Asr,melkote
Mimamsa Koustubha Vol.2 And Fasciculus 1
Front matter
No text on this page.
February 1927. THE CHOWKHAMBA SANSKRIT SERIES, A COLLECTION OF RARE & EXTRAORDINARY SANSKRIT WORKS NO.350 मीमांसाकौस्तुभः। Registered According to Act XXV. of 1867. (All Rights Reserved.) ( मीमांसासूत्रोपरि काचन विस्तृता टीका) (द्वितीयाध्यायस्य तृतीयचतुर्थी पादौ ।) पूर्वोत्तरमीमांसापारावारपारीण- श्रीखण्डदेवविरचितः श्रीकाशीहिन्दूविश्वविद्यालयपूर्वमीमांसाप्रधानाध्यापकेन वेदविशारदबिरुदभाजा अ. चिन्नस्वामिशास्त्रिणा संशोधितः श्रीजयकृष्णदासगुप्तेन मुद्रापितो विजयताम् । MIMAMSA KAUSTUBHA [ An exhaustive Commentary of Jaiminisutra ] ( 111 & iv Padas of II Adhyaya ) BY Sri KHANDADEVA. Edited by Veda Visarada Pandit A, Chinnaswami Sastri, Chief Professor of Mimamsa Benares Hindu University Vol. II. FASCICULUS I-१. PUBLISHED & SOLD BY THE SECRETARY, CHOWKHAMBA SANSKRIT SERIES OFFICE, BENARES inted by Jai Krishna Das Gupta, Vidya Vilas Press, Bers. 8. 1927
port
2
Agents:
Luzac & co, Booksellers,
LONDON
Otto Harrassowitz, Leipzig
GERMANY
The Oriental Book-supplying Agency,
POONA.
3
श्रियै नमः। मीमांसाकौस्तुभः। द्वितीयाध्यायस्य तृतीयः पादः । ( रथन्तरपादः) प्रथम रथन्तराधिकरणम् (१) । सू-गुणस्तु क्रतुसंयोगात, कर्मान्तरं प्रयोजयेत संयोगस्याशेषभूतत्वात् ॥२-३-१. ॥ (पू) ज्योतिष्टोमे-"यदि रथन्तरसामा सोमः स्यादन्दैवायवामान ग्रहान् गृह्णीयाद" "यदि बृहत्सामा शुक्राग्रान्” “यदि जगत्सामा आग्रयणाग्रान्" इति श्रुतम् । तत्र किमाघयोः वाक्ययोः रथन्त- रसामत्वे बृहत्सामत्वे च निमित्ते ज्योतिष्टोमापूर्वसाधनीभूतग्रहणा. नुवादनन्द्रवायवाग्रता शुक्रामा च यथायोग विधीयेते, अथ वा रथन्तरसामत्वैन्द्रवायवायत्वायुभयविशिष्टकर्मान्तरं विधीयते इति सन्देहः। अत्र कृतिसाध्यत्वेनानिश्चितविधेयताकगुणप्रयोज्यभेदनिरू. पणं पादार्थः । पूर्वपादे हि वाजिनादयो गुणाः पक्षहये निश्चि- तविधेयताका एव भेदकत्वेन (१)निर्धारिताः । अत्र तु रथन्तरसा. S १. विचारिताः, २ मीमांसाकौस्तुभे [रथन्तराधिकरण- मत्वं गुणः पूर्वपक्षे विधेयः, सिद्धान्ते त्वविधेय इत्यनिश्चितविधे. यताकः । अतोऽस्ति पादसङ्गतिः। यथाचायं पादार्थः सर्वत्राप्य- विरुद्धः तथा तत्तदधिकरणे निरूपयिष्यामः । अध्यायसङ्गतिस्तु स्पष्टा । अनन्तरा तु दृष्टेः (१)सौभरस- म्बन्धित्वेन प्रमाणान्तरप्राप्तत्वात् युक्तं हीनियम प्रति निमि- त्तत्वम् । अत्र तु केवलरथन्तरसामकत्वस्य समासार्थभूतस्य ज्यो- तिष्टोमेऽप्राप्तत्वात न ग्रहाग्रताया निमित्तत्वोपपत्तिरिति पूर्वपक्षो- स्थानाद्रष्टव्या। तत्र यद्यपि यदिशब्दः(२) "यदि राजन्यं वैश्यं वा याजये" दित्यादौ निमित्तवपरो दृष्टः, तथापि अत्र विशेषणस्य विशेष्यस्य विशिष्टस्य वा निमित्तत्वासम्भवातू न नैमित्तिको गुणः (३)प्रकृते विधातुं शक्यते । तथा हि- न तावदन विशेषणस्य रथन्तरसामत्वादेः निमित्तत्वम्, ब- दुव्रीह्यन्त पदे प्रथमोपनिपतितस्य रथन्तरादिशब्दस्य अन्य. पदार्थोपसर्जनीभूतस्वार्थप्रतिपादकत्वेन तस्मिन् यदिशब्दो. पात्तनिमित्तत्वान्वयानुपपत्तेः, अन्यथा ऋद्धस्येति षष्ठयन्त- स्यापि राजपुरुष इति पदोपात्ते राज्ञि अन्वयापत्तेः, रथन्तरमा- . १. तत्संज्ञकस्लामविशेषः । २. "यदि राजन्यं वैश्यं वा याजयेत् , स यदि सोमं बिभक्ष. यिषेत् , न्यग्रोधास्तभिनीराहृत्य तास्संपिष्य दधन्युन्मृज्य तमस्मै भक्षं प्रयच्छेत् न सोमम्" इत्यत्र राजन्यवैश्यान्यतरकर्तृकत्वे निमि. ते भक्षोदशेन सोमस्थाने फलचमसविधिपरे वाक्ये यदिशब्दस्य यथा निमित्तत्वपरता तद्वदित्यर्थः । स्तिभिन्यः फलानि । अस्यैव फलचमस इति संज्ञा । ३. प्रकृतक्रत्वङ्गया।
पूर्वपक्षः] द्वितीयाध्यायस्य तृतीयः पादः । ३ . त्रस्य निमित्तत्वे (१)अनावपि विद्यमानस्य निमित्तत्वापत्तेश्च । नाप्यन्यपदार्थरूपस्य विशेष्यस्य स हि सोमपदसममिव्या- हारात सोमद्रव्यं भवेत् तस्य तु निसत्वादेव यदिशब्दोपात्तका- दाचिकत्त्वव्याप्यनिमित्तत्वानुपपत्तिः । कथञ्चित् निमित्तत्वा- ङ्गीकारेऽपि वा ऐन्द्रवायवाग्रत्वशुक्रायत्वयोः विकल्पापत्तिः, बहु. ब्राह्यन्तपदवैयर्यापत्तिश्च । एतेन सोमशब्देन स्वसाध्यं प्रकृतं या- गं लक्षयित्वा तस्यैव निमित्तत्वाङ्गीकारः प्रत्युक्तः । नापि विशिष्टस्य, (२)हविरुभयत्त्ववद्वाक्यभेदापत्तेः । किश्च वैशिष्टयपक्षेऽपि अन्यपदार्थो विशेषणम् ? विशेष्यं वा, (३) नाद्यः; व्युत्पत्तिभङ्गापत्तेः । न च विग्रहवेलायां अन्यपदार्थ- स्य षष्ठ्यन्तत्वेन विशेषणत्वात् रथन्तरस्य प्रथमान्तत्वेन विशे. ध्यत्वात क्रतुविशिष्टस्य रथन्तरादेः यदिशब्दोपात्तनिमित्तत्वा- न्वयोपपत्तिरिति वाच्यम् । विग्रहवाक्यस्यावैदिकत्वेन तदुपा- त्तविशेषणविशेष्यभावेन निमित्तत्वान्वयानुपपत्तेः । किञ्च ग्रहाग्रतानिमित्त भूते रथन्तरे न तावत् ज्योतिष्टोमाख्य- क्रतोः स्वायोगव्यावृत्या विशेषणत्वम् , प्रकरणादेव तत्सिद्धेः नापि त्वन्तरयोगव्यावृत्त्या ; उपदेशेन तव्यावृत्तेः प्रमाणाभावे. नैव सिद्धत्वात् । अतिदेशेन तद्यावृत्तिस्तु तथापि अनिष्टैव । न द्वितीयः; सामान्तराणामपि गायत्रादीनां स्तोत्रान्तर- १. चयने "पृष्ठुरुपतिष्ठते' इत्यनेन उपस्थानाङ्गत्वेन पृष्ठविधाना- तू तदन्तर्गतत्वात् रथन्तरस्येति भावः । २. “यस्योभयं हविरातिमाञ्छत् ऐन्द्रं पञ्चशरावमोदनं निर्वत्" इत्यत्र उभयत्वविशिष्टस्य हविषः निमित्तत्वे यथा विशिष्टोद्देश्यत्व. रूपो वाक्यभेदः तद्वदित्यर्थः । ३. बहुव्रीहेरन्य पदार्थविशेष्यकबोधजनकत्वनियमभङ्गापत्तरि त्यर्थः।
४ मीमांसाकौस्तुभे [ रथन्तराधिकरण- रथन्तरस्य, सम्बन्धितया ज्योतिष्टोमे विशिष्य विहितत्वेन तमासा रथन्तरा- देः विशेषणत्वानुपपत्तेः, यद्यपि च स्वसाध्यपृष्ठस्तोत्रे वैकल्पिक- पृष्ठस्तोत्रान्तरसाधनबृदयावर्तकत्वं रथन्तरव्या- वर्तकत्र वा बृहतः सम्भवति तथापि समुच्चितस्तोत्रान्तरसाधन. सामान्तरव्यावृत्यसम्भवात सापेक्षस्य रथन्तरादेः अन्यपदार्थवि- शेषणत्वे सामर्थ्य भङ्गप्रसङ्गेन समासानुपपत्तः वैशिष्टयानुपपत्तिः । अत एव रथन्तरस्य पाक्षिकत्वादग्रताविशेषनिमित्त भूते क्रतो स्वायोगव्यावृत्या विशेषणत्वमित्यप्यपास्तम् । शङ्खः पाण्डु- र एवे" त्यादौ पाण्डुरत्वादेः विशेष्ये अवच्छेदकावच्छेदेनैव स्वायोगव्याच्या विशेषणत्वदर्शनेन प्रकृते तदसम्भवात् । न हि गायत्रादिसामान्तरकार्यावच्छिन्ने क्रतौ शक्यो रथन्तरायोगो व्या. वीयतुम् । न चैकदेशेऽपि तद्यावृत्या विशेषणत्वव्यवहारः; अव्याप्य. दृचिनीलवति नीलो घटः इति व्यवहारादर्शनात् । अनश्च रथ. न्तरमेवास्य सामेति समासार्थावगमात् तस्य च (१)प्रकृते अप्रा. सत्वेन निमित्तत्वानुपपत्तेः विधेयत्वावगमात्, प्रकृते च ज्योति. टोमे केवलरथन्तरसामकत्वादेः विधाने ऐन्द्रवायवाग्रत्वादेरपि विधेयवादाक्यभेदापत्तेः, चाक्यभेदाङ्गीकारेऽपि च केवलरथन्त- रसाम्नो ज्योतिष्टोमे साक्षादनन्वयेन स्तोत्रसाधनीभूतमन्त्रद्वारैव निवेशस्य वाच्यत्वात् तेषु च तत्तरसामान्तरस्य विशिष्याम्नान- सिद्धत्वेन विषमशिष्टविकल्पायोगात् अनिविशमानस्य रथन्तर• मात्रसामकत्वादेः गुणस्य भेदकत्वावगतेः गुणद्वय विशिष्टकर्मा- न्तरविधिरेवायम् । तत्राव्यक्तत्वात अतिदेशमाप्तमर्वस्तोत्रेषु रथ. न्तरसाम्नो निवेशः। १, प्रकरण पूर्वपक्षः] द्वितीयाध्यायस्य तृतीयः पादः । न च "उक्थ्यो वैरूपसामे" सादाविव पृष्ठस्तोत्र एव निवेश: शक्यः । एतदधिकरणपूर्वपक्षवादिना एकदेश संयोगानंगीकारेण (१)वरूपादीनामपि सर्व स्तोत्रे निवेशस्य वाच्यत्वात् । अतएवैतदधि- करणसिद्धान्ते एकदेशसंयोगे स्थिते बहुब्रीह्यन्तत्वसादृश्यन बैरू- पादीनां पृष्ठस्तोत्र एव निवेशो (२)दशमे वक्ष्यते । (३)न च विधायकस्य स्यादिसादेः यदिशब्दोपहतविधिशक्ति- कत्वात् कर्मान्तरविधायकत्वानुपपत्तिः । यदिशब्दस्याप्राप्तियोत. कमात्रत्वेन प्रमाणान्तरेण प्राप्त्यसम्भवे(४) यदाग्नेय' इत्यादि- वदविवक्षितार्थत्वात् । अथ वा यदिशब्दपरित्यागात् वरमध्याहारः । तेन या. गानुकूलपत्तिजनकीभूताया इच्छायाः विधिना आक्षिप्तायाः यदिशब्दोपात्तनिमित्तत्वान्वयार्थ वाचकीमूतरुचिधात्वध्याहारः क्रियते । अतश्च कर्मान्तरस्य प्रकरणात् ज्योतिष्टोमाङ्गस्य सोम- वाक्यविहितयागसमप्रधानस्य वा पाक्षिकत्वसिध्यर्थं रुचनिमि. तत्वकल्पनामात न वैयर्यमपि । वा अध्याहारादपि निपातोपसर्गाणामनेकार्थत्वात् यादेशब्दस्य' यदि वेदाः प्रमाणम्' इति वदेवकारार्थत्वपरिकल्पनैव भवदेवोक्ता युक्ता समाश्रयितुम् । अतश्च प्रयाजादिवत् कर्मान्त- अथ १. वैरूपं तत्संशकस्मामविशेषः २. पू.मी. १०-६-६. ३. इत आरभ्य पूर्वपक्षसमाप्तिपर्यन्तो ग्रन्थः "यदि शब्दपरि- त्यागो रुच्यध्याहारकल्पना । व्यवधानेन सम्बन्धो हेतुहेतुमतोश्च लि. ड्" (तं. वा. पृ. ५८१.) इति वार्तिकस्यैव विवरणरूपो द्रष्टव्यः । ४. 'यदाग्नेयोऽष्टाकपालोऽमावास्यायाञ्च · पौर्णमास्याश्चाच्युतो भवती'त्यत्र सत्यपि यच्छब्दसमभिव्याहारे तदर्थस्याविवक्षामझी.. कृत्याप्राप्तत्वात् यथा विधायकत्वमङ्गीक्रियते तद्वदित्यर्थः ।
मीमांसाकौस्तुभे [रथन्तराधिकरण- रस्यापि नियमेनैव प्रयोगविधिना सङ्ग्रहात् यदिशब्दोऽप्याव- श्यकत्वानुवाद:। वस्तुतस्तु-पक्षत्रयमाप आख्यानद्वयस्य भिन्नवाक्यतापत्तेः तद. ङ्गीकारेऽपि च केवलरथन्तरसामकत्वस्योत्पत्तिशिष्टसामान्तरविरो. धाभावेन प्रकृत एव ज्योतिष्टोमे निवेष्टुं शक्यतया कर्मान्तरा- नापादकत्वापत्तेरयुक्तम् । न च सामान्तराणां विशिष्याम्नात. वन बलवत्वम् । एतस्यापि प्रधानाश्रितस्य विशिष्याम्नानावि- शेषेण ततो बलवत्वात् । अत एवं परिहर्तव्यम्-(१)"कामप्रवेदनेऽकञ्चिति" इति स्मृत्या कचित्पदाप्रयोगे कामशब्दाभिधेयाया इच्छायाः अपि लिङ्लक्ष्यत्वस्य अनुशासनात् गृहीयादिति लिङा इच्छावगमेन यदिशब्दस्य च तत्र व्यवहितान्वव्यं कृत्वा, यदि ऐन्द्रवायवा- ग्रान् ग्रहान ग्रहीतुमिच्छेन् तदा केवलरथन्तरसामानं क्रतुं कुर्वीतेति वाक्यार्थप्रतीतेरेकवाक्यत्वोपपत्तिः । आस्मन् हि पक्षे स्यादिति लिडैत्र गुणद्वयविशिष्टयागविधानम् । गृहीयात् इति लिङा तु यदिशब्दतात्पर्यग्राहक सहकृतेनेच्छामात्रोपादानामिति न वाक्यभेदः। तत्प्रयोजनं च एकवाक्यतापादनद्वारा स्ववा- क्योपात्तकर्मान्तरमयुक्तत्व सूचनमुखेन तदङ्गत्वबोधनात् प्राकरणि- कज्योतिष्टोमाङ्गत्वव्यावृत्तिः । भिन्नवाक्यत्वे हि ग्रहाग्रतायाः कर्मान्तराङ्गत्वे प्रमाणाभावेन प्रकरणात् ज्योतिष्टोमाङ्गत्वमेव स्यात् । न च "याद रथन्तरसामा सोमस्स्यात् सौभरेण स्तुबीते" ति रथन्तरसामकयागपुरस्कारेणाग्रेऽपि गुणविधानात् अवा- १. पा. सू.३-३-१५३.
७ पूर्वपक्षः ] द्वितीयाध्यायस्थ तृतीयः पादः। न्तरप्रकरणात कर्मान्तराङ्गत्वोपपत्तिरिति न्यायसुधाकुदुक्तं शक्य- म् । सौभरविधेः बृहत्सामककर्मान्तरादिविधिव्यवहितलेन अतिरा- त्रसंस्थावान्तरप्रकरणस्थत्वेन च सन्देशाभिव्यञ्जकत्वाभावात् । अो युक्त एव स्याच्छशब्दस्य विधायकत्वेऽपि योदशब्दसंयोगः । नन्विदं "कामप्रवेदनेऽकञ्चिति" इति सूत्रस्य इच्छायां लि- डित्यर्थकत्त्वे भवेत् । तस्य तु कामप्रवेदने प्रकारान्तरेण गम्य. माने सर्वलकारापवादत्वेन लिङो विधानमित्येवपरतया काशिका- कारेण व्याख्यानात कामो मे भुश्चीत भवान् इत्युदाहरणस्योक्त. त्वात् कथं लिङ एवेच्छार्थकत्वमिति चेत् ? कामप्रवेदने कर्तव्ये लिङ् इसव सूत्रार्थोपपत्तौ प्रकारान्तरे. त्यस्याध्याहारे गौरवात् (१) 'इच्छार्थेषु लिङ्लोटौं” इति सूत्रे महाभाष्यकारेण कामपवेदने चेत् इच्छार्थेभ्य उपपदेभ्यो गम्यमा. न इत्येव व्याख्यातत्वेन विवक्षितार्थस्य तेनैव सिद्धौ ‘कामप्रवेदन' इति सूत्रस्य वैयापत्तेश्च । अतः काशिकापूर्वकालीनैः शबरा- दिभिव्याख्यातत्वात इच्छायामेव लिङ् इति सूत्रार्थः । यदाप पदमञ्जर्यादौ पौनरुत्यं परिहृतम्-यत्र अर्थः प्रकरणा- दिनापि कामप्रवदनं गम्यते तत्र 'कामप्रवेदन' इति मृत्रम, यत्र तु तद्वाचकशब्दप्रयोगः तत्रेच्छार्थेष्वि'त्यस्य सूत्रस्य सार्थकत्वा- ल्लोडर्थकत्वम् । तत्र लोटा च लिङो बाधो माभूदिति लिङप्युक्त इति, तदप्यपास्तम् ; शबरादिप्रदातिव्याख्याने पौनरुक्तस्यैवाप्रसक्ता. (२)युक्तविधया तत्परिहारस्यानुक्तिप्तहत्वात् । तस्मादिच्छाया- माप लिडिट इति युक्त एवोक्तविधया यदिशब्दः । अथ वा व्यवाहितान्वयस्याप्यन्याय्यत्वात् (३)"हेतुहेतुमतो- १.पा. सु.३-३-१५७. २. उक्तविधपरिहाराभासस्य ३. पा. सु.३-३-१५६.
मीमांसाकौस्तुभे [ स्थन्तराधिकरण- लिडि" ति स्मृत्या प्रयोजकापरपर्याये हेती, प्रयोज्यापरपर्या- ये हेतुमति च लिङो विधानात् यदिशब्दस्य च तदर्थता. त्पर्यग्राहकत्वेन स्यादिति हेतौ लिङ्, गृह्णीयादिति विधौ। तेन कर्मान्तरहेतुको ग्रहाग्रताविशेषः कर्तव्य इति वाक्या- थः । अस्मिंश्च पक्षे आर्थिकः कर्मान्तरावधिः । हेतुत्वा- भिधानस्य च ज्योतिष्टोमाङ्गताव्यावृत्तिफलककर्मान्तराङ्गत्वसि- द्धिरेव पूर्ववत् फलम् । अङ्गिविशेष्यकबोधस्य न्याय्यत्वात् गृही- यादिति वा हेतुमति लिङ्, स्यादिति च विधौ तदा च ग्रहाग्रता. (१)हेतुकं रथन्तरसामानं क्रतुं कुर्वीतेति वाक्यार्थः । हेतुमत्ताभि. धानस्य च पूर्वदेव प्रयोजनम् । अस्मिंश्च पक्षे यदिशब्दो यथा- स्थानस्थित एव एकस्याख्यातस्य विधायकतामपरस्य हेतुमदर्थ- कमां सूचयतीति न व्यवहितकल्पनापि । विशेष्यावगमोत्तरविशेष. णावगमरूपाविमृष्टविधेयांशता तु पटोऽस्ति शुक्ल इतिवन्न दोषाय । तस्मात् यदिशब्दस्य (२)"यदि ब्राह्मणो यजेते"ति व विधिश- क्तिविघातकस्वाविघातः। सूत्र तु अन्यपदार्थरूपक्रतुसंयोगे यो गुणः केवलर- थन्तरसामवादिरूपः स कर्मान्तरं प्रयोजयेत्, विशषणसं. योगस्य विशेष्यावच्छेदेन वृत्तिस्त्राभाब्यादिति व्याख्येयम् ॥ (इति रथन्तराधिकरणपूर्वपक्षः) १. प्रयोज्यताम्। २. “यदि ब्रह्मणो यजेत बार्हस्पत्यं मध्ये निधायाहुतिमाहुर्ति हुत्वा तमभिघारयेत्” इत्यत्र यदि शब्दस्य यथा न विधिशक्तिप्रति- बन्धकावं तदित्यर्थः । एतच्चानिमाधिकरणे स्पीभविष्यति ।
सिद्धान्तः ] द्वितीयाध्यायस्य तृतीयः पादः । ( अथ सिद्धान्तः सू-एकस्य तु लिङ्गभेदात प्रयोजनार्थमुच्यतैकत्वं गुणवाक्यत्वात् ॥ २-३-२. ॥ (सि) अब न तावद्यदिशब्दोपात्तनिमित्तत्वं रथन्तविशिष्टस्य तोरु- च्यमानमपि समासं भिनत्ति, बृहद्रथन्तरसाध्यपृष्ठयोः ज्योतिष्टो- मे वैकल्पिकत्वेन स्वायोगव्यावृत्यापि विशेषणत्वसम्भवात् एक- थीभावलक्षणसामर्थ्य विघातानुपपत्तेः । न च विशेष्यावच्छदेनैव विशेषणेन स्वायोगो व्यावर्तनीयः इत्यपि नियमोऽस्ति । दण्डी पुरुष इत्यादौ व्यभिचारात् । किञ्च स्वावान्तर कार्यद्वारा सर्वेणापि विशेषणेन विशे. ध्यमवच्छेत्तव्यम् । एवं व्याप्यत्तिताप्यवान्तरकार्य एवं द्रष्टव्या । अस्ति च बृहद्रथन्तरयोः पृष्ठरूपावान्त. रकायें सा । ततस्तद्वारा क्रमावयवच्छेदकावच्छेदेन सा अव्याहव । न हि कर्मान्तरत्ववादिनापि प्रोक्षणाघातादिष्व- प्ययोगो व्यावर्तनीयः । अपि तु स्तोत्रादिरूपावान्तरकार्य एव । तत्र च प्रोक्षणादीनामिव स्तोत्रातराणामाप बृहद्रथन्तरकार्य: स्वाभावात तेष्वयोगव्यात्तावपि न क्षतिः । असश्च पृष्ठस्नोत्राव- च्छेदेनायोगव्यावृत्तेः सत्वात् व्याप्यत्तितयाविशेषणत्वाविरोधः। किञ्चानयैव दिशा परस्परव्यावर्तकत्वादन्ययोगव्यावृत्यापि विशे- षणत्वोपपत्तिः । किञ्चैवं यद्यपि बृहद्रयन्तरयोस्समुच्चयो भवेत् तथाप सा- म्नां तत्तद्वाक्ये निरपक्षसाधनत्वावगमेन समुच्चयेऽपि व्यामज्य- वृत्तिसाधनत्वाभावात् नागेन्द्रपीतादिवत् असामयामेसेकेना- २ १० मीमांसाकौस्तुभे [ रथन्तराधिकरण- पि विशेषणतोपपत्तिः । इष्यत एव हि डिस्थडबित्थयोर्मातरि डिस्थ मातेति प्रयोगः, अनेकच्छन्दस्केऽपि च प्रातस्सवने गायत्रच्छ- न्दस इति प्रयोगः । अन एवं रथन्नरसामेति व्यपदेशोपपत्ताव- पि पदिशब्दोपात्तनिमित्तवान्वयार्थ बृहद्रथन्तरयो। बैकल्पिक स्वोपन्याम इति द्रष्टव्यम् । तेन सिद्ध रथन्तविशिष्टस्य को. निमित्त्वमिति । वस्तुतस्तु विशिष्टोद्देशे वाक्यभेदापत्तेः न क्रतुविशिष्टर- थन्तरवदेव स्थन्तरबिशिष्टक्रतोरिह निमित्तत्वम् । न च(१) हावरा. तिन्यायेन उद्देश्यान्तर्गत्यगीकारात् न वाक्यभदापतिरिति भव. देवोक्तं शाक्यम् । वक्ष्यमाणरीत्या रथन्तरस्यैव निमित्तत्वपर्यव- सानोपपतौ क्रतोरपि तदतर्भावस्गोभयत्ववादप्रामाणिकत्वात् । किञ्च तोरप्यन्तर्भावे प्रकृनत्वात् ज्योतिष्टोमे एवान्तर्भा. व्येत, ततश्च ज्योतिष्टोमे निगिने प्रकृतापूर्वमाधनीभूनग्रहणाङ्ग- स्वेनाग्रता विधीयते । नतश्च विकृतौ तदपूर्वस्थानापनत्वात् अ. गिताबच्छदकसद्भावेऽपि निमित्ताभावात् भेदनरहितायां विक. तौ तद्धोमवत् नैवाग्रगाविशेषः प्राप्येत । न हि निमित्तपदे अपू. साबनलक्षणा निमित्तस्थानापत्तिर्वा वैकृतकमोरास्ति, येन सत्रैव निमित्तान्तर्भावशाक्येत । अतो विशिष्टस्य क्रतु. १ “यस्याभयं हविरातिमार्छत् , ऐन्द्रं पञ्चशरावमोदनं नि पेत्" इत्यत्र केवलाया आर्नेः सार्वदिकत्वेन निमित्त वासम्भवातू तद्विशेषणस्यापि हविषा उद्देश्यकुक्षौ प्रवेशमङ्गीकृत्य हविरार्तेरेवो- हेश्यत्वमङ्गीकृत तद्वदत्रापि रथन्तरस्यापि उद्देश्यकोटौ प्रवेशमङ्गी. कृत्य वाक्यभेदः परिहियतामित्यर्थः । यस्य यजमानस्य दर्शसम्ब- न्धि सायकालिक हवि. दधिरूप प्रातःकालिकं हविः पयोरूप च नश्यति स ऐन्द्र शरावपञ्चकपक्वौदनद्रव्यकं याग कुर्यात् इति चि. षयवाक्यार्थः। - सिद्धान्तः ] द्वितीयाध्यायस्य तृतीयः पादः। मात्रस्य वा निमित्तत्वायोगात् रथन्तरस्व निमित्तत्वम् । यद्यपि च परोपसर्जनीभूो पदार्थान्वयोऽव्युत्पन्नः तथापि शाब्दबोधे विशिष्ट एवान्वितस्यापि निमित्तत्वस्य मिशेष्ये त्रि. शिष्टे वा कादाचिकताभावादिना बधात् “मनिशेषणे विधिनि- षेधौ विशेषणे मक्रामतो विशेष्यबाध' इति न्यायेन 'स्वर्गी ध्वस्तो' 'लोहितोष्णीषा' इत्यादिवद्विशेषणीभूतेऽपि रथन्तरमामत्वे सङ्क्र- मणं नानुपन्नम् । इष्यन एव चोद्देश्य स्थलेऽपि स्वर्गकामपदे विशे- पणीभूनेऽपि स्वर्गे भाव्यतासङ्क्रमणम् । अस्तु वा एनाशाविषये तद्वदेव समस्तपदे रभन्तरविशेष्यत्व- लक्षणा, तथापि उपक्रनस्थयादिशब्दत्यागापेक्षयाऽसौ न दोष एव । अतः रथन्तरमेव निमित्तम् । अन्यपदार्थविशेषणता तु प्रकरणल- भ्यत्वादनुवादः । तत्प्रयोजनं च "वैरूपसामे" त्यादौ बहुव्री. झुक्तत्वसादृश्येन पृष्ठस्तोत्रमात्रसाधनत्व लाभः, न तु सर्वस्तोत्र- साधनत्वम् । (१)कौत्सादिवद्वा पवमानमात्रसाधनत्वम् । रथन्तर- मात्रनिमित्तत्वेऽपि च यदिशब्दोपात्तम्य निमित्तत्वस्य कादाचित्क- स्वव्याप्यत्वात कादाचित्कत्वस्य च बृहद्रथन्तस्योरन्योन्यविरो. धप्रयुक्तत्वात बृहविरोधिनोरथन्तरस्य, रथन्तरविरोधिनो वा बृह त: निमित्तता । आ एवान्योन्यविरोधित्वस्य निमित्तस्वभावल- भ्यत्वात् न सद्विवक्षाकृतो वाक्यभेदोऽपि । विरोधिता च कनित वैकल्पिकत्वात् , कचिन बाध- १. कौरमं भवति" (ता. ब्रा. १४-११-२५.) काण्वं भवति"वासिष्ठ- स्य जनित्र भवतः, (ता. ब्रा. १४-११-२२.) क्रौञ्चानि भवन्ति (ता. प्रा. १९-३-८.) इति विहितानां कौत्सादीनां साम्नां स्वसमसंख्या कप्राकृतसामबाधकत्वम् । तश्च पवमानस्तोत्र एवेत्युक्तं दशमे तद्वादित्यर्थः।
यथा मीमांसाकौस्तुभे [रथन्तराधिकरण- कत्वात् । अतएवोभयत्रैव रथन्तरस्य निमित्तता । प्रकृतौ वैकलिएकलाद विकृतावपि च यत्र नैकतरनियमः । यत्र तु तानियमः तत्र बाधकत्वात् विरोधिता । यत्र तु द्विविधविरोधिताभावः तत्र सत्यपि रथन्तरादौ न तस्य नि. मित्तत्वम् । अत एव(१) संसबादौ बृहद्रथन्तरयोः समुच्चयेन सत्वेऽपि विरोधित्वाभावाद न निमित्तता । यत्र वा विश्वजिदादौ 'पवमाने रथन्तरं, आर्भवे बृहदि' त्यादिवचनात् स्तोत्रान्तरेऽपूर्व- विधानेन मापकप्रमाणाभावादेवेतरबाधकतानुपपत्तेः न विरो- पिता तत्रापि न निमित्तत्वम् । तस्मात बृद्विरोधिरथन्तरसामत्वे रथन्तरविरोधिबृहत्सामत्वे वा निमित्ते ऐन्द्रनायवाग्रत्व शुक्रामत्व. योः प्रकृतापूर्वसाधनीभूतग्रहोद्देशेन विधानमिति सिद्धम् । निमि. तफलयोश्च विजातीयोद्देश्यताकत्वात (२)यावज्जीवादिवाक्यवद उ- द्देश्यानेकत्वानिमित्तोऽपि न वाक्यभेदः । अतश्चैतद्वाक्यद्वयस्यापि निमित्तार्थत्वेनापि नैमित्तिकविधायकत्वोपपत्तेः भेदकप्रमा- णाभावात् विशिष्टविधिगौरवापादककर्मान्तरविधायकत्वमन्या. त्यमेव । नच बृहत्सामत्वे निमित्ते अमाप्तशुक्र ग्राविधानोपपत्तावपि रथन्तरसामकत्वे(३) धाराग्रहेभ्यः पूर्व मैन्द्रवायवाग्रतायाः पाठादेव १. संसबगोसवादयः सोमयागविशेषाः । २. "यावजीवमग्निहोत्रं जुहोती" त्यादौ नित्यकर्मस्थले पा. पक्षयस्याप्युद्देश्यत्वाङ्गीकारावश्यम्भावेन तत्र निमित्तपापक्षया योरुभयोरप्युद्देश्यत्वेऽपि. निमित्तस्यानीपिसतत्वेन पापक्षयस्य चेपिलतत्वेन ईप्सितानीप्सितरूपानेकांद्देश्यकत्वेऽपि यथा न वाक्य. भेदः तद्वदित्यर्थः। ३. "अपव्या धारया गृहाती" ति विधिना धारया गृहीतव्यतया विहिताः ग्रहाः धाराग्रहा।
सिद्धान्तः ] द्वितीयाध्यायस्थ तृतीयः पादः । प्राप्तत्वाद, अधाराग्रहभ्यः पूर्वमैन्द्रवायत्राग्रताविधेश्च(१) दशमे नित्स्यमानत्वात् तद्वाक्ये विधेयाभावेन कर्मान्तरविधायकत्वोपप- त्तिरिति वाच्यम् । पाठन सम्भवत्प्राप्तिकाया अपि ऐन्द्रगयवाग्रताया निमित्तसम्बन्धेन विधानापपत्तेः । तत्प्रयोजनं च पाठस्य क्रमनिया- मकतापासवन्धः। निमित्तं हि स्वसत्वे नैमित्तिकावश्यकर्तव्यता बो. धयति । सा च यदि प्रमाणान्तरेण प्राप्ता भवेत तदा स्वाभावे नै- मित्तिकाभावं बोधयतीति युक्तः क्रमनियामकताप्रतिवन्धः । तत्फल मपि च पृष्ठम्तोत्रात्तवैरूपतामवति तौरथन्तराभावात् क्रमनिय. मः । प्रकृतावपि यथाशक्त्युपबन्धेन रथन्तरादिराहित्ये सः । त- सिद्धं वाक्यद्वयेऽपि निमित्तार्थ श्रवणमिति । आग्रयणाग्रतावाक्यमपि प्रकृतौ विकृतौ वा जगत्संज्ञकसा. माभावात् यत्र(२) विषुवति जगत्याभूचि उत्पन्न महादिवाकीस साम तत्र वाक्येन प्रकरणं बाधित्वा आग्रयणाग्रमाविधानपर. मिति दशमे वक्ष्यमाणत्वात न कर्मान्तरविधानपरम् । येन तत्सा- हचर्यादनयोरपि कर्मान्तरविधानमाशझोत । अत एव तत्रत्यो पदिशब्दोऽपि जगत्साम्नः पाक्षिकत्वाभावेन निमित्तपरत्वा. संभवात् पत्रेयर्थरसन्नुत्कर्षपर एव--यत्र जगत्साम तत्राग्रयणा- ग्रानिति । बहुव्रीहन्तं च विषुवल्लक्षकमिति न विशिष्टोद्देशे वा. क्यभेदः । अथ वा अन्यपदार्थस्य अवच्छेदकान्तराभावात् जगत्साम- त्वमेव ग्रहत्ववदुद्देश्यतावच्छेदकत्वेन विवक्षितम् । पूर्ववाक्ययोस्तु प्रकृमपरामशिसोमपदेन ज्योतिष्टामस्यैवान्यपदार्थावच्छेदकत्वा- तीतेः रथन्तरमामत्वस्यापि निमित्त विशेषणत्वे युक्तो वाक्यभेदः। १. १०-५-२७. उपश्चिन्तयामौ अधाराग्रही। २. गवामयने एकषष्ट्यधिकशतत्रयसुत्यात्मक ३६१)यो मध्यमो दिवसः स विषुवान् ।
१४ मीमांसाकौस्तुभे [अवेष्टयधिकरण- वस्तुमस्तु ईदृशम्थले “अशाभिधानी" मितिवत् विशिष्टस्य व्युत्पन्नत्वाद्वाक्यभेदाभावेऽपि विशेष्यत्य निमित्तान्तर्गत्याशङ्का- प्रयोजनाभावादेव निराकर्नव्या । तस्मात् रथन्तगदिनिमित्तकग्र- हाग्रताविशेष एव ज्योतिष्टोमाङ्गत्वेन विधीयत इति मिद्धम् । प्रयोजनं पूर्वपक्ष कर्मान्तरस्य सोमयागाङ्गस्य समपधानस्य वा रथन्तरमात्रसामकस्य पूर्वयागेन सह ग्रहाग्रतायां विशेषाभा- वेन तन्त्रानुष्ठानेऽपि रथगारमात्रसामकत्वात् स्तोत्राण्यावर्तनीया. नि । बृहत्सामकस्य तु ग्रहामनायामपि विशेषतत्वेन मुन्यान्तर- स्यैवानुष्ठानम् । सिद्धान्त नेति स्पष्टम् । सूत्रं तु एकस्यैव ज्योतिष्टामस्य रथन्तरादितत्तदङ्गरूपलि- अभेदेन ग्रहाग्रताविधिप्रयोजनार्थमुच्चारणं क्रियते । यतः पूर्व कौनवेशिगुणवाक्यत्वादेतयोः कर्मान्तरविधायित्वानुपपत्तः एक- त्वं ज्योतिष्टोमाभेद एवात्र प्रतीयत इति व्याख्येयम् ॥ इति प्रथमं रथन्तराधिकरणम् ॥ अथ द्वितीयमवष्टयाधिकरणम् (२) सू-अवेष्टौ यज्ञसंयोगात क्रनुप्रधानमुच्येत॥२-३-३॥(सि) ( विषयसंशयौ) राजसूये(१)अबोष्टनामकानि पञ्च कर्माणि समानता. नि(२)आग्नेयमष्टाकपालं निपाने हिरण्य दक्षिणा, ऐन्द्रमेका- १. दिक्सम्बन्धिनामुन्मादायतृणामबजननहेतुत्वात् अवधि- रिति कर्मनामधेयम् । २.ते. सं. १-८-१९.
