Sringeri Sharada Peetham
Prasrnopanishan
Front matter
आनन्दाश्रमसंस्कृतग्रन्थावलिः।
ग्रन्थाङ्कः८
प्रश्नोपनिषत् ।
आनन्दगिरिविरचितटीकासंवलितशांकरभाष्यसमेता।
तथा
शंकरानन्दविरचिता प्रश्नोपनिषदीपिका च ।
एतत्पुस्तकद्वयमानन्दाश्रमस्थपण्डितैः संशोधितम् ।
बी. ए. इत्युपपदधारिणा
विनायक गणेश आपटे
इत्यनेन
पुण्याख्यपत्तने
.
श्रीमन् 'महादेव चिमणाजी आपटे' इत्यभिधे-
यमहाभागप्रतिष्ठापिते
आनन्दाश्रममुद्रणालये
आयसाक्षरमुद्रयित्वा
प्रकाशितम् ।
पश्चमीयमानातिः।
शालिवाहनशकाब्दाः १८५४
खिस्ताब्दाः १९१२
१ अस्य सर्वेऽधिकारी राजशासमानुसारेण स्वायत्तीकृताः।
मूल्ययेको रूपका।
.
आदर्शपुस्तकोल्लेखपत्रिका। ५ 1 " का कृष्णराव भीमा. प्रश्नोपनिषद आदर्शपुस्तकानि शुद्धीकरणार्य येषां मिलितानि तेषां । नामानि पुस्तकानां संज्ञाश्च प्रदर्श्यन्ते- (क.) इति संज्ञिता-प्रश्नोपनिषत्सटीकभाष्योपेता "बिब्लिओथिकाइण्डि- इतिग्रन्थावल्यां मुद्रिता, कैलासवासिनां वे शा० सं० देवोपाहबालशास्त्रिणाम् । (ख.) इति संज्ञिता प्रश्नोपनिषत्सटीकभाष्योपेता, श्रीयुतानां किबे इत्युपा. हानामिन्दरपुरनिवासिनां रा० रा.भाऊसाहेब बाळा. साहेब इत्येतेषाम् । (ग.) इति संज्ञिता-प्रश्नोपनिषत्सटीकभाष्योपेता, काश्यां शिलामुद्रिता रा० रा." महादेव चिमणाजी आपटे" इत्येतेषाम् । मुद्रण- कालः संवत्-१९४१ (घ.) इति संज्ञिता-प्रश्नोपनिषत्सटीकभाष्योपेता, वटोदरनिवासिनां श्रीयु- तानां पटवर्धनोपाहाना रा० रा. शंकर" इत्येतेषाम् । (ङ.) इति संज्ञिता-प्रभोपनिषत्सटीकभाष्योपेता, वटोदरनिवासिनां श्रीयु- तानां खेडकरोपाह्वानां रा० रा. आनन्दराव लक्ष्मण " इत्येतेषाम् । (च.) इति संज्ञिता-प्रश्नोपनिषत्सटीकभाष्योपेता, बडलीग्रामनिवासिनां श्री. युतानां वे० रा. रा. "मार्तण्ड दीक्षित" इत्येतेषाम् । लेखनकालः शके १७६९ (छ.) इति संज्ञिता-केवलप्रश्नोपनिषद्भाष्यं विचरग्रामनिवासिनो श्रीमतां रा० रा. " रावसाहेब " इत्येतेषाम् । (ज.) इति संज्ञिता-प्रश्नोपनिषत्सटीकभाष्योपेता, नागपुरनिवासिनां श्रीयु. तानां रा० रा. “ अप्पासाहेब बुटी" इत्येतेषाम् । (अ.) इति संज्ञिता-प्रश्नोपनिषत्सटीकभाष्योपेता, करवीरपुरनिवासिनां श्रीमतां वे० शा० सं० रा० रा. गुरुमहाराजानाम् । लेखनकालः संवत्-१८५८ - ५ ........ " [२] केवलमूलपुस्तकानि । (क.) इति संज्ञिता-प्रश्नोपनिषत् , पुण्यपत्तननिवासिनां श्रीयुतानां रा०रा० " भाऊसाहेब नगरकर " इत्येतेषाम् । (ख.) इति संज्ञिता प्रश्नोपनिषद , पुण्यपत्तननिवासिनां श्रीयुतानां भाऊ- साहेब नगरकर इत्येतेषाम् । (ग.) इति संज्ञिता-प्रश्नोपनिषत, वटोदरनिवासिनां श्रीयुतानां रा० रा० दादासाहेब फडणवीस इत्येतेषाम् । दीपिकायाः पुस्तकानि । (क.) इति संज्ञिता--मनोपनिषदीपिका, वटोदरनिवासिना पटवर्धनोपाहानां श्रीयुतानां रा० रा० कृष्णराव भीमाशंकर " इत्येते. षाम् । (स.) इति संजिता-प्रश्नोपनिषद्दीपिका समूला, मुम्बापुरनिवासिनां वे० शा० सं० रा० रा. जयकृष्णमहाराजानाम् । समाप्नेयमादर्शपुस्तकोल्लेखपत्रिका।
अथास्याः प्रश्नोपनिषदो मन्त्रप्रतीकानां वर्णानुक्रमणी। MAA R . मप्रभः पृ० ३ १५ १ १३ १५ २४ ३२ ५ ... ११ मन्त्रमतीकानि म. प्रश्नः पृ० मन्त्रप्रतीकानि एष हि द्रष्टा स्पष्ट अत्रैष देवः स्वप्ने ५ ४ ३६ एषोऽग्निस्तपति अथ कबन्धी कात्यायनः अथ यदि द्विमात्रेण ४ ५४९ तो ह वै तत् अथ हैन कोसल्यः १ २ २१ तस्मै स होवाच अथ हैन भार्गवः १२ १४ अथ हैन सुकेशाः १६५४ अथ हैनं सौर्यायणी अथाऽऽदित्य उदयन् """ अकयोर्व उदानः ७ ३ २५ तान्वरिष्ठः प्राणः अथोत्तरेण तपसा तान्ह स ऋषिः अन्नं वै प्रजापतिः १४ १ १२) तान्होवाचैतावत् ६२ १७ तिस्रो मात्रा मृत्युमत्यः ६ ६ ७१ तेजो ह वा उदानः अहोरात्रो वै प्रजा-... १३ १. ११ ते तमर्चयन्तः... आ. तेषामसौ विरजः आत्मन एष प्राणः द. आदित्यो ह वै प्राणः.... देवानामसि वह्नितमः आदित्यो ह वै बाह्यः... इ. इन्द्रस्त्वं प्राण तेजसा .... परमेवाक्षरम् उत्पत्तिमायतिम् ऋ. पायुपस्पेऽपानम् ऋग्मिरेतं यजुभिः ७ ६ ५३ प्रजापतिश्वरसि प्राणस्येदं वशे एतद्वै सत्यकाम २६ १७ प्राणान्मय एवैतस्मिन् अरा इव रथनामो . १५ ८२ १८ ९ २ १९ पञ्चपादं पितरम् १२ ३ २९ पृथिवी च पृथिवी. ... १० १११ ८४१२ २३ ७ २ १७ १३ २२० [२] मन्त्रप्रतीकानि मं० प्रश्नः पृ० भ. म० प्रश्नः पृ० मन्त्रप्रतीकानि विश्वरूपं हरिणम् ११ ३० वात्यस्त्वं प्राणैक- ८ ११ २ १९ MAIL.MA---. भगवन्नेतस्मिन्पुरुषे भगवान्हरण्यनामः भद्रं कर्णेभिः... make-not-. ---.-.-.... १.१ १ स ईक्षांचक्रे स एष वैश्वानरः स यथेमा नद्यः १६.७२ ७. १ ४२ मासो वै प्रजापतिः १२ १ ११ स प्राणमसृजत य. य एवं विद्वान्प्राणम् ११ ३ २८ सयदा तेजसा यचित्तस्तेनैष प्राणम् १० ३ २७ स यदा सोम्य यथा संम्राडेव ४ ३ २२ स यद्येकमात्रम् यदा त्वममिवर्षसि १० २ १९ स यो ह वे तदुच्छ्वासनिश्वासों ४ ४ ३१ संवत्सरो वै प्रजापतिः. यः पुनरेत त्रिमात्रेण .... ५ ५ ५० सुकेशा च मारद्वाजः या ते तनूर्वाचि १२.२.२० सोऽभिमानादूर्ध्वम् -- १ ६ १६. ९१ ११ ४ २ ११ १ व. विज्ञानात्मा सह ११ ४ ४५ हृदि ह्येष आत्मा इतीयं मन्त्रवर्णानुक्रमणी। '. ... , .
+ ॐ तत्सब्रह्मणे नमः। प्रश्नोपनिषत्। 0:-- आनन्दगिरिकतटीकासंवलितशांकरभाष्यसमेता। ॐ भद्रं कर्णेभिः शृणुयाम देवाः । भदं पश्येमाक्ष- भिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाश्सस्तनूभिः । व्यशेम देवहितं यदायुः। ॐ शान्तिः शान्तिः शान्तिः ॥ ॐ सुकेशा च भारद्वाजः, शैब्यश्च सत्यकामः सौर्यायणी च गार्यः, कौसल्यश्चाऽऽश्वलायनो, भार्गवो वैदर्भिः कबन्धी कात्यायनस्ते हैते ब्रह्म- परा ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणा एष ह वै तत्सर्व वक्ष्यतीति ते ह समित्पाणयो भगवन्तं पिप्प- लादमुपसन्नाः॥१॥ मन्त्रोक्तस्यार्थस्य विस्तारानुवादीदं ब्राह्मणमारभ्यते । ऋषिप्रश्नपति- घचनाख्यायिका तु विद्यास्तुतये। एवं संवत्सरब्रह्मचर्यसंवासादियुक्तैस्त. पोयुक्ति ग्राह्या पिप्पलादादिवत्सर्वज्ञकल्पैराचार्वक्तव्या च । न सा येन केनचिदिति विद्यां स्तौति । ब्रह्मचर्यादिसाधनसूचनाच्च तत्कर्तव्यता स्यात् । सुकेशा च नामतः । भरद्वाजस्यापत्यं भारद्वाजः । शैब्यश्व शिघरपत्यं शैब्यः । सत्यकामो नामतः । सौर्यायणी सूर्यस्यापत्यं सौर्य- स्तस्यापत्यं सौर्यायणिश्छान्दसः सौर्यायणीति । गाग्र्यों गर्गगात्रोत्पन्नः। कौसल्यश्च नामंतोऽश्वलस्यापत्यमाश्वलायनः । भार्गवो भृगोर्गोत्रापत्यं भार्गवः । वैदर्भिविदर्भ भवः । कबन्धी नामतः। क(का)त्यस्यापत्यं १ क. च. कौशल्य' । २ ख. ङ. 'युक्ततपो' । ३ क. च. कौशल्य । ४ ख प. . 'मत नाश्च । ५ क. 'दर्भः प्रभ६ ग. घ. छ, 'भर्भः । च. में प्रभ' ।
आनन्दगिरिकृतटीकासवलितशांकरभाष्पसमेता- [ १ प्रश्नः ] कात्यायनः । विद्यमानः प्रपितामहो यस्य सः, युवप्रत्ययः, ते हेते ब्रह्मपरा अपरं ब्रह्म परत्वेन गतास्तदनुष्ठाननिष्ठाश्च ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणाः, किं तत् । यन्नित्यं विज्ञेयमिति । तत्माप्त्यर्थं यथा- १ कामं यतिष्यामइत्येवं तदन्वेषणं कुर्वन्तस्तदधिगमायैष ह वै तत्सर्व वक्ष्यतीत्याचार्यमुपजग्मुः । कथम् । तें ह समित्पाणयः समिद्भारगृहीत- हस्ताः सन्तो भगवन्तं पूजावन्तं पिप्पलादमाचार्यमुपसन्ना उपजग्मुः।।१॥ ऑथर्वणे ब्रह्मा देवानामित्यादिमन्त्रैरेवाऽऽत्मतत्वस्य निणीतत्वात्तत्रैव ब्राह्मणेन तदभिधानं पुनरुक्तमित्याशङ्कय तस्यैवेह विस्तरेण प्राणोपासनादिसाधनसाहित्येनामि- धानान्न पौनरुक्त्यमिति वदन्ब्राह्मणमवतारयति-मन्त्रेति। विस्तरेति । मन्त्रे हि द्वे विद्ये वेदितव्ये परा चैवापरा चेत्युक्त्वा तत्रापरदाद्यभिधेयेत्युक्तम् । सा च विद्या कर्मरूपोपासनारूपा च ।तत्र द्वितीया द्वितीयतृतीयप्रश्नाभ्यां वित्रियते । आद्या कर्मकाण्डे त्रिवृतेति नेह विवियते । उमयोः फलं तु ततो वैराग्याथ प्रथमप्रश्ने स्पष्टी क्रियते । परविद्या चाथ पस यया तदक्षरमधिगम्यत इत्युपक्रम्य कृत्स्नेन मुण्डकेन प्रतिपादिता । तत्रापि यथा सुदीधादित्यादिमन्त्रद्वयोक्तार्थस्य विस्तरार्थ चतुर्थः प्रश्नः । प्रणवो धनुरित्यत्रोक्तप्रणवोपासनविवरणार्थं पञ्चमः प्रश्नः । एतस्माज्जायते प्राण इत्यादिना शेषेण मुण्डकेनोक्तस्यार्थस्य स्पष्टीकरणार्थः षष्ठः प्रश्न इतीदं ब्राह्मणं तद्विस्तरानुवा- दीत्यर्थः । अत एव विषयप्रयोजनादिकं तत्रैवोक्तमिति नेह पुनरुच्यत इति बोध्यम् । आख्यायिकाया ब्रह्मचर्यतपादिसाधनविधानं पुराकल्पस्वरूपेण प्रयोजनान्तरं चास्ती- त्याह-ब्रह्मचर्यादिसाधनेति । सौर्यायणीति । सौर्यायणिरिति वक्तव्ये देय छान्दसमित्यर्थः। युवप्रत्यय इति । क(का)त्यस्य युवापत्ये विवक्षिते फक्त्यये तस्याऽऽयनादेशे च कात्यायन इति सिध्यतीत्यर्थः । ब्रह्मपराणां पुनर्ब्रह्मान्वेषणमयु- क्तमित्यत आह-अपरं ब्रह्मेति । नवपरब्रह्मान्वेषणेनैव पुरुषार्थसिद्धेः किं पर- ब्रह्मान्वेषणेनेत्याशङ्कते--किं तदिति । तस्य कोऽतिशय इत्यर्थः । तस्यानित्यत्वेन तत्मातेरप्यनित्यहेतुत्वेनापुरुषार्थत्वात्परस्यैव नित्यत्वात्तत्प्राप्तेस्तज्ज्ञानमात्रसाध्यत्वे- नापि नित्यत्वाच्च तस्यैवान्वेषणीयत्वमिति परस्वरूपकथनेनाऽऽह-यदिति । पर. ब्रह्मान्वेषमाणानां कोऽतिशय इत्यत आह-तत्माप्त्यर्थमिति । तत्प्राप्त्यर्थं तदा धिगमाय तदन्वेषणं कुर्वन्तो यथाकाम यतिष्यामह इत्येवममित्रायेणेत्यन्वयः । समिदिति । समिद्ग्रहणं यथायोग्य( ग्य?)दन्तकाष्ठाग्रुपहारोपलक्षणार्यम् ॥ १ ॥ १ क. ख. ग. घ. छ. युवार्थप्र । ३ क. घ, अथर्वणे । ३ क. घ. ङ. च. 'त्युक्ता त । ४ क. 'थनाया।
[ १ प्रश्नः] प्रश्नोपनिषत् । तान्ह स ऋषिरुवाच भूय एव तपसा ब्रह्म- चर्येण श्रद्धया संवत्सर संवत्स्यथ यथा- कामं प्रश्नान्पृच्छत यदि विज्ञास्यामः सर्व ह वो वक्ष्याम इति ॥ २॥ तानेवमुपगतान्ह स किल ऋषिरुवाच भूयः पुनरेव, यद्यपि यूयं पूर्व तपस्विन एव, तपसेन्द्रियसंयमेन,तथाऽपीह विशेषतो ब्रह्मचर्येण श्रद्धया चाऽऽस्तिक्यबुद्धयाऽऽदरवन्तः संवत्सरं कालं संवत्स्यथ सम्यग्गुरुशु- श्रूषापराः सन्तो वत्स्यथ । ततो यथाकामं यो यस्य कामस्तमनति- कम्य यथाकाम यद्विषये यस्य जिज्ञासा तद्विषयान्मश्नान्पृच्छत । यदि ताष्मत्पृष्टं विज्ञास्यामः । अनुद्धतत्वमदर्शनार्थो यदिशब्दो नाज्ञानसं- शयार्थः प्रश्ननिर्णयादवसीयते । सर्व ह वो वः पृष्टं वक्ष्याम इति ॥२॥ तथाऽपीत्यस्य तपसेत्यतः पूर्वमन्वयः । विशेषत इत्यस्य पूर्वत्राप्यन्वयः । निष्कृष्टमर्थमाह-यद्विषय इति । अज्ञानाद्यर्थत्वाभावे हेतुमाह-प्रश्नति । अत्रे- तिशब्दोऽध्याहार्यः । सर्वप्रश्नानां निर्णयादज्ञानाद्यसंमवादित्यर्थः ॥ २ ॥ अथ कबन्धी कात्यायन उपेत्य पप्रच्छ । भगव- न्कुतो ह वा इमाः प्रजाः प्रजायन्त इति ॥३॥ अथ संवत्सरादूर्ध्वं कबन्धी कात्यायन उपेत्योपगम्य पप्रच्छ पृष्ट- वान् । हे भगवन्कुतः कस्माद्ध वा इमा ब्राह्मणाद्याः प्रजाः प्रजायन्त उत्पद्यन्ते । अपरविद्याकर्मणोः समुच्चियोर्यत्कार्य या गतिस्तद्वक्तव्य मिति तदर्थोऽयं प्रश्नः ॥३॥ परं ब्रह्मान्वेषमाणा इत्युपक्रान्तेऽस्मिन्ब्रह्मप्रकरणे प्रजापतिकर्तृकप्रजासृष्टिविषय- प्रश्नमत्युक्त्योरसंगतिमाशङ्कच प्रश्नपत्युक्तिरूपायाः श्रुतेस्तात्पर्यमाह-अपरवियति । तेषामसो विरजो ब्रह्मलोक इति समुच्चितकार्यस्य ब्रह्मलोकस्याथोत्तरेणेति तद्गतेदेव- यानमार्गस्य चेह वक्ष्यमाणत्वादित्यर्थः । इदमुपलक्षणं केवलकर्मणां चेत्यपि द्रष्टव्यम् । केवलकर्मकार्यस्यापि चन्द्रलोकस्य तद्गतेः पितृयाणस्य च । तेषामेवैष ब्रह्मलोकः' 'प्रजाकामा दक्षिणं प्रतिपद्यन्ते । इति वक्ष्यमाणत्वादिति । यद्यपीदमपि परब्रह्म- निज्ञासावसरेऽसंगतमेव तथाऽपि केवलकर्मकार्यात्समुच्चितकर्मकार्याच्च विरक्तस्यैव तत्राधिकार इति ततो वैराग्यार्थमिदमुच्यते । यद्यपि मुखतः सृष्टिः प्रतीयते १ क. पेत्याऽऽपत्य प । २ क. च. "मुचितासमुच्चिन । ३ क. च. 'त्युक्तर । ४ क. 'यानस्य।
.. आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [१ प्रश्नः तथाऽपि तदुक्तौ प्रयोजनामावात्सृष्टयुक्तिव्यानेन परविद्याफलमेवात्रोच्यत इति भावः । प्रश्न इति प्रतिवचनं चेत्यपि द्रष्टव्यं ताभ्यामेव तदुक्तेरिति ॥ ३ ॥ तस्मै स होवाच प्रजाकामो वै प्रजापतिः स तपोऽ- तप्यत * स तपस्तप्त्वा स मिथुनमुत्पादयते । रयिं च प्राणं चेत्येतो मे बहुधा प्रजाः करिष्यत इति ॥ ४॥ तस्मा एवं पृष्टवते स होवाच । तदपाकरणायाऽऽह । प्रजाकाम: मजा आत्मनः सिसृक्षु प्रजापतिः सर्वात्मा सञ्जगत्स्रक्ष्यामीत्येवं विज्ञा. नवान्यथोक्तकारी तद्भावभावितः कल्पादौ निर्वत्तो हिरण्यगर्भः सृज्य- मानानां प्रजानां स्थावरजङ्गमानां पतिः सञ्जन्मान्तरभावितं ज्ञानं श्रुतिप्रकाशितार्थविषयं तपोऽन्वालोचयदतप्यत । अथ तु स एवं तपस्तप्त्वा श्रौतं ज्ञानमन्वालोच्य सृष्टिसाधनभूतं मिथुनमुत्पादयते मिथुनं द्वंद्वमुत्पादितवान् । रयिं च सोममनं प्राणं चाग्निमत्तारमेताव. मीषोमावषमभूतो मे मम बहुधाऽनेकधा प्रजाः करिष्यत इत्येवं संचि- त्याण्डोत्पत्तिक्रमेण सूर्याचन्द्रमसावकल्पयत् ॥ ४ ॥ तस्मै स होवाचेति प्रतिज्ञातं विशेषतो दर्शयति-तदपाकरणायेति । आद्यस्य सन्नित्यस्य प्रजाकामः सन्नित्यन्वयः । यथोक्तकारीति । ज्ञानकर्मसमुच्चयकारी. त्यर्थः । तद्भावभावित इति । प्रजापतिरहं सर्वात्मेत्युपासनकालीनप्रनापतिभाव- नायुक्त इत्यर्थः । पूर्वकल्पीयतद्भावभावित एतत्कल्पादौ हिरण्यगर्मात्मना निर्वृत्तः प्रजापतिः सन्पश्चात्प्रजाकामः संस्तपो जन्मान्तरभावितं ज्ञानं श्रुतिप्रकाशितार्थविषय. मतप्यतावालोचयचिन्तादिना तत्संस्कारमुद्बोध्य ज्ञानमुत्पादितवानित्यन्वयः । तत्र प्रथममादित्यचन्द्रोत्पादनेन तद्भावमापद्य पश्चाश्चन्द्रादित्यसाध्यसंवत्सरमावमापद्यैव. मेव तदवयवायनद्वयमासपक्षाहोरात्रमावमापद्य ततस्तत्साध्यत्रीह्याद्यन्नमावं रेतोमा चाऽऽपद्य तेन रेतसा प्रजाः सृजेयमित्येवं निश्चित्य प्रथमं रयिप्राणशब्दितचन्द्रसूर्य- द्वंद्वमुत्पादितवानित्याह-स एवमिति । रयिशब्देन धनवाचिना भोज्यजातं लक्ष- यित्वा भोज्यस्य सोमकिरणामृतयुक्तत्वात्तद्वारा सोमो लक्ष्यत इत्याह-रयिं चेति । एवं प्राणशब्देनापि । * अत्र भाष्यानुसारेण शंकरानन्दकृतदीपिकानुसारेण च “स तपस्तत्वा" इति पदत्रयम- धिक भाति। १ क. 'चितादि । २ क. च. तंसूर्यचन्द्र ।
[१ प्रश्नः ] प्रश्नोपनिषत् । अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥ इति स्मृतेरग्नेः प्राणसंबन्धादग्निर्मोक्ता लक्ष्यत इत्याह-प्राणं चेति । अग्नीषोमयो. रण्डान्तर्गतत्वेनाण्डोत्पत्त्यन्तरमुत्पत्तिरित्याशयेनाऽऽह--अण्डोत्पत्तीति । उद्यन्त वावाऽऽदित्यमग्निरनुसमारोहतीति श्रुतेः सूर्याग्न्योरेकत्वमभिप्रेत्याग्निं सूर्यपदेनाऽऽह-- सूर्याचन्द्रमसाविति ॥ ४॥ आदित्यो ह वै प्राणो रयिरेव चन्द्रमा रयिर्वा एत. सर्व यन्मूर्त चामूतं च तस्मान्मूर्तिरेव रयिः ॥५॥ तत्राऽऽदित्यो ह वै प्राणोऽत्ताऽग्निः । रयिरेव चन्द्रमा: । रयिरेवानं सोम एव । तदेतदेकमत्ता चानं च प्रजापतिरेकं तु मिथुनम् । गुणप्रधा- नकृतो भेदः । कथम् । रयिर्वा अन्नं वा एतत्सर्व किं तद्यन्मूर्त च स्थूलं चामूर्त च सूक्ष्मं च मूर्तामूर्त अनन्नरूपे रयिरेव । तस्मात्मविभ- क्तादमूर्ताद्यदन्यन्मूर्त रूपं मूर्तिः सैव रयिरमूर्तनाद्यमानत्वात् ॥ ५ ॥ .. रयिप्राणौ श्रृंतिः स्वयमेव व्याचष्ट इत्याह-तत्राऽऽदित्य इति । प्रजापतेरेव संव. सरादिप्रजापर्यन्तस्रष्टुत्वं वक्तुं रयिप्राणयोः संवत्सरस्रष्ट्रोः प्रजापत्युपादानत्वात्मजाप- त्यात्मत्वमाह-तदेतदेकमिति । कथमेकस्यात्ताऽन्नं चेति मेद इत्याशङ्कय तस्यैव गुण- भावविवक्षयाऽन्नत्वं प्राधान्यविवक्षया चात्तृत्वमिति भेद इत्याह-गुणेति । रविप्राण- योः कथं प्रजापत्यात्मत्वमिति शङ्कते-कथामिति । तत्र रयेः सर्वात्मकत्वात्प्रजाप. तित्वमित्याह-रयिरिति । अमूर्तस्यापि वास्वादेः केनचिद्यमानत्वादयित्वमित्यर्थः । ननु मूर्तामूर्तयोरत्रन्नयोरुभयोरपि रयित्वेऽन्नमेव रयिरिति कथमुक्तमित्याशङ्कय मूर्ता- मूतत्वविभागमकृत्वा सर्वस्य गुणभावमात्रविवक्षया सर्व रयिरित्युच्यते । यदोमे विभज्य गुणप्रधानभावेन विवक्ष्येते तदाऽमूर्तेन प्राणेन मूर्तस्याद्यमानत्वान्मूर्तस्यैव रयि. त्वमित्याह-तस्मादिति ॥ ५ ॥ तथाऽमूर्तोऽपि प्राणोऽत्ता सर्वमेव यच्चाऽऽयम् । कथम् - अथाऽऽदित्य उदयन्यत्पाची दिशं प्रविशति तेन प्राच्यान्प्राणान्रश्मिषु संनिधत्ते । यदक्षिणां यत्म- - १ ख. मूर्तेरेवानममू । घ, ङ, मूर्तिरेवान सै। २ क. मूर्ते वि ।
। । । आनन्दगिरिकतटीकासंचालितशांकरभाष्यसमेता- [१ प्रश्नः तीची यदधो यदुवं यदन्तरा दिशो यत्सर्व प्रकाशयति तेन सर्वान्प्राणान्रश्मिषु संनिधत्ते ॥६॥ अथाऽऽदित्य उदयन्मुद्च्छन्माणिनां चक्षुर्गोचरमागच्छन्यत्माची दिशं स्वप्रकाशेन प्रविशति व्यामोति । तेन स्वात्मव्याप्त्या सर्वास्त- स्थान्माणान्माच्यान च्यानन्तर्भूतान्रश्मिषु स्वात्मावभासरूपेषु व्याप्तिमत्सु व्याप्तत्वात्माणिनः संनिधत्ते सनिवेशयति, आत्मभूतान्करोतीत्यर्थः । तथै- व यत्मविशति दक्षिणां यत्तीची यदुदीचीमध ऊर्च यत्प्रविशति यच्चा- तरा दिशः कोणदिशोऽवान्तरदिशो यच्चान्यत्सर्व प्रकाशयति तेनं स्वप्रकाशव्याप्त्या सर्वान्सर्वदिवस्थान्याणान्रश्मिषु संनिधत्ते ॥६॥ रयिशब्दितस्यान्नस्य प्रजापतित्वार्थं सर्वात्मत्वमुक्त्वा प्राणस्यापि तदर्थमेव सर्वात्मत्व- मुच्यतेऽथाऽऽदित्य इति वाक्येनेत्याह-तथेत्यादिना । यच्च।ऽऽयं तदपि प्राणोऽतोऽ. त्ता प्राणोऽपि सर्वमेवेति सर्वात्मक इत्यर्थः । स्वप्रकाशेनेति । स्वकीयप्रकाशेन स्वप्रम- येत्यर्थः । अन्तर्भूतानिति । यद्यपि प्राणस्यात्तृत्वमुक्तं तथाऽपि रयिर्वा एतत्सर्वमि. त्यत्रामूर्तस्य प्राणस्यापि गुणभावविवक्षयाऽन्नत्वमुक्तमिति तथोक्तम् । स्वात्मावभा- सरूपेष्विति । स्वात्मप्रमारूपेषु रश्मिवित्यर्थः । व्याप्तत्वादिति । संबद्धत्वादि- त्यर्थः ॥ ६॥ स एष वैश्वानरो विश्वरूपः प्राणोऽग्नि- रुदयते । तदेतदृचाऽपयुक्तम् ॥ ७ ॥ स एषोऽत्ता प्राणो वैश्वानरः सर्वात्मा विश्वरूपो विश्वात्मत्वाच्च प्राणोऽग्निश्च स एवात्तोदयत उद्गच्छति प्रत्यहं सर्वा दिश आत्मसा- स्कुर्वन् । तदेतदुक्तं वस्तु ऋचा मन्त्रेणाप्यभ्युक्तम् ॥ ७ ॥ तस्य प्रत्यक्षत्वमाह-स एष इति । वैश्वानर इति । नरा जीवा विश्वे च ते नराश्च विश्वानराः। स एव वैश्वानरः। सर्वजीवात्मक इत्यर्थः । विश्वरूपः सर्वप्रपञ्चा. त्मक इति भेदः । उक्तं वस्त्विति । आदित्यस्योक्तं माहात्म्यमित्यर्थः ॥ ७ ॥ विश्वरूपं हरिणं जातवेदसं परायणं ज्योति- रेकं तपन्तम् । सहस्ररश्मिः शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः ॥ ८ ॥ १ क. च्छन्यत्प्राची दिर्श प्रविशति तेन तत्प्राची दिश स्व' । २ ख. ग. सर्वान्तस्थान्त्रा। ३ क. ज. 'णोऽत्ता।
- [.१ प्रश्नः ] प्रश्नोपनिषत् । विश्वरूपं सर्वरूपं हरिणं रश्मिवन्तं जातवेदसं जातप्रज्ञानं परायणं सर्वप्राणाश्रयं ज्योतिरेकं सर्वप्राणिनां चक्षुर्भूतमद्वितीयं तपन्तं तापक्रिया कुर्वाणं स्वात्मानं सूर्य सूरयो विज्ञानवन्तो ब्रह्मविदः । कोऽसौ यं विज्ञातवन्तः । सहस्ररश्मिरनेकरश्मिः शतधाऽनेकधा प्राणिभेदेन वर्त. मानः प्राणः प्रजानामुदयत्येष सूर्यः ॥ ८॥ विश्वरूपमित्यादिद्वितीयान्तानां सहस्ररश्मिरित्यादिप्रयमान्तानां सामानाधिकरण्ये- नाम्वयायोगादध्याहारं कृत्वा वाक्यभेदेन व्याचष्टे-स्वात्मानमित्यादिना ॥ ८ ॥ यश्चासौ चन्द्रमा मूर्तिरन्नममूर्तिश्च प्राणोऽत्ताऽऽदित्यस्तदेकमेतन्मिथुनं सर्व कथं प्रजाः करिष्यत इति, उच्यते- संवत्सरो वै प्रजापतिस्तस्यायने दक्षिणं चोत्तरं च । तद्ये ह वै तदिष्टापूर्ने कृतमित्युपासते । ते चान्द्रमसमेव लोकमक्षिजयन्ते । त एव पुनरावर्तन्ते तस्मादेत ऋषयः प्रजाकामा दक्षिणं प्रतिपद्यन्ते । एष ह वै रयिर्यः पितृयाणः ॥ ९ ॥ तदेव कालः संवत्सरो वै प्रजापतिस्तन्निवय॑त्वात्संवत्सरस्य । चन्द्रा- दित्यनिवपतिथ्यहोरात्रसमुदायो हि संवत्सरस्तदनन्यत्वादयिमाणमि- थुनात्मक एवेत्युच्यते, तत्कथम् । तस्य संवत्सरस्य प्रजापतेरयने मार्गों द्वौ दक्षिणं चोत्तरं च । द्वे प्रसिद्ध ह्य यने षण्मासलक्षणे याभ्यां दक्षिणे- नोत्तरेण च याति सविता केवलकर्मिणां ज्ञानसंयुक्तकर्मवतां च लोका- विदधत् । कथं तत् । तत्र च ब्राह्मणादिषु ये ह वै तदुपासत इति क्रियाविशेषणो द्वितीयस्तच्छन्दः । इष्टं च पूर्त चेष्टापूर्ते इत्यादि कृतमे- वोपासते नाकृतं नित्यं ते चान्द्रमसं चन्द्रमसि भवं प्रजापतेर्षिथुनात्मक- स्यांशं रयिमनभूतं लोकमभिजयन्ते कृतरूपत्वाच्चान्द्रमसस्य ते तत्रैव च कुतक्षयात्पुनरावर्तन्त इमं लोक हीनतरं वा विशन्तीति ह्युक्तम् । यस्मा- देवं प्रजापतिमन्नात्मकं फलत्वेनाभिनिवर्तयन्ति चन्द्रमिष्टापूर्तकर्मणैत ऋषयः स्वर्गद्रष्टारः प्रजाकामाः प्रजार्थिनो गृहस्थास्तस्मात्स्वकृतमेव दक्षिणं दक्षिणायनोपललितं चन्द्र प्रतिपद्यन्ते । एष ह वै रयिरनं यः पितृयाणः पितृयाणोपलक्षितश्चन्द्रः ॥९॥ १ क ग. °णस्तन्मिथु।
६. आनन्दगिरिकृतटीकासंचलितशांकरभा' करभाष्यसमेता- [१ प्रश्नः स मिथुनमुत्पादयत इत्युपक्रान्तं मिथुनमुपसंहरति-यश्चासाविति । यश्चासौ. चन्द्रमा यश्चामूर्तः(तिः) प्राणस्तदेकं मिथुनं सर्व सर्वात्मकमित्यन्धयः । एती मे बहुधा प्रजाः करिष्यत इत्युक्तं तत्केन प्रकारेणेति पृच्छति-कथमिति । रयिप्राणयोः संव- सरादिद्वारा प्रजास्रष्टुत्वमित्याह-उच्यत इति । तदेव मिथुनमेव संवत्सरः कालः स च प्रजापतिः प्रजापत्यात्मकमिथुननिर्वय॑त्वादित्याह-तनियंत्वादिति । तदु- पपादयति-चन्द्रेति । चन्द्रनिर्वास्तिथय आदित्यनिर्वान्यहोरात्राणीति विभागः । तन्नियत्वेऽपि कालस्य कथं तदात्मकतेत्याशङ्कय कार्यकारणयोरमेदादित्याह-तद. नन्यत्वादिति। न केवलं तिथ्यादिद्वारा चन्द्रादिनिवर्त्यत्वं संवत्सरस्य किंत्वयनद्वय. द्वाराऽपीति वक्तुं तस्यायने इत्यादिवाक्यं तत्प्रश्नपूर्वक व्याचष्टे-तत्कथमिति । चन्द्रा- दित्यनियत्वं कुतो हेत्वन्तरादित्यर्थः । केवलकर्मिणां लोकान्विदधद्दक्षिणेन याति । ज्ञानयुक्तकर्मवतां लोकान्विदधदुत्तरेण यातीत्यन्धयः । सवितेत्युपलक्षणं चन्द्रस्यापि । ज्येष्ठादिक्षिणायनं मार्गशीर्षादिरुत्तरायणमिति श्रुतिषु प्रसिद्धेः। ततश्च कर्मिणां लोका. विधातुं तयोर्दक्षिणोत्तराभ्यां मार्गाभ्यां गमनात्तन्निमित्तत्वाच्चायनद्वयप्रसिद्धेस्तन्नियंत्वं तयोरनयोरिति तद्वारा संवत्सरस्यापि तन्नित्यत्वमित्यर्थः । चन्द्रादित्ययोः कथं लोकविधायकत्वमिति पृच्छति-कथमिति । चन्द्रादित्यनिय॑दक्षिणोत्तरायणद्वारा लोकप्राः । प्राप्यस्य लोकस्यापि चन्द्रादित्यात्मकत्वाच्च तयोस्तद्विधायकत्वमिति तये ह वा इत्यादिवाक्येन परिहरति-तत्तत्रेति । इष्टं चेति । अग्निहोत्रं तपः सत्यं वेदानां चानुपालनम् । आतिथ्य वैश्वदेवश्च इष्टमित्यभिधीयते ॥ वापीकूपतंडागादि देवतायतनानि च । अन्नप्रदानमारामः पूर्तमित्यभिधीयते ।। इति सयोमदः । कृतमित्युपासत इति कृतशब्दोपरितनमितिशब्दमिष्टापूर्ने इति पूर्तशब्दोपविण्याऽऽदिशब्दपर्यायतया व्याचष्टे-इत्यादीति । दत्तमादिशब्दार्थः । कृतमेवोपासते कार्यमेवानुतिष्ठन्तीत्यर्थः । इदं च विशेषणं पुनरावृत्ती हेतुनयोक्तम् । कृतरूपेष्टयादिजन्यत्वाचन्द्रस्यादि कृतत्वेनानित्यत्वात्पुनरावृत्तिरित्याह-कृतरूप- त्वादिति । पुनरावृत्ती मन्त्रवाक्यं प्रमाणपति-मं लोकमिति ॥ ९ ॥ अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्य- याऽऽत्मानमन्विष्याऽऽदित्यमभिजयन्ते एतद्वै १ च. 'दित्यनि । २ क. ज. दिदक्षि । ३ क. च. (युत्त । ४ क. घ. 'भ्यां यम्योत्तर- लोकाभ्यां ग° । ५ क. दानामुपलम्भनम् । ६ ख. ग. घ. 'तटाकादि । ७ क. इत्युभयो ।
१ प्रश्नः] प्रश्नोपनिषत् । प्राणानामायतनमेतदमृतमभयमेतत्परायणमेतस्मान्न पुनरावर्तन्त इत्येष निरोधस्तदेष श्लोकः ॥ १० ॥ अथोत्तरेणायनेन प्रजापतेरंशं प्राणमत्तारमादित्यमभिजयन्ते । केन । तपसेन्द्रियजयेन विशेषतो ब्रह्मचर्येण श्रद्धया विद्यया च प्रजापत्यात्म- विषययाऽऽत्मानं प्राणं सूर्य जगतस्तस्थुषश्वान्विष्याहमस्मीति विदि. स्वाऽऽदित्यमभिजयन्तेऽभिमाप्नुवन्ति । एतद्वा आयतनं सर्वप्राणानां सामान्यमायतनमाश्रयमे(ए) तदमृतमविनाशि, अभयमत एव भयव. र्जितं न चन्द्रवत्क्षयवृद्धिभयवदेतत्परायणं परा गतिर्विद्यावतां कर्मिणां च ज्ञानवतामेतस्मान पुनरावर्तन्ते यथेतरे केवलकर्मिण इति यस्मादेषोऽ- विदुषां निरोध आदित्यादि निरुद्धा अविद्वांसो नेते संवत्सरमादित्य- मात्मानं प्राणमभिप्राप्नुवन्ति । स हि संवत्सरः कालात्माऽविदुषा निरोधः। तत्तत्रास्मिन्नर्थ एष श्लोको मन्त्रः ॥१०॥ अथेति। मार्गान्तरारम्भार्थोऽथशब्दः । प्रजापत्यात्मविषययेति । तत्तादात्म्यविष. ययेत्यर्थः । आदित्यमभिजयन्त इति पूर्वमन्वयार्थमुक्तमिदानी व्याख्यानार्थमिति द्रष्ट- व्यम् । सामान्यमिति । समष्टिरूपमित्यर्थः । विद्यावतामिति । कर्मानधिकारिणामत एव केवलोपासनवतामित्यर्थः । कर्मिणां च ज्ञानवतामिति । समुच्च यवतामित्यर्थः । ननु केवलकर्मिणामप्यादित्यप्राप्तावपुनरावृत्तिर्मविष्यतीस्याशङ्कय तेषामादित्यप्राप्ति- रेव नास्तीति वक्तमित्येष इति वाक्यं व्याचष्टे-इति यस्मादिति । तस्मात्तेषामादित्यता-* घिरनाशङ्कयेति शेषः (१०)। यद्वा -तस्यायन इत्यारभ्येत्येष निरोध इत्यन्तं श्रुति. वाक्यमयनयो रविप्राणरूपत्वप्रतिपाइनपरत या व्याख्येयम् । तथा हि-संवत्सरस्प रयिशणमिथुननित्यत्वे रविप्राणरूपत्वं च वक्तव्यं तत्कथमिति पृच्छति- मिति । तदवयवयोरथनयोस्तद्रूपं वक्तुं तयोः प्रथमं प्रसिद्धिमाह-तस्येति । प्रसि- द्धिमेवाऽऽह-याभ्यामिति । एवमपि कथं तयोस्तदात्मकत्वमित्याह-कथमिति । दक्षिणायनस्य रयित्वं वक्तुं कर्मिणां रयिरूपचन्द्रनिर्वर्तकत्वमाह-तत्तत्रेति । लोकल मिति । सोमरूपं शरीरमित्यर्थः । तस्य कर्मकृतत्वं पुनरावृत्त्या साधयति-कृतरूप- स्वादिति । रयिरूपचन्द्रस्य दक्षिणायनद्वारा प्राप्यत्वा तस्यायनस्य तदन्तर्मा इति वक्तुं तस्य कर्मिभिः प्राप्यत्वमाह-यस्मादिति । एवं च तस्य रयित्वं सिद्धमि. त्याह-एष इति । पितृयाणोपलक्षित इति । तत्प्राप्य इत्यर्थः । ततश्च सद्विशे- षणस्यायनस्यापि. रयित्वमित्यर्थः (९) । इदानीमुत्तरायणस्य प्राणत्वमाह-अथेति १ क.न प्राजापत्यं प्रा । २ क, च. मन । ३ क. च. 'रन । । HD son- आनन्दगिरिकृतटीकासंचलितशीकरभाष्यसमेता- [प्रभः] प्राणरूपादित्यप्रापकत्वादुत्तरायणस्य तस्यापि प्राणत्वमिति संवत्सरस्य रुयिप्राणमिथु- नात्मकत्वमिति तत्कार्यत्वं युक्तमिति मावः । अस्य कर्मसाध्यचन्द्रवैलक्षण्यमाह- एतद्वा इति । इतरत्सर्व समानम् अस्मिन्नर्थ इति । संवत्सरस्वरूप इत्यर्थः।।१०।। पञ्चपादं पितरं द्वादशाकति दिव आहुः परे अर्धे पुरीषिणम् । अथेमे अन्य उ परे विचक्षणं सप्तचके षडर आहुरर्पितमिति ॥ ११ ॥ पश्चपादं पश्चर्तवः पादा इवास्य संवत्सरात्मन आदित्यस्य तैरसो पादैरिवर्तुभिरावर्तते । हेमन्तशिशिरावेकीकृत्येयं कल्पना। पितरं सर्वस्य जनयितृत्वारिपतृत्वं तस्य, तं द्वादशाकृति द्वादश मासा आकृतयोऽव. यवा आकरणं वाऽवयविकरणमस्य द्वादशमासैस्तं द्वादशाकृतिम् । दिवो धुलोकोत्पर ऊर्वेऽर्थे स्थाने तृतीयस्यां दिवीत्यर्थः । पुरीषिणं पुरीष. वन्तमुदकवन्तमाहुः कालविदः । अथ तमेवान्य इम उ परे कालविदो विचक्षणं निपुणं सर्वज्ञं सप्तचक्रे सप्तहयरूपेण चक्रे सततं गतिमति कालात्मनि षडरे षडतुमत्याहुः सर्वमिदं जगत्कथयन्ति । अर्पितमरा इव रथनाभौ निविष्टमिति । यदि पञ्चपादो द्वादशाकृतियदि वा सप्त चक्रः षडरः सर्वथाऽपि संवत्सरः कालात्मा प्रजापतिश्चन्द्रादित्यलक्ष. णोऽपि जगतः कारणम् ॥ ११ ।। इयं कल्पनेऽपि । पञ्चधा कर्मसाध्यचन्द्रवलक्षण्यकल्पनेत्यर्थः। जनयितृत्वादिति । संवत्सरात्मककालस्य सर्वजनकत्वादित्यर्थः । समानाधिकरणबहुव्रीहितया व्याख्याय व्यधिकरणबहुव्रीहित्याह-आकरणं वेति । अवयविकरणमिति । अवयक्त्वेिन करणमित्यर्थः । पक्षद्वयेऽप्येक एवार्थः । धुलोकादिति। आकाशरूपादन्तरिक्षलोका- दित्यर्थः । अन्यथा स्वर्गलोकात्परस्य चतुर्थत्वेन तृतीयस्यामित्यनम्वयापत्तेः । उदक वन्तमिति । आदित्याज्जायते वृष्टिरिति स्मृतेरित्यर्थः । अन्य इत्यस्य पूर्वार्धगते. माऽऽहुरित्यनेन संबन्धः । उ इति । तुशब्दसमानार्थो निभातः । परे तु तमेव विच. क्षणमाहुरित्यन्वयः । किमाहुरित्यत आह-सप्तचक्र इति । तस्मिन्विचक्षणे सात- पक्राद्यात्मके सर्वमिदं जगदर्पितमित्याहुरित्यर्थः । मतद्वयेऽपि कीदृशोऽर्थभेद इत्यत यदीति । पूर्वमत ऋतूनां पादत्वकल्पनया मासानामवयवत्वकल्पनयाऽऽदि. त्यात्मना संवत्सरः काल एवोक्तः । द्वितीये तु हेमन्तशिशिरी पृथक्कृत्य षण्णामृतू. --- , १ ख. प. उ. °कादाहुः पर' । ३ क. च. 'धाकल्पसा ।
[१ प्रमः] प्रश्नोपनिषत् । ११ नामरत्वकल्पनया संवत्सरस्य परिवर्तनगुणयोगेन चक्रत्वकल्पनया कालप्राधान्येन सर्वाश्रयत्वेन च स एवोक्तः । पक्षद्वयेऽपि गुणभेदेन कल्पनामेदेन च मेदो न धर्मि- मैद इत्यर्थः ॥ ११ ॥ मासो वै प्रजापतिस्तस्य कृष्णपक्ष एव रपिः शुक्लः प्राणस्तस्मादेत ऋषयः शुक्ल ईष्ट कुर्वन्तीतर इतरस्मिन् ॥ १२ ॥ यस्मिभिदं श्रितं विश्वं स एव प्रजापतिः संवत्सराख्यः स्वावयवे मासे कृत्स्ना परिसमाप्यते । मासो वै प्रजापतिर्यथोक्तलक्षण एव मिथु- नात्मकस्तस्य मासात्मनः प्रजापतेरेको भागः कृष्णपक्षो रयिरनं चन्द्र- मा अपरो भागः शुक्ल: शुक्लपक्षः प्राण आदित्योऽत्ताऽग्निर्यस्माच्छुक्ल- पक्षात्मानं पाणं सर्वमेव पश्यन्ति तस्मात्प्राणदार्शन एत ऋषयः कृष्णप. क्षेऽपीष्ट यागं कुर्वन्तः शुक्लपक्ष एव कुर्वन्ति प्राणव्यतिरेकेण कृष्णपक्षस्तै- ने दृश्यते यस्मादितरे तु पाणं न पश्यन्तीत्यदर्शनलक्षणं कृष्णात्मानमेव पश्यन्ति । इतर इतरस्मिन्कृष्णपक्ष एव कुर्वन्ति शुक्ले कुर्वन्तोऽपि॥१२॥ कारणत्वे श्लोकोक्तं जगदाश्रयत्वं हेतुमाह-यस्मिन्निति । संवत्सरस्यापि मासा- होरात्ररूपन्यतिरेकेणौषध्यादिजनकत्वाभावात्तस्य मासाद्यात्मकत्वमाह-स एवेति । यथोक्तेति । संवत्सररूपो रयिप्राणमिथुनात्मक इत्यर्थः । शुक्लकृष्णयोरुमयोरपि दर्शपूर्णमासादिकर्मानुष्ठानदर्शनात्तस्मादेत ऋषय इत्यादि वाक्यमनुपपन्नमित्याशङ्कय शुक्लस्य प्राणात्मकत्वज्ञानस्तुतिपरतया व्याचष्टे--यस्मादिति । यस्मात्माणं सर्वमेव सर्वा- त्मकमेव पश्यन्ति यस्माच्च प्राणव्यतिरेकेण कृष्णपक्षस्तैर्न दृश्यते तस्मादित्यन्वयः । प्राणस्य शुक्लपक्षात्मकत्वात्कृष्णपक्षादिसर्वजगतः प्राणात्मत्वात्प्राणद्वारा कृष्णपक्षस्यापि शुक्लपक्षत्वे सति कृष्णे कुर्वन्तोऽपि प्रकाशात्मके शुक्ल एव कुर्वन्तीति शुक्लपक्षे प्राणस्व. ज्ञानस्य स्तुतिरित्यर्थः । एतत्स्तुत्यर्थमेव ज्ञानरहितान्निन्दति-इतरे विति । ये तु सर्वात्मानं प्राणं न पश्यन्त्यज्ञत्वात्तेषां शुक्लपक्षः प्राणत्वेनाज्ञायमानत्वादज्ञानात्मक: सन्कृष्णपक्षत्वमापद्यतेऽतः शुक्ले कुर्वन्तोऽप्यदर्शनात्मकत्वात्मकाशरहिते कृष्ण एवं कुर्वन्तीति ते निन्द्यन्त इत्यर्थः । उक्तमर्थ श्रुत्यारूढं करोति-इतर इति ॥ १२ ॥ अहोरात्रो वै प्रजापतिस्तस्याहरेव प्राणो रात्रि- व रयिः प्राणं वा एते प्रस्कन्दन्ति ये दिवा १ क. इष्टिं । २ ख. ग, घ. एवं।
