University Library,gurukul Kangri Vishwavidyalaya
पुष्पसेनतनयराज्यधिरोहण नाम नाटक
Front matter
१६६६६६६६६४
।। श्रीकशवाय नमः ॥
अथ गोविंद कविकृत
पुष्पसेनतनयराज्याधिरोहणं
CHECKCD 1979
PAIN
मटक।
प्रती---१०
मुद्रक.---शं.न. जोशी, ८१८ सदाशिव पठ, चित्रशाळा
प्रेस, पुणे शहर.
प्रकाशक-~रा. रा. देवराव महादेवराव वकील, मु. लातर
जि. उस्मानाबाद व रा. गोविंदाचार्थ गुराचार्य नागा-
हळीकर मु. बरदापर: जि. बीड.
स्टाक प्रमाणीकरण १९८४-१९८५
4
W
मूल्यमेकमध्यकम् ।
Markesek४५.४५.१४६६६६६६६६६६
॥ श्रीकेशवाय नमः॥ अथ गोविंदकविकृत पुष्पसेनतनयराज्याधिरोहणं नाम नाटकं । . स्वेन रचितं नाटकग्रंथमिमं स्वयमेव दृष्टिपूतं कृत्वा रा. रा. शंकरेण नरहरिपुत्रण जोशीत्युपपदधारकेण पुण्यपत्तन स्वीयचित्रशालाख्यमुद्रणालये वभुभूवसुमितगृहनंबर माद्रितम् स्वाधीनानि कृतानि । Commentern- मुन्यमिवसुभूसंमितशालिवाहने शाके मार्गशीर्षे शुक्लपक्षे द्वितीयायां बुधवासरे पुस्तकमिदं साकल्येन मुद्रितमासीत् मूल्यभेकमप्यकम् ।
muna
एतनाटकं सन १८६७ इत्यस्य २५ तमनियमानुसारेण
अस्माभिः स्वायत्तीकृतम् ।
॥ श्री॥ वेंकटेशप्रसीद ॥ इदानीमस्मिन् भरते वर्षे गीर्वाणभाषासरस्वतीसदनांतः प्रवेशमात्रविरक्त- बुद्धीनां श्रीमद्ध रिपदारविंदमकरंदास्वादनब्रह्मचर्याणां रवितनयराजधानीगत- नानायातनाभोगनिर्धानां जना नामीदृशीं दशामवलोक्यपरमकृपालुम्तेषामल्प- श्रमसाध्यं विदितेठाबाईस्वमातृतुल्यसकलपरललनो हरिपादपद्मयुग्मलुब्धोगोविं दनामा वृत्तरत्नाकरोक्तसर्ववृत्तबद्ध श्लोकं कंचिपुप्पसेनन नयराज्याधिरोहणनाटक ग्रं- थतत्वज्ञानप्रात्प्यर्थहरौ भक्त्युत्पादनार्थ वा व्यरचत् । ननुविदितमकलपरललनः कथं स इत्युन तेनैव स्वकृते ग्रंथांतरे सर्वजगदिदं पतिव्रतामयमिति मनसि ज्ञात्वा गोक्तोऽयं श्लोकः ॥ यस्मिस्थिते हरिकथाश्रवणेन किंच प-युव्रतेन तपसा महिल जनम्य ॥ दानेन किं पनिर व्रतयुक्तकाभ्यस्त्रीभ्यो नमोऽस्तु मम सादरमेव नित्यं ॥ १ ॥ गोत्रावतंसम्यवशस्तनूजा गोविंदसरंजलधान्यपन्ना ॥ अंत्ररिवपेक्षितुमस्य- कानि रराज तुच्छीकृतचंद्रकांतिः ॥ २ ॥ स्वसूनुसंदेहकरगिढाक्षीरोदाधंचा- प्युदधीजिगाय ॥ जर्नुस्खभासेंद्रगजं जगाम जिवा पुनर्विष्णुपुरं ययौसा ॥ ३ ॥ तत्पादलग्गजनकस्यचित्तं विलोक्य हृष्टा स्वयमप्यभूच ॥ कटाक्षजातापि तदीय- पादपद्मामूला बादनसक्ताचता ॥ ४ ॥ नदलंयथाप्रजल्पनेन । स एव विदुषो- विज्ञापयति । स्वेनैव संशोधितेय स्मन्ग्रंथे मुद्रणकारहस्तदोपाअमादृष्टिदोपाः स्थिताश्वेत्तान्स्पष्टीकृत्वाऽनसूयवस्तस्मै निवेदयंतुविद्वासः । इत्यलं । कविनैवकृता प्रस्तावना समाप्ता ।।
a&a २७.८.62 ॥ श्रीगणेशाय नमः ॥ अथ प्रथमोंकः। निर्विघ्नमस्तु ।। अथ पुप्पसेनतनयराज्याधिरोहणनाटकप्रारंभः।। भूमिः शून्यतमा यदा शठमतिर्दपधिभूतस्तदा भर्चा शास्त्रनिषिद्धकर्मनिरतस्तं नारसिंहो रिपुं ।। यो यस्तद्वधक्रुद्धयोत्धुमनसस्त त्सू नुपीडासहो हत्वा भूमिमपालय त्सविनयंत्वीशः सुतान् पातु सः ॥ १ ॥ नान्द्यन्ते मूत्रधारः----अलमनेन परिपज्जनकुतुकविमर्दकारिणा श्रमेण । एवमहमामि- श्रान् प्रणिपत्य विज्ञापयामि यदिदं वयं पुष्पसेनतनयराज्याधिरोहणं नाम प्रकरणआश्रित्यैनमारधयामः । एतत्कविः किल । प्रज्ञाग्रस्थितशास्त्रिणस्त्वधिगता विद्या तथा वैष्णवी निष्ठा यस्य दयावशास्थिरतरा भक्तिर्मुदे केशवे । बुरध्या केशवपादपद्मयुगले स्तोत्राख्यपुप्पांजलि- यस्तोऽयं ग्रथितं भुयारवसता गोविंदनाम्ना विदं ॥ २ ॥ लिखितापि बालभाषा व्यामत्वात्र नोच्यते लोकैः ॥ गुरुसुतगोविंदेन रचितं तच्छ्न्यनाटकं रम्यं ॥ ३ ॥ ( नेपथ्याभिमुखमवलोक्य। ) आर्ये इत एहि । नटी--(प्रविश्य ) आर्यपुत्र इयमस्मि आज्ञापयत्वार्यपुत्रः । मूत्रधारः-किमन्यदस्याः परिषदः श्रवणविषयभूतस्य संगीतस्य स्वरात् । नटी--कंसमयमाश्रित्य गीयतां । मूत्रधारः-नन्वमुमेत प्रचंडदिनकरकिरणप्रवेशमात्रेण कोमलानां महादेव- कंठ इव तत्कंठासक्तया पार्वतीबाहुविद्युल्लतया विराजमानो विद्युल्लताभिर्विराज- मानानां मेघानां चातकानंदकरिणा वृष्टिपातेन ब्रह्मक्षत्रवैश्यशूद्रवर्णसमभृता यन्नारायणानुग्रहात् यावत्धरिपदारावंदं शूद्रोऽपि न संगच्छति तावदेवस्पर्शा- पर्शभावः कल्प्यते अन्यथा तमेव पूज्यतमं यदनुग्रहः कुरुते तथा कुर्वतं (२) वर्षऋतुसमयमाश्रित्य गीयतां संगीतकं । कांतेऽत्राचेतना अपि जीवा इव भांति यतः पश्य । नद्याः प्रवाहाः स्वकरैर्गृहीत्वा सुगंधि वस्तु ह्यसुगंधि वस्तु ॥ पुनति मे शस्यमहीरुहेभ्यः पुष्पाणि पादे च समर्पयंति ॥ ४ ॥ नटी-तथेति गायति । सामंतचक्रेण सुयाचितोऽसौ सिंहासनस्थो मनसा कृतार्चिः ।। उपायनान्येव पुरो निधाय विनामरेसेनहि पुष्पसेनः ॥ ५ ॥ ( नेपथ्ये सरोषं । ) रेरे अमात्यपुरःसराः स्वबाहुपराक्रमावलेपतिरस्कृतरा- जबलिकर्माणं तावदुन्मत्तममरेश्वरमेव जेष्यामः । सूत्रधारः-(नेपथ्याभिमुखमवलोक्य । ) आर्ये कुत एतत् । नटी-अहं न जाने कुत्र इदं भवतीति । सुत्रधारः---भवतु शद्वानुसारेणावलोकयामि । ( नेपथ्ये पुनस्तदेव पठति ।) सूत्रधारः-(ससंभ्रमं सदृष्टिक्षेपं । ) प्रिये एष खलु महाराजः बाहु- बलावलेपासमर्पितराजबलिकर्महेतोः क्रुत्धः पुष्पसेन इत एवागच्छति । तदित आवामन्यत्र गच्छाव इति निष्क्रान्तौ । प्रस्तावना । ततः प्रविशति सामात्यपुरःसरः सिंहासनस्थो राजा ॥ राजा--- रेरे अमात्यपुरःसरा इति तदेव पठति । सचिवः---मर्षयतु मर्षयतु महाराजः । राजा-किं स जेतव्योऽथवोपेक्षितव्यः । सचिवः--जेतव्य एवसोऽपि वीरः अन्यैर्नृपैः सहायवान् । पश्य । कलिंगराजः सुबल: सोमदत्तस्तथाऽपरे ॥ नीलसेनश्च तस्यैव स्वाधीनान्भूप विद्धि तान् ॥ ६ ॥ राजा---अतो जेतुमशक्य इति उपेक्षितव्यः । सचिव:--नहि महि । जेतव्य एव । तथाहि । उपेक्षिताश्चेद्रोगाश्च धीरसत्वैरवज्ञया । रिपवस्तइवातोऽन् वर्धते नैव तान् त्यजेत् ॥ ७ ॥ राजा-तर्हि तमेव जेतुं गच्छामः । कः कोऽत्र भोः । प्रविश्य दौवारिकः ।
(३) दौवारिकः----जयतु जयतु महाराजः । उपसृत्य । आज्ञापयतु भर्ता । राजा--एवं विज्ञापय सारथिं । मत्तगजतुरंगपदातिनरनृपसहस्रसमेतं सबाणासन सेनापतिनाधिष्ठितं ससैन्यं सांग्रामिकं मे रथमुपकल्पयेति । तथा कंचुकिनं प्रवेशय । दौवारिकः--तथेति निष्क्रांतः । ( ततः प्रविशति कंचुकी) कंचुकी--( उपसृत्य ) । जयतु जयतु महाराजः । राजा--( कंचुकिनं वीक्ष्य ) प्रेक्ष्यंतां प्रमदवनभूमयः । कंचुकी--( तथेति ) निष्क्रांतः । ततः प्रविशति सूतः । मूत:--राजन् स्वस्ति भवते । सेनापतिस्तुमदकरितुरंगपदातिनरनृपशतस- हस्रसंकुलितसैन्येन युक्तो भवदागमनमेव प्रतीक्षते । तथाहि- सज्जो रथस्ते विजयाभिधेयः संग्रामिको बाणधनुः समेतः ॥ मुहुर्मुहुः शद्वितहेमघंट। स्तं जेतुमायांतु बलाद्भवंतः ॥ ८ ॥ राजा---तेन हि गच्छाम तं जेतुं । इति भिष्क्रांतः । ततः प्रविशति देवी चेटी च । देवी--सबाप्पं निवसति । चेटी-समाखसितु समास्वसितु देवी । देवी--कुत इदानीं समाखासः । मेऽत्यंतं हृदयं दह्यति । चेटी--एवं महाराजस्य पत्नी भूत्वा विनष्टधैर्याऽतिमात्रं संतप्यसे । कथय किमर्थ ते हृदयं दह्यति । देवी--अवहिता तावद्भव । यद्येवं कथयिष्ये । चेटी-अवहिताऽस्मि कथयतु प्रियसखी । देवी--अद्य समे भर्ता वीरममरेश्वरं जित्वा जीवन् प्रतिनिवृत्तो भवतीति नवेति संशयः। चेटी --( आत्मगतं ) ममापि सैव शंका भासते भवतु तावदेनामाश्वा- सयामि । (प्रकाश) शांतं पापं प्रतिहतममंगलं । सत्यं तं जेष्यति महाराजः। देवी--कथं ।
(४) चेटी-बाणवृष्टया तद्रथं तत्सूतं तमपि जित्वाऽगच्छति राजा । देवी--तस्यकृतेऽस्यतं शोचति मे मनः । यतः प्रियपुत्रकोऽस्मासु न जनि- तः वधूशते एकायामपीति । अथवा महाराजाय या रोचते तामेवोपमंत्र्य तस्यां तनयो जतोऽपि न रोचतेऽस्मभ्यमिति न सोऽपि रोचतैवा । तथापि एतद्वचन- मेव बाधते । पश्य । मद्धस्तदत्तं न गृहीतमेतैर्भिक्षार्थमायातजनैर्न वाचः ॥ तिरस्कृतं चातिकठोरया यद्वंध्याजनैर्दत्तमिदं न वाचा ॥ ९॥ ( नेपथ्ये कलकलः ) देवी-( ससंभ्रमं ) हला कुतोऽयं निश्वनः । चेटी-( नेपथ्यभिमुखमवलोक्य ) अहो अखंड प्रवर्तितबाणवृष्ठिपातेन अमरसेनस्य ससैन्यो रथवरः प्रच्छादितः अतः भयंकरखोउत्थितः । नेपथ्ये कलकलानंतरं ।) भोभो अमरेश्वरादिभूपाः प्रमत्तबाहुदंडसमरोद्यगाः किमद्यापि स्थीयते भवद्भिः । ) तथाहि । शार्दूलस्त्वं वनचरमृगाः सर्वराजानरास्ते क्रुद्धे सिंहे विशति गहनं युत्धरूपं नरेश । उन्मत्ताभृतिमिरसमरास्सिंहतुंडे पतंतः शूरो विद्धि त्वमपि पतसि पुष्पसेनाख्यवन्हौ ॥ १० ॥ चेटी-एष महाराजः सर्व रिपुकुलं दग्ध्वा तममरेश्वरमपि दग्ध्वाऽऽगच्छति। देवी-कि मे नाथो रिपुकुलं दग्ध्वाऽऽगच्छति । चेटी -अथ किं । ( पुनर्नेपथ्ये ।) भो पुष्पसेनप्रभृतयः शृणुध्वं सर्वे । महाणमोहितमिमं सचिवं प्रसह्य । पुष्पावतीनगरवासिजनेश भूप ॥ संपातितं भुवि मया नगरं प्रविश्य। उत्थापयन्जनप पाहि भुवं मुदा तं ११ चेटी-अनया वार्तया पर्याकुले स्वः ( पुनर्नेपथ्ये । ) भो राजाधिराज पुष्पसेन शरणागतरक्षक शरणागतं मां पाहीति याचे । तथाहि । दुष्टानां गर्ववन्हिः शरणगतजनान्पालकः सिंधुपुत्र्या- स्साक्षाद्वैरी त्वयापि पतिरिव समरे खिन्नतुंडो हि भूत्वा ॥ मां क्षोणेरीश पाहि इति शरणगतस्तं त्यज दीनबंधो
(५)
दारिद्यं दह्यतेऽतो द्विजकुलदहनं त्वामहंरक्ष मां हि ॥ १२ ॥
अपि च ।
तव गुणमहिमानं वीक्ष्य जानन्नरः क
स्समरनिरतकर्मा स्यादतो वीरमुख्य ॥
कृतनतशिरसं मा मंतुमंतं सुपाहि ।
वदसि तव निदेशो यन्मया धार्यले सः ॥ ११ ॥
चेटी-( नेपथ्याभिमुखं वक्ष्यि ) देवि महाराजः शरणगतममरेश्वरं रक्षन
तं हस्ते गृहन् तेन सह किमपि भाषमाणसन्नित एवागच्छति इनादीमावां
गच्छावः । ( इति निष्क्रांते ) ततः प्रविशति सभार्येणामरेश्वरेण समं सामात्य-
पुरःसरो राजा ।
राजा--दुष्ट बुद्धे शरणागतममरेश्वरं मोचयाम अथवा मारयाम ।
दुष्टबुद्धिः-(स्वगतं ) एप मुक्तश्चेदमरेश्वरः एतत्पश्चादुन्मत्तो मां
स्वाधीनं करोति । अहमप्येतस्य राज्ञः पश्चादहमेव भूमिरक्षको भविष्यामीति
मे मनोरथः । पार्थिवस्यापि संततिर्नभवतु तावदेनं वक्ष्ये । ( प्रकाशं । ) वध्य
एव एषः ।
राजा-धिग्दुष्टबुद्धे त्वंते नामसदृशोऽर्थतोऽपि तथैव वदसि ।
दुष्टबुद्धिः--( आत्मगतं । ) सत्यमित्थंभूत एवास्मि । किंतु दुष्टबुद्धिरि-
त्यहं ज्ञातोऽद्य एव । ( प्रकाशं ) मुच्यतामेवातो यतः पुनरयं युद्धाय त्वामाहूये-
दिति कथितवानस्मि भवते ।
राजा-न खल्वयमुन्मत्तो भवतीति यतः पश्चात्तापमुपगतो एपः । अथवा
उन्मत्तश्चेदपि उन्मत्तगर्वनाशकोऽहमेव तथाहि ।
प्रमादोन्मत्तशत्रूणां तन्मदस्य विनाशकः ॥
भूयात्तथा महाराजः शरणागतरक्षकः ॥ १४ ॥
अमरमहिषी--सम्यगयमाह राजा दुष्टबुद्धिप्रति । राजन् पुष्पसेन त्वच्च-
रणगतानस्मान् भर्तारं च पाहि । तथाहि ।
मत्पादं शरणागतस्य वसुधाकंठस्तथा द्वेषिणः
स्त्रीव्यूहस्य न शून्य एव भविता शून्या न भूयादिति ॥
ज्ञात्वा मंगलसूत्रया नृपवर पाहीति याचे पतेः
भूमिः पालनकर्मणा पतिममुं स्त्रीणां जनं मादृशं ॥ १५ ॥
(६) राजा---जानन् मुंचाम्येनं स्त्रीजनं च । इति तं मुंचन् कथयति । अमरसेनकर प्रतिवार्षिकमवनिमेव च पालय यच्छसे ॥ सविनयं नृपते भवतां प्रजां गमनकर्मणि सक्तमनाः पुरं ॥ १६ ॥ अमरेशः--तथा यथा वदसि करोमीति सभार्यो निष्क्रांतः । राजा--इतस्ततः परिक्रामन् । इदमस्मद्गृहं यावत्प्रविशामीति प्रविश्य । अये शूम्यमस्मद्गृहं । कः कोऽत्र भोः । प्रविश्य दौवरिकः--जयतु जयतु महाराजः । आज्ञापयतु देवः । राजा-मे भोगिनीमाव्य क्षुधाऽत्यंत पीडितः पतिः तस्य कृते अन्नादि गृहीत्वाऽऽगच्छेति । दौवारिकः---यद्येवाज्ञापयतीति निष्क्रांतः ( ततः प्रविशति राज्ञी चेटी च ) राज्ञीसमीपमागत्य भोजनायोत्तिष्ठत्वार्यपुत्र : । ( राना तथा करोति । ) राज्ञी हंडे इत आनयत्वत्धस्तगतमन्नं । चेटी-तथा भवत्विति तत्पुरो न्यस्य राजन् भुज्यतामिदमन्नं । राजा--( भुक्त्वा सानंद ) प्रियेऽद्य मे श्रमनाशोऽभूत् । निद्रां करोमीति खपति । ततो उत्थाय प्रातोऽयं कालः । कः कोऽत्र भोः प्रविश्य । दौवारिकः---राजन्नाशपयतु । राजा-सेनपतिस्तावदाहूयतां । एवं सचिवं विज्ञापय अद्य पौरकार्य भवानेवप्रेक्षतां अहमपि मृगयायै गच्छामीति । दौवारिकः-तथेति ( निष्क्रांतः । ) ततः प्रविशति सेनापतिः । सेनापतिः--जयतु जयतु राजा । राजा--कि सेनापते पूर्वगामिनः सर्वे मृगादीन् वने संमील्य तिष्ठति । सेनापतिः---अथ किं । राज्ञी-हंडे चर मृगयायै गच्छत्वार्यपुत्रः वयमपि गृहं गच्छाम इति चेट्या सह निष्क्रांता। राजा--तेन हि यास्याम इति सेनापतिना सह निष्क्रांतः । ततः प्रविशति सभार्यो दुष्टबुद्धिः । दुष्टबुद्धिः--प्रिये पुरा गौतुममुनेः सेवानिरताय मे तेन वरो दत्तः । प्रिया-आर्यपुत्र किमिति । पतिः-सम्राट् स्वमेव भवसीति ।
(७) प्रिया--वीर्यार्णवे पुष्पसेने स्थिते कथमेतत्संभाव्यते । पतिः-अस्य पश्चादिति । अस्य संततिर्न एतत्पश्चादहमेव राज्ञः वधूशतं तथान्यामपि हत्वा भूमि रक्षामि । तथा तेन एवं कथितं । पश्य । नीलसेनतनयाऽधिगम्यते तां समीक्ष्य नृपतिय॑लोभयेत् ॥ तत्र दीर्घवसतिस्तदाप्यते तस्य दंडधरकण तं प्रिये ॥ १७ ॥ प्रिया--( सहर्ष ) युज्यते । नेपथ्येकलकल: । सचिव:--एष राजा मृगयां कृत्वाऽऽगच्छति । नेपथ्ये कलकलानंतरं । भोभो सेनापतिमुख्याः पश्यतैनं हन्यमानं मदगजं । तथाहि । स्वजीविते मुंचति संशयं च विकारवद्वद्रुधिरेक्षणास्यः ।। गर्जन् समायाति ममाभिभूत्वाकरोनिहंता घट भग्नमेनं ॥ १८ ॥ सचिव:--तेन हि गच्छाव इति निष्क्रांतौ । ततः प्रविशति ससेनापतिपुरःसरो राजा । राजा-सेनापते स्वकर्मानुष्ठीयतां । सेनापतिः-~-यद्येवाज्ञापयतीति निष्क्रांतः । गजा-( परिजनं विलोक्य ) त्वमपि स्वकर्मनिरतो भव । सोऽपि तथेति निष्क्रांतः । नेपथ्ये अयमहमागतोऽस्मि । प्रविश्य प्रतीहारी । प्रतीहारी--जयतु जयतु भर्ता । एष शतधन्वनामा भवद्गुरुरुपस्थितः । राजा--( सादरं ) किं गुरुर्मे शतधन्व आगतः । प्रतीहारी---अथ किं । राजा-तेन तं ह्यविलंबितं प्रवेशय । प्रतीहारी--तथेति निष्क्रांता । ततः प्रविशति पात्रहस्तो गुरुः । गुरु:-जयतु जयतु महाराजः । राजा-( वीक्ष्य आसनादुत्थाय ) अभिवादमे भवंतं । गुरु:-जयोऽस्तु । राजा-उपवेश्यतामासने । गुरु:- उपविश्य ) भवानुवपविशतु ।
