University Library,gurukul Kangri Vishwavidyalaya
पञ्चरात्रं
Front matter
TRIVANDRUM SANSKRIT SERIES,
NO. XVII.
COM
THE
PANCHARÂTRA
BHASA
EDITED WITII VOTES
BY
T. GANAPATI SA STRÎ.
Curitur fillo: lepraerinnert for the publication of Sunskril memilseripits,
TRIVIT lil' M.
basa's adorlis: - No. 3.
PUBLISHED UNDER THE AUTHORITY OF THE GOVERNMENT OF
HIS HIGHNESS THE MAHARAJA OF TRAVANCORE.
TRIVANDRUM.
PRINTED IT TU TRAVASCORE
GOVERNMENT PRESS.
1912.
(All Rights Reserved)
अनन्तशयनसंस्कृतग्रन्थावलिः ।
सुनदेस
ग्रन्थाङ्कः १७.
जिस 32
मराम में प्रस्ती राम लिए किराएं। में
पञ्चरात्रं
ir लिए फिरता हूं।
महाकविभीभासप्रणीतं
जम में जिसको
उसपर
संस्कृतग्रन्थप्रकाशनकार्याध्यक्षेण याले लो TEr
त. गणपतिशास्त्रिणा
संशोधित
लघुटिप्पण्या च संयोजितम् ।
भासनाटकचक्रे तृतीयम ।
तन्च
अनन्तशयने
महामहिमश्रीमूलकरामवर्मकुलशेखरमहाराजशासनेन
राजकीयमुद्रणयन्त्रालये
मुद्रयित्वा प्रकाशितम् ।
कोळम्बाब्दाः १०८७, ऊस्ताब्दाः १९१२.
पात्राणि । भट: - -- दुर्योधनः हास्तिनश्वरः । भीष्मः = दुर्योधनादीनां पितामहः । द्रोणः दुर्योधनादीनां धनुराचार्यः । कर्णः अङ्गेश्वरो दुर्योधनस्य सखा । शकुनिः दुर्योधनस्य मातुलः । दुर्योधनस्य भृत्यः । वृद्धगोपालकः = गोकुलाध्यक्षः । गोमित्रकः काश्चिद् गोपालः । राजा मत्स्यदेशाधिपतिविराटनामा । भगवान् ब्राह्मणव्यञ्जनो धर्मपुत्रः । भीमसेनः धर्मपुत्रस्यानुजः । अर्जुनः बृहन्नला अर्जुनः । अभिमन्युः अर्जुनस्य पुत्रः । विराटस्य पुत्रः । सूतः विराटस्य अभिमन्योश्च सारथिः । काञ्चुकीयः विराटस्य परिजनः । दूतः = तथा। विराटस्य भृत्यः । D तथा । उत्तर: - भटः - ॥ श्रीः॥ श्रीगणेशाय नमः। महाकविश्रीभासप्रणीतं पञ्चरात्रम्। (नान्द्यन्ते ततः प्रविशति सूत्रधारः) - सूत्रधारः H द्रोणः पृथिव्यर्जुनभीमदूतो यः कर्णधारः शकुनीश्वरस्य । दुर्योधनो भी(म?ष्म)युधिष्ठिरः स पायाद् विराडुत्तरगोऽभिमन्युः ॥१॥ (परिक्रम्य) एवमार्यमिश्रान् विज्ञापयामि । अये किन्नु- खलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग! पश्यामि । (नेपथ्ये) अहो कुरुराजस्य यज्ञसमृद्धिः । सूत्रधारः भवतु, विज्ञातम् । * द्रोण इति । द्रोणः कृष्णवर्णः । पृथिव्यामर्जुनभीमयोक्तः । शकुनीश्वरस्य गरुडस्य कर्ण- धारो नेता । दुर्योधनः शत्रुभिरनभिगम्यत्वात् । भीष्मयुधिष्टिरः भयङ्करश्च युद्धे स्थिरश्च । उत्तरं प्रशस्तं गच्छत्याचरतीति उत्तरगः । मन्यु यज्ञम् अभिगतोऽभिमन्युः । विराड् अर्थाच्छीकृष्ण: पायात् । अथच द्रोणादिशब्दैरेतद्रूपककथाविषयाणां द्रोणार्जुनीमकर्णशकुनिदुर्योधनभीष्मयुधिष्ठि- रविराटोत्तर-गोभिमन्यूनां सूचनं मुद्रालङ्कारभणया कृतम् ।
पञ्चरात्रे सर्वैरन्तःपुरैः सार्ध प्रीत्या प्राप्तेषु राजसु । यज्ञो दुर्योधनस्यैष कुरुराजस्य वर्तते ॥ २ ॥ (निष्क्रान्तः) स्थापना। - (ततः प्रविशन्ति ब्राह्मणास्त्रयः) सर्वे-- अहो ! कुरुराजस्य यज्ञसमृद्धिः । प्रथमः इह हि, द्विजोच्छिष्टैरन्नैः प्रकुसुमितकाशा इव दिशो हविधूमैः सर्वे हृतकुसुमगन्धास्तरुगणाः। मृगैस्तुल्या व्याघ्रा बधनिभृतसिंहाथ गिरयो नृपे दीक्षां प्राप्ते जगदपि समं दीक्षितमिव ॥ ३ ॥ द्वितीयः सम्यग् भवानाह। तृप्तोऽग्निर्हविषामरोत्तममुख* तृप्ता द्विजेन्द्रा धन- स्तृप्ताः पक्षिगणाश्च गोगणयुतास्तेते नराः सर्वशः दृष्टं सम्प्रति सर्वतो जगदिदं गर्जन्नृपे सद्गुणै. रेवं लोकमुदारुरोह सकलं देवालयं तद्गुणैः ॥ ४ ॥ तृतीयः- इमेऽत्रभवन्तो हि जातयः, राज्ञां वेष्टनपट्टहृष्टचरणाः श्लाध्यप्रभूतश्रवा ।। वाईक्येऽप्यभिवर्धमाननियमाः स्वाध्यायशूरैर्मुखैः । विप्रा यान्ति वयाप्रकर्षशिथिला यष्टित्रिपादक्रमाः शिप्यस्कन्धनिवेशिताञ्चितकरा जीर्णा गजेन्द्रा इव ॥५॥ * 'अग्निमुखा व देवाः' इति श्रुतेः । * हृष्टमिति । एवं नृपे सद्गुणैर्गद् नृपगतान् सद्गुणान् कर्तियत् । देवालयं देवावासभूतं सकलं लोकं तस्य नृपस्य जगतो वा गुणैः उदाहरोह भति- शिइये। श्रवशब्दः ख्यातिवचनः ।
३ , , प्रथमोऽङ्कः । सर्वे-- भोभो माणवकाः! भोभो माणवकाः! अनवसितेऽव- भृथस्नाने न खलु तावदग्निरुत्स्रष्टव्यो भवद्भिः । प्रथमः हा धिग् , दर्शितमेव तावद् वटुचापलम् , एषा दीप्तक(यू )पा कनकमयभुजेवाभाति वसुधा चैत्याग्निलौकिकाग्निं द्विज इव वृषलं पार्श्वे न सहते । नात्यर्थ प्लुष्टपृष्ठा हरितकुशतया वेदी परिवृता प्राग्वंशं चैष धूमो गज इव नलिनी फुल्लां प्रविशति ॥६॥ द्वितीयः एवमेतद् , अग्निरग्निभयादेष भीतैर्निर्वास्यते हिजैः । कुले व्युत्क्रान्तचारित्रे ज्ञातिजतिभयादिव ॥ ७ ॥ ४ ॥ तृतीयः शकटी च घृतापूर्णा सिच्यमानापि वारिणा । नारीवोपरतापत्या बालस्नेहेन दह्यते ॥ ८ ॥ प्रथमः -सम्यग् भवानाह, एतां चक्रधरस्य धर्मशकटी दग्धुं समभ्युद्यतो दर्भ शुष्यति नीलशाहलतया वह्निः शनैर्वामनः । वातेनाकुलितः शिखापरिगतश्चक्रं क्रमेणागतो नेमीमण्डलमण्डलीकृतवपुः सूर्यायते पावकः ॥ ९ ॥ द्वितीयः-- इदमपरं पश्य, वल्मीकमूलाद् दहनेन भीता- स्तत्कोटरैः पञ्च समं भुजङ्गाः । -- * राष्ट्रभर्तुर्दुर्योधनस्येत्यर्थः ।
মুম্বা
समं विपन्नस्य नरस्य देहान्
विनिःसृताः पञ्च यथेन्द्रियाणि ॥१०॥
तृतीयः इदमपरं पश्येतां भवन्तौ,
दह्यमानस्य वृक्षस्य सानिलेन मखाग्निना ।
कोटरान्तरदेहस्थाः खगाः प्राणा इवोद्गताः ॥ ११॥
प्रथमः- एवमेतत् ,
शुष्कणैकेन वृक्षेण वनं पुष्पितपादपम् ।
कुलं चारित्रहीनेन पुरुषेणेव दह्यते ॥१२॥
वनं सवृक्षक्षुपगुल्ममेतत्
प्रकाममाहारमिवोपभुज्य ।
कुशानुसारेण हुताशनोऽसौ
नदीमुपस्प्रष्टुमिवावतीर्णः ॥१३॥
द्वितीयः
गतो वृक्षाद् वृक्षं विततकुशचीरेण दहनः
कदल्या विप्लुष्टं पतति परिणामादिव फलम् ।
असौ चाग्रे तालो मधुपटलचक्रेण महता
चिरं मूले दग्धः परशुरिव रुद्रस्य पतति ॥१४॥
तृतीयः-- हन्त सत्पुरुषरोष इव प्रशान्तो भगवान् हुताशनः।
एतदनेलं नष्टमिन्धनानां परिक्षयात् ।
दानशक्तिरिवार्यस्य विभवानां परिक्षयात् ॥ १५ ॥
एषएषः।
प्रथमः
मुग्भाण्डमरणीं दर्भानुपभुङ्क्ते हुताशनः ।
व्यसनित्वान्नरः क्षीणः परिच्छदमिवात्मनः ॥ १६ ॥
प्रथमोऽङ्कः । द्वितीयः--- अवनतविटपो नदीपलाशः पवनवशाच्चलितैकपर्णहस्तः। दबदहनविपन्नजीविताना- मुदकमिवैष करोति पादपानाम् ॥ १७ ॥ तृतीयः तदागम्यताम् । वयमपि तावदुपस्पृशामः । उभौ- बाढम् । (सर्वे उपस्पृश्य) प्रथमः अये अयमत्रभवता कुरुराजो दुर्योधनो भीष्म- द्रोणपुरःसरः सर्वराजमण्डलेनानुगम्यमान इत एवाभि- वर्तते । इमे हि, यज्ञेन भोजय महीं जय विक्रमेण रोषं परित्यज भव स्वजने दयावान् । इत्येवमागतकथामधुरं ब्रुवन्तः कुर्वन्ति पाण्डवपरिग्रहमेव पौराः ॥ १८ ॥ तदागम्यताम् । वयमपि तावत् कुरुराजं सम्भावयामः । उभौ बाढम्। सर्वे जयतु भवान् जयतु । (निष्क्रान्ताः सर्वे) विष्कम्भकः । - (ततः प्रविशतो भीष्मद्रोणौ) द्रोणः- धर्ममालम्बमानेन दुर्योधनेनामेवानुगृहीतो नाम ।
