Asr,melkote
Mimamsa Koustubha Vol5
Front matter
No text on this page.
No text on this page.
No text on this page.
January 1931 THE CHOWKHAMBA SANSKRIT SERIES A COLLECTION OF RARE & EXTRAORDINARY SANSKRIT Works. NO. 397 मीमांसाकौस्तुभः। ( मीमांसासूत्रोपरि काचन विस्तृता टीका ) ( तृतीयाध्यायस्य द्वितीयतृतीयौ पादौ) पूर्वोत्तरमीमांसापारावारपारीण- श्रीखण्डदेवविरचितः श्रीकाशीहिन्दूविश्वविद्यालयपूर्वमीमांसाप्रधानाध्यापकेन वेदविशारदबिरुदभाजा पं० अ. चिन्नस्वामिशास्त्रिणा संशोधितः श्रीजयकृष्णदासगुप्तेन मुद्रापितो विजयताम् । Rernstered According to Act_XIT.of 1867 (All Rights Reserved.) MIMAMSAKAUSTUBHA [ An exhaustive Commentary of Jaiminisutias ( II & III Padas of III Adhyaya ) BY KHANDADEVA. Edited by “Veda Visarada” Pandit A Chinnaswami Sastii, Chief Professor of Mimamsa Benares Hindu University Vol.II FASCICULUS IV-Y. PUBLISHED & SOLD BY THE SECRETARY, HOWKHAMBA SANSKRIT SERIES OFFICE, rs Press, North of Gopal Mandır, Benares. 1930 --- *श्रीः आनन्दवनविद्योतिसुमनोभिः सुसंस्कृता । सुवर्णाऽङ्कितभव्याभशतपत्रपरिष्कृता ॥१॥ चौखम्बा-संस्कृतग्रन्थमाला मञ्जुलदर्शना । रसिकालिकुलं कुर्यादमन्दाऽऽमोदमोहितम् ॥ २॥ स्तबक:-३६७ 900503 Printed by Jai Krishna Das Gupta at the Vidya Vilas Press, Benares.
THE
SUS
CHOWKHAMBA SANSKRIT SERIES,
A
COLLECTION OF RARE & EXTRAORDINARY SANSKRIT WORKS,
NOS. 350, 359, 372 & 397
MIMAMSA KAUSTUBHA
( 3rd & 4th Padas of 2nd Adhyaya, and 1st
2nd & 3rd Padas of 3rd Adhyaya )
BY
KHANDADEVA.
Registered According to Act XXV.0f 1867. (All Rights Reserved.)
Edited by
>>
“Veda Visarada" "Mimamsa-kesari"
Pandit A. Chinnaswami Sastri,
Chief Professor of Mimamsa. Benares Hindu University
Vol. II. FASCICULUS I to IV-99 .
PUBLISHED & SOLD BY THE SECRETARY,
CHOWKHAMBA SANSKRIT SERIES OFFICE,
Vidya Vilas Press, North of Gopal Mandir, Benares.
1929
Printed-Published & sold by
JAI KRISHNADAS-HARIDAS GUPTA,
The Chowkhamba Sanskrit Series Office,
VIDYA VILAS PRESS,
North of Gopal Mandir,
BENARES CITY.
TIE CHOWKHAMBA SANSKRIT SERIES, A COLLECTION OF RARE & EXTRAORDINARY SANSKRIT WORKS, Nos.350, 359, 372, & 397 मीमांसाकौस्तुभः॥ ( मीमांसासूत्रोपरि काचन विस्तृता टीका ) (द्वितीयाध्यायस्य तृतीयचतुर्थौ पादौ, तृतीयाध्यायस्य प्रथमद्वितीयतृतीयपादाश्च) पूर्वोत्तरमीमांसापारावारपारीण- श्रीखण्डदेवविरचितः श्रीकाशीहिन्दूविश्वविद्यालयपूर्वमीमांसाप्रधानाध्यापकेन वेदविशारदबिरुदभाजा मीमांसाकेसरिणा पं० अ. चिन्नस्वामिशास्त्रिणा संशोधितः श्रीजयकृष्णादासगुप्तेन मुद्रापितो विजयताम् ।। AURAILE प्रकाशका जयकृष्णदास-हरिदासगुप्तः चौखम्बा संस्कृत सीरिज़-श्राफिस, विद्याविलास प्रेस, गोपालमन्दिर के उत्तर फाटक, बनारस सिटी॥ सं० १६८६.
ROP appGOOD इस कार्यालय द्वारा “काशीसंस्कृतसीरिज" के अलावा और भी ३ सीरिज यथा "चौखम्वा संस्कृत सीरिज" "बनारससंस्कृतसीरिज" "हरिदाससंस्कृतसीरिज" प्रन्य. मालायें निकलती हैं तथा इन ४ सीरिजों के पश्चात् और भी विविध शास्त्र की पुस्तकें प्रकाशित की गई है तथा अन्य सब स्थानों के छपे हुए संस्कृत तथा भाषा-भाष्य के प्रन्थ विक्रयार्थ प्रस्तुत रहते हैं, सूचीपत्र पृथक् मंगवाकर देखें, इसके अलावा हमारे यहां सर्व प्रकार की संस्कृत, हिन्दी, अङ्ग्रेजी की सुन्दर छपाई होती है, परिक्षा प्रार्थनीय है । पत्रादि प्रेषणास्थानम्- जयकृष्णदास-हरिदास गुप्तः- "चौखम्बा संस्कृतसीरिज" आफिस, विद्याविलास प्रेस, गोपालमन्दिर के उत्तर फाटक, बनारस सिटी। apoo OO पृ० ४९ ५९ ॥ श्रीः ॥ मीमांसाकौस्तुभस्य द्वितीयसम्पुटस्थ- विषयसूची॥ द्वितीयाध्यायस्य तृतीयः पाद:- अधिकरणनामानि १ रथन्तराधिकरणम् २ अवेष्टयधिकरणम् ३ आधानाधिकरणम् ४ दाक्षायणयज्ञाधिकरणम् ५ ईषालम्भाधिकरणम् ६ वत्सालम्भाधिकरणम् ७ चरूपधानाधिकरणम् ८ पात्नीवताधिकरणम् ९ अंश्वदाभ्याधिकरणम् १० चयनाधिकरणम् ११ प्रकरणान्तराधिकरणम् १२ फलसंस्कार्याधिकरणम् १३ प्रकरणान्तरप्रत्युदाहरणाधिकरणम् १४ आग्नेयस्तुत्यर्थताधिकरणम् द्वितीयाध्यायस्य चतुर्थः पादः- १ यावजीवाधिकरणम् २ शाखान्तराधिकरणम् तृतीयाध्यायस्य प्रथमः पादः १ शेषलक्षणप्रतिज्ञाधिकरणम् २ शेषलक्षणाधिकरणम् ३ शेषलक्ष्याधिकरणम् ( बादर्यधिकरणम् ) ४ तेषामर्थाधिकरणम् (श्रुतिविनियोगाधिकरणम् ) ५ स्फ्याधिकरणम् ६ अरुणाधिकरणम् ७ ग्रहैकत्वाधिकरणम् ८ चमसाधिकरणम् ९ आनर्थक्यतदङ्गाधिकरणम् १० अभिक्रमणाधिकरणम् ११ उपवीताधिकरणम् - ९९ ११२ १३८ १४१ १५३ १५५ १६९ १७६ १८७ २ विषयसूची। पृ० २४२ १२ वारणादीनां सर्वयज्ञार्थत्वाधिकरणम् २०५ १३ वायधिकरणम् २१० १४ हस्तावनेजनादीनां कृत्स्नप्राकरणिकाङ्गताधिकरणम् २१३ १५ आग्नेयचतुर्धाकरणाधिकरणम् २१६ तृतीयाध्यायस्य द्वितीयः पादः- १ लिङ्गाधिकरणम् (लिङ्गबिनियोगाधिकरणम् ) २२३ २ ऐन्द्रयधिकरणम् २२९ ३ हविष्कृदाह्वानाधिकरणम् २३४ ४ वाग्विसर्गाधिकरणम् २३८ ५ सूक्तवाकाधिकरणम् ६ सूक्तवाकस्य विभज्य विनियोगाधिकरणम् ७ लिङ्गक्रमसमाख्याधिकरणम् २५४ ८ आग्नेय्यधिकरणम् २६० ९ भक्षाधिकरणम् २६८ १० गुणाभिधानाधिकरणम् २७४ ११ इन्द्रपीताधिकरणम् २७६ १२ अभ्युन्नीताधिकरणम् ૨૮૨ १३ पात्नीवते द्विदैवत्यदेवतोपलक्षणाधिकरणम् १४ पानीवते त्वष्टुरदेवतात्वाधिकरणम् १५ त्रिशदधिकरणम् २९३ १६ अनुवषट्कारदेवतानुपलक्षणाधिकरणम् २९५ १७ अनैन्द्राग्नभक्षण मन्त्राभावाधिकरणम् २९८ १८ ऐन्द्राग्नभक्षणे मन्त्राभावाधिकरणम् ३०० १९ भक्षणमन्त्रस्य गायत्रान्यछन्दस्केऽपि विनियोगाधिकरणम् ३०३ तृतीयाध्यायस्य तृतीयः पादः- १ उच्चस्त्वादीनां वेदधर्मताधिकरणम् ( उपक्रमाधिकरणम् ) ३०९ २ गुणमुख्यव्यतिक्रमाधिकरणम् ४ प्रकरणाधिकरणम् ३२९ ५ क्रमाधिकरणम् ६ समाख्याधिकरणम् ३४४ ७ बलाबलाधिकरणम् इति विषयसूची समाप्ता। ૨૮૭ - छन्दस्केऽपिविनियोगः तृतीयाध्यायस्य द्वितीयः पादः ।३०९ न चैवं छन्दोऽन्तराणामपि सत्त्वेन तत्सापेक्षत्वात्समासानु पपत्तिः । प्रकृतौ केवलगायत्रच्छन्दस्कप्रदानाभावेन नियसापेक्ष स्वात्समासोपपत्तेः। न च प्रकृतौ तदभावेऽपि बृहस्पतिसवे तत्सत्वान्न निय- सापेक्षता । (१)यस्तस्तम्भे"त्यादिछन्दाऽन्तराणां सूक्तमुखीये विनियोगेन तदभावात् । न च सोममाध्यप्रदाने गायत्रच्छन्दस्कत्वस्य साक्षात्सम्ब. धेन सम्भवे स्तोत्रादिद्वारकपरम्परासम्बन्धनान्याय्यत्वात् बृहस्पतिसवे च सत्यपि परम्परासम्बन्धेन छन्दोऽन्तरे साक्षात्प्र- दाने तदभावात्केवलगायत्रच्छन्दस्कत्वसत्त्वेनोत्कर्षोपपत्तिः । गायत्रं छन्दो यस्येति -बहुव्रीहिणा साक्षात्परम्परासम्बन्धसाधा. रण्येन गायत्रच्छन्दस्कत्वाभिधानात् प्रकृतौ च प्रकरणाख्य. तात्पर्यग्राहकसचेन परम्परासम्बन्धेनापि निवेशोपपत्तावुत्कर्ष- कल्पनानुपपत्तेः । न चावश्यं परम्परासम्बन्धेन ग्रहणेऽपि सापेक्षता । सत्य. पि स्तोत्रादौ छन्दोऽन्तरे सर्वच्छन्दसां व्यासज्यसाधनत्वाभावेन स्वस्थावान्तरकायें निरपेक्षत्वात् । अतो युक्तः प्राकृत एवैन्द्र- प्रदाने लिङ्गाद्विनियोगः । इद च तदीययाज्यायां गायत्रच्छन्द- स्कता नास्तीति कृत्वा चिन्तयोक्तम् । यदा तु प्रातस्सवनस्येन्द्रप्रदान एव ज्योतिष्टोमे गायत्र- च्छन्दस्कयाज्याम्नानं प्रसिद्धं तदोत्कर्षपूर्वपक्षासम्भवान्नैवेदम. धिकरणम् । अथवा गायत्रच्छन्दःपदं सवनविशेषणमेवाङ्गीकृत्यापवा- दलिप्सया चान्तरैव किं केवलमेव यस्मिन्सवने गायत्रं १. यस्तस्तम्भ सहसा विज्मो अन्तान् वृहस्पतिस्त्रिषधस्थो रवेण । नं प्रत्नास ऋषयो दीध्यानाः पुरो विप्रा दधिरे मन्द्रजिह्वम् ॥ (क्र. सं.४-५-६-१.) इति त्रिष्टुप्च्छन्दस्कानां कचामाम्नानादित्यर्थः ।
मीमांसाकौस्तुभे [ इन्द्रपीताधिकरण- छन्दः तत्रायं मन्त्री ? उतान्यसाहितच्छन्दस्केऽपीति सन्दिा समासबलान्मान्त्रवर्णिकताशकर्मान्तरविधिकल्पनयापि केवल. गायत्रच्छन्दस्कप्रातस्सवन एवायं मन्त्र इति पूर्वपक्षिते समा सस्य पूर्वोक्तरीत्यैवोपपत्तौ विध्यन्तरकल्पने प्रमाणाभावादन्य. सहितगायत्रच्छन्दस्केऽपीति सिद्धान्तः कार्यः । तदा चन्द्रपी. तपदमपि वस्तुतस्सवनविशेषणत्वादुदाहरणम् । सूत्र स्पष्टम् ॥ वृत्तमधिकरणम् ॥ ( अथेन्द्रपीताधिकरणसिद्धान्त:) सू-सर्वेषां त्वैकमन्त्र्यमैतिशायनस्य भक्तिपानत्वा- त्सवनाधिकारो हि ॥ ३-२-४३ ॥ इदानीमिन्द्रपीताधिकरणसिद्धान्तोऽभिधीयते--ऐन्द्रानन्द्र- प्रदानसाधारण्येन सर्वेषामुपदेशेनैव मन्त्रः । इन्द्रपीतपदस्य बहुवीह्यङ्गीकारेण सवनविशेषणस्वात् । तथाहि-यद्यपि तत्पुरुषो लक्षणायापादकबहुव्रीह्यपेक्षया लघुभूतः तथापीह तत्पुरुषोऽपि लक्षणाद्वयापादकत्वादविशिष्टः । तत्पुरुषे हि पूर्वपदे तावदेका लक्षणेत्यविवादम् । अपरा च पीतपदे मुख्यपानासम्भवात् सक्तत्वलक्षणा । यद्यपि चेयं बहुव्रीहावपितुल्या, तथापि तन्मते त्यागविषय. स्य हुताहुतसमुदायस्यैव पीतपदेनोक्तत्वादिन्द्राय त्यक्तस्समुदायो यस्मिन् सवने तस्य प्रातस्तवनस्य सम्बन्धी यः पात्रस्थो यतिक- ञ्चिदेवत्यस्सोमस्तस्यावयवं भक्षयामीत्येवमर्थो नानुपपन्नः । तत्पु. रुषे तु ते इत्यादि पुरोवर्तिनिर्देशस्य पात्रस्थसोमविषयत्वात्तद्वि. शेषणीभूतेचेन्द्रपीतपदेन सक्त समुदायावयवस्य हुतावशिष्टस्य पुन. रपि लक्षणापत्तिः । यद्यपि(१)"चैन्द्राग्ने तु लिङ्गभावादि"त्यधिक १. पू. मी.३-३-३९ ।
तस्य चावय- सिद्धान्तः] तृतीयाध्यायस्य द्वितीयः पादः । रणोक्तरीत्या स्वीकार एव पायातुना लक्ष्यते, वावयविसाधारणत्वात् भक्ष्यमाणावयनिष्ठस्यैव स्वीकारस्य पा. धातुना लक्षणात्तत्पुरुषेऽपि नोक्तदोषापत्तिः, तथाप्यवयवगतस्य स्वीकारस्यावयविस्वीकारोपस्थितिसापेक्षत्वेन विलम्बोपस्थिति. कत्वाच बहुव्रीहितुल्यत्वमस्येव । न चैवमपि बहुव्रीहिनियामकाभावः । प्रकरणविशेषस्यैव तत्वात् गायत्रछन्दआदिपदेन गायत्रं प्रातस्सवनमित्यादितात्प- यग्राहकानुगृहीतसवनैकविशेषणत्वेन पायपाठाच्च । एतेन प्रातस्सवनादिपदसामानाधिकरण्येऽपि प्रातस्सूयत इति व्युत्पत्त्या प्रातस्सवनादिपदस्यैव सोमविशेषणत्वामित्यपा स्तम् । उभयोपपत्तौ प्रकरणविशेषस्यैव नियामकत्वात् , प्रातस्सव. नादिपदानां तु रूढ्या यज्ञभागवचनत्वेनावयवव्युत्पत्तिकल्पनायो- गाच्च । न चैवमपि बहुव्रीहेस्समानाधिकरणवाभावादननुशिष्टत्वम् "सप्तमी विशेषणे बहुव्रीहा"विति ज्ञापकस्य विभक्तिमात्रे बहुव्री. हिद्योतकत्वेनेन्द्रेण यस्मिन्सबने स्वीकृत इत्येवं व्यधिकरणबहुव्री. हेरप्यनुशिष्टत्वात् । वस्तुतस्तु विभक्तिमात्रे द्योतकत्वे 'समानाधिकरणानां बहुव्रीहिरिष्यत' इति कात्यायनवचनस्य निर्विषयत्वापत्तेः सप्तमी. विषय एव तस्य द्योतकता। प्रकृते त्वर्शआद्यप्रत्ययं मत्वर्थीयं भा- वव्युत्पन्नं पीतशब्दोपरि कृत्वा "पीतप्रतिबद्धवत्सा"मित्यादिवत् पी. तमस्यास्तीति पीतः इन्द्रः पीतो यस्मिन्सवन इति व्युत्पत्या समा. नाधिकरण एव बहुव्रीहिरिति न कश्चिद्दोषः । ततश्च वसुमद्गणस्य गायत्रच्छन्दस इन्द्रपीतस्यत्यादित्रिकत्रयं क्रमेण प्रातस्सवनादिवि. शेषणम् , तच्च सोमस्य, स चावयवद्वारा भक्षणस्य,-उक्तविशेषण- युक्तस्य सबनस्य सम्बन्धी यस्सोमस्तस्यावयवं भक्षयामीति । ततश्च मीमांसाकौस्तुभे [इन्द्रपीताधिकरणम् । युक्तस्सर्वेष्वेवानन्द्रेष्वैन्द्रेषु चाचिकारेणैव भक्षमन्त्रः । अस्मिश्च पक्षे वसुमद्णादित्रिकत्रयस्य प्रातस्सवनादित्रये क्रमेणान्वयात्मुक्तवाकवाद्विभज्य विनियोगोऽपि सिद्धो भवति ॥ प्रयोजनं तत्तत्पक्षोपपादनेनैव स्फुटम् ॥ सूत्रं सर्वेषां त्वैकमन्न्यं, यतोऽयं सवनाधिकारः हेतुः पानस्य भाक्तत्वादिति व्याख्येयम् ॥ यदि तु पीतशब्दस्य पूर्वनिपातापत्तिरस्मिन्पक्षे विभाव्यते तदास्त्विन्द्रेण पीतमस्मिन्निति बहुव्रीहिः । तत्रापि तु निष्ठातत्वेन पूर्वनिपातशङ्कायां तु तत्पुरुष एवायं लक्षणया सवनपरः । सोम- परत्वे तैत्तिरीयशाखायामिन्द्रपीतपदस्य प्रातस्सवनादिभेदेन पृथ. क् पाठवैयापत्तेः । लिङ्गादेवेन्द्रप्रदाने प्रातस्सवनादिपदानां विभागोपपत्तेः । अतस्तस्य लक्षणया सवनपरत्वाद्युक्तमेव सर्वत्रै कमन्व्यम् । विभागोऽपि च तैत्तिरीयशाखाक्रमेणैव बोध्यः । याज्ञिकास्तुहमेवामनन्ति ॥ ( इतीन्द्रपीताधिकरणम् ) मीमांसाम्बुनिर्षि ममथ्य सुदृद्वैन्यायाच्चयनिर्जरैः कृत्वा जैमिनिसूत्रमन्दरममुं वेदं तथा वासुकिम् । यद्धालाहलसंज्ञमेव कलितं ग्रन्थान्तरं सजनैः श्रीकृष्णस्य तु भूषणाय स परं यः कौस्तुभाख्यो माणः ।। श्रीरुद्रदेवमूनोः कृतिरेषा खण्डदेवस्य । मीमांसाकौस्तुभाख्या शेषाध्याये द्वितीयाङ्ग्रेः । इति श्रीरुद्रदेवसूनुखण्डदेवकृतौ मीमांसा. कौस्तुभे तृतीयाध्यायस्य द्वितीयः पादः ।।
श्रीः ।
मीमांसाकौस्तुभे
तृतीयाध्यायस्म तृतीयः पादः ।।
प्रथमं उच्चैत्स्वादीनां वेधर्मताधिकरणम् । (१)
(उपक्रमाधिकरणम्)
सू-श्रुतेर्जाताधिकारस्स्यात् ॥३-३-१॥(पू)
( विषयसंशयौ )
ज्योतिष्टोमे-(१)प्रजापतिरकामयत प्रजास्सजेयेति स तपो.
