Central Archaeological Library_asi_new Delhi
Chaturvinsatimatasangraha Part I And Ii
Front matter
BENARES SANSKRIT SERIES;
А.
COLLECTION OF SANSKRIT WORKS
EDITED BY THE
PANDITS OF THE BENAR ES SANSKRIT COLLEGE,
UNDER THE SUPERINTENDENCE OF
G. THIBA UT, Pa, D.
No. 139,
F
CENTRALE
(Neo Deti
409
RAR
चतुर्विंशतिमतसंग्रहा
श्रीभट्टोजिदीक्षितसंकलितः ।
साहित्योपाध्यायेन नेपालदेशीयदेवीदत्तपराजुलिना
संशोधितः।
CHATURVINSATIMATASANGRAHA,
By PANDIT BHATTOJI DÎKSHITA,
EDITED BY
SÂHITYOPADHYAYA NEPALI PANDIT DEVIDATTA PARÂFULI.
Fascialus I.-D.
BENARES:
Published by the Proprietig's blessi's. Braj B. Das & Co.
AND SOLD BY H. D. GUPTA,
Secretary, Chowkhumbu Sanskrit Bol Depot.
Printed at the Vidya Vilâs Press,
BENARES.
1907.
. १ O १ १ ६ २ सूचोपनम् । रुआपा०० गणपाठः गालप्रकाशः गंगालहरी गुरसारणी जातकतत्त्वमू तत्वदीप तर्कसंग्रहः दत्तकमीमांसा धर्मशास्त्रसंग्रहः धातुपाठः ( शिला -) ) धातुरूपावली परिभाषापाठः पाणिनीयशिक्षा भाष्यहिता प्रथम पराक्षा प्रथमपुस्तक हिन्दी प्रश्नभूषणम् (प्रश्न विचार का बहुत उत्तम ग्रन्थ ) बीजगणितम् (म० म. पं० सुधाकरकृतटिप्पणीसहित) १ मनोरमा शब्दरत्नसहिता (टाइप) लघुकौमुदी टिप्पणीहिता लघुकौमुदीभाषाटीका (पं० मथुराप्रसादमिश्र कृत) (टिप्पणीसहित) लक्षणावली ૨ लीलावती (म०म० पं० सुधाकर कृर्तारपणीसहित) १ वसिष्ठसिद्धान्तः विष्णु सहस्त्रनाम १ व्याकरणकौमुदी (उपक्रमणिका का दूसरा भाग) १ शब्दरूपावली ङ्गार सप्तशती समासचक्रम् समासचन्द्रिका सरस्वतीकण्ठाभरणम् ३ साङ्घायचन्द्रिका टिप्पणीसहिता सिद्धान्तकौमुदी (पं० बामनाचार्येण संशोधिता) सिद्धान्तमुक्तावली दिनकरीटिप्पणासाहता THE "RAL ARCHAEOLOGIGAS क्षेत्रकौमुदी SRARY, NEW DELHI. क्षेत्रसंहिताः................... ७ १ ३ a . १ १ २ क १ ६ ॥ श्रीमहागणपतये नमः॥ चतुर्विशतिमतसंग्रहः। सर्वज्ञः सकलेश्वरः श्रुतिगिरां तात्पर्यभूमिः परा दैतधान्तविधूननैकपदुभिः स्वान्ते चिरं चिन्तितः ॥ तेषामात्मतयैव योऽद्वयवपुर्विद्योतते स्वप्रमः स्वेच्छोपात्तमनोहराकृतिममुं श्रीबालकृष्णं नुमः ॥ १ ॥ विवुधसुरमुनीन्द्रवन्दितं यत्पदाब्ज सकलजगदुपात्तानन्तरायान् लुनाति ।। प्रथितविभव ईशो मत्कृतेर्विघ्नपूर्ण शमयतु स गणानामग्रणीर्विघ्नराजः ॥२॥ बालभावमवलम्ब्य भारती प्रार्थये किमपि काक्षितं मुहुः ।। यत्त्वदीयपदपल्लवद्वयं मामकीनरसनातिथिर्भवेत् ॥ ३ ॥ नत्वा शास्त्रार्थतत्वज्ञानहं कुर्वे यथामति ॥ श्रीचतुर्विंशतिमतस्मृतेयाख्यानमादरात् ॥ ४॥ श्रीमन्वादिचतुर्विंशतिमतं संजिघृक्षुः कश्चित्तच्छिष्यो निर्विघ्नस- माप्तिफलक मङ्गलं शिष्यशिक्षार्थ मुनिकर्तृकलयैवोपनिवघ्नन्नाभिधेयं प्रदर्शयति- सर्वात्मने नमस्कृत्य ब्रह्मणेऽमिततेजसे ॥ धर्मानूचुत्रिवेदोक्तान् स्वर्गादिफलदायकान् ।। धर्मानूचुरिति मन्वाचा इति शेषः । ते चानुपदमेव वक्ष्यन्ते । पौ- रुषेयत्वेप्यस्य ग्रन्थस्य वेदमूलत्वाद्धर्मे प्रामाण्यमित्याशयेन धर्मान् विशि- नष्टि । त्रिवेदोक्तानिति । यद्यपि समाहारद्विगौ त्रिवेदीत्यपेक्षितं न च MONDERS ।
चतुर्विशतिमतसंग्रहः विशेषणं विशेष्येणेति कर्मधारयः दिक्संख्ये संज्ञायामिति नियमात् । तथापि अवयवो वेद इति मध्यमपदलोपी समासः । वेदशब्दस्तत्संघा- तलक्षकः । यथा चैतत्तथा द्विगो गनपत्य इति सूत्रे भाष्यादौ स्फुटम् ।। के मन्वादय इत्याकाङ्क्षायामाह- मनुना याज्ञवल्क्येन विश्वामित्रेण चात्रिणा । विष्णुना च वसिष्ठेन व्यासेनोशनसा तथा ॥ आपस्तम्वेन वत्सेन हारीतगुरुनारदैः । पराशरेण गर्गेण गौतमेन यमेन च ॥ शातातपेन शङ्खन संवर्तेन तथैव च । बौधायनेन सांख्येन दक्षेणाङ्गिरसा तथा ॥ चतुर्विंशतिभिः शास्त्रं दृष्ट लोकहिते रतैः । धर्मसंरक्षणार्थाय संक्षेपेण महात्मभिः ॥ एतैश्चविंशतिभिः शास्त्रं वक्ष्यमाणं दृष्टमित्यन्वयः । किमर्थ त- त्राह संक्षेपेण अल्पायासेनैव धर्मस्य सम्यग्रक्षणमेवार्थः प्रयोजनं तस्मै रक्षणं चेह शाब्दोनुभवः। नन्वसौ आशुविनाशित्वात्कथं कालान्तरभावि- कर्मानुष्ठाने उपयुज्यतामित्याशक्याह- एतज्ज्ञात्वा द्विजः शीघ्र धर्म स्मरति तत्त्वतः। तस्मात्सर्वप्रयत्नेन शास्त्रमेतदुदीरयेत् ॥ स्त्रैवर्णिकः । तथा च स्मरणद्वारा उपयुज्यत इति भावः। उदीरयेत् अध्यापयदित्यर्थः । अत्र च ब्राह्मण एव अधिकारी बोध्यः। तदुक्तं मनुना- विदुषा ब्राह्मणेनेदमध्येतव्यं प्रयत्नतः । शिष्येभ्यश्च प्रवक्तव्यं सम्यकान्येन केन चिदिति ।। यद्यपि अध्ययनं त्रैवर्णिकसाधारण तथापि अध्यापनं ब्राह्मणेनैव कार्यमित्यर्थः । अध्यापकब्राह्मणालाभे तु मनुरेवाह- FIRSANA चतुर्विशतिमतसंग्रहः। अब्राह्मणादध्ययनमापत्काले विधीयते । अनुव्रज्या च शुश्रूषा यावध्ययनं गुरोरिति अत्राध्यापनमपि अर्थादनुज्ञानमिति तद्वयाख्यातारः । अध्ययनस्य त्रैवर्णिकसाधारण्यं तु मनुनोक्तम्- निषेकादिश्मशानान्तो मन्त्रैर्यस्योदितो विधिः । तस्य शास्त्रेधिकारोस्मिन् ज्ञेयो नान्यस्य कस्यचिदिति ।। शास्त्रमुदीरयेदित्युक्तं तद्विशिनष्टि- वर्णानामाश्रमाणां च ह्याचारकथनं शुभम् ।। आचाराः कथ्यन्तेऽस्मिन्नित्याचारकथनम् । इदानीं संदर्भशुद्धश्- नुरोधे मूले वक्ष्यमाणानि वचनानि स्मृत्यन्तरस्थानि कानिचिदुपसंहत्या- वश्यकाः पोडश प्राच्याः संस्कारा व्युत्पाद्यन्ते । ते च गर्भाधान, पुंसद- ना, नवलोभन, सीमन्तोन्नयन, जातकर्म, नामकरण, निष्क्रमणा, नशा- शन, चौलो, पनयनानि, चत्वारि वेदव्रतानि प्रतिशाखं गृह्येपूतानि स्नानं, विवाहश्चेति । अत्रापि गर्भाधानाद्याः उपनयनान्ता एव सर्वेषां नियता न तु स्नानाद्याः । तेन ब्रह्मचर्यादेव प्रवदित्यादि न विरुध्यते । एते च द्विजानामेव समन्त्रकाः। यदाह याज्ञवल्क्य:- ब्रह्मक्षत्रियविभद्रा वर्गास्वाधास्त्रयो द्विजाः । निषेकायाः श्मशानान्तास्तेषां वै मन्त्रतः क्रिया इति ।। वैशब्द एवकारार्थः । अत्र तेषामेव क्रिया इति वदन् शूद्रस्याम- न्त्रकाः क्रिया इति दर्शयति अत एव संस्कारानधिकृत्य शूद्रोप्येवंविधः कार्यों विना मन्त्रेण संस्कृत इति । तत्र ऋतौ गर्भाधानं कार्यम्। रजः प्रभृतिषोडशरात्रान्त ऋतुकालः। तदुक्तं याज्ञवल्क्येन- घोडशनिशाः स्त्रीणां तासु युग्मासु संविशेत् ।
४ MANDSARD MAA NAMEANING ENISA चतुर्विंशतिमतसंग्रह ब्रह्मचार्येव पर्वाण्याद्याश्चतस्त्रश्च वर्जयेदिति ।। युग्मासु निशासु निशास्विति दिवसनिषेधार्थम् ।। तथाचाथर्वणश्रुतिः- प्राणं वा एते अस्कन्दन्ति ये दिवा रत्या संपुज्यन्ते ब्रह्मचर्यमेव तत् यद्रात्रौ संयज्यन्त इति ॥ शङ्कलिखितावपि- नातवेपि दिवा बजेदिति युग्मास्विति बहुवचनं समुच्चयार्थम् । अत- वैकस्मिन्नप्यूतावप्रतिषिद्धासु युग्मासु सर्वासु रात्रिषु गच्छेत् युग्मग्र- हणं च पुत्रार्थम् । तदाह मनु:- युग्मासु पत्रा जायन्ते स्त्रियोऽ युग्मासु रात्रिध्विति । अत्र च ऋतौ गच्छेदेवेति नियमविधिः, न ऋताववेति परिसंख्या दोषत्रयापत्तेः । यत्र श्राद्धादिषु ब्रह्मचर्य विहितं तत्राप्य॒तौ गच्छतो न दोष इत्याह ब्रह्मचार्येवेति विज्ञानेश्वरः । वस्तुतस्तु ब्रह्मचर्यमेव तत् । यद्रात्रौ संयुज्यते इति मागुदाहृताथर्वणश्रुतिस्थब्रह्मचर्यपद- वदिदमपि अर्थवादमात्रमित्युचितम् । तथा च श्राद्धकर्तृभोकोब्रह्मचर्यम तावप्यावश्यकमिति प्रतिज्ञाय माधवाचार्यद्धमनुवचनमुदाहृतम्- ऋतुकालं नियुक्तो वा नैव गच्छेत्स्त्रियं क चित् । तत्रागच्छन् समाप्नोति त्यनिष्टफलमेव त्विति ।। सूतकादौ तु ऋतावगमनेप्यदोषः । तदाहीपमन्यु:- सूतके बन्धने विप्रो हव्यकव्यादिवर्जितः । नैनसा लिप्यते तद्वदृतावगमनादपीति ।। पर्वाणीति बहुवचनबलात् पर्वादीनामित्यर्थः। तेनाष्टमीचतुर्दश्योहणम् । यदाह मनु:- अमावास्यामष्टमी च पौर्णमासी चर्तुदशीम् । Cames । reatosapan चतुर्विशतिमतसंग्रहः ब्रह्मचारी भवेन्नित्यमप्यृतौ स्नातको द्विज इति ॥ आधा इति । अत्र चतुर्थदिवसे गमनं वैकल्पिकम् । विहितप्रति- घिद्धत्वात् । तथाच हारीत:- चतुर्थेऽहनि स्नातायां युग्मासु गर्भाधानमिति विदधौ । निषेध- स्तु चतुर्थे सा न गन्तव्येति व्यासोक्तः ॥ व्यवस्थितचायं विकल्पः । रजोनिवृत्तौ चतुर्थी विधिः। तदनुवृत्तौ तु प्रतिषेध इति । तथाच मनुः रजस्युपरते साध्वी स्नानेन स्त्री रजस्वलेति ।। साध्वी गर्भाधानयोग्येत्यर्थ इति माधवः । आपस्तम्बोपि- स्नानं रजस्वलायास्तु चतुर्थेहनि शस्यते । गम्या निवृत्ते रजासि नानिवृत्ते कथं चनेति ।। गमनं चैकस्यां रात्रौ सकृदेव तदुक्तम्- एवं गच्छन् स्त्रियं क्षामां मघां मूलं च वर्जयेत् । स्वस्थ इन्दौ सकृत्पूज्यं लक्षण्यं जनयेत्पुमानिति ।। अत्र क्षामता रजस्वलावतजन्या ! अल्पाऽस्निग्धभोजनादिना वा MA कर्तव्या। । तदाह बृहस्पति:- स्त्रियाः शुक्रे धिके स्त्री स्यात्पुमान् पुसोधिके भवेत् । तस्माच्छुक्रविध्यर्थं स्निग्धं भक्ष्यं प्रकल्पयेत् ।। लघ्वाहारां स्त्रियं कुर्यादेवं संजनयेत्सुतमिति ॥ नियमान्तरमाह याज्ञवल्क्य:- यथा कामी भवेद्वापि स्त्रीणां वरमनुस्मरनिति ।। अनृतावपि स्त्रीकामनायां सत्यां स्त्रियं रमयेदेवेत्यर्थः । इदं च पर्वादिव्यतिरेकेण।
castamarsuan चतुविशतिमतसंग्रहः तथा च विष्णुपुराणे तृतीयेशे- इति मत्वा स्वदारेषु ऋतुमत्सु नरो व्रजेत् । यथोक्तदोपहीनेषु सकामेष्वनृतावपीति ।। एवं चानृतौ गमननिषेधपराणि वचनानि स्त्रियाः कामनाविरहे बोध्या- नि अनृतौ गमनं तु निषेधबौधायन:- ऋतौ नोपैति यों भार्यामनृतौ यश्च गच्छति । तुल्यमाहुस्तयोः पापं अयोनौ यश्च सिञ्चतीति । तथा महाभारते- विसस्तैन्यशपथप्रसङ्गेऽनृतौ गच्छतो यो दोपः स ममास्तु इत्यसकृदुक्तम्। अत्रि:- पण्मासान् कामयेन् मयों गभिणी स्त्रियमेव हि । आदन्तजन्मनादूर्ध्वमेव धर्मो न हीयते इति ॥ अवं प्रसूतेरूर्व बालस्य दन्तजननं मर्यादीकृत्येत्यर्थः । स्त्री- णां वरामिति इन्द्रेण दत्तमिति भावः । तथाच श्रुति:- ता अब्रुवन् वरं वृणामहे ऋत्वियात्मजां विन्दामहै काममाभि- जनितोः संभवामेति तस्मात्वियात्रियः प्रजां विन्दन्ते काममाविज- नितोः सम्भान्ति वारे वृतं ह्यासामिति । विश्वरूपनारूनः पुरोहितस्य वधा- दिन्द्रस्य ब्रह्महत्यायां सत्यां तत्तृतीयांश रजोरूपेण परिणतं स्वीकुर्व- त्यः स्त्रिय इन्द्रमब्रुवन् ऋत्वियात् ऋतुकालीनात्पुरुषसम्बन्धात् आरि- जनितोः प्रसवपर्यन्तं सम्भवन्त्यनुभवन्ति वारे वरसंबन्धिनि वचने । इति गर्भाधानप्रकरणम् ॥ अथ पुंसवनम् । गर्भामासप्रभृतितृतीयमासे गर्भाभिव्यक्ती सल्या तत्रैवानभिव्यक्ती तु चतुर्थे मासि कार्यम् । अनवलोभनं तु चतुर्थ इति स्मृत्यर्थसारैः। तृतीये चतुर्थे पष्टेष्टमे वा मासे शुक्रसोमबुधगुरुबारेषु पुंसवनानव- लोभने कुर्युरित्यन्ये ॥ अत्र नियतकालत्वाद् गुरुशुक्रास्तवालवाई- चतुर्विंशतिमतसंग्रहः कमलमासादिष्वपि न दोषः ॥ अस्तादिरहितकाललाभे तु शुक्रास्तादौ न कार्य्यम् । सीमन्तदिने वा कार्ये । अथ सीमन्तोन्नयनन् । तञ्च गर्भसापेक्षया तृतीये चतुर्थे पञ्चभे षष्ठे सप्तमेऽष्टमे चा मासि । तथाच लौगाक्षिः-तृतीये गर्भमासे सीमन्तोन्नयनं कार्यमिति । तथा आश्वलायन:-चतुर्थे गर्भमासे सीमन्तोन्नयनं षष्ठेऽष्टमे वेति। वैजवाप:-अथ सीमन्तोन्नयनं चतुर्थे पञ्चमे षष्ठे वेति । सांख्यायगृह्ये सप्तमे मासि प्रथमे गर्भे सीमन्तोन्नयनामिति । एतेष्वसंभवे तु यावत्प्रसवं कार्यम् । तथाच शव:-यावद्वान प्रसव इति । अत्रापि शुक्रास्तादिका- लान्तरासंभवे न दोषः।। इदं च प्रतिगर्भ नावर्त्तते ।। तथाच हारीत:- सकृत्तु कृतसंस्काराः सीमन्तेन द्विजस्त्रियः । यं यं गर्भ प्रसूयन्ते स सर्वः संस्कृतो भवेदिति ॥ विष्णुना यन्मतान्तरमप्युक्तम्-. सीमन्तोन्नयनं कर्म न स्त्रीसंस्कार इष्यते । के चिदर्भस्य संस्काराद्गर्भे गर्भे प्रयुञ्जते इति ॥ तत्कृतेऽभ्युदयइत्येवं परम् । तथाचाश्वलायनस्मृती- प्रतिगर्भ बलिः कार्य सीमन्तश्च प्रशस्यत इति ।। बलिर्विष्णुवलिः गर्भाष्टमे मासे कार्यः ॥ इदं च- बह्वल्पं वा स्वगृह्योक्तं यस्य कर्म प्रचोदितम् । तस्य तावति शास्त्रार्थ कृते सर्वः कृतो भवेत् इति वचनमाश्रित्य गृह्यसूत्रानुक्तेरिदानी नाचरन्ति । अकृतसीमन्तायाः प्रसवे तु विशेषः सत्यव्रतेनोक्त:- MODARA ।
PUPIRAHIMeamay
चतुर्विंशतिमतसंग्रहः।
स्त्री यद्यकृतसीमन्ता प्रसूयेत कथंचन ।
पुत्रं गृहीत्वा विधिवत्पुनः संस्कारमहतीति ।।
सीमन्तानन्तरं नियमविशेषः स्मर्यते-
नदीमतरणं चैव शकटारोहणं तथा ।
उग्रौषधं तथा क्षारं मैथुनं भारवाहनम् ।।
कृते पुंसवने चैतद्गर्भिणी परिवर्जयेदिति ।।
अथ जातकर्म।
जातमात्रे पुत्रे पिता तस्य मुखं निरीक्ष्य नद्यादावुदङमुखः स्ना-
त्वा तदसंभवे दिवाऽऽ हताभिः शीताभिः अद्भिः सुवर्णयुताभिः गृह
एव स्नात्वा नालच्छेदात्पूर्व वृद्धिश्राद्धं हेम्ना कृत्वा जातकर्मदानादि
कुर्यात् ।
प्राङ्नाभिवर्द्धनात्पुंसो जातकर्म विधीयते ।
मन्त्रवत्प्राशनं चास्य हिरण्यमधुसर्पिषामिति मनुस्म्टतेः ॥ इदं
च रात्रौ संध्यायां ग्रहणे जाताशौचान्तरमध्येपि कार्यम् ।। मृताशौचमध्ये
जातश्चेत्तदैव वा आशौचान्ते वा कार्यम् ॥
तदुक्तं विष्णुधर्मोत्तरे-
आशौचोपरमे कार्यमथवा नियतात्माभिरिति ।
पितरि नामान्तरगते सति पितृव्यादिर्गोत्रजो ज्येष्ठक्रमेणेदं कुर्यात् ।
आदित्यपुराणे विशेष उक्तः-
तत्र दद्यात्सुवर्ण तु भूमि गास्तुरगं रथम् ।
छत्रं छागं च माल्यं च शयनं वसनं गृहम् ।।
यावन्न च्छिद्यते नालं तावद्दद्यात्स्वशक्तित इति ॥
शङ्खोपि-
सर्वेषां च सकुल्यानां द्विपदचतुष्पदधान्यहिरण्यानि दद्यादिति ॥
अथ नामकरणम् ।
तच्च जातकर्मानन्तरमेव वा एकादशे द्वादशेऽष्टादशेऽन्हि संवत्सरे
। चतुर्विशतिमतसंग्रहः । वा अन्यस्मिन् वा शुभेन्हि कार्यम् ॥ नाम चास्मै दद्युरिति गृह्यस्थ- चकारस्वरसेन जातकर्मसमानकालीनतालाभात् ।। तथा च मनु:- नामधेयं दशम्यां तु द्वादश्यां वास्य कारयेदिति ॥ दशम्यामतीतायामित्यर्थः । दशम्युत्तरकाल इति यावत् इति महाभाष्ये पस्पशान्हिके स्फुटम् ॥ तथा विष्णुरपि---आशौचापगमे नामधेयमिति । तथा विष्णुपुराणेपि- ततस्तु नाम कुर्वीत पितैव दशमेऽहनि इति ॥ भविष्योत्तरेपि- नामधेयं दशम्यां च के चिदिच्छन्ति पार्थिव । द्वादश्यामथ वा रात्रौ मासे पूर्णे तथापरे ॥ अष्टादशेहनि तथा वदन्त्यन्ये मनीषिण इति । गृह्यपरिशिष्ट- जननादशरात्रे व्युष्टे दशरात्रे संवत्सरे वा नामकरणमिति ॥ अत्र स्वगृत्यानुरोधेन व्यवस्थितेति माधवः । अत्र नियतकालेपि विष्टि- वैधृतिव्यतीपातग्रहणसंक्रान्तिश्राद्धदिने निषेधः । गुरुशुक्रास्तमलमासा दिनिषेधस्तु नास्ति । नियतकालातिक्रमे तु सोप्यस्तीत्यन्यत्र विस्तरः। अत्र जातकर्मवत्पित्राद्याः क्रमेण कारः ॥ अथ निष्क्रमणम् ॥ तच चन्द्रदर्शनं सूर्यदर्शनं वा देवतानमस्कारात्मकं वा द्वाद- शेऽहि तृतीये वा मासि चतुर्थे वा कुर्यात् ॥ तथाच स्कान्दे- द्वादशोऽहनि राजेन्द्र शिशोनिष्क्रमणं गृहादिति ।। यमस्तु- ततस्तृतीये कर्त्तव्यं मासि सूर्यस्य दर्शनामिति ॥
notatuMONDINAMETRIOSIDEmais Merranteemarape चतुर्विंशतिमतसंग्रहः याज्ञवल्क्यस्त्वाह-चतुर्थे मासि निष्क्रम इति ।। अथान्नप्राशनम् ॥ बच्च षष्ठे मास्यष्टमे वा दन्ते जाते वा कार्यम् ।। वथाच याज्ञवल्क्य:- षष्ठेन्नप्राशनं मासीति ॥ यमः-अष्टमे वापि कर्तव्यमिति ॥ लौगाक्षिः-षष्ठे मासेऽन्नप्राशनं जातेषु वेति ॥ शवस्तु-संवत्सरेऽन्नप्राशनं अर्द्धसंवत्सरे इत्येके इति ॥ अथ चूडाकर्म ॥ तच्च प्रथमे द्वितीये पञ्चमे सप्तमे वाऽष्टमे उपनीत्या सह वा पथाकुलाचारं कार्यम् ।। तथाच यमः- ततः संवत्सरे पूर्णे चूडाकर्म विधीयते । द्वितीये वा तृतीये वा कर्त्तव्यं श्रुतिदर्शनादिति ॥ शङ्खः-तृतीये वर्षे चूडाकर्म पञ्चमे वेति। कारिकायाम्- यथाकुलं च केषांचिदुपनीत्या सहेष्यते इति ॥ यदि गर्भाधानादिसंस्कारलोपस्तदा प्रायश्चित्तं कृत्वा कालात्यय- निमित्तं प्रायश्चित्तहोमं च कृत्वा चौलहोमः कार्यः । तदाह भगवान् शौनक:- आरभ्याधानमाचौलात्काले नीते तु कर्मणाम् । व्याहृत्याऽऽज्यं सुसंस्कृत्य हुत्वा कर्म यथाक्रमम् ॥ कार्यमिति शेषः । प्रायश्चित्तं च सएवाह- एतेष्वकैकलोपेपि पादकृच्छू समाचरेत् । चूडाया अर्द्धकृच्छू स्यादापदि त्वेवमीरितम् ॥ अनापदि तु सर्वत्र द्विगुणं द्विगुणं चरेत् ॥ mare
चतुर्विशतिमतसंग्रहः
११
नातकमादिसंस्काराः स्वकाले न भवन्ति चेत् ।
चौलादर्वाक भकुर्वीत प्रायश्चित्तादनन्तरमिति ॥
प्रायश्चित्तहोमे कृते सत्कर्म कृताकृतम् ।
तथाच कारिका-
प्रायश्चित्ते कृते पश्चादतिमपि कर्म वै
कार्यमित्येक आचार्या नेत्यन्ये तु विपश्चित इति ॥
पायश्चित्तहोमस्तु प्रधानहोमात्पूर्व समस्ताभिातिभिः प्रतिकर्मल
पमेकैकाज्याहुतिः कार्येति । चूडाहोमश्च लौकिकेग्नौ । तस्य सभ्य
इति नाम ॥ चूडायां विशेषः स्मर्यते-
मध्येशिरसि चूढा स्याद्वाशिष्ठानां तु दक्षिणे।
उभयोः पार्थयारत्रिकश्यपानां शिखा मता ॥
लौगाक्षिस्तु-
दक्षिणतः कुमुजा वसिष्ठाना,मुभयतोऽत्रिकश्यपाना, मुण्डा मृगवः,
पञ्चचूडा आङ्गिरसः, मण्डलोप्रशिखिनोन्ये यथाकुलधर्म वेति ॥ कुमुना
केशपतिः । तथा विशेषान्तरमाह ज्योतिनारदः-
शिशोर्मातरि गर्भिण्यां चूडाकर्म न कारयेत् ।
पञ्चमाब्दादथोचे तु गर्भिण्यामपि कारयेत्॥
सहोपनीत्या कुर्यारत्तदा दोषो न विद्यते ॥
भिन्नभा-सुतस्येह न दोषश्चौलकर्मणि इति ॥
एते च संस्काराः स्त्रीणाममन्त्रकाः कार्याः होमस्तु समन्त्रक इति
स्मृत्यर्थसारादौ--उपनयनात्माग्बाला उच्छिष्टादावमयता न स्युः
कामचारवादभक्षश्च ।।
तथाच गौतमः-प्रागुपनयनात्कामचारवादभक्ष इति।। कामचारः
इच्छागतिः । कामवादोऽश्लीलादिभाषणम् । कामभक्षः पर्युषादि-
भक्षणम् । लशुनादिभक्षणं चेति हरदत्तः। इदं च महापातकवर्जमिति।
HAMRODURARIAtment चतुर्विशतिमतसंग्रहः स्मृत्यर्थसारे स्मयते च- स्यात्कामचारभक्ष्योक्तिमहतः पातकाहते इति ॥ नेपा चाण्डालादिस्पर्शे सचैलस्नानम् । प्रागन्नप्राशनादभ्युक्षणम् । प्राक्चौलादाचमनं पश्चात्स्नानमित्येके । गौतमः-- न तदुपस्पर्शना- दशौचमिति । तस्य अकृतोपनयनस्य उदक्यादिस्पृष्टस्य स्पर्शनान्नाऽ शौच तेन स्नानं न कर्तव्यमित्यर्थ इति हरदत्तः । षष्ठवर्षादूर्व तु स्नानं कर्तव्यमिति स एव । अनुपनीताः पित्रोः स्वधानिनयनादृते मन्त्रान्न ब्रूयुः। तथाच गौतमः-न ब्रह्माभिव्याहरेदन्यत्र स्वधानिनयनादिति। मनुरपि- न ह्यस्मिन् विद्यते कर्म किंचिदामौजिबन्धनात् । नाभिव्याहारयेद् ब्रह्म स्वधानिनयनाहते ॥ इति स्वधानिनयनादिति पित्र्यस्य सर्वस्य कर्मण उपलक्षणम् । अन्यत्रोदक- कर्मस्वधापितृसंयुक्तभ्य इति वृद्धवसिष्टोक्तेः । अगृहीताक्षरः पुत्रः पित्रोः संस्कारमर्हतीत्यादिस्मृत्यन्तराचेति हरदत्तः । अक्षराभ्यासं तु मार्कण्डेय:- प्राप्तेऽथ पञ्चमे वर्षे विद्यारम्भं तु कारयेत् । ततःमभृत्यनध्यायान् वर्जनीयान् विवर्जयेत् ॥ अष्टमीद्वितयं चैव पक्षान्ते च दिनत्रयमिति । नृसिंहोपि- अक्षरस्वीकृतिः प्रोक्ता माले पञ्चमहायने इति ।। तानेतान् चौलान्तान् संस्कारान्प्रतिपादयितुं प्रायश्चित्तकाण्डशेषे मूलम्-- जाते पुढे जातकर्म नाम चैकादशेऽहनि । चतुर्थे निष्क्रमो मासि षष्ठेऽन्नप्राशनं मतम् ॥ चूडाकर्म तृतीयेऽब्दे कुलधर्मेण वा तथेति ।। अथोपनयनम् ॥ तत्र मलम्- कुर्युः । तदाह -- । ramme POOR चतुर्विशतिमतसंग्रहः १३ गर्भाष्टमोऽष्टमे वाब्दे ब्राह्मणस्योपनायनम् । एकादशे क्षत्रियस्य वैश्यस्य द्वादशे स्मृतमिति ॥ उपनयनमेवोपनायन स्वार्थेऽणिति विज्ञानेश्वरः। एवं तु उत्तर पदद्धिदुर्लभा पूर्वपदे च प्रवर्तत । नच नयनशब्दादेवाणि पश्चादुप शब्देनसमासः । गतेः प्राक् सुवुत्पत्तेः समासात् सुबुत्पत्रिं विना च तद्धितोत्पत्त्ययोगात् । धातूपसर्गयोगस्यान्तरङ्गत्वाच्च प्रज्ञादिष्वपाठाच । तस्माण्णिजन्ताल्ल्युडित्येव युक्तम् । तथाच भर्तृहरिः- निवृत्तप्रेषणाद्धातोः माकृतेर्थे णिजुच्यते इति ॥ णेरणाविति सूत्रे भाष्यादौ स्फुटमेतत् । अत्र समासे गुणभूतस्यापि उत्तरत्रानुषङ्गेण गर्भादेकादशे गर्भादेव द्वादशे इति च बोध्यम् ॥ तथाच मनुः- गर्भादेकादशे राज्ञो गीत्तु द्वादशे विश इति ॥ काम्योपनयने कालविशेषमाह मनुरेव- ब्रह्मवर्चसकामस्य कार्य विप्रस्य पञ्चमे । राज्ञो बलार्थिनः षष्ठे वैश्यस्याार्थिनोऽष्टमे ।। विष्णु:- षष्ठे तु धनकामस्य विद्याकामस्य सप्तमे । अष्टमे सर्वकामस्य नवमे कान्तिमिच्छतः ।। इदं च त्रैवर्णिकाविषयं तथाच संग्रहे- सप्तमे वाष्टमे वर्षे नवमे दशमे तथा । एकादशे द्वादशे वा त्युपनेया द्विजातयः ।। ब्रह्मवर्चसमायुष्यं तेजोन्नाचं तथेन्द्रियम् । पशून् कामयमाना वैमाप्नुवन्ति यथाक्रममिति ॥ आपस्तम्बोपि-सप्तमे ब्रह्मवर्चसकाम,मष्टमे आयुष्काम, नवमे तेजस्कामं, दशमेऽन्नाधकाम, मेकादशे इन्द्रियकामं, द्वादशे पशुकाम, मिति । गुरुशुक्रादिशुभग्रहवालालामे प्रकारान्तरेण वा प्रतिबन्धे सती E MAHAMANASAMAND 17 चतुर्विंशतिमतसंग्रहः पञ्चमाब्दमारभ्याषोडशादाद्वाविंशादाचतुर्विंशावमादीनां क्रमेण कार्यम् । श्रत ऊर्ध्व सावित्रीपतिता व्रात्याः स्युस्तेषामचीर्णमायश्चित्तानामुपनयनं न कार्यमित्याहुमूले। आषोडशाचाद्वाविंशाच्चतुर्विंशाच वत्सरात् । सावित्रीपतिता ऊर्ध्व विज्ञेयास्ते द्विजाधमा इति ।। अत्र वत्सरादित्यनन्तरमुपनेया इत्यस्यानुषङ्गः। द्विजाधमा इति । नचत्मायश्चित्तमनुतिष्ठन्तीति भावः । तथाच याज्ञवल्क्यः- भाषोडशादाद्वाविंशाचतुर्विंशाच वत्सरात् । ब्रह्मक्षत्रावशां काल औपनायनिकः परः। अतऊर्च पतन्त्येते सर्वधर्मबहिष्कृताः । सावित्रीपतिता व्रात्या व्रात्यस्तोमाहते क्रतो रिति॥ प्रात्यस्तोमाख्ये क्रती कृते सति तु उपनयनाधिकारिणो भवन्तीत्यर्थः।। ज्योतिनृसिंहेण विशेष उक्तः- उत्तरायणगे सूर्ये कर्त्तव्यं त्यौपनायनमिति ।। गृधेपि-उदगयन आपूर्यमाणपक्षे कल्याणे नक्षत्रे चौलकर्मो- पनयनगोदानविवाहा इति । श्रुतिः- वसन्ते ब्राह्मणमुपनयीत । वराह- माघादिपञ्चमासेषु मेखलावन्धनं शिशोः । ज्येष्टमासे न ज्येष्ठस्य जन्ममासे न सर्वेषाम् ॥ बृहस्पतिः- शुक्लपक्षः शुभः प्रोक्तः कृष्णश्चान्त्यत्रिकं विनेति । भृगोरङ्गिरसो मौढचे कर्त्तव्यं नोपनायनमिति च।। भृगुः शुक्रः । अङ्गिराः गुरुः । ज्योतिसिंहोपि- तृतीया पञ्चमी षष्ठी द्वितीया वापि सप्तमी । SARAN PaneruMasRAama MaratESASARAMARAGHAVARASHILE HRAM NRNAD चतुर्विंशतिमतसंग्रहः पक्षयोरुभयोश्चैव विशेषणैव पूजिताः ॥ कृष्णे त्रयोदशी केचित् इच्छन्ति मुनयस्तथा ।। संग्रहे- रिक्ताष्टमीपर्वतिथीननध्यायांश्च वर्जयेदिति ॥ अनध्याया नित्या नैमित्तिकाश्च । अत्र क्वचित्मतिप्रसवमाह भरवाज:- या चैत्रवैशाखसिते तृतीया माघे च सप्तम्यथ फाल्गुनस्य । कृष्णे द्वितीयोपनये प्रशस्ता मोक्ता भरद्वाजमुनीन्द्रमुख्यैरिति ॥ वसिष्टसंज्योतिःफलोद्य- ज्येष्ठे द्वितीयासितजाश्विने तु दशभ्यथो माधसिता चतुर्थी । सद्वादशी सामगबव्हचाभ्यांत्याज्यास्त्विमा सोपपदाव्रतादाविति।। अपरा-- नष्टे चन्द्रेऽष्टमे शुक्रे निरंशे चैव भास्करे । कर्तव्यं नोपनयन नानध्याये गलग्रहे । निरंशलक्षणम्- राहोः प्रथमराशिस्थो निरंशः सूर्य उच्यते इति । गलग्रहश्र ज्योतिर्निबन्धे- त्रयोदशीचतुष्कं तु सप्तम्यादित्रयं तथा । चतुर्थी चैव सम्पोक्ता अष्टावेते गलग्रहा इति ।। गलग्रहस्यापवादमाह भरद्वाजः- विनतुना वसन्तेन कृष्णपक्षे गलग्रहे । उपनीतस्त्वनध्याये पुनः संकारमहतीति । वसन्ततौऋत्वन्तरीयशुक्लपक्षे च गलग्रहो न दोषायेति फलितोर्थः।। संस्कार्यविशेष उक्तः स्मृत्यर्थसारे-- पण्डान्धबधिरस्तब्धजडगद्दपङ्गुषु । कुजवामनरोग्यातशुष्कांनिविकलाङ्गिः ॥ मत्तोन्मत्तेषु मूकेषु शनयस्थे निरिन्द्रिये । ANAND
Horacayan
चतुर्विशतिमतसंग्रहः
ध्वस्तयुस्त्वेपि चैतेषु संस्काराः स्युर्यथोचितम् ।।
मूकोन्मत्तौ न संस्कार्यावित्येके । कर्मस्वनधिकारात्पातित्यं
नास्ति तदपत्यं संस्कार्यम् । अन्ये संस्कार्या इत्याहुः ॥ होमं तावदा-
चार्यः करोति । उपनयनं च विधिना आचार्यसमीपनयनं वा अग्निसं-
मीपनयनं वा सावित्रीवाचनं वा । अन्यदङ्गं यथाशक्ति कार्यम् । वि-
वाहश्च कन्यास्वीकारः, अन्यदङ्गमिति ॥
केचिदाहुर्द्विजैर्जातौ संस्कारों कुण्डगोलको ।
अमृते च मृते पत्यौ जारजौ कुण्डगोलकाविति ॥
ब्रह्मपुराणे-पण्वादीनुपक्रम्योक्तम् ।
ध्वस्तपुंस्त्वेषु चैतेषु संस्काराः स्युर्यथोचितम् ।
संस्कारमन्त्रहोमादीन् करोत्याचार्य एव तु ॥
उपनेयांश्च विधिवदाचार्यः स्वसमीपतः ।
आनीयाग्निसमीपं वा सावित्री संस्पृशन् जपेत् ॥
कन्यास्वीकरणादन्यत्सर्व विप्रेण कारयेदिति ।
अत एव तेषां विवाहमसक्तिसत्त्वात्तत्कनीयसां परिवेदनदोषा-
पवादो वक्ष्यते।
उपनेतृक्रममाह वृद्धगर्ग:-
पिता पितामहो भ्राता ज्ञातयो गोत्रजाग्रजाः।
उपायनेधिकारी स्यात्पूर्वाभावे परः परः॥
Alsents
पितैवोपनयेत्पुत्रं तदभावे पितुः पिता।
तदभावे पितुर्भ्राता तदभावे तु सोदरः ।।
आश्वलायन:-
एकमातृप्रसूतानां कन्या वा पुत्रको तयोः।
सहोद्वाहं न कुर्वीत तथैव व्रतबन्धनमिति ॥
अधिकारसिद्धये प्रायश्चित्तमाह विष्णु:-
चतुर्विशतिमतसंग्रहः
।
कृच्छ्त्रयं चोपनेता श्रीन् कृच्छ्राश्च वटुश्चरेत् ।
सावित्रीमभ्यसेदग्निपवित्राणि च संस्मरन् ।
सहस्रं द्वादशाख्यं च सावित्री प्रजपेत बुधः ।
स्वाधिकारार्थमेवास्य प्रदानार्थ हि तत्स्मृतमिति ।।
तथा
नान्दीश्राद्धे कृते पश्चादनध्यायस्त्वकालिकः ।
मौजीवन्धं ततः कुर्याद्वेदारम्भं न कारयेत् ॥
अकालिकः गर्जनिर्घातादिनिमित्तकः यदि भवेदिति शेषः ।
आश्वलायनानामुपनयनदिने वेदारम्भाभावावेदारम्भाकरणं यजुर्वेदिवि-
षयम् । आश्वलायनस्तु वृद्धिश्राद्धदिनादिनषटकमध्ये मुहूर्तान्तरे सति
तनैव नान्दीश्राद्धेन तत्र उपनयनं कुर्यात् । तदुक्तम्-
एकविंशत्यहो यज्ञे विवाहे दश वासराः।
त्रिषट् चौलोपनयने नान्दीश्राद्धं प्रचक्षत इति ।
तदूर्ध्व तु मुहूर्ते श्राद्धान्तरपूर्वकमुपनयनं यथाकालं कुर्यात् ।
यदा गर्जाघनध्यायशङ्का तदा नैव अनुभवचनीयचर्स अपयेत् । होमस्तु
सायंसंध्योत्तरमेव । तथा संति नानध्यायदोषः । तदुक्तं संग्रहे-
न संध्यागजिते काले न दृष्टयुत्पातदूषिते ।
ब्रह्मौदन पचेदग्नौ पक्वं चेन निवर्तते ॥
तथा
ब्रह्मौदनं पचेदन्हि पक्वमन्नं न दुष्यति ॥
तथा चोपनयनानुप्रवचनीयचरुश्रपणयोरन्तरानध्याये पुनरुपनयम् ।
पुनरुपनयने निमित्तान्तरराण्याह मनुः-
अज्ञानात्माश्य विणमूत्रं सुरां संस्पृष्टमेव च ।
पुनः संस्कारमहन्ति त्रयो वर्णा द्विजातय इति ॥
विष्णुरपि-
विवाहप्रामकुक्कुटगोमांसभक्षणेषु च मायश्चित्तान्ले पुनः संस्कार
३
HD meaHANUMAR ADESH चतुर्विशतिमतसंग्रहः कुर्यादिति । तथा बौधायन:- सिन्धुसौवीरसौराष्ट्रान् तथा प्रत्यन्तवासिनः । अङ्गवङ्गकलिङ्गांश्च गत्वा संस्कारमईतीति॥ शाखारण्डोपि स्वशाखाग्रहणकाले पुनरुपन्यः । इममर्थ पुनरुप- नयने विधिविशेषञ्च कारिकाकार आह- वेदान्तरमधीत्यैव ऋग्वेदं ये त्वधीयते । उपनीतिरियं तेषामलङ्करणवर्जिता ॥ यद्वैतदुपनीतस्य प्रायश्चित्तं यदा पतेत् । कृताकृतं च वपनं मेधाजननमेव च ।। मेधाजननसद्भावे व्रतचर्या भवेदिह । अनुप्रवचनीयश्च तदभावे द्वयं नच ॥ परिदानं न कार्य स्यान्निमित्तानन्तरं त्विदम् । पूर्वस्याः वाचयेत्स्थाने तत्सवितुर्दृणीमहे इति ॥ पूर्वस्याः गायत्र्याः । तथाच गृह्यम्-तत्सवितुर्वृणीमहे इति सा- वित्रीमिति ॥ अथ ब्रह्मचारिधर्माः। ZA यमः- मेखलासहितं दण्डमुपवीतं च नित्यशः । कौपीनं कटिसूत्रं च ब्रह्मचारी तु धारयेत् ।। अग्नीन्धनं भैक्षचर्यामधःशय्यां गुरोहितम् । आसपावर्तनात्कुर्यात्कृतोपनयनो द्विज इति ।। यद्यपि कौपीनं कुत्सित इति पाणिनिसूत्रे कौपीनशब्दस्य लिने शक्तिरुक्ता तथापि तदाच्छादनवाससि निरूढलक्षणेति भाष्यादौ स्थि- तम् ।। उपाकरणपर्यन्तं वटुः सावित्र्या ब्रह्मयज्ञकमिति कारिकावचनात् । मनु:- RADIO SuTERPRISE JowareARILALD चतुर्विंशतिमतसंग्रहः वर्जयेन्मधुमांसं च गन्धमाल्यरसान स्त्रियः । शुक्तानि चैव सर्वाणि माणिनां चैव हिंसनम् ॥ अभ्यङ्गमञ्जनं चाक्ष्णोरुपानच्छत्रधारणम् । कामं क्रोधं च लोभं च नर्त्तनं गीतवादनम् ॥ घृतं च जनवादं च परिवादं तथाऽ नृतम् । एकः शयीत सर्वत्र न रेतः स्कन्दयेत्कचित् इति ॥ मधु क्षौद्रमिति विज्ञानेश्वरः । मांसं छागादेरपि । रसो हपः। शुक्तानि निष्ठुरवाक्यानि । उपानदयानस्याप्युपलक्षणम्।। यानोपानच्छत्रे- त्यादि गौतमवचनात् । नारायणस्तु- रसा उत्कटरसा गुडादयः शृङ्गारादयो वा । यद् द्रव्यमनम्लं सत् कालवशन द्रव्यान्तरयांगेन वा अ- म्लतां गतं तच्छुक्तम् । सर्वाणि शुक्तानि दध्यादीन्यपि । नत्थत्र शु- क्ता वागिति व्याख्यौ। याज्ञवल्क्योपि- भास्करालोकनाऽश्लीलपरिवादांश्च वर्जयेदिति । गौतमोपि- नादित्यमीक्षतेति ॥ ब्रह्मचारिणोऽयं सदा आ- दित्यदर्शनप्रतिषेधः । स्नातकस्य तु नेक्षेतोद्यन्तमादित्यमित्यादिमनूक्तो विशेषनिषेधो बोद्धव्य इति हरदत्तः । विज्ञानेश्वरस्तु--उदिता- स्तमितादित्यविषयकतामेव ब्रह्मचारिणामपि मन्यते । तदुत्सर्गे विति सूत्रे मीमांसाग्रन्थेष्वप्येवमेव स्थितम् । कूर्मपुराणे- नादर्श चैव वीक्ष्येत नाचरेद्दन्तधावनम् । गुरूच्छिष्टं भेषजार्थ प्रयुञ्जीत, न कामत इति ॥ गुरूच्छिष्टमिति । पितुज्येष्ठभ्रातुश्चत्यर्थः । तथाचापस्तम्ब:- पितुज्येष्ठस्य च भ्रातुरुच्छिष्टं भोक्तव्यमिति ।। गुरोर्गुरौ सन्निहिते गुरुवद् वृत्तिमाचरेत् । गुरुपुत्रेषु पत्नीषु गुरोश्चैव स्वबन्धुषु ।। MODad
चतुर्विशतिमतसंग्रहः
इति वचनात् । यद्यपि भेषजार्थमिति । तदेकापनोद्ये व्याधौ मा-
क्षिकं मांसादि च गुरूच्छिष्टं भक्षणीयमित्यर्थः । इदं च माधवीये
स्मृत्यर्थसारादौ च स्फुटम् ।
वशिष्ठोपि-सचेव्याधीयीत कामं गुरोरुच्छिष्टशेषमौषधार्थ सर्व
प्राश्नीयादिति । व्याधीयीत व्याधिमान् स्यादिति मदनपारिजाते।
गुरुवद् गुरुपुत्रेषु वर्तितव्यमिति तदुच्छिष्टभक्षणमपि प्राप्तं तथापि तनि-
षेधति मनु:-
Namon
म
उन्मर्दनं तु गात्राणां स्नापनोच्छिष्टभोजने ।
न कुर्याद्गुरुपुत्रस्य पादयोश्चावनेजनम् ॥
Z
अभ्यञ्जनं स्नापनं च गात्रोद्वर्तनमेव च ।
गुरुपत्न्या न कार्याणि केशानां च प्रसाधनमिति ।।
व्यासः-
जघन्यशायी पूर्व स्यादुत्थायी गुरुवेश्मनि ।
यच्च शिष्येण कर्तव्यं यच दासेन वा पुनः ।।
कृतमित्येव तत्सर्व कृत्वा तिष्ठेत्तु पार्श्वत इति ।।
प्रचेता:-
ताम्बूलाभ्यञ्जनं चैव कांस्यपात्रे च भोजनम् ।
यतिश्च ब्रह्मचारी च विधवा च विवर्जयेत् इति ।
हारीत:-लौहे मृन्मये वा पात्रे भुञ्जीतति ।।
मेखलायां विशेषमाह मनु:-
मौजी त्रिकृत्समा श्लक्ष्णा कार्या विप्रस्य मेखला।
क्षत्रियस्य तु मौर्वी ज्या वैश्यस्य शणतान्तवीति ।।
मुजास्तृणविशेषाः तत्कृता मौजी। मूर्वा लताविशेषस्तत्प्रभवा मौवीं ।
मुजाभावे तु कर्त्तव्या कुशाश्मन्तकबल्वजैः ।
त्रिता ग्रन्थिनकेन त्रिभिः पञ्चभिरेव वा ॥
चतुर्विंशतिमतसंग्रहः
अत्र ग्रन्थिविकल्पः प्रवरसंख्याभदेन व्यवस्थितः ।
दण्डानाह मनुः-
ब्राह्मणो बैल्वपालाशौ क्षत्रियो वाटरवादिग।
पैप्पलोदुम्बरौ वैश्यो दण्डानहति धर्मत इति ।।
अनुकल्पमाह यमः-
एतेषामप्यभावे तु सर्वेषां सर्वयज्ञिया इति ।
दण्डपरिमाणमाह मनु:-
केशान्तिको ब्राह्मणस्य दण्डः कार्यः प्रमाणतः ।
ललाटसमितो राज्ञः स्यातु नासान्तिको विश इति ।
गौतमोपि-मूर्द्धललाटनासाग्रप्रमाण इति ।
दण्डलक्षणमाह मनु:-
ऋजवस्ते तु सर्वे स्युरव्रणाः सौम्यदर्शनाः।
अनुद्वेगकरा नृणां सत्वचोऽनग्निदूषिता इति ॥
यज्ञोपवीतमाह मनु:-
कापीसमुपवीतं स्याद्विमस्योर्ध्वकृतं त्रिवृत् ।
शणसूत्रमयं राज्ञो वैश्यस्याविकसूत्रकम् ।।
शणसूत्रमयं क्षौमम् । पैठीनसिः-कापासमुपवीतं ब्राह्मणस्य
क्षामं राजन्यस्य आविकं वैश्यस्येति ॥ क्षुमा अतसी तस्याः शण:
सौभम् । उक्तोपवीलानामलाभे गोवालादिकं ग्राह्यम् ।।
तदाह देवल:-
कासक्षौमगोवालशाणवल्कतृणादिकम् ।
सदा संभवतः कार्यमुपवीतं द्विजातिभिरिति ॥
ऋष्यशृङ्ग:-अपिवाससी यज्ञोपवीतार्थे कुर्यात्तदभावे निवृता
सूत्रेणेति । तत्र नवतन्तुकं कार्यम् ।
सदाह देवल:-
यज्ञोपवीतं कुर्वीत सूत्रेण नवतन्तुकम् ।
चतुर्विशतिमतसंग्रहः antulaneKHEKAR IWOMAN mes नवतन्तुकं नवगुणम् । कात्यायन:- त्रिदूतं कार्य तन्तुप्रयमधोत्र्तमिति । अर्ध्वतलक्षणमाह संग्रहकारः- करेण दक्षिणेनोय गतेन त्रिगुणीकृतम् । चलितं मानवे सूत्रं शास्त्र ऊर्वतं स्मृतमिति ॥ अर्ध्वं स्थितेन दक्षिणेन करेण यद्वलितं तदूतमित्यर्थः ।। कात्यायन:- त्रिवृतं चोपवीतं स्यात्तस्यैको ग्रन्थिरिष्यत इति । यज्ञोपवीतपरिमाणमाह सएव- पृष्ठवंशे च नाभ्यां च धृतं यद्विन्दते कटिम् । तद्धार्यमुपवीतं स्यान्नातिलम्ब नचोच्छ्रितमिति ।। देवल:- स्तनादूर्ध्वमधो नाभेर्न कर्तव्यं कथञ्चन । स्तनादू श्रियं हन्ति नाभ्यधस्तात्तपःक्षयः ।। एतच्च न प्रमाणपरम् । अपिधारणपरेण परमतो न पूर्ववचनेन विरोध इति गौडनिबन्धे॥ धारणीयोपवीतसंख्यामाह भृगु:- उपवीतं बटोरे द्वे तथेतरयोः स्मृते । एकमेव यतीनां स्यादिति शास्त्रस्य निश्चयः ॥ एतच नित्याभिप्रायम् ॥ बहुषु कामनाश्रवणात् ॥ तदाह देवला-बहूनित्यायुष्कामस्येति ॥ स्मृत्यन्तरे- यज्ञोपवीते द्वे धार्ये दैवपित्रोश्च कर्मणि । तृतीयमुत्तरीयार्थ आयुष्कामो बहून्यपीति ॥ कात्यायना, भृगुश्च- Asanlaom HDMARAward HO चतुर्विंशतिमतसंग्रहः २३ सदोपवीतिना भाव्यं सदा बद्धशिवेन च । विशिखो व्युपवीतश्च यत्करोति न तत्कृतमिति ।। अत्र पूर्वार्द्धन पुरुषार्थता अपरार्द्धन ऋत्वर्थता लभ्यते । उपवीतधारणमन्त्रमाह देवला- यज्ञोपवीतमिति वा व्याहत्या वापि धारयेदिति ॥ शिखायां विशेषमाह कौथुमिः- शिखिवच्छिखया भाव्यं ब्रह्मावर्तनिवद्धया । प्रदक्षिणं द्विरावर्त्य पाशान्तः संप्रवेशनात् ॥ प्रथमं द्विगुणं कृत्वा ब्रह्मावर्तमितीरितम् । गायत्रीजपनं कुर्याच्छिरखायाश्च निबन्धने इति ।। उपवीते विशेषमाह देवल सूत्रं सलोमकं चेत्स्यात्ततः कृत्वा विलोमकम् । सावित्र्या दशकृत्योद्भिर्मन्त्रिताभिस्तदुक्षयेत् ॥ विच्छिन्नं चाप्यधोयातं भुत्का निर्मितमुत्सृजेदिति ।। यज्ञोपवीतादीनां त्रोटनादौ प्रतिपत्तिमाह मनु:- भेखलामाजिनं दण्डमुपवीतं कमण्डलुम् । अप्सु प्रास्य विनष्टानि गृणीतान्यानि मन्त्रत इति ॥ अथोत्तरीयम् । मनु:- कार्णरौरववास्तानि चर्माणि ब्रह्मचारिणः । बसीरन्नानुपूर्येण शाणक्षौमाविकानि च ।। बास्तं छागीयम् । कार्णादीन्युत्तरीयाणि शाणादीन्यन्तरीयाणि। तथाच शवः -कृष्णरुवस्ताजिनान्युत्तरीयाणीति । वासि. टोपि- कृष्णाजिनमुत्तरीयं ब्रामणस्य रौरवं राजन्यस्य । गव्यं बस्ता- जिनं वा वैश्यस्येति । तथा पारस्करः- ऐणयमाजिनमुत्तरीयं ब्राह्म- णस्य रौरवं राजन्यस्य । आज गव्यं वा वैश्यस्य । सर्वेषां वायव्यm
More
चतुर्विंशतिमतसंग्रहः
मिति । यद्यप्येण्या ढनिति स्त्रीप्रत्ययान्तादेव ढम् विहितः
तथा चामर:-
ऐणेयमण्याश्चमाद्यमेणस्यैणमुभे त्रिषु इति ।
तथापि एणचर्मणा सह एणीचर्मणि विकल्प इति केचित् ।
यमः- सर्वेषां वा रौरवाजिनमिति । रुरुश्चित्रभृगः ।
आग्नेये-
मार्गवैयाघ्रवास्तानि चर्माणि ब्रह्मचारिणामिति ॥
बस्तश्छागः ।
अन्तरीयाण्याह गौतमः-वासांसि शाणक्षौमचीरकुतपाः सर्वेषामिति।
शणस्य विकारः शाणः। क्षुमा अतसी तद्विकारः क्षोमम् । श्वेतपट इत्यन्ये ।
दर्भादिनिर्मितं चीरम् । ऊर्णानिर्मितः कम्बलः कुतपः । चत्वार्येतानि
चासांसि सर्वेषामिति हरदत्तः।
पक्षान्तरमाह गौतमः- कापसं वा अविकृतामिति । अविकृत
कुसुम्भादिना अरक्तम् । वासः सर्वेषामित्यनुवर्तते । मतान्तरमाह गौतमः-
काषायमप्येके । तत्रापि नियममाह सएव । वार्त ब्राह्मणस्य ।। माञ्जि
ठहारिद्रे इतरयोः । वृक्षकपायेण रक्तं वा ब्राह्मणस्य । माजिष्टया
रक्तं हरिद्रया च रक्तमितरयोः क्षत्रियवैश्ययोरित्यर्थः ।।
मनु:-
वसीरबानुपूर्येण शणक्षौमाविकानि चेति ॥
वसिष्ठः--शुक्लमहतं वासो ब्राह्मणस्य कार्पास माञ्जिष्ठं सौम
क्षात्रियस्य पीतं कौशेयं वैश्यस्येति ॥
अहतलक्षणमाह प्रचेता:-
ईपद्धोतं नवं श्वेतं सदशं यन्न धारितम् ।
अहतं तद्विजानीयात्सर्वकर्मसु पावनमिति ॥
अथानान्धनम्-
तदकरणे प्रत्यवायमाह हारीत:-
metenepashamadnamaratmospen HD चतुर्विंशतिमतसंग्रहः २५ अकृत्वा भैक्ष्यचरणं असमिध्य च पावकम् । अनातुरः सप्तरात्रमवकीर्णिवतं चरोदिति ॥ पावकसमिन्धनं समिद्धोमः। सायंप्रातः समिधमादध्यादिति गृह्य- वचनात् ॥ केचित्तु सायमेवेच्छन्ति । तथाच लौगाक्षि:- सायमेवा- ग्निमिन्धत इत्येके इति ॥ तत्र समिल्लक्षणमाह कात्यायन:- नाङ्गुष्ठादधिका कार्या समित्स्थूलतया कचित् । न वियुक्ता त्वचा चैव न सकीटा न पाटिता॥ प्रादेशान्नाधिका नोना तथा न स्याद्विशाखिका ॥ वायुपुराणे- पालाश्यः समिधः कार्याः खादिर्यस्तदलाभतः । शसीरोहितकाश्वत्थास्तदभावेकवैतसाविति ॥ आग्निकार्याकरणे प्रायश्चित्तमुक्तमृग्विधाने- मानस्तोके जपेन्मन्त्रं शतसंख्यं शिवालये। अग्निकार्य विना भुक्तौ न पापं ब्रह्मचारिण इति ॥ तत्र कालमाह कारिकाकार:- अग्निकार्य च भिक्षायाः प्रागर्व वा तदिष्यत इति ।। याज्ञवल्क्य:- प्राणानायम्य संमोक्ष्य तृचेनाब्दवतेन तु । अपनासीत सावित्री प्रत्यगातारकोदयात् ॥ संध्यां मा मातरेवं हि तिष्ठेदासूर्यदर्शनात अग्निकार्य ततः कुर्यात्संध्ययोरुभयोरपीति ॥ अथोपसंग्रहणाभिवादनमपञ्चः । तत्र मनु:- म्यत्यस्तपाणिना कार्यमुपसंग्रहणं गुरोः । सव्येन सन्यः स्पष्टध्यो दक्षिणेन तु दक्षिणः ॥
PROMOTHERasmewarming चतुर्विशतिमतसंग्रहः असौ नामाहमस्मीति स्वं नाम परिकीर्तयेत् । भो शब्द कीर्तयेदन्ते स्वस्य नाम्नोभिवादने इति ।। अमुकगोत्रो देवदत्तशर्मा भो अभिवादयइत्युक्त्वा कौँ स्पृष्ट्वा दक्षिणोत्तरपाणिभ्यां गुरोः पादौ गृहीत्वा शिरोवनमनमुपसंग्रहणम् । अभिवादने तु पादग्रहणं नास्ति ॥ पादस्पर्शनमात्रमपि कृताकृतामिति स्मृत्यर्थसारः। अभिवादनवाक्ये चाभिवादये इत्यस्यान्ते प्रयोगो गाय- व्यभिवादनमात्रविषयकः । तथाच तदेवाधिकृत्याह भरद्वाज:-- सगोत्रनामशर्माहं भवत्यन्तेभिवादये । इत्येतद्भाषणं यत्तन्मन्त्रस्यादभिवादनमिति ॥ अन्यत्र अभिवादये देवदत्तनामाहमस्मि भो इति प्रयोक्तव्यम् ।। तदाह मनु:- अभिवादात्परं विप्रो ज्यायांसमभिवादयन् । असौनामाहमस्मीति स्वनाम परिकीर्तयेत् ।। भोःशब्द कीर्चयेदन्ते स्वस्य नाम्नोभिवादन इति ।। अभिवादात्परम् अभिवादयेशब्दस्योपरीत्यर्थ इति पारिजात- कारादयः ANDS निषकादीनि कर्माणि यः करोति यथाविधि । संभावयति चान्नेन स विभो गुरुरुच्यते ।। अल्पं वा बहु वा यस्य शृतस्योपकरोति यः। तमपीह गुरुं विद्याच्छुतोपक्रियया तयेति ॥ याज्ञवल्क्य:- स गुरुयः क्रियाः कृत्वा वेदमस्मै प्रयच्छति । उपनीय ददद्वेदमाचार्यः स उदाहृतः ॥ एकदेशमुपाध्याय ऋत्विग्यज्ञकृदुच्यते । एते मान्या यथा पूर्वमेभ्यो माता गरीयसीति ॥
चतुर्विंशतिमतसंग्रहः गौतमस्तु मतान्तरमध्याह-आचार्यः श्रेष्ठो गुरूणां मातेत्येके इति। गुरूणां पित्रादीनां मध्ये आचार्यः उक्तलक्षणः श्रेष्ठः ॥ स हि विद्या- तस्तं जनयति । तच्च श्रेष्ठं जन्म तेनानेकगुरुसमचाये स एव प्रथमं पूज्यः । एके स्वाचार्या माता पूज्येत्याहुः ।। तथाच वसिष्ठः- उपाध्यायादशाचार्या आचार्याणां शतं पिता ! पितुर्दशशतं माता गौरवेणातिरिच्यते इति ।। मातेत्यादि द्विरुक्तिरध्यायपरिसमास्यर्थमिति हरदत्तः। उत्पादकब्रह्मदात्रोर्गरीयान् ब्रह्मदः पिता । ब्राह्मस्य जन्मनः कर्ता स्वधर्मस्य च शासिता ॥ थालोपि विप्रो वृद्धस्य पिता भवति धर्मतः । मातुलांश्च पितृव्यांश्च श्वशुरानृत्विजो गुरून् ।। असावहमिति ब्रूयात्मत्युत्थाय यवीयसः । मातृष्वसा मातुलानी श्वश्रूरथ पितृष्वसा ।। भ्रातुर्भायर्योपसंग्राहा सवर्णाहन्यहन्यपि । विप्रोष्य तूपसंग्राहाइ ज्ञातिसंबन्धियोषितः ।। पितुर्भगिन्यां मातुश्च ज्यायस्यां च स्वसर्यपि ॥ मातृवद् वृत्तिमातिष्टेन्माता ताभ्यो गरीयसी ।। माता ताभ्यइति । तेन तासामुपकारे क्रियमाणे यदि मातुरनि- टुं स्यात्तदान कार्यमित्युक्तं भवति इति नारायणः । त्र्यब्दपूर्व श्रोत्रियाणामल्येनापि स्वयोनिषु॥ ध्यब्दपूर्वे कालोत्पन्नतया यो ज्येष्ठः तद्विषयत्वादभिवानेऽपि त्र्यब्द- पूर्वम् । त्रिवर्षपूर्वः श्रोत्रियोऽभिवाद्य इति फलितोर्थः । स्वयोनिषु । ज्ञातिबन्धुषु । स्वल्पेनापि कालेन एकदिनपूर्वत्वेनापि ज्येष्ठतायी वादनमित्यर्थः । सदुक्तं वयस्यः समानेऽहनि जात इति ।
SAHIBGANA । चतुर्विंशतिमतसंग्रहः कालाभिवादने तु विशेषमाह पारिजाते यमः- ज्यायानपि कनीयांसं संध्यायामभिवादयेत् । विना पुत्रं च शिष्यं च दौहित्रं दुहितुः पतिमिति ॥ अभिवादनवाक्ये विशेषमाह मनु:- नामधेयस्य ये केचिदभिवादं न जानते। तान् प्राज्ञोहमिति ब्रूयात् स्त्रियः सर्वास्तथैव चेति ॥ नामधेयस्याभिवादं नामधेयसाहिताभिवादनवाक्याथै संस्कृतानभि- ज्ञतया धर्मशास्त्राज्ञानेन च ये न जानते विशिष्य न जानन्ति तान् प्रत्य- भिवादनवाक्यज्ञानपि अहमित्येव ब्रूयात् । अभिवादनवाक्यरूपशब्द- स्यैवानेन निवृत्तिः सजातीयत्वात् । पादोपसंग्रहणस्य त्वनिवृत्तिः । तथा अभिवादनवाक्याथै जानाना अपि मातृष्वस्त्रादिस्त्रियोऽहमित्येव यदे इति नारायणो व्याचख्यौ । संस्कृतादिज्ञानवतोपि. प्रत्य- भिवादनप्रकाराज्ञानेऽनभिवाद्यतामाह मनुः- यो न वेत्याभिवादस्य विप्रः प्रत्यभिवादनम् । नाभिवाद्यः स विदुषा यथा शूद्रस्तथैव सः॥ प्रत्यभिवादनं अभिवादनप्रतियोगिवाक्यम् । तल्लक्षणं च मनुराह- आयुष्मान् भव सौम्ये ति वाच्यो विप्रोभिवादने । अकारश्चास्य नाम्नोन्ते वाच्यः पूर्वाक्षरः प्लुतः ।। आयुष्मान्भव सौम्य शिवशर्मइन् अ इत्यादि वाच्यमित्यर्थः । यदा तु पूर्वाक्षरं संध्यक्षरं भवति तदा एकारस्य आइ ऐकारस्य चैवम्, ओ- कारस्य औकारस्य च आउ इत्यादेशं कुर्यात् । हराइअ वटाउअ इति यथा । तथाच पाणिनिः-एचोऽभगृह्यस्यादूराडूते पूर्वस्यार्द्धस्यादु- तरस्येदुताविति अधिकृत्य प्रत्यभिवादे शूद्र इति आह । वसिष्ठश्च- आमन्त्रिते स्वरोऽन्त्यः प्लवते । संध्यक्षरमप्रगृह्यम् । आयावुभावं चाप- यते इति । इदं च वाक्ये संहिताया अनित्यत्वादुक्तम् । संहिताविवक्षायां तु सयोविचि संहितायामित्यस्य प्रवृत्तौ, हराय वदाव इत्यादि । N चतुविशतिमतसंग्रहः बोध्यमिति हरदत्तः । माधवाचार्यास्तु ॥ नाम्नोन्ते स्थित आकारः प्लुतो वाच्य इत्यर्थः । आकार इति अच उपलक्षणम् । पूर्व- मक्षरं यस्य स तथा । अक्षरमिह व्यञ्जनं सामायान् । तथाच आयुष्मान् भव सौम्य देवदत्ता इति प्रयोगः । न त्वकारोप्यपूर्वो विधीयते वाक्यभेदापत्तेरित्याहुः । इदमेव व्याख्याद्वैधमभिप्रेत्य स्मृत्त्य- र्थसारेपि प्रत्यभिवादनवाक्यं दे॒धा दर्शितमिति दिक् । यस्तु त्रिवर्ष- पूर्वत्वादिगुणशून्यत्वादनभिवाद्यस्तस्मिन् दृष्टे यत्कार्य तदाह मनु:- ब्राह्मणं कुशलं पृच्छेत् क्षत्रबन्धुमनामयम् । वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव चेति ॥ ब्राह्मणादीनां स्वस्वजातीये दृष्टे स्वस्वजात्युक्तं तथा स्वस्वाव- रजातीये तत्तज्जात्युक्तं न त्वेतदवरजातरुत्तमं प्रति इति नारायणः । प्रत्यभिवादनाभिधानानन्तरमभिवादितेन गुर्वादिना एतत्पष्टव्यामित्यपि केचिदाहुः॥ मनु:- न वाच्यो दीक्षितो नाम्ना यवीयानपि यो भवेत् । भोभवत्पूर्वकं त्वेनमभिभाषेत धर्मवित् ।। परपत्नी तु या स्त्री स्यादसंबद्धा तु योनितः। तां ब्रूयाद्भवतीत्येवं सुभगे भगिनीति च ।। यावद्दीक्षासमाप्तिः तावदेव नाम न ग्राथमिति नारायणः । मनु परपत्नीति व्यर्थः स्वपत्नीव्यवच्छेदस्य गार्हस्थय एव संभवेन ब्रह्मचारि- प्रकरणे ऽनुपयोगादिति चेत् सत्यम् । एतदेव ज्ञापकं एतत्पकरणस्था विधयः स्नातकादिषु संभविनस्तैरप्यनुष्ठेया इति नारायणः । अत एव स्मृत्यर्थसारेपि गुर्वादय उपसंग्राह्या इत्याद्युत्का समावृत्तेन चेत्युक्तम् । तथाच गौतमेनापि तृतीयेऽध्याये उक्तम् । उत्तरेषां चैतदविरोधीति । एतद् ब्रह्मचारिणामुक्तम् । द्यूतनिषेधादि उत्तरेषामप्याश्रमाणां भवति । विशेषवचनैर्यन्न विरुध्यते इति हरदत्तः । अत्र हरदत्तकृतमेव ध्या- ।
INSTREAAGADMAAVATARATHISARMA
चतुर्विशतिमतसंग्रहः
ख्यानान्तरम् । उत्तरेषां यद्धर्मजातं तदप्येतस्य बाध्यमिति । तेनाविरुद्धा
गृहस्थादिधर्मा अपि ब्रह्मचारिणां प्राप्यन्ते । तथा स्मृत्यर्थसारे--
मत्तं ममत्तमुन्मत्तं धावन्तमशुचिं नरम् ।
वमन्तं शम्भमाणं च कुर्वन्तं दन्तधावनम् ।।
अभ्यक्तशिरसं स्नानं कुर्वन्तं नाभिवादयेत् ।
जपयज्ञगणस्थं च समित्युष्पकुशानलान् ।
उदपाच्याध्यभक्षान्नं वहन्तं नाभिवादयेत् ।
अभिवाद्य द्विजचैतान् अहोरात्रेण शुध्यति ।।
देवताप्रतिमां दृष्ट्वा यतिं चैव त्रिदण्डिनम् ।
नमस्कारं न कुर्याचेदुपवासेन शुध्यति ।।
सर्वे वापि नमस्कार्याः सर्वावस्थासु सर्वदा ।
आशीर्वाच्या नमस्कार्यैर्वयस्यस्तु पुननभेत् ।।
स्त्रियो नमस्या वृद्धाश्च व्यसा पत्युरेव ताः ।। इति ।
याज्ञवल्क्य:-
गुरुं चैवाप्युपासीत स्वाध्यायार्थ समाहितः ।
आहूतश्चाप्यधीयीत लब्धं चास्मै निवेदयेत् ।।
विष्णुपुराणेपि-
उभे संध्ये रवि भूप ! तथैवाग्निं समाहितः ।
उपतिष्ठेत्तथा कुर्याद् गुरोरप्यभिवादनम् ।।
तेनैवोक्तः पठेद्वेदं नान्यचित्तः पुरः स्थित इति ।।
वेदमिति । स्वशाखामित्यर्थः । तदाह वसिष्ठः-
पारम्पांगतो येषां वेदः सपरिबृहणः ।
तच्छाखं कर्म कुर्वीत तच्छाखाध्ययनं तथेति ।।
सपरिबृहणः साङ्गोपाङ्गः । स्वशाखापरित्यागं स एव निषेधति-
स्वीयशाखोज्झिता येन ब्रह्म तेनोज्झितं परम् ।
ब्रह्मदेव स विज्ञेयः सद्भिनित्यं विगर्हित इति ॥
amasatta
TEENERahat HOME MAGIRIDHIRANI papa चतुर्विंशतिमतसंग्रहः स्वशाखाध्ययनानन्तरं तु शाखान्तराध्ययनेऽभ्युदयः । तथाच वसिष्ठः अधीत्य शाखामात्मीयां परशाखा ततः पठेदिति । तथा कूर्मे- योऽन्यत्र कुरुते यत्नमनधीत्य श्रुतिं द्विजः। स वै मूढो न संभाष्यो वेदवाह्यो द्विजातिभिः ॥ न वेदपाठमात्रेण संतुष्टो वै भवेद् द्विजः । पाठमात्रावसायी तु पङ्के गौरिव सीदति ।। योधीत्य विधिवद्वेदं वेदार्थ न विचारयेत् । स सान्वयः शूद्रसमः पात्रतान्न प्रपद्यते इति ॥ मूले- योऽनधीत्य द्विजो मोहादन्यत्र कुरुते श्रमम् । स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ॥ अनभ्यासेन वेदानामाचारस्य च लवनात् । आलस्यादन्नदोषाच मृत्युर्विमान् जिघांसति ।। पठित्वा वोधयेदर्थ वेदानां कर्मसिद्धये । पाठमात्रावसायी तु पङ्के गौरिव सीदति ।। हवं ज्ञान क्रियाहीनं हतास्त्वज्ञानतः क्रियाः । अपश्यन्नन्धको दग्धः पश्यन्नपि हि पङ्गुक इति ॥ स्फुटोर्थः । तथा धर्मशास्त्रममध्येतव्यम् । तदाह बृहस्पतिः वेदमध्यापयेत्पश्चाच्छास्त्रं मन्वादिक तथेति ॥ नारदः पुस्तकमत्ययाधीतं नाधीतं गुरुसन्निधौ । भ्राजते न सभामध्ये जारगर्भ इव त्रिय इति । मनु:- नाविस्पष्टमधीयीत न शूद्रजनसन्निधौ ।
.