, चालभियान परोक्षो न स्वर्गो बहुगुणमि(है)वैष फलति ॥ २१॥ पञ्चरात्रे कुतः,. अतीत्य बन्धूनवलङ्घय मित्रा- ण्याचार्यमागच्छति शिष्यदोषः । बालं ह्यपत्यं गुरवे प्रदातु- नैवापराधोऽस्ति पितुर्न मातुः ॥१९॥ भीष्मः एष दुर्योधनः, अवाप्य रूप्यग्रहणात् समुच्छ्रयं रणप्रियत्वादयशो निपीतवान् । निषेव्य धर्म सुकृतस्य भाजनं स एव रूपेण चिरस्य शोभते ॥२०॥ (ततः प्रविशति दुर्योधनः कर्णः शकुनिश्च) दुर्योधनः- कृतश्रद्धो ह्यात्मा वहति परितोषं गुरुजनो जगद् विश्वस्तं मे निवसति गुणो नष्टमयशः । मृतैः प्राप्यः स्वर्गों यदि कथय (भा)त्येतदनृतं कर्णः गान्धारीमातः ! न्यायेनागतमर्थमतिसृजता न्याय्य- मेव भवता कृतम् । कुतः, बाणाधीना क्षत्रियाणां समृद्धिः uklyn पुत्रापेक्षी वञ्च्यते सन्निधाता । mar * 'म्ब्य' इत्यक्षरवदिदमक्षरमादर्श भासते। + गान्धारी माता यस्य, तस्य सम्बु- द्विर्गान्धारीमातरिति । “मातमातृकमातृषु वा” इति वार्त्तिके बहुव्रीही ध्यङः सम्प्रसारण- विकल्पविधायके मातृकमातृशब्दयोर्निर्देशात् कपो वैकल्पिकत्वं बोद्धव्यम् । 8 सनिधाता व्ययं विना धनस्य स्थापयिता।
Sta 7 प्रथमोऽङ्कः । विप्रोत्सङ्गे वित्तमावर्त्य सर्व राज्ञा देयं चापमानं सुतेभ्यः ॥ २२ ॥ शकनिः - सम्यगाह गङ्गोपस्पर्शनाद् धौतकल्मषाङ्गोऽङ्गराजः । कर्णः इक्ष्वाकुशच्यातिययातिराम- मान्धातृनाभागनृगाम्बरीषाः । एते सकोशाः पुरुषाः सराष्ट्रा नष्टाः शरीरैः क्रतुभिर्धरन्ते ॥ २३ ॥ Austurkion. सर्वे गान्धारीमातः! यज्ञसमाप्त्या दिष्टया भवान् वर्धते दुर्योधनः- अनुगृहीतोऽस्मि । भो आचार्य ! अभिवादये । द्रोणः एह्येहि पुत्र ! अयमक्रमः । दुर्योधनः अथ कः कमः । द्रोणः किं न पश्यति भवान् , दैवतं मानुषीभूतमेष तावन्नमस्यताम् । अ(न्ना?न्याया)चरणं मन्ये भीष्ममुत्क्रम्य वन्दितुम् ॥२४|| भीष्मः- मा मा भवानेवम् । बहुभिः कारणैरपकृष्टोऽहं भवतः । कुतः, अहं हि मात्रा जनितो भवान् स्वयं ममायुधं वृत्तिरपह्नवस्तव । हिजो भवान् क्षत्रियवंशजा वयं गुरुर्भवान् शिष्यमहत्तरा वयं ॥ २५ ॥ द्रोणः -नोत्सहन्ते महात्मानो ह्यात्मानमपस्तोतुम् । एहि पुत्र! अभिवादयस्व माम्। धरन्ते ध्रियन्ते जीवन्तीत्यर्थः । स्थितिवृत्तिरिह धातुः । - , ८ पञ्चरात्रे दुर्योधनः आचार्य! अभिवादये। द्रोणः एह्येहि पुत्र ! एवमेवावभृथस्नानेषु खेदमवाप्नुहि । दुर्योधनः- अनुगृहीतोऽस्मि । पितामह ! अभिवादये । भीष्मः - एोहि पौत्र! एवमेव ते बुद्धिप्रशमनं भवतु । दुर्योधनः-- अनुगृहीतोऽस्मि । मातुल! अभिवादये । शकुनिः वत्स! एवमेव क्रतून सर्वान् समानीयाप्तदक्षिणान् । राजसूये नृपान जित्वा जरासन्ध इवानय ॥ २६ ॥ द्रोणः- अहो! आशीर्वचनेऽपि शकुनिरुद्योगं जनयति । अहो! प्रियविरोधः खल्वयं क्षत्रियकुमारः। दुर्योधनः- वयस्य ! कर्ण ! गुरुजनप्रणामावसाने प्राप्तक्रम- मुपभुज्यतां वयस्यविस्रम्भः । कर्णः गान्धारीमातः! क्रतुव्रतैस्ते तनु गात्रमेतत् सोढं बलं शक्ष्यसि पीडयानि । अन्तस्त्वनामन्त्र्य न धर्षयामि *राजर्षिधीराद् वचनाद् भयं मे ॥ २७ ॥ दुर्योधनः एवमेव ते बुद्धिरस्तु । द्रोणः पुत्र ! दुर्योधन ! एष महेन्द्रप्रियसखो भीष्मको ना- म भवन्तं सभाजयति । - * राजर्षिधीराद् राजयुचितधीरत्वयुक्तात् । वचनात् तृप्तिशान्तिसम्पद्रमणीयात् 'कृतश्रद्धो खात्मेत्यादिरूपात् ।
प्रथमोऽङ्कः। का दुर्योधनः-- स्वागतमार्याय । अभिवादये । भीष्मः -पौत्र ! दुर्योधन ! एष दक्षिणापथपरिघभूतो भूरिश्र- वा नाम भवन्तं सभाजयिष्यति । दुर्योधनः- स्वागतमार्याय । द्रोणः पुत्र ! दुर्योधन ! भवतो यज्ञं सभाजयता वासुभद्रेण प्रेषितोऽभिमन्युभवन्तं सभाजयति । शकुनिः वत्स ! दुर्योधन ! एष जरासन्धपुत्रः सहदेवो भ- वन्तमभिवादयति । दुर्योधनः- एह्येहि वत्स ! पितृसदृशपराक्रमो भव । सर्वे एतत् सर्वराजमण्डलं भवन्तं सभाजयति । दुर्योधनः- अनुगृहीतोऽस्मि । भोः! किन्नुखलु समागते स- वराजमण्डले विराटो नागच्छति । शकुनिः- प्रेषितोऽस्य मया दूतः, शङ्के पथि वर्तत इति । दुर्योधनः-भो आचार्य ! धर्मे धनुषि चाचार्य ! प्रतिगृह्यतां दक्षिणा । द्रोणः- दक्षिणेति । भवतुभवतु । व्यपश्र(मि माय)ध्ये तावद् भवन्तम् । दुर्योधनः- कथमाचार्योऽपि व्यपश्र(मि?मयिष्यते । भीष्मः-भोः! किन्नुखलु प्रयोजनं, यदा- पीतः सोमो बाल्यदत्तो नियोगा- च्छत्रच्छाया सेव्यते ख्यातिरस्ति । किं तद् द्रव्यं किं फलं को विशेषः क्षत्राचार्यों यत्र विप्रो दरिद्रः॥२८॥ - पञ्चरात्रे १० दुर्योधनः----आज्ञापयतु भवान् किमिच्छति । किमनुतिष्ठामि । द्रोणः-पुत्र ! दुर्योधन ! कथयामि । दुर्योधनः-- किमिदानीं भवता विचार्यते, प्राणाधिकोऽस्मि भवता च कृतोपदेशः शूरेषु यामि गणनां कृतसाहसोऽस्मि । स्वच्छन्दतो वद किमिच्छसि किं ददानि हस्ते स्थिता मम गदा भवतश्च सर्वम् ॥ २९ ॥ द्रोणः पुत्र! ब्रवीमि खलु तावत् । बाष्पवेगस्तु मां बा- घते। भटः सर्वे- कथमाचार्योऽपि बाष्पमुत्सृजति । भीष्मः पौत्र ! दुर्योधन ! अफलस्ते परिश्रमः। दुर्योधनः कोऽत्र। (प्रविश्य) जयतु महाराजः। दुर्योधनः आपस्तावत्। भटः यदाज्ञापयति महाराजः । (निष्क्रम्य प्रविश्य) जयतु महा- राजः। इमा आपः। दुर्योधनः आनय । (कलशं गृहीत्वा) भो आचार्य ! अश्रुपातो- च्छिष्टस्य क्रियतां शौचम्। द्रोणः- भवतुभवतु। मम कार्यक्रियैव मुखोदकमस्तु । दुर्योधनः- हा धिग्, यदि विमृशासि पूर्वजिह्मता मे यदि च समर्थयसे न दास्यतीति ।
प्रथमोऽ शरशतकठिनं प्रयच्छ हस्तं सलिलमिदं करणं प्रतिग्रहाणाम् ॥३०॥ द्रोणः-हन्त लब्धो मे हृद्यविश्वासः । पुत्र! श्रूयतां, येषां गतिः कापि निराश्रयाणां संवत्सरैर्दादशभिर्न दृष्टा। त्वं पाण्डवानां कुरु संविभाग- मेषा च भिक्षा मम दक्षिणा च ॥ ३१ ॥ शकुनिः- (सोद्वेगम्) मा तावद् भोः ! उपन्यस्तस्य शिष्यस्य विश्वस्तस्य च गौरवे। य(द)प्रस्तुतमुत्पाद्य युक्तेयं धर्मवञ्चना ॥ ३२ ॥ द्रोणः कथं धर्मवञ्चनेति । मा तावद् भो गान्धारविषयवि- स्मित! शकुने! त्वदनार्यभावात् सर्वलोकमनार्यमिति मन्यसे । हन्त भोः भ्रातॄणां पैतृकं राज्यं दीयतामिति वञ्चना। किं परं याचितैर्दत्तं बलात्कारेण तैर्हतम् ॥ ३३ ॥ सर्वे कथं बलात्कारेण नाम । भीष्मः-पौत्र! दुर्योधन! 'अवभृथस्नानमात्रमेव खलु तावत् । मित्रमुखस्य शत्रोः शकुनेर्वचनं न श्रोतव्यम् । पश्य पौत्र! यत् पाण्डवा द्रुपदराजसुतासहायाः कान्ताररेणुपरुषाः पृथिवीं भ्रमन्ति । न पुन तमिदानी वर्तत इत्यर्थः ।
१२ पञ्चरात्रे (त?य)त् त्वं च तेषु विमुखस्त्वयि ते च वामा- स्तत् सर्वमेव शकुनेः परुषावलेपः ॥ ३४ ॥ दुर्योधनः --- भवतु, एवं तावदाचार्य ! पृच्छामि । द्रोणः पुत्र! कथय। दुर्योधनः यत् पुरा ते सभामध्ये राज्ये माने च धर्षिताः। बलात्कारसमथैस्तैः किं रोपो धारितस्तदा ॥ ३५ ॥ द्रोणः- अबेदानीं धर्मच्छलेन वञ्चितो द्यूताश्रयवृत्तियुधिष्ठिरः प्रष्टव्यः, येन भीमः सभास्तम्भं तुलयन्नेव वारितः। यद्यकस्मिन् विमुक्तः स्यान्नास्माञ्छकुनिराक्षिपेत् ॥३६॥ भीष्मः- अन्यत् प्रस्तुतमन्यदापतितम् । भो आचार्य! का- यमत्र गुरुतरं, न कलहः। द्रोणः मात्र कर्द दर्थ)नं कार्य, कलह एव भवतु । भीष्मः-प्रसीदत्वाचार्यः । पश्य पौत्र ! ये दुर्बलाश्च कृपणाश्च निराश्रयाश्च त्वत्तश्च (शर्म) मृगयन्ति न गर्वयन्ति । ज्येष्ठो भवान् प्रणयिनस्त्वयि ते कुटुम्बे तान् धारयिष्यसि मृगैः सह वर्तयन्तु ॥ ३७ ॥ शकुनिः- वर्तयन्तुवर्तयन्तु। $ धारयिष्यसि, वर्तयन्तु इत्युभयत्रापि प्रश्नकाकुः । तथाच तान् कुटुम्बे स्वीयत्वेन किं प्रहीष्यसि, किं वा त्वयोपेक्षितास्ते मृगैः सह वने वृत्तिमाश्रयन्ताम् इति प्रश्नार्थः ।