पूर्वपक्षः ] द्वितीयाध्यापस्य तृतीयः पादः । १५ दशकपालमृषभो दक्षिणा, वैश्वदेवं चरुं पिशङ्गी पष्ठीही दक्षिणा, मैत्रावरुणीमामक्षां वशा दक्षिणा,बाईपर चरुं शिनिपृष्ठो दक्षिणा" इसेवाकोः । अत्र गुणवाक्ये एकावेष्टिसंज्ञासंयोगेऽपि साकमेध. वदुत्पत्तिवाक्ये प्रत्येकदाक्षणाम्नानाक्षिणायाश्च कीनत्यर्थ- त्वात् तेन कर्तृत्वभेदप्रतीतेः तद्भदेन च प्रयोगभेदावगतः एकैकं कर्म अन्वाधानादिब्राह्मणतर्पणान्ताङ्गविशिष्टं भेदेनानुष्ठेयमित्ये- कादशे वक्ष्यमाणत्वात् अविवादम । तदवान्तरप्रकरणे च "यदि ब्राह्मणो यजेन, बार्हस्पत्यं मध्ये निधायाहुतिमाहुति हुत्वा तम- भिधारयेत्, यदि राजन्यः ऐन्द्र, यदि वैश्यो वैश्वदेव" मित्येवें समाम्नातम् । तत्रापि किं पूर्ववदेव ब्राह्मणादिग्रहणं निमित्तार्थ- मुत विधानामिति संशयः । ( सङ्गतिः) ब्राह्मणत्वादेः गुणस्यानिश्चितविधेयनाकत्वात् कृतिसा- ध्यत्वाभावाच तत्प्रयोज्यभेदनिरूपणेन पादाध्यायसङ्गतिः स्प. टा । गुणादीनां विध्यापादनद्वारा भेदकत्वात् कादीनां च गुणानां भावनोत्पत्तावनन्वयित्वेन तद्विध्यापादनद्वारा तद्भेदक- वाभावेऽपि प्रयोगान्वयित्वात् तद्विध्यापादनद्वारा भावनाप्रयो. गभेदकत्वनिरूपणादध्यायसङ्गतिः । अनन्तरा वापवादिकी। (पूर्वपक्षः) तत्र पूर्ववदेव यदिशब्दसंयोगात् विशिष्टविधिगौरवाभावा- च ब्राह्मणत्वादि कर्तृनामम्बन्धेन निमित्तम् । न च क्षत्रियमात्र- कतकराजस्यान्तर्गतावेष्टौ ब्राह्मणवैश्ययोः तेन संबन्धेन मा- त्यभावात, क्षत्रियस्य च नित्यप्राप्तत्वेन निमित्तत्वानुपपत्ते -- थं पूर्वाधिकरणन्यायविषयत्वमिति वाच्यम् । राजमूयाधिकारवा- क्यस्थराजपदस्य क्षत्रियमात्राचित्लाभावेन अस्प तन्मात्रकर्तृक १६ मीमांसाकौस्तुभे [ अवेष्ट्यधिकरण- वासिद्धेः । तथा हि- आर्यावर्तानार्यावर्तसाधारण्येन अविगीतसार्वलौकिकसि. ध्या राजशब्दो मनुष्यमात्रवृत्त्यन्याप्रेरितप्रजापालनकर्तृन्वे शक्तः चौरादिशब्दा इव परस्वापहरणकर्तृत्वे । अत्र राज(१)पुरुषे रा जशब्दप्रयोगाभावात् अन्याप्रेरितेति विशेषणम् । न चैवं सखण्डोपाधेः शक्यतावच्छेदकत्वकल्पने गौरवाप- तेः द्रविडानामपालयितर्यपि क्षत्रिय राजशब्दप्रयोगात जाति- वाचित्वमेव लाघवायुक्तमिति वाच्यम् । द्रविडानां प्रसन्तदेश- निवासित्वेन म्लेच्छ देशस्थत्वात् तत्प्रसिद्धरार्यावर्त सकलजनप्र. सिद्धियो दौर्बल्येन पीलु शब्द इव राजशब्दे शक्तिग्राहकत्वानुप- पत्तेः । न हि शक्तिग्राहकप्रमाणगते प्राबल्य एव निर्णायके स. ति लाघस्य शक्तिनिर्णायकत्वं शक्यते वक्तुम्, लाघवस्य प्रमा- णानुग्राहकत्वेन सन्देह एव निर्णायकत्तात् । अन्यथा आश्ववा- लशब्दस्य क्लुप्तावयवशक्त्यैव विशिष्टार्थबोधकत्वोपपत्तौ प्राबल्य- स्यापि शक्तिग्राहकत्वानुपपत्तेः । अत एव न बर्हिराज्यादिशब्दतु. ल्यत्वम् । सत्र जाति विहाय कचिदप्यप्रयोगेण लाघवस्य निया. मकत्वोपपत्तेः । प्रकृते तु जातिव्यभिचारण प्रबलप्रमाणपमितेनो. पाधिव्यभिचारस्य दुर्बलप्रमाणप्रमितस्य वाधात् न तस्य जा. ति(२)वाचकनिर्णायकलोपपत्तिः । ननु-स्वरूपेण दुर्बलस्यापि व्याकरणादिस्मृत्युपष्टब्धत्वेन प्रा. बल्योपपत्तिः, तथाहि-तस्य कर्मेत्यर्थे राजशब्दात् ब्राह्मणादिग- णपठिनात् (३)ष्यङ्मत्ययं पुरोहितादिगणपठिनाद्वा यम. स्पयं (४) पत्यन्नपुगेहिनादिभ्यो यक्" इति मूत्रेण स्मरनि पा. १. राजमनुष्ये २. वाचित्व ३. गुणवचनब्राह्मणादिभ्यः कर्मणि च (पा. सू. ५-१-१२४) इति सूत्रविहितमित्यर्थः । ४. पा. सू. ५-१-१२८ पूर्वपक्षः ] द्वितीयाध्यायस्य तृतीयः पादः। १७ णिन्यादयः। ततश्च राज्ञः कर्म राज्यमित्येवं प्रजापालने राज- कर्मणि राज्यशब्दव्युत्पत्तेः राजशब्दस्य च ब्राह्मणादिशब्दवत् प्रजापालनकारिवाचित्वाव्युत्पत्तेः सिद्धवनिर्देशेन जातिवाचिता- वसीयते । तथा राजन्यशब्दस्य क्षत्रियमात्रवचनत्वेन निस्सन्दि- ग्धस्य "(१)राजश्वशुराद्यत्" इति सूत्रेण तस्यापत्यमित्यस्मि- नर्थ यत्प्रसयविधानेन राजशब्दप्रकृतिकत्वान्याख्यानादीप क्ष. त्रियापत्यं क्षत्रिय इतिवत् राजशब्दस्यापि जातिवाचित्वमव. सीयते । तथा मन्वादयोऽपि क्षत्रियस्यैव प्रजापालनं परमो धर्मः, (२)"राजा सर्वस्येष्टे ब्राह्मणवर्ज" मित्यायुपदिशन्तः राजपुरस्का- रेण प्रजापालनविधानात् राजशब्दस्य पूर्वप्रसिद्ध योक्षायां क्षत्रि- यमात्रपुरस्कारेण तद्विधानाद्राजशब्दस्य क्षत्रियमात्रवाचिताम- नुमन्यन्ते । अतः स्मृत्युपष्टब्यस्य दुर्बलस्थापि प्रमाणस्य शक्ति- ग्राहकत्वोपपत्तिरिति चेत- न; प्रबलस्यापि प्रमाणस्य (३)"न राज्ञः प्रतिगृह्णीयाव(४)न राजन्यप्रसूतितः (५)"न शूद्रराज्ये निवसेदि" सादिस्मृत्युपष्ट- ब्धत्वाविशेषेण शक्तिग्राहकलोपपत्तेः। किश्च न व्याकरणादिस्मृतिः शक्तिग्रहे प्रमाणम, साधुत्वा- दिकथनमात्रपरत्वात् । अथापि प्रमाणं स्यात् तथापि न तया पालनकारिवाचित्वं व्यावर्तितम् । तत्सत्वेऽपि राज्यशब्दस्य - १. पा. मु. ४-१-१३७ २. गौ. ध. ११-१. ३. म. स्मृ. ४-८४. ४. अराजन्यप्रसूतितः इतीदानी मुद्रितेषु मनुस्मृतिपुस्तकेषूपल. भ्यते पाठो न्यायसुधायां प्रभावल्यां च । परन्तु कौस्तुभ सर्वत्राप्या- दर्शपुस्तकेषु “न राजन्यप्रसूतितः" इत्येवोपलभ्यत इति स एव निवेशितः। ५. म. स्मृ.४-६१. ३ मीमांसाकौस्तुभे [अवेष्ट्यधिकरण- तकर्मचाचित्रोपपत्तेः । नचैनावता राजशब्दव्युत्पत्तिग्रहसापेक्ष- त्वम् । राजशब्दव्युत्पत्ति ग्रहस्य तदभावेऽपि पालनत्वेन बुद्धस्यैव तस्य कर्तृतावच्छेदकत्वोपपत्ते । राज्यशब्द एव परमवयवार्थप्रस. भिज्ञानातू चौब्दवत् पालनस्वाच्छिन्नपालनकारिकमणि यो- गिको रूहावा, नस्वेतावतेनरेतराश्रयत्वम् । राजन्यशब्दान्वा. ख्याने तु कात्यायनेनैव राज्ञोऽपत्ये जातिग्रहणमिति परिसंख्या- नात राजम्यशब्दस्य मामानात पालनकार्यपत्यचाचित्वेन प्र. सक्तस्य पङ्कजादिमाब्दवत् क्षत्रियत्वसमानाधिकरणस्यैव सक्ष्य वाच्यत्वनियमकरणेन शुद्धराजपदस्य पालनकारिवाचित्वाभ्यनु- ज्ञानाव् विपरीतसाधनत्वम् । न च जातिपदस्य मनुष्यत्वादिजातिमात्रेणाप्युपपत्तेः क्षत्रि. यत्वग्रहण एव प्रमाणाभावः । विधानसामर्यादेव गनुष्यत्वप्राप्त मनुष्यत्वग्रहणामम्भवेन राजन्यशब्दस्य क्षत्रियमात्रमयोगेण च क्षत्रियत्वग्रहणोपपत्तेः । मन्वादिस्मृनेस्तु क्षत्रियमात्रोद्देशेन पालना- वयकनाविधायकत्वेऽपि रागादिना ब्राह्मणादावपि पालयितृत्व- सम्भवात नोपष्टम्भकता। न हि विहितपालनकारित्वं राजपद- शक्यतावच्छेदक, गौरवापत्ते, प्रमाणाभावाच । किश्च आर्यावर्तप्रयोग एव परं “यादे ब्राह्मणो यजे" त्या दियारपत्रयस्थयादिशब्देन निमित्तत्ववाचिना पाक्षिकमाप्तिमपेक्ष- माणेन क्षत्रियमात्रवचनत्वे तदनुपपत्तेः राजशब्दस्य पालयितृवा. -चित्वमाक्षिपता जपष्टधः । अतो राजशब्दस्य क्षत्रियमात्रयच. नस्वाभावाद अपालयितव्यावृत्तिमात्रफलकस्य पालयित्राधिकार- मात्रपरत्वावगः आहिनाग्नित्वादिरूपाधिकारिविशेषणेन शूद्रा. दिव्यावृत्तावपि ब्राह्मणादिव्याहत्तौ प्रमाणाभावाद राजमूयस्य पालयितत्रैवर्णिकाधिकारिकत्वागते, तदन्तर्गसायामपि अवेष्टौ पूर्वपक्षः ] द्वितीयाध्यायस्थ तृतीयः पादः । ब्राह्मणादेः प्राप्तत्वात् निमित्तत्वोपपत्तिः । समितिकश्च बाईस्प. त्यादिमध्पनिधानपूर्वकपस्यास्यभिधारणविशिष्टः प्रयोगः, न स्व. भिधारणमात्रं, मध्यनिधानविशिष्टाभिधारणस्य पञ्चहविष्क कोष्टि- भयोग विना(१)नुपपद्यमानस्य एकैकहविष्कष्टिपयोगेष्वनिवेशाद । अन एवाभिधारणस्थ कर्मोन्पत्यन्वायनोऽपि न कर्मान्तराक्षे. पकत्वम् । तथात्वे तस्य कर्मान्तरस्य दर्शपूर्णमासप्रकृतिकवापत्या प्रकृतहविर्मध्यानधानरूपविशेषणानुपपत्तेः । अतो मध्यनियान रूपविशेषणसामाद आभधारणस्यायष्टिप्रयोगान्तरक्षेपक ल्ममेव । नवं पूर्वपक्षसिद्धान्तयोरुभयोरप प्रयोगान्तरने भेदाभेद- चिन्ताभावाल्लक्षणासङ्गतिः । ब्राह्मणादिरूपगुणस्य वाक्यमेदापा- दनविधया भेदकत्वविचारण सङ्गत्युपपत्तेः । तत्प्रयोजन राज মুগাৰু ৰন্থিৰঞ্চি জাকাৰিক্ষাৰguা মৃগামা?' ক্লাহু गादिश्रवणस्य निमित्तार्थत्वे हि राजस्थान्तर्गनोऽपि नैमित्तिक पञ्चहविष्कैकेष्टिपयोगस्थान , प्रापकत्वपक्षे तु बहिरेवत्यस्ति भ. योजनम् । अग एव पञ्चेष्टिप्रयोगा आणि (२)वाईगिरादिवदनु- लोमादिविषयत्वेन व्यवस्थापनीयाः । अत एव राजसूयान्तर्गतप्रयोगाणां राजभूयाधिकाराविधिना ब्वाराज्यफलकत्वावगमेऽपि "एतयानायकामं याजये दित्य- विकारानतरविधिना नित्यनैमित्तिकानां अवेष्टिमात्रप्रयोगाणां अ. १ अनुपपत्तः तस्य। २ "बाहदिर ब्राह्मणस्य ब्रह्मलाम कुर्यात, पाथुरश्मं राजन्यस्य, रायोवाजीय वैश्यस्य" इति द्वादशाहे श्रुाना बाहिद्विरादीनां सत्रा. त्मके द्वादशाहे ब्राह्मणतरस्थ प्राप्त्यभावात यथा अहीनविषय- तया व्यवस्था क्रियते, तद्वत् प्रत्येकप्रयोगा पञ्चानुलोमविषयतया व्यवस्थापनीया इत्यर्थः ।
मीमांसाकौस्तुभे [ अवेष्ट्यधिकरण- प्राधरूपफलसम्बन्धस्याप्यवगमात् युगपत्नयोगे च योगसिध्यधि- करणन्यायेन अनेक फलजननायोगात राजसूयाद्राहरपि तत्तत्पयो. गाणामन्नाद्यार्थमनुष्ठानं वेदितव्यम् । न तावता अन्नाद्यवाक्ये. ऽपि प्रयोगान्तरविधिः । तस्य लाघवेन फलसम्बन्धमात्रपरत्वोप- पत्तौ प्रयोगान्तरविधायित्व प्रमाणाभावात् । अत एव तस्यैव प्रयोगस्य बहियक्तिभेदमात्रं, न तु वैजात्यम् । तस्मात् ब्राह्मणत्वा. दिनिमित्ते खाराज्यार्थ अन्नाधार्थ वा मध्येनिधानपूर्वकाभिधार- विशिष्टावोष्टिप्रयोग एक तत्तद्वाक्य विधीयत इति सिद्धं ब्राह्म. णश्रवणस्य निमित्तार्थत्वात् अभेदकत्वमिति प्रासे- ( अथ सिद्धान्तः) अभिधीयते-नैतानि निमित्तार्थानि, अप्राप्तत्वात् ब्राम गादीनां राजसूये । तथा हि-न राजशब्दः प्रजापालनक्रियाक- वाची द्रविडानामपालय सपि क्षत्रिये राजशब्दप्रयोगेण पा. लनस्य बहिराज्यशब्देषु संस्कारस्येव व्यभिचारात् । न चार्या वर्तसकलजनानां पालयितरि ब्राह्मणादावपि प्रयोगेण बलीयसा जातेराप व्यभिचारावगमात् पालनकारिवाचित्वनिश्चयः । बली. यसोऽपि बलवत्प्रमाणानुगृहीतेन द्रविडप्रयोगेण बाधात् । तथा हि- अस्तु तावत् स्मृतेरनुग्राहकत्वम् , श्रुतिरेव सकलप्रमाणमू- धन्यानुग्राहिका समस्ति । अभिषेको हि पालनाधिकारसंपत्तये क्षत्रिय पुरस्कारेण समाम्नातः। तद्विधौ च 'राजानमभिषेचयेत्' इन्यत्र राजोद्देशेनाभिषेको विधीयते । उद्देश्यस्य च पूर्वप्रसिद्धि- सापेक्षत्वात् न पालनकर्तृत्ववाचिस्ले सा सम्भवति । कात् पूर्व पालयितृत्वमस्ति । अभिषेकस्य पालनाधिकारसम्पा- दकत्वेनैव विधेयवाद । GANE . न भि.
सिद्धान्तः ] द्वितीयाध्यायस्य तृतीयः पादः । न चाभिषेका पूर्व पालयितृत्वासम्भवेऽपि तद्योग्यत्वमा- दायैव राजशब्दप्रमिध्युपपत्तिः । तत् किं योग्यत्वमात्रे तत्रय. राजशब्दस्य लक्षणा ? शक्तिर्वा ? नायः ; मनुष्यमात्रस्य प्रजा. पालनयोग्यत्वेन पालन योग्यत्वस्य पालनाधिकारसम्पादका. भिषेकविधिसामर्थ्य लभ्यत्वेन च राजपदवैयपित्तेः । अत एव न द्वितीयोऽपि । राजमूयाधिकारवाक्यस्थराजपद- स्थापि व्यावाभावेनास्मिन पक्षे वैयपित्तेः । न च क्रौर्यशौर्यातिशयवत्वस्य पालनयोग्यतावच्छेदकत्वाङ्गी- कारात् तद्रहितव्यात्यापि राजपदसार्थक्योपपत्तिरिति वाच्यम् । क्रौर्यशौर्याधतिशयवाति पालनयोग्ये ब्राह्मणादौ राजपदप्रयो. गाभावेन ताशयोग्यतावच्छेदकावच्छिन्ने राजपदशक्त्यङ्गीकारे शक्तिग्राहकममाणाभावात् । अतो योग्यतामादाय पालनमादाय वा राजपदस्याभिषेकविधिस्थस्य पूर्वप्रसिध्यनुपपत्तेः द्रविडप्र. योगोन्नीतं क्षत्रियवाचित्वमेवाभिषेकविधिरनुमन्यते । एतेन पूर्वप्रसिध्यभावेऽपि "यूपं छिनत्ती” तिवत् अभिषे. कजन्यादृष्टत्वस्यैव राजपदशक्यतावच्छेदकस्य तद्विधिप्रत्युत्त- रकालं तर लेनैव बोधोपपत्तेः न द्रविडप्रयोगोत्रीतक्षत्रियवाचित्व- सम्भव इत्यपास्तम् । “व्रीहीनवहन्ती" त्यादिवत कथञ्चिदपि पूर्वप्रसिद्धिसम्भवे अभिषेकपरस्य विधेः गुरुभूतशक्यतावच्छेदक. स्वविषयशक्तिग्राहकत्वकल्पने गौरवापत्तेः। अभिषेकस्य ब्राह्म. णादावविहितत्वेन कृतेऽपि आभिषेके तज्जन्यादृष्टवत्वे प्रमाणाभा. बाद । ब्राह्मणादेः राजसूयाधिकाराभावप्रसङ्गेन भवादिष्टसिध्य- भावाच । अत एव न "राजेत्येतानभिषिक्तानाचक्षते" इत्यादि. लिङ्गान्यपि अभिषेकजन्यादृष्टवत्वे राजपदस्य शक्तिरित्येवंपराणि। शक्यतावच्छेदके गौरवात् । अपि तु निरूढलक्षणापराणि । तत्प- ..
२२ मीमांसाकौस्तुभे [अवेष्टणाधिकरण- योजनश्च राजसूये प्रजापालनादिवियौ अभिषिक्तक्षत्रियपरत्व- सिद्धिः। अब एन अभिषिक्तक्षत्रियलसकराजप्रातिपदिकयाटिराजन्य. पदस्यापि तल्लमकत्वपप्तक्तौ परिसंख्यानार्थ 'राज्ञोपाये जातिग्रह मिनि बार्तिकम् । तेन राजन्यपदस्थ नाभिषिक्त निरूढलक्षण. त्यपि सिध्यति । अतः श्रुत्युपष्टपद्रविडप्रयोगणेव लाघवनीम्ह. कुन क्षत्रियवाचिस्वसिद्धिः । आर्यावर्नप्रयोगस्तु गजकार्यपालनकारियान गौणः । एवम व्याकरणादिरपि न चौर्यादिशब्दवत पालनकारिकर्मणि राज्य- शब्दः साधुरित्यपरत्वेन व्याख्येयः, अपि तु क्षत्रिगकर्मणीत्येवं. परत्वेनैवेति द्रष्टव्यम । यदिशब्दस्तु निपातत्वात् पूर्वाधिकरणो. तरीया लिङः हेतुमद्भावादिपरत्वनात्पर्यग्राहकतयापि व्याख्या- यमानो न दुष्यनि इनि ब्राह्मणादीनां राजसूये प्राप्त्यभावात नि- मिक्षार्थत्वानुपपत्तेः युक्तैन विधेयब्राह्मणादिरूपगुणनशान प्रयोग- भेदसिद्धिः । यथैव हि मध्यनिधानविशिष्टाभिधारणस्थ पूर्वप्रयोगेषु पूर्वपक्ष्युक्तरीत्याऽनिविशमानत्वात् प्रयोगभेदकत्वं, तथैत्र ब्राह्मण- वादे नितिक्षत्रियमात्रकर्तृकावेष्टिप्रयोगेष्वनिवेशान वाक्यभेदा- पादकत्वाच प्रयोगभेदकत्वं युक्तमेव । अतो ब्राह्मणादिसकलविशेष. विशिष्ट एकप्रयोगो विधीयते । वार्तिककारीयकर्मान्तरविधिपक्षस्तु वाजिनादिवदुत्पत्यन्वयि- गुणाभावात भौढिवादमात्रम् । योऽप्यभिधारलक्षणो गुगा मोजप मध्येनिधानरूपविशेषणमामात् प्रयोगाक्षेपक एव । कर्मान्तर- विधित्वे हि तस्य दर्शपूर्णमासविकारत्वापत्तः कथञ्चिद्वा प्रकृतहवि. विकारत्वेऽपि एकत्रिकारत्वापत्तेः अन्यहविःमाप्त्यभावेन मध्ये निधानानुपपत्तिः । अतः प्रयोगान्तरमेव विधीयते । तस्य च धमि.
सिद्धान्तः ] द्वितीयाध्यायस्थ तृतीयः पादः । ग्राहकप्रमाणेनैव राजसूयबाडिर्भावसिद्धिः । अत एव ब्राह्मणादिश्रवणानच्छिन्ना अवेष्टिप्रयोगा एव राजसूयमहाप्रयोगान्तर्गता इसी वेदितव्यम् । अत एव च बहिरनु. ष्ठीयमानपञ्चहविष्कैकोष्टप्रयोगस्य फलापेक्षायर्या अपेक्षितविधान- न्यायेन "एलगा अन्नाधकामं याजये" दित्यनेन फलसम्बन्ध: क्रियते इत्येकैकहविःप्रयोगेभ्यो नानाधोत्पत्तिः, अपि तु राज. सूयमहाप्रयोगान्तर्गते भय तेभ्यः स्वाराज्योत्पनिरेव । अत एवं अकृतपरामर्यंतच्छन्दनिर्दिष्टानेष्टिपात्र पुरस्कारेणानाचाम्नानात् निरवकाशानाद्यावरुद्धाष्ट्रिनिराकाङ्क्षत्वात न तद्वयतिरिक्तविष. येऽपि सावकाशं स्वाराज्यं गृहातीत्यपास्तम् । अन्नाद्यस्यापि ब्रा- ह्मणादिकर्तृकप्रयोगे सावकाशत्वात् । अतश्च राजसूयमकरण. पाठसार्थक्याथ एकैकहाविष्केष्टिप्रयोगाः स्वाराज्यफलका एव । न च चिनिगमनाविरहः, ब्राह्मणादिसम्बन्धस्यैव स्वाराज्यप्रयोगे असम्बध्यमानस्य नियामकन्वात् । किञ्च यधप्यत्र प्रयोगभेदो न स्यात् तथापि निरवकाशे. नापि फलेनावरुद्धा अवेष्टिः सावकाशेनापि फलेन गृह्यत एव । न च वाजिना(२)पांशुवादिन्यायः । तत्र हि वाजिनोपांशुत्वादेः गुणभूतस्त्रादामिक्षापागदीक्षणीयादावुत्पत्तिजष्टनिरवकाशगुणाव- रुद्धे आकाङ्क्षोत्थापनासम्भवात् युक्तो बाधा, प्रकृते तु सावका. शस्यापि प्रधानत्वात् फलस्याकाङ्क्षोत्थापकत्वोपपत्तेः न बाधो युक्तः । अत एव उत्पत्तिशिष्टनिरवकाशपशुरूपफलावरुद्धस्थापि १ उपांशुत्वन्याय इति । तस्मात् यत्किशिल प्राचीनमग्नीषोमी.. यात् तेनोपांशु चरन्ति" इति वाक्यविहितस्योपांशुस्वरस्य यक्षमा- गसम्बन्धितः यथा “यावत्या वाचा कामयते तावत्या दीक्षणीयाया- मनुब्रूयात्" इति दीक्षणायामात्रोद्देशेन विशेषविहितेन कामस्वरेण बाधः तथैवात्रापि बाधो भवत्विर्थः ।
३४ मीमांसाकौस्तुभे [ अवेष्टयधिकरण- उद्भिदादेः(१)विविदिषाफलेन आकाङ्क्षोत्थापनम् । नचैवं श्रुत्या गार्हपत्याङ्गत्वेन प्रमितस्यापि मन्त्रस्य आका. क्षात्थोपनेन लिङ्गादिन्द्राङ्गत्वापति, लिङ्गोनीतश्रुतेः कल्प्यत्वेन तत्र स्वारसिकाकाक्षाया एव कारणत्वात् । अस्तु वा निरव. काशनापि शेषिणा सावकाशस्यापि शेषिणो बाधः, तथापि पूर्वो- क्तविधया अन्नावस्यापि सावकाशत्वात् स्वाराज्यतुल्यत्वम् । अत एव(२) ईश्वरो वा एष दिशोनून्मदितोः । यं दिशोऽनुव्या- स्थापयन्ति । दिशामवेष्टयो भवन्ति ।" इति राजसू यान्तगततया विहितदिग्व्यवस्थापननिमित्तोन्मादपरिहारसाधनत्वेन अबेष्टीनां स्तुतिरपि राजसूयप्रयोगान्तःपातादुपपद्यते । एतेन एकैकहविष्कोष्टिपञ्चकस्य राजसूयप्रयोगान्तःपातेऽपि द्विविधस्यापि प्रयोगस्य अन्नाद्यफलकत्वमेव, एतच्छब्देन परामर्शा. विशेषाव इत्यप्यपास्तम् । सन्निधानाविशेषेऽपि आकासित- सम्बन्धस्य न्याय्यत्वेन ब्राह्मणादिकर्तृकायोगस्यैवान्नाद्यफलक. त्वौचित्पात् । तेन सिद्धं राजसूयात् बहिरनुष्ठयानि प्रयोगान्तरा- प्येवान्नाधफलकानि विधीयन्ते ब्राह्मणादिवाक्पैरिति । न च ब्राह्मणवैश्यवाक्ययोस्तद्विधानेऽपि राजन्यवाक्ये राज- न्यस्य राजसूये प्राप्तत्वेनाविधेयत्वात नित्यप्राप्तत्वेन च निमित्त वायोगेऽपि यदिशब्दस्य ब्राह्मणवैश्यवाक्ययोरिव परित्यागादिना राजन्यस्यानुवादमात्रत्वोपपत्तेः मध्येनिधानस्य पञ्चेष्टिप्रयोगेष्व- निवेशेन प्रयोगान्तरविधायकत्वेऽपि तस्य स्वाराज्यफलार्थ राज- सूयप्रयोगान्त पानेनैव विकल्पेन समुच्चयेन वा करणोपपत्तेः न १ "विविदिषन्ति यज्ञेन दानेन तपसानाशकेन" इति वाक्येन सर्वकर्मणां तत्तत्फले विनियुक्तानामपि विविदिषार्थत्वेनापि विनियो- गात् तत्सम्बन्धार्थ आकांक्षोत्थाप्यत इत्यर्थः । २ ते. ना. १-८-३१. . ..
सिद्धान्तः ] द्वितीयाध्यायस्य तृतीयः पादः। २५ प्रयोगबहिर्भावोपपत्तिरिति वाच्यम् । राजन्यपदस्य अनुवाद- मात्रत्वे वैयापत्तेः तस्य चाभिषिक्तानभिषिक्तसाधारणक्षत्रिय- मात्रवाचित्वेनानभिषिक्तक्षत्रियस्य राजसूये अप्राप्तस्यानुवादायो- गात राजन्यपदस्य क्षत्रियविधायित्वावगतेः ब्राह्मणादिवाक्य- न्यायेनाभिषिक्तानभिषिक्तक्षत्रिय साधारण्येन राजमूयप्रयोगबहिर्भू- तप्रयोगान्तरविधायित्वस्यैवावसायात् । अतस्सिद्धं ब्राह्मणादि- गुणस्य भेदकत्वम् । नचैतेषु प्रयोगेषु दक्षिणाभावः, औत्पत्तिकदक्षिणया एकै कहविष्कप्रयोग एवावरुद्धत्वादिति वाच्यम् । तस्याः प्रयोगा- क्षेपकत्वेऽपि साङ्गप्रधानाङ्गत्वेनेहापि निरूढपश्चादौ महादिवत् प्राप्त्युपपत्तेः । अनयैव दिशा पूर्वपक्षेऽपि नैमित्तिकमयोगे दक्षि- णाप्राप्तिरुपपादनीया । प्रयोजनं प्रसङ्गात् पूर्वमेवोक्तम् । सूत्रं तु अवेष्टयवान्तरप्रकणस्थेषु ब्राह्मणादिरूपगुणश्रवणं ऋतुप्रधानमवेष्टिप्रयोगभेदनियामकं राजसूययज्ञे क्षत्रियस्यैव संयोगेन ब्राह्मणादीनामप्राप्तानां विधेयत्वादिति व्याख्येयम् ।। इति द्वितीयमवेष्टयधिकरणम् । अथ तृतीयमाधानाधिकरणम् (३) सू-आधानेऽसर्वशेषत्वात् ॥ २-३-४. ॥ (सि) (विषयसंशयौ) अनारभ्य श्रुतं(१) वसन्ते ब्राह्मणोऽग्नीनादधीत" "ग्रीष्मे १ते. बा.१-१-२-६.