ऽतप्यत, तस्मात्तेपानात्त्रयो देवा अजायन्ताग्निर्वायुरादित्यः, ते
तपोऽतप्यन्त, तेभ्यस्तेपानेभ्यस्त्रयो वेदा असृज्यन्ताग्नेऋग्वेदः,
वायोर्यजुर्वेदः, आदित्यात्सामवेद" इत्युपक्रम्य"उच्चैर्ऋचा क्रियते,
उपांशु यजुषा, उच्चैस्साम्ना, उच्चैर्निगदेनेति श्रुतम् । तत्र किमृचा
ऋङ्मन्त्रेण यत् क्रियते तदुचरित्याङ्गीकारादुचेष्ट्वादिकमर्थप्रका-
शनादिरूपऋगादिमन्त्रकार्याङ्गत्वेन विनियुज्यते ? किं. वा
ऋचा ऋग्वेदेनेत्यर्थाङ्गीकारात्तत्तद्वेदविहितकाङ्गत्वेनेति वि
चार्यते ।
(सङ्गतिः)
अत्र च लिङ्गकल्पकप्रमाणगम्य विनियोगोपयोगिचिन्तनं
पादार्थः । तानि च वाक्यप्रकरणस्थानसमाख्यारूपाणि । न तु
श्रुतिलिङ्गे अपि । यथा चैत तथा बलाबलाधिकरणे वक्ष्यते ।
१.ऐ. बा.५-५-६. ।
३१० मीमांसाकौस्तुभे [उपक्रमाधिकरण - (वाक्यलक्षणम्) तत्र वाक्यं नामाङ्गत्वघटकीभूतपरोद्देश्यत्वकृतिकारकत्वा- न्यतरपदार्थकल्पनानुकूला श्रुतपदसनिधिः । यथा 'धेनुर्दक्षिणा' 'उच्चैर्ऋचा क्रियते' 'प्रयाजशेषेण हवींष्यभिधारयती'त्यादौ। अस्ति पत्राङ्गत्वघटीभूतकर्मत्वकरणत्वादिरूपपदार्थकल्पनानु. कूलत्वं श्रुतपदसनिधेः । कल्पनाशब्देन च ससर्गविधालक्षणा. साधारण्येन शक्तिजन्य पदार्थोपस्थितिभिन्नबोधमानं विवक्षितम् । तेन न श्रुतावतिव्याप्तिः । नापि संसर्गविधया भासमानकरणता- के 'धेनुदक्षिणे' सादावव्याप्तिः। 'प्रयाजशेषेणे'त्यादौ तु तृतीययैव कर्मत्वस्य धातुना च करणत्वस्य लक्षणात् कल्पना स्फुटैव । श्रुतपदसंनिधेश्च योग्यताज्ञानं विना कर्मत्वादिकल्पकत्वानुप- पत्तेः योग्यतारूपलिङ्गानुमापकत्वम् । श्रुतस्यैव पदस्य कर्म स्वादिलक्षकत्वाङ्गीकारेण कर्मत्वादिवाचकपदरूपश्रुतिकल्पक स्वाभावेऽपि च श्रुतस्य पदस्य तत्तात्पर्यकत्वरूपधर्मवैशिष्ट्य रू पेण कल्पनाछुतिकल्पकत्वोपपत्तिः। वस्तुतस्तु एतादृशश्रुतिकल्पनस्य संमर्गविधया भासमानकर- गत्वस्थले वक्तुमशक्यत्वाच्च्छुतितो दौर्बल्यानापत्तेः धेनुदक्षिणा- पदयोश्च सुबन्तयोः परस्परान्वयस्याव्युत्पन्नत्वादावश्यकभाव नान्वयस्य च प्रथमान्तयोर्धेनुदक्षिणापदयोरसंभवादवश्यं धेनु- प्रातिपदिकोत्तरप्रथमया करणत्वं, दक्षिणापदेन च तत्कार्यवृत्ति- कर्मत्वं लक्षयित्वान्वयस्य वाच्यत्वाल्लक्षणे कल्पनाशब्देन लक्ष णाजन्योपस्थितिरेवाभिप्रेता । 'उच्चरित्यादौ निपातादिस्थलेऽपि लुप्तविभक्त्यर्थस्य प्रातिपदिकेनैव लक्षणानाव्याप्तिः । प्रकरणादिस्वरूपं तु तत्र तत्र निरूपयिष्यते । तदिह लिङ्ग कल्पकं वाक्यमुचेष्ट्वादीना विनियोजकम् ।
पूर्वपक्षः] तृतीयाध्यायस्य तृतीयः पादः। यद्यपि च तत्पूर्वपक्षे सिद्धान्ते च तुल्यं तथापि तद्गम्यवि. नियो गोपयोग्युद्देश्यतावच्छेदकविचारणात्पादाभ्यायसङ्गतिः । अत एव पक्षद्वयेऽपि 'ऋचा क्रियत' इत्यस्यैवोद्देश्य समर्पकता। म तु सिद्धान्तेऽपि वेदशब्दस्य । सा तु किं ऋगादिपदवाच्यऋगादि. मन्त्राणामेवोद्दश्यघटकत्वेन ? उत ऋक्पदलक्ष्यवेदस्योद्देश्यवाचक स्वेनेत्येतावत्संदिग्धम् । अनन्तरा तु श्रुतिमात्रकल्पकप्रमाणगम्य विनियोगे विचारिते ऽधुनोभयकल्पकपमाणगम्यविनियोगविचा रावसरात् स्पष्टा । ( पूर्वपक्षः) तत्र विधेयाया उच्चैष्ट्वादिभावनायास्तनिहितानन्यपरे उद्दे ग(१)समर्पक संभवति न तावदर्थवादस्थमेव वेदपदमुद्देश्य. समर्पकमिति वक्तुं शक्यम् । अथ तस्य तत्प्रतिपादकत्वासंभवेऽपि लक्षणातात्पर्य ग्राह कत्वाङ्गीकारागादिपदमेव वेदलक्षणयोद्देश्यघटकसमर्पकमित्यु- च्यते, ततः श्रौतार्थस्यैव ऋगादेरुद्देश्यघटकत्वोपपत्तेर्न तावत्तद- नुपपत्तिलक्षणाबीजम् । नाप्यार्थवादिकवेदपदसमभिव्याहारानुप- पत्तिः । ऋच्यपि वेदत्वस्य पर्याप्तत्वेन व्याप्यधर्मावच्छिन्नसम्ब. धिनोऽपि विधेयस्य व्यापकधर्मवत्सम्बन्धित्वेन स्तुत्युपपत्तेः। नहि वेदत्व मन्त्रब्राह्मणात्मके ग्रन्थे पर्याप्त, द्वित्रिवाक्याध्यायिनि शूढ़े वेदाध्ययनप्रयुक्तदोषानापत्तिप्रसङ्गात् । अस्तु वा तत्तथा, तथाप्यवयवसम्बन्धिनोऽपि विधेयस्य परम्परयाऽवयविसम्बन्ध स्यापि सत्वादपां स्तुत्या वेतसावकास्तुतिववेदपदेन स्तुत्युप पतिः । अस्तु वा वेदपदऋगादिपदयोः परस्परविरुद्धार्थकत्वं तथापि न वेदपदानुरोधेन ऋगादिपदे लक्षणा । अपि तु तदनु १ प्रतिपादक।
- मीमांसाकारतुभ [ उपक्रमाधिकरण- शोधेन वेदपद एव दैकदेशस्य, अर्थवादस्य स्वभावत एव लक्ष. णाभाजनतया तत्रैव लक्षणौचित्यात । न चार्थवादगतस्याप्युपक्रमस्थत्वेनासातविरोधित्वात्या- घस्यमिति वाच्यम् । असञ्जातविरोधित्वं युद्दश्यप्रतिपादकत्वे मियामकमुच्यते ? ऋक्पदलक्षणातात्पर्य ग्राहकत्वे वा ? नाद्या, बेदपदमात्रश्रवणेन विधेयांच्चैष्ष्वादिभावनापदश्रवणं विना तस्पतियोगिकोद्देश्यत्वनिर्णयायोगाचदुपस्थितिवेलायां विरो. घिनोऽपि ऋगादिपदस्योपस्थितत्वेन निर्णय वेलायामसञ्जात. विरोधित्वाभावात् । अत एव विधेयोपस्थितिवेलायामेवोपस्थि- सस्य ऋगादिपदवाच्यस्यैवार्थस्योद्देश्यघटकत्वोपपत्तौ तस्य ल. क्षणातात्पर्य ग्राहकत्वमिति द्वितीयस्त्वनाशक्य एव । अत एव यत्र प्रथमोपस्थितिजन्यनिर्णयोत्तरमेवोत्तरोपस्थिति. स्तत्रैव प्रथमस्यासनातविरोधित्वात्माबल्यमिति (१)"मुख्यं वापू. बचोदना"दित्यत्रैव वक्ष्यते, नत्वत्र । अस्तु वा तत् , तथापि नेहो. पक्रमस्य प्राबल्यम्, परत्वेनापच्छेद न्यायेनोपसंहारस्यैव माव. ल्योपपत्तेः। न च तद्वदिहार्थवादसापेक्षत्वेन पूर्वनिरपेक्षत्वाभावात्तन्या- याप्रवृत्तिः। विधेः स्तुत्यंशे तदपेक्षायामपि वाच्यार्थपरत्वांशे तद. पेक्षाभावात् । अतश्च यथैव 'नेदं रजतं' 'न कलशं भक्षयेदित्यादौ निषेध्यप्राप्त्यर्थं भ्रमरागाधपेक्षत्वेऽपि तद्गतप्रामाण्याद्यनपेक्षत्वा- स्परस्यैव प्राबल्यं तद्वदिहापीति न कश्चिद्विरोधः । मास्तु वेहाप्यपच्छेदन्यायप्रवृत्तिः, तथाप्युपसंहारस्य वि. ध्यन्तर्गतत्त्वाद्विधेश्चार्थवादापेक्षया प्राधान्यात्प्राबल्योपपत्तिः । नहि प्रधानमप्युपसंहारस्थं दुर्बलम् , अङ्गगुणविरोधन्यायस्य १. पू. मी.१२-२-२३.
सिद्धान्तः.] तृतीयाध्यायस्य तृतीयः पादः । 'मुख्यं वापूर्वचादेना'दिति न्यायापवादकत्वात् । अन्यथा "प इष्टया पशुना सोमेने" सत्रोपसंहारस्थस्यापि सोमयागस्य प्रधा- नत्वात्पर्वानुग्रहो वक्ष्यमाणो विरुध्येत । अतश्च सत्यपि विरोधे नोपक्रमस्य प्राबल्यम् । वस्तुतस्तु नेह विरोधोऽपि । वेदत्वस्य प्रत्येकवृत्तितया ऋ- च्यप्याविरोधात् । अत एव यत्राश्वप्रतिग्रहेष्टयादौ विरोधः तत्रोपक्रपानुसारेण दाविषयत्वमिष्टमेव । तस्माहगादिकार्योद्दे- शेनैव ऋगादिवृत्तितयोश्चेष्वादिविधिः । मूत्रं तु ऋगादिशब्दस्य श्रुतित्तत्वलाभाय ऋगादिजात- स्यैवोद्देश्यत्वेनाधिकारस्स्यादिति व्याख्येयम् ।। ( इति पूर्व पक्षः) सू-वेदो वा प्रायदर्शनात ३-३-२ ॥ (सि) ( अथ सिद्धान्तः) नात्र ऋगादिकार्यस्योद्देश्यत्वम् , अपि त्वग्वेदादिविहितस्यै. व, उपक्रमस्थवेदपदविरोधापत्तेः। तथाहि-न तावद्वेदत्वं प्रत्येकत्ति, वाक्यमात्राध्ययने वेदा. ध्ययनमसिद्ध्यभावात् । न हि द्वित्रिवाक्याध्ययनेन वेदपाराय. णादिविध्यर्थमनुष्ठितं मन्यन्ते । यत्तु द्वित्रिवाक्य(१)श्रवणे शूद्रस्य दोषानापत्तिरिति । तत्रो. च्यते-सर्वत्र विधिवाक्ये 'कूश्माण्डं दद्या'दित्यादौ जाते. स्तदवच्छिन्नावय विव्यक्तेश्च साधनत्वं तदाक्षिप्तं च जात्य नव- च्छिन्नानामप्यवयवानाम्। अवयवावयविसाधनत्वयोश्चैकपदोपादा- नादुपादेयस्थले साहित्यस्य विवक्षितत्वान्नावयवोपादानमात्रेण १ वाक्याध्ययने । .
मीमांसाकौस्तुभे [ उपक्रमाधिकरण- शास्त्रार्थनिष्पत्तिः । अत एव साहित्यरूपाङ्गासम्भवे नित्यादौ तन्मात्रोपादानमिष्टमेव । 'कूश्माण्डं न भक्षय'दित्यदिनिषेधस्थले स्वनुवाबगतत्वेन साहित्यस्य विवक्षितत्वादवयवमक्षणेऽपि प्रत्यवायः॥ अतश्चेह शूद्रस्य द्वित्रिवाक्याध्ययनेऽपि दोषः, पाराय- णादौ तु समस्तग्रहणमिति सिद्धं भवति । 'अहरहस्स्वाध्यायम धीयीते त्यादौ तु प्रत्यहं सर्वस्वाध्यायपाठासम्भवादेकदेशग्रहण- मिति विशेषः । तेन मन्त्रब्राह्मणसमुदायात्मके ग्रन्थे पर्याप्तत्वा- द्वेदत्वस्य ऋक्त्वादिनोपसंहारानुपपत्तेः विरोधे सत्युपक्रमस्थत्वा. वेदन्वस्यैवोद्देश्यघटकत्वम् । तथाहि-वेदशब्दस्तावदर्थवादस्थितोऽपि प्रथमोपस्थितत्वा. स्वार्थस्य स्तुतिविषयत्वं बोधयन्नविधेयस्य स्तुत्ययांगाद्विधेय तामेवाक्षिपति । विधियोग्यविधेयान्तरलाभे तु तदपेक्षितोद्देश्यता तद्धटकतां वा। अतश्च तादृशोच्चैष्ट्वादिरूपविधेयलाभावेदपदार्थ उद्दे श्यघटकता प्रतिपद्यते । ततश्च तस्यासञ्जातविरोधित्वात् पश्चादुप- निपतहगादिपदं न स्वार्थस्योद्देश्यघटकतां बोधयितुमलम् । अतश्च यथैव “यो होता सोऽध्वर्यु"रित्यत्रोपसहारस्थम ध्वर्युपदमेव कार्यलक्षणां भजते तथेहाप्युपसंहारस्थमृगादिपदमेव तदनुरोधेन वेदलक्षकम् । अत एव विधेरुद्देश्यघटकापेक्षाया प्रथमो. पस्थितार्थवादोनीतवेदरूपोद्देश्यघटकलाभेऽपि तस्य स्तुतिविषय स्वेनान्वितस्योद्देश्यघटकत्वेनान्वयायोगादुपस्थापकपदान्तरापेक्षा- यां समभिव्याहृतस्य ऋगादिपदस्यैव लक्षणया तदु. पस्थापकत्वं न विरुध्यते । अतश्चापेक्षाक्रमेण ऋगा. दिपदाना प्रमाणान्तरोपस्थितोद्देश्यघटकशाब्दबोधजनकत्वस्यैः वावधारणात् तैः स्वशक्यार्थस्योद्देश्यघटकत्वाप्रमापणात्तद्विषय- सिद्धान्तः ] तृतीयाध्यायस्य तृतीयः पादः । ३१५ म्यते । उत्पचिप्रतिबन्धलक्षणो बाध उपक्रमस्थवेदपदानुरोधेनावग- अत एवायमप्राप्तबाध इति भण्यते । अत एव यत्र परस्यापि सामग्रीसचे स्वविषयप्रमाजनक- त्वमप्रतिबद्धं, तत्र तस्यार्थान्तरे पूर्वसाकाङ्क्षवेऽपि स्वविषयम- मोत्पत्तेरप्रतिबन्धात्तेनैव पूर्वस्य स्वाविरोधिविषयपरत्वमुपक- ल्प्य स्वविरोधिविषये मिथ्यात्वबोधनाद्वाधः, यथाऽपच्छेदादि. स्थले । अत एव स प्राप्तबाध इति भण्यते । नत्वयं प्रकृते ऽस्ति । उत्तरस्य पूर्वविरुद्धविषयकप्रमाजनने विध्यपेक्षाभावेन साम. ग्य भावात् । अतोऽत्रोपक्रमस्यैव प्राबल्यम् । ननु सत्यमुपक्रमापेक्षया तत्प्रतिबद्धात्मलाभस्योपसंहारस्य दौर्बल्यम् । प्रतिबन्ध एव विहोपक्रमस्थेनाप्यर्थवादवादङ्गभूतेन प्रधानभूतस्य विधेरशक्यसम्पादः। अत एव यत्र नाङ्गप्रधा- भावस्तत्रैवैकवाक्यत्वादाविति परस्य प्रथमोपस्थितापेक्षया दौर्ब ल्यम् , यथा 'यो होता सोऽध्वर्युरित्यादौ । प्रकृते तु यथैव 'य इष्ट्ये' त्यादावुपसंहारस्थस्यापि प्रधानभूतस्य सोमस्य धर्मा- नुग्रहस्तथैव विधेरपीति चेत् - सत्यं प्रधानभूतस्योपसंहारस्थस्यापि प्राबल्यं, न विह तथा, प्रधानभूतस्यो चैः क्रियत' इत्यस्य विधेविरोधाभावात् । विरुद्धस्य च ऋगादिपदस्य न विध्यन्तर्भावः । उद्देश्यघ. टकत्वाप्रमापणात् । अतो नायमगगुणविरोधन्यायस्य विषयः। अत एव यत्रोत्तरस्यापि पूर्वाविरोधेन कार्यान्तरपरत्वास- भवः तत्र परस्यापि शक्यार्थपरत्वात्तस्य च प्राधान्यादङ्ग गुणविरोधन्यायापवादक उपक्रमन्यायस्य, यथा 'य इष्ट्ये त्यादौ । वस्तुतस्तु न तत्रोपक्रमन्यायोऽपि । यजेतेति प्रत्ययाभिहि. तसर्वभावनोद्देशेन विविदिषावाक्यवदाशब्दार्थविशिष्टकालावधी - . मीमांसाकौस्तुभ [उपक्रमाधिकरण- (१)पकरणान्तराधिकरणे व्युत्पादितत्वेनेष्ट्यादिपदानामनुवाद मात्र तया तदभावात् । एतेन यत्कश्चिदेतस्याङ्गगुणविरोधन्यायोदाहरणत्वसिद्ध्य थमिष्ट्यादिवाक्ये वाक्य त्रयमेवाङ्गीकृत्योपक्रमन्यायाभाव इत्युक्तं तदपास्तम्। अस्मदुक्तरीसैकवाक्यत्वोपपत्तौ तदङ्गीकारे प्रमाणाभा. वात् । यदपि च तद्रन्थादेकवाक्यत्वे सत्युपक्रमन्यायस्यैव प्राबल्यं तदभाव एव त्वङ्गगुणविरोधन्यायस्येति प्रतीयते तत् "चतुरो मुष्टीनिर्वपती"त्यादावेकवाक्यत्वेऽपि मुष्टीनां प्राधान्यात्सप्तदश- शरावे चरावनुग्रह इत्येवं पूर्वपक्षकरणं सिद्धान्ते चोभयोः क्रि- यान्वयित्वात्प्राधान्याभावोपपादनं दुर्घटं स्यादित्येवमुपेक्षितम् । तस्मात्सत्यप्यङ्गगुणविरोधन्यायस्योपक्रमन्यायापवादकत्वे प्राधा- न्यापह्नवेनैव प्रकृतसिद्धान्तोपपादनं द्रष्टव्यम् । तत्सिद्धमृग्वेदादि. विहितकर्मोद्देशेन तदीयमन्त्रवृत्तित्व सम्बन्धेनोच्चैष्ट्वादिविधिरिति । सूत्रं तु वेदो वोद्देश्यताघटकः प्राये वाक्योपक्रमे वेदश . ददर्शनादिति व्याख्येयम् ॥ सू-लिङ्गाच्च ॥९-३-३ ॥ "ऋग्भिः प्रातर्दिवि देवे ईयते । यजुर्वेदे तिष्ठति मध्ये अह्नः। सामवेदेनास्तमये महीयते । वेदैरशुन्यस्त्रिभिरेति सूर्यः" इत्यत्र द्वितीयतृतीयपादस्थयोदशब्दयोरुपसंहारस्थत्वेऽप्यनेकत्वात्तद नुरोधेनोपक्रमस्थस्याप्येकस्य ऋक्पदस्यैव लक्षणया वेदपरत्वं, चतुर्थपादे वेदैरिति बहुवचनादप्ययमों निश्चीयते । अतश्च प्रकृतोदाहरणे सत्यपि लक्षणाविशेष प्रयुक्तत्वाहगादिशब्दा एव वेदपरा न तु परीयम् ॥ १ पू. मी. को. २-३-११. पृ. ८८ .
