Library

Pasvalambha Mimansa

Vinayak Ganesh Apte · 2010/01/23

PDF Proofread

Front matter

No text on this page.

आनन्दाश्रमसंस्कृतग्रन्थावलिः। पश्वालम्भमीमांसा। व गार ग. ग. किंजवंडकगपाहवामन. স্থাপনা। पतरमनके व भा. मं० ग. ग. आगाश इन्सपाह: काशीनाथशामिभिः मंशोधितम् । 4 . . इन्युपपद धार्गिमः विनायक गणेश आपटे इतनः पुण्यालयपनने आनन्दाश्रममुद्रणालये ३१ मार मय- प्रकाशन शालिवाहन शकाब्दाः १८२५ बामा १६.२३ ( अस्य मायिनशाननानुमा म्वाक' मृत्यं दशाऽऽणकाः । ४१० )

वीर सेवा मन्दिर
दिल्ली
1220
क्रम सख्या
काल न
/51
खण्ड

No text on this page.

No text on this page.

आनन्दाश्रमसंस्कृतग्रन्थावलिः । पश्वालम्भमीमांसा! ३. शा० रा. ग. किंजवडेकगेपाहवामन- शास्त्रिविरचिता। एतत्पुस्तक -२० मा ० सं० रा. ग. आगाशे इत्युपाहः काशीनाथशास्त्रिभिः संशोधितम् । तच्च थी० ए० इत्युपपदधारिभिः विनायक गणेश आपटे इत्येतेः पुण्याख्यपत्तने आनन्दाश्रममुद्रणालये अयसाझरेम दयिता प्रकाशितम् । शालिवाहनशकाब्दाः १८४५ विस्ताब्दाः १९२३ ( अस्य सर्वेऽधिकारा राजशासनानुसारेण स्वायत्त कृना:) मृल्यं दशाऽऽणकाः (८१०)

No text on this page.

॥ भूमिका ॥ हन्त भोः समुपस्थितोऽयं तथाविधी विस्मयकरः समयः, यत्र करकोऽपि वा भवतु विद्वानुताविद्वान्बहुश्रुतो वाऽनाघ्रातधर्मीमांसा- सूत्रकुसुमगन्धो वाऽऽरितको वा गलहरिनतशास्त्रमर्यादो का समयानुसार परिवर्तयितुमेव कामयते भगवन्तं सनातन वैदिक धर्मम् । सर्वोऽपि ननु स्वातरुयेणैच कपोलकल्पितानात्मनो विचारान्परेषां पुरतात्प्रादुर्भा- चयितुं प्रयतते । प्रयत्यति चेतस्ततः पदेशो वाक्यशो वा प्रमाणामासा- न्यान्तरपयुक्तानि संड्रा संह्य रवीयं मतमुपोद्धलयितुम् । अपरा- मृशन्नेव पौर्वापर्य वाक्यजातस्याचिन्तयमेव श्रुतिलिङ्गादिममाणानां प्राबल्यदौर्बल्यमननुसंधान एवं वाक्यार्थविचारमगणयन्नेव च मीमां- सान्यायपत्तिं शास्त्रार्थ सावष्टम्भं निर्णिनीपति, निर्णयनपि वा नाप- अपत इत्यहो कौटिल्यं कालस्य विजृम्भितं च व्यस्मोहस्य । सत्येवं नैतद्विस्मरपयत्यस्मान् , यत् यदि कोऽपि मितंपचमतिर्निरर्गलमद्ययावत्प्र- चलता वैदिकसंपदायपरीवाहेण समर्थितं परःसहौः श्रुतिस्मृतिवचनैः प्रमाणमूर्धन्यैर्निविचिकित्सं व्यवस्थापितं भूयोभिरास्तिकधीरयदर्शिन- कप्रकाण्डैः स्वमेऽप्यसंभावितदोपलेशं वैदिक ऋतौ शिवंकरं पश्वालम्भ, संचिचीपुरिव स्थास्नुतमं पापनिकायमश्रेयस्करं च प्रतिपिद्धप्रायं च सप्रगल्भं साटोपं च प्रजल्पेद्भीपयेत्समाह्वयेच्च विवदितुमास्तिकमूर्धन्या- निनि । समयेऽस्मिन् आस्तिकाः पुनर्विद्वांसः 'नहि रुतमनुरीति ग्रामसिं- हत्य सिंहः' इत्यभियुक्तानामाभाणक मनसि मन्वाना उपेक्षया जोपंभावमेव यदि भजेरंतर्हि प्रायेण परतचप्रज्ञा अर्धमुग्धा भूयांसो जनाः श्रदधाना अपि भगवति वैदिक धर्मेऽनुतिष्ठासवः श्रीतानि कर्म- जातानि महान्तं ध्यामोहमापना इत्थंकियाविवेकविधुराः कर्तव्यतो हीयेरन, आत्यन्तिकं चानर्थमृच्छेयुः, श्रेयसश्च प्रतिहन्यरभिति अनिच्छ- न्तोऽपि विवादाध्यवसायं 'परमतमप्रतिषिद्धमनुमतं भवति' इति न्यायेन संभाव्यमानं यागीयपशुहिंसाया अवैधत्वं प्रत्याग्प्याय परमार्थभूतं वैदिकं पन्थानं प्रयितुं किंचिदिव व्यापारयामो लेखनीमात्मीयाम् । अत्र केचन समुत्तिन्ते-"ननु भो" यदेतद्यज्ञादिकमनुष्ठीयते नैत- च्छ्यो जनायितुमीष्टे, अपितु बलवत्पातकमेवानुबध्नाति प्रत्यक्षमेव पशूनां निर्दयं हिंसनादिति । न च"अग्नीपोमीयं पशुमालभेत, वायव्यं श्वेतमालभेत भूतिकामः, ब्रह्मणे ब्रामणमालभेत" इत्यादीन्यसंख्ये- - , [२] यानि श्रौतवाक्यकदम्बानि घण्टाघोषमुक्षुष्यन्ति पश्चादीनां ऋतुध्धाल- म्भनम् । यथा च वैदिकं निखिलमपि वाक्यजातं त्वतः प्रामाण्यमाटी- कते तथा पराकान्तं पूर्वमीमांसायां भगवता महामुनिना जैमिनिना इति कथमेतच्चोद्यमवतरति यागीयहिंसा पापानुवन्धिनीति, इति वाच्यम् । स्वदुदाहृतवचनानां भूतिकामादिपदरवारस्येन काम्यपरत्वस्यैव प्रती- यमानत्वात् । निन्दिताश्च काभ्यकर्मानुष्ठातारो भगवता गीतासु "यामिमां एपितां वाचं प्रवदन्त्यविपश्चितः"। कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् ॥" " विद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते। 'क्षीणे पुण्ये मर्त्यलोकं विशन्ति' इत्यादिना बहुप्रकारेण । आम्ना- यते चौपनिषत्स्वपि 'प्लवा ह्येने अहढा यज्ञरूपाः' इत्यादी बहुत्र । युज्य- ते चैतत् । स्वस्य सुखं संपादयितुं दयनीयानामरवतत्राणां मूकदीनानां प्राणिनां सौनिकरिव ब्राह्मणब्रुवैधार्मिकंमन्यापादनं नैघृण्येन क्रिय- माणं तेष्वेव पशुत्वमसुरत्वं वा प्रद्योतयति । 'न हिंस्यात्सर्वभूतानि इति वन्यमानोऽयं प्राणिनिषेधः कथं नु नाम पशुं विशसितारं यामीर्यातना नानुभावयेत् ? न चात्र प्रत्यवस्थातव्यं केनापि ' अग्नीपी- मीयं पशुमालभेत' इत्यादिवाक्यं सामान्यतः प्रश्न न हित्यादिति वचनं संकोचयेदेवेति । अग्नीषोमीयं पशुमाल भेतेत्यादिवाक्येन प्राकर- णिकेन पश्वालम्भस्य क्रत्वर्थत्वमिष्टसाधनत्वं च प्रत्याश्येत । न तु हिंस्यादिति विधिविहितहिंसासामान्रत्यानिष्टसाधनत्वं यागीय- हिंसायां व्यावत्यैत । एकस्यैव करण इष्टसाधनत्वमनिष्टसाधनन्वं चे- न्युभयमपि वचनबलात्प्रमीयमाणं न विरुध्यते परकीयसुन्दरीगमनादे- रिव । वस्तुतस्तु पूषोंदाहतेष्वग्नीषोमीयादिवाक्येव्वाल भतिनैव हिंसाम- भिधत्ते किंतु स्पर्शमात्रं यथा ह्यग्निहोत्रीयदोहाधिकारे "वत्समालभेत" इति वाक्य आलभतिः स्पर्शमात्रमाचष्टे । स्पष्टं चैतदध्वरमीमांसायाम् । हिंसा पुनरङ्गयागविधानेन विशसनप्रकारेण चाऽऽक्षेपत एवं प्रतीयते न पुनः शक्त्येति सुतरां च संकोच्यसंकोचकमावो नोपपद्यते । आक्षे- पलभ्यक्रत्वर्थहिंसायाः शक्यार्थभूतहिंसानिषेधरय चान्यतरापामाण्यभी- त्या हि संकोचः कल्प्यते । न चात्र तत्पदमाधातुं प्रमवति । अथ कथं निष्कम्पप्रवृत्तिहिंसाविशिष्टे यागादी प्रामाणिकानामिति चेन्छृणु नान्तरी- यहिंसाजन्यपापफलसहिष्णूनायेव स्वर्गविषयकोन्कटगगवशीकृतान्त- - ॥ [३] रङ्गाणां धूमादिसहिष्णूनां पाकादाविव इनादाविव च प्रवृत्तेरुपपद्यमान- त्वात् । न च निषेध्यनिषेधयोः पुरुषार्थत्वं क्रत्वर्थत्वं वा एकमेवाऽऽ- वश्यकमिति प्रकृते निषेधस्य क्रत्वहिंसापतियोगिकत्वं नोपपद्यते किंतु पुरुषार्थहिंसाप्रतियोगिकत्वमेवेति वाच्यम् । यतो नायमेकान्तो यत्पुरु- षार्थप्रतियोगिक एव पुरुषार्थनिषेधः ऋत्वर्थप्रतियोगिकश्च क्रत्वर्थनिषेध इति । व्यभिचरितत्वात् । परुषार्थो हि भार्योपगमः क्रत्वर्थत्वेन निषि- ध्यते " न स्त्रियमुपेयात् " इत्यनेन । क्रत्वर्थहिंसाया अपि परम्परया रुषोपकारकत्वेन पुरुषार्थत्वस्यापि सूपपादत्वाच्च । रयादेतत् । यदि न स्याद्यागीयहिंसायाः पापाभावप्रतिपादकं प्रामाणिकवचननिकुरम्बम् । विहाय गनिमीलिकां विस्फारिते चक्षुषि समुपलभ्येरन्परःशतानि वचांसि । यथा हि मनु:- "यज्ञार्थ पशवः सृष्टाः स्वयमेव स्वयंभुवा । यज्ञोऽस्य भृत्यै सर्वस्य तस्माद्यज्ञे वधोऽवधः " "या वेदविहिता हिंसा नियताऽस्मिंश्चराचरे । अहिंसामेव तां विद्याद्वेदाद्धर्मो हि निर्वभौ" ।। इति । अग्नीपोमीयादिवाक्यानां निन्दापायश्चित्तादिसमभिव्याहारा- भावेन तद्धो-यप्रवर्तनायाः स्वजन्यप्रवृत्तिविषयेऽजादिपश्वालम्भे सामान्यनोऽनर्थहेतुत्वप्रतिक्षेपकत्वमुक्तमनुवचनयलेनाध्यवसीयत इति सामान्यनिषेधशास्त्रस्य यागीयहिंसातिरिक्तपरत्वमेवोररीक्रियते आक्षेपलभ्याया अपि यज्ञियहिंसाया विधितात्पर्यविषयत्वेनानर्थ- हेतुत्वप्रतिक्षेपो नानुपपत्रः । तथा चेमं सामान्यशास्त्रस्य संकोचं सुरप- हमेवाऽऽचष्टे श्रुत्यन्तरवचनम्- " अहिंसन्सर्वा भूतान्यन्यत्र तीर्थे- इनि । अत एव च चोराततायिवधे पापाश्रवणेन शिष्टाचा- रानुवृत्तिः । एवं च यागीयहिंसायाः शास्त्रविहितत्वेनानर्थहेतुत्वशङ्काया अन्यनुत्पत्त्या सामान्यनिषेधस्य तदतिरिक्तपरत्वं निरावधिमिति न काऽप्यनुपपत्तिरिति चेन्मैवम् । “ तस्माद्यज्ञे वयोऽवधः" इत्यत्रावध इति नोऽनुदरा कन्येत्यादाविवाल्पार्थकत्वस्यैवाभ्युपेयमानत्वात् । अन्यो- न्याभावार्थकत्वे एनरङ्गीक्रियमाणे घटोऽघट इत्यादिवाक्यादिव वधोऽवध इत्यादिवाक्यादपि शब्दबोधानुत्पत्तेरमामाण्यापाताच । अहिंसन्सी भूतानि " इति श्रुतिस्तु अवैधहिंसात्यागस्य वैधहिंसायासाधनत्व- भ्यः [४] पभिधत्ते । न पुनर्वधहिंसाया अनिष्टसाधनत्वाभावमपि । पशुं विशास्ति, बपारिखदति, पशुमालभते, पशुं यत्संज्ञपयन्ति, इत्यादिहिंसाविध- योऽपि हिंसाया इष्टसाधनत्वमाचक्षते । नैव पुनः प्रत्याचक्षतेऽनर्थहेतु- तामपि । अन एव तैत्तिरीयश्रुती “ परागावर्ततेऽध्वर्युः पशोः संज्ञप्य- मानात् " इत्यनेन परागावर्तनं विधीयमानं जाघटीति पापवत्त्वात्तस्य कर्मणः । युज्यते चैवमेव ऋत्विजां प्रायश्चित्तश्रवणमपि । किंच तदेव हि ब्राह्मणैर्विधीयते यन्मन्त्राः स्तुवन्ति । न चार्य सोम- यागो मन्त्रैः स्तूयते । यत्र च मन्त्रे तादृशं पदमाभासते तरयान्यार्थत्वं वक्तुं सुशकम् । केवलं ब्राह्मणवाक्यैरेव विधानं त्वकिंचित्करम् । मन्त्रापे- क्षया ब्राह्मणस्य दौर्बल्यात् । तस्मान्मन्त्रैरस्तुतत्वादविहितत्वाच्च न सोमयागोऽनुष्ठेयतामहति । इतश्च नानुष्ठेयः सोमयागः- यतो रामायणेऽपि प्रतिपाद्यते-“यदनाः पुरुषा गस्तदनारतस्य देवताः" इत्यनेन निवृत्तमांसानां देवतार्थ- मपि मांसबलिप्रदानमनर्थावहमिति । ततश्चार्थादेव विज्ञायते ये ताव- न्मांस भक्षयन्ति तैरेव तेऽनुष्ठेयाः समांसयज्ञा इति । न खलु कथमाप निवृत्तमांसानामनुष्ठेयः सोमयाग इनि संपतिपत्रम् । “ अस्वयें लोक- विद्विष्टं धर्ममप्याचरेन तु" इति भगवता याज्ञवल्क्येन लोकविद्विष्टो धर्मोऽनाचरणीयतामेवाऽऽपद्यत इति सर्वथा सर्जुगुप्स्यमानहिंसा- विशिष्टमावरिकं कर्म परित्यागार्हमेव प्रेक्षावताम् । महाभारते शान्तिपर्वणि उपरिचरोपाख्याने " बीजैर्यज्ञेषु यष्टव्यं छागं नो हन्तुमर्हथ " इन्यैतिह्यस्योपलभ्यमानत्वात्तत्रैवान्यत्रापि हिंसा- मययज्ञानां बहुशो विहितत्वात् , यज्ञानां जपयज्ञोऽस्मि, एष मे सर्व- धर्माणाम् , इत्यादिषु च भगवद्भ द्भक्तरेव सर्वाधिक्येन तो य्यमानन्वाच्च सोमयागस्याननुष्ठेयत्वं सेन्स्यति । किंच कोऽयमभिनिवेशः-सत्यपि हिंसाविधुरे सोमप्रतिनिधिभूने समञ्जसतमे कर्मणि हिंसाप्रधानः सोमयाग एवानुष्ठातव्य इति । स्पष्टमेव च प्रतिनिधिमाचक्षाते भगवन्ती मनुयाज्ञवल्क्यौ- " इष्टिं वैश्वानरी नित्य निर्वपेदब्दपर्यये । स्लतानां पशुसोमानां निष्कृत्यर्थमसंभवे " ॥ ( मनु०११-२७) - [५] "प्रतिसंवत्सरं सोमः पशुः प्रत्ययनं तथा । कर्तव्याऽऽअयणेष्टिश्च चातुर्मास्यानि चैव हि ॥ एषामसंभवे कुर्यादिष्टिं वैश्वानरी द्विजः । इति ( याज्ञ० आचाराध्या० १२५)। एकादशस्कन्धे भागवतेऽपि " वृत्त्यै परं घ्नन्ति पशूनतद्विदः"। • पशोरालभनं न हिंसा" “ वन्यैश्चरुपुरोडाशैनिपेत्काल चोदितान् । न तु श्रौतेन पशुना मां यजेत" इत्यादिना बहुधा विनिन्दित एव हिंसा- युक्तः क्रतुः। भगवान्यास्कोऽप्यमुमेवार्थमुपष्टनाति “अथ ये हिंसामाश्रित्य विद्या- मुत्सृज्य महत्तपस्तेपिरे चिरेण वेदोक्तानि वा कर्माणि कुर्वन्ति ते घूममभि- संभवन्ति" इत्यादिना " पुनरेवेमं लोकं मतिपद्यन्ते" इत्यन्तेन ग्रन्थेन । मनुनाऽपि उपबृंहितोऽयमेवार्थो मुन्यत्रैरेव पुरोडाशचरुनिर्वपणयज्ञा- नामनुष्ठेयत्वमभिदधत्ता, “ अहिंसयेन्द्रियासङ्गैवैदिकैश्चैव कर्मभिः । निवृत्तिस्तु महाफला" इत्यनेन । यदि च नैव सर्वथा त्यक्तुमिष्येत सोमयागस्तदा पिष्टपशुमालभ्येष्टं निवर्त्यताम् । तथैव चानुशास्ति भगवान्मनुरपि । 'कुर्यादघृतपशु सङ्ग कुर्यात्पिष्टपशुं तथा' इति । अनुकू- लश्चात्र वैष्णवानामाचारः। विशेषतश्चेदृक्तमे कराले कलिकाल एवंविधं कर्मानुष्ठीयमानं न कथ- चिदपि धिनोति विदुषां चित्तम् । आधानमधुपर्कश्राद्धादौ हिंसामयो विधिः कली यथा जुगुप्सापादकत्वात्परित्यज्यत एवमिहापि पशुहिं- सा दूरतः परिहर्तव्या । अत एव च युज्यते याज्ञवल्क्यादिभिरुदीरितः प्रतिनिधिः। तथा च यागीयहिंसाविधायकवाक्यानां काम्यकपरत्वात्काम्यक- र्मणां च बहुत्र निन्दितत्वात्, स्वसुखसंपिपादयिषयाऽस्वतत्राणां पशूनां मारणस्यानुचितत्वाद् विधिवाक्यैर्यागीयहिंसायामिष्टसाधनत्वबो- धनेऽपि सामान्यशास्त्रमाप्तस्यानिष्टसाधनत्वस्यानिराकरणात्, स्पर्शस्यै- वाऽऽलभतिशब्दार्थत्वेन हिंसाया आक्षेपलब्धत्वेन संकोच्यसंकोचक- भावानुपपत्तेः, अवर्जनीयहिंसाजन्यपापफलसहिष्णूनामेव हिंसाविशिष्टे कर्मणि प्रत्त्युपपत्तेः, “ यज्ञार्थ पशवः सृष्टाः ' इत्यादिषु नमोऽल्पार्थक- " त्वाध्यवसयाच पापजनकमेव हिंसाघटितं यागादिकतिन तु तदनुष्ठीय- मानं श्रेय आवहेन्मत्युतानर्थमेव संपादयेदिति । तदेतदज्ञानविजृम्भितमेव । न पनः कदाचिदपि शक्यं सर्वेषां हिंसा- विशिष्टकर्मणां काम्यत्वमेवेति, स्यात्पुनर्वायव्यं श्वेतमालभेत भूतिकाम इत्यादिवाक्यविहितानां कर्मणां काम्यत्वं, तावता वसन्ते वसन्ते ज्योतिषा यजेत, सोमेन यजेत, पशुना यजेत, इत्यादिवाक्यविहितक- मणां नित्यत्वं नापह्नोतुं शक्यम् । वीप्सादिभिर्हि तेषां तत्र तत्र मीमां- साशास्त्रे नित्यत्वस्य व्यवस्थापितत्वात् । कामं निन्द्यन्तां नाम काम्यानि कर्माण्यनित्यत्वेन किं तावता प्राप्तं तदङ्गहिसायाः । किंच यदेतत्काम्यं कर्मजातं निन्यते तत्कि हिंसाविशिष्टत्वेनाऽऽहोरिवत्काम्यत्वेन? नाऽऽद्यः। नित्यानामपि हिंसाविशिष्टत्वेन निन्द्यत्वापातात् । निरुक्तगीतावाक्येषु निन्दाप्रयोजकाहिंसाघटितत्वप्रतिपादकपदाभावाच्च । नान्त्यः । काम्य- त्वेन निन्द्यत्वेऽपि फलं प्रेप्सुनाऽङ्गसाकल्यसंपादनाय हिंसाया अव- श्यकर्तव्यत्वात् । अङ्गविनाकृतं हि प्रधानं फलपर्यवसाय्यपूर्व न प्रसवितुर्मीष्टे । देशमशकमत्कुणानपि स्वप्रेऽपि अव्यापादयतामास्तिक- शिखामणीनामकरणे प्रत्यवायपरिहारार्थमेव केवलं हिंसाघटितेषु नित्य- कर्मसु प्रवृत्तिदर्शनात् न जा वपि शङ्कनीयं स्वसुखोपार्जनाय यज्ञे पशून्हिसन्तीति । यद युक्तम्--एकस्यैव कर्मण इष्टसाधनत्वमनिष्टसाध- नत्वं चेन्युभयमपि वचनबलात्प्रमीयमाणं न विरुध्यते, इत्यादि । तन्न चारु । अनीषोमीयं पशुमालभेत, इति वाक्येन यागीयपश्चालम्भ- नस्य न केवलमिष्टसाधनत्वं प्रत्याय्यतेऽपितु बलवदनिष्टाननुबन्धित्व- मपि । अन्यथा विषसंपृक्तभोजनविधायकवाक्यस्यापि प्रामाण्यापत्तिर्नि- कम्पं तादृशभोजने प्रत्यापत्तिश्च । अनो हि बलवदनिष्टाननुबन्धित्व- विशिष्टेष्टसाधनत्वमेव विधिना बोध्यत इत्यवश्यमभ्युपेतव्यम् । अनि- टसाधनत्वमपि केवलं निषेधवाक्येन न बोध्यते । तत्रापि बलवदनिष्ट- जनकत्वमेव बोध्यते । अत्र च बलवत्त्वमिष्टोपायानुष्ठानप्रयुक्तसकलवि- धेष्टावधिकाधिक्यरूपत्वम् । तथा च विधिनिषेधबोधितयोरीदृशेष्टानिष्ट- साधनत्वयोरेका समावेशो न संघटते मिथो विरोधात् । प्रतियोगिनः पुरुषार्थत्वे निषेधस्यापि पुरुषार्थत्वमिति नियमस्य पुरुषार्थपरस्त्रीगमन- निषेधस्य कन्वर्थत्वदर्शनेन व्यभिचारेऽपि प्रतियोगिनः क्रत्वर्थत्वे [७] निषेधस्यापि त्वर्थत्वनियमस्य कापि व्यभिचारादर्शनात् । यच्चाप्यभि- हितम्-अग्नीषोमीयादिवाक्येष्वालभति व हिंसामभिधत्ते किंतु वत्समा- लभेतेतिवाक्य इव स्पर्शमात्रम्, इत्यादि तदन्यपेशलम् । अग्नीपो- मीयं पशुमालभेतेत्यादौ साऽस्य देवतेत्यधिकृतेन च्छपत्ययेन मतीयमानो द्रव्यदेवतासंबन्धो यागं विनाऽनुपपन्न इति यागवाचकपदमावश्यकम् , लाघवादालभतिनैव यागो लक्ष्यत इति शब्दयोध्यत्वमेव हिंसाया न पुनः स्पर्शवाचकत्वमालभतेः । अथ चेदभिनिविशसे शक्त्या नैव हिंसाऽऽल मतिना बोध्यते, आक्षेपत एव च यागोपपत्यर्थ कल्प्या सेति तदा निभालय चक्षुषी विस्फार्य " वषामुरिखदति पार्थत आच्छथति नन्ति वा एतत्पशुं संज्ञपयन्ति पशुं विशास्ति हृदयस्याग्रेऽवधति अथ जिह्वाया अथ वक्षसः " इत्यादीनि सुस्पष्टमेव पशुहिंसामाचक्षाणानि वचोजातानि । अथ शङ्केथाः-वन्समाल तेत्यत्र कथमालभतिः स्पर्शमाचष्ट इति । तदा यागतात्पर्यग्राहको द्रव्यदेवतासंबन्धस्तत्र न प्रतीयत इति समाधानं मन्वीथाः । एतेनाऽऽक्षेपलभ्या हिंसा सामा- न्यशास्त्रं न बाधितुमीष्ट इति परास्तम् । यञ्चोक्तं परुषार्थो हि भार्योप- गमः ऋत्वर्थत्वेन निषिध्यते न त्रियमुपेयादित्यनेन । यागीयहिंसाया अपि परम्परया परुषोपकारकत्वेन पुरुषार्थत्वरयापि सूपपादत्वादिति तन्न समञ्जसम्- न हिंस्यादिति शास्त्रस्य भागीहिसाशास्त्रस्यचक्तिनियमव्यभिचारण विरोधे सत्यपि सामान्यविशेषभावपालोचनेन बाध्यबाधकभाव एवाभ्युपगम्यते । विशेषशास्त्रोदेश्यतावच्छेदकावच्छिन्नवृत्तिसामान्यध- विच्छिन्नोदश्यताकत्वरूपसामान्यशास्त्र न हिस्यादिति वाक्ये निरा- बाधमिति न काऽप्यनुपपत्तिः । यागीयहिंसाया अपि परम्परया रु- पोपकारकत्वेन पुरुषार्थत्वाभ्युपगमे सर्वमपि कर्मजातं परम्परया पुरुषो- पकारकमेवेति हन्त पुरुषार्थत्वं केवलान्वयि संपद्येत? व्याहत्येत च" अ- थातः क्रत्वर्थपुरुषार्थयोर्जिज्ञासा" इत्यनेन चतुर्थाद्यन्याये निर्दिश्यमानो विभागः । सामान्यधर्मव्याप्ययोः पुरुषार्थत्वक्रत्वर्थत्वयोरेकत्र समावे- शेन मिथो विरोधाभावात् । आमनन्ति च परिणतप्रज्ञाः सामान्यधर्म- व्याप्यपरस्परविरुद्धनानाधर्ममकारकज्ञानानुकूलव्यापार विभागपद- व्यपदेश्यम् ।