D . २६ मीमांसाकौस्तुभे [आधानाधिकरण- राजन्यः" "शरदि वैश्यः" इति । तथा "वसन्ते ब्राह्मण. मुपनयीत" "ग्रीष्मे राजन्य" "शरदि वैश्य" मित्यादि । तत्र पूर्ववदेव ब्राह्मणादिश्रवणानि कालविधौ, ब्राह्मणा- दिविधौ वा कालश्रवणानि निमित्तार्थानि उत स्वस्ववाक्ये आ. धानविधिबोधनद्वारा तद्भेदबोधकानीति संशयः। (सङ्गतिः) पादाध्यायसङ्गती पूर्ववत् । अनन्तरा तु पूर्वत्र राजस्- यस्य क्षत्रियमात्रकर्तृकत्वात् ब्राह्मणादीनां कथमध्यमाप्तेर्युक्ता विधेयत्वेन भेदकता । प्रकृते तु आधानस्योपनयनस्य वा आक्षे. पादेव सर्वकालककत्वोपपत्तेः प्राप्तानां ब्राह्मणादीनां निमित्त- वोपपचिरिति पूर्वपक्षोत्थानाद द्रष्टव्या। (पूर्वपक्षा) सत्र नित्यकाम्यसाधारण्येन सर्वेषां ऋतूनां अग्निविद्यासा- पेक्षवाद अग्निविद्ययोश्च वजनकीभूताधानाध्ययनापेक्षत्वाद अध्ययनस्य चोपनयनसाध्यत्वात ऋतुविधीनां आधानोपनयना- क्षेपकत्वमवगम्यते । न चाधानोपनयनयोः परम्परया ऋतुजन- कत्वेऽपि अङ्गताग्राहकप्रमाणभावेन क्रत्वनङ्गत्वात क्रतुप्रयोगवि- घिविषयत्वाभावेन कथं तत्प्रयुक्तत्वमिति वाच्यम् । अनङ्गस्यापि आभक्रमणादिवदन्यथानुपपत्तिमात्रेण प्रधानविधिप्रयुक्तत्वोषपत्तेः! अथ तत्र प्रयाजविधिरेव प्रयोजक इत्युच्यते ततोऽत्रापि अग्निरध्ययनं चाङ्गत्वाभावेऽपि जनकत्वादाधानोपनयनयोः प्रयो- जमिसपि शक्यं वक्तुम् । आधानस्य वक्ष्यमाणरीया(१)विहि- तत्त्वस्यापि सत्वेन अग्न्यङ्गत्वोपपत्तेश्च । अतश्च ऋतुविधिप्रयुक्त- १ विहितत्वेऽपि तत्वेन पूर्वपक्षः ] द्वितीयाध्यायस्य तृतीयः पादः । योराधानोपनयनयोः तत्कर्तृकत्वेन नितित्वात् ऋतूनां च स्वर्गकामत्वाविशेषेण ब्राह्मणादिकर्तृकत्वात् तदाक्षिप्ताधानोपनय- नयोरपि ब्राह्मणादिककत्वमासेः ब्राह्मणश्रवणस्य निमित्तार्थ- त्वोपपत्तिः । नचात्र यदिशब्दाभावाद निमित्तत्वानुपपत्तिः। यदिशब्द. स्यापि प्राप्तियोतकमात्रत्वेन प्रकृते सदभावेऽपि प्राप्तिमात्रेण नि- मित्तत्वोपपत्तेः, तन्नैमित्तिकश्च नसन्तादिकालाधिकरणतानियमः । अत एव कालस्य सन्ध्यावन्दनादिवानिमित्ताधीनानुष्ठानविषय • स्वरूपनैमित्तिकत्वासम्भवेऽपि निमित्तान्वयव्यतिरेकानुविधायय- धिकरणताकत्वमेव तदिति द्रष्टव्यम् । आधानोपनयनयोश्च वक्ष्यमाणरीया वाक्यान्तरादर्थाच्च प्राप्त योरीमितत्त्वाख्योद्देश्यलेऽपि विजातीयानेकोदेश्यत्वात् न वाक्य- भेदः । कालस्य चानुपादेयत्वेनोद्देश्यत्वेऽपि विधेयत्वादपि न सः । अतश्च कर्तृतासम्बन्धेन ब्राह्मणत्वादौ निमित्ते आधानाधु- द्देशेन वसन्तादिकालो विधीयते । तेन ब्राह्मणादेः कालान्तर- निवृत्तिः, ब्राह्मणाद्यतिरिक्तस्य च शूद्रादेरनियतकालकत्वं सिद्धं भवति । अथ वा क्रतुविधिभिः सर्वसाधारण्येन आधानोपनयनाक्षे. पवन सर्वकालसाधारण्येनापि स क्रियते। न हि ऋतुविधिभिराक्षे. पपक्षेऽपि प्रयाजादिवत् प्रयोगान्तःपाती स इति युज्यते । अनी- नामन्ते प्रतिपत्तिविधानेन तत्साधनस्याधानस्य (१)पाधवत् १ "आहिताग्निमग्निभिर्दहन्ति यज्ञपात्रैश्च" इत्यनेन पात्रान्योः दाहं प्रति गुणत्वावगमेऽपि "दक्षिणहस्ते जुहूमासादयति, सव्यहस्ते ध्रुवाम्" इत्यादिना द्वितीयानिर्देशात् प्रतिपत्तिसंस्कार्यत्वावगतः तदर्थ दर्शपूर्णमासारम्भकाले सम्पादितानामेव पात्राणां यावज्जीवं २८ मीमांसाकौस्तुभे [आधानाधिकरण- साधारणत्वापसा प्रयोगात् बहिरेवानियतकाल(१)कर्तव्यत्वमा. प्लेः । उपनयनस्य त्वध्ययनार्थत्वेन सामर्थ्यादेव प्रयोगबहिर्भावः । अतश्चाग्निहोत्रादिप्रयोगपूर्वभावितया अनियतकाले प्रसक्तयो. राधानोपनयनयोः वसन्तादिकालकत्वे निमित्ते ब्राह्मणादि. कर्तृकत्वं विधीयते । एवञ्च “यत्तयोगः प्राथमित्याधु. द्देश्यलक्षणम्" इसादिन्यायात वसन्तादिकालस्य निमित्तता मा- थम्यादुपपन्ना भवति । तत्फलं च वसन्ताद्यतिरिक्तहेमन्तादिका. लकस्याधानस्योपनयनस्य वा ब्राह्मणाद्यनियतकर्तृकत्व सिद्धिः । था नोभयविशिष्टाधानोपनयनविधिः, गौरवात्, अन्यतः सम्भवत्प्राप्तिकत्वाच्च । ननु-उपनयनस्य सामादध्ययनजनकत्वेऽपिनियमेनानाक्षे. पाद्विधिविषयत्वोपपत्तिः, आधानस्य तु अदृष्टरूपाहवनीयादिजन- कत्वं न विधि विना पक्षेऽप्यवगतमिति कथं न तद्विषयत्वं? किञ्चा- धानविध्यभावे आहवनीयादिपदार्थ एवानवगतः, न ह्यसौ लोक. प्रसिद्धः (२)यूपादित । आधानजन्यादृष्टविशेषस्तु विधि विना असिद्ध एव । ततश्चाहवनीयादिपदार्थस्यैवाप्रसिद्धौ आघानजन्य- स्वस्य सुतरामप्रसिद्धेः कथं कामश्रुतिभिः तदाक्षेप इति चेत्- न; पक्षप्राप्त एवोपनयने गुणसक्रान्तशक्तिना विधिना नैमित्तिकविधानोपपत्तेः । आधानप्राप्तौ तु यतन्ते- . , Credia धारणात् यथा सर्वकर्मसाधारण्यं तेषां, तद्वत् अग्नीनामपि "दक्षिण- हस्ते आहवनीयम्” इत्यादिना प्रतिपत्तिविधानात् तत्साधनस्या- प्याधानस्य सर्वकर्मसाधारण्यापत्तरित्यर्थः । पात्राणां सर्वकर्म- साधारण्यं च एकादशे 'यज्ञायुधानि धायर'(११-२-१३.) नित्यत्र निरूपितम्। १ कर्तृत्व २ यूपो यथा न लोकप्रसिद्धस्तद्वदित्यर्थः ।
पूर्वपक्षः] द्वितीयाध्यायस्य तृतीयः पादः। २९ तत्र पार्थसारथिस्तावत्-(१) "नक्तं गार्हपत्यमादधा- ति । दिवाहवनीयम्" इत्यादिवाक्येषु आधानानुवादेन नक्ता. दिरूपगुणविधायकेषु आहवनीयादिजनकत्वेन आधानानुवादात तत्प्राप्तिः । इष्यते चानुवादतोऽपि पदार्थप्राप्तिः । “न गिरा. गिरेति ब्रूया" दिति निषेधानुवादबलेन इरापदस्य गिरापदका- र्यकारित्वमाप्तरङ्गीकारात् । अवश्यं च वसन्तादिवाक्येषु आ- धानविधिवादिनापि तत्राहवनीयादिपदाश्रवणात तज्जनकत्वमाधा- नस्याग्निपदस्य वा तत्पर्यायत्वं नक्तादिवाक्येषु अनुवादत एवागन्तव्यम् । अतश्च ममापि तत एव प्राप्त्युपपत्तेः निमित्ता- र्थ श्रवणमिति। तन्न ; अनुवादतो विशेष्यप्राप्त्यङ्गीकारे विशिष्टविधिमा. त्रोच्छेदापत्तेः । इरापदस्थले तु विकारार्थतद्धितेनानियतानेकप- दविकारत्वापत्या अनियतानेककार्यकारित्वप्रसक्तो अनुवादबलेन नियममात्रम, नत्वपूर्वावगतिरिति वैषम्यम् । सिद्धान्तेऽपि च पदान्तरसामानाधिकरण्यादिवत अनुवादोऽप्युत्पत्तिवाक्यगता. ग्निपदस्य आहवनीयादितात्पर्य ग्राहकतया न विरुध्यते । भवदेवस्तु "आहितोऽग्निराहवनीय" इसाद्यर्थवादशात् आहवनीयादेराधानजन्यत्वावगतिरित्याह । तदपि वक्ष्यमाणरी- त्या प्रत्यक्षविधिसद्भावे अर्थवादोन्नीतविधिकल्पनस्यान्न्याय्य. स्वादुपेक्षणीयम् । अत एवं परिहर्तव्यम्-यद्यपि विशिष्टविधिगौरवाभिया नान्यो विधिः आधानप्रापकतया सम्भवी । तथापि टुप्टीकोक्तरीत्या "स. म्भारेवग्निमादधाती" त्ययं अनन्याक्षिप्तशक्तित्वात आधानविधा- १ तै० ब्रा० १-१-४-३.
३० मीमांसाकौस्तुभे [आधानाधिकरण- यकः सम्भवत्येव । नक्षत्र सम्भारविधिः, तेषां (१)वाक्षपार्थिवानां वाक्यान्तरपमितत्वात् । नापि तेषामाधानाधिकरणताविधिः। तस्या अपि सामर्थ्यात् (२) "तस्मिन्नाधीयतामय" मित्यादिमन्त्रवर्णा- व प्राप्तत्वात् । एतेनाधिकरणसाविशिष्टाधानविधिरिति न्याय सुधाकृदुक्तप- कारोऽपि प्रतिबन्धापत्तेः प्रत्युक्तः। तदा हि नक्तादिवाक्यमादा. य प्रतिबन्दी स्फुटैव । अतोऽत्राधानमा विधीयते । तस्य च प्रयोगः प्रयाजदिवत् प्रधानविधिमिरेब । प्रयोगस्यापि धन्यत- सम्भवत्पाप्तिकस्य विधाने गौरवाद, प्रयोगविधिचिह्नस्य काल. क देरभावाच्च । अतश्च "व्रीहीन प्रोक्षती" त्यादिवदुत्पत्तिर्वि- नियोगश्चानेन क्रियते । अत्रत्याग्निपदं च गुणवाक्यानुसारात् "आहितोऽग्निराहवनीय" इत्याद्यर्थवादयशाच्चोन्नीताहिग्निपर्याया- हवनीयादिपरम् । अतोऽनन्याक्षिप्तविधिशक्तिकसम्भारवाक्येनैवा- धानस्योत्पन्नस्य चिनियुक्तस्य च ऋतुविधिभिः सर्वसाधारण्येन प्रयोगविधानात् ब्राह्मणादिश्रवणं निमित्तार्थमेव । नचैवं सम्भारवाक्ये परस्मैपदनिर्देशात् अनाधातारं प्रति आहवनीयत्वाभावानवगतः अन्येनाहितानामाप क्रयणेनान्यस्या- (१) "सप्त पार्थिवान् सम्भारानाहरति" ( आप. श्री. ५-१-५.) इति विहिताः सप्त पार्थिवास्सम्भाराः । ते च सिकतो, षा, खुक- रोष, वल्मीकमृत्, सुद, वराहविहत, शर्करा, रूपाः । ऊषाः ऊपर. मृत् । अखुकरीषं मूषिकोद्धृता मृत् । सूदः अशोष्यस्य जलाशयस्य मृत् । शर्कराः क्षुद्रपाषाणा, कङ्कड् इति भाषायाम् । अन्यत् प्रसि- द्धम् । एवं अश्वत्थो, दुम्बर, पलाश, शमी, विकता, शनिहतवृक्ष, पनपत्ररूपाः सप्त वार्ताः । वार्ताः वृक्षसम्बन्धिनः । २ यत् पृथिव्या अनामृत सम्बभूव त्वे सचा । तमग्निरग्नयेऽ. ददात् तस्मिन्नाधीयतामयम्" इति समग्रो मन्त्रः। - - सिद्धान्तः ] द्वितीयाध्यायस्य तृतीयः पादः । - हवनीयसम्भवेन नद्यावृत्तिफलकस्याघातृमात्रसम्बन्धित्वरूपात्मने- पदार्थस्यापि वसन्तादिवाक्ये विधानाद्याक्यभेदापत्तिः । "उद्गा- तारः स्तुवत" इत्यादौ अकयपि क्रियाफलदर्शनेन कर्तृमात्रवृत्ति फलकत्वस्यात्मनेपदार्थत्वाभावात् । अत एव (१) स्वरितत्रितः कभिप्राये क्रियाफले” इसादिस्मृतिरपि प्रयोगविरोधादुपलक्ष- णत्वेन द्रष्टव्या। अथ वा तबस्तु आत्मनेपदयुक्तमेव अनन्याक्षिप्तशक्तिकं “य एवं विद्वानग्निमाधत्त" इत्याधानोत्पत्तिविनियोगपरं वाक्यम् । तेन चाधातृसम्बन्धित्वस्य प्राप्तत्वात् वसन्तादिवाक्ये न वाक्य- भेद इति । सर्वथा निमित्तार्थता ब्राह्मणादिश्रवणस्येति प्राप्ते- (सिद्धान्तः) अभिधीयते-नैतदपि निमित्तार्थम् , ऋतुविधिभिरुपनय. नस्य तावनियमेनानाक्षेपात् । ते हि ज्ञानस्य यद्यपि नियमेनाक्षे- पकाः तथापि तत्साधनस्याध्ययनस्य न नियमेनाक्षेपकाः उपा- यान्तरेणापि तत्सम्भवात् । अध्ययनमपि चोपनयनस्य न निय. मेनाक्षेपकम् । अनुपनीतस्यापि तत्सम्भवात् । अतः पक्षे सम्भव- स्माप्तिकस्योपनयनस्य वसन्तादिवाक्ये सम्भवत्येव विधिः । न च गुणसङ्क्रान्तशक्तिना विधिना पक्षप्राप्तमेवोपनयनं मा- व्यतयोद्दिश्य नैमित्तिकगुणविधिसम्भवे विशिष्टविधेरन्याय्यत्वमिति वाच्यम् । उपनयनविधेरध्ययनविधेश्च नित्यवच्छत्रणावगानित्य- वद्वाक्यैकवाक्यतामङ्गभयेन विशिष्टविधेरप्यङ्गीकारात् । किञ्च ब्राह्मणकालयोः कस्य निमित्तत्वं कस्य विधेयतेत्यत्र विनिगमनाविरहात उभयविशिष्टोपनयनविधिः । न च प्राथम्यं १पा० सु०१-३-७२.
३२ मीमांसाकौस्तुभे [ आधानाधिकरण- नियामकम् । तस्योद्देश्यताबोधकत्ववत् सप्तम्या उपपदविभ. क्तित्वप्रप्तङ्गेन विधेयताबोधकत्वस्यापि सम्भवेनानियागकत्वात् । अनेनैव चाधानवाक्येऽपि विशिष्टविधिद्रष्टव्यः । किञ्च सम्भारवाक्ये आधानोत्पत्यङ्गीकारे आत्मनेपदार्थ- स्थाप्राप्तत्वात वसन्तादिवाक्येषु वाक्यभेदप्रसङ्गः । न च "उद्गा- नारः स्तुवत" इति प्रयोगात् कर्तुमात्रवृत्तिफलकत्वस्य नात्मने- पदार्थत्वम् । स्मृतिविरोधेन काचित्कायोगस्य अर्थाविवक्षया साधुत्वमात्रार्थत्वेन स्तोत्रक्रियाजन्यदाक्षणालाभरूपफलाभिः प्रायेण वा उपपन्नत्वात् । (१)विद्वद्वाक्यस्य चाधानोत्पादकत्वं, वर्तमानापदेशत्वात् यच्छब्दाद्युपबन्धात् विध्यन्तरार्थवादत्वाच्चा- युक्तमेव । इदं हि "एवं सपत्नं भ्रातृव्यमवर्ति सहत" इसर्थवादस- हितमपि "अप उपसृजती" सादिविशेषविधिविहितानामुदका- दिसम्भाराणां “अथ सम्भारान् सम्भरती" ति यः स्थापनाव घिस्तस्य शेषः । यो विद्वानेवमुदकादिस्थापनपूर्व अग्निमाधत्ते स स्थापनरूपाङ्गसामर्थात् सहायसम्पन्नमपि वैरिणं वर्तनर. हित कुरुते इसर्थवादन स्थापनप्रशंसा । अत आधानप्रापकाभा- बाद वसन्तादिवाक्ये आधानसम्बन्धिन्यपि विशिष्टविधित्वमेव । सोऽपि च नोत्पत्तिविनियोगयोरेव, अपितु कर्तृकाळादिरूपा- णां गुणानामनन्वयप्रसङ्गेन तत्प्रयोगस्यापि । अत एव आधानापे- नयनयोः स्वविधिप्रयुक्तयोरेव लाभात् ऋतुविधयोऽपि तयोः तत्कार्ययोर्वा न प्रयोजकाः तदधिकारिणामेव च त्रैवर्णिकानामधि. कारिणां लाभात् न शूद्रस्याप्यधिकारित्वकल्पनया अग्निविद्योपा- याक्षेपका इत्यादि लाघवमपि । न च अग्निविद्ययोः स्वस्त्रविधिप्रयुक्तत्वेऽपि नित्यतावेदक- १ 'य एवं विद्वानग्निमाधत्ते" इतीदमत्र विद्वद्वाक्यम् ।
सिद्धान्तः ] द्वितीयाध्यायस्य तृतीयः पादः । । प्रमाणाभावेन नियपेन करणानापत्ते तदा नित्यैः क्रतुविधिभिः स्तदाक्षेपोऽध्यापक एवेति वाच्यम् । नित्यानामपि क्रतुविधीनां लाघवेन परप्रयुक्ताग्निविद्योपजीवित्वे प्रमिते स्वस्वविधिसिद्धाग्नि. विद्यावतः तदकरणे प्रत्यवायोत्पत्तावपि तद्रहितस्य तदुत्पत्ती प्रमाणाभावेनाग्निविद्याक्षेपकत्वानुपपत्तेः । एतेन. क्रतुविधीनां नि. त्यत्वात आधानविधीनामपि फलतो नित्यत्वमिति पार्थसारथ्यु- क्तिरपास्ता। वस्तुतस्तु "अनधीयाना व्रात्या भवन्ति" "स्थाणुरयं भारहारः किलाभूदधीत्य वेदंन विजानाति योर्थम्()"ब्रह्मक्षत्र. विशां काल औपनायनिकः परः" "अन ऊर्ष (२)पतन्त्येते यथा. कालमसंस्कृताः" इत्यादिनाध्ययनज्ञानोपनयनानां "नानाहिता. निम्रियते" त्यादिश्रुत्या च आधानस्य स्वरूपेणैव नित्यत्वमिष्ट- म् । न हीयं श्रुतिरनाहिताग्निमरणस्य तत्पुत्रकर्तव्यप्रायश्चित्ता- धिकारमात्रपरा, पुंश्चल्यादि(३)वंशप्रायश्चित्तवदिति वाच्यम् । तत्पुत्रकर्त्तव्यप्रायश्चित्तस्य विशिष्पानाम्नातत्वात, तथात्वे अनाहि. ताग्निताया उपपातकेषु पाठानुपपत्तेः । अतश्च तदेकवाक्यतयेयम. पि श्रुतिः आधानावश्यकत्वपरैव । अतश्च आधानोपनयनयोः नित्यत्वात् न नित्यक्रतूनां तदाक्षेपकत्वासक्तिरिति लाघवम् । अतः कर्तृकालविशिष्टोत्पत्तिविनियोगपूर्वकः प्रयोग एवं वसन्ता. दिवाक्पैविधीयते । च वसन्तादिवाक्येषु आधानप्रयोगविधिसम्भवेऽपि उत्पत्तिविनियोगयोः (४)सम्भारविधिबलेनापि प्राप्तिसम्भवाद- १ म. स्मृ.२-३९. २त्रयोऽप्यते. ३ दर्शन. ४ “अथ सम्भारान् सम्भरति" इत्ययं विधिस्सम्भारविधिः । अनेन प्राप्तानां पार्थिवानां वानस्पत्यानां च सम्भारा विधीयन्ते । न अत ३४ मीमांसाकौस्तुभे [आधानाधिकरण- विधानमिति वाच्यम् , तथात्वे आत्मनेपदार्थस्य आधातृत्तिफ- लत्वरूपस्य उत्पत्तौ विनियोगे वा अन्वययोग्यस्य प्राप्तोत्पत्या. धनुवादेन विधिः ब्राह्मणादिविशिष्टप्रयोगविधिश्चेति वैशिष्टया- सम्भवात् वाक्यभेदापत्ते, (१)संभारवाक्ये "अग्निमादधीते" त्येतावतव उत्पत्तिविनियोगपरत्वसिद्धौ सम्भारेष्वित्यस्य वैय. पित्तेश्च एवं तत्र "तस्मिन्नाघीयतामय"मिति मन्त्रवाद सम्भवत्माप्तिकाया अपि सम्भाराधिकरणतायाः अभ्युदयशिरस्क- स्वार्थ विधिः । अतश्च त्रिष्वपि ब्राह्मणादिवाक्येषु प्रयोगव- दुत्पत्तिविनियोगयोरपि करणात प्रयोगभेदवत् आधानस्व- रूपस्यापि भेदः । अस्तु वा प्राथम्यात ब्रह्म वाक्य. एवोत्पत्तिविनियोगवि. शिष्टप्रयोगविधिः । राजन्यादिवाक्ययोस्तु प्रयोगान्वयिकर्तृका- लरूपगुणयोगाद प्रयोगभेदमात्रम् । अत एव तत्र कर्तृकालवि- शिष्टः प्रयोग एव विधीयते । आत्मनेपदार्थस्तु उत्पत्तिवाक्य- प्राप्तोऽनुद्यते । सर्वथा ब्राह्मणादिश्रवणानि न निमित्तानि । नन् सम्भारवाकयादिना उत्पत्तिविनियोगप्रयोगाणां प्राप्त्यभावेऽपि “जानपुत्रः कृष्णकेशोऽग्नीनादयते" ति वाक्येन योवस्थाविशेषापनकतृविशिष्टाधानविधित्रयमस्तु । अ. नेकविशेषणविशिष्टविध्यपेक्षया एकविशिष्टविध्यङ्गीकारस्य न्या- य्यत्वात् शूद्रादिसाधारणैकप्रयोगविधिसम्भवे ब्राह्मणादित्रयस्य प्रत्येक प्रयोगविध्यङ्गीकारानौचित्याच । अतश्च तेनैव प्राप्तानां ब्राह्मणादीनां निमित्तार्थ श्रवणमिात चेव-- ९. "सम्भारेवग्निमादधाती" ति सम्भारवाक्यम् ।
सिद्धान्तः ] द्वितीयाध्यायस्य तृतीयः पादः । ३५ न; एवमपि कर्तृकालयोः कस्य निमित्तत्वं कस्य विधेयता इत्यत्र विनिगमनाविरहानिकारणात् । अनः सिद्धं ब्राह्मणादेः गुणस्य विधेयत्वात् भेदकत्वमिति । प्रयोजनं स्पष्टम् । सूत्रं तु आधाने तुल्यन्यागत्वात् उपनयने च ब्राह्मणादि. श्रवणं ऋतुप्रधानं, आधानादिप्रयोगभेदनियामकमित्यनुपज्यते ! आधानादेः सर्वपुरुषशेषत्वेन अप्राप्तवादिति अकारप्रश्लेषण व्याख्येयम्॥ इति तृतीयमाधानाधिकरणम् । अथ चतुर्थ दाक्षायणयज्ञाधिकरणम् (४) । सू-अयनेषु चोदनान्तरं संज्ञोपबन्धाता॥२-३-५॥(पू.) (विषयसंशयौ) दर्शपूर्णमासयोः “दाक्षायणयज्ञेन यजेत प्रजाकामः" । "साकंप्रस्थायीयेन यजेत पशुकामः" । “सङ्क्रमयझेन यजेता- नाद्यकामः" इति श्रुतम् । तत्र किमेवंसंज्ञककर्मान्तरविधिः ? उत्त दर्शपूर्णमासाश्रितो गुणो दाक्षायणादिपदाभिधेयः फलाथै विधी- पते ? इति सन्देहः। (सङ्गतिः) पूर्वपक्षे गुणस्याप्रसिद्धत्तादिना अविधेयत्वाद अनिश्चित. विघयताकस्य सिद्धान्ते गुणफलसम्बन्धाङ्गीकारेऽपि भावनाभेद- कत्वोपपादनातू पादसङ्गतिः । अनन्तरा तु ब्राह्मणत्वादेः गुण. ?
मीमांसाकौस्तुभे [ दाक्षायणयज्ञाधिकरण- स्थाप्राप्तत्वेन विधेयत्वात् युक्ता भेदकना । प्रकृते तु गुणस्याम- मिद्धत्वात् कथञ्चित् प्रसिद्धस्य वा वक्ष्यमाणरीया प्राप्तत्वात न भावनाभेदकता युक्ता । यदि परं भेद एवाग्रहः तदा संज्ञादिभिरेव स युक्त इति पूर्वपक्षोत्थानात द्रष्टम्या । अध्यायमङ्गतिस्तु स्पष्टै- व । (१)इन्द्रिय कामाधिकरणसिद्धस्यैव गुणफलगम्बन्धस्याक्षेप- समाधानाच न तेन पौनरुक्त्यम् । (पूर्वपक्षः) तत्र दाक्षायणयज्ञादिपदानां समुदायमामध्या अवयवामिध्या वा गुणविशेष लोके वेदे वा प्रसिध्यभावात् प्रमिद्धयजिसामाना- धिकरण्येन यागनामधेयत्वं तावत् निरवबाधम् । अत एव "पयसा प्रवर्येण चरन्ति" “पयसा दाक्षायणयज्ञेन" इत्यादिप्रसिद्धकर्मनामधेयप्रवर्यपदसामानाधिकरण्यमपि सङ्गच्छने । अन्यथा दाक्षायणपदवाच्याया प्रयोगाते द्रव्यानपेक्षत्वेन पयो- विधानानुपपत्तेः । अतश्च उद्भिदादिसंज्ञावदेवात्र तया कर्मान्तर- चोदनैव युक्ता । अत एव दाक्षायणादिपदानां कर्मान्तरेऽवयव- शक्त्यसम्भवेऽपि रूढिकल्पनया विजातीययागत्वस्यैव शक्यता- वच्छेदकत्वं कल्प्यते इति न दोषः । सूत्रं स्पष्टम् ।। सू-अगुणा च कर्मचोदना ॥ २-३-६. ॥ ननु-नेदं नामधेयम्, दाक्षायणादिपदार्थस्य गुणस्य लोकेऽ प्रसिद्धस्यापि वेदात् प्रसिध्युपपत्तेः । तथा हि- दक्षस्य यजमानस्य इमे दाक्षा ऋत्विजः तेषां कर्तृभूतानामयनं प्रयोगात्तिः दाक्षायण इत्येवमवयत्रव्युत्पत्त्यनुसोरणावगते कियती १पू.मी. २-२-११.
पूर्वपक्षः ] द्वितीयाध्यायस्य तृतीयः पादः। Domes आत्तिरिति विशेषापेक्षायां "वे पौर्णमास्यौ द्वे अमावास्ये यजेते" ति वाक्यान्तरात् द्विरात्तिः दाक्षायणपदाभिधेयेत्यत्रगम्यते । तथा साकंप्रस्थाय्यपदेनापि साकं सह प्रस्थानं यत्रेति व्यु. स्पसा सहप्रस्थानेऽनगते केन सहेत्यपेक्षायां "सह कुम्भीभिरभि- कामे" दिति वाक्यात् कुम्भीसाहित्यमित्यवगम्यते । एवं सङ्क्र- मपदेनापि सङ्क्रमणे उक्ते, क्वेत्यपेक्षायां भवदेवोक्तविधया आ. हवनीयरूपहोमदेशे इत्यत्रगम्यते । अनश्च लोकाप्रसिद्धलेऽपि वैदिकप्रसिद्धिमात्रेण दाक्षायणादिपदानां गुणवाचित्वोपपत्तेः द- ध्यादिवत् फलसम्बन्धो युक्त एवेति चेत्- न; 'द्वे पौर्णमास्यौ' इत्यादि वाक्यानां प्रकरणात क्रत्वङ्ग- तया द्वित्वादिरूपगुणविधायिनां दाक्षायणादिपदार्थतात्पर्यग्राहक- स्वानुपपत्तेः । अन्यथा “दध्ना जुहोती" सस्यापि आश्रयमात्रपर- त्वोपपत्तौ क्रत्वङ्गताबोधकत्वानुपपत्तेः । अथ तु तेन त्वर्थतयैव द्वित्वविधावापे अयनपदवाच्यायाः आवृत्तेः प्रमाणाभावादेव अधिकायाः प्रसक्त्यभावात् द्वित्व एवं पर्यवसानोपपत्तेः फले विधानमित्युच्यते ततो गुणधात्वर्थयोरुभ- योरपि नित्यवत् प्राप्तौ(१)ऐन्द्रवायवाग्रान् गृह्णीयात यः काम. येत यथापूर्व प्रजाः कल्पेरनि" तिवत(२) भावार्थाधिकरणन्या. येन धात्वर्थस्यैव फलमम्बन्धोपपत्तेः न गुणफलसम्बन्धोपपत्तिः । दध्यादौ तु नित्यवदनुवादायोगात् तथाङ्गीकार इति वैषम्यम् । किञ्च "द्वे पौर्णमास्या" वित्यनेनापि पौर्णमास्यादिपदवा- ध्यप्रधानत्रयमात्रानुवादेनैव द्वित्वविधानात् प्रकरणेन च तस्यैवा- श्रयत्वावग: न साङ्गप्रयोगावृत्तिः फले विधातुं शक्यते । वि. १. तै. स. ७-२-७. २. पू. मी.२-१-२.
३८ मीमांसाकौस्तुभे [ दाक्षायणयज्ञाधिकरण- वक्षितगुणस्य च दाक्षायणादिपदेनैव वक्तुं शक्यत्वात् यज्ञपद- वैयापतिः। साकंप्रस्थायीये तु प्रस्थानस्य असाक्रमणीवधिनत्र प्राप्त- वादप्राप्तं साहित्यमेव प्रस्थानाश्रितं विधेयम् । न च प्रस्थानस्य प्रणयनादिवदवान्तरप्रकरणमस्ति । सानाय्यस्य तु तत्सत्वेऽपि साक्षाद(१)योग्यत्वमिति नाश्रयत्वम् । सङ्क्रमस्य तु आहवनीया- धिकरणकहोमविधिनैवाक्षेपात् उभयप्राप्तौ भावार्थाधिकरण- न्यायेन धात्वर्थादेव फलोपपत्तेः न गुणफलसम्बन्धविध्युपपत्तिः। एवञ्च गुणचोदनाऽसम्भवेन विधेः गुणसङ्क्रान्तशक्तिकत्वाभा. यात् धात्वर्थभावनयोरेव चोदनाप्रतीतेः अभ्यासादपि भेदसिद्धि- िित सूत्रार्थः । ननु-फलसम्बन्धपरत्वसम्भवेनाभ्यासखरूपाभावात् कथं भेद सिद्धिः ? अत आहे. सू-समाप्तञ्च फले वाक्यम् ॥ २-३-७.॥ "सर्वेभ्यो दर्शपूर्णमासा" वित्यनेन फलसम्बन्धस्यापि माप्त- स्वात् अनन्यपरत्वमव्याहतमेव । मोऽभ्यासादपि कर्मभेदसिद्धिः। अथ वा फलस्य अनुपादेयस्य सत्वाव प्रकरणान्तरन्या- येनापि भेदसिद्धिः । न च सन्निधानादुपस्थितिः। संज्ञया वि- छेदोपपत्तेः । संज्ञा हि कर्मान्तरबुद्धिं जनयन्त्यपि पूर्वबुद्धिवि- च्छेदमपि तावज नयति । अतः तदंशेऽनुपादेयसहायेन प्रकरणा- न्तरस्पाप्युपपतिः। अतो वरं संज्ञाभ्यासप्रकरणान्तः कर्मान्तरमेव । न तु गुणफलप्सम्बन्धः । एवञ्च फलप्राप्त क्रियैकजन्यत्वखभावो- ऽपि अनुगृहीतो भवति । अतो नात्र गुणस्य भावनाभेदकत्वम् । १. क्रियाया पवाश्रयत्वयोग्यत्वादिति भावः । Pataman पूर्वपक्षः] द्वितीयाध्यापस्य तृतीयः पादः । सू-विकारो वा प्रकरणात ॥ २-३-८. ॥(सि) नेदं कर्मान्तरम्, भेदकप्रमाणस्यैवासिद्धः । न तावद- भ्यासः। प्रकृतस्यैव कर्मणः फले विनियोगसम्भवेन उपपदाभा- वेऽपि अभ्यासासम्भवात् । न च सार्वकाम्यवाक्येन तत्प्राप्तिः तेन तत्सम्भवेऽपि 'दर्शपूर्णमामाच्या स्वर्गकामो यज' तिक्त- अभ्युदयशिरस्कत्वार्थ अनेनैव तद्विधिसम्भवात् । न्यापि प्रकरणान्तरम; प्रकृतस्यैव कर्मणः विहितत्वेन तदभव- वात् । न च संज्ञया पूर्वबुद्धिविच्छेदः । संज्ञाभ्यातादीनां स्वश. क्यतावच्छेदकविधेयतावच्छेदकमात्राक्षेपकत्वेन कर्मान्तरबुद्धिज- नकत्वेऽपि पूर्वकर्मबुद्धिविच्छेदकत्वाभावाद । न हि तेषां भेदानु- पजीवि पूर्वकर्मोपस्थापकप्रमाणाभावः प्रकरणान्तरवत स्वरूपं स. इकारिकारणं वा । तथात्वे तनूनपादादियागोत्तराम्नाताभिक्र- मणस्य समिद्यागाङ्गत्वानापत्तेः । अपि तु प्रकरणान्तरस्यैव सः। अत एव तत्र नाम्न एवातिदेशार्थं पूर्वकर्मोपस्थापकत्वाद भेदानुपजीवीति विशेषणम् । अतश्च प्रकृते पूर्वबुद्धिविच्छेदका- भावात् प्रकरणस्य (१)चोपस्थापकस्य सत्वात न प्रकरणान्तर- न्यायेन भेदः। अत एवा"द्भिदा यजेते" त्यादौ संज्ञयैव भेदो वार्तिक उक्तः, न तु प्रकरणान्तरात् । प्रकृते तु संज्ञाया भेदकत्वं उत्तर. सूत्रे निराकरिष्यामः । अतो वक्ष्यमाणरीत्या दाक्षायणादिपद- वाच्यस्याऽत्यादेः गुणस्यैव नित्यगुणविकारतया फलार्थत्वेन विधानम् । एवं चाश्रयत्वेन प्रकृतक्रवन्धयात् कथम्भावाका- १ पूर्वोप.