१२ आनन्दगिरिकृतटीकासंचलितशांकरभाष्यसमेता- [ १ प्रश्नः ] रत्या संयुज्यन्ते ब्रह्मचर्यमेव तय- द्वात्रौ रत्या संयुज्यन्ते ॥ १३ ॥ सोऽपि मासात्मा प्रजापतिः स्वावयवेऽहोरात्रे परिसमाप्यते पूर्ववत् । तस्याप्यहरेव प्राणोऽत्ताऽनी रात्रिरेव रयिः पूर्ववत् । प्राणमहरात्मानं वा एते प्रस्कन्दन्ति निर्गमयन्ति शोषयन्ति वा स्वात्मनो विच्छिद्यापन- यन्ति । के । ये दिवाऽहनि रत्या रतिकारणभूतया सह स्त्रिया संयुज्य- ते मिथुनं मैथुनमाचरन्ति मूढाः। यत एवं तस्मात्तन्न कर्तव्यमिति प्रति- धः प्रासाङ्गिकः । यद्रात्रौ संयुज्यन्ते रत्या ऋनौ ब्रह्मचर्यमेव तदिति. प्रशस्तत्वाहतो* भार्यागमनं कर्तव्यमिति । अयमपि प्रासङ्गिको विधिः। प्रकृतं तूच्यते सोऽहोरात्रात्मकः प्रजापति/हियवाघमात्मना व्यव- स्थितः ॥१३॥ रयिः पूर्ववदिति ।रयिरनं चन्द्रमा इत्यर्थः । अह्नः प्राणत्वोक्तिप्रसङ्गादहि मैथुनं निषेधति-प्राणमिति । प्रकृतमिति । कुतो ह वा इमाः प्रजाः प्रजायन्त इति पृष्ट- मित्यर्थः । पूर्वोक्तं सर्वमेतदुपयोगितयोक्तं न तु साक्षात्प्रकृतमिति भावः ।। १३ ।। अन्नं वै प्रजापतिस्ततो हबै ततस्तस्मा- दिमाः प्रजाः प्रजायन्त इति ॥ १४ ॥ एवं क्रमेण परिणम्य तदनं वै प्रजापतिः । कथम् । ततस्तस्माद्ध रेतो नृबीजं तत्प्रजाकारणं तस्माद्योषिति सिक्तादिमा मनुष्यादिलक्षणा: प्रजाः प्रजायन्ते यत्पृष्टं कुतो ह वै प्रजाः प्रजायन्त इति । तदेवं चन्द्रा- दित्यमिथुनादिक्रमेणाहोरात्रान्तेनोन्नास्येतोद्वारेणेमाः प्रजाः प्रजायन्त • इति निर्णीतम् ॥ १४ ॥ .. एवं क्रमणेति । रयिप्राणसंवत्सरादिक्रमेण परिणम्य व्रीह्याद्यात्मना व्यवस्थितः सन्नन्नं वै प्रजापतिरन्नात्मको जातः प्रजापतिरित्यन्वयः। कथमिति । अन्नरूपत्वेऽपि तस्य कथं प्रजाजनकत्वमित्यर्थः । तत इति । भक्षितादन्नादित्यर्थः । रेत इति । शोणितस्याप्युपलक्षणं तुल्यत्वादिति ॥ १४ ॥ * अत्र राजावित्यर्थलभ्यम् । - १ ख. ग. ङ, स्याह । २ च. 'न्ते मै । ३ क. 'थुनमा । ४ क. 'मेणाहोरात्रः प्रजापति. रन्ने विपरिणम्यतेऽनं । ५ क. च. नानरेतो।
. [१ प्रश्नः] प्रश्नोपनिषत् । १३ तये ह वै तत्प्रजापतिव्रतं चरन्ति ते मिथुन- मुत्पादयन्ते । तेषामेवेष ब्रह्मलोको येषां तपो ब्रह्मचर्य येषु सत्यं प्रतिष्ठितम् ॥ १५ ॥ तत्तत्रैवं सति ये गृहस्थाः “ह वै' इति प्रसिद्धस्मरणार्थों निपातौ । तत्प्रजापतेव्रतमृतौ भार्यागमनं चरन्ति कुर्वन्ति तेषां दृष्टफलमिदम् । किम् । ते मिथुनं पुत्रं दुहितरं चोत्पादयन्ते । अदृष्टं च फलमिष्टापूर्वद- त्तकारिणां तेषामेवैष यश्चान्द्रमसो ब्रह्मलोकः पितृयाणलक्षणो येषां तपः स्नातकवतादीनि, ब्रह्मचर्यम् । ऋवावन्यत्र मैथुनासमाचरणं ब्रह्मचर्यम् । येषु च सत्यमनृतवर्जनं प्रतिष्ठितमव्यभिचारितया वर्तते नित्यमेवं॥१५॥ प्रजापतिव्रताचरणमात्रेण नादृष्टफलं चन्द्रलोकः प्राप्यते मूर्खाणामपि प्रसङ्गादत आह-इष्टापूर्तेति । चान्द्रमसो ब्रह्मलोक इत्यपरब्रह्मणः प्रजापतेरंशत्वायिरूपस्य चन्द्रस्य ब्रह्मलोकत्वमित्यर्थः । इष्टादिकारिणां तपआदिकमपि चन्द्रलोकप्राप्त्यर्थमपे. क्षितमित्यत आह-येषां तप इति ॥ १५ ॥ तेषामसौ घिरजो ब्रह्मलोको न येषु जिह्ममनृतं न माया चेति ॥१६॥ इत्यथर्ववेदीयप्रश्नोपनिषदि प्रथमः प्रश्नः ॥ १ ॥ यस्तु पुनरादित्योपलक्षित उत्तरायणः प्राणात्मभावो विरजा शुद्धो न चन्द्रब्रह्मलोकवद्रजस्वलो वृद्धिक्षयादियुक्तोऽसौ केषां तेषामित्युच्यते यथा गृहस्थानामनेकविरुद्धसंव्यवहारप्रयोजनववाज्जिलं कौटिल्यं वक्रमावोऽवश्यंभावी तथा न येषु जिमम् । यथा च गृहस्थानां क्रीडा. नर्मादिनिमित्तमनृतमवर्जनीयं तथा न येषु तत्, तथा माया गृहस्थाना- मिव न येषु विद्यते । माया नाम बहिरन्यथाऽऽत्मानं प्रकाश्यान्यथैव कार्य करोति सा माया मिथ्याचाररूपा । मायेत्येवमादयो दोषा येष्वधिकारिषु ब्रह्मचारिवानप्रस्थभिक्षुषु निमित्ताभावान विद्यन्ते वत्साधनानुरूपेणैव तेषामसी विरजो ब्रह्मलोक इत्येषा ज्ञानयुक्तकम- वतां गतिः। पूर्वोक्तस्तु ब्रह्मलोकः केवलकर्मिणां चन्द्रलक्षण इति॥१६॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमद्गोविन्दभगवत्पूज्यपादशिष्य- श्रीमच्छंकरभगवतः कृतौ प्रश्नोपनिषद्भाष्ये प्रथमः प्रश्नः ॥ १ ॥ १ क. ङ. तत एवं । २ ख, ग. घ. इ. व वस्तु ॥ १५ ॥ ३ ख. ग. . तेषां। ४ क. च. चन्द्रलोक ।
आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [२ प्रश्नः ] ।" तेषामसौ विरज इत्यादिवाक्यं व्याचष्टे--यस्त्विति । उत्तरायण इति । तेन प्राप्य इत्यर्थः । प्राणात्मभावोऽपरब्रह्मतयाऽवस्थानमित्यर्थः। असौ केषां तेषामिति। तेषामसी विरज इत्यत्र तेषामित्यनेन केषां निर्देश इति प्रश्नार्थः । न येषु निममित्यत्र जिह्मादिशब्द व्यतिरेकमदर्शनेन व्याचष्टे-यथेत्यादिना । मायाग्रहणं तादृशानां दोषाणामुपलक्षणमिति वदन्वाक्यार्थं संगृह्य दर्शयति-मायेत्येवामिति । मिक्षष्विति परमहंसव्यतिरिक्तानां कुटीचकादीनां ग्रहणम् । तेषां ब्रह्मलोकादपि विरक्तत्वेन तत्रा.. नर्थित्वात् । इतिशब्दार्थमाह-इत्येषेति ॥ ११ ॥ इति श्रीमदानन्दज्ञानविरचितप्रश्नोपनिषद्भाव्यटीकायां प्रथमः प्रभः ॥ १ ॥ अथ द्वितीयः प्रश्नः। प्राणोऽत्ता प्रजापतिरित्युक्तम् । तस्य प्रजापतित्वमत्तत्वं चा- स्मिशरीरेऽवधारयितव्यमित्ययं प्रश्न आरभ्यते- अथ हैनं भार्गवो वैदर्भिः पप्रच्छ । भगवन्क- त्येव देवाः प्रजां विधारयन्ते कतर एतत्प्रका- शयन्ते कः पुनरेषां वरिष्ठ इति ॥ १ ॥ अथानन्तरं ह किलैन भार्गवो वैदर्भिः प्रपच्छ । हे भगवन्कत्येव देवा प्रजा शरीरलक्षणां विधारयन्ते विशेषेण धारयन्ते । कतरे बुद्धी. न्द्रियकर्मेन्द्रियविभक्तानामेतत्प्रकाशनं स्वमाहात्म्यमख्यापनं प्रकाशयन्ते कोऽसौ पुनरेषां वरिष्ठः प्रधान कार्यकरणलक्षणानामिति ॥ १ ॥ प्रश्नान्तरस्य प्रथमप्रश्नेन संगतिमाह-प्राणोऽत्तेति । अवधारयितव्यामिति । अत्ता विश्वस्य सत्पतिरित्यत्तृत्वस्यैषोऽग्निस्तपतीत्यारभ्यारा इव रथनामौ प्राणे सर्व प्रतिष्ठि- तम् । प्रजापतिश्चरति गर्भ त्वमेव प्रतिनायस इत्यादिना च प्रजापतित्वस्योत्तरत्र वक्ष्यमाणत्वादित्यर्थः । इदमुपलक्षणं पूर्व गतिश्रवणेन विरक्तस्यापि चित्तकायं विना वक्ष्यमाणात्मज्ञानासिद्धेस्तदर्थ मन्दानां फलविशेषार्थ च प्राणोपासनार्थ प्रश्नद्वयारम्भः। तत्रापि श्रेष्ठत्वात्तृत्वप्रजापतित्वादिगुणनिर्धारणार्थं द्वितीयः प्रश्नः । तदुत्पत्त्यादिनि. र्धारणपूर्वकं तदुपासनविधानार्थं तृतीयः प्रश्न इत्यपि द्रष्टव्यम् । प्रजाशब्देन शरीर. मेव गृह्यते न जीवस्तस्य प्राणधारकत्वेन तद्धार्थत्वामानादित्याह-शरीरेति । विष- तानामिति निर्धारणे षष्ठी । स्वमाहात्म्यख्यापनमिति । अवकाशदानादि- १ क. 'चराणां प्र। २ क. 'थितत्वा' । ३ ख. ग, घ, ङ. च. को वै तेषां । ४ क. 'रस्यैतेन प्रश्ने ।
[२ प्रश्नः ] प्रश्नोपनिषत् । कमाकाशादीनां माहात्भ्यं तस्य ख्यापनं तस्य लोकान्मति प्रकटनं तत्प्रकाशयन्ते कुर्व. न्तीत्यर्थः। पाकं पचतीतिवत् । अवकाशदानादिकं स्वस्वकार्य सर्वलोकप्रकरनं यथा तथा कतरे कुर्वन्तीत्यर्थः ॥ १ ॥ तस्मै स होवाचाऽऽकाशो ह वा एष देवो वायुरमिरापः पृथिवी वाङ्मनश्चक्षुः श्रोत्रं च । ते प्रकाश्याभिवदन्ति वयमेतद्वाणमव. हाय विधारयामः ॥२॥ एवं पृष्टवते तस्मै स होवाच । आकाशो ह वा एष देवो वायुरग्नि- रापः पृथिवीत्येतानि पञ्च महाभूतानि शरीरारम्भकाणि वाअनश्चक्षुः श्रोत्रमित्यादीनि कर्मेन्द्रियबुद्धीन्द्रियाणि ते. कार्यलक्षणाः करणलक्ष- णाश्च ते देवा आत्मनो माहात्म्यं प्रकाश्याभिवदन्ति स्पर्धमाना xअहं- श्रेष्ठताये । कथं वदन्ति । वयमेतद्वांणं कार्यकरणसंघातमवष्टभ्य प्रासाद- मिव स्तम्भादयोऽविशिथिलीकृत्य विधारयामो विस्पष्टं धारयामः । मयेवैकेनायं संघातो ध्रियत इत्येकैकस्याभिप्रायः ॥ २ ॥ एष देव इति । वक्ष्यमाणाभिवदनादिव्यवहारसिद्धयर्थ चेतनत्वं संभावयितुं देव इति विशेषणम् "अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम्" इति न्यायेनाऽऽकाशाय भिमानिदेवताग्रहणार्थम् । तच्च विशेषणं वाय्वादिष्वपि सर्वत्र संबध्यते । वाग्ग्रहणं करें- न्द्रियोपलक्षणार्थं चक्षुरादिग्रहणं ज्ञानेन्द्रियोपलक्षणार्थमिति मत्वाऽऽह-कर्मेन्द्रियेति । कार्यलक्षणाः शरीराकारेण परिणता आकाशादयः । कारणलक्षणानांन्द्रियाणि | माहा- सम्यमिति । आकाशादीनामवकाशदानादिरूपं शरीरधारणैकदेशात्मकं प्रकाश्यं स्वकार्य प्रकाश्य सर्वलोकप्रकटं यथा तथा कृत्वाऽभिवदन्ति, अमितः सर्वत्र कृत्स्नं शरीरधारणं प्रत्येकं वयमेव कुर्म इति वदन्तीत्यर्थः । बाणमिति । बवयोरभेदाद्वाति कुत्सितं गन्धं वहतीति वा [ बाणम् ] । विनाशं गच्छत्तीति वा देशादेशान्तरं गच्छतीति वा बणं अणमेव बाणं कार्यकरणसंघातं शरीरमित्यर्थः ॥२॥ x क. पुस्तकेऽहंपदरहितः पाठः । १ क. घ. इ. "णि च शरीरं धारयन्ते ते तन्मध्ये कर्मेन्द्रियबुद्धान्द्रियाणि शरीरे स्वमाहात्म्य- ख्यापन प्रकाश्यन्ते का । १ क. ग, णं शरीर का ।
१६ आनन्दगिरिकृतटीकासंचलितशांकरभाष्यसमेता- [२ प्रश्नः तान्वरिष्ठः प्राण उवाच । मा मोहमापद्यथाह- मेवैतत्पश्चधाऽऽत्मानं प्रविभज्यैतद्वाणमवष्टाय विधारयामीति तेऽश्रद्दधाना बभूवुः ॥ ३ तानेवमभिमानघतो वरिष्ठो मुख्यः प्राण उवाचोक्तवान् । मा मैवं मोहमापद्ययाविवेकतयाऽभिमानं मा कुरुत यस्मादहमेवैतद्वाणमवष्टभ्य विधारयामि पञ्चधाऽऽत्मानं प्रविभज्य प्राणादिवृत्तिभेदं स्वस्य कृत्वा विधारयामीत्युक्तवति च तस्मिस्तेऽश्रदधाना अप्रत्ययवन्तो बभूवुः कथमेतदेवमिति ॥ ३ ॥ कथमेतदिति । एतत्त्व(द)हमेवैतदित्याशुक्तम् । एवं यथाभूतं कथमित्यर्थः॥३॥ सोऽभिमानादूर्घमुकमत इव तस्मिन्नुत्क्रामत्य- थेतरे सर्व एवोकामन्ते तस्मिश्च प्रतिष्ठमाने सर्वे एव प्रातिष्ठन्ते । तयथा मक्षिका मधुकर- राजानमुत्क्रामन्तं सर्वा एवोत्क्रामन्ते तस्मि श्व प्रतिष्ठमाने सर्वा एवं प्रातिष्ठन्त एवं वाङ्मनश्चक्षुः श्रोत्रं च ते प्रीताः प्राणं स्तुन्वन्ति ॥ ४ ॥ स च प्राणस्तेषामश्रधानतामालक्ष्याभिमानार्वभुत्क्रपत इवेदमु- स्क्रान्तवानिव * सरोषानिरपेक्षस्तस्मिन्नत्क्रामति यद्वृत्तं तदृष्टान्तेन प्रत्यक्षी करोति । तस्मिन्नुत्क्रामति सत्यथानन्तरमेवेतरे सर्व एव प्राणा. श्चक्षुरादय उत्क्रामन्त उच्चक्रमिरे । तस्मिंश्च प्राण प्रतिष्ठमाने तूष्णी भवत्यनुत्कामति सति सर्व एव प्रातिष्ठन्ते तूष्णीं व्यवस्थिता अभूवन् । तत्तत्र यथा लोके मक्षिका मधुकराः स्वराजानं मधुकरराजानमुत्क्रामन्न प्रति सर्वा एवोत्क्रामन्ते तस्मिंश्च प्रतिष्ठमाने सर्वा एव प्रातिष्ठन्ते प्रति- तिष्ठन्ति । यथाऽयं दृष्टान्त एवं वाङ्मनश्चक्षुः श्रोत्रं चेत्यादयस्त उत्सृ- ज्याश्रधानतां बुद्ध्वा प्राणमाहात्म्यं प्रीताः प्राणं स्तुन्वन्ति स्तुत्र- तिः॥४॥ * सरोषस्लादिति वक्तुं युक्तम् । १ क. च. ति चास्मि । २ घ. च. मुत्क्राम । ३ क. 'मुस्कामत इवोत्क्रामतीवे' । च. भुरकामत इवोत्क्रान्त । ४ क. 'मन्त्युच्चक्रमुः । त* । ५ क. तद्यथा।
: [ २ प्रमः] प्रश्नोपनिषत् । १७ उत्क्रान्तवानिवेति । अत्यन्तोत्क्रान्त्यभाषादिवशब्दः । निरपेक्ष इति । स्वय. मेवेत्यर्थः । दृष्टान्तेनेति । तत्र यथे(तद्यथे)ति वक्ष्यमाणेनेत्यर्थः ॥ ४ ॥ कथम्- एषोऽमिस्तपत्येष सूर्य एष पर्जन्यो मघवानेष वायु- रेष पृथिवी रयिर्देवः सदसच्चामृतं च यत् ॥ ५ ॥ एष प्राणोऽग्निः संस्तपति ज्वलति । तथैष सूर्यः सन्प्रकाशते । तथैष पर्जन्यः सन्वर्षति । किंच मघषानिन्द्रः सन्प्रसाः पालयति जि- घांसत्यसुररक्षांसि । एष वायुरावहप्रवहादिभेदः। किंचैष पृथिवी राय- देवः सर्वस्य जगतः सन्मूर्तमसदमूर्त चामृतं च यदेवानां स्थितिकारणं किं बहुना ॥ ५॥ सूर्यः सन्निति । तपतीत्यनुषङ्गः । संतापयतीत्यर्थः । आवहप्रवहादीति । आव- हादयः सप्त वायुगुणास्तथाभूतः सन्मेघाञ्ज्योतिश्चकादींश्च वहतीति शेषः । एष देवः पृथिवी सन्सर्वस्य जगतो धारयिता रयिश्चन्द्रः सन्स पुष्णातीत्यर्थः ॥ ५ ॥ अरा इव रथनाभौ प्राणे सर्व प्रतिष्ठितम् । कचो यजूषि सामानि यज्ञः क्षत्रं ब्रह्म च ॥ ६ ॥ अरा इव रथनाभौ श्रद्धादि नामान्तं स स्थितिकाले प्राण एवं प्रतिष्ठितम् । तथों यजूंषि सामानीति त्रिविधा मन्त्रास्तत्साध्यश्च यज्ञः क्षत्रं च सर्वस्य पालयितृ ब्रह्म च यज्ञादिकर्मकर्तृत्वेऽधिकृतं चैवैष प्राणः सर्वम् ॥ ६ ॥ श्रद्धादीति। प्राणाच्छू द्धां खं वायुज्योतिराप इत्यादिना वक्ष्यमाणषोडशकलात्मक इत्यर्थः । ब्रह्म चेति । ब्राह्मगजातिरित्यर्थः । शब्दार्थमाह-यज्ञादीति । अधिकृतं सर्वमेवेत्यन्वयः ॥ ६ ॥ किंच- प्रजापतिश्चरसि गर्ने त्वमेव प्रतिजायसे । तुज्य प्राण प्रजास्त्विमा बलि हरन्ति यः प्राणैः प्रतितिष्ठसि ॥७॥ यः प्रजापतिरपि स त्वमेव गर्ने चरसि पितुर्मातुश्च प्रतिरूपः सन्म- * अत्र प्रतिशब्दष्टीकायां प्रशब्दश्चाधिकः । - १ क. किंच ब° । २ क. वै शरीरं स्थि'।
- १८ आनन्दगिरिकृतटीकासंचलितशांकरभाष्यसमेता- [२ प्रश्नः ] विजायसे मजापतित्वादेव मागेव सिद्धं तव * मातृपितृत्वं सर्वदेहदेखा- कृतिच्छद्मनकः प्राणः सर्वात्माऽसीत्यर्थः । तुभ्यं त्वदर्थं या इमा मनु. प्याद्याः प्रजास्तु हे प्राण चक्षुरादिद्वारैलि हरन्ति । यस्त्वं प्राणैश्च- क्षुरादिभिः सह प्रतितिष्ठसि सर्वशरीरेष्वतस्तुभ्यं बलिं हरन्तीति युक्तम्। भोक्ता हि यतस्त्वं तथैवान्यत्सर्वं भोज्यम् ॥ ७॥ किंचेति । यः प्रजापतिविराटसोऽपि त्वमेवेत्यन्वयः । पितुर्गर्भे रेतोरूपेण मातु- गैर्भ पुत्ररूपेण यश्चरति पश्चात्तयोरेव प्रतिरूपः सन्सदृशः सन्यः प्रजायते स त्वमेव प्रमायस इत्यन्वयः । प्रतिशब्दार्थ उक्तः-प्रतिरूपः सन्निति । ननु प्राणस्य पुत्र- रूपत्वमेवोक्तं न तु * पितृमातृरूपत्वं तत्कस्मादत आह~-प्रजापतित्वादेवति । तस्य सर्वात्मत्वादित्यर्थः । निष्कृष्टार्थमाह-सर्वदेहेति । अत्रापि निष्कृष्टार्थमाह - भोक्ता हीति । अतस्तवैवेत्यतःशब्दाध्याहारेण योज्यम् ॥ ७ ॥ किंच- देवानामसि वह्नितमः पितॄणां प्रथमा स्वधा । ऋषीणां चरितं सत्यमथर्वाङ्गिरसामासि ॥ ८॥ देवानामिन्द्रादीनामसि भवसि त्वं वह्नितमो हविषां प्रापयितृतमः । पितृणां नान्दीमुखे श्राद्धे या पितृभ्यो:दीयते स्वधाऽनं सा देवधान- मपेक्ष्य प्रथमा भवति । तस्यों अपि पितृभ्यः प्रापयिता त्वमेवेत्यर्थः । किंचर्षीणां चक्षुरादीनां प्राणानामाङ्गिरसामङ्गिरसभूतानामयणा तेषामेव 'प्राणो वाऽर्वा' इति श्रुतेः । चरितं चेष्टितं सत्यमवितथं देहधारणाधुपकारलक्षणं त्वमेवासि ॥ ८ ॥ हविषां प्रापयितृतम इति । वह्निशब्दो वहनाद्वनिरिति यौगिक इत्यर्थः । मथमा भवतीति । यज्ञादिदैवे(व)कर्मणि प्रथमं नान्दीमुखश्राद्धस्यावश्यकर्तव्य- त्वात्सा प्रथमेत्यर्थः । ऋष गताविति धातोर्ज्ञानार्थत्वादृषिशब्दस्य ज्ञानजनकचक्षुराय- र्थत्वमित्यर्थः । अङ्गिरसभूतानामिति । प्राणामावेऽङ्गानां शोषदर्शनात्तेषामनिरसत्व मित्यर्थः । मुख्यप्राणस्याथर्वत्वं श्रुत्याऽमिहितं यद्यपि तथाऽपि चक्षुरादीनामपि तदंश- त्वादथर्वशब्दार्थत्वमिति भावः ॥ ८ ॥ * मध्यमपदलोपी समासः । . क. °च्छन्न एकः । २ क. पितॄणां । ३ घ. च. "पितॄणां । ४ क. च. 'प्रदान । ५ ख. ग, घ, ङ, स्यापि । - .
[२ प्रश्नः ] प्रश्नोपनिषत् । १९ किंच- इन्दस्त्वं प्राण तेजसा रुद्रोऽसि परिरक्षिता । त्वमन्तरिक्षे चरसि सूर्यस्त्वं ज्योतिषां पतिः ॥ ९ ॥ इन्द्रः परमेश्वरस्त्वं हे प्राण तेजसा वीर्येण रुद्रोऽसि संहरञ्जगत् । स्थितौ च परि समन्तादक्षिता पालयिता परिरक्षिता त्वमेव जगत: सौम्येन रूपेण । त्वमन्तरिक्षेऽजस्रं चरस्युदयास्तमयाभ्यां सूर्यस्त्व- मेव च सर्वेषां ज्योतिषां पतिः॥९॥ इहेन्द्रशब्देन परमेश्वरत्वमुच्यते मघवानित्यनेन विन्द्र उक्त इति मेदमाह-इन्द्रा परमेश्वर इति । वीर्येण संहारसामर्थनेत्यर्थः । सौम्यनेति । विष्ण्वादिरूपेणे- त्यर्थः॥९॥ यदा त्वमभिवर्षस्यथेमाः प्राणते प्रजाः । आनन्द- रूपारितष्ठन्ति कामायान्नं भविष्यतीति ॥ १० ॥ यदा पर्जन्यो भूत्वाऽभिवर्षसि त्वमथ तदाऽन्नं प्राप्येमाः प्रजाः प्राणते प्राणचेष्टां कुर्वन्तीत्यर्थः । अथवा प्राण ते तवेमाः प्रजाः स्वात्म- भूतास्त्वदन्नसंवर्धितास्त्वदभिवर्षणदर्शनमात्रेण चाऽऽनन्दरूपाः सुखं प्राप्ता इव सत्यस्तिष्ठन्ति । कामायेच्छातोऽन्नं भविष्यतीत्येवमभिप्राय: ॥ १० ॥ ॥१०॥ किंच- वात्यस्त्वं प्राणकऋषिरना विश्वस्य सत्पतिः। वयमायस्य दातारः पिता त्वं मातरिश्व नः ॥ ११ ॥ प्रथमजत्वांदन्यस्य संस्कर्तुरभावादसंस्कृतो व्रात्यस्त्वम् । स्वभावत एंव शुद्ध इत्यभिप्रायः । हे प्राणैकऋषि स्त्वमाथर्वणानां प्रसिद्ध एकर्षिना- माऽमिः सन्नत्ता सर्वहविषाम् । त्वमेव विश्वस्य सर्वस्य सतो विद्यमा. नस्य पतिः सत्पतिः । साधुर्वा पतिः सत्पतिः । वयं पुनराधस्य तवा. दनीयस्य हविषो दातारः । त्वं पिता मातरिश्व हे मातरिश्वन्नोऽस्मा- कम् । अथवा मातरिश्वनो वायोस्त्वम् । अतश्च सर्वस्यैव जगतः पितृत्वं सिद्धम् ॥ ११ ॥ असंस्कृत इति । संस्कारहीनो व्रात्य इति स्मृतेरित्यर्थः । अनेन स्वतःशुद्धत्वं १ ग. श्वन, अः, अकारो ब्रह्मविष्णुश्वेलर्थान्तरं नो स्मा' ।
आनन्दगिरिकृतटीकासंचलितशीकरभाष्यसमेता- [२ प्रश्नः ] विवक्षितमित्याह-स्वभावत एवेति । मातरिश्चति । मातरिश्व न इत्यत्र नलोप- छान्दस इत्यर्थः । वायोस्त्वमिति । पितेत्यनुषङ्गः । अस्मिन्व्याख्याने वायुमात्रा पितृत्वादस्मदादिसर्वपितृत्वमनुक्तं स्यादत आह-अतश्चेति । अस्मदादिसर्वजनक- स्वाद्वायोस्तज्जनकस्याऽऽकाशात्मनः प्राणस्य सर्वजनकत्वं सिद्धमित्यर्थः ॥ ११ ॥ किं बहुना- या ते तनूर्वाचि प्रतिष्ठिता या श्रोत्रे या च चक्षुषि । या च मनसि संतता शिवां तां कुरु मोत्क्रमीः ॥ १२ ॥ या ते त्वदीया तनूर्वाचि प्रतिष्ठिता वक्तृत्वेन वदनचेष्टां कुर्वती ।या श्रोत्रे या च चक्षुषि या च मनसि संकल्पादिव्यापारेण संतता समनु- गता तनूस्तां शिवां शान्तां कुरु मोरक्रमीरुत्क्रमणेनाशिवां मा कार्षी- रित्यर्थः ॥ १२॥ वाचि प्रतिष्ठितेति । वाच्यपानरूपा तनूः प्रतिष्ठिता । श्रोत्रे व्यानरूपा । चक्षुषि प्राणरूपा । मनसि समानरूपा। 'स प्राणस्तच्चक्षुः स व्यानस्तच्छ्रोत्रं सोऽपानः सा वाक्स समानस्तन्मनः' इति श्रुतेरित्यर्थः । उत्क्रमणेनेति । प्राणोत्क्रमणे सत्यपानाद्यामिका वागादिरूपा तनूरशिवा कार्यायोग्या स्यादित्यर्थः ॥ १२ ॥ किंबहुना- प्राणस्येदं वशे सर्व त्रिदिवे यत्प्रतिष्ठितम् । मातेव पुत्रान्रक्षस्व श्रीश्च प्रज्ञां च विधेहि न इति ॥१३॥ इत्यथर्ववेदीय प्रश्नोपनिषदि द्वितीयः प्रश्नः ॥ २॥ अस्मिल्लोके प्राणस्यैव वशे सर्वमिदं यत्किंचिदुपभोगजातं त्रिदिवे तृतीयस्यां दिवि च यत्प्रतिष्ठितं देवाग्रुपभोगलक्षणं तस्यापि प्राण एवे- शिता रक्षिता । अतो मातेव पुत्रानस्मारक्षस्व पालयस्व । त्वनिमित्ता हि ब्राहम्यः क्षात्रियाश्च श्रियस्तास्त्वं श्रीश्च श्रियश्च प्रज्ञा च त्वस्थि- तिनिमित्तां विधेहि नो विधत्स्वेत्यर्थः । इत्येवं सर्वात्मतया वागादिभिः प्राणैः स्तुत्या गमितमहिमा प्राणः प्रजापतिरत्तेत्यवधृतम् ॥ १३ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमद्गोविन्दभगवत्पूज्यपाद- शिष्यश्रीमच्छंकरभगवतः कृतौ प्रश्नोपनिषद्भाष्ये द्वितीयः प्रश्नः॥२॥ १ क. त्मना यो वा । २ क. 'मानः स प्रजापतिरेबेत्य ।
[१ प्रश्नः]
प्रश्नोपनिषत् ।
२१
ब्राम्य इति । ऋगादिमन्त्ररूपा ब्राम्यः श्रियः । 'ऋचः सामानि यजूपि ।
सा हि श्रीरमृता सताम्' इति श्रुतेः। क्षात्व्यः प्रसिद्धा धनाद्यैश्वर्यरूपाः । अस्मिन्मश्ने
निर्धारित गुणं संगृह्याऽऽह-इत्येवमिति । इदं वरिष्ठत्वादेरुपलक्षणम् ॥ १३ ॥
इत्यानन्दज्ञानविरचितप्रश्नोपनिषद्भाष्यटीकायां द्वितीयः प्रश्नः ॥ २ ॥
अथ तृतीयः प्रश्नः।
२
अथ हैनं कौसल्यश्चाऽऽश्वलायनः पप्रच्छ । भग-
वन्कुत एष प्राणो जायते कथमायात्यस्मिञ्शरीर
आत्मानं वा प्रविभज्य कथं प्रातिष्ठते केनोक-
मते कथं बाह्यमभिधत्ते कथमध्यात्ममिति ॥ १ ॥
अथ हैनं कौसल्यश्चाऽऽश्वलायनः पप्रच्छ । प्राणो ह्येवं प्राणैर्निर्धा.
रिततत्वैरुपलब्धमहिमाऽपि संहतत्वात्स्यादस्य कार्यत्वमतः पृच्छामि ।
भगवन्कुतः कस्मात्कारणादेष यथावधृतः प्राणो जायते । जातश्च कथं
केन वृत्तिविशेषेणाऽऽयात्यस्मिशरीरे । किंनिमित्तकमस्य शरीरग्रहण-
मित्यर्थः। प्रविष्टश्च शरीर आत्मानं वा प्रविभज्य प्रविभागं कृत्वा कथं
केन प्रकारेण प्रातिष्ठते प्रतितिष्ठति । केन वा सिविशेषेणास्माच्छरी-
रादुत्क्रमत उत्क्रामति । कथं बाह्यमधिभूतमधिदेवतं चाभिधत्ते धारयति
कथमध्यात्मामिति ॥१॥
एवं प्रजापतित्वात्तृत्वादिगुणजातं निर्धार्य प्राणस्योत्पत्त्यादि निर्धारयस्तदुपासनां
विधातुं प्रश्नान्तरमवतारयति-अथति । वैदर्भिप्रश्नानन्तरमित्यर्थः । प्राणैरिति ।
यैर्वागादिप्राणैराकाशादिभिश्च प्राणस्य तत्त्वमुपलब्धं तैरित्यर्थः । प्राणस्य पूर्वोक्तम-
हिमत्वादेवोत्पत्तिशङ्कामावात्कुत इति प्रश्नानुपपत्तिमाशङ्कयाऽऽह-अपि संहत-
त्वादिति । अनेकात्मकत्वात्सावयवत्वादित्यर्थः । शरीरग्रहणामिति । शरीरप्रवेश
इत्यर्थः । प्रातिष्ठित इति । आप्रश्लेषादीर्घत्वम् ॥ १ ॥
तस्मै स होवाचातिप्रश्नान्पृच्छसि ब्रह्मि-
ष्ठोऽसीति तस्मात्तेऽहं बवीमि ॥ २ ॥
१ क. प्राणैयेषं निर्धारिततत्व उप । २ ख. निर्धारिततत्त्व उप। ३ घ. ऊ. 'तला
उप । ४ क. "दैवं चा । च. दैवं वाऽमि । ५ क. "ति धारयतीति शेषः ॥१॥
.. २२ : निन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेवा- [३ प्रश्नः] एवं पृष्टस्तस्मै स होवाचाऽऽचार्यः प्राण एव तावदुर्विज्ञेयत्वाद्वि- षमप्रश्नाहिस्तस्यापि जन्मादि त्वं पृच्छस्यतोऽतिप्रश्नान्पृच्छसि । ब्रह्मि. ठोऽसीत्यतिशयेन त्वं ब्रह्मविदतस्तुष्टोऽहं तस्मात्ते तुभ्यं ब्रवीमि यत्पृष्टं शृणु ॥ २॥ विषमेति । विषमं दुर्घटं यथा तथा प्रश्नाई इत्यर्थः । अतिप्रश्नानिति । त्वद- न्येषां प्रश्नानतिक्रान्तानन्यदीयप्रश्नागोचरान्सूक्ष्मप्रश्नान्प्रष्टव्यानित्यर्थः । अतिशये- नेति । अपरब्रह्मापेक्षयाऽतिशयितमुख्यानापियासि त्वमिति प्रोत्साहाय स्तीतीति भावः ॥ २॥ आत्मन एष प्राणो जायते । यथैषा पुरुषे छायैत- स्मिन्नेतदाततं मनोकतेनाऽऽयात्यस्मिञ्शरीरे ॥३॥ आत्मनः परस्मात्पुरुषादक्षरात्सत्यादेष उक्तः प्राणो जायते । कथा मित्यत्र दृष्टान्तः । यथा लोक एषा पुरुषे शिरःपाण्यादिलक्षणे निमित्ते छाया नैमित्तिकी जायते तद्वदेतस्मिन्ब्रह्मण्येतत्माणाख्यं छायास्थानीय- मनृतरूपं तत्त्वं सत्ये पुरुष आततं समर्पितमित्येतत् । छायेव देहे मनो. कृतेन मनःसंकल्पेच्छादिनिष्पन्नकर्मनिमित्तेनेत्येतद्वक्ष्यति हि पुण्येन पुण्यमित्यादि । तदेव सक्तः सह कर्मणेति च श्रुत्यन्तरात् । आयात्या- गच्छत्यस्मिन्शरीरे ॥३॥ 'दिव्यो ह्यमूर्तः पुरुषः, अक्षरात्परतः परः । एतस्माज्जायते प्राणः । इति मन्त्रावत्र संवादयितुं तद्गतविशेषणान्याह-परस्मादिति । अत्र दृष्टान्त इति । तस्यानृतत्वार्थ दृष्टान्त उच्यत इत्यर्थः । छायेति । प्रतिबिम्बादिरूपेत्यर्थः । एत- स्मिन्निति । प्रकृते जनक आत्मनि ब्रह्मणीत्यर्थः । कथमायातीत्यस्योत्तरमाह- मनोकृतेनेति । संधिरार्षः । तदेव सक्त इति । अस्य कर्मिणो मनो यस्मिन्फले निषक्तं संसक्त आसक्तः संस्तदेव फलं कर्मणा सहैतीति श्रुतौ च शरीरग्रहणं कर्म- साध्यमुक्तमित्यर्थः ॥ ३ ॥ यथा सम्राडेवाधिकृतान्विनियुङ्क्ते । एतान्या- मानेतान्यामानधितिष्ठस्वेत्येवमेवैष प्राण इतरान्प्रा- णान्पृथक्पृथगेव संनिधत्ते ॥ ४ ॥ १ क. इत्येवं । २ ख. घ. ङ. वितं मुख्यं ब्राह्मासि त्व १.३ क. 'देवैष ।.४ ग. मेणैति । ५ क. सक्तमास।
प्रश्नोपनिषत् । [ ३ प्रश्नः] यथा येन प्रकारेण लोके राजा सम्राडेव ग्रामांदिष्वधिकृतान्विान- युङ्क्ते । कथम् । एतान्यामानेतान्यामानधितिष्ठस्वति । एवमेव यथा दृष्टान्तः । एष मुख्यः प्राण इतरान्माणांश्चक्षुरादीनात्मभेदांश्च पृथक्पृ. थगेव यथास्थानं संनिधत्ते विनियुक्ते ॥ ४ ॥ आत्मानं वा प्रविभज्येत्यस्योत्तरं दृष्टान्तेनाऽऽह-यथेति । इतरानिति । इतरांश्चक्षुरादीन्यथास्थानमक्ष्यादिगोलकस्थाने संनिधत्ते संनिधापयति । आत्मभेदा- न्मुख्यप्राणस्य वृत्तिमेदान्प्राणापानादीन्पायवादिषु नियुक्त इति । अत्र श्रुत्या नेत्रा- दीनां चक्षुरादिस्थानानां स्पष्टत्वात्तानि नोक्तानीति द्रष्टव्यम् ॥ ४ ॥ तत्र विभाग:- पायूपस्थेऽपानं चक्षुःश्रोत्रे मुखनासि- कायां प्राणः स्वयं प्रातिष्ठते मध्ये तु समानः । एष ह्येतद्भुतमन्नं समं नयति तस्मादेताः सप्तार्चिषो भवन्ति ॥ ५॥ पायूपस्थे पायुश्चोपस्थश्च पायूपस्थं तस्मिन्नपानमात्मभेदं मूत्रपु- रीषाद्यपनयनं कुर्वस्तिष्ठति संनिधत्ते । तथा चक्षुःश्रोत्रे चक्षुश्च श्रोत्रं च चक्षुःश्रोत्रं तस्मिंश्चक्षुःश्रोत्रे । मुखनासिकाभ्यां च मुखं च नासिका च ताभ्यां मुखनासिकाभ्यां च निर्गच्छन्माणः स्वयं सम्राट्स्थानीयः प्रातिष्ठते प्रतितिष्ठति । मध्ये तु पाणापानयोः स्थानयोनीभ्याम् । समा. नोऽशितं पीतं च समं नयतीति समानः । एष हि यस्माद्यदेतदुतं भुक्तं पीतं चाऽऽत्माग्नौ प्रक्षिप्तमन्नं समं नयति तस्मादशितपीतेन्धनादग्नेरौद- द्धृिदयदेशं प्राप्तादेताः सप्तसंख्याका अर्चिषो दीप्सयो निर्गच्छन्त्यो भवन्ति * शीर्षण्यः । प्राणद्वारा दर्शनश्रवणादिलक्षणरूपादिविषयप्र. काशा इत्यभिमायः ॥ ५॥ यः कुस्तिष्ठति तं संनिधत्ते विनियुक्त इत्यर्थः । मध्य इति । प्राणापानयो- मध्ये या नाभिस्तस्यां समानः प्रतितिष्ठतीत्यन्वयः । समानशब्दार्थमुक्तं श्रुत्यारूढ़ करोति-एष हीति । आत्मामाविति । आत्मनि शरीरेऽग्निर्जाठराग्निस्तस्मिन्नि- त्यर्थः । एवं हुतपदवलादन्नस्य हविष्वं जाठराग्नेराहवनीयत्वं प्रक्षेपस्य होमत्वं चोक्त्वा * शीर्षण्यप्राणद्वारेति क्वचित्पाठः स एव साधीयान् । १ ख, ग, घ, ङ. च, मायाधि । ।
- २४.. आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [ ३ प्रमः] शीर्षण्यसप्तद्वारान्निर्गतानां ज्ञानानामर्चिष्वं वक्तुं तस्मादेता इति वाक्यं व्याचष्टे- तस्मादिति । प्राप्तादिति । अग्नेरौदर्यादेतोः प्राप्तपरिपाकादन्नरसादन्ननाडीद्वारा देह प्राप्त नाडीस्थानं हृदयं प्राप्तादन्नरसादित शेषः । दर्शनद्वयं श्रवणद्वयं प्राणद्वयं मुखं चैकं रसना(न)मिति सवार्चिषः । जाठराग्निपाकजन्यानरसबलेन दर्शनादीनां प्रवृत्ते- स्तेषु तदर्चिष्ट्वारोप इत्यर्थः ॥ ५ ॥ हृदि ह्येष आत्मा । अत्रैतदेकशतं नाडीमां तासां शतं शतमेकैकस्यां द्वासप्ततिसप्ततिः प्रतिशा- खानाडीसहस्राणि भवन्त्यासु व्यानश्चरति ॥ ६ ॥ हृदि ह्येष पुण्डरीकाकारमांसपिण्डपरिच्छिन्ने हृदयाकाश एष आ- स्माऽऽत्मना संयुक्तो लिङ्गात्मा । अत्रास्मिन्हृदय एतदेकशतमेकोत्तरशतं संख्यया प्रधाननाडीनां भवतीति । तासां शतं शतमेकैकस्याः प्रधान- नाड्या भेदाः । पुनरपि द्वासप्ततिसप्तति द्वे सहस्र अधिके सप्ततिश्च सहस्राणि । सहस्राणां द्वासप्ततिः प्रतिशाखानाडीसहस्राणि प्रतिप्रति- नाडीशतं संख्यया प्रधाननाडीनां सहस्राणि भवन्ति । आसु नाडीषु व्यानो वायुश्चरति । व्यानो व्यापनात् । आदित्यादिव रश्मयो हृदयात्सर्वतोगामिनीभिर्नाडीभिः सर्वदेहं संव्याप्य व्यानो वर्तते । संधिस्कन्धमर्मदेशेषु विशेषेण प्राणापा पानवृत्त्योश्च मध्य उद्भूतवृत्ति: थवत्कर्मकर्ता भवति ॥ ६ ॥ व्यानस्य नाडीरूपं स्थानं दयितुं नाडीनामुत्पत्तिस्थानं वक्तुमाह-हृदीत्या- दिना । हृदयस्य लिङ्गात्मस्थानयोक्तेः। प्रयोजनं तु केचिद्योगिनो नाभिकन्दस्य नाड्युत्पत्तिस्थानत्वं वदन्ति तन्निराकरणम् । तत्रैव लिङ्गात्मनः संचरणार्थी नाड्यः । नाडीभिः प्रत्यवसृप्येत्यादिश्रुतेः । तश्च लिङ्गात्मनो हृदय स्थानत्वे तत्संचारमार्ग- भूतनाडीनामपि तदेवोत्पत्तिस्थानम् । अन्यथा प्रदेशान्तरस्थनाडीनां तन्मार्गस्वायोगात् । द्वासप्ततिसहस्राणि हृदयात्पुति तमामातिष्ठन्त इति श्रुतेश्चेति । लिङ्गशरीरस्याऽऽत्म- त्वमात्मोपाधित्वेन तद्योगादित्याह-- आत्मना संयुक्त इति । यस्माल्लिङ्गात्मा हृदि वर्तते तत्संचारमार्गभूतनाडीनामा तदेव स्थानमित्याह--अत्रेति । नाडीनां शरीरविधारकत्वेन प्रसिद्धत्वं वक्तु तदिति विशेषणम् । तस्य स्पष्टत्वाद्भाष्ये न व्याख्यातम् । एकैकस्या नाड्याः शाखानाड्यः शतं शतं भवतीत्याह-- १ क. च, स्मस । २ क. मा जीवात्मेत्यर्थः । अ । ३ ग, घ, ङ, लि।४ क. णार्थ ना। ५ क. च, "त्मसं । ६ खे. 'ख्यानम् ।
[ ३ प्रश्नः] प्रश्नोपनिषत् । २५ तासामिति । ततश्च शतोत्तरमयुतं शाखानाड्य इत्यर्थः । शाखानाडीनां चे प्रत्येक द्वयधिकसप्ततिसहस्राणि प्रतिशाखानाड्यः सन्तीत्याह-पुनरपीति । सप्ततिरिति पदस्य संख्याप्रधानत्वे . सहस्त्राणीत्यस्य तेन सामानाधिकरण्यायोगात्षष्ठयन्ततया व्याचष्टे-सहस्राणामिति । प्रतिशाखेति । प्रतिशाखाभ्यो निर्गता अल्पशाखाः प्रतिशाखाः । द्वासप्ततिरित्यत्र वीप्सार्थमाह-प्रतिप्रतीति । प्रतिप्रतिनाडीशतमित्य- नन्तरमेकैकस्या इत्यनुषङ्गः । तथा च प्रतिप्रतिनाडीशतमेकैकस्या नाड्याः प्रतिशाखा- नाडीनां द्वासप्ततिसहस्राणि मवन्तीत्यर्थः । तथा च मूलशाखाप्रतिशाखानाड्यो मिलित्वा द्वासप्ततिकोट्यो द्वासप्ततिलक्षाण दशसहस्रं च शतद्वयमेका च भवन्तीति द्रष्टव्यम् । एवं नारुिक्त्वा व्यानस्य तत्स्थानत्वमाह-आस्विति । सूक्ष्मासु नाडीषु विद्यमानस्य व्यानस्य कथं व्यापकत्वमित्याशङ्कय नाडीनां सर्वदेहव्याप्तेस्तत्स्थस्यापि व्यानस्य तद्वारा व्याप्तिरित्याह-आदित्यादिवेति । यथाऽऽदित्याद्विनिर्गत्य रश्मयः सर्वतो गतास्तथा हृदयात्सर्वतोगामिन्यो नाडयस्ताभिरिति योज्यम् । सा- मान्येन सर्वशरीरव्याप्तावपि विशेषस्थानमाह-संधीति । प्राणेति । उच्छासनिःश्वास- योः प्राणापानवृत्योरभावे व्यानवृत्तिरुद्भवतीत्यर्थः । वीर्यवदिति । अथ यः प्राणा- पानयोः संधिः स व्यान इत्युक्त्वा यानि वीर्यवन्ति कर्माणि बलवता पुरुषेण साध्या- नि धनुरायमनादीनि तान्यप्राणन्ननपानन्करोतीति श्रुत्यन्तरोत्तेरित्यर्थः ॥१॥ अथकयोर्ध्व उदानः पुण्येन पुण्यं लोकं नयति पापेन पापमुक्षायामेव मनुष्यलोकम् ॥ ७ ॥ अथ या तु तत्रैकशतानां नाडीनां मध्य ऊर्धगा सुषुम्नाख्या नाडी तयैकयोर्ध्वः सन्नुदानो वायुरापादतलमस्तकवृत्तिः संचरन्पुण्येन कर्मणा शास्त्रविहितेन पुण्यं लोकं देवादिस्थानलक्षणं नयति प्रापयति । पापेन तद्विपरीतेन पापं नरकं तिर्यग्योन्यादिलक्षणम् । उभाभ्यां समपधा- माभ्यां पुण्यपापाभ्यामेवं मनुष्यलोकं नयतीत्यनुवर्तते ॥ ७ ॥ इदानीमुदानस्य स्थानं वदन्केनोत्क्रमत इत्यस्योत्तरमाह-या विति । उभाभ्यां समप्रधानाध्यामिति । अनेन पुण्याधिक्ये देवलोकं पापाधिक्ये नरकलोकं नयतीति पूर्व व्याख्यातं भवति ॥ ७ ॥ आदित्यो ह वै बाह्यः प्राण उदयत्येष ह्येनं- । . . . १ क, "णि षट्सह।
