Banasthali University
धर्मशर्माभ्युदयम्
Front matter
पुस्तकालय
काय पुहित
बनस्थली विद्यापीठ
.....
अंगी या
पुन्नकन्नंन्या"
/15:40
....
श्रावाप्नि कमांक"
पनस्थली विद्यापीठ वनस्थली (जयपुर)
awat
Data Entered
2005
वृद्धि सं..
तारीख......
For
पुस्तकालय
गोपीनाथ
श्री
.....
सी..५०.
संकेत
संकेत
सूचीपत्र सं......
सत्र...-४८
संकेत
हुचील ........
तूचीपत्र ........
स्वात.....
No text on this page.
KAVYAMÅTA. &
THE
DHARMASARALABIIYUDAYA
HARICHANDRA,
EDITED BY
PANDIT DURGAPRASAD
AXD
KÄSINATII PANDURANG PARAD.
PRINTED AND PUBLISITRI)
THE PROPRIETOR
or
THE « NIRNAYA-SAGARA" PREK8,
BOMBAY.
1888.
Prioa 1 Rupee.
No text on this page.
(Tirgistcrril accorling 10 art It of 1867.) (an rights ar sirrmal in the publishur.)
No text on this page.
KAVYAMÅTA. &
THE
DHARMASARALABIIYUDAYA
HARICHANDRA,
EDITED BY
PANDIT DURGAPRASAD
AXD
KÄSINATII PANDURANG PARAD.
PRINTED AND PUBLISITRI)
THE PROPRIETOR
or
THE « NIRNAYA-SAGARA" PREK8,
BOMBAY.
1888.
Prioa 1 Rupee.
(Tirgistcrril accorling 10 art It of 1867.) (an rights ar sirrmal in the publishur.)
काव्यमाला. ८. महाकविश्रीहरिचन्द्रविरचितं धर्मशर्माभ्युदयम् । 10 जयपुरमहाराजाश्रितेन पण्डितव्रजलालसूनुना पण्डित- दुर्गाप्रसादेन, मुम्बापुरवासिना परबोपाह्व- पाण्डुरङ्गात्मजकाशिनाथशर्मणा च संशोधितम् । तच मुम्बथ्यां निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीतम् । १८८८ (अस्य ग्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा जावजी दादाजी इत्यस्यैवाधिकारः ।) मूल्यमेको रूप्यकः ।
No text on this page.
धर्मशर्माभ्युदयस्य विषयानुक्रमः । १ सर्गः–मङ्गलाचरणानि । सज्जनदुर्जनादिवर्णनम् । जम्बुद्वीपवर्णनम् । कनकाद्रिवर्णनम् । भारतवर्पवर्णनम् । आर्यावर्तवर्णनम् । उत्तरको- शलाख्यदेशवर्णनम् । तत्र रत्नपुराख्यनगरवर्णनम् । २ सर्गः–रत्नपुराधिपतेरिक्ष्वाकुवंशोद्भवस्य महासेननरपतेर्वणनम् । त- न्महिप्याः सुव्रताया वर्णनम् । राज्ञः सुतप्राप्तिचिन्तावर्णनम् । त- दैव प्रचेतसाख्यस्य दिव्यमुनेरुद्यानपालमुखादागमनश्रवणम् । ३ सर्गः-परिकरसमेतस्य राज्ञो मुनिदर्शनाथै गमनवर्णनम् । वनालीव- र्णनम् । उद्यानप्राप्तिवर्णनम् । तत्र मुनिवर्णनम् । मुनिमहीपालयोः समागमवर्णनम् । मुनिसमीपे राज्ञः पुत्रप्राप्तिचिन्तानिवेदनवर्णनम् । 'त्वद्गृहे पञ्चदशस्तीर्थकरो धर्मनाथः पुत्रत्वेनावतरिप्यति' इत्यादिमु- निवाक्यवर्णनम् । धर्मनाथस्य पूर्वजन्मविपये मुनि प्रति राज्ञः प्र- भस्य वर्णनम् । ४ सर्गः-धर्मनाथस्य प्राग्जन्मवृत्तान्तवर्णनोपक्रमः । धातकीखण्डाख्य- द्वीपे वत्साख्यदेशवर्णनम् । तत्र सुसीमाख्यनगरीवर्णनम् । तत्र द- शरथाख्यमहीपतिवर्णनम् । एकदा रात्रौ महीपतिना उपरक्तश्चन्द्रो दृष्टः, तं विलोख्य 'जगति कस्यापि श्रीः स्थिरा नास्ति' इति वि- चारयतो महीपतेर्वैराग्योदयस्य वर्णनम् । तृणवद्राज्यं परित्यज्य तपसे यियासुं राजानं प्रति सुमन्त्राख्यस्य तन्मन्त्रिणश्चार्वाकम- तानुकूल उपदेशः । राजकृतं तत्खण्डनं च। ततोऽतिरथाख्याय स्व- पुत्राय राज्यभारं दत्त्वा नरपतिस्तपसे वनं ययावित्यादि वर्ण- नम् । महीपतेस्तीव्रतपोवर्णनम् । तपःप्रभावात्स दिव्यतां प्राप्त इति वर्णनम् । ‘पण्मासानन्तरं स एव तव महिप्या गर्भेऽवतरि- प्यति' इति मुनिवाक्यवर्णनम् । ५ सर्गः-महासेननृपतिसभायामम्बरात्काश्चन लक्ष्मीसमेता दिव्याङ्गना अवतीर्णास्तासां वर्णनम् । 'किमर्थ युष्माकमागमनम्' इति ताः प्रति २ काव्यमाला । नृपतेः प्रश्नः । “महासेननृपतिमहिण्यां धर्मनाथोऽवतरिष्यति, तत्से- वार्थ यूयं यात' इति महेन्द्रेणादिष्टा वयमागताः, स्वयं महेन्द्रोऽपि समागमिष्यति" इत्यादि तद्वाक्यवर्णनम् । तासां नृपमहिषीसमीपे ग- मनवर्णनम् । तत्कृतं नृपमहिण्याः सेवनवर्णनम् । नृपमहिष्याः स्व- नविलोकनवर्णनम् । प्रातरुत्थाय महिण्या नृपसमीपे खने विलोकितं सर्वं कथितम्, नृपेणाप्यतिसंतुष्टेन 'तीर्थकरस्तव पुत्रतामेष्यति' इति तत्फलं कथितमित्यादिवर्णनम् । महिषीगर्भ धर्मनाथोऽवतीर्ण इति वर्णनम् । ६ सर्गः-सगर्भाया महिप्या वर्णनम् । माघशुक्लत्रयोदश्यां पुष्पनक्षत्रे धर्मनाथस्य जन्माभूदिति वर्णनम् । इन्द्रादिकृतस्य महीपतिकृतस्य च तज्जन्मोत्सवस्य वर्णनम् । ७ सर्गः-जातवेश्मनि स्थिताया महिप्या अङ्के मायानिमितमेकं शिशु निधाय धर्मनाथमपहृत्य शची शक्राय समर्पितवती, शक्रोऽपि त- मादाय सुरगजमारुह्य देवसेनासमेतो व्योमवफ्ना सुमेरुपर्वतं ज- गामेत्यादि वर्णनम् । सुमेरुपर्वतवर्णनम् । तत्र देवसेनासंनिवेशवर्णनं गजाश्वादिवर्णनं च । ८ सर्गः-सुमेरौ मणिसिंहासने शको धर्मनाथमुपवेशितवानित्यादिवर्ण- नम् । धर्मनाथाभिषेकोपक्रमवर्णनम् । क्षीरसमुद्रवर्णनम् । धर्मनाथाभि- घेकवर्णनम् । इन्द्रादिदेवकता तत्स्तुतिः । अभिषेकानन्तरं पुनरपि धर्मनाथं तन्मातुर्नुपमहिण्या अङ्के प्रापथ्य देवाः खानि धामानि जग्मुरिति वर्णनम् । ९ सर्ग:---धर्मनाथस्य बाल्यवर्णनं यौवनवर्णनं यौवराज्यप्राप्तिवर्णनं च। विदर्भाधिनाथेन प्रतापराजेन स्वदुहितुः स्वयंवरे धर्मनाथानयनाथ प्रेषितस्य दूतस्यागमनवर्णनम् । पित्राज्ञया ससैन्यस्य धर्मनाथस्य विदर्भान्प्रति गमनवर्णनम् । मार्ग प्राप्ताया गङ्गाया वर्णनम् । १० सर्ग:-विन्ध्याचलवर्णनम् । ११ सर्ग:---षड्ऋतुवर्णनम् ।
३ विषयानुक्रमः । १२ सर्गः-पुष्पावचयवर्णनम् । १३ सर्गः-नर्मदायां जलक्रीडावर्णनम् । १४ सर्ग:-~-सायंकालवर्णनम् । अन्धकारवर्णनम् । चन्द्रोदयवर्णनम् । नायिकानां प्रसाधनवर्णनम् । दूतीप्रेषणादिवर्णनम् । १५ सर्ग:--पानगोष्ठीवर्णनम् । रात्रिक्रीडावर्णनम् । १६ सर्गः-प्रभातवर्णनम् । पुनर्धर्मनाथस्य यात्रावर्णनम् । नर्मदामुत्तीर्य विदर्भदेशं प्राप्त इति वर्णनम् । विदर्भदेशवर्णनम् । तत्र कुण्डिनपु- राधिपतिना प्रतापराजेन समागमवर्णनम् । १७ सर्ग:-वयंवरवर्णनम् । तत्र राजकन्यया धर्मनाथो वृत इति वर्णनम् । धर्मनाथस्य कुण्डिनपुरप्रवेशवर्णनम् । नगरनारीचेष्टावर्णनम् । धर्म- नाथस्य विवाहवर्णनम् । पितुः सकाशादाबानार्थ दूतः समागत इति निखिलमपि कटकं सेनापतेः सुपेणास्याधीनं विधाय धर्म- नाथः चयं कुबेरोपढौकितं विमानमारुह्य वध्वा समेतो नभसा खपुरं जगामेति वर्णनम् । १८ सर्गः-रत्नपुरे धर्मनाथप्राप्तिवर्णनं महोत्सववर्णनं च । धर्मनाथपितुर्म- हासेनस्य वैराग्यवर्णनम् । धर्मनाथं प्रति तत्कृतस्य नीत्युपदेशस्य वर्णनम् । धर्मनाथस्य राज्याभिषेकवर्णनम् । महासेननृपतेर्वनगमनव- र्णनम् । धर्मनाथस्य राज्यस्थितिवर्णनम् । १९ सर्गः-अनेकमहीपतिभिः सह सुषेणस्य चित्रयुद्धवर्णनम् । २० सर्गः-पञ्चलक्षवर्षपर्यन्तं सम्यक्प्रजापालनं विधाय, एकदा रात्रौ स्फाटिके सौधशृङ्गे स्थितो धर्मनाथो गगनात्पतन्तीमुल्कामपश्यदिति वर्णनम् । उल्कावर्णनम् । धर्मनाथस्य वैराग्यप्राप्तिवर्णनम् । राज्यं प- रित्यज्य वने गतस्य धर्मनाथस्य तपश्चर्यावर्णनम् । ज्ञानप्राप्तिवर्णनम् । धर्मनाथार्थमिन्द्राज्ञया कुवेरेण निर्मिताया दिव्यसभाया वर्णनम् । तत्र सिंहासने स्थितस्य धर्मनाथस्य दिव्यैश्वर्यवर्णनम् । २१ सर्गः-धर्मनाथकृतं संक्षेपेण जिनसिद्धान्तवर्णनम् । -ग्रन्थकर्तुः प्रशस्तिः। ,
No text on this page.
काव्यमाला। महाकविश्रीहरिचन्द्रकृतं धर्मशास्युदयम् । प्रथमः सर्गः। श्रीनाभिसूनीश्चिरमझियुग्मनखेन्दवः को मुदमेधयन्तु । यत्रानमन्नाकिनरेन्द्रचक्रचूडाश्मगर्भप्रतिबिम्बमेणः ॥ १ ॥ चन्द्रप्रभं नौमि यदीयभासा नूनं जिता चान्द्रमसी प्रभा सा । नो चेत्कथं तर्हि तदद्धिलग्नं नखच्छलादिन्दुकुटुम्बमासीत् ॥ २ ॥ दुरक्षरक्षोदधियेव धात्र्यां मुहुर्मुहुर्घष्टललाटपट्टाः । यं वर्गिणोऽनल्पगुणं प्रणेमुस्तनोतु नः शर्म स धर्मनाथः ॥ ३ ॥ संप्रत्यपापाः स्म इति प्रतीत्यै वहाविवाहाय मिथः प्रविष्टाः । यत्कायकान्तौ कनकोज्ज्वलायां सुरा विरेजुस्तमुपैमि शॉन्तिम् ॥ ४॥ भूयादगाधः स विवोधवाधिर्रिस्य रैनत्रयलब्धये वः । स्फुरत्पयोबुद्दविन्दुमुद्रामिदं यदन्तस्त्रिजगत्तनोति ॥ ६ ॥ १. अस्य कायस्थवंशमुक्तामणेदिगम्बरजैनमतानुयायिन आर्द्रदेवसूनोः श्रीहरिचन्द्रम- हाकवेः समयः सम्यङ् न ज्ञायते. . हरिचन्द्रद्वयं तावत्प्रसिद्धम्-'पदबन्धोज्ज्वलो हारी कृतवर्णक्रमस्थितिः । भट्टारहरिचन्द्रस्य गद्यबन्धो नृपायते ॥' इति हर्षचरितारम्भे वाणभट्टन वर्णितः प्रथमः, विश्वप्रकाशकोपकर्तुमहेश्वरस्य पूर्वपुरुषश्चरकसंहिताटीकाकारः साहसाङ्कटपतेः प्रधानवैद्यो द्वितीयः. अनयोरेवायमप्येकतरस्तुतीयो वेति संदेहः. किं त्वयमपि (धर्मशर्माभ्युदयकर्ता) स्वकवित्वप्रौक्ष्या माघादिप्राचीनमहाकविकक्षामारो- हति, तस्मान्नााचीनः, कर्पूरमञ्जों प्रथमे जवनिकान्तर एकत्र विदूषकोक्तिव्याजेन राजशेखरोऽपि हरिचन्द्रकवि स्मरति. एकविंशतिसर्गात्मके चास्मिन्महाकाव्ये नगराण- वशैलतुपुष्पावचयजलविहारादिकाव्यवर्णनीयवस्तुवर्णनपुरःसरं चतुर्विशतिजैनतीर्थकरेषु पञ्चदशतीर्थकरस्य धर्मनाथस्य जन्मप्रभृति निर्वाणान्तं चरितं वर्णितमस्ति. २. को पृथि-. व्यांम् , मुदं हर्षम्; (अथ च) कौमुदं कुमुदसमूहम्. ३. वर्तत इति शेष:. ४. अष्टमं तीर्थ- करम्. ५. घोडशं तीर्थकरम्. ६. चतुर्विंशतितमं तीर्थकरम्. ७. सम्यग्दर्शनम्, सम्यग्ज्ञा- नम्, सम्यक्चारित्रं चेति जिनमते रत्नत्रयमुच्यते. रत्नलब्धये समुद्रसेवा समुचितैव.
२ काव्यमाला। निर्माणिते यत्पदपङ्कजानां रजोभिरन्तः प्रतिबिम्बितानि । जनाः स्वचेतोमुकुरे जगन्ति पश्यन्ति तान्नौमि. मुदे जिनेन्द्रान् ॥ ६ ॥ रत्नत्रयं तजननार्तिमृत्युसर्पत्रयीदर्पहरं नमामि । यद्भूषणं प्राप्य भवन्ति शिष्टा मुक्तेविरूपाकतयोऽप्यभीष्टाः ॥ ७ ॥ त्वद्भक्तिनदं जनमाश्रयावः साक्षादिति प्रष्टुमिवोपकर्णम् । चन्द्राश्मताटङ्कपदात्पदार्थो यस्याः स्थितौ ध्यायत भारती ताम् ॥८॥ जयन्ति ते केऽपि महाकवीनां स्वर्गप्रदेशा इव वाग्विलासाः । पीयूषनिष्यन्दिषु येषु हर्ष केषां न धत्ते सुरसार्थलीला ॥ ९ ॥ लब्धात्मलाभा बहुधान्यवृद्ध्यै निर्मूलयन्ती धैंननीरसत्वम् । सा मेघसंघातर्मपतपङ्का शरत्सतां संसदपि क्षिणोतु ॥ १० ॥ वियत्पथप्रान्तपरीक्षणाद्वा तदेतदम्भोनिधिलङ्घनाद्वा । मात्राधिकं मन्दधिया मयापि यद्वर्ण्यते जैनचरित्रमत्र ॥ ११ ॥ पुराणपारीणमुनीन्द्रवाग्भिर्यद्वा ममाप्यत्र गतिर्भवित्री। तुङ्गेऽपि सिध्यय॑धिरोहिणीभिर्यद्वामनस्यापि मनोभिलाषः ॥ १२ ॥ श्रीधर्मनाथस्य ततः स्वशक्त्या किंचिच्चरित्रं तरलोऽपि वक्ष्ये । वक्तुं पुनः सम्यगिदं जिनस्य क्षमेत नो वागधिदेवतापि ॥ १३ ॥ अर्थे हदिस्थेऽपि कविन कश्चिन्निर्ग्रन्थिगी म्फविचक्षणः स्यात् । जिह्वाञ्चलस्पर्शमपास्य पातुं श्वा नान्यथाम्भो घनमप्यति ॥ १४ ॥ हृद्यार्थवन्ध्या पदबन्धुरापि वाणी बुधानां न मनो धिनोति । न रोचते लोचनवल्लभापि स्नुहीक्षरत्क्षीरसरिन्नरेभ्यः ॥ १५ ॥ वाणी भवेत्कस्यचिदेव पुण्यैः शब्दार्थसंदर्भविशेषगी । इन्दु विनान्यस्य न दृश्यते धुत्तमोधुनाना च सुधाधुनी च ॥. १६ ।। १. चन्द्रकान्तमणिनिर्मितकर्णभूषणविशेषव्याजात्. २. सुर-सार्थलीला देवसमूह- क्रीडा; (पक्षे) सुरसा अर्थलीला. ३ बहुधा अन्यवृद्ध्यैः; (पक्षे) बहु-धान्यवृद्ध्यैः, ४. घन- नीरसत्वमत्यन्तरसशून्यत्वम्; (पक्षे) घन-नीर-सत्त्वं मेघजलास्तित्वम्. ५. मे अघसं- घातं पापसमूहम्; (पक्षे) मेघ-संघातम्. ६. निष्पापां; विगतकर्दमा च. ७. किंचिद- धिकम्. ८. 'निःश्रेणिस्त्वधिरोहिणी' इत्यमरः. ९. 'द्युत्'शब्दः किरणवाचकः, १ सर्गः] धर्मशर्माभ्युदयम् । سع श्रव्येऽपि काव्ये रचिते विपश्चित्कश्चित्सचेताः परितोषमेति । उत्कोरकः स्यात्तिलकश्चलाक्ष्याः कटाक्षभावैरपरे न वृक्षाः ॥ १७ ॥ परस्य तुच्छेऽपि परोऽनुरागो महत्यपि स्वस्य गुणे न तोपः । एवंविधो यस्य मनोविवेकः किं प्रार्थ्यते सोऽत्र हिताय साधुः ॥१८॥ साधोविनिर्माणविधौ विधातुश्र्युताः कथंचित्परमाणवो ये । मन्ये कृतास्तैरुपकारिणोऽन्ये पाथोदचन्द्रद्रुमंचन्दनाद्याः ॥ १९ ॥ पराङ्मुखोऽप्येप परोपकारव्यापारभारक्षम एव साधुः । किं दत्तपृष्टोऽपि गरिष्ठधात्रीप्रोद्धारकर्मप्रवणो न कूर्मः ॥ २० ॥ निसर्गशुद्धस्य सतो न कश्चिञ्चेतोविकाराय भवत्युपाधिः । त्यक्तस्वभावोऽपि विवर्णयोगात्कथं तदस्य स्फटिकोऽस्तु तुल्यः॥२१॥ खलं विधात्रा मृजता प्रयत्नाकि सज्जनस्योपकृतं न तेन । ऋते तमांसि द्युमणिमणिर्वा विना न काचैः स्वगुणं व्यनक्ति ॥ २२ ॥ दोषानुरक्तस्य खलस्य कस्याप्युलूकपोतस्य च को विशेषः । अहीव सत्कान्तिमति प्रबन्धे मलीमसं केवलमीक्षते यः ॥ २३ ॥ न प्रेम नत्रेऽपि जने विधत्से मित्रेऽपि मैत्री खल नातनोषि । तदेष कि नेप्यति न प्रेदोपस्त्वामञ्जसा सायमिवावसानम् ॥ २४ ॥ श्रव्यं भवेत्काव्यमदूषणं यन्न निर्गुणं वापि कदापि मन्ये । गुणार्थिनो दूषणमाददानस्तत्सज्जनादुर्जन एव साधुः ॥२५॥ अहो खलस्यापि महोपयोगः स्नेहQहो यत्परिशीलनेन । आ कर्णमापूरितपात्रमेताः क्षीरं क्षरन्त्यक्षतमेव गावः ॥ २६ ॥ आः कोमलालापपरेऽपि मा गाः प्रमादमन्तःकठिने खलेऽस्मिन् । शेवालशालिन्युपले छलेन पातो भवेत्केवलदुःखहेतुः ॥ २७॥ आदाय शब्दार्थमलीमसानि यदुर्जनोऽसौ वदने दधाति । तेनैव तस्याननमेव कृष्णं सतां प्रबन्धः पुनरुज्ज्वलोऽभूत् ॥ २८ ॥ १. दोषः; (पक्षे) रात्रिः. २. 'प्रकृष्टो दोषः; रजनीमुखं च. ३. दुर्जनः; तैलरहित- स्तिलसर्षपादिपिण्याकश्च.
४ काव्यमाला। गुणानधस्तान्नयतोऽप्यसाधुपझस्य यावद्दिनमस्तु लक्ष्मीः । दिनावसाने तु भवेद्गतश्री राज्ञः सभासंनिधिमुद्रितास्यः ॥ २९ ॥ उच्चासनस्थोऽपि सतां न किंचिनीचः स चिंत्तेषु चमत्करोति । स्वर्णाद्विशृङ्गाग्रमधिष्ठितोऽपि काको वराकः खलु काक एव ॥ ३० ॥ वृत्तिमरुहीपवतीव साधोः खलस्य वैवस्वतसोदरीव । तयोः प्रयागे कृतमजनो नः प्रबन्धवन्धुर्लभतां विशुद्धिम् ॥ ३१ ॥ अथास्ति जम्बूपपदः पृथिव्यां द्वीपप्रभान्यकृतनाकिलोकः । यो वृद्धया मध्यगतोऽपि लक्ष्म्या द्वीपान्तराणामुपरीव तस्थौ ॥ ३२ ॥ क्षेत्रच्छदैः पूर्वविदेहमुख्यैरधःस्थितस्फारफणीन्द्रदण्डः । चकास्ति रुक्माचलकर्णिको यः सद्म श्रियः पद्म इवाब्धिमध्ये॥३३॥ द्वीपेषु यः कोऽपि करोति गर्व मयि स्थितेऽप्यस्तु स मे पुरस्तात् । इतीव येन ग्रहकङ्कणाङ्को हस्तो व्युदस्तस्त्रिदशाद्रिदम्भात् ॥ ३४ ॥ पश्यन्तु संसारतमस्यपारे सन्तश्चतुर्वर्गफलानि सर्वे । इतीव यो द्विद्विदिवाकरेन्दुव्याजेन धत्ते चतुरः प्रदीपान् ॥ ३९ ॥ अवाप्य साधिपमौलिमैत्री छबधुति तन्वति यत्र वृत्ते । धत्ते समुत्तेजितशातकुम्भकुम्भप्रभां कांचन काञ्चनाद्रिः ॥ ३६ ॥ सम्यक्त्वपाथेयमवाप्यते चेहजुस्तदस्मादपवर्गमार्गः । इतीव लोके निगदत्युदस्तशैलेन्द्रहस्ताङ्गुलिसंज्ञया यः ॥ ३७ ॥ पातुं बहिर्मारुतमङ्कसुप्तलक्ष्मीलसत्कुङ्कुमपङ्कपीतः । यदन्तरुद्भिद्य महीमहीनांमभ्युत्थितो नाथ इवास्ति मेरुः ॥ ३८ ॥ चकास्ति पर्यन्तपतत्पतंगे यत्राम्बरं दीप इवोपरिष्टात् । कयापि शृङ्गाग्रघनाञ्जनानां जिघृक्षया पात्रमिव प्रदत्तम् ॥ ३९ ॥ द्यावाष्टथिव्योः पृथुरन्तरे यः कृतस्थितिः स्थूलरथाङ्गकान्त्योः । युगानुकारिध्रुवमण्डल श्रीरूवा रथस्याक्ष इवावभाति ॥ ४० ॥ १. चन्द्रस्य च. २. मरुतां देवानां द्वीपवती नदी (गङ्गा). ३. यमुना. ४. गङ्गाय- मुनासंगमरूपे तीर्थविशेषे. ५. जैनमते सूर्यचन्द्रौ नक्षत्राणि च द्विगुणानि सन्ति. 'द्रौ द्वौ रवीन्दू भगणौ च तद्वदेकान्तरौ तावुदयं व्रजेताम् । यदब्रुवन्नेवमनम्बरावा ब्रवी- म्यतस्तान्प्रति युक्तियुक्तम् ॥' इति सिद्धान्तशिरोमणी गोलाध्याये श्रीभास्कराचार्यः.
१ सर्गः] धर्मशर्माभ्युदयम् । ६ तदक्षिणं भारतमस्ति तस्य क्षेत्रं जिनेन्द्रागमवारिसेकात् । स्वर्गादिसंपत्फलशालि यत्र निष्पद्यते पुण्यविशेषसस्यम् ॥ ४१ ॥ यत्सिन्धुगङ्गान्तरवर्तिनाच्चैः शैलेन भिन्नं विजयार्धनाम्ना । भारेण लक्ष्म्या इव दुर्वहेन बभूव षट्खण्डमखण्डशोभम् ॥ ४२ ॥ तत्रार्यखण्डं त्रिदिवात्कथंचिच्युतं निरालम्बतयेव खण्डम् । ललामवन्मण्डयति स्वकान्त्या देशों महानुत्तरकोशलाख्यः ॥ ४३ ॥ अनेकपद्माप्सरसः समन्ताद्यस्मिन्नसंख्यातहिरण्यगर्भाः । अनन्तपीताम्बरधामरम्या प्रामा जयन्ति त्रिदिवप्रदेशान् ॥ ४४ ॥ यन्त्रप्रणालीचर्षकैरजस्त्रमापीय पुण्ड्रेक्षुरसासवौघम् । मन्दानिलान्दोलितशालिपूर्णा विघूर्णते यत्र मदादिवोर्वी ॥ ४५ ॥ विस्तार्य तारा रभसान्निशि द्यौः पुनः पुनर्यदिवसे प्रमाष्टि । उत्पुण्डरीकैः किल यत्सरोभिः खं लब्धसाम्यं तदमन्यमाना ॥ ४६ ॥ उत्पालिकाभ्रूस्तिमितैस्तडागचक्षुःसहस्तैरिव विस्मयेन । यद्वैभवं भूरपि वीक्ष्य धत्ते रोमाञ्चमुद्यत्कलमच्छलेन ॥ ४७ ॥ जनैः प्रतिग्रामसमीपमुच्चैः कृता द्वेषाब्यैर्वरधान्यकुटाः । यत्रोदयास्ताचलमध्यगस्य विश्रामशैला इव भान्ति भानोः ॥ ४८ ॥ नीरान्तरात्तप्रतिमावतारास्तरङ्गिणीनां तरवस्तटेषु । विभान्ति यत्रोर्ध्वगतार्कतापात्कृतप्रयत्ना इव मज्जनाय.॥ ४९ ॥ सस्यस्थलीपालकबालिकानामुल्लोलगीतश्रुतिनिश्चलाङ्गम् । यत्रैणयूथं पथि पान्थसार्थाः सल्लेप्यलीलामयमामनन्ति ॥ ५० ॥ आस्कन्धमृज्वी तदनल्पपत्रप्रसूनशाखावलया द्रुमाली । मयूरपत्रग्रथितातपत्रंश्रीर्यस्य देशाधिपतित्वमाह ॥ ११ ॥ १. अनेकानि पद्मयुक्तानि जलतडागानि येषु. स्वर्गे च पद्मा लक्ष्मीः, अप्सरसो रम्भावा:. २. असंख्यातं हिरण्यं सुवर्ण गर्भे येषाम्. हिरण्यगर्भश्च ब्रह्मा. '३. पीतम- म्बरं यैस्तादृशैर्धामभी रम्याः. असंख्यैरकषप्रासादैः शोभमाना इत्यर्थः. स्वर्गे च पीता- म्बरस्य विष्णोर्धाम. ४. तडागस्य समन्ताज्जलबन्धनार्थ निर्मितो मृत्कूटः. ५. वृषो धर्मस्तयुक्ताः पुरुषा मार्गमध्ये पान्थविश्रमार्थ स्थलानि कुर्वन्ति. .
काव्यमाला। - यत्रालिमाला स्थलपङ्कजानां सौरभ्यलोभादमितो भ्रमन्ती । विभाति लोलाध्वगलोचनानां बन्धाय सिद्धायसशृङ्खलेव ॥ १२ ॥ यं तादृशं देशमपास्यं रम्यं यत्क्षारमब्धि सरितः समीयुः । बभूव तेनैव जडाशयानां तासां प्रसिद्ध किल निम्नगात्वम् ॥ १३ ॥ भूकण्ठलोठन्नवपुण्डरीकस्त्रग्वन्धुरा गोधनधोरणी या । सा यस्य दिङ्मण्डलमण्डनाय विस्तारिणी कीतिरिवावभाति ॥ ५ ॥ कल्पगुमान्कल्पितदानशीलाञ्जेतुं किलोत्तालपतन्निनादैः । आहूयं दूराद्वितरन्ति वृक्षा फलान्यचिन्त्यानि जनाय यत्र ॥ ५५ ॥ तत्रास्ति तनपुरं पुरं यहारस्थलीतोरणवेदिमध्यम् । अलंकरोंत्यर्कतुरंगपतिः कदाचिदिन्दीवरमालिकेव ॥ १६ ॥ मुक्तामया एव जनाः समस्तास्तास्ताः स्त्रियो या नवपुष्परागाः । वैजं द्विषां मूनि नृपोऽपि यस्य वितन्वते नाम विनिश्चितार्थम् ॥१७॥ भोगीन्द्रवेश्मेदमिति प्रसिद्ध्या यहप्रवेषः किल पाति शेषः । तथाहि दीर्घान्तिकदीर्घिकास्य निर्मुक्तनिर्मोकनिभा विभाति ॥ १८ ॥ समेत्य यस्मिन्मणिबद्धभूमौ पौराङ्गनानां प्रतिबिम्बदम्भात् । मन्ये न रूपामृतलोलुपाक्ष्यः पातालकन्याः सविधं त्यजन्ति ॥ १९ ॥ प्रासादशृङ्गेषु निजप्रियाहेमाण्डकप्रान्तमुपेत्य रात्रौ । कुर्वन्ति यत्रापरहेमकुम्भभ्रमं शुगङ्गाजलचक्रवाकाः ॥ ६० ।। शुभ्रा यदभ्रंलिहमन्दिराणां लग्ना ध्वजाग्रेषु न ताः पताकाः । किं तु त्वचो घटनतः सितांशोनों चेकिंमन्तव्रणकालिकास्य ॥६१॥ कृताप्यधो भोगिपुरी कुतोऽभूदहीनभूषेत्यतिकोपकम्प्रम् । यज्जेतुमेतामिव खातिकाम्भश्छायाछलात्क्रामति नागलोकम् ।। ६२ ॥ संक्रान्तबिम्बः सवदिन्दुकान्ते नृपालये पाहरिकैः परीते । हृताननश्रीः सुदृशां चकास्ति काराधृतो यत्र रुदन्निवेन्दुः ॥ ६३ ॥ १. नीरोगाः; मौक्तिकप्रचुराश्च. २. पुष्परागो मणिभेदः; (स्त्रीपक्षे तु) वपुषि शरीरेऽरागा रागरहिता न. ३. वज्रमशनिः; हीरकश्च. ४. बहुभूषणयुक्ता; (पक्ष) अहीनामिनः सर्पराजः. ५. परिखा.
१ सर्गः धर्मशर्माभ्युदयम् । विभाति रात्रौ मणिकुटिमोर्वी संजातताराप्रतिमावतारा । दिक्षया यत्र विचित्रभूतेरुत्तानिताक्षीव कुतूहलेन । ६४ ॥ दृङ्गिनिमेषा धुसदां पतन्ती दोषाय मा भूदिति यस्य रात्र्या । उत्तार्यते मूर्ध्नि जितामरस्य नीराजनापात्रमिवेन्दुबिम्बम् ॥ १५ ॥ दुन्दह्यमानागुरुधूमवर्तिप्रवर्तिते व्योम्नि घनान्धकारे । सौधेषु यत्रोर्ध्वनिविष्टहेमकुम्भप्रभा भाति तडिल्लतेव ॥ ६६ ॥ यत्रोच्चकैश्चैत्यनिकेतनानां कूटस्थलीकृत्रिमकेसरिभ्यः । रात्रिंदिवं भीत इवान्तरिक्षे भ्राम्यत्युपात्तैकमृगो मृगाङ्कः ॥ ६७ ।' यत्रोच्चहम्यपु पतत्सपद्मव्योमापगापूरसहस्त्रशङ्काम् । वितन्वते काञ्चनकुम्भशोभासंभाव्यमानाः सितवैजयन्त्यः ॥ ६८ ॥ यत्राश्मगर्भोज्ज्वलवेश्मभित्तिप्रभाभिराक्रान्तनभस्तलाभिः । दिवापि वापीपुलिने वराकी रात्रिभ्रमात्ताम्यति चक्रवाकी ।। ६९ ॥ मरुञ्चलत्केतुकराङ्गुलीभिः संतर्जितानीव सिषेविरे यत् । अतुच्छशाखांनगरच्छलेन चतुर्दिगन्ताधिपपत्तनानि.॥ रत्नाण्डकैः शुभ्रसहस्रकूटान्याभान्ति यस्मिञ्जिनमन्दिराणि । तदृष्टमुर्वीतलनिर्गताहिमा कतानीव वपूंषि हर्षात् ॥ ७१ ॥ उदेति पातालतलात्सुधायाः सिरासहस्त्रं सरंसीषु यत्र । मन्ये ततस्तासुरसाधिकत्वं मुञ्चत्युपान्तं न च भोगिवर्गः ॥ ७२ ।। मन्थाचलामूलविलोडितान्तर्लब्धैकसत्कौस्तुभदृष्टसारः । रत्नाकरः स्याज्जलधिः कुतस्तत्सेवेत नैतत्परिखामिषाच्चेत् ॥ ७३ ॥ इतीव भाःस्तम्भितकौस्तुभानां स्तूपान्निरूप्य ज्वलता भणीनाम् । आक्रीडशैलानिव यत्र लक्ष्म्याःप्रत्येति दूरापणिकोऽपि लोकः॥७४॥(युग्मम्) पदे पदे यत्र परार्थनिष्ठा रसस्थिति कामपि नाटयन्त्यः । वाचः कवीनामिव कस्य नोच्चैश्चेतोमुदं कन्दलयन्ति वेश्याः ॥.७५ ॥ १. अश्मगर्मों हरिन्मणिः.
काव्यमाला। संगीतकारम्भरसन्मृदङ्गाः कैलासभासों वलभौनिवेशाः । वृन्दानि यत्र ध्वनदम्बुदानामनम्वुशुभ्राणि विडम्बंयन्ति ॥ ७६ ॥ रणझणत्किङ्किणिकारवेण संभाष्य यत्रान्वरमार्गखिन्नम् । मरुन्चलत्केतनतालवन्तैहावली वीजयतीव मित्रम् ॥ ७७ ॥ हारावलीनिर्झरहारि तुङ्गमवाप्य कान्तास्तनशैलदुर्गम् । यत्र त्रिनेत्रादपि निर्विशङ्कः शङ्के स्मरो भूत्रयदुर्धरोऽभूत् ॥ ७८ ॥ केशेषु भङ्गस्तरलत्वमक्ष्णोः, सरागता केवलमोष्ठयोश्च । मुक्त्वा तदास्यं सुदृशां न यत्र दोषाकरच्छायमवैमि किंचित् ॥७९॥ रात्रौ तमःपीतसितेतराश्मवेश्माग्रभाजामसितांशुकानाम् । स्त्रीणां मुखैर्यत्र नवोदितेन्दुमालाकुलेव क्रियते नभःश्रीः ॥ ८ ॥ महाजिनो नोव॑धुरा रथेनं प्राकारमारोढुममुं क्षमन्ते । इतीव यल्लङ्घयितुं दिनेशः श्रयत्यवाचीमथ चाप्युदीचीम् ॥ ८१ || नीलाश्मलीलावलभीषु जालव्यालम्बमानैर्निशि चन्द्रपादैः । प्रतारिता यत्र न मुग्धवध्वो हारावच्लेष्वपि विश्वसन्ति ॥ ८ ॥ उपर्युपारूढवधूमुखेन्दूनुदीक्ष्य मन्दाक्षमुपैति नूनम् । यत्रोच्चसौधोच्चयचूलिकाभ्यो नम्रीभवन्निन्दुरतः प्रयाति ॥ ८३ ॥ प्रालेयशैलेन्द्रविशालशालश्रोणीसमालम्बितवारिवाहम् । विराजते निर्जररांजधानीमुड्डीय यजेतुमिवात्तपक्षम् ॥ ८४ ॥ अगुरुरिति सुगन्धिद्रव्यभेदे प्रसिद्धिः संततमैविभवोऽपि प्रेक्ष्यते मेष एव । फलसमयविरुडा यत्र पक्षानपास्य क्वचिदपि न कदाचित्केनचित्केऽपि दृष्टाः ॥ ८५ ॥ अन्तःस्थितप्रथितराजविराजमानो, यः प्रान्तभूवलयिता प्रथुसालवन्धः । १. लोकत्रयजित्वरः २. श्रोणी मध्यभागः: ३. अविभवो विभवरहितः, (पक्षे) अविमेषस्तदुत्पन्नः. ४. वृक्षपक्ष विभिः पक्षिभी रुद्धाः.
धर्मशर्माभ्युदयम् । २ सर्गः] प्रत्यर्थिनाशपिशुनः परिपूर्णमूर्ते- रिन्दोरुदारपरिवेष इवावभाति ॥८६॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये प्रथमः सर्गः । द्वितीयः सर्गः। अभूदथेक्ष्वाकुविशालवंशभूः स तत्र मुक्तामयविग्रहः पुरे । नृपो महासेन इति खमेव यः कुलं द्विषन्मूर्धमदोऽप्यभूषयत् ॥ १ ॥ गतेऽपि दृग्गोचरमत्र शत्रवः स्त्रियोऽपि कंदर्पमपत्रपा दधुः । किमद्भुतं तद्धतपञ्चसायके यदद्वन्संगैरसंगताः क्षणात् ॥ २ ॥ न केवलं दिग्विजये चलच्चमूभरभ्रमद्भवलयेऽस्य जङ्गमैः । श्रिताहितत्राणकलशाशङ्कितैरिव स्थिरैरप्युदकम्पि भूधरैः ॥ ३ ॥ तदङ्गरूपामृतमक्षिभाजनैर्यदृच्छयासेचनकं पपुः स्त्रियः । प्रमातुमन्तस्तदपारयन्मनासुदश्रुदम्भान्निरगादिवाङ्गतः ॥ ४ ॥ कुलेऽपि किं तात तवेहशी स्थितिर्यदात्मजा श्रीन सभाखपि त्यजेत् । तदङ्कलीलामिति कीतिरीर्ण्यया ययावुपालब्धुमिवास्य वारिधिम् ॥ ५ ॥ तदा तदुत्तुङ्गतुरंगमक्रमप्रहारमज्जन्मणिशङ्कुसंहताम् । न भूरिबाधाविधुरोऽप्यपोहितुं प्रगल्भतेऽद्यापि महीमहीश्वरः ॥ ६ ॥ विभान्त्यमी शत्रुनिमज्जनोत्थितास्तदादि तस्यासिजलस्य बिन्दवः । न तारका व्योनि कुतोऽन्यथा भवेज्झषः कुलीरो मकरश्च तावपि ॥७॥ वितीर्णमस्मभ्यमनेन संयुगे पुनः कुतो लब्धमितीव कौतुकात् । स कस्य पृष्ठं न नतारिभूभुजः कराप्रसंस्पर्शमिषाद्वयलोकयत् ॥ ८ ॥ न मन्त्रिणस्तन्त्रजुषोऽपि रक्षितुं क्षमाः स्वमेतद्भुजगादसेः क्वचित् । इतीव भीताः शिरसि द्विषो दधुस्तदनिचञ्चन्नखरत्नमण्डलम् ॥ ९ ॥ १. शत्रवः कं दर्पमभिमानम्. पत्रं वाहन पान्तीति पत्रपाः, न पत्रपाः अपत्रपाः. वाहनरहिता इत्यर्थः; स्त्रियश्चापगतत्रपाः सत्यः कंदर्प कामं दधुः. २ सारसं गताः; संगर-संगताः. ३. 'तदासेचनक हप्तेनास्त्यन्तो यस्य दर्शनात'. ४. भुजं प्राप्तात; (पक्षे) सपात्.
१० काव्यमाला। अतुच्छमच्छाद्यमहो महविनां पयोदकाले तदसौ समुद्यते । नवाम्बुधाराविनिपातजर्जरैर्न राजहंसैन पलायितं जवात् ॥ १० ॥ समुल्लसत्खगलतापहस्तितक्लमं धरित्री समवाप्य तद्भुजम् । विषाग्निगर्भः श्वसितैरिवाकुला मुमोच मैत्री फणिचक्रवर्तिनः ॥ ११ ॥ नियोज्य कर्णोत्पलवज्जयश्रिया कृपाणमस्योपगमे समिगृहे । प्रतापदीपाः शमिता विरोधिनामहो सलज्जा नवसंगमे स्त्रियः ॥ १२ ॥ असक्तमाकारनिरीक्षणादपि क्षणादभीष्टार्थकतार्थितार्थिनः । कुतश्चिदातिथ्यमियाय कर्णयोर्न तस्य देहीति दुरक्षरद्वयम् ॥ १३ ॥ उपासनायास्य बलाभियोगतः प्रकम्पमानाः कुलपर्वता इव । समाययुरि मदाम्बुनिर्झराः क्षितीश्वरोपायनमत्तदन्तिनः ॥ १४ ।। निपीतमातङ्गघटाग्रशोणिता हठावगूढा सुरतार्थिभिर्भटैः । किल प्रतापानलमासदत्समित्समृद्धमस्यासिलतात्मशुद्धये ॥ १५ ॥ ततः श्रुताम्भोनिधिपारदश्वनो विशङ्कमानेव पराभवं तदा । विशेषपाठाय विधृत्य पुस्तकं करान्न मुञ्चत्यधुनापि भारती ॥ १६ ॥ वभुस्तदस्वाहतदन्तमण्डलात्समुच्छलन्तो हुतभुक्कणाः क्षणम् । सरक्तवान्ता वरवैरिवारणब्रजस्य जीवा इव संगराजिरे ॥ १७ ।। श्रुतं च शीलं च बलं च यत्रयं स सर्वदौदार्यगुणेन संदधत् । चतुष्कमापूरयति स्म दिग्जयप्रवत्तकीतः प्रथमं सुमङ्गलम् ॥ १८ ॥ तदीयनिस्त्रिशलसद्विधुतुदे बलाद्त्युिद्यतराजमण्डलम् । निमज्ज्य धारासलिले चमुच्चकैर्ददुर्द्विजेभ्यः प्रविभज्य विद्विषः ॥ १९ ॥ उदर्कवक्रां वनिताखभावतो विभाव्य विस्तम्भमधारयन्निव । व्यशिश्रणद्वैरिकुलाबलाहृतां स्वसंमतेभ्यो बहिरेव स श्रियम् ॥ २० ॥ विदारितारिद्विपगण्डमण्डलीसमुल्ललल्लोलशिलीमुखच्छलात् । कचेषु खड्गः क्रमकिंकरीमिव क्रुधा चकर्षास्य जयश्रियं रणे ॥ २१ ॥ १. मातङ्गघटा हस्तिसमूहः; (पक्षे) मातङ्गघटश्चण्डालकुम्भः. २. देवत्वार्थिभिः; (पक्षे) निधुवनार्थिभिः. ३. समिति युद्धे समृद्धम्; (पक्षे) समिद्भिः काष्टैः. ४. नृपस- मूहम् ; चन्द्रबिम्बं च. ५. आत्मानम् ; धनं च. ६. पक्षिभ्यः; ब्राह्मणेभ्यश्च, -- २१ सर्गः धर्मशर्माभ्युदयम् । १५१ मधुमांसासवासत्त्यावगणय्य जिनागमम् ।।b कौलादिदाम्भिकाचार्यसपर्याकारि यत्वया ॥ २८ ॥ तस्येदं भुज्यतां पक्वं फलमित्यसुरामराः । उत्कृत्योत्कृत्य तन्मांसं तन्मुखे प्रक्षिपन्त्यमी ॥ २९ ॥ पाययन्ति च निस्त्रिंशाः प्रतप्तकललं मुहुः । घ्नन्ति बध्नन्ति मनन्ति क्रकचैर्दारयन्ति च ॥ ३० ॥ खण्डनं ताडनं तत्रोत्कर्तनं यन्त्रपीडनम् । किं किं दुष्कर्मणः पाकात्सहन्ते ते न दुःसहम् ॥ ३१ ॥ कृता श्वभ्रगतेभैदात्तत्त्वरूपनिरूपणा । व्यावर्ण्यते कियानस्या भेदस्तिर्यग्गतेरपि ॥ ३२ ॥ तिर्यग्योनिर्दिधा जीवस्त्रसस्थावरभेदतः । त्रसा द्वित्रिचतुःपञ्चकरणाः स्युश्चतुर्विधाः ॥ ३३ ॥ स्पर्शसाधारणेष्वेषु नूनमेकैकमिन्द्रियम् । वर्धते रसनं घ्राणं चक्षुः श्रोत्रमिति क्रमात् ॥ ३४ ॥ वर्षाणि हादशैवायुर्मानं द्वादशयोजनम् । विवृणोति प्रकर्षेण जीवो द्वीन्द्रियविग्रहः ॥ ३५ ॥ दिनान्येकोनपञ्चाशदायुरुयक्षे शरीरिणि । पादोनयोजनं मानं जिनाः प्राहुः प्रकर्षतः ॥ ३६ ॥ आयुर्योजनमानस्य चतुरक्षस्य देहिनः । षण्मासप्रमितं प्रोक्तं जिनैः केवललोचनैः ॥ ३७॥ सहस्रमेकमुत्सेधो योजनानां प्रकीर्तितः । पूर्वकोटिमितं चायुः पञ्चेन्द्रियशरीरिणाम् ॥ ३८ ॥ पृथिवीमारुताप्तेजोवनस्पतिविभेदतः । अद्वितीयेन्द्रियाः सर्वे स्थावराः पञ्चकायिकाः ॥ ३९ ॥ द्वाविंशतिः सहस्राणि वर्षाणामायुरादिमे । द्वितीये त्रीणि सप्त स्यात्तृतीयेऽपि यथाक्रमम् ॥ ४० ॥ १.त्रसाश्चराः.
१२ काव्यमाला। महानदीनोऽप्यजडाशयो जगत्यनष्टसिद्धिः परमेश्वरोऽपि सन् । बभूव राजापि निकारकारणं विभावरीणामयमद्भुतोदयः ॥ ३३ ॥ तरङ्गिताम्भोधिदुकूलशालिनीमखर्वपूर्वापरपर्वतस्तनीम् । वरोरुदेशे स निधाय कोमलं करं बुभोजैकवधूमिव क्षितिम् ॥ ३४ ॥ अथास्य पत्नी निखिलावनीपतेर्बभूव नाम्ना चरितैश्च सुव्रता । स्थितेऽवरोधे प्रचुरेऽपि या प्रभोरभूत्सुधांशोरिव रोहिणी प्रिया ।। ३५॥ सुधासुधारश्मिमृणालमालतीसरोजसारैरिव वेधसा कृतम् । शनैः शनैर्मोग्ध्यमतीत्य सा दधौ सुमध्यमा मध्यममध्यम वयः ॥ ३६॥ स्मरेण तस्याः किल चारुतारसं जनाः पिबन्तः शरजर्जरीकृताः । स पीतमात्रोऽपि कुतोऽन्यथागलत्तदङ्गतः स्वेदजलच्छलाद्वहिः ॥ ३७ ॥ इतः प्रभृत्यम्ब न ते मुखाम्बुजश्रियं हरिप्येऽहमितीव चन्द्रमाः । प्रतीतयेऽस्याः सकुटुम्बको नखच्छलेन साध्व्याश्चरणायमस्टशत् ॥ ३८॥ प्रयाणलीलाजितराजहंसकं विशुद्धपाणि विजिगीपुवत्स्थितम् । तदनिमालोक्य न कोपदण्डभाग्भियेव पद्मं जलदुर्गमत्यजत् ।। ३९ ।। सुरत्तमप्याप्तजडोरुसंगमं तदीयजङ्घायुगलं विलोमताम् । तथा दधावप्यनुयायिनं जनं चकार पञ्चेपुकदर्थितं यथा ॥ ४० ॥ उदञ्चदुच्चैःस्तनवप्रशालिनस्तदङ्गकंदर्पविलासवेश्मनः । वरोरुयुग्मं नवतप्तकाञ्चनप्रपञ्चितस्तम्भनिभं व्यराजत ॥ ११ ॥ जडं गुरूकृत्य नितम्बमण्डलं स्मरेण तस्याः किल शिक्षितं कियत् । तथाप्यहो पश्यत सर्वतोऽमुना बुधाधिपानामपि खण्डितो मदः ॥ ४२ ॥ गभीरनाभिह्रदमजदुडुरस्मरप्रभिन्नद्विपगण्डमण्डलात् । समुच्चलन्तीव मधुव्रतावलिर्वभौ तदीयोदररोममञ्जरी ॥ १३ ॥ सुहृत्तमावेकत उन्नतौ स्तनौ गुरुनितम्बोऽप्ययमन्यतः स्थितः । कथं भजे कान्तिमितीव चिन्तया ततान तन्मध्यमतीव तानवम् ॥ ४४ ॥ १. महान्-अदीनः; महा-नदी-इनः. २. अष्टसिद्धिरहितः; (पक्षे) न नष्टा सिद्धिर्यस्य सः. ३. चन्द्रोऽपि. ४. रात्रीणाम्; (पक्षे) अरीणां शत्रूणां विभौ स्वामिनि, ५. लोमर- हितत्वम्; वैपरीत्यं च.
२ सर्गः]
धर्मशर्माभ्युदयम् ।
१३
सती च सौन्दर्यवती च पुंवरप्रसूश्च साक्षादियमेव भूत्रये ।
इतीव रेखात्रयमक्षतस्मयो विधिश्चकारात्र बलित्रयच्छलात् ॥ ४५ ॥
गुरोनितम्बादिह कामिकं गतः स नामितीर्थ प्रमथेशनिर्जितः ।
समुल्लसल्लोमलतारुरुच्छविः स्मरस्त्रिदण्डं त्रिवलिच्छलाद्दधौ ॥ ४६ ॥
कृतौ न चेत्तेन विरश्चिना सुधानिधानकुम्भौ सुदृशः पयोधरौ ।
तदङ्गलमोऽपि तदा निगद्यतां स्मरः परासुः कथमाशु जीवितः ॥ १७ ॥
सुरस्त्रवन्तीकनकारविन्दिनीमृणालदण्डाविव कोमलौ भुजौ ।
करौ तदने शुचिकङ्कणाङ्कितौ व्यराजतामन्जनिभौ च सुभ्रवः ॥ १८ ॥
सपाञ्चजन्यः कररुक्मकङ्कणप्रभोल्वणः स्याद्यदि कैटभद्विपः ।
स्फुरत्रिरेखं किल कण्ठकन्दलं तदोपमीयेत न वा नतभ्रुवः ॥ ४९ ॥
कपोलहेतोः खलु लोलचक्षुषो विधिय॑धात्पूर्णसुधाकरं द्विधा ।
विलोक्यतामस्य तथाहि लाञ्छनच्छलेन पश्चात्कृतसीवनव्रणम् ॥ १० ॥
प्रवालबिम्बीफलविद्वमादयः समा बभूवुः प्रभयैव केवलम् ।
रसेन तस्यास्त्वधरस्य निश्चितं जगाम पीयूषरसोऽपि शिण्यताम् ॥ ११ ॥
अनादरेणापि सुधासहोदरीमुदीरयन्त्यामविकारिणी गिरम् ।
हियेव काष्ठत्वमियाय वल्लकी पिकी च कृष्णत्वमधारयत्तराम् ॥ १२ ॥
ललाटलेखाशकलेन्दुनिर्गलत्सुधोरुधारेव घनत्वमागता ।
तदीयनासा द्विजरत्नसंहतेस्तुलेव कान्त्या जगदप्यतोलयत् ॥ ५३ ॥
जितास्मदुत्तंसमहोत्पलैयुवां क्व याथ इत्यध्वनिरोधिनोरिव ।
उपात्तकोपे इव कर्णयोः सदा तदीक्षणे जग्मतुरन्तशोणताम् ॥ १४ ॥
इमामनालोचनगोचरां विधिविधाय सृष्टेः कलशार्पणोत्सुकः ।
लिलेख वक्त्रे तिलकामध्ययो वोर्मिषादोमिति मङ्गलाक्षरम् ॥ ५५ ॥
उदीरिते श्रीरतिकीर्तिकान्तिभिः श्रयाम एतामिति मौनवान्विधिः ।
लिलेख तस्यां तिलकाङ्कमध्ययोर्बुवोर्मिषादोमिति संगतोत्तरम् ॥ ५६ ॥
कपोललावण्यमयाम्बुपल्वले पतत्सतृष्णाखिलनेत्रपत्रिणाम् ।
ग्रहाय पाशाविव वेधसा कतौ तदीयकर्णी प्रथुलांसचुम्बिनौ ॥ १७ ॥
१४ काव्यमाला। स्मरेण कालागुरुपत्रवल्लिवल्ललाटलेखामिषतो नतभुवः । अशेषसंसारविशेषकैर्गुणैर्जगत्रये पत्रमिवावलम्बितम् ॥ ५८ ॥ अनिन्द्यदन्तद्युतिफेनिलाधरप्रवालशालिन्युरुलोचनोत्पले । तदास्यलावण्यसुधोदधौ बमुस्तरङ्गभङ्गा इव भङ्गुरालकाः ॥ १९ ॥ तदाननेन्दोरधिरोहता तुलां मृगाङ्क चित्तेऽपि न लज्जितं त्वया । यतोऽसि कस्तत्र पयोधरोन्नतो स मूढ यत्राभ्यधिकं व्यराजत ॥ १० ॥ समग्रसौन्दर्यविधिद्विषो विधेपुंणाक्षरन्यायवशादसावभूत् । तदास्य जाने निपुणत्वमीहशीमनन्यरूपां कुरुते यदापराम् ।। ६१ ।। सरस्वतीवार्थमनिन्द्यलक्षणा गुणान्विता चापलतेव धन्विनम् । विभेव भास्वन्तमतीव निर्मला तमेकभूपालमलंचकार सा ॥ ६२ ।। अथैकदान्तःपुरसारमुन्दरीशिरःख तामवलोक्य तत्पतिः । इति स्थिरोत्तानितनेत्रमर्थिनामचिन्त्यचिन्तामणिरप्यचिन्तयत् ॥ १३ ॥ चकार यो नेत्रचकोरचन्द्रिकामिमामनिन्द्यां विधिरन्य एव सः । कुतोऽन्यथा वेदनयान्वितात्ततोऽप्यभूदमन्दद्युति रूपमीदृशम् ॥ ६ ॥ द्रुमोत्पलात्सौरभमिक्षुकाण्डतः फलं मनोज्ञां मृगनाभितः प्रभाम् । विधातुमस्या इव सुन्दरं वपुः कुतो न सारं गुणमाददे विधिः ॥ १५ ॥ वर्वयोवेषविवेकवाग्मिताविलासवंशव्रतवैभवादिकम् । समस्तमप्यत्र चकास्ति तादृशं न यादृशं व्यस्तमपीक्ष्यते क्वचित् ॥६६॥ न नाकनारी न च नागकन्यका न च प्रिया काचन चक्रवर्तिनः । अभूद्भविष्यत्यथवास्ति साध्विमा यदङ्गकान्त्योपमिमीमहे वयम् ॥ ६७ ॥ असारसंसारमरुस्थलीभ्रमलमाहिन्नेत्रपतत्रिणां मुदे । मृगीदृशः सिक्त इवामृतष्ठवैरहो प्रवृद्धो नवयौवनद्रुमः ॥ ६८ ॥. 'फलं तथाप्यत्र यथर्तुगामिनः सुताद्वयं नोपलंभामहे वयम् । अनन्यसक्तावनिभारखिन्नवनिरन्तरं तेन मनो दुनोति नः ।। ६९ ॥ सहस्रधा सत्यपि गोत्रज जने सुतं विना कस्य मनः प्रसीदति । अपीद्धताराग्रहगमितं भवेडते विधोामलमेव दिङ्मुखम् ॥ ७० ॥ १. सरस्वती; पीडा च. २. कर्णिकारपुष्पात, ३. श्यामलम्.
F . २ सर्गः] धर्मशर्माभ्युदयम् । । चन्दनेन्दीवरहारयष्टयो न चन्द्ररोचीपि न चामृतच्छटाः । सुताङ्गसंस्पर्शसुखस्य निस्तुलां कलामयन्ते खलु पोडशीमपि ॥ ७१ ॥ असावनालोक्य कुलाङ्करं मम स्वभोगयोग्याश्रयभङ्गशङ्किनी । वेशोषयत्युच्छसितैरसंशयं मदन्वयश्रीः करकेलिपङ्कजम् ॥ ७२ ॥ नमो दिनेशेन नयेन विक्रमो वनं मृगेन्द्रेण निशीथमिन्दुना । प्रतापलक्ष्मीबलकान्तिशालिना विना न पुत्रेण च भाति नः कुलम् ॥७३॥ क यामि तल्कि नु करोमि दुष्करं सुरेश्वरं वा कमुपैमि कामदम् । इतीष्टचिन्ताचयचक्रचालितं क्वचिन्न चेतोऽस्य बभूव निश्चलम् ॥ ७ ॥ इत्थं चिन्तयतोऽथ तस्य नृपतेः स्फारीभवचक्षुपो निर्वातस्तिमितारविन्दसरसीसौन्दर्यमुद्रामुपः । कोऽप्युद्यत्पुलकाङ्कुरः प्रमदजैः सिक्तश्च नेत्राम्बुभि- जिावाप इवाप वाञ्छिततरोरुद्यानपालः स तम् ।। ७५॥ अथ स देण्डधरेण निवेदितो विनयतः प्रणिपत्य सभापतिम् । दुरितसंविदनध्ययनं सुधीरिति जगाद सुधास्नपिताक्षरम् ॥ ७६ ॥ राकाकामुकवद्दिगम्बरपथालंकारभूतोऽधुना वाह्योद्यानमवातरग्रहपथात्कश्चिन्मुनिश्चारणः । यत्पादप्रणयोत्सवात्किमपरं पुष्पाकुरच्छद्मना वृक्षैरप्यनपेक्षितात्मसमयैः क्षमापाल रोमाञ्चितम् ॥ ७७ ।। क्रीडाशैलप्रस्थपद्मासनस्थस्तत्वाभ्यासैः स प्रचेता इतीदम् । नामाख्यातं पाश्ववर्तिव्रतीन्द्रः कुर्वन्नास्ते तत्र संसूत्रितार्थम् ॥ ७८ ॥ इत्याकस्मिकविस्मयां कलयतस्तस्मात्क्लमच्छेदिनी ज्योत्स्नावद्यतियामिनीशविपयां वार्तामवात्तोत्सवाम् । दृग्भ्यामिन्दुमणीयितं करयुगेणाम्भोजलीलायितं पारावारजलायितं च परमानन्देन राज्ञस्तदा ॥ ७९ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये द्वितीयः सर्गः । १. प्रतीहारेण.
काव्यमाला। तृतीयः सर्गः । अथोत्थाय नृपः पीठाद्भानुः पूर्वाचलादिव । साधोः प्रचेतसस्तस्य दिशं प्राप्य ननाम सः ॥ १॥ स तस्मै वनपालाय ददौ तोषतरोः फलम् । मनोरथलताबीजप्राभृतस्येव निष्क्रयम् ॥ २ ॥ आज्ञामिव पुरि क्लेशनिष्कासनपटीयसीम् । मुनीन्द्रवन्दनारम्भमेरी प्रादापयन्नृपः ॥ ३ ॥ व्यानशे ककुभस्तस्याः कादम्बिन्या इव ध्वनिः । उत्कयन्निर्भरानन्दमेदुरान्पौरकेकिनः ॥ ४ ॥ चन्दनस्थासकैहास्यं लास्यमप्युल्लसङ्घजैः । पुष्पोत्करैश्च रोमाञ्चं पुरमप्याददे तदा ॥ ५ ॥ अमान्त इव हर्येभ्यस्तदा गमनसंमदात् । पौराः प्रथितनेपथ्याः स्वेभ्यः स्वभ्यो विनिर्ययौ ॥ ६ ॥ बहिस्तोरणमागत्य रथाश्वेभनिषादिनः । दूता इवार्थसंसिद्धेस्तमुदेवन्त पार्थिवाः ॥ ७ ॥ दिगम्बरपदप्रान्तं राजापि सह कान्तया । प्रतस्थे रथमास्थाय प्रभया भानुमानिव ॥ ८ ॥ नृपाः संचारिणः सर्वे तमाविष्कृतसात्त्विकम् । मुनीन्द्रवन्दनारूढं रसं भावा इवान्वयुः ॥ ९ ॥ सज्जालकानसौ तत्र मैत्तवारणराजितान् । गृहानिव नृपान्प्रेक्ष्य पिप्रिये प्रान्तवर्तिनः ॥ १० ॥ . प्रागेव जग्मुरुद्यानं सेवाक्षणविचक्षणाः । फलपुष्पाहरास्तस्य मूर्तिमन्त इवर्तवः ॥ ११ ॥ १. प्रचेतोनामकस्य यतेः; (पक्षे) प्रचेतसो वरुणस्य दिशं पश्चिमाम्. २. सज्ज- अलकान्; सत्-जालकान्. जालको गवाक्षः. ३. 'उक्तो मत्तवारणस्तु प्रभिन्नकटकु. अरे । क्लीबं प्रसादवीथीनां कुन्दवृक्षवृतावपि ॥' इति मेदिनी. ..