सिद्धान्तः ] तृतीयाध्यायस्य तृतीयः पादः । सू-(१)त्रयीविद्या च तदिदि ॥ ३-३-४ ॥ लोकेऽपि च वेदत्रयीविदि त्रैविद्यशब्दः प्रयुज्यते । त्रयीश- दश्च ऋग्यजुस्सामसु प्रसिद्धः । अतश्च त्रयीशब्दस्य वेदत्रये ल. क्षणात् तत्पर्यायाणामृगादिशब्दानामपि तल्लक्षकत्वमवसीयते । अतोऽपि तत्रैव लक्षणा ॥ सू-व्यतिक्रमे यथाश्रुतीति चेत् ॥ ३-३-५ ॥ नन्वेव यत्रैकमेव कर्म वेदत्रयेऽपि समाम्नातं तत्र तदङ्गभूते मन्त्रे तव मते उच्चैष्ट्रवादीनां विकल्पापत्तिः । मम तु ऋचा यजु: र्वेदपाठनिबन्धने व्यतिक्रमेऽपि ऋक्वानपायाद्यथाश्रुत्येव स्व रानुष्ठानान्न पक्षे बाध इति चेत् । सू-(२)न सर्वस्मिन्निवेशात् ॥ ३-२-६ ॥ न समाम्नानमात्रेण स्वरप्राप्तिः । ऋचा क्रियत इत्यत्र कृमा विधानस्यैवोद्देश्य ताघटकत्वेनोपादानमित्येवं वक्ष्यमाण. त्वात् । विधानं च भूयस्त्वादिना एकस्मिन्नेव वेद इति नानेक. स्वरमाप्तिः । यत्रापि नान्यनिर्णायकं तत्रापि कर्मान्तरत्वापत्तेने तदनेकता। अस्तु वा तत्रागत्या विकल्पोऽपि । सर्वस्मिन्निवेशेऽपि न साङ्कर्यमिति मूत्रव्याख्या ॥ सू-वेदसंयोगान्न प्रकरणेन(३)बाध्यते॥३-२-७॥ नन्वस्य ज्योतिष्टोमप्रकरणे पाठाद्वेदधर्मत्वपक्षे प्रकरण १ एतत्सत्रात् पूर्व “धर्मोपदेशाच नहि द्रव्येण सम्बन्धः" इति सूत्रमुपलभ्यते भाष्यशास्त्रदीपिकादिषु । परं तु कौस्तुभा. दर्शेषु सूत्रमिदं अधिकरणान्ते दृश्यते । २ सूत्रस्यास्य 'न सर्वस्मिन्नविशेषात' इति पाठोऽन्यत्र इश्यते । ३ बाध्येत ।
मीमांसाकौस्तुभे । उपक्रमाधिकरण- बाधः प्रसज्येत । ऋगादिवर्मत्वपक्षे हि ऋक्वादिधर्माणा प्रत्येक वृत्तित्वात् ज्योतिष्टोमप्रकरणेऽपि च ऋक्त्वावच्छिन्नजन्यकार्यस्य सच्चायुक्तः प्रकरणानुप्रवेशः । तव तु वेदत्वस्य व्यासज्यवृत्ति वेन प्रकरणस्थवाक्येष्वपर्याप्तत्वात्प्रकरणेनोद्देश्यस्य स्त्रविषय उपसंहारानुपपत्तेर्वाक्यप्रमिनोद्देश्यबाधेनैव प्रकरणानुग्रहो वाच्यः। न चासौ युक्तः । तेन वेदत्वावच्छिन्नविहितकर्ममावोद्देशेन स्वरविधानात् प्रकरणबाध इति चेत्- न; वाक्येन प्रकरणबाधस्येष्टत्वात्। न चैवं कस्या- पि कर्मणो वेदत्वावच्छिन्नविहितत्वाभावात्स्वरविध्यनुपप- त्तिः । द्वौ घटौ रूपवन्तो कर्तव्यावित्यादौ रूपकर्तव्यता. याः प्रत्येकान्वयेऽपि द्वित्वस्य तदितरसंख्यावाच्छिन्नव्या. वर्तनेनैवोद्देश्यतावच्छेदकत्ववद्वेदत्वस्याप्युपपत्तेः । न पत्र वेदत्व. मुद्देश्यविशेषणम् । क्रियते इत्युद्देश्यसमर्पकस्य पदस्य साकाङ्क्ष त्वेन हविरार्तिवदुद्देश्यतावच्छेदकत्वातीतेः । अत एव ऋचा ऋग्वेदेन यत्क्रियते विधीयते तत्रोचैष्व कर्तव्यमिति विध्यध्या हारोऽपि ध्येयः । श्रूयमाणस्यैव प्रत्रयस्य विपरिणामेन विवि. वकल्पनेत्यन्ये । सर्वथा प्रकरणबाघो न दोषाय । सूत्रं वेदसयोगात्सर्वस्मिन्क्रतो निवेशः प्राप्तः प्रकरणेन न बाधितुं शक्य इति तदेव बाध्यत इति यन च दोषायेति व्या. ख्येयम् । बाधेतेति पाठे निवेशमुच्चैष्ट्वादिधर्मः प्रकरणानुरोधेन बाधेतेति यत्तन्नेति व्याख्येयम् ।। सू- -धर्मोपदेशाच्चन हि द्रव्येण सम्बन्धः ॥३-३-८॥ ऋक्र्धमत्वपक्षे साम्नोऽपि 'ऋच्यध्यूढं साम गायतीति वच नेन ऋषयेव गेयत्वात्पुनस्तदर्पत्वेनोचेष्वविधिरनर्थकः । यद्यपि च प्रजापतिहृदयाघनृक्सामविषयकत्वेन सार्थक्य सिद्धान्तः] तृतीयाध्यायस्य तृतीयः पादः। शक्येत तथाप्यल्पविषयत्वं तावत्तदवस्थमेव । वेदधर्मत्वे तु न क. श्चिद्दोषः ।। प्रयोजन स्पष्टम् ॥ इत्युपक्रमाधिकरणं प्रथमम् ॥१॥ अथ द्वितीय गुणमुख्यव्यतिक्रमाधिकरणम् ।।(२) सू-गुणमुख्यव्यतिक्रमे तदर्थत्वान्मुख्येन वेदसंयोगः ॥ ३-३-९ ॥ (पू) (विषयसंशयौ) आधानं तावद्याजुर्वैदिकमित्यविवादम् । तदङ्गत्वेन च बारवन्तीयादीनि सामान्याम्नातानि। तेषां च पाठस्सामवेदे नि- विवादः । अयमेवोत्पत्तिविधि शब्देनाभिप्रेतः । न वन्य आने- यादिवदुत्पत्तिविधिरस्ति । विनियोगविधिरपि च भाष्यकारमते तत्रैव । 'य एवं विद्वानग्निमाधत्त' इत्यनूद्याधान "वारवन्तीयं गाय. ती'ति विधानात् । प्रयोगविधिस्तु सर्वेषामङ्गानां प्रधानविधिविधे यत्वाबाजुर्वेदिक एव । 'उच्चैर्ऋचा क्रियते' इयत्र च करोतिना तृतीयान्तपदसमभिव्याहारादृग्वेदकरणकव्यापारो विधानाख्यो ऽभिधीयते। तत्र किमुत्पत्तिविधानरूपस्य विनियोगविधानरूपस्य वा व्यापारस्याभिधानात् सामसूच्चैस्स्वरः ? उत प्रयोगविधानरूप- व्यापाराभिधानादुपांशुत्वमिति विचार्यते । (सङ्गतिः) उद्देश्यतावच्छेदकघटकविशेषचिन्तनाच्च पादाध्यायसङ्गतिः। ऋगादिपदार्थे निरूपिते तदनन्तरभाविकरोतिधात्वर्थनि- रूपणाचानन्तरा । उत्पत्तिविनियोगविधिवेदानबन्धनस्वरज्ञा- मीमांसाकौस्तुभे [गुणमुख्यन्यतिक्रमाधिकरण- नस्य प्राथमिकस्य बलवत्वापवादाद्वा सा। ( पूर्वपक्षः ।) तत्र प्रयोगविधेर्विनियोगोत्पत्तिसापेक्षस्वात्तयोः पूर्वभावि- स्वेन तनिबन्धनस्वरस्य शीघ्रोपस्थितिकत्वेनासातविरोधित्वा- दलवस्वं पूर्वाधिकरणन्यायेनैव । अत एव प्रयोगविधेस्तत्सापे. क्षत्वान्नापच्छेदन्यायोऽपि । त्रयाणामप्यतेषां सामरूपाङ्गविषयत्वा- भाङ्गगुणविरोधन्यायोऽपि । न हि प्रधानभूत आधानेऽस्माभिरु- पांशुत्वं बाध्यते, येन स आपायेत । किश्वोत्पत्निविनियोगयोः प्रतिपदार्थ भिन्नत्वात्तनिवन्धन- स्वरस्य विशेषविहितत्वमसावकाशत्वं च । अतस्तेनानेकाङ्गप्रधा. नसाधारणप्रयोगविधिनिबन्धनस्वरस्य सामान्यविहितस्यान्यत्र सावकाशस्य च बाध इति प्राप्ते- (भाष्यकारीयः सिद्धान्तः) भाष्यकारेण तावत्प्रयोगविध्याश्रयस्य स्वरस्य बलवत्व- मित्येवं सिद्धान्तितम् । तस्यायमाशय:-स्यादयमुपक्रमप्राब ल्यादिन्यायो यासत्तिविनियोगकालयोस्स्वरापेक्षा भवेत् । तस्य तु कालादिवत्मयोगविधिविशेषणत्वेनापेक्षितत्वात्तनिबन्ध नस्यैव स्वरस्य प्राबल्यम् । यद्यपि चातद्विशेषणत्वाभावे ऽपि तदनन्तरमपेक्ष्यत इत्यु. च्यते तथापि तदपेक्षादशायां प्रयोगस्यैव वा व्यवधानेन पूर्व मुपस्थितत्वात्तनिबन्धनस्वरस्यैव ग्रहणम् । अतश्च यथैव प्रमाण- बलाबलस्य पूर्वमुपस्थितलेऽपि प्रमेयविरोधसापेक्षत्वात्तदालोच. नदशायां प्रमेयबलाबलस्यैव पुरस्स्फूर्तिकत्वेन निर्णायकत्वं एवमिहापि द्रष्टव्यम् । इष्यते चायं न्यायः उत्पत्तिविनियोगयोः परस्परविरोधे ।
सिद्धान्तः ] तृतीयाध्यायस्य तृतीयः पादः । ३२१ किञ्चोपांशुत्वमङ्गधर्मोऽपि समानप्रमाणकप्रधानवृत्तिता. कत्वात्प्रधानप्रत्यासन्नमिति बलवत् । अतस्तेनानीदृशमुच्चैष्ट्वं बा ध्यते । अयं च न्यायोऽङ्गगुणन्यायाद्भिन्न एवेति न तेनापि पौनरुक्त्यम् । सूत्रं तु मुख्य गुणशब्दाभ्यां समानप्रमाणकप्रधानवृत्तिताकं तद्भिन्नं च विवक्षितत्वान्याख्येयम् । वार्तिककाराशयस्तु-न प्रयोगविधिवेदनिबन्धनत्वं स्वर- स्य । प्रयोगविधिहि न कचिदपि वेदे पार्थक्येन श्रुतः । अङ्गवाक्या- न्येव हि प्रधानवाक्यैकवाक्यतामापन्नानि प्रयोगविधिशब्दार्थः । अतश्च परिशेषात्तत्तद्राक्यानां वेदेनैव तस्य वेदविशेषावधारणम् । ततश्च यत्राङ्गप्रधानवाक्ययोरेकवेदस्थत्वं तत्र प्रयोगचेदनिबन्धन- स्वराङ्गीकारंऽप्यविरोधानव कश्चिद्विचारः । यत्रापि नानावेदस्थ- त्वं तवापि प्रयोगविधेः प्रधानांशे ऽन्यवेदीयत्वेनान्यस्वरापादक- स्वादशांशे च वेदान्तरीयत्वेनोत्पत्तिविनियोगविध्यनुकूलस्वर- स्थैवापादनानैव कश्चिद्विरोध इति न विचारावसरः । न चाङ्गस्य प्रयोगविधिवेदनिबन्धनस्वराविषयत्वेऽपि का. लादिवत्प्रयोगान्वयित्वात्स्वरस्य तस्य चाङ्गप्रधानसाधारणत्वा- प्रधानान्वयिस्वरस्यैव वेदत्रयाविहितानुमितविधिविहिताङ्गान्व- यवद्वेदान्तरीयाङ्गेऽपि निवेशोपपत्तेः वेदान्तरीयविनियोगविधि. निबन्धनस्वरबाधोपपत्तिरिति वाच्यम् । प्रधानविधिवेदनिबन्ध नस्य स्वरस्य प्रधानमात्रोद्देशेनैव विहितस्याङ्गेषु कल्पनीयत्वात्तेषु च क्लुप्तस्य वेदान्तरीयाङ्गोत्पत्तिविनियोगप्रयोगविधिवेदनिबन्ध- नस्वरस्य बाधानुपपत्तेः । अत एव ऋग्वेदादित्रयस्य हौत्राध्वर्यचौद्गात्रसमाख्याभि- होत्रादिकर्तृप्राप्लेस्तद्वेदविहिते कर्मणि वक्ष्यमाणत्वाज्ज्योति- ४१ ३२२ मीमांसाकौस्तुभे [ गुणमुख्यव्यतिक्रमाधिकरण - अन्यथा .. टोमाद्यङ्गभूतस्तोत्रादेराधानाङ्गभूतसाम्नां चोद्गातृकर्तृकत्वसिद्धिः । भवदुक्तयुक्तिनिचयेन तत्राप्यध्वर्युकतकत्वाप क्लुप्तकल्प्यत्वेनैव च प्रयोगवचनाश्रितस्य चोदकाश्रितापेक्षया दौर्बल्यमिति श्येने उद्गातृमात्रकर्तृकत्वबाधेन नानाकर्तकत्वसिद्धिः। अत एव यत्र प्रधानसम्बन्धिन एव धर्मस्याङ्गोद्देशेनापि वि. घानात्तेष्वपि क्लृप्तनैव । यथा 'अप्स्ववमथेन चरन्ती'त्यादौ तृती यानिर्देशेन साङ्गस्यैव करणत्वावगमेनाङ्गे प्रधानसम्बन्धिन एच धर्मस्याङ्गोद्देशेनाप्यपां विधानात् तत्र चोदकाश्रितस्याग्नेदी- बल्यमेव । प्रकृते तूपांशुत्वस्य प्रधानमात्रोद्देशेन विहितस्याङ्गे कल्प नीयत्वात्प्रधानप्रयोगविधेश्च वेदान्तरीययागांशे याजुर्वैदिकत्वा. भावेन स्वत उपांशुत्वाप्रापकत्वान्नाधानसाममूपांशुत्वसिद्धिः । अपि तु सामोत्पत्तिविनियोगप्रयोगाणां सामवैदिकत्वादुच्चैष्ट्वादि. सिद्धिरेव स्यादिति । अतो ऽन्यथाधिकरणं वर्णितम्- नाधानसाम्नां सामवेदे विनियोगो वस्तुतस्समस्ति । कृत्वाचिन्तया विचारस्य तु नैव किञ्चित्फलं पश्यामः । अपि तु यजुर्वेद एव । पाठापरपर्योत्पत्तिरेव तु सामवेदे । प्रधानप्रयोगविधिरेव सामांशे उत्पत्तिविध्यनुसारेण सामवैदिकस्मन्नुच्चैवं विधत्ते उत विनियोगविध्यनुसारेण याजुर्वैदिकस्सन्नुपांशुत्वमिति सन्देहः । अस्मिश्च पक्षे करोतेः प्रयोगविधिव्यापाराभिधायित्वस्य निर्णीतत्वात्तदर्थविचाराभावेऽपि चापवादिक्येवानन्तरसङ्गतिः । पादाध्यायसङ्गतिस्तु पूर्ववदेव । तत्रोत्पत्तिविनियोगयोरुभयोरप्येकसाममात्रविषयत्वात्सा. वकाशनिरवकाशसामान्यविशेषभावन्याययोरिहासम्भवेऽपि भा. अतश्च सिद्धान्तः ] तृतीयाध्यायस्य तृतीयः पादः । ३२३ ध्य कारोक्तरीयैवोत्पत्तेः प्राथमिकत्वेनासानविरोधित्ववदुतर- भाविविनियोगोपजीव्यत्वाञ्च नद्विध्यनुमारेणैव प्रयोगविधे!दवि. शेषीयत्वनिश्चयात्तद्वेदनिबन्धन एव स्वरो बलवानिति प्राप्ते-- ( वार्तिककारीयः सिद्धान्तः) सिद्धान्तितम्-यद्यप्युत्पत्तिः प्राथमिकी तथापि न तदानीं स्वरापेक्षा। यदा च प्रयोगविविकाले सा तदा विनियुक्तस्य प्रयोगेन विनियोगविधिरेव पुरस्फूर्तिकः नोत्पत्तिविधिः । वि. नियोगविधिना व्यवाहितत्वाद्विनियोगविधेः फलनिरूवितत्वेनो. त्पत्तिविध्यपेक्षया प्राधान्याच। अतश्च तदनुसारेणैव प्रयोगविधे. वेदविशेषीयत्वानिश्चयात्तद्वेदनिबन्धनस्योपांशुवस्वरस्पर बल. वत्वम् । सोऽयमप्राप्तबाधः । न चैवं तेनैव न्यायेनाध्वर्युक कत्वापत्तिः । न्यायेन तदा. पत्तावपि वचनेनैव वैकल्पिकब्रह्मोद्गातकर्तृत्वाङ्गीकारात् । न चैवं तुल्यन्यायत्वादर्शपूर्णमासाद्यङ्गेष्वपि वेदान्तरोत्प त्तिकेषु विनियोगविधिनिबन्धनस्वरापत्तिः । न्यायेन प्राप्तावपि वचनेन बाधात् । तथा हि-दर्शपूर्णमासयोरेव ताबदङ्गमधानयोस्त त्तद्विनियोग विध्यनुसारेण प्रयोगविधित उपांशुत्वादौ प्राप्ते 'मन्द्रमाज्यभा- गान्तं, परं मध्यमया, उत्तमयानूयाजादीति वचनेन प्राप्तबाधविध. या भागधर्मस्य स्वरस्य विधानात् मन्द्रादिस्वरः तत्रापि विशेषव- चनादिना कचिदुच्चैष्ट्वादीत्येव ध्येयम् । एवं तद्विकृतीनामप्यकाम्यानां प्रधानांशे प्राकृताङ्गांशे त. कार्यापन्नाङ्गांशे च तावत्प्रकृतस्वरस्यैव ग्रहणम् । न च तत्रौपदेशिकनानावेदस्वरस्यैव प्राबल्यम् । “उच्चा क्रियत" इन्यस्यान्यपरत्वेनाप्युपपत्तौ क्लुप्तोपकारमानस्वरस्य मीमांसाकौस्तुभे [ गुणमुख्यव्यतिकमाधिकरण - श्येने कीदिवद्धाधानुपपत्तेः । प्राकृताङ्गांशे औपदेशिकत्वस्याप्य- भावाच्च । अप्राकृताङ्गांशेऽपि च प्राकृतस्यैव स्वरस्य ग्रहणम् । प्रकृतौ स्वरस्य भागधर्मत्वेन तद्भागारम्भकाप्राकृतवृत्तित्वेऽप्यमा- कृतकार्यकारितानापत्तेः। काम्यामु तु "यज्ञाथर्वणं वै काम्या इष्टयस्ता उपांशु कर्तव्या" इति वचने प्रधानपात्रे उपांशुत्वम् । "अप्ववभृथेन चरन्ती" तिवत् तृतीयानिर्देशाभावेन साङ्गेऽस्या- प्रवृत्तेः। एवमस्यापवादकानि विशेषवचनानि द्रष्टव्यानि । एवं ज्योतिष्टोमेऽपि तत्तद्विनियोगविध्यनुसारेण नानावेदस्व. रे प्राप्ते दर्शपूर्णमासमाकृताङ्गविषये श्येनन्यायन प्राकृतेन स्वरेण तस्य बाधः । तत्रापि 'यत्किञ्चित्ताचीनमग्नीषोमीयात्तेनोपांशु चरन्ती'त्पनेनानीपोमीयपशुपाग्भाविपदार्थाङ्गत्वेन विहित मुपा- शुत्वं सामान्यविहितं नानावेदस्वरामिव प्राकृतमपि स्वरं बाधते । तमपि च "यावल्या वाचा कामयेत तावत्या दीक्षीयायामनुब्रू. यात्, मन्द्रं प्रायणीयायां, मन्द्रतरमातिथ्यायामुपांशूपसस्वि"त्या. दिनिरवकाशविशेषवचनविहिताः स्वरा दक्षिणीयादिप्रधानमात्रांशे बाधन्ते, न तु तदङ्गांशेऽपि । 'यज्ञाथर्वणं वै काम्या इष्टयस्ता उपांशु कर्तव्या' इतिवत्प्रधानमात्रोद्देशेन विहितत्वात् । अत एव "उच्चैः प्रवर्येणे"त्यनेना स्ववभृथेन चरन्ती"तिव- साङ्ग एवोच्चैष्ट्वविधानात्साङ्ग एव प्रवर्ये उपांशुत्वबाधकता । न चैवमप्यनीषोमीयप्राग्भावित्वादेवोपसत्सूपांशुवासिद्धे 'रु- पांशूपसत्स्वि'ति पृथग्विधिययम् । उपसत्पदस्य निरव- काशविषयातिरिक्तपदार्थमावोपलक्षणत्वमङ्गीकृत्यौचित्येन दी. क्षणीयादिस्वरप्रशंसार्थत्वेनाप्युपपत्ती भिन्नवाक्यत्वापादकवि- ध्यन्तरकल्पने प्रमाणाभावात् । अत एव नानेन तस्योपसंहार इत्यपि ध्येयम् ।
सिद्धान्तः ] तृतीयाध्यायस्य तृतीयः पादः ।
अग्नीषोमीयादौ तु दर्शपूर्णमासप्रकृति के प्राकृतं स्वर्यमे
व । अतत्पकृतिके तु नानावेदस्वर एव । तद्विनियोगविध्यनुसा.
रात। सुत्यायां त्वङ्गप्रधानसाधारण्येन 'मन्द्रं प्रातस्सबने चरन्ती'.
सादिवचनविहितैस्स वनक्रमेण मन्द्रमध्यमोत्तमस्वरैः प्राकृतानां
सबनीयादी स्तोत्रादौ च नानावेदस्वरस्य बाधः ।
न च प्रातस्सवनादिशब्दानामवयवव्युत्पत्त्या सोमयागा-
भ्यास विशेषवाचित्वान्मन्द्रं प्रायणीयायामितिवत् प्रधानमात्र एव
निवेशश्शयः। चरन्तीति प्रयोगवाचिधातुसमभिव्याहारात्मा-
तस्सवनादिशब्दस्यापि स्वशक्यघटित प्रयोगैकदेशलक्षकत्वाव.
गतेः प्रायणीयादिवलक्षण्यात् ।
यत्तु वार्तिके सप्तमीनिर्देशाद्यावास्तत्वदाधारी मन्त्रस्तत्र
सर्वत्रायं स्वर इति प्रतीतेरङ्गप्रधान साधारण्यं सवनस्वरस्येत्यु.
क्तम् , तत् प्रायणीयादिष्वपि तथाप्रसक्तेमन्त्रस्य चाकाशाधा.
रस्य सवनाधारलानुपपनेरङ्गतासम्बन्धेनैव सप्तम्या व्याख्ये.