आनन्दगिरिकृतढीकासंबलितशीकरभाष्यसमेता- [५ प्रश्नः ] चाक्षुषं पाणमनुगृहानः। पृथिव्यां या देवता सैषा पुरुषस्यापानमवष्टल्यान्तरा यदाकाशः स समानो वायुानः ॥ ८॥ आदित्यो ह वै प्रसिद्धो ह्याधिदैवतं बाह्यः प्राणः । स एष उदयत्युद्ग- च्छति । एष धेनमाध्यात्मिकं चक्षुषि भवं चाक्षुषं प्राणं प्रकाशनानुगृ- ह्वानो रूपोपलब्धौ चक्षुष आलोकं कुर्वमित्यर्थः । तथा पृथिव्यामभि. मानिनी या देवता प्रसिद्धा सैषा पुरुषस्यापानमपानवृत्तिमवष्टभ्याऽs- कुष्य षशीकृत्याप एवापकर्षणेनानुग्रहं कुर्वती घर्तत इत्यर्थः । अन्यथा हि शरीरं गुरुत्वात्पतेसमावकाशे चोद्गच्छेत् । यदेतदन्सरा मध्ये द्यावा. पृथिव्योर्य आकाशस्वस्थो घायुराकाश उच्यते । मञ्चस्थवत् । सं समानः समानमनुगुलानो वर्तत इत्यर्थः । समानस्यान्तराकाशस्थत्व- सामान्यात् । सामान्येन च यो बायो वायुः स व्याप्लिसामान्यायानो व्यामपनुगृह्वानो धर्तत इत्यभिप्रायः ॥ ८ ॥ कथं बाह्यमभिधत्ते कथमध्यात्ममित्यस्योत्तरमाह--आदित्य इति । या देवता प्रसिदेति । अग्निदेवता पृथिव्येव यस्याऽऽयतनमग्निलोंक इति श्रुतेरग्निसंबद्धा(न्धा!) वगमादित्यर्थः। अवष्टभ्येत्यनन्तरमध्याहारेण वाक्यं पूरयति-अध एवापकर्षणेनेति । वृत्ताय स्तम्भादेरुर्ध्वमुखेन निखातस्य परितो विद्यमानरज्जुभिरध एवापकर्षणेन पतनामा- ववदध एवापकर्षणेन शरीरस्य पतनामावः सिध्यतीत्यर्थः । अनुग्रहमिति । शरीरधार• गलक्षणमित्यर्थः । अन्यथेति। पृथिवीदेवताया विधारणाकरणे गुरुत्वादपानेनाध आक. र्षणाञ्च सावकाशे भूम्यादिपतन प्रतिबन्धकाभावस्थले पतेदित्यर्थः । अन्तरा यदाकाश इति वाक्यं ध्याचष्टे-यदेतदिति । यदिति क्लीवत्वं छान्दंसमित्याह-य आकाश इति । मश्वस्थवदिति । मञ्चाः कोशन्तीत्यत्र मञ्चशब्देन मञ्चस्था यथा लक्ष्यन्ते तथाऽऽकाश. शब्देन तस्स्थो वायुलक्ष्यत इत्यर्थः । स समान इति । सामानाधिकरण्यमनुप्राह्यानुग्रा. हकयोरभेदोपचारादित्याह-समानमनुगृहान इति । एवमुत्तरत्राप्यनुग्रहे हेतुमाह- समानस्यति । शरीरान्तराकाशस्थत्वं समानस्य द्यावापृथिव्यन्तराकाशस्थत्वं बाहवायो- रिस्यन्तराकाशस्थत्वं तयोस्तुल्यमित्यर्थः । वायुान इत्यत्र त्वन्तराकाशस्थत्वं विशेषर- हितं वायुसामान्येन समुच्चीयत इति न पूर्वाभेद इत्याह-सामान्येनेति ॥ ८ ॥ १ क, च. वृत्यर्थ । २ क. च. "स्थत्वविशेषरहितो वा । ख, ग. 'स्थस्ववि' ।
[.प्रश्नः] प्रश्नोपनिषत् । २७ तेजो ह वा उदानस्तस्मादुपशान्ततेजाः पुनर्भवमिन्द्रियैर्मनसि संपद्यमानैः ॥ ९ ॥ यद्वाचं ह वै प्रसिद्ध सामान्यं तेजस्तच्छरीर उदान उदानं वायुम- नुगृह्णाति स्वेन प्रकाशेनेत्यभिप्रायः । यस्मातेजास्वभावो बाहतेजोनु- गृहीत उत्क्रान्तिकर्ता तस्माद्यदा लौकिका पुरुष उपशान्ततेजा भवति । उपशान्तं स्वाभाविक तेजो यस्य सः । तदा तं क्षीणायुषं मुमूर्षु विद्यात् । स पुनर्भवं शरीरान्तरं पतिपद्यते । कथम् । सहेन्द्रियैर्मनसि संपद्यमानः प्रविशद्भिर्वागादिभिः ॥९॥ तेजो ह वा इति वाक्यं व्याचष्टे-यदाह्यामिति । पूर्वमादित्यात्मकं विशेषतेन उक्तमत्र तेजःसामान्यमुच्यत इति न पौनरुक्त्यमित्याह-सामान्यं तेज इति । एव- मादित्यादिना रूपेण मुख्यप्राणस्य प्राणापानसमानोदानव्यानानुप्राहकत्वोक्त्याऽध्यात्म प्राणादिवृत्त्यनुग्राहकत्वमुक्तम् । आदित्याग्न्याकाशसामान्यवायुतेजोरूपी सन्यासम- घिदेवमादित्यादिकं धारयतीत्युक्तम् । तद्रूपेणावस्थानमेव तद्धारणं प्राणापानाद्यनुग्रहेण चक्षुराधनुमहोतेस्तद्वारा तद्ग्राह्याधिभूतविधारकत्वमुक्तम् । स प्राणस्तश्चक्षुः सोऽपानः सावाक्स व्यानस्तच्छ्रोत्रं स समानस्तन्मनः स उदानः स वायुरिति श्रुत्यन्तरे चक्षुरादी- नां प्राणाद्यात्मकत्वोक्तेश्चक्षुराउनुग्राहकत्वोक्त्या चक्षुरादिरूपाध्यात्मविधारकत्व बोक- मितिकथं बायमाभिधत्ते कथमध्यात्ममित्यस्योत्तरमुक्तमिति द्रष्टव्यम् । तेजस उदानवान- नुग्राहकत्वं व्यतिरेकप्रदर्शनेन साधयति-यस्मादिति । यस्मात्तेजःस्वमाव उत्क्रान्तिक- दप्युदानवायुर्बाह्यतेजोनुगृहीतः सन्नेव शरीरे वर्तते तस्माज्जीवजीवनहेतुकर्मोपरमे बाह्य- तेजोनुग्रहाभावेनोपशान्ततेजा मुमूर्षर्भवतीत्यन्वयः । स्वाभाविकामिति । जाठराग्निकृतं हस्तादिना स्वशरीरस्पर्शे सत्युष्णत्वेनोपलभ्यमानं तेज इत्यर्थः । भवत्युत्पद्यत इति मवः शरीरमित्यर्थः । शरीरान्तरप्रतिपत्तिरात्मनोऽक्रियस्य न भवतीति शङ्कते- कथमिति । इन्द्रियोपाधिवशादित्याह-सहेति । मनसि संपथमानरिन्द्रियैः सह शरीरान्तरं प्रतिपद्यत इति पूर्वेणान्वयः ॥ ९ ॥ यच्चित्तस्तेनेष प्राणमायाति प्राणस्तेजसा युक्तः । सहाऽऽत्मना यथासंकल्पितं लोकं नयति ॥ १० ॥ मरणकाले यश्चित्तो भवति तेनैव चित्तेन संकल्पेनेन्द्रियैः सह प्राणं 8 १. वै । स्व. ग. च. वाव । २ ख. घ. हु. वा। च. वाव । ३ क. च. वाव । ४ च. 'न्तिदोऽप्यु। ५ ख, ग, घ, ङ. 'वनजी । ६ क, नैष जीवन्धित्ते । . - आनन्दगिरिकृतष्टीकासंबलित शांकरभाष्यसमेता- [३ प्रश्नः मुख्यपाणवृत्तिमायाति । मरणकाले क्षीणेन्द्रियत्तिः सन्मुख्यया माण- वृत्त्यैवावतिष्ठत इत्यर्थः । तदाऽभिवदन्ति ज्ञातय उच्छ्वसिति जीव- तीति । स च प्राणस्तेजसोदानवृत्या युक्तः सन्सहाऽऽत्मना स्वामिना -भोक्त्रा स एवमुदानवृत्त्यैव युक्तः प्राणस्तं भोक्तारं पुण्यपापकर्मवशाय. यासंकल्पितं यथाभिप्रेतं लोकं नयति प्रापयति ॥ १० ॥ उक्तशरीरान्तरप्राप्तिमेवोत्क्रान्तिक्रमप्रदर्शनेन स्पष्टीकर्तुं यश्चित्त इत्यादि वाक्यं तदपेक्षिताध्याहारं कुर्वन्न्याचष्टे ~ मरणति । यश्चित्त इति । यदेव देवतियंगादि शरीरं सम्यगिति चित्ते यस्य स यश्चित्त इत्यर्थः । प्राणं प्रत्यागमनं लोकव्यवहारेण प्रथयति-तदेति । तेजसा तेजोनुगृहीतयोदानवृत्त्येत्यर्थः । एवंमूतो भोक्तो(क्त्र)दान- संयुक्तः प्राणः कं नयतीत्यपेक्षायां तमेव भोक्तारं नयतीति वदन्वाक्यार्थमाह-स एवमिति । एवकारस्य तमेवेत्यन्वयः । यथासंकल्पितमिति । कर्मज्ञानादिसाधना. नुष्ठानदशायां संकलितं मरणकाले वासनारूपेण पुनरमिव्यक्तं लोकं देवादिशरीर- मित्यर्थः॥ १०॥ य एवं विद्वान्प्राणं वेद । न हास्य प्रजा हीयतेऽमृतो भवति तदेष श्लोकः ॥ ११ ॥ यः कश्चिदेवं विद्वान्यथोक्तविशेषणैर्विशिष्टमुत्पत्त्यादिभिः प्राणं वेद जानाति तस्येदं फलमैहिकमामुष्मिकं चोच्यते । न हास्य नैवास्य वि- दुषः प्रजा पुत्रपौत्रादिलक्षणा हीयते छिद्यते । पतिते च शरीरे प्राण- सायुज्यतयाऽमृतोऽमरणधर्मा भवति । तदेतस्मिन्नर्थे संक्षेपाभिधायक एष श्लोको मन्त्रो भवति ॥ ११ ॥ एवं प्राणस्वरूपं निर्धार्थ तदुपासनं विधत्ते- यः कश्चिदिति । उत्पत्त्यादि. मिर्ययोक्तविशेषणैर्विशिष्टम् । आत्मनः प्राणो जायते, मनाकृताभ्यां धर्माधर्माभ्यां शरीरं गृह्णाति । आत्मानं च पञ्चधा विभज्य पायूपस्थयोरपानं, स्वस्वरूपं पाणं चक्षुःश्रोत्रयोः, नाभौ समानं, नाडीसमूहे व्यानम् , उदानं च सुषुम्नायां स्थाप- यति । उदानेनोत्क्रामति, बाखैः प्राणापानव्यानसमानोदानानुप्राहकैरादित्यपृथिवीदे- वताकाशवायुतेजोरूपैरधिदेवमादित्यादिकृतानुग्रहैरध्यात्म चक्षुर्वाक्श्रोत्रमनस्त्वक्चक्षुरा- दिग्राह्यमधिभूतं च धारयति । स एवोदानवृत्त्या मोक्त्रा च युक्तो भोक्तारं लोका- न्तरं नयति । स एव च वरिष्ठः प्रजापतिरत्ता चेत्येवं प्राणं वेदेत्यर्थः । ऐहिकफल- मुक्त्वाऽऽमुष्मिकफलमाह-पतित इति । अमृतत्वं च नात्र मुख्यं किंतु प्राणसायुज्य- १ कच. दा हि व । २ क. घ. यन्तेऽभू । ३ क. खः गः घ, ङः प्रजाः । ४ क. इ. यते हीयन्ते छिद्यन्ते । प० । ख. ग. 'घ. "यन्ते छिद्यन्ले । ।
[प्रश्नः] २९ , PAN :]. प्रश्नोपनिषत् । मेल्याह-प्राणेति । इदं कामिनः, निष्कामस्य तु चित्तकात्र्यम् । तच्छुद्धिद्वारा मुख्यमेवामृतत्वं भवतीति द्रष्टव्यम् ॥ ११ ॥ उत्पधिमापति स्थानं विक्षुत्वं चैव पञ्चधा । अध्या- मं चैव प्राणस्य विज्ञायामृतमश्नुते विज्ञायामृतम- श्नुत इति ॥ १२॥ इत्यथर्ववेदीयप्रश्नोपनिषदि तृतीयः प्रश्नः ॥ ३ ॥ उत्पत्ति परमात्मनः प्राणस्याऽऽयतिमागमनं मनोकृतेनास्मिञ्शरीरे स्थान स्थिति च पायूपस्थादिस्थानेषु विभुत्वं च स्वाम्यमेव सम्राडिव (१) प्राणवृत्तिभेदानां पञ्चधा स्थापनम् । बाह्यमादित्यादिरूपेणाध्यात्म चैव चक्षुराद्याकारणावस्थानं विज्ञायैवं प्राण(?)ममृतमश्नुत इति । विज्ञायामृतमश्नुत इति द्विवचनं प्रश्नपरिसमाप्त्यर्थम् ॥ १२ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमद्गोविन्दभगवत्पूज्यपादशिष्य. श्रीमच्छंकरभगवतः कृतौ प्रश्नोपनिषद्भाष्ये तृतीयः प्रश्नः ॥३॥ आयतिमिति । आयातिमित्यर्थः । ह्रस्वत्वं छान्दसम् ॥ १२ ॥ इति श्रीमदानन्दज्ञानविरचितप्रश्नोपनिषद्भाष्यटीकायां तृतीयः प्रश्नः ॥ ३ ॥ अथ चतुर्थः प्रश्नः। . अथ हैनं सौर्यायणी गार्ग्यः पप्रच्छ । अथ हैनं सौर्यायणी गायः पप्रच्छ प्रश्नत्रयेणापरविद्यागोचरं सर्व परिसमाप्य संसारं व्याकृतविषयं साध्यसाधनलक्षणमनित्यम् । अथे. दानीमसाध्यसाधनलक्षणममाणममनोगोचरमतीन्द्रियविषयं शिवं शान्त- मविकृतमक्षरं सत्यं परविद्यागम्यं पुरुषाख्यं सबाह्याभ्यन्तरमजं वक्त- व्यमित्युत्तरं प्रश्नत्रयमारभ्यते । एवं कर्मविद्यागतिश्रवणेन विरक्तस्य प्राणविद्यया चित्तैकोयतच्छुद्धिमतोऽत एव साधनचतुष्टयवतो मुख्याधिकारिणः परविद्योक्त्यर्थं प्रश्नत्रयमारमते-अथ हैनमिति । विद्ययैवामृतत्वोक्तरुत्तरप्रभारम्भो ‘व्यर्थ इत्यत आह-प्रश्नत्रयेणेति । संसार- १ क. ख. घ.. च. "थमविष'।२ क. च. कारभ्यं त । ३ क.च. 'रभ्यते । ४ क. चं. - ३० आनन्दगिरिकृसटीकासंचलितशांकरभाष्यसमेता- [ : प्रमः मिति । अतो न तन्मुख्यममृतत्वमित्यर्थः । तस्य संसारत्वे व्याकृतत्वं हेतुमाह- व्याकृतविषयमिति । व्याकृताश्रयं । तदन्तर्गतमित्यर्थः । साध्यसाधनलक्षण मिति । साध्यसाधनसंबन्धेन लक्ष्यतेऽमिव्यज्यत उत्पद्यत इति तथा । यद्वाऽपरब- ह्मणः माणस्य साध्यसाधनोभयात्मकत्वाद्वा तथा । तस्मादनित्यमित्यतोऽपि संसार. त्वमित्यर्थः । वक्ष्यमाण आत्मा तु न तथेत्याह-असाध्येत्यादिना । अतीन्द्रि. यविषयमिति । इन्द्रियविषयत्वमतिक्रान्तमित्यव्याकृतमकार्यमित्यर्थः । तत्र हेतु:- अपाणमिति । प्राणागोचरत्वेन तदात्मककर्मेन्द्रियागोचरत्वं मनोगोचरत्वेन ज्ञाने. न्द्रियागोचरत्वमुक्तम् । सुखरूपतामाह-शिवमिति । निवृत्तानर्थत्वमाह-शान्त- मिति । तत्र मावविकाररहितत्वं हेतुमाह-अविकृतमिति । अनेनोत्पत्तिपरिणा- मवृद्धयो निषिद्धाः । अक्षरमित्यपक्षयविनाशौ निषिद्धौ । उत्पत्तिनिषेधेन तदनन्तर. माव्यस्तित्वं निषिद्धम् । अत्र सर्वत्र हेतुः-सत्यमिति । कालत्रयेऽप्येकरूपमित्यर्थः । अथ परा यया तदक्षरमधिगम्यते ' इत्यादि वाक्यं मानमाह-परविद्या. गम्यमिति । दिव्यो ह्यमूर्तः पुरुष इति मन्त्रमप्याह-पुरुषाख्यमिति । कथं, पुरु. पशब्दोदितं पूर्णत्वं बाह्याभ्यन्तरवस्तुभेदादत आह-सबाह्येति । स एव बाह्याम्य. न्तरात्मकस्तयतिरेकेण तदुभयं नास्तीत्यर्थः । प्रश्नत्रयमिति । यद्यपि पञ्चमः प्रश्नोऽपरविद्याविषय एव प्रणवोपासनविषयत्वात्तथाऽपि तस्य क्रममुक्तिफलत्वेन निर्विशेषात्मन्येव सविशेषब्रह्ममाप्तिद्वारा पर्यवसानात्सोऽपि परविषय एवेति भावः । तत्र सुदीप्तादिवानेर्यस्मात्परादक्षरात्सर्वे भावा विस्फुलिङ्गा इव जायन्ते तत्र चैवापियन्तीत्युक्तं द्वितीये मुण्डके, के ते सर्वे भावा अक्ष- राद्विभज्यन्ते । कथं वा विभक्ताः सन्तस्तत्रैवापियन्ति । किंलक्षणं वा तदक्षरमिति । एतद्विवक्षयाऽधुना प्रश्नानुद्भावयति- भगवन्नेतस्मिन्पुरुषे कानि स्वपन्ति कान्यस्मिञ्जा- ग्रति कतर एष देवः स्वमान्पश्यति कस्यैतत्सुखं भवति कस्मिन्नु सर्वे संप्रतिष्ठिता भवन्तीति ॥ १ ॥ भगवन्नेतस्मिन्पुरुषे शिरःपाण्यादिमति कानि करणानि स्वपन्ति स्वापं कुर्वन्ति स्वव्यापारादुपरमन्ते । कानि चास्मिञ्जाग्रति जागर- णमनिद्रावस्था स्वव्यापारं कुर्वन्ति । कतरः कार्यकरणलक्षणयोरेष देवः स्वमान्पश्यति । स्वमो नाम जाग्रदर्शनानिवृत्तस्य जाग्रवदन्त:- शरीरे यदर्शनम् । तत्कि कार्यलक्षणेन देवेन निर्वय॑ते किंवा करण- १ क. च. °माणात्मा । २ क. ब. "यमबि । ३. क. 'वस्थाश्या । ४ क. 'न्ति स्वव्यापा- रान्कुर्वन्तीत्यर्थः । क° । ५ क. क्षणानां य एष ।
[४ प्रभः ] प्रश्नोपनिषत् । लक्षणेन केनचिदित्यभिप्राय:। उपरते च जाग्रत्स्यमव्यापारे यत्प्रसन्न निरायासलक्षणमनाबाधं सुखं कस्यैतद्भवति । तस्मिन्काले जाग्रत्स्वम- व्यापारादुपरताः सन्तः कस्मिनु सर्वे सम्यगेकीभूताः संप्रतिष्ठिताः । मधुनि रसवत्समुद्रं प्रविष्टनद्यादिवच्च विवेकानहींः प्रतिष्ठिता भवन्ति संगताः संप्रतिष्ठिता भवन्तीत्यर्थः । ननु न्यस्तदात्रादिकरणवत्स्वव्यापा- रादुपरतानि पृथक्पृथगेव स्वात्मन्यवतिष्ठन्त इत्येतद्युक्तं कुतः प्राप्तिः सुषप्तपुरुषाणां करणानां कस्मिंश्चिदेकीभावगमनाशङ्कायाः प्रष्टुः । युक्रुव त्वाशङ्का । यतः संहतानि करणानि स्वाम्यर्थानि परतन्त्राणि च जाग्रद्विषये। तस्मात्स्वापेऽपि संहतानां पारतन्त्र्येणैव कस्मिंश्चित्संग तिाय्येति तस्मादाशङ्कानुरूप एव प्रश्नोऽयम् । अत्र तु कार्यकर- संघातो यस्मिश्च प्रलीनः सुषुप्तप्रलयकालयोस्तद्विशेषं बुभुत्सोः स को नु स्यादिति कस्मिन्सर्वे संप्रतिष्ठिता भवन्तीति ॥१॥ - एवं सामान्येन प्रश्नत्रयस्यापि संबन्धमुक्त्वा चतुर्थप्रश्नस्य प्रातिस्विकसंबन्धमाह- तत्रेति । यस्मादित्यस्य विलक्षणं वा तदक्षरमिति तच्छब्देनान्वयः । उक्तमिति । यथा सुदीप्तात्पावकाद्विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपास्तथाऽक्षराद्विविधाः सोम्य भावाः प्रजायन्ते सत्र चैवापियन्तीति मन्त्रेणेत्यर्थः । एतद्विवक्षयेति । मन्त्रोक्तार्थ. विस्तरानुवादित्वादस्य ब्राह्मणस्येति मावः । अत्राक्षरस्वरूपस्यैव विवक्षितत्वात्तन्नि- र्णयार्थ कानि स्वपन्तीत्यादिप्रश्नो जागरितादिना धर्मिविशेषनिर्धारणार्थः । अन्यथा तेषामात्मधर्मत्वशङ्कायां तन्निविशेषत्वनिर्णयासिद्धेः । भावानां स्वरूपविभागादिवि. वक्षा तु ताः पुनः पुनरुदयतः प्रचरन्तीति दृष्टान्तबलाचौकीमावस्ततो विभागेन निर्ममनमित्यक्षर एकीभूतानां पृथिव्यादिकार्यकरणानामक्षराद्विभागप्रतीतेस्तावन्मात्रेण भाष्य उक्तेति द्रष्टव्यम् । तत्राऽऽद्यमश्नेन जागरितस्य धर्मी पृष्टः । स्वप्ने यस्य व्यापा- रोपरमे जागरितं नास्ति स तस्य धर्म इति (धर्मीति ?) निश्चेतुं शक्यत्वात् । द्विती. येनावस्थात्रयेऽपि शरीररक्षणं कस्य धर्म इति पृष्टम् । जाग्रतोऽनुपरतव्यापारस्य प्राणस्य देहरक्षकत्वोपपत्तेः । तृतीयेन स्वप्नस्य धर्मी पृष्टः । चतुर्थेन सुषुप्तिधी । सुखमहमस्वाप्समिति सुघोत्थितस्य परामर्श सुखस्य सुषुप्तिसंबन्धावगमात् । पञ्चमप्र- अनावस्थात्रयविनिर्मुक्तमवस्थात्रयपर्यवसानभूमिरूपं तुरीयमक्षरं पृष्टमिति विवेकः । कार्येति । कार्य शरीरं प्राणो वा, करणानि मनादीनि । पदार्थानुक्त्वा वाक्यार्थ ७ १ ग. च. मुद्रप्र । २ क, 'तिष्ठा भ। ३ क, च. थकार । ४ क. ख. ङ, च. किंवा ली। च, सौम्य । ६ ग, तादीनां च । ७ ख, ग, घ, ङ. मश। ८ क. च. र्यकार ।
आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [४ प्रश्नः पिण्डीकृत्याऽऽह-तत्किमिति । तत्पदं पूर्वापरयोः संवध्यते । प्रसन्नामिति । विषयसंपर्ककालुष्यराहित्यम् । [निरायासेति ] 1 निरायासेन विक्षेपामावमात्रेण लक्ष्यतेऽभिव्यज्यते निर्वातस्थापितदीपालोकवदनाबाधं विनाशरहितं सत्यमात्मस्वरूप. मित्यर्थः । एतदिति । सुषुप्ते प्रकाशमानं सुखमहमस्वाप्समितिपरामर्शमूलभूतमित्या र्थः । तस्मिन्काल इति । यद्यपि पञ्चमेन प्रश्नेन तुरीयं पृच्छयते न सुषुप्तिस्तथाऽपि संसारदशायां सर्वोपाधिरहिततुरीयावस्थाभावेन विवेकत एव तस्य प्रदर्शनीयत्वात्त- स्सुषुप्तावज्ञाने सत्यपीतरोपाधिराहित्येन तत्रैव सर्वोपाधिविवेककरणेन तुरीयप्रदर्शनस्य सुस्वात्तस्मिन्काले तुरीयप्रदर्शनार्थं सर्वसंप्रतिष्ठोक्तेति । सम्यगेकीभूता इति । तदात्म मावमाप्त्या विलयं गता इत्यर्थः । मधुनि रसवदिति । यथा नानापुष्परसा मधुन्येकी भवन्ति तद्वदित्यर्थः । विवेकामावमात्रेण दृष्टान्तावुक्ती, तत्र सर्वात्मना लयाभावादित्याह-विवेकानहीं इति । पूर्व विवेकानौंः सन्तः पश्चात्संप्रतिष्ठिता इत्यर्थः। न चानेनापि प्रश्नेनाविद्यावासनामिरविविक्तः सौषुप्त एव पृष्ट इति शङ्कयम् । पर आत्मन्यक्षरे संप्रतिष्ठन्त इति वक्ष्यमाणत्वात्सुषुप्ते चाज्ञान एवं संप्रतिष्ठानादेष हि द्रष्टेत्याद्यज्ञानप्रतिबिम्बस्य भोक्तुरपि संप्रतिष्ठाया अमिधास्यमानत्वादच्छायमि- त्यज्ञानामावोक्तेश्च तुरीयमेव पृष्टमिति मावः। ननु कार्यकारणव्यतिरिक्त संप्रतिष्ठाना- धिकरणे सामान्येन कस्मिंश्चिदवगते कस्मिन्संप्रतिष्ठिता इति. विशेषप्रश्नो घटते । न च तस्यावगतिरस्ति । न च संप्रतिष्ठानस्य साधिकरणत्वेन सामान्येनाधिकरणा- वगतिरस्तीति वाच्यम् । तत्तदुपादानानामेवाचेतनानां तदधिकरणत्वेन तदतिरिक्तस्य चेतनस्यासिद्धि(द्धे)रिति शङ्कते-नन्विति । दानं नाम सस्यादिलवनार्थः शस्त्रविशेषः। स्वात्मनीति । सोपादान इत्यर्थः । सुषुप्तपुरुषाणां करणानामिति । सुषुधपुरुः पाणां यानि करणानि तेषामित्यर्थः । एष हि द्रष्टेत्यादिना पुरुषाणामप्येकीभावस्य वक्ष्यमाणत्वाद्वा पुरुषाणामित्युक्तम् । अस्मिन्पक्षे करणानां चेति चकारो द्रष्टव्यः । प्रष्टुः शङ्कायाः कुतः प्राप्तिरित्यन्वयः । संहतानां परार्थत्वेन व्याप्तस्वात्संहतत्वेन हेतुना परस्मिश्चेतने सामान्येनावगते प्रष्टुर्विशेषप्रश्नो युक्त इत्याह-युक्तव त्विति । स्वाम्यानि संघातामिमान्यानीत्यर्थः । आशङ्कानुरूप इति । मनसि विद्यमाना- शङ्कानुरुपो वाचिकः प्रश्न इत्यर्थः । अत्र संप्रतिष्ठानविशिष्ट आत्मा न पृष्टः किंतु तदुपलक्षितः केरल आत्मा पृष्ट इति वाक्यतात्पर्यमाह-अत्र विति । मवन्तीत्य- नन्तरं पृष्टमिति शेषः ॥ १ ॥ तस्मै स होवाच । यथा गार्य मरीचयोऽर्क- स्यास्तं गच्छतः सवी एतस्मिस्तेजोमण्डलः एकी भवन्ति । ताः पुनःपुनरुदयता प्रचरन्त्येवं ह १च. तिठोक्तिः । सो KA १४ प्रश्नः] प्रश्नोपनिषत् । वै तत्सर्वं परे देवे मनस्येकी अवति । तेन तर्दोष पुरुषो न शृणोति न पश्यति न जिघ्रति न रस- यते न स्पृशते नाभिवदते नाऽऽदचे नाऽऽनन्द- यते न विसृजते नेयायते स्वपितीत्याचक्षते ॥२॥ तस्मै स होवाचाऽऽचार्यः । शृणु हे गार्य यत्त्वया पृष्टम् । यथा मरीचयो रश्मयोऽर्कस्याऽऽदित्यस्यास्तमदर्शनं गच्छतःसर्वा अशेषत एत. मिस्तेजोमण्डले तेजोराशिरूप एकी भवन्ति विवेकानईत्वमविशेषता गच्छन्ति, मरीचयस्तस्यैवार्कस्य ताः पुनः पुनरुदयत उद्गच्छतःप्रचरन्ति विकीर्यन्ते । यथाऽयं दृष्टान्तः। एवं ह वै तत्सर्व विषयेन्द्रियादिजातं परे प्रकृष्टे देवे द्योतनवति मनसि चक्षुरादिदेवानां मनस्तन्त्रत्वात्परो देवी मनस्तस्मिन्स्वनकाल एकी भवति, मण्डले मरीचिवदविशेषतां गच्छति' जिजागरिषोश्च रश्मिवन्मण्डलान्मनस एव प्रचरन्ति(ति) स्वव्यापा. राय प्रतिष्ठन्ते(ते) । यस्मात्स्वप्नकाले श्रोत्रादीनि शब्दाद्युपलब्धिकर- णानि मनस्येकीभूतानीव करणव्यापारादुपरतानि तेन तस्मात्तर्हि तस्मि स्वापकाल एष देवदत्तादिलक्षणः पुरुषो न शृणोति न पश्यति न जिघ्रति न रसयते न स्पृशते नाभिवदते नाऽऽदत्ते नाऽऽनन्दयते न विसृजते नेयायते स्वपितीत्याचक्षते लौकिकाः॥२॥ यत्त्वया पृष्टं तच्छृण्वित्यन्वयः । तस्यैवार्कस्य ता मरीचय इत्यन्वयः । विकी- पन्त इति । दशदिक्षु क्षिप्यन्त इत्यर्थः । स्वप्नेऽपि चक्षुरादिव्यापारोपलब्धेरेकीमा. वोऽसिद्ध इत्याशय वासनामयेन्द्रियव्यापार पब्धावपि बह्मशब्दादिश्रवणादिव्या- पारामावेन तं साधयितुं तेनेति वाक्य व्याख्याति-यस्मादिति । श्रोत्रादीनामेकी- भावो नाम स्वस्वव्यापार विहाय मनस्तन्त्रतयाऽवस्थानमात्रं न तु मुख्यमकत्वं तेषां मनःप्रकृतिकत्वाभावेनाप्रकृतौ तदनुपपत्तेरित्यमित्येवकारः प्रयुक्तः। नेयायत इति। इणो गत्यर्थस्य यन्तस्य रूपमेतन्न गच्छतीत्यर्थः ॥ २ ॥ प्राणामय एवैतस्मिन्पुरे जाग्रति । गार्हपत्यो ह वा एषोऽपानो व्यानोऽन्वाहार्यपचनो, यद्गार्हपत्यात्म- णीयते प्रणयनादाहवनीयः प्राणः ॥ ३ ॥ .क. ग. प . अविणे ! १ ख. प. छ. क्षिपन्त ।
आनन्दगिरिकतटीकासंघलितांकरभाष्यसमेता- [४ प्रः] सुष्मवत्सु श्रोत्रादिषु करणेष्वेतस्मिन्पुरे. नवद्वारे देहे पाणामयः पाणादिपञ्चवायवोऽग्नय इघानयो जाग्रति । अग्निसामान्य हि। गाई- पस्यो ह पा एषोऽपानः । कथमित्याह-यस्माद्गार्हपत्यादग्नेरग्निहोत्रकाल इसरोऽपिराहवनीया मणीयते प्रणयनात्मणीयतेऽस्मादिति प्रणयनो गाई- पत्योऽधि तथा सुप्तस्यापानवृत्तेः मणीयत इच माणो मुखनासिकाभ्यां संचरत्यत आहवनीयस्थानीय: माणः । ध्यानस्तु हृदयादक्षिणसुपिरदा- रेण निर्गमाइक्षिणदिसंबन्धादन्याहार्यपचनो दक्षिणाभिः॥३॥ कानि स्वपन्तीत्यस्य सविषयाणि बाह्यकरणानि स्वपन्स्युपरमन्तेऽतस्तेषामेव जागरण धर्म इत्युत्तरमुक्त्वा काचि जामतीत्यस्योत्तरमाह-सुसवस्विति । प्राणानामविस्वं गौण- विस्थाह-अश्य इवति । अपामस्थ नाईपस्थरखे यद्वाहपस्थास्पनीयते प्रणयनादितीद वाक्यं व्यवहितमपि हेतुत्वेन थोमयति-यस्मादिति । प्रणयनादिति पदं माहप- स्पविशेषममित्याह-प्रणयनो नाईपत्य इति । तत्महशमाहवनीयः प्राम इति बारवं सादृश्यापिध्यानपूर्फ ध्याचष्टे तथेति । गाईपस्यत्वेनोक्तेऽपानेऽन्तर्गच्छति सति बहिर्मन्प्राणस्तलो निर्गत इव (विव ) लक्ष्यल इबि प्राण आहवनीय इत्यर्थः । परित्यक्तं न्यानोऽवाहार्यपचन इति बाक्यामिदानी म्याचष्टे-ध्यानस्त्विति । छान्दो. ग्वे गायत्रीविद्यायां वस्य बा एतस्य हृदयस्य पञ्च देवसुपय इत्युपक्रष्याथ योऽस्व दक्षिणः सुषिः स व्यानरबस्छ्रोत्रमित्यनेन व्यानस्य दक्षिणमुधिलो निर्गमनमुक्तमित्य. स्यान्वाहार्यपचनसाहश्यं दक्षिणदिक्संबन्धित्वं न्यानस्येलि ध्यानोऽन्याहार्यपचन इत्यर्थः ॥ ३॥ यदुच्छ्वासनिःश्वा साधतावाहुती समं नयतीति स समानः । मनोहचाव यजमान इष्टफलमेवो- दानः स एनं यजमानमहरहर्ब्रह्म गमयति ॥४॥ अत्र च होताऽग्निहोत्रस्य यद्यस्मादुच्छासनिःश्वासावग्निहोबाहुती इस नित्यं द्वित्वसामान्यादेव खेतावाहुती, समं साम्येन शरीरस्थितिमा: पाय नथति यो वायुरनिस्थानीयोऽपि होता चाऽऽहुस्योर्नेतृत्वात् । - १ फ... 'न्य ग्राह गा'।१ क. 'ल इसरामिहोत्रकास इ । ३ क. च. 'त्योऽनिर्यथा त"। ४ ख.प. गीत । ५ ख. म. घ. इ. "क्षिणादि । ६ क. ग. घ. तसंदृष्टमा । ७ क.सुपिराई : सुषिरः स । ९क. "विरता । १ ख ग घ .. व्यासोऽन्वा ।
m [प्रश्नः] प्रश्नोपनिषत् । कोऽसौ स समानः । अतश्च विदुषः स्वापोऽस्यामिहोत्रहवनमेव । तस्मा- द्विद्वान्नाकर्मीत्येवं मन्तव्य इत्यभिप्रायः । सर्वदा सर्वाणि भूतानि विधि-. न्वन्त्यपि स्वपत इति हि वाजसनेयके । अत्र हि जाग्रत्सु प्राणाविषूपसं-, हत्य बाधकरणानि विषयांश्चाग्निहोत्रफलमिव स्वर्ग ब्रह्म जिगमिषर्मनोह.. पाव यजमानो जागर्ति यजमानवकार्यकरणेषु प्राधान्येन संव्यवहारा. स्वर्गमिव ब्रह्म प्रति प्रस्थितत्वाधजमानो मनः कल्यते । इष्टफलं, यागफलमेवोदानो वायुः । उदाननिमित्तत्वादिष्टफलप्राप्तेः । कथम्, स. उदानो मनआख्यं यजयानं स्वमवृत्तिरूपादपि प्रच्याच्याहरहः सुषुप्ति- काले स्वर्गमिव ब्रह्माक्षरंगमयति । अतो यागफलस्थानीय उदानः॥४॥ अत्र चेति । अग्निहोत्रस्य होता होमस्य कर्ता, ऋस्विमुच्यत उत्तरवाक्येने(णे)ति शेषः । भत्रोच्छ्रासनिःश्वासयोराहुतित्वस्व पूर्वमसिद्धत्वेन सिद्धवनिर्देशायोगास समान इति तच्छन्दानन्वयाच वाक्यत्र यं कृत्वाऽन्वयत्रयेण योजयति-यधस्मादिति । उच्छा- सनिःश्वासावित्यनन्तरमाहुती इति पदं भाष्येऽध्याहृत्यैता तावुच्छ्वासनिःश्वासावाहुती आहवनीयाधिकरणाग्निहोत्राहुती [३]व द्धि(द्वि)स्व+साम्यादेवेत्येकोऽन्वयः । अनन्तरं माष्ये तुशब्दश्चार्थे । श्रुतिगत इतिशब्दस्तस्मादित्यर्थे । यस्मादेतावाहुती यस्माचतो समं नयति शरीरस्थितिभावाय साम्पेन नयति प्रवर्तयति यो वायुर्यथाऽग्निहोत्रे होमक- र्ताऽऽहुतिद्वयंमाहवनीयं प्रति समं नयति प्रापयति तद्वत्तस्मादाहुत्योर्नेतृत्वात्स वायुहों- तेति यच्छब्दहोतृशब्दाध्याहारेण द्वितीयोऽन्वयः । कोऽसौ वायुरिति तद्विशेषप्रश्ने स होता वायुः स समान इति तृतीयोऽन्वय इति वियागः । ननु माणाग्नय इत्यत्र सर्वेषां प्राणानामग्नित्वोक्तेः कथमिह समानस्य होतृत्वमुच्यत इत्याशङ्कयोक्तम्- अग्निस्थानीयोऽपीति । अनित्वेनोत्तोऽपीति भावः । होता चेति। चकारोऽवधारणे होतैवेत्यर्थः । आहुतिनेतृत्वादोतृत्वे स्थितेऽग्नित्योतिश्छनिन्यायेनाम्यनमिसमुदाय लाक्षणिकीत्यर्थः । अवस्थात्रयवर्तिनामुच्छ्वासनिःश्वासप्राणानां चाग्निहोत्रावयवत्वसंपाद- नस्य नोपासनं प्रयोजनं निविशेषात्मप्रकरणत्वात्तद्विध्यदर्शनाच्च । किंस्विन्द्रियाण्युप. रमन्ते प्राणा जाग्रतीत्येयं त्वंपदार्थशोधनरूपस्य ज्ञानस्य स्तुतिरेवेत्याह-अतश्चेति । सर्वदेति । वाजसने यके हि वाश्चितः प्राणश्चितश्चक्षुश्चित इत्यादिना सर्वप्राणन्यापा- रेषु प्रत्येकमग्निचितत्वदृष्टिं विधायदृष्टिमतः सर्वाणि भूतान्यस्य स्वापकालेऽपि चयन + अत्र सामान्यादिति युक्तं पठितुम् । १ ख. ग. भ. क. पीसर्थः । हो ।
३६ आनन्दगिरिकृत टीकासंचालितशांकरभाष्यसमेता- [४ प्रश्नः ] कुर्वन्तीति सा दृष्टिः स्तुता तद्वदिहापीत्यर्थः । अत्र हीति । अत्र मनो यजमानः करप्यत इति व्यवहितान्वयः । तत्कल्पनायां हेतुद्वयमाह-यजमानवदिति । हेतुद्वयं साध्यति-जापत्स्विति । अत्र स्वप्नकाले विषयान्करणानि चोपसंहृत्य मनो जागर्ति प्राधान्येन स्वव्यापारं कुर्वद्वर्तते । अग्निहोत्रफलं स्वर्ग जिगमिषुर्यजमान इव सुषुप्ति- काले स्वर्गरूपब्रह्म जिगमिषु च मन इत्यन्वयः । भाष्ये यजमान इत्यनन्तरमिव- शब्दो द्रष्टव्यः । ह वाशब्देन तत्प्रसिद्धमित्युक्तम् । इष्टेति । उदाननिमित्तकमर- णानन्तरं यागादिफलप्राप्तेस्तस्य तन्निमित्तत्वात्कारणे कार्योपचारादुदान इष्टफलत्वेन करप्यत इत्यर्थः । न केवलं मरणद्वारा यागफलप्रापकत्वमुदानस्य किंत्वेतस्यैवाऽऽ. नन्दस्यान्यानि भूतानि मात्रामुपजीवन्तीति श्रुतेः सर्वयागफलानामपि ब्रह्मात्मकत्वात्त. ब्रह्मप्रापकत्वादपि । अहरहरिष्टफलमापकत्वमुदानस्येति प्रश्नपूर्वकमाह-कथमिति । स्वर्गमिवेति । स्वर्गमेवेत्यर्थः । सर्वयागफलात्मकस्वरूपमेव ब्रह्माक्षरं गमयतीत्यर्थः । यद्यप्यहरहब्रह्ममाप्तिन यागसाध्या यागरहितानामपि तत्याप्तेस्तथाऽपि ब्रह्मण एव सर्वयागफलत्वेन तत्मापकस्योदानस्येष्टफलपापकत्वमस्तीति मावः । नचोदानस्य कथं तत्मापकत्वमिति शङ्कयम् । तस्य सुषुम्नानाडीचारित्वेन स मनस्तन्नाडी प्रवेशयंस्तद्गतं ब्रह्म प्रापयतीत्युपपत्तेः ॥ ४ ॥ एवं विदुषः श्रोत्राद्युपरमकालादारभ्य यावत्सुप्तोत्थितो भवति ताव. सर्वयागफलानुभव एव नाविदुषामिवाना येति विद्वचा स्तूयते । न हि विदुष एव श्रोत्रादीनि स्वपन्ते प्राणाग्नयो वा जाग्रति जाग्रत्स्वाम- योमनः स्वातन्त्र्यमनुभवदहरहः सुषप्तं वा प्रतिपद्यते । समानं हि सर्व- प्राणिनां पर्यायेण जाग्रत्स्वमसुषुप्तिगमनपतो विद्वत्तास्तुतिरेक्यमुपपयते । यत्पृष्टं कतर एष देवः स्वप्नान्पश्यतीति तदाह- अत्रैष देवः स्वमे महिमानमनुभवति । यदृष्टं दृष्टमनुपश्यति। श्रुतं श्रुतमेवार्थमनुशृणोति । देशदि- गन्तरैश्च प्रत्यनुभूतं पुनः पुनः प्रत्यनुभवति । दृष्टं चादृष्टं च श्रुतं चाश्रुतं चानुभूतं चाननुभूतं च सच्चासच्च सर्व पश्यति सर्वः पश्यति ॥ ५ ॥ अत्रोपरतेषु श्रोत्रादिषु देहरक्षायै जाग्रत्सु प्राणादिवायुषु, प्राक्सुषु- सिपतिपत्तेः । एतस्मिन्नन्तरालाएष देवोऽकरविभवत्स्वात्मनि संहतो- त्रादिकरणः स्वप्ने महिमानं विभूति विषयविषयिलक्षणमनेकात्मभा- वगमनमनुभवति मतिपद्यते ।
. १ प्रश्नः] प्रश्नोपनिषत् । ननु गार्हपत्यो वा एषोऽपान इत्यारम्य मनो ह वाव यजमान इत्यन्तेन ग्रन्थेन विद्वानकर्मी न भवतीति स्तूयत इत्युक्तमत्त्वेवं तत्राग्निहोत्रादिकर्मप्रतीतेरुदानस्य याग. फलस्थानीयत्वोक्तेस्तु न तत्फलत्वं तत्र कर्माप्रतीतेरत आह-एवं विदुष इति । विद्वत्तेति । श्रोत्रादीनि स्वप्न उपरमन्ते प्राणा एव जाग्रतीत्येवंरूपा विग्रेत्यर्थः । अस्याश्च विद्याया जागरणं श्रोत्रादिबाह्येन्द्रियधर्मः शरीररक्षणं प्राणधर्मों नाऽऽrम- धर्म इत्येवं त्वंपदार्थविवेकरूपत्वात्स्तोतव्यत्वोपपत्तिः । अत एव प्राणजागरणस्यावि- विव] साधारणत्यात्कयं विद्वत्तास्तुतिरित्यपि शङ्का निरस्ता। तस्यैवंभूतविवेकामावा- दिति । ननु विद्याप्रकरणत्वादस्य विदुषः श्रोत्राद्युपरमादिकं सर्व मवतीति विधीयतां किं स्तुत्येत्याशङ्कय विद्वदविद्वत्साधारण्येन स्वयमेव भवतो न विधेयत्वमित्याह- न हीति । विद्वत्तास्तुतिरेवेति । श्रोत्रादिकं परे देवे मनस्येकी भवति प्राणाप्रयो जाप्रतीत्यत्र पदार्थविवेकरूपं ज्ञानं विवक्षितं तज्ज्ञानं गार्हपत्यो वा एषोऽपान इत्या- दिना स्तूयत उक्तप्रकारेणेत्यर्थः। तृतीयप्रश्नोत्तरत्वेन कतर एष इत्यादि सर्वः पश्यती- त्यन्तं व्याचष्टे-यदिति । कतर इति । अत्रेति श्रोतं पदं गृहीत्वा व्याचष्टे- उपरतेष्वित्यादिनाऽन्तराल इत्यन्तेन । अनेकति । विषयिविषयाधनेकमावगम- नमित्यर्थः । इदं च महत्त्वव्याख्यानम् । ननु महिमानुभवने करणं मनोऽनुभवितुस्तत्कथं स्वातन्त्र्येणानुभ- वतीत्युच्यते स्वतन्त्रो हि क्षेत्रज्ञः। नैष दोषः । क्षेत्रज्ञस्य स्वातन्त्र्यस्य मनउपाधिकृतत्वान हि क्षेत्रज्ञः परमार्थतः स्वतः स्वपिति जागर्ति वा। मनउपाधिकृतमेव तस्य जागरणं स्वप्नश्चेत्युक्तं वाजसनेयके-" संधीः स्वप्नो भूत्वा ध्यायतीव लेलालायतीव " इत्यादि । तस्मान्मनसो वि. भूत्यनुभवे स्वातन्त्र्यवचनं न्याय्यमेव । मनउपाधिसहितत्वे स्वप्नकाले क्षेत्रज्ञस्य स्वयंज्योतिष्ट्वं बाध्येतेति केचित् । तन्न । श्रुत्यर्थापरिज्ञान- कृता भ्रान्तिस्तेषाम् । यस्मात्स्वयंज्योतिष्ट्वादिव्यवहारोऽप्यामोक्षान्तः सर्वोऽविद्याविषय एव मनआग्रुपाधिजनितः । स्वप्नद्रष्टुर्जीवस्य स्वातन्त्र्ये वक्तव्ये देवशब्दितमनसस्तदुक्तिः स्वप्नो मनोधर्मो नाss. त्मधर्म आत्मनि तु तदारोपमा लोकस्येति ख्यापनार्थेति शङ्कापरिहाराम्यामाह नन्विति । मनउपाधिकृतमिति । बाह्येन्द्रिययुक्तमनउपाधिकृतं जागरण केवलमन. अपाधिकृतः स्वप्न इत्यर्थः । स्वप्नस्य धीशब्दवाच्यमनःपरिणामत्वात् , स्वप्नो भनेत्रिभुवी सामानाधिकरण्यनिर्देश इति द्रष्टव्यम् । नन्वियं श्रुतिविभून्यनुमान १ क. इति श्रुतिमार' १२ फ. इतिश्रुत्य । ३ ख. ग. घ. ङ. हि भवति क्षेत्र। ४ ख. घ. ङ. सधीयितीव लेलायतीव स हि स्वप्नो भूत्वेत्या । ५ ग. श्रुत्यनुभवने म । ६ च. भवे म । ...