३.सर्गः] धर्मशर्माभ्युदयम् । परस्सराङ्गसंघघ्रष्टहारावचूलकैः। पथि दुःसंघरो मार्गों मार्गः पाशैरिवाभवत् ॥ १२ ॥ दृष्टया कुवलयस्यापि जेता दैर्शितविग्रहः । नेत्रोत्सवाय नारीणां नारीणां सोऽमवन्नृपः ॥ १३ ॥ सोऽङ्गलावण्यसंक्रान्तपौरनारीनरेक्षणः। गैन्धर्वैरावतः साक्षात्सहस्राक्ष इवाबभौ ॥ १४ ॥ बमुस्तस्य मुखाम्भोजपर्यन्तभ्रान्तपट्पदाः । अन्तर्मुनीन्दुसंधानान्निर्यवान्तलवा इव ॥ १५ ॥ विभ्र विभ्रमश्चारुतिलकामलकावलिम् ।। उछसत्पश्रवलीको 'दीर्घनेत्रधृताञ्जनः ॥ १६ ॥ युक्तोऽप्युत्ताल'नांगैः सालसंगममादधत् । कामाराम इवाराम पौररामाजनो ययौ ॥ १७ ॥ (युग्मम्) पुरंध्रीणां स वृद्धानां प्रतीच्छन्नाशिपः शनैः इष्टसिद्धेरिव द्वार पुरैः प्राप महीपतिः ॥ १८ ॥ यतिमावपरः कान्ति बिभ्रदभ्यधिकां नृपः । निश्चक्राम पुराच्छोकः कवीन्द्रस्य मुखादिव ॥ १९ ॥ शाखानगरमालोक्य पुरः प्रान्ते स पिप्रिये । तनूजमिव कान्ताया बहुलक्षणमन्दिरम् ॥ २० ॥ १. मृगसमूहः. २. भूमण्डलस्य, उत्पलत्य च. ३ दर्शितशरीर कृतयुद्धच. ४. न- भरीणाम्.५. अश्वैः देवयोनिविशेषेश्व. ६. पक्षिणां भ्रमणेन सहितः; हावविशेषसहितच, ७. चारुतिलकयुको चूर्णकुन्तलपतिम् (पक्षे) तिलक आमलकश्च वृक्षविशेषो. . कस्तू- योंदिरसेन स्तनकपोलादिषु कृता रचना पनवाली; (पक्षे) उल्लसन्त्यः किसलययुक्ता लता यस्मिन्स.. ६. दीर्घलोचनन्यस्तकज्जलः, (पक्षे) दीर्घेण मृलेन धृता अझना वृक्षवि- शेषा यत्र. १०. वृक्षविशेषैः पुरुषश्रेष्ठश्चः. ११. सालसं-गमम्; साल-संगमम्, सालो वृक्ष- विशेषः, १२. नगरस्य. १३. यतिः संन्यासी; (पक्षे) पाठविच्छेदस्यलम्. १४. पहुल- क्षण; बहुलक्षण. क्षण उत्सवः, ३ १० काव्यमाला। प्रागेव विक्रमवाध्यो भवानीतनयोऽप्यभूतु । व्यक्तं पुनर्महासेनो महासेनावृतस्तदा ॥ २१ ॥ उच्चैस्तनशिखोल्लासिपत्रशोभामदूरतः । वनाली वीक्ष्य भूपालः प्रेयसीमित्यभाषत ॥ २२ ॥ कान्तारतरवो नैते कामोन्मादकतः परम् । अभवन्नः प्रीतये सोऽप्युद्यन्मधुपराशयः ॥ २३ ॥ अनेकविटपस्टष्टपयोधरतटा स्वयम् । वदत्युद्यानमालेयमैकुलीनत्वमात्मनः ॥ २४ ॥ उल्लसत्केसरो रक्तपलाशः कुञ्जराजितः । कण्ठीरव इवारामः कं न व्याकुलयत्यसौं ॥ २५ ॥ सैन्यकोलाहलोत्तिष्ठद्विहंगावलयो द्रुमाः । अस्मदागमनोत्क्षिप्तपताका इव भान्त्यमी ॥ २६ ॥ संचरच्चञ्चरीकाणां धोरणिस्तोरणस्त्रजम् । विडम्बयति कान्तारे हरिन्मणिमयीमियम् ॥ २७ ॥ पल्लवव्याप्टतास्यानां सूरस्यन्दनवाजिनाम् । फेनलेशा इवाभान्ति गुमाग्रकुसुमोत्कराः ॥ २८॥ त्वङ्गत्तुङ्गतुरंगोमस्तीरगं सैन्यवारिधेः । पुजिताबालंशेवालशोभामभ्येति काननम् ॥ २९ ॥ १. भवानी-तनयः (कार्तिकेयः). स च वेः पक्षिणः स्ववाहनमयूरस्य क्रमेण पादन्या- सेन श्लाघ्यः; (पक्षे) भव-आनीत-नयः. २. महासेन इति कार्तिकेयस्य नामान्तरम्; (पक्षे) महती सेना यस्य. ३. उच्चैः-स्तनशिखा (कुचाग्रभागः); उच्चस्तन-शिखा. ४. उद्यन्मधुपराशयः समुल्लसद्भमरश्रेणयः कामोन्मादकृतो मदनोद्दीपकाः कान्तार-तरवो वनवृक्षाः परं नः प्रीतयेऽभवन्, सोऽपि कान्ता-रत-रवः कान्तायाः सुरतकालीनं मणितं नः प्रीतयेऽभवत्. कीदृशः कान्तारतरवः. कामोन्मादेन कृतः; उद्यत्-मधु-पर-आशयश्च. ५. षिङ्गस्पृष्टकुचा; वृक्षस्पृष्टमेघा च. ६. नीचकुलोत्पनत्वम्; अभूमिलीनत्वं च, उन्नत- त्वमिति यावत. ७. केसरो वृक्षविशेषः; (पक्षे) उल्लसत्स्कन्धोत्पन्नकेशः.८. रक्तवर्णा प- लाशा यस्मिन् (पक्षे) रक्तं रुधिरं पलं मांसं चाश्नाति. 5. कुज-राजितः; कुअर-अजितः.
३ सर्गः] धर्मशर्माभ्युदयम्। १९ उत्क्षिप्तसहकाराग्रमञ्जरीरुक्मदण्डिकः । उत्सारयंल्लवङ्गैलालाञ्चिकर्पूरचम्पकान् ॥ ३० ॥ कासारसीकरासारमुक्ताहारविराजितः । प्रेर्यमाणो मुहुर्वेललताहस्ताग्रसंज्ञया ॥ ३१ ॥ अयमस्माकमेणाक्षि चन्दनामोदमुन्दरः । मरुदभ्यर्णतामेति वेत्रीवोद्यानभूपतेः ॥ ३२ ॥ (विशेपकम्) तन्वाना चन्दनोद्दामतिलकं वदने किल । करोत्यक्षतर्वाभिर्मङ्गलं मे वनस्थली ॥ ३३ ॥ एताः प्रवालहारिण्यो मुदा भ्रमरसंगताः । मरुन्नर्तकतालेन नृत्यन्तीव वने लताः ॥ ३४ ॥ निरूपयन्निति प्रीत्या प्रियायाः प्राप्य काननम् । तत्क्षणादक्षमत्याक्षीदौद्धत्यमिव पार्थिवः ॥ ३५ ॥ तत्कालोत्सारिताशेपराजचिह्नो व्यराजत । गुरून्नभिव्रजन्नेप विनयो मूर्तिमानिव ॥ ३६ ॥ नक्षत्रैरुन्नतैर्युक्तः सकान्तः केलिकाननम् । कराग्रं कुद्मलीकृत्य रोजा घनमिवाविशत् ॥ ३७ ॥ ददर्शाशोकमस्तोकस्तबकैस्तत्र पाटलम् । रागैश्छन्नमिवासन्नमुनीनां मुक्तमानसैः ॥ ३८ ॥ अधस्तात्तस्य विस्तीर्णे स्फाटिकोपलविष्टरे । तपः प्रगुणितागण्यपुण्यपुग्नमिव स्थितम् ॥ ३९ ॥ दत्तनेत्रोत्सवारम्भमाश्रितं मुनिसत्तमैः । ऋक्षैरिव धरोत्तीर्ण क्षणं नक्षत्रनायकम् ॥ १०॥ प्रतीहारः. २. चन्दनवृक्षणोद्दामं तिलकं वृक्षविशेषम् ; (पक्षे) चन्दनस्योद्दामं तिलक विशेषकम्. ३. अक्षताभिर्दूर्वाभिः; अक्षतरभन्नतण्डुलेयुक्ताभिर्वाभिश्च. ४. प्रवालैः पल्लवैः विद्रुमैश्च. ५. भ्रमर-संगताः; भ्रमरसं-गताः. ६. अक्षं रथम; आयव्ययादिव्यवहार- चिन्तां वा. ५. नक्षत्रैः क्षत्रियः; (पक्षे) उद्दुभिः ८. बद्धाञ्जलिः; संकुचितकिरणश्च. १. , ९. राजा चन्द्रः.
२० काव्यमाला । अन्तरस्तावकाशेन ज्ञानसिन्धुमहोर्मिभिः । मलेन लिप्तबाह्याङ्गे दर्शयन्तमनादरम् ॥ ४१ ॥ अत्यन्तनिःसहैरङ्गैर्मुक्ताहारपरिग्रहः । व्यक्तयन्तमिवासक्ति मुक्तिकान्तानुबन्धिनीम् ॥ ४२ ॥ नासावंशाग्रविन्यस्तस्तोकसंकोचितेक्षणम् । भावयन्तमथात्मानमात्मन्येवात्मनात्मनः ॥ १३ ॥ दर्शनज्ञानचारित्रतपसामेकमाश्रयम् । क्षमागारं गतागारं मुनिमैक्षिष्ट पार्थिवः ॥ ४४ ॥ (कुलकम्) अथास्पदं नेभोगानां स्वर्णशैलमिव स्थिरम् । गुरुं प्रदक्षिणीकृत्य स राजा विशदांशुकः ॥ ४५ ॥ इलामूलमिलन्मौलिनत्वा भूमौ न्यविक्षत । न परं विनयश्रीणामाश्रयः श्रेयसामपि ॥ ४६॥ (युग्मम्) मङ्गलारम्भसंरम्भप्रध्वनकुन्दुभिध्वनिम् । विडम्बयन्नथोवाच वाचमाचारवानिति ॥ ४७ ।। त्वत्पादपादपच्छायां चिन्तासंतापशान्तिदाम् । संप्रति प्राप्य मुक्तोऽस्मि भवभ्रमपरिश्रमात् ।। ४८ ॥ यदभूदस्ति यद्यच्च भावि स्वं जन्म तन्मया । निर्णीतं पुण्यवन्नाथ त्वदालोकनमात्रतः ॥ ४९ ॥ तपोन्वितेन सूर्येण सदोषेणेन्दुनापि किम् । यो भवानिव दृष्टोऽपि न भिनल्यान्तरं तमः ॥ ५० ॥ चित्रमेतज्जगन्मिने नेत्रमैत्री गते त्वयि । यन्मे जडाशयस्यापि पङ्कजातं निमीलति ॥ ११ ॥ १. मुक्त-आहार; मुक्ता-हार. २. न-भोगानाम्; (पक्षे) नभोगानां देवानाम्. ३. गी- पतिम्; यति च. ४. स्वच्छवस्त्रः; निर्मलकिरणश्च. ५. सूर्य: सुहृदि च. ६. मन्दबुद्धेः, जलाशयस्य तडागादेश्च. ७. पापसमूहः, कमलं च, ३ सर्गः धर्मशर्माभ्युदयम् । २१ युष्मत्पदप्रयोगेण पुरुषः स्याद्यदुत्तमः । अर्थोऽयं सर्वथा नाथ लक्षणस्याप्यगोचरः ॥५२॥ तथा मे पोषिता कीर्तिस्त्वद्दर्शनरसायनैः । यथास्तां त्रिदशावासे मात्यैनन्तालयेऽपि न ॥ ५३ ॥ निनिमेषं गलदोपं निर्व्यपेक्षमपक्ष्मलम् । ज्ञानचक्षुः सदोन्निद्रं न स्खलत्येव ते क्वचित् ॥ ५४॥ सिद्धमिष्टं त्वदालोकाज्ज्ञातं च ज्ञानिना त्वया । तत्पुनः प्रोच्यतेऽस्माभिः शंसितुं जाड्यमात्मनः ॥ ५५ ॥ इयं प्राणप्रिया पत्नी समयेऽपि स्थिता सती । निप्फलेव क्रियात्यर्थमनपत्या दुनोति माम् ॥ ५६ ॥ अदृष्टसंततिः स्पष्टमिष्टार्थप्रसवामपि । इमामहं भहीं मन्ये केवलं भारमात्मनः ॥ ५७ ॥ चतुर्थपुरुषार्थाय स्टहयालोर्ममाधुना । अदर्शनायते मोहान्नन्दनस्याप्यदर्शनम् ॥ ५८ ॥ दशामन्त्यां गतस्यापि पुंसस्तावन्न शस्यते । प्रदीपस्येव निर्वाणं यावन्नान्यं प्रकाशयेत् ॥ ५९ ॥ तत्कलने कदात्रैव रसलीलालवालके । संपत्स्यते ममोद्भिन्नमनोरथतरोः फलम् ॥ ६ ॥ श्रुत्वेति प्रत्युवाचेदं मुनि पालकर्णयोः । लग्नदन्तद्युतिव्याजात्सुधाधारा इवोद्गिरन् ॥ ६१ ॥ नेक्चिन्तालमस्यासि वस्तुतत्त्वज्ञ भाजनम् । नेत्राधृष्यं क्वचित्तेजस्तमसा नाभिभूयते ॥ ६२ ॥ १. भवदीयचरणारविन्दसंबन्धेन पुरुषो जन उत्तमो भवति. अयमर्थो लक्षणस्य व्याकरणशास्त्रस्याप्यगोचरः. व्याकरणे हि युष्मत्पदयोगेन मध्यमः पुरुषो भवति, न तूत्तमः. २. स्वर्गे; त्रिदशमिते आवासे गृहे च. ३. पाताले; असंख्याते गृहे च. अतिपुष्टा कीर्तिः स्वर्गे पाताले च न मातीति भावः. यश्चातिपुष्टोऽसंख्यातेष्वपि सदनेषु न माति तस्य त्रिदशमितेष्वावासेषु मानं दुरापास्तमेव. ४, मोक्षः, नाशश्च.
२२ काव्यमाला। धन्यस्त्वं गुणपण्यानामापणस्त्वं महीपते । त्वमेव संश्रयः श्रीणां सरितामिव सागरः ॥ ६३ ॥ त्वत्कीर्तिजझुकन्याया इतो लोकत्रयातिथेः । अन्तः प्रपत्स्यते राजनाजहंसश्रियं शशी ॥ ६४ ॥ न परं क्षत्रियाः सर्वे त्वामनु त्रिदिवेश्वराः । नादात्तस्य माहात्म्यं लङ्घयन्तीतरे खराः ॥ ६५ ॥ क्षोदीयानहमस्मीति मात्मानमवजीगणः । भवितासि त्वमचिराज्जगत्रयगुरोर्गुरुः ॥ ६६ ॥ गुणैर्घनोन्नते नूनं भवदावाग्निदीपितः त्वज्जन्मना जनः शान्तिममृतेनायमेष्यति ॥ ६७ ॥ या चैषा भवतः पत्नी सुव्रता सुव्रताख्यया । ह्रपयिष्यति सा वेलां रत्नकुक्षितयोदधेः ॥ ६८ ॥ संसारसारसर्वस्वं भूत्रयस्यापि भूषणम् । इदमेनोविषच्छेदि स्त्रीरत्नमिति बुध्यताम् ॥ ६९ ॥ क्षुद्रतेजःसवित्रीभिः स्त्रीभिर्दिग्भिरिवात्र किम् । धन्येयं या जगच्चक्षुद्योभिः प्राचीव धास्यति ॥ ७० ॥ षण्मासादूर्ध्वमेतस्याः सरस्याः प्रतिमेन्दुवत् । चतुर्दशाधिको गर्भ दिवस्तीर्थकदेष्यति ॥ ७१ कृतार्थाविति मन्येथामात्मानौ तावामिह । नह्यन्यो भविनां लाभः सुतादेवंविधात्परः ॥ ७२ ॥ जन्म वा जीवितव्यं वा गृहमेधाथवा द्वयोः । आ कल्पं युवयोरेव यास्यति श्लाध्यतामितः ॥ ७३ ॥ इत्थं ग्रन्थिमिव प्रमथ्य कृतिना तेनोरुचिन्ताभरं वागर्थाविव तौ प्रसादमधिकं तं प्रापितौ दंपती । अन्तर्गुढगभीरभावपिशुनं यं भावयन्तश्चिरा- जातास्ते प्रमदेन पीनपुलकप्रोल्लासिनः सज्जनाः ॥ ७४ ॥ १ त्वत्पुत्रेण. २. पञ्चदशस्तीर्थकरो धर्मनाथः. ३. गार्हस्थ्यम्.
४ सर्गः] धर्मशर्माभ्युदयम् । २३ अथ तथाविधमाविसुतोदयश्रवणतः प्रणतः पुनरप्यसौ । प्रमदगद्दवागिति वाग्मिनां पतिरुवाच वांसि मुनि नृपः ॥ ७५ ॥ खगै संप्रति कः पुनात्ययमथो कुत्रास्य जन्मन्यमू- छामस्तीर्थकरत्वदानसुहृदः सम्यक्त्वचिन्तामणेः । इत्थं वाग्मववैभवव्यतिकरं त्वं ब्रूहि जन्मार्णवो- तीर्णस्यास्य भविष्यतो जिनपतेः शुश्रूपुरेपोऽस्म्यहम् ॥ ७६ ॥ इति प्रीतिप्रायं बहलपुलकस्यास्य सकलं कलातकानामपशकुनमाकर्ण्य वचनम् । मुनिः स्पष्टं द्रष्टुं तदपरभवोदारचरितं प्रकणाकादिवधिनयनोन्मीलनविधिम् ।। ७७ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये तृतीयः सर्गः । चतुर्थः सर्गः। अर्थापनिद्रावधिबोधचक्षुः स्वहस्तमुक्तावदवेक्ष्यमाणः । जिनस्य तस्यापरजन्मत्तं वृत्तान्तसाक्षीव मुनिर्बभापे ॥ १ ॥ यत्राष्टमिष्टं भवतार्थसिद्ध्यै तत्पार्थिवाकर्णय वर्ण्यमानम् । कथा कथंचित्कथिता श्रुता वा जैनी यतश्चिन्तितकामधेनुः ॥ २ ॥ स धातकीखण्ड इति प्रसिद्धे द्वीपेऽस्ति विस्तारिणि पूर्वमेरुः । नभो निरालम्बमवेक्ष्य केनाप्युज्जृम्भितः स्तम्भ इवेक्ष्यते यः ॥ ३ ॥ विभूषयन्पूर्वविदेहमस्य सीतासरिदक्षिणकूलवर्ती । एकोऽप्यनेकेन्द्रियहपहेतुर्वत्साभिधानो विषयोऽस्ति रम्यः ॥ ४ ॥ राजन्ति यत्र स्फुटपुण्डरीकप्रकाशिनः शाहलशालिवप्राः । च्युता निरालम्बतया कथंचिदाकाशदेशा इव चारुताराः ॥५॥ उद्गायतीव भ्रमदिक्षुयन्त्रचीत्कारनादैः श्रुतिसुन्दरैर्यः । अनृत्यतीवानिललोलसस्यैः खसंपदुत्कर्पमदेन मत्तः ॥ ६ ॥ १. रत्नत्रयस्यैव सम्यक्त्वमिति संज्ञान्तरम्, रलत्रयं च सम्यग्दर्शनज्ञानचारित्रलक्ष- णम्, २. स्फुरितावविहाननेत्रः.
२४ काव्यमाला। अग्रे भजन्तो विरसत्वमन्तः सग्रन्थयो निष्फलमुन्नमन्तः । अचेतना इक्षव एव यत्र निष्पीड्यमाना रसमुत्सृजन्ति ॥ ७ ॥ द्रष्टुं चिरेणात्मकुलप्रसूतां श्रियं विशिष्टाभ्युदयामुपेताः । यस्मिन्नुदन्वन्त इवावभान्ति विस्फारिताम्भोजहशस्तडागाः ॥ ८ ॥ फलावनम्राम्रविलम्बिजम्बूजम्बीरनारङ्गलवङ्गपूगम् । सर्वत्र यत्र प्रतिपद्य पान्थाः पाथेयभारं पथि नोहहन्ति ॥ ९ ॥ यत्रानुकूलं ज्वलदर्ककान्तैविलीनकार्तस्वरपूरशङ्काम् । मध्यंदिनेऽम्भोजरजःपिशङ्गं क्षणं विधत्तेऽम्बु तरङ्गिणीनाम् ॥ १० ॥ काले प्रजानां जनयन्ति तापं करा रवेरेव न यत्र राज्ञः । स्याद्भोगभङ्गोऽपि भुजंगमानां स्वस्थे कदाचिन्न पुनर्नराणाम् ॥ ११ ॥ तटे तटिन्यास्तरवः समृद्धि संप्राप्य यत्र प्रतिनिष्क्रयाय । छायाछलात्तज्जलदेवताभ्यो दातुं फलानीव विशन्ति मध्ये ॥ १२ ॥ निर्माय निर्माय पुरीः सुराणां यच्छिक्षितं शिल्पकलासु दाक्ष्यम् । तस्यैव धात्रा विहितास्ति तत्र प्रकर्षसीमा नगरी सुसीमा ॥ १३ ॥ नितम्बभूचुम्बिवनान्तरीया यानाटतोच्चैस्तनवप्रभागम् । वातोच्छलत्पुष्परजःपटेन ह्रीता वधूवत्स्वमुपावृणोति ॥ १४ ॥ अधृष्यमन्यैरधिरुह्य सालं नीलाश्मकूटांशुमिषेण यस्याः । रूणद्धि रुहो बहुधान्धकारः क्रुधेव तिग्मांशुकरप्रचारम् ॥ १५ ॥ यत्रोच्चहाग्रजुषामुदग्रान्पश्यन्मुखेन्दुनिशि सुन्दरीणाम् । ग्राह्ये तुषारत्विषि जातमोहः क्षणं भवेत्पर्वणि सैहिकेयः ॥ १६ ॥ कामं प्रति प्रोज्झैितकृष्णवा दृष्टयापि देहीति निमील्य शब्दम् । लोके दधानोऽपि महेश्वरत्वं न दृश्यते यत्र जनो विषादी ॥ १७ ॥ यत्रोचहाग्रहरिन्मणीनां प्रभासु दूर्वाङ्कुरकोमलासु । क्षणं क्षिपन्तो वदनान्यनूरूं रवेस्तुरंगाः परिखेदयन्ति ॥ १८ ।। १. सुसीमेति नगरीनाम. २. कंदर्पम् ; अभिलाषं. च. ३. त्यक्तमलिनमार्गः; मुक्तने- त्रानलश्च. ४. 'देहि' इति याचकशब्दम् ; (पक्षे) देही शरीरी. ५. शिवत्वम् ; प्रभुत्वं च. ६. विषभक्षकः; खिन्नश्च, ७. अरुणं सूर्यसारथिम् .
२५ .. ४ सर्गः] धर्मशर्माभ्युदयम् । व्यापार्य सज्जालकसंनिवेशे कैरानभिप्रेवति यत्र रोज्ञि । द्रवत्यैनीचैस्तनकूटरम्या कान्तेव चन्द्रोपलहर्म्यपतिः ॥ १९ ॥ प्रक्षिप्य पूर्वेण मही महीभृत्करेण यान्स्वीकुरुतेऽपरेण । अन्तर्ययाप्तुं ग्रहकन्दुकांस्तान्हस्ता जिनागारमिषादुदस्ताः ॥ २० ॥ सारेषु रत्नेषु यया गृहीतेष्वन्धिर्वृथा वीचिभुजैः प्रनृत्यन् । रत्नाकरत्वेन न लजते यत्ततः स मे भाति जडस्वभावः ॥ २१ ॥ मुहुर्मुहुः स्फाटिकहर्म्यभित्तौ निरीक्ष्य रागापनिनीपयास्ये । स्वच्छामपि क्रान्तरदच्छदाभां दन्तच्छवि यत्र वधूः प्रमाष्टिं ॥२२॥ वस्थो धृताच्छद्मगुरूपदेशः श्रीदानवारातिविराजमानः । यस्यां करोल्लासितर्वजमुद्रः पौरो जनो जिष्णुरिवावभाति ॥ २३ ॥ तद्यत्र चित्रं यदणीयसापि स्नेहेने हीनाः स्मरदीपिकास्ताः । नैतत्पुनर्यन्नकुलप्रसूता भुजंगमोहं जनयन्ति वेश्याः ॥ २४ ॥ यां सारसर्वस्वनिधानकुम्भी संवेष्टय शश्वत्परिखामिषेण । उद्भिद्य पातालतलान्युदीर्णा विषप्रपूर्णा भुजगी प्रयाति ॥ २५ ॥ निःशेषनभावनिपालमौलिमालारजःपिञ्जरिताङ्गिपीठः । स भूपतिस्तत्र बभूव शास्ता 'रैथं जना यं दशपूर्वमाहुः ॥ २६ ॥ अनेन कोपज्वलनेन दग्धाः सहासपुष्पाः खलु पत्रवलयः । वक्पाण्डिमा वैरिवधूकपोले कुतोऽन्यथा भस्मवदुल्छलास ॥ २७ ॥ अन्ये भियोपात्तपयोधिगोत्राः क्षोणीभुजो जग्मुरगम्यभावम् । लक्ष्मीस्ततो वारिधिराजकन्या तमेकमेवात्मपतिं चकार ॥ २८ ॥ वैधव्यदग्धारिवधूप्रहारहारावचूलच्युतमौक्तिकौघाः । वभुः प्रकीर्णाः सकलासु दिक्षु यशस्तरो/जकणा इवास्य ॥ २९ ॥ १. सत्-जालक (गवाक्ष); सज्ज-अलक. २. किरणान् ; हस्तांश्च. ३. चन्द्रे; नृपती च. ४. अनीचैस्तन(उच्चतर)-कूट; अनीचैः-स्तनकूट, ५. गुरुवृहस्पतिः; उपदेष्टा च. ६. श्रिया युत्तो यो दानवारातिर्विष्णुस्तेन; (पक्षे) श्रियो दाने वारा उत्सर्गजलेन. '७. पविः; हीरकश्च. ८. इन्द्रः. ६. तैलेन; प्रीत्या च. १०. न-कुल; नकुलः प्राणिविशे- पश्च. ११. भुजंगमाः सर्पाः पिङ्गाश्च. १२. विपं जलमू; गरलं च. १३. नदीविशेषः, सर्पिणी च. १४. दशरथम. . ४ २६ काव्यमाला। युक्तं तदाच्छिद्य वशीकतेऽस्मिन्गोमण्डले तेन देषोन्नतेन । रैताक्षतां बिभ्रदियाय रोषाद्वैरी वनं यन्महिषीभिरेव ॥ ३० ॥ यत्पुण्डरीकाक्षमपि व्यपास्य स्मराकृतेस्तस्य वशं गता श्रीः । सेयं विरूपाक्ष इतो व्यधासीदेहार्धनद्धां किल शैलपुत्रीम् ॥ ३१ ॥ दोषोच्चयेभ्यश्चकितः स विद्वान्गताः पुनस्ते प्रपलाय्य तस्मात् । इत्यस्य विस्तारियशश्छलेन विरुद्धमद्यापि दिशो हसन्ति ॥ ३२ ॥ सकज्जलाश्रुव्यपदेशनिर्यबृङ्गावली वैरिविलासिनीनाम् । राज्ञा कृतं तेन रसाब्धिलोलहृत्पद्मसंकोचमवोचदुच्चैः ।। ३३ । उत्खातखड्गप्रतिबिम्बिताङ्गो रराज राजा समरप्रदोषे । जयश्रियासावभिसारणाय नीलेन संवीत इवांशुकेन ॥ ३४ ॥ अनारतं वीररसाभियोगैरायासितेव क्षणमस्य यूनः । विलासिनी भ्रूलतिकाग्ररङ्गच्छायासु विश्राममियाय दृष्टिः ॥ ३५ ॥ सरागमुर्त्या मृगनामिदम्भादपारकर्पूरपदेन कीर्त्या । रत्यापि दन्तच्छदरुक्छलेन स एकहेलं सुभगोऽवगूढः ॥ ३६ ॥ असत्पथस्थापितदण्डलब्धस्थामातिवृद्धो विहितस्थितियः । स एव रक्षार्थमशेषलक्ष्म्याः क्षात्रोऽस्य धर्मोऽजनि सौविदल्लः ॥३७॥ प्रयच्छता तेन समीहितार्थातूनं निरस्तार्थिकुटुम्बकेभ्यः । व्यर्थीभवत्त्यागमनोरथस्य चिन्तामणेरेव बभूव चिन्ता ॥ ३८ ॥ दूरात्समुत्तसितशासनोरुसिन्दूरमुद्रारुणमालमूलाः । यस्य प्रतापेन नृपाः कचाग्रष्टा इवाजग्मुरुपासनाय ॥ ३९ ॥ विधाय कान्तारसमाश्रितांस्तान्होरावसक्तान्विदुषो द्विषश्च । क्रीडन्स लीलारसलालसाभिरासीच्चिरं चञ्चललोचनाभिः ॥ ४० ॥ अथैकदा व्योनि निरभ्रगर्मक्षणापायां क्षणदाधिनाथम् । अनाथनारीव्यथनैनसेव सं राहुणा प्रेक्ष्यत गृह्यमाणम् ॥ ४१ ॥. १. भूवलये; धेनुसमूहे च. २. वृक्षोऽनड्डान; धर्मश्च. ३. महिषत्वम् ; अरुणनेत्रत्वं च. ४. सैरिभीभिः; कृतामिषेकामिः पत्नीभिश्च. ५. कमलतुल्यनेत्रम्; विष्णु च. ६. विकृतनेत्रः, शिवश्च, ७. कचकी. ८. कान्ता; रसं-आश्रितान् ; कान्तार-समा- श्रितान. ६. हार-अवसक्तान, हा-राव-सक्तान. १०. पूर्णिमारात्री. ११. चन्द्रम्.
४ तगः] २७ धर्मशर्माभ्युदयम् । किं सीधुना स्फाटिकपानपात्रमिदं रजन्याः परिपूर्यमाणम् । चलाहिरेफोञ्चयचुम्ब्यमानमाकाशगङ्गास्फुटकैरवं वा ॥ ४२ ॥ ऐरावणस्याथ करात्कथंचिच्चयुतः सपङ्को बिसंकन्द एषः । किं व्योनि नीलोपलदर्पणाभे सश्मश्रु वत्रं प्रतिविम्बितं मे ॥ ४३ ॥ क्षणं वितक्यति स निश्चिकाय चन्द्रोपरागोऽयमिति क्षितीशः दृमीलनाविष्कृतचित्तखेदमचिन्तयच्चैवसुदारचेताः॥४४॥ (विशेषकम्) हा हा. महाकष्टमचिन्त्यधाम्नि किमेतदत्रापतितं हिमांशौ । यहा किमुल्लङ्घयितुं कथंचित्केनापि शक्यो नियतेनियोगः ॥ १५ ॥ सुधाद्रवर्मन्मथमात्मबन्धुमुज्जीव्य नेत्राग्निशिखावलीढम् । क्रुधेव तद्वैरविनिष्क्रयाथै स्थाणोरसौ मूर्ध्नि पदं विधत्ते ॥ ४६ ॥ कुतश्चिरं जीवति वाडवाग्नौ वर्तेत वाधिः सह जीवनेन । अनेन चेच्चारुवसुप्रपञ्चै!येत न प्रत्यहमेव वृद्धिस् ॥ ४७ ॥ सुधाकरेणाप्यजरामरत्वं नीता सुरा एव मयात्र नान्ये । इतीव पूर्णोऽप्यतिलज्जमानः पुनः पुनः कार्यमसौ व्यनक्ति ॥ १८ ॥ सुदुर्धरध्वान्तमलिम्लुचानामुत्सार्य सेनामनिवार्यतेजाः। रतेर्गलग्रन्थिमिवाबलानां मानं भिनत्त्येष चिरात्करात्रैः ॥ ४९ ॥ इत्येष निःशेषजगल्ललामलीलायमानप्रसरगुणोऽपि । राजा दशां प्रापदिहेडशी चेत्को नाम तत्स्यात्सुखपात्रमन्यः ॥५०॥ उपागमे तद्विपदामवश्यं पश्यामि किंचिच्छरणं न जन्तोः । अपारपाथोनिधिमध्यपातिपोताच्युतस्येव विहंगमस्य ॥ ११ ॥ नीरोषिताया अपि सर्वदास्याः पश्यामि नाट्टै हृदयं कदाचित् । युक्तं ततः पुंसि कलामयेऽपि स्थिरो न लक्ष्म्याः प्रणयानुबन्धः॥५२॥ अल्पीयसि स्वस्य फले यदेषा विस्तारिता श्रीः परिवारहेतोः । गुडेन संवेष्टय ततो मयात्मा मैत्कोटकेभ्यः किमु नार्पितोऽयम्॥१३॥ . १. चन्द्रः, २. मत्कोटकः पिपीलकसदृशो गुडादिमधुरपदार्थभक्षको 'मकोडा' इति प्रसिद्धः कीटविशेषः.
काव्यमाला॥ अहरिवापातमनोरमेषु भोगेषु नो विश्वसिमः कथंचित् । मृगः सतृष्णो मृगतृष्णिकासु प्रतार्यते तोयधिया न धीमान् ॥ ५४॥ अन्याङ्गनासंगमलालसानां जरा कृतेष्यैव कुतोऽप्युपेत्य । आकष्य केशेषु करिष्यते नः पदप्रहारैरिव दन्तभङ्गम् ॥ ५५ ॥ क्रान्ते तवाङ्गे वलिभिः समन्तानश्यत्यनङ्गः किमसावितीव । वृद्धस्य कर्णान्तगता जरेयं हसत्युदश्चत्पलितच्छलेन ॥ ५६ ॥ रसाळ्यमप्याशु विकासिकाशसंकाशकेशप्रसरं तरुण्यः । उदस्थिमातङ्गजनोदपानपानीयवन्नाम नरं त्यजन्ति ॥ १७ ॥ आकर्णपूर्ण कुटिलालकोर्मि रराज लावण्यसरो यदङ्गे । वलिच्छलात्सारणिधोरणीभिः प्रवाह्यते तज्जरसा नरस्य ।। ५८ ॥ असंभृतं मण्डनमङ्गयष्टेर्नष्टं क्व मे यौवनरत्नमेतत् । इतीव वृद्धो नतपूर्वकायः पश्यन्नधोधो भुवि बम्भ्रमीति ॥ ५९ ॥ इत्थं पुरः प्रेष्य जरामधृष्यां दूतीमिवापप्रसरोग्रदंष्ट्रः । यावन्न कालो असते बलान्मां तावद्यतिष्ये परमार्थसिद्धयै ॥ ६ ॥ इत्येष संचिन्त्य विनिश्चितार्थों वैराग्यवान्प्रातरमात्यबन्धून् । पप्रच्छ राजा तपसे यियासुः किं वा विमोहाय विवेकिनां स्यात् ॥६१॥ तं प्रेक्ष्य भूपं परलोकसिद्धयै साम्राज्यलक्ष्मी तृणवत्त्यजन्तम् । मन्त्री सुमन्त्रोऽथ विचित्रतत्त्वचित्रीयमाणामिति वाचमूचे ॥ ६२ ॥ देव त्वदारब्धमिदं विभाति नैभःप्रसूनाभरणोपमानम् । जीवाख्यया तत्त्वमपीह नास्ति कुतस्तनी तत्परलोकवार्ता ॥ ६३ ॥ १. 'वर्ण सितं शिरसि वीक्ष्य शिरोरुहाणां स्थानं जरापरिभवस्य तदेव पुंसाम् । आरोपितास्थिशकलं परिहृत्य यान्ति चाण्डालकूपमिव दूरतरं तरुण्यः ॥ इति भर्तृह- रिश्लोकसमानार्थोऽयं श्लोकः. २. अयं प्रथमः पादः कुमारसंभव(१।३१)श्लोकस्य प्रथमः पादश्च समान एव. ३. खपुष्पशेखरतुल्यम्. ४. चार्वाकमतमेतत्. 'तत्र पृथि- व्यादीनि भूतानि चत्वारि तत्त्वानि । तेभ्य एव देहाकारपरिणतेभ्यः किण्वादिभ्यो मदशक्तिवञ्चैतन्यमुपजायते । तेषु विनष्टेषु सत्सु स्वयं विनश्यति । तच्चैतन्यविशिष्टदेह एवात्मा । देहातिरिक्त आत्मनि प्रमाणाभावात् ।' इत्यादि सर्वदर्शनसंग्रहे द्रष्टव्यम्.
४ सर्गः] धर्मशर्माभ्युदयम् । २९ न जन्मनः प्राङ् न च पबतायाः परो विभिन्नेऽवयवे न चान्तः । विशन्न निर्यन्न च दृश्यतेऽस्माद्भिन्नो न देहादिह कश्चिदात्मा॥६॥ किं त्वत्र भूवह्निजलानिलानां संयोगतः कश्चन यन्त्रवाहः । गुडान्नपिष्टोदकधातकीनामुन्मादिनी शक्तिरिवाभ्युदेति ॥ ६५ ॥ विहाय तदृष्टमदृष्टहेतोवृथा कथाः पार्थिव मा प्रयत्नम् । को वा स्तनाग्राण्यवधूय धेनोर्दुग्धं विदग्धो ननु दोग्धि शृङ्गम् ॥६६॥ श्रुत्वेत्यवादीन्नृपतिर्विधुन्वन्भानुस्तमांसीव स तद्वचांसि । अपार्थमर्थ वदतः सुमन्त्र नामापि ते नूनमभूदपार्थम् ॥ ६७ ।। जीवः स्वसंवेद्य इहात्मदेहे सुखादिवद्वांधकविप्रयोगात् । काये परस्यापि स बुद्धिपूर्वव्यापारदृष्टेः स्व इवानुमेयः ॥ ६८ ॥ तत्कालजातस्य शिशोरपास्य प्राग्जन्मसंस्कारमरोजपाने । नान्योऽस्ति शास्ता तदपूर्वजन्मा जीवोऽयमित्यात्मविदा न वाच्यम्॥६९ ज्ञानैकसंवेद्यममूर्तमेनं मूर्ता परिच्छेत्तुमलं न दृष्टिः । व्यापार्यमाणापि कृताभियोगैभिनत्ति न व्योम शितासियष्टिः ॥७॥ संयोगतो भूतचतुष्टयस्य यज्जायते चेतन इत्यवादि । मरुज्ज्वलत्पावकतापिताम्भःस्थाल्यामनेकान्त इहास्तु तस्य ॥ ७१ ॥ उन्मादिका शक्तिरचेतना या गुडादिसंबन्धभवा न्यदर्शि । सा चेतने ब्रूहि कथं विशिष्टदृष्टान्तकक्षामधिरोहतीह ॥ ७२ ॥ तस्मादमूर्तश्च निरत्ययश्च कर्ता च भोक्ता च सचेतनश्च । एकः कथंचिद्विपरीतरूपादवैहि देहात्टथगेव जीवः ॥ ७३ ॥ निसर्गतोऽप्यूर्ध्वगतिः प्रसह्य प्राकर्मणा हन्त गतीविचित्राः । स नीयते दुर्धरमारुतेन हुताशनस्येव शिखाकलापः ॥ ७४ ॥ तदात्मनः कर्मकलङ्कमूलमुन्मूलयिष्ये सहसा तपोभिः । मणेरनर्धस्य कुतोऽपि लग्नं को वा न पङ्क परिमार्टि तोयैः ॥ ७५ ॥ १.जीवः. २, बाधकप्रमाणाभावात्. ३. स्तन्यपाने. ४. व्यभिचारः.५. 'द्राकर्मणा' इति पाठः.
३० काव्यमाला। दत्त्वा स तस्योत्तरमित्यबाधं ददौ सुतायातिरथाय राज्यम् । यन्नियंपेक्षा परमार्थलिप्सोर्धात्री तृणायापि न मन्यते धीः ॥ ७६ ॥ अथैनमाप्टच्छय सबाष्पनेत्रं पुत्रं प्रपित्सुर्वनसंनिवेशम् । प्रजाः स भास्वानिव चक्रवाकीराक्रन्दिनीस्तत्प्रथमं चकार ॥ ७७ ॥ त्यक्तावरोधोऽपि सहावरोधैर्नक्षेत्रमुक्तानुपदोऽपि राजा । प्रापद्धनं पौरहदि स्थितोऽपि को वा स्थिति सम्यगवैति राज्ञाम् ॥७८॥ तद्वाहनं श्रीविमलादिमादौ नत्वा गुरुं भूपशतैरुपेतः । तत्रोअकर्मक्षयमूलशिक्षा दीक्षां स जैनीमभजज्जितात्मा ॥ ७९ ॥ तथा समुद्रामधिविभ्रदुर्वी धुन्वन्नरातीनपि विग्रहस्थान् । मुक्तोत्तमालंकरणः प्रजापो वनेऽपि साम्राज्यपदं बभार ॥ ८० ॥ ध्यानानुबन्धस्तिमितोरुदेहो मित्रेऽपि शत्रावपि तुल्यवृत्तिः । व्यालोपगूढः स वनैकदेशे स्थितश्चिरं चन्दनवञ्चकासे ॥ १ ॥ पूषा तपस्यल्परुचिः सदोषः शशी शिखावानपि कृष्णवा। गुणोदधेस्तस्य ततो न कश्चित्तमः समुन्मूलयतः समोऽभूत् ॥ ८२॥ निरामयश्रीसदनाग्रनीव्र तीव्र तपो द्वादशधा विधाय । धन्योऽथ संन्यासविसृष्टदेहः सर्वार्थसिद्धिं स मुनिर्जगाम ॥ ८३ ॥ तत्र त्रयस्त्रिंशदुदन्वदायुर्देवोऽहमिन्द्रः स बभूव पुण्यैः । निर्वाणतोऽयंगधिकावधीनां मूर्तः सुखानामिव यः समूहः ॥ ८४ ॥ सा तत्र मुक्ताभरणाभिरामा यन्मुक्तिरामा निकटीबभूव । मन्ये मनस्तस्य ततोऽन्यनारीविलासलीलारसनियंपेक्षम् ॥ ५ ॥ तस्य प्रभाभासुररत्नगर्भा विभ्राजते रुक्मकिरीटलक्ष्मीः । अव्याजतेजोनिवहस्य देहे द्राधीयसी प्रज्वलतः शिखेव ॥ ८६ ॥ १. बन्धनम्; राज्ञामन्तःपुरं च. २, नक्षत्रैर्मुक्तानुपदो राजा चन्द्र इति विरोधः; (पक्षे) न-क्षत्रमुक्तानुपदः. ३. आ समुद्रां पृथ्वीं बिभ्रत्; (पक्षे) स उर्वी मुद्रा बिभ्रत्, मुद्रा योगशास्त्रादिप्रसिद्धाः. ४. शरीरस्थान्कामक्रोधादीन् ; (पक्षे) युद्धस्थान्. ५. मु. तानि त्यक्तानि उत्तमभूषणानि येन;. (पक्षे) मौक्तिकमयोत्तमाभरणः. ६. अग्निः. ७, प्र- धानगृहम्. ८. त्रयस्त्रिंशज्जलधिमितायुः.
५ सर्गः] धर्मशर्माभ्युदयम् । ३१ रेखात्रयाधिष्ठितकण्ठहारिहारावली तस्य विमोविभाति । सुदर्शनस्यात्यनुरक्तमुक्तिमुक्ता कटाक्षप्रसरच्छटेव ॥ ८७ ॥ नूनं सहस्रांशुसहस्रतोऽपि तेजोऽतिरिक्तं न च तापकारि । शृङ्गारसाम्राज्यमनन्यतुल्यं न चाभवत्तस्य मनोविकारि ॥ ८ ॥ नवं वयो लोचनहारि रूपं प्रभूतमायुः पदमद्वितीयम् । सम्यक्त्वशुद्धाश्च गुणा जगत्सु किं किं न लोकोत्तरमस्ति तस्य॥८॥ तस्य त्रियामाभरणाभिरामान्वक्तुं गुणान्वान्छति यः समग्रान् । आप्लावयन्तं जगती युगान्ते मुग्धस्तितीर्पत्युदधिं स दोाम् ॥१०॥ शरद्दलादूर्ध्वमितश्श्युतः सन्नस्याः स गर्भ भवतः प्रियायाः । शुक्तरिव खातिभवोदविन्दुर्मुक्तात्मकोऽग्रेऽवतरिप्यतीह ॥ ९१ ॥ इति निशम्य स सम्यगुदीरितां यमवतान्यभवस्थितिमहतः । ससुहृदुत्पुलकस्तिलको भुवः स्फुटकदम्बकदम्बकवद्वभौ ॥ ९२ ॥ अथोचितसपर्यया मुनिमनिन्द्यविद्यास्पदं प्रपूज्य सपरिग्रहो विधिवदेनमानम्य च । यथासमयमण्यतां सुमनसामिवातिथ्यवि- द्विधातुमयमहणां द्रुतमगादगारं नृपः ।। ९३ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये चतुर्थः सर्गः । पञ्चमः सर्गः । तत्र कारयितुमुत्सवं मुदा यावदेष सदसि न्यविक्षत | तावदम्बरतटावतारिणीः प्रेक्षतामरविलासिनीपः ॥ १ ॥ तारकाः क्व नु दिवोदितातो विद्युतोऽपि न वियत्यनम्बुदे । क्वाप्यनेसि न वहयो महस्तत्किमेतदिति.दत्तविस्मयाः ॥ २ ॥ कंधरावधि तिरोहिता धनैः क्वाप्यभिन्नमुखमण्डलश्रिया । यामिनीरिपुजिगीषयोद्यतं सोमसैन्यमनुकुर्वतीः क्षणम् ॥ ३ ॥ १. मासषटात, २. पूर्वजन्मवार्ताम्.
३२
काव्यमाला।
.
रत्नभूषणरुचा प्रपञ्चिते वासवस्य परितः शरासने ।
अन्तरुद्धुरतडित्त्विषो जनैः स्वर्णसायकततीरिवक्षिताः ॥ ४ ॥
कान्तिकाण्डपटगुण्ठिता पुरा व्योममित्तिमनु वर्णकातिम् ।
तन्वतीस्तदनुभाविताकृतीस्तूलिकोल्लिखितचित्रविभ्रमम् ॥ ५ ।'
शीतदीधितिधियाभिधावितैः सैहिकेयनिकुरम्बकैरिव ।
सौरभादभिमुखालिमण्डलै जितानि वदनानि बिभ्रतीः ॥ ६ ॥
खानुभावधृतभूरिमूर्तिना पद्मरागमणिनूपुरच्छलात् ।
भानुना क्षणमिह प्रतीक्ष्यतामित्युपात्तचरणाः समन्मथम् ॥ ७ ॥
निष्कलङ्कगलकन्दलीलुठत्तारहारलतिकापदेशतः ।
संगता इव चिरेण गौरवादन्तरिक्षसरितावगूहिताः ॥८॥
पारिजातकुसुमावतंसकस्पर्शमन्थरमरुत्पुरःसराः ।
पश्यतोऽथ नृपतेः सभान्तिकं ताः समीरणपथादवातरन् ॥९॥(कुलकम्)
पीवरोच्चकुचमण्डलस्थितिप्रत्ययानुमितमध्यभागया ।
दुर्वहोरुजघना जगल्लघूकुर्वतीरतुलरूपसंपदा ॥ १० ॥
तत्र कोकनदकोमलोपलस्तम्भमिन्दुमणिमण्डपं पुरः ।
ताः प्रतापधृतमद्भुतोदयं भूपतेर्यश इव व्यलोकयन् ॥ ११ ॥
तत्प्रतिक्षणसमुल्लसद्यशोराजहंसनिकुरम्बकैरिव ।
कामिनीकरविवर्तनोच्छलच्छुभ्रचामरचयैर्विराजितः ॥ १२ ॥
दाक्षिणात्यकविचक्रवर्तिनां हृच्चमत्कृतिगुणाभिरुक्तिभिः ।
पूरितश्रुतिशिरो विघूर्णयन्नेतुमन्तरिव तद्रसान्तरम् ॥ १३ ॥
सुस्वरश्रुतिमुदाररूपकां रागिणी पृथगुपात्तमूर्छनाम् ।
गीतिमिन्दुवदनांमिवोज्ज्वला भावयन्मुकुलितार्धलोचनः ॥ १४ ॥
एणनाभिमभिवीक्ष्य कक्षयोः क्षिप्तमीततिमिरानुकारिणम् ।
रत्नकुण्डलमिषेण भानुना सेन्दुना किमपि संश्रितश्रुतिः ॥ १५ ॥
अङ्गवङ्गमगधान्ध्रनैषधैः कीरकेरलकलिङ्गकुन्तलैः ।
विभ्रमादपि समुत्क्षिपन्ध्रुवं भीतभीतमवनीश्वरैः श्रितः ॥ १६ ॥
६ सर्गः] धर्मशर्माभ्युदयम् । ३३ तत्र हेममयसिंहविष्टरे काञ्चनाचल इवोच्चकैः स्थितः। सप्रमोदमुदितेन्दुसंनिभस्ताभिरैक्षि सदसि क्षितीश्वरः ॥१७॥(कुलकम्) कर्मकौशलदिदृक्षयात्र नः प्राप्त एष पुरतोऽपि किं प्रभुः । सत्खपोहितुमितः प्रभृत्यथो दौस्थ्यमर्थपतिरभ्युपस्थितः ॥ १८ ॥ एकका इह निशम्य तच्छलाबाधितुं मनसिजोऽथवा गतः । अन्यथास्य वसुधामिमामतिक्रामति द्युतिरमानुषी कुतः ॥ १९ ॥ तर्कयन्त्य इति ताः परस्परं सप्रमोदमुपसृत्य भूपतिम् । जीव नन्द जय सर्वदा रिपूनित्यमन्दमुदचीचरन्वचः ॥ २० ॥ (त्रिभिर्विशेषकम्) ताः स यत्नपरकिंकराप्तेिष्वासनेषु नृपतिर्यवीविशत् । वारिदात्ययदिनोपबृंहितेष्वम्बुजेष्विव विरोचनो रुचः ॥ २१ ॥ ताः क्षितीश्वरनिरीक्षणक्षणे रेजुरङ्कुरितरोमराजयः । ङ्गमन्नविषमेधुमार्गणव्यक्तपुङ्खलवलाञ्छिता इव ॥ २२ ॥ निर्मलाम्बरविशेषितत्विषस्तं स्फुरच्छ्रवणहस्तभूषणाः । कान्तिमन्तममराङ्गना नृपं तारका इव विधुं व्यभूषयन् ॥ २३ ॥ सोऽथ दन्तकरकुन्दकुमलस्रग्विभूषितसभ सभापतिः । आतिथ्यवितथीकतलमा इत्युवाच सुरसुन्दरीर्वचः ॥ २४ ॥ यद्गुणेन गुरुणा गरीयसी स्वबिभर्ति गणनां जगत्वपि । मन्दिराणि किमपेक्ष्य ताः स्वयं भूभुजामपि नृणामुपासते ॥ २५ ॥ किं तु सा स्थितिरथातिधृष्टता व्याजमेतदथवातिभाषणे । त्वादशेऽपि यदुपागते जने किं प्रयोजनमिहेति जल्प्यते ॥ २६ ॥ भारतीमिति निशम्य भूपतेः श्रीरुवाच सुरयोषिदीरिता । दन्तदीधितिमृणालनालकैः कर्णयोनिदधती सुधामिव ॥ २७ ॥ मा वदस्त्वमिति भूपते भवद्दास्यमेव भुवि नः प्रयोजनम् । वासरैस्तु कतिभिः पुरंदरोऽप्यत्र कर्मकरवद्यतिप्यते ॥ २८ ॥ १. वस्त्रंम; (पक्षे) आंकाशः, २, आकाशपक्षे श्रवणहस्तौ नक्षत्रे.
३४ काव्यमाला। निर्जरासुरनरोरगेषु ते कोऽधुनापि गुणसाम्यमृच्छति । अग्रतस्तु सुतरां यतो गुरुस्त्वं जगत्रयगुरोभविष्यसि ॥.२९ ॥ उक्तमागमनिमित्तमात्मनः सूत्रवत्किमपि यत्समासतः । तस्य भाष्यमिव विस्तरान्मया वर्ण्यमानमवनीपते शृणु ॥ ३० ॥ यच्चतुष्टयमनन्ततीर्थतोऽनर्धहायनमुदन्वतामगात् । तस्य पल्य () दुलमन्तिमं तथा भारतेऽभवदधर्मदूषितम् ॥ ३१ ॥ तेन धर्मपरिवर्तदस्युना शुद्धदर्शनमणौ हृते छलात् । वीक्षमाण इव केवलीश्वरं वासवोऽनिमिषलोचनोऽभवत् ॥ ३२ ॥ अद्य भूप भवतोऽस्ति या प्रिया सुव्रता तदुदरे जिनोऽन्तरम् । अर्धवत्सरमतीत्य धर्म इत्येष्यतीत्यवधितो विवेद सैः ॥ ३३ ॥ तत्प्रयाथ जननीं जिनस्य ता भाविनी चिरमुपाध्वमादरात् । इत्थमादिशदशेषनाकिनां नायकः समुपहूय नः क्षणात् ॥ ३४ ॥ आगतोऽयमिह तत्तवाज्ञया प्रेयसी नृप निशान्तवर्तिनीम् । ध्यातुमिच्छति सुराङ्गनाजनः कौमुदीमिव कुमुद्दतीगणः ॥ ३५ ॥ संवदन्तमिति भारती मुनेर्वाक्प्रपञ्चमवधार्य स श्रियः । उत्सवं द्विगुणितादरो द्वयेऽप्याशु धानि पुरि च व्यदीधपत् ॥ ३६॥ ताश्च कञ्चकिपुरःसरास्ततस्तेन तूर्णमवरोधमन्दिरम् । भास्खताग्रचरसंमदा रुचश्चन्द्रमण्डलमिव प्रवेशिताः ॥ ३७ ।। तत्र भूरिविबुधावतंसकप्रीतिपूरिगुणपूरपूरिताम् । अङ्गसौरभविसर्पिषट्पदा पारिजाततरुमञ्जरीमिव ॥ ३८ ॥ . मितलोललोचनप्रान्तवान्तशुचिरोचिषां चयैः । अद्भुतं धवलितालयामपि ध्यामलीलतविपक्षयोषितम् ॥ ३९ ॥ कामसिद्धिमिव रूपसंपदो जीवितव्यमिव-यौवनश्रियः। चक्रवर्तिपदवीमिव श्रुतेश्चेतनामिव विलासवेषयोः ॥ ४०॥ १. मासषट्कोनजलधिमितवर्षाणाम्. २. जिनम्. ३. इन्द्रः, ४. मलिनीकृत.
५ सर्गः] धर्मशर्माभ्युदयम् । ३६ तामनेकनरनाथसुन्दरीवृन्दवन्दितपदां शुयोषितः । हारिहेमहरिविष्टरे स्थितां मानुषेशमहिषी व्यलोकयन् ॥४१॥(कुलकम्) तामुदीक्ष्य जितनाकनायिकाकायकान्तिमवलामिलापतेः । ताभिरप्रतिमकालसंचितोऽप्युज्झितः सपदि चारुतामदः ॥ ४२ ॥ श्रीरशेषसुखदा प्रियंवदा भारती रतिरभेद्यकिंकरी । सौम्यदृष्टिरपि कैर्णमोटिका कालिका च रचितालकावलिः ॥ ४३ ॥ शीलवृत्तिरपराजिता जने सा वृषप्रणयिनी मनःस्थितिः । द्वीप्रसत्तिधृतिकीर्तिकान्तयः स्पर्धयेव कुलमण्डनोद्यताः ॥ १४ ॥ देव्य इत्यलमिमामुपासते प्रागपि प्रगुणिता गुणैः स्वयम् । तन्निदेशरसपेशलं हरे—हि कर्म किमु कुर्महेऽधुना ॥४५॥ (कुलकम्) इत्युदीर्य च मिथः प्रणम्य च स्वं निवेद्य च तदिन्द्रशासनम् । स्वःस्त्रियस्त्रिभुवनेशमातरं तां निषेवितुमिहोपचक्रिरे ॥ ४६ ॥ अश्मगर्भमयमूर्ध्वमुद्धृतं छत्रमिन्दुमणिदण्डमेकया । भ्राजते स्म सुदृशोऽन्तरुत्तरज्जाह्नवौघमिव मण्डलं दिवः ॥ ४७ ॥ कापि भूत्रयजयाय वल्गतो वल्गु तूणमिव पुष्पधन्वनः । पुष्पचारु कबरीप्रसाधनं मूर्ध्नि पार्थिवमृगीदृशो व्यधात् ।। ४८ ॥ अङ्गरागमपि कापि सुभ्रवः सांध्यसपदिव निर्ममे दिवः । यामिनीव शुचिरोचिष परा चारुचामरमचालयच्चिरम् ॥ १९ ॥ मूनि रत्नपुरनाथयोषितः सा कयापि रचितालकावलिः । या मुमोप मुखपद्मसंनिधौ गन्धलुब्धमधुपावलिश्रियम् ॥ ५० ॥ एणनाभिरसनिर्मितैकया पत्रभङ्गिमकरी कपोलयोः । अभ्यधत्त सुतनोरगाधतामुल्लसल्लवणिमाम्बुधेरिव ॥ ११ ॥ निष्कलङ्कमणिभूषणोच्चयैः सा कयापि सुमुखी विभूषिता । तारतारकवतीन्दुसुन्दरी शारदीव रजनी व्यराजत ॥ ५२ ।। १. मनोहरे सुवर्णसिंहासने. २. भूपतेः. ३. चामुण्डा. ४. हरिन्मणिमयम्. ५. ला- वण्यसिन्धोः ३६ काव्यमाला। विदेव किल कापि वल्लकीवेणुहारि हरिणेक्षणा जगौ । यावर्दर्थपतिकान्तयोदितां नाशृणोदमृतवाहिनी गिरम् ॥ ५३ ॥ एकया गुरुकलत्रमण्डले धृष्टकामुक इवाधिरोपितः । रागचञ्चलकराग्रलालितः कूजति स्म हतमानमोनकः ॥ १४ ॥ वल्गितभ्र नवविभ्रमेक्षणं वेपितस्तनमुदस्तहस्तकम् । चारु चित्रपदचारमेकया नर्तितस्मरमनति तत्पुरः ॥ ५५ ॥ यद्यदिष्टतममुत्तमं च यज्ज्ञातपूर्वमिह यच्च किंचन । तत्तदाभिरभिकर्मकौशलं स्पर्धयेव विधिवद्वयधीयत ॥ १६ ॥ सर्वतोऽपि सुमनोरमार्पितालंकतिर्गुणविशेषशालिनी । भारतीव सुकवेरभूत्तदा शुद्धविग्रहवती नृपप्रिया ॥ ५७ ।। रात्रिशेषसमये किलैकदा सा सुखेन शयिता व्यलोकयत् । खप्नसंततिमिमां दिवोऽर्हतस्तीर्थपद्धतिमिवोत्तरिष्यतः ॥ १८ ॥ संचरत्पदभरेण निर्भरं भज्यमानदृढकूर्मकर्परम् । कल्पगन्धवहलोलमुडुरं राजतादिमिव गन्धसिन्धुरम् ॥ १९ ॥ शृङ्गसंततिकदर्थितग्रहं शारदाभ्रमिव शुभ्रविग्रहम् । भूत्रयोत्सवविधायिनं दे॒षं मूर्तिमन्तमिव बिभ्रतं वृषम् ॥ ६० ।। गर्जितग्लपितदिग्गजावलीगण्डमण्डलमदाम्बुनिझरम् । एणकेतनकुरङ्गलिप्सयेवान्तरिक्षरचितक्रमं हरिम् ॥ ६१ ॥ रावरोषदलिताम्बुदावलीलग्नलोलरुचिसंचयामिव । कंधरामुरुकडारकेसरोल्लासिनी दधतमुद्धतं हरिम् ॥ १२ ॥ (इति पाठान्तरम्) स्फारकान्तिलहरीपरम्पराठावितप्रकतिकोमलाकतिम् । तत्क्षणभ्रमदमन्दमन्दरक्षुब्धवारिधिगतामिव श्रियम् ॥ १३ ॥ संभृतभ्रमरसङ्गिविभ्रमं स्वग्द्वयं शुचि विकासिकौसुमम् । व्योम्नि दिग्गजमदाविलं द्विधा जाह्नवौघमिव-वायुना कृतम् ॥ ६४ . १. नृपपत्न्या. २. पटहः. ३. धर्मम्.