यत्वादुपेक्षितम् । सुत्योत्तरकालीनेषु तु दर्शपूर्णमासप्रकृतिकेषु
प्राकृतोऽपूर्वेषु नानावेदस्वर इति स्पष्टमेव । एतेन ज्योतिष्टोम-
विकारा ब्याख्याताः।
यत्वस्यां स्वरचर्चायां वार्तिके प्रकारान्तरेण स्वरानयनं
तदस्थायिभाष्यकारमते स्थित्वा तदुपवर्णनान्न दोषाय । अतश्चा-
न्यत्र स्वरान्तरमाप्तावप्याधानस्याप्युपांशुत्वमपाहतमेव । प्रयो-
जनं स्पष्टम् ।
सूत्रं गुणमुख्यशब्दाभ्यामुत्पतिविनियोगयोर्विवक्षितत्वा-
स्पष्टम् ॥
इति द्वितीयं गुणमुख्यव्यतिक्रमाधिकरणम् ॥ २ ॥
३२६ मीमांसाकौस्तुभ सू-भूयस्त्वेनोभयश्रुति ॥ ३-३-१० ॥ (विषय सायसङ्गतयः) एवं तावद्यत्र वेदान्तर उत्पत्तिर्वेदान्तरे च विनियोगः तत्र विनियोगविधिनिबन्धनः स्वर इत्युक्तम् । यत्र तु वेदा- न्तरे फलप्तम्बन्धश्रवणात् विनियोगः वेदान्तरे च कादिश्रव. णात्प्रयोगः तत्रापि प्रयोगकाल एव स्वरापेक्षणाद्युक्तितौल्येन विनियोगविधेरपि प्रयोगविधितो दौर्बल्यात्प्रयोगविधिनिबन्धन एवं प्रधानांशे स्वर इत्यप्यर्थसिद्धम् । न च स्वरस्य प्रयोगविधावनन्धयः। तथात्वे तदाश्रयस्य म. न्त्रस्य साङ्गप्रधानसम्बन्धापत्तरिति केषां चिदुक्तं युक्तम् । प्रयो- गविधावेवापेक्षाक्रमेणान्वयेऽपि मन्त्रस्य लिङ्गेन प्रधानमात्र एवा. न्वयोपपत्तेः। एवं यत्र वेदान्तर एवं विनियोगो वेदान्तरे चाख्यातसा- मानाधिकरण्यं विना वसन्ते ज्योतिष्टोम इत्येवं रूपेण कालदे. शाद्यन्वयः तत्रापि प्रयोगविधित्वात्तनिवन्धन एव स्वर इति बो. ध्यम् । आख्यातसामानाधिकरण्ये सति प्रकरणान्तरन्यायेन कर्मान्तरत्वापत्तेः। एवं च यत्र प्रयोगविधिपरिचायकं विनियोगविधिपरिचा- यकं वा कालफलादिकं भेदेन वेदयेऽप्यस्ति तत्र विनिगम ना- विरहादिनोभयत्रापि तद्विवित्वानिश्चयात्स्वरविकल्प प्राप्ते यत्रो त्पत्तिस्तद्वेदनिबन्धन स्वर इसविवादम् । अतस्तादृशविषये कोत्पत्तिरिति विचारणीयम् । एवं यत्र कालफलाउनुपादाय उत्पस्यन्वयी गुणः कर्ममात्रं वोभयत्र श्रुतं तत्राप्येवं विचारः । पादाध्यायसङ्गती पूर्व- वत् । प्रासङ्गिकी स्वनन्तरा।
सिद्धान्तः ] तृतीयाध्यायस्य तृतीयः पादः । ३२७ (पूर्वपक्षः) तत्र यत्र तावदुत्पत्यन्वयी द्रव्यदेवतास्तोत्रशस्त्रादिरुभ- यत्रापि गुणस्ववाक्ये श्रुतः, तत्र विनिगमनाविरहेणोभयत्रा. प्युत्पत्तिविधिः । न चैवमुत्पन्नस्योत्पत्य योगात्कौन्तरत्वापत्तिः । पिङ्गाक्ष्ये कहायनीशब्द वत्सहप्रवृत्तयुगपद्विधायकत्वात् । तद्वदेव विशेषणां शविधिफलकत्वान्न वैयर्थमपि । न चैवं वाजिनादिस्थलेऽपि तथापत्तिः । पाठक्रमस्य नि- यामकत्वेन सह प्रवृत्त्यभावात् । एवं यत्रापि कर्ममात्रं वेदद्वये श्रुतं तत्रापि नाभ्यासात् क- मन्तिरत्वम् , वाक्यान्तरोपात्तगुणान्वयार्थत्वेनानन्यपरत्वाभावात् । नापि तदर्थमेकत्रानुवादः । विनिगमनाविरहादुभयत्र लिङ्गादिस. खेनैकत्र तदर्थत्यागापत्तेश्च । अतस्तत्राप्युभयत्रोत्पत्तिविधिः । यत्र तूभयत्रापि कालादिश्रवणं तत्र विध्यन्तराक्षिप्ताया उत्पत्तेवेंदविशेषे नियन्तुमेवाशक्य त्वम् । अतश्च सर्वत्रैवंजातीयके स्वरविकल्प इति प्राप्ते-- (सिद्धान्तः) अभिधीयते--अङ्गबाहुल्येन प्रधानोत्पत्तिविधिनिणयः, सेवकवाहुल्येन राजावस्थाननिर्णयवत् । वस्तुतस्त्वस्य व्यभिचरितत्त्वात्कर्मस्वरूपपरिचायकद्रव्यदे. वनादिसाकल्यसत्त्वस्यैव तन्निर्णायकत्वम् । तत्रापि द्वैविध्ये बहिरङ्गत्वेऽप्यव्यभिचाराद्देवताया एत्र, न तु द्रव्यस्य । अतश्च ता. दृशगुणसत्वे तेनैव विधिनिश्चयादन्यत्र स्ववाक्योपात्तोत्पत्त्यन्व- यिगुणसत्त्वेऽपि तदनुवादेनैवाविरोधिगुणावधानम् । विरोधिगुण- सत्वे तु तेन भेद एव ।
। ३२८ मीमांसाकौस्तुभे न च पिङ्गाक्ष्येकहायनीन्यायः । तद्वदिहैकवाक्यत्वाभावेन स- हप्रवृत्त्य भावात् । अतस्तत्र भेद एव । काल फलादिरूपविध्यन्तरा. न्वयिगुणसत्त्वे तु तस्य प्रयोगादिविधायितामात्रम् । उत्पत्त्यंशे स्वनुवाद एव। यत्र तूभयत्रापि स्ववाक्ये कर्ममात्रश्रवणं वाक्या- न्तरे चैकत्र देवतादिविधिरपरत्र तु तदविधायैवाविरोधिगुणान्त रश्रवणं तत्र सत्य प्युभयत्रापि लिङादिश्रवणात्पिङ्गाक्ष्येकहाय. नीन्यायेन विधित्वे एकत्रैव देवताविधिसमभिव्याहारवत्युत्पत्ति- विधितात्पर्यकत्वम् । अपरत्र तु सत्यप्युत्पत्तिविधित्वे न त. त्तात्पर्यकता । वाक्यान्तरोपात्तगुणविनियोगोपयोगिप्रकरणोजी- बनार्थत्वात् । अत एव न तत्रानारभ्याधीतता । यत्र तु वेदान्तरे लडन्तेन कर्ममात्रमुक्त्वा वाक्यान्तरे गुणोपादानं तत्र पूर्ववाक्यस्य नैव विधित्वम् । अपि तु अनुवादत्त्व मेव गुणविधानार्थम् । तत्र तु तस्यानारभ्याधीततेथे . तावान् विशेषः। वस्तुतस्तु लिङन्तस्थलेऽपि नोभयोर्विधित्वं विहितबिधा- नायोगात् पिङ्गाक्षीन्यायस्यैकवाक्यत्वप्रयुक्तत्वाच्च । अपि तु प- रिचायकतानुरोधेनैकस्य विधित्वमपरस्यानुवादतेति बोध्यम् । अतश्चोत्पत्ति विधिवेदनिबन्धन एव स्वरो बलीयानिति सि. द्धम् । वाक्यान्तरे विरोधिस्त्रसमानगुणश्रवणे तु भेदः । एवमु. भयत्र कर्ममात्रश्रवणेऽपि बोध्यम् । प्रयोजनं मूत्रं च स्पष्टम् ॥ ( वृत्तमधिकरणम् ) सिद्धान्तः] तृतीयाध्यायस्य तृतीयः पादः । ३२९ अथ प्रकरणाधिकरणं चतुर्थम् ॥ (४) सू-असंयुक्तं प्रकरणादितिकर्तव्यतार्थि- त्वात ॥३-३-११ ॥ (विषयसंशयसङ्गतयः ) ‘शेषः परार्थत्वा'दित्यत्र प्रमाणं विना पारार्यस्य वक्तुमश. क्यत्वाच्छुयादिकमपि प्रमाणमुपक्षिप्तम् । तत्र च श्रुतिवाक्ययोलि. ङ्गस्य च(१) तद्भूताधिकरणे(२) सामर्याधिकरणे च स्वरूपेण विनियोजकत्वस्योक्तत्वादङ्गाङ्गितयोरवच्छेदकमात्रं निरूपितम् । इदानीं तु प्रकरणादीनां स्वरूपेणैव विनियोजकत्वमाक्षिष्य समा. धीयते । स्वस्यापि कथञ्चित्वोपयोगित्वात्पादाध्यायसङ्गतिः । अनन्तरा तु पूर्वाधिकरणे वेदान्तरीयशुद्धोत्पत्तिविधेः प्र- करणोज्जीवनार्थत्वेऽभिहिते प्रकरणस्यैवाक्षेपादृष्टव्या । ( पूर्वपक्षः) तत्र न प्रकरणं नाम किञ्चिदस्ति विनियोजकम् । तद्धि य. दि सन्निधिमात्रं भवेत् ततो गोदोहनादेरपि दर्शाद्यङ्गत्वप्रसङ्गः। अथ साकाङ्कत्वमात्रं, ततो विकृतेरपि प्राकृताङ्गविषये सा. काहत्वात् तदङ्गत्वस्य च प्रकरणगम्यत्वापत्तिः । अथ साकाङ्कत्वे सति सन्निधिपठितत्वम् , ततो विकृतावुप. होमादौ तदापत्तिः । अयोभयाकाङ्क्षाविशिष्ट तत्प्रकरणमित्युच्येत, ततो म. त्राणामपि सन्निधौ पाठात्प्रकरणादर्शाद्यङ्गत्वप्रसङ्गः । न चेष्टापत्तिः । अत एव तत्र तत्र मूले तथा व्यवहार इति वाच्यम् । मन्त्राणां सिद्धरूपत्वेन प्रकरणाविषयत्वात् । २. १-४-१५ १.१-१-७ ४२ मीमांसाकौस्तुभे [प्रकरणाधिकरण- अत एव लिङ्गादेव तत्राङ्गत्वम् । प्रकरणं त्वधिकाराख्यं सामा- न्यसम्बन्धबोधकमेव । अस्तु वा कचिल्लिङ्गाभावे तस्यैव स्था- नविधयाङ्गताबोधकत्वं न तु प्रकरणविधया । सिद्धान्ते सिद्धरू- पस्य प्रकरणविषयत्वानङ्गीकारात् । अर्थप्रकाशनादिरूपक्रिया विशिष्टत्वेन क्रियारूपत्वं तु लिङ्गाद्यभावादनाशङ्ख्यमेव । अथेतिकर्तव्यतात्वेन साकातत्वविशिष्टसन्निधौ पाठः प्रक- रणमित्युच्यते, तत इतिकर्तव्यतात्वस्यैवाशक्यानर्वचनत्वम् । तद्धि 'न तावत्प्रकरणेन फले जन्यमाने सहकारिकारणत्वम् , अग्नीषो- मीयादेरप्याग्नेयाङ्गत्वापत्तेः प्रयाजादीनां प्राधान्यापत्तेश्च । न चाग्नेयादीनां फलं प्रति करणत्वेन प्राधान्येऽपि न प्रयाजादीनां तत्पति करणता येन प्राधान्यमाशयेत । अपि त्वपूर्वे एव तेन जन्यमाने सहकारिकारणत्वमिति वाच्यम् । तथात्वेऽपि विकृतौ फलकारणत्वेन सौर्ये ल. ब्धेऽप्यपूर्वकारणत्वेन प्रयाजादिवदाग्नेयस्यापि जनकन्वाविशे- पादतिदेशापत्तेरपूर्वस्य धर्मिग्राहकप्रमाणेन स्वकार्यजनकजन्य- स्वेन क्लुप्तस्य कारणान्तरानपेक्षत्वाच्च । एतेन नापूर्वं प्रत्याग्नेयादीनामिव प्रयाजादीनां कारण- त्वमात्रम् । अपि तु करणत्वमेव स्वस्वावान्तरादृष्टद्वारा । (१)त- तश्चानेयादौ तदभावान्न विकृतावतिदेश इखपास्तम् । (२)का- रणानपेक्षत्ववत्करणानपेक्षत्वस्यापि तुल्यत्वात् । नापि कर- णजनकत्वमितिकर्तव्य तात्वम् , प्रयाजादिषु तस्य बाधितत्वात् , द्रव्यादावपि तत्सत्वेन प्रकरणग्राह्यत्वापत्तेश्च । एतेन करणानुबाहकत्वमितिकर्तव्यतास्वमियपि निरस्तम् । करणतयापारतत्कार्यजनकत्वातिरिक्तस्यानुग्राहकत्वस्य दुर्व- २. कारणान्तरान। - १. अतएवः।
पूर्वपक्षः] तृतीयाध्यायस्य तृतीयः पादः । चत्वात् एवमन्योत्पादकस्वभावव्यापारत्वमेवाख्याताओं न तु या गानुकूलयनत्यम् । तस्य च विशेषापेक्षायां प्रयाजादीनां त खेनान्वयः । अतश्च व्यापारसामान्यरूपभावनापेक्षितविशे- षत्वमेवेतिकर्तव्यतात्वमिति पार्थसारथिमतमपास्तम् । निरुक्ते. तिकर्तव्यताकाङ्क्षालक्षणपकरणस्य निरुक्तसम्बन्धबोधकत्वेऽपि तदघटिताङ्गत्वबोधकत्वानुपपत्तः । प्रयाजानां करणतयापार- सत्कार्यजनकत्वायोगेन करणादीनामन्यपदवाच्यत्वायोमात् । प्रयाजादीनामुक्तविधभावनाविशेषत्वानुपपचेश्च । किञ्च प्रधानवाक्ये ऽपूर्वकल्पनातः पूर्वमाख्यातार्थोपस्थि- तिदशायामन्यपदार्थो न तावदपूर्व सम्भवति। यागस्तु प्रयाजा. धजन्यत्वाद्बाधित एव । न च फलम् ,समप्राधान्यापत्तेः । न च फलं प्रति यागस्यै. व समानपदश्रुत्या करणत्वं प्रयाजादीना तु कारणत्वमेवेति न साम्यमिति वाच्यम् । प्रयाजादीनामपि स्वस्वादृष्टरूपव्यापार सत्वेन करणत्वस्य दुर्निवारत्वात् । यागस्य साक्षात्फलेन समान- पदोपात्तत्वाभावेन भावनाद्वारैव तस्य वाच्यत्वात्तदपेक्षया भावनारूपाणां प्रयाजादीनामेव कारणत्वस्य वक्तुमुचितत्वाच्च । अस्मन्मते तु यागानुकूलस्य यत्नस्यैव भावनापदार्थत्वात्तस्य च यागजननेनैव क्लुप्तप्रयोजनस्य फलकरणत्वकल्पनानुपपत्ति. रिति वैषम्यम् । किञ्चैव प्रधानस्य स्वतो निराकाङ्कत्वादन्यतराकाङ्क्षयैव प्र- कृतौ प्रयाजाद्यङ्गत्वापत्तिः । विकृतौ च भावनाया विशेषापे- क्षायामक्लुप्तोपकारैरपि सन्निहितैरुपहोमैरेव निराकाजुत्वोपप- ते तिदेशकल्पनापतिः। अतश्चेतिकर्तव्यतात्वस्य दुर्निरूपत्वाचद्धटितस्य प्रकर.
- ३३२ मीमांसाकौस्तुभ [प्रकरणाधिकरण- णस्यापि दुनिरूपत्वमिति न तेन प्रयाजादीनां दीधगत्वम् । अपि तु फलाकाङ्क्षायां विश्वजिन्न्यायेन दर्शपूर्णमासफलानुषङ्गेण वा "वर्म भ्रातृव्याभिभूत्या" इत्यर्थवादेन वा फलं पौरोडाशिक- समाख्यया वा तत्साध्याग्नेयाद्यङ्गत्वं सविधानमात्रेण वोपहो. मवत् षड्यागाङ्गत्वमिति प्राप्ते-- (सिद्धान्तः) अभिधीयते-अस्ति प्रकरणं नाम चतुर्थ प्रमाणम् । न च तन्निर्वचनासम्भवः । अवगतफलसम्बन्धसन्निहितवा. क्यममितपदार्थवृत्ति यत्पूर्वप्रमाणानवगताङ्गताकविषये इतिकर्त- व्यतात्वप्रकारकापेक्षणं तस्यैव तत्त्वात् । अस्ति हि दर्शपूर्णमा सादौ प्रयाजादिविषये तत्, दर्शपूर्णमासयोस्स्वर्गादिवाक्यैः फल सम्बन्धस्यावगतत्वात् । अत एव फलसम्बन्धानवगतौ न समिद्यागस्य सत्यपी. तिकर्तव्यताकाङ्गत्वे तनूनपाद्यागाङ्गता । अङ्गिनस्सन्निहितवाक्यम मितेति विशेषणाच नासन्निहितज्योतिष्टोमाद्यङ्गत्वं प्रयाजादी. नाम्।अङ्गस्य पूर्वप्रमाणानवगताङ्गताकेति विशेषणाचन प्रोक्षणा- दीनां श्रुतिलिङ्गवाक्यैरवगतब्रीह्याद्यङ्गभावानां प्रकरणादर्शाध. गतापत्तिः । न चेष्टापत्या तत्पदवैयर्थम् । प्रोक्षणादीनां श्रुयादिनैवा- ङ्गत्वावगतौ ब्रीद्यादिपदे आङ्गितावच्छेदकलक्षणातात्पर्यग्राह- कतामात्रस्य प्रकरणकृत्यत्वात् । तदपि चेदं नेतिकर्तव्यताकाङ्क्षा. लक्षणस्य विनियोजकममाणस्य कृत्यम् । अपि तु सन्निध्यपः रपर्यायस्याधिकाराख्यस्यैव । लोके तस्यैव तथा क्लप्तत्वात् । न चापूर्वसाधनीभूताङ्गत्वस्य श्रुत्यादिगम्यत्वेऽप्यपूर्वाङ्गत्वस्य यागाङ्गत्वस्य वा कथभावात्मकपकरणगम्यत्वोपपत्तिः । अपूर्वा सिद्धान्तः ] तृतीयाध्यायस्य तृतीयः पादः । दिकं प्रति प्रयोज्यत्वमात्रेणैव सम्बन्धोपपत्तावङ्गत्वकल्पने प्रमा. णाभावान्, अपूर्वसाधनीभूताङ्गत्वस्यापूर्वाङ्गत्वं विनानुपपत्तेस्तस्या थसिद्धत्वेन प्रकरणव्यापारानपेक्षणाच्च । अत्र च प्रकरणोत्तरप्र. माणानां.(१)बलाबलाधिकरणवक्ष्यमाणन्यायेन मन्थरमत्तित्वा. दङ्गताबोधकत्वानुपपत्रावाभावात्पूर्व पदं सिद्धानुवादमात्रम्। एवं वाक्यपदमप्येकवाक्योपात्तपदसन्निहिते वृहस्पतिसवा. दावश्यं वाक्यादिप्रमाणेनाइत्वावगमात् तेनैव व्यावृत्तिसि- देस्स्पष्टार्थमेव । “वामदेव्यं गायती"त्यादौ च प्रमाणान्तरेणान. वगताङ्गताकसामविषयेऽवगतफलस्य स्तोत्रस्य सन्निहितस्य स्व- साधनीभूतऋगक्षराभिव्यक्त्यर्थमपेक्षासवात्मकरणेनाङ्गत्वमाप्तौ तव्यात्यर्थमितिकर्तव्यतात्वेति विशेषणम् । तस्य ऋगक्षराभिः उपत्यर्थं सामापेक्षायामपीतिकर्तव्यतात्वेन सिद्धरूपसामविषयेऽ नपेक्षणात् । न चेतिकर्तव्यतात्वमेव दुर्निरूपम् , सर्वत्र ह्यशक्तस्य कर. णत्वायोगात् शक्तिः करणनिष्ठा समस्तीति निर्विवादम् । सा चास्मन्मते पदार्थान्तरमेव दण्डादिधर्मः । धर्मस्य च जन्यधर्मित्तित्वात् जन्यत्वमेव रूपादिवदित्युत्सर्गः । कचि. देव तु बाधकसत्वेन कारणानिर्वचनेऽनादित्वमपि । अत एव दण्डादित्तिशक्तिरनवस्थादोषभीत्याऽनादिरेव । यागादिवृत्ति शक्तिस्त्वपूर्वजननानुकूला उत्सर्गतरस्वकारणमपेक्षमाणा याग- स्यैव कारणत्वकल्पनेऽनवस्थापत्तेस्सनिहितं प्रयोजनापेक्ष प्रयाजादि स्वकारणत्वेन गृहातीति इयमेवाकाङ्क्षतिकर्तव्य- ताकाङ्क्षा । अत एव यावत्कारणलाभमेव तस्याजन्यत्वकल्प. नानानवस्थादोषः। द्रव्यदेवतवामदेवादिसिद्धपदार्थस्य तु न कर. १. पू.मी. ३-३-७.
३३४ मीमांसाकौस्तुभे । [प्रकरणाधिकरण- णवृत्तिशक्तिजनकत्वम् । दृष्टविधयैव करणजनकत्वेन प्रयोजनाना काङ्क्षत्वात् । खस्खनियमादृष्टोपहितस्य तु करणं प्रसजनकत्वा. तनिष्ठशक्तिजनकत्वमिष्टमेव । नियमादृष्टोपहितत्वं च नोदा. सीनस्येति अवान्तरक्रियायुक्तस्य द्रव्यादेरितिकर्तव्यतात्व. व्यवहारोऽपि शास्त्रे एतन्मूलक एव । तत्सिद्धं स्वकरणनिष्ठश- क्तिजनकाकाङ्क्षत्व भावनाया इतिकर्तव्यताकाङ्क्षत्वम् । शक्ति रेव मूले सामर्योदोधपदेन व्यवहियत इति द्रष्टव्यम् । न चैवमपि वामदेव्यादेस्सामर्थ्यादेव स्तोत्राङ्गतावगमादन वगताङ्गताकेति विशेषणादेव व्यावृत्तिसिद्धरितिकर्तव्यतात्व- प्रकारकेति विशेषणानर्थक्वमिति वाच्यम् । सामर्थ्यमात्रस्याति. प्रसक्तत्वात्सामान्यसम्बन्धबोधकप्रमाणाभावाच्चाङ्गताबोधकत्वा नुपपत्तेः। अस्तु वा सूत्रस्वारस्यादितिकर्तव्यताकाक्षत्वमेव प्रक- रणम् । तस्य तु योग्यविषयजिज्ञासायां प्रमाणान्तरानबगतेत्या- दिविशेषणम् । न तु तस्य लक्षणे प्रवेशः ।श्रुयादि सर्वप्रमाणसाधा. रणस्य व्यावर्तकत्वादाकाङ्क्षाया आसत्तिसहकारेणैव कार- णत्वात् ज्योतिष्टोमायनङ्गत्वस्य तदभाबादेवोपपत्तेः सनिहिते. त्यादि विशेषणस्य प्रकरणलक्षणे प्रवेशः । अस्तु वा विकृतावातिदेशिकस्य प्राकरणिकत्वव्यावृत्तये सः । सत्यपि प्रकरणे विनिगमनाविरहेणैव नाङ्गताबोधो भवे- दिति प्रतिबन्धकीभूतविनिगमनाविरहनिवृत्यर्थ फलवत्वविशे- षण, न तु तस्यापि प्रकरणशरीरत्वम् । नस्मादितिकर्तव्यताका क्षत्वमेव सन्निहितमतियोगिकं प्रकरणम् । न चैवमपि विकृतावुपहोमाकाङ्क्षया कल्पितायामितिकर्त- सिद्धान्तः] तृतीयाध्यायस्य तृतीयः पादः । व्यताकाङ्कायामपि प्रकरणत्वापत्तेर्लक्षणे(१) उस्थितत्वमप्याका- साविशेषणं देयमिति वाच्यम् । तस्य स्थानकल्पितस्य सत्यपि प्रकरणत्वे कल्प्यत्वेन शास्त्रे तत्वेन व्यवहाराभावेऽपि अलक्ष्यत्वा भावात् । न चैवमप्युक्तविधेतिकर्तव्यतावस्याङ्गत्वाघटकत्वात्कथम- ङ्गत्वे प्रामाण्यं तदघटितप्रकरणस्येति वाच्यम् । भावनाकरण- निष्ठशक्तिजनकत्वस्य भावनाकारकत्वरूपतयाङ्गताघटकत्वात् । तदयमत्र बोधक्रमः-प्रधानगतेतिकर्तव्यताकाझ्या प्रयाजा- दिगतप्रयोजनाकाङ्क्षासहकृतया प्रयामवाक्यस्य प्रधानवाक्यस्य च स्वस्वावान्तरवाक्यार्थे समाप्तस्यापि महावाक्यैकदेशत्वरूप पदसन्निध्याख्य वाक्यकल्पनया सन्निहितपारिभाषिकपदानां च पदार्थोपस्थितिद्वारा तनिष्ठाश्रुतपदान्तरकल्पनानुकूलयोग्यतानु. मापकत्वाद्योग्यतारूपलिङ्गकल्पनया श्रुतेतिकर्तव्यतात्वचाविपद रूपां श्रुति कल्पयित्वा Sङ्गत्वघटकीभुतेतिकर्तव्यतास्वरूपं कृतिकार- कत्व बोध्यत इति साङ्गत्वबोधे प्रमाणम् । वाक्यैकवाक्यत्वकल्प- नाप्रकारश्च-समिधो यजति इत्थं दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति । तस्मात्सिद्धं प्रकरणस्याप्यङ्गत्वे प्रमाणत्वम् । प्रयोजनं पूर्वपक्षे तुल्यन्यायतया विकृतेरपीतिकर्तव्यताका- झाभावादतिदेशासिद्धिः । सिद्धान्ते तु तसिद्धिरिति द्रष्ट- व्यम् । विध्यन्ताधिकरणे तु आकाङ्क्षणीयालाभनिमित्तका. काङ्क्षाशान्तिरिति पूर्वपक्षोत्थानाद्रष्टव्यम् । सूत्रे संयुक्तपदं प्रमाणान्तरसंयुस्तस्य प्रयोजनानाकाङक्ष- स्वात्प्रयाजगतप्रयोजनाकाङ्क्षारूपसहकारिकारणद्योतनार्थ स. द्विषयपरम् । तच्चेतिकर्तव्यतात्मरूपात्मकरणादङ्गमिति शेषः ॥ इति चतुर्थ प्रकरणाधिकरणम् ॥ ४ ॥ १. उदभूत।
अन्त्यमा अथ पञ्चमं क्रमाधिकरणम् । (५) सू-क्रमश्च देशसामान्यात ॥३-३-१२॥ (सि) ( विषयसंशयसङ्गत्तय:) अत्र क्रमाख्यस्य प्रमाणस्याक्षेपसमाधानम् । पूर्ववदेव पा. दाध्यायसङ्गतिः। अनन्तरा तस्य प्रकरणकल्पनया विनियोज. कत्वात्तदुत्तरमारम्भ इति द्रष्टव्या। (पूर्वपक्ष) तत्र क्रमो नाम सादेश्यस्थानापरपर्यायो द्विविधस्तथा भिप्रेत:--अनुष्ठानसादेवयं पाठसादेश्यं च पि द्वेधा--यथाक्रमपाठस्सन्निधिपाठश्च । त्रयमपीदमुभयाका. झाङ्गमात्राकाङ्क्षा चेति । प्रधानाकाङ्क्षा चात्रेतिकर्तव्यताकाङ्क्षाभि- नाकाङ्क्षा द्रष्टव्या । तस्याः प्रकरणत्वेन स्थानत्वाभावात् । न चास्य पविधस्यापि विनियोजकत्वं सम्भवति । तथा हि-न तावदनुष्ठानसादेश्यस्य तत् , पशुधर्माणा ह्यग्नीषोमीयाङ्ग त्वावगमात्पूर्वमौपवसथ्येऽहन्येवानुष्ठानमित्यत्र प्रमाणमस्ति । स. त्यपि तत्र पाठे प्रकरणेनानर्थक्यतदङ्गम्यायसहकृतेन पशुत्रये. ऽप्यङ्गत्वावगमात्तेषां कालभेदेन तत्र तत्रानुष्ठानप्रतीतेः । न हि प्रयोजनावगमात्पूर्वमनुष्ठानावगतिः । अत एवान्यत्रापि विश्वजिन्न्यायेन स्वर्गकल्पनस्यैवापत्तेः नानुष्ठानसादेश्यस्मरणमस्ति । प्रधानाकाङ्क्षयाऽनुष्ठानसादेश्य त्वन्यत्र सम्भाव्यमानमपि साक्षाद्वाक्यकल्पकत्वेनैव तस्योपप- तौ प्रकरणकल्पकत्वे प्रमाणाभावान पञ्चमप्रमाणेऽन्तर्भवति । एतेनोभयाकाङ्क्षया पाठक्रमोऽपि व्याख्यातः । किश्च यत्र ब्राह्मणे एकमेव प्रधान संहितायां चैकमेव त- पूर्वपक्षः] तृतीयाध्यायस्य तृतीयः पादः। दपक्षितं याज्यानुवाक्यायुगलं वाचनिकाङ्गसन्दंश- रूपाधिकारेणैव सन्निधिरूपेण तत्सिद्धेः सङ्कीर्णत्वम् । यत्राप्यने. कानि प्रधानानि तत्रापि सनिधानरूपाधिकारस्य साधारणत्वन सर्वेषां मन्त्राणां सर्वार्थत्वात् पाठक्रमस्यानिर्णायकत्वम् । न ह्य. धिकारः पाठक्रमाद्दुर्बल इत्यत्र प्रमाणमस्ति, कल्पनाया(१)स्स. मत्वात , प्रत्युत तस्यैवेतरीनष्ठाकासासन्निधिकार्यप्रतिबन्धकत्वस्य निष्प्रमाणकस्म कल्पनेन दुर्बलत्वाच्च केषामधिकार इत्येवं विशे. पजिज्ञासाभावेन स्पष्टस्योपसंहाराविषयत्वाच्च । यत्र दर्शपूर्णमा. सादौ स्पष्टलिङ्गकयाज्याधानाने वाग्नेयादीनां नैराकाझ्यं तत्र परिशेषादेवोपांशुयाजे साकाङ्क्ष(२)सन्निधिना याज्या. नुवाक्यायुगलस्याङ्गत्व सिद्धेः कृतं पाठक्रमेण | एवं निराकाङ्क्षप्रधानसंनिधिस्थलेऽपि परिशेषादेवोपांशु. याजे 'दब्धि मासी'त्यनुमन्त्रणमन्त्रस्यान्यतराकाङ्क्षासहकृताधि कारेण प्रधानाकाङ्क्षा परिकल्प्य विनियोगोपपत्तेः कृतं पाठक्रमेण! एवं संनिधिपाठोऽपि निराकर्तव्यः । साकाङ्क्षप्रधानस्थले तावत्सानाय्यसन्निधिपठितपात्रशुन्धनमन्त्रे साकासबुद्धिविपरि- वृत्तिरूपाधिकारस्याग्नेयादिसाधारणत्वात् तस्य च पूर्वोक्तयु. क्त्या "आनन्तर्यमचोदने"तिन्यायेन च प्रयाजादाविवाव्यवहित. सन्निध्यपेक्षया प्राबल्यान्न केवल सान्नाय्याङ्गत्वम् । किश्चात्र लिङ्गेनैव विनियोगान्न सन्निधेर्विनियोजकत्वम् । तस्य सामान्यसम्बन्धबोधकत्वेनाविनियोजकत्वात् । निराकाङ्क: सन्निधिस्तु विकृतावुपहोमादेर्विनियोजकत्वेनोच्यमानो नैव युक्तः, विकृतेरितिकर्तव्यताकाङ्क्षाया जागरूकत्वात् । न च क्लुप्तप्रयोजनत्वेन प्राकृतैरेव तच्छान्तिः। प्रकृती याव. २ सन्निधानात् । १. स्समानत्वात्।
मीमांसाकौस्तुभे [ क्रमाधिकरण- प्रमाणपमितत्वेनेतिकर्तव्यताकाङ्क्षानिवर्तकत्वदर्शनादिहाप्युपहो- मादिसहकृतानामेव लनिवर्तकत्वात् । पार्थसारथिमते क्लुप्तप्रयोजनत्वस्याकिञ्चित्करत्वेन व्यापार- सामान्यस्य विशेषापेक्षायां सन्निहितोपहोमानामेव तत्त्वेनान्वयो. पपत्तावुभयाकालाया अव्याहतत्वाच्च । तस्मान्न षड्विधस्यापि स्थानस्य विनियोजकत्वमिति प्राप्ते- (सिद्धान्तः) अभिधीयते-क्रमश्च षड्विधोऽपि स्थानापरपर्यायो विनियोः जकः । तथाहि- अनुष्ठानसादेश्यस्थले तावत्प्रकरणेन क्लुप्तप्रयोजनस्य देश. पशुपागस्याक्लप्तमयोजनानां च पशुधर्मादीनां समानदेशेऽनुष्ठा- नादेव तेषां फलवदङ्गत्वम् । न च प्रमाणासिद्धिः। तदनुष्ठानक्रमनियामकस्याग्रीषोमपण. यनविध्यनन्तरपाठस्य सत्त्वेन तदनन्तरमनुष्ठानावगमोपपत्तेः। यद्यपि च पाठस्य स्वविरोधफलबत्ताप्रतिसन्धाने ससनुष्ठा- ननियामकत्वं व्यभिचरितं तथापि तदप्रतिसंधानदशायामुत्प. त्तिवाक्ये इष्टसामान्यस्य भाव्यत्वावगममात्रेणानुष्ठानावगतेः पा ठस्य तन्नियामकत्वात्तदनुष्ठानसादेश्योपपत्तिः । वस्तुतस्त्वङ्गप्रयोगस्य प्रधानवाक्य एव विधेयत्वात्फलवि. शेषानवगमेऽनुष्ठानस्य दुरवगमत्वादेवं वाच्यम्-नानीषोमप्रणयन स्य पशुधः क्रमः, भिन्नप्रयोगपरिग्रहस्य भावित्वात् । अपि स्व"नीषोमाभ्यां प्रणीयाथ पशुतन्त्र"मित्यादिकल्पसूत्रानुसारेण श्रुतिवाक्यमपि क्त्वाप्रत्ययान्तमेवास्तीत्यवगम्यते । सोऽपि च कालविधिरेव । न त्वङ्गाङ्गिभावविधिः । पशुधर्माणां श्रुत्यादिभिः .
