद्रहितमस्त्राविरं स्नाविराः शिरा न सन्ति यस्य ननिरवयवत्वादवगास्नाविरमिति विशेषणद्वयेन स्थूल. शरीरनिरासः । अशरीरं शरीरेष्वनवस्थेष्वस्थितमिति श्रुते । शुद्धं मायासंब. न्धरहितं विरजः पर आकाशादिति श्रुतेस्तमसः परमुच्यत इति गीतावाक्याच । अपापविद्धं पुण्यमपि पुनरावृत्तिहेतुत्वात्यापमेव . तेनोभयात्मकेनाविद्धमसं. वद्धं स न साधुना कर्मणा भयानो एवासाधुना कनीयानिति श्रुतेः। नाऽऽदत्ते कस्यचित्पापं न चैव सुकृतं विभुरिति भगवद्वाक्याच । स एतादृशं ब्रह्मैव स्वशक्ति. मादायेश्वरो भत्वा कविरतीतानागतज्ञः । वेदाहं सगतीतानि वर्तमानानि चार्जु. न । भविष्याणि च भूतानीति गीतायामुक्तत्वात् । मनीषी मनीषा जगत्सर्जनेच्छा तद्वान् । सोऽकामयत बहु स्यां प्रजायेयेति श्रुतेः । अथवा मनोनियन्ता मनसो ये मनो विदुरिति श्रुतेः । परिभूः परिरुपयर्थकः परि सर्वेषामुपरि श्रेष्ठत्वेन भवत्यस्तीति परिभूः । पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिरिति ध्रुनेः । स्वयंभूः स्वयमेव भवति नतु कारणान्तरेणेत्यर्थः । अथवा येषामु- परि यश्वोपरि तत्सर्व स्वयमेव भवतीति सर्वरूपः। याथातथ्यतो यथातथाभावो याथातथ्यं तेनेति. याथातथ्यतः साध्यसाधनादिप्रतिनियतस्त्ररूपेणाांचे.
ईशावास्यरहस्यविवृतिः।
तनाचेतनरूपपदार्थान्व्यदधाद्विभज्य दत्तवान् । शाश्वतीभ्यो नित्याभ्यः
समाभ्यः संवत्सराख्येभ्यः प्रजापतिभ्यो यो वै स संवत्सरः प्रजापतिः षोड-
शकल इति श्रुतेरचिन्त्यशक्तिमब्रह्मेति भावः । अत्रार्थे श्लोकयोजना-
ययापकं शुद्धमपापविदं देहद्वयातीतमतिप्रकाशम् । कविः स धीमान्प्रवरः
स्वयंभूः प्रजापतिभ्यो व्यदधायथार्थान् ॥१॥ अथवा यथोक्तात्मज्ञस्योक्तानु-
वादपूर्वकमैश्वर्यमाह-सशब्द उत्तरार्धेनैव संबध्यते यः शुक्रमित्यादि यथो
क्तविशेषणविशिष्टं ब्रह्म पर्यगात्सर्वभावेन ज्ञानवान् । गत्यर्थानां बुद्ध्यर्थत्वात्स
ब्रह्मज्ञः कविः कान्तदर्शी । मनीषी द्वैतासंवन्धेन प्रशस्तबुद्धिमान्परितः
सर्वमपि स्वयमेव भवतीति परिभूः सकलात्मकः । स्वयंभूर्ब्रह्मरूपो यथा-
स्वरूपं तेन तेन रूपेणार्थान्पदार्थान्भोग्यविषयान् । शाश्वतीभ्यः समाभ्यस्ता-
दर्ये चतुर्थ्यनन्तवर्षोपभोगाय व्यदधात्स्वयमेव कृतवान् । यस्यानुवित्तः
प्रतिबुद्ध आत्माऽस्मिन्संदेहे गहने प्रविष्टः। स विश्वकृत्स हि सर्वस्य कर्तेति श्रुते-
ब्रह्मविद्रमैव भवतीति भावः ॥ ८ ॥ अत्रायं संग्राहकः श्लोकः-
यो ज्ञातवाशुद्धपापविद्धं देहयातीतमतिप्रकाशम् ।
कविः स धीमान्सकलः स्वयंभूळधायथास्वं बहुकालमर्थान् ॥ १ ॥
ईशावास्यस्य विकृतौ कृतायां रामशर्मणा ।
संपूर्णश्चाष्टमो मन्त्रः प्रीयतां तेन राघवः ॥२॥
उपक्रान्तमात्मतत्त्वमुपसंहृत्य यस्तूक्ततत्त्वानभिज्ञ ईषणात्यागाभावेन सं.
न्यासे च नाधिकारी संसारे च नात्यन्तं सक्तस्तं प्रति चित्तैकाथ्यार्थमुपास-
नासमुच्चयं कथयिष्यन्मत्येकमुपासनां फलकथनव्याजेन निन्दति । अथवो-
क्तात्मज्ञानस्याखिल श्रेष्ठत्वं तब्यतिरिक्तानां संसरणहेतुत्वप्रदर्शनेन द्रढयति-
अन्धं तम इति । ये नरा असंभूतिं सम्यग्भवनं भूतिरुत्पत्तिर्यस्य
कार्यस्य तद्भिन्नां कारणरूपामव्याकृताख्यां प्रकृतिमुपासते चिन्तयन्ति
तेऽन्धं तमोऽदर्शनात्मिको प्रकृति प्रविशन्ति प्रकर्षेण विशन्ति पौराणि-
कोक्तं प्रकृतिलयं प्राप्नुवन्ति । तं यथा यथोपासते तदेव भवतीति
श्रुतेः । य उ । ये तु संभृत्यां प्रकृतिकार्थे हिरण्यगर्भाख्ये रता आसक्ता.
स्तदुपासका इत्यर्थः । ते ततः प्रकृतिलयाद्भूय इवाधिकमिव स्वरूपाज्ञानेन
संसरणहेतुत्वात्तमोऽणिमादिसिद्धिसमुदायं प्रविशन्ति प्राप्नुवन्ति ॥ ९ ॥
अत्राय संग्राहकः श्लोकः-
अव्याकृतं हेतुमुपासते ये संपामुवन्ति प्रकृतौ लयं ते ।
प्रजापति कार्यमुपासते ये ते प्राप्नुवन्ति ह्याणिमादिसिद्धीः॥१॥
रामचन्द्रपण्डितकृता- ईशावास्यस्य विकृतौ कृतायां रामशर्मणा । संपूर्णो नवमो मन्त्रः प्रीयतां तेन राघवः ॥२॥ व्याकृताव्याकृतोपासनयोभिन्नफलत्वे श्रुतिरार्यवचः प्रमाणयति-अन्यदे- वैति । संभवात्संभूनिरूपकार्यप्रजापत्युपासनादन्यदेव भिन्नमेवाणिमादिसिदि- रूपं फलं तत्त्वज्ञा आहुर्वदन्ति तथाऽसंभवादसंभूतिरूपकारणाव्याकृता- ख्यप्रकृत्युपासनादन्यत्मकृतिलयाख्यं फलमाहुः कथयन्त्युपास्योपासनयोर. भेदविवक्षया संभवादसंभवादित्युक्तं ये ज्ञानिनो नोऽस्मभ्यं भाष्यमतेऽन्व- थसंज्ञा विज्ञानाभावात्संप्रदानत्वम् । अस्मान्वा। अकथितं चेति व्यापारद्वयार्थ- त्वाद्वा द्विकर्मत्वं तदुपासनाद्वयतत्त्वं विचचक्षिरे व्याख्यातवन्तस्तेषां धीराणां वाक्यमिति शेषः । अथवा प्रसिद्धत्वाद्वाक्यामिति कर्मणोऽप्रयोग आख्यातो. पयोग इत्यपादानत्वस्याविवक्षया शेषे षष्ठी धीरेभ्य इत्यर्थः । इति पूर्वार्धोक्त- प्रकारेण वयं शुश्रुम श्रुतवन्तः ॥ १० ॥ अत्रायं संग्राहकः श्लोकः- अन्यत्फलं कार्यमुपासता स्यादुपासतां कारणमन्यदेव । एतस्य तत्त्वं विबुधा य ऊचुस्तेषां पुरा वाक्यमिति श्रुतं नः॥१॥ ईशावास्यस्य विकृत कृतायां रामशर्मणा । संपूर्णो दशमो मनः प्रीयतां तेन राघवः ॥२॥ यत एवमत उभयोः समुच्चयो युक्त इत्याह-संभूतिमिति । यः पुमा. संभूतिं चावर्णलोपः पृपोदरादित्वात् । असंभूति प्रकृतिमथवा सम्यग्भ वत्यस्याः कार्यमिति संभूतिः कारणं पूर्वापरसंदर्भानुसारेण वक्तुरभिप्राय स्याभिधानियामकत्वात्प्रकृतिस्तां च परं विनाशं च । चेत्यर्थे । पिना- शोऽस्यास्तीति विनाशं कार्यम् । अर्शआयच् । तदुभयं कार्यकारणोपासनादयं सह समुचितं फलदमिति वेद जानाति स विनाशेन हिरण्यगर्भाख्य- कार्योपासनेन । मृत्युमनैश्वर्यादिदुःखजातं तीवोऽतिक्रम्यासंभूत्या । अथवा पूर्वोक्तप्रकारेण संभूत्याऽव्याकृताख्यकारणोपासनेन । यथाऽस्मदपेक्षयाऽ. धिकजीवनेन देवा अमरास्तथाऽऽपेलिकममृतं प्रकृतिलयमश्नुते मामोति ॥ १ ॥ अयं संग्राहकः श्लोकः- उपासने कार्यनिदानयोस्ते समाश्रिते वेद परस्परं यः । तत्राऽऽद्यया प्राप्य स ईश्वरत्वं द्वितीयया याति लयं प्रकृत्याम् ॥१॥ ईशावास्यस्य विवृतौ कृतायां रामशर्मणा । पूर्ण एकादशो मन्त्रः प्रीयतां तेन राघवः ॥२॥ अधुना कर्मणोपासनां समुच्चिचीपन्मत्येकमुभयं फलं प्रदर्य निन्दति ।
ईशावास्यरहस्यवितिः। अथवा व्याकृताव्याकृतोपासनयोः फलं प्रदर्य कर्मणां देवतान्तरोपासनानां च फलं दर्शयति-अन्धं तम इति । ये नरा अविद्यां विद्या ज्ञानं तद्भिनाऽ. विद्या तां कर्म केवलमुपासते तत्पराः सन्तोऽनुतिष्ठन्ति तेऽन्धं तमो जन्म- मरणरूपं प्रविशन्ति प्राप्नुवन्ति य उ ये त्वशुद्धचित्ता अपि कर्म न कुर्वन्ति किंतु केवलायां विद्यायां देवतोपासनायां रता आसक्तास्ते कर्माधिकारे सत्यपि कर्मलागेन प्रत्यवायरूपदोषयुक्ताः सन्तस्ततः कर्मानुष्ठातृभ्यो भूय इवाधिकमिव तमः संसरणलक्षणं प्रविशन्ति प्राप्नुवन्त्युपासनाफलं नाश्नुते किंतु संसरन्तीति भावः ॥ १२ ॥ अत्रायं संग्राहकः श्लोकः- उपासते केवलकर्मजालं ये संसरन्तीह पुनः पुनस्ते । तेभ्योऽधिकं यान्ति गतागतं ते उपासते केवलदेवतानि ॥१॥ ईशावास्यस्य विकृतौ कृतायां रामशर्मणा । संपूर्णो द्वादशो मत्रः प्रीयतां तेन राघवः ॥२॥ उक्तार्थे श्रुतिर्विद्वद्वचः प्रमाणयति-अन्यदेवेति । विद्याया देवतोपास- नायाः फलमन्यदेव । विद्यया देवलोक इति श्रुतेर्देवलोकप्राप्तिलक्षणं माझा आहुः । तथाऽविद्यायाः कर्मणोऽन्यत्कर्मणा पितृलोक इति पितृलोकप्राप्तिलक्षणमाहुर्दूरमेते विपरीते विषूची अविद्या या च विद्येति श्रुतेश्च । एवंप्रकारेणोभयतत्त्वव्याख्यातृभ्यः पूर्वमस्माभिः श्रुतमस्तीति तात्पर्य पदव्याख्या तु व्याकृताव्याकृतोपासनावन्म कृता ॥ १३ ।। अत्रायं संग्राहकः श्लोकः- बुधाः फलं कर्मण आहुरन्यत्स्याद्देवतोपास्तिफलं तथाऽन्यत् । ये तस्य तत्वं गुरवो न उंचुस्तेभ्यः पुराऽस्माभिरिति श्रुतं हि ॥१॥ ईशावास्यस्य विवृतौ कृतायां रामशर्मणा । पूर्णस्त्रयोदशो मत्रः प्रीयतां तेन राघवः ॥२॥ उभयोः समुच्चये फलमाह-विद्यां चेति । विद्यां च देवतोपासनामविद्या च कर्म तदुभयं सह समुचितं फलदात्रिति यः पुमान्वेद सोऽविद्यया कर्मणा मृत्यु स्वाभाविकमज्ञानं विस्मरणलक्षणं तीवा दूरीकृत्य विद्यया देवतोपासने- नामृतं देवतात्मभावमश्नुते प्रामोति तद्धयमृतमुच्यते यद्देवतात्मगमनमिति श्रुतेः । अत्रार्थे श्लोकयोजना-यो देवतोपास्तिमथापि कर्म एकेन कार्य पुरुषेण वेद । स्वकर्मणा मृत्युमतीत्य विद्वान्स विद्ययाऽऽमोति हि देवतात्वम् ॥