७ . ५ सर्गः] धर्मशर्माभ्युदयम् । उग्रदग्धमधिरोप्य लाञ्छनच्छद्मनात्मभुवमकमात्मनः । ओषधीरसनिपेवणैरिवोज्जीवयन्तमुदितौषधीश्वरम् ॥ ६५ ॥ कौमुदीरसविलासलालसं मीनकेतुनृपतेः पुरोधसम् । कामिनीपु नवरागसंभ्रमाद्वैतवादिनमतिग्मतेजसम् ॥ ६६ ॥ (इति पाठान्तरम्) सर्वथाहमपदोप एव किं ध्यामलो जन इति प्रतिज्ञया । लब्धशुद्धिमुडुदिव्यतण्डुलैश्चचितैरिव कृतोत्सवं रविम् ॥ ६७ ।। स्तम्भितभ्रमितकुश्चिताञ्चितस्फारितोहलितवेल्लितादिभिः । प्रक्रमैर्विहरदम्बुधौ युगं मीनयोनयनयोरिव श्रियः ॥ ६८ ॥ प्रारसातलगतस्य तत्क्षणान्निर्यतः सुकतमत्तदन्तिनः । कुम्भयोरिव युगं समौक्तिकं शातकुम्भमयपूर्णकुम्भयोः ॥ ६९ ॥ अभ्युपात्तकमलैः कवीश्वरैः संश्रुतं कुवलयप्रसाधनम् । द्रावितेन्दुरसराशिसोदरं सच्चरित्रमिव निर्मलं सरः ॥ ७० ॥ पविरोच्चलहरिव्रजोडुरं सजनक्रमकरं समन्ततः । अब्धिमुंग्रतरवारिमज्जितक्ष्मीभृतं पतिमिवावनीभुजाम् ॥ ७१ ॥ स्वस्वदीधितिपरिग्रहग्रहग्रामवेष्टितमिवाद्रिशेखरम् । चित्ररत्नपरिवेपमुच्चकैश्चारुहेमहरिणारिविष्टरम् ॥ ७२ ॥ अश्मगर्भमणिकिङ्किणीचयैः सानुभावमळताश्रयैरिव । दिव्यगन्धद्दतलोलषट्पदैः सस्वनैः सुरविमानमन्वितम् ॥ ७३ ॥ मत्तवारणविराजितं स्फुरईजहेतिभरतोरणोल्वणम् । लोलकेतुष्टतनाकदम्बकं नाकिनामिव विमानमम्बरे ॥ ७४ ॥ (इति पाठान्तरम्) १. महादेवभस्मोकृतम्. २. जलपक्षिश्रेष्ठैः. ३. पीवरोच्चल-हरिव्रजोद्धरम्; (पक्ष) पीवरोच्च-लहरि-व्रजोडुरम्. ४. सज्जन-क्रमकरम् ; (पक्षे) सज्ज-नक्रमकरम्. ५. उप्र. तर-वारि; (पक्षे) उग्र-तरवारि. ६. क्ष्माभृतो राजानः पर्वताश्च. ७. मत्तवारणो वर- ण्डकः; (पक्षे) मत्तगजः. ८. हीरकप्रभाभरनिर्मिततोरणेन; (पक्षे) पविरूपायुधातिशयतः सनामोल्वणम्.
३८ काव्यमाला। अन्तरूफ़णिविस्फुरत्फणास्थालकोल्बणमणिप्रदीपकैः । निष्फलीळंतरिरंसुभोगिनीफूल्छतोद्यममहीन्द्रमन्दिरम् ॥ ७९ ॥ क्व प्रयासि परिभूय मेदिनी दौस्थ्यमत्पुर इतीव रोषतः । चित्ररत्नचयमुल्लसत्करैः स्फारितोरुहरिचापमण्डलम् ।। ७६ ॥ तीर्थकर्तुरहमिन्द्रमन्दिरादेष्यतः पथि समृद्धिभावतः । अग्निमग्निकणसंततिच्छलादुत्क्षिपन्तमिव लाजसंचयम् ॥ ७७ ॥ प्रेक्ष्य तत्क्षणविनिगुलोचना सा विहाय तैलिनं सुभूषणा । पत्युरन्तिकमुपेत्य सुव्रता स्वप्नसङ्घमखिलं तमब्रवीत् ।। ७८ ॥ बन्धुरं तमवधार्य तस्य सद्वन्धुरन्तकरमेनसां फलम् ! व्याजहार स रदारदीधितिव्याजहारमुरसि प्रकल्पयन् ॥ १९ ॥ तं निशम्य हृदि मौक्तिकावली दन्तदिगुणयन्मरीचिभिः प्रीतिकन्दलितरोमकन्दलीसुन्दराकतिरवीवदन्नृपः ॥ ८० ॥ (इति पाठान्तरम्) देवि धन्यचरिता त्वमेव या स्वप्नसंततिमपश्य ईदृशीम् । श्रूयतां सुकृतकन्दलि क्रमावर्ण्यमानमनपायि तत्फलम् ॥ ८१ " वारणेन्द्रमिव दानबन्धुरं सौरभेयमिव धर्मधुर्धरम् । केसरीशमिव विक्रमोदितं श्रीस्वरूपमिव सर्वसेवितम् ॥ ८२ माल्यवत्प्रथितकीर्तिसौरभ चन्द्रवन्नयनवल्लभप्रभम् । भानुवगुवनबोधकोविदं मीनयुग्मवदमन्दसंमदम् ॥ ८३ ॥ कुम्भयुग्ममिव मङ्गलास्पदं निर्मलं सर इव लमच्छिदम् । तोयराशिमिव पालितस्थिति सिंहपीठमिव दर्शितोन्नतिम् ॥ ८४ ॥ देवतागमकरं विमानवद्गीततीर्थमुरगस्य हर्म्यवत् । सद्गुणाब्यमिह रत्नराशिवत्प्लुष्टकर्मगहनं च वह्निवत् ॥ ८५ ॥ लप्स्यसे सपदि भूत्रयाधिपं तीर्थनाथममुना त्वमात्मजम् । जायते 'व्रतविशेषशालिनां स्वप्नवृन्दमफलं हि न क्वचित् ॥ ८६ ॥ . १.शय्यामू.
६ सर्गः धर्मशर्माभ्युदयम् । ३९ इत्यं तदर्थकथया हृदि कुल्ययेव श्रोत्रान्तरप्रहितया हृदयेश्वरेण । देवी प्रमोदसलिलैरभिपिच्यमाना वंप्रावनीव विलसत्पुलकाराभृत् ॥ ८७ ।। स श्रीमानहमिन्द्र इत्यभिधया देवस्त्रयस्त्रिंशतो- दन्वद्भिः प्रमितायुपो व्यपंगमे सर्वार्थसिदश्युतः । चन्द्रे विभ्रति रेवतीप्रणयतां वैशाखमणत्रया- दश्यां गर्भमवातरत्करितनुः श्रीमुव्रतायान्तदा ॥ ८ ॥ आगत्यासनकम्पकल्पितचमत्काराः नुगः सर्वतो जन्मारातिपुरःसराः सपदि तां गर्भ जिनं विभ्रतीम् । स्तात्रैस्तुष्टुवुरिष्टभूपणचयैरानचुच्चनगु- भक्त्या नेमुरनर्तिपुर्नवरसैस्तत्कि न यत्ते व्यधुः ॥ ८९ ॥ अहमिह मेहमीहे यावदुर्विधातुं कथमिव पुरुहूतोत्पादितं तावदीक्षे । इति मनसि विलक्षं तं क्षितीशं सरत्न- त्रिदशकुमुमवृष्टिच्छद्मना द्यौरहासीत् ॥ ९० ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदय महाकाव्ये पञ्चमः सर्गः । पष्टः सर्गः । सा भारतीव चतुरातिगभीरमर्थ वेलेव गूढमणिमण्डलमम्वुराशेः । । पौरंदरी दिगिव मेरुतिरोहितेन्दु गर्भ तदा नृपवर्दधती रराज ॥ १ ॥ तामादरादुदरिणी रहसि प्रहृष्टा दृष्टिः प्रतिक्षणमुदैवतभूमिभर्तुः । १. क्षेत्रभूमिरिव, २. उत्सवम्.
काव्यमाला। दैवादवाप्य तपनीयनिधानकुम्भी साशङ्करङ्ककुलमूलकुटुम्बिनीव ॥२॥ न्तर्वपुः प्रणयिनः परमेश्वरस्य निर्यद्यशोभिरिव सा परिरभ्यमाणा। स्वल्पैरहोमिरमितो घनसारसार-. कृप्तोपदेहमिव देहमुंवाह देवी ॥ ३ ॥ तृष्णाम्बुधेरपरपारमुपागतं च निर्बन्धनं च तनयं जनयिष्यतीयम् । तेनावरुद्धकलकेलिशकुन्तमुक्ति मुक्त्वान्यवस्तुषु बबन्ध न दोहदानि ॥ ४ ॥ वृद्धि परामुदरमाप यथायथास्याः श्यामाननः स्तनभरोऽपि तथातथाभूत् । यहा नितान्तकठिनां प्रति भजन्तो मध्यस्थमप्युदयिनं न जडाः सहन्ते ॥ ५ " तस्याः कपोलफलके स्फटिकाश्मकान्तौ कंदर्पदर्पण इव प्रतिबिम्बिताङ्गः । रात्रावलक्ष्यत जनैर्यदि लाञ्छनेन श्रीकण्ठकण्ठजरठच्छविना मृगाङ्कः ॥ ६ ॥ एकेन तेने बलिना खबलेन तस्या भक्त्वा बलित्रयमवर्धत मध्यदेशः । तेनैव संमदरसेन सुहत्तदाभू- दत्यन्तपीवरतरः कुचकुम्भभारः ॥ ७ ॥ उत्खातपकिलबिसाविव राजहंसौ शुभ्रौ सभृङ्गवदनाविव पद्मकोषौ । १. भूमितलाईवानुकूल्यैन लब्धसुवर्णकलशा मा कश्चिद्धार्षीदिति भयाकुला दरिद्र]- हिणीव. २. तेन गर्भस्थेन.
६ संर्गः] धर्मशर्माभ्युदयम् । तस्याः स्तनौ हृदि रसैः सरसीव पूर्णे संरेजतुर्गवेलमेचकच्चुकायौ ॥ ८ ॥ गर्ने वसन्नपि मलैरकलङ्किताङ्गो ज्ञानत्रयं त्रिभुवनैकगुरुर्बभार । तुङ्गोदयाद्रिगहनान्तरितोऽपि धाम किं नाम मुञ्चति कदाचन तिग्मरश्मिः ॥९॥ काले कुलस्थितिरिति प्रतिपद्य विद्वा- न्कर्तु यदैच्छदिह पुंसवनादिकर्म । स्वःस्पर्धयेव तदुपेत्य पुरंदरेण प्रागेव निर्मितमुदक्षत स क्षितीशः ॥ १० ॥ सा गर्भनिर्भरतया सकलाङ्गसाद- मासाद्य निष्क्रियतनुस्तरुणेन्दुगौरी । आलोकिता स्फटिककृत्रिमपुत्रिकेव भर्तुस्तदा मदयति स्म मनो मृगाक्षी ॥ ११ ॥ वज्जानलादि न ससर्ज न चोज्जगर्ज साश्चर्यमैलविल इत्यपरोऽम्बुवाहः । अष्टौ च सप्त च जिनेश्वरजन्मपूर्वा- न्मासान्व्यधत्त नृपधामनि रत्नवृष्टिम् ॥ १२॥ पुष्पं गते हिमरुचौ तपसो वलक्ष- पक्षाश्रितां तिथिमथ त्रिजयामवाप्य । प्राचीव भानुमभिनन्दितसर्वलोकं सासूत सूत्रितनयं तनयं मृगाक्षी ॥ १३ ॥ शातोदरी शयनसंनिहितेन तेन प्रोत्तप्तकाञ्चनसकाशरुचा चकाशे । कंदर्पदर्पजयिना नयनानलेन कामद्विषः शिरसि चान्द्रमसी कलेव ॥ १४ ॥ १. गवलं माहिषं शृङ्गम्, २. ऐलविलः कुबेरः. ३. त्रयोदशीम्, ६ काव्यमाला। अष्टोत्तरां दशशती शुभलक्षणानां बिभ्रत्स पुण्यविपणिः सहसापि दृष्टः। स्वर्गादृतेऽपि परमोत्सवनिर्निमेपाः काश्चित्रमत्र न चकार चकोरनेत्राः ॥ १५ ॥ गच्छन्नधश्चिरतरं जिनजन्मदत्त- हस्तावलम्ब इव निर्मलपुण्यराशिः। अप्रेरितोऽपि भवनामरमन्दिरेषु निःसंख्यशङ्खनिवहः सहसोजगंज ॥ १६ ॥ रे रे भवभ्रमणजन्मजरान्तकाद्याः सद्यः प्रयात शममेष जिनोऽवतीर्णः। इत्थं प्रशासदिव डिण्डिमचण्डिमोच्चैः खं व्यन्तरानकशतध्वनिराततान ।। १७ ॥ एको न केवलमनेकपमण्डलस्य गण्डाच्छिखण्डिगलकज्जलकान्तिचौरः । ज्योतिगृहग्रहिलसिंहसहस्रनादै- रुत्कंधरः स जगतोऽपि मदो निरस्तः ॥ १८ ॥ तत्काललास्यरसलालसमोक्षलक्ष्मी- विक्षिप्तपाणिमणिकङ्कणरावरम्यैः । जन्मन्यनल्पतरकल्पनिवासिवेश्म- घण्टास्वनैः खयमपूरि जगज्जिनस्य ॥ १९ ॥ बालस्य तस्य महसा सहसोद्यतेन प्रध्वंसितान्धतमसे सदने तदानीम् । सेवागताम्बरमुनीनिव सप्त काचि- दीपान्व्यबोधयत केवलमङ्गलार्थम् ॥ २० ॥ जन्मोत्सवप्रथमवार्तिकमात्मजस्य तस्य प्रमोदभरदुर्ललितो नरेन्द्रः । १. व्यन्तरो देवयोनिभेदः.
६ सर्गः] ४३ धर्मशर्माभ्युदयम् । नोशिमौलिमणिमालिकयाज्ञयैव लक्ष्म्या पुनर्नियतमात्मसमीचकार ॥ २१ ॥ ते गन्धवारिविरजीकृतराजवर्म- न्यभ्राददभ्रघृणयो मणयो निपेतुः । यैस्तत्क्षणोप्तसुकतद्मवीजपुञ्ज- निर्यत्प्ररोहनिकराकतिरन्वकारि ॥ २२ ॥ उत्क्षिप्तकेतुपटपल्लवितान्तरिक्षे चिक्षेप तीक्ष्णरुचिरत्र पुरे न पादान् । मन्ये पतत्रिदशपुष्परसप्रवाह- संदोहपिच्छिलपथच्छलपातमीतः ॥ २३ ॥ संवाहयन्निव मनाक्चिरबन्धमुक्ता- स्त्वङ्गविसंस्थुलपदाः प्रतिपक्षवन्दीः । मन्दारदाममधुसीकरभारवाही मन्दोऽतिमन्दगतिरत्र बभूव वायुः ॥ २४ ॥ तौर्यों ध्वनिः प्रतिगृहं लयशालि नृत्तं गीतं च चारुमधुरा नवतोरणश्रीः । इत्याद्यनेकपरमोत्सवकेलिपात्रं द्रागेकगोत्रमिव भूत्रितयं बभूव ॥ २५ ॥ शुभ्रं नमोऽभवदभूदपकण्टका भू- भक्त्येव भानुरभिगम्यरुचिर्बभूव । आरोग्यवानजनि जानपदोऽपि लोक- स्तत्कि न यत्सुखनिमित्तमभृत्तदानीम् ॥ २६ ॥ स्नाता इवातिशयशालिनि पुण्यतीर्थे तस्मिन्रजोव्यपगमात्सहसा प्रसन्नाः। एण्यन्निजप्रणयिनां त्रिदिवात्तदानीं संयोगयोग्यसमयाः ककुभो बभूवुः ॥ २७ ॥ .
४ काव्यमाला । रङ्गावलीध्वजपटोच्छ्रयतोरणादि- व्यग्रे निधीश्वरपरिग्रहचक्रवाले । उहेल्लनोल्लसितरत्नरुचा हसद्भि- नियमिकैरिव चिराच्चलितं निधानैः ।। २८ ॥ जाते जगत्रयगुरौ गरिमाम्बुराशि- नीरान्तरान्तरितविश्वमहिम्नि तत्र | कोऽन्यस्य राज्यमहिमति किल प्रभाव- शक्त्या हतं हरिहयासनमाप कम्पम् ॥ २९ ॥ तत्कम्पकारणमवेक्षितुमक्षमाणि ज्ञात्वा शतान्यपि दशोज्ज्वललोचनानाम् । अत्यन्तविस्मयरसोत्सुकचित्तवृत्ति- रिन्द्रोऽवधिं समुदमीलयदेकनेत्राम् ॥ ३० ॥ तेनाकलय्य जिनजन्म जवेन पीठा- दुत्थाय तदिशि पदान्यपि सप्त गत्वा । देवो दिवस्तमभिवन्द्य मुदाभिषेक्तुं प्रस्थानदुन्दुभिमदापयत क्षणेन ॥ ३१ ॥ उन्निद्रयन्निव चिराय शयालुधर्म तस्य ध्वनिर्भरितभूरिविमानरन्ध्रः । हाणि मेदुरतरोऽपि सुरासुराणां द्राक्पारितोषकमिवार्थयितुं जगाम ॥ ३२ ॥ ते षोडशाभरणभूषितदिव्यदेहाः स्वस्वोरुवाहनजुषः सपरिग्रहाश्च । हृल्लग्नजेनगुणसंततिकृष्यमाणा- श्चेलुर्बलादिव दशापि दिशामधीशाः ॥ ३३ ॥ स्वर्दन्तिनं तदनु दन्तसरःसरोज- राजीनटल्लंडहनाकवधूनिकायम् । .. १. लडहः सुन्दरः .
६ सर्गः] १५ धर्मशर्माभ्युदयम् । उत्कुललोचनरुचा निचर्यविचित्रः संचित्रयन्निव दिवस्पतिरारुरोह ॥ ३४ ॥ ऐरावणश्चटुलकर्णझलंझलामि- रुड्डीनगण्डमधुपावलिरावभासे । यात्रोद्यतः पथि जिनस्य पदे पदेऽसौ निर्मुच्यमान इव पापलवैचुटद्भिः ॥ ३५ ॥ गच्छन्ननल्पतरकल्पतरुप्रसून- पात्रीपवित्रकरकिंकरचक्रवालैः । सोढुं तदीयविरहार्तिमशक्नुवद्भिः क्रीडावनैरिव रराज स पृष्ठलग्नैः ॥ ३६ ॥ अन्योन्यघटनरणन्मणिभूषणाया वाचालितोच्चकुचकुम्भमराः सुराणाम् । उल्लासिलास्यरसपेशलकांस्यताल- लीलाश्रिता इव रसाललनाः प्रचेलुः ।। ३७ ॥ गायन्नटन्नमदनुव्रजदप्यमन्दं वृन्दं तदा दिविषदां मिलदासमन्तात् । देवः पृथक्एथगुपात्तविशेषभाव- स्तुल्यं सहस्रनयनो नयनैर्ददर्श ॥ ३८ ॥ उद्दामरागरससागरमनहूहू- हाहादिकिंनरतरङ्गितगीतसक्तः । संत्रासहेतुषु नदत्वपि तूर्यलक्षे- प्वन्तन शीतकिरणं हरिणो बबाधे ॥ ३९ ॥ क्रूरः कृतान्तमहिषस्तरणेस्तुरंगा- द्योतिः कुरङ्गरिपवः (१) पवनस्य चैणः । .. १. 'गजकर्णगतिझलंझलेत्युच्यते' इति कामन्दकीयनीतिसारटीका (१।४५).
४६ ६ काव्यमाला॥ सर्वे समं ययुरमी जिनमार्गलग्नाः के वा. त्यजन्ति न परस्परवैरभावम् ॥ ४० ॥ पुष्पैः फलैः किसलयैर्मणिभूषणैश्च तैस्तैर्विचित्रवरचीवरसंचयैश्च । कर्तुं जिनेन्द्रचरणार्चनमुत्तरन्तः कल्पद्रुमा इव वियत्यमरा विरेजुः ॥ ४१ ॥ अन्योन्यसंचलनघहितकर्कशोर:- क्षुण्णोरुहारमणयो नटतां सुराणाम् । तारापथात्करिघटाचरणप्रचार- संचूर्णितोडुनिचया इव ते निपेतुः ॥ ४२ ॥ सूर्योपगामिभिरिभैर्मरुतां करान- व्यापारिताभिरमितापिनि गण्डमूले । गण्डूषवारिविसरप्रसरच्छटामि- देब्रे क्षणं श्रवणचामरचारुलक्ष्मीः ॥ ४३ ॥ रक्तोत्पलं हरितपत्रविलम्बि तीरे त्रिस्रोतसः स्फुटमिति त्रिदशद्विपेन्द्रः। बिम्बं विकृष्य सहसा तपनस्य मुञ्च- न्धुन्वन्करं दिवि चकार न कस्य हास्यम् ॥ ४४ ॥ तारापथे विचरतां सुरसिन्धुराणां सूत्कारनिर्गतकराम्बुकणा इवारात् । ताराः सुरैर्दशिरेऽथ मिथोऽङ्गसङ्ग- त्रुत्यद्विभूषणमणिप्रकरानुकाराः ॥ ४५ ॥ त्रैविक्रमक्रमभुजंगमभोगमुक्ता निर्मोकरज्जुरिव दृष्टविषातिरेका । १. दृष्टजलाधिक्या च.
६ सर्गः ४७ धर्मशर्माभ्युदयम् । व्योमापगा धुपुरगोपुरदेहलीव देवैर्व्यलोकि घटिता स्फटिकोपलेन ॥ ४६ ॥ रेजे जिनं स्पयितुं पततां सुराणां शुभ्रा विमानशिखरध्वजपनिरभ्रे । 'नन्दकन्दलितरूपशतं पतन्ती ज्ञात्वा निजावसरमम्बरनिम्रगेव ॥ ४७ ॥ जाते जिने भुवनशास्तरि संचरन्तः स्वर्दन्तिनो नभसि नीलपयोदखण्डम् । नाथाहते प्रथममिन्दुपुरप्रतोल्यां दत्तं कपाटमिव लोहमयं बभक्षुः ॥ ४० ॥ अव्याहतप्रसरवातविवर्तमान- नीलान्तरीयविवरस्फुरितोरुदण्डा । बाह्यच्छविन्यपनयार्पितगर्भशोभा रेम्भव कस्य न मनोहरति स्म रम्भा ॥ १९ ॥ यावजिनेश्वरपुरं हरिराजधान्याः स्वर्गीकसां नभसि धोरणिरापतन्ती । लोकस्य शास्तरि जिने दिवमारुरुक्षो- निःश्रेणिकेव सुकृतेन कृता रराज ॥ ५० ॥ वल्गद्धनोरुलहरीनिवहान्तराल- हेलोल्लसन्मकरमीनकुलीरपोतान् । ये यानपात्रपटलप्रतिमैर्विमानै- रुत्तेरुरम्बरमहाम्बुनिघेरमाः ॥ ११ ॥ द्वारि द्वारि नभस्तलान्निपतितस्तैपैर्मणीनां मुनि- क्रीडापीतपयोधिभूतलमिव व्यालोकयद्यद्यपि । एकस्यैव जगद्विभूषणमणेस्तस्याहतो जन्मना मेने रत्नपुरं तथापि मरुतां नाथस्तदा सार्थकम् ॥ १२ ॥ १. अन्तरीयमधोवस्त्रम्. १. कदलीव. ३. समूहै..
काव्यमाला । पुरमिव पुरुहूतः प्राञ्जलिस्त्रिः परीत्य त्रिभुवनमहनीयं हर्म्यमस्यातिरम्यम् । समुपनयनबुद्ध्या विश्वविश्वाधिपत्यं श्रियमिव सहसान्तः प्रेषयामास कान्ताम् ॥ १३ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये षष्ठः सर्गः। सप्तमः सर्गः। प्रविश्य समन्यथ सुव्रतायाः समर्प्य मायाप्रतिरूपमङ्के । शची जिनं पूर्वपयोधिवीचेः समुज्जहारेन्दुमिवोदितं द्यौः ॥ १ ॥ अवाप्य तत्पाणिपुटाग्रमैत्री प्रकाशमाने जिनयामिनीशे करारविन्दद्वितयं तदानी बिडौजसः कुड्मलतां जगाम ॥ २ ॥ प्रमोदबाष्पाम्बुकरम्बितेन दृशां सहस्त्रेण सहस्त्रनेत्रः । अपश्यदस्याकतिलक्षणानां सकष्टमष्टाभ्यधिकं सहस्त्रम् ॥ ३ ॥ अपारयन्नप्रतिरूपमङ्गं जिनस्य तस्येक्षितुमीक्षणाभ्याम् । सहस्त्रनेत्राय तदा समूहः सुरासुराणां स्टहयांबभूव ॥ ४ ॥ तमादरादर्भकमप्यदधैर्गुणैर्गरीयांसमशेषलोकात् । कृतप्रणामाय पुरंदराय समर्पयामास पुलोमपुत्री ॥ ५ ॥ ससंभ्रमेणाभ्रमुवल्लभस्य न्यधायि मूनि त्रिदिवेश्वरेण । जयेति वाचं मुहुरुचरद्भिः कराञ्जलिः खस्य सुरैरशेषैः ॥ ६ ॥ स तत्र चामीकरचारुमूर्तिः स्फुरत्प्रभामण्डलमध्यवर्ती । अनम्बुधाराधरतुङ्गशृङ्गे नवोदितश्चन्द्र इवाबभासे ॥ ७ ॥ तदनियुग्मस्य नखेन्दुकान्तिर्युदन्तिनो मूर्धनि विस्फुरन्ती । बभौ तदाक्रान्तिविभिन्नकुम्भस्थलोच्छलन्मौक्तिकमण्डलीव ।। ८ ।। अथाभिषेक्तुं सुरशैलमूनि तमुहस्तीर्थकरं कराभ्याम् । पथा ग्रहाणां स गजाधिरूढश्चचाल सौधर्मपतिः ससैन्यः ॥ ९॥ ध्वनत्सु तूर्येषु हरिप्रणीता स्तुतिस्तदाश्रावि सुरैर्न जैनी । निखिलजगत्प्रभुत्वम्. २. शचीम्. ३. शची. ४. ऐरावतस्यं. ५. इन्द्रः.
.. ७ सर्गः] धर्मशर्माभ्युदयम् । ४९ मुहुस्तदारम्भचलाधरौष्ठप्रवाललीलाभिरवेदि किंतु ॥ १० ॥ अखण्डहेमाण्डकपुण्डरीकव्रजस्य दम्भात्रिदशोद्धृतस्य । सुवर्णाकुम्भान्स्वशिरोभिरुद्वहन्नियाय तस्य स्नपनाय शेपः ॥ ११ ॥ विधूयमानामरमण्डलीभिः प्रभोरुपान्ते सितचामराली । रराज रागोत्सुकमुक्तिमुक्तकटाक्षविक्षेपपरम्परेव ॥ १२ ॥ प्रदह्यमानागुरुधूमलेखाकरम्वितं व्योम बभौ. तदानीम् । जिनस्य जन्माभिपवोत्सवार्थमिवागताशेपभुजंगलोकम् ॥ १३ ॥ तमिन्दुशुभ्रध्वजनिर्मलोमिः सितातपत्रस्फुटफेनपुञ्जः । सुरासुराणां निवहोऽभिपेक्तुं रराज दुग्धाब्धिरिवानुगच्छन् ॥ १४ ॥ बभौ पिशङ्गः कनकोज्ज्वलाभिः प्रभाभिरस्याभ्रमुजीवितेशः । प्रभुं तमायान्तमवेत्य भक्त्या स संमुखायात इवाद्विराजः ॥ १५ ॥ सुधाप्रवाहैरिव हारिंगीतैस्तरङ्गिते व्योममहाम्बुराशौ । भुजभ्रमोल्लासितलास्यलीलाछलात्प्लवन्ते स्म.मरुत्तरुण्यः ॥ १६ ॥ दिवोऽपि संदर्शितविभ्रमायाः सितैकवेणीमिव वृद्धमूर्तः । स निर्जराणामधिपः पतन्ती मुमोच दूरेण सुरस्त्रवन्तीम् ॥ १७ ॥ स चित्रमन्तर्हितभानुकान्त्या प्रभोरमुप्योपरि मेघखण्डम् । सहेमकुम्भस्य वभार शोभां मयूरपत्रातपवारणस्य ॥ १८ ॥ प्रयाणवेगानिलकृप्यमाणा घना विमानानि तदानुजग्मुः । तदअवेदीमणिमण्डलांशुस्फुरन्मरुच्चापजिघृक्षयेव ॥ १९ ॥ स वारिधेरन्तरनन्तनालस्फुरदरित्रीवलयारविन्दे । उपर्यटत्पटपदकर्णिकाभं ददर्श मेरुं सपयोदमिन्द्रः ॥ २० ॥ अधः कृतस्तावदनन्तलोकः श्रिया किमुच्चैस्त्रिदशालयो मे । इत्यस्य रोपादरुणाब्जनेत्रं भुवाभ्युदस्तास्यमिवेक्षणाय ॥ २१ ॥ परिस्फुरत्काञ्चनकायमाराद्विभावरीवासरयोर्धमेण । विडम्बयन्तं नवदंपतीभ्यां परीयमाणानलपुञ्जलीलाम् ॥ २२॥ १. अयं वंशस्थवृत्तपादोऽत्र प्रमादापतित इति भाति. २. देवाङ्गनाः. ३. गङ्गाम्. ४. एतदुत्तरार्धमस्फुटम्.
६० काव्यमाला। १ रवीन्दुरम्योभयपार्श्वमन्तधृतेन्द्रनीलद्युति हेमकायम् । सचक्रशङ्खस्य पिशङ्गवस्त्रां त्रिविक्रमस्याकृतिमुहहन्तम् ॥ २३ ॥ घनानिलोत्थैः स्थलपङ्कजानां परागपूरैरुपबृंहिताग्रम् । मुहुर्जिनस्यापततोऽतिदूरादुदश्चितग्रीवमिवेक्षणाय ॥ २४ ॥ दिगन्तरेभ्यो द्रुतमापतद्भिर्घनैर्धनाखण्डलचापचित्रैः। उपान्तरत्नप्रकरोपहारैधेरैरिवादीन्द्रमुपास्यमानम् ॥ २५ ॥ सिताब्दरुद्धार्थहिरण्यदेहं शिरःस्फुरत्पाण्डुशिलार्धचन्द्रम् । कपालमालाललितोडुपङ्कया धृतार्धनारीश्वरमूर्तिशोभम् ॥ २६ ॥ अमी भ्रमन्तो विततस्थलान्मे अहा ग्रहीष्यन्ति सुवर्णकोटीः। इतीव तेषां प्रसरं निरोद्धं घनानुपान्ते दधतं सचापान् ॥ २७ ॥ नितम्बिनीः संततमेव भास्वत्करामिमृष्टोच्चपयोधरायाः । समासजन्तं सरितां प्रवाहैस्तटीः क्षरत्स्वेदजलैरिवाः ॥ २८ ॥ असह्यहेतिप्रसरैः परेषां प्रभञ्जनात्माप्तहिरण्यलेशैः। महरिखसैन्यैः कटकेष्वद्भिनिषेवितं साधु महीधरेन्द्रम् ॥ २९ ॥ मरुड्नदशमनेकौलं रेंसालसंभावितमन्मथैलम् । धृतस्मरातङ्कमिवाश्रयन्तं वनं च गानं च सुराङ्गनानाम् ॥ ३० ॥ तटैरुदश्चन्मणिमण्डलांशुच्छटैरुदूढोच्छिखहिंशङ्काम् । सचेतसोऽपि प्रथयद्भिरुच्चैः प्रतारितानेकबिडालपोतम् ॥ ३१ ॥ विशालदन्तं घनदानवारि प्रसारितोदामकराग्रदण्डम् । उपयुषो दिग्गजपुंगवस्य पुरो दधानं प्रतिमल्ललीलाम् ॥ ३२ ॥ १. पर्वतैः, २. भास्वन्तो देदीप्यमाना ये करा हस्ताः; (पक्षे) भास्वतः सूर्यस्य कराः किरणा.. ३. मरुतो देवाः; मरुद्वायुश्च. वंशो वंशीनामकं वाद्यम, वेणुश्च. ४. तालः कालक्रियामानम्; वृक्षभेदश्च. ५. रसेन अलसं मन्थरम्. 'भाविता मन्मथस्य कामस्य एला गीतबन्धविशेषो येन (पक्षे) रसालैरानैः संभाविता मन्मथा मदनसंज्ञका वृक्षविशेषा एलालताश्च यस्मिन्, ६. मणिकिरणेषु मयूरभ्रान्त्युत्पादनेन विश्चिताने- कमार्जारशिशुम्, ७. दन्तोऽद्रिकटकः; रदश्च, ८. घन-दान वारिम्; (पक्षे) घन-दानव- अरिम. ९. शुण्डादण्डम्; किरणापदण्डं च. .
७ सर्गः] धर्मशाभ्युदयम् । अधिश्रियं नीरदमाश्रयन्ती नवान्नुदन्तीमतिनिष्कलाभान् । पवनैर्भुजंगाशिखिनां दधानं प्रगल्भवेश्यामिव चन्दनालीम् ॥ ३३ ॥ गजभ्रमान्मुग्धमृगाधिनाथैर्विदार्यमाणान्नखरप्रहारैः । तडिच्छलान्निर्गलदस्त्रधारान्दधानमा मेखलमम्बुवाहान् ॥ ३४ ॥ जिनागमे प्राज्यमणिप्रभामिः प्रभिन्नरोमाञ्चमिव प्रमोदात् । समीरणान्दोलदवालतालै जैरिवोल्लासितलास्यलीलम् ॥ ३५ ॥ अकृत्रिमैश्चैत्यगृहैजिनानां कृतः पवित्रोऽयमिति प्रयत्नात् । सुरेश्वरेणानमता प्रदत्तप्रतिष्ठयेवोच्छिरसं महत्या ॥ ३६ ॥ विलङ्घय पन्थानमथामराणां पतिः स निष्कम्पचमूध्वजाः । नितान्तवेगेन तमुत्सुकत्वात्किलागतं संमुखमाससाद ॥३७॥ (कुलकम्) उपेयुपोऽनन्तपथाध्वनीनानेनेनसस्ताशिरसा प्रतीच्छन् । निरन्तराया विबुधानुवृत्तेः फलं व्यनक्ति स्म तदामराद्रिः ॥ ३८ ॥ हरेडिपो हारिहिरण्यकक्षः क्षरन्मदक्षालितशैलशृङ्गः । वभौ तडिद्दण्डविहारसारः शरत्तडित्वानिव तत्र वर्षन् ॥ ३९ ॥ सलीलमैरावणवामनाद्यैर्वृतानि यैरेव गजैर्जगन्ति । स्थिरं दधत्तानपि मूर्ध्नि मेरुर्धराधराख्यामधरीचकार ॥ ४० ॥ सविक्रमं क्रामति हास्तिके यन्ननाम नो नाम मनाग्गिरीन्द्रः । असंशयं सा जिनभक्तिरेव स्थिरा चकारास्य महाचलत्वम् ॥ ११ ॥ मदेन मूर्धन्यमणिप्रभाभिर्विनिर्गतान्तस्तमसेव गण्डात् । निरुद्धदृष्टिप्रसराः सुराणां शनैः शनैर्गन्धगजाः प्रसस्नुः ॥ ४२ ॥ हिरण्यभूमृहिरदैस्तदानीं मदाम्बुधारास्नपितोत्तमाङ्गः । स दृष्टपूर्वोऽपि सुरासुराणामजीजनत्कज्जलशैलशङ्काम् ॥ ४३ ॥ १. लक्ष्मीयुक्तं नीरदं दन्तरहितमप्याश्रयन्तीं निष्कलाभमतिकान्तान्दरिद्रानिति यावत्, एतादृशानवांस्तरुणानपि भुजंगान्विटाशिखिनां चूलाधारिदासविशेषाणां स्वनैः कटुभाषणैः करणभूतैर्नुदन्तीं निष्कासयन्तीम्, इति वेश्यापक्षे; चन्दनालीपक्षे तु नीरदं मेघम्, शिखिनां मयूराणां स्वनैरतिमलिनकान्तीन्भुजगानुदन्तीम्, २. निष्पापान, .
५२ काव्यमाला। मदाञ्जनेनालिखितां गजेन्द्रैः सहेषमुत्क्षिप्तखुरापटङ्काः । हयाः किलाहार्यशिलासु जैनीमिहोत्किरन्ति स्म यशःप्रशस्तिम् ॥४४॥ कैशाश्चनैः किंचिदवाञ्चितास्याः पुरःप्रविष्टापरकायमश्वाः । इह लुतोल्लङ्घनवल्गनाद्यैर्मुदेव लास्यं पुरतोऽस्यं चक्रुः ॥ ४५ ॥ कृतश्रमा ये नववीथिकासु तुरंगमाः साधितपञ्चधाराः। इहोच्चनीचं चरणैस्त एव विलङ्घय चान्ये नमसीव जग्मुः ॥ ४६ ॥ हडैस्तुरंगानखुरप्रहारैरिहोच्छलन्तो ज्वलनस्फुलिङ्गाः । बभुर्विमिद्येव महीं विभिन्नफणीन्द्रमौलेरिव रत्नसंघाः ॥ ४७ ॥ समन्ततः काश्चनभूमिभागास्तथा रथैथुसुदिरे सुराणाम् । यथा विवस्वद्रथनेमिधारापथेऽरुणस्यापि मतिभ्रमोऽभूतं ॥ ४८ ॥ नितम्बमाघाय मदादुदञ्चच्छिरः समाकुञ्चितफुल्लघोणम् । अनुव्रजन्तं चमरी महोक्षमिहारुणत्कष्टमहो महेशः ॥ ४९ ॥ धुयोषितां कर्षितकुन्तलाग्राः स्तनोरुजवाजघनं स्टशन्तः । शनैरभीका इव संविचेरुस्तरङ्गिणीतीरसरोजवाताः ॥ ५० ॥ वियोगनामापि न सोढुमीशं दिवः स्वमुद्यानमिवावतीर्णम् । हरिः प्रपेदे सुमनोभिरामं वनं स तत्र पृथु पाण्डुकाख्यम् ॥ ११ ॥ अथो जिनेन्द्रानुचराः सुराणामपास्तविस्तीर्णकुथच्छलेन । विचित्रकर्माचरणैरशेषैश्चिरादमुच्यन्त मतङ्गजेन्द्राः ॥ १२ ॥ स वीरितो मत्तमरुहिपौषः प्रसह्य कामश्रमशान्तिमिच्छन् .. रजस्वला अप्यभजत्स्त्रवन्तीरहो मदान्धस्य कुतो विवेकः ॥ ५३॥ गजो न वन्यद्विपदानदिग्धं पपौ पिपासाकुलितोऽपि तोयम् । स्वजीवितेभ्योऽपि महोन्नतानामहो गरीयानभिमान एव ॥ ५४॥ करी करोत्क्षिप्तसरोरुहास्योच्छलन्निलीनालिकुलच्छलेन । कचेष्विवाष्य हठेन यान्ती बुभोज वामामपि तां स्त्रवन्तीम् ॥१५॥ १. अहार्यः पर्वतः. २. वल्गाकर्षणैः. ३. अश्वस्य पञ्चविधा गतिर्धारेत्युच्यते. ४. क्षुण्णाः. ५. कामुकाः. ६. वारितो जलाद; (पक्षे) वारितो निषिद्धः.
७ सर्गः] धर्मशर्माभ्युदयम् । अबालशेवालदलान्तरीयं व्युदस्य मध्यं स्टशति द्विपेन्द्रे । तटाग्रभूमिर्जघनस्थलीव जलैरुदप्लावि वनापगायाः ॥ ५६ ॥ पयस्युदस्तोरुकरं मिमोढिपाधिपस्योत्पतितं कपोलात् । उपर्यलीनां वलयं चकासे सदण्डनीलातपवारणाभम् ॥ १७ ॥ विलासवत्याः सरितः प्रसङ्गमवाप्य विस्फारिपयोधरायाः । गजो ममज्जात्र कुतोऽथवा स्यान्महोदयः स्त्रीव्यसनालसानाम् ॥१८॥ दलानि संभोगभरार्पितानि नखक्षतानीव सरोरुहिण्याः । दधन्नदाम्भस्तलिनात्कथंचिदवातरलव्धरसो महेभः ॥ ५९॥ वनेऽत्र सप्तच्छदगन्धदत्तप्रतिद्विपभ्रान्तिविधूतवीतीन् । प्रयुज्य सामैव शनैर्गजेन्द्रान्विनिन्युरालानपदं नयज्ञाः ॥ ६॥ निपादिने साधुनयप्रयुक्ताः स्वयं खकायाकलनाय वारीम् । ददुर्महेमाः क्रियते कथं वा जडात्मकैरात्महितप्रवृत्तिः ॥ ६१॥ खलीनपर्याणमपास्य कृच्छ्रात्सुरैर्मुखारोपितवध्रनद्धाः । हयाननाहेषितदत्तकर्णा विनिन्यिरेऽश्वा भुवि वेल्लनाय ॥ ६२ ॥ इतस्ततो लोलनमाजि वाजिन्यभिच्युताः फेनलवा विरेजुः । तदङ्गसङ्गत्रुटितोरुहारप्रकीर्णमुक्ताप्रकरा इवोाः ॥ ६३ ॥ नदान्मिलच्छैवलजालनीला निरीयुराक्रम्य पयस्तुरंगाः । दिनोदये व्योम समुत्पतन्तः पयोधिमध्यादिव हॉरिदश्वाः ॥ १४ ॥ इह क्षरन्निर्झरवारिहारिण्यनल्पकल्पगुणि कल्पनाथः निवेशयामास यथायथं स स्थलाम्बुशाखाचरवाहनानि ॥१५॥ तदादि भूमौ शिशुवक्रमाभ्यां सकौतुकं क्रामति नाकिचक्रे । वभार दृग्दोषनिषेधयित्री मश्छवि कजललाञ्छनस्य ॥६६॥ भूदेव्याः शिरसीव कुन्तलतुलालम्बिद्रुमश्यामले लीलोत्तंसितकेतकीकिसलयस्योन्मुद्रयन्ती द्युतिम् । १. शय्यातः. २. 'वीतिरङ्कुशकर्मणि.' ३. निजबन्धनरज्जुम्. ४. हयाननाः निर्यः. ५. सूर्यरथाश्वाः. ६. इन्द्रः ७, बालकस्यापि मुखादिषु दृष्टिदोषनिवारणार्थ कज्जल- बिन्दु कुर्वन्ति.
काव्यमाला॥ शृङ्गे स्वर्णगिरेः स धूर्नटिजटाजूटाग्रपिङ्गत्विषि प्रेडपाण्डुशिलां कलामिव विधोः कल्पाधिपः प्रेक्षत । संसारातिमिव व्यतीत्य पदवीं शुक्लेन दिग्दन्तिना ध्यानेनेव महीभृतस्त्रिभुवनस्येवास्य मूर्ध्नि स्थिताम् । तां कैवल्यशिलामिवाधरजनीप्राणाधिनाथाकर्ति प्राप्याईन्निरतो व्रतीव समभूदाखण्डलो निर्वृतः ॥ ६८ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये सप्तमः सर्गः । अष्टमः सर्गः । अथ सरभसमस्यां न्यस्तविस्तीर्णभास्व- न्मणिमयहरिपीठे निर्भरोत्साहयोगः । शरभमिव हिमाद्रेरभ्रमातङ्गकुम्मा- जिनपतिमवतार्य स्थापयामास जिष्णुः ॥१॥ मदनभिदमधास्यन्नूनमेनं न मूर्धा यदि कथमपि शेषस्तच्छिलापद्मवेषः । अपि मृदुलमृणाली कोमलस्तदुरापां स कथमितरथाप्स्यत्क्षाभरोद्धारकीर्तिम् ॥ २॥. किमतनुतरपुण्यैः स्विद्यशोभिः स्वयं वा निजसमयसमेतैरूमिभिः क्षीरसिन्धोः । इति सुरपरिपाच्या शङ्कमानैः शिलायाः शिरसि सितमयूखैः श्लिष्यमाणः स रेजे ॥ ३ ॥ अनुगुणमंनुभावस्यानुरूपं विभूतेः समुचितमनुवृत्तेदेशकालानुकूलम् । अविकलमकलङ्क निस्तुलं तस्य भर्तुः स्नपनविधिममाः प्रारभन्ते स्म-तस्मिन् ॥ ४ ॥ १. अर्धचन्द्राकृतिम्. २. मुक्तः, संतुष्टश्च.
८ सर्गः] धर्मशर्माभ्युदयम् । ६५ अवकरनिकुरम्बे मारुतेनापनीते कुरुत धनकुमाराः साधु गन्धोदवृष्टिम् । तदनु च मणिमुक्ताभङ्गरगावलीभि- विरचयत चतुष्कं सत्वरं दिक्कुमार्यः ॥ ५ ॥ स्वयमयमिह धत्ते छन्नमीशाननाथ. स्तदनुगतमृगाक्ष्यो मङ्गलान्युत्क्षिपन्तु । जिनसविधममा नर्तिता वालवाल- व्यजनविधिसनाथाः सन्तु सानत्कुमाराः ।। ६ ॥ वलिफल कुसुमस्त्रग्गन्धधूपाक्षताद्यैः प्रगुणयत विचित्राण्यन्नपात्राणि देव्यः । सलिलमिह पयोधेरेष्यति व्यन्तराद्याः पटुपटहमृदङ्गादीनि तत्सज्जयन्तु ।। ७ ॥ प्रवणय वरवीणां वाणि रीणासि कस्मा- त्किमपरमिह ताले तुम्बरो त्वं वरोऽसि । इह हि भरत रङ्गाचार्य विस्तार्य रङ्गं त्वरयसि नटनार्थ किं न रम्भामदम्माम् ॥ ८ ॥ समुचितमिति कृत्यं जैनजन्माभिषेके त्रिदशपतिनियोगाग्राहयन्नाग्रहेण । कलितकनकदण्डोद्दण्डदोर्दण्डचण्डः सुरनिवहमवादीद्वारपालः कुवेरः ॥ ९ ॥ (कुलकम्) वहलमलयजन्मोन्मिश्रकर्पूरपांसु- पसरपरिमलान्धाः श्रेणयः षट्पदानाम् । जिनपतिमभिषेक्तुं वाञ्छतां त्रुयंदेनो- निगलवलयतुल्या नि ठन्ति स्म तस्मिन् ॥ १० ॥ अयमतिशयवृद्धो निम्नगानामधीशः कथमिममधिरोहत्वम्बुनाथो नगेन्द्रम् । १. हे बालमेघाः, २. मङ्गलान्यष्टौ दर्पणदूर्वादध्यक्षतादोनि. ३. रीणा खिन्ना.
५६ काव्यमाला। इति तमुपरि मेरो तुमुत्क्षिप्य देवाः कलितकनककुम्भामारभन्ते स्म पतिम् ॥ ११ ॥ अभिनवमणिमुक्ताशङ्खशुक्तिप्रवाल- प्रमृतिकमतिलोलैर्दर्शयन्नूमिहस्तैः । जडजठरतयैक्षि व्याकुलो मुक्तकच्छः स्थविरवणिगिवाग्रे स्वर्गिभिः क्षीरसिन्धुः ॥ १२ ॥ उपचितमतिमात्रं वोहिनीनां सहस्त्रैः पृथुलहरिसमूहैः क्रान्तदिक्चक्रवालम् । अकलुषतरवारिक्रोडमज्जन्महीभ्रं नृपमिव विजिगीषू मेनिरे ते पयोधिम् ॥ १३ ॥ अनुगतभुजगेन्द्रान्मन्दराद्रीनिवोच्चै- दधतममलमुक्तामालिनः स्वर्णकुम्भान् । सुरनिकरमुपेतं वारिधिर्वीक्ष्य भूयो- ऽप्यतिमथनमियेव व्याकुलोमिश्चकम्पे ॥ १४ ॥ उदधिनिहितनेत्रान्वीक्ष्य वाग्विभ्रमाणां निधिरमृतभुजस्तान्पालकः केलिपात्रम् । विहितमुदमवोचद्वाचमेतामनुक्तो- ऽप्यवसरमुखरत्वं प्रीतये कस्य न स्यात् ॥ १५ ॥ नियतमयमुदञ्चहीचिमालाछलेनो- च्छलति जलदमार्गे ज्ञातजैनाभिषेकः । तदनु जडतयोच्चै धिरोढुं समर्थः पतति पुनरधस्तात्सागरः किं करोतु ॥ १६ ॥ प्रशमयितुमिवाति दुर्वहामौर्ववढे- यंदधिरजनि चान्द्रीः शीलयामास भासः । १. पूर्णागाधमध्यभावेन स्थूलोदरत्वेन च दृष्टः, २, नदीनाम् ; सेनानां च. ३. पृथु- लहरिसमूहै; (पक्षे) पृथुल-हरिसमूहै. हरयोऽश्वाः, ४. अकलुषतरं वारि जलम्; (पक्षे) तरवारिः खा.
८ सर्ग:] धर्मशर्माभ्युदयम् । ६७ तदयमिति मतिम क्षीसिन्धुजनाना- मजनि हृदयहाग हारनीहारगीरः ॥ १७ ॥ द्विरदतन्तुगश्रीमुवाकीन्नुभायाः कति कति न मनायी हन्न ग्रहीताः । इति मुहत्यमुवी नाइहिम्नः ग्रहिल इन विगः मागग गरवानि ॥ १८ ॥ पवननववशनोत्पन्य दूर पतन्ती जलधिजन्तरमनः कम्युफिमाग्भासः । उपरि विनतमुनानग्रहानाला झटिति कान्तिनागनगन्हा विभान्ति ॥ १९ ॥ ननग्नलमायनान दा न चना- प्यनिगुनिरिणा वा दुनिवाग्वनागः । स्वमिमभिमन्यन्ममन्ताः स्वबन्न्या निरुपनमिदमम्मादस्य माभाग्यमञ्चः ॥ २० ॥ अयनपरि मविधुत्तोयमादातुमब्ध- व्यतिपजति तमालश्यामलो वारिवाहः । तुहिनकिरणकान्तं कान्तया लिप्यमाणः शिशयिपुरिव शीरिः शेपपर्यटष्ठम् ॥ २१॥ फुटकुमुदपरागः सागरो मातरं नः लितिमहह कदाचित्लावयिप्यत्यशेपाम् । इति किल जलवेगं रोडुमावडमालाः कयमपि तटमस्य मारुहो न त्यजन्ति ॥ २२ ॥ रतिविरतिष वेलाकानने किंनरीभिः पुलकितकुचकुम्भोत्तम्भमासेव्यतेऽस्मिन् । १. उन्मत्तः. २. वा इवार्थ. ३.प्रचुरतरवृक्षण समृद्धेन; (पक्ष) पटुभिस्तम्णरायन. ४. विकसितकुमुदवच्छेतः; (प) कुमुत् भूमेईपस्तेनापरागी पद्धमत्सरः.
५४. काव्यमाला। चपलकलभलीलामिन्नकङ्कोलकैला- परिमलमिलितालिध्वानधीरः समीरः ॥ २३ ॥ अयमिह जटिलोमि ति कङ्केल्लिवल्ली- किसलयललिताभिर्विट्ठमाणां लताभिः । ज्वलिततनुरिवान्तर्वाडवाग्नेः शिखानां विततिमिरतिगायॊत्साहबंहीयसीमिः ॥ २४ ॥. इह हि मिलितरङ्गत्प्रौढसिन्धुप्रियायाः पुलिनजघनरङ्गोत्सङ्गसङ्गात्पयोधिः । सरभसमुपकूजत्कुक्कुहक्वाणदम्मा- न्मसृणमैणितलीलोल्लासमभ्यस्यतीव ॥ २५ ॥ सकलजगदधृष्यस्यैकगाम्भीर्यमाजो बहुलहरियुतस्य प्रोल्लसत्कङ्कणस्य । इति निगदति तस्मिन्नाकिलोकस्य तस्या- प्यजनि सलिलराशेरन्तरं नैव किंचित् ॥ २६ ॥ सुरसमितिरसंख्यैः क्षीरपाथोधिनीरं यदुरुकनककुम्मैरुन्चुलुम्यांचकार । चुलुककलितवार्धेः : स्मारयामास नश्य- वरुणनगरनारीस्तेन कुम्भोद्भवस्य ॥ २७ ॥ स्नपनविधिनिमित्तोपात्तपानीयपूर्णाः सपदि दिवमुदीयुः शातकुम्भीयकुम्भाः । दृषद इव तदन्ये यच्च रिका निपेतुः प्रकटमिह फलं तज्जैनमार्गानुवत्तेः ॥ २८ ॥ अनुगतभुजमालालीलयारभ्यमाणे- मणिपटपरिवर्तावर्तनैः क्षीरसिन्धोः । १. अतिवृष्णासंयोगदीर्घतमामिः, २. कुक्कुहो जलपक्षिविशेष:. ३. 'मणितं रतिकू- जितम्'. ४. बहु-लहरि; (पक्षे) बहुल-हरि. ५. कङ्कणं करभूषणम्; जलकणश्च. ६. देवसमूहः.
८ सर्गः] धर्मशर्माभ्युदयम् । उदकमुपनयहिदेवचन्दैस्तदानी- मभिनवमभिनीतं वाटीयन्त्रचक्रम् ॥ २९ ॥ धनसुपिरततानामुहुगनखनाद तिरयति रवमुचैमिन्नभूमीप्रपन्ने । प्रसरति नवनान्चनकणकिणीना- ममरसहचरीणां सङ्गन्लोद्वाररावे ॥ ३० ॥ कलुपमिह विपक्षं दर्शनादेव जिन्या स्वगुणगरिमहलाकान्तसिंहासनस्य । प्रथमममरनाथा भूत्रयस्येव गज्ये कनककलशतोयैश्चरत्याभिषेकम् ॥ ३१ ॥ (युग्मम्) जरटविशदकन्दनोज्ज्वलायां शिलायां प्रचलदरुणमुग्धस्निग्धपाणिप्रवालः । अमृतमधुरनीरैः सिच्यमानः स देव- रभिनव इव रेजे पुण्यवल्लीप्ररोहः ॥ ३२ !! हिमगिरिमिव मेरुं नीरपूरैः सृजद्भिः स्नपयितुमपि पृथ्वीमाशु पृथ्वी समर्थः । शिशुरपि जिननाथश्चक्षुभे नो मनाग- प्यहह सहजधैर्य दुर्निवार्य जिनानाम् ॥ ३३ ॥ यदधरितसुधौधैरर्हतः स्नानतोयैः सममसमसमृद्ध्यानेनिजुः श्रद्धयाङ्गम् । जगति खलु जरायां सर्वसाधारणायां तदसुलभममा भेजिरे निर्जरत्वम् ॥ ३४ ॥ नटदमरवधूनां दृक्कटाक्षच्छटाभाः कनकरुचिकपोले तीर्थकर्तुः स्फुरन्तीः । १. वार्घटीयन्त्रमरघट इति प्रसिद्धम्. २. 'ततं वीणादिकं वाद्यमानद्धं मुरजादिकम् । वंशादिकं तु सुषिरं.कांस्यतालादिकं घनम् ॥' इत्यमरः. ३. अनेनिजुरक्षालयन्.
६० काव्यमाला। स्नपनसलिलशेषाशङ्कया मार्जयन्ती व्यधित हरिपुरंध्री कस्य न स्मेरमास्यम् ॥ ३ विशदमणिमयाभ्यां वज्रसूचीविभिन्न- श्रवणयुगमिताभ्यां कुण्डलाभ्यां स रेजे। किमपि समधिगन्तुं तत्त्वविद्यारहस्यं सुरगुरुभूगुपुत्राभ्यामिव ज्ञानसिन्धुः ॥ ३६ ॥ त्रिगुणवलितमुक्तातारहारापदेशा- दुरसि वरणमालाः प्रक्षिपन्त्यस्तदानीम् । अहमहमिकयोर्वी श्रीश्च मुक्तिश्च तिस्त्रः स्वयमपि तणते स्म प्रेमवत्यस्तमेकम् ॥ ३७ ।। निरुपममणिमाला तन्मुखेन्दोरुपान्ते विगलदमृतधाराकारमुन्मुद्रयन्ती । शशिनममलकान्त्याक्रम्य बन्दीकतानां विततिरिव विरेजे तत्प्रियाणामुडूनाम् ॥ ३८ ॥ मणिमयकटकाग्रप्रोतरत्नग्रहश्रीः स घनकनककाञ्चीमण्डलामोगरम्यः । त्रिदशरचितभूषाविभ्रमो हेमगौरः कनकगिरिरिवान्यो मेरुशृङ्गे रराज ॥ ३९ ॥ ध्रुवमिह भवितायं धर्मतीर्थस्य नेता स्फुटमिति स मघोना धर्मनाम्नाम्यधायि । न खलु मतिविकासादर्शदृष्टाखिलार्थाः कथमपि विततार्थी वाचमाचक्षते ते ॥.४० ॥ किमपि मृदुमृदङ्गध्वानविच्छेदमूर्छ- छुतिसुखसुषिरास्यप्रस्वनोल्लासिलास्ये । परिणमति सुधात्माधीनगन्धर्वगीते व्यतिकरपरिरम्भे तत्र तौर्यत्रिकस्य ॥ ११ ॥ १. प्राप्ताभ्यामू.
८ सर्गः] धर्मशर्माभ्युदयम् । दलितकमठप्टष्ठं चारुचारीप्रयोगै- भ्रमितभुजनिरस्तस्त्रस्तविस्तारितारम् । प्रकटघटितलिङ्गाकारमावर्तवृत्त्या प्रमदविवशमिन्द्रस्तत्पुरस्तादनति ॥ ४२ ॥ (युग्मम्) इति निरुपमभक्ति शक्तिमप्यात्मनीनां नपनविनययुक्त्या व्यक्तयन्तः सुरेन्द्राः । स्तुतिभिरवितथाभिः स्तुत्यमेनं समस्ताः शिरसि निहितहस्ताः स्तोतुमारेभिरे ते ॥ १३ ॥ अखिलमलिनपक्षं पूर्वपक्षे निधाय प्रथममुदितमात्रस्यापि संपूर्णमूर्तेः । जिनवर तव कान्त्या यत्कलामात्रशेषः प्रतिपदमृतभानुः स्पर्धते तन्मुधैव ॥ ४४ ॥ मुनिभिरमलबोधैरप्यशक्यासु कर्तु स्तुतिषु तव गुणानामप्रगल्भप्रमेव । वरद मुहुरमन्दानन्दसंदोहदम्भा- स्खलति गलगुहान्तनिर्भरं भारती नः ॥ ४५ ॥ स्टशति किमपि चेतश्चुम्बकग्रावगत्या त्वयि जिन जनतायाः स्वस्वकार्योद्यतायाः । किमु कुतुकमपूर्व नाथ यत्पूर्वजन्म- ब्रजवृजिनघनायःशृङ्खला निर्गलन्ति ॥ ४६ ॥ अमितगुणगणानां त्वद्गतानां प्रमाणं भवति समधिगन्तुं यस्य कस्यापि वाञ्छा । प्रथममपि स तावद्वयोम कत्यङ्गुलानी- त्यनघ सुगमसंख्याभ्यासमङ्गीकरोतु ॥ ४७ ।। मनुज इति मुनीनां नायकं नाकिनाम- प्यवगणयति यस्त्वां निविवेकः स एकः ।
६२ काव्यमाला। सकलविदकलङ्कः क्षीणसंसारशङ्क- श्चकितजनशरण्यः कस्त्रिलोक्यां त्वदन्यः ॥ ४८ ॥ न खलु तदपि चित्रं यत्त्वयोदेण्यतापि प्रथममयमकारि प्राप्तपुण्यो जनोऽत्र । प्रतिशिखरि वनानि ग्रीष्ममध्येऽपि कुर्या- किमु न जलदकालः प्रोल्लसत्पल्लवानि ॥ ४९॥ तव वृषमधिरूढो योऽपि तस्य धुलोकः स खलु कियति दूरे यो जनेनापि लभ्यः । यदि चैतुरगमाप्तः प्राप्तवास्तहुरापं तदपि जिन जनोऽयं जन्मकान्तारतीरम् ॥ ५० ॥ सर इव मरुमागै स्वच्छतोयं तृषार्ते- स्तरुरिव रविरश्मिव्याकुलैरत्र सान्द्रः । निधिरिव चिरदुःस्थैः शर्मणेऽस्माभिरेका कथमपि भवभीतैर्नाथ दृष्टोऽसि दिष्टया ॥ ११ ॥ स्वगुणगरिमदौःस्थ्यं रोदसी रन्ध्ररोषा- यतिषजति जिनेश त्वद्यशश्चन्द्रगौरम् । कथय कथममन्दां मन्दिरोद्योतशक्ति प्रकटयति घटान्तर्वतिरूपः प्रदीपः ॥ १२ ॥ गुणपरिकरमुच्चैः कुर्वतैव त्वयैते क्षपितकलुषदोषा रोषितास्तद्विपक्षाः । अथ न कथममीषां नेक्ष्यते त्वदयेन त्वदनुगतजनेऽपि प्रायशः प्रीतिलेशः ॥ १३ ॥ इह पिहितपदाथै सर्वथैकान्तवल्ग- निबिडतमतमोभिर्विश्ववेश्मन्यकस्मात् । १. वृषं धर्मम्; (पक्षे) वृषभम्. २. यः जनेन; (पक्षे) योजनेन कोशचतुष्टयात्मकेन, ३. चतुरगं चारित्रभारम् (पक्षे) तुरगम्.