आनन्दगिरिकृतटीकासंचलितशांकरभाष्यसमेता- [प्रश्नः मनःस्वातव्यं वक्तुं न शक्नोति । श्रुत्येन्तरविरोधापत्तेः । अतोऽत्र देवशब्देन क्षेत्रज्ञ एवो. च्यते तस्यैव स्वतः स्वातन्त्र्यमिति शङ्कते-मन इति। स्वयंज्योतिष्वमिति । स्वयंज्यो. ष्ट्रवोधकश्रुतिरित्यर्थः । अन्यथा द्वितीयसत्त्वेऽपि दीपादीनामिव वास्तवस्य तस्य बाधा- भावादित्यत्र किं मनसः सत्त्वे ज्योतिरन्तरस्य मनसो विद्यमानत्वादात्मनः स्वयंज्योति- ष्ट्रबोधनं न शक्यमिति श्रुतेः कार्यस्य बोधनस्य बाधोऽभिप्रेत, उत तद्बोधनरूपकार्य- सिद्धयर्य मनसोऽमावोऽपि विवक्षितः श्रुतौ । ततश्च तत्सत्त्वे श्रुत्यर्थबाध इति वा । नाऽऽयः । मनसि सत्यप्येवं तहाँति वक्ष्यमाणरीत्या मनसो दृश्यत्वेन ज्योतिष्टवायो- गेनाऽऽत्मन एव स्वयंज्योतिष्ठस्य बोधयितुं शक्यत्वादित्याह-तन्नेति । न द्वितीयः। तदानी मनसोऽमावस्तु श्रुत्यर्थ एव न भवतीत्याह-श्रुत्यति । आत्मनि ज्योति- ष्ट्रवोधनात्मकव्यवहारस्य प्रकाश्यादिसापेक्षत्वात्तस्मिन्सत्येव तद्बोधसाधने मनआदी च सत्येव तद्बोधयितुं शक्यते नान्यथेति मनआधभावो न श्रुतौ विवक्षितः, तथा सति तद्बोधनाशक्तरित्याह-यस्मादिति। . यत्र वा अन्यदिव स्यात्तत्रान्योऽन्यत्पश्य मात्रासंसर्गस्त्वस्य भवति " यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन के पश्येत् " इत्यादिश्रुतिभ्यः । अतो मन्दब्रह्मविदामेवेयमाशङ्का न त्वेकात्मविदाम् । नन्वेवं सत्यत्रायं पुरुषः स्वयंज्योतिरिति विशेषणमनर्थकं भवत्यत्रोच्यते । अत्यल्पमिदमु. च्यते । य एषोऽन्तर्हदय आकाशस्तस्मिशेत इत्यन्तहृदयपरिच्छेदे सुतरां स्वयंज्योतिष्वं बाध्येत। सत्यमेवमयं दोषो यद्यपि स्यात्स्वमे केवलतया स्वयंज्योतिष्ट्वेनाधू तावदपनीतं भारस्येति चेन्न । तत्रापि पुरीतति नाडीषु शेत इति श्रुतेः पुरीतति नाडीसंबन्धात्तत्रापि पुरुषस्य स्वयंज्यो. तिष्टेनार्धभारापनयाभिप्रायो भृषैव । कथं तात्रायं पुरुषः स्वयंज्योति- रिति । अन्य शाखात्वादनपेक्षा सा श्रुतिरिति चेन्न। अर्थकत्वस्येष्ट- त्वादेको ह्यात्मा सर्ववेदान्तानामों विजिज्ञापयिषितो बुभुत्सितश्च । तस्माद्युक्ता स्वम आत्मनः स्वयंज्योतिष्ट्वोपपत्तिर्वक्तुम् । श्रुतेर्यथार्थ- तत्त्वप्रकाशकत्वात् । एवं तर्हि शृणु श्रुत्यर्थ, हित्वा सर्वमभिमानं, न त्वभिमानेन वर्षशतेनापि श्रुत्ययों ज्ञातुं शक्यते सबैः पण्डितमन्यैः । तत्र मानमाह-यत्र वेति । द्वितीयाभावे व्यवहारो नास्तीत्यत्रापि मान. माह-मात्रेति । दृश्यं मात्राशब्दार्थः । असंसर्ग इति च्छेदः । दृश्यासंसर्गे १ क. च. त्मना ज्यो । २ ख. ग. घ. डं, 'बछेदकारणे सु। ६ खं. ग. प. ङ, च. रातनाडी । ४ ख. ग, घ, ङ. धादत्रा। - AAImmube ४. प्रश्नः ] प्रश्नोपनिषत् । ३९ सुषुष्ठौ विशेषविज्ञानाभावोक्त्या द्वितीयाभावे व्यवहारो नास्तीत्यर्थः । अतो न द्वितीयः कल्पः संभवतीत्याह-अत इति । ननु यदि स्वयंज्योतिष्ट्वबोधनार्थं मन- आधभावो नापेक्षितो जागरितेऽपि तर्हि तद्बोधनसंभवादत्रेति स्वप्नवाचिविशेषणमन- कमिति शङ्कते-नन्विति । किं विशेषणवलान्मनसोऽभावः सिषाधयिषित उत विशेष[ण]स्य गतिमात्रं पृच्छयते । नाऽऽद्यः । मनसोऽमावाङ्गीकारेऽप्यन्तर्हृदयाकाशस्य तत्कृतपरिच्छेदस्य च श्रुतिसिद्धत्वेन त्वन्मतेऽपि तत्र स्वयंज्योतिष्ट्वोधनासंमवाद्विशे. षणानर्थक्यं तुल्यमित्याह-अत्रोच्यत इति । परिच्छेदोऽधिकोन्नत इति. तरपः प्रयोगः । स्वयंज्योतिष्ट्वमिति । तद्बोधनमित्यर्थः । यथाश्रुते वास्तवस्य तस्य बाध. स्यानाशङ्कयत्वादिति । यद्यपि स्वप्नेऽन्तर्हृदयाकाशसत्त्वात्सम्यक्स्वयंज्योतिष्वं बोध- यितुं न शक्यमिति दोषस्तथाऽपि स्वप्ने मनसोऽमावेन तद्बोधनप्रतिबन्धकस्याभावा- दूरविप्रकर्षेण स्वयंज्योतिष्ट्वं स्वप्ने बोधयितुं शक्यमिति तद्विशेषणमर्थवदिति शङ्कते-सत्यामिति । स्यादित्यनन्तरं तथाऽपीति शेषः । केवलतयेति । मनसोऽ.. मावेनेत्यर्थः । भारस्योति । प्रतिबन्धकस्येत्यर्थः । शेषबोधनं तु सुषुवे भविष्यती त्यभिप्रायः । एवं तर्हि सुषुप्ते सर्वस्याप्यभावमाश्रित्य सम्यग्बोधनं विवक्षणीयं न च तत्संभवति । तत्रापि बहुप्रतिबन्धकस्य विद्यमानत्वादित्याह-न । तत्रापीति । सुषुप्तेऽपीत्यर्थः । तत्रापीति । स्वप्नेऽपीत्यर्थः । सुषुप्ते चेत्सर्वभारापनयः स्यात्तदा स्वप्नेऽर्धभारापनयाभिप्रायो वर्णयितुं शक्यते न च तदस्ति । अतोऽत्रेति विशेषणं तदाऽप्यनर्थकमित्यर्थः । तर्हि विशेषणस्य गतिर्वक्तव्योति द्वितीय शङ्कते-कथ तहीति । अत्रैष देवः स्वप्ने महिमानमनु भवतीत्यथर्वशाखावाक्यार्थकथमावसरे काण्व- श्रुतिगतविशेषणस्य गतिर्न वक्तव्या प्रकृतानुपयोगादिति सिद्धान्त्येकदेशी कश्चिन्मन्दः शङ्कते-अन्येति । सर्ववेदान्तप्रत्ययन्यायेनाथर्वश्रुत्यविरोधेनैकवाक्यतया श्रुत्यर्थस्य वर्णनीयत्वात्तदविरोधोऽपि वक्तव्य इति पूर्वाग्राह-नार्थकत्वस्यति । तर्हि काण्व- श्रुतिरामावात्त्यज्यतामत आहे-श्रुतेर्यथार्थेति । स्वाध्यायोऽध्येतव्य इत्यध्ययन- विधेरावबोधफलकत्वात्तुल्यं च सांप्रदायिकमिति न्यायाच्चाक्षरमात्रस्याप्यानर्थक्यायो. गादित्यर्थः । एवमेकदेशिनि दूषिते सिद्धान्त्युत्तर माह-एवं तहाँति । यथा हृदयाकाशे पुरीतति नाडीषु च स्वपतस्तत्संबन्धाभावात्ततो विविच्य दर्शयितुं शक्यत इत्यात्मनः स्वयंज्योतिष्ट्वं न बाध्यते । एवं मनस्यविद्याकामकर्मनिमित्तोद्भूतवासनावति कर्मनिमित्ता वासनाऽवि. १ क. 'कोऽत्रोच्यत इति तैरयं प्र । ग. कोच्यते सुतरामिति । च. कोऽत्र इ°। ३ ख. २. अ. स्यार्थस्य भावादूर । ग. स्त्रार्थस्याभावाददूर । ३ ग. प. यः । अत्रा । ४ ख. घ. .'षस्थ । ५ क. च. 'ब्रान्क ।
જઇ आनन्दगिरिकतटीकासंचलितशांकरभाष्यसमेवा [४ प्रश्न द्ययाऽन्यद्वस्त्वन्तरमिवं पश्यतः सर्वकार्यकरणेभ्यः प्रविविक्तस्य द्रष्टुवा- सनाभ्यो दृश्यरूपाभ्योऽन्यत्वेन स्वयंज्योतिष्ट्वं सुदर्पितेनापि तार्किकेण न वारयितुं शक्यते । तस्मात्साधूक्तं मनसि प्रलीनेषु करणेष्वालीने च मनसि मनोमयः स्वमान्पश्यंतीति । ܙܝ तादावेव मुख्यश्रुत्यर्थ उच्यतां किं पूर्वोत्तरीत्या पक्षान्तराशङ्कातनिराकरणाभ्या- मित्याशङ्कय पाण्डित्याभिमानवतो यथावदर्थबोधेऽनधिकारात्तस्य तदमिमानावतारचि. कर्षिया तदीयनानापक्षा निराकृता इति वक्तुं सर्वममिमानं निरस्येत्याधुक्तम् । स्वयं- ज्योतिष्ठश्रुतेरनतिशङ्कयत्वात्तद्वलात्स्वप्नादौ हृदयाकाशादिसत्त्वेऽपि तत्संबन्धप्रतीत्य- भावाद्विद्यमानस्याप्यविद्यमानतुल्यत्वेनाऽऽत्मनः केवलत्वात्प्रकाशदर्शनाच स्वयंज्यो. तिष्ठमिति बोधनीय मनसोऽभाववादिनाऽप्येवं मनसि सत्यपि तस्य वासनामयगज तुरगादिविषयतया परिणामादृश्यत्वाच्च द्रष्टुस्ततो भेदेन विवेकतः श्रुत्या स्वप्रकाशत्वं बोध्यत इत्याह--यथेत्यादिना । मनसीति । सत्यपीति शेषः । ननु मनश्चेदवि- यानिमित्तवशाइनतुरगादिरूपेणाभिव्यक्तवासनावत्तर्हि जानतीव तस्याहंतयैव प्रतीतः स्यान्नेदंतयाऽत आह-कर्मनिमित्तेति । तथा प्रतीति विना स्वप्ने भोगासिद्धेः स्वाममोगप्रदकर्मनिमित्तवशाजाप्रति गजादीनामिदंतयाऽनुभवेन तद्वासनानामपि तथे- वानुमुवाहत्वेन तद्वासनारूपाविद्यावशाच्च वासनाश्रयस्य मनस इदंतयैव वस्त्वन्तर- वत्प्रतीतिरित्यर्थः । इदं च विशेषणं मनसो विषयत्वेन विषयत्वासंमवाद्विषयिण आत्मन एव प्रकाशरूपत्वमिति वक्तुम् जाग्रत्यादित्यादिकार्यज्योतिषां चक्षुरादि- करणज्योतिषां च सत्त्वेन तत्संकीर्णत्वेनाऽऽत्मनः स्वयंज्योतिष्ट्र दुर्बोध स्वप्ने तु तदमा- वात्सुबोधमिति वक्तुं सर्वकार्येत्यादि विशेषणम् । स्वप्न आदित्यादिकार्यकरणज्योतिषां भासमानत्वेऽपि तेषां वासनामात्रत्व दृश्यत्वाच्च विषयप्रकाशनासामर्थ्यमिति वक्तुं बासनाम्य इत्यादि विशेषणम् । एतेश्य विशेषणैः स्वप्न एवैवभूते स्वयंज्योतिष्ट्रस्य' बोधयितुं शक्यत्वादन्यत्रासंभवादत्राय मति श्रुतौ स्वप्नविशेषणग्रहणमर्थवदित्युक्तमिति द्रष्टव्यम् । स्वयंज्योतिष्वमिति । सिद्धमिति शेषः । अतः काण्वश्रुती स्वप्ने मन- सोऽभावविवक्षाकारणामावन तद्विरोध मावादत्र देवशब्देन परें देवे मनस्येकी भव. तीत्युक्तम् । मन एवोच्यत इत्युक्तमुपसंहरति-तस्मादिति । कथं महिमानमनुभवतीत्युच्यते । यन्मित्रं पुत्रादि वा पूर्व दृष्टं वद्वासनावासितः पुत्रमित्रादि वासनासमुद्भूतं पुत्रं मित्रमिव वाड- 1:- ....... . १ ख.ग. केन । २ ख. ग. घ. इ. च, श्यति । ३ क. च. 'व. स्वप' । ४ क च इति वि! ५ कच. "वभवस्व . प्रश्नोपनिषत् । [ प्रश्नः ] ४१ विद्यया पश्यतीत्येवं मन्यते, तथा श्रुतपर्यं तद्वासनयाऽनुशृणोतीच, देशदिगन्तरेश्व देशान्तरदिगन्तरेश्च प्रत्यनुभूतं पुनः पुनस्तत्मत्यनुभवती- वाविद्यया, तथा दृष्टं चास्मिञ्जन्मन्यदृष्टं च जन्मान्तरदृष्टमित्यर्थः अत्य- न्तादृष्टे वासनानुपपत्तेः । एवं श्रुतं चाश्रुतं चानुभूतं चास्मिजन्मान केवलेन मनसाऽननुभूतं च मनसैव जन्मान्तरेऽनुभूतमित्यर्थः । सच्च परमार्थोदकादि । असाच मरीच्युदकादि । किं बहुनोक्तानुक्तं सर्व पश्यति सर्वः पश्यति सर्वमनोवासनोपाधिः सन्नेवं सर्वकरणात्मा मनो- देवः स्वप्नान्पश्यति ॥ ५॥ नन्विन्द्रियाणामुपरतत्वाद्विषयसंबन्धामावात्कथं मनसा महिमानुभव इति शङ्कते. कथमिति । पूर्व ज्ञातस्यैव स्वप्ने ज्ञानात्तस्य वासनामात्रत्वमतो नेन्द्रियापेक्षेत्याह उच्यत इति । यदिति । यन्मित्रं पुत्रं वा पूर्व दृष्टवांस्तदेव दृष्टं पुत्रमित्रादिविषय- वासनासमुद्भूतं मित्रं पुत्रं वाऽविद्यया पश्यतीति दृष्टवानित्यादिपदाध्याहारेण वाक्य योज्यम् । अन्यथा पुत्रमिति द्वितीयाया यच्छब्दस्य चानन्वयः स्यादिति । चक्षुरमा- वेन दर्शनायोगान्मन्यत इत्युक्तम् । तथेति । अत्रापि योऽर्थः श्रुतस्तमेव श्रुतमर्थः मित्यध्याहारेणैव श्रुतियोंज्या । देशो नदीतीरादिः । दिक्पाच्यादिरिति भावः। प्रत्यनुभूतं प्रतिवारमनुभूतं पुनः पुनरनेकदिनेप्वनेकस्वप्नेष्वनुभवतीत्यर्थः । जन्मान्त. रदृष्टमिति व्याख्याने हेतुमाह-अत्यन्तेति । अनुभूतं चेत्यस्य प्रत्यनुभूतमित्यनेन पुनरुक्तिमाशङ्कयाऽऽह-केवलेनेति । पूर्वमिन्द्रियद्वारकानुभव उक्त इत्यपौनरुक्त्य- मित्यर्थः । सर्वदर्शने हेतुमाहे-सर्व इति ॥ ५ ॥ स यदा तेजसाऽजिस्तो भवति । अत्रैप देवः स्वमान्न पश्यत्यथ * तदैतत्मिकशरीर एतत्सुखं भवति ॥ ६ ॥ स यदा मनोरूपो देवो यस्मिन्काले सौरेण पित्ताख्यान तेजसा नाडीशयेन सर्वतोऽभिभूतो भवति तिरस्कृतवासनाद्वारो भवति तदा सह करणैर्मनसो रश्मयो हृद्यपसंहृता भवन्ति । यदा मनो दानिवदा विशेषविज्ञानरूपेण कृत्स्नं शरीरं व्याप्यावतिष्ठते तदा सुषुप्तो मवति । * दीपिकायां यदेतस्मिनिति पाठः स्वकृतोऽस्ति । स च मूलेऽपि क्वचिदृश्यते । अत्रापि एव ग्राह्यश्चेद्युक्ततरो मन्येत । १ क. च. तीच म° । २ ख. ग. प. सर्व मी ङ, सर्वो म १३ क च के लद्दर्श । ४ क. प. भेदः। ५ क. च. 'स्य प्रत्ययस्य प्र.
ar 7 आनन्दगिरिकतटीकासंचलितशांकरभाष्यसमेता- [१ प्रश्नः ] अत्रैतस्मिन्काल एष मनाख्यो देवः स्वप्नान पश्यति दर्शनद्वारस्य निरुद्धत्वात्तेजसा । अथ तदैतस्मिशरीर एतत्सुखं भवति यद्विज्ञानं निराबाधमविशेषेण शरीरव्यापकं प्रसन्नं भवतीत्यर्थः ॥ ६ ॥ कस्यैतत्सुखं भवतीत्यस्योत्तरं तदपक्षितं वदन्नाह स यदति । पित्ताख्येनति । इदमुपलक्षणं चिद्रूपेण ब्रह्मणा चेत्यपि द्रष्टव्यम् । तन्मनः प्राणमेवोपश्रयत इति श्रुत्यन्त- रेण प्राणशब्दिते ब्रह्मणि तस्य लयाभिधानात् । तिरस्कृतेति । वासनाभिव्यक्ती द्वारं स्वप्नभोगप्रदं कर्म यत्तत्तिरस्कृतं तत्रोपरतं भवति । तेजःशब्दितब्रह्मचैतन्यसंबन्धादि- त्यर्थः । रश्मय इति । वासना इत्यर्थः । अविशेषविज्ञानति । समान्यचैतन्यरूपे. णेत्यर्थः । चेतनाशब्दितसामान्यवृत्तिरूपेण वा । अनेन सुषु उक्त इत्याह-तदेति । नन्वयेतत्सुखं मवतीत्ययुक्तं जन्यसुखस्य तदानीमसंभवात्स्वरूपसुखस्य पूर्वमपि समत्वेन तदा भवतीत्यनुपपत्तेरित्याशङ्कय स्वरूपसुखमेव विशेषविज्ञानरूपविक्षेपामावे निर्वात. स्थदीपप्रमावत्सम्यक्प्रकाशते तदपेक्षमेतद्वचनमित्याह-यद्विज्ञानमिति । विज्ञानरूपं स्वरूपसुखमित्यर्थः ॥ ६ ॥ एतस्मिन्कालेऽविद्याकामकर्मनिबन्धनानि कार्यकरणानि शान्तानि भवन्ति । तेषु शान्तेष्वात्मस्वरूपमुपाधिभिरन्यथा विभाव्यमानमद्वयमेक शिवं शान्तं भवतीत्येतामेवावस्था पृथिव्यायविद्याकृतमात्रानुभवेशेन दर्शययितुं दृष्टान्तमाह- स यथा सोम्य वयांसि वासोवृक्षं संप्रतिष्ठन्ते । एवं ह वै तत्सर्व पर आत्मनि संप्रतिष्ठते ॥ ७ ॥ स दृष्टान्तो यथा येन प्रकारेण सोम्य प्रियदर्शन क्यासि पक्षिणो वासार्थ वृक्षं वासोवृक्षं प्रति संप्रतिष्ठन्ते गच्छन्ति । एवं यथा दृष्टान्तो ह वै तद्वयमाणं सर्व पर आत्मन्य क्षरे संप्रतिष्ठते ॥ ७ ॥ अनेनाऽऽनन्दमयकोशशब्दितमनभिव्यक्तम नआदिवासनावदज्ञानं सुषुप्तधर्मीत्युकं पञ्चमप्रश्नस्योत्तरं तुरीयस्वरूपं विवेकसौकर्याद्विविच्यात्रवोच्यत इत्याह--एतस्मि- मिति । अन्ययेति । पूर्वमन्यथा विभाव्य मानमित्यर्थः । मात्रानुभवेशेनेति । मात्राणां विवेकतोऽक्षरेऽनुप्रवेशेनेत्यर्थः ॥ ७ ॥ किं तत्सर्वम्-- पृथिवी च पृथिषीमात्रा चाऽऽपश्चाऽऽपोमात्रा १ ख. ग. घ. ङ, °न्तरे प्रा १२ क. ब्दितं ब्रह्म चै । ३ क. च. "प्तमुक्तमित्या । ४ क. ब.. मेव त १५ क. न. "बज्ज्ञानं सुषुप्तिध ।
४ [४ प्रश्नः] प्रश्नोपनिषत् । च तेजश्च तेजोमात्रा च वायुश्च वायुमात्रा चाऽऽ- काशश्चाऽऽकाशमात्रा च चक्षुश्च द्रष्टव्यं च श्रोत्रं च श्रोतव्यं च घ्राणं च नातव्यं च रसश्च रसाय- तव्यं च त्वच स्पर्शयितव्यं च वाक्च वक्तव्यं च हस्तौ चाऽऽदातव्यं चोपस्थश्चाऽऽनन्दयितव्यं च पायुश्च विसर्जयितव्यं च पादौ च गन्तव्यं च मनश्च मन्तव्यं च बुद्धिश्च बोद्धव्यं चाहंकार- चाहकर्तव्यं च चित्तं च चेतयितव्यं च तेजश्च विद्योतयितव्यं च प्राणश्च विधारयितव्यं च ॥८॥ पृथिवी च स्थूला पञ्चगुणा तत्कारणा च पृथिवीमात्रा च गन्धत. न्मात्रा । तथाऽऽपश्चाऽऽपोमात्रा च । तेजश्च तेजोमात्रा च। वायुश्च वायु. मात्रा च । आकाशश्वाऽऽकाशमात्रा च । स्थूलानि च सूक्ष्माणि च भूतानीत्यर्थः । तथा चक्षुश्चेन्द्रियं रूपं च द्रष्टव्यं च । श्रोत्रं च श्रोतव्यं च । घ्राणं च घ्रातव्यं च । रसश्च रसयितव्यं च । त्वक्च स्पर्शयितव्यं च। वाक्च वक्तव्यं च । हस्तौ चाऽऽदातव्यं च । उपस्थश्चाऽऽनन्दयितव्यं च । पायुश्च विसर्जयितव्यं च । पादौ च गन्तव्यं च । बुद्धीन्द्रियाणि कर्मेन्द्रियाणि तथा * चोक्तानि । मनश्च पूर्वोक्तम् । मन्तव्यं च तद्विषयः। बुद्धिश्च निश्चयात्मिका । बोद्धव्यं च तद्विषयः। अहंकारश्चाभिमानलक्षण- मन्तःकरणम् । अहंकर्तव्यं च तद्विषयः । चित्तं च चेतनावदन्तःकरणम्। चेतयितव्यं च तद्विषयः। तेजश्च त्वगिन्द्रियव्यतिरेकेण प्रकाशविशिष्टा या त्वक्तया निर्भास्यो विषयो विद्योतयितव्यम् । प्राणश्च सूत्रं यदाच- क्षते तेन विधारयितव्यं संग्रथनीयं सर्व हि कार्यकारणजातं पारायेंन संहतं नामरूपात्मकमेतावदेव ॥ ८॥ । - आपोमात्रा इत्यत्र विभक्त्यलोपश्चान्दतः । स्थूलानि चेति । पञ्चीकृतानि * अत्रानुक्समुच्चयार्थेन तथा चेतिशब्दद्वयन बुद्धीन्द्रियकर्मेन्द्रियार्था प्राह्याः। क. पुस्तक- पाठस्वीकारे तु न काचिदनुपपत्तिः । ४ सान्तापश्शब्दस्वीकरणमेव साधीयः । १ क. तदर्थाश्चोक्ताः। म । २ ख. ग. घ. "तव्यः। प्रा । ३ क. ग. च, यकर ।
आनन्दगिरिकृतटीकासंघलितशांकरभाष्यसमेता- [४ प्रश्नः चेत्यर्थः । ततश्च पञ्चीकरणमेतच्छृतिसिद्धमित्युक्तमन्यथाऽऽकाशाकाशमात्रयोः पृथ- गुक्त्यनुपपत्तेरिति । यद्यपि मन्तव्यादव्यो मनआदिचतुष्टयविषया अपि द्रष्टव्यादि- विषया एव न पृथक्तथाऽपि मन्तव्यत्वादिरूपेण पृथगिति पृथनिर्दिष्टा इति द्रष्ट- व्यम् । प्रकाशविशिष्टा या त्वगिति । त्वगाश्रयं चर्म तत्प्रकाशनिर्मास्यं च तदे- वेत्यर्थः । पृथिवी चेत्यादिना विधारयितव्यं चेत्यन्तेनाऽऽत्मव्यतिरिक्तं तदुपाधिभूतं सर्व चोक्तमित्याह-सर्व हीति ॥ ८ ॥ अतः परं यदात्मरूपं जैलसूर्यकादिवोक्तृत्वकर्तृत्वेनेहानुप्रविष्टम्- एष हि दृष्टा स्पष्टा श्रोता घाता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः । स परेऽक्षर आत्मान संप्रतिष्ठते ॥ ९ ॥ एष हि द्रष्टा स्पष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञा- नात्मा विज्ञानं विज्ञायतेऽनेनेति करणभूतं बुद्धयादीदं तु विजानातीति विज्ञानं कर्तृकारकरूपं तदात्मा तत्स्वभावो विज्ञातृस्वभाव इत्यर्थः । पुरुषः कार्यकरणसंघातोक्तोपाधिपूर्णत्वात्पुरुषः । स च जलसूर्यका- दिप्रतिबिम्बस्य सूर्यादिप्रवेशवजगदाधारशेषे परेऽक्षर आत्मनि संपति- ष्ठते ॥९॥ एष हि द्रष्टेत्यादिनोपहितस्वरूपमुच्यत इत्याह-अतः परमिति । द्रष्टेति । उपा- धिकृतमपि द्रष्टुत्वादिकमुपाधिव्यतिरिक्तेऽनुपडित आत्मन्यारोपितं स्फटिके लौहित्यव- दस्तीत्युपाधिभिन्नोऽप्यात्मा द्रष्टेत्यादिनोक्तः क्तः । विज्ञानात्मेत्यत्र द्रष्टेत्यादाविव कर्तृ- वाचकतृचोऽमावाद्विज्ञानं यज्ञं तनुत इत्यादाविव बुद्धरमिंधाने पौनरुक्त्यमाशङ्कयाऽऽ. ह-विज्ञानमिति । करणभूतमिति । विज्ञानमय इत्यादावित्यर्थः । एष हीति हिशब्दश्चशब्दार्थकः । स च संप्रतिष्ठि( 8 )त इति क्रियानुकर्षणार्थ इति वदन्द्रष्टु- रात्मनः पृथिव्यादिवत्स्वरूपेणाक्षरे लयो न संभवतीत्याशङ्कयोपाधिलय उपहिवरूषा- मावमेव ए )वास्य लय इत्याह-स चेति ॥ ९ ॥ तदेकत्वविदः फलमाह- परमेवाक्षरं प्रतिपयते स यो वै तदच्छायमशरी- रमलोहितं शुभ्रमक्षरं वेदयते यस्तु सोम्य स सर्वज्ञः सर्वो भवति । तदेष श्लोकः ॥ १० ॥ १. क. च. 'न्तव्यादि । २ क. जगत्कर्तस् । ३ क. जलयाधारशोषे । ४. ग. धारशे - ह .
L 1. ४ प्रश्नः ] प्रश्नोपनिषत् । ४५ परमेवाक्षरं वक्ष्यमाणविशेषणं प्रतिपद्यत इत्येतदुच्यते स यो ह वै तत्सर्वेषणाविनिर्मुक्तोऽच्छायं तमोवर्जितम् । अशरीरं नामरूपसर्वोपा- धिशरीरवर्जितम् । अलोहितं लोहितादिसर्व गुणवर्जितम् । यत एवमतः शुभ्रं शुद्धम् । सर्वविशेषणरहितत्वादक्षरम् । सत्यं पुरुषाख्यम् । अमा- णममनोगोचरम् । शिवं शान्तं सबाह्याभ्यन्तरमजं वेदयते विजानाति । यस्तु सर्वत्यागी सोम्य स सर्वज्ञो न तेनाविदित किंचित्संभवति । पूर्व- मविद्ययाऽसर्वज्ञ आसीत्पुनर्विद्ययाऽविद्यापनये सर्वो भवति तदात- (तत्तस्मिन्नर्थ एष श्लोको मन्त्रो भवत्युक्तार्थसंग्राहकः ॥ १० ॥ एवं जायदादीनामन्यधर्मत्वोक्त्या शोधिततुर्यात्मानुवादेन तस्याक्षरैक्याभिधानपुरः- सरं तज्ज्ञानस्य फलमुच्यत उत्तरवाक्येणेत्याह--तदेकत्वोति । वक्ष्यमाणलक्षणमक्षरं प्रतिपद्यत इत्येवंरूपं फलमाहेत्यन्वयः । उत्तरवाक्यमिति शेषः । उक्तमर्थं श्रुत्यक्ष. रारूढमाह-एतदुच्यत इति । स इत्यस्यार्थमाह-सर्वेति । अत्राधिकारिणो दुर्ल- मत्वं स यो ह वा इत्यनेनोक्तम् । स यः कश्चिदेवापूर्ववत्तदच्छायादिविशेषणमक्षरं वेदयत इत्येकं वाक्यं समापनीयम् । यस्तु वेदयते स सर्वज्ञ इति वाक्यान्तरं कार्यम् । अन्यथा यच्छब्दद्वयानन्वयात् । आद्यवाक्येऽच्छायादिविशेषणत्रयेण कारणसूक्ष्मस्थू- लशरीरत्रयनिराकरणेनावस्थात्रयनिराकरणेनावस्थात्रयराहित्यमन्यते । लोहितादि- [सर्व गुणवर्जितमित्यनेन तद्गुणकस्थूलसरीरवर्जितमिति प्रतीतेः । शुभ्रमित्यनेन तमेव तुरीयमनूद्य तस्याक्षरसामानाधिकरण्येनैक्यमुक्तमिति विवेकः । अत्राक्षरमित्यनेनाक्षर पुरुषं वेद सत्यं सबाह्याभ्यन्तरो ह्यनोऽप्राणो ह्यमनाः शुभ्र इति मन्त्रोक्तानि सर्वाणि विशेषणान्यात्मोपलक्षणान्यात्मोपलक्षणार्य संगृहीतानीत्याह-सत्यमित्यादिना । यस्तु सर्वत्यागीत्यत्रापि वाक्ये वेदयत इत्यस्यानुषङ्गः । अत्र सर्वज्ञ इत्यनेन कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति प्रतिज्ञात सर्वविज्ञानमुक्तम् । सर्वात्मत्वस्य ज्ञानजन्यत्वेऽनित्यत्वं स्यादत आह-पूर्वमिति । एवं चाऽऽरोपनिवृत्तिद्वाराऽभूत- तद्भावो विवक्षित इत्याह -सर्वो भवतीति ॥ १० ॥ विज्ञानात्मा सह देवैश्च सर्वैः माणा भूतानि संप्रतिष्ठन्ति यत्र । तदक्षरं देदयते यस्तु सोम्य स सर्वज्ञः सर्वमेवाऽऽविवेशेति ॥११॥ इत्यथर्ववेदीयप्रश्नोपनिषदि चतुर्थः प्रश्नः ॥ ४ ॥ विज्ञानात्मा सह देवैश्वान्यादिमिः प्राणाश्चक्षुरादयो भूतानि पृथि- व्यादीनि संमतिद्वन्ति प्रविशन्ति पत्र यस्मिन्नारे तदक्षरं वेदयते यस्तु सोम्य प्रियमदर्शन स सर्पज्ञः सर्वमेवाऽऽविवेशाऽऽविशतीत्यर्थः ॥११॥ .
आनन्दगिरिकृतटीकासवेलितशांकरभाष्यसमेता- [५ प्रश्नः ] इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमद्गोविन्दभगवत्पूज्यपाद- शिष्य श्रीमच्छंकरभगवतः कृतौ प्रश्नोपनिषद्भाष्ये चतुर्थः प्रश्नः ॥ ४॥ अग्न्यादिभिरिति । ततश्च चक्षुश्च द्रष्टव्यं चेत्यत्रापि चक्षुरादिमिर्दैवा अप्युपल- क्षिता इति व्याख्यातम् ॥ ११ ॥ इत्यानन्दज्ञानविरचितप्रश्नोपनिषद्भाष्यटीकायां चतुर्थः प्रश्नः ॥ ४ ॥ अथ पञ्चमः प्रश्नः। अथ हैनं शैब्यः सत्यकामः पप्रच्छ । अथ हैनं शैव्यः सत्यकामः पप्रच्छ । एवं चतुर्थप्रश्नोत्तमाधिकारिणः पदार्थशोधनपूर्वकवाक्यार्थज्ञानेनाक्षरप्राप्तिमुक्त्वाऽ- त्रानधिकारिणो मन्दवैराग्यवत ओमित्येवं ध्यायत आत्मानं प्रणवो धनुरित्यादिमन्त्र- सूचितं ब्रह्मलोकपाधिद्वारा क्रमेणाक्षरप्राप्त्यर्थमोंकारोपासनं वक्तुं पञ्चमप्रभमवतार- यति-अथ हैनमिति। अथेदानीं परापरब्रह्मप्राप्तिसाधनत्वेनोंकारस्योपासनविधित्सया प्रश्न आरभ्यते- स यो ह वै तद्भगवन्मनुष्येषु प्रायणान्तमोकार- मभिध्यायीत । कतमं वाव स तेन लोकं जयतीति तस्मै स होवाच ॥ १ ॥ स यः कश्चिद्ध – भगवन्मनुष्येषु मनुष्याणां मध्ये तदद्भुतमिव प्रायणान् मरणान्तं यावज्जीवमित्येतदोंकारमभिध्यायीताऽऽभिमुख्येन चिन्तयेत् । बाह्यविषयेभ्य उपसंहृतकरणः समाहितचित्तो भक्त्यावेशि- तब्रह्मभाव ओंकारे । आत्मप्रत्ययसंतानाविच्छेदो भिन्नजातीयप्रत्यया- न्तराखिलीकृतो निर्वातस्थदीपशिखासमोऽभिध्यानशब्दार्थः। सत्य- ह्मचर्याहिंसापरिग्रहत्यागसंन्यासशौचसंतोषामायावित्वाधनेकयमनिय- १ क. "प्रश्नोकोत्त।
६ प्रश्नः]] प्रश्नोपनिषत् । ४७ . मानुगृहीतः स एवं यावज्जीवव्रतधारणः। कतमं वावाने के हि ज्ञानकर्म- भिर्जेतव्या लोकास्तिष्ठन्ति तेषु तेनोंकाराभिध्यानेन कतमं स लोक जयतीति पृष्टवते तस्मै स होवाच पिप्पलादः॥१॥ इदानीमिति । गा1प्रश्ननिर्णयानन्तरामित्यर्थः । परेति । अपरब्रह्मलोकप्राप्तिक्र- मेण परब्रह्मलोकप्राप्तिसाधनत्वेनेत्यर्थः । तदद्भुतमिवति । तदिति क्रियाशेषणं तादृशम मिध्यानमिति, तेन विशेषणेनाद्भुतत्वं दुष्करत्वं मातीत्यर्थः । अभिध्यानेन तत्पूर्वका. लीने प्रत्यहारधारणे सूचिते इत्याह-बाह्येति । मक्त्याऽऽदरेणोपचारेण वाऽऽवेशित आरोपितो ब्रह्मभावो यस्मिन्नोंकारे तस्मिन्समाहितचित्त इत्यन्वयः । अनेन धार. गोक्ता । ध्यानशब्दार्थमाह-आत्मेति । संतानाविच्छेद इत्यविच्छिन्नसंतान इत्यर्थः । प्रत्ययान्तरेण विनातीयप्रत्ययेनाखिलीकृतोऽनन्तरितः । चित्तस्याऽऽत्मविषयस्यैव सत एकदेशेन विक्षेपं वारयति-निर्वातति । ध्यानेनैव यमादिसाधनजातमपि सूचित- मित्याह-सत्येति । कतममिति डतमचोऽर्थ बहुषु निर्धारणं दर्शयति-अनेके हीति । ओंकाराभिध्यानं ध्यानत्वाद्दहरायुपासनवदपरप्राप्तिसाधनमेवोत परप्राप्तिसाधनमपीति प्रष्टुराभिप्रायः ॥ १॥ एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोंकारः। तस्माद्विद्वानेतेनयाऽऽयतनेनैकतरमन्योत ॥ २ ॥ एतद्वै सत्यकाम । एतहह्म वै परं चापरं च ब्रह्म परं सत्यमक्षरं पुरु- पाख्यमपरं च प्राणाख्यं प्रथमजं यत्तदोंकार एवोंकारात्मकमोंकारप्रती- कत्वात् । परं हि ब्रह्म शब्दाधुपलक्षणानहै सर्वधर्मविशेषवर्जितमतो न शक्यमतीन्द्रियगोचरत्वात्केवलेन मनसाऽवगाहितुमोंकारे तु विष्ण्वादि- प्रतिमास्थानीये भक्त्यावेशितब्रह्मभावे ध्यायिनां तत्प्रसीदतीत्यवग- म्यते शास्त्रप्रामाण्यात्तथाऽपरं च ब्रह्म । तस्मात्परं चापरं च ब्रह्म यदों- कार इत्युपर्यते । तस्मादेवं विद्वानेतेनैवाऽऽत्मप्राप्तिसाधनेनैवों काराभि- ध्यानेनैकतरं परमपरं वाऽऽन्वेति ब्रह्मानुगच्छति नेदिष्ठं ह्यालम्बनमों- कारो ब्रह्मणः ॥ २॥ तदभिप्रायज्ञः पिप्पलादोऽपरालम्बनतया ध्यानं चेदपरप्राप्तिमात्रसाधनं परालम्बन त्वेन चेत्क्रमेण परप्राप्तिसाधनमित्युत्तरमाह-एतद्वा इति । एतद्यच्छब्दयोर्नपुंसकयोरों- कारविशेषणत्वायोगाब्रह्मविशेषणत्वमाह-एतद्ब्रह्मोति।कि तब्रह्मत्यत आह-परं चेति। १ क, व. देशवि । २ ख. ग. भ. ङ. गाहयितु । ३ स. ग. घ, ङ, इत्युचाते। .
" आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [ ५ प्रश्नः] यदेतत्परं चापरं च ब्रह्मास्ति तदुमयमोंकार इति वाक्यान्वय इत्यर्थः । न चैवं ब्रह्मोद्देशेनोंकारत्वविधाने ब्रह्मण्योंकारदृष्टिः प्रसज्येतेति शङ्कयम् । ब्रह्मदृष्टिरुत्कर्षा. दिति न्यायेन लोकेषु सामोपासीतेत्यादाविव निकृष्ट ओंकार एव ब्रह्मदृष्टिः सिध्य- तीति भावः । तयोर्मेदात्कथमक्यमित्याशङ्कयोपचारादित्याह-ओंकारप्रतीकत्वा. दिति । अनेन सामानाधिकरण्येनोंकारस्य प्रतीकत्वमुपदिश्यत इति मावः । ननु किं प्रतीकोपदेशेन साक्षादेव ब्रह्माभिधीयतामत आह-परं हीति । शब्दादीति । शब्दादिभिः साक्षाद्वोधनानहमित्यर्थः । आदिशब्देनानुमानादि गृह्यते । प्रवृत्तिनिमि- तस्य धर्मस्य लिङ्गस्य चामावादिति तत्र हेतुमाह-सर्वति। न शक्यमित्य(म)वाहितु. मित्यन्वयः । तहीन्द्रियर्मनसा वा तद्ग्रहोऽस्त्वित्यत आह–अतीन्द्रियेति । मन- सेतीन्द्रियर्वेत्यपि द्रष्टव्यम् । तर्हि तथाविधस्योंकारेऽप्यावेशासमवास्किंचिद्विशेषमारो- प्याऽऽवेशो वक्तव्यः । अत एव सूर्यान्तर्गतत्वं विशेषं वक्ष्यत्योंकारतादात्म्यं च । तत्कथं निर्विशेष[व]लाभोऽत आह-ओंकारे स्विति । प्रसीदतीति । तदुपासनेन चित्तस्य नैर्मल्ये सति निर्विशेष स्वयमेव प्रकाशत इत्यर्थः । तत्र मानमाह-शास्त्रेति । अन्यथा परब्रह्मार्थिनस्तदुक्तिवयादित्यर्थः । तथाऽपरं चेति । प्रसीदतीत्यन्वयः । तस्मादिति । प्रतीकत्वादित्यर्थः । तस्मादेवं विद्वानिति । ब्रह्मत्वाद्रह्मत्वाहमिति विद्वानित्यर्थः । एतेनवेत्यनन्तरमायतनेनाऽऽलम्बनेनेति पदद्वयं प्रमादतो गलितमिति द्रष्टव्यम् । तस्य पदस्य पिण्डितार्थमाह --ओंकारेति । न त्वेतच्छब्दार्थकथनमेत- दिति द्रष्टव्यम् । अमिध्यानस्याऽऽयतनत्वामावादितीतरोपासनावदस्याप्युपासनत्वा. परप्रापकत्वं न संभवतीत्यत आह-नेदिष्ठमिति । मनआद्यपेक्षयेदं नेदिष्ठं समीपव यन्तरङ्ग श्रेष्ठमालम्बनमेतदालम्बनं श्रेष्ठमेतदालम्बनं परमित्यादिश्रुतेरित्यर्थः ॥ २ ॥ स ययेकमात्रमविध्यायीत स तेनैव संवेदितस्तूर्ण- मेव जगत्यामक्षिसंपद्यते । तमृचो मनुष्यलोकमुप- नयन्ते स तत्र तपसा ब्रह्मचर्येण श्रद्धया संपन्नो महिमानमनुभवति ॥ ३॥ स यद्यप्योंकारस्य सकलमात्राविभागज्ञो न भवति तथाऽप्योंकारा- मिध्यानमभावाद्विशिष्टामेव गतिं गच्छति। एतदेकदेशज्ञानवैगुण्यतयोंका- रशरणः कर्मज्ञानोभयभ्रष्टो न दुर्गतिं गच्छति किं तर्हि ययप्येवमोंका- रमेवैकमात्राविभागज्ञ एव केवलोऽभिध्यायीतकमात्रं सदा ध्यायीत स १ क..ङ्गत्वामा १२ ख. ग, घ, ङ, 'गाहयितु । ३ का च-'वाहत्वाइ १४.प. वादह ५कच. "मेक 14
५ प्रश्नः ]
प्रश्नोपनिषत् ।
तेनैवैकमात्राविशिष्टोंकाराभिध्यानेनैव संवेदितः संबोधितस्तूर्ण क्षिप्रमेव
जगत्यां पृथिव्यामभिसंपद्यते । किं, मनुष्यलोकम् । अनेकानि हि.
जन्मानि जगत्यां संभवन्ति तत्र तं साधकं जगत्यां मनुष्यलोकमेवर्च
उपनयन्त उपनिगमयन्ति । ऋच ऋग्वेदरूपा ह्योंकारस्य प्रथमैकमा-
जाऽभिध्याता । तेन स तत्र मनुष्यजन्मनि द्विजारयः संस्तपसा ब्रह्म-
चर्येण श्रद्धया च संपन्नो महिमानं विभूतिमनुभवति न वीतश्रद्धो यथे.
टचेष्टो भवति योगभ्रष्टः कदाचिदपि न दुर्गति गच्छति ॥ ३ ॥
.
नेदिष्ठत्वमेव संस्तुवन्नुत्तरवाक्येण साधयति-स यदीति । विकलस्यापि फलजनक
त्वान्नेदिष्ठत्वमित्यर्थः । सकलेति । अकारादिमात्रात्र यात्मक ओंकारः स चोपासि-
तव्य इति न जानाति स्विकारमात्रमुपासितव्यं जानातीत्यर्थः । तथाऽप्येकदेश-
ज्ञानवैगुण्यतया दुर्गतिं न गच्छति किं तोंकारामिध्यानप्रभावात्तदेकदेशध्यानप्रमा-
वाद्विशिष्टामेव गतिं गच्छतीत्यन्वयः । तात्पर्यार्थमुक्त्वेदानीमक्षरार्थमाह-यद्यप्ये-
वमिति । यदिशब्दो यद्यपीत्यर्थे व्याख्यातः । एवं च स तेनैवेत्यतः प्राक्तथाऽपीति.
पदं द्रष्टव्यम् । एकमात्रमिति । एकमात्रात्मकमोंकारमकारमित्यर्थः । एकमात्रावि-
शिष्टत्यत्राप्येकमात्रात्वविशिष्टेत्यर्थः । ओंकारेति । तदवयवेत्यर्थः । एकमात्राप्रधा-,
नमप्रधानीमूतमात्राद्वयं कृत्स्नमोंकारमिति केचिद्व्याचक्षते । दीपिकायां वाच-
स्पत्ये चाकारमात्रमित्येव व्याख्यातम् । संबोधित इति । तन्मात्राध्यानेन तन्मात्रा-
साक्षात्कारवानित्यर्थः । पृथिव्यां किमभिसंपद्यत इति कर्माऽऽकाङ्क्षते-किमिति ।
मनुष्यलोकमिति पदमिहाऽऽकृष्याऽऽकाङ्क्षा पूरयति-मनुष्यलोकमिति । मनुष्य-
शरीरमित्यर्थः । पृथिव्यां मनुष्यलोकस्यैव नियमात्तदुक्तिवैयर्यमत आह-अने-
कानि हाति । पश्वादीनि हीत्यर्थः । तर्हि तस्य नियमेन कथं मनुष्यत्वप्राधिरत
आह-तत्र तमिति । ऋग्वेदरूपा हीति । पृयिव्यकारः स ऋग्वेद इति श्रुते-
रकारस्य तद्रूपत्वमित्यर्थः । अभिध्याताऽकाररूपा मात्रा ऋग्वेदरूपेत्यन्वयः । तेनेति ।
येनदरूपत्वं तस्य तेनों मनुष्यलोकमुपनयन्त इत्यर्थः । वीतश्रद्ध इति । श्रद्धा.
विरहितः सन्नित्यर्थः । योगभ्रष्ट इति । एकदेशज्ञानविकल इत्यर्थः । अनेन न हि
कल्याणकृत्कश्चिदिति गीतावाक्यसंवादः सूचितः ।। ३ ।।
अथ यदि द्विमात्रेण मनसि संपते. सोऽन्तरिक्षं
यजुर्तिरुनीयते सोमलोकम् । स सोमलोके विभूति-
मनुस्य पुनरावर्तते ॥ ४॥
५० आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [५ प्रश्नः ] अथ पुनर्यदि द्विमात्राविभागज्ञो द्विमात्रेण विशिष्टमोंकारमाभिध्या- यीत स्वमात्मके मनसि मननीये यजुर्मये सोमदेवत्ये संपद्यत एकाग्रत- याऽऽत्मभावं गच्छति । स एवं संपन्नो मृतोऽन्तरिक्षमन्तरिक्षाधारं द्विती- यमात्रारूपं द्वितीयमात्रारूपरेव यजुभिस्त्रीयते सोमलोकं सौम्यं जन्म प्रापयन्ति तं यजूंषीत्यर्थः । स तत्र विभूतिमनुभूय सोमलोके मनुष्य- लोकं प्रति पुनरावर्तते ॥ ४॥ द्विमात्रेण विशिष्टमिति । द्वितीयमानत्वेन विशिष्टमोंकारं तद्तमुकारमि. त्यर्थः । न तु मात्राद्वयमकारस्य पूर्वमेवोक्तत्वादत एव द्वितीयमात्रारूपमिति वक्ष्यति । श्रुतौ तृतीया द्वितीयाथै, ओंकारममिध्यायीतेत्युपक्रमादिति भावः । अत्राभिध्यान तादात्म्याभिमानपर्यन्तमिति वक्तुं मनसि संपद्यत इति वाक्यं तत्र साक्षान्मनःसंपत्तेः। साधनत्वेन वा फलत्वेन वाऽनन्वयान्मनःशब्देन तत्परिणामस्वप्नादिलक्षणद्वारा स्वप्न- यजुराधात्मत्वेन श्रुत्यन्तरे श्रुतोंकार एव लक्ष्यत इत्याह-स्वमात्मक इति । उकारे संपत्तिपर्यन्तमभिध्यानं यः करोतीति वाक्यार्थ इत्यर्थः । अब केचित्सः यदी. त्यादिर्यः पुनरित्यन्तं न स्तुतिः किंतूक्तफलायाकारे विश्वामिन्नविरा/पासनमुकारे तैनसामिन्नहिरण्यगर्मोपासनं च विवक्षितमित्याहुः । तन्मते मनःशब्देनाण्डपरिणाम. स्वप्नाभिमानी हिरण्यगर्भ उच्यत इति वक्तुं स्वप्नात्मक इत्यादिविशेषणानीति बोध्यम् । दीपिकायां तु मात्राद्वयस्य मिलितस्योपासनं मनसि संपत्तिश्च मनसैकार- तया चिन्तनमिति च व्याख्यातम् ॥ ४ ॥ यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषम- भिध्यायात स तेजसि सूर्ये संपन्नः । यथा पादो- दरस्त्वचा विनिर्मुच्यत एवं ह वै स पाप्मना विनि- मुक्तः स सामभिरुन्नीयते ब्रह्मलोकं स एतस्माजी- बघनात्परात्परं पुस्शियं पुरुषमीक्षते तदेतौ श्लोको भवतः ॥ ५॥ यः पुनरैतमोकारं त्रिमात्रेण त्रिमात्राविषयविज्ञानविशिष्टेनोमित्येते. नैवाक्षरेण परं सूर्यान्तर्गतं पुरुषं प्रतीकेनाभिध्यायीत तेनाभिध्यानेन प्रतीकत्वेन ह्यालम्बनत्वं प्रकृतीकारस्य परं चापरं च ब्रह्मेत्यभेदश्रुतेरों- कारमिति च द्वितीयाऽनेकशः श्रुता बाध्येतान्यथा यद्यपि तृतीयाभि- १ क. ख. ङ. यरू' । २ ख. ग. ङ. रेनं त्रि१ ३ ख. घ. ङ, "रेनमो । ४ ख, ग, घ, क. श्रुत्योंका। ह १५ प्रश्नः ] प्रश्नोपनिषत् । धानत्वेन करणत्वमुपपद्यते तथाऽपि प्रकृतानुरोधात्रिमात्रं परं पुरुषामि- ति द्वितीयैव परिणेया त्यजेदेकं कुलस्यार्थ इति न्यायेन, स तृतीयमा- त्रारूपस्तेजसि सूर्ये संपन्नो भवति ध्यायमानो मृतोऽपि सूर्यात्सोमलो. कादिवन पुनरावर्तते किंतु सूर्य संपन्नमात्र एव । यथा पादोदरः सर्प- स्त्वचा विनिर्मुच्यते जीर्णत्वग्विनिर्मुक्तः स पुनर्नवो भवति । एवं ह वा एष यथा दृष्टान्तः स पाप्मना सर्पत्वस्थानीयेनाशुद्धिरूपेण विनि- मुक्तः सामभिस्तृतीयमात्रारूपैर्ध्वमुन्नीयते ब्रह्मलोकं हिरण्यगर्भस्य ब्रह्मणो लोकं सत्याख्यम् । स हिरण्यगर्भः सर्वेषां संसारिणां जीवा- नामात्मभूतः । स ह्यन्तरात्मा लिङ्गरूपेण सर्वभूतानां तस्मिन्हि लिङ्गा- त्मान संहताः सर्वे जीवाः । तस्मात्स जीवधनः । स विद्वास्त्रिमात्रा- काराभिज्ञ एतम्माज्जीवधनाद्धिरण्यगर्भात्परात्परं परमात्माख्यं पुरुष- मीक्षते पुरिशयं सर्वशरीरानुपविष्टं पश्यति ध्यायमानः । तदेतस्मिन्य- थोक्तार्थप्रकाशको मन्त्री भवतः॥ ५ ॥ एवमोंकारं स्तुत्वा तदुपासनं परब्रह्मविषयं विधत्ते-यः पुनरिति । विज्ञा- नविशिष्टेनेति । विज्ञानविषयी कृतेनेत्यर्थः । मात्रात्रयात्मकज्ञानेनेति यावत् । पूर्वव- दत्रापि त्रिमात्रेणेत्यत्र तृतीया मात्रा मकार उच्यत इति भ्रमं वारयितुमोमित्येतेनै- वाक्षरेणेत्युक्तम् । पूर्वत्र तत्तन्मात्राप्रधान ओंकार एवोच्यत इति मत इहैवेदं विशे. षणमनुपपन्नं पूर्वत्राप्योंकारस्येवोक्तत्वादिति तन्मतमनुपपन्नमिव भातीति त्रिमात्रेणेति तृतीयाश्रवणादोंकारो न प्रतीकम् । तथा सति विषयत्वेन कर्मतया द्वितीया स्याकि. त्वभिध्यायकत्वेन करणत्वमेव तृतीयाबलादिति भ्रमं वारयति-प्रतीकेनेति । तस्य कर्मत्वेऽपि कारकत्वेनामिध्यानक्रि शानिर्वर्तकत्वेन हेतुत्वात्तन्मात्रविवक्षया तृतीयोपप- द्यत इत्यर्थः । एवं व्याख्याने हेतुमाह-प्रतीकत्वेनेति । अभेदेति । प्रतीकत्वे ह्यधिष्ठानाध्यस्यमानयोस्तादात्म्यारोपादभेदश्रवणमुपपद्यते करणत्वे तु न तदुपपद्यत इत्यर्थः । अनेकश इति । ओंकारमभिध्यायीत स यद्येकमात्रमभिध्यायीतेति द्विवार श्रुतेत्यर्थः । अन्यथेत्यस्य बाध्येतेत्यनेनान्वयः । अथ यदि द्विमात्रेण यः पुनरेतं त्रिमात्रेणेति च तृतीयाऽपि द्विवारं श्रुता हेतुत्वापेक्षया करणत्वेन स्वरसा च कारकविभक्तित्वात्ततस्तस्या अपि बाधो न युक्त इति शङ्कते-यद्यपीति । द्वितीयाद्वयस्यापि कर्मत्वे स्वारस्यादुपक्रमस्थत्वाच्च तस्यैव प्राबल्यमित्याह-तथाऽपीति । प्रकृतति । प्रक्रमानुरोधादित्यर्थः । किंच द्वितीयाद्वयमुक्ता( क्त्वाऽ१ )भेदश्रुतिः । १ ख. ग. घ. ङ. च. रूपे तेज २ क. ख. ङ. सूर्यसं। ३ ख. ग. घ. ङ. त्ववियुक्तः।। ख. "त्मज्ञातेने ग. "मना ज्ञातेने । घ. इ. त्मना । ५ क. धानोंका।६च. 'साच का।
... आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [५ प्रश्नः ] एतेनैवाऽऽयतनेनैकतरमन्वेति । आयतनेनैवान्वेतीत्यालम्बनवाच्यायतनश्रुतिद्वयं चेति बहुश्रुत्यनुरोधेन तृतीयाद्वयं त्याज्यमित्याह-त्यजेदेकमिति । तृतीयमात्रा- रूप इति । यद्यपि मात्रात्रयध्यानान्मात्रात्रयरूपित्वमेव तस्य तथाऽपि तृतीयमा- प्राया एवेहासाधारण्यात्तत्प्राधान्येन निर्देश इति बोध्यम् । तृतीयमात्रारूप इति सप्त- म्यन्तपाठे तत्सूर्यविशेषणं मकारस्याऽऽदित्यात्मकत्वादिति । हिरण्यगर्भस्य जीवघनत्व- मनागतावेक्षणन्यायेनोपपादयति-स हिरण्यगर्भ इति । लिङ्गरूपेणेति । समष्टिलि. शूरूपेणेत्यर्थः । तस्मिन्हीति । समष्टिलिङ्गात्मनि हिरण्यगर्भ व्यष्टिलिङ्गाभिमानिनः सर्वे जीवा गोत्वप्तामान्ये खण्डमुण्डादय इव संहता इत्यर्थः । इदानीं वाक्यं योजय. ति-स विद्वानिति । स विद्वानिदानी ध्यायमानः पश्चाद्ब्रह्मलोकं प्रातः। तत्र ब्रह्मलोके स्थावरजङ्गमेभ्यः पराजीवधनात्परं पुरुषं पश्यति ततो मुक्तो मवतीत्यन्वयः ॥ ५ ॥ तिलो मात्रा मृत्युमत्यः प्रयुक्ता अन्योन्य सक्ता अनविप्रयुक्ताः । क्रियासु बाह्याभ्यन्तरमध्य- मासु सम्यक्प्रयुक्तासु न कम्पते ज्ञः ॥ ६ ॥ तित्रस्त्रिसंख्याका अकारोकारमकाराख्या ओंकारस्य मात्राः । मृत्युमत्यः, मृत्युर्यासां विद्यते ता मृत्युमत्यो मृत्युगोचरादनतिक्रान्ता मृत्युगोचरा एवेत्यर्थः । ता आत्मनो ध्यानक्रियासु प्रयुक्ताः। किंचा- न्योन्य सक्ता इतरेतरसंबद्धाः । अनविप्रयुक्ता विशेषेणेकविषय एव प्रयुक्ता विप्रयुक्ताः । न तथा विप्रयुक्ता अविप्रयुक्ता नाविप्रयुक्ता अन- विप्रयुक्ताः किं तार्ह विशेषेणैकस्मिन्ध्यानकाले तिसृषु क्रियासु बाह्या- भ्यन्तरमध्यमासु जाग्रत्स्वमसुषुप्तस्थानपुरुषाभिध्यानलक्षणासु योगाक्र- यासु सम्यमयुक्तासु सम्यग्ध्यानकाले प्रयोजितासु न कम्पने न चलति ज्ञो योगी यथोक्तविभागज्ञ ओंकारस्येत्यर्थः । न तस्यैवंविद- श्चलनमुपपद्यते । यस्माज्जाग्रत्स्वमसुषुप्तपुरुषाः सह स्थानैर्मात्रात्रयरूपे- णोंकारात्मरूपेण दृष्टाः स ह्येवं विद्वान्सर्वात्मभूत ओंकारमयः कुतो वा चलेत्कस्मिन्वा ॥६॥ तत्र यः पुनरेतमित्यादिनोक्तेऽर्थ आद्यं मन्त्रं योजयति-तिस्र इति । मृत्युगोचरा इति । प्रत्येकं ब्रह्मदृष्टिं च विना तदुपासकानां मृत्य्वनतिक्रमादित्यर्थः । ब्रह्मदृष्टया संश्लिष्टत्वेन च संभूय च प्रयुक्ताश्चेन्नायं दोष इत्याह-किंचेति । जाग्रदिति । जाप्र. त्पुरुषो वैश्वानराभिन्नो विश्वस्तत्स्थानं स्थूलशरीरं जागरितं च । स्वप्नपुरुषस्तु हिरण्यः ण्यगर्माभिन्नस्तैजसस्तत्स्थानं लिङ्गशरीरं स्वप्नश्च । सुथुधावीश्वरात्मा प्राज्ञस्तत्स्थानमव्या. ५ ख. ग. घ, ङ, चः 'धुप्तोऽपीश्व' । .
