Bharatiya Vidya Bhavan Library, Mumbai
The Chitramimamsa Of Appaya Diksita
Front matter
काव्यमाला। श्रीमदप्पदीक्षितग्रणीता चिंचमीमांसा। अभिवन्ध चन्द्रशेखरमायं गौरीसखं परं ज्योतिः । वितनोमि विपुलविषयां विशदार्थामर्थचित्रमीमांसाम् ।। त्रिविध तावत्काव्यम् । ध्वनि-शुणीमूतव्यङ्ग्य-चित्रभेदात् । यत्र वाच्यातिशायि व्ययं स ध्वनिः। यथा- 'स्थिताः क्षणं पक्ष्मसु ताडिताघराः पयोघरोत्सेघनिपातचूर्णिताः । वलीपु तस्याः स्खलिताः प्रपेदिरे चिरेण नाभिं प्रथमोदनिन्दवः॥' अत्र तपस्यन्त्या देव्या देहोपरि निपततां प्रथमदृष्टिविन्दूनां क्रिया- स्वभाववर्णनेन देव्याः समाध्युचितावस्थानाभिव्यक्तिद्वारा चिरनिदायत- सदेहोपरि निपतनेन सुखपारवश्यसम्ममहेतौ प्रथमदृष्टावप्यविहता समा- ध्यवस्था व्यज्यते। तथा हि-- नासामन्यस्तनयनः संहतास्य. सुनिश्चलः । ध्यायीत मनसा देवमुरो विष्टभ्य चाग्रतः ॥' इति समाधिमतामवस्थानमाहुः । तन पश्मसु स्थिता इत्यनेन नासाग्र- न्यस्तनयनतारूपमर्धनिमीलनं व्यज्यते । सर्वथोन्मीलने पक्ष्मणामूर्छा- प्रत्वेन सर्वथा निमीलने तेपामधोगत्वेन च तेषु जलबिन्दूनां सित्य- संमवात् । पक्ष्मभ्यश्च्युतानां तेषामास्याप्रवेशेनाघरोष्टे निपत्य तथ्यु- काव्यमाला। तिकथनेन संवृतास्यत्वं व्यज्यते । ततश्युतानां तेषां स्तनोत्सेधनिपत- नादिवर्णनेन तूरोविष्टम्भः । अलसवदवनतावसाने हि स्तनयोरन्तःसंकु- चिताकारतया सदुत्सेधयोस्तेषां पतनं न स्यात् । कथंचित्तयोः पतित्वा वलित्रयं प्राप्तानामपि वलीषु तिर्यगेव गमनं स्यात् , न नाभिदेश- प्राप्तिः । नामौ च सवृतायां प्रवेशो न स्यात् । पक्ष्माधरादिपतनक्रम. कथनेन च निश्चलत्वं व्यज्यते । मुखादिचलने सति पक्ष्मपतितानां तेपामभरपयोधरादिक्रमेण पतनासंभवात् । किं चैभिरेव विशेषगर्देव्या लोकोचर सौन्दर्यमभिन्यज्यते; स्थिता इत्यनेन पक्ष्मणामविरलतायाः, क्षणमित्यनेन तेषां मसृणतायाः, पक्ष्मपतनशिथिलवेगैरुदबिन्दुमिस्ताड- नोक्त्याऽधरस्वातिसौकुमार्यस्स पक्ष्माघरसतनादिमिः शिथिलवेगानां तेषां स्तनोत्सेधे चूर्णीभाववर्णनेन तयोरतिकाठिन्यस, उरोविष्टम्मेऽपि वलीषु तेषां स्खलनोक्त्या वलीनां विस्पष्टतायाः सर्वबिन्दूनां नाभावेव प्रवेश- कथनेन नाभेरतिगभीरतायाश्चाभिव्यञ्जनात् । एवं च वाच्यातिशायि व्यङ्गयमत्रेति ध्वनेरुदाहरणमिदम् । यथा वा 'नि शेषच्युतचन्दनं स्तनतटं निर्मष्टरागोऽधरो नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः । मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमा (मे) वापी स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ॥ अन वापी खातुं गतासि न तु तत्सकाशमिति वाक्याथें स्थिते तत्सकाशमेव रन्तुं गतासीत्यधमपदेन प्राधान्येन व्यज्यते । तथा हि- अधमत्वमपकृष्टत्वम्, तच्च जात्या कर्मणा वा भवति । तत्र जात्याऽपकर्ष नोत्तमनायिका नायकस्य वदति । नापि स्वापराधपर्यवसायिदूतीसंभोगा- १. 'अपि भ्यज्यते' क घ. २. 'पतनातिशिथिल' क-या पतनादिना शिथिल'ख.
चित्रमीमांसा। दिहीनफर्मातिरिक्तेन कर्मणा । तादृशं च दूतीसंमोगात्माचीनं सर्व सोढमेवेति नोद्घाटनाहम् । अन्यथा, स्वयं दूतीसंप्रेपणानुपपत्तेः । तद- नन्तरं च खप्रेपितदूतीसंभोगरूपमेव खयं संनिहितचिनिीतुं शक्यं हीनकर्म संभवतीति तत्पर्यवसायिनाऽधमपदेन तस्यान्तिकमेव रन्तुं गता- सीति व्यज्यते । निःशेपच्युतचन्दनं स्तनतटमित्यादीनि वाच्यानि संभो- गचिहोद्धाटनेन तत्र साहायकमाचरन्ति । कथम् ? 'निःशेपच्युतचन्दनं स्तनतटम्' इत्यत्र तावद्वापी खातुमितो गतासीति वाच्यार्थमुपपादयितुमि- होत्तरीकप(प)णेन चन्दनच्युतिरित्यन्यथासिद्धिपरिहाराय निःशेषविशे- पणं कृतम् । ततश्चन्दनच्युतेः खानसाधारण्यल्यावर्तनेन संभोगचिह्नो- द्धाटनाय तटग्रहणम् । साने हि सर्वत्र चन्दनच्युतिः स्यात् , तव तु स्तनयोस्तटे उपरिभाग एव दृश्यते, इयमाश्लेपकृतैवेति। तथा निर्मष्टरा- गोऽधर इत्यत्र ताम्बूलग्रहणविलम्बात्प्राचीनरागस्य किंचिन्मृष्टतेत्यन्यथा- सिद्धिपरिहाराय निर्मष्टराग इति रागस्य निःशेपZष्टतोक्ता । पुनः स्नान- साधारण्यव्यावर्तनेन संभोगचिहोद्घाटनायाधर इति विशिप्य ग्रहणम् । उत्तरोष्ठे सरागेऽधरोष्ठमात्रस्य निर्देष्टरागता चुम्बनकृतैवेति । नेत्रे दूर- मनञ्जने इत्यत्र प्रातर्दत्तमञ्जनं कालविलम्बेन किंचिद्विलुप्तमित्यन्यथासि- द्धिपरिहाराय दूरमित्युक्तम् । दूरमत्यर्थमित्यापाततोऽर्थः । कालतः लानेन वा सर्वतोऽञ्जनलोपः स्यात् , तव तु लोचनयोः क्वचित्रान्त एवा- मञ्जनत्वमिदं चुम्बनकृतमेवेति । 'पुलकिता तन्वी तवेयं तनुः' इत्यत्रापात- तम्तन्वीति सहजतानवकीर्तनेन पुलकितेति सानचिोपन्यासः। पुलकि- ताऽपि तन्वी वर्तत इति हृदि स्थितोऽन्वयः । तेन च खानेन पुलकिता १. हि दूतीसंप्रेषणादि' स-ग. २. 'स्वयं' क-घ-पुस्तकयो स्ति; 'स्वनिहित' स. ३. 'इबोचरीयगेन' का 'बोचरीयापयंगेन' य. ४. 'सर्वच्युतिः' ख-ग. ५.निष्टताका स.
काव्यमाला।
तनुः किंचिदुच्छ्सिता भवति, इयं तु न तथेति रतिक्लेशजनितावेव
तौनवपुलकोगमाविति मर्मोद्धाटनम् । एवमेभिर्वाक्यैरुपस्कृतेनाधमपदेन
तस्यान्तिकमेव रतुं गतासीति व्यज्यमाने प्रामाच्यार्थतादशायां वापी
खातुं गवासीत्येतदनुगुणार्धतयाऽन्वितम् , मिथ्यावादिनीति संबोधनमपि
व्यङ्ग्यानुगुण एवार्थे पर्यवस्यति । ततश्च न्यग्भावितवाच्यमस्यापि व्यङ्ग्य
वाच्यातिशापीति इदमपि ध्वनेरुदाहरणम् ।
यत्र व्यङ्ग्यं वाच्यानतिशायि तद्गुणीभूतव्ययम् ।
यथा-
'गच्छाम्यच्युत दर्शनेन भवतः किं तृप्तिरुत्पद्यते
किल्वेवं विजनस्थयोईतजनः संभावयत्यन्यथा ।
इत्यामन्त्रणभगिसूचितवृथावस्थानखेदालसा-
मानिन्यन्पुलकोत्कराश्चिततनुं गोपी हरिः पातु 4. ।
अत्र गच्छाम्यच्युतेत्याधामन्त्रणेन त्वयारन्तुमेतावत्कालं स्थितम् , तन्न
लब्धमिति व्यङ्ग्यम् । ततु इत्यामन्त्रणभगिसूचितवृथावस्थानखेदालसा-
मित्येतद्वाच्यस्य सिद्धि करोतीति तदङ्गत्वान्न वाच्यातिशायि । अतो
गुणीभूतव्यस्यमिदम् ।
यथा वा-
प्रहरविरती मध्ये वाहस्ततोऽपि परेऽथवा
किमुत सकले याते चाहि प्रिय त्वमिहैप्यसि ।
इति दिनशतप्राप्यं देशं प्रियस्य सियासतो
हरति गमनं बालालापैः सबाप्पगलजलैः ।।
अत्र सकलमहः परमावधिः, ततः परं प्राणान्धारयितुं न शक्नोमीति
1
१. 'मिथ्यावादिनीत्यादिक. २. 'वाच्यादतियायीति' र.
चित्रमीमांसा। व्यङ्ग्यं प्रियगमननिवारणरूपस्य वाच्यस्य सिद्धिं करोतीति तदङ्गत्वाद्वा- च्यानतिशायि । अत इदमपि गुणीभूतव्ययम् । यदव्यङ्ग्यमपि चार तचित्रम् । तत्रिविधम्-शब्दचित्र-मर्थचिन-मुभयचित्रमिति । शब्दचित्रं यथा- 'नवपलाशपाशवनं पुरः स्फुटपरागपरागतपङ्कजम् । मृदुलतान्तलतान्तमलोकयत्स सुरभि सुरभि सुमनोमरैः ।। अर्थचित्रं यथा-- 'स च्छिन्नमूलः क्षतजेन रेणुस्तस्योपरिप्टात्पवनावधूतः । अनारशेपस्स हुताशनस्य पूर्वोत्थितो धूम इवावभासे ।' उभयचित्रं यथा- 'वराहः कल्याणं वितरतु स यः कल्पविरमे विनिर्धन्वन्नौदन्वतमुदकमुर्वीमुदवहत् । खुराघातयुट्यत्तुर शिखरिकूटप्रविलुठ- च्छिलाकोटिस्फोटस्फुटघटितमङ्गल्यपटहः ।।' तदेवं त्रिविधे ध्वनिगुणीभूतन्यङ्ग्ययोरन्यत्रास्माभिः प्रपञ्चः कृतः । शब्दचित्रस्य मायो नीरसत्यानात्यन्तं तदादियन्ते करयः, न वा तत्र विचारणीयमतीवोपलभ्यत इति शब्दचित्रांशमपहायार्थचिनमीमांसा प्रसन्नविस्तीर्णा प्रस्तूयते। चिन्त्येन चिनवर्गे प्रदायोलक्ष्यलक्षणयोः । प्राचीनानामेव सोकाः प्रायेण लिख्यन्ते ।। इति चिनमीमांसायो प्रन्यारम्भमरणम् ।
काव्यमाला। ६ रूपकम् । उपमैका शैलूपी संप्राप्ता चित्रभूमिकामेदान् । रजयति कायर) नृत्यन्ती तद्विदां चेतः ॥ चन्द्र इव मुखमिति सादृश्यवर्णनं तावदुपमा। सैवोक्तिभङ्गीभेदेना- नेकालङ्कारभावं भजते । तथा हि-'चन्द्र इव मुखं मुखमिव चन्द्रः इत्युपमेयोपमा। 'मुख मुखमिव' इत्यनन्वयः । 'मुखमिव चन्द्रः' इति प्रतीपम् । चन्द्रं दृष्ट्वा मुखं स्मरामि इति सरणम्। 'मुखमेव चन्द्रः' इति । 'मुखचन्द्रेण तापः शाम्यति' इति परिणामः। 'किमिदं मुख- मुताहो चन्द्र.' इति संदेहः । 'चन्द्र इति चकोरास्त्वन्मुखमनुधावन्ति' इति भ्रान्तिमान् । 'चन्द्र इति चकोराः कमलमिति चञ्चरीकास्त्वन्मुसे रज्यन्ति' इत्युल्लेखः । चन्द्रोऽयं न मुखम्' इत्यपद्धवः । 'नूनं चन्द्रः' इत्युत्प्रेक्षा । 'चन्द्रोऽयम्' इत्यतिशयोक्तिः। 'मुखेन चन्द्रकमले निर्मिते' इति तुल्ययोगिता । 'निशि चन्द्रस्त्वन्मुखं च हृष्यति' इति दीपकम् । 'वन्मुख एवाह रज्यामि चन्द्र ऐव चकोरो रज्यते' इति प्रतिवस्तूपमा । 'दिवि चन्द्रो भुवि त्वन्मुखम् इति दृष्टान्तः । 'मुखं चन्द्रश्रियं विति' इति निदर्शना । 'निष्कलकं मुखं चन्द्रादतिरिच्यते' इति व्यतिरेका । 'वन्मुसेन समं चन्द्रो निशामु हृष्यति' इति सहोक्तिः। मुखं नेगक- रुचिरं लितज्योत्सोपशोभितम्' इति समासोक्तिः। अब्जेन सदृशं वक्र हरिणाहितसक्तिना' इति श्लेपः । 'मुग्यस्य पुरतश्चन्द्रो निष्प्रभः इत्य. प्रस्तुतप्रशंसा । एवमुक्तानेरालक्षारविवर्तवतीयमुपमा । तदिदं चित्र विधं ब्रह्मज्ञानादिवोपमाज्ञानात् । ज्ञानं भवतीत्यादी निरमप्यते निसिलभेदमहिता सा ।। १.रस्पनिक. १..' क...दिना' सग.
चित्रमीमांसा। अस्यास्तावदेवं लक्षणमाहुः- उपमानोपमेयत्वयोग्ययोरर्थयोईयोः। हृद्यं साधर्म्यमुपमेत्युच्यते काव्यवेदिमिः ॥ कविसमयप्रसिद्ध्यनुरोधेनोपमानोपमेयत्वयोग्ययोरेव साधर्म्यमुपमा । नत्वतथाभूतयोः । अत एव 'कुमुदमिव मुखं प्रसन्नम्' इत्यादि नोपमा । तथास्तयोरपि वस्तुत्वद्रव्यत्वादिकृतमहृद्यं साधयं न तथा। किंतु हृद्य- मेव कान्तिमत्त्वादिकम् । सर्वोऽपि बलकारः कविसमयप्रसिद्धयनुरोधेन हृद्यतया काव्यशोमाकर एवालङ्कारतां भजते । अतः 'गोसदृशो गवयः' इति नोपमा । 'गोर्वाहीकः' इति न रूपकम् । 'स्थाणुर्वा पुरुषो वा' इति न संदेहः । 'इदं रजतम्' इति न प्रान्तिमान् । 'नायं सर्पः' इति नाप- हुतिः । 'पीनो देवदत्तो दिवा न भुते' इति न पर्यायोक्तम् । पर्वतो वहिमान्' इति नानुमानम् । स देवदत्तः' इति न स्मरणम् । 'तस्वस्थ- मिपां तांततामः' इति न यथासहरम् । 'पुत्रेण सहागतः पिता' इति न सहोक्तिः। तेन विना गतः' इति न विनोक्तिः। 'धेतो धावति' इति न श्लेपः । इत्याहनीयम् । अत्रेदं विचार्यते-द्वयोरिति विशेषणमिह किमर्थम् । स्वस्थ खेनैव साधर्म्यवर्णनात्मकस्यानन्वयस्य व्युदासार्थमिति चेत्, एवमप्यु- पमानस्योपमेयत्वकल्पनात्मके प्रतीपे द्वयोः पर्यायेणोपमेयत्वकल्पना- त्मिकायामुपमेयोपमायां चातित्र्याप्तिः । तयोः सादृश्यवर्णनसत्त्वा- दुपमात्वेन संपावत्वे तथैवानन्ययोऽपि संग्राक्षः स्यादिति व्यर्थ द्वयो- रिति पदम् । एतेन 'साधर्म्यमुपमा मैदे-' इति फाव्यप्रकाशिकोळ- (काशोक्त)लक्षणेऽनन्वयव्युदासाय कृतं भेदग्रहणमपि प्रत्युक्तम् । नहि १. 'उरमानोपमेवरा-गाय२. काम्पादिमोक्ष' घ.
काव्यमाला। संभवसाधर्म्यवर्णन एवोपमात्वम् । येन स्वस्य स्खेन साधासंभवादन- न्वयस्य व्यवच्छेद्यत्वमितरयोः संग्राह्यत्वं न स्यात् । तथात्वे 'हंसीव धवला कीर्तिः स्वर्गङ्गामवणाहते' इत्यादौ कविकल्पितसाधोपमाया अनुपमालप्रसङ्गात् । किञ्च, सत्यामप्युपमानोपमेयत्वयोग्यतायां सत्यपि हृद्यत्वे लिङ्गवचतभेदादिदुष्टायामुपमायां 'हंसीव धवलश्चन्द्रः सरासीवा- मलं नमः' इत्यादिरूपायामतिव्याप्तिः । उदाहरिप्यमाणे चोपमाध्वनाव- तिव्याप्तिः । न हि सोऽप्यलकार, अलङ्कार्यत्वात् ब्राह्मणश्रमणन्यायेन तत्रालङ्कारध्वनिन्यपदेश इति सिद्धान्तात् । यदि च दुष्टादुष्टालकार्या- लकारसाधारणोपमासामान्यलक्षणमिति नोक्कातिव्याप्तिस्तदोषमानोपमेय- त्वयोग्ययोरिति हृद्यमिति च व्यर्थम् । कविसमयप्रसिध्धमावादिदुष्टोप- माया अपि संग्राह्यत्वात् । यत्तु विद्यानाथेन लक्षणमुक्तम्- स्वत सिद्धन भिन्नेन समतेन च धर्मतः । साम्यमन्येन वर्ण्यस्य वाच्यं चेदेकदोपमा ॥' इति । अत्र स्वत.सिद्धेनेत्युत्प्रेक्षाव्यावृत्तिः । तत्रोपमानस्य कविकल्पितत्वेन लोकसिद्धत्वाभावात् । मिनेनेत्यनन्वयन्यावृत्तिः । संमतेनेति सर्वविध- दुष्टोपमाव्यावृतिः । कविसमयप्रसिद्ध्यभावेन लिनवचनभेदादिना वा यद्यदसंमतं तस्य सर्वस्यापि संमतपदेन व्यावर्तनात् । धर्मत इति लेप- व्यावृत्तिः। षे हि-सम्लगलं पुरमेतज्जातं संपति सुधांशुथिम्पमिव ।' इत्यादी शब्दसाम्यमात्रमिवशब्देनोच्यते, न गुणक्रियारूपधर्मसाभ्यम् । अन्येन वयस्सेत्पनेन प्रतीपत्र्यावृत्तिःविन वयेन प्रश्तेन सहामस्तस्य १. 'इत्यादे.' क. ३. 'पानाव'सा'पनिररेन'. १. 'वि' खपा-पुख- कमोनाति ४. विनिता का प्रसिरता' ग... मन्यस सारस्य ख-ग.
चित्रमीमांसा। सादृश्यवर्णनात् । एकदेत्यनेनोपमेयोपमाल्यावृत्तिः । वाच्यमित्यनेन व्यङ्ग्योपमाळ्यावृत्तिः' इति । तत्रोत्प्रेक्षाग्यावृत्तये सतःसिद्धेनेत्युक्तम- युक्तम् । उत्प्रेक्षायामिवकारस्य विपयविषयिणोतादात्म्यादिसम्भावना- वाचकत्वेन तत्र साम्यस्यायाच्यतया तत एव तयावृत्तेः । उक्तं हि चक्रवर्तिना- 'यदायमुपमानांशो लोकतः सिद्धिमृच्छति । तदोपमैव येनेवशब्दः साधर्म्यसूचकः ।। यदा पुनरयं लोकादसिद्धः कविकल्पितः । तदोत्येक्षेव येनेवशब्दः सम्भावनापरः।।' इति । दृष्टं च लोके सम्भावनापरत्वमिवशब्दस्य । 'दूरे तिष्ठन्देवदत्त इव माति' इति । कथं च स्वतःसिद्धेनेत्यनेनोत्प्रेक्षान्यावृत्तिः । 'न नित्यमस्मिन्परिपूर्णतेति त्यस्त्वा नभः क्षोणितलावतीर्णः । आनन्दयन्निन्दुरिव स्वथाम्ना विमाति लोके नवकायतीन्द्रः॥' इति तदीयोत्प्रेक्षोदाहरण एवोपमानस स्वतःसिद्धत्वात् । इन्दुः क्षोणि- वलायतीर्णत्वाकारेण कविकल्पित इति चेचहिं, 'चन्द्रबिन्यादिव विपं चन्दनादिव चानलः । परुषा धागितो वक्रादित्यसमावितोपमा ।' इत्युक्तायामसंभावितोपमायामव्याप्तिः। विपानरयोः स्वतःसिद्धत्वेऽपि चन्द्रचन्दनप्रभवत्वेन कविकल्पितत्वात् । : 'उभी यदि व्योति पृथक्प्रवाहापाकाशगमायसः पतेताम् । तेनोपनीयेत तमालनीलमामुक्तमुक्कालतमस वक्षः॥" इति कविकल्पितोपमानायामुपमायां सर्वथैवाज्यातिः । मिनेनेत्यनन्वय. व्यावृत्त्यर्थमुपाचमप्ययुतम् । १. बदन का पतीलारस..एडरपासग.
काव्यमाला। -- 'अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम् । एको हि दोपो गुणसंनिपाते निमज्जतीन्दोः किरणेप्विवाङ्कः ॥' इत्यस्यामुपपादकोपमायामव्यातेः । तत्रोपमेयदोगुणसामान्यान्तर्गता- नापमानानां दोषगुणविशेषाणां फलककिरणानां तद्भिन्नत्वाभावात् । अथोपमेयतावच्छेदकभिन्नोपमानतायच्छेदकावच्छिन्नत्वमुपमानस्य तद्धि- नत्वमेतदपि न युक्तम् । 'अनवरतकनकवितरणधृतजलवकरतरङ्गितार्थिततेः । भणितिरिख मतिर्मतिरिव चेष्टा चेप्टेव कीर्तिरतिविमला ।' इति रशनोपमायामव्याप्तेः, मतित्वाधुपमानतावच्छेदकानामुपमेयतावच्छे. दकमिन्नत्वाभायात् । उपमेयोपमायामुपमानतावच्छेदकयोद्धयोरपि तद्धि- नत्वाभावेनोक्तविशेषणेनैव तद्यावृत्तिसिद्ध्या एकदेत्यस्य वैयपत्तेश्च । 'रजोभिः स्पन्दनोतर्गजैश्च घनसनिभैः । भुवस्तरमिय व्योम कुर्तव्योमेव भूतलम् ।।' इत्युपमेयोपमापकरणोदाहरिप्यमाणपरस्परोपमायामयातेश्च । अथ स्वोप- मेयतावच्छेदकभिन्नधर्मानच्छिन्नत्वमुपमानस्य तद्भिन्नत्यमिति' विवक्षित- मिदमपि न मम्यक् । 'उपाददे तस्य सदसरश्मिस्त्यष्ट्रा नवं निर्मितमातपत्रम् । सं तहुकूलादविदूरमौलिभी पंतदान इयोचमाझे ।।" 'द्वार द्वारमटन्मिनुः शिक्षत्येवं न याचते। अदत्त्वा माशो मा मदचा त्वं लामो गर ।' १. गुलमोफ. २. net'...मिने उप' ग. ४. परम समिसापक. १.५पनेन' गरग. १. 'भारा'व-ग... 'पदम. fort' का Errr-... 'मि -य पोनाटि चित्रमीमांसा। इत्याद्यभिन्नधर्मिकोपमास्वव्याप्तेश्च । तत्र परमेश्वरत्वादेः खोपमेयतावच्छे- दकस्यैवोपमानतावच्छेदकत्वात् । श्लेपत्र्यावृत्त्यर्थ धर्मत इति विशेपण- मप्ययुक्तम् । तत्र न शब्दसाम्थमात्रमिवेनोच्यते, किंतु गुणसाम्यमाति तेदव्यावृतेः। ननु पुरे सकलफलत्वं कलकलशब्दसाहित्यं सुधांशुविम्वे कलासा- कल्यमिति, नैकोऽनुगतो गुणो लभ्यते, मैवम् ; श्लेषभित्तिकाभेदाध्य- वसायमूलया मेंदेऽभेद इत्येवंरूपयाऽतिशयोत्त्या धर्मसाधारण्यलाभात् । नयुपमानोगेययोरेनुगत्या धर्मस्य मुख्यसाधारण्य एवोपमालङ्कारः । पाण्ड्योऽयमंमार्पितलम्बहारः कृप्ताङ्गरागो नवचन्दनेन । आमाति वालातपरक्तसानुः सनिझरोदार इवादिराजः।।' इत्यादी हरिचन्दनवालातपहारनिरादीनां बिम्बप्रतिविम्बमावेन निर्दि- प्टानामपि साधारणधर्मत्याहीकारात् । ननु सकलकलमित्यादावपि गुणसाम्यं चेदुपमैव स्यादिति चेत्, शब्दसाम्यमानं चेदपि किमित्युपमा न स्यात् । नहि शब्दान्यगुणादि- साम्यमेवोपमाप्रयोजकं न शब्दसाम्यमिति कुलधर्मः । 'यथा प्रहादनाचन्द्रः प्रतापाचपनो यथा । तथैव सोऽमृदन्वर्थों राजा प्रतिरञ्जनात् ॥' ईत्यनानुगतार्थनामरूपशब्दमाम्येऽप्युपमादर्शनात् । किन्तु क्षेपसाला- रान्तरविविक्तविषयामावेन निरवकाशतया चल्यत्त्वेनालमारान्तरवा. धकत्यादुपमाप्रतिमानेऽपि तप्रतिभोपचिहेतुः क्षेप एव नोपमेति मंत- १. 'महाधिः य-घ. १. अभिनितक-य..मेरे मम. ४. यानुफला क. १. 'मनुस'घ. १. 'मनु' सग-गुम्बन लि. नुगा स-ग. १. मतिः' कए-ग. ܫܪ h काव्यमाला, M कादिभिरभ्युपेयते । ततश्च यथा शब्दसाम्यमानित्योपमाप्रतिभाने तद्वा-। धकत्वं श्लेषस्य तथा श्लेषभिचिकाभेदाध्यवसायलब्धाभेदगुणसाम्यमात्र- माश्रित्योपमाप्रतिभानेऽपि तद्वक्तुं शक्यमिति तदनुरोधेन न तत्र गुण- साम्यपरित्यागः । यतु रुदटेन-.-सकलकलमित्यादावुपमा समर्थयमानेन, 'स्फुटमर्यालद्वारावेतावुपमासमुच्चयो किंतु । आश्रित्य शब्दमानं सामान्यमिहापि सम्भवतः ।। इति शब्दसाम्यमात्रमिहोक्तम् , तदन्ततः शब्दसाम्यमानमानित्याप्यु- पमा समर्थयितुं शैक्येति भावेन, न त्वमेदाध्यवसायेनापि गुणसाम्यं न सम्भवतीति भावेन लिष्टविशेषणेप्वप्यभेदाध्यवसायनैक्यस्यालङ्कारान्त- रेषु सर्वैरपि समाश्रयणात् । तस्माद्धर्मत इत्यनेन न लेपो व्यावर्तयितुं शक्यते । वस्तुतस्तु सकलकलमित्यादावुपमैवेति व्यर्थं धर्मत इति विशे- पणम् । अलकारान्तरविविक्तस्तु श्वेपंस्य विषयस्तत्प्रकरणे दर्शयिप्यते । किच, विविक्तविषयाभावेनालङ्कारान्तरयापकत्वमिति चाचोयुक्तिरप्य- युक्ता । विषयसद्भावमात्रेण निरवकाशत्वहानेर्विविक्तविषयानपेक्षणात् । नयमलकारगोचरो लोकन्यायो यद्विविक्तविपयो वनव्य इति । अर- चरलानां सुवर्णविविक्तविषयाभावेऽपि सुवर्णाश्रितानामेव चारताहेतु- त्वेनालझारान्तरत्वव्यवस्थितः । अन्यथा निरवकाशैररन्धप्रत्युप्तरतैः साव. कारास तदाभयमुवर्णस्यालकारता पाध्येत । नाप्ययं वाक्यविसंमतः शास्त्रीयन्यायः पदे जुहोतीत्यादीनामिवोत्तरार्धे जुहोतीत्यादीनामाहव- नीयशालादिविवित्तविषयाभावेऽपि सविपयत्वमात्रेण प्रतिष्ठितत्वात् । नाप्यसाधारण्येनेतच्यासन्यायः । सहोक्त्यादीनामतिशयोक्त्यादिविविका- १. निमियर' क.घ. २. ननुरोधन सत्रफ-ध, ३. 'सपर कि. ४. विषया' सना.. S चित्रमीमांसा। । विपयाभावेऽपि तदयाघेनालकारान्तरत्वत्र्यवहारादविरोध इहाप्यवि. शिष्टः । तस्मादत्रोपमाप्रतिभोत्पनिहेतुः क्षेपालझार इत्ययुक्तम् । प्रत्यु- तोपमैवात्र श्लेषप्रतिमोत्पत्तिहेतुः । नहि पुरवर्मनप्रकरणे सकलकलमिति तद्विशेषणपदस्य सुधांशुविम्वमिवेत्युपमाया अनिवन्धने कलासाकल्यल- क्षणार्थान्तरप्रतिभा सम्भवति । प्रतीपत्र्यावृत्त्यर्धमन्येन वर्ण्यस्य साम्यमि- त्युकं तत्रान्येनेत्ययुक्तम् । अनेत्यस भिन्नविशेषणेन पोनरुक्त्यात् । न किंच, वात्प्रकृतादन्येनाप्रकृतेनेति यद्यर्थतदा--- 'इतराण्यपि रक्षांसि पेतुर्यानरकोटिपु । रजांसि समरोत्थानि तच्छोणितनीप्विव ।' इति समुधितोपमायामन्याप्तिः । तर समराङ्गत्वेन रजमां शोणितेषु पतनस्यापि वर्ण्यत्वात् । यदि तु स्वयं वयेनावयेन वा युधिद्वा- दन्येनेत्यर्थः । तदाप्यु-कृष्टगुणत्वादुपमानभावमप्यसहमानस्योपमानवा-या स्पनरूपे प्रतीपेऽतिव्याप्तिः। यथा-- 'अहमेव गुरुः सुदारणानामिति हालाहल तात मा म दृप्यः । ननु संति भगदृशानि भूयो मुग्नेऽलिन्वचनानि दुर्जनानाम् ॥ अब हि यांनां दुर्जनाचसो हाराहलेनातिप्रष्टदोपन्यादुपमान- मापमप्यसमानेन साम्यनिवन्धन प्रतीपम् । अब ययस्येन्यप्ययुतम् । 'स्वकीतः पुरतो भाति ज्योन्या ध्यान्नमलीमसा' इत्यानुनाशंमाम. श्रीगोपमायामयाः। तत्र फीरव वर्ण्यत्वेन ज्योनाया अपयंचात् ।। अपि च, 'अन्वेन पर्यस्स साम्यं वाच्यम्' इति कोऽर्थः । रिनन्यमति- योगिकन्येन वर्यगतं माम्यं याव्यमिनि, किया यथायाशिवायो- मयनिर्मित साम्यं याच्या, अपना पन्यांनुश्योगिस्त्येन गाम्यं पाय- १.ग.ग. 1. पुटम् फ.प. TRE'फ..
काव्यमाला। १ 2 मिति । आधे, 'सरसिजमिदमाननं च तस्याः सममिति चेतसि संमदं विधत्ते' इत्युभयविश्रान्तसादृश्योपमायामन्याप्तिः। द्वितीये, प्रसिद्धप्रती- पेऽप्यतिव्याप्तिस्तदवस्था । एवं तृतीये वर्ण्यस साम्यमित्येतावता विव- क्षितार्थलाभादन्येनेत्यस्य वैयर्थ्यम् । उपमेयोपमायावृत्त्यर्थमेकदेति विशेषणमप्ययुक्तम् । तेन 'खमिव जलं जलमिव खं' इत्यादौ पर्यायेण प्रवृत्तायामुपमेयोपमायामतिन्याप्तिनिरासेऽपि, 'तबल्गुना युगपदुन्मिपितेन ताव- त्सद्यः परस्परतुलामधिरोहता द्वे। प्रस्पन्दमानपरुपेतरतारमन्त- श्चक्षुस्तव प्रचलितम्रमरं च पद्मम् ।। इति युगपत्प्रवृत्तायां तस्यामतिव्याप्त्यनिरासात् । अपि चैवम् , 'ज्योत्लेव नयनानन्दः सुरेव मदकारणम् । प्रभुतेव समाकृष्टसनलोका नितम्धिनी ।' इति भिन्नसाधारणधर्मायां मालोपमायामव्याप्तिः । तत्रानेकदा साम्यप्र- तिपादनात् । न च बहूपमामेलनमेव मालोपमा नैका, तासु च प्रत्येक रक्षणमस्त्येति वाच्यम् । तथा सत्युपमेयोपमाप्युपमाप्रतीपमेलनमेवेति तद्यावृत्त्यर्थं विशेषणान्तरकरणायोगात् । संसृष्टिराफरात्पृथामन्यकृतां लेसनमुभयत्रापि तुल्यम् । एवमुपमेयोपमाप्रकरणे उदाहरिप्यमाणायां रजोभिः स्पन्दनोद्धतैः' इति परस्परोपमायामव्यातिः । व्यङ्गयोपमाव्या- गृत्यर्थ वाच्यमित्युक्तमप्ययुक्तम् । 'न पद्मं मुखमेवेदं न मृशौ चक्षुपी इमे । इति विस्पष्टसादृश्यातत्त्वाख्यानोपमेव सा ।' इत्युकरूपायां तत्याल्यानोपमायां साम्यस्यावाच्यत्वेनाव्यात्यापः ।
चित्रमीमांसा। १५ 'स्वदाननमधीराक्षमाविर्दशनदीधिति । प्रमगमिवालक्ष्यकेसरं भाति पङ्कजम् ॥' इत्यादी विशिष्टोपमाद्याक्षिप्तविशेषणायुपमायामव्यात्यापत्तेश्च । 'शसी श्यामा' इत्यादिवाचकलुप्तोपमायां 'चन्द्रसुन्मुखम्' इत्यादिसाम्यलक्षक- पढवदुपमायां चाव्याप्त्यापत्तेश्च । किंच, वाच्यमित्यत्र विधेयतया वाच्यतोच्यते अनुवाद्यतया वा ? आये, 'स कर्पन्महतीं सेनां पूर्वसागरगामिनीम् । यभी हरजटाग्रष्टां गगामिव भगीरथः ॥' इत्यादावेवेदं लक्षणं स्यात् । 'स यया प्रथमं प्राची तुल्यः प्राचीनबर्हिषा। अहितानगिलोद्धतैस्तजयन्निव फेनुभिः ।।' इत्यादौ न स्यात् । द्वितीये, यंत्र व्यतिरेकालंकारे साम्यस्य निषेधायानु- वाचता 'मुसेन निष्कर लेन न समस्तव चन्द्रमाः इत्यादी, तत्रापीदं रक्षणं स्यात् । नच निषेधाप्रतियोगित्वेन वाच्यमिति विशेषणीयम् । 'असिमात्रसहायोऽपि प्रभूतारिपराभने । नैवान्यतुच्छजनमत्सगर्वोऽयं महायुतिः ॥ इति व्यतिरेके तथाप्यतिव्याप्तः । न च निषेधप्रतियोगिकोट्यननुप्रवि- टतया चाच्यामिनि विशेषणीयम् । 'वृथा चरसि कि भृग तर तत्र यनान्तरे । मारत्याः सदृशी कापि अमन्नपि न लप्स्यसे ।' इत्युपमानलुप्तायामच्यातेः । तन सदृसामनिपेथे साम्यस्यापि प्रतियो- गिकोटिनिविष्टत्वात् । तलाद्विद्यानायोत्तलक्षणमप्ययुक्तम् । १. 'माति:क. २. 'मी 'ग. -- काव्यमाला। यत्तु सरस्वतीकण्ठाभरणोक्तं लक्षणम्- प्रसिद्धरनुरोधेन यः परस्परमर्थयोः । मूयोऽवयवसामान्ययोगः सेहोपमा मता ।। इति । तदपि गुणक्रियादीनां परस्परसादृश्यवर्णनामिकायाम्-- 'ससजुरश्चक्षुण्णानामेलानामुत्पतिष्णवः । तुल्यगन्धिपु मतेमकटेपु फलरेणयः ।। इत्याधुपमायामव्याप्तम् । 'उद्दर्भहणतरुणीरमणोपमर्द- भमोन्नतस्तननिवेशनिमं हिमांशोः । बिम्बं कठोरविसकाण्डकडारमेत- द्विप्णोः पदं प्रथममप्रकरैर्व्यनक्ति ॥'' 'सयोमुण्डितमचरणचिबुकमस्पर्धि नारङ्गकम्' इत्यादी प्रसिद्धिर- हितोपमानायां कल्पितोपमाया चाव्याप्तम् । यत्त्वलकारसर्वस्वकृतोक्तम्-"उपमानोपमेययोः साधये भेदाभेदतु- ल्युत्वे बोपमा' साघम् यः प्रकाराः । भेदपाधान्यं, दीपकतुल्ययो- गितादृष्टान्तप्रतिवस्तूपमासहोक्तिव्यतिरेकादिषु । अमेदप्राधान्यं, रूपक- परिणामम्रान्तिमदुल्लेखादिषु । द्वयोस्तुल्यत्वं, यथास्यामुपमायाम् । अत्र घुपमानोपमेयासाधारणरूपाभ्यां भेदः साधारणधर्मेणामेदव्धेति योरपि तुल्यतेव" इति तदप्युपमानोपमेयातिव्याप्त्यादिदुष्टमिति स्पष्टमेव । तस्माद्दुर्वचमस्या लक्षणमिति । अनोच्यते- (व्यापार उपमानास्थ्यो भवेद्यदि विवक्षितः । क्रियानिप्पचिपर्यन्तमुपमा बतिस्तु सा ।।' उपमानव्यापार उपमितिक्रियानिप्पादको व्यापारः सादृश्यवर्ण चित्रमीमांसा। १७ सोऽयमुपमितिक्रियानिष्पत्तिपर्यन्तं विवक्षिता चेदुपमालङ्कार इत्यर्थः । तथा च व्यतिरेके नातिव्याप्तिः। तत्र सादृश्यवर्णनासत्वेऽपि 'मुखेन निष्कललेन' इत्यादौ साक्षात्तस्यैव निषेधेन, नैवान्यतुच्छजनवत्' इत्यादी तत्प्रयोजकधर्मनिषेधेन चोपमितिक्रियाया अनिष्पत्तेः । नाप्य- नन्वयेऽतिव्याप्तिः । तत्रापि खेन स्वस्य सादृश्यस्य सदृशान्तरव्यवच्छेदे रुद्ररोदनवपोत्खननाद्यर्थवादेऽसदर्थस्य निन्दास्तुत्योरिव द्वारमात्रतया वर्ण्यमानत्वेनोपमितिक्रियाया अनिष्पत्तेः । अन्यथा स्वस्य खेनोपमिति- क्रियानिप्पत्ती सदृशान्तरव्यवच्छेदेऽपि सर्मथानुपमत्वद्योतनं फलं न स्यात् । आहुश्च तस्य तदेव फलं मामहादयः- 'यत्र तेनैव तस्य स्यादुपमानोपमेयता । असादृश्यविवक्षातो वदन्ति तमनन्वयम् ।।' इति । अत एव वर्ण्यमानमपि स्वस सस्सिन्साधयं नान्वेतीत्यनन्वयपद- व्युत्पचिमलकारसन सकारादयो वदन्ति । ततश्च यथाम्भसि कतकरजः- संयोजनेन रजोन्तरन्यवच्छेदे सति कतारजसोऽपि विलयनात्सर्वथाना- विलमग्मः सिध्यति तथा 'रामरावणयोर्युदं रामरावणयोरिख' इत्यादौ खेन सादृश्यवर्णनया सहशान्तरव्यवच्छेदे सति वस्तुतः खेनाप्युपमाया असंभवादनुपमं रामरावणयोर्युद्धमित्यत्रैव कविसंरम्म इत्युपमितिक्रि- याया अनिष्पत्वेर्नानन्वयेऽतिव्याप्तिशावकाशः। एवं प्रतीपेऽपि यत्रो- ममित्यनिप्पत्तिः, 'आम्णय सरोजाक्षि वचनीयमिदं मुवि । शशारतर वरेण पामरेपमीयते ॥ इत्यादी ने तातिन्याप्तिमा । उपमितिक्रियानिप्पतिविरहात् । २.'मादिम्पति मग, २चि.मी.
१८ काव्यमाला। 'गर्वमसंवाझमिमं लोचनयुगलेन किं वहसि भद्रे । सन्तीदृशानि दिशि दिशि सरःसु ननु नीलनलिनानि ।' इत्यादि प्रतीपमुपमेयोपमा चेत्युभयमपि सङ्कायमेवेति न तद्व्यापन लक्षणस्य दोषः । तथा हुदाहृतं प्रतीपं तावदुपमाविशेष एव । साह- श्यवर्णनस्य प्रकृतविषयत्व इवामकृतविषयत्वेऽपि स्मृतिरूपकसन्देह- प्रान्त्यनेकधाग्रहणापहवसम्भावनासम्भवद्वस्तुसंबन्धनिबन्धननिर्दिष्टसमर्थ- नादीनामिवालङ्कारान्तरत्वायोगात् । अन्यथा तेषामपि प्रकृतविषयत्व एव स्मरणरूपकसन्देहस्रान्तिमदुल्लेखापडत्युत्भेक्षानिदर्शनार्थान्तरन्यासा- चलकारत्वम् । अप्रकृतविषयत्वेऽपि चानलकारत्वमिति कल्पनाप्रसंगात् । स्मृत्यादयश्च प्रकृतविपया इवाप्रकृतविपया अप्यलक्षारभूतास्तत्र तत्रो. दाहरिप्यन्ते । न चोपमायामयं नियमो यदप्रकृतेन प्रकृतसादृश्यवर्ण- नात्मनैव तया भाव्यमिति । समुच्चयोपमायुदाहरणेषु प्रकृतयोरेवाप्रकृत- सोरेव वा सादृश्यवर्णनस्याप्युपमात्वाङ्गीकारात् । तद्वत्प्रकृतेनाप्रकृतस्य सादृश्यवर्णनमप्युपमैवेति युक्तम् । एवं चोपमेयोपमापि प्रकृताप्रकृतवि- पयोपमाद्वयरूपतया नालकारान्तरतां भजते । अन्यथा तत्प्रकरणोदाह- रिप्यमाणपरस्परोपमाया अप्यलकारान्तरत्वप्रसंगात् । परस्परप्रमनिव- न्धनादिप्वप्यलक्षारान्तरतापचेश्च । न चानन्ययप्रतीपोपमेयोपमायु साह- श्यवर्णनस्य पृथविरूपणम चाविशिष्टत्वेनानन्ययस्यानुपमात्वमितरयोर- पमात्वं च वक्तुमयुक्तमिति वाच्यम् । यत्रोपमितिक्रियानिप्पत्तिस्तनोप- माशब्दप्रचिनिमित्तसद्भावेन, यत्र तदनिष्पतिस्तत्र तदभावेन च वैप- भ्यस्य फुटत्यात् । इममेव विशेषमभिप्रेत्य काव्यप्रकाशिकादिलक्षणे- प्वनन्वयव्युदासार्थमेय यतः कृतो नोपमेयोपमादिव्युदासार्थम् । उपमे- १. मरिषदले.
, चित्रमीमांसा। योपमादेरुपमान्तर्गतत्वेऽपि व्यङ्ग्यादिकृतवैचित्र्यविशेषेण पृथग्गणनं न विरुध्यते, रूपकपरिणामवत् । 'उभी यदि व्योग्नि पृथक्मवाहो इत्यादी लक्षणाभावो न दोषः । यदि तथाभूतो प्रवाही सातां तर्युप- मीयेत । न च तो संभवतः । तस्मान्न केनाप्युपमीयत इत्युप्रमापरफ्न यीयोऽयमित्यनिष्पनावप्युपमात्वखीकारे तत्रोपमाशब्दस्य पारिभापिक- त्वापत्तेः । किंतु तनातिशयोक्तिविशेषोऽलंकारः । अत एव काव्यप्र- काशिकायां प्रस्तुतस्य यदन्यत्वं यद्यर्थोक्को च कल्पनम्' इत्यतिशयो- क्तिपु परिगणय्य यद्यर्थोक्तो कल्पनस्य, 'राकायामकला चेदमृतांशोमवेद्वपुः । तम्या मुखं तदा साम्यपराभवमवामुयात् ।। इत्युदाहृतम् । 'पुष्यं प्रवालोपहितं यदि सान्मुक्ताफलं वा स्फुटविद्रुमसम् । ततोऽनुकुर्याद्विशदस्य तस्य ताम्रीष्ठपर्यम्तरुचः मितस्य ।' इति तु फविकल्पितोपमानाया उत्पाद्योपमेति व्यवहृताया उदाहरणम् । सत्र यपुत्पाद्यस्योपमानस्य संगाविततया तेनोपमितिनिष्पवेर्लक्षणमस्त्ये- वेति नाव्याप्तिः । न चैवं 'चन्द्रषिम्यादिव निष' इत्यसंभावितोप- मायागव्याप्तिः, ततासमावितेनेोपमानेनोपमितिक्रियानिप्पतेः कविना विवक्षितत्वेन विवशानुसार्युपमितिक्रियानिप्पत्तिसद्भावात् । नहि 'वस्तु- सदनिपन्धनोपमितिक्रियानिष्पचिरपमा' इति रक्षणमुच्यते किंतु फविविवक्षानिबन्धना । अत एव श्लोके निरक्षित इति विशेषणम्- थंवत् । अन्यया 'चन्द्र इव गुमम्' इत्यादापरि लक्षणं न सात् । पन्द्रगतकान्त्यतिशयन्य वस्तुतो मुरोऽभावेन निवज्ञानुमरणं विना ग- १. 'त्या' गध. २. सरक..
२० काव्यमाला। त्यभावात् । 'चन्द्रधवला कीर्तिः' इत्यादौ च सर्वथैव लक्षणं न स्यात् । 'कीर्ती धावल्यस्य लेशतोऽप्यभावात् । न चैवमनन्वमेऽपि कविविवक्षया स्वस्य खेनोपमितिक्रियानिष्पत्तिः संमवतीति वाच्यम् । सर्वथैवानुपमत्व- धोतने कविसंरम्भे सति तथा विवक्षानुदयात् । 'वृथा चरसि किं भृग' इत्यादी सादृश्याधिकरणस्यानुपलम्मोक्त्योपलभ्यमानेषु सादृश्यनिषेधपर्य- वसानेऽप्यनुपलभ्यमानगतसादृश्याभ्यनुज्ञानात्तत्रोपमितिक्रियानिप्पचिर- -स्तीति नान्याप्तिः। अत एव तस्य विशिप्यानुपादानादुपमानलुप्तता । एवम् , 'निरूप्यमाणं कविना सादृश्यं स्वात्मनो न चेत् । प्रतिषेधमुपादाय पर्यवस्यति सोपमा ।' इत्यपि लक्षणमनुसंधेयम् । उपमितिक्रियानिष्पत्तिमत्सादृश्यवर्णनमुपमा । ...स्वनिषेधापर्यवसायि सादृश्यवर्णनमुपमा । इति द्विविधमप्येतदुपमासामान्यलक्षणम् । अलंकारभूतोपमालक्षणं त्वे- तदेवादुष्टाव्यजगत्वविशेषितम् । विशिष्टोपमादिस्यले विशेषणाघुपमाना याच्यभूतविशिष्टोपमादिसिंझ्यङ्गत्वात् । याच्यसिद्ध्यङ्गरूपगुणीभूतव्य- जयतयैव तासां नालंकारतेति न तदव्यापनं दोपः । 'न पद्मं मुखमेवेदं इत्यादौ नोपमालंकारः । किंतु प्रतिषेधाक्षिप्तप्रसक्तितया श्रान्तिमान् , -तदुपपादकतयोपमा चेत्युमय व्यङ्ग्यम् । तथापि प्रान्तिमदादिकमपि साधर्म्यमूलत्वमात्रेणोपमामध्ये परिगणयता दण्डिना तत्त्वाख्यानोपमेत्येता- शव्यवहारः कृतः परमिति ना तत्राप्यव्याप्तिःप इति दिक् । सा चेयमुपमा द्विविधा-पूर्णा लुप्ता च । उपमानोपमेयसाधारणधर्मोपमावाचकानां चतुर्णामुपादाने पूर्णा । १. सियर्थत्वाद' क. ३ चित्रमीमांसा। २१ तेपामेकस्य द्वयोस्त्रयाणां वा लोपे सति लुप्ता । पूर्णायां कचित्साधारणधर्मस्यानुगामितया निर्देशः । कचिद्वस्तुप्रति- वस्तुभावेन । कचिद्विम्बप्रतिबिम्बमावेन । कचिच्छेपेण । क्वचिदु- पचारेण । कचित्समासान्तराश्रयेण । वचिदेषां यथासंभवं मिश्रणेन । लुप्तायां तु नैवं मैदाः। तस्यां साधारणधर्मस्थानुगामित्वनियमात् । किं तु प्रकारान्तरेण मैदा वक्ष्यन्ते । तत्र पूर्णायां धर्मस्थानुगामिता यथा- 'वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये । जगतः पितरौ वन्दे पार्वतीपरमेश्वरी ।। औत्पत्तिकस्तु शब्दस्यार्थेन संबन्ध इति वागर्थयोर्नित्यसंबन्धित्वं प्रसिद्धम् ।' उमामहेश्वरयोरप्यनयोन पृथग्भावः चन्द्रचन्द्रिकयोरिवेति तत्प्रसि- द्धम् । तथा च नित्यसंनन्धित्वरूपोऽत्र साधारणधर्मोऽनुगामितया निर्दिष्टः । यद्यप्युमामहेश्वरयोर्वागर्थवन्नित्यसंनन्धित्ववर्णनेन योनिरति- गयपरस्परप्रेमशालित्वं महामहिमत्वमित्यादि व्यज्यते तथापि न ध्वनि- गुणीभूतव्यङ्ग्यन्यवहारः । न खलु व्ययसंस्पर्शप्रतिमासादेवान चारुता- प्रतीतिः, कि तुपाच्यवैचित्र्यप्रतिमामादपीति प्रायस्तन संभवद्रसादिरूपं च्यङ्ग्यमलंकारान्तरं चागणयित्वैव तत्दलंकारा उदाहियन्ते । एकस्यैव धर्मस्य संबन्धिभेदेन द्विरुपादानं वस्तुप्रतिवस्तुमावः । स तु शुद्धो न संभाति । किं तु विशेषणतया विशेप्यतया या सर्वत्र निम्बप्रतिबिम्बमावकरम्बितः । वस्तुतो भिन्नयोधर्मयोः परस्परसादृश्या- दमिन्नतयाध्यवसितयोढिरपादानं विम्बप्रतिबिम्बमावः । तत्र वस्तुप्रति- यस्तुमावस्य विशेषणता यथा--- 'यान्त्या मुहुर्वलितकंघरमाननं त- दावृत्त्यन्तशतपत्रनिमं वहन्त्या। १.मोन' क. २. 'योरविश्य'सघ.
