Asr,melkote
Mimamsa Nyaya Praksha
Front matter
No text on this page.
No text on this page.
No text on this page.
मीमांसाप्रकरणग्रन्थः
आपदेवप्रणीतः।
मीमांसान्यायप्रकाशः।
( आपोदेवी)
अयं
बाकेइत्युपाबगंगाधरभट्टसूनुना महादेवशर्मणा
टिपण्यादियोजनपुरःसरं संस्कृतः
मुम्बय्यां
तुकाराम जावजी
इत्येतैः खीये निर्णयसागराख्यमुद्रणयन्त्रालये
संमुद्य प्रकाशितः
शाकः १८३८, सन १९१७.
मूल्यं रूप्यकार्धम्।
Pablished by Takaram Javaji and Printed by Ramchandra Yesu Ghedge, at the Nirnaya-8agar Press, 23, Kolbhat Lane Bombay.
प्रस्तावः श्री ६ गुरुचरणारविन्दाभ्यां नमः अथैष उपक्रम्यते मुद्रयित्वा प्रकाशयितुं मीमांसान्यायप्रकाशाख्यः पूर्व- मीमांसाप्रकरणग्रन्थः। पूर्वमीमांसा नाम अभ्युदयनिःश्रेयसोपायप्रतिपादकत्वाभ्यां द्विधाविभक्त- स्यात्यन्तदुरूहस्य वेदराशेरभ्युदयप्रतिपादकपूर्वप्रविभागविचारशास्त्रम् । ननु मीमांसकमते विधिनात्वेकवाक्यत्वादित्यादिनोपनिषदामपि पारलौकिकफल- हेतुकर्मानुष्ठानौपयिकशरीरातिरिक्तनित्यात्मसद्भावज्ञापकतया धर्मे प्रामाण्यो- पगमाद्विहितप्रतिषिद्धज्ञानस्यैव मोक्षं प्रति प्रयोजकत्वाचोक्तरूपाभ्यां विभा- गोऽनुपपन्न इति चेत्, अनुवचनपौर्वापर्येण तद्विषयकविचारशास्त्रयोरपि पूर्वोत्तरभावव्यवहारो बोध्यः ॥ नच पदतदर्थज्ञानवता वेदार्थः शक्यो विज्ञातुं किं विचारशास्त्रेणेति. वाच्यम् । आपाततोऽर्थज्ञानसंभवेऽप्यनुष्ठानोपयोगिनो निर्विचिकित्सज्ञानस्सा- संभवात् । दर्शितं चैतत्कात्यायनश्रौतसूत्रभाष्यकृता श्रीकर्काचार्येण द्विती- याध्यायोपोद्धाते- “स च विधिनिषेधरूपः शब्दसमूहोऽनेकशाखान्तरावस्थानरूपतया ख- तश्च प्रतिवाक्यमनेकवाक्यार्थप्रतिभानिरुद्धावतारतया महोर्मिमालाकुलार्णव इव दुरवगाहः । तद्यथा क्वचिदग्निहोत्रं जुहोतीत्यादौ धात्वर्थमात्रविधानं तत्राप्यग्निहोत्रशब्दे गुणविध्याशङ्का तथा किं होमः स्वर्गाय उत स्वर्गो होमा- येति । एवं सर्वत्र । क्वचित्सोमेन यजेतेतिवद्विशिष्टधात्वर्थविधानम् । अग्निहोत्रं जुहुयात्स्वर्गकाम इति फले विधिः । कचिच्च सौर्यादौ विशिष्टं फले विधीयते । दध्ना जुहोतीत्यत्र गुणे विधेापारपर्यवसानम् । कचिच्च प्राकाशावध्वर्यवे ददातीत्यादिवद्धात्वर्थेनान्यसंबन्धविषयो व्यापारः । तथा क्वचिन्मुख्यार्थवृत्तिता शब्दस्य । कचित्सहस्रसंवत्सरादिवद्गुणवृत्त्या शब्द- वृत्तिः । विध्यर्थवादसंमोहश्च परस्परतो रूपव्यतिषङ्गात् । शूर्पण जुहोति तेन ह्यन्नं क्रियते इति विधिसरूपोऽर्थवादः । रात्रीः प्रतितिष्ठन्ति य एता उपयन्तीत्यर्थवादसरूपं रात्रीणां फले विधानमिति । दिङ्मात्रमिदं दुरव- गाहत्वे" इति ॥
२ प्रस्तावः अतः परमर्षिणा भगवता जैमिनिना लोकाननुजिघृक्षुणा द्वादशभिरध्या- यैर्वेदार्थो विचारितः । येषु क्रमेण प्रमाण-भेद-शेषशेषिभाव-प्रयुक्ति-क्रमाधि- कार-सामान्य-विशेषातिदेशोह-निषेध-तन्त्र-प्रसङ्गाख्याः सन्ति विषया निरू- पिताः। तदेव तन्त्रमुपजीव्य कुमारिलप्रभृतिभिः पार्थसारथिमिश्रादिभिश्च बहुधा प्रपञ्चितोऽयं विषयः । स चालौकिकतया स्वरूपत एव दुरधिगमोऽपि पुनः पूर्वव्याख्यातृप्रदर्शितयुक्तीर्दूषयद्भिरुत्तरोत्तरग्रन्थकृद्भिरग्रिमविषयस्यापि प्रथमत एवोपन्यासस्य कर्तव्यतापातात्सर्वस्यापि तन्त्रस्य सामान्यतः स्वरूप- मविज्ञाय न बुद्धिमतापि सुज्ञानास्ते ग्रन्थाः । अतः सर्वस्यापि तन्त्रस्य सामा- न्यतः खरूपावगमाय मीमांसापारदृश्वना कुशाग्रधिषणेन श्रीमदापदेवेन ध- मप्रमाणचोदनानिरूपणव्याजेन प्रसङ्गात्सायो द्वादशाध्याय्याः प्रथमादिषष्ठा- न्तानां दशमस्स चाध्यायस्यार्थः संक्षेपेण तथा संगृहीतः, यथेमं ग्रन्थम- धीत्य शास्त्रदीपिकादिग्रन्थानधीयानस्य मतिर्न प्रतिघातं प्राप्नुयात् । अत्र ग्रन्थकृता प्रसङ्गागतं न किंचिदुपेक्षितम् । अत एव प्रकृतमनुसराम इत्युक्त्वा प्रथममुपक्रान्तस्य विषयस्यानुसरणं क्रियासममिहारेण दृश्यते । अत एव चास्य विषयानुक्रमो नासंकीर्णमुपदर्शयितुं शक्य इति प्रथमनिर्दिष्टस्य प्रासङ्गिकनिरूपणानन्तरमनुवर्तमानस्यापि प्रासङ्गिकनिर्देशानन्तरं पुनर्निर्देशो न कृतः। अस्य संशोधनं श्रीक्षेत्रआळंदीस्थश्रीज्ञानराजमठाधिपतिभिर्मुद्रणाथै निर्ण- यसागराधिपसात्कृतेषु पुस्तकेषु वर्तमानमेकं प्राचीनं लिखितं पुस्तकं, काश्यां हरिदासगुप्तमुद्रितं, कलिकातानगरे श्रीमहामहोपाध्यायश्रीकृष्णनाथन्यायपञ्चा- ननभट्टाचार्यैः स्वयं व्याख्याय मुद्रितं, काश्यां शिलाक्षरैर्मुद्रितं चेति चत्वारि पुस्तकान्यवलम्व्य कृतम् । कचिच्च पाठभेदस्थले मूलधृतपाठयैव युक्तत्वं प्रदर्शयितुं, क्वचिच्च मूलस्थपदानि विवरीतुं च टिप्पणी कृता । तदनेन व्यापारेणाध्येतॄणामुपकारो भूयादित्याशास्ते- शालीवाहनशाकः १८३३ भाद्रपदमासः। बाक्रे इत्युपाह्वो गङ्गाधरभट्टसूनुः महादेवशर्मा।
मीमांसान्यायप्रकाशस्य विषयानुक्रमणिका. विषयः पंक्तिः विषयः ... ... ... ... ... १ ... میں ... ... ... ... मङ्गलाचरणम् विषयोपक्रमः धर्मलक्षणम् चोदनाया विधायकत्वोप- पादनम् भावनालक्षणम् भावनाविभागः शाब्दीभावनानिरूपणम् वेदापौरुषेयत्वसाधनम् साध्याकाङ्क्षानिरूपणम् करणाकाहानिरूपणम् इतिकर्तव्यताकासानि० अध्ययनविधिः वेदस्य पञ्चधा विभागः ... विधिविचारः गुणविधिविचारः विशिष्टविधिविचारः विशिष्टविधौ मत्वर्थलक्षणा गुणधात्वर्थयोरेकरूपेणान्व- यदूषणम् वैयधिकरण्येनान्वये यागेन सोममिति प्रथम- विकल्पदूषणम् सोमेन यागमिति द्वितीय- विकल्पदूषणम् धात्वर्थस्योभयरूपेणान्वय- निराकरणम्... धात्वर्थस्य स्वरूपमात्रेणा- न्वयनिरासः गुणस्येतिकर्तव्यतात्वेनान्व- यनिरासः, " पृ० पंक्तिः १ सोमेन यजेतेत्यत्र गुणवि- १ धित्वमाशय कर्मोत्प- त्तिविधित्वाक्षेपः अनुवादेऽपि मत्वर्थलक्षणा- शङ्का १ १३ अनुवादे मत्वर्थलक्षणानि- रासः ६ १ १७ धात्वर्थस्य करणत्वान्वयनि- १ १९ यमनिराकरणम् २ २४ षष्ठाद्याधिकरणार्थसंग्रहः २ ६ वाजपेयाधिकरणार्थसंग्रहः २ ११ गुणकामाधिकरणार्थसंग्रहः प्राप्तेऽनेकविधानानुपपत्तिः ६ २२ २ २२ अप्राप्ते बहूनामेकयत्नेन विधानम् ग्रहैकत्वाधिकरणार्थसंग्रहः ३ रेवत्यधिकरणार्थसंग्रहः केवलस्य दन्नः करणत्वेना- ३ ११ न्वयनिरासः दधिकरणत्वस्य करणत्वेना- न्वयः दधिकरणत्वे धातोराश्रय- त्वेनान्वयः ३ १९ गुणविधौ धात्वर्थस्य साध्य- त्वेनैवान्वयः ३ विधाने वानुवादे वेतिवार्ति- कस्य प्रतीत्यालम्बन- त्वम् प्रतिपदाधिकरणार्थसंग्रहः ८ १३ ४ १८ भावार्थाधिकरणार्थसंग्रहः ८ २० विधाने वेदादिवार्तिकस्या- ४ २१ धिकारविध्यभिप्रायत्वम् ८ ३० ७ १ م م سمسم ७ ... ... ७ ... ... ... ...
४ मीमांसान्यायप्रकाशस्य पृ० पंक्तिः ... ... ... ३ ... ... ... ... 9 १ विषयः पृ० पंक्तिः विषयः प्रकृतिलक्षणम् २३ २३ मतान्तरेण खापूर्वलक्षक- विकृतौ न प्रकरणं संभ- त्वान्न विकृत्यर्थत्वम् ... २६ २९ वति २३ २६ विकृत्यर्थत्वेऽपि पृषदाज्यस्य विकृतिलक्षणम् २३ २६ न प्रकरणं विनियो- उपमानाद्विकृतौ प्राकृता- जकम् गोपस्थितिः २४ ६ अर्थसिद्धस्याशास्त्रीयत्वाद्वि- अपूर्वाङ्गाणां विकृतौ प्रक- कृतेस्तदनपेक्षा रणाद्विनियोगः स्यात् २४ १५ प्राकृतधर्मानुवादेन विहित- प्रमाणबलात्प्रमेयबलस्य योधर्मयोरन्तरालविहि- ज्यायस्त्वम् २४ २१ तस्यापूर्वाङ्गस्य प्रकर- विकृतौ प्राकृताङ्गानुवादेन णाद्रहणम् २८ १८ विधीयमानं प्रकरणा- अवान्तरप्रकरणम् गृह्यते २४ २६ संदंशलक्षणम् २९ यूपस्य केवलादृष्टरूपत्वा- दर्विहोमन्यायः भावः २५ अवान्तरप्रकरणं महाप्रकर- अदृष्टार्थस्य प्रतिनिध्यभावः २५ ३ णालीयः २९ २३ विकृतेः कथंभावाकाङ्क्षा उ- पकारपृष्ठभावेन पदार्था- प्रकरणस्य स्थानादेर्बलीय- न्वयं यावदनुवर्तते स्त्वम् २५ ११ विदेवनादीनां प्रकरणाद्राज- चोदकस्य खादिरत्वाविषय- त्वे औदुम्बरत्वेन खा- सूयाङ्गत्वम्- दिरत्वबाधोऽप्राप्तबाधः राजसूयपदस्याख्यातपरत- त्रत्वेनेष्टिपशुसोमवाचि- स्यात् बाधद्वैविध्यम् त्वात्तेषां च प्राकृतैर्धर्म- अप्राप्तबाधनिरूपणम् २५ २९ नैराकाझ्यात्प्रकरणं न संभवतीत्याशङ्का प्राकृतस्य विकृतौ चोदक- ३० ६ प्राप्तस्य प्रत्यान्नानादर्थ- विदेवनादीनां संदंशपति- लोपात्प्रतिषेधाद्वा यो तत्वात्प्रकरणं विनियो- बाधः स प्राप्तबाधः २६ ३ जकम् ३१ १९ तार्तीयप्रमाणविनियुक्तेनेत- स्थाननिरूपणम् ३१ २५ रस्य बाधोऽप्राप्तबाधः २६ १० यथासंख्यपाठाद्विनियोगः ३१३० औदुम्बरत्वेन खादिरत्वस्य संनिधिपाठाद्विनियोगः ३२ बाधः प्राप्तबाधः २६ १४ अनुष्ठानसादेश्याद्विनियोगः ३२ १२ पृषदाज्यस्य प्रकरणाद्विकृ- पशोः सानाय्यप्रकृतिकत्वा- त्यङ्गत्वमिति केचित् ... २६ २७ तद्धमैरेव नैराकाझ्यम् ३२ २४ ... ... ... ... ...
विषयानुक्रमणिका पृ० पंक्तिः ४ ... ४० ... ... ... ... ४४ ... ... ... विषयः पृ० पंक्तिः विषयः स्थानस्य समाख्यातः प्रब- आर्थक्रमनिरूपणम् लत्वम् ३ पाठक्रमनिरूपणम् ३८ ९ समाख्यानिरूपणम् ३४ ५ मन्त्रपाठक्रमनिरूपणम् ३८ १३ अङ्गद्वैविध्यम् ३४ ११ ब्राह्मणपाठाक्रमोदाहरणम् ३८ २४ सिद्धरूपाण्यङ्गानि ३४ १३ स्थानक्रमनिरूपणम् ३ क्रियारूपाण्यङ्गानि ३४ १४ मुख्यक्रमनिरूपणम् ४० ३० सन्निपत्योपकारकाण्यङ्गानि ३४ १६ मुख्यक्रमः पाठक्रमाद्दुर्बलः ४१ १८ प्रतिपत्तिकर्म ३४ २३ मुख्यक्रमः प्रवृत्तिक्रमाद्वल- संनिपत्योपकारकमारादुप- वान् ४१ २५ कारकाद्वलीयः १ प्रवृत्तिक्रमनिरूपणम् ४२ १० स्थाण्वाहुतियूपसंस्कारार्था ३५ ३० अधिकार विधिनिरूपणम् ४३ २२ आरादुपकारककर्मनिरूप- पुरुषविशेषणत्वेनाश्रुतमपि णम्... ३६ ३ पुरुषविशेषणं भवति अङ्गानामपूर्वप्रयुक्तत्वम्... ३६ ४ शूद्रस्य न यागादावधिकारः ४४ १४ सन्निपत्योपकारकाणामुत्प: रथकारस्याधानमात्रेऽधि- त्यपूर्वार्थत्वम् ३६ १७ कारः ४४ १९ आरादुपकारकाणां परमा- स्त्रियाः पत्या सहाधिकारः ४५ ३ पूर्वार्थत्वम् ३६ २१ निषादस्थपतिन्यायः ४५ १८ सन्निपत्योपकारकाणां पूर्वा- उत्तरकतुविधीनां न ज्ञाना- ङ्गानामुत्पत्त्यपूर्वोत्पत्ता- क्षेपकत्वम् ४५ २२ वुपयोगः ३६ २२ पत्नीमात्रकर्तृकाणामाज्या- उत्तराङ्गानामु- वेक्षणादीनां ज्ञानाक्षेप- त्पत्त्यपूर्वस्थितावुपयोगः ३६ २३ कत्वम् ४५ २५ आरादुपकारकाणां परमा- सामर्थ्यमप्यधिकारिविशे- पूर्वोत्पत्तावुपयोगः ... षणम् ४५ २९ प्रयोगबहिर्भूतस्यारादुपका- साङ्गे प्रधाने समर्थस्यैव रकस्य परमापूर्वस्थिता- काम्ये कर्मण्यधिकारः ४५ ३० वुपयोगः ३६ २५ नित्यकर्मणां यथाशक्ति- प्रयोगविधिनिरूपणम् . न्यायः ४६ १० प्रयोगविधेरेव नियतक्रमवि- मन्त्रनिरूपणम् ... ४६ १७ धायकत्वम्... ३७ १६ विधिनियमपरिसंख्याल- तस्य सहकारीणि षट्र प्रमा- क्षणानि ४६ २३ णानि ३७ २१ अपूर्वविधिनिरूपणम् ४६ २५ श्रौतक्रमोदाहरणम् ३७ २२ नियमविधिनिरूपणम् श्रुतिः पाठादेर्बलवती ... ३७ २७ परिसंख्याविधिनिरूपणादि ... ... ... ... ... १ ... ...
६ मीमांसान्यायप्रकाशस्य पृ० पंक्तिः ... ... ... ... ... ... विषयः पृ० पंक्तिः विषयः मन्त्राणामुत्कर्षः ४७ २६ / श्येनशब्दस्य तद्यपदेशा- मन्त्राणामदृष्टार्थत्वम् त्कर्मनामधेयत्वम् ६ नामधेयनिरूपणम् ४८ १ वैश्वदेवशब्दस्योत्पत्तिशिष्टगु- नामधेयस्य वैश्वदेव्यामिक्षे- णबलीयस्त्वं पञ्चमं क- त्यत्रामिक्षाशब्दवत्सा- मनामधेयनिमित्तमिति मानाधिकरण्यम् ४८ १३ केचित् ५७ १७ नामधेयत्वं निमित्तचतुष्ट- तत्प्रख्यशास्त्रादेवेत्यन्ये... ५९ यात् ४८ २९ वैश्वदेवेन यजेतेति वाक्यं उद्भिच्छब्दस्य मत्वर्थलक्ष- देवताविशिष्टकर्मविधा- णाभयानामधेयत्वम् ४८ ३१ यकमस्तु वैश्वदेव्यामि- आश्रयत्वलक्षणम् ४९ १३ क्षेति तत्रैव द्रव्यविधा- सोमेन यजेतेत्यत्र सोमपद- यकमस्त्वित्याशय त- स्य नामधेयत्वनिराक- निरासः रणम् ५० १५ निषेधनिरूपणम् ६० २७ चित्राशब्दस्य वाक्यभेदभ- निषेधानां निवर्तनाप्रतिपा- यात्कर्मनामधेयत्वम् दकत्वोपपादनम् अग्निहोत्रशब्दस्य तत्प्रख्य- नञः प्रत्ययेनान्वये बाधक शास्त्रानामधेयत्वम् ... ५२ द्विविधम् गौश्चाश्वश्चेत्यत्र परस्परसा- पर्युदासलक्षणम्. ६२ १० पेक्षाणां गवादीनां वि- प्रतिषेधलक्षणम् ६२ ११ धानान वाक्यभेदः... ५२ २६ तस्य व्रतमित्युपक्रमात्पर्यु- तद्धितचतुर्थीमन्त्रवर्णानां दासोदाहरणम् ६२ १३ देवताविधायकत्वम्... ५३ २३ विकल्पप्रसक्त्या पर्युदासो- चकारः समुच्चयं प्राधा- दाहरणम् ६४ १२ न्येन न ब्रूते ९ प्रतिषेधस्य प्राप्तिसापेक्ष- एकोद्देशेन प्रधानद्वय विधाने त्वम्.. ६४ १६ वाक्यभेदः... २ नान्तरिक्ष न दिवीत्यस्य न गौश्चाश्वश्चेति वाक्ये उभय- प्रतिषेधत्वम्... विशिष्टा दक्षिणैव विधी- शास्त्रयोहि तत्र बाध्यबाध- यते कभावो यत्र परस्पर- समिदादिशब्दा अपि निरपेक्षता ६५ १५ तत्प्रख्यशास्त्रात्कर्मनाम- पर्युदासस्योपसंहारेणाभेदा- धेयानि ६ शङ्कापरिहारौ ... ... ... ... ... ... ... ...
विषयानुक्रमणिका पृ० पंक्तिः विषयः पृ० पंक्तिः विषयः प्रसङ्गादुपसंहारलक्षणम् ६६ १८ मतान्तरेण समीहितसाध- यत्र प्रतिषेध आश्रयितुं न नत्वस्यैव प्रवर्तनात्वेन शक्यते तत्र विकल्पप्र- रूपेण विधिप्रत्ययवा- सक्तावपि निषेधाश्रयणम् ६७ १८ च्यत्वनिरूपणम् ११ प्रतिषिध्यमानस्यानर्थहेतु- आर्थीभावनास्वरूपविचारः ७१ १६ त्वाहेतुत्वविचारः प्रयत्न एवाख्यातार्थ आर्थी- अर्थवादानां लक्षणया प्रयो- भावनेति मतसमर्थनम् ७१ १९ जनवदर्थपर्यवसानम् ६८ १९ अन्योत्पादानुकूलव्यापार- प्राशस्त्यज्ञानस्य शाब्दभा- सामान्यमेवाख्यातार्थः वनायामितिकर्तव्यता- त्वेनान्वयः स एवार्थी भावनेतिमत- ६८ २८ शाब्दभावनास्वरूपविचारः ६९ समर्थनम् १ प्रैषादीनां प्रवर्तनात्वेन रू- धर्मस्यैवेश्वरार्पणबुद्धया क्रि- पेण विधिप्रत्ययवाच्य- यमाणस्य निःश्रेयसहेतु- त्वम् त्वम्... ... ... ... ... ... ... समाप्ता न्यायप्रकाशानुक्रमणिका।
No text on this page.
आपदेवकृतः। मीमांसान्यायप्रकाशः। (आपोदेवी) श्रीगणेशाय नमः। यत्कृपालेशमात्रेण पुरुषार्थचतुष्टयम् । प्राप्यते तमहं वन्दे गोविन्दं भक्तवत्सलम् ॥ १ ॥ अनन्तगुणसंपन्नमनन्तभजनप्रियम् । अनन्तरूपिणं वन्दे गुरुमानन्दरूपिणम् ॥ २॥ इह खलु परमकारुणिकेन भगवता जैमिन्य॒षिणा 'अथातो- धर्मजिज्ञासा' इत्यादिना द्वादशस्वध्यायेषु धर्मो विचारितः । तत्र वेदेन प्रयोजनमुद्दिश्य विधीयमानोऽर्थो धर्मः । यथा यागादिः । स हि 'यजेत स्वर्गकाम' इत्यादिवाक्येन स्वर्गमुद्दिश्य विधीयते । तथा हि-यजेतेत्यत्रास्त्यंशद्वयम् , यजिधातुः प्रत्ययश्च । तत्र प्रत्ययेऽप्यस्त्यंशद्वयम् , आख्यातत्वं लित्वं च । आख्यातत्वं च दशसु लकारेषु विद्यते । लिङ्त्वं पुनः केवलं लिङयेव । तत्रा- ख्यातत्वलिङ्त्वाभ्यां भावनैवोच्यते । भावना नाम भवितुर्भवना- नुकूलो भावकव्यापारविशेषः । सा च द्विविधा, शाब्दी भावना आर्थी भावना चेति । तत्र पुरुषप्रवृत्त्यनुकूलभावकव्यापारविशेषः शाब्दी भावना । सा च लिङ्त्वांशेनोच्यते, लिश्रवणे 'अयं मां प्रवर्तयति, वृत्त्यनुकूलव्यापारवानयम्' इति नियमेन प्रतीयमानत्वात् । यच्च यस्मात्प्रतीयते तत्तस्य वाच्यम् , यथा गोशब्दस्य गोत्वम् । स च प्रवृत्त्यनुकूलव्यापारविशेषो लोके पुरुषनिष्ठोऽभिप्रायविशेषः, वेदे तु पुरुषाभावाल्लिादिशब्दनिष्ठ एव । नहि वेदः पुरुषनिर्मितः। 'वेदस्याध्ययनं सर्व गुर्वध्ययनपूर्वकम् । वेदाध्ययनसामान्याधुनाध्ययनं यथा' ॥ इत्यादिना वेदापौरुषेयत्वस्य साधितत्वात् । 'य: कल्पः स १°लो व्या.
२ आपदेवकृतः। , , कल्पपूर्वः' इति न्यायेन संसारस्यानादित्वादीश्वरस्य च सर्वज्ञ- त्वादीश्वरो गतकल्पीयं वेदमस्मिन् कल्पे स्मृत्वा उपदिशतीत्ये- तावतैवोपपत्तौ प्रमाणान्तरेणार्थमुपलभ्य रचितत्वकल्पनानुपपत्तेश्च । ततश्च पुरुषाभावाच्छब्दनिष्ठैव सा । अत एव शाब्दी भावनेति व्यपदिशन्ति । सा च शाब्दी भावनांऽशत्रयमपेक्षते, साध्यं साधनमितिक- र्तव्यतां चेति । तत्र साध्याकाङ्क्षायां वक्ष्यमाणांशत्रयोपेताऽऽर्थी भावना साध्यत्वेन संबध्यते, एकप्रत्ययगम्यत्वेन *समानाभिधान- श्रुतेः । यद्यपि सिंख्यादीनामप्येकप्रत्ययगम्यत्वं समानं तथाऽप्य- योग्यत्वान्न तेषां भाव्यत्वेनान्वयः । करणाकाङ्क्षायां लिङादिज्ञानं करणत्वेन संबध्यते । तस्य च करणत्वं न भावनोत्पादकत्वेन, सन्निकर्षस्येव रूपादिज्ञाने, सन्नि- कर्षात्प्राक् रूपज्ञानस्येव लिङादिज्ञानात्प्राक् शव्दधर्मभावनाया अभावप्रसङ्गात् , किंतु भावनाभाव्यनिर्वर्तकत्वेनैव । लिङादिज्ञानं हि शब्दभावनाभाव्या भावनां निर्वर्तयति, कुठार इव च्छेदनम् । अतो लिङादिज्ञानस्य करणत्वेनान्वयः । इतिकर्तव्यताकाङ्क्षायां प्राशस्त्यज्ञानमितिकर्तव्यतात्वेन संब- ध्यते । तच्च प्राशस्त्यज्ञानं 'वायुर्वै क्षेपिष्ठा देवता' इत्याद्यर्थवादै- जन्यते । ते ह्यर्थवादाः स्वार्थप्रतिपादने प्रयोजनमेलभमाना लक्ष- णया क्रतोः प्राशस्त्यं प्रतिपादयन्ति । स्वार्थमात्रपरत्वे आनर्थक्य- प्रसङ्गात् । न चेष्टापत्तिः, अध्ययनविध्युपात्तत्वेनानर्थक्यानुपपत्तेः । तथाहि 'स्वाध्यायोऽध्येतव्यः' इत्यध्ययनविधिः सकलस्य वेदस्या- ध्ययनकर्तव्यतां बोधयन् सर्वो वेदः प्रयोजनवदर्थपर्यवसायीति सूचयति, निरर्थकस्याध्ययनानुपपत्तेः । स च वेदो विधिमत्रनामधेयनिषेधार्थवादात्मकः । तत्र विधिः प्रयोजनवदर्थविधानेनार्थवान् । स चाप्राप्तमर्थ विधत्ते । यथा अग्नि- * विभिन्नशक्ततावच्छेदकनानाशक्तिनिरूपकं पदं समानाभिधानश्रुतिः । प्रकृते प्रत्ययस्य लिङ्त्वाख्यातत्वाभ्यां क्रमेण शाब्दभावनार्थभावनोपस्थापकत्वा- तथात्वं बोध्यम् । आदिपदाद्वर्तमानत्वादेर्ग्रहणम् । । लिज्ञानादिनानु- त्पाद्यत्वात्। १र्थभा. २ मनुपल. ARMA मीमांसान्यायप्रकाशः। होत्रं जुहुयात्स्वर्गकामः' इति विधिरप्राप्तं प्रयोजनवद्धोमं विधत्ते, 'अग्निहोत्रहोमेन स्वर्ग भावयेदिति'। यत्र तु कर्म प्रकारान्तरेण प्राप्तं तत्र तदुद्देशेन गुणमावि- धानम् । यथा 'दध्ना जुहुयात्' इत्यत्र होमस्य 'अग्निहोत्रं जुहुयात्' इत्यनेन प्राप्तत्वाद्धोमोद्देशेन दधिमात्रविधानम् 'दना होम भावयेदिति'। यत्र तूभयमप्राप्तं तत्र विशिष्टं विधत्ते । तदुक्तम्-'नचेदन्येन शिष्टाः' इति शिष्टा उपदिष्टा इत्यर्थः । यथा 'सोमेन यजेत' इत्यत्र सोमयागयोरप्राप्तत्वात्सोमविशिष्टयागविधानम्, 'सोमवता यागेनेष्टं भावयेत्' इति । न चोभयविधाने वाक्यभेदः, विशिष्टस्यै- कत्वात् । विशिष्टविधौ च मत्वर्थलक्षणां । यथा सोमपदेन म- त्वर्थो लक्ष्यते सोमवतेति । न हि मत्वर्थलक्षणां विना सोमस्या- न्वयः संभवति । यदि तावत्सोमयागयोरैक्यरूपेण भावनायां करणत्वेनैवान्वयः 'सोमेन यागेनेष्टं भावयेत्' इति तत उभय- विधाने वाक्यभेदः। सोमस्य यागवत्फलभावनाकरणत्वेन प्राधा- न्यापातश्च यागार्थत्वानुपपत्तिश्च यागे द्रव्यानुपपत्तिश्च प्रत्ययवाच्य- भावनायाः समानपदोपात्तेन यागेन करणाकाङ्क्षानिवृत्तत्वेन भिन्न- पदोपात्तस्य सोमस्य करणत्वेनान्वयानुपपत्तिश्च स्यात् । यदि च वैयधिकरण्येनान्वयः, तत्र न तावत् 'यागेन सोमम्' इत्यन्वयः, समानपदोपात्तत्वात्प्रत्ययवाच्यफलभावनायां करणत्वे- नान्वितस्य यागस्य सोमकर्मकभावनान्वयानुपपत्तेः, यागस्य सो- मार्थत्वापत्तेश्च । न चेष्टापत्तिः, अदृष्टद्वयापत्तेः। न हि यागस्य सोमार्थत्वं दृष्टद्वारेण संभवति, व्रीहिष्ववघातेनेव यागेन सोमे कस्यचिद् दृष्टस्याजननात् । अतस्तेन तावत्सोमे किञ्चिदृष्टं जन- नीयम् , प्रोक्षणेनेव व्रीहिषु । तथा यागस्य सोमार्थत्वे फलभावनायां सोमस्य करणत्वेनान्व- यो वक्तव्यः। भावनाकरणत्वं च भावनाभाव्यनिर्वर्तकत्वेनेत्युक्तम् । न च सोमोऽदृष्टमन्तरेण फलं जनयितुं समर्थः, 'ग्रहैर्जुहोति' इति वाक्यविहितहोमेन तस्य भस्मीभावात् । अतोऽदृष्टद्वयापातान्न १°वं विधत्ते. २ कार्थकत्वात्. ३ °त्वेनान्व ४ त्वेन प्रत्यक्षविरोधश्च नहि सोमो यागो भवितुमर्हति प्राधा. ५ °फलभा. ६ पातश्च. , ४ आपदेवकृतः। , यागस्य सोमार्थत्वमिति न 'यागेन सोमं भावयेत् इत्यन्वयः संभवति, करणत्वेनोपस्थितस्य सोमस्य साध्यत्वेनान्वयानुपपत्तेश्च । अथ 'सोमेन यागं भावयेत्' इत्यन्वयः, तत्र यद्यपि सोमस्य करणत्वेन यागार्थत्वाद्यागनिर्वृत्तिदृष्टमेव प्रयोजनं लभ्यते इति नादृष्टद्वयापत्तिः, नापि करणत्वेनोपस्थितस्य सोमस्य साध्यत्वान्व- यानुपपत्तिः । करणत्वेनैवान्वयात् । तथाऽप्यप्राप्तत्वाद्भावनाक- रणत्वेनान्वितस्य यागस्य साध्यत्वेनान्वयानुपपत्तिस्तद्वस्थैव । ननु यजेतेत्यत्र यागस्य न करणत्वेन नापि साध्यत्वेनोपस्थितिः। तद्वाचकतृतीयाद्यभावात्, किंतु भावनायां यागसंबन्धमात्रं प्रती- यते । यागस्य च भावनासंबन्धः करणत्वेन साध्यत्वेन च संभवति । तत्र करणत्वांशमादाय फलसंबन्धः । साध्यत्वांशमादाय गुणसं- बन्धश्च स्यात् , इति चेत्-मैवम् । यद्यपि भावनया यागस्य संबन्धमात्रं प्रतीयते तथाऽपि करणत्वेनोपस्थितिदशायां न साध्य- त्वेनोपस्थितिः संभवति विरोधाद् (विरुद्धंत्रिकद्वयापत्तेश्च । ) तद- वश्यं “यागेन स्वर्ग भावयेत्' इति करणत्वेनान्वये सति पश्चात् 'सोमेन यागं भावयेत्' इति साध्यत्वेनान्वयो वक्तव्यः । ततश्च वाक्यभेदः। न च प्रत्ययाभिहितभावनास्वरूपे यागस्वरूपमात्रमन्वेतीति कारकाणामेव क्रियान्वयात् । तत्सिद्धं सोमस्य ने यागे सामानाधिकरण्येन वैयधिकरण्येन वाऽन्वयः संभवतीति । ननु यजेतेत्यत्र प्रत्ययाभिहितभावनायाः करणाकाङ्क्षायां यथा यागः करणत्वेनान्वेति तथेतिकर्तव्यताकाङ्क्षायां सोमस्येतिकर्तव्य- तात्वेन भावनायामेवान्वयोऽस्तु, कृतं मत्वर्थलक्षणया इति चेत्- न । सोमेनेति तृतीयया करणत्ववाचिन्या सोमस्येतिकर्तव्यता- त्वानभिधानात् । तत्र यदीतिकर्तव्यतात्वं लक्षणयोच्यते ततो वरं सोमपद एव प्रकृतिभूते मत्वर्थलक्षणा । *गुणे त्वन्याय्यकल्पनेति न्यायात् । अथ 'वेदो वा प्रायदर्शनात्' इत्यधिकरणोक्तासंजात- विरोधित्वन्यायेनान्ये प्रत्यय एव लक्षणेति चेत् , तथापि सोम- स्येतिकर्तव्यतात्वेनान्वयानुपपत्तिः । सिद्धस्य वस्तुन इतिकर्तव्य- गुणो नाम विशेषणम् । अन्याय्यं लक्षणा । प्रकृत्यर्थस्य प्रत्ययार्थविशेषण- त्वेन भाननियमात्प्रकृतावेव लक्षणोचिता। न विशेष्यसमर्पके प्रत्यये इति भावः । १ चिह्नितो भागः काशीमुद्रितपुस्तक एव दृश्यते. २ न सा. ३ किं म. वक्तुं युक्तम् , -- मीमांसान्यायप्रकाशः। - तात्वाभावात् , क्रियाया एवेतिकर्तव्यतात्वात् , द्रव्यस्य केवलम- ङ्गत्वात् । अतएवेतिकर्तव्यतात्वाभावात् द्रव्यस्य प्रकरणादग्रहणम् । यथाहुः- नावान्तरक्रियायोगाते वाक्योपकल्पितात् । गुणद्रव्ये कथंभावैर्गृहन्ति प्रकृताः क्रियाः ॥ इति । तदेतद्ने वक्ष्यामः । किंच सोमेन यजेतेति हि यागस्योत्प- त्तिवाक्यं नाधिकारवाक्यम् । ज्योतिष्टोमेन स्वर्गकामो यजेत' इत्यस्याधिकारवाक्यत्वात् । उत्पत्तिवाक्ये च नेतिकर्तव्यताकाङ्क्षा, इष्टविशेषाकाङ्क्षाकलुषितत्वेनेतिकर्तव्यताकाङ्क्षाया विस्पष्टमनुत्था- नात् । तत्सिद्धं सोमस्य नेतिकर्तव्यतात्वेन भावनायामन्वयः । त- स्माद्विशिष्टविधावन्वयानुपपत्त्याऽवश्यं मत्वर्थलक्षणा वाच्येति । नन्वेवमपि सोमेन यजेतेत्यत्र न विशिष्टविधानम् , गौरवात् , मत्वर्थलक्षणापाताच्च । किंतु दना जुहोतीतिवद्गुणमात्रविधानमस्तु विधिशक्तेर्गुणे संक्रमात् । यथाहुः सर्वत्राख्यातसंबंद्धे श्रूयमाणे पदान्तरे विधिशक्त्युपसंक्रान्तेः स्याद्धातोरनुवादता ॥ इति । न च यागस्याप्राप्तत्वान्न तदुद्देशेन सोमविधानमिति वा- च्यम् । ज्योतिष्टोमेन स्वर्गकामो यजेत' इत्यनेन यागस्य प्राप्त- त्वात् । न चास्याधिकारविधित्वेन नोत्पत्तिविधित्वमिति वाच्यम् । 'उद्भिदा यजेत पशुकाम.' इतिवदेकस्यैवोभयविधित्वोपत्तेः । एवं च सोमेन यजेतेत्यत्र न मत्वर्थलक्षणा । यदि ह्यत्र विशि- ष्टविधानं स्यात्तदान्वयानुपपत्त्या मत्वर्थलक्षणा स्यात् । 'ज्योति- टोमेन स्वर्गकामो यजेत' इत्यत्र तु यागविधाने कचिन्न मत्वर्थ- लक्षणा । न तावदेतस्मिन् वाक्ये, ज्योतिष्टोमेन यागेन स्वर्ग भावयेदिति सामानाधिकरण्येनैव नामपदस्यान्वयात् । नापि सोमेन यजेतेत्यत्र । यागोद्देशेन सोमविधानात्। सोमेन यागं भावयेदिति। नन्वनुवादेऽप्यस्ति मत्वर्थलक्षणा । अतएवोक्तम्- विधाने वानुवादे वा यागः करणमिष्यते । तत्समीपे तृतीयान्तस्तद्वाचित्वं न मुञ्चति इति । अतश्च विशिष्टविधाविव गुणविधावप्यस्त्येव मत्वर्थलक्षणेति १°णे उपसं. २ °बन्धे. ३ त्वेनोप.
