Allahabad University, Allahabad
Chorchatvarinsi Katha
Front matter
चोरचत्वारिंशी कथा
A SANSKRIT RENDERING
OF
ALI BABA & THE FORTY THIEVES
BY
GOVIND KRISHNA MODAK,
SANSKRIT TEACHER, NEW ENGLISH SCHOOL, POONA
Author of वातुनयकल्पद्रुम, Exercases an Sanskrit Grammar
and Translation, सस्कृताचा अभ्यास, मराठीचे अतरगदर्शन etc
+
LONGMANS, GREEN & CO, LTD
53, Nicol Road, BOMBAY.
1934
FOREWORD In presenting this rendering of the popular oriental tale of ‘Ali Baba and the Forty Thieves,' into the Sanskrit language, to the student-world, and to the reading public, Mr Modak has given evidence of his mastery over the classical language of India and has vindicated the claim of Sanskrit as an instrument of expressing in an incisive manner the most modern as well as the most ancient ideas In true oriental style, he has supplied the usual framework of the story-the fiction of a master inculcating a moral lesson upon his disciples by means of a story Another excellent feature-entirely an innovation of the author-is the introduction in proper places of epigrams and pithy sayings in verse form which give to the translation the appearance of an original work modelled on the pattern of the Hitopadeśa or the Pancatantra The Sanskrit language is unequalled in its power of concise metrical argument, and in its precision and adequacy as an instrument of expression A lover of Sanskrit, therefore, will be delighted to read these pages which will not fail to give him the impression that he is not reading a translation at all, but an original tale in Sanskrit If the translator creates this impression, he has truly succeed ed, otherwise he will deserve Shelley's strictures on the headlong rashness of translation--" It were as wise to cast a violet into a crucible that you might discover the formal principle of its colour and odour, as seek to transfuse from one language into another the creations of a poet The plant must spring again from its seed or it will bear no flower " This excellent remark lays down the very end and purpose of a translation 2 an In the hands of Mr Mcdak, the language becomes a won derfully facile and fluid instrument of expressing the thought in the simplest and most natural way The language is simple, flowing and chaste, and I make no doubt that the book will serve as an excellent Sanskrit text not only in the class but outside it Even a student who has learnt just the bare elements of the language will be able to follow the story unaided-for if in places he will not understand the mean ing of a word or expression,-yet the story interest will ensure that he journeys to the end Further to help the reader, the author has adopted-and I believe rightly and with good authority—a new and natural punctuation, stopping where one is expected to stop in the reading, and not combining the vowels and consonants according to the rules of Sandhi The book is on the whole, excellent reading, and it is to be hoped that the author will produce many others of its like 15th December 1933 N G SURU Professor of Sanskrit, Nowrogi Wadia College, Poona श्रीः नमो भगवते तुभ्यं वासुदेवाय धीमते । उपायेन हता येन कंसाद्या लोककण्टकाः॥१॥ अथैकदाचार्यो नीतिमुपदिदिक्षुः प्रस्तावक्रमेण शिष्यानाह- नरेण प्रतिकर्तव्याश्छमना च्छद्मवैरिणः । यथा ते दस्यवो दास्या मारजन्याततायिनः ॥२॥ शिष्याः पृच्छन्ति-कथमेतत् ? आचार्यः प्राह- अथेयमारभ्यते चोरचत्वारिंशी नाम कथा । यस्या अयं प्रास्ताविकः - श्लोकः । पुष्पंपुष्पं विचिन्वीत मूलच्छेदं न कारयेत् । मालाकार इवारामे न यथाङ्गारकारकः ॥३॥ प्रथमो भागः वनगता गुहा काकतालीयवत्प्राप्तं दृष्ट्वापि निधिमग्रतः । न स्वयं दैवमादत्ते पुरुषार्थमपेक्षते ॥ ४ ॥ १. पुरा पारसीकाना पुरे कश्यपोऽलिपर्वा चेति सहोदरौ वसतः स्म । तयोर्जनको नातिप्रभूतधनो बभूव । सुतयोस्तुल्यवृत्तिरसौ मृत्यु सनिहित २ प्रेक्ष्य निज वित्तादिक तयोः सम व्यभजत् । येन तौ विभवाद्यर्जनविषये तुल्यावस्थौ स्याताम् । अथ कश्यपः कस्यचिन्महाधनस्य पुत्रीमुदवहत् । येन स सपद्येव नगरवासिभिर्वणिग्वरैस्तुल्यविभवो बभूव । विविधैश्च विलासैः कालमनयत् । तथा हि प्रभूतधनत्वात् , ईप्सित किमपि वस्तु तस्य दुरा- सद नासीत् । उक्त च–अधनं दुर्बलं प्राहुर्धनेन बलवान्भवेत् । सर्व धनवता प्राप्यं सर्व तरति कोशवान् ॥ ५॥ २. यथालिपर्वणः, तथा तस्य श्वशुरस्यापि, अल्पमेव वित्तमासीत् । येन स निःश्रीक उटजे कृतावासः, आत्मान च कलत्रापत्यानि च महता कष्टेन पुपोष । अपत्यान्यपि दरिद्रस्य तस्य बहूनि बभूवुः । उक्त हि-सन्ति पुत्राः सुबहवो दरिद्राणामनिच्छताम् । न त्वेकोऽपि समृद्धानां विचित्रं विधिचेष्टितम् ॥ ६॥ असौ प्रत्यहमुषसि समुत्थाय, इन्धनच्छेदनाय विपिन व्रजति । छिन्न- मिन्वन त्रयाणा गर्दभाना पृष्ठगतं करोति । पुरमानयति । तत्र च विक्री- णीते । ततश्च लब्धेन धनेन वृत्तिं करोति । ३. अथैकदालिपर्वा नित्यमिव वन गतः । तत्र च गर्दभत्रयपर्याप्त काष्ठभार चिच्छेद । तत्क्षण च दूरे नभसि विसर्पत्पासुपटल तस्य दृश्यताम- गात् । तत्र च दत्तदृष्टिरय जज्ञौ- । यथा-एष रजस्तोमः, एतमेव देशमुद्दिश्य सवेगं प्रधावतामश्वारोहाणा बलनोत्थाप्यते । मेने च- यतोऽस्मिन् देशे राजपुरुषा न सचरन्ति, तत एभिस्तुरंगसादिभिर्दस्युभिर्भाव्यम् । उक्त हि- ३ हयस्थाः, शैलस्य पादमासाद्य, अराजकेषु राष्ट्रेषु धर्मो न व्यवतिष्ठते । नराः खादन्ति चान्योन्यं सर्वथा धिगराजकम् ॥७॥ ततोऽसावीदृश प्रच्छन्न किमपि स्थानं लब्धं सर्वतो दृशं व्यापारयामास, यत्र स चोरापक्रमण यावत्क्षेमेण निभृतस्तिष्ठेत् । ४. चोरास्तु समीपागतान्प्रेक्ष्य, असौ सपदि निकटवर्तिन महीरुह- मारुरोह । तस्य शाखास्तथा विपुलाः पल्लवघनाश्चासन् , यथा तत्र स्थितोऽयं स्वय कस्यापि दृष्टिगोचरो न भवेत् । भाविन त्वधोगत वृतान्त सर्व द्रष्टु प्रभवेत् । ततो नातिदूरे विशालः शिलोच्चयो वर्तते स्म । ऋजूनतस्य यस्य शिखर मनुजस्य दुरासदमासीत् । अथ ते अवारोहन् । अलिपर्वा च तान्गणयित्वा विंशतिद्वयमितानजानात् । तैः स्वस्वसप्तयो दृढगुल्मशाखासु बद्धा , तेषा वल्गा अपनीताः, कण्ठेषु च धान्यस्यूता आसञ्जिताः। अथ सर्वेऽपि ते स्वस्वपर्याणगोणीराददिरे। या भारवत्तया रजतमहारजताभ्या पूर्णा इवाबभुः । ५. अन्येभ्यो विशिष्टाकारस्तेषामेकतमः, अलिपर्वणा नायकत्वेन गृहीतः। स गोणी पृष्ठेन वहन् , तस्यैव वृक्षस्याधस्तात्प्राप, यत्रालिपर्वा निलीनोऽतिष्ठत् । ततः कुञ्जमध्येन शैलाग्रभाग यावदसौ प्राप्नोत् । तत्र स्थित्वासौ पपाठ- स्कन्दराज नमस्तेऽस्तु चौर्यपाटवदेशिक । दस्युदेव द्वारमिदं विवृतं कृपया कुरु ॥ ८ ॥ पठितमात्र एतस्मिन्पद्ये द्वारमेकमपावृतम् । येन गुहान्तर्गामी मार्गः प्रकाशतामगात् । तेन मार्गेण सर्वानप्यनुचरान्प्रविष्टान्प्रेक्ष्य सोऽग्रणीः स्वयमपि प्रविष्टः । द्वार च स्वत एव संवृतम् । .
- ६. ते चोराः कचित्काल गुहायामेव तस्थुः। तावत्तु स दारुभेदको वृक्ष एवाशरण स्थितः । यतोऽसौ चिन्तयामास- अह चेदधुनैव वृक्षा- दवरोहेय, ते चोराः, अनपक्रान्त एव मयि, कदाचिद्वहिरागच्छेयुः, मा च दृष्टमात्र गृह्णीयु:-इति। अथ केनचित्कालेन द्वारमपावृतम् । तेन च प्रथम नायको बहिराजगाम । द्वारदेशे च स्थित्वा गोणीपाणीन्सर्वानपि सहचरान्ब- हिनिःसरतो ददर्श । ततश्च पद्यमेतदपाठीत्- स्कन्दराज नमस्तेऽस्तु चौर्यपाटवदेशिक । दस्युदेव द्वारमिदं संवृतं कृपया कुरु ॥ ९ ॥ पठितमात्रेऽस्मिन्पद्ये गुहाद्वार स्वयमेव सवत्रे । पूर्वमिवैतदपि पद्यमलिपर्वा स्फुटमाकर्णयत् । तूष्णी चावर्त्य कण्ठगतमप्यकरोत् । ७. अथ सर्वे तुरगसादिनः, स्वतुरगानपनीतमुखस्यूतान्वल्गायुताना- रोपितगोणिकान्विश्लिष्टगुल्मबन्धाश्च विधाय, समारोहन् । एव सर्वान्ग- मनोद्यतानालोक्य स नायकस्ताश्चकर्ष । क्षणेन च तैः सह चक्षुर्विषयम- तिचक्राम। ८. एवं तिरोहितास्तान्वीक्ष्य स काष्ठकर्तनः समाशश्वास । स्वनिलयं तु सहसा न तत्याज । स हि शशङ्के-। सद्य एवावतरेय चेत् , ममापक्रम- णात्प्रागेव, कदाचिद्विस्मृत किमपि वस्तु नेतु चोरः कश्चन निवर्तेत, दृष्ट- मात्र च मा बन्दीकुर्वीत-इति । अतः स कंचित्काल तथैव निलीनः स्थितः । ९. यत्पद्यं पठित्वा चोराधिपो द्वारमपाववार तत् , यच्च पठित्वा तत्सं- ववार तत्, उभे अपि स सम्यक्सस्मार। चिन्तयामास च-| अपि 2 नाम पूर्वपद्येन मया प्रोक्तेन द्वारमिद विघटेत ? । पश्यामि तावत् । धना- गमस्तु सशयमारूढस्यापि भवेन्न वा । कुतः पुनरनारूढस्य । तन्नून प्राणभयमगणयता मया द्वारविघटने यत्न आस्थेयः । ततः पर दैवस्यायत्तम् । उक्तं हि- न संशयमनारुह्य नरो भद्राणि पश्यति । आरुह्य संशयमपि यदि जीवति पश्यति ॥ १० ॥ एवं विचिन्त्यासौ वृक्षतोऽवतीर्य गुल्ममध्येन शैलमुख यावद्ववाज, पद्यं चैतत्पपाठ- स्कन्दराज नमस्तेऽस्तु चौर्यपाटवदेशिक । दस्युदेव द्वारमिदं विवृतं कृपया कुरु ॥८॥ अस्मिन्गीतमात्रे द्वार तत्स्वय विवृतम् । १०. तदा, अत्र गुहायामन्धतमसेन भाव्यम् । कथं चात्र सुखेन मम १ । इति शङ्कमान एव सः, सर्वतः स्फुटप्रकाशा विस्तीर्णा शाला प्रेक्षते स्म । प्रेक्ष्य च भृश विसिमिये । सा शाला मनुजैः शैलग- र्भादुत्कीर्णासीत् । तद्गर्भश्च शिरोगतच्छिद्रप्रविष्टेन सहस्रकरकिरणनिकरण समुद्भासितोऽवर्तत । तत्र तेन विविधानि भक्ष्याणि राशीकृतानि दृष्टानि । महार्घाणा चीनाशुकाना पटान्तराणा च कुथानामपि निचयाः सुरचिता निरूपिताः । कनकस्य रजतस्य च स्थूलस्थूलाः शलाकाः सघशो विकीर्णा वीक्षिताः । तुन्दिलानि च निष्कपूर्णानि इतिभाजनानि विलोकितानि । वस्तुजातमेतत्प्रत्यक्षीकुर्वतस्तस्य चेतसि समुदभूत्-। यथा-गुहेयमने- कान्युगपर्ययान्यावच्चोरनिलयः स्यात्-इति । प्रवेशः स्यात् ६ ११. अथासौ सत्वरमनन्तरकरणीय निश्चिकाय । सपदि च गुहान्त' प्रविवेश । तत्क्षण च द्वार स्वय सवृतम् । न पुनः सवृत्त तत्तस्य भयाय । स हि तदुद्घाटनरहस्यमजानात् । ततोऽसौ स्वर्णपूर्णास्तावतीरजिनगोणी- राददे, यावतीर्वोढु तस्य गर्दभाः प्रभवेयुः । ताश्च गोणीर्यातायातैौर्देश- मानयत् । १२. अथ विवृतिमन्त्रेण द्वार विवृत्य ता गोणीनिष्कास्य रासभपृष्ठान्या- रोप्य काष्ठै छादयामास । येन न कोऽपि ताः पश्येत् । ततोऽसौ द्वाराबहिः स्थित्वा संवृतिमन्त्र व्याजहार । द्वार च सपदि सवृतम् । तद्धि, बहिःस्थितेन वन्मन्त्रो नोच्चारितः, तावद्विवृतमेवातिष्ठत् । ततोऽय द्रुततर काम- नगरं निवृत्तः । द्वितीयो भागः स्वर्णपरिमाणम भूतिं मनोऽतिगां प्राप्य दैवतः कृपणो जनः । नान्यतोऽलं गोपयितुं तां विस्मयवशं गतः ॥ ११ ॥ १. अथ गृह प्राप्य, अलिपर्वा बालेयानङ्गण प्रवेशयामास । बहिर निपुण पिदधौ । गोणिकानामुपरि रचितानि काष्ठान्यपसारयामास च । ताश्च गृहे नीत्वा मञ्चकगतायाः पन्याः पुर. पतिक्रमेण स्थापयामास । २. किमेतासु गोणीषु भवेत् ?-इति कौतुकाकृष्टा सा ता गोणीर्मन्द पस्पर्श । ताश्च द्रव्यगर्भा विज्ञाय, मुहूर्त विस्मयपरवशा न किमपि वक्तु शशाक । तया ह्येतावान्धनराशिरा जन्मनः कदापि नालोकितः । यत्स- त्यम् , अखिलेऽपि जगति विद्यमानेन धनेन पिण्डीकृतेनाप्येतावता भाव्यम्- इत्येतदपि तस्या कल्पनासरणिं नावतीर्णपूर्वम् । ३. अथ मुहूर्तेनेव वाचः प्रभवन्ती सा भर्तारमप्राक्षीत् । कुत इदम् ? कथ वा समासादितम् ? को वास्य स्वामी ?-इति । एव पृष्टोऽसौ प्रत्युवाच- मा तावत् । क्षण जोपमास्स्व । यथाकाल सर्वमेतज्ज्ञास्यसि । ततः स सर्वा अपि गोणी मावकैकश आवर्जयामास । सर्व च तद्गत धनमेकरा- शीचकार । पुञ्जीभूत तत्कनक प्रेक्षमाणायास्तस्याश्चक्षुपी प्रतिजधान, हृदय च लोभयामास । ४ साचिन्तयत्-। अहो शोभनम् , यदि सर्वमेतदस्मदीय स्यात् । तथा हि सति भर्तु, वनगमनेन वृक्षच्छेदनेन च प्रयोजनमेव न स्यात् । नाप्यपराह्नसमय यावत्काष्ठपाटनेन । न वेन्धनविक्रयार्थमासाय नगरभ्रमणेन । सर्वैरप्यस्माक मनोरथैः सपत्तव्यम् । न वा पुनरस्माभिरायसितव्यमपि । ५ अथोभावपि तौ भूम्यामुपविष्टौ । अलिपर्वा च जायायै मूलतो वर्णयामास-। कथ तेन तत्स्वर्णमासादितम् । अब्रवीच्च-| भूयश्च तत्र गच्छेयम् । इतोऽपि प्रभूत धनमाहरेयम् । किंतु रहस्यमेतत्त्वया सर्वथा रक्षणीयम् । तदधिकृत्य कस्मैचित्किचिदपि न वक्तव्यम् । ६. आवयोरेव सर्वमेतद्वित्तम् । इति विदित्वा सा गृहिणी हर्पनिर्भरा बभूव । सपदि च, धनमान जिज्ञासुरसौ समुत्थाय तद्गता मुद्रा एकैकशो भूयोभूयः सख्यातुमारेभे । ता भर्तोवाच- प्रिये किमिदमारब्ध त्वया ? बहुलत्वान्नैतद्गणयितु शक्यम् । उद्याने गर्नामेका निर्माय स्वर्णमेतत्तत्र निखनेव । ततश्च कालेकाले यथेष्टा मात्रामुद्धरिष्यावः । किंतु, सद्य एव धनमेतत्सुगुप्त कर्तव्यम् । मा कश्चित्तस्य वार्तामपि जानीयात् । ७. भार्या प्रत्युवाच । नाथ युक्तमुक्त वया। किंतु, मास्तु सर्वथा सूक्ष्मतः, यावत्सूक्ष्ममपि तावज्ज्ञातव्यमेवेदं मया-1 कियद्धनमावयोर्वर्तते । अतोऽह गत्वा कस्यांश्चित्प्रतिवेशिन्याः कुडवमेकमानेष्यामि । खननव्यापृते च त्वयि तद्वसु मास्यामि । एतस्मिन्भ; भणितम्- किमेतेन धनेन मानतो ज्ञातेन १ करोषि चेन्मद्वचनम् , तिष्ठतु तत् । अथ बलवती ते वाञ्छा, मीयतामिदम् । कस्मैचित्पुनर्नाख्यायताम् । ८ एव कथमपि भर्तुरनुज्ञा लब्ध्वा सा नातिदूरस्थित यातुरगारमगात् । ता चोपस्थाय मानभाण्ड ययाचे । तया भापितम्-। एषाह ददामि । किं तूच्यता तावत्कियद्मान, लघु बृहद्वा, त्वयापेक्ष्यते । सा प्रत्यभाणीत् । अल्पेनैव मानेन ममार्थः सपद्येत। तन्निशम्य कश्यपभार्या प्रत्युवाच- क्षण- मेक प्रतिपालय । यावदहमभ्यन्तरान्मानमानये । ९. अथान्तर्गता सा स्वगत बभाषे- जानामि खलु गाढमकिंचनत्वम- लिपर्वणः। तस्य गेहे कुतो मानपर्याप्तो धान्यराशिः १ मानेन तस्य प्रयोजनं स्यात्-इत्येतद्विचिन्तयन्त्या मम, यत्सत्य महान्विस्मयो जायते । मया पुनस्तत्कारण चातुर्येण ज्ञातु शक्यम् । एवं विचार्यासौ, अन्तर्मान तलदेशे जतुलेशमासञ्जयामास । तच्च मान यातरमुपनीयाब्रवीत् । किं करोमि ? न मया मान शीघ्रमासादितम् । येन त्व कालप्रतीक्षा कारिता । एतत्त्वं क्षन्तुमर्हसि ।
तृतीयो भागः भ्रातृदयम् अहो धनवतामेव धनलोभो निरन्तरम् । पश्य कोटिद्वयोपेतं लक्षाय प्रणतं धनुः ॥ १२ ॥ १. अथालिपर्वणो भार्या गृह निवृत्ता । स्वर्णमुद्राश्च मातु प्रवृत्ता । सा तन्मान मुद्राभिभूयोभूयः पूरयामास रेचयामास च । वेदिकाया च नाति- तुङ्गान्मुद्रोच्चयानचयामास । ततोऽन्यतमोच्चयगतानि सुवर्णानि सा सक- लयामास । ततश्चैकीभूतः सुवर्णराशिः कतिमुद्रो भवेत्-इति सा बुबोध । एतदनुष्ठाय सा भर्तारमुपससार । तस्मै च मुद्रासख्या कथयामास । अनेन समयेन तस्य गर्ताखनन समाप्तप्रायमासीत् । यावच्चासौ कनकजातमगारत उद्यानमवहत् , तावत्सा मान प्रत्यर्पयितु गता। किंतु तया न लक्षितम् , यन्निष्क एको मानस्यान्तस्तले लग्नस्तिष्ठति-इति । अथ देवरभार्या- मुपेत्याब्रवीत् । मान ते मया तूर्णमानीतम् । अनुगृहीतास्मि भवत्या मान मानाय मह्य ददत्या-इति । ततः सा गृह प्रति निवृत्ता। २. कश्यपपल्या चिन्तितमासीत्। यथा दैवतः प्राप्त प्रभूत किमपि धान्य पिष्ट वा मातु मानं मे यात्रा नीत भवेत् । तस्या च निष्क्रान्तायामेव, कश्यपवधूर्मानस्यान्तस्तल पाणिना परामृशत् । तत्र च हेमनिष्कमा- सक्तमासाद्य विस्मयवशमयासीत् । ३ तदा, निर्धनो मे देवरो धनमधिगतवान् इति मत्वा सा न तुतोष । किंतु सजातमत्सरा भृश विव्यथे । सा भूयोभूयः स्वगत बभाषे- कथं हताशौ मे देवरश्च याता च धनसंपदा न केवलमावयोः साम्य किंतु समधिकभाव स्पृशतः ४ अहो अद्भुतम् , यद्यातुर्मे काञ्चनस्य सचय. । स च न सख्यया सख्येय. ! किंतु केवलं मानेन मेयः । कुतोऽनेन देवृहतकेन सर्वमिद समासादित स्यात् ?–इति तु दूरेण मे तर्कमतिवर्तते । समयेऽस्मिन्कश्यपो गृहे न सनिदधे । यथानित्यमखिल दिन पण्य- शालायामतिवाह्य स प्रदोषे गृह प्रत्यागमत् । भ्रातुर्विभवातिशय श्रुत्वा भर्ता मे भृश विस्मयेत-इति तया चिन्तितम् । किंच, तमधिकृत्य भर्तार भापितु सा बलवदुत्कण्ठिता। तदागमन च यावत्कथकथमपि काल यापयामास । चिन्तयामास च- अहो मन्द कालो व्रजति । अथ चिरेण गृहायात तं सा बभाषे– मन्ये त्वमात्मानमलिपर्वणो धनीयासं कलयसि । किंतु भ्रान्तिरेवेयं त्वदीया । स हि श्रीमत्त्वेन त्वत्तो भूयसातिरिच्यते । तदीय धनं सख्यातिवर्तित्वान्मानेनैव परिच्छेदक्षमम् । एतदाकर्ण्य ता कश्यपः पप्रच्छ-। किमेतदुद्यते त्वया ? न खलु विभावयामि । स्फुट कथय। यथा ५. एवं पृष्टा सा तमभाणीत्-। यात्रा मे मानभाण्ड याचित्वा नीत प्रत्यानीत च । मया च निपुणोपायेन किमेनया मितम् इति ज्ञातम् । एवं मणित्वा सा तत्प्रत्यायनार्थ जातरूपनिष्क तस्मै दर्शयामास । स तु निष्कः, पुरातनत्वान्मनुजकरादिना च भूयः स्पृष्टत्वात्तथा मसृणः सजातः, तद्गत राजमुद्रादिक स न विभावयामास । ६. गर्भेश्वरी कन्यामूढवान्कश्यपः, दरिद्र कनीयासमात्मनो भ्रातर न जातु सस्नेहमुपाचरत् । न वा किमपि साहाय्य तस्यानुतष्ठौ । किं च सोदरोचितमादरपि तस्मै न दर्शयामास । उक्त हि- , अधनाद्धि निवर्तन्ते ज्ञातयः सुहृदोषर्थिनः । अपुप्पादफलादृक्षाद्यथा कृष्ण विहंगमाः ॥ १३ ॥ धनमाहुः परं धर्म धने सर्व प्रतिष्ठितम् । जीवन्ति धनिनो लोके मृता ये त्वधना नराः ॥ १४ ॥ अतोऽधुना भ्रात्रा भाग्यतो लब्धं धनराशिमाकर्णर्यंतः कश्यपस्य कुतः परितोषः ? केवल तीव्रो मत्सरानलस्तस्य चेतसि सधुक्षित । तौ दपती, अलिपर्वाणमुद्दिश्य, ईर्ष्यारोपकलुपचेतसौ बभूवतुः । यत्सत्यम् , तमेवार्थ मनसि विपरिवर्तयन्कश्यपस्तस्या निशि क्षणमपि निद्रा नालभत । अन्येयुः प्रागेव प्रभातादुत्थाय स क्रोधपरुप एव महता संरम्भेण भ्रातुर्निवेशन प्राप। त चानुयुयुजे-। रे अलिपर्वन् , त्व तावज्जनान्प्र- त्याययितु प्रयतसे- । यत्त्वमतीव दुर्गतः कष्टश्रितः, किंबहुना याचक- निर्विशेपश्च । धन पुनस्ते न सख्येयम् , किंतु मेयम् । एतस्मिन्नलिपर्वा प्रत्युवाच- । आर्य, व्यक्तमुच्यताम् । नाह त्वदुक्त गृह्णामि । ७. तदा कश्यपोऽब्रवीत्। मद्वचसस्त्वमात्मानमगृहीताथ दर्शयसि । किंतु, किमनेन वाग्व्यवहारेण १ । एष निष्क एव त्वा गृहीतार्थ विधा- स्यति । एतावदुक्त्वा, भार्यादत्त स्वर्णनिष्क भ्रात्रे दर्शयित्वा कश्यपेन गदितम् । निरूप्यतामेप निष्क. । एप तस्य मानस्याभ्यन्तरे लग्नोऽभूत्, यत्त्वद्भार्यया मद्नेहिन्याः सकाशान्नीतमासीत् । तद् ब्रूहि । कियन्त ईदृशा निष्कास्त्वत्संनिधौ वर्तन्ते । ८. एतन्निशम्यवालिपर्वा विवेद-। यत्-आत्मनो धनागमवृत्त मा कस्यापि विदित भवतु-इति मयाभिलषितम् । तत्पुनर्मद्गृहिणीचापला- त्कश्यपेन च तज्जायया च स्फुट विज्ञातम्-इति । किंतु 'जातस्याजनन १२ नास्ति'-इति विचिन्त्य, विस्मयं वा विषाद वा लेशतोऽप्यना- विष्कुर्वन्स भ्रात्रे बभापे- आर्य सत्यमेतत् , यन्नाह तथा दरिद्रो यथा केचिन्मा गृह्णन्ति । सप्रति हि यावन्मे धन वर्तते तावत्कदापि मदीयं स्यात्-इति न जातु मया सभावितपूर्वम् । तदा कश्यपेनोक्तम् । एतत्तु स्पष्टमेव । किमेतेन- ज्ञातज्ञापनेन ? एतत्तु वेदितुमिच्छामि, कुतस्त्वयेद धनमाहृतम् ? सहजेन प्रतिगदितम् । अवधेहि । श्रावयामि त्वा मद्धना- गमवृत्तम् । ९. एव कृतप्रस्तावोऽलिपर्वाग्रजाय वर्णयामास- वनगता चोरगुहा कीदृशी वर्तते। कथ च दैवयोगात्तेन सा दृष्टा। अब्रवीच्च-। रहस्यमेतदक्षितु प्रतिजानीषे चेत् , अहं त्वामेतस्याः सपदः सविभागिन करिष्यामि । १०. कश्यपः साटोप प्रत्यवादीत् । अपेक्षितपूर्वमेव मयेदम् । एत- त्ववगन्तुमिच्छामि- सा गुहा कस्मिन्वनोद्देशे वर्तते । कैश्च लक्षणैः परि- चीयते । येन यथाकाममह तत्र गच्छेयम् । एतच्चेन्मम कथयितु नेच्छसि, अहमेतमर्थ सपदि गत्वा नगरपालाय निवेदयिष्यामि । तथा सति न केवल त्व न पुनर्धन लप्स्यसे, अपि च लब्धपूर्वमपि त्वत्तो नगरपाला- ज्ञया हरिष्यते । तन्मध्याच्च महतीमर्थमात्रा पारितोषिकमिति प्राप्स्यामि । ११. एतद्वचनमलिपर्वणो न मनागपि भयाय बभूव । स हि सहोदरे सदैव स्निग्धवृत्तिरेवासीत् । अतोऽधुनासौ कश्यपाय न केवल तद्गुहायाः स्थान लक्षणानि च, अपि तु तस्या अपावरणस्य सवरणस्य च मन्त्री व्याचख्यौ ।
१३ चतुर्थो भागः गुहानिरुद्धः कश्यपः लोभाद्भवति संमोहः संमोहाद्रंशते स्मृतिः । काभावः स्मृतिभ्रंशात्स्यात्काभावतो मृतिः॥ १५ ॥ १ एव विदितवेदितव्यः कश्यपो गृह निवृत्तः । अनुजन्मना प्रदत्तो धनसविभागो न जातस्तस्य तोषाय। वाञ्छित हि तेन- यच्छक्य चेत् , अलिपर्वणः पूर्व गुहा तामासाद्य निखिल तद्गत वस्तुजातमात्मसात्कुर्याम् । २. एवं कृतमतिरयमन्येयुः प्रत्यूषसि त्यक्तशय्यः, दश चक्रीवतः पृष्ठदत्तगोणिकान्विदधौ। ताश्चादाय गुहा प्रतस्थे। मार्गे चिन्तयामास- अद्याह गुहावर्ति धन खरारोपितासु गोणीषु भृत्वाहरिष्यामि । किं च, अव- शिष्ट चेत् , तदर्थ द्वितीयेऽवसरे यथापेक्षितान्रासभान्नेष्यामि-इति । अथा- लिनोपदिष्ट मार्ग गृहीत्वा त वृक्षमुद्दिश्य चलितः, यस्मिन्नलियूँढोऽतिष्ठत् , यस्य च सविधे स गुहागिरिवर्तते स्म । ३. ततश्च गुहाद्वारमासाद्य सोऽपाठीत्- स्कन्दराज नमस्तेऽस्तु चौर्यपाटवदेशिक । दस्युदेव द्वारमिदं विवृतं कृपया कुरु ॥ ८॥ समनन्तरमेव द्वार विवृतम्। कश्यपे चान्तः प्रविष्टे तत्स्वयमेव सवृतम् । अथ विपुलावकाशे तस्मिन्गुहागर्भे, तत इतो दत्तदृष्टिरसौ व्यचारीत् । भ्रात्रा कथितादपि च समधिक धनोच्चयमद्राक्षीत् । यथायथा च तत्रासौ विचचार, तथातथा गरीयसि विस्मये भनोऽस्य मज्जति स्म । धनलोभपर- वशः कश्यपः स्वर्णं तत्प्रेक्षमाणश्चिरमस्थास्यत् । किं तु सद्यस्तेन स्मृतम्- .