- NAJI .. .५ प्रश्नः] प्रश्नोपनिषत् । कृतं सुषुप्तिश्च । तेषामकारादितादात्म्येन यदभिध्यानं तल्लक्षणासु योगक्रियासु प्रयु- कास्वन्योन्यसक्ता अनविप्रयुक्तास्तिस्रो मात्राः प्रयुक्ताश्चेन्न कम्पत इत्यन्वयः । अनेन सर्वात्मके परब्रह्मणीश्वर ओंकारामेदेन ध्यानमुक्तम् । यथोक्तति । तिलो मात्रा इति श्लोकोक्तविमाग इत्यर्थः । कुतो वेति । चलनं विक्षेपः स्वस्य सर्वात्मत्वेन स्वव्यति- रिक्तामावाञ्चलनं न संभवतीति कुतो हेतोः कस्मिन्वा विषये चलेदित्यर्थः ॥ ६ ॥ सर्वार्थसंग्रहार्थों द्वितीयो मन्त्र:- ऋम्भिरेतं यजुर्भिरन्तरिक्षं * सामभिर्यत्तत्कायो वेदयन्ते । तमोंकारेणैवाऽऽयतनेनान्वेति विद्वा- न्यत्तच्छान्तमजरममृतमभयं परं चेति ॥ ७ ॥ इत्यथर्ववेदीय प्रश्नोपनिषदि पश्चमः प्रश्नः ॥ ५ ॥ ऋग्भिरेतं लोकं मनुष्योपलक्षितम् । यजुभिरन्तरिक्षं सोमाधिष्ठितम् । सामभिर्यचह्मलोकमिति तृतीयं कवयो मेधाविनो विद्यावन्त एव नाविद्वांसो वेदयन्ते । तं विविध लोकमोंकारेण साधनेनापरब्रह्मलक्षण- मन्वेत्यनुगच्छति विद्वान् । तेनैवीकारेण यत्तत्परं ब्रह्माक्षरं सत्यं पुरुषा- ख्यं शान्तं विमुक्त जाग्रत्स्वप्नसुषुप्त्यादिविशेषसर्वप्रपञ्चविवर्जितमत ए- वाजरं जरावर्जितममृतं मृत्युवर्जितमत एव यस्माज्जराविक्रियारहितम- तोऽभयम् । यस्मादेवाभयं तस्मात्परं निरतिशयम् । तदप्योंकारेणाऽऽय. तनेन गमनसाधनेनान्वेतीत्यर्थः । इतिशब्दो वाक्यपरिसमाप्त्यर्थः ॥७॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमद्गोविन्दभगवत्पूज्यपादशिष्य- श्रीमच्छंकरभगवतः कृतो प्रश्नोपनिषद्भाष्ये पञ्चमः प्रश्नः ॥५॥ - अपरब्रह्मप्राप्त्यर्थ य ओंकारः प्रयुक्तस्तेनैव न पृथक्प्रयुक्तः परमपि प्राप्नोति ब्रह्मलोक उत्पन्ननिर्विशेषब्रह्मसाक्षात्कारेणोक्तस्योंकारस्य क्रममुक्तिफलत्वादित्याह- तेनैवेति । येनापरमन्वेति तेनैव परमप्यन्वेतीत्येवकारार्थ इत्यर्थः । तदप्योंकारेणेत्या-.. यतनाविशेषणार्थ पुनरोंकारग्रहणमिति न पुनरुक्तिरिति बोध्यम् ॥ ७ ॥ इति श्रीमदानन्दज्ञानविरचितप्रश्नोपनिषद्भाष्यटीकायां पञ्चमः प्रश्नः ॥५॥ - x एतदने स इति पदं क्वचिन्मूलेऽधिकं तच्च भाष्ये दीपिकायां च नोपलभ्यते । १ क. तत्तत्सूक्ष्मलम । २ क. च. यादिर'।
५४ आनन्दगिरिकवटीकासंबलितांकरभाष्यसमेता- [पक्षः अथ षष्ठः प्रश्नः। -- अथ हैन सुकेशा भारद्वाजः पप्रच्छ । अथ हैनं सुकेशा भारद्वाजः पप्रच्छ, समस्तं जगत्कार्यकारणलक्षणं सह विज्ञानात्मना परस्मिन्नक्षरे सुषुप्तिकाले संप्रतिष्ठि(ठ)त इत्यु- क्तम् । सामर्थ्यात्मलयेऽपि तस्मिन्नेवाक्षरे संप्रतिष्ठते जगत्तत एवोत्पद्यत इति सिद्धं भवति । न ह्यकारणे कार्यस्य संप्रतिष्ठानमुपपद्यते । उक्तं च- " आत्मन एष प्राणो जायते" इति । जगतश्च यन्मूलं तत्परिज्ञाना. स्परं श्रेय इति सर्वोपनिषदां निश्चितोऽर्थः । अनन्तरं चोक्तं स सर्वज्ञः सर्वो भवतीति । वक्तव्यं च क तर्हि तदक्षरं सत्यं पुरुषाख्यं विज्ञेय. मिति । तदर्थोऽयं प्रश्न आरभ्यते । वृत्तान्वाख्यानं च विज्ञानस्य दुर्ल. भत्वख्यापनेन तल्लब्ध्यर्थं मुमुक्षूणां यत्नविशेषोपादानार्थम् । गताः कलाः पश्चदश प्रतिष्ठाः कर्माणि विज्ञानमयश्चेति मन्त्रे कर्मभिः सह षोडश. कलानां परस्मिल्लयमुक्त्वा यथा नद्यः स्यन्दमाना इति मन्त्रेण दृष्टान्तोक्तिद्वारा पर. प्राप्तिरुता तन्मन्त्रयोर्विस्तराभिधानार्थ षष्ठं प्रश्नमारमते-अथ हैनमिति । तस्य पूर्वेण संगतिमुक्तार्थानुवादपूर्वकमाह-समस्तमित्यादिना । अक्षरस्य कारणत्वसि- द्धयर्थ प्रलयेऽपि तस्मिन्नेव लयमाह--सामर्थ्यादिति । ल्याधारत्वेन कारणत्व- माह-तत इति । तदुक्तेः प्रयोजनमाह-जगत इति । यद्यप्यद्वितीयात्मज्ञाना- न्मुक्तिर्न कारणज्ञानात्तथाऽपि तस्य कारणत्वे तद्व्यतिरेकेण कार्याभावात्तद्वितीयत्व- ज्ञान सिध्यतीति तादृशात्मज्ञानात्परं श्रेय इति । आत्मा वा इदमेक एव । स एत- मेव पुरुषं ब्रह्म ततममपश्यत् । प्रज्ञानं ब्रह्म । स एतेन प्रज्ञेनाऽऽत्मनाऽमृतः समभवत् । सदेवैकमेवाद्वितीयमित्युपक्रम्याऽऽचार्यवान्पुरुषो वेद, अथ संपत्स्ये, तमेवै जानथ । अमृतस्यैष सेतुः, अहं ब्रह्मास्मीति । तस्मात्तत्सर्वमभवदित्यादिषु निश्चितमित्यर्थः । इहापि तादृगात्मज्ञानादेव सर्वात्मभावः श्रेय उक्त इत्याह-अनन्तरामिति । वृत्तमनूद्य वर्तिष्यमाणमाह--वक्तव्यमिति । तदर्थोऽयामिति । तस्य शरीरान्तः- स्थत्वोक्तिद्वारा तस्य प्रत्यगात्मत्वज्ञानार्थमित्यर्थः । भगवन्हिरण्यनाभः कौसल्यो राजपुत्रो मामुपे- . १ ख. ग. घ. छ. 'तान्तव्याख्या 'च. 'त्तान्तान्वाख्या १२ क. ग. च. षोत्पादना। ३ ख. ग. घ, ङ, णत्वार्थम् । त।
18 प्रश्नः] प्रश्नोपनिषद । त्यैतं *प्रश्नमपृच्छत । षोडशकलं भारद्वाज पुरुषं वेत्थ । तमहं कुमारमब्रुवं नाहमिमं वेद । यद्यहमिमम- बेदिषं कथं ते नावक्ष्यामिति । समूलो वा एष परिशु- व्यति योऽनृतमभिवदति तस्मान्नाम्यिनृतं वक्तुम् । स तूष्णीं रथमारुह्य प्रवबाज । तं त्वा पृच्छामि कासौ पुरुष इति ॥ १ ॥ हे भगवन्हिरण्यनाभो नामतः कोसलायां भवः कौसल्यो राजपुत्री जातितः क्षत्रियो मामुपेत्योपगम्यैतमुच्यमानं प्रश्नमपृच्छत । षोडश- कलं षोडशसंख्याकाः कला अवयवा इवाऽऽत्मन्यविद्याध्यारोपितरूपा यस्मिन्पुरुषे सोऽयं षोडशकलस्तं षोडशकलं हे भारद्वाज पुरुषं वेत्थ विजानासि । तमहं राजपुत्रं कुमारं पृष्टवन्तमब्रुवमुक्तवानस्मि नाहमिमं वेद यं त्वं पृच्छसीति । एवमुक्तवत्यपि मय्यज्ञानमसंभावयन्तं तमज्ञाने कारणमवादिषम् । यदि कथंचिदहमिमं त्वया पृष्टं पुरुषमवदिषं विदि. तवानस्मि कथमत्यन्तशिष्यगुणवतेर्थिने ते तुभ्यं नावक्ष्यं नोक्तवा- नस्मि । न ब्रूयामित्यर्थः । भूयोऽप्यप्रत्ययमिवाऽऽलक्ष्य प्रत्याययितुम- ब्रुवम् । समूला सह मूलेन का एषोऽन्यथा सन्तमात्मानमन्यथा कुर्व भनृतमयथाभूतार्थमभिवदति यः स परिशुष्यति शोषमुपैतीहलोकपर- लोकाभ्यां विच्छिद्यते विनश्यति । यत एवं जाने तस्मान्नाहाम्यहम- नृतं वक्तुं मूढवत् । स राजपुत्र एवं प्रत्यायितस्तूष्णीं वीडितो रथमा- रुह्य प्रवत्राज प्रगतवान्यथागतमेव । अतो न्यायत उपसन्नाय योग्याय जानता विद्या वक्तव्यैवानृतं च न वक्तव्यं सर्वास्वप्यवस्थास्वित्येत- सिद्धं भवति । तं पुरुषं त्वा त्वां पृच्छामि मम हृदि विज्ञेयत्वेन श- ल्यमिव मे हृदि स्थितं कासौ वर्तते विज्ञयः पुरुष इति ॥ १॥ प्रश्नमिति । प्रष्टव्यमित्यर्थः । अज्ञाने कारणमिति। अज्ञानसंभावनायां कारण- मित्यर्थः । अप्रत्ययमिति । अविश्वासमित्यर्थः । अन्यथा सन्तमिति । ज्ञानिन सन्तमन्यथा कुर्वन्नज्ञानिनं कुर्वन्नारोपयन्नित्यर्थः । कथं ते नावक्ष्यामित्यनेन सूचितमर्थ- माह-अत इति । समूलो वा इत्यनेन सूचितमाह-अनृतं चेति । स्वरूपेण शल्य- * क्वचिन्मूल एनमिति पाठ: 1X क्वचिन्मूले ह वा इति पाठः ।
आनन्दगिरिकृतटीकासंवलित शकिरभाष्यसमेवा- [ पन्नः] स्वाभावादाह-विज्ञेयत्वेनेति । यावजिज्ञासितं न ज्ञायते सावत्तद्धृदि शल्यवदासत इति शल्यमिवेत्युक्तम् ।। १ ॥ तस्मै स होवाच । इहैवान्तःशरीरे सोम्य स पुरुषो यस्मिन्नेताः षोडश कलाः प्रभवन्तीति ॥ २॥ . तस्मै स होवाच । इहैवान्तःशरीरे हृदयपुण्डरीकाकाशमध्ये हे सोम्य स पुरुषो न देशान्तरे विज्ञेयो यस्मिन्नेता उच्यमानाः षोडश कलाः प्राणाद्याः प्रभवन्त्युत्पधन्त इति । पोडशकलाभिरुपाधिभूताभिः सकल इव निष्कलः पुरुषो लक्ष्यतेऽविद्ययेति तदुपाधिकलाध्यारोपापनयेन विद्यया स पुरुषः केवलो दर्शयितव्य इति कलानां तत्पभवत्वमुच्यते । प्राणादीनामत्यन्तनिर्विशेषे ह्यद्वये शुद्ध तत्त्वे न शक्योऽध्यारोपमन्तरेण . प्रतिपाद्यप्रतिपादनादिव्यवहारः कर्तुमिति कलानां प्रभवस्थित्यप्यया आरोप्यन्तेऽविद्याविषयाचैतन्याव्यतिरेकेणैव हि कला जायमानास्ति- छन्त्यः प्रलीयमानाश्च सर्वदा लक्ष्यन्ते । अत एव भ्रान्ताः केचिदग्नि- संयोगाघृतमिव घटाद्याकारेण चैतन्यमेव प्रतिक्षणं जायते नश्यतीति । तनिरोधे शून्यमिव सर्वमित्यपरे । घटादिविषयं चैतन्यं चेतयितुर्नित्य. स्याऽऽत्मनोऽनित्यं जायते विनश्यतीत्यपरे। चैतन्यं भूतधर्म इति लोका. यत्तिकाः। पुरुषस्य षोडशकलत्वं न साक्षात्सावयवत्वेन किंतु कलाजनकत्वेन तदुपाधिमत्त्वा- दिति वक्तुं यस्मिन्नेता इति वाक्यमिति तत्तात्पर्थमाह-षोडशकलाभिरिति । ननु केवल आत्मा प्रदर्श्यतां किं वक्ष्यमाणकलोक्त्येत्यत आह-तदुपाधीति । तथैव स प्रदर्शनीय इत्यत्र हेतुमाह--अत्यन्तेति । अविद्याविषया इति । अविद्याधीना इत्यर्थः । कालत्रयेऽपि तासां चैतन्यरूपाधिष्ठानाव्यतिरेकाद्रज्जुसर्पवन्मृषात्वमित्यवि- याविषयत्वं साधयति-चैतन्येति । चेतन्याव्यतिरेकेण लक्ष्यमाणत्वं हेतु विज्ञानवा. दिभ्रान्त्या दृढी करोति-अत एवेति । घृतं यथाऽग्निसंयोगाद्रवावस्यां प्रतिपद्यत एवमहमाकारमालयविज्ञानमेव वासनावशाद्विषयाकारेण जायत इति वदतां तेषां भ्रमो विषयस्य चैतन्याव्यतिरेके प्रत्ययं गमयति । अन्यथा तथाभ्रमानुपपत्तरित्यर्थः । विष.. याणां चैतन्याव्यतिरेकेण प्रतीतिनियमादेव विषयविज्ञानरूपेण चैतन्यामावे सुषुप्त्यादी शून्यभ्रमो जातः केषांचिदिति तदीपभ्रान्त्याऽपि चैतन्याव्यतिरिक्तप्रतीतिं दृढी करोति-तनिरोध इति । चैतन्यस्यानित्यस्य कलारोपाधिष्ठानत्वं न संभवति कला--- १ कच. बिरूपाभिः । २ क. च. नयनेन ।
[ ६ प्रश्नः] प्रश्नोपनिषत् । ५७ कार्यत्वादिति नैयायिकपक्षोक्तिव्याजेन शङ्कते-घटादीति । भूतधर्म इति । देहा. कारेण संहतभूतधर्म इत्यर्थः। अनपायोपजनधर्मकचैतन्यमात्मैव नामरूपायुपाधिधर्म: प्रत्यवभासते । सत्यं ज्ञानमनन्तं ब्रह्म । प्रज्ञानं ब्रह्म विज्ञानमानन्दं ब्रह्म । विज्ञानघन एवेत्यादिश्रुतिभ्यः । स्वरूपव्यभिचारिषु पदार्थेषु चैतन्यस्याव्यभिचा- ‘राद्यथा यथा यो यः पदार्थो विज्ञायते तथा तथा ज्ञायमानत्वादेव तस्य तस्य चैतन्यस्याव्यभिचारित्वं वस्तुतत्त्वं भवति, किंचिन्न ज्ञायत इति चानुपपन्नम् । चैतन्यस्याऽऽरोपाधिष्ठानत्वसिद्धयर्थ नित्यत्वमेकत्वं च वदस्तानिराकरोति-अन- पायेति । प्रत्यवभासत इति । नानात्वेन कार्यत्वेन चेति शेषः । सत्यं ज्ञान- मिति । तथा च श्रुतिविरोधासे . पक्षा हेया इत्यर्थः । किंच ज्ञानकाले विषयाणां सद्भावनियमामावाद्विषयकाले च ज्ञानस्य सद्भावनियमात्तयोमेंद इति विज्ञानवादिपक्ष निराकुर्वन्नव्यभिचारादेव ज्ञानस्य नित्यत्वं साधयन्नैयायिकादिपक्षमपि निराकरोति- स्वरूपेति । घटज्ञानकाले घटामावसंभवाद्विषयाणां ज्ञानव्यभिचारित्वं ज्ञानस्य तु विषयकालेऽवश्यंभावनियमादब्यमिचारित्वमित्यर्थः । पटकाले घटज्ञानमपि नास्तीति घटज्ञानस्यापि पटविषयव्यभिचारित्वं तुल्यमित्याशङ्कय स्वरूपेत्युक्तम् । ज्ञानस्य विषयविशिष्टत्वरूपेणैव व्यभिचारः । विषयस्य तु स्वरूपेणैवेति विशेष इत्यर्थः । ज्ञानस्याव्यभिचारित्वमुपपादयति-यथा यथेति । ननुत्पन्नविनष्टादे रुगृहान्तर्वर्तिन- याज्ञायमानत्वाज्ज्ञानस्यापि ज्ञेयाव्यभिचारोऽसिद्ध इत्याशङ्कय तस्याज्ञाने तत्सद्भावा- सिद्धेस्तथाभूतपदार्थोऽसिद्ध इत्याह-वस्तुतत्त्वेति । रूपं च दृश्यते न चास्ति चक्षुरिति यथा । व्यभिचरति तु ज्ञेयं ज्ञानं न व्याभिचरात कदाचिदपि ज्ञेयम् । ज्ञेयाभावेऽपि ज्ञेयान्तरे भावा- ज्ज्ञानस्य । न हि ज्ञानेऽसति ज्ञेयं नाम भवति कस्यचित् । सुषुप्तेऽदर्श- नाज्ञानस्यापि सुषुप्तेऽभावाशेयवज्ञानस्वरूपस्य व्यभिचार इति चेन्न। ज्ञेयावभासकस्य ज्ञानस्याऽऽलोकवज्ज्ञेयाभिव्यञ्जकत्वात्स्वव्यङ्गन्धाभाव आलोकाभावानुपपत्तिवत्सुषुप्ते विज्ञानाभावानुपपणेः । अनुपपत्तिमेव दृष्टान्तेन स्फुटी करोति-रूपं चेति । ज्ञेयस्य ज्ञानव्यभिचारित्वं ज्ञानकाले सत्त्वनियमाभावरूपं स्पष्टमित्याह-व्यभिचरति विति । घटज्ञानकाले कदाचिद्घटामावादित्यर्थः । पटकाले घटज्ञानस्यापि व्यभिचारस्तुल्य इत्याशङ्कय १ क. च. ज्ञाममानन्दं न । १ ख. र. तस्याव्य' । ३ क. च. 'स्तु च भ' [४ का "दस्तनि । ५ क. च. 'स्तु चेति । ६ क च. तिवत् । व्यं । .
आनन्दगिरिकृतटीकासंचलितशांकरभाष्यसमेता- [ ६ प्रश्नः ] विशिष्टरूपेण व्यभिचारेऽपि स्वरूपेणाव्यभिचारं पूर्ववत्सूचितमाह-न व्यभिचरतीति । ज्ञानमित्यस्येहाप्यनुषङ्गः । पूर्ववाक्ये द्वितीयान्तमिह तु प्रथमान्तमिति विशेषः । भावादिति । स्वरूपेणेत्यर्थः । ज्ञानस्य स्वरूपेण सत्तामेव ज्ञेयान्तरस्य ज्ञेयत्वादेव साधयति-न हौति । स्वरूपेणाप्यमावं शङ्कते-सुषुप्त इति । किं तदानीं ज्ञेया- माधेन ज्ञानामावः साध्यत उत ज्ञानस्यादर्शनाद्वाऽऽचेऽपि ज्ञेयस्य व्यङ्गयत्वात्तदभा- वाद्व्यन्त्रकामाव इति वोत तयोरैक्यादेकामाव इतराभाव इति । नाऽऽद्यो व्यभिचा- रादित्याह-न । ज्ञेयेति । न ह्यन्धकारे चक्षुषा रूपानुपलब्धौ चक्षुषोऽभावः शक्यः कल्पयितुं वैनाशिकेन । वैनाशिको ज्ञेयाभावे ज्ञानाभावं कल्पयत्येवेति चेयेन तद- भावं कल्पयेत्तस्याभावः केन कल्प्यत इति वक्तव्यं वैनाशिकेन । व्यङ्गयज्ञानेककल्पस्य व्यङ्गया भावेऽमाव उच्यत आलोकस्य प्रत्यक्षसिद्धत्वान्नैव- मिति ज्ञानानुमेयत्ववादिन प्रति दृष्टान्तान्तरमाह-न हीति । पैनाशिकमते विज्ञान- व्यतिरिकालोकाद्यमावान व्यभिचार इति शङ्कते-वैनाशिक इति। कल्पयत्येवेति । उक्तव्यभिचारस्थलाभावेन व्यभिचारामावादित्यर्थः । एवमपि ज्ञानामावकल्पकस्य ज्ञेयाभावस्य ज्ञानमङ्गी क्रियते न वा । आये न ज्ञानामावसिद्धिस्तस्यैवाभावज्ञानस्य सत्त्वादित्याह-येनेति । येन ज्ञेयाभावज्ञानेन तदभावं कल्पयेत्तस्य ज्ञानस्यामावः केन कल्प्यते न केनापि कल्पयितुं शक्य इत्यर्थः । तदभावस्यापि ज्ञेयत्वाज्ञानाभावे तदनुपपत्तेः । ज्ञानस्य ज्ञेयाव्यति- रिक्तत्वाज्ञेयाभावे ज्ञानाभाव इति चेन्न । अभावस्यापि ज्ञेयत्वाभ्युपग- मादभावोऽपि ज्ञेयोऽभ्युपगम्यते वैनाशिकैर्नित्यश्च तदव्यतिरिक्तं चेज्ज्ञानं नित्यं कल्पितं स्यात्तदभावस्य च ज्ञानात्मकत्वादभावत्वं वाङ्मात्रमेव न परमार्थतोऽभावत्वमनित्यत्वं च ज्ञानल्य । न च नित्यस्य ज्ञानस्या- भावनाममात्राध्यारोपे किंचित्रटिकाम् । न द्वितीय इत्याह-तदभावस्यापीति । ज्ञेयाभावस्याप्यज्ञातस्य ज्ञानामावकल्प कत्वासमवादवश्यं ज्ञेयत्वात्तज्ज्ञानामावे तदनुपपत्तेः कल्पनानुपपत्तेर्ज्ञानानङ्गीकारपक्षो न युक्त इत्यर्थः । आद्यकोटौ द्वितीयकरूपं शङ्कते-ज्ञेयेति । वैनाशिकमतेऽप्यमावस्य ज्ञेयत्वाभ्युपगमाबुद्धिबोध्यं त्रयादन्यत्संस्कृतं क्षणिकं च तदिति प्रतिसंख्योऽप्रतिसं- ख्या(?)निरोधाकाशरूपत्रयव्यतिरिक्तस्यैव क्षणिकत्वेन निरोधशब्दितस्यामावस्य । क. ख. ङ. च. "यितुमवै । २. ग. च. 'कल्प्यस्य । ३ क. च. ख्यानि । ४ क. धादाका :
५ प्रश्नः ] प्रश्नोपनिषत् । नित्यत्वाङ्गीकारेण तदमिन्नस्य ज्ञानस्यापि सुषुप्ते सत्त्वं नित्यत्वं च प्राप्तमित्याह-न। अभावस्येति । ज्ञानस्यामावामिन्नत्वेनामावत्वमेव स्यान्न तु भावत्वेन सत्त्वं नित्यत्वं च स्यादित्याशङ्कयामावस्यापि ज्ञानामिन्नत्वेऽमावत्वमेव न स्यादित्याह-तदभाव. स्येति । अनित्यत्वं च ज्ञानस्येति वाङ्मात्रमेव स्यादित्यनुषङ्गः। वाङ्मात्रेणाप्यमाव- स्याभावत्वेन ज्ञानानित्यत्वेन चास्मसिद्धान्तसिद्धिरित्याशङ्कय नाममात्रेण तेन वा- स्तवनित्यत्वादिविरोधाभावान्नास्माकं क्षतिरित्याह-न चेति । अभावनामेति । अनित्यनामेत्यपि द्रष्टव्यम् । अथाभावो ज्ञेयोऽपि सज्ञानव्यतिरिक्त इति चेन्न तहि ज्ञेयाभावे ज्ञानाभावः । ज्ञेयं ज्ञानव्यतिरिक्तं न तु ज्ञानं ज्ञेयव्यतिरिक्तमिति चेन्न। शब्दमात्रत्वाविशेषानुपपत्तेः । ज्ञेयज्ञानयोरेकत्वं चेदभ्युपगम्यते ज्ञेयं ज्ञानव्यतिरिकं ज्ञानं ज्ञेयव्यतिरिक्तं नेति तु शब्दमात्रमेतद्वह्निरग्निव्य- तिरिक्तोऽग्निर्न वह्निव्यतिरिक्त इति यद्वदभ्युपगम्यते, ज्ञेयव्यतिरेके तु ज्ञानस्य ज्ञेयाभावे ज्ञानाभावानुपपत्तिः सिद्धा। एतद्दोषपरिहारार्थ ज्ञेयस्यापि सतोऽमावस्य ज्ञानामेदो नाङ्गी क्रियत इति शङ्कते- अथेति । तर्हि ज्ञेयामिन्नत्वेन हेतुना सुषुप्ते ज्ञानाभावो न सिध्यति घटाघमावेन तज्ज्ञानामावसिद्धावप्यमावज्ञानाभावासिद्धेस्तस्याभिन्नत्वाभावादित्याह- -न तहीति। यद्वाऽमावस्य ज्ञेयस्य ज्ञानाद्भदे भावस्यापि तथात्वं स्याद्विशेषहेत्वभावात्तथा च न ज्ञेयाभावाज्ज्ञानामावसिद्धिरित्याह-न तहीति । ननु ज्ञेयस्य ज्ञानव्यतिरिक्तत्वमङ्गी क्रियते तथा चामावस्य ज्ञानव्यतिरिक्तत्वादभावत्वादिकं सिध्यति । ज्ञानस्य तु न ज्ञेयव्यतिरिक्तत्वम् । तथा च ज्ञेयामावे ज्ञानामावसिद्धिरिति निरुद्धगतिकः शङ्कते- ज्ञेयमिति । ज्ञानस्य ज्ञेयाव्यतिरेके ज्ञेयस्यापि तदव्यतिरेकावश्यमावादन्यथोमयोरत्य- न्तभेद एव स्याद्भेदाभेदयोर्विरोधादनुपपत्तेरिति दूषयति-न । शब्दमात्रत्वादिति । इदमुपलक्षणम् । ज्ञानस्याभावाव्यतिरेकेण नित्यत्वादिकं च स्यादेवेत्यपि द्रष्टव्यम् । यद्येतोषपरिहाराय तस्यापि भेद एवाङ्गी क्रियते तर्हि न सुषुप्तौ ज्ञानामावसिद्धि. रित्युपसंहरति-ज्ञेयव्यतिरेके त्यिति । ज्ञेयाभावेऽदर्शनादभावो ज्ञानस्येति चेन्न । सुषुप्ते ज्ञप्त्यभ्युपगमात् । वैनाशिकैरभ्युपगम्यते हि सुषुप्तेऽपि ज्ञानास्तित्वं, तत्रापि ज्ञेयत्वमभ्यु- पगम्यते ज्ञानस्य स्वेनैवेति चेन्न । भेदस्य सिद्धत्वात् । सिद्धं स्वभाव- विज्ञेयविषयस्य ज्ञानस्याभावज्ञेयव्यतिरेकाञयज्ञानयोरन्यत्वम् । सुषुप्ते ज्ञानस्यादर्शनादेवाभाव इत्याचे द्वितीयं शङ्कते-ज्ञेयाभाव इति । आलय- १ ख. घ. क. °ग्निर्वनिरभ्यु । २ घ, ङ, ति विरु।
६० आनन्दगिरिकृतदीकासंबलितशांकरभाष्यसमेता- [प्रश्नः] विज्ञानसंततेनित्यत्वाङ्गीकारेण त्वया तदाऽपि तदमावो वक्तुं न शक्यत इत्याह- न। सुषुप्त इति । अस्तित्वमिति । तथा च ज्ञानस्यादर्शनमसिद्धं सुषुप्चेऽपि तदही- कारादित्यर्थः । ननु ज्ञेयाभावेन तन्निरूप्यस्य ज्ञानस्यादर्शनमित्युच्यते मया। सुषुप्ते च स्वस्यैव स्वज्ञेयत्वाज्ज्ञानदर्शनमुपपद्यतेऽस्मन्मत्ते । त्वन्मते तु स्वज्ञेयत्वानङ्गीकारात्सु- धुप्ते चान्यस्याभावानिरूपकामावान ज्ञानदर्शनास्तित्वमुपपद्यत इति शङ्कते-त्रा- पीति । अमावस्थले ज्ञानज्ञेययोर्मेदस्य साधितत्वात्तदृष्टान्तेन सर्वत्र ज्ञानज्ञेययोमें- दसाधनान्न स्वज्ञेयत्वं ज्ञानस्येत्याह-न भेदस्यति । अमावरूपो [ विज्ञेयो विषयो यस्य तस्य ज्ञानस्यामावरूपो यो ज्ञेयस्तद्व्यतिरेकादित्यर्थः । न हि तत्सिद्धं मृतमिवोज्जीवयितुं पुनरन्यथा कर्तुं शक्यते वैना- शिकशतैरपि ज्ञानस्य ज्ञेवत्वमेवेति । तदप्यन्येन तदप्यन्येनेति त्वत्पक्षेऽतिप्रसङ्ग इति चेन्न । तद्विभागोपपत्तेः सर्वस्य । बदा हि सर्व ज्ञेयं कस्यचित्तदा तद्व्यतिरिक्तं ज्ञानं ज्ञानमेवेति द्वितीयो विभाग एवाभ्युपगम्यतेऽवैनाशिकैर्न तृतीयस्तद्विषय इत्यनवस्थानुपपत्तिः। 'अमावस्थले मेदेऽपि न सर्वत्रेत्याशङ्कय न्यायस्य तुल्यत्वान्न तदन्यथा कर्तु शक्यमित्याह-न हीति | ज्ञानस्य स्वव्यतिरिक्तज्ञेयत्वनियमपक्षेऽनवस्थां वैना- शिक: शङ्कते-ज्ञानस्येति । ज्ञेयस्य स्वव्यतिरिक्तज्ञेयत्वनियमाङ्गीकारादस्म- न्मते च ज्ञानस्य ज्ञेयत्वानङ्गीकारान्न दोष इत्याह-न । तदिति । सर्वस्य वस्तुना. तस्य विभागोऽसंकरो ज्ञानं ज्ञानमेव न ज्ञेयं ज्ञेयमपि ज्ञेयमेव न कदाचिदपि ज्ञानमि- त्येवरूपस्तस्योपपत्तेरित्यर्थः । अथवा द्विमागोपपत्तरिति च्छेदः । ज्ञानज्ञेयरूप- भागद्वयमेव राशिद्वयमेवाङ्गी क्रियते न तृतीयो ज्ञानविषयकज्ञानरूपो भाव. राशिरङ्गी क्रियत इत्यर्थः। ता( त )मेवाऽऽह-यदा हीति । यस्मिन्पक्षे ज्ञेयं सर्व स्वव्यतिरिक्तस्य कस्यचिज्ज्ञानस्य ज्ञेयमित्यङ्गी क्रियत इति ज्ञेयपदावृत्त्या स्वव्यतिरिक्तस्थेति पदाध्याहारेण च यदा हीति वाक्यं योज्यम् । अवैनाशिकरिति च्छेदः । तद्विषय इति । ज्ञानविषयकज्ञानात्मक इत्यर्थः । ज्ञानस्य स्वेनैवाविज्ञेयत्वे सर्वज्ञत्वहानिरिति चेत्सोऽपि दोषस्तस्यै- वास्तु किं तन्निबर्हणेनास्माकमनवस्थादोषश्च ज्ञानस्य ज्ञेयत्वाभ्युपगमा- दवश्यं च वैनाशिकानां ज्ञानं ज्ञेयम् । तर्हि त(त्व) पक्षे ज्ञानात्मकस्य ब्रह्मणः सर्वज्ञत्वं न स्यात्स्वेन स्वस्याज्ञानादिति शङ्कते-ज्ञानस्येति । ज्ञातुं योग्यस्य सर्वस्याज्ञाने हि सर्वज्ञत्वहानिः, अन्यथा शश- विषाणादेरज्ञानात्सर्वज्ञत्वं कस्यापि मते न स्यादतो:नास्मन्मते तस्य दोषस्य प्राप्तिः किंतु १ क. च. नमप्युप।
[६ प्रश्नः] प्रश्नोपनिषत् । ६१ वैनाशिकस्यैव, वेन ज्ञानस्यावश्यज्ञेयत्वाङ्गीकारात्स्वेन स्वस्य ज्ञेयत्वस्य सिद्ध होति पूर्व- प्रन्ये दूषितत्वादन्यज्ञेपत्वस्य चानङ्गीकारात्सर्वज्ञा(ज्ञ)त्वायोगादित्याह-सोऽपीति। तहि तव मते कथं सर्वज्ञत्वनिर्वाह इत्याशङ्कयास्मन्मते तस्य मायिकस्वेन तदनिर्वाहेऽपि न दोष इत्याह-किं तदिति । वस्तुतस्तु - सर्वस्य व्यवहारहेतुज्ञानवत्वं सर्वज्ञत्वं तत्तु ज्ञानस्यापि स्वप्रकाशवेन स्वव्यवहारहेतुत्वादस्ति ज्ञातुं योग्यं सर्वज्ञानाद्वा तद्- स्तीति भाषः । पूर्वोकानवस्थादोषोऽपि तस्यैवेत्याह-अनवस्थति । स्वात्मना चाविज्ञेयत्वेनानवस्थाऽनिवार्या । समान एवायं दोष इति चेन्न । ज्ञानस्यैकत्वोपपत्तेः । सर्वदेशकालपुरुषायवस्थमेकमेव ज्ञानं नामरूपायचेकोपाधिभेदात्सवित्रादिजलादिप्रतिबिम्बवदनेकधाs. वभासत इति । नासो दोषः । तथा चेहेदमुच्यते । ननु तेन स्वेनेव जेषत्वाङ्गीकारान्नानवस्थेत्यत आह-स्वात्मना चेति । सिद्ध हीत्यत्र स्वज्ञेयत्वासंमवस्योकत्वात्परिशेषादन्यज्ञेयत्वे तस्य तस्याप्येवमित्यनव- स्थाऽनिवार्येत्यर्थः । ज्ञानस्याज्ञेयत्वे तद्व्यवहारासिद्धिर्ज्ञानान्तरज्ञेयत्वे चानवस्था तवापि स्यादिति शङ्कते-समान एवेति । स्वप्रकाशत्वेन स्वव्यवहारसिद्धर्ज्ञानभेद- स्यैवास्मामिरनङ्गीकारादनवस्थायाः प्रसचिरेव नास्तीति परिहरति-न । ज्ञानस्ये- ति । एकत्वपक्षे भेदप्रतीतिमुपपादयति-नामरूपति । एवं च चैतन्यस्यैकत्वेन नित्यत्वाजगदिनत्वेन तस्य सत्यत्वाच्चाधिष्ठानत्वोपपत्तेस्तस्मिन्कलानामध्यारोप आत्मप्रतिपत्त्यमिहोच्यत इत्याह-तथा चेहति । चैतन्यस्य नित्यत्वेनाधिष्ठानत्वे सतीह श्रुताविदं कलानामध्यारोपणमुच्यत इत्यर्थः । ननु श्रुवेरिहैवान्तःशरीरे परिच्छिन्नः कुण्डबदरवत्पुरुष इति, न । प्राणादिकलाकारणत्वात् । न हि शरीरमात्रपरिच्छिन्नस्य प्राणश्रद्धा- दीनां कलानां कारणत्वं प्रतिपत्तुं शक्नुयात् । कलाकार्यत्वाच्च शरीर- स्य । न हि पुरुषकार्याणां कलानां कार्य सच्छरीरं कारणकारणं स्वस्य पुरुषं कुण्डबदरमियाभ्यन्तरी कुर्याद, बीजवृक्षादिवत्स्यादिति चेत् । ननु . चैतन्यस्य न नित्यत्वं परिच्छेदश्रुतेः परिच्छिन्नस्य च घटादिवदनित्यत्वा- दिति शङ्कते-जन्विति । शरीरान्तःस्थत्वं प्रत्यक्त्वविवक्षयोच्यते न परिच्छेद- विवक्षया । तथा सत्युत्तरवाक्यविरोधादित्याह-नेति । अयोग्यत्वादपिसोऽयों न विवक्षित इत्याह -कति । स्वोत्पत्तेः पूर्वं स्वस्यामावात्तत्कालीनपुरुषं परिच्छेत्तुं न शक्नोतीत्यर्थः । चीजकार्यस्य वृक्षस्य कार्य फलं स्वकारणवृक्षकारणं बीजमन्यन्तरी करोतीति दृष्टमिति नायोग्यत्वमिति शङ्कते---बीजवृक्षादिवदिति । ४ सर्वशस्य मनहारहानत्वमिति क्वचित्पाठः । सर्वव्यवहारहेतृत्वमित्येव तु पठितुं योग्यम् ।
आनन्दगिरिकृतटीकासंवलिवांकरभाष्यसमेता- [ ६ प्रश्नः ] यथा बीजकार्य वृक्षस्तस्कार्य च फलं स्वकारणकारणं बीजमभ्य. न्तरी करोत्याघ्रादि तद्वत्पुरुषमभ्यन्तरी कुर्याच्छरीरं स्वकारणकारण- मपीति चेन्न । अन्यत्वात्सावयवत्वाच । दृष्टान्ते कारणबीजावृक्षफल. संवृत्तान्यन्यान्येव बीजानि दान्तिके तु स्वकारणकारणभूतः स एव पुरुषः शरीरेऽभ्यन्तरीकृतः श्रूयते । तद्विवृणोति-यथेति । दृष्टान्ते बीजव्यक्तिभेदादविरोधेऽपीह पुरुषव्यक्त्यैक्या- कारणत्वाभ्यन्तरीभावयोर्विरोध इत्याह--नेति । ननु कारणीभूतबीजस्यैव वृक्षफ- लतदन्तर्गतबीजरूपेण परिणामात्तयोः कारणकार्यवीजयोरेक्यमाशङ्कयैवमपि तस्य सावयवत्वावृक्षवत्फलाकारेण परिणतावयवेभ्यो मिन्नावयवानामेव तदन्तर्गतवीनरू- पेण परिणामात्तयोर्भेदेनाऽऽधाराधेयभावः स्यादिह तु निरवयवत्वान्न तथात्वमि- त्याह-सावयवत्वाञ्चेति । आद्यं हेतुं विवृणोति-दृष्टान्त इति । श्रूयत इति । यस्मिन्नेताः षोडश कला इति यच्छब्दोक्तस्यैव पुरुषस्यान्तःशरीरे सोम्य स पुरुष इति तच्छब्देनाभिधानादित्यर्थः । बीजवृक्षादीनां सावयवत्वाच स्यादाधाराधेयत्वं निरवयवश्च पुरुषः सावयवाश्च कलाः शरीरं च, एतेनाऽऽकाशस्यापि शरीराधारत्वमनुपपन्नं किमुताऽऽकाशकारणस्य पुरुषस्य तस्मादसमानो दृष्टान्तः । किं दृष्टा- न्तेन वचनात्स्यादिति चेन्न । वचनस्याकारकत्वात् । न हि वचनं वस्तुतोऽन्यथाकरणे व्याप्रियते । किं तर्हि यथाभूतार्थावद्योतने । तस्मादन्तःशरीर इत्येतद्वचनमण्डस्यान्तव्योमेतिवञ्च द्रष्टव्यम् । उपल- ब्धिनिमित्तत्वाच्च दर्शनश्रवणमननविज्ञानादिलिङ्गैरन्तःशरीरे परिच्छिन्न इच युपलभ्यते पुरुष उपलभ्यते चात उच्यतेऽन्तःशरीरे सोम्य स पुरुष इति । न पुनराकाशकारणः सन्कुण्डबदरवच्छरीरपरिच्छिन्न इति मनसाऽपीच्छति वक्तुं मूढोऽपि किमुत प्रमाणभूता श्रुतिः ॥ २ ॥ द्वितीयं हेतुं विवृणोति-बीजति । निरवयवश्वेति । तथा चैकदेशेन कलादि- रूपेण परिणाम एकदेशेन तत्रावस्थानं बीजवन संभवतीत्यर्थः । किंच कलानां सावय. वत्वेन परिच्छेदात्पुरुषस्य तद्विपरीतत्वादपरिच्छिन्नस्य न परिच्छिन्नाधारकत्वं संभवती- त्याह-सावयवाश्चेति । यद्वा सावयवत्वेन कार्यतया मृषात्वानिरवयवतया पर- मार्थसत्यपुरुषाधारत्वं नोपपद्यत इत्याह--सावयवाश्चेति । नन्वाकाशकार्यशरीर आकाशस्यापरिच्छिन्नस्याभ्यन्तरीमावो दृष्ट इत्याशङ्कय तस्यापि शरीराकारणावस्था. - १ स्व. घ. इ. व्याक्रिय ।२ क, च. 'तेचात।
प्रश्नोपनिषत् । [६ प्रश्नः] नमेव च्छिद्रादिविशिष्टस्यैव शरीरत्वान्न तु तदन्त.स्थत्वमित्याह-एतेनेति । युक्त्य- सहमपि वचनप्रामाण्यादङ्गीकार्यमिति शङ्कते-किं दृष्टान्तेनेति । वचनस्यापि वस्तु. नोऽन्यथाकरणे सामर्थ्यामावाद्वस्तुस्वरूपाविरोधेनैव बोधकत्वादन्यथा विचारवैयों- द्विरुद्धार्थो न बोधार्ह इत्याह--वचनस्येति । तयन्तःशरीर इति श्रुतेः कथमुप. पत्तिरित्याशङ्कय पुरुषस्य शरीरोपादानत्वेन तदनुस्यूतस्य तदन्तर्गतवत्प्रतीतेस्तदमि- प्रायेव श्रुतिरिति दृष्टान्तमाह--तस्मादिति । अण्डेति । अण्डकारणस्य व्योन्नो यथा तदनुस्यूतत्वेन तदन्तर्गतत्वप्रतीतिस्तद्वदित्यर्थः । यद्वा लोकभ्रमसिद्धं परिच्छि- नत्वमनूयते श्रुत्येत्याह---उपलब्धीति । तत्राभिव्यक्तेर्वा तदन्तर्गतत्वव्यपदेश इत्याह--उपलभ्यते चेति ॥ २॥ यस्मिन्नेताः षोडश कलाः प्रभवन्तीत्युक्तं पुरुषविशेषणार्थ कलानां प्रभवः स चान्यार्थोऽपि श्रुतः केन क्रमेण स्यादित्यत इदमुच्यते- स ईक्षांचक्रे । कस्मिन्नहमुत्क्रान्त उत्क्रान्तो भवि- प्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति ॥३॥ चेतनपूर्विका च सृष्टिरित्येवमर्थं च पुरुषः षोडशकलः पृष्टो यो भारद्वाजेन स ईक्षांचक्र ईक्षणं दर्शनं चक्रे कृतवानित्यर्थः । सृष्टिफ. लक्रमादिविषयम् । कथमित्युच्यते, कस्मिन्कर्तृविशेषे देहादुत्क्रान्त उत्क्रान्तो भविष्याम्यहमेव(वं) कस्मिन्वा शरीरे प्रतिष्ठितेऽहं प्रतिष्ठा- स्यामि प्रतिष्ठितः स्यामित्यर्थः। ननु यस्मिन्नेताः षोडश कलाः प्रमवन्तीत्यनेनाध्यारोपस्योक्तत्वात्स ईक्षामित्या- दिना पुनः सृष्टिकथनमधिकमित्यत आह-यस्मिन्निति । अत इति । क्रमप्रति. पत्त्यर्थं स ईक्षामित्याधुच्यत इत्यर्थः । तत्प्रतिपत्तिश्च कलोत्पत्तिप्रतिपत्तिसौकर्थिम् । विपर्ययेण तु क्रमोऽत उपपद्यत चेति न्यायेन कार्यस्य स्वस्वकारणक्रमेणापवादसौ. कर्यार्थ चेत्यर्थः । ईक्षणोक्तेः प्रयोजनमाह---चेतनेति। सृष्टीति । सृष्टिः प्राणादेः सृष्टिः, तस्या उत्क्रान्त्यादि फलं, क्रमः प्राणाच्छूद्धामित्यायुक्तानन्तर्यम् । आदि- शब्देन लोकेषु नाम चेत्याधाराधेयविशेषो गृह्यते । नन्वात्माऽकर्ता प्रधान कर्तृ, अतः पुरुषार्थ प्रयोजनमुररीकृत्य प्रधान प्रवर्वते महदाद्याकारण तत्रेदमनुपपन्नं पुरुषस्य स्वान्तत्र्येणेक्षापूर्वकं क- र्तृत्ववचनम् । सत्त्वादिगुणसाम्ये प्रथाने प्रमाणोपपन्ने सृष्टिकर्तरि सतीश्व- रेच्छानुवर्तिषु वा परमाणुषु सत्स्वात्मनोऽप्येकत्वेन कर्तृत्वे साधनाभा- १ क, ख, ग. च. 'स्मिन्वह" । ।
- आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेवा- [ ( प्रश्नः ] वादात्मन आत्मन्यनर्यकर्तृत्वानुपपत्तेश्च । न हि सनावाम्बुद्धिपूर्वका- यात्मनोऽनर्थ कुर्यात् । नवीक्षणोक्त्या न चेतनपूर्वकत्वसिद्धियायेन चेतनस्थाकर्तृत्वेनाहेतुत्वेऽचेतनस्व प्रधानादेविक्रियावत्वेन हेतुत्वे च सतीक्षणस्यान्यथा नेयत्वादिति सांख्याः शङ्कन्ते- नन्वात्मेति । अकर्तेत्यस्य तत्रेदमित्यनेनान्वयः । आत्माऽकर्ता चत्र तथा सतीदं कर्तृत्ववचनमनुपपन्नमित्यर्थः। किंच तस्य कर्तृत्वाङ्गीकारेऽपि कर्तुःकुलालादेरिव सह- कारिसाधनान्तराभावादात्मनो दुःखाद्यनर्थहेतुप्राणादिसंसारकर्तृत्वामुपपत्तेश्चानुपपन्नं स्रष्टुत्ववचनमित्याह-आत्मनोऽपीति । कर्तृत्वेऽपीत्यपिशब्दान्वयः । तर्हि किं कर्बत आह-प्रधानमिति । कर्मिति । क्रियाशक्तिमदतः प्रवर्तत इत्यन्वयः । ननु प्रधान- स्याचेतनस्य प्रयोजनापेक्षाभावात्प्रवृत्त्यनुपपत्तिरित्यत आह-पुरुषार्थमिति । पुरु- षस्य चेतनस्य भोगापवर्गरूपमर्थ प्रयोजनमुद्दिश्य प्रवर्तते वत्सविवृध्यर्थमचेतनस्य धेनुदेहगतक्षीरस्य सस्यादिविवृद्वयर्थमम्बुनश्चाचेतनस्य प्रवृत्तिदर्शनादित्यर्थः । ननु प्रधानस्याप्येकत्वेन सहकार्यमावात्कारणत्वानुपपत्तावगत्या चेतनस्यैव कथंचित्कर्तृत्वं वाच्यमित्यत आह-सत्त्वादीति । सत्त्वादिगुणत्रयस्य साम्यावस्था प्रधानमिति सांख्यमतम् । तत्र सत्त्वादिगुणैरनेकात्मके प्रधाने कारणे सति पुरुषस्य कर्तृत्ववचनं. मगतेरमावादनुपपन्नमित्यन्वयः । यदि चेतनानाधिष्ठितस्याचेतनस्य प्रवृत्तिर्न दृष्टेति मन्य- से तर्हि परमाणुकारणवादोऽस्तु । तत्रेश्वरस्याधिष्ठातुः सत्त्वादित्याह-ईश्वरेच्छति । अत्रापि सस्वित्यस्यानुपपपन्नमिति पूर्वेणान्वयः । तस्मात्पुरुषार्थेन प्रयोजनेनेक्षापूर्वकमिव नियतक्रमेण प्रवर्तमानेऽचे- तने प्रधाने चेतनवदुपचारोऽयं स ईक्षांचक्र इत्यादिः। यथा राज्ञः सर्वा- र्यकारिणि भृत्ये राजेति तद्वत् । न, आत्मनो भोक्तृत्ववत्कर्तृत्वोपपत्तेः । यथा सांख्यस्य चिन्मात्रस्यापरिणामिनोऽप्यात्मनो भोक्तृत्वं तद्वद्वेदवा- दिनामीक्षादिपूर्वकं जगत्कर्तृत्वमुपपन्नं श्रुतिप्रामाण्यात् । तहक्षिणश्रवणस्य का गतिरत आह-तस्मादिति । पुरुषार्थेनेति । पुरुषस्य भोगापवर्गार्थनेत्यर्थः । मुख्य ईक्षितरि विद्यमानेन नियतक्रमेण प्रवर्तमानत्वेन गुणेन योगादेक्षतेति गौणः प्रयोगो माणवके पैडल्यगुणयोगेनानिशब्दप्रयोगवदित्यर्थः । नन्वेवमपीक्षितरि प्रधाने पुरुषशब्दः कथमत आह-यथा राज्ञ इति । तद्वदिति । पुरुषस्य भोगापवर्गकारिणि प्रधाने पुरुषशब्द औपचारिक इत्यर्थः । स्वतोऽकर्तुरप्या- स्मनो मायोपाधिककर्तृत्वं संभवतीति हृदि निधाय प्रथममापाततः प्रतिबन्धा परिहा रति-नेति । बुद्धिः कर्ती मोक्ता पुरुष इति वदद्भिः सांख्यरात्मनो भोक्तृत्वमुक्त, १ख, गघ, ङ. च. सांख्यः । २ क, च. "नसंग । ३ ख. ग घ. इ. च. त्यादि। य !