६ , आपदेवकृतः । चेत् , मैवम् । गुणान्वयानुपपत्त्या हि मत्वर्थलक्षणाऽङ्गीक्रियते । यदा तु भावनायां धात्वर्थस्य करणत्वेनान्वयस्तदान्वयानुपपत्त्या साङ्गीकर्तव्या । गुणविधौ च न धात्वर्थस्य करणत्वेनान्वयो माना- भावात् । न हि दध्ना जुहोतीत्यत्र होमस्य करणत्वं श्रूयते तद्वाचकतृ- तीयाद्यभावात् । कल्प्यते इतिचेन्न । गुणस्य तत्र विधित्सित- त्वेन साध्याकाङ्क्षायां साध्यत्वकल्पनाया एवोचितत्वात् । दना होमं भावयेदिति । न चायमस्ति नियमो भावनायां धात्वर्थस्य करणत्वे- नैवान्वयो न प्रकारान्तरेणेति, षष्ठाद्यपूर्वपक्षानुत्थानापत्तेः । षष्ठाये हि यजेत स्वर्गकाम इत्यादौ प्रत्ययवाच्यायां वक्ष्यमाणा- र्थभावनायां समानपदश्रुत्या यागस्य भाव्यत्वमाशझ्यापुरुषार्थत्वेन परिहृतम् । यदि च धात्वर्थस्य करणत्वेनैव भावनायामन्वयस्तदा भाव्यत्वशकैव नोदेतीति व्यर्थ षष्ठाद्यमधिकरणमापद्येत । किं च वाजपेयाधिकरणे *तत्रसंबन्ध आशय परिहृतः। धात्व- र्थस्य करणत्वेनैवान्वये तत्रसंबन्धशकैव न स्यात् । तत्रसंबन्ध- शङ्कापरिहारौ च व्याख्यातौ । किंच धात्वर्थस्य न करणत्वेनैवान्वयः । गुणकामाधिकरणे आश्रयत्वेन धात्वर्थान्वयस्योक्तत्वात् । तथाहि-दध्नेन्द्रियकामस्य जुहुयादित्यत्र न तावद्धोमो विधीयते तस्य वचनान्तरेण विहित- त्वात् । नापि होमस्य, फलसंबन्धः गुणपदोनर्थक्यापत्तेः । नापि गुणसंबन्धं विधत्ते, फलपदानर्थक्यापातात् । नाप्युभयसंबन्धं विधत्ते प्राप्त कर्मण्यनेकविधाने वाक्यभेदापत्तेः । यथाहुः- प्राप्ते कर्मणि नानेको विधातुं शक्यते गुणः । अप्राप्ते तु विधीयन्ते बहवोऽप्येकयत्नतः ॥ इति । अत्र च कर्मपदवत् गुणेत्युपलक्षणम् । एकोदेशेनानेकविधाने वाक्यभेदात् । अतएव ग्रहैकत्वाधिकरणे ग्रहं संमाष्र्टीत्यत्र ग्रहोद्देशेन एकत्व- संमार्गविधौ वाक्यभेदाद् ग्रहैकत्वमविवक्षितमित्युक्तम् । सकृदुच्चरितस्योभयत्र संबन्धस्तन्त्रसंबन्धः । 'वाजपेयेन वाराज्यकामो यजेत' इत्यत्र सकृच्छ्रुतस्य धातोः : फलभावनायां करणत्वेन वाजपेयरूपगुणभा- वनायामुद्देश्यत्वेन चान्वय आशङ्कितः । १ स्यात्र. २ °दार्थस्या . ३ गुणोऽप्यु.
मीमांसान्यायप्रकाशः। रेवत्यधिकरणे च एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो ह्येतेन यजेत', इत्यत्र वारवन्तीयस्य रेवतीसंवन्धे अग्निष्टोमसामसंबन्धे फलसंबन्धे च विधीयमाने वाक्यभेदाद्भावनो- पसर्जनं भावनान्तरं विधीयते इत्युक्तम् । तस्मात्प्राप्ते होमे नोभय- विधानं संभवति, नापि होमान्तरं विधीयते, गौरवात् । प्रकृतहाँ- नाप्रकृतकल्पनाप्रसङ्गात् , मत्वर्थलक्षणाप्रसङ्गाच्च । नापि ध्येव केवलं करणत्वेन विधीयते इति युक्तम् । केवल- स्य व्यापारानाविष्टस्य करणत्वानुपपत्तेः, कर्तृव्याप्यत्वनियमात्कर- णत्वस्य । किं तर्हि विधीयते इति चेत् दध्नेति तृतीययोपात्तं दधि- करणत्वं फलभावनायां करणत्वेन विधीयते प्रत्ययार्थत्वेन दध्नोऽपि तस्य प्राधान्यात् । एवंच दधिकरणत्वेनेन्द्रियं भावयेदिति वा- क्यार्थः । करणत्वं च किंप्रतियोगिकमित्यपेक्षायां सन्निधिप्राप्तो होम आश्रयत्वेन संबध्यते । ततश्च सिद्धो धात्वर्थस्याश्रयत्वेनान्वयः। प्रकृतमनुसरामः । तत्सिद्धं धात्वर्थस्य न करणत्वेनैवान्वय इति । किं तर्हि कचित्करणत्वेन कचित्साध्यत्वेन कचिदाश्रय- त्वेनेति । गुणविधौ साध्यत्वेनैवान्वयः संभवतीति न मत्वर्थ- लक्षणायाः प्रयोजनम् । किंच गुणविधौ मत्वर्थलक्षणायां गु- णस्य धात्वर्थाङ्गत्वे किं मानमिति वक्तव्यम् । न तावच्छ्रुतिः । मत्वर्थलक्षणायां तृतीयाश्रुतिर्मत्वर्थस्यैवाङ्गत्वे मानं स्यात् , न गुण- स्याङ्गत्वेऽपि । समभिव्याहारात्मकं वाक्यमिति चेत्तत्ति स्वतन्त्रमेव मानमुत लिङ्गश्रुती कल्पयित्वा । नाद्यः, बलाबलाधिकरणवि- रोधात् । तत्र हि वाक्यं लिङ्गश्रुती कल्पयित्वाऽङ्गत्वे मानमित्यु- क्तम् । द्वितीये प्रत्यक्षां श्रुतिमुत्सृज्य श्रुत्यन्तरकल्पने तस्या एव वा आवृत्तिकल्पने व्यर्थः प्रयासः समाश्रितः स्यात् । विशिष्टविधौ चागत्या तदाश्रयणम् । किंच भवतु श्रुत्यन्तरकल्पनम् । तथापि तत्सहकृतः प्रत्यक्ष एव विधिर्धात्वर्थाङ्गत्वेन गुणं विधत्ते, उत कल्पितं विध्यन्तरम् । कल्पितमिति चेन्न, श्रुतविधेय॑र्थतापत्तेः । नहि तेन तदा गुणो विधीयते, कल्पितविध्यन्तराङ्गीकारात् । नापि धात्वर्थः । तस्य वचनान्तरेण विहितत्वात् । १°हानप्रसं. । .
८ आपदेवकृतः । तथा : अथ श्रूयमाण एव विधिः कल्पितश्रुतिसहकृतो धात्वर्थाङ्गत्वेन गुणं विधत्ते इति चेत् तर्हि तत्र कथं धात्वर्थस्यान्वयः । करण- त्वेनेति चेन्न, अन्वयानुपपत्तेः । नहि संभवति दना होमेनेति चान्वयः । साध्यत्वेनैवान्वयः-दना होमं भावयेदिति चेत्-न । सत्यनुवादेऽपि धात्वर्थः करणत्वेनैवान्वेतीत्येतदुपेक्षितं स्यात् । विवक्षितवाक्यार्थश्च विनैव मत्वर्थलक्षणयाङ्गीकृतः स्यात् । तस्मान्न गुणविधौ मत्वर्थलक्षणा । यत्तु 'विधाने वानुवादे वा' इति वार्तिकं, तत्प्रतीतिमवलम्ब्य, न वस्तुगतिम् । तथाहि-यावद्धि अग्निहोत्रं जुहुयादिति वाक्यं नालोच्यते, केवलं दध्ना जुहोतीति वाक्यमालोच्यते, तदा षष्ठा- द्यन्यायेन होमस्याभाव्यतां जानतां प्रतिपदाधिकरणभावार्थाधि- करणवासनावासितान्तःकरणानां भवत्येतादृशी मतिः, यद्दधि- मता होमेनेष्टं भावयेदिति । प्रतिपदाधिकरणे हि सोमेन यजेते- त्यादिषु किं गुणधात्वर्थयोः फलभावनाकरणत्वेनान्वयः, उत एक- स्यैवेति संदिह्य प्रधानसंबन्धलाभाद् , विनिगमनाविरहाच्च सर्वेषां फलभावनाकरणत्वेनान्वयमाशङ्कय लाघवादेकस्यैव फलभावनाक- रणत्वमित्युक्तम् । भावनाकरणत्वं हि भावनाभाव्यनिर्वर्तकतया, भाव्यं च स्वर्गादि नादृष्टमन्तेरेणेति अनेकेषां करणत्वेऽनेकादृष्ट- कल्पनाप्रसङ्गात् । तस्मादेकस्यैव करणत्वम् । यदाप्येकस्य तदापि किं द्रव्यगुणयोः फलभावनाकरणत्वम् , उत धात्वर्थस्येति भावार्थाधिकरणे संदिह्य द्रव्यगुणयोरेव भावना- करणत्वम् , 'भूतं भव्यायोपदिश्यते' इति न्यायादित्याशय धात्व- र्थस्यैव भावनाकरणत्वम् , पदश्रुतेर्बलीयस्त्वादित्युक्तम् । अतश्च सिद्धमेतद्वाक्यान्तरानालोचनदशायां गुणविधावपि धात्वर्थस्य करणत्वाशङ्कायां गुणपदे मत्वर्थलक्षणेति । यदा त्वग्निहोत्रं जुहोतीति होमविधायकं वाक्यान्तरमालोच्यते तदा होमस्य वाक्यान्तरेणैव विहितत्वात्तदुद्देशेन गुणमानं विधी- यते इत्यालोचनान्न मत्वर्थलक्षणेति । अतएवोक्तं पार्थसारथिमि- अराधाराग्निहोत्राधिकरणे 'फलतो गुणविधिरयं न प्रतीतितः' इति । यद्वा एतद्वार्तिकमधिकारविध्यभिप्रायम् । उद्भिदा यजेतेत्यादी- नामधिकारात् । तत्र हि यागो विधीयताम् , उत्पत्तिवाक्यसिद्धो १ तानां. २ हि. ३ 'त्वेनाने.
मीमांसान्यायप्रकाशः। , वानूद्यताम्, उभयथापि धात्वर्थस्य करणत्वेनान्वयात् तृतीयान्तस्य तद्वाचित्वम् । अन्यथान्वयानुपपत्तेरिति । तस्माद् गुणविधौ विनापि लक्षणामन्वयोपपत्तेर्न मत्वर्थलक्षणेति । अतश्च सोमेन यजेतेत्यत्र न विशिष्टविधानम्, किंतु गुणमात्रविधानम्, यागस्तु ज्योति- ष्टोमेन स्वर्गकामो यजेतेत्यस्मिन्वाक्ये - विधीयते इत्येव युक्तम् । अन्यथा मत्वर्थलक्षणापत्तेरिति । अत्रोच्यते । यद्यपि यागोदेशेन सोमविधौ न मत्वर्थलक्षणा, तथापि यागस्याप्राप्तत्वात्सोमेन यजेतेत्यत्र न यागोद्देशेन सोम- विधानं संभवति । न च 'ज्योतिष्टोमेनेत्यादिना यागस्य प्राप्तत्वा- त्तदुद्देशेन गुणमात्रं विधीयत इति वाच्यम् । तस्याधिकारविधि- त्वेनोत्पत्तिविधित्वानुपपत्तेः । कर्मस्वरूपमात्रबोधको विधिरुत्पत्ति- विधिः । तेन च विहितस्य कर्मणः फलविशेषसंबन्धमात्रमधिकार- विधिना क्रियते । फलविशेषसंबन्धबोधकस्याधिकारविधित्वात् । यथा आग्नेयोऽष्टाकपालो भवतीत्येतद्विहितस्य कर्मणः फलविशेषसं- बन्धमात्रं दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति वाक्यं विधत्ते इति तस्याधिकारविधित्वं, नोत्पत्तिविधित्वम् । स्यादेतत् । दर्शपूर्णमासाभ्यामित्येतस्य नोत्पत्तिविधित्वं संभ- वति, आग्नेयोऽष्टाकपाल इत्यादिवाक्यानर्थक्यापत्तेः। नहि तदा तेन कर्म विधीयते, तस्य दर्शपूर्णमासाभ्यामित्यनेन विहितत्वात् । नापि गुणविधानं संभवति, प्राप्ते कर्मणि अनेकगुणविधाने वाक्यभेदा- पत्तेः । अतः आग्नेयोऽष्टाकपाल इत्यस्योत्पत्तिविधित्वं दर्शपूर्णमासा- भ्यामित्यस्य चाधिकारविधित्वंयुक्तम् । ज्योतिष्टोमेनेत्यस्य तु अधिकार- विधेरुद्भिदा यजेत पशुकाम इत्यादिवदुत्पत्तिविधित्वेऽपि स्वीक्रियमाणे न कस्यचिदानर्थक्यम् । सोमेन यजेतेत्यस्य गुणविधित्वाद्यागोदे- शेन सोममात्रविधानाच्च न वाक्यभेद इति चेत्-मैवम् । यद्यपि सोमेन यजेतेत्यत्र न वाक्यभेदः, तथापि ज्योतिष्टोमेनेत्यस्मि- न्वाक्ये कर्मस्वरूपे तस्य च फलसंबन्धे विधीयमाने गौरवलक्षणो वाक्यभेदोऽस्त्येव । सोमेन यजेतेत्येतद्वाक्यविहितकर्मणः फलसं- बन्धमात्रविधाने तेदभावात् । उद्भिदा यजेतेत्यत्र तु वचनान्त- राभावेनागत्या तदाश्रयणम् नच सोमेन यजेतेत्यत्रापि कर्मणः स्वरूपे गुणे च विधी- १°त्तिरि.२ लाघवात्.
१० आपदेवकृतः। - यमाने वाक्यभेदः स्यादिति वाच्यम् । श्रूयमाणेन विधिना गुण- स्याविधेयत्वात् विशेषणविधेरार्थिकत्वात् । सर्वत्र हि विशिष्ट- विधौ विशेषणविधिरार्थिकः । ज्योतिष्टोमेनेत्यस्य तूत्पत्तिविधित्वे कर्मस्वरूपं फलसंबन्धश्चेति उभयं श्रूयमाणेनैव विधिना विधात- व्यमिति दृढो गौरवलक्षणो वाक्यभेदः । यथाहुः- औतव्यापारनानात्वे शब्दानामतिगौरवम् । एकोक्त्यवसितानां तु नार्थाक्षेपो विरुध्यते ॥ इति । न च सोमेन यजेतेत्यस्योत्पत्तिविधित्वे यद्यपि न वाक्यभेदः तथापि मत्वर्थलक्षणा स्यादेवेति वाच्यम् । तस्याः स्वीक्रीयमा- णत्वात् । लक्षणातो वाक्यभेदस्य जघन्यत्वात् । लक्षणा हि पद- दोषो वाक्यभेदस्तु वाक्यदोषः । पदवाक्यदोषयोर्मध्ये पदे एव दोषकल्पनाया उचितत्वत् । 'गुणे त्वन्याय्यकल्पना' इति न्यायात् । अत एव 'जातपुत्रः कृष्णकेशोऽग्नीनादधीत' इत्यत्राधानानु- वादेन जातपुत्रत्वकृष्णकेशत्वविधाने वाक्यभेदात्पवयेनावस्था- विशेषो लक्ष्यत इत्युक्तम् । तस्माद्वाक्यभेदप्रसक्तौ लक्षणैव स्वी- कार्या । तस्मात्सोमेन यजेतेत्ययमेवोत्पत्तिविधिर्न ज्योतिष्टोमेने- त्ययं, गौरवलक्षणवाक्यभेदापत्तेः । किंच सोमेन यजेतेत्यत्र यागविधाने श्रुत्यर्थविधानं गुणवि- धाने तु वाक्यार्थविधानम् । तच्च श्रुत्यर्थविधानसंभवेऽयुक्तम् । यथाहु:- वाक्यार्थविधिरन्याय्यः श्रुत्यर्थविधिसंभवे । इति । वाक्यार्थः, पदान्तरार्थ इत्यर्थः । ज्योतिष्टोमेनेत्यत्रापि फलो- द्देशेन यागस्येव विधानान्न वाक्यार्थविधानम् , तदुत्पत्तिविधि- त्ववादिनापि तदङ्गीकाराच्च । तस्मात् ज्योतिष्टोमेनेत्ययमधिकार- - विधिरेव । अपि च कर्मस्वरूपविधिस्तत्र स्वीकार्यों यत्र कर्मणो रूपमुप- लभ्यते । यागस्य च द्वे रूपे, द्रव्यं देवता चेति । सोमेन यजेते- यत्र यद्यपि देवता नोपलभ्यते सोमयागस्याव्यक्तत्वात् , अव्यक्तत्वं च स्वार्थचोदितदेवताराहित्यम् , न तु देवताराहित्यमात्रम् , ऐन्द्र- वायवं गृह्णातीत्यादिवाक्यविहितग्रहदेवतानां सत्त्वात् , ग्रहणार्था- १ °स्याविहितत्वात्. २ क्ययोर्म'. ३ भवत्ययु.
मीमांसान्यायप्रकाशः । भिरपि देवताभिः प्रसङ्गतो यागोपकारस्य क्रियमाणत्वात् , तथापि द्रव्यमुपलभ्यत एव । तेनापि यागस्वरूपं ज्ञातुं शक्यमेव । ज्यो- तिष्टोमेन स्वर्गकामो यजेतेत्यत्र न द्रव्यं देवता वा श्रूयते । अत- स्तस्योत्पत्तिविधित्वे यागविशेषज्ञानं यागसामान्यस्याविधेयत्वात् विशेषस्यैव विधेयत्वोदित्यादिक्लेशेन स्यादतो नायं कर्मोत्पत्तिविधिः । नन्वेवमपि अग्निहोत्रं जुहोतीत्ययमपि होमोत्पत्तिविधिर्न स्यात् रूपाश्रवणात् । तच्छ्रवणाच्च दध्ना जुहोतीत्ययमेवोत्पत्तिविधिः स्यात् । तथा चाघारौग्निहोत्राधिकरणविरोधः । तत्र हि अग्निहोत्रं जुहोतीत्यस्योत्पत्तिविधित्वं दध्ना जुहोतीत्यादीनां च गुणविधि- त्वमुक्तमिति चेत्-सत्यम् । अग्निहोत्रं जुहोतीत्यत्र यद्यपि रूपं नोपलभ्यते, अग्निहोत्रशब्दस्य तत्प्रख्यन्यायेन नामधेयत्वात् , तदे- तद्ने वक्ष्यामः, तथापि तस्योत्पत्तिविधित्वं स्वीक्रियते, अन्यथा- नर्थक्यापत्तेः । दना जुहोतीत्यस्य च नानर्थक्यं गुणविधित्वात् । अतः अग्निहोत्रं जुहोतीत्ययं कर्मोत्पत्तिविधिरिति युक्तम् । ज्योति- टोमेनेत्यस्य च नानर्थक्यमधिकारविधित्वोपपत्तेः । अतः किमर्थ संभवति रूपवति वाक्ये कर्मविधाने तदहिते तत्स्वीकार्यम् । किंच दध्ना जुहोतीत्यस्य कर्मोत्पत्तिविधित्वे पयसा जुहोतीत्यनेनै- तत्कर्मानुवादेन न पयो विधातुं शक्यते, उत्पत्तिशिष्टध्यवरोधात् । उत्पत्तिशिष्टगुणावरुद्धे हि न गुणान्तरं विधीयते, आकाङ्खाया उत्पचिशिष्टेनैव निवृत्तत्वात् । अतस्तेनापि विशिष्टं कर्मान्तरं वि- धेयम् । तथा चानेकादृष्टकल्पनागौरवम् । अग्निहोत्रं जुहोतीत्यस्य तु उत्पत्तिविधित्वे एतद्वाक्याविहितस्य कर्मणो द्रव्याकाङ्क्षायां युग- पदेव खलेकपोतन्यायेन 'दना जुहोति', 'पयसा जुहोति' इत्यादिवा- क्यैर्गुणा विधीयन्त इति नानेकादृष्टकल्पनागौरवम् । अतोऽग्निहोत्रं जुहोतीत्ययमुत्पत्तिविधिः, पयसा जुहोतीत्याद- यस्तु गुणविधय इति युक्तम् । सोमेन यजेतेत्यत्र तु रूपवति वाक्ये कर्मोत्पत्तिविधाने स्वीक्रियमाणे न किंचिदूषणं, पक्ष- द्वयेऽप्येकस्यादृष्टस्य तुल्यत्वात् । तस्माद्युक्तं सोमेन यजेतेत्ययमे- वोत्पत्तिविधिरित्यलमनया अप्रसक्तविधिनिरूपणानुगतप्रपञ्चनिरू- १ स्याविहितत्वात्. २ 'त्वात्क्लेशेन. ३ राधि', ४ त्यस्यच गु. ५ ततो. ६ °या विधिनिरूपणागतप्रसङ्गचिन्तया.
१२ आपदेवकृतः। पणचिन्तया । प्रकृतमनुसरामः । तत्सिद्धं विधिः प्रयोजनवन्तम- प्राप्तमर्थ विधत्त इति । स च विधिश्चतुर्विधः । उत्पत्तिविधिर्विनियोगविधिः प्रयोग- विधिरधिकारविधिश्चेति । तत्र कर्मस्वरूपमात्रबोधको विधिरुत्प- त्तिविधिः । यथाग्निहोत्रं जुहोतीति । उत्पत्तिविधौ च कर्मणः करणत्वेनैवान्वयः, होमेनेष्टं भावयेदिति । न तु होमं कुर्यादिति साध्यत्वेन । तथा सति साध्यस्य साध्यान्तरान्वयायोगेनाधिका- रवाक्यावगतफलसंबन्धो न स्यात् । करणत्वेन त्वन्वये होमेनेष्टं भावयेत् । किं तदिष्टमित्याकाङ्क्षायां फलविशेषसंबन्धो घटते । न च उत्पत्तिविधाविष्टवाचकपदाभावेन कर्मणा इष्टं भावये- दिति कथं वाक्यार्थ इति वाच्यम् । विधिश्रुतेरेवेष्टबोधकत्वात् । सा हि पुरुषार्थे पुरुषं प्रवर्तयन्ती कर्मणः फलसंबन्धमात्रं बोध- यति । तस्माद्युक्तमुत्पत्तिविधौ कर्म करणत्वेनान्वेतीति । अत एवोद्भिदा यजेतेत्यादौ तृतीयान्त उद्भिच्छब्द उपपद्यते, उद्भिदा यागेन इष्टं भावयेदित्यन्वयोपपत्तेः । येषामपीष्टसाधनत्वं लिङर्थ- स्तेषामपि तृतीयान्तानां कर्मनामधेयानामन्वयोऽनुपपन्न एव । न हि संभवति याग इष्टसाधनमुद्भिदेति । तृतीयोपात्तस्य कारकस्य लिङ्गसंख्यान्वयायोग्यस्य क्रिययैवान्वयात् । ननु तवाप्यग्निहोत्रं जुहोतीत्यादिषु कर्मोत्पत्तिविधिषु द्विती- यान्तानां कर्मनामधेयानामन्वयोऽनुपपन्नः । न हि संभवति होमेन भावयेदग्निहोत्रमिति । सत्यम् । श्रूयमाणा तावद्वितीयाऽर्थाक्षिप्त- साध्यत्वानुवादः, होमस्य हि करणत्वेनान्वयात् । असाधितस्य च करणत्वानुपपत्तेः । तस्याश्चानन्वयोपस्थितौ सा सक्तून् जुहोती- तिवत् तृतीयार्थ लक्षयति । अग्निहोत्रेण होमेनेष्टं भावयेदितीत्युक्तं पार्थसारथिमित्रैः। अतश्च द्वितीयान्तानां कर्मनामधेयानामन्वयो नानुपपन्नः । तत्सिद्धमुत्पत्तिविधौ कर्म करणत्वेनान्वेतीति । अङ्गप्रधानसंबन्धबोधको विधिर्विनियोगविधिः । यथा दध्ना जुहोतीति । स हि तृतीयाप्रतिपन्नाङ्गभावस्य दध्नो होमसंबन्धं विधत्ते दना होमं भावयेदिति । एकस्य च विधेः सहकारिभूतानि षट् प्रमाणानि श्रुतिलिङ्ग- १°न्वयो हो.
मीमांसान्यायप्रकाशः । १३ वाक्यप्रकरणस्थानसमाख्यारूपाणि । एतत्सहकृतेन विधिनाङ्गत्वं परोद्देशप्रवृत्तकृतिव्याप्यत्वरूपं पारार्थ्यापरपर्यायं ज्ञाप्यते । तत्र निरपेक्षो रवः श्रुतिः । सा च त्रिविधा विधात्री अभिधात्री विनियोकी चेति । तत्र विधात्री लिङाद्यात्मिका । अभिधात्री ब्रीह्यादिश्रुतिः । यस्य च शब्दस्य श्रवणादेव संबन्धः प्रतीयते सा विनियोक्री। सा च त्रिधा । विभक्तिरूपा समानाभिधानरूपा एकपदरूपा चेति । तत्र विभक्तिश्रुत्याङ्गत्वं, यथा व्रीहिभिर्यजेतेति तृतीया- श्रुत्या ब्रीहीणां यागाङ्गत्वम् । न च उत्पत्तिशिष्टपुरोडाशावरुद्धे यागे कथं ब्रीहीणामङ्गत्वमिति वाच्यम् । पुरोडाशप्रकृतितयोपपत्तेः । पशोरिव हृदयादिरूपहवि- प्रकृतितया यागाङ्गत्वम् । न च साक्षात्पशोरेवाङ्गत्वं किं न स्यादिति वाच्यम् , तस्य विशसनात्, अवदीयमानत्वाच हृदया- दीनाम् । अवदीयमानं हि हविः । यथा पुरोडाशादिः । मध्यात्पूर्वा- र्धाच्चावद्यतीति वाक्यात् । हृदयादीनि चावदीयमानानि न पशुः, हृदयस्याग्रेऽवद्यतीति वाक्यात् । अतो हृदयादीन्येव हवींषि, पशुस्तु प्रकृतिद्रव्यम् । पानीवतयागे तु साक्षात्पशुरेवाङ्गम् । तस्य जीवत एव ‘पर्य- ग्निकृतं पानीवतमुत्सृजति' इत्युत्सर्गविधानात् । यत्र तु विशसनं तत्र पशुः प्रकृतिद्रव्यमित्येव सिद्धम् । एवं ब्रीहयोऽपि प्रकृतिद्रव्यतया यागाङ्गं तृतीयाश्रुत्येति । आरु- ण्यस्यापि क्रयाङ्गत्वं तृतीयाश्रुत्या । न चामूर्तस्य तस्य कथं क्रयाङ्ग- त्वमिति वाच्यम् । एकहायनीरूपद्रव्यपरिच्छेदद्वारा तदुपपत्तेः । ब्रीहीन्प्रोक्षतीत्यत्र प्रोक्षणस्य ब्रीह्यङ्गत्वं द्वितीयाश्रुत्या । तच्च प्रोक्षणं न व्रीहिस्वरूपार्थम् , स्वरूपे आनर्थक्यात् , ब्रीहिखरूपस्य प्रोक्षणं विनाऽनुपपत्त्यभावात् , किंत्वपूर्वसाधनत्वप्रयुक्तं यदि ब्रीहिषु प्रोक्षणं क्रियते तदा तैर्यागे अनुष्ठितेऽपूर्व भवति नान्यथेति । अतः प्रकरणसहकृतया द्वितीयाश्रुत्या तण्डुलनिवृत्तिप्रणाड्या यदपूर्वसाधनं तदङ्गत्वं प्रोक्षणस्योच्यत इति । एवं सर्वेष्वप्यङ्गेषु अपूर्वप्रयुक्तत्वं वेदितव्यम् । १°द्देश्य'. २ °एकाभि'. ३ °नप्र. २ मी. न्या० ४ आपदेवकृतः। एवमिमामगृभ्णन् रशनामृतस्येत्यश्वाभिधानीमादत्त इत्यत्रापि द्वितीयाश्रुत्या मन्त्रस्याश्वाभिधान्यङ्गत्वम् । यत्तु वाक्यीयोऽयं वि- नियोग इति तन्न । तथा सति वाक्याल्लिङ्गस्य बलीयस्त्वेन याव- द्वाक्यादश्वाभिधान्यङ्गं भवति तावल्लिङ्गादशनामात्राङ्गत्वमेव स्यात् , स्योनं ते सदनं कृणोमीत्यस्येव सदनाङ्गत्वम् । श्रोतविनियोगपक्षे तु यावल्लिङ्गादशनामावाङ्गत्वं संभवति तावच्छ्रुत्या 'ऐन्या गार्हप- त्यमुपतिष्ठते' इत्यत्र तृतीयाश्रुत्या ऐन्या ऋचो गार्हपत्योपस्थाना- ङ्गत्ववदश्वाभिधान्यां विनियोगः क्रियते इति युक्तं मत्रस्याश्वा- भिधान्यङ्गत्वम् । तस्माच्छौत एवायं विनियोगः । यदाहवनीये जुहोतीत्याहवनीयस्य होमाङ्गत्वं सप्तमीश्रुत्या। एव- मन्योऽपि विभक्तिश्रुत्या विनियोगो ज्ञेयः। पशुना यजेतेत्यत्रैकत्वपुंस्त्वयोः समानाभिधानश्रुत्या कारकाङ्ग- त्वम् । यजेतेत्याख्याताभिहितसङ्ख्याया भावनाङ्गत्वं समानाभिधान- श्रुतेरेकपदश्रुत्या च यागाङ्गत्वम् । न चामूर्तीयास्तस्याः कथं यागाङ्गत्वमिति वाच्यम् । कर्तृपरि- च्छेदद्वारा तदुपपत्तेः । कर्ता चाक्षेपलभ्यः। आख्यातेन हि भाव- नोच्यते । साच कर्तारं विनाऽनुपपन्ना तमाक्षिपति । ननु किमित्येवं वर्ण्यते आक्षेपलभ्यः कर्तेति । आख्यातवाच्य एव किं न स्यात् । आख्यातश्रवणे भावनाया इव कर्तुरपि प्रतिपत्तेः न च भावनयैवाक्षेपसंभवे किमिति तद्वाचकत्वं कल्पनीयमिति साम्प्रतम् । तथा सति आख्यातवाच्यकत्रैव भावनाक्षेपसंभवे तद्वा- चकत्वमपि न स्यात् । किं च भावनाया न केवलं कत्रैव संबन्धः, कारकान्तरेणापि संबन्धात् । अतः सा न झटिति कर्तारमेवाक्षि- पेद्विशेषाभावात् । कर्ता तु भावनयैव संबद्धो न कारकान्तरेण, "गुणानां च परार्थत्वादसंबन्धः समत्वात्स्यात्' इति न्यायात् । अतः स झटिति तामाक्षिपेदिति स एवाख्यातवाच्यः । भावना तु आक्षेपलभ्यैव किं न स्यात् । किंचैवं तृतीयादिविभक्तीनामपि करणादिवाचकत्वं न स्यात् , तेषामपि कर्तृवदाक्षेपलाभसंभवात् । किंच यदि कर्ता न वाच्यः स्यात्कथमेकत्वं तेनान्वियात् । न हि शाब्दमशाब्देनान्वेतीति युक्तम् । अन्यथा ऊहादिलोपप्रसङ्गः। १°ङ्गत्वं संभ. २ न्वेति.