- (८) राजा-तथेत्युपविष्टः । गुरु:-अपि कुशलं ते राज्यं । राजा-सर्व कुशलं । गुरुः----अमरेशोऽपि तेऽधीन इति मन्ये । राजा-सोऽधीनो भवदनुग्रहात् ! सर्व मे सौख्यमेवददाति किंतु एषा निष्पुत्रता मामत्यंतं पीडयति । तथाहि । पितरो मम संधिग्धाः को ददाति कुले जलं ॥ पिंडानि पश्चादेतस्य पुष्पसेनस्य नेति नः ॥ १९ ॥ राज्याधिरोहणं सूनोर्नेक्ष्ये तस्य सुविक्रमं ॥ शत्रून् जित्वा समायातं कदा हर्षितपुत्रकं ॥ २० ॥ गुरु:-अलमत्यंतपुत्रशोकेन ॥ राजा-कथं न जायते भवत्सदृशे गुरुवर्य मे प्रजा । गुरु:-( करेण नासिकां धृत्वा किंचिध्यात्वा ) राजन् ते प्रजा दरिद्राद्विजकलादरेण जायते इति । राजा-द्विजादरः कर्तव्य एव । गुरुः-पुष्पाण्यानयतुं वयमपि गच्छाम इति निष्क्रांतः । राजा-(सखेदं ) पुत्रहीनस्य मे का गतिर्भवतीति न जाने (नेपथ्ये अयमहदरिद्रोऽस्मि ) तथाहि । उदधितटतः दृष्टा दृष्टा ह्यतीव सुरूपिणी मयि च सुनरान्केयं धन्यामयेत्यनुपृच्छति ॥ कुसुमपुरपस्येयं विद्धि यशस्तनयाऽब्रुवन् त्वहमपि विमो निश्चित्यैनामिदंग्रहमागतः २१ ॥ राजा-कः कोऽत्र भो प्रविश्य । दौवारिकः----एष दरिद्रद्विजकुमारः प्रतिहारभूमिपस्थितः । राजा-तेन हि अविलंबितं तं प्रवेशय । दौवारिकः---तथेति नीष्क्रांतः । ततः प्रविशति काष्ठभारहस्तो दरिद्रद्विजकुमारः । द्विजः-जयतु जयतु महाराजः । राजा-~-भवंतमभिवादये।
(९) द्विजः--स्वस्ति भवते । राजा-उपविशत्वासने भवान् । द्विजः-तत्काष्ठभारं तत्पुरो निधाय उपविशति । राजा-किमर्थ काष्ठभारः । द्विजः--तच्च कथयामि श्रूयतां । किं दग्धं मनुजा भवद्भिरिति तान् सर्वान्मयि पृच्छति ऊचुस्ते दहतीति नैव नरपाः प्राप्तोजस्म न त्वां विना ॥ अग्न्यास्त्रेण मया वनं रिपुकुलं तत्काष्ठभारस्त्वतो ज्ञात्वाऽहं भुवि कोपि मे निधनता तत्काष्ठभारं दह ॥ २२ ॥ राजा-( अयमतिदरिद्रोऽस्तीति विज्ञाय ) कः कोऽत्र भोः । प्रविश्य प्रतीहारी-आज्ञापयतु देवः । राजा-~~-कंचुकिनं प्रवेशय । प्रतीहारी -तथेति निष्क्रांता। ततः प्रविशति कंचुकी। कंचुकी--विजय स्व राजन् । क्षिताः प्रमदवनभूमयः । राजा-भवतु सुवर्णपूर्णो हेमकलशोऽस्मै दीयतां द्विजाय । कंचुकी तथेति निष्क्रम्य हेमकलशं गृहीत्वा पुनः प्रविश्य । राजन् अयं हेमफलश इति पुरो निधाय निष्क्रांतः । राजा-ब्रह्मन् गृह्यतां हेमकलशः । द्विजः----तं हेमकलशं गृहन् ( सहर्ष ) भूपते युक्तं त्वयीदं कर्म । नीलसेनसुतया रममाणम्सार्वभौमतनयो भवतीति ॥ स्वत्त एव नृपते ललनाया माशिषं प्रयुयुजे भुवि तस्यां ॥ २३ ॥ साधयामस्तावदिति निष्क्रांतः । राजा- एतद्विजस्य वचनं सत्यं भवतीति मन्मनो वेत्ति ॥ ऋषि विप्रवाक्य संघः सज्जनपंडितसुसंमतश्चेति ॥ २४ ॥ वयमाप गच्छाम इति निष्क्रांतः । इति निष्क्रांताः सर्वे ॥ इति पुष्पसेनतनयराज्याधिरोहणनाटके प्रथमोंकः ।। -- अथ दितीयोंकः। मे ततः प्रविशति राजा। राजा-(सचिंत निश्वस्य ) भोः कष्टमसू नुता । प्रजा कथं स्यात् । अथवा लब्धो मया द्विजवरः । तथाहि । गुरुर्यथा मे शतधन्वनामा न्यवेदयत्तस्य वचानुसारात् ॥ दरिद्रविप्रादरतो भवेत्ते प्रजेति विप्रेण वरोपि दत्तः ॥ १ ॥ ( नेपथ्ये । अयमहमागतोऽस्मि ) राजा-नीलसेनेन दत्तास्यात्तनया मे । ततः प्रविशति प्रतिकृतिपत्रहस्तो दूतः पटाक्षेपेण । दूत:--राजन् ते दत्ता दसा । राजा-केन । दूत:-नीलसेनेन राजा--का। दूतः--तत्तनया। राजा--( स्वगतं ) दत्ताशब्दोनेन गृहीतः । दूतः--तेन प्रोषते प्रतिकृतिपत्रिके च । राजा--इतः पत्रिकामानय । दूतः--तां ददाति । राजा--वाचयति । तथाहि । बाळावती हि तनया सुभगा मया ले दत्ताऽधिराजगुणपूर्णकुपालकाय ॥ सामंतचक्रशिरवेष्ठनवर्तिमाला श्री जुष्टपादसरसीरुहकाननाय ॥ २ ॥ सा गृह्यतां इति तेन लिखितं । दूत:--तस्याः प्रतिकृतिर पिप्रेषिता। राजा-सहर्ष इतः प्रतिकृतिमानय । दूत:----तां ददाति । राजा-( गृहीत्वा पश्यति ) अह्ह् किमिदरूपं । स्वगतं ।
(११) एनां रूपमृदूरुपीनसुकुचद्वंदादिभिः शोभितां । दृष्ट्वा को भुवि मानवस्त्वुदधिजारूपोऽपि तुच्छीकृतः ॥ वज्रं किं नु पयोधरेण कदलीस्तंभोऽपि काठिन्यके । त्वस्यास्त्यागरतो भवेजडमतेहीनोंकयुग्मे नहि ॥ ३ ॥ भवतु तावदेनं वक्ष्ये । ( प्रकाशं । ) एषा मे रोचते गृहीता ।। दूतः-तहिरवाधिरोहणं कियतां । राजा--कः कोऽत्रभोः प्रविश्यदौवारिकः । दौवारिकः-~-जयतु २ राजा । राजा--मद्वचनादमात्यं दुष्टबुद्धिबृहि । अहं नीलतनयामुपनिमंत्र्य मावदा- गच्छामि तावत्पौरकार्यमावेक्षतामिति । दौवारिकः---यद्देवाज्ञापयतीति निष्क्रांतः । राजा---वयमपि गच्छाम इति । रथमधिरुह्यदूतेनसहनिष्क्रांतः । ततः प्रविशति सभार्यो नीलसेनः । नील:--प्रिये सुतापरिणयोद्देशेनदूतस्तस्मै प्रेषितः । प्रिया-कस्मै । नील:---पुष्पसेनाय । अस्मत्सुतया बाळावत्या युक्तवरश्चोपलब्धः । नीलः--( साशंकं । ) पुत्रिका तस्मै रोचते वा नवा । प्रविश्यपटाक्षे- पेण दूतः । दूतः-रोचते रोचते । राजा-( दूतमालोक्य । ) कस्मै । दूतः-पुष्पसेनाय । राजा-का। दूतः-भवत्तनया। राजा--किं संभ्रांतोऽसि । दूतः–नहि नहि सर्व कथयामि । पश्य । तनयारोचते राजंस्तव मेऽत्यंतमेव च तस्मात्वन्नगरं प्राप्तस्त्वदर्शमना इति ॥ ४ ॥ राजा-भवतु अभिमुखंगत्वा आदरसत्कारपरो भूत्वातेन सहागच्छाम इति ताभ्यां सह निष्क्रांतः ।
(१२) ततः प्रविशति कंचुकी आज्ञापितोऽस्मि नीलसेनेन । क्वगता बाळावती दासी साऽन्वेप्यतामिति । इतस्ततः परिक्रामन् । ( आकाशे कर्ण दत्वा । ) किंबवीपि बाळावती विवाहार्थ मंगलसमालंभनानि गृहीत्वाऽऽयातीति । भवतु याहि । अहमपि ब्राह्मणानाव्हयामि । भोभो ब्राह्मणा आगच्छंतु भवंतः । नील- ग्रहं । स स्वतनयापरिणयार्थ भवतोऽऽहय वो दक्षिणां ददाति । अहमपि विप्रा आगच्छति निवेदयामीति निष्क्रांतः। ततः प्रविशंति चत्वारो भूसुराः । तत्र भीमभट्टः-सर्वे वयमिदानीं नीलग्रहं गच्छाम । द्वितीयः-~-भवतु तत्र पाकोऽपक्क एव दृश्यते । तृतीयः-दास्याः पुत्र किं तेनापक्वेन सुपक्केन वा । चतुर्थः :-पाटच्चल ह्यः किल कलिंगराजग्रहे पोलिका निप्पक्का एव । अतोऽस्मदुदरं आमज्वरपीडितं तत्पोलिकाभक्षणेन । इदानीमपि आमपीडा न निष्कामति । द्वितीयः --अष्ट अष्टरूप्यकानेकस्मै एकस्मै ददाति नीलः । तथाहि दीयते भोजनं राज्ञा नीलसेनेन वाह्यते ॥ अस्मभ्यं दक्षिणा कृष्ण घृतकुल्यो महोत्सवे ॥ ५ ॥ कृष्ण:-दक्षिणा कियद्दीयते राज्ञा । द्वितीयः--पुरैव कथितं मया । अष्ट रूप्यकानेकस्मै २ ददाति किं पुनर्दक्षिणा पुनर्दक्षिणा इति जल्पसि । कृष्णः-पुरा सुमंतुशर्मा विप्रः पंचत्वमागतः । तदैकादशादिदिने भोजनाय । गताः स्मः । तज्जनकोऽस्मभ्यं प्रत्येकशः द्वौ द्वौ रूप्यकौ दीनोप्यदात् । एष तु भूप एव । प्रथमः-विधवापुत्र अलं तवा मंगलभाषणेन । भीमः-अनयामंगलभाषया पुप्पसेनो मृयत इति कल्यते । मृतोऽपि तत्तनयोजीवयत्येनं । प्रथमः -दास्याः पुत्राः किमेवं भाषणान्यत्रोदाहरत अयोग्यानि भीमभट्ट स्वमपिअविवेकी पुरुष इव भाससे । तृतीयः--कृष्णसूपोऽपि लवणहीन एव ।
(१३)
प्रथमः--दास्याः पुत्र पाको न चिकिच्छितव्यः । त्वरब त्वरय गच्छाम ।
सर्वे तथेति निष्क्रांताः ।
ततः प्रविशति जामातृसहितो नीलः ।
नील:--बाळावत्या प्रसवादस्मद्ग्रहे तिष्ठतु भूप भवान् ।
पुष्पसेनः-नहि नहि गंतव्यमेव स्वनगरं ।
नीलसेनः-बास्तव्यं अस्मद्गहे यदा प्रसूता तनया लां गृहीत्वा यात ।
पुष्पसेनः-तथा वसामि ।
नील:- तर्हिगच्छाम ग्रहंप्रति भोजनाय ।
उभौ--तथेति निष्क्रांलौ ।
ततः प्रविशति रुदन् शिप्यः ।
शिष्यः---एष राजा पुष्पसेनो मूर्ख एव । गांधर्वेण तां परिगृह्य तत्क्षणमेव
व पुरंगंतव्यं । तत्यरक्वा राज्यपालनसुखं तां वीक्ष्य लोभौदत्रवावसत् । इदानीं
नवमज्वरग्रस्तः । तस्य कृते सर्वव्याधिधूमकेतुं वैद्यमाव्हयति नीलसेनेनाज्ञापितो
ऽहं । भवत्वाव्हयामि । वैद्यमुख्या आगच्छध्वं आगच्छध्वं २ नीलसेनग्रहं प्रति ।
वैद्यो आगत इति कथय ।मीति निष्क्रांतः ।
ततः प्रविशति दीनमुखभार्यया समनीलः । बाळावतीच । बाळावती।
रुदति ।
नीलसेनः---वत्से किं रोदनेन ते दुर्दैवात्पतिः परलोकमितो गतः ।
तद्भार्या--भोः कष्टं कष्टं ।
राजा-कः कोऽत्रभोः ।
प्रविष्यदौवारिकः
दौवारिक:-आज्ञापयतुभर्ता ।
नीलसेनः--बुधक मद्वचनादुच्यतां दुष्टबुद्धिः ।
दौवारिक:-किमिति ।
राजा-एवंविज्ञापय । दुष्टबुद्धे ।
दुर्दैवात्पुष्पसेनस्तव च पितृसमो नीलसेनाख्यपुत्र्या ।
भर्ता लोकस्य मातुःर्यमपुरवसतिं निर्गतो दुष्टबुद्धे ॥
ज्ञात्वनां पालय त्वं भुवमधिकमते सिंधुसीमां तथास्या ।
आदेशेनैव मातुस्तवनृपतिरसौ याचते त्वां प्रणम्य ॥ ६ ॥
(१४) - दौवारिकः-यद्देवाज्ञापयतीतिनिष्क्रांतः । बाळावती-( दक्षिणाक्षिस्पंदनं सूचयित्वा । ) अंमो दक्षिणाक्षिस्पंदनं निमित्तानि कथयति । नीलः-शांतं पापं शांतं पापं प्रतिहतममंगलं । तदा दक्षिणाक्षिस्फुरणे- नैव नाथो मे परलोकंगतः । हा नाथ पुष्पसेन बालावतीलतासंतापनाशक म्य- मेकामनाथां विलपंती स्यत्वा क्वासि गतः ५ प्रयच्छ मे प्रतिवचनंदात मोहमुपगता । राजा-वत्से समाश्वसिहि समाश्वसिहि हा पुष्पसेन कि मे कोपयुक्तो यमलोकं गतोऽसि ॥ तथाहि । गच्छंतं स्वपुरं मासौरुरुधे चापलो नृपः । तस्मारक्रुद्धो गृहीत्वा तां गंतव्यं चेति किंगतः ॥ ७ ॥ बाळावती लब्धसंज्ञा ) नाथ किं मह्यं क्रुद्धः परलोकं गतोऽसि ॥ तथाहि । अत्यंतं त्वयि मम सार्धवर्तितुडे । नाथो भो नृपवर आननाद्गृहीते ॥ तांबूलं प्रसभमयं नृपो ननंद । माता नौ शिथलितनीवि प्राप्य यातः ॥ ८ ॥ इति मोहमुपागता । वत्से अलमत्यंतभर्तृपुष्पसेनवियोगदुःखेन । बाळावती--( लब्धसंज्ञा ।) आलिंगनादि विरहय्य ममांगमंगैः । कायेश गुप्तपरिभाषणमाशुत्यत्का ॥ क्रुद्धो यमस्य वसतिं कथमाप्तवांस्त्वं । भार्यापि ते ह्यनुपदं प्रतियाति वन्हि ॥९॥ भवतु चिताप्रवेशेन भर्तारं संगच्छामि । भोः चितां प्रज्वालय कोऽत्र । अहो कोऽपि नाज्ञापरः । नील:-वत्से क्रिमनेन साहसेन मा कुरु चित्ताप्रवेशं । (नेपथ्ये ) आगताः स्मः । राजा-कः कोऽत्रभोः । प्रविश्य दौवारिकः । दौवारिक:--राजन् एते दुष्टबुद्धेरादेशमादाय प्रतिहारभूमिमुपस्थिताः ।
(१५) - राजा---स्वरितं प्रवेशय तान् । प्रविश्य दूताः । दौवारिकः निष्कांतः । दूताः-राजन् स्वस्ति भवते । दुष्टबुद्धिरेवमकथयत् । राजा-किमिति दूता:- बाळवती मे महिषीभवेच्चे तामानयध्वं भवनं हि दूताः ॥ किमन्यथातद्गहने विबोध्य दुष्टातमानीय विघातयध्वं ॥ १० ॥ एवं किल तस्याभिप्रायः मातृभक्तिों मुखरयति । अतः अस्माकं माता बाळावती परराष्ट्रं यातु । वयमपि सा तत्र नास्तीति कथयाम । राजा--भवतु तथा करोमि । दूताः----वयमपि एतद्वत्तांतं दुष्टबुद्धिसचिवाय निवेदयिष्याम इति निष्क्रांताः । राजा-वत्से एष उन्मत्तो एवं मंत्रयति कथमिदानीं करोपि । बाळावती-कष्टं कष्टं चिताप्रवेश एव श्रेयान् । राजा--मा कुरु मा कुरु । तदुष्टबुद्धिगर्वनाशकममरेश्वरं शरणं गच्छ- यतः अत्र वससि चेन्मां जित्वा त्वां गृहीत्वा अरण्ये हनिष्यति । माता-हा कष्टं कष्टं आनवममासादुदरे मे स्थित्वा मया रक्षिता इदानीं स्वजीवनाशभयात्परनृपतिममरेश्वरं गच्छसि किं । वत्से न गच्छ । बाळावती-तात कथं गच्छामि साक्षान्मातापितरौ विसृज्यामरेश्वरपुरं प्रति । राजा-वत्से किमेवं चंचलासि । पश्य तं नत्वा ह्यमराधिपस्य नृपतेः पादे सुते याचनां शीर्ष न्यस्य कुरुष्व मे वसतितात्वत्रैव भूयादिति ॥ दुष्टान्मां सचिवाच्च पाहि नरपभीतां सुतां ज्ञापयन् ज्ञात्वा स्वं वचसा तथेतिमनसा रक्षत्यसौ भूपतिः ॥ ११ ॥ बाळावती-कथं गच्छामि । माता--आलिंगनं देहि मे । तेऽधुना मुखं कथं द्रक्ष्यामि ।
(१६) माता-~यदा त्वं तनयं प्रसूयते नाभिनंद्यते रिपुकुलं दग्धका तं दुष्टबुद्धिमपि तदा द्रक्ष्यसि । बालावती--अहं सुतं प्रसूतऽपिस रिपुकुलं हत्वा तं दुष्टं हनिप्यात वानवा । प्रविश्य पटाक्षेपेण दूतः । दूतः---सत्यं हनिष्यति हनिप्यति । बाळावती--कः । दूतः-दुष्टबुद्धिः । बालावती--कं । दूतः-तं वधूशतं हत्वा त्वां च हनिप्यति । बाळावती-न हि गच्छामि अमरेश्वरपुरं । दूतः-अहमपि यामीति निप्क्रांतः । बाळावती-तातं परिप्वज्य तात गच्छामीदानीं । राजा--वत्से चर वयं यास्याम इति ताभ्यां सह निप्क्रांतः । ततः प्रविशति दुष्टबुद्धिः । दुष्टबुद्धिः-इतस्ततः परिक्रामन् । अयं पुरा गौतममुनेः बचानुसारात पुप्पसेनो नीलसेनत यामुपतिमंन्त तत्रैव मृतः । अहमपि तां मृगमाणो हंतुं नोपलब्धा । दूतास्तस्मै सत्यभावं कथयेयुः स्यात् अथवा कृतं संदेहेन । नी- लसेनपुरे सान स्थिता कुत्र गमनशीला स्यात् भवतु भगयाम इति निष्क्रांतः । ततः प्रविशति सिंहासनस्थोऽमरेश्वरः । सचिवश्च । राजा--सचिवकोऽपि उन्मत्तः कार्य न कारयेत् । मरणाय प्रमादः कल्पते । सचिवः--युक्तमिदं ते वचनं । राजा--पश्य। प्रमादात्कुरुते कर्म मनुजः पातकं सुकृत् मन्यते तत्फलं पश्चात्प्राप्नोत्येव न संशयः ॥ १२ ॥ सचिवः :-अथ किं । नेमथ्ये दानाऽहं प्राप्ताऽस्मि । राजा--कः कोऽत्रभोः । प्रविश्य दौवारिकः---एष नीलतनया बालावती प्राप्ता । राजा-किं मे मातृसदृशा बाळावती प्राप्ता । .
