Central Library, University Of Rajasthan

The Dharma Vijayanataka

Sukla Bhudeva · 2010/12

PDF Proofread

Front matter

No text on this page.

श्रीमद्भदेव शुक्लविरचितं धर्मविजयनाटकम् राजकीयसंस्कृतपाठशाला-सरस्वतीभवनोपाध्यक्षेण साहित्याचार्य- पदालङ्कतेन श्रीमता नारायणशास्त्रिखिस्तेशर्मणा संस्कृतम् । THE DHARMA VIJAYA NĀTAKA By BHŪDEVA S'UKLA Edited with Introduction etc. BY SĀHITYĀCHĀRYA PANDIT NÂRÂYAŅA S'ÂSTRĪ KHISTE, Assistant Librarian, Government Sanskrit College, Sarasvati Bhavana Library, Benares. 1930.

No text on this page.

. ॥ श्रीः॥ धर्मविजयनाटकस्य उपोद्धातः अथेदमुप्रक्राम्यते 'धर्मविजय नाम नाटकं संमुधु प्रकाशयितुम् । अस्य निर्माता किल प्रसिद्धो विपश्चिन्नैकनिवन्धनिर्माताश्रीमान् भूदे. चशुक्लः । नाटकमिदमद्यावधि काव्यमुद्रितं धर्मविप्लघदूरीकरणोपाय: प्रदर्शकमिति घर्तमानकाले सम्यगुपयोगितामस्य सम्भावयता मया काव्यरसिकानां करकमले पूपायनीक्रियते । कान्तासम्मिततया सदुपदेशकरणमेव हि काव्यस्य मुख्यं व्याव. हारिक प्रयोजनम् । तच्च श्रव्यकाव्यापेक्षया दृश्यकाव्यद्वारा समधिकं चारतया सम्पाद्यते इत्यप्यतिरोहितमेव प्रेक्षवताम् । पापस्य नरकज- मकत्वं शतकृचः श्रुत्वाऽपि यावती पापपराङ्मुखी वृत्तिश्चेतसि समु- देति, तदपेक्षथाऽपि प्रवला चेतोवृत्तिः पापिनो नरके निपातम्, तस्य दुःसहलशभोगित्वं सकृदपि निरीक्ष्य समुदेतीत्यनुभवो विदुषाम् । इत्यमेव सदुपदेशदानं दृश्यकाव्यद्वाराऽव्यभिचरितफलं सम्पादित भवति । तदेव दृश्यकाव्यं नाटयमित्यभिधीयते । महर्पिणा भरतेन साङ्गोपाङ्गस्य तस्यैव प्रपञ्चन स्वकीये नाट्यशास्त्रे कृतम् । पश्चाद्भा. विमिफौद्धिानिस्तधे स्वस्याधिन्यपु समाधिपभषानुसार स्तरेण सप्रभेदं सोदाहणञ्चःनिरूपितम् । 'अवस्थानुकृतिर्नाटयम्' इति हि नाटयलक्षणं दशरूपकादौ निर्दि- टम् । अनुकरणमेव हि नाटयम् । अनुकरणञ्च वास्तविक्या अवस्थाया पप सम्भवति, न तु कल्पितायाः। तथा च वास्तविकावस्थानुकरणं नाटयमिति फलति । तत्र सदुपदेशकरणात्मकमुख्यव्यावहारिकफला- नुसन्धानेन सत्कर्मणां शोभन फलमसकर्मणामशोमनञ्च फल कविना तत्र .

३ उपोद्धातः । नाटकेऽवश्य निबद्धव्यं भवति । तस्यैव प्रवृत्तिनिमित्तत्त्वात् । एवमपि नाटकनिवन्धने न कवेः स्वातन्त्र्यम्, नापीतिहासादिवत्केवलमिति. त्तनिरूपणमात्रेण कवेरात्मलामः । श्रपि तु विविधनियमनियन्त्रितस्य तस्य भूतार्थे विपर्यासः, अन्यथाकरणम्, परिहरणम, अभूतकल्पनञ्च यथावसरं कर्तव्यं भवति । निदर्शनान्यत्र वहुनि महाकविप्रवन्धेषु समु. पलभ्यन्ते। यथा-अभिज्ञानशाकुन्तले महाकविना कालिदासेन मुख्यनाय. कस्य शकुन्तलानगीकारात्मको दोषः दुर्वासःशापवृत्तान्तकल्प. नया निवारितः । एवमेव महावीरचरितादिरामायणप्रवन्धसमाश्र. येषु नाटकेषु प्रच्छन्नतया वालिवधात्मको मुख्यनायकस्य रामस्य दोष. स्तत्कथाया अन्यथाकरणेन प्रकारान्तरेण वा तत्तत्कविभिनिवारितः। तत्र सामाजिकानां मनःक्षोभो मा भूत् मध्ये प्रतिकूलवेदनया रसा. स्वादे धाराविच्छेदश्च मा भवतु, इत्येव बीजम् । तथा च व्यावहारिक्यासवस्थायां मानवजातिसुलभा अपि दोषाः प्रधाननायके न निबद्धव्याः । प्रधाननायकचरितस्यैव सदुपदेश. प्रदानप्रयोजकत्वात् । व्यावहारिके जगति क्वचित्पापिनोऽपि सुखिनो दृश्यन्ते, पुण्यवन्तोऽपि क्लेशवन्तः । किन्तु नाटके तावत्पापिनः सुखप. रिणामित्वं नैव दर्शयितुमुचितम् । तथा क्रियेत चेत भारतीयनाटय- शास्त्रादर्शस्यैव मूलच्छेदः प्रसज्येत । प्रकृतनाटकेऽपि ग्रन्थका धर्माधौ नायकप्रतिनायको प्रकल्प्य तदनुकूलांश्चोर्ध्वगतिपण्डितसङ्गतिदुराचाराऽनाचारादिपरिवारांश्च कल्पयित्वा अधर्मेण धर्मस्याक्रमणं पूर्व प्रदय पश्चाद्वद्धपरिकरण धर्मेण स्वपरिवारद्वाराऽधर्मस्योच्छेदः पर्यवसाने प्रदर्शितो नाटकं च समापितम् । धर्मस्य मुख्या राजधानी काशीक्षेत्रमिति विचार्य तत्रै. वाधर्मस्य प्रसरणं प्रदर्शितं कविना । नाटकमिदं प्रायो यवनराजस्याकब्बरस्य समये प्रणीतमिति स.

उपोद्धातः। म्भाव्यते । तत्कालीनराजनीत्यनुसारेण हिन्दूनां यवनानां च परस्पर सौहार्दमासीत् । शृङ्गारमाया यवनानां दुराचारास्तदानी लोकैः सादरमनुक्रियन्ते स्म । कामोपहते चेतसि कुतः सदाचारादर इति क्रमशः सदाचारहानिरजनिष्ट । परिभ्रष्टसदाचारा एके सदाचारिणः परानसहमानास्ताननेकैविप्रलम्भनैः पातयन्ति दुराचारगर्ते इति तु लोकानुभवसिद्धमेव । सैवेयं दशा नाटकनिर्माणसमयेऽपि सातेति सम्भाव्यते । तस्मिन्काले केपु केषु देशेषु के के दुराचाराः प्रसृताः । कथं वा धूर्ता धमिदम्भेन समाजे प्रविश्य तंभ्रंशयन्ति स्म । इत्येतत्स- कलममुना नाटकेन सम्यगवगतं भवेत् । वर्तमानकालिकी धार्मिकी परिस्थितिरपि प्रकृतनाटकोपवर्णि परिस्थित्या सुतरां समतां भजते । तत्र समाजेऽधर्मप्रसरणं कदा कथं च भवतीति विचार्यमाणे राजपक्षात् धर्मविषये दण्डनीतेरभावे सत्येवाधर्मप्रसरणं भवतीति प्रतिभाति । अकबरस्योदारा नीतिधर्मस्वातन्त्र्यं विचारस्वातन्यश्च प्रवर्तयामास। अकृतवुद्धयस्तु स्वतन्त्राः सन्तोऽधर्म यथारूचि प्रवर्तयन्ति स्म । दुराचाराणामपि यवनानामैहिकभोगसमृद्ध्यादिकं पश्यन्तः स्थूलद्- शिनः सदाचारपरिपालनं व्यर्थमेव मन्यन्तेस्म। किञ्च प्रातिदशाया. मपि धर्मस्य स्मरणं भवतीति नियमानुरोधेनाकब्बरकाले प्रजानां सुखसमृद्धिसम्पन्नतयाऽऽतिकारणमपि नासीदित्यातिनिमित्तकस्यापि धर्मस्य तदानीमभाव एवासीत् । अकबरात्परं तत्प्रपौत्रस्यौरङ्गजे. यस्य काले तत्कृतपीडनात्मकातिसद्भावात्तदानी रामदासशिवाजी- प्रभृतयोऽनेके धर्मसंरक्षकाः प्रजोद्धारकाः प्रादुरासन् । सम्प्रति तु राज. पक्षाद्धर्मविषये दण्डनीति स्त्येव, प्रत्युत सर्वस्यैव धर्मविपये पूर्ण स्वातन्त्र्यम् । दुःखदारियाद्यार्तिसद्भावेऽपि नव्यशिक्षानुभावाद्वैतुक- ताप्रसाराद्धर्मस्य न स्मरणं भवति, सञ्जातेऽपि स्मरणे तत्र निष्ठा ना- स्ति, इति वर्तमानकाले यावान धर्मस्य सदाचारस्य च हासो दृश्यते, तावानतोते काले कापि कदापि नासीदिति वादं वक्तुं शक्यम् ।

४ उपोद्धातः। . धर्मविप्लवदूरीकरणायात्र प्रदर्शिताः प्रदर्शिताः सत्सङ्गपुराणश्रवणादय उपायाः सावधानतया यधावसरं प्रयुक्ताश्चेद्याऽपि किमपि सत्फल- मेव जनयेयुः । वस्तुतो विचार्यमाणे या काऽपि सामाजिकी धार्मिकी राजनीतिसम्बन्धिनी वा व्यवस्था भवति, सा व्यवस्थाएभ्यो भये. नैव निर्याधं प्रचलति । किमधिकेन, भगवतो श्रुतिरपि सूर्यचन्द्रपवमा नादीनां स्वस्वनियोगानुष्ठानं परमात्मनः सकाशाद्भयेनैव हेतुना निर- न्तरं प्रचलितमुपदिशति । अस्त्येवेदमनुभवसिद्धं सामाजिके दनन्दिन- व्यापारे। समान एव न्यायो धर्मविषयेऽपि । शते सहस्त्रे वा तथाविधाः पवित्राशया द्वित्रा एवोपलभ्येरन् , ये भीतिमन्तराऽपि नैसर्गिकण प्रेम्णा धर्ममनुतिष्टासन्ति । साधारणः समाजस्तु न श्रुतेराज्ञां बहु मन्यते, ने लोकान्तरभावीनि नन्दनोद्यानविहरणान्यपेक्षते, नाऽपि विशुद्धज्ञानो. ये दद्यते, केवलं राजभीत्या सामाजधुरीण भीत्या च सदाचाराननु तिष्ठति । एवमनुतिष्ठतस्तस्य तथाविधसदाचारानुष्ठानमहिम्नैव तेषु सदाचारवान्तरिकी प्रातिः सजायते, अननुष्ठाय सदाचारान् स्थातुं न पार्यते । एवमसौ क्रमो वर्तते । प्रकृतनाटकेऽपि पर्यवसाने धर्मेण सपरिवारेऽधर्मे विनाशिते सति राज्ञो धर्मस्य विद्यया सह संलापावसरे महाभयप्रदर्शनेनैव लोकस्य हस्तगतत्वं सम्भाव्यते; इत्युक्त्वा, राज्ञा-"किं तद्भयप्रदर्शनम्" इति पृष्ट विद्याया उत्तरम्- निरये निपतन्त्यंधर्मिणस्तरुगुल्मादिषु सम्भवन्त्यथ । पशुपक्षिषु संसरन्त्यथो मनुजानामुदरे ततः परम् ॥ तत्र च प्राक्तनकर्मयोगेन, दुर्दर्शनाः केचन केऽपि दुर्भगास्तीवामयग्रस्तकलेवराः परे । व्यङ्गा दरिद्रा विकलास्तथेन्द्रियैर्न सङ्गताः केऽप्युपंसर्गमन्धराः ॥ ततश्चैतावदाकर्णनमात्रेण सर्वेऽपि सत्रांसाः पूर्वकृतदुष्कृते सानु शयाः सर्वथैव वैमुख्यमधर्माद्भजन्तस्तदनुशासनं प्रमाणयन्ति । विली.

उपोद्धातः । नस्य त्वदरातेनोंपलभ्यते वार्तापीति"। : एतावता भयप्रदर्शनमेव सामान्यजनस्य धर्मानुसरणे प्रवर्तक 'भवतीति सिद्धमेय । तच भयप्रदर्शनं पारलौकिकं ऐहिक चेत्युभयवि- धमावश्यकम्, धार्मिकाः समाजधुरीणा असदाचारिणो जनान् यदि समाजयहिष्कारादिदण्डैदण्डयेयुस्तदाऽपि तादृशदण्डभीत्या धर्मर- क्षा सम्भवेत् । अत एव 'दण्डनीतिरेवैका विद्या' इत्यौशनसाः सङ्गि. रन्ते । दण्डभयादेव कृत्लो लोकः स्वेषु स्वेषु कर्मस्ववतिष्ठते इति । एवमात्मका एव विचारा अस्मिन् नाटके प्रदर्शिताः । तेषां युक्ता- युक्ततां तु निष्पक्षाः स्वयमेय विचारयन्तु । नाटकान्तरापेक्षयाऽत्रेदमेव वैशिष्ट्यं यदीद्वशी विचारसरणिर्नान्यत्रोपलभ्यते । विधर्मीयेषु शास. केपु सत्सु राजावलम्बाभावाद्ध स्य या दुरवस्था भवति तामुद्दिश्यैय तत्प्रतिकारविचारोपायात्मकमिदं नाटक यवनसाम्राज्यकालिकेन कवि. नोपनिबद्धम् । वर्तमानेऽपि समये यदि जनैरैतन्नाटकप्रदर्शितोपायाः शरणीक्रियेरन् , तदांशतोऽपि धर्मरक्षा सम्भवेदिति चयं बाढ़ विश्वसिमः ग्रन्थकर्तुः परिचयः अथ प्रकृतनाटककर्तुभू देवशुक्लस्य विषये यथावदधिगतमैतिह्यमु- पनिबध्यते-असौ भूदेवशुक्ला पञ्चद्रावडान्तर्गतः पञ्चगौडान्तर्गतो वेति योद्धं किमपि द्वारं नास्ति, 'शुक्ल' इत्युपाधेगौडद्राविडोभयस. म्बद्धत्वात् । वक्ष्यमाणप्रमाणानुरोधेन 'जम्बूसर!' स्थयितया गौड. त्वमेव सविशेष सम्भाव्यते । जम्बूसरश्च वर्तमानकाश्मीराधिपराज- धानी 'जम्बू' इति प्रसिद्धस्थानं स्यात् । तथा च काश्मीरकोऽयं कविरिति सम्भाव्यते । शुकदेवपण्डित इत्येतपितु म । श्रीकण्ठ- दीक्षित इति च गुरोर्नाम । अनेन च स्वकृत 'रसविलास' नामकग्र. थावसाने- श्रीकण्ठदीक्षितगुरोझोता काव्यप्रकाशिका 1 उपोद्धातः। इत्यावेदितमस्माभिनवं नात्र प्रकल्पितम् ॥ जम्बूसर स्थितिजुषःशुकदेवसूरेभू देवपण्डितकविः प्रथमस्तनूजः। तनिर्मितो रसविलासपदाभिधेयः सन्दर्भ एष कविनां मुदमादधातु सम्वत् १७६३ इत्युक्तमस्ति । अस्माभिवंडोदाराजकीयपुस्तकसंग्रहालये रसविलासस्य No.11 संख्याकं पुस्तकं दृष्टम् , तत्रावसाने लेखकेन सम्बत् १७९३ इति ले.. समयो निर्दिष्टो वर्तते, तेन तत्समयपूर्वभाविश्वमेव ग्रन्धक: द्ध्यति । अन्यच्च प्रकृतनाट केऽपि स्वाश्रयदातुः केशवदासस्य दिल दयितवेतनदानामात्यत्वेनोल्लेखः कृतः। हिन्दीभाषायां प्रसिद्धो ग्रन्थ कारोऽकब्बरसमकालिक केशवदास एवासौ यदि भवेतहि तदाश्रिी तेन भूदेवेनाऽपि वैक्रमीयषोडशशतके भाव्यमिति वैक्रमीयं । शतकमेतत्समयो भवितुमर्हति । आख़बृहत्सूचीपत्रानुसारेणैतनिर्मिता ग्रन्था यथा- १ धर्मविजयनाटकम् (सम्प्रति मुद्रितम् ) २ आत्मतत्त्वप्रदीपस्तट्टीका च । ३ रसविलासः (अयमस्माभिः स्वरूपतो दृष्टः परिशीलितश्व) ४ ईश्वरप्रसादप्रबन्धटीका च । आफखुसूचीपत्रद्वितीयभागे भूदेवशुक्लगुरुः'राम'नामा कश्चिदुक्तः, प्रमाणं तु न किमप्युल्लिखितम् । इत्थमेतावदेव ग्रंन्थकतु रतिह्यमुप- लभ्यते । एतत्पुस्तकमुद्रणसमाप्त्यनन्तरं राजकार्यानुरोधेन बडोदानगरें प्रस्थितेन मया तत्रत्यराजकीयसंस्कृतपुस्तकालये धर्मविजयनाटकस्य षट् पुस्तकानि सम्पूर्णान्युपलब्धानि । प्रकृतंपुस्तकमुद्रणाय पुस्तकद्वयमादर्शत्वेन गृहीतम् । तत्रैक 'क' संज्ञं अत्रत्य राजकीयसरस्वतीभवनपुस्तकालयस्थं सटीकमशुद्धिबहुल- मादौ खण्डितञ्च । अन्यत् 'ख' संज्ञ. मूलमात्रं सम्पूर्ण प्राकृतभाषारहितं उपोद्धातः। ७ मित्रवर पण्डितराजश्रीराजेश्वरशास्त्रिदाधिडन्यायाचार्यमहोदयकृपा- प्राप्तम् । एवमेतत्पुस्तकद्वयावलम्येन यथामति संशोधन सम्पादितम् । तत्र मित्रवरैः पण्डिराजश्रीराजेश्वरशास्त्रिदाचिडैरेच प्रथमतो ग्रन्धमिमं प्रकाशयितुमहं समुद्योजितोऽवसरेऽवसरे समुचितविचारविनिमयद्वारा बाढमुपकृतश्चेतिानियाजहृदां सुहृदां तेपामुपकारभारे मनः शतशो. धन्यवादेस्तानभिनन्दामि। आदर्शपुस्तकद्वयसंवादकरणपुरःसरं मुद्रणीयादर्श (प्रेसकापी) विधानादिना भृशमुपकुवतोऽत्रत्यराजकीयसंस्कृतपाठशालाध्यापका- स्मत्सुदूरश्रीगङ्गाधरशास्त्रिभारद्वाजान्तेवासिनः साहित्यशास्त्रिकल्प. स्य परिडतवरप्रयागदत्तपाण्डेयमहाशयस्य सुमहत्साहाय्यमवश्य धन्यवादाईम्। अन्यैश्च यैःकैश्विदत्र विषये यत्किञ्चिदुपकृतं स्यात्तान्सर्वानपि सादरं धन्यवादैरभिनन्द्य प्रार्थये गुणैकदशो विपश्चितो यत्ते मानवसु. लभानि स्खलितानि क्षाम्यन्तो गुणमात्रमुपाददाना नाटकमिदमभिन- यादिना प्रचार्य सफलयेयुर्मम परिश्रममिति । गवर्नमेंट संस्कृत कॉलेज, सरस्वतीभवन काशी। विद्वज्जनवशंवदः खिस्ते-इत्युपाख्य नारायणशास्त्री उपोद्धातः। इत्यावेदितमस्माभिनवं नात्र प्रकल्पितम् ॥ जम्बूसर स्थितिजुषःशुकदेवसूरेभू देवपण्डितकविः प्रथमस्तनूजः। तनिर्मितो रसविलासपदाभिधेयः सन्दर्भ एप कविनां मुदमादधातु ॥ सम्वत् १७६३ इत्युक्तमस्ति । अस्माभिर्बडोदाराजकीयपुस्तकसंग्रहालये रसविलासस्य No 10. संख्याकं पुस्तकं दृष्टम् , तत्रावसाने लेखकेन सम्बत् १७९३ इति लेख समयो निर्दिष्टो वर्तते, तेन तत्समयपूर्वभाविस्वमेव ग्रन्थकर्तु: सि. द्ध्यति । अन्यच्च प्रकृतनाट केऽपि स्वाश्रयदातुः केशवदासस्य दिल्ली- दयितवेतनदानामात्यत्वेनोल्लेखः कृतः । हिन्दीभापायां प्रसिद्धो ग्रन्थ. कारोऽकव्वरसमकालिका केशवदास एवासौ यदि भवेतहि तदाधि- तेन भूदेवेनाऽपि वैक्रमीयपोडशशतके भाव्यमिति वैक्रमीयं षोडश शतकमेतत्समयो भवितुमर्हति । श्राम खुवृहत्सूचीपत्रानुसारेणैतनिर्मिता ग्रन्था यथा- १ धर्मविजयनाटकम् ( सम्प्रति मुद्रितम् ) २ आत्मतत्त्वप्रदीपस्तट्टीका च । ३ रसविलासः ( अयंमस्माभिः स्वरूपतो दृष्टः परिशीलितश्च ) ४ ईश्वरप्रसादप्रबन्धपीका च । आफखुसूचीपत्रद्वितीयभागेभूदेवशुक्लगुरुः राम'नामा कश्चिदुक्तः, माणं तु न किमप्युल्लिखितम् । इत्थमेतावदेव ग्रन्थकतु रतिह्यमुप- १ भ्यते । एतत्पुस्तकमुद्रणसमाप्स्यनन्तरं राजकार्यानुरोधेन बडोदानगर यतेन मया तत्रत्यराजकीयसंस्कृतपुस्तकालये धर्मविजयनाटकस्य स्तकानि सम्पूर्णान्युपलब्धानि । कृतपुस्तकमुद्रणाय पुस्तकद्वयमादर्शत्वेन गृहीतम् । तत्रैक 'का त्रित्य राजकीयसरस्वतीभवनपुस्तकालयस्थं सटीकमशुद्धिबहुल- बण्डितञ्च । अन्यत् 'ख' संज्ञ. मूलमात्रं सम्पूर्ण प्राकृतभाषारहितं उपोद्धातः। मित्रवर पण्डितराजश्रीराजेश्वरशास्त्रिद्राविडन्यायाचार्यमहोदयकृपा- प्राप्तम् । एवमेतत्पुस्तकट्यावलम्येन यथामति संशोधन सम्पादितम् । तत्र मित्रवरैः पण्डिराजश्रीराजेश्वरशास्त्रिद्राविडैरेव प्रथमतो ग्रन्थमिमं प्रकाशयितुमह समुद्योजितोऽवसरेऽवसरे समुचितविचारविनिमयद्वारा वाढमुपकृतश्चेतिानियाजहदा सुहृदां तेपामुपकारभारे मनः शतशो. धन्यवादेस्तानभिनन्दामि। प्रादर्शपुस्तकद्वयसंवाद करणपुरःसरं मुदणीयादर्श (प्रेसकापी) विधानादिना भृशमुपकुयतोऽनत्यराजकीयसंस्कृतपाठशालाध्यापका- स्मरसुहवरश्रीगदाधरशास्त्रिभारद्वाजान्तेवासिनः साहित्यशास्रिकल्प. स्थ पण्डितवरप्रयागदत्तपाण्डेयमहाशयस्य सुमहत्साहाय्यमवश्यं धन्यवादाहम् । अन्यैश्च यै:कैश्चिदत्र विषये यत्किञ्चिदुपकृतं स्यात्तान्स नपि सारै धन्यवादरभिनन्द्य प्रार्थये गुणकदशो विपश्चितो यत्ते मानवसु. लभानि स्खलितानि क्षाम्यन्तो गुणमात्रमुपाददाना नाटकमिदमभिन- यादिना प्रचार्य सफलयेयुर्मम परिश्रममिति । गवर्नमेंट संस्कृत कॉलेज, सरस्वतीभवन काशी। विद्वज्जनवशंवदः खिस्ते-इत्युपाख्य नारायणशास्त्री 1

No text on this page.