सिद्धान्तः] तृतीयाध्यायस्य तृतीयः पादः। पशुसंस्कारार्थत्वेन क्लुप्तप्रयोजनत्वात् । अस्तु चौपवसथ्येऽहनि पशुतन्त्रमियाकारिका श्रुतिः । सर्वथा कालस्य फलावगमनिरपेक्षस्यैव प्रयोगविधायित्वादनु. छानसादेश्योपपत्तिः। नन्वेवमपि पशुधर्माणां श्रुत्यादिमिरेवाङ्गत्वावगमानानुष्ठा नसादेश्यस्य विनियोजकत्वम् । ये त्वारादुपकारकाः पशुपाक- ताङ्गसन्दष्टास्तेषामवान्तरप्रकरणेवाग्नीषोमीयाङ्गत्वसिद्धेः नैव तस्य तत् । ये त्वप्राकृतपशुधर्मसन्दष्टा अप्संदष्टा एव वा, तेषां बल. वता महाप्रकरणेन ज्योतिष्टोमाङ्गत्वस्यैवापातात्कृतमनुष्ठानसा. देश्येनेति चेत्- सत्यमेवम्-तथापि पशुधर्माणां तद्विधावपूर्वसाधनलक्षणा. तात्पर्यग्राहकतामात्रेण विनियोजकत्वव्यवहारो भाक्तो मूळे । वास्तवं तूदाहरणमेवम्-यत्र फलबदेकं समानातं स्थलान्तरे चानारभ्यविधयाऽफलमारादुपकारकं तयोश्चभियोरपि वचनद्वयात्स्वतन्त्रैककालकर्तव्यता तत्र तस्याफलस्य फलबदङ्ग स्वमनुष्ठानसादेश्यादिति । न च तत्राप्यफले विश्वजिन्न्यायादिसर्वप्रमाणाभाव एव तस्योदयात् । अत एव सिद्धमनुष्ठानमादेश्यस्य विनियोजकत्वं तच फलवतो दर्वीहोमत्वेनापूर्ववे उभयाकाङ्क्षया विकृतित्वे त्व. न्यतराकाङ्क्षयेति ध्येयम् । एवं पाठक्रमोऽपि । लोके देवदत्तविष्णुमित्रयज्ञदत्तेभ्यो नीकपीतरक्तवस्त्राणि देयानीत्यादौ तेनान्वयदर्शनात् । न चाधिकारेण सङ्कीर्णत्वादसङ्कीर्णोदाहरणाभावः । स. त्यपि चोपांशुयाजादौ याज्यानुवाक्यादेरनुमन्त्रणादेश्च परिशे. षसिद्धाधिकारेणेवाङ्गत्वावगतिसिद्धावुदाहरणान्तरत्वोपपत्तेः । .
३४० मीमांसाकौस्तुभ [ क्रमाधिकरण- - परिशेषसिद्धिश्चाग्नेयादौ स्पष्टलिङ्गकयाज्यानुवाक्यानुमन्त्र. गैरवरोधात्सुलभैवेति नात्रैवासङ्कीर्णत्वोपपादनाय यतितव्यम् । काम्ययाज्यानुवाक्यास्थले तु लिङ्गस्यैव विनियोजकत्वा. स्क्रमस्य चापूर्वविशेषसम्बन्धित्वलक्षणातात्पर्यग्राहकत्वमावत्वेन विनियोजकत्वं स्पष्टमेव । तस्मादीगुदाहरणं वाच्यम् - यत्र विभिन्नफलकानेकप्रधानानानं ब्राह्मणे, मन्त्रे च तेनैव क्रमेण जपादिमन्त्रोच्चारणविधानं तत्र तत्तद्विधीनां पाठक्रमेणैव तत्तत्प्रधानाविध्युपस्थापकत्वात्तत्तत्प्रधानाङ्गता तत्तन्मन्त्रोच्चारण. स्य पाठक्रमेणैव । न चात्राप्यधिकाराशङ्का । मन्त्रकाण्डे वाचनिकासन्दंशाथ शब्दाद्यभावेन तस्यानुद्भवात् । न चैवं मन्त्रपाठक्रमस्यापि नियमेन विवक्षितग्रन्थान्तरस्था- धानविध्युपस्थापकत्वे प्रमाणाभावादङ्गत्वानुपपत्तेः उच्चारणा. नां विश्वजिन्यायेन वंगफलकत्वापत्तिः। आद्यमन्त्रोच्चारण : घिधितः पूर्वमाद्यप्रधानसम्बन्धितया वाचनिकान्तिमाङ्गाम्नानेन तदुत्तराम्नातायोच्चारणविधेद्वितीयप्रधानविध्युपस्थापकत्वोपपत्त्या तदुत्तरेषामपि तदुत्तरोपस्थापकत्वोपपत्तेः । अत एवाघस्यैव वाचनिकेनाधिकारात्तदङ्गत्वमेव सर्वेषामि- त्यनाशङ्क्यम् । वाचनिकस्यान्तिमत्वेन तदधिकारविच्छेदात् । अत्र जपादिमन्त्रोच्चारणस्यारादुपकारकत्वालिङ्गादिविषयत्वा- भावख्यापनायोदाहरणत्वम् । अत्रापि पूर्ववाहोमादिरूपत्वे । उभयाकाङ्क्षाविकृतिरूपत्वे वन्यतराकाङ्क्षति द्रष्टव्यम् । एवं संनिधेरप्यधिकारापरपर्यायस्य विनियोजकत्वम् । स हि कचिद्वाचनिकाङ्गसन्दंशाथशब्दादिना विभाव्यते । कचित्तं वि. नैव फलवत्प्रधानाविध्युत्तरं अफलस्यान्नानात् । तस्य च विनियोज.
सिद्धान्तः ] तृतीयाध्यायस्य तृतीयः पादः । कत्वोदाहरणं यद्यपि न शुन्धनमन्त्रः मंभवति, तस्य लिङ्ग- विनियुक्तत्वेन संनिधानप्रमाणकविनियोगाविषयत्वात् । अत एव तत्र पाठाव्यवहितसंनिधिरपूर्वविशेषलक्षणातात्पर्यग्राहक एव । न च ब्रीह्यादाविव बुद्धिविपरिवृत्तिरूपाधिकारेण गौणप्रक- रणेन सर्वार्थवावगमानात्यन्तसंनिधेस्सानाय्यापूर्वपात्रसम्म न्धित्वलक्षणा तात्पर्यग्राहकत्वम् । गौणप्रकरणात् सर्वार्थत्वकल्पने आग्नेयादौ पात्रमोक्षणविध्यभावेन मान्त्रवाणकतक्रियाविधिक ल्पनया तदापत्तेलाधवलिप्सया क्लृप्तो यत्र सान्नाय्ये तदीयपात्रे प्रोक्षणविधिः तत्रैव द्वारस्य क्लुप्तत्वेन निवेशौचित्यात् । वस्तुतस्तु द्वारगतक्लृप्तत्वेन सान्नाय्यमात्रविषयत्वाङ्गीकारे पाठसंनिधानस्याकिञ्चित्करत्वापत्तेः आग्नेयादिपात्रमोक्षणस्यापि समाम्नानाच वाचनिकाङ्गसन्देशगम्यावान्तराधिकारेण सांना. ग्यमात्रविषयत्वं तस्य चाभिक्रमणन्यायेन महाधिकारापेक्षया शीघ्रोपस्थितिकवादलवत्वं युक्तमेव । वस्तुतस्तु तैत्तिरीयशाखायां पुरोडाशपात्रपाक्षणे पृथगत. स्यैव मन्त्रस्य पाठादुभयत्रापि मन्त्रस्संनिधिविनियोज्यस्त. थाप्युपहोमानां विकृसङ्गत्वे संनिधिपाठस्योदाहरणत्वं तेषामुक्त- प्रमाणातिरेकेणाविनियोगात् । न च प्रकरणाद्विनियोगः, प्रथमावगतेन क्लुप्तोपकारमाकृता. सम्बन्धनैवेतिकर्तव्यताकाङ्क्षाशान्तः । यद्यपि च प्रकृती वस्तुतो यावत्प्रमाणपमितानामिति कर्तव्यताकाङ्क्षाशामकत्वं दृष्टं तथापि न तत्वेन रूपेण तत् , अपि तु संहितमयाजादित्वेनैव, तेनैव रूपेण जनकतया क्रतूपका. रोदेशेन विहितत्वात् , अतश्च तादृशरूपस्य विकृतावपि सत्वान्न .
मीमांसाकौस्तुभे [ क्रमाधिकरण- प्रकरणोपपत्तिः। वस्तुतस्तु सहितत्वमपि न तन्त्रम्, अपितु प्रयाजादिजन्याह. ष्टत्वमेव । तच्च साङ्गजन्यमेवेति प्रकृतौ साहित्यस्याप्यङ्गत्वान्न तद्विनैकैकेनाङ्गेन तसिद्धिः । गृहमेधीयादौ च आज्यभागयोः परपयुक्ताङ्गान्तरसाहित्यानाक्षेपकत्वेन स्वतस्तदनपेक्षत्वात्त साङ्गत्वोपपत्तेराकाङ्खाशामकत्वोपपत्तिः । विकृत्यन्तरे च प्राक ताङ्गमात्रेणोपहोमानन्वयेऽपि प्रकृती तेषामाकाङ्क्षाशामकत्वस्य क्लुप्तत्वाद्विकृत्याकालाशामकत्वं नानुपपन्नम् । अत एव तत्रोपहोमविधि दृष्ट्वा तदन्यथानुपपत्यैव विकृते. राकाङ्क्षामुपजीव्य तेषां तदङ्गत्वेऽवगते तत्साहित्यस्याप्यङ्गत्वा. वगमान्न प्राकृताङ्गमात्रेण ऋतूपकारसिद्धिः । तस्माद्युक्तमिदमु. दाहरणम् । उभयाकाङ्क्षया संनिधेर्विनियोजकत्वे तु यद्यपि नैवोदाहरणं संभवि। तादृशस्थले सर्वत्र योग्यतारूपलिङ्गस्यैव विनियोजकत्वात् तथापि तस्यापूर्वविशेषोपस्थापनादिना तदुपयोगित्वाद्विनियोज- कत्वव्यवहार इति सिद्धं क्रमस्य विनियोजकत्वम् । क्रमसामान्य लक्षणं तु-इतिकर्तव्यतावेनायोग्यसम्बन्धयोः क्यार्थयोस्सनिधिः । इतिकर्तव्य तात्वेनायोग्यत्वं द्वेधा-कचित्तदा. काङ्क्षाविरहात् , यथा विकृतौ । कचिदव्यापारात्मकत्वाव, यथाऽनुमन्त्रणजपादिमन्त्रादौ । अत्र चैकवाक्योपात्तत्रीहियागा. दिसंनिधेरपि तथात्वप्रसङ्गाद्वाक्यार्थत्युक्तम् । प्रयाजाद्यङ्गवाक्यप्रधानवाक्यार्थयोस्संनिधौ स्थानत्वापत्ति निरासार्थमाद्यविशेषणम् । अनुष्ठानसादेश्यसङ्ग्रहार्थमर्थपदग्रह णम् । अत्रारादुपकारकस्थले तावद्विकृयाकाङ्क्षाया एव कल्प नीयत्वात्मकरणकल्पनसापक्षत्वम् । अनुमन्त्रणादिसिद्धपदार्थ सिद्धान्तः] तृतीयाध्यायस्य तृतीयः पादः। ३४३ स्थले तु प्रधानाकाङ्क्षा तन्नियमादृष्टद्वारा चेतिकर्तव्य तात्वमिति द्वितयकल्पनसापेक्षत्वम् । अत एव सर्वेषु क्रमभेदेष्वयं विभागः निराकासानुष्ठान- सादेश्यस्थले तावत्प्रधानाकाङ्काया एव कल्पनीयत्वात्प्रकरणा- दौर्बल्यं स्पष्टमेव । साकाहानुष्ठानसन्निधेस्वारादुपकारकस्थले यद्यपि न किश्चित्कल्प्यं तथापि पाठसंनिधिमात्रघटितात्मकर- णाद्दौर्बल्यं सुसम्पादमेव । विधिसनिधानस्य पुरस्स्फूर्तिकतया तद्धटितप्रकरणस्य प्राबल्यात् । अत एव तादृशस्थलेऽन्यसमीपेऽनुष्ठीयमानस्यापि पाठसं. निहितफलबदङ्गत्वमेव । अनुष्ठानसंनिहितफलवतस्तु परं सा. कासत्वे प्रसङ्गेनोपकारः । अनयोस्तु द्विविधयोः परस्परविरोधे निराकासानुष्ठानसादेश्यस्य दौर्बल्यं स्पष्टमेव । एवं पाठसादेश्याहिविधादप्यनुष्ठानसादेश्यस्य दौर्बल्यं पूर्वोक्तविधयानुसन्धेयम् । पाठसादेश्ययोस्तु परस्परं विरोधे यथाक्रमपाठस्य संनि. घिपाठापेक्षया दौर्बल्यमेकग्रन्थस्थताघटितत्वेनेतरस्य प्राबल्यात् । भिन्नग्रन्थस्थसंनिधेस्तु वैपरीत्यम् । तस्मात्सिदं षड्विधस्यापि क्रमस्य विनियोगोपयोगित्वम् । सूत्रं प्रयोजनं च स्पष्टम् ।। इति पञ्चमं क्रमाधिकरणम् ।
अथ षष्ठं समाख्याधिकरणम् ॥ ६ ॥ मू-आख्या चैवं तदर्थत्वात ॥ ३-३-१३ ॥ (सि) ( विषयसंशयौ) दर्शपूर्णभासादिषु याजुर्वैदिकपदार्थेष्वाध्वर्यवमिति समाख्या, आग्वैदिकेषु हौत्रमिति समाख्या, सामवैदिकेष्वौद्द्वात्रमिति समाख्या वेद एव प्रयुक्ता। तथा होतृचमसः पौरोडाशिकमित्या. द्यपि पात्रविशेषे दार्शपौर्णमासिकपदार्थेषु च वेद एव प्रयुक्ता । कचिच्च सोमचमस इत्याद्या याज्ञिकप्रयुक्ता लौकिकी । द्विविधापि सा न विनियोगे स्वतन्त्रं प्रमाणमित्याक्षिप्यते । ( सङ्गतिः) पादाध्यायसङ्गती पूर्ववत् । अनन्तरा तु क्रमकल्पकत्वेन तत्सापेक्षत्वात् । (पूर्वपक्षः) तत्र समाख्या तावन्न यौगिकी अध्वर्युकर्तृकलौकिक- पदार्थेषु प्रयोगाभावेनावयवार्थव्यभिचारात् । अतश्चाश्वकर्णप. जादिशब्दवढूढा योगरूदा चेत्यङ्गीकर्तव्यम् । न च रूढत्वेऽप्यपेक्षाबलादाध्वर्यवसमाख्यासादृश्येनाध्व. युसमाख्योपस्थितेयुक्तस्तया कर्तृनियम इति भर्तृ मित्रादिमतं शक्यम् । रूढशब्दसादृश्यमात्रेणोपदेशविषये नियमायोगात् । इतरथा सुतरां कण्वरथन्तरे रथन्तरधर्मातिदेशापत्तेः । स्तु वारुणाधिकरणायुपपादितरीत्या कुत्रापि योगरूढ्यनङ्गी. कारात्समाख्याया यौगिकत्वं तथापि नास्या स्वातन्त्र्येण मान- त्वम् , विध्यभावेन पदार्थमात्रवाचिन्यास्तमाख्याया विनियोज- कत्वायोगात् । अ- सिद्धान्तः] तृतीयाध्यायस्य तृतीयः पादः। ३४५ यद्यपि चाप्राप्तार्थत्वेन तत्कल्पनया प्रयोगविध्येकवाक्य. स्वेन वा तदुपपत्तिः तथाप्पाध्वयंवमित्यादौ प्रकृत्याध्वयुस्तद्धि- तेन पदार्था अन्वाधानादयः । (१)कतादिरूपस्तु सम्बन्धी न कस्यचिद्वाच्य इति कथं तया तनियमसिद्धिः । यदि तु वैयाकरणवत्सम्बन्धसामान्येऽपि शक्तिरियभ्युपग- म्यते तदापि विशेषलाभाभावस्तदवस्थ एव । किश्चैव पदश्रुत्यैव विनियोगोपपत्तेः कृतं समाख्यया । न हि 'सोमेन यजेते'त्यादौ समाख्यया यागस्य (२)करणवामिष्टम् । एतेन यद्यपि मीमांसकमते सम्बन्धस्य संसर्गविधया ल. क्षणया वा भानं तथापि न समाख्यायास्स्वातन्त्र्यम् , पदश्रुतिव- देव वाक्यविधया विनियोजकत्वोपपत्तेः । न ह्या'नेयोऽष्टाक- पाल' इत्यादावनेरष्टत्वादेर्वा विनियोगस्सामाख्यानिक इष्टः । अस्तु बासा (३)स्वतन्त्र मानं, तथापि कथ सा स्थानादिकल्पिका । प्रक- तिप्रत्याभ्यां स्वशक्यार्थस्य सम्बन्धमामान्यस्य चोपस्थितावा- काङ्क्षादिवशेन कर्तृतादिरूपसम्बन्धविशेषपरत्वप्रमापणोपपत्तेः । यापि हि लौकिकी समाख्या तस्यां श्रुतिन्यायेन मूलश्रुतिकल्प. कत्वेऽपि न स्थानादिकल्पकत्वम् । वैदिक्यास्तु न तदपीति दुर्ल- भतरं षष्ठप्रमाणमिति प्राप्ते- (सिद्धान्तः अभिधीयते-समाख्यापि षष्ठं प्रमाणम् । तथा हि- सर्वत्र क्लुप्तावयवशक्तिकं पदं द्विविध-प्रकृतविधौ वा- क्यान्वय्यवयवार्थकं तद्भिन्न चेति । तत्राद्य "निर्मन्थ्येनेष्टकाः पच- न्ति" "प्रोक्षिताभ्यामुलखलमुसलाभ्यामवहन्ती"त्यादौ मन्थन प्रोक्षणादेः पाकावघाताधन्वयात्तत्र बाक्येनैव विनियोगः। द्वि ३. स्वातन्त्र्यण १ कतृताख्यस्तु । २ फलकरणत्व। ४४ मी० को मीमांसाकौस्तुभे [ समाख्याधिकरणम् । तीय 'त्वाध्वर्यवमधीते' 'पैतु होतुश्चमस'इत्याद्यन्यपरविधिमन्त्रार्थवा दादौ । तबाध्वर्वादेः कर्तुभेक्षणस्य चाध्ययनादावनन्वयात्तत्र च विशेष्यमात्रस्य काण्डपात्रादेः प्रकृतक्रियान्वये जाते विशेष्ये विशेषणरूपावयवार्याऽन्वयस्य सिद्धवनिर्देशाचदन्यथानुपपत्त्या अवयवार्थसम्बन्धबोधक वाक्यमाकाङ्खायोग्यतादिवशेन कल्पयि- स्वा कवृतादिरूपस्सम्बन्धः प्रतीयते । तस्य च न वाक्यादि- ना प्रमाणान्तरेण सिद्धिरिति सिद्धस्सामाख्यानिको वि नियोगः। यद्यपि चैतादृशे विषये विध्यन्तरानुपपत्तिसिद्धो मान्त्रवर्णि- क आर्थवादिको वा कर्तृताविधिरित्यपि शक्यते व्यवहतुं तथापि तत्र योगिकोपमान्यथानुपपत्तेरेव कारणत्वात्तयैव व्यवहारः । यत्र तु गाज्ञिकप्रसिद्धिमात्रं तत्र विधेस्तदन्यथानुपपत्तिमात्रक ल्पकत्वाद्युक्त एव तया व्यवहारः । अत्र च समाख्ययावयवार्थ योस्ससर्गविधादिना सम्बन्धे बुद्ध तन्निर्देशान्यथानुपपच्या न स्वतन्त्रविधिः कल्प्यते -अध्वर्युरन्वाधानादि कुर्यादिति; गौरवा पत्तेः । अपि त्वन्वाधानादिवाक्यस्याध्वर्यु वृणीते इत्यध्वर्यु वाक्यस्य चैकवाक्यतासम्पादकपदमात्र-यमध्वर्यु वृणीते सोऽनी- नन्वादधातीति । तच्च द्वयोर्विध्योः कथञ्चिदेकबुद्धिस्थतेत्येव- विधां स्थानकल्पनां विना न सम्भवतीति तत् कल्पयित्वा पूर्ववदेवा- ध्वर्योस्तनियमादृष्टद्वारेतिकर्तव्यतात्व प्रकल्प्यान्वाधानस्य तदा. काङ्क्षारूपप्रकरणकल्पनया द्वयोर्विध्योमहाविध्येकदेशत्वाख्यप दसंनिधिरूपं वाक्यं कल्प्यते । तश्चाध्वर्युमात्रनिष्ठं योग्यतारूपं लिङ्गं प्रकल्प्यैकवाक्यतासम्पादकपदरूपश्रुतिकल्पनाद्युक्तमस्या षष्ठप्रमाणत्वम् प्रयोजनं रूढत्वसम्बन्धानक्गमादिपूर्वपक्षेऽन्वाधानादावध्व. ॥
तृतीयाध्यायस्य तृतीयः पादः।
योनियमाभावः । श्रुत्याद्यन्तर्भावपूर्वपक्षे स्थानाधपेक्षया प्राब.