प्रथमोऽङ्कः । १३ - कर्णः -भो आचार्य ! अलममर्षेण । दुर्योधनो हि नाम, हितमपि परुषार्थ रुष्यति श्राव्यमाणो वरपुरुषविशेषं नेच्छति स्तूयमानम् । गतमिदमवसानं रक्ष्यतां शिष्यकार्य गज इव बहुदोषो मार्दवेनैव वाह्यः ॥ ३८ ॥ द्रोणः वत्स! कर्ण! तेजस्वि ब्राह्मण्यम् । काले सम्बोधि- तोऽस्मि । एषोऽहं भवच्छन्दमनुवर्ते। पुत्र! दुर्योधन! अहं तव प्रभावी ननु । भीष्मः • एष इदानीं मार्गेणारब्धः । सान्त्वं हि नाम दुर्विनी- तानामौषधम् । दुर्योधनः-- न ममैव, कुलस्यापि मे भवान् प्रभुः । द्रोणः एतत् तवैव युक्तम् । तत् पुत्र! त्वं कच्यसे यदि मया न तवात्र दोष- स्त्वां पीडयामि यदि वास्तु तवैष लाभः। दाः परस्परगता हि महाकुलानां धर्माधिकारवचनेषु शमीभवन्ति ॥ ३९ ॥ दुर्यो नः-तेन हि समर्थयितुमिच्छामि । द्रोप पुत्र! केन समर्थयितुमिच्छसि । भीष्मेण कर्णेन कृपेण केन किं सिन्धुराजेन जयद्रथेन । किं द्रौणिनाहो विदुरेण सार्धं पित्रा स्वमात्रा वद पुत्र! केन ॥ ४० ॥ दुर्योधनः- नहि नहि , मातुलेन । * वाक्यादी (स्वगतम् )' इत्यपेक्षितम् ।
पञ्चरात्रे १४ maava- MAMAPNummynindy द्रोणः-शकुनिना । 'हन्त विपन्नं कार्यम् । दुर्योधनः- मातुल ! इतस्तावत्। वयस्य ! कर्ण ! इतस्तावत् । द्रोणः *भवतु, एवं तावत् करिष्ये । 'वत्स ! गान्धारराज! इतस्तावत्। शकुनिः अयमस्मि । द्रोणः वत्स! क्रोधप्रायं वयो जीर्ण क्षन्तव्यं वटुचापलम् । अस्य रूक्षस्य वचसः परिष्वङ्गः शमीक्रिया ॥४१॥ भीष्मः (आत्मगतम्) एष शिष्यस्य वात्सल्याच्छकुनिं याचते गुरुः । एवं सान्त्वीकृतो ह्येष नैव मुञ्चाले जिह्मताम् ॥ ४२ ॥ शकुनिः . (आत्मगतम्) अहो शठः खल्वाचार्यः स्वकार्यलोभा- न्मां सान्त्वयति । (सर्वे परिक्रम्योपविशन्ति) दुर्योधनः-मातुल ! पाण्डवानां राज्याध प्रति के. शकुनिः-न दातव्यमिति मे निश्चयः । दुर्योधनः- दातव्यमिति वक्तुमर्हति मातुलः । शकुनिः- यदि दातव्ये राज्ये किमस्माभिः सह महो। ननु सर्वमेव प्रदीयताम्। दुर्योधनः- वयस्य! अङ्गराज ! भवानिदानी न किञ्चिद कर्णः इदानीं किमभिधास्यामि, रामेण भुक्तां परिपालितां च सुभ्रातृतां न प्रतिषेधयामि । '(स्वगतम् ) इत्यपेक्षितम् । + (प्रकाशम्)' इत्यपेक्षितम् । श्चियः। (धा प्रथमोऽङ्कः । १५ हन्त भोः! । क्षमाक्षमत्वे तु भवान् प्रमाणं सङ्क्रामकालेषु वयं सहायाः ॥ ४३ ॥ दुर्योधनः-मातुल! बलवत्प्रत्यमित्रोऽनुपजीव्यश्व कश्चित् कुदे- शश्चिन्त्यताम् । तत्र वसेयुः पाण्डवाः । शकुनिः शून्यमित्यभिधास्यामि कः पार्थाद् बलवत्तरः । ऊषरेष्वपि सस्यं स्याद् यत्र राजा युधिष्ठिरः ॥ ४४ ॥ दुर्योधनः-अथेदानी, गुरुकरतलमध्ये तोयमावर्जितं मे श्रुतमिह कुलवृद्धैर्यत् प्रमाणं पृथिव्याम् । तदिदमपनयो वा वञ्चना वा यथा वा भवतु नृप! जलं तत् सत्यमिच्छामि कर्तुम् ॥४५॥ शकुनिः-- अनृतवचनान्मोचयितव्यो भवान् ननु । दुर्योधनः-- अथकिम् । शकुनिः-तेन हि इतस्तावत् । (उपसृत्य) भो आचार्य ! इहा- त्रभवान् कुरुराजो भवन्तं विज्ञापयति । द्रोणः वत्स ! गान्धारराज ! अभिधीयताम् । शकुनिः- यदि पञ्चरात्रेण पाण्डवानां प्रवृत्तिरुपनेतव्या, राज्य- स्यार्ध प्रदास्यति किल । समानयतु भवानिदानीम् । द्रोणः मा तावद् भोः! (यैः?ये) कर्तुकामैश्छलनं भवद्भिः संवत्सरैर्दादशभिर्न दृष्टाः।
११ হ্বান্ত ते पञ्चरात्रेण मयोपनेया वरं ह्यदत्तं विशदाक्षरेण ॥ ४६ ॥ भीष्मः -पौत्र ! दुर्योधन ! अच्छलो धर्मः । वयमपि तावद- स्मिन्नर्थे प्रीताः स्मः । पश्य पौत्र! वर्षेण वा वर्षशतेन तेषां त्वं पाण्डवानां कुरु संविभागम् । तस्मात् प्रतिज्ञां कुरु वीर ! सत्यां सत्या प्रतिज्ञा हि सदा कुरूणाम् ॥ ४७ ॥ दुर्योधनः एष एव मे निश्चयः। द्रोणः (आत्मगतम्) अद्य मे कार्यलोभेन हनूमत्त्वं गता स्पृहा । लवयित्वार्णवं येन नष्टा सीता निवेदिता ॥ ४८ ॥ तत् कुतोनुखलु पाण्डवानां प्रवृत्तिरुपनेतव्या । (प्रविश्य) भटः जयतु महाराजः । विराटनगराद् दूतः प्राप्तः। सर्वे शीघ्रं प्रवेश्यताम् । भटः • यदाज्ञापयथ । (निष्क्रान्तः) (प्रविश्य) दूतः जयतु महाराजः। सर्वे किमागतो विराटेश्वरः। भटः विषादेनावृतो नोपगच्छति, यत्तत्सम्बन्धि सन्निकृष्टं कीचकानां भ्रातृशतं, -- प्रथमोऽङ्कः । १७ -- रात्रौ छन्नेन केनापि बाहुभ्यामेव हिंसितम् । दृश्यते हि शरीराणामशस्त्रजनितो वधः ॥ ४९ ॥ इति । भीष्मः - कथमशस्त्रेणेति । *भो आचार्य ! अभ्युपगम्यता पञ्चरात्रम् । द्रोणः किमर्थम् । भीष्मः भीमसेनस्य लीलैषा सुव्यक्तं बाहुशालिनः। योऽस्मिन् भ्रातृशते रोषः स तस्मिन् फलितः शते॥५०॥ द्रोणः कथं भवान् जानाति । भीष्मः कथं पण्डित ! कूलेषु भ्रान्तानां बालचापलम् । नाभिजानन्ति वत्सानां शृङ्गस्थानानि गोवृपाः ॥ ५१ ॥ द्रोणः --- गोवृषा इति । हन्त सिद्धं कार्यम् । पुत्र! दुर्योधन ! अस्तु पञ्चरात्रम् । दुर्योधनः--अथकिम् । द्रोणः भोभो यज्ञमनुभवितुमागता राजानः! शृण्वन्तु- ण्वन्तु भवन्तः । इहात्रभवान् कुरुराजो दुर्योधनः, न, न, मातुलसहितः यदि पाण्डवानां प्रवृत्तिरुपनेतव्या, राज्य- स्यार्ध प्रदास्यति किल । ननु पुत्र! दुर्योधनः-- अथकिम् । एतद् द्विस्त्रिः सम्प्रधार्यताम् । शकुनिः-- काले ज्ञास्यामि । '(जनान्तिकम् )' इत्यपेक्षितम् । '(प्रकाशम् )' इत्यपेक्षितम् । द्रोणः -------- १८ पञ्चरात्रे - भटः द्रोणः-ननु गाङ्गेय! भीष्मः (आत्मगतम्) आचार्यस्य यदा हर्षो धैर्यमुत्क्रम्य सूचितः । शङ्के दुर्योधनेनैष वञ्च्यमानेन वश्चितः ॥ ५२ ॥ (प्रकाशम् ) पौत्र ! दुर्योधन ! अस्ति मम विराटेनाप्रकाशं वैरम् , अथ भवतो यज्ञमनुभवितुमनागत इति । तस्मात् क्रियतां तस्य गोग्रहणम् । 'ब्राह्मणार्जवबुद्धे ! धर्षिता रथशब्देन रोषमेष्यन्ति पाण्डवाः । अस्ति तेषां कृतज्ञलमिष्टं गोग्रहणे स्थितम् ॥ ५३ ॥ (प्रविश्य ) *सज्जाः खलु रथा वाहाः प्रवेशाभिमुखाय ते । दुर्योधनः एभिरेव रथैः शीघ्रं क्रियतां तस्य गोग्रहः । गदा यज्ञप्रशान्ता च पुनमें करमेष्यति ॥ ५४॥ द्रोणः तस्मान्मे रथमानयन्तु पुरुषाः, शकुनिः हस्ती ममानीयतां, कर्णः भारार्थ भृशमुद्यतैरिह हयैर्युक्तो रथः स्थाप्यताम् । भीष्मः बुद्धिर्मे वरते विराटनगरं गन्तुं धनुस्त्वर्यतां सर्वे मुक्त्वा चापमिहैव तिष्ठतु भवानाज्ञाविधेया वयम् ॥५५॥ + (जनान्तिकम् ) इत्यपेक्षितम् । * पद्यगन्धीदं वाक्यं स्यात् ।
प्रथमोऽङ्कः।
१९
द्रोणः-पुत्र! दुर्योधन ! आवां तव युद्धे पराक्रमं द्रष्टुमिच्छावः।
दुर्योधनः यदभिरुचितं भवते।
द्रोणः वत्स! गान्धारराज! अस्मिन् गोग्रहणे तव खलु
प्रथमरथः।
शकुनिः बाढम् । प्रथमः कल्पः ।
(निष्क्रान्ताः सर्वे)
प्रथमोऽङ्कः।