[८] यच्च जलप्यते-तस्माद्यज्ञे वधोऽवध इति मनुवचनेऽनुदरा कन्ये- त्यादाविव नोऽल्पार्थकत्वमेवाङ्गी क्रियत इति तदतिसाहसम् नमोऽ- भावत्वावच्छिन्नमात्रवाचकत्वस्य सर्वदार्शनिकसंप्रदायसंपतिपनत्वेना- ल्पार्थकत्वं लक्षणयैवाङ्गीकरणीयम् । कुतो नन्वायास्यते शक्त्यैव निर्वाहे लक्षणाश्रयणेनाऽऽत्मा । न चापि भ्रमितव्यम् “अहिंसन्सर्वाभू- तान्यन्यत्र तीर्थेभ्यः" इति श्रुतिधहिंसाया इष्टसाधनत्वमेवाभिधत्ते। न पुनरनिष्टसाधनत्वाभावमपीति । उभयोर्विरोधेन दत्तोत्तरत्वात् । एक- तरसत्त्वे तदितराभावस्य नान्तरीयकत्वात् । विधिस्पृष्टे च न पसरति निषेधः । विधयश्च यागीयहिंसाप्रतिपादका भूयांस इत्यवोचाम । अध्वर्योः परागावर्तनं तु संज्ञप्तिहोमार्थ न पुनः पापभियेति । ऋत्वि- जो प्रायश्चित्तश्रवणमपि प्रतिग्रहनिमित्तं न तु हिंसानिमित्तमित्यवधेहि । यदप्युल्लपितम्-यन्मत्राः स्तुवन्तीत्यादि । तदप्यविचारितरमणी- यम् । न चायमस्ति नियमः, मत्रैः स्तूयमानमेव ब्राह्मणैर्विधीयत इति । प्रभुसंमिततया ब्राह्मणवाक्यैर्विधीयमानं कर्म मन्त्रार्थवादादयः स्तुवीरं- श्वेत्पदैकवाक्यतया वाक्यैकवाक्यतया वा साफल्यमनुविन्देरन् । कचि- स्तवनाभावमात्रेण विधित्वं नापह्रोतुं सुशकम् । अत एव च निरर्थ- वादा विधयोऽमनसाध्यानि च कर्माणि तत्र तत्रोपलभ्यन्ते । अत एव प्रत्यपादि सार्थक्यं मत्राणामनुष्ठेयार्थमारकत्वेनैव न तु विधेयस्ताव- कत्वेन । अथ यद्यागृह्णासि मन्त्रैः स्तूयमानत्वमेव विधेयताप्रयोजक- मिति । तदा सोमस्याऽऽचिके नवमे मण्डले पर शताभिर्कग्भिः स्तूयमा- नत्वं नाऽऽकलयसि किं! न च तेषां मत्राणामन्यार्थतां नेष्याम इति युक्तं वक्तुम् । भगवत्सा- यणाचार्यः सोमपरताया एव भाष्ये प्रतिपादितत्वात्, कचिच्च ऋक्षु हिंस्यमानपशुविषयफैव स्तुतिः स्पष्टमुपवर्णिता संलक्ष्यते । यथा- प्रजानन्तः प्रतिगृह्णन्ति पूर्व प्राणमङ्गेभ्यः पर्याचरन्तम् । सुवर्ग याहि पथिभिर्देवयानैरोषधीषु प्रतितिष्ठा शरीरैः" ॥(तै०स० ३-१-४ सायणभाष्यम्-हे पशो पूर्वे देवास्त्वदीयं वृत्तान्तं जानन्तोऽङ्गेभ्यः परि त्वदीयावयवेभ्य ऊर्ध्वमाचरन्तं ते त्वदीयं प्राण प्रतिगृह्णन्ति अस्मा- कमधीनोऽयमिति स्वी कुर्वन्ति । त्वं तु देवा येषु पथिषु यान्ति तैः पथिभिः स्वर्ग याहि । प्राणरूपेण स्वर्ग गत्वाऽवशिष्टैः शरीरावयवै- रोषधीषु प्रतितिष्ठ पुरोडाशादिवद्धविर्भवेत्यर्थः ।

॥ [९] " इमं पशुं पशुपते ते अद्य बध्नाम्यग्ने सुकृतस्य मध्ये । अनुमन्यस्व सुयजा यजाम जुष्टं देवानामिदमस्तु हव्यम्" ॥ (तै० सं० ३-१-४) सा० भा०-हे पशुपतेऽने यदस्मिन्दिने मुकृतस्य मध्ये सम्यगनुष्ठितस्य ज्योतिष्टोमस्य कर्मणो मध्य इमं पशु बध्नामि अतस्त्वमनुमन्यस्व । वयं सुयज्ञा शोभनेन यज्ञेन यजाम । इदं हव्यं देवानां जुएं प्रियमस्तु । "जातवेदो वपया गच्छ देवान्त्वर हि होता प्रथमो बभूथ । घृतेन त्वं तनुवो वर्धयस्व स्वाहाकृतर हविग्दन्तु देवाः " तै० सं० ३-१-४) सा० भा०—हे जातवेदस्त्वं वपया सह देवान्गच्छ । हि यस्मात्त्वं प्रथमो होता वभूथ मनुष्यहोतुः पूर्वभावी वभूविथ तस्मात्त्वं घृतेन देवानां तनूवर्धयस्व । ते च देवाः स्वाहाकारेण समर्पितमिदं हविर्भक्षयन्तु । " तुभ्यं श्चोतन्त्यध्रिगो शचीवः स्तोकासो अग्ने मेदसो घृतस्य। कविशस्तो बृहता भानुनाऽऽगा हव्या जुषस्व मेधिर " ॥ ( ऋ० सं०३-२-२२) सा०भा०---अधिगो, अधृतगमन सततगमनस्वभाव, अत एव शचीवः शक्तिमन्हें, अग्ने तुभ्यं त्वदर्थ मंदसो मेदोरूपस्य हविषो घृतस्य च स्तकामो विन्दवः श्चोतन्ति स्वन्ति तस्मात्कविशस्तः कविभिः कर्मा- भिज्ञ होत्रादिभिः स्तुतरत्वं वृहता प्रभूतेन भानुना तेजमा सहितः अस्मदीयं पशुयागमभ्यागच्छ । आगत्य च मेधिर प्रज्ञावनग्न हव्या अस्माभिर्दीयमानानि वपादीनि हवीपि जुषस्व सेवख । " ओजिष्ठं तं मध्यनो मेद उद्धृतं प्र ते वयं ददामहे । श्चोतन्ति ते वसो स्तोका अधि त्वचि प्रति तान्देवशो विहि ( ऋ० सं० ३-२-२२) सा०भा०-हे, अग्न ओजिष्ठमतिशयेन सारयुक्तं मेदो वपाख्यं हविर्म- ध्यतः पशोर्मध्यभागात्ते त्वदर्थमुद्धृतमुद्धृतमध्वादयो चयमस्मिन्पशी ते तुभ्यं प्रददामहे, उद्धृतं तद्वपाठ्यं हविः प्रयच्छामः । वसो सर्वस्य जगतो वासयितर्हे, अग्ने त्वच्यधि वपायामुपरि ये स्तोका घृतमिश्रा सत्रागा %3D २ [१०] बिन्दवरते ते त्वदर्थ श्चोतन्ति वन्ति । यहा ते तव त्वच्याधि ज्वाला- ख्यशरीस्योपरि शेतन्ति तान्स्तोकान्देवशो देवेषु प्रति विहि प्रत्येक विभजस्व । यद्यपि स्वस्वमतिवैभवेन मन्त्राणामनेकेऽर्था उत्मेक्षितुं शक्यन्ते, अथापि ब्राह्मणविहितानां कर्मणां प्राशस्त्यसंपादकोऽर्थः स्वयमाविर्भ- वन गोपयितुं शक्यते । केचित्तु ऐतरेय ब्राह्मणे श्रूयमाणाम् - पशुधै नीयमानः स मृत्युं प्रापश्यत्सदेवानान्कामयतैतुं तं देवा अब्रुवन्नेहि स्वर्ग बैं त्वा लोकं गमयिष्याम इति स तथेत्यब्रवीत्तस्य वै मे युष्माकमेकः एरस्ताविति तथेति तस्याग्निः परस्तादेत्सोऽग्नि- मनु प्राच्यवत ( ऐ० ब्रा०६।६।) सा०भा०-शामित्रदेश प्रति नीयमानः पशुः प्रत्यक्षेण मृत्युं दृष्टवान् । ततः स पशुदेवानन्वेतुं नान्वकामयताऽऽगन्तुं नैच्छत् । ततो देवाः पशु प्रत्येवमब्रुवन्हे पशो त्वमागच्छ त्वया सह वयं सर्वे वर्ग गच्छाम इनि । पशुश्च तदङ्गीकृत्य देवान्प्रत्येवमब्रवीत् , युप्माकं मध्ये कश्चिदेवो मम पुरस्ताद्गच्छत्विति । तद्वचनयङ्गीकृत्याग्निदेवस्तस्य पशोः पुरस्ता- दगच्छत् । ततः स पशुस्तमग्निमनु स्वयमपि तुष्टः सन्यकर्षणागच्छत् । एकधाऽस्य त्वचमाच्छयनात्५ग नाभ्या अपि शसो वपामुरिश्व- दतादन्नवोमाणं वाग्यवादिति पशुष्वेव नत्प्राणान्दधाति" ॥ ( ऐ० ब्रा० ६ । ६ ।) सा०भा०-एकथैकविधया विच्छेदसाहित्य नास्य त्वचमाच्छयतात्समन्ता- च्छिन्नां कुरुत । नाभ्या अपि शसदापूर्वमेव वपामुत्विदनादुद्धरत । ऊष्माणमुच्छवासमन्तरेव वारयवानिवारयत पिहितास्य संज्ञपय- तेत्यर्थः । तद्भागपाठन पशुवेव प्राणान्संपादयति । तग्य वपामुत्वियाऽऽहरन्ति तामध्वर्युः स्रवणाभिधारयन्नाह स्तोकेभ्योऽनुवहीति " ।। ( ऐ० ब्रा०७।२१) सा०भा०-तस्य पशोपामुदरगनां वस्त्रसदृशीमुरिखद्योवृत्य होमार्थमाहरन्ति। तां च वपामध्वर्युरभिधारयन्)पमनं ब्रूयात् । तदेतदापस्तम्बो विशद- [११] यति-' त्वामु ते दधिरे हव्यवाहमिति सुवेण वपामभिजुहोति प्रादुर्भ- वेषु स्तोकेषु स्तोकेभ्योऽनुग्रहीति संप्रेष्यति । ' तद्यत्स्तोकाः श्चोतन्ति सर्वदेवत्या वै स्तोका नेन्म इमेऽनभिनीता देवान्गच्छानिति " ॥ ( ऐ० ब्रा० । ७ । २ ।) सा० भा०--तत्तस्यां वपायां तदानीमेव लिन्नायामाद्रायां श्रप्यमाणायां यदा स्तोका नीरविन्दवः शेतन्ति निर्गत्याधः पतन्ति तदानीं सर्व- देवानां मियत्वादिमे स्तोकाः स्वयमनभिनीता अस्मासु प्रीतिरहिता देवान्गच्छानगमिष्यन्ति । तथा सति महदेतदस्माकं भयकारणं तन्मा भूदित्यभिप्रेत्य स्तोकमाणनाथमिदं प्रैषानुव वनम् । अत्र नेदित्यर्य शब्दः परिभयार्थः। "पुरुपं वे देवाः पशुमालभन्त तस्मादालब्धान्मेध उदकामत्सोऽश्वं प्राविशनस्मादयो मेध्योऽभवदर्थनमुत्क्रान्तमेधमन्यान्न स किंपुरुषोऽभवत् "॥ ( ऐ० ब्रा० ६।८।) सा० भा० ---परा कदाचिदेवाः स्वीये यज्ञे पुरुषं मनुष्यं पशुमालभन्त पशुं कृत्वा तेन पशुना यमयुक्ताः । नत्मादालब्धाधष्ठः युक्तामनुष्य- पशोर्मेधो मेध्यो यज्ञ योग्यो हविभाग उदक्रामन्मनुष्यं परित्यज्यान्यत्रा- गच्छत् । गत्वा च स भागोऽश्वं प्राविशन् । यस्मादेवं तस्मादश्वो यज्ञ- योग्योऽभवत् । अथ तदानीमुत्त्रान्तमेधं परिन्यक्तहविर्भागमेनं मनुष्यं देवा अत्यान्तातिशयेन वर्जितवन्तस्तस्मिन्पशुत्वमपि नाकुर्वन् । देवैः स्वीकृत्य परित्यक्तः स मनुप्यः किं रुपः किनगवान्तरजातीयः। "तेऽश्वमालभन्त सोऽश्वादालब्धादुदकाम स गां प्राविशत्तस्मा- गर्मियोऽभवदर्थनमुन्कान्तभेधमन्याजन्त स गौरमृगोऽभवत्" । ( ऐ० ब्रा०६ । ८) सा० भा०-आलब्धादश्वान्मधो यज्ञ योग्यभाग उत्क्रम्य गां प्राविशत्स गौर्यज्ञयोग्य आसीत् । तदानीमयोग्यत्वेन त्यक्तः सोऽश्वो गौरमृगोऽ- भवद्यस्य शृङ्गावपि लोमशौ भवतः । "ते गामालभन्त स गोरालब्धादुदक्रामत्सोऽविं माविशत्तस्मादविर्मेध्योऽभवदथै नमुत्कान्तमेधम- [ १२ ] स्यान्त स गवयोऽभवत्तेऽविमालभन्त सोऽवेरा- लब्धादुदक्रामत्सोऽर्ज प्राविशत्तस्मादजो मेध्योऽभ- वदथैनमुन्क्रान्तमेधमत्यान्त स उनोऽभवत्" ।। (ऐ० ब्रा०६।८।) "सोऽजे ज्योक्तमामिवारमत तस्मादेष एतेषां पशूनां प्रयुक्ततमो यदजः" । (ऐ० ब्रा०६।८।) सा० भा०–स मेधाग्यो यज्ञ योग्यभागस्तस्मिन्नजे ज्योक्तमामिवातिशयेन चिरकालमेवारमत क्रीडितवांस्तम्माञ्चिरकालमेव सद्भावाद्योऽयमजोऽस्ति स एष एतेषां पूर्वोक्तानां पशनां मध्ये प्रयुक्ततमः शिष्टैरतिशयेन प्रयुक्तः। इत्याख्यायिकामापाततो निरीक्षमाणाः पिष्टमयपशोरालम्भनमेवैता- दृशार्थवादाभिप्रेतमिति तदेव करणीयं न साक्षात्पशुगलम्भ्य इति संभावयन्ति । ननन्समञ्जसतामरगाहते-यतो नाऽयं पिष्टपशोर्विधायकः स्तावको वाऽर्थवादोऽपि तु पशुपुगंडाशयागार वपायागाङ्गल्य स्ता- वको भूतार्थवादः । नैव स्वऽपि संभावनीयं पश्वभावे पुगेडाश इति । यदि च वपायागो नेतढान्यायिकयाऽनुमन्यन इति बलात्संभावयति तदाऽस्या एवाऽऽच्यायिकायाः पूर्व पश्चाचाभिहितानि पश्वगावदाना- दीनि कां गतिमालम्बेरन् । तम्मा पशुपगेडाशस्यैवैषा रतुतिर्न पशुप्रति- निधिषरोडाशयागता-पर्यिका । अथ अंपाध्यायेऽपि दृष्टिं विकिरसि चेन्जानीषे वपायागस्य विहितत्वम् । " होता यक्षदग्नीपोमा छागस्य वपाया मेदसो जुपतां हवि:तर्यज । हाता यक्षदग्नीपोमो हविप आत्ताम्"। यच्चोरि यदन्नः पुरुषो भवति तदन्नास्तस्य देवताः । इति रामा- यणान्तर्गतभगवद्रामवचनेन नानुष्ठेयः सोमयागो निवृत्तमांसरिति । सदविमर्शभासुरम् , तत्रवीत्तरत्र “ श्रुतिस्तु खल्वियं सत्या लौकिकी प्रतिभाति, मा" इत्यनेन यदन्नः पुरुषो भवतीत्यादेलौकिकश्रुतित्वं स्पष्टं प्रत्यपादि । लकिकश्च प्रवादो वेदाक्षरेव विचारणीयेऽदृष्टमात्र- फलक एवंविधे विषये न नथा प्रमाणाभावमाटीकते ।

[१३] तुप्यतुन्यायेन प्रामाध्यक्रियमाणेऽपि पुरुषो यदको भवति तदना एव देवता इति नैव नियन्तुं शक्यते । पलाण्डगृऊना- दिभक्षकैः श्राद्धादी तन्निवेदनस्य कर्नव्यरयाऽऽपातात् । यः पुरुषो यादृशानविशिष्टस्तनिरूपिताराध्य तावत्यो देवतास्तादृशान्नविशिष्टा इति नायमविनाभावः संघटते । अन्वयव्यतिरेक-यभिचारदर्शनान् । दर्शि- तश्चान्वयव्यभिचारः पूर्वम् । स्मातहोमेषु समिध्वीदीनां होतव्यत्वानु- शासनात् तेषां च ५२पाभवाभावात् । व्यतिरकव्यभिचारोऽपि सुप्र- दर्शः । तथा चावश्यमेवाभ्युपगन्तव्या व्यवस्था यदयं लौकिकः प्रवादः मार्नेष्वेव पूजाहोमबलिप्रदानाद्याचारेषु सार्थक्यमनुने न एनः कथं- चिदपि श्रीनानपूर्वान्विधानपथितुमीष्टे । तस्मानिर्विचिकित्समनुप्लेयः सोमयागः । नापि याज्ञवल्क्या मृतिः अवयमित्यादिका पूर्वपक्षिणो मतं साध- यितुं प्रभवति । अस्वयों हि धर्मस्याज्य: स्यात् । ज्योतिष्टोमेन वर्गकामा य नेत्यनेन विधिवाक्येने स्वर्गसाधनत्वं ध्वन्यमानं न जान्वपि यागल्या वय॑नां क्षमते नापि लोकविशिष्टत्वरूपो दोषः पदमा- दधाति द्विपन्तु हिंसाविशिष्टं यागं प्राकृनालोका लोकायतिकाश्च तावता न शिष्टविदिष्टत्वमुत्प्रेक्षितुं शक्यं साद सानन्द सोत्साहं सभक्त्युन्मेषं चानुभूयापि महान्तं ले शं विभ्यतोऽकरणात्मत्यवायाच्छिष्टमूर्धन्याः परः- सहस्सा महात्मानोऽन्वतिष्ठन्यागाननुतिष्ठन्ति अनुष्ठारयन्ति च । अत एव च भगवत्पादे भीपितं “ शिष्टेरनुष्ठीयमानन्वादनिन्धमान- स्वादिति " किं न मरसि परशिवपावनांग: श्रीचिदम्बरदीक्षितपादैः, चतुरधिकशतप्रबन्धनिमातृभिः परमशैवाग्रगण्यः श्रीमदपश्यदीक्षितचर- गैरन्यैश्च तैरतविद्वदवतंसरनुष्ठितांस्तांस्ताञ्ज्योतिष्टोमप्रभृतीन् । कलादस- स्तन्मनसाऽपि नाऽऽकलनीयो दोपलेशोऽपि पवित्रतमे वैदिके तौ। एतेन यः पूर्वपक्षिणा मोदघाटि महाभारतीय उपरिचरोपाख्यान- गोचर आक्षेपछागं नो हन्तुमर्हथेत्यादिः स तत्रैव चतुर्दशे श्लोके देव- वाक्येन मायादिष्टो दिनच्य इति नात्र वयं विशेषतो वाचमायास- यितुभभिलपामः । -मनुयाज्ञवल्क्रप्रभृतिभिरुपदिष्टा वैश्वानरोष्टिरेव सोमप्रतिनि धितया क्रियतां किं साक्षाद्धिंसाघटितसोमेन, इत्यायुक्तं तन्मन्दम्--- यञ्च-- [१४] द्वितीयाद्यावृत्तौ हि सोममनिधितयाऽदिश्यते वैश्वानरेष्टिर्न पुनः प्राथ- मिकस्य सोमस्य स्पष्टं चैतत्वयैवोदाहृतमनुवचने-अब्दपर्यये प्रतिसंव- त्सरमिति पदाभ्याम् । तत्रापि निष्कृत्यर्थमसंभवे, एपामसंभवे, इत्या- दिनाऽसंभव एव हि सोमस्य वैश्वानरोष्टिः कर्तव्या स्यात् । न च सांप्रतं सोमः प्रतिवसन्तमसंभवी । यच्चोपवर्णितं भागवतं हिंसां विनिन्दतीति तदपि तत्रत्यपदेनैव प्रत्यु- क्तम् -वृत्त्यै जीविकार्थ पशून्नन्ति तेऽतद्विदः, पशोरालभनं च न हिंसा- पदवाच्यम्, पापजनकत्वाभावात् । वन्यैश्वरुपुगडाशैरित्यायपि नहि निन्दान्यायेन नेयम् । या च यास्कोक्तिः प्रमाणत्वेन निर्दिष्टा साऽपि अशुद्धमिति चेन्न शब्दादिति न्यायेन भगवता बादरायणाचार्येणैव प्रत्याख्यातेति न वयं पुनस्तदर्थं प्रयनामहे । नापि मनुनोपहितोऽर्थः पूर्वपक्षिणोऽभीष्टं साधयितुमीष्टे- अहिंसयेन्द्रियासङ्गरित्यादिषु चका- रात्परुषार्थहिंसाया एव निषेधो न क्रत्वर्थायाः । वैदिकश्चैव कर्मभि- रित्यग्रे स्मृतत्वात् । किं च सोऽयं सर्वोऽपि धर्मो वानप्रस्थाश्रमिणामेव न पुनर्ग्रहस्थानाम् । उपक्रमोपसंहारयोस्तथा दर्शनान । मुन्यनेष्वपि च मांसस्यापि परिगणनाभक्षितेऽपि लशुन इति न्यायेनारमादिष्टसि- द्धिस्तदवस्थैव । कुर्याइतपशुमित्यत्रापि गगप्राप्ताया एव हिंसायाः सङ्ग इति पदेन निन्दायाः स्मयमाणत्वान्न तद्वची वैदिकी हिंसां निपेटुं प्रभवति । एनेन केषांचिद्वैष्णवानां पिष्टपश्वनुष्ठानरूप आचागेऽपि निर्मू- लत्वादुपेक्ष्यः । अत एव चतुस्तन्त्रारण्यानीविहरणपश्चास्यः श्रीमद्रा- घवेन्द्राचार्यचरणष्णवधुरीणैरपि पिष्टपशु स्खण्डनप्रसङ्ग एवमभ्यधायि । " किंच कल्पसूत्राणां विवलशारवाक्रोडीकाररूपन्वेन स्मृतिभ्यः पावल्यात् । हिमायजपः कल्पसूत्रैः स्मृतीनां बाध एव युक्तः । मनुनापि या वेदविहितेत्यादिधु बहुधा वैदिकहिंसाया अनुष्ठेयत्वेन पापाजनकत्वेन च विधीयमानत्वात् । न चाप्यतिशङ्कनीययीशे कालेये काले हिंसायुक्तो ज्योतिष्टोमया- गादिविधिः परित्यक्तव्य इति । यतो न कापि श्रुती स्मृती वोलिख्यते कलियुगे नानुष्ठेयो यागीयाहिंसाविधिरिति । आधानमधुपादौ तु कल्प- सूत्रकारः श्रीता एव विकल्पाः प्रादुरकारिपत । नवं यागीयहिंसायाः कापि विकल्पाः प्रोच्यमानाः कर्णपथमवतरन्ति । तथा च काम्यकर्मणां , [१५] निन्दितत्वेऽपि ज्योतिष्टोमादिकर्मणामकरणे प्रत्यवायापादकत्वरूपनित्य- वोत्कीर्तनात् । आलब्धस्य च पशोः स्वर्गतस्य निरतिशयसुखभोक्तृत्वा. नानात्, एकत्र चेष्टसाधनत्वानिष्टसाधनत्वयोःसमावेशानुपपत्तेः, आलभ- तेच्यदेवतासंवन्धान्यथानुपपत्त्याऽनुमेययागार्थकत्वात् , हिंसायाः शब्द- बोध्यत्वात् , सामान्यविशेषभावाभावपर्यालोचनया बाध्यबाधकमावस्य सूपपादत्वात् , नोऽल्पार्थकत्वानुपपत्तेश्च, हिंसाघटित्तमप्यावरिकं कर्म विशुद्धमिति न किल स्वभेऽपि संभाव्यतां तदनुष्ठायिनां पापलेशग- धोऽपि । आत्यन्तिकं च निरपेक्षं च श्रेयः समासाद्यत इति सर्वमनव- धम् । एवमिदं केषांचिदर्धमुग्धानां प्रलपिनं समासतोऽस्माभिः प्रत्या- रख्यातं ग्रन्थे पुनर्ग्रन्थकृता सविशेषं विशदं प्राच्यानां वैयाकरणमूर्ध- न्यानां मजूषाकृत्प्रभृतीनां केनचिदभिसंधिनोद्भावितान् यागीयहिंसा- क्षपान गभीरतगभिरुपपत्तिभिः प्रबलतरैश्च प्रमाणनिचयः समूलमुन्मूल्य निरायाधं प्रावर्ति वैदिको घण्टापथः । एतच्च सुस्पष्टमेव प्रतिपद्येत ग्रन्थ- मनुवाचयद्भिः प्रियपण्डितवरेण्यरिति न विशेषतो विज्ञापनीयमुत्पश्याम इति शिवम् । श्रीमजगदगुरुशंकराचार्य- उप्पिन वेट्टगिरी श्रीनागेशशास्त्री। संस्कृतपाठशाला, धारवाड ।

No text on this page.