चतुर्विंशतिमतसंग्रहः
न निशान्ते परिश्रान्तो ब्रह्माधीत्य पुनः स्वपेदिति ॥
न स्वप्यादित्यर्थः । शिक्षायाम्-
इस्तहीनं तु योऽधीते स्वरवर्णविवर्जितम् ।
ऋग्यजुः सामभिर्दग्धो वियोनिमधिगच्छतीति ।।
व्यासः-
AND
।
अनध्यायेष्वधीतं यद्यच्च शूद्रस्य संनिधौ ।
प्रतिग्रहनिमित्तं च नरकाय तदुच्यते इति ।
अत्र यद्यपि संपूर्णशास्त्राध्ययनमावश्यकं तथा आपत्काले एकदे-
शाध्ययनेनापि निर्वाहः । तदाह मनु:-
यथोदितेन विधिना नित्यं छन्दस्कृतं पठेत् ।
ब्रह्म छन्दस्कृतं चैव द्विजो युक्तो ह्यनापदीति ॥
छन्दस्कृतं मन्त्रभागं । छन्दोबद्धत्वात् ब्रह्म इति ब्रामणमित्यर्थः
मन्त्राणां साक्षात्काङ्गतयान्तरङ्गत्वात् । यथाविधि गृहीतानामेव च
विनियोगार्हत्वात् । ब्राह्मणस्य तूपदेशमात्रार्थतया वहिरङ्गत्वादशक्तेन
मन्त्रमात्रमध्येयं शक्तेन तूभयमपीत्यर्थः ॥ पाराशरादावेतत्स्पष्टमेव ।।
अथानध्यायाः।
तेच द्विविधा नित्या, नैमित्तिकाश्च । तत्र नित्यानाह हारीत:-
प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणोद्रयोः ।
श्वोनध्यायेऽधशर्वयां नाधीयीत कदाचनेति ॥
नैमित्तिकानाह याज्ञवल्क्य:-
श्वक्रोष्टुगर्दभोलकसामवाणानिःस्वने ।
अमेध्यशवशूद्रान्त्यश्मशानपतितान्तिके ।
देशे शुचावात्मनि च विद्युत्स्तनितसंप्लवे ।
भुक्त्वाईपाणिरम्भोन्तः अर्द्धरात्रेऽतिमारुते ॥
पांसुमवर्षे दिग्दाहे संध्यानीहारभीतिषु ।
धावतः पूतिगन्धे च शिष्टे च गृहमागते ॥
PARANARTemedies चतुर्विशतिमतसंग्रहः खरोष्ट्रयानहस्त्यश्वनौवृक्षरिणरोहणे । सप्तत्रिंशदनध्यायानेतांस्तात्कालिकान् विदुरिति ।। साम सामवेदघोषः। तथाच मनु:- ऋग्वेदो देवदेवत्यो यजुर्वेदश्च मानुषः । सामवेदः स्मृतः पित्र्यस्तस्मात्तस्याशुचिर्ध्वनिरिति । तेन ह्यन्नं क्रियत इतिवद्धत्वर्थवादपुरःसरमाह सामध्वनादृग्यजुषी नाधीयीत कदाचनेति ॥ वाणो वंश इति विज्ञानेश्वरः । बाणशब्दे वाणमोक्षाशिक्षाद- शाद्युत्पन्ने शब्द इति तु सर्वज्ञनारायणः । एवं वीणादिस्वनेपि वाण- भेरीमृदङ्गगदार्तशब्देषु इति गौतमवचनव्याख्यावसरे बाणो वीणावि- शेषे बाणः शततन्तुरिति महाव्रते दर्शनादिति हरदत्तेनोक्तम् । गर्दःश- कटमिति विज्ञानेश्वरः।हरदत्तस्तु गशब्देष्विति पठित्वा गतॊ रथः। "आरोहथोवरुणामित्रगतम् स्तुहि श्रुतं गर्त्तसदं युवानमि" त्यादौ गत्तों हि रथमुच्यते इति निरुक्ते च तथा दर्शनादिति व्याचख्यौ । अमेध्याः सूतिकादयः । तथाच वसिष्ठः-पतितचण्डालशवसूतिकाश्रावणे तु त्रि- रात्रं वाग्यता आसीरन् इति प्रायश्चित्तं स्मरति । विद्युत्संप्लवे । पुनः पुनर्विद्योतमानायां विद्युति । स्तनितसंप्लवे । पुनः पुनर्मेघघोषे च ता- कालिकोऽनध्याय इति विज्ञानेश्वरः । नारायणस्तु- विद्युत्स्तनितवर्षेषु महोल्कानां च संप्लवे । आकालिकमनध्यायमेतेषु मनुरब्रवीदिति । मूलमुदाहृत्य विद्युदादित्रयस्य संध्याकालादन्यस्मिन् काले मिलिता- नांत्रयाणामुत्पत्ती, तथा महोल्कानांचसंप्लवे विद्युदाद्यतरेण सह युगपदु- त्पादे आकालिकं यत्र काले निमित्तमुत्पनं दिनान्तरीयतत्कालोत्पत्तिप- यन्तम् । एतच्च वर्षाव्यातिरिक्तकाले द्रष्टव्यमिति व्याचख्यौ। युक्तं चैतत् अन्यथा प्रादुष्कृतेष्वग्निषु तु इत्याद्याग्रिममनुग्रन्थाऽसङ्गतिप्रसङ्गादिति सं- ध्यागजितेप्याकालिकोऽनध्यायः । तदाह गौतमः- PadmeHOTRAINORINAPIN चतुर्विशतिमतसंग्रहः स्तनयित्नुवर्षविद्युतश्च प्रादुष्कृताग्निष्विति। आकालिका इत्यनुवर्तते । स्तनयित्नुर्मेधशब्दः । प्रादुष्कृतेष्वग्निषु अग्निहोत्रहोमकाले, संध्यायामिति यावत् । प्रत्येकमाकालिका अनध्या- यहेतव एते। यस्मिन् काले एते भवन्ति अपरेास्तत्पर्यन्तकाल आकाल: तत्र भव आकालिकोऽनध्यायः । एतच्च प्रातःसंध्यास्तनिते। सायंसंध्या- स्तानते तु रात्रिमात्रं नाधीयीत । तदाह हारीत:- सायंसंध्यास्तनिते रात्रि प्रातःसंध्यास्तनितेऽहोरात्रमिति । इदमप्यपत्तौ वर्षाकाले तु पात- श्वेद गर्जवर्षादयः तदाहर्मात्रमनध्यायः । तदाह गौतमः- अहन्य॒तौ इति सायं तु सूर्योदयपर्यन्तं तदाह मनुः पादुष्कृतवाग्निपु तु विद्युत्स्तनितनिःस्वने । सज्योतिः स्यादनध्याय इति । सज्योतिरिति । प्रातश्चेद्यावदादित्यदर्शनं सायं तु यावनक्षत्रस्थि- तिः । विद्युत्तु यदि नक्तं दृश्यते न संध्यायां तदाऽपररात्रपर्यन्तमनध्या- यः॥ तदाह गौतमः-विद्युति नक्तं चापरात्रादिति । यद्यह्नः तृती- याद्भागादारभ्य विद्युत्प्रवर्तते न संध्यायां नापि नक्तं तदा सर्वरात्रमन- ध्यायः । एतदाह गौतमः-त्रिभागादिप्रवृत्तौ सर्व, सर्वमासवरात्रम् गौतमः-उल्का विद्युत्समेत्यैकेषाम् । यथा विद्युत्यनध्यायस्तथोल्कायाम- पीत्येकेषां मतमित्यर्थः । गौतमः- स्तनयित्नुरपराह्ने । अपराह्ने यो गर्जः स विद्युत्समः । अपि प्रदोषेन प्रदोषे भवन् स्तनयिन्नुर्विद्युत्समः अपररात्रादनध्यायहेतुः सर्वं नक्तमार्द्धरात्रात् । प्रथमाद्रात्रिभागादारभ्य आर्द्धरात्रात्मवृत्तः स्तनयित्नुस्सर्व नक्तमनध्यायहेतुः। अहश्चेत्सज्योतिः । अहनि चेत्स्तनायित्नुर्भवति तदा सकलं दिनमनध्याय इत्यर्थः । इदं च प्रागपरालाद्गले संति बोध्यमिति हरदत्तः । एवं च विज्ञानेश्वरोक्तं तात्कालिकत्वमुक्तविशेषानाक्रान्तेऽपरानोत्तरकालीनगर्ने विद्युदाद्यमि- लिते बोद्धव्यम् । भुत्कार्द्रपाणिरिति ॥ नाधीयीतेति शेषः । अर्द्धरात्रे मध्यममहरद्वये इति विज्ञानेश्वरः॥ रात्रेमध्यमदण्डदशके इति तु उदके YE, । । चतुर्विशतिमतसंग्रहः मध्यरात्रे चेति मनुव्याख्यायां नारायणः । निर्णयामृते तु द्वितीय- यामस्यान्त्यघटिकाद्वयं तृतीययामस्याघघटिकाद्वयं चेति चतस्रो घटिका महानिशाख्या अद्धरात्रः । तथाच बौधायन:-- महानिशा तु विज्ञेया मध्यं मध्यमयामयोः । तस्यां स्नानं न कुति स्वाध्यायं पितृतर्पणमिति ।। मध्यं च कियदित्याकाङ्क्षायां स एवाह- महानिशा तु विज्ञेया चतस्रो घटिकास्तथेति ।। तथाच दण्डचतुष्टयमेव नाध्येयमिति सिद्धान्तितम् । अतिमारुत इति ॥ अत्र विशेषमाह गौतम:- नाधीयीत वायौ दिवा पांसुहरे कर्णश्राविणि नक्तमिति । पासून् हरतीति पांसुहरः । अपांसुहरे तु दिवा न दोषः । पांसुहरेपि रात्रौ न दोषः । कर्णाभ्यां श्रूयते इति कर्णश्रावी । एवं भते महाघोषे वायौ नक्तं नाधीयीतेत्यर्थः । एतेन कर्णश्रावेऽनिले रात्रौ दिवा पांसुसमूहने । इति मनुरपि व्याख्यातः। सन्ध्यानीहारभीतिष्विति । संध्य- यो धीयीत । तथा नीहारे भीतौ चेत्यर्थः । तथाच मनुः-- नीहारे बाणशब्दे च संध्ययोरेव चोभयोरिति धावतइति । त्वरितं गच्छतोऽनध्याय इत्यर्थः । शिष्टे चेति । तदनुज्ञावाधिरनध्यायः । तथाच मनुः- अतिथि चाननुज्ञाप्येति । खरेत्यादि । खरादीनामारोहणे प्रत्येकमनध्याय इति विज्ञानेश्वरः। खरोष्ट्रयुक्तं यद्यानं शकटादीति मनौ नारायणः । इरिणं शून्यम् । उपरं मरुभूमिति । तात्कालिकान् निमित्तसमकालीनान् । गौतमः- अभ्रदर्शने वापत्तौ वर्षत्तोरन्यत्र सोदकमेघस्य दर्शने नाधीयीतेत्यर्थः । मूत्रित उच्चारितः । सञ्जातमूत्रेच्छो, निरुद्धमूत्रः। तथा उच्चारितः निरु- द्धपुरीषः । कृतमूत्रपुरीषे तु विशेषं वक्ष्यति । वर्षति च । वर्षति देवेतावनाधीयीत । एके वलीकं सन्तानम् । वलीक गृहपटले । तत्र वर्षधारा संतन्यते यथा तथा वर्षति सति नाध्येयमित्येके ॥ अन्या चतुर्विशतिमतसंग्रहः num नपि नित्यानाह नारदः- अयने विषुवे चैव शयने बोधने हरेः। अनध्यायस्तु कर्त्तव्यो मन्वादिषु युगादिष्विति ।। अयने मकरे, कर्कटे च । विषुवे तुलामेषयोः शयने आषाढ- शुक्लद्वादश्यां बोधने कार्तिकशुक्लद्वादश्याम् । मन्वादिषु- अश्वयुक्शुक्लनवमी कार्तिके द्वादशी तथा । तृतीया चैत्रमासस्य तथा भाद्रपदस्य च ॥ फाल्गुनस्य त्वमावास्या पुष्यस्यैकादशी तथा । आषाढस्यापि दशमी माघमासस्य सप्तमी ।। श्रावणस्याष्टमी कृष्णा आषाढस्यापि पूर्णिमा । कार्तिकी फाल्गुनी चैत्री ज्यैष्ठी पञ्चदशी सिता ॥ मन्वन्तरादयश्चैते दत्तस्याक्षयकारका इति मत्स्यपुराणोक्तास्वि त्यर्थः । अत्राष्टमी कृष्णेत्युपादानात द्वादस्यादयः शुक्ला गृह्यन्ते । युगादिग्विति । वैशाखमासस्य च या तृतीया नवभ्यसौ कार्तिकशुक्लपक्षे । नभस्यमासस्य च कृष्णपक्षे त्रयोदशी पञ्चदशी च माघे ! इति विष्णुपुराणे। शुक्ला तृतीया वैशाखे प्रेतपक्षे त्रयोदशी । कार्तिके नवमी शुक्ला माघे दर्शश्च पूर्णि मेति । चोक्तास्वित्यर्थः। उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षपणे स्मृतम् । अष्टकासु त्वहोरात्रमृत्वन्तासु च रात्रिष्विति ।। उपाकर्मणि व्यहमनध्यायः । उत्सर्गे तु व्यहम् । पक्षिण्यहोरा- आभ्यां सह विकल्प्यते । तथाच मनुरेव- यथाशास्त्रं च कृत्वैवमुत्सर्ग छन्दसां बहिः ।
cue चतुर्विशतिमतसंग्रहः विरमेत्पक्षिणी रात्री यद्वाप्येकमहर्निशम् ॥ अतऊर्ध्वं तु छन्दांसि शुक्लेषु नियतः पठेत् । वेदाङ्गानि तु सर्वाणि कृष्णपक्षेषु संपठेदिति ।। उपाकर्मानन्तरं विशेषमाहापस्तम्बः-श्रावण्यां पौर्णमास्यामध्याय- मुपाकृत्य मासं प्रदोषे नाधीयीतेति । प्रदोषे रात्रेः प्रथमयामे । तथाच गौतमः- प्राधीतस्यं च निशायां चतुर्मुहूर्त्तमिति । उपाक- त्याध्येतुं प्रावृत्तःप्राधीतः"आदिकर्मणि क्तः कर्तरि च” इति क्तः । तस्य निशायां चतुर्मुहूर्त अष्टौ नाडिका अनध्याय इत्यर्थः । अष्टकास्विति । यद्यपि हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीष्वष्टका इति मार्गशीर्ष- भृतिमासचतुष्टये कृष्णाष्टमीनामष्टकाश्राद्धदिनत्वं सूत्रे उक्तं तथापि सप्तमी नवमीयुतास्ता एव तिस्रोऽष्टका इह ग्राह्याः। तथाच गौतम:- तिस्रोष्टकास्त्रिरात्रकमन्त्यामेकेइति ॥ त्रिष्वपरपक्षेषु तिस्रोष्टकास्त्रिरात्रम- नध्यायहेतवः । तदहः पूर्वेधुरपरेधुश्च । एके तु फाल्गुनस्थामपि मन्यन्ते इत्यर्थः । हेमन्तशिशिरयोरत्युदात्हताश्वलायनसूत्रादिति भावः । यद्वा अन्त्यामन्त्यामेवेत्यर्थः । तथाचाश्वलायनः । एकस्यां वेति । आ- पस्तम्बोपि या माध्याः पौर्णमास्या उपरिष्टादष्टमी ज्येष्ठी या संपद्यते तामेकाष्टकेत्याचक्षत इति।ऋत्वन्तास्विति । यद्यपि चान्द्रमासघटितानामृतू- नामन्त्यासु रात्रिषु अनध्ययनं पर्वत्वादेव सिद्धं तथापि सौरमासद्वयकृता- नामृतूनामन्त्ये दिनेऽ नध्ययनसिध्यर्थमिदमिति नारायणः। गौतमः- कात्तिकी फाल्गुन्याषाढी पौर्णमासीति। त्रिरात्रमिति वक्ष्यमाणमनुषज्यते। उक्तपौर्णमासीरारभ्य त्रिरात्रमनध्यायः । तथाच तदुत्तरद्वितीयायामपि नाध्येतव्यमिति फलितमिति माधवः । स्मृत्यर्थसारे च-आषाढी- कार्तिकीफाल्गुनीसमीपस्थाद्वितीयासु चेति ॥ चातुर्मास्यद्वितीयास्वि- त्यादिना उदाहरिष्यमाणेन वचनेनाप्ययमों लभ्यते ॥ हरदत्तस्तु- तिसूः पौर्णमास्योऽनध्यायहेतवः । पौर्णमास्यनन्तरे तु अनध्याये मूलान्तरं दृष्टव्यमिति व्याचख्या ॥ याज्ञवल्क्यः- ।
चतुर्विंशतिमतसंग्रहः व्यहं प्रेतेष्वनध्यायः शिष्यविंग्गुरुबन्धुषु । उपाकर्मणि चोत्सर्गे स्वशाखाश्रोत्रिये तथा ॥ संध्यागजितनिर्घाते भूकम्पोल्कानिपातने । समाप्य वेदं युनिशं आरण्यकमधीत्य च ॥ पञ्चदश्यां चतुर्दश्यामष्टम्यां राहुसूतके । ऋतुसंधिषु भुत्का वा श्राद्धिकं प्रतिगृह्य च ॥ पशुमण्डूकनकुलश्वाहिमाजारमूषकैः । कृतेऽन्तरे त्वहोरात्रं शक्रपाते तथोच्छ्ये इति ॥ स्वशाखेति ॥ स्वशाखाध्यायिनि प्रेते व्यहमनध्याय इत्यर्थः । निर्घाते उत्पातध्वनौ । समाप्य वदेमिति । मन्त्रब्राह्मणयोरन्यतरस- माप्तावित्यर्थ इति विज्ञानेश्वरः । शाखासमाप्ताविति तु हरदत्तः। धुशब्दो दिवसपर्यायोपीति बुद्रुभ्यां म इति सूत्रे न्यासकारः । राहु- सूतके चन्द्रसूर्योपरागे युनिशमनध्यायः । यत्तु व्यहं न कीर्तयेद ब्रह्म राज्ञो राहोश्च सूतके इति मनूक्तं तद् ग्रस्तास्तमयविषयमिति वि- ज्ञानेश्वरः । राज्ञः चन्द्रस्य चकारोभिन्नक्रमः तेन सूर्यस्य च राहोः सकाशात् । सूते प्रसवे । राहुच्छायाभिभूतस्य पुनरुद्भव इति यावत् । नतु राज्ञः सूतकामिति नृपमरणमुच्यते । लक्षणाप्रसङ्गात् । विषयस्थे च राजनि प्रेते इति गौतमेन तत्र सज्योतिरनध्याय इत्युक्तत्वाच्छ । यद्यपि तत्र गृहस्थानामाशौचादेवानध्यायः सिद्धस्तथापि ब्रह्मचार्यर्थमिदम् । स्मृत्यर्थसारे तु ग्रहणे रात्रौ मोक्षे त्रिरात्रम् । दिवा मोक्षे त्रिरात्रम् । दिवा मोक्षे त्र्यहमित्युक्तम् । गौतमस्तु-आकाशनिर्घातभूमिकम्परा हुद- शनोल्काइत्याह । अत्र हरदत्तः-निर्घातोऽशनिपातः राहुदर्शनं ग्रहण- मिति व्याचख्यौ । ऋतुसंधिष्विति । ऋत्वन्तामु च रात्रिष्विति प्राग्व्या- ख्यातेन मनुवचनेन समानार्थमिदम् । विज्ञानेश्वरस्तु-ऋतुसंधिगता सु प्रतिपस्विति व्याचख्यौ । भुत्का चेति । इदं चोत्सवविषयकम् । तथाच गौतमः-ऊर्ध्वं भोजनादुत्सवे इति । उपनयनादावत्सवे भो- चतुर्विशतिमतसंग्रहः जनादृर्वं तदहरनध्याय इति हरदत्तो व्याचख्यौ । श्राद्धभोजने त- प्रतिग्रहे चेति विज्ञानेश्वरः । गौतमस्तु-श्राद्धिनामाकालिकम- कृताश्राद्धिकसंयोगपीति । अत्र हरदत्तः-श्राद्धी श्राद्धकर्ता नतु भोक्ता । तत्र श्राद्धमनुष्ययज्ञभोजनेष्वहोरात्रमिति अहोरात्रस्योक्तत्वात् । यदा श्राद्ध केवलं भुक्तवन्ते नतु पित्र्यार्थ पात्रतया । तेषां पूर्वोत्तो- ऽहोरात्रः ।। पित्राद्यर्थानां तु आकालिको बोध्यः। अकृतान्नम् आमानं तदेव श्राद्धिकं श्राद्धे दीयमानं तत्प्रतिग्रहेपीत्यर्थ इति । एकोद्दिष्टे तु त्रिरात्रम् । तदाह मनु:- प्रतिगृह्य द्विजो विद्वान् एकोदिष्टस्य केतनम् । व्यहं न कीर्तयेत् ब्रह्म राज्ञो राहोश्च सूतके इति । इदं च महैकोद्दिष्टविषयमिति स्मृत्यर्थसारे नारायणीये च ॥ यदा तु त्रिरात्रादूर्ध्वमपि गन्धलेपावनुवर्तते स तदा तदक्षयपर्यन्तमन- ध्याय इत्याह मनु:- यावदेकानुद्दिष्टस्य लेपो गन्धश्च तिष्ठति । विप्रस्य विदुषो देहे तावद् ब्रह्म न कीर्तयेदिति ॥ पशुमण्डूकेति ॥ यत्पुनौतमेनोक्तम् श्वनकुलसर्पमण्डूकमार्जा- राणां व्यहमुपवासो विप्रवासश्चेति, तत्प्रथमाध्ययन एव बोध्यमिति विज्ञानेश्वरः । हरदत्तोपि- पशुमण्डूकमार्जारश्वसर्पनकुलेषु च। अन्तरागमने विद्यादनध्यायमहर्निशमिति । मनुवचनमुदाहृत्य इदं च धारणाध्ययनविषयम् । गौतमीयं तु ग्रहणाध्ययनविषयामित्याह । शक्रपात इति । शक्रध्वजस्यावरोपणदिव- से उच्छ्यदिवसे चेत्यर्थः । कूर्मपुराणे- श्लेष्मातकस्य छायायां शाल्मलेमधुकस्य च । कदाचिदपि नाध्येयं कोविदारकपित्थयोरिति ॥ गौतमा-नित्यमेके नगरे इति-मतभेदेनानध्ययनमाह । मनुस्तु चतुर्विंशतिमतसंग्रहः व्यवस्थामाह- ATES HD - नित्यानध्याय एव स्याद् ग्रामेषु नगरेषु च । धर्मनैपुण्यकामानामिति ॥ व्रतसमापनमात्रेण विद्यामसमाप्यैव ये स्नास्यन्ति ते विद्यानिरपे- क्षब्रह्मचारिधर्ममात्रानुरोधकत्वाद्धर्मनैपुण्यकामाः। ये तु विद्यां समाप्यैव स्नास्यन्ति ते विद्यानैपुण्यकामाः। तत्र प्राथमिकानां ग्रामेऽनध्यायो न तु द्वितीयानामिति नारायणः ॥ मनु:- निर्घाते भूमिचलने ज्योतिषां चोपसर्जने । एतानाकालिकान् विद्यादनध्यायानृतावपीति ॥ उपसर्जने उपसर्गसूचके विकारे । युद्धच्छिद्रादावित्यर्थः । गौतमः-आचार्यपरिवेषणे ज्योतिषोश्चेति । आचार्यों गुरुशुक्रौ तयोः परिवेषे ज्योतिषोः चन्द्रसूर्ययोश्च परिवेषे च तावत्कालं नाधीयांत । यद्वा परिवेषणमन्नोपहरणम् । आचार्यस्य गुरोः परिवेषणे नाधीयी- तेति हरदत्तः। मनु:- शयानः प्रौढपादश्च कृत्वा चैवावसक्थिकाम् । नाधीयीतामिषं जग्ध्वा सूतकानाद्यमेव चेति ।। प्रौढपादइति पादे पादान्तराधायी । पीठाद्यासनार्पितपादो वेति हरदत्तः। वसक्थिकाम् उत्तरीयादिना पृष्ठेन सह जानुद्वयस्य वेष्टनम् । सूतकान्नाचं सूतकसंबन्ध्यन्नम् । एतच्चानध्ययनमाप्रायश्चित्तकरणा- दिति नारायणः । अन्नजरणान्तमिति तु स्मृत्यर्थसारे । मनुः- न विवादे न कलहे न सेनायान्न संगरे । न भुक्तमात्रे नाजीणे न वमित्वा न सूतके । रुधिरे च नुते गात्राच्छस्त्रेण च परिक्षतेइति । विवादे ऋणदानादिविप्रतिपत्तिशब्दश्रवणे । भुक्तमात्र इति । भुत्कार्द्रपाणिरिति याज्ञवल्क्योक्तेन तुल्यार्थम् । अजीर्ण इति । जरणोचितकालेप्यन्नस्थाजरणे सतीत्यर्थः इति नारायणः । सोपपद- IMMIND चतुर्विंशतिमतसंयहः PunatranepanMANTRamaadutename तिधावनध्यायः । तथाच नारदीये- अयने विषुवे चैव शयने बोधने हरेः । अनध्यायस्तु कर्त्तव्यो या च सोपपदा तिथिरिति ।। सोपपदास्तिथयस्तु- सिता ज्येष्टद्वितीया च आश्विने दशमी सिता। चतुर्थी द्वादशी माघे एताः सोपपदाः स्मृता इति ।। स्मृत्यर्थसारे-ऐन्द्रश्रवणद्वादशीमहाभरण्योश्च । अपरपक्षान्ते प्रेतद्वितीयायां रथसप्तम्यां च । शबानुगनपरिचरणेषु । आकाशे शव- दर्शने बाहोरात्रम्। महागुरौ मृते द्वादशरात्रम् । असपिण्डे गुरौ त्रिरात्रम् । आचार्य उपाध्याये च पक्षिणी । समानविये सब्रह्मचारिणि च । आचार्यभार्यापुत्रशिध्येष्वहोरात्रम्। ऋत्विज्याज्यस्वयोनिसम्बन्धेषु चैवम्।। अग्न्युत्पाते गोविप्रमृतौ त्रिरात्रम् । अपने विधुवे च पक्षिणी । अकाल- दृष्टौ । आादिज्येष्ठान्तादन्यत्राकालदृष्टिः । आरण्यमार्जारसर्पनकुल- पञ्चनखादेरन्तरागमने त्रिरात्रम् । आराण्यश्वमृगालादिवानररजकादौ द्वादशरात्रम् । खरबराहोष्ट्रादिचण्डालादिस्ततिकोदक्याशवादौ मासम् । गोगवयाजब्रह्मनास्तिकादौ त्रिरात्रम् । शशमेषश्वपाकादौ षण्मासम् । गजगण्डसारससिंहव्याघ्रमहापापिकृतघ्नादावब्दमनध्यायः । शोभनगृहे शोभने दिने चानध्यायः । विवाहमौजीबन्धनप्रतिष्ठोधापनादिष्वास- माप्तेः सपिण्डसगोत्राणामनध्यायः । यज्ञे चानुबन्ध्यान्तमृत्विजामाचा- याणां च । एकानध्याययुग्मत्वे त्वन्त्यापररात्रेऽनध्यायः । अनध्याय- युग्मे पूर्वदिनापररात्रौ चेत्येके। अभ्यङ्गस्नानकाले च महास्वेदेतिकम्पने । गोविनरोधने सर्वशब्देषु श्राद्धपत्तिषु ॥ उदयेऽस्तमये चापि मुहूर्त्तत्रयगामि यत । तदिनं तदहोरात्रं चानध्यायविदो विदुः ।। केचिदाहुः कचिद्देशे यावत्तदिननाडिकाः। ६
उपाकरणानन्तरं मासं प्रदोषे नाधीयीतेति प्रागुक्तम् । प्रदोषश्व
चतुर्विशतिमतसंग्रहः
तावदेव त्वनध्यायो न तन्मिश्रे दिनान्तरे इति ॥
निर्णयामृते श्लोकभीष्मः-
चातुर्मास्यद्वितीयासु मन्वादिषु युगादिषु ।
पक्षाधिकत्रयोदश्यां तस्या एवोत्तरा तिथिः।।
दर्शस्पृक् चेदिवैव स्यादनध्यायः श्रुतावपीति ॥
पक्षेत्यादेरयमर्थः । द्वितीयादित्रयोदश्यन्तानामेकादशस्वाध्यायानां
यदि तिथिद्धया त्रयोदश्यधिका भवति तस्यां नाध्येयम् । किञ्च
यस्यास्त्रयोदश्या उत्तरा चतुर्दशी दिवैव दर्श स्पृशति साप्यनध्यायः ।
श्रुतौ । श्रवणद्वादश्याम् । चातुर्मास्यद्वितीयाश्च गर्गेणोक्ताः-
शृचाऊले तपस्ये च या द्वितीया विधुक्षये ।
चातुर्मास्यद्वितीयास्ताः प्रवदन्ति महर्षय इति ॥
विधुक्षये कृष्णपक्षे।
अथ प्रदोषाः।
MORE
पूर्वरात्रिर्विवक्षिता इति माधवः। तथा माधवीये पुराणम्-
मेधाकामस्त्रयोदश्यां सप्तम्यां च विशेषतः ।
चतुर्थ्यां च प्रदोषेषु न स्मरेन्नच कीर्तयेदिति ॥
चतुर्थ्यादितिथिद्वैविध्ये त्वाह प्रजापतिः-
षष्टी च द्वादशी चैव अर्द्धरात्रोननाडिका ।
प्रदोषे न त्वीयीत तृतीया नवनाडिकेति
निर्णयामृते । गोपि-
रात्रौ यामत्रयादर्वाक् सप्तमी या त्रयोदशी ।
प्रदोषः स तु विज्ञेयः सर्वकर्मविहित इति ॥
रात्रौ नवसु नाडीषु चतुर्थी यदि दृश्यते ।
प्रदोषः स तु विज्ञेयो वेदाध्ययनगर्हित इति ।
स्मृत्यर्थसारे ॥
RASANNARASIRAM चतुर्विशतिमतसंग्रहः अनध्यायेष्वध्ययने प्रज्ञामायुः प्रजां स्त्रियम् ॥ ब्रह्मवीर्य श्रियं तेजो निकृन्तति यमः स्वयम् ।। मन्त्रवीर्यक्षयभयादिन्द्रो वज्रण हन्ति च । ब्रह्मराक्षसता चान्ते नरकश्च भवेद् ध्रुवमिति ॥ पूर्वोक्तेष्वनध्यायेषु उच्चारणमेव निषिद्धं नतु चिन्तनमपि । अतएव उदके चाद्धरात्रे च विण्मूत्रस्य विसर्जने । उच्छिष्टश्राद्धभुक् चैव मनसापि न चिन्तयेद् । इति मनुचनव्याख्यायां नारायण आह-अत्र मनसा चि- न्तनस्य निषेधादन्यत्र मनसा चिन्तने दोषाभावो गम्यत इति । तथा मानसमप्यशुचिरिति गौतमवाक्यं हरदत्तो व्याचल्यो । अप्रयतः सन् मानसमप्यध्ययनं न कुर्यात् । एवं चान्येष्वनध्यायहेतुषु मा- नसमनिषिद्धं भवतीति ॥ मनुः-- वेदोपकरणे चैव स्वाध्याये चैव नैत्यके । नानुरोधोस्त्यनध्याये होममन्त्रेषु चैव हीति ॥ वेदोपकरणमङ्गोपाङ्गादि । अत्र विशेषः कूर्मपुराणे अनध्यायस्तु नाङ्गेषु नेतिहासपुराणयोः । न धर्मशास्त्रेष्वन्येषु पर्वण्येतानि वर्जयेदिति ॥ स्मृत्यर्थसारे च- चतुर्दश्यष्टमीपर्वप्रतिपद्वर्जितेषु तु । वेदाङ्गन्यायमीमांसाधर्मशास्त्राणि चाभ्यसेदिति ।। तथा दुर्मेधसां विस्मृतिशीलानां च बहुवेदपाठिनां च वेदेऽप्यनध्या यसंकोच उक्तः। स्मृत्यर्थसारे- चतुर्दश्यष्टमीपर्वप्रतित्स्वेव सर्वदा। दुर्मेधसामनध्यायस्त्वन्तरागमनेषु च ॥ सथा विस्मृतिशीलानां बहुवेदप्रपाठिनामिति ॥
चतुर्विशतिमतसंग्रहः स्वाध्येये चेति । ब्रह्मयज्ञ इत्यर्थः । तथाच शौनकः- नित्ये जपे च काम्ये च क्रतो पारायणेपि च । नानध्यापोस्ति वेदानां ग्रहणे ग्राहणे स्मृत इत्यर्थः ।। नित्यादावनध्यायो न किन्तु ग्रहणादावेवेत्यर्थः । स्मृत्यथसारे- नित्ये नैमित्तिके कार्य व्रतयज्ञक्रतौ तथा । प्रवृत्ते काम्यकार्ये च नानाध्यायाः स्मृतास्तथा ॥ देवतार्चनमन्त्राणां नानध्यायः कदा चनेति ।। -- द्वावेव वर्जयेन्नित्यमनध्यायौ प्रयत्नतः । स्वाध्यायभूमि चाशुद्धामात्मानं चाशुचिं द्विज इति । नित्यं नित्ये कर्तव्ये ब्रह्मयज्ञे । तथाच श्रुतिः-तस्य वा एतस्य ब्रह्मयज्ञस्य द्वावनध्यायौ यदात्माऽशुचिर्यदेश इति । इत्यनध्यायप्रकरणम्।। अथ भिक्षाचर्या । याज्ञवल्क्यः- ब्राह्मणेषु चरेद्भेक्ष्यमनिन्द्येष्वात्मवृत्तये । आदिमध्यावसानेषु भवच्छब्दोपलक्षिता ॥ ब्राह्मणक्षत्रियविशां भैक्षचर्या यथाक्रमामिति ॥ ब्राह्मणेष्विति स्वस्वजातीयोपलक्षणम् । तथाच व्यास:-- ब्रामणक्षत्रियविशश्वरेयुभैक्ष्यमन्वहम् । सजातीयष्टहेष्वेव सार्ववर्णिकमेव चेति ॥ अत्र सार्ववर्णिकमापद्विषयम् । तथाच माधवीये भविष्य- त्पुराणम्-- चातुर्वर्ण्य चरेद्भक्ष्यमलाभे कुरुनन्दनेति ।। आपद्यपि शूद्रात्पर्क न ग्राह्यम् । तदाहागिरा:- तस्मादामं ग्रहीतव्यं शूद्रादप्यन्ततोऽब्रवीदिति ।
चतुर्विशतिमतसंग्रहः ४५ अनापदि तु स्वजातिप्रशस्तेष्वेव भैक्ष्यमाहरेत् । तदाह मनुः वेदयज्ञैरहीनानां प्रशस्तानां स्वकर्मसु । ब्रह्मचार्याहरेन्फ्रेक्ष्यं गृहेभ्यः प्रयतोऽन्वहामिति ॥ कचिदपवादमाह स एव-- गुरोः कुले च भिक्षेत न ज्ञातिकुलबन्धुषु । अलाभे त्वन्यगेहानां पूर्व पूर्व परित्यजेत् ॥ सर्व वापि चरेद् ग्रामं पूर्वोक्तानामसंभवे । नेयम्य प्रयतो वाचमाभिशस्तांश्च वर्जयेदिति ।। यत्तु मातरं वा स्वसारं वा मातुर्वा भगिनी निजाम् । याचेत भिक्षां प्रथमं या चैनं न विमानयदिति ॥ तदुपनयनाङ्गभिक्षाविषयम् । तच्च भैक्ष्य भोजनपर्याप्तमेवाहत्तव्यं नत्वधिकम् । तदाह यम:- आहारमात्रादधिकं न कचिद् भैक्ष्यमाहरेत् । युज्यते स्तेयदोषेण कामतोऽधिकमाहरनिति ॥ हारीतः-लोहे मृन्मये वा पात्रे भुञ्जीतेति ॥ आपस्तम्बः- भुक्का स्वयममत्रं प्रक्षालयेदिति । तच्च भैक्ष्यं गुर्वनुज्ञापुरःसरं भोक्त- व्यम् । तदाहतुर्मनुयमौ- समाहृत्य तु तद्भक्षं यावदर्थममायया । निवेद्य गुरवेऽश्नीयादाचम्य प्राङ्मुखः शुचिरिति ॥ गुर्वसंनिधौ तद्भार्यादिभ्यो निवेदयेत् । तदाह गौतमः-निवेद्य गुरवेऽऽनुज्ञातो भुञ्जीतासंनिधौ गुरोः तद्भर्यापुत्रसब्रह्मचारिभ्य इति ।। याज्ञवक्य:- कृताग्निकार्यों भुञ्जीत वाग्यतो गुर्वनुज्ञया । अपोशानक्रियापूर्व सत्कृत्यान्नमकुत्सयन् इति ॥ यद्यपि प्रागेव उभयोरग्निकार्य विहितम् । MH IU । अग्निकार्य ततः POOTOS चतुर्विंशतिमतसंग्रहः कुर्यात्संध्ययोरुभयोरपी "ति । तथापि संध्याकाले कथंचिदग्निकार्यस्य कालान्तरविधानार्थमिदम् । न पुनस्तृतीयप्राप्त्यर्थम् । सत्कृत्येति । सत्कारश्च हारीतेन दर्शितः- भैक्ष्यमवेक्षितं पर्यग्निकृतमादित्यदर्शितं गुरवे निवेदितमनुज्ञातं अमृतसंमितं प्राहुर्यदश्नाति ब्रह्मचारी ब्रह्मसिद्धि- मवाप्नोतीति ॥ याज्ञवल्क्य:- ब्रह्मचर्ये स्थितौ नैकमन्नमद्यादनापदि । ब्राह्मणः काममश्नीयात् श्राद्धे व्रतमपीडयन् ॥ अनापदि व्याध्यायभावे । ब्राह्मण इति । क्षत्रियादेः श्राद्ध- भोजनव्युदासार्थम् । तथाच मनु:- राजन्यवैश्ययोश्चैव न तत्कर्म प्रचक्षत इति ॥ श्राद्ध इत्युपलक्षणम् । तथाच मनु:- व्रतवदेवदैवत्ये पित्रे कर्मण्यथर्षिवदिति । ऋषिवद् वानप्रस्थवत् । एते मुन्यन्नाशनमभिप्रैतीति नारायणः । व्रतमिति । मधुमांसादि परिहरन्नित्यर्थः । ब्रह्मचर्यकालावधिमाह याज्ञवल्क्यः प्रतिवेदं ब्रह्मचर्य द्वादशाब्दानि पञ्च वा ॥ ग्रहणान्तिकमित्येकइति ॥ NRNAD MANAND HD वसेद द्वादशवर्षाणि चतुर्विंशतिमेव वा । षट्त्रिंशतं वा वर्षाणि प्रतिवेदं व्रतं चरेदिति ॥ मनु:- षत्रिंशदाब्दिकं चर्य गुरौ त्रैवेदिकं व्रतम् । तदर्धिकं पादिकं वा ग्रहणान्तिमेकमेव चेति । वेदत्रयाध्ययनार्थ व्रतं ब्रह्मचर्याश्रमधर्मरूपं चर्य चरणीयम् ।
चतुर्विशतिमतसंग्रहः तथाच प्रतिवेदं द्वादशाब्दानामिति फलितम् ॥ यस्तु चतुरो वेदानध्येतुं शक्तः तस्याष्टचत्वारिंशदिति बोध्यम् ।। यथाऽऽपस्तम्बः--उपेतस्याचा- र्यकुले ब्रह्मचारी वासोष्टाचत्वारिंशद्वत्सरान् इति । एवं चाथर्वणस्त्रयी- निष्कर्षत्वादेतव्रतेनैव व्रतसिद्धिरिति । नारायणोक्तौ मूलं मृग्यम् । तदपिकमित्यादि । प्रतिवेदं पाद्वार्षिकं त्रैवार्षिकं वेत्यर्थः । तदेत. संगृहितं दीपिकायाम्- प्रतिवेदं ब्रह्मचर्य वर्षाणि द्वादशाथवा । षत्रीणि ग्रहणान्तं वेति ॥ ब्रह्मचारी विविधः । उपकुर्वाणको, नैष्ठिकश्च ॥ उपकुर्वाणकस्य धर्मा उक्ताः । नैष्ठिकस्य तूच्यन्ते । तत्र मनु- यदि त्वात्यन्तिको वासो रोचेत स्वगुरोः कुले। युक्तः परिचरेदेनमाशरीराविमोक्षणात् ॥ आचार्ये तु खलु प्रेते गुरुपुत्रे गुणान्विते । गुरुदारे सपिण्डे वा गुरुवद् वृत्तिमाचरेत् ।। एतेष्वविद्यमानेषु स्थानासनविहारवान् ।। प्रयुञ्जानोग्निशुश्रूषां सादयेद्देहमात्मन इति । एतच्च सद्वृत्तब्राह्मणगुर्वादिविषयम् । तथा च मनु:- नाब्राह्मणे गुरौ शिष्यो वासमात्यन्तिकं चरेत् । ब्राह्मणे वाननूचाने काङ्क्षन् गतिमनुत्तमामिति ॥ स्थानासनविहारवानिति । स्थानमङ्गुष्ठाग्रादिना नियतमूर्धाव- स्थानम् । आसनं नियमेनोपवेशनम् । विहारीभ्रमणम् । एतैस्तपोविशेषम- भिप्रेतीति नारायणः । आग्निशुश्रूषामिति । सा च हारीतशङ्ख- लिखितयमैनिरूपिता । याज्ञियाः । समिध आहृत्य संमार्जनोपले- पनोबोधनसमूहनसमिन्धनपग्निकरणपरिक्रमणोदस्थापनहोमस्तोत्रनम- स्कारादिभिरग्नि परिचरेन्नाग्निमधितिष्ठन्न पद्भ्यां कर्षेन्न मुखेनोपध- Rom चतुर्विशतिमतसंग्रहः मेन्नापश्चाग्नि च युगपदारयेन्नाजीर्णभुक्तो नोच्छिष्टो वाभ्यादध्यात् ॥ विविधैर्हविर्विशराज्ञे यैरहरहमग्निमिन्धेदामन्त्र्य गच्छेदागत्य निवे- दयेत् तन्मनाः शरीरोपरमान्ते ब्रह्मणः सायुज्यं गच्छतीति ॥ स्फुर्ट चैतन्माधवीये । वसिष्ठः-ब्रह्मचार्याचार्य परिचरेदाशरीरविमो- क्षणात् । आचार्ये च प्रेतेऽग्नि परिचरेत् संयतवाक् चतुर्थषष्टाष्टमकाल- भोजी जटिलः शिखा जटो वेत्युपक्रस्य त्रिरन्होभ्युपेयादपइत्याह । त्रिषवणस्नायी स्यादित्यर्थः ॥ यत्तु दक्षवचनम्- प्रातमध्यान्हयोः स्नानं वानप्रस्थगृहस्थयोः । यतेविषवणस्नानं सकृत्तु ब्रह्मचारिण इति । तदुपकुर्वाणकविषयम् । यदपि अपामुपस्पर्शनमेके गोदानादिति गौतमवाक्येन गोदानव्रतानन्तरमेव स्नानम् । ततः प्राक् दीक्षितवदिति नित्यस्नानस्यानुष्ठानमुक्तं तदप्युपकुर्वाणकविषयमेव बोध्यम् । यत्तु कुब्जवामनजात्यन्धक्लीवपङ्ग्वार्तरोगिणाम् । व्रतचया भवेत्तेषां यावज्जीवं न संशयइति । विष्णुवचनान्नौष्टिकत्वं कुब्जादिमात्रविषयकामिति । तन्न। च. स्वार आश्रमा इत्युपक्रम्य यमिच्छेत्तमावसेदिति वसिष्ठेनोच्यमानस्य गृहस्थताया ऐच्छिकत्वस्यासंगत्यापत्तेः । भविष्यत्पुराणेपि- गार्हस्थयमिच्छन् भूपाल कुर्यादारपरिग्रहम् । ब्रह्मचर्येण वा कालं नयेत्संकल्पपूर्वकम् ॥ वैखानसो वापि भवेत्परिबाडथवेच्छयति ।। वैखानसो वानप्रस्थः । तस्माद्रागिविषयकं गार्हस्थ्यम् ॥ विष्णु- वाक्यं तु नीरागमात्रोपलक्षकमिति । नैष्ठिकत्वं तु ब्राह्मणस्यैव नतु क्षत्रियादेः। एवं चरति यो विप्रो ब्रह्मचर्यमविप्लुतः। स गच्छत्युत्तमं स्थानं नचेह जायते पुनरिति । मनुवाक्ये विप्रपदेन क्षत्रियादिव्युदासादिति नारायणः ।
चतुर्विंशतिमतसंग्रहः एतच्च नैष्टिकब्रह्मचर्य कलौ न कार्यम् । कलिवर्येषु परिगणनात् । कलिवानि च प्रसङ्गालदश्यन्ते । तत्र माधवीये ब्रह्मपुराणम्- दीर्घकालं ब्रह्मचर्य धारणं च कमण्डलोः । गोत्रान्मातृसपिण्डात्तु विवाहो गोवधस्तथा। नराश्वमेधौ मद्यं च कलौ वयं द्विजातिभिरिति ।। दीर्घकालमिति । नैष्ठिकब्रह्मचर्यमित्यर्थ इति दीपिकाकारः । अन्ये तु अष्टाचत्वारिंशद्वर्षाणि इत्याद्यपि कलौ निषिध्यत इत्याहुः । कमण्डलुधारणम् । अथ कमण्डलुचर्यामुपदिशन्तीत्यादिबौधायनोक्तेति- कर्तव्यताकम् । सोदकं च कमण्डलुमित्यनेन स्नातकस्य विहितं मृन्मयकरकधारणम् । गोत्रात् स्वगोत्रोत्पन्नायाः पितृष्वसुः । मा- तृसपिण्डाद् मातुलात् । यः श्रुतिस्मृतिसदाचारैर्मातुलकन्यापारणयः प्राप्तः सोऽनेन कलौ निषिध्यते । तेन मातुलस्य सुतामूवेत्यादीनि वच- नानि कलिविषयाण्येव । अत एव व्यासेन कलिनिन्दापक्रम- तृतीयां मातृतः कन्यां तृतीयां पितृतस्तथा । शुल्केन चोदहिष्यन्ति विप्राः पापविमोहिता:- इत्युक्तम् । मातृतो मातृपक्षे । कूटस्थात्तृतीयां मातुलसुतां पितृतः पितृपक्षे तृतीयां पैतृष्वस्त्रयीमित्यर्थः । एतेन कृष्णार्जुनादीनां मातुलकन्यापरिणयोपि युगान्तरीयत्वान्न विरुध्यते । आधुनिकानां तु तदाचारोऽनाचार एव । अतएव बौधायनेन पञ्चधा विप्रतिपत्तिर्द- क्षिणत इत्युपक्रम्य यथैतदनुपेतेन सह भोजनं स्त्रिया सह भोजनं पर्यु- षितभोजनं मातुलपितृष्वसृदुहितृगमनं इत्यनाचारत्वमेव प्रतिपादित- मिति । गोवधो मधुपादौ । मद्यं गौडीमाध्व्यादिरूपं क्षत्रियवैश्ययो- निषिध्यते । न ब्राह्मणस्य । नित्यं तनिषेधात् । न पैष्टी । सर्वेषु तनिषेधात् । क्रतुरपि । देवराच मुतोत्पत्तिः दत्ता कन्या न दीयते । देवरात् । चकारात्सपिण्डात् सगोत्राद्वा सुतोत्पत्तिः। “ अपुत्रां me ७
RUMEANIHIOPAREND
।
५०
चतुर्विंशतिमतसंग्रहः
गुर्वनुज्ञात" इत्यादिवाक्यैर्विहिता । कलौ नेत्यनुषज्यते । देवरात् सुतो-
त्पत्तेश्च वाग्दत्ताविषयता। यावद्वक्ष्यमाणत्वात् निषेधोऽपि तद्विषयक एव
बोध्यः । दत्तेति
पुरा पुरुषसम्भोगान्मृते देयेति केचन ।
ऋतावदृष्टे कन्यैव पुनर्देयेत्यादिना पुनर्देयतयोक्ता संस्कृता कन्या
अक्षतयोनिः पुनः कलौ न देयेत्यर्थः । दत्ताशब्दस्य ऊढापरत्वं च
वचनान्तरादध्यवसीयते । तथाच माधवीये पुराणम्-
ऊढायाः पुनरुद्वाहं ज्येष्ठांशं गोवधं तथा ।
कलौ पञ्च न कुर्वीत भ्रातृजायां कमण्डलुमिति ॥
ज्येष्ठांशमिति । ज्येष्ठस्य विंश उद्धारः । सर्वद्रव्याच यदरमि-
त्यादिनोक्तमित्यर्थः । बृहन्नारदीये-
समुद्रयातुः स्वीकारः कमण्डलुविधारणम् ।
द्विजानामसवासु कन्यासूपगतं तथा ॥
देवराच सुतोत्पत्तिमधुपर्के पशोर्वधः ।
मांसदानं तथा श्राद्धे वानप्रस्थाश्रमस्तथा ॥
दत्ताक्षतायाः कन्यायाः पुनर्दानं परस्य च ।
दीर्घकालं ब्रह्मचर्य नरमेधाश्वमेधको ।।
महाप्रस्थानगमनं गोमेधश्च तथा मखः ।
इमान् धर्मान् कलियुगे वानाहुर्मनीषिण इति ।।
समुद्रे नौकादिना यो याति तस्य समुद्रयानम्, ब्राह्मणस्य न्या-
सापहरणमित्यादिबौधायनोक्तमायश्चित्तकरणेपि अन्यैः स्वीकारः
व्यवहारः । तदुक्तम्-
द्विजस्याब्धौ तु नौयातुः शोधितस्यापि संग्रह इति ।
उपगतं विवाहः।
असवर्णासु कन्यासु विवाहश्च द्विजातिषु ।
इति वचनात् । मांसदानं मांसपरिवेषणम् ।
चतुर्विशतिमतसंग्रहः
PRATIMANCHESENTrendramuner
॥
शौचञ्च पात्रशुद्धिश्च श्रद्धा च परमा यदि ।
अनन्ततृप्तिकृच्छ्राद्धे एतत्खलु नचामिषम् ॥
यस्तु प्राणिवधं कृत्वा मांसैस्तर्पयते पितॄन् ।
सोऽविद्वांश्चन्दनं दग्ध्वा कुर्यादङ्गारविक्रयम् ।।
क्षिप्त्वा कूपे यथाकिंचिद्वाऽत आदातुमिच्छति ।
पतत्यज्ञानतः सोपि मांसेन श्राद्धकृत्तथा । इति
बृहत्पराशरस्मरणात् ।।
अक्षता गोपशुश्चैव श्राद्धे मांसं तथा मधु ।
देवराच्च सुतोत्पत्तिः कलौ पञ्च विवर्जयेदिति ।
निगमवचनाच महाप्रस्थानगमनम् । आशरीरपातमुत्तरदिग्गमनम् ।
तथान्येपि धर्मज्ञसमयप्रमाणकत्वेन माधवदीपिकाकारादिभिः संगृ-
हीताः
विहितान्यपि कर्माणि धर्मलोपभयाद् बुधैः ।
समापने, निवृत्तानि साध्वभावात्कलौ युगे ।
आततायिद्विजाग्रयाणां धर्मयुद्धेन हिंसनम् ।
सत्रदीक्षा च सर्वेषां कमण्डलुविधारणम् ॥
सौत्रामण्यामपि सुराग्रहणस्य च संग्रहः ।
अग्निहोत्रहवण्याश्च लेहो लोढापरिग्रहः ॥
वृत्तस्वाध्यायसापेक्षमघसंकोचनं तथा ।
प्रायश्चित्तविधानञ्च विप्राणां मरणान्तिकम् ॥
संसर्गदोषस्तेयान्यमहापातकनिष्कृतिः ।
वरातिथिपितृभ्यश्च पशूपाकरणक्रिया ।।
दत्तौरसेतरेषान्तु पुत्रत्वेन परिग्रहः ।
सवर्णान्याङ्गनादुष्टैः संसर्गः शोधितैरपि ।
अयोनौ सङ्ग्रहे वृत्ते परित्यागो गुरुस्त्रियाः ।
परोद्देशात्मसन्त्याग उच्छिष्टस्यापि वर्जनम् ॥