मीमांसाकौस्तुभे [दाक्षायणयज्ञाधिकरण- सालक्षणप्रकरणानुग्रहाभावेऽपि अधिकारात्मकप्रकरणानुग्रहो भ. वति । इतरथा तद्वाधापत्तिः । सू-लिङ्गदर्शनाच्च ॥ २-३-९. ॥ "त्रिंशद्वर्षाणि जीर्णो दर्शपूर्णमासाभ्यां यजेना' यदि दाक्षा- पणयाजी स्यात् अथापि पञ्चदशैव वर्षाणि यजेत, अत्रैव ह्येषा सम्पद्यते, द्वे पौर्णमास्यौ द्वे अमावास्ये यजेत' इत्यत्र याव. ज्जीवपक्षानुकल्पतया त्रिंशद्वर्षपक्षसुक्त्वा तदनुकल्पत्वेनापि दा- शायणयाजिनः पञ्चदशवर्षपक्षमुपदिश्य तदर्थवादे तावतैव त्रिं. शद्वर्षसाध्यप्रयोगातृतिरुच्यमाना आवृत्तेः फलार्थत्व एव युज्येत । तथा हि- गुणवाक्ये पौर्णमास्यादिपदवाच्यप्रधानपात्रसम्बन्धित्वेन श्रुतापि द्विरात्तिः फलवाक्ये दक्षयजमानसम्बन्धिऋत्विकमम्ब. धित्वेन श्रवणात् दर्शपूर्णमासप्रयोगाश्रितेति विज्ञायते । अतश्च फलार्थमपि सन्ततफलकामेन काकतालीयन्यायेन पञ्चदशवर्षप. पन्तद्विरावृत्तदर्शपूर्णमासप्रयोगानुष्ठाने तावतैव त्रिंशद्वर्षसाध्यप्र- योगसंख्यासम्पत्तेः पञ्चदशवर्षपक्षुस्तुतिरुपपन्ना भवति । मन्तिरत्वे तु तस्याव्यक्तत्वे ज्योतिष्टोमविकारत्वातू, दर्शपूर्णमास- विकारत्वेऽपि वा पञ्चदशवर्षपर्यन्तमात्तात्रेव प्रमाणाभावः । न चातिदेशेन पञ्चदशवर्षकालीनात्तिप्राप्तिः, पञ्चदशादिवाक्येषु यावज्जीवाक्यवत् नैमित्तिकप्रयोगस्यैव पुरुषार्थ(१)त्वेन विधे. यत्वेन तस्याः तद्वदेव विकृतावनतिदेशात । नन्वेवं पञ्चदशवर्षकालस्यैव पौर्णमास्यमावास्यावच्छिन्नस्य जीवनवनिमित्तत्वापत्तिः। अतश्च यथैव पौर्णमास्यावच्छिन्नस्य १ पुरुषार्थस्य सिद्धान्तः] द्वितीयाध्यायस्थ तृतीयः पादः। ४१ वसन्तस्य निमित्तत्वे तस्यैकत्वादेकस्मिन् वसन्ते सकृदेव ज्यो. तिष्टोमकरणं, निमित्तात्तौ चावृत्तिः, तथा पञ्चदशवर्षकाल. स्यापि पौर्णमास्याधवच्छिन्नस्य एकत्वादेकवारमेव दर्शपूर्णमा. सप्रयोगः तदावृत्तौ च पुनरावृत्तिरिति प्राप्नुयात् । जीवनाना- न्तु प्रतिपर्व भिन्नत्वात् युक्ता प्रयोगात्तिरिति वैषम्यम् । अतो यावज्जीवाधिकरणपूर्वपक्षन्यायेन तावन्तं कालं दर्शपूर्णमासाट- तिरेव कर्माङ्गत्वेन विधीयते इति कर्मान्तरेऽपि तस्यातिदेशो युक्त एवेति चेत्- न; आधानाव्यवहितोत्तरकालीनपञ्चदशवर्षत्वादेः निमित्त वेऽपि निमित्तपरया अत्यन्तसंयोगवाचिद्वितीयया सातत्यानु. ठापकत्वरूपनिमित्तत्वावगतेः वसन्तवैषम्यात् । अत एव निमि- त्तश्रुत्या सातत्यानुष्ठाने प्रसक्ते आहारविहारादिवशेन तद्वाधात् (१)जातेष्टिमासाग्निहोत्रन्यायेन पौर्णमास्यायनुग्रहेऽपि सातयस्य अत्यन्तबाधायोगात् पुनः पुनः अनुष्ठानोपपत्तिः । प्रमाणान्त- रावगताधानाव्यवहितोत्तरत्वबलेन च नाधानोत्तरभाविपञ्च- दशवर्षातरं पुनः करणापत्तिः अतश्व(२)यावज्जीवाधि- करणसिद्धान्तन्यायेन निमित्तपरत्वस्यैवोपपत्तेः नाहत्तेः कर्माङ्गत्वेन विधिरिति पुरुषार्थस्य नैमित्तिकप्रयोगस्य विकृता- १. जातेष्टौ निमित्तानन्तरानुष्ठेयत्वे प्राप्तेऽपि नालच्छेदात् पूर्व स्तनप्राशननिषेधात् तत्पूर्वमेव च जातकर्मविधानात् जातेष्टेजनना. नन्तरमेव करणे तदनन्तरं जातकर्म कृत्वा छिन्ने नाले प्राशनस्य कर्तव्यतापत्या तावता शिशोर्मरणापत्या शेषिलोपप्रसङ्गात् तदर्थ जातेष्टेरुत्कर्षेऽवश्याङ्गीकर्तव्ये उत्कृष्टायाः तस्याः अवैगुण्याय आशौ- चापगामनन्तरं पौर्णमास्यादिकाल एव मलमासादिरहिते सानुष्ठेये. ति चतुर्थे (४-३-१७.) सिद्धान्तितम् , तन्न्यायेनेत्यर्थः । २. पू.मी.२-४-२. ६ ४२ मीमांसाकौस्तुभे [ दाक्षायणयज्ञाधिकरण- वनतिदेशात् कर्मान्तरस्य पश्चदशवर्षपर्यन्तमात्तिः। न च भवन्मत इव फलार्थस्यापि कर्मान्तरस्य काकताली- यन्यायेन पञ्चदशवर्षपर्यन्तमावृत्युपपत्तिः । तथात्वेऽपि द्विरा- वृत्तौ प्रमाणाभावेन त्रिंशत्सम्पत्यनुपपत्तेः । यदि तु पूर्वपक्षे क्रत्वर्थत्वेन द्विरावृत्तिविधेरिष्टत्वात् कर्मान्तरेऽपि द्विरावृत्तेः प्रा. तिरुच्येत तदा त्रिंशद्वर्षपक्षस्यापि द्विरावृत्यैवानुष्ठानापत्तेः सुत रां स्तुत्य नुपपत्तिः । अस्तु वा कर्मान्तरस्य त्रिंशद्वर्षसाध्यप्रयोगसंख्याकप्रयोग- वत्वम् । कथ तावता दर्शपूर्णमासगतपञ्चदशपक्षस्तुतिः । व्यधि. करणत्वात् । । अतो लिङ्गदर्शनादपि आत्तिरेव फलार्थ विधीयते । सू-गुणात संज्ञोपबन्धः ॥२-३-१०.॥ यस्त्वया संज्ञोपबन्धो भेदहेतुत्वेनोक्तः, स गुणविधित्वात दाक्षायणादिपदानामसिद्धः, यद्यपि च गुणो न लोके प्रसि. द्धः तथा(१)प्युक्थ्यव्यूढादिवत् वाक्यान्तरमासिद्ध एव दाक्षाय णादिपदवाच्यत्वेन युक्तस्समाश्रयितुम् । वस्तुतस्तु पूर्वोक्तविधया लौकिकावयवसिध्यैव दाक्षाय- णादिपदानामावृत्यादिवाचित्तम; अत एव दाक्षायणंवाक्ये ऋ. १. उक्थ्यग्रहस्य दध्यादिवत् लोकप्रसिध्यभावेऽपि "य एवं विद्वानुक्थ्यं गृह्णाति" इति वाक्योत्पन्नस्यैव तस्य “पशुकाम उक्थ्यं गृह्णीयात्” इति वाक्येन यथा फलाथै विधानम् , यथा वा व्यूढा. द्वादशाहगताग्रताविशेषस्य लोकतोऽप्रसिद्धस्यापि "अथ व्यूढः-ऐन्द्रवायवाग्रौ प्रायणीयोदयनीयौ, अर्थतरेषां दशानामहां ऐन्दवायवाग्रं प्रथममहः, अथ शुक्राग्रम् , अथ द्वे आग्रयणाग्रे, अथै. न्द्रवायवाग्रम्, अथ द्वे शुक्राग्रे, अथाग्रयणाग्रम् , अथ वे ऐन्द्रवाय- वाग्रे" इति वाक्येनोत्पन्नस्यैव “यः कामयत बहु स्यां प्रजायेयेति स न्यूटन यजेत" इति वाक्येन फलार्थ विधानं तद्वदित्यर्थः । ख्यस्य सिद्धान्तः ] द्वितीयाध्यायस्थ तृतीयः पादः । ४३ विक्संबन्धिनी आवृत्ति रेव फलार्थ विधीयते । तस्याश्चाश्रयापे- क्षायां विधेयसामर्थ्य सहकृतप्रकरणेन दर्शपूर्णमासप्रयोग एवा- श्रयत्वेन सम्बध्यते । गुणाश्रययोश्च नात्यन्तं दध्यादिवत् भेदः इति सूचनार्थमेव यज्ञशब्दसमासे । वस्तुतस्तु (१)"पूर्वपदात् संज्ञायामगः" इत्यनेन गकारवर्जि- तपूर्वपदनिमित्तं णत्वं संज्ञायामेव विदधतां संज्ञात्वाभावे णत्व. स्यैवानापत्तेः यद्यपि संज्ञात्वमेवावश्यक, तथाप्यवयवार्थपतीया योगरूढ्यङ्गीकारात् संज्ञात्वेऽप्यावृत्तिविधौ न किञ्चित् बाधकम् । एवञ्च सूत्रमप्याञ्जस्येन सङ्गच्छते । आत्तिश्च कियतीति विशेषापेक्षायां 'वे पौर्णमास्या' विति वाक्येन द्वित्वविधिः । अत एवापेक्षितविधानात् द्वित्वमपि न क्रतुकथंभावेन गृह्यते । साकंप्रस्थाय्यवाक्येऽपि अवयवव्युत्पत्या विशेषणीभूनम- प्राप्तं सहत्वमेव फलोद्देशेन विधीयते । न तु प्रस्थानमपि, तस्य निसप्रयोगेऽपि(२) होमार्थ प्राप्तत्वेन क्रतुवदविधेयत्वात् । सहत्वस्य चाश्रयापेक्षायां वाक्यान्तरेण(३) "आज्यभागाभ्यां प्रचर्याग्नेयेन च पुरोडाशेनानीधे सुचौ प्रदाय सह कुंभीभिरभिक्रामे"दित्यनेनाभि- क्रमणं सान्नाय्यहोमाङ्गभूतमाश्रयत्वेन समयते । अत्र हि प्रक- रणात् विधेयसामोच्च सानाय्यहोमाङ्गभूतायाक्रमणापरपर्या- याभिक्रमणानुवादेन कुम्भीसाहित्यमेवाश्रयितासम्बन्धेन वि. धीयते । प्रकरणानुमितवाक्य इव होमानुवादेन दधिविधिः । निपातोपसर्गाणाञ्च परस्परान्वयस्य व्युत्पन्नत्वात् न कुम्भी त. साहित्यश्चेति अनेकविधानकृतवाक्यभेदोऽपि । 'कुंभीभिरिति बहुवचनञ्च प्रकरणात् "सुपा सुपो भवन्ती"त्येवं द्वित्वलक्षणार्थ सदनुवादः । कुंभीनाञ्च सान्नाव्याङ्गत्वात् अभिक्रमणमपि त. १. पा. सू.८-४-३. २. प्राप्तावपि ३. आप. श्री. ३-१६-१७.
मीमांसाकौस्तुभे [ दाक्षायणयज्ञाधिकरण- दोमसाधनमित्येवं विधेयसामर्थ्यांदवगम्यते। अत एव पुरोडाश. प्रचारोत्तरकालत्वाचनुवादः । स्नुचामधोधारणस्य चेडावदानाव- घि निषिद्धत्वात् योग्यतयैवान्यस्मै दाने प्राप्ते कर्मकरत्वादग्नीध दानमनूयते । अतश्च प्रस्थानस्य प्रणयनादिवदवान्तरप्रकरणाभा- वेऽपि वाक्येनैवाश्रयत्वं नानुपपन्नम् । सहत्वस्य चाधिकरणापे- क्षायां कुंभी अपि तेनैव लभ्यते इति न किञ्चिदनुपपन्नम् । एवं सङ्क्रमवाक्येऽपि लोकमसिद्ध एव संक्रमणे फलार्थ विहिते किपर्थ क्वेत्यपेक्षायां भवदेवलिखितोन्नीतवचनवशेन होमार्थ आहवनीयदेश इसवगम्यते । न च तस्य नित्यवत् प्रा. सत्वात् “ऐन्द्रवायवाग्रान गृह्णीयाधः कामयेत यथापूर्व प्रजाः कल्पेर"नितिवदुभयप्राप्तौ क्रियाफलसम्बन्ध एव युक्त इति शक्यम् । तत्र हि उभयोः स्वरूपेण नित्यवत् प्राप्तिवत् फलस. म्बन्धेनापि द्वयोः अप्राप्तः युक्तो भावार्थाधिकरणन्यायेन क्रिया- फलसम्बन्धः । प्रकृते तु द्वयोः स्वरूपेण प्राप्तिवदन्नाधफलेऽपि क्रियायाः सार्वकाम्यवाक्येन प्राप्तत्वादप्राप्तगुणविनियोग एव विधिसंक्रमणात् युक्त इन्द्रियकामाधिकरणन्यायेन गुणफलसम्ब- न्ध इति न संज्ञोपबन्धस्य भेदकत्वम् । सू-समाप्तिराविशिष्टा ॥ २-३-११. ॥ या च क्रियात एव फलप्राप्तिदृष्टा न गुणात् इत्युक्तं तद्गुणाद- पि दध्यादेः फलमाप्तिरविशिष्टैत्र दृष्टेति न किञ्चिदनुपपन्नम् । तस्मात् गुणस्यैव युक्तत्वात् युक्तं गुणस्य भावनाभेदक- त्वम् । प्रयोजनं स्पष्टम् । इति चतुर्थं दाक्षायणयज्ञाधिकरणम् ।
No text on this page.
मीमांसाकौस्तुभे [ ईषालम्भाधिकरण- म्भनिर्वापयोः सार्वकाम्यवाक्येन प्रयोजकत्वाख्यो भूत्यादि. फलप्सम्बन्धः । अतो भूतिकामादिपदं अनुवादः । धातु. लक्षणया आलम्भनिर्वापविशेषपरत्वतात्पर्यग्राहकः । अत एव होमस्य विहितत्वघटितदेवतैकसाध्यत्वेन लोके अभावात् युक्तं तदनुवादेनाहवनीयविधानम् । आलम्भादेस्तु लोकेऽपि सत्वेन हिरण्यधारणवत् दापौर्णमासिकस्यैहानुप- स्थितेने तदनुवादेन गुणविधिरित्यपास्तम् । (१)"यावतोऽश्चान् प्रतिगृह्णीयात्" इसत्र विधिरूपतात्पर्यग्राहकानुरोधेन धातोर्वेधदा- नलक्षकत्ववत् प्रकृतेऽपि फलपदतात्पर्यग्राहकानुरोधेन वैधाल- म्भादिलक्षकत्वोपपत्तेः। न चैवमपि अनेकगुणश्रवणात् गुणात् कर्मान्तरत्वापत्तिः । एकस्यैव गुणस्य विधेयत्वेन विधेयगुणानेकश्रवणाभावेन तद- नापत्तेः । आलम्भानुवादेन हि ईषायां श्वेतगुणमात्रं कर्तव्य. तया विधीयते । वायव्यपदं तु सर्ववनस्पतीनां अर्थवादतो वा. युदेवताकत्वसंस्तवात् ईषाद्रव्यपरत्वेनानुवादः । निर्वापानुवादे- न च चरुमितिपदेन लक्षणया स्थाली अधिकरणत्वेन विधीयते । माकरणिकौतशूवरोधाद्वा तत्पानिपदिकेन स्थालीपरिमितं लक्षणया विधीयते । पञ्चशराबमोदनामितिवञ्च स्थालीपरि- मितव्रीहिजातस्यैव चतुर्भिर्मुष्टिभिः निवीपोपपत्तिः। सौर्यमि- ति चाग्नेयस्यैव द्रव्यस्य तेजोदेवत्यत्वसामान्यादनुवादः ! अथ वा आलम्भावनुवादन. वायवादिदेवताविधिरेव ग्रहण इवेन्द्रवायादेः । श्वेतचरुमाब्दौ तु जघन्यौ प्रायिकत्वात् चरु- साधकत्वाच्चानुवादौ। अथ वा वाक्यादिदेवतासम्बन्धस्य उत्पत्तिशिष्टाग्न्याद्यव- १. तै. सं.२-३-१२.
पूर्वपक्षः] द्वितीयाध्यायस्य तृतीयः पादः । ४७ रुद्धानेयादियागोपपाद्यत्वानुपपत्तेः फलपदस्वारस्थानुरोधेन च फलोद्देशेन श्वेतचरुगुणौ विधीयते । वायव्यादिपदं तु सर्वप- दार्थानां मर्यवायुमंबन्धादनुवादः। फलार्थप्राङ्मुखत्वस्थ भोज- नमिव आलम्भादि रागप्राप्तमपि आश्रयत्वेन सम्बध्यते । सर्वथा न कर्मान्तरम् । सूत्रं तु अप्रकरणे यो गुणः सोऽपि न कर्मभेदकः एक- गुणसंक्रान्त शक्तित्वेन विधेः कर्मशब्दत्ताभावात् , कर्मान्तरत्वे अविनियुक्तद्रव्यकत्वेन लोकप्रसिद्धसंस्कारत्वानुपपत्तेश्च इति व्याख्येयम् । सू-यावदुक्तं वा कर्मणः श्रुतिमूलत्वात् ॥२-३-१३.॥ (पू) ( द्वितीयपूर्वपक्षा) नानालंभावनुवादेन गुणविधिः, तथात्वे फलपदस्य स्वार्थ- स्य वाक्यार्थान्वयाभावेन अविवक्षितार्थकत्यापनेः । अश्वप्रतिग्रहे- टौ तु वाक्यभेदापत्तेः तथाङ्गीकरणमदोषः । एवञ्च आल- म्भादेः लौकिकस्यापि सत्वात् दार्शिकस्यैवानुवादे प्रमाणा- भावः। न चाश्वप्रतिग्रहविधिरपि तत्तात्पर्यग्राहकः इति शक्यम् । तथाङ्गीकारेऽपि विधायकाभावेन गुणविधानानुपपत्तेः । अतो दाशिकस्यैवालम्भादेः विशेषत उपस्थित्यभावात् न तदनु- वादेन गुणविधिः। नापि गुणफलसम्बन्धः, आलम्भादेः प्रकरणाभावेनाश्रय. त्वानुपपत्तेः । भोजनस्य तु पूर्वोत्तरभाविनिषेधविषयत्वन उप- स्थितत्त्वात् आश्रयत्वोपपत्तिरित्युक्तं व्याकरणाधिकरणे । अतो ४८ मीमांसाकौस्तुभे [ ईषालम्भाधिकरण- गुणफलरूपानेकगुगोपादानात् प्रकरणान्तराच्च कर्मान्तरमेवाल. म्भनिर्वापरूपगुणविशिष्टं फलोद्देशेन विधीयते । वायुसूर्यावपि च अस्मिन् पक्षे तत्कालोच्चार्यत्वसम्बन्धेन क्रियान्वयं प्रतिपद्यते । उच्चार्यत्वापरपर्यायमुद्देश्यत्वमेव च देवतात्वं, न त्यज्यमानद्रव्योद्दे- इयत्वं, गौरवात् । अतो देवतात्वस्य यागाक्षेपकत्वाभावात यागक- ल्पनेऽपि प्रमाणाभावः। अतो यावदुक्तं विधानमेवेदं, न तु गुणमा त्रस्य । एवं हि कर्मणो धात्वर्थस्य पदश्रुतिमूलकं विधानमादृतं भवतीति सूत्रार्थः॥ सू-यजतिस्तु द्रव्यफलभोक्तृसंयोगादेतेषां कर्म- सम्बन्धात् ॥ २-३-१४. ॥ (सि) (सिद्धान्तः) नेदं श्रौतधात्वर्थविधानम् ; तथात्वे उपक्रमस्थदेवतात्ववा- चितद्धितानुपपत्तेः। न चोद्देश्यत्वमेव देवतात्वम्, सूक्तभाजो ह. विभांजश्च देवता इति स्मृत्या वैदिकव्यवहाराच्च स्तुतिभाक्त्वरूप- देवतात्ववत् सज्यमानहविरुद्देश्यत्वस्यैव देवतात्वात् । अत एव ब्राह्मणोद्देशेन पकेऽप्यन्ने तदुद्देशेनात्यक्ते देवतात्वाप्रसिद्धिः । अत एक द्रव्यरूपहविस्संयोगाद्धविर्भोक्तृत्वरूपमेव देवतास्वमत्र तद्धितार्थः । तस्या यागैकघटितत्वाधागापेक्षायां प्रमाणान्तरे- ण तस्याप्राप्तत्वादनेनैव वाक्येन विधेयत्वप्राप्तौ अध्याहारापेक्ष. या लक्षणाया लघुत्वात् धातुना थागो लक्ष्यते। शक्यार्थस्तु प्रमा- णान्तरमाप्तत्वादनूयते । लाक्षणिकपदोपादानप्रयोजनश्च निर्व. पत्यादिधातुमद्वाक्यसम्बन्धित्वरूपप्रकृतिसादृश्यसिद्धिः । याग. विधिप्रकारश्चास्माभिः अनागतावेक्षणन्यायेन आग्नेयाधिकरण सिद्धान्तः ] द्वितीयाध्यायस्य तृतीयः पादः। स्वान- एवं प्रदर्शितः। तस्मात् फलोद्देशेन द्रव्यदेवताविशिष्टयागभावना- विधिरेवायमिति युक्त मेवात्र गुणस्य भेदकत्वम् ॥ सूत्रं तु द्रव्यस्य भोक्तृपदवाच्यदेवतायाश्च संयोगाद्याग एवात्र विधीयते । सोऽपि च फलसंयोगादर्थकर्मत्वेन । एतेषां द्रव्यफलभोक्तॄणां यागगतार्थकर्मत्वेन व्याप्तत्वात् इति व्याख्ये- यम् । यद्यपि चात्र द्वितीयपूर्वपक्षवादिना न संस्कारकर्मत्वमङ्गी- क्रियते, तथापि प्रथमपूर्वपक्षवादिना तदङ्गीकरणात् भिमतत्वसूचनार्य सिद्धान्ते अर्थकमैहेतुतया फलग्रहणम् ।। सू-लिङ्गदर्शनाच्च ॥ २-३-१५. ॥ (१) सोमारौद्रं घृते चरुं निर्वपेत्" इति प्रकृत्य "(२)परि- श्रिते पाजये"दिति गुणविधिपरे वाक्ये यजिश्रवणं द्रव्यदेवता. सम्बन्धात् यागानुमितिमुपोलियति । प्रयोजनं स्पष्टम् ।। इति पश्चममीपालम्भाधिकरणम् ।। अथ षष्ठं वत्सालम्माधिकरणम् (६) ॥ सू-विशये प्रायदर्शनात ॥ २-३-१६. ॥ (सि) (विषयसंशयौ) अग्निहोत्रे दोहाधिकारे "वत्समालभेते" ति श्रुतम् । तत्र कि अग्निषोमीययागानुवादेन वन्सविधिः ? उत अग्निहोत्रहोमा. ङ्गत्वेन वत्सद्रव्यकयागविधिः ? उत वत्ससंस्कारार्थत्वेनालम्भ- मात्राविधिरिति । अत्रापवादिकी अनन्तरा सङ्गतिः । तै.सं.२-२-१०-१. २. तै. सं.-२-२-१०-२. १.
मीमांसाकौस्तुभे [ वत्सालम्भाधिकरण- (प्रथमपूर्वपक्षः) तत्र वेदप्रयुक्तालभते "रीषामालभेते" त्यादौ स्पर्शमात्र. वाचित्वेऽपि देशादिवाक्येषु प्राणिसंयोगेन यागवाचित्वावगमात् नात्रार्थप्राप्तालम्भविधियुक्तः । इष्यते च धातूनामनेकार्थत्वात् गमनार्थकस्यापि गमे स्त्रीसंयोगे मैथुनार्थकत्वम् । अतो यागार्थ- कस्यालभतेः प्रकृतहोमानुवादकत्वेऽपि प्रकृतिभूतग्नीषोमीय. यागानुवादकत्वात् तदनुवादेन विनियोगभङ्गकल्पनयापि वत्स. विधिः । वाक्यीयवसजात्या मान्त्रवर्णिकछागजातिबाधेन विक- पेन वा वत्सविधिरिति-प्रथमः पक्षः। (द्वितीयपूर्वपक्षः) द्वितीयस्तु-नाल भतियांगवाची । स्पर्शवाचकस्यैत्र देक्षा. दिवाक्ये देवतापदसमभिव्याहारेण यागलक्षकत्वाङ्गीकाराव । अतश्च 'वत्समालभेते' त्यत्रापि “पूषासीति वत्समुपावसजती" ति चिनियुक्तमन्त्रवर्णकरप्यदेवतावलेनाचारवद्यागकल्पनोपपत्तेर पूर्व- यागलक्षकत्वमेव । अत्र हि नोपावसर्जने मन्त्राविधिः। तथात्वे तस्यापि मान्नव- णिकदेवताकल्पनया यागरूपत्वापत्तेः । अतो विशिष्टविधिगौरव. परिहारार्थ 'वत्समालभेते' त्यत्र विहितस्यैव यागस्य मान्त्रवर्णि- कदेवताकल्पनफलकमन्त्रभाविध्युपगमात् उपावसृजतिरपि याग- लक्षणार्थ इत्यवगम्यते । अतश्च वत्सद्रव्यकः पूषदेवताकानीपो- मीयप्रकृतिको यागोऽग्निहोत्राङ्गत्वेन विधीयते इति । (सिद्धान्त:) सिद्धान्तस्तु-पूषासीत्यस्य पुष्टिगुणयोगेन अदन्तकत्वेन वा (९)पुरोवास्थितवत्सपरामर्शकत्वोपपत्तेः शक्योपावसर्जनाङ्गत्वेनैव १. पूर्वोपस्थित।
सिद्धान्तः ] द्वितीयाध्यायस्य तृतीयः पादः। मन्त्रविध्यवसायात् न यागकल्पकत्वोपपत्तिः । अतश्च द्वितीयया वत्समुद्दिश्य उपावमर्जनविधिवत् आलम्भाख्यसंस्कारविधिरेवा. यम् । एवं च संस्कारविधिप्रायपाठोऽप्युपपन्नो भवति । न च उपावसर्जनेनैव स्पशख्यिस्यालम्भस्यार्थप्राप्तत्वात् न विध्युपपत्ति- रिति वाच्यम् । धेनुविनियोगाख्योपावसर्जनेन धेनुसमीपधा- रणफलकाध्वर्युकर्तृकस्पर्शस्य नियमेन प्राप्त्यभावात् । नचेवं दोहनानुपपत्तिः, तस्यान्यकर्तृकत्वेन बाधकाभावात् । अतो वत्ससंस्कारार्थत्वेनालम्भविधिरेवायम् ।। सूत्रं विशये संशये कारप्रायपाठदर्शनानिर्णय इति व्याख्येयम् । सू-अर्थवादोपपत्तेश्च ॥ २-३-१७.॥ "वत्सनिकान्ता हि पशवः' इत्यर्थवादे पशूनां वत्सप्रिय- त्वात् समीपधारणफलकस्पर्शेन प्रस्नवनं जायत इति स्तुतिरा- लम्भविधित्वे सत्युपपद्यते न यागपरत्वे । प्रयोजनं स्पष्टम् । अत्र च सिद्धान्ते दापौर्णमासिके- पालम्भादयमालम्भः संस्कार्यरूपानुपादेयगुणयोगात् प्रकरणा- न्तरन्यायेन कर्मान्तरमिति सिद्ध्यति । ततश्च वत्साख्यगुण- स्यानिश्चितविधेयताकस्य भेदप्रयोजकत्वात् पादसङ्गतिरध्याय- सङ्गतिश्च ।। इति षष्ठं वत्सालम्भाधिकरणम् ।। mons HDMAR मीमांसाकौस्तुभे [चरूपधानाधिकरण- अथ सप्तमं चरूपधानाधिकरणम् (७) । सू-संयुक्तस्त्वर्थशब्देन तदर्थः श्रुतिसंयोगात ॥ (मि) ॥ २-३-१८.॥ (विषयसंशयौ) अग्नौ "नेवारश्वरुर्भवति, बृहस्पतेर्वा एतदन्नं यन्नीवाराः" इत्युक्त्वा 'चरुमुपदधाति' इति श्रुतम् । तत्र किं चरुद्रव्यं बृहस्पति- देवता च भावनाधात्वर्थयोंदिका उत नेति संशयः । ( सङ्गतिः) तत्र पूर्वपक्षे नैवारवाक्ये चरुरूपस्य द्रव्यस्य आर्थवादिक्पाश्च बृहस्पतिदेवताया रात्रिमत्रन्यायेन विधेयत्वात् , सिद्धान्ते चा- विधेयत्वात् अनिश्चितविधेयताकस्य द्रव्यदेवताख्यस्य गुणस्य भेदकत्वनिरूपणात् पादाध्यायसङ्गतिः । अनन्तरा तु पृषासित्य. स्य द्रव्यपरत्वेनैव उपपत्तेः न मान्त्रवर्णिकदेवताकल्पनद्वारा यागपरत्वनिश्वायकत्वम् । प्रकृते तु अर्थवादस्थबृहस्पतेरन्यपर- स्वासम्भवात् आर्थवादिकदेवताकल्पनावश्यम्भावेन यागकल्पनो- पपर्युक्ता भेदकतेति पूर्वपक्षोत्थानात् द्रष्टव्या । (पूर्वपक्ष) तत्र नैवारवाक्ये तावत् भवत्याक्षिप्तायां नैवारकार्मिकायां भाव- नायां अप्राप्तिबललभ्यविधिना विहितायां चरोः प्रयोजनाका. तत्वात् भावनायाश्चावच्छेदकधात्वर्थापेक्षत्वात् किंचिद्धात्वर्थक- पनमावश्यकम् । न च उपधानमेव स इति शङ्कयम् । उपधानं प्रति चरोद्धितीयया संस्कार्यत्वावगमेन करणत्वासम्भवात् । अत: उपधानभावनातो भिन्नैत्रेयं चरुद्रव्यकयागकरणिका भावना ।
। सिद्धान्तः ] द्वितीयाध्यायस्य तृतीयः पादः। नचैवमपि देवताभावात् यागत्वप्रसायकाभावः। अर्थवादे बृहस्पतेः षष्ट्या नीवारसम्बधावगमात् सम्बन्धान्तरासम्भवेन देवनात्वस्यैवागतेः तस्य यागं विनानुपपत्तेः यागत्वासयात् । तैत्तिरीयशाखायान्नु "वाईस्पयो भवती" त्येवं तद्धितान्त एवार्थ- वादः श्रुत इति देवतात्वावगतिः स्पष्टैच । अतो द्रव्यदेवतासम्ब- न्धानुमितो याग एवाग्नेयमकृतिको विधीयते । 'चरुमुपद. धातीति तु स्विष्टकृदादिप्रतिपचिबाधेन प्रतिपत्त्यन्तरविधि. रिति प्राप्त- (सिद्धान्तः) अभिधीयते-सर्वव विध्यपेक्षित एवार्थोऽर्थवादोन्नीत- विधिना विधीयते, न वनपेक्षित इति स्पष्ट पर्णतादौ। प्रकृते च नैवारवाक्ये यद्यपि नैवारचरुविशिष्टभावनाविधिस्स्यात् तथापि तस्याः प्रयोजनाद्याकाङ्क्षायामुपधानस्यैव श्रुतस्य तत्त्वेनान्वयो. पपत्तेः नार्थवादो देवतादिकल्पनायै प्रभवति । नचैवं चरोद्धिती यान्तत्वानापत्तिः। उपदधातेरसकर्मकत्वेन चरुमिति द्वितीया- या अनीप्सितकर्मत्वेनाप्युपपत्तेः। वस्तुतस्तु एतादृशविषये सक्तुष्वित्र करणत्व लक्षणाया आ. वश्यकत्वात् वाक्यद्वयेऽपि विधिगौरापत्तेश्च नैवारवाक्येऽपि नीवारमानमेव प्रकृतित्वसम्बन्धेन चरुकर्मकभावनानुवादेन विधीयते । उपधानवाक्ये तु चरुसंस्कारकत्वेन विहितमप्युप. धानं संस्कारविध्यन्यथानुपपत्त्या "अवयं वृणीत" इतिवत् चरोस्सामर्थ्यात् कर्मोपयोगिस्थण्डिलनिष्पत्यर्थत्वेन उपयोगं क- ल्पयति । अतश्च सामयकल्पितेन विधिना चरुभावनायाः प्राप्त स्वात्तदनुवादेन नीवारमात्रविधिनानुपपन्नः । न च स्थण्डिलनिष्पत्ते श्रौतेष्टकावरुद्धत्वात् कल्पितचरुमा- मीमांसाकौस्तुभे [चरूपधानाधिकरण- ध्यत्वानुपपत्तेरर्थकमैंवेदमुपधानं चयनप्रदेशे विधीयते इति केषां. चिदुक्तं युक्तम् । चरोभेवदेवोक्तविधया इष्टकासन्धिपूरणार्थतया विधेयत्वेनेष्टकाविरोधित्वाभावात् । अन्यथा अर्थकर्मत्वपक्षेऽपि आनुषङ्गिक्याः स्थलनिष्पत्तेरावश्यकत्वेनेष्टकाविरोधस्य दुष्परि- हरत्वात् । अतश्च श्रौतकर्मत्वत्यागे प्रमाणाभावात् चरुविनि- योगविधिकल्पनात् तदनुवादेन नीवारमात्रविधिरेव युक्तः । अतश्च विधेर्देवतानाकाङ्कत्वात् नार्थवादतस्तत्कल्पनम् । अत एव यत्रापेक्षा तत्रैव तत्कल्पनमिष्टम् , यथा-पूर्णा. हुतिविधिवाक्यशेषे “अन्नादं वा एतमात्मनो जनयते यदग्नि'मि- ति (१)वाक्यशेपे अनेः। प्रकृते त्वनपेक्षत्वात् न तत्कल्पनमिति विशेषः । अत एव 'मुन्यन्नं ब्राह्मणस्योक्तम्' इत्यादिस्मृतिपर्या. लोचनया बृहस्पतेब्राह्मणस्य मुन्यन्नभूता नीवारा अन्नमिति अर्थवादो व्याख्येयः । तैत्तिरीयशाखास्थार्थवादगततद्धितोऽपि अनेनैव सम्बन्धेन व्याख्येयः । न तु देवतात्वपरः । देवता- त्वस्य त्यज्यमानद्रव्योद्देश्यत्वे सति विहितत्वपर्यन्तस्य वृद्धव्य. वहारसिद्धतया विधिसमभिव्याहाराभावेऽप्रतीतेः । न च य. दाग्नेयादिवाक्य इव विधिकल्पनम् । विध्यन्तरैकवाक्यताभङ्गभ- येन तदनुपपत्तेः। अतो न नैवारवाक्ये यागो, न वा तत्करणकं भावनान्तरमिति सिद्धम् । प्रयोजनं स्पष्टम् ।। सूत्रं तु स्थलनिष्पत्तिरूपार्थोन्नायकेन शब्देनोपदधातिना संयुक्तः चरुः स्थलनिष्पत्त्यर्थ एव, तादृशप्रयोजनोन्नायकशब्दसं- योगस्य श्रौतत्वादिति व्याख्येयम् ।। इति सप्तमं चरूपधानाधिकरणम् ॥ १. वाक्यशेषात् ।
सिद्धान्तः ] द्वितीयाध्यायस्य तृतीयः पादः । अथाष्टमं पानीवताधिकरणम् (८)॥ सू-पानीवते तु पूर्वत्वादवच्छेदः॥२-३-१९.॥(सि) (विषय संशयौ) "स्वाष्टं पानीवतमालभेने" सनेन यागं विधायानायते- "पर्यग्निकृतं पानीवतमुत्सृजती"ति । तत्र कर्मान्तरविधिः ? उत पूर्वस्मिन् यागे गुणमात्रविधिरिति चिन्त्यते । (पूर्वपक्षः) पत्नीव देवतालक्षणस्य गुणस्यानिश्चित विधेयताकस्यैव भेदक- त्वविचारात् पादाध्यायसङ्गतिः । पूर्वत्रार्थवादस्थतद्धितस्य दे. वतापरत्वे निरस्ते विधिस्थस्य (१)तस्य निस्सन्दिग्धस्य देवताप- रत्वोपपत्तेः यागानुमापकत्वोपपत्तिरिति पूर्वपक्षोत्थानात् अ- नन्तराचा तत्र यद्यपि पूर्वयागोपस्थापकं प्रकरणमस्ति तथापि तस्य पत्नीवदेवत्यत्वाऽसम्भवात् कर्मान्तरत्वम् । तथा हि- न तावत् पत्नीवदेवसताऽनुद्यते । पूर्वयागस्य त्वष्ट्टपत्नीवद्दे- वसत्वेन शुद्धपत्नीवदेवत्यत्वाप्राप्तेः । अतश्च यथैवा "नेयं चतुर्धा करोती" त्यत्र तद्धितसामर्थ्य भङ्गभयेन नाग्नीषोमीयादेः ग्रहणं तथा प्रकृतेऽपि । न च (२) “पत्नीवंतं ग्रहं गृह्णामी" त्यत्र म. न्त्रवर्णोपात्ताग्निपरत्वस्येव पनीवच्छब्दस्य यौगिकत्वात् विशे- ध्यापेक्षायां उत्पत्तिवाक्यावगतत्वष्ट्राख्यविशेष्यपरत्वोपपत्तेः अ. विरोधेनानुवादोपपत्तिरिति वाच्यम् । पनीवच्छब्दस्याने वा- जिशब्दस्येव देवताविशेष रूढत्वेन विशेष्यानपेक्षत्वात् “पानीव- १. तस्य निस्सन्दिग्धस्य । २.ते.सं.१-४-२७.