२२ काव्यमाला। दिग्धोऽमृतेन च विषेण च पक्ष्मलाक्ष्या गाढं निखात इव मे हृदये कटाक्षः॥ अत्र बिम्बपतिबिम्बमावेन निर्दिष्टयोः कंधरावृन्तयोर्वलितावृत्तश- ब्दाभ्यामेक एवं धर्मो विशेषणतया निर्दिष्टः । विशेष्यता यथा- 'सा तेन जगृहे साध्वी हठात्साध्यसकम्पिता। वानरेणातिलोलेन बाताधूतेव वाटरी ।। अन साध्वसवातयोर्विम्वप्रतिविम्वभावापन्नयो कम्पिताधूतशब्दाभ्यान मेक एव धर्मो विशेष्यतया निर्दिष्टः । शुद्धबिम्बप्रतिबिम्बभावो यथा-- 'पाण्योऽयमंसार्पितलम्बहारः' इत्यादि । अत्र हरिचन्दनबालातपो हारनिर्झरौ च बिम्बप्रतिबिम्बभावेन निर्दिष्टौ । श्वेपो यथा- 'नरसिंह महीपाल समस्तोऽपि रिपुस्तक । Aurga पारावारसमानत्वं दधाति स्वपदच्युतः ।। उपचारो यथा-- 'उद्धवन्तमुदितार्चिषं ततो भानुमन्तमिव हेमभूभृतः । पङ्कजैरिव कुमारमीक्षणैर्विसयेन विकचैः पपुर्जनाः ।। अत्र विकासः पुप्पधर्म उपमेयेषु वीक्षणेपूपचरितः । समासमैदा- श्रयणं यथा- 'तया विवृद्धाननचन्द्रकान्त्या प्रफुल्लचक्षुःकुमुदः कुमार्या । ; प्रसन्नवेत सलिलः शिवोऽभूत्संसृज्यमानः शरदेव लोकः ॥' अत्र विवृद्धाननचन्द्रकान्त्येति विशेषणं देव्यां शरदि च समासमे- देन प्रवर्तते । मिश्रणेप्वनुगामित्वबिम्बप्रतिबिम्बभावयोर्मिश्रणं यथा- भीमकान्तैनूपगुणैः स बभूवोपजीविनाम् । अभ्यश्चाभिगम्यश्च यादोरनेरिवार्णवः ।।' १. 'प्रसन'क-घ.
चित्रमीमांसा । ૨૩ . अनाधृप्यत्वमभिगम्यत्वं च नृपगुणानां यादोरलानां च विम्वप्रतिवि- म्वभावमपेक्ष्य लब्धात्मकं साधारणो धर्मः । अनुगामित्वश्लेपयोमिश्रणं यथा 'गते तव प्रातरि वत्स पञ्चतां चिराय नश्चान्द्रमसं कुलं महत् । अदृष्टसंतानतया न शोभते धनं हरेः प्राध्ययनादिवोदधेः ।। अत्र संतानशब्दश्लेपमपेक्ष्य लव्यात्मकं शोमारहितत्वं साधारणो धर्मः । अनुगामित्वोपचारयोर्मिश्रणं यथा--- 'तडिदुज्ज्वलहेतिमुत्तरः कुरुराजध्वजिनीं विलोकयन् । प्रिययेव भिया सकम्पया परिरेमे धृतधर्मपाथसा ।' अत्र सकम्पत्यानुगामिधर्मापेक्षया लब्यचारुमा परिरम्भकर्तृत्वं भीत्यामुपचरितम् । अनुगामित्वसमासमेदाश्रयणयोर्मिश्रणं यथा- 'श्येनपक्षपरिघूसरालकाः सांध्यमेघरुधिराईवाससः । अन्ना इव रजखला दिशो नो बभूवुरवलोकनक्षमाः ॥ अत्र श्येनपक्षपरिपूसरेत्यादिविशेषणयोः समासमेदाश्रयणेन साधा- रण्यमपेक्ष्यानवलोकनक्षमत्वमनुगामिधर्मश्चारतातिशयं पुष्णाति । वस्तु- प्रतिवस्तुभावविम्बप्रतिविम्वभावयोर्मिश्रणं यथा- 'लिच्दः संवृतविक्रियास्ते हदाः प्रसन्ना इव गूढनकाः । वैदर्भमामध्य ययुस्तदीयां प्रत्यय पूनामुपदारलेन ।' अत्र बिम्बमतिविम्बमावापत्नयोः क्रोधनत्रयोः संवृतगृढगन्दाम्यामेक एव धर्म उक्त इति बिम्बमतिबिम्बमाषपस्तुप्रतिवस्तुमावः। संतोपचिव- प्रसादयोपिम्बप्रतिबिम्बमावश्यापविम्यातिविम्बमाक्योमिश्रणं यथा-- 'पार्थनाशमुदिता नृपात्मजा बाप्पमुहरविनीतमन्यवः । र आतपफयितपायसो बहिः शीतगर्भसलिला इव हाः ॥" १. साधारणपन:'रामा.
काव्यमाला। - अत्र बाप्पशब्दे क्षेपस्य नृपात्मजहदविशेपणानां बिम्बप्रतिबिम्बमा- वमपेक्ष्य चारुता । उपचारबिम्बप्रतिविम्बभाक्योर्मिश्रणं यथा- 'सा किलाश्वासिता चण्डी भ; तत्संश्रुतौ वरौ । उद्वयामेन्द्रसिक्का भूर्जिलममाविबोरगौ ।' अत्राचासितेन्द्रसिक्तत्यनयोर्वरोरगाणां च बिम्बप्रतिबिम्बमावमपेक्ष्यो- द्वमनमुपमानोपमेययोर्द्वयोरप्युपचरितम् । मुख्यार्थस्य द्वयोरप्यसंभवात् । मुख्याथै तस्य ग्राम्यत्वाच । तेदाहुः- 'निष्ठमूतोद्भीर्णवान्तादि गौणवृत्तिन्यपाश्रयम् । अतिसुन्दरमन्यत्तु (त्र) ग्राम्यकक्षा विगाहते ॥ इति । एवमन्यदपि द्वयोमिश्रणमूझम् । अनुगामित्यविम्बपतिबिम्बमावसमा- समैदाश्रयणानां मिश्रणं यथा- 'नृपं तमावर्तमनोज्ञनामि. सा व्यत्यगादन्यवधूर्मवित्री । महीधरं मार्गवशादुपेतं स्रोतोवहा सागरंगामिनीव ॥ अत्र व्यत्यगादित्यनुगामिधर्मः । अन्यवधू वित्री सागरगामिनीत्य- नयोविम्बप्रतिबिम्बमावः । आवर्तमनोज्ञनामिरित्यत्र समासमेदाश्रयणमि- त्येतेषां मिश्रणम् । अनुगामित्वलेपोपचाराणां मिश्रणं यथा-- 'असी मरुधुम्मितचारुकेसरः प्रसन्नताराधिपमण्डलामणीः । वियुक्तरामातुरदृष्टिपीक्षितो वसन्तकालो हनुमानिपागतः ॥ अत्रातुरदृष्टिपीक्षित इत्यादानुगामिता । रामादिशब्दलेपः । चु. पितान्दस्य यमन्तपक्षे उपचारः । इत्येतेषां मिश्रणम् । एवमन्येऽपि मिश्रणोदाहरणमेदाः स्वयमेव द्रष्टव्याः । विम्बप्रतिबिम्घमावोदाहरणेषु कधिदिशेपः । पचित्मसिद्धसाधर्म्यतया प्रतीयमानसाधर्म्ययोबिम्बपति- २. 'पद' य... अगदोदारणा.'
१ चित्रमीमांसा। २५ . विम्बमावः । यथा-'पाण्ड्योऽयमंसार्पितलम्बहारः' इत्यादौ । कचिद- प्रसिद्धसाधर्म्यतया येनकेनचित्प्रकारेणोपात्तसाधारणधर्मयोर्विम्वप्रतिवि- म्बमावः । यथा—'तया विवृद्धाननचन्द्रकान्त्या' इत्यादौ । अत्र हि शरदपर्णयोः स्वतोऽप्रसिद्धसाधर्म्ययोर्विवृद्धाननेत्यादिना समासमेदाश्रय- गेनोपाचसाधारणधर्मयोरेव बिम्बप्रतिबिम्वभावः । यथाकथंचित्साधर्म्य- प्रतीति विना बिम्बप्रतिनिम्बमावो न संभवत्येव । 'यथा त्वं गुणवाँलोके तथा ते निर्गुणो रिपुः इतीदमुपमानं तु विपरीतमिति स्मृतम् ॥' इत्युक्तरूपाया विपरीतोपमायाः कथं निर्वाहः । तत्र हि सगुणत्वनि- गुणत्वयोर्नोपाचन न वा प्रतीयमानेन धर्मेण साधर्म्यप्रतीतिरस्ति । नेप दोपः । तत्राप्यात्यन्तिकत्वस्वाभाविकत्वादिधर्मेण प्रतीयमानेन त्योः साधर्म्यप्रतीतेः । अन्यथा यथाशब्दोदितस्स सादृश्यस्य सर्वथा निराल. म्यनत्वप्रसन्नात् । एवं पूर्णया दिगुदाहृता । लुप्ताष्टविधा-वाचकलुप्ता, धर्मलुप्ता, उपमानलुप्ता, वाचकोपमान- उता, धर्मोपमानलुप्ता, धर्मवाचकलुप्ता, वाचकोपमेयनुप्ता, धर्मोपमानवा- चकलुप्ता चेति । क्रमेणोदाहरणानि- 'फैलासगौरं वृपमारुरक्षोः पादार्पणानुग्रहपूतपृष्ठम् । परेहि मां किंकरमष्टमूर्तेः कुम्मोदरं नाम निम्मनुल्यम् ।। अत्र फैलासगौरमित्या पाचफरोपः । निकुम्मनुस्यमित्या धर्म- लोपः । वाचारोपः सनत्र समासविधायकशासातः । धर्मोपस्त्वै- च्छिकः। प्रमावादिना निकुम्मत्यमित्यपि पहुं शक्यत्वात् । पयोराणामस च समागमो यप योऽस गतः। उपनतमेतदकलादासीहत कामवालीयम् ।।
काव्यमाला। • इत्यत्र काकतालशब्दो वृत्तिविपये काकतालसमवेतक्रियावर्तिनौ । तेन काकागमनमिव तालपतनमिव काकतालमिति इवार्थे 'समासाच तद्विपयात्' इति ज्ञापकात्सुप्युपेति समासः । उभयत्रोपमेयं क्रमेण देवदत्तागमनं दस्यूपनिपातश्च । तेन देवदत्चदस्युसमागमः काकतालस- मागमसदृश इति फलति । ततः काकतालमिव काकतालीयमिति द्वितीये इवार्थे 'समासाच तद्विपयात्' इति छप्रत्ययः । ततश्च पतता तालफलेन यथा काकस्य वध एवमुपनिपतितैर्दस्युभिदेवदत्तस्य वध इत्यर्थः । यदाह भगवान्भाष्यकार:--'एवं तर्हि द्वाविमाक्र्थो काकागमनमिव तालपतनमिव काकतालं काकतालमिव काकतालीयम्' इति । तच्च विवृतं कैयटेन- "तन काकागमनं देवदत्चागमनस्योपमानम् । तालपतनं दस्यूपनिपा- तस्य । तालेन तु यः काकस्य वधः स देवदत्तस्य दस्युना वधस्योपमान- मिति । अकस्मादुपनतत्वं च समानो धर्मः । तदाह वृत्तिकारः-'तेन काकतालीयं नामाकरसादुपनतं चित्रीकरणमुच्यते' इति । ततश्चात्र काकागमनतालपतनसमागमनरूपस्य पतत्तालकृतकाकवरूपस्य चोप्रमा- नस्यानुपादानात् । प्रत्ययार्थोपमायामुपमानलोपः । समासार्थोपमायां वाच- कोपमानलोपः । अत्रैव 'किमिति घूमो वयमिदम् । इति तृतीयपादपाठे प्रत्ययार्थोपमायां धर्मोपमानलोपः । समासार्थोपमायां धर्मोपमानवाचक- लोपः । अत्र धर्मलोपमात्रमैच्छिकम् ।। 'यं त्वं पालयसे धर्म वृत्त्या च नियमेन च । स यै रापयशार्दूल धर्मम्त्वामभिरक्षतु ।' अन राघवः शार्दूल इवेत्यर्थे उपमितं ध्यानादिभिः सामान्यापयोगे' इति समासे धर्मवाचायोलॉपः । अत्र वाचकलोपवद्धर्मलोपोऽपि .
चित्रमीमांसा। ? - शास्त्रीयः । सामान्यप्रयोग एवैतत्समासानुशासनात् । धर्मवाचकलुप्तायां धर्मलोपस्यैच्छिकत्वमपि संभवति । यथा- 'नृणां यं सेवमानानां संसारोऽप्यपवर्गति । तं जगत्यभजन्मर्त्यश्वञ्चा चन्द्रकलाघरम् ॥ अत्रापवर्ग इवाचरतीत्यर्थेऽपवर्गतीत्यत्राचारार्थस्य किपो लोपाद्वाच- कवद्धर्मस्यापि लोपः । चञ्चेत्यत्र चञ्चा तृणपुरुष इवेत्यस्मिन्नर्थे 'इवे प्रतिकृती' इति विहितस्य कनो 'लुम्मनुष्ये' इति लुम्विधानाद्वाचा- लोपो धर्मलोपश्च । अस्य श्लोकस्य 'यद्भक्तानां सुखमयः संसारोऽप्यपवर्गति । तं शंभुमभजन्मर्त्यश्चश्चैवात्महिताकृतेः ।। इति पाठे.नोभयत्रापि धर्मस्य श्रवणमपि संभवति । ल. 'रूपयौवनलावण्यस्पृहणीयतराकृतिः । पुरतो हरिणाक्षीणामेप पुष्पायुघीयति ॥' अत्र वाचकोपमेययोर्लोपः । रूपयौवनेत्यादिस्वविशेषणसामर्थ्यात्स्या- स्मानं पुष्पायुधमिवाचरतीत्यस्यार्थस्य गम्यमानत्वात् स्वात्मन उपमेयस्स लोपः कवेरैच्छिकः । न चैप इत्युपमेयस्योपादानमस्तीति शक्ष्यम् । तस्य फर्मविभक्त्यमावेन पुप्पायुधीयतीत्यत्रोपमेयासमर्पकत्वात् । अत्रैव हरिण- स्माक्षिणी इवायते अक्षिणी आसामित्यस्मिन्नर्थेऽनुशिष्टे हरिणाक्षीणा- मिति पदे धर्मोपमानवाचकानां लोपः । सर्वोऽप्ययं 'सप्तभ्युपमानपूर्वप- दस्य' इत्यादिशासरत एव लोपः। त्रिलोपे धर्मलोपस्त्वैच्छिकोऽपि संम- यति । यथा- 'ययोराणामस्स च' इति सोरस द्वितीयपाठे समासार्थोपमायाम् । एवं लेताया अष्टौ विधाः प्रदर्शिताः। १. साक-घ.
२८ काव्यमाला। काव्यप्रकाशिकाकारादिभिस्तु पूर्णायाः पड्डिधाः लमायास्तु धर्मलुप्ता- दिप्यवान्तरमेदेन कैश्चिदेकोनविंशतिरन्यविशतिविधाः प्रदर्शिताः। तत्रार्य विभागः-पूर्णा तावद्विविधा भीती आर्थी च । सादृश्यमानवाचकया थेवादिशब्दवती श्रौती । सादृश्यविशिष्टधमिपर्याप्ततुल्यसदृशसंकाशादि. शब्दवती आर्थी । द्विविधापि वाक्ये समासे तद्धिते चेत्सेवं पड्डिया पूर्णा । धर्मलप्तापि पूर्णावदेव विभागवती । किं तु भौती तद्धितेत संभ- वतीत्येवं पञ्चविधा । वाचकलुप्ता कर्मकर्तृणमुलोः कर्माधिकरणक्यचोः क्यङि णिनी समासे चेत्येवं सप्तविधा । उपमानलुप्ता वाक्यसमासयोद्धि- विधा । धर्मवाचकलुप्ता किप्समासयोर्द्विविधा । धर्मोपमानलुप्ता वाक्यस- मासयोर्द्विविधा । उपमेयवाचकलुप्ता क्यचि एकविधा । धर्मवाचकोप- मानलुप्ता समास एवैकविधेति । यदाहुः- L'पूर्णा लप्ता च सा द्वेषा श्रोत्यार्थी चेति ते पुनः । द्विविधे प्रथमा वाक्ये समासे तद्धिते भवेत् ।। तद्वल्लुप्तापि धर्मस्य लोपे श्रौती न तद्धिते । इवादिलोपे द्विविघे णमुल क्यपि च क्यडि ॥ तथा णिनी समासे च सप्तधा परिकीर्तिता । उपमानस्य लोपे तु द्विधा वाक्यसमासयोः। इवादिधर्मलोपेऽपि द्विविधा किन्समासयोः । धोपमानयोपे वाक्यगा च समासगा ।। इवादरुपमेयस्य द्वयोपे भवेत्स्यचि । इवादिधर्मोपमानलोपे त्वेषा समासगा ॥” इति ॥ - १. पर्यन्व' क. ३. 'तु'स.
चिनमीमांसा। २९ - अनोदाहरणानि तन्मतरीत्या संगृह्यास्माभिलियन्ते- 'यस्याज्ञा शिरसोह्यते सुमनसां वृन्दैर्यथा मालिका बद्धा मुञ्चति यः पशूनिव जनान्यस्याम्रबद्वैभवम् । हृद्यं शेवधिना समं हृदि भजन्त्यानन्दसारोपमं यं धन्याः शशिवत्प्रसन्नवपुपे तस्मै नमः शंभवे ।' अत्र पड्डिधापि पूर्णा दर्शिता । तत्र प्रथमवाक्ये वाक्यगा श्रौती। द्वितीयवाक्ये समासगा श्रौती । 'इवेन नित्यसमासो विभत्त्यलोपः पू. पदप्रकृतिस्वरत्वं च' इति वार्तिकद्वचनेन पनिवेत्यस्य समासपद- त्वात् । तृतीयवाक्ये तद्धितगा श्रौती । अप्रवदिति पष्ठीसमर्थाद्वतः तत्र तस्येव' इति सूत्रेणेवार्थे विहितत्वात् । 'हृद्यं शेवधिना समं हदि मज. न्ति' इत्यत्र वाक्यगा आर्थी । 'आनन्दसारोपम' इत्यत्र समासगा आर्थी। हृद्यमिति विशेषणमत्राप्यपेक्ष्यते । अन्यथा . धर्मटुत्वैव स्यान्न पूर्णा । शशिवदित्यत्र तद्धितगा आर्थी । तत्रत्यक्तेः 'तेन तुल्यं क्रिया चेद्वतिः' इति तुल्यार्थे विहितत्वात् । 'भूर्तिर्यथा नबसुधा चलभिन्मणीव कण्टप्रभा मुसदृशश्च जास्तडिद्धिः। शहाक्षि काश्चननिमं पदमब्जदेश्य यस्वैप मेऽस्तु दि देवतसार्वभौमः ॥' अत्र पञ्चविधापि धर्मगुप्ता दर्शिता । तत्र मूर्तियया नवमुवेति पाक्यगा । यलभिन्मणीय कण्ठसमेति समासगा श्रोती। उभयत्रापि मातीत्यादिक्रियाप्रमोगे सैच साधारणो धर्म इति धर्मनुमान मवेत् , अव- तिदप्रयोगः। श्रीती तु धर्मलमा तद्धिते न संमवति । पष्ठीसमांत्सा- मीसमर्यादा इयार्थे विहितस्य यतेधर्मोपादानं विनान्वयसोकर्यामात । - काव्यमाला। न च वाच्यं 'इवे प्रतिकृती' इत्यधिकारे इवार्थे विहितस्य तद्धितस्य धर्मोपादानं विना नैराकाट्यमन्ति । 'कुशामीया बुद्धिः शैलेयं दधि' 'पौण्डरीकं मुखम्' इति दर्शनात् । अतस्तत्र श्रौती धर्मलुसा तद्धित उदाहर्तुं शक्यत इति इवे प्रतिकृती' इत्यधिकारे विहितप्रत्ययानां तुल्यार्थे एव विधानात् । अन्यथा तेषां सादृश्यविशिष्टधर्मिपर्यन्तत्वामा- वेन कुशाग्रीया बुद्धिरित्याधुपमेयसामानाधिकरण्यासंभ वात्सादृश्यविधा नमपि सदृशे पर्यवस्थति सामानाधिकरण्यदर्शनादिति सूत्रे इवग्रहणं न विरुध्यते । सुसदृशम्थेत्यादि वाक्यत्रये क्रमेणार्थी वाक्यगा समासगा तद्धितगा च । अब्जदेश्यमित्यत्रेपदसमाप्तौ विहितोऽपि देश्यप्रत्ययः सादृश्ये प्रयुज्यते सोऽपि सामानाधिकरण्यात्सदृशपर्यवसायी । ननु सह- शादिशब्दप्रयोगे साहश्यविशिष्टधर्मिपर्यन्तत्वादाति युक्तम् । साह- श्यादिशब्दप्रयोगे कथम् । कि श्रौती उतार्थी । यथा- 'परस्पराक्षिसादृश्यमदूरोशितवम॑म् । मृगद्वन्द्वेषु पश्यन्तौ स्पन्दनाबद्धदृष्टिषु ॥ इत्यादौ श्रौत्येवेति ब्रूमः । तत्र तद्धितप्रकृत्या धर्मिपर्यन्ताभिधानेऽपि प्रधानप्रत्ययाभिहितस्य सादृश्यस्यैव वाक्यान्वियित्वात् । 'यं पश्यन्दीप-दर्श सपदि मनसिजः कीटनाशं स नष्टः स्वान्ते योऽन्त पुरीयत्यतिभजनकृतस्तं कुमारीयति द्राक् । मूलस्तम्भायते यस्त्रिभुवनभवने कोकिलालापिनी यं थामाङ्गे कल्पवल्ली श्रयति कुवलयश्यामला तं भजामि ॥ अत्र सप्तविधापि वाचकलुप्ता दर्शिता । तत्र दीपमिव पश्यन्नित्यर्थे दीपदमिति कर्मणमलि, कीट इव नष्ट इत्यर्थे कीटनाशं नष्ट इति कर्तृणमुलि, स्वान्तेऽन्तःपुर इवाचरतीत्यर्थेऽन्त.पुरीयतीत्यधिकरणक्यचि, चित्रमीमांसा। " - कुमारं स्कन्दमिवाचरतीति कर्मक्यचि, त्रिभुवनस्योत्पत्तौ मूलस्तम्भ इवा- चरतीत्यर्थे मूलस्तम्भायत इति कर्तृक्यडि, कोकिल इवालपतीत्यर्थे कोकि लालापिनीति णिनी, कुवलयमिव श्यामलेत्यर्थे कुवलयश्यामलेति समासे च क्रमेण वाचकलुप्ता द्रष्टव्या । 'पूजनं पुररिपोस्तनोतु मे चित्तमन्यदपहाय चापलम् । यत्समं प्रियहितं न दृश्यते येन नापि सदृशं निशम्यते ।। अत्र यत्सममिति समासे येन सदृशमिति वाक्ये चोपमानलुप्ता द्विविधापि दर्शिता । 'वृथा मम ममत्यहो मनः स्थिते महेश्वरे श्रुतोऽस्ति तेन किं समः स्मृतोऽथवास्ति तत्समः । पडद्यत्वदः सदा तदपिङ्कजद्वये चकोरकीयतु स्थिरं तदानने शशिप्रमे।' अत्रावशिष्टाः पद्विधा अपि लुप्ताः प्रदर्शिताः । तत्र द्वितीयपादे वाक्यसमासयोधर्मोपमानलुप्ता द्विविधा, तृतीयपादे किप्समासयोधर्मवा- चकटता द्विविधा, चकोरकीयत्विति वाचकोपमेयनुप्ता, शशिप्रभ इति धर्मोपमानवाचकलुप्ता च क्रमेण द्रष्टव्या । एवमयं पूर्णालप्ताविभागोयाक्यसमासप्रत्ययविशेषगोचरतया शब्दशा- सयुत्पचिकौशल्पदर्शनमात्रप्रयोजनो नातीयालंकारशासे व्युत्पाद्यतामह- ति। न वा लुप्तानामयं सामम्त्येन विमागः । तथाहि.-धर्मलप्ता वाक्य- समासतद्धितेषु दर्शिता. द्विभाषऽपि दृश्यते-'पटुपटुदेवदत्तः' इति । अत्र हि 'प्रकारे गुणवचनस' इति सादृश्ये द्विायविधानात् । पटुमा इत्यर्थः । यो हि शामादिप्पस्टुरेव पादभिनयति स उच्यते पटुपटु- 1.रि प्राक-घ. F ३२ काव्यमाला। रिति । न तावदियं वाक्ये धर्मलुप्ता । 'कर्मधारयवदुत्तरेषु' इति समा. ससद्भावविधानेनेकपद्यसिद्धेः। अत एव न समासेऽपि धर्मलुप्तेयम् । वाचकलुता गिनिं विना कैश्वित्पडिया दर्शिता । णिनिना सहापरैः सप्त विधा । किप्तद्धितयोरपि दृश्यते- 'यद्भक्तानां सुखमयः संसारोऽप्यपवर्गति । तं शंभुमभजन्मर्त्यश्चञ्चैव स्वहिताकृतेः ॥ इति विवृतमेतदधस्तात् । वाक्यसमासयोरुपमानलुप्तापि दर्शिता । 'उपनतमेतदकस्मादासीद्वत काकतालीयम्' इति तद्धितेऽपि दृश्यते वाचकोपमानलप्ता स्वरूपत एव नोदाहृता । सापि काकतालीयमिति प्रकृतिभूते समासे दृश्यते। धर्मोपमानलुप्तापि सद्धिते काकतालीयमित्या दृश्यते । धर्मवाचकलुमा किप्समासयोरिव तद्धितेऽपि दृश्यते। 'तं जग. त्यभजन्मर्त्यश्चञ्चा चन्द्रकलाधरम्' इति हि प्रागुदाहृतम् । तस्माल्लुप्तावि- भागे दिमात्रप्रदर्शनमेवेदं प्राचां नतु सामस्त्येन विभागः । ये चान्ये काव्यालोकादिषूपमायां प्रकारमेदा दर्शितास्ते सर्वे तेप्वेव द्रष्टव्याः । दर्शिताश्चेहापिलेशतो लक्षणविचारप्रस्तावे। रूपकप्रकरणे चास्याः प्रका• रमेदान्कांश्चित्प्रदर्शयिष्यामः । पुनश्वेयमुपमा संक्षेपतनिधा-कचिस्ववैचित्र्यमात्रविश्रान्ता यथा- 'सच्छिन्नमूलःक्षतजेन रेणुः' इत्यादौ । कचिदुक्तार्थोपपादनपरा यथा- 'अनन्तरलप्रभवस्य' इत्यादी । यथा वा- 'विश्रब्धधातदोषः स्वपधाय सलस्य वीरकोपकरः । वनतरुमाध्यनिरिव हरिनिद्रातस्करः करिणः ।। १. 'रिनारी'. ३. 'शशि' फ.
चित्रमीमांसा । कचिद्यन्यप्रधानासा, व्यगयस्य वस्त्वलंकाररसरूपतया त्रैविध्यात्रि- विधा । तत्र वस्तुध्वनिर्यथा- दर्पान्धगन्धगजकुम्भकपाटकूट- संक्रान्तिनि घनशोणितशोणरोचिः। वीरैर्व्यलोकि युधि कोपकपायकान्तिः कालीकटयक्ष इव यस्य करे कृपाणः ।।' अत्र कृपाणस्य कुपितकालीकटाक्षसादृश्यवर्णनेन सकलरिपुवलक्षयः क्षणादेव करिप्यत इति वस्तु व्यज्यते । अलंकारध्वनिरीया 'यशसि तव विकसिते नृप हिमकरकिरणच्छटाधवले । अमर इव पुण्डरीके विराजते विष्णुपदमेतत् ॥' अत्रोपमालेकारेण यशसः पुण्डरोकवद्वैपुल्यस्य, गगास च अमरव- दल्पत्वस्य प्रतीतेराश्रयानयिणोरनानुरूप्यलक्षणोऽधिकासकारो व्यज्यते । रसध्वनिः 'वागविय' इत्यादावुदाहृतः । कचिदेकत्रैव विविधोऽपि ध्वनिदृश्यते यथा-- पैश्यात्र नलिनीपत्रे बलाका परिदृश्यते । हरिन्मणिमये पात्रे शुक्तिकेव प्रतिष्ठिता ।। किमानयोः संकेतस्थानं भविष्यतीति प्रष्टुमनसो जनसमक्षमपच्यतश्च प्रच्छन्नकामुकम्साभिप्रायमिस्तेिन विदितवत्या विदग्धायाः संकेतस्सान- सूचनार्थमिदं वचनम् । अत्र पनपत्रस्थितबलाकाया मरक्तपात्रप्रतिष्ठित- शुक्तिकासादृश्यवर्णनेन तस्यास्तद्वग्निश्चलत्वमतीतेराधस्तत्व व्यज्यते, तेन तत्प्रदेशस निर्जनत्वं न्यज्यत इति यस्तुध्वनिः । ततश्च तदेव कित म्यानमारयोरिति प्रकाशनात्संरक्षितम्झनार्यप्रकाशनरूपसूक्ष्मालंकार- १.'परसप' कध.
काव्यमाला - वानः । एवं तदभिप्रायानुरूपवर्णनात्परस्परं रतिभावो व्यज्यत इति रसध्वनिश्च । ननु रसादिध्वनिरसलक्ष्यक्रम इति प्रसिद्धिः कथमत्र तस्यानुरणनेन व्यङ्ग्यतोच्यते । मैवम् । यत्र विभावाभावादिवशादाशु भाविनी रसा- भिव्यक्तिस्तत्रासंलक्ष्यक्रमता । अन्यत्र तु रसादिध्वनिरपि संलक्ष्यक्रम एव । तदुक्तमभिनवगुप्तपादाचार्यैः---'यद्यपि रसभावादिरों ध्वन्यमान एव न वाच्यः कदाचिदपि तथापि न सर्वोऽसंलक्ष्यक्रमस्य विषयः' इति । अत एव ध्वनिकारोऽपि- 'एवंवादिनि देवो पार्थे पितुरधोमुखी । लीलाकमलपत्राणि गणयामास पार्वती ॥' इत्यत्र लज्जात्यं संचारिभावमनुरणनव्यजयमुदाजहार । :, अयोपमान्यायप्रसङ्गादुपमाध्यनयः प्रदर्यन्ते । तर शन्दशक्तिमू- लोपमाध्यनिर्यथा- 'किरति प्रारं गवां प्रकामं सुमनःस्वच्छतरं निधौ कलानाम् । कतिचित्कलयन्ति यत्मबोथं कतिचिन्नेति स तत्स्वभाव एव ।।' एकस्माद्गुरोबिंद्यां शिक्षमाणानां केचित्प्रगल्भन्ते नान्य इति विशेषो वोधकस्य गुरोस्तेषु तेषु बोधनविशेषकृतो न भवति, कि तु तत्समावकृत इस्यसिन माते अकृतार्थस्योपमानत्वकल्पनयात्रैवमुपमा व्यज्यते यथा चन्द्रे किरणानां प्रकरमविशेषेण सर्वपुष्पेषु विकिरति कानिविद्विफसन्ति मान्यानीत्येष विशेपखचत्पुष्पस्वभावत एव न तु चन्द्रस्य किरणवि. शेषरतः । एवं गुरी सर्वशिप्येष्वविदोषेण वामयं चिकिरति तेषु चोधा- बोधविदोपोऽपि ततस्यभायरन एवेत्या लिप्टानां गोमुमन फरानिधि- १. "सिर.स. ३. 'रूप' ग.
चित्रमीमांसा शब्दानां वागादिपर्यायपरिवृत्त्यसहिष्णुत्वाच्छब्दशक्तिमूलानुरणनरूप- ध्वनिः । - अर्थशक्तिमूलले वस्तुनोपमाघनिर्यथा- 'वाहि वात यतः कान्ता तां स्पृष्ट्वा मामपि स्पृश । त्वयि मे गात्रसस्पर्शश्चन्द्रे दृष्टिसमागमः ।।' अवार्थसत्या चन्द्रे दृष्टिसमागम इत्यनेन चन्द्रे सीतामुखसादृश्यं च्यज्यते । अलंकारेणोपमाध्यनिर्यथा- 'येदृष्टोऽसि तदा स्राटपतितमासमहारो युधि स्फीतासम्युतिपाटलीकनपुरोमागः परान्दारयन् । येषां तु सहकामदेदद्दनमोनूतनेजानल- ज्वालालीमरभासुरे पुररिसावम्वं गतं कौतुकम् ॥" अान्यत्कार्य पुर्नतोऽशक्याम्यवस्तुकरणारमको विशेपालंकारः। उक्तदपं त्वां पश्यतो यथोक्तविशेषणविशिष्टपुररिपुदर्शनमासीदिति निन- न्धनात्करणस्य क्रियासामान्यात्मनो दर्शनेऽपि सद्भावाधयप्ययमों न याच्यम्नथापि तम्मिन्यौतुकास्तमयरर्णनाव्यात तेन तदा त्वं तथागतः पुररिपुरिव स्थितोऽसीत्युपमा व्यग्यते । एवमुपमादिगुदादता । अयोपमादोपाधिन्त्यन्ते-न्यूनत्यमधिकत्वं लिगमेदो पचनमैदोऽ- सादृश्यमसमर इत्यसाः पड् दोपानातुः । तमोपमेयादुपमानस्यापरटत्वं न्यूनत्यम् । उरष्टत्यमाधिक्यम् । द्वयमपि जान्या प्रमागेन धर्मतो पति मत्सेफ विविधम् । तत्र गतिममाणगतन्यायाधिश्री यया- भण्डारीरिव पुस्माभिः साट्स परमं गतम् ।' परिपूलिय भानुश्यं पहामि ।' 'भय पचासनासनियम विराजते । सुगादी मगान्धा पिनिर्मि मरिष प्रगः॥
६ काव्यमाला। पातालमिव नाभिस्ते पर्वताविव च स्तनौ । वेणीदण्डः पुनरयं कालिन्दीपातसंनिमः ।। अत्र चण्डालादिमिरुपमानैः प्रस्तुतोऽर्थोऽत्यन्तमेव कदर्थित इत्यनु- चितार्थतायामिमे न्यूनत्वाधिक्ये पर्यवस्थतः । धर्मतो न्यूनत्याधिक्ये तु हीनाधिकपदत्वरूपी दोपौ । यथा--- 'स मुनिाञ्छितो मौच्या कृष्णाजिनपटं वहन् । व्यराजन्नीलजीमूतभागाविष्ट इवांशुमान् ।। 'स पीतवासाः प्रगृहीतशानों मनोज्ञभीमं वपुराप कृष्णः । शतहदेन्द्रायुधवान्निशायां संसृज्यमानः शशिनेव मेघः ॥' अनाथ उपमानस्य मौनीप्रतिबिम्बस्तडिलक्षणधर्मो न निबद्ध इति न्यूनत्वम् । द्वितीये उपमेयस्य शसादरनिर्देशेन शशिनो ग्रहणमतिरि- च्यत इत्याधिक्यम् । लिङ्गवचनमेदो यथा--- भाग्याभावात्करसोऽपि चिन्तारत्नमिव च्युतः। सक्तयो मक्षिता देव शुद्धाः कुलवधूरिव ॥' इमौ प्रक्रमभन्नान्तम॒तौ । कथं,च्युतत्त्वादिरत्र साधारणधर्मों भवितुं नाहति । उपमानोपमेययोर्मध्ये यत्र लिजवचनसारूप्यं तत्रैवास समन्व- येनोमयान्वयाभावात् । तथा चोपातविशेषणविशिष्टस्सैवोपमानत्वमुपमे- यत्वं वा भवेत् । प्रतीयमानेन तु धर्मान्तरेणोपमानिर्वाह्या सात् । वत- श्योपमानोपमेययोः कस्यचित्सविशेपणत्वमन्यस्य नेत्येवं विशेषणप्रक्रमभ- रूपता। केचितु कालपुरुपलोटर्यादिभेदमपि दोपमाहुः । यथा- 'तस्याफ्नोदाय फलप्रवृत्तावुपस्थितायामपि नियंपेक्षः। त्यक्ष्यामि वैदेहमुता पुरस्तात्समुद्रनेमि पितुराशयेव ।'
चित्रमीमांसा। । अत्र समुद्रनेमिमत्यजमित्यन्वेति न तु त्यक्ष्यामीति । पुरुषमेदो यथा- 'शरीरमात्रेण नरेन्द्र तिष्ठन्नाभासि तीर्थप्रतिपादितद्धिः। आरण्यकोपातफलप्रसूतिः स्तम्बेन नीवार इवावशिष्टः ।। नीवारे आमातीत्यन्वेति न त्वाभासीति । विध्यादिमेदो यथा- 'आशास्यमन्यत्पुनरुक्तभूतं श्रेयांसि सर्वाण्यधिजग्मुपस्ते । पुत्रं लभस्वात्मगुणानुरूपं भवन्तमीड्यं भवतः पितेव ॥ भवन्तमलभतेत्यन्वेति न तु लभखेत्याशीः । असादृश्यासंभवावुपमा- यामनुचितार्थतायां पर्यवस्यतः । असादृश्यं यथा--- 'प्रभामि काव्यशशिनं विततार्थरश्मिम् ।' काव्यस्य शशिना सादृश्यमप्रसिद्धम् । यद्यर्थानां रश्मीनां च सादृश्यं प्रसिद्धं स्यातदा तदीयबिम्बप्रतिविम्यभावेन काव्यशशिनोः सादृश्यमप्र- सिद्धमप्यांनीयेत न च तदप्यस्ति । यथा वा- 'एप विन्ध्याचल: सान्द्रकुजोसितनिहरः । भालेक्षणम्फुरद्वहि शखाटोप इवेश्वरः ।' असंभवो यथा- 'निपेतुरास्यादिव तस्य दीप्ताः शरा धनुमण्डलमध्यभाजः । जाज्वल्यमाना इव वारिधारा दिनार्धमाजः परिवेपिणोऽर्कात् ।। ज्वलन्त्योऽम्बुधाराः सूर्यमण्डलान्निप्पतन्त्यो न समवन्तीत्यसमकः । १. 'काभ्याशि:'ग. २. भानीय' स. १. 'सान्दः शोधलित' फस. ४. नितुः' फ-स.
३८ काव्यमाला केचिदुपमानाप्रसिद्धिं पृथग्दोषमाहुः । यथा-" 'वाप्पदिग्धेक्षणं वक्र तरुण्याः परिदृश्यते । 1: तुपारसिक्तच्छदनं तरङ्गिण्या इवोत्पलम् ॥ अत्र बाप्पदिग्वेक्षणं तुपारसिक्तच्छदनमित्यनयोर्विम्बप्रतिबिम्बभावेन साहश्यसंभवेऽप्युत्पलस्य मुखं प्रत्युपमानत्वाप्रसिद्धिरेच दोपः । अथैया दोषाणां यथासंभवमपयादाः प्रदश्यन्ते-कविसमयसंमतेषु जात्या प्रमाणेन च न्यूनत्वाधिक्ये न दोपौ । यथा- 'तवाननसमश्चन्द्रश्चन्द्रतुल्यं त्वदाननम् । यमुझे मध्यसदृशं मध्यं व्यणुकसंनिभम् ।। अत्र कविसमयप्रसिद्धर्न किचिदनौचित्यम् । उपमेयोपमानगताधिक- धर्मोपादानस्यैकैकधर्मकानेकोपमार्थत्वेन वा साधारणधर्मवचासंपादनार्थ- त्वेन वा धमिवरूपविशेषलाभार्थत्वेन वा विधान्तरेण वा प्रस्तुतकार्या- न्तरार्थत्वे धर्मतो न्यूनत्वाधिक्ये न दोपौ । यथा-- 'क्षीरोदवेलेव सफेनपुजा पर्याप्तचन्द्रेव शरनियामा । नवं नवं क्षोमनिवासिनी सा भूयो वमौ दर्पणमादधाना ।।' इत्यत्रोपमेयगताधिकविशेषणोपादानस्सककविशेषणकानेकोपमाना- र्थत्वात् । क्षीरोदवेला च सफेनपुमा पर्याप्तचन्द्रा च शरत्रियामा । अनुव्यधात्सोमनिवासिनी तामच्छपमं दर्पणमादधानाम् ।।' दत्यस्मैव लोफस्स पाठे उपमानगतानेकपोपाहानमेकैरुधर्मकोपमा- दयार्थमित्युपमानस्य धर्मत आधिक्यान दोषः। १. नवम क.प. १. 'मागि.
चिनमीमांसा। ३९ T 'इति विज्ञापितो संज्ञा ध्यानस्तिमितलोचनः। क्षणमात्रमृपिस्तस्थौ सुप्तमीन इव हृदः ।।' अत्र विज्ञापितविशेषणं ध्यानस्तिमितलोचन इति साधारणधर्मवत्ता- संपादनार्थमिति न्यूनत्वं न दोषः । 'ज्यानिनादममिगृती तयोः प्रादुरास बहुलक्षपाछविः । ताडंका चलकपालकुण्डला कालिकेव निविडा वलाकिनी ॥ अत्र निविडेति विशेषणं कालिकायां बहुलक्षपाछविरिति साधारण- धर्मवतासंपादनार्थमित्याधिक्यं न दोषः । 'अतिथिं नाम काकुत्स्थात्पुत्रमाप कुमुदती । पश्चिमाद्यामिनीयामात्प्रसादमिव चेतना ।' अत्रातिथि नामेति विशेषणं धर्मिस्वरूपविशेपलामार्थमित्याधिक्य न दोपः। 'रसान्तराण्येकरसं यथा दिव्यं पयोऽनुते । देशे देशे गुणेष्वेवमवस्थास्वमविक्रियः । अत्र दिव्यमिति विशेषणं घर्मिविशेषलाभार्थमित्यधिकलं न दोपः । एवं प्रकृतकथासंघटनचमत्कारादिकार्यान्तरत्वेऽपि द्रष्टव्यम् । एवं च प्रस्तुतकार्यान्तरोपयोगरहितानां विम्वप्रतिविम्मभावेऽपि साधारणधर्मतैकप्रयोजनतया संमाव्यमानानामुपमेयोपमानविशेषणानां प्रतिविशेषणानिर्देश एव न्यूनत्यमधिकत्वं च दोपः । फार्यान्तरार्यानामप्यनुगामिनामतया विशेषणनिर्देशेन वा साधारणी- फरणे त्यधिको गुणः । यथा-'ज्यानिनादमभिगृहनी-' इति लोके ज्यानिनादममिगृतीत्युपमेयविशेषणं ताडका स्थयमेव निपांमया प्रादु- १. 'वरदरापन्'फ.
काव्यमाला। + भूय प्रथममभिद्रुतवती रामेण हतेति स्त्रीवधानौचित्यपरिहारार्थत्वेऽप्यु- पमानसाधारणम् | कालिकायामपि गर्जितशालिन्यामविशयोक्त्या सद्वि- शेषणानुवृत्तः । तथा—'नृपं तमावर्त-' इति श्लोके 'अन्यधू वित्री' इत्यस्य व्यतिक्रमणार्थत्वेऽपि सागरगामिनीति तत्मतिविशेषणनिर्देशः कृतः यत्र लिङ्गवचनभेदेऽपि सामान्यामिधायिपदं स्वरूपभेदं नापद्यते स तत्र न दोपः । उभयानुगतिक्षमत्वात् । यथा--भीमकान्तैनूपगुणैः । 'तद्वेषोऽसदृशोऽन्यामि, स्त्रीभिर्मधुरताभृतः । दधते स्म परा शोभां तदीया विश्रमा इव ।।' सामान्याभिधायिपदस्य स्वरूपभेदापतावपि लिङ्गवचनभेदो महाक- विषयोगेषु दृश्यते । 'द्वेप्योऽपि समतः शिष्टस्तस्यार्तस्य यथौषधम् । त्याज्यो दुष्टः प्रियोऽप्यसौदलीपोरगक्षता ।। 'प्रवृद्धो हीयते चन्द्रः समुद्रोऽपि तथाविधः । स तु तत्समवृद्धिश्च न चाभूताविच क्षयी ।' इत्यादौ । कालादिभेदे तु भूयास्युदाहरणानि । 'एतादृशीपु लोक- सिद्धत्वाहिशादिभेदो न टोपः' इति वामनः । एवं गुणदोपत्र्यवस्थायां सहदयहृदयमेव प्रमाणम् । उक्तं हि दण्डिना- नलिकपचने भिन्ने न हीनाधिस्ते अपि । उपमादृपणायाले यत्रोद्वेगो न धीमताम् ॥ मीर गच्छति पण्डोऽयं वक्त्येषा स्त्री पुमानिय । प्राणा इव प्रियोऽयं मे विद्याधनगियार्जिता ।। भवानिय महीपाल देवराजो विराजते ।
चित्रमीमांसा। अलमंशुमतः कक्षामारोढुं तेजसा नृपः ।। इत्येवमादि सौभाग्यं न जहात्येव जातुचित् । अस्ति च कचिदुद्वेगः प्रयोगे वाग्विदां यथा ।। हंसीव धवलश्चन्द्रः सरांसीवामलं नमः । मर्तृमक्तो भटः श्वेर खद्योतो भाति भानुवत् ।। ईदृशं वय॑ते सद्भिः कारणं तर चिन्त्यताम् ।' इति । कविसमयप्रसिद्धौ सत्यामसादृश्यं न दोपः । यथा -'चन्द्रधवला 'कीर्तिः' इत्यादौ । उपमेयगतासंभावितत्वविवक्षायामुपमानस्यासमवो न दोपाय । यथा- - 'चन्द्रविम्यादिव विषम्' इत्यादौ । लिप्टसाधारणध- मायामन्यत्रापि सहृदयहृदयाहादिन्यां कल्पितोषमानायामुपमायामप्रसि- द्वत्वं न दोप. । यथा- 'कविमतिरिव बहुलोहा सुघटितचका प्रमातवेलेन । हरमूर्निरिव हसन्ती भाति विघूमानलोपेता ॥ 'सद्यो मुण्डितमचहणचिवुझमस्पद्धि नारङ्गकम्' इत्यादौ । एवमन्येऽपि दोषापवादप्रकारा विद्वद्भिश्चिन्तनीयाः ॥ इति चित्रमीम मायामुपमाप्रकरणम् । अधोपमेयोपमा निरूप्यते- उपमानोपमेयत्वं द्वयोः पर्यायतो यदि। उपमेयोपमा सा साद्विविधपा प्रकीर्तिता। यदि द्वयोर्यद्वर्ण्यते सोपने पुच्यते तदा तुल्ययोगितायामति- च्याधिः । तन- १.मरमर का 'मी' ग.
काव्यमाला। 'जनस्य तसिन्समये विगाढे वर्भूवतुर्ती सविशेषकान्तौ । तापापनोदक्षमपादसेवौ स चोदयस्थो नृपतिः शशी च ।। इति द्वयोर्नृपशशिनोर्युगपदेकधर्मान्वयवर्णनात् । अतः पर्यायेणेत्युक्तम् । तथापि 'तस्य द्विपानां मदवारिसेकात्खुराभिघाताच तुरङ्गमाणाम् । रेणुः प्रपेदे पथि पङ्कमा पङ्कोऽपि रेणुत्वमियाय भूयः ।। इत्यत्रातिव्याप्तिः । तत्र रेणुपक्कयोः पर्यायेण पकरेणुभाववर्णनात् । अत. उपमानोपमेयत्वमित्युक्तम् । द्वयोर्यदुपमानोपमेयत्वं वर्ण्यते सोपमे- योपमेत्युक्तेऽपि'--'ज्युष्टं प्रमाणं च वियोगवेदनानिदूननारीकमभूत्सम तदा' इत्युमयविश्रान्तसादृश्यायामुपमायामतिव्याप्तिः । न च तनोभयो- रपि सादृश्याश्रयत्वरूपस्योपमेयत्वस्यैव प्रतिपादनमस्ति न सादृश्यप्रति- योगित्वरूपस्योपमानत्वस्यातो नातिव्याप्तिरिति वाच्यम् । मुखतः प्रति- पादनाभावेऽपि तयोः परस्परभुपमानत्वस्वार्थात्प्रतीतेः । न ह्युपमानोपमे- यत्वं यत्र वाच्यमिति लक्षणे विवक्षितम् । व्यायोपमेयोपमासंग्रहाभाव- प्रसमात् । अतः पर्यायेणेत्युक्तम् । एवमपि भणितिरिव मतिर्मति- रिव चेष्टा' इत्यादिरसनोपमायां मतिचेष्टयोः पर्यायभेदेनोपमानत्यम्यो- पमेयत्वस्य च सत्त्वेनातिव्याप्तिपरिहारायैकसिम्पर्याये यं प्रत्युपमानत्वं तं प्रत्येव पर्यायान्तरे उपमेयत्वं विवक्षणीयम् । विविधपेत्युक्तम् । इविध्यं धर्मस्य साधारण्ययम्तुप्रतिवस्तुभावा- 'सुगन्धि नयनानन्दि मदिरामदपाटलम् । अमोनमिव ते यर त्यहमिय परजम् ।। १.योगरदिना' फ...'म.
चित्रमीमांसा। ४३ 'सच्छायाम्भोजवदनाः सच्छायवदनाम्बुजाः। वाप्योऽङ्गना इवाभान्ति यत्र वाप्य इवाङ्गनाः ॥" इति क्रमेणोदाहरणे। अत्रेदं विचार्यते। लक्षणस्य विद्वल्गुना युगपदुन्मिपितेन तावत् इति प्रागुदाहृतायां युगपदुपमेयोपमायामव्याप्तिः । न चेयमुपमेयोपमा न भवति, किं तूमयविश्रान्तोपमामात्रमिति शकनीयम् । परस्परतुला- मित्यनेन द्वयोरपि प्रतियोगित्वस्यापि प्रतिपाद्यमानतया उपमेयोपमेत्यव- यवार्थस्याविशिष्टत्वात् । अर्थादपि सिध्द्यतः परस्परप्रतियोगित्वस मुखतः प्रतिपादनेन तृतीयसदृशव्यवच्छेदरूपफललामाच । किं च जोभिः सन्दनोद्भूतः' इति प्रागुवाहतायां परम्परोपमायामतिव्याप्तिः । न च तत्राप्युपमेयोपमा । तृतीयसदृगव्यवच्छेदामतीतेः । 'द्विविधपा की. तितेति विभागासामञ्जस्यप्रमहाच । न धन धर्मस्य साधारण्यं वस्तु- प्रतिवस्तुभावो चास्ति । गगनस्य भूतलेन मादृश्ये रजोव्याप्तत्वं साधार• णधर्मः । भूतलस्य गगनेन सादृश्ये गजानां मेघानां च विम्वप्रतिबिम्ब- भाव इत्यत्यन्तविरक्षणत्वात् । अत एवात्र तृतीयसब्रह्मचारिव्यवच्छेद- रूपं फलमपि न सिद्यति । एकधर्माश्रयेण परस्परसाम्ये वर्ण्यमाने धन- योरसिन्धिपये तृतीयः सब्रह्मचारी नास्तीति फलति । पस्यचित्केनचि- सादृश्ये वर्णिते तस्याप्यन्येन सादृश्यमर्थसिद्धमपि मुखतो वर्ण्यमानं तृतीयमहशव्यरच्छेदार्थ मस्तीति हि तन्फल कन्वे वीजम् । न चैतद्ध- मसाधारण्य इव धर्ममेदेऽपि लभ्यते । रजोमिगगनस्स भूतलसादृश्यर- गनेन भूतन्य नेपामारगजैगंगनसादृश्यस्यार्थतः सिध्यमानात् । १. साफ.