चतुर्विंशतिमतसंग्रहः प्रतिमाभ्यर्चनार्थाय सङ्कल्पश्च सधर्मकः । अस्थिसंचयनादूय अङ्गस्पर्शनमेवच ॥ शामित्रं चैव विप्राणां सोमाविक्रयणं तथा ॥ षड्तानशने चान्नहरणं हीनकर्मणः । शूद्रेणु दासगोपालकुलमित्रार्धसीरिणाम् ।। भोज्यान्नता गृहस्थस्य तीर्थसेवातिदूरतः । शिष्यस्य गुरुदारेषु गुरुवद् वृत्तिशीलिता ।। आपत्तिर्द्विजाग्याणां अश्वस्तनिकता तथा । प्रजार्थ तु द्विजाग्रयाणां प्रजारणिपरिग्रहः ।। ब्राह्मणानां प्रवासित्वं मुखाग्निधमनक्रिया। बलात्कारादिदुष्टस्त्रीसंग्रहो विधिचोदितः ।। यतेस्तु सर्ववर्णेषु भिक्षाचर्या विधानतः । नवोदके दशाहं च दक्षिणा विधिचोदिता।। ब्राह्मणादिषु शूद्रस्य पचनादिक्रियापि च । भृग्वग्निपतनैश्चैव वृद्धादिभरणं तथा ॥ गोतृप्तिशिष्टे पयसि शिष्टैराचमनक्रिया । पितापुत्रविरोधेषु साक्षिणां दण्डकल्पनम् ।। यत्र सायंगृहत्वं च सूरिभिस्तत्वदर्शिभिः । एतानि लोकगुप्त्यर्थ कलेरादौ महात्मभिः । निवतितानि कर्माणि व्यवस्थापूर्वकं बुधैः । समयश्चापि साधूनां प्रमाणं वेदवद्भवेदिति ॥ अस्यार्थः, जनमेजययज्ञसमापने सति विहितान्यपि कानि चि- कर्माणि कलौ निवर्तितानि । तदनुष्ठानयोग्यसाधुपुरुषाभावात् । आततायिनामुद्यतशस्त्रादीनां द्विजाप्रयाणां विप्राणां " ब्राह्मणं वा बहुश्रुतमाततायिनमायान्तं हन्यादेवे ” त्यादिना विहितं संमुखमकूट- शस्त्रेण मारणम् । सत्रे आसनोपायिचोदिते सप्तदशावराश्चतुर्विशति- चतुर्विशतिमतसंग्रह ॥ परमाः सत्रमासीरन्नित्यादिना विहिते दीक्षाः । सुराग्रहणस्य सुराग्र- हणकः, संग्रहो व्यवहारः । अग्निहोत्रं यते यया स्युचा सा वैककृती अग्निहोत्रहवणी, तस्या नित्यं होमानन्तरं हुतावशिष्टमाशनार्थ लेहः निया आस्वादनम् । कथंचिल्लीढायाः पुनः परिग्रहः । चेदाग्नियुक्तवित्रस्य व्यहमाशौचमिष्यते । इत्यादिना देवलादिभिरुक्त आशौचसंकोचः । कामकृते महा- पातकादौ मरणान्तिकं यत्प्रायश्चित्तम् । न तस्य निष्कृतिदृष्टा भृग्वग्निपतनाहते ! इत्यादिनोक्तं तस्य विधानमुपदेशः । तदाह मनु:- प्रतिपूर्वमनिर्देश्यं प्राणान्तिकमिति स्थितिरिति । स्वयमेव धर्मशास्त्राद् ज्ञात्वाऽन्यापदेशेन पृष्टा वा तदनुष्ठानं न निवार्यत इति भावः । संसगीदोषः पतितसंसर्गेण पातित्यम् । "संवत्सरेण पतति पतितेन सहाचर"नित्यादिना प्रतिपादितम् । तथाच पराशरः- कलौ पतितकर्मणेति । एतेन संसर्गः शोधितैरपीत्या- दिना शोधितसंसर्गस्यापि निषेधमाधिगम्य पतितसंसर्गे दोपाभावोक्ति- विरुद्धयेतेति परास्तम् । पातित्यानभ्युपगमेपि दोपाभ्युपगमात् । एतच्च आसनाच्छयनाद्यानात्संभाषात्सहभोजनात् । संक्रामन्ति हि पापानि तैलबिन्दुरिवाम्भसीति । पराशरवचनव्याख्यावसरे माधवाचार्यैः स्फुटीकृतम् । स्तेयान्य- स्मिन् महापातके निष्कृतिः॥ इदं च रहस्यप्रायश्चित्तविषयकमिति केचि- त् । अतएव पराशरे नवमाध्याये तस्मात्प्रकाशयेत्पापमित्युक्तिरपि संगच्छत इत्याहुः । वरातिथिभ्यां मधुपर्के, पितृभ्यः श्राद्धे । दत्तः- मातृपितृभ्यां, तदन्यतरेण वा । “पुत्रं प्रतिग्रहीष्यन् बन्धूनास्य राजनि निवेद्य निवेशनस्य मध्ये व्याहृतिभिर्दुत्वा अदूरवान्धवं बन्धुस- निकृष्ट एवमतिगृहीयात्' इत्यादिवसिष्ठोक्तविधिना पुत्रीकृतः। औरसो धर्मपत्नीजः । ताभ्यामितरेषाम् । सवर्णान्या असवर्णा या अङ्गनास्ता- ।
। । चतुविशतिमतसंग्रहः भिर्दुष्टैः तत्संपृक्तैः कृतप्रायश्चित्तैरपि संसर्गः। अयोनाविति । युगान्तरे तु योनौ अयोनौ वा संसर्गे सति परित्याग इति गम्यते । परेषां गो- ब्राह्मणघ्यादीनामुद्देशेन तदापविमोक्षार्थ प्राणत्यागः “गवार्थे ब्राह्म- गार्थे वा सद्यः प्राणान् परित्यजे"दित्यादिनोक्तः।उच्छिष्टस्यापि वर्जन- मिति । स्वमुच्छिष्टमुच्छिष्टोपहतं चेत्यादिवसिष्ठायुक्तम् । इयमेव प्रतिमा यावजीवं पूजनीयेत्येवमादिः संकल्पः । ततः सञ्चयनादूर्ध्वमङ्गस्पर्शो विधीयते इत्यादिना विहितोऽङ्गस्पर्शः । शामित्रं यज्ञे स्वयं पशुप्रमाणम् । षण्णां भक्तानामनशनम् । उपवासत्रयम् । तस्मिन् बुभुक्षितस्व्यहं स्थित्वा धान्यमब्राह्मणाद्धरेत् इत्यादिस्मृत्या। तथैव सप्तमे काले भक्तानि षडनश्नता। अश्वस्तननिधानाय हर्त्तव्यं हीनकर्मणः इति मनुस्मृत्या च विहितमन्नहरणम्॥आपत्तिरिति॥आपदि क्षत्रादित्तिभिर्जीवनम् । विप्राणां संततिजीवनाय जातारणिपरिग्रहः । प्रवासित्वम्, सर्वदा प्रवासशीलता । मुखेनोपधमेदग्निमित्यादिना वि- हितं मुखेनाग्निधमनम् । अभिनवोदके दशाहवर्जनम् । "दशरोत्रणशुध्येत भूमिष्ठं च नवोदक" मित्यादिनोक्तं दशाहमित्युक्तया। काले नवोदकं शुद्धं न पिबेच्च व्यहं च तत् । अकाले तु दशाई स्यात्पीत्वानाद्यादहर्निशम् ॥ इति स्मृत्युक्तस्य दशाहप्रतिषेधस्यैवम्पतिप्रसवो नतु व्यहमतिषे- धस्येति दर्शयति । "गुरवे तु वरं दत्वे" त्यादिनोक्ता स्नानार्थ गुरुदक्षिणा। आर्याधिष्ठिता वा शूद्राः संस्कारः स्युः इत्याद्यापस्तम्बोक्तं ब्राह्म- णगृह शूद्रस्य पाचकत्वम् । गोतृप्त्यधिके जले शिष्टानामाचमनकरणम् शुचिगोतृप्तिकृत्तायमिति प्राप्तम् । पितृपुत्रविरोधे तु साक्षिणां त्रिपणो दम इत्युक्तम् । संन्यासिनां यत्र सायङ्कालस्तत्रैवावस्थानम् । यत्र -- चतुर्विंशतिमतसंग्रहः सायं गृहो मुनिरित्यनेनोक्तम् । एतानि सर्वाणि निवतितानि इत्यन्वयः । सन्यासिपद्धतौ व्यास:- चत्वार्यब्दसहस्राणि चत्वार्यब्दशतानि च । कलेयंदा गमिष्यन्ति तदा त्रेतापरिग्रहः ॥ संन्यासस्तु न कर्त्तव्यो ब्राह्मणेन विजानतेति । अत्र त्रेतापरिग्रह इति वदता सर्वाधानमेव निषिध्यते । अतएव लौगाक्षिा- अर्धाधानं स्मृतं श्रौतस्माग्न्यिोस्तु पृथक्कृतिः । सर्वाधानं तयोरैक्यकृतिः पूर्वयुगाश्रितेति ।। युगस्य पूर्व पूर्वयुगं कले: पूर्वभाग इत्यर्थः । अर्धाधानमपि यावद्वर्णवेदविभागं कार्यम् । तदाह देवल:- यावद्वर्णविभागोस्ति यावद्वेदः प्रवर्तते । संन्यासं चाग्निहोत्रं च तावत्कुर्यात्कलौ युगे इति ।। यद्यपि संन्यासस्य चतुश्चत्वारिंशच्छताब्दाऽवधिकत्वं व्यासेनो- तं तथापि गौणकालोऽनेन समर्प्यत इति केचित् । त्रिदण्डैकदण्डाभिमा- येण व्यवस्थेत्यपरे । सामान्यतः श्रुतस्य व्यासवाक्येनोपसंहार- इत्यन्ये इति कलिनिषिद्धानि । तदेवं नैष्ठिकब्रह्मचर्यस्य कलौ निषि- द्धत्वादुपकुर्वाणत्वमेवाश्रित्य वेदाध्ययनं कर्तव्यमिति स्थितम् ॥ तच्चाध्ययनमुपाकर्मप्रभृत्येवेति प्रसङ्गात्तन्निर्णय उच्यते । तत्र गृह्यम्-अथाध्यायोपाकरणमोषधीनां प्रादुर्भावे श्रवणेन श्रावणस्य पञ्चम्या हस्तेन वेति । अस्यार्थः, अधीयन्त इत्यध्याया वेदाः तेषामुपाकरणं प्रारम्भः श्रावणमासस्य श्रवणेन श्रवणायुक्ते काले "नक्षत्रेण युक्तः कालः" इत्यणो “लुबविशेष" इति लुप् । “नक्षत्रे चलु- पी" ति सप्तम्यर्थे तृतीया । पञ्चम्यामिति । श्रावणस्येति सम्बध्यते । श्रावणमासस्य पञ्चमी यदा हस्तसंयुक्ता भवति तदा वेत्यर्थः । इदं च कालद्वयम् ओषधिप्रादुर्भावे सति बोध्यम् ॥ याज्ञवल्क्य:- ।
amantava चतुविशतिमतसंग्रहः अध्यायानामुपाकर्म श्रावण्यां श्रवणेन वा । हस्तेनौषधिभावे वा पञ्चम्यां श्रावणस्य तु ॥ ओषधिप्रादुर्भावे सति श्रावणमासस्य श्रवणं पूर्णिमा हस्तश्च शाखाभेदेन व्यवस्थिताः । यदि तु तत्र ग्रहसंक्रान्ती स्यातां तदा श्रा- वणस्य शुक्लपञ्चम्यां कार्यम् । अथवा श्रावणशुक्लपक्षवर्त्तिन्यां यस्यां कस्याञ्चिद्धस्तान्वितायां तिथा इति दीपिकादिबहुग्रन्थसम्मतोर्थः । अतएव स्मृत्यर्थसारेपि-कस्मिंश्चिदिने इत्युक्तम् । अत्र पञ्चम्यामि- ति पक्षो बढचादिभिग्राह्यः । यजुर्वेदिनां तु मध्ये वाजसनेयिभिरेव ग्राह्यः । संक्रान्तिहणं वेत्यादिवक्ष्यमाणस्मृतिमहार्णववचनबला- दिति दीपिकादौ स्थितम् ॥ ओषधिप्रादुर्भावविरहे तु भाद्रपदे का- र्यम् । तथा बढचपरिशिष्टकारिका- अध्यायानामुपाकर्म श्रावणे श्रवणेन तु । तन्मासे हस्तयुक्तायां पञ्चम्यां वा तदिष्यते ॥ अदृष्टयौषधयस्तस्मिन् मासे तु न भवन्ति चेत् । तदा भाद्रपदे मासे श्रवणेन करोति तदिति ॥ श्रवणनक्षत्रखण्डे तु विशेषमाह व्यास:- धनिष्ठासंयुते कुर्याच्छ्रावणं कर्म यद्भवेदिति । स्मृतिमहार्णवे- संक्रान्तिहणं वापि पौर्णमास्यां यदा भवेत् । उपाकृतिस्तु पञ्चम्यां कार्या वाजसनेयिभिरिति । गर्ग:- पर्वण्यौदायके कुर्युः श्रावणी तैत्तिरीयकाः । बढ्चाः श्रवणे कुर्युः ग्रहसंक्रान्तिवर्जित इति ॥ अत्र तैत्तिरीयकपदमन्येषामपि यजुःशाखिनामुपलक्षणम् । तेषां कालान्तराविधानादिति निर्णयामृते। दीपिकायान्तु-यदि पौर्ण- मासीपूर्वाद्धरूपमात्रं कर्मकालं दिनद्वयेपि न व्याप्नोति व्याप्नोति चतुर्विशतिमतसंग्रहः वा तदा निर्णयार्थ प्रवर्तमानमिदं वचनं तैत्तिरीयका इति विशेषोपादा- नात्तन्मात्रपरम् । इतरेतु याजुषाः पूर्वत्रैव कुर्युरिति सिद्धान्तितम् । यत्तु श्रावणी दुर्गनवमी दुर्वा चैव हुताशनी । पूर्वविद्धा तु कर्तव्या शिवरात्रिबलेर्दिनम् । इति वचनं तद्दीपिकाकारमते-तैत्तिरीयकभिन्नयाजुषपरमिति स्पष्टमेव । निर्णयामृतकारमते-तु श्रावण्यां विधीयमानं हिरण्यगर्भ- पवित्रारोपणमेतस्य विषयः । उपाकर्माङ्गभूतमाभ्युदयिकश्राद्धं वेति तैरेव व्याख्यातम् । सिंहस्थिते सवितरि या अमावास्या तदन्ते चान्द्र- मासे या पौर्णमासी सा श्रावणी । तथाच हरदत्त:- मेषादिस्थे सवितरि यो यो दर्शः प्रवर्तते । चान्द्रमासास्तत्तदन्ताश्चत्राद्या द्वादश स्मृताः । तेषु या या पौर्णमासी सा सा चैत्र्यादिका स्मृता । कादाचित्केन योगेन नक्षत्रस्येति निर्णय इति ।। pataBIO कात्यायन:- अर्धरात्रादधस्ताचेत् संक्रान्तिर्ग्रहणं तदा । उपाकर्म न कुर्वीत परस्ताच्चन्न दोषकदिति ॥ बृहस्पतिः- नर्मदोत्तरभागे तु कर्त्तव्यं सिंहयुक्तके । कर्कटे संस्थिते भानावुपाकुर्यात्तु दक्षिणे इति ॥ इदं सर्वशाखासाधारणमिति केचित् । अन्ये तु यान् प्रति सिंहे विधानमस्ति तान् प्रत्येव नर्मदोत्तरभागरूपदेशविधिपरं पूर्वार्द्धम् । तैरेव तर्हि दक्षिणे कथं कर्त्तव्यमित्याकाङ्क्षायां उत्तरार्द्धपत्तिरित्याहुः । एतेन वेदोपाकरणे प्राप्ते कुलीरे संस्थिते रखौ । उपाकर्म न कर्त्तव्यं कर्त्तव्य सिंहयुक्तके ॥ इति माधवोदाहृतं स्मृत्यन्तरमपि व्याख्यातम् । आद्यमते सर्व- शाखासाधारण्येन नर्मदोत्तरभागे कर्कटनिषेधाभिप्रायत्वात् । द्वितीयमते चतुर्विंशतिमतसंग्रहः तु छन्दोगान् प्रति सिंहे कर्त्तव्यमिति विधिः, कुलीरे न कर्तव्यमित्य- नुवादः । तथाच गर्ग:-- सिंहे रवौ तु पुष्यः पूर्वाह्ने विचरेद्वहिः । छन्दोगा मिलिताः कुर्युरुत्सर्ग स्वस्वच्छन्दसाम् । शुक्लपक्षे तु हस्तेन उपाकर्मापराह्निकमिति । सिंहे रवावित्येतद् उत्सर्गोपाकर्मभ्यां संबध्यते । यत्तु कश्यपवचनम्- गुरुशुक्रतिरोधाने वर्जयेच्छुतिचोदितम् । इत्याह भगवानत्रिः श्रावणं तु विशेषत इति । तत्प्रथमोपाकर्मविषयम् । तदुक्तं संग्रहे- गुरुभार्गवयोर्मोंढये बाल्ये वा वार्द्धकेपि वा। तथाधिमाससंसर्गमलमासादिषु द्विजाः ॥ प्रथमोपाकृतिन स्यात्कृतं कर्म विनाशकृदिति ॥ अधिमासादिष्विदं कर्मोत्तरत्र कर्त्तव्यमित्याह पराशरः- उपाकर्म तथोत्सर्ग प्रसवाहोत्सवाष्टकाः । मासवृद्धौ परे कार्याः वर्जयित्वा तु पैतृकमिति ॥ परे उत्तरे मासि कार्या इत्यर्थः । प्रसवाहोत्सवो जातेष्टिः ॥ कात्यायन:- उत्कर्षः कालवृद्धौ स्यादुपाकर्मादिकर्मणि । अभिषेकाब्दवृद्धीनां न तत्कर्षों युगादिष्विति ॥ यत्तु ऋष्यशृङगचनम्- दशहरासु नोत्कर्षः चतुर्वपि युगादिषु । उपाकर्म महाषष्ठयायेतदिष्टं वृषादित इति । तच्छन्दोगविषयम् । तेषां हि कालवृद्धावपि सिंहार्क एवोपाकर्म । तथाच तद्विषये सिंहे स्वावित्यादिगर्गवचनं प्रागुदाहृतम् । यदा पुनः श्रावणीमौष्ठपद्योः शुक्रास्तमयादिनाप्रतिबन्ध तदानीमाषाढयां कर्त्तव्यम् ।
Asaunee चतुर्विशतिमतसंग्रहः तदुक्तं कूर्मपुराणे- श्रावणस्य तु मासस्य पौर्णमास्यां द्विजोत्तमाः। आषाढयां प्रौष्टपद्यां वा वेदोपाकरणं स्मृतमिति ।। अत्र च सर्वशाखाधिकरणन्यायेन कमैक्ये स्थिते वेदोपाकरणम- नूध मासमात्रं विधीयते, पौर्णमास्यामित्यवयुत्यानुवाद इति नि- र्णयामृते, माधवीये च । दीपिकादौ तु-बौधयानीयैरेवाषाढी ग्राह्या, श्रावण्यां पौर्णमास्यामाषाढयां वोपाकृत्येति बौधायनाक्ते- ह्यानुसारेण व्यवस्थौचित्यादिति स्थितम् । माधवस्तु-आषाढादिषु त्रिष्वपि मासेषु पूर्णिमाश्रवणहस्ताः शाखाभेदेन व्यवस्थिताः ।। IND तदाह गोभिल:- । mnapa पर्वण्यौदयिके कुर्युः श्रावणी तैत्तिरीयकाः । बढचाः श्रवणः तु हस्तः सामवेदिन इति ।। अत्रौदयिक इति पर्वादिषु सर्वत्र सम्बध्यते । पर्वण औदायिकत्वे विशेषमाह स एव- श्रावणी पौर्णमासी तु सङ्गवात्परतो यदि । तदा त्वौदयिकी ग्राह्या नान्या त्वौदयिकी भवेदिति ॥ परिशिष्ट- धनिष्ठापतिपयुक्तं त्वाष्ट्रऋक्षसमन्वितम् । श्रावणं कर्म कुर्वीत ऋग्यजुःसामपाठका इति ।। त्वाष्ट्रऋक्षसमन्वितमिति । चित्रासंयुक्तहस्त इत्यर्थः । गोभिल:- अध्यायानामुपाकर्म कुर्यात्काले ऽपरालके । पूर्वाह्ने तु विसर्गः स्यादिति वेदविदो विदुरिति ।। याजुषाणां तु विशेषमाह प्रचेताः- भवेदुपाकृतिः पौर्णमास्यां पूर्वाह्न एव त्विति ॥ इदं च ब्रह्मचारिधर्मः । उपाकृत्याधीयीतेति ग्रहणाध्ययनाङ्गत्व- ६० चतुर्विंशतिमतसंग्रहः प्रतीतेः । ग्रहणाध्ययने च ब्रह्मचारिण एव । "वेदमधीत्य स्नाया" दिति स्नानात् प्राचीनत्वावगमात् । यदा तु व्रतानि वा पारं नीत्वेति स्मृ- तिबलाद्वेदमसमाप्यैव स्नाति तदा गृहस्थस्यापि ग्रहणाध्ययनेऽधिकारसं भवादस्त्येवोपाकर्म । अत एव शौनकः-समावृत्तो ब्रह्मचारिकल्पेन यथान्यायमितरे जायोपेत इत्येक इति । अधीयीतेत्यनुवर्तते । येन नियमविशेषेण युक्तो ब्रह्मचार्यधीते तेनैव नियमेन समावृत्तोऽप्यधीयीत । समावृत्तादितरे ब्रह्मचारिणस्तु यथान्यायं स्वविध्युक्तमकारेणाधीयी- रन् । तथा जायोपेतो गृहस्थोपि ब्रह्मचारिवन्नियमोपेतोऽयीधीतेति । अतएव मनु,याज्ञवल्क्यस्मृत्योर्गृहस्थधर्मप्रकरणे उपाकर्मणः पाठः संगच्छते इति माधवाचार्याः । एवं च ब्रह्मचारी, तथा समावृत्तो ऽप्यकृतविवाहः, तथा कृतविवाहोऽपीति, त्रयो ग्रहणाध्ययनं कुर्वन्तस्तदङ्गभूते उपाकर्मण्यधिकारिण इति माधवनिवन्धे फलितो- ऽर्थः । दीपिकाविवरणे तु-समावृत्तशौनकवचनं जायोपेयीत्येके इति पठित्वा समावृत्तः सन् जायोपेयी गृहस्थः, इतरे ब्रह्मचारिणः, तथा चोभयेधिकारिण इति व्याख्यातम् । हरदत्तस्तु-उपाकृत्याधीयी- तेत्यत्र न ग्रहणाध्ययनमात्रस्य ग्रहणं किंतु वेदोच्चारणस्याध्यापनपारा- यणादिसाधारणस्य । तदन्तं चेदं प्रतिसंवत्सरमनुष्टेयम् । श्रवणादि- वार्षिकमिति गौतमस्मरणात् । तथा च सकलब्रह्मचारिगृहस्थसा- धारणमिदम् । तत्र न मांसं भुञ्जीतेत्यादिगौतमोक्तनियमःअध्यापकस्य, व्रतमात्रस्नातकस्याध्येतुश्च । तत्राप्यध्यापकस्य ऋतुद्वयं मासद्वयं चाश- क्त्यपेक्षं वैकल्पिकं ब्रह्मचर्यम् । प्रवचनयुक्तो वर्षाशरदि मैथुनं वर्जयेदि- त्यापस्तम्बोक्तेः । द्वैमास्यो वा नियम इति गौतमोक्तेश्च । व्रत- स्नातकस्याध्येतुस्तु ग्रहणान्तं ब्रह्मचर्यम् । ऋतुगमनं तु पाक्षिकमिति सिद्धान्तयित्वा तत्र प्रमाणत्वेन समावृत्त इत्यादिवाक्यं जायोपेयीत्येके इति पठित्वा ब्रह्मचारिकल्पेनेति प्रसक्तस्य स्त्रीसङ्गनिषेधस्य प्रति- प्रसवोयं पाक्षिक ऋतौ जायापेयीति व्याचख्यौ । “उपाकृत्य यथाविधि ।
।
चतुर्विशतिमतसंग्रहः
युक्तश्छन्दांस्यीयीतेति"ति मनुग्रन्थव्याख्यायां नारायणोप्येवम् ।
युक्तं चैतत् ।
समावृत्तोऽप्यधीयानो मधुमांसादि वर्जयेत् ।
ऋतुस्नातोपगनं समावृत्तस्य मन्यते ॥
इति कारिकानुगुण्याच्च । तथाच नृसिंहकृते प्रयोगरत्ने
गोभिल:-
उपाकर्मोत्सजनं च वनस्थानामपीष्यते ।
धारणाध्ययनाङ्गत्वाद् गृहिणां ब्रह्मचारिणामिति ।।
कात्यायन:-
प्रत्यब्दं यदुपाकर्म सोत्सर्ग विधिवद् द्विजैः।
क्रियते च्छन्दसां तेन पुनराप्यायनं भवेत् ।।
अयातयामैश्छन्दोभिः यत्कर्म क्रियते द्विजैः ।
क्रीडमानैरपि सदा तत्तेषां सिद्धिकारणम् ॥
उत्सर्जनं च बेदानामुपाकरणकर्म च ।
अकृत्वा वेदजप्येन फलं नाप्नोति मानव इति ।।
तस्मादाश्रमत्रयेऽपीदमावश्यकमिति स्थितम् । इदं च कर्म वृद्धि-
श्राद्धपूर्वकं कर्त्तव्यमिति वृद्धिश्राद्धप्रकरणे वृत्तिकृन्नारायणः ।
अत्रेतिकर्तव्यतामाह कार्णाजिनिः-
उपाकर्मणि चोत्सर्गे यथाकालं समेत्य तु ।
ऋषीन् दर्भमयान् कृत्वा पूजयेत्तर्पयेत्तत इति ॥
व्यास:-
ऋषीणामर्चनं सर्व कर्त्तव्यं च निवीतिनति ॥
amaste
गालव:-
कृत्वा यज्ञोपवीतानि नवानि वसुधाधिप ।।
हुत्वाग्नौ गुरवे दत्वा पितृभ्यो धारयेत्तत इति ।
पितृभ्यो दत्वा स्वयं धारयेदित्यर्थः ।।
चतुर्विंशतिमतसंग्रहः कार्णाजिनिः वेदारम्भणतः पूर्व सक्तुमाशनतः परम् । नवयज्ञोपवीतानि दद्याद्वै धारयेत्तत इति ॥ दानफलं चोक्तं वायुपुराणे- उपाकर्मणि विप्रेभ्यो दद्याद्यज्ञोपवीतकम् । आयुस्मान् जायते तेन कर्मणा मानवो भुवीति ॥ ब्रह्मचारिणं प्रति विशेष उक्तः कालादर्शे- मौजी यज्ञोपवीतं च नवं दण्डं च धारयेत् । कटिसूत्रं चैव नवं नवं वस्त्रं तथैव चेति ॥ कारिकायाम्- पश्चादग्नेस्तु दर्भेषु प्रागग्रेषूपविश्य च । आसिच्याऽपः शरावादौ दर्भास्तत्र निधाय च ॥ प्रागप्रदर्भगीस्ते कुर्युब्रह्माञ्जलीनथ । सव्याहृतिं जपत्युच्चैः सावित्री ब्रह्मयज्ञवत् ।। त्रिरभ्यस्येयुरोङ्कारं व्याहतीश्चात्र कर्मणीति ॥ नित्यम्रह्मयज्ञे हि यद्यपि सावित्र्या एवाभ्यासः, नतु व्याहृतीनाम् ओंपूर्वा व्याहृतीस्तिस्त्रः समस्तास्तु सकृद्वदेत् । पच्छस्त्वपर्चशः सर्वा सावित्री त्रिर्वदेवथा ॥ इति कारिकाकारवचनात् । तथापीह कर्मणि व्याहतीरप्यभ्य- स्येयुरिति ब्रह्मयज्ञाद्विशेषो बोध्य इत्यर्थः ॥ इत्युपाकर्मनिर्णयः ॥ अथोत्सर्जनम् । मनु:- पुष्ये तु छन्दसां कुर्याद्रहिरुत्सर्जनं द्विजः । माघशुक्लस्य वा प्राप्ते पूर्वाह्ने प्रथमेऽहनीति ।। यदा श्रावण्यामुपाकर्म तदा पुष्यमासस्य शुक्लप्रतिपदि पूर्वाह्ने, यदा प्रौष्ठपद्यामुपाकर्म तदा माघस्येति व्यवस्थितो विकल्पः ।
चतुर्विशतिमतसंग्रहः BAR श्रावण्यां प्रौष्ठपद्यां वाप्युपाकृत्य यथाविधि । युक्तश्छन्दांस्यधीयीत मासान् विमोऽर्धपञ्चमान् इति मनुनवाक्तत्वात् ।। याज्ञवल्क्य:- पौषमासस्य रोहिण्यामष्टकायामथापि वा। जलान्ते छन्दसां कुर्यादुत्सर्ग विधिवद्धहिरिति ।। अष्टकायां कृष्णाष्टम्याम् । बहिः ग्रामादहिः । जलान्ते जल- समीपे । गोभिला- छन्दोगा मिलिताः कुर्युः प्रातरौत्सर्गिकी क्रियाम् । अपराले त्युपाकर्म पुष्यहस्तक्षयोजिा इति । हस्तःऽपराले उपाकर्म पुष्ये प्रातरुत्सर्जनं छन्दोगाः कुर्युरित्यर्थः । इदं च सिंहस्थे सवितरि बोध्यम् । सिंहे रवौ तु पुष्यः इत्यादिपूर्वोदाहृत- गर्गवचनात् । कदाचित् भाद्रपदेपि । तथाच परिशिष्टे-- मासे प्रौष्ठपदे हस्तात्पुष्यः पूर्वो भवेद्यदा । तदा च श्रावणे कुर्यादुत्सर्ग छन्दसां द्विज इति ।। बौधायन:-श्रावण्यां पौर्णमास्यामाषाढयां वोपाकृत्य तैष्यां मा- घ्यां वोत्सृजेदिति ॥ कात्यायन:- उपाकृत्योदगयने ततोऽधायीत धर्मवित् । उत्सर्गश्चत्तथा तिष्यतिथ्यां प्रौष्ठपदेऽपि चेति ॥ आश्वलायनैस्तु माध्यामुत्सर्जन कार्यम् । तथाच गृह्यम्- मध्यमाष्टकायामिति ।। कारिका च- अध्यायोत्सर्जनं माध्यां पौर्णमास्यां विधीयते इति ॥ अनुकल्पः स्मयते खादिरगृह्य- पुष्ये तूत्सर्जनं कुर्यादुपाकर्म दिनेऽथवेति ॥ श्रुतिश्व- "य:स्वाध्यायमधीतेब्द"मिति । एवमुत्सृष्टस्यापि पुनरध्ययनं प्रागु- wenjamom ६४ चतुर्विंशतिमतसंग्रहः । पाकरणात् कालविशेषे विदधाति मनु:- अतः परं तु छन्दांसि शुक्लेषु नियतः पठेत् । वेदाङ्गानि समस्तानि कृष्णपक्षेषु संपठेदिति ।। कारिकायाम्- अत आरभ्य षण्मासान् षडङ्गानि त्वधीयते । शुक्ले वेदमधीयीत कृष्णेऽङ्गानीति केचन ॥ इत्युत्सर्जनम् । प्रासङ्गिक समाप्य क्रमप्राप्तं व्रतचतुष्टयं प्रस्तूयते । तच्च यद्यपि प्रतिशाखं गृहेषूक्तं तथाप्याश्वलायनानां दिङ्मात्रमुच्यते । तत्र श्रीध- रीये नृसिंहः- तिथिनक्षत्रवारांशवोदयनिरीक्षणम् । चौलवत्सर्वमाख्यातं सगोदानव्रतेषु च ॥ द्विजानां व्रतबन्धस्तु स्वाध्यायेषु प्रशस्यते । रिक्ताविष्टिविवर्येषु महानाम्निकमेव चेति ।। अत्र महानाम्नीमहाव्रतोपनिषद्वतगोदानाख्यं चतुष्टयं महा- नाम्निकशब्देन विवक्षितं प्राणभृदुपदधातीतिवदिति तद्व्याख्यातारः । तत्र जन्मप्रभृति त्रयोदशे वर्षे महानाम्नीव्रतम् । चतुर्दशे महाव्रतम् । पञ्चदशे उपनिषद्वम् । पोडशे गोदानम् । महानाम्न्यादिव्रतेषु लुप्तेषु तारतम्येन त्रीन् षट् द्वादश वा कृच्छ्रान् कृत्वा पुनर्प्रतं प्रारभतेति स्मृत्यर्थसारे ॥ अथ समावर्त्तनम् । तत्र याज्ञवल्क्य:- गुरवे तु वरं दत्वा स्नायीत तदनुज्ञया । वेदं व्रतानि वा पारं नीत्वा ह्युभयमेव वा।। वरम्, अभिलषितं यथाशक्ति दत्वा स्नायात् । अशक्तं प्रत्याह तदनुज्ञयेति । अदत्तवरोपीति भावः। तथाच गृह्यम्-विद्यान्ते गुरुमर्थेन चतुर्विशतिमतसंग्रहः निमन्त्र्य कृतानुज्ञस्य वा स्नानमिति । वेदं व्रतानि वेत्यनेन स्नातक- त्रैविध्यं दर्शितम् । वेदं पारं नीत्वेत्यत्रार्थावगतिरपि विवक्षिता । तथाच कूर्मपुराणम्- वेद, वेदौ, तथा वेदान् , वेदान् वा चतुरो द्विजः । अधीत्य चाधिगम्यार्थ ततः स्नायाधथाविधीति ॥ व्रतमात्रस्नातकेनाप्यारण्यकमधीत्यैव समावर्तितव्यम् । तथाच कारिकाकार:- वेदं व्रतानि वा पारं नीत्वा धुभयमेव वा। व्रतपक्षेपि शब्दार्थमारण्याध्ययने कृते इति ।। शब्दार्थमक्षरग्रहणार्थ न त्वर्थज्ञानापेक्षापि अनुष्ठानानुपयोगात्। विरक्त्युत्तरकालं साधनचतुष्टयसंम्पन्न प्रत्युत्तरमीमांसाप्रवृत्तेः । पूर्वो- कं कूर्मपुराणवचनं तु कर्मकाण्डार्थज्ञानपरमिति भावः । तदेतदभि- संन्धायाहुमूले- वेधानधीत्य यत्नेन पाठतो ज्ञानतस्तथा । समावर्त्य सवर्णा तु लक्षण्यां स्त्रियमुद्रहेदिति ॥ ज्ञानत इति । षडङ्गेतिहासपुराणादिष्वपि नियमविधिसत्वात्तदुप- मुम्भेन कर्मकाण्डार्थ निश्चित्येत्यर्थः । पाझे मदालसाप्रसङ्गे- साङ्गं च सव्रतं चैव वेदमावर्तयेद् द्विजः । एतन्मुख्यमतो न्यूनं तद्गौणमिति कथ्यते इति ॥ ब्रह्मचारिधर्मलोपे तु तत्प्रायश्चित्तं कृत्वा समावर्त्तनं कार्यम् । प्राय- चित्तं च ऋग्विधाने शौनकेनोक्तम्- 'तं वोधिया' जपेन्मन्त्रं लक्षं चैत्रे शिवालये। ब्रह्मस्वकीयधर्मेषु न्यूनं चेत्पूर्णमेव तदिति ॥ महानान्न्यादिवतचतुष्टयलोपे त्वाह शौनकः- व्रतानि विधिवत्कृत्वा स्वशाखाध्ययनं चरेत् । अकृत्वाभ्यस्यते येन स पापी विधिघातकः ।। Bala । १ - । चतुर्विशतिमतसंग्रहः प्रत्येकं कृच्छ्रमेकैकं चरित्वाज्याहुतीः शतम् । हुत्वा चैव तु गायत्र्या स्नायादित्याह शौनक इति ॥ यस्य ब्रह्मचर्यावस्थायां सपिण्डादिमरणं तेन समावर्तनानन्तरं त्रिरात्रमाशौचं कार्यम् । तदाह मनुः- आदिष्टी नोदकं कुर्यादाव्रतस्य समापनात् । समाप्ते तूदकं कृत्वा त्रिरात्रमशुचिर्भवेदिति ॥ आदिष्टी व्रतादेशयोगाद् ब्रह्मचारी। उदकं तिलाञ्जलिम् । एतच्च पित्रादिव्यतिरिक्तविषयकमित्यादि आशौचप्रकरणे वक्ष्यते । इति समावर्त्तनम् ॥ अथ स्नातकत्रतानि। तत्राश्वलायन:-तस्यैतानि व्रतानि भवन्ति । न नक्तं स्नायात् न नग्नं स्नायात् न नग्नां स्त्रियमीक्षेत अन्यत्र मैथुनात् । वर्षति न धावेत् । न वृक्षमारोहेत् । न कूपमवरोहेत् । न बाहुभ्यां नदी तरेत् । न संशयमभ्यापद्यतेति । तस्यैतानीति वचनं न नक्तं स्नायामिति संकल्पयोदित्येवमर्थम् । अत एव कारिकायाम्- ततः संकल्पयेन्नक्तं न स्नायीत्युत्तराण्यपीत्युक्तम् । ततः होमस- माप्त्यनन्तरं मेखलाविसर्गात्प्राक् व्रतान्तराण्याह याज्ञवल्क्यः- न स्वाध्यायविरोध्यर्थमीहेत न यतस्ततः । न विरुद्धप्रसङ्गेन संतोषी च भवेत्सदा ॥ राजान्तवासियाज्येभ्यः सीदन्निच्छेद्धनं क्षुधा। दम्भिहैतुकपाखण्डिवकवृत्तींश्च वर्जयेत् ॥ २॥ शुक्लाम्बरधरो नीचकेशश्मश्रुनखः शुचिः । न भार्यादर्शनेऽश्नीयान्नैकवासा न संस्थितः ॥३॥ न संशयं प्रपद्येत नाकस्मादप्रियं वदेत् । नाहितं नानृतं चैव न स्तेनः स्यान्न वार्द्धषी ॥ ४ ॥ दाक्षायणी ब्रह्मसूत्री वेणुमान् सकमण्डलुः । STER चतुर्विशतिमतसंग्रहः DADARNIMARRIEWeman कुर्यात्प्रदक्षिणं देवमृगोविप्रवनस्पतीन् ॥५॥ नतु मेहेन्नदीच्छायावमंगोष्ठाम्वुभस्मनु । न प्रत्यग्न्यर्कगोसोमसंध्याम्बुस्त्रीद्विजन्मनः ॥ ६ ॥ नेक्षेतार्क न नग्नां स्त्री नच संसृष्टमैथुनाम् । नच मूत्रं पुरीषं वा नाशुची राहुतारकाः ॥ ७ ॥ 'अयं मे वज्र' इत्येव सर्व मन्त्रमुदीरयन् । वर्षत्यप्रादृतो गच्छेत् स्वपेत्प्रत्यक्शिरा नच ॥ ८ ॥ ष्ठीवनासृक्सकन्मूत्ररेतांस्यप्सु न निक्षिपेत् । पादौ प्रतापयेन्नाग्नौ न चैनमपि लङ्घयेत् ॥ ९॥ जलं पिबेनाञ्जलिना न शयानं प्रबोधयेत् । नाः क्रीडेन्न धर्मघ्नैर्व्याधितैर्वा न संविशेत् ॥ १० ॥ विरुद्ध वर्जयेत्कर्म प्रेतधूमं नदीतरम् । केशभस्मतुषाङ्गारकपालेषु च संस्थितिम् ॥ ११ ॥ नाचक्षीत धयन्ती गां नाद्वारेण विशेत् कचित् । न राज्ञः प्रतिगृह्णीयाल्लुब्धस्योच्छास्त्रवर्तिनः ॥ १२ ॥ प्रतिग्रहे सूनिचक्रिध्वजिवेश्यानराधिपाः । दुष्टा दशगुणं पूर्वात्पूर्वादेते यथाक्रमम् ॥ १३ ॥ देवत्विक्स्नातकाचार्यराज्ञां छायां परस्त्रियाः । नाक्रामेद्रक्तविण्मत्रष्टीवनोद्वर्तनानि च ॥ १४ ॥ विप्राहिक्षत्रियात्मानो नावज्ञेयाः कदा चन। आमृत्योः श्रियमाकाङ्क्षन्न कंचिन्ममणि स्पृशेत् ॥ १५ ॥ दूरादुच्छिष्टविण्मूत्रपादाम्भांसि समुत्सृजेत् । श्रुतिस्मृत्युदितं कर्म नित्यं कर्म समाचरेत् ॥ १६ ॥ गोब्राह्मणानलान्नानि नोच्छिष्टो न पदा स्पृशेत् । न निन्दाताडने कुर्यात् पुत्र शिष्यं च ताडयेत् ॥ १७ ॥ कर्मणा मनसा वाचा यत्नाद्धर्म समाचरेत् ।
चतुर्विशतिमतसंग्रहः अस्वयं लोकविद्विष्टं धर्ममप्याचरेन्नतु ॥ १८ ॥ मातृपित्रतिथिभ्रातृजामिसंबन्धिमातुलैः । वृद्धवालातुराचायः वैद्यसंश्रितवान्धवैः ॥ १९ ॥ ऋत्विपुरोहितापत्यभार्यादाससनाभिभिः । विवादं वर्जयित्वा तु सर्वान् लोकान् जयेत् गृही ॥२०॥ पञ्चापिण्डाननुद्धृत्य न स्नायात्परवारिषु । स्नायानदीदेवखातन्हदप्रस्रवणेषु च ॥ २१ ॥ परशय्यासनोद्यानगृहयानानि वर्जयेत् । अदत्तान्यग्निहीनस्य नान्नमद्यादनापदि ॥ २२ ॥ कदर्यवद्धचौराणां क्लीबरङ्गावतारिणाम् । वैणाभिशस्तवार्द्धष्यगणिकागणदीक्षिणाम् । चिकित्सकातुरक्रुद्धपुंश्चलीमत्तविद्विषाम् । क्रूरोग्रपतितवात्यदाम्भिकोच्छिष्टभोजिनाम् ॥ २४ ॥ अवीरास्त्रीस्वर्णकारस्त्रीजितग्रामयाजिनाम् । शस्त्रविक्रयिकारतुन्नवायश्ववृत्तिनाम् ॥ २५ ॥ नृशंसराजरजककृतघ्नवधजीविनाम् । चैलधावसुराजीवसहोपपतिवेश्मनाम् ॥ २६ ॥ पिशुनानृतिनोश्चैव तथा चाक्रिकवन्दिनाम् । एषामन्नं न भोक्तव्यं सोमविक्रयिणस्तथा ॥ २७ ॥ शूद्वेषु दासगोपालकुलमित्रार्द्धसीरिणः । भोज्याना नापितश्चैव यश्चात्मानं निवेदयदिति ॥ २८ ॥ अस्यार्थः, स्वाध्यायविरोधिनमर्थ नेहेत । एतेन सर्वान् परित्यजेदान् स्वाध्यायस्य विरोधिनः । इति मूलमपि व्याख्यातम् । यतस्ततः अविदिताचाराच । विरु- द्धमयाज्ययाजनादि । प्रसंगो गीतादिः । विरुद्धं च प्रसंगचेति समा- हारदन्दः। तथाच मनु:- dowaguAN चतुर्विशतिमतसंग्रहः नेहेतार्थान् प्रसङ्गेन न विरुद्धेन कर्मणा । न विद्यमानेष्वर्थेषु नाल्मपि यतस्तत इति ॥ अत्र प्रसङ्गेन प्रकृष्टसङ्गेन । अत्यन्ततत्परतया नेहेतेति नारा- यणः । अत्र प्रकरणे नञ् पर्युदासार्थः । व्रतानीमानि धारयेदिति मनुना व्रतशब्देनोपक्रमात् । सदा अर्थालाभेपि । क्षुधा सदिनित्यनेन विभागादिप्राप्तकुटुम्बपोषणपर्याप्तधनो न कुतश्चिदर्थमन्विच्छेदिति गम्यते। किञ्च दम्भिहैतुकादीन् लौकिकशास्त्रीयेषु सर्वकार्येषु वर्जयेत् । लोक- रञ्जनार्थमेव कर्मानुष्ठायी दम्भी। युक्तिबलेन सर्वत्र संशयकारी हैतुकः। विद्यविद्यारद्धाऽपरिगृहीताश्रमिणः पाखण्डिनः । बकवद् वृत्तिरस्य तल्लक्षणं च मनुराह- अधोदृष्टिनैष्कृतिक स्वार्थसाधनतत्परः। शठो मिथ्याविनीतश्च बकत्तिरुदाहत इति । नीचेति । नीचं कर्तनास्वम् । एतेन मुण्डनं न कार्यमित्यभि- प्रैति । तथाचापस्तम्बः। न समावृत्ता मुण्डयेरन अन्यत्र विहारादि- ति ॥ मनुरपि- क्लृप्तकेशनखश्मश्रुर्दान्तः शुक्लाम्बरः शुचिरिति । क्लृप्तं कर्त्तनादिना हस्वतां नीतं नतु मुण्डितमिति नारायणः। हरदत्तश्च-एतेनश्मश्वादिप्ररोहणमपि निषिद्धं भवति । तथाच गौतम:- न रूढश्मश्रुकः स्यादिति । न संस्थितइति । उत्थितः सन् नाश्नीया- दित्यर्थः । व्याघ्राद्युपहतदेशाक्रमणादिरूपं प्राणविपत्तिसंशयावहं कर्म न प्रपद्येत । न कुर्यात् । स्तेनः अदत्तादायी । वाधुषी प्रतिषिद्धवृद्धा- पजीवी । किञ्च, दाक्षायणी सुवर्णकुण्डलधारी । यज्ञोपवीतं वेदं च शुभे रोक्मे च कुण्डले । इति मनुस्मरणात् । अत्र हि धारयेदित्यनुवर्तते । वेदम् ऐष्टिक- वेदप्रकृतिं कुशमयीं मुष्टिमिति नारायणः । ब्रह्मसूत्रीति द्वितीययज्ञोप- वीतप्राप्त्यर्थम् । तथाच वसिष्ठः- चतुर्विशतिमतसंग्रहः स्नातकानां द्वितीयं स्यादन्तर्वासस्तथोत्तरम् । यज्ञोपवीते द्वे याष्टिः सोदकश्च कमण्डलुरिति ।। अयं च कमण्डलुः कलौ निषिद्ध इत्युक्तं प्राक् । देवम् देव- ताप्रतिमाम् । मृदं तीर्थादुद्धृत्य स्थापिताम् । वनस्पतीन् अश्वत्थादीन् । दक्षिणतः कृत्वा व्रजेदित्यर्थः । तथाच मनु:- मृदं गां दैवतं विप्रं घृतं मधु चतुष्पथम् । प्रदक्षिणानि कुर्वीत प्रज्ञातांश्च वनस्पतीन् इति ।। प्रज्ञातान् प्रसिद्धान् । किं च नद्यादिषु न मेहेत् मूत्रपुरीपोत्स- गै न कुर्यादित्यर्थः । तथा अग्न्यादीन् प्रति अग्न्यादीनामभिमुखं न मेहेत् । नाप्येतान् पश्यन् । यथाह गौतमः-न वाय्वग्निविमादित्यापो देवता गाश्च प्रतिपश्यन् वा पुरीषामेध्यान्युदस्येदिति । अमेध्यं ष्ठीव- नादि । मूत्रपुरीषयोः पृथग्रहणं तु तयोरतिशयेन वजनार्थमिति हर- दत्तः । किञ्च अर्क नेक्षेत । अत्र विशेषमाह मनु:- नेक्षेतोद्यन्तमादित्यं नास्तं यन्तं कदाचन । नोपसृष्टं नवारिस्थं न मध्यं नमसो गमिति ॥ उपसृष्टं राहुणा गृहीतम् । स्नानार्थ सकृद्दर्शने तु न दोषः । दृष्ट्वा स्नायादिति विधानादिति नारायणः । वस्तुतस्तु दर्शनं न वि- धेयमिति वक्ष्यामि । संसृष्टमैथुनाम् कृतोपभोगाम् । अनग्नामपि उपभोगान्ते न पश्येदित्यर्थः । अशुचिः सन् राहुं तारकाश्च न पश्येत्। किञ्च वर्षति सति "अयं मे वज्रः पाप्मानमपहन्तु” इति मन्त्रं पठन् सन् अकृतशिरा गच्छेत् नतु धावेत् । “न प्रधावेच्च वर्षती"ति निषे- धात् । नच प्रत्यशिराः स्वप्याद् । किञ्च टीवनादीन्यप्सु न नि- क्षिपेत् । एनम् अग्निम्। किञ्च अञ्जलिना सहंताभ्यां पाणिभ्यां न पिबेत् । जलग्रहणं पेयमात्रस्योपलक्षणमिति विज्ञानेश्वरः । तथाच मनु:- नैकः स्वप्याच्छ्न्यगेहे श्रेयांसं न प्रबोधयेदिति । - चतुर्विंशतिमतसंग्रहः अक्षैः अक्षादिभिः । धर्मघ्नः पशुलधनादिभिः न क्रीडेत् । व्याधित इति सहार्थे तृतीया । किञ्च, जनपदादिविरुद्धं वर्जयेत् । नदीतरम्, बाहुभ्यां नदीतरणम् । नदीतडाकादि उपलक्षणमिति हर- दत्तः, नारायणश्च । बाहुभ्यामिति तु विवक्षितम् । तेनोडुपादिना परिंगमने न दोषः । इह जलं पिवेदित्यत्र जलस्य नदीतरमित्यत्र नद्याश्च विवक्षा तत्रैव बाहुभ्यामित्यस्य श्रेयांसं न प्रबोधयेदित्यत्र श्रेयस्त्वस्य चोद्देश्यविशेषणत्वेरि विवक्षेति वैषम्यम् । व्याख्यातृवचनमेव शरणम् । एवमग्रेपि । किञ्च परस्य क्षीरादि पिबन्ती गां तस्मै नाचक्षीत । कर्तृप्रत्ययः । वत्सेन धीयमानां गां स्वामिने न ब्रूयादित्यर्थ इत्याहुः। वस्तुतस्तु धयन्तीं धापयन्तीम्, अन्तर्भावितण्यर्थाच्छतृप्रत्ययः । नाचक्षीते- त्युपलक्षणम्, नापि निवर्तयेत् । तथाच मनु:- न वारयेद् धयन्ती गां न चाचक्षीत कस्य चिदिति ।। क्वचित् ग्रामे गृहादौ च कुद्वारेण न विशेत् । तथाचापस्तम्ब:- न कुसृत्या ग्राम प्रविशेत् । यदि प्रविशेत् "न मोमो रुद्राय वास्तोष्पत" इत्येतामृचं जपेदन्यां वा रौद्रीमिति । राज्ञ इति सकाशादिति विशेषः। सूनी प्राणिहिंसा सास्यास्तीति सूनी चक्री तिलनिष्पीडकः । ध्वजी सुरा- विक्रयी। नराधिपः समनन्तरोक्तो लुब्धः शास्त्रतिक्रमकारी च । यथा- क्रमं दुष्टाः । एतेन दशसूनासमश्चक्री दशचक्रिसमो ध्वजः। दशध्वजसमा वेश्या दशवेश्यासमो नृपः ॥ इति मूलस्थश्लोकोपि व्याख्यातःगोब्राह्मणेति गवादीनि उच्छिष्टः सन् न स्पृशेत् । पदा तु अनुच्छिष्टोपि न स्पृशेत् । प्रमादात् स्पर्श तु प्रायश्चित्तं मनुना स्मयते- स्पृष्ट्वैतानशुचिनित्यमद्भिः प्राणानुपस्पृशेत् । गात्राणि चैव सर्वाणि नाभिं पाणितलेन विति ॥ पुत्रं शिष्यं चेति । अत्र विशेष मनुराह- । ।