मीमांसान्यायप्रकाशः। १५ किंच देवदत्तः पचतीति सामानाधिकरण्यं न स्यात् । न हि केवलं भावनावाचकस्याख्यातस्य देवदत्तपदेन सामानाधिकरण्यमुपपद्यते, एकार्थनिष्ठत्वाभावात् । कर्तृवाचकत्वे तूपपद्यत एव । लः कर्तरीति व्याकरणस्मृतिविरोधस्तु कर्तुरनभिधेयत्वे स्पष्ट एव। किं च कर्तुरनभिधेयत्वे देवदत्तेन पचतीति प्रयोगप्रसङ्गः। तृतीया हि अनभिहितयोः कर्तृकरणयोर्विहिता, आख्यातेन कर्ता नाभिहित इति कर्तृवाचिनी तृतीया स्यादेव । कर्तुरभिधाने तु अभिहितत्वा- देव तृतीया न प्राप्नोति, तस्या अनभिहिताधिकारत्वात् । देवदत्तः पचतीति प्रथमा तु प्राप्नोत्येव, प्रथमाया अभिहितकारकवि- भक्तित्वात्, प्रातिपदिकार्थमात्रवाचित्वाद्वा । न च तदा प्रातिपदिकेनैवार्थस्योक्तत्वात्प्रथमावैयर्थ्यम् । लिङ्ग- सङ्ख्याप्रतिपत्त्यर्थ तस्यावश्यकत्वात् । केवलप्रातिपदिकस्य प्रयोगा- साधुत्वाच्च । ततश्च यदि कर्ता न वाच्यः स्याद्देवदत्तेन पचतीति प्रयोगः स्यात् । तस्मादाख्यातवाच्यः कर्तेति सिद्धमिति पूर्व- पक्षसंक्षेपः। अत्राहुः —स एव हि शब्दस्यार्थो यः प्रकारान्तरेण न लभ्य- ते, अनन्यलभ्यः शब्दार्थ इति न्यायात् । अत एव न गङ्गापदस्य तीरमर्थः लक्षणयैव प्रतिपत्तिसंभवात् । अत एव च न वाक्यार्थे शक्तिः । एवं चाख्यातवाच्यभावना कर्तारं विनानुपपन्ना तमा- क्षिपतीत्याक्षेपादेव कर्तुः प्रतिपत्तिसंभवे किमिति तद्वाचकत्वमा- ख्यातस्य कल्पनीयम् । न च विनिगमनाविरहः । कृतिमान् हि कर्ता । एवं च कृतेरेव भावनापरपर्यायाया आकृत्यधिकरणन्यायेनाख्यातवाच्यत्वसंभवे न तद्वतः कर्तुर्वाच्यत्वं कल्पनीयम्, गौरवप्रसङ्गात् । न च भावना कारकान्तरेणापि संबद्धा तदुज्झित्वा न झटिति कर्तारमाक्षिपतीति वाच्यम् । सा हि यथा नियमेन का संबद्धा, न तथा करणादि- कारकान्तरेण, तिष्ठतीत्यादिषु तया तदनाक्षेपात् । अतः प्रथमं सा कर्तारमेवाक्षिपति न कारकान्तरम् । अत एव चाख्याताभिहिता सङ्ख्या न कारकान्तरेण संबध्यते, तस्य प्रथममनुपस्थितेः। अत एव तृतीयादिविभक्तीनां करणादिवाचित्वम्, भावना- यास्तैः सह नियतसंबन्धाभावेन तया तेषां नियमेनानाक्षेपात् । १ निमि.
१६ आपदेवकृतः। आख्यातश्रवणात्प्रागपि तृतीयादिविभक्तिश्रवणे करणादिप्रतीते- र्जायमानत्वाच । नच शाब्दी सङ्ख्या कथमशाब्देन कान्वे- तीति वाच्यम् । कर्तुर्लक्षणाङ्गीकारात् । यथा च लक्षितं तीरं शाब्देन घोषेणान्वेति, एवं लक्षितः कर्ता एकत्वेनान्वे- ष्यति । अत एव देवदत्तः पचतीति सामानाधिकरण्यमुपपद्यते, कर्तुर्लक्षणात् । नच मुख्ये संभवति किमिति लाक्षणिकत्वं स्वीकार्यमिति वाच्यम् । अनन्यलभ्यशब्दार्थत्वस्य व्यवस्थापितत्वात् । अन्यथा सिंहो देवदत्त इत्यपि सामानाधिकरण्यं मुख्यं स्यात् । किंच आ- ख्यातवाच्यः कर्तेति वादिनोऽपि मते देवदत्तः पचतीति सामाना- धिकरण्यं न मुख्यम् । तन्मते आख्यातेन तृतीयावन्निष्कृष्टशक्ति- मात्ररूपकर्तृकारकाभिधानात्, शक्तिमद्रव्यस्याकृत्यधिकरणन्याये- नानभिधानात्, देवदत्तशब्देन च द्रव्यमात्राभिधानात् । अतश्च मिन्नार्थ निष्ठत्वात्तन्मतेऽपि न मुख्यं सामानाधिकरण्यम्, किंतु लाक्षणिकमेवेति न कश्चिद्विशेषः । न च लः कर्तरीति व्याकरणस्मृतिबलादाख्यातवाच्यः कर्तेति वाच्यम् । न हि वाच्यवाचकभावो व्याकरणस्मृत्यधीनः । तस्य न्यायसहितान्वयव्यतिरेकगम्यत्वात् । भवतु वा स्मृतिगम्यः । तथापि नेयं स्मृतिः कर्तुराख्यातवाच्यत्वे प्रमाणम्, किंतु कर्तु- रेकत्वे एकवचनात्मको लकारः द्वित्वे द्विवचनात्मकः बहुत्वे बहुव- चनात्मक इत्यस्मिन्नर्थे प्रमाणम्, ब्येकयोर्विवचनैकवचने बहुषु- बहुवचनमित्यनेनास्याः स्मृतेरेकवाक्यत्वात् । यत्तूक्तम् कर्तुरनभिधाने देवदत्तेन पचतीति तृतीयाप्रसङ्ग इति तन्न । तृतीया हि कर्तुः प्रतिपत्त्यर्थं तद्गतसंख्याप्रतिपत्त्यर्थं वा । तत्र कर्ता तु भावनाक्षेपादेव लभ्यते इति न तत्र तृतीयापेक्षा । तत्सङ्ख्या तु आख्यातेनैव प्रतीयते इति न तत्राप्यपेक्षा । यथाहुः- सङ्ख्यायां कारके वा धीविभक्त्या हि प्रवर्तते । उभयं चात्र तत्सिद्धं भावनातिङ्विभक्तितः ॥ इति । यत्र तु नाख्यातेन तद्गता सङ्ख्योच्यते तत्र भवत्येव तृतीया । यथा देवदत्तेन ओदनः पच्यते इति । तस्मान्न कर्तुरनभिधाने १ वी.
मीमांसान्यायप्रकाशः । १७ - , किंचिढूषणमित्यलमतिविस्तरेण । प्रकृतमनुसरामः । तत्सिद्धस्त्रि- विधः श्रुतिविनियोगः। सेयं श्रुतिर्लिङ्गादिभ्यः प्रबलं प्रमाणम् । लिङ्गादिषु हि न प्रत्यक्षो विनियोजकः शब्दोऽस्ति, किंतु कल्प्यः । यावच्च तैर्विनि- योजकः शब्दः कल्प्यते तावत्प्रत्यक्षया श्रुत्या विनियोगस्य कृतत्वा- तेषां कल्पकत्वशक्तिर्विहन्यते इति श्रुतेः प्रावल्यम् । अत एव ऐन्या गार्हपत्यमुपतिष्ठत इत्यत्र यावल्लिङ्गादैन्द्रया इन्द्रोपस्थानाङ्गत्वं कल्प्यते तावत् प्रत्यक्षया श्रुत्या गार्हपत्योपस्थाना- ङ्गत्वं क्रियत इति ऐन्द्री गार्हपत्योपस्थानाङ्गम् । सामर्थ्य लिङ्गम् । यदाहुः- 'सामर्थ्य सर्वभावानां लिङ्गमित्यभिधीयते' इति । तेनाङ्गत्वं, यथा 'बर्हिर्देवसदनं दामि' इत्यस्य लवनाङ्गत्वम् । स हि लवनं प्रकाशयितुं समर्थः । तच्च लिङ्ग द्विविधम् । सामान्य- संबन्धबोधकप्रमाणान्तरानपेक्षं तदपेक्षं च । तत्र यदन्तरेण यन्न संभवत्येव तस्य तदङ्गत्वं । तदनपेक्षं केवललिङ्गादेव । यथाऽर्थज्ञा- नस्य कर्मानुष्ठानाङ्गत्वम् । न हि अर्थज्ञानमन्तरेणानुष्टानं संभवति । यदन्तरेण यत्संभवति तस्य तदर्थत्वं तदपेक्षम् , यथोक्तस्य मन्त्रस्य लवनाङ्गत्वम् । लवनं हि मन्त्रं विनापि उपायान्तरेण स्मृत्वा कर्तुं शक्यम् । अतो न मत्रो लवनस्वरूपार्थः संभवति, किंत्वपूर्वसाधनीभूतलवनप्रकाशनार्थः । तत्त्वं च न सामर्थ्यमात्रा- दवगम्यते, लवनप्रकाशनमात्रे सामर्थ्यात् । अतोऽवश्यं प्रकरणादि सामान्यसंबन्धबोधकं स्वीकार्यम् । दर्शपूर्णमासप्रकरणे हि मन्त्रस्य पाठादेवमवगम्यते अनेन मन्त्रेण दर्शपूर्णमासापूर्वसंबन्धि किंचित् प्रकाश्यते इति । अन्यथा प्रकरणपाठवैयर्थ्यप्रसङ्गात् । किं तदपूर्व- संबन्धि प्रकाश्यमित्यपेक्षायां सामर्थ्याद्वर्हिर्लवनमित्यवगम्यते । तद्धि बर्हिःसंस्कारद्वारापूर्वसंबन्धीति मत्रस्य सामर्थ्यात्तदर्थत्वे सति नानर्थक्यं प्रसज्यते । तस्माद्वर्हिदेवसदनं दामीत्यस्य प्रकरणा- दर्शपूर्णमाससंबन्धितयावगतस्य सामर्थ्याल्लवनाङ्गत्वमिति सिद्धम् । पूषानुमत्रणमन्त्राणां तु यागानुमत्रणसमाख्यया यागसामान्य- संबन्धेऽवगते सामर्थ्यात्पूषयागसंबन्धोऽवगम्यते । १°नार्थ° २ द्या. ३ ङ्गत्वं. ४ तदङ्गत्वं. ५ युक्तं.
१८ आपदेवकृतः। समाख्यातस्तस्य ननु तेषां यावत्समाख्यया पूषयागेन सामन्यसंबन्धोऽवगम्य- ते, तावत् प्रकरणादर्शपूर्णमासाभ्यामेव सामान्यसंबन्धोऽवगतः, बलीयस्त्वात् । अत एव पौरोडाशिकमिति समाख्याते ब्राह्मणे आनातानामपि प्रयाजानां प्रकरणात्सान्नाय्यो- पांशुयागाङ्गत्वमपीत्युक्तम् । किंच यागानुमन्त्रणसमाख्ययापि न पूषयागेन सामान्यसंबन्धोऽवगम्यते किंतु यागमात्रेण, प्रकरणेन तु दर्शपूर्णमासाभ्यामेव विशेषसंबन्धोऽवगम्यते । अतः प्रकरणा- ज्झटिति तत्संबन्धस्यैवावगतत्वात्तदर्थत्वमेव तेषां युक्तम् । पूषेति- शब्दस्य पुष्णातीति व्युत्पत्त्या कथंचिदग्न्याद्यभिधायित्वात् । मैवम् । पूषानुमन्त्रणमन्त्रे हि श्रूययाणे एवमवगम्यते-पूषाभिधा- नसमर्थत्वायं मन्त्रस्तत्प्रकाशनार्थ इति लवनमत्र इव लवनप्रका- शनार्थः । न तत्र प्रकरणाद्यपेक्षा, येन तेषामुपजीव्यत्वेन प्राबल्यं स्यात् । प्रकरणात्तु दर्शपूर्णमासार्थत्वे तस्य वाक्यलिङ्गश्रुतिकल्पनेन विनियोजकत्वात् लिङ्गस्योपजीव्यत्वेन प्राबल्यम् । अतो लिङ्गात्पू- षप्रकाशनार्थत्वेऽवगते तन्मात्रप्रकाशनमनर्थकमित्यपूर्वसाधनपूषप्र- काशनार्थत्वं वक्तव्यम् । किं तदपूर्वमित्यपेक्षायां यागानुमत्रणसमाख्यानुगृहीताल्लिङ्गात्पू- षयागापूर्वसंबन्धिदेवताप्रकाशनार्थोऽयमित्यवगम्यते । अतो यद्यपि समाख्यातः प्रकरणं बलीयस्तथाऽपि तस्य लिङ्गेन बाधितत्वात् समाख्याया दुर्बलाया अपि प्रबललिङ्गाश्रितत्वेन प्राबल्यात्सैव सा- मान्यसंबन्धे प्रमाणं संभवति, दुर्बलस्यापि प्रबलाश्रितस्य प्राबल्यात्। अत एव श्रुत्यपेक्षया दुर्बलाया अपि स्मृतेराचमनरूपप्रबलपदा- श्रितत्वेन प्राबल्यात्पदार्थधर्मगुणभूतश्रौतक्रमत्यागेन वेदकरणा- नन्तरं क्षुते आचमनमेव कार्यमित्युक्तम् । यथाहुः- अत्यन्तबलवन्तोऽपि पौरजानपदा जनाः । दुर्बलैरपि बाध्यन्ते पुरुषैः पार्थिवाश्रितैः ॥ इति । यत्तु पूषेति शब्दः कथंचिदग्न्याद्यभिधायीति तन्न। तस्याद- न्तको हि स इत्यादिवाक्यशेषेण वैदिकप्रसिद्ध्या च अर्थविशेषे रूढ- त्वात् । रूढेश्चावयवालोचनसव्यपेक्षाद्योगावलीयस्त्वात् । अत एव वर्षासु रथकारोऽग्नीनादधीतेत्यत्र रथकारशब्देन सौधन्वनापरप- १ °मितीत्यु .
तेषां मुख्यत्वात्, मीमांसान्यायप्रकाशः। यो वर्णविशेष उच्यते, रूढेः प्राबल्यात्, न तु रथं करोतीति व्युत्पत्त्या द्विजातीयः, योगस्य दौर्बल्यादित्युक्तं षष्ठे । तस्माद्युक्तं समाख्यया सामान्यसंबन्धेऽवगते सामर्थ्यात्पूषया- गसंबन्धः पूषानुमत्रमन्त्राणामिति । यथाहुः यागानुमत्रणानीति समाख्या ऋतुयोजिका । तस्माच्छक्त्यनुरोधेन प्राप्तिस्तद्देवते ऋतौ ॥ इति । तत्सिद्धं प्रमाणान्तरसिद्धसामान्यसंबन्धस्य पदार्थस्य विनियो- जकं लिङ्गमिति । तत्र मन्त्रविनियोजकं लिङ्गं मुख्य एवार्थे विनियोजकं न गौणे । मुख्यार्थस्य प्रथममुपस्थितत्वेन तत्रैव विनियोगबुद्धौ पर्यवसन्नायां पुनगौणेऽर्थे विनियोगकल्पनायां गौरवप्रसङ्गात् । अत एव बहिर्दै- वसदनं दामीति मन्त्रः सामर्थ्यात्कुशलवनाङ्गम् , न उलपराजिलवनाङ्गमित्युक्तम् । तदिदं लिङ्गं वाक्यादिभ्यो बलवत् । तेषां हि न साक्षाद्विनियोज- कत्वं किंतु लिङ्गं श्रुतिं च कल्पयित्वा । न चासमर्थस्य श्रुतिं कल्पयित्वा विनियोगकल्पना संभवतीति सामर्थ्यस्यापि कल्प्यत्वेनो- पजीव्यत्वात् । अतस्तै-वत्सामर्थ्य कल्पयित्वा श्रुतिः कल्प्यते तावदेव तृप्तेन सामर्थ्येन श्रुति कल्पयित्वा विनियोगः क्रियते इति तस्य प्राबल्यम् । अत एव 'स्योनं ते सदनं कृणोमि घृतस्य धारया सुशेवं कल्प- यामि' इत्यस्य सदनाङ्गत्वं लिङ्गात्, न तु वाक्यात्सादनाङ्गत्वम्, तस्य दौर्बल्यादिति । समभिव्याहारो वाक्यम् । समभिव्याहारो नाम साध्यत्वादि- वाचकद्वितीयाद्यभावे वस्तुतः शेषशेषिणोः सहोच्चारणम् । यथा 'यस्य पर्णमयी जुहूर्भवति न स पाप श्लोक शृणोति' इति । अत्र हि न द्वितीयादिविभक्तिः श्रूयते, केवलं पर्णताजुह्वोः समभिव्या- हारमात्रम् । तस्मादेव च पर्णताया जुह्वङ्गत्वम् । न चानर्थक्यम्, जुहूशब्देनापूर्वलक्षणात् । तदयं वाक्यार्थ:- पर्णतया अवत्तहविर्धारणद्वारा यदपूर्वसाधनं तद्भावयेदिति । एवं च पर्णतया यदि जुहूः क्रियते तदैव तत्साध्यमपूर्व भवति नान्य- थेति गम्यते इति न पर्णताया वैयर्थ्यम् । अवत्तहविर्धा- रणद्वारेति चावश्यं वक्तव्यम् , अन्यथा सुवादिष्वपि पर्णतापचेः ।
२० आपदेवकृतः । .. , सा चेयं पर्णताऽनारभ्याधीता न सर्वक्रतुषु गच्छति, विकृतिषु चोदकेनापि प्राप्तिसंभवेन द्विरुक्तत्वापत्तेः । किंतु प्रकृतिषु । तदुक्तम्- 'प्रकृतौ वाऽद्विरुक्तत्वात्' इति । अत्र विकृतिर्यतोऽङ्गानि गृह्णाति सा प्रकृतिरिति न प्रकृतिशब्देन विवक्षितम्, गृहमेधीये पर्णताया अप्राप्तिप्रसङ्गात्, न हि गृहमेधी- यात्काचन विकृतिरङ्गानि गृह्णाति मानाभावात्, किंतु चोदकाद्यत्रा- ङ्गाप्राप्तिस्तत्कर्म प्रकृतिशब्देन विवक्षितम् । यथा दर्शपूर्णमासौ । तत्र हि न चोदकादङ्गप्राप्तिः, प्रकरणपठितैरेवाडैनैराकाङ्ग्यात् । गृहमेधीयादिष्वपि न चोदकादङ्गप्राप्तिः । क्लप्तोपकारैरेव आज्य- भागादिभिनॆराकाङ्क्षयात् । अतो यत्र चोदकाप्रवृत्तिस्तत्रानारभ्याधीतानां संनिवेशः । साप्तदश्यं त्वनारभ्याधीतमपि न प्रकृतौ गच्छति प्रकृतेः पाञ्चद- श्यावरोधात् । किंतु विकृतिषु गच्छति । तत्रापि न सर्वासु ग- च्छति, चोदकप्राप्तपाञ्चदश्यबाधप्रसङ्गात् । किंतु प्रत्यक्षश्रुतसाप्त- दश्यासु मित्रविन्दादिषु गच्छति । यथाहुः- एवं च प्रकृतावेतत्पाञ्चदश्यं प्रतिष्ठितम् । विकृतौ च न यत्रास्ति साप्तदश्यपुनःश्रुतिः ॥ इति न च वाक्यवैयर्थ्यम् । अनारभ्याधीतस्यैव साप्तदश्यस्य मित्र- विन्दादिप्रकरणस्थेन वाक्येनोपसंहारात् । उपसंहारो नाम सामा- न्यप्राप्तस्य विशेषे नियमनम् । यथाहुः- सामान्यविधिरस्पष्टः संह्रियेत विशेषतः । इति तत्रानारभ्यविधिः सामान्यविधिः, मित्रविन्दादिप्रकरणस्थस्तु विशेषविधिरित्यास्तां तावत् । प्रकृतमनुसरामः । तत्सिद्धं वाक्याद- गत्वम् । तदिदं वाक्यं प्रकरणादलीयः।प्रकरणं हि न साक्षाद्विनियोजकम्, तद्ध्याकाङ्क्षारूपम् । न चाकाङ्क्षा स्वयं प्रमाणं किंतु साकाचं वाक्यं दृष्ट्वा भवत्येतादृशी मतिः-नूनमिदं वाक्यं केनचिद्वाक्ये- नैकवाक्यभूतमिति । ततश्चाकाङ्क्षारूपं प्रकरणं वाक्यस्य वाक्या- न्तरैकवाक्यत्वे प्रमाणम् । एवं च यावत्प्रकरणं वाक्यं कल्पयित्वा १ साखरूपं.
मीमांसान्यायप्रकाशः। २१ , विनियोजकं भवति तावद्वाक्यं लिङ्गश्रुती कल्पयित्वा विनियोजक भवतीति प्रकरणाद्वाक्यं बलीयः । अत एवेन्द्राग्नी इदं हविरजुषेतामवीवृधेतां महो ज्यायोऽक्राता- मित्यनेन्द्राग्नीपदस्य लिङ्गादर्शाङ्गत्वे सिद्धे इदं हविरित्यादेरपि तदे- कवाक्यत्वादर्शाङ्गत्वम् , न तु प्रकरणादर्शपूर्णमासाङ्गत्वम् , प्रकर- णाद्वाक्यस्य बलीयस्त्वादिति ॥ उभयाकाङ्क्षा प्रकरणम् । यथा प्रयाजादिषु । समिधो यजती- त्यत्र हि इष्टविशेषस्यानिर्देशात्समिद्यागेन भावयेत् किमित्यस्त्युप- कार्याकाङ्क्षा । दर्शपूर्णमासवाक्येऽपि दर्शपूर्णमासाभ्यां स्वर्ग भाव- येत्कथमित्यस्त्युपकारकाकाङ्क्षा । अत उभयाकाझ्या प्रयाजादीनां दर्शपूर्णमासाङ्गत्वं सिध्यति । ननु यदि प्रयाजादिवाक्ये इष्टविशेषो न श्रूयते तर्हि विश्वजि- न्यायेन स्वर्गः फलं कल्प्यताम् । विश्वजिधिकरणे हि विश्व- जिता यजेतेत्यत्र फलस्याश्रवणात् , फलमन्तरेण च विधिश्रुतेरनुपप- त्तेरवश्यं फले कल्पयितव्ये सर्वाभिलषितत्वेन स्वर्गः फलमित्युक्तम् । तदुक्तम्- 'स स्वर्गः स्यात्सर्वान्प्रत्यविशिष्टत्वात्' इति । रात्रिसत्रन्यायेन वार्थवादिकं फलं कल्प्यताम्। रात्रिसत्राधि- करणे हि प्रतितिष्ठन्ति ह वै य एता रात्रीरुपयन्तीत्यत्र विध्युद्देशे फलाश्रवणात्फलमन्तरेण च विधिश्रुतेरनुपपत्तेरवश्यं फले कल्पयि- तव्ये आर्थवादिकं प्रतिष्ठाख्यं फलमित्युक्तम् । विश्वजिदधिकरण- न्यायेनानुपस्थितस्वर्गकल्पने तस्य प्रकृतसंबन्धकल्पने गौरवादर्थ- वादोपस्थितस्यैव प्रकृतफलत्वकल्पने लाघवात् । तदुक्तम्- 'फलमात्रेयो निर्देशादश्रुतौ ह्यनुमानं स्यात्' इति । तस्माद्विश्वजिन्यायेन रात्रिसत्रन्यायेन वा स्वतन्त्रफलार्थत्वे संभवति किमिति दर्शपूर्णमासाङ्गत्वं स्वीक्रियते इति । मैवम् । स्वतंत्रफलार्थत्वेऽन्तराकाङ्क्षया संबन्धः स्यात् । न ह्यत्र फलस्य साधनाकाङ्क्षाऽस्ति । श्रूयमाणं हि फलं साधनमाकाङ्क्षति न चात्र तच्छूयते । एवं च फलस्याकाङ्क्षाभावात् केवलं किं भाव- येदिति प्रयाजानां भाव्याकावयैव स्वतन्त्रफलार्थत्वं स्यात् । दर्शपू- र्णमासार्थत्वे तूभयाकाङ्क्षा प्रमाणम् । प्रयाजानां भाव्याकाङ्क्षाया २२ आपदेवकृतः। इतरत्र च कथंभावाकाङ्क्षायाः सत्त्वात् । अन्यतराकाङ्क्षातश्चोभया- काङ्क्षा बलीयसीति वक्ष्यते । ततश्च दर्शपूर्णमासार्थत्वमेव युक्तं न खतन्त्रफलार्थत्वमिति । तदुक्तम्- 'द्रव्यसंस्कारकर्मसु परार्थत्वात्फलश्रुतिरर्थवादः स्यात्' इति । अत्र द्रव्ये फलश्रुतिर्यस्य पर्णमयी जुहूर्भवति न स पाप, श्लोक शृणोतीत्येवमाद्या । संस्कारे फलश्रुतिर्यदते चक्षुरेव भ्रातृव्यस्य वृत्ते इत्येवमाद्या । कर्मणि फलश्रुतिर्वर्म वा एतद्यज्ञस्य क्रियते यत्प्रयाजानुयाजा इज्यन्ते इत्याद्या कर्मपदं चारादुपकारककर्मपरं द्रष्टव्यम् , संस्कारकर्मणः पृथक्संकीर्तनादित्यास्तां तावत् । तदिदं प्रकरणं क्रियाया एव विनियोजकम् , न द्रव्यगुणयोः। त- योस्तु क्रियायोगाद्विनियोजकम् । कुत इति चेत् । शृणु।यजेत स्वर्ग- काम इत्यत्राख्यातांशेना भावनाभिधीयते-भावयेदिति । सा चां- शत्रयमपेक्षते-किं भावयेत्केन भावयेत्कथं भावयेदिति । तत्र भाव्या- काङ्क्षायां षष्ठाद्यन्यायेन स्वर्गो भाव्यतयान्वेति-स्वर्ग भावयेदिति । करणाकाङ्क्षायां समानपदोपात्तो यागो भावार्थाधिकरणन्यायेन करणतयान्वेति यागेन स्वर्ग भावयेदिति । ततः कथमिति कथं- भावाकाङ्क्षायां यत्संनिधौ पठितमश्रूयमाणफलकं च क्रियाजातं तदेवोपकार्याकाङ्क्षयेतिकर्तव्यतात्वेनान्वयमनुभवितुं योग्यं क्रियाया एव लोके कथंभावाकाङ्क्षायामन्वयदर्शनात् । नहि कुठारेण छि- न्यात्कथमित्याकाङ्क्षायां हस्त इति केवलमुच्चार्यमाणोऽपि हस्तोऽन्वयं प्राप्नोति । किं तर्हि हस्तेनोद्यम्य निपायेति उच्चार्यमाणे उद्यमननि- पातने एव । हस्तोऽपि तहारेणैवान्वयं प्राप्नोतीति सार्वजनीन- मेतत् । किं च कथंभावाकाङ्क्षा नाम करणगतप्रकाराकाङ्क्षा । कथमोः प्रकारवाचित्वात् । सामान्यस्य भेदको विशेषः प्रकारः । सामान्य च क्रियारूपमेवाख्यातेनोच्यते । यजेत स्वर्गकाम इत्यस्य ह्ययमर्थः- यागेन तथा कर्तव्यं यथा स्वर्गों भवतीति । क्रियासामान्यस्य च विशेषः क्रियैव भवति । न हि ब्राह्मणविशेषः परिव्राजकादिरब्राह्म- णो भवति । एवं च करणगतक्रियाविशेषाकाङ्क्षापरनामधेयकथं- भावाकाङ्क्षायां क्रियैवान्वेतीति युक्तम् । स च करणगतः क्रियाविशेषोऽन्वाधानादिब्राह्मणतर्पणान्त- क्रियारूप एवेति युक्तं तस्य प्रकरणेन ग्रहणम् । तस्य च करणगतत्वं मीमांसान्यायप्रकाशः । २३ तदुपकारकत्वमेव, तेन विना यागेनापूर्वाजननात् । न ह्युद्यमननि- पातनव्यतिरेकेण कुठारेण द्वैधीभावो जन्यते । तत्सिद्धं कथंभा- वाकाङ्क्षायां क्रियैवान्वेतीति । अत एव द्रव्यदेवतयोर्यागसंपादन- द्वारान्वयः सांप्रदायिकैरुक्तः । विकृतौ च कथंभावाकाङ्क्षायामुपकारसंपादनमतिदिश्यत इत्यु- क्तम् । यदि च कथंभावाकाङ्क्षायां सिद्धं वस्त्वन्वययोग्यं स्यात् तदा संपादनपर्यन्तं धावनं ग्रन्थकृतामनर्थकं स्यात् । अतश्च क्रियाया एव इतिकर्तव्यतात्वम्, कथंभावाकाङ्क्षागृहीतस्येतिकर्तव्यतात्वात्, इतिशब्दस्य च प्रकारवाचित्वात् । 'कर्तव्यस्य' 'इति' प्रकार 'इति- कर्तव्यता' । प्रकारश्च सामान्यस्य भेदको विशेष इत्युक्तम् । कर्त- व्यस्य च विशेष: कर्तव्य एव भवतीति न सिद्धस्य वस्तुन इति- कर्तव्यतात्वम्, किंतु क्रियाया एव । सिद्धस्य तु द्रव्यादेः केवलम- ङ्गत्वम् । तदपि श्रुत्यादिना नतु प्रकरणात् । यथाहुः- नावान्तरक्रियायोगाते वाक्योपकल्पितात् । गुणद्रव्ये कथंभावैर्गृहन्ति प्रकृताः क्रियाः ॥ इति । अत एव बहिर्देवसदनं दामीत्यादिमत्राणां लिङ्गादङ्गत्वम्, न तु प्रकरणादित्युक्तमर्थवादाधिकरणपूर्वपक्षसमाप्तौ राणके* । क्वचि- द्रव्यस्येतिकर्तव्यतात्वाभिधानमङ्गत्वाभिप्रायं द्रष्टव्यम् । बहुग्रन्थ- स्वरसादुक्तयुक्तेश्चेति । तत्सिद्धं प्रकरणं क्रियाया एव विनियोज- - कमिति । तच्च प्रकरणं द्विविधम् । महाप्रकरणमवान्तरप्रकरणं चेति । तत्र फलभावनायाः प्रकरणं महाप्रकरणम् । तच्च प्रयाजादीनां ग्राहकम् । तच्च प्रकृतावेव । यत्र समग्राङ्गोपदेशः सा प्रकृतिः यथा दर्शपूर्णमासादिः । तत्र चोभयाकाङ्क्षारूपं प्रकरणं संभवति, आका- कानुपरमात् । विकृतौ तु न प्रकरणं संभवति । यत्र न समग्राङ्गोपदेशः सा विकृतिः, यथा सौर्यादिः तत्र च यान्यपूर्वाण्यङ्गानि पठ्यन्ते उपहोमादीनि तेषां न प्रकरणं विनियोजकम् । तत्र यद्यपि तेषां * लिखितपुस्तके 'राणके' इत्यस्य परतो वाक्यसमाप्तिद्योतकं रेखाकरणं कृतम् । मुद्रितपुस्तकयोस्तु ततःप्रागेव 'प्रकरणादित्युक्तम्' इत्यतः परम् । तेनोपष्ट- म्भकत्वाक्षेप्यत्वयोर्व्यत्यासः फलितः । तत्त्वनिर्णयश्चात्र ऋते राणकदर्शनाद्दुष्करः।
२४ आपदेवकृतः । किं भावयेदित्यस्त्याकाङ्क्षा तथापि प्रधानस्य न कथंभावाकाङ्क्षास्ति प्राकृतैरेवाडैनिराकाङ्कत्वात् । न च प्राकृतानामङ्गानामत्रापठितत्वे- नाप्रत्यक्षत्वाद्वैकृतानां तु पठितत्वेन प्रत्यक्षत्वात्तैरेवाकाङ्कोपशम इति वाच्यम् । तेषां पठितत्वेऽपि अक्लप्तोपकारत्वेन झटित्याकाङ्कोपशम- नेऽसामर्थ्यात्, प्राकृतानां तु क्लप्तोपकारत्वेन तच्छमने सामर्थ्यात् । न चात्र तेषामुपस्थापकाभावः, उपमितिलक्षणप्रमाणेन तेषामुपस्थित- त्वात् । सौर्यवाक्ये हि दृष्टे औषधद्रव्यत्वेन एकदैवत्यत्वेन सादृश्येन आग्नेयवाक्यमुपमीयते गवयदर्शनागोरुपमानवत् । तस्मिंश्चोपमिते तेन तदर्थो ज्ञायते । सा त्र्यंशा भावना । तत्र सौर्यवाक्ये भाव- नायाः भाव्यकरणयोः सत्त्वादितिकर्तव्यताकाङ्क्षायामुपकारपृष्ठभा- वेनाग्नेयेतिकर्तव्यताऽतिदिश्यते,-सौर्ययागेन ब्रह्मवर्चसं भावयेदा- नेयवदुपकृत्येति । तथा च तयैवाकाङ्कोपशमान्न विकृतेः प्रकरण- मस्ति । अन्यतराकाङ्क्षारूपस्थानादेव चापूर्वाङ्गग्रहणम् । न च प्राकृताङ्गग्रहणमेव विकृतौ प्रकरणात् किं न स्यादिति वाच्यम् । तेषामपि प्रकृत्युपकारकतयाऽऽकाकोपशमात् । ननु प्राकृतानामङ्गानामाकाङ्क्षाभावे तेषां विकृतौ संबन्धः केवलं स्थानात् स्यात्, अपूर्वाणां त्वाकाङ्क्षासत्त्वाद्विकृतेरप्याकाङ्क्षावत्त्वात्तेषां तत्सं- बन्धः प्रकरणात्स्यात्, प्रकरणं च स्थानात् झटिति विनियोजक- मित्यपूर्वाणामेव प्रथमं संबधः स्यात्, न प्राकृतानामिति । अत्रोच्यते । सत्यं प्रकरणं झटिति विनियोजकम् । तथापि प्रमाणबलाबलात्प्रमेयबलाबलस्य ज्यायस्त्वादुक्तविधयोपस्थितानां प्राकृतानामेव संबन्धो युक्तः स्यात्, क्लप्तोपकारत्वात्, न वैकृतानां कल्प्योपकारत्वात् । विकृतेश्चोपकारकपदार्थाकाङ्क्षा न पदार्थमात्रा- णामिति युक्तः प्रथमं प्राकृताङ्गसंबन्धः । ततश्च न विकृतौ प्रकरणं- विनियोजकम् । यत्तु विकृतौ प्राकृताङ्गानुवादेन विधीयते यथा-'औदुम्बरो यूपो भवति' इति यूपानुवादेन औदुबरत्वम्-तत्प्रकरणाद्गृह्यते । ननु न तत्प्रकरणाद्गृह्यते अक्रियात्वात् , क्रियाया एव प्रकरण- ग्राह्यत्वादिति चेत्-सत्यम् । तथापि तु तावद्विधीयमानस्यौदु- म्बरत्वस्यास्त्येवाकाङ्क्षा-किं भावयेदिति । न च यूपानुवादेन तस्य विधीयमानत्वाधूपस्य चादृष्टरूपत्व पत्वात्तेनैवौदुम्बरत्वस्य नै- राकाङ्क्षयम्, आहवनीयेनेवाधानस्येति वाच्यम् ।
मीमांसान्यायप्रकाशः। २५ यूपस्य केवलादृष्टरूपत्वाभावात् । तस्य हि तद्रूपत्वे खादिरत्वा- दिकं केवलादृष्टार्थ स्यात् । न च तत्संभवति । तथा सति खदि- राभावे प्रतिनिधित्वेन कदरोपादानं न स्यात् , अदृष्टार्थस्य प्रतिनि- ध्यभावात् , नहि खदिरजन्यमदृष्टं कदरेण क्रियत इत्यत्र प्रमा- णमस्ति । अत एव नादृष्टार्थानां प्रतिनिधिः । तदुक्तम्- 'न देवताग्निशब्दक्रियमन्यार्थत्वात्' इति । अन्यार्थत्वादिति अदृष्टार्थत्वात् । प्रतिनिधित्वेन चोपादानं कदरादेरुक्तं ग्रन्थेषु । तस्मान्न यूपस्य केवलादृष्टरूपत्वम् , अपि तु दृष्टादृष्टसंस्कारगणो यूप इति सांप्रदायिकाः । एवं चौदुम्बरत्वस्य न यूपमात्रेण नैराकाङ्क्षयम् , दृष्टसंस्कारस्य प्रकारान्तरेणापि संभ- वात् । अतश्चास्ति औदुम्बरत्वस्याकाङ्क्षा । विकृतेरप्यस्ति कथं- भावाकाङ्क्षा । सा च तदा शाम्यति यदोपकारास्तत्पृष्ठभावेन च पदार्था अन्वीयन्ते । न तूपकारमात्रान्वयेन शाम्यति । अतश्च यथेन्द्रियभावनायाः करणाकाङ्क्षा दध्नः करणत्वेनान्वये जाते सिद्धस्य करणत्वानुपपत्त्या होमस्याश्रयत्वेनान्वयं यावदनुवर्तते न तु ध्यन्वयमात्रेण निवर्तते, आश्रयत्वेन च गृह्यमाणो होमः कर- णाकाङ्क्षयैव गृह्यत इत्युच्यते, न त्वाश्रयाकाङ्क्षा नाम चतुर्थ्यस्ति । एवं विकृतेः कथंभावाकाङ्क्षा नोपकारान्वयमात्रेण निवर्तते, उपकारपृष्ठभावेन यावत्पदार्थान्वयमनुवर्तते । अतश्वोपकारपृष्ठभा- वेन गृह्यमाणाः पदार्थाः कथंभावाकाङ्यैव गृह्यन्ते । तत्र प्राकृताः पदार्थाः कथंभावाकाङ्ख्या गृह्यमाणा अपि न प्रकरणग्राह्याः प्रकृत्युपकारकतया तेषामाकाङ्क्षाभावात् । औदुम्बरत्वादयस्तु अ- न्यानुपकारकतया साकाङ्क्षाः पशुनियोजनयूपपृष्ठभावेन यावत्खा- दिरत्वमायाति तावद्विधीयन्ते इति युक्तं तेषां प्रकरणाद्रहणमु- भयाकाङ्क्षासत्त्वात् । यदि हि यूपपृष्ठभावेन खादिरत्वं विहितं स्यात्ततो विकृतेराकाङ्क्षाभावादौदुम्बरत्वं न प्रकरणग्राह्यं स्यात् । न चैतदस्ति चोदकस्य खादिरत्वाविषयत्वात् । ननु यदि यावत्खादिरत्वमायाति तावदेवौदुम्बरत्वं विधीयते तदा तेन खादिरत्वबाधोऽप्राप्तबाधः स्यात् , तार्तीयबाधवत् । तथा हि बाधो द्विविधः-अप्राप्तबाधः प्राप्तबाधश्चेति । तत्र ताीयो बा- धोऽप्राप्तबाधः । तत्र हि यावदुर्बलेन विनियोगः कर्तुमारभ्यते ३ मी. न्या.