धर्मविजयं नाटकम् । . * मङ्गलम् * प्रकटितनिजरूपः पोडशाराभिरामे विधुरपि हृदयाब्जे दीपवदिव्यमूर्तिः । त्रिभुवनमिदमोतप्रोतमेवाऽस्ति यस्मिन् स जयति, जगदीशः शास्त्रसिद्धान्तगम्यः ॥ १ ॥ ( नान्धन्ते ) सूत्रधार:- अलमति विस्तरेण । अद्य तावदाहूय समादिष्टोऽस्मि श्रीमद्दिलोदयितवेतनदानामात्येन महनीयचरितश्रीमहता केशवदासेन, यद्वयं धर्मशास्त्रानुसारिप्रयोगाभिनयेनात्मानं विनोदयितुमिच्छामः, तद् भूदेवशुक्ल प्रथितन नवेन धर्मविजयनाम्ना नाटकेन सम्भावनायेयं स्मार्तसभेति । 'तत्सदनमुपेत्य कान्तामाहूय सङ्गीतकमनुतिष्ठामि । ( नेपथ्याभिमुखमवलोक्य ) आयें ! इतस्तावत् । (प्रविश्य नटी) एसम्हि । सूत्र-आर्य : सीन्नीहतानि नेपथ्यविधिसाधनानि ? नटी०-अजचलणप्पहावेण सव्वं जेव साहणं सज्ज, कि उण तुम्हाणं कर्जा मृत्र-आयें ! अनुरजनीयः खलु सकलधर्मकर्मरसिका स. कलशास्त्रप्रवीणः केशवदासः। १. एपाऽस्मि । २. आर्यचरणप्रभावण सर्वमेव साधनं सज्, 'किं पुनर्युप्मा- के कार्यम् ।

२ धर्मविजयनाटके- सूत्र--- नटी०-को नु क्खु तुट्टे अम्हाणं लाहो ? । दारिद्यमङ्गः । नटी --कहं वि ?। सूत्र-प्रसिद्धप्रभावो महावदान्यः खल्वसौ राजर्षियः पूर्णमनो. रथैरथिसाथै रनिशमेवं श्लाध्यते । यथा- चित्तं मानसमुन्नतं करयुगं श्रीपुष्करं पद्मजा- जन्मस्थानतया समुद्रमहिमाक्रान्तः शयो दक्षिणः । सेतुर्धर्मकथाम्बुधेस्तव मतिस्त्वां च प्रभासं जनः प्राप्तः केशवदास ! चित्रमिह किं प्राप्नोति यद्वान्छितम् ॥२॥ नटी०-जुज्जई। सूत्र०-वाण्या विरोध्यति रमा रमया च वाणी तावच निर्वहति शाश्वतिको विरोधः ।। यावन्न दर्शयति केशवदास एष प्रेमप्रसादकरुणाकलुष कटाक्षम् ।। ३ ।। अपि च, वैन्यादिवदनुगतमप्येतन्नाममङ्गलकीर्तनं नाटकस्याऽपि सत्काव्यतामापादयति, इति युक्तमेतत् । पश्य- सम्प्राप्तोऽनुशयं सदोविषयदं साकेतमात्र नयन् यातः केशवदास ! भावमधुना गमोऽनुगृह्णाति नः ।। यश्चैतन्मुखमीक्षते किल कृपादृष्टया च यं वीक्षते ये चैतस्य गुणानुवादरसिकास्ते स्वर्गभाजो यतः ॥ ४ ॥ नटी०-जुज्जेई । सूत्र-कतमत् प्रकरणमभिनीयैनं प्रसादयामः ? | - १. को नु खलु तुष्टेऽस्माकं लाभः । २: कथमिव । ३. युज्यते । ४. अत्र 'विरोध्यति' इति प्रयोगश्चिन्त्यः । ५. युज्यते ।

प्रथमोऽङ्कः । ३ नटी०-णं खु एपिंह एब अज्जउत्तेण भणिदं जं भूदेवमिस्स- रइदेण धम्मविजएण नाडएण एड़े आराहणाएति । मुत्र-विजयपुरीननवदनारविन्दात्याचीनोदन्तश्रवणाय दत्त. चेतसा मया विस्मृतं खलु । नटी०-को णु खु उदन्तो। सूत्र-मित्र जगतीनायकयोः पुरा सगरे वृत्तमिति पृष्टः सो. ऽप्यवादीत् । इह हि, अस्मिन् संसारे, अधर्म इव धर्मेण भूभारक्षमबाहुना । मध्यदेशक्षितिभुजा जितो दक्षिणभूपतिः ॥ ५ ॥ (नेपथ्ये ) आः पाप ! मूर्ख ! शैलूप ! कथमेतेपु स्वेच्छाविहा- रिपु ब्रवीषि महाराजपराजयकथाम् । यत:--- कोपाऽतृतस्तेयशरीरहिंसा- फार्पण्यमालिन्यनृशंसभावाः । दुर्दान्तता ऽनिन्द्रियनिग्रहश्चे- त्येकैकशो धर्मवधे समर्थाः ॥ ६ ॥ सूत्र-आयें ! सकलमहाजनेषु प्रच्छन्ननिवासायाऽधर्मेण रा- ज्ञा समाज्ञप्तः व्यभिचारजन्मा वर्णसङ्करः पन्या नीचसङ्गत्या सह इत एवाऽभिवर्तमानो मद्वचनादुपजातक्रोध इव लक्ष्यते । तदेहि तावद- पसरावः। (इति निष्क्रान्ती प्रस्तावनासङ्गतिः। ~ १. ननु खल्विदानीमेवार्यपुत्रेण भणितं यद् भूदेवमिथरचितेन नाटकेनैते आराधनीया इति । २. को नु खलूदन्तः ।

धर्मविजयनाटके- (ततः प्रविशति वर्णसङ्करो नीचसङ्गतिश्च ) वर्णस० -(आः पापेति पठित्वा) पश्य रे वैधेय ! भरत ! वन्धूनामपि निधने निबद्धचित्तः साधूनामपि परिपीडनेन वित्तः । आटोपप्रथितविवेकधैर्य लोपः कोपश्चेद् असति जनं तदा क धर्मः ? ॥ ७ ॥ अपि च, अनृते स्फुरति श्रद्धा कुतः स्वर्गाऽपवर्गयोः । श्रद्धायां च विलीनायां निर्मूलं सुकृतं हतम् ॥ ८ ॥ किञ्च, देवद्विजातिवनितायतिदुर्बलानां गृह्णाति यत्किल कपर्दिकमप्यदत्तम् ।। वित्ताय यद्विशसनेऽपि निबद्धचित्तं स्तेयं सहिष्यति कथं तपसः प्रभावम् ॥ ९ ॥ अपि च, यत्पक्षपातनिरताः किल रागलोभ द्वेषा गृहेषु गृहिणामथ पञ्चसूनाः ।। यस्याश्च पामरजनप्रकृतिः स्वभावः सैषा निकृन्तति कथं सुकृतं न हिंसा ॥ १० ॥ नीचसङ्गतिः - अज्जउत्त वराइ किवणदा. धम्मस्स किं क- लिस्सदि। वर्णसङ्करः-~-प्रिये ! मैवम् , न प्रयच्छति न खादति स्वयं पाडयत्यनुगतानपि क्षुधा ॥ १. अत्र सहिष्यति' इति प्रयोगश्चिन्त्यः सहधातोरात्मनेपदित्वा- त् । यद्वा, 'स एवायं नागः सहति कलमेभ्यः परिभवम्' इत्यादाविव गतिः कर्तव्या। २. आर्यपुत्र ! वराकी कृपणता धर्मस्य किं करियति ।

प्रथमोऽङ्कः । दैवपित्र्यविधिबाधवन्धुरा ज्ञास्यति क सुकृतं कदर्यता ॥ ११ ॥ अपि च, पूतिगन्धवसनाननोच्छल. द्वासनाबहुलपिच्छिलाकृतिः ॥ क स्थितिभवति पुण्यकर्मणा व्यापृता मलिनता भवेद्यदि ॥ १२ ॥ किञ्च, यः पीडयत्यनपराधमपि स्ववर्ग: मुद्धजयत्यपि मुनीन् किमुताऽन्यलोकम् ॥ आराधने ऽप्यविरमत्कुटिलस्वभावः सत्कर्म नाशयति सोऽपि नृशंसभावः ॥ १३ ॥ अपि च, साहसकरसा नित्यमकृत्याय कृतोद्यमा । सेयं दुर्दान्तता पुंसां कृत्या धर्मविरोधिनी ॥ १४ ॥ नीसङ्गतिः-अज्जउत्त अणिग्गहस्सवि वली खु पलाकमोत्ति सम्भावमि । वर्णसङ्करः--प्रिये ! अस्य महिमानं वर्णयितुं वयमपि न शक्नुमो यः स्वयमगम्यागमनेऽपि निबद्धधैर्यतया धर्म व्याकुलयति । अपि च, कुम्भाप्सरोधीवरजामृगीभ्यः समाधिमाजामपि यत्प्रसूतिः । सोऽयं तपोविकृदिन्द्रियाणा. मनिग्रहस्य प्रकट: प्रभावः ॥ १५॥ नीचसङ्गतिः-अज्जउत्तेण सोहणं क्खु आचलिदं यं पलिहीण- - - . १. आर्य ! अनिग्रहस्यापि बलीयान्खल पराक्रमोस्ति, इति सम्भावयामि।

६ धर्मविजयनाटके- पक्खस्स धम्मस पक्खबादं पलिहलिअ भट्टिणो पावस्स पक्खवादो आचलिदो। नीचसङ्गतिः-किं तुह्माणं वि एवं जेव कुलम् । वर्णसङ्करः-ननु तृतीयपुरुष एवास्माकं राज्ञो यवीयानिन्द्रि. यनिग्रहश्च । पश्य- अनिग्रहादक्षगणस्य धर्म नष्टप्रचारे प्रभवत्यधर्मे ॥ स्त्रीषु प्रदुष्टासु महाजनाना. मजीजनन्मां व्यभिचारपादाः ॥ १६ ॥ नीचसङ्गतिः-जुज्जई, अहं वि तुह्माणं जेव उदरादो उप्पण्णा तुझसङ्गेण गहसुई अणुहवामि सव्वसुंदलीणं सीसे चिट्ठामि । वर्णसङ्करः-सर्वोप्ययं प्रभावो राज्ञो भाग्य तातपादा- नाम् । यतः, व्यभिचारप्रसक्तानां कुतो भ्राता कुतः पिता ॥ कुतो गुरुः कुतोऽगम्या सर्वमेव समञ्जसम् ॥ १६ ॥ न केवलमावाभ्यां एवंविधं दाम्पत्यमनुभूयते । दृश्यते ऽन्यत्रापि कचित् तथा हि-- वेश्यासु सक्ताः कुलजाः कुमारा गर्भेषु तासां जनयन्ति कन्याः ।। कालेन तास्वेव रतिक्षमासु मनोभवं मोहभराद्भजन्ति ॥ १७ ॥ १. आर्यपुत्रेण खलु शोभनमाचरितं यत्परिहीनपक्षस्य धर्मस्य पक्षपातं परिहत्य भर्तुः पापस्य पक्षपात आचरितः । २. किं युष्माकमपि एतदेव कुलम् । ३. युज्यते । अहमपि युष्माकमेवोदरादुत्पन्ना, युग्मत्सङ्गेन गृह- सुखमनुभवामि । सर्वसुन्दरीणां शिरसि तिष्ठामि । -- . है प्रथमोऽङ्कः । . नीचसङ्गतिः-सुदं मए धम्मपमुहा वि तुम्हाणं जेव कुले पसुदेति । वर्णसङ्करः-~-आः किमुच्यते, अस्मत्कुलप्रसूता इति । म- त्तश्चतुर्थः कर्तृपुरुषः सर्वेषां मूलपुरुषः । नीचसङ्गतिः-ता विच्छरेण कहेदु अज्जो। वर्णसङ्करः-- अयमनादिनिधनो भगवान् कर्ता, तस्य च विहि- तक्रियायाञ्च धर्मप्रधानोऽन्ववायः समजनि । नीचसङ्गतिः--ता किंत्ति तुम्हाणं एदारिसो विद्देसी । वर्णसङ्करः--धर्मस्यैवापराधेन । नीचसङ्गतिः--को नु क्खु तस्स अवरॊहो । वर्णसङ्कर:-ज्ञानं तपो यज्ञविधिः प्रदान- मेते कृतादौ सुकृतावताराः । एतैः : समाकृष्य जगन्ति धर्मः सन्तापयामास बलादधर्मम् ॥ १८ ॥ परिक्षाणो नृपतिरस्माकमवसरं प्रतीक्षमाणः कचिन्निलीय निगूढो. ऽवसत् । ततश्च समुपेते त्रेतावसरे ज्ञानममीमरत् । नीचसङ्गतिः-तदो। वर्णसङ्कर:--द्विषजयमनोरथोन्मथितचित्तमासीत्तप. स्त्रिविष्टपसुखस्पृहाजनितकष्टमिष्टेमनः ॥ वितानमिव दानमुज्ज्वलविमूतिकामोन्नम- त्पदानमितशेखर विकृतवपवर्णाकृति ॥ १९ ॥ १. श्रुतं मया धर्मप्रमुखा अपि युष्माकमेव कुले प्रसूता इति २. तद्विस्तरेण कथयत्वार्यः। ३. तरिकमिति युग्माकमेतारशो विद्वेषः । ४. को नु खलु तस्यापराधः । ५. ततः।

८ धर्मविजयनाटके- नीचसङ्गतिः-तदो। वर्णसङ्करः - ततश्च द्वापरे तपसोप्यासीद् दुर्विपाकः । एवञ्च , सप्ततन्तुरभिचारदन्तुरो. दानसुद्भटयशःस्पृहाकुलम् ॥ सत्त्वसंक्षयरजःपराभव- प्रौढरागविधुरात्मनाममूत् ॥ २० ॥ नीचसङ्गतिः--तदो। वर्णसङ्करः-- ततोऽस्माकं दुःखकबन्धुः कलिरेतेषु दिनेषु वर्णा- श्रमाननुगृह्णाति । इदानीञ्च- विद्याऽवद्या नो नमस्या तपस्या मन्यौ मन्युः सेवके सम्प्रदानम् ॥ इत्थंभूते सजने सोऽपि विभ्य- स्मृत्वा तिष्ठत्यादरान्नाम विष्णोः ॥ २१ ॥ नीचसङ्गतिः- अजउत्त एवं भणामि जइ सोअरो ज्जेव्व रणो धम्मो ता तस्स विरोहे तुम्हाणं मणं कहं चलेदि । वर्णसङ्करः--प्रतिपक्षचरितानुसारेण स हि धर्मशास्त्रमुल्लंध्यैव राज्ञे द्रुह्यति । नीचसङ्गतिः--कहं सत्थेवि अस्थि एसो विचालो । वर्णसङ्करः--अथ किम् । नीचसङ्गतिः--ता एदारिसाचलणकारी लोएण धम्मोत्ति कह भणीदि। १. ततः। २. ततः। ३. आर्यपुत्र ! एवं भणामि । यदि लोदर एव राज्ञो धर्मस्तर्हि तस्य विरोधे युष्माकं मनः कथं चलति । ४. कथं शास्त्रेऽप्यस्ति एष विचारः। ५. तर्हि, एतादृशाचरणकारी लोकेन धर्मः इति कथं भण्यते ।

प्रथमोऽङ्कः। . वर्णसङ्कर:-भाः क्षुदोऽयं जनोऽनार्यमर्यादमार्यपदं समारो- पयति । कथमन्यथा.. भीम गुरुं सूर्यसुतं निहत्य वृद्धं पितृव्यं तनयर्वियोज्य ॥ युधिष्ठिरः स्वानपि घातयित्वा धर्मावतारः प्रथितः पृथिव्याम् ॥ २२ ॥ (नेपथ्ये) आः पाप! जातिचाण्डाल ! वर्णसङ्कर ! कथमेवमषिक्षिपसि।वि. रुद्धाचारः सोदरोपि निग्राह्य एव, इति अस्माभिरपि अधर्मों दण्ड्यपदं पापितः । यच्च प्रलपसि, बद्धमूलानस्मानुन्मूलायतुं, तदप्याकाशसुमनो- भिस्तिलान्यासयसि । यतः, प्रमादपठितेऽपि भगवन्नाम्नि सत्याश्च भग- वत्या भागीरथ्यां कथं भवतां जीवितशापि । पश्य- लकाऽलङ्कारकारागृहवसतिजुषो नाकपाताललोकां. श्चके यस्तीर्णशोकान् हरिसुतसखिताऽमित्रताभ्यामुपेतः । हेलामात्रं स्मृतोपि व्यथितकालिमलः के न पापप्रभूता. पायादायासभाराद्दशरथसदनामूषणं नुषणारिः ॥ २३ ॥ अपि च, मदनमथनताराकान्तकान्ति हसन्ती प्रचलदमृतपारावारगौरैः पयोभिः ॥ सगरनृपसुतानां स्वर्गसोपानधारा यदि हृदि कथमारादेति पापप्रचारः ॥ २४ ॥ अपि च, अपि पतितजनानां मोक्षमार्गकबन्धु. यदि सुरपुरसिन्धुप्रौढपाथःप्रवाहः । कचिदपि निवसद्धिः कीर्यते स्नानकाले कथमिव नरकान्धुः सर्वदा स्यान्न रिक्तः ॥२५॥ N १० धर्मविजयनाटके- वर्णसङ्कर:-प्रिये ! सर्वेषामस्माकमभ्यर्हिततमो वंशगोप्ता ज्ये- ष्ठो राजा देव्योर्ध्वगत्या सह इत एवाभिवर्तते । य एषः स्नानोपवासविघसाशननित्यहोम- स्वाध्यायसाधनविषिश्रमदुर्बलाङ्गः ॥ सर्वस्वमेव पितृदेवमुखे नियोज्य क्षीणोऽपि भाति भगवानिव बालचन्द्रः ।। २६ ॥ अपि च, मुहुर्मुहुः काममुख निरीक्षन् भजन्नथाऽर्थस्य विधेयभावम् ॥ मोक्षण पृष्ठेऽनुसृतः कथञ्चिद् धृतावलम्बः परमूर्ध्वगत्या ॥ २७ ॥ अपि च, श्रीयाज्ञवल्क्यमनुदेवलविष्णुशर्म- शातातपादिमुनिनिर्मितपक्षपातः ॥ कात्यायन द्विजसुभाषितगृह्यसूत्र- व्यादिष्टपद्धतिरपि स्वत एव पश्यन् ॥ २८॥ मद्वचनाच्चायमुपजातक्रोध इव लक्ष्यते । तदपसरावः । (इति निष्क्रान्तौ) विष्कम्भकः । - -- ( ततः प्रविशति यथानिर्दिष्टो राजोर्ध्वगतिश्च ) राजा-(आः पापेति पठित्वा) ननु रे मूर्खाः ! अस्मद्व्यवसाय- मन्तराऽपि भवत्कुले कोपकन्ययाऽसूयया प्रसूतो ब्रह्मद्वेष एवानायासेन भवतो नाशयिष्यति । यतः-- द्रुह्यन्ति ये ब्राह्मणपुङ्गवेभ्यो वेदान्विवादरपि खण्डयन्ति ।। १. अत्र निरीक्षमाण' इति योग्यम् । ईक्षतेरात्मनेपदित्वात्। २. 'शङ्ख' इत्यपि पाठः ।