४४ फ्राव्यमाला । अपि च- पिता समाराधनतत्परेण पुत्रेण पुत्री स यथैव तेन । पुनस्तथैवाधिकवत्सलेन स तेन पित्रा पितृमान्बभूव ।।' इति व्यत्यस्तमिबिम्बप्रतिविम्बकोपमायामतिव्याप्तिः । अत्र हि पुत्रः पिता चेयुभावुपमेयोपमानभूतो धर्मिणी । तयोस्तावेव व्यत्यासेन पितृ- मत्त्वं पुत्रित्वमिति साधारणधर्मकोटिप्रविष्टतयोपाची । तयोश्च बिम्बप्र- तिबिम्बरूपसाधारण्यापादको धर्मो मतुविनिप्रत्ययोपात्तं प्राशस्त्यम् । प्रशंसायां ह्यत्र तो प्रत्ययो पित्रा पितृमानिति संबन्धमात्रस्यांवक्तव्यत्वात् । एवं च पुत्रस्य पितुश्च प्रशस्तपितृमत्त्वं प्रशस्तपुत्रवत्त्वं च बिम्बप्रतिबि- रबारम्बितेन वस्तुप्रतिवस्तुमावेन साधारणधर्म इति लभ्यते । तयोश्च पितापुत्रयोः प्राशस्त्यप्रतिपादके । अधिकवत्सलेन समाराधनतत्परेणेति 'च विशेषणे । ततश्च धर्म्युपमायां यः पिता पुत्रस्योपमानं स एव तस्य तदुपपादके बिम्बातिविम्बनिर्देशे उपमेय इति लक्षणस्य वर्तनं तावत्स्प- एम् । न चेयमुपमेयोपमा । पुत्रपित्रोधर्मिणोरुपमायां प्रशस्तपितृमत्त्वं प्रशस्तपुत्रवत्वं च वस्तुप्रतिवस्तुभावेन बिम्बप्रतिबिम्बभावकरम्वितेन साधारणो धर्मः । पितापुन्नयोस्तु धर्मकोटिनिविष्टयोर्वात्सल्यभक्त्यति- शयकृतं प्राशस्त्यमनुगतसाधारणधर्म इति पूर्वोदाहरणसारूप्यात्समुच्च. योपमया पुत्रोऽपि पितृभत्त्या प्रशस्तः पितापि पुत्रवात्सल्येन प्रशस्त इत्यर्थलाभेऽपि तृतीयसब्रह्मचारिव्यवच्छेदालाभाय । न चात्र इवशब्द- दयादियुक्तपर्यायद्वयाभावात्पर्यायविशेषणेनैवातिव्यातिनिरासः स्यादिति वाच्यम् । वाच्यकक्षायां पुत्रपित्रोरुपमा व्यङ्ग्यकक्षायां पितापुत्रयोरिति पर्याय द्वयसत्त्वात् । न हि पर्यायद्वयस्यापि वाच्यत्वमत्र विरक्षितम् । २. भव्यतत्वात क. २. "विम्बप्रतिबिम्बमाव' ख ग. ३. 'साधारण्ये ख-ग. . ४. 'उपपादके क.
चित्रमीमांसा। येनेवशब्दद्वययुक्तपर्यायद्वयाभावादतिव्याप्तिर्निरस्येत । तथा सति हि व्यङ्ग्योपमेयोपमासाधारण्यं न स्यादिन्युक्तम् । न चात्र धर्मिणोरेवोपमा धर्मयोस्तु उपमानोपमेयसाधारण्यार्थमभेद एव प्रतीयते नोपमेति वा- च्यम्- 'नलिन्या इव तन्वन्यास्तस्याः पद्ममिवाननम् । मया मधुकरेणेव पायं पायमतृप्यत ।' इत्यादी बिम्बप्रतिबिम्बभावापन्नयोस्तन्वीनलिन्यादिकयोरुपमाया अपि दर्शनेन धर्मयोः सादृश्येन साधारणीकरणस्याप्युपमाप्रयोजकत्वात् । तस्मात्तत्रातिव्याप्तिशका दुरा । अतोऽनुपपन्नमेवेदं लक्षणं लक्ष्यते । অন্ধ দূঃ 'अन्योन्येनोपमा बोध्या व्यक्त्या वृत्त्यन्तरेण वा । -एकधर्माश्रया या स्यात्सोपमेयोपमा मता ॥' अन्योन्येनेति विशेषणान रशनोपमायामतिव्याप्तिः। व्यक्त्या वृत्त्यन्त- रेण वा योध्येति विशेषणाच नोभयविश्रान्तसादृश्योपमायामतिव्याप्तिः । परस्परपतिक्षेपकविकल्पार्थेन वाकारेण हि या परस्परप्रतियोगिकत्वविशि- टोपमा तद्विषयवृत्यन्तरनिरपेक्षव्यक्तियोध्या तद्विषयव्यक्तिनिरपेक्षवृत्त्य- न्तरबोध्या या भवति सोपमेयोपमेति पर्यनस्यति। ततश्चोभयविश्रान्तसाह- श्योपमायामन्योन्यप्रतियोगिकत्वांशे व्यक्तिः सादृश्यरूपोपमारो वृत्त्यन्त- रमिति तयोः फरम्चितत्यान्नातिन्याप्तिशक्षा । सामान्यलक्षणसिध्धर्य च व्यक्तिवृत्त्यन्तरयोरन्योन्यत्वेन क्रोडीकृतयोर्महणम् । एवं हि 'तया गृहीतं नु मृगामनाभ्यः' इत्यत्र वृत्त्यन्तरापेक्षव्यक्तियोध्यायामनलंगारम्तायां व्यक्तिनिरपेक्षवृत्त्यन्तरबोध्यायामलंकारम्तायां चोपमायां लक्षणमनुगतं १. ''क.
'काव्यमाला भवति । यद्यपि व्यङ्ग्यायामप्युपमेयोपमायां शब्दस्य सहकारित्वेन तद- वशक्तेरप्यपेक्षितत्वात् खमिव जलं जलमिव खम्' इत्यादी वांच्यावा- मपि गम्यसाधारणधर्मायां तस्यां धर्माशे व्यक्तेरपेक्षितत्वात्सरस्परनैरपेक्ष्य- मसमवि, तथाप्यन्योन्यप्रतियोगिकत्वविशिष्टसादृश्यविषयवृत्त्यन्तरनिर- पेक्षकत्वं व्यक्तेः तद्विपयव्यक्तिनिरपेक्षत्वं वृत्त्यन्तरस्य चास्त्येव । इदमेव च व्यक्तिपदानपेक्षयालंकाररूपाया विशेषलक्षणमपि । तत्र व्यक्तिपदप- रित्यागे वृत्त्यन्तरमामयोध्येत्येतद्विशेषणं पर्यवस्पति । ततश्चोभयविश्रा- तसादृश्योपमाव्यावृत्ति । न च तस्यामेकस्यैवोपमानत्वं न तु द्वयोरित्य- न्योन्यपदेनैव व्यावृत्ताविदं व्यर्थमिति वाच्यम् । प्राकरणिकामाकरणि- कयो. सादृश्यवर्णनेऽपाकरणिकस्यैवोपमानत्वलामेऽप्युभयोरपि प्राकरणि- कत्वे विनिगमनाविरहेण परस्परोपमानत्वप्रतीतेः । एकधर्माशयविशेष- णात् 'रजोभि स्यन्दनोत्कीर्णै.' इति परस्परोपमाया नातिव्याप्तिः । उक्तविशेषणवलादेव पिता समाराधनतत्परेण' इत्युपमायामपि नाति- व्याप्ति । उभयत्राप्युपमेययोभिन्नधर्माश्रयत्वात् । एकधर्माश्रयेत्यस्य चाय- मर्थ. । कस्यचिदन्येनोपमाया यो धर्म साधारणो वस्तुप्रतिवस्तुभावापन्नो वा स एवान्यस्य तेनोपमायामपीति । नत्वनुगामिधर्माश्रयेत्यर्थः । बिम्ब- प्रतिबिम्बगर्भवस्तुप्रतिवस्तुभावनिर्देशे तदभावादिति दिक् । इदं तूपमेयोपमास्वप्रयोजक लक्षणम् । अनुगतानतिप्रसक्तलक्षणं x 'सदृशस्य तृतीयस्य व्यवच्छेदाय यद्भवेत् । अन्योन्येनोपमेयत्व सोपमेयोपमा मता ॥' इति द्रष्टव्यम् । अत्रान्योन्येनेति विशेषण 'अहमेव गुरु सुदारुगानाम्' इति प्रतीपविशेपन्यावृत्त्यर्थम् ।
चिनमीमांसा । ४७ अथोदाहरणानि । तर धर्मस्य साधारण्ये यथा- 'खमिव जल जलमिव ख हसश्चन्द्र इव हंस इव चन्द्र । कुमुदाकारास्तारास्ताराकाराणि कुमुदानि ।' इय प्रतीयमानसाधारणधर्मा । वाच्यसाधारणधर्मा यथा--'सुगन्धि नयनानन्दि' इत्यादि। यथा वा- 'गिरिरिव गजराजोऽय गजराज इबोच्चकैर्निमाति गिरि । निर्झर इव मदधारा मदधारेवास्य निर्झर स्रवति ।। अनोपमेयोपमाद्वयस्य परस्परानुगृहीतत्वेन विच्छित्तिविशेषोऽधिक वस्तुप्रतिवस्तुभावो यथा-'सच्छायाम्भोजवदना' इत्यादि । इद वस्तुप्रतिवस्तुभावस्य पिम्पप्रतिविम्बविशेषणत्वे उदाहरणम् । तद्विशेष्यत्वे यथा- 'वक्र पद्ममिवेतस्या नेत्र भृङ्गमनोहरम् । पद्म वक्रमिवाभाति मृगलोचनभूपितम् ॥' Cert> एतानि पर्यायोपमेयोपमोदाहरणानि । युगपदुपमेयोपनोदाहरण तु—'तद्वल्गुना युगपदुन्मिपितेन' इत्यादि । तत्रापि यथासभव पूर्णोक्ता भेदा उन्नेया ॥ इयुपमेयोपमाप्रकरणम् । अथानन्वय एफस्सैनोपमानोपमेयत्वेऽनन्वयो मतः । एक्कारवरादेवस्यामेवोपमितिक्रियायामिति गम्यते । तेनोपमेयोप- माया रसनोपमाया च नातिव्याप्ति । उदाहरणम्-'गगन गगनाकारं • १ चिप्रमीमांसायर्या क.
काव्यमाला। सागरः सागरोपमः । अयं प्रतीयमानधर्मः । निर्दिष्टधर्मों यथा- 'न केवलं भाति नितान्तकान्तिर्नितम्धिनी सैव नितम्बिनीव । यावद्विलासायुधलास्यवासास्ते तद्विलासा इव तद्विलासाः !' 'पितुर्नियोगाद्वनवासमेवं निस्तीर्य रामः प्रतिपत्नराज्यः । धर्मार्थकामेपु समां प्रपेदे यथा तथैवावरजेषु वृत्तिम् ॥ इत्यत्रैकस्यैव रघुपतेरुपमानत्वमुपमेयत्वं च । न च तत्रानन्वयः । समुच्चयोपमया तस्य धर्मार्थकामेननुजेषु च समवृत्तिमानस्यैव प्रतिपाद्य. तयासदृशान्तरन्यवच्छेदे तात्पर्याभावात् । तथा 'त्यक्ष्यामि वैदेहस्तां पुरस्तात्समदनैमि पितुराजयेव' इत्यत्राप्यस्ति खस्यकोपमानत्यमुपमेयत्त्वं च । तत्रापि नानन्वयः । पितृनियोगाक्षितित्याग इवापनादात्सीतात्यागे च सदृशान्तरप्रसक्त्यभावेन तद्यवच्छेदस्य फलत्वायोगाच । एवम्- 'उपाददै तस्य सहस्ररश्मिस्त्वष्ट्रा नवं निर्मितमातपत्रम् । स तहुकूलादविदूरमौलिबभौ पतद् इवोत्तमाझे ॥ इत्यादावस्येकस्यैवोपमानोपमेयभावः स्पष्टः । न चैतेषु कचिद्धर्मादिषु वृत्तेरवरजेपु वृत्तेश्योपमानोपमेयभावः । अन्यत्र क्षितित्यागस्य सीतात्या- गस्य वापरत्र गमापतनस्य दुकूलसनिधानस्य च । न तु कचिदप्येकस्सैव । धर्मिण उपमानोपमेयभावः। । विशिष्टान्वयिनोऽपि विशेष्यबोधे विशेष- णसक्रमौचित्यादिति वाच्यम् । यथा धर्मार्थकामेषु समवृत्ति प्रपेदे तथा वरजेम्वित्यादिप्रकारेणैकस्सैवोपमानोपमेयभावे निबद्धेऽपि तस्य विशेष- णसंक्रान्तिकल्पने 'पाण्ड्योऽयमंसार्पितलम्बहारः' इत्यादीनामपि हारनि- झरादीनामेवोपमानोपमेयभाव. स्यादिति बिम्बप्रतिबिम्बोदाहरणमात्रवि- लोपप्रसङ्गात् । 'रामरावणयोयुद्धम्' इत्यादावभेदेऽप्युपमानोपमेयभावम- चित्रमीमांसा ४९ अयुपगच्छतामालंकारिकारिकाणां विशेष्यबाधस्यापरिहरणीयत्वाच्च । तस्मादन 'सविशेषणे हिं' इति न्यायोपन्यासो वाक्यमीमांसकानां शोभते नालंकारमीमांसकानाम् । वाक्यमीमांसका बभेदे उपमानोपमेयभावनि- देश एव नास्तीति मन्यमाना 'रामरावणयोयुद्ध' इत्यादावद्यतनस्य पूर्वे- दुस्तनं युद्धमुपमानम् । एतत्कल्पगगनस्य कल्पान्तरगगनमुपमानमित्यादि ‘कल्पयन्ति । तस्सादालंकारिकमते एतेष्वेकस्यैवोपमानोपमेयमाव इति -लक्षणमतिव्याप्तमिति चेत् । अन ब्रूमः- 'स्वस्य खेनोपमा या स्यादनुगाम्येकर्मिका । अन्वर्थनामधेयोऽयमनन्वय इतीरितः ॥' स्वस्य खेनेति विशेषणादुपमेयोपमायां रसनोपमायां च नाति- व्याप्तिः। अनुगाम्येकर्मिकेति विशेषणादुदाहृतोपमाविशेषेषु नाति- व्याप्तिः। यद्यपि तेष्वपि समां वृत्ति प्रपेदे इत्याचंशेऽनुगामिधर्मप्र- वेशः । तथाप्येको न भवति । धर्मार्थकामावरजादिविम्बप्रतिबिम्बमाव- करम्बितत्वात् । अत एवैकग्रहणमप्यर्थवत् । अन्वर्थनामधेय इति तु न लक्षणान्तर्गतम् । किं तु खेन स्वस्योपमाप्यनुगाम्येकधर्मा चेदेवान- न्बयो नान्यथेत्यत्रोपपचिमात्रपरम् । धन्यैक्ये हि स्वस्य खेनोपमा नावे- तीत्यनन्वय इत्यन्वर्थ नाम भाति । अनन्वय्यर्थनिवन्धनवशाचानुपम- त्वद्योतनफलपर्यन्तं धावेत् । धर्ममेदे तु एकधर्मावच्छिन्नेन खेनैव धर्मा- न्तरावच्छिन्नस्य स्वस्योपमान्वेतीति न तत्रान्वर्थ नाम, न वानन्वय्यर्थ- निबन्धनाधीनानुपमत्वफललामः । इदमनन्वयत्वप्रयोजक लक्षणम् । लक्षणमानं तु 'यत्र तेनैव तस्य स्यात्' इति भामहोक्तमनुसधेयम् । १. सविशेषणे हि विधिनिषेधौ सति विशेष्ये गये विशेषणमुपसकामत इति'.
काव्यमाला। ३ 'उभौ यदि योन्नि पृथक्प्रवाही' इत्यतिशयोक्तिविशेषेऽनुपमत्वद्योतन- फलसाम्यकल्पनावत्यतिव्याप्तिनिरासाय तेनैव तस्येति विशेषणम् । अयमनन्वयो व्यङ्गयोऽप्यस्ति । यथा- 'अद्य या मम गोविन्द जाता त्वयि गृहागते । कालेनैषा भवेत्मीतिस्तवैवागमनात्पुनः ।। अत्र गृहागतं श्रीकृष्णं प्रति विदुरवाक्ये इयं त्वदागमनप्रभवा प्रीतिर्वहुकालव्यवहितेन पुनरपि त्वदागमनेनैव भवेत् नान्येनेत्युक्ति भन्या त्वदागमनप्रभवप्रीतेः सैव सदृशी न वितरप्रभवेति व्यज्यते । एतादृशव्यावृत्त्यर्थमनन्वयालंकारलक्षणेऽव्ययत्वविशेषणं पूर्ववद्टव्यम् ।। "इत्यनन्वयप्रकरणम् । अथ स्मरणालंकारः- स्मृतिः सादृश्यमूला या वस्त्वन्तरसमाश्रया । स्मरणालंकृतिः सा स्यादव्यङ्ग्यत्वविशेषिता ।। यथा- 'अपि तुरगसमीपादुत्पतन्तं मयूर न स रुचिरकलापं बाणलक्षीचकार । सपदि गतमनस्कचित्रमाल्यानुकोणे रतिविगलितबन्ध केशपाशे प्रियायाः ।।' यथा वा- 'दिव्यानामपि कृतविस्मयां पुरस्ता- दम्भस्तः स्फुरदरविन्दचारुहस्ताम् । उद्वीक्ष्य श्रियमिव काचिदुत्तरन्ती- मसाजिलनिधिमन्यनस्य शौरिः ।'
चित्रमीमांसा। - एकत्र सदृशदर्शनात्तत्सदृशधर्मिका स्मृतिः । इतरत्र सदृशदर्शनात- सदशलक्ष्मीसंबन्धिनो जलनिधिमन्थनस्य स्मृतिः । उभयत्रापि सादृश्य- मूलकवस्त्वन्तरस्मृतित्वमविशिष्टम् । अत एव सदृशासदृशसाधारण्या- र्थतया लक्षणे वस्त्वन्तरग्रहणमर्थवत् । 'सौमित्रे ननु सेव्यता तस्तलं चण्डांशुरुजृम्भते चण्डांशोर्निशि का कथा रघुपते चन्द्रोऽयमुन्मीलति ।. वत्सतद्विदितं कथं नु भवता धत्ते कुरङ्गं यतः कासि प्रेयसि हा कुरङ्गनयने चन्द्रानने जानकि ।' अत्र श्रुतकुरमसंबन्धिनस्तन्नयनस्य स्मरणाचत्सदृशसीतानयनस्मृति- स्तत्संबन्धिसीतास्मृतिश्चेति । कि त्वेषा व्यङ्ग्या, अलंकार्यभूता च । तयावृत्त्यर्थमन्यगात्वविशेषणम् । 'अत्युच्चाः परितः स्फुरन्ति गिरयः स्फारास्तथाम्मोघय- स्तानेतानपि विभ्रती किमपि न क्लान्तासि तुभ्यं नमः । आश्चर्येण मुहुर्मुहुः स्तुतिमिति प्रस्तौमि यावद्भुव- स्तावद्विदिमां स्मृतस्तव मुजो वाचस्ततो मुद्रिताः ।। स्तूयमानभूसबन्धिनो मूभृद्धजस्य स्मृतिर्न सादृश्यमूलेति नात्र स्मरणालं- कारः। किंतु स्मृतेः सचारिभावस्य भूमृद्विपयरतिभावानात्वात्प्रेयोऽलंकार। 'स तथेति प्रतिज्ञाय विसृज्य कथमप्युमाम् । ऋषीयोतिर्मयान्सप्त सस्मार स्मरशासनः ॥' अत्र चिन्तामूला स्मृतिः। विच्छितिविशेषाभावान्न कश्चिदलंकारः। एतदुभयव्यावृत्त्यर्थं सादृश्यमूलेति विशेषणम् । एवमेते मैदाभेदसाधा- रणसाधर्म्यमूला अलंकाराः प्रदर्शिताः ॥ इति स्मरणारकारप्रकरणम् ।
काव्यमाला। - अथामेदप्रधानेषु प्रथम रूपकं निरूप्यते-- आरोपविपयस सादतिरोहितरूपिणः । उपरक्षकमारोप्यमाणं तद्रूपकं मतम् ।। अत्रारोपविषयसत्यनेनोत्प्रेक्षातिशयोक्त्योात्तिः । तत्र मुखादे- रारोपविषयत्वाभावात् । अतिरोहितरूपिण इत्यनेन ससंदेहस्रान्तिमदप- द्रुतीनां व्यावृत्तिः । तेषु संदेहप्रान्त्यपहवैर्विषयस्य तिरोधानात् । उपर- अकमित्यनेन समासोक्तिपरिणामव्यावृत्तिः । तयोहि नोपरञ्जकत्वं विप- येवताद्रूप्यापादकत्वलक्षणम् । समासोक्तो व्यवहारमानसमारोपेण तालू- प्यप्रतीतेरेवाभावात् । परिणामे आरोप्यमाणस्यैव विषयतादूप्यापत्त्या विषयस्यारोप्यमाणताद्प्यापत्त्यभावादित्याहुः ॥ अत्रेदं विचार्यते । आरोपाध्यवसाययोः कीदृशं भेदमभिसंधायारोप- विषयस्येत्यनेनोत्प्रेक्षाव्यावृत्तिरुच्यते । यदि विपयविपयिणोरभिहितयोर- भेदप्रतिपत्तिरारोपः। विषयनिगरणेन विपयिणस्तदमेदपतिपत्तिरध्यवसाय इति मेदममिसंधार्य, तदोत्प्रेक्षारोपमूलैब स्यात् । तत्र 'नूनं मुखं चन्द्रः' इति विषयस्य मुखस्याप्यभिधानेन तन्निगरणाभावात् । ततश्च तत्राति- व्याप्तिरनिवारितैव स्यात् । ताट्रप्यप्रतिपत्तिरारोपस्तदभेदपतिपत्तिरध्यव- साय इति तयोर्मेदः । 'मुखं चन्द्रः' इत्यादिरूपके चन्द्रस्य यद्पं चन्द्रत्वं तेन रूपवचामात्रं मुखस्य प्रतीयते । न तु प्रसिद्धचन्द्राभेदः । 'मुखवि- पयायां चन्द्रः' इत्याचतिशयोक्ती तु तदमेद एव प्रतीयत इति चेत् । न । परीत्यस्यापि वक्तुं शक्यत्वात् । न च वाच्यम् । 'इन्दोरपि मृगाक्षीणां मुखेन्दुरतिरिच्यते । निर्जरः पीयमानोऽपि यः कदाचिन्न हीयते ॥'
चित्रमीमांसा । इति मुखचन्द्रस्य प्रसिद्धचन्द्राव्यतिरेकवर्णनं तदमेदप्रतिपत्नी न संभवतीति रूपके ताप्यप्रतिपतिरेवेति । तथा सति हि 'सुधाबद्धग्रासैरुपवनचकोरैरनुसृतां किरजयोत्स्लामच्छां लवलिफल्पाकप्रणयिनीम् । उपप्राकाराग्रं पहिणु नयने तर्कय मना- गनाकाशे कोऽयं गलितहरिणः शीतकिरणः ।।' 'अपरः पाकशासनः' इत्यादतिशयोक्ती 'अपर इव पाकशासन' इत्याद्युप्रेक्षायां च रूपकवदेव प्रसिद्धचद्राद्यभेदप्रतिपत्त्यभावेन ताद्रूप्य- प्रतिपत्तिरेव सादिति तयोर्लक्षणस्यातिव्याप्तिरनेनानिवारिता स्यात् ! अथ तत्र प्रसिद्धचन्द्राद्यभेदप्रतिपत्त्यभावेऽप्युपाचकल्पितापरचन्द्राद्यभेद प्रतिपत्तिः संभवतीति चेत् । रूपकेऽप्येवं वक्तुं शक्यमित्यसंभव एवं लक्षणस्य स्यात् । किं चातिरोहितरूपिण इत्यनेन ससंदेहम्रान्तिमतोर- तिव्याप्तिवारणेऽपि नापहवेऽतिव्याप्तिवारणम् । नेदं मुखं किं तु चन्द्र इत्यत्र मुखे मुखत्वाभावारोपस्य चन्द्रत्वारोपस्य चाहार्यत्वेन विषयतिरोधा- यकत्वाभावात् । आहार्यारोपस्यापि तिरोधायकत्वे . रूपकेऽपि लक्षण- स्थासंभवः स्यात् । उत्प्रेक्षाया अप्याहार्यसंभावनारूपाया अतिरोहित- रूपिण इत्यनेनैव व्यावृत्तिसिद्धाबारोपविषयस्येति विशेषणस्य वैयर्य च सात् । अतिशयोक्ती विषयस्य निगीर्णस्य तिरोहितत्वेन तस्या अप्यनेनैव व्यावृतिः । अपि च । 'त्वत्पादनखरतानां यदलतकमार्जनम् । इदं श्रीखण्डलेपेन पाण्डुरीकरणं विधोः ।।' इति निदर्शनायामतिव्याप्तिः । तत्रोपमेयवाक्यार्थे उपमानवाक्यार्थ- ताप्यारोपसद्भावात् । यदि चारोपविपयस्य पदार्थस्पेति विशेषणम् काव्यमाला। १ तथाप्यलक्तककृतत्वत्पादनखमार्जनं श्रीखण्डलेपकृतनिधुपाण्डुरीकरणमिति निदर्शनायामतिव्याप्तिः। 'अनिदण्डो हरेष-मुरिक्षप्तो बलिनिग्रहे । विधिविष्टरपद्मस्य नालदण्डो मुदेऽस्तु वः ।।" इति रूपकेऽव्याप्तिश्च । यत्तु सरस्वतीकण्ठाभरणोकं लक्षणम्-- 'यदोपमानशब्दानां गौणवृत्तिव्यपाश्रयात् । उपमेये भवेद्वृत्तिस्तदा तद्रूपकं विदुः ॥ इति । तदप्यतिशयोक्तावतिव्याप्तम् । 'मुखं चन्द्रः' इति रूपके चन्द्रश- ब्दस्य मुखे गौणसारोप्यलक्षणा । चन्द्र इत्यतिशयोक्तौ साध्यवसानलक्ष- त्यालंकारिकसिद्धान्तात् । वस्तुतस्त्वतिशयोक्तावेव लक्षणा न तु रू- पके इति शक्यं व्यवस्थापयितुम् । तथाहि । अतिशयोक्ती विषयाभि- धायिमुखादिपदाप्रयोगाच्चन्द्रादिपदेनैव तत्प्रत्यायनं कार्यमिति तस्य तत्र लक्षणावश्यमास्थैया । रूपके विषयविषयिणोः खस्यवाचकाभिहितयोर- भेदप्रतिपत्तिः संसर्गमर्यादयैव संभवतीति किमर्थं तत्र लक्षणा, अशक्या सच तत्र लक्षणाभ्युपगन्तुम् । कथम् । 'मुखं चन्द्र' इत्यत्र लक्षणया मुखे प्रवर्तमानं चन्द्रत्व केन निमिचेन प्रवर्तेत । मुखत्वेन वा, मुखासांधार- णकान्तिविशेषेण चा, चन्द्रत्वेन वा, चन्द्रासाधारणकान्तिविशेषण वा, मुखचन्द्रोभयानुगतकान्तिसामान्येन वा, मुखगतचन्द्रसादृश्येन वा! नाद्यः । मुखपदेन पौनरुत्यापत्तः । मुखत्वस्य शक्यासंबन्धित्वेन तेन निमित्तेन लक्षणायोगाच । अत एव न द्वितीयः । न तृतीयचतुर्थी । मुग्यावृत्तिधर्मयोस्तन प्रवृत्तिनिमित्तत्वायोगात् । न पञ्चमः'। कान्तिमा- न्मुखचन्द्र इत्यत्र फान्तिमत्पदेन पौनरुक्त्यापत्तेः । नापि पाठः । साह. श्यस्य शब्दमतिपाद्यत्वेनाव्यमयत्वेन रूपकस्योपमाप्पथग्भावानुपपत्तेः । , -१. 'मुसंगतामाधारण ख ग.
चित्रमीमांसा। H अभेदप्रधान रूपकमिति सिद्धान्तविरोधाच्च । तस्माद्रूपके स्वस्वपदाभि- हितयोपियविषयिणोरमेदप्रतिपत्तिः संसर्गमर्यादयेत्येव वक्तव्यमिति ल- क्षणस्यासंभवोऽपि दोषः । यदा तु 'वक्रेन्दौ तव सत्ययं यदपरः शी- तांशुरुज्जृम्भते' 'द्वौ चन्द्रौ जगतो राजन्स दिवि त्वं महीतले' इत्या- दौ विषयस्य प्रसिद्धचन्द्राभेदप्रतिपत्तिर्न सभवतीति कथंचिदिन्द्वादिपदस्य विपये लक्षणा कल्भ्यते । तथापि 'कान्तिमान्मुखचन्द्र' इत्यादी काठ- काध्यापकादिवत्संसर्गमर्यादयैवाभेदप्रतिपत्तिसंभवेनातिक्लिष्टलक्षणाश्रय- णायोगाचत्राव्याप्तिर्वजलेपायते । अपि च । 'सेतु, शैलैम्त्वया पद्धः पूर्व जेतुं दशाननम् । के जेतुमद्य वनासि यशश्चन्द्रोपलैः प्रमो।' 'चिरायत्कौतुकाविष्टं कल्पवृक्षमुदीक्षितुम् । तन्मे सफलमद्यासीन्नेनं त्वय्यवलोकिते ।' इत्यादौ व्यङ्ग्यरूपके चाव्याप्तिः । अत्र ह्याचे वयं प्रभु प्रति राव. णवधाय त्वया सेतुर्वद्ध इति निर्दिश्यमानेन वस्तुना त्वमेव राम इति रूपकं त्यज्यते । न च तत्र विषये गौणं रामपदमस्ति । द्वितीये स्वाम- वलोकयता मम नेत्रेण चिरकाहितं कल्परक्षाबलोकन रब्धमिति प्रती- यमानेन विशेपालंकारेण त्वमेव कल्पवृक्ष इति रूप व्यज्यते । तत्र कल्पवृक्षपदे प्रसिद्धकल्पवृक्षपरमेव न विपयलक्षकमिति स्पष्टम् । 'ततः कुमुदनाथेन कामिनीगण्डपाण्डुना । नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलंकृता ।' इति शुद्धसारोपलक्षणामूलकरूपके चान्याप्तिः । तत्र ह्यानन्दहेतुला- दानन्दत्वरूपणं न त्वीपम्यात् । यत्तु 'आयुर्घत'मित्यादी विच्छित्तिवि- शेपादर्शनाच्छुद्धसारोपलक्षणास्थले न कश्चिदलंकार इति । तद्युक्तम् ।
-1 " - काव्यमाला। शौर्वाहीक' इत्यादी विच्छित्तिविशेषादर्शनेन गौणसारोपलक्षणास्सलेड- प्यलंकारत्वाभावप्रसङ्गात् । कचिद्वैचित्र्यादर्शनेऽप्यन्यत्र वैचित्र्यवर्ति सलेऽलंकारत्वमिहापि वक्तुं युक्तम् । नेत्रानन्देन चन्द्रेण' इति । 'आयुर्दानमहोत्सवस्य, विनतक्षोणीभृतां मूर्तिमान विधासो, नयनोत्सवो मृगदृशां, कीर्तेः प्रकाशः परः। आनन्दः कलिताकृतिः सुमनसां, वीरनियो जीवितं धर्मस्यैप निकेतनं, विजयते वीरः कलिङ्गेश्वरः ।।" इत्यादी शुद्धसारोपलक्षणास्खलेअप वैचित्र्यदर्शनात् । यदि तु हेतु- मता सह हेतोरभिधानमभेदतो हेतुरिति मतान्तराश्रयेण तत्र हेत्वलंकारो न रूपकमित्यभ्युपगम्येत । तदा 'आरोपविषयस्य स्यात्' इति पूर्वोदाह- तलक्षणस्य तत्राव्याप्तिः । एवम्----'उपमैव तिरोभूतभेदा रूपकमुच्यते ।' 'तद्रूपकममेदो य उपमानोपमेययोः' इत्यादिलक्षणेष्वप्यतिव्याप्त्यादिदोषा यथासंभवमुन्नेयाः । अत्र वदामः-- बिम्बाविशिष्टे निर्दिष्टे विषये यद्यनिहते । उपरञ्जकतामेति विषयी रूपकं तदा ।' बिम्बाविशिष्ट इति विशेषणात् 'त्वत्पादनखरलानाम्' इति निद- र्शनायां नातिव्याप्तिः । वन हि चन्द्रो यथा स्वतः शुम्रत्वादनासानी- यधावल्यस्तथा नखाः खतोऽरुणत्वादनासञ्जनीयारुण्या इति सादृश्येन नखानां चन्द्रस्य च बिम्बप्रतिबिम्बभावः। अलक्तचन्दनयोरन्यत्र स्वव. सञ्जकत्वेन । ततश्च तत्र विम्बमावानखालक्तकविशिष्टे एव रञ्जने तत्प्रतिबिम्बमूतचन्द्रचन्दनविशिष्टपाण्डरीकरणमुपरस्नकम् । एवमन्य. त्रापि 'अरण्यरुदितं कृतम्' इत्यादिताप्यारोपवनिदर्शनोदाहरणे सर्वत्र बिम्बमावापन्नवस्तुविशिष्ट एवोपमेये तत्प्रतिबिम्बविशिष्टमुपमानमुपरज. नाबालम चित्रमीमांसा। कमिति न काप्यतिव्याप्तिः। रूपके तु न कचिदपि बिम्बप्रतिविम्वभा- वापन्नधर्मविशिष्टतया विषयविपयिणोरुपादानम् । सावयवरूपकेऽपि विशेप्यरूपणात्पृथगेवावयवेपु रूपणं न त्ववयवविशिष्टरूपेण विशेष्ये। 'अनिदण्डो हरेसव॑म्' इत्यत्राप्यछिदण्डनालदण्डयोन बिम्बप्रतिबिम्ब- विशिष्टता । तयोः प्रतीयमानेन श्यामलत्वविधातृविष्टरकमलश्लिष्टत्वा- धनुगामिधर्मेणैवोपमानोपमेयभावात् । किं तु विधातृविष्टरकमलश्लिष्ट- त्वरूपसाधारणधर्मवतासंपादनार्थं विशेषणविशिष्टतामात्रमुपमेयस्य । निर्दिष्ट इति विशेषणान्न निगीणविषयायामतिशयोत्त्यामतिव्याप्तिः। व्यमयरूपकोदाहरणेषु विपयिवाचकापयोगसंभवेऽपि विषयनिर्देशः सार्व- त्रिक इति न तत्राव्याप्तिः। 'नेत्रानन्देन' इत्यादौ हेत्वलंकार इति मते विषय इत्यनेनोपमेय इत्येतदर्थकेन तव्यावृत्तिः । तत्रापि रूपकमित्येका. वलीकारादिमते विपयपदं धर्मिमात्रपरं स्पष्टार्थम् । अनिहुते निषेधास्पृष्ट इति विशेषणादपद्रुतौ नातिव्याप्तिः । उपरञ्जकतामाहार्यताद्रूप्यनिश्चयगोचरतामेतीत्यनेन ससदेहोत्प्रेक्षा- समासोक्तिपरिणामम्रान्तिमत्स्वतिव्याप्तिनिरासः । ससदेहोत्प्रेक्षयोनिश्चय- स्यैवाभावात् । समासोक्तौ परिणामे च तस्य ताप्यागोचरत्वात् । समा- सोक्तो व्यवहारमात्रसमारोपात् । परिणामे आरोग्यमाणस्यैव विषयता- द्रूप्यगोचरत्वात् । प्रान्तिमति सतः कल्लितस्य वा प्रवृत्त्यादिपर्यन्तस्य स्वारसिकस्यैव निवन्धने तस्यानाहार्यत्वात् । अन्यायविशेषणाचैतदेवालंकारभूतस्य रूपकस लक्षणमिति सर्व मुस्थम् । तच्च रूपकं त्रिविधम्-निरवयवं सावयवं परम्परितं च । निरवययं केवलं माला चेति द्विविधम् । सावयवं तु समस्तवस्तुविषय-' मेकदेशविवर्ति चेति द्विविधम । परम्परितं च निशानियालति.
काव्यमाला। नत्वेन द्विविध सत्केवलं माला चेति द्वैविध्याच्चतुर्विधम् । एवमष्टविधो रूपकालंकारः । तत्र केवलं निरवयवं यथा--- कुरङ्गीवालानि स्तिमितयति गीतध्वनिपु य- सखी कान्तोदन्तं श्रुतमपि पुनः प्रश्नयति यत् । अनिद्रं यच्चान्तः स्वपिति तदहो वेदयमिनवां प्रवृत्तोऽस्याः सेक्तुं हदि मनसिजः प्रेमलतिकाम् ॥ मालानिरवयवं यथा-- 'सौन्दर्यस्य तरङ्गिणी तरुणिमोत्कर्षस्य हर्षोद्मः 11३, कान्तेः कार्मणकर्म नर्मवचसामुल्लासनावासभूः । विद्या वक्रगिरां विधेरनवधिप्रावीण्यसाक्षाकिया प्राणाः पञ्चशिलीमुखस्य ललनाचूडामणिः सा प्रिया ।।' समस्तवस्तुविपयं सावयव यथा- 'ज्योत्लाभसच्छुरणधवला बिभ्रती तारकास्थी- नतर्धानन्यसनरसिका रात्रिकापालिकीयम् । द्वीपाद्वीप भ्रमति दधती चन्द्रमुद्राकपाले न्यस्त सिद्धाजनपरिमलं रान्छनस्य च्छलेन ।' एफदेशविवर्ति सावयव यथा-- प्रौढमौक्तिकरुचः पयोमुचां बिन्दव कुटजपुप्पबन्धवः । विद्युता नभसि नाट्यमण्डपे कुते स कुसुमाञ्जलिश्रियम् ॥' अत्र नभसो नाट्यमण्डपत्वेन रूपणाद्वियुतामर्थान्नर्तकीवं गम्यते । इत्येकदेशे रूपकस्य विशेषणवाच्यतया वर्तनादिदमेकदेशविवति । जाट- . tam चित्रमीमांसा। । लिष्टशब्दनिबन्धन केवलपरम्परितं यथा- 'अलौकिकमहालोकप्रकाशितजगत्रयः । स्तूयते देव सद्वंशमुक्तारलं न कैर्भवान् ।। अत्र त्वमेव मुक्तारलमित्यारोपणपूर्वकः सद्वंश उत्तमान्वय एव सद्वंश उत्कृष्टवेणुरित्यारोप इति रूपकद्वयमपि संमृतपरम्परमिति परम्परितम् । वंशे लिटशब्दनिवन्धनं च । तदेव मालापरम्परितं यथा- 'विद्वन्मानसहंस वैरिकमलासंकोचदीप्तद्युते दुर्गामार्गणनीललोहित समित्वीकारवैश्वानर । र पनि सत्यप्रीतिनिधानदक्ष विजयप्राग्माव मीम प्रमो साम्राज्यं वरवीर वत्सरशतं वैरिञ्चमुच्चैः क्रियाः ।। अश्लिष्टशब्दनिबन्धनं केवलं परम्परितं यथा-- 'निरवधि च निराश्रयं च यस्य खितमनिवर्तितकौतुकप्रपञ्चम् । प्रथममिह भवान्स कूर्मनाथो जयति चतुर्दशलोकवल्लिकन्दः ॥' तदेव मालापरम्परितं यथा- 'पर्यको राजलक्ष्या हरितमणिमयः पौरुपाब्धेस्तरङ्गः सद्धामत्रासताम्यन्मुरलपतियशोहंसलीलाम्बुवाहः । भग्नप्रत्यर्थिवंशोल्बणविजयकरिस्त्यानदानाम्बुपट्टः २५ खड्गक्ष्मासौविदल्लः समिति विजयते मालवाखण्डलस्य ।।" इदं वैधयेणापि दृश्यते । तत्केवलं यथा- 'आवृण्वतो लोचनमार्गमाजौ रजोऽन्धकारस्य विजृम्भितस्य । शस्त्रक्षतावद्विपवीरजन्मा बालारुणोऽभूदुधिरप्रवाहः ॥' मालारूपकं यथा--- 'सौजन्याम्बुमरुस्थली सुजनतालेख्यामित्तिगुण- 'ज्योत्साकृष्णचतुर्दशी सरलतायोगश्वपुच्छच्छया ।
काव्यमाला। यैरेपापि दुराशया कलियुगे राजावली सेविता तेषां शूलिनि भक्तिमात्रसुलमे सेवा कियत्कौशलम् ॥' एवमष्टौ भेदा रूपकालंकारस्य प्राचीनः प्रदर्शिताः । एवं भेदा उप- माया अपि वक्तुं शक्याः । एकत्र प्रदर्शितेन प्रकारेण संभवस्थलेऽन्य- त्राप्युन्नेतुं शक्या इति न प्रदर्शिताः । तथाहि । 'वागर्थाविव संपृक्तौ' इत्यादी केवलनिखयवोपमा । 'ज्योत्सेव नयनानन्दः' इत्यादी माला- निरवयवोपमा। 'ततः प्रतस्थे कौवेरी भास्यानिव रघुर्दिशम् । शरैरुरिवोदीच्यानुद्धरिष्यत्रसानिव ।।' इत्यत्र समस्तवस्तुविषयसावयवोपमा । नरिवोत्पलैः पौर्मसैरिव सर श्रियः । पदे पदे विभान्ति स्म चक्रवाकैः स्तनैरिख । इत्यत्रैकदेशविवर्तिनी। 'अत्यन्तरागिणमपि निपीतवसुसंचयम् । गणिकेवापरदिशा पूपाणं निरकासयत् ॥' इत्यत्राप्येकदेशविवर्तिनी । पूर्वत्र विशेषणोपमायाँ विशेष्योपमा गम्यते, उत्तरत्र विशेष्योपमाया विशेषणोपमेति भेदः । 'दूरादयश्चक्रनिभस्य तन्वी तमालतालीवनराजिनीला । आभाति वेला लवणाम्बुराशेर्पारानिबद्धव कलहरेखा ।' इत्यत्राश्लिष्टशब्दनिबन्धनकेवलपरम्परितोपमा । अत्र घम्बुराशेरय- श्चक्रेणोपमा । तद्धाराश्लिष्टकलङ्करेखया वेलाया उपमा चेति द्वयमपि संजातपरम्परम् । यथा वा- 'अस्त्रज्वालावलीदप्रतिवलजलधेरन्तरौर्वायमाणे सेनानाये स्थितेऽस्मिन्मम पितरि गरी सधन्वीमागणाम ।
चित्रमीमांसा । . कर्णालं संम्रमेण ब्रज कृप समरं मुञ्च हार्दिक्य शङ्का ताते चापद्वितीये वहति रणधुरां को भयस्यावकाशः 11'. अत्र द्रोणस्यौवेणोपमा प्रतिबलजलधेरित्यत्रोपमायाः साधिकेत्युपमा- द्वयमपि संजातपरम्परम् । एवं 'राजहंसायते राजा विदुपामेप मानसे' इत्यत्र श्लिष्टशब्दनिबन्धनकेवलपरम्परितोपमा । उभयत्रापि मालापरम्प- रितमनयैव रीत्योन्नेयम् । 'रेणुध्वान्तस्य रक्तौघो वालधर्मकरायते' इति वैधयेण रूपकवदुपमेति सर्वं समानम् । अयं तु विशेषः । समस्तवस्तुविषयं रूपकं न विशिष्टरूपकं भवति । विषयविषयिणोर्बिम्बप्रतिविम्बधर्मविशिष्टयोस्ताद्रूप्यारोपे निदर्शनाया ए- वावतरणात् । सावयवोप तु विशि गमयति । ततः प्रतस्थे कौबेरी भाखानिव' इत्यत्र शरैरुदीच्यानुद्धर्तुमुत्तरां दिशं प्रस्थितस्य रघो- विशिष्टस्य किरणै रसाशोपयितुमुत्तर दिशं प्रस्थितेन विशिष्टेन रविणा साधर्म्यस्य फलितार्थतया लाभात् । एवं च कचिदुपमयान्यत्रोपमाया गम्यत्वं चतुर्धा पर्यवस्यति । क्वचिद्विशेषणोपमया विशेष्योपमायाः ।, 'विश्वजित्सर्वपृष्ठोऽतिरात्रः' इत्यत्रं पृष्ठगतसर्वताविधिनेव तद्विशेष्यपृष्ठ- विधेः । कचिद्विशेष्योपमया विशेषणोपमायाः । वैकृतप्रधानविधिनेव प्राकृततदङ्गकलापविधेः । उभयमप्येकदेशविवर्तित्वेनोदाहृतम् । कचि- दवयवोपमया विशिष्टोपमाया गम्यत्वम् । अङ्गप्रधानगोचरप्रत्येकविधि- कलापेनेव सर्वाङ्गविशिष्टप्रधानगोचरप्रयोगविधेः । तत्तु समस्तवस्तुविष- योपमोदाहरणे दर्शितम् । एकवाक्यतायामवयवोपमया विशिष्टोपमाया गम्यत्वे इदमुदाहरणम् । वाक्यमेदेनापि दृश्यते-- 'हस्त इव भूतिमलिनो यथा यथा लश्यति खलः सुजनम् । दर्पणमिव तं कुरुते तथा तथा निर्मलच्छायम् ॥
काव्यमाला अत्रावयबोपमा । यथा भूतिमलिनो हस्तो दर्पणमधिकमधिकं घर्षय- त्रुत्तरोतरं निर्मलीकुरुते । तथा खलः सुजनमधिकं धर्पयनुत्तरोचरं नि- मलमेव कुरुते इति विशिष्टोपमा गम्यते । कचिद्विशिष्टोपमया सदषय- वोपमानां . गम्यत्वम् । विशिष्टविधिनेव विशेषणविशेष्यविधीनाम् । यथा- C, त्वदाननमधीराक्षमाविर्दशनदीधिति'। अमद्भुङ्गमिवालक्ष्यकेसरं भाति पङ्कजम् ।।' अत्र विशिष्टेन विशिष्टस्योपमया तदवयवभूतानां मृगलोचनानां के- सरनखदीधितीनां पङ्कजाननयोग्धोपमानोपमेयभावो गम्यते । एवमसंख्या उपमाविकल्पाः । तथा--- ..'किसलयकरै तानां करकमलैः कामिना मनो,जयति । ... नलिनीनां कमलमुखैर्मुखेन्दुभिर्योपिता मदनः ॥'.. इत्येवमाद्या रसनारूपकाया रूपकविकल्पा अप्यसंख्याः । उक्तं हि काव्यालोके- 'अपर्यन्तो विकल्पानां रूपकोपमयोर्यतः । दिमानं दर्शितं धीरैनुक्तमनुमीयताम् ॥' इति ।; ..? 'इति रूपकप्रकरणम् । -- " अथ परिणामः- आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः' इति तल्लक्षणमुक्तम् । तत्र शक्यते । यामि मनोवाकायैः शरणं करुणात्मकं जैगनाथ- : जन्मजरामरणार्णवतरणतरण्यं तवाङ्गियुगम् ॥ १. 'जगत्राथम् ख-ग.
चित्रमीमांसा। 'निरीक्ष्य विद्युन्नयनैः पयोदो मुखं निशायामभिसारिकायाः । धारानिपातैः सह किं नु वान्तश्चन्द्रोऽयमित्याततरं रासे ।। "एतान्यवन्तीश्वरपारिजातजातानि तारापतिपाण्डुराणि । । संप्रत्यहं पश्यत दिग्वधूनां यशःप्रसूनान्यवतंसयामि । इति श्लोकेप्वारोप्यमाणानां तरण्य-नयन-प्रसूनानां तरण-निरीक्षणा- वतंसनरूपप्रकृतकार्योपयोगे सत्यप्युक्तलक्षणकृतालंकारसर्वस्वकारेणैव रूपकमङ्गीकृतम् । 'आत्मानं रथिनं विद्धि शरीरं रथमेव तु । बुद्धिं तु सारथिं विद्धि मनः प्रमहमेव च ।।' ६ इत्यादिश्रुतावारोप्यमाणा रथिरथादीनां 'सोऽध्यनः पारमानोति तद्विष्णोः परमं पदम्' इति वक्ष्यमाणाध्वपारगमनरूपप्रकृतकार्योपयोंगे सत्यपि भावता बादरायणेन 'नानुमानिकमप्येकेपामिति चेत् न शरीर- रूपकविन्यस्तगृहीतेर्दर्शयति च' इति शारीरकसूत्रे रूपकमजीकृतम् । अतस्तेषु लक्षणस्यातिव्याप्तिः । एवम्- 'भिन्नेषु रत्नकिरणैः किरणेविहेन्दो- रुचावचैरुपगतेषु सहस्रसंख्याम् । दोपापि नूनमहिमाशुरसौ किलेति व्याकोशकोकनदतां दधते नलिन्यः ॥' इति प्रान्तिमति, 'विकसदमरनारीनेत्रनीलाजमण्डा- न्यधिवसति सदा यः संयमाधाकृतानि । १. 'ररास' क-ग. २. 'संप्रत्यह पश्य सहिधूनाम्' ख; 'संपलह यस तरि नाम् गा 'संमत्यद यस्य हरिद्वभूनाम्' घ. ३. 'खण्डानि' क-घ.
६४ काव्यमाला। . - . न तु रुचिरकलापे वर्तते यो मयूरे वितरतु स कुमारो ब्रह्मचर्यश्रियं यः ॥' इत्यपद्भुतो, 'उरोभुवा कुम्भयुगेन जृम्भित नवोपहारेण वयःकृतेन किम् । त्रपासरिदुर्गमपि प्रतीर्य सा नलस्य तन्वी हृदयं विवेश यत् ॥' इत्यतिशयोक्ती, 'चक्रनमणकरत्वात्कुदृष्टिमिर्दूरवर्ण्यमानत्वात् । श्रुत्यन्तखेलनत्वान्मशक त्वामेव माधवं मन्ये ।' इत्यनुमाने चातिव्याप्तिः। प्रान्तिमत्यहिमांशोर्विकासे, अपगुतावम- रनारीनेत्राणां ब्रह्मचर्यवितरणे, अतिशयोक्ती कुम्भयुगस्य सरित्तरणे, अनुमाने माधवस्य चक्रे अमणे च प्रकृतकार्योपयोगित्वात् । अपहृतौ वं यथा यथोपासते तथैव भवति' इति तत्कन्यायेन सयमाघ कृतामरना- रीनेत्राधिष्ठानस्य ब्रह्मचर्यवितरणोपयोगित्वम् । 'सुहृदालापेनैव प्रणश्यति स्थास्नुरान्तरः क्लेशः । कान्तामुखचन्द्रेण हि शाम्यति रुचिरेण विरहजस्ताप ॥' इति दृष्टान्तसकीर्णपरिणामे चाव्याप्ति । अत्रारोप्यमाणस्योपमान- कोट्यन्तर्गतापकृतकार्योपयोगित्वादिति । अत्राहु -आरोप्यमाणस्य प्रकृतात्मनोपयोगित्वे परिणाम इति लक्ष- णार्थ । न चैवं सत्युदाहृतरूपकादिम्वतिव्याप्ति । तेष्वारोप्यमाणानां तर- ण्यनयनप्रसूनसूर्यादीना स्वात्मनैव तरणनिरीक्षणावतंसनकमलविकासना- दिकार्योपयोगित्वसभवेन तदर्थमतियुगविद्युयशश्चन्द्रादिप्रकृतात्मतापत्त्य- १. 'चक्रप्रमणे प्रकृतकायापयोगित्वाव' ख-ग घ. २. 'प्रकृतारमतापरिणत्पन- क्षणात ख.