यदहमत्र न वन दिदृक्षुः, किं तु धन जिहीर्षुः, आगतोऽस्मि । एतदर्थ च वेसरदशकमपि मयानीतम् । ततोऽसौ दशवेसरपर्याप्ता. स्वर्णपूर्णाः प्रसे- विका द्वारदेशमनयत् । यतस्ता बालेयपृष्ठानि सुख शीघ्रमारोपयेत् । ४ अधुना तस्य मनो लप्स्यमानवित्तस्य दर्शनेन भृश व्यग्रमासीत् । येन गुहाद्वारविवृतिमन्त्र स सर्वथा विसस्मार । एतावदेव केवल बुबोध यत्किमपि देवताविशेपाभिधान मन्त्रे वर्तते-इति। अतः स रुद्रभैरवबज्राङ्गा- दीनि कतिपयानि देवतानामानि व्याहार्षीत् । किं तु नेकेनापि द्वारविध- टन जातम् । यतस्तन्मन्त्रविशेपस्यैव पठनेन साध्यमासीत् । ५. अथात्मानं दस्युगुहाया निरुद्धमालोक्य कश्यप. सभयश्चिन्तया- मास-1 द्वारमेतद्वर्जयित्वा, अपरो बहिर्यानमार्गों नालोक्यते । घोरतरे खलु प्राणसशये पतितोऽस्मि । व्यक्तमेष मत्प्रमादस्यैव दोषः । तथा चोक्तम्- न हि प्रमादात्परमस्ति किंचिद्भयाय पुंसामिह जीवलोके । प्रमत्तमर्था हि नरं समन्तात्त्यजन्त्यनाश्च समाविशन्ति ॥ १६ ॥ अथ तदवस्थोऽयम् , उपद्वारमुच्चयीकृता प्रसेविकाः सखेद निपातया- मास । मन्त्र च स्मर्तुकामः, इतस्ततो बभ्राम। किन्तु स मन्त्रो नास्योप- स्थितः । अश्रुतपूर्व इवायमस्य सवृत्त । ६ अथ पूर्वाह्णविहार समाप्य मध्याह्नवेलाया दस्यवो गुहामुद्दिश्य चलिताः । गुहाया नातिदूरमेव पृष्ठगतरिक्तगोणिकान्कश्यपखराश्चरतो ददर्श। सपदि विस्मितचेतसस्ते सर्वे महान्त जवमातस्थुः । सममेव च गुहामुख प्रधाविताः । तत्क्षण च तान्गर्दभानितस्ततो दूर विद्रावयामासुः । तथा हि, एते गर्दभाः कुत्र गच्छेयुः .. इत्येतया चिन्तया किं तेपा प्रयोजनम् ? केवलमेतदेव तैर्जिज्ञासितम्-क एतेषा स्वामी स्यात्-इति ।
१५ ७ अथ तुरगावरूढास्ते खड्गानाचकृषुः । केचिच्च तत्खरस्वामिनं बाह्याया वृक्ष्यराज्यामन्विष्यन्ति स्म । यावत्तेपा मुखरः शेषैः सहचरैः सह द्वारमासाद्य विवृतिपद्य पठितवान् । ८ अत पूर्वमेव, गुहान्तनिरुद्धेन कश्यपेन सवेगमुपसर्पता सप्तीना खुरशब्दः श्रुत आसीत् । तेन चानुमितम् । यदस्यवो निवृत्ताः इति । मेने च– अहमेतैश्चोरैर्भुव हन्तव्यः । तथापि मया यावच्छक्यमात्मा रक्षणीय. । उक्त हि मनीपिभिः- अवश्यं प्राणिना प्राणा रक्षितव्या यथाबलम् । त्यक्तं न किं तांस्त्यजता रक्षितं किं न रक्षता ॥ १७॥ अथ स्वप्राणत्राणार्थ तीव्रतर यत्नमास्थातु स निश्चिकाय । तदर्थं च, समुचित स्थानमिति कृत्वा, स द्वारस्य पश्चिमं भागमभजत् । येन, विवृ- तमात्रे द्वारे स झटिति निष्क्रामेत् । चिर सुस्मूर्षितोऽपि यो मन्त्रस्त नोप- स्थित , तमेवासौ स्तनपतिना प्रोक्त सविस्मयविषादमाकर्णयामास । द्वार च सद्यो विघटितमीक्षाचक्रे । अथ प्राणान्परीप्सुः पलायमानः कश्यपश्चण्ड वेगमाश्रित्य द्वार प्रति प्रधावितः । प्रविशन्नेव दस्युमुख्यः, चण्डवेगेन तेन सघट्टमेत्य, तत्क्षण भूमौ पपात । बहुभ्यः पुनस्तदनुचरेभ्यः कथ तेनात्मा रक्षितव्यः ? ते हि सर्वे खङ्गपाणयो द्वारदेशमावृत्य तस्थुः । तैश्चासौ तत्क्षण व्यापादितः । ९ प्रविष्टमात्राश्चोरा गुहागर्भ परितो निपुण निरूपयामासुः । कश्यपेन गर्दभारोपणार्थमुपद्वारमानीताः प्रसेविकास्तैरभ्यन्तरं नीताः । यथास्थान प्रतिष्ठापिताश्च । किं तु प्रभूतत्वात्प्रसेविकाना तत्पूर्वमलिपर्वणापहृताना तासा हानिस्तै व विज्ञाता । अथ तमेवार्थ चिन्तयितु ते सर्व एकत्रोप- विष्टा । एतत्तु तेषा स्फुटीभूतम् , यदन्तर्गुह प्रविष्टः कश्यपो बहिर्गन्तुम- समर्थ आसीत् । किं तु कथ तेनात्र प्रवेशः कृतः । इत्येव तैः परमार्थतो जिज्ञासितम् । तत्पुनस्तेषा सर्वथा दुरूहमेवासीत् । १०. तत्र गुहाया प्रकाशप्रवेशार्थ रन्ध्रमेकमूर्ध्वदेशेऽवर्ततैव । किंतु गुहाशिखरस्योत्तुङ्गत्वाद्वहिर्भागे च भित्तीनामृजुत्वादूर्ध्वत्वाच्च प्रथम ताव- द्रन्ध्र यावन्नकोऽप्यारोढ प्रभवेत् । अथ कथमप्यारुह्य रन्ध्रेण प्रविष्ट इत्यपि सभावित चेत्तदपि विनावतरणसावन नैव सभवेत् । ईदृशं च रज्ज्वादि किमपि साधन तत्र तेषा दृष्टिपथ नागात् । अतस्तैश्चिन्तितम् । सद्यो हतोऽय चोरो न रन्ध्रेणानेनावतीर्णः । तथा हि नात्र नि श्रेण्यादिक किमपि वर्तते । भूयश्च प्रोचुः । द्वारेणापि चोरप्रवेशो न सभवति । यतः, एतत्प्रवेशरहस्यमस्माकमेव विदितम् । तैर्न खलु ज्ञातम्- । यत्पूर्वस्मिन्नेवावसरे तदधिपोच्चारित उद्घाटनमन्त्रोऽलिपर्वणा निभृतमाकर्णितः-इति । ११. अथ सर्वैरपि तैरैकमत्येन व्यवसितम्-। यदत ऊर्च स वसु- राशिस्तै सुनिपुणमवेक्षणीयः। येन न कोऽपि तमपहर्तुं पारयेत्-इति । तदर्थ च तैनिश्चितम् । यत्कश्यपस्य देहो द्विधा कल्पनीयः। तस्य खण्डे चान्तर्भागे द्वारस्य पार्श्वयोवलम्बनीये-इति । मत हि तैः- । यथा तत्खण्ड- दर्शनेन भविष्यति काले तेषा कोशं स्पष्टु न कोऽपि धृष्णुयात् । किं तु सर्वोऽपि जानीयात्-। तबविणापहारप्रयत्नः का घोरा दशामा- वहेत्-इति । १२ तथानुष्ठाय द्वारं च निपुण पिधाय लुण्ठनेन धनमर्जितुं ते सर्वे भूयोऽपि चलिताः । नगरानगर प्रवसतो वणिक्सार्थानवस्कद्यावलुण्ठ्य च, ते धनानि समाहरन्ति स्म ।
पञ्चमो भागः कश्यपशवोपलब्धिः अविवेकाद्भवेन्मृत्युः कार्य सिध्येद्विवेकतः । कश्यपश्चालिपर्वा च मतावत्र निदर्शने ॥ १८ ॥ १ अथ प्रवृत्तेऽपि प्रदोषे कश्यपमनागत प्रेक्ष्य तद्नेहिनी महती चिन्तामाविशत् । ससभ्रम च देवरगृह गत्वा बभाण- देवर त्वया तु प्रायोऽनुमित स्यादेव-। यद्माता तेऽनुदित एवारुणे वन प्रस्थितः । तत्प्रयो- जनमपि तवावगतमेव । अधुना पुनः प्रवृत्तायामपि क्षपाया नासौ प्रत्या- गतः । येन मानस मेऽनिष्टमेवाशङ्कते । २. भ्रातुरतिमात्रमर्थलोलुपत्व सम्यग्जानानोऽलिपर्वा प्रागेव चिन्तया- मास-। यत्कश्यपोऽन्येचुरेव चोरगुहा धनार्थ यायात्-इति । अत एव तद्ध- नविभागमुद्दिश्य तेन सार्ध कलह परिहर्तुकामोऽसौ दिने तस्मिन् गृह एवा- वतस्थे । उक्त हि- शतत्यागः कलेः श्रेयानिति स्यात्प्राज्ञसंमतम् । विना हेतुमपि द्वन्द्वमेतन्मूर्खस्य संमतम् ॥ १९ ॥ उदारचरितत्वाच्च मन्यते स्म- अखिलमप्युर्वरित धन भ्राता चेदात्म- सात्कुर्यात् , न कामपि मदीया हानि कलयामि । प्राप्तपूर्वेण हि धनेन मया यावदायु. सुखेन जीवितव्यम् । प्रजावती च प्रकाश प्रोवाच- आर्ये, मन्ये- तमःप्रवृत्तेः प्राग्नगरप्रवेशो न क्षेमाय-इत्येव विचिन्त्य भ्राता मे निशाप्रवृत्तिमेव प्रतीक्षमाण. बहिविलम्बते । अतो मुहूर्तादिव तेन प्रत्यागन्तव्यम् । त्वया चात्र विषये न मनागपि चिन्ता कर्तव्या-इति ।
३. एतद्देवरोक्त श्रुतमात्र तस्या प्रत्ययाय समाश्वासनाय च जातम् । यतो दृढ सा मेने-। यथा कोशगत वृत्त न लेशतोऽपि स्कुटीकर्तु, प्रत्युत सर्वात्मना रहस्यमिति रक्षितु युज्यते । अथ गृह प्रत्यागत्य सा निशीथ यावज्जोप प्रतिपालयामास । किंतु निवृत्तेऽपि निशीथे कश्यपो न निवृत्तः । तदा- सा भूयोऽपि भूयसा दुखाकुला बभूव । तस्याश्च दुःखोपचये, अयमसाबारणो हेतुरासीत् , यत्तया निजशोकहेतुर्न कस्मै- चित्प्रकाश्यः । येन कियतापि तदाविः सह्यता यायात् । ४. तदा सा चिन्तयामास- विगस्तु मम चापलम् । मया हि यातुर्मानप्रयोजनस्य हेतु जिज्ञासमानया सकलोऽयमनर्थः स्वयमेवोत्पादितः । एव तीव्रमनुशयाना सा शय्योपरि निशाशेष क्षपयामास । प्रभातायामेव यामिन्या देवृनिवेशन वव्राज । ता म्लानवदनामालोक्यैव, अलिपर्वा तद्व- धूश्च कश्यपमनिवृत्त तर्कयामासतुः । ५. अथ प्रजावत्याः प्रार्थनामप्रतीक्ष्यैव, अलिपर्वोदतिष्ठत् । खरत्रय- सहितश्च चोरावास प्रातिष्ठत । प्रस्थितश्च भ्रातृपत्नीमुवाच । यथा-धैर्य मा त्यज । कश्यपः खलु क्षेमेण प्रत्यायास्यति । स्वगत तु बभाषे- भ्राता मे धनाहरणे सम्यगविचार्यैव प्रवृत्तः । नान्यथा तस्या- निवर्तन सभवति । शङ्के- प्रायेणासौ चोरैर्गृहीतः स्यात् । तथा चोक्तम्- मधु यः केवलं दृष्ट्वा प्रपातं नानुपश्यति । स शोचेद्रंशमापद्य विवेकाच ततस्तटात् ॥ २० ॥ विवेकशीलस्य पुनरन्यदेव भागधेयम् । कवि रविराह- सहसा विदधीत न क्रियामविवेकः परमापदां पदम् । वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव संपदः ॥२१॥ व्यक्तम्, पथि स न कश्यपस्य न वा तच्चक्रीवता किमपि चिह्नमद्राक्षीत् । येन मनस्तस्य तत्तदनिष्ठ शङ्कते स्म । गुहामासाद्य द्वारं परितो रुविरसेक प्रेक्षत । येन सजातपूर्वा तस्यानिष्टशङ्का ववृधेतराम् । अथ विवृति- मन्त्रोच्चारणवशाद्विवृते द्वारे प्रतिपार्श्वमेकमिति भ्रातुः शरीरशकले अवलम्विते तेन निरूपिते । तदा तस्य हृदये कियत्साध्वस समुत्पन्न स्यात्-इति न वाचा व्याख्यातु, केवल मनसोत्प्रेक्षितु यदि किल शक्य स्यात् । ६ किमवुना प्रतिपत्तव्यमिति सोऽहाय निश्चिकाय । तच्छवावगुण्ठ- नाय पटादिक किमप्यन्वेष्टु स गुहागर्भ जगाहे । बृहत्यौ प्रसेविके आदाय तदन्तः शरीरखण्डे निदधौ । ते च पटेनैकेन सर्वत आच्छादयामास । एव सुगुप्त तच्छरीर गर्दभमेकमारोप्य तस्योपरि दारुभार रचितवान् । अन्यौ च वालेयौ स्वर्णपूौँ स्यूतावारोप्य तद्गोपनार्थ तयोरप्युपरि काष्ठभारौ निदधौ । ततश्च मन्त्रेण द्वार पिधाय निष्क्रान्तः। किन्तु, आ प्रदोषाद्वनान्त एव काल यापितवान् । ७ अथ वासरे निवृत्ते तमसि च घन व्यवगाहमाने स नगर प्रविश्य गृहमाससाद । अथ कोशवाही गर्दभावगण एव विससर्ज । यत्र तौ तद्भा- र्ययापनीतभारौ क्रियेयाताम् । तृतीय तु रासभमारोपितभ्रातृशव स सोदर- सदनं निनाय । तत्र प्राप्तोऽसौ द्वार मन्दं ताडयामास । तच्च मारजन्या नाम गृहदास्या सादरमपावृतम्। सा प्राज्ञा च चतुरा च रहस्यरक्षणक्षमा चासीत् । अलिपर्वा तं गर्दभमङ्गणं निनाय । तत्र च तस्य पृष्ठतः प्रसे- विके अवरोपयाचकार । अथ मारजनि रहसि प्रोवाच- यदधुना मया वक्तव्य तत्त्वया रहस्यमिति गोप्तव्यम् । अन्यथा तव स्वामिन्या मम च विनाशो ध्रुवः । स्वामी ते चोरापादितः । एते च प्रसेविके तच्छरीर २० धारयतः । कित्वमुष्य दाहापूर्वमस्माभिस्तथा वर्तितव्य यथा जनो गृह्णीयात् । यदसौ गृहस्थित एव रोगवशादुपरतः । अत्रोपायकल्पने त्वमेव सर्वथा प्रमाणम् । गच्छ तावत् । स्वामिनी च ब्रूहि- देवरस्ते किंचित्त्वा वक्तु- मिच्छति-इति । मदुक्त मनसा दृढ धारयस्त्र । सर्व पुना रहस्यत्वेन रक्षणीयमिति निर्बन्धेन कथयामि । ८. एवमादिष्टा मारजनिः स्वामिनीमुपेयाय । अलिपर्वा च तामनु- जगाम । देवर दृष्टमात्र सा पप्रच्छ- किं वृत्त ते भ्रातुः १ त्वदाकारस्तु विपरीतमेव किमपि गमयति । स प्रत्युवाच- प्रजावति यदधुना मया- ख्येय तत्त्वया रहस्यत्वेन रक्षणीयम् । नोचेदुभयोरप्यावयोर्बुवो नाश । किंतु प्रथम त्वया शोक निगृह्य मनः समाधाय मद्वचः सावशेषमकृत- फूत्कारमेव श्रोतव्यम् । तदा सा बभाण-। हन्त ! प्रस्ताव एष भर्तार मे मृतं ज्ञापयति । एव गतेऽपि वृत्तान्तमिम सुगुप्तमेव वारणीय कलये । अतः प्रस्तूयता यद्वाच्यम् । अवहितास्मि । ९. एव प्रचोदितोऽलिपर्वा जगाद-। गुहा गतोऽह भ्रातर मे घातितं तदेहं च द्विवाकृतमुपलब्धवान्। अथ तच्छरीराधै गर्दभमारोप्यात्रानीतवान् । ते च प्रसेविकाद्वयान्तर्निहिते अङ्गणे वर्तेते । अथाधुना गृहगत एवासौ गदेन केनापि पञ्चत्व गतः—इति लोके प्रकाश्य शरीरमिदमग्निदानेन सभावनीयम् । मन्ये--। एप कृत्यभारो मारजन्या एव हस्ते समर्पणीयः । मयापि यावच्छक्य तस्याः साहाय्यमनुष्ठेयम् । एवं वचनमादाय रासभादेहार्धे अवरोप्य स रासभ तं निजावास निनाय ।