प्रथमोड ११ २ निन्दन्ति विश्वेश्वरपादपद्म तेषां कुलं कुत्र पुनः पृथिव्याम् ॥ २९ ॥ ऊर्ध्वगतिः-सुदं मए तुम्हाणं सवत्तजणणीए हिअए प- सूदो अधम्मोति । राजा--अथ किम् । ऊर्ध्वगतिः-ता किंति णाणुग्गहीअदि । राजा-आर्ये ! नायमनुग्रहपात्रम् । दूरं दुरोदरसुराहृतचित्तवृति- गुर्वगनागमनलोलमतिनितान्तम् ।। उद्वेजिताखिलजनः प्रथम पुराऽसौ हेमाऽहरद्विशसनव्यसनी द्विजानाम् ॥ ३० ॥ तस्येदं वृत्तमालोक्य सर्व वर्णाश्रमास्तथा । तदाचाराः समावृत्ता बुद्धिमूलं हि सङ्गतिः ॥ ३१ ॥ ऊर्ध्वगतिः-एको खु अवराहो रण्णा क्खमीअदि ण खु अवराहाणां सहस्सम् । राजा-देवि ! नायं भाजनं क्षमायाः । एवं स्यात्तर्हि पूर्वमेधै। तावान् संघर्षों न स्यात् । आवश्यकः परिणतौ सह येन सन्धि- नों वैमनस्यमपि तस्य पुरा विधेयम् ॥ नो वा मनस्त्रुटितमेति कदापि सन्धि अन्थि दधाति घटितं गुणवत् कथंचित् ॥ ३२ ॥ १. श्रुतं मया युष्माकं सपत्नजनन्या हृदि प्रसूतोऽधर्म इति । २. तर्हि किं नानुगृह्यते । ३. एका खलु अपराधो रक्षा क्षम्यते न खल्वपराधाना स. हस्त्रम् ।

१२ धर्मविजयनाटके १ २ .. ऊर्ध्वगति-तदो राजा-ततस्ततोऽस्मदमात्यैराचारव्यवहारप्रायश्चित्तैरितस्ततो वा ध्यमानः कापि अन्त्यजन्मसु प्रच्छन्नमवसत् । ऊर्ध्वगतिः-तदो। राजा-ततश्चास्मदेकपक्षपातिभिर्मन्वत्रिविष्णुहारीतादिभिः कृ. ताः सर्वे वर्णाश्रमाः स्वव्यापारमन्वतिष्ठन् । तदा प्रभृत्यद्यदिनं यावत्- विप्राः षट्कर्मभाजः किल नरपतयो वरिक्षानुरक्ता वैश्याः कृष्यां प्रसक्ताः परिचरणविधौ व्याप्रियन्ते च शूद्राः ॥ कुर्वन्त्याम्नायपाठं पटुमतिवटवः पञ्चयज्ञान् गृहस्थाः पाराकाद्यं वनस्थाः प्रणवजपविधि भिक्षवो मोक्षसंस्थाः ।। ३३ ॥ अङ्गं न दर्शयति पश्यति नान्यवक्त्रं गेहान्न याति न च तिष्ठति दुष्टसङ्गे ।। नोच्चैर्वदत्यपि न कुप्यति सापराधे पत्याविमानि चरितानि कुलाङ्गनायाः ॥ ३४ ॥ ऊर्ध्वगति:-अजधण्णाओ ताओ पदिव्वदाओ महाप्पहावाओ सुणीअन्दि ताणं महत्तणं कहेदु अजउत्तो । राजा-देवि ! कः समर्थः प्रभाववर्णने पतिदेवताना, यासु कान्तमादाय चितां प्रविष्टासु, एताः स्वधर्मनिरता मरणान्तिकोपि तेजः परस्य पुरुषस्य कथं सहन्ते ॥ इत्थं विचिन्त्य विरतः पुरतः सतीनां शैत्यं प्रयाति भगवान्किमु वीतिहोत्रः ॥ ३५ ॥ १.ततः। २. ततः। ३. आर्य ! धन्यास्ताः पतिव्रता महाप्रभावाः श्रूयन्ते,. तासां मा. हात्म्यं कथयस्वार्यः। .

प्रथमोऽङ्कः । ऊर्ध्वगतिः-ताणं जलणप्पवेसे को उण लाहो । राजा--अविच्छिन्नप्रियसंयोगः। ऊर्ध्वगतिः-हुँ एवम् । राजा-अथ किम् । अधनं परिपीडितं मृत परिणतारमसौ जहाति न । न परित्यजति प्रियोऽप्यमुं गुणलुब्धो नु मवान्तरेप्वपि ॥३६॥ ऊर्ध्वगतिः- परलोए ताणं उण का गदी ? । • राजा-उमालोकप्राप्तिस्तस्मादनिवृत्तिश्च । यतः, अपि दुःकृतिनं मृतं पति समुपादाय हिरण्यरेतसः ।। विरतार्चिषि सार्चिषः पथा समुपतीति कथासु शुश्रुमः || ३७ ।। ऊर्ध्वगतिः---घण्णाओ ताओ एकवचीमो जामो अज्जेण सलाहिजति । राजा-प्रिये ! सर्वथैव धन्यास्ता यासां माहात्म्यं शास्त्रमपि कथाञ्चिद्वक्तुं न शक्नोति । अपि च, नेत्रप्रान्तः कटाक्षं विहसितमधरो भाषितं कान्तकर्णः कोपः स्वान्तं स्वकीयं गतिपु विलसितं वासगेहस्य भूमिः ॥ धैर्य भतुश्चितामिः स्तनयुगधनता हारभारः सतीना सौन्दर्य दीर्घशाटी कलयति वलयं मार्दवं दोलतायाः॥ ३८ ॥ १. तासां ज्वलनप्रवेशे का पुनर्लाभः। २. हुं एवम् । ३. परलोके पुनस्तासां का गतिः । ४, धन्यास्ता एकपल्यः, या आर्येण श्लाघ्यन्ते।

१४ धर्मविजयनाटक २ अर्ध्वगतिः-तदो राजा-द्रव्येषु शुद्धिरधिका कनकादिदानं पात्रेषु कर्मसु यजिगणनायकस्य ॥ नान्दीमुखादिपितृकर्म नभश्चराणां पूजेति शर्मकलितः फलितश्च वेदः ॥ ३९ ।। ऊर्ध्वगतिः-तदो। राजा-ततश्च त्रेताद्वापरयोः सन्धौ कदाचिदविनयमाचरन् चा- रमुखादवगतोऽपि दुर्बल इत्युपेक्षितोऽस्माभिः । वर्णाश्रमनिगूढपक्षपातेन कलिबलेन चैतावती भूमि यातः । पुनस्तथावृत्त एव संवृत्तः । ऊर्ध्वगतिः-हत्थगतं पडिवक्खं को णु क्खु परिच्चजई । राजा-कस्येदं कर्मणः फलम् । ऋणस्य शेषः प्रतिपक्षवंशो वहेः स्फुलिंगः फणिनः शिशुश्च । यैः स्थापितः कोमलवुद्धिभाजां स्वप्नेऽपि तेषां कुशलं कुतः स्यात् ॥ ४० ॥ ऊर्ध्वगतिः-अजउत्त जई एदेसु दिणेसु स संवादिदपक्ख- वादो, अज्जो उण पहीणपक्खवादो, ता कहं विअ स दुव्विणीदो तुम्हे- हिं जेदव्यो । राजा-देवि ! अलमस्मान्कृशानप्यधर्मापेक्षया दुर्बलान्संभाव्य, तेजस्विनां तेज एव जयति शत्रून्नोपकरणानि कलेवरं वा । १. ततः। २. ततः। ३. हस्तगं प्रतिपक्षं को नु खलु परित्यजति । ४. आर्यपुत्र ! यदि एतेषु दिनेषु स संपादितपक्षपातः, आर्यः पु. नः परिहानपक्षपातस्तत्कथमिव स दुर्विनीतः युप्माभिर्जेतव्यः ।

प्रथमोऽङ्कः । १५ आस्तां नु पीवरतनुदमन्थरो वा दन्तावलोपि जगतां धरगइरेपु ॥ स्वेच्छाविहाररसिकः किल नाभ्युपति यावत्कृशोपि दृशि केसरिणः किशोरः ॥४१॥ अपि च, मास्तां तावद्भवनकुहरे कोपि गाढान्धकारः स्वल्पोऽप्येकः प्रभवति पुनस्तं निहन्तुं प्रदीपः ॥ भूयाद् भूयो भुवि दवतृणं भूरुहाणाञ्चयो वा स्वाहाभर्तुस्तदपि दहति प्रायशो विस्फुलिङ्गः ॥ ४२ ॥ ऊर्ध्वगति:-अज्जउत्त बली क्खु एसो, जदो कामकोह. लोहप्पहुदिहिं तस्स वल्लहेहिं किदोवजावो अयं जणो णं जेव्व कामेदि ण उण तुम्हाण । राजा-देवि ! आपातमनोहरेन्द्रियलालनेन तस्य विधेय. भावमुपगतोऽप्ययं लोकः कर्मविपाकद्वाराऽस्माभिरुपजप्तः परिणतौ नर- कवेदनयोद्वेजितः त्यक्ष्यति पापसंसर्गम् । किञ्च स्वप्रयोजनपरः क पुन- रुपकर्तुरत्याहिते सहायोपि । यतः- गीर्वाणाः सुधया ऽसुरा मदिरया पाथोघरैर्मानवाः सर्वे स्वार्थपरायणा जडतयैकेनामुना पोषिताः ॥ पाणावाचमतो निधाय जल यादोमहीधेः सम नो मित्रावरुणात्मसंभवमुनेः कोऽप्यन्तरायोऽभवत् ॥ ४३ ॥ तथापि प्रवृद्धस्य रिपोरुपचारः सत्वरं विधेयो विजिगीपुणेति प्रे. पयामस्तावत्तीयतनपुरपत्तनारण्यपर्वतक्षेत्रेपु पुराणश्रवणादीन् । ( नेपथ्ये) भतुर्भव्याय भवतात् सन्ध्या मध्यन्दिनवर्तिनी । १. आर्यपुत्र! बलीयान्खलु एषः । यतः कामक्रोधलोभप्र. भृतिभिस्तस्य वल्लभैः कृतोपजापोऽयं जनः एतमेव कामयते न पुन: पमान। ..

धर्मविजयनाटके राजा-कि संवृत्तोऽयं धत्रमध्यः ? ( पुननेपथ्ये) सम्प्रति हि- दिशः शून्याकाराश्वपलमृगतृष्णामयजलाः समस्तो ऽप्यास्तेऽयं जननयनकोपस्य विषयः ।। पयः काथीभावं व्रजति सरसि स्वल्पसलिले प्रचण्डो मार्तण्डस्तपति जगतामेष शिरसि ॥ ४४ ॥ राजा--(अवलोक्य) तरुणतरतरणिकरजनितक्लेशेव तनुतामु. पैति छाया जनानाम् । त्वरिततरमुदयगिरिवरशिखरपरिसरादम्बरसरणि- समारोहणपरिश्रमादिव मिहिररथतुरगाः स्थिरतामुपयान्ति गगनमध्ये । (पुननेपथ्ये) दर्पण स्वेन सौरैरपि करनिकरैवैनतेयातिकष्ट- व्यावलगत्गुवल्गोत्फणफणिगरलज्वालयोष्मायमाणाः ।। व्यावस्कैरोभिघनघनजघनैः फेनजालं क्षरन्तो मध्ये व्योम्नः कथञ्चिीद्वदधति विरतिं सप्तयः ‘सप्तसप्तः ॥ ४५ ॥ अहो ! वैषम्यमस्य समयस्य ! यतः-- छायामप्युपकारिणीं विटपिनः स्वामात्मसात्कुर्वते शैत्यं दुर्बलतां गतञ्च सलिलैरन्तः क्वचित्स्थाप्यते ॥ कान्ताभिः कुचमण्डलं मलयजक्षोदेन सङ्गोप्यते मध्याहे पवनोऽपि बीजनपरैरन्तर्हितो लक्ष्यते ॥ ४६ ॥ राजा--तद्वयमप्याहिकशेषेण स्नानतर्पणादिना समयमशून्य कुर्मः । (इति राज्ञा सह निष्क्रान्ताः सर्वे) इति श्रीमच्छुक्लभूदेवविरचिते धर्मविजय- नाम्नि नाटके प्रथमोऽङ्कः॥

द्वितीयोऽङ्कः। J द्वितीयोऽङ्कः। (ततः प्रविशति व्यभिचारः) व्यभिचार:-आज्ञप्तोस्म्यधर्मेण, 'वत्स | व्यभिचार ! प्रथमे तीर्थे पार्वतीप्राणनाथपुरे दृष्टिरागवनितया परस्परप्रीत्या सह गार्हस्थ्य- मुपभुज्यताम् । चरितञ्च भवतो विलोक्य कुलीनतरुणीतरुणैरपि स्वे. च्छाविहारिमिभवितव्यम्' इति । तदिदानी प्राप्तं मयाऽऽनन्दवनम् , सम्पादिताऽऽज्ञा राज्ञो, विधेयभावं नीतश्चात्रत्यः सर्वोपि जनः । यतः- काचित्कान्तं परमभिसरत्यात्मना वित्तकामा दूती काञ्चिन्नयति विविधैश्छद्मभिः सम्प्रलोभ्य ॥ काचित्कर्तुं व्रजति सफलं जारसझाद्वयः स्वं काचिद्वन्ध्या प्रतिमठमटत्याकुला पुत्रहेतोः ॥ १ ॥ अपि च, एकत्रैके निवासादविदितचरिताः संश्रयन्त्यन्यकान्ता भूखा मित्राणि भर्तविलसितमपरे तस्य दारैर्भजन्ति ।। केचिद्वाणिज्यदभात्परिचरणमिपाकेऽपि धर्मोपदेश- व्याजात्कचित्परेषां शरणमुपगताः कामिनीः कामयन्ते ॥२॥ अपि च, चाटीविभूषणमनध्यमुदारवाटी पाटीरकुंकुमविलेपनमन्यदाराः।। तीवा सुरा कुसुमपल्लविनी च शय्या स्वर्गोऽयमेव नरकः क्व नु केन दृष्टः ॥ ३ ॥ ( सविमर्पञ्च ) किन्नु खलु जनताचरितानि परीक्षितुं प्रहिता चि. स्यति परस्परप्रीतिः। (पुरोऽवलोक्य ) अये अभ्युपेतैव प्रियसखी । (ततः प्रविशति परस्परप्रीतिः) परस्परप्रीतिः-अपणो अपुल्याविण मित्तस्स पुलो कह णु .

१८ धर्मविजयनाटके- होदित्ति मे हिअअं कंपिदं, दाणि उण णं पडिच्चजिअ लोअवुत्तन्तपेक्ख- णकज्जेण अद्विरचित्ताए वि मम जुआई विअ दिणाई संवुत्ताई । ( इत्युपसर्पति) व्यभिचार:-( सहर्पम् ) एहि प्रिये ! तावदालिङ्गस्व । (परस्परप्रीतिस्तथा करोति) व्यभिचार:-(स्वगतम् त्रुट्यत्कूर्पासहारं विदलितबलयं विश्लथं नीविवाद प्रौढप्रेमातितिर्यविचलितनयनं गाढमालिलितायाः ॥ उच्छ्वासोत्तालवक्षोभवढघटनादेति नव्यां महीया. नजप्रत्यङ्गसङ्गादनुभवपदवी कोऽपि शर्मातिरेकः ॥ ४ ॥ (प्रकाशम् , दृढं परिष्वज्य) प्रिये ! कः खलु पौरवृत्तान्तः ? । परस्परप्रीतिः-किं ण आलोएदि अज्जो सअलं जेव्व णभलं अज्जउत्तस्य वसंवदं विअ दीसेई । व्यभिचार:-पश्य कौतुकमितो वीथ्याम्- प्रौढः पावा विमलवसनः स्निधदृष्टिः शिखानान् सायं प्रातः प्रविशति गृहं होमकर्मच्छलेन ॥ भिक्षा कर्तुं मखविघिमिषात्संस्थितस्य प्रवासे भुक्त्वा कान्ता व्रजति कपटादाहिताग्नेर्द्विजस्य ।। ५ ।। अपरतश्च, पीतमस्तदयमन्यकान्तया वीक्ष्य मुग्धमधरं नतभ्रुवा । १. आत्मनः अपूर्वाविनयं मित्रस्य पुरः कथन्नु भणियामि, किन्नु करिष्ये, कथमिवाङ्गानि दर्शयिष्ये, कथं वेदं कर्म भवतीति मेह दयं कम्पितम्। इदानीं पुनरेनं परित्यज्य लोकवृत्तान्तवीक्षणकार्येणा- स्थिरचित्ताया अपि मम युगानीव दिनानि संवृत्तानि । २. किन्नालोकयति आर्यः । सकलमेव नगरं आर्यपुत्रस्य वशं. वदमिव दृश्यते।

द्वितीयोऽङ्कः । १९ चुम्बितुं त्वरितयापि फेवलं कान्तकान्तवदनं विलोक्यते ॥ ६ ॥ अन्यतच, स्वेदः कपोले इलथता दुकूले किमेतदित्यालिगिरं निपीय ॥ दरानमत्कन्धरबन्धुरासी तूष्णीं कुरङ्गीनयनेयमास्ते ॥ ७ ॥ परस्परप्रीति:--अन्ज पलिकमणेसु देवप्पासाआणं अवगाहनेसु तित्थाणं फहाप्पसझेसु पोलाणिआणं उजाणिआसु धम्मप्पउचाणं प. लिक्खणं वि तुझलोमणदसणमेचकेण पलिक्खिम पहुवीतलम्मि तुए जेब रजं करीआदिति संभावमि । व्यभिचार:-सत्यं, सकृदप्यस्मद्दर्शनप्राहिणो भजन्ति भक्तदा. सभावम् । विशेषतश्चायमुन्मादजनको मधुमासः । निश्वासैः सममेधते मलयजो वायुर्दिन दीर्घतां संतापेन सह प्रयाति कृशतामझैः समं शर्वरी ॥ पत्राणि प्रपतन्ति लोचनजलैः साधु वसन्तागमे निर्गच्छन्ति वियोगिना प्रतिवनं प्राणैः समं पल्लवाः ॥ ८ ॥ प्रिये ! तस्य तुरीये वयसि कृतोद्वाहास्य धनपालनानो नाणक. परीक्षकस्य पुष्पवती नाम वनितैतेषु दिनेषु फिमाचौरा । परस्परप्रीतिः-ताए विणिचं दह पंच जुआणा अणुरंजीदि । व्यभिचार:--किमसावसती संवृत्ता ? १. आर्य परिक्रमणेषु देवप्रालादानां अवगाहनेषु तीर्थानां कथाम सङ्गेषु पौराणिकानामुद्यानिकासु धर्मप्रवृत्तानां परीक्षणमपि युष्म- ल्लोचनदर्शनमात्रकेण परीक्ष्य पृथिवीतलमध्ये त्वयैव राज्य क्रियते इति संभावयामि। २. 'किमाचचार' इति 'ख' पुस्तके पाठः । ३ तयापि नित्यं दश पञ्च युवानोऽनुरज्यन्ते । -- २० धर्मविजयनाटके- परस्परप्रीतिः-ण खु अचरिअं । खजई पिज्जई मिठं ठेरो पई जोवणं विसमम् । णिविवाहिअओ मअणो को अवराहो से वराईएँ ॥ ९ ॥ व्यभिचार:-सर्वमेतत्सुकृतं धनमात्रमालोक्य कन्यां प्रदातुः । अपि च- - .. पलितदलितवालः शुष्ककञ्जालजाल चलितगलितदंष्ट्रादन्तमालाकरालः ॥ लपनतरललालाश्वासहिक्काजटालों न भवति सुमुखीनां भोगयोग्यश्चितांशः ॥ १० ॥ पश्य तावद्यूनोऽपि सदनमसंभावयतः कलत्रं प्रतिदिनमुपपंति श्रावयति । यथा- कान्तः शेते विपणिशरणे स्वीयगेहे ननान्दा श्वश्रूर्मन्दा करणविकला कापि सौधस्य कोणे ॥ वाणिज्याय श्वशुरचरणाः पर्यटन्ति प्रवासे देवाचौरः प्रविशति गृहं कस्तदा वः सहायः ॥ ११ ॥ परस्परप्रीति:- अज्ज णं क्खु असमत्थेहि णादो वि. दुन्वि- णओ अदिवहिअअस्स भयं उप्पादेई । व्यभिचार: एवमेतत् । पश्यः कोऽप्येकाकी. धनिकजरठः स्वां वधूमन्यसक्तां दृष्ट्वा दण्डादपि नरपतेः साहसाच्चैव वध्वाः ।। . . १. न खलु आश्चर्यम्- खाद्यते पीयते मिष्टं स्थविरः पतियौवनं विषमम् । निकृपहृदयो मदनः कोऽपराधोऽस्या वराक्याः ।। २. आर्य ! न खल्वसमर्थातोपि दुर्विनयोऽदृढहृदयस्य भयमु. स्पादयति ।

. 1 S 2 "द्वितीयोऽङ्कः। मिभ्यत् कोपाकुलितमतिरप्यप्रगल्मो नियन्तु निन्दत्येव निजपरिणति केवलं दीर्घमायु ॥ १२ ॥ ( सविमर्षम् ) अहो नु चरितमविनयवतीनाम्-- एता. प्रसन्नमनसः परकीयपुसा क्रीडन्ति दैववशतोऽनुचिते प्रवृत्त ।। मा वक्ति नर्मवचनं वसनाचल मे गृह्णाति कोऽयमिति तच्च विडम्बयन्ति ॥ १३ ॥ अपि च, उन्मादयन्त्यपि कटाक्षसटाप्रसारै निभर्सयन्ति वनिता कुतुकात् पुमासम् ॥ दीर्घावगुण्ठनतिरोहितवक्त्रचन्द्रा भाव कदाप्याभिनयान्त पुन. सतीनाम् ।। १४ ॥ अपि च, एतासु विपरीतरतोत्सुकासु- “सहसैव कम्पमुपयान्ति भूधरा श्वलतीन्दुमण्डलमयो मुहुर्मुहु.॥ तरलीभवन्ति गगनेऽपि तारका- स्तपसा जित जितमहो मनोभुवः ॥ १५ ॥ (पुरोऽवलोक्य) कुतो घोतं वास पचनविधिपात्राण्यपि कुतो न पानीय पातु वहति करक मृण्मयमपि ॥ स्पृशन् गावः श्वान श्वपचमथ विप्रं समतया विदेशेऽप्येकाकी भ्रमति किल कोऽय द्विज इव ॥ १६ ॥ परस्परप्रीति:--बमस्स कोपि पच्छतियो विष घाणो दोसई एसो। व्यभिचार:-~-सत्यम्, प्रयागमार्गेणागत पाश्चात्य एव, तदस्मा- १. वयस्य ! कोऽपि पाश्चात्य इव ब्राह्मणो दृश्यते एप।

