S.V.Digital Library, Tirupati
Hithopadeshaha
Front matter
No text on this page.
No text on this page.
No text on this page.
||KHANK-TRADAINIKANI SIMKAMIRINKITC- DMKI-2018 श्रीः । हितोपदेशः। wuk AKU MEMIK 17669 पं. विष्णुशर्मसंकलितो नीतिसंग्रहः। OE गङ्गावष्णु श्रीकृष्णदास, मालिक-" लक्ष्मीवेङ्कटेश्वर स्टीम् प्रेस; कल्याण-बम्बई. . AmARMIKHIDIHIMIRIKAT-DINAIKAHANI संवत् १९८९, शके १८५४. -1|| KASSIMITCOINKEDINKA T1|AKE MINIKA AFSAR और प्रकाशक- मुद्रक गङ्गाविष्णु श्रीकृष्णदास, मालिक-"लक्ष्मीवेङ्कटेश्वर" स्टीम-प्रेस, कल्याण-बंबई सन् १८६७ के आक्ट २५ के व मुजब रजिष्टरी सब हक प्रकाशकने अपने आधीन रखा है Ser श्रीः ॥ प्रस्तावना। वरीवर्ति सर्वोपरि विश्वम्भरायामिदं भारतं वर्षम्; यत्र महादि- प्रणीतानि नीतिशास्त्राणि तदनुवर्तिजनाश्चोपलभ्यन्ते। प्रथमं तावत्सृष्टशु- त्पत्तिवेलायां ब्रह्मणा तिरश्च आरभ्य सृष्टिः स्रष्टुमारब्धा । तत्र तत्रासंतु- टेन मनुष्यजातिय॑रचि। तत्र च यदा नयकोविदाः सनकादयः सञ्जाता- स्तत्रापि स्वकार्यनिर्वाहकत्वानगीकरणान्मन्वादीनसृजत् । तदा प्रथम मनुना नीतिः प्रणीतोपादिश्यत । इदं च नीतिशास्त्र साक्षाच्छ्रीमद्भग- वतो लब्धं विधिना वेदोपदेशावसरे, ततो बृहस्पतिना, स च बृहस्पति- रिन्द्रायेन्द्रो भरद्वाजाय भरद्वाज ऋषिभ्यश्चावदत् । एवं परंपराप्राप्त- मिदं नीतिशास्त्रमृषयः स्वस्वप्रणीतनीतिग्रन्थेषूपाजगुः । तथा च भग- वता व्यासेनापि श्रीमन्महाभारतं सर्व नीतिमयमेव निरमायि । क्वचि- कथा अपि तिरश्चां प्रणीता उदाहरणाय रुच्युत्पादनाय च । इयमेवा- ग्रप्रचलिता कथानकरीतिः । एवं मनुबृहस्पतिवाल्मीकिनारदयाज्ञवल्क्य- पराशरशुक्रादिमहर्षिभिरपि स्वस्वस्मृतौ सम्यगुपनिबद्धमेतन्नीतिशास्त्रम् । आधुनिकैस्तत्सारमुदृत्य बहवो नीतिग्रन्था संकलिताश्चाणक्यादिभिः । अथ चासीत् पाटलिपुत्रे कश्चन याचकानां कल्पतरुः सुदर्शनो नामराजा । तेन स्वकीयांस्त्रीनपि पुत्रान्मूर्खान्दृष्ट्वाऽचिन्त्यत, कथमिमे शास्त्रविदो भवेयुरिति । एवं समुत्पन्नचिन्तः स्वाभितपण्डितजनानपृच्छत् कथमिमे मदीयाः पुत्रा नीतिशास्त्रनिपुणा भवेयुः ? कोप्यस्त्यस्मदीय- पण्डितजनेष्वेतान् शिक्षितुं समर्थः स्वल्पदिनैश्च ? एवं पृष्टाः पण्डिताः केचन द्वादशवर्षाणि, केचन ततोप्यधिकान्युक्तवन्तः। तत्र बृहस्पति- नीतितत्त्वज्ञेन विष्णुशर्मणा पण्डितप्रवरेण " मयेमे सुकुलीनास्त्वत्पुत्राः पण्डिताः क्रियन्ते षण्मासाभ्यन्तर एवेति"प्रतिज्ञातम् । तदा राज्ञा स्वस- भायां संमानितः स विष्णुशर्मा पञ्चतंत्र नाम सर्वनीतिसारोद्धृतसारं ग्रन्थ विरचय्य तान्पाठयामास । येन ते नीतिविदः कुशलिनोऽभूवन् ।