॥ पश्चालम्ममीमांसा॥ ध्यायं ध्यायमुमापतेर्भगवतः पादारविन्दद्वयं स्मारं स्मारमुदारतरुचिराः श्रीसद्गुरूणां गिरः । अझैः कैश्चन वैदिके पथि हठादुद्भावितं दूषणं प्रत्याख्याय समर्थ्यते विमलता यागीयहिंसाविधेः॥१॥ यैः पीतं कणभुग्वचोमृतमलं वैयासिकी भारती येऽस्ताशङ्कमनर्गलं निजमुखाम्भोजे समानर्तयन् । नित्यं जैमिनितनगेन्दुकचयैः सोल्लासमक्रीडिषु- स्ताम्श्रीन्यायमृगेन्द्रविश्रुतविरूपाक्षान्गुरुनौम्यहम् ॥२॥ मीमांसारमणीगलैकविलसद्रत्नायमानानई । वावन्दीमिता गुरुननुदिनं श्रीवैद्यनाथान्परान् । दत्तात्रेयगुरून्नितान्तयशसस्तच्छिष्यभावादU प्रन्थं श्रीकमलेशपूर्णकृपया अथ्नात्यसौ वामनः ॥३॥ अतिरोहितमिदं समेषामपि विदुषामन्येषां च यदद्यत्वेऽपि कर्मभ्- मिभावेन भाव्यमानेऽस्मिन्मारते देशे श्रुतिस्मृतिसमधिगताः परापर)- यासाधनीभूता धर्मा आस्तिकभृयभूषितैर्मानुपैरनुष्ठीयमाना चिज- यन्त इति । न खलु नावगतोऽयमाप विषयो मानुषजनुषां यत्किल कलिनामपरुपपुरुषस्यावेदस्मृतिनन्दितसराणिप्रसारणमूलकारणस्य बै- दिकनिन्दकमानवसमुमतिसंपादनवद्धपरिकरस्य सकलसमीशितृभावमा. पन्नस्याऽऽज्ञापिशाच्या विगमितविवेकमज्ञा उल्लवितानादिसाधुमर्यादा अनवरतमुत्पथसंचारसमाहितसमीहाः परमसाध्वीं वस्तुतः सकलजनहि- तोपदेशनिरतामास्तिकभूयभूमभरितैर्भारतीयैर्भूमिदेवैरतिविरलैरपि दत्ता- वलम्बामत्यादरेण परिपाल्यमानां श्रुतिदेवी निरालम्बीकृत्य कलुष- यितुमनवरतं प्रयतमानास्तदालम्बनभूतान्केवलमाम्नायसमानातसत्प- थसंचारसंप्राप्तसमादरान्परतन्त्रप्रज्ञाञ्जननिकायानन्यांश्च वैदुषीविभूषि- तानपि मानुषानात्मसात्कर्तुं बहुधा संनयन्तः सर्वदा संवर्तन्त इति । तत्र-आवितलोकायतभावाः प्रत्यक्षपमाणैकशरणा आकृत्या परं तिर्य- माणितो भिदा संप्राप्ताः केचन मानुषाकाराः प्रात्यक्षिकादर्थात्पुनरन्य- किमस्ति, न तद् यथावत्कदापि शक्यनिरूपणमिति वृथा अलपन्तः २ पश्वालम्भमीमांसा । .. केवलमामुष्मिकसंप्रत्ययानस्वतनमत्ययान्समोइयन्तो यथाकाम देहयात्रा प्रकुर्वाणाः कालमतिवाहयन्ति । अन्ये च केचन सर्वज्ञसूक्तिप्रमाणका धर्मराजसंमत्ययसंपृक्ता इति मिथ्याभाणकेन भ्रामयन्तो मान्वस्तुतः सकलसमीहितसमीचीनपदार्थनिकायावेदकेषु वेदवाक्येषु तदनुसारिम- हत्सूक्तिषु चोन्मत्तमलपितभायभावमुद्भावयन्तः ' अहिंसा परमो धर्मः' इति मोहकरवाक्यजातं वाचयन्तः स्वस्वाभ्यूहमात्रपरिकल्पितमर्थ- जातं साधु संमन्यमाना अपापत्रपाः वृथाकालं यापयन्तः पर्यटन्ति । अपरे च पुनः कणभक्षणमतानुसारिणोऽनुमतनयनचरणमताः कापिलाः पातञ्जलाश्च सर्वत्रपुरुषप्रणीतत्वादिनाऽऽम्नायाः प्रमाणमिति वृथा वाव- द्यमानाः स्वस्वतर्कप्रतर्कितानुवादका इति सुधा प्रजल्पन्तः स्वस्वा- भ्यूहितार्थजातप्रतिपादकानिवन्धान्निबध्नन्तो वहूनपि मानवान्स्वाभिम- तमस्थाने प्रस्थापयन्त आत्मानं कृतकृत्य मन्यमानाः संतिष्ठन्ते । अत एतादृशमन्यतममतमनुप्रविशन्तो मनुजाः सर्वथाऽधःपातमापतेयुरिति पुराऽऽलोचनाकान्त स्वान्तौ परमकरणापूरितान्तःकरणी सर्वज्ञ शिरोमणी उपगतपरमास्तिकभावौ व्यासजैमिनिनामानौ तपोधनाग्रगण्यौ नाना- विधसन्यायनिर्धारणीयोच्चावचवचनव्यक्तिकमत एवाधुनातनजनैदुष्प- रिज्ञानमस्तोकमार्थ्यमानपरमप रुपार्थसाधनीभूसमवृत्तिनिवृत्तिपथप्रत्या- यकं समस्तप्रमाकरणाग्रगणनीयभावमापनं महान्त वेदराशिं बहुविध- न्यायप्रदीपविचारात्मकशास्त्रेण संव्याख्याय वाचामगोचरं लोकोपकार मकृपाताम् । तादृशशास्वात्मिकां टीकामाटीकमानमर्थ नितरां प्रतिभासयन्तं शब्दतोऽर्थतश्च दोपलवानाकलितं निबन्धसमुदायं श्रीमच्छंकरभगव- त्पूज्यपादशबरस्वामिभट्टपादप्रमुखा महामहनीयाः प्रामाणिका न्यरर- चन् । आपस्तम्बौधायनाश्वलायनद्राह्मायणकात्यायनसत्यापाढादि- प्रभृतयोअप आत्यन्तिकीमाईन्तीमापन्ना मुनिवरेण्याः सकल वेदवेद्य- तत्त्वावेदकानि धर्मसूत्राणि अतिदुर्योधप्रत्यक्षश्रुतिश्रावितश्रीतकर्माभि- धकर्मवृन्दानुष्ठानप्रक्रियामतिविशदमादयन्ति श्रौतसूत्राणि तथाऽऽचा- गनुमितवेदावेदितरमातकर्माग्थ्यकर्मरतोमप्रयोगप्रकारं मन्दाधियो दुरवगर्म प्रदीपयन्ति गृह्यसूत्राणि च निर्माय लोकानां वहपाकुर्वन् । किं बहुनाऽ- त्यन्तमादरणीया मानव्याद्या वयः स्मृतयश्च लोके जेजीयन्ते । तद- प्र कापिलपातञ्जलमतानुयायिनोऽपौरुषेयानाशडूनीयदोषवेदमर्मानभि- ज्ञाञ्जनान्व्यासमिनिप्रभृतिभिरापत्तन्वादिमहर्षिभिर्मचादिभिश्च मह- पश्चालम्भमीर्मासा। ३ , . नीयः प्रदर्शितं पन्धानमवलम्ब्य किंचिदिव वेदार्थतत्त्वं प्रतिबोधयामः। वेदस्तावत्मत्यक्षादिप्रमाणाप्रमेयपरमपुरुषार्यहेतुभूतबस्त्वावेदक इती- दमपश्चियं विपश्चिताम् । एवं खलु निरुच्यते निरुक्तकोविदः- प्रत्यक्षेणानुमानेन यस्तूपायो न बुध्यते । एनं विदन्ति वेदेन तस्माद्वेदस्य वेदता ।। इति । वेदवेधश्चार्थो द्विधाभावमापद्यते प्रवृत्तिसाध्यो दर्शपूर्णमासादिनिव- तिसाध्यं प्रत्यम्याथात्म्यज्ञानं चेति । तत्र प्रवृत्तिसाध्यधर्मसाधनीयः परमः पुरुषार्थः । आसार्वभौमस्थानादाब्रह्मलोकस्थानं तरतमभावेना- नुभूयमानः ' स एको मानुष आनन्दः' इत्यादिना ' स एको ब्रह्मण आनन्दः' इत्यन्तेन वाक्यजातेन प्रतीयमानः सुखविशेषः । ज्ञानसा- ध्यश्च परमः पुरुषार्थोऽज्ञाननिवृत्तिपूर्वकः परमानन्दावाप्तिरूपः 'ब्रह्म- विदामोति परम्' इत्यादिश्रुतिशतैस्तथा बोधितत्वात् । वस्तुतस्तु परमः पुरुषार्थो मोक्ष एक एव साक्षात्परम्परया वै तत्साधनभावमा- पन्ना एव वेदावेदिताः समस्ता अपि धर्माः । “ सर्वे वेदा यत्पदमाम- नन्ति तपांसि सर्वाणि च यद्वदन्ति इत्यादिश्रुतिभ्यस्तयावगम्यमा- नत्वात् । तत्रापि ज्योतिष्टोमादिकर्मणां “ तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन " कर्मभिः पके ततो ज्ञान प्रवर्तते " इत्यादिश्रुतिस्मृतिभ्यश्चित्तशोधन- पूर्वकज्ञानसंपादनद्वाग मोक्ष उपयोगः । ज्ञानस्य तु तमेव विदित्वाति मृत्युमोत नान्यः पन्था विद्यतेऽयनाय' इत्यादिश्रुतिभ्यः साक्षा- न्मोक्ष उपयोगः । यद्यपि दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत, अग्नि- होत्रं जुहुयात्स्वर्गकामः, ज्योतिष्टोमेन रवर्गकामो यजेत, सौर्य चरुं निपेट्रह्मवर्चसकामः, इत्यादिश्रुतिभिः कर्माणि स्वर्गब्रह्मवर्चसादि- साधनभावमापन्नानि प्रतीयन्ते तत्कथं मोक्षहेतुभूतान्येव सर्वाणीति प्रतिज्ञायत इति चोद्यमेकमग्रगामितामागच्छेत् तथाऽपि तानि वाक्यानि गुडजिहिकान्यायेन प्राकृताञ्जनानिषिद्धाचरणतो निवर्त्य श्रेयःसा- घनीभूतकर्मसु प्रवर्तयितुं प्रवृत्तानि न तु तदेव फलं नान्यदतः पर- मस्तीति प्रत्याययितुम् , यथा वा माता स्वबालकमविवेकिनमारो- ग्यप्रदायकोषधपाने गुडं दास्यामीति प्रलोभ्य प्रवर्तयति तथैव श्रुति- माता स्वर्गादिफलं प्रदर्य तत्तत्कर्मसु बहिर्मुखाः प्रजाः प्रवर्तयति, इति सुधियायतिरोहितम् । " कषाये ४ पश्चालम्भमीमांसा। . आस्तां तापदिदम् , सर्वथाऽपि प्रत्यक्षवेदपाठतान अनुमिताति- बोधितानि सर्वाण्यपि श्रौतानि स्मातानि च कर्माणि श्रेय साधनीभू- तानीत्यस्मिन्विषये न कोऽपि विवादः । केचित्ताकृता आत्मानं पाण्डितीमण्डितं मन्यमानाः सकलवेदतदनुसारिशास्त्रसारहवभावमात्म- न्यारोपयन्त इत्थं वृथा प्रजल्पन्ति-वेदस्तदनुसारिशास्त्राणि च केवल- मामुष्मिकसुखसाधनोपार्य प्रत्याययन्ति न खलु तैहिकसुखसाध- नोपायाः प्रत्याय्यन्ते । तदुपायोऽधुना जगति प्रसमरहूणविद्याभ्यासः। न तत्र किंचिदपि वैदिकः पन्था उपकरोति । अतो लोके परमसुखा- भिलाषाहितैः पुरुषैस्तादृशोपाया एवानुष्ठातव्याः, न हि तैर्वेदबोधि- तमध्वानं प्रतिप्रस्थातव्यमित्यादि । एवंवादास्ते पुरुषा इत्थं परिम- व्याः-कि केवललौकिकोपायसंपादनेनान्तरासहकारमैडिकमभिल- षितं सुख प्राप्तुं सुशकमाहोस्वित्तीयसाहाय्यकन बा । तत्राऽऽद्यः पक्षो गगनकुसुमसमानः । तस्मिन्पक्षे हि दैवानुकूलतानादरे केवलपुरुषकारेण समीहितं सुसाधमित्युक्तं स्यात् । न हि तथा संभवति । दृश्यते हि उभाभ्यां समाने यत्न आस्थितेऽपि एकेन फलं प्राप्यतेऽन्येन नोपेयत इति । वदन्ति च माज्ञाः-एकः समीचीनादृष्टसंभूषितोऽपरस्तु दुरदृष्ट- संदष्ट इति । केवलपुरुषकारवादैरत्र व्यवस्था दुरुपपादैव । न खल द्वाभ्यां विद्यार्थिभ्यां समायामभ्यासप्रयत्यामास्थितायामपि समानैव योग्यता प्राप्यत इति लोके दृष्टम् । न हि द्वौ कृषीवलौ समतया कृषि- कर्मणि व्याप्रियमाणौ सदृशमेव फलं भुञ्जाते इति नियन्तुं शक्यम् । नापि द्वयोः पण्याजीविनोः सदृशप्रयत्नकारिणोरुदर्के लाभालाभौ समौ परिदृश्यते । नो किल जगत्यां प्राणिनो भिन्नाकारा नावलोक्यन्ते, तत्रापि मानुषाः समस्ताः समानसुखदुःखभाजिभावमापन्ना न संप- चन्ते, नैव धनिकाकिंचनभावमनापद्यमाना विद्यन्ते, नापि अधिकारो- त्कर्षनिकर्परहिता निर्वर्ण्यन्ते, अशक्यव्यवस्थाककेवलपुरुषकारवाद- मते वड्पप्लवः संपद्येत । द्वितीयपक्षावलम्बने पस्थितं वैदिके प्रस्थाने । निगमावगमितसुकृतदुष्कृताभ्यां खलु सदसती अदृष्टे निष्पद्येते, ना- न्यदुपायभूतं वस्तु प्रमाणसिद्धं भवति, अतः पूर्वोक्तं मतं सर्वथाऽश्रद्धे- यम् । आस्तां तावदिदं प्रकृतमनुसरामः । तत्र गाईस्थ्यमापनैः पुरुषै- जैवर्णिकः प्रत्यवायपरिहतयेऽवश्यमनुष्ठातव्या यज्ञा एकविंशतिप्रभेद- पश्वालम्भमीमांसा। मित्रा बर्तन्ते । तत्रौपासनवैश्वदेवपार्वणाष्टकामासिश्राद्धसर्पलीशा- नवल्याख्या याः सप्त पाफयज्ञसंस्थास्ताः शिष्टाचारानुमितश्रुतियो- षिताः सत्यः केवलप्रत्यक्षस्मृतिपरिपठिताः स्मार्ता इत्युच्यन्ते । अत एव भगवानापस्तम्ब:--" अथ कर्माण्याचाराद्यानि गृह्यन्ते " इत्याह। अस्यायमर्थः-आचारानुमितवेदाघानि कर्माणि औपासनहोमादीनि पाकयज्ञशब्दानि यानि चोद्वाहादीनि यज्ञाधिकारयोग्यदेहसंस्कारार्थानि कर्माणि गृह्यन्ते ज्ञायन्ते तानि व्याख्यास्यामः, इति । या अ- मिहोत्रदर्शपूर्णमासाग्रयणचातुर्मास्यनिरूढपशुवन्धसौत्रामणिपिण्डपितृय- बादिदीहोमा हविर्यज्ञसंस्थाभिधाः सप्त याश्च-अमिष्टोमात्यमिष्टो- मोक्थ्यषोडश्यतिरात्रवाजपेयाप्तोर्यामाख्याः सप्त सोमसंस्थास्ताः सर्वा अपि श्रौतशब्दप्रतिपाद्या आधानसिद्धाग्निषु अनुष्ठेयाश्च · अग्निहोत्रं जुहुयात्स्वर्गकामः' इत्यादिप्रत्यक्षपरिपटितवेदवाक्यैस्तेषां प्रतिपच- मानत्वात् । एते च श्रेयोभिलापोपलक्षितैः पुरुषैरवश्यं संप्रयुज्येरन् " यावज्जीवमग्निहोत्रं जुहोति " "यावज्जीवं दर्शपूर्णमासाभ्यां यजेत" " वसन्ते वसन्ते ज्योतिपा यजेत " " कुर्वन्नेवेह कर्माणि जिजीविषे- च्छतं समाः " "एतद्वै जरामर्य सत्रं यदग्निहोत्रम्" " वीरहा वा एष देवानां योऽग्निमुद्वासयते" "निषेकादिश्मशानान्तो मर्यस्योदितो विधिः । तस्य शास्त्रेऽधिकारोऽस्मिज्ञेयो नान्यस्य कस्यचित् "॥ इत्यादिश्रुतिस्मृतिभ्योऽवश्यानुष्टेयत्वप्रतिपादनद्वाराऽकरणे वायापादकत्वप्रदर्शनात् । तथाहि-" यावजीविकोऽभ्यासः कर्मधर्मः प्रकरणात्स्यात्" इत्यस्मिन्नधिकरणे “ यावज्जीवमग्निहोत्रं जुहोति" " यावज्जीवं दर्शपूर्णमासाभ्यां यजेत" इत्यादिवाक्यान्युदाहृत्य किमिदं वाक्यजातं स्वर्गफलकदर्शपूर्णमासादिकर्मणो जीवनपर्याप्तकालविधि- व्यापकमयोगविधायकमाहोस्विज्जीवननिमित्तकविनियोगान्तरविधा- यकं वति कथंभावाकाङ्क्षारूपप्रकरणानुग्रहसंभवाण्णमुलन्तशब्दसत्त्वाच संशये यावज्जीवशब्दस्य णमुलन्तस्यापि यावदेह तिष्ठतीत्यादाविव का- लपरत्वसंभवात्, प्रत्युत- अभिकामं जुहोतीत्यादिस्थले निमित्तपरत्वादी- नाच, उत्पत्तिशिष्टामावास्यादिकालावरोधेऽपि अमावास्यायामपराहे पिण्डपितृयज्ञेन चरन्तीतिवव्याप्यव्यापकविधया कालद्वयसमावेशसं- भवात, जीवनपर्याप्तकालविधानसामर्थ्यादेवाभ्यासस्य सिदत्वात् तस्यैव पत्य- पश्वालम्भमीमांसा। कर्मणो जीवनकालपरिमितपयोगविधानमिति पूर्वपक्षे प्राप्ते यावच्छन्दस्य सामस्त्यवाचित्वाजीवशब्दस्य ‘जीव प्राणधारणे' इत्यनुशासनात् प्राणनक्रियावाचित्वात् समाभिध्याहृतधात्वर्थान्तरसंबन्धे धातोः परत्वेन वक्ष्यमाणाः प्रत्यया इत्यर्थके " धातुसंबन्धे प्रत्ययाः " इत्याधिकारेऽ- नर्गतेनानुभासनेन विहितस्य णमुल्मत्ययस्य धात्वर्यान्तरानुयोगि- कस्वप्रकृत्यर्यप्रतियोगिकसबन्धवाचित्वात्ताशसंबन्धविशेषाकाक्षायां पावच्छब्दरूपतात्पर्यग्राहकवशानिमित्तत्वरूपसंबन्धविशेषप्रतीते वषा- स्वयंस्य पजत्यर्थ एव संबन्धस्य वक्तव्यत्वाद्भवदुक्तकालपरत्वाङ्गी- कारे तद्वाचकपदस्याभावाल्लक्षणाया आपद्यमानत्वाद स्वावच्छिनकाल बत्त्वसंबन्धेन वाच्यार्यस्य जीवनस्यैव विधाने गुणभूतजीवनकालानु- रोधेन प्रधानभूतप्रयोगात्तेरन्याय्यत्वात् , यावच्छब्दार्यस्यापि विधाना- ङ्गीकारे लक्षणादोषस्य लक्षणादोषस्य तदवस्थत्वादेतादृशगुरुभूतसंबन्धापेक्षया लघुभूतनिमित्तत्वसंबन्धनान्वयस्य योग्यत्वाजीवने निमित्ते प्रकृतकर्मण एव पापक्षयोद्देशेन विनियोगान्तरविधानमिति सिद्धान्तितम् । अत्र च निमित्तत्वं न केवलानुष्ठापकत्वं कामनावत, तथा सति यावत्पदा- नुवादासंगतेः । किं तु अवश्यानुष्ठापकत्वरूपं तदानी प्रतिनिमित्तमार- तेरर्थलब्धत्वाद्यावच्छब्दोऽनुवादः । निमित्तत्वं च स्वान्वयव्यतिरे- कानुविधाय्यन्वयव्यतिरेककानुष्ठानकत्वं, राहपरागस्य स्वान्वयव्यतिरे- कानुविधाय्यन्वयव्यतिरेककस्नानकत्वात्स्नाननिमित्तत्वम् । एवं च निमि- त्तसत्त्वे नैमित्तिकस्यावश्यानुष्ठातव्यत्वादवश्यानुष्ठापकजीवननिमित्तक- त्वहेतुना प्रत्यवायजनकाकरणकत्वानुमानादकरणे प्रत्यवायजनकत्वमे- तदधिकरणसिद्धम् । तत्र प्रवृत्तिसिद्धयर्थ फलाकाङ्क्षायामकरणे प्रत्य- वायजनकत्वज्ञानादेव प्रवृत्तिसंभवात्करणस्य पृथक्फलाभाव एवति प्रभाकरो मन्यते । न्यायसुधाकारादय इष्टसाधनत्वज्ञानमन्तरा प्रवृत्त्य- संभवाद्योगक्षेमसाधारणकार्यकारणभावपङ्गीकृत्य करणस्य प्रत्यवाय- प्रागभावपरिपालनं फलमनुमन्यन्ते । नवीनमीमांसकास्तु प्रत्यवाय- भागभावस्थाजन्यत्वान्मुख्यफलत्वासंभवात् 'धर्मेण पापमपनुदति 'ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः' इत्यादिश्रुतिस्मृतीनां जागरू- फत्वादानुषङ्गिकं पापक्षयाख्यं फलमनुष्ठापकं परं जीवनादिनिमित्तमित्य- भिप्रयन्ति । अद्वैतप्रवर्तकमूर्धन्या भगवत्पादा नित्यानामपि कर्मणां छाया- मन्धन्यायेन काम्यवदृष्टस्वर्गादिफलकन्वं सोपपचिकं समर्थयामासुः ।