अथ द्वितीयोऽङ्कः। (ततः प्रविशति वृद्धगोपालकः) वृद्धगोपालकः (क) गावो मे अहीणवच्छा होन्तु । अवि- हवा अ गोवजुवदीओ होन्तु। णो ळाआ विळाडो एक्क- च्छत्तप्पुहुवीपदी होदु । महाळाअष्ष विळाडश्श वष्ष- वडणगोप्पदाणणिमित्तं इमष्पि णअळोववणवीहीए आ- अन्तुं गोधणं पव्वे च किदमङ्गळमोदआ गोवदाळआ दालिआ अ दाव । एषु जेष्ठं* गच्छिअ अणुभविष्षम् । (विजय) किण्णुहु एपो वाअपो पुक्खलुक्खं आळुहिम घुक्खघाखाणिघट्टिअतुण्डं आदिचाहिमुहं विष्षळं वि- ळवदि । पन्ती होदु पन्ती होदु अह्माणं गोधणष्ष अ। जाव एषु जेष्ठं गच्छिअ गोवदाळआणं दाळिआणं वा- हळामि । गोमित्तअ ! गोमित्तअ! (क) गावो मेऽहीनवत्सा भवन्तु । अविधवाश्च गोपयुवतयो भवन्तु । अस्माकं राजा विराट एकन्छत्रपृथिवीपतिर्भवतु । महाराजस्य विराटस्य वर्षवर्धनगोप्रदाननिमि- त्तमस्यां नगरोपवनवीथ्यामायान्तु गोधनं सर्वे च कृतमङ्गलमोदका गोपदारका दारि- काश्च तावत् । एषु ज्येष्ठ्यं गत्वानुभविष्यामि । किनुखल्वेष वायसः शुष्कवृक्षमारुह्य शुष्कशाखानिष्कृिततुण्डमादित्याभिमुखं विस्वरं विलपति । शान्तिर्भवतु शान्तिर्भवतु अस्माकं गोधनस्य च । यावदेषु ज्यैष्ठ्यं गत्वा गोपदारकाणां दारिकाणां व्याहरामि । गोमित्रक! गोमित्रक! * जेः' इति स्यात् ।
द्वितीयोऽतः | २१ (प्रविश्य) गोमित्रकः --- (क) मातुळ ! वन्दामि । वृद्धगोपालकः--(ख)षन्ती होदुषन्ती होदु अमाअंगोधणषअ। अळे गोमित्तअ! महाळाजष्ष विळाडश्श वष्षवड्डण- गोप्पदाणणिमित्तं इमषि णअळोववणवीहीए आअन्तुं गोधणं षव्वे च किदमङ्गळमोदआ गोवदाळआ दाळि- आ अ । अळे गोमित्तअ! गोवदाळआणं दाळिआणं वाहळ । गोमित्रकः (ग) जं मादुळो आणवेदि । गोळक्खिणिए ! घिदपिण्ड ! षामिणि ! वषभदत्त ! कुम्भदत्त ! महिषदत्त! आअच्छहआअच्छह सिग्छ । (ततः प्रविशन्ति सर्वे) सर्वे (घ) मादुळ ! वन्दामो। वृद्धगोपालकः ..... (ड) षन्ती होदु षन्ती होदु अह्माणं गोव- (क) मातुल ! वन्दे। (ख) शान्तिर्भवतु शान्तिर्भवतु अस्माकं गोधनस्य च । अरे गोमित्रक ! महारा- जस्य विराटस्य वर्षवर्धनगोप्रदाननिमित्तमस्यां नगरोपवनवीथ्यामायान्तु गोधनं सर्वे च कृतमङ्गलमोदका गोपदारका दारिकाश्च । अरे गोमित्रक ! गोपदारकाणां दारिकाणां व्याहर। (ग) यन्मातुल आज्ञापयति । गोरक्षिणिके ! घृतपिण्ड ! स्वामिनि! वृषभदत्त ! कुम्भदत्त ! महिषदत्त! मागच्छतागच्छत शीघ्रम् । (घ) मातुल! वन्दामहे । (ङ) शान्तिर्भवतु शान्तिर्भवतु अस्माकं गोपदारकाणां दारिकाणां च । महाराजस्य २२ पञ्चरात्रे दाळआणं दाळिआणं (अ)। महाळाअष्ष विळाडष्प वष्ष- वडणगोप्पदाणणिमित्तं इमर्षि णअळोववणवीहीए आअन्तुं गोधणं । तत्तअं वेळं गाअन्तो णचन्तो होम । सर्वे- (क) जं मादुळो आणवेदि। (सर्वे नृत्यन्ति) वृद्धगोपालकः- (ख) हीही पुडु णच्चिदम् , षुछ गाइदं । जाव अहं पि णच्चेमि । सर्वे-- (ग) हाहा मादुळ ! अदिमहन्तं ळेणुं उप्पदिदो । वृद्धगोपालकः---(घ) ण हु ळेणुं एव्य, पंक्खुदुन्दुभिघोषं । उप्पदिदो। सर्वे--(ङ) दिवाचन्दप्पभापण्डुळजोलाव(गु)ण्ठिदो षुदमण्डलू घुय्यो अत्थि अ णत्थि अ। गोमित्रकः (च) हाहा मादुळ ! एदे के वि मणुष्षा दहि- पिण्डपण्डरेहि छत्तेहि घोडअषअडिअं आळुहिअ षव्वं घोएं विदवन्ति चोळा। हु विराटस्य वर्षवर्धनगोप्रदाननिमित्तमस्यां नगरोपवनवीथ्यामायातु गोधनम् । तावती वेलां गायन्तो नृत्यन्तो भवामः । (क) यन्मातुल आज्ञापयति । (ख) हीही सुष्ठु नर्तितं , सुष्ठ गीतं, यावदहमपि नृत्यामि । (ग) हाहा मातुल! अतिमहान् रेणुरुत्पतितः । (घ) न खलु रेणुरेव, शङ्खदुन्दुभिघोष उत्पतितः । दिवाचन्द्रप्रभापाण्डुरज्योत्स्नावगुण्ठितः शतमण्डलः सूर्योऽस्ति च नास्ति च (च) हाहा मातुल ! एते केऽपि मनुष्या दधिपिण्डपाण्डरैश्छत्रै?टकशकटिकामा- रुह्य सर्व घोषं विद्रवन्ति चोराः ।
२३ द्वितीयोऽङ्कः । वृद्धगोपालकः --- (क) हीही घरषंपादा उट्ठिदा । दारआ! दाळिआ! पिग्धं पक्कणं पविषह। सर्वे ---- (ख) जं मादुळो आणवेदि। (निष्क्रान्ताः) वृद्धगोपालकः- (ग) हाहा चिट्ठहचिट्ठह । पहरहपहरह । गङ्गह- गलह । इमं वुत्तन्तं महाळाअविळाडश्श णिवेदइष्षामो। (निष्क्रान्त:) प्रवेशकः। (ततः प्रविशति भट:) भटः भोभो निवेद्यतांनिवेद्यतां महाराजाय विराटेश्वराय- एता हि दस्युकर्मप्रच्छन्नविक्रमैर्धार्तराष्ट्रह्रियन्ते गाव इति । तत्र हि, द्रुतैश्च वत्सैर्व्यथितैश्च गोगणै- निरीक्षणत्रस्तमुखैश्च गोवृषैः । कृतार्तनादाकुलितं समन्ततो गवां कुलं शोच्यमिहाकुलाकुलम् ॥ १॥ इति । (नेपथ्ये) किं धार्तराष्टैरिति । भटः आर्य! अथकिम् । (प्रविश्य ) काञ्चुकीयः ..... सदृशमेतद् भ्रातृजनेष्वपि द्रोहिणाम् । (क) हीही शरसंपाता उत्थिताः । दारकाः ! दारिकाः! शीघ्रं पक्कणं प्रविशत । (ख) यन्मातुल भाज्ञापयति । (ग) हाहा तिष्ठततिष्ठत । प्रहरतप्रहरत । गृह्णीतगृह्णीत । इमं वृत्तान्तं महाराज- विराटाय निवेदयिष्यामः।
पञ्चरात्रे सज्जैश्चापैर्बद्धगोधामुलित्रा वर्मच्छन्नाः कल्पितस्यन्दनस्थाः। वीर्योत्सित्ता युद्धसज्जाः कृतास्त्रा राज्ञो वैरं गोषु निर्यातयन्ति ॥ २ ॥ जयसेन ! जन्मनक्षत्रक्रियाव्यापृतस्य महाराजस्य ता- वदकालनिवेदनं मन्युमुत्पादयति । तस्मात् पुण्याहाव- साने निवेदयिष्ये । भटः आर्य! अतिपाति कार्यमिदं, शीघ्रं निवेद्यताम् । काञ्चुकीयः- इदं निवेद्यते । (ततः प्रविशति राजा) - - मा तावद् व्यथितविकीर्णबालवत्सा गावो मे रथरवशङ्कया ह्रियन्ते । पीनांसश्चलवलयः सचन्दनाद्रों निर्लज्जो मम च करः कराणि* भुङ्क्ते ॥३॥ जयसेन! जयसेन! (प्रविश्य) भटः जयतुजयतु महाराजः । राजा- अलं महाराजशब्देन । अवधूतं मे क्षत्रियत्वम् । उच्यतां रणविस्तरः। * कराणि अन्नविशेषान् । 'भिस्सा नी दीदिविन षण् । पुनपुंसकयोश्चोरं करमाहार्यमित्यपि' इति वैजयन्ती।
द्वितीयोऽः । भटः न विस्तरार्हाणि विप्रियाणि । एष समासः, एकवर्णेषु गात्रेषु गवां स्यन्दनरेणुना । कशापातेषु दृश्यन्ते नानावर्णविभक्तयः ॥ ४ ॥ तेन हि, - - धनुरुपनय शीघ्रं कल्प्यतां स्यन्दनो मे मम गतिमनुयातुच्छन्दतो यस्य भक्तिः । रणशिरसि गवार्थे नास्ति मोघः प्रयत्नो निधनमपि यशः स्यान्मोक्षयि(वा) तु धर्मः ॥५॥ भटः यदाज्ञापयति महाराजः । (निष्क्रान्तः) राजा भोः! किन्नुखलु दुर्योधनस्य मामन्तरेण वैरम् । आ यज्ञमनुभवितुमनागत इति । कथमनुभवामि । कीच- कानां विनाशेन वयमुन्नीतसन्तापाः संवृत्ताः । अथवा परोक्षमपि पाण्डवानां स्निग्ध इति सर्वथा योद्धव्यम् । हस्तिनपुरनिवासाच्छीलज्ञो भगवान दुर्योधनस्य । अथवा, कामं दुर्योधनस्यैष न दोषमभिधास्यति । अर्थित्वादपरिश्रान्तः पृच्छत्येव हि कार्यवान् ॥ ६ ॥ कोऽत्र। (प्रविश्य) भटः जयतु महाराजः । राजा- भगवांस्तावदाहूयताम् । भटः यदाज्ञापयति महाराजः। (निष्क्रान्तः) (ततः प्रविशति भगवान्) भगवान् - (सर्वतो विलोक्य) भोः! किन्नुखल्विदम् । - २१ पञ्चरात्रे गजेन्द्राः कल्प्यन्ते तुरगपतयो वर्मरचिताः रथाः सानूकर्षाः कृतपरिकरा योधपुरुषाः। समुद्योगं दृष्ट्वा भयमननुभूतं स्पृशति मां नि खल्वात्मन्यस्तं कृतमतिरहं ते तु चपलाः॥ ७ ॥ राजा जयतु भगवान् जयतु । विराटो भगवन् ! अभिवादये। भगवान् - स्वस्ति। विराटः भगवन् ! एतदासनमास्यताम् । भगवान् (उपविश्य ) भो राजन्! उद्योगः प्रस्तुतः करमाच्छ्रीन सन्तोषमिच्छति । पीडयिष्यति सोत्सेकान् पीडितान् मोक्षयिष्यति ॥ ८ ॥ राजा भगवन् ! गोग्रहणादवमानितोऽस्मि । भगवान् केन कारणेन । राजा धार्तराष्ट्रः । भगवान् - (आत्मगतम्) भोः कष्टम् , एकोदकत्वं खलु नाम लोके मनस्विनां कम्पयते मनांसि। वैरप्रियस्तैहि कृतेऽपराधे यत्सत्यमस्माभिरिवापराद्धम् ॥९॥ अनुकर्षो रथस्याधोधरणदारु तेन सहिताः । 'उपमर्गस्य घञ्यमनुष्ये बहुलम्' (६. ३. ११२) इति दीर्घः। S न खल्वात्मविषयकं मे किश्चिद् भयं, यतोऽहमचपलबुद्धिः । ते तु मम भ्रातरक्षपला युद्ध- कण्डलम्बात् कदाचिद् युद्धसंरम्भेण स्वात्मानं प्रकाशयेयुरिति तदाश्रयं मे भयमस्तीति भावः ।