४ ततोऽप्युद्धृतसारोऽयं हितोपदेशो नाम संक्षिप्ततमो नीतिग्रन्थ सकलजनाञ्छिक्षयितुं तेनैव पण्डितेन संकलितः। ग्रन्थश्चायं बालकानां तिर्यकथालोलुपानां नीतिशास्त्रज्ञानायातिपटु- तरः प्रथमः सोपानः। एवं नीतिसारमयोऽयमन्वर्थों हितोपदेशोऽस्मान् बलदेवप्रसादमिश्र- पण्डितैः पुस्तकान्तरसंमेलनेन सम्यक् संशोध्य प्रेषितः । ततोऽस्माभिग्य संशोध्य सम्यगक्षरैः सम्यग्मुद्रितः पंडिताग्रेसरजनोपकारायति ग्राहका- स्त्वरया गृहन्वित्याशासे। श्रीकृष्णदासात्मजः क्षेमराजश्रेष्ठी. " श्रीवेकटेश्वर "स्टीम्-मुद्रणालयाध्यक्षः. मुम्बई-स्थः।
श्रीः ॥
हितोपदेशः॥
मङ्गलाचरणम् ।
सिद्धिः साध्ये सतामस्तु प्रसादात्तस्य धूर्जटे।
जाह्नवीकेनलेखेव यन्मूर्ध्नि शशिनः कला ॥१॥
प्रस्ताविका।
श्रुतो हितोपदेशोऽयं पाटवं संस्कृतोक्तिषु ।
वाचा सर्वत्र वैचित्र्यं नीतिविद्यां ददाति च ।। २ ॥
अजरामरवत्प्राज्ञो विद्यामर्थ च चिन्तयेत् ।
गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥ ३॥
सर्वद्रव्येषु विद्यैव द्रव्यमाहुरनुत्तमम् ।
अहार्यत्वादनर्घत्वादक्षयत्वाच्च सर्वदा ॥ ४ ॥
संयोजयति विद्यैव नीचगापि नरं सरित् ।
समुद्रमिव दुर्धर्ष नृपं भाग्यमतः परम् ॥ ५ ॥
विद्या ददाति विनयं विनयाद्याति पात्रताम् ।
पात्रत्वाद्धनमाप्नोति धनाद्धर्म ततः सुखम् ॥ ६॥
विद्या शस्त्रस्य शास्त्रस्य द्वे विद्ये प्रतिपत्तये ।
आद्या हास्याय वृद्धत्वे द्वितीयाद्रियते सदा ॥ ७ ॥
यन्नवे भाजने लग्नः संस्कारो नान्यथा भवेत् ।
कथाच्छलेन बालानां नीतिस्तदिह कथ्यते ॥८॥
मित्रलाभः सुहृद्भेदो विग्रहः सन्धिरेव च ।
पञ्चतन्त्रात्तथान्यस्माद्ग्रन्थादाकृष्य लिख्यते ॥ ९॥
[हितोपदेशे-
कथारग्भः।
अस्ति भागीरथीतीरे पाटलिपुत्रनामधेय नगरम् । तत्र सर्वस्वामिगुणोपेत
सुदर्शनो नाम नरपतिरासीत् । स भूपतिरेकदा केनापि पठ्यमान श्लोकद्वय
शुश्राव-
" अनेकसंशयोच्छेदि परोक्षार्थस्य दर्शकम् ।
सर्वस्य लोचनं शास्त्रं यस्य नास्त्यन्ध एव सः॥१०॥
यौवनं धनसंपत्तिः प्रभुत्वमविवेकिता।
