Others
Bhat't'akalpataru
Front matter
No text on this page.
॥भीः॥ ॥ भाकस्पतरुः ॥ OURS संगृहीतधनुर्वाणं जटावल्कलभूषणम् । सीतालक्ष्मणसंयुक्तं वन्दे वनचरं विभुम् ॥ १ ॥ अयं सीता विशुद्धा जनकम्पसुला मध्यतोऽशादरण्ये तस्थाः सौमित्रिरने प्रथितमुजमलः पृष्ठतो बदकच्छः । सम्यं का च कृत्वा विशिवमपि करे भ्रानयंशोभयगां विब्राणस्वार्षवेषं हदि स तु भगवाम्मातु मे रामचन्द्रः ॥ २॥ श्रीभाइदीपिका नाम्ना खण्डदेवसुधीकृता । तट्टीकां रामसुब्बाल्यः करोम्यद्धतदीपिकाम् ॥ ३ ॥ अयाती धर्मजिज्ञासा ॥ अथ वेदाध्ययनानन्तरम् अतः वेदा- ध्ययनस्य वृत्तत्वादेतोः धर्ममिज्ञासा सानाध्ययनापातप्रतीतवेदार्थविषयकनिष- चिकित्सज्ञानार्य धर्मविचारः कर्तव्य इति सूत्रार्थः । अस्याधिकरणस्थ धमाजज्ञासस- शास्त्रोपक्रमपरतयोपोद्घातस्वात् श्रुतिशास्त्राध्यायपादसंगतयो नावश्यमवेक्षणीयाः । अनन्तरसंगतिस्त्वप्रसक्तैन । साक्षात्परम्परया वा श्रुत्यर्थविचारत्वं श्रुतिसंगतिः । अस्य शातत्य धर्मपरतया साक्षात्परम्मरमा वा धर्मविचारत्वं शास्त्रसंमतिः । प्रथमादिद्वारसाध्वाचार्म क्रमेण धर्मप्रमाणधर्मभेदाङ्गत्वप्रयुक्तिक्रमाधिकारसामा- न्यातिविशक्विासिदिशोहमायतन्त्रमसविचाररूपस्वात्साक्षात्परम्परया वा तत्सद- समान माणदिपारसमल सध्यावसंगतिः । विधिवाक्यविचारले भारदीपिकाच्याच्या चोदनापादसंगतिः । अर्थवादवाक्यविचारत्वमर्थवादपादसंगतिः । एवं तत्तत्पाद 'गतिरूह्या । अनन्तरसंगतिस्तु आक्षेपदृष्टान्तप्रत्युदाहरणावसरातिदेशप्रसङ्गा' वादसंगतिभेदात्सप्तधा । पूर्वाधिकरणसिद्धान्ताक्षेपेणोत्तराधिकरणपूर्वपक्षप्रसक्ताव क्षेपसंपतिः । पूर्वाधिकरणे येन हेतुना सिद्धान्तः कृतस्तज्जातीयेन हेतुनोत्तर धिकरणपूर्वपक्षे दृष्टान्तसंगतिः । पूर्वाधिकरणसिद्धान्तहेतुविलक्षणहेतुना •धिकरणे तथाविधहेत्वभावेन वा पूर्वपक्षे प्रत्युदाहरणसंगतिः । पूर्वाधिकरणोचर वश्यवक्तव्यत्वेऽवसरसंगतिः । पूर्वाधिकरणपूर्वपक्षसिद्धान्तहेतुभ्यामेवोत्तराधिकरण पूर्वपक्षसिद्धान्तकरणेऽतिदेशसंगतिः । पूर्वाधिकरणसिद्धान्तादुपस्थितस्योत्तरा करणे निरूपणे प्रसङ्गसंगतिः । प्रसङ्गसंगतिस्थले श्रुत्यादिसंगतयो ना क्षिताः । पूर्वाधिकरणसिद्धान्तस्योत्तराधिकरणसिद्धान्तेऽपवदनेऽपवादसंगतिः पादानामध्यायानां च परस्परसंगतिस्तूपजीव्योपजीवकभावादिरूपेत्यलम् । (पुर थेति) पुरुषार्थत्यर्थः । अङ्गानि व्याकरणादीनि । उपाङ्गानि मीमांसान्य यादीनि । तच्च, अध्ययनं च । भाव्याय, फलभूताय समधिगमशब्दित सम्यग्ज्ञानाय । धर्माधर्मज्ञानयोः सम्यक्त्वं च निर्विचिकित्सत्वम् । त संशयविपर्यासत्वशून्यत्वे सति मंशयविपर्यासविरोधित्वम् । उपेक्षायामतिव्य प्तिवारणाय विशेष्यदलम् । संशयविपर्यासविरोधिसंशयविपर्यासान्तरेऽतिव्या वारणाय सत्यन्तम् । इदमेव निर्विचिकित्सज्ञानं फलवदर्थज्ञानमित्युच्यते, अस्यै स्वविषयधर्मानुष्ठानद्वारा स्वर्गादिफलवत्त्वात् । अभ्यर्हिताम्, व्याकरणाद्यपेक्षया वेद विचारत्वेन श्रेष्ठाम् । वेदान्ताचार्यकृतपाञ्चरात्ररक्षायां महाभारतस्थत्वेन धृते 'न शब्दशास्त्राभिरतस्य मोक्षो न चापि रम्यावसथप्रियस्य' इति वचनेन या व्याकरणस्य मोक्षविरोधिरितजनकाभिरतिविषयत्वमुक्तम्, 'आन्वीक्षिकी तर्व विद्यामनुरक्तो निरर्थिकाम्' इति मोक्षधर्मवचनेन यथा न्यायवैशेषिकतर्कशास्त्रर शृगालभावप्रयोनकदुरितहेत्वनुरागविषयत्वमुक्तम्, 'काव्यालापांश्र वर्जयेत इति स्मृत्या यथा काव्यनाटकयोवय॑त्वमुक्तम् , तद्वस्केनापि संप्रतिपक्षप्रमाण वचनेन हेयत्वाकथनाद्वा श्रेष्ठामित्यर्थः । (षडङ्गमिति) विषयसंशयपूर्वोत्तरपक्षसंगार - "भाकल्पतरुः ३ - , योजनाख्यषडङ्गघटितमित्यर्थः । तत्र, षोडशलक्षणशास्त्रे । अत्र, जिज्ञासासूत्रे । परावर्तनम्, परावर्तनाधीनसिद्धिकं नानशब्दितं समावर्तनाख्यं कर्म । तथा च अध्ययनाव्यवहितोत्तरं समावर्तने ब्रह्मचर्याश्रमस्य नष्टत्वात् 'अनाश्रमी नं तिष्ठत क्षणमेकमपि द्विनः' इति वचनरीत्या दारपरिग्रहस्यावश्यिकत्वेन कृतदार- स्याग्निहोत्रादिकर्मव्ययत्वात् गुरूपसत्त्यधीनधर्मविचारस्यासंभव इति भावः । अध्ययनविधितः, 'स्वाध्यायोऽध्येतव्यः' इति विधेः । अर्थज्ञानभाव्यकत्वावग- मात्, अध्ययनस्यार्थज्ञानफलकत्वावगमात् । तत्सिद्धिः, विचारकर्तव्यत्वसिद्धिः । विचारं विनाध्ययनमात्रेण वेदार्थभूतधर्मस्वरूपादिविषयकज्ञानरूपभाव्यासिद्धया विचारस्य कर्तव्यत्वसिद्धिरिति न चेत्यादि तत्सिद्धिरिति शङ्काग्रन्थाभिप्रायः । तसिद्धिरित्यनन्तरमितीति पूरणीयम् । न चेत्यस्य तदुपर्यन्वयः । तत्सिद्धिरिति न चेति योजना ज्ञेया । अर्थज्ञानजनकत्वेनेत्यादेरतश्चेत्यन्तस्य ग्रन्थस्यात्रेवार्थ- वादाधिकरणेऽपि सत्त्वेन तदन्थव्याख्यानं तत्रैव करिष्यते । (उपोद्घातः संगतिरिति) एतदधिकरणधर्मजिज्ञासाशास्त्रयोरित्यादिः । प्रकृतसिद्धयर्थचिन्ता उपोद्घातः । (स्पष्टमिति) निर्विचिकित्सधर्मज्ञानस्य विचारसाध्यत्वात्तज्ज्ञानं प्रयोजनमिनि स्पष्टमित्यर्थः । (अनुबन्धचतुष्टयसिद्धिरिति) निर्विचिकित्ससप- रिकरधर्मज्ञानं प्रयोजनम्, तत्कामोऽधिकारी, सपरिकरधर्मो विषयः, प्रति- पायप्रतिपादकभावः संबन्ध .इत्यनुबन्धचतुष्टयसिद्धिरित्यर्थः ॥ १ ॥ लक्षणप्रमाणयोरभावान्न विचार्यो धर्म इत्याशङ्कापरिहारादस्य पूर्वाधि- करणेनाक्षेपिकी संगतिः । चोदनालक्षणोऽर्थो धर्मः॥ चोदना परप्र- वृत्त्यनुकूलः प्रवर्तनाप्रेरणाविध्यपरपर्यायो व्यापारः, 'देवदत्तो यज्ञदत्तं चोदयति न स्वात्मानम् ' इति परप्रवृत्त्यनुकूलव्यापार एव चोदयतेः प्रयोगबाहुल्यात् । चोदनावाचकलिडादौ तद्घटितवाक्ये च परप्रवृत्त्यनुकूलव्यापाररूढचोदनाशब्दो निरुतः पार्थशब्द इवार्जुने । लक्ष्यतेऽनेनेति लक्षणम् । चोदना 'अग्निहोत्रं जुहुयात्' इत्यादिविधिवाक्यं लक्षणं ज्ञापकं यस्याग्निहोत्रादेः स चोदनालक्षणः । अर्यते साध्यते फलमनेनेत्यर्थः । उक्तपदाम्यां फलसाधनत्वेन विधिवाक्यबोधित- ४ माईदीपिकाम्याख्या इत्यर्थः पर्यवसितः । तथा च यो धर्मः सं चोदनालक्षणोऽर्थ इति योजना चोदनासूत्र धर्मलक्षणपरम्, यश्चादनालक्षणोऽर्थः स धर्म इति योजनाका विषये चोदना प्रमाणमिति प्रमाणपरं सूत्रमित्युभयमपि सूत्रार्थः । (अत एवं धर्माधर्मयोदप्रमाणज्ञातत्वादेवेत्यर्थः । तथास्वे मेति, वेदज्ञाप्पेसाचनताका सति । उपादेयता, उद्देश्यतास्यविषयतामिना या प्रवर्तनाविषयकृतिनिरूपिर विषयता सा । तच, विधीयमानत्वं च । कृतिव्याप्यः, कृतिविषयः । (संसर्गात कत्वमिति) निर्विशेषब्रह्मणः संसर्गरूपवाक्यार्थानन्वयित्वादमत्वाभावेन न तस्ये विचार्यत्वामात मावः ॥ २ ॥ तस्य निमित्सपरीष्टिः ॥ इदं सूत्र सत्संप्रयोगसूत्रोस्थापा तच्छेषभूतम् । तस्य धर्मज्ञानस्य यन्निमित्तं हेतुः तस्य परीष्टिः परीक्षा विचार क्रियत इति सूत्रायः ॥ ३ ॥ सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुरिजन्म तत्वत्यक्षम निमित्त विद्यमानोपलम्भनत्वात् ॥ धर्मस्य प्रत्यक्षवेयत्वांचोदनामात्र प्रेमाणकत्वोक्तिरयुक्तेत्याक्षेपपरिहारादाक्षेपिकी संगतिः । पुरुषस्येन्द्रियाणां पुरुष संबन्धिचक्षुरादीनां सत्संप्रयोगे सता वर्तमानेन विषयेण संप्रयोगे संमि कर्षे सति, येन चक्षुरादिना बुद्धिजन्म ज्ञानोत्पत्तिः, तत्प्रत्यक्ष प्रत्यक्षपदे व्यपदेश्यं तत् अनिमित्तं धर्मविषयकज्ञानजनकं न भवति । कुतः ! विद्यमानोपल भनेत्वात् प्रत्यक्षस्य वर्तमानसंनिकृष्टार्थविषयकज्ञानजनकत्वात् धर्मस्य च ज्ञानो तरकाले पुरुषकृतिनिष्पाद्यत्वेन इन्द्रियजन्यज्ञानकालेऽवर्तमानत्वादिति सूत्राः वृत्तिविशेषरूपौ, मनःपरिणामविशेषौ । तेषाम् , योगिनाम् । एतेन, ईश्वराननी कारेण । व्याख्यातम् , पराहतम् । प्रमितेः, प्रत्यक्षज्ञानस्य ॥४॥ यदुक्तं चोदनाया धर्म प्रमाणत्वं तन्न संभवति, पुरुषाधीनसंकेतस्पशवदा- संबन्धाख्यशक्तिविषयकाहसापेक्षनोधजनकत्वेन चोदनायाः पुतन्त्रतया पुरुषास्य प्रायेण भ्रमादिग्रस्तत्वेन चोदनावाक्यस्य भ्रान्तिमत्पुरुषसापेक्षस्थादित्वाक्षेपरमात्र परिहारदालेषिकी संगतिः । औत्पत्तिकस्तुपादस्याय " - भाहकल्पतर तस्य ज्ञानमुपदेशोऽव्यतिरेकधार्थेऽनुपलब्धे शन्दः प्रमाण पादरायणस्यानपेक्षत्वात् ॥ शब्दस्यार्थेन संबन्धः शक्तिरूपः औत्य- त्तिकः स्वाभाविकः न तु डित्यादिशब्दानामिव पुरुषप्रयत्नाधीनः, येन चोदनाश- न्दस्य पुरुषसापेक्षतया अप्रामाण्यमाशङ्कवेत । अतः तस्य धर्मस्य ज्ञानं ज्ञायते- ऽनेनेति व्युत्पत्त्या धर्मविषयकज्ञानजनकं ज्ञानम् उपदेशः बोदनात्मकशब्दः, अन्य- तिरेक न विद्यत व्यतिरेको यस्य सोऽन्यतिरेकः प्रमाणत्वव्यतिरेकशून्यः, प्रमाण- मिति यावत् । चो हेतौ । यस्माच्छन्दार्थसंबन्धस्य भ्रान्तिमत्पुरुषसापेक्षत्वाभावात् अनुपलब्धेऽयें अज्ञातार्थे शब्दः प्रमाणमिति बादरायणस्य मदाचार्यस्य वेद- व्यासस्य मतम् , तस्माचोदना प्रमाणमिति सूत्रार्थः । विसंवादेन, बाधेन । यज्ञात्मकसाधनपरतया, यज्ञश्वासावायुधश्चति कर्मधारयेण यज्ञायुधीपदस्य यज्ञा- भिन्नसाधनप्रवृत्तिनिमित्तकतयेत्यर्थः । यद्यपि न कर्मधारयान्मत्वर्थीयः' इति कर्मधारयपक्षे यज्ञायुधीति मत्वर्थीयः प्रत्ययो न भवति, यज्ञस्यायुधं शरीरमिति तत्पुरुषपक्षे तु स संभवति, तथापि 'कृष्णसर्पवान्वल्मीकः' इति महाभाप्यज्ञाप- कललात्संभवतीति भावः । (अव्यवहितकालकालान्तरयोरिति) चित्रेष्टयव्यवहित- कालविशिष्टपशुं प्रति चित्रष्टेः कारणत्वे कालान्तरीयपशुरूपफलं प्रति तस्या जनकता न स्यात्, अव्यवहितकाले यत्र पशुर्न दृश्यते तत्र कारणस्य व्यभि- चारश्च स्यात् । व्यवहितकालविशिष्टपशुं प्रति तस्याः कारणत्वे यत्र प्रतिबन्ध कोभाववशात्संनिहितकाले पशुफलं तत्र व्यभिचारः स्यात् । अन्यतरकालाव- च्छिमपलं प्रति तस्या जनकत्वे अनेकपदार्थघटितस्यान्यतरत्वस्य कार्यताबो. एककोटिप्रवेश एव दोषः स्यात् । पशुत्वमात्रावच्छिन्नं प्रति तस्या जनकत्वे गोदो- हनरूपगुणजन्यपशौ पशुत्वरूपकार्यतावच्छेदकाक्रान्ते चित्रेष्टिरूपकारणाभावेन व्यभिचारः स्यात् । न चाव्यवहितोत्तरत्वसंवन्धन चित्रष्टिविशिष्टपशुं प्रति चित्रेष्टिः कारणमिति विवक्षया व्यभिचारपरिहारः, तदव्यवहितोत्तरं तत्फहा- नियमात् । तथापि वैनात्यविशेषस्य कार्यतावच्छेदकत्वान दोष इति भावः । संपावत्यापीत्यपिशब्देन शब्दार्थयोरनादित्वं सचिनम् ॥ ५ ॥ .
माटीपिकाव्याख्या । " शब्दसंबधस्य नित्यत्वोक्तौ शब्दस्य संवन्धिनोऽपि बुद्धौ प्रसक्तत्वात्तद्वि- चारोऽत्र क्रियत इति प्रामङ्गिकी संगतिः । कमैक सत्र दर्शनात् ॥ क्रियत इति कर्म कृतिविषयः, शब्दः कृतिविषयः अनित्यः स्यादिति यावत् । कुतः! तत्र घटादिशब्दोच्चारणकाल एव घटादिशब्ददर्शनादिति पूर्वपक्षसूत्रार्थः । समं तु तत्र दर्शनम् ॥ तुशब्दः पूर्वपक्षं व्यावर्तयति। तत्र उच्चारण- काल एव गकारादेर्दर्शनमुत्पत्तिमाधकं तवाभिमतम् । तदेव मम सिद्धान्तिनः नित्यस्य गकारादरभिव्यक्तिमाधकमिति मिहान्तसूत्रार्थः । तच्च, अभिव्यञ्जकं च । रथन्तरादिरूपः, स्थन्तराज्यमामगीतिरूपः ॥ ६ ॥ उत्पत्तौ वावचनाः स्युरर्थस्यातन्निमित्तत्वात् ॥ पदरूप- शब्दे विचारित प्रसङ्गाद्वाक्यशब्दो विचार्यते । उत्पत्तौ पदपदार्थसंबन्धस्य नित्यत्वे- ऽपि वाक्यवाक्यार्थयोः संबन्धम्य पुबुद्धिप्रभवत्वे अवचनाः चोदनाः न पदपदार्थ- व्यतिरिक्तममाधि वाक्याथ वक्तं समर्थाः स्युः, अर्थस्य पदार्थव्यतिरिक्तवाक्यार्थस्य अतन्निमित्तत्वात्, तत् पदं निमित्तं प्रत्यायकं यस्य स तन्निमित्तः, न तन्निमित्तो- ऽतनिमित्तस्तत्त्वात् , चोदनावाक्यं वाक्यार्याशेऽप्रमाणमिति पूर्वपक्षसूत्रार्थः । तद्भूतानां कियाथन समानायोऽर्थस्य तन्निमित्तत्वात् ॥ तद्भूतानां तेषु पंदषु वर्तमानानामर्थानां क्रियार्थेन, क्रिया धात्वर्थः अर्थः कार्य यस्याख्यातार्थप्रयत्नस्य स क्रियार्थ आख्यातायः आर्थी भावनेति यावत्, तया समाम्नायः अन्वयः, अर्थम्य अन्वयरूपवाक्यार्थस्य तन्निमित्तत्वात् स्वस्वार्थप्रतीति- द्वारा पदाधीनान्वयधीविषयत्वात् ; वाक्याथे पुतन्त्रत्वाभावेन तदंशे चोदनावाक्यं प्रमाणमिति सिद्धान्तसूत्रार्थः । सूत्र क्रिययेत्युक्तौ क्रियाशब्दितधात्वर्येन समं पदार्थान्वय इति धीः स्यात् , सा मा भूदिति क्रियार्थेनेत्युक्तम् । न च क्रिया चासावर्यवेति कर्मधारये क्रियार्थ इति पदेनापि क्रियैवोच्यत इति शङ्कयम् । धात्वर्थस्य क्रियापदमात्रेण लाभे अर्थपदनिर्देशस्य सूत्रे वैयपित्तेः । तस्मा- दास्यातार्थ एवं मुख्यविशेष्यं न धात्वर्थ इति जैमिनेरभिप्राय इति सिद्धम् । नहहमापेक्षतया, मंकेनग्रहसापेक्षतया । (वक्विच्छाघटितेति) एतदर्थप्रतीतीच्या . भाहकल्पतरू. इदं वाक्यमुश्चरितमित्येवंरूपतात्पर्यघटकत्वं वक्रिच्छाया इति भावः । ऐकान्तिकम् , नियमेन । स्वबोध्यसंवन्धरूपया, स्वयोग्यसंबन्धरूपया । तदानन्त्यप्रयुक्तः, प्रवर्तना- वाक्यीयमावनाबोधानन्त्यप्रयोज्यः । संबन्धाग्रहः, स्वयोग्यसंबन्धाग्रहः । (तात्पर्य- ग्राहकश्चेति) केवलार्यज्ञानस्याध्ययनं विनापि सिद्धेः तत्तद्वाक्यगततात्पर्यविषयी- भूतार्थज्ञानोद्देशेनैवाध्ययनस्य विधेयतया तत्तद्वाक्यगतं तात्पर्य किंचिदस्तीत्य- ध्ययनविधिना सिध्यतीत्यर्थः । सापि, तत्र चान्यत्र च प्राप्तिरपि । अत एव, उक्तप्राप्तेर्लक्षणघटकस्वाभावादेव । (आक्षेपत इति) तुषविमोचनान्यथानुपपत्तिप्रमां- गत इत्यर्थः ॥ ७ ॥ यचोदनाया बोधकत्वलक्षणं प्रामाण्यं समर्थितं सा देकदेशः; वेदस्यै- वाप्रामाण्ये कये तस्याः प्रामाण्यमित्याक्षेपस्यात्र परिहारादाक्षेपिकी संगतिः । घेदांके संनिकर्ष पुरुषाख्याः॥ एके कणादादयः वेदान् संनिकर्ष संनिकृष्टकालं गमयन्ति, पुंविशेषबुद्धिप्रभववाक्यसमूहरूपं वेदं कल्पयन्तीति यावत् । ची हेतौ । यस्मात् पुरुषाख्याः 'काठकम्' 'कालापकम्' इति कठादिपु- रुषनिर्मितमित्याद्यर्थकपुरुषघटितसमाख्याः वेदे दृश्यन्ते तस्मादिति पूर्वपक्षसूत्रार्थः। उक्त तु शब्दपूर्वत्वम् ॥ तुः पूर्वपक्षव्यवच्छेदार्थः । धर्मस्य वेदशब्दपूर्वक- स्वमुक्तमिति सिद्धान्तसूत्रार्थः ॥ पूर्वपक्षिहेतुं निरस्यति सूत्रकारः- आख्या प्रवचनात् ॥ काठकादिसमाख्या न कर्तृतानिमित्ता, किं तु प्रवचनात् प्रवच- नामिमित्तैव; अतो न वेदस्यानित्यत्वमिति सूत्रार्थः । तथात्वापत्तेः, अपौरुषेय- स्वापत्तेः । तदधीना, वेदाधीना । मन्त्रवर्णविरोधात् , उक्तमन्त्रवणे भगवतो वेद- कर्तृत्वोक्त्या तद्विरुद्धार्थकतेपानश्रुतेः तेपानेम्या वेदप्रकाशनार्थत्वमेवेत्यभिप्रायः । अत एव, अपौरुषेयत्वरूपं यद्रान्तिशून्यभगवत्कर्तृकत्वं तस्मादेव । भ्रान्तिस्तु चतुर्मुखादिसाधारणी, भगवतस्तु न भ्रान्तिरिति भावः । (श्रुतिरिति) 'छन्दांसि-' इत्यादिश्रुतिरित्यर्थः ॥ ८॥ इति भाकरपतमिधायां भादीपिकाव्याख्यायां प्रथमाध्यायस्य प्रथमः पादः।
भारदीपिकायाख्या द्वितीयः पादः। आवायस्य क्रियार्थत्वादानर्यक्षमतदनां Tem. नित्यमुच्यते । यद्यप्यस्मिन्पादे चतुर्थाधिकरणे मन्त्रप्रामाण्यविचार करण्यासमा पादस्य मन्त्रपाद इति व्यवहारः स्यादिति भवेदाशङ्का, तथाप्यस्य पादस्याबाद- विचाराधिकरणभूयस्वादर्थवादपाद इति व्यवहारो न मन्त्रबाद इति । एतत्पू चोदनापादमिडवर्मस्वरूपमुपनीन्य तत्प्राशस्त्यप्रतिपादनपरार्थवादविवारतमात्य पावस्थ पूर्वपादेनोपजीव्योपनीवकमावः संगतिः । पूर्वाधिकरणे वस्त्र धर्मविषये प्रामाण्यं समर्थितम् , तद्युक्तं वेदैकदेशार्थवादवाक्यस्य धर्मप्रामाण्यासमवादि- स्यालेषस्यात्र परिहारादाक्षेपिश्यनन्तरसंगतिः । आनायस्थ वेदस्य क्रियार्थत्वात् अंशत्रयविशिष्टभावनाप्रतिपादकत्वात् अतदर्थानाम् अक्रियार्थानाम् 'वायुर्वे शेपिन्छ' इत्यादीनाम् आनर्थक्यम् अर्थशून्यत्वम् , तस्मात् आनर्थक्यात अनित्यम् अप्रमाण- मुच्यतेऽर्थवादवाक्यमिति पूर्वपक्षसूत्रार्थः । विधिना त्वेकवाक्यत्वा- स्तुत्पन विधीनां स्युः॥ विधिना विधिवाक्येन अर्थवादवाक्यानामेक वाक्यत्वात् विधीनाम् विधीयत इति विषिः, विधीपमानानां वागहोमानीनां मोऽपेक्षितः स्तुत्यर्थः प्राशस्त्यतमः तेन धारेण अर्थवादाः धमें प्रमाणं स्युरिति सिद्धान्तसूत्रार्थः । तहदेव, विधिप्रतिषेषवदेव । सदसदूपसिद्धार्थत्यत्र सिद्धपदं भावनातदंशत्रयातिरिक्तपरम् । तेनासतः सिद्धार्थरूपत्वाभावेऽपि न क्षतिः । तद- संमोऽपि, धर्माधर्मप्रतिपादनासंभवेऽपि । तदसंभवात्, लक्षणाच्याहारासंभवात् । साकस्सनम्, सणादिकल्पनम् । तस्यापि, तात्पर्यस्यापि । नियमे, 'यत्र यत्र प्रमाणाधम्दत्वं पा तत्र वन प्रयोजनवदर्थविषयकत्यम्' इति व्याप्यन्याकल्पाव झवर्षः । एष, नियम ख म्यभिचारात्, 'लोष्टपस्ति' इत्यादी प्रयोगा बाविस्यकत्वकपसाध्यामाक्वति प्रमागत्यराब्दस्योः सवेन व्यपिचार । किमभ्ययनस्य यथावतार्थज्ञानोदेशेन विधानम्, उत तदुदेशव्यापानिया विधानम्, बाहोस्विळ्यमिचरितकतुसंबन्धियथावार्थकावारा शहारा पर्णताया व ऋतूदेशेनाध्ययनविधानमिति सामिप्रेतमिति विकल्प्य दुष्यति- भारकल्पतरुः - जानमनकत्वनेत्यादिना न विधयत्वमित्यन्तेन । लोकसिद्धत्वेन, 'यत्र यत्र तासंबन्धेनाध्ययनं तत्र तत्र जनकतासंबन्धेनार्थज्ञानं तदभावे तदभावः' इत्य- त्ययव्यतिरेकरूपलोकप्रसिद्धत्वेन । अविधेयत्वात् , अन्वयव्यतिरेकरूपप्रमाणसि- रत्वेन विध्यनहत्वात् । तनियमस्य, अभ्ययननियमस्य । अर्थज्ञाने अनुपयोगात्, मर्थज्ञाननिरूपितजनकत्वासंभवात् । अव्यभिचरितक्रतुसंबन्धाभावेन, अर्थज्ञानस्य तोरन्यत्र विजयादिप्वपि सत्त्वेम व्यभिचारितया । क्रतुं यावत्, क्रतुं प्रति । अतः,. स्वद्रीत्या अध्ययनविष्यसंभवात् । (स्वर्गाद्यर्थमध्ययनं विधीयत इति ।) 'स्वाध्या- योऽध्येतव्यः' इति वाक्येनेति शेषः । विश्वजिन्न्यायास्वर्गः फलं करप्यते । स्वाध्याय इति प्रथमा करणत्वार्था । अध्येतव्य इत्यस्याध्ययनेनेष्टं भावयेदि- त्यर्थः । स्वाध्यायकरणिका अध्ययनकरणिका यत्किचिदिष्टात्मकस्वर्गभाव्यका भावना प्रवर्तनाविषय इति बोधः । स्वाध्यायकरणत्वस्याध्ययननिरूपितत्वं पाष्टि- कबोधलभ्यम् । पूर्वप्रवृत्त्यङ्गीकारेण, अन्वयव्यतिरेकरूपप्रमाणामध्ययनवि. धिमङ्गीकृत्य । यथाश्रुतार्थज्ञानम् , श्रुतमनतिक्रम्य जायमानमापातत्वानापातत्वा. न्यतरवज्ञानम् । अस्मिन्पक्षे स्वर्गस्थाने यथाश्रुतार्थज्ञानम् 'दृष्ट संभवत्यहष्ट- कल्पनाया अन्याय्यत्वात् ' इति न्यायेन विवक्षितम् । बोधः प्राग्वत् । अध्ययन- मेव भावनायां भाव्यमस्तु । स्वाध्याय इति प्रथमार्थः करणत्वम् । अध्येतव्यः, अध्ययनं भावयेत् । स्वाध्यायकरणिका अध्ययनभाव्यका भावना प्रवर्तनाविषय इति बोधः । पूर्वपक्षत्यागेनैनस्पक्षग्रहणे 'स्ववाक्याघटकफलापेक्षया स्वघटकफल- कल्पनं न्याय्यम्' इति न्यायो बीजम् । इष्टभाव्यकत्वाभावात् , अध्ययनस्य सुख- रूपत्वामावेन तद्भाव्यकभावनाया इष्टभाव्यकत्वासंभवात् । भारहारः, भारवाही । प्रयोगनवदर्थज्ञानोद्देशेन, निर्विचिकित्ससपरिकरधर्मज्ञानोडेशेन । प्रत्ययेन, तव्यप्र. त्ययेन । (लक्षणयेति ।) तव्यप्रत्ययस्य विधो शक्त्यभावाविरुदलक्षणयेत्यर्थः । तथा व स्वाध्याय इति प्रथमा करणस्वार्था । अध्येतव्यः अध्ययनेन भावयेत् । स्वाध्यायकरणिका अध्ययनकरणिका प्रयोजनवदर्थज्ञानभाज्यका भावना प्रवर्त. नाविषय इति बोधः । पाठिकमोधमादाय स्वाध्यायकरणत्वविशिष्टाध्ययनस्य B. 2. 1 भादीपिकाच्याख्या उतज्ञामोडेशेन विधिः पर्यवसितः । अस्मिन्पोऽध्ययनं प्रधानकौति भावः । अध्ययनमात्रमिति मात्रपदेनाध्ययने स्वाध्यायवैशिष्टयव्यवच्छेदः, तव्यप्रत्यके स्वाध्यायस्य कर्मत्वाभिधानात् उद्देश्यत्वाभिधानात् । पूर्वकरुपे श्रुतमुद्देश्य त्यत्वा अश्रुतस्य तस्य कल्पनं प्रथमायारतृतीयार्थकल्पनं कर्मप्रत्ययस्य कर्मान- मिधायकत्वं च दोषाः, अस्मिन्कल्पे स्वाध्यायपदस्यैकस्यैव फलवदर्यज्ञानसाधनी. भूतस्वाध्याये लक्षणा, तव्यप्रत्ययस्यार्थभावनायां शब्दभावनायां च निरूढलक्षणा कल्पद्वयेऽपि समाना । कर्मप्रत्ययार्थकर्मणः स्वाध्यायस्य चामेदबोधः पाठिकः । तथा च स्वनिष्ठकर्मतानिस्पकत्वसंबन्धेन निरुक्तस्वाध्यायविशिष्टाध्ययनकरणिका भावना प्रवर्तनाविषय इति बोधः । अध्ययनं च गुणकर्मेति भावः । (न तु प्रवृत्तिप्रयोजकत्वमपीति ।) प्रयोजकव्यापारत्वस्य शक्यतावच्छेदकत्वं स्वीकृत्य प्रवृत्तिप्रयोजकत्वस्य तद्बटकत्वं न कल्पनीयमिति भावः । क्षेपिष्ठत्वादिगुणे- रित्यत्र तृतीयाओं घटितस्वम्तस्य च लक्षणाशब्दार्थे प्राशस्त्यनिष्ठे क्षेपिछत्वा- दिगुणाश्रयवायुदेवताकत्वसामानाधिकरण्यरूपसंबन्धेऽन्वयः। (गोणीगम्येति।) यजमानपदनिरूपितगौणीवृत्तिलम्येत्यर्थः । क्षेपिष्ठा, शीघ्रगामिनी । भागधेयेन, चरुपुरोडाशादिना । शेषं विषयवाक्यमतिरोहितार्थम् ॥ १ ॥ अर्थवादत्वेन प्रसिद्धस्य सर्वस्य वाक्यस्य स्तावकत्वेन प्रामाण्योक्तिर- युक्ता, 'ऊनोंऽवरुदये' इत्यस्यार्थवादत्वेन व्यवहृतस्य फलविधित्वेन स्तावकत्वा- संभवादित्याक्षेपिकी संगतिः । विधिर्वा स्यादपूर्णत्वाबादमात्र धन- किम् ॥ 'उ!ऽवरुद्धचै' इत्येतद्विधिः स्यात् ऊर्गवरोधे उदुम्बरसाध्यत्वस्य प्रमाणान्तरानवगतस्वात् यस्माद्वादमात्रमर्थवादमात्रमनर्थकं प्रयोजनशून्यमिति पूर्व पक्षसूत्रार्थः । विधौ च वाक्यभेदः स्यात् ॥ 'औदुम्बरो यूपो भवति' इत्यादावर्गवरोधोदेशेनौदुम्बरस्वविधौ स्वीक्रियमाणे अत्यन्तसंनिहितयूपस्यापि संनिहितत्यागे कारणाभावेन उद्देश्यत्वावश्यिकतया उद्देश्यानेकस्वप्रयुक्तवाक्य- भेदः स्यात् आश्रयस्य प्राकरणिकस्याभावात् आश्रयतया यूपस्य औ- दुम्बरस्वेन उदुम्बरस्य व अर्गवरोधोदेशेन विधाने विधेयोनेकत्व प्रयुक्तवास्यमेदः .
भाकरातहः स्थात; तस्मात् 'उग्' इत्यादिवत् 'उनोऽवरुडयै' इत्यप्यर्थवाद एवेति सिद्धान्तसूत्रार्थः । 'पशून्' इति द्वितीयया, 'कर्तुरीप्सिततमं कर्म' इति । सूत्ररीत्या द्वितीयार्थस्येप्सितस्वघटितत्वे इच्छाविषयत्वरूपभाव्यत्वं संभवति पशूनामिति भावः । (चतुर्थ्या वेति ।) 'तपायुक्तं चानीपिसतम्' इति सूत्ररीत्या अनीप्सितस्य द्वितीयार्यकर्मत्वसंभषान्न द्वितीयया भाव्यत्वं सिम्पती- त्यालोचने 'सर्वेभ्यो ज्योतिष्टोमः' इतिवञ्चतुझं तल्लाभ इति भावः । ('उर्जा'. इति तृतीययेति।) ययपीयं तृतीया अर्थवादस्था, तथाप्यौतुम्वरत्वस्य साधनस्ये गमकं भवतीत्यर्थः । (शवस्यैव वेति।) आख्याततया आख्यातस्यार्थभावनाशक्त- स्वेन भूधातूतरत्वापराधमात्रेण शक्तिर्न हीयते येन लक्षणा कल्प्या स्यादिति भावः । (लेट्वनिश्रयादिति।) लेट् लिपविधिसंभव इति भावः । (यूपकर्तृक- भवनाशिता भावनेति।) 'यकर्तृकमवनाक्षिप्ता या भावना सा तद्भाव्यका' इति न्यायादिति भावः। (कामशब्दस्याभावादिति।) 'सर्वेभ्यः' इति वाक्ये चतुर्य्या अगत्या फलत्वसमर्पणेऽपि 'विप्राय गां ददाति' इत्यादौ तदभावान चतुर्थ्याः काम- शमकहाव्यसमर्पकस्वमिति भावः । तथानुपस्थितेः, यथा कामशब्दो मुख्यवृस्या भाव्यं समर्पयति न तथा चतुर्थी । आश्रयत्वे, जन्यत्वे सति फलभिन्नत्वमाश्रय- त्वम् , जनकत्वमाश्रितत्वमिति विवेकः । 'मृन्मयो घटो भवति' इत्यनेन मृदा घटः संपयत इत्यर्यप्रतीतिवत् 'औदुम्बरो यूपो भवति' इत्यनेन उदुम्बरेण यूपः संपादनीय इत्यर्यप्रतीतिः सर्वसिदा । विहितौदुम्बरत्वस्य स्तुतिद्वारा प्राशस्त्य- समर्पकः 'ऊ'-' इत्यादिः । वैशब्दः प्रसिद्धौ । उई अमापरपर्याय योग्यम् । '' इति प्रथमान्तम् । 'ऊर्जेव' इति तृतीयान्तेन विवरणम् । अस्मै यजमानाय । यजमानस्येति यावत् । 'ऊर्जम्' इति द्वितीयान्तं तृती- यान्न बोध्यम् । पशूनामोति; यममान इति शेषः ॥ २ ॥ मर्यवादस्वेन प्रसिद्धस्य 'तेन धनम्- इत्यस्य हेतुविधित्वसंभवाचार्यवाद- माजस्य स्तावकत्वमित्यापिकी संगतिः । हेतुर्वा स्यादर्यवत्वोपपति- भवाम् ॥ उक्तवाक्ये हिशब्दोकहेतुषिषिः स्यात्, मदानी हिसाब्दस्य प्रो. - भाहदीपिकाम्याख्या मनावमुपपत्तिरूपव्याप्त्याख्यहेतुत्ववाचित्वं च समञ्जमं स्यादिति पूर्वपक्षसूत्रार्थः। स्तुतिस्तु शब्दपूर्वस्वादचोदनां च तस्य ॥ तुर्नेत्यर्थे । यथदमकरणं तेन तेन होतव्यमिति हेतुविधिर्न संभवति, तस्य शूर्पहोमसाधनत्वस्य "शूर्पण जुहोति' इति शब्देन शूर्पपरामर्शितेनेतिशब्देन च ज्ञातस्यात् । चो हेतों यस्माद्दीपिठरादिषु अचोदना विधायकशब्दो नास्ति तस्मात् । तथा च श्रीत- शूर्परूपसाधनस्याश्रीतदीपिठरादिसाधनर्विकल्पासंभवात्तत्फलकहेतुविधिर्न संभ- वति, किं तु 'तेन ह्यन्नम्' इत्यादिविहितशूर्थिवादरूपा स्तुतिरिति सिद्धान्न- सूत्रार्थः । (भाव्यत्व इवेति ।) भाव्यत्वबोधार्थ यथा द्वितीयायाश्चतुर्थ्या वा भाव्यत्वे लक्षणा कल्पनीया तथेत्यर्थः । हेतुत्वाभिधानात्, ज्ञापकत्वाभिधानात् । (व्याप्ति- मन्तरेणानुपपन्न इति ।) ज्ञापकत्वस्य ज्ञानजनकज्ञाननिष्ठविषयितानिरूपकव्याप्तिपक्ष- धर्मतावैशिष्टयरूपम्य स्वपटकव्याप्तिमन्तरेणानुपपत्तेरिति भावः । (व्याप्तिवचने कल्पयतीति ।) अत्र वचनपदस्य प्रयोजनं यद्यपि नास्ति, तथापि 'व्याप्यस्य वचन पूर्व व्यापकस्य ततः परम्' इति न्यायशास्रीतिमनुसृत्य नदुक्तमित्यवगन्तव्यम् । (उपलक्षणमिति ।) लक्षणया अन्नसाधनसामान्यपरमित्यर्थः । अवयुत्य । इदमव्ययम्; बहुषु वक्तव्येषु सत्स्पेकस्य कयनं नदर्थः । (वर्तमानान्नकरणत्वस्यति ।) लाक लट: शब्दप्रयोगाधिकरणक्षणवाचित्वेऽपि वेदे तदभावात्समभिव्याहृतक्रियाकालस्य लड़ाच्यतया होमकालकत्वमन्त्रकरणस्य वाच्यम्; तच्च न संभवतीति भावः । विधी, विधिवाक्ये । (यथपि चेसि ।) अर्थवादन गुणिनिष्ठगुणाभिधानरूपस्तुतिजनमानन्त- रमेव प्राशस्त्यक्षिणा वक्तव्या, स्तुतिरूपप्रयोजकाभावे प्राशस्त्यज्ञानरूपप्राश- स्त्यासिद्धचा गुणिनिष्ठगुणाभिधानरूपशाब्दबोधस्थार्थवादेन प्रथममुत्पादनीयत्वेन तस्यावाधितविषयकवसिद्धयर्थ लटो भविष्यदर्थे लक्षणा सिद्धान्तिनोऽप्यावश्यकीति भावः । (अनुवादस्थत्वादिति ।) लटो लोकसिद्धार्यानुवादक- 'सेन ह्यनं क्रियते- इति वाक्यस्थत्वादित्यर्थः । प्राशस्स्योपपादकत्वाञ्च, प्राशस्त्यज्ञानहेतुभूतगुणिनिष्ठ- गुणाभिधानात्मकशाब्दयोधेऽनाधितविषयकत्वोपपादकत्वाच । तदप्रतीतेः, स्ववि. षयकशाब्दज्ञानद्वारा प्रीतिजनकगुणिनिष्ठगुणस्थाप्रतीतः । इदं तु बोध्यम्- - .
भाहकलपतह' - - हेतुविधिपक्षे क्रियते' इति लट्रो भविष्यदर्थलक्षणापत्तिदोष इति भारदीपिकोक्ति- रयुक्का, 'औदुम्बरो यूपो भवति' इत्यत्र लेट्त्वस्य भाटदीपिकायामुक्तत्वेनानापि लेट्त्वसंभवेन लक्षणाया अप्रसक्तेरिति प्रथमा कक्ष्या । प्राथमिकलकारमतिक्रम्य पचमलकारत्वकल्पनानौचित्यालटत्वावश्यिकतया लक्षणा अर्थाबाधायावश्यिकीति द्विनीया । तर्हि 'औदुम्बरो यूपः' इत्यत्रापि लट्त्वापत्तिरिति तृतीया । 'औदुम्बरः' इत्यत्रापूर्वार्थत्वाल्लकारस्य विधित्वावश्यिकतया लेट्त्वमिति चतुर्थी । अत्राप्यम- करणत्वे होमनिरूपितहेतुस्वस्याप्यपूर्वतया तुल्यत्वादिति पञ्चमी । अपेक्षित प्राशस्त्यपरत्वे संभवति नानपेक्षितहेतुपरत्वं युक्तमिति युक्तिरेव प्रकृते पूर्वपक्ष निरासिका, उक्तलक्षणादोषस्तु प्रौढतयोक्त इति षष्ठी । तर्हि 'अधस्तात्समिधं धारयन्ननुद्रवेत्' इत्यधोधारणसंनिहितविध्यपेक्षितप्राशस्त्यपरत्वस्य 'उपरि हि देवेभ्यो धारयति' इति हिशब्दलट्प्रत्ययघटिनवाक्ये संभवेन तद्वाक्यस्योपरि- धारणविधिसमर्थनपर- 'विधिस्तु धारणेऽपूर्वत्वात्'- इतिसूत्रविरोध इति सप्तमी । विषयवाक्यं स्पष्टार्थम् ॥ ३॥ 'तेन बनम्' इत्यादेः प्राशस्त्यरूपदृष्टार्थत्वमुक्तम् , तद्वन्मन्त्रस्य दृष्टार्थ स्वासंभवाददृष्टार्थत्वं स्यादिति प्रत्युदाहरणसंगतिः । तदर्थशास्त्रात् । योऽयों मन्त्रस्य तस्मिार्थे 'उरु प्रथस्वेति पुरोडाशं प्रथयति' इति विधिवाक्ये 'उरु प्रथस्व' इति मन्त्रस्य विनियोगशासनान्मन्त्रोच्चारणमदृष्टार्थमेव; दृष्टा दृष्टार्थस्यार्थप्रकाशनरूपस्य मन्त्रस्वभावादेव सिद्धतया उक्तविनियोगशास्त्रवैयर्थ्य मिति पूर्वपक्षसूत्रार्थः । अविशिष्टस्तु वाक्यार्थः ॥ तुः पूर्वपक्षव्यावृत्यर्थः लोकवेदयोर्वाक्यार्थः अविशिष्टोऽभिन्नः, अतो लोके वाक्यस्य 'गामामय इत्यादेरर्थप्रकाशनं दृष्टं प्रयोजनम् , तथा देऽपि मन्त्रशब्दोचारणस्यार्थप्रकाश इष्ट प्रयोजनम्, नादृष्टमन्यत्संभवति दृष्ट कल्पयितुं युक्तमिति सिद्धान सूत्रार्थः । 'उरु प्रथस्वेति पुरोडाशं प्रथयति' इति वाक्यस्य गतिमा सूत्रकार:- अर्यवादो पा || 'यज्ञपतिमेव प्रपपति' इत्यर्थवाद मन्त्रसामग्रंसिदस्य पुरोडायनसपार्थस्य पादः 'उरु प्रषस्वति पुरोग भादीपिकाच्याख्या प्रथयति' इत्यादिरिति मूत्रार्थः । तेषाम्, अर्थवादानाम् । (पदैकवाक्यत्वादिति ।) प्राशस्त्यमित्येकपदेन यत्प्राशस्त्यं बोध्यते तस्मिन्नर्थवादगतपदसमूहस्य एकया लक्षणावृत्त्या वर्तनात्पदत्वम् । तद्वतोऽयवादवाक्यस्य भावनान्वितस्वार्थप्राशस्त्यधी- जनकत्वं पदैकवाक्यत्वम् । पदैकवाक्यत्वं च धमिति पदस्य आनयेति पदेन 'घटमानय' इत्यव्यवधाननिर्देश एव दृष्टं न स्वसंबद्धार्थकपदन्यवधाने । अतोऽर्य- वादस्य विध्यन्यवाहितत्वात्तेन पदेकवाक्यत्वमिति भावः । स्वातन्त्र्येण, भावनेति- कर्तव्यतात्वं विना । (पदार्थविधयेति ।) प्राशस्त्यमित्येकपदवोध्यं यत्पाशस्त्यं तेन रूपेणेत्यर्थः । (अर्थस्मारकत्वेनेति ।) विधिवाक्यादंशत्रयविशिष्टभावनासंबन्धितया प्रतीता ये द्रव्यदेवतादयोऽर्थाः तत्स्मृतिजनकत्वेनेत्यर्थः । (प्रामाण्यमिति ।) मन्त्रेण जायमानायां यामादिरूपधर्मसंबन्धिदेवतादिस्मृतौ धर्मस्यापि विषयत्वाडमें प्रामा- व्यमिति भावः । (याथार्थ्यस्येति ।) अनधिगतत्वाघटितस्याबाधितार्थविषयकज्ञान- मनकत्वरूपप्रामाण्यस्येत्यर्थः । (नियतमन्त्रानानेति ।) नियतं प्रयोगकालव्यापकं यन्मन्त्राणामानानमुच्चारणं तेनेत्यर्थः । (उच्चारणौपयिकप्रयोगप्राशुभावफलकत- येति ।) उचारणमौपयिकं कारणं यस्य स चासौ प्रयोगः, तस्य प्राशुभाव इति व्युत्पत्तिः । प्राशुभावः शैयम् । प्रयोगः पौर्वापर्यप्रतियोगित्वानुयोगित्वादिना प्रधानयावत्पदार्थविषयिणी या कृतिः तदधीनो व्यापारविशेषः अनुष्ठान- संज्ञकः । उच्चारणस्योपयिक उच्चारणौपयिकः स चासौ प्रयोगश्चेति विग्रहो न संभवति, प्रयोगस्योचारणं प्रति कारणत्वाभावादिति भावः । तहलेन, पाठवलेन । गुणपरिसंख्यार्यत्वेन, गुणापत्वेन परिसंख्यार्थत्वेन च । (अर्थप्राप्त इति ।) स्वण्डि- लनिष्पत्त्यर्षकेष्टकानि पतिसाधनमृदाहरणान्यथानुपपत्तिापार्यात्मात इत्यर्षः । अनचादाने, अधिः मृत्खननसाधनलोहकाछोभयमयो वस्तुविशेषः तहहण इत्यर्थः । (सहायेति ।) उधरणक्रियायां चतुर्णा मन्त्राणां साहित्वं समुषकः । (मापक प्रमाणस्येति ।) मांसमक्षणेच्छाया इत्यर्थः । तत, त्रैदोष्यम् । न तक, न त्रैदोग्यम् । श्रत एक नेपामाकादेव । अत एक, उक्त प्राप्त्यपटितत्वादेव । भव एक, परिसं रूपावित्ररयोगज्यालोदालकलशन्यत्वे सत्मन्पनितिफलकलादेव । सवार्ष- विषयेति ।) प्रामाण्यमिति शेषः । स्वाध्यायविष्युपपत्तेः, 'स्वाध्यायोऽध्येतव्यः' इति कलसाधनीभूतस्वाभ्यायोदेशेन विहिताध्ययनविधिपरिगृहीतत्वेन मन्त्रमागल्या- प्यध्ययनोपपत्तेः। (अर्थवादपत्स्पष्टमिति ।) यया अर्थवादाधिगतप्राशस्त्पज्ञाना- धीनानुछानेन फलसिरिः तथा मन्त्राधीनार्यस्मरणाधीनप्रयोगात्कसरि नोपायान्तराधीनार्थज्ञानाधीनप्रयोगात्प्रयोजनसिदिरित्यर्थः ॥ ४ ॥ इति भाहकल्पतर्षभिषायां भारदीपिकाव्याख्यायां प्रथमाध्यायस्य द्वितीयः पादः। तृतीयः पादः। अर्थवादस्य विधेयस्तावकत्वेन स्वार्थतात्पर्याभावेन स्मृतिमूलत्वाभावेऽपि सार्थवादस्य विधेस्तन्मूलत्वेनार्थवादोपनीव्यत्वादर्थवादस्मृतिपादयोः संगतिः । मन्त्रभागस्येतिहासात्यस्मृतिमूलत्वान्मन्त्रनिरूपणानन्तर्यमस्य पादस्य । नामधे. यांशस्यामूलत्वान्न तदानन्तर्यम् । यद्यप्यस्मिन्पादे स्मृतिप्रामाण्यवदाचारप्रामाण्य- मपि विचारितमस्ति, तथापि तत्प्रामाण्यस्य स्मृतिरूपमूलकल्पनापेक्षायाः सत्ता- स्मृतेः प्राधान्यास्मृतिपाद इति व्यवहारः नाचारपाद इति । भवतु मन्त्राणां प्रामाण्यमपौरुषेयवेदैकदेशत्वात् , स्मृतेस्तु पौरुषेयतया न प्रामाण्यमिति पूर्वाधि- करणेनास्य प्रत्युदाहरणसंगतिः । धर्मस्य शब्दमूलस्वादशब्दमनपेक्ष स्यात् ॥ धर्मस्य वेदमूलकत्वात् , अशब्दम्, न विद्यते पेदशब्दो बोधकसया यस्य स्मार्तधर्मस्वरूपस्य तदशब्दम् अनपेक्षम् अप्रामाणिकमिति पूर्वपक्षसूत्राः । अपि वा कर्वसामान्यात्प्रमाणमनुमानं स्यात् ॥ अपि पेति पूर्वपक्षन्यावृत्तौ । कर्तृणां श्रुत्यग्निहोत्रस्मृत्युक्ताष्टका श्राद्धकर्तृणां सामान्यात एकत्वदर्शनात् अनुमान स्मृतिः धर्माधर्मविषये प्रमाणमिति सिद्धान्तसूत्रार्थः । श्रुतेरिव स्मृतेरप्यानुष्ठानरूपशिष्टत्रैवर्णिकपरिगृहीतत्वं प्रामाण्यप्रयोगकामति सूत्राशयः । सन्मूलकत्वे, खतन्त्रप्रमाणमूलकत्वे । व्याप्तत्वेऽपि, संमृष्टत्वेऽपि । व्यामत्वाभावेन, मूलकस्यसंवन्धेन संमृष्टत्वाभावेन । मनोरप्यनुमेयत्वकल्पने,
भादापिकाव्याख्या
.