(१७) दौवारिकः--अथ किं । राजा--किमेकाप्राप्ता उत ससैन्या । दौवारिकः-एकैव प्राप्ता । राजा--क्षिप्रं तां प्रवेशय । दौवारिकः---यद्देवाज्ञापयतीति निष्क्रांतः । ततः प्रविशति बाळावती दीना । बाळावती-हा त्रायस्व राजन् राजन् मामितिपादयोः प्रणम्य । पिता भूपोऽयंत्वं मम सफलतां दुष्टसचिवा- प्रमादादुन्मत्तो हनननिरतोऽत्यंतमधुना ॥ अमरेशः---वत्से अलं दुष्टबुद्धिभयेन । बाळावती-- याच्ना मे नीलो न वसतिरभिभूयात्तुसदने । सुतां ज्ञात्वा पाहि अमरनृपते मामभिगतां ॥ १३ ॥ अमरेशः-वत्से अलं तद्भयन । किंतु दुष्टबुद्धिगर्वनाशक पुप्पसेने स्थित मत्तः परित्राणं किमिच्छसि । बाळावती--कुतोऽद्यापि पुष्पसेनः यमलोकं गतः । राजा--किमेषा वार्ता । हा वीर्याणवपुष्पसेन हा शरणगतं मां मे सुवच- नानि कथयित्वा रक्षकक्कासि गतः । प्रयच्छ मे प्रतिवचनं । अमरसेन मे प्रति- वार्षिकं बलिमुपहरेति कथितं इदानीं बलिं गृहण राजन् । बाळावती--अलं पितृशोकेन । तस्मादुन्मत्तो मां मे महिषी भवान्यथा त्वां मारयामि इति वदति । राजा--सशिरःकंप । युज्यते अपि पुष्पसेने स्थिते इदृशो दुष्टः कथं स्यात् । तस्य पराक्रमं पश्य । आसमुद्रतद्रतो नरपौघस्तस्य पादजलजाहितशीर्षः ।। याचति स्मपुरतोऽजलिबंधरतं ननाम कृपयार्चनकर्मा ॥ १४ ॥ वाळावती-सत्यं महाप्रभावो मे भर्ता । इदानीं तस्मान्मां रक्षं । अमरसेनः-बाळावति रक्षामि मातृसदृशां । किमलीकाश्वासनाभिरत्र ! दुष्टो आतु विमत्तबाहुबलसंनाशाय दीक्षैः पुरं । बाणैस्ते सचिषं यमस्य भवने युद्धेअतिथि विद्धि तं ॥
(१८.) मातस्तद्भयविक्ल्वाकिमिति नो च्छायां करोमीति ते । माता मे वस त्वं ग्रहे शठमतिनोंयाति किं तद्धयात् ॥ १५ ॥ - भवतु प्रियं मे कथयामि । एनां मे मातरं पुष्पसेनभार्या बाळावती पूज्य- भावेन भजस्वेति । मातः चेरम ग्रहं प्रति । वयमपि गच्छाम इति निष्क्रांताः सर्वे । इतिद्वितियोंकः ॥ । । E अथ तृतीयोंकः। ततः प्रविशति दुष्टबुद्धिः । दुष्टबुद्धिः---बाळावतीं मृगमाणोप्यहं तां न प्राप्तः । भवत्विदानी किं करोमि सेति तृतीयमासपूर्णा अंतर्वस्नी श्रुतवानस्मि । मयि मृगमाणे तामयन- मेकं गतं कुत्र गमनशीला स्यात् ॥ सचितं निश्वस्य । आः ज्ञातं । मम दुष्टबुद्धेः प्रवेशस्तस्यामरेश्वरस्य पुरे न स्यादिति तत्र गता भवेत् । तत्पुरमेव गच्छामि । कः कोऽत्रभोः । प्रविश्यदौवारिकः । दौवारिकः-आज्ञापयतुदेवः । दुष्टबुद्धिः-सेनापतिस्तावदाहूयतां । सारथिं विज्ञापय । ससैन्यं सबा- णासनं रथं कल्पय बाळावतीमत्रानयतुं । दौवारिकः-तथेति निष्क्रांतः । दुष्टबुद्धिः---अहममरावतीं गत्वापि तत्पुराधिपतिरमरेश्वरस्तां प्रेषयति न वेति संशयः । भवत्वेवं कार्य । पूर्व मे मातरं बाळावती अमरेश्वरपुरं प्रति प्रेषय । एतच्छ्रुत्वा वचनं तां प्रेषयति चेत् मे मनोरथः पूर्णः । अन्यथा तेन- सह प्रयुध्य गहने तामानीय तं जित्वा हनिष्यामि । युद्धे निष्णातो दृष्टश्चेत्- सात्वनोपायेन तं विश्वास्य खमनोरथं यामि । ततः प्रविशति सेनापतिः । सेनापतिः-जयतु जयतु देवः । उपसृत्य । रथस्ते सज्जः । दुष्टबुद्धिः--तर्हि गछाम तत्पुरममरावतीनामकं इति तेनसह निष्क्रांतः । ततः प्रविशत्यमरेश्वरः सचिवश्च । राजा-बाळावतीमद्य नापश्यं गृहे । सचिवः--बाळावती किमपि स्नुषया समं भाषमाणा तिष्ठति ग्रहे भवतां । राजा--किं मे भार्यया समं भाषमाणा तिष्ठति तिष्ठतु तपश्विनी ।
(२०) ( नेपथ्ये । ) अयमहमागतोऽस्मि । राजा-कः कोऽत्रभोः । प्रविश्य दौवारिकः । दौवारिकः-जयतु जयतु महाराजः । राजा--दूतमालोक्य रेरे कः प्राप्तः । दूत:-दुष्टबुद्धिः प्राप्तः । राजा-त्वरितं प्रविशतु दुष्टबुद्धिः । दून:- यद्देवाज्ञापयतीति निष्क्रांतः । ततः प्रविशति दुष्टबुद्धिरेक एव । दुष्टबुद्धिः--विजयख राजन् । राजा----इत उपविश। दुष्टबुद्धिः----अमरेश्वरमातरं मे बाळावतीं प्रेषय । पादयोः प्रणम्य । रुदति तनयो मातर्मातः पितः पित इत्यसौ । अमरसेनः--एतद्वचनं ते वचस्येव पश्यामि न मनसि । दुष्टबुद्धिः-अमरनृपते वाण्यां सत्यं मनस्यपि विद्धि तत् । अमरसेनः-येषां मनसि सत्यभावः स एव वचस्यस्ति ते मनस्विनः । स्वं तु दुरात्मा । दुष्टबुद्धिः---स्वपुरमभिगम्याशु माता सुतान्परिरक्षतु । अमरसेन:-ते वचसि न विश्वसामि । दुष्टबुद्धिः----यमपुरगतं श्रुत्वा शोकेत्यसौ हृदि दह्यति ॥ १ ॥ अमरसेनः--अतएव पितृवधशोकाकुलत्स्वं तत्पत्नी बाळावतीं महिषी भवान्यथा मारयामि किमिति वदसि । दुष्टबुद्धिः--कथमेवं भविष्यति । कौपिधाय । अनेन तेऽयोग्यभाषणने सत्यं कंपितमिव मे हृदयं । अमरसेनः---न तां प्रेषयामि । दुष्टबुद्धिः--अमरसेन परस्त्रीं बाळावतीं ग्रहे न्यस्यागम्यां गंतुशीलस्त्वं कथमधर्मभीरुः । अमरसेनः--( सरोषं । ) दुष्टबुद्धे अलं भाषणेन ।
/ (२१) श्रीशःसाक्षी न त्वहं विद्धि तत्र । एकांते त्वं यत्कृतं क्रीयतेयत् ॥ मिथ्यावा क्यान्नास्ति पापं च साम्यं मिथ्या वाचो भाषमाणस्त्वमेव ॥ २ ॥ अनेन प्रमादभाषणेन मे स्वं यमपुरं गच्छसीति दृश्यसे । दुष्टबुद्धि:----स्वां प्रेषयित्वायमपुरं तां गृहीत्वा गच्छामि किं करोधि । युद्वायागच्छ त्वत्पराक्रमं पश्यामि । अमरसेनः----( विहस्य । ) ते पराक्रमं तदैवापश्यं पुष्पसेनामरसेनयो- युद्धेप्रवृत्ते सति । तथाहि । बाणा मे हृदयं प्रविश्य परतस्ते निर्गतास्तत्र हि । मूर्छन् किं त्वकरोः किमत्र मृयसे युध्यामि जल्पन्निति ॥ गच्छ स्वं व पुरं दुरात्मपुरुषपृथ्वीभिमां पालयन् । तत्पूर्व स्मरणं करोषि न हि किं बाणासनं सज्जतां ॥ ३ ॥ दुष्टबुद्धिः----( स्मृत्वा । स्वगतं । ) सत्यमयं पराक्रमी कथामिदानी करोमि । गौतुम तदैव कथितं त्वया सम्राट् व मेवभवसीति । एतत्पत्तनाधि- पतिस्तु तां न मुंचति । न बमासपूर्णगर्भा सा श्वःप्रभाते तनयं प्रसूय पट्टाभि- घेकं करोति चेत्वं भंगवरो भविष्यसि । भवतु सांत्वनोपायेन एनमाश्वसयामि । तत्र विप्रलब्धश्चेदयं सत्यं महातपस्वी मान्यो गौतुममुनिरिति मन्ये । ( प्रकाशं । ) अमरसेन परमार्थेन तन्न ज्ञेयं । मां रक्षख रक्षख इति पादयोः रुदन् पतति । मद्वचस्तत्कथमर्हति त्वयि । बाळावतीं प्रेषय भूमिपाल न तां रथे न्यस्य विघातयामि ।। वीर्यार्णवे मे स्वयि का कथात्र सैन्येन युक्तो नगरं विशामि ॥ ५॥ अमरसेनः-- स्वगतं । ) अयं यद्ब्रवीति तत्सत्यमेव तावदेनं वक्ष्ये । दुष्टबुद्धिः--मुहुःपादयोः लुंठन् । मातुःप्रवीक्ष्य वेलां अत्यंतंशोकनिरतलोकश्च ।। पृच्छंति मांसदा ते माता नःस्वर्दिनेऽयाति ॥ ६ ॥ अमरसेनः-( सकरुणं ) भवतु तां प्रेषयामि । तां संभाव्य रक्ष पूज्यभावेन । दुष्टबुद्धिः--तथा करोमि यथा वदसि किं विशेषेण । भासते भवतु (२२) माता यद्वदतीति तच्चशिरसा संधार्यमाणोऽनिशं । पृथ्वींरक्षति दुष्टबुद्धिरिति मां मन्नामके संशयं ।। कर्तव्यं नृपतेऽथतोऽप्ययामिति दुर्बुद्धिरित्येव नो । विद्धि त्वं ह्यमरेश मूर्खमनुजो वाचः क्षमस्वावदत् ॥ ७ ॥ अमरेश:-कः कोऽत्र भोः । प्रविश्यदौवारिकः । दौवारिकः----जयतु जयतु महाराजः । आज्ञापयतु देवः । राजा-मातृसदृशां बाळावतीमाव्हय । दुष्टबुद्धिः-( सहर्ष । ) ( म्वगतं । ) अनेन वचसा मे मनोरथः पूर्णो भवतीति मन्ये । ततः प्रविशति स्नुषया समं बाळावती । दौवारिकः-दैवेनाकारिता एषा । इतिनिष्क्रांतः । बाळावती-उपसृत्य दीर्घायुभवतु पुत्रः । अयरेशः--मातः वंदे । इत उपविशत्वासने । वालावती--किमत्र मामाव्हयो दूतमुखेन । उन उपविशामि । दाक्ष- णाक्षिस्पंदनं सूचयित्वा । अये मरणकालोऽऽगत इति सूचयतीदं दक्षिणा- क्षिस्पंदनं । अमरेशः-प्रतिहतममंगलं । मातस्तेऽपरो दुष्टबुद्धिनामकः पुत्रस्त्वामाव्ह- यतीति त्वदैवमेव तथारूपस्त्वामाव्हयत् न त दूतः । बाळावती--शत्रुस्त्वामांव्हयतीति वद । तद्भार्या--हा कष्टं कष्टं नप्रेषयामि परराष्ट्र प्रति तां । अमरेशः----युक्तमयं यद्वदतीति तत् । दुष्टबुद्धिः- --मातः कथमेव पुत्रं मां शत्रुरितिवदसि । अमरसेन:----नहि नहि तम्य बुद्धिः परीक्षिता । बाळावती--- युगपत्समीक्ष्य बुद्धिं मानामेझवाक्यनिरतानां ।। युक्तायुक्ता बुद्धिः जानन्नाप नजानाति दुष्टानां ॥ ८ ॥ तद्भार्या -न प्रेषयामि तां । सा स्वनगरं गच्छतिचेद्गुरुजनहीनमिदंग्रहं- माविष्यति ।
(२३) अमरेश:-~-गच्छतु माता स्वनगरं । वाळावती-भो नृपदुष्टाः स्वं कर्म यावन्न साधयति तावदेतद्वचनं अन्य- था मदोन्मत्तः कमीश्वरमपि न गणयति । राजा---अयं माता मातेति वदति कथयेवं करिष्यात रथे उपविश्य सैन्येन समं स्वपुरं विश । बाळावती--गर्भिणी दुष्टयुक्ता कुतः पत्तनप्रवेशं करोमि । पश्य । मेषान्विक्रियमाणानां कौटिकस्तत्र संस्थितिं । प्राप्य द्विगुणमूल्यं स तेभ्यो दत्वा हनिप्यति ॥ ८ ॥ वैतंसिक इवायं मां गृहीत्वा वने हनिप्यति । तद्भार्या-तदैवकथितं दुष्टबुद्धिरागतोऽपि तां मे मातरं न प्रेषयामीति कथमिदानी गर्भिणी प्रेषयसि । राजा--सा गर्भिणी तस्याः दुष्टबुद्धिरयं सौख्यदो भविष्यति । अन्यथा त्वमपि तया सह निर्गच्छ । वाळाबती---ललाटलेखनं को व्यपोहति ईश्वरोऽपि न व्यपाहतित्वं बस मह्यं किमर्थं दुःखं भजसि । वत्स गच्छामीदानीं । राजा--भवतु गच्छ । बाळावती-तथेति निष्क्रांतातेन सह । राजा---वयमपि गच्छाम ग्रहं प्रति । इति भार्यया सह निष्क्रांतः । ततः प्रविशति ससेनापतिपुरःसरः । रथमधितिष्ठंती बाळावती दुष्ट- बुद्धिश्च । सेनापति:----मात; गव्यूतिमात्रमस्मत्पुरं वर्तते । दुष्टवुद्धिः-अत्रैवसेनापते रथादवतारयतां दासी । वाळावती-सेनापतेऽयंदुरात्मा तदामातर्मात इत्यवदत् दाशीमामिति । सेनापतिः-जावतारयामि गहनेऽत्र तां मातरं । दुष्टबुद्धिः--अहभेवतावदेनामवतारयामि हंतु किं करोत्युत्तिष्ठति । सेनापतिः-आगच्छरे आगच्छरे दुष्टबुद्धे तावदेतस्याअंग मपि स्पृष्टा पश्य । हनिष्यामि। दुष्टषुद्धि:--रेरेधर्मजानमपि प्रजानां राज्ञोषचनपालनकमास्तीति मां कथ- मेवं मापसें ।
(२४) -- सेनापतिः-विहस्य पश्यध्वं सैनिकाः धर्मज्ञो दुष्टबुद्धिरयंवर्तते । तादृशानि मंत्रयित्वादुष्टबुद्धिरिदानीं वंचयत्येनां । रेरे दुष्टबुद्धे पश्य । मात्रादत्तमिदं दुरात्मसचिव जन्निमांतेभुवं । लज्याकास्ति नदृश्यते कथयमे भुस्वापि तामेवहि ॥ हत्वातन्नगरे नरेशजननी मेपत्तनं प्रेषय । कोत्वैवं वदसीतिसिंधुवलयां रक्षामिधर्मोगतः ॥ ९ ॥ दुष्टबुद्धिः--भोसेनापते तदातथैव वक्तव्यंअधुनेदृशमेव कर्म करोमि । सेनापतिः-- कर्तव्यमीदृशं कर्मनिश्चित्यैनां प्रभाषसे । धनुर्मेसज्जमायातुबाणैः शीर्ष निवार्यते ॥ १० ॥ दुष्टबुद्धिः----सगर्वविहस्य । सेनापतेत्वमेवं जल्पसि स्वप्रजाहननशंकित- हृदयः कथं हनिष्यामित्वां । सेनापतिः---पश्यध्वं पश्यध्वं सैनिकाः साक्षादन्नदांमातरं हंताऽयंप्रजा- हननाय शंक्यतेऽस्य हृदयमिति । दुष्टवुद्धिः--यमसदनं प्रेषयामित्वां ॥ इति सशरधनुरादत्ते । मच्छराहृदयमेवविशंति जीवजीवतव छिंद्यबाणक ॥ मातृभक्तिपरिवर्तितयुद्धबणकान्दहदहेत्युदाहत् ॥ ११ ।। सेनापतिः--तांबाणवृष्टिं छित्वारे रेवृथावारोऽहं वीरोऽहमित्यात्तधन्वन् तेशरादग्धा अधुनाकिं करोपि । बालावती---वत्ससेनापते किंवृथाशस्त्रग्रहणेनालं । अयंदुरात्मात्वां हत्वा- मामपि हनिष्यतिमह्यं किमर्थमयसे । अनुगच्छतमेव । वीरस्यसचिवस्याशु कृतांतस्येवरूपिणः ॥ कृपाशून्यस्यपादौ चप्राप्यत्वंहि सुखीभव ॥ १२ ॥ सेनापतिः-मातःएवंमावद । मयि जीवतितवांगमाप स्पृशतुदुष्टबुद्धिः । तथाहि । मातासुखंयातिहिचेत्सुतश्चसुतोऽपिमाताह्यतुलंप्रकष्टं ।। नयःसुखीतांप्रतिप्रेषयित्वासकृत्रिमारिर्जननीतनूजः ॥ १३ ॥ तस्वायतुःखं मुंजत्यांमातरि सेनापति दुःखंमजस्येवकुतः सौख्यं । दुष्ट- (२५) बुद्धिः । रेरसेनापते वृथाकिमर्थं मातुत्स्यजसिते प्राणान् । इयमतिसुंदरीमहिपी भवतुत्वमपि सुतोभव । सैनिकः । सत्यंमत्तो दुरात्माऽय मित्याह । सनापतिः-- महिषीसानतेऽनायनमां विद्धिसुतंनृप । जल्पस्येवमनोवेत्ति आयुनश्यतिचास्यहि ॥ १४ ॥ दुष्टबुदिः-स्वीकृतामदंशरासनं । इतिधनुगृहीत्वा बाणवृष्टिंकरोति । सेनापतिः । अहह हतअस्यबाणायोमेहृदयं प्रविष्टः मामुद्धरतु । मामुद्धरतु देवइतिभूमौ पतति । सैनिकानांहाहत सेनापतिरिति हाहाकारमिश्रितोरवउ- स्थितः । दुष्टबुद्धिः-सहर्ष । भोसैनिकाः सहृष्टमनसोभवत । एषहतोऽप्यपरं से- नापतिंकरोमि । सैनिकाः--( स्वगतं । ) दुष्टानामयंकालस्तमोगुणमयोऽस्तीति यत्पूर्वैः कथितंतत्सत्यमेष एव । प्रकाशं । ) भवत्विति नकिंचिदूचुरस्ययभयात् । दुष्ट- बुद्धिः । भोसैनिकास्तामित आनयध्वं । सैनिकाः । अधोमुखाः किमपि नकुर्वति । दुष्टबुद्धिः ---रेरेसनिकनशृणोषिमेवचनं भवतुवयमेवतावदेनामवतारयाम इत्युत्तिष्ठन्तां रथादवतार्यह स्तमाकर्षति । बाळावती----रेरेमूर्ख अपसर अपसर दुष्टबुद्धिः ॥ प्रियतमेतमोऽपसरतुनाप- सराम्यहं तेपक्षपातीसेनापतिर्मूतः त्यांमाविनेदानी कोऽपि नरक्षतिएतद्विचित्य मेमहिषी भूत्वा राजसौख्यंभुंजस्व किमत्रमयसे वृथा । तथाहि । दासीसहस्रनेऽधीनंराज्यपालनमेवच ।। चुंबनंदेहिमेकांते जंकमारोहणंकुरु ॥ १५ ॥ बाळावती-~~-किमेवंजल्पसि मग्णमप्यधुनाश्रेयस्करमेव ।। दुष्टबुद्धिः- पर्यकंदिव्यमारुह्याधरं तेपाययप्रिये ॥ पादसंवाहनंतेऽहं करोमिवशगाभव ॥ १६ ॥ बुद्धयाविचित्य विधिनाप्रथमेति तेकि : सृष्टि कृताप्रियतमे मनसाधिचित्य ॥ - ..