धर्मविजयनाटके- द्वत्सस्यानाचारस्य वृत्तान्तं कलयिष्यामि । सिन्धुप्रान्तकाश्मीरकुरुक्षेत्रा- दिषु तेन किं सम्पादितमिति । परस्परप्रीतिः-ऐसो वि तुम पेक्खिा इदो ज्जेव आअच्छदि । व्यभिचार:-तदेहि द्वारवेदिकायामुपविशावः । (इत्युपवेशनं नाटयतः) (ततः प्रविशति यथानिर्दिष्टो ऽनाचारः ) अहो. शास्त्रसंगतिमन्तरेण पशुकल्पः पाश्चात्यो वर्णः सर्वोऽपि म. या अनायासेन स्वाधीनता नीतः । अपि च- विश्वामित्रः श्वपलमहरपार्वतीशः कपालं धत्ते, विष्णुमधुरबदरं भिल्लदष्टं चखाद ।। लोपामुद्रासहचरमुनिर्वित्तलोभेन मांसं वातापीयं, कथमिह पुनः पामराणां विवेकः ॥ १७ ॥ (गङ्गां दृष्ट्वा सविनयस् ) नास्त्याकरणाय वस्त्रमधिकं शीतं तथा बाधते न स्नाने ऽभिरुचिर्न चान्त्यजजनस्पर्शे मम व्यग्रता ।। अस्नातं किल नात्र कोऽपि सहसा मां पश्यति प्रायश. स्तस्माजनुसुते. मया विरचितो दूरादयं तेऽञ्जलिः ॥ १८ ॥ (अन्यतः पश्यन् ) अहो मूर्खब्राह्मणस्याचारः । यथायम् - सुस्नातं श्रितनवधौतपहवखं स्पृष्टोऽसाविति पृथुकं निहत्ति यष्टथा ।। चण्डालः स्पृशति मुहुर्विनिन्धकर्मा क्रोधो मामिति किल नानुसन्दधाति ॥ १९ ॥ (पुनरन्यतो गत्ता ) एते तावत्- स्नात्वोपलिप्तभुवि कम्बलखण्डसंस्थाः पट्टांबराणि परिधाय अपन्तु नाम ॥ १. एषोऽपि त्वां प्रेक्ष्येत एवागच्छति ।

द्वितीयोऽ एषामपानविवरं रचितं विधाना जन्मप्रभृत्यथ कथं शुचयः स्युरेते ॥ २० ॥ (पुरोऽवलोक्य) अये, कोऽप्यपं द्वारवेविकायामुपविष्टः शिष्ट इव दृश्यते, तदहमप्येतादृश एव भवामि । यतः, स्मातः स्मातेपु विपणोः स्मरणविधिपरो वेष्णवानां समाजे शैवः शैवेपु शक्तः परिचरणरतः शाक्तमार्गस्थितेषु ॥ तप्तद्धर्माभिसन्धि स्वयमपि सहसा संश्रितः फूटबुद्धा सोऽहं लब्धावकाशोऽतिथिरनयजुषा दांभिकानां गृहेषु ॥ २१ ॥ (आकाशे) भो भो धनिकाः। मयाची श्रोत्रियश्चाऽस्मि भुज्यते स्वत आगतम् ॥ अथापि न प्रसिद्धोऽत्र तेनाहं मलिनः कशः ॥ २२ ॥ (कर्ण' दत्वा ) किमुच्यते, गृयतामिदमनाहतं वस्त्रद्वयं परिधानाय मावरणाय चति । अनाचार:-भवतु, को विरोधो यद्ययाचितमुपतिष्ठतीति । (परिधाय परिकामति) व्यभिचार:-प्रिये ! नायं पाश्चात्यः, किन्तु मध्यदेशीयः को ऽपि स्नातकः। परस्परप्रीति:-दीसई। अनाचार:-(उपसृत्य ) स्वस्ति भवतु ते व्यभिचारा-नमो भगवतेऽभ्यागताय । परस्परप्रीति:-भगवं पादवंदनं कैरेमि । अनाचार:-असंख्यपतिपुत्रिणी भव | व्यभिचार:-प्रिये ! करप्यता पायं मधुपर्कञ्च । १. रक्ष्यते। २. भगवन् ! पादयन्दनं करोमि । -- . مد و धर्मविजयनाटके परस्परप्रीतिः-वअस्स जइ. ण लूससि ता. एदम्स पलिक्खं करेमि। ~ . व्याभिचार-किम्प्रयोजनम् । परस्परप्रीति:-जई एसो सच्चसोत्तिओ जेव्व ताः अह्माणं सुहविरोहः करिस्सदित्ति अम्हघरे से. वसई ण हुविस्सदि जई अम्हसरिसो होदि ता अम्हेहि सद्धं चिरं विहलिस्सदित्ति । ...: व्यभिचार भवतु का नाम हानिः । ॥ परस्परप्रीतिः-(स्वगतम् ) केण. उण उवाएणणं पलिखिस्स ! होदु ताव, क्कमेण अनदाचारं कदुअसे मणं पाविस्सम् । ( प्रकाशम्-वदनार्धप्रविष्टेन पात्रेण पानीयमापीय पीतशेषम्) एदं पाओदअंगहेद अज्जोन अनाचारः--युष्मत्पीतशेषेणाऽनाचारः खलु पाद्यविधिः । 'व्यभिचार--भगवन्नैतदेवम् । गुजराः पीतशेषं पयः सोमकल्प कल्पयन्ति । अनाचार:--दृष्टमेतदन्यच्च । स्नान्ति द्वित्राः प्रातरुत्थाय केचित् भोज्यं भोक्तुं सावकाशात्परे च । दैवं पिध्यं चानुतिष्ठन्ति वर्णा- चर्माम्भोभिर्मण्डले गुर्जराणाम् ॥ २२॥ १. वयस्य ! यदि न रुप्यसि तर्हि एतस्य परीक्षां करोमि। २. यद्येष सत्यश्रोत्रिय एव तस्मिाकं सुखाविरोधं करिष्यति, अ. स्माकं गृहेऽस्य वसतिन भविष्यति । यद्यस्मत्सदृशो भवति तस्मिा- भिः सार्ध चिरं,विहरिष्यति । ३. केन पुनरुपायेनेनं परीक्षिष्ये । भवतु तावत्क्रमणाशाताचार.. कृत्वास्य मनः प्रवेक्ष्यामि । ४. इदं पादोदकं गृह्णात्वार्यः। . , - . ܝ̄ -- : द्वितीयोऽङ्कः । २५ व्यभिचार:-स्पृष्टाधरपात्रेण पानीयपानमपि प्रकारो मध्यदेशी. यानाम् । अनाचारः--खादन्तीज्यामन्तरेणापि मांसं विध्यस्याद्रेगत्तरस्यां द्विजेन्द्राः । आवृद्धं चावालमास्वादयन्ति प्रायः प्रीत्या दाक्षिणात्याः पलाण्डुम् ॥ २३ ॥ व्यभिचार: --ब्रह्मन्नभिज्ञोसि देशाचाराणा, तत्रामीरमालवादिषु कः सदाचारः। अनाचारः-त्रैवर्णिकानां मरुमालवादि. देशस्थितानामविवेकमाजाम् ॥ न भक्ष्यशुद्धिनं च शौचबुद्धि- स्तत्राऽलमाचारविधेर्विचारैः ।। २४ ॥ . पभिचार:-महाश्रोत्रिय ! समासो मधुपर्क इति गृहकार- मतम् , यद्यभिमतं तर्हि तथैवोपचरामि । अनाचार:--कलिवर्जे प्रथमपठितमेतत्, परन्तु यथा रोचते तुभ्यम् । व्यभिचारः--(स्वगतम् ) अनाचारोपजप्तस्येव द्विजन्मनश्च. रितम् । ( प्रकाशम् ) भगवन् ! देवरापत्यमपि कलौ गर्हितं श्रूयते । अनाचार:---अस्ति स्मृति:- अग्निहोत्रमित्यादि, परन्तु निर्मूला, कथमन्यथा सन्यासोऽपि । व्यभिचार:-(निपुणनिरूप्य ) किं वत्स ! अनाचारस्त्वम् । अनाचार:-(सहर्षम् ) किमार्यः ( इति पादयोः पतति) व्यभिचार:-वत्स ! दर्शनक्षणएव प्रत्यभिज्ञातोऽपि काल विप्रकण न सम्यक्परिचितोऽसि । ( इत्युत्यायाङ्गिति) . ४धर्मः २६ धर्मविजयनाटके- 'परम्परनीति:- एंटु दाव अंअवालिं वच्छो देअरो। ( अनाचारस्तथा श्रोति) परस्परप्रीतिः-(स्वगतम् ) पलपुलिसो इस्थिआणं बढइ सुह- साहणरसिओ। तत्थ वि पाहुणिओ देअरो जइ रहमि हत्थगदो होई । अनाचार:-(आत्मगतम् ) स्त्रियः सन्तु स्वीयाः सुरतचतुराः काञ्चनरुचो भवन्तु स्वाधीना जगति परकीयाः प्रतिदिनम् ।। तथापि प्रोन्मीलहहुलतररागाकुलहृदां परीरम्भोऽगम्याजनविरचितः कोऽपि सुखदः ॥ २५॥ व्यभिचार:-वत्स ! उचिते खलु समयेऽभ्यागतोसि, यदत्र परमप्रियां भैरवी यातनामुपभोक्तुकामो राजाप्यायातीति श्रूयते । परस्परप्रीतिः-(स्वगतम् ) जइ एसो हत्थगतो भविस्सदि ता णाभिप्पदस्सणत्थणोल्लासणचिउरसंखरणतिरिअदिट्टिपेक्खण महु रालावणिक्कारणहसिदनिजणप्पदेससंठाणपुत्तमुहचुंबणादिहिं णिअ - वेहव्वं पारइस्सम् । . ( नेपथ्ये ) भो भो नागराः ! प्रत्यासन्नो भूपतिरधर्मः । तथा हि-- भेरीणां प्रतिरसितप्रचण्डशब्दाः श्रयन्ते दिनकरमावृणोति रेणुः ।। 1 • . १ एतु तावदङ्कपालिं वत्सो देवरः। २. परपुरुषः स्त्रीणां वर्धते सुखसाधनरसिकः । तत्रापि प्राघू. र्णिको देवरो यदि रहसि हस्तगतो भवेत् । ३.यदि एष हस्तंगतो भविष्यति तर्हि नाभिप्रदर्शनस्तनोल्लासन- चिकुरसंस्करणतिर्यक्राष्टिप्रेक्षणमधुरालापनिष्कारणहसितनिर्जनदे- शसंस्थानपुत्रमुखचुम्बनादिभिर्निजवैधव्यं पारयिष्ये । ४. 'अन्यरागा' इति 'ख' पुस्तके.पाठः।

२७ -. द्वितीयोऽङ्कः। आश्चर्य किल पिदधाति भूविभागान् दृश्यन्ते गजपतिकेतवो विचित्राः ॥ २६ ॥. तेन हि- आलभ्यन्तां विविधपशवः संस्क्रियन्तां गृहाणि द्यूतक्रीडा भवतु भवने भाग्यभाजां समन्तात् ॥ आहूयन्ता तरुणगणिकाः करप्यतां पानभूमिः प्रत्यानेतुं व्रजतु सकलः पौरलोको नरेन्द्रम् ॥ २७ ॥ अनाचार:--समागत एव देवस्तत्प्रत्युद्गमनेन सम्भावयत्वार्यः व्यभिचार:-प्रिये ! वाङ्मन कायकर्मभिस्ते समुचितो देवरो-- पचारः । ( इति निष्क्रान्तः) (पुनर्नेपथ्ये) स्कन्धे करं निवेश्याथ नगराहहिरादरात् ।। काश्यामधर्मों नृपतिः पौरकार्य समीक्षते ॥ २८ ॥ परस्परप्रीतिः- एहि जोवणलच्छीविछुरिदमुहचन्द देअर सुलालसेण पढमं तुमं संतोसिअ पच्छा उवचलिस्सम् । अनाचार:-~-अये ! ममाक्रान्तस्य सुरया कृत्याकृत्यमजानतः ॥ पुरश्वपलचित्तस्य स्थातुं शक्यं त्वया कुतः ॥ २९ ॥ परस्परंप्रीतिः-अहं वि महुवारस्स विहेअत्तणं उबगदा रअ णि वा दिणं वा ण जाणामि, कि उण तुअ चरिदम् । अनाचारः-एहि तर्हि स्बेष्टं साधयावः । ( इति निष्क्रान्तौ) ॥ विष्कम्भकः॥ १. एहि यौवनलक्ष्मीविच्छुरितमुखचन्द्र! प्राघूर्णिक!देवर सुरार सेन प्रथमं त्वां सन्तोप्य पश्चादुपचरिष्यामि । २. अहमपि मधुवारस्य विधेयत्वं प्राप्य रजनी वा दिनं वा न जानामि । किं पुनस्तव चरितम् ।

२८ धर्मविजयनाटके- (ततः प्रविशत्यधर्मा विभवतश्च परिवारः ) अधर्म:-यद्यपि, नापृष्टः कस्य चिद् वूयान्न चाऽन्यायेन पृच्छतः ।। जानन्नपि हि मेधावी जडवल्लोक आचरेत ।। इति प्रसिद्धा पद्धतिः । किश्च, यदि चोरस्य जननी चाण्डालेन हृता बलात् ॥ का हानिस्तत्र विदुषां तथाप्येतदपेशलम् ॥ इति विचारपरैर्जगद्वन्धुभिरस्माभिः स्वतएवोच्यते, भो जनाः ! चेतयध्वम्, न वा पीता तीवा प्रकृतिमधुरा जीर्णमदिरा न च द्यूतक्रीडा सह कितवसङ्घविरचिता ।। न वा वेश्या वेश्मन्यपि समुपहूता सकृदहो वृथा वित्तं विप्रैर्जगति कुधियां लुण्ठितमिदम् ॥ ३० ॥ अपि च, अर्थवादश्रुतिनिर्णाशितमतिभिर्वैधेयैन संचितानि न भुक्तानि धनानि । अपि तु पाण्डित्यं कविता कलाकुशलता शौर्य तथाऽन्ये गुणाः सन्तु प्राणभृतां तथाऽपि तइमे यैःस्युविना निष्फलाः ।। तान्येतानि धनानि दैववशतो हस्तागतानि ज्वल- स्वाहाप्राणपतेसुखे मखमिषान्निाशितानि स्वयम् ॥ ३१ ।। (स्मृतिमभिनीय सचमत्कारम् ) अहो नु खलु चेतसि चित्रित इ. वोपदेशो वत्सस्य कार्पण्यस्य । यथा- यस्यां विष्णुत्रिभुवनगुरुर्नित्यमासक्तचेताः क्षोणीपालाः समिति तरुणास्ते यदर्थ नियन्ते ॥ यस्यां लुब्धा कमलनयना यत्र मोहो मुनीनां सैषा लक्ष्मीः स्वयमिव कथं नाश्यते बुद्धिशून्यैः ।। ३२ ।। - : -- द्वितीयोऽङ्कः। २९ .. (प्रविश्य) दौवारिक:-जेदु जेदु लाजउलं, अपुवाए खण्डिदचिउराए गणस्सिणीए सहिदो कूडपुलाणिओ देव्वं पेक्खिदु उवगदो दुमारि चिट्ठदि । अधर्म:-(स्वगतम् ) यदा प्रभृति, सत्सङ्गपुण्यवनतीर्थनिषेवणायैः साध नृपेण तपसा प्रहितं पुराणम् ॥ वर्णाश्रमेषु विदधात्युपजापमेत- च्छ्रुत्वा ममास्ति न रतिर्न मतिन निद्रा ॥ ३३ ॥ तदा प्रभृति सहानुतेन पुराणेद्वासनाय प्रेषितोऽयं ब्राह्मणः सत्व. रमागतस्तस्मात्कृतकृत्यो भविष्यति । (प्रकाशम् ) कुबद्धे ! प्रवेशयैनं, चिरमारभ्य द्रष्टुं समुत्सुकोऽस्मि । दौवारिका-ज देव्वो आणवेदि । (इति निष्क्रान्तः) (ततः प्रविशति कूटपौराणिको बालविधवा च) पौराणिक- नवं वयो मूर्तिरनाकल्पा श्रृङ्गारसंभिन्नकथा ऽन्यदारैः॥ व्यासास्पदं मिष्टभुजिक्रिया चे- त्यनल्पमाग्यैः कृतिनो लभन्ते ॥ ३४ ॥ विशेषतश्च विश्लिष्टप्रियतमानां विरहोन्मादहेतुरस्मदीयकथामस्ता. बना प्रगल्म प्रवर्षतु । सम्प्रति- कल्लोलिन्यः कलुषसलिलाः कूलपातैः समन्ता- रक्षेत्रप्रान्ताचितवृतयः पहिलो राजमार्गः ॥ १. जयतु जयतु राजकुलम् । अपूर्वया खण्डिताचकुरया मनस्वि. न्या सहितः फुटपौराणिको देवं प्रेक्षितुमुपागतो द्वारि तिष्ठति । २. यईव आज्ञापयति । - ३० धर्मविजयनाटके- .. इत्थं रुद्धे जगति विधिकृद्धर्मशालास्थपान्थान् · धायपातश्लथगृहगललाष्ठपातो हिनस्ति ॥ ३५ ॥ ( विधर्वा प्रति ) अयि तपस्विनि ! सहास्माभिस्तेऽपूर्वसमागमः | कचित्पूर्वमपि श्रुतं त्वया धर्मरहस्यम् ? । विधवा-- अह इं, कस्स वि वुधपुलाणिअस्स मुहादो सुदं मए, अलं एदेहि जण्हईजमुणादिहिं तित्थेहिं जई भवे अच्चुअस्य कत्ति । पौराणिकः-आः, तेन तत्र गझेतिपद्यस्यानर्थः कृतः, वस्तुतो यत्र दारकथाप्रसङ्गः अच्युतस्तत्रैव सर्वाणि तीर्थानीति तस्यार्थः । विधवा-कहं विष लोअविणिदिअंकम्मं सामिणा सलाहिजदि । पौराणिकः-- अयि कोमल कलेवरे ! बालतपस्विनि ! किं जा नाति लोकः स्तोतुं विहितुं वा । पश्य लक्ष्मीलोभादुदधिशयने पद्मनाभोऽधिशेते वाणी कण्ठे त्रिभुवन पिता स्थापयत्येव नित्यम् ।। गौरी देवो वहति सततं वामभागे महेशः शृङ्गारोऽयं त्रिगुणमहितो मादृशैः किन्तु पूज्यः ॥ ३४ ॥ अपि तु पुराणेतिहासादावप्ययमेव रसोऽभ्यार्हततमः । यतः- पीतो वहिर्दवदहनकृद्धानुकन्याशयस्थो दुष्टो व्यालः सपदि दमितश्चाङ्गुलिस्थः कृतोऽद्रिः ।। एतच्चान्यत् किमिव न विभोश्चित्रहेतुश्चरित्रं रासक्रीडालुलितमनसः प्रायशः शर्मणे तत् ॥ ३७॥ १. कुविधिर्धर्मशालेति 'ख' पुस्तके पाठः । २. लोष्ठघातं इति 'ख' पुस्तके पाठः । ३. अथ किम्, कस्य चिबुधपौराणिकस्य मुखाच्छुतं मयाऽल. भेतैर्जाह्नवीयमुनादिभिस्तीथैर्यदि भवेदच्युतोदारकथाप्रसङ्ग इति । ४: कथमेवं लोकविनिन्दितं कर्म स्वामिना श्लाध्यते । ५.. 'रासक्रीडाललितमिव न प्रायशः शर्मणे तत्' इति 'ख' पुस्तके पाठः। ..', , द्वितीयोऽङ्कः । ow किश्च भवतीं पृच्छामः । L.. सन्ति श्यामाः कमलनयना भुक्तिमुक्तिप्रदायों हित्वा तासां रतिविलसितं प्रत्युत स्वीयचित्ते ।। मेघश्यामं कमलनयनं भावयन्तः कृतार्थ ये मन्यन्ते स्वमपि क इव प्रत्ययस्तत्र तेषाम् ॥ ३८ ॥ (विधवा भंगारलजां निरूपयति) पौराणिकः--(स्वगतम् ) माममिलपन्त्या इवास्या दृश्यते चेतः । पश्यत्यधी वक्रयतीक्षणद्वयं सभ्रूविभेदं कुपिता हसत्यपि । नैवोत्तर किञ्चन मां वदत्यसौ स्वयं च धर्मस्य मिपेण पृच्छति ॥ ३९ ॥ (प्रकाशम् ) सुन्दरि ! त्वया निरन्तरमस्मदीयकथायामेव सन्निहि- तया भवितव्यम् । किश्चान्यत्र पुराणशालायां गन्तुं नायमवसरोऽस्ति । यतः, निष्कास्यान्ती पुरस्तात्कथमपि पशवः सम्पदः सहियन्ता वार्यन्ता घावमाना मुहुरिह शिशवः स्थीयतां सावधानैः ।। जल्पत्स्वेवं वणिक्षु इलथपटविगलत्कच्छहस्ते तूर्ण धाराभिाँतमूला कृतकटुकरवा भूतलं याति भित्तिः ॥४०॥ अपिच, नीतो दूर जलरयवशः कोऽपि वृद्धः प्रणाल्या भ्रष्टः सोऽयं स्खलितचरणः पिच्छिलोत्तुङ्गदेशात् ।। पङ्कालिप्ताननकरपटोऽन्यः पतित्वोत्थितोऽयं दृष्ट्वैवेत्थं नभसि सुखिनः सौघसंस्था हसन्ति ॥ ११ ॥ तस्मादेकाग्रभावोऽत्रैव विधीयताम् । (इति परिकामति - १. चेष्टा इति 'स्व' पुस्तके पाठः ।