ल्यम् , सिद्धान्ते नेति द्रष्टव्यम् ॥ सूत्रं स्पष्टम् ॥
इति षष्ठं समाख्याधिकरणम् ।।
,
.
अथ सप्तमंश्रुतिलिङ्गादीनां प्राबल्यदौर्बल्याधिकरणम् ॥
( बलाबलाधिकरणम् )(७)
सू-श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां
समवाये पारदौर्बल्यमर्थविप्रकर्षात ॥३-३-१४॥
तदेवं श्रुत्यादीनां षण्णां विनियोगहेतुत्वमुक्तम् । इहेदानी
तेषां समवाये कस्य दौर्बल्यमिति चिन्त्यते । समवायश्च विरोधे
सत्येकविषयत्वम्, तद्यथा-प्रमाणानां विषयश्शेषः
यत्रैको द्वयोः प्रमाणयोर्विरुद्धानेक(१)शेष्यन्वयित्वाच्च विरुध्यते,
यथा-एकैवैन्द्री श्रुतिलिङ्गयोगार्हपत्येन्द्ररूप(२)शेष्यन्वयित्वात् ।
प्रमाणविषयशेषानेकत्वेऽपि शेषविषयीभूतशेष्ये।
कत्वम् , यथा-एकस्मिन् गाईपत्ये श्रुत्यैन्द्रोशेषः, लिङ्गाच तेनैव
द्वारेण प्रकरणस्थाऽऽग्नेयी, तत्राऽपि शेषिण एवं परम्परया
कथञ्चित्पमाणाविषयत्वाविरुद्धानेकशेषान्वयितया च विरुद्धत्वा-
समवायः । अयं च शेषसमवायत्वेनैव वार्तिके व्यवहतः ।
अस्माभिस्तु सूत्रस्वारस्यात्प्रमाणसमवाय एवं कथंचियवहि-
यते । अत्र च न विरोधमात्रं समवायस्य ससपि विरोधेऽश्वमहि-
पादिवदेकविषयत्वाभावे बलाबलस्याभावात् ।
१ विशेष्यान्वयाच्च। २. विशेष्यान्वयित्वात् ।
वा
.
३४८ मीमांसाकौस्तुभ [ बलाबलाधि- नाप्येकविषयत्वमात्रम् । सत्यप्यरुणया क्रीणातीत्यादावारु. ण्यसाधनीभूतक्रयार्थत्वरूपैकार्थविषयत्वे श्रुतिवाक्यप्रकरणानां विरोधाभावेन तदभावात् । वस्तुतस्तु श्रुतेरेव तत्र विनियोजकत्वं, वाक्यप्रकरणयो. स्तुद्देश्यविशेषणसमर्पणमात्र एव व्यापार इति नैकविषयत्वम् । अतश्च द्वयोः प्रमाणयोरेकविषयत्वमेव समवायशब्दार्थः । तत्र कचिदेकस्मिच्च्छेषे द्वयोः प्रमाणयोर्विभिन्नशेषिविषयत्वेन ज्ञापक- त्वात् । कचिच्च द्वयोश्शेषयोरैकरूप्येणैकशेषविषयत्वेन ज्ञापक- त्वात् । अत्र चैकरूप्यग्रहण वैमृधप्रयाजादीनामेकदर्शपूर्णमासाख्य शेषिविषयत्वेन वाक्यप्रकरणज्ञाप्यत्वेऽपि न समवायः, द्वारक्या- भावात् । अस्मिंश्च स्थलद्वये प्रमाणयोः प्रबलदुर्बलभावे बाध एव । साम्ये वाद्ये समुच्चयः, द्वितीये विकल्प इति द्रष्टव्यम् ॥ यत्र त्वेकस्यैव शेषस्यैकशेषिविषयत्व एव प्रमाणद्वयं तत्र वैषम्ये प्रबलस्यैव विनियोजकत्वं न दुर्बलस्येति । तत्रापि नैक विषयत्वाख्यस्समवायः। अस्तु वा तत्रापि सः। प्रयोजनाभावात्तु न विचारविषयः। साम्ये त्वेकस्यैव विनियोजकत्वमितरस्य तु पुन- इश्रुतित्वेन प्रयोजनान्तरकल्पनम् । विनिगमकाभावे तु द्वयोर. यभ्युदयशिरस्कत्वकल्पनया विनियोजकत्वं कर्मान्तरत्वकल्पनया विषयभेद एव वेति द्रष्टव्यम् ॥ तदिह यथैव विनियोजकममाणानां समवाये बलाबलं चिन्यते, तथा सामान्यसम्बन्धबोधकममाणानामुद्देश्यविशेष- लक्षणातात्पर्य ग्राहकाणां च परस्परं समवायेऽपि बलाबलं चिन्तनीयम् । इदं च तत्र तत्र प्रकटीकरिष्यते । तदिह वाक्या. दिप्रमाणदौर्बल्यस्य तावत्तद्भ्यविनियोगापवादोपयोगित्वात्पा- दाध्यायसङ्गतिरस्पष्टैव । दौर्बल्यं च प्रतियोगिप्रमाणगतमावस्य- करणम् ] तृतीयाध्यायस्य तृतीयः पादः । सापेक्षमिति तनिरूपणमर्थसिद्धम् । एवं च श्रुतिलिङ्गयोः श्रुत्योलिङ्गयोश्च परस्परविरोधे बला- बलविचारः प्रासङ्गिक इति नातीव तत्र पादसङ्गतौ यतितव्यम् । तत्र शेष्यनेकत्वे तावच्छत्योः श्रुतिलिङ्गयोश्चेदमुदाहरणम् - (श्रुतिलिङ्गविरोधोदाहरणम् ) अग्नौ "कदाचन स्तरीरसीत्यैया गार्हपत्यमुपतिष्ठते" इति श्रुतम् । तत्रायं मन्त्रः किं तद्धितश्रुत्या लिङ्गेन चन्द्राङ्गमपि ? किं वा तृतीयया गाईपत्यस्यैवाङ्गमिति सन्देहः । न चास्य विचारस्य प्रासङ्गिकत्वे कथं प्रथमतः कर्तव्यता ? पादसङ्गतस्य विचारस्यैव प्रथमतः कर्तव्यत्वौचित्यादिति वाच्यम् । वाक्यापेक्षया श्रुतिपावल्यस्प पूर्वनिराकरणीयत्वेऽपि श्रुतेः श्रुत्यपेक्षया लिङ्गापेक्षया च प्राबल्ये सिद्ध वाक्यापेक्षया तस्य सुखोपपादत्वेनास्य विचारस्य प्राथम्योपपत्तेः । अनन्तरा तु पूर्वप्रमाणस्वरूपेऽवगते तद्गतबलाबलविचारो. दयात स्पष्ट । तत्र तृतयिाश्रुत्या तावदयं मन्त्रो गार्हपत्याङ्गमित्यविवादमेव । न चात्र मन्त्रविशिष्टोपस्थानस्य गार्हपत्याङ्गत्वेन विधा- नादारुण्यादिवन्मन्त्रस्य धात्वर्थाङ्गत्वमेव तया भवेन्न गाईप- त्याङ्गत्वमिति वाच्यम् । अभिधानस्य मन्त्रसामर्थ्यवलेन समी- पस्थितेश्चामन्त्रणविभक्तिबलेन प्राप्तत्वादिह लाघवेन गार्हपत्यो- देशेन मन्त्रमात्रस्यैवेन्द्रियकामवाक्यवन विधेयत्वात् । अतश्च युक्तमेव तृतीयया तदङ्गत्वेन विनियोगः । द्वितीयायाः श्रुतित्वपक्षे च तथापि सः । इन्द्राङ्गत्वमपि च तद्धितश्रुत्या । स हि प्राधान्येन प्रकाश्यत्वरूपं देवतात्वं वदन्मन्त्रं प्रतीन्द्रस्य प्राधान्यमभिधत्त इति अङ्गत्वघटकीभूतपरोद्देश्यताबाचित्वायुक्त एव तद्धितश्रुत्या मीमांसाकौस्तुभे [ बलावलाधि- - - पदभुसा वेन्द्राङ्गत्वेन विनियोगः । न हि(१) कारकविभक्तरेव कचिदधिको विशेषः । न चन्द्रस्य चयने विनियोगाभावादनुद्देश्यत्वं, तत्र विनि योगाभावेऽपि तदङ्गभूतेन्द्रदेव से ऽविहितमन्त्रके होमे इन्द्रस्योप- योगसम्भवेनोद्देश्यत्वोपपत्तेः । अतश्च समुच्चयेनैवोभयागत्वम् , प्रतिप्रधान गुणावृत्तेयुक्तत्वेन विकल्पस्याप्रमक्तत्वात् । वस्तुत. स्तूपक्रमस्थत्वाचद्धितश्रुतेरेव पावल्यमिति भाले-- प्राधान्येन प्रकाश्यत्वस्य तद्धितार्थत्वेऽपि प्राधान्यस्य विशेष्य- तया तद्धितादनुपस्थितेन तस्य वस्तुतो मुख्यश्रुतित्वलक्षणाक्रान्त त्वम्। प्राधान्यमपि च नाङ्गत्वघटकीभूतप्सितत्वाख्य तदर्थः, अपि तु भावनावच्छाब्दबोधे विशेष्यत्वमात्रम् । अतश्चोक्तप्राधान्येने प्सितत्वाख्यं तल्लक्षयित्वा विनियोगस्तद्धितश्रुसा बोध्येतेति कारकश्रुतितो दौर्बल्यम् । अन्यानि च दौर्बल्यकारणान्यैन्यधि- करण एवं निरूपितानि । न चैवं तेन पौनरुक्यम् । तत्र गौणसामर्थ्यस्य श्रुतिसहा- यत्वमात्रनिरूपणात् । तत्सिद्धं श्रुत्योविरोधे कारकश्रुतेर्बलीय- स्त्वमिति ॥ तथा कारकश्रुत्योरपि विरोधे 'आग्नेयं चतुर्धा करोति' 'पुरोडाशं चतुर्धा करोती'स्यादौ बलाबलं सामान्यविशेषभावा- दिना द्रष्टव्यम् । तथा शेषानेकत्वे विजातीयश्रुत्योर्विरोधे 'सोमेन यजेते'. यादौ पदश्रुसपेक्षया कारकश्रुतेरुपजीवकत्वेन दौर्बल्य भावार्था- धिकरणे व्याख्यातम् । समानजातीयश्रुत्योविरोधे एक- स्मिन्नेव पदहोमे सप्तमीश्रुत्या पदेनाहवनीयस्य बाधः । १ विभकावेव कश्चिदधिकः ।
करणम् ] तृतीयाध्यायस्य तृतीयः पादः । ३५१ तदेवं श्रुत्योर्विरोधे बलाबल वर्णितम् । श्रुतिलिङ्गविरोध तूभयोरपि समबलत्वमेवेत्याशङ्कते- तथाहि-मन्त्रे इन्द्रपदस्य मुख्यसामर्थ्यादिन्द्राङ्गत्वयोग्यतारूप लिङ्गं तावत्प्रत्यक्षमेव । न च तस्याङ्गत्ववाचिपदरूपश्रुतिकल्पनसापेक्षत्वेन दुर्बलत्वम् । तस्कल्पनं विनापि तस्यास्तदङ्गत्वबोधकत्वोपपत्तेः। अतश्चोभ- योरपि तुल्यबलत्वात्पतिप्रधानावृत्तेाय्यत्वेनोभयोरपि समुच्च. येनाङ्गता। अस्ति चात्र सामान्यसम्बन्धबोधकं प्रकरणम् । इन्द्रस्य च विनियोगः पूर्ववदेव द्रष्टव्यः । किञ्च यद्यपि लिङ्गस्य श्रुविकल्पकत्व भवेत् तथाप्यवगते. ऽपि मन्त्रस्य गाईपसाङ्गत्वे इन्द्रस्य स्मारकाकायैव सहकृतं लिङ्गं मन्त्रस्येन्द्राङ्गताबोधकम् । इष्यत एव हि प्रवळप्रमाणावगत प्रकृतिसम्बन्धस्यापि प्रयाजादेरन्यतराकांक्षयैव विकृतिसम्ब धित्वम् । न चोपायान्तराक्षेपेण स्मारकाकाङ्क्षाशान्तिः । विकृताव पि दृष्टाङ्गिविषये तुल्यत्वात् । किञ्च श्रुतेरप्यसमर्थविनियोगायोगेनास्त्येव स्वावगताग- तापर्यवसानार्थ गौणसामर्थ्यापेक्षा। तस्य च मुख्यसामर्योपजी. वित्वेन श्रुतेरपि वपर्यवसानार्य मुख्यसामोपजीवित्वात्तस्य प्राबल्यमेवावगम्यते । अतश्चैन्यधिकरणपूर्वपक्षन्यायेन कथ. चिछुतिरेव व्याख्येया। सर्वथा न गार्हपसमात्राङ्गमयं मन्त्र इति प्राप्ते- अभिधीयते-न तावल्लिङ्ग(१) स्वत एच प्रमाणं 'वेदो. ऽखिलो धर्ममूल'मिति स्मृत्या वेदस्यैव क्लुप्तस्यानुमानिकस्य वा १. स्वतः प्रमाण.
३५२ मीमांसाकौस्तुभे [ बलाबलाधि- धर्मबोधकत्वनियमादर्थाध्याहारनिराकरणाच । किञ्च विहितत्वघटितमत्वं न विधिकल्पनां विना निर्व- हति । स च लिङगदिशब्दैकगम्य इत्यवश्यं लिङादिशब्दस्तावत् कल्पनीय एव । अतश्च शब्दोपस्थितस्यैव शब्देनान्वयात्कृतिका- रकत्वादिवाचकस्यापि पदस्य कल्पनेति न लिङ्गं खतः प्रमाणम् । अत एवाङ्गत्ववाचिपदकल्पनानुकूला योग्यता श्रुतपदार्थनिष्ठा लिङ्गमिष्टमित्युक्तम् । किश्च यद्यप्यङ्गत्वकल्पनानुकूलैव सा लिङ्गमित्याश्रित्य लिङ्गं श्रुति च कल्पयेत्तथापि श्रुतिस्थले श्रावणप्रत्यक्षेण विधि- वाक्ये ऽगते झटित्येवाङ्गत्वरूपार्थावगतिः । लिङ्गस्थले तु प्रत्य- क्षेण मन्त्रपदेऽवगते तेन शक्यार्थावगमोत्तरं तदङ्गत्वयोग्यता- ज्ञानात्तदङ्गत्वप्रतीतिरिति दौर्बल्यम् । यखवगतेऽपि श्रुत्या विनियोगे इन्द्रस्य स्मारकापेक्षयैवास्य विनियोग इति, तन्न स्मारकाकांक्षाया अविशेषोपस्थित- ध्यानाद्युपायान्तराक्षेपेणापि निवृत्तिसिद्धेः एतन्मन्त्रनियमे प्रमा. णाभावात् । विकृतिस्थले तु देवतारूपाङ्गापेक्षाया आक्षेपेणानिवृत्त साश्यविशेषोपस्थितप्राकृताङ्गनियमो नायुक्तः। पदपि श्रुतेरप्यसमर्थविनियोगायोगेन सामर्थ्यापेक्षणमित्यु. क्तं तद्योग्यतानिश्चयस्य श्रुतशब्दजन्यशाब्दबोधे कारणत्वाभा- वादयोग्यतानिश्चयाभावमात्रेण श्रौतविनियोगोपपचे उत्तरकालं तदपेक्षायामपि विनियोगप्रमारूपे कार्येऽविपकर्षाभावाल्लिङ्गो- पजीवित्वाभावेन परास्तम् । तस्मात् श्रुत्यैव गार्हपत्याङ्गत्वेन मन्त्रविनियोगः । नन्वङ्गत्वं नाम परोद्देशप्रवृत्त कृतिकारकत्वेन विहितत्वम्। तत्र परोद्देश्य ताकृतिकारकत्वयोश्रीतत्वेऽपि परस्परसमभिव्याहृ- करणम् ] तृतीयाध्यायस्य तृतीयः पादः। तगार्हपत्यप्रातिपदिकगम्यत्वेन वाक्यीयत्वाल्लिङ्गविरोधस्य तत्कृ. तत्वेन श्रुतिकृतत्वाभावात्कथमत्र लिङ्गं बाध्यमिति चेत्-न; एवमपि विधिवाक्यत्वेन तस्य मन्त्रगतलिङ्गापेक्षया प्राबल्यात् वक्ष्यते हि 'यद्यप्यन्यदेवत्यः पशु रिसादौ तत् । वस्तुतस्तु यथैव नायं केवलश्रुतिविरोधः, एवं न केव. लवाक्यविरोधोऽपि । गाईपत्यपदसमभिव्याहारस्यैन्यधिक रणपूर्वपक्षन्यायेन समीपस्थितिविशेषणत्वादिनाप्युपपत्तेः । अतश्चायमुभयविरोधोऽपि सन् कृतिकारकत्वादेर्भावनान्वयि. तया प्राधान्यात्तद्वोधकतृतीयादेरपि प्राधान्यावगतेः 'प्रधा. नेन व्यपदेशा भवन्तीति न्यायात् श्रुतिविरोध एवेति भण्यते, न वाक्यविरोधः । अत एव यत्र वाक्यमेव परस्य कृतिकारक- स्वादेश्च गमकं तत्रैव तद्विनियोगस्तेन प्रमाणान्तरविरोधश्च । प्रकृते तु केवलं श्रुतिलिङ्गविरोध एवेति युक्तस्तया तस्य बाधः। बा- ध्यलिङ्गविषयोऽपि चात्र केवलमिन्द्रपदमेव । अवशिष्टपदानां तु तदेकवाक्यतयेन्द्राङ्गत्वान्न तद्विषयत्वम् । अतश्च तदंशे श्रुति- वाक्यविरोध एव । वस्तुतस्तु श्रुत्येन्द्रपदस्य गाईपसाङ्गत्वे प्रमापिते अवशिष्ट- पदानां तदेकवाक्यतया गाईपत्याङ्गत्वस्यैवापचेन तदंशे श्रुतेापार इति सा वस्तुतस्तात्पर्यगत्येन्द्रपदमात्रविषयिण्येवेति ध्येयम् ॥ एवमेकस्मिञ्च्छषिणि शेषानेकत्वस्य श्रुतिलिङ्गविरोधोदा- हरणं-एकस्मिञ्च्छेषिणि गार्हपत्ये चयनाधेयतासम्पत्यर्थ स्मर- णापेक्षे प्रकरणपठितासंयुक्ताग्नेय्या लिङ्गेन प्राप्नुवन्त्याः श्रुति- प्राप्तैन्या बाध इति द्रष्टव्यम् । तदा चानेयीमन्त्रस्य सामान्यस- म्बन्धसत्त्वेऽन्यत्राप्युत्कर्षः, नो चेजपादौ विनियोग इति ध्येयम्।। ४५ मी० कौ० मीमांसाकौस्तुभे [बलाबलाधि- (श्रुतिवाक्यविरोधोदाहरणम् ) श्रुतिबाक्ययोर्विरोधे- 'आग्नेय' इत्यादौ सम्बन्धसामान्ये तद्धितमभ्युपगम्य वाक्यादग्नेरष्टाकपालाङ्गत्वं श्रुत्या देवतातद्धि- तत्वादवगतेन यागाङ्गत्वेन बाध्यते । सर्वत्र चोत्तरोत्तरप्रमाण- स्य पूर्वपूर्वप्रमाणकल्पकत्वावश्यकत्वस्य तत्तत्स्वरूपनिरूपणाव- सर एवोक्तत्वाद्दौर्बल्यम् । वार्तिके वारुण्यस्य वाक्यीयमेकहाय- भ्यङ्गत्वं श्रौतन क्रयाङ्गत्वेन बाध्यत इत्युक्तम् । तदेकहायनीसम्ब. न्धस्याव्युत्पन्नत्वादव्युत्पन्नपदसन्निधेर्वाक्यत्वानुपपत्तेरुपेक्षितम् । शेषानेकत्वे तु क्रमप्रकरणादिनाग्निष्टोमस्तोत्राङ्गतामापन गिरापदव्यतिरिक्तपगाकवाक्यतापन्नगिरापदस्थापि तदेक. वाक्यत्वेनाङ्गत्वप्रसक्ती 'ऐरं कृत्वोद्गेय'मिति विकारार्थत- द्वितश्रुत्या इरापदविधानम् । यद्यपि नेयं मुख्या श्रुतिस्तथापि गौणथुतेरेवोदाहरणम् । मुख्यश्रुतेस्त्वन्यन्मृग्यम् । वस्तुतस्तु गिरापदव्यतिरिक्तप्रगाधस्येव गिरापदस्यापि तेनैव प्रमाणेन स्तोत्राङ्गत्वोपपत्ते यमेकान्तेन श्रुतिवाक्यविरो- धः । किन्तु यत्र तद्व्यतिरिक्तपदानां लिङ्गेन स्वार्थागत्वं तस्य च देवस्य त्वादिपदवद्वाक्येनैवेतरपदार्थाङ्गत्वं तत्र तत्स्थाने पदा- न्तरस्य श्रुत्या विधाने दष्टव्यम् । (श्रुतिप्रकरणविरोधोदाहरणम् ) श्रुतिप्रकरणविरोधे-एकविंशत्याद्यनुवचनानां प्रकरणादर्शा- द्यङ्गस्वप्रसक्ती प्रतिष्ठाकामस्येति गौणषष्ठीश्रुत्या पुरुषार्थत्वम् । द्वादशाहीनस्येति न श्रुतिपकरणविरोधोदाहरणम् । अपि तु श्रु. तिक्रमविरोधोदाहरणमेव, द्वादशत्वस्य सिद्धरूपत्वेन प्रकरणा. विषयत्वात् ।
करणम् तृतीयाध्यायस्य तृतीयः पादः। . यवत्र राणककारेण प्राकृतागानुवादेन विधानादस्यापि करणविषयत्वमित्युक्तम् । तदहीने उपसदामातिदेशिकत्वेऽपि ज्यो. तिष्टोमे औपदेशिकत्वात्तदनुवादेन विहितस्य द्वादशत्वस्य ज्यो. तिष्टोमप्रकरणविषयत्वानुपपत्तेरुपक्षितम् । शेषानेकत्वे तु प्रतिष्ठाकामदर्शपूर्णमासप्रयोगे प्रकरणात्पा- श्चदश्यानुवचनेजस्वेन प्रसक्ते षष्ठीश्रुत्यैकविंशत्यनुवचनविधा. नम् । यद्यपि चात्र नित्यानुवचनस्याग्निसमिन्धनाङ्गत्वमेव वा- स्तवम् , न तु दर्शाद्यपूर्वीयप्रयोगाङ्गत्वमपि तस्योद्देश्यतावच्छेद- कत्वेनान्यथासिद्धेः। प्रतिष्ठाकामीयत्वं तु नोद्देश्यतावच्छेदकमपि । एवं काम्यानुवचनस्यापि श्रुखा प्रतिष्ठाङ्गत्वमेव, न तु तत्का- मीयदर्शादिप्रयोगाङ्गत्वं प्रमाणाभावात् , तथापि सम्बन्धमात्रेऽङ्गत्व- मुपचर्य वार्तिककारेणोदाहृतमित्युदाहृतम् । वस्तुतस्तु युक्तमुदाह- रणमूह्यम् । एवमन्यत्रापि द्रष्टव्यम् ।। (श्रुतिक्रमविरोधोदाहरणम् ।) श्रुतिक्रमविरोधे-परिव्याणादियूपधर्माणामनुष्ठानसादेश्या- दग्नीषोमीयाङ्गत्वे तदीययूपाङ्गत्वे वा प्रसक्ते द्वितीयाश्रुया यूप- संस्कारार्थत्वावगमात् यूपस्वरूपे चानर्थक्याभावेनापूर्वसाधनत्वल. क्षणातात्पर्यग्राहकदुर्बलप्रमाणापेक्षाया अभावादनुवादस्य संनि- हितगामित्वसिद्धर्थं तदपेक्षणेऽपि च यूपस्योपदेशातिदेशाभ्या. मवगताङ्गभावस्याप्यग्नीषोमीयप्रयोगान्तःपातोत्पत्तित्वाभावेन भि. नकालानुष्ठितस्य ज्योतिष्टोमसम्बन्धिसर्वपचपागार्थ व्यक्तिसा- धारणत्वाचगतेस्तदुद्देशेन विहितानां परिव्याणादीनां सर्वपशु पागसम्बन्धियूपाङ्गत्वमिति तान्युदाहरणम् । एवं 'रशनया यूपं परिव्ययती' बनेनोक्तयूपकर्मकपरिव्याणोद्देशेन विहिताया रशना- या अपि सर्वसम्बन्धिपरियाणाङ्गत्वम् । तद्धर्माणां च दर्भमयत्वा- मीमांसाकौस्तुभे [ बलाबलाधि- दीनां ताशरशनाङ्गत्वम् । न च परिव्याणादीनामग्नीषोमीयपशुमात्रसम्बन्धियूपाङ्गत्वे. ऽपि पश्वन्तरेऽतिदेशेन प्राप्त्युपपत्तेपस्यैकत्वेन च सकृदनुष्ठि- तानामेव प्रसङ्गेन सिध्युपपत्तेः सर्वसम्बन्धे फलाभावः। परिव्या- णे फलाभावेऽपि रशनाविधौ द्वितीयान्तयूपपदसमभिव्याहारम- हिम्नैतधूपसम्बन्धिपरिव्याणत्वावच्छेदेन रशनातद्धर्मविधानात् सवनीयपश्चर्थापूर्वपरिव्याणान्तरेऽपि रशना तद्धर्मप्राप्तिरूपफलस. वात् । सवनीये हि "आश्विनं ग्रहं गृहीत्वोपनिष्क्रम्य यूपं परिव्य. यती"ति परिव्याण कालविशेषे विहितम् । तच्च न सर्वार्थम् । एत- द्वाक्ये यूपस्वरूपे आनर्थक्येनाग्निं समाष्टी तिवदपूर्व साधनलक्षणा- र्थमनुष्ठानसादेश्यापेक्षणेन सवनीयार्थत्वस्यैवावगतः प्रकृतकार्यस्य सिद्धत्वाच्च न तदर्थमपि । अतश्चापूर्वे तस्मिन्नपि रशनात. दममाप्तिः फलम् । प्रकारान्तरं चाग्रे निरूपयिष्यते । एवं यथाक्रम- पाठस्य सन्निधौ पाठस्य च श्रुतिविरोधे उदाहरणमूह्यम् । शेषानेकत्वे तु संनिधानात् पशुकामसाध्यप्रणयनप्रयोगे च सिद्धरूपस्य चमसस्य प्रसक्तौ श्रौतेन गोदोहनेन बाधः । इदमपि च श्रुतिप्रकरणविरोधवत् सम्बन्धमा विरोधादुदाहृतम् । (श्रुतिसमाख्ययोर्विरोधोदाहरणम् । ) श्रुतिसमाख्ययोपिरोधे पौरोडाशिकमिति समाख्याते काण्डे समाम्नात 'इषे त्वे'त्ययं मन्त्रः समाख्यया पुरोडाशाङ्गत्वेन प्रस- तः “इषे खेति शाखां छिनती"तीतिकरणाख्यगौणश्रुत्या शाखाच्छेदनाङ्गत्वेन विनियुज्यते । न चात्राधिकाराख्यप्रकरणेन साक्षाद्यागाङ्गत्वावगतेरयं श्रुतिक्रमविरोधः । यागस्य स्पष्टलिङ्गकमन्त्रान्तरावरुद्धत्वेना. स्थ साक्षात्तत्रानन्वये आनर्थक्यतदङ्गन्यायेनाङ्गेषु प्रसक्तौ समा.