अस्माकमिव खायंमुवमनुनापि मूलभूता श्रुतिरनुमेयेति स्वीकारे । तन्मूलकायम्,
वेदमूलकत्वम् । प्रदज्ञानस्य, कारणाज्ञानस्य । शाखान्तरोपसंहारेण, स्वाध्यय.
नायोग्यशाखान्तरार्यक्रोडीकारेण । अर्थवादोद्धारेण, अर्थवादपदस्वरससिद्धा-
योनीतश्रुत्योपहारेण । न्यायसिद्धार्थकथनेन, श्रुतिगतपौर्वापर्याभ्यासापूर्वत्या.
दिरूपन्यायसिद्धार्थकथनेन । अयं न्यायशब्दो न लौकिकयुक्तिपरः, तथात्वे
स्मृतीनां श्रुत्युपस्थापकतयैव धर्माधर्मप्रयोजकत्वमित्यव्यवहितोत्तरग्रन्थविरो-
धापत्तेः ॥ १ ॥
यथा श्रुतिमूलत्वानुमापकस्मृनित्वात् 'अष्टकाः कर्तव्याः' इति स्मृतिः
प्रमाणं तथा तेनैव स्मृतित्वेन वेष्टनस्मृतिरपि प्रमाणं स्यादिति दृष्टान्तसं-
गतिः । विरोधे स्वनपेक्षं स्यादसति बनुमानम् ॥ तुः पूर्व-
पक्षव्यावृत्तौ । वेदविरोधे अनुमानशब्दितस्मृतिवचनमनपेक्षम् अप्रमाणम्, असति
विरोध प्रमाणमिनि सूत्रार्थः । तत्कल्पने, प्रामाण्यकल्पने । परिच्छिन्नत्वात्,
ज्ञातस्वात्॥ २ ॥
'वैसर्ननहोमीयम्-' इति स्मृतिः पूर्ववद्वेदविरोधाभावात्प्रमाणं स्या-
दिति प्रत्युदाहरणसंगतिः । हेतुदर्शनाच ॥ चः पक्षव्यावृत्यर्थः । लोभरूप-
हेतुमूलकत्वदर्शनात् वैसननेति स्मृतिरप्रमाणमिति सूत्रार्थः ॥ ३ ॥
लोभमूलकत्वादिरूपाप्रामाण्यहेत्वभावात् 'अहिंसा परमो धर्मः' इति
शाक्यवचनं प्रमाणं स्यादिति प्रत्युदाहरणसंगतिः । शिष्टाकोपेऽविरुद्ध
मिति चेत् ॥ वेदशिष्टेनान शाक्यवचनस्याको विरोधाभावे अविरुद्ध
शाक्यवचनमपि प्रमाणमिति चेदिति पूर्वपक्षसूत्रार्थः । न शास्त्रपरिमाण-
स्वात् ॥ नेति पक्षव्यवच्छेदे । शाने धर्मप्रमाणस्य परिगणितत्वात् तत्र
शाक्यवचनस्यापरिगणितत्वान तत्प्रमाणमिति सिद्धान्तसूत्रार्थः । (क्रमकालपरि-
माणादिभिः।) क्रमः पौर्वापर्यम्, काल: पूर्वाहादिः, परिमाणं पदार्थानामियत्ता,
तैः । वेदो दर्भमुष्टिविशेषः । वेदिः चतुरहुलखाता भूमिः । अनुग्रहीतुम्, अन-
तिक्रमितुम् । (यावत्प्रमाणेति ।) श्रुतिस्मृतिरूपथावस्प्रमाणेत्यर्थः ॥ ४ ॥
वसन्तोत्सवाद्याचाराणां शाक्यवचनवत्प्रमाणग्रन्थेष्वालिखितत्वादप्रामाण्य- मिति दृष्टान्तः संगतिः । अपि या कारणाग्रहे प्रयुक्तानि प्रयुभी रन् ॥ अपि वेति पक्षव्यावृत्तौ । प्रयुक्तानि तद्विदां च स्मृतिशीले, आचारश्चैव साधूनाम् । इति सामान्यरूपेण लिखिलानि आचरणानि दृष्ट्वा अ- प्रामाण्यकारणामहे सति प्रयुजीरन वसन्तोत्सवादीनि कुर्युरिति सूत्रार्थः । व्यतिक्रमः, श्रुतिस्मृत्यादिविरुदानुष्ठानम् । साहसम् , दर्शनदशायां भीतिहेत- भूतं भृगुपतनादि ॥ ५ ॥ आचारत्वेन प्रयोगरूपाचारस्याप्युपस्थितत्वात्प्रसङ्गसंगतिः । तेष्व- दर्शनाविरोधस्य समा विप्रतिपत्तिः स्यात् ॥ आर्यम्लेच्छप्रयोग- रूपयोः प्रसिद्धयोर्यत्रार्थविषये विप्रतिपत्तिः तत्र म्लेच्छप्रसिद्धिरार्यप्रसिदया समा। तेषु प्रसिद्धिद्वयविषयीकृतेषु कॉयवाद्यर्थेषु हर्यादिशब्दवद्वाचकयवादि- शब्दस्य वृत्तिसंभवो न विरुध्यते विरोधस्यादर्शनादिति पूर्वपलसूत्रार्थः । शास्त्रस्था वा तनिमित्तत्वात् ॥ शास्त्रे तिष्ठन्तीति शास्त्रस्थाः श्रुति- स्मृत्यध्ययनतदर्थग्रहणतत्प्रामाण्यबुद्धयास्तिक्यश्रद्धावन्त आर्याः, तेषां या प्रसिद्धिः शब्दप्रयोगोऽर्थविशेषे, सा प्रसिद्धिः शास्त्रस्यनिष्ठत्वाच्छास्त्रस्थेत्युच्यते । सैव प्रसिद्धिः शक्तिग्राहिका, शास्त्रस्थपदार्थज्ञानस्य तन्निमित्तत्वात् शाखप्रसिद्धिनि- मित्तकत्वादिति सिद्धान्तसूत्रार्थः । अविप्लुतिलिप्सया, अवैपरीत्यलिप्सया ॥ ६॥ म्लेच्छप्रसिद्धेः शक्तिमाहकत्वाभावे आर्यप्रसिद्धिशून्यस्थलेऽपि तद्वाहकत्वं न स्यान्म्लेच्छप्रसिद्धित्वादिति प्रत्युदाहरणसंगतिः । चोदितं तु प्रतीये- ताविरोधात्प्रमाणेन । तुः शङ्कानिवृत्तौ । चोदितं म्लेच्छप्रसिद्धिविषयीकृतं प्रतीयेत शब्दार्यतया स्वीक्रियेत, आर्यप्रसिद्धिरूपशक्तिग्राहकप्रमाणस्याभावेन तेन विरोधस्याप्रसक्तेरिति सूत्रार्थः । तस्कल्पना, शक्तिकल्पना । विप्छुति- दर्शनात्, वैपरीत्यदर्शनात् । अविलम्भणीयता, अविश्वसनीयता । तत्प्रसिद्धि त्वेन, निगमादिप्रसिद्वित्वेन । (करुप्यत्वेनेति ।) पठ्यमाननिगमादिषु नस्प्र- B3 माहदीपिकान्याख्या सिद्धरदर्शनादिति भावः । अत एव, आचमनाधिकरणे व्यवस्थाकथनादेव ॥ ७ ॥ यथा म्लेच्छप्रसिद्धेरार्यप्रसिद्धचा तुल्यत्वाच्छक्तिग्राहकत्वं तथा स्मृतीनां बेदवन्नित्यब्रह्मयज्ञविधिविषयत्वाद्वेदतुल्यत्वं स्यादिति दृष्टान्तसंगतिः । प्रयोग- शास्त्रमिति चेत् ॥ नित्यब्रह्मयज्ञप्रयोगे वेदस्येव यतः स्मृतीनामपि शासकं वचनं दृश्यते ततो वेदतुल्यत्वमिति चेदिति पूर्वपक्षसूत्रार्थः । सर्वत्र च प्रयोगात्संनिधानशास्त्राच ॥ सर्वदेशेषु 'मनुरेतत्स्मृतिकर्ता' 'याज्ञ- वल्क्य एतत्स्मृतिकर्ता' इनि स्मृतिकर्तृणां प्रयोगात् व्यवहारात् संनिधानस्य बुद्धिसंनिहितस्य वेदार्थस्य स्मृतिकर्तृभिः लोकोपकारार्थ स्मृतिरूपेण शासनाच न स्मृतीनां कर्तृस्मरणशून्यवेदसमानयोगक्षेमत्वमिति सिद्धान्तसूत्रार्थः । (नित्य- ब्रह्मयतेति ।) अत्र ब्रह्मशब्दो वेदपरः ॥ ८ ॥ म्मृतेः प्रसक्तत्वात्तद्विषयापरा चिन्ता क्रियत इनि प्रसङ्गसंगतिः । अनु- मानव्यवस्थानात्तत्संयुक्त प्रमाणं स्यात् ॥ अनुमानस्य गौतमकृत- स्मृतिग्रन्थस्य च्छन्दोगमात्राधीतत्वदर्शनेन च्छन्दोगेष्वेव व्यवस्थितत्वात् गौत- मीयधर्मशास्त्रं छन्दोगमात्रसंयुक्तं स्यादिति पूर्वपक्षसूत्रार्थः । अपि वा सर्व- धर्मः स्यात्तन्न्यायत्वाविधानस्य ॥ अपि वेति पक्षव्यावृत्तौ । गौतमादिस्मृत्युक्तधर्मः सर्वेषां छन्दोगानामन्येषां च स्यात् , विधानस्य, विधीयते- ऽनेनेति विधानं वेदः, तस्य गौतमादिस्मृतिमूलभूतस्य, तल्यायत्वात् , तेषु च्छन्दोगाच्छन्दोगेषु नीयमानत्वात् , सर्वविषयत्वादिति यावत्, इति सिद्धान्त. सूत्रार्थः । तेषाम् , गौतमशिष्याणाम् ॥ ९॥ यथा गौतमादिम्मृतिः सर्वविषया तथा गोरूपाविलम्बिनी शक्तिः गावीगोतागोपोतलिकादिसर्वशब्दनिष्ठा स्यादिति दृष्टान्तसंगतिः । प्रयोगो- त्पत्त्यशास्त्रत्वाच्छन्देषु न व्यवस्था स्यात् ॥ गोगाव्यादिशब्देषु अर्थविषयकप्रयोगस्योत्पत्तौ अशास्त्रत्वात् नियमकारिणः शास्त्रस्याभावात् 'गौः' इति शब्दोऽर्थप्रत्यायकः न 'गावी' इति शब्द इति शब्देषु व्यवस्था न भाहकल्पतरुः " स्यादिति पूर्वपक्षसूत्रार्थः । अन्याय्यं धानेकार्थत्वम् ॥ चो हेनौ । यस्मादेकस्यार्थस्यानेकशब्दवाच्यत्वमन्याम्यं तस्मात् 'गौः' इत्येक एव शब्दो गोवाचकः, न 'गावी' इत्यादिरिति सिद्धान्तसूत्रार्थः । (तस्मादियमिति ।) अत्र तत्पदं व्याकरणपरम् । वचनासिद्धस्य रागमात्रप्राप्तस्याश्रयत्वमयुक्तमित्यत आह- रागप्राप्तस्येत्यादि । व्याकृता व्याकरणसंस्कृता वाक् उत्पद्यते प्रयुज्यते; तथा च प्रयोगस्य तेन सिद्धत्वादाश्रयत्वं संभवतीति भावः । (श्रुतिविरुद्धमिति ।) 'जगत्कारणं ब्रह्म' इति वेदविरुद्धं वर्णपदवाक्याभिव्य- नयतयाङ्गीकृतस्य स्फोटस्याचेतनस्य जगत्कारणत्वनल्पनमिति भावः ॥ १० ॥ वाचकप्रसङ्गात्तद्विषयः प्रकारविशेषश्चिन्त्यत इति प्रसङ्गसंगतिः । प्रयो- गचोदनाभावादकत्वमविभागात् ॥ लोकवेदशब्दानाम् 'सोमेन यनेत' इति यागप्रयोगचोदनायाः सद्भावात् अर्थकत्वम् । तेपां परस्परभिन्नार्थत्वे अनवगतसंगतिकस्य वैदिकपदस्यार्थाप्रत्यायकत्वापत्त्या प्रयोगचोदना न भवेत तस्मात्तेषां शब्दानां ये प्रतीयमाना अर्थाः तेषामविभागादभेदात युक्ता वैदिकी चोदनेति सूत्रार्थः । तदभिज्ञस्य, व्याकरणाभिज्ञस्य ॥ ११ ॥ वाचकप्रसङ्गाद्वाच्यस्य बुद्धिस्थत्वेन तन्निरूप्यत इति प्रसङ्गमंगतिः । प्रयोगचोदनाभावादथैकत्वमविभागात् ॥ व्यक्तिर्वाच्या नाकृतिः 'व्रीहीनवहन्ति' इत्यादिचोदनाया आकृत्यर्थे असंभवात् । न च द्वयोर्वाच्य- स्वम् , यतः एकस्य शब्स्य एकार्थत्वम् अतः अर्थविभागाभावान व्यक्तित्व वाच्येति पूर्वपक्षानार्थः । आकृतिस्तु क्रियार्थत्वात् ॥ त पूर्वपक्ष- व्यावृत्तौ । आकृतिर्वाच्या न व्यक्तिः, क्रियार्थत्वात् , क्रिया ‘गोपदं गोत्वे शक्तम्' इति शक्तिज्ञानकल्पनारूपा क्रिया अर्थः प्रयोजनं यस्याकृतेः तत्त्वात । व्यक्तिशक्तिपक्षे 'गौगोंपदशक्या' 'गोपदं गवि शक्तम्' इति शक्तिज्ञानद्वय- कल्पनं विनिगमनाविरहात् । न तथा जानिशक्तिपक्षे, 'गोत्वं गोपदशक्यम्' इति शक्तिज्ञानकल्पने गवेनगममवेनत्वममानाधिकरणनिखिलगाममवेतन्वरुपा-
भारदीपिकाव्याख्या
-
स्यन्तगुरुभूतगोत्वत्वस्य शक्यतावच्छेदकत्वापत्त्या गौरवरूपविनिगमकस्य सत्त्वात्
'गोपदं गोस्वे शक्तम्' इत्येकमेव शक्तिज्ञानकल्पनमिति जातिशक्तिपक्षे लाघव-
मिति सिद्धान्तसूत्रवाच्याभिप्रायः । पूर्वपक्षिशङ्कितदोषं परिहरति सूत्रकारः-
तदर्यत्वात्प्रयोगस्याविभागः ॥ तदर्थत्वात् ब्रीह्यादिशब्दस्याकृत्यर्थ-
त्वात् अवघातक्रियारूपप्रयोगस्य व्यक्तिगतस्य अविभागः जातिव्यक्त्योरपृथ-
क्सिद्धिरूपसंबन्धविशेषः प्रयोजक इति सूत्रार्थः । व्रीह्यादिशब्दानां जातौ
शक्तिः, व्यक्ती जात्या अविभागरूपनिरूढलक्षणेति सूत्राशयः । फलमुखत्वात्,
उक्तकार्यकारणभावग्रहोत्तरकालिकत्वात् । (पाशाधिकरणन्यायेनेति ।) 'अदितिः
पाशान्--' इत्यादौ बहुवचनोपात्तबहुत्वस्य एकपाशेऽन्वयासंभवात्पाशावयवान्वयः,
तथा पार्छिको लिङ्गसंख्ययोः सामानाधिकरण्येनाकृत्यन्वय इति भावः॥ १२॥
इति भाकल्पतर्षभिधाया भादीपिकाध्याख्याया प्रथमाध्यायस्य
तृतीयः पादः।
चतुर्थः पादः।
पूर्वत्र पादप्रये वाक्यप्रामाण्ये निरूपिते वाक्यघटकतयोपस्थितनामधे.
यपदप्रामाण्यमस्मिन्पादे निरूप्यत इत्यस्य नामधयदस्य पूर्वपादसंगतिः पूर्वाधि-
करणे अवघातादिक्रियान्वये यथासंभवं जातिव्यक्तिम्यामुपादिते क्रियान्वितार्थ-
कत्वाद्रीह्यादिपदस्य प्रामाण्यमुक्तं भवति ; उद्भिदादिपदं तु नोभयथापि क्रियान्व
योति न प्रमाणं स्यादिति प्रत्युदाहरणसंगतिः । उक्त समानायैदमर्य
तस्मात्सर्व तदर्थ स्यात् ॥ समानायस्य वेदस्य विधित्वार्थवादत्वादिना
धर्माधर्मेदमर्थपरत्वलक्षणं प्रामाण्यमुक्तम् । तस्मात् विधित्वादिप्रामाण्यावच्छेदक-
रूपात् सर्वम् उद्भिदादिपदमपि तदर्थ धर्मार्थ स्यादेवेति सूत्रार्थः । प्रकारासंभवात् ,
प्रामाण्यावच्छेदकासंभवात् । प्रकारस्य, प्रामाण्यावच्छेदकस्य ॥ १ ॥
भाएकरूपतः बुद्धिस्थमुद्भिदादिपदमत्र विचार्यत इति प्रसङ्गसंगतिः । अपिवानामधेयं स्यायदुत्पत्तावपूर्वमविधायकत्वात् ॥ अपि वेत्युत्सूत्रपूर्वपक्षव्या- वृत्तौ । विधिगौरवापत्त्या अविधायकत्वात् उद्भित्पदं यागनामधेयं स्यात् , न खनित्रादिगुणद्रव्यविधायकम् , यत् यतः अपूर्व रूढ्या द्रव्यविशेषरूपगुण- प्रसिद्धिकसोमपदमिन्नम् अतोऽपि नामधेयम् ; विदारणरूपक्रियासाधनवाचिन उद्भित्पदस्य न योगेनापि क्रियानामधेयत्वमिति न शङ्कयम्, यत् यस्मात्का- रणात् मिहधातुर्विदारण इवोत्पत्तौ वर्तितुं योग्य इति सूत्रार्थः । गुणसमर्पकत्वं गुणविधित्वमित्यादौ गुणशब्द अङ्गापरपर्यायः । (उत्पत्तिशिष्टति ।) येन वाक्येन प्रथमं यागादिक्रियावबुध्यते तद्वाक्यावगतेत्यर्थः । (सामान्यविहितसो. मेति ।) यत्किचिदिष्टभाव्यकयागत्वावच्छिन्नोद्देशेन विहितसामेत्यर्थः । (नित्य- सोमबाध इति ।) अत्र सोमस्य नित्यत्वं कामशब्दितकामनाविषयफलोद्देशेना- विहितत्वम् । (विधिप्रकार इति ।) अत्र प्रकारशब्दः स्वरूपपरः । (साधु स्वार्थत्वमिति ।) 'न केवला प्रकृतिः प्रयोक्तन्या नापि प्रत्ययः' इति न्यायेन निविभक्तिमात्रस्य विवक्षितस्य प्रयोगासंभवादिति भावः । पूर्वोक्तः, गुणविशिष्ट- धात्वर्थकरणकभावनाविधिः । (कौस्तुभ इति ।) "किं च विशिष्टविधिपक्षे मत्वर्थलक्षणापि प्रसज्येत सर्वकारकाणां प्रथमबोधे भावनया संबन्धे सति फलक- मत्वस्य यागकरणस्वस्य च निरूपकापेक्षोपजायते, तस्यां चापेक्षायां फल- निरूपितकरणत्वं यागस्यैव प्रतीयते, 'यागेन साध्यः पशुः' इति समानपद- श्रुत्योपनीतस्य यागस्य भावनया फलं प्रति शीघ्रमुपनयात् । अतश्च पाठिके यागफलयोः संबन्धे प्रतीयमाने तस्यामवस्थायां करणत्वेन प्रतीयमानस्य यागस्य कर्मत्वेनाप्रतीयमानतया तस्मिन्श्रुतस्य खनित्रादेः कारकान्तरस्यैव वा न करण- त्वादिना निवेशः संभवतीति अवश्यं भिन्नार्थयोः सामानाधिकरण्यानुपपत्त्या संबन्धसामान्येनान्वयार्थ मत्वर्थकल्पनया 'उद्भिद्वता यागेन साध्यः पशुः' इति भवितयव्यम् । पश्चाश्चासाधितस्य यागस्य फलकरणत्वानुपपत्त्या कर्मस्वबोधे सति खनित्रादिकारकान्तरस्य भावनासंबन्धवेलायां श्रुतेन करणत्वादिनैव विशेषण- भारदीपिकाच्याख्या विधिकाले 'उद्भिदा यागं भावयेत्' इत्यन्वयो भवति" इति कौस्तुभग्रन्थः । (संस्थाप्येति ।) वैमृधेष्टर्भाच्यापेक्षायां संस्थाप्येत्यनेनान्वितपौर्णमासीमितिपदेनो- पस्थापितत्वात्पौर्णिमात्रिकस्य पौर्णमास्यर्थमिति भाव्यपदकल्पनया पौर्णिमात्रि कस्यैव पैमृधेष्टिरूपगुणेनोपबद्धरूपः संबधः सिध्यति, उक्तत्रिकस्य पौर्णमासीति संज्ञाभावे स कथं सिध्येदिति भावः । अपूर्वे, उद्रिद्वाक्यमात्रावगते । तदापत्तिः, योगरूढस्वापत्तिः । योगरूढिस्थले, पदनादौ नैयायिकादिभिर्योगरूढत्वेन स्वी कृते । (कारणताया इति ।) अत्र पदार्थोपस्थिति शाब्दबोधं च प्रतीति शेषः । तदकल्पनात्, रूट्यकल्पनात् ॥ २ ॥ कचिदप्यरूढस्य कर्मनामत्वे विचारिते सदस्य बुद्धिस्थत्वात्तस्य नामत्वं विचार्यत इति प्रसङ्गसंगतिः । यस्मिन्गुणोपदेशः प्रधानतोऽभि. संबन्धः॥ यस्मिन् 'पञ्चदशान्याज्यानि' इति वाक्ये पञ्चदशपदेन पञ्चदश- त्वगुणस्य उपदेशः विधानं तस्मिन्वाक्ये आज्यपदम्, प्रधानतः (सार्वविभक्ति- कस्तसिल्) प्रधानकर्मणि अभिसंबन्धः आभिमुख्येन संबध्यत इति नामधेय- मिति यावत् इति सूत्रार्थः । यथा नामधेयोच्चारणे पुरुषस्याभिमुल्यलक्षणः संबन्धो भवति न तथान्यस्योचारण इत्यभिसंबन्धशब्दो नामधेयवाचीति सूत्र- कृदाशयः । इदं सूत्रं विधेयभेदे वाक्यभेदस्य गमकम् । कथमन्यथा एकस्य पञ्चदशपदस्य गुणविधित्वे अन्यस्याज्यपदस्य नामधेयत्वं वदेत्सूत्रकारः विधे- यभेदस्यादोपत्वे द्वयोरपि पञ्चदशाज्यपदयोर्विधायकत्वसंभवादिति सूत्रस्य फली- भूतं तात्पर्यम् । (परस्परसाहित्यावगतेरिति ।) एकपदेन द्वयोविधेययोरुपात्तत्वा- साहित्यावगतिरिति भावः । (एतद्वाक्यविहितानां यागानामिति ।) तदिति पदेन दध्यादि सप्तद्रव्यं परामृश्य प्राजापत्यमिति सप्तसु द्रव्येषु प्रजापति- देवतासंबन्धाभिधानादेवतासंबन्धबहुत्वेन तत्कल्पितयागबहुत्वाभिप्राय यागाना- मिति बहुवचनमिति भावः । (सर्वप्रकृतिभूतेति ।) सर्वपशुयागप्रतिभूतेत्यर्थः । (धेनुर्दक्षिणतिवदिति ।) 'धेन्वा दक्षिणां भावयेत् ' इति धेनुवाक्यार्यः । धेनु- प्रातिपदिकस्य धेनुत्वमर्थः, स्त्रीप्रत्ययस्य स्त्रीत्वम्। तयोश्च प्रथमाविभक्तिलक्षित- भाहकल्पतरुः करणत्वकारकेऽन्वयः; दक्षिणापदस्य ऋत्विगानतिरर्थः; तदुत्तरप्रथमाया लक्ष- णया भाव्यत्वमर्थः; भावयेदिति चाध्याहारः । ततश्च धेनुत्वस्त्रीस्वोभयवि- शिष्टकरणतासंबन्धिनी ऋत्विगानतिभाव्यका भावना प्रवर्तनाविषय इति सद्वाक्याच्छाब्दबोध इति भावः । स च, आज्यपदार्थः पृष्ठपदार्थछ । पशुगतस्य, अग्नीषोमीययागकरणभूतपशुगतस्य । अव्युत्पन्नत्वात् , विशिष्ट लाभनिर्वाहकपरस्परान्वयासंभवात् । (गमकसहकृतबहुवचनेनेति ।) गमका विवक्षणे कपिजलाधिकरणन्यायेन 'आज्यैः इति बहुवचनस्य त्रित्वे पर्यवसानाप- तेरिति भावः । (विकल्पविधानादिति ।) रथन्तरपक्षे नौधसं बृहत्पक्षे श्यैतमिति विकल्पव्यवस्थेति भावः ॥ ३ ॥ यथा वाक्यभेदाचित्रादिशन्दे गुणविधित्वनिराकणं न तादृशो वाक्य- भेदोऽमिहोत्रादिपदानां गुणविधित्वबाधकः संभवतीति प्रत्युदाहरणसंगतिः। तरम- ख्यं चान्यशास्त्रम् ॥ चो हेतौ । यस्मात् तत्प्रख्यं तस्याग्निदेवतादिगु- णस्य प्रख्यापकं प्रकाशकम् अन्यशास्त्रम् अग्निहोत्रवाक्यभिन्नम् 'अग्निज्योतिः- इत्यादिमन्त्रवर्णरूपं शास्त्रमस्ति तस्मात् अग्निहोत्रपदं कर्मनामधेयमिति सूत्रार्थः । संभवत्प्राप्तिकानाम् , संभवत्प्राप्तिकार्यकानाम् । होत्रम्, इयत इति होत्रमाज्य- द्रव्यम् । तस्याः, अग्निदेवतायाः । तत्र, 'यदनये' इति वाक्ये । (अनेकगुणो- पादानेनेति ।) 'अग्निहोत्रं जुहोति' इति वाक्येन विहितहोमानुवादेन अमित प्रजापत्यायनेकगुणविधाने वाक्यभेदापत्तेः अनेकगुणविशिष्टहोमान्तरविधायक त्वमावश्यिकमिति भावः । एतद्वाक्यविहिते कर्मणि, 'अग्निहोत्रं जुहोति' इति वाक्यविहिते कर्मणि । 'अग्निहोत्रं जुहोति' इति वाक्यस्य होमकर्मविधायकत्वं न च यदप्रय इत्याशक्षित्रभिप्रायरीत्या, न तु होमाद्देशेनामिगुणविधिस्वीकर्तृरी- त्येत्यवगन्तव्यम् । दर्वीहोमः, किंचिनिरूपितप्रकृतित्वविकृतिषशून्यहोमः । दी- होमे आनेयमन्त्रबलादेवाग्निदेवतालामे तत्र देवतागुणविधानमयुक्तमित्यत आह-- विशिष्टकर्मान्तरं वेति । अग्निदेवताविशिष्टहोमान्तरं वा अग्रिहोवाक्येनं विधीयते, तस्पोऽप्यग्निहोत्रपदस्य गुणविधित्वमलतमिति भावः । तेन वंचनेन, अग्नि- भाइटीपिकान्याख्या होत्रमिति वचनेन । तदुद्देशेन, द्रवद्रव्योद्देशेन । अविनियुक्तस्य , अङ्गत्वेनाविहि- तस्य । प्रकरणकल्पितवाक्येन, दर्शपूर्णमासप्रकरणकल्पितेन 'आज्येनोपांशु. यानं भावयेत्' इत्याकारकेण वचनेन । (चतुर्गृहीतं वा एतदभूत्तख्याघारमा- घायेंत्यनेन वेति ।) 'चतुर्गृहीतं वा एतदभूत्तस्याघारमाघार्य त्रीनितः प्राचीना- अयाजान्यनति' इति वाक्यम्; तस्यायमर्थः- एतत् नौहवाज्यं यदभूत् तत् चतुर्ग्रहीतं प्रयामार्थम् ; तस्य चतुरांहीताज्यस्य उक्ताज्यसंबन्धि यदा. घारमाधरणसमर्थमेकदेशमाघार्य क्षारयित्वा, (क्षारणेन संस्कृत्येति यावत्) उत्तमप्रयानौ वर्जयित्वा आद्यान् त्रीन्प्रयाजान्यजतीति । तत्राघरणस्य चतुर्ग्रही- सस्वस्य च विधाने वाक्यभेदात्प्रयाजार्थचतुर्गृहीतत्वमात्रे विध्यावश्यिकतया आधारांशेऽनुवादकतया 'आधारमाघारयति' इत्यत्र तद्विधिना भाव्यम् । तथा चाघारसंस्कृतमाज्यं चतुर्ग्रहीताज्यरूपमिति विशेषे पर्यवस्यति, प्रयाने विनियुक्तमिति च पर्यवस्यनीति नाविनियुक्तसंस्कारत्वदोषापत्तिरिति भावः । अभ्युदयशिरस्कत्वस्य, प्रामादिकयत्किंचिद्वैगुण्यपरिहारकत्वस्य । (नापीति ।) होममात्रविधानस्वीकारेऽपि तत्र मन्त्रवर्णादेवताप्राप्तौ अग्निदेवताविशिष्टहोम- विध्याश्रयणं पञ्चमविधिप्रकारापत्त्या न संभवतीति भावः । तत् , देवतात्वम् । (अग्नहोम इति व्युत्पत्त्येति ।) होत्रशब्दस्य इयत इति होत्रमिति व्युत्पत्त्या आज्यद्रव्यपरत्वमाश्रित्य अग्नये होत्रमस्मिन्निति वा अग्नहोत्रमस्मिन्निति वा बहुप्रीहिर्न संभवति, व्यधिकरणचतुर्थाषष्ठीबहुव्रीहिसमासस्याननुशिष्टत्वात् । नापि अग्नौ होत्रमस्मिन्निति व्यधिकरणसप्तमीबहुव्रीहिः, लाघवेन होत्रशब्दस्य होमपर- स्वमङ्गीकृत्य अमेझैत्रमिति तत्पुरुषसंभवे तस्यान्याय्यत्वादिति भावः । (धातुलक्ष्य इति ।) 'इन्द्र ऊर्ज- इति देवतावाचिकरणमन्त्रबलेन देवतासंबन्धिक्रियारू- पत्वस्याघारधात्वर्थे स्वीकार्यतया लक्षणां विना तादृशक्रियाबोधकत्वासंभवादिति भावः । अध्वरे यज्ञे उर्ध्वः श्रेष्ठः इन्द्रः देवतेति मन्त्रार्थः । (द्रव्यस्य लामादिति ।) चतुर्गहीतवाक्यगतस्य 'आचार्य' इति पदस्य सिद्धान्तरीतौ आधारयतिपद- लक्षितयागस्वरूपघटकप्रक्षेपांशरूपक्षरणपरतया तत्संस्कृताज्यस्य चतुर्ग्रहीतस्य भाहकल्पतरुः प्रयाजद्रव्यतया प्रयानार्थचतुगृहीताज्यस्यैकदेशः आघारयागद्रव्यमिति लभ्यत इति भावः । अत एव भावव्युत्पन्नद्वितीयान्ताधारपदमप्याघारयोगैकदेशस्य प्रक्षेपस्य नाम, तत्रैव तदर्थाभेदान्वयसंभवात् , त्यागांशे तदभावान्न तत्र तस्य नामत्वम् । (न विरोध इति ।) द्वितीयानिभक्तिबलेन संस्कारकर्मत्वावगमेनार्थ- कर्मत्वविरोध इति न शङ्कनीयम् , उक्तरीत्या संस्कारकर्मत्वापत्तिगौरवेण प्रथम- विधितया अर्थकर्मत्व सिद्धे 'सुपां सुपः' इति च्छन्दसि व्यत्ययानुशासनाद्वितीया करणत्वार्थि केति भावः । यद्यप्यभेदसंबन्धेन क्रियाविशेषणतया अग्निहोत्रापार- पदयोः कर्मत्वमावश्यिकमिति द्वितीया युक्ता करणत्वार्थता द्वितीयाया न वक्तव्या, नथापि क्रियाविशेषणानां कर्मत्वं नपुंसकत्वं चेति पाणिनिकात्यायन- पतञ्जलिमि. सूत्रवार्तिकभाष्येप्वनुक्त्या क्रियाविशेषणानां कर्मत्ववादो निर्मूल इनि भाट्टरहस्य खण्ड देवरेवोक्ततया न कर्मत्वमावश्यिकम् ॥ ४ ॥ यथा अग्निहोत्रपदस्य गुणविधित्वे बाधकं न नथा श्येनपदस्य तत्त्वे बाधकम् , अनो गुणविधिः श्येनपदमिति प्रत्युदाहरणसंगतिः । नबन्धपदेश च ॥ तस्मिन्नपमानोपमेयभावे निर्देशः व्यपदेशाख्यः यस्य श्येनपदस्य तत्तद्वय- पदेशं श्येनपदं नामधेयम्, चकारो नामधेयमित्यस्यानुकर्षणार्थ इति सुत्रार्थः । तद्वयपदेशमिति विशेषणमुपमानोपमेयभावो नामधेयत्वे हेतुरित्यत्र हेतुगर्भ बोध्यम् । (पूक्तिति ।) पूर्वाधिकरणे अग्निहोत्रपदस्य गुणविधित्वे मन्त्रवर्णा- देवतागुणप्राप्तिरूपबाधकवत्प्रकृतं अन्यतः श्येनगुणप्राप्तिरूपबाधकाभावादित्यर्थः । विशिष्टकर्मान्तरम्, श्येनगुणविशिष्टकर्मान्तरम् । भ्रातृव्यम्, शत्रुम् । नद्वरम्, तस्माद्बहुपदलक्षणान. वरं श्रेष्ठम् । (भूयोनुग्रहस्येति ।) उपक्रमस्थेकपदस्य लक्ष- णाया केवलोपसंहारविरोधस्य हेतुत्वमनुक्त्वा भूयोनुग्रहन्यायसनाथस्य हेतुत्वो- क्त्या उपक्रमापेक्षया केवलोपसंहारस्य प्राबल्यवादो माध्वाभिमतः परास्त इति भावः । अत्रायं पूर्वपक्षः-फलाय श्येनगुणविधिपूर्वपक्षः श्येनगुणविशिष्टकर्मा- न्तरविधिपूर्वपक्षश्चामंगतः, द्वयन्तरितप्राचीनेनोद्भिदधिकरणेन विरोधात् । तत्र हि लघुविधिप्रकारसंभवे मुरुविधिकल्पनस्वान्याय्यत्वान्नामत्वं समर्थिनम् । श्येनवा- भारदीपिकाव्याख्या । क्यस्यापि लाघवाच्छयेननामकयागविधिपरत्वसंभवे उक्तपूर्वपक्षद्वयस्यापि गुरुविधि- प्रसङ्घन कर्तुमयुक्तत्वात् । अत एवोबिदधिकरणन्यायेनैव श्येनपदस्य नामत्व- सिद्धी श्येनाधिकरणवैयऱ्या च स्यादिति । अत्रायं सिद्धान्तः-अर्थविशेषे रुतं श्येनपदं नोद्भिदधिकरणन्यायविषयः, तन्न्यायस्य यौगिकशब्दमात्रविषयत्वात् । नापि चित्राधिकरणन्यायविषयः, वाक्यभेदाप्रसक्तः । नापि तत्प्रख्यन्यायविषयः, श्वेवगुणस्यान्यतः प्राप्त्यभावादिति । इदं तु बोध्यम्-ययप्युपमानोपमेयभावानुपप- त्तिर्गुणविधिपूर्वपक्ष एव संभवति न विशिष्टविधिपूर्वपक्षे, तथापि विशिष्टविधिपूर्व- पक्षस्य भेदकप्रमाणाभाव एव निरासकहेतुर्द्रष्टव्यः । उक्तं हि कौस्तुभे-विशिष्ट- कर्मान्तरविधिस्तावद्भेदकप्रमाणाभावादेवायुक्तः, गुणफलसंबन्धविधिस्तु उपमाना- संभवादेव निराकर्तव्य इति ॥ ५ ॥ यच्छयेनादिशब्दस्य गुणविधित्वं निराकृत्य नामस्वं समर्थितं तन्न युक्त. मित्याक्षेपादाक्षेपिकी संगतिः । नामधेये गुणश्रुतेः स्याबिधानमिति चेत् ॥ नामधेये नामधेयत्वेन सिद्धान्त्यभिमते श्येनादिपदे गुणस्य यागनिरूपित- करणत्वस्य तृतीयाश्रवणाद्विधानं स्यात् यागोद्देशेन श्येनगुणविधानं स्यादिति चोदिति पूर्वपक्षसूत्रार्थः । तुल्यत्वात्किययोन ॥ न गुणविधानं स्यात् । कुतः! क्रिययोः धात्वाख्यातार्थक्रिययोः तुल्यत्वात् श्येनगुणधात्वर्थक्रिययोर्यथा करणभाव्यभावः तथा धास्वर्थभावनयोः क्रिययोः करणभाव्यभावस्य 'यजेत यागेन कुर्यात् यागेन भावयेत्' इत्यादिविवरणेन प्रतीयमानत्वादिति सिद्धान्तसूत्रार्थः । श्येनवाक्ये यागे श्येनगुणनिष्ठकरणतानिरूपितोद्देश्यत्वमभिचारफलनिष्ठाद्देश्यतानिरूपितोपादेयत्व- मिनि एकत्र धर्मिणि विरुद्धोपादेयत्वोद्देश्यत्वद्वयापत्तिरिति तात्पर्यार्थः । एतत्सूत्रे धात्वर्याख्यातार्ययोर्द्वयोः क्रियात्वनिर्देशेन 'लः कर्मणि-' इति सूत्रेण कर्ता आख्यातार्थ इति वैयाकरणमतं निराकृतम् । न च विनिगमनाविरहः, 'बजते यागं करोति' इत्याख्यातस्य कृम्धातुना विवरणस्यैव विनिगमकवादित्यवग- न्तव्यम् । (भवेन्मत्वर्थलक्षणेति । ) प्राचीनरीत्येति शेषः । (उभयविशिष्टभाव- नाविधानं पेति ।) एतन्नवीनमतरीत्या । (क्रियारूपत्वामीकारादिति ।) क्रिया- भरकल्पतरूः निर्वर्तकत्वपटितं कारकत्वं क्रियायां न संभवतीति भावः । (क्रियात्वेऽपीति ।) अपिशब्दः क्रियायाः कर्मत्वकरणत्वाल्यकारकत्वरूपेण अन्यस्मिन्नप्रकारत्वयो- तकः । मूले, शावरभाष्ये । (गुणसूत्रानुरोधेनेति ।) 'नामधेये गुणश्नुतेः स्या- द्विधानम्-' इति गुणपदघटितसूत्रानुसारेणेत्यर्थः । वामपेयशब्दस्य वानं पेयम- स्मिन्निति व्युत्पत्त्या कर्मपरत्वात्कर्मनामधेयरूपत्वम् ; न तु श्येनशब्दस्य, तस्य द्रव्यरूढत्वेन योगेन कर्मपरत्वासंभवात्, तस्मिन्नामधेयरूपे वाजपेयशब्दे गुणस्य पानयोग्यवानशब्दितयवागूद्रव्यरूपगुणस्य श्रवणात् गुणविधिर्वाजपेयपदमिति सूत्रानुसार्यर्थः शावरमाप्याभिमत इत्यवगन्तव्यम् । (उपादेयत्वनिरूत्यादिकं कौस्तुमे द्रष्टव्यमिति ।) प्रकृतविधिप्रयुक्तिविषयत्वमुपादेयत्वम् । विधिप्रयुक्तिर्वि- विप्रयोज्यभावनातरधीनव्यापारान्यतररूपा। उद्देश्यत्वं च कृतिसमवायघटितसंबन्धेन प्रकृतभावनान्वयित्वे सति प्रकृतविधिप्रयुक्त्यविषयत्वम् । कर्तृतदेकत्वादावतिव्या- प्तिवारणाय सत्यन्तम्, कर्नादेः कृतिसमवायवाटतसंबन्धेन भावनान्वयित्वात् । विधेयेऽतिव्याप्तिवारणाय द्वितीयदलम् । 'बीहिभिर्यनेत' इति विधिप्रयुक्तिविष. यत्वाद्रीहीणाम् 'नीहीन्प्रोक्षति' इत्यत्राप्युद्देश्यत्वानुपपत्तिः, अतः प्रकृतषि- धीति । विधेयत्वं चाज्ञातज्ञापनविषयत्वम् । अनुवाद्यत्वं तु ज्ञातज्ञापनविषयत्वम् । गुणत्वं जनकत्वम् । प्रधानत्वं जन्यत्वम् । तत्रोद्देश्यत्वमुपादेयत्वं च परस्पर- विरुद्धम् , अनुवाद्यत्वं विधेयत्वं च परस्परविरुद्धम् , गुणत्वं प्रधानत्वं च परस्पर- विरूद्धमिति विवेकः । विस्तरस्तु कौस्तुभे द्रष्टव्यः ॥ ६ ॥ पूर्वाधिकरणसिद्धान्तसमर्थितनामधेयत्वापवादेन गुणविधित्वस्यैतदधिकरण- सिद्धान्तविषयतला आपवादिकी संगतिः । तद्गुणास्तु विधीयेरमवि- भागाविधामाये न घेदन्येन शिष्टाः स्युः ॥ 'यदाग्नेयः-' इत्य- प्राधाकपालशब्दस्य नामधेयत्वमेवेत्युत्सूत्रपूर्वपक्षनिराकरणार्थस्तुः । तद्गुणाः तस्य कर्मणो गुणा अष्टाकपालानिदेवतादयः विधीयेरन, न तु केवलकर्ममात्रं गुणमात्रं वा अप्राप्तत्वाविशेषात् । तर्हि विधेयभेदाद्वाक्यमेद इत्यत आह-विधाना अविभागात्, विधीयत इति विधानं तस्मिन्भेदाभावात्, अनेकगुणविशिष्टस्यै- - भादीपिकाव्याख्या कस्य कर्मणो विधानादिति यावत् । न चेत् नामत्वमेव न गुणविधित्वमिति चेत्, अन्येन वाक्यान्तरेण अष्टाकपालादयः शिष्टाः स्युः बोधिनाः स्यु , अग्निदेव- ताया मन्त्रवर्णशिष्टत्वादेवाग्निहोत्रपदस्य नामत्वं दृष्टमिति सूत्रार्थः । वाचनिक- विनियोगः, 'इन्द्र ऊोऽध्वर आघारमाधारयति' इति वचनाधीनी विनियोगः । 'यदाग्नेयोऽष्टाकपालाऽमावास्यायां च पौर्णमास्यां चाच्युतो भवति' इति वाक्य- स्यायमर्थः- अस्मिन्वाक्य द्रव्यदेवनासंबन्धावगमाद्यागस्यावश्यिकतया यागो भूधातुना लक्ष्यते । आख्यातस्य लेट्वेन विधिः आख्यातत्वेन कृतिश्चार्थः । आग्नेयादिपदोत्तरप्रथमायाः 'सुपां सुपः' इति रीत्या करणत्वमर्थः । अग्नि- देवतायास्तद्धितोपात्तद्रव्यस्य च प्रथम भावनायामन्वयः । सप्तम्याश्चाधिकरणत्व- मर्थः । अच्युत इत्याग्नेयपुरोडाशस्य विशेषणम् । तस्याच्युतत्वं च दर्शपूर्ण- मासघटकपड्यागमध्ये आग्नेयपुरोडाशव्यतिरिक्तस्य कस्यापि दर्शपूर्णमासकाल- द्वयसंबन्धित्वं नास्ति, आग्नेयपुरोडाशस्य तु उक्तकालद्वयसंबन्धित्वेन तत्र च्युत्य- भावादवगन्तव्यम् । अग्निकरणत्वसंबन्धिनी पुरोडाशकरणत्वसंबन्धिनी अच्यु- तत्वसंबन्धिनी पोर्णमास्याद्यधिकरणत्वसंबन्धिनी यत्किंचिदिष्टभाव्यका यागनि- विधिविषय इति शाब्दबोधः । पाठिकबोधस्तु स्वयमेवोहनीयः । यद्यप्य- स्मिन्वाक्येऽपूर्वार्थके ज्ञातार्थानुवादकं यत्पदमस्ति तदनन्विनमिव प्रतिभानि, तथापि आग्नेयेन यागं भावयेत्' इति विशेषणविधिकल्पनावेलायां प्राथमिक- बोधविषयस्य कर्मण उद्देश्यतया मानेन यदिति पदं तादृशकर्मरूपोद्देश्यानु- वादकमित्यवगन्तव्यम् ॥ ७ ॥ गुणविधिरूपे आग्नेयशब्दे विचारिने बर्हिराज्यादिगुणविधिशब्दः प्रसङ्गा- द्विचार्यत इति प्रसङ्गसंगनिः । पहिराज्ययोरसंस्कारे शब्दलाभाद- तच्छब्दः ॥ शब्द्यत इति शब्दः बर्हिष्ट्वाज्यत्वाकृतिः, तस्य बहिरादि- शब्दवाच्यबहिष्ट्वादेः बहिराज्यसंबन्धिन' असंस्कारे संस्कारशून्ये वहिषि आज्ये च लाभात् वर्तनसंभवात् बर्हिरादिशब्दः अतच्छन्दः संस्कारवाचकशब्दभिन्न इति सूत्रार्थः । अव्यभिचारात् , बहिरादिशब्दप्रयोगस्य बहिष्वजातिशून्या- -
भारकल्पतरुः
वृत्तित्वात् । लाघवाञ्च, संस्कारस्य प्रतिव्यक्ति भिन्नत्वेन बर्हिष्टुनातेरेकत्वेन
जातिवाचित्वे लाघवात् ॥ ८ ॥
रूदशब्दे विचारित प्रसङ्गाद्यौगिकशब्दो विचार्यत इति प्रसासंगतिः ।
प्रोक्षणीष्वर्थसंयोगात् ॥ 'प्रोक्षणीरासादय' इति विषयवाक्ये प्रोक्षणी-
शब्दस्य बहुवचनान्ततया सुत्रेऽपि तथा निर्देशः । प्रोक्षणीशब्दे केवलयौगि-
कत्वमेव स्वीकर्तव्यम् , अर्थेन प्रकृष्टोक्षणसाधनत्वरूपेण यौगिकार्थेन संयोगात
सम्यक्प्रयोगरूपसंबन्धात् इति सुत्रार्थः । सम्यक्त्वं च प्रयोगस्य योगशस्य-
नावच्छेदकसमनियतत्वम् । प्रयोगसमनियतयोगशक्यतावच्छेदककत्वं केवल-
यौगिकत्वे प्रयोजकमिति यावत् । न च रूढः प्रावस्यशङ्का, रूढेरचाप्य-
सिद्धत्वात् ; सिद्धी योगरूढ्यो रूढयोगात्प्राबल्यमिति सूत्रस्य तात्पर्यार्थः ।
स्वरूपयोग्यत्वस्य, उक्षणसाधनतावच्छेदकशक्तिमत्त्वस्य । (अनुशासनमले.