(२६) A लक्ष्म्याकृतिकृतवतो सुरजेष्ठबंधो। मन्येनविस्मयमवाप तनूं विलोक्य ॥ १७ ॥ तस्माद्व्याकिंमृयसेऽत्र कांते । एतेजनास्ते वशगाभवति ॥ नकोपित्वामत्र हिरक्षतीति मदंकमारोहसि चेन्नहति ॥ १८ ॥ बाळावती--अनार्यययातेजिव्हया यामातामातेत्युक्ततैयव तांकांतांप्रियति वदसिमूर्ख अपसर । सैनिकः । दुष्टबुद्धे धर्मनिषिद्धकर्माणं त्वांदेवःकृष्णो नपश्यतीतिजानासि किं । दुष्टबुद्धिः-~-मामेवदेवः कृष्णइतिविद्धि । तथाहि । स्वकीयजनरक्षन्सो भूपतिश्शत्रुसंघहा ॥ विधवारोहणकुर्वनकृष्णः कमललोचनः ॥ १९ ॥ अपिच । पद्मनेलोऽहमपिभो भूपतिःक्रियतेऽरिहा। स्वकीयजनरक्षश्च विधवारोहणंनर ॥ २० ॥ इतिबलात्तां कर्षति । बालावती-एपमदांधः सन्नेवंमां मंत्रयति । कथमिदानीं करोमितदैवाग्नि- प्रवेसेन भर्तारमनुगच्छंतीमत्वा तातोरुरोध माकुरुचिताप्रवेशमिति । ततो- एतम्यभावमवधार्यापि गर्भिण्या अग्निसेवननिषिद्ध वात् तातवचसाऽमरेशपुरं मागतां सोऽपि रक्षनएतदुष्टहम्नाभ्यासंप्रेषितवान् । अथवाललाटलेखनमनु- मृत्य यद्भवतितद्भवतु । हेहरेरक्षेदानीं । नमः ॥ तेऽस्तु ॥ २१ ॥ पाहिमेश ।। नारकान्मां ॥ २२ ॥ देहितेपादयोः ॥ भक्तिमेवाशुमे ॥ २३ ॥ दुष्टबुद्धिः-कांतेत्वंप्राप्यते चेदहंक्वउपविशामीति जानासि । सैनिकः । नरके। दुष्टबुद्धिः--किमहंनरके पताामि । विहस्य । आः कः पातयतिमा ।। सैनिकः । श्रीकृष्णः । दुष्टबुद्धिः-किमेवं जल्पसि । कृष्णंयमंच पातयामि ! भवतुकाले शीघ्र- कथय । सत्यमावं । मे महिषीमवसिउत मृयसे । बाळापती-मूर्खएवंमावद मरणमपिश्रेयस्करं ।
.(२७) दुष्टबुद्धिः--तर्हिहरिस्मृति कुरु । बाळावती-(स्वगतं ।) निंदंतांकुशलामां वासः समनिसौरेः ।। त्वत्पादंभजतां मेचित्तमेशरमेव ॥ २४ ॥ दुष्टबुद्धिः--पादेन हन्यते पादाहता साकृपणादुरुकन्या निपातितादुष्टमतेश्च भीमे || वने कथंचित्तदनुकृपाळुश्रीकृष्णपादाब्जयुगेरतेयं ॥ २५ ॥ दुष्टबुद्धिः--मे कार्यसिद्धिरभवत् । हृदि स्थितोस्तंभयादुरस्तो निर्गत्यगर्भस्तुअलक्षिनोऽभूत् ।। एकेनहस्तेन जनान्समन्तान्सांत्वविकुर्वन्निवनीलपौत्रः ॥ २६ ॥ आकाशेगीयते । बनेऽवतारस्त्वपरोनृसिंहो हिरण्यदैत्यात्सचताडितोऽभूत् ।। अयंतुदैत्येंद्रदुरात्मनाहि बाळावनीगर्भमयश्चएपः ॥ २७ ॥ दुष्टबुद्धिः----अनयाप्रवृत्यानिभिन्नं मेहृदयं । सैनिकः । रेरेबंधक एनहता- जातइतियद्ीयते तत्सत्यं । बुधकः । रेसैनिकसत्यंकिंतु नृसिंहदेवसदृशोऽयमिति कथं युज्यतेयतोनरसिंहस्तक्षणे पादाहस्तद्वक्षोव्यदारयत अयंन । सैनिकः--तस्मादप्ययं श्लाध्यतमः पराक्रमी दृश्यते । पश्य । देवःसोऽपि महाकृतिं सुररिपोर्वक्षस्थलंदारितुं । स्वभान्निर्गतभीममर्जनयुतो बालोप्ययंदारयन् ।। यत्नादेवनिकेतने किमुनखैनाम्नैवचित्रनहि । कुर्वन्शांतिमसौसतः करतलादम्माद्वनेदर्शयन् ॥ २८ ॥ बुधकः-सर्वसत्यकिंतु अत्रप्रल्हादः कः । सैनिकः । सेनापतिः । बुधकः-कथं सेनापतिं तेनहतं जानन्नपिविरराम । सैनिकः-अस्माकंदेवः पौष्पसेनस्तद्वक्षो भित्वापश्यन् अस्याप्यधुना पापा- निपूर्णानि नेतिविरराम । योदेवस्य मातृर्हतास्तीति विज्ञायमातृर्मेहंतु अस्यपापानि पूर्णानिभवंति ततोएनंहनिष्यामीति तत्याज । दुष्टबुद्धिः-किमपिजल्पंत्येते । मेशत्रुर्यदि जातश्चेत्कथमलक्षितः । पश्यसैनिकरविस्तुमद्भयात् धावतीतिममभासते वद ।।
(२८) त्यक्तखःस्नपति सिंधुपाथसि बाणरक्तहृदयोविलज्जितः ॥ २९ ॥ वयंस्वनगरं गत्वाराज्ञोवधूशतं हत्वसुखिनोभवाम । सैनिककिमत्र जल्पनेन । इतोरथमनाय । नगरंप्रतिगम्याशुहत्वातस्य वधूशतं ।। पत्न्यासमंराज्यसौख्यं भुंजन पुत्रायदीयते ॥ ३० ॥ सर्वेतथास्त्विति रथमानयंति । दुष्टबुद्धिः । गच्छामपुरंप्रति इदानीमिति सैनिकैः सहनिष्क्रांतः । निष्क्रांताः सर्वे ॥ इतितृतीयोंकः ।।
अथ चतुर्थोंकः । ETS ततःप्रविशतिशतधन्वनामा मुनिः । मुनिः-इतस्ततः परिक्रामन् । सखेदं निश्वस्य । अहंदुर्दैवीएकः पुत्रो उत्पन्नोमृतश्च । किंकरोमि । देवार्चनाय पुष्पाण्यानयितुंयामः । किं दुःस्वेन ।। ( दक्षिणाक्षिविस्फुरति । ) अये दक्षिणाक्षिस्पंदनंमेसुखं यच्छति । किंचि- द्वत्वाएतद्वनं पुष्पाणितावदवाचिनोमि । इतिपुप्पावचयं नाटयति । किंचि- द्गत्वा । अयेशिशोरार्तश्वरः श्रूयते । किंचिदार्तस्वराभिमुखंगत्वा । शिशुंदृष्ट्वा । मय्यद्यदेवेन प्रसादः कृतः । पौष्पसेनिरिवायं भाति ।। पुष्पसेनतनयःकृपार्णवो हस्तजातइवभाति तेजसा ॥ कृष्णपादसरसीरुहाटवीसक्तहृच्चसुतनुर्वनालयः ॥ १ ॥ पार्श्वतः ( विलोक्य । ससंभ्रमं ) कमियंबाळावती ईदृशामवस्थांप्राप्ता । अथवालंसंदेहेन । इयंगर्भिणी किंचित्कार्यवशाद्गहनंप्राप्ता भवेदत्रश्वापदैर्घातिता सतीपतिता । अयंच गर्भाशयान्निर्गतः भवत्वेनगृहीत्वा रक्षामीतितं गृहाति । गृहीत्वातस्करविलोक्य पुष्पसनतनयोऽयमिति किमत्रसंदेहेन । तथाहि । शंखचक्रकजछत्रचामरचित्रमत्तगजवाजिसंयुतः ॥ सिंधुतीरवलयांकितांभुव हस्तएवपृथुकस्यरक्षति ॥ २ ॥ ( विचित्य । आः ज्ञातं । ) पुरैकादशीदिनेगहनेऽत्रानीय दुष्टबुद्धिर्बाळा- वतीमहन्यत्तद्वधूशतमपीति श्रुतवानस्मि । तेनैवदुरात्मनेदंकर्मकृतं स्यात् । भवत्वेनंरक्षामीति स्वग्रहंगच्छंति । ग्रहसमपिमागत्य । अयप्रिये शीघ्रमागच्छ २ ततः प्रविशतितद्भर्या । भार्या----आर्यपुत्रइयमस्मि । आज्ञा पयत्वार्यपुत्रः मुनिः--प्रियेऽद्यहारिणाऽनुग्रहः कृतः । प्रिया-कोऽनुग्रहःमत्पुत्रमरणमेववा । मुनिः । तत्पुत्रशोकं विस्मर । एनपश्यबालकमिति तत्करेन्यस्यति । पश्य ।
(३०) - प्रियेऽद्यपुत्रो मयिविद्धिएनं प्रेम्णातनूजंसुतरां सुपाहि ॥ तत्कामखादूदकपूरितौचकुचौ सदापाययबालमस्य ॥ ३ ॥ प्रिया--भवत्वेनंपालयामि । कस्यसू नुरयं वस्थितः । मुनि--( सपरिहासं । ) ममायंसूनुः पुनः कस्यवर्तते । प्रिया----सत्यकथयत्वार्यपुत्रः मुनिः । त्वमेवजान सि चेद्विध्यैननोच्यते प्रिया- आकारमाकृतिरूपमवलोक्यास्य वार्यतः ॥ उत्पन्नःपुष्पसेनस्य महिष्यामितिकरुपते ॥ ४ ॥ मुनिः-साधुसाधुसम्यग्ज्ञानं तव । तस्यैवायंपुत्रः सत्यं । एनंपालय । प्रिया । पालयाम्येनमिति निष्क्रांता । मुनिः-वयमपिगच्छामइतिनिष्क्रांतः । ततःप्रविशतिराक्षसीराक्षसश्च । राक्षस:--प्रियेक गच्छाव । राक्षसी-रुधिरप्रियतांअटवीं यत्रबाळावतीमृतासेनापतिश्चमृतस्तयोः शोणितंपातुं । गक्षसः । ससंभ्रमं । प्रियेनपातव्यं प्रेयेनपातव्यं मातुः क्षतजं । तथाहि । बाळावत्या जगन्मातुस्तस्य सेनापतेरपि । रक्तंनपिबहे कांते इदृशीच्छांनकारयत् ॥ ५ ॥ राक्षसी-नहि नहि तस्यारक्तंपिबाम्येव । राक्षसः । ( सक्रोघं । ) अ- नभिज्ञकुतस्ते दुष्टबुद्धिरगता । राक्षसी-जन्मतः । राक्षसः । सादुष्टबुद्धिर्नश्यतु । राक्षसी-कथं नश्यत्यधुनायदा पुष्पसेनतनयोऽत्रागत्यसर्वेषां दुष्टबुद्धि- घातयततदामे दुष्टबुद्धिर्नश्यति । तथाहि । दुष्टबुद्धिविनाशाय दीक्षितोनः पतिर्नृपः ।। इदंखपुरमागत्य दुष्टबुद्धिंहनिष्यति ॥ ६ ॥ ( नेपथ्ये । ) कःपुरमिदमागत्य मयिजीवतिमज्जनकं दुष्टबुद्धिंहनिष्यात । राक्षस:-( ससंभ्रमं । ) नेपथ्याभिमुखवलोक्य प्रियेत्वकिमपिजल्पसि । एषदुष्टोदुष्टबुद्धिं हनिष्यतीतिशृण्वन्क्रुद्धस्तत्तनयोऽत्रागत्य स्वाहनिष्यति कथं करोषीदानीं ।
(३१) राक्षसी- यदुक्तंतत्सत्यमेवकिमर्थं मांहनिष्यति । पुनरपितदेवपठामि किं करोतिकरोत्विति तदेवपठति । दुष्टवुद्धिविनाशायेति । ततःप्रविशतितामसनामको दुष्टबुद्धितनयःक्रुद्धः । तामस:--कः पुरमिदमिति पूर्वोक्तंपठति । विधवेकिमेवं जल्पसिनयुक्त- मत्रैवंजल्पनं । उभौ । भीतौ । तामस:----द्वावपिकदानएवं वक्तव्यं । राक्षसी-युक्तमेवोक्तंमया । दुष्टबुद्धिं सर्वेषांनाशायदीक्षितो नोऽस्मकंपतिः प्रभुर्दुष्टबुद्धिर्बहिर्देशादागत्येदं पुरंहनिष्यतीत्युक्तंभवताऽन्यथैव ज्ञातं किं करोमि । तामसः--एवंवा । राक्षसी । अथाकिं । तामस:-- एवंभवस्वितिनिष्क्रांतः । राक्षस:-प्रियेनवक्तव्यं ईदृशंवचनं । राक्षसी- एषकिंकरोतिएनं तज्जनकं हंतापुष्पसेनमूनुवर्घते । तथाहि । शतधन्वसन्मानेमहाभवनेरतःसोहत्वा रणेरिपुममुं सुतमस्यवीरः ।। निष्कंटकांभुवमिमां प्रतिपालयन्स्वानरक्षत्यतो सुखविशिष्टप्रजाभवंति ॥ ७ ॥ कदाश्रुतमिदं वृत्तांत । राक्षसी--यदा आकाशवाणीएनं दुष्ट बुद्धिंहताजात इत्यभवत् । तदैवश्रुतं । अतशीघ्रमेनंहनिप्यति एतद्रुधिरमेवांपेबामः । इतिनिष्क्रांतौ । ततः प्रविशाते शतधन्वशिष्यः । शिष्यः----विद्याशिक्षणवेलागता । अधुनागत्वापिविद्यामुपदिशति वानवा । अहमपिकिंकरोमि ह्यःस्वसुतनामकरणं चकारसगुरुः । रेरोशष्य रामभट्टमाव्हयकृ- ष्टभट्टमाव्हयेति निद्राभंगएवमेऽभून् । अधुना िचन्निद्रांपाप्तेमयिवेलाऽतिक्रांता। सशिशुराप रूपवान् राजलक्षणयुतः । शतधन्वगुरुरपि एवंमत्वाशिशुं शांतहृदयोऽ यमिति नाम्नाऽऽव्हयत् । किमिति । असौबालोऽत्यंत शठमतिपदाताडितनुः । पुराऽभूच्छांतोयं शठमतिशरैर्घातितसुत ॥ उस्सेनामुख्यंशठमातीरपोःपापभरितं । हृदिज्ञात्वानामप्रशमहृदयश्चास्यकृतवान् ॥ ८ ॥ भवतुतप्रव्हमेव गच्छामीतिनिष्क्रांतः ! ततःप्रविशतिशतधन्वनिःपश्चातसुतः शिष्यच ।
(३२) मुनिः-सुतमालोक्य । पुत्रक इतएहि । बालः । समीपमागत्य पादयोः पतति । मुनिः-तन्मूनिकरंन्यस्य । (चिरंजीव सम्राड्भव । पुनःसप्रेम । ) शिशुतंगृहीत्वाऽऽकेऽऽगेप्य बालपट्शास्त्राण्युल्लंषितानि । बाल:---उल्लंघितःशट्शास्त्रमहार्णवो भवदनुग्रहात् । मुनिः--गाढमालिंग्य । पुत्रक अधुना किमिच्छसि । बाल:--बाणविद्यां । मुनिः । अहो प्रकृतिर्दुस्त्यजेति सत्यं । भवतु बाल अस्त्रविद्यामुपदिशमि । शिष्य:--ज्ञानसमुद्रइवायंबालः । तथाहि । रहसिजनसमूहवाक्यदृष्टयादिपीडा । भवति नसगुरुनों ज्ञानसिंधुंमयैनं ॥ उपदिशतियथेषतत्क्षणं लब्धविद्यो । भवति सह अहंनविस्मितोमां विलोक्य ॥ ९ ॥ गुरु:---रेरोशष्यवनं गत्वाकीचकमानीयधनुः कृत्वास्मैदेहि । शिष्यः---गुरोभवतु तथाकरोमीतिइतस्ततः परिक्रामन् । ( स्वगतं । ) गुरोरस्य पीडामेबव्हीवर्तते तदानयइदमानयेति । तथापिगुरोर्वचनं नोल्लंघयेत् । ( प्रकाशं । ) गुरोतथाकरोमीति निष्क्रांतः । मुनिः--बालधनुगृही वा वगच्छसि । बालः-मृगययैजगंतियये दुष्टबुद्धयस्तान्हंतुंगच्छामि । तथाहि । ताते शयोभुविमदांधारपुश्च दुष्टोयोवधतेयमरतधनुषा करोमि ।। तंतरणे वजनरक्षणमेव कृत्वात्वांनंदयामिजननीं पितरंहि विद्धि ॥१०॥ मुनिः-बालभवत्वैनामुत्तरां दिशंविनागच्छ । बालः । तथेतिताते- नसहनिष्क्रांतः । ततः प्रविशति दुष्टबुद्धिः । दुष्टबुद्धिः--इदानींनिष्कंटका भूरासीत् । वधूंशतंहतं तथा बाळावती- हतासुखं भुज्यतेमयेदानौं । ततः प्रविशतिकमला । कमला-जयतु जयतु तातः ।
(३३) दुष्टबुद्धिः-विलोक्यसुता प्राप्ता । वत्सेऽद्यदुनिमित्तानि बहून्यासन् । सुता । किंकिमासीत् । दुष्टबुद्धिः-शृणु। यदा बाहेदेशमुपागतोऽहं तदैववामाक्षिभुजश्च वामः ॥ वसेऽस्फुरदाक्षेणतो बिडालोयातस्ततो राज्यमिदहियाति ॥ ११ ॥ कमला-शांतंपापं शांतंपापं प्रतिहतममंगलं । ताततेराज्यामिदं स्थिरंकर्तु मयावरोलब्धः । दुष्टबुद्धिः----कस्मात् । सुता । इंद्रात् । दुष्टबुद्धिः-किमिति । सुता-जेतुमशक्याविति । दुष्टबुद्धिः-को। सुता---पयोधरौ । दुष्टबुद्धिः । सर्वविस्तराढूहि । सुता--सर्व कथयामि । यदात्वंबाळावतीं तवधूशतंह त्वा राज्यपालना- सक्तस्तदाऽहंतातराज्यीस्थरभवंचिति इंद्रसेवानिरता । दुष्टबुद्धिः-( सहर्ष । ) ततस्ततः । सुता । ततोनिरंतरसेवासक्तां मां विलोक्येंद्रः प्रादुरासीत् । दुष्टबुद्धिः--ततस्ततः । सुता । ततस्त्वच्छेवया संतुष्टोऽस्मिवरंवृणीप्वेति बभाषे । दुष्टबुद्धिः ---ततस्ततः । सुता । ततोऽहंदीनवाचा देवेंद्रमत्तातम्य स्थिर- राज्यंयथाभवति तथामेवरं देहीत्ययाचं । दुष्टबुद्धिः-ततस्ततः । सुता । ततः संतुष्टमनसेंद्रेण सुभगे एतौमघौ केनापिजेतुमशक्यौ । ग्रहाणैताभ्यां तेजनकस्यस्थिरराज्यं भववितिमेवरोदत्तः । दुष्टबुद्धिः :-ततस्ततः । सुता । जगतिमे कोप्येतौजेष्यति चेत्कथमित्य- पृच्छंतस्मै । दुष्टबुद्धिः-साधु २ पृष्टत्वया । ततस्ततः । सुता । ततोदेवेंद्रोएमयौनौ जेतानास्त्येवयः पयोधरावेतौ जेप्यतिसएवत्व- त्पयोधरावपि जित्वासबंधुंतेतातंच स्थिरराज्यंभुक्तेइति । दुष्टबुद्धि:--ससंभ्रमं । मेराज्यं परःखाधीनभवति किं स्थिर न ।