चतुर्विशतिमतसंग्रहः पृष्ठतस्तु शरीरस्य नोत्तमाङ्गे कथञ्चनेति ।। शिष्टयर्थं ताडयेच्च ताविति च । तस्माद्विवादान्तरपङ्गेन शिष्या- दिरपि न ताडनीयः । अस्वय॑मिति । लोकविद्विष्ट पञ्च पञ्चनखा भक्ष्या इत्यादिस्मृतिबलाद्यद्यपि धर्मादनपेतं तथापि नाचरेत् यतोऽस्व- य॑म् । अपूर्वसाधनं न किन्तु अभ्यनुज्ञातमात्रम् । नचैवं मधुपर्कगोव- धादेः स्वर्गसाधनतयानुष्ठानापत्तिः अग्नीषोमीयादिसमकक्षत्वादिति वा- च्यम् । कलिनिषिद्धेषु तस्य गणितत्वात् । ये तु अग्नीषोमीयादेः स्वर्ग- साधनत्वमस्ति नतु मधुपर्के गोवधस्येत्याहुः, तेषां हृदयं चिन्त्यम् । किंच मात्रादिभिः विवाद वर्जयित्वा लोकान् जयेत् । भ्राता भिन्नोदरोपि । जामयः विद्यमानभर्तृका भगिन्यः । वैद्यो विद्वान् भिषग्वा । बान्धवाः पितृपक्षा मातृपक्षाश्च । मातुलस्य पृथग्रहणमादरार्थम् । सनाभयः सोदराः । अजामिभगिनीप्राप्त्यर्थमेतत् भ्रातॄणां जामिनांच पृथग्ग्रहणाव पञ्चेति । परवारिषु सर्वसत्वोद्देशोनात्यक्तेषु तडागादिषु अनेनात्मीयेषु उत्सृष्टे च पिण्डोद्धरणं विनापि स्नानमभ्यनुज्ञायते । देवखातम् पुष्करादि । पर्वतायुच्चप्रदेशात्मसृतमुदकं प्रस्रवणम् । नधादिषु पञ्च- पिण्डानुद्धरणेनैव स्नायादित्यर्थः । किंच परकीयानि शय्यादीनि । अदत्तानि अननुज्ञातानि वर्जयेत् । नोपयुञ्जीत । अग्निहीनस्येति । श्रौतस्मा न्योरधिकाररहितस्य शूद्रादेः । अधिकारवतोप्यग्निरहितस्य च । नाधादित्युपलक्षणम् । न मतिगृह्णीयादित्यपिबोध्यम् । “प्रशस्तानां स्वकर्म तस्माद् द्विजातीनां ब्राह्मणो भुञ्जीत प्रतिग्रड्डीयाचे "ति गौतम- वचनात्, कदयति अत्मानं धर्मकृत्यं च पुत्रदारांश्च पीडयेत् । लोभायः पितरो भृत्यान् स कदर्य इति स्मृतः॥ इति लक्षितः कदर्यः । बद्धो निगडादिना, वाचा संन्निरुद्धश्च ॥ रङ्गावतारी नटचारणमल्लादिः वैणो वेणुच्छेदनजीवी । उलोपश्छान्दसः। माधवस्तु वैणो वीणावादनजीवीति व्याचख्यौ ॥ गणदीक्षी । बहु- । चतुर्विशतिमतसंग्रहः याजकः । एतेषामन्नं नाबादित्यनुवर्तते । एवमग्रेपि ॥ माधवस्तु- गणिकानम् गणान्नं दीक्षितानं चेति वा । तथाच मनु:- गणान्नं गणिकान्नं चेति । दीक्षितस्य कदर्यस्येति च । अत्र दीक्षितान्नस्याग्नीषोमीयवपायागात् प्रागेव निषेधः । असंस्थिते- ग्नीषोमीये यजमानस्य गृहे नाशितव्य" मिति श्रुतेः ॥ क्रीतराजको भो- जनमित्याथर्ववैदिकं वाक्यं तु आपदि अभ्यनुज्ञानार्थम् । तदाहुर्भद्दाः- तथैव प्राणपीडायां क्रीतराजकभोजनमिति । सामान्येनाभ्यनुज्ञानाद्विशेषश्च विशिष्यते । विशेषात्यन्तनिर्दोषस्तोकदोषेतरक्रियेति च ॥ आतुरः कुष्ठादिमहारोगोपसृष्टः । मत्तो विद्यादिना गर्षितः । क्रूरः दृढाभ्यन्तरकोपः । उग्रः वाकायव्यापारेणोद्वेजकः । वैश्याशूयोस्तु राजन्यान् माहिष्योग्रौ सुतौ स्मृताविति ।। लक्षित उग्र इति नारायणः । व्रात्यः पतितसावित्रीकः । अ. वीरा स्वतन्त्रा । पतिपुत्ररहितत्यन्ये । पुंवत्कर्मधारयेति पुंवद्भावाभाव आपः । ग्रामयाजी ग्रामस्य शान्त्यादिकर्ता । बहूनामुपनेता वा । कारो लोहकारः । तक्षणादिकर्ता वा । तुन्नवायः सूचीशिल्पोपजीवी। श्वभिर्वृत्तं जीवनमस्यास्तीति श्ववृत्ती । अत इनिठनाविति इनिः । एकाक्षरात्कृतो जातेरित्यस्यानित्यत्वात् । नृशंसो निर्दयः । राजा तत्पुरोहितोपि, राजपुरोहितोपि । राजपुरोहितान्नानि वर्जयेदिति शववचनात् । रजकः । वस्त्रादीनां नीलादिरागकारः । चैलधारो वस्त्रनिर्णेजनकृत् । सुराजीवी मद्यविक्रयी । उपपतिर्जारः तेन सह वेश्म यस्य । चाक्रिकस्तैलिकः शाकटिको वा । अभिशस्तपतितचा- क्रिकतैलिकेति भेदनाभिधानात् । सर्वे चैते कदर्यादयो द्विजा एवबोध्याः। असीरी हलपर्यायसीरोपलक्षितकृषिफलभागग्राही । आत्मानं निवे- दयेत् त्वदीयोहमस्मीति । एते दासादयः शूद्रेषु भोज्यान्नाः । चका- रान्कुम्भकारः । गोपनापितकुम्भकारत्यादिवचनात् । शूद्रविशेषस्य भो- १० चतुविशतिमतसंग्रहः ज्यानत्वं चात्यन्तापद्विषयमिति हरदत्तः। नारायणस्तु- कन्दुपकं शूलपकं पायसं दधिसक्तवः । एतानि शूद्राद् ग्राह्याणि भोज्यानि मनुरब्रवीत् । इतिवचनमुदाहृत्य अन्नावशेषपरतामाह। वस्तुतस्तु कलिनिषिद्धेषु शूद्रेषु दासगोपालकुलमित्रार्धसीरिणां भोज्यान्नतेति गणितत्वान्नैतस्य निष्कर्षे यत्यते । तथा माधवीये कूर्मपुराणम्- नाधार्मिकैते ग्रामे न व्याधिबहुले भृशम् । न शूद्रराज्ये निवसेन्न पाखण्डिजनैवते ॥ कृष्णो वा यत्र चरति मृगो नित्यं स्वभावतः । पुण्याश्च विशृता नद्यस्तत्र कामं वसेट् द्विजः ।। परस्त्रिय न भाषेत नायाज्यं याजयेद्बुधः । न देवायतनं गच्छेत्कदाचिच्चाऽप्रदक्षिणम् ।। न वीजयेद्वा वस्त्रेण समवायं च वर्जयेत् । नैकोऽध्वानं प्रपद्येत नाऽधार्मिकजनैः सह ।। न निन्येद्योगिनः सिद्धान् तिनो वा यतींस्तथेति ॥ माधवीये मार्कडेयोपि- असत्पलापमनृतं वाक्पारुष्यं विवर्जयेत् । असच्छास्त्रमसद्वादमसत्सेवां च पुत्रक ।। न म्लेच्छभाषां शिक्षेत न पश्येदात्मनः शकृत् । नाधितिष्ठेत्सकृन्मूत्रं केशभस्मकपालिका :॥ तुषाङ्गारास्थिशीर्णानि रज्जुवस्त्रादिकानि च । वजयेन्मार्जनीरेणुं नापेयं च पिबेद द्विज इति । मनुरपि- स्वायुष्ययशस्यानि व्रतानीमानि धारयेत् । इत्युपक्रम्याह- वयसः कर्मणोऽर्थस्य श्रुसस्याभिजनस्य च ।
।
चतुर्विशतिमतसंग्रहः
वेषवाग्बुद्धिसारूप्यमाचरन् विचरेदिह ॥
बुद्धिद्धिकराण्याशु धान्यानि च हितानिच ।
नित्य शास्त्राण्यवेक्षेत निगमांश्चैव वैदिकान् ।।
न सीदेत् स्नातको विप्रः क्षुधा शक्तः कथंचन ।
न जीर्णमलवद्वासा भवेच्च विभवे सति ।।
न लधयेत् वत्सतन्त्रीं न प्रधावेच वर्षति ।
न चोदके निरीक्षेत स्वं रूपमिति धारणा ॥
नाश्नीयाद्भार्यया सार्द्ध नैनामीक्षेत चाश्नतीम् ।
क्षुवती जृम्भमाणां वा नचाऽऽसीनां यथासुखम् ।।
नाज्जयन्ती स्वके नेत्रे नचाऽभ्यक्तामनावृताम् ।
न पश्येत् प्रस्नुवन्ती च तेजस्कामो द्विजोत्तमः ।।
नान्नमद्यादेकवासा न नग्नः स्नानमाचरेत् ।
न मूत्रं पथि कुर्वीत न भस्मनि न गोत्र ॥
न फालकृष्टे न जले न चित्यां नच पर्वते ।
न जीर्णदेवायतने न वल्मीके कदाचन ॥
न ससत्वेषु गर्तेषु न गच्छन्नापि च स्थितः ।
न नदीतीरमासाद्य नच पर्वतमस्तके ॥
नोदक्ययाभिभाषेत यज्ञं गच्छेन्नचाहतः।
अग्न्यगारे गवां गोष्ठे ब्राह्मणानां च संनिधौ ।
स्वाध्याये भोजने चैव दक्षिणं पाणिमुद्धरेत् ।
नदीमिन्द्रायुधं दृष्ट्वा कस्य चिद्दर्शयेदधः ॥
न भुञ्जीतोदृतस्नेहं नातिसौहितमाचरेत् ।
न नृत्येदथवा गायेदं न वादित्राणि वादयेत् ॥
न पादौ धावयेत्कांस्ये कदाचिदपि भोजने
न भिन्नभाण्डे भुञ्जीत न भावप्रतिदूषिते ॥
उपानहौ च वासश्च धृतमन्यैर्न धारयेत् ।
चतुर्विशतिमतसंग्रहः
॥
।
उपवीतमलङ्कार व करकमव च ॥
बालातपः प्रेतधूमो वयॊ भिन्नं तथाऽऽसनम् ।
न मूल्लोष्ठं विमृवीयान्न च्छिन्द्यात्करजैस्तृणम् ।।
न कर्म निष्फलं कुर्यान्नायत्यामसुखोदयम् ।
विगी कथाः कुर्यात् बहिर्माल्यं न धारयेत् ॥
गवां पृष्ठेन यानं तु सर्वथैव विगर्हितम् ।
रात्रौ च वृक्षमूलानि दूरतः परिवर्जयेत् ॥
सर्व च तिलसंबद्धं नाद्यादस्तमयं प्रति ।
नच नग्नः शयीतेह नचोच्छिष्टः काचिजेत् ।।
आर्द्रपादस्तु भुञ्जीत नापादस्तु संविशेत् ।
अधितिष्ठेन्न केशांस्तु न भस्मास्थिकपालिकाः ।।
न कार्पासस्यास्थि तुषान दीर्घमायुर्जिजीविषुः ।
न शूद्राय मतिं दद्यात् नोच्छिष्टं न हविष्कृतम् ।।
नचास्योपदिशेद्धर्म न चास्य व्रतमादिशेत् ।
न संहताभ्यां पाणिभ्यां कण्डूयेतात्मनः शिरः ।।
न स्पृशेचैतदुच्छिष्टो नच स्नायाद्विना ततः ।
केशग्रहान् प्रहारांश्च शिरस्येतानि वर्जयेत् ।।
शिरस्नातस्तु तेलेन नाङ्गं किंचिदपि स्पृशेत् ।
न स्नानमाचरेद् भुक्त्वा नातुरो न महानिशि ।।
न वासोभिः सहाजस्रं नाविज्ञाते जलाशये ।
देवतानां गुरोराज्ञां स्नातकाचार्ययोस्तथा ।।
नाकामेव कामतश्छायां बभ्रुणो दीक्षितस्य च ।
मध्यंदिनेऽर्धरात्रे वा श्राद्धं भुत्का च सामिषम् ।।
संध्ययोरुभयोश्चैव न सेवेत चतुष्पथम् ।
भद्रं भद्रमिति ब्रूयाद् भद्रमित्येव वा वदेत् ॥
शुष्कवैरं विवादं च न कुर्यात्केन चित्सह ।
चतुर्विशतिमतसंग्रहः
नातिकल्यं नातिसायं नातिमध्यंदिने स्थिते ॥
नाज्ञातेन समं गच्छेन्नैको न वृषलैः सह ।
अनातुरः स्वानि खानि न स्पृशेदनिमित्ततः ॥
रोमाणि च रहस्यानि सर्वाण्येव विवर्जयेत् ।
मङ्गलाऽऽचारयुक्तः स्यात्प्रयतात्मा जितेन्द्रियः ॥
जपेच्च जुहुयाच्चैव नित्यमग्निमतन्द्रितः ।
मङ्गलाऽऽचारयुक्तानां नित्यं च नियतात्मनाम् ।।
जपतां जुह्वतां चैव विनिपातो न विद्यते ।
वेद मेव जपेन्नित्यं यथाकालमतन्द्रितः ॥
सावित्रान् शान्तिहोमांश्च कुर्यात्पर्वसु नित्यशः ।
पितॄश्चैवाष्टकास्वर्चेत् नित्यमन्वष्टकासु च ॥
मैत्रं प्रसाधनं स्नानं दन्तधावनमञ्जनम् ।
पूर्वाह्न एव कुर्वीत देवतानां च पूजनम् ।।
नास्तिक्यं वेदनिन्दां च देवतानां च कुत्सनम् ।
द्वेषं दम्भं च मानं च क्रोधं तैक्ष्ण्यं च वर्जयेत् ।।
परस्य दण्डं नो यच्छेत् क्रुद्धो नैनं निपातयेत्
अन्यत्र पुत्राच्छिष्याच शिष्टयर्थ ताडयेच तौ ।।
प्रतिग्रहसमर्थोपि प्रसङ्गं तत्र वर्जयेत् ।
अतपास्त्वनधीयानः प्रतिग्रहरुचिर्द्विजः ।।
अम्भस्यश्मप्लवेनैव सह तेनैव मज्जति ।
न धर्मस्यापदेशेन पापं कृत्वा व्रत घरेत् ॥
परकीयनिपानेषु न स्नायाद्धि कदाचन ।
सप्तोद्धृत्य ततः पिण्डान् कामं स्नायाच पञ्च वा ॥
उदपानात्स्वयंगृह्य बहिः स्नात्वा न दुष्यति ।
यमान् सेवेत सततं न नित्यं नियमान् बुधः ॥
आनुशंस्य, क्षमा, सत्यम्, अहिंसा, दम, मस्पृहम् ।
।
AMRUBINATANAMANANDHANGARAMPIANSED
चतुर्विशतिमतसंग्रहः
ध्यान, प्रसादो, माधुर्य, मार्जवं, च यमा दश ॥
शौच,मिज्या, तपो, दान, स्वाध्यायो,पस्थनिग्रहौ ।
व्रतो,पवासौ, मौनं, च स्नानं च नियमा दश ॥
नाद्याच्छूद्रस्य पक्वान्नं विद्वानश्राद्धिनो द्विनः ।
आददीताममेवास्मादवृत्तावेकरात्रिकम् ।।
उत्तमैरुत्तमर्नित्यं सम्बन्धानाचरेत्सदा ।
निनीषुः कुलमुत्कर्षमधमानधास्त्यजेत् ।।
गुरून् भृत्यांश्चोजिहीर्षन् आर्चिष्यन् देवताऽतिथीन् ।
सर्वतः प्रतिगृह्णीयाद् नतु तृष्येत्स्वयं ततः ॥
येनास्य पितरो याता येन याताः पितामहाः ।
तेन यायात्सता मार्ग तेन गच्छन् न रिष्यति ॥
एषोदिता गृहस्थस्य वृत्तिर्विप्रस्य शाश्वती।
स्नातकवतकल्पश्च सत्त्वद्धिकरः शुभः ।।
अनेन विप्रो वृत्तन वर्तयन् वेदशास्त्रवित् ।
व्यपेतकल्मषो नित्यं ब्रह्मलोके महीयते इति ॥
स्वायुष्येत्यादेमनुग्रन्थस्यायमर्थः । वयसो बाल्यादेः । कर्मणो
यागादेः।अर्थस्य धनस्य। वेषं सारूप्यम् । तदनुरूप आत्मन्युत्कर्षप्रत्ययः ।
शास्त्राणि विद्यास्थानानि । नियमान् व्याख्यानानि । नियम्यते एभि-
रर्थ इति व्युत्पत्तेः । शक्तः अर्जनसमर्थः । वत्सतन्त्री गोक्त्सबन्धनं,
दामेति नारायणः । वत्सशब्दो जातरूपलक्षणमिति हरदत्तो नोपरि-
वत्सतन्त्री गच्छेदिति गौतमस्मृतेर्व्याख्यायाम् । धारणा निश्चयः । ना-
श्नीयादिति । सार्धमेकपात्रे इति नारायणः। एकस्मिन् काले भोजनं
निषिध्यत इति व्याख्यानान्तरं हरदत्तेन कृतम् । यत्तु माधवीये
अङ्गिरोवचनम्-
ब्राह्मण्या सह योऽश्नीयादुच्छिष्टं वा कदाचन ।
न तस्य दोषमिच्छन्ति नित्यमेव मनीषिण इति ।
७ ९ चतुर्विशतिमतसंग्रहः तद्विवाहविषयामिति विज्ञानेश्वरस्मृत्यर्थसारप्रभृतयः । एतेन ब्राह्मण्या भार्यया सार्द्ध क्वचित् भुजीत वाऽध्वनि । अधोवर्णस्त्रिया साई भुत्का पतति तत्क्षणाद् । इति माधवोदाहृतमादित्यपुराणवचनमपि व्याख्यातम् । कचिद्विवाहे अब्वनि वेत्यर्थात् । इदमपि सर्वथा दोषाभावपरं न भवति । किन्तु दोषाल्पत्वपरमिति माधवाचार्याः। क्षुवती क्षुतंकुर्वतीम् । दुक्षु शब्दे । नाञ्जयन्तीमिति । एतच्च न भायामात्रविषयं किन्तु स्त्रीमात्र- परम् । भार्यया सहभोजनम्,अजयन्त्यवेक्षणं च वर्जयेदिति गौतमस्वर- सादिति मतान्तरं हरदत्तेनोक्तम् । प्रस्नुवन्तीं पुत्रं पाययन्तीमित्यर्थः । नुम् छान्दसः । ष्णुप्रस्नवणे । एकवासा नग्नो वा नाद्यान्न च स्ना- यादिति नारायणः । जीर्ण शीर्णे प्राकारादौ तथा देवतायतने चेत्यर्थः । अतो यजमानेनाऽनामन्त्रितः । इदं चात्विज्यादिलोभेन न गच्छेदित्येवं परम् । दिदृक्षया गमने तु न दोषः । तथाच गौतमः- न यज्ञमवृतो गच्छेद्दर्शनाय त कामत इति । गोष्ठे स्थाने । उद्धरेदिति उत्तरीयाहिः कुर्यादित्यर्थः । उद्धृ- तस्नेहं पिण्याकादि । तक्रे तु वचनाददोष इति नारायणः । हरद- तस्तु-उद्धृतस्नेहविलयनपिण्याकमथितप्रभृतीनि चानन्तवीर्याणि नाश्नी- यादिति गौतमवचनमुपादाय उद्धृतस्नेहे उपात्ताग्रमण्डे दधिपयसी, विलयनं नवनीतमलम् । यस्य मथनमात्रं नाम्बुसंसर्गः तदधिमथनम् । उद्धृतनवनीतं तकं तु आश्यमनाश्यं वेति चिन्त्यम् । आचारस्त्व- शनमेवेति । तक्रं त्युदाश्चिन्मथितं पादाम्ब्वर्धाम्बुनिर्जलमिति । नैघण्टुका इति व्याख्यत् । अतिसौहित्यम् अत्यशनम् । करकै मृत्कमण्डलुम् । बालातपः सङ्गवकालातपः, शरदि पुनःसंधुक्ष- णादादित्यस्य बाल्यं तदातपो बालातप इत्यन्ये । करजैनखैः । कर्म कारीयर्यादिकाम्यम् । निष्फलं फलसंकल्पशून्यं न कुर्यात् । वृथाचेष्टा त्व । चतुर्विशतिमतसंग्रहः स्मिन्नेव प्रकरण पृथनिषिद्धा। न कुर्वीत वृथाचेष्टां न वायञ्जलिना पिबेदिति । बहिर्माल्यं शिखावेष्टनेन । सर्वथैवेति रथादियोजनेन तु गोभिर्यानम् ईषद् गर्हितमिति तात्पर्यम् । तिलमंबद्धं तिलप्रकृतिकं तैलाद्यपि । अस्तमय प्रति । तदनन्तरम् । संविशेत् शयीत । कपालिका घटाग्रंशः। कार्यासस्यास्थि बीजम् । मतिं दण्डनीतिशास्त्रादिविषयम् । अयं च साक्षादपदेशे निषेधः श्रावयेच्चतुरो वर्णान् कृत्वा ब्राह्मणमग्रत इति । ब्राह्मणद्वारकोपदेशस्याभ्यनुज्ञानात्। नोच्छिष्टमिति । अत्र हरदत्तः- गृहस्थशूद्रविषयकोयमुच्छिष्टदाननिषेधः । उच्छिष्टमन्नं दातव्यं शूद्रायाट- हमेधिने । गृहस्थाय तु दातव्यमनुच्छिष्टं दिने दिने इति व्याघ्रवचनात् । एवं च गौतमीये दशमेऽध्याये उच्छिष्टासनं शिल्पत्तिश्चेति शूद्रधर्मेषु यत्पठ्यते तदपि अगृहस्थशूद्रपरमेवेति बोध्यम् इति आस्थितवान् । हविष्कृतामति यत आकृष्य हुतं हविस्तं पुरोडाशादिहविःशेषम् । नचास्येति पूर्ववत् । पूर्व दण्डनीत्यादिविषयिणी मतिन देयेत्युक्तम् । सम्प्रति धर्मादिविषयिणीत्यपौनरुक्तयम् । एतदिति शिर इत्यर्थः । ततः शिरसो विना। इदन्तु शक्तविषयम् । "आशरस्कं भवेत्स्नानं स्नाना- शक्तौ तु कर्मिणा" मिति स्मरणात् । केशग्रहान् परेण स्वाशर:केशग्रहान् । अङ्गं स्वाङ्गं न स्पृशेन म्रक्षयेत् । बभ्रुणः कपिलस्य प्राणिनश्छायाम् । श्राद्धं भुत्का तथा सामिषं भुत्का न सेवेत चिरं तत्र न तिष्ठेत् । भद्रं वस्तुतो यच्छोभनम् । भद्रमित्येवेति अभद्रमपीति भावः । तथाच गौतमः-अधर्नु धेनुभव्येति ब्रूयादभद्रं भद्रमिति । कपालं भगाल- मिति मणिधनुरिन्द्रधनुरिति । धेनुः पयास्विनी गौः अधेनुस्तद्विपरीता । तामधेनुभव्येति ब्रूयात् । न पुनरधेनुरिति । धेनोभव्ये इति वार्ति- कोक्तो मुम् आर्षत्वान्नेति बोध्यम् । अभद्रमपि वस्तु भद्रमित्येव ब्रूयात् । कपालं ब्रुवन् भगालमिति ब्रूयात् । इन्द्रधनुरिति ब्रुवन् माण- ।
चतुर्विशतिमतसंग्रहः ८१ धनुरिति ब्रूयादिति हरदत्तो व्याख्यत् । अतिकल्पम् उदयास्त- मये मैत्रं विष्ठोत्सर्गम् । मित्रदेवताप्रसाध्यत्वात् । वक्ष्यति हि मनुः-मित्रमुत्सर्ग इति । अञ्जनं तैलाभ्यङ्गम् । अहिंसादममिति समाहारद्वन्दः । स्पृहाया अभावः अस्पृहम् अर्थाभावेऽव्ययीभावः । स्वा- ध्यायसहित उपस्थनिग्रह इति मध्यमपदलोपी समासः । अश्राद्धिनः श्रद्धारहितस्य । येनास्येति । यत्र व्याख्यातॄणां श्रुत्यर्थे विप्रतिपत्ति- स्तद्विषयकमेतत् । सतां मार्ग सदाचारविषयम् । न रिष्यते न हिंस्यते। रुषरिषहिंसायां कर्मणि लट् । अनेन विम इति । ब्रह्मचारिणोपि अ- विरुद्धानि स्नातकत्रतान्येतेन प्राप्यन्ते । अत एव नेक्षतोद्यन्तमित्यनेन स्नातकप्रकरणस्थेन विशेषेण भास्करालोकननिषेधस्य ब्रह्मचारिमक- रणे सामान्यतः श्रुतस्याप्युपसंहारमाह विज्ञानेश्वरः। मनुग्रन्थस्य भास्करालोकसामान्यनिषेधस्य तद्ग्रन्थस्थेनैव विशेषेणोपसंहारे सामा- न्ये वा वैय्यर्थ्य स्यादिति नात्रोपसंहार इति तु हरदत्तादयः। एतब- तप्रकरणे च मनु, याज्ञवल्क्याभ्यामुपाकर्मानध्यायायुक्तौ । अत एव ग्रहणाध्ययनप्रकरणाभावाद्धारणाध्ययनेप्यङ्गमुपाकर्म । गोभिलवाक्यं च धारणाध्ययनाङ्गत्वादित्यादि मागेवोदाहृतम् । एवं चानध्याया अपि धारणाध्ययनादिसाधारणाः । अतएव ब्रह्मयज्ञाध्ययनादौ अनध्याया- ध्ययनप्रतिप्रसवाः पूर्वोक्ताः सङ्गच्छन्ते । अत एव च श्वनकुलादीना- मन्तरागमने व्यहैकाहयोग्रहणाध्ययनधारणाध्ययनपरत्वेन व्यवस्था वि- ज्ञानेश्वरहरदत्तादिभिरुक्ता सङ्गच्छते । यत्तु प्रसङ्गलक्षणे तृती- यचरणे 'मन्त्राणां कर्मसंयोगे स्वधर्मेण प्रयोगः स्याद्धर्मस्य तनिमित्तत्वा' दित्यधिकरणे पर्वणि नाध्येतव्यमित्यादीनां प्रकरणाद् ग्रहणाध्ययना- इतेत्युक्तं तत्तु धारणाध्ययनाङ्गताग्राहकं नास्तीति कृत्वाचिन्तामनु- रुध्य । उपयोक्ष्यते च समानन्यायेषु भिक्षाचर्यादिषु न चैवं सिद्धान्ते कर्मकालेप्यनध्याये मन्त्रप्रयोगानुपपत्तिः । वाचनिकस्य प्रतिप्रसवस्य प्रागेवोदाहृतत्वादिति दिक् ।
८२ चतुविशतिमतसंग्रहः इदानीं गातमोक्तानि प्रागुक्केवन्तर्भूतानि स्नातकवतान्युच्यन्ते नवमे ऽध्याये । न रक्तमुल्वणमन्यधृतं वा वासो विभृयात् । रक्तं कुसु- म्भादिना । उल्बणं बहुमूल्यम् । अन्येन गुरुभिन्नेन धृतमिति हरदत्तः। न स्रगुपानही अन्यधृते इति विपरिणमय्य सम्बध्यते । निर्णिक्तमशक्तौ । अशक्तौ अन्यालाभे अन्यधृतं वासः स्त्रजमुपानहौ च निर्णिज्य धारयेत् । 'नपुंसकमनपुंसकेने' त्येकशेपैकवद्भावौ । न तिष्ठन्नुभृतोदकेनाचामेत् । एतेन जानुघ्ने जले तिष्ठतोप्याचमनमनुज्ञातमिति हरदत्तः । न शूद्राशुच्येकपाण्यावर्जितेन । शूद्रेण शुचिनापि, तथा अशुचिना ब्रा- ह्मणेनापि, तथा एकेन पाणिना शुचित्राह्मणेनापि यदुदकमावर्जितं तेन नाचामेत् । यद्यपि यत्स्वयं वामहस्तेनावर्जितं दक्षिणेनाचम्यते तथा तत्र हस्तद्वयस्याप्याचमने सम्बन्धाददोष इति हरदत्तः । नाकल्पां नारी- मभिरमयेत् । अकल्पाप अस्वस्थां न गच्छेत् । पादपादधावना सन्दी- स्थभोजनादीनि वजयेत् । पादेन पाश्न पादप्रक्षालनं, पीठिकास्थभोज- नं च वर्जयेदित्यर्थः । न प्रादृत्य शिरोऽहनि पर्यटेत , प्रादृत्य रात्रौ। रात्री प्रात्यैव पर्यटेदित्यर्थः । मूत्रोच्चारे च । मूत्रपुरीपं प्रातशिराः सन् कुर्या- दित्यर्थः । सोपानत्कश्वाशनाभिवादननमस्कारान् वर्जयेत् । उपानच्छब्दः पादुकाधुपलक्षणमिति हरदत्तः । न पदासनमपकर्षेन शिश्नोदरपाणि- वाक्चापि चपलाति कुर्यात् । अपकर्षणमात्मसमीपप्रापणम् । पाणिचापलं शिल्पकर्मशिक्षा । चक्षुश्चापलं नृत्तादिदिदृक्षयेति हरदत्तः । न कुलङ्कला स्यात् । कुलमेव कुलं यस्य स कुलकुलः। मुमागमश्छान्दसः । अन्यत्राध्यय- नादौ लभ्यमाने स्वकुल एव न तिष्ठेदित्यर्थः । एते च स्नातकधर्मा अ- विरुद्धाः शूद्रेणाप्यनुष्ठेया इति केचित् । तथाच याज्ञल्क्य:- शूद्रस्य द्विजशुश्रूषा तया जीवन् वणिग्भवेत् । शिल्पैर्वा विविधैर्जीवेद द्विजातिहितमाचरन् । भारतिः शुचिर्भूत्यभत्ती श्राद्धक्रियारतः । नमस्कारेण मन्त्रेण पञ्चयज्ञान्न हापयेदिति । ।
MEANIDENENINETRusalaminemarwa - चतुर्विंशतिमतसंग्रहः अत्र श्राद्धानि क्रियाश्चेति द्वन्दः । क्रियाः स्नातकवतानि इति विज्ञानेश्वरः । एतेन गौतमे दशमेऽध्याये शूद्रश्चतुर्थो वर्ण इत्युप- क्रम्य श्राद्धकर्मभृत्यभरणं स्वदारतुष्टिरिति यदुक्तं तत्रत्यं श्राद्धकर्मप- मपि समाहारद्वन्द्वरूपं, कर्मपदं च स्नातकवतोपसंग्राहकमिति विज्ञा- नेश्वरेण ध्वनितम् । हरदत्तस्त्वाह-श्राद्धक्रियेति श्राद्धकर्मेति च श्राद्धमेवोच्यते नतु द्वन्द्वः। स्नातकधर्माणायप्रकृतानां क्रियाशब्दमात्रेणा- लाभात् । प्रत्युत स्मृतिविरोधः स्नातकवतलोपेषु प्रायश्चित्तं विधीयते । राजबामणयोरेव नेतरषां कथञ्चनेति । वचनात् । अतएव वैश्यस्यापि नैते धर्माः । किंतु ये वैश्यं प्रति विशिष्य स्मृतिपूतास्तावन्त एवेति । गौतमीयनवमाध्याये मिताक्ष- रायां स्फुटतरमिदम् । युक्तं चैतत् । शूद्रधर्मताभ्युपगमे संकीर्णेष्वपि 'शूद्राणां तु सधर्माणः सर्वेऽपध्वंसजाः स्मृता' इत्यपि देशात्तत्प्राप्तौ उदाहृत- स्मृतनिविषयतापत्तेः । यानि तु व्रतेषु पठितान्यपि पुनरन्यत्र पठ्यन्ते तेषां यथायथं शूद्रादिपु प्राप्तिरिष्टैव । “यथा नाहितं नानृतं चै" तिव्रतेषु पठितम् । “सत्यं दया दमः शौच"मिति च साधारणधर्मेषु । अनृतपति- पक्षभूतं सत्यमुच्यमानं शूद्रादीनां भवत्येव । यथा शूद्रेषु दासगोपालादी- नामभोज्यान्नता मन्वादिभित्रतेषु पठिता गौतमेन तु नवमे व्रतान्य- भिधाय सप्तदशे भक्ष्याभक्ष्यप्रकरणे पठिता वैश्यस्यापि भवत्येव । एवं त- त्रैवान्येपि व्रतान्तरगताः पठ्यन्ते । अत एकत्रतव्याख्यानशेषे नारायणः- अन्यत्रोक्तानामपीह पुनरभिधानं संकल्पनात्प्यर्थ व्रतलोपनिमित्तकत्र्य- हाभोजनादिप्रायश्चित्तप्रास्यर्थ चेति । अत्र चाश्वलायनोक्तानि न नक्तं स्नायादित्यादीनि समावर्तनप्रकरणपाठातदङ्गानि तत्प्रयोगमध्य ए- वानुष्टेयानीत्युक्तम् । यानि तु नेक्षेतोद्यन्तमित्यादिना मन्वादिभिरुक्तानि तानि पुरुषार्थानि । तथाच प्रयोजकलक्षणे प्रथमचरणे जैमिनिसूत्रम् 'तदुत्सर्गे कर्माणि पुरुषार्थाये' त्यादि । , चतुर्विशतिमतसंग्रहः उपक्रमे शृतं ब्रह्मचारिव्रतपदं यतः । तदन्वयवलात्कर्मावशेषोतोत्र चोद्यते ॥ तेन लक्षणयाप्यत्र पर्युदासः सच क्रतोः । बहिःश्रुतफलाकाङ्क्षी पुरुषार्थत्वमृच्छति ।। श्रुत्त्यादिक्रतुसंबन्धे प्रमाणं नात्र विद्यते । पुरुषापेक्षितार्थत्वं विधिना चावबोधितम् ॥ साक्षादपेक्षितं तस्य फलमेव नतु क्रतुः । अतः फलार्थता तच्च वाक्यशेषादघक्षयः ॥ इति पार्थसारथिश्च। वाक्यदोषादिति । "एतावताहैनसाऽयुक्तो भवती" त्येवंरूपादित्यर्थः । यद्यप्यस्मिन्नाधिकरणे ब्रह्मचारिधर्मभृता- जापतिव्रतान्तर्गतं नेक्षेतोधन्तमित्येतदुदाहृत्य विचारितं तथापि समान- न्यायत्वात् स्नातकव्रतान्तर्गतेप्येतत्सिद्धान्तप्रवृत्तिरित्याशयेनेदमुच्यते । एवञ्च ब्रह्मचारिणं प्रत्यविशेषेण सूर्यदर्शनं निषिध्यत इति हरदत्तोक्तिः पार्थसारथिप्रभृतिग्रन्थैविरुध्यत इति चिन्त्यम् । एवस्थिते कदा संकल्प इत्याकाङ्क्षायां नोद्यन्तमिति शतृप्रत्ययेनादित्योदयस्य निमित्त- त्वप्रतिपादनात्तत्तदवस्थे आदित्ये सति तदीक्षणाभावः संकल्पयित- व्यः । नोधन्तमीक्षेन्नास्तं यन्तमित्यादि तन्त्ररत्ने स्थितम् । तत्र प्राचा श्लोकोप्युदाहृतः त्रिसंध्यं जपतानेन सावित्री नेक्षइत्ययम् । आदित्यं ध्यायता कार्यः संकल्पः पापनाशन इति ॥ अत्र वदन्ति । शतृप्रत्ययो लटः शतृशानचावित्यनेन लक्षणहेत्वो- रित्यादिना च विहितः । तत्राय हेतावेवेत्यत्र प्रमाणाभावः। किंच हेतुः फलमिति व्याख्यायामजयन् वसतीति वैयाकरणैरुदाहृतत्वादर्जनफलक- वासवानिति च विवरणात्मकृते तदन्वयः । अर्थलक्षणपरिचायकमिति व्याख्याय शयाना भुञ्जते यवना इति चोदाहत्य शयनोपलशितभोजन- कार इति विवरणात् तद्वदिहापीत्यभिमतम् । तर्हि उदयपरिचायितं चतुर्विशतिमतसंग्रहः ८५ यदीक्षण तदभावसंकल्पस्य व्रतान्तरसंकल्पकाले सकृदेव चानुष्ठाने को विरोधः । नाप्यत्र शतृवलाद्वर्त्तमानताप्रतीतिः । अर्जयन्नवात्सीद्वत्स्य- ति चेत्यादिवत् । तथाच पाणिनिः- धातुसंबन्धे प्रत्यया” इति असूत्र- यत् तदा उत्पत्स्यमानेपि सोमयाजी पुत्रो भवितेत्यादि च भाष्यादावु- दाहृतम् । वसन् ददर्शेत्यादि प्रयोगाश्चैवं सङ्गच्छन्ते । किंच, नाश्नीयाद्भार्यया सार्द्ध नैनामीक्षेत चाश्नतीम् । क्षुवतीं जृम्भमाणां च नचासीनां यथासुखम् । नाञ्जयन्ती स्वके नत्रे- इत्यादावपि तथात्वापत्तौ वहुव्याकुलीस्यात् । तस्मात्समावर्त्तन- प्रयोग समाप्य पुरुषार्थानीमान्यपि व्रतानि संकल्पयेदित्येव युक्तम् । नच प्रत्यहं संकल्प इत्यंशे तदुत्सर्गइत्याद्यधिकरणस्य कश्चिद्व्यापारोस्ति क्रत्वर्थत्वं पूर्वपक्षीकृत्य पुरुषार्थतासमर्थनमात्रेणाधिकरणपर्यवसानात् । व्याख्यातृवचसश्च प्रासङ्गिकस्य व्याकरणादिविरोधे उपेक्षणीयत्वादि- ति दिक् । इति स्नातकव्रतनिरूपणम् । अथ क्रमप्राप्तो विवाहः। सच त्रिविधेनापि वेदव्रतोभयस्नातकेन समावर्तनादविलम्बेन कर्त्तव्यः अनाश्रमी न तिष्ठेत दिनमेकमपि द्विजः । इति दक्षवचनात् । तत्र मूलम्- समावर्त्य सवर्णा तु लक्षण्यां स्त्रियमुद्रहेदिति । लक्षण्यां बाह्याभ्यन्तरलक्षणान्विताम् । तत्र बाह्यानि लक्षणान्याह मनु:- अव्यङ्गागी सौम्यनाम्नी हंसवारणगामिनीम् । तनुलोमकेशदशनां मृदङ्गीमुद्रहेस्त्रियमिति ।। यस्याअङ्गस्याङ्गेषु अगुल्यादिष्वपि वैगुण्यं नास्ति सा अव्यङ्गाङ्गी। PRIMANITA वान्याह सएव- HAMITRINJRONE चतुर्विशतिमतसंग्रहः नोकपिलां कन्यां नाधिकाङ्गी न रोहिणीम् । नालोमिकां नालिलोगां न वाचाला न पिङ्गलाम् ॥ नक्षवृक्षनदीनाम्नी नान्त्यपर्वतनामिकाम् । न पक्ष्यहिमेष्यनाम्नी नच भीपणनामिकामिति ॥ कपिला रक्ततण्डुलवर्णा । पिङ्गला अग्निवर्णा । अन्त्यनाम्नी म्लेच्छनाम्नीति माधकः। अन्त्यनाम्नी चाण्डालीत्यादिनाम्नी । पर्व- तनामिका विन्ध्येत्यादिनामिका । प्रेष्यनाम्नी दासीत्यादिनाम्नी। भी- पणनामिका चामुण्डेत्यादिरिति नारायणः । विष्णुपुराणे- न मश्रूव्यञ्जनवती नचैव पुरुषाकृतिम् । न घर्घरस्वरां क्षामां तथा काकस्वरां नच ॥ यस्याश्च रोगशे जङ्के गुल्फो यस्यास्तथोन्नतौ । गण्डयोः कूपको यस्या हसन्त्यास्तां च नोव्हेदित्यादि । आन्तराणि तुलक्षणानि आश्वलायनगृवेउतानि। दुर्विज्ञेयानि लक्षणान्यष्टौ पिण्डान कृत्वा "ऋतुमग्रे प्रथमं जज्ञे ऋते सत्यं प्रतिष्ठितम् । यदियं कुमार्यभिजाता तदियमिह प्रतिपद्यतां यत्सत्यं तदृश्यता" मिति पिण्डानभिमन्व्य कुमारी यादेपामेकं गृहाणेति । क्षेत्राचेदुभयतः सस्यात् गृह्णीयादन्नवत्यस्याःमजा भविष्यतीति विद्याद् ,गोष्ठात्पशुमती, वेदिपुरी- पाद्ब्रह्मवर्चस्विनी,अविदासिनो दाविसम्पन्ना,देवनात्कितवी,चतुष्प- थाद्विपत्राजिनी,ईरिणादधन्या,श्मशानात्पतीघ्नीति । अस्य वृत्तिकृदुक्तो- थः । लक्षणानि दुर्विज्ञेयानीति कृत्वा एवं परीक्षते । क्षेत्रादिभ्योऽष्टभ्यो मृदमाहत्याष्टौ पिण्डान् कृत्वा ऋतमित्यनेन मृत्पिण्डानभिमन्व्य कुमारी ब्रूयात । यदेकस्मिन् वत्सरे द्विः फलति तदुभयतः सस्यं क्षेत्रम् । अप- वृत्ते कर्मणि या वेदिः सा वेदिपुरीषम् । अविदासी हुद्रः, न विदस्यति इति व्युत्पत्त्या अशोष्यो द्रः । तसुदसुउपक्षये णिनिः । देवनं द्यूत- स्थानम् । द्वौ प्रव्रजतीति विश्वाजिनी । माधवस्तु-विविधं प्रकर्षण व्रजतीति विप्रवाजिनी स्वैरिणीत्यर्थ इत्याह । यत्रोप्तं न परोहति तदी- HAREL wheneraandMANIRNARMANEINDIAN MARAGReater चतुर्विशतिमतसंग्रहः रिणम् । इयं च लक्षणपरीक्षा कुलपरीक्षानन्तरं बोध्या। तथाचाऽश्वला- मनः-कुलगने परीक्षेनेति । कुलपरीक्षा च सदाचारादिगुणवत्तया हीनक्रियत्वादिदोषहीनतया च । तत्र दोघानाह मनु:- स्त्रीसम्बन्धे दशैतानि कुलानि परिवर्जयेत् । हीनक्रियं निष्पुरुषं निश्च्छन्दो लोमशार्शसम् ॥ क्षय्यामयाव्यपस्मारिस्वित्रिकुष्टिकुलानि चेति ।। हीनक्रियं योगादिक्रियारहितम् । निष्पुरुषं स्त्रीमात्रशेषम् निश्च्छन्दोऽध्ययनवर्जितामिति माधवः । याज्ञवल्क्या- अविप्लुसब्रह्मचर्यो लक्षण्या स्त्रियमुद्वहेत् । अनन्यपूर्दिको कान्तामसपिण्डा यवीयसीम् ॥ अरोगिणीं भ्रातृमतीमसमानाईगोत्रजामिति । अविश्लुतं ब्रह्मचर्य यस्य सः। विप्लबे सति तु कृतप्रायश्चित्त इति बोध्यम् । अनन्येति । या दानेनोपभोगेन वा. पुरुषान्तरपूर्विका न भव- ति ताम् । अनेन सप्त पुनर्भुवो व्यावय॑न्त । तथाचाह बोधायन-वा- ग्दत्ता मनोदत्ता अग्नि परिगता सप्तमं पदं नीता भुक्ता गृहीतगर्भा प्रसूता चेति सप्तविधा पुनर्भूस्तां गृहीत्वा न प्रजां न धर्म विन्देदिति । अत्र वाग्दत्तामनोदत्तयानिषेधः पूर्वस्य निर्दोषत्वे बोध्यम् । अतएव नारदः- दत्तां न्यायेन यः कन्यां वराय न ददाति ताम् । अदुष्टश्चेद्वरो राज्ञा स दण्ड्यस्तत्र चोरवदिति ॥ तत्रैव दण्डं विधत्ते । दुष्टे तु पूर्ववरे वाग्दत्तापि वरान्तराय देया । तथाच पराशर:- नष्टे मृते प्रव्रजिते क्लीवे च पतिते पतौ । पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयत इति ॥ अस्याः, वाग्दानानन्तरं प्राणिग्रहणात्याक् पत्तौ सम्भावितो- त्पत्तिकपतित्वे पूर्वस्मिन् वरे नष्टे सति लक्षणया दूरदेशगमनेनाऽपरिज्ञा- चतुर्विंशतिमतसंग्रहः awarenewmomsunamin Niwents Hamil तवृत्तान्ते सति । तथाच नारद:- परिगृह्य तु यः कन्यां नरो देशान्तरं व्रजेत् । त्रीतून समतिक्रम्य कन्याऽन्यं वरयेदरम् ।। स्त्रीपुंसयोस्तु सम्बन्धादरणं प्राविधीयते । वरणाद् ग्रहणम्पाणः संस्कारोपि विचक्षणः ।। तयोरनियतं प्रोक्तं वरणं दोषदर्शनादिति ॥ परिगृह्य वाचा दत्तां स्वीकृत्य । त्रीनृतूनिति । इदं च कन्याया अधार्यत्वे बोध्यम् । धार्यत्वे तु प्रदाय शुल्कं कन्याया गच्छेद्यः स्त्रीधनं तथा । धार्या सा वर्षमकं तु देयाऽन्यस्मै विधानत इति ॥ नारदेनैव वर्षम्प्रतीक्षाया अभिधानात् । स्त्रीपुंसयोरित्यादेरयमर्थः। स्त्रीपुंसयोः संसर्गालाक् त्रितयं क्रियते । वरणम्, पाणिग्रहणम्, सप्तपदीप्रक्रमश्चेति । तत्र वरणं नाम वरस्य सम्पदानत्वाय कन्याया दात्रा प्रार्थनम् । तदेव च वाग्दानम् । एवंस्थिते तयोः पाणिग्रहणसप्त- पदप्रक्रमणयोः पूर्वभावि यदरणं तदनियतम् अनियामकमित्यर्थः । तयो- रेव भार्यात्वोत्पादकत्वादिति भावः । तथाच मनु:- पाणिग्रहणमन्त्रैस्तु नियतं दारलक्षणम् । तेषां निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पदे इति ॥ दोषदर्शनादिति वाक्यशेषस्यायमर्थः । वरणस्यानियामकत्वमपि पूर्ववरस्य दोषे सत्येवेति । यदि तु अन्यस्मै दत्तायां पूर्ववरोप्यायाति तदाऽनूढां तां लभते । ऊढायां तु स्वदत्तं द्रव्यमेव लभते नतु कन्याम् । तदाह कात्यायन:- अनेकेभ्योपि दत्तायामनूढायां तु तत्र वै । पुरागतश्च सर्वेषां लभते तदिमां सुताम् ॥ अथाऽऽगच्छेत वोढायां दत्तं पूर्ववरो हरेदिति । तदेवं नष्टे इति व्याख्यातम् । एवं मृतेपि । तथाच वसिष्ठः- -- mona चतुर्विंशतिमतसंग्रहः MANORAMANHARIHARAN HEARIROHI । अद्भिर्वाचा च दत्ताया म्रियेतादौ वरो यदि । नच मन्त्रोपनीता स्यात्कुमारी पितुरेव सेति ॥ मन्त्रोपनयनं पाणिग्रहणादिकं विना वाचा दानमिवाद्भिरपि दानं न भार्यात्वोत्पादकमित्यर्थः । अत एव यमः- नोदकेन नवा वाचा कन्यायाः पतिरुच्यते । पाणिग्रहणसंस्कारात्पतित्वं सप्तमे पदे इति ॥ तथा प्रव्रजिते कृतसंन्यासे । क्लीवे चेति । चकारादन्त्यजाती- यादग्रहणम् । तथाच कात्यायनः- स तु यद्यन्यजातीयः पतितः क्लीव एव वा। विकर्मस्थः सगोत्रो वा दासो दीर्घामयोपि वा ।। ऊढापि देया साऽन्यस्मै सहावरणभूषणेति ॥ अत्रोढापीत्यपिशब्दः कौमुतिकन्यायेन वाग्दत्ताया एवाऽन्यस्मै दानमाचष्टे नतूढायाः । अन्यथा सगोत्रोढाया अपि पुनर्विवाहमसक्ती मातृवत्परिपालयेदिति शास्त्रं विरुध्यते । यत्तु- यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः । तामनेन विधानेन द्विजो विन्देत देवर इति । मनुनोक्तम् ॥ यच्च- अपुत्रां गुर्वनुज्ञातो देवरः पुत्रकाम्यया । सपिण्डो वा सगोत्रो वा घृताभ्यक्त ऋतावियात् । आगर्भसम्भवाद्गच्छेदन्यथा पतितो भवेद् । इति याज्ञवल्क्येनोक्तम् । तद्देवराच मृतोत्पत्तिरिति कलि- निषिद्धेषु प्रागेव गणितम् । यदपि- उद्वाहितापि सा कन्या नचेत्सम्पाप्तमैथुना । पुनः संस्कारमर्हेत यथा कन्या तथैव सेति । नारदेनोक्तम् । तदपि कलौ निषिद्धम् । ऊहायाः पुनरुद्वाह इति । नच कलिनिषिद्धस्यापि युगान्तरीयधर्मस्यैव नष्टे मृत इत्यादिपराशर- ANDS RabindneneralendarNepalChenna mausam चतुर्विंशतिमतसंग्रहः वाक्यं प्रतिपादकमस्त्विति वाच्यम् । कलावनुष्ठेयान् धर्मानेव वक्ष्या- मीति प्रतिज्ञाय तद्ग्रन्थप्रणयनादिति दिक्। तदेवमनन्यपूर्विकामिति पदं व्याख्यातम् । कान्तां कमनीयाम्, उद्बोढुमनोनयनानन्दकारिणीम् । अत एवापस्तम्बः-यस्यां मनश्चक्षुषोर्निबन्धस्तस्यामृद्धिरितिाअसपिण्डामिति। सपिण्डता च सप्तपुरुषपर्यवसायिनी। तत्रैकः पिण्डदाता । त्रयः पिण्डभाजः पितृपितामहप्रपितामहाः । त्रयो लेपभाजः वृद्धप्रपितामहाद्याः । तथाच मत्स्यपुराणम्- लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः । पिण्डदः सप्तमस्तेषां सापिण्ड्यं साप्तपौरुषमिति ॥ अयं भावः, सप्तानां पुरुषाणामेकपिण्ड क्रियानुप्रवेशः सापिण्ड्यम् । तथाच देवदत्तस्यैकस्य स्वकीयपित्रादिभिः षड्भिः सह सापिण्ड्यम् । तथा पुत्रादिभिः षड्भिरिति । नन्वेवं भ्रातृपितृव्यादावसापिण्ड्यापत्तिरिति चेत, अत्राह माधव:- उद्देश्यदेवतैक्येन क्रियैकत्वं विवक्षितम् । देवदत्तकर्तृकक्रियायां ये देवतात्वेनानुप्रविशन्ति तेषां मध्ये य: कश्चिद्भातृपितृव्यकर्तृकक्रियायामप्यनुप्रविशत्येवेति सापिण्डयसम्भवः । एवञ्च भार्याणामपि भर्तृकर्तृकपिण्डदानक्रियायां सहकर्तृत्वात्सापिण्डय- मिति । सोयं निर्वाप्यसापिण्डयपक्षः । नन्वस्मिन्पक्षे गुरुशिष्यादिरपि सपिण्डः स्यात् पिण्डनिर्वपणे उद्देश्यत्वादिति चेद् । अत्र केचित्- गायच्या उपदेष्टुश्च कन्यां नैवोद्वहेविजः । गुरोश्च कन्यां शिष्यो वा तत्सन्तत्यापि नेष्यते ॥ पुरुषत्रयपर्यन्तं भ्रात्रादे तदिष्यते । इति वचनमुदाहृत्य त्रिपुरुषसापिण्डयमिष्टमेवेत्याहुः । वस्तुतस्तु अवयवान्वयपक्षेपि अतिप्रसङ्गस्य तौल्यायोगरूढिबलेनैव च परिहर्त्तव्य- स्वान्नायं दोष उपन्यासाई इति दिक् । अपरे त्ववयवान्वयसापिण्डय- माहुः । तद्यथा, अवयवानां शरीरसम्बन्धिनां रक्तमज्जादीनां यः शरी- RAIN ।
चतुर्विंशतिमतसंग्रहः
रान्तरे प्रवेशः स एव सापिण्डयम् । पुत्रे पितुरवयवानां साक्षात्प्रवेशः,
पितामहाद्यवयवानां तु पितृद्वारा । अतः सापिण्ड्यम् । पितृपितृष्वस्त्रा.