- पपालम्भमीमांसा। अत एव गीताभाष्यान्ते भगवन्तो भाष्यकारा:-'नहि काम्यानुष्ठानापास- दुःखात्केवलनित्यानुष्ठानायासदुःखं भिद्यते, किं चान्यदविहितममति- पिदं च कर्म तत्कालफलं न तु शास्त्रचोदितं प्रतिषिद्धं वा तत्कालफलं भवेचदि तदा स्वर्गादिष्वदृष्टफलशासने चोद्यमो न स्यादमिहो- प्रादीनामेव कर्मस्वरूपाविशेषेऽनुष्ठानायासंदुःखमात्रेणोपक्षयः काम्यानां च स्वर्गादिमहाफलत्वमङ्गतिकर्तव्यताद्याधिक्ये त्वसति फलकामित्व- मात्रेण न शक्यं कल्पयितुम् । तस्मानित्यानां कर्मणामदृष्टफलाभावो न कदाचिदप्युपपद्यते " इत्यादिग्रन्थेन प्रावदन् । आस्तां तावदिर्य कथाऽप्रकृता, अकरणे प्रत्यवायः सर्वेषामेव संमत इति सिदम् । किं चैतेपायकरणे प्रत्यवायः कूर्मपुराणे दर्शितः- "नास्तिक्यादथवाऽऽलस्यादग्नीनाऽऽधातुमिच्छति ।। यजेत वा न यनेन स याति नरकान्बहून् । तस्मात्सर्वप्रयत्नेन ब्राह्मणो वा विशेषतः ॥ आधायाग्निं विशुद्धात्मा यजेत परमेश्वरम् " । इत्यादिना । प्रजापतिनाऽपि- "सर्वसंस्थाधिकारः स्यादाहितामेधने सति । आदध्यानिर्धनोऽप्यनीन्नित्यं पापभयाद्विजः ॥ अतः सिद्धं पापभयाविष्टैः श्रेयोर्थिभिः पूर्वोक्ता यज्ञा इतराणि प कर्माण्यवश्यमनुष्ठानकर्मतां नेयानीति । अथ कथमुच्यते सर्वा अपि संस्थाः पापभीरुभिः श्रेयोर्थिभिरनुष्टातव्या इति, पाकयज्ञसंस्थादीनां हिंसादिदोषराहित्यात्सात्त्विककर्मत्वेन पापासंपृक्तश्रेयोभिलाषिपुरुषै- स्नुष्ठानयोग्यत्वेऽपि पशुहिंसादिदोषदूषितानामितरेषां कर्मणां पापज- नकानुष्ठानकानां तादृशैः पुरुषैरनुष्ठातुमयोग्यत्वात् , न हि ते यहाः सात्त्विकाः किं तु श्येनयागादिवत्तामसाः, अतस्त आमिषाभिलाषिणा- मेवानुष्ठान या न तु सत्त्वप्रकृतीनामपि । न हि परमास्तिकाः सात्त्विकाः संध्यावन्दनादाविव श्येनयागादी प्रवर्तन्ते यत्कारणं तत्र शत्रुाहंसादि- दोषकलुषितत्वं तद्वदेवाग्निष्टोमादीनामपि पशुहिंसादिदोषदुष्टत्वात्तत्रापि सात्त्विकानां प्रवृत्तिरनुचिता हिंसायाः पापजनकत्वाख्यं दुष्टत्वं न हिंस्यात्सर्वभूतानीत्यादिनिपेधशास्त्रतोऽवगम्यते । अत एव गीताशा- खेऽष्टादशाध्याये- ८ पचालम्भमीमांसा। -- 'सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् इत्यनेन भगवता विहितकर्मणां हिंसादिदोषवत्त्वमभ्युपगम्यैवार्जुन मति परित्यागाभावश्वोदितः । अत एव प्रायश्चित्ताध्याये हेमाद्रौ- 'अजं बस्तं द्विजो हन्यात्कारणेन विना नृप । नरकं चानुभूयाऽऽशु ततः सूनुर्भवेत्कलौ । ब्राह्मणो निर्निमित्तेन बस्ताजी निहनेद्यदि । नरकं कालचक्रं तु ह्यनुभूय महत्तरम् । पुनः क्ष्मामुपगम्याऽऽशु सूनुर्भवति पूर्वजः" ॥ इति कथितम् । अनयोर्वधे प्रायश्चित्तं तत्रैव निरवर्णि- "तदोषपरिहारार्थ प्राजापत्यद्वयं चरेत् । विमः सङ्गाद्धि तं गत्वानिमित्तैर्यदि हिंसयेत् । माजापत्यद्वयं कुर्यात्तथा बस्तवधे नृप"। इति । अत्र हि अजं बस्तमिति विशिष्योपादानसामाद्दिन इति कर्तृ- विशेपोपादानसामाद्याग एव स्वतो द्विजकर्तृकहिंसायाः प्रसक्ति- संभवात्मायशो यागेऽजवस्तयोरेव द्रव्यत्वेन चोदनाथागीयहिंसाया एव दोपजनकत्वं प्रतीयते । अन्यथा नरो हन्यायदि पशुमित्येव प्रब्रू- यात् । किं च भगवतेश्वरकृष्णेन “दृष्टवदानुश्रविकः स ह्यविशुद्धिक्षयाति- शययुक्तः । तद्विपरीतः श्रेयान् " इत्यनेनेदमेव प्रत्यपादि । तथा हि रसायनकामिनीनीतिशास्त्राभ्यासमन्त्राथुपयोगेऽपि तस्य तस्य दुःखस्य निवृत्तेरदर्शनादनैकान्तिकत्वं निवृत्तस्यापि पुनरुत्पत्तिदर्शनादनात्यन्ति- कत्वं तद्वदेवाऽऽनुश्रविकस्य कर्मणः। तत्र च प्रतिज्ञायां हेतुमाह-स हीति। ज्योतिष्टोमादिरानुथविकः पशुहिंसादिदोषकवलितो भावकार्यत्वाद- नित्यः परस्परं तरतमभावसंपन्नश्च । नहि ज्योतिष्टोमजन्यस्वर्गो दर्श- पूर्णमासजन्यस्वर्गश्चोत्कर्षनिकर्षानापनो भवितुमर्हतीति । एवं च ज्योति- टोमादिकर्मकलापस्य हिंसादोषरूपाविशुद्धियुक्तत्वहेतुना दुःखानि- वृत्तेः साधनाज्ज्योतिष्टोमाद्यपि कर्म हिंसादिना दुष्टमितीश्वरकृष्णोऽभि- प्रति । भगवान्पञ्चशिखाचार्योऽपीसमेवार्थमनुमन्यते । तेन हि " स्वल्प: संकरः सपरिहारः सप्रत्यवमर्षः" इत्यभाणि । तस्याप्ययमर्थ:-ज्योति- टोमादिजन्यधर्मस्य पशुहिंसाजन्याधर्मेणाल्पः संबन्धः पुण्यापेक्षया पश्चालम्ममीमांसा . पापस्याल्पत्वात्संबन्धे स्वल्पत्वमुपचरितम्, अल्पप्रायश्चित्तपरिहार्यः प्रत्य- वायो विद्यत इत्यर्थः । स्वल्पत्वमेवोपपादयति-सपरिहार इति । अल्पेन पायश्चित्तेन परिहर्तुं शक्य इत्यर्थः । यद्यालस्यादिना प्रायश्चित्तं नाऽऽ- चर्यते तदा प्रधानकर्मविपाककालीनपचनयोग्यं पापं तदानीं सहनयोग्य भवतीति । पतञ्जलिरपि-“कर्माशुक्लाकृष्णं योगिनस्त्रिविधमितरेषाम् " इत्यनेन सूत्रेण सोमयागादिकर्मणः शुक्लकृष्णभावमभिप्रेतवान् । वाम- नससाध्यं मुखैकफलकं शुक्लं कर्म स्वाध्यायतपआदि दुःखैकफलकं कर्म कृष्णं निषिद्धं सुरापानादि सुखदुःखमिश्रफलकं सोमयागादीति तदीय- रामानन्दवृत्तायुक्तत्वाच्च । योगभाष्ये भगवता व्यासेनापि शुक्लकृष्णा बहिःसाधनसाध्या तत्र परपीडानुग्रहद्वारेण कर्माशयपचय इत्येवं यागस्याविशुद्धियुक्तत्वमभ्यधायि । सांख्यभाष्यकर्तृविज्ञानभिक्षुणाऽप्य- यमेव पक्षोऽङ्गीकृतः । अत एव कर्मणां हिंसादिदोषरूषितत्वान्मुण्डका- घुपनिषत्सु ‘प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म' इत्यादिना निन्दा श्रूयते । किंच गीताशास्त्रे तृतीयेऽध्याये- 'ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन । तकि कर्मणि घोरे मां नियोजयसि केशव' ॥ इत्यर्जुनेन कर्मणो हिंसादिदोषदुष्टत्वादेव घोरत्वरूपं विशेषणं दत्तम् । भाष्यकारेणापि कर्मणि घोरे हिंसालक्षण इति घोरशब्दार्थो व्याख्यातः । मधुसूदनसरस्वत्या कर्मणि घोरे हिंसाधनेकायासबहुल इति तच्छब्दो व्यवियत । अत एव ' अहिंसा परमो धर्मः इति स्मर्यते । तत्र परमत्वरूपविशेषणाद्धिसादोषयुक्तानामधर्मत्व. समानाधिकरणधर्मत्वं सूच्यते । एक्मनेकश्रुतिरमृतिसमालोचने ज्योतिष्टोमादिकर्मणां हिंसादोषदुष्टत्वात्कथं सात्त्विकैः श्रेयोथिभिः सर्वा अपि संस्था अनुष्ठातव्या इत्ति प्रतिज्ञातुं शक्यत इति चेदत्र साधु समादध्मः । हिंसादियुक्ता अपि यज्ञाः केवलं निर्दोषा इत्येवाभ्युप- गन्तव्यम् । तत्र हिंसाया अग्नीषोमीयं पशुमालभेत, वायव्यं श्वेतमा- लभेतेत्यादिना प्रमाणभूतेन शास्त्रेण विशिष्य विहितत्वाद्विधिस्पृष्टे न निषेधावकाश इति न्यायस्य जागरूकत्वात्, अत्र हिंसायुक्त- कर्मणो दुष्टत्ववादी देवानांमियः प्रष्टव्यः-कथमवगतं भवता हिंसायाः पापजनकत्वं मा हिंस्यात्सर्वभूतानीति निषेधशास्त्रेणावबुद्धमिति चेत्- हन्त यथाऽनेन शास्त्रेण हिंसाया अनिष्टसाधनत्वं प्रतीयते तथैव सत्स- १० पश्वालम्भमीमांसा। जातीयेन यागीयहिंसाविधायकशास्त्रेण दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेत्यादिशास्त्रैः साकमवैरूप्यसिद्धयर्थं स्वविधेयेऽनिष्टसाधनत्वास- मानाधिकरणेष्टसाधनत्वं कुतो नाभ्युपगम्यते । ननु दर्शपूर्णमासादि- कर्मणां सामान्यतो निषिद्धत्वाभावात्केवलमिष्टसाधनत्वमभ्युपगम्यते, प्रकृते सामान्यतो निषिद्धत्वादनिष्टसाधनत्वं विहितत्वाच्च ऋतूपकाररूपे- टसाधनत्वं चाभ्युपगम्यत इति चेन्न । प्रकृते निषेधशास्त्रस्य विहितहिंसाति- रिक्तरागप्रयुक्तहिंसामादाय चारितार्थ्यसंभवे विशेषशास्त्रविहितहिंसाया- मितरविधिविधेयसंदृश्यमानानिष्टजनकत्वासामानाधिकरण्यविशिष्टेष्टसा- धनत्वबाधापादकानिष्टसाधनत्ववोधनानौचित्यात् । किंच सामान्य- विशेषस्थले सति विरोध उत्सर्गापवादभाव एवाऽऽश्रयणीयः । यदा- हवनीये जुहोति, पदे जुहोतीत्यादि स्थले तथा दृष्टत्वात । अन्यथा लोकेऽपि बहुविप्लवापत्तिः स्यात् । न ह्युपःकाले न शयीतेति सामा- न्यतः शयननिषेधकवाक्येन रुग्णस्तूपणी सदा शयीतेति वाक्यविहित- रुग्णकर्तृकशयनस्यापि निषेध्यत्वमभ्युपगम्यते । अत्र यद्यद्वक्तव्यं तत्स- वमुपरिष्टावक्ष्यामः । यत्तु श्येनादिवदित्युक्तं तदतीवासंगतम् । तत्स्थले शत्रुवधस्य फलत्वनाभ्युपगम्यमानत्वात्फलस्य च विधेयत्वासंभवाविधि- स्पृष्टे न निषेधावकाश इति न्यायाप्रसरात् । अत एव यस्मिन्त्रीतिरतस्य लिप्सा, इत्यादिसूत्रन्य वर्णकान्तरेऽल्पत्वाद्वा नानेन लक्षणकारणमि- त्यादिना ग्रन्थेन खण्डदेवामः फलस्यापि धात्वर्थादिवद्भावनाविशेष- णत्वाविशेपाद्विधेयत्वमिति पूर्वपक्षयित्वा प्रथमतः सकलकारकशिष्ट- भावनाविधानेऽपि अनन्तरं विशेषणविधिकल्पनमन्तरा तस्यापर्यवसा- नात्तद्विपय कविशेषणविष्यकल्पनात्तन्य न विधेयत्वामिनि सिद्धान्त- यित्वा पूर्वोत्तरपक्षफलकथनावसरे पूर्वपक्षे श्येनफलीभूतहिमारूपाभि- चारस्य विहितन्यान्न हिस्यादिति निषेधाविषयत्वं सिद्धान्ते तत्य राग- प्राप्तत्वानिधिविषयत्वमिति प्रत्यपादि । एवं च हिंसाया विहितत्वे निषेधास्पृष्टत्वमविहितत्वे तत्त्वमित्येव खण्डदेवमिश्राशय उन्नीयते । न च हिंसापदस्य मरणानुकलव्यापाग्वाचिन्वार थेनस्यापि नत्वात्तस्य विहितत्वेऽपि शिष्टानां नत्र निःशङ्क प्रत्त्यविपयत्वेन यथाऽनिष्टसाध- नत्वमुपेयते तथा यागीयहिंसाया अपि विहितत्वेऽपि अनिष्टसाधनताs- भ्युपेयनामिति वाच्यम् । यतः साक्षान्मरणानुकूलव्यापारस्यैव हिमाशब्दार्थन्वं प्रकृते श्येनस्य-अभिचरन्यनेनेतिवाक्यघटकवजि- पश्चालम्भमीमांसा । ११ धात्वर्थभूतस्य-अभिचरनिति शतृपत्ययान्तशब्देन हिंसारूपाभिचार- फलकत्वावसायात्माक्षान्मरणानुकूलत्वाभावान हिंसात्वं न ह्यत्राभि- चाररूपफलस्य वैरिमरणरूपत्वाभ्युपगमाच्छ्येनस्य साक्षात्तदनुकूलव्या- पारत्वेन हिंसात्वमव्याहतमिति संभवति । तथा सति अभिचरन्य- जेतेत्यत्र प्रतीयमानमभिचारस्य यच्छयेनसमानकर्तृकन्वं तस्यासंग- त्यापत्तेः । अतस्तत्र सामानाधिकरण्यानुसारेणाभिचारस्य मरणानुकूल- विषदानादिव्यापाररूपत्वाभ्युपगमाच्थेनस्य हिंसात्वं दुरुपपादमेव । न चात्र भ्रमितव्यं श्येनत्य हिंसात्वाभावेऽपि हिंसानुकूलव्यापाररू- पत्वाव्याघातात्तस्यापि निपिद्धत्वेन श्येनेनाभिचरनिति विहितत्वेन च यथा-इष्टानिष्टसाधनत्वं तथा यागीयहिंसाया अपि संभवतीति । यतो नहि तत्र श्येनस्यानिष्टसाधनत्वमभ्युपेयते किंतु केवलमिष्टसाधन- त्वमेव श्येनकर्तरि परम्परयोत्पद्यमानस्याभिचारस्यैव तत्र पापजनकत्वं नहि तदपि विधेयम् । अतः परम्परयाभिचारोत्पत्तिभियैव शिष्टानां तत्राप्रवृत्तिः । एवं च प्रकृतेऽपि हिंसाया विहितत्वात्तस्य केवलमिष्टसा- धनत्वमेवाभ्युपगन्तव्यम् । किंच गीताशास्त्रेऽपि अशोच्यानितिश्लोकस्य भाष्ये भगवत्पादः हिंसादियुक्तत्वाद्वैदिकं कर्माधर्मायेतीयमप्या- शङ्का न कार्या कथं क्षात्रं कर्म युद्धलक्षणं गुरुभ्रातृपुत्रादिहिंसाल- क्षणमत्यन्तऋग्तरमपि स्वधर्म इति ज्ञात्वा नाधर्माय तदकरणे च ' ततः स्वधर्म कीर्ति च हित्वा पापमवाप्स्यसि'इति ब्रुवता यावज्जीवादिश्रुति- चोदितानां पश्चादिहिंसालक्षणानां च कर्मणां प्रागेव नाधर्मत्वमिति सुनिश्चितमुक्तं भवति" इति वणितम्--- तथा- नियतस्य तु संन्यासः कर्मणो नोपपद्यते । मोहात्तस्य परित्यागरतामसः परिकीर्तितः ॥ इति श्लोकव्याख्यानावसरे मधुसूदनसरस्वतीभिः-ननु दोष- वत्त्वं काम्यस्येव नित्यस्यापि दर्शपूर्णमासज्योतिष्टोमादेव्रीहिपश्चादि- हिंसामिश्रितत्वेन सांख्यैरभिहितं न च त्रीहीनवहन्ति अग्नीषोमीयं पशुमालभेतेत्यादिविशेषविधिगोचरत्वात्कृत्वङ्गहिंसाया न हिंस्यात्सर्व- भूतानीति सामान्यनिषेधरय तदितरपरत्वमिति सांप्रतम् । भिन्नविष- यत्वेन विधिनिषेधयोरबाधेनैव समावेशसंभवात् । निषेधेन हि पुरु- पस्यानर्थहेतुहिंसेत्यभिहितं न त्वक्रत्वर्था सेति, विधिना क्रत्वर्था सेत्यभिहितं न तु अनर्थहेतुर्नेति । तथा च ऋतूपकारकत्वपुरुषानर्थहे- -- १२ पचालम्भमीमांसा। तुत्वयोरेकत्र संभवात्कृत्वाऽपि हिंसा निषिद्धवति हिंसायुक्तं दर्शपूर्ण- मासज्योतिष्टोमादि सर्व दुष्टमेव । विहितस्यापि निषिद्धत्वं निषिद्धस्यापि विहितत्वं श्येनादिवदुपपन्नमेव । अत एव महाभारते- जपस्तु सर्वधर्मेभ्यः परमो धर्म उच्यते । अहिंसया हि भूतानां जपयज्ञः प्रवर्तते ॥ इत्यादिना पूर्वपक्षयित्वा ब्रूमः-न ऋत्वर्थहिंसाऽनर्थहेतुः । विधि- स्पृष्टे निषेधानवकाशादित्यादिग्रन्थेन सिद्धान्तितम् । सिद्धान्तग्रन्थस्याय- मभिप्राय:-विधिशास्त्रं स्वविषये जनानां प्रवृत्तिसिद्धयर्थ विधेये पदार्थे बलवदिष्टसाधनत्वं बोधयति बलवदिष्टसाधनत्वं च विधेयस्या- नर्यहेतुत्वेऽनुपपन्न सदनर्थहेतुभावाभावं चाऽऽक्षिपति । अतो विहितपदायें निषेधवाक्यज्ञायमानानर्थहेतुता न युज्यते । यत इष्टे बलवत्त्वस्येष्टोपा- यानुष्ठानप्रयुक्तसकलदुःखावधिकाधिक्यरूपत्वं निषेधशास्त्रबोधितानिष्ट- गतबलवत्त्वस्य चेष्टोपायानुष्ठानप्रयुक्तसकलविषेष्टावाधिकाधिक्यरूपता चोपेयते । नहि तत्र केवलेष्टसाधनत्वं विधिवाक्येन बोध्यते केवला- निष्टसाधनत्वं निषेधवाक्येन बोध्यत इति सांप्रतम् । तथा सति विष- संपृक्तानभोजनेऽपि प्रवृत्त्यापत्तेः, धूमसहनादिलेशजनकयागानिवृत्त्या- पत्तेश्च । इतिकर्तव्यताविधयोऽपि न साक्षात्कत्वर्थत्वं बोधयन्ति येन विरोधाभावः शङ्कन्थेत किंतु बलवादिष्टसाधनत्वमेव । प्रवर्तनाविषयी- भूतपुरुपमवृनेः पुरुषार्थकर्मकत्वस्वाभाव्यात्कचित्तोरपि पुरुषार्थसा- धनत्वेन पुरुषार्थभृयमुपगतम्य तद्विपयतेत्यन्योऽयं विपयः। परंतु बलव- दिच्छोपाधानसमये जायमाना पुरुषप्रवृत्तिभाव्यस्य नार्थहेतुतामाक्षि- पति न वाऽनर्थहेतुतां प्रतिक्षिपति । किं तु यथाप्राप्तमेवावलम्बते । वलवदिच्छाविषये स्वर्गादौ स्वत एव प्रवृत्तिसंभवात्तत्र विध्यपेक्षामा- वात् । अत एव श्येनदृष्टान्तवैषम्यम् । तत्रापि परम्परया श्येनकनि- यस्याभिचाररूपफलस्य बलवदिच्छाविषयत्वेन विषिजन्यप्रवृत्तिविष- यत्वाभावात् । श्येनकर्तुरभिचारप्रयुक्तानयहेतुत्वसंभवात्तत्स्थले श्येन- यागस्य विधिजन्यमत्तिविषयत्वेनानहेतुत्वानभ्युपगमात् । एवं च हिंसानिषेधसामान्यशास्त्रं विशेषविधिबाधितं सद्रागद्वेषादिमूलकाक्रत्वर्थ- हिंसां विषयी करोतीत्येवाभ्युपगन्तव्यम् । विधिस्पृष्टस्यापि निषेधविष- यत्वेऽतिरात्रग्रहणस्यापि नातिरात्रे पोडशिनं गृह्णातीत्यनेन निषिद्ध- त्वादनहेतुत्वापत्तिः । अयं तु भट्टस्याभिप्रायः । प्रभाकरस्तु श्येन- पश्वालम्भमीमांसा । १६ ज्योतिष्टोमादियागहिंसयोरन्यथावैषम्यमुपपादयामास । साक्षात्पुरुषा- र्थसाधने नियोगेन न प्रवृत्तिः किं तु रागत एव । एवं च श्येनयागस्यति- कर्तव्यतात्वाभावात्तस्य रागमयुक्तमवृत्तिविषयत्वान्मरणप्रयोजनकच्या- पारत्वेनाऽऽपतितमनर्थहेतुत्वं न शक्यपतिक्षेपम् । यागीयहिंसायाः सर्व- बेतिकर्तव्यतात्वात्तत्र प्रहत्तेधत्वाद्विधिना हिंसायामनर्थहेतुता निवर्यंत इति श्येनयागीयहिंसयोवैषम्यमिति यथा तथा वा भवतु मतद्वयेऽपि यागीयाहिंसाया अनिष्टसाधनत्वं नास्तीति सिद्धम् । मतद्वय इयान्विशेष:- भट्टमते श्येनस्य केवलधर्मत्वाचोदनालक्षणोऽर्थो धर्म इत्यत्रार्थपदव्या- वर्त्य कलञ्जभक्षणादिकमेव, भाभाकरमते तस्याधर्मत्वात्सोऽपि तेन व्यावर्त्य इत्यलमधिकेन । तार्किकैरपि कृतिसाध्यत्वबलवदनिष्टाननुब- न्धित्वेष्टसाधनत्वानां त्रयाणां विध्यर्थत्वं सर्वत्राभ्युपगम्य ऋत्वर्थहिं- सायामपि विशिष्य निषेधाभावात्मायश्चित्तानुपदेशाच्च त्रयाणामपि भान- मावश्यकमित्युच्यते । अत एव व्युत्पत्तिवादान्ते गदाधरभट्टाचार्यैः- यत्तु दीक्षाङ्गपशुघातस्य नरकासाधनतया मा हिंस्यादित्यत्रावैधाहसैव विवक्षितोत श्येनस्य नरकासाधनत्वोपपादनं तदपि न, तावतापि अभि- चारविधया तथात्वस्य दुर्वारत्वादिति लिखितम् । तत्र यत्तुकारमते सिद्धा- न्तमते च यागीयहिंसाया अनिष्टासाधनत्वेन मा हिंस्यादित्यस्य विहित- हिंसातिरिक्तहिंसापरत्वमभिमतमेव परंतु श्येनस्य यत्तुकारमते नरकासा- धनत्वं संमतं सिद्धान्तेऽभिचारत्वेन नरकसाधनत्वं तच मीमांसकानामपि संमतमेव । औपनि पदानामपि भाट्टदर्शनमेव व्यवहारार्थमुपयोगि । अत एव हिंसादिदोषदुष्टत्वेन कर्मपरित्यागकथनस्थले भगवता 'मोहात्तस्य परि- त्यागस्तामसः परिकीर्तितः' इत्यत्र कर्मपरित्यागहेतुत्वेन मोहो वर्णितः। तत्रत्यमोह पदं मधुसुदनसरस्वतीभिरित्थं व्यार यायि । तथा च सांख्यानां विहिते निषिद्धन्वज्ञानमनईहेतावनथहेतुत्वज्ञानं धर्मे चाधर्मत्वज्ञानमनु- ष्ठेये चाननुष्ठेयत्वज्ञानं विपर्यासरूपो मोह इति । एवं चैतादृशज्ञानप्रयो- ज्यकर्मपरित्यागस्य तामसत्वं भगवतः कृष्णस्याभिप्रेतमिति सिद्धम्। यदप्युक्तम् 'सहज कमे कौन्तेय सदोष पि न त्यजेत्' इत्यन्तामिष्टोमा- दिकर्मणां दोषवत्त्वमभ्युपगम्यैव त्यागाभावः कीर्तित इति तदप्यपे. शलम् । तत्रापिशब्देन वस्तुतो दोषाभावः सूचित एव स्थूलघुद्धिमनु- मृत्य भगवता तथाऽभ्युपगम्य कथितत्वात् । अयमभिप्रायो ब्रह्मानन्द- गिरौ व्यक्तः। यदवादि प्रायश्चित्ताध्याये हेमाद्रौ- - ४ पश्वालम्भमीमांसा। अजं बरतं द्विजो हन्याकारणेन विना नृप । नरकं चानुभूयाऽऽशु ततः सूनुर्भवेत्कलौ ॥ इत्यादि । तदतितुच्छम् । तत्रैव श्लोके कारणेन विनत्युक्तत्वात् । अत्र च यागादौ हिंसाविधायकशावमेव कारणत्वेनाभिप्रेतमन्यथा तस्मि- भेव हेमाद्रावेतत्पद्यलेखनोपरि- 'यज्ञार्थ हन्ति चेद्विमो ह्यनन्तं फलमश्नुते ॥ यज्ञार्थ हन्ति यो विप्रो यजं मेषं सुपुण्यधीः । स याति ब्रह्मणः स्थानं पनरावृत्तिदुर्लभम् ।। यागार्थ हन्ति यो विप्रः पशु लोकपरायणः । स याति ब्रह्मसदनं ब्रह्मणा सह मुच्यते ॥ बस्तं वाऽपि हनेद्यस्तु स यातीन्द्रपदं ध्रुवम् । यागाहिंसनं प्रोक्तं तयांब्रह्माविमृष्टयोः ॥ इत्यादीनि लैङ्गगौरीकाण्डकौर्मवचनानि व्याहतप्रामाण्यकानि भवेयुः । एषु पद्येषु यागीयहिंसाया निर्दष्टत्वस्य स्फुटं प्रतीयमानत्वात् । एवं च- विप्रः सङ्गाद्रिनं हित्वाऽनिमित्तयदि हिंसयेत् । प्राजापत्यद्वयं कुर्यात्तथा बस्तवधे नृप । इत्यादिप्रायश्चित्तवचनं विहितहिंसातिरिक्तहिंसाविषयकमेव पूर्वलि- खितनिरवकाशवचनबलादत्राापे सङ्गादनिमित्तैरिति कथितत्वाच । यदत्र हि अजं वस्तमिति विशिप्य विप्र इति च विशिष्योपादान- सामथ्यात्, इत्यादि कथितं तदपि अस्माकमेव साधकम् । यतो यागे द्विजैः प्रायशोऽजवस्तयोहिंसनेऽपि शिष्टगर्हितत्वादर्शनाट्यागादाहिरपि तन्कर्तृकतद्धिसाया दापविधुरत्वं स्यादिति मन्दमतीनामाशङ्का संजा- येत तन्निवारणार्थ विशिप्य तथाऽकथि । यदवाचि कापिलपातञ्जल- मतानुयायिभिरीश्वरकृष्णप्रभृतिभिः-यागीयहिंसाया अल्पदोषदुष्टत्वं वर्णितमिति, तत्तु अतीवासमीचीनम् । तैश्च केवलं स्वोत्मोक्षितमोक्षरूप- फलोपायत्वेनाभिमनस्य प्रकृतिपुरुषविवेचनस्य सिद्धये शास्त्राणां प्रणी- तत्वेन मुण्डकायुपनिषत्सु विधीयमानस्य ब्रह्मज्ञानस्य प्रशंसासिद्धये प्लवा ह्येने अढा यज्ञ रूपा इत्यादिना कर्मणां निन्दितत्वेऽपि न हि निन्दा निन्दितुं प्रवर्तनऽपि तु विधयं स्नातुमितिन्यायन तत्र तात्पर्याभाववत्ता- पश्चालम्भमीमांसा। १५ दशशास्त्रपरमतात्पर्यविषयीभूतप्रकृतिपुरुषविवेचनात्मकोपायस्य प्राश- स्त्यसिद्धये तदितरेषां निन्दाकथनावसरे कर्मणामल्पदोषदुष्टत्वेन निन्दितत्वात्तत्र तात्पर्याभावस्योन्यत्वात् । यदि च कपिलपतञ्जलि- प्रभृतीनां हिंसादिदोषदुष्टत्वेन यागानां वस्तुतोऽनिष्टसाधनत्वमेवाभिमत- मिति मन्यते तदाऽपि पूर्वोक्तयुक्त्याऽपौरुषेयनिर्दोषहिंसाविधायकश्रुती- नामनर्थहेतुत्वाभावबोधकत्वावश्यंभावात्तादृशश्रुतितन्मूलकबहुरमातीवि- रोधादप्रतिष्ठादोषदूषितोत्प्रेक्षामात्रमूलककापिलपातञ्जलादिस्मृतीनां श्रु- तितात्पर्यानवबोधमात्रनिबन्धनानां श्रुतिविरुद्धद्वैतांश इवैतदंशेऽपि अपा- माण्यमेवावश्यमभ्युपेयम् । अत एवाहढा ह्येत इत्यादिना कर्मनिन्दोक्ति- रपि संगच्छत इत्युक्तिः परास्ता । तत्रापि ज्ञानप्रशंसार्थमेव कर्मनिन्दा- या उक्तत्वेन तत्र श्रुतेस्तात्पर्याभावात् । यदपि गीताशास्त्रे तृतीयाध्याये- 'ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन । तरिक कमणि घोरे मां नियोजयसि केशव '॥ इत्यरिमअश्लोकेऽर्जुनेन वस्तुतो हिंसादिदोषदुष्टत्वाभिप्रायेण धोर- त्वविशेपणं दत्तमिति व्याहृतं तदपि अज्ञानमूलकमेव । यतस्तत्रार्जुनेन वस्तुतो हिंसादिदोषदुष्टत्वेन न घोरत्वविशेषणमदायि अपि तु शास्त्रब- हिर्भूतानां प्राकृतानामापातबुद्धिमनुसृत्य तथा कथितम् । तादृशविशेषणं च तदानी देयमेव यतोऽर्जुनेन स्वस्य केवलकर्मयोग प्रवर्तक कृष्णं प्रति उपालम्भस्य कश्यमानत्वात् । एतद वसरे च ज्ञानयोगापेक्षया येन येन प्रकारेण कर्मयोगस्य निकों भवति तत्सर्व वक्तव्यम् । तस्मात्सर्वथा यागीहिंसानिपतामतस्यैवापीरूपेयदोपशानारकन्दितश्रुतिस्मृति न्यायसहस्रसिद्धत्वाद्यागीयहिंसादुष्टत्ववादो दृढतरमूलावलम्वाभावाद- व्यवस्थितोत्भेक्षामूलकत्वाच्च सिकतालपवद्विशीयमाणत्वेन श्रेयोथिभिः सर्वथाऽनादरणीय इति सिद्धम् । अधुनातनाः केचन वावदूका दुर्वास- नावासितान्तःकरणाः पूर्वोपपादितप्रमाणान्यनालोचयन्तो दूरीकृतानादि- श्रुतिस्मृतिसिद्धवर्णाश्रममर्यादा आब्राह्मणमाम्लेच्छादाहारादिव्यवहारेषु समतां भावयन्त आस्तिकमूढानन्यांश्च केवलशास्त्राधीतिन इहैव येन के- नापि प्रकारेण प्रतिष्ठाकामाञ्जनान्वहुधाऽऽवर्जयन्तोऽनादिनिपश्रुति- तदनुमतस्मृतिविरुद्धापतिष्ठिततर्कप्रकल्पितकापिलपातञ्जलादिस्मृतिमूल- कान्चैयाकरणसिद्धान्तलघुमञ्जूषादिग्रन्यारतरतैर्निखिलागमेषु निष्णा- तमात्मानं मन्यमानः प्रणीतान्वेदवत्प्रमाणयन्त इदानी हिंसायुक्ता यागा पश्चालम्भमीमांसा । नानुष्ठातुमर्हाः श्येनादिवत्तामसा हि ते । अतो हिंसादिरहिता सात्त्विकाः पाकयज्ञादयः परं कर्तुं युक्ता इत्यादिकमात्मनि सर्वशास्त्राभिन्नत्वाभिमानेन मुधा जाजल्प्यमाना महापामाणिकपरम्परा- गतां वस्तुतो निःश्रेयसकरीमग्निष्टोमादिधर्मजातानुष्ठिति प्रतिबन्टुं संब. द्धसंनाहा अटाव्यन्ते । तेषां मिथ्याभिमानं समूलकार्ष कषितुं किंचि- दिवात्र लेखनव्यापारेऽधिकृता भवामः । यदलेखि मञ्जूषायां लिङर्थ- विचारावसरे तत्सर्वमाभासयितुमिदानी प्रयत्यते । यत्तु न हिंस्यात्सर्व- भूतानीति निषेधाद्यागीयपश्वालम्भे पापं संभवत्येव । न चाग्नीषोमीयं पशुमालभेतेत्यादिर्यागीयहिंसाविधिनिपेषस्य विहितेतरहिंसापरत्वं बो- धयतीति वाच्यम् । विधिना प्रकरणेन च तस्याऽऽप्तप्रेरणाविषयत्वेनेष्ट- हेतुत्वक्रत्वर्थत्ववोधनेऽपि उक्तरीन्याऽनिष्टा हेतुत्ववोधे मानाभावेन निषे- धस्य हिंसायां पुरुषानिष्टहेतुत्ववोधकत्वेन विरोधाभावात्परकीय- सुन्दरीगमनादौ समावेशदर्शनादिति तत्सामान्यविशेषशास्त्रविशेषा- नभिज्ञता ग्रन्थकर्तुळक्तमावेदयति । यतो यागीयहिंसाविधायकानाम- भीषोमीयं पशुमालभेत, वायव्यं तमालभेत, पशुं संज्ञपयति, पशुं विशास्ति, इत्यादिश्रुतीनां जागरूकत्वेनावस्थितिः । न हिंस्यात्सर्व- भूतानीति सामान्यवाक्यादेतादृशविशेषवाक्यापर्यालोचनदोषप्रयुक्तवै- धावैधहिंसाप्रतियोगिकनिषेधविषयकभ्रमोत्पत्तावपि एतादृशवाक्यपर्या- लोचनानन्तरं वैधहिंसाप्रतियोगिकत्वांश उत्पन्नज्ञानस्य भ्रमत्वनिश्च- यात्तद्वाक्यं केवलमवैधहिंसामतियोगिकनिषेधपरं पर्यवस्यति । एवं च क्रत्वर्थहिंसाया निषेधप्रतियोगित्वेन शास्त्रजन्यप्रमाविषयत्वाभावात्कथं- कारं दुष्टत्वमापद्येत । एवं स्थितेऽपि यदि हठान हिंस्यादित्यत्र सक- लहिंसानां निपेयोऽभ्युपगम्यते तर्हि निर्विषयतया विधिवाक्यमरण्यरु- दितमायमापद्येत हृदयावदानराहिल्यन क्रतोरनित्त्यापत्तिश्च । न च वाच्यमंतोषद्वयमपि नाऽऽपतति विधिना कत्रिष्टसाधनत्वस्य निषेधेन तदनिष्टसाधनत्वस्य बोधयितुं शक्यत्वात् । न चैकत्रेष्टसाधनत्वानिष्ट- साधनत्वे न संभवतः । घृतपाने पुष्ट थारख्येष्टसाधनत्वमेहरोगाख्यानिष्ट- साधनत्वयोः समावेशदर्शनात् । यागादौ च स्वर्गादिरूपेष्टसाधनत्वस्य धूमसहनादिरूपतात्कालिकानिष्टसाधनत्वस्य च संकरस्य सर्वसंपतिपत्र- त्वात् । निषेधशास्त्राणां हि- - पश्वालम्भमीमांसा। १७ प्रवृत्तिर्वा निवृत्तिा नित्येन कृतकेन वा । पुंसां येनोपदिश्येत तच्छास्त्रमभिधीयते ।। इत्यभियुक्तोक्त्या विधीनां प्रवर्तकत्वेनेव निवर्तकत्वेनैव शास्त्रत्वस्य समर्थनीयत्वात् । प्रकृते निवर्तकत्वासंभवे शास्त्रत्वाभावमसङ्गात् । न च शङ्कनीयं पशुहिंसा यागनिर्दृत्त्यर्थ कार्या, आहोस्वित्मत्यवायपरि- हारार्थ परिहर्तव्येति विकल्पापादकत्वेन पाक्षिकनिवर्तकत्वं संभवतीति । यत एवंचेनिषेधशास्त्रं यागीयहिंसांशे पक्षे निपेधकमवैधहिंसांशे नित्यं निषेधकमिति बैरूप्यदोषग्रस्तं वैधहिंसाननुष्ठानपक्षे ऋत्वनित्तिदोषप- राहतं च भवेत् । किं च मधुविषसंपृक्तानसाधारण्येन केवलेष्टसाधन- स्वल्य प्रवृत्त्यापयिकत्वाभावादिष्टोपायानुष्ठानमयुक्तसर्वावधानिष्टावधि- काधिक्यरूपवलवत्त्वविशिष्टेष्टसाधनत्वस्यैव प्रवृत्तिप्रयोजकत्वात्केवला- निष्टसाधनत्वस्य तात्कालिकलेशकरम्बितयागादिसाधारण्यापत्त्या निव- त्तिप्रयोजकत्वासंभवेनेष्टोपायानुष्ठानसाध्योद्देश्यभूतेष्टावधिकाधिक्यरूपब- लवत्त्वविशिष्टानिष्टसाधनत्वस्यैव निवर्तकन्वावश्यंभावात् । यागीय- हिंसाया निषेधविषयत्वाभ्युपगम एकस्मिन्हिसापदार्थ एतादृश- योरिष्टानिष्टसाधनत्वयोः समावेशासंभवन प्रवर्तकनिवर्तकयोर्विधिनि- पेधशास्त्रयोः क्रत्वर्थहिंसायां तादृशेष्टानिष्टसाधनत्ववोधकता व्याह- न्येतति यागीयहिंसाया निषेधाविषयत्वमवश्यमभ्युपगन्तव्यमिति कुत- स्तस्याः पापजनकत्वम् । न च निषेधशास्त्राणां कण्डन्यादिपञ्चसू- नानान्तरीयकमाणिहिंसांशे निवर्तकत्वासंभवात्तत्र तादृशमाणिवधनिर्मि- तकपञ्चमहायज्ञात्मकप्रायश्चित्तेषु प्रवर्तकत्वेनैव तशे शास्त्रत्वस्य समर्थ- नीयत्वात्तपां निवर्तकत्वेनैव शास्त्वमिति नियमस्य व्यभिचरितत्वा- द्यागीयहिंसांशेऽपि तद्वत्तन्निमित्तकप्रायश्चित्ते प्रवर्तकत्वेनैव शास्वत्वस्य समर्थयितुं शक्यत्वाविधिनिषेधयोः प्रवर्तकत्वनिवर्तकत्वव्याघाताभा- वाकत्वनित्तिदोपप्रसङ्गस्याप्यमावादबलवत्वस्यकविधत्स्य वक्तुमश- क्यत्वाद मीणतापादकाधिकान्नभोजनगतप्रवृत्तियोजकरलवदिष्टसाधन- त्वविरोधानापादक स्वपरिहारोपायपत्त्यापयिकवलवदनिष्टसाधनत्वव- प्रकृतेऽपि स्वपरिहारोपायप्रवृत्तिपयोजकबलवदनिष्टसाधनत्वस्याभ्युप- गम्यमानत्वाद्विहितपशुहिंसाया निषेधविपयत्वेऽपि न किंचिद्भाधकमिति वाच्यम् । निषेधशास्त्राणां निवर्तकत्वेन शास्त्रत्वस्योत्सर्गसिद्धत्वादबु- द्धिपूर्विकायाः ( प्रामादिकायाः) पञ्चसूनानान्तरीयकहिंसाया निवर्त- १८ पश्वालम्भमीमांसा। नस्याशक्यत्वात्तदेशे निवर्तकत्वं परित्यज्य तत्परिहारोपायपञ्चमहायज्ञ- प्रवृत्तिप्रयोजकत्वेन शास्त्रत्वन्य समर्थनीयत्वात्पूर्वोक्तव्याघातपरिहारा- संभवादयागीयहिंसाया निषेधाविषयत्वमेवाभ्युपगन्तव्यमिति कुतोऽनि- एननकता । न च निषेधशास्त्राणां बुद्धिपूर्वकानिषिध्यमानानिवर्तक- वोत्सर्गस्यापि बुद्धिपूर्वकशास्त्रनिषिद्धविहितवर्णिवधपरिहारार्थानृतवदने तत्परिहारोपायसारस्वतचर्वात्मकमायश्चित्तप्रवृत्तिप्रयोजकत्वेन शास्त्रत्व- समर्थनवनिषेधशास्त्राणां निषेध्यसमर्पकशब्दसमर्पितयावदर्थबोधकत्व- रूपोत्सर्गत्यागस्य विना कारणं कर्तुमशक्यत्वाद्विहितस्य निषेधवि- षयत्वे न किंचिद्धाधकमिति वाच्यम् । यतः सर्वस्वारक्रत्वङ्गात्मच्या- पादनमरणान्तप्रायचित्तांशयोमतेन पश्चात्तत्परिहारोपायप्रायश्चित्तस्य कर्तुमशक्यत्वात्तत्प्रवृत्तिप्रयोजकत्वेनापि निषेधशास्त्राणां शास्त्रत्वसम- र्थनासंभवान्निवर्तकत्वेन तत्समर्थने तादृशात्मव्यापादनमरणान्तप्रायश्चि- त्तयोः प्रवृत्तयोनिषेधशास्त्राविषयत्वसिद्धयर्थ निषेधशास्त्राणां निपे- ध्यपरशब्दप्रतिपाद्ययावदर्थनिषेधवोधकत्वोत्सर्गपरित्यागस्याऽऽवश्यक- वाद्यागीयहिंसारूपांशान्तरेऽपि तत्त्यागस्यौचित्यादधुना निषेधानां स्वनिपेध्यसर्वांशेऽपि निवर्तकत्वेनैव शास्त्रत्वसंभवरूपलाभाद यागी- यहिंसाया निषेधाविषयत्वेन कुतो दुरितजनकता । न च हिंसानिपेधशा- स्रात्प्रथमतो हिंमासामान्यन्य निषेध्यत्वप्रतीतो पश्चात्सर्वस्वागङ्गात्मव्या- पादनमरणान्तप्रायश्चित्तयोः प्रवर्तकत्वंन निवर्तकत्वेन वा चारितार्थ्यस्य वक्तुमशक्यत्वादगन्या तन्मात्रम्य निपेध्यत्वत्यागेऽपि यागीयहिंसायां स्वपरिहारोपायमायश्चित्तप्रवर्तकत्वेन निषेधशास्त्रस्य चारितार्थ्यसंभ- वेन तदंशस्य निषेधविषयत्वपरित्यागानौचित्यात्तदृष्टान्तसत्त्वमात्रेण तत्परित्यागम्याऽऽग्रयणेष्टिदक्षिणारूपवत्सेऽतिदेशप्राप्तानामन्याहार्यसंव- धिनां धर्माणां मध्ये पतितस्य पाकल्य दक्षिणारूपवत्सनाशप्रस- ङ्गभिया परित्यागावश्यकत्वेन तदृष्टान्तमहिनेतरेपां धर्माणामपि परि- त्यागप्रसङ्गापत्त्या, असंभवात्कन्वर्थहिंसाया अपि निषेधविषयत्वेना- निप्रसाधनन्वमस्त्येवेति वाच्यम् । यतो दृष्टान्तसद्भावमात्रेणातिप्रसङ्गा- पत्त्या निषध्यकोटिबहिर्भावासंभवेऽपि मरणान्तप्रायश्चित्तसर्वस्वारकत्व- ङ्गात्मव्यापादनाहवाभिमुखशत्रुहननोचितदण्डरूपचोरहननादीनां बहूनां हननानामवश्यं निषेध्यकोटितो व्यावर्तनीयानां व्यावर्तनार्थ तत्त- द्वयक्तिभिन्नत्वरूपबहुविशेषणोपादाने लाघवादातव्येन बध्यानुग्रहपर्यव- पश्वालम्भमीमांसा। १९ सायिभिन्नत्वरूपविशेषणेन यागीयहिंसाया अपि व्यावृत्तिसंभवादा- ततायिब्राह्मणहमनगर्भिणीभूतमल्हाहनननान्तरीयकगर्भहननयोनिषेध्य- कोटितो व्यावर्तनार्थमनुपदिष्टवैशेषिकप्रायश्चित्तकत्वविशिष्टविध्यनुज्ञात- त्वरूपस्यानुगतरूपस्य निषेध्यविशेषणत्वेनोपादानेऽपि तेनापि यागीय- हिंसाया निषेध्यकोटितो व्यावृत्तिसंभवात्क्रत्वर्थहिंसाया निषेधा- विषयत्वेन पापजनकत्वम् । तस्माद्यथा यदाहवनीये जुहोतीत्याहवनीयरूपहोमाधिकरणविधिवाक्ये जुहोतिधातोः, अश्वस्य पदे पदे जुहोति आवश्चने जुहोतीत्यादिवाक्यावेदिताधिकर- णान्तरावरुद्धहोमातिरिक्तहोमविषयत्वमभ्युपगम्यते तथैवेहापि विहित- हिंसातिरिक्तहिंसाविषयकत्वं निषेधशास्त्रस्याभ्युपगन्तव्यमित्यलमाति- विस्तरेण । परकीयसुन्दरीदृष्टान्तोऽप्यसंगतः । यागीयहिंसादौ विधिशास्त्रेण पूर्वोक्तरीत्या बलवदिष्टसाधनत्वस्य बोधनाभि- पिद्धत्वेन बलवदनिष्टसाधनत्वस्यापि वक्तव्यत्वादुभयोरपि शास्त्र- त्वादुभयत्रापि वस्तुतो बलवत्त्वस्याभ्युपगन्तव्यत्वादेकत्र भ्रम इति वक्तुमशक्यत्वात्परकीयसुन्दरीगमने च केवलं निपिद्धत्वावस्तुतो बलवदनिष्टसाधनत्वस्यैवाभ्युपगमाविहितत्वाभावेनेष्टांशे बलवत्त्वभ्र- मेणापि उत्कटरागवतः प्रवृत्तेः संभवाद्वस्तुतो बलवत्त्वस्यानपेक्षणा- दुभयोःपम्यात् । यत्तु किंचाऽऽलम्भनमत्र स्पर्शः, अग्निहोत्रप्रकरण- पठिते वत्समालभेतेतिवाक्ये तदर्थकन्वनिर्णयात् । हिंसा तु अङ्गयाग- विशसनप्रकारांपदेशाभ्यामाक्षेपलभ्या । एवं चाऽऽक्षेपलभ्यार्थेन विरो- धेऽपि वेदस्याप्रामाण्यप्रसक्त्यभावेन तत्संकोचे न मानम् । अन्य- तरामामाण्यभीत्या हि संकोचः पापसत्त्वेऽपि तोषसहिष्णोरेव रागव- शीकृतस्य श्येनादाविव ज्योतिष्टोमादावपि प्रवृत्तिरुपपद्यते । एतेन तक- कौण्डिन्यन्यायेनाविरोधेऽपि निषेधस्य विहितेतरहिंसापरत्वं विशेषवि- धिना बोध्यत इत्यपास्तम् । हिंसाविधेरभावात् । न च निषेधस्य पुरु- पार्थत्वेन यदर्थो निषेधस्तदर्थमेव निषेध्यमिति नियमेन पुरुषार्थहिं- साया एव स निषेध इति वाच्यम् । पुरुषार्थस्त्र्युपगमादिनिषेधस्य क्रत्वर्थत्वदर्शनेन त्वदुक्तनियमस्य व्यभिचरितत्वात् । क्रत्वर्थहिंसाया अपि परम्परया पुरुषोपकारकत्वेन पुरुषार्थत्वाचेति तत्तु अनाघ्रातमी- मांसाकुसुमगन्धत्वमविदितवेदवाक्यार्थत्वं चाऽऽत्मनः प्रख्यापयति। तथा हि तत्रभवान्यामन्यः प्रष्टव्यः--अग्नीषोमीयवाक्य आलभतेः केव- २० पश्चालम्भमीमांसा। लस्पर्शार्थकत्वमभ्युपगम्य यागविध्यनङ्गीकारे केन वाक्येन पुनरमी- पोमीययागविधिरतादृशं वाक्यं स्पष्ट वक्तव्यं खलु । किं च हिंसा, अङ्गयागविशमनप्रकारोपदेशाभ्यामाक्षिप्यत इत्युक्तेः कोऽर्थः । अङ्ग- यागेत्यत्राङ्गभूताश्च ते यागाश्चाङ्ग-यागा इत्यर्थः, आहाविदङ्गानां हृद- यादीनां यागा इत्यर्थो वा । पक्षद्वयेऽपि तद्विधायकं वाचयं किम् । किं च विशसनस्य प्रकार इत्यस्य किमभिप्रेयते---न हि क्रमादिरूपः प्रकारी वर्णयितुं शक्यते तादृशपकारस्याविहितत्वात् । यथासौकर्य विशसनस्य कर्तुं योग्यत्वात् । किं च हिंसाऽऽक्षेपलभ्येति वदता देवानांप्रियेण हिंसायाः प्रत्यक्षवाक्यविहितत्वाभावेऽभिप्रेते पशु संज्ञपयति पशुं विशा- स्तीन्यादिप्रत्यक्षसंस्कारविधीनां कोऽर्थोऽभिप्रेयते । किं च श्रुतार्था- पत्त्या प्रमितेनार्थेन विरोधेऽपि वेदस्य नाप्रामाण्यप्रसत्तिरिति वदितु- हिंसा रागप्राप्तसमानेत्यभिप्रेतं वा । तथा सति सर्वत्रार्थापत्तिकल्पि- तवाक्यविहितानां पदार्थानामप्रामाणिकत्वमित्युक्तं स्यात् । एवं सति बहुविप्लवो भवेत् । न हि कश्चिन्योमेन यजेतेन्यादिविधिस्थल आर्थिक- विशेषणविधिप्रमितार्थस्यविदिकत्वमभ्युपैति । किं चाग्नीषोमीयवाक्ये यागविध्यनङ्गीकारे पशुसोमाधिकरणविरोधः । द्रव्यसंयोगाचोदनापशु- सोमयोः प्रकरणे हनर्थको द्रव्यसंयोग इत्यधिकरणे यो दीक्षितो यद- नीपोमीयं पशुमालभेतति प्रकृत्य श्रूयमाणानि हृदयस्याग्रेऽवद्यत्यथ जिह्वाया अथ वक्षम इत्यादिवाक्यान्युदाहृत्य किमनीषोमीयवाक्यं हृदयादिवाक्यविहितयागसमुदायानुवादकमाहोस्विदद्रव्यदेवताविशिष्ट- यागान्तरविधायक हृदयादिवाक्यानि चैतद्वाक्यविहितद्रव्यसंस्कारविधा- यकानि, इति संदिह्य पूर्वाधिकरणे दध्यादिवाक्यानां गुणमात्रविधानेन तृतीयविधिप्रकारसंभवे पश्चमविधिप्रकाराश्रयणल्यान्याय्यत्वात् । अग्नि- होत्रं जुहोतीत्यत्र धालथमात्रविधानसभवादग्निहोत्रवाक्ये होमविधित्वस्य दध्यादिवाक्ये गुणमात्रविधित्वम्य चाङ्गीकारेऽपि प्रकृतेऽग्रीषोमीयवाक्य आद्यविधिमकारस्यासंभवात्पश्चमविधिप्रकारस्यैवाऽऽश्रयणीयत्वादुत्पत्ति- वाक्यविहितपश्ववरुद्धे यागे हृदयादीनां साधनत्वानुपपत्तेहृदयादिवाक्ये हृदयायुद्देशेनावदानसंस्कारविधानासंभवाट्यागविधिसिद्धयर्थमेव हृदया- दिवाक्यैः प्राकृतावदानभिन्नावदानान्तराणां विधानाद विहितानां तेषां पशुप्रभवद्रव्यवृत्त्यवदानवसादृश्येन सांनाय्यावदानप्रकृतिकत्वावसा- यात्मकृनिभृतात्रदानगतयागीयद्रव्यदृनिन्वन्य विकृनिभूनेऽस्मिन्नवदाने पश्चालम्भमीमांसा। २१ ज्ञानसंभवादहृदयादीनां यागसाधनद्रव्यसंस्कारसंस्कृतत्वहेतुना पूतीक- वद्यागसाधनत्वानुमानात्तदन्यथानुपपत्त्या यावदहृदयादियागान्विधाय- तांथाऽऽलभतिना लक्षणयाऽनृयाग्नीषोमीयवाक्येनानीपोमदेवतामात्रवि- धानं, पशुपदं च छागल्य वपाया मेदस इति मन्त्रवर्णादहृदयादीनां छागप्रकृतिकत्वस्य प्राप्तत्वाल्लक्षणया परं यागसाधनद्रव्यवृत्तित्वस्य सांनाय्यावदानानङ्गत्वात्तस्य प्रकृतावदानेऽतिदेशतः प्राप्त्यसंभवेन हृदयादीनां यागसाधनत्वानुमानासंभवादुक्कप्रकारासंभवेऽपि हृदयादि- वाक्यविहितावदानाक्षिप्तस्पर्शाननीषोयीयवाक्यगतालभतिना शक्त्या:- नूध पशुपदेन हृदयादील्लँक्षयित्वा तेषां प्रत्येक देवतासंबन्धस्य करणा- तादृशद्रव्यदेवतासंबधान्यथानुपपत्त्या कल्पितानां तावतां यागाना- मन व वाक्येन विधानं पशुपदं सर्वथाऽनुवाद इति पूर्वपक्षयित्वा पक्ष- द्वयेऽपि पशुपदस्य पशुवावच्छिन्न शक्तस्य हृदयादिषु लक्षणाया आवश्यकत्यानम्याश्चागनिकालिन्यात् । नद्दोएपरिहागथै पञ्चमविधिप्रका- राश्रयणेनापि अग्नीपोमीयवाक्य एव विशिष्टविधिमङ्गीकृत्य हृदयादि- वाक्यश्च हृदयादीनां संस्कारमात्रविधानं यद्यपि हृदयानामुत्पत्तिशिष्ट- पशुद्रध्यावरुद्धे यागे साधन न संभवतीति तदुद्देशेन संस्कारविधानं न संभवतीत्येकं चाद्यं पुरःस्फूर्तिकं भवेत्तथाऽपि विशसनावदानादिवि- धितात्पर्यग्राहकानुरोधेनानीपोमीयवाक्ये पशुद्रव्यस्य हृदयादिप्रकृतित्वे- नैव विधानम् । एवं च हृदयादीनां साक्षाद्धविष्ट्वेन थागकरणत्वसं- भवात्तदु देशेन संस्कारविधिरुपपन्न एव । एवं च पूर्वपक्षे सिद्धान्ते चाश्नीषोमीयवाक्ये यागविधेः सत्त्वात्तदनभ्युपगम्य केवलं वत्समाल- भेतेत्यत्रेव स्पर्शपरत्वाभ्युपगमोऽज्ञानमूलक आग्रहमूलको वा स्यात् । वन्समालभेनेत्यत्र द्रव्यदेवतासंवन्धबोधकतद्धिताभावाद्यागविधानासंभ- वेनाग्निहोत्राङ्गदाहनोपयोगिवत्ससंस्कारकत्वेन स्पर्शस्य विधानं प्रकृते तादृशतद्धितो वर्तत इति यागविधिरिति विषमोऽयं दृष्टान्तः । अग्नीषो- मीयप्रधानवाक्यैकवाक्यतापन्नस्य पशुं संज्ञपयतीत्यादिहिंसाबोधकाङ्ग वाक्यजातस्य सत्त्वाद्धिसाऽऽक्षेपलभ्यैवेति प्रतिज्ञोन्मत्तप्रतिज्ञासमैव । यागीयहिंसायाः श्येनस्य च वैपम्यस्य पूर्व बहुधा प्रदर्शितत्वात्तदृष्टा- न्तालम्बनं चायुक्तम् । एवं च प्रत्यक्षहिंसाविधेनर्जागरूकत्वान्न तक्रकौ- ण्डिन्यन्यायेनाविरोधोपपादनं संभवतीत्युक्तिरपि पराहता। प्रतियोगिनः पुरुषार्थत्वे निषेधण्यापि पुरुषार्थत्वमिति नियमस्य पुरुषार्थपरखागमन- २२ पश्वालम्भमीमांसा। निषेधस्य क्रत्वर्थत्वदर्शनेन व्यभिचारेऽपि प्रतियोगिनः क्रत्वर्थत्वे निषेधस्यापि ऋत्वर्थस्य कापि व्यभिचारादर्शनान्न हिंस्यादित्यत्र निषे- धस्य क्रत्वर्थहिंसाप्रतियोगिकत्वाङ्गीकारेऽस्य वाक्यस्यानारभ्याधीत- त्वेन पुरुषार्थहिंमाया निषेधः पुरुषार्थ इति अवश्यमङ्गीकर्तव्यतयोक्त- नियमबलात्तत्वर्थत्वस्यापि अङ्गीकर्तव्यत्वाद्वाक्यस्य वैरूप्यापत्त्या तत्परिहारार्थ क्रत्वर्थपुरुषार्थयारन्यतरस्य निषधे वाक्यार्थत्वेनावश्य- मङ्गीकर्तव्ये शीघ्रोपस्थितपुरुषार्थहिंसाया एव निषेधः प्रकृतवाक्यार्थः पर्यवस्यति, इत्यस्मदिष्टसिद्धिर्भवत्येव । न च क्रत्वर्थप्रतियोगिकनिषे- धस्य क्रत्वर्थत्वमिति नियमस्यापि क्रत्वर्थब्राह्मणापगूरणादिप्रतियोगि- कपुरुषार्थनिषेधेषु व्यभिचारात् , तस्माद्राह्मणाय नापगुरेत तस्मान्मलव- द्वाससा न संवदेतेत्यादिस्थले निषेध्यकोटौ क्रत्वर्थब्राह्मणापगूरणक्रत्वर्थ- रजस्वलासंवादादीनामनुप्रवेशानङ्गीकारे कदाचि ऋतुनित्यर्थं ब्राह्मणा- पगूरणमलवद्वासःसंवादादिपु स्वाच्छन्दयाप्रसङ्गात्तत्र तस्य तस्यानुप्रवे- शनीयत्वादुक्तनियमव्यभिचारस्याप्यावश्यकत्वादुक्तनियमपरिपालनानु- सारेण न हिंस्यादित्यत्र निषेध्यकोटितः क्रत्वर्थहिंसाया व्यावर्तनस्याना- वश्यकत्वात्सर्वासामपि हिंसानां पुरुषार्थतया निषेधसंभवात्क्रत्वर्थहिंसाया अपि निषेधविषयत्वेन तस्या दुरितजनकत्वमशक्यनिवारणमिति वाच्य- म् । यतः ऋतुनिवृत्त्यर्थमनुष्ठेयत्वेनाऽऽपत द्विविधमस्ति तयोरेकं लोकतः माप्तं विध्यविषयत्वात्क्रताग्नझं केवलं तदुपकारकम् , ऋतूपयोगिद्रव्या- भावविशिष्टस्य पुरुपस्यैव शेषभूतं च । यथा द्रव्यसंपादनार्थमनृतवदन- मलवद्वासःसंवादादि । अपरं तु वैदिक विधिसंस्पृष्टं क्रत्वङ्गभूतं च । यथा यागीयपशुहिंसादि । तत्र पूर्वोक्तानृतवदनमलवद्वासःसंवादादेव- स्तुतः पुरुषशेपभूतत्वात्परुषार्थनिषेधनिषेध्यकोटावनुप्रवेशेऽपि वस्तुतः ऋतुशेपभूतस्य पुरुषार्थनिषेध्यकोटावनुभवेशस्याक्लृप्तत्वात्क्रतुशेषप्रतियो- गिकनिषेधस्य क्रत्वर्थत्वमितिनियमस्याव्याघातानाशनियमपरिपाल- नार्थ न हिंस्यादित्यत्र पुरुषार्थहिंसाया एव निषेधविषयत्वमित्यस्मदि- ष्टसिद्धिर्भवत्येव । अत एव 'अन्याधिष्ठितेषु पूर्ववदभिलापात् ' ( ब्र० सू० ३ । १ । २४ ) इत्यस्मिन्नधिकरणे भामत्यामेवं कथितम्-न चेष्टादः कर्मणः स्थावरशरीरोपभोग्यदुःखफलप्रसवहेतुभावः संभवति तस्य धर्मत्वेन मुरबैकहेतुत्वात् । न च तद्गतायाः पशुहिंसाया न हिंस्या- दितिनिषेधात्कन्वया अपि दुःखफलत्वसंभवः पुरुषार्थाया एव न पश्वालम्भमीमांसा। २३ हिस्यादितिप्रतिषेधात् । तथाहि न हिंस्यादिति निषेध्याधीननिरूपण- तया यदर्थ निषेध्यं तदर्थ एवं निषेधो विज्ञायते, इत्यादि । एवं हि विहिताया अपि हिंसाया दुःखफलत्वं, यदि विधिनिषेधयोरेकविषयत्वं तदेव नास्तीत्याह-पुरुषार्थाया एवति । क्रत्वर्थोः हि प्रतिषेधः क्रत्वर्थी हिंसां प्रतिषेधेत्तींव ऋत्वर्थः स्यात्तच्च नास्तीति वदिष्यनिषेध्यनिषेध- योरेकार्थतामाह तथाहीति । इति कल्पतरुः । एवं च न हिंस्यादिति निषेधशास्त्रं लिङर्थभावनाद्वारा शीघ्रं कर्तुरे- वोपस्थितत्वादस्य वाक्यस्यानारभ्याधीतत्वेन क्रतोः प्रकरणादिनोप- स्थित्यसंभवात्पुरुषार्थहिंसाया एव निषेधबोधकमिति क्रत्वर्थहिंसाया अ- दुष्टत्वमव्याहतमेव । अत एव वाचस्पतिमिरुत्सर्गस्तु सः, अपवादः अग्नीपोमीयं पशुमालभेतेति भाष्यस्याऽऽशयः "अयमेवार्थ उत्सर्गापवाद- कथनेनोपलक्षितः" इति ग्रन्थेनोदघाटि । इदं च भामतीवार्य कल्पतरुका- रेणेत्थमवतार्य व्याख्यायि-अत्र भाष्यकारैर्न हिंम्यादित्युत्सर्गः, अग्नी- पोमीयमालभेतेत्यपवाद इत्युक्तं तदयुक्तम् । विशेषविधिविहितस्या- र्थस्य सामान्यविधिनाऽपि विपीकारे हि उत्सर्गापवादन्यायः-यथा- आहवनीये जुहोति पदे जुहोतीति । होममात्रस्याऽऽहवनीयान्वयवि- धिना पदहोमस्यापि विपयीकारे पदहोमान्वयविशेपविधिना वाधात्त- दितरपरत्वं सामान्यशास्त्रस्य, अत्र तु वर्णितेन न्यायेन निषेधस्योत्प- त्तिसमय एव पुरुषार्थहिंसाविषयकत्वान्न क्रत्वर्थहिंसानुप्रवेश इत्याश- कन्याऽऽह-अयमेवार्थ इति । एकस्य विशेषविधेः स्वविषयस्य क्रत्वर्थत्वेन पुरुषार्थत्वेन च विनियोगे विरोधात्सामान्यविपयत्वे च पुरुषार्थहिंसासु सावकाशस्य न क्रत्वर्थहिंसानिषेधविषयत्वं तदाऽधिकारान्तरानुप्रवेशि- त्वेन सापेक्षन्वं स्यादिति यो विषयनिष्कर्षः कृतोऽयमेवाविशेषप्रवृत्तत्वे- नावभासमानशास्त्रस्य विशेपत्याजनलक्षणगुणसाम्यादुन्सर्गापवाद इन्युक्त इत्यर्थ इति । एवं च न हिस्यादित्यत्र सर्वज्ञवाचस्पत्यमलान- न्दयोः पुरुषार्थहिंसाया एव निषेधः क्रत्वर्थहिंसाया निषेधविषयत्वप्र- सक्तिररापि नास्तीत्यभिप्रायः स्पष्टमवगम्यते । ननु मरणोद्देश्यकमरणो- पधायकव्यापारत्वम्यैव हिसिधातुप्रवृत्तिनिमित्तत्वादेतादृशप्रवृत्तिानाम- तस्य यागीयाहिंसायामप्यविशेषात्तस्या आप न हिंस्यादिति वाक्यस्थ- हिसिधातुना परामर्शनीयत्वादिस्यादित्याख्यातोपात्तभावनाद्वारा कर्तु- रेव प्रथमत उपस्थितत्वेऽपि प्रकृते हिंसाया उद्देश्यत्वेन तत्र पवालम्भमीमांसा। विशेषणत्वेन संबन्धासंभवात, तथाऽपि तत्र संबन्धाङ्गीकार आहवनीयवाक्यस्थजुहोतिनाऽपि तत्रत्याख्यातोपात्तभावनाक्षिप्तपुरुषस्य जुहोत्यर्थ होमे विशेषणत्वेनान्वयावश्यंभावेन पुरुषार्थ होमानामेवानुवाद्य- त्वसंभवाज्ज्योतिटोमक्रत्वर्थपदहोमस्य तेनाविषयीकरणादाहवनीयपदवा- क्ययोरुत्सर्गापवादभावस्य तान्त्रिकसंमतस्य प्रत्युद्धारप्रसङ्गानारिष्ठहो- मादीनां क्रत्वर्थानामाहवनीयासिद्धिप्रसङ्गाच्च भावनाबारोपस्थितस्या- पि पुरुषस्योद्देश्यविशेषणत्वाङ्गीकारासंभवात्क्रत्वर्थप्रतियोगिकनिषेधस्य क्रत्वर्थत्वमिति नियमस्यापि क्रत्वर्थमलवद्वासःपत्नीसंवादादिप्रतियो. गिकपुरुषार्थनिषेधान्तर्भावेण व्यभिचारान हिंस्यादित्यत्र कत्वर्थहिंसा- या अपि निषेधविपयत्वादनिष्टसाधनत्वं संभवत्येवेति चेन्मैवम् । न हिंस्यादिति निषेध्यकोटित उभाभ्यामपि अवश्यं व्यावर्तनीयानां मरणा- न्तप्रायश्चित्ताहवाभिमुखहननादीनां व्यावर्तनार्थ निषेध्यकोटावनुपदिष्ट- वैशेषिकप्रायश्चित्तकविध्यनुज्ञातहिंसाभिन्नत्वविशेषणस्याऽऽवश्यकत्वात्ते- न यागीयहिंसाया अपि व्यावर्तनसंभवानल्या अनिटसाधनवं कथमपि न संभवीत्यलं पल्लवितेन । यदापि न च- यज्ञार्थ पशवः सृष्टाः स्वयमेव स्वयंभुवा । यज्ञोऽस्य भून्य सर्वस्य नन्माद्यज्ञे वोऽवधः ।। या वेदविहिता हिंसा नियताऽस्मिंश्चराचरे । अहिंसामेव तां विद्याद्ववाद्धर्मो हि निर्वभौ ॥ इतिमनुवाक्यादिभिः पापाभावप्रतिपादकनिन्दाप्रायश्चित्तोपदेशाद्यस- मभिव्याहृतविधिवाक्यबोध्यमवर्तनायाः स्वविषयप्रवृत्तिविषये धात्वर्थे सामान्यतोऽनर्थहेतुत्वप्रतिक्षेपकत्वकल्पनेन सामान्यनिषेधस्य तदतिरि- क्तपरत्वमाक्षेपलभ्याया अपि विधितात्पर्यविषयत्वेन तत्राप्यनर्थहेतुत्व- प्रतिक्षेपान, अत एवान्यत्र हिंसां चैवाविधानतः, इत्यविधानेन हिंसेव पापजनिकोक्ता । श्रुतिरपि 'अहिंसन्सर्वभूतान्यन्यत्र तीर्थेभ्यः' इत्याह । तीर्थ यज्ञः। तीर्थ शास्त्राध्वरेतिकोशात् । अत एव मरणान्तप्रायश्चित्ताहवा- भिमुखहननोचितदण्डरूपचोरहननादीनां न पापजनकत्वं शुद्धयर्थ विहि- नमरणे तस्यायुक्तत्वात्, न दोपो हिंसायामाहवे, इत्युक्तेश्वोरायवधे राजो दोषश्रवणाच्च । तस्माद्गतिहिंसाविषयोऽयं निषेधः । अगर्हिता चानुपदिष्टप्रायश्चित्तिका हिंसा । एवं सर्वनिषेधेषु द्रष्टव्यमिति वाच्यम् ।