द्वितीयोऽ:
२७
विराटः-भगवन् ! किमिदानी विचार्यते।
भगवान् -न खलु किञ्चित् । तेषामुत्सुकः।
राजा-अद्यप्रभृति निभृता भविष्यन्ति । यदि शत्तोऽपि
युधिष्ठिरो मर्षयति , अहं न मर्षयामि ।
भगवान् -(आत्मगतम् )
अद्येदानी पर्णशय्या (च) भूमी
राज्यभ्रंशो द्रौपदीधर्षणं वा ।
वेषान्यत्वं संश्रितानां निवासः
सर्व श्लाघ्यं यत् क्षमा ज्ञायते मे ॥१०॥
(प्रविश्य)
भटः-जयतु महाराजः।
राजा अथ किं चेष्टते दुर्योधनः ।
भटः-न खलु दुर्योधन एव, पृथिव्यां राजानः सर्वे प्राप्ताः ।
द्रोणश्च भीष्मश्च जयद्रथश्च
शल्योऽङ्गराजः शकुनिः कृपश्च ।
तेषां रथोत्कम्पचलत्पताकै-
भग्ना ध्वजैरेव वयं न बाणैः ॥ ११ ॥
(उत्थाय कृताञ्जलिः) कथं तत्रभवान् गाङ्गेयोऽपि प्राप्तः।
भगवान् -साधु धर्षितेनापि नातिकान्तः समुदाचारः ।
[(आत्मगतम्)] भोः,
किमर्थ खलु सम्प्राप्तः कुरूणां गुरुरुत्तमः।
शङ्के तीर्णा प्रतिज्ञेति स्मारणं क्रियते मम ॥ १२ ॥
२८ पञ्चरात्रे - * (प्रकाशम्) राजा कोऽत्र। (प्रविश्य) भटः -जयतु महाराजः। विराटः सूतस्तावदाहूयताम् । भटः यदाज्ञापयति महाराजः । (निष्क्रान्त:) (प्रविश्य) सूतः जयत्वायुष्मान् । विराटः रथमानय शीघ्रं मे श्लाघ्यः प्राप्तो रणातिथिः । तोषयिष्ये शरैर्भीष्म जेष्यामीत्यमनोरथः ॥ १३ ॥ यदाज्ञापयत्यायुष्मान् । आयुष्मन् ! रिपूणां सैन्यभेदेपु यस्ते परिचितो रथः । रथचर्या बहिष्कर्तुं तमास्थायोत्तरो गतः ॥ १४ ॥ विराटः कथं निर्यातः कुमारः। भगवान्- भो राजन् ! संवार्यतां संवार्यतां कुमारः। अगणितगुणदोषो युद्धतीक्ष्णश्च बाल्या- न्न च दहति न कश्चित् सन्निकृष्टो रणामिः। अथच परिहरन्ते धार्तराष्ट्रा न किञ्चि- न्न खलु परिभवात् ते युद्धदोषान् ब्रवीमि ॥ १५ ॥ राजा तेन हि शीघ्रमन्यो रथः कल्प्यताम् । सूतः यदाज्ञापयत्यायुष्मान् । राजा अथवा एहि तावत् । सूतः आयुष्मन् ! अयमस्मि । * अत्र कतिपयवाक्यभ्रंश इव भाति ।
द्वितीयोऽः - राजा त्वमिदानी कुमारस्य किं न वाहितवान् रथम् । अनुज्ञातोऽसि किं तेन न राज्ञां सारथिर्भवान् ॥१६॥ सूतः-प्रसीदत्वायुष्मान् । रथं (सं?)कल्पयित्वा तु सूतसमुदा- चारेणोपस्थितः खल्वहम् । कुमारण, किन्नु तत्परिहासार्थ किन्नु तत्रास्ति कौशलम् । मामतिक्रम्य सारथ्ये विनियुक्ता बृहन्नला ॥ १७ ॥ भगवान् -राजन्! अलमलं सम्भ्रमेण । यदि स्वचक्रोद्धतरेणुदुर्दिनं रथं समास्थाय गता बृहन्नला । परान् क्षणैर्नेमिरवैर्निवारयन् विनापि बाणान् रथ एव जेष्यति ॥ १८ ॥ राजा तेन हि शीघ्रमन्यो रथः कल्प्यताम् । सूतः यदाज्ञापयत्यायुष्मान् । (निष्क्रान्तः) (प्रविश्य) भटः भन्नः खलु कुमारस्य रथः । राजा कथं भग्नो नाम । भटः श्रोतुमर्हति महाराजः। बहुभिः समराभिज्ञैराच्छिन्नोऽश्वपथः परैः । भग्नो (वा)हनलोभेन श्मशानाभिमुखो रथः ॥ १९ ॥ भगवान्-(आत्मगतम्) आः अत्र खलु गाण्डीवम् । (प्रकाशम् ) भो राजन्! - पञ्चरात्रे निमित्तं किश्चिदुत्पन्नं श्मशानाभिमुखे रथे । धार्तराष्ट्राः स्थिता यत्र श्मशानं तद् भविष्यति ॥ २० ॥ भगवन् ! अकाले स्वस्थवाक्यं मन्युमुत्पादयति । भगवान् - अलं मन्युना । कदाचिदनृतं नोक्तपूर्वम् । राजा आ अस्त्येतत् । गच्छ भूयो ज्ञायतां वृत्तान्तः । भटः यदाज्ञापयति(आयुष्मान् ? महाराजः)। (निष्क्रान्तः) राजा को नु खल्वेष सहसा कम्पयन्निव मेदिनीम् । (भदिस्रोत इवाविद्यो?) क्षणात् संवर्तते ध्वनिः॥२१॥ ज्ञायतां शब्दः। (प्रविश्य) भटः-जयतु महाराजः। श्मशानान्मुहूर्तविश्रान्ततुरगेण कुमा- रेण तु। भगवान् -- एष मामनृतवादिनं न कुर्यात् । भटः कृता नीला नागाः शरशतनिपातेन कपिला हयो वा योधो वा न वहति न कश्चिच्छरशतम् । शरैः स्तम्भीभूताः शरपरिकराः स्यन्दनवराः शरैश्छन्ना मार्गाः स्रवति धनुरुग्रां शरनदीम् ॥२२॥ भगवान्-(आत्मगतम्) * 'स्यदि स्रोत इवाविद्धम्' इति स्यात् । " अन्तर्भावितण्यर्थोऽत्र स्रवतिः ।
द्वितीयोऽः । ११ .:-- एतदक्षयतृणीत्वं येन शकस्य खाण्डवे । यावत्यः पतिता धारास्तावन्तः प्रेषिताः शराः ॥२३॥ राजा अथ परेष्विदानी को वृत्तान्तः । भटः अप्रत्यक्षं हि तत्र मे । प्रवृत्तिपुरुषाः कथयन्ति- धनुर्घोषं द्रोणस्तदिदमिति बुद्धा प्रतिगतः खजे बाणं दृष्ट्वा कृतमिति न भीष्मः प्रहरति । शरैर्भग्नः कर्णः किमिदमिति चान्ये नृपतयो भयेऽप्येको बाल्यान्न भयमभिमन्युर्गणयति ॥२४॥ भगवान् - कथमभिमन्युः प्राप्तः । भो राजन् ! युध्यते यदि सौभद्रस्तेजोग्निवंशयोईयोः । सारथिः प्रेष्यतामन्यो विक्लबान बृहन्नला ॥२५॥ राजा मा मा भवानेवम् । भीष्मं रामशरैरभिन्नकवचं द्रोणं च मन्त्रायुधं कृत्वा कर्णजयद्रथौ च विमुखौ शेषांश्च तांस्तान् नृपान्। सौभद्रं स्वशरैर्न धर्षयति किं भीतः पितुः प्रत्ययात् संसृष्टोऽपि वयस्यभावसदृशं तुल्यं वयो रक्षति ॥ २६ ॥ भटः एष खलु कुमारस्य रथः, आलम्बितो भ्रमति धावति तेन मुक्तो न प्राप्य धर्षयति नेच्छति विप्रकर्तु (:?म्)। आसन्नभूमिचपलः परिवर्तमानो योग्योपदेशमिव तस्य रथः करोति ॥ २७ ॥ राजा गच्छ । भूयो ज्ञायतां वृत्तान्तः । - पञ्चरात्रे भटः यदाज्ञापयति महाराजः। (निष्कम्य प्रविश्य) जयतु महा- राजः । जयतु विराटेश्वरः । प्रियं निवेदये महाराजाय । अवजितं गोग्रहणम् । अपयाता धार्तराष्ट्राः । भगवान् -दिष्टया भवान् वर्धते । राजा न न। भगवतो वृद्धिरेषा । अथ कुमार इदानीं क। भटः- दृष्टपरिस्पन्दानां योधपुरुषाणां कर्माणि पुस्तकमारोप- यति कुमारः। राजा अहो श्लाघनीयव्यापारः खल्वयं कुमारः। ताडितस्य हि योधस्य श्लाघनीयेन कर्मणा । अकालान्तरिता पूजा नाशयत्येव वेदनाम् ॥ २८ ॥ अथ बृहन्नलेदानी क। भटः प्रियनिवेदनार्थमभ्यन्तरं प्रविष्टा । - राजा भटः बृहन्नला तावदाहूयताम् । यदाज्ञापयति महाराजः । (ततः प्रविशति बृहन्नला) बृहन्नला (निरूप्य सविमर्शम् ) गाण्डीवेन मुहूर्तमाततगुणेनासीत् प्रतिस्पर्धित बाणानां परिवर्तनेष्वविशदा मुष्टिर्न मे संहता । गोधास्थानगता न चास्ति पटुता स्थाने हृतं सौष्ठवं स्त्रीभावाच्छिथिलीकृतः परिचयादात्मा तु पश्चात् स्मृतः॥ मया हि, द्वितीयोऽतः । २३ -- अनेन वेषेण नरेन्द्रमध्ये लज्जायमानेन धनुर्विकृष्टम् । यात्रा तु तावच्छरदुर्दिनेषु शीघ्रं निमग्नः कलुषश्च रेणुः ॥ ३० ॥ भोः! जित्वापि गां विजयमप्युपलभ्य राज्ञो नैवास्ति मे जयगतो मनसि प्रहर्षः । दुःशासनं समरमूर्धनि सन्निगृह्य बड्वा यदद्य न विराटपुरं प्रविष्टः ॥ ३१ ॥ उत्तराप्रीतिदत्तालङ्कारणालङ्कृतो वीळित इवास्मि राजा- नं द्रष्टुम् । तस्माद् विराटेश्वरं पश्यामि । अये! अय- मार्यो युधिष्ठिरः, सयौवनः श्रेष्ठतपोवने रतो नरेश्वरो ब्राह्मणवृत्तमाश्रितः। विमुक्तराज्योऽप्यभिवर्धितः श्रिया त्रिदण्डधारी न च दण्डधारकः ॥ ३२ ॥ (उपगम्य) भगवन् ! अभिवादये । भगवान् -स्वस्ति । बृहन्नला राजा अकारणं रूपमकारणं कुलं महत्सु नीचेषु च कर्म शोभते। (क) जयतु भर्ता। (क) जेदु भट्टा।