चित्रमीमांसा। . नपेक्षणात न चोक्तलक्षणस्य परिणामेऽसभव । यत्रारोप्यमाणं किंचि- त्कार्योपयोगित्वेन निवध्यमाने स्वतस्तस्य तदुपयोगित्वासंभवात्प्रकृतात्म- तापत्तिमपेक्षते तत्रैव परिणामाङ्गीकारात् । यथा 'प्रसन्नेन गजेन वीक्षते मदिरेक्षणा' इति । अत्र वन्जस्य वीक्षणोपयोगित्वं निबध्यते । मयूरव्यसकादिसमासेनोत्तरपदार्थप्राधान्यात् । न चोपमितिसमासाश्रय- णेन पूर्वपदार्थप्राधान्यादृश एव तदुपयोगित्वं निबध्यत इत्यस्त्विति वाच्यम् । प्रसन्नेनेति सामान्यधर्मप्रयोगात् । 'उपमितं व्याघ्रादिमि सामान्याप्रयोगे' इति तदप्रयोग एवोपमितसमासानुशासनात् । अब्जस्य च वीक्षणोपयोगित्व न स्वात्मना सभवति । अत प्रकृतगात्मतापत्त्य- पेक्षणात्परिणामालकार । नन्वेव 'यामि मनोवाकाय' इत्यादिप्वपि तरणादिशब्दरक्षितजन्मनाशाद्युपयोगित्व तरण्यादीनामप्रियुगाद्यात्मने. वेति तेष्वपि परिणामप्रसङ्ग । मैवम् । यस्य कार्यपाचिपदप्रथमप्रतीत- तन्मुख्यार्थनिवर्तनसामर्थ्य तदात्मनोपयोगित्वस्य साह्यत्वात् । तर सादि- पदमुख्यार्थनिवर्तनसामर्थ्यस्य च तरण्यादिप्वेव व्यवस्थितत्वात् । तस्मा- दुदाहृतेषु रूपकमेव । तेषु च नातिव्याप्तिरिति । नन्वेवमुक्तातिव्या- सिपरिहारेऽपि- 'सोऽपूर्वो रसनाविपर्ययविधिस्तत्कर्णयोश्चापल दृष्टि सा मदविस्मृतस्थपरदिकिं भूयसोकेन था। सर्व विस्मृतवानसि अमर है यद्वारणोऽद्याप्यसा- वन्त शून्यकरोऽपि सेन्यत इति भात क एप ग्रह ।' इत्यप्रस्तुतप्रशसायामतिव्याप्ति । तत्राप्रकृतवारणरसनाविपर्ययादीना १ यत्कायवाचिपद प्रथम प्रतीत त-मुरया निवर्तनसामर्यरूपस' ग, कार्यवा- चिपदप्रथमप्रतीतत मुख्यार्थ' घ. २ 'निषेभ्यत इति' ग. ५ चि.मी. .
काव्यमाला। प्रकृतदुप्पभुरसनाविपर्ययाद्यात्मतयैव तत्सेवात्यागलक्षणकार्योपयोगि- त्वात् । न हि यथा वारणस्य कर्णचापलं भ्रमरस्य तत्सेवात्यागे हेतु, सयथा तस्य रसनाविपर्ययः शून्यकरता च तत्र हेतुः । मदः,प्रत्युत तत्से- वायामेव हेतुरिति तस्य तत्यागहेतुत्वं दूरापास्तम् । एवमपि यत्तेपा त्यागहेतुत्वं निबध्यते तद्वारणादीनामप्रकृतानां दुष्प्रभुप्रभृतितादाम्याप- त्यैव निर्वामिति । 'सुहवालापेनैव' इत्यत्रोदाहतपरिणामेऽज्याप्तिध तदवस्था । तत्र चन्द्रवन्मुखस्याप्यप्रकृतत्वेन प्रकृतात्मनोपयोगित्वाभा- घोत् । उच्यते । प्रकृतात्मनेत्यत्र प्रकृतशब्दो विषयमात्रपर इति नोदा- हतपरिणामाव्याप्तिः । उपयोगित्वं च प्रकृतागमकार्य प्रति विवक्षितम् । अप्रस्तुतप्रशंसोदाहरणे प्रकृतदुप्पमुसेवात्यागगमकयारणसेवात्यागं प्रत्यु- पयोगित्वमिति न तत्रातिव्याप्तिः। एवं च- 'आरोप्यमाणमारोपविषयात्मतया स्थितम् । प्रकृतस्योपयोगि स्यात्परिणाम उदाहृतः ।। इति विद्यानाथलक्षणं प्रकृतस्येति पदस्य प्रकृतगमकस्येति व्याख्या- नेन परिष्करणीयम् ।। अयं च परिणामो द्विविधः । सामानाधिकरण्यवैयधिकरण्याभ्याम् । सामानाधिकरण्येन यथा- 'तीर्खा भूतेशमौलिसजममरधुनीमात्मनासौ तृतीय-, स्तस्मै सौमित्रिमैत्रीमयमुपकृतवानातर नाविकाय । । । व्यामप्राबस्तनीभि. शबरयुवतिभि. कौतुकोदश्चदक्षं कृच्छ्रादवीयमानः क्षणमचलमथो चित्रकूट प्रतसे ।' M . १. परिणामाम्याप्तिश्च' ख.
चित्रमीमांसा। ६७ ११ . अत्रारोप्यमाण आत्तरो विषयभूतसौमित्रिमैत्रीरूपतापत्त्या गुहोप- कारलक्षणकार्योपयोगीति परिणामः । उभयोविभक्त्यैक्यात्सामानाधि- करण्यम् । वैयधिकरण्येन यथा- 'पुन्नागजालकैहाँरान्काञ्चीः केसूरदामभिः । कर्णिकाः कर्णिकारैश्च विहर्तु विदधुर्वने ।' अत्रारोप्यमाणा हारादयो विषयभूतपुन्नागजालकादिरूपतयैव वन- क्रीडोपयोगिन इति परिणामः । विभक्तिभेदाद्वैयधिकरण्यम् । इदं च वैयधिकरण्यं रूपकेऽपि सभवति । यथा--- 'तारानायफशेखराय जगदाधाराय धाराघर- च्छायाधारकान्धराय गिरिजासकशृङ्गारिणे । नद्या शेखरिणे दृशा तिलकिने नारायणेनास्त्रिणे नागैः कङ्कणिने नगेन गृहिणे नाथाय सेयं नतिः ॥' अत्र नदीदृशोपिययोविभक्तिरारोप्यमाणयोः शेखरतिलकयो स्ति । यथा वा- 'द्विर्मावः पुष्पकेतोर्विबुधविटपिनां पौनरुत्त्यं विकल्प- श्चिन्तारलस्स वीप्सा तपनतनुमुवो वासवस द्विरुक्तिः । द्वैत देवस्य दैत्याधिपमथनकलाकेलिकारस्य कुनै- नानन्दं कोविदानां जगति विजयते श्रीनृसिंहक्षितीन्द्रः ॥' अन विषयस्य राज्ञो विपयिणां पुष्पकेतुप्रभृतीनां च विमतिमेदः । अथ परिणामस्य व्यायनाया किमुदाहरणम् । १ -- १.भारोगविषय स. १. रियालस' ग. ३, 'श्रीसिद.सा.
"काव्यमाला। - 'नासिंह धरानाथ के वयं तव वर्णने । अपि राजानमाक्रम्य यशो यस्य विजृम्भते ।' इति विद्याधरेणोदाहृतम् । अा राजपदेन चन्द्र विषये निर्दिष्टे समारोप्यमाणस्य नृपस्याक्रमणरूपकार्योपयोगिनः प्रतीतेः परिणामो व्यज्यत इति, तदयुक्तम् । अत्र धारोप्यमाणस्य नृपस्य नृपात्मनैवाक्रम- णोपयोगो न चन्द्रात्मना । विद्याधरेणापि विषयिणः स्वरूपेण कार्या- नुपयोगे तदुपयोगाय विषयिणे विषयात्मना परिणत्यपेक्षायामेव परि- णामोऽङ्गीकृतः । यदाह- 'तं परिणाम द्विविधं कथयन्त्यारोप्यमाणविषयतया । परिणमति यत्र विषयः प्रस्तुतकार्योपयोगाय ।' - विद्यानाधेन तूदाहृतम्-- -- 'एप शाम्यति वसापो राजपादनिषेवया । - कण्टकद्रुममूलेषु वासस्त शमयेत्कथम् ।।' इति । मास्त्पन्न प्रामुक्तदोषानुपनः । नृपचरणसेवाया मस्तुतायामारोप्य- माणायाः चन्द्रचरणसेवायाः मृपवरणसेवात्मतयैव तापशान्तिहेतुत्वात् । तापशब्दस्य सौरतापसाधारण्येऽपि प्रकृते राज्यग्रंशजनिततापस्यैव विव- क्षितत्वात् । तन्निवर्तने चन्द्रकिरणसेवाया. स्वतोऽसामर्थ्यात् । तथापि प्राचीनानां मत एवैतदुदाहरणम् । ते हि 'राजपादनिषेवया' इत्यस्य प्रकरणनियन्त्रितत्वादप्रकृताया चन्द्रकिरणसेवाया शब्दशक्तिमूलो व्यञ्ज- नान्यापार इति मन्यन्ते । वस्तुतस्त्वप्रकृतेऽप्यर्थे शब्दानामभिधैव व्यापार इत्यस्माभि. श्लेपप्रकरणे व्यवस्थापयिष्यमाणत्वात् , इहापि राज- पादनिपेक्या' इत्यत्र चन्द्रकिरणसेवायामप्यभिधैव ब्यापार । अत १. "विषयिण' इति ग-पुस्तके मास्ति.
चिनमीमांसा। ६९ प्रस्तुताप्रस्तुतद्वयताद्रूप्यप्रतीतेः श्लेपभित्तिकातिशयोक्त्यादिप्विव संसर्ग- विधयैव लाभात्तस्य प्रकृतकार्योपयोगितायास्तृतीयाया लाभाच न कापि व्यञ्जनाव्यापारापेक्षेति नेदं परिणामध्वनेरुदाहरणम् । इदं च दूषणं पूर्वोदाहरणेऽपि तुल्यम् । इदं तूदाहरणम्- 'चिराद्विपहसे तापं चित्त चिन्ता परित्यज । नन्वस्ति शीतलः शौरेः पादाब्जनखचन्द्रमाः ।। अत्र चिरतापात प्रति हरिपादाब्जनखचन्द्रसद्भावप्रदर्शनेन तमेव निपेवस्व, तन्निपेवणादयं तापः शान्तिमप्यतीति परिणामो व्यज्यते । एवं रूपवलक्षण्ये परिणामो निरूपितः । तत्र रूपके प्रकृतमप्रकृतरू- पापन्नं भवति, परिणामे त्वप्रकृतं प्रकृतरूपापन्नं भवतीति वैलक्षण्ये स्थिते यत्तदुपजीव्यचक्रवर्तिनान्यथैव तयोर्वेलक्षण्यं वर्णितम् । मुखचन्द्र इति रूपके मुखं महारजतरूपेण पटवदारोप्यमाणचन्द्ररूपेण स्थगित- स्वरूपं भवति । 'मुखचन्द्रेण तापः शाम्यति' इति परिणामे तु मुखम- नाच्छादितखरूपमेव भवति । चन्द्रस्य मुखात्मनैव विरहतापशान्तिहेतु- त्वादिति । उक्तं च- 'विषय्याकारमारोप्य विषयस्थगनं या दर रूपत्वं तदा तत्र रञ्जनेन समन्वयः ॥' 'यदा तु विपयो रूपात्स्सस्मादप्रच्युतो भवेत् । उपयुक्त्यै तदाकारः परिणामस्तदा मतः ।। इति । अत्रेदं विचारणीयम् । रूपके विषयस्य स्थगनं न तावचिरोहितरू- पत्वम् । रजतप्रमेण शुक्तिस्वरूपस्याहार्यारोपेण विषयस्य तिरोधानासं- भवात् । शारीरके च य एवासी तपति तमुद्गीथमुपासीत' इत्यत्रोदी- थस्यादित्यदृष्टिविषयत्वाङ्गीकारे रजतदृष्टिविषयशुक्तिस्वरूपमिवोद्रीयकि काव्यमाला। याखरूपं तिरोधीयतेत्याशझ्याहार्यदृष्टेरतिरोधायकत्वस्योक्तत्वात् । नापि विषय्युपसर्जनत्वम् । परिणामेऽपि तुल्यत्वात् । उभयत्राप्युत्तरपदार्थप्र- धानस्य मयूरव्यंसकादिसमासस्याविशेषात् । अत एव विपयिविशेषितत्वं स्थगनमित्यपि निरस्तम् । विषयिणो विशेष्यत्वात् । तस्मात्स्थगनास्थग- नवलक्षण्यवचो निरालम्बनमिति विषयात्मनोपयोगेनैव परिणामस्स रूप- काद्वैलक्षण्यं समर्थनीयमित्यलं विस्तरेण ॥ इति परिणामप्रकरणम् । अथ संसदेह:---- -- . साम्यादप्रकृतार्थस्य या धीरनवधारणा । प्रकृतार्थाश्रया तज्जैः संसंदेहः स इप्यते ।। त्रिविधश्चायं ससदेहः । शुद्धो निश्चयगर्भो निश्चयान्तश्च । कमेण यथा-- 'आनीय द्विषतां धनानि विपिने राजन्यचूडामणे तेप्यालोक्य विनिर्मलं हिमकलाखण्ड करण्डं पुनः । कि वाद्यं किमु पेपणं किमु धनं किं क्षेपणीयायुधं कि वा दैवतमित्यनिश्चित्तधियो मन्दाः पुलिन्दा जनाः ।। 'अयं मार्तण्डः किं स खलु तुरगैः सप्तभिरितः 'कृशानुः किं सर्वाः प्रसरति दिशो नैव नियतम् । कृतान्तः कि साक्षान्महिपवहनोऽसाविति चिरं समालोक्यानौ त्वां विदधति विकल्यान्प्रतिभटाः ॥ - : १. 'संदेह कगघ, २. 'दिमजलासपट गा.
चिनमीमासा। 'कि तावत्सरसि सरोजमेतदारा- दाहोखिन्मुखमवभासते तरप्या । सशय्य क्षणमिति निश्चिकाय कश्चि- द्विव्योकैकसहवासिना परोक्षे । इति वदन्ति । अत्रेद विचारणीयम् । साम्यादिति किमन्नाद्धेतोर्वसती- तिवत्फलत्वेन हेतुत्वविवक्षया पञ्चमी, उत स्वतो हेतुत्वविक्षया । आ- येप्रकृतसाम्याभिव्यक्तिफरकत्वमर्थ स्यात् । तथा सति 'आनीय द्विष्- ताम्' इत्याद्युदाहरणेऽव्याप्ति । न हि तत्र हिमकरण्डस्य वाद्यादिसाह- श्याभिव्यक्तौ कविसरम्भ । कि तु द्विपत्पुरमीदृशीमवस्थामापन्नमिति राज्ञ प्रतापातिशयाभिव्यक्तौ । द्वितीये साम्यादित्यनेन किमेकमेवाप्रकृ- तसाम्य यावत्सदेहकोट्युच्छित्तिहेतुत्वेन विवक्षितम् , उतैकमनेक वेत्य- नियम । आये 'अय मार्तण्ड किम्' इत्याधुदाहरणेऽव्याप्ति । नहि तर 'कि लक्ष्मीनगी वेयं रम्भा वा मेनकाथ वा' इत्यत्र लक्ष्मीत्यादि- विकल्पेष्यतिशयितसोन्दर्यसाम्यवदेकमेव साम्यमिह मार्तण्डत्वादिविक- स्पेषु हेतु, कि तु प्रतापेन दुर्निरीक्षत्वसाम्य मार्तण्डत्वविकल्पे, दुरा- धत्वसाम्य कृशानुत्वविक्ल्पे, क्षणेन सकसहर्तृत्वसाम्य कृतान्तविकल्प च हेतु । द्वितीये 'इह नमय शिर कलिङ्गवद्वा समरमुखे करहाट- वद्धनुर्वा' इति विफल्पालकारेऽतिव्याप्ति । अन दिग्विजयप्रवृत्तेन बरवता राज्ञा समरे प्रसक्ते यथा कलिङ्ग- नृपति 'समाकान्तो बलवता कानप्रशिनीं श्रियम् । श्रयेत वैतसी वृत्ति न भोजगी कदाचन ।' १. 'सहनुषवाख.
काव्यमाला। 7 इति नीतिमनुसृत्यासंदिग्धं . निजराज्यलक्ष्मीभ्रंशपरिहारकामः शिरो नमितवान् , तथा वा शिरो नमय, यथा करहांटनृपतिः 'जयेन लभ्यते लक्ष्मीमरणेन सुराङ्गना' इति नीतिमनुसृत्य युद्धकामो धनुर्नमितवान्, तथा वा धनुर्नमयेति समयोचितातोपदेशे तद्राजचरितदृष्टान्तप्रापितानव- स्थितार्थधीसत्त्वात् । न च तत्र श्लोके तादृग्धीनिबन्धनं नास्तीति नाति- व्याप्तिरिति वाच्यम् । तन्निबन्धनस्यापि लक्षणान्तर्गतविवक्षायाम् - 'जीवनग्रहणे नम्रा गृहीत्वा पुनरुनताः । कि कनिष्ठाः किमु ज्येष्ठा घटीयन्त्रस्य दुर्जनाः ।। इत्यादिषु 'संदेहविषयनिबन्धनगम्यससदेहालंकारेवव्याप्तिप्रसङ्गात् । उत्प्रेक्षायां ‘वाच्यगम्यभेदवदिहापि द्विविधोदाहरणदर्शनेन याच्यगम्य- भेदेन द्वैविध्यस्साङ्गीकर्तव्यत्वात् । अपि चानवधारणेति किमुच्यते । अनिश्चयात्मकत्वमिति चेत् । तथा सति बालेन्दुवक्राण्यविकाशभावात्' इत्यादाबुदाहरिप्यमाणायामप्रकृत- साम्यनिमित्ततत्तादात्म्यसंभावनारूपायामुत्प्रेक्षायामतिव्याप्तिः । विरोधेन परस्परप्रतिक्षेपकतया निवद्धानेककोट्यवगाहित्वं विवक्षितमिति चेत् । तथापि 'अई केऽपि शशहिरे' इत्यादाबुदाहरिष्यमाणायामपद्भुतावति- व्याप्तिः । संदेहविकल्पयोर्वाकारादिनेव तत्रापि तत्तन्मतत्वोपन्यासेन परस्परप्रतिक्षेपसिद्धेः। 'अस्साः सर्गविधौ प्रजापतिरमृञ्चन्द्रो नु कान्तिपदः शृङ्गारेकरसः स्वयं नु मदनो मासो नु पुष्पाकरः । १. 'परिहातुकाम.' क. २. 'उद्धता.' क. ३. 'संभावनाया उत्कटकोटिसंदेह- रूपलात् । विरुखानेककोट्यवगाहित्वं तदिति चेत् । तथापि मुखचन्द्र प्रति रूपकेऽति- च्यातिः' इत्यधिक ख-पुस्तके.
चित्रमीमांसा। . वेदाभ्यासजडः कथं स विषयव्यावृत्तकौतूहलो निर्माणु प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ॥' इति ससंदेहोदाहरणे चाव्याप्तिः । तत्र चन्द्रादीनां संदेहधर्मिणामेवाने- कत्वम् । प्रकारस्तु सर्वत्र वर्णनीयवनितास्रष्टत्वमेकमेवेत्यनेककोटिकत्वा- भावात् । न च साम्यनिमित्तत्वाभावान्न तत्र ससंदेहः । 'इतो गता सा 'क गता न जाने गृहं गता मे हृदयं गता वा' इति संदेहो न संग्राह्य इति वाच्यम् । वर्णनीयनायिकायाः कान्त्या चन्द्रसाम्यं सौरभसौकुमा- र्याभ्यां पुष्पसाम्यं च निमिचीकृत्य किमस्यां कान्तिनिधानभूतश्चन्द्रः स्वकान्तिसंपदा सष्टा, उत पुष्पमासः स्वकीयपुप्पसंपदेति संदेहनिवन्ध- नात् 'शृङ्गारैकरसः स्वयं नु मदनः' इत्यंशस्य शृङ्गारविभ्रमबाहुल्यमात्र- पर्यवसायित्वेन किंचित्साम्यनिमित्चत्ताभावेऽपि चन्द्रवसन्तर्मिकांशयो- स्तन्निमित्तत्वानिवारणात् । एवं प्रकृतार्थाश्रयेत्येतदप्ययुक्तम् । उदाहृतसदेहस्य वर्णनीय- नायिकानाश्रयत्वेनाव्याप्तिरिति चेत् । अत्र भूमः । 'धुद्धिः सर्वात्मनान्योन्या क्षेपिनानार्थसंश्रया । सादृश्यमूला वार्थस्ट्रक्सदेहालंकृतिर्मता - यद्यप्यन्योन्यप्रतिक्षेपविरुद्धनानार्थावलम्बनत्वं विकल्पस्याप्यस्ति । तथापि तदर्थानां सर्वात्मना परस्परप्रतिक्षेपकत्वं नास्ति किं तु पक्षे तत्प्राप्तिमनिरुध्य खप्राप्तिपक्ष एव स्वपरिपन्थिप्राप्तिप्रतिक्षेपकत्वम् । न हि 'नीहिमिर्यवैर्वा यष्टव्यम्' इति विकल्पोद्देशे नीयो यवान् यवाश्च /' श्रीहीन्सर्वात्मना यागात्प्रतिक्षिपन्ति । तथा सति शास्त्रस्यास्यानिर्णाय- कत्वेनाननुष्ठापकत्वेन चाप्रामाण्यप्रसङ्गात् । किं तु स्वस्वानुष्ठानपक्ष एव। अत एव 'नीहिभिर्यवैर्वा यष्टव्यम्' इति संदेहेन पृष्टवन्तं प्रति 'श्रीहि- काव्यमाला। भिर्यवैर्वा यष्टव्यम्' इति प्रश्नसमाकारमेव वाक्यं निर्णायकं प्रश्नमूल- संदेहनिवर्तकमनुष्ठापकं च दृश्यते । प्रक्षवाक्ये वाकारः सर्वात्मना पशान्तरप्रतिक्षेपार्थः । उत्तरवाक्ये पक्षे तत्प्रतिक्षेपार्थ इति विशेषसद्धा- वात् । एवं विकल्पालंकारोदाहरणेऽपि द्विविधस्यापि नीतिशास्तस्य प्रामाण्यातदुपदिष्टफलेच्छानुसारेणोभयमपि पक्षेऽनुष्ठातुं युक्तमिति शिरो- धनुनमनयोर्न सर्वात्मना परस्परप्रतिक्षेपकत्यमिति विकल्पालंकारे नाति- व्याप्तिः । अपह्नवोदाहरणे सर्वात्मना परस्परप्रतिक्षेपसत्त्वेऽपि वाकारार्थ- सीभावानातिव्याप्तिः । तत्र हि केचिदन्य इति मतान्तरत्वोपन्यासेन पक्षाणां परस्परप्रतिक्षेपलामः । न तु वाकारार्थस्पर्शोऽस्ति । उत्प्रेक्षाया- मपि नातिव्याप्तिः । तत्र हाडकटकोटिक संशयकोट्योः समबलत्वाभावेन वाकारार्थपर्शाभावात् । 'जस्याः सर्गविधी' इत्युदाहरणे परस्परप्रतिक्षेप- कनानाकोटिसमाश्रयत्वाभावेऽपि तथाभूतनानाधर्मिरूपार्थसमाश्रयत्वस- त्यान्नाव्याप्तिरिति सर्वमवदातम् । संदेहालंकारध्वनिर्यथामत्कुलकूटस्थवक्षःसलाचार्यकृते वरदराजव- सन्तोत्सवे- 'कांचित्काथनगौरानी वीक्ष्य साक्षादिव श्रियम् । वरदः संशयापनो वक्षःस्थलमवैक्षत ।।' अत्र संशयस्य शब्दोपारत्वेऽपि तायन्मात्रस्यानलंकारत्वात् । तदलंफारताप्रयोजमस्य वक्षःस्थले सितैव लक्ष्मीम्ततोऽस्तीय पुरत- स्तिष्टतीत्येवं संशयाफारस्य कशास्सलमवेक्षतेत्यनेन न्यायायात्संदेहालं. फारध्वनिरति । यथा- 'पणे च परिभोगदर्शिनी पृष्ठतः मणयिनो निपेदुपः । पीश्य लिम्ममनुपिम्पमात्मनः कानि फान्यपि चकार रजया ।'
चित्रमीमांसा। ७५ इत्यत्र कानि कान्यपीति सामान्यतो निर्दिष्टानुभावविशेषप्रतीत्यर्थलजा- शब्दप्रयोगेऽपि तस्याः सविभावानुभावाभ्यां रसानुगुणाभिव्यक्तिरूपो 'ध्वनिः । यद्यपि 'संशयापन्नः' इत्यनेन लक्ष्म्याः पुरो दृष्टायाश्च मध्ये कस्या रूपमधिकमिति संशयाविष्ट इति वा, निःसमाधिकरूपयत्त्वामि- मानिनी लक्ष्मीः पुरत एनों दृष्ट्वा कथं वर्तत इति संशयापन्न इति वा, इयं च वक्षसि कुत्र निवेशनीयेति संशयापन्न इति वा, वहयः संशया- कारा वक्षःस्थलमवेक्षतेत्यनेन व्यङ्ग्याः संभवन्ति, तथापि सर्वेषामपि संदेहानां सादृश्यमूलत्याव्यतिरेकमूलसंदेहस्याप्यत्र संभवेऽपि कथंचित्सा- दृश्यमूलत्वात्संदेहालंकारध्वन्युदाहरणत्वमिति युक्तमेव ।। इति सदेहालंकारप्रकरणम् । - अथ प्रान्तिमान्- कविसंमतसादृश्याद्विपये पिहितात्मनि । आरोप्यमाणानुभवो यत्र स भ्रान्तिमान्मतः ॥ पिहितात्मनीत्यनेनारोप्यमाणानुभवस्य वारसिकं कविप्रतिभया कल्पनं विवक्षितम् । तस्यैव विषयपिधानसामर्थ्यात् । अतो रूपकादी नातिव्याप्तिः । उदाहरणम्- 'कपाले मार्जारः पय इति करोल्लेढि शशिन- स्तरुच्छिद्रप्रोतान्बिसमिति करी संकलयति । मन रतान्ते तल्पस्थान्हरति वनिताप्यंशुकमिति प्रभामत्तश्चन्द्रो जगदिदमहो विनमयति ।' अत्र लेहनादिप्रवृत्तिपर्यन्ततोक्तेः स्वारसिक एव विनमः कविप्रति. भया चन्द्रिकोत्कर्पद्योतनाय निवद्धः । १. 'श्य वक्षस' ख. १. 'प्रभावितःग. P
काव्यमाला।
*
वचिद्धान्तेरुत्तरोत्तरं पल्लवेन चमत्कारः-
बल्लाल क्षोणिपाल त्वदहितनगरे संचरन्ती किराती
कीर्णान्यादाय रत्नान्युरुतरखदिराङ्गारशकाकुलागी ।
कृत्वा श्रीखण्डखण्डं तदुपरि मुकुली मूतनेना धमन्ती
श्वासामोदानुधावन्मधुकरनिकरैघूमशङ्कां करोति ।।
कचिदिन्नरुतकोत्तरोत्तरभ्रान्तिनिवन्धनेन चमत्कारः ।
'शिजानैमञ्जरीति सनकलशयुगं चुन्धितं चचरीकै-
स्तत्रासोल्लासलीलाः किसलयमनसा पाणयः कीरदष्टाः ।
तल्लोपायालपन्त्यः पिकनिनदधिया ताडिताः काकलोकै-
रित्थं चोलेन्द्रसिंह त्वदरिमृगदृशां नाप्यरण्यं शरण्यम् ॥
क्वचिदन्योन्यविषयश्रान्तिनिबन्धनेन । यथा-
'पलाशकुसुमभ्रान्त्या शुक्रतुण्डे पतत्यलिः
सोऽपि जम्बूफलम्रान्त्या तमलिं धर्तुमिच्छति ।।
'बिस्फूर्तिमत्यां कीर्ती ते विधिवैकुण्ठशंकराः।
आरोढुं शयितुं वस्तुमाकाहन्ति महीतले ।'
इत्यन प्रान्तिमदलंकारो व्यङ्ग्यः ।
सादृश्यान्यमूलो सदेहविग्रमी ससदेहग्रान्तिमदलंकारप्रयोजकी न
भवतः । यथा--
'अमुष्य धीरस्य जयाय साहसी शरासनग्या विशिष्यैः सनाथयन् ।
निमन्जयामास यशांसि संशये सरत्रिलोकीविजयार्जितान्यपि ॥'
१. 'मला' ग. २. 'शी दरोग.
भासामोरमन के मधुकर निको ट.
१. पागामोदामुपान: ग घ.
चिनमीमांसा। 'दामोदरकराघातचूर्णिताशेषवक्षसा । दृष्टं चाणूरमल्लेन शतचन्द्रं नभस्तलम् ।।' आये दुर्जयविजयोद्योगसाहसप्रयुक्तः कीर्तिमंशसदेहः । द्वितीये गाढमर्मप्रहारकृतचन्द्रविभ्रम इति । इति भ्रान्तिमत्प्रकरणम् । अथोल्लेखालंकारः- निमित्तभेदादेकस वस्तुनो यदनेकपा । उल्लेखनमनेकेन तमुल्लेखं प्रचक्षते ।। यत्र नानाविधधर्मयोग्येकं वस्तु तत्तद्धर्मयोगरूपनिमित्तभेदादनेकेन अहीत्रानेकधोल्लिख्यते स उल्लेखः । 'कीर्तिगहाहिमक्ष्मामृदोज सूर्योदयाचलः । शवसेनाब्धिमन्थादिगुणरत्नेकरोहणः ।।" इति मालारूपके एकस्य राज्ञो यशस्वित्वादिधर्मयोगरूपनिमित्तभेदात्तुपा- रादित्वाचनेकप्रकारेणोल्लेखनमस्तीति तनातिन्याप्तिनिरासायानेकेल्युक्तम् । तत्र ग्रहीतभेदनिबन्धनं न भवत्यनेकोलेखनमिति नातिव्यातिः । 'विद्याविक्रमसौन्दर्यतपसां निधिमागतम् । पश्यन्ति विवुधाः शूराः स्त्रियो वृद्धाश्च कौतुकात् ।।' . इत्यत्रेकस्य वर्ण्यस्य विद्यायनेकधर्मयोगरूपनिमित्रमेदादनेकेन ग्रही- बोल्लेखनमस्तीति तत्रातिव्याप्तिवारणायानेऊधेत्युक्तम् । तत्र कौतुका- स्वरूपावलोकनमाननिबन्धनं नानेकपोल्लेखनमिति तद्यावृत्ति । शिजा- नैमञ्जरीति स्तनकलशयुगं चुम्बितं चञ्चरीकैः' इत्युदाहृतायामनेककर्तृक- १'मुधिप्रहार' ग.
काव्यमाला। आन्तिपरम्परायां सनादीनां मञ्जरीसादृश्यादिनिमितभेदादनेकेन नश्वरी- कादिना मञ्जरीत्वाद्यनेकप्रकारेणोल्लेखनमस्तीति तत्रातिव्यातिवारणायकस्य वस्तुन इत्युक्तम् । 'कीर्ती विस्फूर्तिमत्यां ते मृणालक्षीरशक्किनः । द्वयेऽपि नागास्तन्वन्ति जिहान्तोल्लेखनं मुहुः ।। इति श्रान्तिमदुदाहरणे,एकस्या एव कीर्तेरनेकेन कुज़रभुजंगरूपेण अहीना मृणालक्षीररूपत्वाद्यनेकप्रकारेणोल्लेखनमस्तीति तत्रातिव्याप्ति- निरासाय निमित्तभेदादित्युक्तम् । तत्र कीर्तिगत धावल्यमेकमुल्लेख- द्रयेऽपि निमित्तम् । यद्यपि गजभुजंगानां स्वस्वप्रियाहारलोमरूपनिमित्त- भेदोऽप्यस्ति, तथापि निमित्तमेदादित्यनेनैकनिमित्तविरहो विवक्षित इति तयात्तिः । तस्य संग्राह्यत्वे निमित्तभेदादिति स्वरूपकथनमात्रम् । एवमपि यदि- 'कान्त्या चन्द्रं विदुः केचित्सौरभेणाम्बुजं परे। वक्त्रं तव वयं अ॒मस्तपसैक्यं गतं द्वयम् ॥ इत्यपयोदाहरणविशेपेऽतिव्याप्तिः शया, तदानीमनेकपोलेसनं निपेघाटत्वेन विशेपणीयम् । तत्रायोटेखनद्वयं परमतलोपन्यास- सामाग्यमाननिपेयमिति नातिव्याप्तिः । सीभिः कामोऽधिभिः स्वः कालः शत्रुभिरैक्षि सः ।' अत्र चानेधोल्लेखने रुच्ययित्वमयादिकं यथायोग प्रयोजकम् । रुचिरमिरतिः । अर्थित्वं लिप्सा । द्विविधश्चायमुल्लेखः । शुद्धोऽलंका- रान्तरसंकीर्णश्च । तत्र शुद्धो यथा-- 'गजातेति वृद्धामिः श्रीकान्त इति यौवतैः यथासितच यालामिएः शौरिः सकौतुकम् ।। १. मोभि: बाप:यारम्प मिEि PE नः पार: कसके मालि.
, चित्रमीमांसा । ७९ : अत्र यस्तथा भीतं भक्तं गजं त्वरया त्रायते स सोऽयमादिपुरुष इति वृद्धाभिः संसाराद्धीत्या तदभयार्थिनीभिः कृष्णः पुरः प्रविशन् दृष्टः, यस्तथा चञ्चलत्वेन प्रसिद्धाया लक्ष्या अपि कामोपचारबंदग्ध्येन नित्य- वल्लभः सोऽयं दिव्ययुवेति युवतीभिः सोत्कण्ठाभिदृष्टः, बालाभिर्यालस्व- भावाद्यथास्थितरूपवेषयुक्तो दृष्ट इति सर्वत्र वस्तुसता नानारूपेणोल्लेखा- दयं शुद्धः । यथा वा हर्षचरिते श्रीकण्ठजनपदवर्णने-- 'यस्तपोवनमिति मुनिभिः, कामायतनमिति वेश्याभिः, संगीतशा- लेति लासकैः, यमनगरमिति शत्रुभिः, चिन्तामणिरित्यर्थिभिः, वीरक्षेत्र- मिति शस्त्रोपजीविभिः, गुरुकुलमिति विद्यार्थिभिः, गन्धर्वनगरमिति गायकैः, विश्वकर्ममन्दिरमिति विज्ञानिमिः, लाभभूमिरिति वैदेहोसी. धूर्तस्थानमिति बन्दिमिः, साधुसमागम इति सद्भिः, वजपचरमिति शरणागतैः, विटगोष्ठीति विदग्धैः, सुकृतपरिणाम इति पथिकः, अनु- । रविवरमिति वाहिकैः, शक्याश्रम इति शमिमिः, अप्सरःपुरमिति का- मिमिः, महोत्सवसमाज इति चारणैः, वसुधारेति च विप्रेरगृह्यत ..' अत्र तपोवनादिभूयिष्ठत्वाचपोवनाद्युल्लेखः शुद्धः। अत्रैव यमनगर- वाद्युल्लेखः संकीर्णः । तत्र यदि यमनगरत्वादीनामुपरजकतामात्रेणान्य- यस्तदा रूपकसंकरः । यदि तादूप्यानुभावगोचरतया, तदा प्रान्तिमत्सं- करः। अयं चोल्लेखो वर्ण्यगुणोत्कर्षख्यापनायाचेतनकर्तृकोऽपि निव- ध्यते । यथा तत्रैव हर्षवर्णने- 'निःलेह इति धनैः, अनाश्रयणीय इति दोषैः, निग्रहरुचिरिती- न्द्रियैः, दुरुपसर्प इति कलिना, नीरस इति व्यसनैः, भीरुरित्ययशसा, १. 'चिन्तामणिभूमिः' इति हर्षचरिते. २. 'वगिनिभ:' ग. ३. 'अमुविवरमिति वानिकः इते हर्षचरित वानिकविवरभ्यसनिभिरिति तत्र टीकायाम्. . " काव्यमाला 7 दुर्ग्रह-चित्तवृचिरिति चित्तमुवा, सीपर इति सरस्वत्यो, पण्ड इति पर- कलत्रैः, काष्ठामुनिरिति यतिभिः, धूर्त इति वेश्याभि., विनय इति सुहृद्भिः, कर्मकर इति विप्रैः, असहाय इति शत्रुयोधैः, एकमप्यनेकपा गृह्यमाणम्' इति । प्रान्तिमदलंकारादयोऽप्येवमचेतनकर्तृका निवध्यन्ते- 'भिन्नेपु रत्नकिरणः किरणेविहेन्दो. रुच्चावचैरुपगतेषु सहससंख्याम् । दोपापि नूनमहिमांशुरसौ किलेति व्याकोशकोकनदतां दधते नलिन्यः।' इत्यादौ । 'मधुलुब्धा मधुकरास्तृपिताश्च चकोरका । सुगन्धि कान्तिसंपन्नमनुधावन्ति ते मुखम् ॥' इत्यत्रोल्लेखो व्यङ्ग्यः । 'विद्याविक्रमसौन्दर्य' इति श्लोके विद्यादीनां स्वरूपावलोकनकौतुकमात्रे निमित्ततया यदि न विश्रान्तिः, कि तु विद्व- वाद्याषघदवलोकनकौतुकनिमित्तताया पर्यवसानं तदा तत्राप्युलेसन- गतानेकधावविच्छितिविशेषस्य गम्यत्वादुलेखालंकारो गम्यः । 'परिमादकामुकशुनामेकसामेव योपिति । कुणपः कामिनी भक्ष्यमिति तिसो विकल्पनाः ।। इत्यत्राप्युल्लेख इप्यत इति लक्षणस्य नातिव्याधिः । अथापर उल्लेम्वप्रकारः- 'गृहीतृभेदाभावेऽपि विपयाभयभेदतः । एकस्यानेकपोलेम्वमप्युइखं प्रचक्षते ।।' . १. दुपारविरचिख. २. 'गड पंचारते. अठ. प्रगगनाराम Tीस...ीनेवः'फ.
चित्रमीमांसा । तत्र विषयमेदादनेकधोल्लेखः, शुद्धः संकीर्णश्च । शुद्धो यथा--- 'अकृशं कुचयोः कृशं वलग्ने विपुलं चक्षुपि विस्तृतं नितम्बे । अधरेऽरुणमाविरस्तु चित्ते करुणाशालिकपालिभागधेयम् ।। 'गुरुवचसि, पृथुरुरसि, विशालो मनसि, जनकस्तपसि, सुमित्रते- जसि, सुमन्त्रो रहसि, बुधः सदसि, अर्जुनो यशसि, भीष्मो धनुपि' इत्यादौ श्लेषसंकीर्णः ॥ हंसमयीव गतिपु, परपुष्टमयीवालापे, चक्रवाकमयीव पतिप्रेमणि, प्रावृण्मयीव पयोधरोन्नती, कमलमयीव कोशसंग्रहेषु, कुसुममयीव फल- दानेषु' इत्याद्युत्प्रेक्षासंकीर्णः । पयोधरोन्नतावित्यादौ विषयांशे श्लेपसं. कीर्णश्च । 'युधिष्ठिरः सत्यवचसि' इत्यादौ रूपकसंकीर्णः । युधिष्ठिरसमः सत्यवचसि' इत्यादावुपमासंकीर्ण इत्याधुन्नेयम् । अधिकरणमेदेनानेकपोल्लेखो यथा- 'वर्धिष्णोरुपरि क्षणं रविरमूच्छन्नं बलिध्वंसिनो रत्नं मूर्ध्नि ललाटसीनि तिलकं कर्णान्तिके कुण्डलम् । अंसे चक्रमुर स्थले मणिवरो नाभौ सरोजासनो यस्याछौ कटकस्त्रिविक्रमगतेः पायादपायात्स वः ॥" अत्र रूपकसंकीर्णः । भगवल्ललाटमध्यकर्णान्तादितत्तदवयवामिमुख- खितमहीतृभेदनिमित्तोल्लेखसकीर्णश्च । एफस्पैर द्रष्टुर्ललाटमध्ये कर्णा- न्तिके च रविदर्शनासंभवात् । 'यस वहिमयो हृदयेषु, जलमयो लोचनपुरेषु, मारुतमयः श्वसि- तेषु, क्षमामयोऽ पु, आकाशमयः शून्यतासु, पञ्चमहाभूतमयो मूर्त इवादृश्यत निहतप्रतिसामन्तान्तःपुरेषु प्रतापः ।' ६चि० मी. + - "- ८२ काव्यमाला। अत्र वहिजलादिशब्दगृहीततापवाष्पादिरूपाणां प्रतापकार्याणां प्रता- यस्य चाभेदकथनं हेत्वलंतर इति तत्संकरः । मतान्तरे रूपकसंकरः । 'कस्तूरी तिलकादि-भालफलके, देव्या मुखाम्भोरुहे रोलम्बन्ति, तमाललोलमुकुलोत्तंसन्ति मौलिं प्रति । याः कर्णे विकचोत्पलन्ति, कुचयोरंशे च कालागुरु स्थास्यन्ति, प्रथयन्तु तास्तव शिवं श्रीकण्ठकण्ठत्विपः ॥' अत्रोपमासंकीर्णः । केचित्तु तत्तदधिकरणौचित्यात्कस्तूरी तिलकादि- तादात्म्यसंभावनायामुपमार्थे विहितोऽपि किबुत्प्रेक्षायां पर्यवस्सतीत्युपमो- पक्रमोत्प्रेक्षेयमित्याहुः । तन्मते उत्प्रेक्षासंकीर्णः । एवमलंकारान्तरसंक- रोऽप्युनयः । इत्युल्लेखप्रकरणम् । . अथापतिः- प्रकृतस्य निपेधेन यदन्यत्वप्रकल्पनम् । साम्यादपहुतिर्वाक्यभेदामेदवती द्विधा ।। अन्यत्वकल्पनमात्रं रूपके, विषयनिषेधमानं 'नाहं दूती वरतनोरन. तापोऽतिभास्वर.' इत्याक्षेपे, उभयमपि साम्यविशेषणरहितम् नि पञ्च- विशिखः कामः कि त्वपश्चशिलीमुखः' इत्यतिशयोक्ती चातिव्याप्तमिति विशिष्टोपादानम् । न चैवं 'न पद्म मुखमेवेदम्' इति तत्त्वाख्यानोप- माया विपये पनत्वनिषेघस्य मुखत्वप्रकल्पनस्य च सत्वादतिव्याप्तिः । प्रकल्पनपदस्यारोपपरत्वात् । 'निपिध्य विषयं साम्यादन्यारोप.' इति कत्वाप्रत्ययेन लक्षणं नोक्तम् । वक्ष्यमाणोदाहरणे आरोपपूर्वकापहवेऽति- न्याप्तिप्रसन्नात् ।
चिनमीमांसा। ८३ इयं च साक्षान्निषेधाननादिप्रयोगे परपक्षत्वाद्युपन्यासे निषेधसाम- र्थ्यागम्यत्वे च वाक्यमेदेन प्रवर्तते । विषयासत्यत्वप्रतिपादकच्छद्मनि- भकपटव्यानादिशब्दप्रयोगे विषयासत्यत्वपर्यवसायिरूपवपुर्नामभन्मयादि- शब्दप्रयोगे च तदमेदेन । अत्र वाक्यमेदेऽपहवपूर्वक आरोप आरोपपूर्वकापइवश्चेति द्वैवि- ध्यम्। क्रमेणोदाहरणानि- 'अवाप्त. प्रागल्भ्यं परिणतरुचः शैलतनये कलको नैवायं विलसति शशाङ्कस्य वपुपि । ', अमुष्येयं मन्ये विगलदमृतस्यन्दशिशिरे रतिश्रान्ता शेते रजनिरमणी गाढमुरसि ॥ यथा वा- नेदं नभोमण्डलमम्बुराशिर्नेमाश्च तारा नवफेनपुञ्जाः । नायं शशी कुण्डलितः फणीन्द्रो नायं कलङ्कःशयितो मुरारिः।।' पूर्वत्र निखयवापबुतिरत्र सावयवेति भेदः । 'अङ्क केऽपि शशङ्किरे जलनिधेः पy परे मेनिरे सारङ्गं कतिचिच संजगदिरे भूच्छायमैच्छन्परे । इन्दो यद्दलितेन्द्रनीलशकलश्यामं दरीदृश्यते तत्सान्द्र निशि पीतमन्धतमस कुक्षिस्थमाचश्महे ।। इत्यत्राप्यपद्धापूर्वक आरोप । अपहवस्तु परपक्षोपन्यासादर्थसिद्धः । 'विकसदमरनारीनेत्रनीलामपण्डा- न्यधिवसति सदा यः सयमाघ कृतानि । १.खण्डानि ख-ग. , ८४ काव्यमाला। न तु रुचिरकलापे वर्तते यो मयूरे वितरतु स कुमारो ब्रह्मचर्यश्रियं व ॥ मन्नारोपपूर्वकोऽपहवः शाब्दः। 'मन्धानगृमिधरमूलशिलासहस- संघनत्रणकिणः स्फुरतीन्दुमध्ये । छाया मृगः शशक इत्यपि पामराणा लोके गतानुगतिक प्रथित प्रवादः ।। अत्राप्यारोपपूर्वकोऽपहवः । स च पामरवचनोपन्यासादर्थसिद्धः। एतानि वाक्यभेदेनोदाहरणानि । एकवाक्यतायां तु- बत सखि कियदेतत्पश्य वैरं सरस्य प्रियविरहकशेऽसिन्कामिलोके तथा हि। उपवनसहकारोद्भासिमृगच्छलेन प्रतिविशिखमनेनोक्तिं कालकूटम् ।। 'अमुप्मिल्लावण्यामृतसरसि नूनं मृगहशः स्मरः। शर्यतुष्टः पृथुजघनभारे निपतितः। यदाकाराणा प्रशमपिशुना नाभिकुहरे शिखा भूमसेयं परिणमति रोमावलियपुः ।। पूर्वत्र न समृगाणि सहकाराणि, अपि तु सकारलूटाः शरा इत्य: सत्यत्वाभिधायिच्छरशब्दयशामतीयते । उचरन नेय रोमावलिः कि तु भूमशिखेत्यसत्वपर्यवसायिवपु शब्दवरात्प्रतीयते । केचित्तु सादृश्यव्यक्तयेऽपहरयदपहनाय सादृश्यमप्यपद्धत्यरंकार - वदन्ति । ययाहुः चित्रमीमांसा। 'सादृश्यव्यक्तये यत्रापहवोऽसावपगुतिः। अपहवाय सादृश्यं यत्रास्त्येषाप्यपद्भुतिः ॥ इति । उदाहरन्ति च- 'आकृप्यादावमन्दग्रहमलकचयं वक्रमासज्य वक्रे कण्ठे लमः सुकण्ठः प्रसरति कुचयोर्दस्तगादासनः बद्धासक्तिनितम्वे पतति चरणयोर्यः स तादृक्प्रियो में बाले लज्जा निरस्ता न हि न हि सरले चोलकः किं त्रपाकृत् ॥ अत्रान्ति प्रियमपहत्य चोलकत्वारोपः । तदर्थं च प्राक् प्रिय- चोलसदृशधर्मोपन्यास. । अत्रेदमपगुतिकथनं व्याजोक्त्यलंकारं पृथग- कुर्नतामुटादीना मतमनुसृत्य । ये तु उद्भिन्नवस्तुनिगहनं व्याजो- क्तिरिति व्याजोक्त्यलंकारं पृथगिच्छन्ति तेपामिहापि व्याजोक्तिरेख नाप तिरिति रुचकादयः । दण्डी त्वपद्भुतेः साधर्म्यमूलत्वनियममनादृत्य "किंचिदपद्भुत्य कस्यचित्प्रदर्शनमात्रमपङति.' इति लक्षयित्वोदाजहार--- 'अपहतिरपद्भुत्य किचिढन्यार्थसूचनम् । न पञ्चेपुः सरस्तस्य सहस्र पत्रिणामिति ॥ चन्दनं चन्द्रिका गन्धो गन्धवाहश्च दक्षिणः । स्वयममिमयी सृष्टिः शीता किल परान्प्रति ॥ अमृतस्यन्दिकिरणश्चन्द्रमा मम नो मत.। अन्य एवायमात्मा विपनिप्यन्ददीधितिः ॥' साधर्म्यमूला त्वपहुतिरिति तेन व्याहृता । 'त्वदालेख्ये कौतूहलतरलतन्वीविरचिते विधायैका चक्र रचयति सुपर्णासुतमपि । ' २. 'साहश्यनियममनादत्य' ग-घ. २. 'सहस्र विशियाः पुन 'ख.
काव्यमाला। अथ विद्यत्पाणिस्त्वरितमपमृज्यैतदपरा. करे पोप्पं चापं मकरमुपरिष्टाच लिखति ।।" इत्यादावपहुतिध्वनिरुदाहर्तव्यः । अत्र हि चक्रपर्णलेग्युनेन नायं सांधा- रणः पुरुषः किं तु पुण्डरीकाक्ष इति कयाचियञ्जितम् । अन्यया तु तस्याप्येतादृशं रूपं न संभवतीत्याशयेन नायं पुण्डरीकाक्षोऽपि किंतु मन्मथ इति तदुभयमुन्मृज्य पुप्पसायकमकरध्वजलेखनेन व्यञ्जितम् ॥ इत्यपद्धतिप्रकरणम्। अथोत्प्रेक्षालंकारः- यत्रान्यधर्मसंवन्धादन्यत्वेनोपतर्कितम् । प्रकृतं हि भवेत्यांशास्तामुत्प्रेक्षां प्रचक्षते ॥ यथा- 'बालेन्दुवाण्यविकाशभावाहमुः पलाशान्यतिलोहितानि । सद्यो वसन्तेन समागताना नखक्षतानीव वनस्थलीनाम् ॥' यत्र प्रकृतानि पलाशकुसुमान्यप्रकृतनखक्षतधर्मवक्रत्वलौहित्यसंव- न्धानखक्षतत्वेनोपकल्पित्तानि । तर्कः संभावनामात्रं न त्ववधारणम् । सदीयधर्मो हि तनादात्म्यसमावनामानहेतुर्न व्याप्तिपक्षधर्मतायलिशवद- वधारणहेतुः । न चात्रेवशब्दस्य सादृश्यपरत्यमित्युपमाशका कार्या । उपमाया यत्र चित्स्वितैरपि नखक्षतैः सह वक्तुं शक्यतया वसन्तना- यकसमागतवनस्थलीसंवन्धित्वविशेषणकल्पनानपेक्षत्वात् । पलागमुकु- सानां नसक्षततादास्यसंभावनायामेव तथाविधविशेषणस्योपयुक्त्वात् । १. सासपिसानत्व' स.
चित्रमीमांसा। . एवमन्यत्रापि यत्र यत्राप्रकृततादात्म्यसंभावनोपयुक्तविशेषणकल्पना तत्र सर्वत्राप्युत्प्रेक्षावगन्तव्या । यथाव्या 'उवाह या तनुलता भृङ्गालीरोमवल्लरीम् । पश्चाद्विमुक्तां वैमल्याद्विम्बितामिव वेणिकाम् ॥' उपमा यत्र कचित्स्थितयापि वेणिकया वक्तुं शक्येति तत्रानुपयुक्ता, वैमल्यात्पुरोमागप्रतिविम्बितत्वरूपविशेषणकल्पना तादात्म्यसंभावनार्था । यत्र तु संभावनोपयुक्तविशेषणकल्पनारहितमुपमानं निवध्यते तत्र पर- मिवशब्दः सादृश्यपर इत्युपमालंकारः । अमुमेव विभागमभिप्रेत्य चक्र- वर्तिनोक्तम् 'यदायमुपमानांशो लोकतः सिद्धिमृच्छति' इत्यादि । दण्डिनापीवशब्दस्योत्प्रेक्षाव्यञ्जकत्वयुक्तम् । 'मन्ये, शङ्के, ध्रुवं, प्रायो, नूनमित्येवमादिभिः । उत्प्रेक्षा व्यज्यते शब्दरिवशब्दोऽपि तादृशः ॥” इति । अनादिशब्देन तर्कयामि, समावयामि, जाने, उत्प्रेक्षे, स्यात् , इत्ये. वमादीनां संग्रहः । अन्न च 'कस्तूरिकामृगाणामण्डाद्गन्धगुणमखिलमादाय । यदि पुनरहं विधिः स्यां खलजिह्वायां निवेशयिप्यामि ॥' 'यद्यनुप्णो भवेद्वहिर्यद्यशीतं भवेजलम् । मन्ये दृढव्रतो रामस्तदा स्यादप्यसत्यवाक् ॥" इत्यादिष्वतिव्याप्तिवारणाय धर्मसंगन्धादित्युक्तम् । तेषु हि 'यद्य- थोक्तौ च कल्पनम्' इत्यतिशयोक्त्यलंकारविषयेषु, 'संभावनं यदीत्थं स्यादित्यूहोऽन्यस्य सिद्धये' इति संभावनालंकारविषयेषु वा निनिमित्त मेव तथा तथोपतर्फणम् । तथापि- 'सर्वातिशायिसौन्दर्य शङ्के सत्यवतो मुग्वम् । येन सा मृगशावाक्षी सावित्री तरलीकृता ।। .