१॥ अथवा कर्मणामुपासनानां च फलं प्रदर्याऽऽत्मज्ञानेनैव कृतकृत्यतेति श्रुतिरुपपादयति वक्तृतात्पर्यस्याभिधानियापकत्वात् । विद्यामात्मज्ञानं वचना- १२ रामचन्द्रपण्डितकृता- च परमविद्यां च कर्मेत्युभयं पाठक्रमादर्थक्रमो बलीयानिति कर्माऽऽत्मज्ञानं च पूर्वापराधिकारभेदेन सहकपुरुषकर्तव्यत्वेन समुचितं यो वेद सोऽविद्यया कर्मणोपासनाऽपि मानसं कमैव मृत्यु स्वरूपाविस्मरणहेतुं चित्तमलमनैकाव्यं तीर्वाऽतिक्रम्य विद्ययाऽऽत्मज्ञानेनामृतं मोक्षमश्नुते । तमेव विदित्वाऽति मृत्युमति नान्यः पन्या विद्यतेऽयनायेति श्रुतेः ॥ १४ ॥ अत्रायं संग्राहक श्लाक:- कर्माऽऽत्मविज्ञानमपि क्रमेण संपाद्यमेकेन नरेण वेद । यः कर्मणा चित्तविशुद्धिमाप्य स विद्ययाऽऽनोत्यमृतं हि विद्वान् ॥ १॥ ईशावास्यस्य विवृतौ कृतायां रामशर्मणा । पूर्णश्चतुर्दशो भन्नः प्रीयतां तेन राघवः ॥२॥ प्रथमव्याख्यायामुक्तोपासनावान्यागी देवतामन्ते प्रार्थयते-वायुरनिलमिति । द्वितीयव्याख्यायां त्वात्मज्ञस्याऽऽप्तकामत्वेन देहान्तेऽन्यत्र गमनं नास्त्या- प्तकामो भवति । न तस्य प्राणा उत्क्रामन्त्यत्रैव समवनीयन्ते ब्रह्मैव सन्ब्रह्माप्येतीति श्रुनेः । न च प्रार्थ देवतान्तरं य एवं वेदाहं ब्रह्मास्मीति स इदं सर्व भवतीति श्रुतेस्तस्य सर्वात्मकत्वादसंकल्पत्वाच । तमक्रतुः पश्यति वीतशोक इत्युक्तत्वात् । अत आत्मज्ञवनान्यस्यात्रैव कृतकृत्यतेति निदर्शयितु सिंहावलोकनन्यायेन पूर्वोक्तव्याकृताव्याकृतोपासनावान्देवतान्त- रोपासनावांश्च लोकान्तरगमनयोग्यो योगी देव तामन्ते. प्रार्थयेतेति श्रुति. रुपदिशति-वायुरिति । मम वायुः शरीरस्थः प्राणः प्राणोपलक्षितं लिङ्गशरीरमुत्क्रान्त सदमृतं मृत्युनाऽनातं श्रमो भूत्वोपयेम इति प्रक्रम्याथेममेव नाऽऽनोद्योऽयं मध्यमः प्राण इति श्रुतेः । अनिलं सूत्रात्मानं मामोत्विति शेपः । यदा वै पुरुषोऽस्माल्लोकात्रैतीत्या- दिना वायोरेव परलोकप्रापकत्वोक्तेः । अथेदं स्थूलं शरीरं भस्मान्तं भस्मै- वान्तः परिणामो यस्य तादृशं पृथिव्यंशत्वादत्रैव तिष्ठत्विति तात्पर्यम् । ओमिति ब्रह्मनाम । अवति प्रामोति सर्वान्पदार्थानथवाऽवति रक्षति सर्व भूतजातम् । अथवाऽवति दीप्यत इति स्वयंप्रकाशं ब्रह्म । ॐ तत्स. दिति निर्देशो ब्रह्मणस्त्रिविधः स्मृत इति गीतावाक्यात् । तद्रूप तो ऋतुर्यज्ञः । तद्धेतुत्वात्संकल्पोऽपि ऋतुः । यथा ऋतुर्भवति तत्कर्म कुरुत इति श्रुतेः। हे संकल्प स्मर । यन्ममेष्टं तत्स्मर । यं यं वाऽपि स्मर. भावं त्यजत्यन्ते कलेवरम् । तं तमेवैति कौन्तेय सदा तद्भावभावित इति भगवद्वाक्यालिबे · कल्पते प्राहुं योग्यो भवतीति क्लिक्किबिमागम- श्छान्दसस्तस्मै क्लिवे जशादेशोऽयस्मयादित्वेन . पदत्वात् । मया प्रातुं तानि मृत्युः : ईशावास्यरहस्यविकृतिः। १३ योग्याय लोकाय क्रियार्थोपपदस्थति कर्मणि चतुर्थी तं दातुं स्मर स्मरणाविषयं कुरु कृतं यन्मया बाल्यप्रभृत्यनुष्ठितं तत्स्मर स्मरेत्यस्य त्रिरात्तिः संभ्र- मेण प्रवृत्तत्वात् ॥ १५ ॥ अत्रायं संग्राहकः श्लोक:- सूत्रं मरुधातु वधुर्ममेदं भस्मान्तमुर्वी प्रणवात्मकस्त्वम् । संकल्प्य यत्कर्म कृतं मयेष्टं प्राप्यं च लोकं मम संस्मराध ॥१॥ ईशावास्यस्य विकृतौ कृतायां रामशर्मणा । पूर्णः पञ्चदशो मन्त्रः प्रीयतां तेन राघवः ॥ २॥ अथ कर्मकृत्सर्वाश्रमेषु परिचरितमानं प्रार्थयते-अग्ने नयेति । हे देव दीव्यति दीप्यत इति देवो द्योतनात्मकानेऽस्मांस्त्वदुपासकान्सुपथा गतागतर- हितेन मार्गेण राये भोग्याय फलाय मुक्तिरूपाय तादर्थे चतुर्थी तदर्थ नय मापय । यतो भवान्विश्वानि सर्वाणि वयुनानि ज्ञानानि कर्माणि वा विद्वाञ्जा. नन् । किंच जुहुराणं हुईः सनो लुक्छलोपश्चेति सिद्ध कौटिल्यं वञ्चना. त्मकं व्यवहारार्थमाचरितमेनः पापमस्मदस्मत्तो युयोध्यमिश्रितं कुरु नाशयेत्यर्थः । अमिश्रणार्थ कायुधातोरादादिकादपि बहुलं छन्दसीति श्लुर- डिन्तश्चेति हेपिर्वा छन्दसीत्यपिचविकल्यान्डिस्वाभावेन गुणः । निष्पापत्वे मुक्तियोग्यत्वं स्यादिति भावः । यतोऽधुना वयं नमस्कारमपि कर्तुमशक्ताः शरीरापाटवात्किमुतान्यपरिचर्यामतस्ते तव भूयिष्टां बहुतरां नमउक्ति नम. स्कारवचन विधेमोत्तमपुरुषः आशालिको वहुवचनं छन्दस्युभयथेति सार्वधातु. कत्वमङ्ङालोपः क्रियाम । नमस्कारेण पै खलपीति वचनान्नमोऽस्तु नमोऽस्त्विति बम एतावतैव त्वं प्रसन्नो भवेति तापर्यम् ॥१६॥ अनायं संग्रा. हकः श्लोकः- ज्ञानानि सर्वाणि विदस्त्वमश्ने संप्रापयास्मान्सुपथा विमुक्तिम् । कौटिल्यमेनः कुरु नः पृथक्त्वा कुर्मो नमोऽन्ते वहुधा स्ववाचा ॥ १॥ ईशावास्यस्य विकृतौ कृतायां रामशर्मणा । संपूर्णः षोडशो मन्त्रः नीयतां तेन राघवः ॥ २ ॥ अथ पुनरादित्यान्तर्यामिपुरुषोपासनामभेदेन वर्णयनैकात्म्यमुपसंहरति- हिरण्मयेनेति । हिरण्मयेन हिरण्यस्य विकारो हिरण्मयं तदिव प्रकाशात्मकं तेन पात्रेण पिबन्ति रश्मयो रसान्यत्र स्थितास्तेन विम्बेन सत्यस्य । सत्यस्य सत्य- मिति श्रुतेर्ब्रह्मणो मुखं मुखमिव मुखं प्रधान रूपमपिहितमाच्छादितं सर्व- जनैरज्ञातमस्ति । तथाऽपि यः प्रसिद्धोऽसौ प्राकृत जनानां परोक्ष आदित्ये सूर्य- मण्डले स्वयंप्रकाशः सकलशक्त्याधारभूतः पुरुषः स वा अयं पुरुषः सर्वासु पर्ष पुरिशय इति श्रुतेः । अन्तर्याम्यस्ति स पुनरसावित्यनेनावधारणं स एव - १४ रामचन्द्रपण्डितकृतशावास्यविवतिः । अथवैतच्छब्दार्थोऽद शन्दः । एष सर्वसमीपतरोऽहमिति प्रत्यक्षतः स्वानु. भवं श्रुतिरधिकारिणे प्रदर्शयति । स यश्चायं पुरुषे यश्चासावादित्ये स एक इति श्रुतेः । ॐ ॐकारवाच्यं खमाकाशमिव व्यापकं ब्रह्माहमस्मीीते भावः । एवमेव त्वमपि ब्रह्मरूपोऽसीति तात्पर्यम् ॥ १७ ॥ अत्रायं संग्राहकः श्लोकः- तेजोमयेनापिहित स्वरूपं सत्यस्य बिम्बेन सदा परं तु । भानावसौ यः पुरुषोऽस्ति सोऽहं ज्ञेयं विधु ब्रह्म सदोस्वरूपम् ॥१॥ ईशावास्यस्य विवृतौ कृतायां रामशर्मणा । पूर्णः सप्तदशो मत्रः प्रीयतां तेन राघवः ॥ २ ॥ माध्यंदिनेशोपनिषद्रहस्यप्रकाशकं श्लोकसमूहमेतम् । कृत्वाऽपित श्रीगुरुपादपद्मे पठत्यनत्रं स विमुक्तिमीयात् ॥ १ ॥ ईशाख्योपनिपद्रहस्यविकृति श्रीरामशर्माऽकृत श्रीकृष्णात्रिकुलोद्भवः कविवरः श्रीसिद्धराजात्मजः । शाके खेटगुणाचलावनि १७३९ मिते यामीश्वरेऽन्दे मधौ सेयं श्रीरघुवीरपादकमले भक्त्याऽपिता श्रीमति ॥ २ ॥ इति श्रीमद्विद्वन्मुकुटालंकारहीरश्रीराजयोगिवरिष्ठश्रीसिद्धेश्वरसूरिसूनुना श्रीरामचन्द्रपण्डितेन विरचिता श्रीमाध्यदिनीये शावा. स्योपनिषद्रहस्यविकृतिः समाप्तिमगमत् ॥ ॐ ॥ तत्सत् ।। wwe आनन्दभट्टोपाध्यायकतमीशावास्यभाष्यम् । ॐ दर्शपूर्णमासाद्यश्वमेधान्तं कर्मकाण्डं समाप्तमथेदानी ज्ञानकाण्डं प्रस्तू- यते-ईशा वास्यमिति । ईशा वास्यमित्यादीनां मत्राणामपि यथाकथंचन कर्मसु विनियोगः किं न स्यादिति केनचित्पृष्ट ऋचा पुरुषं ब्रह्माणं दक्षिणतः पौरुषेण नारायणेनाभिष्टौति सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपादित्यनेन षोडशःनेत्यादि । तत ईशा वास्यमित्यादिमत्राणां कर्मसु प्रमाणतोऽविनियो. गात् । यागकल्पनायां तु विशेष परिहृत्यैव यागकल्पना सा भवति नेतरेति श्रीभगवच्छंकराचार्यों विरोधादेवाविनियोगस्तेषां मत्राणां कर्मणीति प्रति- पादयति-ईशा वास्यमित्यादयो मन्त्राः कर्मस्वविनियुक्तास्तेषामकर्मशेषस्याss. त्मनो याथात्म्यप्रकाशकत्वादिति । तमेवं सविस्तरं प्रतिपादयति-याथात्म्य. मात्मनः शुद्धत्वापापविद्धत्वाशरीरत्वादि वक्ष्यमाणं कर्मणा विरुध्यत इत्यतो युक्तस्तेषां कर्मस्वविनियोगः । न चैवलक्षणत्वं याथात्म्यमुत्पाद्यं संस्कार्य कर्तृत्वं भोक्तृत्वं येन कर्मशेषता स्यात् । सर्वासामुपनिषदामात्मयाथात्म्यनि- रूपणेनैवोपयोगाद्गीतानां मोक्षधर्माणां चैतत्परत्वात् । तस्मादात्मनोऽपृथक्त्वा- कर्तृत्वादि शुक्लत्वादि नोपादाय तस्य लोकबुद्धिसिद्धानि कर्माणि विहितानि । यो हि दृष्टेन कर्मफलेन ब्रह्मवर्चसा वाऽदृष्टेन स्वर्गादिना वाऽनुमीयते । तत्र च द्विजातिरहं लक्षणाधिकारधर्मवानित्यात्मानं मन्यते । सोऽधिक्रियते कर्मस्वि. त्यधिकारविदो वदन्ति। तस्मादेते मन्त्रा यात्मनो याथात्म्यप्रकाशनेनाऽऽत्मवि- षयाः । स्वात्मविकाराज्ञानं निवर्तयन्तः शोकमोहादिसंसारविच्छित्तिसाधन- मात्मैकत्वादिविज्ञानमुत्पादयन्ति । एवमुक्तविषयसंबन्धप्रयोजनान्मन्नान्संक्षे. पतो व्याख्यास्यामः । अस्य कृत्स्नस्याध्यायस्य दध्यन्ङाथर्वण ऋषिः । आत्मा देवता प्रतिमन्त्रं चेशावास्यं कुर्वन्नेवासुर्यानामेति तिस्रोऽनुष्टुभ आत्मदेवत्या दथ्यङ्ङाथर्वण ऋषिः । अत्र च कंचन पुत्रं शिष्यं या गर्भा- धानादिमिः संस्कारैः संस्कृतशरीरमधीतवेदमुत्पादितपुत्रमिह जन्मनि जन्मा- न्तरे वा यथाशक्त्यनुष्ठितयज्ञादिना क्षपितकल्मषं नित्यानित्यवस्तुविवेक- वन्तं दैववशात्कथंचिदिहामुत्रार्थफलभोगविरागयुक्तं शमदमादिसंपन्नं मुमुक्षु शिक्षयति । स्वयमाचार्यस्वरूपा सती श्रुतिराह-ईशा वास्यमिति । ईश ऐश्व- येऽस्य किवन्तं तृतीयान्तं रूपमीशेतीष्ट इतीट् तेनेशेशित्रेशा तेन पर २ आनन्दभट्टोपाध्यायकृतम्- मेश्वरेण परमात्मना सर्वजन्तूनामात्मभूतेन स्वेनाऽऽत्मनेशा वास्यं वसनि. वासे वास्यं निवसनीयं किमितीदं प्रत्यक्षादिभिः प्रतीयमानं साक्षिदृश्यं चेद- मात्मव्यतिरिक्तं सर्वमिदमीशा वास्यं सर्वेषु स्वकार्येषु स्वकारणभूते निवा- स्यम् । जगति पृथिव्यां जगत्यां जगत्युपलक्षिते जगति किंचेति चकारो भि- भक्रमः । जगति व्यक्तं च लोकप्रसिद्ध वस्तुजातं तत्सर्वमीशा वास्यं निवास्यं स्वेनाऽऽत्मनानिवास्यम् । किंच वस आच्छादनेऽहमेवेदं सर्वमिति परमसत्य. रूपेणेशा परमात्मनाऽनृतमिदं सर्व वास्यं छादनीयमाच्छादनीय कार्यस्य कारणसत्तापकाशव्यतिरेकेणाऽऽरोपितस्याधिष्ठानप्रकाशव्यतिरेकेण पृथक्सत्ता- प्रकाशनाभावादेवेदं सर्व जगदीशा वास्यम् । यतः प्रत्यगात्मनः सच्चिदानन्द- लक्षणपुरुषार्थरूपं स्वत एव सिद्धम् । तेन स्वस्मिन्नारोपितस्याहमिदं ममेदमि- त्येवमनात्मकस्य सर्वस्यानर्थभूतस्य जगतस्त्यक्तेन त्यागेन सर्वाधिष्ठानभूतस्व- स्वरूपयाथात्म्यानुभवसामर्थ्यसिद्धेन त्यक्तेन त्यागेनाऽऽत्मानं भुञ्जीथाः । भुजोऽनवन इत्यस्य रूपम् । पालनेऽपि च्छन्दस्यात्मनेपदं भवत्यत आत्मानं भुञ्जीथाः पालयेथाः कृतं कृत्यं प्राप्तं पापणीयम् । आत्मलाभान परं विद्यत इति श्रुतेः। एवं त्यक्तेषणस्त्वं मा गृधः कस्यस्विद्धनम् । गृधु अभिकाङ्क्षायाम् । कस्यस्वित्परस्य धनं मा गृधः । अभिकाङ्क्षां मा कार्षीधनविषयाभिकाङ्क्षा मा कार्षीरित्यर्थः । स्विदिति निपातो वितर्कवचनः । अस्य संपूर्णकामत्वादे. वान्यार्थविषयाकाङ्क्षा किंनु कर्तव्या न कर्तव्येत्यर्थः । विचार्यमाणे तथावि- धस्यार्थस्याभावादेवाथवा मा गृधः कस्यचिद्धनमित्याक्षेपार्थो न कस्य. चिद्धनमस्ति यगृध्येत । आत्मैव सर्वमितीश्वरभावनया सर्व द्वैतमात्रं त्यक्तमत आत्मन एवेदमात्मन एव तु सर्व परस्य कस्यचिसत्संबन्धित्वेन प्रतीयमा- नस्य स्वयं संबधित्वमापादयितुमभिकाङ्क्षां मा कार्षीः स्वव्यतिरेकेणातो मिथ्याविषयं ग्रहं मा कार्षीरित्यर्थः । एवमात्मविदः पुत्रायेषणात्रयसंन्यासे- नाऽऽत्मज्ञाननिष्ठतयाऽऽत्मा रक्षितव्य इत्येष वेदार्थः । ॥ १ ॥ अर्थतस्यार्थस्य ग्रहणस्य तु साधनत्वेनेदमुपदिशति-कुर्वन्नेवेहेति । इह कर्मभूमौ शतं समाः शतं वर्षाणि जिजीविषेद्यदि भवाञ्जीवितुमिच्छे. तहि कर्माण्यग्निहोत्रादीनि कुर्वन्नेव भवाञ्जिजीविषेच्छतं समा इति जीवतः पुरुषस्य जीवितं परमायुरनूध कुर्वन्कर्माणीत्यवधीयते । एवं त्वयि ना. न्यथेतोऽस्ति न कर्म लिप्यते नरे नराभिमानिनि त्वयि। एवं जीवति सति कर्म न लिप्यते कर्मणा न लिप्यत इत्यर्थः । नान्यथेतोऽस्ति । इतोऽस्माद्यथोक्तम- कारादन्यथा प्रकारान्तरं नास्ति । एको ज्ञानमार्गो द्वितीयः कर्ममार्ग एवं ईशावास्यभाष्यम् । प्रकारद्वयादन्यत्मकारान्तरं नास्तीत्यर्थः । देवताभक्तिरप्युभयात्मिकैन । अतो न विरोधः । एवं चेदशुभं कर्म न लिप्यते । केचिदेवं योजयन्ति-इह लोके कर्माणि यज्ञेन दानेनेत्यादिना मुक्तिसाधनत्वेन विहितानि कर्माणि कुर्वन्नेव शतं समाः संवत्सराणि जिजीविषेदिति व्यत्ययः । एवमिहेवं त्वयि वर्तमाने सति तव मुक्तिरस्त्विति शेषः । नान्यथेतोऽस्ति । इतः प्रका- रादन्यथा मुक्तिर्नास्तीत्येतदुक्तं भवति । यथा स्वर्गप्राप्तेन नाभूता विशेषा- स्तथा मुक्तेन मार्गभेदोऽस्त्यपि त्वेक एव मार्गो ज्ञानलक्षणः कर्म लिप्यते नास्ति येन प्रकारान्तरेण विद्यमानेन कर्म लिप्यते तथा प्रकारान्तरं नास्ती- त्यर्थः । अतः शास्त्रविहितान्यग्निहोत्रादीनि कर्माणि कुर्वन्नेव जिजीविषेदिति । कथं पुनरिदमवगम्यत आयेन मत्रेण ससंन्यासज्ञाननिष्ठोक्ता द्वितीयेन तद- शक्तस्य कर्मनिष्ठति ज्ञानकर्मणोविशेषोपरोधं पर्वतसर्षपवदेवोक्तं न स्मरसि. किमित्याद्युक्तम् । यो जिजीविषेत्स कर्म कुर्वन्नेवेति । ईशा वास्यमिद सर्व यत्किच जगत्यां जगत् । तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्धनमिति । तेन जीविते मरणे वा गृषि मा कुर्वित्यरण्यमियादिति पदमतो न पुनरिया. दिति व्यासशासनात् । उभयोः फलभेदं च वक्ष्यति । इमौ दावेव पन्थानावनुनि. क्रान्ततरौ भवतः । क्रियापथश्चैव पुरस्तात्संन्यासपथश्च तयोन्यास एवात्यरे. चयदिति तैत्तिरीयके । द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः । प्रवृत्ति लक्षणो धर्मो निवृत्तिश्च सुभाषित इत्यादि पुत्राय विचार्य निश्चितमुक्त श्रीवे. दव्यासेन वेदाचार्येण । श्रीभगवता-लोकेऽस्मिन्द्रिविधा निष्ठा पुरा प्रोक्ता मयाऽनघ । ज्ञानयोगेन सांख्यानां कर्मयोगेण योगिनामिति । विभागं चान- योर्दर्शयिष्यामः ॥२॥ अथेदानीमविद्वन्निन्दाऽऽरभ्यते विद्वत्पशंसार्थम् - असुर्या नाम त इति । परमात्मभावमद्वयमपेक्ष्य देवादयोऽप्यसुरा असुषु रमन्त इति । तेषां संभूता लोका असुर्या नामशब्दः प्रसिद्धवचनस्ते लोकाः कर्मफलानि जन्मानि येषु लोक्यन्ते दृश्यन्ते भुज्यन्त इति । अन्धेनादर्शनात्मकेन तमसाऽज्ञानलक्षणेनान्धकारेणाऽऽवृता आच्छादितास्तान्स्थावरांस्ताल्लोकांस्ते. प्रेत्य मृत्वेमं देहं परित्यज्याभिगच्छन्ति । यथाकर्म यथाश्रुतं ते तान्गच्छन्ति । ते क इति तानाह-ये के चाऽऽत्महनो जना इति । आत्मानं घ्नन्तीत्यात्महन- नमात्मभेददर्शनं तत्कुर्वन्ति ते केऽविद्वांसः स्वस्वरूपाविदस्तद्विपर्ययेण विद्वांसो मुच्यन्ते न त्वात्महनः ॥ ३ ॥ तर्हि तत्कीदृशमात्मतत्त्वमिति तदाह-अनेजदेकमिति । आत्मदेवत्या त्रिष्टुप् । अतिवेगवान्वायुः प्रसिद्धस्ततो हि वेगवत्तरं मनस्ततोऽप्य।
आनन्दभट्टोपाध्यायकृतम्- तिवेगवत्तरमात्मतत्त्वं कथं विरुद्धमिदमुच्यते निश्चलं जवीय इति । नैष दोषो निरुपाध्युपाधिमत्त्वोपपत्तेः । तत्र निरुपाधिस्वरूपेणोच्यते- अनेजदेकमिति । सोपाधिस्वरूपेणोच्यते-मनसो जवीय इति । मनसो- जवेनान्तःकरणस्य संकल्पादिलक्षणस्योपाधेरनुवर्तमानात्तत्र प्रवृत्तिश्च व्यर्थ पुरतः पुरतश्चाऽऽत्मतत्त्वं प्रकाशत इति ज्योतिर्ब्राह्मणे प्रसिद्धम् । इहैव दुःस्थस्य मनसो ब्रह्मलोकादिदूरसंकल्पनं नानागमनं क्षणमात्रादित्यतो मनसो जवि. ष्ठत्वं लोके प्रसिद्धम् । तस्मिन्मनसि ब्रह्मलोकाद्विदूरं गच्छति प्रथम प्राप्त इवाऽऽत्मचैतन्याभासो गृह्यते । अतो मनसो जवीय इत्याह-किंच नैनदेवा आप्नुवन्निति । एतदात्मतत्त्वं देवा द्योतनसाधनत्वात्सर्वथाऽपि तदात्मतत्त्वं चक्षुरादीन्द्रियाणि देवा नाऽऽप्नुवन्न प्राप्नुवन्न विषयीकुर्वनिति । प्रकाशवि- षयीकर्तुं वा श्रम एव ततस्तेम्यो मनो जवीयः । मनोव्यवहारो व्यवहित. त्वात् । नाऽऽभासमात्रमप्यात्मनो नैव देवतानां विषयो भवति यत्स्यान्मनसोऽ. पि पूर्वमर्षत्पूर्वमेव गतं व्योमवद्व्यापित्वात् । सर्वथाऽपि तदात्मतत्त्वं सर्वसंसार- धर्मवजितं तेन नीरूपेणाविक्रिय सदुपाधिकृताः सर्वाः संसारविक्रिया अनु- भवतीवाविवेकिनां मूढानामेकमनेकमिव प्रतिदेहं प्रत्याचक्षते स्वत इत्येतदाह- तद्धावत इति । तद्यत्तसिद्धमात्मतत्वं तद्धावतो दूरं गच्छतोऽन्यान्मनोवागि- न्द्रियप्रभृतीनात्मविलक्षणानत्येत्यतीत्य गच्छतीव । इवार्थ स्वयमेव दर्शयति- तिष्ठदिति । तिष्ठत्स्वयं सदित्यर्थः । तस्मिन्नात्मतच्चे सति चैतन्यस्वभावे मात- रिश्वा मातर्यन्तरिक्षे श्वयत इति मातरिश्वा सर्वप्राणभृक्रियात्मकः । यदा सर्वाणि कार्यकारणजातानि यस्मिन्नोतानि प्रोतानि यत्सूत्रसंज्ञकं सर्वस्य जगतो विधारयितृ स मातरिश्वा । अपोऽप इति कर्मनाम । अपः कर्माणि प्राणिनां चेष्टालक्षणान्यग्न्यादित्यपर्जन्यादीनां ज्वलनदइनप्रकाशवर्षादिलक्ष. णानि यज्ञदानहोमादीनि दधाति स्थापयति विभजतीत्यर्थः । समष्टिव्यष्टि. रूपो ह्यसौ वायुर्धारयतीति वा । भीषाऽस्माद्वातः पवत इत्यादि श्रुतिभ्यः । सर्वा हि कार्यकारणादिविक्रिया नित्यचैतन्यात्मस्वरूपे सर्वस्याऽऽदिभूते सत्येव भवन्तीत्यर्थः । न मन्त्राणां जामिताऽस्तीति पूर्वोक्तोऽर्थः ॥ ४॥ कंचिदिशेष दर्शयन्नाह-तदेजति । यस्तु सर्वाणि भूतानि यस्मिन्सर्वाणि भूतानीत्यात्मदेवत्यस्तिस्रोऽनुष्टुभः । तदेजति । तद्यत्मकृतमात्मतत्त्वंतदेजत्यु. पाधित एजति चलति । तजति । तदेव त्वात्मतत्त्वप्रतो नजति नैव चलति । अचकमेव सवलतीव भवतीत्यर्थः । तदूरे । वर्षकोटिवातैरप्यविदुषामप्राप्यत्वा- ईशावास्यभाष्यम् । तहूर एव । सत् उ एव अन्तिके तिसमीपे विदुषामात्मत्वात्तदन्तिक एव । अत्यन्तसमीप एव न केवलं दूरेऽन्तिके तदन्तोऽस्य सर्वस्य जगतोऽ. न्तरात्मैव । एष त आत्मा सर्वान्तर इति श्रुतेः । अस्य सर्वस्य जगतो नामरूपक्रियात्मकस्य तदेव सर्वस्य बाह्यतो व्यापित्वादाकाशवनिरतिशय- सूक्ष्मत्वादतो ज्ञानघन एवेति शासनान्निरन्तरम् ॥ ५ ॥ यस्तु शोधिततत्त्वंपदार्थों मुमुक्षुः सर्वाणि भूतान्यव्यक्तानि स्थावरान्तानि चेतनाचेतनान्यात्मानं वामन्यन्वेति सदा पश्यत्यात्मव्यतिरिक्तानि न प्रपश्यति । अपि त्वात्मन्यात्मत्वेन पश्यतीत्यर्थः । सर्वभूतेषु चाऽऽत्मानं तेषु सर्वेषु भूतेषु चाऽऽत्मानमनुपश्यति तेषामपि भूतानामात्मानमात्मतत्वं न पश्यति यथाऽस्य कार्यकरणसंघातरूपमात्मानं सर्वप्रत्ययसाक्षिभूतं सत्यं केवलम् । निर्गुणोऽनेनैव स्वरूपेणाव्यक्तानां स्थावरान्तानामहमे- वाऽऽत्मेति सर्वभूतेषु चाऽऽत्मानं यस्तु पश्यति । ततस्तस्माद्दर्शनान विजुगुप्सते जुगुप्सां घृणां न करोति गुपू रक्षणे देहादिकं गोप्तुं न गच्छतीति चा । ज्ञानप्राप्तस्यैवानुवादोऽयम् । सर्वा हि घृणाऽऽत्मनोऽन्यद्रष्टव्यं पश्यतो भवति । आत्मानमेव त्वनन्तेषु विशुद्ध निरन्तरं पश्यतो न प्राणादिनिमि- तमस्तीति प्राप्तमेव ततो न विजुगुप्सत इति ॥ ६॥ इमेमवार्थमन्योऽपि मत्र आह। सर्वासां श्रुतीनामत्रैव तात्पर्यमिति प्रदर्शयितुम्- यस्मिन्सर्वाणि भूतानीति । यस्मिन्यथोक्त आत्मनि सर्वाणि भूतानि तान्येव भूतानि परमार्थदर्शनादात्मैवाभूदात्मैव संवृत्तः । परमार्थतो विजानत एवमात्मतत्त्वं विजानत एतत्तस्मिन्काले तस्मिन्नवस्थाविशेषे तत्र चाऽऽत्मनि को मोहः । मुह वैचित्ये को मोहः कः शोकः कः संसार एकत्वमनुपश्यतः। शोकमोहौ कामबीजमजानतो भवति न त्वात्मैकत्वं विशुद्धं गगनोपमं पश्यतः । को मोहः कः शोक इति । शोकमोहयोरविद्याकार्ययोः संसारमसंसारमित्य- ज्ञानयोराक्षेपेण संप्रदर्शनासकारणस्य संसारस्यात्यन्तमेवोच्छेदः प्रदर्शितो भवति ॥ ७ ॥ योऽयमतीतेन मन्त्रेणोक्त आत्मा किंलक्षण इत्यपेक्षायामयं मयः प्रवर्तते- स पर्यगादिति । आत्मदेवत्या जगती । स यथोक्त आत्मा पर्यगात्परितः समन्तादगात्परितो गच्छति सर्वमवगच्छति व्यामोति च । आकाशर ब्यापी शुक्रं शुच दीप्तौ शुचिमद्दीप्तिमदित्यर्थः । अकायमशरीरं लिजशरीरबर्जि- तमव्रणमहतम् । अनाविरं नावाः शिरा न विद्यन्ते यस्य तदस्नाविरं कवित फ्रान्तदर्शी नान्योऽतोऽस्ति द्रष्टेत्यादिश्रुतेः । मनीषी मनस ईशिता सर्वज्ञईपर नाम त आनन्दभट्टोपाध्यायकृतम्- इत्यर्थः । परिमः सर्वेषामुपरि भवतीति परिभूः । स्वयमेव भवतीति स्वयंभूः। एषामुपरि भवति यथोपरि भवति स स्वयमेव सर्वो भवतीति स्वयंभूः। स नि. त्यमुक्त ईश्वरः । यायातथ्यतो यथातथा भावो याथातथ्यं यथाश्रुतकर्मफलसा. धनतोऽर्थान्कर्तव्यपदार्थान्व्यदधादकरोद्विहितवान्यथानुरूपं व्यधादित्यर्थः । शाश्वतीभ्यः सभाभ्यः संवत्सरात्मभ्यः प्रजापतिभ्य इत्यर्थः । अत्राऽऽद्येन मन्त्रेण सर्वेषणापरित्यागाज्ञाननिष्टोक्ता । प्रथमो वेदार्थः । ईशा वास्यमित्यादिना मा गृषः कस्यस्विद्धनमिति । अज्ञानिनां जिजीविषूणां ज्ञाननिष्ठासंभवे सति कुर्वन्नेव कर्माणि जिजीविषेजिजीविषेरिति कर्मनिष्ठा । द्वितीयो वेदार्थः। अनयोश्चिरंतनयोर्मत्रः प्रदर्शितः-सोऽकामयत जाया मे स्यादिति तस्या- ज्ञानिनः कर्माणि । मन एवास्याऽऽत्मा वाग्जायेत्यादिवचनात् । अज्ञत्वं का- मित्वं च निश्चितमवगम्यते । तथाचाऽऽत्मस्वरूपावस्थानं जायाद्यषणासं. न्यासेनाऽऽत्मविदा कर्मनिष्ठापातिकूल्येनाऽऽत्मस्वरूपनिष्ठैव दर्शनात् । किं प्रजया करिष्यामो येषां नोऽयमात्माऽयं लोक इत्यादिना यज्ज्ञाननिष्ठा- संन्यासिनस्तेऽसुर्या इत्यादिनाऽविद्वन्निन्दाद्वारेणाऽऽत्मनः स पर्यगादिति वदतो मत्रैरुपादिष्टो यत्र तत्राधिकृता न कामिन इति । यथा च श्वेताश्वतराणां मनोपनिषदि-अत्याश्रमिभ्यः परमं पवित्रं प्रोवाच सम्यगृषिसंघजुष्टमित्यादि विभज्योक्तम् । ये तु कर्मनिष्ठाः कर्म कुर्वन्त एव जिजीविषवस्तेभ्य इदमुच्यते-अन्धं तम इत्यादिना । कथं पुनरिद मवगम्यते साध्यसाधनभेदोपमर्शनम् । यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजा नतः । तत्र को मोहः कः शोक एकत्वमनुपश्यतः । यदात्मैकत्वविज्ञानं तत्र केनचिदपि कर्मणा ज्ञानान्तरेण वा स मूढः समुच्चिचीपति । भवतु समुच्चिचीषयाऽविद्वन्निन्दा । तत्र च यस्य येन समुच्चयः संभवति न्यायत: शास्त्रतो वा तदिहोच्यते । दैवं वित्तं देवतादिज्ञानं कर्मसंबन्धित्वेनो. पन्यस्तेन परमात्मविज्ञानं विद्यया देवलोक इति पृथक्फलाश्रयणात्ततो ज्ञानकर्मणोरिहैकैकानुष्ठाननिन्दा समुच्चिचीषया निन्दापरैकैकस्य पृथक्फलाश्रय- णाद्विद्यया तदारोहन्ति विद्यया देवलोकः । तत्र दक्षिणा यन्ति कर्मणा पितृलोक इति । न हि शास्त्रविहितं किंचिदकर्तव्यतामियात् ॥ ८ ॥ अन्धं तमः प्रविशन्ति । षडनुष्टुभः । आत्मदेवत्याः। अन्धं तमोऽदर्शना- मकं तमः प्रविशन्ति । के येऽविद्यामविद्या कर्मेत्यर्थः । अविद्यामग्निहोत्रा- दिलक्षणामेव केवलामुपासते । तत्पराः सन्तोऽनुतिष्ठन्तीत्यभिप्रायः । ततो भूय इव वे तमः । ततस्तस्मादन्यात्मकाय एव बहुतरमेव तमः प्रविशन्ति ते ईशावास्यभाष्यम् । क इति । य उ विद्यायां रता ये तु कर्म हित्वा य उ एवं विद्यायामेव रता जान एव रतास्ततो बहुतरमेव तमः प्रविशन्ति । अनन्दा नाम ते लोका अन्धेन तमसाऽऽवृताः । तांस्ते प्रत्याभिगच्छन्ति अविद्वांसोऽबुधा जना इति श्रुतेः ॥९॥ अत्रावान्तरफलभेदं विद्याकर्मणोः समुच्चये कारणमाहान्यथा फळ. चदफलचतो संनिहितयोरङ्गाङ्गितैव स्यादिति-अन्य देवाऽऽहुरिति अन्यत्पृथगेव विद्यया क्रियते फलमित्याहुः । अन्यदेवाऽऽहुरविद्यया कर्मणाऽन्यदेव फलं क्रियत इत्याहुर्वेदाः कर्मणा पितृलोको विद्यया देवलोक इत्यादयः । इत्येवं शुश्रुम श्रुतवन्तो वयं धीराणां धीमतां वचनं शुश्रुमः । य आचार्या नोऽस्मभ्यं तत्कर्म च ज्ञानं च विचचक्षिरे व्याख्यातवन्तस्तेषामयमागमः पारम्पर्यागत इत्यर्थः ॥ १० ॥ यत एवं विद्यां चाविद्यां चेति देवताज्ञानं कर्म चेत्यर्थः । यस्तद्वेद तदुभयं ज्ञानं कर्म च सहकेन रूपेणानुष्ठेयं यो वेद तस्यैव समुच्चयकारिण एकपुरुषार्थ. संबन्धक्रमेण किं स्यादित्युच्यते-अविद्यया मृत्यु तीर्वेति । अविद्यया कर्य- णाऽग्निहोत्रादिना मृत्यु स्वाभाविक रागतः क्रियमाणं कर्म ज्ञानं च मृत्युश- ब्दवाच्यं तदुभयं तीवोऽतिक्रम्य विद्यया वेदान्तज्ञानेनामृतं देवतात्मभावमश्नुते व्याप्नोति । तद्वदत्रामृतमश्नुते यद्देवतात्मगमनम् ॥ ११ ॥ अधुना व्याकृताव्याकृतोपासनयोः समुच्चिचीपा प्रत्येकं निन्दोच्यते- अन्धं तम इति । अन्धं तमः प्रविशन्ति के येऽसंभूति संभवनं संभूतिः सा यस्य कार्यस्य संभूतिस्तस्या अन्याऽसंभूतिः प्रकृतिः प्रक्रियते कार्य यया प्रकृतिः कारणमव्याकृताख्यां तामसंभूतिमव्याकृताख्यां प्रकृतिकारणमवियां कामकर्मवीजभूतामदर्शनामिकामुपासते ते तदनुरूपमेव फलं तमोऽदर्शना- त्मकं प्रविशन्ति । ततस्तस्मादपि भूयो बहुतरमिव तमः प्रविशन्ति । के ये उ एव संभूत्यां रताः संभूत्यां कार्यब्रह्मणि हिरण्यगर्भाख्य एव रतास्ते ततो भूय इव तमः प्रविशन्ति ॥ १२ ॥ अथाधुनोपासनयोः समुच्चयकरणायावयवफलभेदमाह-अन्यदेवाऽऽहु- रिति । अन्यदेव पृथगेवाऽऽहुः फलं संभवात्संभूतेः कार्यब्रह्मोपा सनादणिमाद्यैश्वर्यलक्षणं फलमाहुर्वेदाः । तथाऽन्यदाहुरसंभवादसंभूतेरव्या कृतादव्याकृतोपासनादन्यदेव फलमाहुः । अन्धं तमः प्रविशन्तीति शुभुम । श्रुतवन्तो वयं धीरा ये नस्तद्विचचक्षिरे । य आचार्या धीराणां वचनं विचच- क्षिरे । व्याकृताव्याकृतोपासनाफलवचनं व्याख्यातवन्त इत्यर्थः॥१३ ।। यत एवमतः समुच्चयः . संभूत्योर्युक्त एवैकपुरुषार्थत्वादित्याह- ..