नेति । ) 'ऋभूणां त्वा देवानां वपते प्रतेनादधामीति रथकारस्यादध्यात्'
इत्यनुशासनविनियुक्तमन्त्रबलेन रथकारशब्दस्य ऋभुत्वजात्यवच्छिन्नापरपर्याय-
सोधन्वनपरत्वावगतेरिति भावः । (अव्यावर्तकत्वेनेति । ) रथकरणयोग्यत्वस्य
ब्राह्मणक्षत्रियादिसाधारणत्वात् तेन योग्यत्वेन 'वसन्ते ब्राह्मणोऽग्रीनादधाति'
इत्याद्यवगतब्राह्मणादिव्यावर्तनासंभवात् 'वर्षासु रथकारः' इत्येतद्वाक्यगतरथ-
कारपदस्याव्यावर्तकत्वम् , जातिवाचकत्वे तु व्यावर्तकत्वं संभवतीति भावः ।
प्रमाणाभावात् , वैदिकमन्त्रवर्णरूपरूढिग्राहकप्रमाणस्य यास्कादिमुनिकृत-
निघण्टवादिप्रमाणस्य वाभावात् ॥ ९ ॥
पूर्वपक्षसिद्धान्नहेत्वोस्तुल्यत्वादातिदेशिकी संगनिः । तथा नि-
मन्थ्ये | 'निर्मन्थ्येनेष्टकाः पचन्ति' इत्यत्र निर्मन्थ्यशब्दे तथा पूर्ववत्
यौगिकत्वमिति मुत्रार्थः । (मथनकर्मत्वस्येति । ) मथनकर्मीभूतो मथननन्यो
योऽल्पाग्निः तज्जन्यमहाग्नेरेवेष्टकापाकसाधनत्वेन साक्षान्मथनकर्मीमूतेऽनौ सद-
भाव इति भावः । प्रयोज्यत्वस्य, साक्षाजन्यनजन्यान्यतरत्वस्य । तस्यापि,
मथनस्यापि ॥ १० ॥
भाग्दीपिकाम्याख्या
प्रासनिके विचारिते यदधिकरणेन प्रासङ्गिकविचारः प्रवृत्तः तेनैव
प्रासनिकाधिकरणोत्तराधिकरणस्य संगनेर्वक्तव्यत्वेन आमेयशब्दस्य देवता-
तद्धितान्तत्वाद्गुणविधित्वववैश्वदेवशब्दस्यापि गुणविधित्वं स्याद्देवतातद्धितान्तत्वा-
दिति दृष्टान्तसंगतिः । वैश्वदेवे विकल्प इति चेत् ॥ वैश्वदेवशब्दे
तद्धितेन देवताविधानावश्यिकत्वादग्न्यादिदेवताभिः सह विश्वेदेवदेवताया यागा-
एके विकल्प इति चेदिति पूर्वपक्षसूत्रार्थः । न प्रकरणात्प्रत्यक्षविधा-
नाच न हि प्रकरण द्रव्यस्य ॥ न वैश्वदेवशब्दे देवतागुणविधान
स्वस्ववाक्योक्तदेवतान्तरावरुद्वयागानामेव प्रकरणात् प्रकृतत्वात् , आमिक्षा-
यागे वैश्वदेवीति प्रत्यक्षविधिनैव विश्वेदेवदेवतायाः प्राप्तत्वाच्च । विश्वे देवा
अस्येति विग्रह अस्येति सर्वनाम्ना प्रकृतद्रव्यग्रहणस्यावश्यिकतया अगत्या
तत्र विकल्प इत्यत आह-न हि प्रकरणं द्रव्यस्येति । हि यस्माइन्यस्य न
प्रकरणं तस्मात्तद्धितवृत्त्यन्तर्गतसर्वनाम न द्रव्यपरामर्शि, अपि तु यागस्यै-
पेति सिद्धान्तसूत्रार्थः । (प्रवृत्तिनिमित्तं चेति । ) वैश्वदेवशब्दस्येति शेषः ॥११॥
पूर्वाधिकरणोक्तोत्पत्तिशिष्टबलीयस्त्वन्यायस्यात्राभावेन हेतुना द्वितीय-
तृतीयपूर्वपक्षोत्थानात्प्रत्युदाहरणसंगतिः । पूर्ववन्तोऽविधानार्थास्त-
सामर्थ्य समाम्नाये ॥ ये पूर्ववन्तः प्रमाणान्तरेण संभवत्प्राप्तिकास्ते
अविधानार्थाः विध्यनीं भवेयुः, अस्मिन्नष्टाकपालादिरूपे समाम्नाये तु विधि-
सामर्थ्यमस्ति, अतोऽष्टाकपालादयो गुणविधय इति पूर्वपक्षसूत्रार्थः । गुणस्य
तु विधानार्येऽतद्गुणाः प्रयोगे स्युरनर्थका न हि तं प्रत्यर्थ-
पत्तास्ति ॥ तुशब्दः पूर्वपक्षव्यावृत्त्यर्थः । अष्टाकपालादिशब्देषु गुणस्य
विधानरूपार्थेऽभ्युपगम्यमाने सति, प्रयोगे प्रयुज्यमाने 'वैश्वानरं द्वादशकपा-
लम्' इति वाक्येनोच्यमाने यागे इति यावत् । तद्गुणाः अष्टाकपालादयः
अनर्थकाः, हि यस्मात् तं प्रति वैश्वानरयागं प्रति अर्थवत्ता प्रयोजनक्त्ता
नास्ति उत्पत्तिशिष्टद्वादशकपालावरुद्धत्वात्तद्यागस्येति सिद्धान्तसूत्रार्थः । परि-
च्छेदकत्वेन, ब्यावर्तकत्वरूपविशेषणत्वेन ॥ १२ ॥
भारकरूपतः - गौणीवृत्तिप्रसाद्गोणावृत्तिनिमित्तानि निरुप्यन्त इति प्रसङ्गसंगतिः । तस्सिडिजातिसारूप्यप्रशंसाभूमलिङ्गासमवाया इति गुणा- श्रयाः॥ तत्सिद्धिः तस्कार्यकारित्वम् , जातिः जननम् , सारूप्यं समान- रूपस्वम् , प्रशंसा प्राशस्त्यम् , भूमा बाहुल्यम्, लिङ्गसमवायः अल्पत्वम् इत्येते गुणाश्रयाः गुणस्य गौणीवृत्तेः आश्रयाः घटकतया निमित्तभूता इति सुत्रार्थः । गुणयोगनिमित्तत्वम्, गुणयोगो निमित्तं यस्य पदस्य तस्वम् । ननु क्रूरत्वादीनां गौणीवृत्तिवटकतया शक्तिवृत्तिघटकस्येव शाब्दबोधे भानं न स्यादत आह- गौणी कार्यतावच्छेदकमित्यादि प्रसङ्ग इत्यन्तम् । अग्रिम- सुत्रे, एतत्सूत्रोपरिमागे, सुत्रस्यैकत्वेन तत्सिद्धिसूत्रापेक्षया जातिरित्यादि- सूत्राणां भेदाभावात् ॥ १३ ॥ एकमुखप्रभवत्वात् , 'ब्राह्मणोऽस्य मुखमासीत्....मुखादिन्द्रश्याग्निन्ध' इति श्रुत्यवगमितैकमुखप्रसूतत्वात् ॥ १४ ॥ प्रकारत्वात , शाब्दबोधे प्रकारत्वात् ॥ १५ ॥ पर्युदासस्य, यागसाधनद्रव्यभिन्नत्वस्य । (गवाश्वगतप्राशस्त्यामावेति।) गवाश्वगतं यत्प्राशस्त्यं तदभावत्यर्थः ॥ १६ ॥ चयनाङ्गत्वानुपपत्त्या, चयनाधारस्थण्डिलनिष्पादकत्वरूपचयनाङ्गत्वानुप- पत्त्या । अन्यथा, एतद्विभ्यभावे । आर्थिकत्वाच, उक्ताङ्गत्वान्यथानुपपत्ति- लब्धत्वाच । (चयनभिन्नककत्वमपीति ।) प्राप्नुयादिति शेषः । (लिका प्रकरणप्राप्तति ।) उपधाने उपधानप्रकाशकलिङ्गे उपधानप्रकरणाभ्यामझतया प्राप्त्यर्यः । (मन्त्रमात्रस्येति ।) सृष्टिपदघटितमन्त्रमात्रस्येत्यर्थः । (मृष्टि- बाहुल्यं गुणो गौणीवृत्तिनिमित्तमिति ।) खराक्यसृष्टिवाचिपदघटितमन्त्रगत- बहुत्वसमानाधिकरणसमुदायाश्रयस्वरूपगौणीवृत्ती बहुत्वरूपबाहुल्यं घटकतया गुण इत्यर्थः । माष्यकारमते उक्तमन्त्रोपधेयेष्टकोदेशेनोपधानविधिः । पार्तिक कारमते मन्त्रविशिष्टमुपधानमिष्टकोदेशेन विधीयते । सृष्टिपदोत्तरलुप्तमतुम.
भारदीपिकाव्याख्या एका उद्देश्या मतुवर्थविशेषणसंबन्धप्रतियोगिभूतमन्त्रस्य पाठिकमुपधानवैशिष्ट्य- मिति विवेकः ॥ १७ ॥ अस्पस्वं निमित्तम्, प्राणभृत्पदघटितमन्त्राल्पत्वसमानाधिकरणसमुदाया- श्रयत्वरूपगोणीवृत्ती घटकतया अल्पत्वं निमित्तम् । सौत्रस्य लिङ्गसमवाय इत्यस्यायमर्थः- लिङ्गस्य च्छत्व्यच्छत्रिसमुदायज्ञापकस्य च्छत्रस्य समवायः खाश्रयच्छत्रिवटिनोक्तसमुदायवर्तित्वरूपः संबन्ध इति ॥ १८ ॥ यथा प्राणभृत्पदस्य प्राणमृदप्राणभृत्समुदायपरत्वं तथा घृतपदस्य घृत- तैलादिसमुदायपरत्वं स्यादिति दृष्टान्तसंगतिः । एकपदरूपस्य नामधेयस्य प्रामाण्ये विचारिते घृतमिति पदस्याप्येकपदत्वेन तत्प्रामाण्यविचारस्य पद- प्रामाण्यपादसंगतिः । संदिग्धे तु याक्यशेषात् ॥ तुरुत्सूत्रपूर्वपक्ष- ध्यावृत्त्यर्थः । उपक्रमस्थे पदे संदिग्धं सामान्यधर्मव्याप्यविशेषधर्मप्रकारकनिश्च- याविषयार्थके वाक्यशेषात् उपसंहारस्थवाक्यस्य शेषभूतात्पदात् विशेषनिर्णय इति सुत्रार्थः । संदिग्धार्थनिर्णये, विशेषधर्मप्रकारकनिश्चयाविषयार्थनिर्णये । उपलक्षणत्वे, घृततैलादिसाधारणपरत्वे ॥ १९ ॥ सामर्थ्यकल्पितद्रवद्रव्यपदस्य प्रामाण्यविचारात्पादसंगतिः । पूर्वाधि- करणवद्वाक्यशेषरूपनिर्णायकाभावात्नुवादिकरणकावदानेऽवदेयद्रव्यस्याव्यवस्थै - वेति प्रत्युदाहरणसंगतिः । अर्थाबा कल्पनैकदेशत्वात् ॥ ‘सुवेणा- षयति' इत्यर्थनुवगतद्रवद्रव्यावदानसाधनत्वरूपसामर्थ्यात् द्रवद्रव्यमिति द्विती- पान्तपदस्य कल्पनाकल्पितस्व पदस्य वाक्यैकदेशत्वात् वाक्यार्थविषयकशाब्द- बोधजनकत्वेन प्रामाण्यमिति सूत्रार्थः । तत्स्वरूपम् , धर्माधर्मादिस्वरूपम् ॥२०॥ इति भारकरपतभिधायर्या भादीपिकाध्याख्याया प्रथमाध्याय चतुर्थः पादः।
भारकल्पतरुः द्वितीयोऽध्यायः। प्रमागसिद्धं कर्मस्वरूपम्पनीव्यैव कर्मभेदस्य वक्तव्यत्वानेदाध्यायस्यास्य पूर्वेण प्रमाणापायनापनीव्योपनीवकभावः संगतिः । अस्य धात्वर्थपादस्या- पूर्वमेदापयिकत्वेन भेदाध्यायसंगतिः । नामधेयधालयंपादयोः पदविचाररूरत्वेन सादृश्यमनगाः संगतिः । यथा स्रावदानस्य कर्मपाकाङ्क्षत्वावद्रव्यमिति कर्म- विशेषां निरूपिाः तथा स्वगादेः कार्यस्य करणमापेक्षत्वात्करणं निरूप्यत इति दृष्टान्त संगतिः पूर्वाधिकरणेन । भाचार्याः कर्मशब्दास्तेभ्यः क्रिया प्रतीतैष यो विधीयते ॥ न ह्या मंत्र भावशब्दः कर्म- शब्दश्च धात्वयंपर. । धात्वर्थपराः शब्दा धात्वर्थपरा इत्यर्थापत्तेः भिन्नार्थी ताव-मुपगन्तकौ । एकशब्दनिष्ठो च भावार्थकमार्थशब्दो स्वीकार्गो, भावार्थाः कर्मशउदा इनि सामानाविकरणपनिर्देशन तथा प्रनीतः । तादृशाश्च शब्दाः 'या' ददाति' 'जुहोत' इत्य याः प्रकृतिप्रत्ययम दायरूपाः, प्रकृ.यशेन यागादक वारूपका गः प्रतिपादनात्प्रत्ययांशनाख्यातेन भावनारुति. यत्नापरनामवयस्य भावस्य प्रतिपादनात् । भाषा नामाख्यानार्थः, 'भावप्रधान- माख्या सम्' इति यास्कस्मृतः । आख्यानाथें, एकत्व मिानवकृतिरूपभावे मध्ये भावः प्रवानं यस्याख्यातस्य तद्भावप्रधानमिति व्युत्पत्तिः, न त्वां चीन- वैयाकरणरीत्या भावो धात्वर्थः प्रधानमाख्यानाथाक्षिया विशेप्यभूनो यत्य तद्भावप्रवानामति व्युत्पत्तिः समीचीना, तथा साने 'भावप्रयान आख्यातायः' इति यास्कस्मृतो निर्देशापत्त: 'प्रकृतिप्र-ययो सहाथ ब्रूतस्तयोस्तु प्रत्ययः प्राधा. न्येन' इति यास्कस्मृतिगनवचनानरविरोधापत्तश्च । एतेनाख्यानाथापक्षया 'पचति चैत्रः' इत्यादो अनुभवानुरोधाच्छान्दबोधे प्रथमान्नपदार्थों मुख्य- विशेष्यनया भासत इत्यर्वाचीनतार्किकमतमपास्तम् , सर्व वाक्यं क्रियायां परिसमाप्यते' इत्याख्यातायक्रियामुख्यविशेष्यसम कयाम्का मृतिविरोधात् . न्याय- पञ्चाध्याय्यां काणाददशाध्याय्यां च प्रथमान्तमुख्यविशेभ्यसमर्पकसूत्रादर्शनाच, 15 भादीपिकाव्याख्या - अप्यनुभवविरुद्धस्वानुभवस्य शपथनिर्णयत्वाच्च । तथा च भावार्थाश्च ये कर्म- शब्दाः तेभ्यः शब्देभ्यः, क्रियत इति क्रिया स्वर्गादिफलं तत्साधनमपूर्व वा हि यस्मात् स्वार्थानुष्ठानद्वारा जन्यतया प्रतीयते तस्मादेष भावार्थः विधीयत इति सूत्रार्थः । एतत्सत्रे भावस्याख्यातार्थत्वोक्त्या कर्तुराख्यातार्थत्वमसंगतम् । लः कर्मणि-... इत्यादिसूत्रेऽनुवृत्तं कर्तरीति पदमपि भावार्थसूत्रानुरोधात् 'द्वयेकयोर्द्विवचनैकवचने' इनिवत् 'बहुपु बहुवचनम्' इनिवद्वा भावप्रधानतया कर्तृत्वपरमित्यलम् । एकत्वानेकत्वादिरूपण, अभेदतदभावादिरूपेण । (फला- न्वयेति ।) धात्वर्थस्येति शेषः । तदर्थत्वे, सोमार्थत्व । (हामेन दधिनिष्ठ- करणतासंपादनवदिति । ) करणताया अन्यनिरूपितत्वेन निरूप्ये निरूपकस्य दृष्टविधया हेतुत्वमिति भावः । पदश्रुत्या, फलकरणयोस्तिडन्तरूपपदघटका- वयवबोध्यतया । सा, पदश्रुतिः । तस्याः, पदश्रुतेः । तदन्वयस्य, धात्वर्थ- करणत्वान्वयस्य । प्रथमावगतस्य, प्रथमं भावनान्वितस्य यागकरणत्वस्य । कल्प्यस्य, लाक्षणिकस्य । (उपनीव्यत्वादिति ।) वनस्थसोमलतया फला- निष्पत्तेः क्रियाविष्टया फलनिष्पत्तिर्वाच्येति क्रियायास्तकरणत्वस्य वा उप- जीव्यत्वमिति भावः । (न प्रतिनिध्युपादानमिति ।) 'न प्रधानस्य प्रतिनिधिः' इति न्यायादिति भावः । तत् , प्रतिनिध्युपादानम् । (पचति पाकं करोतीति ।) यद्यपि पचिधातोः पाकमिति द्वितीयान्तपदेन विवरणात् विवरण वित्रियमाण- योरेकार्थत्वम् ' इति न्यायेन पाककर्मत्वे शक्तिः स्यात् तथापि 'पाकेन करोति' 'पाके यतते' इति विवरणानुसारेण पाककरणत्वे पाकाधिकरणत्वे च पाक. कर्मत्व इव विनिगमनाविरहाच्छक्तिरापाद्यमाना नापहोतुं शक्या । त्रिषु शक्ता- वभ्युपगम्यमानायाम् ‘एकस्य शब्दस्यैकार्थ्यम्' इति न्यायविरोधः भावकृदन्त- पाकपदेन पाकमात्रबोधानापत्तिश्च स्यात् । अतः 'पाकम् ' 'पाकेन' 'पाके' इति पचधातुविवरणपदे श्रूयमाणद्वितीयादिर्धात्वर्थाख्यातायोः संसर्गानुवादक इति धातोः पाककर्मत्वादिलक्षणातात्पर्यग्राहक इति वाङ्गीकर्तव्यः । यद्यप्या- ख्यातस्य विवरणरूपे 'करोति' इति पदे कृधातुवदाख्यातमपि प्रविष्टं तथापि . - भाकल्पतः - स्वस्य स्वेन विवरणानुपपत्तेराख्यातपदमाख्यातस्य न विवरणम् अपि तु कृन्धातुरेव । न च करोतीति कृन्धात्वाख्यातसमुदायस्य विवरणत्वं युक्तम् , लाघवात्कृन्धातुमात्रेण विवरणलाभे समुदायस्य तत्वानुपपत्तेः उक्तविवरणात्पूर्व- मनिीतार्थस्याख्यातस्याख्यातविवरणत्वानुपपत्तेश्च । अत एव करोतीति-विवरण- गताख्यातस्य पाकमिति द्वितीयावन्नाश्रयत्वरूपसंबन्धानुवादित्वमुपपद्यते, अद्या- प्याख्याते आश्रयत्वशक्त्यसिद्धेः सिद्धौ वा विवरणवैयर्थ्यात् । तस्मात् 'न केवला प्रकृतिः प्रयोक्तव्या नापि प्रत्ययः' इति रीतिमनुसृत्य करोतीति विव- रणपदे आख्यातनिर्देशः न प्रयोजनान्तरकृत इति भावः । (करोतिपर्यायत्वा- दककर्मत्वमिति । ) यद्यपि 'पाक यतते' इति विवरणाद्यततिपर्यायत्वमाश्रित्या- कर्मकत्वमप्याख्यानम्यति वक्तुं शक्यं तथापि पचति पाकं करोति' इति विवरणबाहुल्यवत् पाके यतते' इति विवरणस्य बाहुल्याभावात्करोतिपर्या- यत्वमवति भावः । (अर्थभावनात्वमिति ।) अर्थ प्रयोजनं भावयत्युत्पादय- तीत्यर्थभावना, नस्या भावस्तत्त्वमित्यर्थः । (कारकतासंबन्धेन तद्वितसमासादि- वृत्तियथाग्नेयमित्यादाविति ।) कारकतासंबन्धेन देवतात्वरूपसंप्रदानकारकत्वा- स्मकसबन्धन कारकत्वस्य संबन्धत्वकीर्तन वस्तुस्थित्या न तु संबन्धत्वेन भान- प्रयुक्तम् , आग्नयमित्यत्र तद्धिताक्तदेवतात्वस्य तत्त्वेनाभानात् । प्रतिपादकत्वं तृतीयार्थः । तस्य च तद्धितवृत्तिरित्यत्र नहितेऽन्वयः । वृत्तिरित्यस्य व्यस्तत्व- रहितपदसमूह इत्यर्थः । तथा च कारकत्वप्रतिपादकतद्वितघाटनवृत्तिरिति वृत्ति- रित्यन्तस्यार्थः । ( अग्नेदेवतात्वाद्भावनायामेवान्वय इति । ) देवतात्वद्वारा भाव- नायामन्वय इत्यर्थः । म तु, द्रव्यान्वयस्तु । सा, वृत्तिः । समानाभिधान. श्रुत्या, निडन्तवटकैकावयवबोध्यतया । अत एव, लिङ्गानन्वयिभावनान्वय- कथनादेव ॥ १ ॥ यदुक्तं धात्वर्थस्यापूर्वभेदोपयोगित्वं नन्न संभवति अपूर्व एव प्रमाणामावा- दित्यापिकी संगतिः । चोदना पुनरारम्भः॥आरभ्यत इत्यारम्भः अपूर्वम् पुनःशब्दोऽन्तरालवाची । यागफलयोरन्तराले पूर्व मागजन्यमस्तीत्यभ्युपगन्त- .
भाध्दीपिकायाख्या - -- व्यम् , यतः 'स्वर्गकामो यजेत' इत्यत्यन्तव्यवहितकालयोर्यागस्वर्गयोः साध्य- साधनमावरमर्पिका चादनास्तीति सूत्रार्थः । लक्षणापत्तेः, फलोत्पत्तिसाधनता- शून्यत्वाथै लक्षणापत्तः । यद्यपि ध्वंसे फलोत्पत्तियोग्यताविशिष्टरूपेण विनाश्य- त्वं चारित तथापि विनाशत्वेन विनाशवाचिनः क्षरत्यादेरुक्तविशिष्टविनाशत्वेन तद्बोधनं लक्षणां विना न भवतीति तात्पर्यम् । (फलमुखत्वेनेति ।) 'यनेत स्वर्गकामः' इति वाक्यात्प्रमं शाब्दवो वो निविचिकित्मो न जायते । आशु. तरविन शिने यागत्य कालान्तरभाविफलजनकत्वमनुपपन्नमित्ययोग्यताज्ञानरूप. प्रतिबन्धकमद्भादेन योग्यताज्ञा रू कारणाभावादपोरुपयस्य वेदस्याप्रामाण्यं स्यात् । तन्मा भूदित्यपूर्व व्यापारं कल्पयित्वा योग्यताज्ञानं संपाद्य तत्सहरूता- द्वाक्यान्निविचिकित्सं शाब्दज्ञानं फलं जायत । तन्मुखत्वेन, तदनन्तरं जाय- मानत्वनति भावः । (तदवान्तरव्यापार इति ।) अत्र तत्पदमपूर्वपरम् । संनि- पत्योपकारकाङ्गजन्यापूर्वाणाम् , द्रव्यदेवनान्यतरगतशयन सकाङ्गजन्यद्रव्यदेव- तागतिशय नाम् । (आरादुपकारकति ।) आत्मनिराजनकेत्यर्थः । इदं तु बेध्यम-रमवायरबन्धेन परम.पू प्रति समवाय संबन्यन पत्त्यपूर्व कार- णम् । समवायसंबन्धेन स्वर्गसुखं प्रति ममपायसंबन्धेन परमापूर्व कारणम् । एवं समुदाया प्रत्युत्पत्त्यपूर्व कारणम् । परमापूर्वगतफलजनना कूलयोग्यता प्रति आरानुपकारकानन्यापूर्व समवायघटितसामानाधिकरण्यसंबन्धेन कारणम् । आत्मसमवायिनि याग दो स्वरूपसंवन्येनोत्पत्यपूर्वजन्नानुकूल योग्या प्रति स्वाश्रय यदेतान्यतरनन्यत्वसंवन्धन संनिपयोपकारकाङ्गनन्यापूर्व कारणम् । स्वनन्यभोगसमवायित्वबन्धेन आत्मन्गुत्पन्नपश्वादकं प्रति समवायमंबन्धेन परमापूर्व कारणम् । स्वाश्रयपितृकत्यमबन्धन पितृतृप्तिरूपफलं प्रति समवाय- संबन्धन पितृश्राद्धादिनन्यपरमापूर्व कारणम् । स्वाश्रयपुरकत्वसंबन्धेन पूतत्वं प्रति जातष्टिजन्यपरमाएवं समवायसंबन्धन कारणामांत ॥ २ ॥ धात्वर्थादपूर्वमिति स्थिो वाहीनकहन्ति' इयत्रामातत्याप्यदृष्टार्थ- स्वापत्तित्विर्थत्वादिति दृष्टान्तः संगतिः । तानि गुणप्रधान- भारकल्पतर ७ भूनानि ॥ तानि भावार्थानि कर्मार्थानि तिन्तपदानि गुणभूतानि प्रधान भूनानि चेति द्वैविध्वं गतानीति सूत्रार्थः । यैस्तु द्रव्यं न चिकीर्ण्यते तानि प्रधानभूनानि द्रव्यस्य गुणभूतत्वात् ॥ तुः संभाव्यमाना- शकाने प्रत्ययः । यः 'मोमेन यनत' इत्यास्तिानार्थः द्रवं सोमादिकं संस्कन चिफ.प्यो तानि तिङन्त पदानि प्रधानभूतानि आत्मनिष्ठादृष्टजनकत्वेन द्रव्यगनादृष्टाननकत्वाच्यापेक्षया प्रधानभूतानि द्रव्यस्य सामादेः यागापेक्षया गुणभूतत्वादिति सत्रार्थः । यैस्तु द्रव्यं चिकीर्ण्यते गुणस्तत्र प्रती- येर तस्त्र द्रव्य प्रधानत्वात् ॥ तुः पूर्ववत् । यः ‘बीहोनवहन्ति । इत्यादिगौरववातादिभिः द्रव्यं ब्रीद्यादि चिकीर्ण्यने वैतुष्यादिविशिष्टत्वेन कर्नु. मिप्यते तत्र तेयु गणः द्रव्यापेक्षया गुगभावः प्रतीयेत तस्य द्रव्यस्य संस्कार्य: स्य द्रव्यस्य प्रधानत्वात् क्रियाजन्यातिशयाश्रयत्वेन क्रियापेक्षया प्रधानत्वादिति सूत्रार्थः । स एव, नियमस्यावधाताश्रितत्वादेव । तस्य, अवघाताश्रित. नियमस्य । जन्यत्वमात्रम्, अघातजन्यत्वमात्रम् । तत्कल्पनात्, प्रयोज- कत्वकल्पनात् । आः, वैतुष्यस्य प्रयोजकत्वात् । तल्लोपः, अवघातलोपः । आर्थिकविध्यन्तरकल्पनात्, 'अवघातनादृष्टं संशदयेत्' इत्याकारकवाक्यकल्प. नात् । जन्यद्वयोक्तेः, वैतुप्यादृष्टरूपफलद्वयोक्तेः । द्वितीयादिधर्भिग्राहकप्रमा. णन, द्वितीयादिविभक्तिरूपं यददृष्टरूपधर्भिग्राहकप्रमाणं तेन । धर्मित्वं चार- एत्य व्रीया दस्थत्वापेक्षया बोध्यम् । तत्तेनैव, व्रीहित्वनैव ॥ ३ ॥ प्रोक्षणादः संस्कारकर्मले अवघातादृष्टं प्रयोजनं वक्तव्यम् । तदभावा- स्प्रधानकर्मवमेवेति प्रत्युदाहरणमंगतिः । धर्ममात्र तु कर्म स्यादनिर्वते प्रयाजवत् ॥ धर्ममात्र दृष्टोपकारननके प्रोक्षगादी प्रयानवत् प्रधानकति व्यवहारः स्यात् द्रव्यनिष्ठोपकारस्य प्रोक्षगादिना निवृत्तः अनिष्पत्तरिति पूर्वपक्षसूत्रार्थः । तुल्यत्वादेतरैः सधर्मः स्यात् ॥ श्रीहीन्' इति द्वितीयाश्रुनेगुंगकमत्वप्रयोनिकायाः 'वीहीनवहन्ति' 'नीहीन्प्रोक्षति' इत्यन योस्तुल्यत्वाद इतरैः अवघातादिभिः सधर्मः सहसः प्रोक्षगादिः स्यात् इति - भादीपिकाव्याख्या सिद्धान्तमूत्रार्थः । ('कर्मणि द्वितीया' इत्यनुशासनादिति ।) क्रियत इति कर्मेति व्युत्पत्त्या जन्यार्थककर्मशब्देन सप्तम्यन्तेन द्वितीयार्थस्यानुशासनात् । ('घटं करोति' इत्यादिप्रयोगाच्च साध्यत्वमेव द्वितीयार्थ इति ।) 'कर्तुरीप्सित- तमं कर्म' इत्यनुशासने कर्तृपदस्वारस्येन कृत्यधीनत्वं कर्मत्वमिति पर्यवस्यति कृत्यधीनत्वं च कृतिनिरूपितविधेयताख्यविषयतापरपर्याय मुत्पत्तिमत्त्वम् ; अत एव 'घटं करोति' इत्यादो कृतिनिरूपितविधेयताख्यविषयतायां द्वितीयायाः प्रयोगः; 'ग्रामं गच्छति' इत्यादौ मिद्धस्य ग्रामादेः स्वरूपतः कृतिनिरूपित- विधेयताख्यविषयताभावेऽपि क्रियाजन्य योगविशिष्टत्वेन रूपेणोक्तविषयता- सत्त्वाद्वितीया नानुपपन्ना ; तथा 'व्रीहीन्प्रोक्षति' इत्यादौ संस्कारविशिष्टत्व- रूपेण तीहीणामुक्तविषयतारूपजन्यत्वमशुण्णा मिति भावः । (न सत्रद्वयवैयर्थ्य- मिति ।) 'अग्नर्माणवकं वारयति' इत्यादौ ईप्सितयोरग्निमाणवकयोः 'वार- णार्थानामीप्सितः' इति सूत्रेणोक्तविषयत्वरूपकर्मत्यवायेनापादानत्वापत्तौ माण- वकस्याप्यपादानत्ववारणाय 'कर्तुरीप्सिततमम् इतीप्सिततमस्य माणव- कस्य कमत्वार्थ सूत्रम्, द्वेप्यादासीनयोर्गमनादिकर्मत्वसंग्रहार्थम् 'तथायुक्तं पानीप्सितम्' इति सूत्रमिति भावः । (दृष्टद्वारासंभवेऽपि चेति ।) प्रोक्षणस्ये- त्यादिः । (अनीमितकर्मत्वनेति । ) सानां भूतभाव्गुपयोगस्य दृष्टस्याभावेन हामभावनानिरूपितविधेयताख्यविषयतारूपोत्पत्त्याश्रयोक्तविधोपकारलक्षणफला - श्रयत्वरूपकर्मत्वाभावऽपि ईप्सिततमत्वाभावेऽपि च होमभावनायाः स्वनिरूपित- विषयनारूपसंबन्धसत्त्वात्तादृशसंवन्धवत्त्वेन सक्तूनां कर्मत्वसंभवादनीप्सितकर्म- स्वोपपत्तिरिति भावः । अदृष्टोपकारस्यापि, भूतभावीप्सितोपकाराख्यफलशून्यस्यापि सक्तोः । दृष्ट उपकारो यस्य स दृष्टोपकारः न दृष्टोपकारः अदृष्टोपकार इति विग्रहः । अथ वा अदृष्टरूपश्चासायुपकारश्चादृष्टोपकार इति विग्रहः । एतत्पक्षे होम- भावनाया इप्सितकर्मरूपभाव्यापेक्षायाः सत्त्वात् ईप्सितादृष्टाख्योपकारस्यापि तुवकर्मत्वेन भावनान्ययावाश्यकतया द्विकर्मकत्वापत्तिरित्यर्थः ॥ ४ ॥ यथा यागीयद्रव्यगतानिशयाधायकत्वात्प्रोक्षणस्य गुणकर्मत्वं तथा .
भाहकल्पतरू. यागीयदेवताभिधानाख्यविषयतारूपातिशयजनकत्वात्स्तोत्रशस्त्रयोर्गुणकर्मत्वं स्या. दिति दृष्टान्नसंगतिः । स्तुतशस्त्रयोस्तु संस्कारो याज्यावद्देवता. भिधायित्वात् ॥ तुः प्रधानकर्मत्वव्यावृत्यर्थः । स्तोत्रशस्त्रयोः याज्यामन्त्र- वद्गणकमत्वं देवताभिधायकत्वादिति पूर्वपक्षसुत्रार्थः । अर्थेन त्वपकृष्येत देवतानामचोदनार्थस्य गुणभूतत्वात् ।। तुः पूर्वपक्षव्यावृत्त्यर्थः । स्तोत्रशस्त्रयाः शब्दरूपदेवनावोषकत्वेन संनिपत्योपकारकत्वाङ्गीकारे अर्थेन इन्द्रशब्दरूपदेवताप्रतिपादनसामर्थरूपलिङ्गेन ऐन्दी स्तुतिः महेन्द्रयागादपकृष्येत देवतानामकचोदनार्थस्य इन्द्रशब्दस्य (उक्तेन्द्रशब्दं प्रतीति यावत् ) स्तोत्र- शस्त्रयोर्गुणभूतत्वादिति सिद्धान्तसूत्रार्थः । (अभिधानस्यैवेति ।) अस्य भाव- कृदन्तत्वेन शाब्दबोधस्येत्यर्थः; अभिधीयतेऽननेति करणकृदन्तत्वे बोधजन- कस्येत्यर्थः । प्रयानशेषाधिकरणन्याथेन, 'प्रयानशेपेण हवींप्यभिधारयति' इत्यत्र प्रयाजशेषकरणकाभिधारणविधावभिधारणस्य दृष्टप्रयोजनाभावेनादृष्टार्थत्वा- पत्त्या तृतीयायाः कर्मत्वलक्षणामङ्गीकृत्य प्रयानशेषमभिधारणेन संस्कुर्यादिति दृष्टार्थत्वानुरोधेन लक्षणा न दोषायेति न्यायेन । लिङ्गादेव, स्तोत्रशस्त्रगत- सामर्थ्यादेव । ताडक्त्वोपपत्तौ, गुणिगतगुणप्रकाशने गुणिनोऽपि प्रकाशनेन गुणिप्रकाशकत्वसिद्धयुपपत्तौ । विधिवैयर्थ्यात् , 'आज्यैः स्तुवते' 'प्रउगं शंसनि' इत्याज्यसंज्ञकस्तोत्रविधिप्रउगसंज्ञकशस्त्रविधियर्थ्यात् । एवं च, स्तोत्र- शस्त्रयोरदृष्टार्थत्वसिद्धौ च । निगमेषु, निगमसंज्ञकमन्त्रेषु । सामान्यसंबन्ध- बोधकप्रमाणाभावेन, पूषानुमन्त्रणमन्त्रस्यानुमन्त्रणसमाख्यया यागसामान्य- संबन्धबोधादुत्कर्षवत् ऐन्द्रीस्तुतेस्तादृशोत्कर्षनियामकसामान्यसंबन्धबोधकप्रमाणा. भावेन । मनोतास्थाग्निशब्दवत् , 'त्वं ह्यने प्रथमो मनोता' इति मन्त्रस्थाग्नि- शब्दवत् ॥ ५॥ विधायकनिङन्ने विचारित प्रसङ्गादभिधायकतिडन्तपदं विचार्यत इति प्रसङ्गसंगतिः । विधिमन्त्रयोरैकार्यमैकशब्द्यात् ॥ 'यस्योभयं हविरातिमाच्छेन्- 'देवांश्च याभिर्यजते' इति विधिमन्त्रयोः श्रूयमाणतिरुन्त.
मादीपिकाध्याख्या पदयोः 'सामेन यत' इति तिङन्तपदस्य योऽयों विधायकत्वं तत्परत्वं स्यात् तिअन्तत्वेन रूपेण शब्दसारूप्यादिति पूर्वपक्षसूत्रार्थः । अपि पा प्रयोगसामान्मन्त्रोऽभिधानवाची स्यात् ॥ अपि वेति पूर्व- पक्षल्यावृत्तौ । प्रमाणान्तरावगतेऽर्थे उदाहृतविधिमन्त्रगतपदानां प्रयोगात् 'ददामि । 'गृहामि' इत्यादी परप्रवनारूपाविधिशक्तिप्रतिबन्धकोत्तमपुरुषप्रयो. गात् । मन्त्रपदेनोदाहां मन्त्रवाक्यं ब्राह्मणवाक्ये उत्तमधुरुषवाटतवाक्यगत- तिहन्तपदं विवक्षितम् , तदेतत्समभिधानवाचि अभिधीयत इत्यभिधानं धात्वर्थ आख्यातार्थकृतिश्चत्यर्थद्वयाभिधायकं न तु प्रेरणारूसम्याज्ञानज्ञापनव्याप्यस्य विधेरभिधायकामेति सिद्धान्तसूत्रार्थः । याभिः, गोभिः । यस्य, सांनाय्य- यागस्य । उभयम् , दधि पय इत्युभयम् । इदं तु बोध्यम्- न यच्छब्दस्य विधिकुण्ठकत्वं युक्तम्, 'य एवं विद्वाननिं चिनुते' 'योऽदाभ्यं गृहीत्वा सोमाय यनते' 'यदाग्नेय--' इत्यादी यच्छन्दसत्त्वेऽपि विधिस्वीकारात् । मच यच्छब्दस्य तच्छब्दावधि विधिकुण्ठकत्वमि यपि युक्तम्, 'यस्त्वतमेवं मादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते स सर्वेषु लोकेषु सर्वत्र भूतेषु सेवेवात्मस्वन्नमत्ति' इत्यादो यत्तच्छन्दमध्ये वैशानरात्मोपास्तिावधिदर्शनात् । न च यच्छब्दस्य प्रमिद्धार्थकाया संघटितवाक्यन्य प्रमाणान्नरांसद्धानुवादक- तया न विधित्वमिति ज्ञापयितृत्वं विधिकुण्टकत्वमित्यपि वक्तुं शक्यम् , तर्हि प्रमागान्तरस्येव विधिकुण्ठकत्वपर्यवसानेन यच्छब्दस्य तत्कुण्ठकत्वासिद्धः । तस्मादेवं वाच्यम् -- यत्र क्वचन एकस्मिन्प्रकरण एकार्थकं वाक्यद्वयं तत्र विनिगमकाभावेन कस्य विधित्वं कस्य वानुवादत्वमिति शङ्कायां यत्र यच्छब्दो पर्तते तदनुवादकमित्येतत्समर्पको यच्छम इति । तदपि न समीचीनम् , प्राथ- मिकवाक्यस्य विधित्वं पाश्चात्त्यस्यानुवादत्वमिति निर्णयसंभवात् । एवमेवकार- स्थापि न विधिकुण्ठकत्वं युक्तम्, 'अत्र ह्येवावपान्त' 'अत एवोद्वपान्त इत्यादी 'सत्यमेव वदेत्' इत्यादो च विधिदर्शनात् । न च एवकारस्य स्वसमभि- व्याहतार्थविधिकुण्ठकत्वं न तु स्वार्थविधिकुण्ठकत्वम् उक्तस्थलेष्वेवकारार्थस्य १ भाहकल्पतरुः . विधानं न तत्समभिव्याहतार्थस्येति शङ्कयम्, 'तिस्त्र एव साहस्योपसदो द्वादशाहीनस्य' इत्यादौ उपसदुद्देशेनैवकारसमभिव्याहृतार्यस्य त्रित्वस्य विधि- स्वीकारात् । एवं मध्यमपुरुषस्यापि न विधिशक्तिकुष्ठकत्वं युक्तम्, 'प्राणो- ऽस्मि प्रज्ञात्मा तं मामायुरमृतमुपास्स्व' इत्यत्र विधिस्वीकारात् । एवं न लडि- भक्तेविधिकुण्ठकत्वं युक्तम् , 'समिधो यनति' 'तनूनपातं यजति' 'औदुम्बरो यूपो भवति' 'उपांशुयानमन्तरा यनति' इत्यादी विधिस्वीकारात् । एवं हि- शब्दस्य विधिप्रतिबन्धकत्वं न युक्तम्, 'उपरि हि देवेभ्यो धारयति' इत्यादी विधिदर्शनात् । फलवाचकश्रूयमाणपदासमभिव्याहतधारयतीत्युदाहृतस्थलादौ लटः प्रधानोपकारफलानुकूलादृष्टान्यतररूपप्रकरणादिकल्पितादृष्टसमानकालीनत्वमर्थः । साधनवाचकशब्दसमभिव्याहृतफलवाचकशब्दस्थलटः 'उदेति हि वै संवभ्यः पाप्मभ्यो य एव वेद' इत्यादौ साधनानुष्ठानकालीनस्वमर्थः । न तु लोके 'पचति' इत्यादाविव शब्दप्रयोगाधिकरणक्षणवृत्तित्वम् , श्रुतिस्मृत्योस्तदसंभवात् । अपि- शब्दस्तु समुच्चयविरोधगर्हासंभावनास्विति कोशव्याकरणयोः प्रसिद्धः । 'ईश्वरं गुरुमपि भनस्व' इत्यादी अपिः समुच्चये, तद्वाक्य श्रवणे समुच्चयस्यैव पद- संदर्भस्वारस्येन प्रतीतेः । 'ईशन्नपि महायोगी सर्वस्य जगतो हरिः । कर्माण्या- रभते कर्तु कीनाश इव दुर्बलः' इत्युद्योगपर्वीयसंजयवाक्ये अपिः सर्वजगदीशि- तृत्वस्य देवतान्तराराधनात्मककर्मानुष्ठानेन विरोधं कथयति । इवशब्दः कर्म- करणस्य विडम्बनरूपत्वं द्योतयन्विरोधं परिहरति । तथा 'अनोऽपि सन्नव्य. यात्मा भूतानामीश्वरोऽपि सन् । प्रकृति स्वामधिष्ठाय संभवाम्यात्ममायया' इत्यत्र अपिशब्दः संभावनात्मकोत्पत्त्या साकमनुत्पत्तिमत्त्वरूपानत्वाव्ययत्वसर्व- भूतेश्वरत्वानां विरोधं कथयति । सन्निति शब्दः अनत्वादीनां सत्तां ज्ञापयत्नु- त्पत्तेरसत्तारूपविडम्बनत्वबोधद्वारा विरोधं परिहरति । कर्माधीनशरीरग्रहण- रूपोत्पत्तेः खल्वनत्वादिना विरोधः, न त्वैच्छिकतहहणस्येति द्योतयितुं माय- येति शब्दः । 'क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत' इत्यादौ चशब्देन क्षेत्रसमुच्चयस्य सिद्धत्वेन अपिशब्दो न समुच्चयार्थकः, अपि तु भगवति क्षेत्रज्ञ- 66 भारदीपिकापाव्या शब्दितमीवाभेदे समानाधिकरणनिर्देशसिद्धेऽनभिमतार्थस्वीकारविषयत्वरूपाम् 'तुण्यतु दुर्जनः' इति न्यायसिद्धां गही कथयति । एवमप्यविमाक्षप्रसङ्गः' इत्या- दावप्येवंशब्दोत्तरापिशब्दो गर्थिक एव, अपिशब्द एवंशब्दोत्तरत्वस्यानभि. मतार्थस्वीकारार्थत्वप्रयोजकत्वस्य सर्वसंप्रतिपन्नत्वात् । 'चण्डालमपि वृत्तस्थं तं देवा ब्राह्मणं विदुः' इत्यत्रापिशब्दो वृत्तस्थत्वे चण्डालमपि ब्राह्मणं विदुः कः संदेहोऽन्यस्य ब्राह्मणादेवृत्तस्थत्वे ब्राह्मणपदव्यवहार्यत्वविषय इत्याकारिकां संभावनां कथयन्वृत्तस्थत्वं प्रशंसनि; चण्डाले वृत्तस्थे ब्राह्मणपदव्यवहार्यत्वं संदिग्धमिति च ज्ञापयति, तथैव तद्वाक्यश्रवणे ज्ञानोत्पत्तः सार्वजनीनत्वात् । 'स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति। 'स्त्रियो वैश्यास्तथा शूद्रास्ते. ऽपि यान्ति परां गतिम् ' 'आर्तानामाशुफलदा सकृदेव कता ह्यसौ । दृप्तानामपि जन्तूनां देहान्तरनिवारिणी' 'भुवि त्वां कथयन्तोऽपि सिद्धिभेष्यन्ति राघव' 'तेऽापे चातितरन्त्येव मृत्युं श्रुतिपरायणाः' 'नीचादप्युत्तमा विद्या स्त्रीरत्नं दुष्कुलादपि' 'दशप्रणवसंयुक्ताः प्राणायामास्तु षोडश । आपे भ्रूणहनं मासा- त्पुनन्त्यहाहः कृताः' इत्यादावप्यपिशब्दः संभावनार्थक एव, तस्या एवोदाहृत. तत्तद्वाक्यश्रवण स्वरसतः प्रतीतेः । अपिशब्दस्य संभावनार्थत्वप्रयाजकं तु अल्पकालस्य कुत्मितदेशस्य च जातितः स्वभावतो गुणतः संख्यातो वा यदप- कृष्टतया प्रतीयते तस्याल्पप्रयासलाध्यमहार्थसाधनक्रियात्वतः प्रतीयमानक्रियाया अत्युत्कटपापत्वेन प्रतीयमानपापस्य वा प्रतिपादकन शब्देनाव्यवधानामेत्य- लम् । न च 'न चापि' इत्यत्रापिशब्दस्य न गर्दाथत्वं युक्तम् ‘अपि च' इति समस्तस्यैकाव्ययत्वात् 'चापि' इत्यस्य समुदायस्यैकाव्ययत्यसंभवादिति वाच्यम्, तस्येवास्यकाव्ययत्वस्य कोशादिप्वाक्तेः ॥ ६ ॥ मन्त्रप्रसङ्गात्प्रसङ्गसंगत्या मन्त्रो निरूप्यते । तचोदकेषु मन्त्रा- ज्या ॥ चोदकेषु विधिचोदिताध्ययनविषयीकृतेषु या मन्त्र इत्याख्या वैदि- कानां तद्वत्त्वं तन्मन्त्रलक्षणमिति सूत्रार्थः । मन्त्रत्वम्, मन्त्रत्वनातिः ॥ ७ ॥ बेदगतमन्त्रमागे निरुपिते अपरस्य ब्राह्मणभागस्योपस्थितत्वात्प्रसार संगतिः । शेषे ब्राह्मणशन्दः ॥ शेषे मन्त्रव्यतिरिक्तवेदमागे ब्राह्मण- मिति शब्दः वैदिकानां प्रसिद्ध इति सूत्रार्थः । ब्राह्मणत्वम् , विध्यर्थवादोप- निषत्साधारणधर्मविशेषः ॥ ८॥ मन्त्रातिरिक्तवेदत्वरूपबाह्मणत्वे निरूपिते तद्घटकमन्त्रस्य स्वरूप प्रसङ्गाद्विशेषतो निरूपयति । अनानातेष्वमन्त्रत्वमानातेषु हि विभागः स्यात् ॥ हि यस्मात् आम्नातेषु पदेषु मन्त्रब्राह्मणविभागः तस्मात् अनाम्नातेष्वमन्त्रत्वमेवेति सूत्रार्थः । (उहप्रवरनामधेयानामिति ।) अहः अग्निपदस्थाने सूर्यपदप्रक्षेपः, प्रवरः काश्यपादिः, नामधेयम् उच्चार्यमाण- देवदत्तादिपदम् ॥ ९॥ मन्त्रत्वं नानाम्नातवृत्तीत्युपपादिने मन्त्रत्वव्याप्या धर्मा उपस्थिता निख- प्यन्त इति प्रसङ्गसंगतिः । तेपामृग्यत्रार्थवशेन पाव्यवस्था । तेषां मन्त्राणां मध्ये यत्र यस्मिन्मन्त्रे अर्थवशेन पादव्यवस्था 'अन्न आयाहि वीतये' इत्यादौ सा ऋक् इति सूत्रार्थः ॥ १० ॥ तत्प्रसङ्गाद्वयापकधर्माधीनव्याप्योपस्थितेः प्रसङ्गसंगतिः । गीतिषु सामाख्या ॥ गीतिमन्त्रेषु सामेत्याख्येति सूत्रार्थः । सामत्वम् , मन्त्रत्वम् ॥ ११ ॥ शेष यजु:शब्दः ॥ शेषे ऋक्सामभिन्ने मन्त्रे यनुरिति शब्दः प्रसिद्ध इति सूत्रार्थः । तत्त्वात् , यजुष्टात् ॥ १२ ॥ 'इषे त्वा' इत्यादौ यथा यजुर्मन्त्र इति प्रसिद्धया ऋक्सामभिन्नो यजु- मन्त्रः तथा 'नमः प्रवक्त्रे' इत्यादौ निगदमन्त्र इति प्रसिद्धया ऋक्सामयजु- मन्त्रभिन्नो निगदमन्त्रः स्यादिति दृष्टान्तसंगतिः । निगदो वा चतुर्थः स्याद्धर्मविशेषात् ॥ निगदमन्त्रः उक्तत्रिविधमन्त्रापेशया चतुर्थः स्यात् 'उपांशु यजुषा, उच्चैर्निगदेन' इति यजुर्निगदयोधर्मविशेषकथनादिति पूर्वपक्ष- सूत्रार्थः । गुणार्थो व्यपदेशः ॥ अक्सामभिन्नमन्त्रस्वरूपयजुर्लक्षणाक्रान्ते निगदे 'उपांशु यनुषा, उचैर्निगदेन' इति यजुर्यो व्यपदेशमेदः उबैठकर- साम- मादीपिकाव्याख्या गुणविधानार्थः, नातो निगदस्य यजुषः सकाशाद्भेदसिद्धिरिति सिद्धान्तसूत्रार्थः। (आश्विनादौ पारिप्लवशंसनं वेति ।) वाचःस्तोमकतावाश्विनग्रहकाले 'सर्वा ऋचः सर्वाणि यजूंषि सर्वाणि सामानि पारिप्लवं शंसति' इति विहितपारिप्लव- संज्ञकशंसने निगदानां यजुःवेव शंसनं सिध्यति, तदभावे शंसनं न सिध्यतीति भावः ॥ १३॥ यजुष्ट्वे निरूपिते कियत्पदसमूहस्तदाश्रय इति प्रसङ्गात्तदाश्रयो निरू- प्यते । अथैकत्वादेकं वाक्यं साकाङ्क्ष विभागे स्यात् ॥ यद्विभज्यमानपदसाकाझं पदनातं स्यात् तत् अर्थकस्वात् एकविशिष्टार्थत्वात् एकं वाक्यमुच्यत इति सूत्रार्थः । (भिन्नप्रतीतीति ।) भिन्नपदनन्यपदार्थोप- स्थितीत्यर्थः । व्रीहियववाक्ययोः, 'व्रीहिभिर्यजेत' 'यवैर्यजेत' इति वाक्ययोः । 'भगो वां विभनतु' इत्यादौ, 'भगो वा विभजतु' 'पूषा वां विभजतु' इत्यादौ । भिन्नप्रतीतिविषयत्वे, भिन्नभिन्नाख्यातजन्योपस्थितिविषयत्वे । (अर्थे- कत्वमिति ।) स्यादिति शेषः ।। १४ ॥ उक्तैकवाक्यत्वघटकविभज्यमानपदसाकासत्वम्य पर्याप्त्यधिकरणं किमिति पर्याप्त्यधिकरणस्योपस्थितत्वात्प्रसङ्गसंगत्या तन्निरूप्यते प्रत्युदाहरणमुखेण ।समे- पु वाक्यभेदः स्यात् ॥ समेषु अपर्यायपदाघटितपदसमूहेषु वाक्यभेद एव स्यात् साकाङ्क्षपदनातत्वाभावादिति सूत्रार्थः । ( यथा 'इषे त्वा' इति ।) 'इपे' इत्यस्य 'उनें' इत्यस्य चान्नार्थकत्वादुभयत्र 'त्वा' इत्यनयोरेकार्थत्वात् 'इषे स्वा' 'ऊ त्वा' इत्यनयार्वाक्ययोरेकार्थत्वम् , आयुःप्राणशब्दयोरेकार्थ- स्वात् 'आयुर्यज्ञेन कल्पताम्' 'प्राणो यज्ञेन कल्पताम्' इत्यनयांश्च एकार्थत्व- मिति भावः । (क्लप्ती चयति' इति बहुवचनादिति ।) उक्तबहुवचन- सामर्थ्येन 'आयुर्यज्ञेन कल्पताम्' 'प्राणो यझेन कल्पताम्' इत्युक्ताः क्लप्त्य- • मिन्ना इति भावः ॥ १५ ॥ वाक्यस्वरूपविचारप्रसङ्गात्तद्विषयं प्रकारान्तरं चिन्त्यते । अनुषङ्गो पाक्यपरिसमाप्तिः सर्वेषु तुल्ययोगित्वात् ॥ सर्वेषु या ते - भाहकल्पतरः अग्ने-' इत्यादिषु त्रिषु वाक्यपरिसमाप्तिः यस्यानुपङ्गेण, तस्य सर्वर्षिष्ठा' इत्यस्यानुषङ्गः; कुतः? तुल्ययोगित्वात् प्रथमेनेवोपरितनाभ्यामपि तनूर्वर्षिष्ठा' इत्यस्य तुल्यसंबन्धादिति सूत्रार्थः । अयाशया, अयः आशयं स्थानं यस्या- स्तनोः सा अयाशया । वर्षिष्ठा, कामवर्षिणी । रजाशया, रजः आशयं यस्याः सा । हराशया, हरः आशयो यस्याः सा । हे अग्ने ते तव या अया- शया तनूः सा अस्माकं कामवर्षिष्ठा भूयादिति वाक्यार्थः ॥ १६ ॥ पुनरपि प्रसङ्गाद्वाक्यविषयं प्रकारान्तरं चिन्त्यते । व्यवायामानु पज्यते ॥ व्यवायात् असंबन्धिपदव्यवधानात् गच्छतामित्येतत् उत्तरत्र नानु- पज्यते इति सूत्रार्थः । यजत्रैः, यजत्रैः सह ॥ १७ ॥ इति भाकल्पतर्वभिधायां भादीपिकाव्याख्याया द्वितीयाध्यायस्व प्रथमः पादः। द्वितीयः पादः। धात्वर्थमुपजीव्यैव तद्भेदस्य सदवच्छिन्नभावनाभेदस्य च निरूप्यत्वा- द्धात्वर्थपादन पूर्वण तद्भेदपादस्यास्योपजीव्योपजीवकभावः संगतिः । अनन्तर- संगतिस्तु स्तुतशस्त्राधिकरणन वक्तव्या । तदुत्तराधिकरणानां प्रसक्तानुप्रसक्त- विचारत्वात् । धात्वर्थभेदप्रयोजकस्य धात्वर्थस्य स्तुतशस्त्रान्ताधिकरणैर्निरूपि- तत्वेनास्य तेनावान्तरसंगनिः । शब्दान्तरे कर्मभेदः कृतानुषन्ध- स्वात् ॥ शब्दान्तरे, यनिधातुशब्दादाधातुः शब्दान्तरम्, तस्माद्यनिधातुः शब्दान्तरम्, एवरीत्या परस्परविजातीयार्थकधातुरूपशब्दान्नरे सति, कर्म- भेदः भावनाभेदः, न ह्यत्र कर्मभेदशब्दो धात्वर्थभेदपरः, धात्वर्थभेदस्य शब्दा- न्तरपदान्तर्गततयैव प्रतीतेः; कृतानुबन्धत्वात् धात्वर्थभावनयोहेतुहेतुमद्भावेन कृतसंवन्धत्वात् विनातीयधात्वर्थरूपकार्यानुरोधेन कारणभूतभावनावनात्याव. यिकत्वादिति सूत्रार्थः । ज्योतिष्टोमपदं च, 'त्रिवृत्पश्चदशसप्तदशएकविंश भारदीपिकाव्याख्या एतानि वाव ज्योतींषि य एतस्य स्तोमाः' इति ताण्डिमहाब्राह्मणवचनरीत्या उक्तज्योतीरूपस्तोमविशिष्टयागाभिधायकज्योतिष्टोमपदं च | ज्योतींषि स्तोमा यस्य यागस्य स ज्योतिष्टाम इति विग्रहः । छत्रिन्यायेन, 'छत्रिणो यान्ति' इत्यत्र च्छत्रिपदस्य च्छयच्छत्रिसमुदाय इव ज्योतीरूपस्तोमयुक्तयागतद्भिन्न- दानहोमघटिनसमुदाये ज्योतिष्टोमपदं नामवेयमिति भावः । मूलोक्तात्, शाबर- भाष्योक्तसंख्यातः । प्राप्तभावनानुवादेन, फलवाक्यविहितभावनानुवादेन । सोम- पागाधनेकविधाने, 'सोमेन यत' इति वाक्येन सोमयागयोर्द्वयोर्विधाने 'हिर- प्यमात्रेयाय ददाति' इत्यनेन हिरण्यस्य आत्रेयस्य दानस्य च विधाने । वाक्यभेदापत्तेः, सोमादिवाक्येषु प्रत्येकं वाक्यभेदापत्तेः ॥ १ ॥ शब्दान्तराद्भावनाभेदे निरूपिते 'समिधो यति' इत्यादौ तदभावा- भावनाभेदो न स्यादिति प्रत्युदाहरणसंगतिः । एकस्यैवं पुनःश्रुतिर- विशेषादनकं हि स्यात् ॥ अविशेषेण एकस्य एकनातीयस्य पुनः पुनः श्रवणम् एवं शब्दान्तरवभावनाभेदसाधकम् अन्यथा पुनर्वचनमनर्थक स्यादिति सूत्रार्थः । सुत्रे अविशेषादित्यनेन पुनः श्रवणेऽनन्यपरत्वं विवक्षितम् , तेन 'अग्निहोत्रं जुहोति' इति विहितहामोद्देशेन दध्यादिरूपान्यविधिपरे 'दधा नुहोति' इति वाक्यगतजुहोतिपदे तु न कर्मभेदविधिः । एकत्वसाधकत्वेन, अभेदसाधकस्वेन । समित्प्राप्तिः, प्रथमवाक्योक्तसमिद्देवतायाः प्राप्तिः । सा, प्रथम- वाक्योक्तप्रयानयागे देवतात्वेन प्राप्तिः । (तनूनपादादिशब्दितानामपीति ।) देवतानामिति शेषः । अविशिष्टा, समिद्देवतातुल्या । ननूपांशुयाने याज्या- मन्त्रेण देवताप्राप्तेर्न तत्र समिदादिवाक्यैदेवताविधिः संभवतीत्यत आह- न च संभवत्प्राप्तिकतति । तेषाम्, समिदादिवाक्यानाम् । उपपदार्थस्य, समिध इत्याधुपपदार्थस्य देवतायाः ॥ २ ॥ यथा समिदादिवाक्यप्तभ्यामात्कर्मभेदस्तथा 'य एवं विद्वान्-' इत्या- दिविद्वद्वाक्ययोरपि कर्मभेदः स्यात्प्रकताग्नेयादिभ्य इति दृष्टान्तसंगतिः । प्रक- रणे तु पौर्णमास्यां रूपावचनात् ॥ पौर्णमास्याम् 'पौर्णमासीम् ।
भासकरपताः 'अमावास्याम्' इत्यादिपदघटितविद्वद्वाक्ययोः प्रकरणं प्रकृतमामेयादियागमात- मभिहितं नापूर्वयागान्तरम् अपूर्वयागापेक्षितद्रव्यदेवतारूपाभावात् इति सूत्रार्थः । तत्रत्य एव, दर्शपूर्णमासप्रकरणस्थ एव । ('यो दीक्षितः' इतिवदिति ।) 'यो दीक्षितः, यदशीषोमीयं पशुमालभते' इत्यत्र य इत्यस्य संनिहितदीक्षा विधिप्रतिवन्धकवेडाप व्यवहितपश्वालम्भविष्यप्रतिबन्धकत्ववत् अत्रापि य इत्यस्य संनिहितवेदन विधिप्रतिबन्धकत्वेऽपि व्यवहितयज्यर्थविधिप्रतिबन्धकत्वाभावादित्य: थः । अत एव, विधिप्रतिबन्धकाभावेन विहितयागयोर्नामधेयापेक्षावशादेव । ननु पौर्णमास्यादिपदस्य विद्वद्वाक्यस्थस्य नामत्वे तद्वाक्यविहितकर्मणोरपेक्षित- कालालाम इत्यत आह- पौर्णमास्यां पौर्णमास्येतीति । (कर्माङ्गत्वेन विधाना- दिी।) वानीवृन्वतीमन्त्राणामिनि शेषः । तत्साधारण्येन, प्रयानादि. साधारण्येन । तयोरेव, विद्वद्वाक्यपिहिाकर्मणोरेव । एक्कारणानेयादिन्यव- च्छंदः । दर्शपूर्णमामप्रतिपादकस्येत्यारभ्य संवेषामेव यागानां फलसंबन्ध इत्य- न्तः प्रथमपक्षस्योपादकः । (प्रातिपदिकस्याप्रसिद्धत्वादिति ।) आज्यभागयोः पौर्णमास्यमावास्याकालयुक्तत्येन विध्यदर्शनात्तत्र प्रातिपदिकाप्रसिद्धिारति भावः । पाशाधिकरणन्पायनेत्यारम्य कालयोगिनामेत्यन्तः प्रातिपदिकप्राधान्यावलम्ब्यु- प्रेक्षताक्षाभिप्रायक. । (कालयोगिनामिति ।) अस्य उपरितनफलसंबन्ध इत्य. नेनान्वयः । पाशाधिकरणन्यायनेत्यस्य प्रातिपदिकमात्रप्रसिद्धया इत्यनेनान्वयः । अनयोरवेत्यारभ्य फलसंबन्ध इत्यन्तः प्रत्ययप्राधान्यारल ब्युत्प्रेक्षितपक्षाभिप्राय- क. । अत एव, व्यवस्थाविधायकत्वादेव । नन्वाज्यभागयो. पौर्णमास्यमावा. स्याकालमंयोगविध्यदर्शनात्कालद्वारा कथं तयामन्त्रव्यवस्थेत्यत आह- कर्म- द्वारेण वति । (तस्यति ।) अस्य अज्ञातज्ञापनस्यत्येकोऽर्थः, अनेकविषयत्व इत्यत्र तदन्वयः; क्लप्तकविषयत्वस्येत्यपरोऽर्थः, बाधकप्रसङ्ग इत्यनेन तदन्य. यः । (वृत्तित्वसंबन्धनति ।) अत्र तृतीयाथोऽभेदः, तस्य बहुत्वलक्षणायें. त्येतद्घटकलक्षणायामन्वयः । (उपादानावगंतति ।) उपादानसामर्थ्यावगतेत्यर्थः । (न 'वैश्वदेवन यजेत' इतिवदिति ।) यथा 'वैश्वदेवेन यमेत' इति वाक्पगत.