पञ्चरात्रे इदं हि रूपं परिभूतपूर्वकं तदेव भूयो बहुमानमागतम् ॥ ३३ ॥ बृहन्नले! परिश्रान्तामपि भवतीं भूयः परिश्रमयिष्ये । उच्यतां रणविस्तरः। हाला (क) सुणादु भट्टा। समा--- ऊर्जितं कर्म । संस्कृतमभिधीयताम् । बृहसला-श्रोतुमर्हति महाराजः । (प्रविश्य) जयतु महाराजः। अपूर्व इव ते हों हि केनापि विस्मितः। -- अश्रडेयं प्रियं प्राप्तं सौभद्रो ग्रहणं गतः ॥ ३४ ॥ बृहन्नला कथं गृहीतः । (आत्मगतम्) तुलितबलमिदं मयाद्य सैन्य परिगणितं च रणेऽद्य मे स दृष्टः । सदृश इह तु तेन नास्ति कश्चित क इह भवेन्निहतेषु कीचकेषु ॥ ३५ ॥ भगवान - बृहन्नले ! किमेतत् । बृहन्नला न जाने तस्य जेतारं बलवाञ्छिक्षितस्तु सः । पितॄणां भाग्यदोषेण प्राप्नुयादपि धर्षणम् ॥ ३६ ॥ (क) शृणोतु भर्ता । - भगवन् ! ----- aaraamaare द्वितीयोऽङ्कः । - - कथमिदानी गृहीतः। भट:- रथमासाद्य निःशकं बाहुभ्यामवतारितः । राजा --केन । भटः यः किलैप नरन्द्रण विनियुक्तो महानसे ॥ ३७ ।। वृहन्नला- अययार्थी एवमार्यभीमेन परिष्वक्तः, न गृहीतः। दूरस्था दर्शनादेव वयं सन्तोषमागताः। पुत्रस्नेहस्तु निर्विष्टो येन मुव्यक्तकारिणा ॥ ३८ ॥ राजा तेन सत्कृत्य प्रवेश्यतामभिमन्युः । भगवान् - भो राजन् ! वृष्णिपाण्डवनाथस्याभिमन्योः पूजा भयादिति लोको ज्ञास्यति । तदवधीरणमस्य न्यायम् । राजा-नावधारणमर्हति यादवीपुत्रः । कुतः, पुत्रो ह्येष युधिष्ठिरस्य तु वयस्तुल्यं हि नः सूनुना सम्बन्धो द्रुपदेन नः कुलगतो नप्ता हि तस्माद् भवेत् । जामातृत्वमदृरतोऽपि च भवेत् कन्यापितृत्वं हि नः पूजाोऽप्यतिधिर्भवेत् स्वविभवैरिष्टा हि नः पाण्डवाः ॥ ३९ ॥ भगवान् - एवमेतत् । वक्तव्यं परिहर्तव्यं च । अथ केनायं प्रवेशयितव्यः । भगवान् बृहन्नलया प्रवेशयितव्यः। राजा बृहन्नले ! प्रवेश्यतामभिमन्युः । यदाज्ञापयति महाराजः। (आत्मगतम्) चिरभ्य ख- ल्वाकासितोऽयं नियोगो लब्धः। भगवान् (आतागतम्) राजा A- वृलनला पञ्चरात्रे - अद्येदानी यातु सन्दर्शनं वा शून्ये दृष्ट्वा गाढमालिङ्गनं वा। स्वैरं तावद् यातुमुद्वाष्पतां वा मत्प्रत्यक्षं लज्जते ह्येष पुत्रम् ॥ ४०॥ राजा पश्यतु भवान् कुमारस्य कर्म । नृपा भीष्मादयो भग्नाः सौभद्रो ग्रहणं गतः । उत्तरेणाद्य संक्षेपादर्थतः पृथिवी जिता ॥४१॥ (ततः प्रविशति भीमसेनः) भीमसेनः आदापिते जतुगृहे स्वभुजावसक्ता मद्भातरश्च जननी च मयोपनीताः । सौभद्रमेकमवतार्य रथात्तु बालं तं च श्रमं प्रथममद्य समं हि मन्ये ॥ ४२ ॥ इत इतः कुमारः। (ततः प्रविशत्यभिमन्युः) अभिमन्युः-- भोः! को नु खल्वेषः, विशालवक्षास्तनिमार्जितोदरः स्थिरोन्नतांसोरुमहान् कटीकृशः । इहाहृतो येन भुजैकयन्त्रितो बलाधिकेनापि न चास्मि पीडितः ॥ ४३ ॥ बृहन्नला-इत इतः कुमारः । अभिमन्युः- अये अयमपरः कः, द्वितीयोऽः । ३७ 10. अयुज्यमानैः प्रमदाविभूषणैः करेणुशोभाभिरिवार्पितो गजः । लघुश्च वेषेण महानिवौजसा विभात्युमावेषमिवाश्रितो हरः॥४४॥ बृहन्नला-- (अपवार्य) इममिहानयता किमिदानीमार्येण कृतम् । अवजित इति तावद् दूषितः पूर्वयुद्धे दयितसुतवियुक्ता शोचनीया सुभद्रा । जित इति पुनरेनं रुष्यते वासुभद्रो भवतु बहु किमुक्त्वा दूषितो हस्तसारः ॥ ४५ ॥ भीमसेनः--अर्जुन! बृहन्नला-अथकिमथकिमर्जुनपुत्रोऽयम् । भीमसेनः (अपवार्य) जानाम्येतान् निग्रहादस्य दोषान् को वा पुत्रं मर्षयेच्छत्रुहस्ते । इष्टापत्त्या किन्तु दुःखे हि ममा पश्यत्वेनं द्रौपदीत्याहतोऽयम् ॥ ४६ ॥ बृहन्नला-- (अपवार्य) आर्य! अभिभाषणकौतूहलं मे महत् । वाचालयत्वेनमार्यः। भीमसेनः बाढम् । अभिमन्यो! अभिमन्युः-- अभिमन्यु म । भीमसेनः रुष्यत्येष मया । त्वमेवैनमभिभाषय । बृहन्नला अभिमन्यो! -- रुण्यत इति कर्मवद्भावादात्मनेपदं स्यात् । महाकविप्रामाण्यात् स्वरितत्त्वं वा कल्प्यम् ।
पञ्चरात्रे अभिमन्युः- कथं कथम् । अभिमन्यु माहम् । भोः! नीचैरप्यभिभाष्यन्ते नामभिः क्षत्रियान्वयाः। इहायं समुदाचारो ग्रहणं परिभूयते ॥४७॥ बृहन्नला अभिमन्यो! सुखमास्ते ते जननी । अभिमन्युः-कथं कथम् । जननी नाम । किं भवान् धर्मराजो मे भीमसेनो धनञ्जयः । यन्मां पितृवदाक्रम्य *स्त्रीगतां पृच्छसे कथाम् ॥ ४८ ॥ बृहन्नला-अभिमन्यो ! अपि कुशली देवकीपुत्रः केशवः । अभिमन्युः कथं तत्रभवन्तमपि नाम्ना । अथकिम् अथ- किम् । कुशली भवता संसृष्टः । (उभौ परस्परमवलोकयतः) अभिमन्युः-कथमिदानीं सावज्ञमिव मां हस्यते । बृहन्नला न खलु किञ्चित् । पार्थ पितरमुद्दिश्य मातुलं च जनार्दनम् । तरुणस्य कृतास्त्रस्य युक्तो युद्धपराजयः॥४९॥ अभिमन्युः अलमात्मस्तवं कर्तुं नास्माकमुचितं कुले । हतेषु हि शरान् पश्य नाम नान्यद् भविष्यति ॥ ५० ॥ बृहन्नला (आत्मगतम्) सम्यगाह कुमारः । सर(थ) तुरगदृप्तना(ग)यौधे शरनिपुणेन न कश्चिदप्यविद्धः । अयमपि च परिक्षतो भवेयं ह यदि न मया परिवर्तितो रथः स्यात् ॥ ५१ ॥ * 'पृच्छसि स्त्रीगतां कथाम्' इति तु पाठकरणं पाणिनीयानां हृद्यम् ।
३ - द्वितीयोऽङ्कः । (प्रकाशम्) एवं वाक्यशौण्डीर्यम् । किमर्थ तेन पदातिना गृहीतः। अभिमन्युः- अशस्त्रो मामभिगतस्ततोऽस्मि ग्रहणं गतः । न्यस्तशस्त्रं हि को हन्यादर्जुनं पितरं स्मरन् ॥ ५२ ॥ भीमसेनः धन्यः खल्बर्जुनो येन प्रत्यक्षमुभयं श्रुतम् । पुत्रस्य च पितुः श्लाघ्यं सङ्ग्रामेषु पराक्रमः ॥ ५३ ॥ राजा-त्वर्यतां त्वर्यतामभिमन्युः । बृहनला--- इत इतः कुमारः । एष महाराजः । उपसर्पतु कुमारः। अभिमन्युः-आः कस्य महाराजः । बृहन्नला न न । ब्राह्मणेन सहास्ते। अभिमन्युः - ब्राह्मणेनेति । भगवन् ! अभिवादये । भगवान् -- एह्येहि वत्स! शौण्डीर्य धृतिविनयं दयां स्वपक्षे माधुर्य धनुषि जयं पराक्रमं च । एकस्मिन् पितरि गुणानवाप्मुहि त्वं शेषाणां यदपि च रोचते चतुर्णाम् ॥ ५४॥ राजा एह्येहि पुत्र!। कथं न मामभिवादयसि । अहो उसिक्तः खल्वयं क्षत्रियकुमारः । अहमस्य दर्पप्रशमनं करोमि । अथ केनायं गृहीतः । भीमसेनः-महाराज! मया ।
पञ्चरात्रे अभिमन्युः- अशस्त्रेणेत्यभिधीयताम् । भीमसेनः शान्तं शान्तं पापम् । सहजौ मे प्रहरणं भुजौ पीनांसकोमलौ । तावाश्रित्य प्रयुध्येयं दुर्बलैर्गृह्यते धनुः ॥ ५५ ॥ अभिमन्युः-मा तावद् भोः बाहुरक्षौहिणी यस्य निर्व्याजो यस्य विक्रमः । किं भवान् मध्यमस्तातस्तस्यैतत् सदृशं वचः ॥ ५६ ॥ भगवान् -पुत्र! कोऽयं मध्यमो नाम । अभिमन्युः- श्रूयताम् । नन्वनुत्तरा वयं ब्राह्मणेषु, साध्वन्यो ब्रूयात् । राजा-भवतु भवतु । मद्वचनात् पुत्र! कोऽयं मध्यमो नाम । अभिमन्युः-श्रूयताम् । येन, तु(ल)यित्वा जरासन्धं कण्ठश्लिष्टेन बाहुना । असह्यकर्म तत् कृत्वा नीतः कृष्णोऽतदर्हताम् ॥ ५७ ॥ राजा न ते क्षेपण रुष्यामि रुष्यता भवता रमे । किमुक्ता नापराडोऽहं कथं तिष्ठति यात्विति ॥ ५८ ॥ अभिमन्युः- यद्यहमनुग्राह्यः, पादयोः समुदाचारः क्रियतां निग्रहोचितः। बाहुभ्यामाहृतं भीमो बाहुभ्यामेव नेष्यति ॥ ५९॥ (ततः प्रविशत्युत्तरः) उत्तरः मिथ्याप्रशंसा खलु नाम कष्टा येषां तु मिथ्यावचनेषु भक्तिः । अहं हि युद्धाश्रयमुच्यमानो वाचानुवर्ती हृदयेन लज्जे ॥६॥ :