९ सर्गः]. धर्मशर्माभ्युदयम् । -w त्वमसि स खलु दीपः केवलालोकहेतुः शलभमुलभलीलां लप्स्यते यत्र कामः ॥ १४ ॥ अलमलममृतेनाखादितं त्वद्वचश्चे- त्किममरतरुलक्ष्म्या त्वय्यपि प्रार्थ्यमाने । जिन जगदतमस्कं कुर्वति त्वत्प्रवोधे किमहिमरुचिना वा कार्यमत्रेन्दुना वा ।। ५५ ॥ दुरितमुदितं पाकोद्रेकात्पुराकतकर्मणां झटिति घंटयत्यहद्भक्तेः स्वशक्तिविपर्ययम् । उपजलतरुच्छायाछन्ने 'जने जरठीभव- द्दयुमणिकिरणैर्भीष्मो ग्रीष्मो न कि शिशिरायते ॥ ५६ ॥ इत्याराध्य त्रिभुवनगुरुं तत्र जन्मामिपेके भक्त्या मातुः पुनरपि तमुत्सङ्गभाजं विधाय । भूयो भूयस्तदमलगुणग्रामवार्ताभिरुद्य- लोमानस्ते त्रिदशपतयः स्वानि धामानि जग्मुः ॥ १७ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्येऽष्टमः सर्गः । नवमः सर्गः। सिक्तः सुरैरित्थमुपेत्य विस्फुरज्जंटालवालोऽथ स नन्दनद्रुमः । छायां दधत्काञ्चनसुन्दरी नवां सुखाय वैप्तुः सुतरामजायत ॥ १॥ चत्रं किमेतज्जिनन्यामिनीपतिर्यथा यथा वृद्धिमनश्वरीमगात् । सीमानमुल्लङ्घय तथा तथाखिलं प्रमोदवार्धिर्जगदप्यपूरयत् ॥ २॥ लप्स्यामहे तीर्णभवार्णवं पुनर्विवेकिन कैनमितीव तं प्रभुम् । वाल्याङ्गसंस्कारविशेषसक्रियाः किमप्यहंपूर्विकया सिषेविरे ॥ ३ ॥ लोकस्त्रिलोक्यां सकलोऽपि सप्रभः प्रभावसंभावितमेकमर्भकम् । ज्योतिर्ग्रहाणामिव मण्डलो ध्रुवं ध्रुवं समन्तादनुवर्तते स्म तम् ॥ ४ ॥ १. जटाला जटायुक्ता वालाः केशा यस्य; (पक्षे) जटा मूलम्, आलवालमावालः. २. कांचन अनिर्वचनीयाम; (पक्षे) काञ्चनवत्सुन्दरीम्,. ३. पितुः; मालाकारादेश्च.
काव्यमाला।
तैस्तैस्त्रिसंध्यं मणिभूषणैः प्रभुं तमेकमेवोपचचार वासवः ।
को वा दुरापां समवाप्य संपदं विचक्षणः क्षेमविधौ विमुह्यति ॥५॥
औत्सुक्यनुन्ना शिशुमध्यसंशयं चुचुम्ब मुक्तिनिभृतं कपोलयोः ।
माणिक्यताटङ्ककरापदेशतस्तथाहि ताम्बूलरसोऽत्र संगतः ॥ ६ ॥
प्राच्या इवोत्थाय स मातुरङ्कतः कतावलम्बो गुरुणा महीमृता ।
भून्यस्तपादः सवितेव बालकश्चचाल वाचालितकिङ्किणीद्विजः ॥७॥
रिडन्पदाक्रान्तमहीतले बभौ स्फुरन्नखांशुप्रकरण स.प्रभुः ।
शेषस्य बाधाविधुरेऽस्य धावता कुटुम्बकेनेव निषेवितक्रमः ॥ ८ ॥
बभ्राम पूर्व सुविलम्बमन्थरप्रवेपमानाग्रपदं स बालकः ।
विश्वंभरायां पदभारधारणप्रगल्भतामाकलयन्निव प्रभुः ॥ ९॥
पुत्रस्य तस्याङ्गसमागमक्षणे निमीलयन्नेत्रयुगं नृपो बभौ ।
अन्तः कियगादनिपीडनाहपुः प्रविष्टमस्येति निरूपयन्निव ॥ १० ॥
उत्सङ्गमारोप्य तमङ्गजं नृपः परिष्वजन्मीलितलोचनो.बभौ ।
अन्तर्विनिक्षिप्य सुखं वपुर्णहे कपाटयोः संघटयन्निव द्वयम् ॥ ११ ॥
चित्रं प्रचिक्रीड यथा यथा करप्रकीर्णपांसुप्रकरैः कुमारकैः ।
आदर्शवन्निर्मल एव सोऽभवत्तथा तथान्तःफलितावनीत्रयः ॥ १२ ॥
कः पण्डितो नाम शिखण्डमण्डने मराललीलागतिदीक्षकोऽथवा ।
नैसर्गिकज्ञाननिधेर्जगद्गुरोर्गुरुश्च शिक्षासु बभूव तस्य कः ॥ १३ ॥
शस्त्रेषु शास्त्रेषु कलासु चाभवन्मनीषिणां यश्चिरसंचितो मदः ।
ज्ञानापणे तत्र पुरः स्थितेऽगलच्छरीरतः स्वेदजलच्छलेन सः॥१४॥
बाल्यं व्यतिक्रम्य समुन्नति क्रमाद्दधत्समस्तावयवानुवर्तिनीम् ।
लक्ष्मी स निःशेषकलाजुषस्तदा पुपोष पीयूषमयूखमालिनः ॥ १५ ॥
मध्यंदिनेनेव सहस्रदीधितेर्महाध्वरानेहविषेव भूयसा ।
बाल्यव्यपायेन किमप्यपूर्ववजिनस्य नैसर्गिकमप्यमन्महः ॥ १६ ॥
तस्योद्धृताद्रिर्दशकंधरो मुदे वहन्न येनैक्षि महीमहीश्वरः ।
नाश्चर्यकत्तस्य बभूव तहयं स येन दृष्टस्त्रिजगडुरंधरः ॥ १७ ॥
९ सर्गः] धर्मशर्माभ्युदयम् । ६६ चक्राब्जशङ्खादिविलोकनोत्थया स्वकान्तसंकेतनिवासशकया । मन्ये न लक्ष्मीनवपल्लवारुणं तदभिपकेरुहयुग्ममत्यजत् ॥ १८ ॥ उद्यत्पदाङ्गुष्टनखांशुदण्डिकाप्रकाण्डगर्भ युगमस्य जङ्घयोः । कार्तस्वरस्तम्भविशेपशालिनी जहास दोलां नवधर्मसंपदः ॥ १९ ॥ अत्यन्तमव्याहतवेगवीर्ययोर्जगत्रयीनेत्रमनोगजेन्द्रयोः । स्तम्भाविवोरूहदवन्धहेतवे व्यवायिपातां ध्रुवमस्य वेधसा ॥ २० ॥ कण्ठीरवेणेव नितान्तमुन्नतं नितम्बविम्वं परिणाहि विभ्रता। एनोमयी तेन जनस्य दर्शनात्प्रमत्तमातङ्गवटाविवहिता ॥ २१ ॥ तप्तो ध्रुवं प्राग्जिननाभिपल्वले विवेश दानोद्धरधर्मसिन्धुरः । समुल्लसल्लोमलतापदेशतो मदाम्बुधारा कथमन्यथा तंटे ॥ २२ ॥ लक्ष्मीरिहान्तःपुरसुन्दरी चिरं गुणैः सह स्थास्यति सौविदल्लकैः । जानन्नितीवास्य मनोहितं विधिय॑धाद्विशालं हृदयं दयावतः ॥ २३ ॥ तस्यैकमुच्चै नशीपमुहहन्सहेलमालम्बितभूत्रयो भुनः । भूभारनियुक्तशिरःसहस्त्रकं फणीश्वरं दूरमधश्चकार सः ॥ २४ ॥ रेखात्रयेणेव जगत्रयाधिकां निरूपयन्तं निजरूपसंपदम् । तत्कण्ठमालोक्य ममज्ज लज्जया विशीर्यमाणः किल कम्बुरम्बुधौ ॥२५॥ यन्निस्तुलेनापि तदाननेन्दुना व्यधात्तुलारोहणमुग्रपातकम् । अद्यापि हेमद्युतिरुद्यतस्ततो भवत्यसौ श्वित्रविपाण्डुरः शशी ॥२६॥ स्निग्धा वभुमूर्धनि तस्य कुन्तलाः कलिन्दकन्याम्बुतरङ्गभङ्गुराः ।. फुलाननाम्भोरुहि सारसौरभे निलीननिःशब्दमधुव्रता इव ।। २७ ।। वजाजसारैरिव वेधसा कृतं तमास्पदं विक्रमसौकुमार्ययोः । उर्व्याः करं ग्राहयितुं न केवलं बभूव वध्वा अपि वप्तुराग्रहः ॥२८॥ तं यौवराज्ये नयशीलशालिनं व्यधात्तनूजं नवयौवनं नृपः । प्रागेव लोकत्रयराज्यसंपदा निधानमनं न विवेद भूपतिः ॥ २९ ॥ तस्मिन्गुणैरेव नियम्य कुर्वति प्रकाममाज्ञावशवर्तिनः परान् । आसीन्नृपोऽन्तःपुरसारसुन्दरीविलासलीलारसिकः स केवलम् ॥ ३०॥ १. पितुः. ९
काव्यमाला।
शृङ्गारवत्या दुहितुः स्वयंवरे प्रतापराजेन विदर्भमभुजा ।
दूतः कुमारानयनार्थमीरितः समाययौ रत्नपुरप्रभोर्गृहम् ॥ ३१ ॥
भर्तुः प्रतीहारनिवेदितस्ततः प्रविश्य संसदृहमाहितानतिः ।
भ्रूमेददत्तावसरः स कर्णयोः
: क्षरत्सुधासारमुवाच वाचिकम् ॥ ३२ ॥
किं चाग्रतस्तेन निरीक्ष्य भूपतेः कुमारमाकारविनिर्जितस्मरम् ।
तद्रूपशोभासुभगोऽस्य दर्शितो जगन्मनोलुण्ठनलम्पटः पटः ॥ ३३ ॥
पीयूषधारागृहमत्र नेत्रयोनिरीक्ष्य कन्याप्रतिबिम्बमद्भुतम् ।
किं तथ्यमित्यं भवितेति चिन्तयन्पुरो नृपः श्लोकमिमं व्यलोकयत् ३४
अस्याः स्वरूपं कथमेणचक्षुषो यथावदन्यों लिखितुं प्रगल्भताम् ।
धातापि यस्याः प्रतिरूपनिर्मितौ घुणाक्षरन्यायकताकतेर्जडः ॥३५॥
ततोऽधिकं विस्मितमानसो नृपः सुतस्य तस्याश्च विलोक्य विग्रहम् ।
तच्चारुरूपासवपानघूर्णितोत्तमाङ्गसंसूचितमित्यचिन्तयत् ॥ ३६ ॥
यः स्वप्नविज्ञानगतेरगोचरश्चरन्ति नो यत्र गिरः कवेरपि ।
यं नानुबध्नन्ति मनःप्रवृत्तयः स हेलयार्थों विधिनैव साध्यते ॥ ३७ ॥
क्वायं जगलोचनवल्लभो युवा व कन्यकारत्नमतय॑मीदृशम् ।
तत्सर्वथा दुर्घटकर्मनिर्मितिप्रगल्भ्यमानाय नमोऽस्तु.वेधसे ॥ ३८ ॥
नूनं विहायैनमियं स्वयंवरे वरार्थिनी नापरमर्थयिष्यति ।
इन्दु सदानन्दविधायिनं विना किमन्यमन्वेति कदापि कौमुदी ॥३९॥
यत्कन्यकायामुपवयेते बुधैः कुलं च शीलं च वयश्च किंचन ।
सर्वत्र संबन्धविधानकारणं प्रियस्य तत्प्रेम गुणैर्विशिष्यते ॥ ४० ॥
प्रत्यङ्गलावण्यविलोकनोत्सुकः कृतस्टहोऽस्यां युवराजकुञ्जरः ।
दृष्टयापि रागोल्बणया विभाव्यते करी यथान्तर्मददर्पदुःसहः ॥४१॥
इत्यं विचिन्त्यैष कृतार्थनिर्णयो नृपः सुतं दारपरिग्रहक्षमम् ।
प्रस्थापयामास ससैन्यमादराद्विदर्भभूवल्लभपालितां पुरीम् ॥ ४२ ॥
राजा च दूतेन च तेन चोदितस्ततो ध्वजिन्या च मुदा च संयुतः ।
रूपेण चास्यास्त्वरितस्मरेण च प्रभुः प्रतस्थे स विदर्भमण्डलम् ॥४३॥
९ सर्ग: ७ धर्मशर्माभ्युदयम् । शोमां स विभ्रकरवालशालिनी सुवर्णसारं कैटकं प्रकाशयन् । मव्यं च भीमं च तदा प्रसाधनं बभार नारोहितपूरणक्षमम् ॥ १४ ॥ दन्तीन्द्रमारुह्य स दानभोगवान्पथि प्रवृत्तश्च गुरोरनुज्ञया । शोभामसंप्राप्तसहलचक्षुषः पुरंदरस्यानुचकार सुन्दरीम् ॥ ४५ ॥ धुन्वन्निवोर्वी दलयन्निवाम्बरं गिलन्निवाशाश्चलयन्निवाचलान् । प्रस्थानशंसी पटहध्वनिस्तदा समुज्जम्भे जगदाक्षिपन्निव ॥ १६ ॥ ओंकारवत्प्रस्तुतमङ्गलश्रुतेः समुत्थिते व्योमनि शङ्खनिःखने । कण्ठेऽपतयुप्रसवच्छलात्प्रभोः स्वयंवरननिहितैव कान्तया ॥४७॥ राज्ञा प्रयुक्ताः स्वयमाहितौजसः समर्पितालंकृतयः क्षितीश्वराः । तं साधुशब्दा इत्र साध्यसिन्द्रये मनश्चमत्कारिणमर्थमन्वयुः ॥ ४८ ॥ भन्नाश्च मन्दाश्च मृगाश्च केऽपि ये नदीगिरीन्द्रोभयवर्त्मचारिणः । ते तस्य संकीर्णसमन्विताः पुरो बभूवुरैरावतवंशजा गजाः ॥ १९ ॥ काम्बोजवानायुजबाडिका हयाः सपारसीकाः पथि चित्रचारिणः । शैलूपसभ्यां इव दृष्टिनर्तकीमनर्तयनृत्यविचक्षणाः प्रभोः ॥ ५० ॥ तां नेत्रपेयां विनिशम्य सुन्दरी सुधामलङ्कामयमान उत्सुकः । क्रामनपाची हैरिसेनया वृतो बभौ स काकुत्स्थ इवास्तद्रूपणः ॥५१॥ कल्पद्रुचिन्तामणिकामधेनवस्तटेऽपि मनाः खलु दानवारिधेः । स्तोत्रैरजलं कथमन्यथार्थिनो धनार्थमस्यैव यशांसि तुष्टुवुः ॥ ५२ ।। रत्नावनीविम्बितचारुमूर्तयो विरेजिरे तस्य चमूचराः प्रभोः । विज्ञाय सेवावसरं रसातलाद्विनिःसरन्तो भवनामरा इव ॥ ५३ ॥ लावण्यकासारतरङ्गसीकरवरिवोद्वृत्तभुजानपातिभिः । लाजैस्तमानचुरुदयमन्मथद्रुमप्रसूनैरिव पौरयोपितः ॥ १४ ॥ १. खगः, (पक्षे) कराश्च वालाश्च(३). २. शोभनवर्णा ब्राह्मणादयः; कनकं च. ३. सेना; भूषणविशेषश्च. ४. न अरीणामिति च्छेदः, (पक्षे) नारीणाम्. ५. सुधां-अलं- कामयमानः; (पक्षे) सुधाम-लका-अयमानः, ६. दक्षिणां दिशम्. ७. अश्वसेनया; वा- नरसेनया च. ८. दूरीकृतदोषः, नाशितदूपणाख्यराक्षसच.
काव्यमाला। जीवेति नन्दति जयेति चोच्चकैरुदीरिताशीर्जरतीमिरात्मनः । सिद्धेरिव द्वारमवाप तत्क्षणं पुरस्तदानीं युवराजकुञ्जरः ॥ १५ ॥ अग्रे प्रसर्पच्चतुरङ्गविस्तृतां कशां च मध्ये विशिखावरोधतः । पश्चादतुच्छामपि तां पैताकिनी प्रियामिव प्रेक्ष्य स पिप्रिये प्रभुः ॥१६॥ हरिवोत्तम्भितकुम्भशोभितैरुपात्तनानावलभीमतैर्गजैः । निर्यान्तमुत्केव वियोगविक्लवा तमन्वगात्सौलसमुन्नतैः पुरी ॥ ५७ ॥ रम्याननेन्दोघृतकाननश्रियः श्रितस्य सद्भिः संदनाश्रयस्य च । वेगेन भर्तुः पथि गच्छतोऽन्तरं महत्तदा तस्य पुरस्य चाभवत् ।।१८॥ श्रेणीव रेणूगमनिष्ठितावनिस्फुटीभवच्छेषफणामणित्विषाम् । सर्पत्सु सैन्येषु रराज दन्तिनां मदस्तुतिस्तत्क्षणपातलोहिनी ॥ ५९ ॥ कम्पाद्भुवः क्षुभ्यदशेषवारिधिस्तदा भविष्यजगतोऽप्युपाठवः । अस्या व्यधास्यन्भरभङ्गुराकृतेर्गजा न चेदानजलाभिषेचनम् ॥६॥ प्रायोऽपदस्टष्टमहीतलाः खुरैर्वियद्गमाभ्यासरसं हया व्यधुः । तन्मत्तमातङ्गचमूभरागुवो विभावयामासुरमी विपर्ययम् ॥ ६१ ॥ लीलाप्रचारेषु यथा यथा व्यधुनखाग्रभागोल्लिखनं तुरंगमाः । उत्सर्पिपांसुप्रकरच्छलादभूत्तथा तथोक्ः पुलकाङ्कुरोद्गमः ॥ ६२ ॥ अन्तःस्खलंल्लोहखलीननिर्गलहिलोललाला जलफेनिलाननाः। चेलुः पिबन्तः पवनातिरंहसो द्विषद्यशांसीव तुरंगपुंगवाः ॥ १३ ॥ तस्योत्क्रमालक्ष्यत पार्श्वयोईयोः समुल्लसल्लोलप्रथुप्रकीर्णका । ध्यानान्नभोवम॑गतेरसंशयादुदीर्णपक्षेव तुरंगमावलिः ॥ ६४ ॥ तस्य व्रजहीरतुरंगसंनिधौ मयूरपत्रातपवारणव्रजः। वीचीचयोल्लासितशैवलावलीविलासमासादयति स्म तोयधेः ॥६५॥ . १. रथ्या. .२. सेनाम्. ३. उपात्ता नाना बलस्य बलेन वा भीमता भयंकरत्वं यैः; (पक्षे) वलभी चन्द्रशाला तया मतैः. ४. सालवत्समुन्नतैः; (पक्षे) सालसमिति क्रिया- विशेषणम्. ५. वनम् ; (प्रक्षे) कुत्सितं मुखम्. ६. सतामनाश्रयस्य: (पक्षे) सदनानां गृहाणामाश्रयस्य.
१ सर्गः] धर्मशर्माभ्युदयम् । दुप्प्रेक्ष्यतामस्य बलाभियोगतो रजोभिरुत्सर्पिमिरम्बरे गते । रक्तोऽपि दोषैकमयादिवोच्चकै दिक्षु चिक्षेप दिवाकरः करान् ॥६६॥ आसिन्धुगङ्गाविजयासिंहलादभिनवदुर्वहवाहिनीमृतः । त्रस्यद्धरित्रीधरवजपतरो वलोदधिस्तस्य बभूव दुर्धरः ॥ ६७ ॥ तापापनोदाय सदैव भूत्रयीविहारखेदादिव पाण्डुरद्युतिम् । कोतवयस्यामिक भर्तुरग्रतो विलोक्य गङ्गां बहु मेनिरे नराः ॥ ६८॥ शंभोर्जटाजूटदरीविवर्तनप्रवृत्तसंस्कार इव क्षितावपि । यस्याः प्रवाहः पयसां प्रवर्तते सुद्धस्तरावर्ततरङ्गभङ्गुरः ॥ ६९ ॥ पर्यन्तकान्तारसमीरविस्फुरत्तरङ्गविस्फारितफेनलाञ्छिता । पालेयशैलोरगराजरेचितप्रलम्बनिर्मोकनिभा विभाति या ॥ ७० ॥ विप्णोरिवाङ्गेर्नखरश्मिरञ्जिता करैरिवेन्दोमवमूर्ध्नि लालिता। भिन्ना हिमाद्रेस्तुहिनैरिवोच्चकैश्चकास्ति या क्षीरसहोदरद्युतिः ॥७१॥ काञ्चीव रत्नोच्चयगुम्फिता क्षितेदिवश्युतेवामलमौक्तिकावलिः । कृष्टा सशब्दं पुरुहूतदन्तिनो विराजते राजतशृङ्खलेव या ॥ ७२ ॥ सूर्यस्य तापेन दिवानिशं ज्वलन्महौषधीनामकशः कृशानुभिः । तप्तस्य नीहारगिरेरिव वश्चकास्ति यस्याः शुचिरम्भसां प्लवः॥७३॥ तीरेऽपि यस्यास्त्रिजगज्जुषश्चरन्स सार्वभौमोऽपि निमज्जति ध्रुवम् । बुद्ध्येव नावा घटितोरुकाष्ठया ततार तृप्णामिव तां स जाह्नवीम् ॥७॥ हेलोत्तरत्तुङ्गमतङ्गजावलीकपोलपालीगलितैर्मदाम्बुभिः । गङ्गाजलं कज्जलमञ्जुलीकृतं कलिन्दकन्योदकविभ्रमं दधौ ॥ ७९ ॥ एके भुजैारणसेतुभिः परे चमूचराः केचन नौमिरायताम् । अह्वाय जह्वोस्तनयां यहच्छया पुरः प्रतिज्ञामिव तामतारिषुः ।।७६॥ उत्साहशीलाभिरलं जडात्मिका त्रिमार्गगासंख्यपथप्रवृत्तिभिः । तवाहिनीमिः प्रसमं दिवौकसां कथं न पश्चास्क्रियते स्म वाहिनी ७७ नागैः समुत्सपिभिराक्षिपन्नगान्पुरीरशेषाः पटवेश्मभिर्जयन् । उत्केतनै रिवनानि तर्जयन्नदीश्चमृभिः स विडम्बयन्नगात् ।। ७८ ॥
काव्यमाला। . प्रमितिविधुरा ये मिथ्यात्वं पंथः प्रतिपदिरे पिदधुरपि ये कूटारम्भैदिगम्बरदर्शनम् । प्रैगुणंबलवांस्तांस्तानुच्चैः प्रमथ्य गिरीश्वरा- न्वमिह सुगमं कुर्वन्मार्ग जगाम जिनेश्वरः ॥ ७९ ॥ इत्युच्चैस्तनवप्रभूषणवतीर्नारीः पुरीर्वी अय- कान्तारङ्गमितानरीनिव नगेष्वालोकयन्किनरान् देशानप्यतिलङ्घयन्समकरान्सिन्धुप्रवाहानिव प्राप प्रेमवतीमिवात्तमैदनां देवः स विन्ध्यस्थलीम् ॥ ८० ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये नवमः सर्गः । दशमः सर्गः। अथाधिपेनार्थयितुं दिनानां रथस्य पन्थानमिवोपरिष्टात् । पादाग्रनम्रण निषेव्यमाणं धराधरं विन्ध्यमसौ ददर्श ॥ १ ॥ समुन्नमत्कूटपरम्पराभिराक्रान्तमन्तः पृथुकंदराभिः । भुवोऽर्धमधै नमसो गृहीत्वा मन्ये यमुच्चैर्विदधे विधाता ॥ २ ॥ स्रष्टा दधात्येव महानदीनां महानदीनां शिखरोन्नतिं यः । वर्गादिहागत्य सदानभोगैः सदा नभोगैरनुगम्यमानः ॥ ३ ॥ मुनमहिनाममितो निरोद्धुरध्वानमन्वेष्टुमिवोत्सुको यः । शृङ्गाग्रलग्नोडुचयच्छलेन नक्तं समुन्निद्रसहस्त्रनेत्रः ॥ ४ ॥ प्रस्थैरदुस्थैः कलितोऽप्यमानः पादैरमन्दैः प्रसृतोऽप्यगेन्द्रः । युक्तो वनैरप्यवनः श्रितानां यः प्राणिनां सत्यमगम्यरूपः ॥ ५ ॥ १. अतिशयेनाप्रमाणाः; (पक्षे) प्रमाणपश्चकोपलक्षिततर्कशास्त्रविसलाः. २. मार्गस्य जिनदर्शनस्य च. ३. शिखरारम्भैः; अनुचितप्रारम्मैश्च. ४. दिगाकाशावलोकनम्; जिनदर्शनं च. ५. सुसंनद्धसैन्यवान् ; चतुर्दशगुणस्थानशक्तिमांश्च. ६. पर्वतेन्द्रान; समर्थान्नैयायिकप्रभृतिवादिनश्च. इत्यादर्शपुस्तकस्थं टिप्पणम्. ७. उच्चैः-स्तनवप्र, (पक्ष) उच्चैस्तन-वप्र-इति च्छेदः. ८. इवाथै, ९, कान्ता-रङ्ग-इतान्; (पक्षे) कान्तारं- गमितान्, १०. सम-करान् ; (पक्षे) स-मकरान. ११. कामः; (पक्षे) वृक्षविशेषः. १२. महा-नदीनाम्; महानू-अदीनामू. १३. दानभोगाभ्यां सहितः, १४, अगस्त्यस्य.
१० सर्गः] धर्मशर्माभ्युदयम् । ७१ विहाय मानं स्मरवासभूमाविहायमानं सहसा सुरस्त्री। रसालसारं विपिनं निरीक्ष्य रसालसा रन्तुमियेष कान्तम् ॥ ६ ॥ पञ्चाननोत्क्षिप्तकरीन्द्रकृत्तिगुहान्वितो दत्तशिवाप्रमोदः । अहिप्रहारोल्वणनीलकण्ठो यो रौद्रभाव क्वचिदातनोति ॥ ७ ॥ पुंनागनारङ्गलवङ्गजम्बूजम्बीरलीलावनशालि यस्य । शृङ्ग सदापारनभोविहारश्रान्ताः श्रयन्ते सवितुस्तुरंगाः ॥ ८ ॥ प्रियायुतं सानुनि कुञ्जरं गां निकुञ्जरङ्गां गतमीक्षमाणः । मुनीश्वरोऽपि स्मरति प्रियाया रतिप्रियायासवशेन यत्र ॥९॥ वप्रक्रीडाप्रहतिषु दृढैर्यत्र मत्तद्विपानां दन्ताघातैझटिति जलदाभोगभाजो नितम्बात् । पक्षच्छेदवणगणगतोदामदम्भोलिधारा- शल्यानीव स्फुरदुरुतडिद्दण्डखण्डानि पेतुः ॥ १० ॥ मम यदि लवणोदानन्दिसोमोद्भवायाः सममपरमपत्यं स्यादहं तत्कृतार्था । इति किल निशि सूते यस्य सोमोद्भवानां सितकरमणिभित्तिर्वाहिनीनां शतानि ॥ ११ ॥ यत्राम्बुजेपु भ्रमरावलीनामेणावली सैत्तमरावलीना । पपौ सरस्याशुतरं गतान्तं न वारि विस्फारितरङ्गतान्तम् ॥ १२ ॥ निर्मुक्तगर्भमरनिर्भरदुर्बलासु कादम्बिनीषु कटकाविलम्बिनीपु । भन्नामनेकमणिमासुररश्मिजालै- यः पूरयत्यनुदिनं हरिचापलक्ष्मीम् ॥ १३ ॥ स दृष्टमात्रोऽपि गिरिगरीयांस्तस्य प्रमोदाय विभोर्वभूव । गुणान्तरापेक्ष्यमभीष्टसिद्ध्यै नहि स्वरूपं रमणीयतायाः ॥ १४ ॥ १. इह-अयमानं आगच्छन्तम्. २. नर्मदायाः. ३. समीचीनशब्दश्रवणे आसक्ता. ४. प्राप्तसमीपम्.
काव्यमाला। हृत्तमः सोऽथ सभासु हत्तमःप्रभाकरश्छेत्तुमिति प्रभाकरः । रे क्षणं व्याप्टतकंधरेक्षणं तमीश्वरं प्राह जगत्तमीश्वरम् ।। १५ ॥ पूर्वापराम्भोधितटीतरङ्गमालाग्ररङ्गत्कटकोऽयमाद्रिः । त्वत्सैनिकाक्रान्ततनुश्चकास्ति नम्रीभवन्नन्य इव क्षितीशः॥ १६ ॥ अशेषसुरसुन्दरीनयनवल्लभोऽयं दध- न्मदान्धघनसुन्दरभ्रमरुचिः सहस्राक्षताम् । महावहनभक्तितो मुकुलितायभास्वत्करः पुरस्तव पुरंदरद्युतिमुपैति पृथ्वीधरः ॥ १७ ॥ अनेकधातुच्छविभासुरा बलान्निवर्तिताः कुम्भभुवार्कमण्डलात् । अनेकधातुच्छविमा सुराबला न का श्रयत्यस्य वनाकुलास्तटीः॥१८॥ बिम्बं विलोक्य निजमुज्ज्वलरत्नमित्तौ क्रोधात्प्रतिद्विप इतीह ददौ प्रहारम् । तद्प्रदीर्घदशनः पुनरेव तोषा- ल्लीलालसं स्टशति पश्य गजः प्रियेति ॥ १९ ॥ पलाय्य निर्यन्मदवारिधारा गिरेरुपान्ते करिणः प्रयान्तः । त्वत्तूर्यनादैछुटितोरुमूला विभान्ति कूटा इव नि ठन्तः ।। २० ॥ न वप्रे नवप्रेमबद्धा भ्रमन्ती स्मरन्ती स्मरं तीव्रमासाद्य भर्तुः। . क्षणादीक्षणादीश बाष्पं वमन्ती दशां का देशाङ्कामिहान्वेति न स्त्रीमा२१॥ प्रकटितोरुपयोधरबन्धुराः सरसचन्दनसौरभशालिनीः । मदनबाणगणाङ्कितविग्रहो गिरिरयं भजते सुभगास्तटीः ॥ २२ ॥ इयं गिरेगैरिकरागरञ्जिता विराजते गह्वरवारिवाहिनी । पविप्रहारत्रुटितोरुपक्षतिक्षतागलन्तीव नवाज़धोरणिः ॥ २३॥ १. हृदयान्धकारदूरीकरणे सूर्यः. २. एतन्नामकः. ३. पर्वते. ४. जगचन्द्रम्, ५. पृथ्वीछन्दोऽपि. ६. अनेक-धातु-च्छवि-भासुराः. ७. अगस्त्येन. ८. अनेकधा- अतुच्छ-विभा. ९. देवाङ्गना. १०. दशमी कामदशाम्. मरणमित्यर्थः, ११. मदन- बाणः पुष्पविशेषः; कामशरश्च.
७३ १० सर्गः] धर्मशर्माभ्युदयम् । निर्जयता निजरत्नरुवा मां मन्दरमानुगतारमणीनाम् । सा न कदाप्यमुना ध्रियते या मन्दरलानुगता रमणीनाम् ॥ २४ ।। रोढुं पुनर्ग्रहपथं लय हारिदश्व- रश्वैरुपद्रुतनिकुञ्जलताप्रवालः। शृङ्गादग्रजलदेस्यमुन्नमद्भिः प्रोडयन्निव नुनः समयं विभानि ॥ २६ ॥ दिवाकरोचापिततापनोपन्लास्मगम्भिान्दादिव निर्गती गिरः । समूलमाराकुसुमेषु मुन्दर क्षणाधाक्षीन्मदन हुनाशनः ॥ २६ ॥ दुपदिभिः प्रांशुमनोरमाभिगिरी हत्याशु मनामाभिः । पिकध्वनीनं कमितान्मन्त मुस्नियः मन्किमिता रमन्ते ॥ २७ ॥ विस्तारं पथि पुन्तोऽधिकं दधाना वक्रत्वं विषमविया प्रदर्शयन्ती । एतम्मान्प्रमरति शैलवामन्गकन्ययं मरिदुरगीच मेकन्नन्य ।। २८ ॥ उन्मीलनवनलिनीवनप्रसून भात्येतद्गतमलमन्बु नर्मदायाः । निर्मिन् शिम्बरशतेग्मुप्य पुप्यन्नक्षत्रं पतितमिवान्तरिक्षम्खण्डम् ।। २९ ॥ मुद्रा पुलिन्दाभिरिहेप्यते भवान्कान्तारसानुग्रहरिभान्वितः । अयं नहींनीऽप्यधिह्यते भिया कान्तारसानुग्रहभूरिभान्वितः ॥ ३० ॥ सन्मत्रमत्र तरुतीरनिकुञवेदी- विद्यामठे कलरवक्रमपाठकेपु । अश्रान्तमव निगदत्सु वधूद्वितीयः को नाम कामनिगमाध्ययनं न धत्ते ॥ ३१ ॥ भियेव धात्र्या स्थलपङ्कजाक्ष्या निरीक्ष्यमाणं वनसैरिभाणाम् । क्रीडत्युदश्चदनपङ्कशृङ्गं गिरेः शिशूनामिव वृन्दमग्रे ॥ ३२ ॥ १. मन्दर-सानुग-तार-मणीनाम्. २. मन्द-रस-अनुगता. ३. सूर्यसंबन्धिभिः. ४. कुमुमेणु इति सप्तमी; (पक्षे) कुसुमर्मयरिपुभिर्याणः सुन्दरम्. ५. वृक्षविशेषम् काम च. ६. अरं शीघ्रम्. ७. कामुकम्. ८. सोत्कण्ठं प्राप्ता.. ६. पर्वतरूपवल्मीकात. १०. नर्मदा. ११. कान्ता-रस-अनुग्रहभूः-हभान्वितः. १२. कान्तार-सानु-ग्रह- भूरि-म-अन्वितः ७१ काव्यमाला। . त्वत्सैनिकास्तुल्यमदुमहाभयं निस्त्रिंशचक्रेषुवराहवा नराः । नश्यत्सु सिंहादिषु तेन निर्मया निस्त्रिंशचक्रेषु वैराहवानराः ॥३३॥ यो नारङ्गः सरल इति यो यंश्च पुंनागनामा ज्ञात्वा वृक्षः सरसपयसा पोषितः पालितश्च । गूढं सोऽपि प्रथयति निधिं यत्प्ररोहाग्रहस्तै- स्तत्कि युक्तं गिरिरयमिति व्याकुलो रोरवीति ॥ ३४ ॥ जराधवलमौलिमिः प्रचुरसौविदडैरिव प्रफुल्छतरुमिर्छता प्रणयिनामुनोत्सङ्गिता । परिष्वजति चन्दनावलिरियं भुजंगान्यत- स्ततोऽतिगहनं स्त्रियश्चरितमत्र वन्दामहे ॥ ३५॥ मन्दाक्षमन्दा क्षणमत्र तावन्नेव्यापि न व्यापि मनोभवेन । रामा वरा मावनिरैन्यपुष्टवध्वा नेवध्वानवशा न यावत् ॥ ३६॥ कुपितकेसरिचक्रचपेटया करटिकुम्भतटादमिपातिताः । इह विभान्ति तरुस्खलनच्युतस्फुरदुडुप्रकरा इव मौक्तिकाः ॥ ३७॥ प्रणयिनि नवनीवीग्रन्थिमुद्भिद्य लज्जा- विधुरसुरवधूनां मोचयत्यन्तरीयम् । अधिरजनि गुहायामत्र रत्नप्रदीपे करकुवलयघाताः साध्वंपार्थीमवन्ति ॥ ३८॥ नवो धनी यो मदनायको भवेन्न बोधनीयो मदनाय को 'भवे । स सुनुवामत्र तु नेत्रविभ्रमैर्विबोध्यते सत्तिलकोऽपि कानने ॥ ३९ ॥ उद्भिद्य भीमभवसंततितन्तुजालं मार्गेऽपवर्गनगरस्य नितान्तदुर्ग। १. निस्विंश-चक्र-इषु-वर-आहवाः. निविंशः खगः. २. हिंस्रसमूहेषु. ३. वराह- वानराः. ४. लज्जाव्याकुला. ५. नवीनापि. ६. व्याप्ता. ७. लक्ष्मीस्थानम्. ८. को- किलया. ६. नवीनकूजिताधीना. १०. निष्फला भवन्ति. ११. तरुण:. १२. संसारे. १३. वृक्षविशेषः. स च नारीकटाक्षपातेन विकसितो भवतीति प्रसिद्धिः.
१८ सर्ग:] धर्मशाभ्युदयम् । ७६ लब्ध्वा भवन्तममयं जिन सार्थवाह प्रन्यातुमुत्थितवतामयमग्रभूमिः ॥ ४० ॥ पनेऽत्र पाकोलणदाडिमीफलप्रकाशमाकाशमणि नवोदितम् । जिवृक्षवोऽमी निपतन्ति वानरा अनूरुदण्डाग्रनिवारिता अपि ॥४१॥ कटके सरोजवन कटके हरिणानपास्य सविधे हरिणा । करटकर्दलयता कर करिणः क्षताः स्फुटमिहाकरिणः ॥ ४२ ॥ क्षे नमः क च दिशः क च पुष्पवन्तौ बैताः कामतरलद्युतयश्च ताराः । मन्येऽमुना नगनिशागतिना गिलित्वा सर्व खमेव विहितं ननु पीनपीनम् ॥ १३ ॥ दूरेण दावानलशच्या मृगास्त्यजन्ति शोणोपलसंचयातीः । होच्छलच्छोणितनिर्झराशया लिहन्ति च प्रीतिजुषः क्षणं शिवाः ॥ ४४ ॥ स्मरति स्म रतिप्रियाद्यतः क्षणमीक्षणमीलितं रतम् । परमाप रमात्र तत्तमस्तरसास्तरसा वियोगिनी ॥ ४५ ॥ अत्रोचरुक्मशिखरी गिरिरत्र रौप्यः साक्षादिह स्फटिकसारशिलोच्चयोऽपि । अस्मिन्वनैहिममयोऽत्र च चित्रकूटो रत्तैरनेकगिरिमिटितोऽयमेकः ॥ ४६॥ भनेन पूर्वापरदिग्विभागयोः प्रमाणदण्डायितमत्र भारते । अयं कुंबेरान्तकगुप्तयोर्दिशोरलङ्घयसीमेव पृथुः स्थितोऽन्तरे ।। ४७ ॥ ढहा नदन्तीह भवत्यरीणां नवाशु भङ्गाय तिरोहितानाम् । यशस्तवोः शुचि किंनरेन्द्रे न वा शुभं गायति रोहितानाम् ॥ १८ ॥ प्रेङ्गुन्मरुचलितचम्पकचारुपुष्पै- रय च निर्झरजलैश्च वितीर्य पाद्यम् । १. सूर्यम्, २. अद्रिनितम्बे. ३. सिंहेन. ४. कुम्भम्. ५. आकरः खनिरेषामस्ति योनित्वेन ते. आकरजा इत्यर्थः. ६. चन्द्रसूर्यो. ७, पर्वतरात्रिंदरेण. ८. मू लक्षण- मन्धकारम्. ९. मृगविशेषाणाम्, ७६ काव्यमाला। - त्वय्यागते मणिशिलातविष्टरार्थः शैलः करोति सकलामयमातिथेयीम् ॥ ४९ ॥ उद्दामसामोद्भवचीत्कृतानां प्रत्यारवैभूरिदरीमुखोत्थैः । त्वत्सैन्यसंमर्दभवोरुदुःखान्मुहुर्मुहुः पूत्कुरुतेऽयमद्रिः ॥ ५० ॥ कृतार्थीकता हित त्वा हितत्वात्सदानं सदा नन्दिनं वादिनं वा । विभालम्बिभालं सुधर्मा सुधर्मापितख्यापितख्याति सा नौति सानौ ॥५१॥ प्राभाकरीरिति गिरो विनिशम्य सम्य- ग्देवेऽपि तां परिषदं प्रति दत्तनेत्रे। एकोऽवार्य शिखरादथ किंनराणा- मिन्द्रः प्रणम्य विनयाजिनमित्यवादीत् ॥ १२ ॥ दिक्सैव पुण्यजननी विषयः स धन्यः सेव्यानि तानि नगपत्तनकाननानि । यान्यर्हता भगवता भवता कथंचि- दध्यासितान्यपरमस्ति किमत्र तीर्थम् ॥ १३ ॥ भव्यस्तवस्याद्यमलंकृतीनामनर्घरत्नत्रयमाश्रितोऽपि । भव्य स्तवस्याद्यमलं कृतीनां प्राप्याङ्ग्रिपङ्केरुहयोः क्षणेन ॥ १४ ॥ अत्र प्रचारो न विपैलवानां विपैलवानां यदि वा तरूणाम् । आवासमस्मद्गृहसंनिधाने हसन्निधानेशपुरी ददातु ॥ ५५ ॥ कुशोपरुद्धां द्रुतमालपल्लवां वरीप्सरोभिर्महितामकल्मषाम् । नृपेषु रामस्त्वमिहोररीकुरु प्रसीद सीतामिव काननस्थलीम् ॥ १६ ॥ १. सामोद्भवा हस्तिनः. २. पूत्करणमार्तव्याहरणमिति नलचम्पूटीका. ३. अर्थी- कृताश्च तेर्थिनोऽर्थीकृतार्थिन:. कृतम कृतार्थिनामीहितं येन तत्संबोधनम् . त्वा त्वाम्. विभालम्बी सप्रभो भालो यस्य. सुधर्मा देवसमा. शोभनधर्मेणापिता प्रापिता सती ख्यापिता प्रकटीकृता ख्यातिः कीर्तिर्यत्र भवनकर्मणि तत्तथाभूतम्, नौति स्तौति. ४. विपदंशानाम्. ५, विगतकिसलयानाम्. ६. कुशैस्तुणविशेषैः; (पक्षे) तनाना पुत्रेण. ७. दु-तमालपल्लवाम्; (पक्षे) द्रुतं-आलपत्-लवाम्. लवोऽपि सीतायाः पुत्रः. ८. अप्सरसो देवाङ्गनाः, (पक्षे) अद्भिर्युक्तानि सरांसि. ९. रमणीयः; (पक्षे) दाशरथिः.
११ सर्गः] ७७ धर्मशर्माभ्युदयम् । इत्याकर्ण्य स तस्य किंनरपतेर्भक्तिप्रगल्भां गिरं श्रान्तं सैन्यमवेत्य वीक्ष्य करिणां संभोगयोग्यां भुवम् । देवो यावदचिन्तयन्निधिभृता तावत्क्षणानिर्मितं शालामन्दिरमन्दुरावलभीप्राकारसारं पुरम् ।। ६७ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशमीभ्युदये महाकाव्य दशमः सर्गः । एकादशः सर्गः । अथ स तत्र निधीश्वरनिर्मिते प्रविशति स्म पुरे परमेश्वरः । समुदितोऽपि चतुर्विधसेनया विहितमोहतमोहतिद्भुतम् ॥ १ ॥ सुहृदमात्यगणाननुनीविनो नयनिधिविनिवेश्य यथायथम् । स्वयमिहोज्ज्वलरत्ननिकेतने स पदमाप दमान्वितमानसः ॥ २ ॥ बलभरोच्छलितैः पिहितप्रभोऽभजत मृण्मयतामिव यैर्जनः । मुकुरवत्स तु तैरपि पांसुभिर्नरमणी रमणीयतरोऽभवत् ॥ ३ ॥ न घनधर्मपयाष्टषतोदयो न च तनुत्वमजायत यत्प्रभोः । तदभिनत्पटुतां न जगजनोत्सवपुषो वपुषोऽध्वपरिश्रमः॥४॥ तदपि रूढिवशात्कृतमज्जनो विहितयात्रिकवेषविपर्ययः। अयमुवाह रुचिं नयनप्रियां न च न कांचन काञ्चनदीधितिः ॥५॥ (युग्मम्) नभसि दिक्षु वनेषु च संचरन्नृतुगणोऽथ गुणाब्यमियाय तम् । समुपभोक्तुमिवैतदुपासनारसमयं समयं स्वमवन्निवं ॥ ६ ॥ हिममहामहिमानमपोहितुं सरसतामनुशासितुमङ्गिनाम् । धनिन्धगुणोपनतामृतुक्रमधुरं मधुरैश्चति काननम् ॥ ७ ॥ कतिपयैर्दशनैरिव कोरकैः कुरवकप्रभवैविहसन्मुखः । शिशुरिव स्खलितस्खलितं मधुः पदमदादमदालिनि कानने ॥ ८ ॥ मलयशैलतटीमटतो रवेवमभूत्प्रणयी मलयानिलः । पुनरमुप्य यतो दिशमुत्तरामपरथाप रथाप्रवरः कथम् ॥ ९ ॥ १, विहिता मोहरूपतमसो हतियेन. २. नरश्रेष्ठः. ३. अलंकरोति, ४ अपरथा-आप..
काव्यमाला। कलविराजिविराजितकानने नवरसालरसालसषट्पदः । सुरभिकेसरकेसरशोभितः प्रविससार स सारबलो मधुः ॥ १० ॥ अहह निर्दहति स्म वियोगिनां सुभगमङ्गमनङ्गहुताशनः । मुहुरुदीरितरोचिरयं चलत्कमलया मलयानिललीलया ॥ ११ ॥ तदभिधानपदैरिव षट्पदैः शवलिताम्रतरोरिह मञ्जरी । कनकमल्लिरिव स्मरधन्विनो जैनमदारमदारयदजसा ॥ १२ ॥ समधिरुह्य शिरः कुसुमच्छलादयमशोकतरोर्मदनानलः । पथि दिधक्षुरिवैक्षत सर्वतः समवधूतवधूतरसोऽध्वगान् ॥ १३ ॥ युवतिदीर्धकटाक्षनिरीक्षितः पुलकितस्तिलकः कुसुमच्छलात् । अकृत लास्यमिवास्य जगत्पतेरूपवने पवनरितपल्लवः ॥ १४ ॥ शशिमुखीवदनासवलालसे बकुलभूरुहि पुष्पसमाकुले । धृतिमधत्त परां मधुपावलिः किमसमा न समानगुणे रतिः॥ १५ ॥ उचितमाप पलाश इति ध्वनि द्रुमपिशाचपतिः कथमन्यथा । अजनि पुष्पपदादलिताध्वगो नृगलजङ्गलजम्भरसोन्मुखः (१)॥ १६ ॥ गहनकुञ्जलतान्तरितक्रमां सहचरी निभृतः प्रतिपालयन् । विधुरितोऽपि पपौ स पिपासया कुसुमलीनमली न मधु क्षणम् ॥ १७॥ रसविलासविशेषविदो नराः कथममी विलयं न ययुः क्षणात् । विकसितास्तरवोऽपि विचेतना मृगढशोऽङ्ग दृशोर्व्यतिषङ्गतः॥१८॥ मलयमारुतचूतपिकध्वनिप्रभृतिसायकसंचयमर्पयन् । मधुरसौ विदधे स्मरधन्विनं कमपि नाकिपिनाकिजयोजितम् ॥ १९॥ श्वसिति रोदिति मुह्यति कम्पते स्खलति ताम्यति यत्सहसाध्वगः । तदयमक्षतपक्षशिलीमुखैः किमधुना मधुना हृदि नाहतः ॥ २० ॥ विहतोऽयमनाथवधूजनो विधुरिता धुरि ता मुनिपतयः । मरंभिणासमभेदि नतभ्रुवामिह स मानसमानमतङ्गजः ॥ २१ ॥ 1. पापाल:. २:क्षविशेष:. ३. प्रकटितज्वालः, ४. स्लीरहितं जनमदारयत' ५. अगणितवधूकोपान. संबोधनम्.
११ सर्गः] धर्मशर्माभ्युदयम् । १६ इति विशङ्काय मधोवनवासिनः प्रहरतः परितोऽपि परामवम् । मणयिनीकुककमुचकैरुरसि को रसिको न दधे जनः॥२२॥(कुलकम्) प्रचलवेणिलताफलताडितोन्नतनितम्बतटस्तरुणीजनः । स्मरनिपादकशाभिरिवाहतश्चिरमतोऽरमतोडुरदोलया ॥ २३ ॥ स्मरक्शीकरणौपधावन्निद्धतापरि लीयननं रजः । किमपरं मधुना वशिनोऽपि ते मुनिजना निजनामशीकताः ॥२४॥ स्वयमगावसतिं कलिमत्यजदृशमदत्त मुखे प्रियकामिनाम् । इति बनि चकार वधूजनः स किल कोकिलकोविदशिक्षया ॥२५॥ मधुनिवृत्तिजुपां गुत्रिसंगमावृतमुदामिव काननसंपदाम् । विवकिलसवावलिगन्वगादिह सिता हसितानुकृति मुखे ॥ २६ ॥ कलादिग्विजये दरनल्लिकाकुसुमसंगतभृङ्गरवच्छलात् । इह निनाय जनं स्मरभूपतेर्न न वशं नवशङ्खभवो ध्वनिः ॥ २७ ॥ युवतिष्टिरिवासवपाटला स्मरनृपस्य वभौ नवपाटला । प्रणदिता मधुपैरिव काहला प्रियतमायतमानपराजये ॥ २८ ॥ पुपि चन्दनमुज्ज्वलमल्लिका शिरसि हारलता गलकन्दले । मृगशामिति देपविधिर्नृणामनवमो नवमोहमजीजनत् ।। २९ ॥ इह नृपातुरमर्थिनमागतं विगलिताशमवेक्ष्य मुहुर्मुहुः । हृदयभूत्वपयेव भिदां गता गतरसा तरसा सरसी.शुचौ ॥ ३० ॥ इह शुनां रसना वदनादहिनिरगमन्नवपछवचश्चलाः। हदि खरांशुकरप्रकराप्तिाः किमकशा नुकशानुशिखाः शुचौ ॥३१॥ खल इव द्विजराजमपि क्षिपन्दलितमित्रगुणो नवन्दलः । अनि कामकुतूहलिनां पुना रसमयः समयः स धनागमः ॥ ३२ ॥ ह घनैमलिनैरपहस्तिता कुटजपुष्पमिपादुडुसंततिः । गिरिवने भ्रमरारवपत्कृतैरवततार तैतारतिरम्बरात् ॥ ३३ ॥ १. वाद्यविशेषः, २, चन्द्रम्; (पक्षे) ब्राह्मणश्रेष्ठम्. ३. सूर्यः; (पक्षे) सुहृत. ४. अ- शुरः; (पक्षे) कलहः. ५, तिरस्कृता. ६. प्रसृतखेद्रा.
८० काव्यमाला। भृशमधार्यत नीपनभस्वता सह पयोधरनम्रनभःश्रिया । गलितहारनिभोदकधारया प्रथमसंगमसंगरविभ्रमः ॥ ३४ ॥ भुवनतापकमर्कमिवेक्षितुं कलितकान्तचलद्युतिदीपिका । दिशि दिशि प्रससार कृषीवतां सह मुंदारमुदारघनावलिः ॥ ३५ ॥ जलधरेण पयः पिबताम्बुधेर्धवमपीयत वाडवपावकः । कथमिहतरथा तडिदाख्यया रुचिररोचिररोचत वहिजम् ॥ ३६ ॥ नभसि निर्गतकोमलमालतीकलिकया स्मरतोमरतीक्ष्णया । हृदयविद्ध इवालिगणः पुरा चलति का लतिकाः स्म निरीक्षितुम् ॥ ३७ ।। निभृतभृङ्गकुलाकुलकेतकीतरुरुदीर्णसितप्रसवाङ्कुरः । भृशमशोभत मत्त इव स्मरद्विरदनो रैदनोदितभूत्रयः ॥ ३८ ॥ त्वयि विभावपि भावपिधायिनि ध्रुवमनाथवतीमिव तां. सखीम् । रिपुरिवैष विषं जलदो ददत्समद हन्ति दहन्ति च विद्युतः ॥ ३९ ॥ समधिगम्य पयः सरसामसावसहतापहता पतिवञ्चिता । यदतनोर्त्तनुतापितपूत्तरं तदयि तद्दयितस्य न पातकम् ॥ ४० ॥ स्वयमनम्बुजमेव सरोऽभवद्वयधित सा तु वनान्तमपल्लवम् । यदि तया मृतयैव सुखं स्खलन्निनदया न दयास्ति वनेऽपि ते ॥ ११ ॥ न रमते स्मयते न न भाषते स्वपिति नात्ति न वेत्ति न किंचन । सुभग केवलमस्मितलोचना स्मरति सा रतिसारगुणस्य ते ॥ ४२ ॥ इति कयापि दयापरयापरः प्रणयपूर्वमिहाभिहितो युवा । मुदमिवोदवहन्न च चारुतामदममन्दममन्थरमन्मथः ॥ ४३ ॥(कुलकम् तृणकुटीरनिभे हृदि योषितां ज्वलति तीव्रवियोगहुताशने । स्वजनवच्छिखिभेकगणो नदन्नकत पूत्कृतपूरमिवाकुलः ॥ १४ ॥ प्रलपतां कृपयैव वियोगिनां किमपि दाहमहाज्वरशान्तये । शरदियं सरसीषु निरन्तरं व्यतनुतातनुतामरसं पयः ॥ ४५ ॥ १. मुदा अरं-उदारघनावलिः. २. श्रावणे. ३. दन्तक्षुण्णलोकत्रयः. ४. शरीरत पतक्रिमिविशेषं यच्चकार.
, ११ सर्गः] धर्मशर्माभ्युदयम् । ८१ इयमुदस्य करैः परिचुम्वतः सरसिजास्यमभून्न घनादरा । शरददत्त सुधाकरलालनासुखरता खरतापमतो रवः ॥ १६ ॥ किमपि पाण्डुपयोधरमण्डले प्रकटितामरचापनखक्षता । अपि मुनीन्द्रजनाय ददौ शरत्कुसुमचापमचापलचेतसे ॥ ४७ ॥ विघटिताम्बुपटानि शनैः शनैरिह दधुः पुलिनानि महापगाः । नवसमागमजातहियो यथा स्वजघनानि धनानि कुलस्त्रियः ॥ ४८॥ स्फुरदमन्दतडिद्दयुतिभासुरं शरदि शुभ्रमुदीक्ष्य पयोधरम् । कपिशकेसरकेसरिशपया प्रतिनदन्ति न दन्तिगणाः क्षणम् ॥ १९॥ कलमरालवधूमुखखण्डितं विपुलवप्रजले कमलाकरम् । निकटमप्यवधीरयति स्म सामिनवशालिवशालिपरम्परा ॥ ५० ॥ अयमनङ्गगजस्य मदाम्भसः परिमलो न तु शारदभूरुहः । इयमैयस्त्रिपदी त्रुटिताभितः कमलिनीमलिनीविततिर्न तु ॥ ११ ॥ हृदयहारिहरिन्मणिकण्ठिकाकलितशोणमणीव नभःश्रियः । ततिरुदैक्षि जनैः शुकपत्रिणां भ्रमवतामवतारितकौतुका ॥ १२ ॥ मरुति वाति हिमोदयदुःसहे सहसि संततशीतभयादिव । हृदि समिद्धवियोगहुताशने वरतनोरतनोद्वसतिं स्मरः ॥ १३ ॥ पतितमेव तदा हिममङ्गिनां वपुषि कीर्तिहरं शरदत्यये । शरणमुद्धतयौवनकामिनीस्तनभरो न भरोपचितो यदि ॥ ५४॥ बहलकुकुमपङ्ककतादरा मैदनमुद्रितदन्तपदाधराः। तुहिनकालमतो घनकञ्चका निजगदुर्जगदुत्सवमङ्गनाः ॥ ५५ ॥ अपि जगत्सु मनोभवतेजसां प्रवणयन्त्यतिरेकमनेकशः । हिममयानि तदा सवितुर्महोमहिमहानिमहानि वितेनिरे ॥ १६ ॥ स महिमोदयतः शिशिरो व्यधादपहृतप्रसरत्कमलाः प्रजाः। इति कृपालुरिवाश्रितदक्षिणो दिनकरो न करोपचयं दधौ ॥ १७ ॥ १. अभिनवशालिवशा-अलिपरम्परा. २. सप्तच्छदवृक्षस्य. ३. लोहशृङ्खला. ४. भ्रमरीश्रेणिः. ५. सिक्थकः, ६. महः-महिम-हानिम्-अहानि. ११ .
८२ काव्यमाला। . विघटयन्नखिलेन्द्रियपाटवं भृशमुरीकतधर्मदिगाश्रयः । वपुषि विभ्रदसौ तपसा महः कशमिनः शमिनः समतां दधौ ॥१८॥ मृगहशामिह सीत्कृतकम्पिताधरपुटस्फुटदन्तसमद्युतः । विदधिरे नवकुन्दलता दलत्सुमनसो मनसो धृतिमङ्गिनाम् ॥ ५९॥ सुरभिपत्रवतः कुसुमेष्वभून्मरुवकस्य जनो विगतस्टहः । सुभगरूपजुषो मृगचक्षुषः प्रथितमान्यतमान्यगुणेष्विव ॥ ६ ॥ इह हि रोध्ररजांसि यशांसि वा विशदांसि जगज्जयशालिनः । विदधिरे न मनोभवभूपतेः सममनन्तमनन्तरितं भुवा ॥ ६१ ॥ करणबन्धविवर्तनसाक्षिणीः समधिगम्य निशाः सुरतक्षमाः । तपसि कामिगणस्तरुणीजनैररमतारमतामसमानसैः ॥.६२ ॥ अथ दिवाममुं रमणीयतामृतुगणस्य समं समुपेयुषः । . अभिदधे जिनमित्यमराधिपो विनयतो नयतोषितभूत्रयम् ॥ ६३ ॥ ऋतुकदम्बकमाढयतीव वः श्रवणगोचरतां युगपगतैः । भ्रमरकोकिलहंसकलापिनां रसकलैः सकलैरपि निःस्वनैः ॥ ६४ ॥ सेना सुराणाममना मितारम्भवत्ययाना मधुना च येन । सेना सुराणा मम नॉमितारं भवत्र्यंयानामधुना चयेन ॥ ६५ ॥ प्रभावितानेकलतागताया प्रभाविताने कलता गता या। प्रभावितानेकैलतांगताया सा स्त्री मधौ किं स्टहणीयपुण्या ॥ ६६ ॥ वीक्ष्याङ्गना सत्तिलकान्सरागा विलासमुद्रायतनेऽत्र कान्ते । गुणांस्त्वयीवाभवदस्तशत्राविला समुद्रायतनेत्रकान्ते ॥ ६७ ।। पदप्रहारैः पुरुषेण दधे मदः समुद्यत्तरुणीहतेन । रुतं तदश्रावि वने पिकीनामदः समुद्यत्तरुणीह तेन ॥ १८ ॥ १. प्रथित-मान्यतम-अन्यतमगुणेषु. २. अमनस्का. ३. मनोविरहान्मितारम्भवती. ४. गमनरहिता. ५. कामदेवेन सह. इ. कामः. ६. स्तुतिमुखरा. ७. नामिता-अरम्. ८. अयानां भाग्यानां चयेन. ९. अवलोकितबहुविधवल्लीवृक्षविस्तारा. १०. मनोज्ञता. ११. प्रभौ-इता-न. १२. हे इकलत, इ. कामस्तद्वत्कलता मनोज्ञता यस्य तत्संबोधनम्. १३. अप्राप्तशुमविधिः. १४. भूमिः, १५. समुद्रा-आयतनेत्रकान्ते. १६. समुत्-यत्- तरुणि-(वृक्ष)-इह.
१२ सर्गः] धर्मशर्माभ्युदयम् । त्वामद्य केकिध्वनितापदेशात्सुराजमानेन स मानवेन । घनागमः स्तोत्यमृतोदयार्थी सुराजमानेनस मा नैवेन ॥ १९ ॥ कलापि नो मन्दरसानुगास्ते पयोदलेशोपहिता हिमांशोः । कलापिनो मैन्दरसानुगास्ते संभाव्यते तेन शरत्प्रवृत्तिः ॥ ७० ॥ गुणलतेव धनुर्धमरावली शरदि तामरसं गमिताधिकम् । ततिरतोऽप्सरसां कुसुमेषुणा शरदितामरसङ्गमिताधिकम् ॥ ७१ ॥ इति वचनमुदारं भाषमाणे मुनारं प्रशमितजिनस्य स्वर्गिनाथे जिनस्य । मतिरिह चॅनगानां रन्तुमासीन्नगानां ततिपु कुसुमलीनां वीक्ष्य पालीमलीनाम् ॥ ७२ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्य एकादशः सर्गः । द्वादशः सर्गः। दिक्षया काननसंपदां पुरादथायमिक्ष्वाकुपतिर्विनिर्ययौ । विधीयतेऽन्योऽप्यनुयायिनां गुणैः समाहितः किं न तथाविधः प्रभुः ॥१॥ बभूव यत्पुष्पवतीमृतुक्षणे वनस्थली सेवितुमुत्सुको जनः । अचिन्तितात्मक्रमविष्लवो महान्मनोनुरागः खलु तत्र कारणम् ॥ २ ॥ विकासिपुप्पगुणि कानने जनाः प्रयातुमीषुः सह कामिनीगणैः । स्मरस्य पञ्चापि न पुष्पमार्गणा भवन्ति संह्याः किमसंख्यतां गताः ॥ ३॥ बभौ तदारक्तमलक्तकद्रवैर्वधूजनस्याभिसरोरुहद्वयम् । पथि स्थलाम्भोरुहकोटिकण्टकक्षतक्षरच्छोणितसंचयैरिव ॥ ४ ॥ गतागतेषु स्खलितं वितन्वता नितम्बमारेण समं जडात्मना । भुनौ सुवृत्तावपि कङ्कणकणैः किलाङ्गनानां कलहं प्रचक्रतुः ॥ ५ ॥ १. है मनुष्यस्वामिन्. २. हे सुराजम. शोभना राज्ञां मा यस्य तत्संबोधनम्. ३. स्त- वेन. ४. मन्दर-सानु-गा-आस्ते. ५, मन्द-रस-अनुगा:-ते. ६. शरदिता बाणख- ण्डिता अतएव अमरसङ्गमिता देवसङ्ग प्राप्ता. अधिकं जले. ७. घनं निरन्तरं गानं यस्यास्ताम्.