धमावजयनाटक अधर्मः--(निर्वर्ण्य आकोल्लासिकाश्मीरजहिमकणिकावृष्टपाटोरलेपः सूक्ष्म वासो वसानः प्रकटितविविधव्यासविद्यावलेपः ।। मजिष्टारपट्टाम्बरकलितकथापुस्तकः कोकशास्त्रे सरशीते च प्रवीणः सुखयति विधवाः कूटपौराणिकोऽयम् ॥४२॥ सर्वथा चायमनुतिष्ठति निदेशम् । यतः, प्रसन्नमतिसस्मितं वदनपङ्कजं नेत्रयो- मतेविविधविभ्रमाः स्फुरितसुन्दरान्तोऽधरः ॥ सबाहुलसितत्वराप्रसरणं पुरः पादयो- नरस्य कृतकृत्यतां वदति वाग्विलासं विना ॥ ४३॥ पौराणिका-(उपसृत्य ) स्वस्ति स्वस्ति परमेश्वराय । अधर्म:--स्वागतम् । पौराणिका--देव ! प्रणतिरिलातलमालिन्यनृपस्य । अधर्म:--कुशलस् । पौराणिकः--देवकृपया। अधर्म:-केदानीमधिवासोऽनृतस्य कनिष्ठस्य । पौराणिका-- सर्वत्र । अधर्म:--साम्प्रतं किमनुतिष्ठति ? । पौराणिकः--इदानी हि, कृत्वादरेण हृदये पदमुत्तमानां वासं विधाय निभृतं वदनारविन्दे ॥ अष्टादशापि शनकैर्व्यवहारपादा- नाक्रम्य विश्वमनृतं स्वरतं करोति ॥ ४४ ॥ १. गतिर्विविधविभ्रमति 'ख' पुस्तके पाठः । २. देवप्रणतिरिलातलमालिन्यानृतस्येति 'ख' पुस्तके पाठः ।

द्वितीयोऽङ्कः। -- अधर्म:--केन क्रमेण जगदाक्रान्तं युवाभ्याम् 2-1 पौराणिक:--देवनिदेशात्प्रस्थितयोरावयोः किश्चित्कालं प्रथ. मतः काश्यां वसतिरासीत् । ततश्चान निश्चलं पादमाघाय शनैः कलिङ्गकामरूपकाश्मीरकाम्बोजकर्णाटकोकणमहाराष्ट्रमगधमान- टमत्स्यमालवमलयसिंहलशूरसेनसिन्धुसौराष्ट्रसौवीरशास्वपुलिन्दपारसीक- पाञ्चालपाण्ड्यभाजजागलयवनबर्बरवङ्गविदर्भवदेहगान्धारगौडगुर्जरनेपाल लाटान्ध्राङ्गहूणद्रविडेपु स्थिति विधाय पुनरपि परमप्रियं गुर्जरमण्ड- लमावाभ्यामाश्रितम् । अधर्म:--तेषु देशेषु कः समाचारः । पौराणिकः-- पर्जन्यः खण्डवृष्टिं वितरति जगती स्वल्पसस्या तरुण्यो भनें द्रुह्यन्ति मुख्याश्रमगततरुणाः कामयन्तेऽन्यदारान् ॥ पुत्राणां प्रेतकृत्ये प्रभवति जनकः क्रोधलोभीपजप्ताः क्षोणीपालाः सचौराः प्रतिदिशमटवीं घातुका लुण्ठयन्ति ॥१५॥ अपि च, अत्रास्माकमेकः संशयः । यथा-- स्रोतस्विन्यो विरलसलिलाः साधवो मन्दभाग्या नानाभोगान्मजति च खलो भूरुहोऽल्पं फलन्ति || निर्मर्यादाः कुलगुवत्यो पूज्यते दम्भयुक्तः सर्व चैतत्तव विलसितं देव ! किं वाऽनृतस्य॥ ४६॥ अधर्म:--आः, कोवाऽनृतस्याऽस्माकं च विशेषो येन संशया- वकाशः । यतः-- एकः स्वभावो न पृथक् चरित्रं भिन्नामिधा वस्तुनि नास्ति भेदः ॥ धर्मस्य सत्यस्य यथैकमत्यं तद्वन्ममात्माऽनृतमस्य चाहम ॥ ४७ ।। धर्म०५ धर्मविजयनाटके- . पौराणिक .., दारियाय ददाति धैर्यमधिकं रोगान्समाश्वासय- त्यानन्दस्य जलाञ्जलिं विरचयत्यस्तं नयत्युन्नतिम् ।। दाक्षिण्यस्य करोति नाशमनिशं विश्वासमाभीषय- त्येवं देव ! किलानृतस्य चरितं प्रोक्तं समासान्मया ।। ४८ ॥. अधर्म:-किं तवोपकृतमनेन ? । पौराणिक --इतोऽप्यन्यस्किमुपकर्तव्यम् । यतः- वैधेयानां सभायामनधिगतनयो माहगत्यादरेण त्वत्पादाब्जप्रतापोपनतबलभरस्यानृतस्य प्रसादात् ।। यत्किञ्चिद्रन्थपत्रं पठितमपठितं यादृशं तादृशं वा धृत्वा पाणी समग्रान्कथयति सततं भारतादिप्रबन्धान् ॥४९॥ अधर्म:--स्वत एव विज्ञो भवति, शिक्षा पुनरुक्तप्राया । तथा- पि कलेमम चाऽहितानामाख्यानानि भारतादौ सन्ति । तेषां त्वया स्व. प्नेऽपि नाम न ग्राहमिति पुनर वधानाय स्मार्यते । पौराणिकः-के वा कलेः प्रतिकूलाः ? । अधर्म:-आः किन्न जानासि, सर्वे राजर्षयः संक्षपतस्तत्रा. पि तावदेते. भीमात्मजा नलनृपः सुकृताङ्गजन्मा कर्कोटकः फणिपतिस्तनया ऽचलस्य || रामोऽग्रणीगुणवतामृतुपर्णभूपः 'संकीर्तनात्कलिमलं दलयन्त्युदीर्णम् ॥ ५० ॥ पौराणिक:-किं वा द्रुह्यन्ति देवाय । अधर्मः- आख्यानं पृथुनलभार्गवार्जुनानां कौसल्योदरवसतेहलायुधस्य ॥ १, तनयाचलाया' इति 'ख' पुस्तके पाठः । 2 .. ।

द्वितीयोऽङ्कः । ३५ - .. राजर्हदयमुवः शकुन्तलायाः पापस्य प्रथमारपुर्जगत्प्रसिद्धः ॥ ५१ ।। पौगणिक-राजन् ! एते मम श्रुतपूर्वा अपि । अहं तु- संगीतगान्धर्वविवाहशास्त्र- कान्ताचरित्रैः श्रवणे स्थितानाम् ॥ स्त्रीणां समाजे विविधैविलासैः सतालहासैः समयं नयामि ।। ५२ ।। अधर्म:-देवाद्वैदिकः कश्चित्तत्र समायाति । पौराणिका-आयातु नाकिमवाना गुरुरीश्वराऽपि वाचामसौ परिकरं सुदृढ़ करोतु ॥ व्याख्यानमाग्रहकृतं किल दुर्विदग्धै. दूरीकरोतु स कथं चतुराननोऽपि ॥ ५३ ॥ अधर्म:-सम्यक् खलु पुराणमुद्रासितमिति त्वदुक्त्या ऽतुमीयते । पौराणिक:-अस्माभिस्तु चक्षुषा न दृष्टं तथापि इति किंवदन्ती तिष्ठति वेदान्ते धर्मशास्त्रे परिणतमतयो न्यायशास्त्रे प्रवीणाः काव्यालङ्कारगोष्ठीप्वपि रसिकतमा नाटकाख्यानदक्षाः ॥ काव्यं कर्तुं प्रगल्भाः प्रतिपदमपि ये भावयन्ति स्वबुद्ध्या तेषा वक्त्र पुराणं निवसति सकलं सेतिहासं नरेन्द्र ॥ ५४ ॥ अधर्म:-- अस्तीदानीमपि धर्ममूलशेषस्तच्चतुर्दशविद्याविघाता य मौढ्यादी प्रेषयामः । यतः-- जाव्यप्रमादविक्षेपव्यासक्रैर्विकलीकता ॥ विद्या स्थास्यति नैकापि क पुनस्ताश्चतुर्दश ॥ ५५ ॥ विद्याया अनुदयकारि तत्र जाड्य. मभ्यासप्रशमनकारणं प्रमादः १. गुरुरीश्वरी वा, इति 'ख' पुस्तके पाठः।

३६ धर्मविजयनाटके- . विक्षेपो रिपुरखिलैकवाक्यताया व्यासङ्गः प्रभवति विस्मृति विधातुम् ।। ५६ ।। (नेपथ्ये ) देव ! त्वर्यताम् , कल्पितपानभूमिदेवी भैरवीयातना वासकस. ज्जाकल्पेन महाराज प्रतीक्षते । उपस्थितश्च गणकावेदितो मूहूर्तः । सम्प्रति हि- द्रुतपतदहिमांशुस्यन्दनार्वखुराग्रो- च्छवासतविविधधातुबातरेणूत्करेण ।। छुरितमिव विहायः सान्ध्यमेधैर्विचित्र- वरुणदिगबलायाः संश्रयत्यम्बरत्वम् ।। ५७ ॥ अपि च, वासरान्तसमये समुपेतां पाशपाणिदिशमाश्रितरागाम् ।। कुडमारुणंकरैरिव लिम्पन् दृश्यते कमलिनीहृदयेशः ।। ५८ ।। अधर्म:--(विलोक्य साकृतम् ) वेदमूर्तिरपि रागमाश्रित- स्तेजसा निधिरपि स्पृशंस्तमः ॥ अम्बरं परिहरंस्खलत्करः काश्यपः पतति वारुणी भजन ।। ५९ ।। तद्वयमपि चिरविप्रयोगविमनस्कां देवी सम्भावयामः । (इति राजा सपौराणिको निष्क्रान्तः ) इति श्रीभूदेवशुक्लविरचिते धर्मविजयनाम्नि नाटके द्वितीयोऽङ्कः । .. १.च्छलित इति 'ख' पुस्तके पाठः।

तृतीयोऽङ्कः । ३७ तृतीयोऽङ्कः। (तत प्रविशति महीरहशाखासक्तरज्वोदबन्धनेनात्मानं व्यापादयन्ती पण्डितसङ्गति ) पण्डितसङ्गतिः--हा मातरश्चतुर्दश विद्या ।हा सखि कविते । कथमिह भवतीनामाननाम्भोरुहाणि प्रसरदमृतवाणीवासनागर्भितानि ॥ विविधजनसमाजेऽद्यापि नालोकयन्ती हतविधिकलिताऽह जीवित धारयिष्ये ॥ १ ॥ ( इति पाशमादाय ग्रावाया निबध्नाति । प्रविश्य पटाक्षेपेण सभ्रान्ता परीक्षा) परीक्षा-सहि किंति आउलीभूदा अप्पघाद कैरोस । ( इति बलात्पा शिथिलयति ) पण्डितसङ्गतिः-सखि ! मा खलु मा सन्तापय । परीक्षा-अप्पणो वेअण केहेहि । पण्डितसङ्गतिः-- वेदान्तो ऽन्तमवाप वीक्षणपथ नान्वेति सान्वीक्षिकी सिद्धान्त. कपिलस्य कोऽपि विलय यात' सपातञ्जल ॥ मीमासा विरताऽङ्गभङ्गविकला वेदस्मृतिर्विस्मृता साहित्य पिहित हितैषिणि ! हित नो जीवित मेऽधुना ॥ २ ॥ परीक्षा-सहि ! तह वि सुधम्मसस्थाए तुए वेअविणिदिम कम्म ण जुज्जई ॥ पण्डितसङ्गतिः -सखि ! अस्वाधीनचित्तानां किमकार्यम् । यतः- पाशैर्बन्धनमुच्चपर्वततटापात पयोमज्जन यद्यद्दर्हितमात्मनाशविधये तत्तत्समारब्धवान ॥ १. सखि ! किमिति, आकुलीभूताऽऽन्मघात करोपि । २. आत्मनो वेदना कथय । ३ सपि! तथापि श्रुतधर्मशास्त्रया त्वया चेदविनिन्दितं कर्म न युज्यते।

धर्मविजयनाटके- . शोकाकान्तविवेकशून्यहृदयो ऽपोकान्तशास्त्रस्मृतिः शक्त्याद्यौरसपुत्रनाशविवशो विद्वान् वसिष्ठो मुनिः ॥ ३ ॥ परीक्षा-सहि समस्सस २ एहि दाव अण्णेसामो जं कहिवि ठामि विज्जा णिलीम द्विदा हुवे । पण्डितसङ्गतिः-सखि ! अतःपरं किमन्वेपणीयम् । अन्विष्टं तदपि सदो नराधिपानां विद्यार्थी प्रतिमठमादरेण पृष्टः ।। भट्टानामुदवसतिं विविच्य दृष्टं विद्यायाः पदमधुनापि नोपलब्धम् ।। ४ ।। परीक्षा--तह वि एकेकस्स भवणंगणं पविसिअ पेक्खम्म, एहि दाव तुमं पि। इति पण्डितसङ्गतिं समादाय परिक्रामति) पण्डितसङ्गतिः--सखि ! कोनु खल्बसौ कुण्डलोद्भासितकपोलम ण्डलो विषमवैभवगर्वखर्वीकृताखण्डलः पण्डितमन्यः । परीक्षा-ओखधकंडनविसंठुलहत्थो कोवि वेज्जो विम दीसँई । पण्डितसङ्गतिः--एनं पृच्छावः, कदाचिदुपलभ्यतायुर्वेदगन्धः । (ततः प्रविशति वैद्यः) वैद्यः- यदाप्रभूति जाड्येनोपालब्धोऽस्मि यत् पुरुषायुषजीविनो जनास्तत्र तवैवोपेक्षा मूलमिति, तदाप्रभृति , १. यापक्रान्तशास्त्रस्मृतिः, इति 'ख' पुस्तके पाठः। २. सखि ! समाश्वसिहि २ एहि तावदन्वेषयामः यत् कस्मिन्नपि स्थाने विद्या निलीय स्थिता भवेत् । ३. तथाप्येकैकस्य भवनाङ्गणं प्रविश्य पश्याव एहि तावत्वमपि । ४. औषधकण्डनविसं ठुलहस्तः कोऽपि वैद्य इव दृश्यते ।

तृतीयोऽङ्कः । ३ : : किमिति दिनमभोजी स्वस्थतां याति कस्मा स्किमु पतति न खट्वापञ्जरे पुष्टदेहः ॥ कथमिव तरुणानां नास्ति रोगः सदेति व्यथयति नितरां में मानसं कापि चिन्ता ।। ५ ॥ परीक्षा--सहि जुरिदा विष खणं होहि णं पलिस्विस्सम् । (पण्डितसंगतिः तथाकरोति) वैद्यः-यद्यपि, बिस्वस्तनी वारिदकेशपाशा घान्यप्ररोहाकलितावतंसा ।। विश्वातिसारा नलदप्रचारा न स्मयते सापि मयाऽद्य विद्या ॥ ६ ॥ तथापि, मृतस्यायुः पूर्ण परमिति चिरातङ्ककलिते हरेरिच्छा सद्यो ज्वरजुषि परश्वोऽयमगदः ।। गुणोऽयं पुष्टेषु त्रिकटुगुटिकानामिति वचो- विलासो मे विद्याबलमविदिते साहसमपि ॥ ७ ॥ (इति परिकामति) परीक्षा-( उपसृत्य, सप्रमाणोऽयमिति तं पृच्छति) भावमि. स्सर इअंणो पिअसही वली क्खु संतावं अणुहवहि, ता से उवासं कहेदु अज्जो। वैद्यः--(स्वगतम्) ज्वराङ्कुशाद्यैः सविषप्रचार- ममोपचारैः शतशो नियन्ते ॥ तथापि मोहोऽयमहो जनाना मय्येव वैद्योऽयमिति प्रतीतिः ।। ८ ।। १. ज्वरितेव क्षणं भवैन परीक्षिप्यामि । २. भावमिश्र ! इयं न. प्रियसस्त्री बलवन्तं खलु संतापमनुभवति, तर्हि अस्या उपायं कथयत्वार्यः । . J धर्मविजयनाटके- -- (प्रकाशम्)सुन्दरि ! चूर्ण कपायो गुटिकावलेहः पाकश्च सन्दिग्धचिकित्सितानि ॥ आरोग्यकारि ज्वरितस्य शीघ्र तप्तायसेनाङ्कनमेकमेव ।। ९ ।। पण्डितसङ्गतिः-~कस्मिन्निबन्धेऽध्ययनं भवतः ? । वैद्यः--आः, आत्रेयपत्रेऽपि न दत्तनेत्रो रीतिर्न हारीतमुनेरीता ॥ न सुश्रुतस्य श्रुतवान् श्रुतिं वा स्वतोऽस्मि वैद्यश्चरकानभिज्ञः || १० ।। पण्डितसङ्गतिः--(सहासम्) ब्रह्मन्नेतत्तव चिकित्सितोपदेशोऽपि पिशुनयति । ( परीक्षा प्रति-जनान्तिकम् ) कः प्रतिजानात्येनं सखि ! कुर्यादुपेक्षां कचिदायुषः क्षयः . प्रतीक्षते मृत्युरपि स्वयं कचित् ॥ आरोग्यभाजोऽपि जनस्य जीवितं हरत्यकस्मात्परमेतदौषधम् ॥ ११ ॥ परीक्षा--अदो क्खु महावेजो एसो। पण्डितसङ्गति--अथ किम् । परीक्षा--सुमरेदि वा पिअसही तस्स वेज्जस्य जस्स दिट्ठिपहे पडिओ दोहरोअकलिदोवि कंचनकलेवरो जेव संवुत्तो । १. अतः खलु महावैद्य एषः। २. स्मरति वा प्रियसखी तस्य वैद्यस्य यस्य दृष्टिपथे .पतितः दीर्घरोगकलितोऽपि काञ्चनकलेवर एव संवृत्तः ।

तृतीयोऽ ४१ पण्डितसङ्गतिः--कथं विस्मरामि पुराणधन्वन्तरीयकृतश्रमं तं महापुरुषम् । गुल्मोऽरण्ये पर्वते गण्डमाला कुप्ठं हट्टे शूलमीशानपाणौ ॥ चित्रे पाण्डुः कृष्णपक्षे क्षयोऽभू- द्यस्मिन्वये मीनवर्गः सरोगः ॥ १२ ॥ परीक्षा--लम्बपत्तहत्या को णु क्खु एसो इदो अहिव ।। पण्डितसङ्गतिः---प्रायेण गणक इव दृश्यते । : (ततः प्रविशति गणकः) गणक:---आजन्मसिद्धप्रमादपरवशतया मुहूर्तमपि न जानीमः, किमुत गणितम् , तथापि देशान्तरीयपण्डितै, पञ्चाङ्गपत्रे प्रकटीकृतानां श्रुत्वा गति खेचरतारकाणाम् ॥ सम्भावितं प्रश्नमनुब्रुवन्तो ज्योतिर्विदः केऽपि वयं पृथिव्याम् ॥ १३ ॥ पण्डितसङ्गतिः-( उपसृत्य सप्रणामम् ) भगवन्कुत्राऽध्ययन भवतः? गणक:-- --प्रश्नग्रन्थे पण्डितसङ्गतिः--(जनान्तिकम् ) शिरोमणिभूतभविष्यबोधे बीजस्थितिः कण्ठगरत्नमाला ॥ लीलावती दृष्टिपथे न यस्य ज्योतिर्विदेषः प्रथमाश्रमस्य ॥ १४ ॥ : १. लम्बपत्रहस्तः को नु खल्वेष इतः आभवत्तते।। ६धर्मः ४२. धर्मविजयनाटके- . परीक्षा--मएं से चमकालं पेक्खिअ पलिक्खिदो, ण क्खु स. च्चजोइसिओ किन्तु कोवि णरुखत्तसूचओ हुविस्सदि । पण्डितसङ्गतिः -( गगकं प्रति ) भगवन् ! एकं प्रश्नविषयं बाहे । गणका भावसन्धिफलदा नभश्चराः क्रूरसौम्यखगदृष्टयो मिथः ॥ द्विःस्वभावमपि लममीहितं सिद्धिमेप्यति परं न निश्चयः ॥१५॥ पण्डितसङ्गतिः-भगवन् ! अवग्रहेण पीड्यतेऽयं जनस्तद् ब्रूहि- पर्जन्यवार्ताम् । गणक:-~(स्वगतम् ) अत्रापि स्वाध्ययनानुसारेण संशयित- मेवोत्तरं वदिष्यामि । (प्रकाशम् ) धान्येश्वरोऽस्ति कुजनिः शनिरव्दपाता दग्धानि कानि चिदुडून्यगलच्च गर्भः ॥ केषाञ्चिदात्मगणितेन तथापि मन्ये वृष्टिं विधास्यति भवन्क्षितिजन्मचारः ॥ १६ ॥ पण्डितसङ्गतिः-(परीक्षा प्रति ) साख ! सर्वथैव, रम्याऽऽश्लेषान्तरार्दा मृगसमनयना पद्मसंस्पर्धिहस्ता चित्राक्रान्तोचवत्रा श्रवणयुगलसत्कुण्डला ऽदृष्टपूर्वा । ज्ञानज्येष्ठा विशाखावृतमदनतरोर्मुलतो रोहिणी सा सर्वादिष्टपद्या विरतिमुपगता कापि वेदान्तविद्या ॥ १७ ॥ परीक्षा:--सेहि ! एहि दाव अण्णदो अण्णेसामो । १. मयाऽस्य चमत्कारं दृष्ट्वा परीक्षितः । न खलु सत्यो ज्योतिषी किन्तु कोपि नक्षत्रसूचको भविष्यति । २. सखि ! पांह तावदन्यतोऽन्वेषयावः !