दिभिरपि पितामहावयवान्वयात्सापिण्डयम् । पत्न्या सह एकशरीरारम्भ-
कत्वात् । यात्रोरपि एकशरीरारब्धैः स्वस्वपतिभिः सह एकशरीरार-
म्भकत्वेन । तदेवम् आधारतयाऽऽधेयतया वा एकशरीरावयवो यत्र नम.
विष्टः सोऽसपिण्ड इति फलितम् । नन्वेवमष्टमादावतिप्रसङ्गः कि-
म्बहुना विधातृशरीरान्वयो दुष्परिहर इत्याशङ्कय सङ्कोचो मन्वादिभिः,
तनिष्कर्षश्वाभियुक्तैः कृतः।
वध्वा वरस्य वा तातः कूटस्थाद्यदि सप्तमः ।
पञ्चमी चेत्तयोर्माता तत्सापिण्डयं निवर्त्तत इति ॥
कूटस्थो मूलपुरुषः, यतः सन्तानभेदः । एवं च मातृपितृद्वारक-
सापिण्डयवतीनां कन्यकानामियं सङ्ख्यासङ्कलना ।
उद्वोदुः पितरौ पितुश्च पितरौ तज्जन्मकृदम्पती
द्वन्द्वं तस्य चतुष्कमष्टकमतोप्यस्य क्रमात् षोडश ॥
वंशारम्भकदम्पतिप्रभृतिरित्यासप्तकक्ष्यन्तदा
एकैकान्वयकन्यकाः पितृकुले त्वासप्तकक्ष्यं ब्रुवे ॥ १॥
यद्यप्येकस्य बढ्योपि सुताः स्युस्तदपीह तु ।
सम्बन्धसाम्यादेकैव गणितेत्यवधार्यताम् ॥ २॥
एकस्मान्मिथुनात्सुतोऽथ दुहितो द्वन्द्वद्वयं तद्द्या-
तस्माद्वन्द्वचतुष्कमष्ट च तताऽतः षोडशाऽतो रदाः।
यावत्सप्तमकक्ष्यमग्निरुत वः कन्या इहैकान्वये
ता दन्तैगुणिता रसैकखदृशो वंशे सपिण्डाः पितुः ॥ ३ ॥
मातुर्जन्मददम्पती च मिथुनद्वन्दं तयोः सागरा-
स्तस्याः पञ्चमकक्ष्यमश्वमितिरित्येकान्वयः पुंसते ।
द्वन्द्वाद् द्वन्द्वयुगं ततोब्धय इतोऽष्टापञ्चकक्ष्यं शर-
क्षोण्यः सप्त गुणाः शराभ्रविधवो मातुः सपिण्डाः कुले ॥ ४ ॥
चतुविशतिमतसंग्रहः । कुलदयस्य कन्यकायुता मिथः सपिण्डकाः । हिमांशुढग्धरादृशो विवाहकर्मवर्जिता इति ॥ अस्यार्थः, सप्तमपर्यन्तं पितृपक्षे वंशारम्भकाणां द्वन्द्वानां सङ्ख्या द्वात्रिंशत् । तथाहि । वरः प्रथमः। तन्मातापितृरूपं द्वितीयकक्ष्यानिविष्टं इन्द्वमेकम् । पितुर्मातापितरौ तृतीयकक्ष्यानिविष्टमेकं द्वन्द्वम् । पितामह्याः पितामहस्य च जनकं चतुर्थकक्ष्यानिविष्टं द्वन्द्वद्वयम् । तद्धटकस्य व्यक्ति- चतुष्कस्य जनकं पञ्चमकक्ष्याप्रविष्टं द्वन्द्वं चतुष्कम् । तद्धटकस्य व्यक्त्य- ष्टकस्य जनकं षष्ठकक्ष्यानिविष्टं द्वन्द्वाष्टमम् । तद्धटकस्य व्यक्तिपोडशकस्य जनकं सप्तमकक्ष्याप्रविष्टं द्वन्द्वषोडशकमिति । तदेवमुक्तद्वात्रिंशन्मध्ये एकै- कस्य द्वन्द्वस्यान्वये सपिण्डाः कन्या:त्रिषष्टिः । तथाहि उक्तेष्वन्यतममेकं द्वन्दं कूटस्थभूते प्रथमकक्ष्यानिविष्टं तत्सुतो दुहिता च द्विनीयकक्ष्यायाम् । ताभ्यामुत्पन्न द्वन्दद्वयं तृतीयकक्ष्यायाम् । तद्धटकीभूतव्यक्तिचतुष्टयाटु- स्पनं द्वन्द्वचतुष्कं चतुर्थकक्ष्यायाम् । तद्भटकव्यक्त्यष्टकादुत्पन्न द्वन्द्वाष्टकं पञ्चमकक्ष्यान्तर्गतम् । तद्धटकव्यक्तिषोडशकादुत्पन्नं द्वन्द्वषोडशकं षष्ठ- कक्ष्यान्तर्गतम् । तद्धटकद्वात्रिंशद्वयक्तिजनितं द्वात्रिंशद्वन्द्वात्मकं सप्तमक- क्ष्यायाम् । तदेवमुक्तायाविषष्टेः पूर्वोक्तद्वात्रिंशता गणनायां षोडशभिरधि- का द्विसहस्री पितृवंशे फलिता भवत्ति । मातृवंशे तु आरम्भकद्वन्द्वानि सप्त । तथाहि, मातुः पितृरूपमेकं द्वन्द्वम्, वरातृतीयकक्ष्यानिविष्टम् । सद्धटकव्यक्तिचतुष्टयस्य जनकं द्वन्द्वद्वयं चतुर्थकक्ष्यानिविष्टम् । तद्धटकव्य- क्तिचतुष्टयस्य जनकं द्वन्द्वचतुष्टयं पञ्चमकक्ष्यायामिति । उक्तस्य द्वन्द्वसप्त- कस्य मध्ये एकैकस्य द्वन्द्वस्यान्वये सपिण्डाः कन्याः पञ्चदश । तथाहि, उक्तेषु सप्तस्वन्यतमद्वन्दकूटस्थभूतं प्रथमकक्ष्यायाम् । तस्मात्पुत्रो दुहिता चेति द्वितीयकक्ष्यायाम् । तज्जन्यं द्वन्द्वयुगं तृतीयं तज्जन्यं चतुष्टयं चतु- र्थकक्ष्यायाम् । तज्जन्यमष्टकं पञ्चमकक्ष्यायामिति। तदा सा पञ्चदशा- नां पूर्वोक्तसप्तभिः गुणनिकायां पञ्चोत्तरं शतं फलितम् । तदेव पितृ- कुलान्तर्गतायाः षोडशाधिकद्विसहस्रयाः मातृकुलान्तर्गतपञ्चाधिकशतेन ।
चतुर्विशतिमतसंग्रहः
सङ्कलनायाम् २१२१ हिमांशुग्धरादृशः एकविंशतिसहितशताधिका-
द्विसहस्री फलिता भवतीति । सैपा विवाहकमणि वर्जनीया । तथाच
मातृतः पञ्चमादूर्ध्व पितृतः सप्तमात्तथा ।
गृहस्थ उद्वहेत्कन्यामन्यथा गुरुतल्पग इति ।
यतु विष्णुपुराणवचनम्-
पञ्चमी मातृपक्षात्तु पितृपक्षातु सम्ममाम् ।
गृहस्थ उद्हेत्कन्यां न्यायेन विधिना नृपति ।।
तत्र सप्तमी पञ्चमीमतीत्येत्यध्याहार्यम् । अन्यथा
पञ्चमात्सप्तमादूर्ध्वं मातृतः पितृतस्तथेति
याज्ञवल्क्यवचनविरोधात् ॥
सप्तमे पञ्चमे चैव येषां वैवाहिकक्रिया ।
क्रियापरा अपि हि ते सर्वत्राऽशुद्धतां गताः ॥
इति मरीचिवचनविरोधाच । यत्तु पैठीनसिनोक्तम्-पञ्चमी
मातृतः परिहरेत्सप्तमी पितृतः त्रीन् मातृतः पञ्च पितृतो वेति । तत्रायः
पक्षस्तावदविरुद्ध एव, त्रीन् मातृत इत्यादिद्वितीयपक्षस्तु अर्वातिषेधपर
इति विज्ञानेश्वरः । माधवस्त्वाह-अनुकल्पोयमिति । युक्तं
चैतत् । चतुर्विंशतिमतस्वरसात् । तथा मूलम्-
समावर्त्य सर्वणां तु लक्षण्यां स्त्रियमुद्हेत् ।
कुले महति सम्भूतां लक्षणैश्च समन्विताम् ।।
ब्राह्मेण तु विवाहेन शीलरूपसमन्विताम् ।
पञ्चमी सप्तमी चैव मातृतः पितृतस्तथा ।।
दशभिः पुरुषैः ख्यातां श्रोत्रियाणां महाकुलान् ।
उद्वहेत्सप्तमादूर्ध्वं तदभावे तु सप्तमीम् ।।
पञ्चमी तदभावे तु पितृपक्षेप्ययं विधिः ।
सप्तमी च तथा षष्ठी पञ्चमी च तथैव च ।
।
९४ चतुर्विंशतिमतसंग्रहः एवमुद्राहयत्कन्यां न दोषः शाकटायनः । तृर्तायां वा चतुर्थी वा पक्षयोरुभयोरपि । विवाहयेन्मनुः प्राह पाराशर्योगिरा यमः । असपिण्डा च या मातुरसगोत्रा च या पितुः ।। सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने । यस्तु देशानुरूपेण कुलमार्गेण चोदहेत् ।। नित्यं संव्यवहार्यः स्याद्वेदाचैतत्पदृश्यत इति । स्मृतिचन्द्रिकायां प्रयोगपारिजाते च । षत्रिंशन्मते- तृतीयां मातृतः कन्यां तृतीयां पितृतस्तथा । विवाहयेन्मनुः माह पाराशर्योगिरा यम इति । अत्र हि तदभावे त्वित्युक्त्या अनुकल्पत्वं स्फुटीकृतम् । असपिण्डा- चेति श्लोके पितुरसगोत्रा चेति चकारेणाऽसपिण्डेत्यनुकृष्यते । सा प्रशस्तेत्यनेन च पूर्वोक्तानामनुकल्पत्वमेव स्फुटीक्रयते । यस्त्वित्या- दिश्लोकेन तु तृतीयादिविवाहो देशाचारकुलाचाराभ्यां व्यवस्थित इति प्रतिपाद्यते । वेदाचतदिति वाक्यशषस्यायमर्थः । उक्तव्यवस्था, तृतीयादीनां परिणेयता च वेदे प्रसिद्धति । तथाच व्यवस्थापरा श्रुतिः-"तेन स्वाध्वन्तेवततरुनो अधिवोचत । मा नः पथः पित्र्यापान- वादधिदूरे नैष्टपरावत” इति । पित्र्यापितुरागतात् पथो दूर नोस्मान्मा नै- ट मा नयेति देवान् प्रति प्रार्थना। वेदाचेति चकारेण स्मृतिस्थां व्यवस्था समुचिनोति । तथाच मनुः-- येनास्य पितरो याता इत्यादि। शातातपोपि- मातृष्वसृसुतां केचित्पितृष्वसृसुतां तथा । विवहन्ति क्वचिद्देशे संकोच्यापि सपिण्डतामिति । बृहस्पतिश्च- उद्यते दाक्षिणात्यातुलस्य च सुता द्विजैरिति ।
चतुर्विंशतिमतसंग्रहः तृतीयादिविवाहः शतपथे दर्शपूर्णमासप्रकरणे प्रतीते । तस्माद् "समानादेव पुरुषादत्ता चायश्च जायताउत तृतीये संगच्छावहै चतुर्थे संगच्छावहै" इति । समानादेकस्मात्पुरुषादत्ता भोक्ता आद्यः संभोग्यः द्वाउत्पन्नौ, तौ च मिथः संकल्पयतः कूटस्थमारभ्य तृतीये चतुर्थे वा संगच्छावहै विवहावहा इत्यर्थः। अत्र हि प्रमाणान्तराविरोधादर्थ- वादाद्विधिः कल्प्यते इति माधवादयः। मन्त्रवर्णाश्च “आयाहीन्द्र- पथिभिरीलितेभिर्यज्ञमिन्द्रस्तुत्यैर्मागर्नोस्माकमिमं यज्ञमायाहि आगत्य च भागधेय भार्ग अस्माभिः दीयमानं जुषस्व । तृप्ताम् आज्यादिना संस्कृतां वपां त्वामुद्दिश्य जहुः त्यक्तवन्तः। अत्र दृष्टान्तद्वयम् । यथा मातुलस्य योषा दुहिता योपिति स्वयपत्यानामिति वेदनिघण्टावभि धानात् दौहित्रस्य भागः, यथा पैतृष्वसेयी पौत्रस्य भागः, परिणेया तथेति । यत्तु शातातपेनोक्तम्- मातुलस्य सुतामूवा मातृगोत्रां तथैवच । समानप्रवरां चैव त्यत्का चान्द्रायणं चरेदिति ॥ यच्च । पैठीनसिना-पितृमातृष्वसुर्दुहितरः मातुलसुता धर्मतः भगिन्यस्ता वजयेदिति विज्ञायते इति ॥ यच्च व्यासेन- मातुः सपिण्डा यत्नेन वर्जनीया द्विजातिभिरिति । तदेतत्सर्व गान्धवादिविवाहोढाविषयम् । तथा च मतुः- पैतृष्वसेयीं भगिनीं स्वामियां मातुरेव च । मानुश्च भ्रातुराप्तस्य गत्वा चान्द्रायणं चरेत् ॥ एतास्तिस्रस्तु भार्यार्थे नोपयच्छेत्तु बुद्धिमानिति ।। अत्र हि भगिनीपदं पैतृष्वसेयादेः विशेषणम् । आप्तस्येति मातु- भ्रातुर्विशेषणम् । आप्तस्य संनिकृष्टस्य सपिण्डस्य गान्धवादिना ऊढाया मातुर्धातुरित्यर्थः । तथाच मार्कण्डेयपुराणम्- ब्राह्मादिषु विवाहेषु ऊढा या कन्यका भवेत् । ।
चतुर्विशतिमतसंग्रहः भतृगोत्रण कर्त्तव्या तस्या पिण्डोदकक्रिया । गान्धर्वादिविवाहेषु पितृगोत्रेण धर्मविदिति ॥ एवं च भगिनीति विशेषणमापि गान्धर्वादिना ऊढायाः अनिहत्ति- सापिण्डयाया लाभार्थम् । एवं च ब्राह्मादिविवाहेषु मातुलसुताया इव मातृष्वसृसुताया अपि विवाहो यद्यपि प्राप्नोति तथापि अस्यां लो- कविद्विष्टमिति निषेधान्न कार्यः। मातुलकन्यापरिणयस्तु प्रागुक्तश्रुतिस्मृ- त्युपदिष्टब्धदाक्षिणात्यशिष्टाचारात्कर्त्तव्य इति माधवाचार्याः ॥ सोप्ययं कलौ निषिद्धः॥ गोत्रान्मातृसपिण्डात्तु विवाहो गोवधस्तथेति । प्रामाधवोदाहृतब्रह्मपुराणवचनादिति केचित्।अतएव बोधा- यनेन पञ्चधा विप्रतिपत्तिर्दक्षिणतस्तथोत्तरतः यानितु दक्षिणतस्तान्य- नुव्याख्यास्यामः। यथैतत् अनुपतनं, सह भोजनं स्त्रिया सह भोजनं पर्यु- षितभोजनं मातुलपितृष्वसु९हितृगमनमिति।। तथोत्तरत ऊर्णा विक्रयः, सीधुपानम्, उभयतोदद्भिर्व्यवहारः, आयुधीयकं, समुद्रयानमिति । तत्रे- तरदितरस्मिन् कुर्वन् दुष्यतीतरादितरस्मिन् तत्तद्देशप्रामाण्यात् मिथ्यैत- दिति तु गौतमः । उभयमेव नाद्रियेत शिष्टस्मृतिविरोधदर्शनादिति अन्येनाऽनाचारत्वमेव प्रतिपादितम् । बृहस्पतिरपि उदूह्यते दाक्षिणात्यैर्मातुलस्य सुता द्विजैः । मत्स्यादाश्च नराः पूर्वे व्यभिचाररताः स्त्रियः ।। उत्तरे मद्यपाश्चैव स्पृश्या नृणां रजस्वलाः। सजाताथापि गृहन्ति भ्रातृभार्या सभर्तृकाम् ॥ सर्वदेशेष्वनाचारो रथ्याताम्बूलचर्वणमिति ॥ तस्मात्कलौ पितृतः सप्तमात मातृतः पञ्चमाचोर्च विवाहः प्रशस्त इति स्थितम् ॥ सपत्नमातामहकुलेप्यातिदेशिकात्सापिण्डयादविवाहः । तथाच सुमन्तुः-पितृपत्न्यः सर्वा मातरः तद्भातरो मातुलाः । तद्भगिन्यो मातृष्वसारस्त दुहितरश्च भगिन्यस्तद्पत्यानि भागिनेयानि। ।
। Mannabirmitte चतुर्विशतिमंतसग्रहः अन्यथा संकरकारिण्यः स्युरिति । अत्र च यावद्वचनं वाचनिकमिति न्या येन परिगणितेष्वेवातिदेशिकं सापिण्डयं नतु सप्तमपञ्चमपर्यन्तमिति के चित् । यवीयसीमिति । वयसा कायपरिमाणेन च न्यूनाम् । तत्र वयो- न्यूनताय । इयत्तामाह मनु:- त्रिंशद्वर्षों बहत्कन्यां स्यां द्वादशवार्षिकीम् । व्यष्टवर्षोऽष्टवर्षी वा धर्मे सीदति सत्वर इति । बृहस्पतिस्तु- त्रिंशद्वर्षो दशाब्दान्तु भार्या विन्देत नग्निकाम् । एकविंशतिवर्षों वा सप्तवर्षामवाप्नुयादिति । विष्णुपुराणे- वक्रेकगुणां भार्यामुद्रहत्रिगुणः स्वयमिति ॥ अरोगिणीमिति, राजयक्ष्मादिरोगरहिताम् । भ्रातृमतीमिति, पुत्रिकाकरणशङ्काव्युदासार्थम् । अतएव मनु:- यस्यास्तु न भवेद् भ्राता न विज्ञायेत वा पिता। नोपयच्छेत तां प्राज्ञः पुत्रिकाधर्मशङ्कयेति ।। यस्याः पिता पुत्रिकाकरणाभिप्रायवान्नवेति न ज्ञायेत तां नोपयच्छे- दित्यर्थ इति माधवः । अनेनापरिभाषितापि पितुरभिप्रायमात्रेण पत्रिका भवतीति गम्यते । तथाच गौत्तमः- अभिसन्धिमात्रात्पुत्रिकेत्येकेषां तत्संशयानोपयच्छेदभ्रातृकामिति । अभिसंधेराकारमाह मनु:- अपुत्रोऽनेन विधिना मुतां कुर्वीत पुत्रिकाम् । यदपत्यं भवेदस्यां तन्मम स्यात्स्वधाकरमिति ।। यत्र तु नैषा शङ्का तामभ्रातृकामप्युपयच्छतेति माधवादयः। वरेण सह संप्रतिफ्लौ तु पुत्रिकाकरणं स्पष्टमेक विज्ञायते । सा च संप्रतिप- त्तिया । केवलमातामहसंबंधित्वेनोभयसंबन्धित्वेन चेति । आधे दान- मन्त्रमाह वसिष्ठः- अभ्रातृकां प्रदास्यामि तुभ्यं कन्यामलकृताम् । ।
। चतुर्विशतिमतसंग्रहः अस्यां यो जायते पुत्रः स मे पुत्रो भविष्यतीति । द्वितीये त्वाह कात्यायन:- अपुत्रोहं प्रदास्यामि तुभ्यं कन्यां भवानपि । पुत्रार्थी चदिहोत्पन्नः स नौ पुत्रो भवेदिति ।। असमानापगोत्रजामिति । ऋषेरिदमार्षम् प्रवरः गोत्रप्रवर्तकस्य मुनेयावतको मुनिगण इत्यर्थः । तद्यथा । गोत्रप्रवर्तकस्य भरद्वाजस्य व्यावतकावङ्गिरोबृहस्पती । अतएवाङ्गिरसबाईस्पत्यभारद्वाजगोत्रोह- मिति प्रयुञ्जते । गोत्रं तु वंशपरम्पराप्रसिद्धम् । स्वसमाने आर्षगोत्रे यस्य तस्माज्जाता या न भवति तामित्यर्थः । यास्कवाधूलमौनमौकानां भिन्नगोत्राणामपि भार्गवैवैतहव्यसावेतसेति प्रवरैक्यान्न विवाह इति माधवादयः । वस्तुतस्तु वत्साटिषेणयोः प्रवरैक्यान्न विवाहः । न्या. मुष्यायणांसकृतीनां वसिष्ठैः सगोत्रत्वादविवाह इत्यसंकीर्णोदाहरणं बोध्यम् । एवं कपीनां गर्गादिभिरपि । मातृगोत्रापि केषां चिन्निषिद्धा । तथाच सत्यापाढवचनम् । मातृगात्रं माध्यन्दिनीयानामिति । गोत्ररिक्थे जनयितुन भजेद्दत्रिमः सुत- इति वचनादत्तकस्य यद्यपि पितृगोत्रा प्राप्ता तथापि नोद्वाह्या असगोत्रा च या पितुरिति मनुना पितृशब्दोपादानादिति स्मृतिच- न्द्रिका । प्रवरैक्ये विशेषमाह बोधायनः- पञ्चानां त्रिषु सामान्यादविवाहस्त्रिषु द्वयोः । भृग्वाङ्गिरोगणेष्वेवं शेषेष्वेकोपि वारयेदिति ॥ नच गोत्रप्रवरयोर्मिलितयोः पयुदासनिमित्तत्वं शङ्कयम् । प्रत्येकं दोषाभिधानात् । तदाह बोधायन:- सगोत्रां चेत् मत्योपयच्छेत् मातृ- वदेनां बिभृयादिति । मौतमश्च- असमानप्रवरैर्विवाह इति । शातातपोपि- परिणीय सगोत्रां तु समानप्रवरां तथा । कृत्वा तस्याः समुत्सर्गमत्तिकृच्छू विशोधनमिति ॥ । ।
चतुर्विंशतिमतसंग्रहः आपस्तम्ब:- MIND । समानगोत्रप्रवरां कन्यामूढ्वोपगम्य च । तस्यामुत्पाद्य चण्डालं ब्राह्मण्यादेव हीयते ॥ संग्रह- सगोत्रां समानप्रवरां कामतः परिणीय प्रजामुत्पाद्य गुरु- तल्पगत्तं चरेत् । प्रजां चण्डालेषु निक्षिपेत् । अकामतस्तप्तकृच्छ्रे प्रजाया भरद्वाजगोत्रान्तर्भावः । प्रजानुत्पादने चान्द्रायणम् । विवाहमात्रे कृच्छ्रम् । सर्वत्र व्रतान्तेऽष्टोत्तरशतं होमः । परित्यक्तां तां जननीवद्रक्षेत् । स्मृत्यर्थसारेपि- इत्थं सगोत्रसंबन्धविवाहविषये स्थिते । यदि कश्चिद्ज्ञानतस्तां कन्यामूढ्वोपगच्छति ।। गुरुतल्पव्रताच्छुध्येद्गर्भस्तज्जोऽन्त्यतां व्रजेत् । भोगतस्तां परित्यज्य पालयेज्जननीमिव ।। अज्ञानाचदैन्दवैस्तु शुध्येद्गर्भस्तु कश्यप इति । अथ मसंगागोत्रप्रवरनिर्णयः कथ्यते ॥ सप्तर्षीणामगस्त्याष्टमानां यदपत्यं तगोत्रमिति बोधायनादयः । एवं च यद्यपि गोत्रप्रवर्तकं जमदग्नि प्रति मूलपुरुषं सप्तर्षिबहिर्भूतं भृगुमधिकृत्याम्नातानां केवलभागवानामार्टिषेणादीनां स्वस्वगणेपि सगोत्रता न सिध्यति तथा केवलाङ्गिरसानां विष्णुवृद्धादीनां सङ्कृत्यादीनां च । गौतमभरद्वाजौ प्रति मूलभूतमजिरोमात्रमधिक- त्याम्नानात् । तथाप्यत्रेष्टापत्तिरेव । तथाच न स्तएवैषां गोत्रसगोत्रते इति प्रवरमञ्जरीकृतोक्तम् । अतएव स्मृत्यर्थसारेपि केवलभृग्वगिरो- गणेषु प्रवरैक्यमात्रनिबन्धनोऽविवाह इत्युक्तम् । प्रवरैक्यतः स्वं स्वं हित्वा गणमिति । अन्येतु यमधिकृत्य प्रवराम्नानं तद्गोत्रम्, ततश्था- टिषेणादीनधिकृत्य प्रवराम्नानात् सप्तर्षिबाह्यत्वेपि गोत्रत्वमस्त्येव । त- थाच सत्याषाढसूत्रे प्रवरान् व्याख्यास्याम इत्युक्त्वा तैर्गोत्राणीत्युक्तम् । नचैवं भृग्वनिरसो रित्यनुल्या जामदग्न्ययोर्वत्सविदयोः परस्परमिवाष्ट्रि- । ।
Janata १०० चतुविशतिमतसंग्रहः घेणादिभिरपि सगोत्रतापत्तिः । तत्र पर्युदासात् । तथाच बोधायन:- एकएव ऋषिर्यावत्प्रवरेष्वनुवर्तते तावत्समानगोत्रत्वमन्यत्र भृग्वङ्गि रसां गणादिति । भृग्वगिरोभिन्नस्यैकस्य ऋषेरनुवृत्तिः सगोत्रता प्रयोजिकेत्यर्थः । एवं च समानगोत्रत्वमित्यस्य समानप्रवरत्वमित्यर्थोपि मदनपारिजातोक्तोऽस्मिन्पक्षेऽनादरणीयः । यत्त्वेवं सति सगोत्र- वेनैव निषेधसिद्धौ समानप्रवरत्वस्यासङ्कीर्णोदाहरणं दुर्लभामिवि, तन्न, वत्साष्टिषेणयोर्विदाष्टिषेणयोः पृषदश्वरथीतरयोश्च भिन्नगोत्रयोः समानप्रवरत्वात् । तस्माद्धरितादीनामपि गोत्रत्वमित्याहुः । यद्यपि गोत्राणामवान्तरभेदाः सहस्रशस्तथापि तद्गुणा एकोनपञ्चाशत् । तथाच बोधायन:- गोत्राणां च सहस्राणि प्रयुतान्यर्बुदानि च । ऊनपञ्चाशदेतेपी प्रवरा ऋषिदर्शनादिति ।। सप्तेह भृगवः सप्त दशागिरस एव च । ततोऽत्रयश्च चत्वारो बोद्धव्याः कश्यपास्त्रयः । चत्वारोत्र वसिष्ठाः स्युर्विश्वामित्रास्ततो दश । अगस्तयस्तु चत्वार इति सङ्ग्रहकृद्धचः ॥ तत्र भृगूणां सप्त अन्तर्गणाः तत्र द्वौ जामदग्न्यौ । वत्सा विदा- श्चेति । तत्र वत्सानां पञ्च प्रवराः । भार्गव, च्यवन, आप्नवान, और्व,जामदग्न्येति । भार्गवी,व,जामदग्न्येति त्रयो वा ॥ २ ॥ विदानां पञ्च प्रवराः । भार्गव,च्यवन,आप्नवान, और्व, विदेति । त्रयो वा, भार्गव, और्व, जामदग्न्येति ॥ २॥ इमो द्वौ सगोत्रौ । जमदग्नेः स- प्तर्षिषु पाठात् । इतरे पञ्च, केवलभार्गवाः । आर्टिषेणाः, यस्काः, मित्रयवः, वैन्याः, शुनका इति । तत्र आष्टिषेणानां पञ्च प्रवराः । भार्गव, च्यवन, आप्नवान, आर्टिषेण, अनूपेति । भार्गचा, टिपेण, अनू- पेतिवा । एषां त्रयाणां परस्परमविवाहः । तदुक्तम् मामदग्न्यौ वत्सविदौ आर्टिषेणाः परस्परम् ।
। । चतुर्विशतिमतसंग्रहः नान्वियुः प्रवरैक्येन सगोत्रत्वेन चादिमाविति ॥ ३ ॥ यास्कानां त्रयः प्रवराः। भार्गव, वैतव्य, सावेनसति ॥ ४ ॥ मित्रयूणां त्रयः । भार्गव, दैवोदास, वाध्यश्चेति । एको वा । वाध्यश्चेति ॥६॥ चैन्यानां त्रयः । भार्गव, वैन्य, पार्थेति ॥ ६॥ शुनकाना- मेकाणेयः प्रवरः शौनकेति । गार्समदो वा । भृगुगृत्समदौ द्वौ वा । भार्गव, शीनहोत्र, गार्समदास्त्रयो वा । भार्गव, शौनक, गामिदास्त्रयो वेति ॥ ७॥ एषां चतुर्णी परस्परं विवाहोस्ति । पूर्वोक्तैत्रिभिश्च व- क्ष्यमाणैश्च । तदुक्तम्- यास्का मित्रयवो वैन्याः शुनकाः प्रवरैक्यतः । स्वं स्वं हित्वा गणं सर्वे विवहेयुः परावरैरिति ।। भृगोः सप्त वंशा निर्णीताः । कचित्तु अधिकं गणद्वयमुक्तम् । वेदविश्वज्योतिषाम् । आर्षेयः प्रवरः । भार्गव,वैद,वैश्वज्योतिषेति । शाठरमाठराणां भार्गव,शाठर,माठरेतित्रयः। अङ्गिरसां षोडशान्तगणाः । तत्र गौतमाङ्गिरसां सप्त । आयास्याः, शर- द्वन्तः, कौमण्डाः, दीर्घतमसः, कारेणुपालयः, वामदेवाः, औशनसाश्चेति। तत्र आयास्यानां त्रयः प्रवराः । आङ्गिरस, आयास्य, गौतमेति ॥ ८॥ शरद्वतां च त्रयः । आङ्गिरस, गौतम, शारद्वतेति ॥ ९॥ कौमण्डाना- नां पञ्च । आङ्गिरस, औचथ्य, काक्षीवत, गौतम, कौमण्डेति ॥१०॥ दीर्घतमसां पञ्च । आशिरस, औचथ्य, काक्षीवत, गौतम, देयतम- सेति । त्रयो वा । आङ्गिरसौ, तथ्य, दैर्ध्यतमसेति ॥ ११ ॥ कारेणु- पालीनां त्रयः । आङ्गिरस गौतम, कारेणुपालेति ॥ १२ ॥ वामदेवा- नां त्रयः । आङ्गिरस, गौतम, वामदेवेति ॥ १३ ॥ औशनसानां त्रयः। आङ्गिरस, औशनस, गौतमेति ॥ १४ ॥ एते सप्त गोत्राः वामदेवा, गौतमा इत्यापस्तम्बः । तेषां आगिरस वामदेव्य, बाहदुक्थ्येति । त्रय, औतथ्या गौतमा इति केचित् । तेषाम् आगिरसौ, तथ्य, गौतमे- ति । औशिजा इत्यपि केचित् । तेषाम् आङ्गिरसौ, शिज, काशीवतेति ।
। चतुर्विंशतिमतसंग्रहः भरद्वाजाङ्गिरसश्चत्वारः । भरद्वाजा, रौक्षायणाः, गर्गाः, कपय इति । तत्र भरद्वाजानां त्रयः प्रवराः । आङ्गिरस बाहस्पत्त्य, भारद्वाजेति ॥ १५ ॥ रोक्षायणानां पञ्च प्रवराः । आङ्गिरस, बार्हस्पत्य, भार- द्वाज, वान्दन, मातवसति ॥ १६ ॥ गर्गाणां पञ्च । आंगिरस, वाईस्प- त्य, भारद्वाज, गार्य, शैन्यति । त्रयो वा । आशिरस, शैन्य, गायेति । भरद्वा ज, शैन्य, गायति वा ।। १७॥ कपीनां त्रयः प्रवराः। आङ्गिरस, आम- हीयव औरुक्षयसेति । पञ्चप्रवरस्तु कपिगर्गान्तर्भूतः । अनेन सगोत्रश्च बोध्यः । अतएवाष्टादशधा गणान्विभजद्भिः संग्रहकारैः कपः कपिना समं विवाहो निषिद्धः । भरद्वाजगणस्यापि तथा कपिगणस्य च । विवाहो न विधेयः स्यादन्योन्यं तु कदाचनेति ॥ १८ ॥ एतेषां चतुर्णा परस्परं विवाहो नास्ति । तदुक्तम्- भरद्वाजाः, सकपयो, गर्गा, रौक्षायणा इति । चत्वारोपि भरद्वाजाः गोत्रक्यान्नान्वियुर्मिथ इति । केवलाङ्गिरसः पञ्चाविष्णुवृद्धा,कण्वा, हरिता,रथीतरामुद्गलाश्चेति। तत्र विष्णुवृद्धानां त्रयः प्रवराः । आङ्गिरस, पौरुकुत्स, त्रासदस्यवेति । एषामन्यैः सह विवाहास्ति । १९ ॥ कण्वानां त्रयः प्रवराः । आङ्गि- रस,आजमीढ,कण्वेति । आङ्गिरस,घोर,कण्वेति वा ॥२०॥ हरितानां त्रयः प्रवराः।आङ्गिरसा,म्बरीष, यौवनाश्वेति।मान्धात्रा,म्बरीष,यौवना- श्वेति वा ॥ २१ ॥ रथीतराणां त्रयः प्रवराः । आङ्गिरस, वैरूप, र- थीत रेति । आङ्गिरस, वैरूप,पार्षदश्चेति वा ।। २२ ॥ मुद्गलानां त्रयः प्रवराः। आङ्गिस,माम्यश्व,मौद्गल्येति । यद्वा ताय,भाHश्व,मौद्गल्येति॥ २३ ॥ विष्णुद्धानां पञ्चानामपि केवलागिरसां स्वस्वगणं हित्वा- ऽन्यः सह विवाहोस्ति । तदुक्तम्- केवलाङ्गिरसश्चैके विष्णुद्धाः सकण्वजाः । इरिता रयीतराश्च मुद्गलाः प्रवरैक्यतः ॥
चतुर्विंशतिमतसंग्रह स्खं स्वं हित्वा गणं सर्वे विवहेयुः परावरैरिति । तदेवमाङ्गिरसां षोडश वंशा निर्णीताः। द्वयामुष्यायणवर्गे वक्ष्यमाणाः संकृतयस्त्वङ्गिरस्सु सप्तदशः । कचित्तु अन्येपि केवलागिरसः पठ्यन्ते । यथा कुत्सानां त्रयः । आङ्गि- रस, मान्धातृ, कौत्सेति । एषां हरितैरविवाहः । आर्षेयाणां याय- संनिपातात् । हरितकुत्सपिङ्गशवदर्भभैमगवानामित्याश्वलायनेन सर्वप्रवरसाम्योक्तेश्च इति पुरुषोत्तमः।। पृषदश्वानाम् आङ्गिरस, पार्षद- श्व, वैरूप्येति। अष्टादंष्ट्र, पार्षदश्व, वैरूपेति वा । एषां रथीतरैरविवादः । प्रवरद्वयसाम्यात् । अत्रेश्चत्वारो भेदाः। आधात्रयः, गविष्टिराः, वाद्भू- तकाः, मुद्गलाश्चेति । तत्राद्यात्रीणां त्रयः प्रवराः । आत्रेया, चनानस, श्यावाश्वेति ॥ २४ ॥ गविष्ठिराणां त्रयः प्रवराः । आत्रेया, चनानस, गाविष्ठिरेति ॥२५॥ वाद्भूतकानां त्रयः । आत्रेया, चनानस, वाद्भूतकेति । मुद्गलानां त्रयः प्रवराः। आत्रेया, चैनानस, पौर्वातिथेति । एतेषां चतु- गा न विवाहः । तदुक्तम् - चत्वारोत्रयः आद्यात्रिवाद्भूतिकगविष्ठिराः । मुद्गलाश्चेति गोक्यात्मवरैक्याच नान्वियुरिति ॥ २७ ॥ अत्रेश्चत्वारो वंशा निीताः । कश्यपानां त्रयो भेदाः । निध्रुव, रेभ, शण्डिलेति । तत्र निधवा- गां त्रयः प्रवराः । काश्यप, वत्सार, नैध्रुवेति ॥ २८ ॥ रैभ्याणां त्रयः प्रवराः। काश्यप, वत्सार, रेभ्येति ॥२९॥ शाण्डिलानां त्रयः। काश्यप, व- सार, शाण्डिल्येति। काश्यप, वत्सार, दैवलेति वा । काश्यप,वत्सारा, सि- तेति वा । शाण्डिल, आसित, देवलेति वा, ॥३०॥निध्रुवादीनां त्रयाणां कश्यपानां परस्परं नोद्वाहः । गोत्रप्रवरयोरैक्यात् । वसिष्ठा चत्वारः । वसिष्ठाः, कुण्डिनाः, उपमन्यवः, पराशरा इति । तत्र वसिष्ठानामेक: प्रवरः, वासिष्ठेति ॥ ३१॥ कुण्डिनानां त्रयः। वासिष्ठ, मैत्रावरुण,को- ण्डिन्येति ॥३२॥ उपमन्यूनां त्रयः। वासिष्टे,द्रप्रमदा, भरद्वस्विति॥३३॥ m चतुर्विशतिमतसंग्रहः । पराशराणां त्रयः । वसिष्ठ, शक्ति, पराशरेति ॥ ३४॥ एषां परस्परम- विवाहः । तदुक्तम् वसिष्ठाः, कुण्डिना, श्चैवमुपनन्यु, पराशराः । वसिष्ठा इति चत्वारो गोत्रैक्यान्नान्वियुर्मिथ इति ॥ इति वसिष्ठवंशनिर्णयः । अथ विश्वामित्राः । ते च दश । कुशिकाः, रोहिताः, रौक्षकाः, कामकायनाः, कताः, धनञ्जयाः, अजाः, अघमर्षणाः, पूरणाः, इन्द्रको शिकाः, इति । तत्र कुशिकानां त्रयः प्रवराः। विश्वामित्र, देवरात, औद- लेति ॥ ३५ ॥ रोहितानां त्रयः। विश्वामित्र, ष्टका, रोहेति ॥३६॥ रोक्षकाणां त्रयः । विश्वामित्र, रौक्षक, रैवति ॥३७॥ कामकायनानां त्रयः । वैश्वामित्र, देवश्रवस, दैवतरसति ।। ३८ ॥ धनजयानां त्रयः । वैश्वामित्र माधुच्छन्दस, धनञ्जयेति ॥३९॥ कतानां त्रयः। विश्वामित्र, कात्या, कालेति ॥४०॥ अजानां त्रयः। विश्वामित्र, माधुच्छन्दसा, जति ॥४१॥ अघमषाणानां त्रयः । वैश्वामित्रा,घमर्षण, कौशिकेति ॥४२॥ पूरणानां द्वौ । वैश्वामित्र,पौरणेति ॥ ४३ ॥ इन्द्रकौशिकानां त्रयः प्रवराः । विश्वामित्रे,न्द्र,कोशिकेति ॥४४॥ एतेषां दशानां परस्परं न विवाहः। इति विश्वामित्रवंशनिर्णयः। अथागस्तयः। ते च चत्वारः। इध्मवाहाः, सांभवाहाः, सोमवाहाः, यज्ञवाहा इति । तत्रेश्मवाहानां त्रयः प्रवराः । आगस्त्य,दाढयच्युत, सा- म्भवाहेति।।४५॥सांभवाहानां त्रयः। आगस्त्य,दायच्युत,साम्भवाहेति ॥ ४६ ॥ सोमवाहानां त्रयः प्रवराः। आगस्त्य,दाढयच्युत,सोमवाहेति ॥४७॥ साम्भवाहानां त्रयः । आगस्त्य,दाढयच्युत, सांभवाहेति।।४८॥ यज्ञवाहानां त्रयः । आगस्त्य,दायच्यु,तयज्ञवाहेति ॥४८॥ एतेषां चतुर्णा गोक्यात्परस्परमविवाहः । तदेवं भृगवः सप्त । अङ्गिरसः स- दश | अत्रयश्चत्वारः । कश्यपास्त्रयः । वसिष्ठाश्चत्वारः। विश्वामित्रा - SINGH । चतुर्विंशतिमतसंग्रहः १०५ दश । अगस्तयश्चत्वारः॥ ॥ इत्थमेकोनपञ्चाशद्गणा निर्णीताः । क्षत्रियाणां त्रयः प्रवराः । मान, बैल, पौरूखसेति । वैश्यानां च त्रयः। भालन्दन, वात्स, प्रमङ्गालिकति बोधायनः । नचैवं क्षत्रियवैश्ययोः सजातीय विवाह एव न स्यादिति वाच्यम् । एतेषां प्रवराणां विवाहनिषेधा- प्रयोजकत्वात् । तदुक्तम् । गुरोः सगोत्रप्रवरा नोद्वाह्याः क्षत्रविड्जनैरिति । समानप्रवरोदाहनिषेधः क्षत्रवैश्ययोः । प्रवरान्मानवेत्यस्मात्प्रवराचान्यगोचर इति च । मानवेत्यादिप्रवराद् अस्माच भालन्दनेत्यादिप्रवराच्चान्यगोचरो निषेध इत्यन्वयः। अथ व्यामुष्यायणाः। तत्राङ्गिरससकृतीनां वसिष्टैः सह विवाहो नास्ति । क्रियमाण- तयाऽनुवृत्यभावेपि उन्पादकतया वसिष्ठस्यानुवृत्तेः । उक्तञ्च- सकृतीनां द्विवंश्यत्वादसिष्टैश्च चतुर्विधैः ।। स्ववीयैः सगोत्रत्वात्मवरक्याच नान्वय इति ॥ लोगाक्षीणां त्रयः प्रवराः। काश्यपा, वत्सार, वासिष्ठेति । ते चाहर्व- सिष्टाः, नक्तं कश्यपाः, वसिष्ठकश्यपाभ्यां सह लौगाक्षीणां विवाहो ना- स्ति । तदुक्तम्- वासिष्ठैः काश्यपैर्नित्यं लौगाक्षीणामनन्वयः । अहर्वसिष्ठतोक्तिस्तु प्रयाजाग्रयादिगोचरेति ॥ किञ्च विश्वामित्रात्रिगोत्रेण नोदहेयुद्धनञ्जयाः । अत्रेस्तु पुत्रिकापुत्रा वामरथ्यादयस्तथा ॥ तथैव जातूकाश्च वसिष्ठेरत्रिभिः सहेति ।। धनञ्जया वामरथ्याश्वात्रिविश्वामित्राभ्यां न विवहेयुरित्यर्थः। तथा जातकर्णाश्चात्रिवसिष्ठाभ्यां न विवहेयुः ।
१०६
चतुर्विंशतिमतसंग्रहः
भरद्वाजेन शुङ्गेन विश्वामित्रस्य शैशिरेः ।
क्षेत्रे जातो द्विगोत्रर्षिः मोच्यते शोङ्गशैशिरेः॥
विश्वामित्रभारद्वाजस्तज्जानां तेन नान्वयः।
अयमेव कतशैशिरिशौङ्गइत्यप्युच्यते । तस्य पञ्च प्रवराः ।
आङ्गिरस, वाहस्पत्त्य, भारद्वाज, कात्या, कीला इति । कपिलानां
भरद्वाज, विश्वामित्रैश्च नान्वयः । अन्यत्रापि ।
काश्यपेयगणस्यापि वसिष्ठस्य गणस्य च ।
सङ्कतिपूतिमाषाभ्यां विवाहो न परस्परम् ।।
आत्रेयस्य गणस्यापि विश्वामित्रगणस्य च ।
धनञ्जयाख्यगोत्रेण नान्योन्यं पाणिपीडनम् ।।
जमदग्निगणस्यापि विश्वामित्रगणस्य च ।
न देवरातगोत्रेण विवाहः स्यात्परस्परम् ।।
इति द्वयामुष्यायणप्रकरणम् ।
कचिन्नामसाम्येपि गोत्रप्रवरयोर्मेदाद्विवाहो भवति ।
यथाङ्गिरसामत्रीणां च चरमपठितानां मुगलानाम् इत्यादि ज्ञेयम् ।।
इति प्रवरनिर्णयः ॥
असमानापेत्यादिवचनेन वरः स्वसमानगोत्रां नोद्वहदित्युक्तम् ।।
मनुरपि-
असपिण्डा च या मातुरसगोत्रा च या पितुरिति ।
यत्त शातातपवचनम्
मातुलस्य सुतामदा मातृगोत्रां तथैव च ।।
समानप्रवरां चैव त्यत्का चान्द्रायणं चरेदिति ॥
तदपि मन्वादिभिः समानार्थम् । तथाहि । मातुर्गोत्रं नाम पितृ-
गोत्रमेव, नतु मातामहगोत्रम् ।
स्वगोत्राश्यते नारी विवाहात्सप्तमे पदे ।
इति मनुवचनात् । अयन्तु विशेषोनुसन्धयः । या ब्राह्मादि
HINRNA
WHAHARARN चतुर्विशतिमतसंग्रहः विवाहचतुष्टयेनोढा तस्या एव वरगोत्रापत्तिः, पितृगात्रभंशश्च । या तु गान्धर्वादिचतुष्टयोढा तस्या न वरगोत्रापत्तिः, नापि पितृगोत्रभंशः । दानाभावात् । तथाच मार्कण्डेयः- ब्राह्मादिषु विवाहेषु या तृढा कन्यका भवेत् । भर्तृगोत्रेण कर्त्तव्यास्तस्याः पिण्डोदकक्रियाः ॥ आसुरादिविवाहेपु पितृगोत्रेण धर्मत इति ॥ अत एव स्वगोत्राद्मश्यत इति मनुवचनमपि ब्राह्मादिविषयमेव । तस्माद्ब्राह्मादिविवाहोढासुतः पितृगोत्रां नोद्वहेत् । मातामहगोत्रं तूदहेत अनिषेधात् । गान्धर्वादिविवाहोढासुतस्तु मातामहगोत्रां पितृगोत्रां च नोव्हेत् । मातृगोत्रां तथैव चेति शातातपवचनात् , असगोत्रा च या पितुरिति मनुवचनाच । नच मातृगोत्रामित्यस्य मातुरुत्पत्तिकाले यगोत्रं तत्परतवास्त्विति वाच्यम् । तथासति मातुलस्य सुतामिति वाक्यशेषवैय- झंपत्तेः । नच प्रायश्चित्ताधिक्याथ तत् । त्यक्त्वा चान्द्रायणं चरेदिति वाक्यशेपे प्रायश्चित्तस्यैकरूप्यश्रवणात् । यधाश्रुतवादिनां मते इममेवाऽ- परितोषमाविष्कुर्वता विज्ञानेश्वरेणाप्युक्तम् । मातृगोत्रामप्यपरिणेयां केचिदिच्छन्तीति । एवं च मातुलस्य मुतामूवेत्येतद्ब्राह्मादिविवाहोढा- विषयकत्वेनैव पर्यवस्यति । तस्मान्मातुलमुतामित्येतद्वान्धर्वादिविवाहोढा- सुतविषयमिति पूर्वोदाहृतं माधवाचार्यादिमतमपि कथङ्कारं सङ्गच्छ त इति परिभावनीयं सूरिभिः । नारायणस्त्वाह-मातृगोत्रां क- न्यात्वसमये यन्मातुर्गोत्रं न तु मातृत्वसमये तदुत्पन्नामित्यर्थः । अयं च निषेधो यावदस्मान्मातृकुलजादेतन्नाम्नोऽस्याजन्मेति विशष्य ज्ञायते तावत्पर्यन्तमेव । तदूर्वं तु न दोषः । तथाच स्मयते- मातुः सगोत्रामप्येके नेच्छन्त्युद्वाहकर्मणि । जन्मनाम्नोरविज्ञाने तूदुहेदविशङ्कित इति । अत्र पूर्वार्द्धन सामान्यतो मातुः सगोत्रायाः अविवाह्यत्वं मतान्तर- वेनोटय उत्तरार्द्धन विषयानष्कर्षः क्रियते । यत्तु- १०८ चतुविशतिमतसंग्रहः सावित्री यस्य यो दद्यात्तत्कन्यां न विवाहयेत् । तद्गोत्रे तत्कुले वापि विवाहो नैव दोषकदिति ॥ तत्स्वगोत्राज्ञाताविषयमित्याहुः । तत्रापि गायत्रीमात्रदातुः कन्या त्याज्या न तु गोत्रं कुलं वेत्युक्तम् । आचार्यस्य तु शेषः स्मयते । गुरोः सगोत्रप्रवरा नोद्वाह्या क्षत्रवैश्ययोः । स्वगोत्राद्यनभिज्ञैश्च विप्रैराचार्यगोत्रजा इति ॥ असंप्रज्ञातवन्धूनामाचार्यप्रवराः स्मृताः । पक्षे चास्मिन् विवाहोपि तद्गोत्रैः सह नेष्यत इति च । अत्र चासपिण्डामिति निषेधः सार्ववर्णिकः, असमानार्षेति तु त्रैवार्णिक- विषयम् । तत्र क्षत्रवैश्ययोराचार्यगोत्रप्रवरपुरस्कारेण निषेध इति स्थितम् । इह सपिण्डासमानगोत्रासमानप्रवरासु भार्यात्वमेव नोत्पद्यते, रोगिण्यादिषु तु दिष्टविरोधवतीषु भायात्वमुत्पद्यत एवेति विज्ञानेश्वरः। नारायण- स्त्वाह- एवं सति ऋक्षनदीनाम्निपु भार्यात्वानुत्पत्तौ तु प्रमाणं न पश्याम इति । क्वचित्तु वचनादेव विवाहनिषेधः। यथा गृह्यपरिशिष्टे विरुद्धसम्बन्धामुपयच्छेतेत्युत्का दम्पत्योमिथः पितृमातृसाम्ये विरुद्धसं- बन्धः। यथा भार्या स्वसुदुहिता पितृव्यपत्नी स्वसा चति स्वयमेव विडते विरुद्धसम्बन्धे तथा नारदः- प्रत्युद्वाहो नैव कार्यों नैकस्मै दुहितद्वयम् । नैबैकजन्ययोः पुंसोरेकजन्ये च कन्यके इति ॥ एकमातृजातानामेकास्मन् वत्सरे विवाहो न कार्यः । सदुक्तं सारावल्याम् एकमातृप्रसूतानामेकस्मिन् वत्सरे खलु । विवाहं नैव कुर्वीत कृते त्वेको विनश्यतीति ॥ यमलयोस्तु न दोषः । न समानक्रियां कुर्याद्विना यमलजातयोरिति वचनात् । अत्र विशेषमाह वसिष्ठः- HARAMHAN । चतुर्विंशतिमतसंग्रहः एकोदरीकरतलग्रहणं यदि स्या- देकोदरस्थवरयोश्च कुलक्षयः स्यात् । एकाब्दके तु विधवा भवतीह कन्या नद्यन्तरे तु शुभदं पृथुशैलरोधे । यत्तु गर्गवचनम्- भ्रात्रोयुगे स्वसृयुगे भ्रातृस्वसृयुगे तथा । न जातु मण्डनं कुर्यादेकस्मिन् मण्डपेऽहनि । पुत्रीपरिणयादूर्ध्व यावदिनचतुष्टयम् । पुज्यन्तरस्य कुर्वीत नोद्वाहामिति निश्चयइति । तदेतद्भिन्नमातृकविषयकमिति केचित् । ऐकमातृक्येप्यनुकल्पोय- मित्यन्ये । तथा। कुले ऋतुत्रयादीग् मण्डनान्नतु मण्डनम् । पुत्रोद्वाहान्नैव पुत्रीविवाहोपि ऋतुत्रये इति । अब्दान्तरान्मुण्डनञ्च नैकदा मुण्डनद्वयामिति । अब्दभेदे तु न दोषः । तदुक्तं सारावल्याम्- फाल्गुने चत्रमासे तु पुत्रोद्वाहोपनायने । भेदादब्दस्य कुर्वीत नत्रयविलम्बनामिति । तथा ज्येष्ठे मासे ज्येष्ठगर्भस्य जन्मभादौ च सर्वेषां मङ्गलकार्य निषिद्धं रत्नकोशे- जन्मः जन्मदिवसे जन्मनासे शुभं त्यजेत् । ज्येष्ठमासाद्यगर्भस्य शुभवयं स्त्रिया अपीति । अथ वरगुणः । तत्र बुद्धिमते कन्यां प्रयच्छेदिति गृह्यम् । याज्ञवल्क्यः- एतैरेव गुणैर्युक्तः सवर्णः श्रोत्रियो वरः । यत्नात्परीक्षितः पुंस्त्वे युवा धीमान् जनप्रिय इति । एतैः कन्यकायामुक्तेषु अन्वययोग्यैस्तत्र भ्रातृमत्त्वं वरे नापेक्षितम् । ANDORE १२० चनुर्विंशतिमतसंग्रहः maa पुत्रिकाकरणशङ्कानिहात्तिरूपफलाभावात् । असपिण्डत्वं त्वपक्षितम् । तेन कूटस्थमारभ्य पञ्चम्याः पुत्री यद्यप्यसपिण्डा तथापि पञ्चमस्य पुत्रेण सापिण्डेन नोद्वाह्या । यत्नादिति । परीक्षोपायमाह नारदः- यस्याप्सु प्लवते बीजं हादि मूत्रं च फेनिलम् । पुमान् स्याल्लक्षणेरेभिर्विपरीतस्तु षण्डक इति । ड्रादि ध्वनिमत् । वानाह कात्यायन:- दुरस्थानामाविद्यानां मोक्षमार्गानुसारिणाम् । शूराणां निर्द्रतानां च न देया कन्यका बुधैरिति । अथ कन्यादातारः। तत्र नारदः- पितादद्यात्स्वयं कन्यां भ्राता वानुमते पितुः । मातामहो मातुलश्च सकुल्यो बान्धवस्तथा । माता त्वभावे सर्वेषां प्रकृतौ यदि वर्तते । तस्यामप्रकृतिस्थायां कन्यां दद्युः स्वजातयः । यदा तु नैव कश्चित् स्यात्कन्या राजानमाव्रजेत् ।। याज्ञवल्क्योपि- पिता पितामहो भ्राता सकुल्यो जननी तथा । कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परः परः ॥ अप्रयच्छन् समाप्नोति भ्रूणहत्यामृतातौ । गम्यं त्वभाव दातृणां कन्या कुर्यात्स्वयंवरम् ॥ सकुल्यः प्रत्यासत्तिक्रमेणादौ पितृकुलस्थः तदभावे मातामह- कुलस्थः सर्वाभावे जननी । प्रकृतिस्थ उन्मादादिदोषहीनः । गम्यं गम- नाईम् । सावादिगुणयुक्तमित्यर्थः । अप्रयच्छन् भ्रूणहत्यां प्राप्नोतीति वचनात् । गुणाढ्यवरालाभे निर्गुणायापि देया । तदाह बोधायन:- दद्याद् गुणवते कन्यां नग्निकां ब्रह्मचारिणे । अपि वा गुणहीनाय नोपरुध्याद्रजस्वलामिति ।
१११
।
चतुर्विंशतिमतसंग्रहः
नग्निका नववार्षिकी रोहिण्यपरपर्याया।
मनुरपि-
उत्कृष्टायाभिरूपाय वराय सदृशाय च ।
अप्राप्तामपि तां तस्मै कन्यां दद्याद्विचक्षण इति ॥
अप्राप्ताम् अप्राप्तविवाहसमयाम् । बालिकामपीत्यर्थः । कालान्तरे
दुगुणायापि देयत्वापत्तेरिति भावः । यत्तु यमेनोक्तम्-
काममामरणात्तिष्ठेद्रेहे कन्य मत्यपि ।
नत्वेवैनां प्रयच्छेत गुणहीनाय कर्मिचिदिति ॥
तद्गुणवल्लाभे निर्गुणाय न देयेत्येवं परम्, नतु ऋतुमत्यपि तिष्ठे-
दित्यस्मिन् स्वार्थे तात्पर्यम् । अपिवा गुणहीनायेति बोधायनोक्ता-
नुकल्पस्य निर्विषयतापत्तेः। क्योविशेषेण दातुः फलविशेषमाह मरीचिः-
गौरों ददन्नाकपृष्ठं वैकुण्ठं रोहिणीं ददत् ।
कन्यां ददद् ब्रह्मलोकं रौरवं तु रजस्वलामिति ।
गौर्यादिलक्षणमाह यमः-
अष्टवर्षा भवेत् गौरी नववर्षा तु रोहिणी ।
दशवर्षा भवेत्कन्या अत ऊर्ब रजस्वलेति ॥
संवत्तौपि-
अष्टमे तु भवेद् गौरी नवमे नग्निका भवेत् ।
दशमे कन्यका प्रोक्ता द्वादशे वृषली स्मृतेति ॥
दृष्टेतु रजसि पित्रादिषु सत्स्वपि कञ्चित्कालं पित्रादिकं प्रतीक्ष्य
तदुपेक्षणे स्वयमेय वरं वरयेत् । तदाह बोधायन:-
त्रीणि वर्षाण्यतुमती काक्षेत पितृशासनम् ।
ततश्चतुर्थे वर्षे तु विन्देत सदृशं पतिम् ।।
अदीयमाना भर्तारमधिगच्छेद्यदि स्वयम् ।
नैनः किञ्चिदवाप्नोति न च यं साधिगच्छति ॥
सा यं भरिमधिगच्छति सोपि नैनोऽधिगच्छतीत्यर्थः ।