(३४) ) सुता--नहि २ तेनएवं कथितं । पश्य । दत्तंतेसुभगेपयोधरयुगं जेतामहीपालक । स्त्वत्तातस्य विराज्यमिंद्रपदवीं राज्यंनरोयस्स्थिरं ॥ भुक्तेविद्धिविपीनको कुचघटौगृहन्पतिस्त्वामिति । सोवीरस्तवतस्य भक्तिवशतस्तस्मै प्रयच्छेत्परं ॥ १२ ॥ दुष्टबुद्धिः--साधु २ वसे सुवरोलब्धोइंद्रादपि । भवतु स्वगृहंगच्छ । सुता-तथाभवत्विति निष्क्रांता । दुष्टबुद्धिः---अधुनाचिंतापिकमलावतीभाषणेन दूरगामे । भवतुभूमिं पाल- यामि । इतिनिष्क्रांतः । ततः प्रविशति शतधन्वमुनिः । मुनिः--अद्यबालोमृगयायै गतोनायातः । दिशंकांगतः स्यात् । ( नेपथ्ये ) बालशांतहृदयतेहस्तगतौ सिंहगजौसृज । मुनिःश्रुत्वा । नेपथ्या भिमुखमवलोक्य । अयेमद्भार्यया निवार्यमाणोऽऽगतः सूनुः । तथाहि । करतलधृतमत्तकेसरींद्रस्त्वरिततरं जननीनिवार्यमाणः ॥ शरणगतगजेंद्रमृत्युनाशकृतिपटुवामकराग्रीमहस्तिः ॥ १३ ॥ ततः प्रविशति जनन्यातौ सृजसृजोतनिवार्यमाणस्तयासह शांतहृदयः । माता-वत्सशांतहृदयतौ सृजान्यथात्वां तौहानिष्यतः । मुनिः-ससंभ्रमं । बालवस्त्वपरं दीयतेविहर्तु तौत्यज । बालः एनंमृगेद्रहत्वा- गजं त्यजामि । यन्निरपराधिनंगजं मृगेंद्रोहनिप्यति । तदयमविचारीकिमनेन । मुनिः--वत्सत्वंशांतहृदयेति कृतनामधेयोऽस्येतत्कथं युज्यतेत्वयि । बालः । दंडसमये तीक्ष्णएवभवितव्यं । मुनिः-वत्समुंचासिंह । बाल:-सिंहज़ंभस्वदंतान् पश्यामि । नचेत्त्वां ताडयामि । मुनिः-नयुक्तमस्य हननं । माता । वत्समुंचैनं । मुनिः । यद्ययंमुनिपुत्रश्चेन्मुंचत्येनं रोजपुत्राऽयं कथंमुंचति । वत्समुंच मृगेंद्रगजौच । बाल:-सिंह कदापिनैवं कार्यगच्छेतितं बलारिक्षपति । गजेंद्रगुँचति । मुनिः-वस्सउत्तरांदिशंविनागच्छ । भवत्वधुनाभोजनाय चर । इति ताभ्यांसह निष्क्रांतः ।
(३५) ततः प्रविशतिदुष्टबुद्धिः । दुष्टबुद्धिः--इतस्ततः परिक्रामन् । कःकोऽत्र भोः । प्रविश्यदौवारिकः--दौवारिकः । जयतु २ देवः । दुष्टबुद्धिः--( सगर्व । ) रेरेपुरुषकोऽपि दुष्टबुद्धिरर्थतोऽप्यस्तीत्याह किं । दौवारिक:--नोच्यते तथाकेनापि । दुष्टबुद्धिः--मेराष्ट्रकोऽप्यपघातं न करोतिवा । ( नेपथ्ये । ) करोत्येव । दुष्टबुद्धिः-नेपथ्याभिमुखमवलोक्य । कर्णदत्वा । कः । नेपथ्ये । एषदुष्टबुद्धिः । दुष्टबुद्धिः-आः किमेवंजल्पसि । ततः पटाक्षेपेणसैनिकः ससंभ्रमः प्रविशति । दुष्टबुद्धिः--सैनिकविलोक्यं । किंरेकिंजल्पसि । सैनिकः । देवकथयामि श्रूयतां । मदोन्मत्तोऽत्यंतशठमतिरसौ हंतिमनुजान् । हतंदुष्टेनाशुहनननिरतः कोनुभवति ॥ अनेनस्त्रीणांचशतमिदममुं मेरणमुखे । मुनेः पुत्रेणैषहतइति विनाविद्धिजननीं ॥ १४ ॥ दुष्टबुद्धिः---आः ममांतकोमुनिपुत्रो भवतिकिं । सैनिकः-नहि २ गजमेनंमत्तं त्वांविनाकोऽपि नहंतीत्युक्तंमुनेः पुत्रोपि भवताविपरीतमेवसंभावितं । दुष्टबुद्धिः-एवंवा । तर्हिकिमेवंहत्ययंहत्ययं मामितिजल्पास । सैनिकः---वीर्याणवेत्वयिमे कस्माद्भयंन । भवद्भिस्तन्मदनाशः क्रियतां । दुष्टबुद्धिः-चरवयमपितन्मदनाशाय गच्छामइतिनिष्क्रम्य पुनःप्रविशति ससैन्यादुष्टबुद्धिः पश्चाद्गदर्जन्मत्तोगजश्च । दुष्टबुद्धिः--मयाप्यसौसैनिकनहन्यते किंकरोमिभवतूर्ध्वदेशे स्थित्वातावदेनं- पश्यामि । इत्यूर्ध्वदेशमुपाश्रितः । ततः प्रविशति । ब्रह्मचारीशतधन्वपुत्रोधनुभृच्छांतहृदयः । शांतहृदयः..-अद्यमृगयायै एतद्दिशंविनागच्छामाकं एतद्दिशं गच्छाम । यतस्तातोमेकथितवान् एतदिशमुत्तरां विनाशगच्छेति । शिशुमेनंघ्नंतीति
(३६)
खापदाअभिप्रायेणनयाहीति कथितवान् । तदाप्रभृत्येवयदाहंबाणविद्यामुपदि-
शसि चेद्गृह्यतेमयेत्युक्तवान् तदानवमवर्षी तदैवमयाउपनयनंस्वीकृतं । इदानी-
मेकविंशतिवार्षिकोऽहं । तदस्तु । एतद्दिशमेव गच्छामि । किंचिद्गत्वा ।
अयेक्रूरतममिदमरण्यं तथाहि ।
मत्तसिंहगजवाजिवानरव्याघ्रदुष्टमतियुक्तसंयुतं ॥
हास्यकर्मगजशक्तिसूकरस्वावृकागतनरांतकायुतं ॥ १५ ॥
ईदृशमिदंवनंअतएवकथितवान् मत्तातोएतद्दिशंविना गच्छेति । भवतु
बाणैमयैतेहानप्यते । इतिसशरंधनुरादत्ते । ( सिंहादयोएनंशांतहृदयं जिघां-
सयाऽऽगच्छंति ।
शांतहृदयः--बाणैस्तान्हन्यते । बलिष्ठसिंहोधावन् आगतः ।
शांतहृदयः--
एषोऽपिसिंहोमुनिरेव साक्षात्म्वकांतितुच्छीकृतभानुहस्तः ॥
तथापिएतद्धननेन पापनायाति महंतिनिरुद्यमश्चेत् ॥ १६ ॥
( इतिबाणवृष्टिंकरोति । ) सिंहोपितान्बाणानतुंडे परिगृह्यसमीपमागत्य
शांतहृदययज्ञोपवीतंगृण्हाति ।
शांतहृदय:-यज्ञोपवीतंतृटित्वा तमेकशरेण हति ।
शराहतः सिंहवपुः सशीघ्रं मुक्वाक्षणोदिव्यवपुश्चगृहन् ।
मुनिर्बभूवाखिलदोषमुक्तो एनंबभाषेमुनिपुत्रमेव ॥ १७ ॥
मुनिपुत्रवरंवृणीष्व प्रसन्नोऽस्मित्वया पापन्मुक्तोऽहं ।
शांतहृदयः--तंन्नत्वाभवान् कः ।
मुनिः । मेपूर्ववृत्तांतं शृणु । चित्रनेमिनामकोऽहंराजा कदाचिन्मृगयोद्दे-
शेनभ्रमंस्तत्रतत्र मृगानुसारीकस्यचिन्मुनिनिकटेंऽतर्हितो मृगइतितमुनिमववलेपभरा
हुर्भाषणान्युक्तानि तच्छ्रुत्वामुनिःक्रुद्धःसन्मांशशाप । तथाहि ।
रेरेदुष्टमदांधकिंमममुधादुर्भाषणं व्याहरन् ।
राजासन्नपिहंतुमिच्छसि मृगात्सिंहत्वमेहीतिमां ॥
स्वामिन्पाहिसहस्वमे मुनिवरअज्ञानमूलादिदं ।
चोक्तंतत्तदनुस्वशापनिवृतिमा प्रत्यवादीन्मुनिः ॥ १८ ॥
(३७) यदापुष्पसेनतनयः शांतहृदयस्त्वांशरैस्ताडयतितदामुक्तो भूत्वाराजर्षिभ- विष्यास । तस्मान्मुक्तोऽहं । शांतहदयः--यज्ञोपवीतंमेकिमर्थतृटितं । राजर्षि:-तच्चकथ्यते । तृटितंचब्रह्मसूत्रं तवविवाहकर्मभवाति ॥ अतःकृताहिविधिरिति गोदाननामकापुत्रस्वस्तीति ॥ १९ ॥ भवतुगच्छाम तंमुनिप्रति । इतिनिष्क्रांतः । शांतहृदयः--सदृष्टिक्षेपं । अहोऽत्रकिंघोपः श्रूयते । समीपंगच्छामि इतिपरिक्रामति । सैनिकः--भो इतआगच्छध्वं । गजःखलु मदोन्मत्तः । दुष्टबुद्धिः:-बहिःपीडाबहिरेव निष्कामतु । शांतहृदयः-श्रुत्वागजसमीपमागत्य । अयंखलुगजो महाप्रलयमेघधारासमं । विघोषमनुकुर्वतिमदजलंविमुंचन्दिशः ॥ दुरात्ममनुजानसौसपदिहंतिमत्तोप्यतो । इदंहिनगरंदयापरवशंमयाज्ञायते ॥ २० ॥ भवतु उन्नतभूमिस्थमनुसरामि । इतिदुष्टबुद्धिनिकटमागच्छति । दुष्टबुद्धिः--कोऽयस्यात् । भवतुपृच्छामि तावदेनं । कस्त्वं । शांतहृदयः--हंता । दुष्टबुद्धिः । कान्नरान् । शांतहृदयः-दुष्टबुद्धीन् । दुष्टबुद्धिः-विद्याकाते । शांतहृदयः--शस्त्रविद्येतिविद्धि । दुष्टबुद्धि:--पुत्रःकस्य । शांतहृदयः-मांमहर्षेःसुतश्च । दुष्टबुद्धिः । व्यविद्ये । शांतहृदय:-त्यस्तिशस्त्रंगृहाण ॥ २१ ॥ दुष्टबुद्धिः-एनंमारयासचेत्तवशस्त्रग्रहणं सफलं । शांतहृदयः---गजमनंहतात्रकोनाम्ति तवापितन्मरणं असाध्वंवा । दुष्टबुद्धिः--वयंनिर्बलाएव । अत्रपराक्रमं दर्शय । शांतहृदयः--धनुन्यस्य । .
(३८)
कृतांतरूपोप्यकृतांतरूपो बलेनहीनोप्यतिशक्तिमान्सः ॥
निष्क्रुद्धदेहोप्यति क्रुद्धदेहः समीपमागान्मदमत्तहस्ति ॥ २२ ॥
शुंडांप्रगृह्यकराग्रेणतंभ्रामयन्कृतांतवसतिंप्रेषयामास ।
दुष्टबुद्धिः-( सविस्मयं । ) ( आत्मगतं । ) अयंपराक्रमीमयाहंतुमसा-
ध्योदृश्यते । अस्यमरणोपायः कथमपिकर्तव्य एव । भवतुतावदेनंवक्ष्ये । (प्र.
काशं । ) शांतहृदयतेपाराक्रमेण प्रीतोस्मि । सांप्रतमेपुत्यैपत्रनयनंकर्म
क्रियतेवा ।
शांतहृदयः-क्रियत इतिपत्रमादत्ते ।
दुष्टषुद्धिः--रेरेसौनकएतस्यमत्पुत्र्याग्रहं प्रदर्श्वशीघ्रमागच्छ ।
सैनिक:-अथकिं । दुष्टबुद्धिः । वयमपिगच्छामइति ससैन्योनिष्क्रांतः ।
शांतहृदयः--सैनिकइयरम्यापुरीकस्य ।
सैनिक:-इयंपुष्पावतीपुरी । पुष्पसेनइति तेपित्रापालिता त्वत्पिताविषम-
ज्वरपीडितो यमलोकंगतः । तदनंतरमासौ दुष्टबुद्धिःमातरंमातृशतं हत्वाराज्य-
पालनसक्तस्त्वामिदानीं जिघांसयास्वपुञ्यैपत्रप्रेषितं स्यात् । तत्त्वंतहत्वाराज्य-
पालनकर्तव्यं ।
शांतहृदयः--एवंवा । किंचिद्गत्वाचूतसंघ दृष्ट्वा । अयेसैनिककस्येदं आ-
म्रवृक्षसमीपस्थं ग्रहं।
सैनिकः-तस्याः कमलायाग्रहमिदं ।
शांतहृदयः-अत्यानंदस्थानं । तथाहि ।
भ्रमरस्यात्रप्रवेशश्च कथमेवंभविष्यात ॥
बाहुल्यमधुसंपातुमेकोप्यत्र नदृश्यते ॥ २३ ॥
ततः प्रविशतिकमलाचेटीच ।
कमला--हंजेविशालप्रकाशोऽत्रमें गेऽ ऽनंदकारीमीनध्वजविपाठानुत्पादयन्
जालमार्गादपतत् । पश्यपश्य ।
शांतहृदयः-ग्रहमवलोक्य ।
मरकतमयशुद्रकांतिरम्याकृतिमहिलाजनदृश्यबिंबयुक्तं ॥
ग्रहमिदमवलोक्यमीनकेतुः शरहतकायमहोकरोतिमांहि ॥ २४ ॥
(३९) कमला--सखिपश्यावतावदेतत्प्रकाशं कस्यभवेदितिबहिरागत्य शांतह- दयंपश्यति । शांतहृदयः- किमियंसुरसंदरीबभवेदथवा सूक्ष्मकटीविशोभिता ।। भृकुटीस्फुरणेनमे वितिमदनंवृद्धतमविकुर्वती ॥ २५ ॥ सैनिक:--पुरासोमदत्ततनयां कलिंगराजोऽपहरन्तयामहचक्रीडे । तथा- भूतांगर्भिणींसोमदत्तसुतः कुलकलंकामितिजिघांसयागहनेऽऽनीयतां जघान । तत्सुताएषा। शांतहृदयः-अस्यदुष्टबुद्धेः कथमुपलब्धा । सैनिक:---कदाचिन्मृगयोद्देशेनगतेऽस्मिन्नेनां पालयामीतितमोगुणबुद्धिराप सत्वगुणबुद्धिरिवग्रहमानीयापालयत् । तदेषातस्य पुत्री । तस्याग्रहमिदं विश । अहमपिगच्छामीति निष्क्रांतः । शांतहृदयः-भवतु परस्त्रीअवर्णनीया । दुष्टपत्रमस्यै ददामि । कमला-हलाएपकोभवेत् अहमप्येनरूपातिशयादेवं मन्ये । तथाहि असावतीरूपवान् रतिर्विशोकयाचनैः । कपादचेतसागतो रतिहिजाग्रतः स्मरः ॥ मदीयरूपनिंदितां विलोक्यबुद्धिमानपि । हरेणदृश्यतेसखितमेवयातिमे मनः ॥ २६ ॥ शांतहृदयः---किमिदं रूपमिमोहमुपगतः । पुनःसज्ञामुपलभ्य । पक्ष्मयुक्तनयनां समकुर्वन् पक्ष्महीननयनाविलजितुं ।। रूपवत्यइतिगर्वजुषोऽलं गर्वनाशकृदिवानयाविधिः ॥ २७ ॥ इत्युपसृत्य । अत्रभवतिकमले । कमलापृच्छेनं तावत्कस्यपुत्रोऽयंक-मादि- हागतोऽसीति । चेटी-तथेति । भद्रस्वागततव कस्यत्वंपुत्रःकस्मादिहागतो भवान् । शांतहृदयः-उपविश्य अहंशतधन्वपुत्रःकिंचित्कार्यवशात्प्रेषितोऽस्मि दुष्टबुद्धिनाएतत्प त्रिकांगृहीत्वागच्छेति अतोपत्रिकां गृहाण । चेटगृिहीत्वा । कमलेपत्रिकेयंग्रहाण । इति अर्पयति । कमला । गृहीत्वावाचयति ॥ चि. कुं. कमलेस्वं अरण्यादानीयपालिता । इदानीं आगतस्यास्यविक्रमसौंदयादि (४०) गुणैर्विशोभिनं स्वाधीनाभ्यांपयोधराभ्यां जित्वनंतातवसतिं प्रेषय । तथाहि । कुरुकुसुमशरातिपुष्टकाभ्यां कुसुमशरेण शरैश्चपूर्णकाभ्यां ॥ शुभगुणयुतमेनमाशुजित्वा पितृवसतिंसुदृशंपयोधराभ्यां ॥ २८ ॥ इतितातेनलिखितं । हलातातेनापिशुभगुणयुतस्य पाणिग्रहणंकुर्विति । चेटी । अनेनसह । इंद्रदत्तपयाधराभ्याप्रयुध्यैत्नं स्वीकरु । कमला-जनांतिकं । ममप्रतिज्ञानुसारेण पयोधराभ्याप्रयुध्यमयापराजि- तोप्ययं अनेनैवसहानंगयुद्धंकरोमि । प्रका। । हलाद्रुतपयःपूर्णीघटावानय । चेटी-तथेतिनिष्क्रम्य घटावानयति । शांतहृदयः--( आत्मगतं । ) अहोयुद्धात्पूर्वजल पूर्णघटानयनं सुनिमि- तानिकथयति । चेटी-सखि आनीतः पयोधरः । तेनपयुद्धम्वेति अर्पयति । शांतहृदयः-प्रयुध्यतांराजपुत्रि । इतिसमीपमागच्छति । कमला-सरोपं । घटाभ्यांताडयति । शांतहृदयः--सचिंतमात्मगतं । यथाऽनयाताडितहेमकुंभो ममेदृशंकोमलहस्तपद्मं ॥ प्राप्यातिपीडांकुरुते तथास्या वक्षोजकुंभोममवक्षसीव ॥ २९ ॥ कमला । सरभसं । गृहीत्वाघटौचेट्यैसंज्ञां ददाति । शांतहृदयः--चेटींनिवार्य । घटोगृहातिगाढं । कमला--हा इंद्रशचीकलवायंकोपि त्वयादत्तौघटौ मुनिपुत्रोविजिग्ये । मांनायव २ । चेटी । समुनिपुत्रो रक्षतित्वां । ततः प्रविशत्याकाशयानेनससैन्यस्सवज्रःसहरिहरिः । इंद्रः-रेरेदुष्टात्मन्एवमेकाकिनीकन्यकांजित्वाजीवन्यास्यसि । इतितस्मि- न्वज्रं क्षिपति । शांतहृदयः-प्रियेत्वकृतेइंद्रोविष्णुसहायो युद्धायोयुक्तः । भवतुक्षणमेव- शक्ररहितां भूमिपश्यसि । इतिशरैर्हतितं । विष्णुः । ( सस्मितं । ) ररेशठहृदयचंडंममचक्रंसहस्वेति क्षिपति । शांतहृदयः-( विहस्य । ) भोभोविष्णुयमप्रभृतयो क्षणमात्रंबाणवृष्टिं. सहध्वमितियाणवृष्टिकरोति ।