काव्यमाला। गुरुस्तनाभोगभरेण मध्यतः कृशोदरीयं झटिति त्रुटिष्यति । इतीव काची कलकिङ्किणीक्वणैर्मुगीदृशः पूत्कुरुते स्म वर्त्मनि ॥ ६ ॥ नितम्बसंवाहनबाहुलाल श्रमोदभारापनयादिमिर्धनैः । चटूनि चक्रे मुहुरेणचक्षुषां विचक्षणो दक्षिणमारुतः पथि ॥ ७ ॥ प्रवालशालिन्यनपेतविभ्रमा नितान्तमुँचैस्तनगुच्छलाञ्छिता । सलीलमुद्यतैरुणावलम्बिता वनं ययौ कापि लतेव जङ्गमा ॥ ८॥ नितम्बबिम्बप्रसराहतक्रमः कुचस्थलीताडनमूर्छितश्च यः। विलासिनीनां मलयामारुतः स जीव्यते स्म श्वसितानिलैः पथि ॥९॥ प्रियस्य कण्ठार्पितबाहुबन्धना पथि स्खलंन्ती विनिमीलनादृशोः । प्रकाशयन्तीव मनोभवान्धतां जगाम काचिद्वनमेणलोचना ॥ १० ॥ यथाभवन्नूपुरपाणिकङ्कणकणप्रगल्भो मणिकिङ्किणीरवः । उपेयुषीणां वनमेणचक्षुषां तथा पुरो लास्यमधत्त मन्मथः ॥ ११ ॥ उदञ्चति भ्रूलतिका मुहुर्मुहुः प्रकम्पते तन्वि यदोष्ठपल्लवः । अवैमि तेन स्मितपुष्पशातनो विजृम्भते ते हृदि मानमारुतः ॥ १२ ॥ जगज्जनानन्दविधायिनि क्षणे वृथा त्वयारम्भि मृगाक्षि विग्रहः । मनस्विनीनां सुलभाभिमानता महानृतुप्रक्रम एष दुर्लभः ॥ १३ ॥ अथापराद्धं दयितेन कुत्रचिहिनोपपत्त्येति तवाकुलं मनः । परस्परं प्रेम समुन्नतिं गतं भयानि भामिन्यपदेऽपि पश्यति ॥ १४ ॥ अनन्यनारीप्रणयिन्यपि त्वया यदागसां चिह्नमदर्शि संभ्रमः । रसेन यस्त्वाममितोऽपि वीक्षते कथं स ते विप्रियमाचरिष्यति ॥ १५ ॥ अपास्तपीयूषमयूखशोभया प्रभातकान्त्येव वियुक्तया त्वया । अनुज्झितस्नेहभरः स संप्रति प्रपद्यते दीप इवाभिपाण्डुताम् ॥ १६ ॥ कृतेर्ण्ययेव त्वयि दत्तचेतसो गतं क्षुधेव क्वचिदस्य निद्रया। मुखस्य ते दास्यमिवागतोऽधुना शशी स शीतोऽपि ददाह तहपुः॥१७॥ १. पल्लवयुक्ता प्रकृष्टकेशयुक्ता च. २. विलाससहिता पक्षिसंचारसमेता च. ३. उच्चैः स्तन-गुच्छलाञ्छिता; उच्चैः स्तनगुच्छंलाञ्छिता. ४. तरुणा वृक्षण तरुणपुरुषेण च अवलम्बिता.
. १२ सर्गः धर्मशर्माभ्युदयम् । ध्रुवं वियोगे कुसुमेषुमार्गणैस्तवापि भिन्नं हृदयं विभाव्यते । अमी समुल्लासितसारसौरभाः स्फुरन्ति निःश्वाससमीरणाः कुतः ॥ १८ ॥ तदस्तु संधिर्युवयोः प्रसीद नः प्रतप्तयोरायसपिण्डयोरिव । सखीभिरित्यं गदितानुकूलयांचकार कान्तं किल कापि कामिनी ॥ १९ ॥ (कुलकम्) विभिद्य मानं कलकोकिलस्वने मनोनुरागं मिथुनेषु तन्वति । कुतूहलादेव स केवलं तदा धनुर्बुनीते स्म जगज्नयी स्मरः ॥ २० ॥ त्रिनेत्रसङ्ग्रामभरे पलायितः स्मरस्य विश्वासपदं कथं मधुः। उमार्पितप्रत्यय एप मन्यते विलासिनी वितदानपण्डिताः ॥ २१ ॥ विवर्णतां लोकवहिःस्थिति पिका मधुं प्रभुद्रोहिणमाश्रिता ययुः नतभ्रुवां पादयुगस्य पङ्कजं समाश्रितच्छायमभूत्पदं श्रियः ॥ २२ ॥ तरुन्निपङ्गानिव विभ्रतामुना स्मरस्य पौप्पाः कति नार्पिताः शराः। परं तथाप्येप जगज्जये वधूकटाक्षमेवेपुममन्यत क्षमम् ॥ २३ ॥ वसन्तलीलामलयानिलादिभिः समं मनोभूः समयेन युज्यते । निरन्तरं तस्य समस्तदिग्जये सहायभावं सुदृशो वितन्वते ॥ २४ ॥ इति प्रसङ्गामुपलालिताः प्रियैः स्वशक्तिमाकर्ण्य मधुप्रधर्षिणीम् । स्वरूपगाछुरकंधराः स्खलत्पदप्रचारं पथि जग्मुरङ्गनाः ॥ २५ ॥ (कुलकम) प्रभोदयाहादितलोकलोचनो विलासिनीभिः परिवारितस्ततः । शशीव ताराभिरलंकतो घनं वनं विवेशोत्तरकोशलेश्वरः ॥ २६ ॥ गिरीशलीलावनमित्युपश्रुतेभ्रमन्निह लोषमयादिव स्मरः । न कान्तिपीयूपनिधानकुम्भयोर्मुमोच कान्ताकुचयोरुपान्तिकम् ॥ २७ ॥ ध्रुवं त्रिनेत्रानलदाहतः प्रमृत्युदर्चिषि द्वेषमुपागतः स्मरः । यदत्र सान्द्रदुमदीर्घदुर्दिने वने निवासैकरसो बभूव सः ॥ २८ ॥ इहाबभौ मारुतधूतकेतकीपरागपांसुप्रकरः समन्ततः । अनङ्गदावानलमीलितात्मनां वियोगमाजामिव भस्मसंचयः ॥ २९ ।।
८६
काव्यमाला।
इतस्ततः कज्जलकोमला दधौ पुरो भ्रमन्ती भ्रमराङ्गनावलिः ।
जगज्जिगीषोविषमेषुभूभुजः कराग्रवल्गन्निशितासिविभ्रमम् ॥ ३० ॥
विजित्य बाणैर्मदनस्य कुर्वतः समस्तमेकातपवारणं जगत् ।
अभङ्गुरां षट्पदबन्दिनो वने जगुस्तदानी बिरुदावलीमिव ॥ ३१ ॥
परागपुञ्जा यदि पुष्पजा अमी न पांसुतल्पाः स्मरमत्तदन्तिनः ।
अलिच्छलात्पान्थवधाय धावतः कथं तदन्तस्युटितानि शृङ्खला ॥ ३२ ॥
ददत्तवालौष्ठमुपात्तयौवनो मधुः प्रसूनांशुककर्षणोत्सुकः ।
लतावधूनामिह संगमे जनैरदर्शि कूनन्निव कोकिलखनैः ॥ ३३ ॥
शिखण्डिनां ताण्डवमत्र वीक्षितुं तवास्ति चेच्चेतसि तन्वि कौतुकम् ।
समाल्यमुद्दामनितम्बचुम्बिनं सुकेशि तत्संवणु केशसंचयम् ॥ ३ ॥
जलेषु ते वक्रसरोजनिर्जितो जनैः स्फुटच्चारुसरोरुहाकरः ।
अदर्शि सब्रीड इवोदरे क्षिपन्क्रपाणपुत्रीमिव षट्पदावलिम् ॥ ३५ ॥
सविभ्रमं वीक्ष्य तवेक्षणद्वयं गतं च वाचालितरत्ननूपुरम् ।
महोत्पलैर्वारि निमीलितं दिवि हियेव हंसैश्च पलायितं जवात् ॥ ३६ ॥
यदि स्फुरिष्यन्ति तवाधरगुतेः पुरः कियत्कालमशोकपल्लवाः ।
तदाधिगत्यान्तरमुद्यतत्रपा ध्रुवं गमिष्यन्ति विवर्णताममी ॥ ३७॥
भव क्षणं चण्डि वियोगिनीजने दयालुरुन्मुद्रय सुन्दरी गिरम् ।
अमी हताशाः प्रथयन्तु मूकतां कृतान्तदूता इव लक्षिताः पिकाः ॥३८॥
उदीरयन्नित्यमृतप्रपां गिरं विचित्रचाटूक्तिविचक्षणः क्षणात् ।
प्रसर्पदानन्दतिरोहितक्रुधं चकार कश्चित्तरुणो मनस्विनीम् ॥ ३९ ॥
(कुलकम्)
अगोचरं चण्डरुचेरपि द्युतां निकुञ्जलीलासदनेषु पुञ्जितम् ।
प्रभामिरुद्भासितवीरुधस्तमो विनिन्यिरे भङ्गमनङ्गदीपिकाः ॥ ४०॥
परिभ्रमन्त्यः कुसुमोच्चिचीषया विरेजिरे तत्र सरोजलोचनाः ।
जिनेन्द्रमभ्यर्चयितुं सपर्यया कृतप्रयत्ना वनदेवता इव ॥ ४१ ॥
उदग्रशाखाकुसुमार्घमुद्भुजा व्युदस्य पाणिद्वयमञ्चितोदरी ।
नितम्बभूलस्तदुकूलबन्धना नितम्बिनी कस्य चकार नोत्सवम् ॥ ४२ ॥
८७ १२ सर्गः] धर्मशर्माभ्युदयम् । करैः प्रवालान्कुसुमानि लोचनैर्नखांशुमिस्तत्र विजित्य मञ्जरीः । वधूजनस्यास्य जिघृक्षतो भयात्किलाचकम्पे पवनाहतं वनम् ॥ ४३ ॥ प्रमत्तकान्ताकरसंगमादमी सदागमाभ्यासरसोज्ज्वला अपि । क्षणान्निपेतुः सुमनोगणा यतो ह्रियेव विच्छायमभूत्ततो वनम् ॥ १४ ॥ किमन्यदन्ये पिकपञ्चमादयो यशांसि पुण्यैरलमन्त सेवकाः । समर्थ्यते कार्यमनङ्गभूपतेः पुनस्तदेकेन वसन्तशाखिना ॥ १५ ॥ इतींव काचिन्नवचूतमञ्जरी प्रियस्य वश्यौपधिमाददे मुदा । खमेव तदर्शनमात्रकर्मणा विवेद मुग्धा न वशीकृतं पुरा ॥ ४६॥ (युग्मम्) लताग्रदोलाञ्चनलीलया मुहुर्नतोन्नतस्फारनितम्बमण्डला । श्रमं प्रचक्रे पुरुपायितक्रियाप्रकर्षहेतोरिव कापि कामिनी ॥ १७ ॥ स्वमूर्ध्नि चूडामणिरश्मिकार्मुके निवेशयन्ती नवनीपगोलकम् । पिकाय मर्मव्यथकाय कानने निवद्धलक्ष्येव वधूरलक्ष्यत ॥ ४८ ॥ कयाचिदुज्जृम्भितचारुचम्पकप्रसूनमाला जगृहे न पाणिना । स्मरान्तकग्रस्तवियोगिनीच्युतां विडम्बयन्ती कलधौतमेखलाम् ॥ १९ ॥ उदग्रशाखाञ्चनचञ्चलाङ्गुले(जस्य मूलं स्टशति प्रिये छलात् । स्मितं वधूनामिव वीक्ष्य सत्रपैरमुच्यतात्मा कुसुमैर्दुमाग्रतः ॥ १० ॥ मिथः प्रदत्तैर्नवपुष्पदामभिर्बभुस्तदानीं मिथुनानि सर्वतः । अवन्ध्यपातप्रसरैः प्रकोपतश्चितानि बाणैरिव पुष्पधन्वना ॥ ११ ॥ विपक्षनामापि कुरङ्गचक्षुषां बभूव मन्त्रो ध्रुवमाभिचारिकः । प्रियैस्तदुच्चारणपूर्वमर्पिता प्रसूनमाला यदियाय वजताम् ॥ १२ ॥ रतावसाने लतिकागृहाइधूर्विनिर्यतीः स्विन्नकपोलमण्डलाः । प्रवीजयन्ति स्म समीरणेरितैः प्रवाललीलाव्यजनैर्महीरुहाः ॥ १३ ॥ स्त्रजो विचित्रा हृदि जीवितेश्वरैः समाहिताश्चारुचकोरचक्षुषाम् । तदन्तरेऽन्तर्विशतो मनोभुवश्चकासिरे वन्दनमालिका इव ॥ १४ ॥ १ आण.
काव्यमाला। स्मितं विलासस्य कटाक्षविभ्रमं रतेरनङ्गस्य सुधारसच्छटाः। यशांसि तारुण्यनृपस्य मेनिरे विलासिनीनां शिरसि स्त्रजोजनाः ॥ १५ ॥ प्रसूनशून्येऽपि तदर्थिनी तरौ नियोजयन्ती करपल्लवं मुहुः । निरीक्षणात्पत्युरनङ्गविह्वला स्मितं सखीनां विदधे सुलोचना ॥ ५६ ॥ तदा यदासीत्तनुरामणीयकं प्रसूनमालाभरणैर्मगीदृशाम् । अवैति तद्वर्णयितुं तदा स्मरो यदा कवित्वं लभते प्रसादतः ॥ १७ ॥ कृतेऽपि पुष्पावचये समन्ततो लतासु लीलार्पितपाणिपल्लवाः । स्फुरन्नखांशुप्रकरण तत्क्षणं वितेनिरे पुष्पविभङ्गिमङ्गनाः ॥ १८ ॥ प्रसूनलक्ष्मीमपहृत्य गच्छंतां वधूजनानां भयलोलचक्षुषाम् । वनेन मुक्ता विषमेषुशालिना शिलीमुखास्तत्र निपेतुरन्तिके ॥ १९ ॥ समुल्लसत्संमदबाष्पबिन्दुभिनिलीयमानौरव लोचनैर्नृणाम् । वपुर्जला श्रममारभङ्गुरास्तदा वहन्ति स्म कुरङ्गलोचनाः ॥ १० ॥ शुभ्राम्भोजविशाललोचनयुगोपान्तेषु विभ्रन्नवां सद्यः प्रस्फुटशुक्तिसंपुटतटीनिष्क्रान्तमुक्ताकतिम् । मूले च स्तनकुम्भयोरनुकृतश्योतत्सुधाम्मोलवः स्त्रीणां जीवितमन्मथः समजनि स्वेदोदबिन्दुव्रजः ॥ ६१ ॥ वनान्मकरकेतनप्रणयिनः करोल्लासित- स्फुरत्कमलकेलयस्तुलितपूर्णचन्द्राननाः । अशेषकुसुमोच्चयश्रमजलाईदेहास्ततो जवाजनितविस्मयाः श्रिय इव स्त्रियो निर्ययुः ॥ ६२ ॥ ताहक्कान्ताचरणकमलस्पर्शजाग्रत्स्मरस्य प्रस्वेदाम्बुद्रव इव पुरो विन्ध्यधात्रीधरस्य । उद्दामोर्मिप्रसरपुलको धर्ममर्मव्यथायां दृष्टः सैन्यैरसिरिव महान्नर्मदाम्भःप्रवाहः॥ १३ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्य द्वादशः सर्गः ।
१३ सर्गः] धर्मशर्माभ्युदयम् । ८९ त्रयोदशः सर्गः। द्विगुणितमिव यात्रया वनानां स्तनजघनोहहनश्रमं वहन्त्यः। जलविहरणवाञ्छया सकान्ता ययुरथ मेकलकन्यका तरुण्यः ॥ १॥ नलमरपरिरम्भदत्तचित्ताः श्रमसलिलप्रसरच्छलेन रागात् । प्रथममिव समेत्य संमुखं ताः सपदि जलैः परिरेभिरे तरुण्यः ॥ २ ॥ क्षितितलविनिवेशनात्मसर्पन्नखमणिशोणमयूखमवियुग्मम् । श्रमनिवहविलम्बमानजिाप्रसरमिवाध्वनि सुनुवां पभासे ॥ ३ ॥ प्रियकरकलितं विलासिनीनां नवशिखिपत्रमयातपत्ररन्दम् । मृदुकरपरिमर्शनात्तसौख्यं वनमिव पृष्ठगतं रराज रागात् ॥ ४ ॥ इह मृगनयनासु साम्यमक्ष्णोः प्रथममवेक्ष्य विशश्वसुः कुरङ्गवः । तदनु निरुपमै वो विलासर्विजितगुणा इव ताः प्रणश्य जग्मुः ॥ ५॥ वदनमनु मृगीहशो इमायात्पतदलिमण्डलमाशु गन्धलुब्धम् । क्षितिगतशशिनो भ्रमेण राहोरवतरतो गगनाइयुति जहार ॥ ६ ॥ दिनकरकिरणैरुपर्यधस्ताक्षुलितकुकूलकशानुमिः परागैः । पुटनिहितसुवर्णवद्वधूमिः खतनुरमन्यत हन्त तप्यमाना ॥ ७ ॥ वनविहरणखेदनिःसहं ते वपुरतिपीनपयोधरं वभूव । इति किल स मुदस्य कोऽपि दोया युवतिमनाकुलितो जगाम रागी ॥८॥ मिलदुरसिनचक्रवाकयुग्माः प्रथयति मास्वति यौवने प्रकाशम् । स्फुटरवकलहंसकास्तरुण्यः सरित इव प्रतिपेदिरे नदी ताम् ॥९॥ अधिगतकरुणारसेव रेवा श्रममरमन्दरुचो विलोक्य तन्वीः । जललवनिचितारविन्ददम्भात्सपदि सवाप्पकणेक्षणा बभूव ॥ १० ॥ प्रकटय पुलिनानि दर्शयाम्मोभ्रमणमुदचय निर्मरं तरङ्गान् । घननघनगमारनामिनृत्यढुकुटि तुला न तथाप्युपैषि तन्व्याः ॥११॥ नयनमिव महोत्पलं तरुण्याः सरसिजमास्यनिभं च मन्यसे यत् । तदुभयमपि विनमैरुमाम्यां जितमिह वल्गसि किं व्योहहन्ती ॥ १२ ॥ इति मुहुरपरैर्यथार्थमुक्ता क्षणमपि न स्थिरतां दधौ हियेव । गिरिविवरतलात्यधोमुखीसा परमपराब्धिवधूत नगामा॥१३॥(कालापकम्) काव्यमाला। प्रकटितपुलकेव सा स्लवन्ती विदलितशैवलराजिमञ्जरीभिः । सरलिततरलोमिबाहुदण्डा प्रणयभरादिव दातुमङ्कपालिम् ॥ १४ ॥ स्मितमिव नवफेनमुद्रहन्ती प्रथममनल्पसरोजकल्पितार्या । कलविहगरोवरवालपन्ती व्यतनुत पाद्यमिवाम्बुभिर्वधूनाम् ॥१५॥(युग्मम्) उपनदि पुलिने प्रियस्य मुक्तामणिमयभूषणभाजि वक्षसीव । खयमुपरि निपत्य कापि रागान्मुहुरिह लोलयति स्म चञ्चलाक्षी ॥ १६ ॥ प्रणिहितमनसो मृगेक्षणानां चटुलविवर्तितनेत्रविभ्रमेषु । प्रविदधुरधिकस्टहां ह्रदिन्यां चलशफरीस्फुरिते क्षणं युवा नः ॥ १७ ॥ उपनदि नलिनीवनेषु गुञ्जत्यलिनि निमीलितलोचनः कुरङ्गः । तटगतमपि नो ददर्श सैन्यं नहि विषयान्धमतिः किमप्यति ॥ १८ ॥ कथमपि तटिनीमगाहमानाश्चकितशः प्रतिमाछलेन तन्व्यः । इह पयसि भुजावलम्बनार्थ समभिसृता इव वारिदेवताभिः ॥ १९॥ अधिगतनदमप्यगाधभावैः सलिलविहारपरिच्छदं वहन्त्यः । प्रणयिभिरथ धार्यमाणहस्ताः प्रविविशुरम्भसि कातरास्तरुण्यः ॥ २० ॥ अविरलपलितायमानफेनं वैलिनमिवोर्मिभिरङ्गमुद्दहन्ती । जतुबहलवधूपदप्रहारैरजनि सरिजरती रुषेव रक्ता ॥ २१ ॥ ध्वनिविजितगुणोऽप्यनेकधायं रटति पुरः कथमत्रपो मरालः । इति समुचितवेदिनेव तन्व्याः स्थितमिह वारिणि नूपुरेण तूष्णीम् ॥२२॥ प्रसरति जललीलया जनेऽस्मिन्बिसवदनो दिवमुत्पपात हंसः । नवपरिभवलेखमुन्नलिन्या प्रहित इवांशुमते प्रियाय दूतः ॥ २३ ॥ पृथुतरजघनैनितम्बिनीनां स्खलितगतिः पयसामभूत्प्रवाहः । अधिगतवनितानितम्बभारः कथमथवा सरसः पुरः प्रयाति ॥ २४ ॥ अपहृतवसने जडेन लौल्याजघनशिलाफलके नितम्बवत्याः । करजलिपिपदात्तदाविरासीद्विषमशरस्य जगज्जयप्रशस्तिः ॥ २५ ॥ कथमधिकगुणं करं मृगाक्षी क्षिपति मयीह वनान्तमाश्रितायाम् । इति विदितपराभवेव लक्ष्मीः सपदि सरोजनिवासमुत्ससर्ज ॥ २६ ॥ १. बलीयुक्तम्,
१३ सर्गः] धर्मशर्माभ्युदयम् ।
निवसनमिव शैवलं निरस्य स्टशति जने नवसङ्गभाजि मध्यम् ।
वदनमिव पिधातुमुद्यतोमि प्रसरकराथ सरिधूश्चकम्पे ॥ २७ ॥
प्युतरजघनैर्विलोज्यमाना युवतिजनैः कलुषत्वमाश्रयन्ती ।
खपुलिनमुपसर्पिभिः पयोभिः सरिदुपगोपयति स्म लज्जितेव ॥ २८ ॥
प्रतियुवति निषेव्य नाभिरन्नेष्वभिनवविन्ध्यदप्रिवेशलीलाम् ।
अभजत गुरुगण्डशैलयुक्त्या स्तनकलशाप्रविघटनानि रेवा ॥ २९ ॥
दरतनुजघनाहतैर्गभीरप्रकृतिभिरप्यतिचुक्षुभे पयोभिः ।
इह विकृतिमुपैति पण्डितोऽपि प्रणयवतीपु न किं जडस्वभावः ॥ ३० ॥
समसिचत मुहुर्मुहुः कुचाग्रं करसलिलैर्दयितो विमुग्धवध्वाः ।
मृदुतरहृदयस्थलीप्ररूढस्मरनवकल्पतरोरिवाभिवृद्ध्यै ॥ ३१ ॥
स्तनतटपरिवहितैः पयोभिः सपदि गले परिरेभिरे तरूण्यः ।
अधिगतहृदया मनस्विनीनां किमु विलसन्मकरध्वजा न कुयुः ॥ ३२॥
हदि निहितवटेव वद्धतुम्बीफललुलिताङ्गलतेव कापि तन्वी ।
इह पयसि सविभ्रमं तरन्ती पृथुलकुचोच्चयशालिनी रराज ॥ ३३ ॥
तटमनयत चारुचम्पकानां स्वजमबलागलविच्युतां तरङ्गैः ।
निजदयितरिपोरिवौर्ववह्नः प्रचुरशिखापरिशङ्कया स्त्रवन्ती ॥ ३४ ॥
प्रियतमकरकल्पितेऽङ्गरागे प्रथममगान्न तथा लमं सपत्नी ।
अनुनदि मलिलैर्यथापनीते नखपदमण्डनवीक्षणान्मृगाक्ष्याः ॥३६॥
नवनखपदराजिरम्बुजाक्ष्या हृदि जलबिन्दुकरम्बिता बभासे ।
वरसारदुपेनकितप्रवालव्यतिकरदन्तुररत्नकण्ठिकेव ॥ ३६ ॥
सरभसमधिपेन सिच्यमाने एथुलपयोधरमण्डले प्रियायाः ।
श्रमसलिलमिषात्सखेदमश्रूण्यहह मुमोच कुचद्वयं सपत्न्याः॥३७ ॥
प्रियकरसलिलोलितातिपीनस्तनकलशोत्थितसीकरैस्तरुण्याः ।
प्रतियुवतिरथर्वसारमन्त्राक्षरनिकरैरिव ताडिता मुमूर्छ ॥ ॥ ३८ ॥
अहमिह गुरुलज्जया हतोऽस्मि भ्रमर विवेकनिधिस्त्वमेक एव ।
मुखमनु सुमुखी करौ धुनाना यदुपजनं भवता मुहुश्चचुम्वे ॥ ३९ ॥
९२ काव्यमाला । इति सरसिरुहभ्रमात्प्रियाणामनुसरते वदनानि षट्पदाय । रतिरसरसिकोऽपि लजमानः किमपि हृदि स्टहयांबभूव कामी ४० (युग्मम्) प्रिंयकरसलिलैमनस्विनीनां न्यशमि हृदि प्रबलोऽपि मन्युवहिः । अविरलमलिनाञ्जनप्रवाहो नयनयुगान्निरगादिवास्य धूमः ॥ ४१ ॥ अपहृतवसने जलैनितम्बे निहितदृशं करकेलिपङ्कजेन । प्रियमुरसि विनिघ्नती स्मरस्य स्फुटमकरोत्कुसुमायुधत्वमेका ॥ ४२ ॥ मुखतुहिनकरेऽपि संहतेन स्तनयुगलेन तुलां कुतोऽधिरूढे । इति जघनहतं पयो वधूनां रजनिवियोगिविहंगमौ निरासे ॥ १३ ॥ सरभसमिह यत्तटात्पतन्त्यः प्रविविशुरन्तरशङ्कितास्तरुण्यः । धनपुलक इवाशयो जलानां तदुदितबुद्बुदबिन्दुभिर्बभूव ।। ४४ ॥ प्रियकरविहितामृताभिषेकैरुरसि हरानलदग्धविग्रहोऽपि । प्रतिफलितचलहिरेफदम्भादजनि सजीव इव स्मरस्तरुण्याः ॥ ४५ ॥ निपतितमरविन्दमङ्गनायाः श्रवणतटादतिदुर्लभोपभोगात् । मधुकरनिकरखनैर्विलोले पयसि शुचेव समाकुलं रुरोद ॥ ४६ ॥ अविरललहरीप्रसार्यमाणैस्तरलहशश्चकितेव केशजालैः। स्तनकलशतटान्ममज पत्रान्तरमकरी सरितः पयस्यगाधे ॥ ४७ ॥ अमजत जघनं जघान वक्षस्तरलतरङ्गकरैश्चकर्ष केशान् । विट इव जलराशिरङ्गनानां सरभसपाणिपुटाहतश्चुकूज ॥ १८ ॥ मुखमपहृतपत्रमङ्गनानां प्रबलजलैरवलोक्य शहितेव । सरिदछत पुनस्तदर्थमूर्मिप्रसरकरार्पितशेवलप्ररोहैः ॥ ४९ ॥ सपदि वरतनोरतन्यतान्तर्य इह परिष्वजता जडेन रागः । स किल विमलयोर्युगे तदक्ष्णोः स्फटिक इव प्रकटीबभूव तस्याः ॥१०॥ निरलकमपवस्त्रमस्तमाल्यं क्षततिलकं च्युतयावकाधरौष्ठम् । सह दयिततनिषेव्यमाणं सुरतमिवाम्बु मुदेऽभवद्वधूनाम् ॥ ११ ॥ श्रवणपथरतापि कामिनीनां विशदगुणाप्यपदूषणापि दृष्टिः । अभजत जडसंगमेन रागं धिगधिकनीचरताश्रयं जनानाम् ॥ १२ ॥ १. केशकौटिल्यरोहित्यात.
१३ सर्गः] धर्मशर्माभ्युदयम् । धुतकरवलयस्वनं निशम्य प्रतियुवतेरलिखण्डिताधरायाः। अविहितकथया कयापि सेयै विवलितकंधरमैक्षि जीवितेशः॥ ५३॥ अकलुषतरवारिभिर्विमिन्नास्वभिनवपन्नलतासु कामिनीनाम् । नखपदविततिर्दधौ कुत्रान्तर्भुवि परिशेषितरक्तकन्दलीलाम् ॥ १४ ॥ अविरतजलकेलिलोलकान्तास्तनकलशच्युतकुङ्कमैस्तदानीम् । कृतबहलविलेपनेव रेवा पतिमकरोत्सरितामतीव रक्तम् ॥ ५५ ॥ अहमुदयवता जनेन नीचैःपथनिरतापि यहच्छयोपभुक्ता । इति सरलितवीचिवाहुदण्डा प्रमदभरादिव वाहिनी ननर्त ॥ १६ ॥ दिनमवलमथो गृहान्प्रयाथ क्षणमहमप्यभयं भजामि कान्तम् । इति करुणरुतेन चक्रवाक्या समभिहिता इव ताः प्रयातुमीषुः ॥ १७ ॥ इति कृतजलकेलिकौतुकास्ताः सह दयितैः सुदृशस्ततोऽवतेसः । कलुषितहृदयस्तदा नदोऽपि प्रकटमभूदिव तद्वियोगदुःखैः ॥ १८ ॥ जलविहरणकेलिमुत्सृजन्त्याः कचनिचयः क्षरदम्बुरम्बुजाक्ष्याः। परिविदितनितम्बसङ्गसौख्यः पुनरपि वन्धभियेव रोदिति स्म ॥ ५९॥ मुखशशिविमुखीलतावतारे सतमसि पक्ष इवोच्चये कचानाम् । अविरलजलविन्दवस्तदानीमुडुनिकरा इव रेजिरे वधूनाम् ।। ६० ॥ प्रणयमय जलाविलांशुकानां मुमुचुरुदारढशः क्षणात्तदानीम् ! ध्रुवमवगणयन्ति जाड्यभीत्या वयमपि नीरसमागतं विदग्धाः ॥ ६१॥ अतिशयपरिभोगतोऽम्वुलीलारसमयतामिव सुध्रुवोऽभिजग्मुः । सितसिचयपदाद्यदुत्तरङ्ग पुनरपि भेजुरिमाः पयःपयोधिम् ॥ ६२॥ मैरुदपहतकंकणापि कामं करकलितामलकङ्कणा तदानीम् । कत्रनित्रयविभूषितापि चित्रं विकचसरोजमुखी रराज काचित् ॥ ६३ ॥ अनुकलितगुणस्य सौमनस्यं प्रकटमभूत्कुसुमोच्चयस्य तेन । अहमहमिकया स्वयं वधूभिर्यदयमधार्यत मूभि संभ्रमेण ॥ १४ ॥ समुचितसमयेन मन्मथस्य त्रिभुवनराज्यपदे प्रतिष्ठितस्य । मृगमदतिलकच्छलान्मृगाक्षी न्यधित मुखे नवनीलमातपत्रम् ॥६५॥ १. समाप्तप्रायम्. २. नीर-समागतम्; नीरसं-आगतम्. ३. पवनापनीतजलकणापि.
काव्यमाला। अभिनवशशिनो भ्रमेण मा भून्मम वदनेन समागमो मृगस्य । श्रवणगतमितीव कापि पाशद्वयमकरोन्मणिकुण्डलच्छलेन ॥ ६६ ॥ मृगमदधनसारसारपङ्कस्तबकितकुम्भनिभस्तनी सखीनाम् । हृदि मदनगजेन्द्रमात्तधूलीमदमिव काचिददर्शयत्कशाङ्गी ॥ ६७ ॥ लवणिमरसपूर्णनाभिवापीमनु जलयन्त्रघटीगुणोपमानम् । निरवधि दधती कयापि मुक्तामणिमयहारलता न्यधायि कण्ठे ॥ ६८ ॥ अभिमुखमभिदह्यमानकृष्णागुरुघनघूमचयच्छलेन तन्व्यः । स्मरपरवशंवल्लभाभिसारोत्सुकमनसः परिरेभिरे तमांसि ॥ ६९ ॥ रतिरमणविलासोल्लासलीलासु लोलाः किमपि किमपि चित्ते चिन्तयन्त्यस्तरुण्यः । प्रविचितविचित्रोदारशृङ्गारसाराः सह निजनिजनाथैः स्वानि धामानि जग्मुः ॥ ७० ॥ इत्थं वारिविहारकेलिगलितश्रोणीदुकूलाञ्चला वीक्ष्यताः परयोषितः सुकृतधूधुर्यों जगद्वान्धवः । तद्दोषोपचयप्रमार्जनविधौ दत्ताशयः सांशुको- ऽप्यब्धि स्नातुमिवापरं दिनमणिस्तत्कालमेवागमत् ॥ ७१ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये त्रयोदशः सर्गः । चतुर्दशः सर्गः । स्वं सप्तधा स्यन्दनसप्तिदम्भाल्छत्वा समाराधयतोऽथ वृद्ध्यै । ध्वान्तस्य भानुः कृपयेव दातुं प्रस्तावमस्ताचलसंमुखोऽभूत् ॥ १ ॥ अपास्य पूर्वामभिसर्तुकामो गुप्तां दिशं पाशधरेण सूर्यः । विलम्बमानापसरन्मयूखैः पपात पाशैरिव कृष्यमाणः ॥ २ ॥ स्वैराभिसारोत्सवसंनिरोधात्क्रोधोडुराणामिव बन्धकीनाम् । अर्कस्तदा रक्तकटाक्षलक्षच्छटाभिराताम्ररुचिर्बभूव ॥ ३ ॥ तां पूर्वगोत्रस्थितिमप्यपास्य यद्वारुणी नीचरतः सिषेवे । स्वसंनिधानादपसार्यते स्म महीयसा तेन विहायसार्कः ॥ ४ ॥ १. रथाश्वव्याजात . २. वरुणेन. PRODNews DOWER- १४ सर्गः] धर्मशर्माभ्युदयम् । यथा यथा चण्डसचिः प्रतीच्यां संतापमुत्सृज्य बभूव रक्तः । स्पर्धानुबन्धादिव कामिनोऽपि तथा तथा प्रेमवतीप्वरयन् ॥ ५ ॥ प्राप्तं पुनः प्रत्यगमोपधीपु न्यासीचकारात्मरुचोऽत्र कश्चित् । शेपा रविः स्थापयितुं दिनान्ते यियामुरस्तात्रलमाजगाम ॥ ६ ॥ मूर्धीव लीलावनकुन्तलाचे तिष्टन्भुवो भानुरिहास्तरीले । चुडामणित्वं प्रययौ दिनान्तऽप्यहो महवं महतामचिन्त्यम् ॥ ७ ॥ अत्ताद्रिमाला रविः पयोबी कैवर्तवक्षिप्तकराग्रजालः । आकृप्य चिक्षेप नभस्तटेऽसौ नाकुलीरं मकरं च मीनम् ॥ ८ ॥ आविर्भवन्ड्वान्तकृपाणयष्टया छिन्नेव मुले बिनवलिरुचैः । स्वस्तांशुमत्परफला पतन्ती सद्यो जगद्व्याकुलयाततान ॥ ९ ॥ विम्बेऽर्धमग्ने सवितः पयोधौ प्रोवृत्तपातभ्रममादवाने । लोलांशुकाप्टानविलन्विताहःसांयात्रिकेणाम्बुनि मङ्गुमीपे ॥ १० ॥ भूयो जगद्पणमेव कर्तुं ततं मुवर्णोज्ज्वलभानुगोलम् । कराग्रसंदंशधृतं पयोधेश्चिक्षेप नारे विधिहेमकारः ॥ ११ ॥ आवर्तगर्तान्तरसौ पयोधर्यधीयत स्यन्दनवाहवेपैः । आकृप्य शूरोऽपि तमःसमूहैरहो दुरन्तो बलिनां विरोधः ॥ १२ ॥ प्रवासिना तद्विरहाक्षमेव सूर्येण पत्यारुणकान्तिदम्भात् । दत्त्वालये पत्रकपाटमुद्रां ययौ सहाम्भोजवनस्य लक्ष्मीः ॥ १३ ॥ दिशां समानेऽपि वियोगदुःखे पूर्वव पूर्वं यदभूद्विवर्णा । तेनात्मनि प्रेम रवेरतुल्यं प्रवासिनोऽनक्षरमाचचक्षे ॥ १४ ॥ कामन्तदानीं मिथुनानि शीघ्र प्रत्येकमेकः प्रजहार वाणैः । न लक्ष्यशुद्धिनिबिडान्धकारे भविप्यतीत्याहितचेतसेव ॥ १५ ॥ अन्योन्यदत्तं विसखण्डमास्ये रथाङ्गनाम्नोर्युगलं प्रयत्नात् । सायं वियोगाइतमुत्पतिष्णोर्जीवस्य वजार्गलवद्वभार ॥ १६ ॥ लब्ध्वा पयोमज्जनपूर्वमधे रम्यांशुकप्रावरणं दिनान्ते । मित्रेण दूराध्वचरेण मुक्तं वाम्बरं ध्वान्तमलीमसं तत् ॥ १७ ॥ १. प्रतिपर्वतम्, काव्यमाला। निर्मज्ज्य सिन्धौ सवितुर्दिनान्ते रथोडुरत्नोद्धरणाय यत्नः । यत्तत्करस्पर्शमवाप्य जग्मुर्भूयोऽपि रत्नाकरमेव तानि ॥ १८ ॥ मित्रं क्वचित्कूटनिधिर्निधत्ते वसूनि हृत्वेत्युदितापवादः । संध्यामथोदीरितरागरतां शस्त्रीमिवान्तर्निदधेऽस्तशैलः ॥ १९ ॥ प्रदोषपञ्चास्यचपेटयोच्चैरुन्मुक्तमुक्तोज्ज्वलतारकौधः ध्वस्तो नभःप्रौढगजस्य भास्वत्कुम्भोपरश्चन्दुमिषादुदस्तः ॥ २० । अथास्तसंध्यारुधिराणिं पातुं विस्तारिताराभदन्तुरास्यः । वेतालवत्कालकरालमूर्तिः समुजिजृम्भे सहसान्धकारः ॥ २१ ॥ अस्ताचलात्कालवलीमुखेन क्षिप्ते मधुच्छत्र इवार्कबिम्बे । उड्डीयमानैरिव चञ्चरीकैनिरन्तरं व्यापि नमस्तमोभिः ॥ २२ ॥ अन्यं जलाधारमितः प्रविष्टे कुतोऽपि हंसे सहिते सहायैः । नभःसरोऽच्छेदगरीयसीभिश्छन्नं तमाशैवलमञ्जरीभिः ॥ २३ ॥ अस्तं गते भास्वति जीवितेशे विकीर्णकेशव तमःसमूहैः । ताराश्रुबिन्दुप्रकरैवियोगदुःखादिव द्यौ रुदती रराज ॥ २४ ॥ तेजोनिरस्तद्विजराजजीवे गते जगत्तापिनि तिग्मरश्मी । तहासहयं तमसा विशुद्ध्यै द्यौगोमयेनेव विलिम्पति स्म ॥२५॥ नूनं महो ध्वान्तभयादिवान्तश्चित्ते निलीनं परिहृत्य चक्षुः । यच्चेतसवेक्षणनियंपेक्षमद्राक्षुरुच्चावचमत्र लोकाः ॥ २६ ॥ आज्ञामतिक्रम्य मनोभवस्य यियासतां सत्वरमध्वगानाम् । पुनस्तदा नीलशिलामयोच्चप्राकारबन्धायितमन्धकारैः ॥ २७ ॥ लब्ध्वा समृद्धि रतये खभावान्मलीमसानां मलिना भवन्ति । यत्पांमुला दस्युनिशाचराणामभन्मुदे केवलमन्धकारः ॥ २८ ॥ तथाविधे सूचिमुखाग्रभेद्ये जातेऽन्धकारे वसति प्रियस्य । हृत्कक्षलग्नस्मरदाहवहिविज्ञातमार्गेव जगाम काचित् ॥ २९ ॥ १. यथा कश्चिच्छद्मनिधानो मित्रद्रोही द्रव्यं गृहीत्वा मित्रं घातयति, रक्तलिप्तां कार्यकारिणी छुरिकां च पिदधाति तद्वत. .
१४ सर्गः] ९७ धर्मशर्माभ्युदयम् । संचार्यमाणा निशि कामिनीभिर्गृहागृहं रेजुरमी प्रदीपाः । तेजोगुणद्वेपितया प्रवृत्तिमोभिरान्ध्यं गमिता इवोच्चैः ॥ ३० ॥ दधुर्वधूमिनिशि सामिलापमुल्लासितप्रांशुशिखाः प्रदीपाः । प्रत्वालयं क्रुध्यनङ्गमुक्तमोत्तप्तनाराचनिकायलीलाम् ।। ३१ ॥ पूर्वाद्रिभित्त्यन्तरितोऽथ गगात्स्वनापनायोपपतिः किलेन्दुः । पुरंदराशाभिमुखं करागृश्चिक्षेप तान्बूलनिभां स्वकान्तिम ॥ ३२ ॥ ऐरावणेन प्रतिदन्तियुद्ध्या सते तमोध्यामलपूर्वशैले । प्राची तटोत्यैरिव धातुचूर्णेरिन्दोः करात्रैश्छरिता रराज ॥ ३३ ॥ उदंशुमत्या कलया हिमांशोः कोदण्डयष्टयार्पितवाणमेव । भेत्तुं तमस्तोमगजेन्द्रमासीदावद्वसंधान इवोदयाद्रिः ॥ ३४ ॥ व्यापारितेनेन्द्रककुम्भवान्या हत्वार्धचन्द्रेण तमोल्नुलायम् । कीलालधारा इव तस्य शोणाः प्रसारिता दिक्षु रुचः क्षणेन ॥ ३५ ॥ अर्कोदितेन्दोः शुकचञ्चरक्तं वपुः स्तनाभोग इवोदयात्रौ । प्राच्याः प्रदोपेण समागतायाः क्षतं नखस्येव तदावभासे ॥ ३६ ॥ इन्दुर्यइन्यासु कलाः क्रमेण तिथिप्वशेपा अपि पौर्णमास्याम् । धत्ते स्म तद्वनि गुणान्पुरंध्रीप्रेमानुरूपं पुरुपो व्यनक्ति ॥ ३७॥ उन्र्तमुद्दामतमिस्त्रपङ्कायोमापि कारुण्यनिधिः पिशङ्गः । भन्डारलीलाकिणकालिकाङ्गः सिन्धोः शशी कूर्म इवोजगाम ॥ ३८ । मुखं निमीलन्नयनारविन्दं कलानिधौ चुम्वति राज्ञि रागात् । गलत्तमोनीलदुकूलवन्धा श्यामाद्रवञ्चन्द्रमाणच्छलेन ॥ ३९ ॥ एकत्र नक्षत्रपतिः वशक्त्या निशाचरोऽन्यत्र दुनोति वायुः । निमील्य नेत्राव्जमतः कथंचित्पत्युर्वियोग नलिनी विपेहे ॥ ४० ॥ लेभे शशी शोणरुचं किरातैयों वाणविद्धेण इवोदयाद्रौ। अग्रेऽवदातद्युतिरङ्गनानां धौतः स हर्षाश्रुजलैरिवासीत् ॥ ११ ॥ १. शरभिन्नमृग इव. .१३ ९ ८ काव्यमाला। रात्रौ नभश्चत्वरमापतन्तमुद्वेलदुल्लोलभुजः पयोधिः । तनूजमिन्दुं सुतवत्सलत्वादुत्सङ्गमानेतुमिवोल्ललास ॥ ४२ ॥ तथाश्चवानेन जगन्महोभिः कृतस्तनीयाशशिनान्धकारः । मन्ये यथास्यैव कलङ्कदम्भादनन्यगामी शरणं प्रपेदे ॥ ४३ ॥ कुमुद्वतीविभ्रमहासकेलिं कर्तुं प्रवृत्ते भृशमोषधीशे । प्रभावभाजां ज्वलति स्म रात्रौ महौषधीनां ततिरीर्ण्ययेव ॥ ४४ ॥ दिवाकेतप्तैः कुमुदैः सुहृत्त्वात्प्रकाश्यमाने हृदये सितांशुः । उत्खाततत्पक्षसरोजमूलो रुपेव रेजे लसमानरश्मिः ॥ ४५ ॥ विलासिनीचित्तकरण्डिकायां जगद्रमात्खिन्न इवाह्नि सुप्तः । उत्थाप्यते स्म द्रुतमंशुदण्डैः संताड्य चन्द्रेण रते जंगः ॥ ४६ ॥ शशी जगत्ताडनकुण्ठितानां निशानपट्टः स्मरमार्गणानाम् । उत्तेजितांस्तान्यदनेन भूयो व्यापारयामास जगत्सु कामः ॥ ४७ ॥ कर्पूरपूरैरिव चन्दनाढ्यैर्मालाकलापैरिव मालतीनाम् । द्यौर्दक्षिणेनेव समं धरित्र्या प्रसाधिता चन्द्रमसा कराग्रैः ॥ ४८ ॥ वपुः सुधांशोः स्मरपार्थिवस्य मानातपच्छेदि सितातपत्रम् । अनेन कामास्पदमानिनीनां छाया परा कापि मुखे यदासीत् ॥ ४९ ॥ किमप्यहो धाष्टर्यमचिन्त्यमस्य पश्यन्तु चन्द्रस्य कलङ्कभाजः । यदेष निर्दोषतया जितोऽपि तस्थौ पुरस्तात्तरुणीमुखानाम् ॥ ५० ॥ यन्मन्दमन्दं बहलान्धकारे मनो जगामाभिमुखं प्रियस्य । तन्मानिनीनामुदिते मृगाङ्के मार्गीपलम्भादिव धावति स्म ॥ ५१ ॥ तावत्सती स्त्री ध्रुवमन्यपुंसो हस्ताग्रसंस्पर्शसहा न यावत् । स्टष्टा करायैः कमला तथा हि त्यक्तारविन्दाभिससार चन्द्रम् ॥ १२ ॥ उपात्ततारामणिभूषणाभिरायाति पत्यौ निलये कलानाम् । कान्ताजनो दिग्भिरिवोपदिष्टं प्रचक्रमेऽथ प्रतिकर्म कर्तुम् ॥ ५३ ॥ १. कामः. २. तीक्ष्णीकरणपाषाणः, ३. नायकविशेषेण, ९९ १४ सर्गः] धर्मशाभ्युदयम् । जनैरमूल्यस्य कियन्ममेदं हैमं तुलाकोटियुगं निवद्वम् । इत्यम्बुनाक्ष्या नवयावका रुपेव रक्तं पदयुग्मनामीत् ॥ ६४ ॥ त्रिनेत्रभालानलदाहविभ्यत्कंदर्पलीलानगरस्य हैमम् । प्राकारमुञ्चैजघनस्य पार्श्व बबन्ध काचिदशनाछलेन ॥ ५५ ॥ पयोधराणामुदयः प्रसर्पहारानुबन्धेन विलासिनीनाम् । विशेपतः कस्य मलीमसास्यो न दीप्रभावोन्नतिमाततान ।। ५६ ॥ चन्द्रोदयोज्जृम्भितरागवालाग्रकल्लोलमिवोल्ललन्तम् । श्वासैः सकम्पं निशि मानिनीनां मेने जनी यावकरक्तमोष्ठम् ॥ १७ ॥ कायस्थ एव स्मर एप कृत्वा डग्लेखनी कजलमञ्जुलां यः । शृङ्गारसान्नाज्यविभोगपत्रं तारुण्यलक्ष्म्याः सुशो लिलेख ॥ १८॥ श्वक्ष्णं यदेवावरणाय ने नितम्बिनीभिनवमुल्छसन्त्या । क्रोधादिवोच्छृङलया तदङ्गकान्त्यात्मनान्तर्निदधे दुकूलम् ।। ५९ ॥ आरोप्य चित्रा वरपत्रवल्लीः श्रीखण्डसारं तिलकं प्रकाश्य । नारङ्ग'नागनिपेवणीया कयापि चक्रे नॅवकाननश्रीः ॥ ६० ॥ आदाय नेपथ्यमथोत्सुकोऽयं कान्ताजनः कान्तमतिप्रगल्भाः । मूर्ती इवाक्षाः स्मरभूमिभर्तुरलङ्घनीयाः प्रजिघाय दूतीः ॥ ६१ ॥ गच्छ वमाच्छादितदैन्यमन्यव्याजेन तस्यापसदस्य पार्श्व । ज्ञात्वाशयं हि किल प्रसङ्गात्तथा यथास्मिल्लघिमा न मे स्यात् ॥६॥ यहा निवेद्य प्रणयं प्रकाश्य दुःखं निपत्य क्रमयोरपि त्वम् । प्रियं तमत्रानय दूति यस्मात्क्षीणो जनः किं न करोत्यकृत्यम् ॥६॥ नार्थी स्वदोपं यदि वाधिगच्छत्यालि त्वमेवात्र ततः प्रमाणम् । इत्याकुला काचिदनङ्गतापादभिप्रियं संदिदिशे वयस्याम् ॥६४॥(कुलकम्) दृष्टापराधो दयितः श्रयन्ते प्राणाश्च मे सत्वरगत्वरत्वम् । तत्र यत्कृत्यविधौ विदग्धा दूति त्वमेवेति जगाद काचित् ।। ६५ ।। १. प्रसर्पत-हारानुबन्धेन; प्रसर्पत-धारानुबन्धेन. २. नदीप्रभावोन्नतिम् . दीप्रभावः कामोद्रेकः; नदी-प्रभावोन्नतिम्. ३. नारङ्ग'नागा विटश्रेष्ठाः; (पक्षे) वृक्षविशेषाः, ४. नवका-आननश्रीः; नव-काननश्रीः. ५, पदयोः,
१००
काव्यमाला।
वदासवेश्माभिमुखे गवाक्षे प्रतिक्षणं चक्षुरनुक्षिपन्ती ।
त्वद्रूपमालिख्य मुहुः पतन्ती त्वत्पादयोः सा गमयत्यहानि ॥ ६६ ॥
स्त्रीत्वादरुद्धप्रसरो यथास्यां शरैरमोधैः प्रहरत्यनङ्गः ।
साशङ्कवत्केवलपौरुषस्थे तथा न दृते त्वयि किं करोमि ॥ ६ ॥
यत्कम्पते निःश्वसितैः कवोष्णं गृह्णाति यल्लोचनमुक्तमम्भः ।
अवैम्यनङ्गज्वरजर्जरं तत्त्वद्विप्रयोगे हृदयं मृगाक्ष्याः ॥ ६८ ॥
आविर्बभूवुः स्मरसूर्यतापे हारावलीमूलजटा यथाङ्गे ।
त्वन्नामलीना गलकन्दलीयं तथाधिकं शुष्यति चञ्चलाक्ष्याः ॥ ६९॥
स्तुत्वा दिने रात्रिमहश्च रात्रौ स्तौति स्म सा पूर्वमपूर्वतापात् ।
संप्रत्यहो वाञ्छति तत्र तन्वी स्थातुंन यत्रास्ति दिन न रात्रिः॥७०॥(युग्मम)
प्रगल्भतां शीतकरः स्फुरन्तु कर्णोत्पलानि प्रसरन्तु हंसाः ।
त्वद्विप्रलम्भज्वरभाजि तस्यां वीणाप्यरीणा रणतु प्रकामम् ॥ ७१॥
इत्थं घने व्यञ्जितनेत्रनीरे प्रदर्शिते प्रेम्णि सखीजनेन ।
क्षणान्मृगाक्षी हृदयेश्वरस्य हंसीव सा मानसमाविवेश ॥ ७२ ॥ (कुलकम्)
प्रकाशितप्रेमगुणैर्वचोमिराक्रम्य बद्धा हृदये सखीभिः ।
आकष्यमाणा इव निविलम्ब ययुर्युवानः सविधं वधूनाम् ॥ ७३ ॥
आः संचरन्नम्भसि वारिराशेः श्लिष्टः किमौर्वाग्निशिखाकलापैः ।
स्विच्चण्डचण्डद्युतिमण्डलायप्रवेशसंक्रान्तकठोरतापः॥ ७४ ॥
अथाङ्कदम्भेन सहोदरत्वात्सोत्साहमुत्सङ्गितकालकूटः ।
अङ्गानि यन्मुर्मुरवहिपुजभाजीव मे शीतकरः करोति ॥ ७९ ॥
इत्थं वियोगानलदाहमङ्गे निवेदयन्ती सुमुखी सखीनाम् ।
समेयुषस्तत्क्षणमद्वितीयामजीजनत्कापि रति प्रियस्य ॥७६॥ (विशेषकम्)
आयाति कान्ते हृदयं विधेयविवेकवैकल्यमगान्मृगाक्ष्याः।
तत्कालनिस्त्रिंशमनोभवास्त्रसंघातघातैरिव घूर्णमानम् ॥ ७७ ॥
बाष्पाम्बुसंडावितपक्ष्मलेखं चक्षुः क्षणात्स्फारिततारकं च ।
किं प्रेम मानं यदि वा मृगाक्ष्याः प्रियावलोके प्रकटीचकार ॥ ७८ ॥
१६ सर्गः] धर्मशर्माभ्युदयम् । १०१ समुच्छ्रसन्नीवि गलहुकूलं स्खलत्पदं सक्क्षणकङ्कणं वा । प्रियागमे स्थानकमायताक्ष्या विसिस्मिये प्रेक्ष्य सखीजनोऽपि ॥ ७९ ॥ लावण्यमङ्गे भवती विभर्ति दाहश्च मेऽभवयवधानतोऽपि । तहि शृङ्गारिणि संप्रतीदं कुतस्त्वया शिक्षितमिन्द्रजालम् ।। ८० ॥ जाज्यं यदि प्राप्यमुरोजयोस्ते तद्वेपथुर्मानिनि मे कुतस्त्यः । इत्युचरंश्चाटुवत्रांसि कश्चित्नियामकापीच्युतयानवेगाम् ॥ ८१ ॥(युग्मम्) मानस्य गादानुनयेन तन्व्या निर्वासितत्त्यापि किमस्ति शेषः । इतीव वोढुं हृदि चन्दनाई व्यापारयामास करं विलासी ॥ ८२ ॥ सभ्रूभङ्ग करकिसलयोल्लासलीलाभिनीत- प्रत्ययार्थी प्रतिविद्धती विस्मयस्मेरमास्यम् । सा इंपत्योरजनि मदनोज्जीविनी कापि गोष्टी यस्यां मन्ये श्रवणमयतां जग्मुरन्येन्द्रियाणि ॥ ८३ ॥ चन्द्रे मिञ्चति चान्दनैरिव रसैराशा महोभिः क्षणा- दुन्मीलन्मकरन्दसौरभमिव प्रादाय दूतीवचः । सोत्कण्ठं समुपेत्य कैरवमिव प्रोल्लासि कान्तामुखं स्वस्थाः केऽपि मधुव्रता इव मधून्यापातुमारेभिरे ॥ ८४ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये चतुर्दशः सर्गः। पञ्चदशः सर्गः । भर्गभालनयनानलदग्धं मन्मथं यदधिजीवयति स्म । कोऽपि कल्पतरुमध्वमृतं तत्पातुमारभत किंनरलोकः ॥ १॥ शीतनीधितिविकासि सुगन्धं पत्रवद्दशनकेसरकान्तम् । स्त्रीमुखं कुमुदवन्मधुपानां पातुमत्र मधुभाजनमासीत् ॥ २ ॥ यावदाहितपरिघुति पात्रे चित्तमुत्तरलितं मिथुनानाम् । तावदन्तरिह विम्बपदेन द्रागमज्जि वदनैरतिलोल्यात् ॥ ३ ॥ दन्तकान्तिशबलं सविलासाः साभिलाषमपिबन्मधु पात्रे । विष्यमाणमिव सोदरभावाद्वयक्तरागममृतेन तरुण्यः ॥ ४ ॥ १. शैत्यं स्थौल्यं च. २. दलयुक्तम् (पक्षे) पत्रवल्लरीमण्डनसमेतम्.
१०२ काव्यमाला। यामिनीप्रथमसंगमकाले शोणतां यदभजहिजनाथः । तन्मधूनि ललनाकरपात्रे सोऽपि नूनमपिबत्प्रतिमा ॥ ५ ॥ श्वासकीर्णनवनीरजरेणुच्छद्मना चषकसीधु पिबन्ती । कान्तपाणिपरिमार्जनशिष्टं मानचूर्णमपि कापि मुमोच ।। ६ ॥ निष्ठितासवरसे मणिपात्रे पाणिशोणमणिकङ्कणभासः । कापिशायनधियाशु पिबन्ती काप्यहस्यत सखीभिरभीक्ष्णम् ॥ ७॥ यौवनेन मदनेन मदेन त्वं कशोदरि सदाप्यसि मत्ता । तदृथायमधुना मधुधारापानकेलिकलनास्वभियोगः ॥८॥ पुण्डरीककमलोत्पलसारैर्यत्रिवर्णमकरोत्किल वेधाः । किं तु कोकनदकान्तिचिकीर्घनत्रयुग्ममधुना मधुपानात् ॥ ९॥ अङ्गसादमवसादितधैर्यो यो ददाति मतिमोहनमुच्चैः । सोऽपि सस्टहतया रमणीभिः सेव्यते कथमहो मधुवारः ॥ १० ॥ सीधुपानविधिना किल कालक्षेपमेव कलयन्मदनान्धः । कामिनी रहसि कोऽपि रिरंमुश्चाटुचारुपदमित्थमवादीत् ॥ ११॥ (कुलकम्) उल्ललास विनिमीलितनेत्रं यन्मृगीदशि मधूनि पिबन्त्याम् । तन्निपीतचषके स्फुरिताक्ष्यां लज्जयेव गतमब्जमधस्तात् ॥ १२ ।। मद्यमन्यपुरुषेण निपीतं पीयते कथमिवेति जिहासुः । चन्द्रबिम्बपरिचुम्बितमेतत्कामिना बहिरहस्यत काचित् ॥ १३ ॥ किं न पश्यति पतिं तव पाश्र्चे धृष्ट एष सखि शीतमयूखः । आसवान्तरवतीर्य यदुच्चैः पातुमाननमुपैति पुरस्तात् ॥ १४ ॥ त्वत्प्रदष्टमथवा कथमग्रे दर्शयिष्यति मुखं स्ववधूनाम् । इत्युदीक्ष्य चषके शशिबिम्ब काप्यगद्यत सनर्म सखीभिः ॥१५॥(युग्मम्) स्त्रीमुखानि च मधूनि च पीत्वा द्वित्रिवेलमपरः कुतुकेन । अन्तरं महदिह प्रतिपद्य प्रीतिमासवरसेषु मुमोच ॥ १६ ॥ बिम्बितेन शशिना सह नूनं पीवरोरुभिरपीयत मद्यम् । यत्तदीयहृदयान्तरलीननिर्गतं सपदि मन्युतमोभिः ॥ १७ ॥ १. प्राङ्गणोपविष्टा.