आनन्दभट्टोपाध्यायकृतम् संभूती च विनाशं च यस्तदेदोभय सह विनाशेन मृत्यु शो धर्मो यस्य स तेन विनाशधर्मणा हिरण्यगर्भोपासनेनैश्वर्यपाप्तिद्वाराऽनैर्यधर्मकामादि. दोषजातं च मृत्यु तीळ संभूत्या । अत्राकारलोपश्छान्दसः। असंभूत्याऽसं- भूत्युपासनयाऽव्याकृतोपासनेनामृतं प्रकृतिलयलक्षणं कारणत्वप्राप्तिलक्षणम. तमभुत इति ततच पुनः संसारो भवतीत्येवमपरं विद्याकर्मसमुच्चये फलमाभि- हितम् । तत्र को मोहः कः शोक एकत्वमनुपश्यत इति । स्वतत्रस्य सर्वकर्मसंन्या- सपूर्वस्य सम्यग्ज्ञातस्य फलमभिहितमेवं द्विःप्रकारः प्रवृत्तिनिवृत्तिलक्षणो वेदार्थोऽनेन प्रकाशितः । प्रवृत्तिलक्षणस्य वेदार्थस्य विधिप्रतिषेधलक्षणस्य कुत्तस्य प्रकाशने प्रवर्यान्तं ब्राह्मणमुपयुक्तम् । निवृत्तिलक्षणस्य प्रकाशने विधामुपासत इति । तत ऊर्च बृहदारण्यकं तत्रापि प्राणादिविषयोपासनं न परं किंचिदन्यनिर्गुणब्रह्मपरमिति विभज्य दर्शनीयम् । कार्य सगुणब्रह्मोपा- सनावाक्यजातं चान्धं तमः प्रविशन्ति येऽविद्यामुपासत इत्यादिषण्मवप्रका- शितार्थस्य प्रकाशन उपयुक्तमितरत्सर्व निर्गुणतत्वैकनिष्ठमिति । विद्यां चाविद्या च यस्तदेदोभयः सह । अविद्यया मृत्यु तीा विद्ययाऽमृतमश्नुत इति यदुक्तं सत्र केन मार्गेणामृतत्वमभुत इत्यत्रिरादिमार्गेणेत्युध्यते ॥ १४ ॥ एवं ययोक्तोपासनं कुर्वन्नुपासकः स्वदेहस्यान्तकाले प्राप्त आत्मनोऽमृतत्व- प्राप्तिदारभूतमादित्यं याचते-हिरण्मयेन पात्रेणेति। आदित्यदेवत्याऽनुष्टुब्हे पूषन्हे सूर्यास्मत्पोषक हिरण्मयेन ज्योतिर्मयेन पात्रेणाऽऽधारभूतेन सत्यस्याऽऽदित्यम. ण्डलस्थस्य ब्रह्मणोऽपिहितं मुखं द्वारमपिहितम् । हिरण्मयेन पात्रेण द्वारस्यापिधानं कृतम् । अतस्तत्त्वं पूषन्नपावृणु पूषस्तत्पिधानं त्वमपावृण्वपगमय । सत्यधर्माय सत्यस्य तवोपासनादहमपि सत्यधर्मो जातः । सत्यं धर्मो यस्य स सत्यधर्मा- तस्मै सत्यधर्माय मह्यं तदपावृणु । यद्वा व्यत्ययः । सत्यधर्माय सत्यधर्मस्य तदृष्टये ॥ १५ ॥ पूषनेकर्ष इति । सूर्यदेवत्या त्रिष्टुप्पोषणात्पूषा रविस्तत्संबोधनं हे एकर्षे त्वया सर्वस्य संयमनाघमो हे यम सूर्य सुष्वीरणात्सूर्यस्तत्संबोधनं प्रजापते- रपत्यं प्राजापत्यस्तत्संबोधनं हे प्राजापत्यैवं संस्तूय प्रार्थयते-व्यूह रश्मीनिति। रश्मीन्व्यूह विगमय समूह तेजस्तेजस्तापकं यज्ज्योतिस्तज्ज्योतिस्तत्स- मूहमेकी कुरु । यत्ते रूपं कल्याणतमं तत्ते पश्यामि । ते तव स्याणतमं मङ्गलतमं रूपम् । तत्ते तव प्रसादात्तद्रूपमहं - पश्यामि । किंच योऽसावसौ पुरुषः सोऽहमस्मि । योऽसौ मण्डलस्थो व्याकृतावयवो यः पुरुषः यत्क- ईशावास्यभाष्यम् । पुरुषा आहुः पूर्णत्वाद्वा पुरुषः सोऽहमस्मीत्यादित्यमेकीकृत्य पश्यामीति॥१६॥ एवं ब्रह्मोपासकस्य योगिनः शरीरपातोत्तरकालं शरीरं यद्भवति तदाह- वायुरनिलमिति । लिङ्गोक्तदेवत्यं यजुर्वायुः प्राणोऽनिलं सूर्यात्मममू- तमधिदैवतं स्वप्रकृति हिरण्यगर्भाख्यं प्राणं प्रतिपद्यते । अथा. नन्तरमिदं प्रतीयमानं शरीरमग्नौ हुतं भस्मान्तं भवति । कृतप्रयो. जनत्वात् । इदानीं योगिनो बलभूतं प्रभूतं सर्ववेदसारं सर्ववेदमयमक्षरं कथ्यते-ओमित्यवतेरामोतेर्वा । ओमिति परमाक्षरस्य योगिनो बलभू. तस्य परस्य ब्रह्मणः प्रणवाख्यस्य स्थूलादिगुणयुक्तस्य ब्रह्मा ऋषिश्छन्दो गायत्रं परमात्मा देवता । शब्दब्रह्मारम्भे विनियोगः । अपि च यागहो. मादिषु शान्तिपौष्टिककर्मसु चान्येष्वपि काम्यनैमित्तिकादिष्वपि सर्वेष्व. स्योंकारस्य विनियोगः । ओमिति परब्रह्मणो नामनिर्देशः । ओं तब्रह्मेत्यादि- श्रुतेः । ब्रह्मविष्णुशिवपरब्रह्मात्मकोऽकारोकारमकारार्धमात्रात्मकोऽयमोंकार- एवान्त्यकाल उत्तारक इति दर्शयति आत्मरूपश्च ॐकारस्ततस्तेन ततम् । इदानीं कृतं स्मारयति-कृतं स्मर इति । लिङ्गोक्तदेवत्यं यजुः । क्रतो ऋतुः संकल्पोऽनेन संकल्पविषयो योगिभिर्लक्ष्यते । हे क्रतो हे श्रीभगवन्नने स्मर कृतं ब्रह्मचर्ये मया कृतं तत्स्मर न विस्मर्तव्यम् । हे क्रतो गार्हस्थ्ये मया यत्कृतं तच्च स्मर । पुनश्च यत्साधु कृतं तत्सर्व कृतं स्मर कृतं स्मरेति । आदरार्थ पुनर्वचनम् । अथवा ऋतुशब्देन यज्ञः संबोध्यते हे क्रतो हे यज्ञ । यज्ञशब्दोपलक्षितो यज्ञाध्यक्षो यज्ञहविर्भागभुक्श्री भगवान्विष्णुः संबोध्यते श्रीभगवान्विष्णो कृतं स्मर मया कृतं त्वया कारितं स्मर कृतं स्मर कृतं स्मर कृतं स्मरेत ।। १७ ॥ मार्ग याचते-अग्ने नयेति । आग्नेयी त्रिष्टुप् । हे श्रीभगवन्नने हे सर्वज्ञ नय सुपथा दक्षिणमार्गनिवृत्त्यर्थं सुशब्दः शोभनेन मार्गेण देवयानेनास्मान्नय प्रापय । राये धनाय कर्मज्ञानफलोपभोगाय वा । अस्मान्यथोक्तज्ञानकर्मकारिणो नयेति संवन्धः । हे देव विश्वानि सर्वाणि कर्माणि वयुनानि कर्माणि प्रज्ञानानि तदनुष्ठितानि च विद्वाज्ञानवांस्त्वं सुपथा नयेति संबन्धः । किंच-युयोध्यस्मज्जुहुराणमेनः । अस्मदस्मत्तः सकाशाज्जुहुराणं कुटिलं कुटिलवञ्चनात्मकमेनस्तत्कृतं चैनः पापं युयोधि योधय पृथक्कुरु । तत्ते विशुद्धाः सन्त इष्टं फलं प्राप्नुयामेत्यभिप्रायः । किंतु वयमिदानी किमपि कर्तुं न शकुमः । अपि तु भूयिष्ठां बहुतरां नमउक्ति नमस्कारव चनं ते तुभ्यं विधेम कुर्मः। केवलनमस्कारवचनेन परिचरेभेत्यर्थः ॥ १८ ॥ ९ १० आनन्दभट्टोपाध्यायकृतमीशावास्यभाष्यम् । वन्देऽहं मङ्गलात्मानं भास्वन्तं वेदविग्रहम् । याज्ञवल्क्यं मुनिश्रेष्ठं कृष्णं हरिहरं प्रभुम् ॥ २॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यवर्यश्रीवासुदेवपुरीपूज्यपादपरमकार- ण्यासादितश्रीकृष्णभक्तिसाम्राज्यस्य श्रीमज्जातवेदभट्टोपाध्या. यस्य सूनुना चतुर्वेदिश्रीमदानन्दभट्टोपाध्यायेन विरचिते काण्ववेदमत्रभाष्यसंग्रहे चत्वारिंशोऽ. ध्यायः॥४०॥ ॥ॐ तत्सत् ॥ . .