(४१) विष्णुः । ( सभयं । ) चक्रेनष्टंभूपेनैव विष्णुंजित्वावज्रशांतं ।। शक्रत्वांभोभूपेनैव कालंजिस्वाकन्याप्रापा ॥ ३० ॥ हेशक्रादिप्रभृतयो पलायनेनालं । ब्रह्माणंब्राह्मणांश्चास्यविवाहार्थ आव्ह- यागरछेति । शक्रः-तथेतिसैन्येनसह निष्क्रांतः । विष्णुः--वत्स शांतहृदयप्रसेदिवानस्मि । शांतहृदयः-प्रणम्य । तवपितुरलंशश्वत्प्रेम्णाविना ममआगसां दिने- रात्रौसौदुत्वां विना कःशक्तः । ततः प्रविशति पत्नीसहितशकभव ब्रह्माणो लक्ष्मीश्च पश्चात्प्रविशति । विष्णुः---शुक्रपुण्याहवाचनायकन्यापक्षे ब्रह्मोपविशतु । अहंतुलक्ष्मीसहि- तोवरपक्षे उपविशामि । अस्यशांतहृदयस्यमंगलस्नानाय सदासीपार्वतीयुज्यतां । उभौउपविशतः । पार्वती--हलाशीघ्रमस्यस्नानाय हेमकुंभमानय । चेटी-तथेत्यानीयस्थिता । पार्वती । ( सस्मितं । ) हलाकिंपश्यसि । उरोजकांत्यासदृशः किमेपः सुवर्णकुंभःसखिमेदृढेन ।। विचिंयतत्यंबकरस्थकुंभास्थितासि किंदेहिसुवर्णकुंभं ॥ ३१ ॥ इतिबलाद्गृहीत्वातंस्नापयति । ततः प्रविशतिभीमभट्टादयोद्विजाः । विष्णुः--शीघ्रमानीयतांशांतहृदयः । पार्वती-सरभसं । वधूवरौस्नापयित्वाप्रसाधयित्वा चउपावेशयति । ब्रह्मा-गणपतिपूजाक्रियतां । महादेवः-किमर्थगणपतिपूजासाक्षान्मंगलनिधौ नारायणेस्थितेकुतोवा- विर्भविष्यति विघ्नाः। विष्णुः-करितुंडपूजावानिश्चयपुण्याहवाचनादि कृत्वाऽऽहशकब्रामणे- भ्योदीयतां दक्षिणा । शक्रः-तथाकरोति ।
(४२)
-
--
भवः--उपविश्यतांभोजनाय ।
ब्राह्मणाः सर्वेउपविशति ।
पार्वती--वधूवरौपरस्परं नामगृहीतां ।
कृष्णभट्टः----रामभट्टउच्यतांश्लोकः ।
रामभट्टः-
समस्तदोषाकरनाशकोपि स्वयंहि दोषाकरमौलिरेषः ॥
भवोरगंभक्तजनानुयातं हंतापितत्सर्पकृतानुपृष्टः ॥ ३२ ॥
शंभोहरहरमहादेव ।
पार्वती--वधूवरावन्योन्यं नामगृहीतां । अलमलंबीडया ।
शांतहृदयः-
दुष्टबुद्धितनयापिसुबुद्धी स्वर्गलोकललनाजयरूपा ॥
लीलयोरसिपयोधारयुक्ता सेतिवित्तकमलांममलोकाः ॥ ३३ ॥
कृष्ण:-भीमभट्टत्वमप्येकं श्लोकंपठय ।
भीमभट्टः-
कस्त्वंश्रीमान्मृगयऋणिकान्श्रीपतिविधिनस्वं ।
कृष्टातेनशठमतिसुताकायभत्राहठाच्छ्रीः ॥
मुग्धेकांतेक्षितिपतिरहांवद्धिनत्वंमहीशः ।
कृष्टासांपिप्रतिवचनजडःपातुनःश्रीपतिःसः ॥ ३४ ॥
लक्ष्मी:-कमलेपत्यु मग्रहणंकुरु ।
कमला--
येमेंद्रदंडधरस्वेतत्वहारिदधिमाधुर्यहारिकिरण-
श्रीशेषुयुद्धमखपृष्ठं प्रदयगतिहव्यंभजस्सुघटितं ॥
तैर्दत्तशांतहदवर्णैरुपायनसुकर्मेतिनामपदयोर्यस्मै
यमोऽपिभयभीतार्धनामयुगवणकदानभिषजः ॥ ३५ ॥
स्वस्थोऽभवद्यस्ययवर्णमेलना।
धद्वीर्यमाधुर्यवचःसुकीर्तिभिः ।।
पूर्ण भूत्तस्यमनोजशांतका ।
कांतश्वजानीथसमस्खसज्जनाः ॥ ३६॥
(४३) विष्णु:---बयंसर्वेगच्छामहतिवधूवरौ विनानिष्क्रांता : । शांतहदयः---प्रियेचित्रमेतत् । त्रिनेत्रयुक्तोऽपिकथंमृगाक्षि गुप्तोंबरेणैववदेतिशैलः ॥ कुतोभयंतस्य सुधांशुमीतस्तत्रैवकस्तंघटयांचकार ॥ ३७ ।। नपौर्णिमाचंद्रसुपीडितांगो । यथाऽष्टमीबाणसुधांशुमीतः ॥ तत्कारणंकिंनुवदेतिसुभ्र । तत्पार्वतीतुंडपराजितत्वात् ॥ ३८ ॥ कांतेशतधन्वाश्रमंगच्छामि । पिया--आर्य नगव्यंतावत् । शांतहृदयः-तथेतितयासहनिष्क्रांतः । इतिनिष्क्रांताः सर्वे । इति चतुर्थोंकः ॥
अथ पंचमोंकः। ततः प्रविशतिदुष्टबुद्धिः सैनिकश्च । दुष्टबुद्धिः--सैनिकमंत्रनिर्मितः प्रेषितः सर्पः नाद्यापिप्रति निवृत्तः । तत्स प्रतंगत्वातद्वृत्तांतं ज्ञात्वाशीघ्रमागच्छ । सैनिकः-तथेतिनिष्क्रम्यपुनःप्रविशति । सैनिकः--जयतु २ महाराजः । दुष्टबुद्धिः--किंकिंवृत्तांतंतस्यदुरात्मनः सर्वकथयाधुनाजीवतिवानवा । सैनिक:-अद्यापिजीवति । दुष्टबुद्धिः--तयोयुद्धोनाभूत् । सैनिकः-अभूदेव । दुष्टबुद्धिः--कोयुद्धः । सैनिकः--अकाययुद्धः । दुष्टबुद्धिः--( स्वगतं । ) सातद्वशाभवितुं नार्हति । अकाययुद्धो नाम- वाणयुद्धोभवेत् । प्रकाशं । सैनिकयुद्धवर्णय । सैनिकः--शृणोतुदेवः । नीविबंधनमसौपरिमुचन्नालिलिंग दृढबाहुलताभ्यां ।। तातहस्तलिखितेक्षणकोपमेप एवनुनुदेदृढसंगः ॥ १ ॥ दुष्टबुद्धिः--किंदुरात्मारंतुमारेभे । सैनिकः--नहि २ कथयामिसर्व । पश्य । स्तस्याः पीनतमंपयोधरयुगं गृहन्पसह्यात्मनि । स्वस्मदेवकरद्वयेनकिमिदं वज्रादृढविद्यते ॥ पूर्वमत्तगजेंद्रकुंभयुगलं चाब्रूत्वहस्तद्वया । नष्टसंप्रतित्वत्पयोधरयुगाद्भातौ करौमेजितौ ॥ २ ॥ दुष्टबुद्धिः--ततस्ततः । सैनिकः (४५) : :पद्मासुलातेकुलविकृष्य । स्वकीयकौपीनपयोधरौसा ।। करद्वयांतचसुवचयित्वा । वृथांऽबरेणैवहठाद्रुरोध ॥ ३ ॥ दुष्टबुद्धिः--ततस्ततः । सैनिकः- कुचघटयुगलप्रसह्यतस्याः । समधृतचोलप्रभापहास्यरत्नां ॥ अतिकठिननवैर्विदार यन्स । दृढतरमाशुप्रगृह्यसस्वजेतां ॥ ४ ॥ दुष्टबुद्धिः-( सरोषं । ) सदुरात्माकिंतांसस्वजे । सैनिकः--नहिनहि । दुष्टबुद्धिः --तर्हिकिमेवंतांसस्वजेसस्वजे इतिजल्पसि । सनिकः-स्वगतं । अस्यपुरः विचार्यकिमपिभाषितव्यं नवेदितव्यामस्मै तवृत्तांतां । प्रकाशं । देवकथयामि । चंदनेनसमलंकृतदेहा । कुकुमेनचपयाधरावपि ॥ वक्षसीवनृपतिंपुरःसुता । वंचितंकृतवतीविलिप्यते ॥ ५ ॥ दुष्टवुद्धिः--ततस्ततः । सैनिक:- ततस्तेतनयादीनवाचाशकशक त्वयादत्तपयोधरावेषजित्वामा- मपिवशीकरोति त्रायम्वत्रायस्वेतिदयोपेतः शक्रः विष्ण्वादिनासमेतश्विरतरं प्रयुध्य शांतहृदयविजिग्ये । दुष्टबुद्धिः---( सहर्ष । ) ततस्ततः । सैनिकः-ततःशांतहृदयोपि भोभो शकादिसेनानायकाःबहुनाबाणवृष्टि- पातेनकिमेकेनैवबाणेन सर्वान्निवारयामातिशक्तताड । दुष्टबुद्धिः----ससंभ्रमं । ततस्ततः । सैनिकः---तम्यैकबाणस्यतीक्ष्णताकिंवदामि । पश्य । तन्व्यास्तातरिपोःकरावभिजितावित्येवगर्वासह-। स्वावाभ्यांनृपतेस्तलादिभिरसोशून्यस्तृतीयःकरः ॥ बाणोगर्वतमैकमेकमितितौ चंगान्यशेषान्यपि । जित्वाहृद्ग्रहमाविवेशसुचिरद्वेषीसुतायाः क्रुधा ॥ ६ ॥ दुष्टयुद्धिः-- ततस्ततः सैनिक:---:
(४६) तयुद्धसंभवमिदंचलधर्मतोयं । दृष्ट्वामराबादसविस्मयमानसाश्च ।। मंदाकिनीकिमुह्यदाद्धरिराहुरेवं । प्रेम्णापयोधरयुगंश्रुतवंतएते ॥ ७ ॥ दुष्टबुद्धिः---ततस्ततः । सैनिकः हताम्म्यंहसत्यमहंमृतास्मि । पराजितास्मीतिवचास्युवाच ॥ अंगान्यशेपाणिचमारवाणै । विद्धानिपातुंममरक्षशक्तः ॥ ८ ॥ दुष्टवुद्धिः--ततस्ततः । सैनिकः- पराजितास्मीतिवचोनिशम्य । हठाद्गृहीत्वा वदनंचुचुंबे ॥ मृषाऽब्धिजातपपुरेवदेवा । बिंबाधरेऽस्यायमृतहिलमं ॥ ९ ॥ दुष्टबुद्धिः-सर्वथातनयांजग्राह सैनिकः--अथाकं । दुष्टबुद्धिः--सरति केनप्रकारेण कृतवान् । सैनिकः--तारतिमपिकथयामि । सलज्ज । शृणोतुदेवः । नैतत्पयोधरयुगंतवकिंतुतन्व्या । अत्यंतवर्तुलमहावलोक्यवक्ष्ये ॥ अस्त्याहचक्रमिहवेस्सिप्रियेयदित्वं । सत्यवदेतिललनाकुचकुंभहस्तः ॥ १० ॥ दुष्टघुद्धिः--ततस्ततः । सैनिकः चंद्रपृच्छयदास्थकांतमितितंचंद्रोऽयमूचेरुषा । पूर्वस्मिन्जननोपचक्रयुगलमस्मान्नभातहिसत् ॥ अद्यापिस्तनतांविगाहममकिंवक्षस्थितंपीडयन् । स्वद्धस्तस्थितखार्धदेहनखरव्याजात्तुवाराजते ॥ ११ ॥ दुष्टबुद्धिः--अलमनयाकथया । तमेवहंतुंगच्छाव । इतिसैनिकेनसहनि- प्क्रांतः । ततःप्रविशतिशतधन्वशिष्यः । शिष्य:--सखेदं । अद्यापिशांतहृदयोनायातः । दुरात्मनांकालोऽयं । के- शवतस्मिन्निदानीमप्यनुग्रहंकुरु । सशांतहृदयः पुष्पसेनपुत्राराजामवितुनाईति किं । अथवा । तस्यदुष्टबुद्धेरेवभक्तिस्त्वयिशाश्वतीष्टश्यते । तथाहि ।
(५७) निर्व्याजापवयुगलेतवाच्युतास्य । भक्तिर्नोममकिमुशाश्वतीप्रसीद ।। तालूकाधिपतिरमुंद्विजौघशीर्ष । छित्वायजयतिशिलेतिमन्यतेस्वां ॥ १२ ॥ ( सचितं । ) तवृत्तांत पत्रलिखितंनज्ञातं । पत्रोकमपिनदुस्तरतदितिचतुर्था- क्षरण्येवलिखितानि । अहमपिगुरोराज्ञया मृगमाणोऽपितंनप्राप्तः । ततःप्रविशति सभार्यः । शतधन्वः-प्रियशांतहृदयःकगतःस्यात् । शिष्यः--गुरोअभिवादयेभवंतं । गुरु:--दीर्घायुभव। शिष्याप्रियः---शांतहृदयः कवर्तते । शिष्यः-तंनजाने । एषपत्रस्तस्मादागतः । मयातस्पत्रगतवृत्तांतंनज्ञातं । गुरू:---इतआनयतत्पत्रं । शिष्यः--आनयति । गुरु:-वाचयति । दुस्तरंतत् । प्रियेतन्नामादशघंटमृगयांकृत्वामदागमनं अधदुस्तरमिति । पत्रगतंवृत्तांतंकुत्रचित्सिंहेन हिंसितोभवेत् । हावत्सशांतहृदय मममंदभाग्यस्यतातशब्दस्यावाच्यकस्य वाच्यकंकुर्वन्क्वगतः । इतिरोदति । सर्वमूच्छिताः । मुनिः-संज्ञामुपलभ्य । तथाहि । वत्सत्वयावनविहारवतांमृगाणां । मत्तेभकुंभपरिपाटनदक्षसिहं ॥ हत्वापुरोंतकइतिखमिवाहमेवं । शातोऽस्मिकिनुहरिणावनप्रेषणेन ।। १२ ।। प्रिया-हावत्सशांतहृदयमयारक्षितहृदयकासिगतः देहिमेप्रतिवचनं । इ- तिमूर्छति । शिष्य:--आर्यबुद्धिसागरस्यतस्यपत्रगतं वृत्तांतं अन्यदेवभवितव्यममतुएवं भासते। गुरु:--किमिति ।
(४८) - - शिष्यः- दुष्टबुद्धिहननंमयातया । दुस्तरेतदितित्यक्तवानहं ॥ दुष्टबुद्धिसुतयापदकंज। द्वयमिदंसुखशायिनमेव ॥ १३ ॥ गुरु:--सशांतहृदयः कदापिदुष्टबुद्धिहननमयादुस्तरमितिनवयूक्तुमर्हति । एवंतद्भावोममभासते । तथाहि । दुष्टबुद्धिसुतयारममाण-। स्तच्चतुर्थहननेच्छुरहंतां ॥ रंजयन्भवदनुग्रहाखयं । तत्सुखंघनुभवामियग्रहे ॥ १४ ॥ ( नेपथ्ये । ) ( नेपथ्ये । ) अयमहंभाः । गुरु:--शिष्यज्ञायतांकिमेतत् । शिष्यः-निष्क्रम्यपुनःप्रविश्य । गुरोमुनिरागतः । तत:प्रविशतिमुनिवेषधारीतामसनामको दुष्टबुद्धितनयः । गुरुः-मुने अभिवादयेभवंतं । मुनिः-( आत्मगतं । ) एतान्वंचयतुमयमेवकालः । प्रकाशं । मुनें भवान्नमस्कर्तुनार्हति । शतधन्वः--( ससंभ्रमं । ) मनेकिमर्थ । मुनिः---शांतहृदयेत्वत्सुतेस्वर्गगतेसति युष्मत्तोनादेयंनमस्कारादिकं । अत्रै- वोपविशामि। २.तधन्वः-नयुक्तंऋषिभवान् भूमावुपविशतुंआसनेउपविश । तथाहि ग्रहमागतसपदिखागतेनरो। मनुजोवदे विसएवयोग्यवान् ।। नसहेदियदिविबुधश्चपठ्यते । भूमिःस्वयंधरणिसक्तपृष्ठंद्विजं ॥ १५ ॥ मुनिः-तथेति । उपविशति । शतधन्वः-मुनेसशांतल्यः कथंहतःकेनहतःकथ्यतांसर्व ।
(४) मुनिः-इतोदुष्टबुद्धिनगरमेत्यतत्तनयामृट्वा तंदुष्टबुद्धिजिधांसुःसमरभुवमागतः। शतधन्व:---ततस्ततः । मुनिः -ततःसदुष्टबुद्धिरपिशक्तन तामसनामकेनसुतेनसहकंकपत्रविष्टि- नातं जघान । शतधन्वः-~-हावत्सशांतहृदयत्वांवीक्ष्यविस्मृतमृतसुतदुःखोऽहं त्वञ्चरितं किंवदामि । प्रतिदिनंममपूजार्थपुष्पाण्यानीय समर्पणं अद्यापिनविस्मयते । रेरो दुष्टबुद्धे स्वतस्यपुष्पसेनस्यवधूशतं बाळावतीमपिहत्वामयापालितमेनंतस्यसूर्नुहं- तुकथंनलज्जितोसि वत्सत्वन्मुखंदुर्लभमे । मुनिः--अलमनेनदुःखेन । प्रिया--हावत्सशांतहृदयवगतोऽसि देहिमेप्रतिवचनं। इतिपतति शतधन्वः-प्रियेऽधुनापुष्पसेनोभायाभिःपुत्रेणसह सुखमास्ते ! वयमप्य- मिप्रवेशेनतमेवगच्छाम । मुनिः---दुखिनस्वांद्रष्टुनशक्नोमि । आत्मगतं । किंतुमृतत्वांद्रष्टुंशक्नोमि ( नेपथ्ये ।) रेरेदुष्टबुद्धयादिसेनाप्रभतयो भवत्प्रभुर्दुष्टबुद्धिर्यमपुरंगतः तथाहि । दुष्टबुद्धितनयोनदृश्यते । तपितुर्मुखमुदीक्ष्यनंदितुं ॥ प्रेषयामिकिमुपत्तनेपुरो । योऽबलाशतमिमांपतेर्मुखं ॥ १७ ॥ तामस: श्रुत्वा । ( आत्मगतं । ) मत्तस्तंमामापहनिष्यति । इतोपला- यिष्येतावत् । प्रकाशं । मुनेत्वन्मरणादिकंनसहे अतोगच्छामीतिनिष्क्रांतः । नेपथ्ये । रेरेतामसअलमलंधावनेन । मुनिः--श्रुत्वा । शांतहृदयेनाकारितस्यात् । आकाशे । गीयते । योदुष्टःप्रतिकर्मणानृपवधू प्राप्तहिराज्यंपदं । विस्मृत्याशुवधूशतंनिहितवान् भीमेवनेगर्भिणीं ॥ हत्वाबालवतीयमाशुहननं कर्तुहियातः किल । दग्धस्तेनसभार्यएधसुचिरंस्वस्था स्मदुःखापदा ॥ १८ ॥ मुनिः--प्रियेवत्सः किलायातः । प्रियाकुतोऽद्यापिवस्सः । --
(५०)
है
..