. ५६ मीमांसाकौस्तुभे [पानीवताधिकरण- तं गृहाती" सादौ तु अनन्यगतिकमन्त्रवर्णानुरोधेन यौगिकता. ङ्गीकरणम् । प्रकृते तु “वाजिभ्यो वाजिन" मितिवत् कर्मान्तर. त्वेनाप्युपपत्तेः तात्पर्यग्राहकाभावेन रुढियागे न किञ्चित्कार. णमस्ति । अतो न तावत् पनीवद्देवत्यताऽनुद्यते । नापि पूर्वत्रैव यागे विधीयते । उत्पत्तिशिष्टत्वष्ट्रवरोधात् । अतो वाजिनवदेव गुणादेवताविशिष्टयागान्तरविधानम् । किञ्च यागान्तरविधानाभावे किं त्वया विधेयम् ? न तावत् स एव यागः, प्राप्तत्वात् । नापि तत्र देवतान्तरम् , उत्प- त्तिशिष्टत्वष्ट्रवरोधात् । नापि पर्यग्निकरणम् , तस्यातिदेशप्राप्त- त्वात् , नापि पर्यनिकरणोत्तरकालतोत्सर्गे, तस्या अप्यतिदेशे. नैव लाभात् । नापि पर्यग्निकरणाव्यवहितोत्तरकालता त्यागाख्ये उत्सर्गे, निष्ठासंज्ञकक्तप्रत्ययस्य व्यवहिताव्यवहितसाधारण्येन भ- तकालमात्रबाचित्वेऽपि उत्तरकालताया एवात्र लक्ष्यत्वोपपत्ते: अतिदेशानुरोधेन कथंचिव्यवहितकालक्षणेऽपि अव्यवहितो. चरकालतालक्षणायां प्रमाणाभावात् । नचैतद्वाक्यानर्थक्यम् , कर्मान्तरविधायकत्वेनाप्युपपत्तेः । एतेन प्राजापत्येषु “तान् पर्यग्निकृतानुत्सृजन्ति, ब्रह्मसा- न्यालभते" इतिवदानन्तर्य लक्षणामध्यङ्गीकृत्य पर्यनि- करणोत्तरकालीनानामशानामुत्सृजतिनाऽऽनन्तर्य निषेधः क्रि- यत इत्यप्यपास्तम् । तत्र हि देवताभावेन कर्मान्तर विधानानु. पपत्तेः ब्रह्मसामादिकालविधानाच्च सर्वाङ्गप्रतिषेधानुपपत्तेः युक्तः पर्यनिकरणानन्तयप्रतिषेधः, प्रकृते तु कर्मान्ताविधायित्वेनो- पपत्तौ न लक्षणाङ्गीकारे प्रमाणमस्तीति वैषम्यम् । न चैवमपि गृहमेधीयाज्यभागन्याये नापूर्वताज्ञापनद्वारा इत. राङ्गपरिसंख्याफलकः पर्यग्निकरणमात्रविधिः तदन्ताङ्गकलाप- .
सिद्धान्तः] द्वितीयाध्यायस्य तृतीयः पादः। विधिर्वास्विति वाच्यम् । “आज्यभागौ यजती"त्यनेन हि अनु- ठयत्वेन प्रतीतयोस्तयोः प्रमाणान्तरमन्तरेणैव गृहमेधीयाङ्गत्वा- वगतेयुक्तं नैराकाथापादनमुखेनेतराङ्गमापकममाप्यपरिलोप- कत्वम् । प्रकृते तु निष्ठायोगेन पर्यनिकरणस्य प्रमाणान्तरेण नि- त्याङ्गभावप्रतीतेः अतिदेशव्यतिरेकेण चात्र प्रमाणान्तराभावात् तत्परिलोपकत्वानुपपत्तिः । तदन्ताङ्गकलापस्य तु वाचकपदा. भावात् विधिदुरापास्त एव । तस्मात् द्रव्यदेवतासम्बन्धकल्पित. यागान्तरविधिरेवायम् । पर्यग्निकृतशब्दस्तु "आग्नेयं सवनीयं पशु"मियत्र पशु(१)शब्द इवानुवादः प्रकृतिप्राप्तत्वात् । अतो या. गान्तरमेवेदम् । स्वाष्ट्रप्रकृतितयाऽग्नीषोमीयपशुप्रकृतितया दर्शपू. णमासप्रकृतितयैव वा विधीयते इति प्राप्ते- अभिधीयते-नात्र कर्मान्तरविधिः, पूर्वस्यैव प्रकरणेन प्र. त्यभिज्ञानात् । न च पत्नीवदेवत्याऽनुवादानुपपत्तिः, सत्यप्युत्प. त्तिवाक्ये त्वष्ट्रपत्नीवतोः अग्नीषोमादिवयासज्यवत्तिदेवतात्वे(२) मनोतास्थानिशब्दस्येव पत्नीवच्छब्दस्यापि लक्षणया देवतापर- वोपपत्तेः । “आग्नेयं चतुर्धा करोती"त्यत्रापि यदि प्रकरणे केवलो ऽग्नि न स्यात् ततोऽग्नीषोमो लक्षयेदेव; केवलाग्नेयसत्वात्तु न लक्षणेति स्पष्टं तदधिकरणे । वस्तुतस्तु पत्नीवच्छब्दस्य यौगिकत्वाद्विशेष्यविशेषापेक्षायां पानीवतग्रहे मन्त्रार्णोपात्ताग्नेरिवानोत्पत्तिवाक्यावगतत्वष्टुरपि ग्रहणोपपत्तेः न लक्षणा; न वाविवाजिशब्दानामिव पनीवच्छ. ब्दो न यौमिकः, रूढिकल्पने प्रमाणाभावात् , किमुन यदोत्पत्ति- १. शब्दस्येव २. "वह्यग्ने प्रथमो मनोता" इति अग्नीषो. मीयपशुयागप्रकरणगतमन्त्रस्थाग्निशब्दस्य केवलस्याप्यग्नीषोमल. क्षकत्वं यथा तद्वत् पत्नीवच्छब्दस्य त्वष्ट्रपत्नीवदुभयलक्षकत्वो- पपत्तिरित्यर्थः।
. मीमांसाकौस्तुभे [पानीवताधिकरण - वाक्य एव पृथक्तद्धितश्रवणात् 'अग्नये शुचये' इतिवत् सत्यप्यधि. ठानक्ये देवतात्वभेदावगतेः पत्नीवतोऽपि पृथगस्त्येव देवतात्वम्, तदा पत्नीवच्छब्देन तन्मात्रानुवादे न कश्चिद्विरोधः । नचैवं देवतात्वभेदे एकार्थस्वाद्विकल्पापत्तिः, द्वयोरप्येकवा. क्योपादानात् अग्नये शुचय' इतिवदेव पाष्ट्रिकान्वयागतेः पत्नीव. च्छन्दस्य विशेष्य सापेक्षत्वेन च समुच्चयमतीतेः । अतश्च सत्य- पि समुच्चये डित्थडविस्थमातर्यपि मातृत्वस्य प्रत्येकत्तित्वात डित्थमातेति प्रयोगवत् समुचितोभयदेवसे ऽपि पानीवतपदव्या. देशोपपत्तिः । अतश्च भेदकप्रमाणाभावात् पूर्वयागानुवादेनैवात्र गुणमात्रविधिः, लाघवात् । गुणोऽपि च नात्र पर्यग्निकरणमात्रम् , अपि तु क्तमत्ययान्तपदावगतं कृतपर्यनिकरणत्वम् । तस्य च पूर्वाङ्गेष्वकृतेषु असम्भवात् तान्याक्षिष्यन्ते इति फलतः पर्यग्नि- करणान्ताङ्गकलापो विधीयते । तस्य च भेदकप्रमाणाभावेन प्रा- कृतस्यैव विधेयत्वात् अतिदेशेन सम्भवत्प्राप्तिकत्वेऽपि क्लुप्तोप- कारत्वेन ततः पूर्वमेव गृहमेधीयाज्यभागन्यायेन विधानावगतः तावतैव ऋतुमपोगविध राकांक्ष्यापादनेनातिदेशकल्पनातिबन्धातू उत्तराङ्गव्यावृत्तिफलकत्वोपपत्तिः । नचाज्यभागयोः अनुष्ठेयतया प्रतीतयोः प्रमाणान्तरं विनापि गृहमेधीयाङ्गत्वप्रतीते: अतिदेशप्रतिबन्धकत्वोपपत्तावपि पर्यनिकरणान्तत्वस्य क्तप्रखयेन प्रमाणान्तरविहितत्वावगते अति- देशोपजीवित्वेन तत्पतिबन्धकत्वानुपपत्तिः इति वाच्यम् ।(१)मो. क्षिताभ्यामुलूखलमुसलाभ्यामित्यादौ प्रमाणान्तरमन्तरेणापि वि- १. 'प्रोक्षिताभ्यामुलूखलमुसलाभ्यामवहन्ती'त्यत्र प्रमाणान्तरेणा. प्राप्तस्य प्रेक्षणस्यात्रवालूखलमुसलाङ्गत्वेन विधीयमानत्वेऽपि तात्य. यप्रयोगदर्शनादित्यर्थः।
सिद्धान्तः ] द्वितीयाध्यायस्य तृतीयः पादः। । धानदर्शनात् । निष्पन्नत्यमनीतिस्तु पनविधिविधानोत्तरकाली- नावस्थाऽभिप्रायेण । विस्तरेण चैत(१)नवमे "पर्यग्निकृतानारण्या- नुत्सृजती"त्यत्र निरूपयिष्यते । नचैवं पौनरुत्यापत्तिः,तत्र पर्य. निकृतानुवादेन विशिष्टदेवतोद्देशानिरपेक्षात्सीख्यत्यागविधेरा. शङ्कितस्य देवतासंयोगाभावेन निरासात् । तस्माद स्वाष्ट्र यागमे बोत्सृजतिनानूय पर्यग्निकरणान्ताङ्गरीतिर्विधीयते । पानीवता- ब्दस्तु नित्यानुवादः । प्रयोजनं पूर्व पक्षे चाष्ट्रयागस्य ब्राह्मणतर्पणान्तमनुष्ठान, पानीवतयागस्य च दर्शपूर्णमासस्थाग्नेयप्रकृतितया । सिद्धान्ते तु स्वाष्ट्रस्यैव पर्यनिकरणान्तमिति । सूत्रं तु पानीबते पूर्वस्यैव वाष्ट्रस्य प्रत्यभिज्ञानात् तद- न्ताङ्गकलापविधानेन फलतोऽवच्छेद एवोत्तराङ्गानामिति व्या. ख्येयम् ॥ इत्यष्टमं पानीवताधिकरणम् ।। अथ नवमीश्वदाभ्याधिकरणम् ॥ (९) । सू-अद्रव्यत्वात्तु केवले कर्मशेषस्स्यात् ॥२-३-२०॥ (विषयसंशयौ) अनारम्य श्रूयते(२) "एष ह वै हविषा हविर्यजति यो- ऽदाभ्यं गृहीत्वा मोमाय यजते" इति, तथा(३)"परा वा एतस्या- युः प्राण एति योऽशुं गृहाती"ति च। तत्र किंज्योतिष्टोमोद्देशन यागान्तरविधानमिदम् ? उत ग्रहान्तरविधानमिति । २-३. तै. सं. ३-३-४-२. १.९-४-१२.
६० मीमांसाकौस्तुभे [अश्वदाभ्याधिकरण- (सङ्गतिः) पूर्व पर्यग्निकृतवाक्ये यागानुवादेन गुणविध्यङ्गीकारात् यागा- तरविधौ निरस्ते तत्प्रसङ्गादिहापि तन्निराकरणादनन्तरसङ्गतिः । (पूर्वपक्षः) तत्र न तावदत्र ग्रहणमात्रविधिश्शक्यते कर्तुम् । स ह्य- वदाभ्यपदयो मधेयत्वमङ्गीकृत्य वा गुणपरत्वमङ्गीकृस्य वा ? नायः, ग्रहणस्य संस्कारकर्मणः संस्कार्यावच्छेदेनैव व्यवः च्छेदसिद्धेः नामधेयानपेक्षणात्, गृहातेः सकर्मकत्वात् नित्य कर्मसाकाङ्गत्वेन तदभावे ग्रहणविधानानुपपत्तेश्च । अदाभ्य. शब्दस्य हिंसाख्यदम्मानद्रव्यवाचकत्वादंशुशब्दस्य निर्यासश- क्तत्वेन नामधेयत्वानुपपत्तेश्च । नान्त्यः; अव्यभिचरितक्रतुसम्बन्धाभावेन द्रव्यमात्रो- द्दर्शन संस्कारविधानानुपपत्तेः । अदाभ्यवाक्ये यागवि. शिष्टद्रव्योद्देशे वाक्य भेदापत्तेश्च । ज्योतिष्टोमे सोमस्य देव. तात्वेन अमाप्तत्वात् तस्याः ग्रहणस्य च विधाने वाक्यभे- दापत्तेश्च । देवताविशिष्टग्रहणविधाने क्तप्रत्ययान्तपदोत्तरान्ना- तायाः पूर्वान्वये विधौ समाप्तपुनरातत्वरूपदोषापत्तेश्च । न च (१) “यत्ते सोमादाभ्यं नाम जागृवि तस्मै" इत्यादिमन्त्र. वर्णादेव सोमदेवताया ग्रहणे प्राप्तत्वाद्विधिस्थसोमपदस्यानुवाद. खेन न समाप्तपुनरात्तत्वदोष इति वाच्यम् । अंशो "उपयामगृही. तोऽसि प्रजापतये त्वा जुष्टं गृह्णामि” इति मन्त्रवर्णेन ग्रहणे देवतायाः मातत्वेऽपि अदाभ्ये “यचे सोमे" ति मन्त्रस्य स्वाहा कारान्तस्य होमलिङ्गकत्वेन ग्रहणलिङ्गकत्वाभावात् अत्र देवतापा. S १. तै. सं. ३-३-३-२.
पूर्वपक्षः] द्वितीयाध्यायस्य तृतीयः पादः । त्यनुपपत्तेः । होम एव मान्त्रवार्णिकदेवतायाः प्राप्तिपङ्गीकृत्य सोमायेत्यस्यानुवादाभ्युपगमे ज्यातिष्टोमस्य व्यक्तत्वापत्तेश्च । अस्तु वोभयत्रापि ग्रहणे देवताप्राप्तिः । तथापि तदुपपाद. कस्य 'ऐन्द्रवायवं गृह्णाती'त्यत्रेव प्रकृतस्य यागस्याभावात् न ग्रहणे देवताविधिस्सम्भवतीति नात्र(१)ग्रहणविधियुक्तः। अत एव देवतारूपस्य गुणस्य ग्रहणेऽसम्भवनिवेशस्य यागान्तरावेदक- स्वात् पादाध्यायसङ्गतिः । देवतारूपस्य च गुणस्य सिद्धान्ते ग्रहणे विधेयत्वात् , पूर्वपक्षे च यागे विधेयत्वात् सन्दिग्धविधे- यताकत्वम् । अतश्च अश्वदाभ्यद्रव्यको याग एवं गृह्णातिना वि. धीयते, अवदाभ्यनामको वा । तत्तद्र्व्यकत्वपक्षे सावत् अदाभ्य- वाक्येऽदाभ्यपदेन हिंसानहद्रव्यमात्रप्रतीतावपि 'हविषा हविर्यज- ति' इत्यर्थवादादेव देवताभिन्नसोमप्रतीतिः । अतश्च सक्तन्यायेन विनियोगभङ्गं प्रकल्प्य सोमद्रव्यको यागः मान्त्रवर्णिकदेवता. सम्बन्धकल्प्यो गृह्णातिना लक्षयित्वा यजत्यभिहितज्योतिष्टोमा. ङ्गत्वेन विधीयते । सोमद्रव्यकत्वसादृश्येन ज्योतिष्टोमधर्मातिदे. शा(२)च्च ग्रहणस्य प्राप्तत्वेनानुवादोपपत्तेः यजतिनैव यागान्तर ज्योतिष्टामाङ्गत्वेन विधीयते । ज्योतिष्टोमशेषत्वे च प्रमाणं तैत्तिरीयशाखास्थं प्राकरणिकं वाक्यम् । एवमंशुवाक्येऽपि "प्रजापतये स्वाहे" ति मन्त्रवर्णप्राप्तदेव- ताकोऽशुद्रव्यको यागो ज्योतिष्टोमोद्देशेन विधीयते । नामधेय. त्वपक्षेऽपि च देवतासम्बन्धवलादेव यागे कल्पितेऽतिदेशात पुरोडाशादिद्रव्यलाभः । अस्तु वा अंशुवाक्ये प्रमाणान्तरेण देव- ताया अप्राप्तिः, तथापि ग्रहणे नान्नोऽनन्वयात् अंशुसंज्ञकं अ. निर्धारितविशेषावच्छिन्नं कर्म कुर्यादित्युक्ते अव्यक्तत्वेन अतिदे- १.गुण २. वा . ६२ मीमांसाकौस्तुभे [अंश्वदाभ्याधिकरण- शतो द्रव्यदेवतालाभे सति यागत्वसिद्धिः । अतो यागान्तरवि. धानमेवैतदिति प्राप्त- (सिद्धान्तः) अभिधीयते-नेदं यागान्तरविधानम् , गृहातो लक्षणायां प्रमाणाभावात् , भेदकप्रमाणाभावेन यागान्तरत्वे प्रमाणाभावाच्च । न च देवतासंयोगलक्षणो गुणः सः, देवतासंयोगलक्षणस्य गुण- स्य श्रौतेऽपि ग्रहणे निवेशसम्भवेन यागाभेदकत्वात् । नचैन्द्रवायवादिवत् योगप्रकरणाभावात् अनिवेशः। प्रक- रणाभावेऽपि तैत्तिरीयशाखास्थवाक्येन ज्योतिष्टोमस्याङ्गिनायो. धवत् उपपादकताबोधस्याप्युपपत्तौ ग्रहणे देवतासंयोगस्यो- पपत्तेः । अतश्च अंशौ तावत् मान्ववणिक्या देवताया ग्रहणाङ्गत्वं मुकरमेव । मन्त्रस्य लिङ्गेन ग्रहणाङ्गत्वावगमात् । यस्तु होमम. न्त्रः स उत्तरभावियागोपकारकतासम्बन्धेनैन्द्रवायवाभ्याससम्ब. न्धियाज्यादिमन्त्रवत यागीयदेवताप्रकाशकत्वेऽपि न देवताया यागाङ्गतापर: । न च तद्वदिह ग्रहणाङ्गताबोधकवाक्याभावात् विनिगमना- विरहः । ग्रहणप्रकरणस्यैव नियामकत्वात्। अदाभ्यवाक्येऽपि यद्यपि मन्त्रवर्णात् ग्रहणाङ्गतया न देवताप्राप्तिरास्ति तथापि वि. धिवाक्य एव लक्षणाभिया विनियोगमङ्गातिदेशकल्पनादिदो. षभिया च समाप्तपुनरात्तत्वमेवैकं व्यवहितकल्पनाबदङ्गीकृत्य गुणसङ्क्रान्त शक्तिना विधिना देवताविशिष्ट ग्रहणमेव यागो. देशेन विधियते । न च लक्षणादिदोषभिया ग्रहणविध्यङ्गीकारेऽपि देवताया मन्त्रवर्णेनैव प्राप्तिसम्भवात् न तद्वैशिष्ट्यस्यापि विधेयत्वमिति वाच्यम् । मन्त्रवर्णस्य हि ज्योतिष्टोमयागाङ्गतया देवतामापक सिद्धान्तः ] द्वितीयाध्यायस्य तृतीयः पादः । स्वमम्युपगम्यते?ग्रहणाङ्गतया वा? नायः; सामान्यसम्बन्धबोधक- प्रमाणाभावेन मन्त्रस्य तदङ्गत्वे प्रषाणाभावात् । नान्त्यः, मन्त्र स्य स्वाहाकारान्तलिङ्गत्वेन सन्निधिमात्रेण ग्रहणाङ्गत्वानुपप- तेः । (१)"शुक्रं ते शुक्रेण गृहामी"ति मन्त्रेण लिङ्गविनियुक्ते. न सन्निधिबाधाच्च । अत एव तद्विध्यभावेन देवताप्राप्तेरभावाद्विधिनैव देवता विधेया । सापि न पूर्वयागे यागान्तरे वा । वाक्यभेदविनियोग- भङ्गादेः विना कारणं निष्प्रमाणकत्वात्, देवतामात्रविधानेऽपि 'अदाभ्यं गृहीत्वा' इत्यस्यानर्थक्यप्रमङ्गाच्च । अतः समाप्तपुनरा. त्तत्वरूपदोषवाङ्गीकृत्य देवताविशिष्टं ग्रहणमेव यागोद्देशेन वि. धीयते । अतो न तावत् गुणो भेदकः । नाप्यदाभ्यवाक्ये उत्तरकालतारूपानुपादेय गुणश्रवणात् यागान्तरम् । अनुपादेयगुणस्य स्ववृत्तिविध्युत्तारणपूर्वकं पारि- शेष्याद्धात्वर्थवत्तित्वबोधनद्वारा भेदोपयोगित्वं वक्ष्यते । प्रकृते दु विध्युत्तारणेऽपि विधेग्रहणसङ्क्रान्ततया पारिशेष्याभावेन प्रकर- गान्तरन्यायाविषयत्वात् । न च संज्ञया भेदः, संज्ञाया यागसामानाधिकरण्याभावेन तदभेदकत्वात् । अत एव ग्रहणसामानाधिकरण्यात् तद्भेदक- स्वमुपश्चिन्तर्यामाद्यपेक्षया इष्टमेव । ऐन्द्रवायवाद्यपेक्षया तु भेदो देवतारूपगुणादधिगन्तव्यः । संज्ञात्वं च ग्रहणस्य ग्राह्य संस्कार- त्वप्रसिद्धेः ज्योतिष्टोमाङ्गतावलेन तदीयसोमसंस्करार्थत्वप्रतीतेः शक्यार्थस्य प्राप्तवात्तत्परूपन्यायेन । अतश्च स्ववाश्योपात्तक- माभावेऽपि अध्याहारेण तदन्वयोपपत्तेः ग्रहणसंज्ञात्व अंश्व- द्याभ्यपदयोः नानुपपन्नमिति मुलानुयायिनः । २ तै. सं. ३-३-३-२. ।
६४ मीमांसाकौस्तुभे [चयनाधिकरण- वस्तुतस्तु उक्तविधया सोमाख्यद्रव्यपरत्वेनैवोपपत्तौ कर्मः कारकाध्याहारद्वितीयाभङ्गादौ प्रमाणाभावात् “यत्ते सोमादाभ्यं नाम जागृवि" इति मन्त्राददाभ्यशब्दस्य सोमपरत्वप्रतीतेश्च द्र- व्यसंवेयमिति न्यायसुधोक्तः पन्धाः युक्त इत्युत्पश्यामः । प्रयोजनं पूर्वपक्षे यथाशक्त्युपबन्धविषयत्वम् , अङ्गत्वात् । सिद्धान्ते प्रधानत्वान्नेति ध्येयम् । सूत्रं तु द्रव्यपदलक्षितदेवताया यागाङ्गत्वाभावात् केवले अनारभ्याधीतेऽपि अस्मिन् ग्रहणमेव कर्मशेषस्स्यात् , दूरस्थस्या. पि यागस्य देवतासम्बन्धोपपादकत्वोपपवेरिति व्याख्येयम् । इति नवममंश्वदाभ्याधिकरणम् ।। अथ दशमं चयनाधिकरणम् ।। (१०)।। सू-अग्निस्तु लिङ्गदर्शनात ऋतुशब्दः प्रतीयेत ॥२-३-२१. ॥ (पू)॥ (विषयसंशयौ) अनारभ्यैव श्रुतम्-“य एवं विद्वानग्नि चिनुते" इति । तथा 'अथातोऽनिमग्निष्टोमेनानुयजन्ति, तमुक्थ्येन, तमतिरात्रेण, षोडशिना तं द्विरात्रेणे'त्यादि एकादशरात्रान्तम् । तत्र चिनोतिः लक्षणया यागान्तरविधायकः ? अथ वा चयनविधायकः ? इति विचार्यते । तत्र अग्निपदवाच्यः शुद्धोऽमिः न तावत् चयनेनो- त्पाद्यत इति न तज्जनकत्वेन चयनविधियुक्तः, चयनसंस्कृत- लौकिकानेश्च भूतभाव्युपयोगाभावात् न चयनसंस्कार्यत्वत् ।
पूर्वपक्षः] द्वितीयाध्यायस्य तृतीयः पादः। । (पूर्वपक्षः) न चाग्निशब्दस्य निरूढलक्षणयाऽऽहवनीयादिपरत्वमङ्गीकृत्य तदुद्देशेन चयनविधिः । आहवनीयस्याऽऽधानकजन्यत्वेन चयन ग- न्यत्वस्य तावदसम्भवात् । अन्यथा चयनवाक्यस्थानिशब्देनाss. हवनीयादौ निरूढलक्षणायापपि प्रमाणाभावात् । आधानप्रकरण एव हि आग्निपदस्य आहवनीयादिपदसमभिव्याहारात् निहल- क्षणा समाश्रिता। अतश्च धाग्राहकप्रमाणेनाहवनीयादेराधानकज- न्यत्वात् न चयनजन्यत्वसम्भवः । नापि च यनसम्पादितस्थाण्डिला- धारत्व सम्बन्धेन संस्कार्यत्वम् , तथा सम्भवेऽपि चयनस्य इष्टका- भिरग्निं चिनुते' इति वचनेन प्राप्तस्याविधेयस्यात् । यद्यपि व तत्र गुणमात्रविधानमङ्गीकृत्येह चयनोत्पत्तिरिष्येत, नथापि उत्तरवाक्येषु अनुयजनप्रतियोगित्वरूपस्य गुणस्य यागमन्तरे- णानुपपद्यमानस्य श्रवणान् तदनुरोधेन चिनोतेरपि लक्षण या यागपरत्वनिश्चयः । तथा हि- 'अथातोऽग्निमित्यत्राग्निमिति द्वितीया न कर्मकारकपरा, अपि तु (१) अनुर्लक्षण' इति सूत्रात् काललक्षणार्थस्यानोः क. मप्रवचनीयसंज्ञत्वात् तद्योगनिमित्ता। अतश्च अग्निष्टोमादि- स्यनुयजनप्रतियोगित्वं तत्पूर्वभाविवलक्षणं द्वितीयार्थः । तस्य च 'देवदत्तमनुगच्छति यज्ञदत्त' इसादौ तुल्यक्रियावृत्तित्वावि- नाभावादग्निपदस्य यागपरत्वं गम्यते । अस्ति चाऽऽहवनीयप्रा. त्या तत्प्रख्यन्यायः । एवं च विशिष्टविधिगौरवपरिहारार्थमग्नि- संज्ञकयागप्राप्त्यालोचने क्रियमाणे विद्वाक्यमेवानन्याक्षिप्तश- क्तित्वाधागविधायित्वेन निश्चीयते । अत एव तत्रसचिनोतिः इष्टकावाक्यप्राप्तचयनानुवादकma १. पा. सू. १-४-८४.