अथानन्ताचार्यठतमीशावास्यभाष्यम् ॥ सर्ववेदैकसंवेद्यं हरि देवशिखामणिम् । देशतः कालतश्चैव गुणतोऽनन्तमाश्रये ॥१॥ चत्वारिंशे विहाध्याये परमात्मनिरूपणम् । क्रियते शोकमोहादिवर्जितैः परलक्षणैः ॥२॥ ईशा वास्यमित्यस्याध्यायस्य कर्मसु विनियोगो नास्ति । किंतु शुद्धत्वैक- स्वापापविद्धत्वाशरीरत्वसर्वगतत्वाद्यात्मयाथात्म्यप्रतिपादकत्वम् । तस्माद्विहि- तकर्मणा शुद्धान्ताकरणस्याधिकारिण आत्मस्वरूपप्रकाशनेन शोकमोहादि- साधनमज्ञानं निवर्त्य स्वरूपं दर्शयतीत्यभिधेयसंबन्धप्रयोजनवानिति व्याख्या यते । ईशा वास्यमात्मदेवत्योऽनुष्टुप्छन्दस्कोऽध्यायो दध्यङ्ङाथर्वण ऋषि- ईष्टा । गर्भाधानादिसंस्कारसंस्कृतमधीतवेदं जनितसुतं यथाशक्तिकृतयहं निष्पापं निस्पृहं यमनियमोपेतं मुमुक्षुमुपसन्न शिष्यं पुत्रं वा ऋषिरुपदिशन्नाह-ईशेति । ईश ऐश्वर्य किबन्त ईष्ट इतीद । सर्वस्येशिता परमेश्वरः। स हि सर्वजन्तूनामा- त्मत्वात्सर्वमीष्टे । तेनाऽऽत्मनेशा परमेश्वरेणेदं सर्व प्रत्यक्षप्रमाणसिदं विश्वं पास्यम् । वस आच्छादने । ऋहलोमेदिति ण्यत्प्रत्ययो णित्वात्स्वरितः । आच्छादनीयं सर्वं तेन व्याप्तमित्यर्थः । स एवाधस्तात्स एवोपरिष्टात् । अन्त- बहिश्च तत्सर्वं व्याप्य नारायणः स्थित इत्यादिश्रुतेः । इयद्वा इदं सर्वमीशा परब्रह्मणा वास्यं वस निवासे वासितमुत्पादितं स्थापितं नियमित च । यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति । यमयत्येष त आत्माऽन्तर्याम्यमृत इत्यादिश्रुतेः । न केवलं प्रत्यक्षगम्यमीशा वास्यमपि तु सावरणं ब्रह्माण्डमित्याह-यदिति । यत्किंचिच्छ्रुतिप्रमाणसिद्ध जगत्यां जगद स्थावरजङ्गमात्मकं शेष विश्वमीशेनोत्पादितं स्थापितं नियमितं चेत्यर्थः । अतः कारणानेनेशा त्यक्तेन विसृष्टेन दत्तेन स्वादृष्टानुसारिणा विषयेण भुञ्जीथा भोगाननुभवः । इतोऽधिकं मा गृधो गृधु अभिकाङ्क्षायां मा काङ्क्षी। इतो ममाधिकं भवत्विति धियं त्यजेत्यर्थः । परमात्माधीनत्वेन त्वदिच्छाया व्याहतत्वादिति भावः । एवं सद्धनं कस्यस्विस्विदिति निपातो वितर्के न कस्यापीत्यर्थः । स एष सर्वस्य वशी सर्वस्येशानः, सर्वमिदं प्रशास्ति यदिदं किंचेत्यादिश्रुतेर्मुख्यदाता परमेश्वरो न स्वामिसंबन्धालिङ्गितमन्यत्माणिजात. मिति वैराग्येण भवितव्यमिति तात्पर्यम् ॥ १ ॥ ।
अनन्ताचार्यकृतम्- इदानी चित्तशुद्धयर्थ विहितमवश्यमनुष्ठेयमित्याह-कुर्वन्नेवेति । कर्माण्य- मिहोत्रादीनि निष्कामाणि मुक्तिहेतुकानि कुर्वन्नेवेह लोके शतं समाः शतवर्षप- यन्तं जिजीविषेत् । पुरुषव्यत्ययः प्रकरणात् । त्वं जिजीविषेर्जीवितुमिच्छेः । भवाजिजीविषेदिति वा । पुरुषायुषस्य शतवर्षमितत्वाच्छतग्रहणं काला- ध्वनोरत्यन्तसंयोग इति द्वितीया। यावच्छक्ति कर्तव्यं न कदाऽपि त्याज्यमिति। कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्मफलहेतुर्भूमा ते सङ्गोऽस्त्वकर्म- णीति । ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा मनीषिणः । लिप्यते न स पापेन पद्मपत्रमिवाम्भसेति भगवद्वचनात् । त्वयीति विभक्तिव्यत्ययस्तवैवं कर्म कुर्वतो जिजीविषतो मुक्तिरस्तीति शेषः । इतः प्रकारादन्यथा प्रकारान्तरेण मुक्तिर्नास्तीत्ययमभिप्रायः स्वर्गादिप्राप्तौ यथा नानोपायाः सन्ति न तथा मुक्तावित्यर्थः । ब्रह्मार्पणबुद्धया कृतकर्मणा शुद्धान्तःकरणस्यैव मुक्तिरिति भावः । ननु कर्मणोऽवश्यं फलेन भाव्यं कथं मुक्तिरित्याह-न कर्मेति । मुक्त्यर्थ क्रियमाणं कर्म नरे मनुष्ये त्वयि न लिप्यते न बध्यते । स्वोचितेना. संकल्पितफलेन कर्मणा भगवन्तमाराधयन्तं नरमपि त्वां न प्रागुत्तरकर्म बाधत इत्यर्थः । मुक्तिकारणान्तःकरणशुद्धयापादकत्वेनोपक्षीणशक्तित्वात् । उक्तं हि द्वाविमावथ पन्थानो यत्र वेदाः प्रतिष्ठिताः । प्रवृत्तिलक्षणो धर्मों निवृत्तौ च विभाषित इति ॥ २॥ अथ काम्यपरान्निन्दति-असुर्या इति । ये के च ये केचिजना आत्महन आत्मानं नन्ति संसारे संबन्धयन्तीत्यात्महनोऽविद्वांसः काम्यकर्मपरा आत्महन्तारस्ते प्रेत्य मृत्वा ताल्लोकानभिगछन्ति । अभिराभिमुख्ये ते के ये लोका असुर्या असुराणामिमेऽसुर्या असुषु प्राणेष्वेव रमन्त इत्यसुराः प्राणपो- षणमात्रपरा अज्ञानिनः केवलविषयासक्तास्तैः पाप्या असुर्याः कीदृशा अन्धेन तमसाऽज्ञानात्मकेन तमसाऽऽवृता आच्छादिता अज्ञानाधिक्य. कारिणोऽनात्मज्ञाः पुनः पुनर्जायन्ते म्रियन्ते चेत्यर्थः । उक्तं हि भगवता श्रीगी- तायाम्-कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः । जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयामिति । अनेकचित्तविभ्रान्ता मोहजालसमावृताः। प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचाविति । तस्माद्यथायोगं वर्णाश्रमविहितकर्मणा भगवन्तमाराधयंस्तत्प्रसादेन निवृत्तस्वान्तःकलुषो जातवैराग्य आत्मविन्मुक्तो भवतीति प्रघट्टकार्थः । ब्रह्मविदामोति परं तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते ॥ ३ ॥ एवं त्वयि नान्यथेतोऽस्तीत्यादिश्रुतिभिर्ब्रह्मज्ञानमेव मोक्षसाधनमित्यु. क्तम् । तद्ब्रह्म किंविधमित्यत आह- ईशावास्यभाष्यम् । अनेजदिति । त्रिष्टुग्छन्दस्केयमुक्तद्ब्रह्म । अनेजत् । एनृ कम्पने नैज- तीत्यनेजत् । अकम्पमानोऽभयमचलदिति केचित्तथात्वेन मनसो जवीय इत्यु- त्तरविरोधोऽजरोऽमृतोऽभयो ब्रह्मेति श्रुतेश्च । एकं समाधिकरहितम् । न तत्स. मश्चाभ्यधिकश्च दृश्यत इति श्वेताश्वतरोक्तेः । यद्वा सर्वभूतेषु विज्ञानघनरूपे. गैकम् । एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मेतिश्रुतेः । मनसो. जवीयो मनो हि वेगवत्पसिद्धं ततोऽपि जवीयो वेगवत्तरं जवोऽस्यास्तीति जव- पदत्यन्तं जवदिति जवीय ईयसुनि कृते विन्मतोलुंगिति मतुपो लुग्देहस्थस्य मनसो दूरस्थब्रह्मलोकादिसंकल्पनं क्षणमात्राद्भवतीति मनसो वेगवत्तरत्वं तस्याप्यगम्यत्वाद्ब्रह्म मनसो जवीय इत्युपपद्यते । किंच देवा ब्रह्माद्या अप्येन- ब्रह्म नाऽऽनुवन्कात्स्न्येनाजानन् । देवा द्योतमानाचक्षुरादयोऽप्येनन्नाऽऽ- नुवन्न गोचरी कुर्वन्तीति केचित् । तत्तु मनोगम्यत्वादेवापीह स्थितम् । पूर्व सर्व- जगत्कारणम् । यतो वा इमानि भूतानि जायन्त इति श्रुतेः । अर्षत् ऋष गतौ, अर्षतीत्यर्षज्ज्ञानस्वरूपं सत्यं ज्ञानमनन्तं ब्रह्मेति श्रुतेः । किंच लोकविलक्षणम् । लक्षणान्तरमाह-तिष्ठदिति । तिष्ठतीति तिष्ठत्स्वस्थाने स्थितमपि सर्वगत- त्वादावतो द्रुतं गच्छतोऽन्यान्मनआदीनत्येत्यतिक्रम्य तिष्ठत्यचिन्त्यश. क्तिकमित्यर्थः । किंच मातरिश्वा मातर्यन्तरिक्षे श्वयति वर्धत इति मातरिवा बायुः । टुओश्वि गतिवद्धयोरितिधातुः । तस्मिन्ब्रह्मण्यपः कर्माणि दधाति धारयति । अप इति कर्मनाम कार्यकारणजातानि यस्मिन्नोतानि प्रोतानि यश्च सूत्रसंज्ञः सर्वस्य जगतो विधारयिता सर्वप्राणभृच्चेष्टकः सोऽपि वायुः प्राणिनां चेष्टालक्षणानि कर्माणि तस्मिन्ब्रह्मणि स्वाधिष्ठाने सति दधाति सर्वचेष्टको घायुस्तस्यापि चेतयित् ब्रह्मेत्यर्थः । भीषाऽस्माद्वातः पवत इत्यादिश्रुतेः । यद्वा मातरिश्वा वायुरपः कर्माण्याप्यन्ते प्राप्यन्ते सुखदुःखानि याभिस्ता अपर कर्माणि । आमोतेर्हस्वश्चेति किप् धातोह्रस्वश्च । तानि कर्माणि यज्ञहोमादी- नि यस्मिन्दधाति स्थापयति । सर्वप्राणिकर्माणि समर्पयतीत्यर्थः । देवा गातु. विदो गातुं वित्त्वा गातुमितमनसस्पत इमं नो देवदेवेषु यज्ञ ५ स्वाहा वाचि स्वाहा वातेधा इति समिष्टयजुर्मने वायुस्थत्वोक्तेः सर्वकर्माणि तावद्वायो स्थाप्यन्ते समष्टिव्यष्टिरूपोऽसौ वायुरपि तानि सर्वाणि तस्मिन्दधात्यतो यागहोमादीनां कर्मणां परमास्पदत्वं ब्रह्मलक्षणमित्यर्थः॥४॥ रहस्यं सकृदुक्तं न चित्तमारोहतीति पूर्वमन्त्रोक्तमपि पुनर्वदति-तदिति । अनुष्टुप्तत्मकृतमात्मतत्त्वमेजति चलति तदैव नैजति च । स्वतो नैव विभेति । अभयमेव सन्मूढदृष्ट्या विभेति च यद्वैजतिरन्तर्भावितण्यर्थः ।
अनन्ताचार्यकृतम्- तदेनयति दुष्टांस्तदेव नजयति सदाचारानिति शेषः । परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय संभवामि युगे युग इति स्मृतेः। किंच तरे दूरदेशेऽस्ति सदु तदेवान्तिके समीपेऽप्यस्ति सर्वगतत्वात् । यद्वा सहूरेऽविदुषामन्दकोव्याऽप्यप्राप्यत्वादूर इवेत्यर्थः । तद्वन्तिके विदुषां हृधव- भासमानत्वादन्तिक इव न केवलं दूरेऽन्तिकेऽस्ति । किंत्वस्य सर्वस्य नामरू. पक्रियात्मकस्य जगतोऽन्तरभ्यन्तरे तदेवास्ति । अस्य सर्वस्य बाह्यतो बहिरपि सदु तदेवास्त्याकाशवव्यापकत्वात् । अन्तर्बहिश्च तत्सर्व व्याप्य नारायणः स्थित इति श्रुतेः। यद्वाऽस्य मन्त्रस्यार्थान्तरम् । पूर्व कारणरूपमुक्तमिदानी कार्य- रूपमुद्दिशति-तदिति । तदात्मतत्वमेजति सर्वजन्तुरूपेण स्थितं सच्चलति तदेव नैनति-स्थावररूपावस्थं न चलति तहर आदित्यनक्षत्ररूपेण स्थित. स्वात् । तदु अन्तिके धरादिरूपेण स्थितत्वात् । अस्य सर्वस्य प्राणिजातस्या- न्तर्मध्येऽन्तर्यामिरूपेण स्थितं तदेव यो विज्ञाने तिष्ठन्विज्ञानादन्तरो यं विज्ञानं न वेद यस्य विज्ञान शरीरं यो विज्ञानमन्तरो यमयतीति श्रुतेः । अस्य सर्वस्य जगतो बायतस्तदु तदेव कालरूपेण विद्यमानत्वात् । अन्तर्बहिः पुरुषः कालरूप इति स्मृतेः । चेतनाचेतनरूपमनन्तं ब्रह्मैवेत्यर्थ एवमुपासितु. रचिरादिमार्गेण गमनं नास्ति । इहैव ब्रह्मप्राप्तिः। न तस्य प्राणा उत्क्रामन्त्य- त्रैव समवलीयन्ते । ब्रह्मैव सन्ब्रह्माप्येतीत्यादिश्रुतेः । तद्वन्तिक इत्यत्र उका- रोऽपृक्तोऽस्पर्शादिति प्रातिशाख्येन संधिः ॥ ५ ॥ अथोपासनाप्रकारमाह-यस्त्विति । अनुष्टुब्यः पुनरधिकारी सर्वाणि भूतान्यव्यक्तादिस्थावरान्तानि चेतनाचेतनान्यात्मन्सप्तम्या लुगात्मन्ये. षानुपश्यति । ब्रह्मण्येव सर्वाणि भूतानि स्थितानीति जानाति । भात्मानं च सर्वभूतेष्वनुपश्यति । ततस्तस्माद्दर्शनान विजुगुप्सते । जुगुप्सा नाऽऽमोति मुक्तो भवतीत्यर्थः । उपक्रोशो जुगुप्सा च कुत्सा निन्दा च गर्हणे गुप्धातोर्गुप्तिज्किद्भ्यः सनिति स्वार्थे सन्प्रत्ययः । यो मां पश्यति सर्वत्र सर्व च मयि पश्यति । तस्याहं न प्रणश्यामि स च मे न प्रणश्यतीति भगवद्वचन समानार्थको मत्रोऽयम् ॥ ६ ॥ इसमेवार्थ द्वितीयो मत्रो वदतीत्याह-यस्मिन्निति । अनुष्टुव्यस्मिन्नवस्था- विशेषे विजानतः सर्वाणि भूतान्यात्मनि सन्ति । आत्मा च सर्वभूतेष्वस्तीति विशेषेण ज्ञानवतः पुरुषस्य सर्वस्य खलिदं ब्रह्मेत्यादिवाक्यार्थविचारेण सर्वा- णि भूतान्यात्मैवाभूत् । भवन्ति सर्वभूतेष्ववस्थित आत्मैक एवेति ज्ञानं भवति। सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः । सर्वथा वर्तमानोऽपि स योगी मयि ईशावास्यभाष्यम् । वर्तत इति भगवदुक्तेः । तत्रावस्थाविशेष एकत्वमात्मैकत्वमनुपश्यतस्तस्य को मोहः का शोकथाविद्याकार्ययोः शोकमोहयोः सर्वथाऽसंभवात्सकारण- कस्य संसारस्यात्यन्तमुच्छेद इति भावः। भियते हृदयग्रन्थिश्छिद्यन्ते सर्व- संशया: । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावर इति श्रुतेः ॥७॥ एवंभूतात्मज्ञानिनः फलमाह-स इति । जगति योऽधिकारी पूर्वोक्तमका. रेणाऽऽत्मानं पश्यति स ईशमात्मानं पर्यगात्मामोति छन्दसि लुङ्ललिट इति सूत्राद्वर्तमाने लुङ् । कीदशं शुक्र शुक्लं शुद्धं रलयोरभेदाद्विज्ञानानन्दस्व. भावम् । अकायं न विद्यते भोगार्थ कायः शरीरं यस्य सः। तमकायत्वादेवा. वणमच्छिद्रं पूर्णमित्यर्थः । अनाविरं न विद्यन्ते नावाः शिरा यस्य सोऽस्ना- विरस्तम् । अकायमित्यनेन लिङ्गशरीरनिषेधः । अनाविरमिति स्नावोपल- क्षितधातुमयस्थूलशरीरनिषेध इत्यपुनरुक्तिः। अत्रैव हेतुगर्भविशेषणमाह-शुद्ध मनुपहतं सत्वरजस्तमोभिः एतदेव स्पष्टयति-अपापविद्धं न पापैर्विद्धं क्लेशकर्म- विपाकाशयैरस्पृष्टमीदृशमात्मानं ज्ञानी पर्यगादित्यन्वयः । कायादिरहितोऽपि परमात्मा जगत्सर्जनादि करोत्यचिन्त्यशक्तित्वादित्याह-कविरिति। ज्ञानी पर्येति स आत्मा शाश्वतीभ्यः समाभ्यः शाश्वतीषु समासु विभक्तिव्यत्ययः। पाथातथ्यतो यथातथाभावो याथातथ्यं याथार्थ्यं तेन यथार्थस्वरूपानन्प- दार्यान्व्यदधाद्विदधाति । कीदृशः स कविः कान्तदर्शी सर्वज्ञो मनीषी मेधावी मानस्वरूपः परिभूः परिभवति सर्व वशी करोतीति परिभूः । स्वयंभूः स्वय- मेवान्यदनपेक्ष्य भवतीति स्वयंभूः स्वतन्त्रः कविरित्युत्तरार्धमुपासितुः फल. कथनपरमिति केचिद्व्याचक्षते तत्पक्रमभङ्गादुपेक्ष्यम् ॥ ८ ॥ इदानी पूर्वोक्तप्रकारेणा नात्मविदः कर्मनिष्ठाः सन्तः कर्म कुर्वन्त एव ये जिजीविषन्ति तान्प्रत्युच्यते- अन्धं तम इति । षडनुष्टुभः । विद्याविद्ययोः समुच्चिचीषया प्रत्येकं निन्दो. ध्यते । ये जना अविद्या विद्याया अन्याऽविद्या कर्म तो केवलामुपासते कुर्वन्ति स्वर्गार्थानि कर्माणि केवलमनुतिष्ठन्तीत्यर्थः । अविद्येत्यत्र तदन्यार्थे नमब्राह्मण इतिवत् । ते माणिनोऽन्धमदर्शनात्मकं तमोऽज्ञानं प्रविशन्ति संसारपरम्परामनुभवन्तीत्यर्थः । ततस्तस्मादन्धात्मकात्तमसः . संसाराद्भूय इन इव एवार्थः । बहुतरमेव तमस्ते प्रविशन्ति ते के ये उ ये पुनर्विद्याया- मात्मज्ञाने देवताज्ञान एव रताः कर्म हित्वा विहितकर्माननुष्ठानेन प्रत्यवाये सत्यन्तःकरणशुद्ध्यभावेन ज्ञानानुदयादिति भावः। अन्येऽमुं मन्त्रमन्यथा भ्याकुर्वन्ति । यथा-आत्मयाथार्थ्यज्ञानस्यैवान्यथाज्ञाननिन्दयाऽऽवश्यक- सोपपादनायान्यथाज्ञानस्योक्तमसुर्यलोकसाधनत्वमनूचान्यथाज्ञानानिन्दनस्य अनन्ताचार्यकृतम्- ततोऽप्यधिकानर्थसाधनत्वमन्येन मत्रेणोच्यते । न तु केवलकर्मनिन्दनं तद. भावे विद्याया अध्यवसायत्वाभावात्केवलकर्मणामप्रसक्तेः । कुर्वनेवेह कर्माणि जिजीविषेदित्येवकरणं कर्मात्यन्तायोगव्यवच्छेदार्थेन केवलकर्मकरणविधाना. भावाच । अत्रैवं योजना-केऽविद्यामन्यथाज्ञानमुपासते तेऽन्धं तमो नाम नरकं प्रविशन्ति । असनेव स भवति । असद्ब्रह्मेति वेद चेदिति श्रुतेः । अथ ये जना विद्यायामु आत्मपाथार्थ्यज्ञान एव रता न त्वन्धं तमः साधनान्यथा. ज्ञाननिन्दने ते ततोऽन्यथाज्ञानं प्राप्य तमसः सकाशाद्भूय इव बहुतरमेवान्धं तमः प्रविशन्तीति ॥९॥ ज्ञानकेवलकर्मणोः फलभेदमाह-अन्यदेवेति । विद्ययाऽऽत्मज्ञानेनान्य- देव फलममृतरूपमाहुर्ब्रह्मवादिनः । अविद्यया केवलकर्मणा साध्यमन्यदेव फलं पितृलोकादिरूपमाहुर्विद्वांसः । कर्मणा पितृलोको विद्यया देवलोको देव- लोको वै लोकाना श्रेष्ठस्तस्माद्विद्यां प्रशसन्तीत्यादिश्रुतेः । कथमेतदवगत- मित्यत आइ-इतीति । इत्येवं शुश्रुम श्रुतवन्तो वयं धीराणां धीमतां वचनम् । य आचार्या नोऽस्मभ्यं तत्कर्म च ज्ञानं च स्वरूपफलतो विचचक्षिरे व्याख्या. तवन्तस्तेषामयमागमः पारम्पर्यागत इति भावः । द्वितीयपक्षे तु विद्ययाऽऽ. स्मयायार्थ्यज्ञानेनान्यदेव मोक्षकदेशलक्षणं फलं प्राप्यमाहुद्धा अविद्य- याऽन्यथाज्ञाननिन्दयाऽन्यदेव मोक्षकदेशफलरूपं फलमाहुरिति धीराणां बचनं शुश्रुम ये धीरा नोऽस्मान्प्रति तन्मोक्षसाधनं विचचक्षिरे व्याचचक्षिरे तस्मादुपपन्नः समुच्चय इति ॥ १० ॥ समुच्चयमाह-विद्यामिति । विद्याऽऽत्मज्ञानमविद्या कर्मान्यथाज्ञाननि- न्दनं वा चद्वयं परस्परसमुच्चयार्थं तदुभयं सह ये पुरुषार्थहेतुत्वेन यो वेद, एके. नैव पुरुषेणानुष्ठयमिति जानाति । सोऽविद्ययेश्वरार्पणबुद्ध्याकृताग्निहोत्र- कर्मणां मृत्यु मारकमन्तःकरणमलं तीवोऽन्तःशुद्ध्या कृतकृत्यो भूत्वा विद्ययाऽऽत्मज्ञानेनामृतं भावप्रधानो निर्देशः । अमृतत्वं मोक्षमश्नुते प्राप्नोति । उक्तं हि श्रीगीतायां भगवता-यत्सांख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते । एकं सांख्यं च योगं च यः पश्यति स पश्यतीति । सांख्ययो- गशब्दौ ज्ञानकर्मपरौ ॥ ११ ॥ उक्तमेवमुत्तरमन्त्रत्रयेण समर्थ्यते । अन्धं तम इति । येऽविद्यामुपासते तेऽन्धं तमः प्रविशन्तीत्युक्तम् । तत्राविद्यास्वरूपमुच्यतेऽसंभूतिमिति ये। प्राणि- नोऽसंभूति नास्ति संभूतिर्जगत उत्पत्यादिर्यस्मात्सोऽसंभूतिस्तं संभूतेरुपलक्षण- त्वात् । परमेश्वरो न जगदुत्पत्यादिकर्ताऽपि तु स्वभावत एवोत्पद्यतेऽवति- ठते नश्यतीत्यात्मानमुपासते । तेऽन्धं तमः प्रविशन्तीत्यर्थः । यतो वा इमानि य उपच ईशावास्यभाष्यम् । भूतानि जायन्ते येन जातानि जीवन्तीत्यादिश्रुतेः। यत्प्रयन्त्यभिसंविशन्तीत्या- दिश्रुतिविरुद्धत्वात् । असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् । अपरस्परसंभूतं किमन्यत्कामहेतुकम् । एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः। प्रभवन्त्युग्रक- मर्माणाक्षयाय जगतोऽहिताः । आसुरी योनिमापन्ना मूढा जन्मनि जन्मान । माम- प्राप्यैव कौन्तेय ततो यान्त्यधमा गतिमिति भगवदुक्तंश्च । अन्यत्पूर्ववत् । यदा पमनियमादिसंबन्धवान्विज्ञानात्मा कश्चिन्नास्ति । जलबुब्दुदवजीवाः । मदश. क्तिवद्विज्ञानमित्यादिदुर्वादिनो बौद्धा अनेन निन्द्यन्ते । ये नरा असंभूति न संभूतिरसंभूतिस्तां मृतस्य पुनः संभवो नास्ति । अतः शरीरान्तेऽस्माकं मुक्ति- रेवेति य उपासते सिद्धान्तयन्ति तेऽन्धं तमः प्रविशन्ति । तथा संभूत्यामेव रताः संभवत्यस्या इति संभूतिः परदेवता तत्रैवाऽऽसक्ताः कर्मप- राङ्मुखाः स्वबुद्धिमालिन्यमजानाना आत्मज्ञानमात्र एव रता आत्मैवास्ति नान्यत्कर्मान्यदिति कर्मकाण्डज्ञानकाण्डयोः संबन्धो नास्तीत्यभिप्रायवन्त इत्यर्थः । ते नरास्ततोऽन्धात्तमसो भूय इव इवशब्दो निपातो वहाँ बहुतरं तमो विशन्ति । यद्वा व्याकृताव्याकृतोपासनयोः समुच्चिचीषया प्रत्येकं निन्दोच्यते तेन यथासंभवनं संभूतिः कार्यस्योत्पत्तिस्तस्या अन्या असंभूतिः प्रकृतिः कारणमव्याकृताख्यं तामसंभूतिमव्याकृताख्यं प्रकृतिकारणम् । अविद्याका. मकर्मबीजभूतामदर्शनात्मिका य उपासते ते तदनुरूपमेवान्धं तमः प्रविशन्ति संसारमेव प्रामुवन्ति । ये तु संभूत्यां कार्यब्रह्मणि हिरण्यगर्भादावेव स्तास्ते ततस्तस्मादपि भूयो बहुतरमेव तमः प्रविशन्ति ।। १२ ।। अथोभयोरुपासनयोः समुच्चयकारणमवयवतः फलभेदमाह-अन्यदेवेति । संभवात्संभूतेः कार्यब्रह्मोपासनादन्यदेव पृथगेवाणिमाद्यैश्वर्यलक्षणं फलमाहुः कथयन्ति धीराः। तथाऽसंभवादसंभूतेरव्याकृतोपासनादन्यदेव फलमुक्त. मन्धं तमः प्रविशन्तीत्याहुः। क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसामिति भग- पदुक्तेः । इत्येवंविधं धीराणां धीमतां वचः शुश्रुम । वयं श्रुतवन्तो ये धीरा नोऽस्माकं तत्पूर्व संभूत्यसंभूत्युपासनफलं विचचक्षिरे व्याख्यातवन्तः॥ १३ ॥ उक्तं सर्वमुपसंहरति-संभूतिं चेति । संभूति सकलजगत्संभवैकहेतुं परब्रह्म- विनाशं विनाशोऽस्यास्तीति विनाशम् । अर्शआदिभ्योऽजित्यच्प्रत्ययः। विना- धर्मकं शरीरादिसंसारतदुभयं शरीरिशरीररूपं यं यो योगी सहकीभूतं वेद जानाति । नित्यानित्यं वस्तु विवेचयतीत्यर्थः । देहभिन्नोऽहं देही वास कर्म- निमत्तमिति ज्ञात्वा शरीरेण ज्ञानोत्पत्तिकराणि निष्कामकर्माणि कृत्वेश्वरेऽप. यतीति भावः । स ज्ञानी विनाशेन विनाशवता शरीरेण साविककर्मानुष्ठान द्वारा मृत्यु तीवोऽन्तःकरणशुद्धिं संपाद्य संभूत्याऽऽत्मज्ञानेनामृतत्वमश्नुते मुक्ति पामोति । यद्वाऽस्या अर्थान्तरम् । यथा-संभूत्यसंभूत्युपासनयोरेकपु. रुषार्थत्वात्समुच्चय एवं युक्त इत्याह-संभूतिं चेति । अत्र विनाशं विनाशेनेति- शब्दद्वयेऽवर्णलोपो द्रष्टव्यः पृषोदरादित्वात्साधुरन्यदाहुरसंभवादिति प्रक- ८ अनन्ताचार्यकृतम् - रणात् । संभूति विनाशं च व्याकृताव्याकृतोपासनद्वयं यः सह वेदोभयमु. पास्त इत्यर्थः । म योग्यविनाशेनाव्याकृतोपासनेन मृत्युमनैश्वर्यमधर्मकामादि. दोषजातं च तीवोऽतिक्रम्य संभूत्या हिरण्यगर्भोपासनेनामृतं प्रकृतिलक्षणम. भते प्राप्नोति । यद्वा संभूत्या संभवतीति संभूतिहिरण्यगर्भादिदेवता तया संभूत्या संभूत्युपासनया मृत्युमन्तःकरणमलादिरूपं तीर्वाऽतिक्रम्याविनाशेन विनाश उपलक्षणमुन्पत्तिावनाशादिदोषरहितेन परात्मना तज्ज्ञाने नामृतं मोक्षमनुते । इति मिन्नक्रमेण पदयोाख्यानम् ॥ १४ ॥ एवं प्राप्ताधिकारं शिष्यं प्रति परमात्मस्वरूपं निरूप्य तत्साक्षात्कारो मोक्ष- साधनमित्यतीतग्रन्थेनोक्तम् । स चेश्वरसाक्षात्कारो न श्रवणादिमात्रेण भवति । नापि मोक्षः साक्षात्कारमात्रेण किंतु भगवदनुग्रहादेव । नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेनायमेष वृणुते तेन लभ्यस्तस्यैष आत्मा पितृ. गुते तनूं स्वामिति श्रुतेः । अतोऽनुष्ठितप्रवणमननादिकेनापि साक्षात्कारार्थ प्राप्त साक्षात्कारेणापि च मोक्षार्थ यथा भगवत्प्रार्थनं कार्य तत्प्रकारप्रदर्शनार्थी हिरण्मयेन पात्रेणेत्याधुत्तरमन्त्राः। तत्राऽऽदित्यरूपोपासनमाह-हिरण्मयेन पात्रे. णेति । अनुष्टन्दिरणयमिव हिरण्मयं ज्योतिर्मयं यत्पात्रं पिबन्ति यत्र स्थिता रश्मयो यत्र स्थितानिनि पात्रं सूर्यमण्डलं तेन तेजोमयेन मण्डलेन सत्यस्याss- दित्यमण्डलस्थ स्याविनाशिनः पुरुषोत्तमस्य श्रीभगवतो मुखं मुख मिति सर्वविग्रहोपलक्षणम् । लीलाविग्रहस्वरूपमपिहितमाच्छादितं वर्तते यत्तन्मुखं हे पूषन्पुष्णातीति पूषा तत्संबोधनं हे भक्तपोपक परमात्मंस्त्वमपावृण्वपात. मनाच्छादितं कुरु । किमर्थ, सत्यधर्माय दृष्टये । सत्यं सत्यज्ञानानन्दात्मकं त्वद्रूपं धारयति हृदये चिन्तयतीति सत्यधर्मा तस्मै चतुर्थी षष्टयर्थे सत्यधर्मस्य मदा. दिभक्तजनस्य दृष्टये दर्शनाय साक्षात्काराय शिप्रेक्षणेऽस्माद्भावे क्तिन्प्रत्ययः। प्रश्वभ्रस्जसृजमजयनराजभ्राजच्छशां प इति शस्य षत्वं ष्टुनाष्टुरिति ष्टुत्व- मित्यृषिप्रार्थनम् ॥ १५॥ एतदेव स्पष्टीकृत्य ऋषिर्याचते-~षन्निति । उष्णिग्यजुरन्तोष्णिक्त्रि- पदाऽन्त्यो द्वादशक इति वचनात् । हे पूषन्हे एकर्षे । एकश्वासावृषिश्चैकर्षिः । ऋष ज्ञाने हे मुख्यज्ञान हे यम यमयति सर्वमिति यमो योऽन्तरो यमयतीति श्रुतेः । हे सूर्य । मूरिभियित्वात्स सूर्यः सूरिशब्दात्तद्धितो यत् । यस्येति चेती. कारलोपः । हे प्राजापत्य । प्रजानां पतिः प्रजापतिहिरण्यगर्भस्तस्य वेदोप. देष्ट-वेन प्रिय यो ब्रह्माणं विदधाति पूर्व तस्मै वेदांश्च प्रहिणोति सर्वानिति श्वेताश्वश्रुतेः । मदीयावश्मीप्रकाशयन्व्यूह तेजःसमूहं च स्वरूपं बाह्य च मदीयं ज्ञानं विस्तारयेत्यर्थः । तथा यत्ते रूप कल्याणतमं परममङ्गलं मङ्ग- लानां च मङ्गलमिति स्मृतेरस्ति तत्ते तव प्रसादादहं पश्यामि । यद्वा हे पूषन्भेकर्षे यम सूर्य प्राजापत्य प्रजापतेधर्मस्यापत्य नरनारायणात्मत्र- इमीमचक्षुष उपघातकान्स्वारश्मीन्व्यूह विगमय । तेज. आत्मीयं ज्योति:. :
ईशावास्यभाष्यम् । समूहमुपसंहर मदर्शनयोग्यं कुरु । अन्यत्समानम् । केन प्रकारेण पश्यसीत्यत आह-य। इति योऽसौ पुरुषः पूर्षु शेतेऽसौ पुरुषोऽसौ मण्डलान्तस्थो यः पुरुषोऽ- सौ तदितरप्रतीकस्थितश्च पुरुषः सोऽहमस्मि भवामि सूर्यमण्डलादिप्रतीकस्थो मदृयन्तस्थो ज्योतीरूपश्चैक एवेति प्रकारेण ते रूपं पश्यामीत्यर्थः। एतादृशै- क्यज्ञानस्यैव मोक्षसाधनत्वादिति भावः । अत्रासौ च शाकटायन इति प्राति- शाख्य न यवयोः पदान्तयोः स्वरमध्ये लोप इति प्राप्तलोपप्रतिषेधादसावसा. विति द्रष्टव्यम् ।। १६ ॥ इदानीं मरिष्यतो मम वायुरध्यात्मपरिच्छेदं हित्वाऽधिदैवतात्मानमनिलं प्रविशत्विति प्रार्थयते-वायुरनिलमिति वायुरनिलं यजुषी । मितिपरमाक्षरस्य योगिनामालम्बनभूतस्य परस्य ब्रह्मणः प्रणवाख्यस्यास्थूलादिगुणयुक्तस्य ब्रह्मा ऋषिश्छन्दो गायत्रं परमात्मा देवता शब्दब्रह्मारम्भविरामे च यागहो- मादिषु शान्तिपौष्टिककर्मसु चान्येषु विनियोगोऽस्य कृतो त्रिभिर्यज्ञान्योगी स्मारयतीत्यनुक्रमणी । हे परमात्मन्मरिष्यतो मम वायुः प्राणो वायुग्रहणं सप्तदशलिङ्गोपलक्षणार्थम् । तथा च सप्तदशात्मकलिङ्गरूपः प्राणोऽध्या- त्मपरिच्छेदं हित्वाऽधिदैवतरूपं सर्वात्मममृतं सूत्रात्मानमनिलं मुख्य- प्राण प्रतिपद्यतामिति वाक्य शेषः । वायवे गौतम तत्सूत्रेण वायुना हि गौतम तत्सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि संहब्धानि भवन्तीति श्रुतेः। ज्ञानकर्मसंस्कृतं लिङ्गमुत्क्रमयत्वित्यर्थः । अथानन्तरमिदं स्थूलशरीरमग्नौ हुतं सद्भस्मान्तं भस्मैवान्तो यस्य तद्भस्मान्तं भस्मावसानं भूयात्कृतप्र. योजनत्वात् । ॐप्रतीकात्मकत्वात्सत्यात्मकमग्न्याख्यं ब्रह्माभेदेनोच्यते ॐ हे क्रतो संकल्पात्मक स्मर यन्मम स्मर्तव्यं तस्यायं कालः समुप- स्थितोऽतः स्मर यस्त्वं ब्रह्मचर्य गार्हस्थ्ये च मया परिचरितस्तत्स्मर । तथा कृतं यन्मया बाल्यप्रभृत्यद्य यावदनुष्ठितं कर्म तच्च स्मर । क्रतो स्मर कृतं स्मरेति पुनर्वचनमादरार्थम् । यद्वा प्रत्यक्षत एव देहस्य भस्मान्तत्वदर्शनादेह- नाशे च तदन्तर्गतस्य ब्रह्मणो जीवन्मरणाद्यवश्यंभावादित्याशङ्कायामिदमु- च्यते । अत्रायमर्थो यद्यपीदं शरीरं भस्मान्तं दृश्यते तथाऽपि तदन्तर्वर्तिनः परमेश्वरस्य न मरणादिदोषप्रसङ्गः । कुतो व्यत्ययादनिलमनिलो वायु- यंदाऽमृतममृतोऽथ तदा ब्रह्मामृतमिति किं वक्तव्यं तदमृतत्वस्य कैमुत्य- सिद्धत्वादिति । ननु संसारिणो वायोः कथममृतत्वं संभवति यदुपचारेण ती- श्वरस्यापि तथाविधममृतत्वं स्यादित्याशङ्कय वायोर्देहनाशेऽपि तत्कार्यवि. ज्ञानतिरोभावाभावोऽस्त्येव । वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि संहब्धानि भवन्ति । म्लेच्छन्ति ह्यन्या देवता न वायु: सैषाऽनस्तमिता देवता यद्वायुरिति बृहदारण्यकश्रुतेः । अथ प्रणवप्रतीकं प्रार्थ- यते-अमिति । ॐ ओतत्वादिगुणयुक्त हे क्रतो ज्ञानरूप मां स्मर । मया कृतं ध्यानादिकं च स्मर । अभ्यासस्तात्पर्यार्थः । अभ्यासेनार्थविशेषं मन्यत १० अनन्ताचार्यकृतमीशावास्यभाष्यम्- इति यास्कोक्तः परमात्मकतकं स्मरणं भक्तानुग्रहोन्मुखं त्वमेव । अवती- सोम् । अव रक्षण इत्यस्माद्धातोरन्येभ्योऽपि दृश्यन्त इति मनिन् । ततोऽव. तेष्टिलोपश्चेति पञ्चमीनिर्देशादवतेः परस्य मनिनष्टिलोपे कृते ज्वरत्वरस्रिव्यविम- वामुपधायाश्चेति धातोरकारवकारयोरूठी तयोः सवर्णदीर्घ सति सार्वधातुकेति गुणे रूपसिद्धिर्धातोरन्तत्वादुदात्तत्वं त्रिमात्रत्वं प्रातिशाख्यात् ॥ १७ ॥ साक्षात्कारमार्थनानन्तरमनिप्रतीकं भगवन्तं मोक्ष प्रार्थयते-अपने नयेति । अगस्त्यदृष्टाऽऽग्नेयदेवत्या? अन्ते यज्ञानयोगी स्मारयतीति कात्यायनस्मरणात् । हे देव क्रीडादिगुणविशिष्ट हेऽग्नेऽग्निप्रतीक भगवनस्मान्सुपथा शोभनेन मार्गेण देवयानलक्षणेन नय गमय । सुपथेति विशेषणं दक्षिणायनमार्गनि. त्यर्थम् । यतो गतागतलक्षणेन दक्षिणायनमार्गेण निर्विण्णा वयं यतोऽने त्वां याचामहे । पुनर्गमनागमनजितेन शोभनमार्गेणास्मान्कर्मफलविशिष्टान्नय । मुपयेत्यत्र ऋक्पूरब्धःपथामानक्ष इति अप्रत्ययो नानित्यत्वात्समासान्त- विधेः । वृद्धिरादैच् इतिवत् । किमर्थ राये धनाय मुक्तिलक्षणाय । कीदृशस्त्वम् । विश्वानि सर्वाणि वयुनानि कर्माणि प्रज्ञानानि वा विद्वाञ्जानन्किच जुहुराणं हुर्छा कौटिल्ये। शानच,जुहोत्यादित्वेन द्वित्वादौ सति रूपम् । कुटिलं प्रतिबन्धक- वञ्चनात्मकमेनः पापमस्मदस्मत्तः सकाशाद्युयोधि पृथकुरु वियोजय नाशयेत्यर्थः । यु मिश्रणामिश्रणयोरदादित्वाच्छब्लोपद्वित्वे छान्दसं हेधित्वम्। ततो विशुद्धाय ते तुभ्यम् । अनुदात्तत्वायुष्मदादेशः। भूयिष्ठां बहुतरां नमउक्ति नमस्कारवचन विधम कुर्याम । ईदृशाभीष्टसाधकस्य तव प्रतिकरणं नमस्कार- परम्परैव नत्वन्यत्मत्युपकरणमस्तीति भावः । यद्वा हे देवाग्नेऽस्मान्सुपथा पुन- रावृत्तिवजितेनाचिरादिमार्गेण राये मोक्षाख्यवित्ताय नय मुक्तिदो भव । कुतो हे देव आसंसारमस्मदनुष्ठितानि विश्वानि पूर्णानि मोक्षाय पूर्वाप्तानि वयु- नानि सत्कर्माणि । वयुनमिति कर्मनामेति निघण्टुक्तेः । यद्वा वयुनानि श्रवण- मनननिदिध्यासरूपाणि ज्ञानानि भवान्वेद त्वदत्तया वयुनयेति भागवते वयुनशब्दस्य ज्ञानार्थकत्वात् । ननु प्रारब्धकर्मभिर्बद्धस्य तव कथं मोक्ष इत्यत आह-अस्माजुहुराणमल्पान्कुर्वत् । संसारे परिवर्त यदित्यर्थः । हर चलन इति धातुः । छान्दसत्वेन हादिरीदृशमेनः पापमनिष्टं कर्मेत्यर्थः । तदस्म. दस्मत्तो युयोधि वियोजय वयं च ते तुभ्यं भूयिष्ठां नमउक्तिं विधेम । नच प्रकारान्तरेण प्रतिकर्तुं शक्नुम इत्यर्थः॥१८॥ इति चत्वारिंश एक एवानुवाकः । इति श्रीमन्नागदेवभट्टात्मजेन प्रथमशाखिना श्रीमदनन्ता. चार्येण विद्वज्जनकृपापात्रभूतेन विरचितायां वेदा- र्थदीपिकायां काण्वशाखीयसंहिताभाष्ये चत्वारिंशोऽध्यायः ॥ ॥ ॐ तत्सत् ॥