शिष्यः-नेपथ्याभिमुखमवलोक्य । सत्यमायातः ।
ततःप्रविशतिशांतहृदयः ।
मुनि:----शांनदयमवलोक्यप्रियेसत्यमायातः । वत्सएहि ।
शांतहृदयः -...-गुरोभयंतंमुनिवेषधारिणातामसेन वंचितंज्ञात्वाशीघ्रमा-
गतोऽस्मि ।
मुनि:----कासौदुरात्मातामसहतकः । ययामे तपोविभूत्या दग्धंकुर्या
शांतहदयः -सतुतजनक हत्वाआगच्छंतमांविलोक्यपलायितः ।
मुनिः ---भवतुभोजनायगच्छामग्रहं ।
शांत हृदयः--आकाशवाण्याऽहंबाळावतीपुत्रइति ज्ञातः । तांद्रष्टुमिच्छामि
प्रिया-वसआतचिक्षुधितोऽसिभोजनायचर ।
शांतहदयः---तथेतितैःसहनिप्क्रांतः । इतिनिष्क्रांताः सर्वे ।
इति पंचमोऽकः ।
to
अथ पष्ठमांकः ततः प्रविशतिशांतहृदयःशिप्नश्च । शांतहदयः---मित्रतेप्रजावतींशालस्तामसोऽत्यंतंपीडयाते इतिश्रुतवानास्म । शिष्यः---तांपीडयतुत्वंकिंकरोपि । शांतहृदय:--मैवंवद । सदुष्टस्वाहत्वात्वत्पतिंचह वाराज्यमद्यापि भुक्ष इतिवदति अतःशीघ्रतमेवहत्वातत्पीडयामुक्तांपानीस्वांकमारोप्यराज्यभुक्षे । शिप्यः--एकवारंगच्छंतत्वांमृतमितितामसमुग्वेनश्रुत्वासंतप्तोगुरुः । अधु- नापित्त पुरंनगच्छेत्यादिशति । शांतहृदयः--वंशांतहृदयोऽद्यतामसपीडितांप नींश्रुवातंहवालातुगंतुकामो ऽहंतमेवानुगच्छामीति कथयित्वाऽगच्छ । शिष्यः--भ्रातस्सएषतामसोऽत्यंतऋरोनिर्दयश्चभासते । पश्य । निर्दयश्वसमदृश्यतेसखे । तामसस्तवमदांदहृच्चयत् ॥ दुष्टबुद्धेितनयोऽयमुच्यते । तच्चतातगुणमेतिपुत्रकः ॥ १ ॥ शांतहृदयः--तच्चशीघ्रंगच्छावइतिनिष्क्रांती। ततःप्रविशतिकमलातामसश्च । तामस:---त्वत्पतिस्तातंमेहत्वामामपिहंतुकामः । कमला--सत्वांकिमर्थहनिष्यात यदिशरणंगतश्चेन्म पतिः । तामस:---किंमहंशरणंगच्छामि । कमला--यदित्वंप्रतिकुलश्चत्वाहत्वाराज्यं करोति । तामस:---शृणुतावत् । सरभसभुजदर्पयो कामः समकृततातवधापराधमेनं ॥ सपदियमपुरंप्रसह्यनीत्वा तवनयनांबुपिवंतमेवविद्धि ॥ २ ॥ अपिच । स्वधेहेशंतातमुखं दृष्टवंतंकरोमि । कमला--नमेदेहेशोजीवितेशंइतिवद ।
(५२) योहरत्यलंजन्मनासह जीवमेवमेकालपसनं ॥ गम्यतेऽपिनोस्थीयतेकथं तेनकृष्यतेमुख्यवायुना ॥ ३ ॥ तस्माज्जीवितेशशब्दोमयिजागर्तीतिविद्धि । नामसः-तेनकृष्यतेमुख्यवायुवनेतियदुक्तं तत्सत्यं । यदास्वंविधिवास्या स्वदामुख्यप्राणेनविधवामित्रंयुक्तमेव । तथाहि । ज्ञेयंमत्तांसभयहृदंत्वांवेणीहीनां विरहितभर्ती ।। कर्षन्कश्चित्धृतयविकारो मुख्यप्राणः सरभसमेति ॥ ४ ॥ कमला--मैवंवद । समेनाथोऽचिरमेवस्वाहत्वाराज्यंकरोति । तामस:--अहमेकोपित्वांसभर्तृकी हत्वा यमराज्याधीश्वरतांप्राप्स्यामि तमेवमृगयिष्ये । इतिनिष्क्रांतः । कमला--सचिंतंनिश्वस्य किंकर्तव्यमधुना । ततः प्रविशत्यश्वारूढःशांतहृदयःशिष्यश्च । शिष्यः---किमियतेसखी । शांतहृदय:---अथकिं । कमला--विजयतामार्यपुत्रः । इत्यधोक्ते बाष्पपूर्णनयनातिष्ठति । शांतहृदय:--किमिदंकस्माद्भयं । कमला-तामसाद्भयंत्वांत्वत्पतिंच हनिष्यामीतिवदति । शांतहृदयः-अलंतद्भयेन । शिष्यः-सखेपश्य । नासिकामधिसुमौक्तिकलापो दृश्यतेवहतिचंद्रसुलीलां ॥ स्त्रीमुखाब्धिजननोह्यधरोष्ठे वर्ततेकिलसुधेतिसुधांशुः ॥ ५ ॥ श्वंमौक्तिककलापंदृष्ट्वाएवंभूतः । अहंतुसोमंतिनीमवलोक्यविस्मितः । पश्य। दृष्ट्वाभूषणशोभितांहृदिजनाः शंकागताऽस्तंशशी । नोहुर्मूनिममांगनां शशितनूरूपंसुवर्णाकितं ॥ तस्याधोऽर्धशशांकमूर्तिसदृशं हस्याननस्याधुना । शापदेवविनष्टकांतिरितितंन्यस्याभितोंधंतमः ॥ ६ ॥ शिष्य:--शांतहृदयतेभार्यायाःकर्णविवरमार्गेण तामसवाक्यानिसत्यापि भूषणे कथंप्रविशेयुः ।
(५३) शांतहृदयः--अहमप्येतद्विचियचिंतयान स्वास्मि । तथाहि । कर्णभूषणयुगंकथंनुतत्तामसोक्तवचनानिसहेत ॥ अथवा। दुष्टसंगपरिहर्तुमत्यजद्गम्यताहृदमितीवभातिमे ॥ ७ ॥ शिष्यः--तामसत्वंमातापितरौनम्मर अहमपिनस्मरामिमयासहसधिसाच- वपदेस्थितः सन्कुरुवृथाद्वेषेणाकं । कमला-ससंधिनकरोति युष्मप्रार्थनयाकदाचित्करोतिचेन्मयिकिमप्य- त्याहितमाचरति । अहंगमिष्ये । इतिकिंचिद्गत्वा । जल्पन्मुंचरुषमायस्थिरतरां कोवाऽपराधःकृतो त्यक्त्वामांकनुगच्छसीतिनम- यागच्छस्व चैलांचलं । गृहतिष्ठप्रसीदमानिनिकटिं बध्नातिगच्छेतिमा । शिष्यः- कांतःकिनवयौवनेनहि । कणस्कांचीकलापोमम ॥ ८ ॥ शांतहृदयः--शिप्यजानासिकिंवक्तुंचतुरामिमां । ममतुएवंभासते । पश्य । दुष्टबुद्धितनयाचतुरेयं वक्तुमेवममचित्तजशांता ॥ दुष्टबुद्धितनयाचतुरेव वक्तुमेवममचित्तजशांता ॥ ९ ॥ कःकोऽत्रभोः । प्रविश्यदौवारिकः । दौवारिकः--जयतु २ महाराजः । शांतहृदयः--भोभो सैनिकमाव्हय । दौवारिकः-तथेतिनिष्क्रांतः । ततःप्रविशतिसैनिकः । सैनिकः-जयतु २ महाराजः । शांतहृदयः-सैनिकतामसस्यैवंकथय । शृणु । तामसाद्यसंधिमेहिसर्वसौख्यदायिने । बिस्मरेतिमातृतातनाशखेदमेवते ।। तेनसार्धमंबुजाक्षशांतकायशर्मणा । स्थापितायक्षेममस्तुमंक्रिणःपदेसदा ॥ १० ॥ शिष्यः--अहमेवगच्छामिसंधिकर्तु । कदाचिदेनदृष्ट्वारुषातामसः सैनिका- स्मद्रास्नधान्यांतिष्ठन्नपितद्वेषिणः पक्षपातेनसंधिकर्तुमागतोऽसिफिमितिप्रहारंकुर्यात्।
(५४) शातहृदयः---- भवत्वनेनसहगच्छ । शिष्यः-- - तथेतिसैनिकेनसह निष्क्रांतः । कमला-----कदापिसंधिनकरोतिकिंतु उभावप्यकदाहनिष्यति । शांतहदयः ----तहिंगच्छामवयंचरत्वं । इति अश्वम्कंधेउपवेश्य स्वयम- प्युपविशति । शांतहृदयः---पियेसमंतातूशंसतिशांतहदयविजयस्वेति । कमला-~-सत्यं । ततःपावेशंतिस्वसौधजालमार्गदृष्टयः पौरास्त्रियः । एका---एषहत्वातामसंपवमेवभार्ययास्थितमासने पश्यतुममनेत्र । द्वतीया--जयतु २ शांतहृदयः । तृतीया-प्रत्यक्षेणब्रह्मणासंघटितंयुग्मभेतदवलोक्यधन्यास्मीतिवेद्मि । शांतहृदयः--एताःपश्य । करकमलयुगात्स्वतारकाभिः । सहकुसुमानिस्त्रियोनिपातयंति ॥ शुभकथनमनेनसूचयंत्यो । मयिममपुष्पनिपातनेनकांते ॥ ११ ॥ चतुर्था-सैहिकेयग्रहणेनयःशशी क्षीणकांतिर्भवति तेनविनापिकथंतमःप्रादर्भूत् तद्योग्यं । स्वयशम्तुच्छीकृतचंद्रकांतरम्यपुरम्तामससँहिकेयग्रहणविना तिष्ठतांति चित्रं । भवतुवयंगच्छामइतिमिथुनंविनानिष्क्रांताः । नेपथ्ये । हंतुमागतोऽयमावां । शांतहदयः--नेपथ्याभिमुखमवलोक्य । अयेकःप्राप्तः । ततःप्रविशतःशिप्यसैनिको। शिष्यः--परित्रायतां २ शांतहृदयः । शांतहदयः-कुत्रचित्त्वांसतामसोऽताडयत्किं । शिष्यः-.---'अथकिं । ममदेवमेवएवंभूतं । पश्य । शीयस्यजटाःकदापि कुसुमैनालंकृतास्सिचिता । स्तैलेनापिमुखे कठोरवचनान्यागंडयोस्ताडनं ।। कर्णाद्धरणंकरेणनयने कंठेऽपिसक्तःकरो। निर्गच्छेतिग्रहाद्वाहिश्वसलिलं दैवायतस्मैनमः ॥ १२ ॥ ।
(५५) . A p- तत:प्रविशति तामसः । तामसः-साधु २ बाहुबलविनोदकालोयमेव । शांतहुदयः-..-शिष्यदुष्टोऽयमागतः । त्वमश्वारूढःसनिकेसहगच्छ । ते- प्रजावतीगृहनयाप्रियेदेवाशिष्येणसहगच्छ । कमला---नगच्छामि वांविना । शांतहृदय :--भवतुशिप्यतेनसहत्वमेवगच्छ । शिष्यः-~-तथानिक्रांतः । तामसः-प्रहस्य । ररोडिंभक्षणमेवनभविष्यसि महाहुबलाग्निनाशलभतां प्राप्ययमपुरंगच्छसि बाहुयुद्धायागच्छ । शांतहृदयः -सत्यं त्वमेववीरः : अतएवनारीवतदामुनिवेषेणमांदृष्ट्वापलायितः। भवस्वित्युत्तिष्ठति । तामस:----सरोपं । हस्तेनहम्तोपरिदक्षिणेन संघदृयिष्यन्निवतामसोऽलं ॥ ए हिदुष्टेतिस्ववाक्यतीक्ष्णादास्फोटयोपो ह्यधिकःपरीक्षन् ॥ १५ ॥ शांतहृदयः---मत्करोपित्रुधवस्वत्करइवशब्दबुर्वन् वाहत्वात्रैव कमलामुप- वेशयामातिसूचयनियममोवास्तारनं करोतिपश्यपश्य । तामस:- उत्क्षिप्यधूलिकरय लेन पुनःपुनर्वक्र गमञ्चबकं ॥ स्वजीवहर्ताइतातिकिनु मियैवकालंकिमुपश्याति ॥ १६ इतितथास्थितः । शांतहृदयः- सदैवएतम्यमनोऽपिवक्रवस्क्रपुनः केवलमेवदेहं ।। वक्रनकाकिमसूययेव कृत्वापुरोगर्जनसोदरोऽभूत ॥ १७ ॥ इतितथास्थितः । उभौभियावनकरणहस्तं संपृश्यसंपृश्यललाटमेव ।। धातुलिंपिंतांशनमायुपः किंस्थिरांविधातंम्पृशनम्विनीव ।। १८ ।। मन्मनापिकथयत्यलप्रिये स्पर्शनंकुरुललाटकेसुखं ।।
(५६) कुंकुमस्यसुकृतंकिमस्तिवा नेतिबोधइवमांकरणते ॥ १९ ॥ इतिहस्तेनललांटस्पृशति । सरभसमपकृष्यबाहुदंडधृढतरलिंगितवामहस्तमध्यः ।। जघनयुगलमध्यसक्तपाणि विपतनं कुरुतेस्मतंसनीचं ॥ २० ॥ तदनंतरमसौपरिपतनखेदमनुभवन्क्तनयनसीचतशांतहृदययुद्धसमयः समं- ततोविहंगमुद्विरावमुखरितदिशोदशापिविलोकन् बहिरपिप्रकटितनिजगुणमहिमे- वमध्यमगुणरजोधूसरितांगस्वामसोऽ त्यंतरोषादिवमध्यमगुणसक्तनयनममध्यमगुण- विशिष्टममध्यमगुणस्वभावं शांतहृदयमुपेत्यतत्कायस्थसत्वगुणपरीक्षितुमिवभुजा- वुपगृह्य शतगुणंभ्रामयितापिबाल्याकृतडोलाविधिसंस्कारस्यमेऽयंसंस्कारएवजातह- तिविचितयंतमिवस्थितंतंनीचकः पातयामास । कथितइवभुवासशांतकायः किमुपतनेनजहीतितिष्ठमत्तं ॥ नटइवबहुधोप्ततंतमेनं गलहतिपातितमस्तकंचचक्रे ॥ २१ ॥ शांतहृदय:-~( सूर्यमवलोक्य । ) तंदीपंजातांतमोहेतिहेळे बुध्वाहृष्ट्वास्वान्करान्छेदयेयं ॥ क्षीणोभूत्वाचंबरेतिष्ठसावी हंतीत्यैर्वनैवत्वांक्षीणकांतिं ॥ २२ ॥ कमला--नार्यतेवचनंमन्यते । शांतहृदयः-किंचित्क्षीणोभूस्वाऽऽकाशेतिष्ठति। रविः । वयंचाश्रमंगच्छामः । नेपथ्ये । एबीसीडिक्राप्स्गुड्झड्झेडतान् । शब्दान्जल्पनाजद्वारंगतःसन् ।। शष्पैस्तुल्यान्भृत्यकान्भीषयन्स । ह्यतर्वत्नींप्राप्यमांमोदतेऽलं ॥ २३ ॥ शांतहृदयः---आकर्ण्य । प्रियेकविरिवायंभाति । तंसंभावयावइति- निष्क्रांती। ततःप्रविशतिशिष्यः । शिष्यः----इतस्ततः परिक्रामन् । किंकरोमि । अहंतुमहादुर्दैवी । करा- वलोक्य ।
(५७) करौयुवाभ्यांजलपूरितौघटौ धृतावुरोजाख्यघटौनयोषितां ॥ अथवा। विचिंत्यभाविश्रममब्जयोनिनारुषैवसृष्टेलिखितं कदापिन ॥ २४ ॥ आहेतिचकायरूपमार्तीहंसकारीमळत् ॥ मारेतस्यामधर्मानेभीतोऽहंसकरोमला ॥ २५ ॥ पांडित्यतातःफणिभर्तृशायी बलानुजोभक्तिविहीनशत्रुः ॥ मेशः सदापात्वधमाधमंमां प्रवर्गदेहस्वपवर्गदोऽयं ॥ २६ ॥ चैलानिधौतानिसहश्रशोमे स्त्रीणांमनाहारिसुलोचनानां ॥ आछादनीयनकदापितेन कामावस्त्रेणमयानुधौतं ॥ २७ ॥ वेधाविभज्यविधिनाकुचकुंभयुग्मे । बिबोष्ठकेहरिपदेचसुधाहिसक्ता ॥ पीत्वाजनास्त्रिदशतामुपयांतियांतु । सादुर्लभायदिजनस्यविनाशकास्य ॥ २८ ॥ धातानियोषित्कुचकुंभयुग्मदुर्गाणिस्वच्छानिमयांबराणि ॥ कृत्वापिधौतनविनीलतुंडमाच्छाद्ययुग्मं ग्रहणेप्यसंगात् ॥ २९ ॥ रोजिव्हेसकृदप्यखंडमधुरंरम्यप्रियायामुखं । देवानामपिदुर्लभं किमपिवस्त्वांधिकच जिव्हेतव ।। मन्येनाममृषेतिसत्यमधुनाजिव्हारसज्ञासदा। संपातुंजलमेवयाचसिपुनर्दैन्यानुपूर्वाहतत् ॥ ३० ॥ ममतायदिनस्सृजतेमयि तांमधुसूदनभक्तमिमंपदवीं ॥ सुकुचग्रहणंनरकाधिपतिं पुरुषोत्तमभोकुरुमांनयमां ॥ ३१ ॥ ततः प्रविशतिशतधन्वमुनिः । मुनिः-रोशष्यशांतहृदयःक्क । शिष्यः-सतुतामसंहत्वापत्नीसहितोगोदावरीतटिन्यांक्रीडितुमारब्धः । तथाहि । मोपकारार्थमलंपयोधरे वर्षत्ययंमज्जतिलोकसंघकः ।। किंतुप्रियेवक्षसिरूढमूलके सिक्तंनमेपादरजोऽपिहंतते ॥ ३१ ॥ एवं निरंतरंनिरंतरखकीयाधरवर्तिमधुसंसर्गतयेवकृतमधुवसतिं तांप्रियतमस्य वाणीमाकर्ण्यकरपादविशोधनार्थ करकमलेनजलमारतींसाध्वींधिलोक्य तन्व्या- (५८) मुखकमलेगंडूपजलमुक्षिप्यपुनः पुनः स्वमुखंजलेनपूरयंतमेनमवलोक्यायिकांत- स्वदीयमुखं लोपशब्दमात्पुंमदीयवर्गस्थवर्णएवहेतुरितिविचिंत्यात्यंतशोकादव द्वितीयलवर्णे लुप्ते सत्यपिजलवाहकंकथंभवतीतिशं कांपरिहरेत्युक्तः शांतहृदयःप्रिये लोकेजलजंहिजलंविनानोपजीवति प्रसिद्धंकिंतुत्वदीयलपनजलजंजलविरुद्धकथ- माचरतीतिमदीयशंकां परिहरीतिवचनेनलज्जावनतमुखींप्रियांआकृष्य प्रियेऽत्र मज्जामिबुहुदमुपरिपश्येतितभिषेणमज्जनं कृत्वाप्रियाजधनयुगलंहस्तेनगृण्हंत- मेनमज्ञात्वाहेशठमकरमदीयोरुग्रहणं नयुक्तमितिवचनमाकर्ण्यलुप्ताद्याक्षरमकरण स्वदीयजघनग्रहंयुक्तमेवकिंतु कदलीस्तंभोजलेनिममः किमुनजानेइति वचनेन सहोत्तिष्ठन् मयिसभायांरथेवापाथिवादेशांतरेवातिष्ठतिसत्यपिमदीयप्राणान् तव वक्षस्थमिदंकंदुकयुगंसदाहरतीत्यतोएनमुरिक्षपाम्यंबरमुपैस्वित्यसूययेवप्रियां कंठसी- न्मिदृढतरमालिंगनबाहुयुगेलनकुर्वन्नर्जुनःसुभद्रयेवशतमन्युः शच्येवाजराजोइंदु- मत्येवतयाकमलयासह चिरतरंचक्रीडे । मुनिः-भवतुतेनसहागच्छ । शिष्य:-अपिच । अंसहितंमेस्वंशुकमेनं ॥ स्थापयभूम्यांसाप्रियमाह ॥ ३१ ॥ हरतिवसनंशशिवदनायाः ॥ पततिनयनंकलशयुगेते ॥ ३२ ॥ गुरु:-श्रुत्वासस्मितं । निष्क्रांतः । ततःप्रविशतिसकमल: शांतहृदयः । कमला- कृष्णोऽयमणिरित्यलंकथितवान्कृष्णंतुसप्रीणयन् । कृष्णेनापिप्रशंसितोननुभवान्नाजाधिराजेत्यलं ॥ दत्तयेनभयंरुपायदित्वयामानदत्तःकरो । नेत्रोत्पाटनपूवमेवनितरांहन्मीतिकृष्णायच ॥ ३३ ॥ कृष्णादप्यतिगर्वपूर्वकमिमंभीतात्करंचाहरन् । कृष्णस्यैवमुदःपितापिनितरांकृष्णेतुनम्रांगकः ।। त्यत्वामांगमनत्वयायदिकृतहेकृष्णहन्मीत्यल । मापाच्छतिवदनसकीटकवरोवर्तेतहेकांतकः ॥ ३४ ॥ -
--
-
(५९)
शांतहृदयः-
येननष्टरदनाहिनाप्रियेदंशितेति यमपत्तनंगता ॥
कालवन्हिविषयुक्तदंतकैर्दशितापि चिरजीवितासकः ॥ ३५ ॥