तृतीयोऽवी - पण्डितसङ्गतिः- भूगोलः सलिलधिसंवृतो व्यलोकि प्रश्नेनाप्यविकलितो ऽखिलः खगोलः ।। सिद्धान्तागमगणिता गवेषणीयाः केदानी जगति सुदुर्लभा ऽविद्या ॥ १८ ॥ वैद्य:-( अवलोक्य ) अये चिरेण दृष्टः प्रियसुहृदैवज्ञः । गणका--( उपमृत्य) अपि सुखिनो मिश्राः । वैद्यः--अद्य विशेषेण । गणक:-.-नचेत्कार्यातिपातोऽन्यस्तर्हि धर्मशास्त्रविषयप्रश्नाय स्मार्तशुक्लसदनं गच्छावः । वैद्यः--सावकाशोऽस्मि । ( इत्युत्तिष्ठति) परीक्षा-(सहर्षम् ) तस्य सदने धर्मशास्त्रविद्या भविष्यति । (इति संवें परिकामन्ति) (ततः प्रविशति स्मार्तः) स्मात:-विक्षेपस्यासमसेविना मया न कोऽपि दृष्टो निय. न्धस्तथापि-- व्रतवन्धविवाहसद्विधिज्ञः श्रुतधानाहिककर्मपुस्तकेषु ॥ स्वयमस्मि च पण्डितस्य पुत्रः किमसाध्यः स्मृतिनिर्णयोऽधुनेति ॥ १९ ॥ ( इति परिक्रामति । उपसृत्य सर्व प्रणमन्ति) स्मातः-स्वागतम् । ( इत्यभिनन्दति) गणक:--ब्रह्मन् ! प्रथमोत्पन्नगर्भाणां कदा सीमन्तः । १. प्येवकालत, इति 'ख' पुस्तके पाठः । २. श्रमवानिति 'ख' पुस्तके पाठः। ३. किमसाध्यः स्मृतिनिर्णयोऽधुना मे, इति 'ख' पुस्तके पाटः ।

४४ धर्मविजयनाटके- स्मार्त:--मासि षष्ठेऽष्टमे च। पण्डितसङ्गतिः--भगवन् ! सीमन्तः क्षेत्रसंस्कारः सकृदेवानुष्ठेयः । स्मातः-षष्ठेऽष्टमे वा मासि सीमन्त इति याज्ञवल्क्येन वा- रद्वयमाज्ञप्तः। पण्डितसङ्गतिः--अस्यां स्मृतौ कालस्य विकल्पो न समुच्चयः । स्मातः :--(स्वगतम् ) अनधीतशास्त्रस्य ममाप्यत्र सन्देहः । (प्रकाशम् ) क्वचिदपि विकल्पः क्वचित्समुच्चयोऽपि । परीक्षा-( जनान्तिकम् ) कोवि मुक्खो विश्र दीसई एसो णं पुच्छेहि दाव विण्णादसत्थो णवेति । पण्डितसङ्गतिः--ब्रह्मन् ! कापि वाला त्वया दृष्टा ? | स्मात:-किमाचारा सा ? । पण्डितसङ्गतिः- या मानवी कोकिलकूजितस्वरा मिताक्षराबद्धवचोमनोहरा ।। का ऽप्यत्रिजन्माननदक्षदर्शना पाराशरीति स्मृतिमार्गगामिनी ॥ २० ॥ स्मातः-न खलु साऽस्माकं कदापि बष्टिगोचरा । परीक्षा-(सरोपम् ) अविण्णादधम्मसत्थो किंति लोअं विप्प. तारेसि । स्मातः-आः पण्डितंमन्ये ! अस्मदीयतातपादैरप्येवं निर्णीत. वद्भिर्जन्म गमितम् । अपि च- न्यायः स्मृत्योर्विरोधे कचिदपि बलवानर्थशास्त्राद् बलीयः १. च, इति 'ख' पुस्तक पाठः । २. कोपि मूर्ख इव दृश्यते एषः, एनं पृच्छ तावद्विज्ञातशास्त्रो नषेति। ३. अविज्ञातधर्मशास्त्रः किमिति लोकं विप्रतारयसि । - तृतीयोऽङ्कः । "काप्युक्तं धर्मशास्त्रं कचिदपि वचने देशभेदाद्यवस्था । बाधो ऽन्यस्मिन्विपक्षे कचिदपि गदितो धर्मकल्ये विकल्प. स्तेनैवं वाक्यभेदात्सुमुखि 1 न नियतो धर्मशास्त्रार्थ एकः ॥ २१ ॥ पण्डितसङ्गतिः-(साबूतम् ) दिगन्तसंसक्तनितान्तपण्डित- प्रगल्भवाणीविमलीकृतश्रुतेः ।। विरुद्धशास्त्रार्थविडम्बनामृता त्वया समुत्पादि ममापि संशयः ॥ २२ ॥ परीक्षा-सहि ! अण्णादधम्मसत्थमग्गस्स एदस्स अज्जाणमि- स्सस्स पलविदेण अप्पणो जाणतणं किंति संसअसिदं कलेसि । पण्डितसङ्गतिः-सखि ! धारय माम् । तिरयति तिमिरं दृशोर्विलासान् दहति हृदन्तकथा च बान्धवानाम् ॥ जनयति जडता प्रयत्नमान्द्यु कमपि विवेकमपाकरोति शोकः ॥२३॥ परीक्षा-समस्सस समस्ससे । पण्डितसङ्गतिः--किंकरोमि क्व गच्छामि । आचारे प्रथमाखिलव्यवहृतिप्रावीण्यशालिन्यलं प्रायश्चित्तगतं मृतस्य नितरामावेदयन्ती स्वयम् ॥ कालज्ञानवती विपाककुशला सत्कर्मणां सद्रता सा कान्ता श्रुतिवम॑गामिनयनप्रान्ता ऽधुना नेक्ष्यते ॥ २४ ॥ १'समुदपादि' इति युक्तम् । २. सखि ! अज्ञातधर्मशास्त्रमार्गस्यैतस्थाज्ञानमिश्रस्य प्रलपि तेनात्मनो ज्ञातृत्व किमिति संशयदूषितं करोपि । ३. बान्धधीनामति 'ख' पुस्तके पाठः । ४. समाश्वासहि, सामाश्वसिहि । ५. जनस्यति 'ख' पुस्तके पाठः। , ४६ धर्मविजयनाटके- . . स्माता--(गणकं प्रति ) सखे ! इदं कृत्याद्वयं कुतः समु. पार्जितम् । पण्डितसङ्गतिः-किमपराद्धमावाभ्यां येन परीक्षणमात्रप्रयो- जनेन प्रश्नेनोद्विग्नोसि । स्मातः-आः संसारव्यवहारानभिज्ञे ! भवति गुणगणाभिमानभाजा- मपि सहसा प्रतिभानिरासहेतुः ।। सदसि बिबुधसंश्रिते कृतं य न्न कथमशस्त्रवधः परीक्षणं तत् ॥ २५ ॥ गणका-(श्रुतिमभिनीय) अये ! दक्षिणस्यामार्तस्येव कथमक- स्मात्स्वरः ।। स्मातः-(विमृश्य) आः ज्ञातम् , एकोद्दिष्टभोजनाभावास्वस्थक- लेवरतया व्याकुलान्तःकरणः सविधे शायितायाः- पल्या नितम्बमभिमृश्य शिरोभमेण कि केशपाशविकला मृतभर्तृकेयम् ।। इत्थं विषण्णहृदयः शयने निषण्णो हा पुत्र ! मातरिति रोदिति वैदिकोऽयम् ॥ २६ ॥ परीक्षा-सहि ! एहि दाव तस्स रुदन्तस्स छांदसस्स घरम्मि वे- ओ हुविस्सदि । पण्डितसङ्गतिः-निखिलजनमहनीयचरितं न शक्नोम्यवलो. कयितुं तं दुरवस्थं महापुरुषम् । यतः, शिक्षाविहीनो न च कर्मकल्प. श्छन्दो ऽनुरुद्धं न च यन्निरुक्तम् ।। १. स्मार्तस्येवेति ख' पुस्तके पाठः ।। २. एहि तावत्तस्य रुदतश्छान्दसस्य गृहे वेदो भविष्यति । . सखि ! इति 'ख' पुस्तकेऽधिकम् । ३.

तृतीयोऽङ्कः। ४७ . भनाङ्गसन्धिर्विकलस्वरेण दृष्टोऽपि वेदः सदयं दुनोति ॥ २७ ॥ परीक्षा-सहिं ! अबहेहि मन्दमहुरो पाणिनीअसद्दो विध सुणीअदि । पण्डितसङ्गतिः-अष्टाध्यायीमात्रं भविष्यति न पुनः प्रमाद- परागते जगति महाभाष्यम् । परीक्षा:-कह विम। पण्डितसङ्गतिः- अभिनवरसभाराकान्तिभागादिकपु प्रकटितगुणवृद्धिय॑स्तसन्धिपचारा ॥ सखि ! कथमलसाना स्वादनीयप्रकारा विषधरवदनोत्था कापि पीयूषधारा ॥ २८ ॥ स्मातः--किमुद्दिश्य भवत्योरितस्ततः परिभ्रमणम् ।। पण्डितसङ्गतिः-अस्माकं यूथात्परिभ्रष्टाः काश्चन धर्मशीलाः सुन्दर्यस्तःसामन्वेषणाय । स्मातः--(गणक प्रति ) सखे ! यदि जानासि ब्रूहि तावदनयोः प्रश्नमिदानी विद्या कुत्रेति । गणक: (स्वगतम् ) वयं तावदुन्मूलनाय विद्यानामधर्मेण भू- पतिना निर्दिष्टास्तत्परिशोधनं कुत्र जानीमः, तथापि अन्यत्र श्रुतमुत्तरं व. दिप्यामि । (प्रकाशम् गणितमभिनीय ) न यत्र कुत्रापि किन्तु, दारिद्यूदुर्ललितदृषितभाग्यभोगा- प्याश्रित्य धैर्यमवलम्व्य मनस्विताश्च । १. सखि ! अवधेहि मन्दमधुरः पाणिनीयशब्द इव श्रूयते । २. क्वति 'स्व' पुस्तकेऽधिकम् । ३. कथमिव ।

४८ धर्मविजयनाटके-- अभ्यासतीब्रधिपणागुरुभक्तिभाजा स्वान्त प्रविश्य गिरिदुर्गमिवाऽधिशत ॥ २० ॥ परीक्षा--( सहर्षम् ) सहि ! दिदिआ बढ़ से पहि दाव तं गामं गच्छम्म जहिं ते महापुलिसा जाणं हिआए णिवासा विजाणम् । (हति निमान्ता पण्वितसतिः ) स्मातः--वयमपि पुंसवनसीमन्तकशालाण्यभ्यासेन दहीकुर्मः । ( इति संवैधो गणको निशान्तः ) इति श्रीमच्छक्लभृदेवाविरचित धर्मविजय- नाम्नि नाटके तृतीयोहः॥ ते १. सखि ! दिष्ट्या वर्धस, एहि तावत्त ग्रामं गच्छावः, यत्र महापुरुषा येषां हृदये निवासो विद्यानाम् ।

चतुर्थोऽङ्कः। . चतुर्थोऽङ्कः । (ततः प्रविशति प्राविशया) प्राइविवाकः--अये प्रभातैव रजनी, तथा हि- या मोदते समुदिते हिमधाम्नि पूर्व ज्योत्स्नाऽधुना विलयमति सहैव तेन ॥ प्राणेश्वरप्रणयहेतुरनन्यभाजा वामभ्रवां सहगतिर्जननान्तरेषु ॥१॥ अपि च, पूर्वश्रिया विरहितामलकेशहीनां दीनामिमां कुमुदिनी नतकैरवास्याम् ।। संपश्यतां न करुणा समुदेति केषां कोऽप्यत्र भाविनियतः समयो बलीयान् ॥ २॥ का पूर्णचन्द्रेण युता निहन्ति का तमांसि भानोरविलड्ड्यमत्र किम् ।। का दु.खदा कोककुटाम्बनी कयं राकाविभा ऽस्योत्तरमादितोऽन्यथा ॥३॥ आदिष्टोऽस्मि भूपतिना सुकृतेन, यसदस्यमाहूय व्यवहारोऽयं द्रष्टव्य इति, तत्कदासौ धर्मासनं सम्मावायष्यति । ( इति परिक्रामति, पुरोऽवलोक्य ) अयेऽस्माकं सदस्यः । (ततः प्रविशति सदस्यः) सदस्यः-कष्टः खलु धर्मः सभासदाम् । यत.- मा सभा प्रविशतु प्रतिष्ठितः संस्थितो वदतु वा समन्जसम् ।। पात्रता भजति यत्र विब्रुवा नब्रुवन्नपि नरः किलैनसाम् ॥ ४ ॥ अपि च, योऽनुयाति कुपथस्थितं नृपं रागलोभमयकृविचेतनः ॥ धर्म० १ ५० धर्मविजयनाटके . गण्डशैल इव मज्जति स्वयं मज्जयत्यपि स मेदिनीपतिम् ॥ ५॥ किञ्च, निसर्गाज्वलप्रकृतिरपि दुर्जनसंसर्गेण दूषित एव । यतः- पाथसां मकरवानिवांशयः सर्पयुङ मलयजो यथा द्रुमः ॥ सज्जनोऽपि खलसभ्यसङ्गमाद् भूपतिर्भवति भीतिदायकः ॥ ६ ॥ प्राशिवाक:--गुरुः खलु सन्देशो देवस्य यद् दुरात्मन्यनृते क्षणमपि न विश्वसितव्यमिति । यतः-- शृशिणां क्षितिभुजां नदीनद- स्रोतसा नखभृतां नतभ्रुवाम् ।। दंष्ट्रिणामनृतसक्तचेतसा शस्त्रिणाश्च चरित न विश्वसेत् ॥ ७ ॥ सदस्य:--विद्यया विमलयाऽप्यलकृतो . दुर्जनः सदसि माऽस्तु कश्चन ।। साक्षरा हि विपरीततां गताः केवलं जगति तेऽपि राक्षसाः ॥ ८ ॥ ( इत्युपसर्पति) प्रार्दिवाक-- अद्य खलु चारमुखादष्टादशस्वपि व्यवहारविष षयेष्वनृतेनोपजप्तमिति । तदाकर्ण्य त्वरिततरं मां समाहूयं गज्ञाऽऽज्ञ- तम् , यन्मध्यमामात्यो दण्डमुखनास्माभिः सहस्रघोपालब्धोऽप्यद्याऽप्य- नवहितस्तिष्ठति । इति तत्सविधे' भवताऽपि-- ऋणादाननिक्षपा- १. ऋणादानीनक्षेपास्वामिविक्रय समुत्थानदत्तानपकर्मवेतनादा नसंविध्यतिक्रमक्रयविक्रयानुशयस्वामिपालविवादसीमाविवाददण्ड. पारुष्यवाचिकपारुष्यस्तेयसाहलस्त्रीसंग्रहणस्त्रीपुंधर्मविभागद्यूताया नां तेषामवलोकने सावधानेन भवितव्यम, इति 'ख' पुस्तके पाठ' ।

चतुर्थोऽङ्कः । . . स्वामिविक्रयसम्भ्यसमुत्थानादवानपकर्माभ्युपेत्याशुश्रूपावेतनादानं संवि। व्यतिक्रममायविक्रयानुशयस्वामिपालविवादसीमाविवादधर्मदण्डवाचिकपा- सप्यस्तेयसाहसस्त्रीपुंसधर्मविमागगताहयानां तेपामवलोकने सावधानेन भारतव्यमिति । तत्र च । प्रायः समर्थः प्रतिमूर्वियादे भाषानुरोध्युत्तरमाशु लेख्यम् । होनः प्रदद्याद्धनिने धनानि नृास्य दण्डं पणकृत्पणच ॥९॥ सतश्य, तिमिलिखितवीरशासनः साक्षिभिर्विविधदिव्यकर्मभिः ॥ निर्णयोऽस्तु विनिवारितच्छलः पीड्यनामनृतसक्तो जनः ।। १० ।। तत्र च, ससुतोः शुचयः कुलप्रसूता धनवन्तः सदयाः स्वधर्मसंस्थाः ॥ ऋजवः समदर्शिनस्तटस्था- रुयवराः संसदि साक्षिता मजन्तु ॥ ११ ॥ एवच, पक्षपातधनकामनापर. त्रासद्भिरपि या विलोकिता ।। साऽन्यथा व्यवहृतिः प्रवर्तता वर्तताञ्च निखिलं यथा स्मृतिः ॥१२॥ भवांश्चात साहाय्य निर्दिष्टः । सभ्य:--धन्योऽस्म्यनुगृहीतोऽस्मि । आर्य ! ममापि चेतसि स. । - १. भुकिमिरिति 'ख' पुस्तके पाठः । २. संश्नुता इति 'ख' पुस्तके पाठः । ३. यथास्मृति, इति 'न' पुस्तके पाठः।

५२ धर्मविजयनाटके- वंदाऽयं मनोरथः, परन्तु, अनृतचरित्रादुद्विग्नोऽस्मि । यतः, उष्णः क्वचित्कचिदुपाश्रितशीतभावः साधारणः क्वचिदुपायशतैरसाध्यः ।। नानाप्रलापकुशलः परिशंकनीयः कर्णेजपो ऽतिबलवानिक सन्निपातः ।। १३ ।। प्राविवाकः--सत्यम्--- चन्दनाराणनिशेशमणिभ्यां जन्मवानपि जगद्दहनोऽमिः ॥ तापसस्य बटुरप्यबलानां पीडनाय पिशुनः पटुरेव ॥ १४ ॥ तथापि, स प्रविशन्सकुलं निग्राह्यः, परन्तु कः पुनः संक्षेपतो दुर्विनीतानां विनेता शास्त्रार्थः ? । सभ्यः-निवेशनविनाशनं द्रुतविवासनं देशत- स्तिरस्कृतिरनेकधा विविधवध्यघातैर्वधः ।। भगादिविकृतञ्च चिमलके खरारोहणं दमः प्रथममध्यमाऽधमभिदा त्रिधा साहसे ॥ १५ ॥ प्राइविवाकः-किमेतावत्कर्तुं प्रभवति व्यवहारः ? । सदस्य:--कः सन्देहो यदि भविष्यत्युद्यमपरः । प्राड्विवाक:--सत्यम् । उच्चैन कूटं कनकाचलस्य नीचैः कुतश्चिन्न तलं रसायाः ॥ दिशो न दूरे न नदी भुजङ्गो गम्भीरतायां व्यवसायभाजाम् ॥ १६ ॥ सदस्य:--( अवलोक्य ) देवसकाशादुपावृत्तेन दण्डेन किमप्यः भिधीयमानः, ? H .

चतुर्थोऽङ्कः । शृण्वन्संप्रतिपत्तिमादरपरः साक्ष्यञ्च मिथ्योत्तरे प्राड्न्याये जयपत्रदर्शनविधिज्ञः प्रत्यवस्कन्दने । भुक्तयाद्यैः परिभावयन्वदनशोषेण स्खलद्वाग्मरैः दुष्टानां कलयन् शुभासनगतो राज्ञः प्रधानो ऽपरः ॥ १७ ॥ तदेहि, कृताहिकावेनं द्रक्ष्यावः । (इति निष्क्रान्ती) ॥विष्कम्मका॥ (ततः प्रविशति व्यवहारो दण्डन) व्यवहार:-वत्स ! कष्टा खलु राजसेवा ऽनुजीविनाम् , यदेवम- मन्नपानवसनव्यसनमपहाय नित्यमुद्युक्त एव । प्रगल्भोऽस्मि स्वीयव्यहातिविधाने प्रतिपदं करोमि व्यापारं नृपतिभयपाशेन यमितः ॥ निहन्मि कुराणामनयमिति जानात्यपि भवा- नुपालम्भः को वा तदपि भयि राज्ञा विरचितः ॥ १८ ॥ दण्ड:-आर्य ! कः सन्देहः, वेश्या धनेन भुजगः पयसा पलेन व्याघ्रो नृपः प्रतिदिनं परिचर्यया च ।। सन्तोषितोऽपि विदुषा परिशकनीयः प्रायः प्रतिक्षणविलक्षणबुद्धयोऽमी ॥ १९॥ व्यवहारः--वत्स ! जानासि किंमूलः सर्वत्मनापि खेदो देवस्य ।। दण्ड:--अदण्ड्यदण्डेन दण्ड्यपरिवर्जनेन च । सर्वोऽयमपराधो. ऽनृतस्य, तदस्य निग्रहाय सत्य नियोजयाम । हिंसादिकमुन्मूलयितुमः हिंसादयोऽपदिानीमेव प्रेषणीयाः, इत्येषाऽऽज्ञा राज्ञः । व्यवहारः--वत्स ! सम्यगनुबोषितोऽस्मि । कः कोत्र भोः । (प्रविश्य दोवारिक) ५४ धर्मविजयनाटके- दौवारिक:--आणवेदु अमञ्चो । व्यवहार:-- धर्मसाधनानि सत्वरमाकारय । दौवारिकः-जहा आणवेदि सामी। ( इति निष्क्रम्य, सहाऽहिंसादिभिः प्रविशति ) अहिंसा आकीटमादन्तिनमाविराज समं शरीरेषु चतुर्विधेपु॥ आत्मेति जानन् तृणगुल्मवल्ली. छेदेऽपि कुर्याद्विबुधो मनः कः ॥ २० ॥ सत्यम् - शैत्यं प्रयातु रविरुष्णकरत्वमिन्दुः स्थैर्य जहातु हिमवानचला चलाऽस्तु ।। धैर्य विमुञ्चतु महोदधिरप्यकस्मात् कस्मात्सतोऽस्तु पणितं भाणतञ्च मिथ्या ॥ २१ ॥ अस्तेयम्-दानं ददत्यनुदिनं शतशो वदान्या वृक्षाः फलन्त्यनुदिनं बहुशः फलानि । भर्तुश्च दुर्भरमथो विविधेऽप्युपाये धिक चौर्यकर्मनिरतं विरतं स्वधर्मात् ॥ २२ ॥ शौचम्-मृत्सासु तोयेषु परिग्रहेषु न दुर्लभेष्वप्यकृतात्मशौचाः ॥ कथन्तु जीवन्त्यथ वाऽन्यथाऽयं प्रारब्धभोगो नरकाद्रीयान् ।। २३ ।। इन्द्रियनिग्रहः --कौलेयकानामथ रासभाना. मनिग्रहस्तुल्य इहन्द्रियाणाम् ॥ १. आज्ञापयत्वमात्यः । २. यथाऽऽज्ञापयति स्वामी !