भादीपिकान्याख्या पनिर्यागाष्टकानुवादक इति न तत्राभ्यासः तथात्रापीति भावः ॥ ३ ॥ विद्वद्वाक्यवद्रूपाभावादन्तरावाक्यं समुदायानुवादकं स्यादिति दृष्टान्त. संगतिः । पौर्णमासीवदुपांशुयाजः स्यात् ॥ पौर्णमासीवत् पौर्ण- मासीपदघटितविद्वद्वाक्यवत् उपांशुयानपदघटितमन्तरावाक्यं विष्ण्वादिवाक्य- सिद्धयागसमुदायानुवादकं स्यादिति पूर्वपक्षसूत्रार्थः । चोदना वाप्रकृत- स्वात् ॥ विष्ण्वादिवाक्यविहितयागानामुपांशुयानवाक्यात्पूर्वमप्रकृतत्वात् अन्त- रावास्यस्य तदनुवादकत्वानुपपत्तिरित्यन्तरावाक्ये कर्मचोदनैवेति सिद्धान्तसूत्रा- र्थः । गुणोपबन्धात् ॥ जामितानिर्हरणरूपगुणस्य उपक्रमोपसंहारयोरुप- बन्धात् जामितानिवर्तकैकार्यविधिपरत्वावगत्या बहूनां विष्ण्वादिवाक्यानां विधा- यकत्वानुपपत्तिः, किं त्वन्तरावाक्यविहितयागस्य पूर्वोत्तरसंदर्भः कृत्यनाप्यर्थ- वाद इति सूत्रार्थः । तत्रैव, दर्शपूर्णमासप्रकरण एव । जामिवा आलस्यम् । अन्वञ्चौ अव्यवधानेन वर्तमानौ पुरोडाशौ । यस्माद्यज्ञस्य पुरोडाशावन्वश्वौ तस्मादालस्यं क्रियत इति योजना । तत्प्रयोजनं च, अनुवादप्रयोजनं च । भाज्यस्यैव, आज्येनैव । नौ, आवाम् । कालसंबन्धात्, पौर्णमासीकाल- संबन्धात् । (फलसंबन्धः स्यादितीति ।) 'दर्शपूर्णमासाभ्याम्-' इत्यधिकार- वाक्येण दर्शपूर्णमासकालसंबन्धिनामेव फलबोधनादिति भावः । एकविषयत्वेन, नामितादोषपरिहारकैकक्रियाविषयकत्वेन । अत एव, वाक्यभेदापत्तेरेव । अन्यथेत्यस्य पुरोडाशान्तरालकालेत्यारभ्य फलसंबन्धोपपत्तावित्यन्तं विव- रणम् ॥ ४ ॥ वाक्यभेददोषस्य पूर्ववदत्राभावादग्निहोत्रवाक्ये समुदायानुवादः स्यादिति प्रत्युदाहरणसंगतिः । आधाराग्रिहोत्रमरूपत्वात् ॥ 'आधारमाघा- रयति' 'अग्निहोत्रं जुहोति' इति वाक्यं न विधायकम् , किं तु 'दना जुहोति' 'संततमाघारयति' इत्यादिषाक्योक्तकर्मसमुदायानुवादकम् ; कुतः? द्रव्यदेव- तादिल्परहितस्वादिति पूर्वपक्षसूत्रार्थः । चोदना वा शब्दार्थस्य प्रयो- गभूतत्वात्तत्सनिधेर्गुणार्थेन पुनःश्रुतिः ॥ वाशब्दः पूर्वपक्ष- भाहकल्पतरुः व्यावृत्यर्थः । उक्तवाक्यद्वय चोदना विधिः कर्मण आश्रयितव्यः, शब्दार्थस्य अग्निहोत्रसंज्ञकहोमस्य आघारसंज्ञकयागस्य च प्रयोगभूतत्वात् अनुष्ठेयत्वयोग्य- त्वात् 'दन्ना जुहोति' 'संततमाघारयति' इत्यादीनाम् 'अग्निहोत्रं जुहोति' 'आधारमाघारयति' इति वाक्यसंनिहितत्वात् अग्निहोत्राधारवाक्यविहितकर्मा- पेक्षितगुणार्थं दधिसंततादिवाक्येषु जुहोतीत्यंशस्य आधारयतीत्यंशस्य चानु- वादरूपपुनःश्रुतिरिति सिद्धान्तसुत्रार्थः । सर्वेषामेव, सर्वहोमानामेव । इतरथा; समुदायानुवादाभावेनाग्निदैवत्यानग्निदैवत्यहोमसामान्यस्याग्निहोत्रसंज्ञाया अलाभे । (द्रष्टव्यमिति ।) 'चतुर्गृहीतं वा एतदभूत्तस्यावारमाघार्य' इत्यस्मिन्वाक्ये प्रया- जाज्यरूपे मंस्कार्य आधारविनियोजके सर्वेषामेवाबाराणां ग्रहणं समुदायानुवाद- प्रयोजनमिति द्रष्टव्यमित्यर्थः । कर्मविध्यनुपपत्तिः, अज्ञातकर्मविषयकशाब्द- बोधानुपपत्तिः । तस्य, रूपज्ञानम्य ॥ ५ ॥ कर्मप्राप्त्यभावादग्निहोत्रवाक्ये कर्मसमुदायानुवादाभावेऽपि अत्र तत्प्राप्ते- हृदयादिवाक्येर्ग्रहणवाक्यैश्च संभवात्समुदायानुवादः पशवाक्ये सोमवाक्ये म स्यादिति प्रत्युदाहरणसंगतिः । द्रव्यसंयोगाचोदना पशुसोमयोः प्रकरणे ह्यनर्थको द्रव्यसंयोगो न हि तस्य गुणार्थेन ॥ पशु- सोमयोः 'अग्नीपोमीयं पशुमालभेत' 'सोमेन यनेत' इत्यनयोर्वाक्ययोः चोदना विधिः न समुदायान्वादः; कुतः? द्रव्यसंयोगात् हृदयादिवाक्यग्रहणवाक्योक्त- हृदयत्वरसत्वादिभिन्नपशुत्वसोमत्वनात्यवच्छिन्नद्रव्यबोधकपशुसोमपदसंयोगात् प्र- करणे प्रकृते हृदयादिद्रव्यकर्मणि गृह्यमाणे पशुसोमद्रव्यसंयोगः अनर्थकः स्यात् तस्य उक्तद्रव्यसंयोगस्य गुणार्थेन यागगुणप्रतिपादनेन प्रयोजनं न संभवतीति सूत्रार्थः । न तदुद्देशेनेत्यादेविधिरित्यन्तस्य ग्रन्थस्य अङ्गत्वेनाविहिते संस्कारयोग इत्यत्र तात्पर्यम् । (पूतीकवदिति ।) यथा 'पृतीकमभिषुणोति' इति संस्कारविधिबलात्पूतीकस्य यागसाधनत्वं तथा हृदयादीनां संस्कारविधि- बलात्तत्साधनत्वमनुमीयत इति भावः । तेनैव, 'आलभेत' इत्यनेनैव । व्रीहि- विधिवत् , पुरोडासप्रकृतित्वेन 'व्रीहिमियत' इति त्रीहिविधिवत् । अस्मि- B7 भादीपिकामाख्या पक्षे, पूर्वपक्षे । (अस्तुतशस्त्राणामिति ।) यागानामिनि शेषः । (वैश्वदेव- वदिति ।) विश्वेदेवदैवत्यान्यदैवत्ययागघटितसमुदाये वैश्वदेवपदं यथा गौणं तथा ज्योतीरूपस्नोमयुक्तयागतयुक्तयागघटिनसमुदाये ज्योतिष्टोमपदं गौण- मिति भावः । तद्वशात् , ज्योतिष्टोमनामवशात् । (ज्योतिष्टोमपदे बहुव्रीह्यर्थ- स्त्विति ।) पूर्वपक्षरीत्येति शेषः । (अतिदेशेति ।) दर्शपूर्णमासादतिदेशे- अर्थः । (निरूपकतासंबन्धेनेति ।) त्यज्यमानद्रव्योद्देश्यत्वरूपदेवतात्वस्य त्याग- रूपयागनिरूपितत्वाद्देवतात्वनिरूपकत्वं ग्रहणस्य न संभवतीति भावः । एवं सति, सोमपाक्यस्य यागविधायकत्वे तद्यागस्यैकत्वे च सति । आवृत्तिः, अभ्यासः । मा, अवदानगणप्राप्तिः । अव्यक्तत्वसिद्धिः, स्वागतयानभिहित- देवताकत्वसिद्धिः ॥ ६ ॥ यथा ग्रहणभेदेऽपि लाघवात्प्रतिग्रहणं यागस्यावृत्तिः तथा एकस्य हो- मस्य त्रिवारमावृत्तिः स्यादिति दृष्टान्नसंगतिः । पृथक्त्वनिवेशित्वा- संख्यया कर्मभेदः स्यात् ॥ द्वित्वादिसंख्यायाः साश्रयप्रतियोगि- कस्वाश्रयवृत्तिभेदव्याप्यत्वरूपष्टथक्त्वनिवेशित्वात् द्वित्वत्रित्वादिरूपसंख्यया कर्म- भेदः स्यात् स्वाश्रयकर्मरूपधात्वर्थभेदः स्यादिति सूत्रार्थः । अन्वयानुपपत्तेः, भावनान्वयानुपपत्तेः । प्रथमातिक्रमे, संख्यासु प्राथमिकैकत्वातिक्रमे । अत एव, श्रुतसंख्यायाः संख्याधुमितिप्रतिबन्धकत्वादेव । प्रकृता, दई पूणमासीय- 'समिधो यनति' -इत्यादौ । प्रकृतिविकृतिशून्यविरासंपत्तिवाक्ये उत्पत्ति- वाक्यप्रकरणस्थेऽनुमानप्रतिबन्धकमस्तीत्याशङ्को-न, चैवमिति । न चैवमित्येत- घटकस्य एवमित्यस्य श्रुतसंख्याया अश्रुतसंख्यानुमानबाधकवे इत्यर्थः । उत्पत्तिवाक्ये, इतरपदाविशेषित-'अग्निहोत्रं जुहोति'-इति वाक्ये । (स्वोप- जीव्येति ।) विराट्संपत्तिवाक्योफ्नीव्येत्यर्थः । तरय, त्द्वाक्यस्थविरा-छब्दित- दशस्वस्य । तदावृत्तिः, मन्त्रावृत्तिः । (यद्यपीत्यादि ।) यद्यपि 'देवतात्व. विशिष्टद्रव्यविशेषवाची तद्धितः' इति ग्रन्योऽसंगतः सोऽपि देवतात्वान्वयोत्तर- मित्युपरितनग्रन्थेन देवतात्वद्रव्ययोस्तद्धितस्थ पृथग्वृत्तिप्रतीतेः, तथापि यय- भारकरूपतरुः पीत्यनेनैव तत्पक्षेऽस्वरससूचनान्नासंगतिः । प्राजापत्यपद एवेत्येवकारेम प्रना- पतिपदे एकशेषव्यवच्छेदः । सोऽपि, संख्यान्वयोऽपि । सोऽपीत्येतद्देवतात्वे द्रव्ये च तद्धितस्य पृथक्छक्तिपक्षे इति बोध्यम्, विशिष्टशक्तिपक्षे द्रव्ये देव- तात्वान्नयस्यैवाप्रसक्तः । देवतात्वप्रतिसंबन्धिनि, देवतात्वस्य विशेष्ये । साहि- त्यानवगमेन, देवतात्वान्वयात्पूर्वकाले द्रव्ये साहित्यरूपान्वयितया साहित्यस्य देवतात्वसंबन्धितावच्छेदकत्वानवगमेन । अनेकत्वावगमात् , बहुत्वान्वयवशेन देवतात्वसंबन्धिद्रव्यानेकत्वावगमात् । तत्संबन्धभेदेन, 'विशिष्टान्वयिनि विशे- षणान्वयः' इति रीत्या देवतात्वरूपसंबन्धभेदेन । प्रकृतिप्राप्तेत्यादेरुत्तरमन्वय इत्यन्तम्य पशुयागसामान्यप्रकृतावनीषोमीये एकत्वविशिष्टो यः पशुस्तादृशपशु- निप्पन्नैकादशावदानसमुदायस्य यदेकत्वं स्वाश्रयद्वारा विकृतौ प्राजापत्यपशुयागे सप्तदशपशुद्रव्यके त्वदुक्तरीत्या एकस्मिन्यागे अतिदेशेन प्राप्यते, तस्य सप्त- दशपशूनां मध्ये य एकः पशुः तत्प्रभवैकादशावदानगण एव पर्यवसिततया अवशिष्टषोडशपश्ववदानगणेषु न प्राप्तिः स्यादित्येकस्मादेव पशोरवदानान्य- न्येभ्यो नावदानापत्तिरिति स्यात्; अस्मदुक्तरीत्या यागस्य सप्तदशल्वे तु एकैकस्मिन्प्राजापत्यपशुयागे प्रत्यक प्रत्येकमेकादशावदानगणैकत्वातिदेशेन सर्वे. प्वेव प्राजापत्यपशुष्ववदानानि प्राप्स्येरन्निति भावः । (सूक्तहदिषोरित्यादीति ।) यद्यपि 'सास्य देवता' इति व्याकरणसूत्रं तथापि तदर्थमादाय 'सूक्तहविषोः' इति स्मृतिरित्युक्तम् । (पश्वेकताप्रापीति ।) एकपशुनिष्पन्नैकादशावदान- गणैकत्वप्राप्तिफलकपश्वेकताप्रापीत्यर्थः । तस्य, यागस्य । तत्, पुनर्याग- करणम् ॥ ७॥ भेदव्याप्तत्वाद्वित्वादिकया संख्यया यथा कर्मभेद उक्तः तद्वत्प्रकृते भेदकप्रमाणाभावान्न कर्मभेदो ज्योतिरादिवाक्येष्विति प्रत्युदाहरणसंगतिः । संज्ञा चोत्पत्तिसंयोगात् ॥ चकार उत्सूत्रपूर्वपक्षव्यावृत्त्यर्थः । संज्ञा ज्योतिरादिसंज्ञा प्रकृतज्योतिष्टोमाज्ज्योतिरादिवाक्योक्तं कर्म भिनत्ति; कुतः! अज्ञातकर्मज्ञापकत्वरूपोत्पत्तिं प्रत्यपूर्वसंज्ञाया व्याप्यत्वरूपसंयोग दिति सूत्रार्थः ।
५२ भारदीपिकाथ्याख्या , तदापत्तेः, प्रसिद्धयापत्तेः । (एतच्छब्देन च तद्विधान इति ।) तृतीयान्तै- तच्छब्देन ज्योतीरूपगणविधाने 'सहस्रदक्षिणेन' इति सहस्रदक्षिणायाश्च वि- भानावश्यिकतया विधेयानेकत्वप्रयुक्तवाक्यभेदो दुरि इति भावः । न च ज्योतिःशब्दस्य गुणपरतया विधायकत्वे कथिते 'एतेन-' इति वाक्यान्तरस्थै- तच्छब्दस्य गुणविधायकत्वापत्त्या वाक्यभेदापादनमयुक्तमिति शङ्कयम् , तृती- यान्तैतच्छब्दस्य सर्वनामतया संनिहितपरत्वेन ज्योतिःशब्देन बुद्धिसंनिधापितं यत्तस्यैव तेन परामर्शनीयतया वाक्यभेदापादनस्य सुसंगतत्वात् । तेषाम् , ज्योतिर्विश्वज्योतिःसर्वज्योतिःशब्दानाम् । (अधिकारेति ।) प्रकरणेत्यर्थः । भेदानापत्तिः, उद्भिद्वाक्यविहितकर्मणः सोमयागा दानापत्तिः । (तत्तद्वाक्यै- रुत्पन्नमिति ।) 'अथैप ज्योतिरतेन सहस्रदक्षिणेन यत' 'अथैष विश्व- ज्योतिरतेन सहस्रदक्षिणेन यत' 'अर्थप सर्वज्योतिरेतेन सहस्रदक्षिणेन यत' इति वाक्यैरुत्पन्नमित्यर्थः । एतनेत्यादेः सकृच्छ्रतस्याप्यावृत्त्या अथशब्दघटितेषु त्रिपु ग्वण्डेषु संबन्धन वाक्यत्रयसंपादनमवश्यं कार्यम् अन्यथा 'अथैप विश्व- ज्योतिः' 'अयैष सर्वज्योतिः' इति खण्डद्वयस्थाथशब्दयोः ‘अर्थष ज्योतिः' इत्युक्तयागाधिकारविच्छेदकत्वानुपपत्तरथशब्दयोर्व्यर्थत्वापत्तेः ज्योतिर्विश्वज्यो- निःसर्वज्योतिःशब्दानामेकयागसंज्ञात्तस्य कथंचिदुपपादनेऽपि तत्तत्समभिव्या ताथशब्दवशात्तत्तत्संज्ञाश्रययागभेदसिद्धिनिष्प्रत्यूहेति सिद्धम् ॥ ८ ॥ प्रकरणविच्छेदकाथशब्दवशेन कर्मभेदः स्थापितः; तद्वत्प्रकृते कर्मभेदका- भावान्न वाजिनगुणः कर्म भिनत्तीति प्रत्युदाहरणसंगति । गुणश्वापूर्वसंयोगे पाक्ययोः समत्वात् ॥ पूर्वण ‘अग्निहोत्रं जुहोति' इति पूर्ववाक्योक्तन कर्मणा अग्निहोत्रहामन संयोगः 'दना जुहोति' इति वाक्योक्तदधिगुणस्य संयोगः पूर्वसंयोगः, न पूर्वसंयोगोऽपूर्वसंयोगः, पूर्वकर्मसंयोगासंभव इति यावत् ; वाजिनगुणश्च स्ववाक्योक्तं कर्म स्वपूर्वामिक्षावाक्योक्तकर्मणो भिनत्ति; कुतः वाक्ययोः समत्वात् पानिनवाक्यामिक्षावाक्ययोः द्रव्यदेवतासंबन्धप्रति- पादनद्वारा विमानीययागकल्पकत्वस्य कल्पितयागयोः तत्तत्स्ववाक्य एवापेक्षित " भारकल्पतरुः , द्रव्यदेवतागुणलाभेन वाक्यान्तरस्थगुणानपेक्षत्वस्य च तुल्यस्वादिति सूत्रार्थः । गुणमात्रेति मात्रशब्देन कर्मव्यवच्छेदः । (तद्विशिष्टेति ।) विश्वेदेवविशिष्टे- त्यर्थः । श्रुत्योक्तम् , शक्त्योक्तम् । अनुशासनात्, 'सास्य देवता' : इत्यनु. शासनात् । तस्याः, देवनायाः । पूर्वत्र, आमिक्षायागे । अनिविशमानत्वेन, उत्पत्तिशिष्टगुणेनोत्पन्नशिष्टगुणस्यैकाधिकरण्याभावेन । सा च, भेदकता च॥ ९॥ उत्पत्तिशिष्टगुणावरुद्धे उत्पन्नशिष्टगुणानिवेशे निरूपिते तदनवरूदे उत्पन्नशिष्टगुणनिवेश इत्यर्थसिद्धमर्थमत्र स्फुटयतीति सिद्धकथनं संगतिः । इयं संगतिरापवादिकसंगतिवत्प्रायिकी । अत एवावान्तरसंगतिप्रभेदनिरूपणावसरे नोक्तेति ध्येयम् । अगुणे तु कर्मशब्दे गुणस्तत्र प्रतीयेत ॥ गुण वाचकशब्दरहिते 'अग्निहोत्र जुहोति' इति कर्मशब्दे सति तत्र अगुणवाक्यो- तकर्मणि 'दना जुहोति' इत्यादिना दध्यादिगुणः प्रतीयतेति सूत्रार्थः । 'सगुण उत्पत्तिवाक्ये वाक्यान्तरेणोत्पन्नशिष्टगुणो विधातुं न शक्यते' इति न्यायोऽनेन सूत्रेण सूचितः । तत्र, अग्निहोत्रहोमे ॥ १० ॥ यया 'दना जुहोनि' इति पाक्यसिद्धगुणस्य निर्गुणवाक्योक्तकर्मणि निवेशः तद्वत् ‘दन्नेन्द्रियकामस्य जुहुयात्' इति वाक्योक्तगुणस्यापि स्यादु- त्पन्नशिष्टगुणविषयकत्वस्य द्वयोस्तुल्यत्वादिति दृष्टान्तसंगतिः । फलश्रुतेस्तु कर्म स्यात्फलस्य कर्मयोगित्वात् ॥ इन्द्रियफलश्रवणादिन्द्रियकाम- वाक्ये अग्निहोत्रहोमात्पृथक्कर्म धातुना उक्तं स्यात् ; कुनः? फलस्य कर्म- संबन्धित्वात् गुणमात्रानन्वयित्वादिति पूर्वपक्षसूत्रार्थः । अतुल्यत्वासु वाक्ययोर्गुणे तस्य प्रतीयेत ॥ तुः पूर्वपक्षव्यावृत्त्यर्थः । 'अग्निहोत्रं जुहुयात्स्वर्गकाम.' इति कर्मणः फलसंबन्धविधायिवाक्येन 'दध्नेन्द्रियकामस्य- इनि गुणफलयोः संबन्धविधायकवाक्यस्य अतुल्यत्वात् गुणे दधिरूपगुणे तस्य इन्द्रियफलस्य, पष्ठयर्थः संबन्धः, इन्द्रियफलसंबन्ध इति यावत्, प्रतीयेतेति सिद्धान्तसूत्रार्थः । कर्नुहि प्रयोगान्वयित्वात् , कर्तव्यत्वरूपप्रयोगघटककृती - ५४ भारदीपिकाच्याख्या कर्तुः समवायसंबन्धेनान्वयित्वात् । फलस्य च विनियोगान्वयित्वात् , जनकत्व- रूप विनियोगे निरूपितत्वरूपसंबन्धेन फलस्यान्वयित्वात् । उत्पन्नस्यापि, वाक्यान्तरेण ज्ञातस्यापि । कर्मणः प्रयोगविधी, कर्मविषयकप्रयोगविधौ । फल- विशिष्टविनियोगस्य, फलनिरूपितजनकत्वस्य । (वैशिष्टयोपपत्तिरिति ।) विधीयनानप्रयोगेणेति शेषः । तथा चोक्तकर्मविषयकप्रयोगस्य वाक्यान्तरेणा- प्राप्तत्वात्समवायस्वरूपसंबन्धाभ्यां का फलनिरूपितजनकत्वात्मकविनियोगेन च विशिष्टस्य प्रयोगस्य विधी प्राप्तानुवादेनानेकविधानाभावान्न वाक्यभेद इति भाषः । उत्पच्यन्वयित्वेन, देवतोद्देश्यकद्रव्यत्यागात्मकयागहोमादिस्वरूपकर्म- घटकत्वेन । प्राप्तोत्पत्त्यनुवादेन, निर्गुणवाक्यप्राप्तकर्मस्वरूपानुनादेन । गुण- विधिः, दधिगुणविधिः । (फलविशिष्टविनियोगविधिश्चेति ।) इन्द्रियफलनिरू- पितजनकत्वविधिश्चेत्यर्थः । (वैशिष्टयाभावादिति ।) निर्गुणवाक्यप्राप्तहोमेन सा- कमिति शेषः । तथा च वाक्यान्नरप्राप्तहामे स्वान्यवाक्येन गुणस्य फलविशिष्ट- विनियोगस्य च द्वयोः संबन्धविवक्षायाम् 'प्राप्ते कर्मणि नानेको विधातुं शक्यते गुणः' इत्युक्तवाक्यभेद इति भावः । अतः, वाक्यभेदापत्तेः । (गुणा- कर्मभेद इति ।) वाक्यभेदापादकगुणत्वं कर्मभेदप्रयोजकमिति पूर्वपक्ष्याशयः । कर्म । दर्वी होमत्वे, प्रकृतिविकृतिभावशून्यहोमत्वे । सत्यपीत्यपिशब्देन प्रकृतिविकृतिभावरहितत्वादनुपदं वक्ष्यमाणः सादृश्यनिमित्तातिदेशो न संभव- तीति सूच्यते । वचनं विना, होमवाचकशब्दं विना । फलोत्पत्तिसंभवात् , गुणस्य फलसाधनताबोधसंभवात् । वचनवैयर्थ्यप्रसङ्गेन, होमवाचकशब्दवैयर्थ्य- प्रसङ्गेन । (स्वरुतिसाध्येति ।) स्वं गुणः तत्करणिका या कृतिः तत्साध्ये- त्यर्थः । गुणसंबन्धिनः, जन्यतासंबन्धेन गुणविशिष्टस्य । आश्रयस्य, जन्य- स्य । प्राप्तभावनानुवादेन, निर्गुणवाक्यप्राप्तभावनानुवादेन । उभयकरणे, गुणस्य फलस्य च संबन्धकरणे । (यागवैषम्य इति ।) यागस्य फलकरणत्वं साक्षात् , दन्नस्तु करणत्वद्वारकं फलकरणत्वमिति वैषम्यमिति भावः । यत्तु एत- वधिकरणभूमक्षे वाक्यभेदापादकोत्पत्यन्वयिगुणः कर्मभेदक इत्युक्तिरयुक्ता . तत्, , भाकल्पतरुः अभ्युदयेष्टिवाक्ये उक्तविधगुणम्य कर्मभेदकत्वमनङ्गीकृत्य भावनामात्रभेदकत्व- स्वीकारादिन्द्रियकामवाक्येऽपि तथा संभवे कर्मभेदपूर्वपक्षोऽसंगत इति; तन, अभ्युदयवाक्ये प्रकृतकर्मोपस्थापकयच्छन्दसत्त्वेन उक्तविधगुणस्य न कर्मभेद- कत्वम् , प्रकृते तदभावेनोक्तविधगुणस्य कर्मभेदकत्वमिति पूर्वपक्ष्याशयात्॥११॥ यथा धात्वर्थस्य प्राप्तत्वे दधिगुणयुक्तं फलं न धात्वर्थयुक्तं तथात्रापि रेवत्यादिगुणयुक्तं फलं स्यात् धात्वर्थस्य प्राप्तत्वादिति दृष्टान्तसंगतिः । समे घु कर्मयुक्तं स्यात् ॥ समेषु परस्परसहशेषु वायव्यरेवत्यादिवाक्येषु कर्म- युक्तं धात्वर्थयुक्तं फलं स्यात् न गुणयुक्तं स्यादिति सुत्रार्थः । त्रिवृदित्यादे- रयमर्थः- अग्निष्टोमस्य विकृतिरूपः अग्निष्टुन्नामक एकाहः । स च पृष्ठस्तोत्रे त्रिवृत्स्तोमयुक्ततया त्रित्, अग्निष्टोमादिसप्तसंस्थानां मध्ये अग्निष्टोमसंस्थया समाप्यमानत्वादग्निष्टोमः । प्रकृतौ तृतीयसवने आर्भवपवमानस्योपरि यज्ञाय- ज्ञीयं साम गीयते, तेन च साम्ना अग्निष्टोमयागस्य समाप्यमानत्वाद्यज्ञायज्ञीय- मग्निष्टोमसामेत्युच्यते । तञ्च साम प्रकृती 'यज्ञा यज्ञा वो अग्नये' इत्यानेयीषु ऋच गीयते । अस्मिन्नाग्निटुति तु ब्रह्मवर्चसकामेन वायव्यासु मा तत्साम गातव्यम् । तत्प्रकृताविव एकविंशतिस्तोमयुक्तम् , अग्निष्टुयागविकारे रेवती- वाक्यविहिते कर्मणि 'रेवतीर्ण-' इत्यादिऋक्षु वारवन्तीयमग्निष्टोमसाम गाये- दिति । तस्य वायव्यासु-' इति श्रुतिगत तस्य'- इत्यनेन वायव्यास्वग्निष्टु- संबन्धोऽनूद्यते । (पूर्ववदायः पूर्वः पक्ष इति ।) इन्द्रियकामवाक्य इव रेवत्या- दिगुणविशिष्टः स एवाग्निष्टुद्यागः पशुफलोद्देशेन विधीयत इति प्रथमपूर्वपक्ष इत्यर्थः । स्वकारकेत्यादः, स्वम् 'अनिष्टोमसाम' इति पदोपात्तमग्निष्टोमस्तोत्रम् , तस्य कारकम् 'रेवतीषु-' इति पदोपात्तनिष्ठाधिकरणत्वम्, निरूपकता- संबन्धेन तद्विशिष्टं यत्स्तोत्रम् , तद्विषयिणी या कुन्धातूपात्ता भावना, तद्वि- शिष्टो यः क्त्वाप्रत्ययाथां भूतकालाख्यप्रयोगान्वयिगुणः, तस्य सत्त्वेनेत्यर्थः । (न स्वत्रेति ।) रेवतीवाक्ये उक्तस्तोत्रोत्तरकालत्वादिना विहितमित्यर्थः । भत्र हेतुरुच्यते- वायव्यवाक्येत्यादिना अनुपपत्तरित्यन्तेन । विनिगमनाविसका भारदीपिकाव्याख्या रेवतीवाक्य एवोत्तरकालताविधिः न वायव्यवाक्य इत्यत्र विनिगमकाभावः । रेव- त्याल्य एव पति पक्षान्तरग्रहणे हेतुः । तत्पूर्वोक्तपक्षे दोष एवेति मत्वा तं दोषं दर्शयति- वारवन्तीयमग्निष्टोमसाम कार्यमित्यादिना प्राप्तत्वादित्यन्तेन । (दाक्षा- यणयज्ञन्यायेनेति ।) समर्थऋत्विकर्तृकायनशब्दितावृत्तिविशिष्टयज्ञस्य स्वर्गो- देशेन विधौ प्राप्ताप्राप्तविवेकेनावृत्तिविधिपर्यवसानवदत्रापि रेवतीविधिपर्यवसान- मिति भावः । दधिन्यायेन, इन्द्रियकामाधिकरणन्यायेन । तस्यैव वा, अग्नि- ष्टोमस्तोत्रस्यैव वा । तस्य, अग्निष्टोमस्तोत्रस्य । (आतिदेशिकऋग्वाधसंभव इति ।) स्तोत्रान्तरस्याश्रयत्वे अतिदेशतस्तस्मिन्प्राप्तानामृचां रेवतीऋम्भिरुा- दिष्टाभिर्वाधो युक्तः, वायव्यवाक्येन विशिष्योपदिष्टस्य वायव्यऋगधिकरण- कत्वविशिष्टाग्निष्टोमस्तोत्रस्याश्रयत्वे उपदिष्टवायव्यऋचा रेवतीभिर्वाधो वक्त- व्यः, स चायुक्त इति भावः । वारवन्तीयस्य, वारवन्तीयसाम्नः । (अग्नि- ष्टोमसामेत्यनुवादानुपपत्तश्चेति ।) स्तोत्रस्यानपेक्षत्वे स्तोत्रसमर्पकाग्निष्टोमपद- घटनानुपपत्तेरिति भावः । (गौरवभियाङ्गत्वानभिधानादिति ।) आश्रयत्व- शरीरापेक्षया अङ्गत्वशरीरस्य गुरुत्वमिति भावः । तल्लाभोपपत्तावपि, आश्रय- लाभोपपत्तावपि । तदयोगात्, आश्रयालाभात् । गीतमन्त्रसाध्यस्तोत्रस्य गीति- रूपसामाश्रयत्वेऽपि रेवतीऋगाश्रयत्वं न संभवतीति सानो गुणवत्यादेरयोगा- दित्यन्तस्य तात्पर्यार्थः । आश्रयविशिष्टगुणस्य विधाने आश्रयस्य गुणं प्रत्य- गत्वापत्तिरित्यत आह-- क्लुप्तप्रयोजन वादिति । आश्रयस्याग्निष्टोमस्तो- त्रस्य फलान्तरार्थत्वेन क्लप्तत्वाद्गुणेऽङ्गत्वसंबन्धेन नान्वयः कि त्वाश्रयत्वेन, अतो न गुणं प्रत्याश्रयस्याङ्गत्वमिति भावः । (धातुपाराय॑भयेनति ।) तृती- यान्तैतच्छन्दस्य गुणपरत्वे तस्य धात्वर्थनाभेदान्वयासंभवात् भेदेनान्वये च धात्वर्य प्रति करणत्वादिरूपस्य धातुपारार्थ्यस्यावश्यिकतया कारकागां परस्पर- संपन्धानुपपत्त्या धात्वर्थरूपकारकेण गुणरूपकारकस्यान्वयार्थ गुणवाचिपदस्य मत्वर्थलक्षणादिदोषप्रसङ्ग इति भावः । (तदपेक्षयेति ।) धातुपारार्थ्यदोषं सोदा तृतीयान्तैतच्छन्दस्प विलिमसंख्यस्य रेवतीगुणपरत्वापेक्षयेत्यर्थः । एतस्य, माश्कल्पतरुः रेवतीवाक्योक्तकर्मान्तरस्य । (निकायित्वेनति ।) निकायिसंज्ञाः केचन यागाः समाम्नाताः; तेपामुत्तरोत्तरस्य पूर्वपूर्व प्रकृतिरिति ताण्डिमहाब्राह्मणव्यवस्थया अस्य निकायित्वेन पूर्वाग्निष्टुयागान्निकायिनो धर्मातिदेश इति भावः । तद्भेदम् , प्रयोगभेदम् । विधेयत्वेऽपीत्यस्यानन्तरमुक्तविशेषणविशिष्ट कालविशिष्टयागस्यति पूरणीयम् । वाक्यभेदपरिहारार्थ कालस्य विधेयकोटिनिवेशः, न तु स्वरसन इत्याशयः ॥ १२ ॥ रेवतीवाक्ये आश्रयालाभात्फलोद्देशेन रेवनीगुणविध्यसंभवेऽपि निधनस्य सौभररूपाश्रयलाभात्फलोद्देशेन निधनगुणविधिसंभव इति प्रत्युदाहरणसंगतिः । सौभरे पुरुषश्रुतेनिधने कामसंयोगः ॥ सोभरसामीये निधने काम्य- मानफलसंयोगः आश्रयणीयः 'हीपिनि वृष्टिकामाग निधनं कुर्यात्' इति निधनस्य पुरुषार्थत्वश्रवणादिति पूर्वपक्षसूत्रार्थः । सर्वस्योक्तकामत्वा- त्तस्मिन्कामश्रुतिः स्थानिधनार्था पुनः श्रुतिः ॥ मर्वस्य सर्वावयवो. पतस्य सौभरसाम्न. 'यो वृष्टिकामा योऽन्नाद्यकामा यः स्वर्गकामः स सौभरेण स्तुवीन' इत्युक्तकामत्रयवत्त्वात् तस्मिन् सौभरमाम्नि कामश्रुतिः 'हीपिनि वृष्टि- कामाय निधन कुर्यात्' इत्यादिवृष्टिकामादिशब्द. स्यात् 'हीपिति वृष्टिकामाय' इति पुनः श्रुतिः निधनार्था निधननियमानि गिद्धान्नसूत्रार्थः । (यूपादिवदिति ।) 'ग्वादिरं वीर्यकामय' इत्यत्र वीर्यादेशेन विहितम्य स्वादिरत्वस्य यूपो यथा आश्रयः नयेत्यर्थः । निधनातिरिक्तभागस्य, उद्गीथप्रस्तावप्रनिहारोपवाव्य- भागचतुष्टयान्तर्गतभागस्य । (स्वसाधनेति ।) अत्र स्वपदं वृष्टयादिफलपरम् । नत्, मंबन्धघटकत्वम् । (तन्नित्यप्रयोगति ।) अत्र नत्पदं विजातीयसौभर- परम् ॥ १३ ॥ इति भाटकल्पतभिधाया मादीपिकाव्याख्याया द्वितीयाध्यायम्य द्वितीयः : पादः। 18 ५८ भारदीपिकाव्याख्या तृतीयः पादः। अस्य तृतीयपादस्य प्रायशः कर्मभेदापवादत्वात्पूर्वेण कर्मभेदपादेना- पवाद्यापवादकभावः संगतिः । यथा 'होषिति वृष्टिकामाय' इति वाक्ये स्व- घंटकपदानामन्वय उपपादितः तथा 'यदि रथन्तर-' इति वाक्ये स्वघटक- यदिपदान्वयोपपादनासंभव इति प्रत्युदाहरणमंगतिः । गुणस्तु क्रतुसंयो. गाकर्मान्तरं प्रयोजयेत्संयोगस्याशेषभूतत्वात् ॥ 'यदि रथन्तर-~~-' इति वाक्ये रथन्तर सामत्वगुणः स्वविशिष्टं कर्मान्तरमापादयेत् रथन्तरसामसंयोगस्य प्रकृतज्योतिष्टोमे ग्रहाग्रतां प्रति निमित्तत्वे शुक्राग्रता- निमित्तबृहत्सामसंयोगकाले ज्योतिष्टोमासंबन्धित्वाख्यादशेषभूतत्वादिति पूर्व- पक्षसूत्रार्थः । एकस्य तु लिङ्गभेदात्प्रयोजनार्थमुच्येतैकत्वं गुण- वाक्यत्वात् ।। तुशब्दः पूर्वपक्षव्यावृत्यर्थः । एकस्य प्रकृतज्योतिष्टोमस्य लिङ्गभेदात् प्रयोगभेदात्, प्रयोगविशेषावच्छेदेनेति यावत् । तत्तदाताप्राप्ति. रूपप्रयोजनार्थ रथन्तरस्य बृहतो वा निमित्तत्वमुच्यते 'यदि रथन्तरसामा' 'यदि बृहत्सामा' इति द्विपदबहुव्रीही प्रयोगविशेपावच्छिन्नज्योतिष्टोमस्या- न्यपदार्थत्वे ज्योतिष्टोम एकत्वं न बाधितम्, 'यदि रथन्तर—' इत्यादि- वाक्यस्य ग्रहविशेषाग्रतारूपनैमित्तिकगुणविधायित्वादिति सिद्धान्तसूत्रार्थः । तस्य, रथन्तरस्य बृहतश्च । विशेषणत्वेन, सामविशेषणत्वेन । वृत्त्यनहत्वात् , रथन्तरसामेति समासवृत्त्यनहत्वात् । विशिष्टे, रथन्तरसामविशिष्टे । अन्य- योगव्यावृत्त्या, सामान्तरसंबन्धशून्यत्वप्रकारकानुमितिजनकतया । अयोगस्य बृहद्रथन्तरायोगस्य । उभयविशिष्टम्, रथन्तरसामकत्वेन्द्रवायवग्रहाग्रत्वै. तद्यविशिष्टम् । तदभावः, व्यावृत्त्यभावः । (स्वावान्तरेति ।) बृहद्रथन्तर- सामावान्तरकार्येत्यर्थः । तदुपपत्तेः, व्यावृत्युपपत्तेः । अन्यथा, अवान्तर- कार्यनिरूपितविशेषत्वानङ्गीकारे । तवापि, पूर्वपक्षिणोऽपि । साक्षात , अवा- - माहकल्पतरुः " तरकार्यमद्वारीकृत्य । 'यागे' इति सप्तम्या निरूपितत्वमर्थः, तस्य तद- संभवादित्येतद्घटकतत्पदार्थे विशेषणत्वेनान्वयः; तथा च प्रोक्षणावघातादौ साक्षाद्यागनिरूपितकरणत्वासंभवात्प्रोक्षणावघातादेविशेषणत्वं न स्यादिति भावः । अन्यपदार्थसंबन्धस्य, बृहद्रथन्तरसाम्नोरन्यपदार्थक्रत्वङ्गत्वरूपसंबन्धस्य । अन्य- था, उक्तसामविशिष्टज्योतिष्टामस्यैव निमित्तत्वे | अतः, अन्यपदार्थस्य ऋतो. निमित्तत्वाभावात् । (लक्षणयापीति ।) रथन्तरपदशक्याथै यदिशब्दोपात्त- निमित्तत्वान्वयस्य समासवृत्तिविरोधादिना दूषितत्वादित्यर्थः अपिना सूचितः, अतो रथन्तरे निमित्तत्वबोधासंभव इत्यत उक्तं लक्षणयेति । रथन्तरपदस्य लक्षणया निमित्तत्वविशिष्टरथन्तरमर्थः यदिशब्दो लक्षणातात्पर्यग्राहक इति भावः । तस्मान्न कर्मान्तरविधिः, तृतीयविधिप्रकाररूपगुणविधिसंभवान्न पञ्चम- विधिप्रकाररूपकर्मान्तरविधियुक्तः । अत एव कौस्तुभे रथन्तराधिकरणे 'न हि कर्मान्तरत्ववादिनापि प्रोक्षणादिप्रयोगो व्यावर्तनीयः, अपि तु स्तोत्रादि- रूपावान्तरकार्य एव । तत्र च प्रोक्षणादीनामिव बृहद्रथन्तरकार्यत्वाभावात्तेष्व- योगव्यावृत्तावपि न क्षति.' इति ग्रन्थे प्रोक्षणावधातादीनां ब्रीहियागीयत्वसूचना- र्थम् 'तत्र च प्रोक्षणादीनामिव' इत्यत्र प्रोक्षणावघातादीनां प्रकृतपूर्वपक्षित- कर्मापेक्षया कर्मान्तरीयत्वबोधकः 'नत्र' इति पारोक्ष्यनिर्देशः, पूर्वपक्षित- प्रकृतकर्मीयत्वे 'अत्र' इति निर्देशापत्तेः । यत्तु केनचित्पण्डितंमन्येन पाण्डित्य- गन्धशून्येन प्रोक्षणाद्यवच्छेदेनायोग इत्यर्थः कथितः, नत्तुच्छम् । कर्मान्तरे पूर्वपक्षिते प्रोक्षणादिसंबन्धाभावात् अवच्छेद्याधिकरणसंबन्धस्यैवावच्छेदकत्वात् । शंभुभट्टीये 'कर्मान्तरत्ववादिनोऽपि रथन्तरसामत्वायोगस्य प्रोक्षणादौ सर्वदा विद्यमानस्य व्यावृत्त्यसिद्धेर्विशेषणत्वानुपपत्तिस्तुल्येत्यर्थः' इति ग्रन्थे 'सर्वदा विद्यमानस्य' इति विशेषणमयोगस्य प्रोक्षणादीनां प्रकृतयागासंबन्धित्वं व्रीहि- यागीयत्वं च सूचयति, अन्यथा तद्विशेषणवैयर्थ्यापत्तेरिति । तस्मादस्मदुक्त- व्याख्यानमेव समीचीनमित्यलम् ॥ १ ॥ 'यदि रथन्तर-' इति यदिशब्दघटिनवाक्ये विचारिते यदिशब्द.