षष्ठो भागः रहस्यरक्षणम् धनैर्जन वशीकृत्य बिभ्रदाकारमीप्सितम् । पराभ्यूह परिहरन्नरः सिद्धिमवाप्नुयात् ॥ २२ ॥ १. अथान्येशुरुषसि समुत्थाय मारजनिरगदवणिजमेकमाससाद । उवाच च- त्वनिर्मिताः सर्वरोगशमनीर्वटिका मह्य देहि । सोऽपि ता वटिका- स्तस्या उपाहरत् । अन्वयुत च-1 को रुग्णोऽस्ति ? एतस्मिन्सनिःश्वास सा जगाद-। हन्त स्वामी मे स्वय रुग्णोऽस्ति । किं च तस्य विकारो ज्ञातु. मपि न शक्यते । स हि न किंचिदभ्यवहरति । न वा व्याहरति-इति । एतावदुक्त्वा वटिका गृहीत्वा सा निष्क्रान्ता । २. अथापराह्नसमये सोदश्रुमुखी भूयो भपजापणिकमुपस्थायाब्रवीत् । भद्र, शङ्के-। मद्गृहपतिरचिरेण परलोक यायात् । तथापि मृतकल्पस्य सजी- वनक्षमा महामृत्युजयमात्रा मह्य देहि । उक्त हि- यावच्छ्वासं नैव जह्यात्प्रयासम्- इति । अन्यथा तु, एतानि वटिकागुटिकारसायनादीनि कियत्तस्यो- पकुर्युः इति सुव्यक्तमेव । अतिमात्र हि रुजा क्षीणत्व मे स्वामिनः- इति । ततश्च लब्धागदा सा गृह निवृत्ता। ३. तस्मिन्दिने प्रभातादारभ्य प्रदोपसमय यावत्, अलिपर्वा तत्कु- टुम्बिनी च विषण्णवदनौ कश्यपनिवासमार्गेण भूयोभूयो गतागतानि कुर्वन्तौ जनैरालोकितौ । अतः पूर्वरात्रे कश्यपवध्वा मारजन्याश्च भर्तुर्मरण नामोद्दिश्य विलापाश्रुत्वा, ते न मनागपि विस्मय गताः । मुहूर्तादिव च मारजनिस्तेभ्यः स्वामिन मृत कथयामास । - २२ ४. सा जरन्त कचिच्चर्मकार जज्ञौ । य इतरेभ्यः पूर्वतरमात्मनः कर्म- शालामपावृणोत् । सापररात्रे महत प्रत्यूषापूर्वमेव त चर्मकारमुपतस्थौ । तस्य च सुप्रातमाशशसे । तत्करे च स्वर्णनिष्कमेक पातयामास । मुष्ट- वाहनामाय चर्मकारो नर्मशीलो वर्तते स्म । प्रतिकूलेऽपि व्यतिकरे न तस्य सतोपोऽहीयत । ५. पाणिपतित निष्क प्रेक्ष्य स सहर्षमुवाच- अहो शुभ दिनमेतत् । मया हि प्रथमतरमेव निष्को लब्धः । स च सौवर्णः। किं चाप्रार्थितः । तदुपरि च पूर्वमेव कर्मानुष्ठानात्-इति । अथ मारजनिं ब्रूते-। त्वया मम सुप्रभात न केवल वाचाशास्यते, अपि च धनदानेन वस्तुत संपा- द्यते । ब्रूहि मृगनयने, मत्तः किमपेक्षसे ४ एपोऽहमुद्यतस्तदनुष्ठातुम् इति । अथ सा बभाण- आत्मनः सीवनोपकरणान्यादाय मामनुसर । किं तु त्वा प्रथममेव स्फुट वच्मि । यत्कमप्युद्देश प्राप्य, अह ते चक्षुपी पटावृते करिष्यामि । तत्त्वया सोढव्यम् इति । ६ स चर्मकार, एतदाकर्ण्य, क्षण तत्कर्तुमनुत्सहमानो व्याजहार- कच्चिदीदृश किमपि कर्म न मा कारयसि यत्पाप वा मादृशानहै वा भवेत् ? सपदि मारजन्या तस्य पाणौ निष्कान्तर निहितम् । उक्त च- मा मैवम् । अयशस्कर वा भवादृशस्यानुचित वा न किमपि कार्य त्वत्तः प्रार्थ्यते । अतो वीतशङ्केन मनसा मामनुयाहि । ७. अथ स चर्मसधाता तामनुवबाज । मार्गे किंचित्स्थानमासाद्य सा त वस्त्रेण दृढावृतलोचन चकार । तदवस्थ च त स्वामिगृहाभ्यन्तरगत शयनागार प्रावेशयत् । अपनीतनेत्रपटं च व्यदधात् । अस्मिन्नेवागारे मृतस्य गृहपतेः शरीर स्थितम् । सा त प्रार्थयामास- भद्र मुष्टवाह, २३ परमा त्वरामास्थाय त्वयेते शरीरार्धे सेवनेन सधेये । अस्मिन्निवर्तिते तृती- योऽय निष्कस्त्वत्करगतः स्यात् । ८. एव तया वाचा प्रार्थितः, विशेषतश्च निष्कान्तरप्रतिश्रवणेन प्रोत्साहितः, असौ चर्मसेवी सपदि कर्मणि प्रवृत्त । शीघ्र च तत्समापित- वान् । यथाप्रतिज्ञ च निष्कमपि लेभे। तदनु सा पुनरपि त पटावृतनेत्र विदधौ । त च व्यतिकर रहस्यमिति रक्षितु निष्कान्तरदानपूर्व सनिर्बन्ध तमादिदेश । अथ सा त तत्स्थानमनयत् , यत्र पूर्वमागच्छन् वसनपिहित- नयनोऽय विहितः । अत्र सा तच्चक्षुभ्ा वसनमपनिनाय । येन स स्वय गृह निवर्तेत। आत्मना तु गृहमुद्दिश्य चलितापि स्थित्वा, स्वगृह प्रयान्तं त चर्मकार दृशा तावढनुययौ, यावत्स दृष्टिगोचरमतीतः । येन दूरगतत्वान्ना- यमिच्छन्नपि तामनुयातु क्षमेत । शङ्कित हि तया-। असौ कदाचिन्मम गृह जिज्ञासुः, निभृत मामनुसरेत्-इति । ९. तस्मिन्नेव दिने कश्यपस्य प्रेतसस्कारो यथाविधि विहितः । तद्ग- तानि च तानितानि कर्माणि तथा नैपुणैनानुष्ठितानि, यथा सर्वोऽपि लोको मन्यते स्म- यत्कश्यपः, आकस्मिकेनैव केनचिद् व्याधिना प्राणा- नुत्ससर्ज-इति । १०. अथौर्धदेहिकादनन्तरं त्रिचतुरदिनाभ्यन्तरे, अलिपर्वा सर्वानपि गृहोपस्करान्सोदरसदन दिवा प्रकाशमवहत् । चोरगुहाधिगत द्रव्यराशि तु निखातोखात नक्त निभृतमनयत् । येन न कोऽपि त जानीयात् । अथाल्पेनैव कालेन विधिवशात्तस्य सीमन्तिनी पञ्चत्वमगात् । ततः, अभि- मतजायाविनाशदुःखितोऽसावचिन्तयत् । दरिद्रमपि मे पूर्वगृह गृहिणी- सनाथत्वान्मम प्रीतये सवृत्तम् । नूतनमिद पुनः समृद्धमपि भार्याहीनत्वान्न मे तोषमावहति । उक्त हि- वृक्षमूलेऽपि दयिता यत्र तिष्ठति तद्गृहम् । प्रासादोऽपि तया हीनः कान्तारसदृशो मतः ॥ २३ ॥ इति विमृश्य विवाहकामोऽसौ स्वजातीयसप्रदायमनुसृत्य भ्रातृभार्या विधवा विविवत्परिजग्राह । सपन्नेन विवाहभोजनेन सर्वान्पोरान्प्रीणयामास च। ११ अथ ज्येष्ठस्तस्य तनय श्रीमतः कस्यापि वणिजः कर्मशालाया भृत्य आसीत् । तस्मै स कश्यपस्य पण्यशाला विततार । व्याजहार च-- त्व चेत्केवल सर्वात्मनोद्यम कुर्याः प्रभूत धन प्राप्स्यसि । येन त्व श्रीमत्सु गण्यता गमिष्यसि । तथाविधेनापि त्वया भूयास्वोत्कर्षः साधयितव्य. । तथा चोक्तम्- मास्तं गमस्त्वं लोकेषु विश्रूयस्व स्वकर्मणा । मा मध्ये मा जघन्ये त्वं माऽधो भूस्तिष्ठ गर्जितः ॥२४॥ सप्तमो भागः दस्यूनामलिपर्वगृहोपलब्धिः को न याति वशं लोके मुखे पिण्डेन पूरितः । मृदङ्गो मुखलेपेन करोति मधुरध्वनिम् ॥ २५ ॥ १. द्वित्रैर्वासरैस्ते लुण्ठका भूयोऽपि गुहामागताः। कश्यपस्य शरीर- मपनीत कतिपयाश्च प्रसेविका अपहृता अपश्यन् । येन विस्मयोद्वेगस्तिमि- तास्ते बभूवुः ।
२५ २. अथ तेषा नायकोऽब्रवीत्-। ज्ञाताः खलु वयं चोराः । अस्मत्कोश- गुप्तिस्थानमपि परस्य विदितम् । अत्रास्माभिः कोऽपि प्रतीकारोऽवश्य कर्तव्य । नोचेत्, न केवलमल्पाल्पश आत्मनो वसुसचय, किंतु जीवि- तान्यपि नश्येयु । अतो जीवद्भिरस्माभि प्राणानपि पणीकृत्य निजवित्त- हरण रक्षितव्यम् । तथा चोक्तम्- स्ववित्तहरणं दृष्ट्वा यो जीवेदप्रतिक्रियः । पितरोऽपि न गृह्णन्ति तदत्तं सलिलाञ्जलिम् ॥ २६ ॥ मन्ये, इत्यमिद सवृत्तम् । यो नरोऽस्माभिर्हत., तेन केनापि प्रकारेण गुहाप्रवेशरहरय विदितमासीत् । ततश्च निर्गन्तुमुद्यत एव तस्मिन् भाग्या- देव वय गुहा प्रत्यागता. । पश्चात् केनापि तस्य शवो द्रव्यं च कियदप्य- पनीते । तस्मादेतत्स्फुट भाति- यत्कश्चित्तस्य सहचरोऽपि प्रवेशरहस्य जानाति । अतो जिजीविषुभिरस्माभिरकालहीन स सहचरोऽन्वेष्टव्यः । एव- मुक्त्वा सोऽनुचरान्पप्रच्छ । कय वात्र यूयं मन्यध्वे ? ३. एतस्मिन्सर्वैरपि ते सम भणितम् । प्रसन्नस्ते तर्कः । इच्छा- मश्च-। यावदस्मद्रहस्यवेदी नरो नोपलभ्य व्यापादितः, तावदस्माभिः किमपि कार्यान्तर न चिन्तनीयम् इति । ४ अथ चोरपतिरनुचरानाह-। बाढम् । युष्माक मध्ये य आत्मान धीर चतुर निर्भय च गणयेत् , तेनाध्वगवेष परिधाय नगरं गन्तव्यम् । तत्र चान्वेष्टव्यम्- यदि जनाः कस्यचित्पुरुषस्य, अकाण्डमरणमुद्दिश्य प्रलापपरा भवेयुः । एतावदुपलभ्य भूयोऽप्यन्विष्य जिज्ञासितव्यम् । कोऽसौ मृतः पुरुषः, कश्च तस्य निवास: ?-इति । एतत्सर्वमविज्ञाय, अस्मिन्व- स्तुनि वय किमपि कर्तु न समर्थाः । भूयोऽपि सोऽभाषिष्ट-। अवधार्यता २६ भोः-। यदेतस्मिन्कार्ये प्रवृत्तो नर , अनवधानाद्वा विविनियोगाद्वा जनै परिज्ञातश्चेत्, सर्वेऽपि वय हतप्राया एव । अतो युष्माभिः सर्वैरपि प्रति- पत्तव्यम् । यद्यः कोप्यस्मिन्साहसे प्रवृत्य बन्ध्ययत्नो भवेत् , सोऽस्माभि- स्तत्क्षण हन्तव्यः । अपीदमभिमतं भवताम् १ । इति नायकेनोक्ते सर्वैरपि मोषकैः-उदार• कल्पः-इत्युक्त्वा तन्नायकवचन सानन्द प्रतिपन्नम् । ५. अथ तस्मिन्साहसे नायकेन नामग्राह कस्यापि नियोगात्पूर्वमेव तेषामन्यतमः प्रोवाच- स्वयमेवाहमेतस्मिन्कर्मणि प्रथम प्रवर्ते । किं च स्ववाणा कृते स्वजीवित सशयमारोपयामि-इति चिन्तयन्यत्सत्य धन्य- मात्मान कलये। ६. स चोराग्रणीरितरे च तं तस्य साहसाभ्युपगम प्रशशसुः। अथ स आत्मान नेपथ्यादिभिस्तथा भूषयामास यथा न कश्चित्त चोर शङ्केत । ततोऽधिपतिं च सहचराश्चापृच्छय स पुरमुद्दिश्योदचालीत् । तत्र च, उपः- काल एव सप्राप्तः । अथ तत्र नगरे रथ्यायामितस्ततो भ्रमन् स पूर्वोक्तस्य मुष्टवाहनाम्नश्चर्मकारस्य कर्मशालामपावृता ददर्श । या यथोक्तपूर्व तत्स्वा- मिना, अन्यापेक्षया प्रागेव प्रत्यहमपात्रियते स्म । ७. तदा स चर्मकारः काष्ठपीठोपविष्ट , आरा करणादाय कर्मणि प्रव- तितुमुद्यत एवासीत् । यावत्स चोरस्तमुपस्थाय 'सुप्रभात ते भूयात्' -इत्युवाच । त च परिणतवयस दृष्ट्वा स बभापे- आर्य, कथमेतावति प्रत्यूप एव कर्मणि प्रवर्तसे ? कथमिद सभवति--यत्त्वादृशो जीर्णो नरः, अनुदित एव दिनकरे, गुणेन चर्म सेवितु प्रभवति ? दृशस्य जरठस्य चक्षुषी, भास्वति भृश भासमानेऽपि नैव सीवनसमर्थे यस्मात्वा- भवेताम् ।
2 - ८. एतस्मिन्मुष्टवाहः प्रत्यवदत्-। एतत्त्वदुक्त व्यक्त त्वामागन्तुक कथ- यति । अह हि दृशः पाटवान्मत्तो वीयसोऽपि जनानतिशये । प्रतिजाने ते-। यन्मया नातिचिरात्प्रागेव, इतोऽपि मन्दप्रकाशे देशे, शव कश्चित्से- वनेन सहितः । ९. ततो दस्युरसौ स्वगत वभाषे- अहो शोभनमापतितम् । यत्-मया प्रथमतरमेव स एव नरो दृष्ट , यो मह्यमीप्सित वृत्त कथयितु समर्थः स्यात् । प्रकाश चोवाच-। किं ब्रवीषि ? शव सहित इति १ अथ शवस्य सधा- नेन किं प्रयोजन स्यात् ? मन्ये, न शव सहितः, किंतु शवाच्छादनपट:- इत्येव तव विवक्षितम् । चर्मकार. प्रत्याह- मा मेवम् । यथाह यद्वक्तव्य तन्मनसा सम्यग्जानामि, तथा यदेव वक्तव्य तदेव वाचा व्याहरामि । मन्ये—। सर्वमेतद्गतं वृत्त त्व ज्ञातुमिच्छसि । येन जानन्नपि विपरीत- मित्थ शङ्कसे । नाह पुनरेवमतिसधेयः । तुभ्य च न किंचिदधिक कथयिष्यामि। १० एतदाकर्ण्य चोरस्याय प्रत्ययो दृढता गत.-यत् स चर्मकार- स्तेन जिज्ञासितमर्थ कथयितु प्रभवेत्-इति । अथ धनग्रन्थेनिष्कमेकमा- दाय मुष्टवाहस्य हस्ते निक्षिप्य सोऽब्रवीत्। भद्रमुख, त्वद्रहस्येन ज्ञातन मम किं प्रयोजनम् । तथाप्येत व ज्ञातुमर्हसि यत् कथित चेत्त्वया, तद्रहस्य न मया कस्मैचित् प्रकाशयितव्यम् । एव सति, केवल कुतूहलवशान्मया प्रार्थ्यसे-। मह्य तद्गृह दर्शय, यत्र त्वया शवसधान कृतम् । ११. अथ निष्कं तं तस्मै नवागताय प्रत्यर्पयितु किलोद्यतः करे धृत्वा, मुष्टवाहः प्रत्यब्रवीत्- प्रथम तावत् , तद्गृह तुभ्य दर्शयितुमेव मया नेष्यते । अपर च दर्शयितुमिच्छतापि सता, तथा कर्तु मया न शक्यते । यतस्त- द्नेह नीयमानोऽह कचिदेशमासाद्य पटावृतलोचनो विहितः । तदवस्थश्च शवगृह प्रवेशितः । कृतशवसधानश्च पुनरपि पटावृतनेत्र एव तमेवो- द्देश प्रतिप्रापितः । अतस्त्वमेव जानीया -। यदर्थ ते सपादयितु न मया पार्यते । , १२ अथ चोरो जगाद- बाढम् । मन्ये पुन:-वस्त्राच्छन्ननेत्रोपि गतपूर्वमध्वान कियदपि गन्तु शक्नुयाः । अतस्त्व मा त देश प्रापयेः, यत्र पूर्व त्व सवृतनेत्रः कृतः । तत्र प्राप्त त्वामधुनापि पटाच्छन्नचक्षुष विधा- स्यामि । ततश्चावा, यावती रथ्याश्चोपरथ्याश्च गतपूर्वास्त्व स्मरे , तावती- राक्रमिष्यावः । इद च व्यवहितार्थस्यापि दर्शक निष्कान्तर गृहाण। मन्ये- मदर्थ प्रयस्यतस्तव तोषस्यापि जनकमिद स्यात् । सर्वो हि कृतस्य परिश्र- मस्य कृते पारितोषिकमवश्य लम्भनीयः । १३ तदा निष्कपाणिर्मुष्टवाहः क्षण विचारयन् स्थित - किं मया- धुना प्रतिपत्तव्यम् 2-इति । स हि न वा तस्मा अभ्यागताय मार्ग दर्शयितुमैच्छत् , न वा तं हेमनिष्क हातुमुदसहत । स प्राप्तपूर्व सद्योलब्ध चोभावपि निष्कौ करतलगतौ स्निग्ध निदध्यौ । न पुनः क्षण निश्चयमगात् प्रतिपत्तिमन्तरेण । क्षणान्तरे जातनिश्चयोऽसौ, उरो- निहित स्यूतमाकृष्य विवृतमुख विदधौ, तस्मिंश्च निष्कद्वय निदधौ । दातुश्च समुखीभूय बभाषे- अखिलो मार्गो मया स्मर्तु शक्यः-इति नालमस्मि तुभ्यं प्रतिज्ञातुम् । तथापि बलवती तवेच्छामनुरुध्य यथाशक्ति प्रयतिष्ये । १४. एव वचनमादाय स स्वकर्मशाला यथास्थितमेव विवृता विहाय, तेन चौरेण सहोच्चचाल । यतस्तस्या शालाया स्तेयाई बहुमूल्य वस्त्वेव २९ किमपि नासीत् । अथ किंचिदन्तर गत्वा मुष्टवाह उवाच । एतदेव तत्स्था- नम्, यस्मिन्नितोमुखस्य मम लोचने वसनपिहिते विहिते । अथ स चोरः, तत्क्षण स्वकरवस्त्रमादाय, तेन चर्मजीविनो नयने बबन्ध । एवमन्धीकृत त स स्वहस्तेनादाय निनाय । चर्मकारोऽपि चोरस्याज्ञातमार्गत्वात्तस्य मार्ग- मुपदिदेश । एव पर्यायेण परस्परप्रेरितौ तौ किंचिदन्तरमाक्रामताम् । यावत्स चार्मिकः स्थितः । यत्र १५. स्थित्वा च सोऽवादीत्-1 नाहमतः परतर गतः-इति । एतच्च तदुक्त यथार्थमेवासीत् । तदानीं हि स तस्यैव गृहस्य पुरः प्राप्त सप्रति सोऽलिपर्वा पुनर्वा कश्यपवध्वा सह वसतिमकरोत् । अथ क्षण मुष्टवाहोऽनपनीतनेत्रावरण एव स्थापितः । यावत् स चौरो गैरिकखण्डेन तगृहद्वारफलके त्रिशूलचिह्नमकरोत् । चर्मकार चापनीतनेत्रबन्ध विधाय सोऽप्राक्षीत् । भद्र, कस्येद गृहम् १ स तु प्रत्युवाच- नाहमेतत्स्वामिनं वेद्मि । अह हि सुदूरचत्वरवासी । १६ अथास्माचर्मकाराद्वोद्धव्य किमपि नावशिष्टम् इति मत्वा स तस्मै गृहगमनाय मुमोच । मुञ्चश्चोवाच-। बहूपकृत त्वया मे-इति । आत्मनो जिज्ञासा सफला प्रेक्ष्य स चोरः परितुष्टः । स्वीया सिद्धिं वनगताय नायकाय निवेदयितु सत्वर प्रस्थितः । मेने च- मदीयमिद चेष्टितमाकर्ण्य मत्सहचरा अपि मया सम तुष्येयुः--इति ।