एकैकमप्यनर्थाय किमु यत्र चतुष्टयम् ।। ११ ॥"
इत्याकण्यात्मन पुत्राणामनधिगतशास्त्राणा नित्यमुन्मार्गगामिना शास्त्राननु-
ष्ठानेनोद्विग्नमना स राजा चिन्तयामास-
"कोऽर्थः पुत्रेण जातेन यो न विद्वान धार्मिकः।
काणेन चक्षुषा किं वा चक्षुःपीडैव केवलम् ॥ १२ ॥
अजातमृतमूर्खाणां वरमाद्यौ न चान्तिमः ।
सकृददुःखकरावाद्यावन्तिमस्तु पदेपदे ॥ १३ ॥
किच-
स जातो येन जातेन याति वंशः समुन्नतिम् ।
परिवर्तिनि संसारे मृतः को वा न जायते ॥ १४ ॥
A
अन्यच्च-
गुणिगणगणनारम्भे न पतति कठिनी सुसंभ्रमाद्यस्य ।
तेनाम्बा यदि सुतिनी वद वन्ध्या कीदृशी भवति॥१५॥
अपि च-
दाने तपसि शौर्ये च यस्य न प्रथितं यशः।
विद्यायामर्थलाभे च मातुरुच्चार एव सः॥१६॥
-
अपर च--
वरमेको गुणी पुत्रो न च मूर्खशतान्यपि ।
एकश्चन्द्रस्तमो हन्ति न च तारागणोऽपि च ॥ १७ ॥
-
प्रस्ताविका.]
(७)
पुण्यतीर्थे कृतं येन तपः क्वाप्यतिदुष्करम् ।
तस्य पुत्रो भवेद्वश्यः समृद्धो धार्मिक सुधीः ॥१८॥
तथा चोक्तम्-
अर्थागमो नित्यमरोगिता च
प्रिया च भार्या प्रियवादिनी च ।
वश्यश्च पुत्रोऽर्थकरी च विद्या
षड जीवलोकस्य सुखानि राजन् ॥ १९ ॥
को धन्यो बहुभिः पुत्रैः कुशूलापूरणाढकैः ।
वरमेकः कुलालम्बी यत्र विश्रूयते पिता ॥२०॥
ऋणकर्ता पिता शत्रुर्माता च व्यभिचारिणी ।
भाया रूपवती शत्रुः पुत्रः शत्रुरपण्डितः॥ २१ ॥
अनभ्यासे विष विद्या अजीर्णे भोजनं विषम् ।
विषं सभा दरिद्रस्य वृद्धस्य तरुणी विषम् ॥ २२ ॥
यस्य कस्य प्रसूतोऽपि गुणवान्पूज्यते नरः।
धनुर्वशविशुद्धोऽपि निर्गुणः किं करिष्यति ॥ २३ ॥
हा हा पुत्रक नाधीतं सुगतैतासु रात्रिषु ।
तेन त्वं विदुषां मध्ये पङ्के गौरिव सीदसि ॥ २४ ॥
तत्कथमिदानीमेते मम पुत्रा गुणवन्त क्रियन्ताम्-
आहारनिद्राभयमैथुनं च
सामान्यमेतत्पशुभिर्नराणाम् ।
धर्मो हि तेषामधिको विशेषो
धर्मेण हीनाः पशुभिः समानाः ॥२५॥
यत
-
धर्मार्थकाममोक्षाणां यस्यैकोऽपि न विद्यते ।
अजागलस्तनस्येव तस्य जन्म निरर्थकम् ॥२६॥
(८)
[हितोपदेशे-
-
अत्रोच्यते-
आयुः कर्म च वित्तं च विद्या निधनमेव च ।
पञ्चैतान्यपि सृज्यन्ते गर्भस्थस्यैव देहिनः ॥ २७ ॥
फिञ्च-
अवश्यं भाविनो भावा भवन्ति महतामपि ।
नग्नत्वं नीलकण्ठस्य महाहिशयनं हरेः ॥२८॥
अपि च-
यदभावि न तद्भावि भावि चेन्न तदन्यथा ।
इति चिन्ताविषघ्नोऽयमगदः किं न पीयते ॥ २९ ॥
एतत्कार्याक्षमाणा केषाचिदालस्यवचनम्-