चतुर्विशतिमतसंग्रहः यत्तु विष्णुवचनम्- ऋतुत्रयमुपास्यैव कन्या कुर्यात् स्वयंवरमिति । तद्गुणवद्वरलाभविषयं बोध्यम् । यद्यपि यमन दशवर्षायां क- न्याशब्दः परिभाषितः तथापीह विवाहरहितस्त्रीमात्रपरो बोध्यः । तथा- चोमामहेश्वरसंवादे- ऋतुस्नाता तु या शुद्धा सा कन्येत्यभिधीयते इति । अष्टावक्रोपाख्याने च वृद्धस्त्रियां प्रयुक्तः । कौमारं ब्रह्मचर्य मे कन्यैवास्मिन्नसंशय इति । स्मृत्यर्थसारे- विवाहे वितत तन्त्रे होमकाले उपस्थिते । कन्यामृतुमती दृष्ट्वा कथं कुर्वन्ति याज्ञिकाः ।। स्नापयित्वा तु तां कन्यामर्चयित्वा यथाविधि । युञ्जानमाहुति हुत्वा ततः कर्म प्रवर्तते । यद्वा- विवाहहोमे प्रक्रान्ते यदि कन्या रजस्वला । त्रिरात्रं दम्पती स्यातां पृथक्शय्याशनासनौ । चतुर्थेऽहनि संस्नातौ तस्मिन्नग्नौ यथाविधि । विवाहहोमं कुर्यातामित्यादिस्मृतिसंग्रह इति । स्कान्दे- आत्मीकृत्य सुवर्णेन परकीयां तु कन्यकाम् । धर्मेण विधिना दातुमसगोत्रोपि युज्यते । आत्मीकृत्य स्वायां कृत्वेत्यर्थः । तत्फलं चोक्तं विष्णुधर्मोत्तरे- अनाथां कन्यकां दत्त्वा सदृशाभ्यधिके वरे । द्विगुणं फलमाप्नोति कन्यादानं यदीरितमिति । स्त्रीणां च विवाह उपनयनस्थानापन्नः । तदाह मनु:-
चतुर्विंशतिमतसंग्रहः
११३
वैवाहिको विधिः स्त्रीणामौपनायनिको मत इति ।
यत्तु हारीतेनोक्तम्-द्विविधाः स्त्रियः। ब्राह्मणवादिन्यः, सद्यो
वध्वश्च । तत्र ब्रह्मवादिनीनामुपनयन, मग्नीन्धन, वेदाध्ययनं, स्वगृहे च
भैक्षचर्येति ॥ सद्यो वधूनां तूपस्थिते विवाहे कथञ्चिदुपनयनमात्रं कृत्वा
विवाहः कार्य इति । तदेतत्कल्पान्तरविषये । तथाच यमः-
पुरा कल्पे कुमारीणां मौजीवन्धनमिष्यते ।
अध्यापनं च वेदानां सावित्रीवाचनं तथा ॥
पिता पितृव्यो भ्राता वा नैनामध्यापयेत्परः ।
स्वगृहे चैव कन्याया भैक्षचर्या विधीयते ॥
वर्जयेदजिनं चीरं जटाधारणमेव चेति ॥
अथ विवाहभेदाः।
मनु:-
ब्राह्मो, दैव, स्तथा चापः, प्राजापत्य, स्तथासुरः।
गान्धर्वो, राक्षसश्चैव, पैशाचस्त्वष्टमो मत इति ॥
एतेषां लक्षणं फलं चालङ्कृत्य कन्यामिति गृह्यखण्डे स्फुटम् ।
याज्ञवल्क्योपि-
ब्राह्मो विवाह आहूय दीयते शक्तचलकृता ।
यज्ञस्थ ऋत्विजे दैव, आदायार्पस्तु गोद्वयम् ।
मनु:-
सहोभी चरतां धर्ममिति वाचानुभाष्य तु ।
कन्याप्रदानमभ्यर्च्य प्राजापत्यो विधिः स्मृतः ॥
यद्यप्यन्येष्वपि विवाहेषु सहधर्मचरणमस्ति तथाप्यत्र यावज्जीवं
सहधर्ममेव । नतु मध्ये आश्रमान्तरपरिग्रहः। स्त्र्यन्तरपरिग्रहो वेति वि-
शेष इति प्रयोगरत्ने नृसिंहः, हरदत्तश्च ॥
याज्ञवल्क्य:-
आसुरो द्रविणादानात, गान्धर्वः समयान्मिथः ।
चतुर्विशतिमतसंग्रहः राक्षसो युद्धहरणा,त्पैशाचः कन्यकाच्छलादिति ॥ एषां व्यवस्थामाह मनु:- षडानुपूाद्विमस्य क्षत्रस्य चतुरोऽवरान् । विट्शूद्रयोस्तु तानेव विद्याधर्मान्न राक्षसमिति ॥ आदितः पविवाहा विप्रस्य धाः । आसुरादयश्चत्वारः क्षत्रि- याणां धया इति माधवः । नारायणस्तु-पैशाचस्य शूद्रेष्वपि निन्दि तत्वात्प्राजापत्यादयश्चत्वारो ग्राह्याः तानेव चतुरः तेष्वपि अराक्ष- समिति व्युदासात्रयः प्राजापत्यासुरगान्धर्वाः शिष्यन्ते इति व्याचख्यौ। एतेषां मध्ये प्रशस्तान् मनुरेवाह- चतुरो ब्राह्मणस्याघान् प्रशस्तान् कवयो विदुः । राक्षसं क्षत्रियस्यैकमासुरं शूद्रवैश्ययोरिति । स्मृत्त्यन्तरे- चत्वारो ब्राह्मणस्याद्याः शस्ता, गान्धर्वराक्षसौ । राज्ञ, स्तथाऽऽसुरो वैश्ये, शूद्रे चान्त्यस्तु गर्हित इति ॥ गर्हितो न कस्यापि प्रशस्त इत्यर्थः । अन्यविवाहसम्भवे ब्राह्मणा- दीनां सर्वेषां पैशाचमप्यनुजानाति वत्सः- सर्वोपायरसाव्या स्यात् सुकन्या पुरुषस्य या । चौरेणापि विवाहेन सा विवाद्या रहास्थितेति ॥ गान्धर्वादिष्वपि भायर्यापतिभावाय पश्चाद्धोमाद्विसप्तपद्यन्तं कार्यम् । गान्धर्वासुरपैशाचा विवाहो राक्षसश्च यः । पूर्व परिग्रहस्तेषु पश्चाद्धोमो विधीयते । इति परिशिष्टात् । होमाद्यभावे वरान्तराय देया । सति नेति विशेषः। तदुक्तं वसिष्ठबौधायनाभ्याम्- बलादपहृता कन्या मन्त्रैर्यदि न संस्कृता । अन्यस्मै विधिवदेया यथा कन्या तथैव सेति ॥ बलादिति च्छलादेरप्युपलक्षणम् । स्मृत्यर्थसारे- चतुर्विंशतिसतसंग्रहः आसुरेखूपवासः स्याद् गान्धर्वेषु त्रिरात्रकम् । राक्षसे चैव पैशाचे कुर्याच्चान्द्रायणं तथेति ।। द्वितीयपरिणयने हेतूनाह याज्ञवल्क्य:- सुरापी व्याधिता धूती वन्ध्यान्यप्रियंवदा । स्त्रीप्रसूवाधिवेत्तव्या पुरुषद्वेषिणी च येति ॥ अधिवेदन भार्यान्तरपरिग्रहः । उक्तहेत्वभावेप्यधिवेत्तारं प्रत्याह Binod Som आज्ञासंपादिनी दक्षां वीरतूं प्रियवादिनीम् । त्यजन् दाप्यस्तृतीयांशमद्रव्यो भरणं स्त्रिय इति ॥ त्यजन् अधिविन्दनिति विज्ञानेश्वरः। द्विविधं ह्यधिवेदनम् । धर्मार्थ कामार्थ च । तत्र पुत्रोत्पत्त्यादिधर्मार्थे प्रागुक्तानि मद्यपत्वा- दीनि निमित्तानि । कामार्थे न तान्यपेक्षितानि, किंतु पूर्वोढा तोपणीया। एकामुत्क्रम्य कामार्थमन्यां लब्धं य इच्छति । समर्थस्तोपयित्वाथैः पूर्वोढा, मपरां वहेदिति । स्मृतेः । यद्यप्यसौ स्वयं न तोपयेत्तदा तत्तोषणाय पूर्वोढायै अधिवेत्तुधनस्य तृतीयांशं राज्ञा अधिवेत्ता दाप्य इति फलितार्थः । यद्यपि ब्राह्मणस्य क्षत्रियादिकन्याविवाहोपि शास्त्रसंमतस्तथापि असवासु कन्यासु विवाहश्च द्विजातिषु । इति कलिनिपिद्धेषु परिगणितत्वेन सांप्रतमनुपयोगात्तत्प्रपञ्चो- न क्रियते । वह्वीनां पत्नीनामृतुयोगपये गमनक्रममाह देवल:- योगपद्ये तु तीर्थानां विवाहक्रमशो व्रजेत् । रक्षणार्थमपुत्रां वा ग्रहणक्रमशोपि वेति ।। तीर्थमृतुः। तीर्थ शास्त्रावरक्षेत्रोपायोपाध्यायमन्त्रिषु । योनौ जलावतारे चेति- निघण्टु बलेन योनिवाचकस्य तद्धर्मलक्षकत्वात् । तद्योगपये सत्य-
ma
चतुर्विंशतिमतसंग्रहः
सवर्णासु वर्णक्रमेण, सवर्णासु विवाहक्रमेण गच्छेत् । यदा तु काचि-
दपुत्रा पुत्रवत्य इतराः तदा अपुत्रामग्रतो गच्छेदित्यर्थ इति माधवः।
बड़ी पत्नीपु सहधर्मचारिणी निर्धारयति याज्ञवक्यः
सत्यामन्यां सवर्णायां धर्मकार्य न कारयेत् ।
सवर्णासु विधौ धर्मे ज्येष्ठाया न विनेतरा इति ।
सवर्णायां सत्यामित्युक्तया तदभावे त्वसवर्णाप्यभ्यनुज्ञाता । तत्रा
पि शूद्रां निषेधति वसिष्ठः-कृष्णवर्णा या वै रमणायैव न धर्माय इति
सवर्णानेकत्वे तु ज्येष्ठाया विना इतरा न किंतु तया सहैव कनीयस्यो
नियोक्तव्या इत्यर्थः । तथाच बौधायनः-एकैकां गार्हपत्यमीक्षयेत्
एकैकामाज्यमवेक्षयेदिति । कात्यायनोपि-
नैकयापि विना कार्यमाधानं भार्यया द्विजैः ।
अकृतं तद्विजानीयात्सर्वा नाऽन्वारभन्ति चेदिति ।
यत्तु विष्णुवचनम्-
सवर्णासु विधौ धर्मे ज्येष्ठाया न विनेतरा इति ।
अग्निहोत्रादियज्ञेषु द्वितीया न सहाऽऽचरेत् ।
अन्यथा निष्फलं तस्य स्विष्टः क्रतुशतैरपि ।
तदसवर्णाविषयं सत्स्वग्निषु या परिणीता तद्विषयं चेति माधवः।
तृतीया तु मानुषी नोद्वाह्या । तदुक्तं मात्स्ये-
तृतीयां मानुषीं नैव चतुर्थी तु समुद्रहेदिति ॥
तृतीयां त्वर्ककन्यामुहेत तद्विधानं शौनकादिग्रन्थाद्वोध्यम् ।
तत्र पञ्चमदिवसे कर्त्तव्यमुक्तं ब्रह्मपुराणे-
चतुर्थीदवसेऽतीते पूर्ववत्संभपूज्य च ।
विसृज्य होममग्निं च मानुषीमुद्हेत्ततइति ।।
अथोपासनारम्भसमयनिर्णयः।
तत्र गृह्यम्-पाणिग्रहणादिगृह्यं परिचरेदिति ।।
शौनकः-
।
JumpND
चतुर्विंशतिमतसंग्रहः यदि रात्रौ विवाहाग्निरुत्पन्नः स्यात्तथा सति । उपक्रम्योत्सरस्याह्नः सायं परिचरेदमुमिति ।। यदि रात्रौ नवनाड्यनन्तरमग्न्युत्पत्तिस्तदोत्तरादिने सायंहोमा- रम्भः । तत्पूर्वमग्न्युत्पत्तौ तु तस्यां रात्रावेवारम्भ इति मुदर्शनभा- ध्यकारः ॥ इत्यं षोडशसंस्कारा व्याख्याताः । गौतमस्त्वाह-गर्भाधान, पुंसवन, समिन्तोन्नयन, जातकर्म, नामकरणा, न्नप्राशन, चौलोपनयनम्, चत्वारि वेदव्रतानि, स्नानं, सहधर्मचारिणीसंयोगः पञ्चानां यज्ञानामनुष्ठानम्, देवपितृमनुष्यभूत- ब्राह्मणानामेतेपाञ्च, अष्टका पार्वणः श्राद्धं श्रावण्याग्रहायणी चैत्री आश्वयुजीति सहपाकयज्ञसंस्थाः । अग्न्याधेयमग्निहोत्रं दर्शपूर्णमा- सावाग्रहायणं चातुर्मास्यानि निरूढपशुबन्धः सौत्रामणीति सप्त हवि- यज्ञसंस्थाः । अग्निष्टोमात्याग्निष्टोमउक्थापोडशी वाजपेयोतिरात्राप्तोर्याम इति सप्तसोमसंस्थाः। इत्येते चत्वारिंशत्संस्काराः । अष्टावात्मगुणाः। दया सर्वभूतेषु, शान्ति, रनसूया, शौच, मनायासो, माङ्गल्य, म- कापण्य, मस्पृहेति यस्यैते चत्वारिंशत्संस्काराः न चाष्टावात्मगुणाः न स ब्रह्मणः सायुज्यं सालोक्यं गच्छति । यस्य तु खलु संस्कारा- णामेकदेशोप्यष्टावात्मगुणाः अथ स ब्रह्मणः सायुज्यं सालोक्यं च गच्छति गच्छतीति । अस्यार्थः । उपनयनान्तानामष्टानां समाहारद्वन्दः, चत्वारि वेदव्रतानि प्रतिशाखं गृह्येपूतानि । स्नानम् समावर्तनम् । सहधर्म- चारिणीसंयोगो विवाहः । पञ्चमहायज्ञाः । पृथक् पञ्चसंस्कारा नतु समुदायः । एतेषां चेति । वक्ष्यमाणानामनुष्ठानमित्यर्थः । पर्वणि भवः पार्वणः स्थालीपाकः । श्राद्धममावास्यादि । श्रा- वणी तत्र कत्तव्यं श्रवणाकर्म । आग्रहायणी तत्र कर्त्तव्यं प्रत्यवरो- हणम् । चैत्री तत्र कर्त्तव्यः शूलगवः । आश्वयुजी तत्र कर्त्तव्यमा- श्वयुजीकर्म । अनाहिताग्नेराग्रहायणं चेति द्वयम् आश्वयुजीशब्दग्राह्यामिति ११८ चतुर्विंशतिमतसंग्रहः । हरदत्तः । पाकयज्ञाः अल्पयज्ञाः प्रशस्तयज्ञा वा । तं पाकेन मनमनसा योमापाकेन मनसे, त्यादौ पाकशब्दप्रयोगस्य प्रशंसायां दर्शनादिति वृत्तिकृन्नारायणः । आख्या चेयं गायणामिति हरदत्तः । तथाचाऽऽपस्तम्बः-लौकिकानां पाकयज्ञशब्द इति । संस्था विधा । पाकयज्ञविधाः सप्तेत्यर्थ इतिहरदत्तः। अग्न्याधेयादयः श्रुतिप्रसिद्धाः । दर्शपौर्णमासाविति समुदाय एकः संस्कारः । सप्तग्र- हणात् । सोमसम्बन्धाभावादेते हविर्यज्ञाः । अग्निष्टोमे राजन्यस्य षोडशिग्रहो गृह्यते सोत्यग्निष्टोमः । ब्राह्मणस्य कथमयं संस्कार इति चिन्त्यमिति हरदत्तः । गच्छति गच्छतीति द्विरुक्तिरष्टमाध्यायसमाप्त्य- र्था । अत्राधानादयो गृहस्थस्य नित्याः । तथाच वसिष्ठः- अवश्यं ब्राह्मणोग्नीनादधीत दर्शपूर्णमासाग्रहायणष्टिचातुर्मास्यपशुसोमांश्च यजे- तेति ॥ हारीतोपि- पाकयज्ञान् यजोन्नत्यं हविर्यज्ञांस्तु नित्यशः । सौम्यांस्तु विधिपूर्वेण य इच्छेदब्रह्म चाव्ययमिति ॥ एवं च यथाशक्तयङ्गोपसंहारेणाप्यनुष्ठेयानि । नित्येषु यथाशक्ति न्यायस्य पष्ठे स्थितत्वात् ॥बौधायनोपि- यस्य नित्यानि लुप्तानि तथैवागन्तु कानि च । विपद्यपि न स स्वर्ग गच्छेत्तु पतितो हि स इति ॥ तस्मात् कन्दैः फलैर्मूलैमधुनाज्यरसेन वा । नित्यं नित्यानि कुर्वीत नतु नित्यानि लोपयेदिति च ॥ ननु संपूर्णद्रव्यसंपत्तावेव सोमयागः कार्यः । तदाह मनुः- यस्य त्रैवार्षिकं वित्तं पर्याप्तं भृत्यवृत्तये । अधिकं वापि विद्येत स सोमं पातुमर्हतीति । अल्पवित्तस्य यज्ञं निषेधति स एव पुण्यान्यन्यानि कुर्वीत श्रद्दधानो जितेन्द्रियः । न त्वल्पदक्षिणैयज्ञैर्यजेताथ कथंचनेति ।।
चतुर्विशतिमतसंग्रहः मत्स्यपुराणेपि- अन्नहीनो दहेद्राष्ट्र मन्त्रहीनस्तथर्विजम् । आत्मानं दाक्षिणाहीनो नास्ति यज्ञसमो रिपुरिति ।। तथाचनानि वचनानि कन्दरियादिबोधायनादिवचनै- विरुध्येन्निति चेत् मैवम् , एपां वचनानां काम्ययागविषयत्वात् । काम्येषु सर्वाङ्गोपसंहारेणाधिकारस्य पूर्वतन्त्र सिद्धान्तितत्वादिति दिक् । मूलम्- जीवत्पितरि नादध्यान्नाहिताग्निः स वै यदि । तथैव भ्रातार ज्येष्ठे न यजेन्न विवाहयेत् ।। अनाहिताग्नौ पितरौ ह्याधानं तु करोति यः । अरण्योरग्निमारोप्य तमादध्याद द्विजोत्तमः ।। ज्येष्ठभ्रात्रा त्वनुज्ञातः कुर्यादग्निपरिग्रहम् । अनुज्ञातोपि सन् पित्रा नादध्यान्मनुरब्रवीदिति । कचित्परिविन्दतोऽप्यदोष इत्याह कात्यायन:- देशान्तरस्थक्लीकटपणानसहोदरान् । वेश्याभिसक्तपतितशूद्रकल्पातिरोगिणः ।। जडयूकान्धवधिरकुजवामनकुण्ठकान् । अतिद्धानभायांश्च कृषिसक्तान नृपस्य च ॥ धनद्धिप्रसक्तांश्च कामतोऽकारिणस्तथा । कुहकोन्मत्तचौरांश्च परिविन्दन्न दुप्यति ॥ धनवार्युषिकं राजसेवकं कर्षकं तथा । प्रोपितं च प्रतीक्षेत वर्षत्रयमपि त्वरनिति । अत्रापिशब्दसूचितं कालान्तरमाह वसिष्ठः-अष्टौ द्वादश वा वर्षाणि ज्येष्ठभ्रातरमनिविष्टमप्रतीक्षमाणः मायश्चित्ती भवतीति । आ- धानानधिकारिणि पितरि सत्यपि पुत्र आदधीतेत्याह सुमन्तु:- पितुर्यस्य तु नाधानं कथं पुत्रस्तु कारयेत् । INHANNE
१२०
चतुविशतिमतसंग्रहः
अग्निहोत्राधिकारोस्ति शङ्खस्य वचनं यथेति ।
एतेन
पिता पितामहो यस्य अग्रजो वाथ कल्य चित् ।
तपोग्निहोत्रमन्त्रेषु न दोषः परिवेदन इति ।
माधवोदाहृतमौशनसं वाक्यमपि व्याख्यातम् । तदेवं भ्रातरि
पितरि चानधिकारिणि न दोपः । अधिकारिणि तु ज्येष्ठे तदनुज्ञया ।
पितरि तु अधिकारिणि सति अनुज्ञयापि नाधानमिति विवेकः । प्रा-
गुक्तप्रतीक्षाकालानां व्यवस्थामाह माधवः-धर्ममर्थ बोद्दिश्य देशा-
न्तरं गते द्वादशवर्ष प्रतीक्षा इतरत्र तु पक्षान्तराणि शक्तयेति ।
तथाच तदाहृता स्मृतिः-
द्वादशैव तु वर्षाणि ज्यायान् धर्मार्थयोर्गतः।
न्याय्यः प्रतीक्षितुं धात्रा श्रूयमाणः पुनः पुनरिति ।।
वृद्धवसिष्ठः-
अग्रजस्तु यदाऽनग्निरादध्यादनुजः कथम् ।
अग्रजानुमतः कुर्यादग्निहोत्रं यथाविधि ॥
अत्राज्ञातविषयत्वेनाधानस्यैव विरिष्य निर्देशाविहाहे ऽनुज्ञाया-
मपि दोषो भवत्येवेति गम्यते । एतदेवाभिप्रेत्याह हारीत:-
सोदराणां तु सर्वेषां परिवेत्ता कथं भवेत् ।
दारस्तु परिविद्यन्ते नाग्निहोत्रेण नेज्ययेति ॥
हेमाद्रिः।
इति पदवाक्यप्रमाणज्ञश्रीलक्ष्मीधरसूरेः सूनुना भट्टोजिदीक्षितेन
रचितायां श्रीचतुर्विंशतिमतव्याख्यायां संस्कारकाण्डं सम्पूर्णम् ।
शुभमस्तु ।
(चतुर्विशतिमतसंग्रह)
अथ श्राद्धकाण्डम्
तत्र प्रेतोद्देशेन श्रद्धया द्रव्यत्यागाविशेषः श्राद्धम् । तदाहुर्मूले-
मृतानां तु भवेच्छ्राद्धं ब्राह्मणैर्वेदपारगैरिति।
तथाच ब्रह्माण्डपुराणम्-
देशे काले च पात्रे च श्रद्धया विधिना च यत् ।
पितॄनुद्दिश्य विप्रेभ्यो दत्तं श्राद्धमुदाहृतमिति ॥
तद्विविधं पार्वण, मेकोदिष्टं चेति । त्र्युद्देशेन पार्वणम्, एकोद्देशन
एकोद्दिष्टम् । पुनस्त्रिविधम् । नित्यं, नैमित्तिकं, काम्यं, चेति । तत्र नित्यम्
अहरहरमावास्याष्टकादिपु । नैमित्तिकं पुत्रजन्मादिषु । काम्यं फला-
र्थिनां तिथिनक्षत्रविशेषेषु।
तत्र श्राद्धे देशविशेषः स्मयते विष्णुधर्मोत्तरे-
दक्षिणप्रवणे देशे नीर्थादौ वा गृहेपि वा।
भूसंस्कारादिसंयुक्ते श्राद्धं कुर्याद्विचक्षणइति ।।
दक्षिणप्रवणे दक्षिणाघनते । भूसंस्कारो गोमयेनोपलेपः।
तथा च शखः
गोगजाश्चादिक्षेषु कृत्रिमायां तथा भुवि ।
न कुर्यात् श्राद्धमेतेपु पारक्याशुचिभूमिषु ॥
कृत्रिमायां वेदिकादौ । पारक्यामपरपरिगृहीतायाम् । ताश्च गोष्ठारा-
मादयो न पुनस्तीर्थादिस्थानानि । तथा चादित्यपुराणम्-
अटवी पर्वताः पुण्या नदीतीराणि यानि च ।
सर्वाण्यस्वामिकान्याहुनहि तेषु परिग्रह इति ॥
देवल:-
moneORNuwawwarene
१२२
चतुर्विंशतिमतसंग्रहः
श्राद्धस्य पूजितो देशो गया, गङ्गा, सरस्वती, ।
कुरुक्षेत्रं, प्रयागश्व, नैमिष, पुष्कराणि च, इति ।।
CHOTAAR
पुस्करेष्वक्षयश्राद्धं जपहोमतपसि च ।
महोदधौ प्रयागे च काश्यां च कुरुजाङ्गले ।।
श्राद्धकालानाह याज्ञवल्क्यः ।
अमावास्याष्टका वृद्धिः कृष्णपक्षोऽयनद्वयम् ।
द्रव्यं ब्राह्मणसम्पत्तिर्विषुवत्सूर्यसंक्रमः ।।
व्यतीपातो गजच्छाया ग्रहणं चन्द्रसूर्ययोः ।
श्राद्धं प्रति रुचिश्चैव श्राद्धकालाः प्रकीर्तिताः ।
तत्रामावास्याश्राद्धं नित्यम् ।
श्राद्धं कुर्यादवश्यं तु प्रमीतपितृको द्विजः ।
इन्दुक्षये मासि मासि वृद्धौ प्रत्यब्दमेव च
इति वचनात् । अष्टकाश्चतस्त्रः, हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणा-
मष्टमीष्वष्टका इति शौनकस्मरणात् । एवं भाद्रपदबहुलाष्टम्यप्यष्टका बो-
ध्याः। तथाच पद्मपुराणे-अग्निष्वात्तपितृकन्याया वसुनाम्ना पित्रा
शप्तायाः पुनरनुगृहीतायाः भाद्रपदापरपक्षाष्टकाकालेनोत्पत्तिद्दर्शिता ।
प्रौष्ठपदाष्टका भूयः पितृलोके भविष्यति ।
आयुरारोग्यदा नित्यं सर्वकामफलप्रदेति ॥
तदेवं पञ्चाष्टका हेमायादिग्रन्थे स्थिताः। तत्रापि श्रादं नित्यम्।
अमावास्याव्यतीपातपौर्णमास्यष्टकासु च ।
विद्वान् श्राद्धमकुर्वाणः प्रायश्चित्तीयते तु स इति ।
पितामहस्मरणात् । वृद्धिः पुत्रजन्मादिः, तेन तद्विशिष्ट कालो लक्ष्यते ।
अयनद्वयं दक्षिणोत्तररूपं, सूर्यसंक्रमइत्यनेनैव सिद्धे पृथगुपादानं
फलातिशयार्थम् । एवं विषुवतोरपि । सुलामेषयोः संक्रमणं विषुवत् ।
द्रव्यस्य खड्गमांसादे,ाह्मणानां श्रुताध्ययनसंपन्नानां संपत्तिलाभो
। चतुर्विंशतिमतसंग्रहः यस्मिन् काले इति बहुव्रीहिरिति माधवस्मृतिचन्द्रिकाकारायः। विज्ञानेश्वरस्तु-द्रव्यमित्यसमस्तं पपाठ व्यतीपातो योगविशेषः, तिथिनक्षत्रप्रयुक्तो वा, तल्लक्षणं तु स्मृतिचन्द्रिकाकृवृद्धमनुः स्मरति- श्रवणाश्विधनिष्ठाद्रीनागदेवतमस्तके । यद्यमा रविवारेण व्यतीपातः स उच्यते इति ॥ नागदेवतमाश्लेषा, मस्तकं मृगशिरः । तथा च यद्यमावास्या विवारेण श्रवणादिपडन्यतमनक्षत्रेण च युक्ता स व्यतीपात इत्यर्थः । अर्थद्वयमप्येतन्माधवादिग्रन्थे स्थितम् । गजच्छायालक्षणं तु स्मृत्यन्तरे- यदेन्दुः पितृदेवत्ये हंसश्चैव करे स्थितः । याम्या तिथिर्भवेत्सा हि गजच्छाया प्रकीर्तितेति ॥ पितृदैवत्यं मघा । हंसः सूर्यः । करो हस्तनक्षत्रम् । याम्या त्रयोदशी । पुराणे- इंसे हस्तस्थिते या तु मघायुक्ता त्रयोदशी । तिविवश्वती नाम सा च्छाया कुञ्जरस्य तु इति ॥ इंसे हलस्थिते या तु अमावास्या करान्विता । सा ज्ञेया कुञ्जरच्छाया इति बौधायनोऽब्रवीत् । हंसः सूर्यस्तदैवतकत्वाखस्तनक्षत्रमपि । चन्द्रमूर्ययोर्हस्तस्थयोरिति फलितोऽर्थ इति हेमाद्रौ । स्मृतिचन्द्रिकाकारस्तु-गजच्छाया हस्तिनश्छाया। तथा च पाठकश्रुतिः-" एतद्धयेव पितॄणामयनं यद्धस्तिश्राद्धं तच्छायायां श्राद्धं दद्यादिति । " एवं च- गजच्छायासु कुर्वीत कर्णव्यजनीजित इति- भारते लिङ्गदर्शनमप्युपपद्यते। नच श्राद्धकालाः प्रकीर्तिता इति याज्ञवक्यवचनविरोधः । विज्ञानेश्वरोक्तपाठे द्रव्यराब्देन च पाठा- न्तरेपि वृद्धयादिशब्दैरिव स्वोपलक्षितकालग्रहणादित्याहुः । ग्रहणमुप- ।
m १२४ चतुर्विशतिमतसंग्रहः रागः, तत्रापि स्पर्शकालो ग्राह्यः । त्रिदशाः स्पर्शसमये तृप्यन्ति पितरस्तथा । मनुष्या मध्यकाले तु मोक्षकाले तु राक्षसा इति । वृद्धवशिष्ठस्मरणात् । श्राद्धं प्रति रुचिरिच्छा । चकारः स्मृत्य न्तरोक्तानां संग्रहार्थः । तथाच चन्द्रिकायां जातकर्ण्य:- ग्रहोपरागे च सुते च जाते पित्र्ये मघायामयनद्वये च । नित्यं च शवे च तथैव पद्मे दत्तं भवेनिष्कसहस्रतुल्यमिति । नित्यं दत्तमित्यन्वयः । तेन नित्यतालाभः । चन्द्रिकायाम्-पित्र्ये न- भस्यापरपक्षे या मघा तस्यामित्यर्थः । शङ्खोऽमावास्या। पद्मोऽष्टका । शवं प्राहुरमावास्यां क्षीणसोमां द्विजोत्तमाः। अष्टकासु भवेत्पनं तत्र दत्तं तथाक्षयामिति- तेनैवोक्तत्वात् । यद्वा शवनोक्तं पद्मं ग्राह्यम् । यदा विष्टिय॑तीपातो भानुवारस्तथैव च । पद्मकं नाम तत् प्रोक्तमयनात्तु चतुर्गुणमिति ॥ देवल:- इन्दुक्षयो गजच्छाया मन्वादिषु युगादिषु । एते कालाः समुद्दिष्टाः पितॄणां प्रीतिवर्द्धना इति । मन्वादयो युगादयश्चापरकाण्डे प्रपञ्चितास्तत एव बोध्याः । आदित्यादिसकलवासराः काम्यश्राद्धकालाः । तथाच विष्णुधर्मोत्तरे- अथ काम्यानि वक्ष्यामि श्राद्धानि नव पार्थिव ! । आरोग्यमथ सौभाग्य समरे विजयस्तथा । क्रमेणैतान्यवाप्नोति नात्र कार्या विचारणेति । तथा नक्षत्रेषु काम्यश्राद्धान्याह मार्कण्डेयः कृत्तिकासु पितॄनय॑ स्वर्गमाप्नोति मानवः । अपत्यकामो रोहिण्यां सौम्ये नोजस्वितां लभेत् ।। Ballia चतुर्विंशतिमतसंग्रहः १२५ आयां शौर्यमाप्नोति क्षेत्रलाभः पुनर्वसौ । पुष्टिः पुष्ये पितॄनय॑ आश्लेशासु वरान् सुतान् ।। मघासु स्वजनश्रेष्ठयं सौभाग्यं फल्गुनीषु च । मदानशीलो भवति सापत्यस्तूत्तरासु च ॥ प्राप्नोति श्रेष्ठतां सत्सु हस्ते श्राद्धप्रदो नरः । रूपवन्तीनि चित्रासु तथापत्यान्यवाप्नुयात् ।। वाणिज्यलाभदाः स्वात्यो विशाखाः पुत्रकामदाः । कुर्वतामनुराधासु दाश्चक्रप्रवर्त्तनम् । ज्येष्ठास्वर्थाधिपत्यं च मूले चारोग्यमुत्तमम् । अषाढासु यशःप्राप्तिरुत्तरासु विशोकता ॥ श्रवणे च शुभान लोकान् धनिष्ठासु धनं महत् । वेदविद्याऽभिजिति तु भिषसिद्धिस्तु वारुणे ॥ अजाविकं प्रौष्ठपदे विन्देद्भार्या तथोत्तरे । रेवतीषु तथा रौप्यमश्विनीषु तुरङ्गमान् ।। श्राद्धं कुर्वस्तथाप्नोति भरणीष्वायुरुत्तमम् । तस्मात्काम्यानि कुर्वीत ऋक्षेष्वेतेषु तत्त्वविदिति ॥ चक्रप्रवर्तनं सर्वत्राज्ञायाः प्रतिघाताभावः । तथा प्रतिमासं कृष्ण- पक्षेषु प्रतिपदादितिथयोपि काम्यश्राद्धकालाः। तथा च याज्ञवल्क्या- कन्यां कन्यावेदिनश्च पशून् क्षुद्रान् सुतानपि । द्यूतं कृषि च वाणिज्यं तथैकद्विशफानपि ॥ ब्रह्मवर्चस्विनः पुत्रान् स्वर्णरूप्ये सकुप्यके । जातिश्रेष्ठयं सर्वकामानाप्नोति श्राद्धदः सदा ।। प्रतिपत्मभृतिष्वेका वर्जयित्वां त्रयोदशीम् । शस्त्रेण तु हता ये वै तेभ्यस्तत्र प्रदीयत इति ।। कन्यावदिनो जामातरः। क्षुद्रपशवोऽजादयः । द्यूतं द्यूते विजयः एकशफा अश्वादयः । कृष्णप्रातिपत्प्रभृतिषु अमावास्यासु चतुर्दशीभि ।
चतुर्विशतिमतसंग्रहः नासु तिथिषु कन्याप्रभृतीनि चतुर्दशफलानि क्रमेण प्राप्नोति इत्यर्थः। अयं च विधिः सर्वेषु नतु केवलं भाद्रपदे । तथाच शौनकः- प्रौष्ठपद्या अपरपक्षे मासि मासि चैवमिति । वृडमनु:- नभस्यस्यापरः पक्षो यत्र कन्यां व्रजेद्रविः । स महालयसंज्ञः स्याद्जच्छायाहयस्तथेति । यद्यपि दर्शान्तः पौर्णमास्यन्तो वा मास इति चान्द्रमासे पक्षद्व- यममस्ति तथापि दर्शान्ताभिप्रायेणैवेदं बोध्यम् । तथाच बृहन्मनु:- आषाढीमवधि कृत्वा पञ्चमं पक्षमाश्रिताः। काङ्क्षन्ति पितरः क्लिष्टा अणुमप्यन्वहं जलम् ।। आपाढीमवधि कृत्वा यः पक्षः पञ्चमो भवेत् । तत्र श्राद्धं प्रकुर्वीत कन्यास्थाऽर्को भवेन्नर इति आदित्यपुराणम्- पक्षान्तरेपि कन्यास्थे रवी श्राद्धं प्रशस्यते । कन्यागते पञ्चमे तु विशेषणव कारयेदिति ।। श्लोकगौतमः- कन्यागते सवितरि यान्यहानि तु षोडश । क्रतुभिस्तानि तुल्यानि संपूर्णतरदक्षिणैरिति । कार्णाजिनिः आदौ मध्येऽवसाने च यत्र कन्यां व्रजेद्रविः । स पक्षः सकलः पूज्यः श्राद्धशोडशकं प्रति इति ।। गौतमः-अपरपक्षे श्राद्ध पितृभ्यो दद्यात् पञ्चम्यादिदर्शा- न्तम् , अष्टम्यादि सर्वस्मिन् वेति । ब्रह्माण्डपुराणे- नभस्यकृष्णपक्षे तु श्राद्धं कुर्यादिने दिने । त्रिभागहीनपक्ष वा त्रिभागं त्वमेव वा इति । www RELASCENEMINARENNAParmelanminindian चतुर्विंशतिमतसंग्रहः एते च पक्षं, पञ्चम्यादि, अष्टम्यादि, दशम्यादि, वेति चत्वारः पक्षाः शक्तितो व्यवस्थाप्याः। अत्यसमर्थ प्रति तु सकृन्महालयो बोध्यः। तत्र प्रतिपदादिदर्शान्तमित्यस्मिन् पक्षे नन्दादिकं न वय॑म् । तदाह कार्णाजिनिः- नभस्यापरपक्षे तु श्राद्धं कार्य दिने दिने । नैव नन्दादि वयं स्यान्नैव वा चतुर्दशी इति ॥ नन्वेतत्पूर्वोदाहृतेन वयित्वा चतुर्दशीमिति याज्ञवक्यवचनेन विरुद्धमिति धन्न, तस्य पञ्चम्यादिपक्षेषु सावकाशतया निरवकाशे- न कार्णाजिनिवचनेन बाधादिति । माधव:- कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम् । इति मनुवचनमप्यत्रानुकूलमेव । कन्यागते सवितरि दिनानि दश पञ्च चेति । यान्यहानि तु षोडशेत्याद्यपि चतुर्दशीश्राद्धाभ्युपगम एव शोभत इति माधवः । पञ्चदशत्वषोडशत्वयोवेंधा विषयविभागमाह माधव:-ति- थिवृद्धौ षोडश, साम्ये पञ्चदशेत्येकः पक्षः । आश्वयुक्शुक्लप्रतिपदा सह पोडशेति कल्पान्तरम् । तथाच देवल:- अहःपोडशकं यत्तु शुक्लप्रतिपदा सह । चन्द्रक्षयाविशेषेण सापि दर्शात्मिका स्मृतेति । हेमाद्रौ तु-ौष्ठपद्या सह पोडशेति तृतीयकल्पः स्थितः । ननु चरमपक्षद्वये दिनानि दश पञ्च चेति वचनस्य का गतिरिति चेत्, भत्र माधवादयः-द्वादशकपालेष्वष्टाकपालवत् षोडशसु पञ्चदशेत्यवयु- त्यानुवादः। अथवा पञ्चदशदिवसषोडशदिवसविध्योवीहियववत् विकल्प एवेत्याहुः । अत्र चापरपक्षश्राद्धे पक्षद्वयं हेमाद्रौ स्थितम् । तत्रो- दाहृतकार्णाजिनिवचने श्राद्धपोडशकं प्रतीति संख्यया कर्मभेदः प्रतीयते, प्रतिपद्धनलाभेत्यादिभिश्च प्रत्येकं फलसम्बन्धः, ततो भि- भानां श्राद्धानामेते प्रयोगा इत्येकः पक्षः।
१२८ चतुर्विंशतिमतसंग्रहः नभस्यस्यापरे पक्षे तिथिषोडशकं तु यत् । कन्यास्थाकान्वितः श्रेयान् स कालः श्राद्धकर्मणि इति ॥ कार्णाजिनिवाक्ये तु संख्यायुक्तेषु समुच्चयः स्यादिति न्यायेन तिथीनां श्राद्धसमुच्चयोऽवगम्यते । न चात्तिं विना तदुपपद्यत इति तदेव श्राद्धं प्रतिदिनमावर्ततइति अन्यः पक्षः । तत्राये पक्षे प्रतिदिनं दक्षिणा देया । उत्तरस्मिन् पक्षे समाप्ति- दिने दक्षिणा देया दक्षिणायाः प्रयोगाङ्गत्वात् । ब्राह्मणा अपि प्रति- दिनं त एव नतु भिद्यन्ते । देशो पि स एवेत्यादि विवेचनीयम् । अत्यन्तदारिद्रस्तु एकस्मिन् दिवसे कुर्यात् । तदुक्तं नागरखण्डे- आषाढ्याः पञ्चमे पक्षे कन्यासंस्थे दिवाकरे। यो वै श्राद्धं नरः कुर्यादेकस्मिन्नपि वासरे । तस्य संवत्सरं यावत्तृप्ताः स्युः पितरो ध्रुवमिति । MWAR तथा च तत्रैव- आपाढ्याः पञ्चमे पक्षे यः श्राद्धं न करिष्यति । शाकेनापि दरिद्रो वा सोन्त्यजत्वमुपैष्यतीति- अकरणे दोषश्रवणादरिद्रेणापि यथासंभवं कार्यम् । तच्च आषा- ढयाः पञ्चमपक्षस्य पञ्चमीमारभ्यानन्तरपक्षपञ्चमीपर्यन्तासु तिथिषु मध्येऽनिषिद्धायां कस्यांचित्कर्तव्यम् । तदाह यसः- इंसे वर्षासु कन्यास्थे शाकेनापि गृहे वरान् । पञ्चम्योरन्तरे दद्यादुभयोरपि पक्षयोरिति ॥ अशक्तयादिना तत्रापि श्राद्धाकरणे तु यावत्कन्यागतः सूर्यस्ता- वन्मध्ये देयं तत्राप्यकरणे तु यावदृश्चिकदर्शनं श्राद्धं कुर्यात् । तदाह सुमन्त:- कन्याराशौ महाराज यावत्तिष्ठेद्विभावसुः । तस्मात्कालाद्भवेद्देयं वृश्चिकं यावदागत इति ।
Howari
चतुर्विशतिमतसंग्रहः
तत्र सकृन्महालयपक्षे वया॑नाह गर्गः-
नन्दायां भार्गवदिने त्रयोदश्यां त्रिजन्मनि ।
एषु श्राद्धं न कुर्वीत गृही पुत्रधनक्षयादिति ।।
त्रिजन्मनि आत्मनो भार्यायाः पुत्रस्य च जन्मनक्षत्र इत्यर्थः ।
कर्तुश्च पुत्रदाराणां त्रिजन्माणि वर्जयेत् ।
इति स्मृत्यन्तरात् । वृद्धगर्ग:-
प्राजापत्ये च पौंस्ने च पित्र्यः भार्गवे तथा ।
यस्तु श्राद्धं प्रकुर्वीत तस्य पुत्रो विनश्यनीति ॥
प्राजापत्यं रोहिणी, पास्नं रेवती, पित्र्यं मघा । नारदस्तु-
कृत्तिकायां च नन्दायां भृगुवारे त्रिजन्मसु ।
पिण्डदानं न कर्त्तव्यं कुलक्षयकरं यतः ।।
त्रिजन्मसु त्रिपादेषु नन्दायां भृगुवासरे ।
धातृपस्निभयोः श्राद्धं न कर्तव्यं कुलक्षयात् ।।
सकुन्महालये काम्ये पुनःश्राद्धेऽखिलेषु च ।
अतीतविषये चैवमेतत्सर्व विचिन्तयेदिति ॥
अस्यापवादः स्मयते हेमाद्रौ-
अमापाते भरण्यां च द्वादश्यां पक्षमध्यके ।
तस्यां तिथिं च नक्षत्रं वारं च न विचारयेत् इति ॥
एतन्महालयश्राद्धं मलमासे न कर्तव्यम् । तथाच भृगुः-
एकराशिस्थिते सूर्ये यदा दर्शद्वयं भवेत् ।
हव्यकव्यक्रियाहन्ता ददा ज्ञेयोऽधिमासकः ।
वृद्धिश्राद्धं तथा सोममग्न्याधेयं महालयम् ।
राजाभिषेकं काम्यं च न कुर्याद्भानुलकित इति ।
ननुदाहृतगर्गवचनेन त्रयोदशीश्राद्धं निषिद्धम् । अङ्गिरसापि-
त्रयोदश्यां कृष्णपक्षे यः श्राद्धं कुरुते नरः।
पञ्चत्वं सस्य जानीयाज्ज्येष्ठपुत्रस्य निश्चितमिति ।।
PROHIBIANNAAD HAIRMEIRNORITIES चतुर्विशतिमतसंग्रहः मनुना तु त्रयोदश्यां श्राद्धं विहितम् । यत्किचिन्मधुना मिश्रं प्रदद्यात्तु त्रयोदशीम् । तदप्यक्षयमेव स्याद्वर्षासु च मघासु चेति ।। सदनयोर्विप्रतिषेधयोः कीदृशो विषयविभाग इति चेत, अत्र हेमाद्रिकाराः-निषेधवाक्यानि एकवर्गोद्देश्यकविषयाणि । अत एव कार्णाजिनिः- श्राद्धं नैवैकवर्गस्य त्रयोदश्यामुपक्रमेत् । न तृप्तास्तत्र ये यस्य प्रजा हिंसन्ति तस्य ते ॥ इति यद्यपि पितरो यत्र पूज्यन्ते तत्र मातामहा ध्रुवम् । इति धौम्यवचनादेव मातामहवर्गोपि प्राप्तस्तथापि व्यामोहमाप्तस्यै- कवर्गश्राद्धस्यायं निषेधः उदाहृतकाजिनिवचनस्यैवमेव व्याख्येय- त्वात् । यद्वा सपिण्डश्राद्धविषयको निषेधः । अयनद्वितये श्राद्धं विपुवद्वितये तथा । युगादिषु च सर्वासु पिण्डनिर्वपनादृते ।। इति पुलस्त्यवचनात् । भाद्रपदापरपक्षत्रयोदश्याश्वयुगादित्वाद मघान्वितत्वेनापि पिण्डदानानिषेधः स्मर्यते आदित्यपुराणे- संक्रान्तावुपवासेन पारणेन च भारत । मघायां पिण्डदानेन ज्येष्ठः पुत्रो विनश्यतीति। चतुर्दशीश्राद्धनिषेधास्तु अपमृत्युहतेतरविषयाः। तथाच मरीचिः- विषशस्त्रश्वापदादितिर्यग्बामणघातिनाम् चतुर्दश्यां क्रिया कार्या अन्येषां तु विहितेति ॥ विषमभृतिभिर्घातोऽस्त्येषामिति तृतीयातत्पुरुषान्मत्वयं इति । प्रचेता अपि- नखिदंष्ट्रिविपन्नानामेव शस्ता चतुर्दशीति । यत्पुनः शाकटायनेनोक्तम् । । AHANImage WHAAR चतुर्विंशतिमतसंग्रहः जलाग्निभ्यां विपन्नानां संन्यासे वा गृहे पथि। श्राद्धं कुर्वन्ति तेषां वै वर्जयित्वा चतुर्दशीमिति- तत्प्रायश्चित्तं वैधमरणविषयकम् । अत एव सहगमनादिस्थले च- तुर्दशीश्राद्धं नेति हेमाद्रिः। युद्धे प्रायोपवेशे च वैधत्वेपि वचनात् चतु- दशीश्राद्धं भवत्येव । तथाच मनु:- जातिश्रेष्ठयं त्रयोदश्यां चतुर्दश्यां तु सुप्रजाः। प्रीयन्ते पितरश्चास्य ये वै शस्त्रहता रणे इति । तथाच ब्राह्म- । wituRAHAN प्रायोनाशकशस्त्राग्निविपोद्धन्धनिनां तथा । चतुर्दश्यां तु कर्त्तव्यं तृप्त्यर्थमिति निश्चय इति । चतुर्दश्यामेषामेवेत्यर्थः । अन्येषां तु विगर्हितेति मागुक्तमरीचि- बचनात्, अत एवं शस्त्रेण तु हता ये वै तेभ्यस्तत्र प्रदीयत इति । याज्ञवल्क्यीयमपि चतुर्दश्यां शस्त्रहतानामेवेति नियमपरं नतु शस्त्रादिहतानां चतुर्दश्यामेवेत्येवंपरम् । एवं च दिनान्तरेऽपि पिता- महादितृप्त्यर्थं श्राद्धं कर्त्तव्यमेव । नच चतुर्दशीश्राद्धेनैव पितामहादीनाम- पि तृप्तिरस्त्विति वाच्यं, तस्यैकोद्दिष्टरूपत्वात् । तथा च मुमन्तुः- समत्वमागतस्यापि पितुः शस्त्रहतस्य च । एकोद्दिष्टं सुतैः कार्य न तु तस्यां महालय इति ।। समत्वमागतस्य सपिण्डीकृतस्येत्यर्थः । यस्य पितृपितामहप्रपिता- महेषु मध्ये कौ चिद् द्वौ शस्त्रादिना हतौ तवयोरपि चतुर्दश्यामे- कोदिष्टं कार्यम् । तथाच स्मृतिः-एकस्मिन् द्वयोवैकोद्दिष्टविधिरिति । यस्य तु पित्रादयस्त्रयोपि शस्त्रादिना हतास्तेन पार्वणं कर्त्तव्यम्।एकस्मिन् दयोर्वेति विशेषोपादानात् । इदं च चन्द्रिकाकारापराकहेमाद्रीणां मतम् । माधवाचार्यस्तु-त्रिषु शस्त्रादिहतेषु त्रयाणां पृथगेकोद्दिष्टमेव कार्यमिति देवस्वामिमतमेव प्रतिपेदे पार्वणश्राद्धस्य साक्षाद्विधायकव- चतुर्विशतिमतसंग्रह चनाभावात्, एकस्मिन् द्वयोःत्यस्योपलक्षणार्थत्वात् । अन्यथा वाक्यभेदा- पत्तेरिति तदाशयः । एकं वृणीते द्वौ वृणीते इति नित्यप्राप्तत्वादनुवादः। इह वैकल्पिकमाप्तिमतो वाशद्धपूर्वकं तथैवानुवाद इति न नित्यवदनुवाद- विरोधोपि। त्रीन् वृणीत इतिवच्छस्त्रहते एकोदिष्टमित्येव विधिशरीरमिति दिक् । शस्त्रादिहतानामपि दिनान्तरे पार्वणमेव । अत एव प्रजापतिः- संक्रान्तावुपरागे च वर्षातरमहालये । निर्वपेदन पिण्डाँस्त्रीनिति प्राह प्रजापतिरिति ।। भ्रात्रादीनां तु महालये एकोद्दिष्टमेव । तथाच सुमन्तु:- सपिण्डीकरणादूर्द्ध यत्र यत्र प्रदीयते । भ्रात्रे भगिन्यै पुत्राय स्वामिने मातुलाय च ।। पित्र्याय गुरवे श्राद्धमेकोद्दिष्टं न पार्वणम् इति हेमाद्रौ पुराणवचनम् । उपाध्यायगुरुश्वभूपितृव्याचार्यमातुलाः । श्वशुरभ्रातृतत्पुत्रविशिष्यपोष्यपोषकाः ॥ भगिनीस्वामिदुहितृजामातृभागिनीसुताः इत्युपक्रम्य सखिद्रव्यदशिष्याधास्तीर्थे चैव महालये। एकोद्दिष्टविधानेन पूजनीयाः प्रयत्नत इति ॥ एवंस्थिते प्रदानं यत्र यत्रैषां सपिण्डीकरणात्परम् । तत्र पार्वणवत्कुर्यादेकोद्दिष्टं त्यजेद्बुधः इत्यादिवचनानि प्रतिपदोक्तैकोद्दिष्टविध्यभावे द्रष्टव्यानीति सर्व अथ क्षयाहोपि श्राद्धकालः । तल्लक्षणमाह व्यास:- क्षयमासतिथिस्पृष्टे यो यस्मिन् म्रियतेऽहनि । प्रत्यब्दं तु तथाभूतं क्षयाहं तस्य तद्विदुरिति ।
N
चतुर्विंशतिमतसंग्रहः
तत्र संन्यासिनां क्षयाहे सुतैः पार्वणमेव कर्तव्यम् ।
एकोद्दिष्टं यतेनास्ति त्रिदण्डग्रहणादिह ।
सपिण्डीकरणाभावात्पविणं तस्य सर्वदेति-
प्रचेतःस्मरणात् । अमावास्याक्षयाहे प्रेतपक्षक्षयाहे च पार्वणमेव ।
अमावास्या क्षयो यस्य प्रेतपक्षेपि वा पुनः।
पावणं तत्र कर्त्तव्यं नैकोदिष्टं कदाचन इति-
स्मरणात् । अन्यत्र क्षयाहे पार्वणैकोद्दिष्टयोत्रीहियववद्विकल्प एव,
उभयविधायकवचनसत्वात् । तथाच यम:-
सपिण्डीकरणादू प्रतिसंवत्सरं सुतैः।
मातापित्रोः पृथकार्यमेकोदिष्टं क्षयाहनि इति ॥
शातातपस्तु-
सपिण्डीकरणं कृत्वा कुर्यात्पविणवत्सदा ।
प्रतिसंवत्सरं श्राद्धं छागलेयोदितो विधिरिति॥
वंशसमाचाराव्यवस्थायां सत्यां व्यवस्थितोयं विकल्पइति
विज्ञानेश्वरः। इति श्राद्धकालाः।
अथ क्षयाहाज्ञाने निर्णयः।
मासपक्षयोजाने दिवसस्याज्ञाने तत्पक्षस्यैकादशी ग्राह्या। पक्षाज्ञाने
कृष्णकादशी। अमावास्या मुख्यः पक्षः । तदसंभवे तु शुक्लैकादशी ग्राह्या।
सथाच बृहस्पतिः-
न ज्ञायते मृताहश्चेत्प्रमीते प्रोषिते सति ।
मासश्चेत्पतिविज्ञातस्तदर्थे स्यान्मृताहनि ।
मृताहनि यत्कर्त्तव्यन्तदिति शेषः। मरीचिः-
श्राद्धविघ्ने समुत्पन्ने अविज्ञाते मृतेहनि
एकादश्यां न कर्त्तव्यं कृष्णपक्षे विशेषत इति ॥
विशेषतइत्युक्त्या शुक्लपक्षेऽनुकल्पतयाभ्यनुज्ञात इति हेमाद्रिः।
भविष्यत्पुराणे-
॥
MAINA
। mamRIMNIA चतुर्विंशतिमतसंग्रहः दिनमेव विजानाति मासं नैव तु यो नरः । मार्गशीर्षे थवा भाडे माघे वाथ समाचरेदिति । दिनमासयोरुभयोरप्यज्ञाने तु प्रशासखण्डे स्मर्यते मृताहं यो न जानाति मासं वापि कदाचन । तेन कार्यममावास्याश्राद्धं माघेऽथ मार्गके । इति प्रस्थिते मृते तु विशेषमाह बृहस्पतिः दिनमासौ न विज्ञातौ मरणस्य यदा पुनः । प्रस्थानदिनमासौ तु ग्राह्यौ पूर्वोक्तया दिशेति ।। प्रास्थानिकयोस्तयोरस्मरणेतु भविष्योत्तरे उक्तम् । मृतवात श्रुतेाह्यौ तौ पूर्वोक्तक्रमेण त्विति । मरणवा श्रवणे दिनमासौ ग्राह्यावित्यर्थः । वार्ताया अप्यश्रवणे तु जातूकl:- पितरि प्रोपिने यस्य न वार्ता नैव चागतिः । अर्द्ध पञ्चदशाद्वर्षात्कृत्वा तत्प्रतिरूपकम् ॥ कुर्यात्तस्य च संस्कारं यथोक्तविधिना ततः । तदादीन्येव सर्वाणि संचरेदिति ॥ पितरीत्यविवाक्षितं ग्रहैकत्ववत् । तदादीनिति । तथाच प्रतिकृतिदा- इदिवस एव क्षयाहतया ग्राह्यइति भावः । अथाशौचादिनिमित्तकप्रतिबन्धे सति श्राद्धकालाः । तत्र मासिकश्राद्धे आशौचप्राप्तौ आशौचापगमे सति तत्कामिति मुख्यः कल्पः । मुख्यकालपत्यासन्नत्वात्तस्य तदुत्तरो दर्शः, कृष्ण- कादशी, उत्तरमासान्तर्गततिथिति त्रयोनुकल्पाः । शुक्लैकादश्यपि मतभेदेन ग्राह्या । तथाच षट्त्रिंशन्मते मासिकान्दे तु संमाप्ते अन्तरा मृतसूतके । कार्य वदन्ति शुद्धयन्ते दर्श चापि विशेषत इति । मासिकं चान्दं चेति समाहारद्वन्दः। मरीचि:- । Homeera चतुर्विंशतिमतसंग्रहः श्राद्धविघ्ने समुत्पन्ने अविज्ञाते मृतेऽहनि । एकादश्यां तु कर्त्तव्यं कृष्णपक्षे विशेषत इति । विशेषतइत्युक्त्या शुक्लपक्षोपि अनुज्ञातो भवतीति हेमादिः । अत्रिः- तदहश्चेत्मदुष्येत केन चित्सूतकादिना । सूतकानन्तरं कुर्यात्पुरस्तदहरेव वेति । पुरः उत्तरमासे इति तस्मिन्नेवदिने इत्यर्थः । इदं हेमाद्रिमतम् । देवस्वामिमाधवपारिजातकारमभृतयस्तु मासिके आशौचेनोपहते स्तकानन्तरम् शुद्धिदिन एव कर्त्तव्यं, पुरस्तदहरेव वेति द्वितीयपक्षस्तु सूतकाद्यतिरिक्तनिमित्तान्तरेण विहते मासिके द्रष्टव्यः , मासिकाब्दे विति षट्त्रिंशन्मतवचनं तु अनुमासिकाविषयम्, तस्मादनुमासिके वार्षिके चाशौचोपहते शुद्धिकालमभृतयः उत्तरमासस्थतत्तिथिभिन्नाश्च- त्वार एव पक्षा मासिके त्वाशौचोपहते. शुद्धयनन्तरपक्षः, एवं निमि- तान्तरोपहते तु मासिके उत्तरमासस्थतत्तिथिरेवेति व्यवस्थामाहुः । तेषामयमाशयः। दैवात्पितॄणां श्राद्धे तु आशौचं जायते यदा । आशौचे तु व्यतिक्रान्ते तेभ्यः श्राद्धं मदीयते इति ऋष्यशृङ्गवचनम् आशौचमात्रविषयत्वाद्विघ्नान्तरपरतयापि सम्भवतोऽन्युक्तस्य द्वितीयपक्षस्य स्वविषये बाधकम् । अत्र्युक्त- द्वितीयपक्षस्तु मासिकपरो न त्वनुमासिकपरोपि । एकोद्दिष्टे तु सम्माप्ते यदि विघ्नः प्रजायते । अन्यस्मिंस्तत्तिथौ तस्मिन् श्राद्धं कुर्यात् प्रयत्नतः । इति देवलवचनेनैकोद्दिष्टपरतानिर्णयात् । अन्यस्मिन् मासान्तरे, तत्तियौ मृततिथौ, तस्मिन् शुक्ले कृष्णे वा पक्षे इत्यर्थः । मासिकमेकोद्दि- टम्, अनुमासिकेषु तु पार्वणमिति वक्ष्यते । आशौचान्तरविधिनते तु मृततिथौ शुक्लकृष्णैकादशीरूपं पक्षत्रयं, मासिके तु तथाभूते उत्तर-