६ प्रश्नः प्रश्नोपनिषत् । मत्यर्थः। श्रुतिप्रामाण्यादिति । श्रुत्युक्तनगत्कर्तृत्वमविकारिणोऽपि कथंचिन्नि- ह्यमित्यर्थः । तत्त्वान्तरपरिणाम आत्मनाऽनित्यत्वाशुद्धत्वानेकत्वनिमित्तो न चि: न्मात्रस्वरूपविक्रियाऽतः पुरुषस्य स्वात्मन्येव भोक्तृत्वे चिन्मात्रस्वरूप- विक्रिया न दोषाय । भवतां पुनर्वेदवादिनां सृष्टिकर्तृत्वे तत्त्वान्तरपरिः णाम एवेत्यात्मनोऽनित्यत्वादिसर्वदोषप्रसङ्ग इति चेन्नः एकस्याप्यात्म नोऽविधायां विषयनामरूपोपाध्यनुपाधिकृतविशेषाभ्युपगमादविद्याकृत- नामरूपोपाधिकृतो हि विशेषोऽभ्युपगम्यत आत्मनो बन्धमोक्षादिशास्त्र कृतसंव्यवहाराय । परमार्थतोऽनुपाधिकृतं च तत्त्वमेकमेवाद्वितीयमुपादेयं सर्वतार्किकबुद्धधनवगाह्यमभयं शिवमिष्यते न तत्र कर्तृत्वं भोक्तृत्व वा क्रियाकारकफलं च स्यादद्वैतत्वात्सर्वभावानाम् । सांख्यास्त्वविः द्याध्यारोपितमेव पुरुषे कर्तृत्वं क्रियाकारकं फलं चेति कल्पयित्वाऽ. गमबाह्यत्वात्पुनस्ततस्त्रस्यन्तः परमार्थत एक भोक्तृत्वं पुरुषस्येच्छन्ति तत्त्वान्तरं च प्रधानं पुरुषात्परमार्थवस्तुभूतमेव कल्पयन्तोऽन्यतार्कि ककृतबुद्धिविषयाः सन्तो विहन्यन्ते । सांख्यः प्रतिबन्दिपारहारं शङ्कते-तत्त्वान्तरेति । मोगो नाम सुखदुःखानु- भवः । स च पुरुषस्य स्वरूपमूत इति न तत्त्वान्तरापत्तिलक्षणपरिणाम इत्यर्थः । परिणामो हि पूर्वरूपपरित्यागेन रूपान्तरापत्तिः । सा च सजातीयरूपान्तमापत्तौ कि जातीयरूपान्तरपत्तौ वाऽनित्यत्वादिकमावहेदेवेति मोज्याविकोपाधिकं मोक्तृत्वमा ङ्गीकर्तव्यम् । तेन तदात्मककर्तृत्वेऽपि तुल्यमित्यभिप्रेत्य मुख्यपरिहारमाह-नेति । एकस्य वस्तुतोऽसहायस्याकर्तुराप्तकामस्यापीत्यपेरर्थः । उपाधिकृतकर्तृत्वसंभवादकि घारूपसहायस्य संभवाद्वान्त्या स्वस्माद्भिन्नजीवानामनाप्तकामानां संभवात्तत्पुरुषार्थात स्रष्टुत्वं तथाविधस्याप्युपपद्यत इति नाचेतनस्य चेतनाधिष्ठितस्य तद्युक्तमिति भावः। नामरूपति । अनभिव्यक्तनामरूपेत्यर्थः । बन्धमोक्षादीत्यादिशब्देन तत्साधन च्यते । मोक्षस्यापि बन्धप्रतियोगित्वेन सोपाधिकत्वमुक्तम् । परमार्थस्य श्रुत्येकमस्या त्वमाह-सति । एवंभूतस्याऽऽत्मनो न स्त्रष्टुत्वमित्याह-न तोति । कल्प- यित्वेति । कल्पयित प्रवृत्ता इत्यर्थः । पुरुषस्य निर्विशेषत्वेन तस्मिन्वस्तुतः कर्तृ- वाद्ययोगात्तदारोपितमेवेति कल्पयितुं प्रवृत्ता अपि सर्वविरोधनिरासंकागमप्रमाणेकश- - १ ख. ग.घ.ङ, छ, ज. स. णामादात्म । १ क. मित्तचि । ख. पं. ङ, छ. जे. झ. मिबिच, मित्ताच..।.३ का व. "धावि । ग. "द्याकृतना' । ४ ख. ग. घ. सुखा। ५ ग. घ. नानधि:::::: 4. ९ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [प्रश्न रणवाभावात्मत्यक्षादिविरोधापत्याऽऽरोपितत्वाङ्गकाराच अस्यन्तः सर्व परमार्थने एवेच्छन्ति । तत्राप्यचेतनस्य मोक्तृत्वायोगात्तन्मात्रमात्मनोऽङ्गी कुर्वन्ति । कर्तृत्वा- दिकं तु प्रधानस्याङ्गी कुर्वन्तीत्यर्थः । तर्हि तस्य को दोष इत्याशङ्कय मोकृत्वाङ्गी- कारे तथैव तस्यैव कर्तृत्वमपि स्यादित्यन्यैः शिक्षिताः सन्तः स्त्रमतात्प्रच्यवन्त इत्याह-- अन्येति । कृतायाः शिक्षिताया बुद्धेविषयाः अधीनाः शिक्षितबुद्धय - इत्यर्थः । तथेतरे तार्किकाः सांख्यरित्येवं परस्परविरुद्धार्थकल्पनात आमि. पार्थिन इव प्राणिनोऽन्योन्यविरुद्धमानार्थदर्शित्वात्परमार्थतत्त्वादूर- मेवापकृष्यन्तेऽतस्तन्मतमनाहत्य वेदान्तार्थतत्त्वमेकत्वदर्शनं प्रत्यादर- चन्तो मुमुक्षवः स्युरिति तार्किकमतदोषमुदर्शनं किंचिदुच्यतेऽस्माभिर्न तु तार्किकवत्तात्पर्येण । तथैतदत्रोक्तम्- विवदत्स्वेव निक्षिप्य विरोधोद्भवकारणम् । तैः संरक्षितसद्बुद्धिः सुखं निर्वाति वेदवित् ॥ किंच भोक्तृत्वकर्तृत्वयोषिक्रिययोविशेषानुपपत्तिः । का नामासौ कर्तृत्वाज्जात्यन्तरभूता भोक्तृत्वविशिष्टा विक्रिया, यतो भोक्तंत्र पुरुषः कल्प्यते न कर्ता प्रधानं तु कर्डव न भोक्चिति । तर्हि सांख्यशिक्षकस्य तार्किकस्य मतं ग्राह्यमत आह-तयेति । तस्यापि सांख्येन शिक्षितत्वान्न तदपि ग्राह्यमित्यर्थः । तर्हि कस्य लार्किकस्य मतं ग्राह्यमित्याशङ्कय न कस्यापीत्याह-इत्येवमिति । तार्ह त्वया तार्किकमतं किमर्थं दृष्यते । परस्पर- मेव तैर्दूषितत्वात्तव तद्वदेव द्वेषादिमत्त्वप्रसङ्गाचेत्यत आह-अत इति । विरोधो- अवकारणमिति । पारमार्थिकतया भेददर्शनमित्यर्थः । संरक्षितेति । भेददर्शनस्य परस्परोकदोषग्रस्तत्वादद्वैतमेव निर्दष्टमिति निश्चितबुद्धिः सन्निर्वाति सर्वविकल्पेभ्य उपशान्तो भवतीत्यर्थः । दोषप्रदर्शन किंचिक्रियत इति यदुक्तं तदेव प्रपञ्चयक- तत्वादेरारोपितत्वमेव परेणापि वक्तव्यमित्याह-किंचेत्यादिना । तत्राऽऽदौ मोक्त त्वकर्तृत्वयाविशेषस्य वक्तुमशक्यत्वात्तयोराश्रयव्यवस्था न संभवतीत्याह- मोत्तृत्वेति । ननुक्कं पुरुषश्चिमात्र एव स च स्वात्मस्थो विक्रियते भुञ्जानो म तत्त्वान्तरपरिणामेन। प्रधानं तु तत्त्वान्तरपरिणामेन विक्रियतेऽतोऽनेक- मशुद्धमचेतनं चेत्यादिधर्मवचद्विपरीतः पुरुषः । नासो विशेषो बाइमात्र क.च. "न्योन्य वि.ख.प. अ. 'मानद । ३ क. च."मने होंषद .. प्रक्षः] प्रश्नोपनिषत् । स्वात, प्राग्भोगोत्पत्ते केवलचिन्मात्रस्य पुरुषस्य भोक्तृत्वं नाम विशेषो भोगोत्पत्तिकाले चेज्जायते निवृत्ते च भोगे पुनस्तद्विशेषांदपेतश्चिमात्र एव भवतीति चेन्महदाद्याकारेण च परिणम्य प्रधानं ततोऽपेत्य पुनः प्रधान स्वरूपेणावतिष्ठतः इत्यस्यां कल्पनायां न कश्चिदविशेष इति वामात्रेण प्रधानपुरुषयोर्षिशिष्टविक्रिया करप्यते । आशयमविद्वाशङ्कावसरोक्तं विशेष शङ्कते-नन्विति । स्वात्मस्थो विक्रियत इति । चिद्रूपेण विक्रियत इत्यर्थः । तत्त्वान्तरेति । अनेकत्वाशुद्धयादियुक्तस्वविल- क्षणमहदादिरूपेणेत्यर्थः । पुरुषस्य चिद्रूपेणैव परिणामान रूपान्तरापत्तिरशुद्धयादिकं वा । प्रधानस्य त्वाकारान्तरेण परिणामात्पूर्वरूपत्यागादशुद्धयादिकं स्यादित्यर्थः । किंचिद्रूपेण परिणाम आगन्तुको वा न वा । आद्य आगन्तुकविशेषवत्त्वेनानित्यत्वा- द्यापत्त्या प्रधानादविशेषः । मोगानन्तरं पुनः स्वरूपावस्थानान्नानित्यत्वादिदोषश्चेत्य- धानस्यापि प्रलये तयात्वाङ्गीकारान्न तयोविशेषः स्यादिति दूषयति-नासाविति । संग्रहवाक्य विवृणोति-प्रागिति । अस्या कल्पनायामिति । चिद्रूपेण तत्वान्तर- रूपेण विक्रियाकल्पनायामपि विचार्यमाणेऽर्थतो न कश्चिदपि विशेषो लभ्यत इति तयोविशिष्टविक्रियेति वाङ्मात्रेणैव कल्प्यत उच्यत इत्यर्थः । अथ भोगकालेऽपि चिन्मात्र एव प्राग्वत्पुरुष इति चेन्न तर्हि परमा- थतो भोगः पुरुषस्य, भोगकाले चिन्मात्रस्य विक्रिया परमार्थव तेन भोगः पुरुषस्येति चेनः । प्रधानस्यापि भोगकाले विक्रियावत्स्वानो- क्तृत्वप्रसङ्गः । चिन्मात्रस्यैव विक्रिया भोक्तृत्वमिति चेदोष्ण्याचसा- धारणधर्भवतामग्न्यादीनामभोक्तृत्वे हेत्वनुपपत्तिः । द्वितीयं शङ्कते-अथेति । चिन्मात्र एवेति । नवागन्तुकं रूपान्तरमित्यर्थः तर्हि कर्मजन्यः कादाचित्को भागो न सिध्येदित्याह-न तहीति-। एतद्दोषपरिहा-. रायाऽऽगन्तुकं परिणाममङ्गीकृत्य भोगकालीनविक्रियामात्रं भोगः । स च पुरुषस्यैव न प्रधानस्येति भोगसदसत्त्वविशेषमात्रेण शङ्कते-भोगकाल इति । तत्रापि कि भोगकालीनविक्रियामात्र भोग उत तत्कालीनचिन्मात्रगतविक्रियों भोग इति विका स्याऽऽये भोगकाले प्रधानस्यापि सुखाद्याकारेण विक्रियावत्त्वाद्भोगः स्यादित्यहि । नेति । द्वितीय शङ्कते-चिन्मात्रस्यैवेति । चिन्मात्रस्यैव विक्रियेत्येवकारेण धर्म्य- न्तरगतविक्रियानपेक्षा चैतन्यविक्रिया मोग इत्युच्यते वा चैतन्यमागता तदसाधा. रणा विक्रिया भोग इति वा । नाऽऽद्यः । सुखादिरूपप्रधानविक्रियां विना भोगा- सिद्धेः । न द्वितीयः । चैतन्यासाधारणविक्रियैव भोग इत्यत्र हेत्वभावात्स्वासाधार- णविक्रिया मोग इति वक्तव्यम् । तथा चातिप्रसङ्गः । सर्वस्यापि स्वासाधारणविक्रि. १ क. घ. यावत्त्वं भो।
. आनन्दगिरिकृतटीकासंघलितशांकरभाष्यसमेता- [१ प्रश्नः । यावश्चात् । मोगकालीनासाधारणविक्रियावत्त्वं तु प्रधानस्याप्यस्ति । तत्कालीनसुखा. दिविक्रियावत्वादिति दूषयति-औष्ण्येति । प्रधानपुरुषयोयोर्युगपद्भोत्तृत्वमिति चेन्न । प्रधानस्य पारार्थ्यानुप पत्तेः । न हि भोक्त्रोयोरितरेतरगुणप्रधानभाव उपपद्यते । प्रकाशयो.. रिवेतरेतरप्रकाशने । भोगधर्मवति सत्वाङ्गिानि चेतसि पुरुषस्य चैत- “न्यप्रतिबिम्बोदयोऽविक्रियस्य पुरुषस्य भोक्तृत्वमिति चेन्न । पुरुषस्य 'विशेषाभावे भोक्तृत्वकल्पनानर्थक्यात् । ननु भोगकालीना साधारणविक्रियैव मोगः। न चाग्न्यादेस्तत्काले नियमेन विक्रि याऽस्ति । न च प्रधानस्यापि प्रसङ्ग इष्टापत्तिरिति शङ्कते-प्रधानेति । भोक्ता हि शेषी, उभयोरपि भोक्तृत्वे शेषशेषिमावो न स्यादित्याह-नेति । ननु मोगः सत्त्व गुणप्रधानचेतोरूपेण परिणतप्रकृतेरेव धर्मस्तस्या विक्रियोपपत्तेर्न पुरुषस्य तस्यावि- कियत्वात् । न च तस्य भोगाभावप्रसङ्गस्तस्य तथाविधचित्तप्रतिविम्बितत्वमात्रेण भोक्तृत्वव्यपदेश इति शङ्कते-भोगधर्मवतीति । सत्त्वाङ्गिनीति । सत्त्वगुणोऽङ्गी प्रधानं यस्य तस्मिंश्चेतसीत्यर्थः । तर्हि चित्तगतमोगेन चैतन्ये विशेषो जायते वा न वेति विकल्प्य न द्वितीय इत्याह-नेति । भोगरूपश्वेदनर्थः पुरुषस्य नास्ति सदा निर्विशेषत्वात्पुरुषस्य कस्या- पनयनाथ मोक्षसाधनं शास्त्रं प्रणीयतेऽविद्याध्यारोपितानर्थापनयः नाय शास्त्रपणयनमिति चेत्परमार्थतः पुरुषो भोक्तव न कर्ता प्रधान कर्येव न भोक्तृ परमार्थसद्वस्त्वन्तरं पुरुषाचेतीयं कल्पनाऽऽगमबाह्या व्यर्था निर्हेतुका चेति नाऽऽदर्तव्या मुमुक्षुभिः। किंचास्मिन्पक्षे स्वकीयशास्त्रप्रणयनं च व्यर्थ स्यादित्याह-भोगरूपश्चदिति । आये स विशेषः सत्यो वाऽसत्यो वेति विकल्प्य सत्यविशेषवत्त्वे पुरुषस्य विकारित्व स्यादिति मनसि संनिधायास्याऽऽरोपितविशेषवत्त्वमस्तीत्यायं शङ्कते--अविधेति । अनति । भोगरूपेत्यर्थः । तर्हि भोक्तृत्वविशेषवत्कर्तृत्वादिविशेषस्य, प्रधानादे, श्वाऽऽरोपैत्वमेवाङ्गी क युक्तं नार्धवेशसमस्मदुक्तरीत्या बन्धमोक्षव्यवहारसिद्ध्युप- पत्तेः । तथा कल्पनायां प्रयोजनामावात्प्रमाणामावात्प्रत्युत सर्वश्रुनिविरोधापत्तश्चे- -परमार्थत इति । पुरुषाद्वस्त्वन्तरं च प्रधानमित्यन्वयः । उक्तदोषजातं सांख्यस्य मतं मोक्षकामिणा नाऽऽदर्तव्यमिति ज्ञापनार्थमुक्तं न तु द्वेषपक्षपातादित्या- शयनाऽऽह-इति नाऽऽदर्तव्येति । १ क. च. 'षी भोगश्च शेष उ" । ३ ख. .. . सि संघा' ग. 'सि निधा । ३ ग. पवत्त्वमे। .
। in ! प्रश्न ] प्रश्नोपनिषद । १. 'एकत्वेऽपि शास्त्रप्रणयनाद्यानर्थक्यमिति. चेन्नाभावात् । सरसु. हि शास्त्रप्रणेत्रादिषु तत्फलार्थिषु च शास्त्रस्य प्रणयनमनर्थकं सार्थकं वेति विकल्पना स्यात् । न ह्यात्मैकत्वे शास्त्रपणेत्रादयस्ततो भिन्नाः सन्ति सदभाव एवं विकल्पनैवानुपपन्ना । अभ्युपगत आत्मैकत्वे प्रमाणार्थ.. वाभ्युपगतो भवता यदात्मैकत्वमभ्युपगच्छता तदभ्युपगमे च विक- ल्पानुपपत्तिमाह शास्त्रं । यत्र स्वस्य सर्वमात्मैवाभूत्तत्केन के पश्येत् इत्यादि । शास्त्रप्रणयनाथुपपत्ति चाऽऽहान्यत्र परमार्थवस्तुस्वरूपाद विद्याविषये, ' यत्र - हि द्वैतमिव भवति ' इत्यादि विस्तरतो वाज- "सनेयके। आत्मैकत्वपक्षेऽपि निरसनीयबन्धामावाच्छास्त्रप्रणयनानर्थक्यमिति . शङ्कते- एकत्वेऽपीति । किमात्मैकत्वनिश्चयवन्तं प्रति तस्याऽऽनर्यक्यमुच्यते तद्विपरीत प्रति वेति विकल्प्याऽऽयं प्रति प्रणयनामावादानर्थक्यदोषामावमाह -नाभावा. दिति । दोषापादनामावादित्यर्थः । संग्रहवाक्यं विवृणोति-न ह्यात्मैकत्व इति । निश्चित इति शेषः । तदभावे शास्त्रप्रणेत्रायभाव इयं( एवं )[वि कल्पनेवार्थ, वदनर्थकं चे( वे )ति विकल्पनैवानुपपन्नेत्यर्थः । नैवानुपपन्नेति पाठे तु तदः भाव इत्यनेनैकत्वनिश्चयाभावोऽभिधीयते । तदानीं निरसनीयबन्धादिसत्त्वादियं कल्पना बन्धनिवृत्त्यर्थ शास्त्रप्रणयनकल्पना नानुपपन्नेति योज्यम् । किंचाऽऽत्मैक- त्वनिश्चये जाते तन्निश्चयजनकत्वेन शास्त्रार्थवत्त्वस्य स्वानुभवसिद्धत्वात्तेनेयं शङ्का कर्तुमपि न शक्येत्याह-अभ्युपगत इति । प्रमाणार्थ इति । प्रमाणस्य शास्त्र- स्यार्थः प्रयोजनमित्यर्थः । एकत्वनिश्चयवन्तं प्रति शास्त्रानर्थक्यकल्पनामावः श्रुत्या - प्युक्त इत्याह-तदभ्युपगमे चेति । अत्राभ्युपगमो निश्चयः । एकत्वनिश्चयामाव- दशायां तु निरसनीयारोपितबन्धसत्त्वान्नाऽऽनर्थक्यं तदपि श्रुत्योक्तमित्याह-शास्त्रेप-- शायनोति । अनेन द्वितीयको निरस्तः । श्रुतिगतं यत्रपदं व्याचष्टे-अन्यत्रेति।। अत्र च विभक्ते विद्याविद्ये परापरे इत्यादावेव शास्त्रस्यातो न ; + तार्किकवाद भटप्रवेशो वेदान्तरांजप्रमाणबाहुगुप्त इहात्मैकत्वविषय इति । एतेनाविद्याकृतनामरूपाद्यपाधिकृतानेकशक्तिसाधनकृतभेदव- * क. पुस्तक एकत्वनिश्चयाभावो विधीयत इति पाठष्टिप्पण्याम् ।+ अत्र यद्यपि तार्किक- भटः प्रवेश्य इति तथा गुप्त इहाऽऽत्मकत्वविषय इत्यत्र गुप्त आत्मैकत्वविषय इंतीहपदरहितः प्रथ. मान्तपाठ एवेत्येतटीकापर्यालोचनाज्ञायते तथाऽपि सर्वेऽवप्यादर्शपुस्तकेषु तार्किकवादभटप्रवेश इत्येव तथेहपदसहितः सप्तम्यन्तपाठ एव विद्यतेऽतः सोऽपि तार्षिकवादभटानां प्रवेश इत्यर्थकषष्ठी- समासस्वीकारेण लापयितुं शक्य इत्यतश्च स एव स्थापितः । एतंसाठलापनटीका तु भ्रष्टेदानीमिति ज्ञातव्यम् । अथवा कानुसारी, पाठ.एवाऽऽदरणीयः । .. .
- मानन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [] चाह्मणः सृष्टयादिकर्तृत्वे साधनायभावो दोषः प्रत्युक्तो वेदितव्या परैक्त आत्मानर्थकर्तृत्वादिदोषश्च । अवर्षणीयमन्त्रोपनिषदि । विद्ये वेदितव्ये इत्युपक्रम्यापरविद्या, ऋग्वेदादिरूपा परी स्वदृश्यत्वादिगुणकप्रत्यस्तमितसर्वद्वैतवस्तुविषयेत्युक्त्या विद्याविद्ययाविषयमेदा शाखस्याऽऽदावेव सूचित इत्याह-अत्र चेति । अद्वैतवादे सर्वशङ्कानां श्रुतिप्रा. माण्येनैव निरासात्तार्किकोत्प्रेक्षितशङ्काशकस्यापि नात्र प्रवेश इत्युपसंहरति- इति । राजप्रमाणति । प्रमाणराजेत्यर्थः । राजदन्तादित्वात्परनिपातः । वेदान्तप्रमाण. मेव राजेव राजा तद्वाहवस्तदुक्तन्यायास्तैर्गुत आत्मैकत्वमेव विषय इव देश इव देशो रक्षणीयत्वात्स तार्किकभटैयाँधैर्न प्रवेश्य इत्यन्वयः। पूर्ववाद्युक्तं दोषं निराकरोति- एतेनेति । उपाधिकृता अनेकाः शक्तयः साधनानि च तत्कृतस्य भेदस्यानेकत्वस्य सत्त्वादित्यर्थः । आत्मेति । आत्मनो योऽनर्थः संसारस्तत्कर्तृत्वमित्यर्थः । आदि. शब्देनाऽऽप्तकामत्वेन प्रयोजनापेक्षानुपपत्तिः संगृहीता । कल्पनयां स्वव्यतिरिक्तस्य जीवस्य सत्त्वात्तस्य संसारो नाऽऽत्मनः । तदीयकर्मफलदानार्थ चाऽऽकामस्यापि सृष्टयादिप्रवृत्तिः संभवति । सर्वव्यवहारस्यापि स्वप्नतुल्यत्वाद्वा स्वप्न इव सर्वमप्युप- पर्यत इति सूत्रभाष्यादावेव परिहृत इत्यर्थः । यस्तु दृष्टान्तो राज्ञः सर्वार्थकारिणि कर्तर्युपचाराद्राजा कति सोऽ- त्रानुपपन्नः । स ईक्षांचक्र इति श्रुतेर्मुख्यार्थबाधनात्प्रमाणभूतायाः । तत्र हि गौणी कल्पना शब्दस्य यत्र मुख्यार्थो न संभवति । इह त्वचे. तनस्य मुक्तबद्धपुरुषविशेषापेक्षया कर्तृकर्मदेशकालनिमित्तापेक्षया च बन्धमोक्षादिफलार्था नियता पुरुष प्रति प्रवृत्तिनोंपपद्यते । यथोक्तसर्व- ज्ञेश्वरकर्तृत्वपक्षे तूपपन्ना ॥ ३ ॥ सांख्येन स्वपक्षे पुरुषशब्दस्येक्षणस्य चोपपत्तिरुक्ता तामनूय निराकरोति यस्त्विति। यजमानः प्रस्तर इत्यादावुपचारो दृष्ट इत्याशङ्कयाऽऽह-तत्र हि गौणीति । प्रधा. नपक्षे न केवलमीक्षणश्रुत्यनुपपत्तिर्वस्तुतस्तस्य स्रष्टत्वमपि न संभवतीत्याह-इह स्विति । मुक्तान्वयित्वा बुद्धान्मत्येव प्रवृत्तिः कर्तृकर्माद्यपेक्षया वन्धमोक्षादिशब्दि. तभोगापवर्गार्थी व्यवस्थिता प्रवृत्तिनोपपद्यत इत्यर्थः । अनेन पुरुषार्थ प्रयोजनमुर. संकृत्य प्रधान प्रवर्तत इति यदुक्तं शङ्कावसरे तन्निरस्तम् । ईश्वरकारणवातुन कोऽपि दोष इत्याह-यथोक्तति ॥ ३ ॥ १ गया. रातु ।२ क. . वेश्य'इ'। ३ ख. ग घ ङ, छ, 'यते सूख घ... 'बन्धपु। ५ ख, ग, घ. क. मका ६.ख. ग. घ. इ. 'त्तिमुका । ५ का 'तस्तु तस्य - है प्रश्नः] प्रश्नोपनिषत् । स प्राणमसृजत प्राणाच्छ्रद्धां खं वायुयोतिरापः पृथिवीन्द्रियं मनः । अन्नमन्नाद्वीयं तपो मन्त्राः कर्म लोका लोकेषु च नाम च ॥ ४ ॥ ईश्वरेणेव सर्वाधिकारी प्राणः पुरुषेण सृज्यते । कथं, स पुरुष उक्तमकारेणेक्षित्वों प्राणं हिरण्यगर्भाख्यं सर्वप्राणिकरणाधारमन्तरा-. स्मानमसृजत सृष्टवान् । अतः प्राणाच्छ्रद्धा सर्वप्राणिनां शुभकर्मप्रवृ. तिहेतुभूताम् । ततः कर्मफलोपभोगसाधनाधिष्ठानानि कारणभूतानि महाभूतान्यसृजत । खं शब्दगुणम् । वायुं स्वेन स्पर्शन कारणगुणेन च विशिष्टं द्विगुणम् । तथा ज्योतिः स्वेन रूपेण पूर्वाभ्यां च विशिष्टं त्रिगुणं शब्दस्पर्शाभ्याम् । तथाऽपो रसेन गुणेनासाधारणेन पूर्वगुणा- नुभवेशेन च चतुर्गुणाः । तथा गन्धगुणेन पूर्वगुणानुमवेशेन च पञ्च- गुणा पृथिवी । तथा तैरेव भूतैरारब्धमिन्द्रियं द्विमकारं बुद्ध्यर्थं कार्य च दशसंख्यम् । तस्य चेश्वरमन्तःस्थं संशयसंकल्पलक्षणं मनः । एवं प्राणिनां कार्य कारणं च सृष्ट्वा तत्स्थित्यर्थ व्रीहियवादिलक्षणमाम् । ततश्चानाद_मानाद्वीय सामर्थ्य बलं सर्वकर्मप्रवृत्तिसाधनम् । तदीर्य- वतां च प्राणिनां तपो विशुद्धिसाधनं संकीर्यमाणानां, मन्त्रास्तपोषिशु- द्वान्तर्बहिःकरणेभ्यः कर्मसाधनभूता ऋग्यजु:सामाथर्वाङ्गिरसः । तत:- कर्माग्रिहोत्रादिलक्षणम् । ततो लोकाः कर्मणां फलम् । तेषु च सृष्टानां प्राणिनां नाम च देवदत्तो यज्ञदत्त इत्यादि । एवमेताः कलाः प्राणि- नामविद्यादिदोषबीजापेक्षया सृष्टास्तमिरिकदृष्टिसृष्टा इव द्विचन्द्रमशक मक्षिकाद्याः स्वमटक्सृष्टा इव च सर्वपदार्थाः पुनस्तस्मिन्नेव पुरुष मलीयन्ते हित्वा नामरूपादिविभागम् ।। ४ ॥ एवं परपक्षं निराकृत्य प्रकृतश्रुतिव्याख्यानं कुर्वन्स प्राणमसृजतेत्यस्य तालार्थमाह- विरेणेवेति । ज्ञवेत्यर्थः । अक्षरार्थ प्रश्नपूर्वकमाह- कथपिति। हिरण्यगर्भाख्य- मिति । हिरण्यगर्म इत्याख्या येनोपाधिनाऽऽत्मनो भवति तं बुद्धयमिनं सर्वप्राणं सम. टिप्राणामित्यर्थः । यथाश्रुते कस्मिन्नहमुत्क्रान्त इत्यादिनाऽऽत्मन उत्क्रान्त्याद्युपाधिसष्टेः प्रस्तुतत्वाद्धिरण्यगर्मस्य जीवस्यातयात्वादुपक्रमविरोधापत्तेः । हिरण्यगर्माख्यामित्युक्ति. १ क. ख. घ. ड.च. छ. ज. रेणैव । २ क. "त्वा सर्वप्रा । ख. ग. घ. ङ. 'वास प्रा। ३. ग. घ.. पिक'१४ ख. ग. घ. ङ. च. णावें। ५ क. च. कलादिल'१६. रेणवे । सं. घ. क. रावे। ख. ग, घ, कच.स्मिन्बह । - ....
- ७३ आनन्दगिरिकृतटीकासंबलितेशांकरभाष्यसमेता- I मनः] स्त्वात्मनो हिरण्यगर्मादिसंसारिभावोऽप्येतदुपाधिक इति सूचयितुमिति बोध्यम् । तस्य समष्टित्वमाह---सर्वेति । अन्तरात्मानमिति । सर्वस्थूलशरीरान्तरत्वादात्मबुद्धि. गोचरत्वाच्चान्तरात्मा स इत्यर्थः । तत इत्यानन्तर्याय पञ्चमी । एवमुत्तरत्रापि । न च भूतकार्यत्वात्प्राणस्य कथं ततः पूर्वकालीनत्वमिति वाच्यम् । सत्यम् । सूक्ष्मभूत- सृष्ट्यनन्तरं माणमसूनतेति कल्पनीयत्वात् । न चैतदनन्तरं भूतसृष्टयुक्तिविरोध शङ्का । तस्याः पञ्चीकृतस्थूलभूतविषयत्वोपपत्तेः । अत एवं भोग साधनाधिष्ठानानी- त्युक्तम् । सूक्ष्माणां तथात्वायोगात् । न चैवमपि स्थूलभूतसृष्टयनन्तरमिन्द्रियमनः- सृष्टयुक्तिविरोधः । भूतारब्धदेहाधिष्ठितानामेव तेषां कार्यक्षमत्वेन तेषां तदनन्तरत्वो. तिरिति भावः । भोगसाधनाधिष्ठानत्वं भूतानां तत्कारणत्वादित्याह-कारणभूता- नीति । तेषां भूतानां लक्षणतया खं शब्दगुणमित्यादिनाऽसाधारणगुणा उक्ताः । पूर्वपूर्वगुणानुवृत्तिस्तु पूर्वपूर्वस्योत्तरोत्तरोपादानस्वसूचनार्थ स्थौल्यतारम्यसिद्ध्यर्थ चोक्के- ति बोध्यम् । वायुमिति । श्रुतौ वायुरित्यादिप्रथमा द्वितीयार्थाः । प्राणमसृजतेति द्वितीययोपक्रमात् । तैरेवेति । अपञ्चीकृतावस्थायामित्यर्थः । तस्य चेश्वरामिति । नियामकमित्यर्थः । संकीर्यमाणानामिति । अविशुद्धसत्त्वतया पापाचरणेन ते: पापैः संकीर्थमाणानां संकरपरिहाराय चित्तशुद्धिसाधनं तपोऽसृजतेत्यर्थः । फलमिति । ओक्यते भुज्यत इति लोकः फलमित्यर्थः । नाम चेति। ब्राह्मणादिनानोक्तव्यवहारा. संकरार्थमित्यर्थः। नन्वीश्वरसृष्टत्वोक्त्या कलानां सत्यत्वमङ्गीकर्तव्यम् । आरोपे शुक्तिर- जतादी सृष्टत्वव्यवहारभावादित्याशङ्कयाङ्गुल्यवष्टम्भनेत्रमर्दनादिना प्रयत्नेन सृष्टस्य द्विचन्द्रमशकमक्षिकादेरारोपत्वदर्शनात् । अथ रथान्रथयोगान्पथः सुनत इति सृष्टत्वेनो- कैस्वप्नपदार्थस्य च भ्रमत्वदर्शनान्नैवमित्याह-एवमेता इति । अविद्याकामकर्मा- दिदोषरूपं यद्वीज तदपेक्षया तत्साधनांकृत्येत्यर्थः । तेमिरिकशब्दो नेत्रेऽङ्गुल्यवष्ट. म्भाधुपलक्षणार्थः । एवमात्मप्रतिपत्त्यर्थमप्यारोपमुक्त्वा तदपवादमवतारयति- पुनस्तस्मिवेति ॥ ४ ॥ कथम्- स यथेमा. नयः स्यन्दमानाः समुदायणाः समई प्राप्यास्तं गच्छन्ति भियते तासां नामरूपे समुद्र इत्येवं प्रोच्यते । एवमेवास्य परिद्रष्टुरिमाःषोडश कलाः पुरुषायणाः पुरुषं . १ 'क'ख. च. नवत्वमिति भावः । भू । २ क. ख. घ, ङ. 'च: "स्स्रष्ट्रावो । 'स्वष्ट्रवों ३ क ख. क. च. दो खहत्व ४ क. ख. घ.. च. ति स्रष्टत्वे । - . -- . ७३ प्रश्नः] प्रश्नोपनिषद । प्राप्यास्तं गच्छन्ति भियते चाऽऽसां नाम- रूपे पुरुष इत्येवं प्रोच्यते स एषोऽ- कलोऽमृतो भवति तदेष श्लोकः ॥ ५॥ स दृष्टान्तः । यथा लोक इमा नद्यः स्यन्दमानाः सवन्त्यः समुद्रा- यणाः समुद्रोऽयनं गतिरात्मभावो यासा ता: समुद्रायणाः समुद्रं प्राप्यो- पगम्यास्तं नामरूपतिरस्कारं गच्छन्ति । तासां चास्तं गतानां भिद्यते विनश्येते ( श्यतो? ) नामरूपे गङ्गायमुनेत्यादिलक्षणे । तदभेदे समुद्र इत्येवं मोच्यते तद्वस्तदकलक्षणमेवं यथाऽयं दृष्टान्तः। उक्तलक्षणस्य प्रकृत. स्यास्य पुरुषस्य परिद्रष्टुः परि समन्ताद्रष्टुर्दर्शनस्य कर्तुः स्वरूपभूतस्य यथाऽर्की स्वात्मप्रकाशस्य कर्ता सर्वतस्वद्वदिमाः षोडश कलाः प्राणा- था उक्ताः कलाः पुरुषायणा नदीनामिव समुद्रः पुरुषोऽयनमात्मभाव- गमनं यासां कलानां ताः पुरुषायणाः पुरुषं प्राप्य पुरुषात्मभावमुपगम्य तथैवास्तं गच्छन्ति । भिद्यते चाऽऽसां नामरूपे कलानां प्राणायाख्या रूपं च यथास्वम् । भेदे च नामरूपयोर्यदनष्ट तत्त्वं पुरुष इत्येवं प्रो. च्यते ब्रह्मविद्भिः । य एवं विद्वान्गुरुणा प्रदर्शितकलाप्रलयमार्गः स एष विद्यया प्रविलापितास्वविद्याकामकर्मजनितास प्राणादिकलास्वक- लोऽविधाकृतकलानिमित्तो हि मृत्युक्तदपगमेऽकलत्वादेवामृतो भवति, तदेतस्मिन्नर्थ एष श्लोकः ॥५॥ प्रामादिवद्भेदेन गन्तव्यत्वभ्रमं वारयति-आत्मभाव इति । अस्तशब्देन नाशो नाभिधीयते भेदकोपाधिनामरूपयो शेऽपि स्वरूपस्य समुद्रात्मना विद्यमानत्वादित्याह- नामरूपतिरस्कारमिति । पूर्वरूपतिरस्कारमित्यर्थः । तदस्त्विति । नामरूपनाशा- नन्तरं परिशिष्टमुदकलक्षणं वस्तु समुद्र इत्येवोच्यत इत्यन्वयः । पुरुषस्येति कणि षष्ठी । पुरुषं स्वात्मरूपम् । परितः सर्व स्वरूपत्वेन पश्यत इत्यर्थः । द्रष्टुरित्युक्त आगन्तुकस्य दर्शनस्य कर्ता प्रतीयत इत्यत आह-दर्शनस्य कर्तुः स्वरूपभूतस्ये- ति । स्वरूपत्वे दर्शनस्य तत्र कर्तृत्वानुपपत्तेस्तदर्थकतृच्पत्ययविरोध इत्याशङ्कयार्कः सर्वतः स्वप्रकाशक इत्यत्र यथा कर्बर्थकस्य प्रत्ययस्योपचरितत्वं तद्वहिहापीत्याह- यथाऽर्क इति । नदीनामिवेति । इक्शब्दस्तथाशब्दार्थे । यथा नदीनां समुद्रोर्डयन तथा पुरुषोऽयनमित्यन्वयः । अस्तगमनस्वरूपमाह-भिद्यते इति। नामरूपमेद एवास्तगमनमिहेत्यर्थः । यथास्वमिति । यस्य यत्स्वरूपं प्राणाद्यात्मकं तदपि मि- १. च.छ. 'ते तासां1१.व. छ. 'ते तासां३ क.व. रुपेण - ७४ आनन्दगिरिकृतटीकासवलितशांकरभाष्यसमेता- [१] द्यत इत्यन्वयः । पुरुष इत्येवं प्रोच्यत इत्यस्यार्थमाह-भेदे चेति । यदनष्टमिति । कलानां हि रूपमारोप्याधिष्ठानोभयात्मकं सत्यानृतमिथुनरूपं, तत्राऽऽरोप्यस्य नाम- रूपात्मकस्य मेदेऽधिष्ठानात्मकं रूपं पुरुषात्मनोच्यत इत्यर्थः । यथा समुद्रस्वरूपभूतं जलं मेधैराकृष्यामिवृष्टं गङ्गादिनामरूपोपाधिना समुद्राद्भिन्नमिव व्यवहियमाणं तदु. पाधिविगमे समुद्रस्वरूपमेव प्रतिपद्यत एवमविद्याकृतनामरूपोपाधिवशादात्मनो मिन्न- मिव स्थितं सर्वं जगद्विद्ययाऽविद्याकृतनामरूपविगमे ब्रह्ममात्रतयाऽवशिष्यत इत्यर्थः । एवं प्राणादिकलोपाधिक आत्मन उत्क्रमणादिशब्दितमरणादिव्यवहार इत्युक्तेः प्रयोजनं प्राणादिनिवृत्तावुत्क्रमणादिसर्वसंसारधर्मरहितात्मस्वरूपावस्थानरूपं दर्शयितुं स एष इति वाक्यं व्याचष्टे-य एवं विद्वानित्यादिना ॥ ५ ॥ अरा ए(इ)व रथनाभौ कला यस्मिन्प्रतिष्ठिताः । तं वेयं पुरुषं वेद यथा मा वो मृत्युः परिव्यथा इति ॥ ६ ॥ अरा रथचक्रपरिवारा इव रथनाभौ रथचक्रस्य नाभौ यथामवेशि. तास्तदाश्रया भवन्ति यथा तथेत्यर्थः । कलाः प्राणाया यस्मिन्पुरुषे प्रतिष्ठिता उत्पत्तिस्थितिलयकालेषु तं पुरुषं कलानामात्मभूत्र वेयं वेद- नीयं पूर्णत्वात्पुरुषं पुरि शयनाद्वा वेद जानीयात् । यथा हे शिष्या मावो युष्मान्मृत्युः परिव्यथा मा परिव्यथयतु । न चेद्विज्ञायेत पुरुषो मृत्यु- निमित्ता व्यथामापना दुःखिन एव यूयं स्थ । अतस्तन्मा भूधुमाकमि- त्यभिप्रायः॥६॥ परिवारा इति । नामः परितो नामौ नेभ्यां च प्रोतास्तिर्यकाष्ठविशेषा इत्यर्थः । यथा प्रवेशिता इति । यथावत्सम्यक्प्रवेशिता इत्यर्थः । माडोऽर्थ व्यतिरेकप्रदर्श नेन स्पष्टयति-न चेदिति ॥ ६ ॥ 'तान्होबाचताबदेवाहमेतत्परं ब्रह्म वेद । नातः परमस्तीति ॥ ७ ॥ तानेवमनुशिष्य शिष्यांस्तान्होवाच पिप्पलादः किलेतावदेव वेद्यं पर ब्रह्म वेद विजानाम्यहमेतत् । नातोऽस्मात्परमस्ति प्रकृष्टतरं बेदि- तव्यमित्येवमुक्तवाशिष्याणामविदितशेषास्तित्वाशयानिवृत्तये कृतार्थ- बुद्धिजननार्थ च ॥ ७॥ -- .. ...... गरिचारा । २ ग. रिचारा।
। ६ प्रमः प्रश्नोपनिषत् । ७५, शिष्याणां कृतार्थतावुद्धिजननार्थ तानित्यादि वाक्यं व्याचष्टे-तानेवमिति ॥७॥ ते तमर्चर्यन्तस्त्वं हि नः पिता योऽस्माकम- विद्यायाः परं पारं तारयसीति । नमः पर- मऋषियो नमः परमऋषियः ॥ ८॥ ॐ भद्रं कर्णेभिरिति शान्तिः ॥ इत्यथर्ववेदीयप्रश्नोपनिषदि षष्ठः प्रश्नः ॥ ६ ॥ इत्यथर्ववेदीया प्रश्नोपनिषत्समाता ॥ ततस्ते शिष्या गुरुणाऽनुशिष्टास्त मुरुं कृतार्थाः सन्तो विद्यानि- क्रयमपश्यन्तः किं कृतवन्त इत्युच्यते--अर्चयन्तः पूजयन्तः पादयोः पुष्पाञ्जलिपकिरणेन प्रणिपातेन च शिरसा, किम्, ऊचुरित्याह-त्वं हि नोऽस्माकं पिता ब्रह्मशरीरस्य विद्यया जनयितृत्वान्नित्यस्याजराम- रस्याभयस्य । यस्त्वमेवास्माकमविद्याया विपरीतज्ञानाजन्मजरामरण- रोगदुःखादिग्रहादविद्यामहोदधेर्विद्याप्लवेन परमपुनरावृत्तिलक्षणं मोक्षा- ख्यं महोदधेरिव पारं तारयस्यस्मानित्यतः पितृत्वं तवास्मान्प्रत्युपप- अमितरस्मात् । इतरोऽपि हि पिता शरीरमात्रं जनयति तथाऽपि स प्रपूज्यतमो लोके किमु वक्तव्यमात्यन्तिकाभयदातुरित्यभिप्रायः । नमः परमऋषिभ्यो ब्रह्मविद्यासंप्रदायकर्तृभ्यो नमः परमऋषिभ्य इति द्विवचनमादरार्थम् ॥ ८॥ इति प्रश्नोपनिषदि षष्ठः प्रश्नः ॥ ६ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमद्गोविन्दभगवत्पूज्यपाद- शिष्यश्रीमच्छंकरभगवत्कृतं प्रश्नोपनिषद्भाष्य समाप्तिमगमत् ॥ , प्रकिरणेनेति । प्रक्षेपेणेत्यर्थः । अतः पितृत्वं तवेति । जनकचोपनेता च यश्च विद्यां प्रयच्छति । अन्नदाता, मयत्राता पञ्चैते पितरः स्मृताः ॥ "क "मि. संघ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [६ प्रभः] इति- स्मृतेरित्यर्थः । योऽस्माकमिति हेतूक्तेस्तात्पर्य वदन्पितृत्वोक्तिमात्रेण विद्या- निष्क्रयायें कि दत्तमित्यपेक्षायां स्वशरीरमेव परिचारकतया दासमावेन गुरवे दत्त- मित्याह-इत्तरस्यादिति । पितृत्वादेव किं पूज्यतरस्वं ( १ ) परिचार्यत्वं स्वामित्वं (१) किमु वक्तव्यमित्यर्थः । अत एव वाजसनेयके मां चापि सह दास्यायेतीत्यु- तमिति भावः ॥८॥ इत्यानन्दज्ञानविरचितप्रश्नोपनिषद्भाष्यटीकायां षष्ठः प्रश्नः ॥ १॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमंदानन्दज्ञानविरचिताऽऽथर्वण- प्रश्नोपनिषद्भाष्यटीका समाता ॥ इति सटीकभाष्योपेता प्रश्नोपनिषत्समाता ।। १. स. ग. प. इ. च. दास्यभा १२ ख. ग. प. उ. प. 'मकैवल्येन्बशिष्यवानेगुरुः चरणसविनारायगेन्द्रसरस्वतीविरचितं प्रश्नोपनिषद्भाष्यविवरणं समाप्तम् ।
ॐ तत्सदमणे नमः। अथ शंकरानन्दविरचितप्रश्नोपनिषद्दीपिकापारम्भः । प्रश्नमुण्डकमन्त्राणां ब्राह्मणं कोऽहमीदृशम् । इत्यादिपभनामार्थ व्याख्यास्ये ब्रह्मबोधकम् ॥ प्रथमतो ब्रह्मविद्यास्तुत्यर्थमाख्यायिकामवतारयति-सुकेशा [ च ] नामतो भारद्वाजो मरद्वाजस्यापत्य शैब्यश्च शिबेरपत्यं सत्यकामः सत्ये ब्रह्माणि कामो यस्य स सत्यकामो यथार्थकामः । सौर्यायणी च सूर्यस्यापत्यं सौर्यायणिः, ईका- रश्छान्दसः । गार्यों गर्मगोत्रः । कौशल्यश्च कौशल्यो नामतः । आश्वलायन आश्वलस्यापत्यमाश्वलायनः । चकारचतुष्टयमुक्तानां सुकेशादीनां वक्ष्यमाणद्वयोः पिप्पलादं प्रति प्रश्नसमुच्चयार्थम् । भार्गवो भृगुगोत्रो भृगोरपत्यं वा । वैदर्भिः विदर्भदेशोद्भवः । कबन्धी कबन्धी नाम कात्यायनः कत्य( त ? )स्यापत्यं कात्यस्तस्य युवापत्यं कात्यायनस्ते प्रसिद्धा महाशाला महाश्रोत्रियाः षट् । ह किलैत उक्ताः सुकेशसत्यकामसौयार्यणी( णि )कोशस्यमार्गवकबन्धिनः । ब्रह्म- परा वेदपरा वेदैकशरणा इत्यर्थः । ब्रह्मनिष्ठा वेदार्थतात्पर्यवन्तः । परमुत्कृष्टं निरुपचरितमित्यर्थः । ब्रह्म देशकालवस्तुपरिच्छेदशून्यमन्वेषमाणाः कीदृशं तदिति बुभुत्सां कुर्वाणा एवं प्रतिपन्नाः । तत्प्रतिपत्तिप्रकारमाह-एषोऽस्मद्बुद्धी वाचि च वर्तमानः पिप्पलादो ह किल वै स्मर्यमाणस्तदस्मबुद्धिस्थं सर्वमस्मामि. र्बुमुत्सितं निखिलं पृष्टं वक्ष्यति कथयिष्यति । इत्यनेन प्रकारेण पर्यालोच्य त उक्ताः सुकेशादयो ह किल समित्पाणयो गुरूपासनार्थं समिधः पाणौ येषां ते समित्पाणयो भगवन्तं पूजावन्तं पिप्पलादं पिप्पलादनामानमुपसन्नाः शास्त्रदृष्टेन विधिना समीपं प्रातः ॥ १ ॥ तान्संप्रति समागतान्पश्नकर्तृन्ह किल स पिप्पलाद ऋषिरतीन्द्रियार्थस्य द्रष्टो- वाचोक्तवान् । भूय एव यद्यपि पूर्व भवन्तस्तपादिभिः संपन्नास्तथाऽपि ब्रह्मवि- धाग्रहणाय पुनरेव । तपसा शरीरशोषणादिना । ब्रह्मचर्येण योषित्स्मरणकीर्तन- केलिप्रेक्षणगुह्यमाषणसंकल्पाध्यवसायक्रियानिवृत्तिवर्जनरूपेण । श्रदया वेदार्था- स्तिक्यबुद्धया । संवत्सरं द्वादश सौरसंक्रान्तिकालमुक्तैः साधनः संपन्नाः सन्तः । संवत्स्यथ सम्यग्वासं करिष्यथ सम्यग्वासं कुर्वन्त्वित्यर्थः । ततो यथाकामं काम- १. 'नानाथ।