चतुर्थोऽङ्कः। ५५ धन्यः परं कोऽप्ययमूर्ध्वरेता भेत्तुं रखेर्मण्डलमुत्कचेताः ॥ २४ ॥ दानम् -- बलिस्त्रिलोकी दिनभर्तृपुत्रो. प्युत्कृत्य चर्मास्थिगणं दधीचिः ॥ विजित्य रामः पृथिवीमयच्छ. कि याचमानाय न देयमस्ति ॥ २५ ॥ दमः-आसायमाप्रातरतृप्तिभाजो भक्ष्येण गावः सुलभा भवन्ति । चान्द्रायणादिवतवीतपापाः सन्तः पृथिव्यां न कथ दुरापाः ॥ २६ ॥ . दया-ते पाडयन्तु कथमन्यदिहात्मदोषै- र्यः पीडितस्तमनु वीक्ष्य निरन्तरं ये ॥ पीडां भजन्ति हृदि निर्मल्बुद्धिसारा- स्ताराधिपोज्वलदयोस्थयशःप्रसाराः ॥ २७ ॥ क्षान्तिः-चाटूनि यस्य गदितानि स वातुलोऽपि रोऽपि वा क्षणमसौ भवतु क्षमावान् ।। धन्यास्त एव शतशोऽपि विनिन्दितानां येषां न भेदमुपयाति मुखस्य रागः ॥ २८॥ ( इति सबै परिकामन्ति) दौवारिक:-एसो अमच्चो तुह्माण पडिवाल चिट्ठदि, ता उक्सप्पंतु महानुहावा। (सबै उपसत्य प्रणमन्ति) व्यवहारः- ( यथोचितमभिनन्य सर्वान्प्रति ) काश्यामव्याहतं शा १. भवन्तु, इति 'ख' पुस्तके पाठ । २. एप आमात्यो युष्मान्प्रतिपालयस्तिष्ठति, तदुपसर्पन्तु महा नुभावाः ५६ धर्मविजयनाटके- सनं विधाय प्रयागे निवेशितस्कन्धावारो दुर्बुद्धिरधर्मः संग्रामायोद्योग- मातनोति । नासीराच्च तस्य विनिर्गतैहिंसादिभिर्व्याकुलीक्रियन्ते महाजनसमाजा इति प्रेक्षकजनादाकर्ण्य क्रोधपरवशेन स्वामिना · समा. ज्ञप्ता भवन्तः संगराय' । तदिदानीमेव प्रचलन्तु, प्रवर्तयन्तु तत्र प्रियसा. हसव्यवहारम् । सर्व-यदाज्ञापयत्यमात्यः । ( इति निष्क्रान्ताः सवे) व्यवहारः-महापातकान्वेषणाय प्रेपितः किन्नु चिरयति को. डपालः। दण्ड:---पञ्चात्मनोऽपि तस्य निवासः प्रच्छन्न इत्येतावतव विलम्बः । (ततः प्रविशति पश्चाहन्दपुरुषमादय क्रोडपालः पदातिनी च) एक:--अले गुलुजणमिहिलापलंगक्खलिअ सुलापाणघुम्मिअ लोअणजुअल कहेहि किंत्ति तुए णिरवराहा वराओ वह्मणो जीवग्गाई मरिदो। ( महापातकस्तूष्णीमास्ते ) द्वितीयः-- निक्किवहिअअ वह्महेमहारअ पाटच्वल किंत्ति तू ह्रीं भूदोसि । क्रोडपाल:-~-पावपुलिस सचं भण कोसि तुमं किंत्ति वा एदा रिसं कम्म कैरेसि । महापातकः ( सगर्वम् ) योऽस्मि सोऽस्मि न विभेमि ' भवा १. अरे गुरुजनमहिलापर्यस्खलित ! सुरापानघूर्णितलोचन यु गल !किमिति त्वया निरपराधो वराको ब्राह्मणो जीवग्राहं मारितः। २. निर्दय ! ब्रह्महमहारक ! पाटच्चर! किमिति तूष्णीभूतोऽसि । ३. पापपुरुष ! सत्यं भण कोऽसि त्वम् , किमिति वा एतादृशं कर्म करोषि।

चतुर्थोऽङ्कः । दशेभ्यो वरोकभ्यः । यत:--- गच्छाम्यगम्यां मदिरा पियामि हरामि वैप्रं कनकं तदर्थम् ॥ द्विजान्धनार्थ शतशो निहन्मि स्थितोऽस्मि सनऽपि च मद्विधानाम् ॥ २९॥ क्रोष्ठपालः--( सप्रत्यभिज्ञमिय ) एसे पञ्चमहापावपुलिसे रण्णो अधम्मस्य अमच्चे, अमसआसा धम्मसासणं ण आरोएदि तेण गच्छ. म्म अमच्चरस क्वहारस्स सकासम् । ( इति सर्व परिक्रामन्ति) कोटपाला--जयतु जयतु अमात्यः । अमात्य ! स्वामिन् ! एष पञ्चमहापापः । व्यवहार:-( अवलोक्य सक्रोधम् ) आ: कापुरुष ! शतशोऽपि शासितः किमिति पापान विरमसि । पञ्चमहापाप:--सुरापानादविरामे तु सोमपानमेवेति गुरवो वदन्ति । व्यवहार:-कथमिव । पञ्चमहापाप:--पश्य, स्वर्गाय जुष्टचमसे मिलिनिपीतः सोमः कटुर्यदि भवेस्किल याज्ञिकानाम् ।। किं पीयते न मधुरा विधुरैर्धिया त. सार्धं सुखाय मदिरा मदिरेक्षणाभिः ॥ ३० ॥ दण्ड:-~-(सभर्त्सनम् ) आः कुटिलपकृते ! हिरण्यहरणे किमिति प्रवृत्तोऽसि ! : १. एप पञ्चमहापापपुरुषः राशोऽधर्मस्यामात्यः । अस्मत्सकाशा- धर्मशासनं नारोचते, तेन गच्छामोऽमात्यव्यवहारस्य सकाशम् । धर्म०८ धर्मविजयनाटके- पञ्चमहापापः सद्गुरूपदेशेन । तथा हि- हेयं स्तेयं कुशलमतिभिनोंऽविधेयं विधेयं मूर्नश्छेदे परिणतिमुपैतीति यन्नीतिशास्त्रम् । तत्र ब्रूमो धनिकवदनालोकनं मानभाजां कीहक् कीदृक् तदनु भवति प्रार्थनायाश्च भङ्गः ॥ ३० ॥ व्यवहारः--साहसमेतावताऽनुमायते । अगम्यागमनेऽपि कश्चि- दाचार्योपदेशो भविष्यति । पञ्चमहापाप:--अत्र कः सन्देहः । यतः- रूपेण रम्यवयसा बहुना धनेन भोग्या भवन्ति तरुणाः परकामिनीनाम् ॥ यस्यास्ति नैकमपि तस्य निजाऽप्यगम्या गम्यास्तु दुर्लभतराः कथमन्यकान्ताः ॥ ३१ ॥ दण्ड:-( सखेदम् ) आः पाप ! ब्रह्मवध्यायां केनोपदिष्टोसि ? | पञ्चमहापाप:--स्वेनाऽन्तरा कुलपरंपरया । यतः, द्रोणोऽर्जुनेन समघाति पुलस्त्यपुत्रो रामेण शास्त्रमथ किं पठितन्न ताभ्याम् ॥ सोऽहं शपामि शतशो यदि विप्रवध्या दोषावहा किल भवेत्पुरुषार्थभाजाम् ॥ ३२ ॥ व्यवहारः-(क्रोष्ठपालं प्रति ) दुष्टदमन ! न दुष्टोऽयमकृत्याद्विरम तें। नाप्यनुशेते न प्रायश्चित्तानां कर्मकती तो वध्यघातैर्हन्यताम् । क्रोष्ठपाल:-केण उण उवाएण णं विससम्मै । ... . व्यवहारः-प्रथमतश्छिन्नशिश्नमेनं तप्तसुरां पाययित्वा स्वर्ण मुसलेन शिरसि कृतक्षतमश्वस्थकाष्ठे प्रज्वालयन्तु । : १. स्वेनान्तरात्मनेति 'ख' पुस्तके पाठः । २.केन पुनरुपायेनैनं विशसेम।

चतुर्थोऽङ्कः । क्रोष्ठपाला-जं आणवेदि अमच्चो ( इति सपापपदातिनिष्क्रान्तः) (नेपथ्ये) कक्षाभिः समरगजा रथास्तुरङ्गः पर्याणजनहया भजन्तु योगम् ॥ आमेयं प्रचलतु यन्त्रजातमुष्ट्रः प्रस्थान नृपपटवेश्मनः प्रवृत्तम् ॥ ३३ ॥ (उभौ सोत्कण्ठमाकर्णयतः ) ( पुनर्नेपथ्ये ) सम्प्रति हि दध्यक्षतर्वा. सिद्धार्थहस्ताभिः कन्याभिः कृतमझालोपचारः, युक्तः श्रुतिस्मृतिपुराणविविक्तमार्गः सत्कर्मभिः कुलपरंपरयागतैश्च ॥ सन्देशतः समरतूर्यनिनादमूर्छ. कोधोऽधिरोहति रथं प्रधनाय धर्मः ॥ ३४ ॥ व्यवहार -वत्स ! विजयाय प्रस्थितो देवः । प्रचलन्ति च स. मन्ततो दशदिक्पथेन महारथाः । तदावामपि तीर्थराजमुपेत्य शस्त्रधा- रातीथनात्मानं कृतकृत्यतामापादयावः । ( इति निष्क्रान्तौ) इति श्रीमच्छुक्ल भूदेवरचिते धर्मविजय- नाम्नि नाटके चतुर्थोऽङ्कः ।। १. यदाज्ञापयत्यमात्यः ।

६० धर्मविजयनाटके- पञ्चमोऽङ्कः । (ततः प्रविशति प्रायश्चित्तम् ) प्रायश्चित्तम्--पाराकसान्तपनकृच्छुकषष्ठकाल- चान्द्रायणैः सह महीवलयं क्रमेण || कुर्वन्प्रदक्षिणमुपेत्य पुनः प्रयागं कीऽस्मि नाशमचिरादिव पातकानाम् ॥ १ ॥ कुरुक्षेत्रपरावृत्तः श्रुतवानस्मि लोकतः ॥ . देवस्य न चिराद् वृत्तं सम्परायमरातिभिः ।। २ ।। तत्र कस्य जयः कस्य पराजयो वा कस्य च वीरशय्याशयनम् । अपि च- नाशौचमस्ति समरे विरतस्य बन्यो- देशान्तरे च विहितं किल वर्णभेदात् ।। साधारणञ्च तनयानपराय शुद्ध्यै स्नान सचैलमपि तत्र विधेयमेव ॥ ३ ॥ समयश्चायं धार्मिकाणां जाह्वीस्नानोपगमस्य । सम्प्रति हि, आच्छाद्यमानढतूलपटान्तराल- संचारिशीतकृतवेपथुगात्रयष्टिः ॥ अन्तश्छदेन हिममासि निगूढपाची वक्षः स्वयं विशति भर्तुरहो नवोढा ॥ ४ ॥ अपि च, कान्ताकुचोष्महृतशीतभरोऽप्युरस्तः संकोचयंश्चरणयोर्युगलं दरिद्रः ।। संकीर्णतूलपटिका वनितानितम्बा- दाकर्षयन् स्वपिति माघनिशीथिनीषु ॥ ५ ॥ तेन कान्यकुब्जमुपेत्य गङ्गास्नानेन सह सङ्गम्याऽखिलवृत्तान्तमाक- १. वर्णदारात् , इति 'ख' पुस्तके पाठः।

पञ्चमोऽङ्कः। ६१ लयिष्यामि । ( इति परिकामति )( पुरोऽवलोक्य ) अये प्रियमित्रमस्माकं गङ्गास्नानमित एवाभिवर्तते । (ततः प्रविशति गङ्गास्नानम् ) गङ्गास्नानम् ~ अहो महिमातिशयो भगवत्या भागीरथ्याः, यतः-- तृष्णापयोनिधिविलंघनचञ्चुधैर्याः संसारसागरकृतोत्कटसेतुबन्धाः ॥ आचान्तवाङ्मयपयोनिधयोऽपि नित्यं मज्जन्त्यगाधसलिले यतयोऽपि यस्याः ।। ६ ।। (विमृश्य च ) हनुमदेकसाध्ये रावणादिवघे रामस्येव भृत्यमात्र विधेयेऽपि कर्मणि दृश्यते कचित्प्रभूणामपि प्रवृतियतो मयि सत्यपि अधर्मवधाय देवस्योद्योगः । अन्यथापि- हिमशिखरिनितम्बानोकहद्रोहकत्री पतितजनपवित्री भावसम्पादयित्री ॥ भवति यदि पृथिव्यां भीष्ममूभृत्सवित्री कथमिव न भवित्री निष्कृतिर्दुष्कृतानाम् ।। ७ ।। अपि च, विष्णुभक्तिपदप्राप्तिकामाना वीतरागाणामप्युपायः स्या देवी त्रिपथगैव । यतः- व्यथितकलिमनर्थानर्थबीजं विहायो- स्थितमजभवनान्तात्पाथसा पूरमन्यः ॥ पथि चरमपुमर्थप्रार्थनोत्कण्ठितानां भवतु क इव सार्थः पार्थबन्धोः पुरस्य ॥ ८ ॥ प्रेपितञ्चास्मि राज्ञा प्रायश्चित्तमाकारयितुं तत्कुत्र तस्य समागमो भविता प्रतिपालयामि तावदत्रैव । ( इति तिष्ठति) ६२ धर्मविजयनाटके ! प्रायश्चितम् - ( उपसृत्य ) सखे ! कुतः सत्वमिवागच्छसि । गंगास्नानम्--देवस्कंधावाराद् । ( इति प्रणमति) प्रायश्चितम्--(आलिङ्गय, अनामयप्रश्नपूर्वक) तत्कथ्यता तावद्विस्त रेण तत्रत्यो वृत्तान्तः । गंगास्नानम्--आर्य ! भवत्प्रस्थानसमयेष्वेव सन्धिविग्रहकुशलः कश्चिदुपेत्याऽधर्मदृतो राजानभवादीत् । यथा- वर्णान्विहाय चतुरश्चतुराश्रमाणां कर्माणि स्वत्वरमपास्य वनं प्रयाहि ॥ नो चेत्कृपाविमुखमाद्विशिखैविभिन्न संग्रामसीम्नि शयितासि वृतः शिवाभिः ॥ ९ ॥ 'प्रायश्चितम्--ततस्ततः । ' गंगास्नानम् -ततश्चैतदुपाकर्ण्य दृश्यतां दुष्टस्य दुर्वचोविलसि- तम् , अद्यैवास्मसंमुख पृथिव्यां वासनं भवितेति कृतसङ्कल्पश्च चतुरङ्गसेना- मुपादाय देवोऽपि सत्वरं तीर्थराजमुपेयिवान् । प्रायश्चित्तम्-ततस्ततः । गंगास्नानम्-ततश्चापरेऽहनि दुर्वहदिनमणिगभरालसायां ना- कनायकककुभि परिणतायां कुरुपाण्डिमानमुपगतायामासन्नप्रसवपूर्वप्र- मृतरजोधारयेव सन्ध्यया कलुषीकृताम्बरायां प्रचण्डतरमारुतान्दोलितो. दयाद्रिदुमकुसुमकिञ्जरकरेणुपटलानुकारिणि प्रतिपक्षदानवकरनिर्मुक्तश- स्वसहस्रसमुच्छलच्छोणितच्छटानुसारिणि प्रतिसरति समन्ततस्तराणकि- रणजाले, परेषामस्माकञ्च व्यूढ सैन्यद्वयात्प्रथमतो निर्गत्य, विवृतमसिसमुहं धूमधूनं वहन्त: कनककटककान्तिज्वालया लेलिहानाः ॥ प्रलयकुपितवाहिवातकल्पाः समन्ताद् भुवनमिव दहन्तः पत्तय. सन्निपेतुः ॥ १० ॥ , पञ्चमोऽङ्कः। प्रायश्चित्तम् -- ततस्ततः । गङ्गास्नानम्-ततोऽश्ववाराः स्वगतीरुदाराः प्रदर्शयन्तः परिवृत्य कुन्तान् ॥ उत्थाप्य वल्गाश्चलपाणिघात- प्रणुन्नवाहास्तरसाऽभिपेतुः ॥११॥ प्रायश्चित्तम्--ततस्ततः । गङ्गास्नानम्-ततश्चे, अविदितमदधारादुर्दिनोड्डामरेभ्यो घेनकटविकटेभ्यः प्रौढदन्तावलेभ्यः ।। अहितकरविमुक्तंभ्रपत्रः प्रणुन्ना- स्तडित इव निपेतुः स्वर्णमय्यः पताकाः ॥ १२ ॥ अपि च, घनतरगिरिकूटस्पर्धिगन्धद्विपानां परदकृपकृपाणच्छिन्नकुम्भस्थलेभ्यः ।। समररुपिरधाराः प्रसवन्त्योऽनुसस्नु जलभरमवतीण गैरिकापित्यकाभ्यः ॥ १३ ॥ भायश्चित्तम्- ततस्ततः । गङ्गास्नायम्-ततश्चास्मदीयविशेषविक्रान्तरितस्ततो व्यापाद्यमाने विपक्षे द्वन्द्वयुद्धे हिंसा ऽहिंसया ऽनृतं सत्येन स्तेयमस्तेयेनाशौचं शौचनाs. नीन्द्रियनिग्रह इन्द्रियनिग्रहेण कार्पण्यं दानेन निर्दयता दयया कोषः क्षमया च व्यापादितः । प्रायश्चित्तम् -- ( सहर्पम् ) ततस्ततः । गङ्गास्नानम्--ततश्च । भेरीबृहत्कमठपृष्ठलुठत्तरङ्गाः कृत्तम्फुरत्करटिहस्तभुजगभीमाः ॥ १. अविरतेति 'ख' पुस्तके पाठः । २. धनताधिकटेम्या, " ६४ धर्मविजयनाटके-- .. मत्स्यध्वजप्रचलमीनगणाः प्रसस्त्रः कीलालतोयतरलाः परितस्तटिन्यः ॥ १४ ॥ प्रायश्चित्तम्--(सहर्पम् ) ततस्ततः । गङ्गास्नानम्-ततश्च क्रमेण प्रवर्तमाने महावैशसे, समररभस- कृत्तगाढहठप्रतिपक्षभटारभटीविकटामितहाटककङ्कटकसङ्करधोरकटारवि- पाटितवैरिकपाटविशालभुजान्तरनिर्गतरक्तरटत्तटिनीतटनादितमूतकठोर- कडाररटनातिभयानकमत्तगजेन्द्रघटाकटदाननवासवासवपानपटुप्राणना- दिमिलिन्दविकटपृथु दतरम्यसटापरिमण्डितघोटकघोषसमाकलनत्रुटि- ताहितपाटननटीकटीक्षविमोहितसाहसिकानकगोमुखकम्बुमिलत्पटहप्राणि- नादविभीषणशत्रुभुजाघटनाबहुलम्पटखगनटोद्भटनाटकबन्धुसमुद्धतयुद्धमु खद्रुतभनमधर्ममुपेयिवान्सहसा नृपतिः । प्रायश्चित्तम्-ततस्ततः । गङ्गास्नानम् -~-ततश्च तरसाध्मातशंखः स्वयमवहारं विहाय चिरविप्रयुक्तो महाविद्यादर्शनाभिलाषी वाराणसी पुनर्गन्तुकामस्त्वां प्र. तिपालयन्निदानी दशाश्वमेधिकं तीर्थमध्यास्ते | ... प्रायश्चित्तम्--तदेहि तावदावामपि देवं दिष्ट्या वर्षयावः । ( इति निष्क्रान्तौ) गङ्गास्नानम्-अयं नातिदूरे तीर्थराजः । प्रायश्चितम्-सत्यमेव । वेणीकच्छविलप्रमीतपतितं नेतुं वनं नन्दनं यान्तीनां नवकौतुकोत्सवजुषां गीर्वाणवामभ्रुवाम् ।। पारावारनितम्विनीसलिलयोरुत्सन्नकोलाहलैः सम्भिन्नः श्रवणौ पुनाति यदयं लीलामृदङ्गध्वनिः ॥१५॥ १. उत्तालकोलाहलैः, पञ्चमोऽङ्कः ६५ .. . गङ्गासानम्--आर्य 1 समुपागत एवं प्रयागः । यत्र- सोऽयं वटः प्रलयबन्धुरनादिपुंसः प्रस्वापसंस्तरसमाश्रयबालपत्रः ।। अद्यापि पद्मनयनप्रभयेव बाई श्यामः परान्नयनयमिदमातनोति ॥ १६ ॥ प्रायश्चित्तम्--सखे ! पश्य पुरस्तातीर्थराजोऽयं तथैतद्दशाश्वमेधि- कमयञ्च कवितयोपश्लोकितो राजा शुभासनगतस्तदेहि सितासितयोः सलमे जपादिकादिकं विधाय पराहे एनं दिक्षावः । ( इति निष्क्रान्ती) ॥ शुद्धविष्कम्मः॥ ! (ततः प्रविशति राजा कविता विभवतश्च परिवारः) कविता-महाराज! जानुदानसलिलाः पुरस्कृत प्रेयसीनयनवारिपूरणात् ॥ दुस्तराः किल भवन्ति सिन्धव- स्त्वद्भयद्रुतविरोधिमभुजाम् ॥ १७ ॥ सर्वदैव च स्वयमेव, वाणभिन्ननिजभालसंस्थिता वीक्ष्य खद्गमुकुरे विघलिपिम् ।। राज्यभोगविनिवृत्तमानसाः शत्रवो विमुखतां भजन्ति ते ॥ १८ ॥ राजा--देवि ! वयं तावद्वर्तमानं जनताचारित्रमानं श्रोतुकामा:, तदस्मद्विषयेऽर्थवादमपहाय यथानुभवं वर्णय । कविता-देव ! सर्वमेवैतत्ते भूतार्थवर्णनं न तु स्तोत्रम् । स. म्प्रति हि- धर्म०५ - ६६ धर्मविजयनाटके- जरा द्विजनी मधुपो मिलिन्दः सुर्वर्णहारी वनिताङ्गवर्णः ।। पटः पृथिव्यां गुरुतल्पगामी त्वयि प्रभो ! शासति दुर्विनीतान् ॥ १९ ॥ अपि च, वक्षोभुवो ऽतिकठिनाः कुटिलाः कटाक्षाः कर्णेजपा नयनपङ्कजखञ्जरीटाः ।। केशा नितान्तमलिना गतयोऽथ मन्दाः . वामझुवामघरसङ्गतयश्च हासाः ॥ २० ॥ ( राजा गुरुतरलज्जाभरनमितशेखरस्तूप्णीमास्ते ) ( नेपथ्ये ) इदो इदो। ( सर्वे समाकर्णयन्ति ) कविता-राजन् ! हिंसा यज्ञे संस्कृतानां पशूनां स्पर्धा विद्याकामुकानां बटूनाम् ।। क्रोधः क्रीडहालकानां गुरूणां शिष्याणाचाध्यात्ममार्गे विवादः ॥ २१ ॥ राजा-प्रियवादिनि ! त्वदीयप्रतिभाप्रागल्भ्याकृष्टचेतसः सुज- नस्वास्थविषये कांश्चित्प्रश्नानेकसन्दर्भण पृच्छामः । यथा- पूतौ वाचिकमव्ययं किमथ कि तैलाय निष्पीडये- त्पातालस्य च नाम किं किमु जलं मुष्णाति नान्दीमुखम् ॥ कीहक्कीदृशमौक्तिकं बहुधनं वजं च कीदृक्शुभं. कोहङ् मृण्मयमालयं च कृपणस्याथाम्बरं कीदृशम् ॥ २२ ॥ अपिच, कः शब्दोऽधिकवाचकः किमु भवेत्सम्बोधनं निर्द्धने किं वा पार्थिवबीजमाशु गरुडस्योत्सर्पणं कीदृशम् ।। कहिक् संयमिनां च लुब्धचरितं कीदृग् दरिद्राङ्गणं कीहक्कीगधो भुवश्च भवनं चेतः सतां कीदृशम् ॥ २३ ।।.