२६ आपदेवकृतः। तावदेव प्रबलप्रमाणेन विनियोगः क्रियते इति तद्वोधितेने- तरबाधोऽप्राप्तबाधः, दुर्बलप्रमाणस्याप्रवृत्तत्वात् । प्राकृतस्य त्वङ्गस्य विकृतौ चोदकप्राप्तस्य प्रत्याम्नानादर्थलोपात्प्र- तिषेधाद्वा यो बाधः स प्राप्तबाधः। यथा प्राकृतानां कुशानां प्र- तिकूलशराम्नानात् , यथा वाऽवघातस्य कृष्णलेषु वैतुष्यरूपप्रयो- जनलोपात् , यथा वा पित्र्येष्टौ होतृवरणस्य न होतारं वृणीत इति प्रतिषेधात् । औदुम्बरत्वेन च खादिरत्वबाधः प्राप्तबाध एव व- क्तव्यः, शरकुशन्यायेन । चोदकस्य च खादिरत्वाविषयत्वे प्राप्त्यभा- वात्तदनुपपत्तिः स्यादिति । उच्यते । तार्तीयप्रमाणविनियुक्तेनेतरस्य बाधनं तावदप्राप्तबाध- नम् । प्रकरणं च तार्तीयम् । तेन तद्विनियुक्तौदुम्बरत्वेनेतरस्य बाधनमप्राप्तबाध एव । नहि वैकृतेन प्राकृतबाधः प्राप्तबाध एवेति कुलधर्मः। वस्तुतस्तु प्राप्तबाध एवायम् । न च खादिरत्वस्य चोदका- विषयत्वेन प्राप्त्यभावात् कथं तद्वाधः प्राप्तबाधः, तद्विषयत्वे वा तेनैव नैराकाङ्क्षयान्नौदुम्बरत्वे प्रकरणं विनियोजकं स्यादिति वाच्यम् । नहि प्राप्तबाधस्थले चोदकेन पदार्थाः प्राप्यन्ते । तथा सति शास्त्रप्राप्तत्वेन बाधो न स्यात् । किं तर्हि तानेव पदार्थान्व- स्तुतः प्रापयति ये विकृतौ न बाध्यन्ते । तेच पदार्थाः प्रकृतिवच्छ- ब्देन प्राप्यन्ते इति भवति पुरुषस्य भ्रान्तिः–यथा प्राकृतौ कृतं तथा विकृतौ कर्तव्यमिति सर्वे पदार्थाः प्राकृताः कर्तव्या इति । अतश्च भ्रान्तिप्राप्ताः खादिरत्वादयः शास्त्रप्रतिपन्नैरौदुम्बरत्वादि- भिर्बाध्यन्ते इति भवति तद्वाधः प्राप्तबाधः । न च भ्रान्तिप्रति- पन्नेन वैधी आकाङ्क्षा निवर्तयितुं शक्यते । तस्माद्युक्तमुक्तमुभया- कावारूपप्रकरणसंभवाद्विकृतौ प्राकृताङ्गानुवादेन विधीयमानाना- मौदुम्बरत्वादीनां प्रकरणं विनियोजकमिति । एवं पृषदाज्येनानुयाजान्यजतीति प्राकृतानुयाजानुवादेन निधी- यमानं पृषदाज्यमपि प्रकरणाद्विकृत्यङ्गमिति केचिदाचार्याः । अस्मत्तातचरणास्त्वेवमाहुः । पृषदाज्यं हि अनुयाजानुवादेन वि- धीयते । तत्स्वरूपे चानर्थक्यप्राप्तौ तैर्न विकृत्यपूर्व लक्षयितुं युक्तं १ अन्ये त्वे.
मीमांसान्यायप्रकाशः। २७ विप्रकर्षात् , किंतु दीक्षणीयावाङ्गियमन्यायेन स्वापूर्वमेव लक्षयितुं युक्तं सन्निकर्षात् । अत एवोत्पवनादीनां प्रोक्षणाद्यपूर्वप्रयुक्तत्वमुक्तं नवमे । अतश्च विधीयमानस्य पृषदाज्यस्य वाक्यप्रतिपन्नेनानुया- जापूर्वेणैव नैराकाङ्क्षयान्न प्रकरणाद्विकृत्यपूर्वार्थत्वमिति । वयं त्वङ्गीकृत्यापि विकृत्यर्थत्वं ब्रूमः। भवतु वा विकृत्यर्थत्वं पृषदाज्यस्य । तथापि न प्रकरणं विनियोजकं भवति । यूपपृष्ठ- भावेन हि यावत्खादिरत्वमायाति तावदौदुम्बरत्वविधानादुभयाका- वासंभवाद्युक्तः प्रकरणविनियोगः । एवं यावदनुयाजपृष्ठभावेन आज्यमायाति तावदेव यदि पृषदाज्यं विधीयते तदोभयाकाङ्क्षासं- भवात्प्रकरणविनियोगो भवेत् । न त्वेतदस्ति । नहि पृषदाज्यं नाम द्रव्यान्तरं किंचिदस्ति यदाज्यस्थानापन्नं विधीयेत, औदुम्ब- रत्वमिव खादिरत्वस्थानापन्नम् , पृषच्छब्दस्य पृषन्मणिरित्यादौ चि- त्रतावाचित्वेन दृष्टत्वात्, पृषदाज्यशब्दस्य चित्राज्यवाचित्वात् । अत एव निगमेषु आज्यपानियेतद्वक्तव्यं न तु पृषदाज्यपौनि- त्युक्तम् । न च यावत्प्राकृतमाज्यमायाति तावदेव चित्राज्यविधानात् प्रकरणविनियोगः संभवतीति वाच्यम् । नहि पृषदाज्यशब्देन चित्रतागुणविशिष्टमाज्यं विधीयते । विशिष्टविधाने गौरवापत्तेः, किंतु प्राकृताज्यानुवादेन चित्रतागुणमात्रं विधीयते, लोहितोष्णीषा ऋत्विजः प्रचरन्तीतिवत् । तदुक्तं दशमचतुर्थचरणान्ते- 'न वा गुणशास्त्रत्वात्' इति । प्राकृतस्यैवाज्यस्य चित्रतागुणमात्रविधानमिति च शास्त्रदी- पिका । एवं च विकृतेः प्राकृतेनाज्येन क्लप्तोपकारैश्चानुयाजैनैरा- काङ्ग्थे पश्चाद्विधीयमानस्य चित्रतागुणस्योपहोमाद्यपूर्वाङ्गवन्न प्रकरणं विनियोजक संभवति । यदि हि प्राकृतस्य कस्यचिद्गुणस्य स्थाने चित्रता गुणो विधीयेत तदा स गुणो यावदायाति तावद्विकृते राकाङ्ख्याभा- वात् , चित्रतागुणस्य च तावदेव विधानादुभयाकाङ्क्षासंभवात् प्रकरणविनियोगो भवेत् । न च तादृशः प्राकृतो गुणोऽस्ति । आ- १ क्तमविप्रक. २-३ पानामि . - २८ आपदेवकृतः । ज्यस्यानुयाजानां च चित्रतागुणात्यागेव विधानात् , तस्य तत्स्था- नापन्नत्वाभावात्। न च आज्यपृष्ठभावेन यावत्प्राकृतं निर्गुणत्वमायाति तावदेवास्य विधानात्प्रकरणसंभव इति वाच्यम् । निर्गुणत्वस्याविहितत्वेन पाणिकण्डूयनवदनङ्गत्वाद्विकृतेस्तदाकाङ्क्षाभावात् । तथा हि ज्योति- ष्टोमे दक्षिणादानसमये विहितकृष्णविषाणत्यागस्य द्विरात्रादिषु चोदकप्राप्तस्य प्रथमेऽह्नि अननुष्ठानम् । उत्तरेऽह्नि दक्षिणादानपूर्व- कालीनैः पदार्थैः कृष्णविषाणकण्डूयनस्य शास्त्रविहितत्वेनापेक्षि- तत्वात् । ज्योतिऽष्टोमे च दक्षिणादानोत्तरकालं पाणिकण्डूयनं दृष्ट- मपि द्विरात्रादिषु प्रथमेऽह्नि अनुष्ठीयमानैर्दक्षिणादानोत्तरकालीनैः पदार्थापेक्ष्यते तस्य प्रकृतावर्थसिद्धत्वेनाशास्त्रीयत्वादिति । एवं निर्गुणत्वस्याविहितत्वेन प्रेकृतेस्तदपेक्षा नास्तीति । तस्मादु- भयाकाङ्क्षाया असंभवात्पृषदाज्यस्य न प्रकरणविनियोगः संभवतीत्य- लमतिविस्तरेण । तत्सिद्धं महाप्रकरणं प्रकृतावेव विनियोजकम् । विकृतौ तु यत्प्राकृतदृष्टार्थाङ्गानुवादेन विधीयते तस्य विनियोजकं न केवलं विधीयमानस्यापूर्वाङ्गस्येति । यत्तु विकृतावपि प्राकृतधर्मानुवादेन विधीयमानयोधर्मयोरन्तरालेऽपूर्वमप्यङ्गं केवलं पठ्यते तदपि प्रक- रणेन विनियुज्यते । यद्यपि विकृतेः कथंभावाकाङ्क्षा प्राकृतैरेवाङ्गैः शाम्यति तथापि यत्र प्राकृताङ्गानुवादेन धर्मविधानं तत्र तद्विधानं यावद्भवति तावत्कथंभावाकाङ्क्षा न निवर्तते । अतो विकृतेराकाङ्क्षावैत्त्वाद- न्तराले विहितस्याप्यपूर्वाङ्गस्य भाव्याकाङ्क्षासत्त्वाद्युक्तं तस्य प्रक- रणाद्विकृत्यर्थत्वम् । यथामनहोमेषु । ते हि प्राकृताङ्गानुवादेन विधीयमानयोधर्मयोरन्तराले विधीयन्त इत्युक्तं तत्ररत्नादावि- त्यास्तां तावत् । फलभावनाया अन्तराले यदङ्गभावनायाः प्रकरणं तद्वा- न्तरप्रकरणम् । तच्चाभिक्रमणादीनां प्रयाजादिषु विनियोजकम् । तच्च संदंशेन ज्ञायते तदभावेऽविशेषात्सर्वेषां फलभावनाकथं- भावेन ग्रहणात् । १ यथा. २ विकृतेस्त'. ३ यावन निवर्तते । ४°स मीमांसान्यायप्रकाशः । २९ - संदंशो नाम एकाङ्गानुवादेन विधीयमानयोरङ्गयोरन्तराले वि- हितत्वम् , यथाभिक्रमणम् । तद्धि 'समानयते [जुह्वाम् ] उपभृतः'। इत्यादिना प्रयाजानुवादेन किंचिदङ्गं विधाय विधीयते । पश्चादपि प्रयाजानुवादेन यो वै प्रयाजानां मिथुनं वेदेत्यादिना किंचिदङ्ग विधीयते । अतः प्रयाजाङ्गमध्ये पठितमभिक्रमणं तदङ्गं भवति, तत्कथंभावाकाङ्क्षाया अशान्तेः । यथाहु:- परप्रकरणस्थानामङ्गे श्रुत्यादिभित्रिभिः । ज्ञाते पुनश्च तैरेव संदंशेन तदिष्यते ॥ इति ॥ न चाङ्गभावनायाः कथंभावाकाङ्क्षाभावात् कथं प्रयाजभावना- कथंभावेनाभिक्रमणं गृह्यते इति वाच्यम् । भावनासाम्येन सर्वत्र कथंभावाकाङ्क्षायाः सत्त्वात् । प्रयाजैरपूर्व कृत्वा यागोपकारं भाव- येदित्युक्ते यो नाम न जानाति प्रयाजैरपूर्व कर्तु तस्यास्त्येव कथं- भावाकाङ्क्षा-कथमेभिरपूर्व कर्तव्यमिति । सा च संदंशपतितैर्वा- चनिकैः स्मातैश्चाचमनादिभिः शाम्यति । तदभावे च स्वरूपनिष्पाद- नेन दर्विहोमन्यायेन निवर्तते । दर्विहोमेषु हि स्वरूपनिष्पादनाति- रिक्तस्तथाव्यापारो न श्रूयते नाप्यतिदेशेन तत्प्राप्तिः। यागीयानां धर्माणां तावन्नातिदेशो यागत्वेन होमत्वेन वैलक्षण्यात् । नापि होमीयानां, कस्य होमस्य धर्मः कस्मिन् होमे प्रवर्तत इति विशे- षनिर्णये प्रमाणाभावात् । अतो धर्मप्राप्त्यभावादविहोमैरिष्टं भाव- येत्कथमित्युत्पन्नाप्याकाङ्क्षा स्वरूपनिष्पादनेनैव शाम्यति । एवं येष्व- ङ्गेषु संदंशाद्यभावस्तत्रोत्पन्नाप्याकाङ्क्षा तेनैव निवर्तते, न तु सर्वथा तभावः । तस्माद्युक्तमुक्तमभिक्रमणं प्रयाजाङ्गमिति । तच्चेदमवान्तरप्रकरणं महाप्रकरणादलीयः, संदंशपतितानां ध- र्माणां कैमर्थ्याकाङ्क्षायां प्रधानापूर्वात्प्रयाजाद्यपूर्वस्य झटित्युपस्थिते- रिति । प्रकृतमनुसरामः । तत्सिद्धमुभयविधस्य प्रकरणस्य विनि- योजकत्वम् । तदिदं स्थानादिप्रमाणाद्वलवत् । यत्र हि स्थानादङ्गत्वं तत्रा- न्यतरस्य प्रकारान्तरेण निराकाङ्क्षत्वम् । न च साकाझं निराका- लेण संबद्धं योग्यं विनाकाङ्क्षोत्थापनेन । अतश्चान्यतराकाङ्क्षया यावदुभयाकाङ्क्षारूपप्रकरणकल्पनद्वारा वाक्यादि कल्पयितुमार- भ्यते झटिति तावत्प्रकरणेन वाक्यादिकं कल्पयित्वा विनियोगः क्रियत इति स्थानात्प्रकरणस्य बलीयस्त्वम् । , ३.० आपदेवकृतः । अत एव विदेवनादयो धर्मा अभिषेचनीयसन्निधौ पठिता अपि नाभिषेचनीयस्याङ्गम् । तेषां तदङ्गत्वं भवत् स्थानाद्भवेत् , न तु प्रकरणादभिषेचनीयस्याव्यक्तचोदनाचोदितत्वेन ज्योतिष्टोमवि- कारत्वात्प्राकृतैरेव धर्मेंनिराकाङ्क्षत्वात् । किंतु प्रकरणाद्राजसू- याङ्गम्। ननु 'राजा राजसूयेन स्वाराज्यकामो यजेत' इत्यत्र राजसूयशब्द- स्तावन्नामधेयत्वादाख्यातपरतत्रो यत्राख्यातं तत्रैव प्रवर्तते । न च दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेत्यत्र यथा दर्शपूर्णमासपदं नाम- धेयमपि नाख्यातपरतन्त्रम् । तत्र हि यजेतेत्याख्यातमविशेषात्स- र्वानेव प्रकृतानाग्नेयादीन्प्रयाजादींश्चाभिधातुं समर्थ दर्शपूर्णमासपदं त्वाग्नेयादीनेव वदति न सर्वान् । अतश्च न तदाख्यातपरतत्रम् । तथा राजसूयपदमपि किं न स्यादिति वाच्यम् । प्रसिद्धेन हि पदे- नाप्रसिद्धं निर्णीयते । यथाहुः- पद्मज्ञातसंदिग्धं प्रसिद्धैरपृथकूश्रुति । निर्णीयते निरूढं तु न स्वार्थादपनीयते ॥ इति दर्शपूर्णमासपदं च कालनिमित्तम् , तद्योगश्चाग्नेयादिषूत्पत्तिवा- क्यैरवगतः । अतस्तद्वाचित्वेन दर्शपूर्णमासपदं प्रसिद्धम् । न च आग्नेयादीनां बहुत्वाद्विवचनान्तत्वमस्यानुपपन्नमिति वाच्यम् । विद्व- द्वाक्यद्वयसिद्धसमुदायद्वयाभिप्रायेण तदुपपत्तेः । एवं च दर्शपूर्णमासपदस्याग्नेयादिवाचित्वे निर्णीते यजेतेत्या- ख्यातमपि तानेव वदति । नहि तदुक्तौ स्वार्थत्यागो भवति । राज- सूयपदं त्वनिर्णीतार्थम् , अतस्तदाख्यातपरतत्रमेव । तच्चाविशेषा- त्सर्वेषु इष्टिपशुसोमेषु विद्यते तत्परतत्रत्वाद्राजसूयपदमपि तानेव - वदति । न च राजसूयशब्दस्य राज्ञा सूयते यत्रेति व्युत्पत्त्या सोमा- भिषवनिमित्तत्वात्तस्य च सोममभिषुणोतीति वाक्येन सोमयागे- ऽवगतत्वात्तद्वाचित्वमेव नेष्टिपशुवाचित्वमिति वाच्यम् । न ह्यभिषे- चनीयादिसोमयागेष्वभिषवः प्रत्यक्षेण वाक्येन चोदितोऽस्ति तद्वा- क्यस्य ज्योतिष्टोमेऽसत्त्वात् । अतिदेशात्तत्संबन्धोऽवगत इति चेन्न । अतिदेशस्य फलसंबन्धोत्तरकालीनत्वेन राजसूयेन स्वारा- १ नियम्यते. २ तत्तत्र.
मीमांसान्यायप्रकाशः। ३१ ज्यकामो यजेतेत्येतद्वाक्यार्थावगत्युत्तरकालीनत्वात् । अनेन हि वाक्येन फलसंबन्धे बोधिते पश्चात्कथंभावाकाङ्क्षायामतिदेशकल्प- नात् । अतस्ततः प्रागेव एतद्वाक्यार्थो वर्णनीयः । तदा चाभिष- वस्यानवगतत्वाद्राजसूयपदमप्रसिद्धार्थमेव । अत एव राजसूय- पदमव्युत्पन्नमश्वकर्णशब्दवदित्युक्तं सांप्रदायिकैः । एवं चाप्रसिद्धार्थत्वेनाख्यातपरतत्रत्वाद्राजसूयपदेनेष्टिपशुसो- मयागा उच्यन्ते । ते च तैस्तैः प्राकृतैर्धमैर्निराकाङ्क्षा इति न प्रक- रणं विदेवनादीनां राजसूये विनियोजकम् , उभयाकाङ्क्षाया अभा- वात् । नच प्रातिखिकरूपै.राकाङ्थेऽपि न राजसूयत्वेन रूपेण नैराकाङ्कयमिति वाच्यम् । आकाङ्क्षाद्वये प्रमाणाभावात् । किंच प्रातिस्विकरूपैर्या कथंभावाकाङ्क्षा सापि फलसंबन्धो- त्तरकालम् । स च राजसूयत्वेन न तु प्रातिस्विकरूपैः । राजसूयत्वेन च फलसंबन्धे उत्पन्नायाः कथंभावाकाङ्क्षायाः विदेवनादिभिः शान्तेरतिदेशकल्पनमेव न स्यात् । यदि हि सामान्यरूपेण प्रा- तिस्विकरूपेण च फलसंबन्धविधायि वाक्यद्वयं भवेत्तदा युज्येतापि आकाङ्क्षाद्वयानुसारेण विदेवनादीनामातिदेशिकानां चाङ्गानां सं- बन्धः । न तु तदस्ति । तस्मात् प्राकृतैर्धमै.राकाङ्क्षयान्न विदेवना- दीनां प्रकरणं विनियोजकमिति चेत्-- सत्यम् । अत एव सांप्रदायिकैर्विदेवनादीनां संदंशो दर्शितः । राजसूयत्वपुरस्कारेण ये धर्मा विधीयन्ते 'राजसूयाय ह्येना उत्पु- नाति' इत्येवमादयस्तन्मध्ये विदेवनादयः पठ्यन्ते । अतस्ते सर्वे राजसूयाङ्गं प्रयाजानुवादेन विधीयमानधर्ममध्ये पठितप्रयाजाङ्गा- भिक्रमणवत् । तस्माद्युक्तमुक्तं विदेवनादीनां प्रकरणाद्राजसूयाङ्ग- त्वमिति । तत्सिद्धं प्रकरणस्य स्थानादलीयस्त्वमिति । देशसामान्यं स्थानम् । तच्च द्विविधम् । पाठसादेश्यमनुष्ठान- सादेश्यं चेति । यथाहुः- तत्र क्रमो द्विधैवेष्टो देशसामान्यलक्षणः । पाठानुष्ठानसादेश्याद्विनियोगस्य कारणम् ॥ इति । स्थानं क्रमश्चेत्यनर्थान्तरम् । पाठसादेश्यमपि द्विविधम् । य- थासङ्ख्यपाठः सन्निधिपाठश्चेति । तत्र ऐन्द्राग्नमेकादशकपालं नि- १ खतः. २र्थविनिर्णयः. ३ च. ४ °ता. - - ३२ आपदेवकृतः। र्वपेत् , वैश्वानरं द्वादशकपालं निर्वपेदित्येवं क्रमविहितेष्टिषु इन्द्राग्नी रोचनादिव इत्यादीनां याज्यानुवाक्यामत्राणां यथासङ्ख्यं प्रथमस्य प्रथमं द्वितीयस्य द्वितीयमित्येवं यो विनियोगः स यथासङ्ख्य- पाठात् । प्रथमपठितमत्रस्य हि कैमर्थ्याकाङ्क्षायां प्रथमतो विहितं कमैव प्रथममुपतिष्ठते समानदेशत्वात् । यानि तु वैकृतान्यङ्गानि प्राकृताङ्गानुवादेन विहितानि संदं- शापतितानि तेषां विकृत्यर्थत्वं सन्निधिपाठात् । तेषां हि कैम- र्थ्याकाङ्क्षायां फलतद्विकृत्यपूर्वमेव भाव्यत्वेन, संबध्यते, उपस्थित- त्वात् । अत एव तेषु न विश्वजिन्यायावतारः। स्वतत्रफलार्थत्वे विकृतिसन्निधिपाठानर्थक्यापत्तेश्च । पशुधर्माणामग्नीषोमीयार्थत्वमनुष्ठानसादेश्यात् । औपवसथ्येऽह्नि अग्नीषोमीयः पशुरनुष्ठीयते तस्मिन्नेव दिने ते धर्माः पठ्यन्ते । अतस्तेषां कैमर्थ्याकाङ्क्षायामनुष्ठेयत्वेनोपस्थितं पश्वपूर्वमेव भाव्य- त्वेन संबध्यते । अतो युक्तमनुष्ठानसादेश्यात्तदर्थत्वं तेषाम् । न च पाठसादेश्यादेव तत्किं न स्यादिति वाच्यम् । अग्नीषो- मीयस्य पशोः क्रयसन्निधौ पाठात् । न च क्रयसन्निधौ तस्य पाठे तदनुष्ठानमपि तत्र स्यादिति वाच्यम् । स एष. द्विदैवत्यः पशुरोपवसथ्येऽहनि आलब्धव्यः' इति वचनात्तदनुपपत्तेः । न च स्थानात्प्रकरणस्य बलीयस्त्वेन पशुधर्माणां ज्योतिष्टोमार्थत्वमेव किं न स्यादिति वाच्यम् । तस्य सोमयागत्वेन पशुधर्मग्रहणेऽयोग्य- त्वात् । अतः 'आनर्थक्यप्रतिहतानां विपरीतं बलाबलम्' इति न्यायात् , स्थानात्पशुयागार्थत्वमेव धर्माणां युक्तम् । न च तेषां तदर्थत्वं प्रकरणादेव किं न स्यादिति वाच्यम् । अग्नीषोमीयकथंभावाकाङ्क्षायाः क्लुप्तोपकारैः प्राकृतधमैरेवोपशान्त- त्वात् । स हि सान्नाय्ययागप्रकृतिकः, उभयोः पशुप्रभवद्रव्यत्वसा- मान्यात् । तदुक्तं- 'सानाय्यं वा तत्प्रभवत्वात्' इति । सान्नाय्यं दधिपयसी । तत्र पशुयागः पयोयागप्रकृतिकः सा- क्षात्पशुप्रभवत्वात् । अतश्चोदकप्राप्तैस्तद्धमैर्निराकाङ्क्षत्वान्न पशु- १ वि.
मीमांसान्यायप्रकाशः। ३३ याँगे धर्माणां प्रकरणं विनियोजकं किंतु स्थानमेव । तदेवं निरू- पितः संक्षेपतः स्थानविनियोगः । तच्च समाख्यातः प्रबलम् । स्थानविनियोगे हि पदार्थयोर्देशसामा- न्यलक्षणः संबन्धः प्रत्यक्षः। समाख्याविनियोगे तु संबन्धो न प्रत्यक्षः। पदार्थयोभिन्नदेशत्वात् । न च सा संबन्धवाचिका । यौगिकानां श- ब्दानां द्रव्यवाचकत्वेन संबन्धावाचकत्वात् । तथा हि-समाख्या सं- बन्धसामान्यवाचिका स्यात् , तद्विशेषवाचिका वा । नाद्यः। तदुक्तौ प्रयोजनाभावात् । सर्वयौगिकशब्दानां पर्यायतापत्तेश्च । द्वितीये- ऽवश्यं संबन्धिनौ वाच्यौ। तदन्तरेण संबन्धे विशेषाभावात् । तत्प्रतिपत्तिमन्तरेण तदप्रतिपत्तेश्च । अतश्चावश्यं संबन्धिवाचकत्वं समाख्याया वक्तव्यम् । तथा च न संबन्धवाचकत्वं संबन्धिप्रति- पत्त्यैव वाक्यार्थप्रतिपत्तिन्यायेन तत्प्रतिपत्तिसंभवे तत्र शक्तिकल्पने गौरवात् । यथाहुः- सर्वत्र यौगिकैः शब्दैद्रव्यमेवाभिधीयते । नहि संबन्धवाचित्वं संभवत्यतिगौरवात् ॥ इति तथा पाकं तु पचिरेवाह कर्तारं प्रत्ययोऽप्यकः । पाकयुक्तः पुनः कर्ता वाच्यो नैकस्य कस्य चित् ॥ इति तथाच समाख्या न संबन्धवाचिका । होतृचमस इत्यादिका तु वैदिकीसमाख्या निषादस्थपतिशब्दवन्न षष्ठयर्थसंबन्धवाचिका । नापि वाक्यवत्तद्बोधिका, तस्याः पदत्वेनाप्रमाणत्वात् । पौरोडाशि- कमित्यादिसमाख्यास्त्वतिदुर्बलाः । लौकिकत्वेन पुरुषप्रत्ययसापे- क्षत्वात् । काण्डगोचरत्वेन तत्तत्पदार्थागोचरत्वाच्च । काण्डवाच- कत्वमपि न काण्डत्वेन किंतु पौरोडाशिकत्वादिनैव । न ह्येक- हायनीशब्दो द्रव्यवाचकोऽपि गोत्वेन तेद्वदति, किं तर्हि एकहा- यनीत्वेनैव । स्थानविनियोगे तु पदार्थयोर्विशेषपुरस्कारेणैव संबन्धः प्रत्यक्ष- प्रमाणप्रतिपन्नः। अतश्च समाख्यामुपलभ्य नूनमनयोः पदार्थयोः संबन्धोऽस्तीति यावत्कल्प्यते तावत्प्रत्यक्षप्रतिपन्नेन संबन्धेन पर- स्परमाकाङ्क्षा, तदभावे च संबन्धानुपपत्तेः । कल्पितसंबन्धेन १°गध. २द्वदिता. . ..
आपदेवकृतः। च यावदितरत्राकाङ्क्षादिकल्पना तावदन्यत्राकाङ्क्षया वाक्यादिक- ल्पनया विनियोगः क्रियते इति सिद्धं स्थानस्य समाख्यातः प्राब- ल्यम् । अत एव शुन्धनमन्त्रः सान्नाय्यपात्राङ्गं पाठसादेश्यान्न तु पौरोडाशिकसमाख्यया पुरोडाशपात्राङ्गमिति ॥ समाख्या यौगिकः शब्दः। सा च द्विविधा वैदिकी लौकिकी चेति । तत्र होतुः चमसभक्षणाङ्गत्वं होतृचमस इति वैदिक्या समाख्यया । अध्वर्योस्तत्तत्पदार्थाङ्गत्वं लौकिक्या आध्वर्यवमिति समाख्ययेति संक्षेपः ॥ तदेवं निरूपितानि संक्षेपत: श्रुत्यादीनि षट् प्रमाणानि । एत- त्सहकृतेन विनियोगविधिना समिदादिभिरुपकृत्य दर्शपूर्णमासाभ्यां यजेतेत्येवंरूपेण यानि विनियुज्यन्ते तान्यङ्गानि । तानि द्विविधानि सिद्धरूपाणि क्रियारूपाणि चेति । तत्र सिद्धरूपाणि जातिद्रव्यसङ्ख्यादीनि । तानि च दृष्टार्था- न्येव । क्रियारूपाणि च द्विविधानि । गुणकर्माणि प्रधानकर्माणि चेति । एतान्येव संनिपत्योपकारकाण्यारादुपकारकाणीति चो- च्यन्ते । तत्र कर्माङ्गद्रव्याधुद्देशेन विधीयमानं कर्म सन्निपत्यो- पकारकम् । यथावघातप्रोक्षणादि । तच्च दृष्टार्थमदृष्टार्थ दृष्टादृष्टाथ च । दृष्टार्थमवघातादि । अदृष्टार्थ प्रोक्षणादि । दृष्टादृष्टार्थ पशुपु- रोडाशयागादि । तद्धि द्रव्यत्यागांशेनादृष्टं देवतोद्देशेन च देवता- स्मरणं दृष्टं करोति । इदमेव चाश्रयि कर्म इत्युच्यते । तच्च सन्निपत्योपकारकं द्विविधम् । उपयोक्ष्यमाणार्थमुपयुक्तार्थ चेति । तत्रावधातप्रोक्षणाद्युपयोक्ष्यमाणार्थ, ब्रीहीणां यागे उपयो- क्ष्यमाणत्वात् । प्रतिपत्तिकर्म इडाभक्षणाद्युपयुक्तपुरोडाशसंस्कारकम् । उपयुक्तस्योंकीर्णकरतानिवर्तक* कर्म प्रतिपत्तिकर्म । उपयुक्तसंस्कारार्थ च उपयोक्ष्यमाणसंस्कारार्थीहुर्बलम् । उप- युक्तापेक्षया उपयोक्ष्यमाणेऽत्यादरात् । अत एव 'प्रायणीयनिष्कासे उदयनीयमनुनिर्वपती' त्यत्र निष्कासस्य निर्वापार्थत्वं, न तु तस्य *कार्यपरो हि विधिः कार्यैकदर्शी पुरुष इव कार्यदेशे किंचिदकरिष्यतः स्थितिं न सहते । अयं स्वयं किंचिदकुर्वाणोऽकरिष्यन् वा देशमिममाकीर्णं कुर्वन् व्याप्नुवन् कार्यकारिणां संचारादावन्तरायो भवतीति मन्यमानस्तस्य ततोऽपसारणमीहते। अतो निर्वर्तितकार्यस्य कार्यदेशादपसारणानुकूलो व्यापारः प्रतिपत्तिकर्मेत्यर्थः । १ कल्प्यते. २ कीर्णतानिव.