ar A --- शंकरानन्दविरचिता- [१ प्रभा] मनतिक्रम्य स्वेच्छानुसारेणेत्यर्थः । प्रश्नान्प्रष्टव्यान्पृिच्छत : प्रश्नानुद्दिश्य वाचं विसृजत । इदानी स्वस्य गर्वपरिहारार्थमाह-एवं पृष्टे भवद्भिर्यदि पक्षान्तरे भवदुक्ते ज्ञानामावे मौनं करिष्याम इत्येकः पक्षः । द्वितीयं पक्षमाह-विज्ञास्या- मोऽथ चोक्तविज्ञानवन्तो भविष्यामः । सर्वं निखिलं ह प्रसिद्धं वो युष्मम्यं वक्ष्यामः कथयिष्यामः । इत्यनेन प्रकारेण ॥२॥ अथ तपोब्रह्मचर्यश्रद्धासंपत्त्या संवत्सरनिवासानन्तरं प्रश्नं कर्तुं भृशमुत्सुकः स्वैरनुज्ञातः कबन्धी कात्यायन:, व्याख्यातम् । उपत्य पिप्पलादस्य समीप शास्त्रोक्तमार्गेण समागत्य । पप्रच्छ प्रश्नं कृतवान् । भगवन्हे पूनावपिप्पलाद । कुतः । कस्मादुपादानानिमित्ताच्च कारणाद्ध प्रसिद्धाद्वै स्मर्यमाणादिमा विविधश- ब्दप्रत्ययगम्याः । प्रजाः स्थावरजङ्गमाः प्राणिनः । प्रजायन्त उत्पद्यन्ते । इत्य नेन प्रकारेण ॥ ३॥ तस्मा एवं पृष्टवते कात्यायनाय । स पिपलादो ह किलोवाचोक्तवान् । तदु- तिमाह--प्रजाकामः प्रजासु कामो यस्य स प्रजाकामो वै प्रसिद्धः स्मर्यमाणो वा । प्रजापतिः प्रजानां पालयिता हिरण्यगर्भो जन्मान्तरानुष्ठितापरविद्याकर्मसमुच्चयः । स परमात्मनो भेदरहितः प्रजापतिस्तपः स्रष्टव्यविषयं पर्यालोचनमतप्यत * कृत. वान् । स तपसा विज्ञातनिमित्तोपादान आत्मोपादानमात्मनिमित्तं च मिथुनं युग्म मुत्पादयते. सर्गे सर्गे जनयति । मिथुनमाह-रयिं च चन्द्रमसं सर्वान्नमूतमप्र- धान पाणं चाऽऽदित्यमत्तारमग्निप्रधानम् । चकारौ परिणामयोमिथुनत्वसमुच्चयार्थौ । वक्ष्यमाणेनाभिप्रायेणोत्पादयत इत्यन्वयः । तदमिप्रायमाह-एतो रयि- पाणौ । मे मम प्रजापतेर्बहुधाऽनेकप्रकाराः प्रजाः स्थावरजङ्गमाः प्राणिनः करि- ध्यत. उत्पादयिष्यत इति यस्मात्तस्मात्स्रक्ष्यामीति शेषः । अथवाऽऽद्य इतिकार एवकारार्थः । अयं त्वमिप्रायार्थः ॥ ४ ॥ इदानीं प्राणरयिशब्दयोरर्थमाह-आदित्यश्चन्द्रकिरणमण्डलामा ह प्रसिद्धो वै स्मर्यमाणः । प्राणः प्राणशब्दाभिधेयः। रयिरेव चन्द्रमाः ( स्पष्टम् )। रयिश- ब्दाभिधेयस्य चन्द्रमसोऽन्नरूपस्य सार्वात्म्यमाह-रयिश्चन्द्रमा वै प्रसिद्ध एत- परिदृश्यमानं सर्व निखिलम् । सर्वशब्दार्थमाह-यत्प्रसिद्धं मूर्त च तेजोबन्नरू- यमप्यमूर्त च वायवाकाशरूपमपि । चकारौ मूर्तामूर्तयोर्मिलितयोः प्रत्येकं च रयि. स्वरूपत्वसमुच्चयार्थौ । यस्मान्मूर्तामूर्तात्मके जगति मूर्तराधिक्यं तस्माचतो मूर्तिरेव . ४ पृच्छथेति क्वचिन्मूले पाठः । * एतदने.मले सतपस्तप्त्वेति पदत्रयमधिकमुपलभ्यते ।
Em १ प्रश्नः ] शंकरानन्दविरचिता- रयिश्चन्द्रमास्तेजोबन्नरूप एव न त्वन्यः । अथवा मूर्तिः स्थूलमद्यमानं रयिरेव न तुं प्राणः । अमूर्तिः सूक्ष्म प्राणस्यापि स्वरूपमिति व्याख्येयम् ॥ ५ ॥ ननु तर्हि किं रयेन्यूनवृत्तिः प्राण इत्याशङ्कय तस्यापि सार्वात्म्यमाह-अथ हेतो, आदित्य उक्त उदयन्नूमागच्छन्दिवसे दिवसे प्रातः प्रातर्यद्यस्मात्माची दिशं प्रविशति, स्पष्टम् । तेन प्राचीदिक्प्रवेशेन स्वैः किरणैः प्राच्यान्माचीदिग्गता. न्माणान्माणचक्षुरादीन्रश्मिषु किरणेषु । संनिधत्ते संबद्धान्कुरुते किरणाप्नोती- त्यर्थः । यद्यस्मात्स्वैः किरणैर्दक्षिणां स्पष्ट दिशं प्रविशति तेन दाक्षिणात्यान्प्राणा- रश्मिषु संनिधत्त इति शेषः। यद्यस्मात्प्रतीची स्पष्टं दिशं प्रविशति तेन पाश्चात्या- प्राणान्रश्मिषु संनिधत्त इति शेषः । यद्यस्मादुदीची स्पष्टं दिशं प्रविशति तेनो- तरान्माणारश्मिषु संनिधत्त इति शेषः । यद्यस्मादधोऽधोवर्तिनी दिशं प्रविशति तेनोर्ध्वदिग्मवान्प्राणान्रश्मिषु संनिधत्त इति शेषः । यद्यस्मादन्तरा मध्ये दिशी दिशामन्तरादिश इत्यवान्तरदिशो वा प्रविशति तेनान्तरादिग्भवान्प्राणानराश्मिषुः संनि- धत्त इति शेषः । यद्यस्मात्सर्व निखिलं दिग्नातं स्वैः किरणैः प्रकाशयति स्वते. जसोऽनुग्रहेण नयनगोचरत्वयोग्यं कारयति । तेन सर्वप्रकाशनेन सर्वानिखिल. दिग्मवानविशेषेण प्राणांश्चक्षुरादीरश्मिषु संनिधले व्याख्यातम् । आद्यन्तयोः सम- अवाक्यस्य पाठो मध्येऽपठितस्यापि पाठार्थमवगन्तव्यः ॥ ६ ॥ स परोक्ष एवं प्रत्यक्ष किरणैः सर्वदिग्व्यापी वैश्वानरो विश्वे नरा यस्य स विश्वनरः विश्वश्चासौ नर इति वा । विश्वनर एव वैश्वानरः । वैश्वानरत्वे हेतुमाह- विश्वरूपः सर्वरूपः सर्वात्मेत्यर्थः । प्राण आदित्योऽग्निहपावकप्रकाशहेतुरचोद- यत ऊर्ध्वमागच्छति । तदादित्यस्य सात्म्यिमेतद्राह्मणोक्तमृचा पादबद्धेन मन्त्रे. णाभ्युक्तं सर्वतः कथितम् ॥ ७ ॥ विश्वरूपं सर्वरूपं हरिणं हरणशीलं सर्वोपसंहारकारणं जातवेदसं आतानि वेदांसि विज्ञानानि सर्व विषयाणि यस्मात्स जातवेदास्तं जातवेदसं सर्वस्थितिसंहारों- त्पत्तिकारणमिति वाक्यार्थः । परायणमुत्कृष्टाश्रयभूतं विश्वरूपत्वं तु स्थितौ संहार उत्पत्तौ च समानं परायणत्वं तु स्थितावेव विशेष इति न पुनरुक्तम् । ज्योतिस्ते. मोमण्डलरूपमेकं विश्वस्य सृष्टिस्थितिसंहारान्कुर्वद्विश्वात्मकमपि मैदशून्यं तपन्तमन्त. हिस्तापं कुर्वन्तं नानाम्यहमिति शेषः । स्वज्ञानमेवर्षिर्दर्शयति-सहस्ररश्मिरन- स्त्रकिरणः शतधा वर्तमानोऽनन्तप्रकारेण वर्तमानः माणः प्रजानों स्थावरजङ्गमा "मां सर्वव्यवहारनिर्वाहकारणमन्तर्भन्मनि जन्मनि बहिदिवसे दिवसे प्रातरुदयत्ति, शंकरानन्दविरचिता- [ १ प्रभः] ऊच गच्छति । एष प्रत्यक्षः सूर्यः शोमनाया गतेः कर्ता सविता । एवं रयिप्राणी सर्वात्मानौ मिथुनमित्युक्तम् ॥ ८॥ अग्नीषोमात्मकस्य मिथुनस्य रूपान्तरं कालरूपं दर्शयति प्रजोत्पादं विवक्षुः-संव- सरो व्याख्यातः । अत्र प्रथमान्तत्वं विशेषः । वै प्रसिद्धः । प्रजापती रयिमाणा- वस्थो हिरण्यगर्मस्तस्य संवत्सरात्मन आदित्यचन्द्रनिष्पाद्यस्यायने भवत इति शेषः । ते आह-दक्षिणं च मासषट्कं दक्षिणायनमपि, उत्तरं च तावन्तं काल. मुत्तरायणमपि । चकारी द्वाम्यां समुच्चिताभ्यां संवत्सरस्वरूपनिष्पत्तिसमुच्चयाएँ । दक्षिणोत्तरप्रसङ्गेन दक्षिणोत्तरगती संवत्सरसाध्ये आह-तत्तत्राधिकारिषु त्रैवर्णि केषु ये स्वर्गाभिलाषिणो ह प्रसिद्धा वे स्मर्यमाणास्तत्प्रसिद्ध कर्म । प्रसिद्ध[व] मे. वोपपादयति-इष्टापूर्ते कृतमिति । यस्मात्कृतं प्रयत्ननिष्पादितं ततस्तदिष्टापूर्ते इष्ट यागादि श्रीत कर्मेत्यर्थः । पूर्व कृपारामादिकरणं स्मात कर्मेत्यर्थः । इष्टं च पूर्व चेष्टापूर्ते । उपासत उपासनं कुर्वते फलकामास्तात्पर्येण तदेवानुतिष्ठन्तीत्यर्थः । त इष्टापूर्वोपासकाश्चान्द्रमसमेव चन्द्रमसि भवं न त्वन्यं लोकमिष्टापूर्तफलमाभ- जयन्तेऽमिजयन्ति सर्वतः प्राप्नुवन्ति । त एव चान्द्रमसं प्राप्ता एव न त्वन्ये पुनरावर्तन्ते स्वकृतकर्मानुसारेण ब्राह्मणादियोनि भूय आगच्छन्ति । यस्मात्त एव पुनरावर्तन्ते तस्मात्तत एते कर्मिण ऋषयः स्वर्गद्रष्टारः प्रजाकामाः प्रजासु कामो येषां ते प्रजाकामा दक्षिणं धूमादिमार्ग चन्द्रलोकप्राप्तिफलं प्रतिपद्यन्ते प्राप्नुवन्ति । अस्तु तेषां तत्प्राप्तिः किं प्रस्तुत इत्यत आह-एष दक्षिणमार्गप्राप्य- चन्द्रलोको [ह) वै प्रसिद्धः सर्वानभूतो बुद्धिमज्ज्ञेयो रयी रयिशब्दामिधेयः प्रकृ. तिमागो यः प्रसिद्धः पितृयाणो धूमादिमार्गः ॥ ९ ॥ अथ प्रजाकामव्यतिरिक्त प्राप्यः प्रकृतादन्य उत्तरेणार्थिरादिमार्गेण तपसा ब्रह्मचर्येण श्रद्धया व्याख्यातम् । विद्यया प्रजापत्यायुपासनरूपयाऽऽत्मानमादि त्यं स्थावरजङ्गममाणमन्विष्याऽऽचार्योपदेशानन्तरं प्रत्ययसंतानेनाहमस्मीति संप्राप्य । विद्ययेत्यस्य व्याख्यानमिदमवगन्तव्यम् । आदित्यं बाह्यं प्राणमभिजयन्ति(न्ते) सर्वतः प्राप्नुवन्ति । एतदादित्यस्वरूपं वै स्मर्थमाणं प्रसिद्धं वा, शास्त्रतः। प्राणानां प्राणशब्दाभिधेयानां प्राणचक्षुरादीनामायतनमाश्रयभूतमेतत्पाणानामायतनममृतम- विधादिकारणवर्जितमभयमावृत्तिदुःखभवरहितमेतदमृतमयं परायणं परेषामश्वमेधा- दिफलानां ससाधनानामाश्रयभूतमेतस्मात्प्राणायतनादमृतादभयात्पराश्रयान पुनरा- वर्तन्ते । यथा चन्द्रमसस्तद्वद्भूयो नाऽऽवर्तन्ते । इत्यनेन प्रकारेणोक्त इति शेषः । एष संवत्सरात्मप्राणप्राधिरूपो निरोधो विनाशो मोक्ष इत्यर्थः । ततस्मिन्संक- [१ प्रभा प्रश्नोपनिषदीपिका। सरात्मन्युत्तरायणदक्षिणायनसाम्येनोत्तरदक्षिणमार्गव्यापिन्येष वक्ष्यमाणः श्लोको मन्त्रः॥ १०॥ पञ्चपादं संवत्सरपरिवत्सरेदावत्सरानुवत्सरवत्स( सरेद्वत्स )राः कालाग्न्या- दित्यचन्द्रमोवायुरूपाः पञ्च पादा यस्य स पञ्चपादस्तं पितरं सर्वस्य जनकं द्वादशा. कृति द्वादशमासाकारं दिव आहुः परे अर्धे पुरीषिणं दिवः स्वर्गाल्परे परस्मिन्नर्धे स्थाने पुरीषिणं पुरीषशब्दं सुवर्णमूमिसंनिहितं ब्रह्माण्डगोलकावरणं यस्य स पुरीषी पुरीषिणमाहुः कथयन्ति। अथवा पञ्च शरहतुवर्जिताः पादा यस्येति व्याख्येयम् । अय पक्षान्तर इमे कालचक्रविदोऽन्ये पूर्वेभ्यो व्यतिरिक्ता उ परे, उ अपि परेऽन्य इत्यस्य व्याख्या । त उक्तव्यतिरिक्ता उत्कृष्टा वा विचक्षणं कुशलं सर्वोपद्रवशून्यमि- त्यर्थः । सप्तचक्रे सप्त गायत्री त्रिष्टुब्जगत्यनुष्टुप्पङ्क्तिव॒हती ककुविति च्छन्दांसि परस्मिंश्चके नेतृत्वेन संबद्धानि तत्सप्तचक्र तस्मिन् । अथवा वर्णव्यत्यासात्सर्पचक्रे गमनवति चक्र इत्यर्थः । षडरे षडतरूपा आरा यस्य तं षडरं तस्मिन्नाहुः कथय न्ति पर इत्यन्वयः । अर्पितं सचराचरं जगदर्पितं नानाविचाराः (१)। इति मन्त्रस- माप्तौ ॥ ११ ॥ यथा संवत्सरो रयिप्राणात्मकस्तथा मासोऽपीत्यहोपासनार्थम् । मांसा पक्षद्वया. त्मकः । वै प्रसिद्धः । प्रजापती रयिप्राणामिन्नो हिरण्यगर्मस्तस्य मासस्य । कृष्ण- पक्ष एव चन्द्रक्षयपक्ष एव न त्वन्यो रयिश्चन्द्रमाः। शुक्लश्चन्द्रवृद्धिपक्षः। प्राण आ. दित्यो. यस्माच्छुक्लः प्राणस्तस्मात्तत एत ऋषयः प्रसिद्धाः प्राणव्यतिरिक्तानवलो- किनः कृष्णपक्षेऽपि कुर्वन्तः शुक्ल इष्टं कुर्वन्तीष्टमिष्टापूर्तादिकं शुक्ले पक्षे कुर्वन्ति । कृष्णपक्षस्येतरदर्शनादित्यर्थः । इतरे प्राणव्यतिरिक्तदर्शिनः शुक्ले पक्षेऽपि कुर्वन्त इष्टापूर्तादिकमितरस्मिन्कृष्णपक्षे कुर्वन्तीत्यनुषङ्गः ॥ १२ ॥ अहोरात्रस्त्रिंशन्मुहूर्तात्मको मनुष्यपितृदेवब्रह्मभेदभिन्नः । वै प्रजापतिाख्या- तम् । तस्याहोरात्रस्याहरेवाऽऽदित्यस्योदयादास्तमयं काल . एव प्राण आदित्यो रात्रिरेवाऽऽदित्यास्तमयादोदयं काल एव रयिश्चन्द्रः । प्रसङ्गादिवसे मैथुन , निषेधति-माणमादित्यं सर्वजीवनकारणं वै प्रसिद्धमेत दिवमिथुनरताः स्वोपका- रिणं प्रस्कन्दन्ति प्रषेण शोषयन्ति मन्तीत्यर्थः । ये प्रसिद्धाः कामुका दिवा दिवसे रत्या युवतिजनसंभोगरूपिण्या । संयुज्यन्ते सम्यक्संबध्यन्ते । ग्राम्यधर्मेण योषिता सह संबध्यन्त इत्यर्थः । ननु तर्हि किं स्वयोषित्सु गमनं गृहस्थेन कर- १ ख. 'रेडाव।
शंकरानन्दविरचिता- [१ प्रश्नः] णीयमित्याशङ्कय रात्रौ तत्करणीयमित्येतद्वक्तुं रात्रिगमनं स्तौति ब्रह्मचर्यमेव मैथुनाभावरूपमेव न तु मैथुनं तत्परोक्षं वक्ष्यमाणं यत्प्रसिद्धं गृहस्थानां मैथुन रात्री क्रियमाणम् । तदेतदाह-रात्रौ रत्या, संयुज्यन्ते- स्पष्टम् ॥ १३ ॥... इदानी प्रजोत्पत्तिप्रकार · वक्तुं रेतो मैथुनं च स्तौति-- अन्नमदनीय वै प्रसिद्ध सर्वप्राणिनां प्रजापतिः कालात्मा रयिमाणात्मकः । ततस्तस्मादन्नादद्यमानाद्ध प्रसिद्धं वै स्मर्यमाणं सर्वजगदुत्पादकत्वेन तत्प्राणरूपं सर्वजगबीजमन्नकार्य रेत: स्त्रीपुंसयोवीर्यम् । तस्माद्रेतप्त इमाः प्रजाः प्रजायन्ते व्याख्यातम् । इत्यनेन रेतो. वस्थावच्छिन्नेनाऽऽत्मोपादानेन चन्द्रादित्यसंवत्सरमासाहोरात्र मैथुनावस्थात्मनिमित्तेन प्रकारेणेमाः प्रजाः प्रजायन्त इत्यन्वयः ॥ १४ ॥ एवं प्रश्ननिर्णयं कृत्वा प्रसङ्गान्मैथुन ब्रह्मचर्ययोविभागेन फलमाह-तत्तत्र संसार मण्डले । ये प्रसिद्धाः कामज्वरापहृतचित्तसर्वस्वा ह प्रसिद्धा वै स्मथमाणं तत्परोक्ष प्रजापतिव्रतं प्रजापतिना मनुना स्वार्थभूतायाः शतरूपाया योषितोऽधोपहासवत्स्व. योषिधोपहासं प्रजापतित्रतं चरन्त्याचरन्तीत्यनुतिष्ठन्तीत्यर्थः । ते प्रजापतित्रतचा. रिणो मिथुनं नारीपुरुष नपुंसकं नोभयं वा त्रयं वोत्पादयन्ते जनयन्ति ।दृष्टफल- मिदम् । इदानीमदृष्टफलमाह-तेषामेव प्रजापतिव्रतचारिणां न त्वन्येषामेष दक्षि- णमार्गप्राप्यो ब्रह्मलोको ब्रह्मणः प्रजापते रयिरूपस्य चन्द्रमसो लोकः । इदानी ब्रह्मचर्ये फलमाह-येषामचिरादिमार्गयाथिनां तपो, मनस इन्द्रियाणां चैकाफ्यादि । ब्रह्मचर्यमुक्तम् । येषु निवृत्तिमार्गनिरतेषु सत्यं प्रियहितग्रथार्थमाषणं प्रतिष्ठिन प्रतिष्ठा प्राप्तं ये प्रमादेनाप्यसत्यं न वह (द)न्तीत्यर्थः ॥ १५ ॥ तेषां तपोब्रह्मचर्यसत्यनिरतानामसौ परोक्ष आदिल्यमाप्राप्यो विरजो विरजाश्च- न्द्रलोकवत्क्षयिष्णुत्वादिदोषदूषितो न । ब्रह्मलोकः कार्यब्रह्मलोकः । इदानीं तपोब्रह्म चर्यसत्यवचनादीनां सद्भावेऽपि जैझ्यादिसद्भावे न ब्रह्मलोकः इत्यनुमतमर्थमाह न येषु तपोब्रह्मचर्यसत्यसंपन्नेषु । जिलं कौटिल्यं स्वेन नोच्यमानमपि परैर्जायमान न येष्वित्यन्वयः । अनृतं पण्डितमान्यत्वेन न विपरीतं वाक्यं सत्यवादिन एवं न येष्वित्यनुषङ्गः। न माया च कार्यमन्तरेण परैरज्ञायमानं कौटिल्यं माया न येष्वनुवर्तते । चकाराद्धिंसास्तेयादिकमपि नेत्यवगन्तव्यम् । । इत्यनेन प्रका- रेण] ॥ १६ ॥ इति श्रीमत्परमहंसपरित्राजकाचार्यश्रीशंकरानन्दयतीन्द्रविरचिताया- "माथर्वणप्रश्नोपनिषदीपिकायां प्रथमः प्रश्न...
[२ प्रश्नः] प्रश्नोपनिषदीपिका। अर्थ द्वितीयः प्रश्नः। अथ कात्यायनप्रश्नानन्तरं पूर्ववदुत्सुको ह किलैनं पिप्पलादम् । भार्गवो वैदर्भिः पप्रच्छ भगवन् , व्याख्यातम् । कत्येव कियत्संख्यादिका एव निर्धारिता देवा देवशब्दाभिधेयाः । प्रजा स्थावरजङ्गमभूतरूपां विधारयन्ते विधारणं कुर्वन्ति । कतर एतेषु देवेष्वदेवेषु वा कतर एतच्छरीरं संसारयात्रानिर्वाहकं प्रकाशयन्ते प्रकाशं कुर्वन्ति । कः पुनरेषां वरिष्ठ एषां देवानां को नाम श्रेष्ठः । इत्यनेन प्रकारेण पप्रच्छेत्यन्वयः ॥ १ ॥ तस्मै भार्गवाय । स होवाच व्याख्यातम् । प्रथमप्रश्नस्योत्तरं प्राण एव शरी. रस्य विधारकः । द्वितीयतृतीययोश्चार्थादग्न्यादिरूपेण स एव प्रकाशको वरिष्ठश्चेति वक्तुं भूतेन्द्रियप्राणसंवादरूपामाख्यायिकामवतारयति-आकाशो भूताकाशो ह किल वै प्रसिद्ध एष प्रसारितनयनप्रत्यक्षः साक्षिप्रत्यक्षो वा देवो देवशब्दाभिधेयोऽन्यवि- जिगिषुत्वेन, वायुरनिरापः पृथिवी स्पष्टम् । वाग्वागिन्द्रियम् । उपलक्षणमेतत्पाणि- पादपायूपस्थानाम् । मनोऽन्तःकरणं ज्ञानशक्ति चतुर्विध मनःशब्दोपलक्षितम् । चक्षुः श्रोत्रं च स्पष्टम् । चकारात्त्वग्वाणरसनानि । ते पञ्चमहाभूतज्ञानेन्द्रियकर्मेन्द्रियचतुर्विधा- न्तःकरणरूपा मुख्यप्राणसंनिधिप्राप्तसामर्थ्यान्मुख्यप्राणप्रसादमजानतः(न्त:) प्रकाश्येदं शरीरमवकाशादिव्यहारक्षमत्वेन सर्वस्य लोकस्य दर्शयित्वाऽभिवदन्ति स्वव्यतिरि- कान्सर्वान्सर्वतस्तिरस्कृत्य प्रत्येकं स्वात्मनि बहुवचनप्रयोगेणावकाशाचेकैककार्यक्षमा अपि सजीवनमवकाशादिसर्वकार्यक्षमत्वं स्वात्मन्यारोप्य वदन्ति वल्गन्ति । तद्वदन- माह-वयमाकाशादय एतत्सर्वप्राणिप्रत्यक्ष बाणं बाणवत्कर्मणा प्रापितं बाणमथ- वा बवयोरक्याद्वाति कुत्सितं गन्धं वहन्ब(ह)णति शब्दं करोति गच्छति वा कर्म- क्षये सति सत्यपि कर्मणि देशाद्देशान्तरं चेति वा बणम् । बणमेव बाणं शरीरमित्यर्थः । अवष्टभ्यावष्टम्भनं कृत्वा दृढतमं कृत्वेत्यर्थः । विधारयामो विविधावकाशादिकार्य. क्षमत्वेन धारणं कुर्मः ॥२॥ तानाकाशादीन्प्रत्येकं शरीरविधारणामिमानेन वदतो वरिष्ठः सर्वेऽप्याकाशदयोs- वकाशादिकार्यकारित्वेन वरास्तत्कार्याणामपि मुख्यप्राणनिमित्तत्वान्मुख्यप्राणोऽतिश- येन [.वरो वरिष्ठः ] समीचीनः प्राणो मुख्यप्राणः प्राणादिपञ्चवृत्तिरुवाच हस्त- संज्ञया च निवारयनुक्तवान् । मुख्यप्राणोक्तिमाह-मा निषेधार्थः । मोहं विपरी- तज्ञानमाप्रद्यथ समन्तान्मा गच्छत । तत्र हेतुमाह--अहमेव मुख्यप्राण एव न त्वन्य एतदेवं स्वप्रत्यक्षं वक्ष्यमाणमात्मानं पञ्चधा प्राणापानव्यानोदानसमानैः पञ्च- .
शंकरानन्दविरचिता- [२ प्रमः] प्रकारैरात्मानं मुख्यप्राणस्वरूपं प्रविभज्य प्रकर्षण स्थानक्रियानामादिमिविविधमेद- वन्तं कृत्वैतद्वाणमवष्टभ्य व्याख्यातम् । विधारयामि विविधकार्यक्षमत्वेन जीववन्तं देहं करोमि । अयमर्थः-मवन्तोऽवकाशादिप्रातिस्विककार्यक्षमा न तु सर्व. कार्यक्षमा अहं तु भवतामपि कार्ये निमित्तत्वाद्भवत्कार्यक्षमो मया क्रियमाणे जीव- नादौ तु न कोऽपीति । इत्यनेन प्रकारेण । एवमुक्ते सति त आकाशादयः परस्प. रमुखावले कनहास्यकरताडनादिचेष्टावन्तः प्राणोकेऽर्थेऽश्रदधाना इदमित्यमेवेत्या. स्तिक्यबुद्धिशून्या बभूवुः स्पष्टम् ॥ ३ ॥ अनन्तरं तेषां सदर्पपापमवलोक्य तच्छान्त्यर्थं स मुख्यप्राणोऽभिमानादात्मनः सर्व कारित्वलक्षणाद्यथावस्तुविषयादहंकारात् । ऊर्ध्वमष्टोत्तरशतमर्मस्थानानामुपरि स्थान. चलनं कृतवानित्यर्थः । उत्क्रमत इवोत्क्रामतीव स्वात्मनः साक्षी, उत्क्रमणे प्रति- समाधेयः शरीरविनाशः स्यादिति मन्वान उत्क्रमणमिव कृतवान्भूतानां सकारणानां स्वस्थानचलनेन व्याकुलत्वं कृतवानित्यर्थः । अथवाऽयमिवकारः प्रतिपत्तुः प्रतिपत्त्यैव प्राणसंवादमाह । न ह्याकाशादिदेवानां वागादयः सन्ति तेषां तदङ्गीकारे च न्याया- दिविरोधात् । तस्मिन्मुख्ये प्राणेऽभिमानिन्युत्क्रामत्यूर्व गच्छति सत्यथानन्तराम- तरे मुख्यप्राणादन्य आकाशादयः सर्व एव निखिला भपि पाशबद्धा विहङ्गा इव पाशस्योर्ध्व नयनादुत्क्रामन्त उत्क्रामन्ति पराधीनाः सन्तः स्वस्थानम्यश्चलिता बभूवुः । नैकोऽप्यात्मानमवष्टब्धवानित्यर्थः । नैतत्तदा जातं किंतु सर्वकालीनमि- त्याह-तस्मिंश्च तस्मिन्मुख्यप्राण एव यथोत्कामति सत्युत्क्रामति( न्ति ) तथा सर्वदा प्रतिष्ठमाने प्रकर्षण स्वस्वकार्यक्षमत्वेनावस्थानं कुर्वन्ति(ति) । सर्व एव प(प्रा)तिष्ठन्ते स्पष्टम् । तत्तत्र प्राण उत्क्रामत्युत्क्रामन्ति प्रतिष्ठमाने च प्रतिति. ष्ठन्त इत्यस्मिन्नर्थे दृष्टान्तः । यथा दृष्टान्ते, मक्षिकाः क्षुद्रा मधुकरा जीवा भ्रमरा वा मधुकरत्वसामान्यान्मधुकरराजानं मधुकरराजे मधु मध्वपूपान्तस्थं मधुररसं तत्कु. वन्तीति मधुकरास्तेषु प्रधानभूतस्तैदृष्टातिशयः कश्चन जीव इत्यर्थः । तमुत्क्रामन्तं मध्वपूपं परित्यज्योर्व गच्छन्तं सर्वा एव निखिला अपि मक्षिका उत्क्रामन्त उत्क्रामन्ति तमनुगच्छन्तीत्यर्थः । तस्मिंश्च मधुकरराज एव मध्वपूपे प्रतिष्ठमाने सर्वा एव प्रातिष्ठन्ते स्पष्टम् । दार्शन्तिकमाह-एवं तथा वाङ्मनश्चक्षुः श्रोत्रं च। चकारोऽनुकानामाकादीनां संग्रहार्थः । व्याख्यातमन्यत् । त उक्ता आका- शादयः परित्यक्तशरीरविधारकत्वाभिमानाः । श्रीताः प्राणस्यैव शरीरविधारकत्व. निश्चयेन परममोदमुपगताः । प्राणं मधुकररामसमें मुख्यमाणं कालत्रयेऽपि परोक्ष यक्षं च स्तुष(न्य )न्ति स्तुतिं कुर्वन्ति ।। १ ॥
२ प्रश्नः ] प्रश्नोपनिषदीपिका। तत्स्तुतिमाह-एष मुखनासिकाम्यां संचरन्स्पर्शनस्य साक्षिणो वा प्रत्यक्षोऽनिर. ध्यात्मादी जाठरमौमादिमेदमिन्नो वैश्वानरस्तपति संतापं करोति । एष व्याख्या- तम् । सूर्यः शोमनाया मतेः कर्ता चन्द्रमण्डलात्मेष व्याख्यातम् । पर्जन्यो वृष्टय मिमानिनी देवतैष इत्यनुवर्तते । मघवान्मघवा त्रिलोकीपतिः। अथवा पर्जन्यस्यैव विशेषणं मघवान् । तथा च पर्जन्येन्द्रयोरक्यं स्यात् । एष व्याख्यातम् । वायु: प्रमञ्जनः । एष व्याख्यातम् । पृथिवी वसुंधरा । एष इत्यनुवर्तते वक्ष्यमाणेषु सर्वेषु । रयिश्चन्द्रमाः । देवो विजिगीषापरो द्योतनात्मको वा तपन्नाग्निसूर्याद्यात्मकत्वेन । किं बहुना सदसञ्चास्ति नास्तीति व्यपदेशभूषितम् । चकारात्सदसद्विलक्षणमज्ञानमपि । अमृतं चामरणधर्मात्मकं ब्रह्माप्यनुपचरितसदेकस्वभावम् । चकारादनुपचरितासत्स्व. मावं नरविषाणादिकमपि यत्प्रसिद्धम् ॥ ५ ॥ न केवलमयं. सर्वात्मा किंतु सर्वाधारोऽपीति दृष्टान्तेनाऽऽहुः-अराश्चक्रस्य नाभिनेम्योऽरन्तरालवर्तीनि चतुष्कोणानि वर्तुलानि वा तीक्ष्णाप्रपुच्छानि काष्ठानि । इव दृष्टान्ते । रथनाभी रथचक्रस्य मध्यप्रदेशे प्रतितिष्ठत(न्त ) इति शेषः । दार्टान्तिकमाह-प्राणे संसारचक्रनाभिभूते मुख्ये प्राणे । सर्व निखिलमग्निसूर्या- दिकं प्रागात्मकम् । प्रतिष्ठितं स्पष्टम् । अग्निसूर्यादिकमेव सर्व प्राणे प्रतिष्ठितं न त्वन्यदिति शङ्कां वारयितुं सर्वशब्दार्थमाह-ऋचः पादबद्धा मन्त्राः । यजूंष्य- विवक्षितच्छन्दस्का मन्त्राः। सामानि गीतिसहिता ऋचः । यज्ञो ज्योतिष्टोमादि- रूपः । क्षत्रं क्षत्रियत्वजातिब्रह्म च ब्राह्मणत्वजातिः । चकारादुक्तमनुक्तं च सर्वम् ॥ ६ ॥ यथा प्रजा महाराजमेवेष इत्यङ्गुलिनिर्देशेन परस्परं दर्शयित्वा तद्गुणांश्च संकीर्त्य पश्चात्त्वं नः पिता मातेत्यादिना स्तुन्वन्ति तथैषोऽग्निः सूर्यश्च तपतीत्यादिना प्राणं दर्श- यित्वा देवास्तद्गुणांश्च सर्वप्रतिष्ठादिलक्षणान्संकीत्यैवं स्तुवन्त इत्याहुः-प्रजापतिर्वि. राट् त्रिलोकीशरीरः प्रजानां पालयिता । चरसि गच्छसि वर्तस इत्यर्थः । गर्भ ब्रह्मा- ण्डगोलकजठरे । ननु गर्भस्थोत्तानशायिनोविभेदाग द्विनिर्गतो नाहमित्यत आहुः- त्वमेव प्राणः प्रजापतिरूपो गर्भस्थ एव न त्वन्यः। प्रतिजायसे स्वस्माज्जाताद्ब्रह्मा- ण्डगोलकात्पुत्रभूतात्प्रति प्रातिलोम्येन पिता सन्पुत्रत्वमङ्गीकृत्योत्पद्यते( से )। तुभ्यं प्रजापतिरूपायोपकाराद्यर्थम् । प्राण हे प्राण प्रजास्त्विमाः प्रत्यक्षाः स्थावरजङ्ग- मास्त्वद्रूपभूताः । तोरेवकारार्थः । ता इमाः प्रजास्तुम्यमेवेत्यन्वयः । [ बलिं हरन्ति सष्टम् ] । ननु ब्रह्मलोकावस्थिताय मह्यं कथमिमाः प्रजा [ बलि हरन्ति ] इत्यत भाहुः-या प्रसिद्धः प्रजापतिहस्तिपुत्तिकादिशरीरेषु समः । प्राणः प्राणापाना- - ... शंकरानन्दविरचिता- [२ प्रश्नः] दिभिः पञ्चमिर्वायुर्मेदैः सर्वेषु भूतेष्वेक एव । प्रतितिष्ठसि प्रातिकूल्येम मैदेन वर्तसे ॥ ७ ॥ इदानीमस्यैव प्रधानभूता विभूतीराहुः-देवानामिन्द्रादीनामसि मवसि । वह्नि. तमोऽतिशयेन हविषां वाहको देवतृप्तिकारणमित्यर्थः । पितृणामग्निष्वात्तादीनां पितृलोकनिवासिनां प्रथमा पूर्वभाविनी नान्दीमुखश्राद्धादावन्यकर्मापेक्षया । स्वधा स्वान्यजमानस्य पितृन्हविष्यदानेन धावति गच्छतीति स्वधा । ऋषीणां गौतममर- द्वाजप्रभृतीनां चरितं चेष्टितम् । किं परस्त्रीदर्शनादिकमपि प्राण इत्याशङ्कय नेत्या- ह-सत्यमवितथं गुरुपादावलोकनदिकमित्यर्थः । अथवा मुख्यप्राणसाहचर्यात्सत्यं शरीरविधारणम् । ऋषिविशेषणमाहुः-अथर्वाङ्गिरसामथर्वाङ्गिरसपाणसाहचर्या- दधर्वाङ्गिरस्त्वं गौतमादीनाम् । असि भवसि ॥ ८ ॥ इन्द्रः परमैश्वर्यसंपन्नस्त्वं प्राणः प्रजापतिः । प्राण हे प्राण । तेजसा सर्व. संहारकारिणा वीर्येण त्रिजगदिकेन । रुद्रो रोदनहेतुभूतोऽसि भवसि । स्थितिकाले जगतः परिराक्षता सर्वतो रक्षकः । त्वं प्राणः प्रजापतिः । अन्तरिक्ष आकाशे वारवादिरूपेण चरसि गच्छसि । सूर्यः शोमनाया गतेः कर्ता दिवाकरस्त्वं प्राणः प्रजापतिः । सूर्यविशेषणं. ज्योतिषां पतिः, चन्द्रादीनां पालयिता । न केवलं ज्योतिषां पतिः किंतु प्रजानामप्यानन्दकारीत्येवमाहुः ॥ ९ ॥ यदा यस्मिन्काले त्वं प्राण सूर्यगोभिरभिवर्षसि सर्वतो नीरधारा मुञ्चसि । अथ तदेमाः प्रत्यक्षाः । प्राणते प्राणन्ति प्राणनादिचेष्टां कुर्वन्तीत्यर्थः । अथवा हे प्राण ते तवेमाः प्रजा इति वक्ष्यमाणेनान्वयः । प्रजाः स्थावरजङ्गमाः। आनन्द- रूपा आनन्दः परमात्मा स एव रूपं यास ता आनन्दरूपाः । निरतिशयसुखपूर्णा इत्यर्थः । तिष्ठन्ति स्पष्टम् । आनन्दरूपावस्थाने हेतुमाह--कामायाभिलाषाय यथाकाममित्यर्थः । अन्नमदनीयं ब्रीह्यादिकम् । भविष्यति स्पष्टम् । इत्यनेना- भिप्रायेण ॥ १०॥ इदानीमस्य सर्वात्मनोऽपि पापलेशशून्यत्वमाहुः-व्रात्यः सर्वस्मात्प्रथमजत्वा- यथाकालमुपनयनादिसंस्कारशून्यः पितृपितामहादेरभावाद्वा तत्सोमपानशून्यः । संस्का- रशून्योऽपि सर्वदा शुद्ध इत्यर्थः । त्वं प्रथमजः प्रजापतिः । प्राण हे प्राणैकऋषि- रायणानामेव प्रसिद्धोऽग्निरत्ता भोक्ता संहर्ता वा । विश्वस्य चराचरस्य जगतः । सत्पतिः सतां ब्रह्मादीनां पालयिता संश्चासौ पतिश्चेति वा । वयमाकाशाया देवाः। आद्यस्यादनीयस्य विषयजातस्य दातारः समर्पकाः । पिता जनकरत्वं प्राणो । ई प्रश्नः ] प्रश्नोपनिषदीपिका। मातरिश्व मातर्याकाशे श्वसितीति मातरिश्वा वायुस्वरूप इत्यर्थः । नोऽस्माकमा- काशादानाम् । अथवा सर्वजगत्कारणस्य मातरिश्वनो वायोस्त्वं पिता ॥ ११ ॥ " एवं स्तुतिं कृत्वा कार्यमाहुः-या प्रसिद्धा । ते तव प्राणस्य तनूस्तनुरपान- रूपा । वाचि वागिन्द्रियेऽग्नौ पृथव्यां च वागिन्द्रियसहचरितायां प्रति- ष्ठिताऽवस्थिता । या प्रसिद्धा व्यानरूपा श्रोत्रे श्रोत्रेन्द्रिये तत्सहचरितचन्द्रम- स्याकाशे च । या च प्रसिद्धा प्राणरूपा । चकारः पूर्वत्र वक्ष्यमाणे. च पर्याये, तनः प्रतिष्ठितेत्येतदनुवृत्त्यर्थः । चक्षुषि चक्षुरिन्द्रिये तत्सहचरितेषु तेजोबन्नात्मकेषु रूसे. ध्वादित्ये च, या [च ] प्रसिद्धा समानरूपा मनसि मनइन्द्रिये तत्सहचरितेषु भूतभौतिकेषु । संतता सम्यग्विस्तृता प्राणादिपञ्चवृत्तिगर्मिणीत्यर्थः । शिवां शिवानां मङ्गलानां स्वस्थानादचलितामित्यर्थः । तां वागादिस्थितां तनुं कुरु स्पष्टम् । त्वं च मोत्क्रमीरुत्क्रम मा कार्षीः ॥ १२ ॥ नास्माकमिदानी पूर्ववत्स्वातन्त्र्यबुद्धिरित्याहु:-माणस्य पञ्चवृत्तर्मवत इदं विवि. धप्रत्ययगम्यमस्मदादिकं जगदशेऽधीनत्वेन सा निखिलम् । सर्वशब्दार्थमाहुः त्रिदिवे त्रिदिवोपललितत्रिलोक्यां ब्रह्माण्डजठर इत्यर्थः । यत्प्रसिद्धमाकाशादिक प्रतिष्ठितमवस्थितम् । यस्मादेवं तस्माद्धे प्राण त्वमस्मान्मातेव पुत्रान्स्पष्टं रक्षस्व रक्ष सर्वतोऽनर्थेभ्यः पाहि । तद्रक्षणं स्वयमेवाऽऽहुः-श्रीश्च श्रियश्च विविधा लक्ष्मीः । प्रज्ञां च लोकवेदविपयिणी लोकद्वयेष्टकारिणी बुद्धिम् । चकारौं तयोः स्थिर त्वोपयोज्यत्वे आहतुः । विधेहि विविधास्ववस्थासु धेहि प्रयच्छ । नोऽस्मभ्यमाका- शादिभ्यो विंगताभिमानेभ्यः । [ इत्यनेन प्रकारेण ] ॥ १३ ।। इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीशंकरानन्दयतीन्द्रविरचिता- यामाथर्वणपश्नोपनिषदीपिकायां द्वितीयः पश्नः ॥ २ ॥ - अथ तृतीयः प्रश्नः। प्राणस्य प्रजापतेस्तु सर्वजगदात्मत्वं निर्धारितं यद्यपि तथाऽप्यस्य संहतत्वादना- स्मत्वमित्येतदुपपादनार्थ तृतीयः प्रश्न आरम्यते-अथ वैदर्भिप्रश्नानन्तरं हैनं कौश- (स)ल्यश्चाऽऽश्वलायनः पप्रच्छ भगवन्व्याख्यातम् । कुतः कस्मादुपादाना- निमित्तादेष प्रत्यक्षः क्रियावान्माणः पञ्चवृत्तिर्जायत उत्पद्यते ! कथं केन प्रकारे- गाऽऽयात्यागच्छंत्यस्मिन्स्थूले प्रत्यक्षे शरीरे विनाशिनि कलेवरे । केन निमित्तेन शरीरं गृह्णातीत्यभिप्रायः । आत्मानं वा मुख्यप्राणस्वरूपं वाशब्दः प्राण एवं धर्मा, [ई प्रश्नः] शंकरानन्दविरचिता- तरप्रश्नार्थः । प्रविभज्य प्रकर्षेण विभागं कृत्वा कथं केन प्रकारेण । पासिष्ठते वर्तत इत्यर्थः । केन वृत्तिविशेषेणोत्क्रमत उत्क्रामत्यस्माच्छरीरादपसर्पति । कर्य केन प्रकारेण वाघमधिमूतमधिदैवं चाभिधत्ते सर्वतो धारयति । कयं केन प्रकारेणा- ध्यात्ममात्मानमधिकृत्य वर्तमानमिदं शरीरेन्द्रियादिकम् । इत्यनेन प्रकारेण ॥१॥ तस्मै कौश(स)ल्याय । स होवाच व्याख्यातम् । अतिप्रश्नानम्यधिका- रा(कार्या)पिहितार्थान्वाऽन्यप्रश्नविषयान्वा प्रष्टव्यानर्थान्पृच्छसि प्रश्नं करोषि यतस्ततो अमिष्ठोऽतिशयेन वेदार्थज्ञोऽन्तर्मुखो वाऽसि भवसि । इति यस्मात्तस्मा ततस्ते तुभ्यमाश्वलायनायाहं पिप्पलादाभिधो ब्रवीमि स्पष्टम् ॥२॥ आत्मन आत्मनोऽमिन्ननिमित्तोपादानात् । एष भाणो जायते व्याख्यातम् । आत्मनः प्राणो जायमानो न वास्तव इत्येतद्दृष्टान्तेनाऽऽह-यथा दृष्टान्त एषा प्रत्यक्षा पुरुषे शिरःपाण्यादिमति च्छाया प्रसिद्धा पुरुषाकारैवमेतस्मिन्माणकारण आत्मन्येतत्प्राणसूत्रमावतं समन्ताद्विस्तृतं न वास्तवमित्यर्थः । कथमायात्यस्मिन्श. रीर इत्यस्योत्तरमाह-मनोकृतेन मनःकृतेन करणं(ण)कृतशुभाशुभकर्माविद्यावा. सनानिमित्तेनाऽऽयात्यस्मिञ्शरीरे व्याख्यातम् ॥ ३ ॥ आत्मानं वा प्रविमज्य कथं प्रातिष्ठत इत्यस्योत्तरं दृष्टान्तपुरःसरमाह-यया सम्राडेव सम्यग्राजत इति सम्राट् सर्वलक्षणसंपन्नः सार्वभौमो राजैव न त्वन्योऽ. धिकृतान्मन्त्रिबलरक्षकाधिकारिप्रभृतीन्विनियुङ्क्ते विनियोगं कुरुते । विनियोग- प्रकारमाह-एतान्यामानेतान्यायान्कुरुपाञ्चालादिदेशगतान्सर्वसंपत्समृद्धान्पञ्चदश- शतं सहस्रं वा प्रामान्विनियुज्यमानानां बहुत्वाभिप्राया वाक्याप्सा । मन्त्रिबलरक्षका- धिकारिन्निति प्रत्येकमधितिष्ठस्वाधितिष्ठाधिष्ठानं कुर्वित्यनेन प्रकारेण । दान्तिक- माह-एवमेवानेनैव प्रकारेणैष मुख्यः प्राण इतरान्स्वात्मव्यतिरिक्तान्माणान्माण- शब्दान्वागादीन्पृथक्पृथगेव जिह्वादिगोलकेष्वन्यत्रान्यत्रैव न त्वेकत्र संनिघते संनिधानं कुरुते । स्थापयतीत्यर्थः ॥ ४ ॥ तेषां संनिधानस्यातिस्पष्टत्वात्परित्यज्य वागादीन्मुख्यस्यैव प्राणस्य पञ्चवृत्तिसंनि धानमाह-पायूपस्थे पायुब्धोपस्थश्व पायूपस्य तस्मिन्मलमूत्रादिकारित्वेनापानमध. धारिणं स्वात्मनो वृत्तिमेदं संस्थाप्येति शेषः । चक्षुःश्रोत्रे चक्षुश्च श्रोत्रं च चक्षुः- श्रोत्रं तस्मिन्संनिधानं कृत्वेति शेषः । मुखनासिकाभ्यां स्पष्टम्।माणो मुख्यप्राण; स्वयं वृत्तिमान्वृत्तिमन्तरेण स्वेनेव रूपेण प्रातिष्ठते प्रतिष्ठते शरीरदेशावहिर्गच्छति। मध्ये तु शरीरस्य मध्यभाग एव नाभी न स्वन्यत्र समानोऽशितपीतसमनयनवृत्तिः। तिष्ठतीति शेषः । समानशब्दार्थमाह-एष नाभिस्थः प्राणवृत्तिभेदो हि यस्मादे.