भादीपिकाव्यात्य. घटित- 'यदि ब्राह्मणः'- इत्यादिवाक्यस्याप्युपस्थितत्वात्प्रसङ्गमंगतिः । अवेष्टौ यज्ञसंयोगात्क्रतुप्रधानमुच्यते ॥ अवेष्टिवाक्ये ब्राह्मणादि. पदं यतः ऋतुप्रधानमुच्यते, ऋतु: अवेष्टियागप्रयोगः प्रधानं ब्राह्मणादिगुणा- पेक्षया अङ्गी यस्य ब्राह्मणादिपदम्य तत्, तत. ब्राह्मणादिरूपकर्तृगुणात्प्रयो. गान्वयिनः अवेष्टियागस्य भिन्न. प्रयागो विधीयते, न तु ब्राह्मणस्य निमित्तत्व- मङ्गीकृत्य प्रयोगभेदं विनैव बार्हस्पत्यचरामध्ये विधानादिरूपनैमित्तिकं विधीयत इति; कुतः' क्षत्रियस्यैव राजसूययज्ञमंयोगात् राजमूयान्तर्गतावष्टौ ब्राह्म- णण्य कर्तृत्वेन प्राप्त्यभावेन निमित्तत्वासंभवात् तत्राप्राप्तरय ब्राह्मणम्य विध्या- वश्यिकतया तस्कर्तृकावेष्टिप्रयोगविधिरुक्तवाक्यात्मिध्यतीति यातदिति सूत्रार्थः । हुन्वा, कृत्वा । द्रविडप्रसिह , अविदितयाज्ञिकसंप्रदायो द्रविड. तत्प्रमिद्धेः । मलेच्छप्रसिद्धित्वेन, अयाक्षिकप्रसिद्धित्वेन ॥ २ ॥ पूर्वाधिकरणे अवष्टौ ब्राह्मणादीनां प्राप्त्यभावानिमित्तत्वासंभव उक्त., आधाने तेषां प्राप्तत्वान्निमित्तत्वं भवल्विति प्रत्युदाहरणसंगतिः । आधाने- पर्वशेषत्वात् ॥ आधाने आधानरूपविषय ‘वमन्ते ब्राह्मणोऽग्नीनादधीन' इनि वाक्यं प्रमापकम् ; कुन' असर्वशपत्वात आधानस्य सर्वक्रतुं प्रति शेषत्वा- भावात्, आधानस्य स्वविधिप्रयुनत्वेन ऋतुवियप्रयोज्यत्वादिति यावदिति सूत्रार्थः । अनन्याक्षिप्तशक्तिकेन, अग्निविद्ययोस्तवन यथा ऋतुविध्याक्षिप्त- शक्तिकन्वं तद्वदन्यविव्याक्षिप्तशक्तिकत्वरहितो योऽर्थः आधानत्वेनाधानादिः तद्बोधकेन । एतस्य, ‘य एवं विद्वानग्निमाधत्ते' इति वाक्यस्य । वर्तमानाप- देशता, लडन्तता । प्राप्ताधानानुवादेन, 'सभोरषु-' इति वाक्यप्राप्ता- धानानुवादेन । कालविधिः, जातपुत्रवाक्ये जातपुत्रादिपदलक्षितवयोवस्था- रूपकालविधिः । वाक्यभेदापत्तेः, जातपुत्रवाक्ये उक्तद्वयविधाने वाक्यभेदा- पत्तेः । उक्तवाक्ये, 'संभारेषु-' इति वाक्ये । (एवं चेति ।) जातपुत्र- वाक्यस्य जातपुत्रत्वकृष्णकेशत्वाद्यनेकगुणविशिष्टाधानविधायकतयेत्यर्थः । (ना- पयेति ।) वाक्यान्तरविहिताधानानुवादेन जातपुत्रत्वकृष्णकेशत्वाद्यनेकविधी -
भाहकल्पतरुः
वाक्यभेदापत्त्या या प्रसक्ता पदद्वयम्य क्योवस्थायां लक्षणा सा न वक्तव्ये-
त्यर्थ । पक्षेऽसंभवत्प्राप्तिकत्वेन, अध्ययनकामनायां तदर्थमुपनयनस्य प्राप्तत्वे-
ऽप्युक्तकामनाभावे उपनयनस्यासंभवत्प्राप्तिकत्वेन । विध्युपपत्तिः, उक्तकाम-
नायां सत्यामसत्यामप्युपनयनावश्यिकत्वायोपनयनविध्युपपत्तिः । द्रव्यदेवतयो-
रुत्पत्त्यन्वयिनोः कोत्पत्तिभेदकत्वं न तूत्पत्त्यन्वयिनोऽप्यन्यस्य अनाधातुराह-
वनीयत्वाभावादेः,
वमन्तवाक्य इन ग्रीष्मशरद्वाक्ययोरप्याधानोत्पत्त्यापत्तेः;
प्रयोगान्वयिगुणसिद्धप्रयोगविध्याक्षिप्तोत्पत्तिस्तु त्रिषु स्यादित्यत आह- प्राथ-
म्याचेति । वसन्तवाक्यम्यति शेषः । (इतरयोरित्वति ।) राजन्यवैश्यवाक्य-
योस्तु राजन्यादिप्रयोगान्वयिगुणात्प्रयोगमात्रस्य विधानम् आधानोत्पत्तेाह्मण-
वाक्यप्राप्नत्वादिति भाव. ॥ ३ ॥
वमन्तादिवाक्ये आधानमिवात्रापि कर्मान्तरं विधेयं स्यात् हेतोरत्रापि
सत्त्वादिनि दृष्टान्तसंगतिः । अयनेषु चोदनान्तरं संज्ञोपबन्धात् ॥
अपनेषु दाक्षायणादिवाक्येषु चोदनान्तरम् (चोद्यत इति चोदना कर्म) कर्मा-
न्तरं विधेयम् , 'दाक्षायणयज्ञ.' इति विलक्षणसंझोपबन्धादिति पूर्वपक्षसूत्रार्थः ।
विकारो वा प्रकरणात् ॥ वाशब्दः पक्षान्तरपरिग्रहार्थः । दर्शपूर्णमास-
कर्मणोर्यदावृत्तिविशिष्टं रूपं विकारात्मकं स एव दाक्षायणयज्ञः; कुतः ?
दर्शपूर्णमासप्रकरणादिति सिद्धान्तमूत्रार्थः । गुणात्संज्ञोपबन्धः ॥ आवृ-
त्तिगुणनिमित्त संज्ञासंबन्ध इति सूत्रार्थ. । फलसंबन्धस्यापि, दर्शपूर्णमास-
कर्मणोः फललक्षणपशुसंबन्धस्यापि । सार्वकाम्यवाक्यवशात् , 'सर्वेभ्यो दर्श-
पूर्णमासो' इति वाक्यबलात । (अन्यपरत्वाभावादिति ।) दाक्षायणवाक्यस्य
दर्शपूर्णमासकर्मणोः पशुफलसाधन वपरत्वाभावादित्यर्थः । यम्य, दर्शपूर्णमास-
संज्ञकेष्टिकर्मणः । यत्र, सानाय्ययागे । कुम्भीभ्याम् , सांनाय्यदधिपयोभ्याम् ।
अनेनैव वचनेन, 'सह कुम्भीभिरभिक्रामत्' इति वचनेन । तस्य, अभिका.
मस्य । (आश्रयत्वसिद्धिरिति ।) अभिक्रमणमाश्रित्य पशुफलोद्देशेन सहत्वगुणः
'साकंप्रम्थायीयेन यनेत' इति वाक्येन विधीयत इति भावः ॥ ४ ॥
भादीपिकाच्याख्या पूर्ववदाश्रयलाभात्स्यात्फलार्थगुणविधिरिति दृष्टान्तसंगतिः । संस्कार- बाप्रकरणकमशब्दत्वात् ॥ अप्रकरणे अप्रकृते अनारभ्याधीते 'वाय- व्यं श्वेतम्-' इत्यादिवाक्ये 'ईपामालभत' इत्युक्तां दार्शपूर्णमासिकः स्पर्शा- ख्यालम्भनसंस्कारोऽनूद्यते, अकर्मशब्दत्वात् विधेयकर्मवाचकयजत्यादिशब्द- शून्यत्वादिति पूर्वपक्षसूत्रार्थः । यजतिस्तु द्रव्यफलभोक्तृसंयोगा- देतेषां कर्मसंबन्धित्वात् ॥ तुः पूर्वपक्षव्यावृत्त्यर्थः । वायव्यवाक्ये यनतिः आलभतिलक्षितयागः विधीयते व्यस्य फलभोक्तृशब्दितदेवतायाश्च तद्धितेन बाधितासंयोगात् एनेपां द्रव्यदेवतासंयोगानां कर्मसंबन्धित्वात् याग- संबन्धित्वादिति सिद्धान्तसूत्रार्थः । (चरुशब्दलक्षितस्थाल्यामिति ।) यद्यपि 'चरुः स्थाल्यां हविष्यपि' इति कोशवशाचरुशब्दस्य स्थाच्या शक्तिरस्तीति प्रतीयते, तथापि 'चरुर्हविर्विकारः स्यात्' इति चरुशब्दस्य हविष्येव शक्ति- समर्थनात्स्थाल्या लक्षितत्वमुक्तमिति भावः । (सार्वकाम्यवाक्येति ।) 'सर्वभ्यो दर्शपूर्णमासी' इति वाक्येत्यर्थः । अतिदेशतः प्राप्ती, दर्शपूर्णमासतोऽति- देशतः प्राप्तौ ॥ ५ ॥ -श्वेतमालभेत' इत्यालभतिविचारे कृते 'वत्समालभेत' इत्यालभत्य- न्तरस्योपस्थितस्वात्प्रसङ्गसंगनिः । विशये प्रायदर्शनात् ॥ 'आलम्भः पहिंसयोः' इति कोशवशेन 'वत्समालभेत' इत्यत्र कोऽर्थी ग्राह्य इति विशये संशये सति स्पर्शार्थ एव ग्राह्यः प्रायशोऽस्य स्पर्शार्थे आलभतेः प्रयोग- प्राचुर्यस्य दर्शनादिति सूत्रार्थः । स्पर्शमात्रत्वात् , स्पर्श एव शक्तत्वात् ॥ ६ ॥ पूर्वाधिकरणे देवताश्रवणाभावान्न यागकल्पनमित्युक्तम् , अत्र तत्सत्त्वा- धागकल्पनं स्यादिति प्रत्युदाहरणसंगतिः । संयुक्तस्त्वर्थशब्देन तदर्थः श्रुतिसंयोगात् ॥ चरुशब्दः अर्थशब्देन उपधानार्थकशब्देन संयुक्तः न तु यागेन, अतः तदर्थ एव उपधानार्थ एव चरुः स्वीकर्तव्यः; 'चरुमुप- दधाति' इति श्रुतौ चरूपधानयोः क्रियाकर्मभावेन संयोगादिति सूत्रार्थः । (प्रतिपत्तिप्राप्ताविति ।) चरोरिति शेषः । (चर्वपेक्षितप्रकृतिद्रव्यस्येति ।)
भाहकल्पतरुः . अपक्षितत्वादेवेति शेषः ॥ ७ ॥ पूर्वाधिकरणे विधिवाक्ये देवतावाचितद्विताश्रवणेऽपि इह तच्छूवणा- कर्मान्तरविधानं स्यादिति प्रत्युदाहरणसंगतिः । पालीवते तु पूर्ववाद- पच्छेदः ॥ पात्नीवतवाक्ये पूर्वत्वात् प्रत्यभिज्ञायमानपूर्वकर्मवत्त्वात् पर्यनि. करणान्ताङ्गरीतिविधानेन इतराङ्गाणामपच्छेद इति सूत्रार्थः । 'आग्नेयं चतुर्धा करोति' इतिवत् , 'आग्नेयं चतुर्धा करोति' इति वाक्ये आग्नेयपदेनामीणो- मीयपुरोडाशस्याग्नेयत्वेऽप्युभयदैवत्यत्वादनुवादासंभववत् । अग्निशब्दवत्, लक्ष- णया इन्द्राग्न्योरग्निशब्देनाभिधानवत् । देवताद्वयमेव, व्यासज्ज्यवृत्तित्वशून्य. देवनात्वद्वयविशिष्टदेवताद्वयमेव । एकवाक्योपादानाच्च, त्वष्टपत्नीवद्देवतयोरेक- वाक्यबोधिनत्वाच्च । वृत्तम् , वर्तमानध्वंसप्रतियोगिकृतिविषयताविशिष्टम् । गृहमेधीयाज्यभागन्यायेन, गृहमेधीय योगे विकृतावतिदेशात्पूर्व प्राकृताज्यभाग- विधायकस्य प्रकृती क्लप्नोपकाराज्यभागाम्नानस्य आज्यभागव्यतिरिक्तप्राकृ- ताङ्गविषयेऽतिदेशप्रतिबन्धकत्वमिति न्यायेन । (अतिदेशाप्रतिबन्धकस्वमिति ।) अतिदेशस्यैव प्रमाणान्तरत्वादिति भावः । (एतद्विधीति ।) 'प्रोक्षिताभ्याम्-' इनि विधीत्यर्थः ॥ ८॥ पूर्वाधिकरणे प्रत्यभिज्ञानान्न कर्मान्तरमित्युक्तम्, अत्र प्रत्यभिज्ञाना- भावात्कर्मान्तरं स्यादिति प्रत्युदाहरणसंगतिः । अद्रव्यत्वात्तु केवले कर्म- शेषः स्यात् ॥ अद्रव्यत्वात् द्रव्यस्य तदुपलक्षितदेवतायाश्चालाभात् केवले गृहातौ कर्मशेषः ज्योतिष्टोमकर्माङ्गद्रव्यसंस्कारः विधीयत इति सूत्रार्थः । एष ह वै इति शेषः अदाभ्यग्रहवान्पुरुषः हविषा सोमेन हविः सोमं यजत इत्याचार्थ- वादार्थः । इदम् , वाक्यम् । निर्यासव्यस्य, किंचिदभिषवेण निर्गतरससोम- द्रव्यस्य । गुणसंक्रान्तशक्तिना, ग्रहणगुणस्यापूर्वतया विधानयोग्यग्रहणकेन । अनेकगुणविशिष्टयागविधाने गौरवाद्गुणविधानं युक्तमिति भावः । संस्कारस्य नामधेयेन न संबन्ध इत्यत आह- उक्तसंज्ञकति । (उपयामेति ।) तव समीपे वयं याम गच्छाम स्वं प्रजापतये देवतायै गृहीतोऽसि तस्मात् प्रमा.
भारदीपिकाव्याख्या पतिना जुष्टं संबद्ध त्या त्वाम् अहं गृहामि इति मन्त्रार्थः । तदुपपाद्यस्य, अङ्गत्वोपपाधस्य अङ्गजन्योपकारस्य ॥ ९ ॥ गृङ्गानौ यागलक्षणायां प्रमाणाभावान्न यागविधिरित्युक्तम्, अत्र चि. नोती यागलक्षणाया प्रमाणसत्त्वाद्यागविधिः स्यादिति प्रत्युदाहरणसंगतिः । अग्निस्तु लिङ्गदर्शनात्क्रतुशब्दः प्रतीयेत ॥ ‘य एवं विद्वानग्निं चिनुते' इति वाक्ये अग्निः क्रतुबोधकशब्दः प्रतीयेत, 'अग्नेः स्तोत्रम्' 'अनेः शस्त्रम्' 'षडुपसदोऽनश्चित्यस्य भवन्ति' इति लिङ्गात् स्तोत्रं शस्त्रमुपसदश्वे- त्येतत्सर्व यागसंवन्धि नान्यस्येति पूर्वपक्षसूत्रार्थः । द्रव्यं वा स्याचोदना- यास्तदर्थत्वात् ॥ वाशब्दः पूर्वपक्षं व्यावर्तयति । अग्निशब्दाभिधेयं ज्वल. नद्रन्यं स्यात् न यागः, चोद्यत इति चोदना तस्याश्चयनाख्यायाः द्वितीय. याग्निसंस्कारकत्वरूपाग्न्यर्थत्वावगमादिति सिद्धान्तसूत्रार्थः । तत्संयोगाकतु- स्तदाख्यः स्यात्तेन धर्मविधानानि ॥ उक्तलिङ्गयुक्तवाक्येषु लिङ्ग- संयोगात् तद्वाक्यस्थाग्निः क्रतुः स्यात्, न तु लिङ्गायुक्तवाक्यस्थाग्निशब्दोऽपि क्रतुपरः; तेन लिङ्गयुक्तवाक्येन विहिता धर्मास्तत्रैवाग्निशब्दस्य ऋतुपरत्वे नियामका भवन्तीति सूत्रार्थः । तस्मिन्नेव, 'अथातोऽग्निमग्निष्टोमेन ' इत्ये- तस्मिन्नेव । विद्वद्वाक्य एव, ‘य एवं विद्वानग्नि चिनुते' इति वाक्य एव । अव्यक्तत्वात् , स्वागतयानभिहितदेवताकत्वात् । तस्य, अग्निसंज्ञकयागस्य । तत्र हि, 'अथातः-' इति वाक्ये हि । जातिन्यायेन, आकृत्यधिकरण- सिद्धनातिशक्तिन्यायेन । व्यक्तिन्यायेन, संस्थाधिकरणोक्तव्यक्तिनिरूढलक्ष- णायुक्त्या । ज्योतिष्टोमसंवलितत्वात् , ज्योतिष्टोमाङ्गसंवलिनत्वस्वरूपात् । अनु- छानसादेश्यात् , क्रमप्रमाणात् । क्रत्वङ्गत्वप्रतिप्रसवार्थम् , काम्यमानफलार्थ- स्वेन क्रस्वङ्गत्वनिवृत्ती प्रसक्तायां तन्निवृत्त्यर्थम् । तत्, अङ्गत्वम् । (समुच्चय इति ।) चयनस्येति शेषः ॥ १० ॥ यथा पूर्वाधिकरणे अग्निशब्दमुख्यार्थानुरोधेन चिनोतेश्चयनविधायकत्वं तथाग्निहोत्रपदमुख्यार्थानुसारेण 'माममग्निहोत्रं जुहोति' इति वाक्ये मासपदेन - भाहकल्पतरः , मासविधिः स्यादिति दृष्टान्तसंगतिः। प्रकरणान्तरे प्रयोजनान्यस्वम् ॥ अनुपादेयगुणयुक्तानुपस्थितिरूपप्रकरणान्तरे सति, प्रयुज्यते फलमनेनेति प्रयो- जनं धात्वर्थः, तस्य मासाग्निहोत्रवाक्यस्थ-'जुहोति'-कथितस्य नैयमिकाग्नि- होत्रादन्यत्वमिति सूत्रार्थः । ('यदाहवनीये जुहोति' इतिवदिति ।) उक्त- वाक्येनानारम्याधीतेन दूरस्थहोमानुवादेनाहवनीयगुणविधिवदित्यर्थः । अनुपादे- यस्य, कृतिविषयत्वायोग्यस्य । दूरस्थकर्मानुवादेन, दूरस्थनैयमिकाग्निहोत्र- कर्मानुवादेन । (कर्तृबहुत्वेति ।) 'जुह्वति' इति बहुवचनतिडुक्तकर्तृबहुत्वेत्यर्थः । प्रमेयम्, तात्पर्यगोचरः । धात्वर्थभावना, धात्वर्थावच्छिन्नत्वविशिष्टभावना । उत्सर्गः, असति बाधके नियतिः । (योग्येति ।) उपादेयत्वविधेयत्वयोग्येत्यर्थः । (तन्मात्रेति ।) योग्योपपदमात्रेत्यर्थः । अत एव, योग्योपपदार्थत्वादेव । (धात्वानुवादेति ।) धात्वर्थरूपानुवादेत्यर्थः । अतः, उपादेयत्वस्य धात्वर्थ- वृत्तित्वात् । तत्सामानाधिकरण्येन, उपादेयत्वसामानाधिकरण्येन । विहितस्य, नैयमिकविधिना विहितस्य । भेदः, नैयमिकाग्निहोत्राद्भेदः । उपनीता, जाता। स्वविषयविषयत्वम्, स्वस्या विनातीयोपस्थितेयों विषयः विनातीयहोमः, तद्विषयत्वं तद्विषयकोपस्थितिजनकत्वम् । (तद्गतेति ।) 'सायं जुहोति' इत्ये- तद्वाक्यस्य जुहोतिपदगतं यद्विवेयार्थकत्वं तत्प्रतिबन्धकेत्यर्थः । अन्यथा, नाम्नो विजातीयहोमोपस्थापकत्वे । (पर्यायत्वेनेति ।) अग्निहोत्रपदहुधात्वोः इति शेषः । अग्निदेवताकहोमान्तरेऽग्निहोत्रप्रयोगवारणायाग्निहोत्रपदस्य योगरूढ्या- वश्यिकतया न पर्यायत्वं केवलरूढनुहोतिनेत्यत आह- अतिप्रसङ्गत्यादि अनङ्गीकाराचेत्यन्तम् । (अत एव यत्रेति ।) ग्रन्थगत-अत एव-इत्यस्य नाम्नो विजा- तीयहोमयागबोधकत्वादेवेत्यर्थः । तद्वाक्यस्य, 'सर्वेभ्यो ज्योतिष्टोमः' इति वाक्यस्य । सः, व्यापारः। (अत एव प्राचीनेति ।) ग्रन्थगत-'अत एव'- इत्यस्य अनुपादेयगुणानां स्वात्मन्युपादेयत्वापनयद्वारा धात्वर्थे उपादेयत्वापाद- नादेवेत्यर्थः । इदम् , मासाग्निहोत्रवाक्यम् । एवमित्यादेः कपाल इतीत्यस्यानन्तर- मुदाहरणमिति पूरणीयम् । निमित्तस्येत्यादेः यनेतेतीत्यम्यानन्तरम् उदाहरणमिति B9 भारदीपिकाव्याख्या पूरणीयम् । अयम्, नैमित्तिकविश्वजिद्यागः । ('विश्वनिता यजेत' इत्यस्म, . स्कर्मान्तरमिति ।) सत्रप्रकरणपठित- विश्वनिता यनेत '-इतिवाक्यविहितकर्मः सकाशाद्भिन्न इत्यर्थः । अनेनेत्यस्य विनियुक्तस्येत्यत्रेव प्रयुक्तस्येत्यत्राप्यन्वयः । अनेन, उक्तनैमित्तिकविश्वजिद्वाक्येन । विनियुक्तस्य, 'सत्रं करिष्ये' इति संकल्पं कृत्वा तदकरणे यत्पापं जायते तन्निवृत्तिरूपफलं प्रति साधनत्व- रूपविनियोगवत्तया कथितस्य विश्वजिद्यागस्य । प्रयुक्तस्य, उक्तफलार्थ विहित- प्रयोगकस्य विश्वनिद्यागस्य । तेन, अनैमित्तिकविश्वनिद्वाक्येन । तथा च नैमित्तिकविश्वजिद्वाक्यं न कर्मान्तरविधायकं किं त्वनैमित्तिकविश्वजिद्वाक्य- विहितकर्मणो विनियोगप्रयोगयोर्विधायकमिति न चति शङ्काग्रन्थाभिप्रायः । संनिधिं विना, 'सायं जुहोति' इत्यत्रेव संनिधिरूपबाधकं विना ॥ ११ ॥ देशकालनिमित्तरूपानुपादेयगुणवशेन कर्मभेदे निरूपिते, प्रसङ्गात्फल. संस्कार्यस्वरूपानुपादेयगुणवशेन कर्मभेदो निरूप्यत इति प्रसङ्गसंगतिः । फलं चाकर्मसंनिधौ ॥ अकर्मसंनिधौ प्रकरणान्तरे विद्यमानं फलं संस्कार्य च कर्मभेदकमिति सूत्रार्थः । रुक्काम इतीत्यनन्तरमुदाहरणमिति पूरणीयम् । रुक्कामस्तेजस्कामः । प्रोक्षतीतीत्यनन्तरमुदाहरणमिति पूरणीयम् । पञ्चैव कालदेशनिमित्तफलसंस्कार्याणि पश्चैवानुपादेयानि ॥ १२ ॥ पूर्वाधिकरणेऽनुपादेयगुणस्य कर्मभेदकत्वोक्त्या अत्रापि तद्गुणवशेन कर्म- भेदः स्यादिति दृष्टान्तसंगतिः । संनिधौ त्वविभागात्फलार्थत्वेन पुनः श्रुतिः ॥ संनिधी अग्निहोत्रादिकमसंनिधो, अग्निहोत्रप्रकरण इति यावत् । अनुपादेयगुणयोगेऽपि अविभागात् विजातीयप्राकरणिककर्मोपस्थित्तेर- विच्छेदात् 'सायं जुहोति' इत्यादिसंनिधिपठितवाक्ये कर्मान्तरं न, किं तु फलार्थत्वेन कालदेशनिमित्तफलसंस्कार्यसंबधार्थ फलशब्दः उक्कपश्चनुपादेय- गुणोपलक्षकः तस्य कर्मणः पुनः श्रुतिरिति सूत्रार्थः । समे, समदेशे । याव- ज्जीवमिति निमित्तकथनम् । संनिधानात्, विनातीयकर्मोपस्थितेः । स्वविषयः, विजातीयकोपस्थितिविषयः । 'य इष्टया-'इत्यादौ, ‘य इष्टया पशुना सो- भाहकरूपतरुः ६७ । वा यजेत सोऽमावास्यायां पौर्णमास्यां वा यनेत' इति वाक्ये ॥ १३ ॥ प्राप्तकर्मविषयकप्रकरणपठितवाक्ये कालाद्यनुपादेयगुणस्यान्यतोऽप्राप्त्या विधिरुक्तः, इहामावास्यारूपानुपादेयगुणस्यापि कालद्वययुक्तवाक्यादेव प्राप्त- तया अप्राप्त्यभावात् 'यदाग्नेयोऽष्टाकपालोऽमावास्यायाम् -' इति प्रकरण- पठितवाक्येऽपि कर्मान्तरविधिः स्यादिति प्रत्युदाहरणसंगतिः । आग्नेयस्तू- तहेतुत्वाभ्यासेन प्रतीयेत ॥ अस्मिन्वाक्ये आग्नेययागः कालद्वय- वाक्यविहितकर्मणो विलक्षणः विहित इति प्रतीयेत अभ्यासाभिन्नपूर्वोक्तहेतु- कत्वात्; अभ्यासेनेति तृतीया अभेदार्थे; हेतुत्वशब्दो हेतुकत्वपरः, इति पूर्वपक्षसूत्रार्थः । अविभागात्तु कर्मणो द्विरुक्तेन विधीयते ॥ एतद्वाक्यकथितकर्मणः कालद्वययुक्तवाक्यविहितामावास्याकालकर्तव्याग्नेयपुरो- डाशकर्मणा अविभागात् अभेदात् पुनरुक्तिरूपद्विरुक्तिमात्रेण यागो न विधी- यत इति सिद्धान्तमूत्रार्थः । अन्यार्था वा पुनः श्रुतिः ॥ अमावास्यायां कर्तव्याग्नेययागस्य स्तुत्यर्था पुनः श्रुतिरिति सूत्रार्थः । अनुपादेयगुणसत्त्वेऽपि अनुपस्थिनिरूपविशेष्यांशाभावात्कथं प्रकरणान्तरमित्यरुच्या हेत्वन्तरमाह- अभ्यासाद्वति ॥ १४ ॥ - इति भाटकल्पतर्यभिधाया भादीपिकाव्याख्याया द्वितीयाध्यायस्य तृतीयः पादः। चतुर्थः पादः। अस्य प्रयोगभेदपादस्य भिद्यमानकर्मोपनीव्यत्वात्पूर्वपादेनोपजीव्योपजीव- कभावः संगतिः । कालयुक्तवाक्यस्य पूर्वाधिकरणे विचारितत्वेनास्य कालयुक्त- वाक्यविचारस्य पूर्वेण प्रसङ्गसंगतिः । यावज्जीवकोऽभ्यासः कर्मधर्म: प्रकरणात् ॥ 'यावजीवं जुहोति' इति वाक्ये होममनूद्य यावजीवपदेना- म्यासः कर्मधर्मतया विधीयते अग्निहोत्रप्रकरणादिति पूर्वपक्षसुत्रार्थः । कर्तुर्वा मादीपिकाच्याख्या श्रुतिसंयोगात् ॥ कर्तृसंबन्धिनीवनपर्याप्तकालो होम प्रति निमित्तत्वेन विधीयते श्रुतिसंयोगात् यावज्जीवपदस्य कालार्थे रूढिसंयोगात् अम्यासे लक्ष. णापत्तेश्चेति सिद्धान्तसूत्रार्थः । अत एव, व्याप्यव्यापकभावापन्नकालत्वादेव । यावच्छब्दार्थस्य, व्यापकत्वस्य । इदम्, वाक्यम् ॥ १ ॥ निमित्तभेदान्नैमित्तिकावृत्तिनिरूपणे प्रतिशाखं वाक्यभेदरूपनिमित्तभेदाद्वा- क्यबोध्यकर्मभेदः स्यादिति दृष्टान्तसंगतिः। नामरूपधर्मविशेषपुनरुक्ति- निन्दाशक्तिसमाप्तिवचनप्रायश्चित्तान्यार्थदर्शनाच्छाखा--- न्तरेषु कर्मभेदः स्यात् ॥ 'काठकम्' 'कालापम्' इत्यादिनामभेदात्, 'अग्नीषोमीयमेकादशकपालम्' 'अग्नीषोमीयं द्वादशकपालम्' इति शाखा- भेदेन रूपस्य एकादशकपालद्वादशकपालरूपस्य भेदात्, कारीर्यध्ययने शाखा- भेदेन भूमिभोजनतदभावरूपधर्मविशेषात् , शाखाभेदेन 'अग्निहोत्रं जुहोति' 'अग्निहोत्रं जुहोति' इति पुनरुक्तः, 'प्रातः प्रातरनृतं ते वदन्ति पुरोदया- ज्जुह्वति येऽग्निहोत्रम् ' इत्यनुदितहोमनिन्दायाः, 'यथातिथये प्रद्रुतायान्नमाहरे- युस्तादृक्तद्यदुदिते जुहोति' इत्युदितहोमनिन्दायाः, सर्वशाखोक्तरीत्या अग्नि- होत्रकर्मकरणाशक्तेः, अत्राग्निः समाप्तः अत्राग्निरसमाप्त (?) इति शाखाभेदेन समाप्तिवचनात्, उदितानुदितहोमातिक्रमे शाखाभेदेन प्रायश्चित्तानानात्, सारस्वते ये पुरोडाशिनस्ते उपविशन्ति ये सांनायिनस्ते वत्सान्वारयन्ति, पुरो- डाशिन इष्टप्रथमयज्ञाः सानायिनोऽनिष्टप्रथमयज्ञा अधिकारिण इति भिन्नभिन्नार्थ- दर्शनरूपान्यार्थदर्शनात् , शाखान्तरेषु कर्मभेदः स्यात्, एकस्मिन्कर्मण्यग्नि- होत्रादौ उक्तहेतूनामसंभवादिति पूर्वपक्षसूत्रार्थः । एकं वा संयोगरूप- चोदनाख्याविशेषात् ॥ शाखाभेदेऽपि एकमेवाग्निहोत्रं फलसंयोगस्य द्रव्यदेवताख्यरूपस्य पुरुषप्रयत्नरूपचोद्यमानस्य अग्निहोत्रमिति नामधेयस्य चाविशेषादिति सिद्धान्तसूत्रार्थः । न नाना स्यादचोदनाभिधायि- स्वात् ॥ काठकादिनाम्ना कर्मभेदो न स्यात् काठकादिनाम्नां ग्रन्थनामत्वेन चोचमानकर्माभिधानत्वाभावादिति सूत्रार्थः । एकत्वेऽपि परम् ॥ कर्मण - , भाहकल्पतरुः - ऐकत्वेऽपि रूपभेद उपपद्यते यतः परम् एकत्वप्रत्यभिज्ञापनपरं वचनमस्तीति सूत्रार्थः । विद्यायां धर्मशास्त्रम् ॥ भूमिभोजनादिधर्मशासनं वेदग्रहण- रूपवियायां न तु कर्मणीति सूत्रार्थः । वाक्यासमवायात् ॥ तत्तच्छा- खीयवाक्यद्वयस्याध्येतृभेदेनैकस्मिन्समवायरूपसंबन्धाभावात्पुनरुक्तिर्नास्तीति सू- प्रार्थः । इदं सूत्रं शास्त्रान्तराध्ययनप्रतिषेधकम् । अर्थासंनिधेश्च ॥ एक- स्यां शाखायां यदग्निहोत्रं तस्य शाखान्तरे उपस्थितिरूपसंनिधानाभावात्तदनु वादेन गुणविध्यसंभवेन तदेव शाखान्तरेऽप्यग्निहोत्रं पुरुषान्तरं प्रत्युत्पद्यते इति सूत्रार्थः । इदमपि सूत्रं शाखान्तराध्ययनं न कार्यमित्यस्य सूचकम्, एकस्य बहुशाखाध्ययनसंभवे अग्निहोत्रस्य शाखान्तरेऽप्युपस्थितिसंभवादसंनिध्युक्त्य- संगत्यापत्तेः । समाप्तिवच्च संप्रेक्षा ॥ 'अस्माकमग्निः समाप्यते' इति वचनं समाप्तिवत् समाप्तितया संप्रेक्षारूपम्, न तु अस्माकमत्र समाप्ति- रन्येषामन्यत्रेति सूत्रार्थः । एकत्वेऽपि पराणि निन्दाशक्तिसमाप्ति- वचनानि ॥ अग्निहोत्रस्य कर्मणः सर्वशाखासु एकत्वेऽपि निन्दादिवचनानि पराणि परार्थानि । न हि निन्दा निन्दितुं प्रवृत्ता, अपि तु तदितरत्स्तुत्वा इतरविधिपरा । अशक्तिः अशक्तस्य यत्किचिदङ्गानुष्ठानेनापि प्रधानानुष्ठानफल- सिद्धिपरा । समाप्तिरेकाङ्गसमाप्तिपरा न तु कृत्स्नसमाप्तिपरा, इति सूत्रार्थः । प्रक्रमादा नियोगेन || 'उदितहोमं करिष्ये' इति संकल्प्य येन कर्म प्रक्रान्तं तस्य प्रक्रमातिक्रमदोषनिहरणार्थ शास्त्ररूपनियोगेन प्रायश्चित्तमुक्तम् , नैतावता कर्मभेदः एकस्य कर्मण उदितानुदितकालद्वयसंभवादिति सुत्रार्थः । सारस्वतेऽपि प्रतिषेधाद्यदेति स्यात् ॥ सारस्वते इष्टप्रथमयज्ञानाम- निष्टप्रथमयज्ञानां च कर्तृत्वदर्शनात्सारस्वतकर्मभेद इत्युक्तमयुक्तं ज्योतिष्टो. माख्यप्रथमयज्ञशून्यस्यान्ययज्ञप्रतिषेधात् सारस्वतेऽप्यनिष्टप्रथमयज्ञस्य कर्तृत्व- प्रतिषेधसिद्धेः; अतो यदा सांनायिनः अनिष्टप्रथमयज्ञा जनाः पुरोडाशिनः इष्टप्रथमयज्ञा भवेयुः तदा इष्टप्रथमयज्ञत्वविशिष्टा जाता इति श्रुतियोजना स्यादिति सुत्रार्थः । (अध्वर्यु वृणीते' इतिवदिति ।) अध्वयोरुद्देश्यत्वेन उद्दे-
भाग्दीपिकाव्याख्या
श्यमतैकत्वस्य तस्यामवस्थायामविवक्षितत्वेऽपि वरणसंस्कारविध्यन्यथानुपपत्त्या
कल्पिते अध्वर्युणा वृतेन कर्म कर्तव्यमिति संस्कृताध्वयोर्विनियोगविधावध्वयों-
रुपादेयत्वासंस्कारविधी श्रुतैकत्वस्योपादेयत्वावस्थायां तस्मिन्नन्वयसंभव इति
एकत्वविवक्षावदिति भावः ॥ २ ॥
-
इति भाद्रकल्पतर्वभिधायां भादीपिकाव्याख्यायां द्वितीयाध्यायस्य
चतुर्थः पादः।
तृतीयोऽध्यायः।
कर्मगताङ्गत्वविचाररूपस्य तृतीयाध्यायस्य कर्मभेदविचाररूपद्वितीयाध्या-
योपजीव्यत्वात्तयोरुपनीव्योपजीवकभावः संगतिः । अस्याङ्गत्वश्रुतिपादस्य तृती-
याद्यस्य द्वितीयचतुर्थप्रयोगभेदपादस्य च विषयविषयिभावः संगतिः । श्रुतिप्रमा-
णकाङ्गत्वविशिष्टकर्मविषयकत्वात्कर्मप्रयोगभेदस्य एकस्मिन्नेव कर्मणि शाखा-
भेदेनोक्तानामङ्गानामुपसंहारस्य पूर्वाधिकरणोक्तत्वेनाङ्गत्वस्योपस्थितत्वात्तद्विचार-
प्रतिज्ञारूपस्यास्याधिकरणस्य पूर्वाधिकरणेन प्रसङ्गसंगतिः । अथातः शेष-
लक्षणम् ॥ लक्ष्यते ज्ञायते अनेन विचारेणेति लक्षणम्, शेषस्य लक्षणं
शेषलक्षणं शेषविचारः (अथशब्द आरम्भार्थकः) आरभ्यत इति सूत्रार्थः ।
(तत्प्रसङ्गादिति ।) तेन कर्मभेदनिरूपणहेतुताकेन कर्माङ्गत्वनिरूपणेनाङ्गत्व-
सामान्याश्रयद्रव्यगताङ्गत्वस्यापि ज्ञातत्वरूपप्रसङ्गसंगतेरित्यर्थः । (अर्थादिति ।)
अङ्गित्वस्याङ्गत्वनिरूपकत्वादित्यर्थः । अङ्गित्वमध्यायार्थः अङ्गत्वमर्थादित्यपि
यद्यपि वक्तुं शक्यते, तथाप्यङ्गमस्यास्तीत्यङ्गीति व्युत्पत्त्या अङ्गिनोऽङ्गघटि-
तत्ववदङ्गस्याङ्गिघटितत्वाभावादङ्गित्वं गुरुमूतं नाङ्गत्वम्, अतोऽङ्गत्वमेव शा.
स्त्रार्थ इति भावः । तदपि च, अङ्गत्वमपि च । तच्च, अङ्गत्वं च । अनेक-
प्रकारकम्, अङ्गत्वलक्षणं शेषपदशक्यतावच्छेदकमित्याद्यनेकधर्मविशिष्टम् ।
प्रकारविशेषमेव निरूपयति- अङ्गत्वलक्षणमित्यादिना ॥ १ ॥
भाहकल्पतरुः शेषस्य लक्षणशून्यत्वाहुर्बोधस्वरूपतया तद्विचारो न संभवतीत्याक्षेपिकी संगतिः । शेषः परार्थत्वात् ॥ प्रयाजादिः परार्थत्वाच्छेष इत्युच्यते इति सूत्रार्थः । पारार्थ्य शेषलक्षणमिति सिद्धम् । षष्ठीस्थले, 'दनेन्द्रिय कामस्य-' इत्यादाविन्द्रियकामपदार्थकामनावत्पुरुषस्य कर्तुः षष्ठया कर्मकार- कत्वबोधनस्थले । तत्कारकपदं तु, अङ्गत्वघटककारकपदं तु । भाक्तः, गौणः । तेषाम् , श्रुत्यादीनाम् । अङ्गत्वप्रामाण्यव्यवहारः, अङ्गत्वप्रमितिजनकतया च्यवहारः॥२॥ पारायें निरूपिते प्रसङ्गात्तदाश्रयो निरूप्यत इति प्रसङ्गसंगतिः । द्रव्यगुणसंस्कारेषु पादरिः ॥ पारार्थ्यद्रव्यगुणसंस्कारेप्वेव न तु कर्म- फलपुरुषाणामिति बादरिर्मन्यते इति पूर्वपक्षसूत्रार्थः । कर्मण्यपि जैमिनिः फलार्थत्वात् ॥ ‘अग्निहोत्रं जुहुयात्स्वर्गकामः' इति कर्मणोऽपि फलार्थत्व- रूपान्यार्थत्वावगमात् कर्मण्यपि पारार्थ्यमस्तीति जैमिनिर्मन्यते इति सिद्धान्त- सूत्रार्थः । फलं च पुरुषार्थत्वात् ॥ फलं च स्वर्गादिकं परार्थ पुरुषं प्रति विहितत्वादिति सूत्रार्थः । पुरुषश्च कर्मार्थत्वात् ॥ पुरुषश्च परार्थः कर्म प्रति कर्तृतया विहितत्वादिति सूत्रार्थः । विधेरिष्टभाव्यकभावनाविषयकत्व- सिद्धयर्थ यागातिरिक्तस्वर्गादेर्भाव्यतयाङ्गीकार्यत्वात् कथं यागस्य भावना- भाव्यत्वं संभवतीत्यत आह- विधेः प्रवृत्तीत्यादि । तदर्थे, मशकार्थे । अप- कारके, धूमे 'मशकेभ्यो धूमः' इति मशकार्थतया निर्दिष्टे । तदङ्गम् , यागाङ्गम् ॥ ३॥ यथा अग्निहोत्रादिकर्मणां विहितकर्मत्वात्फलार्थत्वमुक्तं तथा विहित- कर्मत्वाविशेषात्प्रोक्षणावघातादिकर्मणां परमापूर्वाख्यफलार्थत्वं स्यादिति दृष्टान्त- संगतिः । तेषामर्थेन संबन्धः ॥ तेषां श्रुतिप्रमाणतया व्यवह्रियमाणानां द्वितीयातृतीयादीनाम् अर्थेन अङ्गत्वघटकीभूतकर्मत्वकरणत्वादिरूपार्थेन संबन्धः वाचकत्वरूपः संबन्ध इत्येकः सूत्रार्थः । अनेन सूत्रार्थेनाङ्गत्वप्रटकीभूतकर्मत्व- करणस्वादिवाचकत्वमङ्गत्वश्रुतेर्लक्षणमिति सिध्यति । तेषाम् अवघातोत्पवन- भाादीपिकाव्याख्या शाखाहरणादीनाम् अर्थेन वैतुष्यादिना प्रयोजनेन संबन्धः, अतस्तत्तत्प्रयोजन- शून्येषु न ते प्रयोक्तव्या इत्यपरः सूत्रार्थः । अत एव, 'प्रोमिताभ्याम्-' इत्येतद्गतनिष्ठायाः कर्मत्वविशिष्टद्रव्यवाचित्वेन प्राधान्येन कर्मत्वरूपकारकवाचि- त्वाभावादेव, अवचर इत्येतद्गततृचः साधकतमत्वविचिष्टवाचित्वेन प्राधान्येन करणत्ववाचित्वाभावादेव । तत्र द्वितीया, 'ग्रीहीन्प्रोक्षति' इत्यत्र द्वितीया । तत्रापि, 'श्रीहीन्प्रोक्षति' इत्यत्रापि । अतश्च, द्वितीयाया मुख्यश्रुतित्वा- भावाञ्च । लक्षणे, श्रुतिलक्षणे । द्वितीयाया मुख्यश्रुतित्वाभावेन द्वितीयायाः श्रुतिस्वलक्षणसंभवसंपादकमुद्देश्यत्वपदं लक्षणे न देयमिति भावः । अन्यत्रापि, 'आज्यमुत्पुनाति' इत्युत्पवनादिविधावपि । तत्साधनत्वमेव, परमापूर्वसाधनत्व- मेव । तथा च बहुषु उत्पत्त्यपूर्वेषु संनिपत्योपकारकाङ्गं प्रति प्रयोजकत्व- शक्तिकल्पनापेक्षया आरादुपकारकाङ्गेषु क्लप्तप्रयोजकत्वशक्तिमत एकस्य पर- मापूर्वस्य लाघवात्संनिपत्योपकारकाङ्गं प्रत्यपि प्रयोजकशक्तिमत्तया कल्पना- तत्साधनत्वमवघातादेर्युक्तमिति भावः । ननु परमापूर्वसाधनत्वस्य उक्तरीत्या प्राकरणिकसर्वपदार्थसाधारणतया नोद्देश्यतावच्छेदकत्वमित्यत आह-- प्रदेय- घटकत्वसंबन्धेनेति । प्रदेयस्य पुरोडाशार्घटकत्वं यस्मिन्संबन्धे स प्रदेयघट- कस्वसंबन्धः, प्रदेयघटितसंबन्ध इति यावत् । तथा च परमापूर्वसाधनाग्ने- येन्द्रयागसाधनप्रदेयपुरोडाशदधिपयस्त्वतत्प्रकृतित्वान्यतरसंबन्धेन परमापूर्ववत्त्व- स्य ब्रीह्मादिपदेन लक्षणीयत्वान्न जुह्वादिष्ववघातप्रसक्तिरिति भावः । तत्प्रत्यपि, परमापूर्व प्रत्यपि । अत एव, आग्नेयादेर्यागस्योत्पत्त्यपूर्व इव परमापूर्वेऽपि साक्षासाधनस्वादेव । (न वानियमन्यायोऽसीति ।) 'यावत्या वाचा-' इत्युक्तस्य वानियमस्य दीक्षणीयाजन्योत्पत्त्यपूर्वार्थत्वमेव न तु परमापूर्वार्थत्वं दीलणीयायां साक्षात्परमापूर्वसाधनत्वाभावात्, अत्र तु तत्साधनत्यान्न वाइ- नियमन्याय इति भावः । नीवारादिषु, ब्रीह्यभावे प्रतिनिधित्वेनागतेषु नीवारा- दिषु । सोऽपि, विधिरपि । प्रत्यासत्त्या, संनिधानेन । तस्यापि, उत्पत्त्य- पूर्वस्यापि । अनि तप्रकारत्वेन, अज्ञातप्रकारत्वेन । धर्मप्रयोलकत्वोपपत्तेः, .