करणम् ] तृतीयाध्यायस्य तृतीयः पादः । ख्यानुरोधेन पुरोडाशाङ्गतोपपत्तेः । अत एवोपजीव्यसमाख्यानु- रोधेन क्रमसङ्कोचः। अथवा यत्रानारभ्याधीते मन्त्रे ऋतुविशेषाङ्गत्वबोधका समाख्या तत्रान्यक्रत्वङ्गत्वे श्रुत्यन्तरमृह्यम् । शेषानेकत्वे तु हौत्रसमाख्यातायां ऋतुयाजयाज्यायां समाख्यया होतरि प्रसक्ते यजमानस्य याज्येति गौणषष्ठीश्रुया यजमानः कर्तेत्युदाहार्यम् । तस्मात्सिद्धं श्रुतेः स्वोत्तरेभ्यः प्राबल्यम् ॥ (इयोलिङ्गयोर्विरोधे उदाहरणम् ) एवं लिङ्गस्यापि लिङ्गेन विरोधे-मन्त्राणां गौणसामर्थ्येन गौणार्याङ्गत्वे प्रसक्ते मुख्यसामर्थ्येन मुख्याङ्गित्वम् । शेषानेकत्वे वेकस्मिञ्छेषिणि गौणमुख्यसामर्यन मन्त्रद्वयमुदाहायम् ।। (लिङ्गवाक्यविरोधोदाहरणम् ) लिङ्गस्य बाक्येन विरोधे तु "स्योनं ते सदनं कृणोमि घृ. तस्य धारया सुशेवं कल्पयामि । तस्मिन्सीदामृते प्रतितिष्ठ व्रीही. णां मेध सुमनस्यमान" इति मन्त्रः पूर्वोत्तरार्धयोरेकत्र संनिधा. नात्मकेन वाक्येन सदनमात्राङ्गत्वेन प्रसक्तौ लिङ्गेन पूर्वार्ध म. दने उत्तरार्धं च सादन इसेवं विभज्य विनियुज्यते । न चात्र भिन्नप्रतीतिविषयानेकमुख्याविशेष्यराहित्यरूपैका- यस्याख्यातभेदेनाभावादेकवाक्यत्वाप्रसक्तः कथं लिङ्गेन तस्य बाध इति वाच्यम् । प्रतीतितः ऐकामावेऽपि तच्छब्दस्य पूर्व- सापेक्षत्वेन 'ये यज्ञपति वर्धानि'त्यादौ यच्छब्दस्येव विभज्यमा- मसाकाङ्कत्वात्तन्मात्रेणैव तद्वदेवार्थैकत्वमपि प्रकल्प एकवाक्यत्वो- पपत्तेः । शक्यते ह्याख्यातोपात्ताया अपि भावनाया भावनान्तरे प्रकारतया साकाङ्गत्वे समन्वयः पश्य मृगो धावती'त्यादिव. स्कल्पयितुम् । अत एवाख्यातस्योत्सर्गतो मुख्यविशेष्यतयैव ३५८ मीमांसाकौस्तुभ [ बलावलाधि- स्वार्थप्रतिपादकत्वेऽपि साकाङ्क्षस्थले प्रकारतया तत्कल्पनमपि नातीय दोषाय । अत एव प्रकारत्वेन स्वार्थबोधकल्पनाप्यसनातविरोधि- स्वादाकासास्थापकतच्छब्दश्रवणाभावाच्च न पूर्वाख्याते | अपि स्वीदृशं सदनकरणं यस्य कचित्प्रतिष्ठापनं साध्यमित्येवमुत्तर- भावनाया एक प्रकारत्वकल्पनादुत्तराख्यात एव । एवं च सदनकरणे पूर्घिस्य लिङ्गेनैव विनियोगेऽप्युत्तरा- धस्य देवस्य स्वादिपदस्य निर्वापादिपदैकवाक्यतया निर्वाप इव पूर्वाकवाक्यतया सदनकरणे विनियोगो नानुपपन्नः । नन्वेवं वाक्यस्य प्रसक्तावपि कथं लिङ्गेन तद्भाधः ? यावता देवस्य त्वादिपदवदस्यापि पृथक्मयोगे साकासत्वेनानर्थक्या- सङ्ग इति चेत्-तच्छन्दोहि पूर्वप्रसिद्धिमात्रमपेक्षते, न तु वाक्यीयां पूर्वप्रसिद्धिम् , प्रकरणप्रसिद्ध्यापि लोके तदर्शनात् । वेदेऽपि तप्ते पयसि दध्यानयतीति वाक्यान्तरप्रापितस्य पयस 'स्सा वैश्वदे. वीति तच्छब्देन परामर्शाच्च । यच्छब्द एव हि तच्छब्दार्थ स्ववा- क्योपस्थितं नियमेनापेक्षते 'येन कर्मणेर्सेत्तत्र जयाञ्जुहुया'दि. यादौ तथैव व्युत्पत्तिदर्शनात् , न तु तच्छब्दोऽपि । अतश्च तच्छ- ब्दस्य स्ववाक्योपस्थितमात्रपरामार्शत्वनियमाभावाद्विभज्यमान- साकाङ्कस्वाभाचेनार्थकत्वकल्पनानुपपत्तेः युक्तो लिङ्गमात्रेण पुरो- डाशसादन एवोत्तरार्धस्य विनियोगः। एवं सत्यपि देवस्य वेत्यादिपदस्यानर्थक्यं पृथक् प्रयोगे भवेत ततो भवेदप्युत्तरार्धस्य सदने विनियोगः । लिङ्गावगतापूर्वसाध. नीभूतपुरोडाशप्तादनार्थत्वेन सुतरां सार्थक्यात् । तस्मात्सिद्धमुत्त- रार्धस्य लिङ्गात्सादनाङ्गत्वमेव, न तु वाक्यात्सदनाङ्गत्वमिति अत्र च सर्वत्रोत्तरोत्तरप्रमाणस्य पूर्वपूर्वपमाणकल्पनाप्रकारस्स.
करणम् ] तृतीयाध्यायस्य तृतीयः पादः । र्वोऽपि तत्तत्प्रमाणस्वरूपनिरूपणावसरे एव प्रपश्चित इति नेह पृथक्प्रपञ्च्यते । शेषानेकत्वे त्वेकस्मिक्षेत्र सदनकरणे शेषिणि वाक्यादुत्तरार्धस्यापि शेषत्वे प्रसक्त लिङ्गाद पूर्वार्थस्यैव तदिती. दमेव भयन्तरेण द्रष्टव्यम् । यवत्र वार्तिककृतोदाहरणान्तरमुक्तं-होता यक्षन्मित्रावरु- गौ प्रशास्तारौ प्रशास्ताहतुना सोमं पिबतां प्रशास्तयजेति प्रैषपा- ठस्य 'मैत्रावरुणः प्रेष्यति चानुचाहेति वाक्येन मैत्रावरुण- कर्तृकत्वे प्रसक्ते स्वात्मनि प्रशास्तृशब्दवाच्ये मैत्रावरुणे स्व- स्यैव प्रैषासम्भवाल्लिङ्गेनान्यकर्षकत्वम्, तत्रा 'पीतरमन्यस्तेषां यतो विशेषस्स्यादिति न्यायनाच्छावाके प्राप्ते सामान्यसमाख्यया होतुरेव लिङ्गेन प्रतिप्रसव इति; तड्राह्मणवाक्यस्य मन्त्रलिङ्गेन बाधायोगादुपेक्षितम् । न हि मन्त्रलिङ्गं तदपेक्षया प्रबलम् , मन्त्रस्य ब्राह्मणविहितार्थप्रकाशकत्वेन तत्परतन्त्रत्वात् । अन्यथा मनोताम- त्रस्यापि सामान्यसम्बन्धग्राहिप्रमाणसत्वेन लिङ्गात्सवनीयाङ्गत्वा- पत्तौ “यद्यप्यन्यदेवत्यः पशुराग्नेय्येव मनोता कार्ये"ति वाक्यावग- ताप्नीषोमीयाङ्गत्वबाधापचेः । न हीयं श्रुतिः, येन लिङ्गं वाधेत । अन्यदेवेत्यपशुशेषत्वस्य समभिव्याहारगम्यत्वात् तेनात्र श्रौत. त्वोक्तिरपि वातिककारीया नातीवादर्तव्या । यथा च नास्य वाक्यस्य वायव्यादिपशावूहनिवर्तकत्वं तस्य प्रकृतावन्यायनि- गदत्वेनाप्रसक्तत्वात् , किं तूत्कर्षनिवर्तकत्वमेव, तथा मन्त्रा- धिकरण एव प्रपश्चितम् , दशमे चोपपादयिष्यते। अतश्च ब्राह्म- पवाक्यस्य मन्त्रलिङ्गेन बाधायोगानेदमुदाहरणं लिङ्गवाक्यवि. रोधे सङ्गच्छते। कथं तहस्य भैषस्य होतृकर्तृकत्व सिद्धिः ? उच्यते-दुर्व- लस्यापि प्रमाणस्य विशेषविषयत्वे तेन प्रबलस्यापि सामान्य- - मीमांसाकौस्तुभे [बलाबलाधि- विषयस्य सङ्कोच इष्टः । 'यस्मिन्देशे मृगः कृष्ण' इखादि स्मृत्या क्रतुस्मृतिश्रुतिसङ्कोचस्य प्रमेयबलाबलवत्वन्यायेन सा. धितत्वात् । तदिहापि ब्राह्मणवाक्यस्य सामान्यविषयवान्मन्त्र लिङ्गस्य विशेषविषयत्वेन बाधकता, न तु लिङ्गत्वेनेति नेदं लि- ङ्गवाक्योदाहरणं, न वा प्रेषस्य होतृकर्तृकत्वसिद्धिः । न च होतुः प्रैषपाठकर्तृत्वे प्रैषार्थस्य याज्यामन्त्रपाठस्य मैत्रावरुणकर्तृकत्वापत्तेर्होता यक्षदिति मन्त्रोपक्रमे होतुर्याज्याम- न्त्रपाठकर्तृत्वलिङ्गानुपपत्तिः । तत्रत्यहोतशब्दस्याथ कस्माद- होतृभ्यस्सयो होत्रंशसस्तुभ्यो होता यक्षदिति प्रेष्यती- ति पृष्ट्वा "प्राणो वै होता प्राणस्सर्वत्विज, इति प्रतिवचन करणा- गोण्या वृत्या मैत्रावरुणपरत्वतात्पर्यावगतेः । (लिङ्गप्रकरणविरोधोदाहरणम् ) लिङ्गप्रकरणविरोधेतु-पूषानुमन्त्रणमन्त्रस्य प्रकरणेन दर्शपूर्ण- मासयोविनियोग प्राप्त समाख्यासहकृतलिङ्गात्पूणदेवसकाङ्गत्वम्। इदं च सिद्धरूपत्वान्मन्त्रस्याधिकाराख्यप्रकरणविरोधे ज्ञेयम् । मुख्यप्रकरणविरोधे त्वन्यदूह्यम् । एवमग्रेऽपि । शेषानेकत्वे तुं पूषानुमन्त्रण एव प्रकरणादाग्नेये प्राप्ते मुख्यलिङ्गकेनानुमन्त्र. णेन बाधः। ( लिङ्गक्रमविरोधोदाहणम्) लिङ्गक्रमविरोधे- 'उपहूत उपयस्वे'ह्यनयोर्यथाक्रमं पाठा. पश्नप्रतिवचनशेषत्वे क्रमेणावगते लिङ्गाद्वैपरीत्यम् । एवं क्रमा. न्तरविरोधेऽपि द्रष्टव्यम् । शेषानेकत्वे त्वन्यदेवत्यविकृतिसनि- धावन्यदेवयानुमन्त्रणस्याम्नातस्य तद्देवत्यानुमन्त्रणेन बाधः । (लिङ्गसमाख्याविरोधोदाहरण म्) लिङ्गसमाख्याविरोधे-मनो ऋचः पृथुवाजवत्योश्च क्रमस.