मीमांसान्यायप्रकाशः। ३५ तदर्थत्वं, निष्कासस्योपयुक्तत्वादित्युक्तमेकादशे । तच्च सन्निपत्यो- पकारकमारादुपकारकाबलीयः। नन्ववघातादि भवतु बलीयः, तस्य दृष्टार्थत्वात् , आरादुपका- रकस्य चादृष्टार्थत्वात् , दृष्टे संभवत्यदृष्टस्यान्याय्यत्वात् । प्रोक्ष- णादि सन्निपत्योपकारकं तु कथं बलीयः, उभयोरदृष्टार्थत्वाविशे- षात् । किंच आरादुपकारकं साक्षात्प्रधानाङ्गं तस्यान्योद्देशेना-. विधानात् । सन्निपत्योपकारकं तु अङ्गाङ्गम् । कर्माङ्गब्रीह्याद्युद्देशेन विधानात् । अङ्गाङ्गापेक्षया च साक्षादङ्ग बलीयः । 'अङ्गगुणविरोधे तादात्' इति न्यायात् । अत एव ‘य इष्ट्या पशुना सोमेन यजेत सोऽमावास्यायां पौ- र्णमास्यां वा यजेत' इति अविशेषविधानेऽपि पर्वानुग्रहः सोमयाग- स्यैव क्रियते नतु दीक्षणीयादेः । अतः कथं सन्निपत्योपकारकस्य बलीयस्त्वम् । उच्यते । सत्यप्यदृष्टार्थत्वाविशेषे सन्निपत्योपकार- कमारादुपकारकाबलीयः । सन्निपत्योपकारके हि कर्मणि उपका- र्योपकारकयोwहिप्रोक्षणयोः संबन्धो वाक्यक्लप्तः । उपकारमात्रं तु कल्प्यम् । आरादुपकारकस्थले तु दर्शपूर्णमासयोः प्रयाजानुया- जयोः संबन्धः कल्प्य उपकारोऽपि । किंच आरादुपकारकस्थले हि प्रकरणं विनियोजकम् , इतरत्र तु ब्रीहीन प्रोक्षतीति वाक्यमेव । व्रीहिपदेनापूर्वसाधनलक्षणां कृत्वा ऋतौ विनियोजकमिति बलीयस्त्वम् । यदुक्तम्-'अङ्गगुणविरोधे तादात्' इति न्यायेन दुर्बलत्वमिति तदसत् । नहि ब्रीह्याद्युद्देशेन विधीयमानं प्रोक्षणादि तदर्थ भवति तत्स्वरूपे आनर्थक्यात् , किंतु तत्संस्कारद्वारा क्रत्वर्थमेव, सन्निपत्योपकारकाणामुत्पत्त्यपूर्वप्रयुक्तत्वस्य च वक्ष्यमाणत्वात् । अत उभयविधमप्यङ्गजातं क्रत्वर्थमेवेति नाङ्गगुणविरोधन्यायाव- तारः । दीक्षणीयादेः पर्वानुग्रहस्तु दीक्षणीयाद्यर्थ एव, तस्य तद्- पूर्वप्रयुक्तत्वात् । अतो युक्तं साक्षात्प्रधानाङ्गेन प्रधानपर्वानुग्रहेण स बाध्यत इति । तत्सिद्धं सन्निपत्योपकारकस्यारादुपकारका- द्वलीयस्त्वम् । अतएव स्थाणौ स्थाण्वाहुतिं जुहोतीति विहिता स्थाण्वाहुति'- पत्रश्चनस्थाणुद्वारा यूपसंस्कारार्था, देवदत्तधारितायाः १ यच्चोक्तं.
६ आपदेवकृतः। , शुचिंदेशनिधानमिव देवदत्तसंस्कारार्थम् । न तु स्थावाहुतिरारादु- पकारिकेत्युक्तं दशमे इति दिक् । द्रव्याद्यनुद्दिश्य केवलं विधीयमानं कर्म आरादुपकारकम् । यथा प्रयाजादि । तदेवं निरूपितं द्विविधमप्यङ्गजातम् । तच्च न यागादिस्वरूपप्रयुक्तं, स्वरूपे आनर्थक्यात् , तदन्तरेणापि तत्सिद्धेः, किं त्वपूर्वप्रयुक्तमेव । नहि तदन्तरेणापूर्व भवतीत्यत्र किंचित्प्रमा- णमस्ति, तस्यादृष्टत्वात् । न चैवं प्राधान्याददृष्टत्वाच्च फलप्रयुक्तमेव किं न स्यादिति वाच्यम् । फलभावनायां यागस्यैव करणत्वादङ्गानां च करणा- नुग्राहकत्वात्तदर्थत्वे बुद्धे तत्र चानर्थक्यप्रसक्तौ तेन स्वापूर्वमेवो- पस्थाप्यते संनिकर्षात् । दीक्षणीयादिशब्देनेव तदपूर्वम् । न तु फलमुपस्थाप्यते विप्रकर्षात् । अतो न तत्प्रयुक्तत्वमङ्गानाम् । अत एव 'अगन्म सुवः सुवरगन्म' इति मंत्रो विकृतावूहितव्य इत्युक्तं नवमे । फलदेवतयोश्चेत्यत्र फलप्रत्युक्तत्वे तु सौर्यादिविकृतिषु स्वर्ग- रूपफलाभावान्मंत्रो न प्रवर्तेत नतरां चोहितव्यः स्यादिति । तत्सिद्धमङ्गानामन्यप्रयुक्तत्वानुपपत्तेरपूर्वप्रयुक्तत्वम् । तत्रापि सन्निपत्योपकारकाणां द्रव्यदेवतादिसंस्कारद्वारा याग- स्वरूपे उपयोगादुत्पत्त्यपूर्वार्थत्वम् । अत एवौषधधर्मावघातादी- नामाज्ये न प्रवृत्तिः, तेषामाग्नेयापूर्वप्रयुक्तत्वात् , आज्यस्य च तद्- र्थत्वाभावादित्युक्तं तृतीये। आरादुपकारकाणां तु स्वरूपेऽनुपयोगात्परमापूर्वार्थत्वम् । तत्रोत्पत्त्यपूर्वस्य यागस्वरूपानुष्ठानानन्तरमेवोत्पद्यमानत्वात् । स- न्निपत्योपकारकाणां पूर्वाङ्गानां तदुत्पत्तावुपयोगः, उत्तराङ्गानां तु तेषां तत्स्थितावुपयोगः । परमापूर्वस्य तु साङ्गप्रयोगानुष्ठानानन्त- रमेवोत्पद्यमानत्वात् । सर्वेषामारादुपकारकाणां तदुत्पत्तौ । प्रयो- गबहिर्भूतस्य तु तत्स्थितावुपयोगः। यथा बृहस्पतिसवस्य वाज- पेयेनेष्ट्वा बृहस्पतिसवेन यजेतेति वाजपेयोत्तरकालमङ्गत्वेन विहि- तस्य वाजपेयापूर्वस्थितावुपयोगः । तस्य प्रागेवोत्पन्नत्वादित्युक्तं चतुर्थे । तत्सिद्धं सर्वथाङ्गानामपूर्वार्थत्वम् । प्रकृतमनुसरामः । तदेवं निरूपितः संक्षेपतो विनियोगविधिः। १ तेन यागेन.
मीमांसान्यायप्रकाशः। ७ प्रयोगप्राशुभावबोधको विधिः प्रयोगविधिः। स चाङ्गवाक्यै- कवाक्यतामापन्नः प्रधानविधिरेव । स हि साङ्गं प्रधानमनुष्ठापयन् विलम्बे प्रमाणाभावादविलम्बापरपर्यायं प्रयोगप्राशुभावं विधत्ते । न च विलम्बवदविलम्वेऽपि प्रमाणाभाव इति वाच्यम् । विलम्बे हि अङ्गप्रधानविध्येकवाक्यतावगततत्साहित्यानुपपत्तिः प्रसज्यते । न- हि विलम्बेन क्रियमाणयोः पदार्थयोः सहकृतमिति साहित्यं व्यव- हरन्ति । नचैवं साहित्यानुपपत्त्या समानकालत्वमेव स्थानत्व- विलम्बः, अव्यवधानेन पूर्वोत्तरकाले क्रियमाणपदार्थयोरविल- म्वेन कृतमिति व्यवहारादिति वाच्यम् । अनेकपदार्थानामेक- स्मिन्कालेऽनुष्ठानानुपपत्तेः । न च तावत्कर्तृसंपादनेनानुष्ठाने किं न स्यादिति वाच्यम् । तस्यैतस्य यज्ञकृतश्चत्वार ऋत्विज इत्या- दिना कर्तृणां नियतत्वात् । तस्मादङ्गवाक्यैकवाक्यतामापन्नः प्रधानविधिरेकवाक्यतावगत- तत्साहित्यं विद्धदुक्तविधया एककालानुष्ठानानुपपत्तेरविलम्बं वि- धत्ते इति सिद्धं प्रयोगप्राशुभावबोधको विधिः प्रयोगविधिरिति । स चाविलम्बो नियते क्रमे आश्रीयमाणे भवति । अन्यथा हि किमेतदनन्तरमेतत्कर्तव्यमेतदनन्तरं वेति प्रयोगविक्षेपापत्तेः। अतः प्रयोगविधिरेव स्वविधेयप्रयोगप्राशुभावसिद्ध्यर्थ नियतं क्रममपि पदार्थविशेषणतया विधत्ते । तत्र क्रमो नाम विततिविशेषः पौर्वा- पर्यरूपो वा । तत्र च षट्र प्रमाणानि, श्रुत्यर्थपठनस्थानमुख्यप्रवृत्त्याख्यानि । तत्र क्रमपरं वचनं श्रुतिः। तच्च द्विविधं, केवलक्रमपरं तद्विशिष्टप- दार्थपरं चेति । तत्र वेदं कृत्वा वेदिं करोतीति केवलक्रमपरम्, वे- दिकरणादेर्वचनान्तरेण विहितत्वात् । वषट्कर्तुः प्रथमभक्ष इति तु क्रमविशिष्टपदार्थपरम् । *एकप्रसरताभङ्गभयेन भक्षानुवादेन क्रम- मात्रस्य विधातुमशक्यत्वात् । सेयं श्रुतिरितरप्रमाणापेक्षया बलवती । तेषां वचनकल्पनद्वारा एकस्यां वृत्तौ या प्रसरता घटकतया प्रविष्टता अर्थादुद्देश्यविधेयवाचकप- दयोः तया यो भङ्गः उद्देश्यविधेयभावाप्रतीतिस्तद्भयेन । अविमृष्टविधेयांशाख्य- दोषभयेनेतियावत् । १.यज्ञकतोश्च. ४ मी० न्या० आपदेवकृतः। क्रमप्रमाणत्वात् । अत एवाश्विनस्य पाठक्रमात्तृतीयस्थाने ग्रहण- प्रसक्तावाश्विनो दशमो गृह्यते इति वचनादशमस्थाने ग्रहणमि- त्युक्तम् । यत्र तु प्रयोजनवशेन निर्णयः स आर्थः क्रमः । यथाऽग्निहोत्र- होमयवागूपाकयोः । अत्र हि यवाग्वा होमार्थत्वेन तत्पाकः प्रयो- जनवशेन पूर्वमनुष्ठीयते । स चायं पाठक्रमादलवान् । यथापाठं ह्यनुष्ठाने क्लप्तप्रयोजनबाधोऽदृष्टार्थत्वं च स्यात् । नहि होमानन्तरं क्रियमाणस्य किंचिदृष्टं प्रयोजनमस्ति । पदार्थबोधकवाक्यानां यः क्रमः स पाठक्रमः । तस्माच्च पदा- र्थानां क्रम आश्रीयते । येन हि क्रमेण वाक्यानि पठितानि ते- नैव क्रमेणाधीतान्यर्थप्रत्ययं जनयन्ति । यथार्थप्रत्ययं च पदार्था- नामनुष्ठानात् । स च पाठो द्विविधः । मत्रपाठो ब्राह्मणपाठश्चेति । तत्राग्नेया- भीषोमीययोस्तत्तद्याज्यानुवाक्याक्रमाद्यः क्रम आश्रीयते स मत्र- पाठात् । स चायं मत्रपाठो ब्राह्मणपाठादलवान , अनुष्ठाने ब्राह्मण- वाक्यापेक्षया मत्रवाक्यस्यान्तरङ्गत्वात् । ब्राह्मणवाक्यं हि प्रयोगा- द्वहिरेवेदमेवं कर्तव्यमित्येवमवबोध्य कृतार्थमिति न पुनः प्रयोग- काले व्याप्रियते । मन्त्राः पुनरनन्यप्रयोजनाः प्रयोगसमवेतार्थ- स्मारका इति वक्ष्यामः । तेनानुष्ठानक्रमस्य · स्मरणक्रमाधीनत्वात् तत्क्रमस्य च मन्त्रक्रमाधीनत्वादन्तरङ्गो मत्रपाठ इतरस्मादति बल- वान् । अत एवाग्नेयाग्नीषोमीययोर्ब्राह्मणपाठादादावग्नीषोमीयानुष्ठान पश्चादाग्नेयानुष्ठानमित्येवं क्रमं बाधित्वा मत्रपाठादादावाग्नेयानुष्ठानं पश्चादग्नीषोमीयस्येत्येव क्रम इत्युक्तम् । प्रयाजानां 'समिधो यजति' 'तनूनपातं यजति'. इत्येवं विधा- यकवाक्यक्रमाद्यः क्रमः स ब्राह्मणपाठक्रमः। अत्र च यद्यपि ब्राह्मण- वाक्यान्यर्थ विधाय कृतार्थानि तथापि प्रयाजानां स्मारकान्तर- स्याभावात्तान्येव स्मारकत्वेन स्वीक्रियन्ते । तथा च येन क्रमेण तान्यधीतानि तेनैव क्रमेणार्थस्मरणं जनयन्तीति युक्तं तेनैव क्रमेण तेषामनुष्ठानमिति । तत्सिद्धं प्रयाजानां ब्राह्मणपाठक्रमाक्रम इति । ननु प्रयाजेषु प्रयोगसमवेतार्थस्मारकत्वं विधायकत्वेन कृता- र्थानां ब्राह्मणवाक्यानां किमिति स्वीक्रियते प्रयोगसमवेतार्थस्मार- काणां याज्यामबाणामाग्नेयादिष्विवात्रापि सत्त्वात् । न च तेषां मीमांसान्यायप्रकाशः। देवतास्मारकत्वात्कर्मस्मारकत्वेन ब्राह्मणवाक्यं स्वीक्रियत इति वा- च्यम् । आग्नेयादिध्वपि कर्मस्मारकत्वेन तत्स्वीकारापत्तेः। न चेष्टापत्तिः । तथा सति ब्राह्मणपाठान्मत्रपाठस्य बलीयस्त्वं न स्यात् । तद्बलीयस्वे हि मत्राणां प्रयोगसमवेतार्थस्मारकत्वमि- तरस्य तदस्मारकत्वं हेतुः । यदि च कर्मस्मारकत्वं ब्राह्मणवा- क्यस्य स्वीक्रियते तदा प्रधानस्मारकत्वेन ब्राह्मणवाक्यस्यान्तरङ्ग- त्वादङ्गभूतदेवतास्मारकत्वेन च मत्राणां बहिरङ्गत्वान्मत्रपाठादा- ह्मणपाठस्यैव बलीयस्त्वं स्यात् । तथा च 'मत्रतस्तु विरोधे स्यात् इति पाञ्चमिकाधिकरणविरोधः । तत्र हि ब्राह्मणपाठान्मत्रपा- ठस्य बलीयस्त्वादादावाग्नेयानुष्ठानं पश्चादग्नीषोमीयस्येत्युक्तम् । अथ-आग्नेयादिषु याज्यामना एव देवताप्रकाशनद्वारा कर्मप्र- काशकास्त्यज्यमानद्रव्योद्देश्यत्वरूपत्वाद्देवतात्वस्येति चेत्तुल्यं प्रया- जेषु । तत्रापि हि याज्यामत्रा देवताप्रकाशकाः । प्रयाजेषु देव- ताया मात्रवर्णिकत्वात् । तथाच प्रयाजेषु याज्यामत्राणां देवताप्र- काशनद्वारा कर्मप्रकाशकत्वात्तत्क्रमो मन्त्रपाठादेव स्यान्न तु ब्राह्म- णपाठक्रमात् । नच मत्रपाठस्यान्याहशत्वात् प्रयाजक्रमो ब्राह्मणपाठक्रमादेवेति वाच्यम् । अन्याशत्वे तस्यैव क्रमस्यानुष्ठानं स्यात्, मन्त्रक्रमस्य बलीयस्त्वात् । अभ्यासाधिकरणे च वार्तिककृता क्रमविनियुक्त्यैवं- लिङ्गकमत्रवर्णेत्यादिना प्रयाजेषु याज्यामन्त्राणां क्रमविनियोग उक्तः । नवमे तत्ररत्ने समिधः समिधोऽग्न आज्यस्य व्यन्त्वियादिभिः क्र- मप्रकरणप्राप्तैर्मरैर्देवता गुणत्वेन समय॑न्त इत्युक्तम् । मत्राणामन्यादृशक्रमत्वे तदनुपपत्तिः स्यात्तत्कथं प्रयाजेषु ब्राह्म- णपाठक्रमाक्रम इतिचेदुच्यते । सत्यमेतत् । तथापि यत्रार्थस्मारका मत्रा न सन्त्येव-यथा तूष्णीं विहितेषु कर्मसु-तेषां क्रमो ब्रा- ह्मणपाठक्रमात् । तत्र तेषामेव प्रयोगसमवेतार्थस्मारकत्वात् । प्रया- जोदाहरणं तु कृत्वाचिन्तया, तत्र ब्राह्मणवाक्यानांप्रयोगसमवेतार्थ- स्मारकत्वाभावात् । यथाहुरर्थवादचरणे वार्तिककाराः- 'प्रयाजादिवाक्यान्यर्थ समय॑ चरितार्थानि स्वरूपसंस्पर्श सत्यपि प्रयोज्यतां न प्रतिपद्यन्ते' इति । १°क्तबलाङ्गक, क्वलिङ्गक. २ नवमेऽपि तन्त्र. ३°र्थ्यन्ते । ४°कत्वम्. ५°कत्वात्. - ४० आपदेवकृतः । , , तस्मात्समन्त्रककर्मणां मत्रपाठक्रमाक्रमः। अमत्रककर्मणां क्रमस्तु ब्राह्मणपाठक्रमादेवेति दिक् । प्रकृतौ नानादेशस्थानां पदार्थानां विकृतौ वचनादेकस्मिन्देशे- ऽनुष्ठाने कर्तव्ये यस्य देशेऽनुष्ठीयन्ते तस्य प्रथममनुष्ठानमितरयोश्च पश्चात्-अयं यः क्रमः स स्थानक्रमः । स्थानं नामोपस्थितिः । यस्य हि देशेऽनुष्ठीयते तत्पूर्वतने पदार्थे कृते स एव प्रथममुपस्थितो भवतीति युक्तं तस्य प्रथममनुष्ठानम् । अत एव साद्यस्वेऽग्नीषोमीयसवनीयानुबन्ध्यानां सवनीयदेशे सहा- नुष्ठाने कर्तव्य आदौ सवनीयपशोरनुष्ठानम्, तस्मिन्देशे आश्विन- ग्रहणानन्तरं सवनीयस्यैव प्रथममुपस्थितेः, इतरयोस्तु पश्चात् । तथा हि ज्योतिष्टोमे त्रयः पशुयागाः । अग्नीषोमीयः सवनीयः आनुबन्ध्यश्चेति । ते च भिन्नदेशाः । अग्नीषोमीय औपवसथ्येह्नि, सवनीयः सुत्याकाले, आनुबन्ध्यस्त्वन्ते । साद्यस्को नाम सोमयाग- विशेषः । स चाव्यक्तत्वाज्ज्योतिष्टोमविकारः। अतस्ते त्रयोऽपि पशुयागाः साद्यस्वे चोदकप्राप्ताः। तेषां च तत्र साहित्यं श्रुतं 'सह पशूनालभेत' इति । तच्च साहित्यं सवनीये देशे तस्य प्रधान- प्रत्यासत्तेः स्थानातिक्रमसाम्याच्च । सवनीयदेशे ह्यनुष्ठाने क्रियमाणे अग्नीषोमीयानुबन्ध्ययोः स्व- स्वस्थानातिक्रममात्रं भवति, अग्नीषोमीयदेशे ह्यनुष्ठाने क्रियमाणे सवनीयस्य स्वस्थानातिक्रममात्रम् । आनुबन्ध्यस्य तु स्वस्थानाति- क्रमः सवनीयस्थानातिक्रमश्च स्यात् । एवमानुबन्ध्यदेशेऽग्नीषोमी- यस्य द्रष्टव्यः । तथा च सवनीये देशे सर्वेषामनुष्ठाने कर्तव्ये सवनीयस्य प्रथममनुष्ठानम् । आश्विनग्रहणानन्तरं हि सवनीयदेशः । प्रकृतौ आश्विनं ग्रहं गृहीत्वा त्रिवृता यूपं परिवीयाग्नेयं सवनीयं पशुमु- पाकरोतीत्याश्विनग्रहणानन्तरं तस्य विहितत्वात् । तथा च साद्य- स्केप्याश्विनग्रहणे कृते सवनीय एवोपस्थितो भवतीति युक्तं तस्य स्थानात्प्रथममनुष्ठानमितरयोश्च पश्चादित्युक्तम् । प्रधानक्रमेण योऽङ्गानां क्रम आश्रीयते स मुख्यक्रमः । येन हि क्रमेण प्रधानानि क्रियन्ते तेनैव चेत् क्रमेण तेषामङ्गान्यनुष्ठीयन्ते १ एवं.
मीमांसान्यायप्रकाशः। व्यव- तत तदा सर्वेषामङ्गानां स्वैः प्रधानैस्तुल्यं व्यवधानं भवति व्युत्क्रमेण त्वनुष्ठाने केषांचिदङ्गानां स्वैः प्रधानरत्यन्तमव्यवधानमन्येषामत्यन्तं व्यवधानं स्यात् । तच्चायुक्तं प्रयोगविध्यवगतसाहित्यबाधापत्तेः,अतः प्रधानक्रमोऽप्यङ्गक्रमे हेतुः। अत एव प्रयाजशेषेणादावाग्नेयहविषोऽभिधारणं पश्चादैन्द्रस्य दनः, आग्नेययागैन्द्रयागयोः पौर्वापर्यात् । अत्र हि द्वयोरमिघा- रणयोः स्वेन स्वेन प्रधानेन तुल्यमेकान्तरितव्यवधानं भवति, आग्नेयहविरभिधारणाग्नेययागयोरैन्द्रयागहविरभिधारणेन धानात्, ऐन्द्रयागह विरभिधारणैन्द्रयागयोश्चाग्नेययागेन व्यवधा- नात्। अतश्चादावाग्नेयहविरभिधारणं तत ऐन्द्रस्य हविषः आग्नेययागः ततश्चैन्द्रो याग इत्येवंक्रमो मुख्यक्रमात्सिद्धो भवति । यदि त्वादावैन्द्रहविषोऽभिधारणं तत आग्नेयस्य क्रियते तदा या- ज्यानुवाक्याक्रमवशादादावाग्नेयस्यानुष्ठानादाग्नेययागतदङ्गहविर- भिधारणयोरत्यन्तमव्यवधानमैन्द्रयागतदङ्गहविरभिघारणयोरत्यन्तं व्यवधानं स्यात् । तच्च न युक्तम् । अतो युक्तः प्रयाजशेषेणा- भिधारणस्य मुख्यक्रमाक्रम इति । स चासौ मुख्यक्रमः पाठक्रमाद्दुर्बलः । मुख्यक्रमो हि प्रमा- णान्तरसापेक्षप्रधानक्रमप्रतिपत्तिसापेक्षतया विलम्बितप्रतिपत्तिकः पाठक्रमस्तु निरपेक्षस्वाध्यायपाठक्रममात्रसापेक्षतया न तथेति बलवान् । अतएवाग्नेयोपांशुयाजाग्नीषोमीयानां क्रमेणानुष्ठीयमानानामप्यु- पांशुयाजाज्यनिर्वापो मुख्यक्रमान्न पूर्वमनुष्ठीयते, तस्य दुर्बलत्वात् , पाठक्रमात्तु पश्चाद्नुष्ठीयते, तस्य प्रबलत्वादिति । स चायं मुख्यक्रमः प्रवृत्तिकमावलवान् । प्रवृत्तिक्रमे ह्याश्री- यमाणे बहूनामङ्गानां प्रधानविप्रकर्षो भवति, अस्मिंस्तु आश्रीय- माणे सन्निकर्षः। तद्यथा दर्शपूर्णमासयोरादावाग्नेयानुष्ठानं ततः सान्नाय्यस्य । तद्धर्माश्च केचित्पूर्वमनुष्ठीयन्ते । तत्र यदि प्रवृत्तिक्रममाश्रित्य त- , आपदेवकृतः। धर्माः सर्वे पूर्वमनुष्ठीयेरन् तत आग्नेयधर्माः तत आग्नेयानुष्ठानं ततः सान्नाय्यानुष्ठानं तदा तद्धर्माणां स्वप्रधानेन सह द्वाभ्यामा- ग्नेयधर्मतदनुष्ठानाभ्यां विप्रकर्षः स्यात् । यदा तु सान्नाय्यधर्माणां केषांचित्पूर्वमनुष्ठानेऽपि अन्ये सर्वे मुख्यक्रममाश्रित्याग्नेयधर्मानुष्ठानानन्तरमनुष्ठीयन्ते तदा सर्वेषामा- नेयधर्मसान्नाय्यधर्माणामेकैकेन विजातीयेन व्यवधानं भवति आग्नेयधर्माणां स्वप्रधानेन सह सान्नाय्यधमैर्व्यवधानात् सान्नाय्य- धर्माणां च स्वप्रधानेन सहाग्नेयानुष्ठानेन व्यवधानादिति न विप्र- कर्षः। तस्मान्मुख्यक्रमः प्रवृत्तिक्रमाद्बलवान् । सहप्रयुज्यमानेषु प्रधानेषु सन्निपातिनामङ्गानामावृत्त्यानुष्ठाने कर्तव्ये द्वितीयादिपदार्थानां प्रथमानुष्ठितपदार्थक्रमाद्यः क्रमः स प्रवृत्तिक्रमः। यथा प्राजापत्याङ्गेषु । प्राजापत्या हि 'वैश्वदेवीं कृत्वा प्राजा- पत्यैश्चरन्तीति वाक्येन तृतीयानिर्देशात् सेतिकर्तव्यताका एक- कालत्वेन विहिताः । अतस्तेषां तदङ्गानां चोपाकरणनियोजनप्र- भृतीनां साहित्यं संपादनीयम् । तत्र प्राजापत्यानां *संप्रतिपन्नदेवताकत्वेनैकस्मिन्कालेऽनुष्ठाना- दुपपद्यते साहित्यम् । तदङ्गानां चैकस्मिन्कालेऽनुष्ठानमशक्यम् । नह्यनेकेषां पशूनामुपाकरणमेकस्मिन्काले कर्तुं शक्यम् । अतस्तेषां साहित्यमव्यवधानेनानुष्ठानात्संपाद्यम्--एकस्योपाकरणं कृत्वाऽप- रस्योपाकरणमिति । अतः प्राजापत्येषु एक पदार्थ सर्वत्रानुष्ठाय द्वितीयः पदार्थो- ऽनुष्ठेयः । तत्र प्रथमपदार्थानुष्ठानं कस्माञ्चित्पशोरारभ्य कर्तव्यम् । द्वितीयस्तु पदार्थो येन क्रमेण प्रथमोऽनुष्ठितः तेनैव क्रमेणानुष्ठे- यः, प्रयोगविध्यवगतस्य मिथोङ्गसाहित्यस्योपपत्तये । प्रयोगविधिना हि देक्षे तदङ्गानामुपाकरणनियोजनादीनां मिथः साहित्यमानन्तर्यापरपर्यायं विहितम् । तच्च साहित्यं सवनीयपशौ चोदकेन प्राप्तम् । तस्य प्राणिद्रव्यकत्वेन दैक्षविकृतित्वात् । सव- *एकदेवताकत्वेन याज्यानुवाक्यामन्त्राणामेकत्वात्सहप्रक्षेपादित्यर्थः ।
मीमांसान्यायप्रकाशः। नीयाच्चैकादशिनेषु प्राप्तं सुत्याकालत्वसामान्यात् । तेभ्यश्च प्रा- जापत्येषु प्राप्तं *गणत्वसामान्यात् । प्राजापत्येषु च प्रतिपशु यागभेदाच्चोदका भिद्यन्ते । अतश्चोद- कात्तत्तत्पश्वङ्गभूतानामुपाकरणनियोजनादीनां साहित्यमानन्तर्यापर- पर्यायं प्राप्तम् । अत एकस्य पशोरुपाकरणानन्तरमेव नियोजन चोदकबलात्कर्तव्यत्वेन प्राप्तम् । तत्तु न क्रियते, प्रत्यक्षवचनावगत- सर्वपश्वङ्गसाहित्यानुपपत्तेः । अत एकस्मिन् पशावुपाकरणे कृते तदनन्तरमेव कर्तव्यत्वेन प्राप्तमपि नियोजनं न क्रियते । प्रत्यक्षवचनबलात्तु पश्वन्तरेषु षो- डशसु उपाकरणमेव क्रियते । कृते तु तेषूपाकरणे प्रथमपशोर्नि- योजनस्य तदीयोपाकरणेन व्यवधाने प्रमाणाभावात् प्रथमपशावेव नियोजन कार्यम् । अतश्च येन क्रमेणोपाकरणं कृतं तेनैव क्रमेण नियोजन कार्यम्। एवं च तत्तत्पशूपाकरणानां स्वस्वनियोजनैस्तुल्यं षोडशक्षणै- यवधानं भवति । अन्यथा केषांचिदत्यन्तव्यवधानं केषांचि- च्चाव्यवधानं स्यात् । तच्च न युक्तम् । तस्माद्येन क्रमेण प्रथमपदार्थोनुष्ठितस्तेनैव द्वितीयोऽनुष्ठेयः । तत्सिद्धं प्रथमानुष्ठितपदार्थक्रमाद्यो द्वितीयपदार्थक्रमः स प्रवृत्ति- क्रम इति । तदेवं निरूपितः संक्षेपतः षड्विधक्रमनिरूपणेन प्रयो- गविधिव्यापारः। फलस्वाम्यबोधको विधिरधिकारविधिः। फलस्वाम्यं च कर्म- जन्यफलभोक्तृत्वम् । स च यजेत स्वर्गकाम इत्येवंरूपः । अनेन हि स्वर्गमुद्दिश्य यागं विद्धता स्वर्गकामस्य यागजन्यफलभोक्तृत्वं प्रतिपाद्यते । यस्याहिताग्नेरग्निहान् दहेत् सोऽग्नये क्षामवतेऽष्टा- *यद्यपि काशीमुद्रिते कलिकातानगरे महामहोपाध्यायश्रीकृष्णनाथन्यायप- ञ्चाननभट्टाचार्यैः स्वयं व्याख्याय संस्कृत्य मुद्रिते च पुस्तके 'गुणत्वसामान्यात्' इति पाठो दृश्यते । भट्टाचार्यकृतटीकायामपि गुणत्वेतिप्रतीकमुपादाय 'गुण- त्वरूपसाधादित्यर्थः' इति गुणत्वेत्येवोपलभ्यते। तथाप्यैकादशिनानां प्राजाप- त्यानां च गणत्वमसाधारणं सामान्यं, गुणत्वं त्वङ्गत्वरूपं देक्षादिपशुसाधारणमिति तत एवोपाकरणाद्यङ्गजातप्राप्तिसंभवादैकादशिनपर्यन्तानुधावनं व्यर्थ स्यात् । १ गुणत्व आपदेवकृतः। अत , कपालं पुरोडाशं निर्वपेदित्यादिभिस्तु गृहदाहादौ निमित्ते कर्म- विदधद्भिनिमित्तवतः कर्मजन्यपापक्षयरूपफलस्वाम्यं प्रतिपाद्यते । तच्च फलस्वाम्यं तस्यैव योऽधिकारिविशेषणविशिष्टः । अधि- कारिविशेषणं च तदेव यत्पुरुषविशेषणत्वेन श्रुतम् । एव 'राजा राजसूयेन स्वाराज्यकामो यजेत' इत्यनेन स्वाराज्यमु- द्दिश्य राजसूयं विद्धतापि न स्वाराज्यकाममात्रस्य तत्फलभो- तृत्वं प्रतिपाद्यते किं तु राज्ञः सतस्तत्कामस्य । किंचित्तु पुरुषविशेषणत्वेनाश्रुतमप्यधिकारिविशेषणं भवति । यथाध्ययनविधिसिद्धा विद्या, अग्निसाध्येषु च कर्मसु आधानसि- द्धाग्निमत्ता, सामर्थ्य च । एतेषां पुरुषविशेषणत्वेनाश्रवणेप्यधिकारि- विशेषणत्वमस्त्येव । उत्तरक्रतुविधीनां ज्ञानाक्षेपशक्तेरभावेनाध्ययन- विधिसिद्धज्ञानवन्तं प्रत्येव प्रवृत्तेः । अग्निसाध्यकर्मणां चाम्न्यपे- क्षत्वेन तद्विधीनामाधानसिद्धाग्निमन्तं प्रत्येव प्रवृत्तेः । अत एव च शूद्रस्य न यागादावधिकारः । तस्याध्ययनविधि- सिद्धज्ञानाभावात् , आधानसिद्धाग्यभावाच्च, अध्ययनस्योपनी- ताधिकारत्वादुपनयनस्य चाष्टवर्ष ब्राह्मणमुपनयीतेत्यादिना त्रैव- र्णिकाधिकारत्वात् । आधानस्यापि 'वसन्ते ब्राह्मणोऽग्नीनादधीत' इत्यादिना त्रैवर्णिकाधिकारित्वात् । यद्यपि च वर्षासु रथकारोऽग्नीनाद्धीतेत्यनेन रथकारस्य सौध- न्वनापरपर्यायस्याधानं विहितं, योगाढूँढेर्बलीयस्त्वात्, तथापि नास्योत्तरकर्मस्वधिकारः । अध्ययनविधिसिद्धज्ञानाभावात् । न च तदभावे आधानेऽपि कथमधिकारः, तदनुष्ठानस्य त- साध्यत्वादिति वाच्यम् । तस्याध्ययनविधिसिद्धज्ञानाभावेऽपि 'व- सु रथकारोऽग्नीनादधीत' इत्यनेनैव विधिनाऽऽधानमात्रौपयिकज्ञा- नाक्षेपणात् । अन्यथा एतस्यैव विधेरनुपपत्तेः । अतश्च रथकारस्या- धानमात्रेऽधिकारेऽपि नोत्तरकर्मस्वधिकारो विद्याभावात् । एवं च तदाधानं नाग्निसंस्कारार्थम् । संस्कृतानामग्नीनामुत्तर- त्रोपयोगाभावात्, किं तु तदाधानं लौकिकाग्निगुणकं विश्वजि- च्यायेन स्वर्गफलं च स्वतन्त्रमेव प्रधानकर्म विधीयते । अग्नी- निति च द्वितीया सक्तून् जुहोतीतिवत्तृतीयार्था इति । १°स्त्वग्निदा. २ शक्ती इतिकाशीमु० कलिकातामु० पु. पाठः.