अष्टमो भागः यत्नस्य वैफल्यम्। शूरः शूरतरं प्राप्य बुद्धिमान्बुद्धिमत्तरम् । पदुश्चापि पटीयांसं न सिद्धि प्राप्तुमर्हति ॥ २७ ॥ १. चोरचर्मकारयो प्रस्थानात् समनन्तरमेव, किंचित् कार्यमुद्दिश्य मारजनिर्मन्दिरान्निर्जगाम । अथ निवृत्ता सा द्वारि त्रिशूलचिह्न निर्मितं प्रेक्ष्य तन्निपुण निरूपयामास । चिन्तयामास च- चिह्नमिद किमावेदयति ?- इति तर्कयन्त्या मनो मे भयविस्मयवश जायते । मत्स्वामिनोऽशुभ ध्यायता केनापि नरेण, त वा विडम्बयितुकामेन बालेन, चिह्नमिद विहित स्यात् । यथा तथा वा भवतु । मया पुनरशुभमेवोत्पश्यन्त्या तथा वर्तितव्यम् , यथा स्वामिनो मे न किंचिदनिष्टमस्मादुत्पद्येत । २. एव विचार्य सापि गैरिकखण्डमेकमाहरत् । तेन च तद्गृहस्य पार्श्वयोः कतिपयगृहद्वारेषु तादृशमेव त्रिशूलचिह्न लिलेख । किंतु तद्वृत्त न स्वामिने न वा स्वामिन्यै लेशतोऽपि निवेदयामास । अनेन समयेन स चोरो वनगतैर्वयस्यैः समियाय । तेभ्यश्च वर्णयामास-1 कियती सिद्धिस्तेनासा- दिता, कथ च स तमेवैक पुरुष प्रथममेव भाग्यतो ददर्श, यस्तेन जिज्ञा- सित रहस्यमाख्यातुं समर्थ आसीत् । ३. तत्कथित वृत्तमाकर्ण्य ते सुतरा प्रीताः। तेषा परिवृढश्च तस्या- न्वेषणनैपुण प्रशशस । अनुयायिना च संमुखीभूयाभाषत । भो वयस्याः, सर्वैरेवास्माभिः सुसनरविलम्बित प्रस्थातव्यम् । कित्वस्माभिः, द्विशस्त्रिशो विविधैर्वम॑भिः पुर प्रवेष्टव्यम् । मा वयं केनापि चोरा इति शङ्कितव्याः। वा, अथ प्रवेशात्समनन्तरमेव सर्वैरपि युष्माभिः प्रधानचत्वरे समागन्तव्यम् । अस्मिन्नन्तरे शुभवृत्तस्याहारकेणानेन सहचरेण सार्ध नगर प्रविश्य तद्नेह द्रक्ष्यामि । अनन्तरकरणीयं च निश्चेष्यामि । ४. एप विधिः-'प्रशस्यतरः' इति सर्वैरप्यभिनन्दितः । अचिरे- णैव ते गमनोद्यता बभूवुः । अथ यथासकल्प द्विशस्त्रिशो वा विभक्ता प्रथमगणादनन्तर द्वित्रै क्षणैर्द्वितीयो गण., ततश्च तावतैव समयेन तृतीयः, ततोऽपि तथैव चतुर्थः, एव क्रमेण प्रस्थाय सर्वेपि ते विभिन्नैवमभिर्विभि- नकाल नगर प्राविशन् । येन जनाना शङ्काविषयता नापन्नाः । अथ नेता तेन वार्ताहरेण सह ता गृहवीथिमाससाद, यत्रालिपर्वणो गेहमवर्तत । मारजन्या त्रिशूलेनाङ्कितद्वाराणा गृहाणा प्रान्तगतमेक प्राप्तौ । मदतितमेवेदम्-इति भ्रान्त्या मत्वा दूतः सद्म तन्निर्दिश्य नायक स्वैर वभाषे| इद तद्नेहमिति। ५. किन्तु तद्गृहस्य पुरस्तौ न व्यलम्बेताम् | नावा जनस्य शङ्का- भाजन भवेव-इति । अथ किंचित्पुरो गत्वा, अनन्तरे गृहे तदेव लक्ष्म लक्षयित्वा नायको दूतमप्राक्षीत् । भद्र, कतरत्तद्गृहम् ? एतद्वा पूर्व वा ? इति । स तु तद्गृहद्वय तुल्याङ्क प्रेक्ष्य विस्मयं जगाम । भूयश्च पुरो गत्वा, अनन्तर गेहम् , तस्याप्यनन्तराणि कानिचित् , ततोऽपराण्यपि कतिचित्, तदेकचिह्नचिह्नितानि निरूपयामास । बलवद्विस्मयाक्रान्तहृदयश्च किंवक्त, व्यतामूढः संजातः। ६. अथासौ नायक सशपथ प्रोवाच- मयैकस्मिन्नेव गेहे चिह्न निर्मि- तम् । शेषेषु तु गृहेषु तत्तुल्य चिह्न केन विहितम्-इति न जाने । चिह्नाना च सर्वथा सदृशत्वान्मन्निर्मित चिह्नमेव नालमस्मि ज्ञातुम् ।
कुतः पुनस्तदभिज्ञेय शत्रुगेह निर्धारयितुम् ?--इति । एतदाकर्ण्य स स्तेनपति स्वप्रयोग विफल प्रेक्ष्य व्यमनायत । अकालक्षेप च सकेतस्थानमासाद्य प्रथमदृष्ट चोर बभापे-। यथा वन्ध्य एवास्माकमित प्रवासप्रयासः । यथागत सुनिभृतमेवास्माभिर्गुहा प्रतिनिवर्तितव्यम् इति । ७ अथ प्रदोषकाले गुहाया सर्वस्मिंश्चोरवाते मिलिते स दस्युनायकः किंकरेभ्यः सिद्धिविपर्ययस्य कारण व्याचल्यो । तन्निशम्य तेर्निश्चितम्- यत्कृत समयमनुसृत्य विफलप्रयासोऽय सहचरोऽस्माभिर्हन्तव्यः—इति । सोऽपि त निर्णय वीरवदभिनन्द्याब्रवीत्। सर्वथा युक्तमेतन्मम । अह हि गुरुतरावधानेन व्यवाहरिष्य चेत् कुतो मे प्रबन्धो वन्ध्यतामयास्यत् ? तत- श्वासौ भूतलन्यस्तजानुरवाड्मुखः, एकेनैव खड्गप्रहारेण लोकान्तर प्रस्था- पितः । नवमो भागः चोरधुर्यप्रबन्धः आत्मवत्सर्वभूतानि पश्यन्तः साधवोऽमलाः । न खलां छद्मबहुलांस्तत्त्वतो वेदितुं क्षमाः ॥ २८॥ १. यावद्गुहारहस्यवेदी नरो नासाद्य व्यापाद्यते तावदस्युचक्र न वीतभय स्यात्-इति विचिन्त्य अपरश्चोरस्तदन्वेषण प्रतिज्ञातवान् । पूर्वगः सहचर इव सोऽपि तमेव चर्मकारमुपेत्य त चोपायनेन वशीकृत्य ततश्च जिज्ञा- सितं गेह जज्ञौ । तदीयद्वारे दूरोच्छ्रिते दुर्लक्ष्यदेशेऽरुणचूर्णेन लघुलक्ष्म निर्ममौ च ।
३३ ३ २. एव सत्यपि, कर्म किंचिदनुष्ठातुकामा बहिर्गत्वा प्रतिनिवृत्ता शश्वदप्रमत्ता मारजनिः, तार्क्ष्यदृष्टित्वाद्वारगत सूक्ष्ममपि तदरुण लक्ष्म लक्षयामास । यथापूर्वमिदमपि मत्स्वामिनमभिद्रुह्यता केनापि नरेण विहित स्यात्-इति शशङ्के। अथ तस्य सवर्ण सदृश समाकार च लक्ष्म दक्षि- णतश्च वामतश्च प्रत्यासन्नेषु कतिपयेषु सदनेषु प्रत्येक निर्ममे । सोऽपि चोरः स्वीया दक्षतामन्तः श्लाघमानः स्वनिवासगुहा निवृत्तः । मेने च-- विपक्षक्षय ज्ञातु ध्रुवमह समर्थः स्याम्-इति । तदुपदिष्टस्तेषामग्रेसरोऽपि सानुगः, अस्मिन्नवसरे पाणिपतितामिव कार्यसिद्धिं कलयामास । ३ ते सर्वेऽधुनापि तन्नगर यथापूर्वमजनितजनशङ्कमेव प्राविशन् । अथ चोराविष्टाता तेन चरण साकमलिपर्वणो गृहसमीपस्था रथ्या प्राप । किंत्वस्मिन्नपि समये पूर्व एवान्तराय उपस्थितः । तथाहि रक्तपिष्टलक्ष्मा- कितानि नैकानि गृहाणि ताभ्या वीक्षितानि । येन स दस्युवरिष्ठः परां कोटि कोपस्याविरूढः । तन्मार्गोपदेशकश्च भूयसा विस्मयपरवशो जातः । अतोऽस्मिन्नपि द्वितीये वारे, असिद्धार्थाना तेषा निवृत्त्य गुहागमनादन्यत्कि- मपि शरण नासीत् । सर्वे च ते प्रतिपत्तिशून्या बभूवुः । असौ द्वितीयोऽपि मार्गोपदेष्टा प्रथमगतेन सहचरेण समायातुमिव तद्गतेनैव पथा यमावासं प्रेषितः । ४ अथ चोराधिपश्चिन्तयामास । शत्रूच्छेदाय चेष्टमानः पूर्वमेकः सह- चरो हतः, अधुना चायमपरः । एवमेतेषु व्यापृतेषु मद्वयस्यगणो दिने- दिनऽल्पता व्रजन्नामशेपो भवेत्-इति शङ्के। तदलमेतदनुचरकल्पितेनो- पायेनानुसृतेन । अधुना मयैवात्मना प्रबन्धो विधेयः-इति । ततोऽसौ विपक्षमार्गणकार्य स्वयमभ्युपेयाय । ३ ५. अथासो नगर वव्राज । स्वर्णदानेन वशीकृतेन मुष्टवाहेन सार्ध- मलिपर्वणो गेहमाससाद । स तु तत्र कुत्रापि किमपि लक्ष्मादिक न विदधौ । तद्नेहस्य तु तास्तान्विशेषान् , तस्य पुरो मुहुर्गतागतानि कुर्व- स्तथा निरूपयामास, यथा स निश्चय गतः-यदेतद्गृहाभिज्ञाने न जातु प्रमाद्यामि। ६. भूयोऽपि विपिनमासाद्य सहचरान्मेलयित्वा सोऽभापत- वयस्याः, तद्गृह मया दृढ परिचितम् । येन वैरनिर्यातनेऽस्माक न कोऽप्यन्तरायः स्यात् । इतोमुख चागच्छता मया कोप्युपायोऽपि कल्पित । येनास्माक ध्रुवा सिद्धिः स्यात्-इति मे मतम् । तथापि तमुपाय युष्माञ्श्रावयिष्यामि । तस्मिन्नाकर्णिते ततोऽपि पटीयानुपायो युष्माक कस्यचित्स्फुरेच्चेत् तमपि श्रोष्यामः । ७ अथासो चोरकर्णवार', चिन्तितमुपायमनुचरेभ्यो व्याचचक्षे । तैश्च-मूर्धन्योऽयम् इत्युक्त्वा सोऽभिनन्दित । ततस्तमुपायमनुतिष्ठासुः सोऽनुचरानादिशत्- समीपवर्तीनि ग्रामनगराणि गच्छत, तत्र च नव- दशाश्वतरान् , ततो द्विगुणानि चातिमहान्ति दृतिभाजनानि क्रीणीत । तेपा चैकतमत्तैलेन पूरयत-इति । ८. द्वित्रदिनावधौ तैः कुम्भीलकै., यथापेक्ष चर्मकुम्भाश्चाश्वतराश्च क्रीत्वा गुहामानीताः । अनन्तर स चोरधुर्य , सर्वानप्यतुचरान्यथोचितैः शस्त्रैः संनाह्य सप्तत्रिंशति कुम्भेषु, प्रतिकुम्भमेकः, इति स्थापयामास । तेषा च कुम्भाना बहिर्भागास्तेलकुम्भात्तैलमुद्धृत्य तथाभ्यानञ्ज, यथा ते सर्वे तैल- पूर्णा इवाभासेरन् ।
. ९. ततोऽन्येयुः प्रातरेव, पुरुषगर्भान्सप्तत्रिंशत कुम्भान् , तैलगर्भ चाष्टा- त्रिंग, नवदशानामश्वतराणा पृष्ठानि, प्रत्यश्वतर द्वाविति, आरोपयाचकार । तत स चोरमुख्यो नियन्ता नाम भूत्वा, साश्वतरो नगरमुद्दिश्य प्रस्थित । तत्र च यथासकल्प तम प्रसरवेलाया प्राप । तानश्वतरान्नगरे मार्गान्मार्ग प्रेरयन् , सोऽलिपर्वणो गृहमाससाद । स तु सद्यःकृतभोजन उपद्वारदेशमेव धूमवर्ति परिपिवन्नतिष्ठत् । १०. स चोराधिपो गृहस्याग्रेऽश्वतरान्स्थापयित्वा, अलिपर्वाणमुपस्थाया- भ्यर्थयामास। भद्र, दूरदेशान्मया प्रभूत तेल चर्मपात्रधृत विक्रयार्थमानीतम् । एतच्चापणे श्वो विक्रेतुमिच्छामि । अस्या तु प्रदोपवेलाया कुत्र मया स्थेयम् , क वा चर्मपात्राणि स्थापनीयानि-इति निश्चेतु न पारयामि । यतः, आग- न्तुकत्वात्कमपि पौर नाह परिचिनोमि । अतः, अत्र ममावस्थान नातिपी- डाकर मन्यसे चेत् , इमा निशामिह वसन्त मा सोढुमर्हसि । अस्मिंस्तव गृहाङ्गणे मुखेन निद्रास्यामि । प्रत्यूपस्येव, अश्वतरान्विपणिं नेष्यामि । तत्र चान्यवणिग्भ्य पूर्वमेव तेलमवतारयिष्यामि । येन मया तत्तैल भूरिलाभ विक्रेतु शक्यम् । अतः, निशावासमुद्दिश्य मदीयमभ्यर्थित ग्रहीतुमर्हसि । येन भृश त्वदुपकृतो भवेयम् । ११. असौ चोराध्यक्षोऽलिपर्वणा कानने विचरन्वीक्षितः, ब्रुवंश्चाक- र्णितः । एव सत्यपि वणिग्वेपधारिण त स न वेषतो न वा शब्दतोऽप्य- भिजज्ञौ । अतोऽमु मायावणिजमब्रवीत् । एता रात्रिमत्र प्राङ्गणे तैलभाण्डानि सुख स्थापयेः । न्व तु गृहाभ्यन्तरे तिष्ठे । अतिथिसत्कारो हि धर्म एव गृहस्थस्य । किंच भवान्सूर्यास्तमनवेलाया प्राप्तोऽतिथिः । येन मे विशेपतः सत्कार्यः । उक्त हि- संप्राप्तो योऽतिथिः सायं मूर्योढो गृहमेधिनाम् । पूजया तस्य देवत्वं प्रयान्ति गृहमेधिनः ॥२९॥ अपर च प्रभातात्पूर्वमेव त्वया गन्तव्यम् । येन नाल्पोऽप्युपरोवो मम स्यात् । एवमुक्त्वा स भाण्डवाहकानामश्वतराणा प्रवेशार्थ द्वारमपावृणोत् । अथ गृहदासमेकमाहूयादिदेश- अपनीतभाण्डानेतानश्वतरान्गोष्ठेऽवन्द्धि । तत्र च प्रभूत धान्ययवसादिक तेभ्यो देहि-इति। एव तेन कूटवणिजा पेशलोदारया वाण्या स्वार्थः सपादितः । तथा चोक्तम्- m गौर्गौः कामदुधा सम्यक्प्रयुक्ता स्मर्यते बुधैः । दुष्प्रयुक्ता पुनर्गोत्वं प्रयोक्तुः सैव शंसति ॥ ३० ॥ । १२. अयाभ्यन्तर गत्वा स दासी मारजनिमाज्ञापयत् । प्राघूर्णकार्य स्वा- दूष्णमाहार सस्कुरु । मृदुविस्तीर्ण च तल्प कल्पय-इति । वणिज चोपस्था- याभ्यधात् । भवता प्रविश्य गृहमिद सनाथीकरणीयम् । नाह भवन्तं सर्वरात्रमङ्गणेऽवस्थित द्रष्टुमुत्सहे । किं पुनः शयितम् १ प्रथम तावन्मया दत्त भोजन स्वीकुरु । अनन्तरम् । एववादिनोऽस्य वचनमाक्षिप्य वणि- गुवाच । अद्य भट्टारकवारे न मया नक्त भुज्यते । अतः, अल ते मदर्थ- माहारपचनेन । अन्यदातिथ्यं तु मया सानन्द प्रतिग्राह्यम् । तदाका- लिरिजनिमुपेत्य प्रोवाच-। प्राघुणकोऽय न नक्त भुते । अतस्तदर्थे त्वया पाको न कर्तव्यः । भूयश्च बभाषे-। श्वो महत्येव प्रत्यूपे मया स्नानाय गन्तव्यम् । अतो मदीय स्नानवस्त्रादिक पिण्डीकृत्य भृत्याय समर्पय-इति । मम प्रत्यागमनकाले पेयमपि किमपि पक्त्वा धारय । येन स्नानादागतोऽह तत्पिबेयम् । एतद्वचनमादाय स शय्यागार प्रविष्टः ।
१३. अथासौ चोरपुरोग. 'अश्वतरान्सुस्थितान्द्रष्टुमङ्गण गच्छामि'- इन्युदिन्या बहिर्गतः । स हि स्वप्रबन्धस्य निर्वर्तनमुद्दिश्य सहचरानु- पटेष्टुमियेप। स गोष्ठ गत्वा ततश्चाङ्गण निवृत्य प्रथमा कुतूमासाद्य तद्गत चोर स्वैर वभापे- अहमत्राभ्यन्तरे शालाया स्वपिमि । तत्रस्थश्चाह काश्चिदुपलखण्डान्कुतूपरि क्षेप्स्यामि । ताश्चाकर्ण्य त्वया छुरिकया शिखरा- दारभ्य तल यावत्कुतू: पाटनीया । ततश्च क्षणान्निर्गन्तव्यम् । सममेवाहम- प्यागत्य, अनन्तरकरणीय तवोपदेक्ष्यामि-इति । शेषाण्यपि चर्मपात्राणि स एकेकश आसाद्य, तत्रगतान्पुरुपास्तथेवादिश्य गृहान्तः प्रविष्टः । १४. ततो मारजनिर्दीपहस्ता तस्मै तदर्थमुपकल्पित शयन दर्शया- मास । प्रार्थयामास च- अपि वस्तुना केनचित्कार्य भवत• ?–इति । न केनापि–इत्युत्तरमाकर्ण्य सा निववृते । सोऽपि चोरवर्यः शय्यागारगत दीप निर्वाप्य, तल्पमविशिश्ये । किं तु स्वप्रयोगनिर्वहणसमय प्रतीक्षमाणः, उन्निद्र एव सनद्धस्तस्थो । , दशमो भागः दासीकृतं चोरनिबर्हणम् न पराक्रमसाध्यं यत्तदुपायेन सिध्यति । चोरा हता मारजन्या कथत्तैलनिषेकतः ॥ ३१ ॥ १. अथ मारजनिर्भर्तुनिदेशमनु तस्य स्नानीयवसनादि समाजहार । भृत्याय चाब्दपालाय तदर्पयामास । अपिच तेन पेयभाण्डमधिचुल्लि ३८ 2 . निधापयामास । अथ पेय पचन्त्यामेव तस्या, दीपो हसत्तैलो मन्दतामगात् । गृहेऽपि तैल नासीत् । न वा वसावर्त्तयोऽष्यवशिष्टाः । ततः सा स्वगतम- ब्रवीत् | अधुना किं विधेयम् ? तेलाभावे कथ दीपज्वलनम् ? तदभाव च कुतः प्रकाशः १ अप्रकाशे च पेय कथ सपादयितव्यम् ? स्नाननिवृ- त्ताय च स्वामिने किमुपहर्तव्यम् ?