भारकल्पतरुः कथंभाव्याकाझ्या धर्मप्रयोजकत्वोपपत्तेः । अपूर्वत्रयस्य, आग्नेयाग्नीषोमी- येन्द्राग्नजन्यापूर्वत्रयस्य । एकपदोपादानात्, उक्तापूर्वत्रयलक्षकेणेकनीहि- पदेन ग्रहणात् । अवाक्यभेदः, 'वीहीमोक्षति' इत्यादी नोद्देश्यानेकत्व- प्रयुक्तवाक्यभेदः । अभावेऽपीत्यनन्तरं नीवारादिष्विति शेषः पूरणीयः ॥ ४ ॥ प्रोक्षणादीनां व्यवस्थापकत्रीह्यादिपदवद्यज्ञायुधानां व्यवस्थापकाभावात्सर्वत्र संकरः स्यादिति प्रत्युदाहरणसंगतिः । द्रव्यं चोत्पत्तिसंयोगात्तदर्य- मेव चोद्यते ॥ स्यादिद्रव्यम् उद्धननादिक्रियायामेव चौद्यते न तु सर्वत्र, 'स्क्येनोडन्ति' इत्यादिविधौ उद्धननोत्पत्तिसंयोगादिति सूत्रार्थः । शक्यक्रिया, योग्यक्रिया । बहूनाम्, 'स्क्येनोडन्ति' इत्यादीनाम् । अस्य च, यज्ञा- युधवाक्यस्य च ॥५॥ स्पयादीनां व्यवस्थिततत्तदुत्पत्तिसंयोगाद्वयवस्थोक्ता; तद्वदारुण्यस्य स्व- वाक्ये क्रियोत्पत्तिसंयोगाभावात्प्राकरणिकसर्वपदार्थे निवेशः स्यादिति प्रत्युदा- हरणसंगतिः । अथैकत्वे द्रव्यगुणयोरैककानियमः स्यात् । अर्थैकत्वे सोमद्रव्यलाभरूपप्रयोजनकत्वे एकहायनीद्रव्यारुण्यगुणयोः एकक्रि- यान्वयित्वात् नियमः स्यात् परिच्छेद्यपरिच्छेदकभावेन एकहायन्यामेवारुण्यस्य नियमः स्यात्, न तु प्राकरणिकसर्वद्रव्येष्विति सूत्रार्थः । तदर्थम् , करणत्वा- न्वयार्थम् । तत्रैव, अरुणगुण एव । अव्युत्पत्त्यापत्तेः, अन्वयानुपपत्तिरूपं बीजं विनापि लक्षणाकल्पनापत्तेः । (गुणवचनानाम्-' इति ।) 'नीलमुत्प- लम्' इत्यादौ नीलादिगुणवाचकशब्दानामाश्रयतः स्वसमानाधिकरणद्रव्यवाचको- त्पलादिपदवशात् लिङ्गवचनानि स्त्रीत्वपुंस्त्वैकत्वबहुत्वबोधकवचनानि . भवन्ती- त्यर्थः । द्रव्यस्य, क्रयसाधनद्रव्यस्य । एकेनैव पदेन, पिङ्गाक्ष्येकहायनीपद- द्वयान्तर्गतैकपदेन । इतरेण, उक्तपदद्वयघटकेनापरेण । अत्रापि, एकहायनी- पदेऽपि (नेति वक्तुमिति ।) बहुव्रीहिस्थलेऽप्येकहायनरूपशक्यार्थनिष्ठत्वमेव न त्वन्यपदार्थनिष्ठत्वमिति भावः । समासानुशासनस्य, 'अनेकमन्यपदायें। इति सूत्रस्य । (मतुवाद्यनुशासतवदिति ।) 'गुणवचनान्मतुपो लुगिष्टः' इत्यनु- 310 भादीपिकाच्याख्या पासनवदित्यर्थः । ननु पिङ्गाक्ष्येकहायनीपदयोर्गुणमात्रपरत्वे तदर्थयोः पाठिका- न्वयबोधे सामानाधिकरण्यस्यैव संबन्धत्वावश्यिकतया सामानाधिकरण्यघटक- द्रव्यस्य केन लाभ इत्यत आह- प्रमाणान्तरप्रमितेति । 'गवा क्रीणाति' इति प्रमाणान्तरप्रमितेत्यर्थः । योग्यत्वेऽपि, परिच्छेदकतया द्रव्यान्वययोग्यत्वे- ऽपि । वाक्यीयद्रव्यान्वयस्य, अरुणापदघटितवाक्यघटकैकहायनीपदार्थान्वयस्य । (व्युत्पनत्वेऽपीति ।) कारकाणामपि समानाधिकरणानामरुणैकहायन्यादीना- मन्वयः परस्परं व्युत्पन्न एव, अन्यथा 'ज्योतिष्टोमेन यनेत' इत्यत्र ज्योति- टोमपदार्थस्य कारकभूते यागेऽन्वयानापत्तेरिति रीत्या युक्तिसिद्धत्वेऽपीत्यर्थः । वस्तुतस्तु व्युत्पन्नत्वेऽपि, समानाधिकरणद्रव्यान्वयासंभवेन क्रियान्वयस्य व्युत्प- नत्वेऽपि । अमूर्तत्वेन, मूर्तद्रव्यविलक्षणत्वेन । अयोग्यस्य, क्रयनिर्वर्तनानु. कूलशक्तिरहितस्य । वाक्यीयक्रियान्वयायोगात्, उक्तवाक्यजन्यप्रतीतिमुख्य- विशेष्यभूतक्रयभावनयान्वयस्य सर्व वाक्यं क्रियायां परिसमाप्यते' इति यास्कवचनरीत्या पदनातरूपवाक्यघटकसर्वपदार्थानां क्रियान्वय इत्यर्थपर्यवसा- यिन्या वक्तव्यस्यायोगात् । तथा च आरुण्यस्यैकहायनद्रव्यान्वययोग्यत्वेऽपि क्रयान्वयस्य व्युत्पन्नत्वेऽपि उक्तयास्कमहर्षिवचनरीत्या प्रथमं क्रियान्वयमुक्त्वा पश्चाइल्यान्वयस्य वक्तव्यतया प्रथममयोग्यत्वेन क्रियान्वयस्यैवासंभवे पाश्चात्त्य- द्रव्यान्वयः सुतरामसंभवीति भावः । (विशिष्टभावनाविधानोत्तरमिति ।) अरु- णावाक्ये तृतीयान्तपदत्रयबोधिततत्तत्प्रातिपदिकार्थगतकरणत्वस्य द्वितीयान्त- पदबोधितसोमगतभाव्यत्वाख्यकर्मस्वस्य च 'प्रकृतिप्रत्ययौ सहाथै ब्रूतस्तयोस्तु प्रत्ययः प्राधान्येन' इति यास्कवचनरीत्या धास्वर्थक्रियान्विता या भावना तस्यां क्रयभावनायाम् ‘सर्व वाक्यं क्रियायां परिसमाप्यते' इति यास्कवचन- रीत्या लेडर्थविधिना सह संबन्धसामान्येनान्वयं विषयीकृत्य अरुणागतकरणत्व- संबन्धिनी पिङ्गाक्षीगतकरणत्वसंबन्धिनी एकहायनीगतकरणत्वसंबन्धिनी सोम- गतभाव्यत्वसंवन्धिनी क्रयभावना विधिसंबन्धिनीति प्रथमं यो बोधो जायते तदु. सरमित्यर्थः । (यस्य सोमसंबन्धवेलायामिति ।) सोमनिष्ठमान्यत्वस्व निरू- भाहकल्पतरुः पकापेक्षायां धात्वर्थस्य ऋयस्य स्वनिष्ठकरणतानिरूपितत्वसंबन्धेन सोमनिष्ठ- भान्यत्वेऽन्वयः आरुण्यादिकारकत्रयस्य धात्वर्थेन भेदान्वयाव्युत्पत्तेरभेदेनान्व- यार्थ लक्षणां कल्पयित्वा धात्वर्थेन क्रयेणान्वये सति आरुण्यवता एकहायनी- बता पिङ्गाक्षीवता क्रयेण सोमः साधनीय इति द्वितीयबोधो जायत इति भावः । (पश्चाद्विशेषणत्रयविधिकल्पनयेति ।) मत्वर्थवैशिष्टयं किंरूपम् आरुण्यादि- गतकरणता च किंनिरूपितेत्याकाङ्क्षायां तृतीयार्थकरणत्वस्य स्वनिरूपकभाव्यता. श्रयत्वसंबन्धेन धात्वर्थक्रयेऽन्वयं विषयीकृत्य अरुणया क्रयभाव्यका भावना पिङ्गाक्ष्या क्रयभाव्यका भावना एकहायन्या क्रयभाव्यका भावनति बोधत्रयं जायत इति भावः । (पश्चात्परिच्छेदकीभूतद्रव्यापेक्षायामिति ।) एकहायनी- द्रव्यस्य अहं किंज्ञानजन्येतरभेदप्रकारकानुमितिविषयः स्यामिति परिच्छेदका- कालायां क्रयपरिच्छेदकस्य सत्याम् , तथा ऋयपरिच्छेदकस्यारुण्यस्य मत्परि- च्छेद्यद्रव्यं द्वारभूतं किं येनाहं द्वारभूतद्रव्येण ऋयं परिच्छिन्द्यामित्याकालायां च सत्याम् , या अरुणा सा एकहायनी या एकहायनी सा अरुणति परस्पर- विशेषणविशेष्यभावावगाही बोधो जायत इति भावः । (यवेष्विति ।) यवेषु बाह्यवघातप्रवृत्तिवदित्यर्थः । गुणात् , वाससा क्रीणाति' इति वाक्यविहित- वासोरूपगुणात् । अन्यथा, विक्रेत्रानतिवशेनोत्पत्तिशिष्टद्रव्यावरोधेऽपि द्रव्या- न्तरनिवेशे । (दक्षिणानामपीति ।) ज्योतिष्टोमदक्षिणया अग्नीषोमीयाद्युपकार- प्रसङ्गः पौण्डरीके 'अयुतं दक्षिणा' इत्यनेन प्राकृतद्वादशशतदक्षिणाबाधश्च न स्याताम् , तावन्मात्रेण ऋत्विगानत्याद्यप्रसक्तेः सत्त्वादिति भावः । (गुण- न्यायेति ।) उत्पत्तिशिष्टगुणन्यायेत्यर्थः । (एकसोमप्राप्त्यर्थत्वाविशेषादिति ।) भिन्नभिन्नक्रयाणामिति शेषः । (त्रिवत्स इति ।) 'त्रिवत्सः साण्डः सोमक्रय- णः' इत्युक्ते सर्वसोमक्रयणस्थानापन्ने साण्डे गवीत्यर्थः । निवेशः, आरुण्य- निवेशः । (कौस्तुभे विस्तर इति ।) 'आरुण्योद्देश्यतावच्छेदकस्य स्त्रीत्वस्य पुंस्त्वावरुडे साण्डे गन्यमावेऽपि वैनात्यरूपस्योक्तोद्देश्यतावच्छेदकस्य स्त्रीत्वा- पटिनस्य एकहायन्यामिव त्रिवत्सेऽपि सत्त्वमक्षुण्णम्' इति कौस्तुभे विस्तर - ६ भादीपिकाच्याख्या इत्यर्थः ॥ ६॥ पूर्वाधिकरणेऽमूर्तस्यारुण्यस्य विवक्षया स्ववाक्ये निवेशक्दमूर्तस्यैकत्व- स्यापि विवक्षया स्ववाक्ये निवेशः स्यादिति दृष्टान्तसंगतिः । एकत्वसंयुक्त- मेकस्य श्रुतिसंयोगात् ॥ 'ग्रहं समार्टि' इत्यत्र एकत्वविशिष्टं ग्रह- द्रव्यं संमार्जनीयम् एकत्वविशिष्टस्य श्रुत्या 'ग्रहम्' इत्येकवचनान्तपदनिरू- पितशक्तिवृत्त्या संयोगादिति पूर्वपक्षसूत्रार्थः । चोदिते तु परार्थत्वा- चथाश्रुति प्रतीयेत ॥ चोदिते विहितेऽर्थे 'पशुना यजेत' इति विहिते एकत्वविशिष्टपशौ तु विहितकोटिप्रविष्टमेकत्वं यथाश्रुति एकवचनशक्त्यनु- सारेण प्रतीयेत; कुतः? परार्थत्वात् एकत्वविशिष्टपशोर्यागरूपं परं प्रत्य- पेक्षितत्वात् तद्विशेषणस्य एकत्वस्यापि तत्वात्। तथा च विवक्षितत्वव्यापक यत्साक्षात्परम्परया वा विहितस्वं तस्योद्देश्यविशेषणे एकत्वे असंभवेन 'व्यापक निवर्तमानं व्याप्यमपि निवर्तयति' इति न्यायेन स्वव्याप्यं विवक्षितत्वमेकत्वे विहितत्वं निवर्तयतीति यावत् इति सिद्धान्तसूत्रार्थः । न ह्येतावता उद्देश्य- स्वरूपस्याविवक्षाप्रसङ्गः उद्देश्यं विना विधानस्यैवायोगेनान्यथानुपपत्त्या उद्देश्य- स्वरूपं विवक्षितमिति तत्त्वमिति भावः । लक्षणया, एकपदोपादानसामर्थ्या- धोनलक्षणावृत्त्या । तत्रापीत्यादेः स्पष्टमित्यन्तस्य 'प्रकृतिप्रत्ययौ- इति व्युत्पत्यविरोधाय लक्ष्यप्रातिपदिकार्थस्य साहित्यस्य प्रातिपदिकार्थान्वयाभावा- त्प्रत्ययार्येऽन्वय इत्यभिप्रायः । पशुत्वेन विनियुक्तस्यापि, 'पशुना यजेत' इति पशुस्वेन यागे विनियुक्तस्य पशोरवयवस्यापि । लोहितादेः संस्कार्यत्ववत् , 'लोहितं निरस्यति' इति लोहितत्वावच्छेदेन निरसनसंस्कार्यत्ववत् । द्वयोः, एकत्वावच्छिन्नग्रहत्वावच्छिन्नयोः । एकप्रधानक्रियावशीकाराभावात् ; एका या शाब्दबोधे प्रधानक्रिया मुख्यविशेष्यभूता क्रिया, तया वशीकारः अन्वयः, तस्य उद्देश्यद्वयेऽभावात् । (वैकृताङ्गवद्गुणानुरोधेनापीति ।) अस्य आकाहां परिकरूप्येत्यादिनान्वयः । आमनहोमरूपविकृतिसंनिधिपठितेन गुणभूतेनापि क्सप्तोपकारप्राकृता.निराकासविकृतिभावनायां स्ववैयर्थ्यपरिहारार्थमाका परि- १ भारकल्पतरुः - , कल्प्य स्वस्थामनहोमादेर्यथा विकृतिभावनयान्वयः तथा एकोद्देश्यसंबन्धेन शान्तभाव्याकाङ्क्षाया अपि भावनाया अपरोद्देश्यस्य उद्देश्यतया स्वतः प्रधानत्वे- ऽपि शाब्दबोधे प्रधानभूतभावनां प्रति गुणभूतस्यैकत्वस्य वैयर्थ्यपरिहारार्य भावनायामाकासां परिकल्प्य अपरोद्देश्यस्याप्यन्वयोपपत्तिरिति भावः । पद श्रुत्यैव वा, प्रातिपदिकवचनयोः ‘ग्रहम्' इत्येकसुबन्तरूपपदघटकत्वरूपश्रुत्यैव वा । प्रधानयोरपि, ग्रहत्वविशिष्टैकत्वविशिष्टयोरपि । आकासां प्रकल्प्य क्रियान्वयपूर्वकत्वं विनैव परस्परान्वयाकाङ्क्षा प्रकल्प्य । तदुपपत्तेः, परस्परान्व- योपपत्तेः । गुणानुरोधेन, चतुर्धाकरणरूपगुणानुरोधेन । प्रधानयोरमेदान्वयः, आग्नेयस्य पुरोडाशस्य चाभेदान्वयः । भावनायाः, आख्यातस्य । (एक बोधविषयेति ।) एकपदनन्योपस्थितिविषयेत्यर्थः । अस्य कर्मत्वपर्याप्त्यधि- करणतावच्छेदकेऽन्वयः । धर्मवत्त्वम् , तादृशधर्मावच्छिन्नभाव्यताकत्वसंव- न्धेन धर्मविशिष्टत्वम् । (विषयेत्यन्तमिति ।) बोधविषय इत्येतत्पदमित्यर्थः । (पर्याप्तिपदकृत्यमिति ।) 'अध्वर्युयजमानौ वाचं यच्छतः' इत्यत्र अध्वर्यु. त्वयजमानत्वयोभिन्नपदोपात्तयोरुदेश्यतावच्छेदकत्वादव्याप्तिवारणाय पर्याप्तीति निवेशनीयम्, निवेशे च द्वन्द्वरूपैकपदोपात्तसाहित्यस्य कर्मतापर्याप्त्यवच्छेद- कत्वाल्लक्षणसंगतिरिति भावः । अत एव, निमित्तस्य फलपदासमभिव्याहार- स्थल एव फलापेक्षत्वादेव । (निमित्तफलस्थल इति ।) जातेष्टयादौ निमित्त वाक्यफलवाक्य द्वादशकपालं निर्वपेत्पुत्रे जाते - एतामिष्टिं निर्वपति पूत एव तेजस्वी' इत्यत्र नैकस्या भावनाया द्विकर्मकत्वमिति भावः । (न वा कालेति ।) कालदेशोद्देश्ययोः फलानाक्षेपकत्वान्न वाक्यभेद इति भावः । फलादिसाहित्यस्य, फलसंस्कारसाहित्यस्य । स्वर्गस्येव, दर्शपूर्णमासौ प्रत्यनङ्गभूतस्य स्वर्गस्येव तस्मिन्नेव, एकवचन एव । (अष्टवर्षत्वादेविवक्षेति ।) अष्टवर्षवाक्ये उद्देश्य- गतत्वेऽपि 'तमध्यापयीत' इत्यत्रोपादेयत्वेन विवक्षा कौस्तुभ उक्तेत्यर्थः ॥७॥ उद्देश्यविशेषणत्वाविशेषादेकत्ववद्वहत्वस्याप्यविवक्षा स्यादिति दृष्टान्त संगतिः । संस्काराबा गुणानामव्यवस्था स्यात् ॥ संमार्गादि भादीपिकाव्याख्या कुणानामव्यवस्था स्यात् चमसादिसाधारण्यं स्यात् संसर्गादीनामपूर्वसाधनसंस्कार- न्यात् चमसादीनामपि ग्रहवदपूर्वसाधनत्वाविशेषादिति पूर्वपक्षसूत्रार्थः । व्यव- स्था वार्थस्य अतिसंयोगात्तस्य शब्दप्रमाणत्वात् ॥ संमार्ग- रूपार्थस्य अहेषु व्यवस्था नियतिः न चमससाधारण्यम्, 'अहम्' इति द्विती- गया श्रुत्या ग्रहरूपार्थस्यैव संयोगात् तस्य संमार्गस्य शब्दप्रमाणत्वात् यथा- शब्दमभ्युपगन्तव्यमिति सिद्धान्तसूत्रार्थः । आकृत्यधिकरणन्यायेन ग्रहप्राति- पदिकस्य ग्रहत्वधर्मपरतया तस्य ग्रहत्वस्य यादृशव्यक्तिद्वारा द्वितीयार्थकर्म- वेन योगस्तादृशी व्यक्तिर्ग्रह एव न तु चमसः, ग्रहत्वस्योद्देश्यत्वमेव न तूद्देश्यविशेषणत्वं येनाविवक्षा स्यात् उद्देश्यस्य विधेयेनाकासित्तत्वाद्विधेयतुल्य- तया विवक्षितस्वमिति तात्पर्यार्थः । लिङ्गादेव, सामर्थ्यादेव । (यवेप्विवेति ।) बीहिषु श्रुतानां प्रोक्षणावधातादीनामपूर्वसाधनत्वरूपेण यववृत्तित्ववदित्यर्थः । सत्यपि ज्योतिष्टोमेत्यादेर्भेदादित्यन्तस्य एकापूर्वसाधनत्वं ब्रीहियवादिष्विव ग्रह- चमसादौ मास्ति येन ग्रहे श्रुतः संमार्गादिश्चमसेषु स्यात्, चमसकरणका- भ्यासग्रहकरणकाभ्यासादीनां भेदेन तत्तदभ्यासमात्रापूर्वसाधनत्वात्तस्य तस्येति तापर्यार्थः । पयसेत्यादिग्रन्थस्यायमभिप्रायः पयःकरणकग्रहणस्यावान्तरा- पूर्वसाधनोदेशेन विधानात्तदङ्गत्वं न तु ज्योतिष्टोमापूर्वसाधनत्वावच्छिन्नोद्देश्य- ताकतथा ज्योतिष्टोमाङ्गत्वं यथा तथा संमार्गादीनां तत्तदभ्यासापूर्वसाधनत्वा- वच्छिनोद्देश्यताकतया तत्तदभ्यासाङ्गस्वमेव, न तु ज्योतिष्टोमीयपरमापूर्वरूपै- कापूर्वसाधनत्वावच्छिन्नोद्देश्यताकतया ज्योतिष्टोमाङ्गत्वं येन ग्रहचमसयोरप्ये- कापूर्वसाधनत्वेन चमसेऽपि संमार्गः स्यादिति । (लक्षणापतेरिति ।) ग्रहपद इति शेषः ॥ ८॥ संस्कारविनियोगे निरूपिते गुणविनियोगस्य प्रसक्तत्वात्स निरूप्यत इति प्रसङ्गसंगतिः । आनर्थक्यात्तदनेछु ॥ न सप्तदशारत्नित्वं वाजपेये निवेश्यते सत्र तस्य प्रयोजनाभावात् , किं तु वाजपेयाङ्गेषु पशुयागेषु निवे- स्थत इति सूत्रार्थः । (न यूपोद्देशेनेति ।) न किंचिदविशेषितयूपोद्देशेनेत्यर्थः । - माहकल्पतरुः , अतिप्रसङ्गापत्तेः, वाजपेयानङ्गकेवलपशुयागेऽपि सप्तदशारत्नित्वापत्तेः । (वान- पेयेन विशेषण इति ।) यूपस्येति शेषः । सादृश्यात्, ऊर्ध्वत्वसादृश्यात् । (ध्यवहितत्वादिति चेति ।) अरत्नेर्वाजपेयस्येति पदेनेति शेषः । यत्तु शिव. तत्त्वविवेके अप्ययदीक्षितैः 'अमृताक्षरमिति पद एकस्मिन्नक्षरभागस्योद्देश्यत्व ममृतभागस्य विधेयत्वं च संभवति 'सप्तदशारनिः' इत्यस्मिन्पदे अरल्यंश उद्देश्यत्वस्य सप्तदशत्वांशे विधेयत्वस्य च मीमांसकैः स्वीकृतत्वात्' इत्युक्तं सत्प्रौढ्या, मीमांसाभाष्यवार्तिकशास्त्रदीपिकाभाट्टदीपिकादिप्रसिद्धमीमांसामन्येषु एकस्मिन्सप्तदशारत्निपदे उद्देश्यविधेयोभयस्वीकारे एकप्रसरताभनापत्तिदोषप्रसर- स्यैवोक्तत्वात् ॥ ९ ॥ सप्तदशारत्नित्वस्य प्रकरणवति वाजपेये निवेशासंभवात्तदङ्गेषु निवेश इत्युक्तम् , इहाभिक्रमणस्य प्रकरणवति निवेशे बाधकाभावात्तत्र तस्य निवेश स्यादिति प्रत्युदाहरणसंगतिः । कर्तृगुणे तु कर्मासमवायादाक्यभेदः स्यात् ॥ कर्तृगुणे अभिक्रमणे स्वतः क्रियासंबन्धाभावात् कर्तृद्वारा क्रिया- संबन्धस्य वक्तव्यत्वेन कर्तुश्च प्रधाने यागेऽपि संबन्धात्तत्र तद्वारा अभिक्रमणस्य संबन्धार्थम् 'अभिक्रामं जुहोति' इति वाक्यादभिक्रमणस्य भेदनं स्यात् विच्छेदः स्यात् वाक्याधीनहोममात्राङ्गत्वं विच्छिय दर्शपूर्णमासयागाङ्गत्वमभिक्रमणस्य स्यादिति यावदिति पूर्वपक्षसूत्रार्थः । साकाक्षं त्वेकवाक्यं स्याद- समाप्तं हि पूर्वेण ॥ 'जुहोति' इत्युक्ते दूरस्थः कर्ता समीपामिक्रमणं विना कयमाहवनीये होमं कुर्यादित्याकाङ्क्षया 'अभिक्रामम्' इति पदेन साकाङ्क्ष जुहोतिपदम् । तेन पूर्वेणाभिक्रमणपदेन एकवाक्यं स्यात्, अन्यथा हि असमाप्तम् अनिवर्तिताकाक्षं जुहोतिपदं स्यादिति सिद्धान्तसूत्रार्थः । आकाङ्क्षापूरकस्य 'अभिक्रामम्' इति पदस्य तदर्थस्य च तद्वाक्याद्विच्छेदन- मन्याय्यमिति तात्पर्यार्थः । कर्तृरूपस्य, आश्रयरूपस्य । तदीयकर्तुः, सर्व होमकर्तुः । (प्रत्यासत्तीति ।) संनिधानमित्यर्थः । अनुपात्तस्यापि, भकि कमणवाक्ये केनापि पदेन शक्त्यानुपात्तत्यापि । आख्यातगम्यस्य, निक मादीपिकाध्याख्या तणयाख्यातबोध्यस्य । तहारैष, आख्यातगम्यकर्तद्वारैव । णमुलन्तस्येत्यादे- रय भावः- पूर्वकालतादिरूपधातुसंबन्धे 'प्रत्ययाः' इत्यधिकृत्य क्त्वार्थे णमुलो विधानादभिक्रमणस्य क्रिययैव संबन्धनियम इति । (प्रमाणाभावादिति।) दर्शपूर्णमासप्रकरणविरोधेन प्रयाजसंनिधानस्य भाष्यकारामिमतप्रमाणस्य दुर्वल- तया प्रमाणत्वासंभवादित्यर्थः । (होमसंबन्ध इति ।) अभिक्रमणस्येति शेषः । संकोचे, अभिक्रमणस्य प्रयाजहोममात्राङ्गत्वरूपसंकोचे । ('वेद्यां हवींषि' इतिवदिति ।) 'वेद्यां हवींष्यासादयति' इत्यत्राङ्गप्रधानसर्वहविरासादनाङ्गस्वं यथा वेद्यास्तथेत्यर्थः । नन्वभिक्रमणस्य पूर्वोत्तरभावेन प्रयाजतदङ्गसंबन्धरूप- संदंशाल्यावान्तरप्रकरणरूपसंकोचकप्रमाणस्य सत्त्वात्कथं संकोचकप्रमाणाभाव इत्यत आह- वाचनिकाङ्गेति । वाक्यसद्भावमेवोपपादयति- यदि हीति । वाक्याभावे अभिक्रामतीत्येतन्मानं श्रूयेत प्रकरणात्तस्य प्रयानसंबन्धसिद्धेः, इह तु जुहोतिरपि श्रूयते, अतो होमसामान्यस्याभिक्रमणसंबन्धबोधकवाक्यमस्तीति भावः । (फलाभावादिति ।) अङ्गेप्विति शेषः । फलवतो येतिकर्तव्यताकाङ्क्षा तस्या एव प्रकरणत्वादिति भावः । अन्यथा, अङ्गस्याप्युक्तविधप्रकरणस्वीकारे । (वाचनिकाङ्गेति ।) 'इदं प्रयानार्थम्' इति वचननियमिताङ्गेत्यर्थः । (तन्मा- वेति ।) वाचनिकाङ्गमात्रेत्यर्थः । (ऋतूपकारेति ।) उक्तोपकारलक्षणफलवत्त्वा- दास्याप्युक्तप्रकरणं संभवतीति भावः । सा, इतिकर्तव्यताकाङ्क्षा । संनि- ध्यानातविषये, प्रधानसंनिध्याम्नातविषये । न परस्परागत्वप्रसङ्गः, प्रयाजानू- याजादीनामितरेतराङ्गत्वप्रसङ्गः । तदा, प्रधानगतबलवत्त्वेन प्रतिबन्धकेनाङ्ग- गतेतिकर्तव्यताकाक्षायाः संनिध्यानाताङ्गविषयत्वाभावदशायाम् । तन्निवृत्तिः, अङ्गगतोक्ताकासानिवृत्तिः । (आक्षेपलभ्यस्वसंपादनेनेति ।) स्वस्याङ्गस्य संपा- दनमुत्पादनं येन तत्स्वसंपादनम् , आक्षेपलम्यं च तत्स्वसंपादनं च आक्षेप- सभ्यस्वसंपादनमिति विग्रहः; . अङ्गगतस्वोत्पादकाकाङ्क्षारूपापेक्षालभ्यसाधनेन वस्तुनेत्यर्थः । उज्जीवनम् , उत्पादनम् । ननु उत्तेजकाभावविशिष्टमण्यभावस्य बाहं प्रति कारणत्वाद्वाचनिकासंबन्धरूपोत्तेजकाभाषविशिष्टप्रधानाकाक्षामावः " भारकल्पतरुः संनिध्यानातविषयेऽङ्गस्येतिकर्तव्यताकासावत्त्वे कारणमिति कल्प्यतां न तु वाचनिकाङ्गेनाकाक्षात्पादनमित्यत आह- न तु मण्यादाविवेति । (व्यभि- चाराभावाचेति ।) दाहं प्रति वह्नः केवलस्य कारणत्वोक्तौ मणिसत्त्वे दाहः स्यात्, अतः कारणासत्त्वेऽपि कार्याद्वयभिचार इति तद्वारणार्थमुत्तेजकाभाव- विशिष्टमण्यभावस्य कारणत्वावश्यिकतया उत्तेजककल्पनमावश्यिकम् ; प्रकृते त्वङ्गगतेतिकर्तव्यताकाङ्क्षां प्रति अङ्गसंबन्धिवाचनिकाङ्गस्य हेतुत्वे व्यभिचारा- भावान वाचनिकाङ्गाभावविशिष्टप्रधानाकाङ्क्षाकल्पनमिति भावः । तत्त्वेन, आनर्थक्यपरिहारकत्वेन । प्रयाजे संदंशमुपपादयति- अस्ति चेति । जौह- वस्याज्यस्य वाचनिकत्वम् 'यज्जुबां गृह्णाति प्रयाजेभ्यस्तत्, यदुपभृति गृह्णाति प्रयाजान्याजेभ्यस्तत्' इत्यादिवाक्यसिद्धम् । सः, वाचनिकाङ्गसंदंशाधिकारः । आक्षेपेण, प्रक्षेपपूर्वकत्यागघटकप्रक्षेपस्य घटिते घटकापेक्षेति रीत्या । प्राप्त्युप- पत्तेः, ज्ञानोपपत्तेः ॥ १० अवान्तरप्रकरणादभिक्रमणवत्सामिधेन्यङ्गसंदशरूपावान्तरप्रकरणादुपवी- तस्य सापिधेन्यङ्गत्वं स्यादिति दृष्टान्तसंगतिः । संदिग्धे तु व्यवायावा- क्यभेदः स्यात् ॥ अवान्तरप्रकरणानुवर्तने संदिग्धे सति निविद्भिर्व्यव- धानात् 'उपव्ययते' इत्यस्य सामिधेनीवाक्येनैकवाक्यत्वाभावः स्यादिति सूत्रा. र्थः । अन्तरा, मध्ये । अनूच्यम्, स्वरविशेषेणोच्चारणीयम् । सदेवत्वाय, देवत्वसहिताय । काम्यकल्पैः, काम्यसामिधेनीप्रयोगैः । पूषानुमन्त्रणमन्त्रवत्, दर्शपूर्णमासप्रकरणपठितस्य तदनङ्गस्य पूषानुमन्त्रणमन्त्रस्य तत्प्रकरणाविच्छेद- कत्ववत् । तदनुपपत्तेः, सामिवेनीप्रकरणविच्छेदकत्वानुपपत्तेः । सामिधेन्यङ्ग- त्वोपपत्तेः, अग्निसमिन्धनप्रकाशकऋग्रुपसामिधेन्यङ्गत्वोपपत्तेः । (यागजन्य- फलेति ।) दर्शपूर्णमासयागनन्यस्वर्गफलेत्यर्थः । उत्तरकालम् , पूषानुमन्त्रणो- त्तरम् । अङ्गानि, दर्शपूर्णमासाङ्गानि । परप्रकरणे, दर्शपूर्णमासप्रकरणे । अनारम्याधीतन्यायेन, पर्णतान्यायेन । अङ्गत्वोपपत्तेः, उत्कर्षेणाङ्गत्वोपपत्तेः । (दर्शाङ्गत्वापसेरिति ।) दर्शपूर्णमासप्रकरणपाठेनेति शेषः । 'अन्तरानूच्यम् ! B11 ८२ भाइदीपिकाव्याख्या - - P इत्यादीनाम्, 'अन्तरानूच्यम्' इत्याधुक्तान्तरत्वादीनाम् । प्रकरणेन, संनि- ध्यपेक्षया प्रश्लेन दर्शपूर्णमासप्रकरणेन । आश्रयाभावात्, सामिधेन्याः प्रक- रणाघाये प्रकरणेन सानिधेलावचनरूपाश्रयालाभात् । काव्येषु, सामिधेनी- संख्यादिरूपगुणानः फलसा रात्वप्रतिपादककाम्यदावयेषु । (अनुवचनान्तर- स्येति ।) फले शेन वचनान्तराणि विधयन्ते न तु प्रस्तसामिधेनीराश्रित्य तदनुववनं कालस्य फलोद्देशेन गुणा विधीयंत येनाश्रयापेक्षति भावः । नन्व- नुवचना तरस्य निर्मिकाया कथं फलसाधनत्वमित्यत आह- तस्य चेत्यादि । विनियोगाय दाल्प्य, द्वितीयान्तं रतीयान्तं कृत्वा । अतश्व, अनुवचन- जनकल्याङ्गत्वं न तु तत्पलप्रकाशकल्ये युक्तत्वाच । द्वारलोपात्, अनुवचन- फलप्रकाशनरूपद्वारलोपत् । (ब.ध इने ।) ऋचामिति शषः । उहः, तत्फल- वाचकपदस्य ऋक्षु प्रक्षेपः । अशब्देन, 'अनव मात्' इत्येत घटदानुशब्देन । तस्य च, आनन्त न च । परप्रयुक्तत्वन, पु, दार्थप्रतियोगिकत्वेन । वैकृतानुवचनेन, काम्या गल्चनेन । प्रसङ्गात्, अन्योद्देशेन विहितेन तदन्य. स्याप्युपकारसिद्धिरूपप्रसङ्गात् । न तस्य पृथगनुष्ठानम् , न प्राकृतानुवचनस्य पृथगनुष्ठानम् । तप्वपि, काम्येज्वपि । तदङ्गत्वमेव, काम्यानरचनागत्वमेव । तेषाम् , काम्या वचनानाम् । प्राकृताङ्गनिराकाक्षागम् , क्लप्तोपकारप्राकृ- ताङ्गैः स्वस्याप्युपकारलाभेऽक्लप्तोपकाराङ्गविषये आकाङ्क्षारहितानाम् ॥ ११ ॥ उपवातस्य बाध भावाद्दङ्गित्वमुक्तम् । अत्र वारणादीनां यज्ञसंब- धित्व : श्रुतानामयज्ञरूपाधाने निवेशे यज्ञसंबन्धस्य बाधकस्य सत्त्वादाधानाङ्ग- पवमानेष्टिरूपयज्ञ एव निवेशः स्यादिति प्रत्युदाहरणसंगतिः । गुणानां च परार्थत्वादसंबन्धः समत्वात्स्यात् ॥ गुणानां वारणादीनां पवमा- नेष्टीनां च परार्थत्वात् अन्यार्थत्वात् आधानार्थत्वात् पवमानेष्टीनां वारणादि- निर्मितपात्राणां च परस्परमङ्गाङ्गिभावरूपसंबन्धो नास्ति, वारणााद्देश्य- तावच्छेदकस्य यज्ञत्वस्य यागान्तर इव पवमानेष्टिषु सत्त्वात यज्ञत्वाकारेण 'पवमानेष्टीनां तेषां चाङ्गाङ्गिभावः स्यात्, पवमानेष्टित्वेन परं न स्यादिति भाकरपतरुः ८३ . सुत्रार्थः । (यज्ञावचर इति ।) यज्ञोऽवचर्यत उत्पाद्यतेऽनेनेति व्युत्पत्त्या यज्ञसाधनमित्यर्थः । यज्ञ एव, आधानाङ्गभूतयज्ञ एव । पवमानहविषाम् , हविर्विशेषसाध्यपवमानेष्टीनाम् । (अग्न्यङ्गत्वावगतरिति ।) सप्तम्यन्ताहव- नीयपदेन लक्षणयाग्न्युद्देश्यत्वं समर्प्य जुहोतिना पवमानेष्टिरूपहोमविधानादिति भावः । (आधानाङ्गत्वाभावेनेति ।) पपमानेष्टीना,प्रेति शेषः । आनर्थक्य- तदङ्गन्यायासंभवात् , पवमानेष्ट्याधानयोरङ्गाङ्गिभावस्यैवाभावे तयोरुक्तन्याय- प्रवृत्त्यसंभवात् । (असंनिहितत्वादिति ।) वारणादिनेति शेषः । उपस्थित्य- भावेनेत्यादेरयमाशयः-- उपस्थितेसवे उपस्थिनिरूपकारणवशात्प्रा' न्यलक्षणा संभवेत् , तदभावान्न तत्संभव इ.ने । कल्पना, 'यदाहवनीये जुहोति' इति वाक्यान्तरकल्पना । तदापेमी, पवपानेष्टिकरणे तादृशवाक्याभावेऽपि । तत्, 'यदाहनाये--' इति वाक्यम् । अन एप, 'यद हवीये-' इति पवमानेष्टिप्रकरणगतकाक्येन हमादेशेन हव शिया धेकरणत्यविधानादेव । (तदा- नीमिति ।) पवमानेष्टहोमकाल, आध,नहोमानामाहवनीयसाध्यतया पवमा- नष्टयनन्तरमेव मुख्याहीयांसद्धेः ततः पूर्व मुख्याहवनीयाभावादिति भावः । आधानाङ्गभूतहोमानामाहानीयाधिकरणत्व ङ्गीकार गार्हपत्ये हवीषि अपयति' इति विधिबलाच्छूपण धिकरणत्वेन विहितो गार्हपत्य भेराभानहविःश्रपणस्य न स्यात्, पवमानहाय संस्कृतगार्हपत्यस्यैव चोदकेन वापूर्ण मामा कृतिपवमानेष्टी प्रापणीयत्वात्पवमानहावर्वेलायां कथं तादृशाः प्राप्ति रत्यत आह-. न चेति । (सति संभव इति ।) सर्वसंकाराभावपे यत्किंचित्संस्कारयुक्तत्वरूप- स्वभावे प्रकृती दृष्टस्य गौणगार्हपत्यस्य सर्वसंस्कारसंस्कृतस्य गार्हपत्यस्य यत्किचित्संकारवत्वरूपगौणत्ववत्तापा ने सत्वेन गौणगार्हपत्यस्य पवमानेष्टी ग्रहणसंभवे सति तत्परित्यागेन लौकिकाग्निग्रहणमयुक्तामेति भावः । तत्र, पव- मानेष्टिहविःश्रपणे । (गौणगार्हपत्येति ।) परमापूर्वजन्यमुख्यगाईपत्याभावे- ऽप्युत्पत्त्यपूर्वजन्यगौणगार्हपत्यसंभव इति भावः । वचनान्तरे, पवमानेोष्टेप्रकर- णीय-'यदाहवनीये-' इति वचनान्तरे । तदर्थम्, अपूर्वसाधनत्वलक्षणार्थम् ।
भाहदीपिकाव्याख्या " प्रधानसंबन्धस्यैव, आधानसंबन्धस्यैव । तदङ्गावतारः, आधानाङ्गपवमानेष्टिषु प्रवेशः । पात्राणीत्यादेरयमाशयः- वारणस्य वैकङ्कतस्य च पात्रद्वारेणैव क्रियायां निवेश्यतया संनिहितपवमानेष्टिक्रियाजन्यापूर्वसाधनत्वेन पात्राण्युद्दिश्य वारणादिविध्यावश्यिकतया प्रकृतपवमानेष्टिमात्रविषयत्वरूपमङ्गत्वं वारणादीनां स्यात्, न त्वेतदस्तीति ॥ १२ ।। पूर्वत्र वाक्यात्प्रकरणस्य बाध उक्तः, तद्वदत्रापि वाक्यालिङ्गक्रमबाधः स्यादिति दृष्टान्तसंगतिः । मिथश्वानर्थसंबन्धः ॥ मिथः मिथोभूतानां युगलभूतानामनुवाक्यानां यतो दर्शपूर्णमाप्सयोर्वात्रघ्नादिमन्त्रार्थसोमाभावेन देवता- द्वारकसंबन्धाभावः, अत आज्यभागाभ्यां संबन्ध इति सूत्रार्थः । ('यद्यप्यन्य- दैवत्यः' इति ।) अग्नीषोमीयप्रकरणपठिनस्य 'त्वं ह्यग्ने प्रथमो मनोता' इति मन्त्रस्याग्निदेवताप्रकाशकस्य अग्निसोमप्रकाशनसामर्थ्याभावेन केवलाग्निदेवत्य- सवनीयपश्वादावुत्कर्षे प्राप्ते 'यद्यप्यन्यदैवत्यः पशुराग्नेय्येव मनोता कार्या' इति वचनेनाग्नीषोमीयपशावेव मनोताया निवेश इति सिद्धान्तितमिति भावः । आज्यभागयोरिव प्रधानकर्मणोरपि मन्त्रागलयोलिङ्गाबाधात्प्रधानकर्मणोर्मन्त्र- युगलविनियोगो वाक्यात्स्यादित्यत आह- न हीति । (अमावास्यायामधिष्ठान- त्वस्याप्यभावाच्चेति ।) पौर्णमास्यामग्निसोमगतव्यासज्ज्यवृत्तिदेवतात्वं प्रति सोम- स्याधिष्ठानत्वेऽपि इत्यादौ पूरणीयम् ॥ १३ ॥ अबाधेनोपपत्तौ वाक्यालिङ्गबाधनमयुक्तमित्युक्तम् , तद्वदानन्तर्याबाधेन मुष्टीकरणस्य वेदनाङ्गत्वं स्यात्, न त्वानन्तर्य बाधित्वा प्राकरणिके निवेश इति दृष्टान्तसंगतिः । आनन्तर्यमचोदना ॥ आनन्तर्य प्रकरणविरोधे सत्यङ्गाङ्गिभावे मुष्टीकरणावेदनयोः अचोदना अगमकमिति सुत्रार्थः । अवने निक्ते, क्षालयति । उलपराजिः, वेद्यास्तरणयोग्यस्तृणविशेषः । एकवाक्य त्वाद्वा, 'मुष्टीकरोति' 'आवेदयति' इत्यनयोराख्यातयोः 'पश्य मृगो धावति इतिवदेकवाक्यत्वाद्वा । (आकाङ्क्षाविरहेति ।) दर्शनस्य कर्माकाक्षा यथ धावनविषये तथा आदेवनस्य मुष्टीकरणविषये आकाङ्क्षाविरहेत्यर्थः । (यच्छ .