मीमांसान्यायप्रकाशः। ४५ प्रकृतमनुसरामः। तत्सिद्धं शूद्रस्याध्ययनविधिसिद्धज्ञानाभावादा- धानसिद्धाग्यभावाच्च नोत्तरकर्मवधिकार इति । नन्वेवं स्त्रिया अधिकारो न स्यात् । तस्या अध्ययनप्रतिषेधेन तद्विधिसिद्धज्ञानाभावात् । न च नास्त्येवेति वाच्यम् । यजेत स्वर्ग- काम इत्यादौ स्वर्गकामपदस्योद्देश्यसमर्पकत्वेन पुंस्त्वस्योद्देश्यविशेष- णत्वाद्रहैकत्ववदविवक्षितत्वेन स्त्रिया अधिकारस्य साधितत्वादिति चेत्सत्यम् । अधिकारः साधितो न तु स्वातत्र्येण, न स्त्री स्वातन्त्र्यमहतीत्या- दिना तस्य निषिद्धत्वात् । स्वातत्र्येण कर्तृत्वे प्रयोगद्वयस्यापि वैगु- ण्यापत्तेश्च । यजमानप्रयोगे पत्नीकर्तृकाज्यावेक्षणादिलोपात्, पत्नी- प्रयोगे च यजमानकर्तृकाज्यावेक्षणादिलोपात् । अतो दम्पत्योः सहाधिकारः। सहाधिकारत्वेन यजमानविद्ययैव पल्या अपि कार्य- सिद्धेनं ज्ञानं विना तस्या अधिकारेऽनुपपत्तिः। 'पाणिग्रहणात्तु सहत्वं कर्मसु तथा पुण्यफलेषु' इति वचनेन स्त्रिया अधिकारनिर्णयाच्च । निषादस्थपतेरिवाध्ययनविधिसिद्धज्ञान- विरहिणोऽपि 'एतया निषादस्थपतिं याजयेत्' इति वचनान्निषा- देष्ट्याम् । निषादस्थपतिशब्दे हि निषादं स्थपतिं चेति कर्मधारयो न तु निषादानां स्थपतिरिति षष्ठीतत्पुरुषः [तदपेक्षया कर्मधारयस्य बली- यस्त्वात् । ] षष्ठयर्थे लक्षणापत्तेः । एतावांस्तु विशेषः-निषादस्या- ध्ययनविधिसिद्धज्ञानाभावेन एतस्यैव विधेस्तत्कौपयिकज्ञानाक्षेपक- त्वम् । पत्न्यास्तु तादृशज्ञानाभावेऽपि यजमानेन सहाधिकारात्तस्य च तादृशज्ञानवत्त्वात्तेनैव च तस्याः कार्यसिद्धेर्नोत्तरक्रतुविधीनां ज्ञानाक्षेपकत्वम् । ये तु पत्नीमात्रकर्तृकाः पदार्थाः आज्यावेक्षणादयस्ते ज्ञानं वि- नाऽशक्यानुष्ठाना इति तद्विधीनां तदाक्षेपकत्वं स्वीक्रियते इति । तसिद्धमध्ययनविधिसिद्धज्ञानस्याधानसिद्धाग्निमत्तायाश्चोत्तरकर्मसु अधिकारिविशेषणत्वमिति । एवं सामर्थ्यस्यापि अधिकारिविशेषणत्वम् । असमर्थ प्रति वि- ध्यप्रवृत्तेः । आख्यातानामर्थ ब्रुवतां शक्तिः सहकारिणीति न्या- यात् । तच्च सामर्थ्य काम्ये कर्मणि अङ्गप्रधानविषयम् । न त्वङ्गा- १ [] इति चिह्नितं लिखितपुस्तकेऽधिकम् ।
आपदेवकृतः । समर्थः प्रधानमात्रसमर्थश्च काम्ये कर्मण्यधिकारी । प्रधानविधे- रङ्गविध्येकवाक्यतापन्नस्य साङ्गकर्मसमर्थ प्रत्येव प्रवृत्तः । यथा- विनियोगमधिकारात् । यदि हि समथै प्रत्येव प्रवृत्तौ कयाचित् श्रुत्या विरोधः स्यात् तदाऽसमर्थस्याप्यधिकारः स्यात् । न च विरो- धोऽस्ति । स्वर्गकामश्रुतेः समर्थ प्रत्येव प्रवृत्तौ विरोधाभावात् । प्रत्युतासमथै प्रति प्रवृत्तौ प्रधानविधेरङ्गवाक्यैकवाक्यतया प्रतिप- नस्याङ्गसाहित्यस्य बाधापत्तेः । नित्यवत् श्रुतानामङ्गानां पाक्षि- कत्वप्रसङ्गाच्च । अतः साङ्गे प्रयोगे समर्थस्यैव काम्ये कर्मण्यधि- .. कारः। नित्यकर्मणां त्वङ्गेषु यथाशक्तिन्यायः । तानि हि यावज्जीव- श्रुत्या यावज्जीवं कर्तव्यत्वेन चोदितानि । न च यावज्जीवं केनापि साङ्गः प्रयोगः कर्तुं शक्यते । अतो नित्यकर्मसु प्रधानमात्रसमर्थो- ऽधिकारी, अङ्गानि तु यावन्ति कर्तुं शक्यन्ते तावन्ति कार्याणी- त्यास्तां बहूत्तया, सूरिभिः पराक्रान्तत्वात् । तत्सिद्धं फलस्वाम्यबोधको विधिरधिकारविधिरिति । तदेवं निरूपितं चतुर्विधभेदनिरूपणेन विधेः प्रयोजनवदर्थपर्यवसानम् । मन्त्राणां च प्रयोगसमवेतार्थस्मारकतयार्थवत्त्वम् । न तु तदुच्चा- रणमदृष्टार्थ दृष्टे संभवति अदृष्टस्यान्याय्यत्वात् । न च दृष्टस्य प्र- कारान्तरेणापि संभवान्मत्रानानमनर्थकम् । मत्रैरेव स्मर्तव्यमिति नियमविध्याश्रयणात्- साधनद्वयस्य पक्षप्राप्तौ अन्यतरस्य साधनस्याप्राप्ततादशायां यो विधिः स नियमविधिः । यथाहुः- विधिरत्यन्तमप्राप्ते नियमः पाक्षिके सति । तत्र चान्यत्र च प्राप्तौ परिसङ्ख्येति गीयते ॥ इति । अस्यायमर्थः । यस्य यदर्थत्वं प्रमाणान्तरेणाप्राप्तं तस्य तदर्थ- त्वेन यो विधिः सोऽपूर्वविधिः । यथा 'यजेत स्वर्गकामः' इत्यादिः । यागस्य हि स्वर्गार्थत्वं न प्रमाणान्तरेण प्राप्तं किंत्वनेनैव विधिनेति भवत्ययमपूर्वविधिः । पक्षेऽप्राप्तस्य तु यो विधिः स नियमविधिः । यथा 'ब्रीहीनवह- न्ति' इत्यादिः । अनेन हि विधिनाऽवघातस्य न वैतुष्यार्थत्वं बोध्यते - १ ज्ञायते.
मीमांसान्यायप्रकाशः । अन्वयव्यतिरेकसिद्धत्वात् । किंतु नियमः । स चाप्राप्तांशपूरणम् , वैतुष्यस्य हि नानोपायसाध्यत्वाद्यस्यां दशायामवघातं परिह- योपायान्तरं ग्रहीतुमारभते तस्यां दशायामवघातस्याप्राप्तत्वेन त- द्विधानात्मकमप्राप्तांशपूरणमेवानेन विधिना क्रियते । अतश्च निय- मविधावप्राप्तांशपूरणात्मको नियम एव वाक्यार्थः । पक्षेऽप्राप्तता- दशायामवघातविधानमिति यावत् । न त्वपूर्वविधाविवात्यन्ताप्रा- प्तयागविधानमिति । उभयस्य युगपत् प्राप्तौ इतरव्यावृत्तिपरो विधिः परिसङ्ख्याविधिः। यथा 'पञ्च पञ्चनखा भक्ष्याः' इति । इदं हि वाक्यं न भक्षणवि- धिपरं, तस्य रागतः प्राप्तत्वात् । नापि नियमपरं, पञ्चनखापञ्चन- खभक्षणस्य युगपत्प्राप्तेः पक्षेप्राप्त्यभावात् । अव इदमपञ्चनखभ- क्षणनिवृत्तिपरमिति भवति परिसङ्ख्याविधिः । सा च परिसङ्ख्या द्विविधा श्रौती लाक्षणिकी चेति । तत्र 'अत्र ह्येवावयन्ति' इत्यत्र श्रौती परिसङ्ख्या । एवकारेण पेवमानातिरिक्त- स्तोत्रव्यावृत्तेरभिधानात् । पञ्च पञ्चनखा भक्ष्या इत्यत्र तु लाक्षणिकी । इतरनिवृत्ति- वाचकस्य पदस्याभावात् । अत एवैषा त्रिदोषग्रस्ता। दोषत्रयं च श्रुतहानिरश्रुतकल्पना प्राप्तबाधश्चेति । श्रुतस्य पञ्चनखभक्षणस्य हानादश्रुतापञ्चनखभक्षणनिवृत्तिकल्पनात्प्राप्तस्य चापञ्चनखभक्ष- णस्य बाधनादिति । अस्मिंश्च दोषत्रये दोषद्वयं शब्दनिष्ठम्, प्राप्त- बाधस्तु दोषोऽर्थनिष्ठ इति दिक् । तत्सिद्धं मत्रैरेव स्मर्तव्यमिति नियमविध्याश्रयणान्न मन्त्रानान- मनर्थकम् । अतश्च युक्तं मन्त्राणां प्रयोगसमवेतार्थस्मारकतया- र्थवत्त्वम् । तत्र ये मत्रा यत्र पठितास्तेषां तत्र यद्यर्थप्रकाशनं प्रयोजन संभवति तदा तत्रैव विनियोगः । येषां तु न संभवति तेषां यत्र संभवति तत्रोत्कर्षः । यथा पूषानुमन्त्रणमत्राणामित्युक्तम् । येषां कापि न संभवति तदुच्चारणस्य त्वगत्याऽदृष्टार्थत्वम् । सर्वथापि तु तेषां नानर्थक्यमिति । १ स्यांशेऽप्रा. २ गायत्रीबृहत्यनुष्टुबितरव्यावृत्ते इति लिखितपुस्तके पाठः। ३°कत्वम्.
आपदेवकृतः। नामधेयानां विधेयार्थपरिच्छेदकतयार्थवत्त्वम् । तथाहि 'उद्भिदा यजेत पशुकामः' इत्यत्र उद्भिच्छब्दो यागनामधेयम् । तेन च वि- धेयार्थपरिच्छेदः क्रियते । अनेन हि वाक्येनाप्राप्तत्वात्फलोद्देशेन यागो विधीयते । यागसामान्यस्य चाविधेयत्वाद्यागविशेष एव विधीयते । तत्र कोऽसौ विशेष इत्यपेक्षायां उद्भिच्छब्दादुद्भिद्रूपो याग इति ज्ञायते । उद्भिदा यागेनेति सामानाधिकरण्येन नामधे- यान्वयात् । तस्य च यजिना सामानाधिकरण्यं न नीलोत्पलादिशब्दवत् । तत्र हि उत्पलशब्दस्यार्थादुत्पलादन्यो नीलशब्दस्य वाच्यार्थोऽस्ति नीलगुणः । लक्षणया तु नीलशब्दस्य द्रव्यपरत्वेन सामानाधिक- रण्यम् । उद्भिच्छब्दस्य तु यज्यवगतयागविशेषान्नाऽन्यो वाच्यो- ऽर्थोस्ति विशेषवाचित्वात्तस्य । अतश्चार्थान्तरवाचित्वाभावेन न नामधेयस्य नीलशब्दवत्सा- मानाधिकरण्यं, किं तर्हि वैश्वदेव्यामिक्षेत्यत्रामिक्षाशब्दवत् । वै- श्वदेवीशब्दस्य हि देवतातद्धितान्तत्वात्तद्धितस्य च 'सास्य देवता' इति सर्वनामार्थे स्मरणात् , सर्वनाम्नां चोपस्थितविशेषवाचित्वेन विशेषपरत्वम् । तत्र कोऽसौ वैश्वदेवीशब्दोपात्तो विशेष इत्यपे- क्षायामामिक्षापदसान्निध्यादामिक्षारूपो विशेष इत्यवगम्यते । यथाहु:- आमिक्षां देवतायुक्तां वदत्येवैष तद्धितः । आमिक्षापदसांनिध्यात्तस्यैव विषयार्पणम् ॥ इति । तथा- श्रुत्यैवोपपदस्यार्थः सर्वनाम्ना प्रतीयते । तदर्थस्तद्धितेनैवं त्रयाणामेकवाच्यता ॥ इति । तस्माद्यथा वैश्वदेवीशब्दोपात्तविशेषसमर्पकत्वेनामिक्षापदस्य वै- श्वदेवीशब्देन सामानाधिकरण्यमेवं सामान्यस्याविधेयत्वाद्यज्यवग- तयागविशेषसमर्पकत्वेन नामंधेयस्य यजिना सामानाधिकरण्यम् । तत्सिद्धं नामधेयानां विधेयार्थपरिच्छेदकतयाऽर्थवत्त्वम् । यथाहुः 'तदधीनत्वाद्यागविशेषसिद्धेः' इति । नामधेयत्वं च निमित्तचतुष्टयात् । मत्वर्थलक्षणाभयात्, वा- क्यभेदभयात्, तत्प्रख्यशास्त्रात्, तव्यपदेशाच्चेति । तत्रोद्भिदा यजेत पशुकाम इत्यत्र उद्भिच्छब्दस्य यागनामधेयत्वं मत्वर्थलक्षणा- १ सर्वनाम्नः. २ वाक्यता.
मीमांसान्यायप्रकाशः। ४९ भयात् । तथाहि उद्भिच्छब्दस्य गुणसमर्पकत्वे यागानुवादेन तावन्न गुणविधानं युज्यते, फलपदानर्थक्यापत्तेः। न चानेन वाक्येन फलं प्रति यागविधानं तस्मिंश्च गुणविधानं युज्यते वाक्यभेदापत्तेः । नापि गुणफलसंबन्धविधानं संभवति परपदार्थविधानेन विप्रकृष्टार्थविधानापत्तेः, धात्वर्थस्य स्वरूपे- णाविधानात्तदुद्देशेन वान्यस्य कस्यचिदविधानाद्धातोरत्यन्तपा- रार्थ्यापत्तेश्च । यज्यानर्थक्यापत्तेश्च । नहि तदानेन करणं समर्प्यते, गुणस्य करणत्वेनान्वयात् । नापि फलं, पशोर्भाव्यत्वेनान्वयात् । अथ गुणफलसंबन्धविधाने यागस्या- श्रयत्वेन संबन्ध इति चेत् । न । यजेतेत्यत्र आश्रयत्ववाच- कपदाभावात् । अथ सिद्धान्ते करणत्वमिवाश्रयत्वमपि लक्ष्यमिति चेन्न । आश्रयत्वापेक्षया करणत्वस्य लघुत्वेन तल्लक्षणाया एव युक्तत्वात् । फलाय विधीयमानो गुणो यत्र कारकतामापद्यते स आश्रयः, तत्त्वं चाश्रयत्वम् । करणत्वं च निष्कृष्टा शक्तिरिति लाघवम् । किंच गुणफलसंबन्धविधाने करणीभूतो गुणस्तन्निष्टं वा करण- त्वं फलोद्देशेन विधेयम् । तत्राद्ये पक्षे करणत्वस्य गुणोपसर्जनत्वेन प्रतीतिर्लक्षणयैव वाच्या । तस्य तृतीयाप्रत्ययार्थत्वात् प्राधान्ये- नोपस्थितेः। यदापि गुणनिष्ठं करणत्वं फलोद्देशेन विधेयं तदापि फलभाव- नायां करणत्वेनान्वययोग्यगुणनिष्ठकरणत्वोपस्थितिलक्षणयैव वा- च्या । तृतीयाभिहितस्य करणकारकस्य क्रियान्वययोग्यस्य करण- त्वेनान्वयायोग्यत्वात् । करणशब्देनाभिहितं हि करणकारकं तत्वे- नान्वययोग्यं न तृतीयाभिहितम् । करणशब्दादिव तृतीयातस्तृ- तीयोत्पत्तिप्रसङ्गात् । अतश्च करणत्वेनान्वययोग्यगुणनिष्ठकरणत्वोपस्थितिलक्षणयैव वाच्या । लक्षणया चोपस्थितकरणत्वस्य करणीभूतस्य वा गुणस्य फलभावनायां यत्करणत्वं तदपि लेक्षणयैव वाच्यम् । श्रूयमा- णया तृतीयया गुणमात्रस्य यागं प्रति करणत्वाभिधानात् । १ करणत्वेनैवान्वययोग्यत्वादिति कलिकातामुद्रितपुस्तकपाठः । स च प्रामा- दिकः । २ तल्लक्ष। ५ मी० न्या ५० आपदेवकृतः। अत एव तत्ररत्ने चतुर्थे करणीभूतगोदोहनादेः पश्वर्थत्वं सम- भिव्याहारादित्युक्तम् । अतश्च गुणफलसंबन्धविधाने धातोरत्यन्त- पारार्थ्यादिबहुदोषवत्त्वादुद्भिच्छब्दस्य गुणसमर्पकत्वे गुणविशिष्ट- कर्मविधानमेव स्वीकार्यम् तथा सति हि यजिना लघुभूतं करणत्वमानं लक्ष्यते । उद्भिच्छ- व्देन च प्रकृत्यंशेन मत्वर्थमात्रं लक्ष्यमिति गुणफलसंबन्धविधानाला- घवं भवति । धातोरत्यन्तपारार्थ्यादिकं तु न भवत्येव । धात्व- र्थस्यैव फलोदेशेन विधानात् । अतश्चोद्भिच्छब्दस्य गुणसमर्पकत्वे तेन मत्वर्थ लक्षयित्वा गुण- विशिष्टकर्मविधानं स्वीकार्यमुद्भिद्वता यागेन पशुं भावयेदिति । कर्मनामधेयत्वे तु उद्भिच्छब्दस्य न मत्वर्थलक्षणा । मुख्ययैव वृत्त्या यजिसामानाधिकरण्येन तस्यान्वयसंभवात् । उद्भिदा यागेन पशुं भावयेदिति । संभवति च मुख्येऽर्थे लक्षणा आश्रयितुं न युक्ता । सन्निकृष्ट- विधानं तु समानमेव । न चैवं सोमेन यजेतेत्यत्रापि सोम- पदस्य यागनामधेयत्वापातो गुणसमर्पकत्वे मत्वर्थलक्षणापत्तेरिति वाच्यम् । सोमपदस्य लतायां रूढत्वेन यागनामधेयत्वानुपपत्ते- रगत्या लक्षणाश्रयणात् । उद्भिच्छब्दस्य तु नैवं वाच्योऽर्थः कश्चित्प्र- सिद्धः । उद्भिद्यतेऽनेनेति योगस्य तु गुण इव यागेऽपि फलो- द्भेदनकारिण्युपपत्तेः । तत्सिद्धमुद्भिच्छब्दस्य मत्वर्थलक्षणाभयाद्या- गनामधेयत्वमिति । 'चित्रया यजेत पशुकामः' इत्यत्र चित्राशब्दस्य वाक्यभेदभया- कर्मनामधेयत्वम् । तथा हि-न तावत्र गुणविशिष्टयागविधानं संभवति, 'दधि मधु पयो घृतं धाना उदकं तण्डुलास्तत्संसृष्टं प्राजापत्यम्' इत्यनेन विहितत्वाद्यागस्य विशिष्टविधानानुपपत्तेः । प्राप्तस्य च यागस्य फलसंबन्धे गुणसंबन्धे च विधीयमाने वाक्यभेदः । अथ चित्राशब्दात् चित्रत्वस्त्रीत्वयोः प्रतिपत्तेः स्त्री- त्वस्य च स्वभावतः प्राणिधर्मत्वात्प्रकृते दध्यादिद्रव्यके कर्मणि निवेशायोगान्नानेन वाक्येन प्रकृते कर्मणि गुणविधानं, किंतु प्राणिद्रव्यके कर्मणि । तत्रास्य वाक्यस्यानारभ्याधीतत्वात्, अ- नारभ्याधीतानां च 'प्रकृतौ वाऽद्विरुक्तत्वात्' इति न्यायेन प्रक- १त्वेन म।
मीमांसान्यायप्रकाशः। ५१ तिगामित्वात्प्राणिद्रव्यकाणां च यागानां 'दैक्षस्य चेतरेषु' इति न्यायेनाग्नीषोमीयप्रकृतिकत्वात्तदनुवादेनानेन वाक्येन गुणो वि- धीयते । दैक्षस्य च ज्योतिष्टोमाङ्गत्वेन स्वतत्रफलाकाङ्क्षाया अभावात्प- शुकामपदं न फलसमर्पकं, किंतु अग्नीषोमीयपश्वर्जनाङ्गतया प्राप्त- कामनानुवादः । तथाच न वाक्यभेद इति चेत् । तथापि दै- क्षानुवादेन चित्रत्वस्त्रीत्वविधाने वाक्यभेदात् । विशिष्टकारकवि- धानेऽपि गौरवलक्षणो वाक्यभेद एव । कारकस्यापि प्राप्तत्वेन विशि- ष्टविधानानुपपत्तेश्च । कोमपदस्यापि स्वरसतः फलपरस्य कामनानुवादत्वे आनर्थक्या- पत्तेश्च । नच नियमतः पश्वर्जनकामना भवति, कामनातः प्रागेव केन- चिद्दत्ते पशौ तदभावात् । तथा च पशुकामपदस्य नित्यवच्छ्रवणबाधः। दैक्षस्योत्पत्तिशिष्टपुंस्त्वावरुद्धत्वेन तत्र स्त्रीत्वविधानानुपपत्तेश्च । आमिक्षायागानुवादेन वाजिनविधानवत् । 'कृष्णसारङ्गोऽग्नीषो- मीयः' इति विशेषविहितेन स्वसन्निधिपठितेन च कृष्णसारङ्गवर्णे- नावरुद्धे चित्रत्वस्यानारभ्याधीतेन सामान्यशास्त्रेण विधानानुप- पत्तेश्च । पाञ्चदश्यावरुद्ध इव साप्तदश्यविधानम् । अथ मा भूदग्नीषोमीयपश्वनुवादेन चित्रत्वस्त्रीत्वविधानम् । 'सा- रस्वती मेषी' इति वाक्यविहितयागाङ्गमेष्यनुवादेन तु गुणविधानं स्यात् । चित्रयेति स्त्रीकारकानुवादेन चित्रत्वमात्रविधानात् । नच प्राकृतेन कृष्णसारङ्गवर्णेन नैराकाङ्क्षयान्न चित्रत्वविधानं युक्तमिति वाच्यम् । उपदिष्टेन चित्रत्वेनातिदिष्टस्य वर्णान्तरस्य बाधोपपत्ते- रिति चेन्मैवम्। नहि चित्रयेत्येकेन पदेन स्त्रीकारकस्योद्देशः चित्रत्वस्य च विधानं संभवति । एकप्रसरताभङ्गलक्षणवाक्यभेदापत्तेः । उद्देश्य- विधेयभावस्यानेकपदसाध्यत्वात् । अत एव वषट्कर्तुः प्रथमभक्ष इत्यत्र विशिष्टभक्षविधिर्न तु भक्षानुवादेन प्राथम्यविधिरित्युक्तं तृतीये। मेष्यनुवादेन चित्रत्वविधाने फलपदानर्थक्यापत्तेश्च । उभय- * दैक्षोऽनीषोमीयस्तस्य इतरेषु पशुष्वति देश इति न्यायः सूत्रम् । १ चेन्न । त। २ पशुकामप.।
५२ आपदेवकृतः। विधाने वाक्यभेदात् । प्रकृतस्य च यागस्य फलाकाङ्क्षाया अनि- वृत्तेः । विश्वजिन्यायेन फलकल्पने गौरवम् । दधिमध्वित्याद्युत्प- त्तिवाक्येनैतस्याधिकारवाक्यस्य प्रतिपन्नैकवाक्यताबाधेन वाक्य- भेदप्रसङ्गाच्च । चित्राशब्दस्य तु कर्मनामधेयत्वे प्रकृतस्य कर्मणः फलाकाङ्क्षस्य फलसंबन्धमात्रकरणान्न वाक्यभेदः । प्रकृताया इष्टेरनेकद्रव्यकत्वेन चित्राशब्दस्य तत्रोपपत्तेः । तत्सिद्धं वाक्यभे- दभयाच्चित्राशब्दः कर्मनामधेयमिति । अग्निहोत्रं जुहोतीत्यत्राग्निहोत्रशब्दस्य कर्मनामधेयत्वं तत्प्रख्य- शास्त्रात् । तस्य गुणस्य प्रख्यापकस्य प्रापकस्य शास्त्रस्य विद्यमा- नत्वेनाग्निहोत्रशब्दः कर्मनामधेयमिति यावत् । तथाहि-विधिना तावत्तदेव विधेयं यत्प्रकारान्तरेणाप्राप्तम् । अप्राप्ते शास्त्रमर्थवदिति न्यायात् । अग्निहोत्रशब्दस्य च गुणविधित्वे यो गुणस्तेन विधेयः स शास्त्रान्तरेण प्राप्तः । कथमिति चेत् शृणु । यदि तावदग्नौ होत्रमस्मिन्निति सप्तमी- समासमाश्रित्य होमाधारत्वेनाग्निविधेय इत्युच्येत तदा यदाहवनीये जुहोतीत्यनेनैव प्राप्तत्वाद्विध्यानर्थक्यम् । अथाग्नये होत्रमस्मिन्निति चतुर्थीसमासमाश्रित्याग्निरूपदेवता- नेन समर्प्यते इति चेत्-न । शास्त्रान्तरेण प्राप्तत्वात् । किं त- च्छास्त्रान्तरमिति चेत्र केचित्—'यदग्नये च प्रजापतये च सायं जुहोति' इति शास्त्रान्तरेण होमानुवादेनाग्निप्रजापत्योर्विधानान्नाग्नि- होत्रपदं देवतासमर्पकम् । न चोभयविधाने वाक्यभेदः । परस्परनिरपेक्षविधाने हि वाक्य- भेदः स्यात् , अग्नये जुहोति प्रजापतये जुहोतीति प्रत्येकं विधि- व्यापारात् । चशब्दश्रवणात्तु परस्परसापेक्षस्यैव पदवयस्याख्या- तान्वयान्न वाक्यभेदः । अत एव ऋत्विग्भ्यो दक्षिणां ददातीति वाक्यविहितदक्षिणा- नुवादेन 'गौश्चाश्वश्चाश्वतरश्च गर्दभश्चाजाश्चावयश्च व्रीहयश्च यवाश्च तिलाश्च माषाश्च तस्य द्वादशशतं दक्षिणा' इति वाक्येन गवा- दीनां विधानं दशमोक्तं संगच्छते । परस्परसापेक्षाणां गवादीनां विधानेन वाक्यभेदाभावात् । अन्यथा दक्षिणानुवादेनानेकेषां गवादीनां विधानं नैव संगच्छेतेति । १ प्रतीयमानै।