पश्वालम्भमीमांसा। मनुवचनेऽवध इत्यादानुदरा कन्यतिवदसार्थे * नः सत्त्वात् । अ- न्यथा घटोऽघट इतिवदस्याबोधकत्वेनावधपदस्य पापजनकत्वलक्षणा- पत्तेः । यज्ञानुपक्रम्य- ' अहिंसा परमो धर्मो गीतो वै मनुना परा'। इति ब्रह्मववर्तमथमखण्ड उक्ततया च मदुक्तस्यैवौचित्यात् । परमत्वं च पापाजनकत्वेनास्याल्पीयसा प्रायश्चित्तेन परिहर्तुं शक्यत्वात्तत्र न दोषः । पशुहिंसाजन्यपापल्याल्पपायश्चित्तोपदेशेन बहुव्ययायाससाध्ययागजन्य- स्वर्गात्पथममेवाल्पस्य यागविषयेऽत्यल्पत्ववोधनात । एवं च न तद्ध- लेन विधः स्वविपयेऽनीतुताप्रतिक्षेपकत्वमिति तदतीव मन्दम् । मनुस्मृतिपद्यस्थावधपदघटकनोऽनुदरा कन्यतिवदल्पर्थिकत्वं न तु पापजनकत्वार्थकना । तथा सति लक्षणापत्तेरिति वदतस्तत्रभ- वतोऽल्पार्थकत्वे लक्षणा नास्तीति खलु आभिप्रायः प्रतीयते । तत्तु न युज्यते । अल्पार्थकन्वेऽपि लक्षणाया अशक्यनिवारणत्वात् । नद्यल्पत्वे नमः शक्तिः । नभ्याभावत्वावच्छिन्नमात्रशक्तत्वात् । अल्पत्वावच्छि- नेऽपि शक्तत्व हयादिपदवन्नानार्थकत्वमापदैन । सत्यां गतो तत्त्वी- कागे नौचितः । किं च याकरणेन भवताऽपि अल्पत्वावच्छिन्ने शक्तिर्नेष्यने । यतस्त्वया नर्थवादे यद्वा नञ, समभिव्याहतघटादि. शब्दानामागेपितमनिनिमित्तबोधकत्वे तात्पर्यग्राहकः, यथा सिंहां माणवक इत्यादी माणवकादिपदानि । सिंहादिपदरयाऽऽरोपितसिंहत्व- वरोधकत्वेऽनुद्रा कन्यत्यादावपि अल्पत्वादिनीदगभावमारोप्य नञ्- समभिव्याहार आरोपितोदरबुद्धया तन्मूलाल्पत्वादी विश्रमः । अद्विज इत्यादी च तद्भेदमूलकमारोक्तिप्रतिनिलितकत्वमिति भेदे विश्रान्तिः। अधर्म इत्यादी च विगेधिनि आरोक्तित्वस्य नवाच्यत्वे तु तस्य ब्राह्मणादिपदशक्येऽनारोपितम्राह्मप्यवति संबन्धो दुरुपपादः । तस्य * तदुक्तं हरिणा---तत्सादृश्यमभावश्च तद यत्वं तदल्पता । अप्राशस्यं विरोधश्च नअर्थाः पट् प्रकीर्तिताः ।। इति । तत्सादृश्यम् --गर्दभेऽनवोऽयमित्यादौ । अभाव :-हे घटो नास्तीत्यत्र । तदन्याम्-अमनुष्यं प्राणिनमानयेत्यादौ । तदपत्वम् अनुदरा कन्या । अत्रास्थूिलत्वनिषेधनोदरस्यारपत्वं गम्यते । अप्राशस्त्यम् बाह्मणेऽब्राह्मणोऽय. मिति प्रयोगे । विरोधः-- असुरोऽधर्म इति प्रयोगे । इन्युदाहरणानि बोध्यानि ।