tation
चतुर्विशतिमतसंग्रहः
मासस्य तत्तिथिरेवेति उभयमिदं निर्विवादमेव । हारीतः
श्राद्धविघ्ने द्विजातीनामामश्राद्धं प्रकीर्तितम् ।
अमावास्यादि नियतमाससम्वत्सराहत इति ।
मासः मासिकः, सम्बत्सरः साम्वत्सरिकः, एतदुभयभिन्न नियतं
नित्यम् । अमावास्यादि आमश्राद्धं कर्त्तव्यमित्यर्थः । एतद्भाारजो-
दर्शनकृतविघ्नविषयकम् । तथा चोशनसोक्तम्-
अपत्नीकः प्रवासी च यस्य भार्या रजस्वला ।
सिद्धान्नेन न कुर्वीत आमं तस्य विधीयत इति ।।
आमश्राद्धासंभवे तु व्यास:-
द्रव्याभावे द्विजाभावे प्रवासे पुत्रजन्मनि ।
हेमश्राद्धं प्रकुर्वीत यस्य भार्यारजस्वलेति ।
मृताहश्राद्धे तु विवदन्ते तत्र ।
मृतेऽहनि तु सम्पाप्ते यस्य भार्या रजस्वला ।
श्राद्धं तदा न कर्त्तव्यं कर्त्तव्यं पञ्चमेहनि ।
इति श्लोकगौतमवचनात् । तथा श्राद्धादौ कर्मणि भार्यया सहा-
धिकारश्रवणात्तस्यां रजोदर्शनदृषितायामधिकारनिवृत्ते पञ्चमेऽहनि
मृताहश्राद्धं कर्त्तव्यम् । भार्यान्तरयुतेन त्वधिकारानपायान्मुख्यकाल एव
कर्तव्यमिति हेमाद्रिपतम् । अन्ये तु अपुत्रायाः पत्न्या एव पत्युम॒ताहे
श्राद्धे अधिकाराद्यदा सा रजस्वला स्यात्तदा पञ्चमेऽहनि श्राद्धं कु-
यन्नितु मृतेऽहनीति उदाहृतश्लोकार्थः । तथाच यस्येत्यनेन श्राद्धकती
न निर्दिश्यते किंतु संप्रदानं यस्य मृतस्य भार्या तदीयं श्राद्धमित्यर्थः।
अत्र गौतमश्लोके सांप्रदायिकानामित्थं पाठः।
अपुत्रा तु यदा भार्या संप्राप्ते भत्तुराब्दिके ।
रजस्वला भवेत्सा तु कुर्यात्तत्पञ्चमेऽहनीति ।।
कर्तुस्तु पत्न्यां रजस्वलायाम् अमावास्यादिकमामेन हेम्ना वेत्युक्तमेव ।
मृताहश्रादं तु तस्मिन्नेवाहि पकानन कार्यम् । तथाच लौगाक्षिः-
। चतुर्विशतिमतसंग्रहः पुष्पवत्स्वपि दारेषु विदेशस्थोप्यनग्निकः । अन्नेनैवाब्दिकं कुर्याद्धेम्ना चामेन वा कचित् इति । कचिदमावास्यादौ । संग्रहकारोयाह- विदेशगो वा विगताग्निको वा रजस्वलायामपि धर्मपल्याम् । श्राद्धं मृताहे विदधीत पाकैर्नामेन हेम्ना नच पञ्चमेऽहि इति । तस्मादपुत्रकस्त्रीकर्तृकश्राद्धम्पञ्चमेऽह्नि, अन्यत्र मृताह एवेति सिद्धान्त- यन्ति । मतद्वयमप्येतन्माधवनिबन्धे स्थितम् । इह पक्षदयेन श्राद्धं तदा न कर्त्तव्यम् इत्यनुवादमात्रं कर्तव्य पञ्चमेऽहनीति तु विधिः, सच श्राद्धविघ्ने सति विहितानाममावास्याकृष्णैकादश्यादिकालानां वाध- नार्थः, तेन वचनवैयर्थ्य न शङ्कयम् । यत पारिजातादी- मासिकानि सपिण्डानि अमावास्या तथाब्दिकम् । अन्नेनैव तु कर्तव्यं यस्य भार्यारजस्वला । इति वचनमुदाहृत्याऽऽमावास्यायामामश्रादविधायकवचनानि तु पाकयोग्यस्यन्तराभावे विषयाणीत्युक्तं त, चिन्त्यम् । अन्नाभावे द्विजाभावे इति पृथगुपादाय- हेमश्राद्धं प्रकुर्वीत यस्य भार्या रजस्वलेति- प्रघट्टकान्ते उदाहृतेन वचनेन सह विरोधात् । नहि तत्राप्यन्ना- भावपरता पृथगुपादानवैयर्थ्यात् । उदाहृतस्मृतिस्तु भार्यान्तरसनाववि- षयकतया कथञ्चिन्नेतव्येति दिक् । अथ श्राद्धनिषेधकालः । विष्णुः- सन्ध्याराव्योन कर्त्तव्यं श्राद्धं खलु विचक्षणः । तयोरपि न कर्त्तव्यं ह्यादित्यस्यानुदर्शनमिति ॥ सन्ध्यालक्षणमाह याज्ञवल्क्यः- उदयात्माक्तनी सन्ध्या मुहूर्सद्वयमुच्यते । सायं विघटिका ज्ञेया यस्तादुपरि भास्वतः इति amam चतुर्विंशतिमतसंग्रहा स्कान्दे- उपसंध्यं न कुर्वीत पितृपूजां कथञ्चनेति । अथ पिण्डदाननिषेधकालाः । बृहत्पराशर:- युगादिषु मघायां च विषुवत्ययने तथा । भरणीषु च कुर्वीत पिण्डनिवपनं नहीति ॥ ब्राह्मे- यदा च श्रोत्रियोऽभ्येन्नि गृहं वेदविदग्निचित् । तेनैकेन तु कर्तव्यं श्राद्धं हि विषुवच तत् । विषुवदिति अपिण्डकमित्यर्थः । पामे-- अयनद्वितये श्राद्धं विषुवद्वितये तथा । सङ्क्रान्तिषु च कर्त्तव्यं पिण्डनिवपनाहते इति । ज्योतिःपराशर:- विवाहे विहिते मासान् त्यजेयुशैव हि । सपिण्डाः पिण्डनिर्वापं मौजीवन्धे षडेव हीति ।। अस्याषवादं स एवाह- महालये गयाश्राद्धे मातापित्रोः क्षयेऽहनि । यस्य कस्यापि मर्त्यस्य सपिण्डीकरणे तथा । कृतोद्वाहोऽपि कुर्वीत पिण्डनिर्वनं सदा इति । वृद्धशातातप:- पिण्डनिर्वापरहितं यत्तु श्राद्धं विधीयते । स्वधावाचनलोपोत्रेति । तेन पिण्डनिषेधे स्वधावाचनमपि लुप्यते॥इति पिण्डनिषेधकाला। अथ प्रतिनिमित्तं श्राद्धभेदे प्राप्ते तन्त्रेण कचिदनुष्ठानं निरूप्यते। यत्र निमित्तानां योगपचं संप्रतिपन्नदेवताकत्वं च तत्रासंगृह्यमा- चतुर्विशतिमतसंग्रहः णविशेषत्वात् न्यायलभ्यमेव तन्त्रं यथा युगादिसंक्रान्त्योः तथाच संक्रान्ति- निमित्तक,ममावास्यानिमित्तक, व्यतिपातनिमित्तकं चेत्येतानि श्राद्धानि तन्त्रेण करिष्ये इति संकल्प इति हेमाद्रिः। यद्यप्यधायां पिण्डायझं नतु संक्रात्यादौ । तथाच गृह्यमाणविशेषतया तन्त्रानुपपत्तिस्तथापि प्रसङ्गसि- दिरेवेह बोध्या । पच्यर्थमनुष्ठितैः प्रयाजैरिव पुरोडाशे । उक्तं च कालादर्श- नित्यदार्शिकयोश्वोदकुम्भमासिकयारेपि । दार्शिकस्य युगादेश्व दार्शिकालभ्ययोगयोः ॥ दार्शिकस्य च मन्वादेः सम्पाते श्राद्धकर्मणः । प्रसङ्गादितरस्यापि सिद्वेरुत्तरमाचरेदिति ॥ अस्यार्थः, नित्यश्राद्धदार्शिकश्राद्धयोः संनिपाते दार्शश्राद्धेनैव नित्यश्राद्धसिद्धिः । नच विनिगमकाभावाद्वैपरीत्यमङ्गबहुलत्वेन दर्श- स्यावश्यकत्वात् । तथाच मासिकेनैवोदकुम्भश्राद्धसिद्धिः, एवं माघाऽमायां युगादिश्राद्धेनैव दार्शिकसिद्धिः, तथा ग्रहणेोदयाघलभ्ययोगश्राद्धेनैव दार्शिकसिद्धिः । एवं फाल्गुनामायां मन्वादित्वनिमित्तश्राद्धेनैव दार्शि- कसिद्धिरिति । ननु दर्शे पिण्डदानमङ्गं युगादौ तदभावोङ्ग तथाच विरुद्धाङ्गयोः कथं प्रसङ्गोपीति चेत्, अत्रोच्यते सावरभाष्यप्रसङ्गे न तो पशौ करोमीति प्रकरणान्तरस्यापि पर्युदासाभ्युपगमात् प्राभा- करैश्च तथैव समर्थनात् तद्वदिहापि पिण्डेतरदङ्ग नतु पिण्डाभावः । महाभाष्येपि ख्युन्विधौ एवमेव स्थितम् । उक्तं च हरिणा- भिन्नप्रकरणस्थं च वाक्यं न्याय्यापवादयोः । एकमेवेष्यते कैश्चिद्भिन्नरूपमिव स्थितम् । द्वितीये यो लुगाख्यातस्तच्छेषमलुकं विदुरिति । न्याय्य उत्सर्गः, अलु चातुरर्थिकं पाष्ठं चेत्यर्थ इति हेला- राजः। भट्टाचार्यमते तु न तौ पशावित्यादाविवेहापि विकल्पो दुर्वारः। नच दीक्षितो ददातीत्यादाविव विशेषवचनेन सामान्योक्तस्य बाधः, - चतुर्विंशतिमतसंग्रहः निषेधेन विधायकप्रारभ्युपेततया तस्य च विषयान्तरालाभेन विकल्पस्य दुरित्वात् । न तदङ्गमापकत्वस्याङ्गान्तरं विषयः । अन्यथा न तावित्यत्रापि तथात्वापत्तेरिति । तथा भाष्यरीत्यापि दार्शिकेन युगादेः प्रसङ्गसिद्धिरस्तु नाम युगादिमन्वादिभ्यां त्वपिण्डकाभ्याम- मायाः प्रसङ्गासिद्धिरुपपदेवेति कथं कालादर्शादिग्रन्थसामञ्जस्य- मिति परिभाव्यतां सूरिभिरिति । प्रकृतमनुसरामः । देवताभेदे तु न तन्त्रम् । तथाच कालादर्शे- नित्यस्य चोदकुम्भस्य नित्यमासिकयोरपि । दर्शस्य चोदकुम्भस्य दर्शमासिकयोरपि ।। युगाद्याब्दिकयोश्चापि मन्वाद्याब्दिकयोरपि । प्रत्यान्दिकस्य चालभ्ययोगेषु विहितस्य च ॥ सम्पाते देवताभेदात् श्राद्धयुग्मं समाचरेदिति ॥ अत्र नित्यदार्शिकयोः षट्देवताकत्वान्मासिकोदकुम्भयोरेकोहि- तृत्वात् देवताभेदः। तथा नित्यदार्शिकयुगादिमन्वादिप्रभृतीनामलभ्ययो- गनिमित्तानां च षदेवतात्वात् प्रत्याब्दिकस्य तु त्रिदेवतात्वादेकोद्दिष्ट- स्वादा देवताभेद इत्याहुः । वस्तुतस्तु एकादशपयाजैः पाशुकैः पारोडाशि- कानामिवेहापि अधिकदैवत्येन न्यूनदैवत्यस्य प्रसङ्गसिद्धिर्दुारा, तस्मादुक्तसिद्धान्तस्थैर्यार्थ वचनमेवान्विष्य शरणीकरणीयम्।अतएव जी- न्मातामहवर्गस्यापि दर्शनासमानदेवतेन प्रत्याब्दिकस्य तन्त्रप्रसङगो ने- त्यवधेयम् । अत्राप्यनियतनिमित्तं नित्यदार्शिकादिप्रथमं कुर्यात् । तथाच कात्यायनोप्याह- द्वे बडूनि निमित्तानि जायेरन्नेकवासरे। नैमित्तिकानि कार्याणि निमित्तोत्पत्यनुक्रमात् इति । अथ श्राडे भोजयितव्या ब्राह्मणाः । बन्न पङ्क्तिपावनादयो मुख्या प्रसिद्धा एव। ननु न सगोत्रे इर्विदद्याद्यथा कन्या तथा हविः ।
चतुर्विंशतिमतसंग्रहः १४१ इत्यादिभिः सगोत्राणां हविदर्दानं निपिद्धमिति चेत् न, अत्र हविः परस्परं पित्र्यद्रव्यपरत्वात् । शिष्यस्यापि वैश्वदेव एव निवेशः, सोदया- भिहितस्यार्थस्य, एतेनान्तेवासिनोपि व्याख्याता इत्यापस्तम्बेन शिष्येऽतिदेशात् । एतेन शिष्यानपि गुणवतो भोजयदिति बशिष्ठ- वचनं वैश्वदेवाविषयं ज्ञेयम् । आपस्तम्बः-ब्राह्मणान् भोजयेद् ब्रह्म- विदो योनिगोत्रमन्त्रान्तेवास्यसंबन्धानिति। योनिसम्बन्धा मातुलादयः । गोत्रसंबन्धाः सगोत्राः । मन्त्रसंबन्धा गुरुशिष्यभूताः । अन्तेवासिनः शिल्पशास्त्राध्येतारः । एतान् विहाय भोजयेत् । अत्र सगोत्रविषये विशेषः अविस्मृतौ- पड्भ्यस्तु पुरुषेभ्योगिश्राद्धेयास्तु गोत्रिणः । पड्भ्यस्तु परतो भोज्याः श्राद्धे स्युर्गोत्रजा अपीति ॥ अनुकल्पमाह मनु:- अनुकल्पस्त्वयं शेयः सदा सद्भिरनुष्ठितः। मातामहं मातुलं वा स्वस्त्रियं श्वशुरं गुरुम् । दौहित्रं विट्पति बन्धुमृत्विक्याज्यौ च भोजयेत् । विट्पतिर्जामाता अतिथिर्वेति माधवादयः ।आपस्तम्बः-गु- णवदलाभे सोदर्योपि भोजयितव्यः । एतेनान्तेवासिनोपि व्याख्याता इति बौधायनः । तस्मादेवंविधं सपिण्डमप्याशयेदिति। विष्णुपुराणेपि- पितृव्यं गुरुदौहित्रावृत्त्विस्वस्त्रीयमातुलान् । पूजयेद्धव्यकव्येन वृद्धानतिथिवान्धवान् इति । अत्र ऋत्विक्सपिण्डसोदरपितृव्यादयो वैश्वदेवस्थाने नियोक्तब्याः नतु पित्रादिस्थाने । तथाच अत्रिः- पिता पितामहो भ्राता पुत्रो वाथ सपिण्डकः । न परस्परमाः स्युः श्राद्धादौ ऋत्विजस्तथा । ऋत्विपत्रादयो ोते सकुल्या ब्राह्मणा द्विजैः । वैश्वदेवे नियोक्तव्या यद्यते गुणवत्तराः इति ।
। Leyseas चतुर्विंशतिमतसंग्रहः कौम्य- श्वो भविष्यति हि श्राद्धं पूर्वेचुरभिपूजयेत् असम्भवे परेधुर्वा यथोक्तैर्लक्षणैयुतानिति । देवल:- श्वः कर्तास्मीति निश्चित्य दाता विप्रान् निमन्त्रयेत् । निरामिषं सकृद्भुङ्क्त्वा सर्वभुक्तजने गृहे । असम्भवे परेधुर्वा ब्राह्मणांस्तान् निमन्त्रयेत् इति । वशिष्ठः- द्वौ दैवे पितृकृत्ये त्रीन्ने कैकमुभयत्र वा। भोजयेत्तु समृद्धोपि विस्तरं तु विवर्जयेदिति । विस्तरं नवावरान्भोजयेदयुजो वा यथोत्साहमिति गौतमोक्तम् । तस्य त्वत्यन्तसमृद्धोधिकारीत्यर्थः । याज्ञवल्क्य:- द्वौ दैवे प्राक् त्रयः पित्र्य उदगेकैकमेव वा। मातामहानामप्येवं तन्त्रं वा वैश्वदेविकमिति । यतु शववचनम्- भोजयेदथवाप्येकं ब्राह्मणं पङ्क्तिपावनम् इति । तत्तु ब्राह्मणान्तरालाभविषयकम् । तत्र विशेषमाह वशिष्टः- यद्येकं भोजयेच्छ्राद्धे दैवं तत्र कथं भवेत् । अन्नं पात्रे समुद्धृत्य सर्वस्य प्रकृतस्य तु । देवतायतने कृत्वा यथाविधि निवेदयेत् । प्राश्येदग्नौ तदन्नं तु दद्याद्वा ब्रह्मचारिणे इति । तदेतदुक्तं मूले- विप्राभावे वृथा न स्याद्दद्यादग्नौ जलेपि वेति । मात्स्ये- MARRIA me
wale
चतुर्विंशतिमतसंग्रहः
पठन्निमन्त्र्यनियमान् श्रावयेत्पैतृकान् बुधान् ।
अक्रोधनः शौचपरैः शततं ब्रह्मचारिभिः ।
भवितव्यं भवद्भिश्च मया च श्राद्धकारिणेति ।।
प्रचेता:-
श्राद्धभुक् प्रातरुत्थाय प्रकुर्यादन्तधावनम् ।
श्राद्धकर्ता न कुर्वीत दन्तप्रक्षालनं बुधः ।
থ ঋষিরাখা।
अत्रि:-
अगोधूमं च यच्छ्राद्धं कृतमप्यकृतं भवेदिति ।
वायवीये-
नागरं चात्र वै देयं दीर्घमूलकमेव चेति ।
हिगुस्तु विहितपातीपद्वत्वाद्वैकल्पिकः । तथाचादित्यपुराणे-
मधुकं रामठं चैव कर्पूर मरिचं गुडम् ।
श्राद्धकर्मणि शस्तानि सैन्धवं नपुसं तथेति ।
त्रपुसम् अम्लं दधि।
व्यास:-
अश्राद्धीयानि धान्यानि कोद्रवाः पुलकास्तथा ।
हिगुद्रव्येषु शाकेषु कालानलशुभास्तथा इति ।
शुभाख्यः शाकविशेष इति माधवः ।
मूले-
कोद्रवान् राजमाषांश्च कुलत्थान् वरकाँस्तथा ।
निष्पावाँश्च विशेषेण पञ्चैतांस्तु विवर्जयेत् ।
यावनालानपि तथा वर्जयन्ति विपश्चित इति
वरकान् नवमुद्रान् इति माधवः ।
अत्र निष्पावशब्दः कृष्णनिष्पाचपरः। निष्पावाश्चात्र शोभना इति।
मार्कण्डेयपुराणे-कृष्णेतरनिष्पावपरः ।।
Evement
HINDI
samun .. marATION N १४४ चतुर्विशतिमतसंग्रह कृष्णधान्यानि सर्वाणि वर्जयेच्छ्राद्धकर्मणि । इति वचनान्तरादिति भावः। चणका अपि विहितप्रतिषिद्धाः। तथाच मरीचिः- कुलत्थाश्चणकाः श्राद्धे न देयाश्चैव कोद्रवा इति । मार्कण्डेय:- गोधूमैरिक्षभिर्मुद्रः सतीनश्चणकैरपि । श्राद्धेषु दत्तैः प्रीयन्ते मासमेकं पितामहाः । देवल:- कण्डरां श्वतन्ताकं कुष्माण्डं च विवर्जयेदिति । वृन्ताकं नालिकापोतं कुसुम्भाश्मन्तकानिचेति पैठीनसीस्मृतौ। वृन्ताकसामान्यग्रहणमपि श्वेतवृन्ताकविषयकमिति माधवः । भवि- ष्यपुराणम्- लशुनं गृजनं चैव पलाण्डुकवलानि च । वृन्ताकनालिकाला जातीयाजातिदूषितमिति । श्वेतकन्दविशेषः गृञ्जनम् लशुनं दीर्घपत्रश्च पिच्छगन्धो महौषधम् । करण्यश्च पलाण्डुश्च लतार्कश्चापरारिका । गृञ्जनं यवनेष्टश्च पलाण्डोर्दशजातय इति । सुश्रुतेनोक्तत्वादिति श्राद्धप्रकरणे माधवः । प्रायश्चित्तमकरणे तु गृञ्जनं पत्रविशेषः। यदीयं चूर्ण गायकाः कण्ठशुद्धयर्थ भक्षयन्ति। विशेष- श्च मदाद्यर्थो मूलविशेषो वा गाजरापरपर्याय इति देधा माधवेनैव व्याख्यातम्।विनिगमकं त्विह परिभावनीयम्।हारीतः-न वटप्लक्षोदुम्बर दधित्थनीपमातुलिङ्गानि भक्षयेदिति । दधित्थः कपित्थः । निमन्त्रितेभ्यो ब्राह्मणेभ्योऽपोहनि यद्देयं तदाह कात्यायन:- तैलमुर्तनं स्नानं दन्तधावनमेव च । कृत्तरोमनखेभ्यस्तु दद्यात्तभ्योपरेऽहनीति ।
HA
चतुर्विंशतिमतसंग्रहः
स्नानं स्नानसाधनम् । करणे ल्युत् । एवं दन्तधावनमित्यत्रापि ।
तैलमभ्यङ्गम् । निषेधतिथिपु तु आमलकोदकं देयम् । तथाच मार्कण्डेयः-
असा पट्स मुहूर्तेषु गतेष्वथ च तान् द्विजान् ।
प्रत्येकं प्रेपयत्प्रेष्यान् आदायामलकोदकमिति ।
एतदमावास्यातिरिक्तविषयकम् । “धात्रीफलैरमायां न स्नाया
दिति स्मृतेः। यत्तु प्रचेतोवचनम्-
श्राद्धभुग्भ्यो नखश्मश्रुच्छेदनं नतु कारयेदिति-
तन्निपिद्धातिथिविषयकामति माधवः । आपस्तम्ब:-
अटव्यां ये समुत्पन्ना अकृष्टफलिनस्तथा ।
ते वै श्राद्धे पवित्राः स्युस्तिला नतु सितास्तिलाः ।
तथाच सत्यत्रत:-
जर्तिलास्तु तिलाः प्रोक्ताः कृष्णवर्णा वने भवाः इति ।
जर्तिलानामलामे तुग्राम्यास्तिला ग्राह्याः ॥
कुतपञ्चासने दद्यादिति मनुः। कुतपो नेपालकम्बलः ।
मध्याह्नः खड्गपात्रं च तथा नेपालकम्बलः ।
रूप्यं दर्भास्तिला गावो दौहित्रश्चाष्टमः स्मृतः
पापं कुत्सितमित्याहुस्तस्य सन्तापकारिणः ।
अष्टावेते यतस्तस्मात्कुतपा इति विश्रुताः ।
इति स्मृतेः । भोजनपात्राणि सु पलाशपत्ररूपाण्येव प्रशस्तानि
नत्वन्यपर्णरूपाणि । अर्घ्यपात्रे सुन नियमः । तथाचात्रि:-
पलाशेभ्यो विना न स्युः पर्णपत्राणि भोजने इति ।।
कदलीपत्रन्तु विशिष्य निषेधत्यङ्गिराः-न जातीकुसुमानां न
कदलीपत्राणामिति । अत्र जात्यो विहितनिषिद्धत्वाद्वैकल्पिक्चइति
माधवः । तत्र निषेधः उक्त एव । विधिस्तु मार्कण्डेयपुराणे-
जात्यश्च सर्वा दातव्या मल्लिका श्वेतयूथिका ।
जलोद्भवानि सर्वाणि कुसुमानि च धम्पकामिति ॥
11
--
चतुर्विंशतिमतसंग्रह
ईग्विषये वाक्यद्वयवैकल्पोद्धारश्चिन्त्यः । देशाचाराव्यवस्थायां
सत्यांतु साफल्यं सुलभम् । होलाधिकरणोल्लङ्घनं त्वस्त्येव । विहितो-
दासीनाभ्यांसह तुल्यकक्षतालाभः फलमित्येके । उभयालाभोऽभ्यनुज्ञा-
तत्वात्फलमित्यन्ये।
शङ्खः
उपगन्धीन्यगन्धीनि चैत्यक्षोद्भवानि च ।
पुष्पाणि वर्जनीयानि रक्तवर्णानि यानि चेति ॥
mum
कौशेयं क्षौमकार्पासं दुकूलमहतं तथा ।
श्राद्धेष्वेतानि यो दद्यास्कामानाप्नोति पुष्कलान् ।
एवं दर्भादिमेक्षणान्तन्द्रव्यमुपकल्प्य स्नायात् । तथाच यमः-
ततः स्नात्वा निवृत्तो यः प्रत्युत्थाय कृताञ्जलिः।
पाधमाचमनीयं च सम्प्रयच्छेद्यथाक्रममिति ।।
मात्स्ये-
भवनस्याग्रतो भुवि ।
गोमयेनानुलिप्तायां गोमूत्रेण तु मण्डले इति ।
गोमयसहितेन गोमूत्रेण मण्डले कार्य इति शेषः ।
शम्भुः
उदक्प्लवमुदीच्यं स्यादक्षिणं दक्षिणाप्लवमिति ।
उदीच्यं वैश्वदेविकं मण्डलम् उदझवणम् । दक्षिणं पित्र्यं मण्डलं
दक्षिणाप्रवणं कुर्यात्।अत्र मण्डलकरणात्मभृति आश्राद्धसमाप्तेर्वैश्वदेविकं
कर्म प्रदक्षिणं यज्ञोपवीतिना कार्यम् । पित्र्यम् अपसव्यं माचीनावीतिना।
तथाच मनु:-
प्राचीनावीतिना सम्यगपसव्यमतन्त्रिणा।
पित्र्यमानिधनात् कार्य विधिवदर्भपाणिनेति ।।
आनिधमादासमातेः । कात्यायन:-
mins
AMROSHAN
चतुर्विशतिमतसंग्रहः
दक्षिणं पातयेजानु देवान् परिचरन् सदा ।
पातयेदिरन्जानु पिघ्यं परिचरन् सदेति ।
Homemas
AMAR
उदमुखस्तु देवानां पितृणां दक्षिणामुखः ।
बौधायन:-
प्रदक्षिणं तु देवानां पितॄणामप्रदक्षिणम् ।
देवानामृजयो दर्भाः पितॄणां द्विगुणाः स्मृताइति ।
स्मृत्यर्थसारे-
अक्षय्यासनयोः पष्टी द्वितीयाऽऽवाहने तथा ।
अन्नदामे चतुर्थी स्याच्छेपाः सम्बुद्धयः स्मृता इति ।
यद्वा चतुर्येव सर्वत्र प्रयोज्या आवाहनवमिति ।
मण्डलकरणानन्तरं कर्त्तव्यमाह शंम्भु:-
उत्तरे ऽसतसंयुक्तान् पूर्वाग्रान विन्यसेत्कुशान् ।
दक्षिणे दक्षिणानांस्तु सतिलान् विन्यसेद् बुध इति ।
तथा।
।
पायं चैव तथा चाऽऽयं देषमादौ प्रयोजयेत् ।
शन्नौदेवीतिमन्त्रेण पाद्यं चैव प्रदापयेत् ।
मात्स्ये
नामगोत्रं पितॄणां तु मापकं हव्यकव्वयोरिति ।
onlin
दर्भपाणिदिराचम्य लघुवासा जितेन्द्रियः ।
परिश्रिते शुचौ देशे गोमयेनोपलेपिते ।।
दक्षिणामवणे सम्यगाधान्तान् प्रयतान् शुचीन् ।
आसनेषु सदर्भेषु विविक्तेखूपवेशयेद् इति ।
आदित्यपुराणे-
विमौ द्वौ प्राङ्मुखौ तेभ्यो द्वौ तु पूर्व निवेशयेत् ।
चतुर्विशतिमतसंग्रहः उत्तराभिमुखान् विप्राँस्त्रीन् पितृभ्यश्च सर्वदेति ॥ मरीचि:- तथा मातामहश्राद्धं वैश्वदेवसमन्वितम् । कुर्वीत भक्तिसम्पन्नः तन्त्रं वा वैश्वदविकमिति ।। अत्र द्वयोरपि श्राद्धयोर्वैश्वदेवकर्मणस्तन्त्रावृत्तिविधानात् एकमयो- गता, भिन्नप्रयोगता वातश्चकाधिकारात् पूर्वसाधनता, भिन्नसाधनता वेति माथवः। तथा उपविष्टानां ब्राह्मणानां नियमाः स्मर्यन्ते पकिल्याणयः सर्वे ते च मौनव्रतान्विता इति । - यम- ब्रह्मोद्याश्च कथाः कुर्युः पितृणामेतदीप्सितमिति ।। . भिक्षको ब्रह्मचारी वा भोजनार्थमुपस्थितः । उपविष्टेष्वनुप्रातः कामं तमपि भोजयेदिति ॥ ब्राह्मणोपवेशनानन्तरं कृत्यं पुराणे ऽभिहितम् । श्राद्धभूमौ गयां ध्यात्वा थ्यात्वा देवं गदाधरम् । ताभ्यां चैव नमस्कृत्य ततः श्राद्धं प्रवर्तयेत् । उभौ हस्तौ समा कृत्वा जानुभ्यामन्तरा स्थिती सपश्रयथोपविष्टान् सर्वान् पृच्छेद् द्विजोत्तमान् ॥ श्राद्धं करिष्ये इति पृच्छेदित्यर्थः । ततः कुरुष्वेत्यभ्यनुज्ञातो देव- ताभ्यश्चेति त्रिः पठेत् । उक्तञ्च ब्रह्माण्डे- देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च । नमः स्वाहायै स्वधायै नित्यमेव नमो नमः॥ आयेऽवसाने श्राद्धस्य त्रिरावृत्तं जपेत्सदेति । ततः कर्त्तव्यमुक्तं निगमे-अपहता इति तिलान् विकिरदिति ततो ब्राह्मणहस्ते उदकं दत्वा आसनेषु दर्भासनं दद्यात् ।
चतुर्विशतिमतसंग्रहः १४९ तथाच याज्ञवल्क्य:- पाणिप्रक्षालनं दत्वा विष्टरार्थ कुशानपि इति । पुराणे-- आसने चासनं दद्याद्वामे वा दक्षिणेपि वा। पितृकर्मणि वामे च देवे कर्माणि दक्षिणे इति । देवे आसनार्थ सयवादी इति विशेषः । उक्तं च काठके-देवा- नां सबवा दर्भा इति। अत्र संग्रहकारः-ततः पुनरपो दत्वा निमन्त्र- येत् देवे क्षणः क्रियतां ततस्तथेति विप्रो ब्रूयात् प्राप्नोतु भवानिति का पुनर्ब्रयात् प्राप्नवानीति विप्रः पुर्नब्रूयात् इति। निमन्त्रणम् चागु- व्यतिरिक्तं हस्तं गृहीत्वा कर्त्तव्यम् । तथाच पुराणे- निरङ्गुष्ठं गृहीत्वा तु विश्वान् देवान् समायेत् इति । गृहीत्वा इत्यस्यानन्तरं निमन्त्र्येति शेष इति माधवः । आवाहनेतिकर्तव्यतामाह यमः- यवहस्तस्ततो देवान् पृष्ट्वा चावाहनं प्रति । आवाहयेदनुज्ञातो विश्वेदेवास इत्युचा । विश्वेदेवाः शृणुतेति मन्त्रं जप्त्वा ततोऽक्षतान् । ओषधय इति मन्त्रेण विकिरेत्तुं प्रदक्षिणम् । पादादिमस्तकान्तमक्षतानारोपयेदित्यर्थ इति माधवः। विश्वेदेवा- अपार्वणे पुरूरवावसंज्ञकाः । तथाच शङ्खः इष्टिश्राद्धे क्रतुदक्षौ संकीत्यौं वैश्वदेविके । नान्दीमुखे सत्यवसू काम्ये तु धुरिलोचनौ । पुरूरवावौ चैव पावणे समुदाहृतौ । नैमित्तिके कालकामावेवं सर्वत्र कीर्तयेदिति ।। इष्टिश्राद्धं, काङ्गश्राद्धं तच्च पारस्करेण दर्शितम्- निषेककाले सोमे च सीमन्तोनयने तथा । ज्ञेये पंसवने श्राद्धं कर्माकं वृद्धिवत्कृतमिति ॥
१५० चतुर्विशतिमतसंग्रहः वृदिवदित्यनेन वृद्धिवादात्काङ्गश्राद्धमन्यदिति ज्ञायते नान्दी- मुरवं वृद्धिश्राद्धम्, तत्स्वरूपमाह वृद्धवसिष्ठः- पुत्रजन्मविवाहादौ द्विश्राद्धमुदाहृतमिति ।। आदिशब्देनानप्राशनचूडाकरणादिसंस्कारा गृह्यन्ते नतु गर्भा- धान, पुंसवन, सीमन्तोन्नयनानि तत्र क्रियमाणस्वकर्माङ्गश्राद्धत्वेन पृथगुदाहृतत्वात् । पार्वणममावास्याश्राद्धम् । नैमित्तिकं सपिण्डी- MIND करणम् । यद्यपि- एकोद्दिष्टं तु यच्छ्राद्धं तन्नैमित्तिकमुच्यते । इति परिभाषितं तथापि तदप्यदैवं कर्त्तव्यमिति वाक्यशेषेण तत्र वैश्वदेवहीनतावगमादिह मैमित्तिकशब्देन एकोद्दिष्टयुक्तं सपिण्डीकरणं लक्ष्यते इति माधवादयः । विश्वेदेवानामन्त्र्य अर्घ्यपात्रद्वयासादनानि कुर्यात् । तथाच याज्ञवल्क्यः- यवैरखवकीर्याथ भाजने सपवित्रके । शन्नोदेव्या पयः क्षिप्त्या यवोसीति यवाँस्तथेति ॥ मात्स्ये- विश्वार देवान् यवैः पुष्पैरभ्यासनपूर्वकैः । पूरयेत्पत्रयुग्मन्तु स्थाप्य दर्भपवित्रकइति । कात्यायनः-सौवर्णराजतौदुम्बरवङ्गमाणमयानां पात्राणामन्य- समेषु यानि वा विद्यन्ते पत्रपुटके वेति निषेधति कांस्यादीनि इत्य- । राजतं तु पितृपात्रविषयकम् । तदुक्तं रजत्तमधिकृत्य शिवनेत्रोद्भवं यस्मादतस्तत्पितृवल्लभम् । अमङ्गलं तद्यत्नेन देवकार्येषु वर्जितमिति । अर्घ्यपवित्रं च प्रतिपात्रं भेदेन कार्यमित्याहुर्मुले- दे दे शलाके देवानां पात्रे कृत्वा पयः क्षिपेत् । पवित्रकरणे कर्तव्यतामाह याज्ञवल्क्या- पवित्रस्थ इतिमन्त्रेण दे पवित्रे च कारयेत् ।
MONTHISpinaceae । चतुर्विशतिमतसंग्रहः अन्तर्ग) कुशच्छिन्ने कौशे प्रादेशसमिते इति । कुशमन्तरीकृत्य छिन्ने नतु काष्ठेन लोहेन वा । अनन्तरम् स्वाहाा इति मन्त्रेण देवतार्थ ब्राह्मणसमीपेऽयंपात्रं स्थापयेत् । तथा चगायः-स्वाहेति चैव देवानामिति । अध्यपात्रस्थापनेऽयं मन्त्रो नत्व- यंदाने इति माधवादयः। याज्ञवल्क्य:- यादिव्या इति मन्त्रेण हस्ते अयं विनिक्षिपेत् इति । गाग्र्य:- दत्वा हस्ते पवित्रं तु सम्पूज्यायं विनिक्षिपेत् इति । तत उदकपूर्वकं गन्धादि दद्यात् । तथाच याज्ञवल्क्य:- दत्वोदकं गन्धमाल्यं धूपदानं सदीपकमिति ॥ अत्र गन्धादिकमाच्छादनस्याप्युपलक्षणामितिमाधवादयः तदेव- मासनप्रभृत्याच्छादनपर्यन्तं वैश्वदेविकाचैनं काण्डानुसमवेन कृत्वा आ- सनाद्याच्छादनपर्यन्तं पित्रचनं प्राचीनावीत्यमदक्षिणं दक्षिणामुरवः कुर्यात् । तथाच याज्ञवल्क्यः- अपसव्यं ततः कृत्वा पितॄणामप्रदक्षिणमिति । अत्र हि अपसव्यं ततः कृत्वेति वैश्वदेविकासनादिपदार्थकाण्डा- दुर्द्ध पित्रचनविधानात् काण्डानुसमयो लभ्यत इति विज्ञानेश्वरमा- धवादयः । आसनादौ विशेषमाह- द्विगुणान् सु कुशान् दत्वा ह्युशन्तस्त्वेत्यूचा पितॄन् । आवाह्य तदनुज्ञातो जपेदायन्तुनस्ततः ॥ यवार्थस्तु तिलैः कार्यः कुर्यादादि पूर्ववत् । दत्वार्य संसवाँस्तेषां पात्रे कृत्वा विधानतः। पितृभ्यः स्थानमसीति न्युजपात्रं करोत्यध इति । द्विगुणान् द्विगुणभुग्नान् सतिलानासनार्थ दद्यात् । तदुक्तं काठके- पितॄणां द्विगुणैस्तु तैरिति । आसनदानात्पूर्व पश्चाच्चोदकं दद्यात् । तथाचा ।
milant Mana- चतुर्विंशतिमतसंग्रहः श्वलायन:-अपः प्रदाय दर्भान् द्विगुणभुग्नानासनं प्रदायाऽपः प्रदा- येति । ततः श्राद्धे क्षणः क्रियतामिति पूर्ववत्कुशं दत्वा पितृनावाहाय- ष्ये इति ब्राह्मणान् पृष्ट्वा आवाहयेति तैरनुज्ञातः उशन्तस्त्वेति मन्त्रेण आवाह्य नमो वः पितर इति तिलान् मस्तकादिदक्षिणपादान्तम् अवकीर्य आयन्तु न इतिमन्त्रेणोपतिष्ठेत । तथाच प्रचेताः- शिरःप्रतिपादान्तं नमोव इति पैतृके इति । मूले च- विश्वेदेवांस्तु पादादि शिरआदि पितामहान् । अयपात्रं विधायैव ब्राह्मणान् पूजयेत्ततइति । उपस्थानानन्तरं कृत्यमुक्तं पुराणे- जपेदायन्तुन इति मन्त्रं सम्यगशेषतः । रक्षार्थ पितृसत्रस्य त्रिकृत्वः सर्वतो दिशम् । तिलांस्तु प्रक्षिपन्मन्त्रमुच्चार्यापहताइति । ततोऽाबाच्छादनान्तं पूर्ववत् कुर्यात् । अवार्घ्यपात्रासादनादौ विशेषो विष्णुना दर्शितः। दक्षिणाग्रेषु दक्षिणापवर्गेषु चमसेषु च त्रिष्वप आसिञ्चच्छन्नोदेवीरिति।अयमर्थः, दक्षिणाग्रेषु दर्भेषु दक्षिणाप- वर्गतयाऽऽसादितेषु पवित्रान्तर्हितेषु चमसेषु त्रिष्वर्ण्यपात्रेषु शन्नोदेवीर- भिष्टय इति मन्त्रेण प्रतिपात्रेण प्रतिपात्रमपआसिञ्चदिति । शौनकः- पात्रेषु दर्भान्तहितेषु अपः प्रदाय शन्नोदेवीरभिष्टय इत्यनुमन्त्रितासु तिलानावपति तिलोसि सोमदैवत्यो गोसवो देवनिर्मितः । प्रत्नमद्भिः पृक्तः स्वधया पितॄल्लोकान्पृणाहि नः स्वधानम इति । अत्र च पित्रा- दीनां त्रयाणामेकैकस्थानेऽनेकब्राह्मणनिमन्त्रणेपि त्रीण्येवाय॒पात्राणि नतु ब्राह्मणसंख्यया । तथाच वैजवापः- स्नात्वा पितॄणां त्रीण्येव कुर्यात्पात्राणि धर्मवित् । एकस्मिन् वा बहुषु वा ब्राह्मणेषु यथाविधीति ।। तिलानघोंदकेषु क्षिप्त्वेत्यर्थः । अयपवित्रं तु अयुग्मसंख्यया । Men MOTORA । - चतुर्विंशतिमतसंग्रहः कार्यमित्याहुर्मूले- तित्रास्तिस्रश्शलाकाः स्युः पितृपात्रेषु पार्वणे इति । तिलप्रक्षेपानन्तरं गन्धं पुष्पादीनि प्रक्षिपेत् । तदुक्तं ब्रह्मपुराणे- अर्ध्या गन्धैश्च पुष्पैश्च ताः प्रपूज्याच मन्त्रवत् इति । या अर्घाहस्तिा आपः पूज्या इत्यर्थः । अनन्तरं कर्त्तव्यमाह शौनक:- ताम्मतिग्राहयिष्यन्स्वधाा इति । ता आपो ब्राह्मणैः प्रति- ग्राहयिष्यन् स्वधार्ष्या इति मन्त्रेण स्थापयेदित्यर्थः । पैठीनसि:- ततो ब्राह्मणहस्तेषु उदकपूर्वकमर्धोदकं ददाति या दिव्या इत्युत्क्वाऽ- सावेतत्ते अर्घोदकमिति । अप उपस्पृश्यैवमेवेतरयोरिति । एवमयं दत्त्वा तेषामोदकानां संसावान् विभहस्तेभ्यः पात्रेषु गलितान् पि- तृपात्रे संगृह्य नत्पात्रं न्युजमधोमुखं पितृभ्यः स्थानमसीत्यधः कुर्याद् । भूमौ निदध्यादित्यर्थः । न्युब्जकरणानन्तरं कर्त्तव्यमाह वैजवापः- तस्योपरि कुशान् दत्त्वा प्रदद्यादैवपूर्वकम् । गन्धपुष्पाणि धूपं च दीपवस्त्रोपवीतकम् ।। दैवपूर्वकमित्यनेन पदार्थानुसमयो लभ्यते सच याज्ञवल्क्योक्तेन काण्डानुसमयेन सह विकल्प्यत इति माधवः । अत एव स्मृत्यर्थ- सारेपि-आसनादीनामाच्छादनान्तानां काण्डानुसमयः, पदार्थानुसमयो वेति पक्षद्वयमप्युक्तम् । ततोऽग्नौकरणं कुर्यात् । तदनुष्ठानप्रकारमाह याज्ञवल्क्य:- अग्नौ करिष्यन्नादाय पृच्छेदन्नं घृतप्लुतम् । कुरुष्वेत्यभ्यनुज्ञातो हुत्वाग्नौ पितृयज्ञवत् ॥ हुतशेष प्रदद्यात्तु भाजनेषु समाहितः । यथालाभोपपन्नेषु रौप्येषु तु विशेषत इति ।। अग्नौकरिष्यन् घृतप्लुतमन्नमादायाग्नौ करिष्ये इति ब्राह्मणान् पृच्छेत् । घृतप्लुतेन शाकादेर्निरासः। ततः कुरुष्वेति तैरनुज्ञातः सन्निधाबु- पसमाधाय मेक्षणेनावदाय सोमाय पितृमते स्वाहा नमः, अग्नये काव्यope २० । चतुर्विंशतिमतसंग्रहः वाहनाय स्वाहा नम इति पिण्डपितृयज्ञावधानेनाग्नौ जुहुयात् । ततो मेक्षणं हुत्वा हुतशेष पितृभाजनेषु दद्यान्न तु वैश्वदेवभाजनेषु । रौप्येष्विति- लिङ्गात् , माधवायुदाहृतवचनाञ्च । आहिताग्निः सर्वाधानी तु दक्षि णाग्नौ जुहुयात् । तथाच मार्कण्डेयः- आहिताग्निस्तु जुहुयादक्षिणाग्नी समाहितः । अनाहिताग्निस्त्वोपसदे, अग्न्यभावे द्विजे,ऽप्सु विति अधीधानपक्षे तु औपासनाग्नावेवाग्नौकरणहोमः । अग्न्यभावे तु पाणावेव होमः पाणिहोमे इध्ममेक्षणविप्राभ्यनुज्ञा न सन्ति । पित्र्यवि- प्रपाणि परिसमुह्य पर्युक्ष्य वामेनोपस्तीर्य दक्षिणेनावदाय जुहुयादिति स्मृत्यर्थसारे । स्मृतिचन्द्रिकाकारस्त्वाह-विप्राभ्यनुज्ञा नास्तीत्य शुद्धम् । अग्निश्चेदाज्यं गृहीत्वा भवत्स्वेवाग्नाकैरणमिति पूर्ववत्तथास्त्विति शौनकगृह्यविरोधात् मेक्षणाभावोक्तिरपि मेक्षणकायें अन्याविध्यभा- वादयुक्ता परिसमूहनपयुक्षणसद्भावोक्तिश्चायुक्ता पांसुनिरसनलक्षणस्ये ष्टकार्यस्य लोपाद नियमादृष्टमात्रस्यात्राप्रयोजकत्वात् इति । हेमाद्रि- स्तु उक्तस्मृत्यर्थसारसंग्रहे स्मृतिचन्द्रिकाकारोक्तं तत्खण्डनं चोप- न्यस्य पर्युक्ष्य दर्भानास्तीति यमवचनेन पर्युक्षणदर्भानास्तीर्येति पाठा- न्तरं परिस्तरणसमूहनादिपरिसंख्वापरं कर्कग्रन्थं चोपन्यस्य यदत्र युक्त तद्ग्राह्यमित्युपसंजहार। पाणौ हुतस्य पृथग्यास प्रतिषेधति गृह्यकार:- अन्नं पाणितले दत्तं पूर्वमश्नन्त्यबुद्धयः । षितरस्तेन तृप्यन्ति शेषान्नं न लभन्ति ते ॥ यच्च पाणितले दत्तं यच्चान्यदुपकल्पितम् । एकीभावेन भोक्तव्यं पृथग्भावो न विद्यत इति ॥ स्मृत्यर्थसारे -सर्वाधानी दक्षिणाग्नौ जुहुयाद्विप्रपाणौ वेति विकल्पमभिधाय तेन पाणिहुतं तदैव प्राश्याऽऽचम्योपविशेत् । अथवा भाजने क्षिप्त्वाऽऽचम्योपविशेत् । विधुरादिभिरग्निहीनहुँतं तु पूर्व नाश्नीयात् भोजनकाल एवाश्नीयात् । त्यक्ताग्निहुतं तु नैवाश्नीया-
चतुर्विंशतिमतसंग्रहः
m
दिति स्थितम् ।
अथ परिवेषणम् ।
याज्ञवल्क्य:-
दत्त्वान्नं पृथिवीपात्रमिति पात्राभिमंत्रणम् ।
कृत्वेदंविष्णुरित्यन्ने द्विनाङ्गुष्ठं निवेशयेत् ।।
मनु:-
विष्णो हव्यं च कव्यं च ब्रूयाद्रक्षेति वै क्रमात् ।
अनन्तरं विश्वेभ्यो देवेभ्य इदमन्नं परिविष्टं परिवेष्यमाणं चातृप्तरिति
यवोदकेन निवेद्य तथा पित्र्येऽमुकगात्रायानुकशर्मणे इदमन्नामेति ति-
लोदकप्रदानेन निवेद्य एवं पितामहाय प्रपितामहाय च निवेद्यापोशानं
दचा सव्याहृतिकां गायत्री मधुवाताइति त्र्यचंच मध्विति त्रिवारं जप्त्वा
यथासुखं जुषध्वमिति ब्रूयात् । तथाच स्मयते-
संकल्प्य पितृदेवेभ्यः सावित्रीमधुमज्जपः ।
श्राद्धं निवेधापोशानं जुषप्रैषोथ भोजनम् ।
तथा
गायत्रीं त्रिः सकद्वापि जपेद् व्याहृतिपूर्विकाम् ।
मधुवाताइति व्यचं मध्वित्येतत्रिकं तथा इति ।
याज्ञवल्क्य:-
सव्याहृतिकगायत्री मधुवाता इति त्र्यचम् ।
अत्वा यथासुखं वाच्यं भुजीरंस्तेपि वाग्यताः ॥
अन्नमिष्टं हविष्यं च दद्यादक्रोवनोऽत्वरः ।
आटप्लेस्तु पवित्राणि जप्त्वा पूर्वजपं ततः ॥
अन्नमादाय तृप्ताः स्थः शेषं चैवानुमान्य च ।
तदन्नं विकिरेन्द्भूमौ दद्याचापः सकृत्सवदिति ।।
आतृप्तेरिति तृप्त्यनन्तरमपि किंचिद्देयम् । तथाच शौभकः-
सृष्टं दत्तमृधुकमिति । सृष्टं प्रभुतं दत्तं ऋद्धिकरमिति वृत्तिकारः तच्च
MANTON
चतुर्विंशतिमतसंग्रहः दासवर्गतृप्त्यर्थम् । तथाच मनुः- उच्छपणं भूमिगतं जिमस्य च शठस्य च । दासवर्गस्य तत्पित्र्ये भागधेयं प्रचक्षत इति । तथा आतृप्तेः पवित्राणि पुरुषसूक्तपवमानादीनि जप्त्वा तृप्तान् कृत्वा पूर्वोक्तं सव्याहृतिगायत्र्यादिकं जपेत् । अनन्तरं सर्ववर्णभक्तमादाय तृप्ताः स्थति तान् पृष्ट्वा तृमाः स्म इति तैः प्रत्युक्तः शेषमन्नमस्ति किं क्रियतामिति पृष्ट्वा इष्टैः सह भुज्यतामिति अनुज्ञां प्राप्य तदन्नं पितृ- स्थानब्राह्मणस्य पुरस्तादृच्छिष्टसंनिधौ दाक्षिणाग्रेषु दर्भेषु तिलोदकप्र- क्षेपपूर्वकं ये अग्निदग्धाइत्यनयाऽवक्षिपेत् । पुनस्तिलोदकं निक्षिपेत् । ततो ब्राह्मणहस्ते गण्डूषार्थ सकृत्सकृदपो दद्यात् । तदनन्तरं कर्त्तव्यं सएवाह सर्वमन्नमुपादाय सतिलं दक्षिणामुखः । उच्छिष्टमन्निधौ पिण्डान् दद्यादै पितृयज्ञवत् ।। मातामहानामप्येवं दद्यादाचमनं ततः। स्वस्तिवाच्यं ततः कुर्यादक्षय्योदकमेव चेति ॥ पिण्डपितृयज्ञकल्पातिदेशेन चरुश्रपणसद्भावेऽग्नौकरणशिष्टचरुशे- पेण सह सर्वमन्नमुपादायाग्निसन्निधौ पिण्डं दद्यात् तदभावे ब्राह्मणार्थ सार्ववर्णिकमन्नमुपादाय उच्छिष्टसंनिधौ पितृयज्ञकल्पेन पिण्डान् दद्यात् । मातामहानामप्येवमेव वैश्वदेवावाहनादिपिण्डप्रदानान्तं कर्म कृत्वा ब्राह्म- णानामाचमनं दद्यात् ततः स्वस्तीति ब्रूतेति ब्राह्मणान् स्वस्ति वाचयेत् । तैश्च स्वस्तीत्युक्ते अक्षय्यमस्तु ब्रूतति ब्राह्मणहस्तेषूदकं देयम् । अस्त्व- क्षय्यमिति ते ब्रूयुः । ततः कत्तव्यं स एवाह- दत्त्वा तु दक्षिणां शक्तया स्वधाकारमुदाहरेत् । वाच्यतामित्यनुज्ञातः प्रकृतेभ्यः स्वघोच्यताम् ।। ब्रूयुः अस्तु स्वधेत्युक्ते भूमौ सिञ्चेत्ततो जलम् । विश्वदेवाश्च प्रीयन्तां विप्रैः प्राक्त इदं जपेत् ।। दातारो नोभिवर्द्धन्तां वेदाः सन्ततिरेव च ।
चतुर्विंशतिमतसंग्रहः श्रद्धा च नो मा व्यगमत् बहु देयं च नोस्त्विति ॥ इत्युत्कोका प्रिया वाचः प्रणिपत्य विसर्जयेत् । वाजवाजे इति प्रीतः पितृपूर्व विसर्जयेदिति । दक्षिणायां विशेषमाह पारस्करः-हिरण्यं विश्वभ्यो देवेभ्यो, र- जतं पितृभ्य इति । तथा एकपङ्क्त्युपविष्टानां विप्राणां श्राद्धकर्मणि । भक्ष्यभोज्यं समं देयं दक्षिणां त्वनुसारत इति ॥ निमन्त्रितब्राह्मणानां विद्यादिगुणतारतम्येनेत्यर्थः । पित्र्ये द. क्षिणादानं प्राचीनावीतिना कार्यम् । तथाच जमदाग्निः-अपसव्यन्तु तत्रा पीति । तत्रापि दक्षिणादानेपीत्यर्थः । यत्तु तेनैवोक्तम्- अपसव्यं कर्म सर्व दक्षिणादानवर्जितम् इति । तद्ब्राह्मणोद्देशेन दक्षिणादानविषयकम् । सच पक्षो देवलेन दर्शितः । आचान्तेभ्यो द्विजेभ्यस्तु प्रदद्यादथ दक्षिणामिति । तत्र क्रमं स एवाह- दक्षिणां पितृविप्रेभ्यो दद्यात्पूर्वं तनो द्वयोरिति । योभ्यां वैश्वदेविकब्राह्मणाभ्यामित्यर्थः । तदेवं यथा रजतहिर- ण्यादिदक्षिणां दत्त्वा स्वधां वाचयिष्ये इत्युत्का तैाह्मणैर्वाच्यतामित्य- नुज्ञात : प्रकृतेभ्यःपित्रादिभ्यो मातामहादिभ्यश्च स्वधोच्यतामिति स्व- धाकारमुदाहरेत् । ततोऽस्तु स्वधेति ब्राह्मणा ब्रूयुः । ततो भूमावुदकं सिक्का विश्वे देवाः पीयन्तामिति ब्रूयात् । ब्राह्मणैश्च प्रीयन्तां विश्वेदेवा इत्युक्ते दातार इति मन्त्र जपेत् ततः पितॄणां न्युजं पात्रं उत्तानं कृत्वा वाजेवाजे इति मन्त्रेण पितृपूर्व विसर्जयेत् । तथाच स एवाह- यस्मिस्ते संस्रवाः पूर्व पितृपात्रे निवेशिताः । पितृपात्रं तदुत्तानं कृत्वा विमान विसर्जयेद् इति AMARHARU चतुर्विंशतिमतसंग्रहः पिण्डप्रमाणां त्वाहसंग्रहकारः। एकोद्दिष्टे सपिण्डे च कपित्थं तु विधीयते । नारिकेलप्रमाणं तु प्रत्यब्दे मासिके तथा ॥ तीर्थे च दशैं संप्राप्ते कुक्कुटाण्डप्रमाणतः । । महालये गयाश्राद्धे कुर्यादामलकोपमपिति ॥ वायुपुराणे- शमीपत्रप्रमाणन पिण्डं दद्याद्याशिरे । उद्धरत्सप्तगोत्राणि कुलमेकोत्तरं शतम् ॥ सप्तगोत्राणि तु स्मृत्यन्तरे- पिता माता च भार्या च भगिनी दुहिता तथा पितृमातृष्वसा चैषां सप्तगोत्राणि वै विदुरिति ।। अत्र मातृशब्देन मातामहगोत्रं, भार्यागोत्रं श्वशुरगोत्रं, भगिनीगोत्रं दुहितृपितृष्वसृणां गोत्राणि यत्कुले ता दत्तास्तदीयानि, एतेषामेव गो- त्राणामेकोत्तरशतं कुलं लक्षणया तत्स्थाः पुरुषाः गृह्यन्ते । यथा तत्वानि विंशतिनृपाद्वादशैकादशक्रमात दशाष्टाविति गोत्राणि कुलमेकोत्तरं शतमिति ।। अस्याः, पितृगोत्रे तत्वानि २४ एते च द्वादश परे, सावन्त एवा- वरे। मातृगोत्रे दश परे, दशावरे एवं विंशतिः २० । भार्यागोत्रे अष्टौ परे, अष्टौ अवरे १६ । भगिनीगोत्रे तत्रादयः षट् परे, भागिनेयादयः षड्अवरे १२ । दुहितृगोत्रे तच्छ्शुरादयः पञ्च परे, दौहित्रादयः पञ्चावरे जामाता वेत्येकादश ११ । पितृष्वसृकुले तच्छशुराधाः पञ्च परे, तद्भाद्याअवरे पञ्चेत्येवं दश १० । मातृष्वसृकुले तच्छृशुराद्याश्च- त्वारः परे, तांद्याश्चत्वारोऽवरे इत्येवमष्टौ ८ । सर्वे समुदिता एकोत्तरं शतं भवति । अथ पिण्डानां प्रतिपत्तिः । तत्र पुत्रार्थी मध्यमं पिण्डं पल्यै दद्यात् । तथाच वायुपुराणम्-