मीमांसान्यायप्रकाशः। ५३ अग्निप्रजापत्योश्च देवतयोः सतोः समुच्चयो न तु समुच्चितयो- देवतात्वं, पृथक्कारकविभक्तिश्रवणात् । चकारार्थस्य *विभक्त्यर्थे- नान्वयात्तस्याप्राधान्यात् । अतश्च नाग्नीषोमादिवदग्निप्रजापत्यो- देवतात्वमिति । अन्ये त्वाचार्या आहुः । अग्नये च प्रजापतये च सायं जु- होतीति वाक्यं नाग्नेः प्रापकम्, होमानुवादेन प्रजापतिविधानात् । न च विनिगमनाविरहादुभयविधानं युक्तमिति वाच्यम् । वि- धिना हि तदेव विधीयते यत्प्रकारान्तरेणाप्राप्तम् । तत्र यथानेन वाक्येन सायंकालो न विधीयते सायं जु- होतीति वचनान्तरेण प्राप्तत्वात्, तथाग्निरपि न विधीयतेऽग्नि- ज्योतिरग्निः स्वाहेति मत्रवर्णादेव प्राप्तत्वात् । मत्रवर्णस्यापि देवतासमर्पकत्वमस्त्येव । अत एवोपांशुयाजे विष्ण्वादीनां मात्र- वर्णिकं देवतात्वमित्युक्तम् । नन्वेवं प्रजापतिदेवतया अग्नेर्बाधः स्यात् । चतुर्थ्या हि प्रजा- पतेर्देवतात्वमवगम्यते, अग्नेस्तु मात्रवर्णिकम् । तत्र 'साऽस्य देवता' इति देवतात्वे तद्धितस्मरणवद्यद्यपि देवतात्वे चतुर्थीस्मरणं नास्ति, संप्रदाने चतुर्थीति संप्रदाने तस्याः स्मरणात्, तथापि त्यज्यमान- द्रव्योद्देश्यत्वं तावद्देवतात्वम् । तच्च संप्रदानस्वरूपान्तर्गतं, त्यज्य- मानद्रव्योद्देश्यत्वे सति प्रतिग्रहीतृत्वस्य संप्रदानत्वात् । अतश्चतु- तः संप्रदानैकदेशतया देवतात्वप्रतीतिरस्त्येव मत्रवर्णात्तु न देवतात्वं प्रतीयते, किं त्वधिष्ठानमात्रम् । अतश्च मत्रवर्णश्चतुर्थीतो दुर्बलः । यथाहुः- तद्धितेन चतुर्थ्या वा मत्रवर्णेन वा पुनः । देवताया विधिस्तत्र दुर्बलं तु परं परमिति । अतश्च प्रबलप्रमाणबोधितप्रजापतिदेवतया दुर्वलप्रमाणबोधि- तानेर्बाधः स्यादिति चेत् सत्यम् । स्यादाधो यदि प्रजापतये जुहोतीति केवलं प्रजापतिविधानं स्यात् । विधीयमानस्तु प्रजापतिर्मत्रवर्णप्राप्तमग्निमनूद्य तत्समुचितो अत्र श्रीकृष्णनाथन्यायपश्चाननभट्टाचार्यास्तु 'चकारार्थेनान्वयात्' इति पठित्वा चकारार्थेन चकारार्थान्वितचतुर्थ्यर्थेनेति व्याचख्युः । १ तस्य प्राधान्यापातात् । २ °कत्वात्। ३°व्यत्वेसति प्रतिष्ठादिहीनत्वस्य सं (१) आपदेवकृतः। होमोद्देशेन विधीयते । समुच्चितोभयविधानापेक्षयाऽन्यतः प्राप्तम- ग्निमनूद्य तत्समुच्चितप्रजापतिमात्रविधाने लाघवात् । अतश्च न बाधकत्वं, निरपेक्षविधानाभावात् । यथा च त्वन्म- तेऽग्निप्रजापत्योरेकहोमोद्देशेन विधानातुल्यार्थत्वेन विकल्प प्रसक्ते प्रजापतेर्न पाक्षिकमग्निबाधकत्वं, समुच्चयविधानात्, एवं मत्रवर्ण- प्राप्तमग्निमनूद्य तत्समुच्चितप्रजापतिविधानेऽपि न बाधकत्वमिति तुल्यम् । यत्त्वग्नेत्रिवर्णिकत्वेऽग्निोतिर्योतिः सूर्यः स्वाहेति मिश्रलि- ङ्गमत्रवर्णबलात्सायहोमस्य द्विदैवत्यत्वापत्तिरिति । तन्न । अग्नि- समुच्चितप्रजापतिविधानवत्सूर्यसमुच्चितस्याविधानात्प्रबलप्रमाणबो- धितेन प्रजापतिना मत्रवर्णप्राप्तस्य सूर्यस्य बाधितत्वात् । यत्त्वग्नेर्मात्रवर्णिकत्वे प्रजापतिविधेरेकेनैव वाक्येन सिद्धे य- दग्नये च प्रजापतये च सायं जुहोतीति यत्सूर्याय च प्रजापतये च प्रातर्जुहोतीति वाक्यद्वयं व्यर्थमिति तन्न । भवेद्वयर्थ यदि प्र- जापतिमात्रविधानं विवक्षितं स्यात्, सायंहोमेऽग्निसमुच्चितप्रजाप- तिविधानं, प्रातहोंमे सूर्यो ज्योतिर्योतिः सूर्यः स्वाहेति मत्रवर्ण- प्राप्तसूर्यसमुच्चितप्रजापतिविधानं च विवक्षितम् । न चैतदेकेन वाक्येन सिध्यति । अतोऽर्थवेद्वाक्यद्वयम् । यत्तु–अग्नेर्मात्रवर्णिकत्वे मत्रवर्णस्याग्निोतियॊतिरग्निः स्वा- हेति सायं जुहोतीति वाक्येन सायंहोमे विनियुक्तत्वात् तत्प्रका- श्यस्याग्नेरपि प्रजापतिसमुच्चितस्य तत्रैव देवतात्वावगतेर्यदग्नये चेति वाक्ये सायंशब्दो व्यर्थ इति । एवं यत्सूर्याय चेति वाक्ये प्रातःशब्दो व्यर्थ इति । किंच मत्रवर्णेन ज्योतिष्ट्वगुणविशिष्ट- स्याग्नेः प्रकाशनाद्विशिष्टस्यैव देवतात्वापात इति । तदपि न, होमानुवादेन देवताद्वयविधानेऽपि मत्रवर्णयोर्लि- ङ्गादेव प्राप्तिसंभवात्तद्विध्यानर्थक्यात् । मिश्रलिङ्गमत्रविधिपर्युद- स्तयोः प्रतिप्रसवार्थ विधानेऽपि तद्विधिगतयोः सायंप्रातःशब्दयो- रानर्थक्यं, विधीयमानयोर्मत्रयोर्व्यवस्थयैव प्राप्तिसंभवात्तत्प्रकाश्य- योर्देवतयोर्व्यवस्थितत्वात् । अनुवादत्वोक्तिस्तूभयत्र तुल्येति । मात्रवर्णिकत्वेऽपि अग्नेः केवलस्यैव देवतात्वं न गुणविशि- १ सिद्धर । २र्थवद्ध । ३ °पि सर्वत्र म। ४°स्ययोः ।
मीमांसान्यायप्रकाशः। ५५ ष्टस्य । यदग्नये चेति वाक्येऽग्नेः पूर्वाहुतिरित्यत्र च केवलस्यैवाग्नेः संकीर्तनात्केवलस्यैव देवतात्वावगतेः। यथा झुपांशुयाजे विष्ण्वादेर्मात्रवर्णिकत्वेऽपि न गुणविशिष्टस्य देवतात्वं विष्णुरुपांशु यष्टव्य इत्यर्थवादे केवलस्यैव संकीर्तना- त्तद्वदिति। अतश्च मात्रवर्णिकत्वे दोषाभावाद्देवताद्वयविधाने च गौरवा- पत्तेरन्यतः प्राप्तमग्निमनूद्य तत्समुच्चितः प्रजापतिरेवात्र विधीयते । होमानुवादेनोभयविधाने वाक्यभेदप्रसङ्गाच्च । नच चकारश्रवणान्न वाक्यभेद इति वाच्यम् । चकारार्थों हि समुच्चयः । तं च समुच्चयं यदि चकारः प्राधान्येन ब्रूयात्तदा प्रधानस्यानेकविशेषणसंग्राहकत्वादारुण्यादिविशिष्टक्रयविधान इव कारकद्वयसमुच्चयविधाने वाक्यभेदो न भवेत् । नच चकारः समुच्चयं प्राधान्येन ब्रूते परोपसर्जनत्वेनैवाभिधानात् । अत एव दशमे भाष्यकारैश्चकारस्य समुच्चयशब्दाद्वैलक्षण्यं प्रतिपादितम् । समुच्चयशब्दो हि तं प्राधान्येन ब्रूते न चकारः । यदि हि प्राधान्येन ब्रूयात्तदा तत्प्रतिपन्नः समुच्चयः क्रियागुणैः संबध्येत । समुच्चयः शोभनः समुच्चयो द्रष्टव्य इतिवत् च शोभनश्च द्रष्टव्य इति प्रयोगः स्यात् । समुच्चयशब्दवच्चकारस्य प्राधान्येन समुच्चयवाचित्वे धवखदिरयोः समुच्चय इतिवद् धवखदिरयोश्चेत्यपि प्रयोगः स्यादिति । अतश्चकारः समुच्चयं प्राधान्येन न ब्रूते येन प्रधानस्यैकस्य विधानान वाक्यभेदो भवेत् । किंतु कारकद्वयोपसर्जनत्वेनैव स तं ब्रूते । समुच्चितौ अग्निप्रजापती इति प्रधानद्वयविधाने च वाक्यभेदः स्यादेव । यथा ग्रहोद्देशेन संमागैकत्वविधाने । यद्यपि चकारः समुच्चयं प्राधान्येन ब्रूयात्तथापि तस्य कार- कद्वयं प्रति प्राधान्यमनुपपन्नम् , विभक्त्यभिहितस्य कारकद्वयस्य क्रियोपसर्जनत्वेन समुच्चयोपसर्जनत्वाभावात् । कृदन्तादिशब्दैरुप- स्थितं हि कारक क्रियातोऽन्येन संबध्यते । कारकसमुच्चयः करणस- मुच्चय इति । विभक्त्यभिहितं तु क्रिययैव, कारकाणां तयैवान्वयात् । १ रेव । हो । २ चः। ३ चो।
आपदेवकृतः। अंतश्चकारेणोच्यमानः स कारकोपसर्जनत्वेनैवोच्यते । कारक- द्वयं च प्रधानम् । एकोद्देशेन च प्रधानद्वयविधाने वाक्यभेद एव । यथाहुः-- अनेकपदसंबद्धं यद्येकमपि कारकम् । तथापि तदनावृत्तः प्रत्ययैर्न विधीयते ॥ इति । यञ्च यथा दक्षिणानुवादेन गवादीनामनेकेषां विधाने न वा- क्यभेदस्तथा कारकद्वयविधानेऽपीति । तन्न। नहि गौश्चाश्वश्चेत्य- स्मिन् वाक्ये दक्षिणानुवादेन गवादयो विधीयन्ते । उक्तरीत्या वाक्यभेदापत्तेः । चकारेण कथंचित्परिहारेऽपि गवादीनामनेकेषां द्वादशशतसङ्ख्यायाश्च विधाने वाक्यभेद एव । आध्वर्यवशाखायां गौश्चेत्यादेः तस्य द्वादशशतमित्यन्तस्य सहश्रुतत्वेन चास्यैकवाक्य- त्वमित्युक्तं दशमे अतोऽनेन वाक्येनोभयविशिष्टा दक्षिणैव विधीयते । विशिष्ट- विधानाच्च न वाक्यभेदः । अत एव पार्थसारथिमिथैर्दशमे तत्र तत्र सोभयविशिष्टा विधीयते इति, अनेकगवाद्यात्मिकैका दक्षिणा विधीयत इति चोक्तम् । न चैवं ऋत्विग्भ्यो दक्षिणां ददातीत्यस्यानर्थक्यं तस्यानुवादत्वात्। ऋत्विक्संबन्धपरत्वाद्वा । दक्षिणाशब्दसामर्थ्याद्धि ऋत्विजां चैम- साध्वर्वादीनां च तत्संबन्धः स्यात् । एतद्वाक्यसत्त्वे च न भवति, ऋत्विक्शब्दस्य ब्रह्मादिगतऋतुयजननिमित्तत्वेन चमसाध्व!णामृ- त्विक्त्वाभावस्य तृतीये उक्तत्वात् । अतश्च गौश्चाश्वश्चेत्यस्मिन् वाक्ये विशिष्टविधानान वाक्यभेदः । 'यदग्नये च प्रजापतये च सायं जुहोति' इति तु न विशिष्टविधान, होमस्याग्निहोत्रं जुहोतीत्यनेन प्राप्तत्वात् । अतश्च होमानुवादेन समुच्चितोभयविधाने वाक्यभेदागौरवापत्तेश्च नानेन वाक्येन देव- ताद्वयं विधीयते । किंतु मत्रवर्णप्राप्तमग्निमनूद्य तत्समुच्चितः प्रजापति)मोद्देशेन विधीयते । अतश्च नेदमग्नेः प्रापकं किंतु मत्रवर्ण एव । अतश्च तेनाग्नेः प्राप्तत्वान्नाग्निहोत्रपदं देवतासमर्पकं किं तर्हि नामधेयमेव । तत्सि- द्धमेतत्तत्प्रख्यशास्त्रादग्निहोत्रशब्दस्य कर्मनामधेयत्वमिति । १ त्वेन वाक्यैकवा । २ प्रकाशाध्वर्वादीनामिति कलिकातामु० पु० पाठः।
मीमांसान्यायप्रकाशः । ५७ .. एवं प्रयाजेषु समिदादिदेवतानां समिधः समिधोऽग्न आज्यस्य व्यन्त्वित्यादिमत्रवर्णेभ्यः प्राप्तत्वात्समिधो यजतीत्यादिषु समिदा. दिशब्दास्तत्प्रख्यशास्त्रात्कर्मनामधेयानि । यथाहुः- विधित्सितगुणप्रापि शास्त्रमन्यद्यतस्त्विह । तस्मात्तत्प्रापणं व्यर्थमिति नामत्वमिष्यते ॥' इति दिक् ।। श्येनेनाभिचरन्यजेतेत्यत्र श्येनशब्दस्य कर्मनामधेयत्वं तद्व्यप- देशात्तेन व्यपदेशः उपमानं तदन्यथानुपपत्त्येति यावत् । तथा हि यद्विधेयं तस्य स्तुतिर्भवति । तद्यद्यत्र श्येनो विधेयः स्या- तदार्थवादैस्तस्यैव स्तुतिः कार्या । यथा वै श्येनो निपत्यादत्ते एवमयं द्विषन्तं भ्रातृव्यं निपत्यादत्त इत्यनेनार्थवादेन श्येनः स्तोतुं शक्यः । श्येनोपमानेनार्थान्तरस्तुतेः क्रियमाणत्वात् । न च श्येनोपमानेन स एव स्तोतुं शक्यते । उपमानोपमेयभावस्य मि- ननिष्ठत्वात् । यदा तु श्येनसंज्ञको यागो विधीयते तदार्थ- वादेन श्येनोपमानेन तस्य स्तुतिः कर्तुं शक्यत इति श्येनशब्दस्य तव्यपदेशाद्यागनामधेयत्वम् । तत्सिद्धं निमित्तचतुष्टयान्नामधे- यत्वम्। उत्पत्तिशिष्टगुणबलीयस्त्वमपि पञ्चमं केचिन्नामधेयत्वे निमि- तमाहुः । वैश्वदेवेन यजेतेत्यत्र वैश्वदेवशब्दस्य कर्मनामधेयत्वमु- त्पत्तिशिष्टगुणबलीयस्त्वात् । उक्तमत्वर्थलक्षणादिप्रकारचतुष्टया- संभवात् । तथा हि न तावन्मत्वर्थलक्षणाभयानामधेयत्वं युक्तमिति वक्तुं शक्यं, वैश्वदेवेनेति तद्धितेनैव मत्वर्थस्य यागस्योक्तत्वात् । सा- ऽस्य देवतेत्यस्मिन्नर्थे हि तद्धितस्मरणम् । तत्रास्यशब्दस्य तद्धि- तान्तर्गतस्य यद्यपि सूक्तहविषोरिति स्मृतेः सूक्ते हविषि वा मु- ख्यत्वमवगतं तथापि सर्वनाम्नामुपस्थितवाचित्वात् सूक्तहवि- षोश्चात्रानुपस्थितत्वाद्यजेतेत्युपस्थितं यागमेवास्यशब्दोऽभिधत्त इति न यागे मत्वर्थलक्षणा । विश्वदेवरूपैकदेवताविधानाच्च न वा- क्यभेदः। नापि तत्प्रख्यशास्त्रान्नामत्वम् । यत्र हि विधित्सितो गु- णोऽन्यतः प्राप्तः, तत्र तत्प्रख्यशास्त्रान्नामधेयत्वम् । यथाग्नि- होत्रशब्दे । अत्र चाग्नेयादयोऽष्टौ यागाः प्रकृताः । तत्रामिक्षा- १ यात्कर्मना । २ त्वं वक्तुं युक्तं ।
आपदेवकृतः । यागे यद्यपि विश्वेदेवाः प्राप्ताः वैश्वदेव्यामिक्षेति तथा सप्तसु तेषामप्राप्तत्वाद्वैश्वदेवेन यजेतेत्यनेन तत्र तद्विधाने न तत्प्रख्यशा- स्त्रमन्यत् येन तद्वशान्नामत्वं स्यात् । न चामिक्षायागस्यैवैतन्नामेति वाच्यम् । वैश्वदेवेन यजेतेति वाक्यवैयर्थ्यापत्तेः । वैश्वदेवशब्दस्यामिक्षायागमात्रनामत्वे स एव यागोऽनेनानूद्येत । न च तदनुवादेनास्ति किंचित्कृत्यम् । प्रा- चीनप्रवणे वैश्वदेवेन यजेतेति विधीयमानस्य प्राचीनप्रवणदेशस्य विनाप्येतद्वाक्यमामिक्षायाग एव संबन्धोपपत्तेः । विश्वदेव- संबन्धात्तस्य । आग्नेयाद्यशेषप्रकृतयागनामत्वे तु न वैश्वदेवेन यजेतेति वाक्यान- र्थक्यं । तदा ह्यनेनाष्टौ यागा अनूद्यन्ते । अनुवादेन चैकप्रतीत्यारू- ढत्वात्समुदितानामष्टानामपि वैश्वदेवशब्दो नामधेयं सिध्यति । एवं च प्राचीनप्रवणे वैश्वदेवेन यजेतेत्यत्र वैश्वदेवशब्देनाष्टौ यागान- नूद्य प्राचीनप्रवणविधानं तत्र सिद्धं भवति । तद्वाक्यस्यासत्त्वे- ऽनेन वाक्येनामिक्षायाग एव प्राचीनप्रवणदेशसंबन्धः स्यात् । अतश्चाष्टसु यागेषु प्राचीनप्रवणदेशसंबन्ध एवैतद्वाक्यप्रयोजनम् । एवं च वैश्वदेवशब्दोऽष्टानां नामधेयम् । नच तत्र तत्प्रख्यशास्त्रं निमित्तं संभवति । सप्तसु विश्वेदेवा- प्राप्तेः । अतो न वैश्वदेवशब्दस्य तत्प्रख्यशास्त्रान्नामधेयत्वमिति । नापि तद्व्यपदेशात् । तादृशस्य व्यपदेशस्यनापलम्भात् । अतश्च वैश्वदेवशब्दस्य नामधेयत्वे उक्तप्रकारचतुष्टयस्यानिमित्तत्वादुत्पत्ति- शिष्टगुणबलीयस्त्वमेव निमित्तम् । तथा हि वैश्वदेवेन यजेतेत्यत्र न तावदप्रकृतकर्मानुवादेन देवताविधानं संभवति तेषामत्रानुप- स्थितेः । नापि देवताविशिष्टकर्मान्तरविधानं संभवति गौरवापत्तेः । अष्टौ हवींषीत्यनन्यगतिकलिङ्गविरोधात् । अतोऽनेन प्राकृतकर्मानुवादेन देवता विधीयन्त इति वक्तव्यम् । तत्रामिक्षायागे विश्वदेवप्राप्तेः सप्तसु यागेष्वनेन वाक्येन विश्वे- देवा विधीयन्त इति वक्तव्यम् । न च तत्संभवति । तेषामुत्प- त्तिशिष्टाम्याद्यवरोधात् । आकाङ्क्षया हि संबन्धो भवति । आग्ने- यादियागानां हि देवताकाङ्क्षा उत्पत्तिशिष्टैरन्यादिभिरेव निवृत्तेति १ श्येनवन्नामत्वम् ।
मीमांसान्यायप्रकाशः। ५९ - । न तत्र विश्वदेवविधानं युक्तम् । अतश्चोत्पत्तिशिष्टगुणबलीयस्त्वा- द्वैश्वदेवशब्दस्य कर्मनामधेयत्वमिति । यथाहुः- गुणान्तरावरुद्धत्वान्नावकाश्यो गुणोऽपरः । विकल्पोऽपि न वैषम्यात्तस्मान्नामेव युज्यते ।। इति । अन्ये त्वाचार्या आहुः । यः शब्दो यत्र कर्मणि यद्गुणसंबन्धं बोधयति स चेत्संबन्धः शास्त्रान्तरप्रतिपन्नः तदा तस्य शब्दस्य तन्नामधेयत्वं तत्प्रख्यशास्त्रात् । तच्च शास्त्रान्तरं विधिर्वार्थवादो वेत्यत्रानादरः। तत्राग्निहोत्रशब्देऽग्निसंबन्धबोधकं शास्त्रान्तरं विधि- रेव । वैश्वदेवशब्दश्च विश्वदेवसंबन्धं कर्मणि बोधयति । विश्वदेव- संबन्धश्चाष्टसु यागेषु 'यद्विश्वेदेवाः समयजन्त तद्वैश्वदेवस्य वैश्व- देवत्वम्' इत्यर्थवादावगतः । न च विधिरेव तत्प्रख्यशास्त्रं नार्थवाद इत्यत्र किंचित्प्रमाण- मस्ति । अत एव ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यत्र ज्योतिष्टोम- शब्दः 'तानि वा एतानि ज्योतींषि य एतस्य स्तोमाः' इत्यर्थवादा- वगतं ज्योतिःसबन्धं निमित्तीकृत्य सोमयागे प्रवर्तमानस्तत्प्रख्य- शास्त्रान्नामधेयं भवति । एवं प्रकृतेऽपि द्रष्टव्यम् । पञ्चमप्रकारक- ल्पने प्रमाणाभावात् । अत एव वैश्वदेवाधिकरणे वार्तिककारैरेव- मुपसंहृतं तत्प्रख्यतयैव सर्वेषां नामधेयत्वम्' इति । यच्चोत्पत्तिशिष्ट- गुणबलीयस्त्वमुक्तं तद्गुणविध्यसंभवे युक्त्यभ्युच्चयमात्रम् । तत्सिद्धं तत्प्रख्यशास्त्राद्वैश्वदेवशब्दस्य कर्मनामधेयत्वमिति । ननु पशुसोमाधिकरणे ऐन्द्रवायवं गृह्णातीत्यादौ न यजिकल्पनं सोमेन यजेतेति प्रत्यक्षयजिश्रुतेरित्युक्तम् । तेन न्यायेन वैश्वदेव्या- मिक्षेत्यत्रापि यजिकल्पना मास्तु । वैश्वदेवेन यजेतेत्यत्र प्रत्यक्षय- जिश्रुतेः । एवं चानेनैव वाक्येन देवताविशिष्टकर्मविधानमस्तु । तस्य च द्रव्याकाङ्क्षायां वैश्वदेव्यामिक्षेति द्रव्यविधानमस्तु । एवं च न वाक्यद्वयस्याप्यनुवादत्वम् । नाप्यष्टौ हवींषीत्यनन्यगतिकलिङ्ग- विरोधो भवेदिति चेन्मैवम् । वैश्वदेव्यामिक्षेत्यत्र यज्यकल्पने आमिक्षा किमनुवादेन विधी- यत इति वक्तव्यम् । विश्वदेवानुवादेन द्रव्यविधाने द्रव्यस्य दे- वताङ्गत्वमेव स्यात् , न यागाङ्गत्वम् । किंच वैश्वदेवीशब्दो देव- १ म्यान्नामैवैतद्धि। २°मुदाहृतम् । ।
६० आपदेवकृतः । तातद्धितत्वादामिक्षान्तर्गतत्वेन ब्रूत इत्युक्तम् । तत्र विश्वदेवानु- वादेन द्रव्यविधानं वैश्वदेवीशब्देनैव कर्तव्यं, पदश्रुतेः । यथा भावनायां करणसमर्पणं धातुनैव क्रियते पदश्रुतेः न तूपपदेनेत्युक्तं भावार्थाधिकरणे तद्वत् । तत्र च वषट्कर्तुः प्रथमभक्ष इतिवदेकप्रस- रताविरोधः । अतो यागानुवादेनापि द्रव्यविधानार्थ वैश्वदेव्यामि- क्षेत्यत्र यजिकल्पनं तावदवश्यं कर्तव्यम् । अतश्च पशुसोमाधिकरणन्यायवैषम्यम् । ऐन्द्रवायवं गृह्णाती- त्यत्र देवताविशिष्टग्रहणविधानेन यज्यकल्पनात् । यजिकल्पने च वैश्वदेव्यामिक्षेत्यत्रैव द्रव्यदेवताविशिष्टकर्मविधानं युक्तं रूपद्वयश्र- वणात् । एवं चाग्नेयोऽष्टाकपालः सौम्यश्चरुरित्यादिवाक्यैर्वैश्वदेव्या- मिक्षेति वाक्यस्य प्रायपाठो रक्षितो भवति । अन्यथा हि तेषु सर्वेषु द्रव्यदेवतासंबन्धकल्पितयागविधानमत्र च द्रव्यमात्रविधानमिति वैरूप्यं प्रसज्येत । किंच वैश्वदेवेन यजेतेत्यत्र वैश्वदेवशब्दस्य देवतासमर्पकत्वे 'यद्विश्वेदेवाः समयजन्त तद्वैश्वदेवस्य वैश्वदेवत्वम्' इत्येतस्यार्थवाद- स्यात्यन्तमेव निरालम्बनत्वं स्यात् । एतदर्थवादाद्धि वैश्वदेवशब्दो विश्वदेवकर्तृकत्वेन कर्मणि प्रवृत्त इति ज्ञायते । न देवतासम- पंकत्वेन । किंच वैश्वदेवेन यजेतेत्यस्य यागविधित्वे आमिक्षाया नोत्प- त्तिशिष्टत्वम् । तथा च तया न वाजिनं बाधितुं शक्यत इति उ- भयोरपि आमिक्षावाजिनयोर्यागाङ्गत्वं स्यात् । तथा च विकल्पः । स चाष्टदोष इति । तस्माद्वैश्वदेव्यामिक्षेत्यत्रैव यागविधानम् । इतरस्य त्वनुवादत्वम् । अनुवादत्वे च यथा नानर्थक्यं तथोक्त- मित्यास्तां तावत् । तत्सिद्धं वैश्वदेवशब्दस्य कर्मनामधेयत्वम् । तदेवं निरूपितं मत्वर्थलक्षणादिप्रकारचतुष्टयनिरूपणेन नामधेयस्य विधेयार्थपरिच्छेदकत्वेनार्थवत्त्वम् । अनर्थहेतुकर्मणः सकाशात्पुरुषस्य निवृत्तिकरत्वेन निषेधानां पुरुषार्थानुवन्धित्वम् । तथा हि-यथा विधयः प्रवर्तनामभि- दधतः स्वप्रवर्तकत्वनिर्वाहाथै विधेयस्य यागादेः श्रेयःसाधनत्वमा- १°क्षां तत्वेन ब्रू'; °क्षान्तर्गतार्थ'; इति कलिकातामु० पु. पा. । २ ततः। ३ तद्देवतासमर्पकत्वेन विरुध्यते इति पाठः।
मीमांसान्यायप्रकाशः। क्षिपन्तः पुरुषं तत्र प्रवर्तयन्ति, एवं 'न कलचं भक्षयेत्' इत्यादयो निषेधा अपि निवर्तनामभिदधतः स्वनिवर्तकत्वनिर्वाहार्थ निषेध्यस्य कलञ्जभक्षणादेरनर्थहेतुत्वमाक्षिपन्तः पुरुषं ततो निवर्तयन्ति । ननु कथं निषेधानां निवर्तनाप्रतिपादकत्वम् । यावता न भक्ष- येन्न हन्तव्य इत्येवमादावव्यवधानेन नबर्थस्याभावस्य धात्वर्थेना- न्वये धात्वर्थवर्जनकर्तव्यतैव सर्वत्र वाक्यार्थः प्रतीयेत । ततश्च यथा यजेतेत्यादौ यागकर्तव्यता वाक्यार्थः एवं निषेधेषु तत्तद्धा- त्वर्थवर्जनकर्तव्यता वाक्यार्थो न निवर्तनेति चेत्-मैवम् । अव्यवधानेऽपि धात्वर्थस्य प्रत्ययार्थोपसर्जनत्वेनोपस्थितस्य नब- थेनान्वयायोगात् । नान्योपसर्जनमन्येनान्वेति । मा भूद्राज- पुरुषमानयेत्यत्र राज्ञ आनयनान्वयित्वम् । ततश्चाव्यवधानेऽपि नर्थस्य न धात्वर्थेनान्वयः । आरुण्यस्येवैकहायन्या । नापि कल जादिपदार्थैरन्वयः । तेषामपि कारकोपसर्जनतयोपस्थितत्वेन भिन्नपदस्य नमोऽर्थेनान्वयायोगात् , एकहायन्या इवारुण्येन । अतश्चान्येनान्वयायोगान्नअर्थः प्रत्ययार्थेन संबध्यते तस्य प्राधा- न्यात, क्रयभावनयेवारुण्यादीनि । तत्रापि नाख्यातांशवाच्ययार्थभा- वनया तस्या अपि लिङ्त्वांशवाच्यप्रवर्तनोपसर्जनत्वेनोपस्थितत्वात् । अतो लिङ्त्वांशेन नञ् संबध्यते । तस्य सर्वापेक्षया प्राधान्यात् । नाश्चैष स्वभावो यत्स्वसंबन्धिप्रतिपक्षबोधकत्वम् । नास्तीत्यत्र ह्यस्तीति सत्त्वशब्देन संबध्यमानो नञ् सत्त्वप्रतिपक्षमसत्त्वं गम- यति । तदिह लिङर्थस्तावत्प्रवर्तना । अतस्तेन संबध्यमानो नब् प्रवर्तनाप्रतिपक्षां निवर्तनां गमयति । विधिवाक्यश्रवणेऽयं मां प्रवर्तयतीति प्रवर्तनाप्रतीतिवनिषेधवाक्यश्रवणेऽयं मां निवर्तयतीति निवृत्त्यनुकूलव्यापाररूपनिवर्तनायाः प्रतीतेः। अतश्च सर्वत्र निषेधेषु निवर्तनैव वाक्यार्थः । एवं च विधि- निषेधयोभिन्नार्थत्वं सिद्धं भवति । हननादिवर्जनकर्तव्यतावाक्या- र्थपक्षे तु कर्तव्यताया एवोभयत्र प्रतिपाद्यत्वात्तयोरेकार्थत्वं स्यात् । तच्च न युक्तम् । यथाहु:- अन्तरं यादृशं लोके ब्रह्महत्याऽश्वमेधयोः । दृश्यते ताहगेवेदं विधानप्रतिषेधयोः ॥ इति । १°द्वाक्यार्थव २ वेह विधानप्रतिपक्षयोः ६ मी. न्या.