न दैवमपि संचिन्त्य त्यजेदुद्योगमात्मनः ।
अनुद्योगेन तैलानि तिलेभ्यो नाप्तुमर्हति ॥ ३० ॥
-
-
अन्यच्च-
-
उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी-
दवन देयमिति कापुरुषा वदन्ति ।
दैवं निहत्य कुरु पौरुषमात्मशक्त्या
यत्ने कृते यदि न सिद्धयति कोऽत्र दोषः ॥ ३१ ॥
यथा टेकेन चक्रेण न रथस्य गतिर्भवेत् ।
एवं पुरुषकारेण विना दैवं न सिध्यति ॥ ३२ ॥
यथा च-
पूर्वजन्मकृतं कर्म तदेवमिति कथ्यते ।
तस्मात्पुरुषकारेण यत्नं कुर्यादतन्द्रितः ॥ ३३ ॥
यथा मृत्पिण्डतः कर्ता कुरुते यद्यदिच्छति ।
एवमात्मकृतं कर्म मानवः प्रतिपद्यते ॥३४॥
अन्यच्च-
-
काकतालीयवत्प्राप्तं दृष्ट्वापि निधिमग्रतः।
न स्वयं देवमादत्ते पुरुषार्थमपेक्षते ॥ ३५ ॥
प्रस्ताविका ] (९) उद्यमेन हि सिद्धयन्ति कार्याणि न मनोरथैः । न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥३६॥ मातृपितृकृताभ्यासो गुणितामेति बालकः । न गर्भच्युतिमात्रेण पुत्रो भवति पण्डितः॥ ३७॥ तथा च- - माता शत्रुः पिता वैरी येन बालो न पाठितः। न शोभते सभामध्ये हंसमध्ये बको यथा ॥ ३८ ॥ रूपयौवनसम्पन्ना विशालकुलसम्भवाः । विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः ॥ ३९॥ मूोऽपि शोभते तावत्सभायां वस्त्रबेष्टितः । तावञ्च शोभते मूर्यो यावकिचिन्न भाषते ॥४०॥" एतच्चिन्तयित्वा स राजा पण्डितसभा कारितवान् । राजोवाच-'भो भोः पण्डिता श्रूयन्ताम् । अस्ति कश्चिदेवभूतो विद्वान् यो मम पुत्राणा नित्यमु- न्मार्गगामिनामनविगतशास्त्राणामिदानी नीतिशास्त्रोपदेशेन पुनर्जन्म कारयितु समर्थ. १ यत काचः काञ्चनसंसर्गाद्धत्ते मारकतीं शुतिम् । तथा सत्संनिधानेन मूो याति प्रवीणताम् ॥४१॥' उक्त च- - हीयते हि मतिस्तात हीनैः सह समागमात् । समैश्च समतामेति विशिष्टैश्च विशिष्टताम् ॥ ४२ ॥ अत्रान्तरे विष्णुशर्मनामा महापण्डित सकलनीतिशास्त्रतत्त्वज्ञो बृहस्पतिरिवा- ब्रवीत् “ देव महाकुलसभूता एते राजपुत्रा मया नीति ग्राहयितुं शक्यन्ते । यत meme- नाद्रव्ये निहिता काचित्क्रिया फलवती भवेत् । न व्यापारशतेनापि शुकवत्पाठयते बकः ॥ ४३ ।। अन्यच्च- (१०) [हितोपदेशे- अस्मिस्तु निर्गुणं गोत्रे नापत्यमुपजायते। आकरे पद्मरागाणां जन्म काचमणेः कुतः॥४४॥ अतोऽहं षण्मासाभ्यन्तरे तव पुत्रान्नीतिशास्त्राभिज्ञान्करिष्यामि । " राजा सविनय पुनरुवाच "कीटोऽपि सुमनःसङ्गादारोहति सतां शिरः। अश्मापि याति देवत्वं महद्भिः सुप्रतिष्ठितः॥