-इति । २. एव मारजनि चिन्ताकुलामालोक्य, अब्दपाल प्रोवाच- अल तैलाभावमधिकृत्य पर्याकुलत्वेन । तावदगण व्रज । तत्र चान्यतमाचर्म- कुम्भात्तैल किंचिदुद्धर । तन्मूल्य हि नून प्रभातेऽस्मस्वामी वणिजे दास्यनि- इति । अहो युक्तमुक्त त्वया । इत्युक्त्वा मारजनिस्तथा कर्तुं प्रवृत्ता । अथाब्दपालो गत्वा, अलिपर्वणः शयनभवनस्यानन्तरायामेव शालाया प्रसुप्तः । येन प्रत्यूषेऽवगाहार्थ प्रस्थित गृहपतिमवगच्छेत् । तेन हि स्वामी स्नानार्थ गच्छन्वस्त्रहस्तेनानुगन्तव्य. । मारजनिरपि तैलमाहरन्ती, रिक्त तैलपात्रमकेन करेण, दीप चासन्ननिर्वाणमपरेण वहन्ती, प्राङ्गण प्राविशत् । यावच्च सा प्रथम कुम्भमुपेयाय, तावदन्त स्थितः स्तेन. स्वैरतरमप्राक्षीत् । अप्युप- स्थितः स समयः १ यत्नतो मन्द भाषमाणस्यापि तत्तस्य वचन सा स्फुट जग्राह । यतश्चोराणा सुखश्वसनार्थ तत्स्वामिना कुम्भाना मुखपटा मात्रया शिथिलिता आसन्। ३. सा तु कुम्भतस्तैल लब्धुकामा, ततो मनुजशब्दमुत्थित निशम्य, विस्मयस्तिमिता बभूव । एवंगतेऽन्यदास्योचैः क्रोष्टव्यम् । सा तु पटुमति- त्वात्तस्मिन्समयेऽनुत्क्रोशमेव युक्त मेने । तया हि शङ्कितम् । कोलाहले कृते स्वामिनो मे सकुटुम्बस्य सहदासस्य च नाशोऽवश्यभावी। अथ त गूढ- पुरुषमुद्दिश्य तत्क्षण मन्द प्रतिजगाद- न सद्य एव, किं त्वचिरेण । ततः . , सा द्वितीयम् , ततस्तृतीयम् , ततोऽपि तुर्यम् , एव क्रमेण सर्वानपि चर्म- घटानासमाद। तदभ्यन्तराच्च यथापूर्वमेव प्रश्न शुश्राव । स्वयमपि पूर्वो- क्तमेवोत्तर ददौ । ४ केवलमन्तिमात्कुम्भात्स प्रश्नो नोत्थितः । ततस्तमेव स्नेह धारयन्तम् , अन्यास्तु नि.स्नेहान्पुरुपान्धारयतो विमृश्य, सोन्निनाय | यथा-एते पुरुषाः प्रच्छन्नघातका भवेयुः । तैलवणिग्ब्रुवश्चेतेपामविष्ठाता । किं च सर्वेऽप्येते मत्स्वामिन हत्वा तस्य सर्वस्वमपहर्तु वाञ्छन्ति-इति । त पुनश्चोरसकल्प विफलीकर्तु सा तक्षणमुपायमचिन्तयदयोजयच्च । तदा सा स्वगत वभापे- निकृत्या निकृतिप्रज्ञा हन्तव्या इति निश्चयः । न हि नैकृतिकं हत्वा निकृत्या पापमाप्यते ॥ ३२ ॥ ५. सा करगत भाण्ड तत्कुम्भतेलेन सत्वर पूरयित्वा महानस निवृत्ता। तत्र बृहन्तमेक कटाह चुठ्या उपरि निवाय, त च तेलेनापूर्य, तस्यावो विपुल दारुदहन मदीपयामास । - ६. यदा च तत्तैल भृश कथित तदा सा त्रिचतुरा दासीः प्रबोध्य समागमय्य ताभि कटाह त युक्या निभृतमङ्गण प्रापयामास । ताश्च पुन:- स्वापाय विससर्ज । अथ कटाहात्तस्मान्मनुजमारणपर्याप्त कथदुष्ण तैल प्रतिकुम्भ पातयामास । येन सर्वेऽपि ते गूढपुरुषा न मृतदग्धाः, किंतु दग्धमृता बभूवु । यतस्तेषा कायैः प्रथम दहन पश्चान्मरण प्राप्तम् । एव तान्पुरुषान्व्यसून्विवाय सा रिक्त त कटाह महानस निनाय । द्वार च सववार । तैलक्कयनार्थ निर्मित महान्तमनलमपि सा तथा सचिक्षेप यथा स केवल पेय मन्द कथद्धारयेत् । ततः सा सपेटुमिव यान्ती दीपमपि ४० निरवापयत् । एव तयानुष्ठिते, निगीयोचितः शमः सर्वत्र प्रबभूव । अथात्मना सा महानसगत वातायनमवितष्ठो । येन स्वयमदृष्टा सती, सा तत भाविनमर्थ द्रष्टु समर्था स्यात् । ७. अथ मुहूर्तेनेव स स्तेनपतिरुत्थाय, गवाक्षमपावृत्य, बहिरालोकया- मास । तदा न कोऽपि मनुजश्चलति, न वा दीपो दीप्यते, नापि शब्द श्रूयते-इत्येव सर्वत्र व्यवगाहमाना शान्ति प्रेक्षाचक्रे । मेने च-। सर्वथानु- कूलोऽय समयो मम द्विपोऽवस्कन्तुम् । अथ यथासकेत सज्ञादानार्थ कुम्भोपरि पापाणखण्डान्प्राक्षिपत् । ताश्च कुम्भोपरि पततो द्रष्टु तमसि नैशे नाय शशाक। तथापि तेपा प्रहारेण कुम्भत शब्दानुत्थिताञ्जुश्राव । पुरुष तु नैकमप्युत्थित ददर्श । येन तन्मनो महतीं चिन्तामापेदे । तदनुचरा हि, अद्ययावन्नित्य तदादेशाच्श्रुतमात्रानन्वतिष्टन् । अथासों द्वितीयेन तृतीयेनापि पापाणखण्डनिचय चिक्षेप । यथापेक्ष फल तु न किमपि लेभे। ८. अनेनासौ सत्यमेव वलवता साध्यसेनाक्रान्त । स निभृतमङ्गण प्रविश्य घटमेकमुपसृत्य मन्दमवादीत् । किं सुप्तोऽसि 2 तदा कुम्भतः किमपि प्रतिवचनमनिशम्य, स शशङ्के-। यथालिपर्वणो हननस्य सर्वस्वाप- हरणस्य च कृते कृतो में प्रबन्धः फलेन वञ्चित-इति । अथ सर्वानपि चर्मकुम्भानेकैकश उपस्थाय, सर्वेऽप्येते मम सहचरा मृता-इति स मेने । कथमेते मृताः स्युः-इति तु कुम्भेभ्यः सर्वतो धूमायमानस्य तैलस्य गन्वेन, अन्तिमे च तैलस्याल्पीभावेन, तस्मै व्याख्यातम् । ९. एव तृतीयेऽप्यवसरे स्वप्रयोग वन्ध्यता गतम् , किं च विशेषत सर्वानपि प्राणसमानात्मानुचरान्व्यापादितान्प्रेक्ष्य, स शोकविह्वलः सन्रोषो- 2 न्मत्त इव बभूव । किंतु, नात. पर मम क्षेमायात्र स्थातुम् । अह हि परमार्थतो गृहीत.-इति विमृश्य, सोङ्गणप्राकारमारुरोह । झम्पा च दत्त्वा पलायाचक्रे । १०. मारजनिस्तु स्वस्थानस्थितैव सर्वमेतत्तूष्णी लक्षयामास । अथ सर्व स्तिमितता गतमालोक्य, साधु फलितो मम प्रयोग -इति परितुष्टा सा चिन्तापगमविशदेन मनसा शय्यातल शिश्रिये । ११. अथारुणोदयसमयेऽलिपर्वा गृहीतस्नानीयोपकरणेनाव्दपालेन सह स्नानागार प्रस्थितः । स रात्रिवृत्त किमपि न जज्ञौ । यतः, चोराणा प्रमयनात्पूर्व तेपा बोध परिहरन्त्या मारजन्या स शब्दाप्य न जागरितः । नापि पश्चात् , अप्रतिबोवाय तेषु सुप्तेपु । तया हि चिन्तितम् । अधुना सर्वथा निवारित व्यसने किं मम स्वामिना निन्दाभन प्रापितेन ? १२. अथ स्पष्टे प्रभाते स्नाननिवृत्तोऽलिपर्वा, तेन तैलवणिजा नाश्व- तरा न वा तैलघटा यथोक्त नीताः-इति वीक्ष्य पर विस्मय गतः । गृहम- प्रविश्येव मारजनिं तत्र कारण पप्रच्छ । सा प्रत्युवाच- मा तावदनुयातु- मर्हसि । जिज्ञासित सर्वमर्थ त्वा ज्ञापयामि । १३ एव प्रार्थितोऽयमङ्गणमवतीर्णः। मारजन्या च बहिर पिधाय, प्रथमकुम्भ नीत्वासौ प्रार्थितः- कियत्तैलमत्र वर्तते-इति पश्यतु स्वामी। तथा कुर्वन्स कुम्भे तेलस्थाने पुरुष वीक्ष्य तत्क्षण सचकितः स्थितः । त मारजनिरब्रवीत् । अल भयेन । एष नरो नून त्वद्वधकामः, किं तु प्रागेव न सप्रति । अवुना हि, न त्वा न वा कमप्यन्य हन्तु प्रभवेत् । असौ हि स्वयमेव हतो वर्तते ।
१४. एतस्मिन्स पप्रच्छ-1 हजे, किमेतद्भणसि ? स्फुट कथय । सा प्रत्युवाच-एपा कथयामि । किं तु प्रथम प्रार्थनीयोऽसि मया-। यद्ध- वता निभृत स्थातव्यम् । नाल्पोऽपि शब्द कर्तव्यः । यतः, केनाप्यस्म- प्रतिवेशिना वृत्तमेतन्न ज्ञातव्यम् । घटान्तरेषु तावत्पश्य । अलिपर्वा तथा चकार । प्रतिघट च परेतपुरुषमीक्षाचके । अन्तिम च कुम्भमासाद्य तस्मि- नल्पावशेप तैल ददर्श । सर्वमेतदालोक्य स स्वप्नगतमिवार्थ पश्यन्निश्चल स्थितः । स प्रथम कुम्भान् , ततश्च मारजनिम् , भूयोऽपि कुम्भान्-एव तत इतश्चक्षुपा ददर्श, मुखेन तु न किंचिद्व्याजहार । १५. अथ मनाग्मन्दीभूतविस्मयोऽसौ ता पप्रच्छ-। कुत्र गत. स तैलापणिकः ? किं वृत्त तस्य ? सा प्रत्युवाच । किं तैलापणिक पृच्छसि ? स तावदापणिक एव नाभूत् । किं पुनस्तैलापणिक ४ को वासा परमा- र्थतः, कुत्र वा गत , इत्येतदपि निवेदयिष्यामि । किं तु, उष्णोदक- स्नानेन त्वया श्रान्तक्षुधितेन भाव्यम् । अत , प्रथममभ्यन्तर प्रविश्य त्वया कथिका पातव्या । उपाहारश्च कर्तव्य । त च सेवमानाय तुभ्य यथावृत्त सर्वमादितो विवरिष्यामि । १६. अथ तौ गृहान्तरगतौ । स चोपाहारमजुपत । तथावस्थित च त मारजनिहिरवर्तिनो गैरिकचिह्नस्य दर्शनादारभ्य सर्व व्याचष्ट । अब वीञ्च-। गुहागतैरेव चत्वारिंशता लुण्ठकैरेतैः साहसिकैर्भाव्यम् । व तद्र- हस्याभिज्ञोऽसि-इति कथमपि तैरवगतम् । त्वद्वधार्थमेव च तेऽत्रागता इति दृढो मे तर्कः । तेषा सप्तत्रिंशन्मितास्त्वत्र मृतास्तिष्ठन्ति । तेषा नायकः, अन्यौ च द्वौ, सप्रत्यवशिष्टाः स्यु - इति । १७. तया हि न ज्ञातम् , यच्चोरद्वय वन्थ्योद्यमत्वात्पूर्वमेव नायकादेशा- त्परलोक प्रहितमासीत् इति । सा भूयो बभापे-। यावत्तु तेषामेकोऽप्यव- शिष्यते तावत्कुतस्ते क्षेमम् ? उक्त हि ऋणशेषोग्निशेषश्च द्विषः शेषस्तथा रुजः। पुनश्च वर्धते यस्मात्तस्माच्छेषं न धारयेत् ॥ ३३ ॥ अतस्त्वया नित्यमवहितेन स्थातव्यम् । मयापि सेवकवर्ममनुपालयन्त्या तव क्षेमहेतोः, सावधान यथामति तत्तद्विवेयमेव । १८. एतन्मारजन्योक्त निशम्य, तस्याश्चातुर्येण बाढेन च धैर्येण प्रवी- कृतोऽसौ ता मुहुः प्रशशस । प्रोवाच च-। हे वीराङ्गने, त्रिवार त्वया जीवित मे रक्षितम् । अस्य प्रत्युपकारस्तु न मया कदापि कर्तुं शक्यते । सप्रति पुनरिद वदामि- यदस्मादेव क्षणात्प्रेष्यभावान्मुक्तासि । तवोपकार निर्यातयितुमुचिततर किं मयानुष्ठेयम् एतदपि चिन्तयाम्येव । मन्ये- मम जीवित लुण्ठकानामेतेपा कपटप्रबन्वेभ्यो रक्षितुमीश्वरेणैव प्रेरितासि । अतोऽहमिच्छामि-। त्वया नित्य मत्सनिधावेव स्थातव्यम् । येन, अतः परमपि येकेचन कूटप्रयोगा मच्छरीरमभिद्रोग्धु द्रोहिण. कल्पयेयुः, तास्त्व वन्ध्यता नीत्वा मा गोपायिष्यसि । उक्त हि- पुनरावर्तमानानां भग्नानां जीवितत्यजाम् । भेतव्यमरिशेषाणामेकायनगता हि ते ॥ ३४ ॥ सप्रति शवानामेतेपा निखननमेवावशिष्यते । किन्तु, अब्दपालस्य साहाय्येन मयैव तदनुष्ठेयम् । १९ अलिपर्वण आराम सुविस्तीर्ण आसीत् । प्रान्ते च घनवनराज्या छायाबहुलोऽपि । अस्या वनराजौ, अब्दपालेन सहालिपर्वा सर्वशवशयन- " पर्याप्तावकाशा दीर्घविस्तृता गर्तामुच्चरवान । तत्रत्याया मृत्तिकाया. शिथि- लत्वात् , तत्कार्यमचिरेणैव सपन्नम् । अथ ताभ्या तस्मिन्भूरन्ध्रे ताञ्शवान- न्योन्यससक्तपार्शन्निधाय, मृदा चाच्छाद्य, गर्तोपरितल समीकृतम् । ततश्च ते कुम्भाश्चोरायुधानि च ताभ्या निगूढानि । अश्वतराश्चान्तरान्तरा दासे- रापण प्रापय्य विक्रापिता । यतस्तैरलिपर्वणः प्रयोजन नासीत् । एकादशो भागः छद्मापणिकः असभ्याः सभ्यसंकाशा निस्त्रिंशा मृदुमानसाः। जिघांसवो हितपरा दृश्यन्ते कार्यतः शठाः ॥ ३५ ॥ १. अनेन समयेन चोराग्रणीर्वनगता गुहा प्रतिनिवृत्तः । सा तु दृढा- नुरागाणा प्रेयसा वीरानुचराणा विनाशेन तस्य शून्या दुर्दर्शना च बभौ । येन तीव्रतर. शोकानलस्तन्मनसि सदुधुक्षे । सोऽचिन्तयत् । एते मदनुजा शस्त्रपाणयो युध्यमाना अहनिष्यन्त चेत् , एप शोकदहनो न मामधक्ष्यत् । एते पुनः पाशगृहीता विवशा इव पशवो निघृण प्राणैर्वियोजिताः । एतच्चिन्त्यमान सत्, समूलमिवोन्मूलयति मामक मन-इति । ततोऽसो प्रत्यपकारविमुखस्य केवल कृते प्रतिकुर्वाणस्याप्यलिपर्वणो वयस्यववकृते प्रत्यपकर्तु कृतमतिर्बभूव । २. कथ मया सिद्धकामेन भाव्यम् ?-इति चिर निपुण विमृश्य स उपायमेक मनसाकल्पयत् । ततश्च गुहागतं शयनमधिशय्य क्षणेन गाढ निदद्रों।
४५ ३ अथ प्रातरुत्थाय, स प्रवसतो वणिजो वेप विदधौ । नगरं च गत्वा भोजनागारे वासमग्रहीत् । तेन सभावितम् । यदनेन समयेन, अलि- पर्वणो गृहगत वृत्तविशेष नगरे बहुलीभूतम् , जनाना च सलापविषयीभूत स्यात् इति । अतः, तन्छोतुकामोऽयमन्नशालास्वामिन नगरगतामचिरजाता कोतुकवती काचिद्वार्तामपृच्छत् । स तु पृष्टो बहूनि वृत्तानि कथयामास । चोरहिंसा पुनरुद्दिश्य न किंचिदपि । ततः सोऽनुममे-। यदलिपर्वणा स चोरववव्यतिकरो रहस्यमिति रक्षितः, मा तद्वृत्तस्य श्रवणेन जनाना जिज्ञासा जायताम् । मा च गुहागता धनसपद तदधिगमोपाय चोद्दिश्यते कामपि चर्चा कुर्वताम्-इति । ४. स स्तेनपतिरात्मान दुकूलवणिज जनेभ्यः कथयामास । उवाच च- पट्टवामासि विक्रेतु कयाचित्समीचीनया पण्यशालया मम कार्यमस्ति- इति । कचित्कालमन्विष्य स पण्यागारमेक परिचिक्रिये । तत्तु विधिवशा- कश्यपस्य भूतपूर्वाया विक्रयशालायाः पुर एव वर्तते स्म । ५. अथाय कपटापणिको वन निवृत्तः । गुहा च प्रविश्य, तत्र संचि- तानि महा_णि चीनाशुकानि स्वीयमश्वमारोपयामास । तानि च नगर- गत निज पण्यस्थानमानिनाय । एव नैकवार विधाय, स वहून् दुकूलभा- रान्नवा पण्यशालामवहत् । तदर्थ पुनः, स्वगुहा लोकलोचनेभ्यो रक्षन् नक्तमेव निभृत गतागतानि चकार । ६ स नाम्ना कुजहर्पणो बभूव । आगन्तुकश्च सन् , स प्रतिवेशिव- णिक्षु भूयसा दक्षिणोदारत्वेन ववृते । तस्य समुख पण्यागारे स्थितोऽलि- पर्वण पुत्रः, न केवल युवा दर्शनीयश्च, पटुबुद्धिरप्यासीत् । स च कुज- हर्षणश्च, वारवारमुद्यमगतान्विषयानुद्दिश्य सलाप चक्रतुः । येन तौ गच्छता कालेन मिथो वयस्यभावमिव पुपुषतुः ।
मम कर्मणि ७. अथ कदाचिढलिपर्वा पुत्रस्य पण्यशालाया. समीपेन गच्छस्ता प्रविष्ट । पुत्रेण सह सभापणेन स्थितश्च । एव हि तन्मार्गेण व्रजन्स भूयो विढधों । स लुण्टाकपतिरलिपर्वाण दृष्टमात्रमभिजज्ञौ । गते तु तस्मिन्सोऽ नभिज्ञ इव तस्य पुत्रमप्राक्षीत् | कोऽय पुरुप ? इति । ८ यूनस्तस्य मुखात्त तस्य जनक विज्ञाय, स स्तेनधुरीणो भूयसा जहर्ष । चिन्तित हि तेन-। यदेषोऽनयो सबन्धः, चिकीर्पिते भृशमुपकुर्यात्-इति । ततः प्रभृति सोऽलिपर्वपुत्रेण सह सौहार्द सविशेष सवर्वयामास । तस्मै च नैकवारमुपायनानि ददौ । एव तस्मिन्दृढमुहृदिव व्यवहरति स्म । ९ स वणिग्युवा नैतद्रोचयामास, यदेतान्यागन्तुकवणिज उपकृतानि मया प्रतिमाह्याणि, तत्प्रत्युपकारः पुनर्न कोऽपि कर्तव्यः- इति । किन्तु तस्य गृहस्य स्वल्पावकागत्वाद्यथामनीपित तस्यातिथ्य कर्तु स न प्रबभूव । तथाहि, सोऽलिपर्वणो भूतपूर्व गृहमध्युवास । तत्पिता तु धनीयसो ज्यायसो भ्रातुः । अतः, स विषय तमुद्दिश्य कदाचित्पितर बभाषे । १०. अलिपर्वा तु तनयवयस्यान्सभावयितु न कदापि मन्दादरो बभूव । अतः स कदाचिन्मन्दवासरे स्वगृहमागत तनय बभाषे– श्वो रवि- वासरो वर्तते । रविवासरे च त्वया च कुजहर्षणेनापि श्रेष्ठिवरसप्रदाय- मनुसृत्य पण्यशाला नेवोद्घाटनीया । अतः श्वः, तमुद्यमिनमात्मना सार्धे विहर्तु नेष्यसि । निवर्तमानश्च वर्मनैतेन गच्छन् , त मम गृहमाने- ष्यसि । विधिवदामन्त्रणापेक्षया यदृच्छया किल तस्य गृहानयन सुतरा समीचीन मे भाति । अहमपि सपन्नतर भोजनं कल्पयितु मारजनिमादे- क्ष्यामि ।