१६ सर्गः]
धर्मशर्माभ्युदयम् ।
कामहेतुरुदितो मधुदाने गोत्रभेदमकरोत्पुरतोऽन्यः ।
संगताप्यपुरुषोत्तमबुद्ध्या श्रीवर्तत ततो वनितायाः ॥ १८ ॥
होविमोहमपनीय निरस्यन्नन्तरीयमपि चुम्बितवकः ।
सस्टहं प्रणयवानिव भेजे कामिनीभिरसकृन्मधुवारः ॥ १९ ॥
जग्मतुर्मुहुरलतकतिक्तौ यद्विवंशपदवीमधरोष्ठौ ।
तेन मद्यमधिकं स्वढ़ते स्म म्मेरमन्मथवते मिथुनाय ॥ २० ॥
क्षालितोऽपि मधुना परिपीतोऽप्याननेन दशनैर्दलितोऽपि ।
खां मुमोच न रुचिं मिथुनानां यत्ततः कथमभूधरोऽयम् ॥ २१ ॥
त्यज्यतां पिपिपिपिप्रिय पात्रं दीयतां मुमुमुखासव एव ।
इत्यमन्थरपदस्खलितोक्तिः प्रेयसी मुदमदाद्दयितस्य ।। २२ ॥
कापिशायनरसैरभिपिच्य प्रायशः सरलतां हृदि नीते ।
भूलतामु रचनामु च वाचां सुभ्रुवां धनमभूत्कुटिलत्वंम् ॥ २३ ॥
मोल्लसन्मुगदृशां मदनो हृद्यालवाल इव सीधुरसेन ।
भ्रूलताविलसितैरिह साक्षात्कस्य हास्यकुमुमं न चकार ॥ २४ ॥
तोपितापि रुपमाहितरोपाप्याप तोपरबला मधुपानात् ।
सर्वथा हि पिहितेन्द्रियवृत्तिर्वाम एव मदिरापरिणामः ॥ २५ ॥
भूलता ललितलास्यमकस्मात्स्मेरमास्यमवशानि वचांसि ।
सुभ्रवां चरणयोः स्खलितानि क्षीवतां भृशमनक्षरमूचुः ॥ २६ ॥
भिन्नमानदृढवजकवाटेनास्यता जवनिकामिव लज्जाम् ।
तत्क्षणाश्चितशरासनचण्डः सीधुना प्रकटितो विपमेपुः ॥ २७ ॥
प्रावृताः शुचिपटैरतिमृद्वीः स्पर्शदीपितमनोभवभावाः ।
प्रेयसीः समगुणा इह शय्याः कामिनो रतिसुखाय विनिन्युः ॥ २८ ॥
कान्तकान्तदशनच्छददेशे लग्नदन्तमणिदीधितिरेका ।
आवभावुपजनेऽपि मृणालीनालकैरिव रसं प्रपिबन्ती ॥ २९ ॥
प्रेयसा धृतकरापि चकम्पे चुम्बितापि मुखमाक्षिपति स्म ।
व्याहृतापि बहुधा सकृदूचे किंचिदप्रकटमेव नवोढा ॥ ३० ॥
१०४ काव्यमाला। उत्तरीयमपकर्षति नाथे प्रावरिष्ट हृदयं स्वकराभ्याम् । अन्तरीयमपरा पुनराशु भ्रष्टमेव न विवेद नितम्बात् ॥ ३१ ॥ कामिना द्रुतमपास्य मुखान्तर्धानवस्त्रमिव कञ्चुकमस्याः । व्यञ्जितः पृथुपयोधरकुम्भो दुःसहो मदनगन्धगजेन्द्रः ॥ ३२ पीनतुङ्गकठिनस्तनशैलैराहतोऽपि न मुमूर्छ युवा यत् । तत्र नूनमधरामृतपानप्रेम कारणमवैम्यबलायाः॥ ३३ ॥ वक्षसा एथुपयोधरभारं निष्पिपेष हृदयं दयितायाः । कोऽपि कर्तुमिह चूर्णमिहान्तीनदुर्ललितकोपकणानाम् ॥ ३४ ॥ श्लिष्टमिष्टवनितावपुरादौ नापनेतुमपरः प्रशशाक । प्रीतिभिन्नपुलकाङ्कुरशङ्कुप्रोतविग्रह इवाग्रहतोऽपि ॥ ३५ ॥ विष्यतापि जघनस्तनमुच्चैरन्तरे प्रणयिनाहमपास्तम् । सुनुवो वलिमिषादिह मध्यं भ्रूविभङ्गमतनिष्ट रुषेव ॥ ३६ ॥ योषितां सरसपाणिजरेखालंकृतो धनतरः स्तनभारः । आबभौ प्रणयिसंगमहर्षोच्छ्ासवेगभरभिन्न इवोच्चैः ॥ ३७ ॥ कर्कशस्तनयुगेन न भग्नास्त्वन्नखा हृदि न वा व्यथितस्त्वम् । इत्युदारनवयौवनगर्वा कापि कान्तमधि गर्वमहासीत् ॥ ३८ ॥ सुप्त इत्यतिविविक्ततया स्वं संप्रकाश्य निलयः कुतुकेन । ऐक्षतेव सुतनो रतचित्रं बोधितैकतरदीपक्रनेत्रः ॥ ३९ ॥ नात्र काचिदपरा परिणेतुः प्रीतिधाम वसतीति पुरंध्री । ईर्ण्ययेव परिरब्धवतोऽन्तद्रष्टुमस्य हृदयं प्रविवेश ॥ ४० ॥ कुन्तलाञ्चनविचक्षणपाणिः प्रोन्नमय्य वदनं वनितायाः । कोऽपि लोलरसनाश्चललीलालालनाचतुरमोष्ठमधासीत् ॥ ११ ॥ पीवरोच्चकुचतुम्बकचुम्बिन्यापुपोष कमितुः करदण्डे । वल्लकीत्वमनुताडिततन्त्रीकाणकूजितगुणेन पुरंध्री ॥ ४२ ॥ अङ्गसंग्रहपरः करपातं मध्यदेशमभितो विदधानः। योषितः स्म विजिगीषुरिवान्यः क्षिप्रमाक्षिपति काञ्चनकाञ्चीम् ॥४३॥ .
१५ सर्गः] धर्मशर्माम्युदयम् । स्पर्शभाजिन परं करदण्ड कामिनः प्रकटकण्टकयोगः । ईषदुच्छसितकोमलनाभीपङ्कजेऽपि सुदृशोऽद्भुतमासीत् ॥ ४४ ॥ संचरन्नित इतो नतनाभीकूपके निपतितः प्रियपाणिः । मेखलागुणमवाप्य मदान्धोऽप्यारुरोह जघनस्थलमस्याः ॥ १६ ॥ नीविबन्धभिदि वल्लभपाणौ सुन्भुवः कलकलो मणिकाच्याः । नोदितालिसुरतोत्सवलीलारम्भसंभ्रमपटुः पटहोऽभूत् ॥ १६ ॥ नीविवन्भमतिलङ्गय करामे कामिनः प्रसरतीह यथेच्छम् । मर्त्सना स्मितमलीकतरा इत्याख्यदक्षतममङ्गवतीनाम् ॥ १७ ॥ पाणिना परिमृशन्नबलोरुस्तम्भमश्चितकलापगुणेन । कश्चिदाकलितमारमहेभं मोचयन्निव रतेषु रराज ॥ १८ ॥ भूकपोलचित्रुकाधरचक्षुश्शूचुकादिपरिचुम्बनदक्षः । कोऽपि कोपितवधूप्रतिषिद्धां सान्त्वयन्निव रतिं विरराज ।। ४९ ॥ सोत्कृतानि कलहंसकनादः पाणिकङ्कणरणत्कृतमुच्चैः । ओठखण्डनमनोभवसूत्रे भाष्यतां ययुरमूनि वधूनाम् ॥ १० ॥ गण्डमण्डलभुवि स्तनशैले नाभिगह्वरतले च विहृत्य । सश्रमा इव दृशो दयितस्यानङ्गवेश्मनि विशश्रमुरासाम् ॥ ५१ ॥ नोत्पपात पतिता नचकामिन्यूरुमूलफलके खलु दृष्टिः । कामिनः प्रमदकारिणि रङ्कस्येव गूढमणिभाजि निधाने ॥ १२ ॥ पूर्वशैलमिव तुङ्गकुचाग्रं प्रेयसि यति लोचनचन्द्रे । प्लावितं मनसिजार्णवनीरैः सुभ्रुवो जघनमण्डलमुच्चैः ॥ ५३ ॥ प्रेङ्गुति प्रियतमे निरवद्यातोद्यवाद्यपटुकूजितकण्ठे । चित्रलास्यलयवल्गु नितम्बो बल्गति स्म सुरते बनितायाः ॥ १४ ॥ ओष्ठखण्डननखक्षतिवक्षस्ताडनस्तनकचग्रहणाद्यैः । मत्सरादिव मिथो मिथुनानां कामकेलिकलहस्तुमुलोऽभूत् ॥ ५५ ॥ सोत्सवैः करणसंपरिवर्तश्चाटुभिश्च मणितैः स्तनितैश्च । पूर्वसंस्तुतमपि च्युतलजं कामिनां रतमपूर्वमिवासीत् ॥ ५ ॥ १४
१०६
काव्यमाला।
अश्रुगद्गदगिरामिह तावद्योषितां रतविधौ करुणोक्तिः
तानि शुष्करुदितान्यपि यूनां भेजिरे श्रवणयोरमृतत्वम् ॥ १७ ॥
आहतानि पुरुषायितमुच्चैर्धाष्टर्चमीहगुपमर्दसहत्वम् ।
कामिभिः क्षणमवेक्ष्य वधूनामन्यतैव सुरते प्रतिपदे ॥ १८ ॥
भन्नपाणिवलया च्युतमाल्या भिन्नतारमणिहारलतापि ।
ताम्यति स्म सुरते न कथंचित्प्रेमकार्मणवशेव कृशाङ्गी ॥ ५९॥
स्पष्टधाष्टर्यमविरोधितवाञ्छं मझुकूजितमनाढतदेहम् ।
चित्रचाटुरुचि यत्प्रणयिन्यास्तत्प्रियस्य रतये रतमासीत् ॥ ६ ॥
मीलितेक्षणपुटै रतिसौख्यं योषितामनुभवद्भिरभीष्टैः ।
निनिमेषनयनकविभोग्यं तत्रिविष्टपसुखं लघु मेने ॥ ६१ ।।
संवितेनुरधिकं मिथुनानां प्रीतिमप्यवमतात्मसुखानि ।
प्रेमनिर्भरपरस्परचित्ताराधनोत्सवरतानि रतानि ।। ६२ ॥
भूरिमद्यरसपानविनोदैर्गाढशून्यहृदयानि तदानीम् ।
कान्यपि स्म मिथुनानि न वेगात्प्राप्नुवन्ति रतकेलिसमाप्तिम् ।। ६३ ॥
उत्थितान्यपि रतोत्सवलीलाकौशलापहृतनेत्रमनांसि ।
युक्तमेव मिथुनानि रतान्तेऽन्योन्यवस्त्रवरिवर्तमकार्षः ॥ ६४ ॥
प्रेयसीप्टथुपयोधरकुम्भे वल्लभस्य शुशुभे नखपतिः ।
चारुतामणिनिधाविव मुद्रावर्णपद्धतिरनङ्गनृपस्य ॥ १५ ॥
संप्रविश्य वलभीष गवाक्षैक्ष्यि चोन्नतपयोधरमङ्गम् ।
कामतप्त इव कामधुनीनामाचचाम पवनः श्रमवारि ॥ ६६ ॥
पश्यति प्रियतमेऽवनतास्या कान्तदष्टदशनच्छदबिम्बम् ।
ऐक्षतेव हृदयं त्रपमाणा स्त्री पुनः स्मरशरव्रणचिह्नम् ॥ ६७ ॥
गन्तुमारभत कोऽपि रतान्ते गृह्यमाणवसनान्तरदृष्टम् ।
ऊरुदण्डमवलम्ब्य तरुण्याः सश्रमोऽपि रतवर्मनि
भूयः ॥ ६॥
चुम्बनेन हरिणीनयनानामोष्ठतो मिलितयावकरागम् ।
ईर्ण्ययेव दयितेक्षणयुग्मं चुम्बति स्म समयेऽपि न निद्रा ॥ ६९॥
१६ सर्गः)
७
धर्मशर्माभ्युदयम् ।
इत्थं विलोक्य मधुपानविनोदमत्त-
कान्तारतोत्सवरतान्स्टहयेव लोकान् ।
चन्द्रोऽपि कैरवमधूनि समं रजन्या
पीवास्तशैलरतिकाननसंमुखोऽभूत् ।। ७० ॥
इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये पश्चदशः सर्गः।
पोडशः सर्गः।
सेवायै समयविदागतः सुराणां संदोहः क्षुमितपयोधिमन्द्रनादः ।
धर्माय त्रिभुवनभानवेऽभ्युदेतुं यामिन्याः परिणतिमित्यमाचचक्षे ॥ १ ॥
रथ्यासु त्वदमलकीर्तिकीर्तनेषु प्रारब्धेष्वभिनवमागधरिदानीम् ।
व्योमायात्पतति मुदामरप्रयुक्तः पुष्पाणां प्रकर इवैष तारकौघः ॥२॥
संभोगं प्रविधता कुमुद्दतीभिश्चन्द्रेण द्विगुणित आत्मनः कलङ्कः ।
तन्नूनं रतिपरमन्वरान्तलग्नं यात्येनं समवगणय्य यामिनीयम् ॥ ३ ॥
गाडस्त्रीभुनपरिरम्भनिरोधन्निद्राणि स्फुटपटहारवैश्च भूयः ।
वर्तन्ते विघटितसंपुटानि यूनां कुंसप्रगुणगुणानि लोचनानि ॥ ४ ॥
हरदोपव्यपनयहेतवे सगर्वा निर्वाणोल्मुकमिव कपरं पुरस्तात् ।
वक्त्रेन्दोरुपरि तवावतार्य दूरं द्यौरेपा क्षिपति सलक्ष्म चन्द्रविम्बम् ॥ ५॥
ते भावाः करणविवर्तनानि तानि प्रौढिः सा मृदुमणितेषु कामिनीनाम् ।
एकैकं तदिव रताद्भुतं स्मरन्तो धुन्वन्ति श्वसनहताः शिरांसि दीपाः ॥६॥
यहोपोपत्रिततमोऽपि ते कथासु प्रारब्धास्वमरवरैविलीयतेऽस्मिन् ।
तन्मन्ये तव गुणकीर्तनानि नाम साधयॊदयमपि न द्विषां सहन्ते ॥ ७ ॥
राजानं जगति निरस्य सूरसूतेनाक्रान्ते प्रसरति दुन्दुभेरिदानीम् ।
यामिन्याः प्रियतमविप्रयोगदुःखैहृत्संधेः स्फुटत इवोद्भटः प्रणादः॥ ८॥
चेतस्ते यदि चपलं पुरानुशेते तन्मानिन्यमुमधुनापि मानयेशम् ।
आकर्ण्य ध्वनितमितीव ताम्रचूडस्याननं प्रियमुषसि प्रपद्यतेऽन्या ॥ ९ ॥
संदष्टे प्रियविधिनाधरीकतेऽस्मिञ्शीतांशौ हिमपवनातपान्थवक्त्रैः।
सीत्कारं प्रवितनुते विधूतहस्ता मुग्धापि क्षणरजनी वित्तलक्ष्मीः ॥१०॥
१०८
काव्यमाला।
विध्वस्तां निजवसतिं विलोक्य कोपानिष्क्रान्ता किल कमलेयमोषधीशात् ।
निःश्रीकं तमिव शुचावलोकयन्ती स्वं तेजस्त्यजति च पतिरोषधीनाम् ११
संभोगश्रमसलिलैंरिवाङ्गनानामङ्गेषु प्रशममितं मनोभवाग्निम् ।
उन्मीलज्जलजरजःकणान्किरन्तः प्रत्यूषे पुनरनिलाः प्रदीपयन्ति ॥ १२ ॥
युष्माभिः प्रकटितकामकौशलाभिः साध्वेतन्निधुवनयुद्धमत्र सोढम् ।
इत्युक्त्वा स्टशति मुदेव भृङ्गनादैः प्रत्यूषानिललहरी वधूः सखीव ॥१३॥
प्रागल्भ्यं विहितममीभिरत्ययेऽहां नाथस्य प्रतिगृहमित्यसौ रुषेव ।
प्रत्यूषः पवनकरेण धूमकेशेष्वाकृष्य क्षपयति संप्रति प्रदीपान् ॥ १४ ॥
मूर्तीवोद्गतपलितायमानरश्मौ चन्द्रेऽस्मिन्नमति विभावरीजरत्याः ।
अन्योन्यं विहगरवैरिवोल्लसन्त्यो दिग्वध्वो विदधति विष्ठवाट्टहासान॥१५॥
आसज्योद्धृतचरणापरार्धमेताः कण्ठाग्रं मुकुलितलोचनास्तरुण्यः ।
प्रस्थातुं शयनतलोत्थितानभीष्टान्याचन्ते प्रकटितचाटु चुम्बनानि ॥ १६ ॥
पद्मिन्यामहनि विधाय कोषपानं चिक्रीडुनिशि यदमी कुमुद्वतीमिः ।
तद्वर्णैर्ने परमुदीरयन्ति भृङ्गाः कृष्णत्वं निजचरितैरपि प्रकामम् ॥ १७ ॥
पर्यस्ते दिवसमणौ न काचिदासीद्बाधा वस्तिमिरपिशाचगोचराणाम् ।
इत्याशाः प्रतितहिमद्रवाश्रु लोकान्वात्सल्याविहगरुतैरिवालपन्ति ॥ १८ ॥
भात्येषा सुभगतम क्षपापत्तौ विच्छाया नभसि निशाकरस्य कान्तिः ।
एतं ते मुखमुकुरं प्रमार्ण्य लक्ष्म्या प्रक्षिप्ता स्वगुणदिवायेव भूतिः॥ १९ ॥
तन्नूनं प्रियविरहार्तचक्रवाक्याः कारुण्यान्निशि रुदितं धनं नलिन्या।
यत्प्रातर्जललवलाञ्छितारुणानि प्रेक्ष्यन्ते कमलविलोचनानि तस्याः॥२०॥
स्त्रस्तोडुक्रमपरिणामिपाण्डुपने व्योमाने द्रुम इव संश्रये खगानाम् ।
उन्मीलत्किसलयविभ्रमं भजन्ते जम्भारेः ककुभि विभाकरस्य भासः ॥२१॥
भस्मास्थिप्रकरकपालकश्मलोऽग्रे यः संध्यावसरकपालिनावकीर्णः ।
तं भावत्युदयति चन्द्रिकोडुचन्द्रव्याजेनावकरमपाकरोति कालः ॥२२॥
निःशेष हृतजनजातरूपवृत्तेन्तिस्य प्रविरचितोऽमुनावकाशः।
इत्युच्चैर्गगनमुदस्तमण्डलायो विच्छिन्नश्रवणकरं करोति भानुः ॥ २३ ॥
१६ सर्गः]
धर्मशर्माभ्युदयम् ।
१०९
आरम्मोच्चलिततुरंगकुञ्जर श्रीः क्षुण्णोद्यन्मकरकुलीरमीनरक्तः।
देवाथै विदधदहीनरश्मिरन्धरुन्मज्जत्ययमहिमांशुमन्दराद्रिः ॥ २४ ।।
पाथोघेरुपजलतैलमुत्थितान्तिच्छिद्भनति रविः प्रदीपलक्ष्मीम् ।
यस्यामात्युपरि पतङ्गपातमीत्या विन्यस्तं मरकतपात्रवद्विहायः ॥२५॥
दीपेनाम्बरमणिना रयाश्वदूर्व मंयोज्यारुणवुनुणं खमेव पात्रम् ।
नक्षत्राक्षतनिकरं पुरः क्षिपन्ती प्राचीयं प्रगुणयतीव मङ्गलं ते !! २६ ॥
पाथोधेरधिगतविद्रुमांशुभिवा सिद्धस्त्रीकरकलितार्यकुश्मा ।
लोकानामयमनुरागकन्दलैर्वा प्रत्यूपे वपुररुणं बिभर्ति भानुः ॥ २७ ॥
उत्तिष्ठ त्रिजगदधीश मुच्च शय्यामात्मानं वहिरुपदर्शयाश्रितानाम् ।
तिग्मांगद्वैतमधिगेहतु त्वदीयैस्तेनोभिर्विनित इवोदयाद्रिदुर्गम् ॥ २८ ॥
आयातो दुरधिगमामतीत्य वीथीमासीनः क्षणमुदयाद्रिभद्रपीठे ।
प्रारम्वाभ्युदयमहोत्सवो विवस्वान्दिक्कान्ताः करघुतणैर्विलिम्पतीव ॥२९॥
मार्तण्डप्रखरकराग्रपीड्यमानादेतस्मादमृतमिव च्युतं सुधांशोः ।
मथ्नन्त्यो दधि कलशीपु मेघमन्द्रः प्रध्वानैः शिखिकुलमुत्कयन्ति गोप्यः ।
यामिन्यामनिशमनीक्षितेन्दुवित्रं व्यावृत्ते प्रणयिनि भास्करे मुदेव ।
सोडासं मधुकरकज्जलरिदानी पद्मिन्यः सरसिजनेत्रमञ्जयन्ति ॥ ३१॥
सिन्युतिमिह मूभि कुश्मानां वक्रेन्दौ वसनगतां कुसुम्भशोभाम् ।
विधाणा नवतरणित्विपोऽपि साध्वीवैधव्येऽभिजनवर्विदूपयन्ति ॥ ३२ ॥
स्वच्छन्दं विधुमभिसार्य यत्प्रविष्टा प्रातः श्रीः कमलगृहे निरस्य मुद्राम् ।
भूयोऽपि प्रियमनुवर्तते दिनेशं कः स्त्रीणां गहनमवैति तच्चरित्रम् ॥ ३३ ॥
अस्थातुं तव विहितोद्यमस्य भर्तुः प्रोत्सर्पद्वदनविलोलनीलपत्रः।
प्राच्यायं समुचितमङ्गलार्थमने सौवर्णः कलश इवांशुमानुदस्तः ॥ ३४ ॥
तहारि द्विरदमदोक्षिते मिथोऽङ्गसंघटच्युतमणिमण्डिते नृपाणाम् ।
राज्यश्रीश्चलतुरगाति तूर्यनादालोलवजकपटेन नृत्यतीव ॥ ३५ ॥
मार्तण्डप्रखरकरापटवातप्रक्षुण्णस्थपुटतमस्तुषारकूटाः ।
उद्योगप्रगुणचमूचरस्य योग्याः प्रस्थातुं तंव ककुभोऽधुना बभूवुः ॥ ३१ ॥
११० काव्यमाला आयाति प्रबलतरप्रतापपात्रे नेत्राणां दिवसंकति त्वयीवं मैत्रीम् । संतापः प्रकटतरो भवत्विदानी शत्रूणामिव तपनाश्मनां गणेषु ॥ ३७ ।। इत्यं स त्रिदशजनस्य मन्दराद्रिक्षुब्धाम्भोनिनदसमां निशम्य वाणीम् । उत्तस्थौ सितवसनोमिरम्यतल्पाद्दुग्धाब्धेः पवनतरङ्गितादिवेन्दुः ॥ ३८ ॥ उत्तिष्ठन्नुदयगिरेरिवेन्दुरस्माद्देवेन्द्रान्मुकुलितपाणिपङ्कजाग्रात् । सोऽद्राक्षीदथ नमतो नगोपमेभ्यः पीठेभ्यो भुवि सरितामिव प्रवाहान ३९ कारुण्यद्रविणनिधे निधेहि दृष्टि सेवार्थी भवतु जनश्चिरात्कृतार्थः । यच्चिन्ताभ्यधिकफलान्यसौ ददाना तां चिन्तामणिगणनामपाकरोति ॥ ४० इत्युच्चैर्निगदति वेत्रिणामधीशे श्रीधर्मः समुचितविन्नरामरेन्द्रान् । भूदृष्टिस्मितवचसामसौ प्रसादैः प्रत्येकं सदसि यथार्हमाचचक्षे४१(कुलकम्) निःशेषं भुवनविभुर्विभातकृत्यं कृत्वायं कृतसमयानुरूपवेषः । आरुह्य द्विरदमुदगुदानमुच्चैः प्रत्यग्रं सुकतमिवाथ संप्रतस्थे ॥ ४२ ॥ भास्वन्तं द्युतिरिव कीर्तिवद्गुणाढ्यं सोत्साहं सुभटमिवोत्सुका जयश्रीः । दुर्धर्षा भुवनविसर्पिणी दुरापा तं सेना त्रिभुवननाथमन्वियाय ॥ १३ ॥ अक्षिप्तप्रलयनटोद्भटाहासैः प्रेवद्भिः पटुपटहारवैः प्रयाणे । एकत्रोच्छलितरजछलेन सर्वाः संसक्ता इव ककुभो भयाभूवुः ॥ ४ ॥ मेण्ठेन द्विपमपनीतबन्धमन्यं प्रेक्ष्यैतत्प्रमथनमांसलाभिलाषः । प्रश्नोतद्विगुणमदाम्बुधारमुच्चैरालानढुवरमिभो हठादमासीत् ॥ ४५ ॥ तिष्ठन्ती मृदुलभुजंगरानमूर्धन्युद्दोढुं दृढपदमक्षमा क्षमा ते । कर्णान्तेऽभिहित इतीव भङ्गदूतैर्नागेन्द्रः पथि पदमन्थरं जगाम ॥ ४६॥ भ्रश्यन्त्याश्चरणभरात्करावलम्ब ये दातुं भुव इव लम्बमानहस्ताः। कर्णान्तध्वनदलिकोपकूणिताक्षास्ते जग्मुः पथि पुरतोऽस्य वारणेन्द्राः ४७ संचेलुः प्रचलितकर्णताललीलावातोमिव्यतिकरशीतलैः समन्तात् । संघट्टभ्रमभरमूर्छिता इवाशाः सिञ्चन्तः पृथुकरसीकरैः करीन्द्राः ॥ १८ ॥ अश्रान्तं श्रिय इव चारुचामराणां यः पश्चाद्विचरति लोलवालधीनाम् । क्रामद्भिर्मुवमभितो जवेन वाहैः स व्यक्तं कथमिव लवितो न वायुः ॥४९ १. हस्तिपकेन. २. पृथ्वी.
धर्मशर्माभ्युदयम् । १६ सर्गः] अन्योन्यस्खलनवशादयःखलीनप्रोद्गच्छज्ज्वलनकणच्छलेन सान्द्रम् । कान्तारे विदधति भूरिवेगवाधां गन्धर्वा निदधुरिव क्रुधा दवाग्निम्।।१०।। आक्रान्ते चटुलतुरंगपुंगवाभिक्षुण्णोविलयरजोभिरन्तरिक्षे । दिढ्योहात्पतित इव क्वचित्तदानीं तिग्मांशुनै नयनगोचरीबभूव ॥ ११ ॥ उत्फालैद्रुतमवटस्थलीरलङ्घयास्तबार्गतिरभसेन लङ्यद्भिः । सर्वत्र श्वसनकुरङ्गपुंगवोत्या संभ्रान्तिमनसि समादधे न केषाम् ॥ १२ ॥ उद्वल्गत्तुरगतरङ्गिताग्रसेनासंचारक्षतशिखरोच्चयच्छलेन । विन्ध्याद्रेः प्रथमझताध्वसंनिरोधस्योलूनं शिर इव सैनिकैः प्रकोपात् ५३ उत्खाताचलशिखरैः पुरः परागेणाश्वीयैः स्फुटमवंटपु परितेपु । सा बुद्धिः खलु रथिनो यदस्य पश्चात्प्रस्थाने सुगमतरो बभूव मार्गः ॥६४ प्राग्भागं द्विरदयाहुदग्रदन्तः प्रोत्सृज्य प्रकटितवर्वरोरुनादः । उत्कूर्दन्विकटपदैरितस्ततोऽग्रे दासेरः पटुनटकौतुकं चकार ॥ ५५ ॥ सर्वाशाद्विपमदवाहिनीपु सेनासंचारोच्छलितरजःस्थलीकतासु । उडीनैर्ऋमरकुलैरिवावकीर्ण व्योमासीदविरलदुर्दिनच्छलेन ॥ १६ ॥ आतङ्काकुलशबरीवितीर्णगुजापु पु ज्वलितदवानलभ्रमेण । कारुण्यामृतरसर्पिणी स गच्छंश्चिक्षेप प्रभुरसकहनेषु दृष्टिम् ॥ १७ ॥ संसर्पलभररुद्धसिन्धुवेगं प्रोद्दामद्विरदतिरस्कृताग्रशृङ्गम् । आक्रम्य ध्वविजितोरुकन्दलीकं विन्ध्याद्रिं स विभुगुणैरधश्चकार ॥१८ सपत्सु द्विरदवलेपु नर्मदायाः संजातं सपदि पयः प्रतीपगामि । वाहिन्यो मदजलनिर्मितास्त्वमीपामुत्सङ्गं द्रुतमुदधेरवापुरेव ॥ १९ ॥ मद्दन्तद्वयवलभीनिवासलीलालोलेयं नियतमनन्यगा तु लक्ष्मीः । सामर्पप्रसरमितीव चिन्तयन्तो दन्तीन्द्राः सरिति वभनुरम्बुजानि ॥६॥ आ स्कन्धं जलमवगाह्य दीर्घदन्तैरामूलोद्धृतसरलारविन्दनालाः । आलोज्याखिलमुदरं तरङ्गवत्याः कृष्टान्त्रावलय इव द्विपा विरेजुः ॥६१॥ उन्मीलन्नवनलिनीमराललीलालंकारव्यतिकरसुन्दरी समन्तात् । आनन्दोदवसितदेहलीमिवार्थश्रीसिद्धेः सरितमलङ्घयत्स रेवाम् ॥ १२॥ १. पवनवाहनीभूतहरिणश्रेष्ठोत्या. २. उष्ट्रः.
११२ काव्यमाला। एकान्तं सुरसवरार्थमाश्रयन्ती प्रेक्ष्योच्चैरतनुपयोधराग्रलक्ष्मीः । स्त्रीरत्नोत्सुकमनसापि तेन विन्ध्यारण्यानी गुणगुरुणा स्थिरं सिषेवे ॥६॥ उत्तुङ्गद्वमवलभीषु पानगोष्ठीव्यासक्तैर्मधुपकुलैनिलीनमुक्तम् । बिभ्राणा मधु मधुरं प्रसूनपात्रे गैजेव द्रुतमटवी बलैः प्रमुक्ता ॥ ६४ ॥ वाहिन्यो हिमसलिलाः सशाहला भूयंत्रोच्चैरिदभरक्षमा द्रुमाश्च । संसिद्ध्यै द्रुतमटतो बभूवुरध्वन्यावासाः कतिचिदमुण्य तत्र तत्र ॥ ६५ ॥ द्राधीयांसमपि जवान्नितान्तदुर्ग गव्यूतिप्रमितमिव व्यतीत्य मार्गम् । सोत्कण्ठं हृदयमसौ दधत्प्रियायां वैदर्भ विषयमथ प्रभुः प्रपेदे ॥ १६ ॥ आरूढस्तुरगमिभं सुखासनं वा प्रोल्लङ्घच द्रुतमसमं सुखेन मार्गम् । देशेऽस्मिन्महति पुनर्वसुप्रधाने व्योनीव धुमणिरगादसौ रथस्थः ॥६७ ॥ प्रध्वानैरनुकृतमन्द्रमेघनादैः पाण्डित्यं दधति शिखण्डिताण्डवेषु । ग्रामीणैर्धन इव वीक्षिते सहर्षे वजीव प्रभुरधिकं रथे रराज ॥ ६८ ॥ क्षेत्रश्रीरधिकतिलोत्तमा सुकेश्यः कामिन्यो दिशि दिशि निष्कुटाः सरम्भाः। इत्येनं ग्रथितमशेषमैप्सरोभिः स्वर्गादप्यधिकममस्त देशमीशः ॥ ६९ ॥ विस्फारैरविदितविभ्रमैः स्वभावागामेयीनयनपुटैर्निपीयमानम् । लावण्यामृतमधिकाधिकं तथापि श्रीधर्मो भुवनविभुर्बभार चित्रम् ॥ ७० ॥ पुण्ड्रेक्षुव्यतिकरशालिशालिवप्रे प्रोन्मीलद्विशदसरोरुहच्छलेन । अन्येषां श्रियमिव नीता हसन्ती देशश्रीगुणगुरुणा मुदा लुलोके ॥७१॥ कूष्माण्डीफलभरगर्भचिर्भटेभ्यो वृन्ताकस्तबकविनम्रवास्तुकेभ्यः । संकीणे मिथ इव दृष्टिरस्य लग्ना निष्क्रान्ता कथमपि शाकंवाटकेभ्यः ॥ देशश्रीहृतहृदयेक्षणः क्षणेन प्रोल्लङ्घय क्लममिव वर्त्म नातिदूरे । तत्रो:मणिमयकुण्डलानुकारिप्राकारं पुरमथ कुण्डिनं ददर्श ॥ ७३ ॥ १. सुरा एव सबरा भिल्ला:. दन्त्यादिरपि सबरशब्दः; (पक्षे) सुरसो यो वरः. २. म- 'दिरागृहम्. पानशालेति यावत्. ३. गृहारामाः. ४. अप्सरोभिर्देवाङ्गनाभिस्तिलोत्तमा- सुकेशीरम्भाप्रभृतिभिः; (पक्षे) जलयुक्तसरोभिः. ५. देशानाम्. ६. चिर्भटः 'कचरी' इति देशभाषाप्रसिद्धः फलविशेषः, १६ सर्गः] धर्मशर्माभ्युदयम् । वार्तादौ तदनु रजस्ततः प्रणादो मेरीणामतनुबलान्वितस्य भर्तुः । एतस्याभिमुखगमोत्सुकं तदानी सानन्दं पुरि विदधे विदर्भराजम् ॥ ७ ॥ सोल्लासं कतिपयवेगवतुरंगैरेत्यास्मिन्नभिमुखमंशुमानिवासीत् । अस्योद्यद्गुणगरिमप्रकर्षमेरोः पादान्ते प्रणतिपरः प्रतापराजः ॥ ७९ ॥ देवोऽपि प्रणयवशीलतः कराव्यामुत्क्षिप्य सितिमिलितोत्तमाङ्गमेनम् । यद्गम्यं क्षणमपि नो मनोरथानां तद्वाबः पृथुतरमन्तरं निनाय ॥ ७६ ॥ श्लाघ्यं मे कुलसखिलं दिगष्यवाची वन्येयं समजनि संततिः छतार्था । कीर्तिश्च प्रसरतु सर्वतोऽध पुण्यैरातिथ्यं भुवनगुरौ त्वयि प्रयाते ॥ ७७ ॥ सोऽप्यन्तर्मनसि महानयं प्रसादो देवस्येत्यविरतमेव मन्यमानः । उन्मीलद्धनपुलकारः प्रमोदादित्यूचे विनयनिधिविदर्भराजः ॥ ७८ ॥ किं ब्रूमः शिरसि जगत्रयेऽपि लोकैराक्षेयं लगिव पुरापि धार्यते ते । स्वीकारस्तदखिलराज्यवैभवेषु प्राणेप्वप्ययमधुना विधीयतां नः ॥ ७९ ॥ अलान्तं किनपि वचोभिरित्युदारैः सप्रेम प्रवणयति प्रतापराजे । देवोऽयं सरलतरं स्वभावमत्य प्रेक्ष्येति प्रियमुचितं मुदाचचक्षे ॥ ८॥ सर्वस्वोपनयनमत्र तावदास्तां जाताः स्मस्त्वदुपगमाद्वयं कृतार्थाः । नास्माकं तव विभवे परखवुद्धिों वास्ते वपुपि मनागनात्मभावः ॥ ८१॥ आलापैरिति बहुमानयन्समीपे गच्छन्तं तमुचितसत्क्रियाप्रतीतः । ताम्बूलार्पणमुदितं विदर्भराज खावासं प्रति विससर्ज धर्मनाथः ॥ २ ॥ आनन्दोच्छसितमनाः पुरोपकण्ठे योग्यायामथ वरदाप्रतीरभूमौ । आवासस्थितिमविरोधिनी विधातुं सेनायाः पतिमयमादिदेश देवः ॥८३॥ स यावत्सेनानीरलमलभताज्ञामिति विभोः पुरं पूर्वस्थित्या सपदि धनदस्तावदकरोत् । सुरस्कन्धावारद्युतिविजयिनो यस्य विशिखा- समासन्नं शाखानगरमिव तत्कुण्डिनमभूत् ॥ ८४ ॥ द्वारि द्वारि पुरे पुरे पथि पथि प्रत्युल्लसत्तोरणां पौराः पूर्णमनोरथा रचयत प्रत्यारङ्गावलिम् । १. दक्षिणा दिक्. २. वरदा विदर्भदेशप्रसिद्धा नदी. १५
११४
काव्यमाला।
पुण्यैर्वस्त्रिदशेन्द्रशेखरमणिः सोऽयं जगहल्लभः
प्राप्तो रनपुरेश्वरस्य तनयः श्रीधर्मनाभः प्रभुः ॥ ८५ ॥
यास्तूर्यारवहारिंगीतमुखराः पात्राणि दध्यक्षत-
स्वग्दूर्वादलभाजि बिभ्रति करे सोत्तंसवेषाः स्त्रियः ।
श्रीशृङ्गारवतीचिरार्जिततपःसौभाग्यशोभा इव
श्रेयः प्राप्य समागमं वरमिमं धन्याः प्रतीच्छन्तु ताः ॥८६॥
अद्योलिप्य करं ब्रवीम्यहमितः शृण्वन्तु रे पार्थिवाः
का शृङ्गारवती कथापि भवतां प्राप्ते जिने संप्रति ।
वाती तावदमी ग्रहप्रभृतयः कुर्वन्तु भाप्राप्तये
देवो यावदुदेति नाखिलनगञ्चूडामणिर्भास्करः ॥ ८७ ॥
इत्यं विदर्भवसुधाधिपराजधान्यां
द्राग्दण्डपाशिकवचःशकुनं निशम्य ।
तिष्ठन्स तत्र नगरे धनदोपनीते
सिद्धि विभुढयति स्म हृदि खकायें ॥ ८८ ॥
इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये षोडशः सर्गः ।
सप्तदशः सर्गः ।
अथायमन्येचुरुदारवेषः प्रतापराजाप्तजनोपहूतः ।
देशान्तरायातनरेन्द्रपूर्णी खयंवरारम्भभुवं प्रपेदे ॥ १ ॥
मुक्तामयी कुङ्कमपङ्किलायां रङ्गावलियंत्र पतिवरायाः ।
सौभाग्यभाग्योदयभूरुहाणामुप्तेव रेजे नवबीजराजिः ॥ २ ॥
यशःसुधाकूर्चिकयेव तत्र शुभ्र नभोवेश्म स कर्तुमुच्चैः ।
मञ्चोच्चयान्कुण्डिनमण्डनेन प्रपञ्चितान्भूमिभुजा ददर्श ॥ ३ ॥
शृङ्गारसारङ्गविहारलीलाशैलेषु तेषु स्थितभूपतीनाम् ।
वैमानिकानां च मुदागतानां देवोऽन्तरं किंचन नोपलेभे ॥ ४ ॥
निःसीमरूपातिशयो ददर्श प्रदह्यमानागुरुधूपवर्त्या ।
मुखं न केषामिह पार्थिवानां लज्जामषीकूर्चिकयेव कृष्णम् ॥ ५ ॥
१७ सर्गः] धर्मशर्माभ्युदयम् । अयं स कामो नियतं भ्रमेण कमप्यधाक्षीगिरिशस्तदानीम् । इत्वबुतं रूपमवेक्ष्य जैनं जनाधिनाथाः प्रतिपेदिरे ते ॥ ६ ॥ अथोऽङ्गिनां नेत्ररहनपात्रं निर्दिष्टमिष्टेन स मञ्चमुच्चैः । सोपानमार्गेण सनारुरोह हैमं मरुत्वानिव वैजयन्तम् ॥ ७ ॥ सिंहासने शृङ्ग इवोदयाद्रेत्तत्र स्थितो रत्नमये कुमारः। स तारकाणामिद भूपतीनां प्रभा गभूय शशीव रेजे ॥ ८॥ उल्लासितानन्दपयःपयोधौ पीयूषधाम्नीव विशेपरम्ये । कासां न नेत्राणि पुराङ्गनानां दृष्टेऽपि तत्रेन्दुमणीवभूवुः ॥ ९ ॥ इक्ष्वाकुमुख्यक्षितिपालकीर्ति पठत्वथो मङ्गलपाठकपु । दृतस्मरान्फालितकार्मुकज्यानि?पवन्मूर्छति तूर्यनादे ॥ १० ॥ करेणुमारुह्य पतिवरा सा विवेश चामीकरचारुकान्तिः । विस्तारिमञ्चान्तरमन्तरिक्ष कादम्बिनी लीनतडिल्लतेव ॥११॥ (युग्मम्) मा वागुरा नेत्रकुरङ्गकाणामनङ्गमृत्युंजयमन्त्रशक्तिः । शृङ्गारभूवल्लभराजधानी जगन्मनःकार्मणमेकमेव ॥ १२ ॥ लावण्यपीयूपपयोधिवेला संसारसर्वस्वमुदारकान्तिः । एकाप्यनेकैजितनाकनारी नृपैः सकामं ददृशे कुमारी ॥१३॥ (युग्मम्) एतां धनुर्यष्टिमिवैष मुष्टिप्रायैकमध्यां समवाप्य तन्वीम् । नृपानशेपानपि लाघवेन तुल्यं मनोभूरिघुभिर्जघान ॥ १४ ॥ यद्यत्र चक्षुः पतितं तदङ्गे तत्रव तत्कान्तिजले निमग्नम् । शेषाङ्गमालोकयितुं सहस्रनेत्राय भूपाः स्टहयांबभूवुः ॥ १५ ॥ योधरश्रीसमये असर्पद्धारावलीशालिनि संप्रवृत्ते । सा राजहंसीव विशुद्धपक्षा महीभृतां मानसमाविवेश ॥ १६ ॥ स्वभावशोणौ चरणौ दधत्या न्यस्ते पदेऽन्तः स्फटिकावदातम् । उपाधियोगादिव भूपतीनां मनस्तदानीमतिरक्तमासीत् ॥ १७ ॥ १. इन्द्रः. २. एतन्नामकं निजप्रासादम्. ३. यौवने, प्रावृपि च. ४. हारावली, धारावली च. ५. शुद्धमातापिटकुला, शुक्लोभयपतत्रा च. ६. हृदयं, सरोविशेषं च.
काव्यमाला।
अहो समुन्मीलति धातुरेषा शिल्पक्रियायाः परिणामरेखा ।
जगहूयं मन्मथवैजयन्त्या यया जयत्येष मनुष्यलोकः ॥ १८ ॥
धनुर्लता भ्रूरिषवः कटाक्षाः स्तनौ च सर्वत्चनिधानकुम्भौ ।
सिंहासनं श्रोणिरतुल्यमस्याः किं किं न योग्यं स्मरपार्थिवस्य ॥१९॥
मङ्कु जले वाञ्छति पद्ममिन्दुव्योमाङ्गणं सर्पति लङ्घनार्थम् ।
क्लिश्यन्ति लक्ष्म्याः सुदृशा हृतायाः प्रत्यागमार्थ कतिन त्रिलोक्यामर
कुतः सुटत्तं स्तनयुग्ममस्या नितम्बमारोऽपि गुरुः कथं वा ।
येन द्वयेनापि महोन्नतेन समाश्रितं मध्यमकारि दीनम् ॥ २१ ॥
यद्वय॑ते निर्वृतिधाम धन्यैर्बुवं तदस्याः स्तनयुग्ममेव ।
नो चेत्कुतस्त्यक्तकलङ्कपङ्का युक्ता गुणैरत्र वसन्ति मुक्ताः ॥ २२ ॥
इत्यङ्गशोभातिशयेन तस्याश्चमत्कृताश्चेतसि चिन्तयन्तः ।
मनोभवास्त्रैरिव हन्यमानाः शिरांसि के के दुधुवुर्न भूपाः ॥ २३ ॥
मन्त्रान्निपेठुस्तिलकान्यकार्घानं दधुश्चिक्षिपुरिष्टचूर्णम् ।
इमां वशीकर्तुमनन्यरूपां किं किं न चक्रुनिभृतं नरेन्द्राः ॥ २४ ॥
शृङ्गारलीलामुकुरायमाणान्यासन्नृपाणां विविधेङ्गितानि ।
कन्यानुरागि प्रतिबिम्ब्यमानं व्यक्तं मनोऽलक्ष्यत यत्र तेषाम् ॥२५॥
कंदर्पकोदण्डलतामिवैको भ्रुवं समुत्क्षिप्य समं सुहृद्भिः।
करप्रयोगाभिनयप्रवालां विलासगोष्ठी रसिकश्चकार ॥ २६ ॥
स्कन्धे मुहुर्वक्रितकंधरोऽन्यः कस्तूरिकायास्तिलकं ददर्श ।
अभ्युद्धरत्युद्धरवैरिवाधैर्वसुंधरापङ्कमिवात्र लग्नम् ॥ २७ ॥
लीलाचलत्कुण्डलरत्नकान्त्या कर्णान्तकृष्टं धनुरैन्द्रमन्यः ।
अदर्शयञ्चन्द्रधिया गतस्य सङ्गं मृगस्येव मुखे निषेडुम् ।। २८ ॥
व्यराजतान्यो निजनासिकाने निधाय जिघ्रन्करकेलिपद्मम् ।
सदस्यलक्ष्यं कमलाश्रितेव श्रियानुरागात्परिचुम्ब्यमानः ॥ २९ ॥
कश्चित्कराभ्यां नखरागरक्तं सलीलमावर्तयति स्म हारम् ।
स्मरास्त्रमिन्ने हृदयेऽस्त्रधाराभ्रमं जनानां जनयन्तमुच्चैः ॥ ३० ॥
१७ सर्गः] धर्मशर्माभ्युदयम् । ११७ ताम्बूलरागोल्वणमोष्ठविम्वं प्रमार्जयशोणकराङ्गुलीभिः । पिवन्निवालक्ष्यत दन्तकान्तिच्छलेन शृङ्गारसुधामिवान्यः ॥ ३१ ।। अथ प्रतीहारपदे प्रयुक्ता श्रुताखिलक्ष्मापतिवृत्तवंशा। प्रगल्भवागित्यनुमालवेन्द्रं नीत्वा सुभद्राभिधे कुमारीम् ॥ ३२ ॥ अवन्तिनाथोऽयमनिन्द्यमूर्तिरमध्यमो मध्यमभूमिपालः । अहा ध्रुवत्त्येव समग्रशक्तर्यस्यानुवृत्तिं विदधुर्नरेन्द्राः॥ ३३ ॥ शुन्यत्सु वेलाद्रितटेषु नश्यत्युदनदिक्कुञ्जरचक्रवाले । यस्य प्रयाणे पटहप्रणादैः स्पष्टाहासा इव रेजुराशाः ॥ ३४ ॥ निक्षत्रियादेव रणानिवृत्तो विनार्थिनं कामपुषश्च दानात् । अभूत्करः केवलमस्य कान्ताप्रथुस्तनाभोगविभोगयोग्यः ॥ ३५ ॥ अस्येदमावर्जितमौलिमालाभृङ्गच्छलेनाङ्गियुगं नरेन्द्राः। के के न भूटष्टलुठल्ललाटभ्रष्टोद्भटभ्रूकुटयः प्रणेमुः ॥ ३६ ॥ एन पतिं प्राप्य दिवाप्यवन्तीप्रासादशृङ्गाग्रजुषस्तवायम् । सिप्रातटोद्यानचकोरकान्तानेत्रोत्सवायास्तु चिरं मुखेन्दुः ॥ ३७ ॥ ततः सुभद्रावचनावसाने श्रीमालवेन्द्रावतारिताक्षीम् । नीत्वा नरेन्द्रान्तरमन्तरज्ञा पतिवरां तां पुनरित्यवोचत् ।। ३८ ॥ दुष्कर्मचिन्तामिव यो निषेधुं विवेश चित्ते सततं प्रनानाम् । विलोक्यतां दुर्नयवद्विपाथः सोऽयं पुरस्तान्मगधाधिनाथः ॥ ३९ ॥ मुखं समुत्सारितकण्टकस्य बभ्राम कीर्तिर्भुवनत्रयेऽस्य । विशालवक्षःस्थलवासलुब्धा दूरान्नृपश्रीः पुनराजगाम ॥ ४० ॥ महीभुजा तेन गुणैर्निबद्धं गोमेण्डलं पालयता प्रयत्नात् । अपूरि पूरैः पयसामिवान्तर्ब्रह्माण्डमाण्डं विशदैर्यशोभिः ॥ ४१. ॥ ज्ञातप्रमाणस्य यशोऽप्रमाणं वृद्धास्य जज्ञे तरुणस्य लक्ष्मीः । दैवात्ततोऽतुल्यपरिग्रहस्य त्वमेव कल्याणि भवानुरूपा ॥ ४२ ॥ विदारयन्ती विषमेषुशक्त्या मर्माणि तस्मादहितस्वरूपात् । आकृप्यमाणापि तया प्रयत्नात्पराङ्मुखी चापलतेव साभूत् ॥ ४३ ॥ १. 'क्षुद्रशत्रुश्च कण्टकः', २. भूमण्डलं, धेनुसमूहं च.
११८ काव्यमाला। स्फुरत्प्रतापस्य ततोऽङ्गभर्तुः सूर्याशुराशेरिव संनिकर्षम् । कुमुद्दती सा सरसीव कृच्छ्रान्निनाय चैनामिति चाम्यधत्त ॥ १४ ॥ अङ्गोऽप्यनङ्गो हरिणेक्षणानां राजाप्यसौ चण्डरुचिः परेषाम् । भोगैरहीनोऽपि हतद्विजिह्वः को वा चरित्रं महतामवैति ॥ ४५ ॥ वक्रेषु विद्वेषिविलासिनीनामुदश्रुधाराप्रसरच्छलेन । भेजुः कथंचिन्न पुनः प्ररोहमुन्खातमूला इव पत्रवलयः ॥ ४६ ॥ संख्येषु साक्षीकतमात्मसैन्यं खगोऽपि वश्यप्रतिभूरुपात्तः । कृतार्थवत्पत्रपरिग्रहेण दासीकतानेन विपक्षलक्ष्मीः ।। ४७ ।। गङ्गामुपास्ते श्रयति त्रिनेत्रं खं निर्जरेभ्यः प्रविभज्य दत्ते । अस्याननेन्दुद्युतिमीहमानो व्योमापि धावन्नधिरोहतीन्दुः ॥ ४८ ॥ यद्यस्ति तारुण्यविलासलीलासर्वस्वनिवेशमनोरथस्ते । तत्कामिनीमानसराजहंसं मूर्त्यन्तरानङ्गममुं वृणीष्व ॥ १९ ॥ ग्रीष्मार्कतेजोभिरिव स्मरास्वैस्तप्ताप्युदञ्चत्कमलेऽपि तत्र । सा पल्वले निर्मलमानसस्था न राजहंसीव रतिं बवन्ध ॥ ५० ॥ संपूर्णचन्द्राननमुन्नतांसं विशालवक्षःस्थलमम्बुजाक्षम् । नीत्वा कलिङ्गाधिपति कुमारी दौवारिकी सा पुनरित्युवाच ॥ ११ ॥ खिन्नं मुहुश्चारुचकोरनेत्रे प्रौढप्रतापार्कविलोकनेन । नेत्रामृतस्यन्दिनि रोज्ञि साक्षान्निक्षिप्यतां निर्वृतयेऽत्र चक्षुः ॥१२॥ अनारतं मन्दरमेदुराङ्गैः प्रमथ्यमानोऽस्य गजैः पयोधिः । शुशोच दुःखान्मरणाभ्युपायं ग्रस्तं त्रिनेत्रेण स कालकूटम् ॥ १३ ॥ चकर्ष निर्मुक्तशिलीमुखां यत्करेण कोदण्डलतां रणेषु । जगत्रयालंकरणैकयोग्यमसौ यशःपुष्पमवाप तेन ॥ ५४ ॥ . चेतश्चमत्कारिणमत्युदारं नवं रसैरर्थमिवातिरम्यम् । त्वमेनमासाद्य पति प्रसन्ना श्लाध्यातिमात्रं भव भारती वा ॥१५॥ भूतिप्रयोगैरतिनिर्मलाङ्गात्तस्मात्मवृत्तादपि राजपुत्री । आदर्शबिम्बादिव चन्द्रबुद्ध्या न्यस्तं चकोरीव चकर्ष चक्षुः ॥५६॥ १. कुत्सितहर्षवती च. २. चन्द्रे, नृपे च.
१७ सर्गः] धर्मशर्माम्युदयम् । ११९ नरप्रकोपनिषत्परीक्षाविचक्षणा दक्षिणभूमिमतुः । नीत्वा पुरस्तादवरोवरक्षा विदर्भभूपालसुतां बभापे ॥ १७ ॥ लीलाचलत्कुण्डुलमण्डितास्यः पाण्ड्योऽयमुड्डामरहेमकान्तिः । आमाति शृङ्गामयपक्षसर्पत्सूर्यन्दुरुच्चैरिव काञ्चनाद्रिः॥५८ ॥ निर्मूलमुन्मूल्य महीधराणां वंशानशेपानपि विक्रमेण । तापापनोदार्थमसौ धरित्र्यानेकातपत्र विदधे खराज्यम् ॥ ५९॥ अनेन कोदण्डसम्झेन तीक्ष्णैर्वाणैग्संन्यः मपदि क्षताङ्गः। अभाजनं वीररसस्य चक्रे को वा न संन्येषु विपक्षवीरः ॥ ६ ॥ गृहीतपाणिस्त्वमनेन यूना तन्वि स्वनिःश्वाससहोदराणाम् । श्रीखण्डसारां मलयानिलानां मखीमिवालोकय जन्मभूमिम् ॥ ११॥ कशेलकैलालवलीलवसरम्यपु वेलाद्रितटेषु सिन्धोः । कुछ नटहां नागरखण्डवल्लीलीलावलम्बिक्रमुकेषु रन्तुम् ॥ १२ ॥ दिनाधिनाथस्य कुमुद्वतीव पीयूपभानोर्नलिनीव रम्या । सा तस्य कान्ति प्रविलोक्य दैवान्नानन्दसंदोहवती बभूव ॥ १३ ॥ महीभुनो ये जिनधर्मवाह्याः सम्यक्त्ववृत्त्येव तया विमुक्ताः। सद्योऽपि पातालमित्र प्रवेष्टुं बभूवुरत्यन्तमधोमुखास्ते ॥ ६ ॥ कर्णाटलाटद्रविडान्ध्रमुख्यैर्महीधरैः कैरपि नोपरुद्धा । रसावहा पीढनदीव सम्यरत्नाकर धर्ममथ प्रपेदे ॥१५॥ यञ्चक्षुरस्याः श्रुतिलकनोत्कं यदृष्टि च भ्रूः स्मृतिनातधर्मम् । अद्वैतवादं संगतस्य हन्ति पैदक्रमो यच्च जैडद्विजानाम् ॥ १६ ॥ प्रजापतिश्रीपतिवाक्पतीनां ततः समुद्यदृपलान्छनानाम् । मुक्त्वा परेपामिह दर्शनानि सर्वाङ्गरक्यममूजिनेन्द्र ॥६॥ (युग्मम्) १. कर्णपयलस्नोत्कण्ठम्: (पक्षे) वेदमार्गातिक्रमणामिलापम्. २. स्मृतिजातः का- मस्तस्य धर्म चापम्, धनुर्वाचकोऽपि धर्मशब्दो मेदिन्यादिपु पठ्यते; (पक्षे) मन्वादिस्मृ- तिप्रोक्तं धर्मम्. ३. शोमनगमनस्य, युद्धस्य च. ४. चरणप्रचार-; (पक्ष) पदस्य क्रमो वैदिकप्रसिद्धः पदपाठः.५. जलपक्षिणाम, हंसानामिति यावदः (प) मूहबाह्मणानाम, ६. अवलोकनानि, शाबाणि च.
१२०
काव्यमाला।
तथाहि दृष्टयोभयमार्गनिर्यन्मुदश्रुधारान्वितया मृगाक्षी ।
प्रसारितोद्दामभुजाग्रयेव सोत्कण्ठमालिङ्गति नूनमेनम् ॥ ६८ ॥
विभावयन्तीत्यथ मन्मथोत्थं विकारमाकारवशेन तस्याः।
अर्हगुणग्रमाकथासु किंचिद्विस्तारयामास गिरं सुभद्रा ॥ ६९ ॥
गुणातिरेकप्रतिपत्तिकुण्ठीकतामरेन्द्रप्रतिभस्य भर्तुः ।
यवर्णनं
महचसाप्यमुष्य
भानोः प्रदीपेन निरीक्षणं तत् ॥ ७० ॥
इक्ष्वाकुवंशप्रभवः प्रशास्ति महीं महासेन इति क्षितीशः ।
तस्यायमारोपितभूमिभारः श्रीधर्मनामा विजयी कुमारः ॥ ७१ ॥
मासान्निशान्ते दश जन्मपूर्वानस्याभवत्पञ्च च रत्नदृष्टिः ।
यया न दारिद्यरजो जनानां स्वप्नेऽपि दृग्गोचरतां जगाम ॥ ७२ ॥
जन्माभिषेकेऽस्य सुरोपनीतैर्दुग्धाब्धितोयैः प्रविधीयमाने ।
संप्लाव्यमानः कनकाचलोऽपि कैलासशैलोपमतां जगाम ॥ ७३ ॥
लावण्यलक्ष्मीजितमन्मथस्य किं ब्रूमहे निर्मलमस्य रूपम् ।
वीक्ष्यैव यद्विस्मयतो बभूव हरिदिनेत्रोऽपि सहस्रनेत्रः ॥ ७४ ॥
वक्षःस्थलात्प्राज्यगुणानुरक्ता युक्तं न लोलापि चचाल लक्ष्मीः ।
बद्धा प्रबन्धैरपि कीर्तिरस्य बभ्राम यत्रितयेऽद्भुतं तम् ॥ ७९ ॥
बुद्धिविशाला हृदयस्थलीव सुनिर्मलं लोचनवच्चरित्रम् ।
कीर्तिश्च शुभ्रा दशनप्रमेव प्रायो गुणा मूर्त्यनुसारिणोऽस्य ॥ ७६ ॥
सुराङ्गनानामपि दुर्लभं यत्पदाम्बुजद्वन्द्वरजोऽपि नूनम् ।
तस्याङ्कमासाद्य गुणाम्बुराशेस्त्रैलोक्यवन्द्या भव सुन्दरि त्वम् ॥ ७७।
इत्थं तयोक्ते द्विगुणीभवन्तं रोमाञ्चमालोकनमात्रभिन्नम् ।
सा दर्शयामास तनौ कुमारी जिनेश्वरे मूर्तमिवाभिलाषम् ॥ ७८ ॥
भावं विदित्वापि तथा करेणुं सख्याः सहासं पुरतः क्षिपन्त्याः ।
चेलाञ्चलं सा चलपाणिपद्मा प्रोत्सृज्य लज्जां द्रुतमाचकर्ष ॥ ७९ ॥
श्रीधर्मनाथस्य मनोज्ञमूर्तेः प्रवेपमानायकरारविन्दा ।
संवाहितां वेत्रभृता कराभ्यां चिक्षेप कण्ठे वरणस्त्रजं सा ॥ ८ ॥
१७ सर्गः] . धर्मशर्माभ्युदयम् । १२१ निःसीमसौभाग्यपयोधिवेला वीचीव वक्षःपुलिने जिनस्य । समुल्लसन्ती परिपूर्णमस्याः सा पुण्यचन्द्रोदयमाचचक्षे ॥ ८१ ॥ उन्मुद्रितो यत्नवतापि नूनं धात्राधुना स्त्रीनररत्नकोषः । यदस्य युग्मस्य लमानमन्यन्नादर्शि रूपं न च दृश्यतेऽत्र ॥ ८२ ॥ इत्थं मिथः पौरकथाः स गृण्वन्पुरःसरीभूतविदर्भराजः वकर्मवृत्त्येव नरेन्द्रपुच्या सनं तदात्मेव पुरं विवेश ॥ ८३ ॥ वधूतं वीक्ष्य वरं तमन्ये नृपा यथावासमपास्तभासः । विभान्वितं भास्करमाकलय्य जग्मुः समूहा इव तारकाणाम् ॥ ८४ ॥ स्वयंवरं द्रष्टुमुपागतानां ध्वजांशुकैोमसदामुग्रैः । विचित्रवस्त्रार्पणतत्परेव रेजे विदर्भाधिपराजधानी ।। ८५ ॥ अथाभवन्नम्बुन्नादमन्द्रं ध्वनत्सु तूर्येषु पुराङ्गनानाम् । उत्कण्ठितान्तःकरणानि कामं शिखण्डिनीनामिव चेष्टितानि ।। ८६॥ करेऽन्दुकं कङ्कणमनिभागे मुखे च लाक्षारसमायताक्षी । तमुत्सुका वीक्षितुमीक्षणे च संचारयामास कुरङ्गनामिम् ॥ ८७ ॥ एतैत हे धावत पश्यताये जगन्मनोमोहनमस्य रूपम् । इत्थं तमुद्दिश्य पुराङ्गनानां कोलाहलः कोऽपि समुनगाम ॥ ८ ॥ अढालशालापणचत्वरेषु रथ्यासु च व्याकुलकेशपाशाः । द्रष्टुं तमम्भोजडशो भ्रमन्त्यः खमूचिरे कामपिशाचवश्यम् ॥ ८९ ।। युक्तामये खच्छरुचौ गुणाब्ये तस्मिन्मनोज्ञे हृदयावतीणे । असूययेव त्रुटितोऽपि हारः स्पृष्टो वधूभिर्न जनावकीणे ॥ १० ॥ पनाङ्करैः कापि कपोलमेकं संभाव्य नेत्रं च तथाञ्जनेन । उद्घाटितैकस्तनमण्डलागात्तमर्धनारीश्वरतां वहन्ती ॥ ९१ ॥ यियासतस्तस्य नरेन्द्रहर्म्यमत्यद्भुतं रूपमवेक्ष्य मार्गे। पुरःप्रयाणप्रतिपेधनाय शिरांसि मन्ये दुधुवुस्तरुण्यः ॥ ९२ ॥ रुद्धे जननेत्रपथेऽत्र काचिदुच्चैस्तरां निर्भयमारुरोह । आरूढचेतोभवपौरुषाणां किमस्त्यसाध्यं हरिणेक्षणानाम् ॥ ९३ ॥ १. पुरं शरीरमपि. २. नुपूरम. १६ १२२ काव्यमाला। अङ्गेषु जातेष्वपि तद्विलोकादुदिन्नरोमोञ्चयकञ्चुकेषु । दृढप्रहारो विषमेषुवीरो मर्माणि बाणैरमिनद्वधूनाम् ।। ९४ ॥ कोलाहलं कापि मुधा विधाय तस्य खमालोकपथं निनाय । द्रष्टुं दृढोपायमनङ्ग एव चक्षुस्वतीयं सुदृशामुदेति ॥ ९५ ॥ निर्व्याजपीयूषसहोदरोऽपि तदङ्गलावण्यरसप्रवाहः । नेत्रार्धभागेन निपीयमानो न तृप्तयेऽभून्नगराङ्गनानाम् ॥ ९६ ॥ आलिङ्ग्य बालाय समर्पयन्ती मुखेन काचित्क्रमुकस्य खण्डम् । न केवलं तत्प्रणयानुवृत्तिमूचे निजां चुम्बनचातुरी च ॥ ९७ ॥ तस्य प्रभो(वरतां गतस्य समन्ततः सर्पति कान्तिजाले । बन्धाय सद्यो रसवाहिनीनां पपात लोला शफरीव दृष्टिः ॥ ९८ ॥ उद्यद्बुजालम्बितनासिकाया स्थिता गवाक्षे विगलन्निमेषा । गौरी क्षणं दर्शितनाभिचक्रा चक्रे भ्रमं काञ्चनपुत्रिकायाः ॥ ९९ ॥ कामान्धमेव द्रुतमाकुलाभिः क्षिप्तं मनस्तत्र विलासिनीभिः । तेनेतरालम्बनविप्रयोगाद्वयारत्तियोग्यं न पुनर्बभूव ॥ १० ॥ किमेणकेतुः किमसावनङ्गः कृष्णोऽथवा किं किमसौ कुबेरः । लोकेऽथवामी विकलाङ्गशोभाः कोऽप्यन्य एवैष विशेषितश्रीः॥१०१॥ शृङ्गारवत्याश्चिरसंचितानां रेखामतिक्रामति का शुभानाम् । लब्धो यया नूनमसावगम्यो मनोरथानामपि जीवितेशः ॥ १०२॥ पीयूषधाराभिरिवागनानामित्थं स वाग्भिः परिपूर्णकर्णः । उत्तोरणं द्वारमुदारकीर्तिः संबन्धिनःप्राप शनैः कुमारः॥१०३॥ (कुलकम्) तत्रायमुत्तीर्य करेणुकायाः सुवासिनीसाधितमङ्गलश्रीः । विवेश यक्षाधिपदत्तहस्तः प्रशस्तमुच्चैः श्वशुरस्य सौधम् ॥ १०४ ॥ निर्वतिताशेषविवाहदीक्षामहोत्सवोऽसौ श्वशुरेण सम्यक् । वध्वा समं तत्र चतुष्कमध्ये सिंहासनं हैममलंचकार ॥ १०५ ॥ अत्रान्तरे वेत्रिनिवेद्यमानमग्रे पितृप्रेषितमेकदूतम् । ददर्श सम्यक्स निवेदितार्थ तदर्पितं लेखमपि व्यधत्त ॥ १०६ ॥ १. द्वारोपरिस्थितं काष्ठं नासिकेत्युच्यते.