द्वितीयोऽङ्कः । ११ - - - (उपसृत्य) भगवन् ! अभिवादये । भगवान्-स्वस्ति। उत्तरः तात! अभिवादये। राजा एह्येहि पुत्र! आयुष्मान् भव । पुत्र! पूजिताः कृतक- र्माणो योधपुरुषाः। उत्तरः पूजिताः । पूज्यतमस्य क्रियतां पूजा । राजा पुत्र! कस्मै । उत्तरः इहात्रभवते धनञ्जयाय । राजा कथं धनञ्जयायेति । उत्तरः-अथकिम् । अत्रभवता, श्मशानाहनुरादाय तूणी चाक्षयसायके । नृपा भीष्मादयो भन्मा वयं च परिरक्षिताः ॥ ६१ ॥ बृहन्नला–प्रसीदतु प्रसीदतु महाराजः । अयं बाल्यात्तु सम्भ्रान्तो न वेत्ति प्रहरन्नपि । कृत्स्नं कर्म स्वयं कृत्वा परस्येत्यवगच्छति ॥ ६२ ॥ उत्तरः व्यपनयतु भवाञ्छङ्काम् । इदमाख्यास्यते, गाण्डीवज्याहतं किणम् । यत्तद् द्वादशवर्षान्ते नैव याति सवर्णताम् ॥६३॥ बृहन्नला- एतन्मे पारिहार्याणां व्यावर्तनकृतं किणम् । सन्निरोधविवर्ण वा?र्णत्वा)द् गोधास्थानमिहागतम् ॥ ६४ ॥ पश्यामस्तावत्। प्रकोष्ठान्तरसङ्गूळ १२ पवरात्र - बृहन्नला- रुद्रबाणावलीढाङ्गो यद्यहं भारतोऽर्जुनः । अव्यक्तं भीमसेनोऽयमयं राजा युधिष्ठिरः ॥६५॥ राजा भो धर्मराज! वृकोदर! धनञ्जय! कथं न मां विश्वसिथ् । भवतु भवतु प्राप्तकाले। बृहन्नले! प्रविश त्वमभ्यन्तरम्। बृहन्नला -यदाज्ञापयति महाराजः। भगवान् - अर्जुन! नखलु नखलु प्रवेष्टव्यम् । तीर्णप्रतिज्ञा वयम् । अर्जुनः - यदाज्ञापयत्यार्यः। राजा शुराणां सत्यसन्धानां प्रतिज्ञा परिरक्षताम् । पाण्डवानां निवासेन कुलं मे नष्टकल्मषम् ॥ ६६ ॥ अभिमन्युः-इहात्रभवन्तो मे पितरः । तेन खलु, न रुष्यन्ति मया क्षिप्ता हसन्तश्च क्षिपन्ति माम् । दिष्टया गोग्रहणं स्वन्तं पितरो येन दर्शिताः ॥ ६७ ॥ (भीमसेनमुद्दिश्य) भोस्तात! अज्ञानात्तु मया पूर्व यद् भवान् नाभिवादितः । तस्य पुत्रापराधस्य प्रसादं कर्तुमर्हसि ॥६८ ॥ भीमसेनः-एह्येहि पुत्र! पितृसदृशपराक्रमो भव । पुत्र! अभिवादयस्व पितरम् । । $ स्वन्तं शोभनावसानम् ।
द्वितीयोऽः अभिमन्युः-भोस्तात! अभिवादये। अर्जुनः-एह्येहि पुत्र! अयं स हृदयलादी पुत्रगात्रसमागमः । यत्तद् द्वादशवर्षान्ते प्रोषितः पुनरागतः ॥ ६९ ॥ पुत्र! अभिवाद्यतां विराटेश्वरः। अभिमन्युः अभिवादये। राजा एह्येहि वत्स! यौधिष्ठिरं धैर्यमवामहि त्वं भैमं बलं नैपुणमर्जुनस्य । माद्रीसुतात् कान्तिमथाभिरूप्यं कीर्ति च कृष्णस्य जगत्प्रियस्य ॥ ७० ॥ (आत्मगतम्) उत्तरासन्निकर्षस्तु मां बाधते । किमिदानी करिष्ये । भवतु दृष्टम् । कोऽत्र । (प्रविश्य) भटः जयतु महाराजः। राजा आपस्तावत् । भटः यदाज्ञापयति महाराजः। (निष्क्रम्य प्रविश्य) इमा आपः । राजा अर्जुन ! गोग्रहणविजयशुल्कार्थ प्रतिगृह्यतामुत्तरा । भगवान् - एतदवनतं शिरः । अर्जुनः-कथं चारित्रं मे तुलयति । भो राजन् ! - - $ यत्तदिति सामान्ये नपुंसकम् । यस्स इत्यर्थः । ६ (प्रकाशम् ) इत्यपेक्षितम् ।
पञ्चरात्रे इष्टमन्तःपुरं सर्व मातृवत् पूजितं मया । उत्तरैषा त्वया दत्ता पुत्रार्थे प्रतिगृह्यते ॥ ७१ ॥ भगवान् - एतदुन्नतं शिरः। राजा भवतु पितामहसकाशमुत्तरं प्रेषयामः । धर्मराज वृकोदर! धनञ्जय! इत इतो भवन्तः। (निष्क्रान्ताः सर्वे) द्वितीयोऽङ्कः।
अथ तृतीयोऽङ्कः। (ततः प्रविशति भटः) भटः- भो भोः! निवेद्यता निवेद्यतां सर्वक्षत्राचार्यपुरोगाणां क्षत्रियाणाम् । एष हि, अपास्य नारायणचक्रजं भयं चिरप्रनष्टान् परिभूय बान्धवान् । धनुःसहायैः कुरुभिर्न रक्षितो हृतोऽभिमन्युः क्रियतां व्यपत्रपा ॥१॥ इति । (ततः प्रविशतो भीष्मद्रोणौ) द्रोणः सूत! कथय कथय । रण(भुव उ)पनीतः केन मे शिष्यपुत्रः क इह मम शरैस्तैर्दैवतैर्योडुकामः । कथय “पुरुषसारं यावदस्त्रं बलं वा बलवत इव दूतांस्तत्र सम्प्रेषयामि ॥२॥ भीष्मः सूत! कथय कथय । भग्नापयानेष्वनभिज्ञदोष- स्तारुण्यभावेन विलम्बमानः । केनैष हस्तिग्रहणोद्यतेन यूथे प्रयाते कलभो गृहीतः॥ ३ ॥ * पुरुषसारं पुरुषश्रेष्ठम् । ६ भमापयानेषु अनभिज्ञ इत्येवरूपो दोषो यस्य सः, निर्देशे भावप्राधान्याद् अनभिज्ञत्वं दोषो यस्य स इति वा । तारुण्यभावेन तारुण्यस्वाभाव्यने, यौवनसा- धारणधैर्यावष्टम्भेनेत्यर्थः । विलम्बमानः अपयातुमत्वरमाणः । ।
१५ पञ्चरत्रि (ततः प्रविशति दुर्योधनः कर्णः शकुनिश्च) दुर्योधनः सूत ! कथय कथय । केनापनीतोऽभिमन्युः । अ- हमेवैनं मोक्षयामि । कुतः, मम हि पितृभिरस्य प्रस्तुतो ज्ञातिभेद- स्तदिह मम च दोषो वक्तृभिः पातनीयः । अथच मम स पुत्रः पाण्डवानां तु पश्चात् सति च कुलविरोधे नापराध्यन्ति बालाः ॥ ४ ॥ कर्णः - अतिस्निग्धमनुरूपं चाभिहितम् । गान्धारीमातः ! मा तावत् स्वजनधिया तु बालभावाद् व्यापन्नः समरमुखे तव प्रियार्थम् । अस्माभिर्न च परिरक्षितोऽभिमन्यु- गुह्यन्तां धनुरपनीय वल्कलानि ॥ ५॥ शकुनिः-बहुनाथः खलु सौभद्रः । मुक्त एवेति सम्प्रधार्य- ताम् । कुतः, मुश्चेदर्जुनपुत्र इत्यवगतो राजा विराटः स्वयं *स्मृत्वा चाद्य रणाजिरादपगतं मुञ्चेत् स दामोदरम् । क्रोधोडूतहलात् प्रलम्बमथनाद् भीतेन सुच्येत वा भीमस्त्वेनमिहानयद् बलमहान् हत्वा रिपूनूर्जितान् ॥६॥ द्रोणः सूत! कथय कथय । कथमिदानी गृहीतः । पर्यस्तोऽस्य रथो हया नु चपलाश्चक्राक्षमा मेदिनी तूणी क्षीणशरे त्वमस्य विगुणो ज्याच्छेदवन्ध्यं धनुः । * स्मृत्वेति दामोदरमित्यनेन सम्बध्यते ।
-- तृतीयोऽङ्कः १७ एता दैवकृता भवन्ति रथिनां युद्धाश्रया व्यापदो बाणैरप्यवकृष्यते खलु परैः स्वाधीनशिक्षस्तु सः॥७॥ सूतः- आयुष्मन् ! परुषमयो धनुर्वेदः । किमायुष्मता न ज्ञायते । न चापि दोषा भवताभिभाषिताः स चापि बाणौघमयो महारथः । अवातचक्रप्रतिमस्तु मे रथो गृहीत एवापतता पदातिना ॥ ८॥ सर्वे कथं पदातिनेति । अथ कीदृशः स पदातिः। किमभिधास्यामि रूपं वा पराक्रमं वा । भीष्मः रूपेण स्त्रियः कथ्यन्ते । पराक्रमेण तु पुरुषाः। तत् पराकमोऽस्थाभिधीयताम् । सूतः -आयुष्मन् ! दुर्योधनः-- किमर्थ स्तूयते कोऽपि भवता गर्विताक्षरैः । कथ्यतां नास्ति मे त्रासो योष पवनो जवे ॥९॥ सूतः- श्रीतुमर्हति महाराजः । तेन खलु, लवयित्वा जवेनाश्वान् न्यस्त आपस्करे करः। प्रसारितहयग्रीवो निष्कम्पश्च रथः स्थितः ॥१० भीष्मः--तेन हि न्यस्यन्तामायुधानि । सर्वे-किमर्थम् । भीष्मः हृतप्रवेगो यदि वा न वा रथो वृकोदरस्याङ्कगतः स चिन्त्यताम् । ॥ -
पञ्चरात्रे
पुरा हि तेन द्रुपदात्मजा हरन्
पदातिनैवावजितो जयद्रथः ॥ ११ ॥
द्रोणः - सम्यगाह गाङ्गेयः । बाल्योपदेशात् प्रभृत्यहं तस्य
जवमवगच्छामि । इष्वस्त्रशालायां हि,
कर्णायते तेन शरे विमुक्ते
विकम्पितं तस्य शिरो मयोक्तम् ।
गत्वा तदा तेन च बाणतुल्य-
मप्राप्तलक्षः स शरो गृहीतः॥१२॥
शकुनिः- अहो हास्यमभिधानम् ।
नास्त्यन्यो बलबालोंके सर्वमिष्टेषु कथ्यते ।
जगद्व्याप्तान भवन्तः किं सर्वे पश्यन्ति पाण्डवान् ॥ १३ ॥
भीष्मः गान्धारराज! सर्वमनुमानात् कथ्यते ।
वयं व्यपाश्रित्य रणं प्रयामः शस्त्राणि चापानि रथाधिरूढाः ।
हावेव दोा समरे प्रयातौ हलायुधश्चैव वृकोदरश्च ॥ १४ ॥
शकुनिः
एकेनैव वयं भग्नाः सहसा साहसप्रियाः ।
उत्तरं च तमप्येके कथयिष्यन्ति फल्गुनम् ॥ १५ ॥
द्रोणः - भो गान्धारराज! अत्रापि तावद् भवतः सन्देहः ।
किमुत्तरेणापि रणे विकृष्यते
निसृष्टशु(ल्का ? का)शनिगर्जितं धनुः ।
किमुत्तरस्यापि शरैर्हतातपः
कृतो मुहूर्तास्तमितो दिवाकरः ॥ १६ ॥