, ११. अथापरेयुः, अलिपर्वसूनुर्हर्पणमुपस्थितः । विहारार्थ च तावुभौ प्रस्थितौ । निवर्तनसमये स व्यवसायी युवा हर्षण पितृगृहस्य पुरो- यायिना वर्मनानयत् । तद्गृह प्राप्य प्रविष्टोऽयमभ्यागतमब्रवीत्। प्रिय- वयस्य, भवनस्यास्य पिता मे पतिर्वर्तते । तमहमावयोः सौहार्दमविकृत्य भूयो व्याहार्षम् । तेन च त्वत्परिचयसौभाग्यमनुभवितु नैकवार मनो- रथोऽपि दर्शित । अतस्तद्गृहसविधेन गच्छन्त त्वा, न चेदह तस्मै नेष्यामि, ध्रुव स मा कोपिष्यति । १२. अलिपर्वगेहे प्रवेगः, तेन क्षौमनैगमेन चिरवाञ्छित एवासीत् । तयाहि, एव प्रकाशलब्धेन प्रवेशेन, स न केवल सुखेन किं तु विनैवा-मसदेहेन त व्यापादयितु पारयेत् । एव चेतसा प्रवेशोत्सुकोऽपि, स प्रकाशमब्रवीत्। सखे, अल निर्बन्धेन । अनुजानीहि मा गृहग- मनाय-इति । अस्मिन्नेवान्तरे, अन्तर्गेहद्वार सेवकेनापावृतम् । तेन च, अलिपर्वतनयो वयस्यमगणितप्रत्यादेश पाणिना पाणौ गृहीत्वा मित्रभावे- नान्तश्चकर्प। १३. ततोऽलिपर्वा तस्मै मायाव्यवहारिणे गरीयसा दाक्षिण्येन स्वागत व्याजहार । बभाषे च- एप मे पुत्रः, त्वा च तावकानि च बहून्युप- कृतानि श्लाघमानः, मया बहुशः श्रुतः । ततोऽहमप्याशसे । गच्छता कालेन दृढता गतेनावयो परिचयेन, त्वत्सखिषु गण्यतामासाद्य धन्यमात्मान कलयेयम्-इति । एतस्मिन्कुज प्रतिजगाद- मामैवम् । मदीय खल्विद भाग्यम् , यत्त्वत्पुत्रपरिचयो मयाधिगतः । तथा हि, एतद्दाक्षिण्यम् , इयं चातुरी, अदश्च मतिपाटव, विरल खलु यूनि लभ्यन्ते । १४. अथ काचित्कालकला सभाषणेन नीत्वा, स वणिक्प्रस्थातुं .
किलोत्तस्थौ । तमलिपर्वा पृच्छति स्म- आर्य, एव कृतत्वरं कुत्र गच्छमि ? त्वया त्वसकृदुपकृतमस्य मे तनयस्य । अधुना च, मया सह सकृद्रुक्त्वा मामप्युपकर्तु प्रसीद । सभवेत्किल यन्मदीयमातिथ्य भवादशस्यानर्हम् । तथापि, तदौदार्येण स्वीकुर्वता भवतानुग्राह्यमात्मानमिच्छामि । हर्षणेन प्रतिभाषि- तम् आर्य, एता तवाभ्यर्थना गरीयासमनुग्रह गणयामि । तथापि, कार- णेनैव त्वत्प्रणयग्रहणाक्षममात्मान समर्थये । कथित चेत् , कारणमिद त्वमपि पर्याप्त मस्यसे। १५ ततोऽलिपर्वणा भणितम् । भद्र, न चेद्रहस्यम् , कारणमेतत्क- थयित्वा जनोऽय त्वयानुग्रहीतव्य. । पण्याजीवेन प्रत्युक्तम् - अलवण स्वल्वाहारः पथ्याशिना मया क्रियते । निर्लवणानि च भक्ष्याणि प्रायो दुर्लभानि । अतस्तन्निर्माणार्थ क्लेश ते परिहरता मया न शक्यते प्रार्थित- मिदमभ्युपगन्तुम् । १६ अलिपर्वावोचत्-। अकिंचित्करमेतत्कारणम् । त्वया च तदर्थं प्रणयो मे न प्रत्याख्येयः। प्रथम तावत् , मद्गृहे निर्लवणमेव पच्यन्तेऽपूपाः । अपर च-- यन्मासाद्यद्यानीयेत, तन मा लवण मिश्रीकुरु--इति सद्य एव गत्वा सूदमादिशामि । एषोऽह गतस्तथानुष्ठातुम्-इति । १७. एतद्भाषमाण एवालिपर्वा महानसं प्रविश्य मारजनिमाज्ञापया- मास- यदद्य त्वया भोजनसमये मास निर्लवणमेव परिवेष्टव्यम् । अभ्याग- तो हि निवृत्तलवणोऽस्ति ।
४९ द्वादशो भागः चोरनायकनिधनम् भीतवत्संविधातव्यं यावद्भयमनागतम् । आगतं तु भयं प्रेक्ष्य प्रहर्तव्यमभीतवत् ॥ ३६ ॥ १. मारजनिर्गृहपतेरादेशाञ्श्रुतमात्रानेव नित्य सानन्दमन्वतिष्ठत् । अद्य पुनः स्वामिसदेशमाकर्ण्य सा मनाग्व्यमनायत । तेन समयेन हि भोज्यजात कल्पितप्रायमासीत् । अतः, तेन सदेशेन कानिचिद्भोज्यानि तया भूयः सपादयितव्यानि । ततः सा त प्रतिबभाषे- अहो विचित्र एष पुरुषः, यः पिशितं विनैव सैन्धव सेवते । को नामाय भवेत् १ तदर्थ भोज्यानि द्वितीयवार पचन्त्या मयि, युष्माक भोजनमतिचिरस्थापितत्वात् , शीत च रुच्येतरच्च जायेत-इति । अलिपर्वा प्रत्युवाच- अयि मारजने, अलम- परितोषेण । स खलु शुचिव्रत आर्यजनोऽस्ति । अस्मिन्समये त्वया मदु- क्तमनुष्ठातव्यमेव । २. एवमाज्ञप्तेयमकामतोऽपि स्वाम्यादेश निरवर्तयत् । कोऽय लवणद्वेषी स्यात् १ अहमेनं पश्याम्येव-इति सा स्वगत बभाषे। तया हि निर्ल- वणाशी पुरुषो न दृष्टपूर्वः, न वा श्रुतपूर्वोऽपि । अतः समाप्ते महानसव्यापारे, भोजनपीठेषु चाब्दपालेन निहितेषु, भोजनपात्राण्युपरितनी भूमिं नय- तस्तस्य सा साहाय्यमकरोत् । एव व्यापृता सा त कुजहर्पणं निपुण साव- काश च निरूपयितुमलमासीत् । ३. दृष्टमात्र तं कृतवेषान्तरमपि सा चोरनायक इत्यभिजज्ञौ । निपुण- तरं च विलोक्य, तेनान्तःप्रावार गूढधृता कृपाणीमपि लक्षयाचकार । तदा ४ , सा स्वगत बभाषे- अत्र नास्त्यणीयानपि विस्मयस्यावकाशः, यदमुना दुरात्मना मत्स्वामिनो मन्दिरे लवण न भोक्तव्यम् । यस्य हि लवण भुज्यते तत्प्राणग्रहणमतीवाधर्म्यम् । उक्त हि- भुज्यते यस्य लवणं तद्धिंसा गुरु पातकम् । इदमेव वचन स्मृत्वा मत्स्वामिवधकामेनानेन लवणभक्षण वय॑ते । अहं पुनरेन ध्वस्तमनोरथ विधास्ये । ४. अथ मारजनिर्भोजनशाला प्रति भोज्यजातवहनेऽप्यब्दपालस्य साहायकमनुतष्ठौ । तत्स्वामी प्राघूर्णकेन सह यावद्भुञ्जान स्थितः, तावत्सा स्वामिन चोराततायिनस्तस्माद्रक्षितु कमपि निपुणमुपाय सर्वात्मना चिन्त- यति स्म । अथ भोजनादूर्ध्व सा गृहपतेरभ्यागतस्य च पुरः कानिचि- (फलानि मद्यविशेषांश्च स्थापयामास । ततोऽब्दपालेन सह भोक्तु किल पाकागार प्राविशत्। ५. तदा कुजहर्षणः स्वगतमवादीत् । अय प्राप्त. स चिरकाश्रितः समयः । अहमिम पितरमेत च तत्पुत्र, उभावपि मद्य प्रकाम पाययित्वा विचेतनौ विधास्यामि । तथाविध च जरठमिम लीलया परलोक विसर्जयिष्यामि । एव कुर्वन्त दस्युचक्रवर्तिन मा निवारयितु का शक्ति- रमुष्य क्षीरकण्ठस्य बालस्य १ ततश्च परिवेष्टरि दासे पाचिकाया च दास्या महानसे भोजनव्यग्रयोः सुप्तयोर्वा सतोः, मया यथापूर्व पलायनेनात्मा रक्षितु शक्यः। ६ किं तु, एतत्तस्य चिकीर्षित मारजन्या तर्कितपूर्वमेव । अतस्तस्य निर्वहणं व्याहन्तुं सोद्यता बभूव ।
नाधर्मो विद्यते कश्चिच्छत्रून्हत्वाततायिनः । -इति व्यासवचन स्मरन्ती सा भोजनाय महानसमगत्वा, स्वयं नृत्याङ्गनावेश निपुणमधारयत् । मुखमपि च्छद्ममुखेनाच्छादयत् । मध्य- भाग च रजतरशनया पर्यवृणोत्। तत्र च मणिमण्डितमुष्टिं कृपाणिकामास- जत् । एवमात्मना सनद्धा सा, अब्दपालमादिशत्-। एहि, मृदङ्गमादत्स्व । आवा यथा भूय एकाकिनमेव स्वामिन तथाद्य सतनयातिथिं त नृत्तगीताभ्या विनोदयिष्यावः । ७. एवमाज्ञप्तोऽन्दपालः, मारजन्यानुगतः, मृदङ्गमादाय तद्वादनपरो महानसान्निश्चकाम | विश्रामागार च प्राप। तत्र च द्वारदेशे स्वामिन प्रवेशानुज्ञा प्रतिपालयन्स्थितः । . ८. अथालिपर्वोवाच- प्रविश रे मार्दङ्गिक । हे मारजने, दर्शय निजकौशलमतिथयेऽस्मै । येन स कौशल ते परीक्षेत-इति । ततो मायाव- णिजमुद्दिश्य तेन भणितम्-। अस्य विनोदस्य कृते न कोऽपि धनव्ययो मया कृतः । एषोऽस्मद्गृहदासैरेव सर्वथा सविहितः । अत्र पात्रे अब्दपालो मारजनिश्च । प्रथमो मे परिवेषकः, द्वितीया च पाकशालाध्यक्षा । मन्ये- एतौ तव रञ्जनाय क्रमेयाताम् । ९. तदा तत्सगीतकमतर्कितोपस्थित प्रेक्ष्य हर्षणश्चिन्तामाविशत्- कथमधुना निर्वहाम्यात्मसकल्पम् ? अथवा, कृत चिन्तया । अद्याय प्रयोगो मया नानुष्ठितश्चेत्, न तावता गरीयसी क्षति कलयामि । यतोऽहमलिप- र्वपुत्रेण सार्ध समृद्धतरसौहार्दो भविष्यामि । ततश्च भविष्यति कदापि मया सिद्धप्रयोगेण भाव्यमेव । अतः किमनेन सगीतेनान्तरायेण ? प्रवर्तता , नामेदम् इति । अथ प्रकाशमाह-। महानय मयि तवानुग्रहः, यदित्थम- भ्यागत मामाराधयितु प्रयतसे । अतो मयापि च्छन्दस्ते न व्याहन्तव्य । १०. अतिथिना सार्ध प्रवर्तमान स्वामिनो भाषण समाप्त प्रेक्ष्य, अब्दपालो मृदङ्ग वादयितु गातु च प्रवृत्त । कलाकुशला च मारजनि- नर्तनपरा, गानसमकाल पादन्यास कुर्वती, स्वामिन स्वामिसूनुं च भृशमावर्जयामास । कुजहर्षणः पुनः वैरसाधनमुद्दिश्य प्रबन्धकल्पनेन व्याक्षिप्तचेतास्तस्या नात्याहतो दृष्टः । ११. अथ कचित्काल नर्तित्वा मारजनि , रगनागता कृपाणीमाचकर्प । तया च कदाचित्स्वामिन, कदाचिच्चाभ्यागतस्य वक्षो लक्षयाचकार । भूयश्च स्वकीयमप्युरः, तेन भेत्तुमिवोद्यतमात्मानमदीदृशत् । १२. एव कचित्समय नीत्वा सा, अव्दपालस्य हस्तान्मृदङ्गमाच्छिनत् । अथ त वामेन पाणिना कृपाणिका च दक्षिणेन धारयन्ती सा, अलिपर्वण पारितोषिक किल प्रार्थयितु चक्राम । १३. तदा परिवृत्ततले तस्मिंश्चर्मवादित्रे, अलिपर्वणा हिरण्यदीनारः पातितः । तत्तनयेनापि तथैवाचरितम् । तदालोक्य कुजहर्षणोऽपि तामा- त्मनः पुर आयान्ती प्रेक्ष्य, निजोरसि पटान्तर्गता धनभस्त्रिकामाक्रष्टु प्रवृत्तः । येन तस्यै प्रीतिदानं दद्यात् । यावच्चासौ वामेन हस्तेन भस्त्रिका धृत्वा दीनारनिष्कासनार्थ हस्तमपसव्य तत्र प्रवेशयति, तावदेवेत्थ व्यापृतोभयहस्त तं मारजनिश्छुरिकाप्रहारेण भिन्नहृदय चकार । १४. एतदालोक्य पितापुत्रावुभावपि भयविस्मयाक्रान्तौ प्रोच्चैश्चक्रुशतुः । पिताब्रवीत् । दुर्भगे, किमिद त्वयानुष्ठितम् १ अतिथिमेन घातयन्त्या त्वया, अहमपि सान्वयो घातितः।
५३ - १५. सा प्रत्याह-। मा तावद् । मया हि न तव नाशः, किं तु तव च त्वत्कुटुम्बस्य च रक्षणमेव विहितम् । अथ तया कुजहर्षणस्य प्रावारमपसार्य तदन्तर्गुप्तो मण्डलानः स्वामिने दर्शितः । भणित च- पश्य, नाय सुहृद् , किंतु दुहृदेव, यस्त्वया भोजितः । वदनमस्य निपुण निभालय । येन त्वमेन तलवणिजमभिज्ञास्यसि । अयमेव दस्युनायकः । भूयश्चावधारय- यथा- त्वद्गहेऽनेन लवणभक्षण यत्नतो वर्जितम् । किमत्र कारण स्यात् ? किम- न्यत् ? इदमेव यल्लुवण चेत्त्वदीयभवने तेन खादितम् , न त्वं तेन हन्तु युज्येथाः-इति । यदैव त्वया लवणनिवृत्त एषोऽभ्यागतो मम कथितः, तदाप्रभृत्येव तमनु जातशङ्केवाभूवम् । उक्त हि भगवता व्यासेन- अशिष्टाः शिष्टसंकाशाः शिष्टाश्चाशिष्टदर्शनाः । दृश्यन्ते विविधा भावास्तेषु युक्तं परीक्षणम् ॥ ३७॥ किं च तद्वदनदर्शनेन तु तत्क्षण तमभिज्ञाय मया तर्कितम् । यदेष तवाशुभ ध्यायति-इति । तथा चोक्तम्- आकारश्छाद्यमानोऽपि न शक्यो विनिगृहितम् । बलाद्धि विवृणोत्येव भावमन्तर्गतं नृणाम् ॥ ३८ ॥ एव त्वद्वधार्थिनमेन व्यापादयन्त्या मया युक्तमेवाचरितम्-इति त्वमपि ज्ञास्यसि । तथा चेय व्यासभणिति:- यस्मिन्यथा वर्तते यो मनुष्यस्तस्मिंस्तथा वर्तितव्यं स धर्मः । मायाचारी मायया वर्तितव्यः साध्वाचारः साधुना प्रत्युपेयः॥३९॥ १६. अथालिपर्वा चिन्तयामास-। इदानीमपि पूर्ववदह मारजन्यैव चातुर्येण दाक्ष्येण धैर्येण च मृत्युमुखान्मोचितः। अतो दासीभावान्मोचित- पूर्वामेना स्नुषापदमपि किं न लम्भयेयम् । उक्त हि- - विषादप्यमृतं ग्राह्यममेध्यादपि काञ्चनम् । नीचादप्युत्तमा विद्यां स्त्रीरत्नं दुष्कुलादपि ॥ ४० ॥ ता चावादीत् । वत्से मारजने, नून त्वया बहूपकृत मम । नातिचिरा- प्राक् प्रेष्यभावान्मोचयता मया भणितैव त्वम् । यथान्यदपि पारितो- षिक मत्तः प्राप्स्यसि इति । अय च सप्राप्त समयस्तद्वितरीतुम् । अद्य त्वा मत्स्नुषापदमारोपयितुमिच्छामि । १७. अथासौ पुत्रस्य समूखीभूय बभाण- अद्ययावत्त्व मदाज्ञा- परोऽभूः । येनाधुनापि त्व मदचनमाश्रुत्य जन्मदासीमपि मारजनिमेता भार्यात्वेनाभिनन्देः । इद तु प्रमाणनिरपेक्षमेव यत्कूटवणिजा हर्षणेन, मद- धमेव सकल्पयता त्वं वयस्यभाव लम्भितः । एतदप्यभूमिः सशयस्य यन्मा प्राणैर्वियोज्य स त्वामप्यद्य निशाया प्राणैर्व्ययोजयिष्यत् । एवमेतत्प्राप्नोति यन्मारजन्या न केवल मदीय, किं तु त्वदीयमपि जीवित परिरक्षितम् । अत., चतुरोपकारिणीमिमा भुजिष्या त्वद्वधूत्व नारोपयामि चेत् , युक्ता- ननुष्ठानात्सर्वथा वाच्यमात्मान विदध्याम् । उक्त हि- कनकभूषणसंग्रहणोचितो यदि मणिस्त्रपुणि प्रणिधीयते । न स विरौति न चापि न शोभते भवति योजयितुर्वचनीयता॥४१॥ १८. पितृवचसोऽस्मात्पूर्वमेव, अलिपर्वपुत्रो मारजन्याश्चातुर्येण हृत- प्रीतमना आसीत् । तथा चोक्त भारविणा- कमिवेशते वशयितुं न गुणाः ? किं तु श्रीमतः श्रेष्ठिनः सभूतत्वात् , जन्मतोऽनुगतदासीभावा ता कामयितु नोदसहत । अधुना तु दासीभावे निवृत्ते, अन्यैव वनितासौ संपन्ना । किं च- यत्रैव मनसः कामस्तत्रैव पितृचोदना । इति मन्वाय तत्क्षण सानन्द तदाज्ञाविधानोद्यतमात्मान निवेदयामास । १९. अथ तौ पितापुत्रौ, निखातपूर्वाणा चोरशवाना सविध एव, अन्त- गर्त तदग्रणीशरीर शाययामासतुः । किंच तमर्थ तथा निभृत निर्वतया- मासतुः, यथा नेकोऽपि प्रातिवेशिको लेशतोऽपि तदभिज्ञो बभूव । अथा- न्यस्मिन्दिवसे, तथानन्तरेषु च केषुचित्कुजहर्पण पण्यशालामपावरितुमना- गत प्रेक्ष्य, जना 'कुत इदम् ?' इति व्यस्मयन्त । किन्तु गच्छता कालेन तद्गत सर्वमपि तैर्विस्मृतम् । २०. तत कतिपयदिवसापगमे, मारजन्यालिपर्वणयोर्विवाहो निवृत्तः । तन्निमित्त चालिपर्वणा सुसपन्न भोजन ज्ञातिभ्यो दत्तम् । तथा चोक्तम्- संभोजनं संकथनं संप्रश्नोऽथ समागमः । एतानि ज्ञातिकार्याणि न विरोधः कदाचन ॥ ४२ ॥ तदा सर्वैरपि भणितम् । अहो उचितमाचरितमलिपर्वणा, यजन्मदा- स्यपि मेधाविनी शीलवती मारजनिर्दास्यादुद्धृत्य स्तुपात्वमारोपिता ! यतः सबन्धस्यास्य परमार्थहेतुस्तेषामज्ञात एवासीत् । २१ अथ वर्ष यावदलिपर्वा चोरगुहा नैवागमत् । दीर्धेऽस्मिन्नन्तरे कामपि चोरबाधामनुपस्थिता प्रेक्ष्य भूयोऽप्यसौ वाजिना तद्गुहा प्रापत् । गुहाया निकटेऽश्वादवतीर्य तत्र नराणा तुरगाणा वा पदमुद्रा अनालोक्य, स वीतभयमात्मान मेने । अन्तः प्रविष्टश्च स उन्निनाय- यदा कौशे- यभाराश्चोरामण्या विक्रयार्थ पुर नीता , तदाप्रभृति न कोऽपि नरो गुहान्तः प्रविष्टः-इति ।