कमला-
अत्तिकानुग्रहेणैवपुंसःप्राप्ताहिसंततिं ॥
रमायाःपूर्वपुण्यस्य व्ययलब्धामपिस्थिरां ॥ ३६ ॥
शांतहृदयः--
चतुर्मुखोनब्रह्मापिकृष्णोपिनहिकेशवः ॥
राजापिसैन्यसंयुक्तोनहिराजाप्रियेसकः ॥ ३७ ॥
कमला-
दुष्यंतराजस्यमनोरमाकाकाकस्तुपिंडं कुरुतेकिमेते ॥
स्तुत्यंतिदेवंकमथेतिलोकाः शकुंतलालिंगतिरामचंद्रं ॥ ३८ ॥
शिष्यः--समीपमागत्य । जयतु,२ महाराजः ।
शांतहृदयः-सप्रेममयाजिताराजानः ।
शिष्यः-कित्ययासर्वेजिताः ।
शांतहृदयः---अथ किं ।
शिष्यः-अद्यापिद्वौनजितौ । तथाहि ।
प्रसिद्धौसंम्राजौविगतमरणावाहतकरौ ।
कराद्यैहींनौतौजगतिसकलादाहृतकरौ ।
विजेतुंभीष्माधैरपहृतकराद्यावपिसदा ।
गतावूर्ध्वस्थायांप्रहरणपरायांजनममुं ॥ ३९ ॥
समंतादत्यंतंमृदुकुसुमदुर्गेणशिशुना ।
प्यलशक्यनाशु नहिजगतिबालेतरजनैः ॥
सुभक्तुंकूपेनावृतसकलदेहौतमधुना ।
पुरोऽस्मद्देशस्यायतजलधितुल्येनसहितौ ॥ ४० ॥
नगर्यामकस्यामसितवदनौपर्वततनू ।
यमाद्विष्ण्वादिभ्योप्यचलयशसौपूर्वमधुना ॥
नशक्यौतौजेतुंनृपजयजयेत्युक्तनृपतिः ।
पुरीमुक्तासेयंस्मितलपनगर्मोऽजनितदा ॥ ११ ॥
(६०) अतश्वरगृहंगच्छावइतिताभ्यांसहानष्क्रांतः ततःप्रविशतिशेषः । शेष:-सकोभवेत्यः कोपिस्वास्त्रणद्विजिव्हानपिविगतजिव्हानकृत्वा म- च्छ्रुतिविषयताप्राप्तः । भवतुतमेवमारयामीतिनिष्क्रांतः । ततः प्रविशतिशतधन्वमुनिः शिष्यश्च । मुनिः-वत्सः किंकर्तुकामोमवेत् । शिष्यः-भवान्तेनसहवनंगत्वाहतसेनापतिमातृवर्गयदाचापश्यः तदामा- तरंदुष्टबुद्धिनाहतामितिनिशम्यबहुधाविलप्यैनां जीवयामीतिभवंतमेवावादीत्सः । मुनिः-सत्यंततस्ततः ततोवत्सशेषादमृतमाहृत्यैतस्यांसिंचतिचेज्जीवती- तिकथयित्वायदानिर्गतोऽसि तदाखास्त्रेणपातालस्थवाताशनानखंडयन्शेषभुवं प्रापितवान् । मुनि:-ततस्ततः । शिष्यः--ततःशेषःखशीर्षस्थमणिनाशितांधकारोयुद्धायोद्युक्तः । मुनि:-ततखतः । शिष्यः-ततः परस्परंशांतहृदयशेषयोः युद्धेप्रवृत्तेसति । तथाहि । पयोधराभ्यांगतवायुरेवनृपस्सभूमौपतीतिसूर्यः ।। मत्वापितनैवतिरोहितांगः स्थितोबरेहंतिभयादयंमां ॥ ४२ ॥ मुनिः--ततस्ततः । शिष्यः-ततः सक्ष्वेलंप्रलयकठोरेसंग्रामेमबिभदिनः कियंतइतिद्रष्टुकाम इवकर्मसाक्षीप्रादुर्बभूव । ततोनृपशरोप्ययनःप्रभुशिरस्ताड्यतेरविपादैरिति रोषा- दिवतत्पादानचिच्छेद । अन्यथासरविःपश्चात्तापमुपगतः सन्रक्तांगःपयोनिधौ- किमर्थमपतत् । मुनिः-ततस्ततः । शिष्यः-ततःशेषः शांतहृदयपराजितोऽस्मिस्वन्माताजीवितुममृतमानीय तुभ्यंददाम्यतोऽस्त्रमुपसंहरोतिकथायित्वास्वलोकमेत्यामृतमानीयादात् । मुनि:-ततस्ततः । शिप्या-ततःशांतहृदयोऽमृतमादायग्रहमगतोभवेत् अतोवयमपिगच्छाम इतिनिष्क्रांतौ ॥ इतिनिष्क्रांताः सर्वे ॥ इति षष्ठोंकः ॥
अथ सप्तमोंकः।
ततः प्रविशतिशांतहृदयः शतधन्वमुनिश्च ।
शांतहृदयः-तातमज्जननींजीवितुंकिंवस्तुन्यूनंभवेत् ।
मुनिः-संजीवननामकावनस्पतिः ।
शांतहृदय:-आनयामिकुत्रवर्तते ।
मुनि:--सादुर्लभा ।
शांतहृदयः-कुत्रवर्ततेकथयतुतातः । तथाहि । किंभूतलेनैववनस्प-
तिःसा।
मुनि:-नैवतिष्ठति ।
शांतहृदय:--किं स्वर्गकेतात ।
मुनि:-नवत्सतत्र ।
शांतहृदयः-पाताललोकेपिनतत्रसाकिं ।
मुनिः--
सिंधूनतिक्रम्यगतेतिविद्धि ॥ १॥
शांतहृदयः--तर्हिसप्तापिसिंधूनुलंध्यतांवनस्पतिमानयामि आज्ञाप-
यतुतातः ।
मुनि:-केनमार्गेणगच्छसि ।
शांतहृदयः-दक्षिणेन ।
मुनिः-ससंभ्रमं । माकुरुतेनपथागमनं ।
शांतहृदयः-किमर्थ ।
मुनिः-तत्रमूषकपतनव्याधिर्वर्तते । तथाहितत्रस्थजनैः ।
भवनंभकाररहितंक्रियतेभवपुत्रवाहनैः पतनं ॥
कृत्वावनंमसहितंललनाकरभोजनायभूपैश्च ॥ २ ॥
अपिच ।
अहमतिकठिनोऽहमेवपूर्वचिरतरमाजिजितः पलायितोऽपि ॥
वनमिवकुचकुंभभीतिमारारक्षणमपिविश्रामतुंभकारयोषः ॥ ३ ॥
(६२) सपदितमनुधाविनविलोक्यपितृवनगेहपदारविंदमागात् ॥ अवहदितितमाहशंकरश्वभवइतिनामयथार्थमस्यचासीत् ॥ ४ ॥ अलमलमतिसाहसेनपीडांमवनभकारभटायदेहिमामा । इतिभववचसाहसंतमाहविवदतिव्यर्थमसौभकारयोधः ॥ ५॥ शांतहृदयः-ज्ञातंतेनअलं । मार्गेणकेनगच्छाम । मुनिः-उत्तरेण । गत्वापिसमुद्रोलंघनंकथंक्रियते । शांतहृदयः--कथमपिगच्छाम्याज्ञपयतु । मुनि:--गच्छ । शांतहृदयः-किंचिद्गत्वा । हंसयुगंदृष्ट्वासविस्मयं । मातर्मातः कचिदपिस्वयानैवनी ताहिआवां । वृक्षस्कंधेनिहितसदनौहंतिसिंहःकृतांतः ।। भूपोमूढोनभजतिकृपांशीघ्रमागच्छमातः । कौशंतौवांसपदिपृथुकौधावयामासचित्तं ॥ ६ ॥ सिंहहति । तदनुनृपकृतात्मकृतांतवधौहंसौसंतुष्टमनसाराजेंद्रकृपार्द्रचेतसा त्वयारक्षितयोरावयोः शतवर्षपर्यंतंजीवितंजातमतोऽऽकल्पपालिताभूर्ववितिवच- नमकण्यागतावपिमातरपितरौनपृच्छंताववलोक्य डिंभकौमदीयदुग्धंपिबतमिति- वचनमाकापिमात पिबावस्त्वदीयदुग्धंयावत्तस्यमनोरथोनसाध्यते तावदिति. पाण्यापसमीपमागत्यभूपत्वन्मनसिकिंवर्ततेकंवामनोरथंसाधयावइतिताभ्यांदंपती भ्या प्रबोधितोनृपतिः संजवनवनस्पतिः कीरसमुद्रेवर्ततेसैवसाध्यते समुद्रोल्लंघ- नार्थयुवयोः सहायः प्रार्थ्यतइतिउत्क्वाविमानीकृतराजहंसदंपतिरसौविमानीकृत- राजहंसश्चतुर्मुखस्सत्यलोकं संत्यज्यदैत्यभयास्समुद्रशायिनंनारायणं स्तोतुंसवेगं- गच्छतीववनदेवतैरुच्चार्यमाणः तूर्णमेवसत्पापिसमुद्रानुल्लंघ्यकीरसमुद्रस्थांवनस्पति- मुपेत्यआदायपुनरपि निवर्त्यतथाभूतएवसयुद्रतटमनुपपात । उत्सृष्टहंसयुगलश्चनृपः सशीघ्रप्रेम्णातयो स्तरुतलेन सहैवधावन् । आगत्यमातरमयंहतकामपि द्राक्तस्थौ पुरोवनमृषेनिहितौषधिः सन् ॥७॥ मुनिः-सविस्मयं । वस्सकथंप्राप्ता ईयंवनस्पतिः । शांतहृदयः-भवतामनुग्रहात्सर्व करतलगतमेव ! पनि:-सहर्ष । वत्सास्थीन्यानय ।
(१३) शांतहृदयः--मातुरस्थीन्यानयति । वत्सस्वप्नानिवर्तमानेवेनामुत्थापयामि । इति अमृतसेचनं कृत्वासंजीविन्योस्थापयति । बाळावती--उत्थाय । हावत्सकुत्रतिष्ठसि । शांतहृदयः-पादयोः प्रणम्य । कमठजननमातुर्मातोविशीर्षठकारहृत् । प्रभवतिपुनर्जीवायैवममापिपितुस्खव ॥ पितरमधुनादुर्बुद्धिस्त्वांयथानिजघानहि । विगतशिरसायातस्सोऽपितथानमतीत्यसौ ॥ ८ ॥ तदनंतरं । बाळावती-वत्सतेनहतंसेनापतिमादौजीवय । शांतहृदयः-तथेतिजीवयति । सेनापतिः-सप्रेम । नत्वा आयुष्मन्रथमादायागच्छामि । बाळावती--वत्समुनेराश्रमंगच्छामः । शांतहृदयः-किमर्थतत् । स्वनगरंगच्छामः । सेनापतेरथमानय । सेवा- पतिस्तथेतिनिष्क्रांतः । मुनिः-वत्सकिंमात्रासहाधुना खनगरंगच्छामः फिनीलपुरं । शांतहृदयः--कथमन्यतेभवान् । मुनिः-नीलपुरंगच्छामःकार्यगौरवात् । शांतहृदयः--तथेतिमुनिनामात्रासहनिष्क्रांतः । ततःप्रविशतिसभार्योनीलसेनः । नीलसेनः-प्रियेसुष्टुजातं । वत्सस्यशांतहृदयस्यपट्टाभिषेकोभविष्यतीति । किंतुशतधन्वमुनेरागमनेनाश्रमः पूतः । तदनुग्रहेणैववत्सस्यसर्वकुशलमेव । ते- नदुष्टबुद्धिनाहतामपिमातरमजीवयत् अधुनासएवपितरंजीवयतीतिसेनापतिमुखेन श्रुत्वा तदस्थीनितत्रवर्ततेइतिकथयित्वाऽहमागतोऽस्मि । प्रिया--सजीवितोभवेत् मुनिप्रभावात् । किंतुएतादृशएवपुत्रः नान्यः । एकेनापिगुणेनैवयस्यस्तोत्रंनजायते ॥ तेनालजन्मनालस्वमातुर्दुःखैकहेतुना ॥ ९ ॥ तथाहि ।
(१४) नीलसेनः--अधुनाजीवयतिनवेतिसंशयः । ततःपटाक्षेपेणसेनापतिः प्र- विश्य । पुत्रोऽजीवयत्तातंपुष्पसेनं । नील:-तमीक्ष्य । एतत्कथं । ततस्ततः । सेनापतिः--सपुष्पसेनः पुत्रस्यपट्टाभिषेकार्थ गमनोन्मुखस्त्वामाव्हयति । नील:--कुत्राभिषेकोभविष्यति । सेनापतिः-तत्रपुरि । तथाहि । यस्यांहिमांशुमबलाहिखसौधजाल- । मार्गात्समागतममुंजलधौक्रुधाऽऽदौ ॥ ज्ञात्वानिहत्यविटमेनमपातयन्स । ह्यद्यापिकल्यसमयेविपरीतवाहः ॥ १० ॥ यस्यांपरेधुरापिसौधतलेसुधांशुं । नोऽताडयन् शठकुतो क्षणदागतंते ॥ हस्तैःप्रियाधरसुधामपहृत्ययासीत्युक्तो । गदांगभवचंद्रनरोऽधुनासः ॥ ११ ॥ यस्यांपयोधरकरनभसीतिरोषा । लुप्तद्वितीयलिपिमाठरविद्धभानुं ॥ ज्ञात्वानियुज्यललनाभिरयविमेघ । पाकेपयोधरकरोभववंचितोऽभूत् ॥ १२ ॥ यस्यांपयोधरवलिर्गत वायुमेव । यन्मांकरोतिशतमन्युरुषैवमुक्ताः॥ आसांहिसौधतलमेत्यप्रणालिरुद्धाः । क्रोशंतएवनितरांरुरुदुश्चमेघाः ॥ १३ ॥ यस्यांहिवर्तुलसुगंधिभिरेवजेतु । माकाशपद्ममबलाननपद्ममेत्य ॥ संपातितंभुविजलेजितमंबुजंतत् । स्त्रीमिर्मुखैःखपदमात्पुमलनशक्तं ॥ १४ ॥ यस्यांनिशम्यललनावचनानिमीतो। मिदतिकुंभमितिकंठसजाकुलालः ॥
(६५)
मानोःकरेघुनिहितानकरोस्समस्तान् ।
दायार्थमेवममचित्रमिदहिभाति ॥ १५ ॥
तस्याहिपुष्पवतिख्यातपुरीतिराजन् ।
पौत्रस्यतेशिरसिमंगलदुग्धधारां ॥
साध्वीयुतस्यऋषिसंघकरात्पतंतीं ।
राज्याधिरोहणमिदंभववीक्ष्यतुष्टः ॥ १६ ॥
प्रविश्य शिष्यः । तोपितोऽस्मि २। जयतु २ महाराजः
राजा-कस्मादागतोऽसि ।
शिष्यः-शतधन्वाश्रमात् । किंतुसर्वेराजानः पौष्पसेनाभिकमहोत्सव-
दर्शनार्थगताइतितोषिताऽस्मि ।
नीलः-अहमपितेनसहगत्वातस्याभिषेकं करोमि । सेनापतेशीघ्रमाग-
च्छेति निष्क्रांतः ।
शिष्यः-सेनापतेऽद्यचित्रतरंकर्मदृष्टं ।
सेनापतिः-किंकिंदृष्टं ।
शिष्यः-यदाहएतदाश्रमान्निर्गतः । तदाएकोऽऽह ॥
आमृत्योःपरदारदेहभवनंसाक्षाद्यमःकथ्यते ।
सूर्यातर्गतताड्यतेऽयमुदधेर्जातेशनारायण ॥
पुत्रोगेहमुपैतुतेयदिमतिर्नास्तीतिपुत्रस्वकं ।
तयेनंनितरांजहातिजनयस्यास्खास्यमाजातुचित् ॥ १७ ॥
अपरा।
मातुःसहोदरफलंघटतुल्यमीशः ।
पीनंममोरसिनिधायविनिर्गतोहि ॥
क्रीणासिचेस्कुरुकरंफलकेसुपकं ।
पक्कनचेदमितिवेसियुवनजन्यां ॥ १८ ॥
थायेत्युरोजघटकोष्ठकराननेतौ ।
कृत्वाविलोमलिपिधर्मजलेनकांते ॥
अंगत्वुरोजजधनादिप्रसिक्तमस्या ।
वक्षस्थमन्मथशिखीनतथाहिसिक्तः ॥ १९॥
(६६)
कस्मात्वंललनांसुताडिततनूं कुर्वन्सदानिंद्यसे ।
सासूतेतनयनहीतिभुजयोन्य॑स्तांगकाऽहर्निशं ॥
आगोऽस्तीतिममापिनोकिमिहमांबहीतिबालेऽपिवा ।
वृद्धेवातरुणेषुसक्तवपुषःपुत्रस्तुजातोनहि ॥ २० ॥
मुग्धेकिंनिहितंनिजोरसियुवन्नेदंसुपक्कंफलं ।
किंरक्तनहिचंदनंकिमुशरोमारस्यनोतत्फलं ॥
तन्मूल्यंसुभगेकियद्वदऋतंकीणासिचेत्स्पर्शय ।
चक्षुर्भूतममैल्यवस्तुददतोरात्रौनतेन्यत्क्रयं ॥ २१ ॥
अर्कात्किसुभगेबिभेषि मिथुनं नासदाकर्मभिः ।
पुत्रत्वनरकेनिपातयचिरंदूतैर्वदेदाविति ॥
छिंद्यामर्कजमंबुजाक्षिनितरांचा:प्रभातेयदि ।
तागत्यममांतगेहमधुनालिंगस्खमांवक्षसि ॥ २२ ॥
अहरदितिमयाहठाद्गृहीतं ।
कुचयुगलंसखितेमनःकराभ्यां ॥
वदममपथिकोऽपिमंतुरत्र ।
किमुसकलै विगृह्यतेनचोरः ॥ २३ ॥
बालेकिंभवनस्यमार्गविलुठल्लाक्षारसेनांकितौ
त्वत्पादाववलोक्यतेनजतुनारक्तंमदीयंमनः ॥
नेत्रंतेकिमिताह्यपहिचरणेसक्तंमदीयेयुवन्
क्रोधव्यूहकुचाख्यकुंभयुगलाच्छेपोस्तिकोपः कियान् ॥२४॥
कस्मान्मूर्खमदीयहेमघटयोः सक्तत्वदीयंमनो
नांतसुंदरिवक्षसिस्थितमितिवस्तुद्वयंतेपुनः ॥
नाद्यमित्रमितीवकर्षतिबलात्वत्धेमकुंभद्वयं
तागत्यममांतगेहमधुनालिंगखमांवक्षसि ॥ २५ ॥
व्यापारायपर्तिर्गतश्वविपतिः श्वश्रूः किलांधामम
वित्तंसद्मनिचास्तितस्करमयादाबद्धकंपोरसि ॥
रात्रौमांतरुणीस्वबाहुपतितांकृत्वामुहुःपीठयन्
स्थिस्वातस्धृतकक्षमश्चभवनंयाहीतिकल्येयुवन् ॥ २६ ॥
(६७) सेनापति:--जितेंद्रियस्यकिमनयावार्तया । शिप्यः--तच्चकथयामि । तथाहि ज्ञाताः साम्या ज्ञानन्मातुः ॥ सर्वामेशवामायेन ॥ २७॥ किंतु। णमेकेतिविलोमेनकृत्वाध्यायन्नरोहरेः ॥ अंगानिसर्वपापेभ्योमुक्तःसन्मोक्षमाप्नुयात् ।। २८ ॥ सेनापतेएतदर्थनजाने । श्लोकमन्यंश्रुणु । तदर्थस्तुकथ्यतां । तथाहि ॥ कायोगियोगविनाशीहतानांकोऽसतामरिः । भक्ताहिताकोदेवस्त्वत्रैवोक्तंनबुद्धयते ॥ २९ ॥ (नेपथ्ये ।) भोभोवैदूर्यइंद्रनालाधनेकभूपतिमुकुटगतमाणिकिरणप्रभाशो- भितजनः साध्वीयुत कुमारपौष्पसेनिराज्याधिरोहणकालेऽगतइतितत्पित्र्योश्चि- तस्यानदोऽभूत् । तच्छीघ्रमागच्छतांबंधुजनः । सनापतिः-अये एषमहाराजः तत्समीपमेवगच्छावः इतिनिष्क्रांतौ । तत:- प्रविशत्यासनस्थस्सभार्यः सगुरुः कुमारः शांतहृदयः । पश्चात्सभार्यः पुष्पसेनः । गुरु:-कितपरंभूयःप्रियमुपकरोमि । तौपुनःप्रविशतः । सेनापतिः---उपसृत्य । जयतु २ महाराजः । शिष्यः-जयतु २ महाराजः । पुष्पसेनः--भवदनुग्रहात्सर्वमानंदमनुभवामि । किंतुप्रीतश्चेतर्हिदमस्तु भरतवाक्यं । रेमेरामांमुरारेरेऽऽरामारामोऽ- मरे ऽमरे ॥ रामारामोऽमरेमा रेरमेमरौमुरारिर ॥ ३० ॥ हरिपदभजनेच्छुरंतरंगेपदयुगलेपदजावगाहनेच्छुः ॥ बहुनृपकरतुष्टपुत्रकःस्यामहमितिकाननगर्भगेहकश्च ॥ ३१ ॥ गुरु:-एवमस्तु । इतिनिष्क्रांताः सर्वे ॥ इतिसप्तमोंकः ॥ इंग्रेजीबिजपूरजैल्हचरणसक्तेंडितालूकक । भीमाभागिरथीपवित्रजनकनाघ्रळ्ळिजीवात्मजः ॥
(३८) कृत्वाग्रंथमिमंहरेश्चरणयोस्संस्थाप्यगोविंदक । स्तुष्टोयेनसुखंकटाक्षपतनाद्गोदावरीलंघिता ॥ १ ॥ इतिश्रीमत्कविकुलतिलकनागरहळ्ळिकुलावतंसकश्रीमद- त्रिगोत्रभू पण गुराचार्यसुतगोविंदपंडिता- चार्यविरचितं श्रीमत्पुष्पसेनतनयराज्याधिरोहणं नाम नाटकं अन्यग्निवसुभूसंमितशालिवाहन शाकेमर्गशीषशुक्ल द्वितीयायांमुद्रयित्वा. संपूर्णतांप्रापितं ॥ ॥ श्रीकृष्णार्पणमस्तु॥ समाप्त.
No text on this page.