भाहकल्पतरुः ८५ . ब्दाधुपबन्धाभाव इति ।) 'यस्योभयं हविरातिमाच्छेत्' इत्यत्रेवात्राभाव इत्यर्थः ॥ १४ ॥ यथा मुष्टीकरणादेरानन्तर्यरूपं संनिधानमकिंचित्कृत्य बहुपदार्थाङ्गत्क- मुक्तं तथा चतुर्धाकरणस्य संनिध्याम्नातपुरोडाशवाक्यमकिंचित्कृत्याग्नेयानाज्य- पुरोडाशादीन्सर्वान्प्रत्यङ्गत्वं स्यादिति दृष्टान्तसंगतिः । शेषस्तु गुणसंयुक्तः साधारणः प्रतीयेत मिथस्तेषामसंबन्धात् ॥ 'आग्नेयं चतुर्धा करोति' इत्यत्र चतुर्धाकरणशेषः अग्निगुणेन दृष्टद्वारा संयुक्तः आग्नेयानीषो- मीयादिसाधारणः प्रतीयेत, तेषाम् अग्निसोमादिदेवानां चतुर्धाकरणोद्देश्यतावच्छे- दककोटौ मिथः परस्परसाहित्येन उद्देश्यतावच्छेदकत्वासंबन्धादिति पूर्वपक्ष- सुत्रार्थः । व्यवस्था वार्थसंयोगाल्लिङ्गस्यार्थेन संबन्धालक्ष- णार्था पुनः श्रुतिः ॥ केवलाग्निदैवत्यपुरोडाशे चतुर्धाकरणस्य व्यवस्था व्यवस्थितिः न द्विदैवत्येऽपि 'आग्नेयम्-' इति केवलेनार्थेन देवतारूपेणाग्निना चतुर्धाकरणोद्देश्यद्रव्यम्य संयोगात् तद्धितवृत्तिसामर्थ्यरूपलिङ्गस्य अर्थेन 'आग्ने- यम्' इति तद्वितप्रत्ययार्थघटकाग्निसोमदेवतावृत्तिव्यासज्ज्यवृत्तिदेवतात्वानाश्रये- णाग्निना संबन्धात् 'पुरोडाशं चतुर्धा करोति' इति चतुर्धाकरणस्य पुनः श्रवणं चतुर्धाकरणोद्देश्यस्याग्निदेवताकद्रव्यस्य पुरोडाशत्वज्ञापनार्थमिति सिद्धान्तसूत्रा- र्थः । कारकतातिरिक्तसंबन्धेन तद्धितवृत्तौ विशिष्टस्य व्युत्पन्नत्वं संभवती- त्यङ्गीकारिणं प्रत्याह- कथंचिद्वेति । तथा, उद्देश्यतावच्छेदकम् । अग्नीषो. मीयहविःसामान्यस्याग्नेयपदेन ग्रहणं संबन्धतद्धितपक्षेऽपि न संभवतीत्याह- अथ वति । कारकतातिरिक्तसंबन्धेन तद्धितवृत्ताविव कारकतासंबन्धेन तद्धितवृत्ता- वपि विशिष्टं व्युत्पन्नमित्यङ्गीकृत्याह- अस्तु वेति । सामर्थ्यविघातापत्तेः, वृत्त्यघटकानपेक्षत्वरूपसामर्थ्य विघातापत्तेः । तस्य, द्रव्यत्वमात्रस्य । तत्, अपूर्वसाधकत्वलक्षकम् । (अनुपपत्तेरिति ।) देवतात्वनिरूपकद्रव्यत्वस्यैव हविष्ट्वा- दिति भावः । (नियम्यत इति ।) न तु देवतातद्धितार्थो विवक्षित इति भावः । सत्त्वात्, सत्त्वप्रसङ्गात् । देवतात्वरूपार्थस्थतद्धितेनाविवक्षिततया संबन्ध- भादीपिकाव्याख्या - सामान्यार्थस्वीकारप्रसङ्ग इति भावः । प्रथमावगतस्य, हविष्वशरीरे प्रथमा- वगतस्य । (हविरार्तिन्यायेनेति ।) 'यस्योभयं हविरार्तिमाच्छेत्' इत्यत्र -आतेर्निरूपकापेक्षत्वानित्यत्वेन निमित्तत्वासंभवाच हविःपदार्थस्याकिवये विशि- ष्टोद्देशापत्तेरार्तिपदस्य लक्षणया हविरार्तिपरत्वं हविःपदं तात्पर्यग्राहकमिति न्यायेन । अनिमित्तस्थलेऽपि लक्षणास्तीति प्रदर्शयितुम् 'अर्धमन्तर्वेदि' इति- वदिति । 'अर्धमन्तर्वेदि मिनोति, अर्थ बहिर्वेदि' इति वाक्यस्य लक्षणया देशविशेषपरत्ववदित्यर्थः ॥ १५ ॥ इति भाटकल्पतर्वभिधायां भादीपिकाव्याख्यायां तृतीयाध्यायस्य प्रथमः पादः। द्वितीयः पादः। अस्मिन् लिङ्गविनियोगस्य प्राधान्येन विचार्यत्वादस्य लिङ्गपादत्वम् ; श्रुति- कल्पनाद्वारा विनियोजकतया लिङ्गस्य श्रुतिपादेन पूर्वेणोपजीव्योपजीवकभावः संगतिः । आग्नेयपदस्याग्नेयाग्नीषोमीयोभयाबोधकत्वाच्चतुर्धाकरणमाग्नेयमात्रे विनि- युज्यते नोभयस्मिन्नित्युक्तं पूर्वाधिकरणे; मन्त्रस्य मुख्यगौणार्थद्वयबोधकत्वा- दुभयत्र विनियोगः स्याद्वाधकाभावादिति प्रत्युदाहरणसंगतिः । अर्थाभि- धानसंयोगान्मत्रेषु शेषभावः स्यात्तस्मादुत्पत्तिसंपन्धोऽर्थेन नित्यसंयोगात् ॥ मन्त्रेषु अर्थबोधकत्वरूपशक्तिसंयोगात् शेषभावः क्रतुं प्रति शक्यार्थद्वारा स्यात् , तस्मादर्थविशेषात् उत्पत्तिसंबन्धः शक्तिरूपः संबन्धः, अर्थविशेष शक्तिरिति यावत् । उत्पत्तिसंबद्धशब्दस्य शक्तिपरत्वम् औत्पत्तिकस्तु शब्दस्यार्थेन संबन्धः' इति चोदनापादसूत्रे निरूपितम् । अर्थ- विशेषे शक्ती हेतुः अर्थेन नित्यसंयोगादिति अर्थविशेषेण साकं नित्यसंयोगात् पुबुद्धधनधीनसंबन्धात्, अग्निशब्दस्य माणवके साक्षान्न संबन्धः किं तु अग्नि- पस्यार्थेन सादृश्यम् । स च सादृश्यसंबन्धो ज्ञात एव सन्संबन्धो भवति ।
भाहकल्पतरु भूतं वदामि खण्डयामि इति मन्त्रार्थः । स्मारकाकाङ्क्षा, ज्ञानं च प्रयोक्तृपुरुषीयमिति सादृश्यसंबन्धस्य 'बुद्धिप्रभवत्वम् । सादृश्यस्यार्थ- द्वयनिष्ठत्वेऽपि शब्दनिष्ठत्वाभावाच्छन्दसंबन्धत्वमौपचारिकम् । अत एव शक्ते. रेव शब्दसंबन्धत्वं न तु लक्षणाया इति सिद्धवस्कृत्य स्थपतीष्टयधिकरणे स्थप- तिर्निपादः स्याच्छब्दसामर्थ्यात्' इति सूत्रे शक्तेः शब्दसामर्थ्यत्वमुक्तम् । लक्षणाया अपि शब्दसामर्थ्यत्वरूपशब्दसंबन्धत्वाङ्गीकारे तत्सुत्रेण लक्षणा- निराकरणं निषादस्थपतिपदे कथमुक्तं स्यात् । अत एव लक्षणाया जघन्यवृत्तित्व- मिति सूत्रशक्यतात्पर्योभयार्थः क्रोडीकृतः । (कारकवाचीति ।) करणत्व- वाचीत्यर्थः । (पदरूपेति ।) द्वितीयातृतीयादिरूपेत्यर्थः । देवानां सदनं स्थान- मम स्मारकं किमित्याकाङ्क्षा । आकाङ्क्षारूपतात्पर्यग्राहकसत्त्वे, भोजनार्थप्रवे- शनक्रियाया मम किं कर्मेत्याकाङ्क्षारूपात्पर्धग्राहक..वे । चरितार्थस्य, निवृत्तप्रयोजनाकाङ्क्षस्य । अत एव, जघन्याविनियोजकत्वानुपपत्तेरेव । (तत्स्मारकेति ।) जघन्यार्थस्मारकेत्यर्थः । तत्कल्पना, उपयोगकल्पना । (विरोधिगुणान्तरेति ।) पूर्वदेवतारूपगुणविरुद्धाग्न्यादिदेवतागुणविधायिविधि- वाक्या व इत्यर्थः । (सामान्यसंबन्ध इति ।) यागत्वरूपसामान्यधर्मावच्छिन्नेन स्वस्य संबन्ध इत्यर्थः । अप्रयुक्तलक्षणा, सांप्रतिकलक्षणा ॥ १ ॥ मन्त्रस्य मुख्य एव विनियोग इत्युक्तम्, तस्यापवाद एतदधिकरण- सिद्धान्ते अश्यत इत्यापवादिकी संगतिः । वचनात्स्वयथार्थमैन्द्री स्यात्॥ ऐन्द्री ऋक् वितीया तृतीयावचनात् गार्हपत्ये विनियुक्ता यतः, थार्था इन्द्ररूपमुख्यार्थशून्या स्यादिति सूत्रार्थः । गुणाबाप्यभिधानं स्यात्संबन्धस्याशास्त्रहेतुत्वात् ॥ ऋतूपकारकत्वगुणादिन्द्रशब्दो गाई- पत्यवाची स्यात् । न हि शास्त्रमैन्द्रीति इन्द्रशब्दस्य गार्हपत्येन शक्तिलक्षण- संबन्धं कथयितुमलम् , शब्दार्थसंबन्धरूपशक्तेः शास्त्राधीनस्वाभावात्, अना- दित्वादिति यावदिति सूत्रार्थः । 'कदाचन स्तरीरसि नेन्द्र सश्चसि दाशुषे' इति मन्त्रस्यायमर्थः- हे इन्द्र त्वं कवाचन कदाचिदपि स्तरीः हिंसकः नासि, अतः अय- भादीपिकाध्याख्या काशुषे त्वामुद्दिश्य हविर्दात्रे यजमानाय सश्चसि संगच्छसीति । मुख्यसामथ्र्यो- ज्जीवनात् , शक्त्युज्जीवनात् । (जघन्येति ।) तद्धितापेक्षया चरमश्रुतेत्यर्थः । तदनुरोधेन, तद्धितश्रुत्युजीवितशक्त्यनुरोधेन । प्रतियोगित्वे, समीपस्थिति- रूपसोपसर्गधात्वर्थघटकसामीप्यान्वयि यत्प्रतियोगित्वं तस्मिन् । (गुणभूतेति ।) द्वितीयापेक्षया गुणभूतेत्यर्थः । प्रातिपदिके, गार्हपत्यपदे । रूढत्वात् , गाई- पल्यपदरूतत्वात् । तस्य, अभिधानस्य । ('उपान्मन्त्रकरणे' इतीति ।) उपपूर्वकात्स्थाधातोर्मन्त्रकरणकाभिधानरूपार्थे वर्तमानादात्मनेपदं भवतीत्यर्थः । आत्मनेपदवलेन, उक्ताभिधानद्योतकात्समीपस्थित्यर्थकादुपपूर्वकारस्थाधातोरात्म- नेपदविधानादिति व्याकरणसूत्रार्थ इत्यवलम्बनेन । (न विरोधः इति ।) शब्देन बोधिताख्यातार्थ प्रति द्वयोः कर्मत्वे उद्देश्यानेकत्वनिमित्तकवाक्यभेदः स्यात् , न तु शब्दार्थे एकस्य कर्मत्वमपरस्यार्थिकार्थे इत्यङ्गीकारे इत्यर्थः । पश्चितम् , अकर्मकस्यापि वैवक्षिकं सकर्मकत्वमिति प्रपश्चितम् । अतस्तस्येत्येतद्घटक- तस्येत्यस्य तद्धितस्येत्यर्थः । (आत्मनेपदविरोधेनेति ।) द्योतकाद्धातोरुपपूर्व- कादात्मनेपदमित्युक्तावपि केन द्योत्यतेऽभिधानमित्याकाङ्क्षायां धातुपदभिन्नस्य द्योतकत्वकल्पनामपेक्ष्य अवश्यक्लप्तधातुपदस्यैव लक्षणावृत्त्या मन्त्रकरणकाभि- धायकत्वमाश्रित्य तदुत्तरमात्मनेपदविधानमिति रीत्या उक्ताभिधानार्थकधातु त्तरमात्मनेपदविरोधेनेत्यर्थः । तस्यैव, गार्हपत्यस्यैव । ब्राह्मणानुरोधेन, 'ऐन्द्रया गार्हपत्यमुपतिष्ठते' इति ब्राह्मणानुरोधेन ॥ २ ॥ मन्त्रविनियोगप्रसङ्गान्मन्त्रान्तरविनियोगं विचारयति । तथाहान- मिति चेत् ॥ आह्वानम् आह्वानमन्त्रः तथा ऐन्द्रीमन्त्रवद्गौणीवृत्त्या विनि- युक्तः स्यादिति पूर्वपक्षसूत्रार्थः । गुणाभावात् ॥ मन्त्रगतस्य 'एहि' इति शब्दस्य अवहन्ती इन्द्रशब्दस्य गार्हपत्य इव सिंहशब्दस्य माणवक इव गुणा- भावान गौण्या अवहन्तिपरत्वमिति सिद्धान्तसूत्रार्थः । तस्य, आह्वानस्य । तस्येत्यस्याभावप्रतीतेरित्यत्रान्वयः । (वचनानुसारेणेति ।) उक्तवचनस्थेवकारेण पुल्या अनाडूतत्वावगमादिति भावः । अस्मिन्वाक्ये, 'हविकृदेहि-' इति भाकल्पतरुः ८९ वाक्ये । पत्नीवाक्ये व पल्येव हविष्कृत्-' इति वाक्ये च । गुणादेव, पत्नी- रूपगुणादेव । अनेन वाक्येन, 'हविष्कृदेहि-' इति वाक्येन । गौण एव, 'हविष्कदेहि-' इतिमन्त्रघटक-एहि'-इतिपदगौणार्थेऽवघात एव । अयं मन्त्रः, 'हविष्कदेहि-' इति मन्त्रः । ननु हे हविष्कृत् अवघात त्वमेहि इति मन्त्रार्थस्य पूर्वपक्षे वक्तव्यतया तादृशार्थकमन्त्रेण त्रिरवनन्नध्वर्युभवेदिति विधि- वाक्यार्थः संपद्यते । तस्मिन्विधिवाक्ये आह्वयतिपदेन चेतनाभिमुखीकरणरूप- संबोधनफलकसंबोधनविभक्त्यन्तपदत्वंपदमध्यमपुरुषोच्चारणरूपत्रयघटित- ' अव- घात त्वमेहि'-इति शब्दोच्चारणरूपाहानार्थकेन नोधितशक्यार्थस्यासंभावित- स्वाद्गौणार्थस्य चाभावादाहयतिपदमनुपपन्नमित्यत आह- आह्वयतिश्च 'तदा- षष्टे' इत्येवमित्यर्थे इति । गौण इति शेषः । तदयमत्र पदवाक्यार्थः- तत् 'एहि' इति मन्त्रस्वरूपं चेतनाभिमुखीकरणरूपफलमनुद्दिश्याध्वर्युराचष्टे कय- रूपेऽध्वर्युकर्तृकमन्त्रोच्चारणाल्यगौणार्थे हयतिराहयतिपदं गौणमिति । मान्त्रवर्णिकेत्यादेनियमेन प्राप्तत्वादित्यन्तस्य पत्न्येवेत्यादिना न त्वाइतेत्यन्ते- नोक्तेऽये हेतुबोधकत्वम् । तदभावबोधकम् , आह्वानाभावबोधकम् ॥ ३ ॥ बाधकाभावे मुख्यार्थे विनियोगो मन्त्रस्येत्युक्तार्थमतिदिशतीत्यातिदे. शिकी संगतिः । तथोत्थानविसर्जने ॥ उत्थानविसर्जने नया मन्त्रनित- पिनोद्देश्येन भवत इति सूत्रार्थः । 'अग्नीदग्नीन्विहरेति' इतीतिकरणशिरस्क- तया ब्राह्मणवाक्यनिर्दिष्टमन्त्रस्यायमर्थः- हे अग्नीत् हे आग्नीध्र अग्नीन गार्हपत्यादीन् विहर वर्धयेति । 'व्रतं कृणुन-' इति मन्त्रस्यार्थः स्पष्टः । प्रणीताः, प्रणीयन्त इति प्रणीताः प्रणयनकर्मीभूता आपः । प्रणेप्यन् प्रणयनं करिष्यन् । हविष्कृता, 'हविष्कृदेहि' इति मन्त्रेण । पूर्ववत्, हविष्कृदे- हीति रिवघ्ननाहयतीति पूर्वाधिकरणविषयवाक्यवत् । मन्त्राणाम्, 'अग्नी- दग्नीन्विहर' इत्यादिमन्त्राणाम् । मुख्ये, अग्निविहरणे व्रतकरणे च । प्रबल- स्यापि, मन्त्रलिङ्गापेक्षया प्रबलस्यापि । श्रुत्यैव, शक्त्यैव । (अन्वयोपपत्ते- रिति ।) शत्प्रत्ययस्य लडादेशभूतस्य प्रयोज्यप्रयोनकभावार्थकम्य कालिक : 12 भादपिकाव्याख्या " . संबधेनोपलक्षणार्थत्वात्कालिकसंबन्धेनोफ्लक्षणत्वस्यः कालिकसंबन्धावच्छितव्या- प्पस्वरूपत्वात् उक्तव्याप्यत्वस्य निरूपकतासंबन्धेन विहरणमन्त्रानुमचनेनान्वयो- पपत्तेरिल्यर्थः । स्वरूपलक्षणार्थमात्रपरत्वात्, मन्त्रस्वरूपार्यकत्वात् । तस्य प कालिक्संबन्धेन, वाग्विसर्गभावनान्वयाद्विवक्षितसिद्धिरिति भावः । इत्थंभूव- लक्षणार्थताम्, 'जटाभिस्तापसः' इतिवत्कालविशेषार्थताम् । तथा च तस्मिन् 'हविष्कृत्' इति प्रातिपदिकार्थस्य हविष्कृन्मन्त्रस्यान्वये हविष्कृन्मन्त्रकाल- सिद्धिरिति भावः । तत्तवाक्ययोः, द्वितीयतृतीयवाक्ययोः । सोऽपि, मन्त्र- पाठकाले वाग्विसर्गः कर्तव्य इत्यर्थोऽपि । तत्र, उक्तवाक्यद्वये ॥ ४ ॥ पूर्वाधिकरणे कालविधिवदत्रापि सूक्तवाककालविधिः स्यादिति दृष्टान्त- संगतिः । सूक्तवाके च कालविधिः परार्थत्वात् ॥ सूक्तवाकवाक्ये इत्यंभूतलक्षणरूपकालविशेषार्थतृतीयाघटितेन सूक्तवाकेनेति पदेन प्रस्तरप्रहर- गोदेशेन कालविधिः प्रस्तरप्रहरणापेक्षया पसे योऽग्न्यादिः तत्प्रकाशनार्थत्का- सूकवाकमन्त्रस्येति पूर्वपक्षसूत्रार्थः । उपदेशो वा याज्याशब्दो हि नाकस्मात् ॥ 'सूक्तवाकेन-' इत्यादिः प्रहरणं प्रति सूक्तवाकस्याङ्गत्व. व्यपदेशः हि यस्मात् 'सूक्तवाक एव याज्या--' इति सूक्तवाकस्य याज्यात्व- समर्पकः शब्दः तस्मात् सूक्तवाकस्य प्रहरतिलक्षितयागसाधनत्वम्, न हि यागसाधनत्वं विना अकस्माद्याज्याशब्दस्तस्मिन्युक्त इति सिद्धान्तसूत्रार्थः । (इष्टदेवतेति ।) अग्न्यादिरूपप्रधानयागोपयुक्तदेवतेत्यर्थः । (उपयुक्तमस्तरेति ।) हविरासादनोपयुक्तप्रस्तरेत्यर्थः । (कृतार्थत्वादिति ।) प्रहरणस्य प्रस्तरप्रति- पत्तित्वेनाङ्गानाकाङ्क्षत्वान्मन्त्रस्य च देवताप्रकाशनेन कृतप्रयोजनत्वेनाकाना- काक्षत्वात्परस्पराङ्गाङ्गिभावो न भवतीति भावः । कालार्थः संबन्धः, कालोप- स्थापकः पदसमभिव्याहारः । इत्यंभूतलक्षणत्वपरा, सूक्तवाकमन्त्रोचारण- रूपस्य प्रस्तरप्रहरणव्याप्यस्य यो च्याप्यतावच्छेदकः कालिकः संबधः तस्परा । पलक्षणत्वेन, महरणल्याप्यत्वेन । तस्यापि, इत्यंभूतलक्षणस्यापि । भानुशासनिकत्येन, 'इत्यंभूतलक्षणे' इत्यनुशासनसिकत्वेन । शुल्या, तृती भाहकल्पतरुः याभुत्या । (आश्रयिकर्मरूप इति ।) प्रस्तरप्रतिपत्तित्वेन प्रस्तरसंस्कारत्वादा- अयिकर्मशब्दितसंस्कारकर्मरूप इत्यर्थः । (होमलक्षक इति ।) देवताप्रकाशक- मुक्तवाकमन्त्रस्याङ्गत्वेन तत्प्रतिपाद्यदेवतायाः अङ्गिनि प्रस्तरमहरणेऽन्वयसिद्धपर्य महरतिपदं यागलक्षकमिति भावः । अत एव, प्रस्तरप्रहरणस्य यागत्वादेव । (लिङ्ग संगच्छत इति ।) सूक्तवाकमन्त्रस्य यागं प्रति करणमन्त्रत्वरूपं याज्यात्वं संगतमित्यर्थः । मुख्यसामर्थ्यस्य, शक्त्या देवताप्रकाशनानुकूलत्वस्य । (प्रह- रणेऽपि तदुपपत्तरिति ।) उक्तरीत्या प्रहरणस्य यागतया तस्मिन्सूक्तवाकोक्त- देवतासंबन्धोपपत्तेरित्यर्थः ॥ ५॥ सूक्तवाकप्रसङ्गात्तद्विषयकमन्यश्चिन्त्यत इति प्रसङ्गसंगतिः । कृत्स्नो. पदेशावुभयत्र सर्ववचनम् ॥ सूतवाकप्रातिपदिकस्य कृत्स्नमुक्तवाक एवोपदेशात् प्रयोगात् दशें पूर्णमासे च कृत्स्नः सूक्तवाकः प्रयोक्तव्य इति पूर्वपक्षसूत्रार्थः । यथार्थ वा शेषभूतसंस्कारात् ॥ यथार्थ दरों पूर्ण- मासे च या यां देवता तत्तद्देवतारूपार्थमनतिक्रम्य विभज्य विभज्य सूक्तवाकः अंशतः प्रयोक्तव्यः, यागशेषभूतदेवताया विभक्ततत्तदंशमात्रेणैव स्मरणरूप- संस्कारसिद्धरिति सिद्धान्तसूत्रार्थः । श्रुत्या लिङ्गोपष्टब्धया, देवताप्रकाशन- सामथ्र्यरूपलिङ्गसहितया तृतीयाश्रुत्या । (न चात्राविरोधोऽपीति ।) उक्त- प्रकाशनार्थत्वे विरोधाभावोऽपीति न चेत्यर्थः । (श्रुतिविरोधापत्तरिति ।) सूक्त. पाकप्रातिपदिकस्य कृत्स्नसूक्तवाक शक्तरुक्तप्रातिपदिकोत्तरतृतीयायास्तद्गत- करणत्वशक्तेश्च विरोधापत्तरित्यर्थः । असौ, सूक्तवाकशब्दः । (आनुषङ्गिक फलमिति ।) आनुषङ्गिकफलस्याप्रयोजकतया न तदर्थ देवताप्रकाशकभागस्य विभज्योचारणं युक्तमिति भावः । (प्रयोजकमिति ।) यदिच्छाधीनेच्छया यत्क्रियते तत्तत्पति प्रयोजकमित्यर्थः । श्रुत्या लिङ्गस्य बोधे, प्रातिपदिक- श्रुतिसनाथया तृतीयाश्रुत्या देवताप्रकाशनसामर्थ्यरूपलिनाधीनविनियोगस्य बांधे। प्रहरतिसादयेत्यादराफ्तेरित्यन्तस्य देवताप्रतिपादकमन्त्रशब्दोच्चारणरूपोदेशविशि- प्रक्षेपानकवागरूपसक्ष्यार्थयागे घटको य उदेशांशः तस्य लिस्वितास्मरण- भारदीपिकाव्याच्या स्पष्टप्रयोजनपरत्वाभावेऽडष्टप्रयोजनकल्पनापत्तिरित्याशयः । लाभार्थमित्य- नन्तरमुद्देशांशस्येति पूरणीयम् । प्रयुक्तः, प्रयोजितः । मन्त्रविशेषे, मन्त्र- घटकावयवविशेषे । अतश्च, सूक्तवाकपदस्य देवताप्रकाशकभागे योगरूड- स्वाच । देवतापदसमुदाययुक्ते, तत्तद्देवतावाचिपदसमुदायतदिनसमुदायोमय- घटिते ॥ ६ ॥ मन्त्रप्रसङ्गादन्योऽपि मन्त्रो विचार्यत इति प्रसङ्गसंगतिः । लिङ्ग- कमसमाख्यानात्काम्ययुक्तं समानानम् ॥ तत्तविष्टिलिङ्गानुसारि- क्रमात्तत्तदिष्टिलिझानुसारिसमाख्यानाच काम्येष्टियुक्तं मन्त्रसमानानम्, न तु नित्यकाम्योभयेष्टियुक्तमिति सूत्रार्थः । इन्द्राग्निस्वरूपे, इन्द्रत्वाग्नित्वादिना मन्त्रेण बोध्यमाने इन्द्राग्न्यादिस्वरूपे । (लक्षणापत्तेरिति ।) मन्त्रघटकेन्द्रा- ग्न्यादिपदानामित्यादिः । सर्वार्थत्वम् , नित्यकाम्येष्टयर्थत्वम् । प्रयोजनाकाङ्क्षा- याश्त्यस्य अभावादित्यत्रान्वयः । (तत्तदाकाङ्केति ।) तत्तन्मन्त्रगताकाक्षे- त्यर्थः । ऋतुसंबन्धे, ऋत्वङ्गत्वे । द्वारविशेष एव, तत्तत्क्रत्वीयदेवतास्मरण- रूपद्वार विशेष एव । तेषाम्, प्रकरणादीनाम् । तेन, वाचःस्तोमे विनियोज- केन । प्रमाणद्वयस्य, प्रकरणलिङ्गोभयस्य । एकविषयत्वात् , पूषानुमन्त्रण- मन्त्रविषयकत्वात् । अत्रापि वाचास्तोमविनियोजकवाक्यस्य तत्तत्प्रकरणादेश्व तत्तन्मन्त्ररूपैकविषयकत्वात्प्रबलेन लिङ्गेन पूषानुमन्त्रणमन्त्रविषये प्रकरणबाध- वद्वाचःस्तोमविनियोजकवाक्येन प्रबलेन तत्तन्मन्त्रविषयकदुर्बलप्रकरणादेधिः स्यादित्यतो हेत्वन्तरमाह- मन्त्रप्रयोजनाकाक्षावेलायां प्रबलप्रमाणस्यानुपस्थि- तत्वाश्चेति । अन्यत्र, नित्येष्टिषु । तत्त्वेन, जुहूत्वेन । अत एव, आकाक्षो. स्थानानुपपत्तेरेव । स्वारसिकीत्यादेविनियोग इत्यन्तस्य अर्थज्ञानं विनानुष्ठाना- संभवादनुष्ठानस्यार्थज्ञाने स्वारसिक्याकाङ्क्षा तादृशार्थज्ञानस्य सामान्यसंबन्ध- बोधकप्रमाणं विनाप्यनुष्ठानाङ्गत्वमुपनिषजन्यदेहादिव्यतिरिक्तात्मज्ञानं विना पारलौकिकफलकर्मानुष्ठानासंभवात् तादृशकर्मानुष्ठानस्योक्तात्मज्ञाने स्वारसिक्या- काला ताशात्मज्ञानस्य सामान्यसंबन्धमोधकप्रमाणं विनापि कर्मानुष्ठानाङ्गत्वं भाकल्पतर . स्वगतार्थानुमापकत्वरूपलिङ्गात्मकसामर्थ्यप्रयुक्तमिति भावः । तदुपपत्तेः, आकाक्षोत्थानोपपत्तेः । (साप्तदश्यवदग्निदेवत्यकर्मेति ।) साप्तदश्यवञ्च तत् अग्निदेवत्यकर्म चेति कर्मधारयसमासः । साप्तदश्यं सप्तदश सामिधेनीः । समा- ख्यया, याज्यानुवाक्याकाण्डमिति समाख्यया । (अन्यासामिति ।) ऋचा- मिति शेषः ॥ ७॥ लिङ्गस्य सामान्यसंबन्धबोधकप्रमाणापेक्षत्वात्प्रकृतविषयत्वमुक्तं पूर्वाभि- करणे, श्रुतेस्तु स्वतः प्रबलतया तदनपेक्षत्वात्सर्वविषयत्वं स्यादिति प्रत्युदा- हरणसंगतिः । अधिकारेषु मन्त्रविधिरतदाख्येषु शिष्टत्वात् ॥ अधिकारेषु प्रकरणले यो मन्त्रविधिः सः अतदाख्येषु, तेन प्रकरणेन आख्या आख्यानं बोधनं येषां ते तदाख्याः, न तदाख्या अतदाख्याः तेषु, प्रकरण- ज्ञाप्यभिन्नेष्वपीति यावत् । प्रवर्तेत; कुतः! मन्त्रप्रतिपादकाग्नेयीशब्दस्य प्रकरणस्थ इव तद्भिन्नेष्वप्यवयवार्थतः शिष्टत्वात् पर्यवसितत्वादिति पूर्वपक्ष- सूत्रार्थः । तदाख्यो वा प्रकरणोपपत्तिभ्याम् ॥ तदात्यः प्रकरणे. नाख्यायमानो मन्त्र आग्नेयीपदार्थः स्यात् तस्य प्रकरणगृहीतत्वात् , 'आग्ने. यी' इति तद्धितस्य 'सास्य देवता' इति सर्वनामार्थविहितस्य संनिहितमन्त्र- ग्राहित्वरूपोपपत्तिसत्त्वाञ्चेति सिद्धान्तसूत्रार्थः । (विशिष्टविध्युत्तरेति ।) अग्नि- दैवत्यमन्त्रविशिष्टाग्नीध्रोपस्थानविध्युत्तरेत्यर्थः । विशेषणविधिना, अग्निदेवत्य- मन्त्रेणाग्नीध्रोपस्थानं भावयेदिति कल्पितविधिना । प्रकरणानुप्रवेशेऽपि, प्रकृता. पूर्वसाधनत्वनिवेशेऽपि (तद्वाचित्वेऽपीति ।) 'सास्य देवता' इति सर्वनामार्थे विहितत्वादिति शेषः । तत्र, ब्रह्मोदनपोजनोद्देशेन विनियोगमनाचतुष्टसंख्या. वच्छिन्नब्राह्मणविधौ । अपूर्वार्थत्वस्य, स्तोत्रजन्यापूर्वार्थत्वस्य | आग्नीधोप. स्थानसंबन्धकरणे, आग्नीध्रसमीपदेशस्थितिसंबन्धकरणे । उभयकरणे, उप- स्थानापूर्वसाधनत्वस्योपस्थानद्वारकत्वस्य च कल्पने । द्वारत्वे, द्वारत्वाल्येऽजा. न्तरेऽपूर्वसाधनत्वाकारेण विना केवलोपस्थानत्वरूपेणाग्नेयी प्रत्युद्देश्यत्वे । तस्कार्यापनेषु, आग्नीधोपस्थानकापत्रेषु । उहापनापतेः, भाग्नेयीप्रयो भारदीपिकाच्याख्या जकतावच्छेदकस्योकोपस्थानत्वस्य तत्राभावेन तत्प्रयोज्याग्नेच्या 'एवाभाषे भाग्यग्यामूहस्यैवानाफ्तेः । (अपूर्वसाधनत्वलक्षणाया इति 1) लक्षणास्वीकारे प्रयोगकतावच्छेदकस्यैकमातीयापूर्वस्य तत्रापि सत्त्वात्प्रयोज्यातिदेशे तत्रोह- सिद्धिरिति भावः । प्रकृतविषयेऽपि, आग्नीधोपस्थानरूपविषयेऽपि । (वाक्या- न्तरकल्पनयेति ।) आग्नीधोपस्थानेन प्रकृतापूर्व भावयेदिति वाक्यकल्पनये. अर्थः । (अपूर्थियबोध इति ।) 'आगयेय्या--' इति वाक्ये उपस्थानपदे उसमर्पकेऽपूर्वसाधनत्वलक्षणा मास्त्विति भावः । तदनापतेः, अवघातादि. विधादेयत्वानापत्तेः । लाघवात्, अपूर्वसाधनं ययत्तत्सदुद्देश्यत्वापेक्षया लाध- पात् । लाघवादित्याग्नेच्या स्तुवीतेति प्रकृताना स्तोत्रापूर्वसाधनत्वस्य क्लप्त- तया कुत्र स्थित्वा स्तोत्रं कार्यमिति शङ्कायामाग्नीध्रवाक्येऽस्याम्नीध्रनामक मण्टो स्थित्वेति स्तोत्रदेशमात्रपर्यवसामेन लाघवमिति भावः । (उद्देश्यतेति ।) 'माग्नेच्या स्तुवीत' इत्यादाविति शेषः । (बीमादिवदिति ।) 'ब्रीहीनवहन्ति' इत्यादानवघात इव । कार्यान्तरसंबन्धबोधकविधी, अग्नेयीनां ज्योतिष्टोमप्रक- रणपाठकल्पिताग्नेयीभिः किंचित्कार्यद्वारा ज्योतिष्टोमापूर्व भावयेदिति कार्य- संबन्धविधौ । तथापि, स्तोत्रापूर्वसाधनस्वस्य प्रकृतानां सिद्धावपि । ज्योतिष्टो- मापूर्वसाधमत्वं कथमित्याशङ्कायां स्तोत्रद्वारा तासां वानियमन्यायेन ज्योतिष्टो- मापूर्वसाधनस्वाभावेऽपि स्तोत्रभिन्नकार्यद्वारा सत्संभवात्प्रकृतनियमः संभवती- साह- संभवति चेत्यादिना । सः, प्रकृतनियमः । स्तोत्रोपस्थानभिन्नकार्यद्वारा ज्योतिधोमापूर्वार्थत्वं प्रकृतानामस्तीत्यत्र प्रमाणमाह- पार्थक्येन ज्योतिष्टोम- मकरणे पाठादेवेति । तथा च प्रकृतानां प्रकरणपायज्ज्योतिष्टोमापूर्वार्थत्वस्थ समसमाहाररूपकार्यसिद्धावपि कार्यविशेषरूपोपस्थानार्थत्वम् , अप्रकृतानां तू. सामनेन प्रतव्यम् उपस्थानस्थानापोऽपि विनातीयापूर्वसाधनकार्यत्वसस्वादूहा- प्रातिरिति हामिमायः । (आहवनीयादाक्प्राप्तत्वादिति ।) होमापूर्वसंबध माननीयादी क्लतत्वेऽपि स्तोत्रे आहफ्नीयस्योपयोगानुक्तेः स्तोत्रापूर्वसंबधो माननीये कमप्त इति भावः । न तनियमः, न प्रकृताहवनीयादिनियमः ।
-भाकल्पतरुः " (विना वचनमिति ।) 'उपनिधाय' इति स्तोत्रसमीपदेशेऽग्न्युपनिषानस्य विहितत्वेऽपीत्यादिः ॥ ८॥ अपूर्वसाधनत्वस्य क्लप्तत्वादाग्नेयीपदेन प्रकृतानामेव ग्रहणमित्युक्तम्, तद्वदत्रापि भक्षमन्त्र इति समाख्यायाः कृत्स्नानुवाक एव क्लप्तत्वात्कृत्स्नानुः वाकस्य भक्षणे विनियुज्यमानता स्यादिति दृष्टान्तसंगतिः । लिङ्गासमा- ख्यानाभ्यां भक्षार्थतानुवाकस्य ॥ भक्षप्रतिपादकत्वलिङ्गेन भक्षानु वाक इति समाख्यया च कृत्स्नानुवाकस्यैव भक्षणविनियोज्यत्वमिति पूर्वपक्ष सूत्रार्थः । तस्य रूपोपदेशाभ्यामपकर्षार्थस्य चोदितत्वात् ॥ तस्य अनुवाकस्य रूपेण भक्षावेक्षणादिस्वरूपभिन्नभिन्नार्थप्रकाशनसामर्थ्यरूप. लिङ्गेन उपदेशेन अयमंशो भक्षस्यायं सम्यग्जरणस्यायमवेक्षणस्येति विभज्यै वाध्यापकोपदेशेन च भक्षप्रतिपादकांशादेशान्तरस्य भक्षरूपा दपकर्षः अर्स बन्धः कार्यः, तत्तदंशार्थस्य तत्तदंशसामर्थ्यकल्पितविधिरूपचोदनायामुद्देश्य- स्वस्य चोदितत्वादिति सिद्धान्तसूत्रार्थः । अपूर्वप्रयोजकत्वस्यापि, अपूर्वजनक भक्षजनकत्वस्यापि । अवान्तरप्रकरणेन, भक्षावान्तरप्रकरणेन । अपूर्वसंवन्धे अपूर्वसाधनमक्षसंबन्धे । ग्रहणादिविधिकल्सनया, तत्तन्मन्त्रविशिष्टग्रहणादिनेष्टं भावयेदिति विधिकल्पनया । तत्प्राप्त्युपपत्तेः, अपूर्वसाधनग्रहणादिप्राप्स्युपपत्तेः । तदर्थत्वेनैव, विशिष्टविध्यन्यथानुपपत्तिकल्पितविशेषणविधिना अमुकांशेन ग्रह भावयेदिस्याकारेण सिद्धग्रहणोदेश्यकत्वेनैव । (वमनव्यतिरेकेति ।) वमन रूपो यो व्यतिरेकोऽतिक्रमः स इत्यर्थः । मक्षोपयोगिता, भक्षापूर्वोपयोगिता हे भल त्वम् एहि आगत्य मा मां विश प्रविशेति मन्त्रार्थः ॥ ९ ॥ ग्रहणादीनामनुष्ठानयोग्यत्वातत्र मन्त्रविनियोगो युक्तः, तृप्तेस्तदयोग्य त्वास तत्र मन्त्रविनियोगी युक्त इति सिद्धान्तस्यास्मिनधिकरणे वक्ष्यमाणत्वान इस्य पूर्वणापवादिकी संगतिः । गुणाभिधानान्मन्द्रादिरेकमन्त्र स्थासयोरेकार्थसंयोगात् ॥ गुणामिधानात् अनुष्ठानायोग्यतृप्तिगुणामि पानात् मन्द्रादिस्तृप्यस्वित्यन्तः एकमन्त्रः मक्षमन्त्रेण एकमन्त्रः स्यात्, सी भादीपिकाम्पाच्या मतमन्नतृप्तिमन्त्रयोविधिस्तुत्यर्थत्वेन एकस्मिन संयोगादिति सूत्रार्थः । मन्द्रा- भिभूः, मन्द्रस्तरेणाभिभवतीति मन्द्राभिभूः । अत एव, ‘अल्पं भक्षयति' इत्यल्पभक्षणबोधनादेव । (स्वर्गवदिति ।) 'भगन्म-' इति मन्त्रेणेसि शेषः ॥ १०॥ भलमन्त्रविनियोगप्रसङ्गन तद्विषयविनियोगान्तरं चिन्त्यत इति प्रसङ्ग- संगतिः । लिङ्गाविशेषनिर्देशात्समान विधानेष्वनन्द्राणाममन्त्र- स्वम् ॥ इन्द्रपीत इति लिङ्गस्य ऐन्द्राम्यासविषयकस्य भक्षमन्त्रे निर्देशात् समानविधानेषु प्रकृतिविकृतिभावशून्येषु ऐन्द्रानन्द्राभ्यामेषु घटकानन्द्राभ्यासानां संबन्धिभक्षणस्यास्यामन्त्रत्वमिति पूर्वपक्षसूत्रार्थः । यथादैवतं वा तत्प्रक- तित्वं हि दर्शयति ॥ यथादैवतम् अनेन्द्रेष्वप्यभ्यासेषु इन्द्रपीत इति स्थाने इन्द्राग्निपीतस्येति रीत्या उहः कार्यः, हि यस्मात् अनैन्द्राभ्यासा- प्रति ऐन्द्राभ्यासस्य प्रकृतित्वम् ऐन्द्राम्यासे अपेक्षितसर्वधर्मसमर्पकवाक्यदर्शना- दवसम्यते, अनेन्द्राणां च धर्मसाकाङ्क्षतया विकृतित्वमिति सिद्धान्तसूत्रार्थः । (पदद्वयलक्षणापादकेति ।) 'अनेकमन्यपदार्थे' इति सूत्रे अनेकपदेनैकपद- मिलस्य पदद्वयादेवोंधनेन पदद्वयादेरेवान्यपदार्थे लक्षणाया उक्तसूत्ररीत्यावश्य- बक्तव्यतपा एकपदस्यापरपदाथै लक्षणापरपदं तात्पर्यग्राहकमित्युक्तौ सूत्रे भनेकपदस्यान्यपदार्थे वृत्तिकथनासांगत्यापत्त्या च पदद्वयलक्षणापादको बहुबी हिरित्यर्थः । (लक्षणाननुगतेति ।) तृतीयाव्यधिकरणबोधकसूत्राभावेन सूत्रात्मक- शाखाननुशिष्टत्यर्थः । लक्ष्यते ज्ञाप्यतेऽनेनेति लक्षणं ज्ञापकं सुत्ररूपं प्रमाणम् । असणानुगतस्य, बहुव्रीहितत्पुरुषसूत्रानुशिष्टस्य । ननु देवतायाः स्वीकारपूर्वक पानासंभवादिन्द्रण पीत इति तत्पुरुषार्थो बाधित इत्यत आह- विद्यते चेत्यादि । संधविशेषरूपः, त्यज्यमानद्रव्योद्देश्यत्वरूपः । (स्वीकार इति ।) उक्त- स्वीकार एव देवतायाः पानमिति भावः । स्वरादेव, अन्तोदात्तत्वस्वरादेव । सद, स्थूलपृषतीत्यत्रेव । इह, इन्द्रपीतपदे । स्वरस्यैव, अन्तोदात्तस्वरस्यैव । मान्यत्वात्, मनीहिसमामाप्रयोजकत्वात् । ('बीहीणां मेध-' इतिवदिनि ।। .
माहकल्पतरूः श्रीहीणाम्-' इति मन्त्रस्य यबप्रयोगेऽप्रवृत्त्या · यवप्रयोगस्यामन्त्रकत्ववदि- त्यर्थः । मानग्रहणमन्त्ररूपाङ्गानुरोधेन सर्वप्रधानाभ्याससाधारणानां प्राकरणि. कानां धर्माणां कथमैन्द्रप्रदानमात्रविषयतया संकोच इत्यत आह- माति पावशेनापीत्यादि ॥ ११ ॥ उहप्रसादूहविशेषश्चिन्त्यत इति प्रसङ्गसंगतिः । पुनरुनीतेषु सर्वे पामुपलक्षणं विशेषत्वात् ॥ पुनरुनीतसोमरसयागोत्तरसोमशेषभक्षण- मन्त्रे सर्वेषामुनयनात्प्राक्कालीनपूर्वप्रदानशेषमूता ये देवास्तेषा सर्वेषामुपलक्षण मूहः भक्ष्यमाणसोमरसस्य विशेषत्वात् उन्नयनपूर्वकालीनोन्नयनोत्तरकालीनदान- यशेषत्वादिति सूत्रार्थः । (सवनमुखीयेष्विति ।) सवनसंबन्धिनो ये चमसास्तेषां मध्ये ये प्रथममिन्द्राय हूयन्ते मैत्रावरुणब्राह्मणाच्छंसिनेष्टुपोत्रानीघाख्यहोत. काणां चमसाः तेष्वित्यर्थः । (अभक्षितेविति ।) सकृदिन्द्राय हुतेप्विति शेषः । (अभ्युनीयेति ।) द्रोणकलशादिति शेपः । पूर्वशेषस्य, पूर्वप्रदानशे करिष्यमाणकर्मार्थत्वप्रतीतेरित्यनन्तरम् उन्नीतस्यैव करिप्यमाणप्रदानीयदेवता- संवन्धः न संसृष्टस्येति पूरणीयम् । एतदर्थत्वे, करिष्यमाणकर्मार्थत्वं ॥ १२ ॥ पूर्ववदत्रापि पूर्वदेवतासंबन्धानपायात्पूर्वदेवतोपलक्षणं स्यादिति दृष्टान्त- संगतिः । पानीवते तु पूर्ववत् ॥ पानीवते पत्नीवदेवतासंबन्धिसोमरसे भक्ष्यमाणे पूर्ववत् पूर्वाधिकरणरीत्या पूर्वप्रदानदेवतोपलक्षणीयेति पूर्वपक्षसूत्रार्थः । ग्रहणादापनीतं स्यात् ॥ आग्रयणस्थालीतः पात्नीक्तार्थ ग्रहणात गृहीते च पूर्वदेवतासंबन्धित्वमपनतिं स्यादिति सिद्धान्तसूत्रार्थः । अस्मिन् , पालीवते । द्विदेवत्याः, द्विदेवत्यसोमरससंबन्धिदेवताः । अस्मिन्विकृतियागे पत्नीवदेवतासंबन्धवाविदैवत्यदेवतासंबन्धाद्भूतपूर्वगतिमाश्रित्योपलक्षणं स्यादित्यन आह- भूतपूर्वगत्येति ॥ १३ ॥ पूर्ववेन्द्रवाय्वादीनां देवतात्वाभावादनुपलक्षणेऽपि अत्र त्वष्टुरपि देवता- त्वादुपलक्षणं स्यादिति प्रत्युदाहरणसंगतिः । त्वष्टारं तुपलक्षयेत्पा- नात् ॥ पूर्वपलसूत्रं स्पष्टार्थम् । अतुल्यत्वास नैवं स्यात् ॥ त्वष्टुः 813 भादापिकाव्याख्या सहभावमात्रं न पानम् , पत्नीवतस्तु पानम्, अतस्तयोरतुल्यस्वात्त्वष्टुनोप- लक्षणमिति सिद्धान्तसूत्रार्थः । अग्नाइ अग्ने हे पत्नीवन् त्वं त्वष्टा देवेन सज्ः साकं सोमं पिबेनि मन्त्रार्थः ॥ १४ ॥ पूर्वाधिकरणे त्वष्टुः पानासंभवादनुपलक्षणीयत्वमुक्तम्, अत्र पत्नी- वता पानाक्तरुपलक्षणं स्यादिति प्रत्युदाहरणसंगतिः । त्रिंशच परार्थ- स्वात् ॥ त्रयस्त्रिंशद्देवा नोपलक्षणीयाः परार्थत्वात् परेण अग्निना दत्तो यःसोम- रसः तत्पानाधीनतृप्तिरूपात्मिकप्रयोजनवत्त्वात्, त्रयस्त्रिंशतां न तदुद्देशेन यजमानः किंचिदपि ददातीति यावदिति सूत्रार्थः । तस्मिन्नेव, पात्नीवत एव । हे अमे एमिस्त्रयस्त्रिंशता देवैः सह स्वं सरथं रथेन सहितमश्वं याहि, अब वा नाना रथं नानाप्रकारं रथम् अर्याक् आयाहि यस्मिन्रथे विभवः बृहत्काया अश्वाः सन्ति पत्नीवत्संज्ञकांस्त्रयस्त्रिंशतं देवान् अनुष्वधं सोमरसरूपानमनु आवह आशय मादयस्व चेति मन्त्रार्थः । (मन्यन्त इति ।) पूर्वपक्षिण इति शेषः ॥ १५ ॥ त्रयस्त्रिंशता यजमानत्यक्तद्रव्योद्देश्यत्वरूपदेवतात्वाभावादनुपलक्षणमु- तम्, अन्न त्वनुवषट्कारदेवतायास्तत्सत्त्वादुपलक्षणं स्यादिति प्रत्युदाहरण- संगतिः । अनुवषट्कारश्च कर्तवत् ॥ होत्रादिकर्तृवदनुवषट्कारदेवता नोपलक्षणीयेति सूत्रार्थः । उपलक्षणमित्यनन्तरं पूर्वपक्षिणो मन्यन्त इति पर. गीयम् । कृत्स्नविधानत्वेन, उपदिष्टापेक्षितसर्वधर्मवत्त्वेन । (अतिदेशाकल्प- कत्वादिति ।) अतिदेशाधीनभक्षणाप्राप्तौ भक्षमन्त्र उपलक्षणाप्रसक्तिरिति भावः। श्रीहीणां मेध' इतिवत्, 'नीहीणाम्-' इति मन्त्रस्य विकृतिप्वतिदेशन प्राप्तस्य ब्रीहिपदस्थाने विकृतिद्रव्यवाचिपदोहेऽपि प्रकृतावुपदेशस्थले यव. प्रयोग मन्त्राभाववदित्यर्थः । तत्कापिन्ना, . प्राकृतकार्यापन्ना । (नानुवषट्कार- देवतेति ।) प्रकृतावङ्गदेवताया अङ्गदेवतात्वाद्भक्षणेऽनुपलक्षणात्प्रधानदेवताया एवोपलक्षणाच विकृतावपि तथेति भावः ॥ १६ ॥ अहमभ्युपगम्य योऽयमुपलक्षणानुपलक्षणविचारः कृतः स भवतु नाम, .
भाहकल्पतह. उहत्वयुक्त इतीह विचारयिष्यमाणत्वेन पूर्वेणास्यापवादिकी संगतिः । छन्दः- प्रतिषेधस्तु सर्वगामित्वात् ॥ सोमस्य सर्वगामित्वात् न तदभाव- प्रयुक्तोऽभ्यासान्तरे सोमादेरूहः ऐन्द्राभ्यासवदनैन्द्राभ्यासानामपि समानविधा- नत्वेन सोमद्रव्यमानग्रहणादिसर्वग्राहित्वाद्धर्मापेक्षाभावेनान्यप्रकृतिकवाभावादति- देशस्य मन्त्रविषयेऽप्रसक्ततया नोहः, 'अनुष्टुप्छन्दस इति षोडशिनि नमति' इति वाक्यं नोहस्य गमकम् , षोडशिनः अतिरात्रे तृतीयसवनस्थत्वात्, जगतीच्छन्दस इति निवेशप्राप्तौ तादृशच्छन्दःप्रतिषेधः छन्दोनिषेधकमुक्त- वाक्यम्, अतो नोहसिद्धिरिति सूत्रार्थः । 'अनुष्टुप्छन्दस इति षोडशिनि- इति वाक्यस्यायमर्थ - षोडशिनि अनुष्टुप्छन्दस इति नमति वर्तते जगती- च्छन्दस इति न वर्तत इति यावदिति अनुष्टुप्छन्दस इति पदं जगतीच्छन्दःस्था- ने. नोहितव्यमिति, तथा चास्य वाक्यस्यातिरात्रविषयत्वान्नाग्निष्टोमादावभ्या- सान्तरेऽतिदेशगमकतेति । एकत्वात्, बबभ्यासात्मकस्य कर्मणः 'सोमेन यनेन' इत्येकविधिविहितत्वात् । (फलचमसवदिति ।) न्यग्रोधस्तिभिनीद्रव्यं फलचमसः; राजन्यविषये सोमस्थानापन्नत्वेन सोमसमानविधानत्वाभावात्सोम- धर्मप्राप्तिरतिदेशेन फलचमसस्य, तद्वत्प्रकृतेऽसमानविधानसाधकामावेन नोह इति भावः । तदुद्देश्यानाम् , मानग्रहणमन्त्रायुद्देश्यानामभ्यासानाम् । (न तु मानाथपीति ।) वाक्यान्तरप्राप्तत्वादिति शेषः । (देवतान्तरस्याभिधानादिति ।) धनवत्त्वरूपस्योक्तशब्दप्रवृत्तिनिमित्तस्य देवतान्तरेषु सत्त्वादिति भावः । तयो- रपि, मानग्रहणमन्त्रयोरपि ॥ १७ ॥ इन्द्रपीतभक्षणे इन्द्रपीतमन्त्रसंभवात्समन्त्रकभक्षणमित्युक्तम्, तद्वदि- न्द्राग्निदैवत्याभ्यासीयसोमरसस्यापीन्द्रपीतत्वसंभवात्तद्भक्षणमप्युक्तमन्त्रयुक्तं स्या- दिति दृष्टान्तसंगतिः । ऐन्द्राने तु लिङ्गभावात्स्यात् ॥ ऐन्द्राग्नाभ्या- सीयसोमभक्षणे इन्द्रपीतत्वलिङ्गसंभवात्समन्त्रकत्वं स्यादिति पूर्वपक्षसूत्रार्थः । एकस्मिन्देवतान्तराद्विभागवत् ॥ एकस्मिन् एकेनेन्द्रमात्रेण पीत एवं सोमरसे उक्तमन्त्रमंबन्धः यनः इन्द्रमानपीतमिन्द्राग्निरूपदेवनानपीताद्वि- भाहदीपिकाव्याख्या भागवत् भिन्नं तस्मादिति सिद्धान्तसूत्रार्थः । (लाघवेनेति ।) इन्द्राग्न्युभय- निरूपितस्वीकारस्यैकस्य कल्पने लाधवम् इन्द्रनिरूपितस्याग्निनिरूपितस्य । मिममिनस्वीकारस्यैन्द्राग्नसोमरसे कल्पने गौरवमिति भावः ॥ १८ ॥ पूर्वाधिकरणे उभयपीते इन्द्रपीतपदं न प्रवर्तत इत्युक्तम्, तद्वदुभय- छन्दस्कसोमे गायत्रच्छन्दस इत्युक्तिरयुक्तति दृष्टान्तसंगतिः । छन्दब देवतावत् ।। गायत्रच्छन्दस इत्युक्तं गायत्रं छन्दः इन्द्रदेवतावत् नोभयच्छन्द- स्के भवतीति पूर्वपक्षसूत्रार्थः । सर्वेषु वाभावादेकच्छन्दसः ॥ सर्वेषु प्रकृतिगतेषु विकृतिगतेषु सोमरसेषु मध्ये एकस्मिन्नपि सोमरसे गायत्रीमात्र- रूपस्य एकच्छन्दसः अभावात् उभयच्छन्दस्केऽपि समरसे गायत्रच्छन्दस इति पदं वर्तत एवेति सिद्धान्तसूत्रार्थः । तत्रैव, इ.पीत--' इति मन्त्र एव । अस्मिन्पूर्वपक्षे, सोमविशेषणत्वपूर्वपक्ष । (इ.द्रदेवत्यत्वप्रात सवनादीना- मिति ।) उक्तमन्त्रप्रतिपादितानामिति शषः । भूना, संख्याधिक्यन । बहु- श्रीहिघटकगायत्रपदस्यार्थविशेषसाधनत्वविषय तच्छन्दोन्तरसाहित्य सामर्थ्य- भनापस्या न समासः स्यादिति न शङ्कयमित्याह- नित्यसापेक्षत्वेनेति । (प्रत्ये- कमेव साधनत्वादिति ।) न व्यासज्ज्यवृत्तिस्तोत्रपूर्वसाधनत्वम् , किं तु प्रत्येक- वृत्तिस्तोत्रापूर्वसाधनत्वमिति भावः ॥ १९ ॥ गायत्रच्छन्दस इति पदस्य विचारे कृते तत्समानाधिकरणत्वेन बुद्धि- स्वमिन्द्रपीतपदं विचार्यत इति प्रसङ्गसंगतिः । सर्वेषां त्वैकमन्यमैति- शायनस्य भक्तिपानत्वात्सवनाधिकारो हि ॥ सर्वेषामभ्यासा- नामैकमन्त्र्यम् उक्तैकमन्त्रवत्त्वमैतिशायनस्य मुनेराभमत भक्त्या स्वीकारवत्सो- मसंबन्धिसवनलक्षणया पानं पानबोधकं पीतपदं यत्र सवने तद्भक्तिपानं तत्त्वात् इन्द्रपीतपदं सवनपरं तत्संबन्धिसोमभक्षणे उक्तमन्त्रो लिङ्गादप्युपपन्न इत्यभि- प्रायः । कुत इन्द्रपीतपदं सवनपरमित्यत आह- सवनाधिकारी हीप्ति । यस्मा- सिवनस्य प्रकरणं तस्मादिति सुत्रार्थः । लक्षणया सोमसंबन्धिसवनपरत्वमिन्द्र- क्वस्येति शेषः । पीतपदमर्शआधजन्तलक्षणां विनैष पीतसंवन्धिसवनपरम् । .
भाहकल्पतरुः तत्पुरुषपक्ष इति चासिद्धमेव । इयम् , पीतपदलक्षणा । निर्णयः, सवन- रूपान्यपदार्थनिर्णयः । ('वाहिताग्न्यादिषु' इति सूत्रेणेति ।) तत्सूत्रे 'अग्न्या- हितः' इति निर्देशवत् 'इन्द्रपीतः' इति निर्देशोपपत्तिरिति भावः । अषयक स्वीकारस्य, त्यक्तस्वीकृतहुताहुतसमुदायघटकस्य भक्ष्यमाणावयवमात्रस्य । अब- यवि, उक्तसमुदायरूपावयवि । तस्याम्, सोमसंबन्धिसवनलक्षणायाम् । (प्रमाणत्वादिति ।) सवनत्रित्वात्रिः पाठः सवनत्रयपरत्वे प्रमाणमिति भावः ।। विभागोऽपि, उक्तभक्षमन्त्रस्य तत्तत्सवनसंबन्धिसोमभक्षणविनियोगोपयोग्यंश- विभागोऽपि ॥ २० ॥ इति भाकल्पतर्वभिधाया भादीपिकाव्याख्याया तृतीयाध्यायस्य द्वितीयः पादः। तृतीयः पादः। लिङ्गमुपजीव्य वाक्यस्य विनियोजकत्वादुपजीव्योपजीवकभावः पूर्वपादें- नास्य वाक्यपादम्य संगतिः । अस्मिन्पादे वाक्यप्रकरणक्रमादिनिरूपणेऽपि वाक्यनिरूपणस्य प्राथमिकत्वाद्वाक्यपाद इति व्यपदेशः । यथा इन्द्रपीतशब्दस्य प्रकरणवशात्सवनसामान्यवृत्तित्वमुक्तं तद्वद्गादिशब्दस्य शक्तिवशाहक्सामान्य- वृत्तित्वमिति पूर्वाधिकरणेन दृष्टान्तसंगतिः । श्रुतेर्जाताधिकारः स्यात् ॥ 'उच्चैर्ऋचा क्रियते' इत्यत्र ऋक्शब्दो जाताधिकार ऋक्त्वनात्यवलम्बनः स्यात् तत्र तस्य शक्तेरिति पूर्वपक्षसुत्रार्थः । वेदो वा प्रायदर्शनात् ॥ ऋग्वेद ऋशब्दार्थः न ऋक्त्वावच्छिन्नः; कुतः? प्रायदर्शनात् उपक्रम वेदशब्दस्य दर्शनात्, 'अग्नेऋग्वेदः' इति [पक्रमः इति सिद्धान्तसूत्रार्थः । संसर्गविधालक्षणादिसाधारण्येनेत्यस्य बोधे इत्यत्रान्वयः, न तूपस्थितौ । उभयं विवक्षितम्, संसर्गविधालक्षणारूपोभयाधीनज्ञान विवक्षितम् । कर्मत्वादिकल्प- कत्वानुपपतेः, कर्मस्वादिज्ञानजनकत्वानुपपत्तेः । (तद्वाचकैति ।) कर्मस्वादि..