[३ प्रश्नः] प्रश्नोपनिषदीपिका। . तद्भक्ताख्यं प्रत्यक्ष हुतं विधिनाऽविधिना वाऽऽस्याहवनीये प्रक्षिप्तमन्नमदनीयं समं यावता नीयमानेन तत्तत्स्थानेन्द्रियादीनां बाधो न भवति तावत्तत्तत्स्थानेन्द्रियादी नयति प्रापयति । तस्मात्समानेन समत्वेन नीतादन्नादेताः साक्षिणः प्रत्यक्षाः श्रोत्र- चक्षुर्नासिकामुखद्वाररूपेणास्मदादीनां वा सप्त सप्तसंख्याका मूर्धन्यद्वारस्था अर्चि- षोऽचिरिव विषयप्रकाशरूपत्वाच्छब्दादिबुद्धयः । भवन्ति स्पष्टम् ॥ ५ ॥ इदानी व्यानवृत्तेः स्थलं वक्तुमाह-हृदि मांसपिण्डे कमठाकारे हि यस्मादेष साक्षिप्रत्यक्ष आत्माऽऽत्मसहचरितः पञ्चवृत्तिः प्राणो लिङ्गात्माऽत्रास्मिन्हृदय आत्माधिष्ठान एतत्सर्वशरीरपर्णस्य शङ्कुभूतमेकशतमेकाधिक शतं नाडीनां प्रधान भूतानां सच्छिद्राणां शिराणाम् । तासां प्रधाननाडीनां शतं शतमेकैकस्या एकोत्तर- शतसंख्याकानां प्रत्येकं शतं शतं तथा चैकोत्तरशतनाडीनां शाखाभूता नाड्यो दश. सहस्त्रं शताधिक मवन्ति । पुनश्च शताधिकानां दशसहस्राणामेकोत्तरशतनाडीशाखा- नाडीनामेकैकस्या * द्वासप्तति द्वासप्तति प्रतिशाखानाडीसहस्राणि शाखानाडीनां शाखाभूता नाज्यस्तासां प्रत्येकं द्विसहस्राधिकसप्ततिसहस्राणि । द्वासप्ततिं द्वासप्तति- मिति वीप्सा प्रत्येक शाखानाडीसंबन्धार्था । प्रतिशाखानाडीनां सहस्राणि प्रतिशा- खानाडीसहस्राणि । तथा च मूलशाखा [प्रतिशाखा ]नाड्यो द्वासप्ततिकोटयो द्वासप्ततिलक्षाणि दशसहस्रं च शतद्वयमेका चेति भवन्ति । आसूक्तसंख्यासु मूल. शाखापतिशाखा+प्रतिशाखानाडीषु । व्यानो वीर्यवत्कर्महेतुः प्राणवृत्तिमेदश्वरति गच्छति ॥६॥ केनोत्क्रमत इत्यस्योत्तरं वक्तुं पञ्चम्याः प्राणवृत्तेः संचरणमार्गमाह-अथ सर्वना- डीषु व्यानसंचारेणैव हेतुनैकया सुषुन्नारूपयोर्ध्व ऊर्ध्व चारी उदान ऊर्ध्वचारि- त्वादेवादाननामधेयः प्राणवृत्तिभेदेन पुण्येन शास्त्रीयण कर्मणा । पुण्यं शुमकर्मफलं सुखप्रायं लोकं भोगभूमिभूतम् । नयति प्रापयति । पापेन शास्त्रनिषिद्धेन कर्मणा । पापमशुगक फलं लाकं नयति देहली प्रदीपस्यायेन संवयो । उमाभ्याषेव पुण्यपापाभ्यामेव न तु केलेन पुण्येन पापेन वा मनुष्यलोके मानव शरीरं सुखदुः- खफलं नयतीत्यनुषङ्गः ॥ ७ ॥ कथं बाह्यमभिधत्ते कथमध्यात्ममित्येतयोरुत्तरमवशिष्यते । तत्र प्राणादिपश्च: तिमिरध्यात्ममभिधत्त इत्येतदात्मानं वा प्रविभज्य कथं प्रातिष्ठत इत्येतस्योत्तरेणैवा- र्थात्प्राणादिमिरभिवत्त इत्युत्तरमुक्तमिदानी कथं बाह्यमभिवत्त इत्यस्योत्तरं प्राणापा- । * द्वासप्ततिद्वासप्ततिरिति क्वचिन्मूले पाठः। + एक प्रतिशाखाशब्दोऽधिकः । ११ १४ शंकरानन्दविरचिता [ ३ प्रश्नः नसमानव्यानोदानामिन्नैरादित्यपृथिव्याकाशवाय्वग्निमिरमित्त इत्याह-आदित्यो मण्डलाभिमानी पुरुषो ह प्रसिद्धो वै स्मर्यमाणों बाह्योऽध्यात्मव्यतिरिक्तः । प्राणो मुख्यप्राण उदयति, उदयं गच्छति । एष बाह्यः प्राणो मण्डलामा पुरतः स्थित इति हि यस्मादेनं साक्षिप्रत्यक्षं चाक्षुष चक्षुषि भवं प्राणं प्राणवृत्त्याख्यमनुगृह्णानोऽ- नुग्रहं कुर्वन्नु द्य(दय)तीत्यन्वयः। पृथिव्यां पञ्चगुणायां वित्तीर्णायां भुवि या प्रसिद्धा बाह्यापानरूपा देवताऽधिष्ठात्री । सा पृथिवी देवतैषा प्रत्यक्षेव पुरुषेणानुभूयमाना । पुरुषस्य शिरःपाण्यादिमतः शरीरस्यापानमाध्यात्मिकमपानवृत्तेर्भेदमवष्टभ्य स्वश. क्त्या सर्वात्मना गच्छन्तं विधायाभिधत्त इति शेषः । अन्तराऽऽदित्यपृथिव्योमध्ये यद्यः प्रसिद्धः समानसम आकाशः सर्वसमावकाशकर्मा सोऽन्तराकाशः समानो बाह्यसमानवृत्तिमेदो वायुः प्रसिद्धः प्रमझनो वीर्यवत्कर्मा व्यानो व्यानवृत्तिभेदो बाह्यः ॥८॥ । तेजो दाहपाकप्रकाशपरं ह प्रसिद्धं * वावैव तेज एव न स्वन्यदुदानो बाह्य उदानवृत्तिभेदः । तेजस उदानवे हेतुमाह- तस्माद्यतस्तेज एवोदानस्तत उपशा. न्ततेजा उच्छिन्नजाठरजातवेदाः करस्पर्शनानुपलभ्यमानोष्णिमा पुनर्भवमेतच्छरीरं प्रतिपद्यत इति शेषः । अथवा प्राणस्यैतद्विशेषणं व्यवहितं पुनः गुनः शरीरे शरीरे भवतीति पुनर्भवस्त पुनर्भवम् । प्रतिपत्तिकालं सप्रकारमाह-इन्द्रियैर्वागादिमिर्मन. स्यन्तःकरणे स्वस्ववृत्त्युपरमेण संपद्यमानः संपत्ति कुर्वद्भिः । यदेन्द्रियाणि मनसि संपरन्ते तदेत्यर्थः ॥ ९॥ यश्चित्तो यदेव देवतिर्यगादिशरीरं सम्यगिति सर्वदा चित्ते यस्य स. यञ्चित्त. स्तेन देवतिर्यगादिसंकल्पविशिष्टेन मनसा सेन्द्रियेण सहषोऽन्तःकरणामिमानी मुमूर्षुः । माणं पञ्चवृत्ति मुरूपमाणं मधुकरराजसममायात्यागच्छति ज्ञानशून्यः सन् , श्वास- कसहायः परिशिष्यत इत्यर्थः । प्राण उक्तः श्वासोच्छासकर्ता । तेजसा शरीरेण पाकप्रकाशोष्णकारिणोदानवृत्त्यात्मकेन । युक्तः संबद्ध उदानवृत्तिप्रधान इत्यर्थः । सहाऽऽत्मनाऽन्तःकरणाभिमानिना साकम् । यथासंकल्पितं कृतकर्मविद्याकशाघा- तसमुत्थितपूर्वप्रज्ञास्वविषयीकृतं देवतियंगादि यादृशसंकल्पविषयं यथासंकल्पितम् । लोकं कर्मविद्याफलं भाविशरीरमित्यर्थः । नयति प्रापयति ॥१०॥ प्रासङ्गिकं प्राणोपासनस्य फलमाह. -यः प्राणोपासक एवमुक्तेन प्रकारेणाss- स्मनः प्राणो जायते मनःकृताभ्यां धर्माधर्माम्यां शरीरं . गृह्णात्यात्मानं च पञ्चध * भाज्ये " ह वै " इति पाठ एव धूतः।
३ प्रश्नः] प्रश्नोपनिषदीपिका। १५ विभज्य पायूपस्थयोरपानं स्वं चक्षुःश्रोत्रयो भी समानं व्यानं नाडीसमूह उदानं च सुषुम्नायां स्थापयत्युदानेनोत्क्रामति बाडैः प्राणापानसमानव्यानोदानैः सूर्यपृथि- व्याकाशवाय्वग्निभिरान्तरोपकारकैरध्यात्मव्यतिरिक्तमान्तरैश्च बाह्योपकारकैरध्यात्म धारयति स एव चोदानवृत्तिप्रधानो लोकान्तरमपि नयतीति विद्वाज्ञानवान् । प्राणं पञ्चवृत्तिमात्मनश्छायारूपम् । वेद जानाति । न ह निश्चित नेत्यस्य निषे. धार्थस्य हीयत इत्यनेन संबन्धः । अस्य प्राणविदः । प्रजा पुत्रपौत्रादिसंततिरूपा । न हीयते न विनश्यति संततेरुच्छेदो न भवतीत्यर्थः । स्वयं च प्राणविज्ञानेन विशुद्धान्तःकरणसमुत्पन्नब्रह्मज्ञानोऽमृतो मरणकारणाविद्याशून्यो भवति स्पष्टं तत्तत्र प्राणविज्ञानेनोक्तोऽमृतो भवतीत्यस्मिन्नर्थे । एष वक्ष्यमाणः । श्लोको मन्त्रो भवतीति शेषः ॥ ११ ॥ उत्पत्ति प्राणस्याऽऽत्मनो जनिमायतिमायाम धर्माधर्मनिमित्तमागमनमित्यर्थः । अथवा छान्दसो दीर्घलोपः, आयातिमागमनम् । अथवाऽऽगमनस्योत्तरकालमावित्वा. दायत्या गमनमेव लक्ष्यते । स्थानं पायपस्थचक्षुःश्रोत्रनामिनाडीसमूहसुषुम्नाख्यम- पानप्राणसमानव्यानोदानानां स्थानम् । विभुत्वं चैव सूर्यपृथिव्याकाशवाय्वग्निमिाप्त ( ाप्तत्वं ) चकार उ ( रादु)दानोत्क्रमणं च । एवकारो भिन्नक्रमः पञ्चधेत्यनेन संबध्यते, पञ्चधा बहिरध्यात्मं च सूर्यप्राणादिभेदैः पञ्चप्रकार एव न त्वधिको न्यूनश्च, अध्यात्मं चैवाऽऽत्मानं शरीरमधिकृत्य वर्तत इत्यध्यात्मं चकारादधिदेवमधिभूतं च । एवकारो भिन्नक्रमः प्राणस्येत्यनेन संवध्यते । प्राणस्य यद्यपि सूर्यादयश्चक्षुरा. दयश्च मुख्येन प्राणेन भेदरहितास्तत्रा(थाs)पि मुख्यस्य प्राणस्यैवैतद्विभूतिजातं न त्वन्यस्य सूर्यादेर्विज्ञाय विशेषेणोक्तेन प्रकारेण ज्ञात्वाऽमृतं मोक्षमश्नुते व्याप्नोति स्वेन प्रकाशेनाऽऽनन्दात्मरूपेण युक्तो मवतीत्यर्थः । विज्ञायामृतश्नुते व्यारूपातम् । पादाभ्यासः प्राणविद्यापरिसमाप्त्यर्थः । इतिः प्रश्नसमाप्त्यर्थः ॥ १२ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीशंकरानन्दयतीन्द्रविरचिता- यामाथर्वणप्रश्नोपनिषद्दीपिकायां तृतीयः प्रश्नः ॥३॥ अथ चतुर्थः प्रश्नः । प्राणस्यानात्मत्वे निर्धारिते तद्व्यतिरिक्तात्मस्वरूपनिर्धारणार्थमुत्तरो ग्रन्थ आर- म्यते-अथ कौश( स )ल्याश्वलायनप्रश्नानन्तरं हैनं सौर्यायणी गार्यः पप्रच्छ शंकरानन्दविरचिता- [ . प्रभः] भगवन् , व्याख्यातम् । एतस्मिन्प्रत्यक्षे । पुरुषे शिरःपादिमति । कानि करणानि सभूतानि स्वपन्ति स्वापं कुर्वन्ति । कानि व्याख्यातम् । अस्मिन्पुरुषे जाग्रति जागरणं कुर्वन्ति, कतरः करणमूतयोमध्ये क एष ज्ञानवानहं पश्यामीति- प्रत्ययेन प्रत्यक्षो देवो द्योतनात्मकः । स्वमान्वासनाविलासाद्रथरथयोगादीन्पश्य. त्यवलोकयति । कस्य भूतकरणाद्यन्यतमस्य तद्वयतिरिक्तस्य वैतत्सौषुवं सुखमनु- कूलप्रत्ययवेदनीयम् । भवति स्पष्टम् । कस्मिन्कुत्र । नु वितर्के सर्वाधारस्यापि प्राणस्य जायमानाद्वि ( मानत्वाद्वि ) तर्कः । सर्वे समाणभूतरूपा देवा निखिलाः । संपतिष्ठिताः सम्यक्प्रतिष्ठा प्राप्ताः । भवन्ति स्पष्टमित्यनेन प्रकारेण । अयमर्थः- वागादीनां साकाशादीनां प्राणपरतन्त्रत्वात्माणस्य चाऽऽमरणमनुपरमात्स्वप्नजागरण- योश्चोपलम्भात्स्वप्नेऽपि जागरणवद्वयवहारदर्शनात्करणेष्वनुपरतेषु स्वप्नस्यासंभवाच्च स्वप्ने चक्षुरादीनामुपरमस्य जागरणेऽनुपरमस्य च दर्शनेऽपि कानि स्वपन्ति कानि जाग्रतीति प्रश्न उपपन्नः । आत्मनोऽसङ्गोदासीनत्वात्प्राणस्य भूतस्याप्यचेतनत्वाच चक्षुरादीनां चोपरतत्वात्स्वप्नानुभवस्य चाध्यक्षत्वात्कतर एष देवः स्वमान्पश्यती. त्यभि(पि) प्रश्न उपपन्नः । सुषुप्तेऽपि सर्वकरणोपरमादात्मनश्च सुखस्वरूपत्वात्पूर्व- वत्कस्यैतत्सुखं भवतीत्युपपन्नः प्रश्नः । प्राणविलक्षणस्याद्याप्यनधिगतत्वात्कस्मिन्नित्या- द्यपि पृष्टमुपपन्नमेव । वागादीनां सप्राणभूतानामनात्मत्वकथनानन्तरमुक्ता एवैते प्रश्नाः, तथा च तथाऽक्षराद्विविधाः सौम्य भावा इति मन्त्रेणोक्ताक्षरस्य प्राणविलक्ष- णस्य भावानां च सत्राणानां व्याख्यानमप्युत्तरेणापि ग्रन्थेन क्रियत इति ॥ तस्मै गार्याय । स होवाच व्याख्यातम् । मनःप्राणव्यतिरिक्तानि सर्वाणि करणानि स्वपन्तीत्यभिप्रायेण दृष्टान्तपुरःसरमुत्तरमाह--यथा दृष्टान्ते । गार्य हे गार्य । मरीचयः किरणाः । अर्कस्याऽऽदित्यस्यास्तं गच्छतः सायंकाले नयनप. थागोचरं दिशं ब्रजतः । सर्वा निखिला एतस्मिन्प्रत्यक्ष तेजोमण्डले ज्योतिर्षिम्ब एकी भवन्ति, एकतां गच्छन्ति तेजोमण्डलादर्शने न दृश्यन्त इत्यर्थः । ता: पुनरादित्यमण्डल एकतां गता एव मरीचयः । पुरुदयतः सवितुर्भूयो नयनपथमा- गच्छतो द्वितीये दिवसे । प्रचरन्ति प्रकर्षेण विभागरूपेण गच्छन्ति सर्वासु दिक्षु, एवमनेन प्रकारेण ह प्रसिद्धं वै स्मर्यमाणं तद्वागादिकं मरीचिस्थानीयं सर्व निखिलं पर उत्कृष्टे वागादिवृत्युत्पत्तिनिरोधनिमित्ते । देचे सर्वव्यवहारकारणे । मनस्यन्तः- करणेऽर्कस्थानीये स्वप्नावसर एकी भवति स्पष्टम् । सेनेकीभवनेन हेतुना तर्हि तदा स्वमावसर एष प्रत्यक्षः पुरुषः स्थूलो देहो न शृणोति न पश्यति न जिघ्रति न रसयते न स्पृशते नाभिवदते नाऽऽदत्ते नाऽऽनन्दयते न विसृजते नेयायते। ॥
:- १. प्रश्नः ] प्रश्नोपनिषदीपिका। श्रोत्रचक्षुर्घाणरसनत्वग्वाग्यस्तोपस्थपायुपादानां कर्मनिषेधकानि दश वाक्यानि स्पष्टा- नि । नेयायत इत्यत्र न गच्छतीति व्याख्येयम् । स्वपिति शयनं करोति, इत्यनेन प्रकारेणाऽऽचक्षते कथयन्ति विद्वांसः ॥ २॥ कानि स्वपन्तीत्यस्य बाह्यज्ञानकर्मेन्द्रियाणत्युित्तरं जातं कान्यस्मिञ्जाप्रतीत्यस्यो. तरमाह-प्राणामय एव प्राणाः प्राणवृत्तिमेदाः पञ्च त एवाग्नयः । यद्यपि जाग- रणं श्रोत्रादीनां जागरणे जागरणस्वप्नयोश्च मनसस्तथाऽपि सुषुप्ते नैकस्यापि, प्राणस्य पुनरवस्थात्रयेऽपि जागरणमेव तदभिप्रायस्त्वयमेवकारः। एतस्मिन्प्रत्यक्ष पुरे नवद्वारे शरीरे जाग्रति जागरणं कुर्वन्ति । प्राणानामग्नित्वमुपपादयति प्रसङ्गेनोपासनार्थम् । गाईपत्यो गार्हपत्यामिधेयोऽग्निनिरन्तरं रक्षणीयोऽग्निहोत्रिहि प्रसिद्धो वै स्मर्य- माण एष साक्षिप्रत्यक्षोऽपानो मलमूत्रापनयनकारी प्राणवृत्तिभेदः। व्यानो दक्षिण- सुषिरस्थः प्राणवृत्तिभेदोऽन्वाहार्यपचनो दक्षिणानिः । इदानीमपानस्य गार्हपत्यत्वे प्राणस्य चाऽऽहवनीयत्व उक्त वक्ष्यमाणे च साधारणं हेतुमाह-यद्यस्मादाई- पत्यादुक्तादग्नेः प्रणीयते प्रकर्षण नीयते स्थानान्तरे पृथक्क्रियत इत्यर्थः । प्रणय- नादाहवनीयः प्राण भाधारस्थादपानाद्गार्हपत्यस्थानीयात्मकर्षेणाऽऽस्यकुण्डमदनी- याहुतिप्रक्षेपार्थमाहवनीयो नीयत इति प्रणयनेन हेतुनाऽऽहवनीयोऽग्निः प्राण इति ॥ ३ ॥ अपानव्यानप्राणेषु गार्हपत्यदक्षिणाग्न्याहवनीयाख्याग्नित्रय इ(ड)ष्टिमुक्त्वेदानी समा- नश्वासोच्छासमनउदानानामपूर्वाहुतियजमानेष्टफलत्वदृष्टिमाह- यद्यस्मादुच्छ्वास- निश्वासौ प्राणस्य शरीराबहिर्गमनं पुनः शरीर आगमनं चैतावुक्तावुच्छासनिश्वासौ द्वित्वसंख्यासामान्यादाहुती काले काले पयःप्रभृतिद्रव्यप्रक्षेपेणाऽऽहवनीये संपन्ने द्वे आहुती ते समं नयति वातपित्तश्लेष्मणां त्वगादीनां च धातूनामशितपतियोश्च समं समत्वं क्षोमराहित्यं यथा भवति तथा नयति प्रापयति शरीराबहिर्देशं शरीर वाऽऽहुतिजन्यापूर्ववदिति यस्मात्तस्मादपूर्व स समानः समानाख्यः प्राणवृत्तिभेदः । मनो ह वाच प्रसिद्धमन्तःकरणमेव सर्वव्यापारनिमित्तत्वसामान्येन यजमानो यागस्य कर्ता । इष्टफलमेव यागफलमेवोत्वसामान्यादुदानः सुषुम्नाचारी प्राणवृ- त्तिभेदः । स उक्त उदान एनं संघातामिमानिनमात्मानं यजमानं मनउपाधिक- महरहर्नित्यं नित्यं सुषुतिकाले ब्रह्म सत्यज्ञानादिलक्षणमानन्दैकरसस्वभाव ब्रह्म गमयति प्रापयति । गार्हपत्योऽपान इत्याद्युक्तेन प्रकारेणोपासनं कुर्वतो ब्रह्मज्ञानों- त्पादद्वारा मुक्तिरेव फलं भवतीत्येतद्वहिरेवावगन्तव्यम् ॥ ४ ॥ तर एष देवः स्वप्नापश्यतीत्यस्योत्तरमाह-अत्रास्यां वागायुपरमरूपायां स्वप्नाव- १८ शंकरानन्दविरचिता- [४ प्रश्नः1 स्थायामेष वागायुत्पत्तिविनाशनिमित्तभूतः साक्षिप्रत्यक्षो देवः सर्वसंसारव्यवहारकार. णमनआख्यः । स्वमे स्वप्नस्थाने महिमानं स्वात्मनो गिरिनदीसमुद्रादिरूपेण महत्त्वम. नुभवति स्वयमेव कर्तृत्वं प्राप्य स्वप्नबलादवगच्छति । महिमानमनुमवतीत्युक्तं तदे. तदुपपादयति-यत्मसिद्धं करिनरतुरगादि दृष्टं दृष्टं नयनपथमागतं पदाम्यासो वासनाप्राबल्यमाह । अनु पश्चात्पूर्व जागरणे दृष्ट्वेत्यर्थः । पश्यत्यवलोकयति । श्रुतं जागरणावस्थायां श्रवणपथमागतं श्रु] तमेव x श्रुतमेव न त्वन्यमर्थ विषयजातमनु- शृणोति स्पष्टम् । देशदिगन्तरैश्च देशान्तरेहादिभिर्दिगन्तरैरुत्तराद्याशादिभिः, चकारादन्यैरपि कालादिमिनिमित्तभूतैः प्रत्यनुभूतं प्रति प्रकर्षेण न केवलमित्यर्थः । अनुभूतम] धिगतं पुनः पुनर्भूयो भूयः स्वप्ने दिवसे दिवसे प्रत्यनुभवात अने. कवारमनुभवति । यद्येवं तर्हि स्वप्नस्मृतिः स्यादित्यत आह-दृष्टं चादृष्टं च दृष्ट नयनपथमागतमदृष्टं नयनसंप्रयोगमन्तरेण स्वप्नादिवदृष्टमत्यन्तादृष्टे वासनानुपपत्तेः । चकारौ प्रत्यनुभवतीति क्रियापदस्य संबन्धार्थी श्रुतं चाश्रुतं चानुभूतं चाननुभूतं च श्रुतं श्रोत्रेन्द्रियसंबद्धं तद्विपरीतमश्रुतं प्रमाणव्यवधानेनान्तःकरणसंबद्धमनुभूतं तद्वि. परीतमननुभूतम् । चकारौ पर्यायद्वयेऽपि पूर्ववद्वयाख्येयौ । सच्चासच दृष्टं श्रुतमनु. भूतं सत्तद्विपरीतमसत् । चकारौ पूर्ववत्क्रियापदानुषङ्गाौँ । अथवाऽस्मिञ्जन्मनि दृष्टं श्रुतमनुभूतं जन्मान्तरविषये सतीप्वपि वासनासु स्मृतेरमावादृष्टं श्रुतमनुभूतमप्यदृष्ट. मश्रुतमननुभूतम् । किं बहुना सर्व निखिलं पश्यति स्पष्टं, स्वयं च सर्वो निखिल. देवतिर्यगादिरूपः सन्पश्यति स्पष्टम् ।। ५ ॥ इदानीं कस्यैतत्सुखं भवतीत्यस्योत्तरमात्मन एव भवतीत्यभिप्रायेणाऽऽह-स मनआख्यो देवो यदा यस्मिन्काले तेजसा नाडीगतेन पित्ताख्येन ब्रह्मणा वाऽभिभूत. तिरस्कृतवासनो भवति स्पष्टम् । अत्रास्यां सर्ववासनोपरमरूपायां सुषुप्तावस्थायामेष देवः स्वमान्न पश्यति स्पष्टम् । अथ तदा यत्प्रसिद्धं ब्रह्म स्वरूपं मनउपाधिक- मात्मनस्तदेतस्मिशरीर एतत् , स्पष्टम् । सुखं सुखस्वरूपं पूर्वमपि तद्रूपः सन्वि (पं सद्वि ) शेषज्ञानाभावाद्भवति स्पष्टम् ॥ ६ ॥ कस्मिन्नु सर्वे संप्रतिष्ठिता भवन्तीत्यस्योत्तरमाह दृष्टान्तेन--स आत्मनि सर्व. संप्रतिष्ठात्वे प्रसिद्धो दृष्टान्तः । यथा दृष्टान्ते, सोम्य प्रियदर्शन गार्य वयासि पक्षिणो वासोवृक्षं सायंवासार्थ वृक्षं वासवृक्षमित्यर्थः । नित्यं नित्यं सर्वतो गत्वा पुनः सायंकाले संपतिष्ठन्ते सम्यक्तत्माप्तिफलत्वेन गच्छन्ति । एवमनेन प्रकारेण ह वै प्रसिद्धं स्मर्यमाणं तदुक्तं वागादिकं सप्राणभूतं सर्व निखिलं परेऽविद्यातत्का- ४ मूले क्वचित् " तमेव " इत्यपि पाठो वर्तते है प्रश्नः] प्रश्नोपनिषदीपिका। र्यतत्संस्कारेभ्यो व्यतिरिक्त आत्मनि स्वयंप्रकाशमान आनन्दात्मनि संपतिष्ठते सम्यगवतिष्ठते ॥ ७ ॥ सर्वशब्दार्थमाह-पृथिवी च पृथिवीमात्रा चाऽऽपश्चाऽऽपोमात्रा च तेजश्च तेजोमात्रा च वायुश्च वायुमात्रा चाऽऽकाशश्वाऽऽकाशमात्रा च चक्षुश्च द्रष्टव्यं च श्रोत्रं च श्रोतव्यं च घ्राणं च घ्रातव्यं च रसश्च रसयितव्यं च त्वक्च स्पर्शयितव्यं च वाक्च वक्तव्यं च हस्तौ चाऽऽदातव्यं चोपस्थश्वाऽऽनन्द यितव्यं च पायुश्च विसर्जयितव्यं च पादौ च गन्तव्यं च मनश्च मन्तव्यं च बुद्धिश्च बोद्धव्यं चाहंकारश्चाईकर्तव्यं च चित्तं च चेतयितव्यं च तेजश्च विद्योतयितव्यं च प्राणश्च विधारयितव्यं च । आपोमात्राऽब्मात्रा । रसो रस- नम् । तेजो ज्ञानशक्तिसामान्यमन्तःकरण चतुष्टयानुगतम् । विद्योतायतव्यमन्तःकरण- चतुष्टय सामान्यस्यैव सामान्य विषयभूतम् । प्राणः क्रियाशक्तिः सूत्ररूप आध्या- स्मिकबाह्यभेदभिन्नः । विधारयितव्यं सूत्रात्मन्योतं च प्रोतं च प्राणव्यतिरिक्त निखिलं विश्वम् । द्वाचत्वारिंशचकारास्तावद्भिः पदैः पर आत्मनि संप्रतिष्ठन्त इति वाक्यानुषङ्गार्थाः । वाक्यानुषशाच्च यथावचनं करणीयाः । पृथिव्यादिपञ्चमहाभूतस्थू- लसूक्ष्मज्ञानकर्मेन्द्रियतद्विषयान्तःकरणचतुष्टयतद्विषयाभिधायकानि पदानि स्पष्टा- र्थानि ॥ ८ ॥ इदानी सर्वाधारस्य परस्याऽऽत्मनो जीवादुपाधिकृतभेदमन्तरेण भेदं वार- यति-एष हि एष एव सर्वाधारः पर एव न त्वन्यः कश्चन वस्तुतश्चक्षुर्धानात्म- न्यध्यस्यन्द्रष्टा चाक्षुषज्ञानस्य कर्ता । एवं त्वक्श्रोत्रत्राणरसनाहमतिबुद्धिक्रियाशक्ति- धर्मानात्मन्यध्यस्यत्यन्तःकरणोपाधिकः सन्वस्तुतः पूर्ण एवोक्तेन्द्रियज्ञानानां क्रियायाश्च कर्ता भवतीत्याह-स्पष्टा श्रोता माता रसथिता मन्ता बोद्धा कर्ता स्पष्टम् । मन्तृत्वादिपाय उपलक्षणादिन्यायेन व्याख्येयाः (१) । विज्ञानात्मान्तःकरणोपा. धिकः पुरुषः परिपूर्णः परमात्मैव सन्ननायविद्यावशादन्तःकरणविशिष्टः पुरिशयो मनुष्यत्वाभिमानीत्यर्थः । सोऽपि भेदविवक्षायां परेऽक्षर आत्मनि संप्रतिष्ठत* इति शेषः ॥९॥ ननु यथेष विज्ञानात्मा पुरुषो द्रष्टुत्वादिगुणकस्तार्ह द्रष्टा श्रोतेत्यादिज्ञानात्पुरु- पार्थः स्यादित्याशङ्कय नेत्याह-स प्रसिद्धोऽधिकारी यो यः कश्चनाधीतवेदान्त- वाक्यो ह प्रसिद्धं वै स्मर्थमाणं तत्सर्वाधारभूतं विज्ञानात्मस्वरूपं द्रष्टुत्वादिगुणक " इति शेषः" इति पदवयस्थाने स्पमिति पदमपेक्षितं किंचैतदने " परमेवाक्षरं प्रति- स्वते " इति पदचतुष्टयं त्रुटितम् ।
- २० शंकरानन्दविरचिता- [ ३ प्रश्नः] शरीरे वर्तमानमच्छायं छायाऽविद्या सप्राणा तथा वर्जितमच्छायमशरीरं शरीरमा- त्रशून्यमलोहितं लौहित्यं तु रागस्तद्वाविना लोहितशब्देन तत्कारणमन्तःकरणं लक्ष्यते तेनान्तःकरणशून्यमलोहितमत एव सर्वोपाधिरहितत्वाच्छुभ्रं सर्वोपाधिरहितं स्वयंप्रकाशमानानन्दात्मस्वरूपमक्षरं विनाशरहित व्याप्तिमद्वा वेदयते वेत्ति योऽच्छा- यादिगुणकं वेति स वेत्तीत्यभिप्रायः । इदानीमच्छायादिविज्ञानिनः पुरुषार्थमाह- यस्तु यः पुनरच्छायादिविज्ञानी सोम्य हे प्रियदर्शन गार्य स उक्तोऽच्छायादिरू- पज्ञानी सर्वज्ञः सर्वमस्मीति जानातीति सर्वज्ञः सर्वो भवति वर्तमाने शरीरे सर्वस्य वर्तमानोऽपि वस्तुतः सर्वरूपो भवति । तत्तस्मिन्नर्थे संर्वाधारात्माच्छायादिरूपविज्ञा- नात्पुरुषार्थप्राप्तावेष श्लोकः [ मन्त्रः ] ॥ १० ॥ विज्ञानात्मा व्याख्यातम् । यद्यप्येष एव विज्ञानात्मा तथाऽपि निज्ञानस्यान्तःकर- णस्य वैशिष्टयं पृथगङ्गीकृत्य तस्यापि तस्मिन्प्रतिष्ठोच्यत इत्यविरोधः । परमात्मैवा- न्तःकरणविशिष्टः सह देवेश्च सनिखिलैः करणागादिभिर्देवशब्दाभिधेयरपि साकं पाणा: प्राणवृत्तिभेदाः पञ्च भूतानि पृथिव्यादीनि पञ्च महाभूतानि स्थूलानि सूक्ष्माणि स्थावरजङ्गमानि च संप्रतिष्ठन्ति संप्रतिष्ठन्ते । यत्र यस्मिन्पर आत्मनि विज्ञानात्मा। मिन्नेऽच्छायादिरूपे तत्सर्वाधारभूतमक्षरम् । वेदयते यस्तुं सोम्य स सर्वज्ञो व्याख्यातम् । सर्वमेव निखिलमेवाऽऽत्मत्वेनाऽऽविवेश समन्तात्प्रवेशं कृतवान्करो- तीत्यर्थः । [ इति मन्त्रसमाप्त्यर्थः ॥ ११ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीशंकरानन्दयतीन्द्रविरचिताया. माथर्वणप्रश्नोपनिषदीपिकायां चतुर्थः प्रश्नः ॥ ४॥ अथ पञ्चमः प्रश्नः । अक्षरविज्ञानात्परपुरुषार्थप्राप्तिक्ता । तत्प्रसङ्गनोंकारस्याप्यक्षररूपत्वादोमित्येतदक्षा रमिदं सर्वमित्यादिना ब्रह्मसमानत्वेनोक्तत्वाच्च तद्विज्ञानात्परः पुरुषार्थः स्यान्न वेति संदेहात्मश्नोत्थाने तद्विज्ञानादपि परः पुरुषार्थः प्रकारान्तरेण भवतीलेतदर्थमयं प्रश्न आरम्यते--अथ गार्यप्रश्नानन्तर हैन शैब्यः सत्यकाम: पप्रच्छ व्याख्यातम् । स ओंकारब्रह्मणोऽक्षरशब्दाभिधेयत्वाभिज्ञो यो यः कश्चन त्रैवर्णिको ह वै प्रसिद्धः स्मर्यमाणोऽधिकारिगुणैः, [ तदद्भुतभिव ] भगवन्हे मगवन्मनुष्येषु मनुजेपु मध्ये प्रायणान्तं मरणपर्यन्तमोंकारं प्रणवमभिध्यायीताभिध्यायेत्सर्वतो ध्यानं कुर्यात्क- सममेषु तेषु परापरविद्याफलभूतेषु कं वावैव परमपरमुभयं चे(वे)त्यर्थः । स ओंका. राभिध्याता तेनोंकारध्यानेन लोकं विद्याफलं जयति प्राप्नोतीत्यनेन प्रकारेण । तस्मै शव्याय स होवाच व्याख्यातम् ।। १ ।। -- --- 4 [५ प्रश्नः] प्रश्नोपनिषदीपिका । एतद्वा एतदेव सत्यकाम हे सत्यकाम परं चापरं च [ब्रह्म] परं निराशि यमपरमृग्वेदादिरूपं चकारौ यदस्ति यत्नास्ति च तदप्येतदेवेत्याहतुः । ब्रह्मशब्दवा- च्यमेतच्छब्दार्थमाह-यत्मसिद्धः सर्ववेदेषु, ओंकारः प्रणवस्तस्मात्परमपरं च ब्रोंकारस्ततो विद्वानोंकारव्याप्तिज्ञानवानेतेनैव सर्ववेदे प्रसिद्धेनोक्तेनोंकारेणैव न त्वन्येनाऽऽयतनेनाऽऽश्रयेणैकतरं स्वाभिप्रेतं परमपरं वा ब्रह्म परापरयोग्रमणो. मध्येऽन्वेति । शास्त्रोपदिष्टेन मार्गेणोपास्य पश्चादच्छति ॥ २ ॥ इदानी मात्राभेदज्ञानाद्विशेषफलान्याह-सोऽभिध्याता यदि पक्षान्तर एकमा- त्रमेकमात्राकालमकारमात्रं वाऽभिध्यायीत व्याख्यातं स एकमात्राभिध्याता तेनैवैक. मात्राध्यानेनैव न त्वन्येन संवेदित एकमात्राव्याप्ति सम्यग्बोधितस्तूर्णमेव शीघ्रमेव न तु विलम्बेन जगत्यां स्थावरजङ्गमव्याप्तिमत्यां भूमौ तादात्म्येन तदधिष्ठातृत्वेन वाऽभिसंपद्यते सर्वतः संपन्नो भवति तं पृथिवीसंपन्नमृचः पादवद्धा मन्त्रा ऋग्वेदा- ख्या मनुष्यलोकं मनुजशरीरफलं सर्वगुणसंपन्नं सार्वभौमानन्दमित्यर्थः । उपना यन्ते सत्कृत्य समीपतः प्रापयन्ति । स ऋग्भिमनुष्यलोकं प्रापितस्तत्र तस्मिन्मनु- प्यलोके तपसा वधर्मवर्तनादिना ब्रह्मचर्येण सर्वात्मना मैथुनवर्जनेन श्रद्धया वेदोक्तार्थ आस्तिक्यबुद्धया संपन्नः संप्राप्तो महिमानं महत्त्वं स्वात्माभिन्नं मानुष- मानन्दमित्यर्थः । अनुभवति साक्षात्करोति । एतदुक्तं भवति-ऋम्भिर्मनुष्यलोकं भापितोऽपि तपआदिवर्जितो न तं लोकमनुभवति राजमन्त्रिभिः स्निग्धो राजश्रियं प्रापितः पान्ध इव पुण्यहीनो न राजनियमनुभवतीति ॥ ३ ॥ अथैकमात्राद्वयतिरिक्तेन यदि केनचिदैवयोगेन द्विमात्रेण द्विमात्रकालेनाकारों- काराभ्यां वा मनसि संपद्यतेऽन्तःकरणे संपन्नो भवति, अभिध्यायोदित्यर्थः । स मनसि संपन्नोऽन्तरिक्षमन्तरिक्षाधारं यजुभिरविवक्षितच्छन्दस्कैर्मन्त्रैर्यजुर्वेदशब्दवा. च्यैरुन्नीयत ऊर्ध्व प्राप्यते सोमलोकं सोमस्य प्रियदर्शनस्य लोकं प्रियदर्शनं मनु- प्यानन्दादम्यधिकानन्दं पित्रादिशरीरमित्यर्थः । स यजुभिः सोमलो प्रापितो ब्रह्म ज्ञानहीनः सोमलोके व्याख्याते शरीरे विभूतिं परमैश्चर्यमनुभूय साक्षात्कृत्य दुर्म- श्रीव महाराजप्रसादे पुनरावर्तते पूर्वमपि तस्मात्प्रच्युतस्तमारूढो भूयः खरशूकरा- दियोनि ब्राह्मणादियोनि वा स्वकर्मानुसारेणाऽऽगच्छति ॥ ४ ॥ यः पुनर्यस्तु प्रसिद्धः पूर्वेभ्योऽन्योऽभिध्याततं बुद्धेष्टारमानन्दात्मानं त्रिमा त्रेणाकारोकारमकाररूपेण । त्रिमात्ररूपमाह-ॐ अवतीत्योमित्यनेन प्रकारेण निमात्रः । एतेनैवोकेन त्रिमात्रेणैव परमपुरुषामिधानेनाभिन्नेनाऽऽलम्बनेनाक्षरेण व- नात्मकेनाविनाशिना व्याक्षिमता वा परमविद्यातत्कार्यतत्संस्कारेभ्यो व्यतिरिक्तं पुरुष २२ शंकरानन्दविरचिता [६ प्रश्ने] परिपूर्णमभिध्यायीत व्याख्यातम् । सोऽभिध्याता तेजसि तेजोमण्डले सूर्ये शोभ- नाया गतेः करि संपन्नः सम्यक्प्राप्तः । इदानी सूर्य प्राप्तस्य पापविनिर्मोक्षे दृष्टा- न्तमाह-यथा दृष्टान्ते, पादोदर उदरमेव पादा यस्य स पादोदरः सर्प इत्यर्थः । त्वचा जीर्णेन कञ्चुकेन विनिर्मुच्यते विशेषेण निःशेषेण मुक्तो भवति । एवम- नेनैव प्रकारेण ह प्रसिद्धो वै स्मर्यमाणः स सूर्य प्राप्तः पाप्मना पापविनाभूतेन पुण्येन पापेन च विनिर्मुक्तो विशेषेण निःशेषेणासंबद्धः स पापरहितः सामाभि- गीतिप्रधानमन्त्रैः सामवेदाभिधान रुन्नीयते सूर्या प्राप्यते ब्रह्मलोकं कार्यस्य ब्रह्मणो निवासभूतं देशम् । स ब्रह्मलोकं प्राप्त एतस्माद्ब्रह्मलोकस्थानाद्धिरण्यगर्मा- ज्जीवधनाजीवानां कार्यकारणात्मनां धनोऽखिलो जीवधनः सर्वकार्यकारणादिकारण- मित्यर्थः । तस्मात्परात्स्थावरजङ्गमेभ्य उत्कृष्टात्परमुत्कृष्टमुत्कृष्टाजीवधनात्पुरिशयं सर्वशरीरे शयानं पुरुषं परिपूर्णमीक्षते साक्षात्करोति । एवमुक्तं भवति, ब्रह्मलोक उत्पन्नब्रह्मसाक्षात्कारो विदेहकैवल्यं प्राप्नोतीति । तत्तस्मिन्नुक्तेऽर्थ एतौ वक्ष्यमाणी श्लोको मन्त्री भवतः स्पष्टम् ॥ ५ ॥ तिसस्त्रिसंख्याका मात्रा मीयन्तेऽध्यात्ममधिभूतमधिदेवं च यामिस्ता अकारो- कारमकाराख्या मृत्युमत्यो ब्रह्मदृष्टिमन्तरेण दृष्टा मरणवत्यः प्रयुक्ता एता एवं ब्रह्मज्ञानमन्तरेण स्वातन्त्र्येण ध्यानाय प्रकर्षणावगता अन्योन्यसक्ताः परस्परसं. बद्धाः । अन्योन्यसक्कल्पमाह- अनविप्रयुक्ता विशेषेण प्रयुक्ता एकस्मिन्नर्थे ध्यान. काले संबद्धा विप्रयुक्ताः (न विप्रयुक्ता अविप्रयुक्ता नाविप्रयुक्ता अनविप्रयुक्ताः । विश्यक्ता एवेत्यर्थः ) क्रियासु कर्मरूपासु । क्रिया आह--बाह्याभ्यन्तरमध्य- मासु जायत्स्वमसुषुठिपुरुषविषयासु । अथवा यागादिक्रिया बाह्याः प्राणायामाचा आभ्यन्तरा मानसजपाद्या मध्यमास्तासु बाह्याभ्यन्तरमध्यमासु । सम्यक्प्रयुक्ता- स्वहं ब्रह्मास्येता अपि ब्रह्मणोऽभिन्ना इति सम्यगवगत्य प्रकर्षेण कृतासु न कम्पन ते न चलति ज्ञो ब्रह्मवित् ॥ ६ ॥ ऋग्भिः पादबद्धर्मन्नरेतं मनुष्यलोकं यजुभिरविवक्षितच्छन्दस्कर्मन्नरन्तरिक्ष- मन्तरिक्षाघारं * सोमलोकं सामभिगीतिप्रधानमन्त्रैर्यत्तत्कवयो दयन्ते यत्प्रसिद्ध कवयः क्रान्तदर्शिनो ब्रह्मज्ञानिनोऽवगच्छन्ति तत्स्थानं ब्रह्मलोकाख्यमन्वेतीति त्रिष्व- पि संबध्यते । किंबहुना तं स्वयंप्रकाशमानन्दात्मानमोंकारेणवाऽऽयतनेनान्वेति विद्वान्, स्पष्टम् । तच्छब्दार्थमाह--यत्प्रसिद्धं वेदान्तेषु तत्तत्वमसीत्यादिनोक्तं एतद्धे । सः' इति पदमधिकं ऋचिन्मूले तच भाष्यदीपिकयोर्न गृहीतम् ।
[१ प्रश्नः ] प्रश्नोपनिषदीपिका। २३ ३ शान्तं रागादिदोषरहितमजरं जरा शरीरवैरूप्यकारणं तया रहितममृतं मरणादि- दोषरहितमभयं द्वितीयामावाद्भयवर्जितं परं चोत्कृष्टम् । चकारात्पूर्वोक्तमृग्यजुःसा. मप्राप्यमपरमपि [इति वाक्यसमाधौ । ] ॥ ७ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीशंकरानन्दयतीन्द्रविरचि. तायामाथर्वणप्रश्नोपनिषदीपिकायां पञ्चमः प्रश्नः ।। ५ ॥ अथ षष्ठः प्रश्नः। ओंकारेणावाप्यं परं ब्रह्मेत्युक्तं न तत्स्वरूपं निर्धारित तन्निर्धारणार्थमयं प्रश्न आरभ्यते--अथ शैब्यप्रश्नानन्तरं हैनं सुकेशा च भारद्वाजः पप्रच्छ भगवन, व्याख्यातम् । हिरण्यनाभो नामतः कौसल्यः कोसलायां भवो राजपुत्रः क्षत्रियः कस्यचिद्राज्ञस्तनयो मां मारद्वाजप्नुपेत्य समीपमागत्य विधिवदेनं (तं) * वक्ष्यमाणं प्रश्नं प्रष्टव्यार्थमपृच्छतापृच्छत्पृष्टवान् । षोडशकलं षोडशसंख्या- काश्चन्द्रस्येव कला उपचयापचयहेतुभूता यस्य स षोडशकलस्तं भारद्वाज हे भार- द्वाज पुरुषं परिपूर्ण वेत्थ जानीषे, तं हिरण्यनामं मा पृच्छन्तमहं भारद्वाजः कुमार राजबालमब्रुवमुक्तवान् । नाहमिमं वेद, इमं षोडशकलं त्वत्पृष्टं पुरुषमहं मार- द्वाजो न जानामि । स्वाज्ञानेऽन्यथाऽनुपपत्तिमाह-यदि पक्षान्तरे, अहमिम व्याख्यातम् । अवेदिषं ज्ञातवानस्मि कथं केन हेतुना । ते तुभ्यं राजकुमाराय शष्याय नावक्ष्यं न कथयिष्यामि तस्मान्न जानाम्येवेत्यर्थः । इत्यनेन प्रकारेण । मैवं शकिष्ठा अयमनृतं वदतीत्येवमाह-समूलो वै + सह मूलेन शुभकर्मविद्या- दिना वर्तमानः समूल एवैषोऽनृतवादी परिशुष्यति सर्वतः शोषं गच्छति, इह परत्र वा सुखलेशेन शून्यः स्थावरजङ्कमैर्भूत कायमनोभिस्तिरस्कृतस्विविधदुःखाग्निना दंदह्यमानसर्वदेहेन्द्रियोऽयं भ्रमतीत्यर्थः । कः, यः प्रसिद्धोऽनृतवागनृतमयथादृष्टार्थ- वचनमाभिवदति सर्वतो ब्रूते । यस्मादेवं तस्मात्ततो नार्हामि न योग्यो भवाम्य- नृतमयथाभूतार्थं वक्तुं भाषितुम् । अयमर्थः- यो ह्यनृतवदननं दोषं न जानाति स तु वदतु नामानृतमहं तु तदमिज्ञः कथमनृतं वदामीति । एवं मद्वाक्यं श्रुत्वा स राजपुत्रोऽयमपि या (मा) दृश इति मत्समीपागमनेन लज्जितस्तूष्णीं साध्वसाधु वेति मां प्रतिवचनमदत्त्वैव रथमारुह्य स्वयानारूढः स्वं नगरं प्रवव्राज प्रकर्षण * क्वचिन्मूले “ एनम् ” इति पाठो वर्तते । + कचिन्मूले " ह वै " इति पाठः ।
शंकरानन्दविरचिता- [६ प्रश्नः] शीघ्रं जगाम । अनयाऽऽख्यायिकयैतद्दर्शितं महर्द्धानां राज्ञां तप:श्रद्धादियुक्तानां मुनीनां च ब्रह्मविद्या दुर्लभा किमुतान्येषामिति । तं षोडशकलं पुरुषं हिरण्यनाभेन मां प्रति पृष्टं त्वा त्वां प्रति पिप्पलादं पृच्छामि क कुत्र प्रदेशेऽसौ षोडशकल: पुरुषः परिपूर्ण इत्यनेन प्रकारेण ॥ १ ॥ तस्मै मारद्वाजाय पृच्छते । स होवाच व्याख्यातम् । इहैवास्मिन्नेव स्थाने न स्वन्यत्र । सामान्यतं उक्तं विशेषत आह -अन्तःशरीरे शरीरस्य मध्ये हृदयपुः ण्डरीक इत्यर्थः । सोम्य हे प्रियदर्शन स हिरण्यनाभेन मवन्तं परिपृष्टः पुरुषः षोडशकलः पुरुषो यस्मिन्हृदयपुण्डरीकस्थे पुरुष एता वक्ष्यमाणाः षोडश षोडश- संख्याकाः कलाः कं ब्रह्म लीयते तिरस्क्रियते याभिस्ताः कलाः प्रभवन्ति प्रकर्षण भवन्ति, यत उत्पद्य यस्मिन्वर्तन्ते लीयन्ते चेत्यर्थः । इत्यनेन प्रकारेण ॥ २ ॥ संक्षेपेणोक्त्वा विस्तरेणाऽऽह-स हृदयपुण्डरीकस्थः षोडशकलः पुरुष ईक्षांचके चिन्तनं कृतवान् । तचिन्तितमर्थमाह-कस्मिञ्ज* विचारे केन नाम तत्वेन क्रियावताऽ. इससङ्गोदासीनोऽद्वितीयः क्रियाकारकफलशून्यः स्वयंप्रकाशमान आनन्दात्मोत्क्रान्त उत्क्रान्तेनोव गतेन यथाश्रुतं वा कस्मिन्नुत्क्रामति सत्युत्क्रान्तो भविष्या x भ्यूचं गतः स्याम् । कस्मिन्वा कस्मिंस्तत्त्वान्तरे वाशब्दः क्रियान्तरनिर्देशार्थः । प्रतिष्ठितेऽवस्थिते । प्रतिष्ठास्यामि, अवस्थास्य इत्यनेन प्रकारेण विचिन्त्य प्राणस्य झिययाऽऽत्मनि क्रियामवलोक्य च ॥ ३ ॥ सोऽन्यक्रिययाऽऽत्मनि क्रियाकामी षोडशकलः पुरुषः प्राणमाधिदैविकं सर्वप्रा. णिसूत्रभूतमसृजतोत्पादितवान् । तावता च संसारयात्राया निर्वाहमपश्यश्रद्धाद्या अप्यन्याः पञ्चदश कलाः सप्सर्जेत्याह-प्राणादुक्ताद्धिरण्यगर्माद्भूतसूक्ष्मात्सर्वकार- पाहाणः प्रथमजाच्छ्रद्धामास्तिक्यबुद्धिमसृनतेत्यनुवर्तते । इदानीं शेषाण्यपि गण- यति-खं वायुज्योतिरापः पृथिवी, स्थूलानि पञ्च महाभूतानि । इन्द्रियं मनः, भौतिकं ज्ञानकर्माख्यं चक्षुरादिकं वागादिकं च दशकमिन्द्रियं मनोऽन्तःकरणमन्न प्रसिद्धं ब्रीह्यादिकमदनीयमन्नादुक्काद्वीर्य शरीरेन्द्रियसामर्थ्य तपः शरीरशोषणादि- रूपं मन्त्रा ऋग्यजुःसामाथर्वाङ्गिरसः कर्म ज्योतिष्टोमादिरूपं लोकाः कर्मफलभूताः सोमलोकाद्या लोकेषु चोक्तेषु चशब्दादन्येष्वपि नाम [च ] देवदत्तो यज्ञदत्त इत्यादि नामधेयम् ॥ ४ ॥ * भाष्यकृता नुशब्दरहिः पाठ एव स्वीकृतः । ४" भविष्यामि' इत्येतदन इतिशब्दोऽधि कः क्वचिन्मूले।
[६ प्रश्नः] प्रश्नोपनिषदीपिका। इदानी पुरुषस्यास्य निमित्तमात्रत्वं न तूपादानस्वमितीमां शङ्कां वारयितुं दृष्टा- न्तेन षोडशकलानां पुरुष उपसंहारमाह-स दृष्टान्तः, यथा दृष्टान्त इमाः प्रत्यक्षा नद्यो गङ्गाद्याः सरितः स्यन्दमानाश्चलन्त्यः समुद्रायणाः समुद्रे गमनं यासां ताः समुद्रायणाः समुद्रं सिन्धुरानं प्राप्य तादात्म्येन संबध्यास्तं गच्छन्ति अदर्शनं प्राप्नुवन्ति । अस्तगमनं स्वयमाह-भिद्यते विनश्येते ता ( इयतस्ता ) सां नदीनां नामरूपे गङ्ग्रेत्यादिकं नाम शुभ्रमधुरनीलत्वादिकं रूपं नाम च रूपं च नामरूपे । नामरूपभेदानन्तरं समुद्रः शब्दानुकरणमिति, अनुकरणार्थः । एवम. नेन प्रकारेण. प्रोच्यते प्रकर्षेण कथ्यते । एवमेवानेनैव प्रकारेणास्य षोडशकलस्य पुरुषस्य परिद्रष्टुः सर्वतः सर्वसाक्षिण इमाः प्राणाद्या नामान्ताः षोडश. कला व्याख्यातम् । पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति भिद्यते चाऽऽसां नाम- रूपे पुरुष इत्येवं प्रोच्यते । समुद्रस्थले पुरुषेति तासामिति स्थले चाऽऽसामिति पाठतो विशेषः । ततः समुद्रनदीवाक्यवत्पुरुषकलावाक्यं व्याख्येयम् । नदीनां सर्वैः प्राणिमिः प्रत्यक्षीकर्तुमशक्यत्वात्तासामिति निर्देशः । कलानां च प्रतिप्राणिप्रत्यक्ष- त्वादासामिति । चकारः कैमुतन्यायार्थः । नदीनामसमुद्रनानामपि समुद्रे लयो दृष्टः किमुत पुरुषजानां कलानां पुरुषे लय इति । न चानेनैव निदर्शनेन पुरुषस्यानुपा- दानत्वं, लयमात्रत्वस्य निदर्शनत्वात् । विवक्षितांशपरित्यागेनान्यत्र निदर्शनाङ्गी. कारे सर्वत्रातिप्रसङ्गात् । स कलोपादान एष बुद्धेर्दष्टाऽकलो वस्तुतः कलारहितोs. मृतोऽविद्यातत्कार्यतत्संस्कारमरणहेतुशून्यो भवति स्पष्टम् । तत्तस्मिन्षोडशकला- धारेऽकले पुरुष एष श्लोको [ व्याख्यातम् ] ॥ ५ ॥ अरा इव स्थनामौ व्याख्यातं, कला यस्मिन्प्रतिष्ठिताः स्पष्टम् , । "तं कला- धारं वेद्यं वेदनीयं साक्षात्करणीयं पुरुषं परिपूर्ण वेदयथा हे शिष्या मद्वचनाद- वाच्छतान्ये यूयं महद्भयः स्वशिष्येभ्यो वेदयत ब्रह्मविद्यासंप्रदाय प्रवर्तयतेत्यर्थः । ब्रह्मविद्यासंप्रदायप्रवर्तनेऽस्माकं संसारो भविष्यतीति मीति मा कुरुत भवतामयं मया वरो दत्त इत्याह-मा वो मृत्युः परिव्यथा वो ..युष्मान्ब्रह्मविद्यासंप्रदायप्रवर्तका. न्मृत्युर्विपरीतज्ञानरूपो मा परिव्यथा मा परिव्यथयतु। अथवा वेदयथ(था) जानीथ । तज्ज्ञाने लाममाह-वो ब्रह्मज्ञानिनो मृत्युर्मा परिव्यथाः । इदानीं श्रुतिराह-इत्य. नेन प्रकारेण ॥६॥ तान्भारद्वाजसत्यकामगार्याश्वलायनवैदर्भिकात्यायनान्ह किलोवाचोक्तवानेता- वदेवेत्यमेवाहं पिप्पलाद एतत्परं ब्रह्म व्याख्यातं वेद जानामि । एक्शब्दव्या- * भाष्ये 'वेद यथा' इति पृथक्पदे । --- शंकरानन्दविरचिता- [१ प्रश्नः] वत्यै स्वयमाह-नाता परमस्ति, अतोऽस्मादुक्ताद्ब्रह्मज्ञानात्परमधिकं मम वाऽ. न्यस्य वा नास्ति [ इति श्लेकसमाप्तौ ] ॥ ७ ॥ एवं पिप्पलादेनोक्ते सति ते पिप्पलादशिष्या मारद्वाजादयस्तं स्वगुरुं पिप्पलाद- मर्चयन्तो मनोवाकायैर्यथोचितं पूजयन्त इदमुक्तवन्त इत्याह-त्वं पिप्पलाद (दो) हि निश्चितं नोऽस्माकं मारद्वाजादीनां पिता जनकः । पितृत्व उपपत्ति- माह-य: प्रसिद्धो गुरुरस्माकं मारद्वाजादीनामविद्याया आवरणविक्षेपशक्ती सर्वानर्थमुलायाः परं पारमगाधजलायाः सिन्धोरिव परतीरमविद्यालेशशून्यमानन्दात्मा- नमित्यर्थः । तारयसि दर्शयसि । इत्यनेन प्रकारेण । नमो नमस्कारः परम- र्षिभ्य. उत्कृष्टेभ्योऽतीन्द्रियब्रह्मविद्यासंप्रदायकर्तृभ्यो ब्रह्मादिभ्यः । नमः परम. र्षिभ्यो व्याख्यातम् । वाक्याम्यास उपनिषत्परिसमाप्त्यर्थः ॥ ८॥ इति प्रश्नोपनिषदि षष्ठः प्रश्नः ॥६॥ इति श्रीमदानन्दात्मपूज्यपादशिष्यस्य श्रीशंकरानन्दभग- वतः कतौ प्रश्नोपनिषद्दीपिका समाप्ता ॥