८८ काव्यमाला। - इत्यादिष्वतिव्याप्तिः स्यादिति तद्वारणायान्यधर्मसंबन्धादित्युक्तम् । तत्र सावित्रीहृदयतरलीमावकारकत्वादिना स्वधर्मेणैव वितर्कणमिति नातिव्याप्तिः।। 'विरक्तसंध्यापरुषं पुरस्ताद्यतो रजः पार्थिवमुजिहीते । -शङ्के हनूमत्कथितप्रवृत्तिः प्रत्युद्गतो मां भरतः ससैन्यः ॥' J इत्यत्रातिव्याप्तिवारणायान्यत्वेनेति विशेषणम् । तत्र ससैन्ये प्रत्यु- दन्तयन्यन्नापि हटस्यागेरजोगमनस्य संबन्धेन निमित्वेन भरतः प्रत्युद्द- तत्वेन वस्तुसद्रूपेणैवोपतर्कितो न त्वन्यत्वेनेति नातिव्याप्तिः । 'नरसिंहमहीपाल विदुस्त्वां मकरध्वजम् । मार्गणास्तव संजाताः कथं सुमनसोऽन्यथा ॥ इत्यत्राव्याप्तिवारणायोपतर्कितमित्युक्तम् । तत्रानुमानालंकारविषये सुमनोमार्गणत्वेन मन्मथत्वव्याप्तिलिझेन राज्ञि मन्मथत्वमवधृतं न संमा- वनामात्रम् । 'इन्दुर्लिप्त इवाञ्जनेन जडिता दृष्टिगीणामिव प्रलानारुणिमेव विद्रुमलता श्यामेव हेमप्रमा । कार्कश्यं कलया च कोकिलवधूकण्ठेप्विव प्रस्तुतं सीतायाः पुरतश्च हन्त शिखिनां बर्हाः सगीं इव ॥ इत्यत्रातिव्यातिवारणाय प्रकृतमित्युक्तम् । तत्र निरतिशयसौन्दर्य- सीतावदनादिसनिधानेन तद्वदनाद्युपमानेष्वपि निकांपादकेन प्रशस्तोप- मानेप्विन्द्वादिप्वप्रकृतेप्वञ्जनलेपादिनिकर्पसभावना क्रियत इति नाति- व्याप्तिः। नन्वेवमपि- 'असद्विक्रमचेष्टितानि निखिलत्रैलोक्यहेलाजय- नहीभूतसुरासुराणि भवतो भूमेः सुता शृण्वती । vi चित्रमीमांसा। पत्यौ द्वेपकपायितेन मनसा स्निग्धा मयि स्थास्यति स्त्री प्रेम यदुत्तरोत्तरगुणग्रामस्पृहाचञ्चलम् ।। इत्यत्र चाञ्चल्यसहचरितत्वेनान्यत्र दृष्टस्त्रीत्वस्य संवन्धेन निमित्तेन वस्तुतः प्रत्येकस्थिरचित्ता देवी सीता चञ्चलत्वेनोपतर्किता । न च तत्रोप त्प्रेक्षालंकारः । रावणकृततदीप्सितसंघटनानुकूलविचारमात्रस्य निवद्धत्वेन विच्छित्तिविशेषाभावात् । न चान्यधर्मसंबन्धादित्यत्र धर्म उपमायामिव सहृदयहृदयाहादी विवक्षितः, न तु साधारणधर्ममात्रम् । तथा च नोकातिव्याप्तिः । स्त्रीत्वादेश्चाञ्चल्यादिसंभावनामात्रप्रयोजकत्वेऽपि सहृदयहृदयाहादिसाधारणधर्मामावेनोपमालंकारपयोजकत्वाभावादिति वा- च्यम् । तथा सति- स्तनाभिरामस्तबकां नूनं सीतेति वल्लरीम् । संभावयन्घुपतिर्घावति स दिदृक्षया ।' इत्यत्रातिव्याप्तेरवारणात् । न चाहार्यत्वं तर्कविशेषणम् । दह त्वनाहार्या संभावनेति वाच्यम् । तथा सति 'शके हनूमत्कथितप्रवृत्तिः' इति संभावनाया अप्यनाहार्यत्वेन तद्यावृत्त्यर्थस्थान्यत्वेनेत्यस्य वैयर्थ्य- प्रसङ्गादिति चेत्, मैवम् । अन्यत्वेनेत्यस्यान्यत्वेनावगतपरतया तस्यैवा- हार्यत्वविशेषणपर्यवसायित्वात् । ननु तथापि नैतलक्षणम्, अन्याः । तथा हि । यत्र स्वमात्रधर्मा- दन्यमात्रधर्माद्वा किंचिदुत्प्रेक्ष्यते तत्रान्यधर्मसंवन्धादिति लक्षणांशा- भावादव्याप्तिः । यथा- 'अङ्गुलीभिरिव केशसंचयं संनियम्य तिमिरं मरीचिभिः । कुबलीकृतसरोजलोचनं चुम्पतीव रजनीमुसं शशी ॥'
रक्षा
९०
काव्यमाला ।
'भूयस्तराणि यदमूनि तमखिनीपु
ज्योत्लीषु च प्रविरलनि ततः प्रतीमः ।
संध्यानलेन भृशमम्बरमूपिकाया-
मावर्तितैरुडुमिरेव कृतोऽयमिन्दुः ।।
इत्यत्राद्योदाहरणेऽगुलीसदृशीभिर्मरीचिमि. केशसंचयसदृशस्य तिमि-
रस्य ग्रहणात्स्वमात्रधर्मादेव शशिनचुम्बनमुत्प्रेक्षितम् । द्वितीये तारा-
विरलत्वाविरलत्वरूपेणान्यमानधर्मेण चन्द्रस्य संध्यानलमध्यगाम्बर;
मूपिकावर्तिततारानिकरनिमित्तत्वमुत्मेक्षितम् । कि च हेतुफलधर्मस्वरूपो
प्रेक्षास्वन्यत्वेनेति लक्षणांशाभायादव्यातिः । यथा-
'सैपा स्खली या विचिन्वता त्वां नष्टं मया नपुरमेकमुाम् ।
अदृश्यत लचरणारनिन्दनिश्शेष सादिव बद्धमौगम् ॥
इति हेतूमेक्षोदाहरणे नूपुरगतेन दु.सिसाधारणेन मीनित्वेन निमि-
तेन नूपुरे तद्धेनुगूतदुःखमेव धर्मतयो प्रेक्ष्यते, न तु दु सितादात्यम् ,
दुःखशब्दस्योपरि तुमुनाद्यश्रवणात् । एवम्-
merah
'चोरस्य यनीतिपलायितस्य भारत्वचं कण्टक्निो वनान्ताः ।
अद्यापि फि वानुभविष्यतीति व्यपाटयन्द्रामियाक्षराणि ।।"
इति पलोत्प्रेक्षोदाहरणे द्रुमगतेन ललाटाक्षरदर्शनप्रवृत्पुरपसाधारणेन
लगटपाटनेन निमितेन द्रुमाणां तकलं लसराटाक्षरदर्शनगुदेश्यमिति
पर्मतयोमेक्ष्यते न तु लगटाक्षरदर्शनप्रधर्मितादात्म्यम्, द्रष्टुमित्यस्स
धर्मिपर्यन्तत्याभावात् । तथा--
'पिनष्टीव तरनामे समुद्र. फेनचन्दनम् ।
A
तदादाय फरैरिन्दुम्पितीय दिगाना ॥'
इति धर्मस्वासोमेशोदाहरणे सगास चन्दनपर्षणशिरामान्तस्थानीय
-
7
चित्रमीमांसा। : तटे हस्तस्थानीयतरङ्गानेः फेनचन्दनपेपकत्वेन शशाङ्कस्य करैर्दिगगना- दिघवलीकरणेन च प्रतीयमानेन निमित्तेन तत्कर्तृक पेपणलेपनमात्र- मुत्प्रेक्ष्यते, न तु तयोः पेपणलेपनकर्तृतादात्म्यम् । पिनष्टि लिम्पतीत्या- ख्यातयोः कर्तृवाचकत्वेऽपि 'भावप्रधानमाख्यातम्' इति न्यायेन कर्तुः प्रधानभूतक्रियोपसर्जनस्यान्यत्रान्वयासंभवात् । अत एव 'लिम्पतीव 'तमोऽङ्गानि वर्पतीवाञ्जनं नमः' इत्युत्प्रेक्षामुदाहृतवता दण्डिनोक्तोदा- हरणयोरिवशब्दश्रवणाल्लेपनवर्पणकर्तृभ्यां तमोनभसोरुपमामाशङ्कय- 'कर्ता यापमानं स्यान्न्यग्मृतोऽसौ क्रियापदे । स्वक्रियासाधने व्यग्रो नालमन्यद्यपेक्षितुम् ॥' इति दूषितम् । 'वृत्तानुपूर्वे च न चातिदीर्धे जङ्ग्रे शुभे सृष्टवतस्तदीये ।। शेषाङ्गनिर्माणविधौ विधातुावण्य उत्पाद्य इवास यतः ।।" इत्यत्र निरतिशयलावण्यशालिजवासृष्टयनुमितेन निःशेषलावण्यको- शव्ययेन निमित्तेन विधातुः शेषाङ्गनिर्माणोपयुक्तलावण्योत्पादने यत्न- मात्रमुत्प्रेक्ष्यते, न तु तथाभूतयत्नवत्तादात्म्यमिति स्पष्टमेव । अपि चाप्रकृतधर्मिकोत्प्रेक्षायां प्रकृतमित्यंशामावादव्याप्तिः। यथा-- 'हृतसारमिवेन्दुमण्डलं दमयन्तीवदनाय वेधसा । कृतमध्यनिलं विलोक्यते धृतगम्मीरखनीखनीलिम ।।' अत्र कृतमध्यबिलमिति पदार्थहेतुककाव्यलिङ्गापेक्षयातिशयोक्त्या कृतमध्यरन्ध्राकाशनैल्यत्वेनाध्यवसितो यः कलकस्तद्वत्त्वेन निमित्तेन कलक्षाध्यवसितघृतमध्यरन्धाकाशनल्यत्वनिमित्तोत्प्रेक्षितं 'कृतमध्यविल- त्वेन निमित्तेन या चन्द्रमण्डलं दमयन्तीवदननिर्माणाय हृतसारत्वेनो- १. 'नत्यत्वोत्प्रेक्षितम्' स. ।
९२ काव्यमाला मेक्षितम्, नतु प्रकृतं दमयन्तीवदनमेवोक्तप्रकाराहतेन्दवसारांशनिर्मि- तत्वेनोत्प्रेक्षितम् । 'यहालेन्दुकलोच्चयादुपचितैः, सौरियोत्पादितं तत्प; श्येयमनगमङ्गलगृहं, भूयोऽपि तस्या मुखम् ।' इत्यत्रेव तथाशब्दान्वया- भावात् । ननु यथा शब्दतोऽन्वयालामेऽपि 'ब्राह्मणशतं भोज्यता मि- त्यत्र प्रधानमतिलधयोपसर्जने क्रियान्वयपर्यवसानम् , संख्याया भोजना- न्वयायोग्यत्वात् , तथेहापि प्रधानमिन्दुमण्डलमतिलक्ष्योपसर्जने दमय- न्तीवदने इन्दुमण्डलाहृतसारांशनिर्मितत्वोत्प्रेक्षापर्यवसानं स्यात् , अप्र- कृतस्यावर्णनीयत्यादिति चेत्, न । अप्रकृतवर्णनस्याप्यप्रस्तुतप्रशंसारू- पेण प्रकृतातिशयाधानार्थतयान्वेतुं योग्यत्वात् । नच वाच्यं 'इन्दुर्लिप्त इव' इत्यपस्तुतप्रशसोदाहरणान्तर इवात्रापि संमारनामात्रमेव नोटो: क्षेति । तत्र सहृदयहृदयाहादिनिमिताभावेनोत्प्रेक्षासामग्रीपरिपूर्यभाषा- दुत्प्रेक्षाया असंभवेऽप्यत्र तत्समवादप्रस्तुतप्रशंसया सकरोपपतेः । तस्मा- दव्याप्तत्वान्नेदं लक्षणं युक्तमिति चेत्--- अत्र धूमः । न तावत् 'हतसारम्' इत्यादावव्याप्तिः । प्रकृतशब्दस्य विषयत्वाभिमतमानपरत्वात् । न चैवं 'इन्दुलित इव' इत्यादापतिव्याप्तिः। तत्र सीतावदनसंनिधाने वस्तुतोऽन्यधर्मत्वे सत्यपीन्दुगताअनलिप्तत्वसं- भावनायामन्यधर्मत्वस्याप्रयोजकत्यात् , धर्मस्य सहदयहृदयाहादिनो वि. वक्षितत्याद्वा । अन्यत्येनेत्यस्यान्येन प्रकारेणेत्यर्थ इति न हेतुफलधर्म-- स्वरूपोत्प्रेक्षास्वच्याप्तिः । यत्र धर्मिणि धर्म्यन्तरं तादात्म्येनोत्प्रेक्ष्यते तन धर्म्यन्तरमन्यः प्रकारः। यत्र तु कश्चिद्धर्म एव किंचित्मति हेतुतया फरतया स्वरूपेण चोप्रेक्ष्यते तत्र स एव धर्मोऽन्यः प्रकार इति सर्व वाप्यनुगतेः । यद्वा हेतुफलधर्मस्वरूपोत्प्रेक्षोदाहरणेप्यपि तादास्येनेवो. सेक्षा । तथा हि । 'सेपासली या विचिन्यता स्वाम्', 'चोलस्य यदी- .
चित्रमीमांसा। १३ तिपलायितस्य' इत्यादिहेतुफलोत्प्रेक्षोदाहरणयोस्तावद्विलेषदुःखललाटाक्ष- रदर्शनादिधों हेतुतया फलतया वा नोत्प्रेक्ष्यते । किं तु नूपुरयुगादि- धर्मिकं यन्निश्चलत्वकण्टकसंश्लेषादिनिमित्तकं मौनव्यापाटनादिकं तदेव दुःखहेतुकमानललाटाक्षरदर्शनार्थव्यापाटनादितादात्म्येनोत्प्रेक्ष्यते । अ- वयं च द्विविधस्यापि मौनादेस्तादात्म्येनाध्ययसाय आस्थेयः । अन्यथा निश्चलत्यादिहेतुके स्वाभाविकमौनादौ दुःखादेहेतुत्वादिनोत्प्रेक्षणमसम- असं स्यात् । अन्नीकृतश्च 'सैपा स्थली' इत्यादौ दुःखादिर्धर्म एव मौना- दिहेतुतया नपुरादिगतत्वेनोत्प्रेक्ष्यत इति वदताप्यलंकारसर्वस्वकृता द्विवि- धस्स मौनादेरमेदाध्यवसायः । हेतूप्रेक्षायां यस्य प्रकृतसंबन्धिनो धर्मस हेतुरुन्मेक्ष्यते स धोऽध्यवसायवशादमिन्न उत्प्रेक्षानिमित्तत्वेनाश्रीयते' इत्यादितद्वचनात् । आवश्यकं चान्यत्रापि कचित्कचिद्धेतूप्रेक्षोदाहरणे निमित्तांशे तादाम्याध्यवसायाश्रयणम् । यथा- 'उन्मेपं यो मम न सहते जातिवैरी निशाया- मिन्दोरिन्दीवरदलदृशा तस्य सौन्दर्यदर्पः । नीतः शान्ति प्रसभमनया वक्रकान्त्येति हर्षा- ल्लमा मन्ये ललिततनु ते पादयोः पद्मलक्ष्मीः ॥ अत्रं हेतुतया होत्प्रेक्षा प्रति तत्फलत्वामिमतं पादयोः पद्मलदम्या लगनं निमित्तं वाच्यम्, ,तच सर्वथैवासिद्धम् । अतस्तत्र पादयोर्यः खाभाविकशोभासंपन्यः स एव पद्मलक्ष्मीलमत्वेनाध्यवसितो निमित्त मिति समर्थनीयम् । एवं निमिचाशे तादाम्याध्यवसानावश्यमावे तत्रै- वोत्प्रेक्षाविश्रान्तिरस्तु । नच तत्र निमितान्तरमन्येष्यं स्यादिति वाच्यम्। निश्चलत्वहेतुफमौनस्स दुखहेतुमौनत्वेनोत्प्रेक्षायां चरणारविन्दविश्लेष- . १. 'यस्य' स.
३४ काव्यमाला। . कालभवत्वं निमित्तं कण्टकसंश्लेपहेतुकव्यापाटनस्य ललाटलिपिदर्शनार्थ- व्यापाटनत्वेनोत्प्रेक्षायां महाराजोऽप्येवं कष्टमनुभवति, इतः परमपि किया दनुभाव्यमनेनेति जिज्ञासोत्थापकपलायनकालभवत्वमित्यादेः स्पष्टत्वात् । अयमेव पक्षो दण्डिनोऽभिमतः । यदाह-- 'अन्यथैव स्थिता वृत्तिश्चेतनस्यतरस्य वा। अन्यथोत्प्रेक्ष्यते यत्र तामुत्प्रेक्षां प्रचक्षते ॥ मध्यन्दिनार्कसन्तप्तः सरसीं गाहते गजः । मन्ये मार्तण्डगृह्याणि पद्मान्युद्ध मुद्यतः ।। खातुं पातुं विसान्यत्तुं करिणो जलगाहनम् । तद्वैरनिष्कयायेति कयिनोत्प्रेक्ष्य वर्ण्यते ।' इति । अत्र संतापनिवृत्त्यर्थत्वेनान्यथैव स्थिता करिणश्चेतनस्य जलगाहन- रूपा वृत्तिरन्यथा तद्वैरनिष्क्रयाजलावगाहनत्वेनोत्प्रेक्ष्यत इति स्वकृत- लक्षणानुसारेणैव योजितम् । काव्यप्रकाशिकाकारस्याप्ययमेव पक्षोऽभिमतः । तेन हि संभावन- मथोत्प्रेक्षा प्रकृतस्य संमेन यत्' इत्युपमानोपमेयस्य तादाम्यसम्भावन- मुत्प्रेक्षालक्षणमभिधाय 'उन्मेपं यो मम न सहत' इति तत्रोदाहरण कृतम् । ततश्च खकृतलक्षणानुरोधेन स्वाभाविकी पादशोभेव स्ववैरिजय- अमवहर्पलमपद्मलक्ष्मीत्वेनोमेक्ष्यत इत्यभिमतमिति स्फुटमेव । तथा पिनष्टीव तरहामः' इत्यादिधर्मस्वरूपोभेक्षोदाहरणेकपि प्रेरणादिरेव पेपणादिरूपत्वेनोत्प्रेक्ष्यते । न च प्रेरणादेविपयसानुगदानं दोषः । अतिशयोक्तानिय तदुपपरेः । उत्पेक्षाया अध्यवसायगर्भतया तत्र विषयनिगरणस्मोचितत्वाध न च प्रेरणादेविषयस्येन निमिषा- १. 'परेन' स.
चित्रमीमांसा। ९५ 1 भावे निमित्तान्तरमन्वेप्यं स्यादिति वाच्यम् । प्रेरणस्य पेपणरूपतयो- लेक्षायां प्रान्तगतफेनचन्दनपुञ्जीभवनं निमित्तम् । करव्यापनस दिग- गनालेपनत्वेनोप्रेक्षायां तद्धवलीकरणं निमित्चमिति निमित्तान्तरस्य जाग- रूकत्वात् । 'लिम्पतीव तमोऽङ्गानि वर्पतीवाञ्जनं नमः' इत्यादौ व्यापनादिलेप- नादिरूपतया सम्भावितमिति वदता काव्यप्रकाशिकाकारेणापि धर्म- स्वरूपोत्प्रेक्षोदाहरणेपु तादाम्योत्प्रेक्षणपक्ष एवाश्रितः । एवं 'चुम्बतीव रजनीमुखं शशी'त्यादावपि रजन्या वदनत्वेनांध्यव- सितं यदारम्भाल्यं मुखं तस्य शशिनश्च संबन्धथुम्बनत्वेनोत्प्रेक्ष्यते । 'वृत्तानुपूर्वे च' इत्यत्रायत्नपूर्वके शेषाङ्गनिर्माणे यत्नपूर्वकत्वतादाम्यो- प्रेक्षेत्यायूह्यम् । अन्यधर्मोऽनुगामितयैव न विवक्षितः, किं तूपमायां साधारणधर्म इंव बिम्बप्रतिविम्वभावादिभिः सर्वैरपि प्रकारैर्विवक्षितः । तथा च यथा-- 'आवर्जिता किंचिदिव स्तनाभ्यां वासो वसाना तरुणार्करागम् । सुजानपुप्पस्तबकावनमा संचारिणी पल्लविता लतेव ॥' इत्यत्र विश्वप्रतिबिम्बभावकृतामेदाध्यवसायेन । 'तारुण्यकुञ्जरारूढां विलासकमलाकुलाम् । मूर्तामिव मनोजस्य त्रैलोक्यविजयश्रियम् ।।" इत्यत्र समासभेदाश्रयणकृताभेदाध्यवसायेन च धर्मस्य प्रकृताप्रकृत- साधारण्यादन्यधर्मसंवन्धः । तथा -'अङ्गुलीमिरिव' इत्यत्रान्वयभेद- कृताभेदाध्यवसायेन धर्मस्य प्रकृताप्रकृतसाधारण्यादन्यधर्मसंवन्धः १'पटविनी' ख.
काव्यमाला। " सुसंपाद इति न तत्रात्र्याप्तिः । नापि भूयस्तराणि' इत्यत्राव्याप्तिः। तत्रो- पात्तधर्माक्षिप्तधर्मान्तरसबन्धस्स निमित्तत्वात् । तत्र हि चन्द्ररूपविषय- गतसंध्यानलमध्यगाम्बरमूपिकावर्तिततारानिकरनिर्मितत्वोत्प्रेक्षायां तारा- गतेन तत्तद्रात्रिषु विरलत्याविरलत्वरूपेणोपात्तधर्मेण निमिचेन धर्मस्य चन्द्रगतस्य तद्विरलत्याविरलत्यानुविधायिवृद्धिहासशालित्वस्माक्षेपः। अयं चापरोऽपि विशेषः । अन्यधर्मसंबन्धादित्यन्यपदार्थो धर्म्युरे- क्षासु विषय्येव, 'धर्मोत्प्रेक्षासु तु विषयिणो धर्मस्याश्रयः । एवं स्थिते यत्रानुपातो निमित्तम्तो धर्मस्तत्र सर्वत्रापि यो धर्मोऽन्यपदार्थस्य विष- यस्य च संवन्धितया संभावनापदवीमारोहति तथाभूतोऽन्वेष्यः । तत्र 'वर्पतीयाजनं नमः' इत्यत्र नमोगतत्वेन वर्षणक्रियोत्प्रेक्षापक्षे नमसो भूपर्यन्तगोगिनीलिमव्यासत्यमञ्जनवर्युकसाधारणनिमित्तम् । तमसो व्या- पने नभ कर्तृकाअनवर्षणक्रियात्योत्प्रेक्षेति पक्षे नु सफलवस्तुसान्द्रमलि- नीकरणादि । एवं 'लेय रागसागरस्य' इत्यादी संक्षोभकारित्वादि गम्यं निमियमूहनीयम् । यत्र तु निमित्तया धर्मस्सोपादाने सत्यपि तत्संबन्धो विपयरयान्यपदार्थस वाहासा न प्रतीयते, तर चिन्निमित्तभूतधर्माद- न्यस फस्यचिद्धर्मस्य तचाप्यरांपादनेन तसंपन्धः समर्थनीयः । फचि- द्विपयस्य चान्यपदार्थस्य वा तदीययताप्यसंपादनेन, फचिन्मिलितेन तेनोगयेन, फचिदुपाचपर्मश्तधर्मान्तराक्षेपण । तर धर्मान्तरस निमि- चताप्पसंपादनमुपमायां धर्मस संपादनमिव विम्वप्रतिबिम्बमागदिभिः प्रकारमे प्रदर्शिताः। एवं विश्यम्यान्यपदार्थस्स या पधयाणप्पसंपादनं संपादि- माला । तत्र विषयस्य शेपेग धर्माध्यताप्यपानं यथा-- AL चित्रमीमांसा। . 'अस्यां मुनीनामपि मोहमूहे भृगुर्महान्यकुचशैलशीली नानारदाहादि मुखं श्रितोासो महाभारतसर्गयोग्यः॥ अत्र भृग्वादिमुनिरूपविषयगतदमयन्तीगोचरमोहोत्प्रेक्षायां यदेव तत्कुचपरिशीलनादि निमित्तं न तद्विषयगतं किं तु तटादिगतम् । तस्य भृग्वादिशब्दश्लेषेण विषयगततानिर्वाहः । अपद्भुत्या यथा- 'किंशुकव्यपदेशेन तरुमारुह्य सर्वतः । दग्धां दग्यामरण्यानीं पश्यतीव विभावसुः ।। अत्र दावानलरूपविषयगतदग्धादग्धवनप्रदेशदर्शनक्रियोत्प्रेक्षायां तरु- समारोहणं निमित्तम् । तदपि न विषयगतं किं तु किंशुकपुप्पगतम् । तत्रापि यद्यपि मुख्य समारोहणं नास्ति तथापि तदीयं तरुसमाश्रयणमेव तदारोहणत्वेनाध्यवसितम् , ततश्च तत्रापद्भुत्या विषयस्य किंशुकपुप्पता- दूप्यसंपादनेन धर्मसंबन्धनिर्वाहः । १. नैषधे सप्तमे, सगै दमयन्तीवर्णनमिदम्, तत्र 'अस्यामिति । अह अस्या व्यासादिमुनीनामपि मोहं ऊहे तयामि । मुनयोऽप्येतामाश्रिय तिष्ठन्तीति । अथ च जितेन्द्रियाणामप्यस्यां पिपये मोह मदनविकार तयामि । तेऽप्यनया मोहिदा इत्यर्थः । यसाद महान् अतितापसो भूगुः कुचशैलशीली कुचपर्वतसेवी । मुनीनां पर्वताप्रयत्वाद पर्वतबुद्ध्या स्तनावाश्रयति । अथ च कामपीडितत्वादस्युच्चावेतत्कुचौ मयिनुमिच्छति । अथ च भूगुरतरः पर्वतात्रयेण वर्दते । कुवयोः पार्थमागोऽतटतुल्य इत्यर्थः । शीलमेव शैलं कुचयोः शैलं खभावं श्रीलयति अभ्यसति, परमद्यापि मुखमावो नायातीत्यर्थः । मुसं नारदमाहादयवीति नारदाहादि, न मारदाहरदि अनारदाहादि, एवंविधं न भवति, * तु नारदाहायेव । गानकलान्यासार्थ नारदो मुससेवां करोतीत्यर्थः । मदनपीडि. तरवाइन्मुर्ग चुम्बनाभिलापिगं नारदमानन्दयतीत्यर्थः । मुख नानाविधैत्रिंशसंख्या रदैदन्तैरानन्दयत्यतिसुन्दरमित्यर्थः । महाभारतस्य सर्गे निमाणे योग्यः समर्थो व्यासः श्रितापूरू येनैवंविधः । बदलीस्तम्मच्चायाबुया पतदूरू आनित्य तिष्ठति । अय च कामपीडितत्वादेतदूरू समालिङ्गय वर्वत इत्यर्थः । मददी मा दौप्तिर्यस्य । रतं सरलं तस्य सर्गों निर्माणं तत्र योग्यस्वतः फर्मधारय इति वा । एववियो भ्यासो मिस्वार धिनावूरू येन । अतिविशालावूरू इति भावः ।।' इति टीका. दि.मी .
। ९८ काव्यमाला। अन्यपदार्थस्य श्लेपेण धर्माश्रयताप्यसंपादनं यथा- 'अस्या दोहदशालिन्या मुखमापाण्डुरप्रभम् । सत्यं राजेति मन्येऽद्य यद्भुवं मोक्तुमिच्छति ।' अत्र मुखस्य चन्द्रत्वोत्प्रेक्षायां मुवं भोक्तुम मिलापो निमित्तम् , तद्वि- पयगतमपि नान्यपदार्थभूतचन्द्रगतम् । अतस्तन्न राजशब्दश्लेपेण चन्द्रस्य धर्माश्रयताप्यसंपादनेन धर्मस्य तदीयतानिर्वाहः । धर्मान्तरस्य निमित्तधर्मतादूप्यसंपादनं विषयस्य तद्धर्माश्रयताप्य- संपादनं चेत्युभयमेलनं यथा- 'आकृप्टिवेगविवलदुजगेन्द्रभोग- निर्माकपट्टपरिवेष्टनयाम्बुराशेः । मन्थन्यथाव्युपशमामिवाशु यस्य मन्दाकिनी चिरमचेष्टत पादमूले ।' अत्र मन्दाकिनीरूपविषयगतपयोधिमन्थन्यथाञ्युपशमरूपफलोत्प्रेक्षायां यन्निमित्रं चरणमूले वेष्टनं तत्वादास्यसंपादनं पर्यन्तवेष्टनस्य श्लेपेण विषयस्य यचाप्यसंपादनमपहुत्या वेति मिलितेनोमयेन विषयस्यान्यधर्मसंबन्ध- निर्वाहः । उपाचधर्मेण धर्मान्तराक्षेपस्तु दर्शित एव । तस्मादन्यधर्मसंघ- न्यादित्येतदपि सर्वोत्प्रेक्षानुगतमिति न फाप्यन्याप्तमिति सर्व समञ्जसम् । अलंकारसर्वस्वकृतेत्थमस्स विभागः प्रदर्शितः । वाच्या प्रतीयमाना चेति तावदुत्प्रेक्षा द्विविधा । इवादिप्रयोगे वाच्या, तदपयोगे प्रतीय- माना । तत्र याच्या जातिगुणक्रियाद्रव्याणाममटतानामध्यवसेयत्वेग चतुर्विधा । तेषां च प्रत्येकं भावाभावाभिमानपतया वैविध्येनाए- विषा । तेषु निगिचगुणनियारपत्वेन पोशमेदाः । निमियस्य पुनर- चित्रमीमांसा। . पादानानुपादानाभ्यां द्वात्रिंशत्प्रकाराः। तेषु पुनः प्रत्येकं स्वरूपहेतुफ- लोत्प्रेक्षारूपत्वेन पण्णवतिभेदाः। तत्र द्रव्यस्य स्वरूपोत्प्रेक्षणमेवेति हेतुफलोत्प्रेक्षास्ततोऽपि विपातनीयाः । ततः पोडशभेदा न्यूनाः । जात्यादीनामपि हेतुफलोत्प्रेक्षयोनिमित्तस्यानुपादानं न संभवति ततश्चतु- विंशतिर्मंदा न्यूनाः । तथा च स्वरूपोत्प्रेक्षावैकल्येन द्वात्रिंशद्भेदा, हेतु- फलोत्प्रेक्षे प्रत्येकं द्वादशभेदे, इति पञ्चपञ्चाशद्भेदा वाच्योत्प्रेक्षा । प्रती-भा यमानोत्प्रेक्षायामप्येवमेव गणना । तत्र स्वरूपोत्प्रेक्षायामपि निमित्तानु- पादानं न संभवतीति भेदः । ततश्च तत्र स्वरूपोत्प्रेक्षा पोडशभेदा, हेतुफलोत्प्रेक्षे पूर्ववद्वादशमेदे इति चत्वारिंशद्देदा गम्योत्प्रेक्षा । एव- भेव मिलित्वा पण्णवतिभेदोत्क्षेति । विद्यानाथेन पुनद्रव्यस्य हेतुफलोत्प्रेक्षणमप्यङ्गीकृत्यानुपाचनिमित्तेषु गम्यस्य निमित्वस्य गुणक्रियारूपत्वेन भेदगणनमजातपुत्रनामकरणकल्पं, न चारुत्वावहमिति तदनादृत्यान्यथा विभागो दर्शितः । वाच्या स्वरूपोत्प्रेक्षा चतुर्विंशतिभेदा, अनुपातनिमित्तायां गुणक्रियारूपभेदग- णनाभावेन भेदाष्टकहासात् । हेतुफलोत्प्रेक्षे प्रत्येकं पोडशविधे । द्रव्यो- प्रेक्षागोचराणां भावाभावाभिमानेन गुणक्रियानिमित्त्वेन चतुर्णा मेदा- नामाधिक्यात् । एवं पट्पञ्चाशद्भेदा वाच्योत्प्रेक्षा । प्रतीयमानायां पुनः स्वरूपोत्प्रेक्षापि पोडशप्रकारा । तत्र निमित्तानुपादानासंभवेन तन्निबन्ध- नमेदाष्टकहासात् । ततश्चाष्टचत्वारिंशद्भेदा , प्रतीयमानोत्प्रेक्षा । एवं मिलित्वा चतुरुतरशतभेदोक्षेति । अथोदाहरणानि दिमात्रेण प्रदर्श्यन्ते । उपातगुणनिमित्तजातिभा- वस्वरूपोत्प्रेक्षा यथा- 'स वः पायादिन्दुर्नवविसरताकोटिकुटिल: स्मरारेर्यो मूर्ति ज्वलनकपिशे माति निहितः ।
काव्यमाला। A सवन्मन्दाकिन्याः प्रतिदिवससिक्केन पयसा कपालेनोन्मुक्तः स्फटिकधवलेनाकुर इव ।' । अत्राङ्गुरशब्दस्य जातिशब्दत्वाज्जातिरुमेक्ष्यते । उपाचः कौटिल्य- गुणो निमित्तम् । एवमुपाचक्रियानिमित्तापि जातिभावस्वरूपोत्प्रेक्षोदाह- तंत्र्या । उपात्तक्रियानिमित्तगुणभावस्वरूपोत्प्रेक्षा यथा- 'निवेशितं यायकरागदीप्तये लमं तदीयाधरसीम्नि सिक्यकम् । नग रराज तत्रैव निरस्तुमुसुकं मधूनि निषूय सुधासर्मिणि ।' अत्रौत्सुक्यं गुण उत्प्रेक्ष्यते । उपाचा लगनक्रिया निमित्तम् । एव. मुपाचगुणनिमित्तापि गुणभावखरूपोत्प्रेक्षोदाहर्तव्या। उपात्तगुणनिमि- तक्रियाभावस्वरूपोत्प्रेक्षा यथा- 'अथ सांध्यसान्द्रकिरणारुणितं हरिहेतिदूति मिथुनं पततोह पृथगुत्पपात विरहार्तिगरदृदयसुसासगनुलिप्तमिव ।। अत्र रुधिरानुलेपनक्रियोत्प्रेक्ष्यते । उपाच आरुण्यगुणो निमित्तम् । एवमुपातक्रियानिमिचापि क्रियाभावखरूपोत्प्रेक्षोदाहर्तव्या । उपातक्रि- यानिमित्तद्रव्यभावखरूपोत्प्रेक्षा यथा-- 'एकैकमुद्गतगुणं च्युतदूषणं च हित्वान्यमन्यमुपगम्य परित्यजन्ती। एतां जगाद जगदर्चितपादपद्मा पद्मामिाच्युतमुजान्तरविच्युतां सा॥' अन पनाया एक्तया द्रन्यत्वाद्रव्यमुत्प्रेक्ष्यते । उपाचा उपगम्यपरि- त्यजनक्रिया निमिचम् । एपमुपारगुणनिमित्तद्रव्यमानस्थम्पो प्रेक्षोदार- F चित्रमीमांसा। र्तव्या। एवं भावाभिमानेपु जात्यादिपूपाचनिमित्ता अष्टौ मेदाः संपन्नाः। अनुपातनिमित्तजातभावखरूपोत्पेक्षा यथा- 'वर्षातपानावरणं चिराय काष्ठौघमालम्व्य समुक्षितेषु । यालेषु ताराकवकेप्विवैकं विकस्वरीभूतमवैमि चन्द्रम् !!" अत्र कवकजातिरुत्प्रेक्ष्यते । अनुपात्तो धावल्यवर्तुलत्वादिगुणो नि- मित्तम् । अनुपाचनिमित्तगुणभावस्वरूपोत्प्रेक्षा यथा- 'अयमाभाति राजेन्द्रो विजिताखिलशानवः । अनुजीविपु सर्वेषु प्रसाद इव मूर्तिमान् ॥' ना अत्र प्रसादो गुण उप्रेक्ष्यते । अनुपाचो बहुप्रदत्वमुखनिपेत्यत्वादि: निमित्तक्रियाभावोत्प्रेक्षा यथा- 'लिम्पतीव तमोऽङ्गानि वर्पतीवाञ्जनं नमः । असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता ।' अत्र क्रियोत्प्रेक्ष्यते । अनुपात्तं व्यापनादि निमित्तम् । अनुपाच- निमित्तद्रव्यभावोत्प्रेक्षा यथा- 'देहस्सा दर्पणे यस्य पश्यति प्रतिमामुमा । अन्यार्धाभ्यामिवोत्पन्नमर्धनारीश्वरान्तरम् ।' अवार्थान्तरोत्पन्नार्धनारीश्वरान्तरद्रव्यमुत्प्रेक्ष्यते । प्रतिबिम्बन्यत्यस्त- भागस्त्रीपुरुषाकारशालित्वमनुपाचं निमितम् । अर्धनारीश्वरान्तरोत्प्रेक्षा- यामपि वस्तुतोऽर्धनारीश्वरस्यैकत्वाद्रव्योत्प्रेक्षात्वमविरुद्धम् । यथा वा- 'विल्लास जलाशयोदरे कचन द्यौरनुबिम्बितेव या। परिखा फपटस्फुटस्फुरत्प्रतिनिम्बानवलम्बिताम्बुनि ।' मत्र देवपुरीद्रव्यमुत्प्रेक्ष्यते । सौभाग्यातिशयः कुण्डिनपुरीगतोऽनु-- १. 'नैकेयु वारालिकेषु' क. २. 'कलिकारवनाति:' क.
१०२ काव्यमाला। पात्रो निमित्तम् । एवं चतुर्विधानुपात्तिनिमित्तोदाहृता । अस्या निमित्तस्य गुणक्रियारूपमेदमालोच्याप्टविधत्वमूहनीयम् । एवं जात्याद्युत्प्रेक्षा भावाभिमानवत्यः पोडश संपन्नाः । अथ वा विद्यानाथोक्तप्रकारेणानुपात्तनिमित्तगुणक्रियाभेदो न चिन्त- नीयः । अनुपाते निमित्ते तद्व्यवस्थाया असंभवात् । यथा-'विरलास जलाशयोदरे' इत्यत्र निरतिशयसौभाग्यवत्त्वं गुणो निमित्तमित्यपि वक्तुं शक्यम् । निरतिशयसौभाग्यभागित्वं क्रियानिमित्तमित्यपि । अतो द्वाद- शैव भेदाः । अथाभावाभिमानवत्यः स्वरूपोत्प्रेक्षाः । उपात्तगुणनिमितजातिगुणक्रियाणामभावोत्प्रेक्षा यथा- 'अकुङ्कमक्षोदगिवागमेतदमायकारुण्यमिवाधरं ते । अनञ्जनोल्लेसगियाशियाम साभाविकैरेव गुणेरुदीक्षे ।।" अत्र कुलमरजोयायकरागाजनोल्लेखनरूपाणां जातिगुणफियाणाम- भावा उत्प्रेक्ष्यन्ते । उपाचाः स्वाभाविकगौरारुणनीलवर्णा निमितम् । एतासु क्रियानिमित्तमप्युदाहार्यम् । उपाक्रियानिमित्तद्रव्याभावोत्प्रेक्षा यथा- 'भुवि त्वन्मुखमालोक्य पूर्णचन्द्रमिवोदितम् । अचन्द्रामिव पश्यामि दिवं शोभाविवर्जनात् ।। यत्र चन्द्रस द्रव्यस्साभाव उत्प्रेक्ष्यते । उपाचा वर्जनक्रिया निमि- सम् । एवमुपाचगुणनिमित्तापि द्रव्याभावोत्प्रेक्षोदाहायर्या । एतादेव श्लोको 'इदं विशालाशि विभावयामि' 'पदपीममृतान्यसाम्' इति चतुर्थपादयोः पाटेऽनुपाचनिमियनात्यायभायोप्रेक्षोदाहरणे। एयगभावाभिमागपत्योऽपि स्वरुपोमेक्षाः पूर्वोकरीत्या पोटश द्वादश वेति द्वात्रिंशचतुर्थिगतिर्वा सरपोत्साभेदाः प्रदर्शितप्रायाः ।
चित्रमीमांसा । १०३ एतामु विपयिणः कचिचादात्म्येनाध्यवसायः । यथा-'स वः , पायादिन्दुः' इत्यत्र । कचित्तु संसर्गितया यथा-'निवेशितं यावकराग- दीप्तये' इत्यत्रौत्सुक्यस्येत्ययमपि भेदो बोद्धव्यः । अथ हेतूप्रेक्षा । उपात्तगुणनिमित्ता जातिहेतूप्रेक्षा यथा-- 'तनुरेणशावकदृशस्तनीयसी शनकैरवाप शरकाण्डपाण्डुताम् । उदरान्तरस्थितिमुपेयुपो हरेः करपाञ्चजन्यकिरणैरिवोदतः ।। अत्र किरणजातिः पाण्डिमानं प्रति हेतुत्वेनोत्प्रेक्ष्यते । स एव पाण्टिमा निमित्तम् । एवं क्रियानिमित्तापि जातिहेतूप्रेक्षोहनीया । क्रियानिमित्ता गुणहेतुत्प्रेक्षा यथा-- 'हतो बहुशैवलक्षतां धृतरुद्राक्षमधुरते खगः । म स नलम्स कर ययो पुनः सरसः कोकनदग्रमादिव ।' अब नलकरमाप्तिक्रियां प्रति कोकनप्रमो हेतुत्वेनोत्प्रेक्ष्यते । सेव प्राप्तिक्रिया निमित्तम् । उत्तरत्रापि हेतूत्प्रेक्षायां सर्वत्र फरमेव निमि- तम् । एवं गुणनिमिचापि गुणहेतूनेक्षा द्रष्टव्या । गुणनिमित्ता किन्या- हेतूहमेशा यथा- 'विवस्वता नायिपतेव मिश्राः स्वगोसहसेण समं जनानाम् । गायोऽपि नेत्रापरनामधेयातेनेहमान्ध्यं मनु नान्धकारः ।। अवान्थ्यगुणं प्रति नयनक्रिया हेतुत्वेनोत्प्रेक्ष्यते । एवं क्रियानिमि- चापि नियाहेतू यशोदादायां । नियानिमिया द्रव्यहेतूप्रेक्षा यथा- 'पदयं परिपूतमेव नित्यं विदुपसास विशुद्धकर्ममानः । विदागगेय विधमर्नेः प्रवदन्त्या यसनोऽन्तरपिंमान । अत्र परनशियां प्रति गमान्य हेतुन्येनोरमेश्यते । एवं गुणनिमि- पानि हेतुशोदादार्या । इत्थं भागभिमानपन्यो हेतूभेटा उदाताः । १.क.
१०४
काव्यमाला ।
अथाभावाभिमानवत्यः।
'रात्री वेर्दिवा चेन्दोरभावादिव स प्रमुः।
भूमी प्रतापयशसी सृष्टवान्सततोत्थिते ।।"
'तस्मिन्नस्तंगते मानौ विघुस्तस्य पदे कियान् ।
इत्यनादरतो नूनं मीलत्यम्बुरुहाकरः ॥
'वीणावादनसंरम्भाचकम्पे दक्षिणः स्तनः ।
अदृष्ट्वेतरं तस्यास्तम्भाभोगतिरोहितम् ।।
अनावश्लोके रविचन्द्रयोर्जातिद्रव्ययोरभावी हेतुत्वेनोत्प्रेक्ष्येते । द्वि-
तीयतृतीयश्लोकयोरादरदर्शनयोर्गुणक्रिययोरभावौ । सृष्टिमीलनकम्पकि-
यास्तु निमित्तानि । एवं गुणनिमित्ता अप्यभावहेतूपेक्षा उदाहार्याः ।
एवं पोडशभेदा हेतूत्प्रेक्षा दर्शिता ।
अय फलोत्प्रेक्षाः-
'सौधेषु यत्र मुखमासु मृगेक्षणानां
ज्योत्स्नापहासचतुरामु विसृत्वरीषु ।
चन्द्रस्तदर्थमिव रात्रिपु यंत्रमीति
सुर्यन्करमसरणान्यधिजालवर्गम् ।।
'तव निर्वर्ण्य यद्वर्ण वर्ण वाय ताशे ।
त्वकोशगेहानिर्गम्य तीर्थपु यसति भुवम् ॥"
चम्मितानां परिवर्तनाय पुरातनानामिव वाहनानाम् ।
उत्पधिगूगी तुरगोठमानां दिशि प्रतसे रविरुचरस्पाम् ।।
१. पोलिस. १. लालाम्पाभोग' ए. ३. मा.