पञ्चमोऽङ्कः। कचिता-~अति विमलम् । (पुनर्नेपथ्ये) इदो उक्सप्पन्दु देवीओ। एसो विपक्खहत्थपजस्थतिक्खसत्थ- सहस्ससक्खोहिदगत्तबन्धोवि णिअपौलुसमहप्पेण अणुज्झिमसमत्थण- किलिसितकलेवरो वि सहाधिअकान्तिपञ्चारसोहग्गमहुरेण मुहपुण्डरीएण समुन्मासिओ बज्जो विज समुम्भासिअसभाप्पदेसो मुणिमणसलाह- गिजचरिदो जहईतरसीअलेहिं वादेहिं णिवत्तिदसमरपलिस्समो कविदाए उपासिजतो महाराओ इदो सिंघविठ्ठरं अलंकरेदि । राजा-महाविद्यानामवसरदर्शनार्थ प्रेषितस्य प्राकृतस्येव भा. पितं श्रूयते । (पुनर्नेपथ्ये) सख्यः। सुतरामेवं घटते यद्विजयिनं राजानमुपेत्य स्वयमेव दिष्टया वर्धयामः । अपिच, अयम् , येत्सर्वथा विनयविनमभारमौलि- रस्मसकाशमुपयात्युचितं तदस्य ।। युक्तं पुनः समरविक्षतगात्रयाष्टि. वत्सोऽधुना स्वयमुपेत्य विलोकनीयः ॥ २४ ॥ कविता-देव ! प्राकृतेन सह विद्या अपि समुपागता इति लक्षये । यदयं व्यवहारविदामप्रेसराया अलङ्कारविद्याया इवाकर्ण्यते श्लोकः। १. इत उपसपंन्तु देव्यः । एप विपक्षहस्तपर्यस्ततीक्ष्णशस्त्र. सहसंशोभितगात्रबंधोऽपि निजपौरुपमाहात्म्येनानुज्झितसमर्थः स्वक्लिटकलेवरोऽपि स्वाभाविककान्तिप्रचारसौभाग्यमधुरेण, मुखपु. ण्डरीकेण समुद्भासितो बज्रीय समुद्भासितसभाप्रदेशो मुनिजन- लाध्यचरितो जाह्नवीतरङ्गशीतलैतिनिवर्तितसमरपरिश्रम का वितयोपास्यमानो महाराज इत: सिंहविष्टरमलङ्करोति । यत्सर्वथा विनयभारचिन मौलिरिति 'ख' पुस्तके पाठः ।

६८ धर्मविजयनाटके- - राजा-किन्न पश्यसि पुरः समुपागता एवं पूर्वपक्षोत्तरपक्षवहु- लतर तन्त्रं दर्शयन्त्यः सर्वाः । (ततः प्रविशति समं विद्याभिः प्राकृतम् ) प्राकृतम्--णं कह ण सलाहिजई तिहुअणतिलओ एसो राएसि । पाआलमज्झम्मि बलिप्पिआणं णलप्पिआणं पहुवीतलम्मि ॥ सग्गम्मि वग्गो सुलसुन्दलीणं गाअंदि गोरांइ जसांइ जस्स ।। २५ ।। अलङ्कारः-- अयमीदृश एव महानुभावो येन संग्रामाङ्गणभवने परमप्रतापहुतवहसाक्षिकं पाणिगृहीतमात्रैव, दृषकठोरापि शिरीषकोमलां श्यामाऽपि गौरी तरलाऽपि सुस्थिराम् ।। नृशंसरूपाऽपि सदा मनोहरां सकीर्तिकन्यां सुषुवे कृपाणिका ॥ २६ ॥ कालः प्रलम्बस्तरलोऽतिवक्रगः क्रूरान्तरः कोशबिले प्रियस्थितिः ॥ विरोधकृपाणसमीरणाशनः खड्गो यदीयः कुटिलो भुजङ्गमः ॥ २७ ॥ ( इति परिकामति) राजा-गृह्यसूत्र! आदिश्यतां तावत्पारस्कराचार्यः समधुपर्कमय- मादायोपतिष्ठत्विति । सूत्रम्-यदाज्ञापयति देवः ( इति निष्क्रान्तः ।) १. ननु कथन्न श्लाध्यते त्रिभुवनतिलक एष गजर्षि । पातालमध्ये तु बलिप्रियाणां नरप्रियाणां पृथिवीतले व । स्वर्गे च-वर्गः सुरसुन्दरीणां गायन्ति गौराणि यशांसि यस्य । --- पञ्चमोऽङ्कः। ६९ -- ( उपसृत्य प्राकृतम् ) महाराज! एसा विसेसदसिणणं पढमा विज्जा तुम सहाजेदि। राजा-(ससम्भ्रममासनादुत्थायाञ्जलिं बद्ध्वा ) द्रव्यैर्गुणैविविधकर्ममिरर्चनीया- सामान्यकान्तिसरणिः किरणावलीभिः । लोके विशेषविदिता ऽयुतसिद्धरूपा भावप्रलोमितपतिर्जननि ! त्वमेव ।। २८ ।। (इति प्रणमति) विद्या-सिसृक्षया समुत्पन्नं लीयते संजिहीर्षया । यस्य पाता त्रिजगतः स देवः सुखदोऽस्तु ते ॥२९॥ प्राकृतम्--देव ! एसा अक्खबादसलाहणिज्जा विज्जा, णं पण. मदु महाराओ। राजा--पातिव्रत्ये ! प्रणामं चरणसरसिजं भर्तुरेव प्रमेय जल्पः स्वल्पः सुजातैरवयवकलना नो परेषां कदाचित् । नो दृष्टः कापि वादश्छलगतिरहितं किश्च यस्याश्चरित्र दृष्टान्तो न्यायमाजामिति जननि भवत्याहता गौतमेन ॥३०॥ ,( इति शिरसि अञ्जलिं घटयति ) विद्या-प्रारब्धयोगपरमाणुगुणक्रियाभि- ज्ञानेषणाकृतिविडम्बितकार्यकर्ता । क्षित्यकुराधनुमितः समुपास्यते यः श्रेयः स ते दिशतु विश्वगुरुमहेशः ॥ ३१ ॥ देव ! इयमस्मदुपास्या त्वत्सभाजनाय, सालकृतिर्गुणवती च विलीनदोषा चेतोऽञ्जनेन विदुषामपि रञ्जयन्ती । १. महाराज! एषाविशेषदर्शिनीनां प्रथमा विद्या त्वां सभाजयते । २. देव ! एपाक्षपादश्लाघनाया यिधा, एनां प्रणमतु महाराजा।

७० धर्मविजयनाटके- श्रृक्षारहास्यकरुणादिरसैः समेता सा भारती सरततापसमान्यमूर्तिः ।। ३२ ।। ( राजा दण्डवत्प्रणमति) विद्या-महाकाव्यसमुत्पन्नमनोवृत्या विनाशिते । अज्ञानांशे समुत्पन्नोऽव्यादात्मा त्वां रसात्मकः ॥ ३३ ॥ प्राकृतम्-महाराअ ! एसा देवहूदीहिअअप्पसूदस्स तावसस्स माणणीआ कावि विज्जो । कविता--हस्तारविन्दचरणाधररक्तवर्णा रोमावलीचिकुरपाशकटाक्षकृष्णाम् । दन्तद्युतिस्मितसमाश्रितशुक्लशोभा विद्यां नमस्व नृपते ! प्रकृतिप्रगल्भाम् ॥ ३४ ।। राजा-(सहर्षम् ) यामेनाम्-अजामेकां लोहितशुक्लकृष्णां ज. नयित्री जनानामिति स्तुवन्ति कापिलाः । ( इति प्रणमति ) विद्या--संस्कारकृत्यविमुखः किल चेतनोऽपि निर्लेप एव समुपाश्रितभोगबुद्धिः । नो वा महान्न गुणवानपि यस्तथापि विश्वकवन्धचरणः शरणं स ते ऽस्तु ॥ ३५ ॥ कविता--त्वामियं दिष्टया वर्षयति, मैच्यादिशुद्धहृदया श्रितसत्समाधि- नासाग्रष्टिनयना विमलासनस्था ॥ केशासहेश्वरपरा विधृताक्षमाला हृद्या ऽनवद्यचरिता नृप योगविद्या ॥ ३६ ॥ १. स्फुरनते इति 'ख' पुस्तके पाठः । २. महाराज ! 'एषा देवाहूतीहृदयप्रसूतस्य तापेसस्य माननीया कापि विद्या । ३. एषा महश्वेरा, इति 'ख' पुस्तके पाठः । १ A पश्चमोऽङ्कः । ७१ राजा--देवि ! महायोगिभिरुपास्यमानं ते पादपद्म प्रणमामि । विद्या-नालोकर्मविशुद्धसर्वविवरान्मन्दोछ्वसन्मारुतै- मूलाधारविलीनकुण्डलिनिकामाकृष्य मूर्ध्नि स्थिते । ध्येयः पङ्किशतारभाजि जलजे भन्याय भूयाद् गुरु- ज्ञेयः षोडशपत्रहत्सरासिजे पायात्पुराणः पुमान् ॥३७॥ कविते! वीक्ष्यताम् । प्रभाकराकीर्ण मुखारविन्दा मट्टोपविष्टा ऽद्भुतदर्शनश्रीः । सत्कर्मसक्ता पुरुषे परस्मि- न चाऽनुरक्ता ननु भारतीयम् ॥ ३८ ॥ राजा---(सप्रश्रयमञ्जलिं बध्वा) म्यायानपेते पतिदेवताना- मविमहे ऽप्याग्रहमादधाने । विध्यर्थवादाकुलितान्तराले नमामि बाले ! तव पादपद्मम् ॥ ३९ ॥ विद्या--एकस्मादपि जातानां यद्वैचित्र्येण देहिनाम् । वैचित्र्यं सुखदुःखेषु स विधिस्ते सुखावहः ॥ ४० ॥ कविता--द्वैतध्वान्तनिवारणैकतरणिः प्रौढप्रभाधोरण विश्वेषामपवर्गमार्गसरणिनिाग्निमन्थाराण विद्या धीवरघीवयाधिपसुता कानीनवस्त्रोद्गता भूपालेन्द्र ! सभाजनाय भवतः प्राप्तयमालोक्यते ॥४१॥ प्राकृतम् --बह्मविज्जाए उपासणं करेर्दु देवो । राजा-महनीयमूर्तिममूर्तानुरागां रागादिभिरकवलितां खां १. आलोक्यताम्, इति 'ख' पुस्तके पाठः । २. ब्रह्मविद्याया उपासनां करोतु देवः ।

धर्मविजयनाटके-
चिरमारभ्य द्रष्टमुत्सुकोऽस्मि । यतः,
जरठाप्यसती विमुक्तसङ्गं
पुरुषं स्वीयगुणप्रदर्शनेन ।
अनुरञ्जयति प्रसह्य यत्तां
भवती कापि तिरस्करोति मायाम् ॥ ४२ ।।
( इति पादयोः पतति)
विद्या--श्रोत्रेक्षणादिकरणैर्विकलोऽपि बुद्धा
शून्योऽपि धर्मरहितोऽपि न सङ्गतोऽपि ।।
कूटस्थतामपि भजन्नपि मायिको यः
साक्ष्येक एव जगतः सुखेदः स तेऽस्तु ।। ४३ ।।
प्राकृतम्--इदो इदो आसणाई उवविसंदु देवीओ।
अलंकारः--वत्स ! महाराष्ट्रविषये सङ्गतानामष्टादशस्मृताना
मयं सन्देशः।
राजा--किमाज्ञप्तमम्बाभिः ।
विद्या-त्वसमाजनोचितेऽपि समये यदस्माकं विलम्बः स
कर्मविपाकं पुरस्कृत्य वर्णाश्रमनियन्त्रणार्थमेवेति वत्सेनावधातव्यम् ।
राजा--( सहर्प) यदस्माभिर्विधातव्यं देवीभिस्तत्स्वयं कृतम् ।
अर्भूतः पक्षपातोऽयं भूयानयमनुग्रहः ।। ४४ ॥
कियत्सम्पादितं मातृभिः कर्मवीप्सकेन च ।
विद्या-वत्स किं सम्पादनीयं पामरस्तु पामर एव । परन्तु,
शास्त्राण्यधीत्य विविधानि गुणानुरूपा
१. चेतः इति 'ख' पुस्तके पाठः ।
२. शरणमिति 'ख' पुस्तके पाठः ।
३. इत इत आसनान्युपविशन्तु देव्यः ।
४. अपूर्वः, इति 'ख' पुस्तके पाठः।
५. गुरुनुपास्यति 'ख' पुस्तके पाठः।

पञ्चमोऽङ्कः। ७३ ज्ञात्वाऽपि दुःखसरणनिरकप्रभूताः ॥ गाढानुरागकवलीकृतकुत्सचित्ताः पापस्य तत्परिणतीरपि न स्मरन्ति ।। ४५ ॥ तथाऽपि महाभयप्रदर्शनेन शनैःशनैहस्तगतप्रायोऽसौ लोकः सर्वोऽपि राजा--तरिक तद्भयप्रदर्शनम् ।। विद्या--निरये निपतन्त्यधर्मिण- स्तरुगुल्मादिषु सम्भवन्त्यथ ।। पशुपक्षिपु संसरन्त्यथो मनुजानामुदरे ततः परम् ।। १६ ।। तत्र च प्राक्तनकर्मयोगेन, दुर्दर्शनाः केचन केऽपि दुर्भगा. स्तीनामयग्रस्त केलवराः परे ।। व्यका दरिदा विकलास्तथेन्द्रियै- नं सङ्गताः केऽप्युपसर्गमन्थराः ॥ ४७ ।। राजा-ततस्ततः। विद्या-~ततश्चतावदाकर्णनमात्रेण सर्वेऽपि सत्रासाः पूर्वकृतदु- प्कृते सानुशयाः सर्वथैव वैमुख्यमधर्माद्भजन्तस्तदनुशासनं प्रमाणय. न्ति । विलीनस्य त्वदरातेनोपलभ्यते वार्ताऽपत्येतदाकलय्य वत्सः प्र- माणमिति। राजा-नास्मात्परं विषयमस्ति । सर्वा:--वत्स ! इदानीमसि कृतकृत्यस्तद्भगवदुपासनयैव नी. यतामयं समयः । राजा--उपदिशन्तु भवत्यः । १. मदचिन्ताः इति 'ख' पुस्तके पाठः। २. तत्परिणतेरिति 'ख' पुस्तके पाठः । धर्म०१० ७४ धर्मविजयनाटके- . विद्याः--कतीरं भज यज यज्ञमूर्तिमित्थं जानीहि प्रकृतिविभिन्नमादिदेवम् ।। मिथ्यतत्त्वयि लसति प्रपञ्चजालं सर्वात्मञ्जगति पुनस्त्वमेक एव ।। ४८ ।। राजा--देव्यः ! नानाविद्याराधनश्रवणेन व्याकुलीकृतो ममा. न्तरात्मा। ( नेपथ्ये) राजन् ! सर्वाणि शास्त्राणि नमस्कृत्य विसर्जय ॥ भज पर्वतजाकान्तमेकान्तं परिशीलयन् ॥ ४९ ॥ ( सवें समाकर्णयन्ति ) विद्या:--वत्स ! सम्यगुक्तमुपासनया । राजा-(साञ्जलिबन्धम् ) देवि ! एतद्वचनेऽपि मम तथैव स. न्देहः । विद्या-किमिति प्रमुग्धोसि, सर्वासामस्माकमेक एवाशयः । यो मन्त्रमूर्तिरथ यः प्रकृतेविभिन्नः कर्ता च यस्त्रिजगतामथ यस्तुरीयः ।। विष्णुर्विरिश्चिरिति यः कथितः पुराणैः सोऽयं हिमाचलसुताहृदयाधिनाथः ।। ५० ।। (नेपथ्ये) राजन् ! एवमेतत् । असहन्नपि शब्दवाच्यता समुपास्यो ऽयमनेकनामाभिः ॥ विविधास्वभिधास्वमुष्य य. द्विवदन्ते विबुधा न वस्तुनि ॥ ५१ ॥ १. मन्त्रमात्रमूर्ति, इति 'ख' पुस्तके पाठः। २. 'असहमान' इत्युचितम् ।

पञ्चमोऽङ्कः । ७५ विद्या--वत्स ! ध्यायता भगवान्भूतभव्यभवन्नाथः । अर्धाङ्गे कुवलयलोचनां दधानः प्रालेयस्फटिकघराघरोद्भटाभः ।। उद्दामातिशशिखण्डमण्डनश्री- श्चित्तान्तर्विलसति यः पुमान् पुराणः ॥ ५२॥ राजा--(प्रणिधानं नाटयति) (नेपथ्ये) वत्स ! पूजयस्वोपचारैर्मानसैः परमेश्वरम् | राजा--(एकाग्रचित्तं पुनात्वा ) उत्सर्पिदपगुणभीषणहारसर्प- नासापुटैविकटसंकुचितैनिपीतः ।। पाटीरकुंकुममिलन्मृगनाभिवन्धु- गन्धः सदाशिव मया मनसार्पितस्ते ॥ ५३ ।। अपि च, गुञ्जन्मधुव्रतघटोद्भटपक्षवात- ब्राताभिघातरभसप्रसरत्पतङ्गम् ।। संकल्पकाल्पितमतकितगन्धधाम मन्दारदाम तव पादयुगेऽर्पयामि ॥ ५४ ॥ अपि च, गङ्गां जटान्तरगतामपि द्रष्टुकामः श्यामप्रवाह इव वासरभर्तृजायाः ॥ उत्पातकेतुरिव मोहमरस्य धूपः श्रीविश्वरूप ! हृदयेन मया कृतस्ते ॥ ५५ ॥ अपि च, यस्कान्त्यलाभविवशो नु रविः सतापः पापः क्रमाद्भवति पूर्णनिशाकरोऽपि ।। १. फण इति 'ख' पुस्तके पाठः। २. परागम्, इति 'ख' । पुस्तके पाठः।

७६ धर्मविजयनाटके- दीपः पुरस्तव भवार्णवकर्णधार ! संसारदीप रचितः स मनोरथेन ॥ ५६ ॥ अपि च, माधुर्यसम्पदवधीरितसौधवर्ग: मन्नाद्यमुज्ज्वलमनेकविध विधातः ! ।। स्वान्तेन शान्तिकलितेन कृतं निवेद्यं विद्यैकगम्य ! परितोषकरं तवास्तु ॥ ५७ ।। ( नेपथ्ये) प्रणम्यतां परमेश्वरः । राजा--( अञ्जलिं बवा ) लक्ष्मीविलासकमलासननाकिनाथै- रानम्रमौलिमणिदीधितिघोरणीभिः ।। नीराजितं त्रिजगदेकगुरोर्नमामि दाक्षायणीसहचरस्य पदारविन्दम् ॥ ५८ ॥ विद्या--वत्स ! वयं तावदैतैः तव सुचरितैः सन्तुष्टाः स्मः, तद् त्रियतां तावदभीप्सितम्। राजा--देवि ! इदानी दर्शनादेव फलितमनोरथोऽस्मि । यतः- युष्मत्प्रसादवशतः प्रियमक्षतम्मे यातः क्षणात्क्षयमशेषविपक्षपक्षः ।। साक्षात्कृतौ स्फुरति दक्षसुताधिनाथः क्षोणीभृदावृततला वशगा क्षमा च ॥ ५९ ॥ तथाऽपीदमस्तु । आयासाद्वासुदेवोऽवतु भवतु भवो भव्यदः पद्मिनीनां प्राणाधीशः प्रियाणि प्रथयतु हरताद्विघ्नराशिं गणेशः ।। हन्यात्कन्या हिमाद्रेः कलिमलमखिलं किञ्च वर्णाश्रमाणां श्रौतस्मातकनिष्ठा हरिहरपदयोभक्तिरव्याहताऽस्तु ॥ ६० ॥ ..

The Dharma Vijayanataka

Author
Sukla Bhudeva
Title
The Dharma Vijayanataka
File name
The Dharma Vijayanataka
Text
OCR done
Citation
1930
Published
2010/12
Publisher
Banaras.printing Press Banaras
Language
Sanskrit
Pages
89
Library
Central Library, University Of Rajasthan
Classification
History
DLI number
552452
Barcode
4990010022870.00
Scanning centre
C-DAK, Kolkata
Digital publisher
Digital Library of India
Rights
Copyright permitted
VMLT id
sMezxZwpTHn
Download PDF

The Dharma Vijayanataka