तृतीयोऽङ्कः । - मात - भी मः -- भीष्मः गान्धारीमातः! विस्पष्टं खलु कथ्यते । ननु जानी ते भवान् । बाणपुङ्खाक्षराक्थैर्याजिह्वापरिवर्तिभिः । विकृष्टं खलु पार्थन न च श्रोत्रं प्रयच्छति ॥ १७ ॥ (प्रविश्य) सूतः जयत्वायुष्मान् । शान्तिकर्यानुष्ठीयताम् । भीमः किमर्थम्। सूतः- उचितं ते पुरा कर्तु ध्वजे बाणप्रधर्षिते । अयं हि बाणः कस्यापि पुके नामाभिधीयते ॥ १८ ॥ आनय । (सूत उपनयति) भीमः --- (गृहीत्वा निरीक्ष्य) वत्स! गान्धारराज! जराशिथिलं चक्षुः । वाच्यतामयं शरः । शकुनिः (गृहीत्वानुवाच्य) अर्जुनस्य । (इति क्षिपति । द्रोणस्य पादयोः पतति) द्रोणः (शरं गृहीत्वा) एह्येहि वत्स! एष शिष्येण मे क्षिप्तो गाङ्गेयं वन्दितुं शरः । पादयोः पतितो भूमौ मां क्रमेणाभिवन्दितुम् ॥ १९॥ शनिः यौधः स्यादर्जुनो नाम तेनायं चोज्झितः शरः । लिखितं चोत्तरेणापि प्रकाशमुपनीयताम् ॥ २० ॥ : बाणपुङ्खस्थैरक्षरैः अर्जुननामघटकैः । वाक्यः लक्षणया ध्वनिभिरित्यर्थः । ताहापि सम्बध्यते। मे -- * भवानि- पञ्चरात्रे दुर्योधनः- तेषां राज्यप्रदानार्थमनृतं कथ्यते यदि । राज्यस्याध प्रदास्यामि यावद् दृष्टे युधिष्ठिरे ॥ २१॥ (प्रविश्य) - भटः जयतु महाराजः । विराटनगराद् दूतः प्राप्तः । दुर्योधनः-प्रवेश्यताम् । भटः - यदाज्ञापयति महाराजः । (निष्क्रान्तः) (ततः प्रविशत्युत्तरः) उत्तरः अध्वानमल्पमतिमुक्तजवैस्तुरडै- रागच्छता पथि रथेन विलम्बितं मे । कौन्तेयबाणनिहतैर्हिरदैः समन्ताद् दुःखेन यान्ति तुरगा विषमा हि भूमिः ॥ २२ ॥ (प्रविश्य कृताञ्जलिः) भो भो आचार्य ! पितामहपुरोगं सर्व- राजमण्डलमभिवादये। सर्वे-आयुष्मान् भव । द्रोणः-- किमाह तत्रभवान् विराटेश्वरः । उत्तरः नाहं तत्रभवता प्रेषितः। द्रोणः अथ केन त्वं प्रेषितः। उत्तरः तत्रभवता युधिष्ठिरेण । द्रोणः-किमाह धर्मराजः।
तृतीयोऽङ्कः । ५, उत्तरः श्रूयताम्, उत्तरा मे स्नुषा लब्धा प्रतीक्षे राजमण्डलम् । तत्रैव किमिहैवास्तु विवाहः क प्रवर्तताम् ॥ २३ ॥ शकुनिः--तत्रैव तत्रैव । द्रोणः इत्यर्थ वयमानीताः 'पञ्चरात्रोऽपि वर्तते । "धर्मेणावर्जिता भिक्षा धर्मेणैव प्रदीयताम् ॥ २४ ॥ दुर्योधनः "बाढं दत्तं मया राज्यं पाण्डवेभ्यो यथापुरम् । मृतेऽपि हि नराः सर्वे सत्ये तिष्ठन्ति तिष्ठति ॥ २५ ॥ द्रोणः हन्त सर्वे प्रसन्नाः स्मः प्रवृद्धकुलसङ्ग्रहाः । इमामपि महीं कृत्स्ना राजसिंहः प्रशास्तु नः ॥ २६ ॥ (निष्क्रान्ताः सर्वे) तृतीयोऽ अवसितं पञ्चरात्रम् । शुभं भूयात् । * पञ्चानां रात्रीणां समाहारः पञ्चरात्रं, 'सङ्खयापूर्व रात्रं क्लीवम्' इति क्लोबत्वम् । तदस्या स्तीत्यचि पञ्चरात्रः । अद्यापि प्रतिश्रुतरात्रिपञ्चकानत्ययात् तद्युक्त: काल इत्यर्थः ।
No text on this page.
कथावस्तुसंक्षेपः। ( दुर्योधनो यज्ञावभृथान्ते ब्राह्मणसन्तर्पणावसरे धनुराचार्य द्रोणं तस्याभी- टदक्षिणां पृष्टवान् । पाण्डवेभ्योऽर्धराज्यदानमेव मम सुदक्षिणेति तेन निवेदिते शकुनिना सह सम्मन्त्र्य 'यदि पञ्चरात्रेण पाण्डवानामज्ञातवासिनां प्रवृत्तिरुपनी- यते, तर्हि तेभ्योऽर्धराज्यं दद्याम्' इति स प्रतिजज्ञे। कीचकशतविशसननिवेद- केन विराटदूतवचनेन पाण्डवानां विराटनगरेऽज्ञातं वासं निश्चिन्वन् भीष्मस्तदा- चार्यमभ्युपगमय्य स्वस्य विराटेनाप्रकाशं वैरमपदिशन् तदीयगोग्रहणाय दुर्योधन- मुद्योजयामास.) तेन च ससैन्येन विराटनगरमुपरुध्य गोग्रहणे क्रियमाणे बृहन्न- लाव्यञ्जनोऽर्जुन उत्तराधिष्ठितं रथं वाहयन् श्मशानात् परिगृहीतनिजायुधो दुर्यो धनादीन् सर्वान् विद्राव्य निववृते । ततः सूदरूपो भीमः सुतपरिष्वङ्गाभिलाषी हस्तेनैव रथादभिमन्युमवतार्य विराटसमीपमर्जुनसहित आनिन्ये । ततोऽभिमन्यु- स्तत्त्वापरिज्ञानेन भीमार्जुनौ शत्रुरिति विराटं चावजानन् ब्राह्मणरूपं युधिष्ठिरं परं प्रणतवान् । अथ सर्वमिदं शत्रुनिराकरणमुत्तरस्यैव कर्म मन्यमानाय विरा- टायोत्तरः समागत्य बृहन्नलावेषोऽयमर्जुन इति, अनेनैव दुर्योधनादयः सर्वे परा- जिता इति च न्यवेदयत् । ततोऽर्जुने युधिष्ठिरादीनेव सर्वान् वेषप्रच्छन्नान् प्रका- श्य विजयशुल्काथै विराटेन दत्तामुत्तरां सुषार्थे परिगृह्णति धर्मराजविराटौ प्रमुदि- तावभिमन्युविवाहनिवेदनाय भीष्मादिसकाशमुत्तरं दूतं प्राहिणुताम् । भीष्मादि- प्वप्याभिमन्युहरणं प्रति किश्चिद् विमनाय्य शरेप्वर्जुनमामावलोक्य सर्वमिदमस्म- दवमामनमर्जुनस्य कर्म, अभिमन्युश्च भीमेनैवापहृत इति निरूपयत्सु शकुनौ च तदप्रतिपद्यमाने सहसागत्योत्तरः प्रणतिपूर्वकं युधिष्ठिरसन्देशं यथावदाख्यातवान् । अथ दुर्योधनः पाण्डवेभ्योऽर्धराज्यदानमभ्युपजगाम, तेन च सर्वे प्रसन्ना बभूवुः ।।
श्लोकानुक्रमाणका । पृष्ठम् पृष्ठम् उत्तरा मे भुषा उद्योग: प्रस्तुतः २८ अकारणं रूप अगणितगुण आग्निरग्निभया अज्ञानात्तु मया سم ४२ २५ अतीत्य बन्धून ६ १६ अद्य मे कार्यलो अद्येदानी पर्ण उपन्यस्तस्य शि एकवर्णेषु गा एकेनैव वयं भ एकोदकत्वं खलु एतदक्षयतूणी एतदमेर्बलं एतन्मे परिहा एतां चक्रधर एभिरेव रथै अोदानी यातु ३ ३४ एवमेव क्रतून ८ अध्वानमल्पमति अनन वेषण अपास्य नाराय अपूर्व इव ते अयं बाल्यात्तु स अयं स हृदय अयुज्यमानैः प्र अलमात्मस्तवं अवजित इति अवनतविट ४३ १ ३७ ३ ३८ ५ २५ ६ ३८ एष शिष्यस्य एष शिष्येण मे एषा दीप्तकयू कथं पण्डित! कू कर्णायते तेन कामं दुर्योधन किं भवान् धर्म किन्नु तत्परिहा किमर्थ खलु स किमर्थ स्तूयते किमुत्तरेणापि कृतश्रद्धो ह्यात्मा कृता नीला नागाः को नु खल्वेष स क्रतुव्रतैस्ते न कोधप्रायं वयो अवाप्य रूपयन अशस्त्रो मामाभ अहं हि मात्रा आचार्यस्य यदा भादीपिते जतु आलम्बितो भ्रम इक्ष्वाकुशय्याति इत्यर्थ वयमामी इष्टमन्तःपुरं उचितं ते पुरा ४८ ३१ " पृष्ठम् पृष्ठम् गजेन्द्राः कल्प्यन्ते गतो वृक्षाद् वृ गाण्डविन मुहू ३२ ३८ १५ ९ ३५ ३ ४१ १८ १० ३२ २९ गुरुकरतल जानाम्येतान् जित्वापि गावि तस्मान्मे रथ ताडितस्य हि यो तु(लयित्वा जरा तुलितबलमि तृप्तोऽग्निहविषा तेषां राज्य प्रदा त्वं वञ्च्यस यदि त्वमिदानी कुमा पर्यस्तोऽस्य र पादयोः समुदा पाथै पितरमु पातः सोमो बाल्य पुत्रो ह्येष युधि प्रकोष्ठान्तरस प्राणाधिकोऽस्मि बहुभिःसमराभि बाढं दत्तं मया बाणपुङ्खाक्षरै बाणाधीना क्षत्रि वाहुरक्षौहिणी भग्नापयानेच भीमसेनस्थली भीष्मेण कर्णन भीष्म रामशरै २ ६ १३ दह्यमानस्य दूरस्था दर्शना ३५ ३१ भ्रातृणां पैतृकं ११ १ २ ३१ ५ दैवतं मानुषी द्रुतैश्च वत्सैव्यं द्रोणः पृथिव्यर्जुन दोणश्च भीष्मश्च द्विजोच्छिष्टैरत्रैः धनुरुपनय शी धनुर्घोषं द्रोण धन्य: खल्वर्जुनो धर्षिता रथश न चापि दोषा न जाने तस्य जे न ते क्षेपेण रु न रूष्यन्ति मया नास्त्यन्यो बल निमित्त किश्चि नांचैरप्याभिभा मम हि पितृभिर मा तावद् व्यथि मा तावत् स्वजन मिथ्याप्रशंसा मुञ्चेदर्जुनपुत्र यज्ञेन भोजय यत् पाण्डवा द्रुप यत् पुरा ते सभा यदि विमृशसि यदि स्वचक्रोद्ध युध्यते यदि सौ ये दुर्बलाश्च कृ येन भीमः सभा येषां गतिः कापि (यैः? ये) कर्तुकामै यौधिष्ठिरं धैर्य १२ २९ ४० ३१ १२ ३० ३८ ? नृपा भीष्मादयो ४३ पृष्टम् पृष्ठम् शुष्केणैकेन वृ शून्यमित्यभिधा शूराणां सत्यस ४२ यौषः स्यादर्जु रण(भुव उ)पनी रथमानय शी रथमासाद्य निः राज्ञा वेष्टनप रात्रौ छन्नेन शौण्डीय धृतिवि ३५ २ रामण भुक्तां ३३ ३८ २८ रिपूणां सैन्यभे रुद्रवाणावली ४२ २ श्मशानाद्धनुरा सजैश्चापैर्वद्ध सयौवनः श्रेष्ठ सर(थ)तुरग सर्वैरन्तःपुरैः सहजी मे प्रहरणं घुग्भाण्डमरणी हन्त सर्वे प्रस हितमपि पर हुतप्रवेगो यदि वनं सवृक्षक्षु ४ वयं व्यपाश्रित्य वर्षण वा वर्ष वल्मीकमूलाद विशालवक्षास्त ३ १३ ३६ शकटी च घृता ३