२६ पश्वालम्भमीमांसा प्रसिद्धार्थपरित्यागोऽप्रसिद्धार्थपरिग्रह इत्युभयं घोतककृत्यमिति नम्- सूत्रे भाष्ये स्पष्टमिति भाषितम् । एवं च यथाऽनुदरा कन्येत्यादाव- ल्पत्वप्रत्यक्षाविषयत्वादिना प्रथमत एवोदराभावमारोप्य नअसमभि- व्याहारे सति यथाऽऽरोपितोदरबुद्धयाऽल्पत्वादी विश्रमः कथ्यते, तथैवावध इत्यादिस्थलेऽपि पापाजनकत्वनिमित्तेन वस्तुतो वधत्व- वति वधत्वाभावमारोप्य नसमभिव्याहार आरोपितवधत्व- बुद्धया पापाजनकत्वे विश्रमः कथ्यताम् । नाल्पत्व एव विश्रम इति नियन्तुं शक्यते । अद्विजोऽधर्म इत्यादौ भेदे विरोधिनि च विश्रान्ते- स्त्वयैव कथितत्वात् । एवं चावध इत्यत्र नः पापाजनकत्वार्थकत्वे लक्षणाऽल्पार्थकत्वे न लक्षणादोष इति यदत्रीच्यते तत्पूर्वत्वदीयग्रन्थे- नैव विरुद्धमिति न किंचिदेतत् । अत एव पापाजनकत्वावच्छिन्नबोध- कत्वस्वीकारादघटोऽघट इतिवच्छाब्दबोधाजनकत्वदोपोऽपि नारतीत्य- वधेयम् । अत एव कुल्लूकभट्टेन 'यावन्ति पशुरोमाणि तावत्कृत्वेह मारणम् । वृथा पशुघ्नः प्राप्नोति प्रेत्य जन्मान जन्मनि ॥ इतिपूर्ववाक्यस्य देवताादेशमन्तरेणाऽऽत्मार्थं यः पशून्हन्ति स वृथा प- शुघ्नो मृतः सन्यावन्संग्ख्यानि पशुगेमाणि तावन्संग्ख्याभूनं जन्मनि जन्मनि मारणं पानोति तस्माद्वथा पशुं न हन्यात , इति विवरणं कृत्वा यज्ञार्थे तु पशुवधे न दोप इत्याह-यज्ञार्थ पशव इति, इत्यनेन ग्रन्थेनेदं पद्य- मवतार्य यज्ञसिद्धयर्थ प्रजापतिनाऽऽत्मनैव, आदरेण पशवः सृष्टाः, यज्ञ- श्वानी प्रान्ताऽऽहुतिरितिन्यायासर्वन्यान्य जगतो विवृद्धयर्थस्तस्माद्यों वोऽवध एव वधजन्यदोषाभावादिति व्याख्यातम् । एवं तेनैव महा- पण्डितेन कुललूकभट्टेन कथं तर्हि न्याइदिकी देक्षादिपशुहिंसा नाधर्मा- येत्यत आह-या वंदविहिनेति । इत्यनेन ग्रन्थेन ' या वेदविहिता हिंसा' इत्यादिपद्यं पातयित्वा या श्रुतिविहितकर्मविशेपदेशकालादि- निमित्ता, अस्मिञ्जगति स्थावरजङ्गमान्मनि अहिंसामेव तां जानीयात । हिंसाजन्याधर्मविरहात् । दक्षपशुहननमधर्मः प्रणिहननत्वादब्राह्मणहन- नवत , इत्याद्यनुमानमुपजीव्यशास्त्रवाधादेव न प्रवर्तते । दृष्टान्तीकृतवा- पहननस्यापि अधमन्ये शास्त्रमेवोपनीव्यम् । वेदाधर्मो हि निर्वभौ यस्मादनन्यप्रमाणको धर्मो वेदादेव निःशेषेण प्रकाशनां गत इनि विद्य- - पश्चालम्भमीमांसा । तम् । किं च सामान्यतः पशुहिंसाजन्यपापस्याल्पप्रायश्चित्तोपदेशेऽपि विशिष्य यागीयहिंसायारतादृशोपदेशो नास्ति । पूर्वोक्तयुक्त्या सामा- न्योपदेशस्य विहितहिंसातिरिक्तपरत्वं च संभवतःति पशुहिंसाजन्यपा- पस्याल्पप्रायश्चित्तोपदेशेनेत्यादिकमपारतम् । अपि च नास्माभिर्मनुस्मृ- तिवाक्यं वर्तत इति तद्धलात्सामान्यतोऽनर्थहेतुत्वप्रतिक्षेपकत्वकल्पनेन निषेधवाक्यस्य तदतिरिक्तपरत्वमुच्यते, अपि तु पूर्वोक्तरीत्या स्मृति- वाक्यज्ञानात्पूर्वमेव विधिनिषेधशास्त्रयोः सामान्यविशेषभावावगमाद्धिं- साविध्यात्मकविशेषशास्त्रमहिनंच सामान्यानिषधशास्त्रस्य यागीयहिंसा- तिरिक्तहिंसानिषेधपरत्वमभ्युपगम्यते परंतु तच्चीपादलकतया शिष्टानां वचनमाद्रियते । रमृत्यनुसारेणेव श्रुत्यर्थकल्पने विरोधाधिकरणसि- द्धान्तो दत्ताञ्जलिः स्यात् । प्रत्यक्षश्रुत्योर्विरोधे रमृत्यनुगृहीता श्रुतिः प्रवलेति कथ्यते । तस्मात् , एवं च, न तद्वलेन विधेः चविषयेऽन- थहेतुताप्रतिक्षेपकत्वमित्यादि अपारतम, यदपि अत एव गीतायां यज्ञानां जपयज्ञोऽस्मि' इत्यादिना जपयजल्याहिसारूपत्वेन प्राश- स्त्यमुक्तम । तथा- ' स्वधर्ममपि चावक्ष्य न विकम्पितुमर्हसि । धाद्धि युद्धाच्छेयोऽन्यत्क्षत्रियस्य न विद्यते । इत्युपक्रम्य मुखदुःवे समे कृत्वा लामालाभी जयाजयो । ततो युद्धाय युज्यत्व नै पापमवाप्स्यसि ॥ इत्यनेन विहितेऽपि युद्धे पापं वदताऽतादृशस्य यज्ञेऽपि तदुक्तपाय- मोति, तदापि पूर्वापरग्रन्थानवलोकनानिबन्धनमेव । यज्ञानां जपयज्ञोऽ- स्मीत्यादिकं यया कयाचिद्विधया प्रशंसाप्रदर्शनार्थं प्रवृत्तम्, न तु वस्तु- तोऽपि तत्र तादृशी विधाऽपेक्ष्यते । यदि वस्तुतोऽपि जपयज्ञस्येतरयज्ञा- पेक्षया हिंसामयुक्तदोपाभाववत्वेनोत्कर्षो विवक्ष्येत तर्हि भगवतेदमेव कर्तव्यमित्युपदिश्येत न तु प्रत्यवायजनकीभृतार्हसाबहुलः सङ्ग्रामः । उपदिश्यते चात्र- 'अथ चेत्त्वमिमं धर्म्य सङ्ग्राम न करिष्यसि । इत्यादिना। एवं नैवं पापमवाप्रयसीत्यत्र फलकामनां त्यक्त्वा युध्यमानो गुरुब्राह्मणवधानिमित्तं पापं न प्राप्त्यसीति व्याख्याने हतो पश्चालम्भमीमांसा वा प्राप्स्यास स्वर्गमिति पूर्वश्लोके फलकामनाप्रयुक्तयुद्धकर्तव्यतापक्ष गुर्वादिवघप्रयुक्तपापमस्तीत्युद्भावितं स्यात् । न च वाच्यं पूर्वस्मिन्पये स्वर्गादिफलकीर्तनमानुषङ्गिकफलोक्तिमात्रम् । न तु फलकामनाप्रयुक्त- युद्धोपदेश इति । सर्वेभ्यः कामेभ्यो दर्शपूर्णमासी, इति श्रवणेऽपि यत्फ- लकामनया कर्मानुष्ठानं नदेव फलं तस्मिन्प्रयोग इति योगसिद्धयधिक- रणे व्यवस्थापिततया कामनां विना स्वर्गस्याऽऽनुषङ्गिकत्वायोगात् । न च तथाऽपि हतो वा नित्वा वेति नार्जुनोदेशेनोक्तं तस्य जयापजया- भिसंधिशून्यत्वादिति वाच्यम् । यदी जयेम यदि वा नो जयेयुरित्यर्जु- नोक्त्या मया हतांस्त्वं जहि मा व्यथिष्ठाः । युध्यस्व जेतासि रणे सपत्नानिति भगवदुक्त्या च तस्य जयाभिसंधिप्रदर्शनात् । तस्मात्सका- मत्वपक्षे युद्धानुष्ठानप्रकारः पूर्वश्लोके वर्णितः । मुमुक्षुत्वपक्षे तदनुष्ठान- प्रकारोऽत्मिश्लोके वर्णितः । मुमुक्षु-वषक्षे तदनुष्ठानप्रकारोऽस्मिन्श्लोक इत्येव व्यारव्येयम् । यत्तु न चापशब्दज्ञाननाधर्मस्य कूपरवानकन्यायेन सुशब्दज्ञानजधर्मेण नाशः फलान्तरं चेति भाप्ये पस्पशायामुक्तम् । कूपखानकस्तत्खननरेलायां मृदा लिन ततो जलं लब्ध्वा तं लेपं दूरी करोति फलान्तरं च लभने तेन न्यायेन यज्ञजधर्मेण तत्पापनाशः फलान्तरलाभश्चेति न दोष इति वाच्यम् । अपशब्दज्ञानादधर्मस्यावा- चनिकत्वेन केवलं वैपरीत्यमात्रेण कल्यस्यातिस्वल्पत्वात् । उत्कृष्टेन साधुशब्दज्ञानजधर्मेण नाशेऽपि न दिल्यादितिवचनवोधितपापस्य तेन धर्मेण वचनं विना नाशायोगादुक्तगीतावाक्याचति तन्मन्दम् । अनुक्तो- त्तरत्वात् । अस्माभिग्नुक्तं खलु भवानुक्त वापाद्योत्तरयितुं प्रयतते । नह्यस्माभिग्पशब्दज्ञानादधर्मोत्पादवटयागीयाहिंसातः कदाऽन्यधर्मोत्पत्ति- रिप्यते किंतु तस्य कदाऽप्यनिपिद्धत्वाग्ज्योतिष्टोमादिव केवलधर्मार्थ- त्वमेवाभ्युपगम्यते । अस्य निषेधप्रतियोगिता स्वभेऽपि यथा नारित तथाऽस्माभिः सविस्तर पूर्वमुपपादितम् । एवं च कृपखानकन्यायेनाभ्यु- पगतं सुशब्दज्ञानजधर्मप्रयुक्तमपशब्दज्ञानजन्याधर्मनाशं दृष्टान्तीकृत्य साधितं ज्योतिष्टोमादिजधर्मप्रयुक्तं त्वहिंसाजन्याधर्मनाशं सिद्धान्त्य- भिमतत्वनाऽऽपाद्य, अनन्तरं दृष्टान्तदाष्टान्तिकपम्यप्रदर्शनपूर्वकं तत्व- ण्डनमस्थाने कलकलप्रायं त्वयैवानुमोदनीयम् । उक्तगीतावाक्याचेति यदवादि स च हेत्वाभाम एव । यद्युक्ततावाक्यं भवदभिमतमर्थम- बोधयिन्यत नदेई ममीचीन हेतुभायमगमिष्यन् । तम्य वाक्यल्यार्थ:

पश्वालम्भमीमांसा। २९ पूर्वमेवाल्माभिरन्ययोपपादितः । तस्मादिदं हेतुभावं न प्रतिपद्यत एवे- त्यलम् । यदपि अत एवेन्द्रादेः शताश्वमेधफलस्वर्गभोगसमये रावणम- हिषासुरादिभ्यो दुःखधाराः श्रुतिपुराणादिषूपवर्णिता यज्ञान्तर्गतहिंसादि- जन्यपापफलस्य यज्ञफलभोगान्तरुत्पत्तेरुपपत्तिसिद्धत्वादिति तत्तु आवि- वेकिव्यवहारसमम् । यतः कर्म तावत्रिविधं भवति संचितं प्रारब्धमा- गामि चेति । तत्र प्रारब्धस्योपभोगेनैव क्षय इति सर्वेषां तात्रिकाणां संप्रतिपत्तिः । प्रारब्धं नाम मरणकाल . उद्बोधकविशेषमहिम्ना फलदानव्यग्रतां यत्कर्म मामोति तदेव । तदा यत्कर्मफलदानाया- भिव्यक्तं भवति तदानीं तत्कर्मनान्तरीयककर्मान्तरमपि फलदानव्यग्रतां प्रामोतीति न नियमोऽस्ति न वा पण्यं कर्म फलदानायोन्मुखं भवति 'चेत्तदानी तन्नान्तरीयकमेव पापं कम फलदानव्यग्रं भवतीति नियमः । येनेन्द्रादीनां शताश्वमेधादिफलभूनस्वर्गादिभोगसमये दुःखधाराया अपि संजातत्वेन नदन्यथानुपपत्तिप्रकल्प्यमानफलोन्मुख्यवदुष्टकर्म तादृशाश्व- मेधाद्यन्तर्गतहिसारूपमेव वक्तव्यमिति हिंसाया दुष्टताऽव्याहता भवेत् । किंतु पुण्यकर्माभिव्यक्तिकाले तत्तद्रोधकविशेषमहिम्ना तन्नान्तरीयक- मन्यद्वा पापं कर्मोदबुद्धमित्येव दुःश्वफलानुभवान्यथानुपपत्त्या प्रकल्पनी- यम् । एवं च यागीयहिंसादुष्टताया उभयासंप्रतिपन्नत्वादुभयसंप्रतिप- अदुष्टताकमन्यदेव पापं कर्म तदानीं प्रारब्धफल कमिति वक्तुं शक्यत्वादि- न्द्रादिदुःखधागनुभवो न यागीयहिंसादृष्टतासाधको भवितुमर्हतीत्यवधे- यम् । एतेन एतेनावर इति यजनाम' ध्वरतिहिंसाकर्मा तत्प्रतिषेधोऽध्वर इति निरुक्तमहिंस्र इति तद्भाग्यमपि व्याख्यातं नोऽल्पार्थकत्वात् । अत एव तस्मादभ्युदययोगादति इत्युपपद्यत इति तद्भाष्य उपसंहतम् , इति परास्तम् । नत्रोऽल्पवावच्छिन्ने मुख्या वृत्तिर्नास्तीति पूर्वमेव बहु अपश्चितम् । अत एवेन्याद्यपि असंगतम् । तथाहि तत्रभवान्माजमन्यस्तस्मा- पापजनकाहिंसादोपदृषितत्वेन ज्योतिष्टोमादिक्रतोहितत्वादहिस्त्रत्वासंभ- वेऽपि स्वर्गादिरूपाभ्युदयसंवन्धागोणमहिलत्वमुपपद्यत इत्यर्थकं तस्मा- दभ्युदययोगादहिंस्त्र इति भाग्यवाक्यमित्यभिपैति । नायं साधुरभिप्रायः। लोके हिंसाया दुष्टत्वेऽपि क्रत्वहिसाया विहितत्वेनानिष्टामिश्रितेष्टज- नकत्वस्यैव वक्तव्यत्वात् । तादृशहिसायुक्तयागस्यापि हिंस्रत्वाभावाद- हिवत्वं वस्तुत उपपद्यत इत्येवंरूपल्यार्थस्य स्वरसतस्तद्वाक्यात्मतीय- मानत्वात् । यत्तु, उक्तं च 'स्वर्गेऽपि पानभीतल्य क्षयिष्णोर्नास्ति निई- ३० पश्वालम्भमीमांसा। तिरिति, इति तत्तु असंबद्धपलापित्वमात्मनः प्रख्यापयति । तथाहि- इदं वाक्यं भवतः कथं यागीयहिंसादुष्टत्वे साधकं भवति । नत्वत्र यागीयहिंसादुष्टत्वप्रतीतिगन्धोऽप्यस्ति । अत्र तु स्वर्गलोके वसतोऽपि स्वर्गस्य कर्मजन्यफलत्वात्कर्मणश्च कालपरिच्छिन्नफलजनकत्वस्वाभा- व्यात्किंचित्काल फलभोगानन्तरं मर्त्यलोके पतनावश्यंभावात्तस्याप्या- त्यन्तिकमुखमाप्तिर्नास्तीति खलु स्फुटं प्रतीयते । नितिशब्दस्याऽऽत्य- न्तिकसुखे प्रसिद्धत्वात् । न तावता यागीयहिंसादुष्टता प्रतीयते । अदुष्टत्ववादिभिरस्माभिरपि हिंसायुक्तयज्ञल्य नितिजनकत्वं नाभ्युप- गम्यते । किंतु नश्वरकलजनकत्वमेवाभ्युपगम्यते। न च यागीयहिंसाया दुष्टत्वादेव तत्फलस्य क्षयिष्णुता । अन्यथाऽऽत्यन्तिकत्वं संभवेदिति वाच्यम् । तथा सति अदुष्टत्वेनोभयवादिसंपतिपनानां जपयज्ञपाकय- ज्ञादीनां नित्यमोक्षफलजनकत्वापानेन ज्ञानवैयर्थ्यप्रसङ्गात् । नहि प्रामाणिकाः सत्पुरुपा ज्ञानमन्तग पूर्वोक्तकमभिर्मोक्षाग्व्यं फलं संभव- तीत्यभ्युपगच्छन्ति । अतो ज्ञानादेव केवलादान्यन्तिकं नित्यपरप- यायं सुम्वं न तु कर्मण इति ज्ञानप्रशंसार्थमिदं वाक्यं पावर्तत न तु भवदभिमतयागीयहिंसादुष्टतावोधनार्थमित्यलम् । यत्तु अहिं- सन्सर्वेति श्रुतिस्त्ववैधहिंसात्यागल्यष्टसाधनन्वं वैध्याश्च न तत्त्वमा न तु वध्या अनिष्टसाधनन्वाभावम् । हिंसाविधयोऽपि हिंसायाः स्वर्गसाधनत्वमात्रमाहुर्न त्वनर्थहेतुताप्रतिक्षेपमपि । अल्पायुष्ट्वाच- निष्टबांधकस्मृतिविरोधात् । तदुक्तं योगसूत्रभाष्ये यदि कथंचित्पु- ण्यावापगता हिंसा भवेत्सदा तत्र सुखपाप्तावपि अल्पायुर्भवेदिति । तत्र श्रुतिस्मृत्योर्वलावलानभिज्ञत्वेनाऽऽत्मनो मूवतामावेदयति । हिंसावि- धीनां रखविधेये प्रवृत्तिसिद्धयर्थमनिष्टसाधनत्वात्समानाधिकरणेष्टसाध- नत्वपर्यवसायिबलवदिष्टसाधनत्वोधनमावश्यकमिति पूर्वमुक्तं न विस्म- नव्यम् । पातञ्जलस्मृत्यनुसारेण यदि श्रुतिवाक्यं नीयते तर्हि श्रुतिस्मृ- तिविरोधे श्रुतिरेव प्रबला, इत्येतादृशार्थव्यवस्थापकविरोधाधिकरणं दत्ताञ्जलितामियात् । यदि पातञ्जलरमृत्यनवकाशदोषप्रसङ्गभिया श्रुते- रेतादृशार्थपरत्वं कल्प्यते तहि यागीयहिंसादुष्टत्वाभावबोधकस्मृत्यनव- काशदोपप्रसङ्गभिया तादृशार्थपरत्वमपि कल्पनीयमापतेत् । नहि पत- जलेरेव सर्वज्ञत्वात्तदीयस्मृतेरेव प्रामाण्यात्तदनुसारेणैव वेदवाक्यं नेयं न तु इनग्पामसर्बज़न्वानदीयस्मृतीनामप्रामाण्यातदनुसारेण वेदवाक्य पश्वालम्भमीमांसा । ३१ ' इत्यनेन नेतुं शक्यत इति कश्चित्तामाणिकोऽभ्युपगच्छति । एतादृशविषयचर्चा 'स्मृत्यनवकाशदोषप्रसङ्ग इति चेनान्यस्मृत्यनक्काशदोषप्रसङ्गमत' इत्यस्मिनधिकरणे नितरामकारि भगवत्पादैः । किंच पातञ्जलमतस्यैव वेदवाह्यत्वं भगवता बादरायणेन ' एतेन योगः प्रत्युक्तः व्यक्ततममुदघाटीत्यलम् । यत्तु अत एव क्षत्रियाणामपि युधिष्ठिरादीनां स्वधर्मयुद्धेन जानज्ञातिहिंसायां प्रायश्चित्तस्मरणमिति, इति । तथा च भागवते मुचुकुन्द प्रति कृष्णवाक्यम्- क्षत्रधर्मे स्थितो जन्तूनवधीदृगयादिभिः । समाहितस्तत्तपसा जयघं मदुपाश्रितः ।। इति । आदिना युद्धम् । मार्कण्डेयेऽपि- तस्माद्याल्याम्यहं तात दृष्ट्मं दुःखसंनिधिम् । त्रयीधर्ममधर्माढचं किंपाकफलसंनिभम् ' ।। इति । किंफाको निम्बः, इन्द्रवारुणीत्यपरे, इति तत्तुच्छम् । न हि युधि- ष्टिगदीनां युद्धप्रयुक्तपापनिवारणार्थ विशिष्य प्रायश्चित्तानुष्ठानं कुत्रापि स्मृनम् । गनमयानुष्ठानं तु प्रायश्चित्तानुष्ठानरूपं भवितुं नाहति राजा गजमूयेन स्वाराज्यकामो यजतेति श्रुन्या राजसूयस्य स्वाराज्यफलक- त्ववोधनात् । तन्य युद्धापूव कृनत्वाच्च । भागवतमार्कण्डेयपुराणयोः कर्मनिन्दा च नहि निन्दा निन्धं निन्दितुं प्रवर्ततेऽपि तु विधेयं स्तोतु- मिनि न्यायेन विधेयप्रशंसाथै प्रत्ता न तु वस्तुतः कर्मणो निन्द्यत्व- बुद्धया । प्रकृते भागवने कर्मनिन्दया भक्तिप्रशंसैव विवक्षिता न तु कमनिन्दायामाप तात्पर्यम् । श्रुतावपि एवं बहुषु स्थलेषु दृश्यते । तथाहि — यदिते सूर्ये प्रातर्जुहुयाघदनुदिते सूर्ये प्रातर्जुहुयात् ' इत्या- दिनोदितानुदितहोमयोरुभगेरपि निन्दा प्रतीयते, तावतोभयमपि निन्द्य- मिति नाभ्युपगम्यते किंतूदितनिन्दयाऽनुदितहोमः प्रशस्तोऽनुदितनि- न्दयोदितहोमः प्रशस्त इत्येवाभ्युपगम्यते । मार्कण्डेयपराणस्थवाक्य- स्यापि एवमेवाभिप्रायो द्रष्टव्य इति । यदपि मोक्षधर्मे भारतेऽपि पिता- पुत्रसंवाद- तातैतद्वहुशोऽ उभ्यस्तजन्मजन्मान्तरेष्वपि । अयोधर्ममधर्मादयं न सम्यक्प्रतिभाति मे ॥ -- ३२ पश्वालम्भमीमांसा। तथा केनचिदुन्छवृत्तिना मृगरूपिणो धर्मस्य प्रलोभनावाक्यैर्वधे कृत उक्तम्- 'तस्य तेनानुभावेन भृगहिंसात्मनस्तदा । तपो महत्समुत्सन्नं तस्माद्धिसा न यज्ञिया । इति । यज्ञियाऽपि हिंसा न केवलं धर्मायेत्यर्थः । एवं चौषधे यज्ञ एव साविकब्राह्मणस्याधिकारः । 'नमो ब्राह्मण यज्ञाय ये च यज्ञविदो जनाः । स्वयझं ब्राह्मणा हित्वा क्षत्रयामिहाऽऽस्थिताः ।। यदेव सुकृतं हव्यं तेन तुप्यन्ति देवताः । नमस्कारेण हविषा स्वाध्यायरोपधैस्तथा । इति वनपर्वणि जाजलिसंवाद उक्तेश्च । ' अव्यवस्थितमर्यादविमूढनातकः परैः । संशयात्मभिव्यक्तमा समनुवर्णिता ।। सर्वकर्मस्वहिंसां हि धर्मान्मा मनुरब्रवीत् । कामकागद्विहिमन्ति बहिर्वेद्यां पशन्यथा' ।। इति हिंसायुक्तयज्ञनिन्दापूर्वक 'विष्णुमेवाभिमानन्ति सर्वयागेपु ब्राह्मणः। पायमः मुमनोभिश्व तयापि यजनं स्मृतम् ।। इति मोक्षधर्मेषु विचिरयुवाक्याच्च । सा यथा पापाय तथा वेद्यन्त. गताऽपीति तदर्थः । नास्तिकैरिति करणे तृतीया । तैः करणभूतैस्तानु- दिश्यति यावत् । विष्णुमेवेति विष्णुत्वेनैव सर्वदेवता जानन्तीत्यर्थः । अत एव सर्वयागेषु ब्राह्मणानां पायसप परेव तत्तद्भागकल्पनेत्यर्थ इति, तत्तु भारतवाक्यतात्पर्यानभिज्ञतामूलकम् । यतो यथा मुण्डकाग्रुप- निषत्सु प्लवा होते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्मत्यादिना यज्ञनिन्दा वस्तुनो यज्ञस्य निन्द्यत्वबुद्धया न क्रियते किंतु कर्ममार्गे निर्वेदसंपादनद्वारा ज्ञानमार्गे प्रवर्तनाथमित्युच्यते तथैव शान्तिपर्वणि मोक्ष- धर्मे विद्यमानवाक्यः क्रियमाणा यज्ञनिन्दा वस्तुतो न यज्ञानां निन्धत्ववो- धनार्थ किंतु तत्र वैराग्यसंपादनद्वारा शान्तिप्रसाधनार्थम् । अत एव शान्ति- पर्वणि मोक्षधर्म एनेषां वाक्यानां पठनम् । अत एव नीलकण्ठमुधिया भारत- पश्चालम्भमीमांसा। ३३ भावदीपे नास्तिकैरिति संशयात्मभिरिति च पदयोर्नास्ति ब्रह्मेति वद- द्भिः, आत्मा देहोऽन्यो वाऽन्योऽपि कर्ता, अकर्ता वा, अकर्ताऽपि एकोऽनेको वा, एकोऽपि सङ्गवानसङ्गो वा, इत्यादिरूपः संशयस्त- द्वानात्मा चित्तं येषां तैरिति यथाक्रम विवरणं कृतम् । एवं चाज्ञानिनां कर्म विहितमिति सिद्धं भवतीति नास्तिकरिति पदं नास्तिकानुद्दिश्योति त्वयैव व्याख्यातत्वाद्ब्रह्मास्तित्वाद्यज्ञानवन्त एव कर्मसु अधिकृता इत्येवास्माकमपि सिद्धान्तः । किं च कामकाराद्विहिंसन्ति, इत्यत्र कामकारपदं नीलकण्ठेन महापण्डितेनेत्थमाक्षेपसमाधानपूर्वकं व्याख्या- तम् । तथाहि ननु वसन्ते वसन्ते ज्योतिपा यजेत, प्रतिसंवत्सरं सोमः, इति श्रुतिस्मृतिभ्यां नित्यत्वेन विहितेषु ज्योतिष्टोमादीषु विहितः पश्वा- लम्भः कथं कामकारात्स्यात, जायमानो वै ब्राह्मणखिभित्रणवा जायते ब्रह्मचर्येणार्पभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः, इत्यृणश्रुतेश्च, अन- धीत्यानिष्ट्वा मनामनुत्पाद्य च कथमनृणा वा स्यात्, अनाहिताग्निताया- वोपपानकेपु स्मरणात्,कृताधानस्य समर्थस्य क्रत्वनारम्भो वा कथं स्यात, इति चन्न । गार्हस्थ्यस्यैव कामकारत्वे तन्मूलकानामाधानादिनामपि नथान्वात् । जायमानो वा इत्यत्रापि नोत्पद्यमान इत्यर्थः किंतु गृहस्थोऽ- धिकारी या संपद्यमान इति व्याख्येयम्, इत्यनेन समाधानवाक्येन गृहस्थाश्रमस्य रागप्रयुक्तन्वात्तन्मूलककर्मणामपि रागमयुक्तन्वं कथितं न तु कलञ्जमणाद द्विहितत्वाभावन केवलरागाधीनत्वेन रागप्रयुक्त- खमभ्यधायि । तस्मान्नैष्ठिकब्रह्मचारितया गुरुकुले वास आहोस्वि- ब्रह्मचर्यानन्तमेव मोक्षाश्रमस्वीकार उत्कृष्ट इति नीलकण्ठाभिप्रायः प्रतीयते । अयं साधुरेवाध्यवसायः । न चैतावता हिंसायुक्तकर्मणो दुष्टत्वं सिद्धं भवति । किं चाव्यवस्थित्तमर्यादिमिनास्तिकैः परैः, इत्यादिश्लोकघटितोऽध्यायो नीलकण्टेनाऽऽदावेवेत्थमवतारितः । एवं तुलाधारवाक्यरहिंसात्मकस्य धर्मस्य श्रेष्ठयमुपपाद्य तस्यैव स्तुतये हिंसात्मक धर्म निन्दत्याख्यायिकामुखेनात्रापीत्यादिना । अनेन पात- निकावाक्येन नहि निन्दान्यायेनात्र क्रियमाणा हिंसायुक्तयज्ञ निन्दाs- हिंसात्मकधर्मस्य स्तुत्यर्थ प्रवृत्ता न तु वस्तुतो हिसायुक्त कर्मणो निन्द्य- त्वबुद्धया, इत्यर्थः स्पष्टं प्रतीयते । एवं चेमानि भारतवाक्यानि हिंसा- युक्तयज्ञस्य दुष्टत्वे न प्रमाणानीत्यलम् । यत्तु तैत्तिरीयश्रुतावपि परा- अवर्ततेऽध्वर्युः पशोः संज्ञप्यमानादित्युक्तं तत्र पापसत्त्व एव हि ततः ।