४५॥ अन्यच्च- - यथोदयगिरे व्यं सन्निकर्षेण दीप्यते । तथा सत्संनिधानेन हीनवर्णोऽपि दीप्यते ॥ ४६ ॥ गुणा गुणज्ञेषु गुणा भवन्ति ते निर्गुणं प्राप्य भवन्ति दोषाः । आस्वाद्य तोयाः प्रभवन्ति नद्यः समुद्रमासाद्य भवन्त्यपेयाः॥४७॥ तदेतेषामस्मरपुत्राणा नीतिशास्त्रोपदेशाय भवन्त प्रमाणम् इत्युक्त्वा तस्य विष्णुशर्मणो बहुमानपुर सर पुत्रान्समर्पितवान् । अथ प्रासादपृष्ठे सुखोपविष्टाना राजपुत्राणा पुरस्तात् प्रस्तावक्रमेण स पण्डितो- ऽब्रवीत् “ भो राजपुत्रा । शृणुत-- काव्यशास्त्रविनोदेन कालो गच्छति धीमताम । व्यसनेन च मूर्खाणां निद्रया कलहेन वा ॥४८॥ तद्भवता विनोदाय काककूर्मादीना विचित्रा कथा कथयामि' । राजपुत्र- रुक्तम्- आर्य कथ्यताम् ॥ . इति कथारम्भ समाप्त ।
मित्रलाभः। अद्य - विष्णुशर्मोवाच-शृणुत । सप्रति मित्रलाभ प्रस्तूयते यस्यायमाद्यश्लोक असाधना वित्तहीना बुद्धिमन्तः सुहृत्तमाः। साधयन्त्याशु कार्याणि काककूर्ममृगाखुवत् ॥ १॥ राजपुत्रा ऊचु – 'कथमेतत् १ ' विष्णुशर्मा कथयति- " अस्ति गोदावरीतीरे विशाल शाल्मलीतरु । तत्र नानादिग्देशादागत्य रात्रौ पक्षिणो निवसन्ति । अथ कदाचिदवसन्नाया रात्रावस्ताचलचूडावलम्बिनि भग- वति कुमुदिनीनायके चन्द्रमसि लघुपतनकनामा वायसः प्रबुद्ध कृता- न्तमिव द्वितीयमायान्त पाशहस्त व्याधमपश्यत् । तमवलोक्याचिन्तयत् प्रातरेवानिष्टदर्शन जातम् , न जाने किमनभिमत दर्शयिष्यति' इत्युक्त्वा तद- नुसरणक्रमेण व्याकुलश्चलित । यत शोकस्थानसहस्राणि भयस्थानशतानि च । दिवसेदिवसे मूढमाविशन्ति न पण्डितम् ॥ २॥ अन्यच्च, विषयिणामिदमवश्य कर्तव्यम्- उत्थायोत्थाय बोद्धव्यं महद्भयमुपस्थितम् । मरणव्याधिशोकानां किमद्य निपतिष्यति ॥३॥ अथ तेन व्यावेन तण्डुलकणान्विकीर्य जाल विस्तीर्णम् । स च प्रच्छन्नो भूत्वा स्थित । तस्मिन्नेव काले चित्रग्रीवनामा कपोतराज सपरिवारो वियति विसर्पस्तास्तण्डुलकणानवलोकयामास । तत कपोतराजस्तण्डुलकणलुब्धान्कपो- सान्प्रत्याह 'कुतोऽत्र निर्जने वने तण्डुलकणाना सभव १ तन्निरूप्यता तावत् , भद्रमिद न पश्यामि, प्रायेणानेन तण्डुलकणलोभेनास्माभिरपि तथा भवितव्यम्- कङ्कणस्य तु लोभेन मग्नः पङ्के सुदुस्तरे। वृद्धव्याघ्रण संप्राप्तः पथिकः स मृतो यथा ॥४॥ कपोता ऊचुः- 'कथमेतत् ? ' कपोतराजः कथयति । ?