चतुर्विंशतिमतसंग्रहः
पत्न्यै प्रजार्थी दद्यात्तु मध्यं तु मन्त्रपूर्वकमिति ।
मन्त्रस्नु मात्स्ये--
आधत्त पितरो गर्भ मन्त्रं सन्तानवर्द्धनम् इति ।
बृहस्पतिः
अन्यदेशगता पत्नी गर्भिणी रोगिणी तथा ।
तदा तं जीर्णषभश्छागो वा भोक्तुमर्हति इति ।
देवल:-
ततः कर्मणि निवृत्ते तान् पिण्डांस्तदनन्तरम् ।
ब्राह्मणोऽग्नि, रजो, गौा भक्षयेदप्सु वा क्षिपेदिति ।
एतच पुत्रार्थित्वाभावविषयकं, मध्यपिण्डतरविषयकं वा । तीर्थश्राद्ध
तु अप्स्वेव पिण्डप्रक्षेपः । तदुक्तं विष्णुधर्मोतरे-
तीर्थश्राद्धे सहा पिण्डान् क्षिपेत्तीर्थे समाहितः
दक्षिणाभिमुखो भूत्वा, पित्र्यदिक्सा प्रकीर्तितेति ।
अनन्तरमुच्छिष्टं समाजयेत् । अतएव याज्ञवल्क्यः-
सत्सु विप्रेषु द्विजोच्छिष्टं न मार्जयेदिति ।
सत्सु विद्यमानेषु अविसृष्टेषु इति यावत् । यत्तु प्रचेतसो वचनम्-
भृत्यवाहतो भुङ्क्ते कव्यशेष स्वगोत्रजैः
आसायं श्राद्धशालायां द्विजोच्छिष्टं न मार्जयेदिति ।
तत्तु गृहान्तरासंभवाविषकम् । मात्स्ये-
ततश्च वैश्वदेवान्नं सभृत्यः सहबान्धवः ।
भुजीतातिथिसंयुक्तः सर्व पितृनिषेवितामिति ।
श्राद्धशेषेणैव च वैश्वदेवः । नित्यं श्राद्धं तु श्राद्धान्तरे सति कृता-
कृतम् । यदा तु क्रियते तदा तु तदपि श्राद्धशेषेणैव । आहिताग्निना तु
श्राद्धात्मागेव वैश्वदेवः सच पृथक्पाकेनैवेत्यादिग्रन्थान्तरे स्फुटम् । यदि
पितृपाकशेषाद्वैश्वदेवः, यदि वा पाकान्तरादुभयथापि पितृपाकशेषादेव
भोजनम् । तथाच याज्ञवल्क्या-
MALANDANADHANA चतुर्विंशतिमतसंग्रहः प्रदक्षिणमनुव्रज्य भुजात पितृसेवितमिति । असति तु पितृशेषेपाकान्तरं कृत्वापि भोक्तव्यमेव । तथाच देवला श्राद्धं कृत्वा तु यो विप्रो न भुङ्क्तेऽथ कदाचन । देवा हव्यं न गृह्णन्ति कव्यानि पितरस्तथेति ॥ एकादश्यादौ तु भोजनप्रत्याम्नायः स्मयते- उपवासो यदा नित्यः श्राद्धं नैमित्तिकं भवेत् ॥ उपवासं तदा कुर्यादाघ्राय पितृसेवितमिति ॥ बृहस्पतिः तां निशां ब्रह्मचारी स्थाच्छ्राद्धभुक् श्राद्धिकैः सहेति । मात्स्ये- पुनर्भोजनमध्वानं पानमायासमैथुनम् । श्रादभुक् श्राद्धकृच्चैव सर्वमेतद्विवर्जयेत् ॥ स्वाध्यायं कलहं चैव दिवास्वापं तथेच्छयति ॥ done पुनीजनमध्वानं भारमायासमैथुनम् । संध्यां प्रतिग्रहं होमं श्राद्धभुक्त्वष्ट वर्जयेदिति ॥ अत्र संध्याहोमयोः प्रतिषेधो ऽकृतप्रायश्चित्तपरः । माधवीये पुराणवाक्यम्- दशकृत्वः पिबेदापो गायत्र्या श्राद्धभुग्विजः । ततः सन्ध्यामुपासीत जपेच जुहुयादपि ।। असमर्थस्तु संकल्पश्राद्धं कुर्यात् सदा नरः । तथाच स्मयते- अङ्गानि पितृयज्ञस्य यदा कर्तुं न शक्नुयात् ॥ संकल्पश्राद्धमेवासौ कुर्यादादि वर्जितमिति । तल्लक्षणं तु व्यास आह- संकल्पं तु यदा कुर्यान कुर्यात्पात्रपूरणम् । SANSARSHA JOINDANERUMENTS चतुर्विंशतिमतसंग्रहः. नावाहनाग्नौकरणे पिण्डांश्चैव न दापयेदिति ॥ विकिरश्च न दातव्य इति माधवीये स्मृत्यन्तरे । पारिजाते वृद्धशातातपः- पिण्डनिवापरहितं यनु श्राद्धं विधीयते । स्वधावाचनलोपोत्र विकिरश्च विलुप्यते ।। अक्षय्यदक्षिणास्वस्तिसौमनस्यं यथास्थितमिति ।। विसर्जनकाले ओं स्वधेति न वक्तव्यमित्यर्थः । स्मृतिसंग्रहे- अग्नौकरणमयं च विकिरावाहने स्वधाम् । पिण्डयुक्ते प्रकुर्वीत पिण्डहीने विवर्जयदिति ।। आवाहनस्य च समन्त्रकस्यैव निषेधः, अन्यथा देवतासान्निध्यप- सङ्गः। तथाच आवाहनमन्त्रान् अपठित्वैव देवान् पितॄश्च ब्राह्मणेषु ध्या- येदिति चन्द्रिकादौ स्थितम् । अन्नासंभवे आमश्राद्धम्, तस्याप्यसंभवे हेमश्राद्धं कार्यमित्युक्तम् । तत्र विशेषमाह व्यासः- आमं ददातु कौन्तेय दद्यादन्नं चतुर्गुणम् । आवाहनादि सर्व स्यात्पिण्डदानं च भारत ! ॥ दद्याद्यच्च द्विजातिभ्यः शृतं वाऽमृतमेव वा । तेनाग्नौकरणं कुर्यात्पिडांस्तेनैव निवपेदिति ॥ हस्तेऽग्नौकरणं कुर्याद् ब्राह्मस्य विशेषतः । इति तेनैवोक्तत्वादिह पाणावेव होमः। तस्य कालमाह शातातप:- आमश्राद्धं तु पूर्वाह्न इति । यत्तु मध्याह्वात्परतो यस्तु कुतपः स उदाहृतः । आममात्रेण तत्रैव पितॄणां दत्तमक्षयम् ॥ इति स्थितम् । तच्छूद्रकर्तृकश्राद्धविषयकमित्यपरार्के स्थितम्, हेमाद्रावप्येवम् । आमश्राद्धे हेमश्राद्धे च भोजनयुक्तानामपोशानकर्मा- चतुर्विंशतिमतसंग्रहः anta दीनां यथासुखं जुषध्वं तृप्ताः स्थेत्यादीनां च द्वारलोपानिवृत्तिरित्ति पारिजाते। मरीचिः- आवाहने स्वधाकारे मत्रा ऊह्या विसर्जने । अन्यकर्मण्यनूह्याः स्युरामश्राद्धे विधिः स्मृत इति ।। अत्रामश्राद्ध इति हेमश्राद्धस्याप्युपलक्षणमिति परिजाते। आवाहने यथा पितॄन् हविषे अत्तवे इत्यत्र अत्तवेपदस्थाने स्वीकर्तव्य इत्यूहः । स्वधाकारे नमो वः पितरइषे इत्यत्र इषेस्थाने आमद्र व्यायेत्यूहः, विसर्जने वाजेवाजइतिमन्त्रेण तृप्ता इतिक्तप्रत्ययान्तमुपनीय- तयथेति लुडन्तमूह्यमिति पारिजाते स्थितम् । यद्यपि ऋग्व्यूहो निषि- द्धस्तथापि विशेषवचनात्कार्यः। एवं "पूर्यातवा एतदृचोक्षरं यदेनदप्यूहति तस्मादृचं नोहे " दिति यद्यपि श्रुतिस्तथापि विशेषविषयिण्या स्मृत्या बाध्यते। अग्निहोत्रादिस्मृतिरिव पतितेन कर्म न कर्त्तव्यमिति स्मृत्येत्यन्यत्र विस्तरः । हेम्नाद्यसंभवे स्मयते- तृणानि वा गवे दद्यापिण्डान् वा विधिपूर्वकम् । तिलोदकैः पितॄन् वापि तर्पयेत् स्नानपूर्वकम् ॥ आग्नना वा दहेका श्राद्धकाले समागते । तस्मिंश्चोपवशेदह्नि जपेद्वा श्राद्धसंहितामिति ।। अथ पार्वणश्राद्धप्रपञ्चः। अथ तद्विकृतिभूतं प्रत्यादिकं निरूप्यते । तत्रेतिकर्तव्यमाह जातूकl:- पितुः पितृगणस्थस्य कुर्यात्पार्वणवत्सुतः। कुर्वीत दर्शवत् श्राद्धं मातापित्रोमृतेऽहनीति ॥ ननुक्तातिदेशेन पितरो यत्र पूज्यन्ते तत्र मातामहा अपि ॥ इति वचनेन च प्रत्याद्विकेपि मातामहानामपि श्राद्धं प्राप्नोतीति चेत् सत्यम् । अत एव निषिद्धं तत्कात्यायनेन- Anila - चतुर्विशतिमतसंग्रहः कसमन्वितं मुत्का तथाचं श्राद्धषोडशम् । प्रत्याद्रिकं च शेषेषु पिण्डाः स्युः पडिदिति स्थितिरिति ।। कसमन्वितं सपिण्डीकरणम् । यद्यपि क्षयाहे पार्वणमेकोद्दिष्टं च प्रागुदाहृतवचनैलभ्यते तथापि देशाचाराव्यवस्थितो विकल्प इत्युक्तं प्रागेव । तदेतदाहुर्मूले- सपिण्डीकरणादुई कुर्यादेव हि पावर्णम् । एकोदिष्टं क्षये केचिदिच्छन्ति मुनिपुङ्गवा इति ।। तत्राप्यमायां प्रेतपक्षे च मृतानां पार्वणमेव नियतमुक्तम् । अमायां तु क्षयो यस्य प्रेतपक्षेऽथवा पुनः ।। पविणं तेन कर्त्तव्यं नैकोदिष्टं कदाचन । इति वचनाद् । इदं च वचनमानिश्चितमूलमिति विज्ञानेश्वरः । शङ्खस्मृतावेतदुपलभ्यत इति माधवः । अथान्वारूढायाः क्षयाहो निर्णीयते। अन्वारोहणं च द्विविधम् । सहगमन, मनुगमनं च । सहगमनं च भर्तृशरीरेण तदस्थिभिर्वा तत्प्रतिनिधिभूतपर्णशरेण वा सह एकचित्या- रोहणम् एकनिर्णयभतृसंस्कारमुद्दिश्य क्रियमाणमिति । संस्कारश्च न दाहमात्रं येन शरीरस्यैव संस्कारो न भतुरित्युच्येत । अस्थिपालाशवि- ध्यानर्थक्यापत्तेः किंतूत्तरश्राद्धादिकर्माहताप्रयोजको मन्त्रादिकरणको दा- हपूर्वकः क्रियाविशेषः। सच क्वचिद्भर्तृशरीर एव, कचित्तदवयवास्थ्यादिषु, क्वचिच्च तत्प्रतिकृतिषु पालाशादिषु क्रियत इति तत्तदर्थमर्थ्यमाना सैव चितिर्भर्तृचितिरेव । तेनास्थ्यादिनापि सहगमने ब्राह्मण्यादेनं पृथक्- चितिप्रयुक्तो दोषः, नियूंढे हि भर्तृसंस्कारे स्त्रिया एवाग्निप्रवेशसिद्धयर्थं रच्यमाना चितिः पृथक्चितिः, तत्र ब्राह्मण्या नाधिकारः । भर्तृशरी- रादिसाहित्यव्यतिरेकेण केवलं भर्तृमात्रोद्देशेन भिन्नचित्यारोहणमनुग- मनम् । तत्र च ब्राह्मण्याः सहगमन एवाधिकारः।
चतुर्विंशतिमतसंग्रहः पृथचितिं समारुख न विमा गन्तुमर्हति । अन्यासांबत नारीणां धर्मोयं परमः स्मृत इति उशनसः स्मरणात् । यानि च या स्त्री ब्राह्मणजातीया मृतं पतिमनुव्रजेत् । सा स्वर्गमात्मघातेन नात्मानं च पतिं नयेत् ॥ इत्यादीनि च वाक्यानि तानि पृथञ्चितिविषयाण्येव । तदेतत्स्प- ष्टमाह स्मृत्यर्थसार:-ब्राह्मण्या एकचित्यारोहणमेव न पृथकूचित्या- रोहणं कार्यम् । सवर्णायाः पत्या सहैकचित्यारोहणम्, असवर्णायाः पृथक्- चित्यारोहणमेवेति। क्षत्रियादिस्त्रीणां पृथक्पृथगेवेति मिताक्षरास्वरसः। दिवोदासीये भरद्वाज:- पृथक्चितिं मृते पत्यौ न विमा गन्तुमर्हति । साप्यनुम्रियते पर्णशरदाहे सहास्थिभिरिति । पारिजातेपि-देशान्तमृते पत्यो ब्राह्मण्यास्तदस्थिभिः सहगमनं भवत्येव । तत्र चन्द्रिकायां भृगुः- या समारोहणं कुर्याद्भर्तृचित्यां पतिव्रता । तां मृताहनि समाते पृथपिण्डे नियोजयेत् इति । स्मृत्यन्तरेपि- एकचित्यां समारूढौ दम्पती निधनं गतौ ॥ पृथक्श्राद्धं तयोः कुर्यादोदनं च पृथक् पृथक् इति । ओदनमोदनपिण्डम् इत्यर्थः । अग्निस्मृतौ- एकचित्यां समारुह्य मृतयोरेकबर्हिषि । पित्रोः पिण्डान् पृथग् दद्यादिति । तथा चैकस्यां तिथौ मातृपितृमरणे तन्त्रेण श्रपणं कृत्वा मातृ- पितृश्राद्धं पृथक् पृथक् कृत्वा एकवर्हिषि पट् पिण्डान् दद्यात् । पति- मुद्दिश्य कालान्तरे यान्वारूढा सा यस्यां तिथौ अग्नि प्रविष्टा तस्या- मेव श्राद्वमर्हति नतु पतिक्षयतिथौ " क्षयाहस्तु क्षयेहनीति " । यत्र चतुर्विशतिमतसंग्रहः wamamalan क्षय: सक्षयाहः तिथिस्तात्कालिकी ग्राह्या तथा मरणजन्मनोः। इति वचनादिति केचित् तन्न, मरणतिथौ श्राद्धप्रतिपादकवाक्या- नामन्वारूढाश्राद्धेतरश्राद्धविषयकत्वात् । आतीर्ते मुदिते हृष्टा प्रोपिते मलिना कृशा । मृते म्रियेत या पत्यौ सा स्त्री ज्ञेया पतिव्रतेति । स्वधर्ममनुपालयन्ती साध्वी कस्माञ्चित्प्रतिबन्धकात्पतिमरणदि- ने मरणालाभे ततः प्रागर्व वा तमुद्दिश्य तद्भक्त्यैवासून् त्यजति तस्या आब्दिकं पतिक्षयदिने एव युक्तम् । उक्तं च- सहायतः पृष्ठतो वा तद्भक्तया म्रियते यदि । तस्याः श्राद्धं प्रदातव्यं पृथक् पत्युः क्षयेहनि इति ॥ पत्युः क्षयेऽहनि तस्याः श्राद्धं पृथक् दातव्यमित्यन्वयः । तस्याः क्षयेऽहनि इत्यन्वये पत्युः पृथगिति व्यर्थं स्यात् । किंच अन्यथाप्राप्ते विधिः स्यात्, तथाच वाक्यानर्थक्यमिति । अत्र केचित् तस्या अन्वा- रूढाया, भर्तुश्च क्षयाहनि स्वक्षयाहे पृथक् श्राद्धं प्रदातव्यं तेन तत्क्ष- याहे तस्याः, पतिक्षयाहे पत्युः नत्वेकस्यां भर्तुरेव क्षयतिथावित्यर्थमाहुः तदपि न, क्षयेहनीत्यस्य संवन्धाकाङ्क्षायां तत्पतिशब्दाभ्यां संबन्धि- समर्पणे कृते श्राद्धपदेपि संबन्धाकाङ्क्षायां ताभ्यामेव संबन्धिस- मर्पणे तस्याः श्राद्धं तस्याः क्षयाहनि पत्युः श्राद्धं पत्युः क्षयेह- नीत्यात्तिलक्षणो वाक्यभेदः स्यात् पृथक्पदे वीप्सामसङ्गाच । किंच एकस्मिन्नेव दिने यदा तिथिद्वयं तत्र च प्रातरेकस्यां तिथौ पत्युर्मरणम- परस्यां चाग्निप्रवेशः स्त्रिया कृतः तत्र सहगमनेपि दिनद्वये श्राद्धप्रसङ्गः, तस्मात्तिथिस्तात्कालिकेति वचनमन्वारूढाश्राद्धेतरवियषम् । तदुक्तं पुराणसमुच्चये- अग्रतः पृष्ठतो वापि तद्भक्तया म्रियते तु या । तस्याः श्राद्धं सुतैः कार्य पत्युरेव क्षयेहनि ।
चतुर्विशतिमतसंग्रहा Awenesamana । इति वदन्ति । अथ वमनादिना श्राद्धविघ्ने निर्णयः। ऋग्विधाने- इन्द्राय सामसूक्तेन श्राद्धविघ्नो यदा भवेत् । अग्न्यादिभिर्भोजनेन श्राद्धं सम्पूर्णमेव हीति । अत्रादिपदेन विधिवल्लौकिकाग्निप्रतिष्ठापनमन्वाधानाघाराज्यभा- गान्तस्थालीपाकतन्त्रं पितॄनामपूर्वकाग्न्यर्चनाम्न त्यागहोमादयो गृह्यन्ते भोजनशब्देन च श्राद्धस्य पुनः करणम् । एवञ्चात्र विधानद्वयमुक्तम् । तत्र भोजनानन्तरं श्राद्धे प्रधानभूतपिण्डदाने कृते पश्चाद्वमनप्राप्ती होम एव कर्तव्यः । पिण्डदानात्माग् वमनादौ तदिने उपवासं कृत्वा परेऽह- नि श्राद्धं कर्तव्यमित्यर्थः । उभयत्र सूक्तजपश्चानुवर्तते । पृथग्निमित्त- स्वादर्शनात् । पक्षद्वयमप्याह स्मृतिसंग्रहकारः- प्राधान्यं पिण्डदानस्य भोजनस्य तदङ्गता । अतो भुक्तिक्रियाहानौ श्राद्धात्तिं न मन्यते इति ॥ अत्र श्राद्धाऽऽवृत्तिं न मन्यते इत्यनेन होमविधिः सूचितः। तदुक्तम्- प्राणादिपञ्चभिर्मन्त्रैर्यावद्द्वात्रिंशसंख्यया । होमशेषं समाप्याथ श्राद्धशेष समापयेत् इति ।। तथा तत्रैव। अकृते पिण्डदाने तु सजनो ब्राह्मणो वमेत् । पुनः पाका कर्तव्यं पिण्डदानं यथाविधि इति ।। अत्र पुनः पाकविधानेन श्राद्धस्य पुनरावृत्तिर्विधीयते इति । संकल्पश्राद्धपि पुनः करणमुक्तम् । भुक्तिक्रियायाः प्राधान्यं श्राद्धे संकल्पसंज्ञके । तत्रापि पितृविप्राणां तूपघाते पुनः क्रियेति ॥ एतद्वचनजातेन परेहनि पुनः श्राद्धकरणमुक्तम् । तदेतत्सांवत्स- रिकमासिकविषयम् । अमायां वमनादिविघ्ने तु तदैवाऽऽमेन कार्यम् ।
चतुर्विंशतिमतसंग्रहः
Manual
तथाच मरीचिः
श्राद्धविघ्ने द्विजातीनामामश्राद्धं प्रकीर्तितम् ।
अमावास्यादि नियतं माससंवत्सराहतइति ॥
अनेनाब्दिकं मासिकं च श्राद्धमावश्यकं पक्कान्नेनैव कार्यमिति
सूचितम् । श्राद्धे परिवेष्टुरुच्छिष्टस्पर्श शुद्धिप्रकारः संग्रहे-
उच्छिष्टेन तु संस्पृष्टो द्रव्यहस्तो न संकरः ।
भूमौ निधाय तद्र्व्यमाचान्तेभ्यूक्षणाच्छुचिरिति ।
भोक्तृणाभन्योन्यस्पर्शे शङ्खः-
श्राद्धपन्तौ तु भुजानो ब्राह्मणो ब्राह्मणं स्पृशेत् ।
तदन्नमत्यजन् भुक्त्वा गायत्र्यष्टशतं जपेदिति । अन्योच्छिष्टस्पर्श
शङ्ख:-
उच्छिष्टलेपनं स्पर्शे प्रक्षाल्यान्येन वारिणा ।
भोजनान्ते नरः स्नात्वा गायत्रीं त्रिशतं जपेत् ॥
अन्योन्यभोजनपात्रोच्छिष्टस्पर्श व्यास:-
उच्छिष्टोच्छिष्टसंस्पर्श स्पृष्टपात्रं विहृत्य च ।
सर्वान्नं पूर्ववत् क्षिप्त्वा भोजयेत्तु द्विजोत्तम इति ।।
एकोद्दिष्टलक्षणमाहुर्मुले-
एकां शलाकां निक्षिप्यैकोद्दिष्टे त्वयंमाहरेत् ।
एकपात्रे पवित्रं तु देवावाहनवर्जितम् ।।
अग्नौकरणहीनं तु शेष कुर्याच पूर्ववत् इति ।
याज्ञवल्क्योपि-
एकोद्दिष्टं दैवहीनमेकाध्यकपवित्रकम् ।
आवाहनाग्नौकरणरहितं ह्यपसव्यवत् इति ॥
उपतिष्ठतामित्यक्षय्यस्थाने, विसर्जने अभिरम्यतामिति वदेत् ।
ब्रुयूस्तेऽभिरताः स्म इति । कात्यायन:- स्वदितमिति तृप्तिप्रश्नः,
सुस्वदितमित्यनुज्ञेति। तच्चैकोद्दिष्टं त्रिविधम् । नवं, नवमिनं पुराणं चेति ।
manummam चतुविशतिमतसंग्रहः तत्र प्रथमायेकादशाहान्तं विहितं नवश्राद्धम् । तथाचाङ्गिरा:- प्रथमेह्नि तृतीयेहि पञ्चमे सप्तमे तथा । नवमैकादशे चैव तन्नवश्राद्धमुच्यते इति ॥ वसिष्ठस्त्वाह- सप्तमेहि तृतीयेह्नि प्रथमे नवमे तथा । एकादशे पञ्चमे स्युनवश्राद्धानि षट् सदेति । पण्णां नवश्राद्धानामुपरि कर्तव्यं मासिकं नवमिश्रम्। तथाचाश्वला- लायन:-नवमिश्रं षडुत्तरमिति । मासिकानामुपरि कर्तव्यं प्रत्याब्दिकादि पुराणम् । अत एव हारीतेन प्रायश्चित्तकाण्डे क्रमेण नवमासिकयोः प्राय- श्चित्तमभिधायोत्तरकालीनं श्राद्धं पुराणशब्देन व्यवहृतम् । चान्द्रायणं नवश्राद्ध प्राजापत्यं तु मासिके । एकाहस्तु पुराणेषु प्रायश्चित्तं विधीयतइति ।। इत्थं पार्वणैकोद्दिष्टेविवेचित अथोभयात्मकं सपिण्डीकरण विविच्यते तत्र लौगाक्षिा- श्राद्धानि षोडशापाद्य विदधीत सपिण्डनामति । षोडशश्राद्धानि तु जातूकण्र्येन दर्शितानि ॥ द्वादशप्रतिमास्यानि आद्यपाण्मासिके तथा । त्रैपक्षिकाब्दिके चेति श्राद्धान्येतानि पोडशेति ।। आद्यम् ऊनमासिकम् । एवं पाण्मासिकाब्दिकशब्दावपि उनषा- मासिकमूनाब्दिकञ्चाहतुः द्वादशप्रतिमास्यानां पृथगुपादानात् । तेषां तु कालमाह याज्ञवल्क्य:- मृतेऽहनि तु कर्त्तव्यं प्रतिमासं तु वत्सरस् । प्रतिसंवत्सरं चैवमाद्यमेकादशहनीति ॥ पैठीनसिः मासिकानि स्वकाले तु दिवसे द्वादशेपि वति । उनषाण्मासिकादीनां कालन्तु श्लोकगौतम आह- Ramaytm RADHA Prasnamarindence चतुर्विंशतिमतसंग्रहः एकद्वित्रिदिनरूने त्रिभागेनाधिकेन वा । श्राद्धान्यूनाब्दिकादीनि कुर्यादित्याह गौतम इति ॥ ऊनमासिकस्य वैकल्पिकं कालमाह गालव:- मरणाद्वादशाहे स्यान्मास्यूने बोनमासिकमिति । ऊनानां वर्ण्यकालमाह गाय:- नन्दायां भार्गवदिने चतुर्दश्यां त्रिपुष्करे । ऊनश्राद्धं न कुर्वीत गृही पुत्रधनक्षयादिति ।। पुराणे- सपिण्डीकरणादाक् कुर्याच्छ्राद्धानि पोडश । एकोद्दिष्टविधानेन कुर्यात्सर्वाणि तानि विति ॥ एवं षोडशश्राद्धानि कृत्वा ततः सपिण्डीकरणं कुर्यात् । तस्य कालमाहुर्मूले- सपिण्डीकरण चाब्दे सम्पूर्णेऽभ्युदये तथा। द्वादशाहे तु केपाञ्चिन्मतं चैकादशेहनीति ।। बौधायनस्तु-अथ संवत्सरे पूर्णे सपिण्डीकरण त्रिपक्षे वा तृतीये चा मासि षष्ठे वैकादशे वा द्वादशाहे वेति। एकादशाहद्वादशाहतृतीयमास- षष्टमासैकादशमाससंवत्सरान्तत्रिपक्षशुभागमा इति अष्टौ काला माध- वादिग्रन्थेषु फलिताः। तत्रेयं व्यवस्था, मृताहादेकादशे दिने यद्यमावास्या स्यात्तदा साग्निकेन तस्यामेव सपिण्डीकरणं कार्यम् । तथाच कार्णाजिनिः- सपिण्डीकरणं कुर्यात्पूर्ववच्चाग्निमान् सुतः । परतो दशरात्राचेत्कुहूरब्दोपरीतरइति ।। ૨૨
Emaus
चतुर्विंशतिमतसंग्रहः
एकादशदिवसत्वेन दर्शस्यानागमे तु साग्निदोति कुर्यात् ।
तथाच भविष्यत्पुराणम्-
यजमानोऽग्निमान् राजन् प्रेतश्चानग्निमान् भवेत् ।
द्वादशाहे भवेत्कार्य सपिण्डीकरणं सुतैरिति ॥
प्रेतस्य साग्निकत्वे तु तृतीयपक्षे सपिण्डनम् ।
तथाच सुमन्तु:-
प्रेतश्चेदाहिताग्निः स्यात्क नग्निर्यदा भवेत् ।
सपिण्डीकरणं तस्य कुर्यात्पक्षे तृतीयके ।
उभयोः साग्निकत्वे तु द्वादशाहे ।
तथाच स्मयते-
साग्निकस्तु यदा कर्त्ता प्रेतश्चाप्यग्निमान् भवेत् ।
द्वादशाहे तदा कार्य सपिण्डीकरणं पितुरिति ।।
उभयोरनग्निकत्वे तु द्वादशाहादयःसप्त काला इच्छया विकल्प्यन्ते
तथाच माधवीये भविष्यत्पुराणम्-
सपिण्डीकरणं कुर्याद्यजमानस्त्वनग्निमान् ।
अनाहिताग्नेः प्रेतस्य पूर्णब्दे भरतर्षभ !॥
द्वादशेहनि षष्ठे वा त्रिपक्षे वा त्रिमासिके ।
एकादशेपि वा मासि मङ्गले वाप्युपस्थिते इति ॥
व्याघ्रः-
आनन्त्यात्कुलधर्माणां पुंसां चैवायुषः क्षयात् ।
अस्थितेश्च शरीरस्य द्वादशाहे प्रशस्यत इति ॥
एतच्च सर्व त्रैवर्णिकविषयं शूद्रस्य तु द्वादशहएव नियमः ।
चतुर्विंशतिमतसंग्रहः
मंन्त्रवज हि शूद्राणां द्वादशेहनि कीर्तितमिति ।।
सपिण्डीकरणं प्रकृत्य विष्णुनोक्तत्वात् । यदा संवत्सरपूर्तेः
प्रागेव सपिण्डीकरणं क्रियते तदा, यद्यपि षोडशश्राद्धानि ततः प्रागेव
कृतानि ।
श्राद्धानि षोडशाद-त्वा न कुर्यात्तु सपिण्ड नमिति ।
वृद्धवसिष्ठोक्तेः तथापि स्वस्वकाले पुनरपि मासिकादीन्या-
वर्तनीयानि।
तदाह गोभिल
यस्य संवत्सरादार विहिता तु सपिण्डता ।
विधिवत्तानि कुर्वीत पुनः श्राद्धानि षोडशेति ॥
विधिवदिति यथाचारं पार्वणविधिना एकोद्दिष्टविधिना वेत्यर्थः ।
तथाच पैठीनासि:-
सपिण्डीकरणादर्वाक् कुर्यात् श्राद्धानि षोडमा ।
एकोद्दिष्टविधानेन कुर्यात् सर्वाणि तानि तु ।।
सपिण्डीकरणादूर्ध्वं यदा कुर्यात्तदा पुनः ।
प्रत्यब्दं यो यथा कुर्यात्तथा कुर्यात्स तान्यपि ॥
आवर्तनं चोर्ध्वभाविनामेव नतु माग्भाविनाम् ।
तथाच कार्णाजिनिः-
अर्वागब्दाद्यत्र यत्र सपिण्डीकरणं कृतम् ।
तदूर्व मासिकानां स्याद्यथाकालमनुष्ठितिरिति ।।
सपिण्डीकरणादूर्ध्वमावर्तनीयानामनुमासिकादीनां वृद्धिप्राप्तौ पु-
नरपकर्षः । तथाच शाळ्यायनि:-
randu चतुर्विशतिमतसंग्रहः सपिण्डीकरणादाक् अपकृष्य कृतान्यपि । पुनरप्यपकुष्यन्ते वृद्ध्युत्तरनिषेधनात् ॥ निषेषश्च कात्यायनेनोक्तः । निवर्त्य वृद्वितन्त्रं तु मासिकानि न तन्त्रयेदिति ॥ विज्ञानेश्वरस्तु-संवत्सरादाक्सपिण्डीकरणमिति पक्षे किं पो- डशश्राद्धानि कृत्वा सपिण्डीकरणं किंवा विपरीत इति संशय्य सपिण्डना- नन्तरं स्वकाले कार्याणीति मुख्यः पक्षः। अक्सिपिण्डनादिति त्वापत्कल्प इति सिद्धान्तितत्वात् । तन्मते माधवायुदाहृतानि शाठ्यायनिप्रभृ- तिवचनानि कथं व्याख्येयानीति परिभावनीयम् । सपिण्डीकरणस्य गौणकालमाह ऋष्यशृङ्गः- सपिण्डीकरणश्राद्धमुक्तकाले न चेत्कृतम् । रौद्रे हस्ते च रोहिण्यां मैत्रभे वा समाचरेदिति ।। अथ सपिण्डीकरणतिकर्त्तव्यतामाह याज्ञवल्क्यः गन्धोदकतिलैयुक्तं कुर्यात्पात्रचतुष्टयम् । अार्थ पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् ॥ येसमाना इति द्वाभ्यां शेष पूर्ववदाचरेत् इति । प्रेतपात्रोदकं किंचिदवशेष त्रिधा विभज्य पितृपात्रेष्वासिच्य प्रेता य॑पात्रावसिष्टोदकेन प्रेतस्थानब्राह्मणहस्तेऽयों देय इति व्याख्यातारः। कात्यायनोपि-ततः संवत्सरे पूर्णे चत्वारि पात्राणि सतिलगन्धोदकैः पूरायित्वा त्रीणि पितॄणामेकं प्रेतस्य, प्रेतपात्रं पितृपात्रेषु सिञ्चति येस- माना इति द्वाभ्यामेतेन पिण्डो व्याख्यात इति । तदेतदाहुर्मूलकाराः। चत्वारीहार्घ्यपात्राणि अर्चयेत्पूर्ववच्छुचिः । amsungawe - चतुर्विंशतिमतसंग्रहः प्रेतपात्रं पितृणां तु पात्रेषु निर्वपेद् बुधः ॥ मधुवाता ऋचं जप्त्वा संगच्छध्वमिति ब्रुवन् ये समाना इति द्वाभ्यां केचिदिच्छन्ति स्तूरयः ।। एवं पिण्डेषु कर्त्तव्यं चरमं तु विसर्जयोदिति ॥ व्युत्क्रममृतेषु तु सपिण्डीकरणं नास्ति, किन्तु पितरि प्रेते पितामहे च जीवति पितुरेकपिण्डमेकोदिष्टविधानेन विधाय पितामहस्य पितृपितामहप्रपितामहेभ्यः पार्वणविधिना दद्यात् । एवं गोब्राह्मणादिह- तस्यापि सपिण्डाभावः, दार्शिकाब्दिकादौ एकोद्दिष्टपार्वणयोरनुष्टानं चेति विज्ञानेश्वरमतम् । ब्राह्मणादिहते. ताते पतिते सङ्गवर्जिते । व्युत्क्रमाच मृते देयं येभ्य एव ददात्यसाविति । कात्यायनवचनं चात्रोपष्टम्भकम् । स्मृतिचन्द्रिकाकारण- भृतयस्तु-पितामहे जीवति प्रपितामहादिना सपिण्डनं कार्यमित्याहुः । तथाच मनु:- पिता यस्य तु वित्तः स्याज्जीवेच्चापि पितामहः । पितुः स नाम संकीर्त्य कीर्तयेत् प्रपितामहमिति ॥ विष्णुरपि -यस्य पिता प्रेतः स्यात्स पित्रे पिण्डे निधाय पितामहा- पराभ्यां द्वाभ्यां दद्यादिति । स्मृत्यर्थसारे-व्युत्क्रममृतानांसपिण्डीकरणं कार्य नवेति मतद्वयमप्युपनिबद्धम् । अत्र च विभक्तानामपि न पृथगधि. कारः किंतु ज्येष्ठेनैव कर्तव्यमिति । नवश्राद्धं सपिण्डत्वं श्राद्धान्यपि च षोडश । एकेनैव तु कार्याणि संविभक्तधनेष्वपि ।। - १७४ चतुर्विंशतिमतसंग्रहः इतिवचनात् । ज्येष्ठासंनिधाने तु य एव सपिण्डः समानोदको वा सन्निहितः स दशाहान्तं कुर्यात् । यत्तु- कनीयसा कृतं कर्म सपिण्डीकरणं पुनः । तज्ज्यायसापि कर्तव्यं प्रेतशब्दं विहाय तु इति ॥ तत्कनीयसः साग्नित्वे पिण्डपितृयज्ञानुरोधेन सपिण्डीकरणस्या- वश्यकर्त्तव्यत्वात्तद्विषयकम्, अनग्निकस्तु कनीयान् सपिण्डीकरणं न कुर्यादेवेत्यन्यत्र विस्तरः। उशनाः भाNIRNOR । एकोदिष्टं न कुर्वीत यतीनां चैव सर्वदा अहन्येकादशे प्राप्ते पार्वणं तु विधीयत इति । इदं च शूद्राणामप्यमन्त्रकं द्वादशेसि मासे गते वा कार्यम् । अन्वारो हणे सहगमने तु स्त्रियाः पृथक् सपिण्डी करणं न कार्यम् । भर्नुः कृते स्त्रियाश्च कृतं भवति । तदाह श्राद्धकल्पे आपस्तम्बः- एकत्वं सा गता भर्तुः पिण्डे गोत्रे च सूतके । पृथक् पिण्डप्रदानं न तस्मात्पत्नीषु युज्यते ॥ चतुर्थीहोममन्त्रैः स्त्री पत्युर्देहार्द्धतां व्रजेत् । अतो धर्मे च पिण्डे च भवेत्तस्यार्द्धभागिनी ॥ मृते पितरि मातुस्तु न कुर्यात्सहपिण्डताम् । भत्तुरेव सपिण्डत्वे तस्या अपि कृतं भवेद् इति ॥ अस्यार्थः, एकस्यामेव तिथौ एकचित्यां समारूढयोर्दम्पत्योः पतिपिण्डदानसमय एव द्वयोर्नामग्रहणं कार्यम् । न पृथक् मातुः पिण्ड- चतुर्विशतिमतसंग्रहः १७५ दानम् । पितृपिण्डदानेनैव तस्या अपि जातत्वादिति । तदुक्तं चन्द्रप्रकाशे- एकचित्यधिरोहश्चेतिथिरेकैव जायते । एकपाकेन पिण्डैक्ये द्वयोर्ग्रहीत नामनी इति । स्मृत्यर्थसारे-अन्वारोहणकादनमरणे स्त्रियाः पृथक् सपिण्डीकरणं न कार्यम् । भर्तुश्च कृते स्त्रियाश्च कृतं भवतीति । अनुगमने तु मातुः सपिण्डीकरणं पत्यैव सह कार्यम् । तदाह शातातप:- मृता याऽनुगता नाथं सा तेन सहपिण्डनम् । अर्हति स्वर्गवासेपि यावदाभूतसंप्लवम् ।। अन्वारोहणे तु पुत्रः स्वपित्रैव मातुः सापिण्डयं कुर्याद् इति विज्ञानेश्वरः। यमोपि- पत्या चैकेन कर्तव्यं सपिण्डीकरणं स्त्रियाः । सा मृतापि हि तेनैक्यं गता मन्त्राहुतिव्रतैरिति ।। पत्या चैकेनेत्यत्र पतिपदं पत्युः पित्रादीनामुपलक्षणार्थमित्येके । एतेन पत्यैव न तात्पित्रादिभिः सहेत्यन्ये । हारीतोऽपि- स्वेन भर्ना सहैवास्याः सपिण्डीकरणं स्त्रियाः । एकत्वं या गता यस्माचरुमन्त्राहुतिव्रतैरिति ॥ तदेतत्पृथचित्यारोहणविषयम् । एकचित्यारोहणे पतिसापिण्ड- नेनैव तस्या अपि कृतत्वादिति शङ्खधरः । पतिमुद्दिश्य दिनान्तरwhitampetendimebisapa चतुर्विशतिमतसंग्रहः मरणविषयमिति गोविन्दराजः । दिनान्तरमृते पुत्रः स्वपितृपितामह- पिण्डमध्ये कुशानन्तर्धाय पित्रैकेन मातुः सपिण्डनं कुर्यादिति स्मृत्य- थेसारः । पत्युद्देशेन मातुरग्निप्रवेशमरणविषयमिति मदनोपि। अथ सहगमनानुगमनातिरिक्तं प्रकारान्तरेण मरणे मातुः सापिण्डयं केन सहेत्यपेक्षायामाह शवः- मातुः सपिण्डीकरणं कथं कार्य भवेत्सुतैः । पितामह्यादिभिः सार्द्ध सपिण्डीकरणं स्मृतम् ।। शातातपोपि- पितामह्या सहैवास्याः सपिण्डीकरणं स्मृतम् ।। छन्दोगपरिशिष्ट- मातुः सपिण्डीकरणं पितामद्या सहोदितामिति ॥ तदेतद्ब्राह्मादिविवाहोढाविषयमिति चिन्तामणिः । श्राद्धकल्पे यमस्तु- जीवत्पिता पितामह्या मातुः कुर्यात्सपिण्डनम् इति ।। मृतपितृकस्य विकल्पमाह यमएव- प्रमीतपितृकः पित्रा पितामह्या थवा सुत इति । ब्राह्मादिविवाहोत्पन्नः पित्रा पितामहन पितामह्या वा विकल्पेन कुर्यादिति विज्ञानेश्वरः । अत्र सर्वत्र पितामहीपदं प्रपितामहीद्ध- प्रपितामह्योरुपलक्षणम् । पितामह्यादिभिः सार्द्धमिात शखोक्तेः। शातातपस्तु पक्षान्तरमाह- तन्मात्रा तत्पितामह्या तच्छुत्रा वा सपिण्डनम् इति । अस्यार्थः, तस्या मातुर्मात्रा मातुरेव पितामह्या तश्चैत्रा तस्या Gue MARA चतुर्विंशतिमतसंग्रहः मातृपितामह्या या श्वश्रूर्मातुः प्रपितामही तयेत्यर्थः । पूर्वस्यां जीवन्त्या- मुत्तरोत्तरयेति वाशब्दार्थमाह मदन:-आसुरादिविवाहेषु मातामह्या- दिभिरेवेति वाशर्दाथ इति सर्वे एव । आसुरादिविवाहेषु विनानां योषितां स्मृता । इति तेनैवोत्तरार्द्धनाभिधानात् । पक्षान्तरमाह सुमन्तु:- पिता पितामहे योज्यः संपूर्ण वत्सरे सुतैः । मावा मातामहे तद्वदित्याह भगवान् शिव इति । तदेतत्पुत्रिकापुत्रविषयमिति बहवः । तदाह बौधायन:- आदिशेत्प्रथमे पिण्डे मातरं पुत्रिकासुतः । द्वितीये पितरं तस्यास्तृतीये च पितामहम् इति ॥ आसुरादिविवाहोत्पन्नः पुत्रिकासुतश्च मातामहेनैवेति विज्ञाने- श्वरोपि। अथापुत्रायाः पल्याः सपिण्डनमाह पैठीनसि:- अपुत्रायां मृतायां तु पतिः कुर्यात्सपिण्डताम् । श्वश्वादिभिः सहैवास्याः सपिण्डीकरणं भवेत् ॥ अस्याः श्वश्वादिभिः स्वमात्रादिभिरिति सर्वसंमतीर्थइति । तदुक्तं व्यासेन- थपुत्रायां मृतायां तु पतिः कुर्यात्सपिण्डनम् । स्वस्य मात्रादिभिः सार्द्धमेवं धर्मेण युज्यत इति ॥ एवं विरुद्धेषु वचनेषु सत्सु अपुत्रायां भायर्यायां प्रमीतायां भर्ती स्वमात्रैव सापिण्ड्यं कुर्यादिति विज्ञानेश्वरोपि । MONE । ૨૩ DERamurta १७८ चतुर्विंशतिमतसंग्रहः अथापुत्रस्य भर्तुः पत्न्या सापिण्ड्यं कार्यमित्याह लौगाक्षि:- सर्वाभावे स्वयं पल्यः स्वतॄणाममन्त्रकम् । सपिण्डीकरणं कुर्युस्ततः पार्वणमेव च इति ।। सुमन्तुरपि- HD अपुत्रे संस्थिते कर्ता नास्ति चेत् श्राद्धकर्मणि । तत्र पत्न्यपि कुर्वीत सापिण्डचं पार्वणं तथा इति ॥ अथ वृद्धिश्राद्धमाह । याज्ञवल्क्य:- एवं प्रदक्षिणात् को वृद्धौ नान्दीमुखान् पितॄन् । यजेत दधिकर्कन्धूमिश्रान् पिण्डान् यवैः क्रियाः । आत् परिपाटी। पिण्डानिति दत्त्वेति शेषः । यवैरिति तिलसाध्या: क्रिया यवैः कुर्यादित्यर्थः । अत्र विशेषमाह आश्वलायनः अथाभ्युद- यिके युग्मा ब्राह्मणा अमूला दर्भाः प्राङ्मुखो यज्ञोपवीती स्यात्प्रदाक्षि- णमुपचारो यवैस्तिलार्थो गन्धादिदानं द्विह्निः ऋजुदर्भानासने दद्यात् यवोसीति स्वाहान्तेन मन्त्रेण यवापवनं विश्वेदेवा इदं वोऽयं नान्दी- मुखाः पितर इदममिति यथालिङ्गमयंदानं पाणौ होमः अग्नये क- व्यवाहनाय स्वाहा, सोमाय पितृमते स्वाहेति, मधुवाता इति ऋचः स्थाने उपास्मै गायतेति पञ्च मधुमतीः श्रावयेदक्षन्नमीमदन्तेति च षष्ठी- माचान्तेषु भुक्ताशयान् गोमयेनोपलिप्य तेषु प्राचीनाग्रान् दर्भान् संस्तीर्य तेषु पृषदाज्यमिश्रेण भुक्तशेषणैकैकस्य द्वौ द्वौ पिण्डौ दद्या- दिति । इदं च श्राद्धत्रयं तत्र क्रममाह शातातपः- मातृश्राद्धं तु पूर्व स्यात्पितॄणां तदनन्तरम् । ततो मातामहानां च वृद्धौ श्राद्धत्रयं स्मृतमिति ॥ आश्वलायन:- PRISIONERIA चतुर्विंशतिमतसंग्रहः माता पितामही चैव संपूज्या प्रपितामही । पित्रादयस्त्रयश्चैव मातुः पित्रादयस्त्रयः । एतेन वार्द्धनीयाः स्युः पितरोऽभ्युदये द्विजैरिति । अस्य मुख्यकालमाह वशिष्टः- पूर्वेद्युर्मातृकं श्राद्ध कर्माहे पैतृकं तथा । उत्तरेयुः प्रकुर्वीत मातामहगणस्य विति। वृद्धशातातपः- पृथग्दिनेप्वशक्तश्चेदेकास्मन् पूर्ववासरे । श्राद्धत्रयं प्रकुर्वीत वैश्वदेवं तु तान्त्रिकमिति ॥ तत्राप्यशक्ती वृद्धमनु:- अभावे भिन्नकालानां नान्दीश्राद्धत्रयं बुधः । पूर्वेयुर्वै प्रकुर्वीत पूर्वाह्ने मातृपूर्वकमिति ॥ इदं गर्भाधानमारभ्य पुत्रस्य प्रथमविवाहावधि पित्रा कार्यम् तदु- परि पुत्रेणेत्यादि हेमाद्रौ स्फुटम् । अत्र च पित्रादयस्वय एव नान्दीमुख- संज्ञका इत्यवधेयम् । यत्तु- पिता पितामहश्चैव तथैव प्रपितामहः । त्रयस्त्वश्रुमुखा ह्येते पितरः सम्प्रकीर्तिताः। तेभ्यः पूर्वे त्रयो ये तु ते तु नान्दीमुखाः स्मृताः । इति वचनं तद्भाद्रपदपूर्णिमायां विहितं यत् श्राद्धं तन्मात्रविष- यकम् । तथाचब्रह्मपुराणे- नान्दीमुखानां प्रत्यब्दं कन्याराशिगते रचौ । पौर्णमास्यां तु कर्त्तव्यं वराहवचनं यथा । ये स्युः पितामहादूर्ध्वं ते स्युर्नान्दीमुखास्त्विह इति । । SMS चतुर्विंशतिमतसंग्रहः पितामहशब्देन प्रपितामहो लक्ष्यते । तस्मात्पौष्टपदीमुपक्रम्यै- वेत्थमभिधानादन्यत्र नान्दीश्राद्धे पित्रादीनामेवोपादानमिति हेमाद्रि- पारिजातादिनिबन्धेषु स्फुटतरमेतत् । यद्यपि श्राद्धविषये प्रकीर्णक बहुतरं वक्तव्यमास्ति तथापि विस्तरभयादुपरम्यते । ग्रन्थान्ते महर्षिन- मस्काररूपं मङ्गलं शिष्यशिक्षार्थमुपनिबध्नाति- मनवे याज्ञवल्क्याय विश्वामित्राय चात्रये । विष्णवे च वशिष्ठाय व्यासायोशनसे नमः॥ बौधायनाय शङ्खाय दक्षायाङ्गिरसे तथा । आपस्तम्बाय वत्साय हारीताय नमो नमः ॥ बृहस्पते ! नमस्तुभ्यं नारदाय महात्मने । पराशराय गाव्य गौतमाय यमाय च ॥ शातातपाय शाळ्याय संवर्ताय नमो नमः । चतुर्विंशतिसंख्येभ्यो मुनिभ्योस्तु नमो नमः ॥ इदं च मङ्गलाचरणं मुन्युपदिष्टधर्मसंग्राहकं तच्छिष्यकर्तृकम् । अ- थस्तु फुटएव । सर्ववेदैकवेद्याय सचिदानन्दमूर्तये । नमो नमः परेशाय विष्णवे प्रभविष्णवे ॥ तेनैव प्रेरितो यद्यदचकिम चापलम् । तत्क्षम्यतांस एवैत दन्तर्यामी महेश्वरः । * इति पदवाक्यप्रमाणश्रीलक्ष्मधिरसूरेः सूनुना भट्टोजिदीक्षितन रचितायां चतुर्विंशतिमुनिमतव्याख्यायां श्राद्धकाण्डं सम्पूर्णम् । * अस्य ग्रन्थस्य सत्स्वपि बहुषु खण्डेषु, कृतेऽपि तत्प्राप्तिप्रयासे, संप्रत्युपलब्ध खण्डकूयं लोकोपकारितया व्यत्ययेनापि प्रकाशितम् । अन्यान्युपलप्स्यमानान्यपि खण्डानि सत्वरमेव प्रकाशायन्यन्ते ।
विज्ञापनम् । बनारमसंस्कृतसीरीज़नाम्नी वाराणसेयसंस्कृतपुस्तकावली। इयं पुस्तकावली खण्डशो मुद्रिता भवति । अस्यां संस्कृतभाषा- निबद्धा बहवः प्राचीना दुर्लभा उत्तमोत्तमाः केचिदङ्गलभाषानुवा- दसहिताश्च ग्रन्था मुद्रिता भवन्ति । तांश्च ग्रन्थान् काशिकराजकी- यसंस्कृतपाठशालीयपण्डिता अन्य ऽपि विद्वांसः शोधयन्ति । येना- हकमहाशरियं पुस्तकावली नियमनाविच्छेदेन संग्राह्या तैस्तदे- केकस्य खण्डस्य कृते ॥) मूल्यं प्रापणव्ययश्च =) देयः। अन्येम- हाशययः कानिचित् खण्डानि संग्राह्याणि तेश्च प्रत्येक खण्डान १) मूल्यं प्रापणव्ययश्च =) देय इति ॥ तत्र मुद्रिता ग्रन्थाः। ५ १ 0 सिद्धान्ततत्त्वविवेकः खण्डानि ५ अर्थलङ्ग्रहः अंग्रेजीभापानुवादसहितः १ तन्त्रवार्तिकम् खण्डानि १३ कात्यायनमहर्पिप्रणीतं शुक्लयजुःप्रातिशाख्यम् सभाध्यं ख० ६६ मांख्यकारिका चन्द्रिकाटीकागाडपादभाष्यसहिता वाक्यपदीयम् खण्डानि ६ (प्रथमभागः प्रथमद्वितीयकाण्डे पुण्यराजटीकासहित खण्डानि ३। द्वितीयभागः तृतीयाका- ण्डम् हलाराजटीकासहित खण्डानि ३) ६ रसगङ्गाधरः खण्डानि ९ परिभाषावृत्तिः खण्डे २ वैशेषिकदर्शनं किरणावलीटीकासंवलितप्रशस्तपादप्रणीत- भाष्यसहितम् खण्ड २ सिक्षासङ्ग्रहः खण्डानि ५ नैष्कासद्धिः खण्डानि ४ महर्षिकात्यायनप्रणीतं शुक्लयजुस्सर्वानुक्रमसूत्रम् सभाध्यम ३ ऋग्वेदीयशौनकप्रातिशाख्यं सभाष्यम् खण्डानि ४ (बृहत्) वैयाकरणभूषणम् पदार्थदीपिकासहितम् खण्डानि४ ४ विवरणोपन्यासः सटीकवाक्यसुधासहितः खण्डे २ २० २ ५ ०० ० ४ ४ २ २ तत्वदीपनम् (पश्चपादिकाविवरणस्य व्याख्यानम् ) ख... वेदान्तदीपः (श्रीभगवमानानुजाचार्यविरचिता) खण्डानि ३ ३ टुपटीका खण्डानि ४ पातालदर्शनम्।श्रीरामानन्दयतिकतमणिप्रभाऽख्यावृत्ति स. १ व्याकरण मिताक्षरा । श्रीमदभप्रणीता खण्डानि १० १० रलमारी । व्यङ्गयार्थकौमुद्या प्रकाशेन च सहिता ख० ३३ भेदधिकारः व्याख्यासहितः श्रीमदप्पयदीक्षितकृत उपक्रम पराक्रमसहितः खण्डे २ बोधसारो नरहरिकृतः तच्छिष्यदिवाकरकृतटीकयास० ख०१० ब्रह्मसूत्रदीपिका श्रीमच्छङ्करानन्दभगवद्विरचिता खण्डे २ दैवज्ञकामधेनुः अर्थात् प्राचीनज्योतिपत्रन्थः खण्डानि ३ श्रीमदणुभाष्यम् । श्रीश्रीवल्लभाचार्यविरचितम् । गोस्वामिश्रीपुरुषोत्तमजी महाराजविरचितभा ध्यप्रकाशाख्य- व्याख्या समेतम् खण्डानि १५ तत्त्वशेखरः। श्रीभगवल्लोकाचार्यप्रणीतः । तथा-तत्त्वत्रय बुलुक. संग्रहः । कुमारवेदान्ताचार्यश्रीमद्वरदगुरुविरचितः। १ श्रीभाष्यवार्तिकम् । श्रीमद्रामानुजाचार्यविशिष्टाद्वैतसिद्धान्तप्र- तिपादनपरम् । यतीन्द्रमतदीपिका च । श्रीगोविन्दाचार्यसूतु- श्रीनिवासाचार्यकृता । सकलाचार्यमतसंग्रहश्च । खण्डे २ गूढार्थदीपिका । श्रीमद्भागवतदशमस्कन्धस्थरासपश्चाध्यायी- ३ ३ व्याख्या १ २ आश्वलायनसूत्रप्रयोगदोपिका । श्रीविद्वद्वरमंचनाचार्यभट्ट- বিনিবা। काव्यालंकारसूत्राणि । पण्डितवरवामनविरचितवृत्तिसमेतानि कामधेनुसमाख्यव्याख्यासहितानि । श्रुत्यन्तसुरद्रुमेः । श्रीपुरुषोत्तमप्रसादविरचितः । चतुर्विंशतिमतसंग्रहः । श्रीभट्टोजिदीक्षितसंकलितः । १ २ २ CENTRALE ब्रजभूषण दास और कम्पनी चांदनीचौक के उत्तर नई सड़क बनारस सिटी (New Delhi LIBRARY