३४ पश्चालम्भमीमांसा। परागावर्तनं युक्तं नान्यथा । रिच्यत इव वा एष प्रेव रिच्यते यो याजयति प्रति वा गृह्णाति याजयित्वा प्रतिगृह्य वाऽनश्नन्तः स्वाध्या- यमधीयीतेति ऋत्विजां प्रायश्चित्तोपदेशाच्च । सोऽपि पापसत्त्व एव युक्त इति । तत्तु श्रुतितात्पर्याबोधनिबन्धनमेव । यतो यदि अध्वर्योः पाप- संभवभिया परागावर्तन तर्हि प्रतिप्रस्थातुरपि पापभीरुतासंभवात्परागा- वर्तनं युक्तम् । किं चाङ्गभूतसंज्ञपनस्य याजुर्वेदिकपदार्थत्वादावर्यव- मिति समाख्यया नियमेनाध्वर्युणा कर्तव्यत्वात्पापभीस्तया ततः परा- वर्तने तस्य लोपेन ऋतुधैगुण्यापत्तिः । अपिचैवमेवात्यायाससाध्यानाम- ध्वर्युकर्तृकाणां बहूनां पदार्थानां सत्त्वादायासभीस्तया तेभ्योऽपि परा- वर्तनं कुतो नोच्यते । किं चाऽऽविज्यप्रयुक्तपापशरीगयासादिकमविग- णय्य द्रव्यलोभेनाऽऽविज्ये प्रवर्तमान ऋत्विक्कथंकारं स्वावश्यकर्तव्या- पदार्थात्पापभीरुतया निवर्तेत । श्रुतिश्च कथं निवर्तनस्य पापमूलकन्वं वदेत् । वदन्ती कथं प्रमाणं भवेत् । तस्मायेन तदानीमध्वर्युणा संज्ञ- पनं सर्वथा कर्तुमशक्यं तादृशं किंचिद्वक्तव्यम् । स च संज्ञप्तिहोमो भवितुमर्हति । तस्य विशिष्य तदानीमध्वर्युकर्तव्यत्वेन विहितत्वात्त- दानीं तस्य करणे संज्ञपनस्य कर्तुमशक्यत्वात्संजपनकार्यानिवर्तनं युक्तमेव । संज्ञपनस्याप्यङ्गत्वात, तस्य विना कारणं परित्युक्तमशक्य- त्वात, तदीयेन प्रतिप्रस्थात्रा तक्रियते तस्मात्परावर्तनस्य पापप्रयो- ज्यत्वं न सिध्येदिति रिच्यत इव वा एप प्रेव रिच्यत इत्यनुवाकेन यत्प्रायश्चित्तमुपदिश्यते तत्तु याजनसामान्यप्रतिग्रहसामान्ययोन भवति । किंतु अयाज्ययाजननिषिद्धद्रव्यप्रतिग्रहयोः । तत्तु अस्मन्संप्रतिपन्नमेव । सायणाचाथैरेवमेव तद्वाक्यं व्याख्यायि । तथाहि यः पुमान्स्वयमापद्र- हितोऽपि द्रव्यलोभादयाज्यं याजयति निपिद्धं द्रव्यं वा परिशहाति स पुमानिह लोके रिच्यत इब कीर्तिशून्य इव भवति । अहो दुरात्माऽय- मेवं धनिकोऽपि सन्द्रव्यलोभादन्यायं करोति, इति सर्वे जनास्तं नि- न्दन्ति । तदिदामिह लोके रिक्तत्वम् । तथा प्रेव रिच्यते परलोके प्रक- पेण रिक्त इव भवति पुण्यलोकाभाव एव रिक्तत्वं याजनप्रतिग्रहयो- जीविकारूपेण शास्त्रेऽभ्युपगतत्वानिषिद्धयाजनप्रतिग्रहविषयमिदं द्रष्ट- व्यम् । अतो द्रव्यलोभायाजयित्वा प्रतिगृह्य वा भोजनरहितत्रिवार स्वशाखारूपं वेदं जपेदिति । किंतु प्रायश्चित्तोपदेशमात्रेण पापमरतीत्ये- व ज्ञायते न तु हिंसाप्रयुक्तपापमरतीति । तथा सति प्रतिग्रहकर्मणि पवालम्भीमांसा। ३५ हिंसासंबन्धाभावात्तत्र प्रायश्चित्तोपदेशोऽनुपपन्नः स्यात् । तस्मादयं प्रायश्चित्तोपदेशो यागीयहिंसायाः पापजनकत्वे साधको भवितुं नाई- तीत्यलम् । एतेन-एतेनोक्तपुराणान्यपशुचातुर्मास्यस्तावकान्येवेत्यपा- रतम् । सर्वकर्मस्वहिंसामिति विचित्युवाक्ये श्रवणाचेत्यपास्तम् । अप- शुचातुर्मास्यस्य खरीविषाणायमानत्वात्, उन्मत्तेनापि तथा प्रलपितत्वे- नानुक्तोपालम्भत्वात्सर्वकर्मस्वित्यादिवाक्यस्यान्यपरत्वेन व्याख्यातत्वा- त्तस्य प्रकृते हेतुत्वासंभवाञ्चति । यत्तु हिंसामयानां नित्यत्वोक्तिरापि मांसभक्षणादिरागान्धं वेदमार्गे प्रवर्तयितुं न तु तत्त्वदृष्टया । अत एव भागवते- मुन्यनैस्तु परा प्रीतिस्तथा न पशुहिंसया'। इत्युपक्रम्य---- द्रव्यय यक्ष्यमाणान्दृष्ट्वा भूतानि बिभ्यति । एष माऽकरुणो हन्यादतज्ज्ञोऽसुतृपो भृशम् ।। तस्माद्यथोपपन्नेन मुन्यन्नेनैव धर्मवित् । संतुष्टोऽहरहः कुर्यान्नित्यनैमित्तिकीः क्रियाः ॥ इति । द्रव्यमत्र पशुः । पशुयजेरिति पाठान्तरं तेन मुन्यन्नेन तुष्टस्य तेनैव यज्ञोऽर्थात्तेनासंतुष्टस्य मांसादिलुब्धस्य तेनेति सूचितम् । तेषां नामसाधिकारिकत्वं च कपिलस्युमरश्मिसंवादे मोक्षधर्मे स्पष्टमेव तत्तु बालप्रलापसमम् । वेदमार्गे प्रवर्तयितुं न तु तत्त्वदृष्टया वाक्यस्य वस्तुतो निन्यन्वाभाववतो नित्यत्वेन बोधनं मांसभक्षणाशाग्रस्तस्य वेदवोधितोपायेषु प्रवर्तनकप्रयोजनं न तु सर्वेषामवश्यानुष्ठेयत्वसिद्धि- प्रयोजनकम् , इत्याशय उन्नीयते । नायं साधुराशयो भवितुमर्हति । तथाहि वेदवोधितोपायेषु इति पदस्यात्रत्यस्य वेदोक्तहिंसासहितज्योतष्टोमादि- कर्ममात्रपरत्वमेवाभ्युपगन्तव्यं न वितरोपायपरता । तत्र प्रवर्तनार्थ हिंसायुक्तानां नित्यत्वबोधनस्य भवद्रीत्येतरान्मति एतेषां नित्य- त्वेन बोधनाभावेऽपि तेषु हिंसारहितोपायेषु तेषां प्रवृत्तेर्भवता:- प्यभ्युपगम्यमानत्वेनानुपयुक्तत्वात् । एवं च मांसभक्षणकामस्यैव निय- मेनैतेषामनुष्ठानार्थ वस्तुतो नित्यत्वेन कथनं न तु सर्वान्मति नित्य- त्वेन कथनमित्येव भवता वक्तव्यं न तु वस्तुतो नित्यत्वाभाववतो ३६ पश्चालम्भमीमांसा। नित्यत्वेन कथनं मांसभक्षणरागान्धमवर्तनार्थमित्येताशार्थ स्वरसतो बोधयन्मांसभक्षणादिरागान्धं वेदमार्गे प्रवर्तयितुं न तु तत्त्वदृष्टया, इति वाक्यं प्रयोक्तव्यम् । अस्य वाक्यस्यापि स एवार्थोऽभिप्रेत इतिचेद्भवतु यथाकथंचित् । तथाऽप्यसामञ्जस्यं न गच्छति । यावज्जीवमग्निहोत्रं जुहोति यावजीवं दर्शपूर्णमासाभ्यां यजेत, इत्यत्र यथा सर्वान्कर्माधि- कारयोग्यान्पति अग्निहोत्रदर्शपूर्णमासादीनामवश्यानुष्ठेयत्वं प्रतीयते तथैव वसन्ते वसन्ते ज्योतिषा यजेतेति वाक्येनाप्यविशेषप्रवृत्तेन सर्वा- प्रत्येव हिंसायुक्तज्योतिष्टोमादिकर्मणोऽवश्यानुष्ठेयता ज्ञायते । अत्र परं मांसभक्षणकामो वसन्ते वसन्ते ज्योतिषा यजेतेत्यादिरीत्याअधि- कारिसंकोचे प्रमाणं नोपलमामहे । किं च यस्यैतेऽष्टाचत्वारिंशत्सं- स्कारा इत्यनेन पुरुषमात्रस्य त्रैवर्णिकस्याष्टचत्वारिंशत्संस्काराः काथ- तास्तत्र हिंसायुक्तज्योतिष्टोमादिकर्माण्यप्यन्तर्गतान्येवेति तेपामपि सर्वा- न्मति नित्यत्वमकामेनाप्यभ्युपगन्तव्यम् । भागवतवाक्यानि नहि निन्दान्यायेन प्रवृत्तानि न स्वार्थे प्रमाणानीत्यवगन्तव्यम् । यत्तु लोके व्यवायामिषमद्यसेवेति श्लोके भागवतेऽपि स्पष्टमेतत् , तच्चैवकारवादे निरूपितम् । तत्रैव स्थलान्तरे भगवद्वाक्यम्-- " हिंसायां यदि रागः स्याद्यज्ञ एव न चोदना । हिंसा विहाराद्यालब्धैः पशुभिः स्वमुखेच्छया " ! यजन्ते देवता यज्ञैरिति । हिंसायां तत्फलमांसभक्षणे यदि राग- स्तर्हि यज्ञ एवेत्यभ्यनुज्ञाद्वारा तादृशरागवतः प्रति परिसंख्येयं न तु सर्वान्मत्यावश्यकत्वेनेयं चोदनेत्यर्थः, नित्यत्वादिकमपि तान्प्रत्येवेत्यर्थ- कमुक्त्वा · वेदस्य हृदयं लोके नान्यो मद्वेद कश्चन ' मन्मत्तोऽन्यो न वेदेत्यर्थ इति तदपेशलम्, एतेषां पद्यानां ज्ञानप्रकरणे विद्यमानत्वाद् वैराग्यादिप्रशंसार्थ प्रवृत्तत्वावधाश्रुतार्थो न विवक्षितः। अपि च रागिणः प्रति व्यवायामिषमद्यसेवानां परिसंख्येत्युक्तं तत्तु अस्मार्क संमतमेव । अर्थी विद्वान्समर्थो यजेतेति न्यायेनार्थित्वस्याधिकारिविशे- षणत्वात् । ये तु चित्तशुद्धथा वैराग्यमापनास्तेषां कर्मसंन्यास एवाधि- कारो न तु कर्मसु इत्येवास्माभिरभ्युपगम्यते । तस्मादेभिः पथै रागिणः प्रति परिसंख्यामात्रे यागीयहिंसा दुष्टेति वक्तुं न शक्यते । यज्ञेऽभ्यनुज्ञाऽस्तीति वदता भवताऽपि यज्ञे पशुहिंसा न दुष्टेत्यवश्यमभ्यु- पश्वालम्भमीमांसा। ३७ पगन्तव्यम् । न च रागिण एवाभ्यनुज्ञा न वितरेषामिति वाच्यम् । रागिन्यतिरिक्तजनस्य कर्माधिकारस्यैवाभावादित्यलम् । अथ सांख्यं योगः पाश्चरात्रं च विचार्यते । यत्तु अत एव पतञ्जलिना योगसूत्रे-एषां शुक्लकृष्णत्वेन व्यवहारः कृत इति तत्तुच्छम् । पूर्वमेव पातज्जलं मतं वेदबाथमिति बहुधाऽऽवेदि- तत्वात् । यदपि गीतायामपि- 'अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् । भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां कचित् ।।' इत्युक्तम् । कर्मण इति जातावेकवचनम् । कस्यचित्कर्मण इष्टं सुखमेव फलं कस्यचिदनिष्टं दुःखमेव कस्यचिन्मिश्रमेतत्सर्वमत्यागिनां कर्मफला- त्यागिनां प्रेत्य देहान्तरसंबन्धे भवति । न तु संन्यासिनां तत्फलत्याग- नाम्। न चात्यागिनां कर्मफलत्यागेऽपि कर्मानुष्ठायिनां सत्वशुद्धः प्रागेव मृतानां तत्तत्कर्मफलं कर्मविध्यात्रिविधशरीरग्रहणरूपं भवति । पापस्या- निष्टं तिर्यगादिदेहरूपं पुण्यस्येष्टं देवादिदेहलक्षणं मिश्रस्य पापपुण्ययु- गलस्येष्टानिष्टयुक्तं मनुष्यदेहलक्षणं संन्यासिनां मुख्यसंन्यासिनां तेषां ज्ञानतोऽज्ञाननिवृत्त्या देहसंबन्धाभावादिति वाच्यम्। तिर्यगादिदेहस्याप्यु- भयारब्धत्वात् । तत्रापि सुखदुःखोभयानुभवात् । 'नहि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः । यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ।। इत्युक्त श्लोकस्थत्यागस्यैवात्र त्यागपदेन ग्रहीतुमौचित्याच्च । उक्त- त्यागफलकथनपरत्वात्पतञ्जल्येकवाक्यतया मदुक्तार्थस्यैवौचित्याच्च । संन्यासिपदेनापि उक्तश्लोकस्थत्यागिन एव ग्रहणमुचितं तस्य गृहीतदेह- स्यापि जीवन्मुक्तदशयाऽवस्थानात्कर्मफलमाप्तिजन्यहर्षविषादाभाव इति तात्पर्यादिति । तत्प्रकृतानुपयुक्तबहुपलापिनोऽस्थाने वृथा कलकलं कलयतो भ्रातृभावं भवतो व्यक्तमावेदयति । नात्र कर्मण इष्टा- निष्टफलकत्वकथनमात्रेण यागीयाहिंसाया दुष्टत्वं वक्तुं सुशकम् । नास्मिञ्श्लोक एकस्मिन्नेव कर्मणि सुखदुःखोभयफलजनकत्वं प्रतीयते येन यागीयहिंसाया एव विहितत्वेन निषिद्धत्वेन चोभयफल- कत्वमभ्युपगन्तव्यमित्युच्येत किंतु केवलपुण्यमानं कदाचित्फलदा- ३८ पश्वालम्भमीमांसा। नायोन्मुखं भवति । एकदा तु केवलपापमानं जातुचित्पा पुण्यं चेत्युभयमपि युगपत्फलदानव्यग्रं भवति, इत्यर्थ एव तत्पद्यतः स्वरसतः प्रतीयते । किं चात्यागिनामिति पदं कर्मफ- लत्यागिपरमाहोस्वित्संन्यासिपरमित्ययं विचारोऽस्थाने कलकल एव । यदपि य इष्टापूर्तादिकर्मणा चन्द्रलोकं गतास्तत्र भुक्तभोगाः पुनरवता- रसमये ब्रीद्वादावन्याधिष्ठितेऽनुशायिनः संसर्गभाज एव न तु तत्र भोगस्तेपां तत्र भोगमापककर्माभावादिति सिद्धान्तिनोक्ते पशुहिंसादि- योगादिष्टस्याशुद्धत्वात्तस्य तत्र भोगमापकत्वमस्त्विति पूर्वपक्षे यत्सिद्धा- न्तबोधकं व्याससूत्रमशुद्धामति चेन्न शब्दादिति । तस्यायमर्थः- अशुद्ध एवेति चेन्न । शब्दात् । धर्मत्वाधर्मत्वयोः शब्दैकगम्यत्वात् । वैधहिंसाया धर्मत्वेनोक्तेन साऽधर्म एवेति अल्पपापत्वादेव वैधहिंसा न पूर्णदोषायेत्येव मीसांसकाशयः । अत एव तस्याल्पपापल्याल्पायु- वादिकं फलमुक्तम् । स्थावरभावो हि सर्वथाऽशुद्धल्यैव कर्मणः फल- मिति व्यासाशयः । किं च यत्राल्पं सुखमधिकं दुःखं समे वा ते तत्रापि रागान्धास्तिकस्य परकीयसुन्दरीगमन इव तन्मुख उत्कटेच्छा- वशात्प्रवृत्तिरुपपद्यते दुःखल्याल्पत्वे तु सुतरामिति । तदापि भवान्सम- स्ततान्त्रिकासमतार्थ कल्पयतः शब्दशक्तिस्वभावमजानतोऽव्युत्पन्नस्य भ्रातत्यावेदयति । यदि, अशुद्धमिति चेन्नेति सूत्रस्य भवर्णित एवार्थों व्याससंमतोऽभविष्यत्तर्हि सर्वज्ञभगवत्पादवाचस्पतिमिश्रप्र- मुखा महान्तो व्याख्यातारस्तत्सूत्रं भवदक्तरीत्यैवार्थापयिष्यन् । व्यासाभिमततन्सूत्रार्थो मयैव जातो न तु तैरिति वदिता भवानराजकी- यकार्येऽभिषिक्तो महानिएको मन्त्री राज्यवस्तुस्थितिं न जानाति देशान्तरवासी गोपाल एव तज्जानातीति वदिनुभ्रातव । न च वाच्यं पतञ्जलिना सबजेन ज्योतिष्टोमादिकर्मणो दुष्टत्वादुष्टत्योभयसंवलितत्वे- नाभ्युपगतत्वात्तदनुसारेणेदं सूत्रमित्थमेव व्याख्येयमिति । न हि पतञ्ज- ल्यभ्युपगत एवार्थो व्यासेनाभ्युपगन्तव्य इति राजाज्ञाऽस्ति नापि पतञ्जलिरेव सर्वज्ञो न तु व्यास इत्यनुन्मत्तः कश्चिदभ्युपैति । किं च वेदवाक्यार्थविशदीकरण जैमिनिबादरायणावेव कुशलावतस्तदभ्युपग- एव श्रेयस्कामैरभ्युपगन्तव्यो न न्वितराभिमतार्थ इत्येव शिष्टानां महात्मनां प्रवादः श्रूयते । पतञ्जलिस्नु शब्दसाधुत्वासाधुत्वव्यवस्था- पन एव दक्ष इत्येव महनीयैरभ्युपगम्यते । अतः पतञ्जल्यभिमतो तार्थ पश्चालम्भमीमांसा। ३० वस्तुतो वेदविरुद्धार्थः श्रेयस्कामरनादरणीयः । न च व्यासेनैव योग- सूत्रभाष्ये कर्मणामल्पदोपवत्वेन वर्णितत्वान्मदभिमत एवैतास्त्रार्थों व्याससंमत इति वाच्यम् । मूलाशयोदघाटनार्थ मृलानुसारेणैव व्याख्या करणीयेत्येव नियमरतान्त्रिकरभ्युपगभ्यते । अतो व्यासोऽपि पतञ्ज- लिसूत्राशयोद्घाटनार्थ तथा भाष्यं कृतवान् । न च तावता स एवार्थी व्याससंमत इति नियन्तुं शक्यते । श्रुत्यर्थनिर्णायकत्वेन ब्रह्मसूत्राण्य- रचयत् । एवं चाशुद्धामेति सूत्रस्य स्वरसतो यादृशोऽर्थः प्रतीयते स एव वेदार्थ इत्येव ध्यासोऽभिप्रेतीत्येवाभ्युपगन्तव्यं सुधीभिः । नहि करयचन सूत्रकारस्य स्वकृतसूत्रात्वरसतः प्रतीयमानोऽर्थी न संमतः किंतु अन्यीयसूत्रानुसारेण स्वकृतादभाप्यात्स्वरसतःप्रतीयमानार्थ एव संमत इति कश्चन विवेकी वदितुमर्हति । तम्मादशुद्धमिति सूत्रस्य मद्वर्णित एवार्थो व्यासाभिमत इति यदुच्यते तत्तु न पिचारसहम् । किं च परकीय- सुन्दरीगमनदृष्टान्तप्रदर्शनेन कर्मसु प्रवृत्त्युपपादनमसंगतम् । नहि शिष्ट- त्वेनाभिमता जना ज्योतिष्टोमादिकर्ममु यथा सर्वजनसमक्ष प्रवर्तन्ते तथा परकीयसुन्दरीगमने कदापि प्रवर्तन्ते। किंच परकीयसुन्दरीगमनकर्तागे यथाऽपाले यत्वेन गण्यन्ते नहि तथेमे गण्यन्ते । प्रत्युताऽऽस्तिकः प्रथम पूज्यन्ते सकलवैदिकशिरोमणितया गण्यन्ते । अत एवानयोमहावैषम्य- मस्तीति प्राकृतैरपि ज्ञातुं शक्यत इति नात्रास्माभिरधिकं वक्तव्यम् । यत्तु अत एव मरणरूपमहानिष्टसाधनेऽपि सहगमनवेणीप्रवेशादावात्म- हत्यङ्गाके सर्वस्वारयज्ञादी च प्रवृत्युपपत्तिः पुरुषस्य प्रत्यवायेऽपि याग- स्य साङ्गत्वमक्षतमेव । यो नाम ऋतुमध्यस्थकलञ्जादीनि भक्षयन्न ऋतोस्तत्र वैगुण्यं यथाचोदितसिद्धित इत्युक्तरिति । तत्तु न विचारस- हम् । सहगमने वेणीमवेशादित्यले मरणस्यानिष्टत्वमेव नास्ति । जना- नामिदमेवेष्टमिदमनिष्टमिनि ब्रह्मणाऽपि नियन्तुं न शक्यते । पतिमर- णानन्तरं जीवनेच्छारहितायाः पतिव्रताया मरणमेव कामयमानाया मरणोपायत्वेन सहगमनात्मक उपायः शास्त्रेणाभ्यनुज्ञात एकमेव वेणीप्रवेशादावप्यूधम् । तथा कयाचिदपि चिकित्सया निवर्तयितुमश- क्येनातिदुःसहेन महारोगेण पीडितस्य जीवन निराशस्य मरणमेवाऽऽ- काडमाणस्य पुरुषस्य मरणोपायत्वेन सर्वस्वारान्मकः क्रतुर्विहितस्तत्र पश्वालम्भमीमांसा। च सहगमनसर्वस्वारादीनां विहितत्वादेव दुष्टत्वं नेत्यभ्युपगम्यतेऽ- स्माभिः । एवंचैतदादिस्थलेऽपि केवलेष्टसाधनत्वेनैव प्रत्त्युपपत्तिरिति प्रकारान्तरेण प्रवृत्त्युपपादनमुभयवादिसंमतं नेत्यलम् । पञ्चशिखाचार्य- स्योभयवाद्यसंपतिपन्नत्वात्तत्संमतिरकिंचित्करी । यत्तु जैमिनेरेव सर्व वस्तुतत्त्वज्ञत्वाभावो मार्कण्डेयपुराणादवगम्यते सुतरां तदीयानाम् । तत्र हि व्यासशिष्यो जैमिनिर्भारतविषयेषु केषुचित्पदार्थेषु संदिहानो मार्क- ण्डेयं पप्रच्छ, स च न मेऽवसरस्तस्मात्सर्वज्ञान्विन्ध्याचलवासिनश्चतुरः पक्षिणः पृच्छेत्युक्तवान् । तस्यायमाशयः-व्यासशिष्योऽप्ययमशुद्ध- चित्ततया व्यासोक्तं न साधु मन्यते । सर्वफलदं परमेश्वरं तत्त्वेन न मनुते किंतु कमैव फलदमिति । तथा देवतिर्यगादीनां व्यासोक्तं ज्ञाना- धिकारं न मन्यते, असंभवादनधिकारं जैमिनिरिति व्यासोक्तेः । अत- स्तिरश्चां शिष्यो भूत्वा तेषां ज्ञानाधिकारे ज्ञाते सर्वत्र व्यासोक्ते विश्वस्तो भवेत् । देवासुरसग्रामादेस्तन्मुखतः श्रवणे तेषामविग्रहत्वाभिमानं त्यक्ष्यतीति । तस्मात्पातञ्जलभाष्ये व्यासोक्तमेव श्रद्धेयमितीति । तच्च महतामुपालम्भेन स्वस्योन्मत्ततां मुर्वतां वा केवलमावेदयति । मार्कण्डेय- पुराणस्थाया अस्या आख्यायिकाया एतादृशमाशयं भवन्तं विनाऽन्यः कश्चन पामरोऽपि नाभ्युपगच्छति । किं च नहि व्यासेन तिरश्चामधि- कारः कुत्रापि प्रत्यपादि “ तदुपर्यपि बादरायणः संभवात् " इत्यस्मि- नधिकरणे विद्यायां देवानां परमधिकारः समर्थितस्तत्रापि तिरथामधि- कारः परमर्पिणा नाभ्युपगम्यते । न च तथा सति पक्षिणां कथमुपदेष्मृत्व- मिति वाच्यम् । येषां पक्षिशरीरावच्छिन्नानां ज्ञानवत्वं श्रूयत्ते तेषा- मपि गर्भस्थवामदेवशूद्रभूतविदुरादिवज्ञानजननयोग्यशरीरावच्छेदेनैव ज्ञानवत्त्वमुत्पन्नमित्यभ्युपगम्यते । ते च महान्तो योगैश्वर्यवशादनेक- देहादानन्यायेन नानाजातीयानि शरीराणि परिगृह्णन्ति । तस्मान्मार्क- ण्डेयेन केषांचन पक्षिविशेषाणामुपदेतृत्वकथनमात्रेण सर्वेषां पक्षिणां ज्ञानवत्त्वं वा ज्ञानाधिकारवत्वं वाऽभ्युपगन्तुं न युज्यते । नहि अग- स्त्येन समुद्रः पीत इति सर्वैविप्रैः समुद्रः पातुं शक्यत इत्युन्मत्तोऽप्य- भ्युपगच्छति । अतो मार्कण्डेयवचनस्यैतादृशाशयवर्णनं त्वयैवानुमोद- नीयं नान्येन केनचित् । किंच जैमिनेः कमैव फलदमीश्वरो नास्ति ..

पश्चालम्भमीमांसा। ४१ - देवतानामपि विग्रहवत्त्वं नास्तीत्यादिषु विषयेषु नास्त्याग्रहः । नितग कर्मविश्वासरहितानां नास्तिकानां बौद्धादीनां खण्डनार्थ तथा कथित- वान् । एतच्छंकरविजये भगवद्विद्यारण्यत्स्वामिकृते नवमसमें स्पष्टमि- त्यास्तां तावत् । यत्त---- यन्न दुःखेन संभिन्न न च ग्रस्तमनन्तरम् । अभिलापापनीतं च तत्सुखं स्वःपदास्पदम् ॥ इत्यनेनापि सूचितमेतत् । आयपादन हिकरन्यन्तकालदुःखसदृश- सुखसमानदुःखनिरासः । न च प्रतमित्यनेन तदधिकटःखनिगसः । अनन्तरमित्यनेन निद्राकालबपयिकाभयरहितदिनरूपकालनिसः । अन्यथा सफलदासाभावल्याऽऽद्यपादेव प्रतिपादने सिद्ध न च ग्रस्त- मिन्यस्य वयापतेः । अभिलापोपनीतत्वेन विपर संपादन, शनि- रामः । स्वर्गेऽपि वपयिकमेव मुखमिति अप्सरस एनं जाया भृत्वो- पशेरत इत्यादि होमादिफलकथन कः पूर्वपरयोरिति सूत्रे भाग्ये पटा- क्तम् । एवं च विजातीयसु खत्वमेव स्वगन्यम् । तनमा महिपानुगादि- जन्यदुःखमरत्येवेति सूचितम् । यहा खनान्तरीयकावश्यमाविश्वा- न्यदुःखजनकाधर्मानारब्धदेहोपभोन्यसुखवं तत् । सहगमनादी मरणा- * भगवता जोमनिना नवमे देवताधिकरणे-“देवता या प्रयोजयेत्” इति पृर्वपक्षमुप क्षिप्य " अपि वा शब्दपूर्वयात् ।" इत्यनेन सिद्धान्तितं तदाशय एवम्-" वज्रहस्तः पुरंदरः " इत्यादिभूतार्थवादानां प्रमाणान्तरारोिधै प्रतीयमानार्थेऽपि प्रामाण्यं विद्यत इति । किंप्रयुक्ता धर्मा इत्येव तत्रोहलक्षणे विचार: प्रस्तुतो न देवताविग्रहादिनिर्णयः । अत एवापूर्वस्वीकारमात्रेणैव शब्दमात्रप्रमाणको भगवा मिनिः परितुष्टो न भगवती देवता द्वेष्टि । तावनैव स्वापेक्षितीहाध्यायस्याऽरम्भासिद्धेः । भगवतो जैमिनेश्च देवताविग्रहादिकं संमतमित्यधिकारलक्षणे तयाख्यातृभिः प्रपञ्चितमिति तत एवावगन्तव्यम् । विस्तरभिया नेह तन्यते । प्रासङ्गिकाः केचन व्यासजैमिनितबभेदा में संपनी तेऽधिकारभेदेन ह्याः । आइश्चात्र भट्टपादाः श्लोकवार्तिके- इत्याह नास्तिक्यनिरकरिष्णुर। मास्तितां भाष्यकृदन युक्त्या । ढवमेतद्विषयश्च बांधः प्रयाति वेदान्तनिषेवणेन ॥” इति । ६ ४२ पश्चालम्भमीमांसा। न्तप्रायश्चित्तादौ चोक्तरीत्याऽल्पं पापं भूयान्धर्मो ज्योतिष्टोमन्यायेन वदन्तीति दिगिति । तत्तुच्छम् । यन दुःखेन संभिन्नमित्यादिपद्येन स्वरसतः प्रतीयमानोऽर्थ इत्थम्-न दुःखेन संभिन्न स्वावच्छेदकश- रीरावच्छेन स्वसमवायिसमवेतत्वसंबन्धेन दुःखवद्भिन्नम् । न च ग्रस्तमनन्तरमित्यस्य शरीरमाप्त्यनन्तरं सुखाभावावच्छेदकशरीरावच्छि- नभिन्नम् । अभिलाषोपनीतमित्यस्य संकल्पमात्रेणोत्पन्नं न तु प्रया- सेन । एतादृशविशेषणत्रयविशिष्टसुखमेव स्वपदवोध्यं भवितुमर्हति, इति भवदुक्तरीत्या हिंसाजन्यदुःखसंबन्ध उक्तविशेषणानुपपत्तेः । भवदुक्त- रीत्या विशेषण सामञ्जस्येऽपि तथा तद्वाक्यार्थवर्णनं हिंसाजन्यदुःख- संबन्धान्यथानुपपत्त्यैव न तु स्वरसतस्तद्वाक्यात्तादृशार्थः प्रतीयत इति वाक्यस्वारल्यं भज्येत । केचित्तु यन्न दुःश्वेनेत्यादि न स्वर्गलक्षणं विशेषणचतुष्टय च्यावाभावात् । किंतु स्वरूपकथनमात्रम् । विशेषण- चतुष्टयेनापि हि सांसारिक सुखवैलक्षण्यमस्य अवता सुखत्वावान्तरजातिः बगवमुपलक्ष्यते । तद्धि दुःखमिश्रमिदं तु न तथा । एवं सांसारिक गज्यादिसुग्गं वाद्यवधिप्रमाणाभावाच्छत्रुकृतापहारादिशङ्काग्रस्तम् । इदं अर्थवादादिप्रमाणतो वादियावन्कालभोग्यतया प्रमितं न तन्मध्येऽ- पहारादिशङ्कगग्रस्तं तथेदमन्तग्मनवच्छिन्नं संतनं वर्षादिपर्यन्तमितरत्तु न तथा किंतु मुखदुःखोभयरहितावस्थयाऽवच्छिन्नमेवमिदमभिलापमात्रे- णोपनतमुपस्थितं न स्रक्चन्दनवनितादिविण्यापेक्षमितरसु विषयापेक्ष- मेवेत्येवंरीत्याऽस्य पद्यस्यार्थ वर्णयन्ति । अस्मिन्पक्षेऽपि स्वर्गसुखस्य दुःखसंबन्धगन्धाऽपि नास्तीत्येव प्रतीयत इत्यलम् । यदपि श्येनवधप्रयुक्तमत्यल्पं पापं भवत्येवेति तत्तु मीमांसेतिशब्द- म्याप्यश्रोतृत्वमात्मनः भग्व्यापयति । यतस्तव्यपदेशं चन्येतस्मिन्नधि- करणे श्येनेनाभिचरन्यजेतेति वाक्यमुदाहृत्यात्रत्यश्येनपदं श्येनपक्ष्या- त्मकगुणविधायकमाहोम्बित्कर्मनामधेयं वेनि संदिह्य तत्प्रख्यन्याया- यात्मकवाधकाभावात, श्येनपदस्य श्येनपक्षिण्येव प्रसिद्धत्वात्, वै श्येनो निपत्याऽऽदत्त एवमयं द्विषन्तं भ्रातृव्यं निपत्याऽऽदत्ते' इत्य- थवादस्योपक्रमस्थविधिवाक्यानुसारेण ते तद्विलासा इव तद्विलासा इतिवन्नेयत्वात्, प्रकृतसोमयागमाश्रित्य फलोदेशेन श्येनात्मकगुणवि- धायकमाहोस्विच्छ येन विशिष्ट कर्मान्तरविधायकं वेति पूर्वपक्षे प्राप्ते, अर्थ- वादस्यानन्वयालंकारत्वे सर्वेषामर्थवादस्थपदानामुपमानान्तराभावल- तु यथा पश्वालम्भमीमांसा। क्षकत्वापत्तेरुपक्रमन्यायात्मबलेन भूयोनुग्रहन्यायेनोपक्रमस्थ एकस्मि- श्येनपदे रूपकविधया लुप्तोपमानविधया वा गौणी वृत्तिमाश्रिन्य श्येनपदस्य द्वितीयविधिप्रकारापादकं नामधेयत्वमेवाङ्गीकर्तव्यम् । अर्थवादस्तु रूपकाद्यपेक्षितसादृश्योपपादनार्थः सन्विनैव लक्षणां पूर्णो- पमानविधया विधेययागस्तुत्यर्थ इत्येवाभ्युपगम्यते, इति सिद्धान्ति- तम् । भवदुक्तरीत्या श्येनपक्षिद्रव्यकः श्येनयाग इत्यभ्युपगम्यते चेदे- तदधिकरणसिद्धान्तविरोधः स्यात् , इत्यलमधिकेन प्रपश्चेन । तस्मा- च्छेयस्कामैर्वेदार्थतत्त्ववित्सर्वज्ञव्यास नैमिनितदनुयायिमहानुभावशंकरश- बरस्वाम्यादिमतमनादृत्य वेदविरुद्धार्थप्रलापिसांख्यानुयायिना येनकेन- चित्पण्डितंमन्येन व्याकरणमतबोधकमञ्जूषादी प्रलपितं स्वमेऽपि न विश्वसनीयम् । किंतु व्यासजेमिनिमनमेवाऽऽदरणीयमिन्याम्ताम् । श्रीरामो जनकः सनी मतिमनी यस्य प्रसूर्जानकी दत्तात्रेय इनि प्रकलप्तनिगमो यः सोमयाजी मुधीः । गोविन्दः सुगुणश्च विष्णुरपरो ह्येवं त्रयः सोंदराः श्रीलक्ष्मीकमलेशपादयुगुले ग्रन्थं न्यधाद्वामनः ।। १ ।।

No text on this page.

Pasvalambha Mimansa

Author
Vinayak Ganesh Apte
Title
Pasvalambha Mimansa
File name
Pasvalambha Mimansa
Text
OCR done
Published
2010/01/23
Publisher
Bombay
Language
Sanskrit
Pages
67
DLI number
424507
Barcode
99999990048809.00
Scanning centre
C-DAC, Noida
Digital publisher
Digital Library Of India,Cdac Noida
Rights
Not Available
VMLT id
sVn9tM65WJD
Download PDF

Pasvalambha Mimansa