पौरो महाधम पर
चित्रमीमांसा
१०५
'दुग्धार्णवसहस्राय कैलासाचलकोटये ।
नूनं प्रतापरुद्रेण यशो दिक्षु प्रसारितम् ॥'
एषु लोकेषु कमेण मुखप्रमागौरवर्णपरिवर्तनदुग्धार्णवकैलासरूपाणि
जातिगुणक्रियाद्रव्याणि फलस्वेनोत्प्रेक्ष्यन्ते । भ्रमणतीर्थवासप्रस्थानप्रसा-
रणक्रिया निमित्तानि । एवं गुणनिमित्ता अप्युदाहाः ।
अभावाभिमानवत्यः फलोत्प्रेक्षा यथा-
त्वदाननेन सादृश्यं प्राप्तुकामो निशाकरः ।
कलङ्कपकामावाय नूनं मजति सागरे ॥
'अरण्यवासाजितवान्धवासु मृगीप्ववैरार्थमिवाशरण्याः ।
कलिन्ददेशेश्वरवैरिनार्यः पराङ्मुखा लोचनविप्रमेषु ॥'
'हेमाद्रिकुजेषु विहारभाजः स्निग्धाहुनाफल्पितचन्दकार्थान् ।
श्रीवीररदस्य यशोविलारशन्गायन्त्यसंस्मष्टुमियान्धकारम् ।।'
'वीररद्रनरेन्द्रस्य जयप्रस्थानसंभवम् ।
रजापिहितदिग्गोलं निराकाशमिवोत्थितम् ॥
एषु श्लोकेषु पावरस्पर्शनाकाशानाममावाः फलत्वेनोत्प्रेक्ष्यन्ते । तेषु
परामुखत्वमेको गुणः । अन्याः क्रियाः । इत्यं गुणक्रियानिमिचमेदा
उदाहार्याः । एवं फलोत्प्रेक्षाः पोडश दर्शिताः । इति वाच्योमेशावर्गः ।
अथ गम्योत्प्रेक्षा दिमात्रेणोदाहियते---
'नभसि महसां ध्वान्तध्याचप्रमापणपत्रिणा-
मिह विहरणे. श्येनंपातां रखेरवलोकयन् ।
शमविशसनत्रासादाशामगाधरमां शशी
तदधिगमनाचारापारावतैरुदडीयत "
मत्र सूर्येण विवष्टानां ध्वान्तराफमनापश्येनरूपाणां रिणानां
काव्यमाला। विहरणेन निमितेन सूर्यस्य श्येनपातवती मृगयाविहारक्रियोत्प्रेक्ष्यत इति क्रियास्वरूपोत्प्रेक्षा तावदेका । तस्माच्छशिनस्वासः तस्य दिगन्तरगमनं प्रति हेतुत्वेनोत्प्रेक्ष्यत इति हेतूत्प्रेक्षान्या । ततस्तदधिगमस्तारापारावतानां मुग्धत्वेनाध्यवसितः तत्तत्स्थानेऽस्फुरणं प्रति हेतुत्वेनोत्प्रेक्ष्यत इत्यपरा च हेतूत्प्रेक्षा । सर्वाश्चैता गम्याः। इवाद्यभावात् । एवमन्या अपि स्वय मेव बोध्याः। नूनमादिशब्दविरहेण पूर्वोक्तप्रकाराणामुन्नेतुं शक्यत्वात् । प्रागुदाहृतानामेव श्लोकानां नूनमादिशब्दाविधानेन गम्योत्प्रेक्षोदाहरण- त्वसंभवाच गम्योत्प्रेक्षाः पृथक्साकल्येन नोदाहृताः । इदं तु चिन्त्यते । गम्योत्प्रेक्षामु जातिव्यस्वरूपोत्प्रेक्षे संभवतो नवेति । संभवत इति पक्षे- 'रुचयोऽस्तमितस्य भास्वतः स्खलिता यत्र निराश्रयाः खलु । अनुसायमभुर्विलेपनापणकाश्मीरजपण्यवीथयः ॥' 'परिखावलयच्छलेन या न परेषां ग्रहणस्य गोचरः । फणिभापितमाप्यफपिका विषमा कुण्डलनामवापिता ।।' इत्यादिनोदाहरणेन माध्यम् । अभिमतं च तथा केपांचित् । अलं- कारसर्वस्वकारस्य तु न संभवत इति पक्षः । एतदभिप्रायेणेव तेनोकं. गम्योत्प्रेक्षाविमागे 'प्रायश्चात्र स्वरूपोत्पेक्षा न संभवति' इति । फस्त- नयोस्तस्य (पोऽलंकारः रूपकमेव । अत एव- 'पीयूपेपमृतिर्नु या मसभुजां दानं तमोलुनये वर्गमाविमनस्यकोकवदनसस्ता मृडालीलता । द्विर्मावः परकासुफस्स किमपि प्राणेश्वरी सागसा- मामातन्तुरदयति प्रतिपदि प्रालेयभानोन्ननुः ।।
चित्रमीमांसा। १०७ इत्यत्र मालारूपकमुदाहरता 'स्वर्गङ्गा विमनस्का' इत्यादिप्वपि रूपक- मेवोररीकृतम् । तस्माजातिद्रव्योत्प्रेक्षे परिहत्यैव गम्योत्प्रेक्षावर्गः परि- गणनीयः । इदं चान्यद्वोद्धव्यम् । धयुत्प्रेक्षासु विपयिविषयानुगतो धर्मों धर्मोत्प्रेक्षासु विषयश्रयविपयानुगतो धर्मश्च निमित्तम् । तेन 'वाह या तनुलता' इत्यादी वैमल्यं निमित्तमित्यादिपक्षो न युक्तः । तस्य तादात्म्यसंभावनोपयुक्तप्रतिबिम्बघटकस्य तनुधर्मस्य विषयधर्मत्वाभावात्। 'यत्रान्यधर्मसंबन्धात्' इत्यादिलक्षणं बदद्भिः सर्वैरपि विपयधर्मस्यैव निमित्त्वस्य व्यवहृतत्वादित्यलमतिविस्तरेण । अन ब्रूमः- 'विपयिण उत्प्रेक्षायां जातिगुणाद्यात्मना विभागविधा । यादर्शि नैव शोभा तयोपमायामियोपमेयस्य ।। तदभावेऽलंकाराः संभवमात्रेण न विभागम् । अर्हन्तीतरथास्या विपयोऽप्येवं विभक्तव्यः । धर्मस्यापि विमागो गुणक्रियात्मा न चारुताहेतुः । उपमायामिव सोऽपि न्यूनतदभावयोरसंकलनात् ।। मनसि सन्तमिव प्रियमीक्षितुं नयनयोः स्पृहयान्तरुपेतयोः । ग्रहणशक्तिरमदिदमीययोरपि न संमुम्बवास्तुनि वस्तुनि । वतंसनीलाम्बुरुहेण किं रमा विलोकमाने विमनीपमूवतुः । अपि श्रुती दर्शनसक्तचेतसां न तेन ते गुचवतुर्मगीहमाम् ।। इत्यादिषु पश्यामो गुणक्रियामावयोरपि व्यक्तम् । . उज्वलमावनिवन्धनमुन्प्रेक्षायां निमित्तत्यम् ।।" मा बाघे उदाहरणे नयनयोदयगतप्रियमीक्षणायान्तःप्रविष्टरयो- काव्यमाला। . प्रेक्षणायां बाह्यवस्तुग्रहणशक्त्यभावो निमित्तम् । द्वितीये श्रोत्रेन्द्रिय- गतविलोकनैकाग्रत्वोत्प्रेक्षायां श्रवणक्रियाभावो निमित्तम् । एवम्- 'वीरासनानयुषामृषीणाममी समध्यासितवेदिमध्याः। निवातनिष्कम्पतया विभान्ति योगाधिरूढा इव शाखिनोऽपि ॥' इत्यादीन्यभावनिमित्त्वे भूयास्युदाहरणानि । 'अपि च समुच्चयभेदः परिगणनीयो निमिचेषु । भावो भावामावौ समुचितावपि निमित्ततां भजतः ॥' 'अवैमि हंसावलयो वलक्षास्त्वत्कीर्तिमूर्तेश्चपलाः पुलाकाः । उड्डीय युक्तं पतिताः सवन्तीवेशन्तपूरं परितः शवन्ते ।।" 'उडुपरिपदः किं नाहन्ती निशः किमनौचिती पतिरिह न यदृष्टस्ताभ्यां गणेयरुचां गणः । स्फुटमुडुपतेराश्मं वक्षः स्फुरन्मलिनात्मन- श्छविमदनयोविच्छेदेऽपि द्रुतं वत न द्रुतम् ।' 'एवमादिपु वहीपु निहोतुं केन शक्यते । समुचितनिमित्तत्वमुत्मेशासु निरीक्षितम् ॥' आधे उदाहरणे हंसावलीनां कीर्तिपुलाकत्वोत्प्रेक्षायां धावल्यगुणो जलोपरि प्लयनक्रिया चेत्युभयं निमिचम् । द्वितीये उडुपतिवक्षसोऽश्म- विकारत्योटोक्षायाममच्छविरूपो भायो द्रुतत्वाभावश्चेत्युमयं निमि- चम् । किं च- 'उत्प्रेक्षायां निमित्तत्वं यनातिद्रव्ययोरपि । तेनापि विकलां विनो निमित्तगणनामिमाम् ॥' १. पेशन्तमपसरः, तत्पूरविरवि गमुळ, चित्रमीमांसा। १०९ 'द्रोणः स तत्र वितरिप्यति भाग्यलभ्य- सौभाग्यकार्मणमयीमुपदां गिरिस्ते । तडीपदीप इव दीप्तिमिरोषधीनां चूडामिलजलदकज्जलदर्शनीयः ।। अत्र द्रोणाचलस्य दीपत्वोत्प्रेक्षायां तत्परूढौपधिवृक्षदीपस्योपरि स्थितं जलदकज्जलं च निमित्तमिति जातेनिमिचत्वं दृष्टम् । 'निशासु मूर्ध्नि स्फुरता यरसौधो राजतीन्दुना । श्रीकण्ठो भक्तरक्षार्थ संनिधानं भजन्निव ॥' इत्यत्र बाणासुरसौधस्य शिवस्पोत्प्रेक्षायां मूर्ध्नि स्फुरन्निन्दुनिमित्तम् । एवम्-'भास्वतालंकारेण, श्वेतरोचिपा मितेन, लोहितेनाधरेण, सौम्येन दर्शनेन, गुरुणा नितम्वेन, सितेन हारेण, शनैश्चरेण पादेन, विकचेन लोचनोत्पलेन, त्रिभुवनविजयकेतुना रूपेण, ग्रहमयावे'त्यत्र वासवदत्तायाः सकलग्रहमयत्योत्मेक्षायां श्लेपेण तत्तद्हरूपापन्नालंकारा- दयो निमित्तमिति जातिक्रियागंणानां समुचितानां निमित्तत्वं दृष्टम् । न चोदाहृतेषु दीत्यादिसंबन्धो निमित्तं स च सर्वो गुण एवेति वाच्यम् । तथा सति ईदृक्षा क्षामतां गतौ' इत्यादावपि गमनादिक्रियासंबन्ध एव निमिरमिति क्रियाया एव निमित्चत्वपसनात् । न च तथापि 'मास्यता- लंकारेण' इत्यादी श्लेपेण सूर्यरूपताधापना अलंकारादयो निमिचं न त्वविशिष्टा जातिव्यं वेति वाच्यम् । तथासति 'कपालेनोन्मुक्तः स्फटि- कघपलेनादुर इव' इत्यादायपि कपालोन्मुक्तातुरत्वादिविशिष्टमेवोत्प्रेक्ष- गीयं न त्वविशिष्टं जात्यादिकमिति विपरिणोऽपि जात्यादिरूपेण विमा- गस्पासामजस्सप्रसनात् । तनाद्विपयिण इस निमिचस्यापि जान्यादिरू- १. "दर करा. ३. समुदित 'ग काव्यमाला। पेण चतुर्विधतया पुनः प्रत्येकं भावाभावाभ्यामष्टविधतया च विभागः कर्तव्य इति न्यून इवायं विभागः। किं च यद्धेतूत्प्रेक्षायामनुपादानं निमित्तस्य कापि न संभव प्रति प्रतिश्रुतं तदपि नो चारु । जगी 'ममा सुधाया किमु तन्मुखेन्दोर्लग्ना स्थिता तत्कुचयोः किमन्तः । चिरेण तन्मध्यममुञ्चतास्य दृष्टिः ऋशीयः स्खलनाद्भिया नु ।' 'इह हेताबुस्प्रेक्ष्ये मज्जनलगने निमित्तमनुपात्तम् । तत्कार्य दृष्टिगतं चिरेण यन्मुखकुचत्यजनम् ॥' स्सादेतत् । इह मजनलगनोत्प्रेक्षयोश्चिरेण मुखकुचत्यागावनुपाती निमिते, तयोश्च न मन्जनलगने हेतुत्वयोम्ये इति । सत्यम् । तथापि हेतूत्प्रेक्षैव । न हि हेतूभवनक्षमस्योत्प्रेक्षैव हेतूस्प्रेक्षा, कि तु हेतुत्वेनो- प्रेक्षा । यथा-'सेपा स्थली यत्र विचिन्वता त्वाम्' इत्यत्र । अत्र हि पञ्चमी हेतुत्वप्रतिपादिका । तथा- 'कपोलफलकावस्याः कष्ट भूत्वा तथाविधी अपश्यन्ताविवान्योन्यमीक्षा क्षामता गतौ ।' इत्यत्र क्षामतागमनं प्रति परस्परादर्शनस्य हेतुल्योरप्रेक्षायां शतृप्रत्ययो हेतुत्वप्रतिपादकः। 'मदनतापमरेण विदीर्य नो यदुदपाति हदा दमनसमुः । निविडपीनकुचद्वययप्रणा तमपराधमधात्पतिवनती ।। इत्पन हृदयस्य मदनतापेन स्फुटितत्वोत्पतनाभाये कुचदययप्रगाया हेतुत्वोन्प्रेक्षायामुत्पतनप्रतिवन्धकत्यपरः प्रतिवधतीशन्दः फरतोऽनुत्प- तनहेतुत्वप्रतिपादकः । एतादृशेषु च फलस निमित्स्योपादानं नियत- मेव । अन्यथा पयम्यादीनामन्वयसंघटनाभावात् । या तुरम्पतिपा- दफः गन्दो नाम्नि तत्र देतुमननक्षमस्यापि स्वरूपोत्क्षय । -- चिनमीमांसा । १११ अत एवालंकारसर्वस्वकृता- 'प्राप्यामिपेमेतस्मिन्प्रतितिष्ठासति द्विपाम् । ।' चकम्पे लोक्यमानार्थभयविलितेच भूः ॥' इत्यत्र विलितत्वस्योत्प्रेक्ष्यस्य हेतुत्वप्रतिपादकशब्दरहितस्य कम्प प्रति हेतुभवनक्षमत्वेऽपि स्वरूपोत्प्रेक्षोदाहृतेति चेत् । मैवम् । एवं हि-- 'स्मरसि स्मर मेखलागुणैरुत गोत्रस्खलितेषु बन्धनम् । च्युतकेसरदूपितेक्षणान्यवतंसोत्पलताडनानि च ॥ इत्यत्र हेतूप्रेक्षा लक्ष्या न स्यात् । स्मरणगतहेतुत्वप्रतिपादकशब्दा- भावात् । न चेष्टापत्ति.। 'कृतवानसि विप्रियं न मे प्रतिकूलं न च ते मया कृतम् । किमकारणमेव दर्शनं विलपन्त्या रयते न दीयते ॥त्रतमेर इत्युक्त्यनन्तरं प्रवृत्तस्यास्य श्लोकस्य, अथ वा मत्पूर्वकृतापराधस्मरणे- नैव दर्शनं न दीयते किमिति हेतूत्प्रेक्षापरत्व एव सामञ्जस्यात् । यदि तु हेतुत्वप्रतिपादकशब्दाभावेऽपि पूर्वापरानुगुण्येनापि हेतूत्प्रेक्षा भवेत् वहींहापि तृतीयोत्प्रेक्षासमभिव्याहारात्तस्यां चिरेण मध्यत्यजने शब्दो- मात्ते म्खलनभयस्यैवाद्योत्प्रेक्षयोरपि निमित्ततया गम्यमाने चिरान्मुखकुच- त्यजने मजनस्य लगनस्य च हेतुत्वेनोत्प्रेक्षणमित्येव युक्तम् । यन्नापि हि फले फलत्वप्रतिपादकशब्दस्तत्राप्यौचित्येन फलोत्प्रेक्षामवीर्य हेतूत्प्रेक्षा- श्रीकार्या दृश्यते । यथा-- 'हृत्तस्य यन्मन्त्रयते रहस्त्वां तद्व्यक्तमामन्त्रयते मुखं यत् । तद्वैरिपुष्पायुधमित्रचन्द्रसख्यौचिती सा खलु तन्मुखस्य ।' १. 'वा' क. २. इत्युक्त्वानन्तरम्' क.
११२ काव्यमाला। अत्र हि हृदयकृतरहस्यमन्त्रणोद्भेदनप्रत्यवमर्शकेन तच्छन्देन सत्यौ- चितीशब्दस्य कर्मार्थफप्यचन्तस्य सामानाधिकरण्याच्छन्दतो रहस्यो- वेदनस्य मुखगतहृदयवैरिमन्मथसुहृचन्द्रसख्यकार्यत्वं प्रतीयते । तथापि तत्र सख्यस्य रहस्योद्भेदन प्रति हेतुत्वेनैवोत्प्रेक्षा, न तु हरस्योद्भेदनस्य सख्यफलत्वेन । रहस्योद्भेदनं फलमुद्दिश्य सख्यं कृतमित्युत्प्रेक्षाया असा- मञ्जस्यात् । हेतुत्वमात्रेण हेतूत्प्रेक्षाया इव तदुद्देशं विना कार्यत्वमात्रेण फलोत्प्रेक्षाया अनिर्वाहात् । एवं यत्र हेतौ हेतुत्वप्रतिपादकः शब्दस्तत्रापि कचिदौचित्येन हेतूत्प्रेक्षामवीर्य फलोत्प्रेक्षाङ्गीकार्यो दृश्यते । यथा- 'स्मराशुगीभूय विदर्भसुभ्रूवक्षो यदक्षोभि खलु प्रसूनैः । सजं सृजन्त्या तदशोसिं तेषु यत्रैकया सूचिशिखां निखाय ॥" अत्र निखनने पूर्वकालत्वरूपकारणत्वप्रतिपादकत्वाप्रत्ययसझावेऽपि न तरिशोधनं प्रति हेतुत्वेनोत्प्रेक्ष्यं कि तु वैरशोधनार्थ निखननमिति वैरशोधनमेव फलत्वेनोत्प्रेक्ष्यम् । सिद्धासिद्धयोरपि सिद्धस्योत्प्रेक्षणीय- त्वात् । इह तदुद्देशोत्प्रेक्षणसभवाच । यथा वा- 'अस्यैव सर्गाय भवत्करस्य सरोजसृष्टिर्मम हस्तलेखः । इत्याह पाता हरिणेक्षणायां कि हस्तलेसीकृतया तयास्याम् ॥" अत्र हस्तलेसीकृतया सरोजसृष्ट्येति करणविभक्तिसद्धावेऽपि न सा विधातृकर्तृकसरोजसृष्टिगतहस्तलेख्यत्वप्रकाशनं प्रति हेतुत्वेनोमेश्यते, किं तु तत्प्रकाशनार्थ सरोजसृष्टिहस्तलेखफरणमिति तत्प्रकाशनमेन फलत्वेनो. प्रेक्ष्यम् । कि यहुना यत्र हेतुत्वप्रतिपादकः शब्दम्तमैन फलत्यमौचि- स्यैन धचिदङ्गीकार्य दृश्यते । यथा- 'सनावालोक्य तन्वायाः शिरः फम्पयते युगा। तयोरन्तरनिर्ममा दृष्टिमुत्पादयन्निव ।।" १. सरेपो नाम रविरवर्णलेरासिय पूर्वमन्यामदाय वश्यमनम्।
चित्रमीमांसा। ११३ अत्र शतुहेतौ विधानेऽपि फलस्याप्युद्देश्यतया कथंचिद्धेतुत्वमित्युप- पाद्य फलोत्प्रेक्षागीकरणीया । एवं च फलत्वादिप्रतिपादनमप्यनादृत्य हेतूत्प्रेक्षादिकमौचित्येनाङ्गीकार्य तदा किमु वक्तव्यं विरोधिशब्दाभावे औचित्यानुशरणं कार्यमिति । एवमनया दिशान्यत्रापि निमित्तानुपादानं संभवदूहनीयम् । अपि च-- 'यथोपाचनिमित्तमनुपातनिमित्तता । प्रत्येकं वर्तते तद्वत्समुच्चित्यापि दृश्यते ।' यथा--- 'मुनिद्रुमः कोरकितोऽसितद्युतिर्वनेऽमुनामन्यत सिंहिकासुतः । तमिस्रपक्षत्रुटिकूटमक्षितं कलाकलापं किल वैधवं वमन् ।' अत्र कोरकनिर्गमनविशिष्टस्य मुनिद्रुमस्य विधुकलाकलापवमन- विशिष्टराहुरूपत्वे उत्प्रेक्ष्यमाणे विशिष्योत्प्रेक्षानिमित्तमसितवर्णत्वमुपा- तम्, विशेषणोत्प्रेक्षानिमित्तं तु कोरकविधुकलासाधर्मादिरूपं नोपा- तम् । यथा वा- त्वत्प्राङ्गणे सुन्दर पाण्ड्यदेव मतङ्गजाः शृङ्खलिनो विभान्ति । आवासदानादरिभूपतीनामाशान्तशैला इव सापराधाः ॥' अत्र विशेषणभूतसापराधत्वोत्प्रेक्षानिमित्तं शृङ्खलितत्वमुपातम् , वि. शेयशैलरूपत्वोत्प्रेक्षानिमिचमोन्नत्यादिकं नोपात्तम् । यथा वा- 'अजस्त्रभूमीतटकुटनोस्थितैरुपास्यमानं चरणेपु रेणुमिः । श्यप्रकर्षाध्ययनार्थमागतैर्जनस्य चेतोभिरिवाणिमाकितैः ।। अत्र विशेष्यभूतचेतोरूपत्वोत्प्रेक्षायामणिमाक्तितैरिति निमिचमुपा- तम् । अध्ययनार्थमागतेरिति तद्विशेषणोत्प्रेक्षायामपि चरणोपासनारूपं • निमित्तमुपाचम् । रयप्रकर्पत्यध्ययनविशेषणे निमित्तं चेतसां वर्णनीया- ११४ काव्यमाला। दवादपकृष्टरयत्वं नोपात्तम् । एवमन्यत्रापि निमित्तोपादानानुपादानसमु- चये उदाहर्तव्यम् । तस्मान्यूनः सतृणाभ्यवहारश्चायं विभागः । अतो- ऽत्र विषयिणो जात्यादिरूपेणाप्टधाविभागम्, धर्मस्य गुणक्रियारूपेण विभागं चापहाय विभागान्तरलभ्या यावन्तो भेदास्तावन्त एव चम- त्कारिणः। खरूपहेतुफलोत्प्रेक्षासु तु विधान्तरेणाप्यवान्तरमेदाः संभवन्ति । यथा--स्वरूपोत्प्रेक्षा द्विविधा, अविशिष्टोत्प्रेक्षा विशिष्टोत्प्रेक्षा च । यत्र विपयिणो विशेषणमुपात्तमपि नोप्रेक्षणीयमवगम्यते तद्विपयरूपस्य तन्नि- मिचरूपस्य वा विपयविशेषणस्याभावात् किं तु तद्विशेषणं विपयिणि विधान्तरेणोपयुज्यते साडविशिष्टोत्प्रेक्षा । यत्र तु विपयिणो विशेषण- मप्युत्प्रेक्षणीयमवगम्यते तद्विपयरूपस्य तन्निमितरूपस्य वा विषयविशे- पणस्योपादानात्सा विशिष्टोत्प्रेक्षा। तत्राद्या यथा-- 'रतेहीतानुनयेन कामं प्रत्यर्पितखानमिवेश्वरेण । काकुत्स्थमालोकयतां नृपाणां मनो वमूवेन्दुमतिनिराशम् ॥' अन मदनरूपयोत्प्रेक्षायां मदनाकृतिशालित्वमस्ति निमिचम् । अतस्तावदुत्प्रेक्षणीयमवगम्यते तत्मत्यर्पणं रत्यनुनयप्रसन्नेन परमेश्वरेण ऋतमिति विशेषणांशस्तु नोत्प्रेक्षणीयोऽवगम्यते । तदंशे विषयस्य वाच्यस्य गम्यस्य वा निमित्स्य पालामात् । किं तु परमेघरदग्धस्य मदनदेहस्सासुरदग्धस्य कचदेहस्य शुक्र इव न कश्चिदन्यः प्रत्यर्पणं फतुं शकोतीति विपयिणि प्रत्यर्पणोपपादकतया तद्विशेषणमुपयुज्यते इत्य- विशिष्टोत्प्रेक्षेयम् । विशिष्टोत्प्रेक्षायां 'मुनिद्रुमः फोरकितोऽसितद्युतिः' 'वत्मानणे चित्रमीमांसा। ११५ सुन्दर पाण्ड्यदेव' इत्याधुदाहरणे विपयोपादानाद्विपयिविशेपणस्योत्से- क्षतावगम्यते । द्वितीये निमित्तोपादाना हेतुफलोत्प्रेक्षे त्यसिद्धयोः सिद्ध- योर्वा हेतुफलमावेनोत्प्रेक्षणीयतया प्रत्येकं द्विविधे । सैषा स्थली यत्र विचिन्वता त्वाम्' 'चोलस्य यद्भीतिपलायितस्य' इत्यादिषु नूपुरकण्ट- किद्रुमादावसिद्धयोविश्लेषदुःखललाटलिपिदर्शनादिकयोहेतुफलाभावेनो- प्रेक्षणीयता। 'आलोहिततलावेतौ क्षितौ विक्षेपणादिव । वर्णयेम कथं तन्व्याः पादौ पल्लवकोमलौं ।' 'पूरं विधुर्वर्धयितुं पयोधेः शक्रेयमेणाङ्कमणि क्रियन्ति । पयासि दोग्धि प्रियविप्रयोगात्सशोककोकीनयने कियन्ति ।' इत्यादिपु पादचन्द्रादौ स्वतःसिद्धयोरेव विक्षेपपयोवर्धनादिकयोहेतुफला- भावनोत्प्रेक्षणीयता । प्रकारान्तरेणापि कतिचिदस्या भेदान्समासोक्तिप्र- करणे दर्शयिष्यामः ---- यत्तु सर्वस्वकृता वैचित्र्यान्तरमस्या दर्शितम् । एषा क्वचिद्धर्मविषये क्लिष्टा, कचिच्छलादिशब्देन सापहवा, कचित्पदार्थान्वयवेलायां साह- श्याभिधानादुपमाकान्ताप्युपमावाक्यार्थतापर्यसामर्थ्याभिमातृव्यापारी- चित्यक्रमेणोत्मेक्षायां पर्यवस्थतीत्युपमोपक्रमा चेति तत्र धर्मविषये श्लिष्टत्वं किमित्युपन्यस्तम् । कि धर्मस्य निमिचानुगामितयेव श्वेपेणापि निर्वावत इति, कि या धर्माशेयु शुद्धतेव श्लेषणालंकृतापि दृश्यत इति । आये उपमायां साधारणधर्मस्यानुगामित्वादयो यावन्तो भेदाः साधार- प्यनिर्वाहकास्ते सर्वेऽप्युत्प्रेक्षायां धर्मस्य निमित्तानिर्वाहकाः संभवन्तीति १. अभिमन्त खन्ग.
काव्यमाला।
।
न्यूनो विभागः । तथा हि 'बालेन्दुवक्राण्यविकाशभावात्' इत्यादी
तावदनुगामित्र स्पष्टम् । तथा-
'व्यराजत सखे तन्न्या वक्र वलितकन्धरम् ।
लावण्योघजलावृत्तनालदण्डमिवाम्बुजम् ।।'
इत्यत्र वस्तुप्रतिवस्तुभावः । बिम्बप्रतिबिम्बमावादयस्तु प्रागेवोदाहताः ।
द्वितीये निमित्ताशेन श्लेषण वालंकारान्तरेणाप्यलकृतता दृश्यते इति
न्यूनो विभागः । तथा हि 'अङ्गुलीभिरिख केशसचयम्' इति निमित्तांश
उपमालंकारस्पष्ट ।
'उदरं परिमाति मुष्टिना कुतुकी कोऽपि दमस्वसुः किल ।
घृततच्चतुरङ्गुलीव यद्वलिमिर्माति सहेमकाधिभिः ॥'
इत्यत्रोत्प्रेक्षा । अत्र दमयन्त्युदरस्म केनचित्कुतुकिना परिमीयमाणत्वो.
त्प्रेक्षायां काञ्चीसहितायु बलीपु तदीयाङ्गुलियोत्प्रेक्षारव्यमुदरग
तदीयाङ्गुलिचतुष्टयधारण निमित्तम् ।
'अजसमारोहसि दूरदीर्घा संकल्पसोपानतति तदीयाम् ।
श्वासान्स वर्षस्यधिकं पुनर्यध्यानादिव त्वन्मयतामवाप्य ॥'
इत्यनासंगतिः । यतोऽत्र नरस्य दमयन्तीरूपतावाप्त्युत्प्रेक्षायां दमयन्ती-
क्र्तृकेण सोपानारोहणेन नलस्य श्वासवर्पण निमित्तम् ।
'प्रतीप पैरिव किं ततो भिया विरुद्धधभैरपि भेत्तृतोज्झिता ।
अमिनजिन्मिन्नजिदोजसा स यद्विचारदृक्चारहगप्यवर्तत ।।'
इत्या विरोधाभास नहि विरुद्धधर्मगतस्याश्रयमेदकत्वत्यागोत्प्रेक्षायां
विरुद्धतयावभासमानधर्माणां नले सत्वासो निमिचम् ।
१'उपेस' ख.
चिनमीमांसा। ११७ 'ध्रुवमधीतवतीयमधीरता दयितदूतपतद्गतिवेगतः । धृतिविरोधकरी द्यणुकोदरी तदुदितः स हि यो यदनन्तरः ।।' इत्यत्रार्थान्तरन्यासः । यद्यप्यत्र दमयन्तीगतस्य चापलस्य नलदूतहंसपक्ष- वेगो हेतुत्वेनोत्प्रेक्ष्यते, तथापि तत्रोत्प्रेक्षायामध्ययनफलमात्रं न निमित्त किं त्वन्यवेगात्कथमन्यत्र चापलमिति शङ्कावारणाय निबद्धेन तदुदितः स हि यो यदनन्तर.' इत्यर्थान्तरन्यासेनोपस्कृतम् । एवम्- 'गौरीव पत्या सुभगा कदाचित्कर्तेयमप्यर्धतनूसमस्याम् । इतीव मध्ये विदधे विधाता रोमावलीमेचकसूत्रमस्याम् ॥' इत्यत्र निमित्ताशे रूपकमित्यायूहनीयम् । तस्मादुभयथापि तत्र लिट- त्वमात्रकीर्तनं न्यूनमितरेषामप्युपलक्षण द्रष्टव्यम् । यत्तु सापहवत्वे- 'गतासु तीरं तिमिघट्टनेन ससभ्रमं पौरविलासिनीषु । यत्रोल्लसत्फेनलवच्छलेन मुक्ताहासेव विमाति शिप्रा ।' इति खरूपोत्प्रेक्षायामुदाहृतं तदपि हेतुफलोत्प्रेक्षयोरपि सापहवत्वे उप- लक्षणं बोद्धव्यम् । तत्र सापहवहेतूप्रेक्षायाम्- 'मुग्ध. स मोहात्सुभगातदेहाद्ददद्भवद्भूरचनाय चापम् । म घूभङ्गजेयस्तव मन्मनोभूरनेन रूपेण यदा तदासीत् ॥' अत्र मदनगते मुग्धशब्दवाच्यत्वे वस्तुतोऽहेतोसौन्दर्यस्य हेतुत्व- मपद्दुत्य नलपूरचनाय स्वचापादानप्रयुक्तस्य मौढ्यस्य हेतुत्वमुत्प्रेक्षितम् । सापहवफलोत्प्रेक्षा यथा- 'रवितप्तो गजः पद्मास्तगृह्यान्बाधितुं ध्रुवम् । सरो विशति न सातुं गजनानं हि निष्फलम् ।।' अत्र गजस्य सरःप्रवेशं प्रति वस्तुतः फलस्य स्नानस्य फलत्वमप त्य ११८ काव्यमाला। .. -- पद्मवाधनमन फलत्वेनोत्प्रेक्षितम् । न च स्वरूपोत्प्रेक्षाया वास्तवविषय- खरूपापहव एव विच्छित्तिविशेषो न तु फलोत्प्रेक्षयोः प्रसिद्धहेतुफला- पब इत्यस्ति । प्रत्युतोदाहृतयोर्हेतुफलोत्प्रेक्षयोः सिद्धहेतुफलापहवोऽपि सहेतुकः न तूदाहृतविषयः, खरूपापहवोत्क्षे इत्युपलक्षणतेय युक्ता । अन्यदन विचारणीयं समासोक्तिप्रकरणे विचारयिष्यते। . यत्तु 'कस्तूरीतिलकन्ति भालफल्के' इत्यादावुपक्रान्ता उपमा औचित्यादुत्प्रेक्षाया पर्यवस्पतीत्युक्तं तत्र भालादिस्खानविशेषसंबन्धस्य कस्तूरीतिलकादितादात्म्यमाने औचित्यं चेत् रूपके पर्यवसानं स्यादिति तस्य तादात्म्यसंभावनायामौचित्यमुपगम्योत्प्रेक्षायां पर्यवसानं वाच्यम् । तथा च- 'रक्षन्तु त्वामसितजलजैरजलिः पादमूले मीना नामीसरसि हृदये कौस्तुभाख्या मुरारेः । हाराः कण्ठे हरिमणिमया चक्रपझे द्विरेफाः पिच्छाचूडाधिपुरनिकरे घोषयोपित्क्टाक्षाः ।। इत्यादी रूपाप्रतीतिस्थलेऽप्युत्प्रेक्षोपगन्तव्या । तथा- 'पतत्रिणा तद्रुचिरेण वचितं श्रियः प्रयान्त्याः प्रविहाय पत्वलम् । चलत्पदाम्भोरनूपुरोपमा चुकून फूले फलहंसमण्डली ।' 'लोकाश्रयो मण्डपगादिवष्टिब्रमाण्डमामात्यनुसायमस्स 100 'अथाजिनापादधरः प्रगल्भमाग्ज्वरनिय ब्रममयेन तेजसा । विवेश फश्विजटिलतपोवनं शरीरपद्धः प्रथमाथमो यथा ।।' इत्यादावुपमामतीतिस्पले ययोत्प्रेक्षायां पर्यवसानम् । एवम्-- 'परणः कनास मानिनी दिवगहादमरादिरागताम् । धनरलस्याटपतिः परिरम्यानुनयागस मार ।। १. गुरारे.ग. १. .
चित्रमीमांसा। ११९ । . स्वधाकृतं यचनयः पितृभ्यः श्रद्धापवित्रं तिलमिश्रमम्मः । चन्द्रं पितृस्थानतयोपतस्थे तदरोचिःखचिता सुधैव इत्यादिरूपकप्रतीतिस्थलेऽपि तस्यां पर्यवसानमुपगन्तव्यम् । तादात्म्यसं. भावनोपयुक्तविशेषणनिबन्धरूपन्यायसाम्यात् । एवम्- 'पूर्णेन्दोः परिपोपकान्तवपुषः स्फारप्रभामामुरं नेदं मण्डलमभ्युपैति गगनामोगाजिगीपोर्जगत् । कामस्योच्छ्रितमातपत्रमधुना पाण्डप्रदोपश्रिया मानोन्नद्धजनामिगानदलनोद्योगकोचौकिनः ।। इत्यपद्रुत्युदाहरणे इत्यपि द्रष्टव्यम । अधिकं निदर्शनालंकारप्रकरण चिन्तयिष्यते। ननु गम्योत्प्रेक्षायाँ अलंकारतया परिगणनमयुक्तम् । तस्या अलंका- रध्वनित्वात् । उच्यते । विषयविपयिनिमित्तेपात्तेपु केवलमिवादियाच. काप्रयोगमात्रेण यत्रोत्प्रेक्षावगम्यते - सात्यन्तं स्फुटत्वाद्वाच्यायमानत्वाद- लंकारतामेवासादयतीति । यथोदाहृतम् । यत्रोत्प्रेक्षणीयस्य विषयिणो- ऽप्यनुपादानं निबद्धन वस्तुनालंकारेण या गम्योत्प्रेक्षा गूढा तत्रैवोटो. क्षाध्यनिः । यथा-- 'वीररुद्रभटान्दृष्ट्वा जयलक्ष्म्यावृतान्रणे। कर्पन्त्यरिवधूकेशान्कानने कण्टरिद्रुमाः ।। अत्र वस्तुना फचमहणरूपेण जयश्रीसमालिनितभटदर्शनोद्दीपितम- न्मथा इत्युत्प्रेक्षा ध्वन्यते । १. अपियानरपुर:' ग. २. 'मानोबाना' स. ३. 'हेलोटंग' फ. ४. स-म्बरे और रासकरगन् । समासमा समुप पानो भए.' ETA: F. गपुनके 7 मध्यविनीमांसा' भई समातिमोशन मिसिन पुनरमे अनि PिIRITAfe. ५. 'ग.
१२० काव्यमाला। 'वेलामतिक्रम्य पृथुमुखेन्दोरालोकपीयूषरसेन तस्याः । । नलस्य रागाम्बुनिधौ विवृद्धे तुङ्गौ कुचावाश्रयति स दृष्टिः ।। अत्रैकदेशविवर्तिरूपके मजनभयादिवेत्युप्रेक्षावगम्यते । एवमन्य- त्राप्युदाहार्यम् । इत्युत्प्रेक्षाप्रकरणम् । अथातिशयोक्तिः- तस्यासावत-- विपयस्वानुपादानाद्विपय्युपनिवध्यते । यत्र सातिशयोक्ति स्यात्कविप्रौढोक्तिजीविता || । इति लक्षणमुक्त्वा चातुर्विध्यं वर्णयन्ति । भेदेऽभेदः, अभेदे भेदः, संबन्धेऽसंबन्धः, असंबन्धे सबन्ध इति । एतेषामुदाहरणानि- कमलमनम्भसि कमले कुवलयमेतानि कनकलतिकायाम् । सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम् ।। 'अन्येयं रूपसंपत्तिरन्या वैदग्ध्यधोरणी। नेपा कमलपनाक्षी सृष्टिः साधरणी विधेः ॥' 'अस्याः सर्गविधौ प्रजापतिरभूञ्चन्द्रो नु कान्तिपदः शृङ्गारेकरसः स्वयं नु मदनो मासो नु पुष्पाकरः । वेदाभ्यासजडः कथं स विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ।। 'दाहोऽम्मः प्रसूतिपचः प्रचयवान्याप्पः प्रणालोचितः श्वासाः प्रेहितदीसदीपकलिकाः पाण्डिम्नि ममं वपुः । २. 'कुवलयमेतापि' ग. . .. १. 'अस्या.क.
चित्रमीमांसा। १२१ किं चान्यत्कथयामि रात्रिमखिलां त्वन्मार्गवातायने हस्तच्छत्रनिरुद्धचन्द्रमहसस्तस्याः स्थितिर्वर्तते ।। अत्र कमलादीनां मुखादिभेदेऽप्यभेदः । रूपादीनां लोकसिद्धरूपा- द्यभेदेऽपि भेदः । रूपस्य पुराणप्रजापतिसृष्टिसंबन्धेऽप्यसंबन्धः । विर- हादीनामम्भःप्रसूतिपचत्वाद्यसंवन्धेऽपि संबन्धश्च क्रमेण निबद्धः । अत्रेदं विचार्यते । विषयस्यानुपादानादित्यत्र किमनुपादानं सर्वथैव विषयस्य प्रतिपादकाभावः, तद्वाचकाभावो वा । आधे 'कमलमनम्भसि' इत्यादा- वपि लक्षणं न स्यात् । कमलादिशब्दाना लक्षणया विषयभूतमुखादिम- तिपादकत्वात् । द्वितीये 'चुम्पतीव रजनीमुखं शशी' इत्यादिषु मुख- शब्दादिलेपमूलातिशयोक्ताकव्याप्तिः । विषयिवाचकातिरिक्तविषयप्रति- पादकाभायो विवक्षित इति चेत्, तथापि 'उन्मीलितानि नेत्राणि पद्मा- नीवोदिते खौ' इत्यादावुन्मीलितशब्दवाच्यलक्ष्यार्थाध्यवसायरूपातिरा- योकामाच्यातिः । तत्रोन्मीलितशब्दस विषयीभूतविकाशलक्षकतया तद्वाचकातिरिक्तस्यैव विपकप्रतिपादकत्वात् । विपरिप्रतिपादकातिरिक्त विषयप्रतिपादकाभावविवक्षायामपि- पल्लवतः कसतरोरेप विशेपः करस्य ते वीर । भूपयति कर्णमेकः परस्तु कर्ण तिरस्फुरते ।।' इत्यत्र कर्णशब्दश्छेपमूलातिशयोकायच्याधिः । तत्र विषयविप- यिणोः पृथकर्णपदोपादानाद्विपयप्रतिपादकविलक्षणविषयप्रतिपादकामा- यो या विवक्षित इति चेत् , तथापि- 'उरोमुवा कुम्भयुगेन नृम्भितं नवोपहारेण वपस्तन्तेन किम् । प्रपासरिदुर्गमपि प्रतीय सा नरस उन्पी हदयं विवेश यत् ॥' इत्यत्र कुचये फुग्मयुगाभेदाध्ययसायरूपातिशयोकारन्यातिः।
१२२ काव्यमाला। , तत्रोप्रभवत्वाकारेण विषयप्रतिपादकस्य विपयिपतिपादकविलक्षणस सद्भावात् । ननु विपयिप्रतिपादकविलक्षणस्य विषयतावच्छेदकप्रकारेण विषयप्रतिपादकस्याभावो विवक्षितः, उरःप्रभवत्वं तु न पयोधरयोवि यतावच्छेदकमनेकसाधारणत्वादिति चेत्, एवमपि- ध्वान्तस्य वामोरु विचारणायां वैशेपिकं चारु मतं मतं मे । औलकमाहुः खलु दर्शनं यत्क्षम तमस्तत्त्वनिरूपणाय ।' इत्यादावुलकदर्शनमिति वैशेषिकमते पक्षिविशेषदृष्ट्यभेदाध्यवसाय- रूपातिशयोक्तावव्याप्तिर्वारा । तत्र वैशेषिक्रमतमिति विषयतावच्छेद- कप्रकारेण विषयप्रतिपादकस्य संभवात् । अपि चैवम् 'रामरावणयोर्यु- द्धम्' इत्यनन्वयालंकारे चातिव्याप्तिः। तत्र विपर्याप्ततिपादकविलक्षण- विषयप्रतिपादकाभावात् । ननु यत्र कश्चिदभेदेनाध्यवसीयते स विषयः, यस्तु तथाध्यवसीयते स विषयीति विषयविषयिभावोऽत्र विवक्षित इति नोक्तातिव्याप्तिरिति चेत्, एवमपि 'विद्वमानसहंस' इत्यादिश्लिष्टरूप- के तिव्याप्तिर्दुर्वारा । रूपके ताप्यारोपमात्रम् , अतिशयोक्तावमैदा- ध्यवसाय इति कल्पना तु रूपकविचारलक्षण एव निरस्ता । सौरूप्य- निवन्धनसमासोक्त्युदाहरणेपु चातिन्याप्तिः । 'अप्पर्धचिनमीमांसा न मुदे कस्स मांसला । अनूरुरिव धर्माशोरर्धेन्दुरिव धूर्जटेः॥ समाप्तथायं समुपलभ्यमानो ग्रन्थः । -- १. क-पुस्तके 'इति चेत्' इति नास्ति. २. निरीक्षणायाम्' क. ३. 'दुवारा । गति -पुस्तके नास्ति. ४. 'सद्भावात्' क. ५. 'भप्रस्तुतमासोदाहरणेपु' ग.
काव्यमाला।
पण्डितराजश्रीजगनायविरचितं
चित्रमीमांसाखण्डनम् ।
नागेशकृतमर्मप्रकाशादुद्धतया टिप्पण्या सहितम् ।
नाम नाम घनश्यामं धाम तामरसेक्षणम् ।
पण्डितेन्द्रो जगन्नाथशर्मा निर्माति कौतुकम् ॥
रसगन्नावरे चित्रमीमांसाया मयोदिताः ।
ये दोषास्तेऽत्र संक्षिप्य कम्यन्ते विद्रुपा मुद्दे ॥
सूक्ष्म विभाव्य मयका समुदीरिताना-
मप्पय्यदीक्षितकृताविह दूपणानाम् ।
निर्मत्सरो यदि समुद्धरणं विदध्या-
दस्याहमुवलमतेधरणौ वहामि ॥
यत्यादिमागे चित्रमीमांसायामप्पयदीक्षितैः निःशेषच्युतचन्दनं
खनवटम्' इति पधं ध्वन्युदाहरणमसझे व्याख्यानम्-'उतरीयकपणन
चन्दनव्युतिरित्यन्यमासिद्धिपरिहाराय निःशेषग्रहणम् । ततश्चन्दनसुतेः
च्याल्यातमिति । व्यापयानमेगह-उत्तरीपेत्याचाचरन्तीत्यन्तेन
लागलाना प्रावदमनं कालदिसम्देन किपिदिशामिन्यपानिदिपरिहा-
गय समिति पनि । एतेन कालावपारिधिनियसः । पुनः
१.पा.
१२४ काव्यमाला। सानसाधारण्यव्यावर्तनेन संभोगचिहोद्घाटनाय तटग्रहणम् । खाने हि सर्वत्र चन्दनच्युतिः स्यात् , तब तु स्तनयोस्तट उपरिभाग एव दृश्यते । इयमाश्लेपकृतैव । तथा निर्मष्टरागोऽधर इत्यत्र ताम्बूलग्रहणविलम्बा- प्राचीनरागस्य किंचिन्मृष्टतेत्यन्यथासिद्धिपरिहाराय निर्मुष्ट इति रागस्य' निःशेपमृष्टतोता । पुनः खानसाधारण्यव्यावर्तनेन संभोगचिह्नोद्घाटना- याधर इति विशिष्य ग्रहणम् । उत्तरोष्ठे सरागेऽधरोप्ठमात्रस्य निर्मुष्ट- गता चुम्बनकृतैव' इत्यादिना 'इदमपि ध्वनेरुदाहरणम्' इत्यन्तेन संदर्भेण वटादिघटिता वाक्यार्थीः 'लानन्यावृत्तिद्वारा संभोगाशानामाश्लेषचुम्बना- दीनां प्रतिपादनेन प्रधानव्यङ्ग्यव्यञ्जने साहायकमाचरन्ति' इति, तदे- तदालंकारिफाणामतिलमा हृदयारंतुदतथा नालंकारमीमांसकेन बक्तुं युक्तम् ।। एवं च तटादिघटितानां वाक्यार्थानां मुख्यार्थवापीखानपक्षे बाधितत्वाद्विरोधिलक्षणया वापी लातुं न गतासि किं तु तदन्तिकमिति प्रतिपत्तौ विगलितव्यञ्जनाच्यापारेण यथा---'अहो पूर्ण सरो यत्र लुठन्तः सान्ति मानवाः' इत्यत्र मुठन्त इत्यस्य विशेषणस्य मुख्येऽर्थेऽनुपपत्त्या विरुद्धोऽर्थों मासमानोऽपि न व्यङ्ग्यः, एवमिहापि स्यात् । अपि च यथाकथंचिदनीकुरु वात्र व्यञ्जनाव्यापार तथापि न तवेष्ट- सिद्धिः । वाच्यानां , निःशेपच्युतचन्दनस्तनतटत्यादीनामधमत्वस्य च त्वंदुक्तरीत्या प्रकारान्तरेणानुपपद्यमानतया दूतीसंभोगमात्रनिष्पाद्यत्वेन Y सानसाधारपव्यावर्ज(तीनेन संभोगचिहोद्घाटनाय दूरे प्रान्त इति हृदयस्थि- तोऽर्थः। कालतः मानेन सर्वतोऽपनलोकः स्यात्तव तु लोचनयोः कचित्प्रान्त एवानअनत्यमिदं चुम्बनकृतमेवेत्यादि परिग्रहः । वाफ्यार्थाः प्रधानवाक्यार्याः । प्रधानव्यगय सभोगः । यथाकथंचिदिति । अर्थापतिप्रमाणस्यातिरिफस्या- भावादिति भावः । अब रमणे । संभोगमामेति । तदन्येन याच्यसिदेरेया- चित्रमीमांसाखण्डनम् । १२५ - गुणीभूतव्यज्यत्वप्रसङ्गात् । किं चैवं सति 'मम धम्मिल वीसत्थ- इत्यादी लिङ्गजलिविज्ञानरूपेणानुमानेन व्यक्तिं गतार्थयतो व्यक्तिविवेक- कृतो मतं प्रत्याचक्षाणा व्यभिचारित्वेनासिद्धत्वेन च संदिह्यमानादपि लिझायञ्जनमभ्युपगच्छन्तः सर्वेऽपि ध्वनिमार्गप्रवर्तकास्तव प्रतिकूलाः स्युः । अन्यच्च येनोदाहृतं पद्यमायुप्मता व्याख्यातम् , तस्यापि विशेप- णानामसाधारण्यमननुमतमेव । तथा च तेनैवोक्तं पञ्चमोल्लासशेपे- निःशेपेत्यादौ गमकतया यानि चन्दनच्यवनादीन्युपाचानि तानि कार- णान्तरतोऽपि भवन्ति । यतश्चात्रैव सानकार्यत्वेनोपातानीति नोपमोग एव प्रतिवद्धानीत्यनैकान्तिकानि' इति । एवं च त्व(त)दुक्तिविरोधः स्फुट एव । तस्माद्वाच्यार्थसाधारण्यमेवोचितमतिविदग्धनायिका निरूपि- तानां विशेषणानाम् । तथा हि-- अयि बान्धवजनस्याज्ञातपीडागमे स्वार्थपरायणे मानकालातिक्रमभयवशेन नदीमदीयप्रिययोरन्तिकमगत्येय भावादिति भावः । भमेति । 'भ्रम धार्मिक विश्रब्धः स शुनकोऽध मारित- सैन । गोदानदीकच्छनियमवादिना सिंहेन ।' कुसुमावयार्थ पुष धार्मिक- अमगेन राण्डितसंकेतायास्तनिवारणोत्तिरियम् । अन वाच्येन भीपसमावस्य गृहे अनियरया प्रमणेन नियु सिंहोपलच्या भ्रमणनिषेधो व्ययः । प्रन्याविरोध. माइ-अन्यय येनेत्यादि । गमकतयेति । संभोगेल्यादिः । अय निःशे- पेसादावेव । प्रतियदानि जन्यतया न तव संबद्धानि । अनेकान्तिकानि साधारणानि । कयं हि नम्य व्यत्यत्वं प्रकागायुसमाह--तस्माद्वाच्यार्येति । वापीमानेनेलपः । निरुपितेति । योधिवेसर्थः । गमे इलन्तब्याख्या सायति । मन्तिामिलन गतासीलनुपरः। एवं अपापारपस्यात् । तथा निर्मष्ट. .रागः। तन्वीलस्वार्थमाइ-सानवायेति । सत्याधिपः । उपमहरति- १. म पनि यीसापो सो गयो भन माहिदो हैन । मोडल बासिना दरमसीन। - काव्यमाला। वापी स्नातमितो ममान्तिकाद्तासि न पुनस्तस्य परवेदनानभिज्ञतया दुःखदातृत्वेनाधमस्यान्तिकम् । यतो निःशेपच्युतचन्दनं स्तनयोस्तटमेव नोरःस्थलम् । वापीगतबहुल्युवजनत्रपापारवश्यादंशद्वयलमानस्वस्तिकी- कृतभुजलतायुगलेन तटस्येवोन्नततया मुहुरामर्शात् । एवं त्वरया सम्य- गक्षालनेनोचरोष्ठो न निर्मष्टरागोऽधरस्तु तदपेक्षया गण्डूषजलरदनशो- धनाकुल्यादीनामधिकसंमर्दमावहतीति तथा। किं च सम्यगक्षालनेन नेत्रे जलमात्रसंसर्गारमुपरिभाग एवानञ्जने । शीतवशात्तानवाच तब तनुः पुलकितेति । एवं तस्या विदग्धाया गूढतात्पर्योतिरुचिता । अन्यथा वैदग्ध्यभगापत्तेः। एवं साधारणेषु वाक्याथेषु मुख्याथै बाधाभावात्तापर्यार्थस्य झटित्य- नाफलनात्कुतोऽत्र लक्षणावकाशोऽनन्तरं च वाच्यार्थप्रतिपत्तेर्वक्तयोद्ध- व्यनायकादीना वैशिष्ट्यप्रतिपत्तौ सत्यामधमपदेन संप्रवृविप्रयोजको दुः- खदातृत्वरूपो धर्मः साधारणात्मा प्राग्वाच्यार्थदशायामपराधान्तरनिमि- चकदुःखदातृत्वरूपेण स्थितो व्यञ्जनाव्यापारेण दूतीसंभोगनिमित्तकदुः- खदातृत्वाकारेण पर्यवस्थतीत्यालंकारिकसिद्धान्तनिष्कर्षः । एतेन 'अध- मत्वमप्रकृष्टत्वं तच जात्या कर्मणा वा भवति । तत्र जात्यापकर्प नोच- एवमिति । उकप्रकारेत्यर्थः। मुख्यार्थे वापीनाने। अनन्तरमिति । वाच्यार्ध- प्रतिपत्तेरनन्तरं चेत्यर्थः । वक्री विदग्धोत्तमनायिका योद्धव्या दुःशीला दूती । नायकवादृशः । श्रादिना शाक्कादिपरिग्रहः । अधमपदेनेति । बोधित इति शेपः । स्वेति। अधमपदप्रतिनिमित्तमित्यर्थः। साधारणेति । तादृशर्मान्तर . - १. म्वप्रवृत्तिनिम्मितप्रयोजकः' इति.
चित्रमीमांसासण्डनम् । १२७ - मनायिका नायकस्य वक्ति । नापि स्वापराधपर्यवसायिदूतीसंमोगादिही- नकर्मातिरिक्तन कर्मणा । तादृशं च दूतीसंप्रेषणात्प्राचीनं सोढमेवेति नौद्घाटनाहमितीतरव्यावृत्त्या संभोगरूपमेव पर्यवस्यति' इति यदुक्तम् , तदपि निरस्तम् । विदग्धोत्तमनायिकायाः सखीसमक्षं तदुपभोगरूपस्य स्वनायकापराधस्य स्फुटं प्रकाशयितुमतितमामनौचित्येन प्राचीनानामेव सोढानामप्यपराधानामसयतया दूती प्रति प्रतिपादयिपितत्वात् । यथैव हि-- 'औष्णिदं दोव्यलं चिन्ता अलसन्तणं सणीससिअम् । मह मन्दमाअणीए केरं सहि तुह वि परभवइ ।' इत्यादाबौनियादीनि वाच्यमूतस्यो शनिमितकसखीलेदासाधारणान्येव बोद्धव्यवैशिष्ट्यवशात्तत्कामुकोपभोगजनितौन्निवादिषु पर्ययस्यन्ति । न चात्र वाच्यार्थव्यावर्तकं किंचिद्विशेषणमपेक्षन्ते सहृदयाः, एवमिहापि। अथ तदन्तिकगमनस्य लक्षणावेद्यत्वेऽपि रमणमात्रस्य लक्ष्यशक्तिमूलध्य- ननवेद्यत्वमव्याहतमेवेति चेत्, नैवम् । 'अधमत्वं जात्या फर्मान्तरेण वा नोचमनायिका नायकस्य वक्ति' इत्यादिना संदर्भण रमणस्यापि भवतेय श्रुतापनिवेद्यतायाः स्फुटं वचनात् । एतेन काव्यप्रकाशटीका- तामुक्तयः पराम्नाः। विशेषणसाधारण्यपरस्य स्वमूलपन्यस्यैव तैरना- फलनात् । वाधाभावेन लक्षणाया दुरापास्तत्वात् । - साधारणेसर्पः। स्वापरापेति स्यं नानियतीसंभोगादिरूपं दीनकर्मेलपः । एतेमेलस्वार्थमाह-विदग्घेति । तदुपभोगेति । इत्युपमोगैलर्थः । श्री- समामलन्तम् । प्राचीति । दूतीपगारिलादिः । अन्यथा वदग्पादिभाता- पतिः । औष्णिहमिति । 'नौतिय दौर्षय रिन्तालगत्यं गनिःपरिवम् । मम मन्दमागिन्याः वे गरि स्यामपि परिमयति । तयगुर्गमोगा प्रियु. पमोगविहां शानयला नापिगया समुटि साधारणानि । रोपारितोऽपि १२८ काव्यमाला। यत्तु- 'प्रहरविरती मध्ये वाहस्ततोऽपि परेण वा किमुत सकले 'याते वाहि प्रिय त्वमिहेप्यसि । इति दिनशतप्राप्यं देशं प्रियस्य यियासतो हरति गमनं बालालपैः सबाप्पगलज्जलैः ।।" इत्यत्र 'सकलमहः परमावधिस्ततः परं प्राणान्धारयितुं न शक्नोमीति व्यङ्ग्यं प्रियगमननिवारणरूपवाच्यसिध्यगम्' इति मध्यमकाव्योदाहति- प्रसङ्गे निगदित्तम् , तच्चिन्त्यम् । सबाप्पगलजलानां 'प्रहरविस्तौ' इत्या- द्यालापानामेव प्रियगमननिवारणरूपवाच्यसिद्ध्यव्यङ्ग्यतया व्यङ्ग्यस्य गुणीभावाभावात् । आलापैरिति तृतीयया प्रकृत्यर्थस्य हरणक्रियाकरण- तायाः स्फुटं प्रतीतेः। न च व्यङ्ग्यस्यापि वाच्यसिध्यङ्गतात्र संभवतीति तथोक्तमिति वाच्यम् । 'नि शेपच्युतचन्दनम्' इत्यादावप्यधमत्वरूप- वाच्यसिद्यङ्गताया दूतीसंभोगादौ सभवाद्गुणीभूतव्यङ्गत्वापत्तेः । अस्तु वा ततः परं प्राणान्धारयितुं न शक्नोमीति वाच्यसिध्यतया गुणीमाव- स्तथापि नायकादेर्विभावस्य बाप्पादेरनुभावस्य चिचावेगादेश्च संचारिणः संयोगादभिव्यज्यमानेन विप्रलम्भेन ध्वनित्वं को निवारयेत् । तत्संभवात् । यथानव नायिकायास्तद्वियोगतः । प्रहरविरताविति । हे प्रिय, वं किं प्रहरसमाप्तौ दिनमध्ये याते वा मध्यावादपि परेण नृतीयप्रहरेण यावेन वा सर्वदिने गते वेह मत्समीपे उत निश्चयेनेभ्यस्यागमिष्यसि । इत्येवंप्रकारेण ।' आलापेऽस्यान्वय. । अप्रे स्पष्टम् । शतशब्दोऽनियतसख्यावाची। एवमुक्तव्यब- च्छेदे । व्यङ्गयस्य शन्नोमीलन्तस्य । ननु विनिगमनाविरहोऽत आह-आला. पैरिति । प्रकृत्यर्थस्य तादृशालापस्य । अपिक्तसमुच्चये । ननु सयाप्पगलज- लतदुकालापानां गमनोत्तरचिरकालावस्थितिनिवारकतयाप्युपपत्तेय॑जयसहिताना- मेव गमननिवारणसामग्रंमत आह-अस्तु वेति । आन्तरालिकव्ययमादा.