६२ आपदेवकृतः। तथा-फलबुद्धिप्रमेयाधिकारिबोधकभेदतः । पञ्चधात्यन्तभिन्नत्वाद्भेदो विधिनिषेधयोः ॥ इति । यन्मते इष्टसाधनत्वं लिङर्थस्तन्मतेऽपि लिसंसृष्टो नब् इष्टसा- धनत्वप्रतिपक्षमनिष्टसाधनत्वं गमयति । सर्वथापि तु नञः प्राधा- न्यात्प्रत्ययेनान्वयः । यदा तु तदन्वये किंचिद्बाधकं तदाऽगत्या धा- त्वर्थनान्वयः। तच्च बाधकं द्विविधम् । तस्य ब्रतमित्युपक्रमो विकल्पप्रसक्तिश्च तेन च बाधकद्वयेन नञ्युक्तेषु वाक्येषु पर्युदासाश्रयणं भवति । तदभावे निषेध एव- *पर्युदासः स विज्ञेयो यत्र पूर्वपदेन नञ् । प्रतिषेधः स विज्ञेयो यत्रोत्तरपदेन नञ् ॥ १ ॥ इति च तयोर्लक्षणम् । उत्तरपदं प्रत्ययः । तदन्यत्पदं पूर्व- पदम् । तत्र नेक्षेतोद्यन्तमादित्यमित्यादौ पर्युदासाश्रयणम् , तस्य व्रतमित्युपक्रमात् । यद्यप्यत्र सर्वेषु मुद्रितपुस्तकेषु- पर्युदासः स विज्ञेयो यत्रोत्तरपदेन नञ् । प्रतिषेधः स विज्ञेयः क्रियया सह यत्र नञ् ॥१॥ इत्येव पाठ उपलभ्यते । प्रसिद्धोऽपि प्रायः सर्वत्रायमेव पाठः । व्याख्यानम- प्यस्य 'यत्र उत्तरपदेन समासचरमावयवेन नअन्वेति तदा तस्य पर्युदासार्थकत्वम्। यत्र क्रियया धात्वर्थनान्वेति तत्र प्रतिषेधार्थकत्वम्' इति प्रसिद्धम् । तथापि 'नामधात्वर्थयोगी तु नैव नप्रतिषेधकः' इति मीमांसकसिद्धान्तानुरोधाद्धात्वर्थ- योगिनोऽपि नः पर्युदासार्थकत्वस्येष्टत्वादतिव्याप्तं प्रतिषेधलक्षणमव्याप्तं चो- तपर्युदासलक्षणं धातोरुत्तरपदत्वाभावात् , नानुयाजेष्वित्यादौ पर्युदासोदाहरणे नाम्नोऽपि समासाघटकतया निरुक्तोत्तरपदत्वाभावाचेति नैते मीमांसकाभिप्रेतप- युदासप्रतिषेधयोर्लक्षणे संभवतः । यत्त्वत्र महाम० श्रीकृष्णनाथन्यायपं० भट्टा- चार्यः पूर्वार्धे 'उत्तरपदे न' इति च्छित्वा 'उत्तरपदे लिडर्थेन नञ् नञ्पदान्वयः' इति, 'उत्तरार्धे च क्रियया लिङर्थशाब्दभावनया नञ् नपदार्थान्वयः' इति व्याख्यातम् , तदुत्तरार्धे प्रतिषेधवत्पूर्वार्धेऽपि ननोऽन्वयद्वारैव पर्युदासलक्षणस्य प्रतीयमानत्वात् , शाब्दभावनायां क्रियाशब्दस्य प्रयोगादर्शनाचोपरिष्टाद्दर्शित- पाठादर्शनमूलकमिति ध्येयम् । १ अनेन. २ यो यत्रोत्तरपदेन नञ् । ३ विज्ञेयः । क्रियया सह यत्र नञ् ।
मीमांसान्यायप्रकाशः। तथा हि व्रतशब्देन कर्तव्योऽर्थ उच्यते । अतश्च स्नातकस्य कर्तव्यार्थानां वक्तव्यत्वेनोपक्रमात् किं तत्कर्तव्यमित्यपेक्षायामग्रे नेक्षेतोद्यन्तमित्यादौ कर्तव्य एवाऽर्थो वक्तव्यः, आकासिताभिधा- नात् । अर्थान्तरोक्तौ च पूर्ववाक्यस्य साकाङ्कत्वेनाप्रामाण्यं स्यात् । नहि कर्तव्यार्थस्य वक्तव्यत्वेनोपक्रमेऽग्रे च तदनभिधाने पूर्ववाक्यस्य निराकाङ्क्षत्वं संभवति । न च साकाङ्क्षस्य प्रामाण्यम् , गौरश्वः पुरुषः इत्यादावपि तत्प्रसङ्गात् । किंच नेक्षेतेत्यस्योपक्रमेण प्रतीयमाना एकवाक्यता च न स्यादर्थान्तरोक्तेः । अतश्चास्मिन्वाक्ये कश्चित्कर्तव्य एवार्थो वक्तव्यः । तदुक्तौ च न नञः प्रत्ययेन संबन्धो घटते । तत्स- बन्धे कर्तव्यार्थोक्तेरनुपपत्तेः । प्रत्ययाञ्चावतारितो नञ् धातुना संबध्यते । तत्संबन्धे च न नबः प्रतिषेधकत्वम् । विधायकसं- बन्धेनैव तस्य प्रतिषेधकत्वात् । प्रतिषेधकत्वस्य विधायकप्रतिपक्ष- त्वात् । नामधातुयोगे तु न नबः प्रतिषेधकत्वम् । तयोरविधायक- त्वात् । यथाहु: नामधात्वर्थयोगी तु नैव नब् प्रतिषेधकः । वदत्यब्राह्मणाधर्मावन्यमात्रविरोधिनौ ॥ इति । अतश्च नेक्षेतेत्यत्र नमो धातुयोगान्नजीक्षतिभ्यामीक्षणविरोधी कश्चनार्थः प्रतिपाद्यते । ननु तदन्यतद्विरुद्धतदभावेषु नबिति सत्यपि स्मरणे नत्रः खसंसृष्टाभाव एव शक्तिः, लाघवात् । न तु तदन्यतद्विरुद्धयोः, तयोरभावघटितत्वेन गौरवात् । अनेकार्थत्वस्य चान्याय्यत्वात् । अतो नबो धातुयोगे धात्वर्थाभावबोधकत्वमेव, न तु तद्विरुद्धार्थ- बोधकत्वमिति चेत् । सत्यम् । नबोऽभाव एव शक्तिः । स्मरण तु प्रतीत्यभिप्रायं न शक्त्यभिप्रायम् । नामधात्वर्थयोगीत्यपि प्रती- त्यभिप्रायम् । तथापि नेक्षेतेत्यत्र प्रत्ययस्य नाऽसंबन्धात्तेन तावत्कश्चिदर्थों विधेयः। तत्र न तावद्धात्वर्थो विधातुं शक्यते, नबा तदभावबोधना- १ °ण्यप्रसङ्गात् । २ प्रत्यपेक्ष। ३ धात्वर्थयो । ४ कलकत्तामुद्रितपुस्तके तु नास्तीयं पतिः।
आपदेवकृतः। त्। नापि तदभावो विधातुं शक्यते, अभावस्याविधेयत्वात् । अतश्च नजीक्षतिभ्यां विधानयोग्यः कश्चनेक्षणविरोधी अर्थों लक्षणया प्रतिपाद्यते स चेक्षणविरोधी लक्ष्यमाणः पदार्थों 'नेक्षे इत्यनीक्षण- संकल्पः, तस्येक्षणविरोधित्वात् । सत्यपि पदार्थान्तरस्येक्षणविरोधित्वे सर्व क्रियाऽविनाभूतत्वेन संकल्पस्यैव लक्षणात् । स एव नेक्षेतेत्यत्र कर्तव्यतया विधीयते अनीक्षणसंकल्पेन भावयेदिति । भाव्याका- टायां च एतावता हैनसा वियुक्तो भवतीति वाक्यशेषावगतः पापक्षयो भाव्यतया संबध्यते । एवं चात्र पापक्षयार्थसंकल्पस्य कर्तव्यतया विधानात्तस्य व्रत- मित्यनेनैकवाक्यता सिद्धा भवति । तत्सिद्धं नेक्षेतेत्यत्र तस्य व्रतमित्युपक्रमात्पर्युदासाश्रयणमिति । नानुयाजेषु येयजामहं करोतीत्यत्र विकल्पप्रसक्क्या तदाश्रय- णम् । तथा हि यद्यत्र प्रधानसंबन्धलोभान्नञः प्रत्ययसंबन्धः स्वीक्रि- यते तथा सत्यनेन वाक्येनानुयाजेषु येयजामहः प्रतिषिध्यते इति वक्तव्यमनुयाजेषु येयजामहं न कुर्यादिति । न च तत्र तस्य प्रति- षेधः प्राप्तिं विना संभवति प्राप्तिसापेक्षत्वात्प्रतिषेधस्य । अत एव नान्तरिक्षे न दिवीत्यस्य न प्रतिषेधत्वमन्तरिक्षे चय- नाप्राप्तेः। अत एव ब्राह्मणो न हन्तव्य इत्यस्य नित्यवद्धनननिवर्त- कत्वमुपपद्यते । सर्वो हि पुरुषः कदाचिद्धननादौ प्रवर्तते कदा- चिच्च रागाद्यभावे न प्रवर्तते । तत्र यदि निषेधस्य प्राप्तिसापेक्षत्वं न स्यात्तदा रागाविरोधाय हननादावप्रवृत्तं प्रत्येव शास्त्राप्रामाण्यो- पपत्तौ रागादिना हननादौ प्रवृत्तेन पुंसा न ततो निवर्तितव्यम् । प्राप्तिसापेक्षत्वे तु स्वयमप्रवृत्तं प्रति प्रसक्त्यभावेन निषेध- शास्त्राप्रवृत्तेः रागादिना प्रवृत्तं प्रत्येव भ्रान्तिनिमित्तरागबाधेन निषेधशास्त्रप्रवृत्तेर्युक्ता प्रवृत्तस्य ततो निवृत्तिः । * रागाविरोधायेति । अविरीधोऽबाधः। कस्याप्यबाधेन शास्त्रप्रामाण्योपपत्तौ कस्यचिद्बाधकल्पनमनुचितमिति भावः । वैपरीत्याशङ्काव्यावृत्त्यर्थमिदम् । श्रीकृष्णनाथन्यायपञ्चाननभट्टाचार्यास्तु 'रागादि तिरोधाय' इति पठित्वा रागादि रागादिकं निमित्तं तिरोधाय विजित्य इति व्याचख्युः । तद्रागतिरोधानोक्तेः प्रकृतानुपयुक्तत्वाच्चिन्त्यम् । . १ नेक्षेतेति काशी-कलिकातामु० पु० पाठः। २ लक्षणा ।
मीमांसान्यायप्रकाशः। ६५ अतश्च ब्राह्मणो न हन्तव्य इत्यस्य निषेधस्य निवृत्तिनियमबो- धकत्वम् । ब्रीहीनवहन्यादित्यस्येवावघातनियमबोधकत्वम् । यथा खलु ब्रीहीनवहन्यादिति शास्त्रं वैतुष्यार्थमवधाते स्वतः प्रवृत्तं पुरुषं प्रति न प्रवर्तते वैयर्थ्यात् , किंतु दलनादौ प्रवृत्तं प्रति । एवं न हन्यादिति शास्त्रं हननात्स्वयं निवृत्तं पुरुषं प्रति न प्रवर्तते वैयर्थ्यात् , किंतु हनने प्रवृत्तं पुरुषं प्रति कर्तव्यत्वेन प्रसक्तस्य प्रतिषेधाद्यत्कर्तव्यं तन्नेति । अतश्च प्राप्तिसापेक्षत्वात्प्रतिषेधानामनुयाजेषु येयजामहप्रतिषेधे तस्य तत्र प्राप्तिर्वक्तव्या । सा न तावद्धननादाविव रागतः संभ- वति । अतो यजतिषु येयजामहं करोतीति शास्त्रात्सा वक्तव्या । शास्त्रप्राप्तस्य च प्रतिषेधे विकल्पः स्याच्छास्त्रेण भ्रान्तिनिमित्त राग]- स्येव शास्त्रान्तरस्यात्यन्तबाधायोगात् । न च पदशास्त्रेणाहवनीयशास्त्रस्येव नानुयाजेष्विति विशेषशास्त्रेण यजतिषु येयजामहं करोतीति सामान्यशास्त्रस्य बाधः स्यादिति वाच्यम् । शास्त्रयोर्हि तत्र बाध्यबाधकभावो यत्र परस्य निरपे- क्षता । नहि पदशास्त्रस्य स्वार्थविधानार्थमाहवनीयशास्त्रापेक्षास्ति । निषेधशास्त्रस्य तु प्रसक्त्यर्थ यजतिषु येयजामहं करोतीति विधे- रस्त्यपेक्षा । एवंच निषेधशास्त्रस्य विशेषविषयत्वेन प्राबल्यवद्विधिशास्त्र- स्याप्युपजीव्यत्वेन प्राबल्यमस्तीति न निषेधेन विधेरत्यन्तबाधो युक्त इति विहितप्रतिषिद्धत्वाद्विकल्पः स्यात् । स च न युक्तः । विकल्पे हि पक्षे शास्त्रस्याप्रामाण्यं भवति । न ह्यनुयाजेषु येय- जामहकरणे नानुयाजेष्वित्यस्य प्रामाण्यं संभवति । व्रीह्यनुष्ठान- समय इव यवशास्त्रस्य द्विरदृष्टकल्पना च स्यात् । विधेहि एवं ज्ञायते यदनुयाजेषु येयजामहकरणे कश्चनोप- कारो भवतीति । निषेधाच्च तदकरणादिति ज्ञायते । अनृतवदनाक- रणादिव दर्शपूर्णमासयोः । स चोपकारोऽदृष्टरूप इति द्विरदृष्टकल्प- नाप्रसङ्गः । अतश्च विकल्पो न युक्तः । प्रतिषेधाश्रयणे च तदा- पत्तेन तदाश्रयणम् । किंतु नञः अनुयाजशब्देन संबन्धमाश्रित्य पर्युदास आश्री- यते नबनुयाजशब्दाभ्यामनुयाजव्यतिरिक्तलक्षणात् । अनुया- जव्यतिरिक्तेषु येयजामहं करोतीति । अत्र च वाक्ये येयजामहः आपदेवकृतः। कर्तव्यतया न विधीयते यजतिषु येयजामहं करोतीत्यनेनैव वि- हितत्वात् । किंतु सामान्यशास्त्रविहितयेयजामहानुवादेन तस्या- नुयाजव्यतिरिक्तविषयता विधीयते यत् यजतिषु येयजामहं क- रोति तदनुयाजव्यतिरिक्तेष्विति । एवं च सामान्यशास्त्रस्य विशेषा- पेक्षिणः नानुयाजेष्वित्यनेनानुयाजव्यतिरिक्तविषयसमर्पणादनुया- जव्यतिरिक्तेषु येयजामहः कर्तव्यतया प्राप्तः । अनुयाजेषु तु स न कर्तव्यतया प्राप्तो न वा प्रतिषिद्ध इति न विकल्पः । लक्षणया चानुयाजव्यतिरिक्तविषयसमर्पणान्नानुयाजेष्विति वा- क्यस्य नाप्रामाण्यमतश्च पर्युदासाश्रयणे न किंचिद्बाधकम् । तत्सिद्धं नानुयाजेष्विति वाक्ये विकल्पभयात्पर्युदासाश्रयणमिति । ननु पर्युदासाश्रयणे यजतिषु येयजामहं करोतीति शास्त्रेण यागसामान्ये प्राप्तस्य येयजामहस्य नानुयाजेष्वित्यनेनानुयाजव्यति- रिक्ते संकोचनात् पर्युदासस्योपसंहारादभेदः स्यात् । उपसंहारे हि सामान्ये प्राप्तस्य विशेषे संकोचो भवति । यथा पुरोडाशं चतुर्धा करोतीति पुरोडाशसामान्ये प्राप्तं चतुर्धाकरणमाग्नेयं चतुर्धा करो- तीत्याग्नेये संकोच्यत इति चेन्न । तन्मात्रसंकोचार्थत्वादुपसंहारस्य, तदन्यमात्रसंकोचार्थत्वात् पर्युदासस्येति केचित् । अन्ये तु उपसंहारो नाम सामान्यतः प्राप्तस्य विशेषे संको- चनरूपो व्यापारविशेषो विधेः । पर्युदासस्तु पर्युदासः स विज्ञेयो यत्र पूर्वपदेन नञ् । इत्यभियुक्तोक्त्या प्रत्ययातिरिक्तेन धातुना वा नाना वा नत्रः संबन्धः । अतोऽनयोस्तावत्स्वरूपतः स्पष्ट एव भेदः । एवं सत्यप्यभेद आशङ्कयेत यदि यत्र पर्युदासस्तत्रावश्यमुपसं- हार: स्यात् । न चैतदस्ति । नेक्षेतोद्यन्तमित्यादौ सत्यपि तस्मि- नुपसंहाराभावात् । नहि तत्राग्नेयचतुर्धाकरणमिव सामान्ये प्राप्त किंचिद्विशेषे संकोच्यते । पापक्षयोदेशेनानीक्षणसंकल्पमानवि- धानात् । प्रकृतोदाहरणे तु यजिसामान्ये प्राप्तस्य येयजामहस्यानुयाज- व्यतिरिक्तेषु संकोचनाद्यदि विधेरुपसंहारविधित्वं संभवति नैता- वता किंचिद्विरुध्यते । विध्यभावे हि कथं विधिकार्यमुपसंहारः पर्युदासेन क्रियत इति भवति विरोधः । न चात्र विधिर्नास्ति - मीमांसान्यायप्रकाशः। नयोऽनुयाजपदसंबन्धेन विधेर्विधायकत्वस्याव्याघातात् । अत्र हि पर्युदासोऽनुयाजव्यतिरिक्तविषयसमर्पकः आग्नेयपदवत् । उपसंहा- रस्तु विधिरेव । न च अत्र तन्मात्रसंकोचाभावान्नोपसंहार इति वाच्यम् । तन्मात्रसंकोच इति कोऽर्थः। आग्नेयमात्रे संकोचो वा, सामान्यप्रा- तस्य विशेषमात्रे संकोचो वा, आद्येऽनारभ्याधीतसाप्तदश्यस्य मित्रविन्दादिप्रकरणस्थेन वाक्येनोपसंहारो न स्यादाग्नेयसंकोचाभा- वात् । द्वितीये चतुर्धाकरणस्य पुरोडाशमात्रे प्राप्तस्याग्नेये संको- चवदनुयाजाननुयाजसाधारण्येन प्राप्तस्याननुयाजेषु संकोचादुपसं- हारः स्यादेव। एतावांस्तु विशेषः। आग्नेयादिवाक्येषु आग्नेयायो विशेषाः स्वपदोपस्थिताः । प्रकृते तु पर्युदासेन तस्योपस्थितिरिति । उपसंहा- रन्यायस्त्वविशिष्ट एव । यच्च तदन्यमात्रसंकोचनार्थत्वात्पर्युदासस्ये- ति । तन्न । नेक्षेतेत्यत्र सत्यपि पर्युदासे संकोचाभावात् । नपत्र सामान्ये प्राप्तं तदन्यमात्रे संकोच्यते संकल्पमात्रविधानादित्युक्त- मित्यास्तां तावत् । तत्सिद्धं नानुयाजेष्वित्यत्र विकल्पप्रसक्त्या पर्युदासाश्रयणमिति । यत्र तु स आश्रयितुं न शक्यते तत्र तत्प्रसक्तावपि निषेध एवाश्रीयते । यथा नातिरात्रे षोडशिनं गृह्णातीत्यत्र । अत्र ह्यति- रात्रे षोडशिनं गृहातीति शास्त्रप्राप्तमतिरात्रे षोडशिग्रहणं प्रतिषि- ध्यत इति विहितप्रतिषिद्धत्वाद्विकल्पप्रसक्तावपि पर्यंदासो नाश्री- यतेऽशक्यत्वात् । यद्यत्र नञः षोडशिपदेन संबन्धः स्वीक्रियेत तदाऽतिरात्रे षोडशिव्यतिरिक्तं गृह्णातीति वाक्यार्थः स्यात्तत्र चाति- रात्रे षोडशिन गृह्णातीति प्रत्यक्षविधिविरोधः । अत एवातिरात्रपदेन न नञः संवन्धोऽतिरात्रे षोडशिनं गृह्णातीति प्रत्यक्षविधिवि- रोधात् । * विधायकत्वस्याख्यापनादिति पाठमादृत्य आख्यापनात्स्थापनादिति व्या- चख्युर्महा० श्रीकृष्णनाथभट्टाचार्याः । १ स्याख्यापनात् इति काशीकलिकातामु० पु. पाठः। २ आग्नेयपुरोडाश इति क० मु. पु. पाठः। ३ यचात्र तन्मात्रसंकोचाभावानोपसंहार इति । तस्य कोऽर्थः । इति कलिकातामु० पु. पाठः। ४ नह्यतिराने। ५°दास आ ।
६८ आपदेवकृतः । अतश्चात्र पर्युदासस्यानुपपत्तेनिषेध एव स्वीक्रियते विकल्पो- ऽपि स्वीक्रियतेऽनन्यगतेः । अतश्चैतत्सिद्धम्-यत्र तस्य व्रतमित्या- ग्रुपक्रमः विकल्पप्रसक्तिश्च नास्ति तत्र प्रतिषेधः, यथा न कलङ्गं भक्षयेदिति । यत्र वा विकल्पप्रसक्तावपि पर्युदास आश्रयितुं न शक्यते तत्र प्रतिषेधः, यथा नातिरात्रे षोडशिनं गृह्णातीति । एतावांस्तु विशेषः । यत्र विकल्पापादकः प्रतिषेधः, तत्र प्रति- षिध्यमानस्य नानार्थहेतुत्वम् । उभयोरपि विधिप्रतिषेधयोः क्रत्वर्थ- त्वात् । यत्र तु न विकल्पः प्रसज्यते प्राप्तिश्च रागतः प्रतिषेधश्च पुरुषार्थस्तत्र निषिध्यमानस्यानर्थहेतुत्वम् । यथा कलञ्जभक्षणस्य । दीक्षितो न ददाति न जुहोतीत्यादिषु तु दानहोमादीनां शा- स्त्रप्राप्तावपि पुरुषार्थत्वेन प्राप्तत्वात् क्रत्वर्थत्वेन च प्रतिषेधात्तु- ल्यार्थत्वाभावेन विकल्पाप्रसक्तावपि न तेषामनर्थहेतुत्वम् , रागप्रा- त्यभावात् । रागतः प्राप्तस्यापि क्रत्वर्थत्वेन प्रतिषेधे तदनुष्टानात क्रतोवैगुण्यं नानार्थोत्पत्तिः । यथा स्वरुयुपगमनादिप्रतिषेधः रागतः प्राप्तस्य पुरुषार्थत्वेन प्रतिषेधे निषिध्यमानस्यानर्थहेतुत्वमिति दिक् । तत्सिद्धं निषेधानां पुरुषार्थानुबन्धित्वम् । एवं सर्वस्यापि वेदस्य पुरुषार्थानुबन्धित्वम् । प्रकृतमनुसरामः । तदेवं यथा विध्यादीनामध्ययनविध्युपात्तानां नानर्थक्यमेवमर्थवादानामपि तदुपात्तत्वेनानर्थक्यानुपपत्तेः स्वार्थ- प्रतिपादने च प्रयोजनाभावाल्लक्षणया प्रयोजनवदर्थपर्यवसानं वक्त- व्यम् । ते चार्थवादा द्विविधाः विधिशेषा निषेधशेषाश्च । तत्र वायव्यं श्वेतमालभेतेत्यादिविधिशेषाणां वायुर्वै क्षेपिष्ठा देवतेत्यादी- नामर्थवादानां विधेयार्थस्तावकतयार्थवत्त्वम् । बर्हिषि रजतं न देयमित्यादिनिषेधशेषाणां सोऽरोदीदित्यादीनाम- र्थवादानां तु निषेध्यनिन्दकतयेति । अतश्च लक्षणया प्राशस्त्यमर्थ- वादैाध्यते । तच्च प्राशस्त्यज्ञानं शब्दद्भावनायामितिकर्तव्यतात्वेन संबध्यते। [परमप्रकृतम् । (?)] तत्सिद्धं वक्ष्यमाणार्थभावनाभाव्यिका लि- डादिज्ञानकरणिका प्राशस्त्यज्ञानेतिकर्तव्यताका शाब्दी भावना लिङ्त्वांशेनोच्यत इति । १ एतल्लिखितपुस्तकेऽधिकम् ।
मीमांसान्यायप्रकाशः। ननु केयं शाब्दी भावना । उच्यते । पुरुषप्रवृत्त्युनुकूलो व्यापारविशेषः । स एव विध्यर्थः लिङादिश्रवणेऽयं मां प्रवर्तय- तीति नियमेन प्रतीतेः । यत्तु इष्टसाधनत्वं विध्यर्थस्तन्न । तथा सति इष्टसाधनमिति शब्दस्य विधिशब्दः पर्यायः स्यात् । न च पर्यायत्वं युज्यते । संध्योपासनं ते इष्टसाधनं तस्मात्तत्त्वं कुर्विति सहप्रयोगात् , पर्यायाणां च सहप्रयोगाभावात् । अतश्च व्यापार- विशेष एव विध्यर्थः । स च लोके पुरुषनिष्ठोऽभिप्रायविशेषः । वेदे तु पुरुषाभावाच्छब्दनिष्ठ एव प्रेरणापरपर्याय इत्युक्तम् । ननु लोके शब्दनिष्ठे प्रेरणापरपर्याये व्यापारे शब्दप्रयोगाभा- वेन शक्तिग्रहाभावात्कथं तस्य विधिशब्दाप्रतिपत्तिरिति चेत् सत्यमेतत् । तथापि बालस्तावत्तन्यदानादौ स्वकृतरोदनादिज- नितमातृप्रवृत्तेः स्वाभिप्रायरूपप्रवर्तनाज्ञानजन्यत्वावधारणात्सविधि- कप्रयोजकवाक्यश्रवणसमनन्तरभाविनी प्रयोज्यवृद्धप्रवृत्तिमुपलभ्य तत्कारणत्वेन तस्य प्रवर्तनाज्ञानमनुमिमीते । यद्यपि भोजनादौ स्वप्रवृत्तेः समीहितसाधनताज्ञानपूर्वकत्वाव- धारणात्प्रयोज्यवृद्धप्रवृत्तेरपि तत्पूर्वकत्वाध्यवसानं युक्तम् । तथा- प्यन्यप्रेरितप्रवृत्तौ प्रवर्तनाज्ञानजन्यत्वस्योक्तमातृप्रवृत्तौ दर्शनेन प्रयोज्यवृद्धप्रवृत्तरप्यन्यप्रेरितप्रवृत्तित्वात्तत्कारणत्वेन प्रवर्तनाज्ञा- नस्यैवाध्यवसानम् । तच्च प्रवर्तनाज्ञानमन्वयव्यतिरेकाभ्यां प्रयोजकवाक्यजन्यमि- त्यवधारयति । तत्र चावापोद्वापाभ्यां प्रवर्तनायां विधिशक्तिमव- धारयति । प्रवृत्त्यनुकूलो व्यापारः प्रवर्तना । स च व्यापारः प्रै- षादिरूपो विविध इति प्रत्येक व्यभिचारित्वाद्विधिशब्दवाच्यत्वा- नुपपत्तेः प्रवर्तनासामान्यमेव विधिशब्दवाच्यमिति कल्पयति । एवं च विधिश्रवणे प्रैषादिरूपस्य वऋभिप्रायस्य प्रवर्तनात्वेनैव रूपेण प्रतीतिर्न विशेषरूपेण, तथैव शक्तिमहात् । विशेषरूपेण तु प्रतीतिर्लक्षणयैव । * 'स्तन्यपानादौ' इति पठित्वा 'अत्र पानपदेऽन्तर्भूतो णिजर्थः' इति व्याच- ख्युर्भट्टाचार्याः। १ प्रतीतिरि । २ इत्येतस्य व्य' । ३ विशेषणतयेति काशीमु. पा.।
आपदेवकृतः । - एवं च वैदिकलिङादिश्रवणेऽपि प्रवर्तनासामान्यमेव प्रतीयते । तत्र कोऽसौ व्यापार इत्यपेक्षायां प्रैषादिरूपस्य वऋभिप्रायस्थापौ- रुषेये वेदेऽनुपपत्तेः शब्दनिष्ठ एव प्रेरणापरपर्यायः कश्चिद्व्या- पार इति कल्प्यते । अतश्च शब्दनिष्ठ एव प्रेरणापरपर्यायो व्या- पारः शाब्दी भावना । सैव च प्रवर्तनात्वेन रूपेण विध्यर्थ इति । अयमेव चार्थ:- 'अभिधाभावनामाहुरन्यामेव लिङादयः' इतिवार्तिकस्य । अभिधीयते अनेनेति व्युत्पत्त्याऽभिधाशब्देन विधिशब्द उच्यते । तद्व्यापारात्मिका भावना लिङादिवाच्येति केचिदाचार्याः। अन्ये त्वाहुः। सत्यं प्रवर्तनासामान्यं विध्यर्थः। तथैव शक्ति- ग्रहात् । प्रवृत्त्यनुकूलो व्यापारः प्रवर्तना। अपौरुषेये च वेदे प्रैषा- देरसंभवात्कश्चित्पुरुषप्रवृत्त्यनुकूलो व्यापारविशेषः कल्पनीयः । विधिशब्दाभिधेयप्रवर्तनासामान्यस्य विशेषमन्तरेणापर्यवसानात् । तत्र कोऽसौ व्यापारविशेष इत्यपेक्षयां धात्वर्थगतं समीहितसाधन- त्वमेवेति कल्प्यते । तस्यापि प्रवृत्त्यनुकूलत्वात् । सर्वो हि समीहित- साधनतां ज्ञात्वा प्रवर्तते । अन्यप्रेरितो यदीष्टसाधनतां न जानाति तदा नैव प्रवर्तते । खतप्रेरणावादेऽपि तदाक्षिप्तसमीहितसाधनताज्ञानं स्वीक्रियत एव । अन्यथा विधेः प्रवर्तकत्वानुपपत्तेः । अतश्चावश्यकत्वात्स- मीहितसाधनतैव प्रवर्तनात्वेन रूपेण विध्यर्थः। एवं च विधिशब्दस्यान्यनिष्ठव्यापारबोधकत्वं लोकसिद्धं सिद्धं भवति । किंच शब्दे एको व्यापारः स्पन्दाद्यतिरिक्तः कल्पनीयः । तस्य च स्वप्रवृत्तौ पराधीनप्रवृत्तौ वा कारणत्वेनालप्तस्य प्रवर्तना- त्वेन रूपेण ज्ञातस्य प्रवृत्त्यनुकूलत्वं शब्दस्य च परनिष्ठव्यापार- ज्ञापकत्वेन क्लुप्तस्य स्वनिष्ठव्यापारबोधकत्वं, विधेश्च प्रवर्तकत्व- निर्वाहाथै धात्वर्थस्य समीहितसाधनत्वमिति कैल्पनाद्वरमावश्यक- स्यैव समीहितसाधनत्वस्य स्वप्रवृत्तिहेतुत्वेन क्लुप्तस्य प्रवर्तनात्वेन रूपेण विध्यर्थत्वकल्पनं लाघवात् , अन्यनिष्ठत्वाच्च । न च विधेः प्रवर्तकत्वनिर्वाहार्थ समीहितसाधनत्वकल्पनात्प्रे- रणानभिधाने च विधेः प्रवर्तकत्वाभावाद्धात्वर्थस्य च समीहित- १ कल्पनागौरवाद -- मीमांसान्यायप्रकाशः। - साधनत्वकल्पकमेव नास्तीति वाच्यम् । प्रवर्तनामिधानेनैव तन्म- तेऽपि विधेः प्रवर्तकत्वाद्विध्यभिहितस्य च प्रवर्तनासामान्यस्य विशे- षमन्तरेणापर्यवसानात्समीहितसाधनत्वाक्षेपैकत्वात् । न चेष्टसाधनत्वस्य विध्यर्थत्वे संध्योपासनं ते इष्टसाधनं तत्त्वं कुर्विति सहप्रयोगानुपपत्तिरिति वाच्यम् । इष्टसाधनत्वस्य विशेष- रूपेण विधिनानभिधानात् । प्रवर्तनात्वेन रुपेणाभिधानात् । सामा- न्यशब्दस्य च विशेषशब्देन दृष्टः सहप्रयोगः । पाञ्चालराजो द्रुपद इत्यादौ । तस्मात्समीहितसाधनतैव प्रवर्तनात्वेन रूपेण विध्यर्थः सैव च तेन रूपेण शब्देनैवाभिधीयत इति शाब्दी भावना । उक्तवार्तिकस्यापि अयमेवाभिप्रायः । अभिधीयते साऽभिधा समीहितसाधनता सैव प्रवर्तनात्वेनाभिहिता पुरुषप्रवृत्तिं भावय- तीति भावना तां लिङादय आहुरिति । यथाहुः- पुंसां नेष्टाभ्युपायत्वाक्रियावन्यः प्रवर्तकः । प्रवृत्तिहेतुं धर्म च प्रवदन्ति प्रवर्तनामिति । तत्सिद्धं यजेतेत्यत्र लिङ्त्वांशेन शाब्दी भावनोच्यत इति । आख्यातत्वांशेनार्थीभावनोच्यते । ननु केयमार्थी भावना। कर्तृव्या- पार इति चेन्न । यागादेरपि तद्व्यापारत्वेन भावनात्वापत्तेः। नचे- ष्टापत्तिः, तस्य प्रकृत्यर्थत्वेन प्रत्ययार्थत्वाभावादिति चेत् । अत्राहुः । सत्यं न यागो भावना किंतु स्वर्गेच्छाजनितो यागविषयो यः प्रयत्नः स भावना । स एव चाख्यातांशेनोच्यते । यजेतेत्याख्यातश्रवणे योगेन यतेतेति प्रतीतेर्जायमानत्वात् । यश्च प्रयत्नपूर्वकं गमनादि करोति तस्मिन्देवदत्तो गमनं करो- तीति करोतिप्रयोगदर्शनात्, वातादिना स्पन्दमाने तु नायं करोति किंतु वातादिनाऽस्य स्पन्दो जायत इति प्रयोगात्करोत्यर्थस्तावत्प्र- यत्नः । करोतिसामानाधिकरण्यं चाख्याते दृश्यते । यजेत यागेन कुर्यात्, पचति पाकं करोति, गच्छति गमनं करोतीति । अतश्च करोतिसामानाधिकरण्यात्प्रयत्नस्याख्यातवाच्यत्वम् । न च रथो गच्छतीति प्रयोगानुपपत्तिः, रथे यत्नाभावादिति वाच्यम् । वोदश्वगतं प्रयत्नं रथे आरोग्य प्रयोगोपपत्तेः। यन्मतेऽप्यन्योत्पादनानुकूलं व्यापारसामान्यं भावना तन्म- १°नैतन्म । २० पेक्षत्वा । ३ यागे । ४ स्वेच्छा।
७२ आपदेवकृतः। तेऽपि रथे गमनातिरिक्तव्यापारानुपलब्धे रथो गच्छतीति प्रयोग- स्यौपचारिकत्वमेवेति । अतश्च प्रयत्न एवार्थी भावना । यथाहुः- प्रयत्नव्यतिरिक्तार्थी भावना तु न शक्यते । वक्तुमाख्यातवाच्येह प्रस्तुतेत्युपरम्यते ।। इति । अन्ये त्वाहुः । भवितुर्भवनानुकूलो भावकव्यापारस्तावद्भावना। यस्मिन्व्यापारे कृते करणं फलोत्पादनाय समर्थ भवति तादृशो व्यापार इति यावत् । स एव चाख्यातार्थः । कुठारेण छिनत्तीत्या- ख्यातश्रवणे हि भवत्येतादृशी मतिः कुठारेण तथा व्याप्रियेत य- स्मिन्व्यापारे कृते कुठारेण छेदनं भवतीति । एवं यजेत स्वर्गकाम इत्यस्यायमर्थः-यागेन तथा व्याप्रियेत यस्मिन्व्यापरे कृते यागा- स्वर्गो भवतीति । स च व्यापारः कचिदुद्यमननिपतनादिः, क्वचि- चाम्न्यन्वाधानादिब्राह्मणतर्पणान्त:, कथंभावाकाङ्क्षायां विशेषरूपेण पश्चादवगम्यते । अन्योत्पादानुकूलत्वेन सामान्यतस्त्वाख्यातादेव । रथो ग्राम गच्छतीत्यत्रापि आख्यातेन ग्रामप्राप्त्यनुकूलो व्यापार एव प्रतीयते । स्थस्तथागमनेन व्याप्रियते यस्मिन्व्यापारे कृते गमनाग्रामप्राप्तिर्भ- वतीति प्रतीतेः । नत्वत्र गमनमात्रमाख्यातार्थः तस्य धातुनोक्त- त्वात् । तत्र कोऽसौ व्यापार इत्यपेक्षयां पूर्वोत्तरावान्तरदेशविभ- जनसंयोजनरूप इति पश्चादवगम्यते । पूर्वेण प्रदेशेन विभज्योत्त- रेण संयुज्य रथो ग्रामं गच्छतीति प्रयोगात् । उद्यम्य निपात्य कु- ठारेण च्छिनत्तीतिवत् । एवं देवदत्तः प्रयतत इत्यत्रापि देवदत्तस्तथा व्याप्रियते यथा प्रयत्नो भवतीति प्रयत्नानुकूलो व्यापार एवाख्यातार्थो न तु प्रयत्नः। तस्य धातुनोक्तत्वात् । व्यापारविशेषापेक्षायां चेच्छादिः पश्चाद- वगम्यते, उद्यमननिपातनवत् । तथा च सर्वत्रानुगतत्वादन्योत्पादानुकूलव्यापारसामान्यमेवा- ख्यातार्थः, न तु प्रयत्नमात्रम् । रथो गच्छति देवदत्तः प्रयतत इत्यादिषु तदभावात् । न चात्रौपचारिकत्वं वक्तुं युक्तम् , मुख्य सं- भवति तस्यान्याय्यत्वात् । करोत्यर्थोऽप्यन्योत्पादानुकूलो व्यापार १र्थभा । २°से।
मीमांसान्यायप्रकाशः । एंव न प्रयत्नमात्रं, करोतेश्चेतनाचेतनकर्तृकाख्यातसामानाधिकर- ण्यादिति । तत्सिद्धमन्योत्पादानुकूलो व्यापार आर्थी भावनेति । सैव चाख्यातांशेनोच्यते भावयेदिति । तस्याश्च भाव्याकाङ्क्षायां स्वर्गादि भाव्यत्वेन संबध्यते । करणाकाङ्क्षायां यागादिः करणत्वेन संबध्यते । प्रयाजादय इतिकर्तव्यतात्वेन । एवंच यजेतेत्यादिना स्वर्गाद्युद्देशेन यागादेविधानात्सिद्धं यागादेर्धर्मत्वं प्रयोजनमुद्दिश्य वेदेन विहितत्वादिति । सोयं धर्मो यदुद्देशेन विहितस्तदुद्देशेन क्रियमाणस्तद्धेतुः । श्रीगोविन्दार्पणबुद्ध्या क्रियमाणस्तु निःश्रेयसहेतुः । नच तदर्पणबु- ध्यानुष्ठाने प्रमाणाभावः। - १ अत्र श्रीकृष्णनाथन्यायपञ्चाननभट्टाचार्या: "करोत्यर्थोऽप्यन्योत्पादानुकूलो व्यापार एव प्रयत्नमात्रं करोतेश्चेतनकर्तृकाख्यातसामानाधिकरण्यात्" इति पाठमादृत्य व्याचख्युः- "ननु तर्हि करोतिनाख्यातार्थप्रतिपादनविरोधस्तयोविभिन्नार्थकत्वादित्यतस्त- योरभिन्नार्थत्वं प्रतिपादयति-करोत्यर्थोऽपीतिकोयमन्योत्पादानुकूलो व्यापारः करोत्यर्थ इत्यत्र व्यापारखरूपमाह-प्रयत्नमात्रमिति । ननु तथापि पशुपदस्य ह- स्तिपदेनेवाख्यातपदस्य करोतिना विवरणमयुक्तमाख्यातस्य व्यापारसामान्यवाच- कत्वात्करोतेश्च तद्विशेषवाचकत्वादित्यतो-यत्राख्यातस्य व्यापारत्वेन प्रयत्नबोध- कत्वं तत्रैव करोतिना सामानाधिकरण्यं न सर्वत्रेत्याह-करोतेरिति"। इति । तच्चिन्त्यम्-आकासितानभिधानेन न्यूनत्वप्रसङ्गादनाकाड्तिाभिधानेनार्था- न्तरतापत्तेश्च । तथाहि- आख्यातस्यान्योत्पादानुकूलव्यापारार्थकत्वं व्यवस्थापयता यत्नार्थकत्वमवश्यं निराकर्तव्यम् । परमतनिराकरणपूर्वकत्वाब्यवस्थापनस्य । तच्च रथो गच्छति देवदत्तः प्रयतते इत्यादिषु व्यभिचारान्निराकृतमपि यत्नार्थकत्वसाधकयुक्ति- निराकरणं यावन्नाशेषतो निराकृतं भवति । एकतरपक्षसाधकयुक्तीनां पक्षान्त- रप्रतिपक्षत्वात् । करोतिना विवरणं च करोतेयत्नार्थकत्वे स्वपक्षविरोधि । अतः करोतेरपि यत्नार्थकत्वनिराकरणमपेक्षितम् । तदकरणे ग्रन्थस्य न्यूनत्वापत्तिः । करोत्यर्थेऽन्योत्पादानुकूलव्यापारत्वमस्ति नवेत्यादिसंदेहाभावात्, करोत्यर्थस्ता- दृशव्यापारः क इति जिज्ञासाभावाच्च तदुक्तावर्थान्तरत्वम् । करोतेश्चेतनकर्तृका- ख्यातसामानाधिकरण्यादित्यनेन 'यत्र चेतनकर्तृकाख्यातसामानाधिकरण्यं तत्रैव करोतिना विवरणं न सर्वत्र' इत्यस्यार्थस्य कथमप्यप्रतीतेश्च । अज्ञाते धर्मिस्वरूपे विरोधानुसंधानासंभवात् , ज्ञाते च पुनस्तज्जिज्ञासानुदयात् , सामान्यवाचकस्य ७ मी० न्या. ।
आपदेवकृतः । यत्करोषि यदनासि यजुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ इतिस्मृतेः । अस्याश्चाष्टकादिस्मृतिवत्प्रामाण्यादित्यन्यत्र विस्तरः॥ काहं मन्दमतिः केयं प्रक्रिया भाट्टसंमता । तस्माद्भक्तेर्विलासोऽयं गोविन्दगुरुपादयोः ।। ग्रन्थरूपो मदीयोयंऽ वाग्व्यापारः सुशोभनः । अनेन प्रीयतां देवो गोविन्दो भक्तवत्सलः॥ इति श्रीमदनन्तदेवमनुना आपदेवेन कृतं मीमांसान्याय- प्रकाशसंज्ञकं मीमांसाप्रकरणं समाप्तम् । विशेषवाचकेन विवरणमयुक्तमित्युद्भावितायुक्तत्वस्यानुद्धारात्, अन्योत्पादानु- कूलव्यापारत्वस्य करोत्यर्थतावच्छेदकत्वानङ्गीकारे एकस्मिन्नुभयसंबन्धानभिधा- नेनापिशब्दस्य, व्यावाभावेनैवकारस्य चासंगतत्वापाताचेत्यपि विभावनीयम् । औपरिष्टिकपाठ एव पुस्तकान्तरेषूपलब्धो युक्तश्च । तत्र हि करोत्यर्थोपीत्यने- नाख्यातस्येव करोतेरपि यत्नार्थकत्वं प्रतिषिध्य करोतेश्चेतनाचेतनकर्तृकाख्यात- सामानाधिकरण्यादित्यनेन 'यद्यद्यत्नवत्तत्तचेतनम्' इति व्याप्तेरचेतनकर्तृकाख्या- तसामानाधिकरण्यरूपव्यापकविरुद्धोपलब्ध्या करोत्यर्थाश्रयाच्चैतन्यं निवर्तमानं करोतेरपि यत्नार्थकत्वं निवर्तयतीत्युच्यत इति सर्व समञ्जसम् ॥
No text on this page.
No text on this page.