१८ सर्ग: धर्मशर्माभ्युदयम् । १२३ अथायमाहूय पति चमूनां सुषेणमित्यादिशति स्मं देवः । खराजधानी प्रति संवृताथै पित्राहमत्यथितयोपहूतः ॥ १०७ ॥ ततोऽतिवेगेन मनोवदाप्तुं वध्वा समं रत्नपुरं समीहे । त्वं कायवत्कार्यमशेषयित्वा शनैः ससैन्यो भवितानुगामी ॥ १०८ ॥ उक्त्वा तमित्यनुचरं श्वशुरानुमत्या यावत्प्रभुः खपुरयानसमुत्सुकोऽभूत् । तावद्धनाधिपतिरम्बरपुष्पकल्पं भक्त्या विमानमुपढौकयति स्म तस्मै ॥ १०९ ॥ तत्रारुह्य वितीर्णविस्मयरुचा शृङ्गारवत्याधिक पूषेव प्रविकासितास्यकमलो दिश्युत्तरस्यां व्रजन् । सद्यः प्राप सखेदमाह्वयदिव व्यालोलसौधध्वजे- देवो रत्नपुरं पुरंदरगुरुः श्रीधर्मनाथः प्रभुः ॥ ११० ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये सप्तदशः सर्गः । अष्टादशः सर्गः। अथ श्रुताशेषसुखप्रवृत्तिना मुदं महासेननृपेण विभ्रता। प्रवर्तितानेकमहोत्सवं पुरं समं कलत्रेण विवेश स प्रभुः ॥ १ ॥ स चन्द्रमाश्चन्द्रिकयेव कान्तया तयान्वितोऽत्यन्तमनोरमाकतिः । कुमुवतीनामिव पौरयोषितां चकार हक्कैरवकाननोत्सवम् ॥ २ ॥ अलंछतं मङ्गलसंविधानकैः प्रविश्य हयं हरिविष्टरस्थितौ । तदान्वभूतामनुभाविनाविमौ महत्तरारोपितमक्षतक्रमम् ॥ ३ ॥ यदल्पपुण्यैर्मनुजैर्दुरासदं सदैव यच्चाननुभूतपूर्वकम् । वधूवरालोकनलोलनेत्रयोर्वभूव पित्रोः सममेव तत्सुखम् ॥ ४ ॥ स नन्दनालोकनजातसमदं सुरागलीलालसनिर्जराङ्गनम् । अमन्यत खर्गपुरोपमं नृपः प्रसक्तसंगीतकहारि तदिनम् ॥ ५ ॥ १. शृङ्गारवती धर्मनाथस्य राज्ञी.
१२४ काव्यमाला॥ अथैष शृङ्गारवतीमिवापरां सकौतुकेनैव करेण मेदिनीम् । तमादराग्राहयितुं नरेश्वरः स्थितं सदस्यात्मजमित्यभाषत ॥ ६ नियम्य यद्राज्यतृणेऽपि पालितं तवोदयात्प्राग्गहनकैसत्ववत् । विबन्धनं तद्विषयेषु निःस्टहं मनो वनायैव ममाद्य धावति ॥ ७ प्रतापटकैः शतकोटिनिष्टुरैः किरीटरनोपलपष्टिकाव्रजे। स्फुरन्निजाज्ञाक्षरमालिकामयी मया प्रशस्तिनिहिता महीभुजाम् ॥ यशो जगन्मण्डलमण्डनीळतं छताः कृतार्थाः छतिनोऽपि संपदा त्वया च जाता धुरि पुत्रिणां वयं किमस्त्यपर्याप्तमतोऽत्र जन्मनि ततोऽवशिष्टं पुरुषार्थमर्थतश्चतुर्थमेवार्थयतीह मे मनः । अथान्यदप्यस्ति विधेयमादरात्वमेव तत्साधु विचारयोचितम् ॥ १ उपेत्य वात्येव जरातिजर्जरं करोति यावन्न वपुः कुटीरकम् । निकेतनं तावदुपैतुमक्षयं द्रुतं यतिष्ये जिननाथवर्त्मना ॥ ११ ॥ अपत्यमिच्छन्ति तदेव साधवो न येन जातेन पतन्ति पूर्वजाः। इति त्वयापत्यगुणैषिणा पतन्नुपेक्षणीयो न भवामि संसृतौ ॥ १२ ततोऽनुमन्यस्व नयज्ञ साधये समीहितं त्वद्भुजदण्डशायिनि । चिरं धरित्रीवलये फणावतामपेतभारः सुखमेधतां पतिः ॥ १३ ॥ तवापि शिक्षा भुवनत्रयीगुरोबिभाति भानोरिव दीपदीधितिः । इति प्रपद्यापि यदुच्यते मया ममत्वमोहः खलु तत्र कारणम् ॥१ भृशं गुणानर्जय सद्गुणो जनैः क्रियासु कोदण्ड इव प्रशस्यते । गुणच्युतो बाण इवातिभीषणः प्रयाति वैलक्ष्यमिह क्षणादपि ॥ १५ उपात्ततत्रोऽप्यखिलाङ्गरक्षणे न मन्त्रिसांनिध्यमपेतुमर्हसि । श्रिया पिशाच्येव नृपत्वचत्वरे परिस्खलन्कश्छलितो न भूपतिः॥१: न बद्धकोषं स तथा यथाम्बुजं विकोषमाक्रामति षट्पदोच्चयः । पराभिभूतिप्रतिबन्धनक्षमं नृपो विदध्यादिति कोषसंग्रहम् ॥ १७ ॥ १. आटविकजीववत. २. वज्रवत्कठोरैः.
१८ सर्गः] धर्मशर्माभ्युदयम् । अनुज्झितस्नेहमरं विभूतये विधेहि सिद्धार्थसमूहमाश्रितम् । स पीडितः स्नेहमपास्य तत्क्षणाखलीमवन्केन निवार्यते पुनः ॥ १८ ॥ स मेंन्दरागोपहतः पयोनिधिMमोच लक्ष्मी सगजामपि क्षणात् । इतीव जानन्निनसंनिधौ जनान्न मन्दरागाननिशं विधास्यासि ॥ १९॥ गतत्रपो यस्त्रपुणीद मन्मणि नियोजयेोग्यमयोग्यकर्मणि । विवेकवन्ध्यः स महीपतिः कथं भवेइनौचित्यविदाश्रयः सताम् ॥२०॥ अचिन्त्यचिन्तामणिमर्थसंपदा यशस्तरोः स्थानवागंकमक्षतम् । अशेपभूमृत्परिवारमातरं कृतज्ञतां तामनिशं त्वमानय ॥ २१ ॥ स्थितेऽपि कोपे नृपतिः पराश्रयी प्रपद्यते लायवलेव केवलम् । अशेपविश्वमरिकुलिरच्युतो बलि भजन्कि न बभूव वामनः ॥ २२ ॥ अनाहतोपक्रमकर्णधारकाः अयन्ति ये नीतिमिमां तरीमिव । विरोधिदुर्वातविदर्भितां विपन्नदी न दीनाः परिलक्ष्यन्ति ते ॥२३॥ महोमिरन्यानिह कूपदेशवजडाशयाशोपय भीपणैः क्रमात् । यथा न लभम्या घटवोढयेव ते कृपाणधारासलिलं विमुच्यते ॥ २४ ॥ अपेक्ष्य कालं कमपि प्रकर्पतः स्फुरन्त्यमी धामधना अपि हुतम् । हिमेन तेनापि तिरस्कृति कृतामहो सहस्ये सहते न कि रविः ॥२१॥ विशुद्धपाणिः प्रकृतीरकोपयजयाय यायादरिमण्डलं नृपः । बहिर्व्यवस्थामिति विघ्रदान्तराजयी कथं स्यादनिरुध्य विद्विषः ॥२६॥ ततो जयेच्छर्विजिगीषुरान्तरान्यतेत जेतुं प्रथमं विरोधिनः। कथं प्रदीतानवधीर्य बहिना गृहानिहान्यत्र कती व्यवस्यति "२७॥ यथाददारम्भविदो महीपतेर्गुणाय पाहुण्यमपि प्रजायते । अमंशयं स्यादविमृश्यकारिणो मणि जिघृक्षोरिव तक्षकात्क्षयः ॥ २८ ॥ विधेयमागषु पदे पदे स्खलनराधिनाथो मदमोहिताशयः । न शारदेन्दुद्युतिकुन्दसोदरं यशोशुकं स्वस्तमवैति सर्वतः ॥ २९ ॥ १.बहः प्रमा; (पक्षे तैलम्. २. आश्रितं जनं सिद्धार्थसमूह कृतकृत्यं विधेहि; (पक्ष) सिद्धार्थों गौरसर्पपः. ३. दुर्जनीमवन्: (पक्षे) पिण्याकतां गच्छन्, ४. मन्दरागो मन्दर- पर्वतः. अन्यत्र मन्दगगान्मन्दनेहान्, १२६ काव्यमाला। हिनस्ति धर्म हृदयाभिनन्दिनीं तदर्पितां यो विलसन्नपि श्रियम् । सं दुर्जनानामकृतज्ञचेतसां धुरि प्रतिष्ठां लभतामचेतनः ॥ ३० ॥ सुखं फलं राज्यपदस्य जन्यते तदत्र कामेन स चार्थसाधनः । विमुच्य तौ चेदिह धर्ममीहसे वृथैव राज्यं वनमेव. सेव्यताम् ।। ३१ ॥ इहार्थकामाभिनिवेशलालसः खधर्ममर्माणि भिनत्ति यो नृपः । फलाभिलाषेण समीहते तरूं समूलमुन्मूलयितुं स दुर्मतिः ॥ ३२ ॥ इहेहते यो नैतवर्गसंपदं तापवर्गप्रतिपत्तिमायतौ । अपास्तबाधं स निषेवते क्रमात्रिवर्गमेव प्रथमं विचक्षणः ॥ ३३ ॥ नृपो गुरूणां विनयं प्रकाशयन्भवेदिहामुत्र च मङ्गलास्पदम् । स चाविनीतस्तु तैनूनपादिव ज्वलन्नशेषं दहति स्वमाश्रयम् ॥ ३४ ॥ धनं ददानोऽपि न तेन तोषकत्तथा यथा साम समीरयन्नृपः। तदर्थसिद्धावपरैरुपायकैर्न सामसाम्राज्यतुलाधिरुह्यते ॥ ३५ ॥ त्वमत्र पात्राय समीहितं ददत्प्रसिद्धिपात्रं परमं भविष्यसि । अमिन्नतृष्णे जलधौ कमर्थिनो न बैद्धपीताद्यपवादमादधुः ॥ ३६ ।। नितान्तघोरं यदि न प्रसर्पते कृतं कदर्यद्रविणेन पातकम् । अदृष्टलोकव्यवहारमन्वहं विपच्यते किं वसुधातलोष्मणा ।। ३७ ॥ सुमन्त्रबीजोपचयः कुतोऽप्यसौ परप्रयोगादिह भेदमीयिवान् । सुरक्षणीयो निपुणैः फलार्थिभिर्यतः स भिन्नो न पुनः प्ररोहति ॥३८॥ पथि प्रवृत्तं विषमे महीभृतां नितान्तमस्थाननिवेशिनो भ्रमात् । स्वमन्धमाख्याति निपातयत्यपि प्रसह्य दण्डः खलु दण्डधारकम् ॥३९॥ धिनोति मित्राणि न पाति न प्रजा बिभर्ति भृत्यानपि नार्थसंपदा । न यः स्वतुल्यान्विदधाति बान्धवान्स राजशब्दप्रतिपत्तिमाक्कथम् ॥४०॥ १. नतवर्गः सेवकादिसमूहः; (पक्षे) न-तवर्गसंपदम् इति च्छेदः. २. अपवर्गो मोक्षः; (पक्षे) पवर्ग:. ३. त्रिवर्गों धर्मार्थकामाः; (पक्ष) कुचु-टु इति वर्गत्रयम्. ४. अग्निरिव. ५. दाशरथिना बद्धः अगस्त्यमुनिना पीत इत्याद्यपवादमलब्धमनोरथा अर्थिनः समुदस्यो- दोषयन्तीति भावः.
१८ सर्गः] धर्मशर्माभ्युदयम् । १२७ विचारयैतद्यदि केपि बान्धवा महाकविभ्योऽपि परे महीभुजः । यदीयसूक्तामृतसीकरैरसौ गतोऽपि पञ्चत्वमिहाशु जीवति ॥ ४१ ॥ इहोपमुक्ता कतमैन मेदिनी परं न केनापि जगाम सा समम् । फलं तु तस्याः सकलादिपार्थिवस्फुरद्गुणग्रामजयोजितं यशः ॥ ४२ ॥ किमुच्यतेऽन्यद्गुणरत्नभूषणैर्विभूषयात्मानमनन्यसंनिभैः । स्वभावलोला अपि यैविलोभिताः श्रियो न मुञ्चन्ति कदाचिदन्तिकम्॥४३ इति प्रमोदादनुशास्य भूपतिस्तदैव दैवज्ञनिवेदितेऽहनि । बलादनिच्छन्तमपि न्यवीविशत्स धर्ममुच्चैरभिपेकपटके ॥ ४ ॥ अथैष मूर्छत्सु मृदङ्गझलरीस्वनेषु रङ्गत्यपि मङ्गलध्वनौ । चकार चामीकरकुम्भवारिभिर्महाभिषेकं खयमस्य भूपतिः ॥ ४५ ॥ सभूषणे तत्परिधाप्य वाससी निवेशितस्यास्य मृगाधिपासने । खयं दधत्काञ्चनदण्डमञ्जसा पुरः प्रतीहारनियोगमादधे ॥ ४६ ॥ प्रसीद दृष्टया स्वयमेष नैषधो नमत्यवन्तीपतिरेष सेवते । इदं पुरः प्राभूतमङ्गभूपतेरयं स कीरो विनयेन भाषते ॥ ४७ ॥ सितातपत्रं द्रविडो बिभर्त्यसौ सचामरौ-केरलकुन्तलाविमौ । इति प्रियैरप्यपदानुवर्तिनः पितुर्वचोभिः शुचमेव सोऽवहत् ॥ ४८ ॥ प्रभाकरे गच्छति वृद्धिमेकतः कैलानिधौ राज्ञि विवृत्तिमन्यतः । रराज राज्यं रजनीविरामवत्तदा न नक्षत्रविशेषशोभितम् ॥ ४९ ॥ पुरा त्रिलोक्यामपि मन्दरे सुरैः कतेअभिषेक किमिदं पुनः पुनः । इति स्फुरदन्तरुचेव निर्मलं नमोऽट्टहासं पटहखनैर्व्यधात् ॥ ५० ॥ कृताभिषेको न परं स गामिमां प्रसूनगन्धोदकरत्नदृष्टिभिः । दुदोह कामान्दिवमप्यसंशयं किमस्त्यसाध्यं सुकृतात्मनामपि ॥५१॥ स पञ्जरेभ्यः कलकेलिपक्षिणो विपक्षबन्दीश्च विमोचयन्नृपः । मनोरथादप्यधिकं ददत्तदा प्रवर्तयामास न कस्य संमदम् ॥ ५२ ॥ १. महाकविभ्योऽधिकः कोऽपि महीपतीनां बान्धवो नास्तीति भावः. २. कीरदे- शमहीपतिः. ३. धर्मनाथे सूर्य च. ४. महासेनमहीपतौ चन्द्रे च. ५. राज्यपक्षे क्षत्र- विशेषैन शोभितमित्यर्थः.
१२८ काव्यमाला . जनेषु गायत्सु जगौ प्रतिखनैननत नृत्यत्खपि लोलकेतुभिः । अवाप्य हर्षमिवोत्सवे प्रभोर्मुदा न किं किं विदधे तदा पुरम् ॥ ५३ इति व्यतिक्रम्य दिनानि कानिचिन्महोत्सवेऽस्मिञ्जरठीभवत्यपि । स पुत्रमाटच्छच तपश्चिकीर्षया ययौ महासेनमहीपतिर्वनम् ॥ १४ ॥ अथ श्लथीभूतविमोहवन्धनोऽप्यसौ वियोगापितुरन्वतप्यत । अवेत्य संसारगतिं ततः खयं प्रबुद्धमार्गः समचिन्तयत्प्रजाः ॥ ५५ । प्रजाः प्रशस्याः खलु ताः स्मरन्त्यमुं जिनेश्वरं याः प्रविधूतकल्मषम् । स्तुमः कथं तत्सुकतानि चिन्तनं चकार यासां खयमेव स प्रभुः॥१६॥ कचिन्न चक्रे करवालकर्षणं न चापरागं विदधे कमप्यसौ । स कोमलेनैव कैरेण लालयन्वशीचकारैकवधूमिव क्षितिम् ॥ १७ ॥ गुणार्णवं नम्रनरामरोरगस्फुरत्किरीटोच्चयचुम्बितक्रमम् । पति तमासाद्य मही महीयसी बभूव लोकद्वितयादपि ध्रुवम् ॥ १८ ॥ न चापमृत्युनं च रोगसंचयो बभूव दुर्भिक्षभयं न च क्वचित् । महोदये शासति तत्र मेदिनी ननन्दुरानन्दजुषश्चिरं प्रजाः ॥ ५९ ॥ ववौ समीरः सुखहेतुरङ्गिनां हिमादिवोष्णादपि नाभवद्भयम् । प्रभोः प्रभावात्सकलेऽपि भूतले स कामवर्षी जलदोऽप्यजायत ॥६॥ ध्रुवं भुजस्तम्भनियन्त्रिता गुणैरनेन गाढं करिणीकृताचला कुतोऽन्यथा भूभृदुपायनच्छलात्समाययुः काममदोद्धता गजाः ॥६१॥ अजस्त्रमासीद्धनसंपदागमो न वारिसंपत्तिरदश्यत क्वचित् । महौजसि त्रातरि सर्वतः सतां सदा पराभूतिरभूदिहाद्भुतम् ॥ ६२ ।। न नीरसत्त्वं सलिलाशयाहते दधावधः पङ्कजमेव सद्गुणान् । अभूदधर्मद्विषि तत्र राजनि त्रिलोचने याजिनानुरागिता ॥ ६३ ॥ १. करवाल: खड्गः, (पक्षे) करौ हस्तौ वालाः केशाः. २. चापे धनुषि रागम्; (पक्षे) अपरागं विरक्तम्. ३. हस्तेन बलिना च. ४. पूज्या. ५. भूमिः. ६. अधि- कसंपत्माप्तिः (पक्षे) मेघसंपदागमः, ७. जलसंपत्तिः, (पक्षे) अरिसंपत्तिः शत्रुबाहुल्यम्. ८. परिभवः; (पक्षे) उत्कष्टमैश्वर्यम्. ९. नीरस्य सत्त्वं विद्यमानता; (पक्षे) नीरसस्य भावः. १०. जिनेऽनुरागाभावः; (पक्षे) अजिनं गजादि चर्म.
१९.सर्गः] धर्मशर्माभ्युदयम् । १२९ प्रसह्य रक्षत्यपि नीतिमक्षतामभूदनीतिः सुखभाजनं जनः । भयापहारिण्यपि तत्र सर्वतः को नाम नासीत्प्रेभयान्वितः क्षितौ ॥६॥ त्रिसंध्यमागत्य पुरंदराज्ञया सुराङ्गना दर्शितभूरिविभ्रमाः । वितन्वते स्म स्मरराजशासनं सुखाय संगीतकमस्य वेश्मनि ॥६५॥ वक्राब्जेन जयश्रियं विकसता क्रोडीकतां दर्शय- न्हस्तोदस्तजयध्वजेन विदधद्वयक्तामथैनां पुनः । एकः प्राप सुषेणसैन्यपतिना संप्रेषितः संसदं तस्यानेकनृपप्रवर्तितसमिवृत्तान्तविद्वार्तिकः ॥ ६ ॥ प्रणतशिरसा तेनानुज्ञामवाप्य जगत्पतेः कथयितुमुपक्रान्ते मूलादिहाजिपराक्रमे । श्रवणमयतामन्यान्यापुस्तदेकरसोदया- दपरविषयव्यारत्तानीन्द्रियाणि सभासदाम् ॥ ६७ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्येऽष्टादशः सर्गः । एकोनविंशः सर्गः । आहवक्रममामूलमथ दूतः पुरः प्रभोः । आह वैक्रममामूलमिति विद्वेषिभूभुजाम् ॥ १ ॥ कार्यशेषमशेषज्ञोऽशेषयित्वा स निर्ययौ । यावत्संबन्धिनो देशात्सुषेणः सह सेनया ॥ २ ॥ तावदङ्गादयः क्षोणीभुजो दाराधियातया । वामयास्यानुजग्मुस्ते भुजोदारा धिया तया ॥ ३ ।। (युग्मम्) अथ तैः प्रेषितो दूतः पृथ्वीनाथैर्युयुत्सुमिः । साक्षागर्व इवागत्य तमवोचच्चमूपतिम् ॥ ४ ॥ १. नीतिरहितः, (पक्षे) स्वचक्रपरचक्रादि-ईतिरहितः. २. प्रकृष्टभयेन; प्रभया कान्त्या च. ३. युद्धवार्ताभिज्ञः. वार्तिको वार्ताहरो दूतः. ४. अस्मिन्सर्गे आदर्श- पुस्तके यमकादिषु संक्षिप्त टिप्पणं क्वचिद्वर्तते प्रायस्तदेवात्र गृहीतम्. ५. वक्र विपमम्, अत एव अमामूलमलक्ष्मीकारणम्. ६. दारसंवन्धी य आधिस्तेन यातया प्राप्तया धिया. ७. वामया वक्रयेति धियेत्यस्य विशेषणम्, १३० काव्यमाला। त्वं क्षमो भुवनस्यापि तेनेनेन प्रेभाखतः । तैवानूना चमूचक्रे तेनेऽनेन प्रभा स्वतः ॥ ५ ॥ तवानूरोरिवाकाशे प्रभुभक्तिर्न बाधिका । अग्रेसरी पुनः किं न वारिराशौ निमज्जतः ॥ ६ ॥ चतुरङ्गां चमूं त्यक्त्वा चतुरं गां गतः कथम् । 4भयाधिकरक्षां स प्रभयाधिगतोऽवति ॥ ७ ॥ कार्मणेनैव तेनोढा सा शृङ्गारवतीति यः । साशङ्कास्तु कृतः पत्या राजवर्गः प्रणश्यता ॥ ८ ॥ नवमायोधनं शक्त्यानवमायो धनं ददत् । समनागबलः कर्तुं स मनागवलन्त्वया ॥ ९॥ (युग्मम्) लक्ष्मीजिघृक्षया तुभ्यं राजकं नापराध्यति । किं तु रीत्येव वैदा गौडीयोयाभ्यसूयितम् ॥ १० ॥ मौरसारसमाकारा रौकामा सरसा रैमी । सागता हसेना तेन न तेनासहागसा ॥ ११ ॥ (प्रतिलोमानुलोमपादः) वामिहायुत विश्वस्तभूतलोपक्रतिक्षमः । न वापरोधिकन्नाथः केवलं भूतिहेतवे ॥ १२ ॥ १. तेन इनेन स्वामिना. २. प्रभास्वतस्तेजस्विनः. ३, तव चमूचक्रे अनेन स्वत अनूना प्रभा चक्रे. ४. नवा अधिका च; (पक्षे) बाधिः का न. ५. समुद्र; (पक्षे) वा-अ रिराशौ शत्रुसमूहे. ६. प्रभया तेजसा; प्रकर्षेण भयाधिगतः. योऽकारणं चमू त्य .. प्रपलायते स भयान्वितो भवत्येव. ७. प्रत्यग्रसङ्ग्रामम्. ८. न अवमः अयः शुमा ह विधिर्यस्य. ९. तुल्यहस्तिसैन्यः, १०. मनाक्-अवलत्. ११. गौडदेशभवाय. यथ वैदर्भी रीतिौडीवल्लभाय कवये कुप्यति तथा तुभ्यं शृङ्गारवत्याभ्यसूयितम्. १२. का मसर्वस्वतुल्याकृतिः. १३. राकावन्मा लक्ष्मीर्यस्याः सा. १४. कामिनी. १५. स्मितमुखी (पक्षे)अहसना अस्मेरास्या. चित्तानुरागविरहात्. १६. तेन आगसापराधेन. १७.व. समस्तं यद्भूतलं तस्योपकाराय समर्थः; (पक्षे)-विश्वस्त-भूत-लोप कृति-क्षमः श्रद्धालु जनविनाशकः. विश्वासघातक इति यावत्. १८. न-वा-अपराधकृत; (पक्षे) न अपराधकृतू.
१९ सर्गः] धर्मशर्माभ्युदयम् । १३१ अस्य मानाधिकैः सेना अस्यमाना नैवाजितः । अस्यमानाहतेरेता अस्यमानावितुं क्षमः ॥ १३ ॥ परलोकभयं विभ्रत्मभुभक्तिं प्रपद्यसे । भवितासि ततो नूनं स्ववंशोद्धरणक्षमः ॥ १४ ॥ अरमभीतियुक्तस्ताः कष्टं स्कन्दोऽपि रक्षति । अरमभीतियुक्तस्ता दूरे पास्यति वाहिनीः ! १५ ॥ अवलां तां पुरस्कृत्य त्वतोऽसि सबलोऽमुना । निराश्रयस्ततो धीर राजवर्ग त्वमाश्रय ॥ १६ ॥ प्रार्थयैतांश्चतुर्वर्ग रैथवाजिप्रदानतः । लप्स्यसे पञ्चतामुच्चैरंयवाजिप्रदानतः ॥ १७ ॥ परमत्नेहनिष्टास्ते परदानकतोचमाः । समुन्नतिं तवेच्छन्ति प्रधनेन महापदाम् ॥ १८ ॥ राजानस्ते जगत्ख्याता बहुशोभनवाजिनः । वने कस्तत्क्रुधा नासीबहुशोभनवाजिनः ॥ १९ ॥ सकपाणां स्थितं विभ्रत्संधामनिधनं तव । हाता वा राजसंदोहो द्राकोन्तारसमाश्रयम् ॥ २० ॥ सहसा सह सौरमैर्धाविताधाविता रणे । दुःसहेऽदुः सहेऽलं ये कस्य नाकस्य नार्जनम् ।। २१ ॥ तेषां परमतोषेण सपैदातिरसं गतः । खोन्नति पतितां विभ्रत्सद्महीनो भविष्यसि ॥२२॥ (युग्मम्) १. प्रमाणाधिकैः. २. क्षिप्यमाणा. ३. नवीनसङ्ग्रामात्. ४. खड्गाप्रमाणघाततः, ५, असि-अमान-अवितुं. ६. परलोको जन्मान्तरं शत्रुश्च. ७. स्वामिसेवां मर्दनतां च (१). ८, स्य-वाजि-प्रदानतः. ९. अथवा-आजि-प्रदानतः. १०. बहुशोभन- वाजिनः. ११. बहुशोभ-नव-अजिनः. १२. सदयानाम्; (पक्षे) सखगाम्. १३. स्व- धामनि स्वगृहे धनं तव दाता दास्यति; (पक्षे) स्वधाम्ना निधनम्, १४. राजसमूहः. १५. कान्ता-रसं-आश्रयम्; (पक्षे) कान्तार-समाश्रयम्. १६. गजप्रधानः. १७. धा- विताधौ आधिरहिते रणे इताःप्राप्ताः.१८. संपत्त्याधिकरागम् ; (पक्षे) संपदातिः सेवकः, असंगत एकाकी. १९. स्वामित्वम् ; (पक्षे) च्युताम्, २०. सतू-मही-इनः समीचीन- भूपाल:; (पक्षे) गृहरहितः, १३२ काव्यमाला। बहुशस्त्रासमाप्यैषां बहुशस्त्रासमाहतेः । को वा न रमते प्राप्ताङ्को वानरमते गिरौ ॥ २३ ॥ किसु दासतया स्थातुमीहसे क्वापि भूभृति । असंख्यं कर्म तत्कुल्लप्स्यसे कम्बलोत्सवम् ॥ २४ ॥ बहुधामरणेऽच्छाबहुधा मरणेच्छया । पंरभीरहितं पश्येत्परभीरहितं परम् ॥ २५ ॥ बन्धाय वाहिनीशस्य तवैते मेदिनीभृतः । आयान्ति कटकैर्जुष्टाः सनागहरिखङ्गिभिः ॥ २६ ॥ मुरलो मुरलोपीव कुन्तलः कुन्तलश्च कैः । मालवो मौलवोनीवैर्वार्यते वार्य ते रणे ॥ २७ ॥ उद्दामद्विरदेनाद्यो (१) कलिङ्गेन वृषध्वजः । शिरोपितार्धचन्द्रेण कार्यस्त्वमगजाश्रितः ॥ २८ ॥ अनेकपापरतो वा लभ सेनाशमं गतः । अनेकपापरक्तो वा लभसे नाशमङ्गतः ॥ २९ ॥ हितहेतु वचस्तुभ्यमभ्यधामहमीदृशम् । विरोधिन्यपि यत्साधुन विरुद्धोपदेशकः ।। ३० ॥ अधिकं दरमेत्याहो अधिकंदरमुन्नतान् । समासादयशाः शैलान्समासादय वा नृपान् ॥ ३१ ॥ इति राजगणे तस्मिन्नधिकोपकतिक्षमे । गतिद्वयमुदाहृत्य प्रणिधिर्विरराम सः ॥ ३२ ॥ १५ १. बहुशः-त्रासम्. २. बहुशस्त्र-आसमाहतेः. ३. लब्धोत्सङ्गः. ४. उदासतया; (पक्षे) दासतया. ५. राज्ञि, पर्वते च. ६. कं-बलोत्सवम्; (पक्षे) कम्बलोत्सवम्. ७, बहु- धाम-रणे. ८. अच्छद्युत्स्वच्छतेजाः. ९, पर-भी-रहितम्. १०. परभीः कातरः. ११. विष्णुरिव. १२. कुन्तलदेशनृपः. १३. कुन्तान् लाताति. १४. मा लक्ष्मीस्तस्या लवस्तेनोद्रीवैः. १५, अनेकप-अपरक्तः. १६. समासातू-अयशाः.
१९ सर्गः] धर्मशर्माभ्युदयम् । रोऽरीरोरुररुरत्काकुकं केकिकङ्किकः । चञ्चच्चभ्रूचचिच्चोचे तततातीति तं ततः ॥ ३३ ॥ (चतुरक्षरः) अन्तरत्यन्तनिगूढपदाभिप्रायभीपणा । वाग्भुजङ्गीव ते मृही कस्य विश्वासकद्वहिः ॥ ३४ ॥ दुर्जनः सत्सभा प्रष्टामीहते न स्वभावतः । किमुलूकस्तमोहन्त्री भास्वतः सहते प्रभाम् ॥ ३५ ॥ (गूढचतुर्थपादः) सीमा सौभाग्यभाग्यानां शोभासंभावितस्मरः । अहो धाष्टय जगन्नाथः कामणीत्युच्यते म्पलैः ।। ३६ ॥ प्रभाप्रभावभाग्येन भाग्येन स वधूकरम् । तेने तेनेऽपतन्माला तन्मालापं वृथा कृथाः ।। ३७ ॥ गुणदोपानविज्ञाय भर्तुर्भक्ताधिका जनाः । स्तुतिमुच्चावचामुच्चैः कां न कां रचयन्त्यमी ॥ ३८ ॥ धर्म बुद्धिं परित्यक्त्वापरत्रानेकपापदे । सदयः कुरुते कस्तां पैरत्रानेकपापदे ।। ३९ ॥ आस्तां जगन्मणेस्तावद्भानोरन्यमंहस्तिभिः । अनूरोरपि किं तेजः संभूय परिभूयते ॥ ४० ॥ मम चापलतां वीक्ष्य नवचापलतां दधत् । अयमाजिरसाद्गन्तुं कि यमाजिरमिच्छति ॥ ४१ ।। सौजन्यसेतुमुद्भिन्दन्यत्वया नैव वारितः । तन्नः क्रोधार्णवौघेन छावनीयो नृपव्रजः ॥ ४२ ॥ १. रायं धनं ददातीति ररः; अरीन् ईरयन्तीत्यरीराः सुभटाः, तेषां उर्महान्. केकिना कङ्कत इत्येवंशीलः केकिकङ्की कार्तिकेयः, तस्येव कः कामो यस्य स केकिक- किकः. चञ्चन्ती चक्षुर्दक्षा उच्चा महती चिद्बुद्धिर्यस्य. ततां प्रचुरां तां लक्ष्मीमतति गच्छति इत्येवंशीलस्ततताती. काकुकं मर्मव्यथकशब्दम्. २. अधर्म, ३. परे- भ्यस्त्रायन्ते ते अनेकपा हस्तिनस्तेषामापदे.
१३४ काव्यमाला। विपद्विधास्यतेऽत्राहंकारिमिः कारिभिर्मम । .एकाकिनापि रुध्यन्ते हरिणा हरिणा न किम् ॥ ४३ ॥ जयश्रियमथोहोढुं त्वत्प्रतापाग्निसाक्षिकाम् । वित्तमाजौ ददडूतं सुषेणो विससर्ज सः ॥ ४४ ॥ रागिताजिवरा कापि नेतेनातततामसा । सामताततना तेने पिकारावजिता गिरा ॥ १५ ॥ (अनुलोमप्रतिलोमार्थः) तथाप्यनुनयैरेष शाम्यति स्म न दुर्जनः । और्वस्तनूनपान्नीरैर्नीररिव भूरिमिः ॥ ४६ ॥ युद्धानकाः स्म तद्भीमाः सदानघ नदन्ति नः । बब्रूहिरे जयायोच्चैः सदानघनदन्तिनः ॥ ४७ ॥ उद्भिन्नोद्दामरोमाञ्चकञ्चुकेषु मुदस्तदा । अन्तरङ्गेषु शूराणां संनाहा न बहिर्ममुः ॥ १८ ॥ निजेदोरदनोदीर्णश्रीरता घेनताविमा । तरसारबलं चेरुरिभा भूतहतो भृशम् ॥ ४९॥ (प्रातिलोम्येनानन्तरश्चोकः) संभृतो (तभूमारिरुचेऽलं वरसारतः । भावितानघतारश्रीन दीनो दरदोऽजनि ॥ १० ॥ शङ्केऽनुकूलपवनप्रेखितैः स्यन्दनध्वजैः । निक्कणत्किङ्किणीकाणैर्योर्द्ध जुहुविरे द्विषः ॥ ५१ ॥ नवप्रियेषु बिभ्राणाः सङ्गरागमनायकाः। क योषितोऽभवन्नोत्काः संगरागमनाय काः ॥ ६२ ।। १. का-अरिभिः. २. निजबाहुदन्ताभ्यामुदीर्णा या श्रीस्तस्यां रताः, ३. धनानां समूहो घनता तद्वद्विभा येषाम्. ४. तरसा आरबलं शत्रुसैन्यम्. ५. भूतहृतः प्राणि- घातकाः. ६. भुवि भान्तीति भूभास्ते च तेऽरयश्च, तेषां रुचिः सा हृता येन, तत्संबो- धनम्, ७. वरसारत उत्कृष्टबलात. ८. भाविता अधिगता अनघा तारा उज्ज्वला श्रीर्येन.
१९ सर्गः] धर्मशर्माभ्युदयम् । सदशावत्यनीकेऽत्र त्वत्प्रतापप्रदीपके । वधायैव निपेतुस्ते पतंगा इव शत्रवः ॥ ५३ ॥ गङ्गोरगगुरूयाङ्गगौरगोगुरुत्यगुः । रागागारिगरैरङ्गैरप्रेऽङ्ग गुरुगीरगात् ॥ ५४ ॥ (हृयक्षरः) अङ्गमुत्तुङ्गमातङ्गमायान्तं प्रवपद्यत । वात्येव वारिदानीकं सा सुपेणस्य वाहिनी ॥ ५५ ॥ अंतस्तमानसे सेना सैदाना सारवा रणे । अतस्तमानसेसेना सदानासारवारणे ॥ ५६ ॥ (समुद्गकः) कुम्मभूरिव निर्मग्नसपक्षानेकभूधरम् । उचुलुम्पांचकारोच्चैः स क्षणादङ्गवारिधिम् ॥ १७ ॥ निस्त्रिंशदारितारातिहदयाचलनिर्गता। न करिस्कन्धदघ्नासृङ्दी दीनैरतीर्यत ॥ ५८ ॥ (निरौष्ठयः) स्नेहपूर इव क्षणे तत्रोद्रेकं महीभुनः । अस्तं यियासवोऽन्येऽपि प्रदीपा इव भेजिरे ॥ १९ ॥ हेमवर्माणि सोऽद्राक्षीदाविना भाविनासिना । द्विड्बलान्यत्सकेनेव निचितानि चिताग्निना ॥६॥ तद्धनोत्क्षिप्तदुरितरवारिमहोर्मयः । अरिक्ष्माधरवाहिन्यो रणक्षोणी प्रपेदिरे ॥ ६१ ॥ समुत्साहं समुत्साहंकारमाकारमादधत् । ससारारं ससारारम्भवतो भवतो बलम् ॥ ६२ ॥ कोदण्डदण्डनिर्मुक्तकाण्डच्छन्ने विहायसि । चण्डांशुश्चण्डभीत्येव संवत्रे करसंचयम् ॥ ६३ ॥ १. गङ्गा च उरगगुरुश्च उग्राङ्गं च तद्वद्गौरा या गौर्वाणी तया गुरुव॒हस्पतिः. उपा गावो बाणा मयूखा वा यस्य सः. राग एवागारं येषां तेषां गरैर्विषप्रायः. गुरुगीमहा- नादः. २. सत् शोभनं अनोत बलं यस्याः सा सदानाः, अतस्तमानान् अक्षीणाहंकारान् श्यति तस्मिन्. सेना स्वामियुक्ता. सदानासारा वारणा यस्मिन्. ३. त एव घनाः. ४. वारि जलम्; (पक्षे) तरवारिः खगः, काव्यमाला। सारसेनारसे नागाः समरे समरेखया । न न दाननदाश्चेरुर्वाजिनो वाजिनोखताः ॥ ६४ ॥ उद्दण्डं यत्र यत्रासीत्पुण्डरीकं रणाम्बुधौ । निपेतुस्तव योधानां तत्र तत्र शिलीमुखाः ॥६५॥ के न बाणैर्नाणैस्ते सेनया सेनया हताः । मानवा मानबाधान्धाः सत्वराः सत्त्वराशयः॥ ६६ ॥ बाणैर्जलमसतीनां सदापिहितसौरभैः । अपूरि सुरमुक्तैश्च त्वद्वलं कुसुमोत्करैः ॥ ६ ॥ मूर्धानं दुधुवुस्तत्र कङ्कपत्रक्षता भटाः । प्रभोरासमाप्तौ वा प्राणानां रोडमुत्क्रमम् ॥६॥(अतालव्यः त्रुयहिटकण्ठपीठास्थिटात्कारभरभैरवे पेतुर्भयान्वितास्तत्र पत्रिणो न पतत्रिणः ॥ १९॥ शरघाताद्गर्दीनरसितैरुत्पलायितम् । रक्ताब्धौ तत्करैश्छिन्नैरसितैरुत्पलायितम् ॥ ७० ॥ वेतालास्ते तुषोत्तालाः पश्यन्तः शरलाघवम् । पाणिपात्रस्थमप्यत्र कीलालं न पपर्यधि ॥ ७१ ।। त्वदलैविषमारातिमारातिस्फुटविक्रमः। अखगं व्योम कुर्वाणैः कुर्बाणैस्तस्तरे तदा ॥ ७२ ॥ संसारसारलक्ष्म्येव वैदा खीकृतस्य ते । ईग्रंया वर्धितोत्साहा तत्र शत्रुपरम्परा ॥ ७३ ॥ पैराजिताशु भवतः सेनया यतमानया । पराजिता शुभवतः सेनया यतमानया ॥ ७४ ॥ (युग्मम्) १. रसो रागः, शब्दो वा. २. छत्रं, सिताम्भोजं च. ३. बाणा:, भ्रमराश्च. ४. नवशब्दैः. ५. आच्छादितसूर्यकान्तिभिर्बाणैः, प्रकटीकृतसौरभ्यः कुसुमोत्करैश्च, ६. भया प्रभया; (पक्षे) भयेन. ७. युद्धात्पलायिता गजा इत्यर्थः. ८. उत्पलवदाचरितम्, १. विषमा ये अरातयस्तेषां मारो मारणम्. १०. कुः पृथ्वी. ११. परैरजिता आशु. १२. यलं कुर्वाणया. १३. स्वामिसमेतया. १४. विस्तताहंकारया.
१९ सर्गः] धर्मशर्माभ्युदयम् । ततो भन्ने वलेऽन्यस्मिन्पुलकस्फारसैनिकः । एकहेलं महोत्तस्थे मालवेन्द्रेण कुन्तलः ॥ ७५ ॥ सुपेणस्तबलयूहं सन्नाहवपुपं ततः । हर्षेण वीक्ष्य मौवर्णसंनाहवपुषं ततः ॥ ७६ ॥ चतुरङ्गबले तत्र परिसर्पति शात्रवे। सैन्यमाश्वासयामास व्याकुलं वं चमूपतिः ॥ ७७ ॥ (युग्मम्) स वाजिसिन्धुरग्रामान्संभ्रमादभिधावितः । जवादसिं स्फुरखामा विभ्रन्नादमधात्ततः ॥ ७९ ॥ (गोमूत्रिकः) सगजः सरथः साश्वः सपदातिः समन्ततः । क्रामन्नभिमुखं क्रोधांतीव्रतेजाः शितायुधः ।। ७९ ॥ (युग्मम्) सैमारेभे समारेभे समारे भे रणे रिपुः । दानेन सदानेन सदानेन व्यपोहितुम् ।।.८० ॥ अम्भोधिरिव कल्पान्ते खड्नकल्लोलभीषणः । स्लालितो न स भूपालैस्तत्र वेलाचलैरिव ॥ ८१ ॥ किं कोककेकाकी किं काकः केकिकोऽककम् । कौकः कुकैककः कैकः कः केकाकाकुकाङ्ककम् ॥ ८२ ॥ (एकाक्षरः) अनेकधातुरङ्गाब्यान्कुञ्जराजिदुरासदान् । रिपुशैलानसिमिन्दजिष्णोर्वजमिवाबभौ ॥ ८३ ॥ जघान करबालीयघातेनारेवलं बली। न नाप्ता ते निरालम्बा करे तेनावनिर्वरः॥ ८४ ॥ (अर्धभ्रमः) १. सन्न-आहव-पुपं. २. स-मार-इमे, सम-आरेभे, आरेभः शब्दः. समारेभे समा- रब्धः. दानेन खण्डनेन सदानेन सद्वलेन. व्यपोहितुमुपक्रान्तुम्. ३. कङ्को बकः. को- ककेकाकी चक्रवाकहंसगामी. काको ध्वाङ्क:. केकिकः मयूरवत्क आत्मा स्वरूप यस्य सः. कुकैककः स्वर्गपृथ्वीजलेष्वद्वितीयः. गुरुत्वात. कुटिलं जगाम. केकाका- कुको मयूरः स चिह्नं यस्य स केकाकाकुकाङ्कः, तस्येव कं शरीरं यस्य तम्. ४. अने- कधा-तुरंग; (पक्षे) अनेक-धातु-रङ्ग. ५. कुञ्जर-आजि; (पक्षे) कुञ्ज-राजि.
१३८ काव्यमाला। तेन सङ्कामधीरेण तव नाथ पदातिना । एकहेलमनेकेभ्यः शत्रुभ्यो निशितासिना ॥८६॥ भरं याममयारम्भरञ्जिता ददताजिरम् । याता क्षमा माक्षता या मदमाररमादम ॥ ८६ ॥ (युग्मम), (तम धाम्ना धाराजलेनेव दृष्टमातङ्गसंगमाम् । अभ्युक्ष्याभ्युक्ष्य जग्राह तत्कपाणो रिपुश्रियम् ॥ ८७ ॥ देवेन्दो विवदद्वादिवाददावदवाम्बुद । दिवं ददइदावेदं दुद्दवृन्दं विदैववत् ॥ ८८ ॥ (यसरः) पीत्वारिशोणितं सद्यः क्षीरगौरं यशो वमन् । इन्द्रजालं तदीयासिः काममाविश्चकार सः ॥ १९॥ स प्रसादेन देवस्य रसादेकपदे बलम् । संपदेऽजयदेव द्विट्कम्पदेन सदेवनम् ॥ ९० ॥ (मुंरजबन्धः) तेन मालवचोलाङ्गकुन्तलव्याकुले रणे । भानुनेव तमःकीणे किं किं नो तेजसा कृतम् ॥ ९१ ॥ काननाः कानने नुन्ना नाकेऽनीकाङ्ककानिनः । के के नोनीकिनीनेन नाकीनकाकिना ननु ॥ ९२ ॥(ब्यक्षरः) सागरे भुवि कान्तारे संगरे वा गरीयसि । त्वद्भक्तिः कस्य नो दत्ते कामधेनुरिवेहितम् ॥ ९३ ॥ देवनाथमनाहत्य भावनास्तम्भनाहते । त्वयीनासीत्स नास्तद्विजयी नाथमनास्ततः ॥ ९४ ॥(मुरजबन्धः) खङ्गत्रासावशिष्टेऽथ प्रणष्टे विद्विषां बले । सुषेणः शोधयामास रणभूमि महाबलः ॥ ९५ ॥ १. भरमत्यर्थम्. अयारम्भरञ्जिता शुभावहविधिप्रारम्भरञ्जिता सती. मा लक्ष्मी- स्तस्या अक्षता नित्यता. आररमादम अरिसमूहलक्ष्मीदमन. याता लब्धा. २. शत्रुस- मूहम्. ३. विपरीतभाग्ययुक्तम्. ४. जितवानेव. ५. सक्रीडनं यथा भवति. ६. अस्फुटो- ऽस्य बन्धस्य विन्यासः. ७. कुत्सितमुखाः. ८. अनीकाङ्क सङ्कामोत्सङ्गे कनन्ति एवं- शीला:.९. सेनापतिना.. १०. हे देवेश, एकाकिना..
१९ सर्गः] धर्मशर्माभ्युदयम् । गजवाजिजवाजिजयानुगतः स रसात्तरसात्तयशोविभवः । क्रमवन्तमवन्तमिलां श्रयितु स्वयमेत्ययमत्य भवन्तमितः ॥ ९६ ॥ चन्द्रांशुचन्दनरसादपि शीतमङ्गं पीयूपपूरमसहमतीव दृष्टिः । क्वायं पुनर्वसति वैरिमहीशवंश- संलोपणो भुवनभूपण ते प्रतापः ॥ ९७ ॥ चक्रेऽरिसंततिमिहाजिपु नष्टपद्मा- तिख्यातिमेकचकिताकतिधारिणीं यः । तिग्मासिरिष्टमतवत्स तवावति मां किं तत्परं धरणिमित्र कतिन्द्रवीमि ॥ ९८ ।। कः शर्मदं वृजिनभीतिहरं जितात्मा हाय न स्मरति तेऽभिनवं चरित्रम् । संपद्गुणातिशयपस्त्य रुचं तवैति कः कान्तिमानतिसुधाद्रवरोचमानाम् ॥ ९९ ॥ (इति श्लोकद्वयनिवर्तितषोडशदलकमलचित्रे कविकाव्यनामाङ्कः । . यथा-कर्णिकाक्षरेण सह प्रथमदलाबदलाग्रेषु 'हरिचंद्रकृतधर्मजिनप- तिचरितमिति' इति । हतमोहतमोगतेस्तव क्षणदेनेक्षणदेशशोभितः । समया समयात्वयं ततः कमला त्वां कमलाममैक्षत ॥ १०॥ आतङ्कार्तिहरस्तपद्युमणिसद्भरिप्रभाजिद्वसु- द्रष्टव्यं हृदि चिरत्नमसमं शौचं च पीनोन्नते । देहेऽधत्त हितं त्वमन्दमहृदि क्षुद्रेऽप्यतो दर्शने वल्गुर्मद्रेमहस्य रम्यमपरं क्षीणव्यपायं पदम् ॥ १०१ ॥ दम्भलोभभ्रमा आदिरुद्धा गुणैर्द्रष्टुमप्यक्षमादेव वकं तव । वर्जयित्वा ययुः सुश्रुत त्वां तथा ते भजन्ते यथा नेश भक्तानपि॥१०२॥ १. भाग्यं प्राप्य. २. उत्सवदेन. ३. समीपे, ४. कौस्तुभमणिम्, ५. मनोज्ञोत्सवस्य.
१४० काव्यमाला। - (अत्र श्लोकद्वयविनिर्मिते चक्रचित्रे प्रथमतृतीयषष्ठाष्टमाक्षररेखा कविनामाङ्कश्लोकः । यथा- 'आर्द्रदेवसुतेनेदं काव्यं धर्मजिनोदयम् । रचितं हरिचन्द्रेण परमं रसमन्दिरम् ॥') स्फुटमिति कथायित्वा सत्कृति प्राप्य दूते गतवति निजगेहं तत्सुषेणः ससैन्यः । अहितविजयलब्धं वित्तमानीय भत्त्या- नतिचिरमुपनिन्ये धर्मनाथाय तस्मै ॥ १०३ ॥ लभ्या श्रीविनिहत्य संगरभुवि क्षुद्रद्विषोऽभ्युन्नता धिक्तां धर्मपरिच्युतामरमिति खीकारमन्दस्टहः । तद्भर्माभरुचं दधद्वरमरिद्रव्यं सदायो ददे देवोऽस्तालसमाधिभित्छतधियां ताम्यन्महखी मुदे ॥ १०४ । (अत्र चक्रबन्धचित्रे तृतीयषष्ठाक्षररेखाभ्रमण काव्यकविनामाङ्कः यथा-श्रीधर्माभ्युदयः । हरिचन्द्रकाव्यम् ।) इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्य एकोनविंशः सर्गः विंशः सर्गः। इत्यब्दानां पञ्चलक्षाणि यावत्क्षीणक्षुद्रारातिरुद्यत्प्रभावः । देवः पारावारवेलावनान्तं प्राज्यं धर्मः पालयामास राज्यम् ॥ १ ॥ रात्रौ तुङ्गे स्फाटिके सौधशृङ्गे तामास्थानीमेकदा स प्रतेने । चन्द्रज्योत्स्नान्तहितेऽस्मिन्प्रभावादाकाशस्था या सुधर्मेव रेजे ॥ २ ॥ जीण कालाजातरन्ध्रनु पश्यन्देवस्तारादन्तुरं व्योमभागम् । ज्वालालीलां बिभ्रती कल्पवरहायोल्कां निष्पतन्ती ददर्श ॥ ३ ॥ आविष्कत स्फारमोहान्धकारच्छन्नं मुक्तेर्मार्गमत्यन्तदुर्गम् । आदौ दिष्टया व्यजिता या ज्वलन्ती वर्तिःपस्येव शोभामभार्षीत् ।। १. स्वर्णाभदीप्तिम्, २० सर्गः १ धर्मशर्माभ्युदयम् । व्यादायास्यं विस्फुरत्तारताराइन्तश्रेणीमीप्ममत्तुं जगन्ति । कालेनैका व्योम्नि विस्तार्यमाणा जिद्देवाशु श्रद्धया या चकासे ॥ ५ ॥ कान्तिः कालव्यालचूडामणेः किं पिङ्गा स्थाणोन्याममूर्जटा वा । ज्वाला कि वास्यैव भालाक्षवहेर्दाहायेन्दोर्धाविता कामबन्धोः ॥ ६ ॥ भूयोऽनेन त्रैपुरं किं नु बाहं कर्तु मुक्ततप्तनाराच एपः । इत्याशझाव्याकुलं लोकतो या सर्पन्ती व्यानि दृराइकार्षीत् ॥ ७ ॥ कर्तु कार्य केवलं खस्य नाली देवा विश्वस्यापि धाता तपस्याः(?) । इलानन्दात्तस्य नीराजनेव व्योन्ना रेने या समारभ्यमाणा ॥ ८ ॥ तामालोक्याकाशदेशानुदश्चज्ज्योति लादीपिताशां पतन्तीम् । इत्यं वित्त प्राप्तनिर्वेदखेदो मीलचक्षुश्चिन्तयानास देवः ॥ ९ ॥ देवः कश्चिज्यातिपा मध्यवर्ती दुर्गे तिष्ठन्नित्यमेपोऽन्तरिक्षे । याता बादीहशी चेवस्थां कः स्याडोके नियंपायत्तदन्यः ॥ १० ॥ आयुःकालानमङ्गे प्रसर्पज्ञापहीथीदीर्घदोर्दण्डचण्डः । प्राणायामारासमूलानि भिन्दन्कैरुत्सितः सह्यते कालदन्ती ॥ ११ ॥ यत्संसक्तं प्राणिनां क्षीरनीरन्यायेनोचैरङ्गमप्यन्तरङ्गम् । आयुश्छेदैांति वेत्तत्तदास्था का वाद्येषु स्त्रीतनूनादिकेषु ॥ १२ ॥ प्रत्यातिन व्यतीतस्य नूनं सौख्यस्यास्ति ब्रान्तिरागामिनोऽपि । तत्तकालोपस्थितस्यैव हेतोधात्यास्था संसृतौ को विदग्धः ॥ १३ ॥ वातान्दोलत्पद्मिनीपल्लवाम्मो बिन्दुच्छायामङ्गुरं जीवितव्यम् । तत्संसारासारसौख्याय कस्माज्जन्तुस्ताम्यत्लब्धिवीचीचलाय ॥ १४ ॥ लारङ्गाक्षीचञ्चलापाङ्गनेत्रश्रेणीलीलालोकसंक्रामितं नु । व्यालोलवं तत्क्षणादृष्टनष्टा धत्ते नृणां हन्त तारुण्यलक्ष्मीः ॥ १५ ॥ हालाहेलासोदरा मन्दरागप्रादुर्मता सत्यमेवात्र लक्ष्मीः । नो चेञ्चतोमोहहेतुः कथं सा लोके राग मन्दमेवादधाति ॥ १६ ॥ विण्मूत्रादेर्धाम मध्यं वधूनां तन्निःप्यन्दद्वारमेवेन्द्रियाणि । श्रोणीविम्वं स्थूलमांसास्थिकूटं कामान्धानां प्रीतये धिक्तथापि ॥ १७ ॥ १. पहिरिव घासकूटम्.
काव्यमाला । मेदोमज्जाशोणितैः पिच्छलेऽन्तस्त्वक्प्रच्छन्ने स्नायुनद्वास्थिसंधौ । साधुर्दैहे कर्मचण्डालगेहे बनात्युद्यत्पूतिगन्धे रतिं कः ॥ १८ ॥ इन्द्रोपेन्द्रब्रह्मरुद्राहमिन्द्रा देवाः केचिये नराः पन्नगा वा । तेऽप्यन्येऽपि प्राणिनां क्रूरकालव्यालाक्रान्तं रक्षितुं न क्षमन्ते ॥ १९ ॥ बालं वर्षीयांसमाव्यं दरिद्रं धीरं भीरु सज्जनं दुर्जनं च । अनात्येकः कृष्णवमैव कक्ष सर्वग्रासी निर्विवेकः कृतान्तः॥ २० ॥ स्वच्छामेवाच्छाद्य दृष्टि रजोभिः श्रेयोरत्नं जाग्रतामप्यशेषैः । दोषैर्येषां दस्युरूपैरुपात्तं संसारेऽस्मिन्हा हतास्ते हताशाः॥ २१ ॥ वित्तं गेहादङ्गमुच्चैश्चिताग्नेावर्तन्ते बान्धवाश्च श्मशानात् । एकं नानाजन्मवल्लीनिदानं कर्म द्वेधा याति जीवन सार्धम् ॥ २२ ॥ छेत्तुं मूलात्कर्मपाशानशेषान्सद्यस्तीक्ष्णैस्तद्यतिष्ये तपोभिः । को वा कारागाररुद्धं प्रबुद्धः शुद्धात्मानं वीक्ष्य कुर्यादुपेक्षाम् ॥ २३ ॥ इत्थं यावत्प्राप्य वैराग्यभावं देवश्चित्ते चिन्तयामास धर्मः । ऊचुः स्वर्गादित्युपेत्यानुकूलं देवास्तावत्केऽपि लौकान्तिकास्ते ॥ २४ ॥ निःशेषापन्मूलभेदि त्वयेदं देवेदानी चिन्तितं साधु साधु । एतेनैकः केवलं नायमात्मा संसाराब्धेरुद्धृता जन्तवोऽपि ॥ २५ ॥ नष्टा दृष्टिनष्टमिष्टं चरित्रं नष्टं ज्ञानं साधुधर्मादि नष्टम् । सन्तः पश्यन्वत्र मिथ्यान्धकारे त्वत्तः सर्वे केवलज्ञानदीपात् ।। २६ ॥ तैरानन्दादित्थमानन्धमानं स्वर्दन्तीन्द्रारूढजम्भारिमुख्याः। आसेदुस्तं दुन्दुभिध्वानवन्तस्ते चत्वारो निर्जराणां निकायाः ॥ २७ ॥ दवा प्राज्यं नन्दनायाथ राज्यं देवोऽतुच्छप्रीतिराष्टच्छय बन्धून् । दत्तस्कन्धं याप्ययानं सुरेन्द्ररारुह्यागात्सालपूर्व वनं सः ॥ २८ ॥ सिद्धान्नत्वा तत्र षष्ठोपवासी मौलौ मूलानीव कर्मट्ठमाणाम् । मुष्टियाहैः पञ्चभिः कुन्तलानां वृन्दान्युच्चैरुच्चखान क्षणेन ॥ २९ ॥ केशांस्तस्याधत्त माणिक्यपात्रे क्षीराम्भोधिप्रापणायामरेन्द्रः । भमूर्धादाय मुक्तान्कथंचित्को वा विद्वान्नादीतादरेण ॥ ३० ॥ १. भवनवासि-व्यन्तर-ज्योतिष्क-कल्पवासिनो जैनागमप्रसिद्धाः. २. शिबिकाम्.