मीमांसाकौस्तुभे [ चयनाधिकरण- सन् यागलक्षकः । तस्य च फलापेक्षायां "पुरस्तादुपसदा प्र- वर्येण प्रणक्ति” इतिवत् कालविधिपरेणापि 'अथात' इति वाक्येन अर्थात् कृत्स्नाङ्गत्वसिद्धेः 'ऋध्नोत्येवेलि फलश्रवणम. र्थवादः । अङ्गापेक्षायां च अव्यक्तत्वात्सोमादतिदेशकल्पनम् । अतश्च सिद्धं वाक्यान्तरोपात्तात् अनुयजनप्रतियोगित्वरूपात मुणात् यागन्तिरत्वम् । (सङ्गतिः) अत एवं पादाध्यायमङ्गतिरपि । अनुयजनप्रतियोगित्वस्य च वक्ष्यमाणरीत्या सिद्धान्तेऽविधयत्वात् संदिग्धविधेयताक- लम् । अनन्तरा तु वाक्यान्तरोपात्तो देवतारूपो गुणो ग्रहणे ऽपि सम्भवान्न भेदको यागस्य । अयं तु चयनेऽनिविशमान- त्वात् भेदक एवेति पूर्वपक्षोत्थानात् द्रष्टव्या । यत्तु वार्तिकेऽनिशब्दस्य 'अथात' इत्यादिवाक्ये 'अग्निं यज- तीति यागसामानाधिकरण्यात् यागनामधेयत्वावगमात् उत्पत्ति- वाक्येऽपि चिनोदेयागपरत्वं, 'अधात' इत्यादिवाक्येषु तु तया- गानुवादेनाग्निष्टोमादिसंस्था द्विरात्रादिकालाश्च वैकल्पिका विधीय- न्ते, तत्रत्यानु शब्दश्च(१)"एप वाव प्रथमो यज्ञो यज्ञाना" इत्यने. न प्राप्तज्योतिष्टोमोत्तरकालतानुवादः । उक्थ्यादिवाक्येषु च यजतिपदस्यैवानुषङ्गः, नानुशब्दस्य । या गस्य च ऋद्धिः फलं रा. त्रिसत्रवादिति पक्षान्तरमुक्तम् , तत् गुणप्रमाणकभेदाभावेन अ. सतिप्रसङ्गात् अग्निपदस्य रुढस्य सामानाधिकरण्यमात्रेण ना. मधेयत्वायोगात् सामानाधिकरण्यस्य चानिशब्दस्य अनुशब्द- योगनिमित्त द्वितीयान्तत्वेन दुरुपपादत्वात् , अन्यथा अनुशब्द- स्य सापेक्षत्रापत्तेः उपेक्षितम् । - , १. ता.ब्रा,१६-१-२, सिद्धान्तः ] द्वितीयाध्यायस्य तृतीयः पादः । तस्मात् पूर्वोक्तविधयैव यागविधिः । एवं च "अग्नः स्तोत्र "मग्नेशस्त्रं" "चित्यस्य पडुपसदो भवन्ती"त्यादिलिङ्गदर्शनमप्यु. पपन्नं भवति । अन्यथा चयनस्यापूर्वत्वेन स्तोत्रावभावात् लि. कदर्शनानुपपत्तिः । सूत्रं स्पष्टम् । ( सिद्वान्तः) सू-द्रव्यं वा स्याच्चोदनायास्तदर्थ- त्वात् ॥ २-३-२२. ॥ (सि) अग्निशब्दस्य निरूढलक्षणयाऽऽहवनीयादिपरत्वात् तत्सं. इकारकत्वेनैव स्वानेष्पाद्यस्थाण्डिलाधारत्वसम्बन्धेन यथाश्रुत- चयन विध्युपपत्तौ उभयोरप्यश्रुतयागपरत्वकल्पने इष्टकावाक्यस्य च विशिष्टविधिपरत्वकल्पने प्रमाणाभावः । न चानुयजनप्रतियोगित्वस्य यागपरत्वं विनानुपपत्तिः, 'पाकमनुभुङ्क्ते इत्यादौ विजातीय क्रियास्थलेऽपि तदर्शनात् देवदत्त. मनुगच्छतीत्यादौ तु क्रियान्तरानुपादानादुपस्थितत्वात् गमनस्यैव प्रतीतिः । प्रकृते तु चयन क्रियाया एव प्रकृतत्वात्तामादायैवानु. शब्दोपपत्तिः । अत एव चयनोत्पत्तिवाक्ये आहवनीयादेस्संस्का. यत्वावगमेऽपि आधानवदनुत्पाद्यत्वेन स्वरूपे आनर्थयात् 'अग्निं संमाष्टी तिवदुपयोगापेक्षायां प्रकरणाभावेऽपि 'अथा- त' इत्यादिवाक्यैः अग्निष्टोमसंस्थाकज्योतिष्टोमायङ्गत्वेन चय- नं विधीयते । अत एव तत्र चयनस्य शाब्दत्वासिद्ध्यर्थं तत्रा- ग्निपदेन चयनसंस्कृताग्निलक्षणा चयनमात्रलक्षणा वा अभ्युप- गम्यते । उत्पत्तिवाक्ये चोपयोक्ष्यमाणाहवनीयाधारभूतस्थल- निष्पादकत्वावगमात् तस्य च पूर्वकालं विना अनुपपत्तेः उप- मीमांसाकौस्तुभे [चयनाधिकरण- RED सदिनान्तरत्वस्य प्रमाणान्तरसिद्धत्वाच्च अनुशब्दोऽनुवादः । अग्निष्टोमशब्दस्य च जाति शक्तिन्यायेन संस्थावाचकस्यापि व्यक्तिन्यायेन स्वसम्बन्धितूपस्थापकत्वात् “प्रकृतौ चा द्विरु. क्तत्वा"दिति न्यायात् ज्योतिष्टोम एव प्रचुरप्रयोगाद्वा तदुपस्था. पकत्वोपपत्तेः तदुद्देशेन चयनं विधीयते, अग्निष्टोमसंस्थाकत्ववि- शिष्टज्योतिष्टोमत्वस्य च अनिष्टोमपदशक्यतावच्छेदकस्य उद्दे- श्यतावच्छेदकत्वात् नाग्निष्टोमसंस्थाकत्वरूपविशेषणाविवक्षा । अथवा लाघवेन ज्योतिष्टोमवस्यैव वा उद्देश्यतावच्छेदक- त्वकल्पनाद तदविवक्षायामपि न दोषः । यजतिश्च साधुत्वार्थ- मनुवादः । अथातश्शब्दावपि प्राप्तार्थत्वात् केवलं ज्योतिष्टोमो- हेशन चयनमात्रमथात इत्यत्र आद्येन वाक्येन विधीयते । अत्र च ज्योतिष्टोमप्रयोगसंवलितत्वाञ्चयनप्रयोगस्य अ- नुष्ठानसादेश्यात् ज्योतिष्टोमाङ्गत्वप्रसक्त्तावपि "पशुकामश्चिन्बी- ते"ति वाक्थैः चयनस्य काम्यत्वावगमात् न तदङ्गत्वम् । च. यनस्य हि पश्वर्थत्वे क्रियारूपत्वेन च आश्रयापेक्षाभावेऽपि चि. नोतेः सकर्मकत्वात् उत्पत्तिवाक्यावगता आग्निकर्मत्वावगतेः : आहब- नीयसंस्कारकस्य चयनस्य पश्वर्थत्वानवगमात् तस्य चोपयोगापे. क्षायां येष्वाहवनीय औपदेशिकप्रक्षेपद्वारा प्राप्तस्तत्प्रयोगान्त:- पासावगमेऽपि ज्योतिष्टोमप्रयोगसंवलितत्वाच्चयनप्रयोगस्य त- त्प्रयोगान्तःपातः मुलभ एव । तत्र च अप्राप्ताङ्गत्वसिद्ध्यर्थम- यं विधिरर्थवानेव । अत एव नितिप्रयोजनत्वात् कालार्थ एवायं संयोगः इ. त्यपास्तम् । कालस्य प्राप्तत्वेन अविधेयत्वात् । न च ज्योति- टोमस्य प्राकरणिकोत्तरवेद्यवरोधात् एतस्य वचनस्य विकृय- निष्टोमाभिमायत्वं शंक्यम् । अनिष्टोमपदस्य प्रचुरप्रयोगेण ज्यो- सिद्धान्तः] द्वितीयाध्यायस्य तृतीयः पादः । तिष्टोम एव शक्ततया एतस्यापि निश्वकाशत्वात् । “सोत्तरवे- दिषु क्रतुपु चिन्वीत, उत्तर वेद्या ह्यग्निश्चीयते' इति वचनेन अ. न्युत्तरवेद्योः समुच्चयविधानेनाविरोधाच्च । इदं हि वचनं चय. ननिष्पायस्थण्डिलाधारत्वेन निरवकाशत्वात , सिद्धवनिर्देशा- न्यथानुपपत्तिकल्पितेन विधिना उत्तरबेदि विदधत् समुच्चय फ- लति । दाशामकी अग्नर्विकल्पोक्तिस्तु नोत्तरवेदिप्रतियोगत्व- विषयिणी, अपि तु स्वाभावप्रतियोगित्वविषयिणी। तत्प्रमाण च सो समारोपकालविधिपरे वाक्ये 'यदग्निं चेष्यमाणा भवन्ती' ति सिद्धवत्पाक्षिकानुवाद इति तत्रैव वक्ष्यते । नचैवं चयनमात्रमिव उत्तरवैदिमात्रमपि ज्योतिष्टोमे कदा. पि न स्यादिति वाच्यम् । 'उत्तवेद्यामग्निं निदधातीति वचने- न उत्तरवेदेः संयोगपृथक्त्वन्यायेन साक्षादमिधारणार्थत्वेनापि विनियोगात् । इदं हि वचनं न परम्परासम्बन्धेन आधारवि. धानपरम् , चयनाधारत्वविधिवलेनैव तत्सिद्धेः। आप तु च. यनाभावपक्षे साक्षादाहवनीयाधारविधिपरम् । यद्यपि एलद्वि- धिविधेयस्य साक्षादाधारत्वस्य प्राकरणिकत्वात् तदवरोधे चय- ननिष्पाद्यस्थाण्डिलानिवेश इति शक्यते वक्तुम् , तथाप्यग्निष्टो. मपदस्य प्रचुरप्रयोगेण ज्योतिष्टोम एव शक्ततया निरवकाश- त्वात् न कोऽपि विरोधः; अत एव बौधायनकल्पादौ 'अग्निष्टो. मेन यक्ष्यमाणो भवति, 'सन्तिष्ठतेऽग्निष्टोम'इत्युपक्रमोपसंहारा. भ्यां दीक्षणीयाद्यङ्गाम्नानं सङ्गच्छते । अन्यथा अग्निष्टोमशब्दस्य प्रकृतिविऋतिसाधारणाष्टिामसंस्थऋतुमात्रपरत्वे दीक्षणीया. दीनामपि प्रकृतिविकृतिसाधारण्यापत्तेः अतिदेशविधेः तदीय. स्थानुपपत्तेः । अतो ऽग्निष्टोमादिपदानां पार्थपदस्येवार्जुन ज्यो- तिष्टोम एव प्रचुरप्रयोगात् तत्परतया निरक्काशत्वम् ।
मीमांसाकौस्तुभे [ चयनाधिकरण- नचैवं अग्नेः उत्तरवेद्या समुच्चये भिन्न कार्यत्वापत्तेः उत्तर- दिकार्यापत्त्या तदीयधर्मप्राप्तिः संकर्षे वक्ष्यमाणा विरुध्येतेति वाच्यम् । उत्तरवदेः संयोगपृथक्त्वन्यायेन कार्यद्वयावगमात् तद्धर्माणामपि कार्ययप्रयुक्तत्वावगतः चयननिष्पादितस्थाण्डि- लस्य साक्षाद निधारणरूपकार्यार्थत्वेन तदंशे उत्तरवेदिकार्याप- नत्वात् तद्धर्मप्राप्त्युपपत्तेः । अतएव कार्यान्तरांशे समुच्चीयमा- नोत्तरवेद्यामपि धर्मा भवन्त्येव । तत्राविरुद्धेषु तन्त्रता, विरुद्धषु तु आवृत्तिरित्यन्यदेतन् । सर्वथा ज्योतिष्टोमोद्देशेन चयनविनि- योगविधिरिति सिद्धम् । अत एवानुशब्दोक्तकालयोगेऽपि चयनसंक्रान्तत्वात् विधेः अदाभ्यवाक्यवदेव न ज्योतिष्टोमान्तरत्वशङ्का, ज्योतिष्टोमातिदे. शेनैव सर्वविकृतिषु चयनप्राप्तिवत् द्विरावादिष्वपि प्राप्तिसिद्धाव- पि तेषु पुनर्वचनं चयनाश्रितगुणकामानां "यनचितं चिन्धीत स्वर्गकाम" इत्यादीनां प्राप्त्यर्थमिति(१) दशमे वक्ष्यते। गुणकामानां हि आष्टमिकन्यायन प्रणयनवत् लौकिकचयनस्याश्रयत्वव्या. त्यर्थ चयने अपूर्वीयत्वविवक्षावश्यंभावे ज्योतिष्टोमप्रकरणाभावे ऽपि 'अथात' इति वाक्येन ज्योतिष्टोमस्यैवोपस्थितत्वात् तदपूर्व- साधनीभूतचयनस्यैवाश्रयत्वापत्तेः तस्य विकृती प्राप्त्यभावेन ज्यो- तिष्टोमतुल्योपस्थितिसंपादनद्वारा तत्तदपूर्वसाधनीभूनचयनस्य त- त्तद्विकृतिष्वपि कासुचिदा(२)श्रयप्राप्त्यर्थं चयनपुनर्विधानं युज्यते। अत एव अतिरात्रादिपदानां प्रचुरप्रयोगात् तनत्संस्था. कज्योतिष्टोमवाचिनामपि ज्योतिष्टोमे चयनस्य पूर्ववाक्यादेव सिद्धेः तदाश्रितफलार्थ संस्थास्वपि चयनोपदेशस्य श्येनचित्यादि- गुणकामानां संस्थाश्रय भूतज्योतिष्टोमसंवन्धिचयनोपदेशेनैव प्रा. १.१०-९-११. २. तत्प्राप्त्यर्थ • सिद्धान्तः ] द्वितीयाध्यायस्य तृतीयः पादः। ७१ प्तिसंभवेन व्यर्थत्वात् अगत्या तत्तसंस्थाकविकृतिलक्षकत्वं नानुषः पन्नम् । एवं गुणकामप्राप्तिरूपप्रयोजनसत्वे ऽपि प्रकृतावनेरुक्तलिङ्गव शेनाग्निः सोमाङ्गवच्छता"मिति ज्योतिष्टोमप्रकरणस्थकात्याय- नवचनेन च पाक्षिकत्वावगमात् सर्वविकृतिष्वपि तथैव प्राप्तेः 'यत्रमयश्वझर्भवति' 'उत्तरेऽहन द्विरात्रस्य गृह्यत' इत्यादिवदुक्थ्या- दिषु कासुचिद्विकृतिषु पुनःश्रवणं नियमफलकमिति प्रयोजना- न्तरमपि ज्ञेयम् । न च चयनप्रकरणस्थगुणकाममाप्तिफलकत्वे संभव- ति दूरस्थतत्तद्विकृतिविध्येकतापनातिदेशप्रमाणकाग्निपाक्षिकत्वो- पस्थितिसापेक्षनियमफलकत्वकल्पनानुपपत्तिरिति वाच्यम् । त. तविश्ववित्वावच्छेदकावच्छेदेन अग्निविधी नियमस्यार्थसिद्धत्वे- नाकल्पनीयत्वात् । अतिदेशोपस्थितिं विना अग्निविधिगतवै- यीप्रतिसन्धानाभावेन गुणकामप्राप्तेरपि प्रयोजनत्वाकल्पना- च्च । अतिदेशोपस्थितौ च झटिति तद्बोधितपाक्षिकत्वस्थैव उ. पस्थितौ नियमस्यैव फलत्वौचित्याच्च । नचैवं क्लुप्तोपकाराग्निपुनःश्रवणात् गृहमेधीयाज्यभागन्या- येनानान्तरपरिसंख्याफलकत्वस्याप्यापत्तिः। तदिहापि अ- तिदेशाधीनप्राप्तिकाहनीयप्राप्त्युपजीवकत्वेन अतिदेश(१)वा- धकत्वानुपपत्तेः, द्विरात्रादिष्वातदेशप्राप्ताङ्गविषयलिङ्गसद्भावा- च्च । अतः परिसंख्याफलकत्वासंभवेऽप्युक्तरूपोभयफलकत्वे- न काचिदनुपपत्तिः। तन्त्ररत्नादौ तु नियमफलकत्वाङ्गीकारे बीजं न पश्यामः । १) लोपकत्वा 3 मीमांसाकौस्तुभे [चयनाधिकरण- न चैकस्य फलद्वय संकरो दोषाय । "उत्तरेऽहन्द्विरात्रस्य गृह्यते, पध्यमेऽहंस्त्रिरात्रस्य, चतुर्थे चतुर्थेऽहन्यहीनस्ये"त्यादौ बहुशस्तथा दृष्टत्वात् । तथा हि- ज्योतिष्टोमप्रकरणे ' य एवं विद्वान् षोडशिनं गृह्णाति'. इ. त्यनेन षोडशिसंज्ञकं ग्रहणमान्नातं ज्योतिष्टोमाङ्गम् । तस्य मा. न्त्रवार्णिकदेवनाबलात् ऐन्द्रवायवादिवदेव यागाभ्यासोऽप्यर्थसि- द्धः । “एकविंशो भवति प्रतिष्ठित्यै" इत्यनेन च तदङ्गत्वेन स्तोत्रं- विहितम् । तदत्र षोडश्यादिशब्दा यथाग्रहणे प्रयुज्यन्ने तथा स्तोत्रेऽपि, 'एकविंशः षोडशी अग्निष्टोमसामे'त्यादिप्रयोगात् ; संस्थावाचित्वञ्चैषां श्रुतिस्मृतिकल्पसूत्रादिषु प्रयोगात् स्पष्टमेव । संस्थाश्च संपूर्व कस्य निष्ठतेः समाप्तिवाचित्वात् तत्तत्स्तोत्रैः क्रतोः समाप्तय उच्यन्ते । यद्यपि च ततः परमप्यङ्गानि प्रधानाभ्या. साश्च केचित् सन्येव, तथापि स्तोत्राणि न कानिचिदिति सं. स्थात्वाविघातः। अत्र च षोडश्यादिशब्दानां प्रचुरप्रयोगात् संस्थास्वेव श- क्तिः । न तु ग्रहणादौ । यद्यपि तत्तत्संस्थाकज्योतिष्टोमेऽपि प्रचुर- प्रयोगोऽस्त्येव, तथापि नागृहीतविशेषणन्यायात् प्रचुरतया प्र- योगाच संस्थायामेत्र शक्तिः, ज्योतिष्टोमे तु निरूढलक्षणा, प्रचुरप्र. योगात् । क्रत्वन्तरे तु साम्प्रतिकी, काचित्कप्रयोगात् । तत्र चेयं स्थितिः-वाचनिकाग्निष्टोमसंस्थायां नाग्निष्टोमस्तोत्रोत्तरं उ- क्थ्यादिकं किंचित् । उक्थ्य संस्थायां तु तदुत्तरं उक्थ्यस्तोत्रा- णि, न तु तस्याप्युत्तरं षोडश्यादि । षोडशिसंस्थायां तु तदुत्तरं षोडशिस्तोत्रं, न तस्याप्युत्तरमतिरावादि। अतिररात्रसंस्थायां तु तेनैव समाप्लेिरिति । तत्र च षोडशिसंस्थायाः प्रकरणात् 'चतस्रः सोमसंस्थाः' - सिद्धान्तः] द्वितीयाध्यायस्य तृतीयः पादः । इति वचनाच्च ज्योतिष्टोपाङ्गत्वप्रसक्ती “पोडशिना वीर्यकाम: स्तुवीत" इति वचनेन ज्योतिष्टोमाश्रितायाः तस्याः फलोद्देशेन विधिः उक्थयातिरात्रियोरिव “पशुकाम उक्थ्यं गृह्णीयात्" "अ तिरात्रेण प्रजाका याजयत्" इति वचनाभ्याम् । नत्वाग्निष्टोम- संस्थावत् त्वङ्गत्वम् । अत्र च सर्वत्र संस्था एन फलाद्देशेन विधीयन्ते । न तु स्तोत्रादि, तत्तसंस्थाकयागादि ; नत्र षोडश्यादिषदानां अशक्तत्वात् , लक्षणाया प्रमाणामावाच । अतएवात्र स्तुवीतेत्यादिधातुः (१)निर्वपतिवत् अनुवाद एव; अतश षोडशिनः काम्यत्वेऽपि त्वङ्गतासिद्धयर्थ "अप्याग्निष्टोमे राजन्यस्य गृह्णीयात् , अप्युक्थ्ये"इनि एतद्वचनद्वयं न विरुध्यते । अत्र हि नाग्निष्टोमादिसंस्थाङ्गत्वेन षोडशिसंस्थाविधिः, विरोधन संस्थायाः संस्थाङ्गत्वासम्भवात् । अपि तु प्रतिप्रस- वार्थापिशब्दस्वारस्यात् प्रकरणाच ज्योतिष्टोमान्तयैव । अत एव तत्रत्यं अग्निष्टोमादिपदं लक्षणया तत्तदहयज्यभ्यासपरम् , सप्तमी च सतिसप्तमी आनन्तर्यादिरूपकालपरा। अतथ राज- न्य कर्दकत्वे निमित्ते ज्योतिष्टोमाङ्कतया अभिष्टामाभ्यासोत्तर- कालविशिष्टषोडशिसस्थाप्रयोगो विधीयते । अर्थाच्च तस्य तत्तत्सस्थानिवृत्तिः । ततश्च नित्यानिटोयसंस्था काम्या चो- स्थ्यसस्था ब्राह्मणवैश्ययोरेव । काम्या तु षोडशिसंस्था मई. पामेति विवेकः । एतस्यैव चाभिशेमरतानोसरकालीनस्य पो- (१) 'सॉर्य चरु निवपेत् ' आग्नेयमाकपाल नवपत्' इत्यादी श्रुतो निर्वपतिशब्दो यथा सत्र न्यदयसासम्बन्यथानुपपत्या यागे कतिपते, तत्साधनीभूते ब्याक्षितस्य समुदायाल् पृथकरण- रूपस्य निर्वापस्यानुवादकः तत् घोडशिना वीर्यकामःस्तुत' ह स्यादौ संस्थासु विहितासु लदल्यथानुपपति सिद्धस्तोधायनुवारका स्तुवीत, गृह्णीयादित्यादिशब्द इत्यर्थः । १० मीमांसाकौस्तुभे [ चयनाधिकरण- डशिनोऽत्यग्निष्टोम इति संज्ञा । "अत्यनिष्टोमे राजन्यस्य गृहीया" दिति शाखान्तरवचनात् । यत्तु "अतिरात्रे ब्राह्मणश्य गृह्णीया"दिति वचनं तत् ब्राह्मणकर्तृकत्वे निमित्ते ऽतिरात्रसंस्थाकज्योतिष्टोमोद्देशेन षोड. शिग्रहणविधायक, न त्वतिरात्रसंस्थोदशेन, तस्याः प्राकृता- डैरेव निराकाङ्कत्वात् । नाभ्यग्निष्टोम इतिवद्विधिः । अपिशब्दा- भावात् । अनुषङ्गाङ्गीकारे उक्थ्यवाक्ये तत्पाठवैयर्थ्यात् । अतो यीक्त एव वाक्यार्थः । तस्य च निबवत्माप्तौं "नातिरात्र पो- डशिनं गृहाती"त्यनेन पाक्षिकत्वसिद्ध्यर्थ निषेधोऽपि नानुपपन्नः। तेन ब्राह्मणस्य विकल्पः, अन्येषां नैवेति सिद्धम् । यत्नु अतिराने षोडाशन गृह्णाती"ति कचिल्लिख्यते वचनं तत् "अतिरात्रे ब्राह्मणस्ये" सेतदेव ब्राह्मणपदत्यागेनेति वेदितव्यम्। गुणत्वेऽपि वा ब्राह्मणवाक्येनोपसंहार इत्यवधेयम् । अतश्च उत्त- रेऽहनित्यादिवाक्येषु द्विरात्रोत्तराहस्थातिरात्रर्मस्थाकत्वादतिदे- शतो विकल्पन प्राप्स्य षोडशिवणस्य नियमः ब्राह्मणानिमित्तक- त्वेन प्राप्तस्यानैमित्तिकत्वसिद्धिद्वारा राजन्यवैश्ययोरपि तस्य प्राप्तिश्च पार्थसारथ्युत्त्या फलम् । अहीनादीनामहरन्तरेषु अति- प्रसंस्थाकेषु षोडशिग्रहपरिसंख्या च फलम् । अत एव एकस्या. होनस्य एकमेव चतुर्थं वीप्सा वहीनान्तरमादाय, इति (१)दशमे वक्ष्यते । तेन सर्वत्रैव फलप्साङ्कर्यस्येष्टत्वात् 'तमुक्थ्येने त्यादावपि सत्सङ्कारो न दोषायति सिद्धम् । सूत्रं स्पष्टम् । सू-तत्संयोगात ऋतुस्तदाख्यः स्यात्तेन धर्मविधानानि २-३-२३.॥ (१) १०-५-१३- सिद्धान्तः ] द्वितीयाध्यायस्य तृतीयः पादः । ७५ यत् लिङ्गदर्शनं अग्निशब्दस्य यागपरत्वे उपन्यस्तम् 'अग्नेः शस्त्र'मित्यादि, तत्रत्याग्निशब्दस्य लक्षणया चयनसंपादितस्थ- ण्डिलस्थापितामिसंपादितयागपरत्वेनाप्युपपत्तेरकिञ्चित्करम् । अत एव चयनप्रकरऽविशब्द उत्पत्तिवाक्यस्थाहवनीयपरः वि- नियोगवाक्यस्थश्चयनपरः "हिरण्यशकलैरनिं प्रोक्षति" इसादि. बाक्येषु अग्निस्थापनमाग्भाविपदार्थविधायकेषु स्थलपरः, 'अग्नेः स्तोत्र'मित्यादिषु यागपर इति धर्मविधानोपपत्तिः । प्रयोजनम् सूत्रञ्च स्पष्टम् । इति दशमं चयनाधिकरणम् । अथैकादशं प्रकरणान्तरराधिकरणम् (११) १ सू-प्रकरणान्तरे प्रयोजनान्यत्वम् ॥२-३-२४.(सि) तदेवं गुणप्रमाणकं भेदं सापवादं असाध्याधुना क्रमप्राप्तः . करणान्तराद्भेदो निरूप्यते । (विषयसंशया) कुण्डपायिनामयने श्रूयते-"उपसद्भिश्चरित्वा मासपग्निहोत्रं जुहोति, मासं दर्शपूर्णमासाभ्यां यजते, मासं देवेन, मास वरुणप्रघासैः, मासं साकमेधेन, मास शुनासीरीयेण" इति । तत्र किमेछु प्रसिद्धाग्निहोत्रायनुवादेन मासादिगुणविधिः ? उत मामा- दिविशिष्टकर्यान्तरविशिरिति विचार्यते । (सङ्गतिः) अनच मासादेरनुपादेयस्य गुणस्य पूर्वपक्षे सिद्धान्ते वि.
मीमांसाकौस्तुभे [प्रकरणान्तराधिकरण- यस्वे निश्चितेऽपि कृतिमाध्यत्वरूपोपादेयत्वेनानिश्चयात् , ता. गुणप्रयोज्यभेदनिरूपणेन पादाध्याय सङ्गतिः । दूरस्थस्यापि चयनस्यामिष्टोमपद लक्ष्यज्योतिष्ठोपाङ्गत्वेऽभिहिते सुतरामाग्निहोत्र- पदनाच्यपूर्वकर्माइत्वं मासादगुणस्य संभवतीति पूर्वपक्षोत्थानात पूर्वपक्षः) सत्र धातोः पूर्वविहिताविहितसाधारणवाचकस्यापि पूर्वविहि. समानवाचकेन नाम्ना समभिब्याहारात पूर्वविहितकर्मोपस्थापकत्वो- पपचे न तावस्थत्वमात्रेण कर्मान्तर विधायित्वशङ्का । न चैव. मभ्यासाझेदोपपत्तिः, मासादिविधानार्थत्वेनान्यपरत्वात् । न च मासादेविधानायोग्यत्वम् , कादिवत्कृतिसाध्यत्वेन रूपेण तद- संभषेऽपि कृत्यधिकरणत्वादिना तत्संभवात् , अन्यथा कालादेः विधिसंस्पर्शाभावेनाविवक्षाप्रसङ्गात् । नचैवमपि पाकरणिकसायमादिकालावरोधेन मासादिगु. पस्य निचेशानुपपचेः गुणाद्भदोपपत्तिः । सायंप्रातःकालस्य ताबदमावास्यापरावयाप्यव्यापकभावेनोपपत्तेः विरोधाभावात् । चात्यन्तसंयोगवाचिद्वितीयान्तमासपदोपदिष्टप्सातत्येन विरोधः । आहाराघावश्यककार्यानुरोधेन सातत्यवाधावश्यंभा. बन जातेष्टिन्यायेन प्राकराणिककालोपसङ्घहस्यापि सिद्धान्त इवोपपचेः। न च जीवनाख्यानिमित्वेन तस्य विरोधा, सायमादिकाले- नेच निमित्तस्य मासेनाप्यवच्छेदोपपत्तेः। अतश्च मासावच्छिन्नसा. यंत्रातःकालीनजीवनस्येच निमित्चत्वात् तावद्भिः प्रयोगैरेका प्रस- वायपरिहार इति सिद्ध्यति । काम्यप्रयोगे वा मासादिविधाना. च कश्चिदिरोषः।
पूर्वपक्षः] द्वितीयाध्यायस्य तृतीयः पादः । वस्तुतस्तु सत्यपि विरोधे मासस्य विशिष्यैव विहितत्वेन निरव काशत्वात् अग्न्युत्तरवेद्यास्माक्षादग्न्याधारतायामिव विका ल्पोपपत्तिः । अत एव दर्शपूर्णमासादौ पौर्णमास्यादिकालेन विरोधपरिहारासंभवेऽपि न दोषः । अस्तु वा मासादेर्जरामरणादिरूपनित्यपयोगविधिवदनुक- रूपतया विधिः । अथवा काण्डपायिनामयन एव दीक्षितत्वेन पर्यु. दस्तस्य निषिद्धस्य वाग्निहोत्रादेः मासं प्रतिप्रसवः। अथ वा अग्निहो- त्रााद्देशेन मासकाले विहितेऽपि उद्देश्यत्वेन प्रकरणे उपस्थिता- नामग्निहोत्रादीनां निराकाहाणामपि सत्रप्रयोगवचनेन फले वि. धानान्नित्यप्रयोगेणापि विरोधः । नचैवं 'द्वादशाहीनस्ये त्यादावपि अहीनस्योद्देश्यत्वेनोपस्थि. तत्वाज्ज्योतिष्टोमप्रयोगविधिना फलेऽङ्गन या वा ग्रहणापत्तिः । संवत्सरपरिमितसत्रप्रयोगस्य षण्मासपरिमितसोमयागः अपरि. पूरणादाकाङ्क्षावशेन स्वतो निराकाङ्क्षाणामपि अग्निहोत्रादीनां फले विधानेऽपि अहीनादौ तदप्रसङ्गात् । अतो मासादिरूपस्य गुणस्य कालान्तरावरोधेऽपि निवेशोपपत्तेः न गुणाद्भेदः । न च प्राप्तकर्मानुवादेनोपसदां तदुत्तरकालत्वस्य मासस्य कर्तृबहुत्वस्य च विधौ वाक्य भेदापत्तेः तदापादकस्य गुणस्य भेदकत्वोपपत्तिः । कालविधेः प्रयोगविधित्वेन “पौर्णमास्यां पौ. र्णमास्या यजेते"त्यादौ कालत्रिकसाहित्यरूपानेकगुणविधिव. दवाक्य भेदात् । “मासं दर्शपूर्णमासाभ्या"मित्यत्रोपसदुत्तरका- लस्याश्रुतत्वेनाविधेयत्वाञ्च । न च "उपसद्भिश्चरित्वा" इत्यस्यानुषङ्गसंभवः । उभयोर- अनपेक्षितत्वेन तदसंभवात् । अतो न कर्मान्तरविधिति प्राप्से- मीमांसाकौस्तुभे [प्रकरणान्तराधिकरण- (सिद्धान्तः) अभीधीयते-सत्यं न प्रमाणान्तरमस्ति भेदकम् । तथापि अनुपादेय गुणयुक्तानुपस्थितिरूपं प्रकरणान्तरं समस्त्येव भेदक- BCIEO म् । तथा हि-- विधिस्तावदप्रवृत्तप्रवर्तनस्वभावः, प्रमाणत्वाचाज्ञातज्ञापन. फल इत्यविवादम् । अतो विधेरज्ञातज्ञापनविषयत्वापरप- यीय विधेयत्वं, पुरुषप्रवृत्तिविषयत्वापरपर्यायञ्चोपादेयत्वं द्वयमपि ज्ञाप्यम्, तदपि सामानाधिकरण्ये नेत्युत्सर्गः। तच पदश्रुत्या धात्वर्थ एवेत्यष्युत्सम एव । योग्योपपदसद्भावे तु तदर्थवृत्ति इत्य- पवादः । अत एव “यदाहवनीये जुहोती"त्यत्र विशिष्टविधि गौरवाभिया पदश्रुत्युपाच' चिधात्वर्थस्य च भाव्यत्वालिप्सयोपादेयत्वं विधेयत्वं च सामानाधिकरण्येनाहवनीय एव बोध्यते । संभवति च तस्य वाजपेयाधिकरणोक्तरीत्या प्रणयनप्रादुष्करणादिरूप- क्रियाविशिष्टत्वेन उपादेयता विधेयता च । अत एव तन्निवाहार्थ कर्मणः प्राप्त्यालोचनायां प्रापक- विध्युपस्थापकमपाणान्तराभावेऽपि जुहोविनैव कथंचिदुपस्थाप- नादुद्दश्यत्वाविधातः । यत्र तु न योग्यमुपपदं यथा मासमि- त्यादौ कालादेर्वाजपेयाधिकरणोक्तरीत्यैवोपादेयत्वाविषयत्वा- तत्रोपादेयत्वस्य पारिशेष्येण धात्वर्थमात्रवृत्तित्वात् सामानाधिक- रण्याथै विधेयत्वमपि तद्तमेव विधिरवबोधयति । एवं सत्यपि यदि 'सायं जुहोती' त्यादिवत् प्रत्यभिज्ञापक प्रमाणं सन्निध्याधभविष्यत् ततोऽगत्या कालादौ विधेयत्वं क. मणि चोपादेयत्वं इत्येवं कैयधिकरण्यमपि आश्रीयेत । सम्भव ति हि कालादौ कृतिव्याप्यत्वरूपोपादेयत्वासम्भवेऽपि कृत्यधि- करणत्वादिना अज्ञातज्ञापनविषयत्वाख्यं विधेयत्वम् । अत एवं सिद्धान्तः] द्वितीयाध्यायस्य तृतीयः पादः । च विधिसंस्पर्शाद्विवक्षा अङ्गत्वं च । न तु तदस्ति । अतस्सामाना- धिकरण्यलाभार्थं विधेयत्वस्यापि धात्वार्थवृत्तितयैव बोधनात् विहितविधानायोगाद्भेदसिद्धिः। अत्र धात्वर्थं उपादेयत्वसामानाधिकरण्येन विधेयत्वबोधनं प्रकरणान्तरव्यापरः । तत्राप्यनुपादेयगुणान्वयस्य स्वत्युपादे. यतापनयनद्वारा परिशेषाख्यप्रमाणसहकृतस्य धात्वर्थवृत्युपादे- यतापादनं व्यापारः। प्रत्यभिज्ञापकप्रमाणस्य च सन्निध्यादेपा- देयत्वविधेयत्वसामानाधिकरण्यप्रतिबन्धकत्वस्य वक्ष्ययाणत्वाद प्रत्यभिज्ञापकप्रमाणाभावरूपस्यासंनिरुक्तविघोषादेयत्वसामा. नाधिकरण्येन विधेयत्वबोधनं व्यापारः। एते एव च भवदेवा- दिग्रन्थे प्रयोगोत्पत्तिशब्दाभ्यामभिप्रेते। अव चोपादेयगुणाभाव एव प्रयोजकः, नत्वनुपादेयगुणान्व. योऽपि । गुणसामान्याभावेऽपि पारिशेष्येण धात्वर्थवृत्युपादेयता. पादनोपपत्तेः। अत एव (१)दशमे गृहमंधीये "आज्यभागौ यजति" इत्यत्र कर्मान्तरत्वपूर्वपक्षे प्रकरणान्तरप्रमाणोपन्यासो युज्यते । नचैवं "तनुनपातं यजती" त्यादावपि तदापत्तेः कृतमभ्या- सेनेति वाच्यम् । सत्यप्युपधेयसाङ्कर्ये न्यायस्वरूपस्यासाङ्कर्यात् । अभ्यासे हि उपादेयतामतन्त्रीकृत्य पारिशेष्येण धात्वर्थे वि- धेयत्वापादनमेव व्यापारः । अत एव तत्र सन्निधिः प्रतिवध्यः, न तु प्रकरणान्तर इव प्रतिबन्धकः । प्रकरणान्तरस्थले तु न पारिशेष्येण विधेयत्वापादनं व्यापारः, विशिष्टविधिविधया का- लादेरपि विधेयत्वाङ्गीकरणेन तदसंभवात्, अपि तु सत्यपि विधेयान्तरे स्वापादितोपादेयतासामानाधिकरण्यलाभार्थ धा- (१) १०-७-९.