चित्रमीमांसासण्डनम् । १२९ यदप्युभयचित्रप्रस्ताव उदाजदुः- वराहः कल्याणं वितस्तु स वः करसविरमे विनिघुन्वन्नौदन्वतमुदकमुर्वीमुदवहत् ।। खुराघातत्रुय्यकुलशिखरिकूटपविलठ- च्छिलाकोटिस्फोटस्फुटघटितमानस्यपटहः ॥' एतच पधं दोपाविलत्वादनुदाहार्यमेव । तथा हि-प्रथमेऽर्थे वाक्य- यस्यापि समावे:राकाड्यादुत्तरार्धगतविशेषणे समाप्तपुनराचत्यम् । निध उद्वाहे माझल्यपदादनप्रतिपरपदस्पदत्वम् । अव्यवहन- निप्पत्तौ च भूम्यूषंगानां कुलशिखरिणां कूटेषु कथंकारमधःसस भग- वतो वराहस्य खुराधात इति व्याहतार्थत्वम् । एकापेऽनेकक्रियत्वेन यत्पदाध्याहारेण चासंठुलत्वं चेति । अन्येऽप्येवंजातीयका बहवोऽत्र दोपाः । न ह्यपरं काव्यमिति दोपसहसमस्तमुदाहियते । तस्य कान्यतेव नेत्यालंकारिकसिद्धान्तात् । अयमपि कवेः सहृदयस्य च महान्दोपो यपुनरिदमेव पचं पूर्वोचरार्धव्यत्यासेन न पयान्तरतामापितम् । एद- मप्येकार्धगतेनानेकक्रियत्वेन यत्पदाध्याहारेण चासंतुलत्याचमत्कारापकर्षः स्थित एव । इति श्रीमामदारकपेरभात्मजेन पण्डितराजापराभिधानेन जगमायमोन निर्मिते चिनमीमांसासण्डने प्रन्यारम्भप्रकरणदोपः। अथोपमाप्रकरणदोपाः- यत्तु 'मुसस्स पुरतधन्दो निष्पमः' इति वाक्यमुपमाया विपुला. पेप पनिगुणीभूतादिन्यान्यपहारसोपपमानतया "विमलम्भेन पनिष को निमारपेए' इति चिन्तम् । अन्यथा 'प्रामतरगन' इलादिगुणीभूतव्यानीमन- .पि.मी.
काव्यमाला। लंकारवर्तितां प्रतिपादयद्धिः प्रायुज्यत, तयाकरणाविमर्शनिबन्धनम् । पुरत इति नगरवाचिनः पुरशब्दाचसिलि मुखस्य नगरादित्यर्थस्या- संगत्यापत्तेः । न हि पूर्ववाचकः पुरशब्दः कापि श्रूयते । पूर्वशब्दातु 'पूर्वापरावराणामसिपुरघवश्चैपाम्' इत्यसौ पुरादेशे च पुर इति भाव्यम् । न तु पुरत इति । अत एव 'अमुं पुरः पश्यसि देवदारुम्' इति प्रायुक्त महाकविः । एवमेव च- 'रूपयौवनलावण्यस्पृहणीयतराकृतिः । ' पुरतो हरिणाक्षीणामेप पुप्पायुधीयति ॥' इति वाचकोपमेयलुप्तोदाहरणमपि तैर्निर्मितमपशब्दकलुपितमेव । तथा चाहुर्वैयाकरणाः- "पल्या पुरतः परतः, 'आत्मीयं चरणं दधाति पुरतः, 'पुरतः सुदती समागतं माम्' इत्यादयः सर्वेऽपि व्याकरणाज्ञानमूला अपशब्दाः इति । . शायुकोदाहरणानामप्यसंपत्त्यापत्ती व्याकुली स्यात् । तनापि व्यङ्ग्यसंकेतभङ्गेन चाच्यमुखमालिन्याविशयरूपानुभावमुखेनैव विप्रलम्भाभासपोपणं न केवलेन संके- तभनेन । तस्याकर्तव्यत्वबुध्यापि संभवादिति बोध्यम् । तसिलीति । इदं चिन्त्यम् । तदप्रासेः । आद्यादिवासलावित्युचितम् । महाकविः कालिदासः । तैः अप्पयदीक्षितैः । इदं चिन्सम् । पुरत इति निपाताङ्गीकारात् । अत एव 'इयं च वेऽन्या पुरतो विडम्बना' इति कालिदासः, 'पश्यामि तामित इतः पुर- तश्च पथात्' इति भवभूतिथ संगच्छते । इति केचित् । अन्ये तु–'दक्षि. णोत्तराभ्यामतसुच्' इत्यत्र तसुचव पुंवद्भावेन सिद्धेऽतसुज्विधानमन्यस्माद- पीति ज्ञापनाय । तेन पचायजन्तात्पुरशब्दात्तस्मिनिष्टसिद्धिः-इत्याहुः ॥ वस्तुतस्तु-'पुर अप्रगमने' इति चौरादिकाणिजभावे 'इगुपधलक्षणे के सार्वत्रिकस्तसिः । इति योध्यम् । धैयाकरण इति । प्राय इत्यादिः । १. "पत्या पुरत: सरता'.
चिनमीमांसासण्डनम् । . यदपि चोपमालक्षणसिद्धान्तः-'उपमितिक्रियानिप्पत्तिमत्सादृश्य- वर्णनमदुष्टमव्यङ्ग्यमुपमालंकारः', 'स्वनिषेधापर्यवसायि सादृश्यवर्णनं वा तथामूतं तथा' इति लक्षणद्वयं तैरेव निर्मितम् , तदसत् । वर्णनस्य विलक्षणशब्दात्मकस्य, विलक्षणज्ञानात्मकस्य वा शब्दवाच्यताविरहे- णोपमाया वाच्यालंकारता न स्यात् । तस्य सर्वथैवाव्यङ्ग्यत्वादव्यङ्ग्यत्व- विशेषणवैयच्चि । अथ यदि वर्णनविषयीमूतं तादृशसादृश्यमुपमेत्यु- च्यते तदा यथा गौस्तथा गवय इत्यत्रोपमालंकारापत्तेः । एवं 'कालोप- सर्जने च तुल्यम्' इत्यादावपि । अशिप्यत्वादिना प्रधानप्रत्ययार्थवचन; सादृश्यस्य तत्रापि प्रतिपादनात् । न चात्र वचनभेदस्य दोपस्य सत्त्वाद- दुष्टत्वविशेषणेनैव वारणं भविष्यतीति वाच्यम् । एतद्वाक्योपप्ठतवाक्या- न्तरप्रतिपादितै(कै)कोपमेयके सादृश्ये तथाप्यतिप्रसन्नात् । न चात्रोप, मितिक्रियानिप्पचावपि न सादृश्यवर्णनम्, विषयस्याचमत्कारित्वाद, चमत्कारिविषयककविन्यापारस्यैव वर्णनपदार्थत्वादिति वाच्यम् । एवं हि चमत्कारित्वस्य लक्षणेऽवश्यं निवेश्यत्वेनोपमितिक्रियानिष्पतिविशे- पणस्य वैयर्थ्यात् । नवनिप्पन्नमापाततः प्रतीयमानं सादृश्यं चमत्कृति- मायते । एवं द्वितीयलक्षणे निपेघपर्यवसायित्वं निरर्थकम् । व्यतिरेके । विलक्षणशदेति । चन्दस्य पाच्यत्वमते नायं दोपोऽत आह -विलक्षण शानेति मन्यमयरयाद न्यायवाभापादाताहरोति । मयन्यस्यायविशेषण- इमान्यतरेत्यर्थः इत्यादापपीति । उपमालंकारापतिरिलसानुमायादिपाय चिन्त्यम् । तत्रापि कालोपसननयोरपि भर कालोपसर्जने च तुत्वम्' इत्यन द्विवचनोपादानादिति भाषः । एतदर्पमेव द्विवीयदोपयोतिः । उपटतेति । स्पिटलः । प्रधानप्रलयार्पवयनवाल इत्याति भारः। सदाह-एको. पमेयेति । अमेति । यथा गोरिलादाविलयः । व्यतिरेक इति । तयार १. 'मविपतिनादिर. 4 काव्यमाला। । . 'तवाननस्स 'तुलनां दधातु जलज कमम्' इत्यादौ कमलादिसादृश्य- निषेधस्य, आनन्वये च सर्वथा सादृश्यनिषेधस्य चमत्कारितया तत्पति- पत्तये प्रतियोगिविधया सादृश्यनिरूपणमित्यलंकारिकैरभिधानात् । किं च-- 'स्तनाभोगे पतन्भाति कपोलात्कुटिलोडलकः । शशाकविम्बतो मेरौ लम्बमान इवोरगः ॥' इत्यादौ मुख्यवाक्यार्थत्वेनानलंकारभूतायामुपमायामतिव्याप्तिः। उपमिति- क्रियानिष्पत्तिमत्सादृश्यवर्णनस्य [अदुष्टाव्यस्यत्वस्य च] अनापि सत्त्वात् । :: नात्राभेदप्रधानोत्प्रेक्षा शक्या वक्तुम् । कल्पितोपमाया निर्विपयत्वा- पचेः । न चेयमुपमा लक्ष्यैवेति वाच्यम् । ध्वन्यमानोपमानिवारणप्रया- सस्य वैयर्थ्यापत्तेः। 'व्यापार उपमानाख्यो भवेद्यदि विवक्षितः । क्रियानिष्पत्तिपर्यन्तमुपगालंकृतिस्तु सा ॥' इति स्वकृतसूत्रेऽलंकारभूतोपमाया एव लक्ष्यत्वेनाभिधानस्य, अलंकार- भूतोपमालक्षणल्वे तदेवादुष्टाव्यमयत्वविशेपितमिति तत्रैव पुनरभिधानस चासंपत्त्यापतेश्च । नक्षत्रोपमानोपमेयसादृश्यादुपमाखरूपादस्ति कश्चिद- तिरिक्तो वाक्यार्थः, येनोपमा तमलंकुर्यात् । अपि च लक्षणे सादृश्य- . नस्पत्यादाविसर्थः । कमलादिसादृश्येति । कमलादिनिष्ठसादृश्येसर्थः । ननु वर्णनपदस्य चमत्कारजनकाशमविषयीभूतानुयोगिकरवा तात्पर्यप्राहकमिदम्, ने वलक्षणशरीरपदक मिति पैद, वाह-मिचेति । यास्यायंत्वेनेति। तथा अग माक्यार्योपस्कारकत्वमिति भावः । तदाह अनलमिति । नन्वलंकरों दीति योगबोधितोपस्कारकत्वयालंकारसामान्यसस्पत्वेन रिशेपलशगेषु सदनि- मैोऽपि क्षत्लभाय इत्यत आह-अपि चेति । अतएव विप्रभूतोपमाला चित्रमीमांसाखण्डनम् । १३३ विशेषणं निरर्थकम् । 'उपमितिक्रियानिप्पत्तिमद्वर्णनमुपमा' इत्येतायतैव स्वाभीष्टार्थलाभात् । अन्यच्चान्यङ्ग्यत्वविशेषणमयुक्तम् । नहि व्यन्यत्वा. लंकारत्वयोरस्ति कश्चिद्विरोधः । प्राधान्येन व्यङ्ग्यतायां तु प्रधानत्वा- लंकारत्वयोर्विरोधादलंकारत्वलक्षणं तत्र मा प्रसाहीदित्युपस्कारकत्वेन पुनर्विशेषणीयम्, न त्वज्यद्यत्वेन । 'अद्वितीयं रुचात्मानं मत्वा किं चन्द्र हप्यसि । भूमण्डरमिदं मूढ केन वा विनिभालितम् ।। इत्यत्र कस्यचिद्विदेशस्थस्य किरणैरात्मानं तापयन्तं चन्द्रं प्रति वाक्ये अस्ति मम प्रियायाः कदापि पहिरनिर्गतायाः अत एव त्वयाप्यदृष्टाया आननं त्वत्सदृशमिति व्यङ्ग्यायामुपमाया मूढपदध्वन्यमानचन्द्रविपयवक्तृ- • गतासूमालंकारभूतायानव्याप्तेः । विशिष्टोपमादिस्खले च विशेषणाधुप- मानां वाच्यसिध्यणतया गुणीभूतव्ययित्वम् , सिद्धार्थस्योपस्करणाभावात्तु नालंकारतेति मम न काप्यसंगतिः । यदपि काव्यप्रकाशोत्तोपमामेदाधिकमेदकथनप्रस्तावेऽभिहितम्-- 'धर्मलता वाक्यसमासतद्धितेपु दर्शिता । द्विर्मावेऽपि दृश्यते । 'पटुपटु- देवदत्तः' इत्यत्र 'प्रकारे गुणवचनस्य' इति सादृश्ये द्विविविधानात् इति, , तत्तुच्यम् । अर चोपमावाचकस्याप्यनुपादानाद्वाचकधर्मलप्ताया- मेतदाधिक्यमुद्भापयितुमुचितम् । न तु धर्मलुप्तायाम् । विवि सनातम् । पूर्वपदस्थापि वात्पर्यप्राइवस्वादिदमपि चिन्यम् । अव्यापार चक्षणे प्राधान्येनाव्याययं योप्पमिति दिए । विनिमालितमिति । बिशे. पेममित्य पं. अति । व्यापायामिसमास्यान्वया व्यायामुपमाया- मिति । पोपमानस्सोपमेयापकल्पनात्मकमतीपद न्यायरवम् । मूरपदसार- सार । पमरकारादिया। रसीलेठरसारमा पनि देविद । प्रति १३४ काव्यमाला। धर्ममात्रलप्तायाश्चान्तर्भावात्पृथगुपादानमसंगतमेव स्यात् । न चात्र द्विर्भावस्यैव वाचकस सत्त्वान्नास्ति तस्य लोपः अपि तु धर्ममात्रस्येति वक्तुं शक्यम् । विर्भावस्य सादृश्यवाचकत्वोक्तेर्भाष्यकैयटादिविरुद्धत्वात् । तदुक्तम्-'प्रकारे गुणवचनस्य' इति सूत्रे सिद्धं त्विति प्रतीकमादाय कैक्टेन द्विवचनस्य प्रकृतिः स्थानी' इति तदर्थों विशिष्यते न तु प्रकारः । तत्र सर्वस्य गुणवचनत्वाद्यमिचाराभावात् । तद्ब्रहणाद्गुणवचनो यः शब्दो निर्मातस्तस्य सादृश्ये द्योत्ये द्वे भवत इति सूत्रार्थः इति । एवं च द्विर्भावपदस सादृश्युलोतकत्वमेव न वाचकत्यम् , अतो वाच- कलोपोऽप्यनास्तीति वाचकधर्मलप्साया उदाहरणमेतत् , न धर्मलप्तायाः । यदि तु द्योतकोऽपि वाचकपदेनात्र विवक्षित इत्यामहः तदा तुप्यतु मवान् । यचान्यदभ्यधीयत तस्मिन्नेव प्रसने- "नृणां यं सेवमानानां संसारोऽप्यपवर्गति । तं जगत्यमजन्मर्त्यश्चम्चा चन्द्रकलाधरम् । मन "किकनोलौंपे प्रत्येक वाचकवर्मलोप उभयत्रापि" इति तदर- चो छ । सूचार्थ इति । द्विर्भावस्स साहस्यद्योतकरवेऽपि शपवरूप. वाचकत्यामावाद्वाचकलोप इति तव हृदयम् । ततु इवादेयोतकतानये चन्द इप मुसमित्यन, चन्द्रमुहन्मुखमिलन च वाचकशताव्यवहारामावाय पारपतमिशि- थन्यतरबोपकामावस्यैव वाचलप्ताव्यवहारप्रयोजकत्वस्य वाच्यत्पेन योतकस्यापि बोपकरवानपायेन नासि यावलोप इति सदासयादयोपालकमिति पिन्समि- एम्। यथान्यदिति । पश्यमाणमन्यसेत्सर्पः । किन्ोपे तयोफेयुसरयेऽपि चिनमीमांसासण्डनम् । मणीयमेव । चञ्चेत्यत्र कनो वाचकस्य 'लुम्मनुष्ये' इति शास्त्रेण लोपेऽपि. तं चन्द्रकलाधरमभजन्निति चन्द्रकलाधरभजनराहित्यरूपस्य चच्चाचन्द्र- साधारणस्य धर्मस्योक्तत्वात्कथं ताबद्धर्मलोपः । न चोपमेयमय विशेषण- तयोपातस्य चन्द्रकलाधरमजनराहित्यस्य सादृश्योपसर्जने चञ्चायामनन्द- यान्न सादृश्यमिति वाच्यम् । 'यद्भक्तानां सुखमयः संसारोऽप्यपवर्गति । तं शंमुमभजन्मर्त्यश्चञ्चैवात्महिताकृतेः ॥' इति पाठे 'धर्मश्रवणमप्युभयत्रापि संभवति' इति खोक्तरसंगत्यापत्तेः। इहाप्युपमेयसंसारविशेषणतयोपात्तस्य सुखमयत्वस्य सादृश्योपसर्जनेऽप. वर्गेऽन्वयाभावात्कथंकारं धर्मस्य साधारण्यम् । उपमेयगतत्वेनोपमानगतत्वेन वा उपात्तस्य धर्मस्य शाब्दे उभया- न्वये सत्यपि वस्तुत उभयनिष्ठताज्ञानमेव साधारणतया नियामकमिति चेत्, चन्द्रकलाधरमजनराहित्येऽपि दीयतामेवमेव दृष्टिः । यदि चोप- मेयतावच्छेदकतयैव चन्द्रकराधरमजनराहित्यं मम विवक्षितम् , साधा- रणधर्मश्च स्वात्महिताकरणरूपः स चात्र लप्त एवेति शपथेन स्वाभिमायः प्रकाश्यते तदा निवारितोऽयं दोषः । तुप्यतु भवान् । यद्यापि "सर्यमुपमा संक्षेपतस्त्रिया-कचिस्ववैचित्र्यमात्रविश्रान्ता । यथा-'स च्छिन्नमूलः क्षतजेन रेणुः' इत्यादी । कचिदुक्तार्थोपपादन- परा । यथा---'अनन्तरसप्रभवस्य' इत्यादौ" इति तैरेव द्रविडशिरो- कन्लोपै युभत्वनिलाह-कन रति । तामुपपादयति-पदापीति । यंदारे कयं प्रत्या। पाठान्तरपारी साशयमाह-उपमेयेति । एवमेवेति । एवं व सुरूपतेति भावः । प्रकारान्तरेण साधयमाह- -यदि येति । सेरेयेति। २. 'सारमानिसमार'. ३. आधुनिस्पट पुनभयम् एवम् काव्यमाला। . मणिभिरभ्यधीयत । तदप्ययमेव । देवतुल्यैनरैर्भाति स देशः सुमनो- हरः' इत्यादौ वाच्यमूतवस्तुपस्कारिकाया देवोपमाया अक्रोडीकरणात् । नमन स्ववैचित्र्यमान्ने विश्रान्तिरस्ति गुणानां प्रधानसान्निध्ये खातव्या- योगात् । नापि व्यङ्गयोपकारकत्वमेवालंकाराणामिति नियमोऽस्ति । अलंकारमूतोपमासु खवैचित्र्यमात्र विश्रान्ताया उपमाया असंग्रहे को नाम ध्वन्यमानायास्तस्या निरासायाच्यज्यत्वविशेषणदानदुराग्रहः । असंग्रहे तु तत्रैवालंकारभूतोपमालक्षणस्थातिव्याप्तिरिति प्रागेवावेदनात् । अहो महदेवेदमन्याय्यम्-यदलक्षणीयायाश्च स्वैचित्र्यमावविधान्ताया उप- मायाः संग्रहः, लक्षणीयायाश्च प्रागुक्तासूयालंकारभूताया असंग्रह इति प्राचां तूपमासामान्य लक्षयतां ध्वन्यमानाया इव वाच्याया अपि स्ववै- चित्र्यमात्रविश्रान्तायाः संग्रहो नानुचितः । न तु स्वस्य यलेन ध्वन्य- मानोपमां निरस्य कण्ठरवणालंकारभूतोपमालक्षकस्य । यदि च प्रबन्ध- व्यङ्ग्योपस्कारकत्वेनेयं संगृह्यत इत्युच्यते, तदा 'स्ववैचित्र्यमात्रविश्रान्ता' इति खोक्तिविरुद्धा स्यात् । 'अनन्तरलप्रभवस्य' इत्यत्र गुणसमूहसमा- अप्पयदीक्षितरवेत्यर्थः । स्वस्येति । ववेत्यर्थः । नानुचित इत्यस्यानुपमः । इयं खवैचित्र्यमान विश्रान्ता । विरुद्धा स्यादिति । वस्तुतस्तु--उपमासामान्य- लक्षणस्यापि प्रकृतत्वेनोपमासामान्यस्यैवार्य विभागः । उपमानोपमेयतावच्छेदक- योर्भेदाचास्त्येवोपमिनिनिष्पत्तिः । अत एव 'सेयमुपमा' इत्येवोत्तम् । नललंकार इति । नयने शिशिरीकरोतु मे शरदिन्दुप्रविम भुस तव' इत्यत्र तूजापिपाद- नाव मुखकर्तृकनमकर्मकशिशिरीकरणस्यैव कम्युक्तपेन्दूपमयैवोपपत्तेः । उका- योपपादनेत्यस्य वोक्षार्थस्योपपादनम्, उत्ताय वोपपादनमित्यर्थद्वयम् । विनिग- मनाविरहात् । इति न दोष इति चिन्यमिदमिति बोम्यम् ॥ उफार्थीपपादनप- रोपमायास्वदुमदाहरणं दूषयति-अनन्तेति । 'अनन्तरमप्रभवस्य यस्य हिनं न सामाग्यविलोपि जातम् । एको द्वि दोपणे. गुणमनिणले निमजतीन्दोः किरणे.
चित्रमीमांसाखण्डनम् । नाधिकरणे एको दोपो दोषत्वेन न स्फुरतीत्यस्यार्थस्य पूर्वार्धप्रतिपादि- तार्थसमर्थनात्मकस्य सामान्यात्मकस्य विशेषरूपोदाहरणमदर्शनमन्तरेण सम्यगनाकलनादिन्दुकिरणसमानाधिकरणेऽके उदाहृतः, न तूपमानतया निर्दिष्टः । सामान्याद्विशेपस्य भेदाभावेनोपमितिक्रियाया अनिप्पत्त्या उपमालंकृतेरवानवतारादुदाहरणालंकारोऽयमतिरिक्तः । यथा 'इको यणचि' इति वाक्यार्थस्य सामान्यात्मनो विज्ञानायोकारे यकारो दध्यु- दफेकारस्येवेति याक्यान्तरेण तद्विशेष उदायिते, सद्वदनापीति । विशेषस्तूदाहरणालंकारप्रकरणे रसगङ्गाधरादवसेयः । यत्तु 'लुप्तायां विन्धप्रतिबिम्बादयो नैवं भेदाः । तस्यां साधारणधर्म- स्यानुगामितानियमात्' इत्युक्तम्, 'मलय इव जगति पाण्डवल्मीकसमो नृपोऽम्बिकातनयः । जम्बूनदीव कुन्ती गान्धारी सा हलाहलेव सरित् ।। इत्यत्रानुगामिधर्मस्याप्रत्ययाचन्दनानां पाण्डवानाम्, सर्पाणां दुर्योधना- दीनां च विम्वप्रतिबिम्बमावस्यैवोपमानिर्वाहकत्वात् । न च श्रीतोपादान- मन्तरेण नास्ति विम्वप्रतिबिम्बमाय इति वाच्यम् । माचिवप्रतिविम्यने तदनपेक्षणात् । अत एवाप्रस्तुतप्रशंसायां वाच्यत्र्यसवाक्यार्यावयवानां विम्बनममत्यूहम् ॥ इति श्रीमहमशरफपेरुमहात्मजेन पगितासापराभिधानेन जगतापमहेन निर्मिते विनमीमांधणराटने टपनाप्रकरणदोषाः । विषा: "सप्रेसः । सरतीलापस दीपपरमविपास रखना. निर्दियपे देवमाद-सामान्येति । सनयतारादिति । अग्रे सपा पति शेपः । बलकारोऽयमतिरिचा इति । 'माया मारो मा भूपाल कामपाइलमिटर्मिनापासुरमानदायप्रेदपमेपारपोरमेनोर- १.मास'...परमे.
काव्यमाला। । अयोपमेयोपमाप्रकरणदोपाः- यत्तु प्राचीनलक्षणमव्यात्यादिभिर्दूपयित्वा 'अन्योन्येनोपमा वोध्या व्यक्त्या वृत्त्यन्तरेण वा । एकधर्माश्रया या स्यात्सोपमेयोपमा मता ॥ इति स्वयं लक्षणं निरमीयत । अस्यार्थः सपदकृत्यः संक्षेपेण तदुक्क- रीत्या सहृदयानां सौकर्यायोच्यते-अन्योन्येनेति । अन्योन्यप्रतियोगि- कत्वविशिष्ट व्यक्त्या व्यञ्जनाव्यापारेण वृत्त्यन्तरेण शक्त्या वा बोध्या वेद्या, एकधर्माश्रया एकधर्मप्रयोज्या या उपमा सा उपमेयो- पमा मतेत्यन्वयः। अन्योन्येनेति विशेषणादिदं तच्च सममित्युभयविश्रान्तोपमाया निरासः । अन्नान्योन्यप्रतियोगिकत्वस्य व्यञ्जनव्यापारगम्यत्वेनोपमायाश्च शक्तिवेद्यतया परस्परनिरपेक्षेणैकेन व्यापारेणान्योन्यप्रतियोगिकत्वविशि- टायास्तस्या अबोधनात् । परस्परनरपेक्ष्यस्य लक्षणे वाकारेणाभिधानात् । एकधर्माश्रयेति विशेषणात् । म्मतिक्रियानिष्पत्तेरुपमालंकारव्यवहारस्य च सर्वसंमतत्वेन तदादिहापि सामान्यधर्म- विशेषधर्मयोस्खयों देन तनिष्पत्तेः संभवाइदाहरणालंकारो मास्त्वविरिक्त इति तदाशयात् । चिन्यमेतत् । 'उदकोदकारे दधीकारस्य यः' इति पाठः॥ प्राचीनेति । 'उपमानोपमेयत्वं द्वयोः पर्यायतो यदि । उपमेयोपमा सा स्याद्विविधैया प्रकीर्तिता ॥' इत्यर्थः । अव्याप्तीति । तद्वल्गुना युगपदुन्मिपि- तेन तावत्' इत्यत्राव्याप्तिः। रजोभिः स्पन्दनोद्भूतैः' इत्यनातिव्याप्तिरिति भावः । तृतीयाः प्रतियोगित्वमित्याशयेनाह-अन्योन्यप्रतीति । लक्षणाया असंभ- वादाह-शक्त्येति । इवादिसत्त्वे इति भावः। विधान्तेति । उभयत्र पर्य- पसिता न श्रौती तसामित्यर्थः । शक्तीति । सतपदे(?)त्यादिः। ननु मियो निरपेक्षत्वं न निविष्टमत आह-परस्परेति । अन्यथा पक्षान्तरकथनासंगते- १. "मनाव्यापारमात्रवेधलेन'. २. 'शक्तिबोध्यतया, चित्रमीमांसाखण्डनम् । 'जोमिः स्पन्दनोतर्गजैश्च पनसनिमैः । भुवस्तलमिव व्योम कुर्वन्व्योमेव भूतलम् ।।' इत्यत्र परस्परोपमायां नातिव्याप्तिः । तत्रोपमाप्रयोजकधमक्याभावात् । भूतलोपमानिकायां प्रयोजकस्य रजसामनुगामिधर्मस्य, नमस्तलोपमानि- कायां प्रयोजकस्य घनसहशगजानां विम्वप्रतिबिम्बमावापत्नधर्मस्य च भेदात् । व्यक्त्येति च विशेषणं व्यायोपमेयोपमासंग्रहार्थमितीदमुप- मेयोपमात्वप्रयोजक लक्षणमिति, तन्न । 'अहं लतायाः सदृशीत्यखर्च गौराति खेदं न कदापि यायाः। गवेपणेनालमिहापरेपामेपापि तुल्या नितरां भवत्याः ।। अत्र 'पष्टयन्तात्सदृशादयः शब्दाः सादृश्यप्रतियोगिवचनाः' इत्युक्त- तयान्योन्यप्रतियोगिकत्वविशिष्टाया उपमायास्त नुवादिरूपैकधर्माश्रयाया वृत्त्यन्तरेण शक्त्या बोधनादुपमेयोपमात्वापत्तेः । न चात्रान्योन्यप्रति- योगिकत्वमुपमायां न प्रतीयते । लतादिसंबन्धिसादृश्याश्रयत्वस्यैवाल- रिति भावः । रजसामिति । प्रयोजकीभूतरजोनिमानुगामिधर्मस्येत्यः । समा. नविमकिकत्वमेव रामानवचनत्यस्याभेदान्वये न तन्त्र पमिति मायः । एपममेऽपि। पनगजयोमदन साधारणगावं कपमत माह-विम्बेति। प्रयोजकमिति । अनुगतानविप्रसवलागमा तु-यास तृतीयस्य व्यवच्छेदाय पायोः । अन्योन्येनोपमेयत्वमुपमेयोपमा मता ॥ इति प्रष्टव्यम् । पान्योन्येनेति विशेष- गम् 'बहमेव गुरुः गुदारुणानाम् इति प्रतीपविशेपचारपमिति मायः। याह- मिति । लतानुसोगिकसायाभयावहनिलयः। अस महान्तम् । पपा. पीति । बदनुमोगिरगाश्यप्रतियोगिला बखत इलाका सम्प. लस अनुपातेलादिः । लतादीति । सतायोगिकगाश्यप्रतियोगिकत्वम्व. सपः । एतेन शामो सासादिपानी भर्मियोपर पार । एवं 1. रसगारे या लोभिनय कोपनसनिमय दोरर मा सविता सापेमाप नासपाति.'RTI Tranaरारे पाठ:.
१४० काव्यमाला। पदार्थेऽन्वयादिति वाच्यम् । 'मुखस्य सदृशश्चन्द्रश्चन्द्रस्य सदृशं मुखम्' इत्युपमेयोपमायामव्याप्तेः । नहि 'अहं लतायाः सहशीत्यखर्वम्' इत्य- नोपमेयोपमा भवितुमर्हति । गर्वमात्रनिरासपरत्वेनोचरार्धगतोपमायास्तृ- तीयसहशेन्यवच्छेदापतिपत्तेः । अत एव अन्यान्यपि तव ' सदशानि सन्त्येव तेषां गवेषणेन किं फलमित्येतदर्थकं गवेषणेनेत्युत्तरार्ध संग- च्छते । 'तृतीयसब्रह्मचारिव्यवच्छेदो युपमेयोपमाजीवितम्' इत्यालंका- रिकसिद्धान्तात् । अन्यथा 'रेजोमिः स्यन्दनोद्भूतैः' इति प्रागुक्तपरस्प- रोपमावारणमयासवैफल्यप्रसङ्गात् । न च तृतीयसदृशव्यवच्छेदफलक- स्वमुपमाविशेषणमिति वाच्यम् । विशेषणान्तरवैयर्थ्यापत्तेः । तद्विशेष- गन्यावानामाधुनिकविशेषणेनैव धारणात् । अन्योन्यप्रतियोगिकत्व- सादृश्यस्य तत्रान्वये इयम्, न तु तत्रेति भावः । मुखस्येति । तत्रापि सदृश पदसत्त्वेन तत्तुल्ययोगक्षेमत्वादिति भावः। नन्वेवं तथा दुर्वचमिति यतत्संप्रह- स्वथाह-लताया इति । अस्यापि संग्रह इष्ट एवेत्यविव्याप्तिर्नात आह- नन्त्यमिति । (३)। ननु तन्मानपरत्व एव किं थीजमत आह-अत एवेति । तत्परत्वेन तस्याः साफल्यादेवेत्यर्थः । उत्तरार्ध तदेकदेशः। अन्यथा तुर्यचरणे- नैवेष्टार्थलाभे मध्ये एतत्कयनानर्थक्यं स्पष्टमेवेति भावः । नन्वेवमपि तृतीयसह- शव्यवच्छेदप्रतीतावेवेयमित्यत्र किं विनिगमकमत आह-तृतीयेति । सत्र. झेति । सदृशेखर्थः । एवमप्रेऽपि बोध्यम् । सिदान्तः' इति पाठः। "विना- न्तात्' इत्सपपाठः । मन्यया तस्स तज्जीवितत्यानङ्गीकारे । याच्यमिति । 'अहं लतायाः' इत्यत्राति[व्याति]वारणायेदानी यफायमित्यर्थः । विशेषणान्तरेति । अन्योन्येनेत्यादीत्यर्थः । नन्येवं कथमुफदोपनिरासोऽत आह-तद्विरोप- ति। विशेषणान्तरेत्यर्थः । तदुसमन्यरूपयति-अन्योन्येनेति । प्रति- योगित्यस्येति । अनुयोगित्यविशिरेखादिः । ननु तस धृत्तिविषयस्य कुतो १. 'उचयमपि. १. 'मुवस्तानिय योग पुर्वम्योमेव गूगलम्' इत्यवायरमे- घोपमापनिवारप्रसासनैया' वि रसगडापरे पा::.
चित्रमीमांसाखण्डनम् ।
१४१
विशिष्टोपमैकवृत्तिमानवेयेत्यप्ययुक्तमेव । 'खमिव जलं जलमिव सम्,
हंसश्चन्द्र इव हंस इव चन्द्रः' इत्यादी खजलयोश्चन्द्रहंसयोश्च सादृश्या-
न्वये प्रतियोगित्वस्य संसर्गत्वेन वृत्त्यविषयत्वात् । 'कृत्रिवेद्यानां पदा-
थांनां संसों वृत्यवेद्यः' इति तात्पर्यवृत्तिमगानीकुर्वाणैर्वाक्यविदिरम्यु-
पगमात् । अन्यथा प्रकारतापत्तेः ।।
इति श्रीमभट्टारकपेहमशमजेन पण्डितराजापराभिधानेन जगन्नाथभट्टेन
निर्मिते चिग्रमीमांसाराण्डने उपमेयोपमाप्रकरणदोषाः।
अथानन्वयः-
यच्च अयमनन्वयो व्यायोऽप्यस्ति
'अद्य या मम गोविन्द जाता त्वयि गृहागते ।
फालेनेपा भत्रेत्प्रीतिस्तवैवागमनासुनः ।।"
अत्र गृहागतं श्रीकृष्णं भति विदुरखाक्यम् । 'इयं लदागमनप्रभवा
प्रीतिर्पहुकालव्यवहितेन पुनरपि त्वदागमनेनैव भवेनान्येन, इत्युक्ति-
मा त्वदागमनप्रमप्रीतेः सैव सहशी, नवितरप्रभया' इति व्यज्यते
इत्यमिहितम् , तन्न । 'अमुप्यास्त्वदागमनसमवायाः पीतेारान्तरत्वदा-
गमनप्रभया प्रीतिः सदशी' इति प्रत्ययस्य सर्वजनसिद्धतया श्रीकृष्णागमन.
जन्यप्रीतिसामान्यावयवयोर्द्वयोः प्रीतिव्यक्योः सादृस्यस्यायाधायोगाया-
नेलाह-गृतीति । उपपतिमायेयाये न सादरपतिदय.
যযযামাই। সমমরী কামাল লােন।
अपि सप लम्' लाश। नाति पणिराम इलारनातो.
पारिन्लनिया
ममुप्या इति । यत पारितोति देनी योगायति ।
१४२ काव्यमाला। भावेनानन्वय एव नायं भवितुमर्हति, स्वस्सिन्स्यसादृश्यस्यान्धया; भावादनन्वयः' इत्युपमाप्रकरणे खयमेवामिधानात् । उपमेयस्य प्रीति- व्यक्तिविशेषस्य सदृशान्तरन्यवच्छेदे बाधाचाशप्रीतिसामान्यस्यावय- विनो निरुपमतया प्रतीयमानस्यानुपमेयत्वेन फलवैयधिकरण्यप्रसङ्गाच्च ।। न चात्र 'श्रीकृष्णागमनप्रीतिसामान्यावयविनः खेन सादृश्यं मध्ये प्रती- यते' इति शपथः कर्तुमुचितः । सहृदयत्वभन्नप्रसङ्गात् । प्रयोजनविर- हाच ॥ श्रीकृष्णागमनप्रभवप्रीतिसामान्यस्य निरुपमत्वसिद्धिरेव प्रयोज- नम्-इति चेत् न । एतत्कालावच्छिन्नकालान्तरावच्छिन्नतादृशप्रीति- व्यक्त्योरवयवयोरुपमानोपमेयभावेनैवावयविनि तत्सिद्धेः । यथा- 'एतावति प्रपञ्चे सुन्दरमहिलासहसभरितेऽपि । अनुहरति सुभग तस्या पामार्धं दक्षिणार्धस्य ॥' इत्यादाववयवयोर्वामार्धदक्षिणार्धयोः सादृश्येनावयविनः कान्तारूपस्या- नुपमत्वं प्रतीयते । एवमिहापि ॥ नहि तत्रापि निरूपमत्वप्रतीत्या- वयविनः स्वेन सादृश्यप्रत्ययोऽन्तरा कल्प्यते इति वाच्यम् । निरुप- मत्वप्रतीतेरनन्वयनैयत्यनिरहात् । अन्यथा 'गगनपुप्पमिवास्य वचः सखे' इत्यादिकल्पितोपमायामपि निरुपमत्वात्ययेनानन्वयकल्पनापत्तेरिति न किंचिदेतत् ॥ 'रत्नाकरोक्तस्यैवानन्वयप्रकारविशेपस्यात्र व्यङ्ग्यता' इत्यपि वक्तुमयु- अनन्वयपदयोगाथैत्यर्थः । ननु रूढमेवानन्वयपदमभिमतमत आह-खसि. निति । व्यवच्छेदे वाधादिति । तस्य व्यवच्छेदकरणेऽसामादित्यर्थः । कालान्तरस्थप्रीतिव्यक्तिविशेषस्य सदृशस्य सत्त्वादिति भावः। तादृशेति। श्रीकृ. प्णागमनजन्येत्यर्थः । महिला स्त्री। दक्षिणार्धस्येति कर्मणः शेषत्वविक्षायां पष्टी। अनोपमेयं समुदिता नायिका ॥ ननूकरीत्या न व्यञ्जकत्वम्, कि तु रमा-- करोक्तरीत्येति नोकदोषोऽत आह-रतेति । तस्य प्रकारस्य प्रकृतेऽवाच्या
चित्रमीमांसाखण्डनम् । १४३
तमेव । तस्य रसगङ्गाधरेऽस्माभिर्निरखल्वात् । प्रकृतेऽवाच्यत्वात् ।
स्वयमनन्वयप्रकरणे तस्यानुक्तत्वाच ।
इदं पुनरनन्वयध्वनेल्दाहरणं मदीये गासवे-
'नगेभ्यो यान्तीनां कथय तटिनीनां कतमया
पुराणां संहर्तुः सुरधुनि कपर्दोऽधिरहे।
कया वा श्रीमतुः पदमितरयाक्षालि सलिले-:
स्तुलालेशो यस्यां तब जननि दीयेत कविभिः ।।
अत्रेसरयेत्येतन्माहात्म्यात् 'स्वयि तु तव तुला दीयेतेय' इत्यनन्वयो
निरुपमत्वपर्यवसायी व्यज्यते । यथा या--
'भुवनत्रितयेऽपि मानवैः परिपूर्णे विबुधैध दानवैः ।
न भविष्यति नाति नामवत्सितिय त्वत्तुलनाघरोऽपरः ।'
अत्राप्यपराब्दमहिना 'त्वं तु यत्तुलनाघरो वर्तसे' इति व्यज्यते ।
तस्सामावे लसमालंकार एवेति रसगाघरे व्यक्तमुपपादितमसाभिः ।।
इति श्रीमहमदारकपेहमहात्मजेन पण्डितराजापरामिधानेन जगतापभोन
निर्मिते घिनमीमांसासण्डनेऽनन्वयप्रकरणम् ।
अप स्मरणालंकारप्रकरणम् ।
यतु-
"स्मृतिः सारश्यमूला या यस्त्वन्तरसमाश्या ।
सरणालंशतिः सा सादव्यजपत्वविरोपिठा !!"
त्यातू । मनु रवया इन्दिोऽपि न ममा पिता, वाह-सपः
मिति । 'अन्या-असंहारपने पसारदार सार' ही मालि.
शिवमार पुनरिति । मगेन्यः पर्यवेभ्यः । पदों परारः ।
१४४ काव्यमाला। : यथा- 'अपि तुरगसमीपादुत्पतन्तं मयूरं न स रुचिरफलापं बाणलक्षीचकार । सपदि गतमनस्कश्चित्रमाल्यानुकीरें रतिविगलितबन्धे केशपाशे प्रियायाः ।। यथा वा- 'दिव्यानामपि कृतविस्मयां पुरस्ता- दम्भस्तः स्फुरदरविन्दचारुहस्ताम् । उद्धीक्ष्य नियमिव कांचिदुत्तरन्ती- मसापांजलनिधिमन्यनस्य शौरिः ।। एकत्र सदृशदर्शनात्तत्सदृशधर्मिका स्मृतिः, अपरत्र सदृशदर्शनात- सदृशलक्ष्मीसंवन्धिनो जलनिधिमन्थनस्य स्मृतिः । उभयत्रापि सादृश्य- मूलकवस्त्वन्तरस्मृतित्वमविशिष्टम् । अत एव सदृशासशसाधार- प्यार्थतया लक्षणे वस्त्वन्तरमहणमर्थवत् । अपीति । रघुवंशे दशरपमृगयावर्णनम् । सदसरयः । साइपयोध केशपाशस्य विशेषणद्वयम् । दिव्यानामिति । माघे जलक्रीडापर्णनम् । अम्भस्तो जलाद । मन्यनस्येति । 'मधीगर्य-' इति कर्मणि शेपे पष्टी ॥ लक्ष्पदये मीजमाह- एफोति । आय इलः इत(अपारन अन्ले । सदृशेति । लक्ष्मीसदृश. नायिकेसः । लक्षणं संगमयति-उभयति । तथा च नितीयलक्ष्यप्रद एप 'यस्वन्तररामाश्रया' इति विशेषणपलमिलाह-अत एपेति। द्वितीयम्स लायरयादेपेलः । सभासदरोति । स्वः राहायचायतरविषयाच. , ..तरन' विमीमांसा-रसमहारयोः पाठः.