२० सर्गः] धर्मशर्माभ्युदयम् । १४३ ४ प्रालेयांशौ पुष्यमैत्रीं'प्रयाते माघे शुल्ला या त्रयोदश्यनिन्द्या । धर्मस्तस्यामात्तदीक्षोऽपराले जातः क्षोणीभृत्सहस्त्रेण सार्धम् ॥ ३१ ॥ तत्र त्यक्तालंकृतिर्मुक्तवासा रूपं विभ्रजातमात्रानुरूपम् । देवो भेजे प्रापेण्याम्बुवाहश्रेणीमुक्तवर्णशैलोपमानम् ॥ ३२ ॥ गीतं वाद्यं नृत्यमप्यात्मशच्या कृत्वा चेतोहारि जम्भारिमुख्याः। देवाः सर्वे प्राप्तपुण्यातिरेका नत्वार्हन्तं खानि धामानि जग्मुः ॥ ३३ ॥ स्कन्धावारे पाटलीपुत्रनाम्नि क्षोणीभर्तुर्धन्यसेनस्य गेहे । क्षीरान्नेनाचारवित्पाणिपात्रे कृत्वा पञ्चाश्चर्यकत्पारणं सः ॥ ३४ ॥ पुण्यारण्ये प्रांशुके क्वापि देशे नासाप्रान्तन्यस्तनिःस्पन्दनेत्रः । कार्योत्सगै विभ्रदभ्रान्तचित्तो लोके लेप्याकारशङ्कामकापीत्॥३५॥(युग्मम्) अध्यासीनो ध्यानमुद्रामतन्द्रः स्वामी रेजे लम्बमानोरुबाहुः । ये निर्ममाः श्वभ्रगर्भान्धकूपे व्यामोहान्धास्तानिवोद्धर्तुकामः ।। ३६ ॥ मुक्ताहारः सर्वदोपत्यकान्तारब्धप्रीतिः स्वीकृतानन्तवासाः । देवो धुन्वन्विग्रहस्थानरातीन्कान्तारेऽपि प्राप सौराज्यलीलाम् ॥ ३७ ॥ देवोऽक्षामक्षान्तिपाथोदपाथोधारासारैः सारसंपत्फलाय । सिञ्चन्नुच्चैः संयमारामचक्रं चक्रे क्रोधोद्दामदावाग्निशान्तिम् ॥ ३८ ॥ मिन्दन्मानं मादवेनार्जवेन च्छिन्दन्मायां निःस्टहत्वास्तलोभः । मूलादेवोच्छेत्तुकामः स चक्रे कर्मारीणामाश्रवद्वाररोधम् ॥ ३९ ॥ कुर्वन्गुर्वी वाङ्मनःकायगुप्ति रक्षन्साक्षात्वं समित्यर्गभाभिः (१) । वध्नन्नशाण्येप दीर्घर्गुणौधैश्चित्रं मोक्षायैव वडोद्यमोऽभूत् ॥ ४० ॥ तस्यारण्ये ध्याननिष्कम्पमूर्तेर्वकस्येवामोदमाघातुकामाः । वहावासाश्चन्दनस्येव तस्थुः स्वस्थाः खैरं स्कन्धबन्धे भुजंगाः ॥ ११ ॥ १. चित्रलिखित इव तस्थौ. २. त्यक्तभोजनः; (पक्षे) मुक्ताहारोऽस्यास्तीति. मौ- तिकहारवानिति यावत्. ३. सर्वदः, अपत्येषु कान्तासु च आरब्धप्रीतिः; (पक्षे) सर्वदा उपत्यकायाः पर्वतासन्नभूमेरन्ते आरब्धप्रीतिः. ४. स्वीकृतानि अनन्तानि वासांसि येन सः; (पक्षे)स्वीकृतमनन्तं वियदेव वासो येन सः. दिगम्बर इति यावत्. ५. युद्धस्था- न शत्रून्, (पक्षे) देहस्थान् कामक्रोधादीन्.
१४४ काव्यमाला। दृष्ट्वात्मानं पुद्गलाद्भिन्नरूपं देवो देहे न स्वबुद्धि बबन्ध । तेनात्याक्षीत्तोयशीतातपातै श्रेयोनिष्ठः काष्ठवड्रमेनम् ॥ ४२ ॥ विघ्नं निघ्नन्नाक्षिपन्नेष दोषाञ्जज्ञे स्वामी भाजनं यत्क्षमायाः । सैषा काचिच्चातुरी तस्य भर्तुश्चित्तेऽस्माकं चित्रमद्यापि दत्ते ॥ ४३ ॥ आसंसारं साहचर्यव्रतस्थं दुःस्थीकुर्वन्रागमागन्तुकेऽपि । योगे मैत्री पक्षपातं च मोक्षे बिभ्रच्चित्रं स्वं चरित्रं स ऊचे ॥ ४ ॥ तस्याशेषं कर्षतो धीवरस्य स्फारीभूतं मानसान्मोहजालम् । तत्पाशान्तःपीड्यमानैकमीनो मन्ये त्रासान्निर्ययौ मीनकेतुः ॥ ४५ ॥ कल्पान्तोद्यहादशहीदशात्मश्रेणीतेजःपुञ्जतीव्रव्रतेऽस्मिन् । हरव्याघातत्रस्तचित्तेव चक्षुनों चिक्षेप प्रत्यहं मोहलक्ष्मीः ॥ ४६ ॥ चक्रे कार्य संयमस्तस्य देहे तन्वानोऽपि ज्योतिरत्यन्तरम्यम् । माणिक्यस्येवावनीमण्डनार्थ शाणोल्लेखः सम्यगारभ्यमाणः ॥ ४७ ॥ एकं पात्रं सौकुमार्यस्य तीव्र तेजःपुञ्जे तापसे वर्तमानः । चण्डज्योतिर्मण्डलातिथ्यभाजो भेजे लक्ष्मी क्षीणपीयूषरश्मेः ॥ १८ ॥ भर्गादीनां भग्नगर्वातिरेकः कः श्रीधर्मे मीनकेतुर्वराकः । अध्यारूढमौढिरनौ न कुर्याद्वनज्योतिःस्तम्भमम्मोनिषेकः ॥ ४९ ॥ भ्रूचापेनाकर्णमाकृष्य मुक्ता स्वर्गस्त्रीभिस्तत्र दीर्घाः कटाक्षाः । हृत्संतोषाविर्मवद्वोरबाणे वाणाः कामस्येव वैफल्यमीयुः ॥ ५० ॥ भोगे रोगे काश्चने वा तृणे वा मित्रे शत्रौ पत्तने वा वने वा। देवो दृष्टि निर्विशेषां दधानोऽप्येकः सीमासीद्विशेषज्ञतायाः ॥ ११ ॥ तथ्यं पथ्यं चेदभाषिष्ट किंचित्सिद्धं शुद्धं चेदभुतान्यदत्तम् । मुक्त्वा नक्तं चेदयासीत्स पश्यन्सर्वे किंचित्तस्य शास्त्रानुरोधि ॥ १२ ॥ तस्यावश्यं वायुरेकेन्द्रियोऽपि प्रत्यासत्तौ पाप न प्रातिकूल्यम् । तत्कि चित्रं तत्र पञ्चेन्द्रियाणां सिंहादीनां यन्न दुःशीलभावः ॥ १३ ॥ १. देहात्. २. धिया श्रेष्ठस्य; (पक्षे) कैवर्तस्य. ३. अन्तःकरणात; (पक्षे) सरोविशेषात्, ४. द्वादशात्मा दिवाकरः. ५. वारबाणः कश्चकः.
सर्गः] A 28 २० धर्मशर्माम्युदयम् । अन्तर्वार्दीप्यमानैस्तपोग्निज्वालैर्नीला दुर्जराण्याशु पाकम् । मुजानोऽसौ कर्मवल्लीफलानि श्लाघ्यः स्वल्पैरप्यहोमिर्वभूव ॥ १४ ॥ निर्व्यामोहो निर्मदो निष्प्रपञ्चो निःसङ्गोऽयं निर्मयो निर्ममश्च । देशे देशे पर्यटन्संयतानां पां नासीन्मोक्षशिक्षकहेतुः ॥ ५९ ।। छत्थोऽसौ वर्पनेक विहृत्य प्राप्तो दीक्षाकाननं शालरन्यम् । देवो मूले सप्तपर्णहुमत्त्य ध्यानं शुष्कं मुगालम्ब्य तस्थौ ॥ १६ ॥ माथे मासे पूर्णमास्यां सपुष्पे कृत्वा धर्मों घातिकर्मव्यपायम् । उत्पादान्तप्रौव्यवस्तुस्वभावोद्भासि ज्ञानं केवलं स प्रपेदे ॥ ६७ ।। मित्त्वा कर्मध्वान्तमभ्युद्गतेऽस्मिन्दत्तानन्दे केवलज्ञानचन्द्रे । तत्कालोद्यदुन्दुभिध्दानदम्माब्योमाम्भोधिर्गाढमम्युनगर्न ॥ १८ ॥ जातं चेतो व्योमवन्नीरजस्कं नृणां पूर्वाद्या इवाशाः नसेदुः । माप डेपीवानिलोऽप्यानुकूल्यं किं किं नासीनिष्कलङ्कं तदानीम् ॥ ५९॥ तन्याहान्योत्कर्षवृत्त्येव हर्ष बिभ्राणासौ साधुगन्धोददृष्टया । तत्कालोद्यत्तस्यसंपच्छलेन क्षोणी तत्राधत्त रोमाञ्चमुच्चैः॥ ६०॥ नित्योपात्तानङ्गसङ्ग्रामलीलासाहाय्येन व्यजितात्मापराधम् । भीत्येवास्य क्रूरकंदर्पशत्रोः सेवां चक्रे चक्रमस्मिन्नृतूनाम् ॥ ११ ॥ भापाभेदैत्तैश्चतुर्भिश्चतुर्धा संसारस्यापारदुःखां प्रवृत्तिम् । वक्तुं चातुर्वर्ण्यसंघस्य हेतोर्मन्ये देवोऽसौ चतुर्वक्र आसीत् ॥ १२ ॥ तन्न्य क्षीणाशातवेद्योदयत्वान्नाभूदुक्तिोंपसर्गः कदाचित् । निःप्पन्दाया ज्ञानदृष्टेरिवापुः पक्ष्मस्पन्दं स्पर्धया नेक्षणानि ॥ १३ ॥ वृद्धि प्रापुर्नाङ्गजा वा नखा वा.तस्यावश्यं योगनिद्रास्थितस्य । का वार्ता वा कर्मणामान्तराणां येषां रेखा नाममात्रावशेषा ॥ १४ ॥ पादन्यासे सर्वतो न्यस्यमानप्रेङ्गुत्सद्माम्भोजलीलाशयेव । सेवाननप्राणिसंचारलक्ष्या पादाभ्यण नास्य लक्ष्मीर्मुमोच ॥ ६५ ॥ १. 'संस्कृतं प्राकृतं चैवापभ्रंशो भूतभाषितम् । इति भाषाश्चतस्रोऽपि यान्ति का- व्यस्य कायताम् ॥ इति वाग्भटः, १४६ काव्यमाला। नो दौभिक्ष्यं नैतयो नोपसर्गा नो दारिद्यं नोपघातो न रोगाः। तन्माहात्म्याद्योजनानां शते द्वे नाभूत्किचित्कापि कर्माप्यनिष्टम् ॥६६॥ नादैर्घण्टासिंहशङ्खानकानां कल्पज्योतिर्भावनव्यन्तरेन्द्राः । कर्ते सेवां ते प्रचेलुगुणौधैर्हत्संलग्नैः कृष्यमाणा इवास्य ॥ ६ ॥ खात्तत्रागच्छतामन्तराले रेजे पतिः कापि वैमानिकानाम् । शुभ्रीकत कीर्तिसंपत्सुधाभिव्यॊमेवोच्चैर्मञ्चकाध्यासितानाम् ॥ १८ ॥ तस्मिन्काले तां समां धर्मनाथस्येन्द्रादेशाद्वयोनि चक्रे कुबेरः । यस्या नानारत्नमय्याः प्रमाणं पञ्च प्राहुर्योजनान्यागमज्ञाः ॥ ६९ ॥ नेदीयस्याः प्रेयसा विप्रलम्भव्याख्यादक्षां तेन वेणी विमोच्य । धूलीजालच्छद्मना पार्श्वतोऽस्याः क्षिप्तं मुद्राकङ्कणं मुक्तिलक्ष्म्याः॥७॥ ते प्रत्याशं वायुवेलड्वजाया मानस्तम्भास्तत्र चत्वार आसन् । क्रोधादीनां ये चतुणी निरासे संसलक्ष्म्यास्तर्जनीकार्यमीयुः ॥ ७१ ॥ तत्पर्यन्ते रत्नसोपानरम्या वाप्यो रेजुस्ताश्चतस्त्रश्चतस्त्रः। प्रौढेनाइत्तेजसा यत्र रात्रौ कोकः शोकं नाप कान्तावियोगात्. ॥ ७२ ॥ आस्यं तस्याः सालकान्तं दधत्याः शोभामङ्गे संसदः खां दिक्षोः । तच्चत्वारि स्फाटिकस्वच्छनीराण्यापुर्लीलादर्पणत्वं सरांसि ॥ ७३ ॥ मन्दान्दोलद्वातलीलाचलोमिस्तेभ्योऽप्यग्रे खातिका तोयपूर्णा । जैनव्याख्याज्ञातसंसारदुःखत्रस्यन्निष्क्रान्ताहिगर्भव रेजे ॥ ७ ॥ अन्तीनैकैकनिष्कम्पभृङ्गप्रेवत्पुष्पा पुष्पवाटी तदूर्ध्वम् । दत्ताश्चयी भूत्रयस्यापि भर्तुर्द्रष्टुं लक्ष्मी स्फारिताक्षीव रेजे ॥ ७९ ॥ सालः शृङ्गालम्बिनक्षत्रमालस्तस्याः प्रान्ते नायमासीद्विशालः । भ्रष्टं किं तु प्रोतरत्नं तदानीमिन्द्रक्षोभात्कुण्डलं स्वर्गलक्ष्म्याः ॥ ७६ ॥ भृङ्गाराद्यैर्मङ्गलद्रव्यवृन्दैः शङ्खध्वानैः सुप्रधानैनिधानैः । द्वारे द्वारे निःस्टहस्यापि भतुर्विश्वैश्वर्यं व्यज्यते स्म प्रभूतैः ॥ ७७ ॥ तस्यैवोच्चै!पुराणां चतुर्णामन्तढे । रेजतुर्नाव्यशाले । यत्रावण शासनं मीनकेतोरेणाक्षीणां लास्यमासीजनेषु ॥ ७८ ॥ १. सालेव प्राकारेण कान्तम्; (पक्षे) अलकान्तैः समेतमू.
२० सर्गः] धर्मशर्माभ्युदयम् ।
१४७
द्वौ द्वौ मार्गे धूपकुम्भावभूतां यद्वक्रेभ्यो निर्गता धूमराजिः ।
मुक्त्वा देहं ज्ञातुरभ्रे भ्रमन्ती भर्तुः कर्मश्यामिकेवावमासे ॥ ७९ ॥
कृत्वा रूपं दंशपोतप्रमाणं भीत्या कोणे क्वापि लोके स्थितस्य ।
पापस्येवोत्सारणाथै सुगन्धो धूमस्तस्मिन्धूपजन्मोजिम्मे ॥ ८० ॥
क्रीडोद्यानान्यत्र चत्वारि ताभ्यामासन्नूर्ध्वप्रोल्लसत्पलवानि ।
इन्द्रोद्यानं तञ्चतुर्यागवृक्षव्याजानेतुं पैरुदस्ताः स्वहस्ताः ॥ ८१ ॥
प्रेङ्खघोलासीनसेव्याम्बुधारैर्धारायन्त्रैस्तैलतामण्डपैश्च ।
खैरक्रीडलोकचित्तेक्षणैणास्तेऽप्यारेजुः काञ्चनाक्रीडशैलाः ॥ ८२ ॥
नानारत्नस्तम्भशोभैरयासीत्सालंकारा तोरणैः स्वर्णवेदी ।
रात्रावन्तविम्बितेन्दुग्रहोचैरास्थानीव श्रेयसो या विरेजे ॥ ८३ ॥
उदै तस्यास्ताय॑हसोक्षमुख्या दिक्संख्यातास्ता व वैजयन्त्यः ।
यासु व्योमोवेल्लनाकृष्टगङ्गाभ्रान्ति चक्रुः स्यूतमुक्ताफलामाः ॥ ८४ ॥
कर्णाकारं गोपुराणां चतुष्कं विभ्रत्सालस्तत्परं काञ्चनोऽन्यः ।
धर्मव्याख्यामाईती श्रोतुमिच्छन्मन्ये मेरुः कुण्डलीभूय तस्थौ ॥ ८५ ॥
वाञ्छानीतं यच्छतोऽप्यस्य पाश्र्वं वाञ्छामात्रत्यागिनः कल्पवृक्षाः ।
तस्मिन्नुच्चैस्तस्थुरुद्धृत्य शाखाः का वा लज्जा हन्त निश्चेतनानाम्॥ ८६ ॥
ऊर्ध्वं तेभ्योऽभूञ्चतुर्गोपुराङ्का विश्वानन्दोजीविनी वजवेदी ।
रेजे पङ्किस्तादृशानां दशानां रत्नज्योतिर्ध्यायसी तोरणानाम् ॥ ८७ ॥
स्तूपास्तेषामन्तरन्तनवोच्चैस्ते प्रत्येकं रेजुरर्चासनाथाः ।
तत्रैवासन्सन्मुनीनां मनोज्ञा नानासंसन्मण्डपास्तुङ्गतुङ्गाः ॥ ८८ ॥
रुद्धक्रूरानङ्गहेतिप्रचारस्तत्प्राकारः स्फाटिकः प्रादुरासीत् ।
तस्याप्यन्तश्चन्द्रकान्तप्रतिष्ठाः कोष्ठास्तत्र द्वादशासन्गरिष्ठाः ॥ ८९॥
वीतग्रन्थाः कल्पनार्योऽप्यथार्या ज्योतिर्भीमा हि स्त्रियो भावनाश्च ।
भौमज्योतिः कल्पदेवा मनुष्यास्तिर्यग्यूथान्येषु तस्थुः क्रमेण ॥ ९० ॥
ऊर्ध्वं तेभ्यो वल्लभं लोचनानां स्थानं दिव्यं गन्धकुव्याख्यमासीत् ।
अन्तस्तस्योदाममाणिक्यदीपं रेजे रम्यं काञ्चनं.सिंहपीठम् ॥ ९१ ॥
१४८
काव्यमाला।
रत्नज्योतिर्भासुरे तत्र पीठे तिष्ठन्देवः शुभ्रभामण्डलस्थः ।
क्षाराम्भोधेः सिच्यमानः पयोभिभूयो रेजे काञ्चनाद्राविवोच्चैः ॥ १२ ॥
गायन्नादेनेव भृङ्गाङ्गनानां नृत्यल्लोलैः पल्लवानामिवौषैः ।
किं ब्रूमोऽन्यत्तस्य वृत्तं गुणोधैर्जज्ञे रक्तो यस्य सक्षोऽप्यशोकः ॥ ९३ ॥
वृष्टिः पौष्पी सा कुतोऽभून्नमस्तः संभाव्यन्ते नात्र पुष्पाणि यस्मात् ।
यद्वा ज्ञातं दागनङ्गस्य हस्तादहरीत्या तत्र बाणा निपेतुः ॥ ९४ ॥
आविर्भूतं यद्भवद्भूतमावि ज्ञानाकारं तुल्यमिन्दुत्रयेण ।
अव्याबाधामातपत्रत्रयं तत्तस्यावोचद्भूत्रयैश्वर्यलक्ष्मीम् ॥ ९५ ॥
छाया कायस्यास्य सेवोपसर्पदास्वच्चक्रेणेव भामण्डलेन ।
क्षिप्ता नान्तश्चेत्कथं तत्प्रपेदे तीव्रा चेतस्तापसंपत्प्रशान्तिम् ॥ ९६ ॥
रेजे मुक्तिश्रीकटाक्षच्छटामा पार्श्वे पतिश्चामराणां जिनस्य ।
ज्ञानालोके निष्फलानामिवेन्दो सामुच्चैर्दण्डनियन्त्रितानाम् ॥ ९७ ॥
अप्युग्रीवैः श्रूयमाणा कुरङ्गैः कर्णाभ्यर्णस्फारपीयूषधारा ।
आ गव्यूतिद्वन्द्वमभ्युल्लसन्ती दिव्या भाषा कस्य नासीत्सुखाय ॥९८
क्केयं लक्ष्मीः क्वेशं निःस्टहत्वं वेदं ज्ञानं क्वास्त्यनौद्धत्यमीठक् ।
रे रे ब्रूत द्राकुतीर्था इतीव ज्ञाने भर्तुर्दुन्दुभिर्योन्यवादीत् ॥ ९९ ॥
लास्योल्लासा वाद्यविद्याविलासा गीतोद्गाराः कर्णपीयूषधाराः ।
स्थाने स्थाने तत्र ते ते बभूवुश्छायाप्यस्मिन्दुर्लभासीद्यदीया ॥ १००
इति निरुपमलक्ष्मीरष्टभिः प्रातिहार्यै-
रतिशयगुणशाली केवलज्ञानभानुः ।
समवसरणमध्ये धर्मतत्त्वं विवक्षुः
सरपरिषदि तस्थौ धर्मनाथो जिनेन्द्रः॥ १०१ ॥
इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये विंशतितमः
एकविंशः सर्गः ।
तत्वं जगत्रयस्यापि बोधाय त्रिजगद्गुरुम् ।
तमाटच्छदथातुच्छज्ञानपण्यापणं गणी ॥ १ ॥
२१ सर्गः]
धर्मशर्माभ्युदयम् !
ततो भूतभवद्भाविपदार्थव्यक्तिसाक्षिणी ।
निःशेषदोषनिर्मुक्ता त्यक्तमिथ्यापथस्थितिः ॥ २॥
विपक्षगर्वसर्वस्वदूरोच्चाटनडिण्डिमः ।
अपारपापसंभारभूधरोपन्द्रवाशनिः ॥ ३ ॥
स्याद्वांदवादसाम्राज्यप्रतिष्ठाप्रसवश्रुतिः ।
अतुल्यधर्ममल्लोस्करास्फोटस्फुटाकृतिः ॥ ४ ॥
भूविक्रमकरन्यासश्वासौष्ठस्पन्दवर्जिता ।
वर्णविन्यासशून्यापि वस्तुबोधविधायिनी ॥ ६ ॥
पृथक्टथगभिप्रायवचसामपि देहिनाम् ।
तुल्यमेकाप्यनेकेषां स्पष्टमिष्टार्थसाधिका ॥ ६ ॥
सर्वाद्रुतमयी सृष्टिः सुधारष्टिश्च कर्णयोः ।
प्रावर्तत ततो वाणी सर्वविद्येश्वराद्विभोः ॥ ७ ॥ (कुलकम्)
जीवाजीवाश्रवा बन्धसंवरावपि निर्जराः ।
मोक्षश्चतीह तत्त्वानि सप्त स्युर्जिनशासने ॥ ८ ॥
बन्धान्तभांविनोः पुण्यपापयोः पृथगुक्तितः ।
पदार्था नव जायन्ते तान्येव भुवनत्रये ॥ ९ ॥
अमूर्तश्चेतनाचिह्नः कर्ता भोक्तातनुप्रमः ।
ऊर्ध्वगामी स्मृतो जीवः स्थित्युत्पत्तिव्ययात्मकः ॥ १० ॥
सिद्धसंसारिभेदेन द्विप्रकारः स कीर्तितः ।
नरकादिगतेभैंदात्संसारी स्याच्चतुर्विधः ॥ ११ ।।
नारकः सप्तधा सप्तप्टथ्वीभेदेन मिद्यते ।
अधिकाधिकसंक्लेशप्रमाणायुर्विशेषतः ॥ १२ ॥
रत्नशर्करावालुकापङ्कधूमतमःप्रभाः।
महातमः प्रभा चेति सप्तैताः श्वभ्रभूमयः ॥ १३ ॥
तत्राद्या त्रिंशता लबिलानामतिभीषणा ।
द्वितीया पञ्चविंशत्या तृतीया च तिथिप्रमैः ॥ १४ ॥
१६० काव्यमाला । चतुर्थी दशमियुक्ता पञ्चमी त्रिभिरुल्बणैः । षष्ठी पञ्चोनलक्षण सप्तमी पञ्चमिबिलैः ॥ १५ ॥ एवं नरकलक्षाणामशीतिश्चतुरुत्तरा । वज्ञेया तासु दुःखानां न संख्या निपुणैरपि ॥ १६ ॥ ग्लास्त्रयो हस्ताः सप्त चापानि विग्रहे । इयत्येव प्रमा ज्ञेया प्राणिनां प्रथमक्षितौ ॥ १७ ॥ द्वितीयादिष्वतोऽन्यासु द्विगुणद्विगुणोदयः। उत्सेधः स्याद्धरित्रीषु यावत्पञ्चधनुःशती ॥ १८ ॥ प्रसरहुःखसंतानमन्तातुमिवाक्षमम् । वर्धयत्यङ्गमेतेषामधोऽधो धरणीष्वतः ॥ १९ ॥ एक आये द्वितीये च त्रयः सप्त तृतीयके । चतुर्थे पञ्चमे च स्युर्दश सप्तदश क्रमात् ॥ २० ॥ षष्ठे द्वाविंशतिज्ञेया त्रयस्त्रिंशच्च सप्तमे । आयुःखापवरके नरके सागरोपमाः ॥ २१ ॥ आये वर्षसहस्राणि दशायुरधमं ततः । पूर्वस्मिन्यद्यदुत्कृष्टं निकृष्टं तत्तदग्रिमे ॥ २२ ॥ कदाचिदपि नैतेषां विधिरेधयतीहितम् । दुःखिनामनभिप्रेतमिवायुर्वर्धयत्यसौ ॥ २३ ॥ रौद्रध्यानानुबन्धेन बद्वारम्भपरिग्रहाः । तत्रौपपादिका जीवा जायन्ते दुःखखानयः ॥ २४ ॥ तेषामालिङ्गिताङ्गानां संततं दुःखसंपदा । न कदापि कृतेष्येव सुखश्रीर्मुखमीक्षते ॥ २५ ॥ साश्रुणी लोचने.वाणी गद्गदा विह्वलं मनः । स्यात्तदेषां कथं दुःखं वर्णयन्ति दयालवः ॥ २६ ॥ सूतवद्भिन्नमप्यङ्ग यन्मिलत्यापदे पुनः । दुःखाकरोति मञ्चित्तं तेन वार्तापि तादृशाम् ॥ २७ ॥ १. पारदवतं.
२ सर्गः] धर्मशर्माभ्युदयम् । जगत्रयोत्तसितभासि तद्यशःसमग्नपीयूषमयूखमण्डले । विजृम्भमाणं रिपुराजदुर्यशो बभार तुच्छेतरलाञ्छनच्छविम् ॥ २२ ॥ वमन्नमन्दं रिपुवर्मयोगतः स्फुलिङ्गजालं तदसिस्तदा बभौ । वपन्निवासृग्जलसिक्तसंगरक्षितौ प्रतापद्रुमबीजसंततिम् ॥ २३ ॥ अवाप्तवाञ्छाभ्यधिकार्थसंपदोन्नतेषु संक्रान्त इवानुजीविषु । मदस्य लेशोऽपि न तस्य कुत्रचिन्महाप्रभुत्वेऽपि जनैरदृश्यत ॥ २४ ॥ द्विषत्सु कालो धवलः क्षमाभरे गुणेषु रक्तो हरितः प्रतापवान् । जनेक्षणैः पीत इति द्विषां व्यधादनेकवर्णोऽपि विवर्णतामसौ ॥ २५ ॥ प्रतापवह्रौ किल दीपिते ककुप्करीन्द्रभाकरफूल्कृतानिलैः । स कांचनामा कटकं जगत्पुटे दधानमावर्तयति स्म विद्विषाम् ॥ २६ ॥ अवापुरेके रिपवः पयोनिधेः परे तु वेलां बलिनोऽस्य भूभुजः । ततोऽस्य मन्ये न कुतोऽप्यपूर्यत प्रचण्डदोर्विक्रमकेलिकौतुकम् ॥ २७ ॥ भयातुरत्राणमयीमनारतं महाप्रतिज्ञामधिरूढवानिव । न भूरिशङ्काविधुरे रिपावपि क्वचित्तदीयासिरचेष्टताहितम् ॥ २८ ॥ स कोऽपि चेदेकतमेन चेतसा क्षमेत संचिन्तयितुं फणीश्वरः । तदा तदीयारसनासहस्त्रभृगुणानिदानीमपि किं न वर्णयेत् ॥ २९ ॥ निशासु नूनं मलिनाम्वरस्थितिः प्रगल्भकान्तासुरते द्विजक्षतिः । यदि विपः सर्वविनाशसंस्तवः प्रमाणशास्त्रे पैरमोहसंभवः ॥ ३० ॥ धनुर्धराणां करवालशून्यता हिरण्यरेतस्यविनीतता स्थिता । अभूज्जगद्विभ्रति तत्र केवलं गुणच्युतिर्गिण एव निश्चलम् ॥३१॥ (युग्मम्) निरञ्जनज्ञानमरीचिमालिनं जिनेन्द्रचन्द्रं दधतः प्रमोदतः । न तस्य चेतस्यखिलक्षमापतेस्तमोऽवकाशः क्षणमप्यलक्ष्यत ॥ ३२ ॥ १. कृष्णवर्णः; यमश्च. २. शुक्ल:; वृषभश्च. ३. हरिद्वर्णः; इन्द्राच. ४. पीतवर्णः; सादरमवलोकितश्च. ५. वर्णरहितत्वम् ; नीचत्वं च. ६. कांचन अनिर्वचनीयां शो- भाम् ; सुवर्णकान्ति च. ७. सैन्यम्; कङ्कणं च. ८. व्याकरणप्रसिद्धस्य प्रत्ययविशे- षस्य. ९. परम-उह; पर-मोह. १०. हिरण्यरेता अग्निः स एव अविना तद्वाहनभूतेन मेषेण नीयते नान्यः कश्चनाविनीतः शीलरहितः,
काव्यमाला।
चतुर्थे त्रीण्यहान्येव पश्चमस्य प्रकर्षतः।
पञ्चेन्द्रियाधिकोत्सेधस्याब्दानामयुतं मतम् ॥ ११॥
आर्तध्यानवशाज्जीवो लब्धजन्मात्र जायते ।
शीतवर्षातपक्लेशवधबन्धादिदुःखभाक् ॥ ४२ ॥
इति तिर्यग्गतेÈदो यथागममुदीरितः ।
मानवानां गतेः कोऽपि प्रकारः कथ्यतेऽधुना ॥ ४३ ॥
द्विाप्रकारा नरा भोगकर्ममभेदतः स्मृताः ।
देवकुर्वादयस्त्रिंशत्प्रसिद्धा भोगभूमयः ॥ १४ ॥
जघन्यमध्यमोत्कृष्टभेदात्तास्त्रिविधाः क्रमात् ।
द्विचतुःषड्धनुर्दण्डसहस्रोत्तुङ्गमानवाः ॥ १५ ॥
ताखेकद्वित्रिपल्यायु विनो भुञ्जते नराः ।
दशानां कल्पवृक्षाणां पात्रदानार्जितं फलम् ॥ ४६॥
कर्मभूमिभवास्तेऽपि द्विधार्यम्लेच्छमेदतः ।
भारताद्याः पुनः पञ्चदशोक्ताः कर्मभूमयः ॥ ४७ ।।
धनुःपञ्चशतैस्तासु सपादैः प्रमितोदयाः ।
उत्कर्षतो मनुष्याः स्युः पूर्वकोटिप्रमायुषः ॥ १८ ॥
उत्सर्पिण्यवसर्पिण्योः कालयोवृतिहासिनी ।
भरतैरावते स्यातां विदेहस्त्वक्षतोदयः ॥ १९ ॥
मागरोपमकोटीनां कोटिमिर्दशभिर्मिता ।
आगमज्ञैरिह प्रोक्तोत्सर्पिणी चावसर्पिणी ॥ १० ॥
सुखमासुखमा प्रोक्ता सुखमा च ततो बुधैः ।
सुखमादुःखमान्यापि दुःखमासुखमा क्रमात् ॥ ११ ॥
पञ्चमी दुःखमा षष्ठी दुःखमादुःखमा मता।
प्रत्येकमिति भिद्यन्ते ते पोढा कालभेदतः॥५२॥
चतस्त्रः कोटयस्तिस्रो द्वे च पूर्वादिषु क्रमात् ।
तिसृष्वम्मोधिकोटीनां मानमुक्तं जिनागमे ॥ १३ ॥
२१ सर्गः] धर्मशर्माभ्युदयम् । ऊना सहखैरव्दानां वाचत्वारिंशता ततः । चतुर्थ्यम्भोधिकोटीनां कोटिरेका प्रकीर्तिता ॥ १४ ॥ पञ्चमी वत्सराणां स्यात्सहस्त्राण्येकविंशतिः । तत्प्रमाणैव तत्वानूनं पष्टी प्रतिष्ठिता ॥ १५ ॥ पोढा षट्कर्मभेदेन ते गुणस्थानभेदतः । स्युश्चतुर्दश धात्रीर्या न्लेच्छाः पञ्च प्रकीर्तिताः ॥ १६ ॥ खभावमार्दवत्वेन खल्पारम्भपरिग्रहाः । भवन्त्यत्र नराः पुण्यपापाप्तिप्रक्षयक्रमाः॥ १७ ॥ नारीगर्भेऽतिबीभत्से कफामासुझालाविले । कुम्भीपाकाधिकासाते(३) जायते कमिवन्नरः ॥ ५८ ॥ वर्णितति गतिर्नृणां देवानामपि संप्रति । कियत्यपि स्मरानन्दोजीविनी वर्णयिप्यते ॥ ५९॥ आवनव्यन्तरज्योतिर्वैमानिकविभेदतः । देवाश्चतुर्विधास्तेषु भावना दशधोदिताः॥६० ॥ असुराहिसुपर्णाग्निविद्युद्वातकुमारकाः । दिग्द्वीपस्तनिताम्भोधिकुमाराश्चेति भेदतः ॥ ६१ ॥ तत्रासुरकुमाराणामुत्सेधः पञ्चविंशतिः । चापानि दश शेषाणामप्युदन्वत्परायुषाम् ॥ ६२ ॥ दशसप्तधनुर्माना व्यन्तराः किंनरादयाः । शिष्टास्तेऽष्टविधा येषामायुः पल्योपमं परम् ।। ६३ ॥ ज्योतिप्काः पञ्चधा प्रोक्ताः सूर्यचन्द्रादिभेदतः । येपामायुःप्रमाणं च व्यन्तराणामिवाधिकम् ॥ ६४ ॥ वर्षाणामयुतं भौमभावनानामिहावमम् । पल्यस्यैवाष्टमो भागो ज्योतिषामायुरीरितम् ॥ ६५ ॥ वैमानिका द्विधा कल्पसंभूतातीतभेदतः । कल्पजास्तेऽच्युतादाक्कल्पातीतास्ततः परे ॥ ६६ ॥ २०
१५१
काव्यमाला।
:
सौधर्मशाननामानी धर्मारम्भमहोद्यमौ ।
सनत्कुमारमाहेन्द्रौ ब्रह्मब्रह्मोत्तरावपि ॥ ६७ ॥
ततो लान्तवकापिष्ठौ शुकशुक्रोत्तरौ परौ ।
शताराख्यसहस्रारावानतप्राणतावपि ॥ ६८ ॥
अथारणाच्युतौ कल्पाः घोडशेति प्रकीर्तिताः ।
इदानीं तेषु देवानामायुर्मानं च कथ्यते ॥ ६९ ॥
हस्ताः सप्त द्वयोर्मानं पडूज़ नाकिषु द्वयोः ।
चर्तुणा पञ्च चत्वारस्तदूर्वं तावतां क्रमात् ॥ ७० ॥
त्रयः सार्धा द्वयोरूर्ध्वमूर्ध्वमाभ्यां द्वयोस्त्रयः ।
इति षोडशकल्पानामूलं अवेयकेष्वपि ॥ ७१ ॥
अधःस्थेषु करौ साधों द्वौ मध्येपूर्वगेषु च ।
त्रिषु सार्धकरास्तेभ्यः परे हस्तप्रमाः सुराः ॥ ७२ ॥
सौधर्मेशानयोरायुःस्थितिौं सागरौ मतौ ।
सनत्कुमारमाहेन्द्रकल्पयोः सप्तसागराः ॥ ७३ ॥
दशैव कल्पयोर्जेया ब्रह्मब्रह्मोत्तराख्ययोः ।
निर्णीता लान्तवे कल्पे कापिष्ठे च चतुर्दश ॥ ७४ ॥
घोडशैव ततः शुक्रमहाशुक्राभिधानयोः ।
अष्टादश शतारे च सहस्रारे च निश्चिताः ॥ ७५ ॥
वर्णिता विंशतिनमानतप्राणताख्ययोः ।
उक्ता द्वाविंशतिः प्राज्ञैरारणाच्युतयोरपि ॥ ७६ ॥
सर्वार्थसिद्धिपर्यन्तेष्वतो त्रैवेयकादिषु ।
एकैको वर्धते तावद्यावत्रिंशत्रयाधिका ॥ ७७ ॥
अकामनिर्जराबालतपःसंपत्कयोगतः ।
अत्रौपपादिका भूत्वा प्रपद्यन्ते सुराः सुखम् ॥ ७८ ॥
विलासोल्लाससर्वस्वं रतिकोषसमुच्चयम् ।
शृङ्गाररससाम्राज्यं भुञ्जते ते निरन्तरम् ॥ ७९ ॥
२१ सर्गः] धर्मशर्माभ्युदयम् । इति व्यावर्णितो जीवश्चनुर्गत्यादिभेदतः। संप्रत्यजीवतत्वस्य किंचिद्रूपं निरूप्यते ॥ ८ ॥ धर्माधर्मी नभः कालः पुद्गलश्चेति पञ्चधा । अजीवः कथ्यते सम्यग्जिनस्तत्रार्थदर्शिमिः ॥ ८१ ॥ पन्द्रव्याणीति वर्ण्यन्ते मनं जीवन तान्यपि । विना कालेन तान्येव यान्ति पयाम्तिकायताम् ।। ८२.॥ धर्मः स ताच्चिकैरुक्तो यो भवेद्गतिकारणम् । जीवादीनां पदार्थानां मत्स्यानामुदवं यथा ॥ ८३ ॥ छायेव धर्मतप्तानामश्वादीनामिव मितिः । द्रव्याणां पुद्गलादीनामधर्मः स्थितिकारणम् ॥ ८४ ॥ लोकाकाशमभिव्याप्य स्थितावेतावनिष्क्रियो। नित्यावप्रेरको हेतू मूर्तिहीनावुभावपि ॥ ८ ॥ पुद्गलादिपदार्यानामवगाहैकलक्षणः । लोकाकाशः स्मृतो व्यापी शुद्धाकाशो वहिस्ततः ॥ ८६ ॥ धर्माधर्मकजीवाः स्युरसंख्येयप्रदेशकाः । व्योमानन्तप्रदेश सर्वज्ञः प्रतिपाद्यते ॥ १७ ॥ जीवादीनां पदार्थानां परिणामोपयोगतः । वर्तनालक्षणः कालोऽनंशो नित्यश्च निश्चयात् ॥ ८ ॥ कालो दिनकरादीनामुदयास्तत्क्रियात्मकः । औपचारिक एवासौ मुख्यकालस्य सूचकः ॥ ८९ ॥ रूपगन्धरसस्पर्शशब्दवन्तश्च पुद्गलाः । द्विधा स्कन्धाणुभेदेन त्रैलोक्यारम्भहेतवः ॥ १० ॥ भूमितैलतमोगन्धकर्माणुप्रकृतिः क्रमात् । स्थूलास्थूलादिभेदाः स्युस्तेपां पोढा जिनागमे ॥ ९१ ॥ भाषाहारशरीराख्यप्राणापानादिमूर्तिमत् । यत्किचिदस्ति तत्सर्वं स्थूलं सूक्ष्मं च पुद्गलम् ॥ ९२ ।। तु
काव्यमाला।
यथागममजीवस्य कता रूपनिरूपणा ।
इदानीमाश्रवस्यापि कोषमुन्मुद्रयाम्यहम् ॥ ९३ ॥
शरीरवाल्मनःकर्मयोग एवाश्रवो मतः ।
शुभाशुभविकल्पोऽसौ
पुण्यपापानुषङ्गतः ॥ ९४ ॥
गुरुनिवदोषोक्तिमात्सर्यासादनादयः ।
आश्रयत्वेन विज्ञेया हरज्ञानावृत्तिकर्मणोः ॥१५॥
दुःखशोकभयाक्रन्दसंतापपरिदेवनैः।
जीवो बनात्यसदेचं स्वपराभयसंश्रयैः ।। ९६ ॥
शान्तिक्षौचदयादानसरागसंयमादयः ।
भवन्ति हेतवः सम्यगसवेद्यस्य कर्मणः ॥ ९७॥
केवलिश्रुतसंघाहर्माणामविवेकतः ।
अवर्णवाद एवाद्यो दृष्टिमोहस्य संभवः ।। ९८ ॥
कषायोदयतस्तीव्रपरिणामो मनस्विनाम् ।
चारित्रमोहनीयस्य कर्मणः कारणं परम् ॥ ९९ ॥
श्वभ्रायुषो निमित्तानि बहारम्भपरिग्रहाः ।
मायार्तध्यानतामूलं तिर्यग्योनिभवायुषः ॥ १० ॥
नरायुषोऽपि हेतुः स्यादल्पारम्भपरिग्रहः ।
सरागसंयमत्वादिनिदानं त्रिदशायुषः ॥ १०१ ॥
स्याद्विसंवादनं योगवक्रता च निरत्यया ।
हेतुरशुभस्य नाम्नस्तदन्यस्य तदन्यथा ॥ १०२ ॥
षोडशदग्विशुद्ध्याद्यास्तीर्थकन्नामकर्मणः ।
स्वप्रशंसान्यनिन्दाद्या नीचैर्गोत्रस्य हेतवः ॥ १०३ ।।
विपरीताः पुनस्ते स्युरुच्चैगात्रस्य साधकाः ।
अन्तरायः सदानादिविघ्ननिर्वर्तनोदयः ॥ १०४ ॥
रहस्यमिति निर्दिष्टं किमप्याश्रवगोचरम् ।
बन्धतत्वप्रबोधोऽयमधुना विधिनीच्यते ॥ १०५ ॥
२१ सर्गः] धर्मशर्माभ्युदयम् । १५७ सकषायतया दत्ते जीवोऽसंख्यप्रदेशगान् । पुद्गलान्कर्मणो योग्यान्बन्धः स इह कथ्यते ॥ १०६ ।। मिथ्याक्च प्रमादाश्च योगाश्चाविरतिस्तथा । कषायाश्च स्मृता जन्तोः पञ्च वन्धस्य हेतवः ॥ १०७ ॥ प्रकृतिस्थित्यनुभागप्रदेशानां विभेदतः । चतुर्विधः प्रणीतोऽसौ जैनागमविचक्षणैः ॥ १०८ ॥ अष्टौ प्रकृतयः प्रोक्ता ज्ञानावृतिहगावृती । वेद्यं च मोहनीयायुर्नामगोत्रान्तराययुक् ॥ १०९ ॥ तद्भेदाः पञ्च नव द्वावष्टाविंशतिरप्यतः । चत्वारो द्विचत्वारिंशही पश्चापि स्मृताः क्रमात् ॥ ११०॥ आदितस्तिसृणां प्राज्ञैरन्तरायस्य च स्मृताः । सागरोपमकोटीनां त्रिंशत्कोव्यः परा स्थितिः॥ १११ ॥ सप्ततिर्मोहनीयस्य विशतिर्नामगोत्रयोः । आयुषस्तु त्रयस्त्रिंशद्विज्ञेयाः सागरोपमाः ॥ ११२ ॥ अवरावेदनीयस्य मुहूर्ता द्वादश स्थितिः । नानो गोत्रस्य चाष्टौ स्याच्छेषास्त्वन्तर्मुहूर्तकम् ॥ ११३ ॥ माव्यक्षेत्रादिसापेक्षो विपाकः कोऽपि कर्मणाम् । अनुभागो जिनैरुतः केवलज्ञानभानुभिः ॥ ११४ ॥ ये सर्वात्मप्रदेशेषु सर्वतो बन्धभेदतः । प्रदेशाः कर्मणोऽनन्ताः स प्रदेशः स्मृतो बुधैः ।। ११५ ॥ इत्येष वन्धतत्त्वस्य चतुर्धा वर्णितः क्रमः । पदैः संहियते कैश्चित्संवरस्यापि डम्बरः ॥ ११६ ॥ आश्रवाणामशेषाणां निरोधः संवरः स्मृतः । कर्म संवियते येनेत्यन्वयस्यावलोकनात् ॥ ११७ ॥ आश्रवद्वाररोधेन शुभाशुभविशेषतः । कर्म संवियते येन संवरः स निगद्यते॥ ११८॥ (इति पाठान्तरम्)
काव्यमाला ।
धर्मात्ममितिगुप्तिभ्यामनुप्रेक्षानुचिन्तनात् ।
असावुदेति चारित्रादरिषट्कजयादपि ॥ ११९ ॥
किमन्यविस्तरैरेतद्रहस्यं जिनशासने ।
आश्रवः संसृतेर्मूलं मोक्षमूलं तु संवरः ॥ १२० ॥
संवरो विवृतः सैप संप्रति प्रतिपाद्यते ।
जर्जरीकृतकर्मायःपञ्जरा निर्जरा मया ॥ १२१ ॥
दुर्जरं निर्जरत्यात्मा यया कर्म शुभाशुभम् ।
निर्जरा सा द्विधा ज्ञेया सकामाकामभेदतः ॥ १२२ ॥
सा सकामा स्मृता जैनैर्या व्रतोपक्रमैः कृता ।
अकामा स्वविपाकेन यथा श्वभ्रादिवासिनाम् ॥ १२३ ॥
सागारमनगारं च जैनैरुक्तं व्रतं द्विधा ।
अणुमहाव्रतभेदेन तयोः सागारमुच्यते ॥ १२४ ॥
अणुव्रतानि पञ्च स्युस्त्रिप्रकारं गुणव्रतम् ।
शिक्षाव्रतानि चत्वारि सागारांणां जिनागमे ।। १२५ ॥
सम्यक्त्वं भूमिरेषां यन्न सिध्यन्ति तदुज्झिताः ।
दूरोत्सारितसंसाराातपा व्रतपादपाः ॥ १२६ ॥
धर्माप्तगुरुतत्त्वानां श्रद्धानं यत्सुनिर्मलम् ।
शङ्कादिदोषनिर्मुक्तं सम्यक्त्वं तन्निगद्यते ॥ १२७ ॥
तत्र धर्मः स एवाप्तैर्यः प्रोक्तो दशलक्षणः ।
आप्तास्त एव ये दोषैरष्टादशभिरुज्झिताः ॥ १२८ ।
गुरुः स एव यो ग्रन्थैर्मुक्तो बाबैरिवान्तरैः ।
तत्त्वं तदेव जीवादि यदुक्तं सर्वदर्शिभिः ॥ १२९ ॥
शङ्काकासा विचिकित्सा मूढदृष्टिः प्रशंसनम् ।
संस्तवश्चेत्यतीचाराः सम्यग्दृष्टेरुदाहृताः " १३० ॥
अदेवे देवबुद्धिर्या गुरुधीरगुरावपि । .
अतत्त्वे तत्त्वबुद्धिश्च तन्मिथ्यात्वं विलक्षणम् ॥ १.३१ ॥
२१ सर्गः] धर्मशर्माभ्युदयम् । ११९ मधुमांसासवत्यागः पञ्चोदुम्बरवर्जनम् । अमी मलगुणाः सम्यग्दृष्टेरष्टौ प्रकीर्तिताः ॥ ११२ ॥ द्यूतं मांसं सुरा वेश्या पापड़िः स्तेयत्तिता । परदाराभियोगश्च त्याज्यो धर्मधुरंधरैः ।। १३३ ॥ मोहानमूनि चः सप्त व्यसनान्यत्र सेवते । अणारे दुःखकान्तारे संसारे बम्भ्रमीति सः ।। १३४ ।। मुहूर्तहितयाध्वं भूयस्तोयमगालितम् । शीलयेन्नवनीतं च न देशविरतिः क्षचित् ।। १३५ ॥ दिनहयोपितं तत्रं दधि वा पुष्पितौदनम् । आमगोरससंष्टतं द्विदलं चाद्यान्न शुद्धधीः ॥ १३६ ॥ विहं विचलितस्वाद धन्यमन्यहिरुढकम् । तैलमम्मोऽथवाज्यं वा चर्मपात्रापवित्रितम् ॥ १३७ ॥ आई कन्दं कलिङ्ग वा मूलकं कुसुमानि च । अनन्तकायमनातफलं संधानकान्यपि ॥ १३८ । एवमादि यदादिष्टं श्रावकाध्ययने सुधीः । तजैनी पालयन्नाज्ञां शुत्क्षामोऽपि न भक्षयेत् ॥ १३९ ॥ पापभीरूनिशामुक्ति दिवा मैथुनमप्यसौ । मनोवाकायसंशझ्या सम्यग्दृष्टिविवर्जयेत् ॥ १४ ॥ वर्तमानोऽनया स्थित्या सुसमाहितमानसः । भवत्यधिकतो नूनं श्रावकब्रतपालने ॥ १४१ ॥ हिंसातवचःस्तेयस्त्रीयैथुनपरिग्रहात् । देशतो विरतिज्ञेया पञ्चधाणुव्रतस्थितिः ।। १४२ ॥ दिग्देशानदण्डेभ्यो यत्रिधा विनिवर्तनम् । पोतायते भवाम्भोधौ त्रिविधं तद्रुणव्रतम् ॥ १४३ ।। शोधनीयन्त्रशस्त्राग्निमुसलोलूखलार्पणम् । ताम्रचडश्वमार्जारशारिकाशुकपोषणम् ।। १४४ ॥ १. मृगया, १६० काव्यमाला। अङ्गारशकटारामभाटकास्फोटजीवनम् । तिलतोयेक्षुयन्त्राणां रोपणं दावदीपनम् ॥ १४५ ॥ दन्तकेशनखास्थित्वग्रोम्णां निन्धरसस्य च । शणलाङ्गललाक्षायःक्ष्वेडादीनां च विक्रयः ॥ १४६ ॥ वापीकूपतडागादिशोषणं कर्षणं भुवः । निर्लाञ्छनं भक्षरोधः पशूनामतिभारणम् ॥ १४७ ॥ वनकेलिर्जलक्रीडा चित्रलेप्यादिकर्म वा । एवमन्येऽपि बहवोऽनर्थदण्डाः प्रकीर्तिताः ॥ १४८ ॥ सामाजिकमथाद्यं स्याच्छिक्षाव्रतमगारिणाम् । आर्तरौद्रे परित्यज्य त्रिकालं जिनवन्दनात् ॥ १४९ ॥ निवृत्तिर्भुक्तभोगानां या स्यात्पर्वचतुष्टये । पोषधाख्यं द्वितीयं तच्छिक्षाव्रतमितीरितम् ॥ १५० ॥ भोगोपभोगसंख्यानं क्रियते यदलोलुपैः । तृतीयं तत्तदाख्यं स्याहुःखदावानलोदकम् ॥ १५१ ॥ गृहागताय यत्काले शुद्धं दानं यतात्मने । अन्ते सळेखना वान्यतच्चतुथै प्रकीर्त्यते ॥ १५२ ॥ व्रतानि द्वादशैतानि सम्यग्दृष्टिविभर्ति यः। जानुदन्नीकतागाधभवाम्भोधिः स जायते ॥ १५३ ॥ यथागममिति प्रोक्तं व्रतं देशयतात्मनाम् । अनागारमतः किंचिह्नमस्त्रैलोक्यमण्डनम् ॥ १५४ ॥ अनागारं व्रतं वेधा बाह्याभ्यन्तरभेदतः । पोढा बाह्यं जिनैः प्रोक्तं तावत्संख्यानमान्तरम् ॥ १५५ ॥ वृत्तिसंख्यानमौदर्यमुपवासो रसोङ्मनम् (१)। रहःस्थितितनुच्छेशौ षोढा बाह्यमिति व्रतम् ।। १५६ ॥ स्वाध्यायो विनयो ध्यानं व्युत्सर्गों व्यारतिस्तथा । प्रायाश्चित्तमिति प्रोक्तं तपः षड्विधमान्तरम् ॥ १५७ ।।
२१ सर्गः] धर्मशर्माभ्युदयम् । यास्तिस्रो गुप्तयः पञ्च ख्याताः समितयोऽपि ताः । जननात्पालनात्पोपादष्टौ तन्मातरः स्मृताः ॥ १५८ ॥ निरूपितमिदं रूपं निर्जरायाः समासतः । इयमक्षीणसौख्यस्य लक्ष्मीर्मोक्षस्य वर्ण्यते ॥ १५९ ॥ अभावाद्वन्धहेतूनां निर्जरायाश्च यो भवेत् । निःशेषकर्मनिर्मोक्षः स मोक्षः कथ्यते जिनैः ॥ १६ ॥ ज्ञानदर्शनचारित्रैरुपायैः परिणामिनः । भव्यस्यायमनेकाङ्गविकलैरेव जायते ॥ १६१ ॥ तत्त्वस्यावगतिर्ज्ञानं श्रद्धानन्तस्य दर्शनम् । पापारम्भनिवृत्तिस्तु चारित्रं वर्ण्यते जिनैः ।। १६२ ।। ज्वालाकलापवद्वहरू+मेरण्डवीजवत् । ततः खभावतो याति जीवः प्रक्षीणबन्धनः ॥ १३ ॥ लोकाग्रं प्राप्य तत्रैव स्थितिं वनाति शाश्वतीम् । ऊर्ध्व धर्मास्तिकायस्य विप्रयोगान्न यात्यसौ ॥ १६४ ॥ तत्रानन्तमसंप्राप्तमव्याबाधमसन्निभम् । प्राग्देहात्किचिदूनोऽसौ सुखं प्राप्नोति शाश्वतम् ॥ १६५ ॥ इति तत्त्वप्रकाशेन निःशेषामपि तां समाम् । प्रभुः प्रह्लादयामास विवस्खानिव पद्मिनीम् ॥ १६६ ॥ अथ पुण्यैः समारप्टो भव्यानां निःस्टहः प्रभुः । देशे देशे तमश्छेत्तुं व्यचरद्वानुमानिव ॥ १६७ ।। दत्तविश्वावकाशोऽयमाकाशोऽतिगुरुः क्षितेः । गन्तुमित्याहतस्तेन स्थानमुच्चैर्यियासुना ॥ १६८ ॥ अनपायामिव प्राप्तुं पादच्छायां नभस्तले। उपकण्ठे लुलोठास्य पादयोः कमलोत्करः ॥ १६९ ॥ यत्तदा विदधे तस्य पादयोः पर्युपासनम् । अद्यापि भाजनं. लंक्षम्यास्तेनायं कमलाकरः ॥ १७० ॥ २१ १६२ काव्यमाला। तिलक तीर्थकल्लदम्यास्तस्य प्राह पुरो भ्रमत् । धर्मचक्रं जगच्चके चक्रवर्तित्वमक्षतम् ॥ १७१ ॥ विश्वप्रकाशकस्यास्य तेजोभिर्व्यर्थतां गतः । सेवार्थ संचचाराग्रे धर्मचक्रच्छलादविः ॥ १७२ ॥ यत्रातिशयसंपन्नो विजहार जिनेश्वरः । तत्र रोगग्रहातङ्कशोकशङ्कापि दुर्लभा ॥ १७३ ॥ निष्कलामा बभूवुस्ते विपक्षा इव सज्जनाः। प्रजा इव भुवोऽप्यासन्निष्कण्टकपरिग्रहाः ॥ १७४ ॥ के विपक्षा वराकास्ते प्रातिकूल्यविधौ प्रभोः । महाबलोऽपि यद्वायुः प्राप तस्यानुकूलताम् ॥ १७५ ॥ हेमरम्यं वपुः पञ्चचत्वारिंशद्धनुर्मितम् । विभ्रद्देवैः श्रितो रेजे स्वर्णशैल इवापरः ॥ १७६ ॥ द्वाचत्वारिंशदेतस्य सभायां गणिनोऽभवन् । नवैव तीक्ष्णबुद्धीनां शतानि पूर्वधारिणाम् ॥ १७७ ॥ शिक्षकाणां सहस्राणि चत्वारि सप्तभिः शतैः । सह षड्डिः शतैस्त्रीणि सहस्राण्यधिबोधिनाम् ॥ १७८ ॥ केवलज्ञानिनां पञ्चचत्वारिंशच्छतानि च । मनःपर्ययनेत्राणां तावन्ति क्षपितांहसाम् ॥ १७९॥ सप्तैव च सहस्राणि विक्रयढिमुपेयुषाम् । शतैरष्टाभिराश्लिष्टे हे सहस्त्रे च वादिनाम् ॥ १८० ॥ अनिकाणां सहस्त्राणि षट्चतुर्भिः शतैः सह । श्रावकाणां च लक्ष द्वे शुद्धसम्यक्त्वशालिनाम् ॥ १८१ ।। श्राविकाणां तु चत्वारि लक्षाणि क्षपितैनसाम् । निर्जराणां तिरश्चां च संख्याप्यत्र न बुध्यते ॥ १८२ ॥ इत्याश्वास्य चतुर्विधेन महता संघेन संभूषितः सैन्येनेव विपक्षवादिवदनाकष्टामशेषां महीम् ।
२१ सर्गः]
६
शर्माभ्युदयम् ।
१६३
दृप्यन्मोहवमं विजित्य विजयस्तम्भायमानं तदा
सम्मेदाचलमाससाद विजयश्रीधर्मनाथः प्रभुः ॥ १८३ ॥
तत्रासाद्य सितांशुभोगसुभगां चैत्रे चतुर्थी तिथि
यामिन्यां स नवोत्तरैर्यमवतां साकं शतैरष्टभिः ।
सार्वद्वादशवर्पलक्षपरमारम्यायुपः प्रक्षये
ध्यानध्वस्तसमत्तकर्मनिगलो जातस्तदानी क्षणात् ॥ १८४ ॥
अमजदथ विचित्रैर्वाक्प्रसूनोपचारैः
प्रभुरिह हरिचन्द्राराधितो मोक्षलक्ष्मीम् ।
तदनु तदनुयायी प्राप्तपर्यन्तपूजो-
पचितसुकृतराशिः स्वं पदं नाकिलोकः ॥ १८५ ।।
इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये एकविंशः सर्गः ।
श्रीमानमेयमहिमास्ति स नोमकानां
वंशः समस्तजगतीवलयावर्तसः ।
हस्तावलम्बनमवाप्य यमुल्लसन्ती
वृद्धापि न स्खलति दुर्गपथेषु लक्ष्मीः ॥ १ ॥
मुक्ताफलस्थितिरलंकृतिषु प्रसिद्ध-
स्तत्रादेव इति निर्मलमूर्तिरासीत् ।
कायस्थ एव निरवद्यगुणग्रहः स-
नेकोऽपि यः कुलमशेषमलंचकार ॥ २ ॥
लावण्याम्बुनिधिः कलाकुलगृहं सौभाग्यसद्भाग्ययोः
क्रीडावेश्म विलासवासवलभी भूषास्पदं संपदाम् ।
शौचाचारविवेकविस्मयमही प्राणप्रिया शूलिनः
शर्वाणीव पतिव्रता प्रणयिनी रथ्येति तस्याभवत् ॥ ३ ॥
अर्हत्पदाम्भोरुहचञ्चरीकस्तयोः सुतः श्रीहरिचन्द्र आसीत् ।
गुरुप्रसादादमला बभूवुः सारस्वते स्रोतास यस्य वाचः ॥ ४ ॥
काव्यमाला। भक्तेन शक्तेन च लक्ष्मणेन निर्व्याकुलो राम इवानुजेन । यः पारमासादितबुद्धिसेतुः शास्त्राम्बुराशेः परमाससाद ।। पदार्थवैचित्र्यरहस्यसंपत्सर्वस्वनिवेशमयात्प्रसादात् । वाग्देवतायाः समवेदि सभ्यैर्यः पश्चिमोऽपि प्रथमस्तनूजः । स कर्णपीयूषरसप्रवाहं रसध्वनेरध्वनि सार्थवाहः । श्रीधर्मशर्माभ्युदयाभिधानं महाकविः काव्यमिदं व्यधत्त । एण्यत्यसारमपि काव्यमिदं मदीय- मादेयतां जिनपतेरनघैश्चरित्रैः ।। पिण्डं मृदः स्वयमुदस्य नरा नरेन्द्र- मुद्राङ्कितं किमु न मूर्धनि धारयन्ति ॥ ८ ॥ दक्षैः साधु परीक्षितं नवनवोल्छेखार्पणेनादरा- द्यच्चेतःकषपटिकासु शतशः प्राप्तप्रकर्पोदयम् । नानाभङ्गिविचित्रभावघटनासौभाग्यशोभास्पद तन्नः काव्यसुवर्णमस्तु कृतिनां कर्णद्वयीभूषणम् ॥ ९ ॥ जीयाज्जैनमिदं मतं शमयतु क्रूरानपीयं कृपा भारत्या सह शीलयत्वविरतं श्रीः साहचर्यव्रतम् । मात्सर्यं गुणिषु त्यजन्तु पिशुनाः संतोषलीलाजुषः सन्तः सन्तु भवन्तु च श्रमविदः सर्वे कवीनां जनाः ॥ १० समाप्तोऽयं ग्रन्थः।
धर्मशर्माभ्युदयस्यैकोनविंशसर्गस्थचित्राणासुद्धारः।
१ गोमूनिकाबधालोकः७८)
स वा जि सिंधु रे या मान्सं अनादभिधा पिता
X
ज वा द सिं स्फु र डा मा वि अंन्ना दम था ततः
३ सर्वतोभद्रम्। (श्लोक:८६०
भ रं या मम याम
रंजिताददता जिरे
याता क्षमा मा क्षाताया
मादमा र रमादाम
मादमा मा दम
याता क्षमा मा सताया
रंजिता ददनाजिर
भर या म मया रभ
२ अर्धभ्रमः। (श्लोकः८४)
jetter
fe
vte
IshadteF
.de
oldelt
म Fre
४ मुरजबन्धः। (श्लोकः९४)
५ षोडशदलपप्रबन्धः। (श्लोको९८९९) १३ ना कि धा सि A निय मे y धा यः। म ग्मा प मा (नाम् ॥ हावा ति व के क रख्या कि It न का ना ति . स णि मा G in मि॥१६ 4. R স 4. घ R स्म ५ नहरु त्मा को ॥२ म प्य क्षमा द३ व व क त व स्वा तथा ताप भजन्ते यथा सर्जयित्वा य युःसा ५ श्रु त त्वा तथा भलो भभमा का१ दि रुहागुणे। ६ चक्रबन्धः (श्लोकौ१०१।१०२) तं का? ति ८ 12 MPERIEER heb Flislag rincifiseबलाच 19 9 म 411 Banaye Najashta Am SH 8 रिप SINE K E oc ७ चक्रबन्धः। (श्लोक: १०४. ) १ स स्या वो श्री Eि नि मा told VFEstale त्य सं था 14 २ ग M २ र ria4२ B EHATIANE 8 " IA he R हम । VA
No text on this page.