२२. अथामो पुनरप्यात्मगत जगाद-। सर्वेऽपि चोरा ध्रुव लयं गता। गुहाप्रवेशरहस्य च मद्वर्ज न कोऽप्यन्यो जानाति । येन समग्रस्यैतावतः कोशस्य, अहमेवासाधारण. स्वामी । एनमह यथाकाम भोक्तुमीगे । तत., तेनात्मना सार्धमानीतो महान्स्यूत स्वर्णमुद्राभिर्निरन्तर पूरितः । प्रच्छन्न च पुर प्रत्यानीतः। २३ केनचित्कालेनालिपर्वणा स्वतनुजस्तामटवी नीत्वा गुहारहस्य ज्ञापितः । स तनयोऽपि विपुला ता सपद चातुर्येणोपयुञ्जानो भुञ्जानश्च गच्छता कालेन ननराध्यक्षपद प्राप्तः । सोऽपि पितरमनुकुर्वस्तद्रहस्य स्वीय पुत्रमुक्तवान् , सोऽपि स्वीयम् । अनया परपरया तद्गुहारहस्य बहुलानि वर्षाणि यावदलिपर्ववशजा जचुः । तद्गुहागतानि सर्वाणि महा_णि वस्तूनि शनैः शनैरात्मसाञ्चक्रुः । एव क्रमेण गुहान्तर्वर्ती स धनसचयः प्रचुरो- प्यस्तमितो बभूव । तेनैव सम तद्रहस्यगोपनप्रयोजनमपि । यतः खल्वह कथामिमामामूलादलिपर्ववशजाद्वेदितु युष्मभ्य च निवेदयितु प्राभूवम् । २४. अथ, अतिप्रभूतोऽपि चोरसचितो धनराशि कालेन क्षीणता गतः इत्यालोच्य स्मरामि भगवतो व्यासस्य वचनम् -- सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्याः । संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ॥ ४३ ॥ इति समाप्तेय चोरचत्वारिशी नाम कथा ।
NOTES N seen Chapter I Paragraph 1 सर्वं तरति कोशवान्-a rich man can surmount any difficulty. 2 दृश्यता इ-to be 3 एभि दस्युभि भाव्य-these must be bandits 5 प्रकाशता इ-to be lit up 12 भयाय न सवृत्त-caused no fear II 4 वृक्षच्छेदनेन प्रयोजन न स्यात्-there would be no need of cutting trees मनोरयै सपत्तव्यम्-the desires shall be realised 7 वनेन मानतो ज्ञातेन किं ?-what is the good of knowing the amount of money ? मम अर्थ सप- घेत-my purpose will be served त्व कालप्रतीक्षा कारिता- you were made to wait III miegulda वनु लक्षाय प्रणतfurnished with the two ends, the bow bent for hitting the mark, the other implied sense being-possessed of two crores of Rupees, the bow bent to aim at ( securing ) a lac (more) 1 अनुगृहीतास्मि भवत्या मान ददत्या-I thank you for your lending me the measure 8 FARIISIFAT atifs--there is no undoing what has been done IV 3 चिर अस्थास्यत्-would have long stopped there 5 मन्त्र STET ET SYTETT --the spell did not occur to him चित स्थानमिति कृत्वा-taking it for the right place 11 द्विधा कल्पनीय-should be cut in two V 3 एतद् देवरोक्तम् जातं-the moment they were heard, the words of her brother-in-law dispelled her doubts and comforted her VI 4 तस्य सुप्रात आशशसे-wished him Good-morning तस्य सतोष न अहीयत-contentment never left him 8 समु- your deeds man 10 SIC ET-gave delight मा अस्त गम =मा अस्तम् ( अ-) TH AT 3TFT TOES The stanza means-Do not become a non-entity among the people, but gain celebrity by Remain not at the lowest, neither low, nor even in the middle, but remain top-most widely known VII 2 प्राणान् अपि रक्षितव्य-a should preserve from loss, his money even by endangering his life alla fine can —prepared as it were to give back न अर्थ ते सपादयितु मया पार्यते-it is beyond my power to do your business 12 पारितोषिक लम्भनीय -should be given the reward 13 त हातु न उदसहत-could not lose it 16 बहु उपकृत त्वया मे-I thank you much VIII 4 शकाविषयता न आपन्ना -were not suspected IX. 10 वसन्त मा सोढ अर्हसि-please allow me to stay here 12 त्वया प्रविश्य गृहमिद सनाथीकरणीय-do me the favour of entering the house पेय पत्तटा वारय--keep ready the cooked drink x 2 STRUCTFIT - 20--another maid would have cried aloud 6 49HE EFTEL ETRURI--would keep the broth simmering 8 start tot aien -the plot proved fruitless 9 परमार्थतो गृहीत -was truly known 11 तेषा बोव परिहरन्ती- lest she should rouse them thar ag gay-when they went to sleep never to wake again 17 शेष ET CROC-should not suffer the remainder to remain त्वया अवहितेन स्थातव्य-you should be on youl guard XI कार्यत हितपरा दृश्यन्ते-appear filendly when it suits their purpose 4 पण्यशालया मम कार्य-I am in need of a shop 6 मिथ वयस्यभावमिव पुपुषतु -behaved somewhat friendly towards each other 7 FHTCUTST BETTELOT ---stayed talking ५९ 14 प्रस्थातु किल उत्तस्थौ-rose as if to depart XII. 8 रञ्जनाय hat would serve to amuse 15 Teil 7 HH does not fail to shine TfFHL 747 etc Heal-with good- The stanza means --It is a duty of a man to behave towards another as he does towards himself A dishonest person should be dealt with cunningly and an honest person should be dealt with fairly ness
No text on this page.
Glossary of difficult words a inever अकाण्डमरण-sudden death SITT anxiety अझालहीन-without loss of BTTTT a shoe-maker's awl time grilue-ad-facing this STOCRATET m -a physician direction अङ्गारकारक charcoal उदारचरित-generous burner उन्मूलयति- -cl 10-to root अनन्तर adi -adjacent, out, to pain extremely next FITC -disturbance, adv -Then, after that convenience STEETHe adj -slave for- उपस्कर an article of furniture Stafett-wishing to per- INTENS--bent upon a sinform gle object 3496-4 ind -in pursuance of 2018-known by heart अन्ध-तमस-pitchy darkness afayeconsisting of how अन्वय many coins STHES—pure, honest NIIT-a work-shop ST#1 - feces, filth sref with -to request, to for any ma proposal, scheme. seek काकतालीयवत् accidentally आकार-expression of the कालकला-a short space of face time Braaiftae adg-a despera- PATTI-319to some extent. do, one reckless of his gaisa -a measure of grain. life sa f.-leather vessel for oil. -a race, a line ?
es with to prepare, चेष्टित a deed, feat to cook gore-a whim, pleasure कृत्यभार -responsibility छमबहुल-decentful 401—wretched, poor छद्ममुख-a mask कृष्-कर्षति-to lead 996lack ata f-harm, loss entirety, the whole 874 -ruin, a house जातरूप-gold 19tq with 7-to cut short, to FESTE-search, quest interrupt Retuillag—wishing to live farq with to reduce, to 54-yed—to enjoy, to take lessen Twith 37-to recognize erectus-too young, infant Il with to promise, to itisilk adg.-made of vow, to declare solemnsilk ly गम् caus -to bespeak, to 441-a jump, a leap. indicate ताऱ्या -a vulture गर्भेश्वर-born rich Aten-vanished, out of गैरिक-a red mineral, गेरु sight T f-a cow, speech, an --tin organ çok difficult to guess, inut m- a bull conceivable चक्रa mutitude. sa f-leather a caus --with fa-to think, FI with 56-to expect, to to hesitate foresee चर्मसेविन् m. -a cobbler देशिक a teacher ates with 30-to set off द्वारफलक a door-leaf 211986rashness, officious-get a purse for ness money. of sense ६३ or near ous. possession, а. या with अति-स-to deceive, परिग्रह -a to over-reach wife with F-h-to be present IRTENGAH-measurable परिवृद्ध a leader with ga-to prepare ATH-hinder, lying at the back ghafa f—a cigar धूमायते (a नामधातु) to give 9729_skıll, healthy condition out fumes पालयति with प्रति-to wait FTA ind-by name, surely, for falsely yottef -man's efforts. Find f-hnavery, a trick USTNICT-sweet and gener- Fatareya store, a heap PAGRIan illustration, an FET-open, known example 370612TSOTopen, not con- नियन्तृ m-a driver cealed निर्वर्तनcarrying out प्रच्छन्नघातक hatua caus-to put out ata brother's wife alanlar--the same as, not fagfat f-a remedy, different, equal. measure निलय a hiding-place. fastauta promise निषेध-prohibition stay-a belief, conviction. Prettcruel, merciless FRIGET ----refusal, reluc- AT f—a ladder tance. off with sc--to infer प्रत्यायन-convincing another 4 with a-to do, to act. प्रपात a precipice, cliff Prade--the being guessed 42-pleased, right, suitby another able. -an assassin а.
६४ प्रमविका-a bag or purse any potent medicine of 56719an introduction a particular shape sa-bent towards, favour HP-fraud, deceit able to मायावणिज्-a false mer- प्राकार a rampart, a wall chant प्रेतसस्कार -the funeral मारजनि f-a proper name फूत्कार -sobbing Arton—search, inquiry Te full of, replete मुखर a leader ate adg --firm, strong Ferra ---the corn-bag for ind -yes the horse ब्रुव ady --in name only, Tal-capital, excellent unworthy यत् caus with निर्-to re- HETa king, the sun venge, to pay back, भल् with नि cl 10-to retaliate observe minutely यदिकिल-perchance भस्त्रिका-a leather bag 496-grass, fodder भुजिष्या-a female slave यातायातानि blu-going with to be able, to and fro. command, to यावत्सूक्ष्म-as accurate mastery over possible भूरिलाभ-at a great profit, युगपर्यय -the icvolution of profitably HUSS19 —a dagger, poniard with 24-to stop, to die Hilfethe desired object, TART-a tonic, an invigordesire ating medicine. HETTE the kitchen. Impalatable. H18-a small quantity, 27 na mark, sign to have as an age a hill sion वनराजि f-agrowth or line व्यवसायिन -a. merchant of tiees tallen hidden, intercept- वसावनि f-a war candle ed 2697actually, in fact -distracted, uneasy 1973-censurable शिलोचय वाग्व्यवहार -an oral discus- शी with अनु-to repent * with 3-to obey fastaura (cl 10)--to mock FICHET -a share Felf Tea-formal, regular संशय a doubt, danger, Patatü f -a market risk विपर्यय —the reveise of a सकेतस्थान-a meeting-place thing Hele-prepared, ieady विमनायने (a नामधातु )-to be सपन-fulfilled, 11ch sad. H-at the same time Fagmara +131-spacious, wide fachat—whole-heartedly Pets with to sleep सविव---Vicinity विशेष particular, साटोप- -pompous, imposing special feature साधारण- Tay with cl 3 U-to HIETAT to—a desperado, serve as food reckless fellow 5 with STT caus-to win teref-who has gained his object वृत् causal with वि-परि-to सुस्मूर्षित-tried to be recolrevolve in the mind, to lected think over pita-brought by the Sun, afgetta raised piece of arrived at sun-set ground, a dais FECTS ---the god of rob- व्यतिकर an incident bers a or -common a over
६६
Fahr-fit to be stolen
स्था-तिष्ठति-to stop while
walking
Fhaffection, oil
a vocative particle
with 3779mto eat
with 40-to deal
with 1-to speal.
Printed by M N Kulkarnı at the Karnatak Printing Press,
318 A Thakurdwar Bombay No 2
and
Published by A W Barle Manager Messrs Longmans,
Green & Co Ltd , 53 Nicol Road, Bombay