चित्रमीमांसासण्डनम् । 'सौमित्रे ननु सेव्यतां तरुतलं चण्डांशुरुजम्मते चण्डांशोर्निशि का कथा रघुपते चन्द्रोऽयमुन्मीलति । वत्सैतद्विदितं कथं नु भवता धत्ते कुरङ्गं यतः कासि प्रेयसि हा कुरङ्गनयने चन्द्रानने जानकि ।' अन श्रुतकुरासंबन्धिनस्तनयनस सरणावत्सदृशसीतानयनस्मृति- वेति । किंत्वेपा व्यङ्गया अलंकार्यभूता च । तद्यावृत्त्यर्थमव्ययत्व- विशेषणम् । 'अत्युच्चाः परितः स्फुरन्ति गिरयः स्फारास्तथाम्मोधय- सानेतानपि विनती किमपि न मन्तासि तुभ्यं नमः आश्चर्येण मुहुर्मुहुः स्तुतिमिति प्रस्तौमि यावद्धव- सावद्विप्रदिमां स्मृतस्तव मुजो पाचनतो मुद्रिताः ॥" मास्तूयमानभूसंबन्धिनो मूभृतः स्मृतिर्न सादृश्यमूलेति नात्र सर जमलंकारः, किंतु स्मृतेः संचारिमावस्य मूभृद्विषयकरतिभायाहत्त्वात्प्रे- योऽलंकारः । एतव्यावृत्त्य लक्षणे 'सादृश्यमूला' इति विशेषणम्" इत्याहुः ॥ तदेतत्सर्वमरमणीयम् । यत्वावदुच्यते - सदृशासशयोः लामार्पतयेत्यर्थः ॥ अव्यापत्यविशेषगफलमाह-सौमित्रे इति । हनुममाटो सीतापियोगे श्रीरामचन्द्रस दमणं प्रयुमिरियम् । ननु नियन। चण्डां: सूर्यः ॥ तनयनेति । पुरानयनेसर्पः । तत्सदोदि नयनविशेषणम् । इति । 'भूता च' इसमे योग्यः। एपा सीतारमतिः। अलंपरसामान्यरधनमपि नास्त्रीसाह-यसमिति । सीतारमतेः प्रापान्यामिति मावः । यत्युगा इति । सुर्व प्रत्युपिरियम् । प्रस्तीमि फरोने । (मां मुबम् ॥ न सारश्यति । 'एकरगन्धि-' पनि रीलेश मावः ॥ रतिमायेति । मिनिटेशादिः । मरमणीयमिति । पश्यमागदोपारित मारः ॥ रामेब दानपानूसाह- यणापदिति । स उच्यमाने सम्मिन् । भूमी । दार १४६ काव्यमाला। कैशपाशजलनिधिमन्थनयोः संग्रहाय लक्षणे वस्त्वन्तरग्रहणमर्थवत्" इति, तत्र 'सादृश्यमूला स्मृतिः स्मरणालंकारः' इत्येतावतैव केशपाश- स्मरणसेव जलनिधिमन्थनस्मरणस्यापि संग्रहाद्वस्त्वन्तरसमाश्रयत्वविशे- षणमनर्थकम् । एकत्र सादृश्यदर्शनोद्बुद्धसंस्कारजन्यत्वेन, अपरत्र च सादृश्यदर्शनोबुद्धसंस्कारजलक्ष्मीरमरणोद्बुद्धसंस्कारजन्यत्वेन च, साह- श्यमूलकत्वस्याविशेषात् । नहि 'सादृश्यमूला' इत्युक्ते सदृशत्रिपया' इति लभ्यते । येन जलनिधिस्मृतेरसंग्रहः स्यात् ॥ * ॥ यदपि- "-'सौमित्रे ननु सेव्यातम्-' इत्यत्र स्मृतिय॑ङ्ग्यालंकार्यभूता च । तद्व्या- वृत्त्यर्थमव्यङ्ग्यत्वविशेषणम्-" इत्युक्तम् , तत्र नेयं स्मृतिरलंकार्यभूता, किं तु जानक्यालम्बनो निशासमयोद्दीपितः संतापादिनानुभावित उन्मा- देन च संचारिणा परितोपितो विप्रलम्भः प्रधानत्वेनालंकार्यः, तस्य स्मृतिरुत्कर्षहेतुत्वादलंकार एव, अतो नितरां तव्यावृत्त्यर्थमन्यङ्गयत्व- विशेषणमनुचितम् । नहि व्यङ्गयत्वालंकारत्वयोर्विरोध इति वक्तुं शक्यम्, नित्यन्यद्यानां रसभावादीनां पराङ्गतायामलंकारत्वाभ्युपग- " सादृश्येति । एवममेऽपि । फेरोति । तस्य सदृशस्वेन दृष्टान्तत्वमिति भावः। स्यादिति । इतीति शेषः । सादृश्यपदस्य नियमसंरधिक्तया संवन्ध्याकाहा. यामुपस्थितसर्यमाणस्यैवान्वयापत्तिः। न हि 'जनकत्वमूला पूज्यते इत्युके पुत्र- जनकत्वेन भार्या पूज्यते । अतो 'वस्त्वन्तरसमाश्रया' इत्यावश्यकमिति चिन्त्यः मिदम् ॥ नेयं स्मृतिरलंकार्यभूतेति । अन स्मृतेः 'हा काशि' इत्यादिप- दगम्यत्वेन विवहनप्रवृत्तराजानुगम्यमानमृत्ययत् । 'शटेन विधिना निद्रादरिती- कृत.' इलादो शादिपदगम्यास्या युद्धा, तस्या एव प्राधान्यादरवार्यत्यम् । अनुपस्वारपरवाच विप्रलम्भस्यैव तत्त्वाति चिन्यम् ॥ विप्रलम्भः श्रीराम- चन्द्रनिष्ठः। नितमिलसानोनिलेऽन्वयः । तदाशयं राण्दयति नहीति । नियेति । सर्वयेवः टिप्पणालयेति यावत । नवं प्रापान्पेऽप्यरत चित्रमीमांसासण्डनम् । नात् । प्रधानन्यायव्यावृत्त्यर्थं पुनरुपस्कारकत्वं सर्वेष्वष्यलंकारलक्षणेषु देयमिति प्रागेवावेदितम् । यदप्युक्तम्-"-'अत्युच्चाः परितः स्फुरन्ति' इत्यत्र स्मृतेः संचा- रिमावस्य भूभृद्विपयकरतिमावासत्यात्मेयोलंकारत्वम्" इति । तत्र हि भावस्य भावाद्यगतायां प्रेयोलंकारत्वम् । न ह्यत्र स्मृतिर्भावः, तस्याः स्मरतिना वाचकेनाभिधानात् । नहि वाच्यस्य व्यभिचारिणो भावत्वं वक्तुं युक्तम् । 'व्यभिचार्यजितो भावः' इति सिद्धान्तस्य भङ्गापत्तेः । तथा चोक्तं सर्वस्वकृता-"प्रेयोलंकारस्य तु सादृश्यव्यतिरिक्तनिमित्तो- स्थापिता स्मृतिविपयः । तत्रापि विभावाधारितत्वे । यथा---'अहो कोपेऽपि कान्तं मुखम्' इति, नतु खशब्दनिवेद्यत्वे । यथा- अत्रानुगोदं मृगयानिवृत्तस्तरङ्गवातेन निवृत्तसेदः । रहस्त्वदुत्सानिपतमूर्धा सारामि वानीरगृहेषु सुप्तम् । इत्यादी" इति ॥ ननु-'मावाद्यगीमतभावत्वं न प्रेयोलंकारत्वम्, अपि तु भावाघनीभूतसंचारित्वमात्रम् । तथा च मरते मरणस्य स्वशब्दनिवेद्यत्वेन गावत्तविरहेऽपि संचारित्यानपायासेयोरंगारत्वम- विरुद्धमेव-' इति चेत् । एवं तर्हि 'इतरागीभूतस्थायित्वमात्रं रसा- भारत्यापतिरत आह-प्रधानेति । सर्यपु न स्यमय । तथा पालंधरसामा- न्यलक्षमप्राप्तत्वातस नावित्रा इति भावः ॥ सिद्धान्तेति । मम्मटमारी- नामिति दोषः । तदन्थमाह-प्रेयोलमित्यादि इतीत्यन्तेन । तमापि तदुपस्यापि, न स्मृतिप्पपि । पारितत्ये भाविपतये। अग्रेति । पुष्पकम सालोऽयोप्या गरात: श्रीराम सीतां प्रयुटिरियं एवंरो । अनुगोदं गोदा. समीपे यानीरेति । यथान्येलः । मुहं सापः । इसापति परिदी-- १. मार' PANTEE. है १४८ काव्यमाला। लंकारत्वम्, नतु व्यज्यमानत्वविशिष्टम्' इत्यस्यापि सुवचत्वात् । एवं च 'चराचरोभयाकारजगत्कारणविग्रहम् । कल्पान्तकालसंक्रुद्धं हरं सर्वहरं नुमः ।।' इत्यत्र क्रोधस्य स्वशब्दनिवेद्यत्वेऽपि देवताविषयकरतिभावाशीभूतस्था- यित्वानपायाद्रसालंकारः स्यात् । न च-इष्टापत्तिः । अपसिद्धान्तात् । तस्माद-व्यज्यमानस्यैवं संचारिणो भावाद्यङ्गतायां प्रेयोलंकारत्वम्- इति नात्र स्मृतिमादाय प्रेयोलंकारत्वं वाच्यम् । किं तु भूविषयकरतेः पूर्वार्धव्यङ्ग्याया उत्तरार्धगतभूभृद्विषयकरतिभावानत्यायुक्ता प्रेयोलंका- रता । उक्तं च मम्मटमट्टैः- 'अत्र भूविपयो रत्याख्यो भावो राज- विषयकरतिभावस्य' इति ॥ अपि च महदिदमाश्चर्यम् । यखेनैव निर्मितः कुवलयानन्दाख्यः संदर्भोऽपि विस्मृतः । उक्तं च तत्र शेष- भागे-'विभावानुभावाभ्यामभिव्यञ्जितो निर्वेदादिः स यन्नापरस्याङ्गं स प्रेयोलंकारः इति । इति श्रीमट्टभट्टारकपेरुभट्टात्मजेन पण्डितराजापराभिधानेन जगनाथभेटेन निर्मिते चित्रमीमांसाखण्डने स्मरणालंकारप्रकरणम् । एवं चेति । तथा सुवचत्वे चेत्यर्थः । स्वशब्दस्येति । कुदमितीत्यर्थः । रतिभावेति । कविनिष्ठेयादिः । स्मृतिमादायेत्युक्तिफलमाह-किं त्विति । एवं च प्रेयोलंकारस सत्त्वेऽपि त्वत्कृतं तदुपपादनं चित्रमीमांसास्थम्युक्तमिति भावः । भावस्येति । अङ्गमिति शेषः । खेनैव अप्पदीक्षितेनैव । तत्र कुवल- यानन्दे । निर्वेदादित्रयस्त्रिंशत् । अपरस्य भावादेः ॥ १. 'व्यज्यमानस्यैव स्थायिनः पराङ्गत्वे यथा रसालंकारत्वम् , एवं व्यज्यमानस्यैव सं०' इति रसगङ्गाधरपाठ.. २. 'इति रसगङ्गाधरान्तर्गतचित्रमीमांसाखण्डनसंग्रह सरणालंकारप्रकरणम्' इत्यादर्शस्थपाठः. 1 चित्रमीमांसासण्डनम् । १४९ - भय रूपकप्रकरणम्। यत्तु- "बिम्बाविशिष्टे निर्दिष्टे विषये यद्यनिदुते । उपरञ्जकतामेति विषयी रूपकं तदा ॥ अन्न 'विश्वाविशिष्टे' इति विशेषणात् 'त्वत्पादनखरनानां यदलक्तकमार्जनम् । इदं श्रीखण्डलेपेन पाण्डरीकरणं विधोः । इति निदर्शनाया निरासः, तत्र विपयस्य मार्जनस्यालक्तकादिरूपविम्ब- विशिष्टत्वात् । 'निर्दिष्टे' इति विशेषणान्निगीणविषयायां 'कमलमनम्मसि कमले च कुवलये तानि कनकलतिकायाम्' इत्याद्यतिशयोक्ती नाति- व्याप्तिः । अनिद्भुते निषेधास्पृष्टे इति विशेषणादपद्भुतौ नातिव्याप्तिः । 'उपरमकतामाहार्यताप्यनिश्चयगोचरतामेति' इत्यनेन ससंदेहोप्रेक्षयो- निश्चयस्सैवाभावात् । समासोक्तो व्यवहारमात्रसमारोपात् । परिणामे चारोष्यमाणस्यैव विषयताद्रप्यनिश्चयगोचरत्वात् । प्रान्तिमति सतः कल्पितस या प्रवृत्त्यादिपर्यन्तिकस्वारसिकसमस्यैव निवन्धनेन तस्या- नाहार्यत्वात्" इत्याहुः ॥ तन्न, 'त्वत्पादनखरलानाम्' इत्यादिनिदर्शना- ज्यावृत्त्यर्थ नियाविशिष्टत्वं विषयविशेषणं तावदयुक्तमेव । तत्र वाक्या- धरपकस वक्ष्यमाणत्वेन लक्ष्यत्वात् । यदि च 'मुखं चन्द्रः' इत्यादि- विम्वेति ॥ अयं भावः यथा चन्द्र सतः शुभत्वादनायधनीयधावस्यः, तथा नसाः सतोऽस्तत्वादनारामनीयारणा इति सारश्येन मसान चन्दलच विम्मतिविन्यभावः । अलकापन्दनयोरन्याय सपागाकचेन सः याच निम्यातिविम्यभावो यत्र नसालककपिशिष्ट एप रमने तरतिविम्यस्तचन्द्रर- दनविशि पाडरीकरणमुपरकम् इति ॥ निर्दिष्ट इति । उपारित १५० काव्यमाला। रूपकान्तर इवात्रापि वस्तुविशेषे वस्त्वन्तरतादात्म्यारोपे सत्यपि नेदं रूपकम् । अपि तु निदर्शना-इत्यागृह्यते । तदा 'मुखं चन्द्रः इत्यपि निदर्शना—इत्युच्यताम् । निरस्यतां च रूपकम् ।। किं च-'इन्दु- शोभा वहत्यास्यम्-' इत्यादिपदार्थनिदर्शनायां कथमन्यस्यान्यः शोभा वोढुं समर्थ इति संबन्धस्यानुपपन्नत्वात्चच्छोभासदृशी शोभा लक्ष्यमाणा चन्द्रशोभया विपयिस्था निगीणेति साध्यवसानलक्षणामूलत्वं तावन्निर्वि- वादम् । वाक्यार्थनिदर्शनायां तु विषयविषयिणोरुपादानेऽप्यार्थ एवा- रोपो न शाब्दः । यथा- 'त्वत्पादनखरत्नानि यो रञ्जयति यावकैः । इन्दं चन्दनलेपेन पाण्डरीकुरुते हि सः ।। इत्यत्र । इह त्वत्पादनखरत्नकर्मकं याक्ककरणकं रञ्जनम् , इन्दुकर्मक- चन्दनलेपकरणकपाण्डुरीकरणभिन्नमित्यारोपस व्यङ्ग्यत्वाद्भवति निद- र्शना । 'त्वत्पादनखरत्नानाम्' इत्यत्र तु विषयविषयिणोः प्रथामा]न्त- शब्दोपाच्योरमेदसंसर्गेण बोधाच्छाब्द एवारोपो नार्थ इति रूपकमेव युक्तम्, न निदर्शना । रूपके बिम्बप्रतिविम्बभावो नास्तीति तु प्रान्ति- मात्रम् , 'ययोरिवादिशब्दप्रयोगे उपमा, तयोरेकनान्यारोपे रूपकम्' इति नियमादत्र यदि रूपकं नाझीकुरुपे, मैवाङ्गीकुरु तर्हि तत्रेवयथादेः प्रयोगे उपमामपि । एवम्- त्वयि कोपो महीपाल सुधांशाविव पावकः।' इत्यादी स्वकल्पितेन विशिष्टेन धर्मिणा सादृश्यस्य प्रत्ययादुपमा भूपे, चूहि तर्हि तत्रैवेवस्य निरासे इवर्षः ॥ तत्र येन यस व्यावृत्तिस्तकमेणाह-सममिति ॥ भगोचरत्ये . चित्रमीमांसाखण्डनम् । त्वयि कोपो महीपाल सुधांशौ हव्यवाहनः ।' इत्यादौ रूपकमपि, तथा 'कुङ्कुमद्रवलिप्साहः कपायवसनो यतिः । कोमलासपमालाप्रसंध्याकाल इवावमौ ।। इत्यत्र 'संध्याकालो न संशयः' इति कृते रूपकं भवितुं युक्तम् । 'स्वयि कोप:-' इत्यत्र 'कल्पितं रूपकम् इह तु न तथेति विशेषः ॥न च- एवमादौ प्रतीयमानोत्प्रेक्षा-इति वाच्यम् , निश्चीयमानत्वेनामेदस्य भानात् ।। किंच-आलंकारिकसंमतोऽयं रूपके विमप्रतिविम्बभावः। उक्तं हि विमशिन्याम्- 'कंदर्पद्विपकर्णकम्युमलिननाम्बुभिः झालित संलग्रासनपुञ्जकालिमकलं गण्डोपधानं रतेः। व्योमानोकहपुष्पगुच्छमलिभिः संजायमानोदरं पश्यैतच्छशिनः सुधासरुचिरं विम्व कलादितम् ।। अत्र कलस्स दानाम्ब्यादिभिः प्रतिबिम्बनम्, लन्छितत्वास्तियोः शुद्धसामान्यारूपत्वम् इति ॥ तथा 'निर्दिष्टे शब्देनामिहिते' इत्यस्य येन केनचिद्रूपेण शब्देनाभिहिते' इत्यर्थः, आहोस्वित्---'उपमेयता- चच्छेदकरूपेण शब्देनाभिहिते' इत्यर्थः, आये- 'मुन्दरं फमलं भाति सतायामिदमद्भुतम् ।' इत्यत्रातिशयोकापतिप्रसाः, सुन्दरपदेन सुन्दरत्वेन रूपेगेदंपदेन यान- मग देव आह-समेति । अथ पपादेला फंदति । गर्वत्र पीत. रुपः । कम्युः क्षः। फलं रमणीयम् । 'मनोराः पुटः शासः' । गुर- सामान्येति । मनयोधप्रतिवटभायारमायाति चिन्त्यम् ॥ द्वितीय पतयेति । माहोस्सित् भरा। इत्पर पविषयोति- १५२ काव्यमाला। नस्य प्रतिपादनात् । न च-अत्र सुन्दरपदार्थस्यारोप्यमाणकमलान्वय एव, न तु वदनरूपविषयान्वयः इति वाच्यम्, कमलपदेन कम- लताद्रूप्येणाननस्यैव लक्षणयोपस्थापनात्तत्रैव सुन्दरादिपदार्थान्वयो युक्तः, न तु विशेषणीभूतेषु कमले ॥ अथ 'तादृशं विषयमुद्दिश्य विषयितादूप्यं यन विधीयते' इत्यपि लक्षणवाक्यार्थः । प्रकृते च सुन्दरत्वावच्छिन्नमुद्दिश्य कमलताद्रूप्यस्याविधानानातिप्रसङ्गः-इति चेत्, न 'मुखचन्द्रस्तु सुन्दरः' इत्यादिरूपके समासं गतयोपियविप- विणोः पृथग्निमक्तिमन्तरेणोद्देश्यविधेयभावाबोधादव्याप्त्यापतेः ।। द्वितीये तु--'अनिद्वत-' इति विशेषणवैमर्थ्यम्, अपलतापमेयतावच्छेदफस्य निषिध्यमानतया तेन रूपेण विषयस्यानिर्दिष्टत्वादेव लक्षणस्याप्रसक्तः । विपये। अन्वय एवेति । तत एव चमत्कारात्सानिध्याचेति भावः । रूपका- विशयोक्ति ध्वनयितुमाह-कमलेति । तत्रैव आनन एव । न विति। 'पदार्थः पदार्थेन-' इति न्यायादिति भावः । तादृशं येनकेनचिद्रूपेण शब्देना- भिहितम् । इत्यपि उद्देश्यविधेयभावघटितोऽपि । अविधानादिति । तादृश- माननमुद्दिश्य मानक्रियाया एव विधेयत्वादिति भावः । यद्वा सुन्दरत्वादेः कमल- त्वादिविशिष्टे विशेषणत्वमेवोद्देश्यतावच्छेदकत्वम् । इयास्तु विशेषः- यदतिश. योकावुपमेयधर्मस्योद्देश्यतावच्छेदकत्वाभाव एव, रूपके त्वनियमः, इतीति भावः ॥ अत एवाह मुखचन्द्रस्थिति । पृथगिति । उद्देश्यविधेयमावेन बोधे मिनाविभतिजन्योपस्थितेखम्नत्वात् । तथा च व्यस्ते तथा प्रतीतिः, न समस्तै इत्नाव्याप्तिरिति भावः । ननुपमेयतावच्छेदकस्पेण शब्देनाभिहिवे इति तदर्थेन प्रागुकदोपोऽत आह-द्वितीये वितिः। अपद्धती 'नायं सुधांशुः कि तर्हि व्योमगहासरोरुहम्' इत्यत्र । अनिर्दिष्टत्वादेवेति । अन निषेधः- तियोगिविधया निर्दिष्टवादिदं चिन्सम् । न च तथा निर्दिष्टत्वेऽपि पुरस्कारा- भावः, तर्हि तावत्पर्यन्तविपशाबोधनार्थमेयानिहुत इति विशेषणसाफल्यादिति चित्रमीमांसाखण्डनम् । १५३ निश्चयगताहार्यत्वविशेषणवैयथ्यं च, प्रान्तिमति दोपविशेपेण प्रति- पिध्यमानतया नास्त्युपमेयतावच्छेदकस्पर्शः, इति वावतैव वारणात् ।। यच्चाप्युक्तम्-'अव्यङ्ग्यत्वविशेषणाच्चेदमेवालंकारभूतस्य रूपकस्स लक्षणम्-' इति । तदपि निरस्तप्रायम् । न हि व्यङ्ग्यत्वालंकारत्वयो- विरोधोऽस्ति, प्रधानन्यायरूपकवारणाय पुनरुपस्कारत्वं विशेषणमुचित- मित्यसकदावेदनात् । अनलंकारत्वस्य तुल्यतया प्रधानन्यन्यरूपकस्येव प्रधानवाच्यरूपकस्यापि वारणीयतया तद्वारकविशेषणाभावेन तत्राति- प्रसञ्जाच । रूपकलक्षणं तु रसगङ्गाधरादवगन्तव्यम् ।। इति चिनमीमांसासण्डने रूपकप्रकरणम् । - अथ परिणामः। यच वैयधिकरण्येन परिणामे दीक्षितेनोदाहतम्-- 'तारानायकशेखराय जगदाधाराय धाराघर- च्छायाघारककंधराय गिरिजास.कशृङ्गारिणे । बोध्यम् । तावतैव उक्तार्यकनिर्दिष्ट इति विशेषणेनच । इदं चिन्त्यम्-आहा- यत्वविशेषणस्य निर्दिष्ट इति विशेषणलब्धार्थक्यनतात्पर्यकत्वात् । अविशयोती लक्षणामाहात्म्यान्जायमानज्ञानसानाहार्यस्यैव जायमानत्पेन तावत्तव वारणात् । शक्यतावच्छेदकलक्ष्यतावच्छेदकयो नमिति त्वल्लिखितमतान्तरेऽपि युगपदेवो- भयोर्मानेन यायस्यैवानुपस्थितत्वात ताराहार्यत्वम् । किं च चन्द्रवृत्तिगुणवरव- लभ्यतावच्छेदकस्य चन्द्रत्वस्य च मिथोविरोधाभावेन न थाधनविसंधानम् । मुरात्वेन मुसं लक्ष्यत इति त्वअदेयमेव । रूपके नु बाधस्य स्फुटमपस्थिवत्वेन साक्षापानया वा जायमाना ताप्यप्रतिपत्तिगहार्यवेति दीक्षिताशय इति निक् ।। इदमेव प्रागुफ रूपलक्षणमेव। नन्वेवं कथमविप्ररामनिरासोऽत आह- प्रधानेति । नन्वेवमपि विनिगमनामिरहात्तथोकिरत आह-अनलमिति। मन्मते तु तेनयोभयोारणमिति मायः । इति पकाकरणम् ॥ अम परिणामः ॥ तारेति । चन्द्ररोसरायलयः । धारापरेति । नील- काव्यमाला। . नद्या शेखरिणे दृशा तिलकिने नारायणेनास्त्रिणे नागैः कङ्कणिने नगेन गृहिणे नाथाय सेयं नतिः ॥' यथा वा- 'द्विर्भावः पुप्पकेतोर्विवुधक्टिपिनां पौनरुक्त्यं विकल्प- श्चिन्तारत्नस्य वीप्सा तपनतनुभुवो वासवस्य द्विरुक्तिः । द्वैतं देवस्य दैत्याधिपमथनकलाकेलिकारस्य कुर्व- नानन्दं कोविदानां जगति विजयते श्रीनृसिंहक्षितीन्द्रः ।।' इति ॥ अत्र चिन्त्यते-'तारानायकशेखराय-' इति पद्ये तावत् गिरिजासबैकारिणि भगवति भवे नतिः प्रक्रान्ता । शृङ्गारिता च शेखरादीनि भूपणान्यपेक्षते इति नद्या आरोग्यगाणशेखररूपतयैवोपयोगी न स्वरूपेण । एवं च दृशोऽपि तिलकरूपतयेति रूपकमेव शुद्धं भवितुमर्हति ।। ननु–परिणामे विषयाभिन्नतया विषयिणोऽवस्थानम् इति भवतैवोक्तम् । तदत्र नद्यादेविषयस्य तृतीययाभेदः प्रतिपाद्यमानो विपयिणि शेखरादौ भासत इति कथं नाम रूपकं स्यात-इति चेत् 'मौनवती नयनाभ्यां करचरणास्यैः प्रफुल्लकमलपती । शैयालिनी च केशः सरसेयं मुन्दरीसरसी ।।' इत्यत्र व्यधिकरणरूपके मुन्दयां सरसीतादात्म्यस्य मीनकमलशैवालग- तैर्नयनकरादिकेशाभेदैर्मनागप्यसमर्थनात् । प्रत्युत-नयनकरादिकेशग- मीयायेत्यर्थः । नद्या गाया । हशा भालचनुपा। नगेन लागेन । फोपि. दानां पण्डितानाम् ॥ शुद्ध रूपकामियम् ॥ एवमिति । परे तु-"मीनयती उयनाभ्याम्" इत्यत्र मुन्दया सरसीतादात्म्यरूपं रूपकं मुख्यवाक्यायः । तत्र २ मीनवत्वादिः साधारणो धर्मः। तस्य च गुन्दाममावाप्राप्तराभतिस्पग. गाय 'नयनाभ्यां मीनवती' इति गुन्दरीविशेषणम् । सरसो भीनयरवं प्रसिद्ध -- चित्रमीमांसाखण्डनम् । १५५ तैमर्मीनकमलशैवालामेदैश्च समर्थनाद्यथा खनिछामेदे प्रतियोगित्वं तृती- यार्थः, एवं 'नद्या शेखरिणे दृशा तिलकिने-' इत्यनापीतिक विप- यिणि विषयप्रतियोगिकाभेदपर्यवसानम् ॥ यदि पुनरारोप्यमाणे यथा- कथंचिद्विपयाभेदप्रत्ययमात्रात्परिणामतोच्यते, तदा प्रवृत्तोऽस्याः सेक्तं हृदि मनसिजः प्रेमलतिकाम्' इति त्वदुदाहृतरूपकस्य परिणामतापत्तेः । प्रेमलतिकाम्' इति समासे प्रेम्णो विषयस्य लतिकायामारोप्यमाणाया- मभेदेन विशेषणत्वात् । विस्तृतिश्च रसगङ्गाधरादवसेया । 'द्विर्भावः पुष्पकेतो:-' इति पद्येऽपिकोविदानन्दजननजगदुत्कर्षी राज्ञो नृसिं- हस्य कथ्यते । तत्र कोविदानन्दजनकत्वं राज्ञ आरोप्यमाणद्वितीयम- न्मथादिताद्प्येण यथा संभवति, न तथा केवलेन स्वरूपेण । तथा हि-अहो नयनानामस्मदीयानां साफल्यं यदयमपरो मन्मयोऽस्माभि- रालोक्यत इति मन्यमानानां तेषां नयनानामानन्दस्तावत्पुष्पकेतुनैवोत्पा- द्यते न राज्ञा । एवम्---अपरोऽयं कल्पतरुः, द्वितीयश्चिन्तामणिः कर्णश्च, तथा वासको भूगतोऽयमन्यो दारिद्यमस्माकम्पहरिप्यति । मेव । एवं च मुन्दर्या मीनपत्वसंपादनरूपप्रकृतकार्योपयोगिनां मीनानां नयना- स्मतापत्यवेति तदंशे परिणाम एवेति नयनप्रतियोगिकाभेदयन्मीनवतीति योध इति दिक् । 'पादाम्युजं भवतु नो पिजयाय मा' इत्यादी 'रूपोपमयोः संदेह एव' इति प्राहुः ॥ कथ्यते इति । शमन्तलान्ताभ्यामिति भावः। तम द्वयोमध्ये । 'द्विर्भावः पुष्पकेतो:-- इत्यस्यामाह-द्वितीयमन्मथेति । 'विद्युध-' इति वाक्यार्यमाह-अपरोऽयं फल्पतरिति । एवं च बहुवचन कल्पभेदाभिप्रायेण । 'विकल्पचिन्तारदास्य' इत्यस्यार्थमाइ-द्वितीयश्चिन्ता- मणिरिति । द्वितीय इलसाऽप्यनुपनो योग्यः । 'तपन-इसादेयमाह- फर्ण इति । भूगत इलनेन प्रविन्द्रायतिरेक सूचितः । तं देवसला.
१५६ काव्यमाला। - हरिः खल्वयं संसारं नः परिहरिष्यतीत्यभिमानाज्जायमानस्तेपामानन्दो- ऽप्यारोप्यमाणेः कल्पवृक्षादिमिरेवेति न विपयात्मना विपयिण उप- योगः, अपि तु स्वात्मनैवेति कुत्रास्ति परिणामः । अत एवेदं पचं रूप- कप्रकरणे विमर्शिनीकारादिभिरालंकारिकैरुदाहृतमिति तद्रन्थविरोधश्च ।। यच्च विद्याधरोक्तं परिणामध्वन्युदाहरणमनूध दूपितम् । तथाहि- "नरसिंह धरानाथ के वयं तव वर्णने । अपि राजानमाक्रम्य यशो यस्य विजृम्भते ॥ अन्न राजपदेन चन्द्रे विषये निर्दिष्टे तत्रारोप्यमाणस्य नृपस्साक्रम- णरूपकार्योपयोगिनः प्रतीतेः परिणामो व्यज्यते- इति ॥ तदयुक्तम् । तत्र ह्यारोप्यमाणस्य नृपस्य नृपात्मनैवाक्रमणोपयोगः, न चन्द्रात्मना" इति । तदसत् । अत्र विजृम्भणं नाम न केवलं प्रागल्भ्यमात्रं कवेर- भिप्रेतम् , येन यशःकर्तृकाक्रमणे नृपस्य नृपात्मनैव कर्मतारूप उपयोगः स्यात् । अपि तु निरतिशयनैर्मल्यगुणवत्तायां स्वसमानजातीयद्वितीय- राहित्यप्रयुक्तः प्रोदिविशेषः । आक्रमणं न्यग्भाव एव । एवं चैवंविधे विजृम्भणे चन्द्रकर्मकमाक्रमणमुपयुज्यते, न तु नृपफर्मकमिति विपयि- तया व्यज्यमानस्यापि नृपस्य चन्द्रात्मनैयाक्रमणोपयोग इति रमणीयमेव विद्याधरेणोक्तं परिणामव्ययतायामुदाहरणम् ।। पर्थमाह-हरिरिति । दूपितमिलस्य 'चन्द्रात्मनेति' इसन्तेनान्वयः । अत्र प्रागुरुपये । गुणवत्तायां तपसाधारणधर्मे । एवं च विजृम्भणाक्रमण- योगकरूपत्वे च ॥ रमणीयमेवेति । तदं चिन्यम्-"राजशन्दसानेका. पन्चात् , विजृम्भवेध प्रागल्भ्मतदुपार्योभयपरत्वात्, प्रारणादेव शकिरकोच. पस्याभायात्, तम्प्रेग पत्येव तुल्यतयार्थदयोपस्थिती 'गर्वदो माधय पात' विदोष एवायम्, म परिणामः । पाप मन्यमानतेति प्रासनरसिंह चित्रमीमांसाखण्डनम् । त्यद्यपि परोक्ति दूपयित्वा स्वयं परिणामव्यङ्ग्यतायामुक्तम्-- "चिराद्विषहसे तापं चित चिन्तां परित्यज । नन्वस्ति शीतलं शौरैः पादाब्जनखचन्द्रमाः ॥" अत्र चिरतापाते प्रति हरिपादनखचन्द्रसद्भावप्रदर्शनेन 'तमेव निपे- वस, तन्निषेवणादयं तापस्तव शान्तिमेष्यति' इति परिणामो व्यज्यते" इति ॥ तत्तुच्छमेव । 'आरोप्यमारणस्य विपयात्मकत्वेन प्रकृतकार्योप- योगे परिणामः' इति स्वयमेवोक्तम् । तत्र प्रकृतकार्योपयोगमात्रं न परिणामशरीरम् , अपि तु विपयिगतायाः प्रकृतकार्योपयोगिताया अब- छेदकीभूतविषयतादूप्यम् । अत एव रूपकप्रकारविशेषत्वमस्यान्यैरा- लंकारिकैः स्वयं च तत्र तत्रामिहितम् । एवं चान नखचन्द्रसद्भावपद- र्शनेन 'तनिषेवणादयं ते तायः शान्तिमेव्यति' इति प्रकृतोपयोगिताया .व्याश्यत्वेऽपि तदवच्छेदकीभूतस्य विपयिणि विषयताद्रूप्यरूपस्य परि- राजोत्कर्षस चन्द्रकर्मणाक्रमणेनेवेतरपाक्रमणेनापि सूपपादत्वम् । न च द्वयोरपि राजपदार्ययोरितररियान्वये राजानाविति द्विवचनं स्यादिति वाच्यम् , "न प्राह्मणं हन्याद' इतिवदुपपत्तेः । समाहारद्वन्द्वाविषयेऽप्येकशेषस्य धियाकरणमोका. राप । भन्न पारोपः, तथापि नृपस्यैवारोप्यमाणत्वम्, चन्दस्व विषयत्वमित्यत्र नियामकामावः । भव र दीक्षिततात्पर्यम् । अपि च प्रागल्भ्यस्थापि विडम्म- सत्वेन प्रान्तकार्योपयोगिना परवेनापि नृपस्य संभवति । अत एव विद्याधरे- पापि विपपिण. खरूपेण प्रतिकार्यानपयोगित्वे तदुपयोगाय विषयिमो विपया- स्मनोपरिगलपेक्षायामेद परिणामः' इत्युखम् । यदाह- परिणाम द्विविध कपयन्सारोप्यमाणविषयवरा । परिणमति या विषयी प्रखंतवायोपयोगाय ।' इति । ननु तासविषयीभूतएतकार्यानुपयोगित्पमस्लेव-' इति पद, ससैर तात्पर्य विषयत्वे मान विभावय-" इति ॥ परोकिं बिपानापोस्टिम् । स्वयमेव अमशिवनेर ॥ चिरतापात 'तिम्' इति रोपः पारणमना:- काव्यमाला। णामस्य वाक्यवाच्यत्वाच्छक्यसंसर्गत्वाद्वा सर्वथैव न व्यङ्गयत्वं वक्तुमु. चितम् । विद्याधरोक्तोदाहरणे तु नियन्त्रिताया अभिधाया विषयचन्द्रा. भेदवेदनाक्षमतया शब्दशक्तिमूलानुसरणस्य नास्त्युपयोगः ॥ इति चिनमीमांसासण्डने परिणामप्रकरणम् । अथ ससदेहः । यत्तु- 'अस्याः सर्गविधौ प्रजापतिरभूञ्चन्द्रो नु कान्तिप्रदः शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः । वेदाभ्यासजडः कथं सविषयव्यावृत्तफौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ॥' अन चन्द्रादीनां संदेहधर्मिणामेवानेकत्वम् । प्रकारस्तु वर्णनीयव- नितासष्टत्वमेकमेवेत्यनेककोटित्याभावात्-विरोधेन परस्परप्रतिक्षेपक- तया निवद्धानेककोट्यवगाहित्वरूपस्य संशयलक्षणस्याव्याप्तिमाहुः ।। तन्न । अत्र हि 'अस्याः सर्गविधौ यः प्रजापतिरभूत् , स कि नु चन्द्रा, किं नु मदनः, किं वा नु वसन्तः' इति संशयः प्रजापतिधर्मिकश्चन्द्र- त्यादिनानाकोटिक एवेति कुत्राच्याप्तिः । न च-'अन चन्द्रादिधर्मिक संशयो युक्तो वक्तुम् । एवं च प्रजापतेः प्रथमोद्देशो न स्यात् । दोप- दानाय वाक्यान्तरकल्पनेन तथा कन्यभिप्रायवर्णनादौचित्यात् ।। - चाफ्येति । नैयायिकमतेनाह-शफ्येति । इति परिणामप्रकरणम् ॥ अस्या इति। विक्रमोर्वशीये 'उर्वशीवर्णनमिदम् । मासो यरान्तः । घनिता मष्ट्रत्वं प्रजापतिशब्दयोध्यम् । अभावादित्यव्याप्ती हेतुः । संशय- लक्षणमाह--विरोधेनेति । हि यतः । अस्या उर्वश्याः । सदुपपादनं सण्ड- यनि-न चायति । एयं घेति।चोब । यत एवं सतीसः । विधेयस्य चित्रमीमांसाखण्डनम् । १५९ यदपि प्राचां लक्षणम् 'साम्यादप्रकृतार्थस्य या पीरनवधारणा । प्रकृतार्थाश्रया तज्ञैः ससंदेहः स इप्यते ।। इति महता प्रबन्धेन त एव दूषितवन्तः ॥ तदपि न । साम्यनिमित्ता- निश्चयसंभावनान्यतरभिन्ना या धीः इति तदर्थकरणे दोपाभावात् । निश्चयत्वं तु संशयाघटितमेव निर्वक्तव्यम् ।। यदपि च संशयध्वन्युदाहरणप्रसझे.. 'कांचित्काञ्चनगौराङ्गी वीक्ष्य साक्षादिव स्वयम् । वरदः संशयाविष्टो वक्षःसलमवेक्षत ।' इत्यस्मत्कुलकूटस्थवक्षःस्थलाचार्यकृतवरदराजवसन्तोत्सवान्तर्गते पये सं- शयस स्वशब्दोपातत्वेऽपि तावन्मानस्सानलंकारत्वात्तदलंकारतामयोज- कस्य 'वक्षःस्थले स्थितैव लक्ष्मीस्ततोऽवतीर्य किं पुरस्तिष्ठति' इत्येव संशयाकारस्य 'वक्षःस्थलमवेक्षत' इत्यनेन व्यङ्ग्यत्वात्संदेहालंकृतिध्वनि- स्त्रेति ॥ यथा- 'दर्पणे च परिमोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुपः । वीक्ष्य विम्यमनुबिम्यमात्मनः कानि कान्यपि चकार लजया ॥' इत्यत्र 'कानि फान्यपि' इति सामान्यतो निर्दिष्टानुभावविशेषप्रती- त्यर्थ हजाराब्दप्रयोगेऽपि तस्याः स्वभावानुभावाभ्यां रसानुगुणामि- व्यक्तिरूपो ध्वनिः-" इत्याहुः ॥ तदेतद्धनितत्त्वजैरुषहसनीयम् । पाथालनिदि नियमारिति भावः । त पय भामरशिता एव । अनपधारनं. स्वस बारामाह-निधयेति ॥ मन्येरमन्योन्याश्रयापतिरला आह- निधयत्वं त्यिति ॥ फांचिदिति । मंच परमशि: स्थलागारदरावरान्दोमरस्थम् । परदः यायदेवता तिदिति।
काव्यमाला । तथाहि-'संशयाविष्टः' इत्यत्र संशयपदेनैकस्मिन्पदार्थे विरुद्ध नाना- पदार्थसंबन्धावगाहिज्ञानं साक्षादेव निवेद्यते । तत्र कोऽसौ विरुद्धो नानार्थ इति विशेपाकाया वक्षःस्थलावेक्षणेन 'वक्षःस्थलस्यैव लक्ष्मी- स्ततोऽवतीर्य किं पुरस्तिष्ठति' इत्यादिरों व्यञ्जनव्यापारेण मोध्यमानः शक्त्या संशयशब्दनिवेदितज्ञानविशेषणीभूतेन सामान्यार्थेन साकम- भेदेन पर्यवस्यति । एवं च 'संशयमात्रस्य शक्त्या वोधनात् 'वक्षःस्थल- स्थितैव' इत्यादिविषयविभागस्यापि विरुद्धनानार्थत्वेन सामान्याकारणा- वलीढतया तयैव कवलीकरणाद्वाच्यार्थसंशयपर्यवसायकत्वाच न कस्यापि स्वनिव्यपदेशहेतुत्वमुचितम् । सर्वथा वाच्यवृत्त्यचुम्बितस्यैव तथात्वमिति ध्वनिमार्गप्रदर्शकैः सिद्धान्तितत्वात् । तथा च द्वितीयोयोते- 'शब्दार्थशक्त्याक्षिप्तोऽपि व्यङ्ग्योऽर्थः कविना पुनः । यत्राविष्क्रियते खोक्त्या सान्यैवालंकृतिव॑नः ।। इति सूत्रयित्वा 'संकेतकालमनसं विटं ज्ञात्वा विदग्धया। र(ह)सन्नेनार्पितीकूलं लीलापन निमीलितम् ।। . । संशयेत्यर्थः । तत्र सामान्यज्ञाने। अवेक्षणेनेति । व्यसनार्थतिरपीति भाषः। संशयमाघस्येति । सर्पस्य संशयस्य । अर्थत्वेन सामेति । एतदूपसामा. न्याकारणेत्यर्थः । अवलीढेति । बोध्यतयेत्यर्थः । तथैव शक्त्यैष । कय. ठीति । योधनादित्यर्थः । नन्वेवमपि विशेषरूपेण व्यायत्यमेवात आह-- याच्यार्थेति । विशेषसंशयस्येत्यादिः । तदाह-कस्यापीति । विशेषस्या- पीत्यर्पः । सर्पथा फेनापि प्रकारेण । तथात्यं प्वनित्यम् । संफेतेति । को यावयोरतिकालस्वरसंकेतगिलन (1) दतपित्तमित्यर्थः । हसदिति रियाविशेष. १.सादास' स्यामा चित्रमीमांसासण्डनम् । अत्र संकेतकालमनसं विटं ज्ञात्वा लीलापमं निमीलितम्' इति वदता कविना लीलापानिमीलनस्य प्रदोषाभिव्यञ्जकत्वं खोक्त्यैव निवेदितमिति ध्वनिमार्गादयमपर एष गुणीभूतव्यङ्गयस मार्गः । यथा वा- 'अम्बा शेतेऽत्र वृद्धा परिणतपयसामग्रणीरन तातो निःशेषागारकर्मश्रमशिथिलतनुः कुम्मदासी तथात्र । असिन्पापाहमेका कतिपयदिवसप्रोपितप्राणनाथा पान्यायेत्थं तरुण्या कथितमवसरख्यातिव्याजपूर्वर ।' 'अत्र निःश रन्तुमायाहि' इत्यर्थश्चरणनयव्यङ्ग्योऽप्यवसव्याहृते. Oसत्वं त्रुवता कविना स्फुट खोक्त्या निवेदित इत्ययमपि न ध्वने- मार्गः" इत्याहुरानन्दवर्धनाचार्याः । एवं चैवंविधेषु विषयेषु व्यञ्जफत्यस्य व्ययस्य या मनामुक्तिसंस्पर्शमात्रेण ध्वनित्यं निराफुर्वाणाः 'कांचि- काश्चनगौराङ्गीम्' इति पये शब्दाभिहितन्याचे घनित्वं फयमिव खीकुरिन् । एतेन 'दर्पणे च परिमोगदर्शिनीम्-' इति प्रागुक्तपये लजाध्यनिलं यदभ्यधीयत, तदप्यपास्वमिति दिक् ।। इति चिनमीमासाराग्डने संशयातिः । . पम् । इति पदतेति । परसान्तवाश्यविशिष्ट पददेसः। अन्यथा त्यान्त. पापनपात्तदमिया सिदेलान्तपारयानवयं सटमेर । वाह- स्वोत्ययेति । परवान्तवारगोसः । मा प्रदेशाविरोये । एपमप्रेऽपि । पुम्भेति पान्परांगोपनमिति पनि । सानिम दासीत्यन्यः । जापाहरणार्य दासी, म अादासोति सत्यम् । रियोगापारम् । पत्रिपपेलनेन नमागम. मामायः सूक्तिः । परसरे समय र पूर्वनिलः। पूर्वदादरावनाह- व्यारेति । दिदीसागर-व्यहोति । "शि.मी.
१६२ '; काव्यमाला। अथ भ्रान्तिमान् । यच्च कविसंमतसादृश्याद्विपये पिहितात्मनि । आरोप्यमाणानुभवो यत्र स प्रान्तिमान्मतः । इतिलक्षणं तैरुक्तम् , तन्न । 'कविसंमतसादृश्यप्रयोज्यो विषय आरो- प्यमाणो यत्र वाक्संदर्भ सं प्रान्तिमान्' इति भ्रान्तिमतो लक्षणं विहाय रूपकल्यावृत्यर्थ 'पिहितात्मनि' इत्युच्यते, न चैतद्युक्तम् । न हि रूपक- वाक्य आरोप्यमाणस्यानुभवो वर्ण्यते, किं तु तस्माज्जायते । न च- अत्रानुभवान्तं प्रान्तेर्लक्षणम् , अमिमं च प्रान्तिमतः । तत्र प्रान्तिल- क्षणे रूपकातिन्याप्तिवारणाय विषये पिहितात्मनि' इति विशेषणम् इति वाच्यम् । अनुभवत्वपटिसस्स प्रान्तिलक्षणस्यानुभ्यमानाभेदास्मके रूपके क्रथमप्यवृत्तेः ॥ यदि च- -रूपकपदं रूपकबुद्धिपरमिति ग्रन्थ- — सामञ्जसं विधीयते, तदा विपयतावच्छेदकानवगाहिनि 'मरफतमणिमेदिनीघरो वा तरुणतरस्वरुरेव वा तमालः । रघुपतिमवलोक्य तत्र दूरादृषिनिकरेरिति संशयः प्रपेदे ।।" इति संशयेऽतिप्रसनः । 'कमलमिति चञ्चरीफाः, चन्द्र इति चकोरा- स्त्वन्मुखमनुधावन्ति' इति प्रान्तिसमुदायात्मके उलेखेऽतिव्याप्तेश्च ।। . . अप भ्रान्तिमान् । उच्यत इति । अयं माय:-तद्विरोपगेनारोप्यमाणानुगयस सारशिकस परिप्रतिभया फल विवक्षितम्, राप विषयपिपानसामप्यार- यप्रिम घेति । योलापुलमित्यर्थः ॥ तपेति । समारमजानुमपस तत्रापि गरपाशित मायः ॥ गनु नाम(1) संशय:त्रिय, विश्पमिदनादत भार-कमलमिति । अत एष पति-भान्सा बीती। अति. प्यामेति । उमेरायमानिसलो पारामापर्मयो- - चित्रमीमांसारसण्डनम् । १६३. मन मान्त्या संझीण उल्लेख इति चेत्, न तावतोल्लेखांशातित्र्यातिन दोषः । नहि दुग्धमागजलमागानां व्यामिश्रणमस्तीति दुग्यलक्षणं जला- शातिव्याप्तिकं कर्तुं युक्तम् । एकत्वविवक्षायाः स्वयमनुगारात् । तथा चामत्कृतरक्षण एव पर्यवसानम् ॥ यदपि च भिन्नकश्कोतरोतरान्ताबुदाहरणं इत्तम्- 'शिलानैमझरीति स्तनकलशयुगं चुम्बितं चञ्चरीकै- स्तत्रासोल्लासलीलाः किसलयमनसा पाणयः कीरदष्टाः। तहोपायालपन्त्यः पिकनिनदधिया ताडिताः कारलोक- रित्यं चोलेन्द्रसिंह लदरिमृगशा नाप्यरण्यं शरण्यम् ॥ ति । अत्र विचार्यते-खनफलाशयुगे हि न तापमारीसाक्ष्य कविसमयसिद्धम् , येन तन्मूला चचरीकाणां आन्तिरुपनियध्येत । 'दोपान्तरमूला तु सा नालंकारः' इत्यनुपदमेयोक्तम् ॥ अपि च-- धर्मिणि फलशरपकानुवादेन मारीमान्तिरूपमलंकारान्तरमुपनिषध्यमा- नमुद्वेजकमेव सादयानाम् । 'नहि सादृश्यम्लेकालंकारावच्छिने साह- श्यमूलमलंगरान्तरं शोभते । तथा---'गुसकमलं तर चन्दवरमतीमः. . য়ৈ নমঃ'বেয়া নহয় রে মাগছে - बापाशी पिद । मनशिपदलेला तापी. म उपमेहापदरनियमानाधिनोपामापरिनामी- एमाणमा संतसंगर तनमन या दुपात ाि. सदलिपर ॥ सापाले। उपेति । टेन पगार- वामप्पल मार-मपि पति । पर्मिनि नम्। मुरारमानी ...AANTART... krt.
१६४ काव्यमाला। इति प्रागेवावेदनात् ॥ प्रत्युत-कलशरूपकेण मञ्जरीसाहश्यतिरस्का- राच्च । तथा 'तत्रासोल्लासलीलाः किसलयमनसा पाणयः कीरदष्टाः' इत्यत्र विधेयाविमर्शाद्विधेयान्तरमाकावितम् । कीरैर्दष्टा इति तु मा- व्यम् । जाता इत्यध्याहारेऽपि विवक्षितस्याविधेयत्वम्, अविवक्षितं च विधेयत्वं प्रसज्येत ॥ एवम्-'तल्लोपायालपन्त्यः पिकनिनदधिया ताडिताः काकलोकैः' इत्यत्र न तावपिकनिनदास्ताडनयोग्याः काका- नाम्, येन तद्धिया आलपन्त्यस्तैस्ताब्येरन् । नापि पिकनिनदम आल- पन्तीपु संभवति, संभवन्वा न सादृश्यमूलः । 'पिकनिकरधिया' इति तु भाव्यम् ।। अथ-तदालापेषु पिकनिनदबुद्धेरपि तामु पिकबुद्ध्युत्पादन- द्वारा संभवत्येव ताडनोपयोग इति प्रयोज्यत्वार्थकतृतीयया पिकनिनद- धीप्रयोज्यकाकतकताडनकर्मत्वमालपन्तीनां सुप्रतिपादमेव इति चेत् । मैवम् । तथा प्रतीतेरसिद्धः। 'चौखुल्या हतः साधुः' इत्यादौ चोर- बुद्धिहननयोः सामानाधिकरण्येन हेतुहेतुमद्भावगमकलव्युत्पतेः ।। एवम् –'दन्तिनुख्या हतः शरैराहो बनगोचरः।' इत्यत्रापि विशेष्य- तया परावृत्चेर्दन्तिबुद्धेरावृत्तिह्ननहेतुभावावगमः । त्वदुक्तरीत्या 'दन्तबुद्ध्या' इति तु कृते योधकदर्थनेव ॥ किच-पिकानां कूजितादि- शब्दैरेव शब्दो चयंते, न तु निन्दादिशब्दैः सिंहदुन्दुभ्यादिशब्दप- रूपकम् ॥ अभ्युपेलार-प्रत्युत्तेति । एवमाये दोपमुश्त्या द्वितीये दोपमाह-- समासोल्लेति । भ्रमरमपजनकजाता इत्यर्थः । विधेयायिमादिति । विधेयसाफपनादिसर्पः। नोस्यकोटिप्रविष्टं समिति गापः । पाणी दिल पिपिएस पीरपर्नुकत्यम्य विषेपत्ये । यो दोष इति पिरामिदम् । पियेति । पसेलः । एतीयं यमाद-पयमिति । ततोपाप कौरमणाप। तापदादी। दोपमूलः संभपा सर-संमयन्येति । सरमयोगेसि । ।
चित्रमीमांसाखण्डनम् । योगयोग्यैः । तथा-प्रथमद्वितीयचरणस्पयोः स्तनपाण्योर्यथाकथं. चिरहितमपि जातान्वयमपि त्वदरिमृगशाम्' इत्येतत्पष्टयन्तमन्वेत शक्नुयात्, न तु तृतीयचरणसे 'तल्लोपायालपन्त्यः' इत्यसिन्विशेषणे विशेप्यभावेनेति तासां ताटस्थ्यमेव स्यात् । विभक्तिविपरिणामेऽपि क्रममजासंठुलत्वाभ्यां स्थितमेवेति पद्यमव्युत्पन्ननिर्मितमेवेदम् ॥ दीक्षि- तैस्तु प्रान्त्यलंकारांशमादायोदाइतमिति न तेषां तथा दोषः ॥ इति चित्रमीमांसाखण्डने धान्यलंकारः । । . अथोल्लेखः। यत्तु तैरेवाभिहितम्----"एवमपि यदि- 'कान्त्या चन्द्रं विदुः केचित्सौरभेणाम्बुजं परे । वक्रं तर वयं मस्तपसैक्यं गतं द्वयम् ॥ इत्यपयोदाहरणविशेपेऽतिव्याप्तिः शङ्कया ॥ तदानीमनेकधोल्लेखन निषेधास्पृष्टत्वेन विशेषणीयम् । तत्राद्योल्लेग्यनद्वयं परमतत्वोपन्यास- सामर्थ्यागम्यमाननिषेधमिति नातिन्याति:-" इति तन्न, "द्विविधश्चाय- मुलेख:-'शुद्धोऽलंकारान्तरसकीर्णश्च" इत्युक्त्या "श्रीकण्ठजनपद- शब्द प्रयोगेयर्थ । आसत्याकाइयो. सारसिकयोरभावादाह-यथाकथंचि- दिति । जातान्वयेति । “नाप्यरप्यं परम्यम्' इति सनिहितेनेति भावः । न विति । विभिन्न विभफित्वात्सस्सिन्सभेदामावायेति भावः । ननु विभक्तिविप- रणामेनाभेदान्वयः मुलभोऽत भाइ-विमतीति । प्रमामेति । नन्व दीक्षित. कथमुदाहृतमत माह-दीक्षितैरिति ॥ एवमपि संचविशेषणदा. मेऽपि । गम्येति । बहुप्रीहिः ॥ थीफण्टेति । पुरस्पैमुदाहरणं सोपपाद- मन्तिमदतकार.' इति भव. २. 'निनिभाईरस पाठनो नेकया। उसनमनेन समुवेर प्रचाडे ।' एडेपो मनेका दमिशेदानली. लः सात काव्यमाला। . वर्णने-पस्तपोयनमिति मुनिभिगवत" इत्यादी शुद्धः, "यमनगरमिति शयुभिः वजपचरमिति शरणागतैः, इत्यादौ प्रान्तिरूपकादिसकीर्ण:" इति स्वयमेवोक्तत्वादिहाप्यपहत्या संकीर्ण उल्लेख इत्यस्य सुवचत्वात् ॥ यदि चैवंविधापहुतिवारणाय निषेधास्पष्टत्वं विशेषणमुच्यते, तदा, 'कपाले मार्जारः पय इति कल्लेिदि शशिन- स्तरच्छिद्रप्रोतान्निसमिति करी संकलयति । रतान्ते तल्पस्था हरति पनिताप्यंशुकमिति प्रभामत्तम्चन्द्रो जगदिदमहो विनमयति इति त्वदुदाहृतान्तायलिव्याप्तिः कथं नाम वार्यत, माजीराधनेक ग्रहीतुकानेकथोल्लेखनस्य तत्रापि सत्त्वात् । स्वस्वप्रियाहारलिप्सारूप- निमित्तभेदाच ! तस्मात्सकीर्णनिवारणाय यलोऽनर्थक एवेति ।। इति चिनमीमासाखण्डन उल्लेसप्रकरणम् । খাগরিসঙ্কত। यतु अपहुतिधनाबुताम्-. 'वदालेख्य कौतूहलतरलतन्वीविरचिते विधामका चक्र रचयति सुपर्णीसुतमपि । नमुश्त्वान्यदाह हपंचरित । इत्यादी वसपोवनम्' पलादि गो। अपरावे. वस सर्वत्र सेगन्धः । हान्दार्थ. श्रीकण्ठजनपद । वदति । ता सपा धनादिभूमिनिटायाहिति भावः । यमनगरवादीनां साम्प्यानुभयगोचरतमान्वये माह-धान्तीति । यदि वेषामुपरसरतामाप्रेणान्यम, मदाह-पकेति । प्रपंपिधेति । पिरक्षणेपर्ध । त्यदुदेति । त्यया प्रभभ शस्यत्वेनोदाइवे. सर्थ । वाराान्तिविरोषस्थापि पारपायरसकरपात, सान्यया संकीर्ण रकम मादायुदाहृतम् । सद्विविध विषयस्पेवादाद मोचिलाए । मन्यमादी मम्मानित म अनेकति । पयायालय, उपसरवि-समा दिति । पदलेल्या ति । भूतपसः । गायक प्रति सरा र दिया गया था। शुदर्शनम् । सुषमा स्तं परम् । अपि चित्रमीमांसासण्डनम् । अपि खिद्यपाणिस्त्वरितमपमृज्यैतदपरा करे पोप्पं चापं मकरमुपरिष्टाच लिखति ।" इत्यादायपहुतिध्यनिरुदाहर्तव्यः । अत्र हि चक्रसुपर्णलेखनेन नायं साधारणः पुरुषः, किंतु पुण्डरीकाक्षः इति कयाचियञ्जितम् । अन्यथा तु, तस्याप्येतादृशं न संभवतीत्याशये 'नायं पुण्डरीकाक्षः, अपि तुं मन्मयः' इति तदुभयमपमृज्य पुप्पसायकमकरध्वजलेखमेन न्यजितम्" इति । तदेतदापातरमणीयम् । यावदुच्यते-चसुपर्णलेखनेन नार्य साधारणः पुरुषः किंतु पुण्डरीकाक्षः-इति कयाचिद्यजितम्' इति । तत्रापद्दुतेर्ती भागो-उपमेयनिषेधः उपमानारोपश्च इति । तयोस्ताव- दुपमानारोपभागः 'पुण्डरीकाक्षोऽयम्' इत्याकारश्वकपर्णलेखनेन व्यर्छ शक्यः, चक्रसुपर्णयोस्तत्संबन्धित्वात् । नतु-नायं साधारणः पुरुषः इत्युपमेयनिषेधमागोऽपि, व्यञ्ज कस्यारोपमात्रन्यजनेन चरितार्थतया सा- मर्थ्याभावात् । नाप्यनुभवसिद्धः सः, येन तव्यसनायोपायो गवेप्येत ! नापि गवेप्यमाणोऽपि तद्यानोपायः शब्दोऽयों वा उपलभ्यते, येना- . अम । पित्तथैव पाठः । भय मानयोग्यत्वाप देतुगर्भ विशेषगम्-सिध. पाणिरिति । अपरा सत्मापी । तस्यापि गरीयस्यापि । इत्यायन सयारानेन। पभितमिपन्ययः । तदुमयं पापम् ॥ तति। उच्यत इति श्रेषः । एमप्रेऽपि भागो महंग मनुज्यते । व्यबरेति। पासनस्लप । ननु र समयोजन मार-नापति सभ्यत १६८ काव्यमाला। नुभवकलहः स्यात् । नच साधारणपुरुषमन्तरेण पुण्डरीकाक्षतादात्म्या रोपो दुर्घट इति सोऽपि न्यज्यत इति वाच्यम् , रूपकोच्छेदापत्तेः॥ इति चिनमीमांसाखण्डनेऽपद्धतिप्रकरणम् । । इति । प्रकृतपद्य इति शेषः । दुर्घट इति । तज्ज्ञानस तत्र प्रतिपन कत्वा- दिति भावः । सोऽपि निषेधभागोऽपि । अन्यथानुपपत्त्येति भावः ।। इति रसगङ्गाधरममप्रकाशोतटिप्पण्यामपतिप्रकरणम् ॥ समाप्तोऽयं ग्रन्थः । . . १. एतमणेतु पण्डितराजजगाथस्य विषये यदतव्य तत्सर्व रसगावरभूमिकाया महामहोपाध्यायपण्डितवरदुर्गाप्रसादेवर्णितमिति तन एवायसेयम्, एतहन्यादर्शपुस्तकं । जयपुरराजगुरुश्रीलक्ष्मीदतमनुपीयुनधीदत्तशर्ममिः वाम्यमालाएं संवत् १७०९ (तिस्तातक १६५२) लिपित १७ पत्रात्मक दसमिति वेऽवीय भन्यवादाहा:. . २. एतन्मप्रणेतुन गेरामहस्य रिपयेऽपि यत्सम्यं रसगहाभरभूमिकायामेय महामा होपाध्याणितमिति तन एवारमेयम्. टिपण्यापुस्तकं तु नोपलब्धम् , तु मूल ग्रन्थोपयोग्यशोऽम्माभिरेव मेथिटवयंधीयासुन्दर श्मसाहाय्येनोदत्य संकलितः,