- प्रमाणस्य - मीमांसाकौस्तुभे [प्रकरणान्तराधिकरण- त्वर्थेऽपि विधेयतापादनम् । अतो न्यायशरीरस्यासङ्कीर्णत्वा- क्तः प्रकरणान्तराद्भदः। ननु प्रकरणाद्यपेक्षयापि प्रबलस्य नाम्न एव सन्निधापक- सत्वात्सामानाधिकरण्यप्रतिबन्धकत्वोपपत्तेः कथं "माममग्निहोत्रं जुहोती” त्यत्रापि भेदमिद्धिरिति चेत्- न; नाम्नः खण्डवाक्यार्थबोधदशायां लिङ्गसंख्याप्रकारकस्वा. थबोधकत्वेन तदप्रकारकधातुपदबोध्यधात्वर्थवृत्तिविधेयत्वस्य स. मानप्रकारत्वाभावेन नाम्ना प्रतिबद्धपशक्यत्वात् । एवं हि मानि- घेर्धात्वर्थवृत्तिविधेयताप्रतिन्धकत्वं यद्धातोः स्वविषयपरत्वप्रमा- पकत्वम् । धातोर्हि सन्निधिविषयीभूतपूर्वकर्मपरत्वे प्रमापिने विधेयार्थकत्वं प्रतिबध्यते । अाश्च सन्निधिना "आग्नहोत्रं जुहोती" त्येतद्वाक्यगनजुहोतिपदबोध्यस्य लिङ्गसंख्यानन्वायन एव होमविशेषत्वमाप्रकारतयोपस्थापितस्य 'सायं जुहोती'त्येत. द्वाक्यगतजुहोनिबांध्यत्वप्रमाषणात युक्ता तस्य तद्वाक्यगत. जुहोनिवृत्तिविधेयार्थकत्वमतिबन्धकता । प्रकृते तु लिङ्गसंख्या- न्वयिहोमविशेषत्वप्रकारतया नानोपस्थापितस्य होमस्य 'मामम. ग्निहोत्रं जुहोनि' इत्येतद्वाक्थगतजुहोतिना बाधयितुमशक्यत्वन न नाम्नस्तद्वत्तिविधेयतार्थकत्व प्रतिबन्धकत्वोपपत्तिः । वस्तुतस्तु न नाम्नो विजातीयहोमत्वप्रकारकबोधजनकता- पि, तथात्वे जुहोतिपर्यायत्वेन समप्रयोगानापत्तेः। अपित्वग्निदेव- ताकहोमत्वेनैव । अतिप्रमङ्गस्य प्राचीनमयोगाभावनवोद्भिदधि- करणे स्थापितत्वेन योगरूढरप्यनङ्गीकाराच्च । अन्यथा म. त्वर्थ लक्षणादिभिया अतिप्रसङ्गभङ्गार्थमपि रून्यङ्गीकारे सोमादा. वपि तदापत्तेः । अतस्ममानप्रकारत्वाभावान्न नानो धात्वर्थ- तिविधेयत्वप्रतिवन्धकता।
सिद्धान्तः ] द्वितीयाध्यायस्य तृतीयः पादः । ८१ अस्तु वा विजातीयहोमत्वप्रकारकबोधजनकना नान्नः, त. थापि नजन्योपस्थिते मातिदेशविधया भेदानुगुणत्वेऽप्युपप- द्यमानत्वान्न तद्बाधपतिबन्धकता । अत एव यत्र नाख्यातेन भे- दबाधः तत्र नान्नः पूर्वकर्मोपस्थापकत्वमाख्यातसमानाधिकरण. स्वादिष्टमेव । अत एव यत्र श्रुतायां अनुमितायां वा भावनायां निधेयधा. त्वर्थश्रवणाभावेन नामार्थस्यैव करणत्वेनान्वयः तत्र नाम्नःपूर्वक- मोपस्थापकत्वात्तस्यैव वैयधिकरण्यमाश्रित्य फलादिसंबन्धविधिः यथा-"यज्ञेन दानेन तपसाऽनाशकेन विविदिषति" | "सर्वे- भ्यो ज्योतिष्टोम"इति च । अत्र हि प्रत्ययोपातानां तत्तद्यज्ञाधि- करणकभावनानामेव ज्ञानाख्येन विविदिषाख्येन वा फलेन संव. न्धो, न तु यज्ञान्तरस्य भावनान्तरस्य वा। यज्ञादिपदैस्सुबन्तैस्त- तद्यागादीनामुपस्थितत्वात् । ननु-यज्ञा -यज्ञादिपदस्य सुवन्तत्वेऽपि 'मासं जुहोति' इनिवत् पूर्वविहिताविहितसाधारण्येन यज्ञमात्रबाचित्वानियमेन पूर्वकर्मा- नुपस्थितः कर्मान्तरत्वोपपत्तिः । न च रूपाभावः । अव्यक्तत्वा- दिसादृश्येन ज्योतिष्टोमान्तरविध्यन्तरोपपत्तिरिति चेत्- विविदिषादिफलापेक्षितचित्तशुद्धिरूपद्वारसमर्पके "स ह वा आत्मयाजी यो वेदेदमनेनाङ्ग संस्क्रियते इदमनेनाङ्गमुपचीयते" इति वचने एतच्छब्देन पूर्वविहितयज्ञादिपरामर्शाचदनुरोधेन द्वारसमर्पके विविदिषावाक्येऽपि यज्ञादि पदेन पूर्वविहितयज्ञा. दिपरामशोपपत्तेः। न च “अथैष ज्योति" रितिवदेतच्छब्दस्यापि पूर्वविहिता- विहितसाधारण्यम् । “स यदेव यजेते" ति पूर्ववाक्ये यच्छन्दोपब- न्धेन “य इष्ठ्या पशुने" तिवद्याजिना पूर्वविहितकर्ममात्रपराम- ११ ८२ मीमांसाकौस्तुभे [प्रकरणान्तराधिकरण- र्शात् तदनुरोधेनैतच्छब्दस्यापि पूर्वविहितकर्ममात्रपरामर्शकत्वोप पत्तेः । अतश्च तात्पर्य ग्राहकसवाद्यज्ञादिपदस्य पूर्वकोपस्थाप- कत्वोपपत्तन कर्मान्तरत्वापत्तिः । न च यज्ञाद्यभेदेऽपि भावनोपस्थापकाभावात्तद्भेदोपपत्तिः। "सर्वेभ्यो दर्शपूर्णमासा" वित्यादिवद्यज्ञादेरेव स्वसम्बन्ध्य. व्यभिचरितभावनोपस्थापकत्वोपपत्तेः। न च फलभेदाद्भावनाभेदः, प्रमाणाभावात् । अत एव "भिद्यते भावनामात्र" मित्यादिवार्तिकोक्तिः प्रौढिमात्रमेव । नचैवमनेकासां भावनानां विधानाद्वाक्यभेदाशङ्का, एकम- स्पयोपादानेन “दर्शपूर्णमासाभ्यां स्वर्गकामो यजेते" तिवत् तदनापत्तेः । तासां च तत्तद्यज्ञादिकरणत्वं प्राप्तमेवेति यज्ञादिप- दमनुवादो भावनान्तरत्वप्रतिबन्धार्थः । विविदिषाफलसम्बन्धन विनियोगमात्रकरणाच एकपदोपादानेऽपि “य इष्ट्ये” तिवत् नैकप्रयोगता। तदेवमुक्तमकारेणकवाक्यत्वसम्भवेऽपि 'विविदिषन्ती' स- स्यानुषङ्गेण वाक्य भेदाङ्गीकरणं 'अर्धमन्नर्वेदि मिनोति' इतिवच्च कर्मसामान्य लक्षणामङ्गीकृत्यैकवाक्यत्वोपपादनं पितामहानाम- भ्युपेत्यवादमात्रम् । 'सर्वेभ्यो ज्योतिष्टोम' इत्यत्रापि भवदेवोक्त- विधया अनारभ्याधीतत्वेऽपि नाम्नः पूर्वकर्मोपस्थापकत्वोपपत्तेन तावद्यागभेदः । तेनैव स्त्राव्यभिचरितभावनोपस्थितिसम्भवान्न तद्भेदोऽपि । श्रुतवाक्यनिर्वाहार्थन्तु अश्रुतकर्तव्यपदाध्याहार इति विशेषः । वस्तुतस्तु प्राकराणिकत्वादेव सूत्रोक्तादकर्मान्तरम् । एवं यत्र गवामयनादौ "चत्वारोऽभिप्लवाः षडहा: पृष्ट्यषडह" इत्यादि वचनैर्यागान् विधाय पुनः प्रकरणान्तरे सिद्धान्तः ] द्वितीयाध्यायस्य तृतीयः पादः । ८३ तादृशैरेव वचनैः श्रूयन्ते तत्र मत्यप्यप्राप्तोपादेयगुणाभावसहकृ. तासनिधौ नानैव पूर्वयागानां तैश्च भावनानामुपस्थितत्वान्न कर्मान्तरत्वम् । नचैवमभ्यासाद्भेदश्शयः । “यं कामं कामयते त. मतेनामाती"ति सनिधिपठितवाक्यान्तरपमितफलंसम्बन्धार्थत्वे. नान्यपरत्वाभावात् । अतश्च तस्यैव कर्मणो गवामयनप्रकरण- पाठात्तदीयफलसम्बन्धः । प्रकरणान्तरपाठाच्च फलान्तरसम्ब. न्य इति वेदितव्यम् । यदि तु नामातिदेशादिव्यवहारसिध्यर्थ भेदावश्यकता ततः कोत्पत्तिपरत्वं कवा फलसम्बन्धार्थ पुनः श्रवणमिति विनिगमनाविरहरूपाभ्यासादेवोभयत्राप्युत्पतिविधित्वमङ्गीकृत्य भेदः प्रसाध्यः ॥ एवं द्वादशाहपकरणस्थे 'प्रायणीयोतिरात्र' इति वचने विहितस्यातिरात्रसंस्थाकमायणीयस्य गवामयनप्रकरणस्थेन "वै. श्वानरो ज्योतिष्टोमः प्रायणीयमहर्भवति" इति वाक्येन विधे यगुणाभावात् तस्मिन्नपि वाक्ये कर्मान्तरमेव विधेयम् । वैश्वानर- पदं हि वाक्यान्तरेण वैश्वानरदेवय ग्रहस्य प्राप्तत्वान्नापधेयमेव । ज्योतिष्टोमपदस्य द्वादशाहे ज्योतिष्टोमधर्मकत्वम्य चोदनालिङ्गा. तिदेशेनैव प्राप्तत्वादविधेयार्थकत्वम् । अतश्च विधेयान्तराभावात् कर्मान्तरविधिरेवायम् । न चैतद्वाक्यविहितकर्मानुवादेन द्वादशाहिकवाक्ये अति. रात्रसंस्थामात्रविधानोपपत्तेः कथं कर्मान्तस्त्वमिति वाच्यम् । गवामयनप्रकरणेऽपि प्रथपेऽहन्यतिरात्रसंस्थाविधेः पार्थक्येन सत्वात् । अतोऽत्रापि विनिगमनाविरहादेव कर्मान्तरत्वम् । भा- ध्यकारीयप्रकरणान्तरन्यायेन भेदोक्तिस्तु अमातोपादेयगुणा- भावविशिष्टासनिधिमात्रेण व्याख्येया। ..
मीमांसाकौस्तुभे [प्रकरणान्तराधिकरण- एवं "वारुण्या निष्कासन तुषैश्चावभृथं यन्ती"त्यत्रापि प्रकर- णान्तरात् भेदोक्तिः सन्निधिविरहमात्रेणैव, न तु वस्तुतः प्रक- रणान्तरन्यागेऽस्ति । उपादेयगुणाभावाभावात् , अवभृथपदेना. ख्यातममानाधिकरणेन सौमिकावभृथस्यैवोपस्थितताच्च । भे. दम्तु तत्र प्राप्तकर्मानुवादनानेकगुणावधान वाक्यभेदापत्तगुणा- देव । यद्यपि चात्र निष्कासस्य करणत्वेन श्रुतस्यानि प्रयाजश- षवत् संस्कार्यत्वं कल्प्येत तथापि प्राप्तकर्मानुवादेन तुषाख्यद्र व्यसम्बन्यसंस्कार्यसम्बन्धश्चेति(१) इन्द्रियकामाधिकरणोत्तरी- त्या वाक्यभेदमसङ्गात् कर्मान्तरम् । अत्र हि निष्कासस्य प्रयाजशेषवत् संस्कार्यत्वेऽपि न तु- पाणां प्रकृतपुरोडाशानुनिष्पन्नानामपि संस्कार्यत्व न्यायमुधोक्तं युक्तम् । तथात्वे कर्मान्तरविधानेऽपि उद्दश्यानेकत्वानिमित्तवा क्यभेदस्यापरिहार्यत्वात् । नचोभयोरपि उपयागित्वाविशेषात् विनिगमनाविरहः, तुषपदस्य जाघनीपदवदवयवविशेषवाचित्वे- ऽपि उत्तरार्धादिपदवत ससम्बन्धिकाचनत्वाभावेन लौकिकतुषप- रत्वोपपत्तौ विहितप्रतिपत्तिकपुरोडाशीयतुषग्रहणे प्रमाणाभावात् । अत एव बौधयनीयकल्प लौकिकतुषग्रहणमवोपदिष्टम् । नि- कासपदस्य ससम्बन्धिवचनत्वात् 'वारुण्या' इत्यनेन विशेष. णाच अर्थकर्मत्ववादिमनेऽपि च परप्रयुक्तद्रव्योपजीवित्वस्या- वश्यकत्वेन लौकिकनिष्कासग्रहणानुपपत्तरुपयुक्तस्य निष्कास स्येव तेन ग्रहणात प्रगाजशेषन्यायेन युक्तं संस्कार्यत्वम् । नाचातिदेशकपतिपत्यन्तरनिराक सस्य प्रयाजशेषन्यायवि. षयत्वासम्भवः । अर्थकर्मत्वपक्षेऽपि निष्कामांशे आतिदेशिकपति- पतिवाधस्यावश्यकत्वात् । प्रगाजशेषस्यापि मर्वहोमसम्भवना १पू० मी०२२-११.
सिद्धान्तः] द्वितीयाध्यायस्य तृतीयः पादः । नपेक्षस्यैव प्रतिपत्तिविधानाच । अतो निष्काससंस्कारार्थत्वेनाव. भृथविधानात प्राप्तावभृथानुवादेन च द्रव्यविधानाद्वाक्य भंदापत्तेः गुणात् कर्मान्तरमेव प्रसिद्धावभृथधर्मकं तुषद्रव्यकश्च संस्कारा- र्थत्वेन विधीयते । निष्कासस्यापि च त्यागांशं प्रति गुणत्वाच. शब्दोपात्ततुषसमुच्चयोपपत्तिः । नचैवं निष्कासस्य संस्कार्यत्वपक्षे(१) 'प्रतिपत्तिरिति चेन्न कर्मसंयोगात्' इति एकादशाधिकरण मूत्रविरोधः, तस्य तुपाशे पतिपचिनिराकरणार्यत्वेनाप्युपपत्तेः । नचैवं सम्य कर्मान्तरस्य प्रतिपत्तित्वे अर्थकर्मभृतप्रसिद्धा- वभृथसादृश्याभावादवभृथशब्दप्रयोगानुपपत्तिः । अग्निहोत्रा- दिवत् संस्कार्यकृतसादृश्याभावेऽपि नामतिदेशविधया साध्यध- मसादृश्येन तदुपपत्तेः । अस्तु वा तत्रस्थभाष्यानुसारान्निष्कासांशेऽपर्थकर्मत्वम् । तथापि प्राप्तकर्मानुवादेन द्रव्यद्वय विधाने बाक्यभेदापत्तगुणादेव भेदो, न तु प्रकरणान्तरात् इत्यवधेयम् । (२)केचित्तु उपादेयैकगुणाभाव एवासन्निधिसहितः प्रकर- णान्तरम् , अनुपादेयगुणवदुपादेयाने कत्वस्यापि वाक्यभेदापत्या धात्वर्थनिष्ठविधेयतापादकत्वात । अतश्च तुषनिष्कामरूपानकगु- णविधाने वाक्य भेदापत्तेर्यागभावनान्तरस्यैव विधेयत्वावगमात् प्रकरणान्तरादेव भेदसिद्धिः । न चैवं वाक्यभेदापादकगुणानेक- स्वस्य गुणविधया भेदकत्वानुपपत्तिः, सर्वस्यैव गुणनामधेयादेस्स- निधावेव तत्वेन भेदकत्वाङ्गीकारात् । असन्निधौ तु प्रकरणा- . १ जै. मु.११-२-६५. २ पक्षोऽयं मीमांसाबालप्रकाशे सम्यगुपपादितः श्रीशङ्करभट्टै स्वत एवावग तव्याः, तस्यैव च खण्डनमत्रक्रियत इति वेदितव्यम् ।
८६ मीमांसाकौस्तुभे [प्रकरणान्तराधिकरण- ७ गरविधया । अत एव "विश्वजिता यजेते"त्यत्र न मंज्ञाया भेद- कत्वम् , अपि तूपादयैकगुणाभावतया प्रकरणान्तरस्यैवेत्याहुः । तन्न; उपादेयतामतन्त्रीकृत्य स्वमात्रवृत्तिविधेयतापनयन धात्वर्थवृत्तिविधेयतासम्पादनव्यापारकत्वेन स्वापादितोपादे. यतासामानाधिकरण्येन विधेयतासम्पादनाख्यप्रकरणान्तरव्या- पारकत्वाभावात्तदन्तर्भावानुपपत्तेः । तथा हि-- सन्निधावसान्निधौ वा गुणानकत्वं नोपादेयतानेकत्वाद्भेद- कम् , सत्यप्युपादेयानेकत्वे "यदग्नये च प्रजापतये चे"त्यादी अग्नेः प्राप्तत्वेन वाक्य भेदाप्रसक्तः अभेदकत्वात् । अपि तु वि- धेयानेकत्वात् । अतश्च तत्रोपादेयतामतन्त्री कृत्य सन्निध्यसन्नि- घिसाधारण्येन स्वमात्रवृत्तिविधेयतापनयनपूर्वकधात्वर्थवृत्तिवि. धेयतापानं व्यापारः, प्रकरणान्तरस्थले तु न मामप्तिविधेय- तापनीयते । प्राप्तकर्मानुवादेनापि मासविधानसम्भवाद , अपि. तुपादेयता । अतश्च स्ववृत्युपादेयतापनयनद्वारा परिशेष्याद्धात्व- थवृत्त्युपादेयतामापाद्य तत्सामानाधिकरण्येन विधेयताबोधनमेव प्रमाणान्तरासङ्कीर्णव्यापारः प्रकरणान्तरस्य । अतश्च प्रकरणा- नरव्यापाराभावादुपादेयगुणानेकत्वस्य सन्निधाविधासन्निधा- वपि गुणविधयैव भेदकस्वम् । अत एव नामधेयस्यापि सन्निधाविद्यामन्निधावपि उपादे. यतामतन्त्रीकृत्य स्वशक्यतावच्छेदकत्वाक्षेपकत्वेनैव भेदकत्वात् प्रकरणान्तरव्यापारकत्वाभावेन नामधेयत्वेनैव भेदकत्वम् । अतः पूर्वोक्तप्रकारेणैव तुषनिष्कासादो भेदसिद्भिः । तत्सिद्धं उपादे. यगुणाभावविशिष्टानुास्थितेः प्रकरणान्तराख्याया मामाग्निहोत्रं कर्मान्तरमिति । "मासं दर्शपूर्णमासाभ्या"मित्यादिवाक्येष्वप्येवम् । तत्र त्वयं सिद्धान्तः ] द्वितीयाध्यायस्य तृतीयः पादः । १ विशेष:(१) साप्तामिकन्यायेन दर्शपदस्य पूर्णमासपदस्य च प्राकृत- यागत्रिकद्रव्यदेवताद्यतिदेशकत्वात्तषां च एकपदोपादानेन समुच्च- यावगतरुत्पत्तिवाक्यगतसमुच्चितद्रव्यदेवतानुरोधेन संख्यावत् कर्मभेदावसायात् प्रकृतिवद्यागषट्कमेव विधेयमिति । नचैवमग्निहोत्रेऽपि प्राकृतसायंप्रात:कालादीनां समुच्चयेना- तिदेशादुत्पत्तिवाक्यगतत्वेन भेदकत्वापत्तिः । सायंप्रातःका- लादिवत "विराट्सम्पन्नमाग्निहोत्रं भवती"त्यादि वाक्यविहि. ताया आवृत्तेरपि अनिदेशात्तदादायैव कालादिसमुच्चयोपपत्तेः । प्रकृते तु तदभावात् कर्मभेद इति वैषम्यम् । न चैवं सौर्येऽपि प्राकृताग्नेयद्वयधर्माणामकेन प्रकृतिवच्छ- देनातिदेशात् समुच्चयावगतेरुत्पत्तिवाक्यगतत्वेन भेदकत्वापत्तिः। तत्राकाङ्कावशेन कल्प्यस्य प्रकृतिवच्छब्दस्यैकप्रकृतिधमैरेव नि- राकाङ्कत्वोपपत्तेः अन्यतराग्नेयवादित्येव कल्पनात् । प्रकृते तु तेन शब्देन लक्षणया धर्मप्राप्तौ समुच्चयस्यावश्यकत्वात् युक्ता भेदकतेति वैषम्यम् । यत्तु कश्चित् 'मासं दर्शपूर्णमासाभ्या'मित्यनेन द्विवचनेन कर्मदयेऽवगते पश्चात्ममुचितद्रव्यदेवतानुरोधेनेकजायवस्छिन्नस्या- वान्तरभेद इत्युक्तम् , तत् द्विवचनस्य प्रातिपदिकाभिहितप्रकृति- यागगतधर्मसमुदायगतत्वनानुवादात् “समिधो यजती"तिवद्भेद- कत्वानुपपनेरुपंक्षितम् । नन्वेवमैन्द्राग्नद्रव्यदेवत्यस्यापि दर्शपदेनातिदेशात्मकर्मा- पत्तिः । न च(२) सोमप्राक्कालरूपैन्द्राग्नधर्माभावादनतिदेशः। १ सप्तमाध्यायचतुर्थपादीयप्रथमाधिकरणन्यायनेन्यर्थः । २ 'नासोमयाजी सन्नयेत्' इति असोमयाजिनस्सान्नारयनिषे. धेन असन्नयत एवैन्द्राग्नविधानेन सोमप्राकालिकत्वमन्द्राग्नधर्म इति भावः। , मीमांसाकौस्तुभ [प्रकरणान्तराधिकरण- तस्योपदेशिकेन(१) सत्रवृत्तिमोमोत्तरकालत्वेन बाधेऽपि चातुर्मा- स्यादिवृत्येन्द्रामविकृतिष्विव धर्मान्तरातिदशोपपत्तेः । अत एव प्रकृतिवद्भाववाधापत्तेः नैन्द्रामधर्मातिदश इति केषाश्चिदुक्तमपा- स्तम् । विकृत्यन्तरेष्वपि तदापत्तरिति चेत्-- याज्ञिकाचारमूलभूनश्रुन्या ऐन्द्रामधर्मपयुदासोपपत्तः । सबै था प्रकरणान्तरन्यायेन कर्मान्तरमित्येतावत् स्थितम् । एवं यत्र देशाख्योऽनुपादेयो गुणो निमित्ताख्यो वा तत्रा. पि कर्मान्तरत्वम् , यथा “सरस्वत्या दक्षिणेन तीरेणाग्नेयो ऽष्टाक- पाल' इति । न चात्रोपादेयगुणाभावविशिष्टानुपस्थितिसत्त्वेऽपि 'सर्वेभ्यो ज्योतिष्टोमः' इति वद्यज्यसमानाधिकरणानेयपदस्यैव पू. र्वकर्मोपस्थापकत्वोपपत्तेर्भेदानुपपत्तिरिति वाच्यम् । आग्नेयपदस्य नामधेयत्वाभावेन यजिपदेन पूर्वविहिताविहितकर्मसाधारण्येना. ग्निदेवत्यद्रव्यमात्रवचनस्य विशिष्य पूर्वकोपस्थापकत्वाभावात् । निमित्तस्य तु 'सत्रायागूर्य विश्वजिता यजेत' इति । आगू. रणं सङ्कल्पः, सत्रमकुर्वतः तद्विश्वजितो निमित्तमिति वक्ष्यते । अतश्च 'विश्वजिना यजेत' इति विहितायागात् कर्मान्तरामिदम् । नचानेन विनियुक्तस्य प्रयुक्तस्य वा 'विश्वजिता यजते' स्थयमुत्पत्तिविधिरेव किं न स्यादिति वाच्यम् । विनियोगप्रयो. गविषयतासामानाधिकरण्येनावगतस्योत्पत्तिपरत्वस्य सन्निधि विना बाधे प्रमाणाभावात् । तस्मात् सिद्धं कर्मान्तरत्वम् । प्रयोजनं मूत्रं च स्पष्टम् ।। इत्येकादशं प्रकरणान्नराधिकरणम् । १ 'आहिताग्नय इष्टप्रथम यज्ञा गृहपतिसप्तदशास्सत्रमासीरन्' इति वाक्येन प्रथमयज्ञपदवाच्याग्निष्टामसंस्थाकज्योतिष्टोमोत्तरमेव सत्रविधानात् सोमोत्तरकालत्वं सत्रस्येत्याशयः।
करणम् ] द्वितीयाध्यायस्य तृतीयः पादः । ८९ अथ द्वादशं फलसंस्कार्याधिकरणम् (१२) । सू-फलञ्चाकर्मसन्निधौ ॥२-३-२५.॥(सि) एवं फलं चकारात्संकार्य चानुपादेयत्वाद्भदकम् | यथा- अनारभ्य श्रुते(१) "रुक्काय आग्नेयमष्टाकपालं निपेदि"त्यादौ यज्यश्रवणेऽपि देशवाक्यवदेव कौन्तरत्वोपपत्तिः। संस्कार्यस्य तु अश्वमेधे(२) धातवीया दीक्षणीया भवतीति । अत्र हि त्रैधा- तवीयादीक्षणीययोः भेदात् सामानाधिकरण्यानुपपत्तेः जघन्य- दीक्षणीयापदं स्वशक्यकार्य यजमानसंस्कारं लक्षयति । अतश्व दीक्षणीयापदेन लक्षणया संस्काराश्रयतया यजमानस्य संस्का. यस्योपस्थितत्वात् अनुपादेय सहकृतानुपस्थितः प्रसिद्धधातवी. यांपक्षया कर्मान्तरमेवेदम् । वस्तुतस्तु यज्यसमानाधिकरणस्य वैधातवीयापदस्य पूर्वक- र्मोपस्थापकत्वोपपत्तेः नेदं कर्मान्तरम् । यत्तु भवदेवेन त्रैधातव्यापदस्य पूर्व कर्मोपस्थापकत्वे कार्या- न्तरसम्बन्धे च गौरवापत्तेः कर्मान्तरविधिरेवायं इत्युक्तम् । तत् “सर्वेभ्यो दर्शपूर्णमासा" वित्यादावपि तदापत्तेः पूर्वकर्मोप- स्थापकत्वे च व्यापारान्तरानपेक्षणाद प्रत्युत कर्मान्तरविधान एव गौरवापत्तेरुपेक्षितम् । वार्तिके तदुदाहरणन्तु धात्वोभेदेऽ. पि भावानाभेद इति प्रौढिपक्षाभिप्रायेण । १. रुकामः तेजस्कामः। २. आप. श्री. २०-८-४. आग्नावैष्णव हविष्का काचिदितिः त्रैधानवीयेष्टिः । वैधातवीयापदनिर्वचनं तु नैत्तिरीयसंहितायां तीयकाण्डे चतुर्थप्रपाठक द्वादशानुवाके द्रष्टव्यम् । १२ मीमांसाकौस्तुभे [ फलसंस्कार्याधि- संस्कार्योदाहरणन्तु 'औदुम्बरी भोक्षती' त्यादि व्रीहि- प्रोक्षणाद्यपेक्षया प्रोक्षणान्तरविधायकमिति द्रष्टव्यम् । नन्वेवमपि पूर्वमूत्रेणैव सर्वानुपादेयसङ्ग्रहोपपत्तेप्सूत्रान्तर- प्रणयनवैयर्थ्यम् । न हि फलसंस्कार्ययोरनुपादेयत्वं दुर्जेयम् । येन तदुपपादनार्थमेतदारम्भो युज्येत । वाजपेयाधिकरणे प. श्वानामप्यनुपादेयत्वस्य स्थापितत्वादिति चेद- न; फलसंस्कार्ययोः प्रकरणान्तरविधया भेदकत्वानुपपत्ति- शङ्कानिराकरणार्थत्वात् । एतयोहि अङ्गित्वाद्विनियोगविधि- विषयत्वापरपर्यायाङ्गत्वमात्रस्य धात्वर्थवत्तितया आक्षेपात्तत्सामा- नाधिकारण्ये नोत्पत्तिविषयत्वापरपर्यायविधेयत्वाक्षेपकत्वेऽपि उ. पादेयत्वानाक्षेपकत्वान्न प्रकरणान्तरविधया भंदकत्वम् । का- लदेशनिमित्तानां त्वनुष्ठापकत्वेन प्रयोगविशेषणत्वाद्धात्वर्थे अनु- ष्ठाप्यत्वापरपर्यायोपादेयताक्षेपकत्वाद्युक्तं तद्विधया भेदकत्व- मितीमामाशङ्का निराकर्तुमिदं सूत्रम् । सत्यप्यङ्गित्वे अनुष्ठा- पकत्वस्यापि कामनाविषयत्वेन सत्त्वादुपादेयत्वाक्षेपकत्वोपपत्ते- रकर्मसन्निधौ युक्तं तद्विषया भेदकत्वमिति । अत्र केचित्-कृतिविषत्वमेवोपादेयत्वमङ्गीकृत्य कर्तृविशेष- णानामेकत्वब्राह्मणत्वादीनामपि अनुपादेयत्वमिच्छन्ति । अत एव 'आनुपादेयमेकत्वं यजमानस्य कालवत्' इति कण्डिका सङ्ग- च्छते इत्याहुः । तन्न, कृतिहि यथैव विषयनिरूप्या तथा आ- श्रयनिरूप्यापि । अतश्योपादेयत्वमपि कृतिविषयत्वाश्रयत्वान्य- तरत्वमेव । अत एवाप्रवृत्तवतनाख्यविधिव्यापारगम्यत्वमु. पादेयस्येत्युक्तम् । अत एव चाख्यातोपात्तः कर्ता उपादेय इस. पि कण्डिकान्तरं सङ्गच्छते । अन्यथा कृतिविषयत्वाभावेन तस्य तदनुपपत्तेः। है करणम् ] द्वितीयाध्यायस्य तृतीयः पादः । न च कर्तुराश्रयत्वेऽपि तद्विशेषणानामेकत्वादीनां तदभा- चात् कथमुपादेयतोपपत्तिः । क्रियाया अविषयत्वे ऽपि तद्विशेष- णानां द्रव्यादीनां विषयत्वेनोपादेयत्ववदेकत्वस्यापि तदुप- पत्तेः । अत एवास्माभिः कृतिसमवायाघटितसम्बन्धेनेसव विशेषितमनुपादेवलक्षणे । एकत्वादेरनुपादेयत्वोक्तिस्तु य. थाशक्त्युपबन्धप्रयोजकीभूतकृतिविषयत्वरूपोपादेयत्वनिषेधपरा। तस्मात् पश्चैवानुपादेयानीति तान्येव भेदप्रयोजकानि । प्रयोजनं-पूर्वपक्षे प्रकृतित्वात् प्रतिपदि करणम् । सिद्धान्ते पर्वणीति । सूत्रं स्पष्टम् ॥ इति द्वादशं फलसंस्कार्याधिकरणम् । अथ त्रयोदशं प्रकरणान्तरप्रत्युदाहरणाधिकरणम् ।।(१३) सू-सन्निधौ स्वविभागात् फलार्थेन पुनः श्रुतिः ॥ २-३-२६. ॥ (सि) (विषयः) पञ्चस्वपि अनुपादेयेषु सन्निधौ प्रत्युदाहरणार्थमिदं सूत्र- म् । यथा 'सायं जुहोती' त्यादि अग्निहोत्रं प्रकृत्य, 'समे दर्श पूर्णमासाभ्यां यजेत' 'यावजी दर्शपूर्णमासाभ्यां यजेत' "दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत' इति दर्शपूर्णमासौ प्र.