करणम् ] तृतीयाध्यायस्य तृतीयः पादः। ३६१ हकृतयाज्यासमाख्यया (१)सोमारौद्रयागे याज्यात्वे प्रसक्ते ऽग्नि. प्रकाशनलिङ्गात्क्रमसहकृतात्तदीये सामिधेनीकायें निवेश इति ॥ शेषानेकत्वे तु(२) मनो–चामेव सोमारौद्रयागे याज्यात्वप्रसक्ती तद्देवत्ययाज्यानुवाक्याभ्यां लिङ्गमाप्ताभ्यां बाधः । ( वाक्ययोर्विरोधोदाहरणम्) वाक्ययोर्विरोधे-उपांशुत्वस्य "सरा वा एषा यज्ञस्ये"ति व्यवेतयज्ञपदैकवाक्यत्वाद्यज्ञभागधर्मत्वं "तस्माद्यत्किञ्चिदग्नी- षोमीयात्तेनोपांशु चरन्ती"त्यनेन मन्निहितयत्किञ्चित्पदैक- वाक्यतयावगतपदार्थधर्मत्वेन बाध्यते । शेषानेकत्वे तु 'पञ्चदश सामिधेनीरनुब्रूयात् , सप्तदश वैश्यस्येति । ( वाक्यप्रकरणयोर्विरोधोदाहरणम् ) वाक्यप्रकरणयोर्विरोधे-पूषानुमन्त्रणमन्त्रगतस्याहं देवयज्य. या पुष्टिमान् भूयास'मिति पदसमुदायस्य प्रकरणादर्शाधङ्गत्वे प्रस. के पूषपदैकवाक्यत्वात्पूषदेवत्यकर्माङ्गत्वम् । तथा श्रुतिविनियुक्त- स्यापि सूक्तवाकस्योपजीव्येन लिङ्गेनेष्टदेवताप्रकाशनार्थत्वस्था. पनाचदनुरोधेन पौर्णमास्यामग्नीषोमादिपदानि, अमावास्यायाश्चै. न्द्राग्न्यादिपदानि विभज्य प्रयोज्यानीत्यस्यापि स्थापितत्त्वा. दग्नीषोमपदैकवाक्यतापनाना मिदं हविरजुषेता' मित्यादीनाम- मावास्यायां प्रयोगः, इन्द्राग्न्यादिपदैकवाक्यतापनानांचे 'दं हवि'. रित्यादीनां पौर्णमास्यां प्रयोग इत्येवं प्रकरणादिदं हविरजुष. १. तैत्तिरीयसंहितायां द्वितीयकाण्डे द्वितीयप्रपाठके दशमानु. वाके “यो ब्रह्मवर्चसकामः स्यात् तस्मा एत सोमारौद्रं चरुं निर्व पेत्' इति वाक्यविहितो यागः सामारौद्रयागः । २. तै.सं.का.१-प्र.८. द्वाविंशेऽनुवाके "प्र बाहवा सिसृतं" इत्य: चोऽनन्तरं “अग्निं वः पये गिरा देवं” इत्याद्या या षडव आनाता ताः मनोक्रंच इत्युच्यन्ते । मी० कौ०४६ यथा चात्र मीमांसाकौस्तुभे [बलाबलाधि- तेत्यस्य द्विरावृत्तिप्रसक्तौ तत्तद्देवतापदैकवाक्यतया विभज्य विनियोग इति । तत्र च मन्त्रपदानां सिद्धरूपत्वात् श्रुतिविनियुक्त. त्वाच मुख्यप्रकरणविषयत्वाभावेऽप्यधिकाराख्यप्रकरणस्याङ्ग- ताबोधकतयाऽपूर्वसाधनलक्षणातात्पर्यग्राहकत्तयतद्विषयेऽपि प्रस- क्तत्वाधुक्तो वाक्येन बाधः । मुख्यप्रकरणोदाहरणं तु वैमृधस्य प्रयाजादिबद्दङ्गि- त्वप्रसक्तौ वाक्येन पौर्णमासमात्राङ्गत्वमिति । प्रकरणं वाक्यस्यापि कल्पक तथा तत्स्वरूपनिरूपणप्रसङ्ग एव निरूपितम् । पौर्णमासांशे तु प्रकरणं सदपि दुर्वल. त्वादनुवादः । शेषानेकत्वे तु वेदिकरणवृत्तिहविरभिवासनो तरत्वस्याधिकाराख्यप्रकरणान्मुख्यप्रकरणादेव वा दर्शाङ्गत्वे सिद्धे 'पूर्वेचुरमावास्याया'मित्यनेन पूर्वेयुः कालः। न हि सप्तम्याः प्राधान्यमर्थः, येनात्र श्रुतित्वं शक्पेत अधिकरणत्वमात्रस्य तद- र्थत्वात् । अत एव सप्तम्यन्तस्थले शेषत्वमेव श्रौतं न तु शोषित्वम् ।। ( वाक्यक्रमविरोधोदाहरणम् ) वाक्यक्रमयोर्विरोधे-परिव्याणकरणक्रियमाणानुवादिमन्त्र- गतपरिवीरसिपरिवीतपदयोः लिङ्गादेवाग्नीषोमीयक्रमबाधेन यावत्परिव्याणशेषत्वेऽवगते तदेकवाक्यतापन्नपदान्तराणां तथैव क्रमबाधेन वाक्यात् सवनीयपरिव्याणार्थत्वम् । शेषानेकत्वे तु "वृषा पवस्त्र धारये"ति राजन्यस्य प्रतिपदं कुर्या"दिति इतिकर. णरूपगौणश्रुयाऽऽद्यपादमात्रस्यैव विनियोगाद्वितीयमारभ्य यथा- क्रमपाठेन नित्यप्रतिपद्वितीयादिपादप्रसक्तौ नैमित्तिकप्रतिपदाद्य- पादैकवाक्यतापनवितीयादिपदानां वाक्येन प्राप्तिः ।। (वाक्यसमाख्याविरोधोदाहरणम् ) वाक्यसमाख्ययोर्विरोधे--भक्षानुवाकगतसध्यासमित्याद करणम् ] तृतीयाध्यायस्य तृतीयः पादः। लिङ्गाद्रहणादौ विनियोगेऽवगते तदेकवाक्यतापन्नशेषपदानां स. माख्यया भक्षाङ्गत्वप्रसक्तौ वाक्याद्रहणाद्यङ्गत्वमिति । शेषाने: कत्वे तु प्रैषानुवचने समाख्यया होत्प्राप्तवाक्येन मैत्रावरुणवि. धानमिति ॥ (प्रकरणयोर्विरोधोदाहरणम् ) प्रकरणयोर्विरोधे-अभिक्रमणादेर्महाप्रकरणा(१)दर्शपूर्णमा- साङ्गत्वप्रसक्तौ प्रयाजागत्वमवान्तरप्रकरणात् । शेषानेकत्वे तु यत्रानेकसमुदाये महापकरणादेकधर्मप्राप्तिरवान्तरप्रकरणाच्च तद्विरुद्धधर्माणां, तादृशस्थलमूह्यम् । (प्रकरणक्रमयोर्विरोधोदाहरणम् ) प्रकरणक्रमयोर्विरोधे-अनेकेष्टिपशुसोमयागात्मके राजसूये- ऽभिषेचनीयो नाम सोमयागः । तत्संनिधा वदयिती"यादिना विदेवनाद्ययागरूपमाम्नातम् । तस्य चायागत्वादेव राजसूयफलप्स. म्बन्धे बाधितेऽङ्गत्वावश्यम्भावेन संनिधिलक्षणक्रमादभिषेचनी- यमात्राङ्गत्वप्रसक्तौ प्रकरणाद्राजसूययागाङ्गत्वम् । न चाभिषेचनीयस्यापि फलववेनापतिबन्धाकाङ्कत्वादवा. न्तरप्रकरणोपपत्तेःपरीय शङ्का । तस्य विकृतित्वेन प्राकृतारेव परिपूर्णत्वात्तदनुपपत्तेः । ननु विकृतावपि कचिदस्येव प्रकरणं यत्र प्राकृताङ्गानुवादे. न प्राकृतकार्यापनमपूर्व वाङ्गं विधीयते, यथा-शराः, पृषत्ता चानू याजेषु । तत्र हि निरङ्गाङ्गस्यैव प्राकृताङ्गस्प विकृया हाणे साका. सत्वानिवृत्तेरङ्गस्यापि प्राकृताङ्गग्रहणसमय एवं ग्रहणम् । अस्तु वा प्राकृताङ्गानुवादेन विहितापूर्वाङ्गस्थले उपहोमादिवत्सन्निधाना- १. दर्शपूर्णमासाङ्गत्वमवान्तरप्रकरणाद्वाध्यते ।
मीमांसाकौस्तुभे [ बलाबलाधि- देव ग्रहणं तथापि प्राकृतकायापनाङ्गस्थले तावद्युक्तमेव प्राकृताङ्ग- ग्रहणसमये ग्रहणम् । यद्यपि चात्र वाक्यीय एव विनियोगः,तथाप्यनिवृत्ताकाङ्क्षा- यामेव विकृत्या ग्रहणान्मूले प्रकरणविनियोज्यत्वव्यवहारः । यत्तु तादृशाङ्गसन्दंशपतितमसंयुक्तं क्रियारूपं च तद्विक. तौ प्रकरणेनैव ग्राह्यम्, अनयोश्च सन्निहितप्रतियोगिततिकर्तव्यता. काङ्क्षाया अनिवृत्तत्वात् । यदपि चासंयुक्तं नोक्तविधप्राकृताङ्गसम्बन्थ्यङ्गसन्दष्टम् अपि तु प्रधानोत्तरमुक्तविधाङ्गात्पूर्व समाम्नातं तदपि प्रकरणेनैव गृह्यते । उक्तहेतोस्तत्राप्यविशिष्टत्वात् । अतश्च प्रकृतेऽपि प्राकृतमा. हेन्द्रस्तोत्रानुवादेन 'माहेन्द्रस्य स्तोत्रं प्रसभिषिच्यत' इति वाक्य. विहितादभिषेकात्पूर्वमभिषेचनीयोत्तरं विदेवनादीनां पाठातेषां प्रकरणग्राह्यत्वोपपत्तिरिति चेत्-- सत्यप्याभिषेकस्य माहेन्द्रस्तात्राङ्गत्वे तस्याप्राकृतकार्यापन्न- खेन भवदुक्तरीत्यैव प्रकरणग्राह्यत्वाभावात्तत्पूर्वभाविनामापे प्र. करणग्राह्यत्वानुपपत्तेः । वस्तुतस्त्वभिषेचनीयान्तिमप्राकृताङ्गसम्बन्धिवैकृतगुणविध्यु- तरकालं विदेवनादानामभिषेकस्य चाम्नानात्तादृशोत्पतिविधी च माहेन्द्रस्याश्रवणेन तस्य माहेन्द्राङ्गत्वानुपपत्तिः । न चोत्पत्तिवाक्ये तदङ्गत्वाश्रवणेऽपि संनिधिप्रकरणं च बाधित्वा वाक्यान्तरेण तदङ्गत्वोपपत्तिः । तद्वाक्यस्य प्रतिशब्द- योगेनाभिषेके माहेन्द्रस्तोत्रकालतामात्रविधायकत्वेन स्तोत्राङ्ग- ताविधायकत्वाभावात् । एवं सयपि यद्ययमेवाभिषेकविधि- स्यात् ततो बृहस्पतिसवादिवदार्थादेतदुर्नीतेन वाक्येन भवे. दपि तदङ्गत्वं, न त्वेतदस्तीत्युक्तम् । अतश्चोत्पत्तिवाक्य करणम् | तृतीयाध्यायस्य तृतीयः पादः । एव प्रयोजनजिज्ञासायां सन्निधानात्मकरणाद्वा प्रयोजनस्या. वगमान्माहेन्द्रस्य स्तोत्रं प्रत्यभिषिच्यत इति कालार्थ एव संयोग इति वक्ष्यते । तेनाभिषेकस्यापूर्ववविधयापि मा. हेन्द्रस्तोत्राङ्गत्वाभावात्तत्पूर्वभाविनां विदेवनादानामाभिषेचनी. यप्रकरणविनियोज्यत्वशङ्कानुपपत्तेस्संनिधानादनुष्ठानसादेश्यावा. भिषेचनीयाङ्गत्वं वाच्यम् । तच दुर्बलं प्रकरणात् । तेन हि विदेवनायभिषेकान्तानां राजसूयाङ्गत्वमवगम्यते । ननु-राजसूयो नाम न कश्चिदर्थान्तरम् । अपि विष्टिपशुसामे- यागा एव । ते च सर्वे प्रत्येकं विकृतित्वानिराकाङ्क्षा एवेति न प्रकरणं तस्येति चेत्-न प्रत्येकजन्यपरमापूर्वाणां प्राकृतैरङ्गैनै. राकाङ्ग्रेऽपि सर्वयागमन्यैकपरमापूर्वस्य साकाङ्क्षत्वात्तजननानुकू- लप्रत्येकापूर्वनिष्ठयोग्यतासम्पादकत्वेन प्रकरणग्राह्यत्वोपपत्तेः । वस्तुतस्तु तादृशपरमापूर्वानङ्गीकारेऽपि पवित्रादारभ्य क्षत्रस्य धृति यावद्विधिषु 'राजसूयाय ह्येना उत्पुनाती'त्यनेनोपक्रमात "राजसूयेनेजानस्सर्वमायुरेती"त्युपसंहाराद्वाचनिकाङ्गसन्दशेन राजसूयत्वेन रूपेण सर्वेषामेवाकाङ्कोनीतेति सर्वप्रकरणोपपत्तिः अत एवं विदेवनादीनामारादुपकारकत्वात्तत्काळे तन्त्रेणानुष्ठाना- वगतेः प्रकृतौ क्रमबाधफलालाभेऽपि नामातिदेशेन पवित्रादि. विकारे विदेवनादिधर्मप्राप्तिरूपफलोपपत्तिः । एवं प्रकरणस्य यथाक्रमपाठेनापि विरोधे उदाहरणं मृग्यम् शेषानेकत्वे तु यथाक्रमं पाठानिरापदस्याग्नीषोमस्तोत्राङ्ग. त्वपसक्तावधिकाराख्यप्रकरणादिरा पदस्य तदङ्गत्वमिति । उदा. हरणान्तरं वा यथापेक्षितमूह्यम् । ( प्रकरणसमाख्ययोर्विरोधोदाहरणम् ) प्रकरणसमाख्ययोविरोधे-पौरोडाशिकसमाख्यया प्रयाजा.
मीमांसाकौस्तुभे
[बलावलाधि-
-
दीनां पुरोडाशाङ्गत्वे तत्साध्याग्नेयादियागमात्राङ्गत्वे वा प्रसक्ते
प्रकरणस्थयागाङ्गत्वमिति । शेषानेकत्वे तु यथोचितमृह्यम् ।।
(क्रमयोर्विरोधोदाहरणम्)
क्रमयोविरोधे-काम्ययाज्यानुवाक्याकाण्डे संनिधिलक्षण.
क्रमाद्वयोरेन्द्रामयोर्याज्यावयेऽप्यनियमेन प्राप्ते यथाक्रमं पाठेना.
त्यन्तप्रधानमत्यासन्नत्वात्क्रमेण विनियोग इति ।
यद्यपि च क्रमाधिकरणे एकग्रन्थस्थसंनिध्यपेक्षया यथाक्रम
पाठस्य दौर्बल्यमुक्तं तथापि प्रकृते तस्य भिन्नग्रन्थस्थत्वात्तदपे.
क्षया पाठस्य प्राबल्याविरोधः । क्रमान्तरस्य तु परस्परबलाब
तत्रैबोक्तम् । उदाहरणं तूह्यम् ।
एवं शेषानेकत्वेऽपीदमेबोदाहरणं 'स्योनं त' इति मन्त्रबद्यो.
ज्यम् । क्रमान्तरे तूह्यम् ।
(क्रमसमाख्याविरोधोदाहरणम् )
क्रमसमाख्ययोबिरोधे पौरोडाशिकसमाख्याते काण्डे समा.
म्नातस्य मन्त्रस्य “शुन्ध, दैव्याय कर्मणे देवयज्याया" इसादे-
स्तमाख्यया पुरोडाशाङ्गत्वे तत्साध्याग्नेयादियागीयपात्रोक्षणा.
ङ्गत्वे प्रसक्तेऽवान्तरसंनिधानात्सान्नाय्यापूर्वसाधनीभूतत्वप्रमा.
पणेन तदीयपात्रप्रोक्षणाङ्गत्वम् । तथा चात्र महाधिकाराख्यगौणप्र.
करणेन समाख्यां संनिधि च वाधित्वा न सर्वसम्बन्धिपा.
वाङ्गत्वं तथा क्रमाधिकरण एवं व्युत्पादितम् । यथा च समा.
ख्यास्थानादिकल्पिका तथा समाख्याधिकरणे ।
एवं क्रमान्तरैस्समाख्याविरोधेऽप्युदाहरण मृह्यम् । शेषाने.
कत्त्वे तु यथोचितमसङ्कीर्णमूह्यम् ।
( समाख्ययोर्विरोधोदाहरणम् )
एवं समाख्ययोरपि सामान्यविशेषभावादिना विरोध:
शेष्यनेकत्वे शेषानेकत्वे च चोदाहर्तव्यः ।
करणम् ] तृतीयाध्यायस्य तृतीयः पादः । ३६७ (श्रुत्यादीनां प्रावल्यदौर्बल्ये क्वचित्यैपरीत्यमपि) एवं ताबक्च्छुत्यादनिां पूर्वपूर्वस्य प्राबल्यमुक्तम् । कचिच्च विपरीतमपि तत् । तथा पूर्वपूर्वस्थानुमानिकत्वे उत्तरोत्तरस्य च प्रत्यक्षत्वे । अत एव वैदिकमन्यार्थदर्शनरूपमनन्यथासिद्धं लिङ्गं स्मृत्यनुमितश्रुत्यपेक्षया प्रबलम् स्मृतेमलान्तरस्यापि सम्भावित- त्वादन्यार्थदर्शनस्याप्यन्यथानुपपत्तिविधया लिङ्गत्वाच्च । अत्र च मातुल कन्यापरिणयनस्यानुदाहरणत्वेऽप्यन्यदुदाहरणमूद्यम् । यत्र च दुर्बलस्यापि प्रमाणस्यात्यन्तमानर्थक्यं विषयाभा- वात्तत्र प्रबलस्यापि सङ्कोचरूपं बाधमङ्गीकृस दुर्बलस्य प्रावल्यम् , यथा वषट्कारानमित्तभक्षादेः प्रबलेन श्रुत्यादिना प्रतिपाद्या- बच्छेदेन प्राप्तस्य यजमानचमस इति समाख्यया विषयान्तरं प्रतिपद्यमानाया यजमानकर्तृकभक्षान्तरस्य सोमसंस्कारार्थत्वेन विधानात्प्रतिपाद्यसोमैकदेशसंस्कारकत्वं वक्ष्यते । अत एव पूर्वोक्तवाविषयाणां दुर्बलप्रमाणानामस्ति कश्चि- द्विषय इति युक्तस्तया बाधः । तथाहि-पौरोडाशिकं हौत्रमित्यादिसमाख्यायास्तावत्सामा- न्यविषयत्वाच्छुन्धनमन्त्रादिव्यतिरिक्तविषयत्वेनाप्युपपत्तिः क्रम- प्रकरणवाक्यानां च पारायणाद्युपयोगितयापि कचिदाग्नेयो. ऽष्टाकपाल इत्यादौ पार्टिकान्वयविषयत्वेनापि वाक्यस्योपपत्तिः। लिङ्ग तु गौणीवृत्युपयोगशक्यार्थप्रतिपादनेनोपयुज्यत एव । एवं यत्र प्रबलप्रमाणस्याविशेषप्रवृत्तावानर्थक्यं गौरवं वा यथा-व्रीहीन्पोक्षती'त्यादौ 'सुवेणावद्यती'त्यादौ तत्र व्रीहिस्वरू. पार्थत्वे आनर्थक्यमवदानमात्रार्थत्वे चायसावष्टम्भादियोग्यता कल्पना गौरवमिति तत्र प्रकरणेन स्वाभाविकयोग्यतया च दुर्बलयापि सङ्कोचः प्रबलस्येति ।
३६८ मीमांसाकौस्तुभे [बलाबलाधि- - प्राप्ताप्राप्तबाधभेद निरूपणम् ) ननु लिङ्गादेमन्थरप्रवृत्तिकत्वेन श्रुतिसत्वेऽङ्गताबोधकत्वानुः पपत्तः अप्रसक्तस्य च विनियोगस्य कथं बाध इति चेत्-ससम् । अत एवास्याप्राप्तबाधत्वमिति वदन्ति । तत्वं चाङ्गताबोधकलिङ्गा. दिकल्प्यश्रुतिकल्पनातिबन्धकत्वं श्रुत्याहिगाईपत्याङ्गत्वे मन्त्र- स्य प्रमिते निराकाङ्कत्वाल्लिङ्गेन श्रुतिकल्पनानुपपत्तेरिन्द्राङ्गत्व. मप्राप्तमेव । एवं दाशमिकोऽपि कचिदमाप्तबाधः । यथा-गृहमधीये "आ. ज्यभागौ यजती" यनेन प्रयाजादीनां तत्तापकप्रमाणकल्पनाति. बन्धकत्वात् । यत्र तु प्रापकप्रमाणं क्लुप्तं तत्र प्राप्तबाधः, यथा- सामान्यशास्त्रस्य विशेषशास्त्रेण । ननु यदि सामान्य शास्त्रेण पदेऽप्याहवनीय इत्यवगतं तदा कथं तस्य बाधः?न ह्यत्र नेदं रजतमित्यादिवन्मिथ्यात्वबोधरूपो बाधस्सम्भवति सामान्य शास्त्रस्यापि निर्दुष्टत्वेन तज्जन्यबोधस्य दोषाजन्यतया तस्य मिथ्यात्वायोगात् । न च करणनिष्ठदोषाभावेऽपि वस्तुतः करणे विशेषविष. यातिरिक्तविषयक एव शेषादर्शनकृतप्रमादरूपप्रमातृदोषेण प्र. मातुः भ्रमरूपतद्विषयकत्वबोधोपपत्तेर्विशेषदर्शनेन तन्मिथ्यात्वो- पपत्तिरिति वाच्यम् । एतादृशमाप्तबाधस्य श्रुतिलिङ्गादिष्वपि सं- भवात् । तत्रापि हि गार्हपत्याङ्गतारूपविशेषादर्शने प्रमातुर्लिङ्गमा. प्रदर्शनन श्रुतिकल्पनद्वारेन्द्राङ्गताविषयकत्वभ्रमस्य सम्भवात् । अतस्सर्वत्रैव प्राप्तबाधत्वमिति चेत्-न ; प्राप्तबाधत्वं नाम क्ल तस्य बोधकस्य विशेषविषयताप्रतिबन्धकत्वम् । न चै. तच्छ्रुतिलिङ्गादिषु सम्भवति । तत्र बोधिकाया लिङ्गकल्प्यश्रुते. नियमेनाकल्पितत्वात्कदाचित्कल्पिताया अपि प्रत्यक्षश्रुत्या करणम् ] तृतीयाध्यायस्य तृतीयः पादः । ३६९ तस्या एव मिथ्यात्वकल्पनाच्च । सामान्यशास्त्रस्य तु क्लात्वे नाकल्पनीयत्वाद्धोमान्तरे आहवनीयाभावापत्या च तन्मि- थ्यात्वकल्पनस्याप्ययोगात्क्लुप्तस्य तस्य विशेषशास्त्रण स्व. विषयाविषयता प्रतिबन्धमात्रं क्रियत इति सोऽयमप्राप्तबाधः । एवं च सामान्यशास्त्रं विशेषविषयातिरिक्तविषयं परिशेषात्सम्प- द्यते । एवमुपदेशातिदेशनित्यनैमित्तिकपौर्वापयर्यादिबाधेष्यपि द्र. ष्टव्यम् । अत एव तार्तीयोऽमाप्तबाध इत्युत्सर्गमात्रम् । नन्वर्यलोपप्रयाम्नानादिबाधेषु भवेदप्येवं निषेधरूपवाच. निकबाधस्यले तु न प्रापकशास्त्रस्य स्वविषयता प्रतिबद्ध्यते । निषेधस्य निषेध्यप्राप्तिसापेक्षत्वेन प्रापकशास्त्रस्य तद्विषयत्वाव- श्यंभावात् । न च तत्र भ्रान्तिप्राप्त निषिध्यत इति शक्यं वक्तुम् । प्रापक शास्त्रस्य वस्तुतस्तदतिरिक्तविषयकत्वे भ्रमासंभवात् । तथा हि-पदशास्त्रं पदं विधाय चरितार्थ नाहवनायशास्त्रमपेक्षते । अ. तश्च येन पदशास्त्रं प्रथमतो दृष्टं तस्य पश्चादवगम्यमानेन सामा. न्यशास्त्रेण न भ्रमः, न वा विशेष दर्शनातन्नित्तिः विशेषादर्ष- नाभावे भ्रमकारणाभावात् । अत एव तदा सामान्यशास्त्रं तव्यतिरिक्तविषयतां झटि. त्येव प्रतिपद्यते । येन तु सामान्यशास्त्रं पूर्वमाकलितं तस्य साम- ग्रीसत्वाद्ध्मो जायत इति तन्नित्तिर्विशेषदर्शनजन्या। अत एव तत्र तव्यतिरिक्तविषयत्वं सामान्यशास्त्रस्य पश्चादेवावगम्यते, नतु प्रथमावगमकाले । बाधश्च तत्र विशेषशास्त्रफलं, न तु वाक्यार्थः । प्रकृते तु बाधो “न तो पशौ करोती"ति सामान्यशास्त्रस्यैवार्थो न तु फलं, विधेयान्तराभावात् । अतश्च येन तावदतिदेशशास्त्रमेव प्रथमत आलोचितं तस्यास्तु नाम विशेषादर्शनसहकृतप्रापकशास्त्र मी० कौ०४७ ३७० मीमांसाकौस्तुभे [ बलाबलाधि- दाज्यभागयोरपि भ्रान्तां प्राप्तिमालोच्य निषेधशास्त्रार्थावगमो. पपत्तेः पश्चाद्विशेषदर्शने सति प्रापकशास्त्रस्य तव्यतिरिक्तविषय- त्वकल्पनरूपबाधः । यदा तु निषेधशास्त्रमेव प्रथमत आलोच्यते तदा तदर्था- लोचनोत्तरं निषेध्यप्राप्त्यपेक्षायां प्रापकशास्त्रालोचनात्तेन च विशेषदर्शनसत्त्वेनाज्यभागभ्रान्तिजननायोगानिषेधपर्यवसानानु- पपत्तेरवश्यं प्रापकशास्त्रस्याज्यभागप्रमाजनकत्वमेव निषेधेनाभ्यु. पगन्तव्यम् । प्रापकशास्त्रस्य विशेषनिष्ठत्वे तु तदावश्यकमेव । तस्माच्छास्त्रप्राप्तस्य निषेधे सर्वत्र प्रमारूपैव प्राप्तिः । अत एव तत्र सर्वत्र विकल्प एवेति मीमांसकमर्यादा । न चैवं यत्र रागप्राप्तस्य निषेधस्तत्रापि निषेध्यप्रापकरागस्य बलवदनिष्टाननुबन्धीष्टसाधनप्रमाजनकत्वापत्तेः विकल्पापत्तिः । बलवदनिष्टानुबन्धित्वज्ञानस्य प्रवृत्तिं प्रति प्रतिबन्धकतया तदभाव- स्यैव कारणत्वेन बलवदनिष्टाननुबन्धित्वज्ञानस्याकारणतया रा. गेण तत्पमाया अजननादिष्टसाधत्वप्रमाजननेऽपि तस्य निषेधावग- तानिष्टसाधनत्वेन विरोधाभावान्न तदंशे रागबाधकत्वम् । या तु तत्र सामग्रीसत्त्वे प्रवृत्तिस्सा सामग्यभावे न जायत इति दैववशसम्पन्नं बाधकत्वम् । सामग्री हि बलवदनिष्टानुबन्धित्वज्ञानाभावघटिता । अनिष्टसाधनत्वज्ञाने विद्यमानेऽपि हि यदानिष्टगतद्वेषापेक्षयेष्टगत- रागस्योत्कटत्वरूपं वलवच्वं तदा सामग्रीसम्पत्तिः। यदा त्विष्टगत- रागापेक्षयाऽनिष्टगतस्योत्कटत्वरूपं बलवत्त्वं तदा तदभावात्प्रवृश्य- भावः । अतश्च रागप्रमितेविरोधाभावान्न विकल्पापत्तिः । अत: कथं प्राप्तबाधत्वावच्छदेन प्रापकशास्त्रस्य बाधकशास्त्रेण स्वविषय- कताप्रतिबन्ध इति चेत्-न; प्रयोगे प्रापकशास्त्रीयविषयताप्रतिव- धेन बाधकामावाद । रागमाप्तनिषेधे त्वर्थवशसम्पन्नप्रवृत्तिपति- करणम् ] तृतीयाध्यायस्य तृतीयः पादः । बन्धकत्वेऽपि प्रमाणस्य विषयताप्रतिबन्धाभावाद्वाघव्यवहारो भाक्त इत्यनुसन्धेयम् । तस्मात्सिदं श्रुतिलिङ्गादावप्रासबाध एवेति ॥ सूत्रं प्रयोजनं च स्पष्टम् ॥ इति श्रीपूर्वोत्तरमीमांसापारावारधुरीणश्रीरुद्रदेवमनुश्रीखण्डदेव- कृतौ मीमांसाकौस्तुभे तृतीयाध्याये तृतीयपादे सप्तमं बलाबलाधिकरणम् ॥ समाप्तोऽयं मीमांसाकौस्तुभः ॥ श्रीविश्वेशार्पणमस्तु ॥
No text on this page.