भारदीपिकाव्याख्या . बाचकेत्यर्थः । (कल्पकस्वाभावेऽपि चति ।) लक्षणया कर्मत्यादिवोधे समाधि- द्वितीयादिविभक्तिकल्पनं व्यर्थमिति भावः । (तत्तात्पर्येति ।) कर्मत्वादितात्पर्ये- त्यर्थः । (तदेकदेशेति ।) 'मन्त्रब्राह्मणयोर्वेदनामधेयम्' इत्यापस्तम्बोक्तमन्त्र- ब्राह्मणसमुदायरूपस्य वेदस्यैकदेशेत्यर्थः । (अतश्चेति ।) प्रसिद्धार्थतयोद्देश्यत्वं वक्तव्यप, प्रसिद्धिश्वोपक्रमाद्वक्तव्या, उपक्रमश्च वेदपदघटितः, तस्मादित्यर्थः । सत्प्रचुरत्वेन, ऋक्प्रचुरत्वेन । (वार्ताकेति ।) 'न वार्ताक भक्षयेत्' इति श्रुत्या 'यस्योदरे तु वार्ताकं तस्य दूरतरो हरिः' इति भारतवचनेन च 'वार्ताककतकालिङ्गशिग्वलाबनि भक्षयन् । अन्तकाले जगन्नाथं गोविन्दं न स्मरिष्यति' इति विश्वामित्रस्मृत्या 'शिवार्ताकयोर्भक्षः अपि वेदान्तपारगम् । पातयेदविचारेण तस्मात्तं परिवर्जयेत्' इति देवलस्मृत्या च बोधितनिषेधस्य यथावयवशोऽपि प्रवृत्तिस्तथेति भावः । एतादृशविषये, निषेधविषये । (कौ- स्तुभे द्रष्टव्यमिति ।) 'पशुना यनेत' इति विधेरवयवविषयत्वे आपणस्थं पश्व- वयवं क्रयेण संपाय तेन यागकरणेऽप्यदृष्टापत्त्यावयविविषयत्वम्, निषेधस्थले तुन गां भक्षयेत्' इत्यादौ गवायवयवमक्षणेनापि पापोत्पत्त्यावयवविषयत्व- मिति रीत्या कौस्तुभे प्रतिपादितमित्यर्थः । ननु ऋग्वेदेन यत्र यत्र कर्मविधान तत्र तत्र तत्तद्विहितकर्मप्रकरणवशेन तत्तत्प्रकरणस्थर्चामेवाग्नेयीन्यायन ग्रही- तन्यत्वात् 'उच्चैर्ऋचा क्रियते' इति वाक्यस्य प्रकरणवशेन प्रकरणस्थविषय एवोचैष्वविधायकत्वं वक्तव्यम् अन्यथा प्रकरणबाधापत्तेः, त्वदुक्तरीत्या वेद- त्वस्य तादृशवपर्याप्ततया वाक्यप्रकरणाविरोधाय वाक्यस्थकर्पदमुक्सामान्यपर- मेव स्यादित्यत आह- एवं चेति । स्वविषये, प्रकरणविषये । (उपसंहारा- नुपपत्तेरिति ।) तत्तत्कर्मप्रकरणापेक्षया 'उच्चैर्ऋचा क्रियते' इति वाक्यस्य प्रबलस्वादिति भावः ॥ १ ॥ असंजातविरोधित्वेनोपक्रमस्य तदनुरोधेनोपसंहारनयनवद्वारवन्तीयसामस्वरूपाश्रि- तोत्पत्तिस्वररूपासंजातविरोध्यनुरोधेन चरमोपस्थितयाजुर्वेदिकस्वरान्यथानयम स्वादिति दृष्टान्तसंगतिः । गुणमुख्यव्यतिक्रमे तदर्थस्वान्मुस्पेन भाहकल्पतरु वेदसंयोगः ॥ गुणमुख्यव्यतिक्रमे अङ्गप्रधानयोविरोधे अङ्गस्य प्रधानार्थत्वात् मुख्यन प्रधानेन वेदसंयोगः प्रधानवेदीयस्वररूपधर्मसंबन्ध इति सूत्रार्थः । विल- म्योपस्थितिः, विलम्बेनोपस्थितिर्यस्य प्रधानवेदीयस्वरस्य सः । अयम्, प्रधान- वेदीयः स्वरः । इतरथा, कल्प्यत्वप्रयुक्तदाबल्यमनङ्गीकृत्य प्रधानीयधर्मस्यै- वाङ्गेषु कल्पन । (अध्वर्युकर्तृकत्वापत्तेरिति ।) अध्वयोः प्रधानवेदगतत्वादिति भावः । उत्पाद्यते ऋग्वेदेन यत्कर्म मन्त्री वा ज्ञायते तत्र उच्च, कार्यमित्यर्थः पर्यवस्यति । प्रयोज्यत्वानवगतः, कर्तव्यत्वानवगतः । विनियोगोत्तरकालमेष, विधिबोधिताधानोपकाररूपफलसाधनत्वबोधोत्तरमेव । उत्पत्तिबाधकः, उत्पत्ति- स्वरबाधकः ॥ २ ॥ उत्पत्तिवेदनिबन्धनस्वरप्रसादुत्पत्तिर्विचायत इति प्रसङ्गसंगतिः । भूप- स्त्वेनोभयश्रुति ॥ उभयत्र श्रयमाणं कर्माङ्गभूयस्त्वन निर्णीतोत्पत्तिक- मिति सूत्रार्थः । द्वविध्ये, एकत्र द्रव्यमपरत्र देवतेति रीत्या द्वैविध्ये । बहि- रङ्गत्वेऽपि, देवनोद्देश्यकद्रव्यत्यागरूपयागे द्रव्यापेक्षया देवताया विप्रकृष्टत्वे- ऽपि । अन्यभिचारात्, क्रत्वव्यभिचारात् । (न तु द्रव्यस्येति ।) भोजनादौ द्रव्यस्योपयोगित्वेन व्यभिचारित्वादिति भावः । (विरोधिनीति ।) गुणे इति शषः ॥ ३ ॥ वाक्यविनियोग निरूपिते विनियोगनिरूपणप्रसङ्गात्प्रकरणविनियोगा निरूप्यते । असंयुक्तं प्रकरणादितिकर्तव्यतार्थित्वात् ॥ श्रुति- लिङ्गवाक्याविनियुक्तं यत् तत् प्रकरणाद्विनियुक्तमवगन्तव्यं फलवतो यागस्येति- कर्तव्यतार्थित्वात् स्वानुग्राहकक्रियायामाकासावत्त्वादिति सूत्रार्थः । (गोदोहना- दरिति ।) गोदोहनस्य पश्वर्थत्वन चोदितस्य दीपकारकत्वेऽपि दङ्गित्वा- भावादिति भावः । (साकासत्त्वमात्रमिति ।) दशांदेश्चमससाकासस्वेऽपि गोदोह- नानाकासत्वान्न गोदोहनस्य दर्शाङ्गत्वम् अतो नातिव्याप्तिरिति भावः । (तदा- पत्तरिति ।) उपहोमानामुपकार्याकाङ्क्षाया विकृतिसंनिधिपाठस्य च सत्त्वात्प्रक- रमाद्विकृत्यङ्गत्वापत्तरित्यर्थः । (उभयाकाक्षेति ।) विकृतेः क्लप्तोपकार। - भारदीपिकामाख्या पाहताङ्गनिराकाङ्क्षतया उपहोमविषये आकाक्षाभावानोपहोमानामुपयाकाला घटितप्रकरणादकत्वमिति भावः । तत्, समिधिपठितत्वम् । (मन्त्रादीना- मिति ।) लिविनियोज्यानामिति शेषः । (अनाकाक्षितत्वेनेति ।) दर्शान- जनकल्पाइर्शादेः प्रयानादिष्वाकाक्षा नास्तीति भावः । (प्राधान्यापत्तेरिति ।) फलतजनकापूर्वान्यतरजनकत्वस्यैव प्राधान्यादिति भावः । (अतिदेशापो. श्चेति ।) फलवतः प्रयासस्यातिदेशस्वीकारे फलवत्त्वस्यातिदेशाविषयत्वाप्रयोज- कत्वादिति भावः । तया, इतिकर्तव्यताकाङ्क्षया । इतिकर्तव्यताकाङ्क्षाया इत्यस्य प्रामाण्यमित्यत्रान्वयः । (तनिष्ठति ।) उपस्थितिनिष्ठेत्यर्थः । अननुगृही- तस्य, क्रियानिष्ठशक्त्यनुग्राहकव्यापारनिरपेक्षस्य । कर्मादेः, क्रियारूप- कादेः । (संयोगविभागारम्भकत्वदर्शनादिति ।) क्रिया, क्रियातो विभागः, विभागात्पूर्वदेशसंयोगनाशः, तत उत्तरदेशसंयोगोत्पत्तिरिति रीत्या संयोगादि- फलजनकत्वस्य कर्मणि दर्शनात्फलजननांशे क्रियारूपकर्मणो न स्वगतशक्ति- निष्पादकल्यापाररूपेतिकर्तव्यतापेक्षेति भावः । (नेदं प्रकरणमिति ।) इदं कियागतफलनिष्पादकशक्तिजनकव्यापारस्वावच्छिन्नापेक्षणं न प्रकरणपदाभि- धेयमित्यर्थः । तत्त्वेन, व्यापारविशेषत्वेन । निरुक्तप्रकरणस्य, व्यापारविशेषा- पेक्षणरूपप्रकरणस्य । (तदघटिताङ्गत्वेति ।) व्यापारविशेषाघटिताङ्गत्वेत्यर्थः । न तदापत्तिः, न फलसंबन्धापत्तिः । एवम् , विशेषाकाङ्क्षाया एव प्रकरण पदार्थवे । स्वतो निराकाक्षस्य, स्वभावादेवानुत्थितविशेषाकाङ्क्षस्य । अन्य- तराकामयैव, प्रयाजादीनामुपकार्याकाङ्क्षयैव । अङ्गकत्वोपपत्तिरित्यस्य भव- दुकं म्याचरविशेषापेक्षणरूपप्रकरणं न प्रयाजायस्वे प्रमाणं स्यादिति भावः । मिलो भावनाया विशेषापेक्षेत्यादिकस्य त्वदुक्तप्रकरणस्योपहोमविषये विकृतेः समेन प्रकरणेनोपहोमादीनामहत्त्वापत्तौ प्राकृताङ्गविषयेऽतिदेशकल्पनं निष्प्रयो- जगतितिःभावः॥४॥ प्रकरणाविनियोगे निरूपिते विनियोमप्रसवात्स्थानविनियोगो निलप्यते । भाबादेशासामान्यात् ॥ क्रमः .स्थानं देशसामानयात् अनुशानदेश- सामान्यात् प्रकरणादिकल्पनाद्वारा अङ्गत्वे प्रमाणमिति सूत्रार्थः । तपात्या- पत्तेः, स्थानप्रमाणत्वापत्तेः । शुन्धध्वम् , शुद्धिं कुरुभ्यम् । अनुष्ठानसा- देश्यात् , क्रयसंनिधावानातस्याग्नीषोमीयपशोर्वचनान्तराच्चतुर्थेऽहन्यनुष्ठानं पशु- धर्माश्च तत्रैव श्रुता इति रीत्यानुष्ठामसादेश्यात् । तदपेक्षया, प्रकरणापेक्षया । अन्यतराकाङ्क्षालक्षणस्येत्यनन्तरं दौर्बल्यमिति पूरणीयम् । (अनुष्ठानसादेश्य- स्येति ।) दौर्बल्यमिति शेषः । तत्र हेतुमाह- विधिसंनिधानस्येत्यादिना । तयोः, पाठक्रमसंनिधिक्रमयोः ॥ ५ ॥ क्रमविनियोगे निरूपिते विनियोगप्रसङ्गात्समाख्याविनियोगो निरू- प्यते । आख्या चैवं तदर्थत्वात् ॥ समाख्या घ एवं विनियोजिका विनियोगार्थत्वादिति सुत्रार्थः । निमन्थ्यादीत्यादिपदेन प्रोक्षितपदं गृह्यते । चम्यते भक्ष्यत इति व्युत्पत्त्या चमसपदं भक्ष्यविशेषवाचि । होतुः चमसः भक्ष्यं प्रेतु गच्छस्विनि वाक्यार्थः । काण्डस्येति पदं भक्ष्यद्रव्यस्याप्युपलक्षकम् । कर्त- कत्वादेरित्यादिपदं भक्षणपरम् । पदमात्रम्, 'सोऽग्रीन्' इत्यादिरीत्या वक्ष्य- माणपदमात्रम् ॥ ६॥ श्रुत्यादिषु षट्सु प्रमाणेषु निरूपिनेषु प्रसङ्गात्तेषां बलाबलं निरू- प्यते । श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये परदौर्बल्यमर्थविप्रकर्षात् ॥ श्रुत्यादीनां परस्परसमवायाख्यविरोधे परनिर्दिष्टस्य सूत्रे पूर्वनिर्दिष्टापेक्षया दौर्बल्यं पूर्वकल्पनामुखेन परस्य विनि- योजकतया विनियोजकत्वविषये विप्रकर्षादिति सूत्रार्थः । वाक्यप्रकरणाभ्या- मित्यादौ वैमृधस्य वाक्यं प्रयाजादीनां प्रकरणमिति विवेकः । एकशेष्यर्थत्वे- ऽपि, पौर्णमास्यर्थत्वेऽपि । तदभावात् , द्वारक्याभावात् । प्रमाणत्रयम् , तृतीयाश्रुतिः क्रयप्रकरणं क्रियाकारकपदसमभिव्याहाररूपं वाक्यमिति रीत्या प्रमाणत्रयम् । अत एव, उद्देश्यसमर्पकत्वादेव । अत एव, उक्तप्रमाणाना क्वचिकचित्तात्पर्यग्राहकत्वादेव । तस्यापि, वाक्यस्यापि । लिङ्गयोः, मुख्या- मुख्यसामथ्ययोः । 'स्यान से सदनं कृणोमि' इत्यस्य हे पुरोडास ते 814 मारपिकान्याच्या स्थोनं सुष्टु सेवनयोग्यं सदनं स्थानं करोमीत्यर्थः । 'तस्मिन्सीद' इत्यस्त तस्मितसदने सीद स्थितिं कुर्वित्यर्थः । ('सा. वैश्वदेवी' इतिवदिति ..) 'तप्ते पयसि दच्यानयति' इति वाक्यान्तरोपात्तपयःपरामर्शित्वं यथा सेति तच्छन्दस्व तथेत्यर्थः । सरा, छप्रगतिः । (व्यपेतेति ।) व्यवहितेत्यर्थः । संमिहितपत्किचिदित्यादेः यत्किंचपदस्य यद्यदिति वीप्सार्थकतया तत्तत्पदाथों- पस्थापमात्तेनेति तत्तरपदार्थ परामृश्य विधीयमानमुपांशुत्वं तत्तत्पदार्थधर्म एवेति भावः । वाक्यावगतेन, 'संस्थाप्य पौर्णमासी वैमृधमनुनिर्वपति' इति वाक्या- वगतेन । अग्नीषोमादिपदैकवाक्यतापमानाम्, 'अग्नीषोमाविदं हविरजुषेताम्' इति सुक्तवाकमन्त्रगतानीपोमपदैकवाक्यतापन्नानाम् । अमावास्याङ्गदेवताप्रकाश- नार्थस्वम्, प्रकरणादमावास्याङ्गदेवतार्थत्वम् । (प्राकरणिकवाक्येन बाध्यत इति ।) अग्नीषोमाविति पदस्य पूर्णमासदेवताभिधायिनः सूक्तवाकाधिकरणे सूक्तवाकगतस्य पूर्णमास्यां विभज्य विनियोगस्योक्तत्वेन तत्समभिव्याहृतत्वेन तदेकवाक्यतापनत्वरूपेण 'इदं हविः' इत्यादिगतेन वाक्येन 'इदं हविः' इत्यादेः पौर्णमास्याङ्गत्वात् तद्विरोधेनास्य 'इदं हविः' इत्यादेः एतच्छेषस्या- मावास्यायां प्रकरणकल्प्योचारणस्य बाध इति भावः । किं तु 'इन्द्राग्नी इदं हविरजुषेताम्' इत्यत्र हविरित्यादेरेवामावास्याङ्गत्वं न 'अग्रीषोमाविदं हविर- जुषेताम्' इतिभागगत 'इदं हविः' इत्यादेरिति निष्कर्षः । (फलवत्त्वेनेति ।) इष्टिपशुसोमानां सर्वेषामेव राजसूयपदार्थतया सोमयागरूपस्याभिषेचनीयस्यापि स्वाराज्यरूपं यद्राजसूयफलं तद्वत्त्वेनेत्यर्थः । विकृतावपि, दर्शपूर्णमासविकृती पशुयागेऽपि । प्राकृताङ्गानुवादेन,, प्राकृताज्यानुवादेन । वाचनिकम्, 'पृष- दाज्येनान्यामान्यजति' इति वचनसिद्धिकम् । पृषत्तादि, दधिमिश्रिताज्यं पृषत् (() तदादि । तत्संदष्टस्य, विकृत्याकाङ्क्षायामनिवृत्तायां प्राकृताङ्गानु- लादेन विहितासंदष्टस्य । तत्पूर्वभावित्वे, अनिवृत्ताकाक्षायां विधीयमानाक- पूर्वभाबित्वे । (उक्त विधेति ।) अनिवृत्ताकाक्षायां विधीयमानत्वविशिष्रेत्यर्थः । मोहम्मत्वधरत्वादे; 'औदुम्बरो यूपो भवति' भरमयं बर्हिर्भवति' इति - सहि कार्यापनतया विदितौदुम्परत्वशरत्वादेः । स्वतन्त्रोत्पनस्य, प्राकृता संबन्धितयाज्ञातत्वे सति स्वरूपतो ज्ञातस्य । ननु माहेन्द्रस्तोत्ररूपप्राकृताङ्ग- संबन्धित्वेन विधानात्कथमभिषेकस्य स्वतन्त्रोत्पन्नत्वमित्यत आह- माहेन्द्रस्तोत्रं प्रतीति । प्रत्येकम्, इष्टित्वसोमत्वादिरूपप्रत्येकधर्मेण । प्रकरणाभावः, उप- याकाङ्क्षाघटितप्रकरणाभावः । पवित्रादारभ्येत्यादेः पवित्रत्वादिप्रत्येकरूपेण विकृतित्वेऽपि पवित्रादारभ्य क्षत्रधृतिपर्यन्तक्रियानिष्ठराजसूयत्वधर्मपुरस्कारेण फलसंबन्धात्तस्य तेन रूपेणाङ्गाकाक्षासत्त्वेन प्रकरणसंभव इति भावः । (सा- नाय्याङ्गत्वमिति ।) संनिधानादिति शेषः । महाधिकारेण, दर्शपूर्णमासमहा- प्रकरणेन । तस्यापि, संनिधेरपि । तत्त्वं च, अप्राप्तबाधकत्वं च । (लिका- दिकल्प्येति ।) लिङ्गादिभिः कल्प्येत्यर्थः । (गृहमेधीयेति ।) गृहमेधीयस्य स्वसंनिध्याम्नातप्रकृतिक्लप्तोपकाराज्यभागाभ्यामङ्गाकाङ्क्षानिवृत्तः प्राकृताम- विषयेऽतिदेशस्यैवाप्रवृत्त्या आज्यभागद्वयेनातिदेशबाधोऽप्राप्तबाध इति भावः । (मिथ्यात्वम्यापीति ।) सामान्यशास्त्रजन्यज्ञाने इति शेषः । 'न तो पशौ करो. ति' इति वाक्यघटकतावित्यस्याज्यभागावित्यर्थः । प्रापकशास्त्रस्य, अतिदेश- रूपमापकशास्त्रस्य । रागप्राप्तनिषेधवत, रागप्राप्तकलाभक्षणनिषेधवत् । एतेन यत्र पुनः श्रुतिरानुमानिकी लिङ्गं च प्रत्यक्ष नत्र कथं यथा स्मृतिवैदिक- लिङ्गाविरोधे, तत्र स्मृतेर्मूलान्तरमपि संभाव्यते न तु लिङ्गस्येति तदेव बलव- दनुसतव्यमिति श्रुतिलिङ्गाधिकरणवार्तिकं स्मृत्यपेक्षया वैदिकलिङ्गस्य प्राब- व्ये साधकमिति यत्प्रलपितं तदपास्तम् । तस्मिन्वात्तिके 'स्मृतेर्मूलान्तरमपि संभाव्यते न तु लिङ्गम्य' इत्यनेन स्मृतेर्वेदलिङ्गापेक्षया दौर्बल्ये वेदभिन्नतन्त्रादि- संभावना हेतुतया निर्दिष्टा, तेन वेदमूलकत्वेन निश्चितानां स्मृतीनाम् 'य? किं च मनुरवदत्तद्भेषजम्' 'स होवाच व्यासः पाराशर्यः' इति वेदेन वेदमूल- कत्वेननिम्धितमनुपराशरकृतत्वेन सिद्धानां वेदसिङ्गापेक्षया दौर्बल्यं नास्तीत्येव सन्त्रवार्तिकामिप्रायप्रतीतेः अन्यथा स्मृतेर्मूलं संभाव्यते श्रुतिरूपं मूह संभाव्यत इति का हेतुमनिर्दिश्य मान्तरमपीति प्रकृतश्रुतिभिनतन्त्रादिक - 35 मादीविकामाखवा . करनृत्यन्तरसंप्राहक-'मूलान्तरम्' इति निर्देशानुपपसेः । इदं तु बोध्यम्- मनु- पराशरस्मृतिविरोधेऽन्यस्मृतीनां दौर्बल्यमेव, मनुपराशरस्मृत्योरुदाहृतप्रत्यक्ष- वेदवाक्यसिद्धप्रामाण्यकत्वात् अन्यासां तदभावात । स्मृतिगृह्यसूत्रयोर्विरोधे स्मृतिविरुद्धांशे गृह्यसूत्रस्याप्रामाण्यमेव । 'धर्मशास्त्रस्य कर्तारो मन्वाथा ऋषयः स्मृताः । तत्प्रयुक्तप्रणेतारो गृह्यकारास्तु मन्त्रतः' इति देवलस्मृत्या वर्णाश्रम- बन्यघृतया स्मृतेर्मूलत्वस्य गृह्यसूत्रस्य मलित्वस्य चावगमात् । स्मृतिपुराणयो- विरोध पुराणस्य दौर्बल्यम् , 'श्रुतिस्मृतिपुराणानां विरोधो यत्र दृश्यते । तत्र श्रुतिबलिष्ठा स्याद्वयोर्मध्ये स्मृतिर्वरा' इति वर्णाश्रमग्रन्यधृतात्रि (2)स्मृतिवचन- प्रामाण्यात । एतेन पुराणस्य स्मृतित्वं नास्तीत्यपि स्पष्टम् ॥ ७ ॥ श्रुत्यादिप्रमाणानां विरोधे बलाबलनिरूपणे कृत विरोध एव क्वास्ति क्व नास्तीति चिन्तायाः प्रसक्तत्वात्प्रसङ्गसंगत्या विरोधाविरोधौ चिन्त्येते । अहीना वा प्रकरणाद्गौणः ॥ अहीनशब्दो ज्योतिष्टोमे गौणः 'तिस्त्र एक-' इत्यहीनपदघटितवाक्यस्य ज्योतिष्टोमप्रकरणे आम्नानादिति पूर्वपक्ष- सूत्रार्थः । असंयोगात्तु मुख्यस्य तस्मादपकृष्येत ॥ द्वादशोपसत्ता ज्योतिष्टोमप्रकरणादपकृष्येत तस्याः 'द्वादशाहीनस्य' इत्यहीनसंयोगकथना- ज्योतिष्टोमसंयोगाकथनाच; न चाहीनशब्दो ज्योतिष्टोम गौण आश्रयितव्यः मुख्यास्य द्वादशाहस्य ग्रहणसंभवे गोण्या अनाश्रयणीयत्वात् तस्मात् न द्वादश- त्वस्योपसद्वारा त्रित्वेन ज्योतिष्टोमे विकल्प इति सिद्धान्तसूत्रार्थः । (उपसदो विधायेति ।) दीक्षादिवसादूर्ध्व सोमाभिषवदिवसात्प्राकर्तव्या होमा उपसदः तान्विधायेत्यर्थः । तदनुवादमात्रम्, ज्योतिष्ट्रोमानुवादमात्रम् । न उद्देश्ये- सत्रोद्देश्यपदमुपसद्रूपोद्देश्यपरम् । तद्वदेव, त्रित्ववदेव । तदनुवादेन, उपसद- नुवादेन । (तस्यावृत्त्या द्वादशत्वापत्तेश्चेति ।) अहीनोद्देशेन द्वादशत्वविधौ माहीनस्यावृत्त्या द्वादशत्वसिद्धावुपसत्सु द्वादशत्वस्य भवदभिमतस्यासिया- प्रवेरिति भावः । नन्समासानुपपत्तिरिति शङ्कते- अथेति । (तुल्यार्थतृतीयेति ।) साध तृतीया च सप्तमी च उपमानं च अव्ययं च द्वितीया च कृत्याः भाहकल्पतरु कृत्यप्रत्ययान्ताश्च तुल्यार्थतृतीयासप्तम्युपमानान्ययद्वितीयाकृत्याः, एताः पूर्वाः प्रकृतिस्वरयुक्ता भवन्तीति तुल्यार्थतृतीयेति सूत्रार्थः । ('-प्रकृत्या पूर्वपदम् । .इनीति ।) 'बहुव्रीही प्रकृत्या पूर्वपदम्' इति सूत्रम् । बहुव्रीही समासे यत्पूर्व- प्रदं तत्प्रकृत्या प्रकृतिस्वरेण युक्तमिति तदर्थः । अत्र बहुव्रीहिपदं विहाय 'प्रकृत्या पूर्वपदम्' इत्येतावन्मात्रमनुवर्त्यते । ('अह्नः खः ऋतौ' इतीति ।) अहंःशब्दादहःशब्दखप्रत्ययघटितसमुदायेन 'अहीन' इत्यनेन ऋतौ यागविक्षेपे वाच्ये समूहाथै खप्रत्ययो भवतीति तत्सूत्रार्थः । ('तस्य समूहः' इतीति ।) तस्य षष्ठयन्तात्समूहार्थे खप्रत्ययो भवतीति तत्सूत्रार्थः । ('आयनेयी-' इति ।) आयन् च एय् च ईन् च ईय् च इय् च आयनेयीनीयियः, एते प्रत्यये आदिभूताना फढखछघामादेशा भवन्तीति तत्सूत्रार्थः । ('आधुदात्तश्च' इती- ति ।) प्रत्ययस्य य आदिभूतो वर्णः स उदात्तः स्यादिति तत्सूत्रार्थः । एकार्थत्वेनेत्यस्य विधौ शब्दभेदो न युज्यते इत्यनेन कथिते विधिवाक्यगतशब्द- भेदायुक्तत्वादौ हेतुत्वेनान्वयः । अतिदेशप्राप्तेः, उपसद्विषयकातिदेशप्राप्तेः । अयमर्थवादः, 'द्वादशाहीनस्य' इत्ययमर्थवादः । अतो वाक्यनेत्यत्र अत इत्यस्य भाष्यकारोक्तसिद्धान्तरीत्येत्यर्थः ॥ ८ ॥ त्रित्वद्वादशत्वयोर्विरोधात्प्रकरणानिवेश उक्तः, प्रतिपदोस्तु विरोधा- भावात्प्रकरण एव निवेशः स्यादिति प्रत्युदाहरणसंगतिः । बित्वबहुत्व- युक्तं वाचोदनात्तस्य ॥ द्वित्वबहुत्वयुक्तं प्रतिपद्विधानमुत्कृष्यते तस्य द्वित्वस्य बहुत्वस्य वा प्रकृतावचोदनादिति सूत्रार्थः । ('उपास्मै गायता नरः' इतीति ।) नर इति नृशब्दस्य बहुवचनम् ; नरः मनुप्याः उप समीपदेशे अस्मै यजमानाय गायतेति तदर्थः । (प्रतिपदमिति ।) स्तोत्रसाधनीमूतवृष- गताया ऋक्प्रतिपत् तामित्यर्थः । नित्याम्, अनैमित्तिकामकाम्याम् । ('एते असृग्रमिन्दव इति' इति ।) एते इन्द्रियाधिष्ठातृत्वेन संनिहिता देवाः अमुक रुधिरं तन्मये देहे रमन्त इत्यसृग्रम् मनुष्या इति यावत्, इन्दवः इन्दुमण्डल स्थाः पितरः एतान्सर्वान्प्रभापतिरसृजतेति तदर्थः । (यद्यपीति ।) पृथनिमारमा भारदीपिकाबाबा । द्विशब्दार्थपजमानशब्दार्थयोः परस्परसंबन्धाभावाद्विस्वविशिष्टयजमानस्य निर्मि- 'तत्वासंभव इति भावः । (हविराय॑धिकरणन्यायेनेति ।) आतिमात्रस्य सर्वदा सत्वेनापातिकतया निमित्तत्वासंभवात्पृथग्विभक्त्यन्तार्थहविर्विशिष्टातेंनिमित्तत्वं सांधयंता न्यायेनेत्यर्थः । पाक्षिकत्वाभावेन, द्वित्वस्य यजमानत्वस्य च परस्पर- व्यधिकरणस्य ज्योतिष्टोमे सदा सवेन प्रत्येकं तस्यानित्यसंबन्धरूपपाक्षिकत्वा. भविन । (प्रधानभूतेति ।) सप्तमीविभक्तिरूपप्रत्ययार्थत्वेन प्रातिपदिकार्था- पिलया प्रधानभूतेत्यर्थः; उद्देश्यभूतेनि वार्थः । द्वित्वविशिष्टयजमानस्यैव निमि- सत्वं प्रतिपाद्यताम्, किं व्यासज्ज्यवृत्तिनिमित्तत्वप्रतिपादनेनेत्यत आह- विशे- 'व्यभावे विनिगमनाविरहादिति । उक्तविधनिमित्तत्वे, बहुत्वयजमानत्ववृत्ति- व्यासज्ज्यवृत्तिनिमित्तत्वे । (अन्यतरेति ।) द्विशब्दयजमानशब्दान्यतरेत्यर्थः । आद्यवाक्ये, 'द्वयोर्यजमानयोः' इति वाक्ये । (स्त्रीलिङ्गत्व इति ।) यज- मानयोरिति पदस्येति शेषः । द्वितीयवाक्येऽपि, 'बहुम्यो यजमानेभ्यः' इति वाक्येऽपि । पाशाधिकरणन्यायेनेत्यादेरयमाशयः- बहुवचनानुरोधेन पाशप्राति- पदिकस्य प्रकरणसंबन्धिनो यथा नोत्कर्षस्तथा गुणभूतलिङ्गानुरोधेन यजमान- मातिपदिकस्य प्रकरणसंबन्धिनो नोत्कर्ष इति । व्यत्ययानुशासनेन, 'सुप्तिा- पग्रहलिङ्गनराणाम्-' इति व्यत्ययानुशासनेन । तस्यान्तरङ्गत्वेन, एकत्वस्या- तरङ्गत्वेन । अशक्तौ, यजमानस्याशक्तौ सत्याम् । (दक्षिणापरिमाण इति ।) दक्षिणायाः 'तस्य द्वादशशतम्' इत्युक्तद्वादशशतत्वरूपपरिमाणेत्यर्थः । अस्या- पि, एकत्वस्यापि । (न तद्विषयतेति ।) न यथाशक्तिन्यायविषयतेत्यर्थः । प्रास्मै' इत्यस्य, 'अस्मै ' इति पुंलिङ्गघटितस्य अध्रिगुप्रैषस्य । (प्रतिपत्संब- न्धेनैवेति ।) द्वित्वबहुत्वयोः क्रत्वव्यभिचारिप्रतिपत्संबन्धित्वेनेत्यर्थः ॥ ९ ॥ 'योयजमानयोः' इत्यादिवजाघन्या अपि प्रकरणासंबन्धादुत्कर्षः स्वादिति दृष्टान्तसंगतिः । जानी चैकदेशत्वात् ॥ यत्र पशुयागादौ भावमी वर्तते तत्र 'जाधन्या पत्नीः संयाजयन्ति' इति वाक्योत्कर्षः स्था, मायन्याः पधेकावयवत्वेन पशुशून्यदर्शादावसंभवादिति पूर्वपलसूत्रार्थः । थोर - ना वापूर्वत्वात् ॥ नावन्याः पत्नीसंयाजोद्देशन चोदना विधिः न जाघन्यु, देशेन पत्नीसंयान धिः येनोद्देश्यनाघन्याः प्रकरणे दर्शपूर्णमासीयेऽभावात्तद्वाक्य- मुत्कृष्येत, पत्नीसंयाजाश्चोद्देश्याः प्रकरणे क्लप्ता न विधिमर्हन्ति, नाघनी च प्रकरणे अपूर्वत्वात् अज्ञातत्वात् विधानमर्हति आपणस्था क्रयेण संपादयितुं योग्यैव जाधनीति सिद्धान्तसूत्रार्थः । जाघन्या, पुच्छेन । (पत्नीरिति ।), 'पत्नीरिति पत्नीसंयाजस्य नामैकदेशेन निर्देश.' इति माधवाचार्याः । (पत्नी; संयाजा विधीयन्त इति ।) जाघनीप्रतिपत्तित्वेनेति शेषः । (उत्तरार्धादिशब्दव- दिति । 'उत्तरार्धात्विष्टकृतं यजति' इत्यत्र उत्तरार्धशब्दः पुरोडाशयागनन्या- पूर्वसाधनपुरोडाशैकदेशवाची यथा तथा । परप्रयुक्तत्वावगमात्, पशुयागनन्या- पूर्वेच्छाधीनेच्छाविषयत्वरूपापूर्वप्रयुक्तत्वविशिष्टपशुद्रव्यान्तर्गतत्वावगमात् । प्रयो- जनवत्त्वावगमेन, अपूर्वसाधनीभूतयागरूपद्रव्यत्यागघटकत्यागांशजनकपशुद्रव्या. वयवत्वसंबन्धेन अपूर्वरूपप्रयोजनवत्त्वावगमेन । इतरथा, पत्नीसंयाजोद्देशेन जापनीविधौ । (पश्वङ्गत्वेति ।) अग्नीषोमीयपशुयागाङ्गत्वेत्यर्थः । (लोकेऽपि संभवादिति ।) तृप्तिविशेषेच्छाधीनमांसभक्षणसाधनस्वरूपतृप्तिरूपपरप्रयुक्तत्व विशिष्टपश्वेकदेशत्वस्यापि जाघन्या लोके संभवेन क्रतुजन्यापूर्वप्रयुक्तपश्वनुनिष्पन्न- त्वनियमाभावेन ऋतुव्यभिचारित्वाज्जाघन्या यागीयत्वोपस्थितिन संभवतीति भावः । ('अंशुं गृह्णाति' इतिवदिति ।) अनारभ्याधीतवाक्यस्यांशुग्रहस्य प्राक रणिकतत्सजातीयवाक्यान्तराज्ज्योतिष्टोमापूर्वसाधनत्वोपस्थितिवदित्यर्थः । प्राक- रणिकवाक्यम् , अग्नीषोमीयपशुप्रकरणस्थवाक्यम् । तदीयत्वोपस्थिती, आरा; दुपकारककर्मान्तरभूतपत्नीसंयाजसंबन्धोपस्थितौ । प्राकरणिकपत्नीसंयाजवाक्य- स्य कर्मान्तरविधायकत्वे बाधकमाह- अतिदेशेन संनिधान इत्यादिना । (स. संबन्धिकत्वाभावादिति ।) उत्तरार्धशब्दप्रवृत्तिनिमित्तस्योत्तरार्धत्वस्य निरूपक सापेक्षत्ववज्जाघनीशब्दप्रवृत्तिनिमित्तजाघनीत्वजातनिरूपकानपेक्षत्वादिति भावः । आज्यवत्' 'आज्येन पत्नीः संयाजयन्ति' इत्यनेनाज्यविधानवत् । (देवतात्वे. नेति ।) पत्नीनामिति शेषः । अवान्तरप्रकरणादेव, पत्नीसंयाजस्यावान्तर- .
भारदीपिकाथ्याख्या . प्रकरणादेव । (विकरुपनेति ।) दर्शपूर्णमासतोऽतिदेशात्पशुयागे प्राप्तपत्नी संयाजे प्रकृताविव आज्येन जाधन्या विकल्पप्राप्तौ तन्निवारणार्थ प्राकरणिक- वाक्यमिति भावः ।। १० ।। प्रकरणान्महादेतोजावनीवत्संतर्दनमपि प्रकृतावेव निविष्टं स्यादिति दृष्टान्तसंगतिः । संतर्दनं प्रकृतौ क्रयणवदनर्थलोपात्स्यात् ॥ संतदर्नाभावेन सह संतर्दनं प्रकृतावेव विकल्पेन स्यात् सोमक्रयणवत् प्रयोजन- लोपामावादिति पूर्वपक्षसूत्रार्थः । क्रयणवदिति दृष्टान्तनिर्देशो द्वादशाध्यायीय- ऋयणाधिकरणपूर्वपक्षरीत्या न तु सिद्धान्तरीत्या 'दशभिः क्रीणाति' इति वचनबलेन क्रयसमुच्चयस्य द्वादशे वक्ष्यमाणत्वात् । उत्कर्षो वा ग्रहणा- विशेषस्य ॥ संतदनम्य प्रकृतित उत्कर्षः स्यात् 'दीर्घसोमे संतृधे' इति दीर्घसोमशब्दितस्य सोमयागविशेषस्य संतनसंबन्धित्वन ग्रहणादिति सिद्धान्त- सूत्रार्थः । संतृधे, संतृद्यात् । धृत्यै, धारणाय । प्रकरण एव, अग्निष्टोम- संस्थावच्छिन्नज्योतिष्टोम एव । नित्यत्वेन, वचनं विनापि सिद्धत्वन । (अष्ट- दोषेति ।) संतर्दनपक्षे असंतदनशास्त्रप्रामाण्यत्यागः, तदप्रामाण्यकल्पनम् , असंतर्दनानुष्ठानकाले पुनः प्रामाण्यकल्पनम् , कल्पिताप्रामाण्यनिवृत्तिरिति चत्वारो दोषाः । एवमसंतदनपक्षे संतर्दनशास्त्रस्याप्रामाण्यकल्पनम् , संतर्दन- कालस्वीकृतप्रामाण्यत्यागः, संतर्दनकाले पुनः प्रामाण्यकल्पनम्, काल्पता- प्रामाण्यत्यागश्चेति चत्वारो दोषा इति रीत्याष्टदोषेत्यर्थः । प्रकरणानुरोधा. दशीकृत्य, प्रकरणाबाधाय स्वीकृत्य । (विदारणाप्रसक्तेरिति ।) सोमलतायां देध्ये सोमस्याधिक्याद्रावभिः पुनः पुनस्तदभिषवणे फलकयोर्विदारणप्रसक्त्या घृत्यै इति संतर्दनस्यार्थवाद उपपन्नो भवदिति भावः । (निवेश इति ।) संतर्दन- स्येति शेषः । प्रकारान्तरेण सोमविवृद्धिमुपपादयति- वस्तुतस्त्विति । अंशून , सोमललाभागान् । उपसमूहति, त्रिपर्वमुष्टिपरिमितसोमे प्रक्षिपति । (यजमान- स्यैव स्यादिति ।) दशमुष्टिपरिमितसोममात्रग्रहणे यममानभक्षमात्र एव हुत- शेर सोमः पर्याप्तः स्यात्, होत्रध्वर्यादीनां शास्त्रविहितसोमभक्षो न सिध्ये.
भाहकरूपतरू. , दिति भावः । (उत्तरादोहवदिति । ) सायंदोहप्रकरणे गोत्रयदोहनविधानानन्तरम् 'तूष्णीमुत्तरा दोहयति' इति वचनेन तिसृभ्यो गोभ्य उत्तरा अधिका गा अधिकपयोपेक्षायां तूष्णी दोहयेदित्यर्थकेन गोदोहने संख्यानियमाभाववदित्यर्थः । अपेक्षितपरत्वप्रतीतः, सोमवृद्धयर्थमपेक्षितसोमग्रहणपरत्वस्य 'अंशूनुपसमूहति' इति वाक्येऽवगतेः । (कपिञ्जलेति ।) 'कपिञ्जलानालभेत' इत्यत्र वाक्यशेष- रूपमाधकाभावाद्बहुवचनस्य प्रथमाननिक्रमणार्थ त्रित्वे पर्यवसानमुक्तम् ,. इह उक्तमाननिन्दावचनरूपार्थवादानुसारेण अंशून्' इति बहुवचनस्य त्रित्वे पर्य- वसानमिति भावः । अङ्गत्वात् , ज्योनिष्टोमाङ्गत्वात् । अन्यासाम्, उक्थ्य- पोडश्यतिरात्रसस्थानाम । (ज्योतिष्टोमे चेति ।) विकृतिभूतोक्थ्यादिसंस्थायां प्रकृतिभूताग्निष्टोमसंस्थाया चेत्यर्थ । ग्रहणविवृद्धया, सोमरसग्रहणधिवृद्धया । (आश्रयभूतज्योतिष्टोमाभ्यासेति ।) काम्यसंस्थाश्रयभूतज्योतिष्टोमसंज्ञकयाग- प्रदानाभ्यासेत्यर्थः । (न विकल्पोऽपीति ।) संनदनाद्दश्यतावच्छेदकासंतदनो- देश्यतावच्छेदकयोः काम्यसंस्थानित्यसंस्थयोर्भदादेकावच्छेदेन द्वयारनिवशादिति भावः । (उत्तरकालविधिप्रतीतेरिति ।) विकृतित्वाईतोरिति शेष. । आध- प्रकारद्वयनैव, अग्निष्टोमसंस्थाकज्यातिष्टामम्य इष्टयाद्यपेक्षया दीवत्वादीर्घ- मोमत्वमाश्रित्य य पक्ष: यजमानदैर्घ्यमादाय दीर्घसामत्वमाश्रित्य य पक्षः तादृशपक्षद्वयनैव । विकृतिमात्र काम्यमस्थासु द्विगत्रादौ च । विवृद्धग्रहणानि, विवृद्धसामग्रहणानि । संस्थाङ्गानि, संस्थाया अङ्गानि । (निष्टामसंस्थाक- ऽपीति) अग्निष्टोममंस्थावच्छेदनापि सर्वतोमुग्वे । (यदङ्गति ।) यस्या. संस्थाया अङ्ग यदङ्गम , यदङ्गं च तद्रहण च यदङ्गग्रहणम , तस्य या वृद्धि, तत्प्रयुक्त विवृद्धप्रदेय यस्य तस्य भावस्तत्त्वं यत्र ज्यानिष्टोमादी नदपूर्वमाधनी- भूतसंस्थापूर्वसाधनीभूतफलकमकारकतया मंतदनविधरवगमादित्याद्यस्यार्थ. । यत्प्रयुक्तम् , संस्थाप्रयुक्तं विवृद्धिप्रदयं यस्य तत्त्वम् यत्प्रयुक्तविवृद्धिप्रदेयकत्वं यत्र ज्योतिष्टोमादी । शेषं पूर्ववत । उक्तविधमवविकृती, काम्यमंन्यासु द्वि- गत्रादो छ । संस्थास्वव, काम्यसंस्थास्वेव । तामाम् , काम्यमंधानाए । . B 15 भारदीपिकाम्याख्या । तेन, सोमपदेन ॥ ११ ॥ संतर्दनस्य वाक्यविरोधात्प्रकरणेऽनिवेश उक्तः, प्रवाभावस्य वाक्य- विरोधाभावात्प्रकरण एव निवेशः स्यादिति प्रत्युदाहरणसंगतिः । संख्या युक्त क्रतोः प्रकरणात्स्यात् ॥ संख्यावाचकप्रथमशब्दयुक्तं यद्वाक्यं तस्मिन्नुच्यमानः प्रवर्ग्यनिषेधः क्रतोः ज्योतिष्टोमस्य स्यात् ज्योतिष्टोमप्रकरणा- दिति पूर्वपक्षसूत्रार्थः । नैमित्तिकं वा कर्तृसंयोगालिङ्गस्य सनि- मित्तत्वात् ।। ज्योतिष्टोमस्य यः प्रथमः प्रयोगः तन्निमित्तकं प्रवर्गाप्रतिषेध- वचनं प्रथमशब्दार्थश्च कर्तृसंयोगात् कर्तृसंयोगघटिनः, अप्रवृत्तप्रवर्तनाविषय- स्वरूप इति यावत; लिङ्गस्य प्राथम्यरूपगमकस्य तं प्रति प्रवर्ग्यनिषेधं प्रति निमित्तत्वसंभवादिति सिद्धान्तसूत्रार्थः । प्रवयं कर्मविशेषस्य नाम । तस्य च, प्रवर्यस्य च । पुरस्तादुपसदाम् , ज्योतिष्टोमाव्यभिचरितसंबन्धानामुषसदा पूर्व- काले । (अव्यभिचरितेति ।) ज्योतिष्टोमक्रत्वव्यभिचरितसंबन्धोपसत्संवन्धो यः प्रवर्यगतः तत्सहकृतेन 'अनारम्याधीतानां प्रकृतिगामित्वम्' इत्येवमाकारक- द्विरुक्तत्वन्यायेन प्रवर्यस्य ज्योतिष्टोमाङ्गत्वोपस्थितेरिति भावः । (उपस्थितत्वा- दिति ।) उपसदामिति शेषः । तद्वाचकपदान्तरकल्पनया, उपसदामुद्देश्यत्व- समर्पक-'उपसदः'-इति द्वितीयान्तपदकल्पनया । तदर्थत्वोपपत्तेः, ज्योतिष्टो- मार्थत्वोपपत्तेः । प्रकरण एव, ज्योतिष्टोमप्रकरण एव । तत्र च, कौषीतकी- ब्राह्मणज्योतिष्टोमप्रकरणे च । सर्वसंस्थः, अग्निष्टोमोक्थ्यादिसर्वसंस्थायुक्तः । सर्वावस्थः, प्रथमप्रयोगद्वितीयप्रयोगाद्यवस्थायुक्तः । प्रयुज्यमानत्वेन, क्रिय माणस्वेन । अन्यसंस्थानाम् , उपथ्यादिसंस्थानाम् । अन्यपदेन, 'यज्ज्यो तिष्टोमः य एतानिष्ट्वान्येन यजेत' इत्युक्थ्यादिसंस्थानां ज्योतिष्टोमोत्तरत्व विधायकवाक्यगतान्यपदेन । सासु, उक्थ्यादिसंस्थासु । अन्यथा, प्रतिषेध पक्षे । प्रत्येकशक्त्यैष, प्रथमयज्ञपदेऽवयवशक्त्वैव । अतिरिक्तशक्तिकल्पना याम्, प्रथमयज्ञपदस्य ज्योतिष्टोंमें रूदिशक्तिकल्पनायाम् । आधप्रयोग बाविस्वावगतः, आयकृतिविषयवाचित्वावगतेः । प्रयोगपरत्वम् , ज्योतिष्टोम माकरपतः प्रयोगपरत्वम् । यज्ञपदस्यार्थान्तरमाह- प्रकरणादित्यादिना । स प, न्योति- टोमप्रथमप्रयोगश्च । पाञ्चमिकन्यायात्, पञ्चमाध्याये अग्निष्टोमसंस्थाकज्योति- होम एव प्रथमयज्ञ इत्युक्तिघटितन्यायात् । तद्प्राप्तेः, प्रवर्ग्यप्रतिषेधाप्राप्तेः । (कथं न तत्प्राप्तिरिति ।) प्राथम्यरूपनिमित्तसत्त्वे नैमित्तिकस्य प्रवर्यप्रतिषेध- स्य प्राप्तिरावश्यिकीति भावः । एष वाव प्रथमेत्यादेस्तदवधारणादित्यन्तस्याय- माशयः- यज्ञानामिति निर्धारणविभक्त्यन्नपदोक्तप्रकृतिविकृतिसाधारणयज्ञ- मात्रान्तर्गतस्य ज्योतिष्टोमस्य प्रथमयज्ञत्वोक्तौ तद्गतप्राथम्यं तद्भिन्नं यनिर्धारण- विभक्त्यन्तपदोपस्थाप्यं यज्ञमात्रं तन्निरूपितमित्यवगम्यत इति । अत एव, 'एष याव-' इति वाक्यादेव । यथोक्तस्थले, 'न तो पशौ करोनि' इत्यत्र । कारकमात्रविषयत्वेन, राज्यधिकरणत्वरूपकारकमात्रविषयत्वेन । कारकम्यापि प्रथमप्रयोगाधिकरणस्येति षष्ठयो समानाधिकरणे बोध्य । (आक्षेपणेति ।) श्राद्धस्येत्यादिः । (नानूयाजेवितिवदिति ।) 'यतिषु ये यनामहं करोति नानूयाजेषु' इत्यत्रानूयानयागभिन्नेषु 'यनतिषु ये यनामहम् ' इति पर्युदासव- दित्यर्थः । अयम् , 'न प्रथमयज्ञे प्रव्रज्यात्' इति शब्दः । अस्य च, 'अग्नि- ष्टामे प्रवृणक्ति' इति वचनस्य च । नान्यविषयता, नाग्निष्टोमद्वितीयादि- प्रयोगविषयता । सामान्यविधित एव, 'यत्प्रवण प्रवृणक्ति' इति सामान्य विधित एव ॥ १२ ॥ प्रवर्यप्रतिषेधस्य प्रकरणे निवेशवत्पृषदेवत्ययागस्य प्रकरणे निवेशः स्यादिति दृष्टान्तसंगतिः । पौष्णं पेषणं विकृती प्रतीयेताचोदना- प्रकृतौ ॥ पौष्णं पृषदेवतासंबन्धि यत्पेषणं नन विकृतौ पृषदैवत्यविकृतियागे प्रतीयेत; कुतः? प्रकृतौ दर्शपूर्णमासयोः पूषदेवताया अचोदितत्वादिति सूत्रार्थः । अत एव, निष्ठार्थोपसर्जनस्य पेषणस्यान्यत्रान्वयानुपपत्तरेव । स्व- जन्येत्यत्र स्वपदं पूषदेवतापरम् । प्रकृतिद्रव्यस्य, पिष्टरूपचरुप्रकृनिद्रव्यम्य । अतिदेशेन, दर्शपूर्णमासान्तर्गतपुरोडाशयागादतिदेशेन । (कर्मान्तरविधेरेवेति।) पूर्वपक्षरीत्येत्यादिः । वषट्कर्तुरित्यादेश्यमाशयः- वषट्कर्तृपदेन लक्षणया क्षट .
माटीपिका-याख्या भक्षमुद्दिश्य प्रथमपदलक्षितप्राथम्यविधिरूपानभिमनार्थसिद्धयापत्तिरि। त्रि, वषट्कर्तृवाक्यं । अस्मदुक्तप्रकारस्तु, एतदधिकरणेऽस्म- रस्तु ॥ १३ ॥ पंषणप्रसङ्गात्तद्विषयकचिन्तान्तरं क्रियत इति प्रसङ्गसंगतिः । त र्थमविशेषात् ॥ तत् पेषणं चरुपुरोडाशादिसर्वार्थ सर्वस्यापि विशंपादिति पूर्वपक्षसूत्रार्थः । चरौ वार्थोक्तं पुरोडाशेऽर्थवि: षेधात्पशो न स्यात् ॥ पेषणं चरावेव स्यात् पुरोडाशे तु पेषणं श. विनैव पुरोडाशभावनिष्पत्तिरूपार्थान्यथानुपपत्तिस्वरूपार्थादेवोक्तप्रायं पशौ तु पेषगं हृदयादिविन्यासविनाशापत्त्या न स्यादिति मिद्धान्तसुत्रार्थः ।। (अत्यन्ना- प्राप्तेति । प्रदयसिद्धिप्रयोजनकस्य पेषणम्य कार्यवशेन प्राप्त्या सध मानं तत्र विधीयते, प्रदेयनिष्पत्त्युत्तरकाले पेषणम्य प्रदेयमिद्धिप्रया भावेनाप्राप्ततया स्वरूपमप्यदृष्टार्थ विधातव्यमिति भावः । अन्यथा, विना | तम च, प्रतिप्रसवविधौ च । अत एव, लाघवादव । तद्धर्माप मथनधर्माणाम् । कार्यान्तर प्रयुक्तत्वकल्पनादौ, चातुर्मास्यापूर्वप्रयुक्तत्व नादौ । इप्यते चायमर्थ इत्यस्य कल्पनादावित्यत्रान्वयः । अत एव चर मित्यत्र अन एवेत्यस्य पिष्टापिष्टद्रव्यप्रकृतिकत्वादेवत्यर्थः । (व्याघातकस्वमिति चरुत्वस्यति शेषः ॥ १४ ॥ . पेषणविषयकं चिन्तान्तरं पुन. प्रसङ्गास्क्रियते । एकस्मिन्नेकसंयो गात् ॥ एकस्मिन् एकदेवताक पेषणं स्यात् एकस्य पूष्ण एकस्यैव देवर संयोगादिति सुत्रार्थः । सापि, लक्षणापि । (पृपाधिष्ठानकदेवतात्वप्रयोज्यापूवा यत्वति ।) पूषाधिष्ठानकं च तत् देवतास्वप्रयोज्यापूर्वीयत्वं चेति विग्रहः; पूष स्वसमानाधिकरणं देवतास्वाधीनापूर्वसाधनत्वमिति यावत् ; तथा चापूर्वसाधन- स्वस्य पूषवृत्तित्वस्वीकारे देवतात्वस्य द्विदेवत्ये व्यासज्ज्यवृत्तित्वेऽप्यपूर्वसाधन- पूषाधिष्ठानस्य सत्त्वात्पेषणापत्तिरिति भावः । तत्रैव, व्यासज्ज्यवृत्तिदेवक
No text on this page.
भाहकल्पतरु १ एव । (अगमकत्वमिति ।) नेमपिष्टवाक्यस्येति भावः ॥ १५ ॥ । न्महीमण्डलमनायमानचोलदेशाप्रपूज्यविद्वत्समाजविराजमानतिरुविशलूर जीन्द्रपुरवास्तव्यानां श्रीभगवत्कलावताराणा सर्वतन्त्रस्वतन्त्राणां श्रीमदश्च! नारायणशास्त्रिणा पौत्रैस्तादृशानामेव रामशंकरशाक्षिणा तनूभवः पण्डित- वराप्रगण्यसर्वतन्त्रस्वतन्त्राणां श्रीशिवरामशाखिला सकाशादधीतनि. खिलशास्त्रैर्महामहोपाध्यायविरुदाहितैः श्रीरामसुबमण्यशाखिमि- विरचितायां भाहकल्पतर्वमिधाया भादपिकाम्यापायां तृतीयाध्यायस्य तृतीय. पाद. ।