९२ मीमांसाकौस्तुभे [प्रकरणान्तरप्रत्युदाहरणाधि- कृत्य, "स्विष्टकृतं यजती" ति प्रकृत्य च 'शेषात् स्विष्टकृतं यजतीति श्रुतानि पञ्चानामप्युदाहरणानि । संशयः) तत्रापि किमुपादेयगुणाभावमात्रेण भेदः ? उत नेति वि- चार्यते । न (पूर्वपक्षः) तत्र यद्यप्युपादेयत्वस्य कृतिविषयत्वाश्रयत्वान्यतरत्व. रूपस्य विधेयत्वस्य चाप्राप्तमापणरूपस्य भेदो वाजपेयाधिक रण एवं निरूपितः तथापि तयोरुत्सर्गसिद्धस्य सामानाधिकरण्य- स्य त्यागे प्रमाणाभावात् समिधावपि उपादेयगुणान्तराभावन उपादेयत्वे धात्वर्थवृत्तितयाऽऽक्षिप्ते उत्पत्तिविधिविषयत्वाख्यं विधेयस्वमपि सामानाधिकरण्यसिद्धयर्थमाक्षेप्तव्यम् । ह्यत्र वैयधिकरण्येनापि तदाक्षेप्तुं शक्यम् । कालाद्युत्पत्तेर्लोक- सिद्धत्वेनाविधेयत्वात् । निमित्तफलसंस्कार्याणामनङ्गत्वेन विनि. योगविधिविषयत्वादिरूपस्यापि विधेयत्वस्यायोगाच्च । अतः कमैंव विधेयमिति विहितविधानायोगाद्भिद्यत इति प्राप्त- (सिद्धान्तः) अभिधीयते-पूर्वकर्मोपस्थापकाधिकाराख्यस्य सन्निधे - धायोगामात्र कर्मभेदः । न च विधिश्रुतिममितसामानाधिकरण्या. नुरोधेनाभ्याम इव सन्निधे धो युक्त इति वाच्यम् । विधेरेव "दध्ना जुहोती" तिवद्विशिष्टोत्पत्तिविधिगौरवपरिहारार्थ सनि. ध्युपजीवकत्वनोत्पत्तिपरत्वानङ्गीकारात्सामानाधिकरण्यासिद्धः । 'मासमग्निहोत्रं जुहोति' इत्यत्र तु सन्निध्यभावात्सामानाधिकरण्य- बाघो जुहोतेश्च कथञ्चित् “यदाहवनीये जुहोती"तिपूर्वकर्मोपस्था- करणम् ] द्वितीयाध्यायस्य तृतीयः पादः। पकत्वकल्पनेति दोषद्वयापेक्षया विशिष्टविध्यङ्गीकार एव युक्त- इति वैषम्यम् । अत एव कालदेशवाक्ययोः न कालादिविधिपरत्वम् । अपि तु का प्रयोगविधिः, कालांशे विनियोगविधिः, संभवति हि कालदेशयोः वाजपेयाधिकरणोक्तरीत्या कृतिव्याप्यत्वरूपप्रयोग- विषयत्वासंभवेऽपि यागोदेशप्रवृत्तपुरुषकृतो अधिकरणतासम्ब. न्धेन कारकत्वाद्यागाङ्गत्वेन विनियोगः। यत्र तु 'य इष्ट्या' इसादौ प्रयोगोऽपि प्राप्तस्तत्र कर्मानुवादेन कालायंशे विनि. योगविधिरेवेत्युक्तं पौर्णमास्यधिकरणे । निमित्तफलसंस्कार्याणां स्वनङ्गत्वेन विनियोगानहत्वात्तदनुवादेन स्वरूपेण प्राप्तस्यापि कर्मणो विनियोगविशिष्टप्रयोगविधानं विनियोगमात्रविधानं वा। तत्र निमित्तस्य कृतिकारकत्वाभावेनानङ्गत्ववत् पुरुषार्थत्वाभावे- नानाङ्गित्वस्यापि सत्वादनुष्ठापकत्वेन च प्रयोगाक्षेपकत्वात् तस्य च फलापेक्षायां यावज्जीवाधिकरणवक्ष्यमाणरीत्या पापक्षयाद्यर्थ विनियोगः कल्प्यते । फलसंस्कार्ययोस्तु पुरुषार्थत्वात् स्वार्थमेव विनियोगः। काम- नाया अनुष्ठापकत्वात्तत्र प्रयोगोऽपि । संस्कार्ये तु प्रधानस्यैवानु. ष्ठापकत्वात् प्रयोगस्यान्यतो लाभेन शेषाख्यसंस्कार्योद्देशेन वि. नियोगमात्रमिति विवेकः । तदेवमुत्पत्तिप्रत्यभिज्ञाने विधिफलस्य विनियोगादिविषय. खेनोपपत्तरुत्पत्तिविषयत्वाभावान्न कर्मभेदः । एवमधिकारा- ख्यसन्निध्यभावेऽपि यत्र यच्छब्दयोगो यथा 'य इष्ट्या' इसादौ तत्रापि पूर्वविहितकोत्पत्त्याद्यनुवादप्रतीतेः लविनियोगविधिमात्रकरणेन कर्मभेदः। यजेत इति प्र- त्ययेन च सकलभावनानुवादान तदनेकत्वकृतो वाक्यभेदः ।
, ९४ मीमांसाकौस्तुभे [ प्रकरणान्तरप्रत्युदाहरणाधि- पदद्वयेन च पर्वलक्षणात् चशब्दस्य च निपातत्वेन भावनान्व- यं विनापि कालान्धयोपपत्तेर्विकल्पविशिष्टकालविधानान्न तदने- कत्वकृतोऽपि वाक्यभेदः । तथा यच्छब्दयोगस्याप्यभावेऽपि "एतया पुनराधेयसम्मि. तयेष्ट्यष्ट्रवाऽग्निहोत्रं जुहोती"ति विधौ नाग्निहोत्रभेदः । “दीक्षितो न जुहोती"तिनिषेधापेक्षितोदवसानीयरूपावधिमात्रविधौ तात्पर्य- ग्राहकतयाऽनुवादात् । अतस्सिद्धं पूर्वकर्मोपस्थापकप्रमाणं कर्मा- न्तरत्व प्रमाप्रतिवन्धकमिति । ननु-स्वरूपसत्पूर्वकर्मोपस्थापकं प्रमाणं कर्मान्तरत्वप्रमाप्रति. बन्धकम् , तदभावश्च तां प्रति कारणम् । 'भासमग्निहोत्रं जु- होति'इत्यत्र पूर्वकर्मोपस्थापकभ्रमदशायां वस्तुतस्तदभावसत्वेन भे- दप्रमोत्पत्तिप्रसङ्गात् । नापि भ्रमप्रमासाधारणं तदभावज्ञानं कार- णम् । तथात्वे 'सायं जुहोती त्यादावभावभ्रमदशायां भेदप्रमा- पत्तेः । नापि तदभावप्रमा । गृहमेधीये 'आज्यभागौ यजति' इत्य- पूर्वकोपस्थापकस्यातिदेशस्याभावभ्रमदशायां भेदप्रमापत्तेः। अत एव पूर्वकर्मोपस्थापकप्रमाणज्ञानत्वेन भ्रमप्रमासाधारण्ये- न प्रतिबन्धकता, भेदज्ञानत्वेन प्रतिबध्यता,अतश्च प्रतिबन्धकामा. वसत्वे भेदज्ञानोत्पत्तेविषयाबान प्रमात्वसिद्धिरित्यपास्तम् । उ. तप्रमाणज्ञानेऽप्रामाण्य ज्ञानदशायां उत्तेजकसत्वेन भेदप्रमापत्तेः । नचात एव कैश्चिन्नोपादेयगुणाभावो भेदप्रयोजका, अपि तु अनुपादेयगुणसवेत्युक्तम् । अतश्चोक्तोदाहरणे तदभावेनैक भेदाप्रसक्तयुक्तमेव नाम्नस्सन्निध्यभावेऽपि पूर्वकर्मोपस्थापकत्व- मिति वाच्यम् । अनुपादेयगुणस्य पारिशेष्येण धात्वर्थवृत्यु. पादेयतापादनस्य तदभावेऽपि गुणसामान्याभावमात्रेण सिद्धे. पादेयगुणाभावस्यैव भेदप्रयोजकत्वात् । अतः कथं सन्निधस्तत्म- करणम् ] द्वितीयाध्यायस्य तृतीयः पादः । तिबन्धकत्वमिति चेत्- न; भेदाननुगुणस्वेतरावाध्यपूर्वकर्मोपस्थापकममाणज्ञानमा- त्रस्य भेदप्रमाप्रतिबन्धकतांगीकारात । अस्ति च 'सायं जुहोती' त्यादौ तत् , पूर्वकोपस्थापकस्य सन्निधेः केनापि प्रमाणेनाबाधात् नान्नः पूर्वकर्मोपस्थापकस्यापि नामातिदेशविधया भेदानुगुणत्वा- न भेदप्रमाप्रतिबन्धकत्वम्। अस्ति च"आज्यभागी यजती" यत्रापि पूर्वकर्मोपस्थापकप्रमाणस्यातिदेशभेदस्य स्वपदोपात्ताभेदवाध्यत्वे. ऽपि तदितरेणा बाध्यत्वम् । न हि तत्रातिदेशः प्रकारान्तरेण वाध्यते अपि तु क्लृप्तोपकारपूर्वाज्यभागाभेदादेव । अतश्च तत्रासत्यपि प्रमाणे स्वेतरावाध्यपूर्वकर्मोपस्थापकप्रमाणज्ञानस्य संभावनात्म- कस्य सत्वाद्भेदप्रमाप्रतिवन्धकत्वोपपत्तिः । 'मासमग्निहोत्रं जुहो- ती'त्यत्रापि उक्तविधज्ञाने प्रमात्मके सति भेदप्रसामतिबन्धस- त्वान्न व्याहतिः । भेदप्रमाजनकं च भेदाननुगुणपूर्वकर्मोपस्थापकपमाणम- तियोगिकस्य स्वेतरप्रयुक्तस्याभावस्य प्रमा । अस्ति चेदं मासा- निहोत्रे सन्निध्यभावस्याभेदातिरिक्तासंबन्धिपदव्यवधानप्रयुक्त- त्वात् । आज्यभागयोश्चातिदेशाभावस्याभेदप्रयुक्तत्वेऽपि तदित- रपयुक्तत्वाभावेन कर्मान्तरत्वानापत्तिः । नाभेदोपजीव्यतिदे- शाभावस्योपजीव्यविरुद्धभेदप्रयोजकत्वं सम्भवतीति युक्तं अक. मन्तिरत्वम् । अतस्सिद्धं प्रसभिज्ञाने सर्वत्राकर्मान्तरत्वम् । प्र. योजनं स्पष्टम् । सूत्रं फल शब्दस्यानुपादेयमात्रोपलक्षणत्वं 'आज्यभागौ य. जती' त्यत्र च गृहमेधीयसंबन्धोपलक्षणत्वमङ्गीकृत्य व्याख्येयम् । इति त्रयोदशं प्रकरणान्तरप्रत्युदाहरणाधिकरणम् ।।
मीमांसाकौस्तुभे [ आमेयस्तुत्यर्थताधि- अथ चतुर्दशमाग्नेयस्तुत्यर्थताधिकरणम् ।। (१४) सू-आग्नेस्तूक्तहेतुत्वादभ्यासेन प्रती- येत ॥ २-३-२७. ॥ (पू) (विषयसंशयौ) कालद्वये आग्नेयदयं विधाय तत्रैव प्रदेशान्तरे(१) आग्नेयोऽष्टा- कपालोऽमावास्यायां भवति' इति पुनराम्नातम् । तत्र किं अच्यु- तवाक्यबोध्यदर्शस्थाग्नेयापेक्षया कर्मान्तरविधान ? उत नेति संशयः। (सङ्गतिः) पादाध्यायसङ्गती पूर्ववत् । आतिदेशिकी त्वनन्तरा । अ. धिकाशङ्कार्थश्चेदं सूत्रम् । तथा हि- ( पूर्वपक्षः) पूर्वत्र हि सत्यप्यप्राप्तोपादेयगुणाभावे सन्निधिसत्वा- न भेदकता । प्रकृते तु सत्यपि सन्निधाने न तस्य भे- दप्रतिबन्धकत्वम् । स हि कर्मोत्पत्तिं प्रत्यभिज्ञापयन् विधि- फलस्य च फलादिसंबन्धिविषयत्वञ्चोपनयन् उत्पत्तिनिबन्ध नभेदं प्रतिबध्नाति । प्रकृते तु विधिफलस्यान्यविषयत्वानुप. पत्तेः उत्पत्तिविषयत्वावसायान्न विधिविरोधिनस्सन्निधेर्भेदन तिबन्धकत्वोपपत्तिः । न चैतस्य स्तावकत्वाङ्गीकारेण भेदकत्व. स्यैव सिद्धिः। आग्नेयस्य तावत् प्रदेशान्तरस्थत्वेनैव स्तुत्यनुप- पत्तेः । ऐन्द्रामस्य तु आग्नेयगतप्रशस्तत्वकीर्तनात् स्तुतिरनाशौ १ तै. सं. २-५-३.
करणम् ] द्वितीयाध्यायस्य तृतीयः पादः । व । अतो वैयर्थ्यपरिहारार्थमेव विधित्वावसायात् अमाप्तोपादेय. गुणाभावसत्वेन च प्रकरणान्तरस्याविकलवाद्भेदसिद्धिः । अथ वा अस्त्वभ्यासाद्भेदः। अतश्चामावास्यायां आग्नेयद्वयं कार्यमिति पूर्वपक्षे प्रयोजनं सिध्यति । न च सम्प्रतिपन्नदेवता- कत्वात् सहानुष्ठानशङ्का, पुनर्विधिवैयर्थस्यैव तद्धाधकत्वात् । अतस्सूत्रं आग्नेयः उक्तप्रमाणवशाद भिन्नः प्रतीयेत । ततश्चानु. ष्ठानकालेऽपि द्विरभ्यस्येतेति व्याख्येयम् ।। सू-अविभागात्तुं कर्मणो द्विरुक्तेन विधी- येत ॥ २-३-२८.॥ सिद्धान्तकदेशी समाधत्ते-सत्यप्यप्राप्तोपादेयगुणाभाचे स- निधिनातदीयद्रव्यदेवताकस्य तदनुमितयागस्य प्रत्यभिज्ञानाना. त्रकर्मान्तरम् । न च विधिफलाभावः, द्विरान्नानबलात् वाक्यद्व- यविहितस्यैवाभ्युदयकारित्वकल्पनया पूर्वकर्मण एव विधिफल- विषयत्वोपपत्तः । न चैकेन विहिते इतरस्य विधायकतानुपप- त्तिः । पिङ्गाक्ष्यैकहायनीशब्दाभ्यां द्रव्यविशेषस्येव वाक्यद्वयेना. प्येकस्य कर्मणो युगपद्विधानोपपत्तेः । सूत्रं स्पष्टम् ।। (सिद्धान्तः) सू-अन्यार्था वा पुनः श्रुतिः॥२-३-२९.॥ (सि) सिद्धान्तस्तु-सत्यं न कर्मभेदः । तथापि नापि विधि- स्वम् , एकेन विहिते अपरेण तदयोगात्।एकहायन्यादौ गुणान्त- रविधानादर्थवत्ता । नचाभ्युदयशिरस्कत्वे सा, यत्र ह्यस्ति शि- षयमेदः विषय योश्चैकेनैव संभवल्लामन्नं तमाममा मारिएक- स्वकल्पनं, यथा-अनारभ्याधीतमित्रविन्दादिप्रकरणस्थसाप्तदश्य- मीमांसाकौस्तुभे [आमेयस्तुत्यर्थताधि- विध्योः। तत्र हि एकस्य वाक्यस्य सामिधेनीसंबन्धो विषयः अपरस्य च ऋतुसबन्धः इति विषयद्वयश्चैकेनापि सम्भवल्लाभम् । तत्रैकैनैकस्यैवावगमे अभ्युदयशिरस्कत्वकल्पनं युक्तम् । न च विनिगमनाविरहः । झटित्युपस्थापकत्वस्यैव तत्वात् । प्रकृते तु विषयभेदाभावान्नाभ्युदयशिरस्कत्वकल्पनावसरः । अत एव स- मित्तनूनपाद्वाक्ययोस्तन्नाङ्गीकृतम् । किंचेदं सति विधित्वे युज्यते । तत्तु ऐन्द्रामविध्येकवाक्य- तया तत्पशंसार्थत्वेनोपपत्तेरसिद्धम् । संभवति चातिप्रशस्ताग्नेय- साहित्येन्द्रामस्थातिप्रशस्ततरत्वमिति स्तुतिः । (१)तस्मान्नेदं क. मन्तिरम् । मीमांसाम्बुनिधि प्रमथ्य सुदैन्यायोच्चयनिर्जर कृत्वा जैमिनिस्त्रमन्दरममुं वेदं तथा वासुकिम् । यद्धालाहलसंझमेव कलितं ग्रन्थान्तरं सज्जनः श्रीकृष्णस्य तु भूषणाय स परं यः कौस्तुभाख्यो माणिः । श्रीरुद्रदेवमूनोः कृतिरेषा खण्डदेवस्य । मीमांसाकौस्तुभाख्या भेदाध्याये तृतीयाङ्ग्रेः । इलि पूर्वोत्तरमीमांसापारावारपारीणश्रीरुद्रदेवमूनो. खण्डदेवस्य कृतौ मीमांसाकौस्तुभे द्वितीयस्याध्यायस्य तृतीयः पादः॥ । शुभमस्तु॥ (१) तस्मादकर्मान्तरम्।
मीमांसाकौस्तुभः। द्वितीयाध्यायस्थ चतुर्थः पादः (यावजीवपादः) यावज्जीवाधिकरणम् ॥ १ ॥ सू-यावज्जीविकोऽभ्यासः कर्मधर्मः प्रकरणात् (२-४-१.) (विषयसंशयो) "यावज्जीवं दर्शपूर्णमासाभ्यां यजेत," "यावज्जीवमग्नि- होत्रं जुहोती"ति श्रुतम् । तत्र किं काम्य एव स्वर्गाद्यर्थे दर्श- पूर्णमासादिप्रयोगे जीवनपर्याप्तकालविधिरयम् ? किं वा क्लुप्तफ- लात् फलान्तरार्थ जीवनाख्यनिमित्तरूपगुणवशेन दर्शादेर्वि- नियोगान्तरविधिरिवि विचारः। (सङ्गतिः) विनियोगभेदनिरूपणस्य च पादार्थत्वात् पादाध्यायसङ्ग- तिः। पूर्व कर्मस्वरूपभेदः कचिच्छ(१)अवेष्टयधिकरणादौ प्रयो- गभेद एव निरूपितः, न कचिदपि विशिष्य विनियोगभेद इति इह निरूप्यमाणत्वात् पादार्थः । अनन्तरा तु निमित्तस्य इह गु. णविधया भेदकत्वेऽपि अनुपादेयत्वमात्रेण प्रकरणान्तरतुल्य- त्वात् प्रसङ्गरूपा। १. पू. मी. २-३-२.
१०० मीमांसाकौस्तुभे यावज्जीवाधिकरण - ( पूर्व पक्षः) तत्र यावज्जीवशब्दस्य "यावदोहं तिष्ठती" त्यादौ का. लेऽपि निरूढलक्षणया प्रयोगदर्शनेन कालपरत्वोपपत्तः, णमुल. तस्यापि च (१)"अभिक्रामं जुहोती त्यादौ निमित्तपरत्वा. दर्शनात् , अतुशासनाभावाच्च तत्परत्वानुपपत्तेः, स्वर्गाद्यर्थेषु दर्शादिषु जीवनपर्याप्तकालविधिरेवायम् । एवञ्च कालस्य वा- क्येनैवाङ्गताबोधनेऽपि इतिकर्तव्यताकाङ्क्षालक्षणप्रकरणापेक्षि. तार्थसमर्पणात् प्रकरणानुग्रहोऽपि । इतरथा हि प्रकृतयोर्दर्श- आमासयोरेव निमित्तसम्बन्धाद अधिकारात्मकपकरणाऽनुग्र- हेऽपि निमित्तस्याऽनङ्गतया कथम्भावात्मकप्रकरणापेक्षितार्थ. समर्पणाऽभावान्न तदनुग्रहः । अत एव कालरूपानुपादेयगुण- सत्वेऽपि अनुपस्थित्यभावात् न कमान्तरविधिः । न च उत्पत्तिशिष्टपौर्णमास्यादिकालावरोधात् न जीवन- पर्याप्तकालविधिसम्भवः । “अमावास्यायामपराह" इत्यादिव. बाप्पच्यापकभावेनाऽविरोधाद । अत्र च यथैव "सायं जुहोति" "पौर्णमास्यां पौर्णमास्या यजेते" त्यादौ कालविशिष्टप्रयोगविधिः एकादशे वक्ष्यते तथै- बेहापि जीवनपर्याप्तकालविशिष्टप्रयोगविषिर्विनिगमनाविरहाद- भ्युपगन्तव्यः । अत एव व्याप्यकालिकप्रयोगविधौ प्रतिप्रयो. गपर्याप्तः धर्मः विधेयतावच्छेदकत्वेनाङ्गीकर्तव्यः । ककालिकप्रयोगविधौ तु जीवनपर्याप्तेषु तावत्सु व्याप्यकालिक प्रयोगेषु व्यासक्तः । द्वयोः प्रयोगविध्योः व्याप्यव्यापकभावेना- ऽविरोधात् । व्याप- १. तै. सं. २-५-७.
। मूल्यम् । हरिदाससंस्कृतग्रन्थमालासमाख्य- काशीसंस्कृतसीरीज़ -पुस्तकमाला। इयं काशी-संस्कृतग्रन्थमाला विभागशः प्रकाशिता भवति । एतस्यां प्राचीनाः नवीनाश्च दुर्लभाः सुलभाश्च अत्युपयुक्ताः संस्कृतग्रन्थाः काशिकराजकीयसंस्कृतपाठशालीयैः पण्डितैरन्यैरपि विद्वद्भिः संशोधिताः क्रमेण संमुद्रिता भवन्ति । अस्यां प्रका- श्यमाणानां ग्रन्थानां मूल्यं सूचीपत्रे प्रकाशितं वर्तते । परंतु एतस्या नियमेनाऽविच्छिन्नतया निश्चितग्राहकमहाशयानां प्रतिमुद्रा- शतकं पञ्चविंशतिमुद्राः ( कमिशन ) परावर्तिता भवेयुः मार्गव्ययश्च न पृथक दातव्यो भवेत्। तत्र मुद्रितग्रन्थनामानि । १ नलपाकः नलविरचितः। संपूर्णः ( पाकशास्त्रम १) २ संक्षेपशारीरकम् । रामतीर्थस्वामिकृतान्वयार्थबोधिनीटीका- सहितम्। ( वेदान्तं १) रु०८-० ३ वैशेषिकदर्शनम् । पं० श्रीदुण्डिराजशास्त्रिकृतविवरणोपेताभ्यां प्रशस्तपादभाष्योपस्काराभ्यांसमन्वितम् (वैशेषिकं१)रु०२-८ ४ श्रीसूक्तम् । विद्यारण्यपृथ्वीधरश्रीकण्ठाचार्यकृतभाष्यत्रयेण टिप्पण्या च समलङ्कृतम् । ( वैदिकं १) रु० ०-६ ५ लघुशब्देन्दुशेखरः (भैरवी) चन्द्रकलाटीकासहितः तत्पुरुषादि- समाप्तिपर्यन्तः (व्याकरणं १) रु०८-० ६ कारिकावली मुक्ता० दिन राम शब्दखण्डसहिता तथा "गुण निरूपणदिनकरीय” महामहोपाध्याय पं० श्रीलक्ष्मणशास्त्रि. कृतव्याख्यासहिता। (न्यायं १) रु०६-० ७ पञ्चकिरणम् । वार्तिकाभरणालङ्कृतवार्तिकटीकया-तत्त्वचन्द्रि कासमवेतविवरणेन च समन्वितम् । (वेदान्तं २ )रु००-८ - अलङ्कारप्रदीपः। पण्डितवरविश्वेश्वरपाण्डेयनिर्मितः। (काव्यं१) ९ अनङ्गरङ्ग:महाकविकल्याणमल्लविरचितः। (कामशास्त्रं१) १००-१२ २० जातकपारिजातः। श्रीवैद्यनाथशर्मणाविरचितः। (ज्यो०१) रु२-० ११ पारस्करगृह्यसूत्रम् । कात्यायनसूत्रीयश्राद्ध-शौच-स्नान-भोजन- कल्पसहितम। (कर्मकाण्डम् १) रु० ०--८ १२ पुरुषसूक्तम् । सायणभाष्य-महीधरभाष्य-मंगलभाष्य-नि- म्बार्कमतभाष्यचतुष्टयसहितम् । (वैदिकं २) रु. १--४ १३ श्रीमत्सनत्सुजातीयम्-श्रीमच्छङ्करभगवत्पादविरचितभाष्येण नीलकण्ठीव्याख्ययाच संचलितम्। ( वेदान्तं ३) रु०१-४ १४ कुमारसंभवं महाकाव्यम् । महाकवि-श्रीकालिदासवि० । सञ्जी- वनी-शिशुहितैषिणी-टीकाद्वयोपेतम् सम्पूर्णम् । (काव्यं २) प्पणा। Ram २ काशीसंस्कृतसीरीज़ । १५ श्रुतवोधश्छन्दोग्रन्थः। आनन्दवर्द्धिनीतात्पर्यप्रकाशाख्यसंस्कृत- भाषाटीकासहितः । (छंदः १) रु० ०-६ १६ कारिकावली। मुक्तावली-न्यायचन्द्रिकाटीकाद्वयसहिता सटि- (न्याय २)रु०१-० १७ पारस्करगृह्यसूत्रम्। काण्डद्वये हरिहर गदाधर० तृतीयकाण्डे ह. रिहर-जयराम-प्रणीतभाष्येण समलङ्कृतम् । हरिहरभाष्यस- हितस्नानत्रिकण्डिकासूत्र-गदाधरभाष्यसहितश्राद्धनवक- ण्डिकासूत्रैः यमलजननशान्ति-पृष्टोदिवि-शौच-भोजन- कामदेवकृतभाष्यसहितोत्सर्गपरिशिष्टसूत्रैः परिष्कृतं-टिप्प- ण्यादिभिः सहितं च। ( कर्मकाण्डं २) रु०३-० १८ संक्षेपशारीरकम्-मधुसूदनीटीकासहितम् संपूर्ण (वेदान्तं४) रु०८-० १९ लघुजूटिका-अर्थात् अभिनवा परिभाषेन्दुशेखरपरिष्कृतिनि- मितिः। (व्याकरणं २) रु० ०-८ २० कातीयष्टिदीपकः । ( दर्शपौर्णमासपद्धतिः) महामहोपाध्याय- पं० श्रीनित्यानन्दपन्तपर्वतीयविरचितः । (कर्मकाण्ड) रु०१-० २१ सप्तपाठि-श्रीशिवमहिम्नस्तोत्रम् श्रीगन्धर्वराज पुष्पदन्ताचार्य- विरचितम् । हरिहरपक्षीय-मधुसूदनीटीकया ( संस्कृतटी- का-संस्कृतपद्यानुवाद-भाषाटीका-भाषापद्यानुवाद-भाषा- बिम्ब ) पञ्चमुखीनाम्न्या टीकया-शक्तिमहिम्नस्तोत्रेण च समन्वितम्। (स्तोत्रवि०१) रु० १-० २२ वौद्धाऽऽचार्यश्रीधर्मकीर्तिप्रणीतः सटीकन्यायबिन्दुः-भाषा- टीकासहितः ( बौद्धन्याय वि० १) रु०१-८ २३ सपरिष्कृत-दर्पणसहितवैयाकरणभूषणसारः (व्याकरणं ३) रु०४-० २४ न्यायवार्तिकतात्पर्यटीका-श्रीवाचस्पतिमिश्रविरचिता। सम्पूर्ण ( न्यायविभाग ३)रु०६-० २५ मीमांसान्यायप्रकाशः (आपदेवीयः) श्रीचिन्नस्वामिशास्त्रिकृतया सारविवेचिन्या व्याख्यया सहितः ( मीमांसा १) रु० २-० २६ पौरोहित्यकर्मसारः (टिप्पणीसमलंकृतः) प्रथमो भागः श्रीरमा- कान्तशर्मणा संगृहीतः। ( कर्मकाण्डवि० ३) रु० ०-४ २७ लघुशब्देन्दुशेखरः म० म० श्रीनागेशभट्टविरचितः। अव्ययी. भावान्तो भागः, म०म० पण्डित श्रीनित्यानन्दपन्त-पर्वतीय. कृतशेखरदीपकाख्येन टिप्पणेन समुज्ज्वलितः। (व्या०४)रु० --८ २८ रघुवंशमहाकाव्यम्। महाकविश्रीकालिदासविरचितम् पञ्चसर्गा त्मकम् । म० म० श्रीमल्लिनाथसूरिकृतसञ्जीविनीटीकया पं० श्रीकनकलालठक्कुरकृतार्थप्रकाशिकाटीकया च सम- लङ्कृतम्। ( काव्यवि० ३) रु००-१२ काशीसंस्कृतसीरीज! क. २९, कामसूत्रम् । श्रीवात्स्यायनमुनिप्रणीतं बहुयत्नरासादितथा पूर्णया जयमङ्गलरचितया टीकया समेतम् । बहुखण्डितपाठान् परिपू. य,सूत्राङ्कांश्च संयोज्य, परिष्कृत्य संशोधितम् । (काम०२) २०८-० ३० न्यायकुसुमाञ्जलिः । न्यायाचार्यपदाङ्कितश्रीमदुदयनाचार्यविरचि- तः। महामहोपाध्यायरुचिदत्तकृतमकरन्दोद्भासितमहामहो- पाध्यायवर्द्धमानोपाध्यायप्रणीतप्रकाशसहितः। (न्यायं४)रु०६-० ३१ परिभाषेन्दुशेखरः । म०म० श्रीनागेशभट्टरचितः। म. म. भैरव- मिश्रविरचितया भैरवीत्यपराख्यया परिभाषाविवृत्या-तत्त्व- प्रकाशिकया टीकया च सहितः । व्याकरणं ४) रु०३-० ३२ अर्थसंग्रहः । पूर्वमीमांसासारसंग्रहरूपः। श्रीलौगाक्षिभास्करविरचि तः। श्रीमत्परमहंसपरिव्राजकाचार्यश्रीरामेश्वरशिवयोगिभिक्ष विरचितमीमांसार्थकौमुद्याख्यव्याख्यासहितः।(मीमां०२) रु०१-० ३३ न्यायवार्तिकम् न्यायदर्शनवात्स्यायनभाप्योपबृंहणम् । परमर्षि- भारद्वाजोइयोतकरविरचितम् । महर्षि-गोतमादिचरितसम्ब- लितवृहत्भूमिकासहितम् । न्यायं ५) रु०६-० ३४ शुक्लयजुर्वेदसंहिता । वाजसनयिमाध्यन्दिनशाखीया। श्रीमदुव्व- टाचार्यविरचितमन्त्रभाग्येण श्रीमन्महीधराचार्यविरचितवेद- दीपेन च सहिता। ( भाग १-२-३-४ ) (वैदिकं ३) रु. ८- ३५ शुक्लयजुर्वेदकाण्वसंहिता । श्रीसायणाचार्यविरचितभाष्यसहिता। १ अध्यायादारभ्य २० अध्यायपर्यन्ता । वैदिकं ४) रु. ६-० ३६ सिद्धान्तलेशसंग्रहः । श्रीमदप्पयदीक्षितविरचितः। श्रीमत्परमहंस- परिव्राजकाचार्यकृष्णानन्दतीर्थविरचितथा कृष्णालङ्काराख्य- या व्याख्यया समलंकृतः। (वेदान्तं ४) रु०६-० ३७ काशिका | श्रीपाणिनिमुनिविरचितव्याकरणसूत्राणां वृत्तिः वि. द्वद्वर-वामन-जयादित्यविनिर्मिता। (व्याकरणं ५) रु०६-० ३८ प्राकृतप्रकाशः । भामहकृतः। श्रीमद्वररुचिप्रणीतप्राकृतसूत्रसहि- तः। टिप्पण्या च संयोजितः। (व्याकरणं ६) रु०१-४ ३९ जीवन्मुक्तिविवेकः श्रीमद्विद्यारण्यस्वामिविरचितः। भाषानुवा- दसमेतः। (वेदान्तं ५) रु०२-० ४. श्रीनारदीयसंहिता! ब्रह्मणोपदिष्टो नारदमहामुनिप्रोक्तो ज्यौतिष- (ज्योतिष २) रु००-६ ४१ मेदिनीकोश:-मेदिनीकारविरचितः । (कोशं १) रु०१-८ ४२ मीमांसादर्शनम् । श्रीशबरस्वामिविरचितभाष्यसहितम् ( भाग१-२) (मीमांसा ३) रु. १०-, ४३ न्यायदर्शनम् । श्रीगोतममुनिप्रणीतम्। श्रीवात्स्वायनमुनिप्रणीत- भाप्यसहितम् । श्रीविश्वनाथन्यायपञ्चाननभट्टाचार्यविरचि- तन्यायसूत्रवृत्त्यनुगतम् । टिप्पण्यादिसहितम् (न्यायं ६) रु. ३-० ग्रन्थः ।
४ काशीसंस्कृतसीरीज़। ४४ दानमयूखः । विद्वद्वरश्रीनीलकण्ठभट्टविरचितः। (धर्मशास्त्रं१) रु०१-८ ४५ कालमाधवः। विद्वद्वरश्रीमाधवाचार्यविरचितः। (धर्मशास्त्रं२) रु.१-८ ४६ भास्वती । श्रीमच्छतानन्दविरचिता । श्रीमातृप्रसाद ( दैवज्ञभू- षण) पाण्डेयेन कृताभ्यां छात्रबोधिनीनाम संस्कृतसोदाहरण भाषाटीकाभ्यां सहिता। (ज्योतिषं ३, २०२-० ४७ फक्किकाप्रकाशः। उपाध्यायोपालवैयाकरणकेसरीबिरुदाङ्कितमैथि- लेन्द्रदत्तशर्मविरचितः पं. सीतारामशर्मकृतटिप्पण्या विभूषितः। (व्याकरणं ७) रु०१-४ ४८ मिताक्षरा ! श्रीगौडपादाचार्यकृतमाण्डूक्यकारिकाब्य ख्या-श्रीम- त्परमहंसपरिव्राजकाचार्यस्वयम्प्रकाशानन्दसरस्वतीस्वामि- कृता शंकरानन्दकृतमाण्डूक्योपनिषदीपिका चा (वेदा०६) रु०१-४ ४९ काव्यप्रकाशः। श्रीमम्मटाचार्यविरचितः। पं० श्रीहरिशङ्करशर्मणा मैथिलेन संगृहीतया नागेश्वरीटीकयाऽलङ्कतः। (काव्य०४) रु०४-० ५० अधिकरणकौमुदी । श्रीदेवनाथठक्कुरकृता । (मीमां०४) रु० १ ५१ रघुवंशमहाकाव्यम् । महाकविश्रीकालिदासविरचितम् महामहो- पाध्याय श्रीमल्लिनाथकृतसंजीवनीटीकयोपेतम् पं० श्रीकनक- लालठक्कुरेण विरचितथा भावबोधनीटिप्पण्या समल. (काव्य ५)रु०१-४ ५२ काथबांधः। साजनीकृत टीकोपेतः। दत्तात्रेय सम्प्रदायाऽनुगतः।२०-८ ५३ रसचन्द्रिका । पर्वतीय-पण्डितप्रवर-श्रीविश्वेश्वरपाण्डेय निमिता (काव्य०६)रु०१-० तम् सपूर्णम् । जयकृष्णदास-हरिदासगुप्तः, चौखम्बा संस्कृत सीरीज आफीस, पत्रादिप्रेषणस्थानम् विद्याविलास प्रेस, गोपालमंदिर के उत्तर फाटक बनारस सिटी।
No text on this page.
No text on this page.