(१२) [हितोपदेशे- कथा १. अहमेकदा दक्षिणारण्ये चरन्नपश्यम् । एको वृद्धव्याघ्रः स्नात कुश- हस्त. सरस्तीरे ब्रूते-' भोभो पान्थाः । इद सुवर्णकङ्कण गृह्यताम् ।' ततो लोभाकृष्टेन केनचित्पान्थेनालोचितम्-'भाग्येनैतत्सभवति । कि त्वस्मिन्नात्म- सन्देहे प्रवृत्तिन विवेया । यत - अनिष्टादिष्टलाभेऽपि न गतिर्जायते शुभा। यत्रास्ते विषसंसर्गोऽमृतं तदपि मृत्यवे ॥५॥ कितु सर्वत्रार्थार्जने प्रवृत्ति सदेह एव । तथा चोक्तम्- न संशयमनारुह्य नरो भद्राणि पश्यति । संशयं पुनरारुह्य यदि जीवति पश्यति ॥६॥ तन्निरूपयामि तावत् ।' प्रकाश ब्रूते-' कुत्र तव कङ्कणम् ? ' व्याघ्रो हस्त प्रसार्य दर्शयति । पान्थोऽवदत्-'कथ मारात्मके त्वयि विश्वास १' व्याघ्र उवाच- "शृणु रे पान्थ । प्रागेव यौवनदशायामतिदुर्वृत्त आसम् , तत अनेकगोब्राह्मण- मानुषाणा वधान्मे पुत्रा मृता दाराश्च वशहीनश्चाहम् । तत. केनचिद्धार्मिकेणा- हमादिष्ट.--' दानवर्मादिक चरतु भवान् । ' तदुपदेशादिदानीमह स्नान- शीलो दाता वृद्धो गलितनखदन्तो न कथ विश्वासभूमि १ उक्त च- इज्याध्ययनदानानि तपः सत्यं धृतिः क्षमा । अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः ॥ ७ ॥ तत्र पूर्वश्चतुर्वर्गो दम्भार्थमपि सेव्यते । उत्तरस्तु चतुर्वर्गों महात्मन्येव तिष्ठति ॥ ८॥ मम चैतावॉल्लोभविरहो येन स्वहस्तस्थमपि सुवर्णककण यस्मै कस्मैचिद्दातु- मिच्छामि । तथापि व्याघ्रो मानुष खादतीति लोकप्रवादो दुर्निवार । यत गतानुगतिको लोकः कुट्टिनीमुपदेशिनीम् । प्रमाणयति नो धर्मे यथा गोन्नमपि द्विजम् ॥ ९॥ मया च धर्मशास्त्राण्यधीतानि । शृणु- मरुस्थल्यां यथा वृष्टिः क्षुधातें भोजनं तथा । दरिद्रे दीयते दानं सफलं पाण्डुनन्दन ॥ १० ॥ - - मित्रलाभः.] (१३) प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा। आत्मौपम्येन भूतेषु दयां कुर्वन्ति साधवः ॥ ११ ॥ अपर च- प्रत्याख्याने च दाने च सुखदुःखे प्रियाप्रिये । आत्मौपम्येन पुरुषः प्रमाणमधिगच्छति ॥१२॥ अन्यच- मातृवत्परदारेषु परद्रव्येषु लोष्टवत् । आत्मवत्सर्वभूतेषु यः पश्यति स पण्डितः ॥ १३ ॥ त्व चातीव दुर्गत , तेन तत्तुभ्य दातु सयत्नोऽहम् । तथा चोक्तम्- दरिद्रान्भर कौन्तेय मा प्रयच्छेश्वरे धनम् । व्याधितस्यौषधं पथ्यं नीरुजस्य किमौषधैः॥१४॥ अन्यच- दातव्यमिति यदानं दीयतेऽतुपकारिणे। देशे काले च पात्रे च तदानं सात्त्विकं विदुः॥१५॥ तदत्र सरसि स्नात्वा सुवर्णकङ्कणं गृहाण ।" ततो यावदसौ जातविश्वासः सर स्नातुं प्रविशति तावदेव महापङ्के निमग्नः पलायितुमक्षम । पङ्क पतित दृष्ट्वा व्याघ्रोऽवदत् -अहह ! महापङ्के पतितोऽसि । अतस्त्वामहमुत्थापयामि' इत्युक्त्वा शनै शनैरुपगम्य तेन व्याघ्रण मृत । स पान्थोऽचिन्तयत्- न धर्मशास्त्रं पठतीत कारणं न चापि वेदाध्ययनं दुरात्मनः। स्वभाव एवात्र तथातिरिच्यते यथा प्रकृत्या मधुरं गवां पयः॥ १६॥ कि च- अवशेन्द्रियचित्तानां हस्तिस्नानमिव क्रियाः । दुर्भगाभरणप्रायो ज्ञानं भारः क्रियां विना ॥ १७ ॥ तन्मया भद्र न कृतम् यदत्र मारात्मके विश्वासः कृतः । तथायुक्तम्- - (१४) [हितोपदेशे- नदीनां शस्त्रपाणीनां नखिनां शृङ्गिणां तथा। विश्वासो नैव कर्तव्यः स्त्रीषु राजकुलेषु च ॥ २८॥ अपरच- सर्वस्य हि परीक्ष्यन्ते स्वभावा नेतरे गुणाः । अतीत्य हि गुणान्सर्वान्स्वभावो मूनि वर्तते ॥ १९ ॥ अन्यच्च- स हि गगनविहारी कल्मषध्वंसकारी दशशतकरधारी ज्योतिषां मध्यचारी। विधुरपि विधियोगाइस्यते राहुणासौ लिखितमपि ललाटे प्रोज्झितुं का समर्थः ॥२०॥ इति चिन्तयन्नेवासौ तेन व्याघ्रण व्यापादित खादितश्च । अतोऽह ब्रवीमि -'कङ्कणस्य तु लोभेन' इत्यादि । अत सर्वथाऽविचा- रित कर्म न कर्तव्यम् । यत सुजीर्णमन्नं सुविचक्षणः सुतः सुशासिता स्त्री नृपतिः सुसेवितः। सुचिन्त्य चोक्तं सुविचार्य यत्कृतं सुदीर्घकालेऽपि न याति विक्रियाम् ॥ २१॥ एतद्वचन श्रुत्वा कश्चित्कपोत सदर्पमाह-' आ । किमेवमुच्यते ? वृद्धानां वचनं ग्राह्यमापत्काले झुपस्थिते । सर्वत्रैवं विचारेण भोजनेऽप्यप्रवर्तनम् ॥ २२ ॥ यत - शङ्काभिः सर्वमाक्रान्तमन्नं पानं च भूतले । प्रवृत्तिः कुत्र कर्तव्या जीवितव्यं कथं नु वा ॥२३ ॥ तथा चोक्तम्- ईर्थी घृणी त्वसन्तुष्टः क्रोधनो नित्यशङ्कितः। परभाग्योपजीवी च षडेते दुःखभागिनः ॥ २४ ॥'
मित्रलाभः.] (१५) एतच्छ्रुत्वा सर्वे कपोतास्तत्रोपविष्टा. । यत - सुमहान्त्यपि शास्त्राणि धारयन्तो बहुश्रुताः। छेत्तारः संशयानां च क्लिश्यन्ते लोभमोहिताः॥२५।। अन्यच्च- लोभात्क्रोधः प्रभवति लोभात्कामः प्रजायते । लोभान्मोहश्च नाशश्च लोभः पापस्य कारणम् ॥ २६॥ अन्यच्च- असंभवं हेममृगस्य जन्म तथापि रामो लुलुभे मृगाय । प्रायः समापन्नविपत्तिकाले धियोऽपि पुंसां मलिना भवन्ति ॥ २७ ॥ अनन्तर ते सर्वे जालेन बद्धा बभूव । ततो यस्य वचनात्तत्रावलम्बिता पक्षिणस्त सर्वे तिरस्कुवन्ति । तथा चोक्तम्- न गणस्याग्रतो गच्छेत्सिद्धे कार्ये समं फलम् । यदि कार्यविपत्तिः स्यान्मुखरस्तत्र हन्यते ॥ २८ ॥ तथा चोक्तम्- आपदां कथितः पन्था इन्द्रियाणामसंयमः। तज्जयः सम्पदा मार्गों येनेष्टं तेन गम्यताम् ॥ २९॥ तस्य तिरस्कार श्रत्वा चित्रग्रीव उवाच-"नायमस्य दोष । न्यत'- आपदामापतन्तीनां हितोऽप्यायाति हेतुताम् । मातृजडा हि वत्सस्य स्तम्भीभवति बन्धने ॥३०॥ अन्यच्च- स बन्धुर्यो विपन्नानामापदुद्धरणक्षमः। न तु भीतपरित्राणवस्तूपालम्भपण्डितः॥ ३१॥ विपत्काले विस्मय एव कापुरुषलक्षणम् । तदत्र धैर्यमवलम्ब्य प्रतीकारश्चि- न्त्यताम् । यत'- a Momind [हितोपदेशे- विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रमः । यशसि चाभिरुचिर्व्यसनं श्रुती प्रकृतिसिद्धमिदं हि महात्मनाम् ॥ ३२ ॥ संपदि यस्य न हर्षो विपदि विषादो रणे न भीरुत्वम् । तं भुवनत्रयतिलकं जनयति जननी सुतं विरलम् ॥३३॥ अन्यच्च-- षड् दोषाः पुरुषेणेह हातव्या भूतिमिच्छता। निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता ॥ ३४ ॥ इदानीमप्येव क्रियताम् , सर्वैरेकचित्तीभूय जालमादायोड्डीयताम् । यतः- अल्पानामपि वस्तूनां संहतिः कार्यसाधिका । तृणैर्गुणत्वमापन्नध्यन्ते मत्तदन्तिनः ॥ ३५ ॥ संहतिः श्रेयसी पुंसां स्वकुलैरल्पकैरपि । तुषेणापि परित्यक्तान प्ररोहन्ति तण्डुलाः॥३६ ॥" इति विचिन्त्य पक्षिण सर्वे जालमादायोत्पतिता । अनन्तर स व्याधः सुदूराजालापहारकास्तानवलोक्य पश्चाद्धावन्नचिन्तयत्-- संहतास्तु हरन्त्येते मम जालं विहङ्गमाः। यदा तु निपतिष्यन्ति वशमेष्यन्ति मे तदा ॥३७॥ ततस्तेषु चक्षुर्विषयातिक्रान्तेषु पक्षिषु स व्यावो निवृत्त । अथ लुब्धक निवृत्त दृष्टा कपोता ऊचु - स्वमिन् ! किमिदानी कर्तुमुचि- ' चित्रग्रीव उवाच- माता मित्रं पिता चेति स्वभावात्रितयं हितम् । कार्यकारणतश्चान्ये भवन्ति हितबुद्धयः॥ ३८ ॥ तदस्माक मित्रं हिरण्यको नाम मूषिकराजो गण्डकीतीरे चित्रवने निवसति । दन्तबलेन सोऽस्माक पाशाश्छेत्स्यति ” इति आलोच्य सर्वे हिरण्यकविवरसमीपं गताः । हिरण्यकश्च सर्वदापायशङ्कया शतदार विव कृत्वा निवसति- तम् ? RRNO मित्रलाभ:.] (१७) अनागतभयं दृष्ट्वा नीतिशास्त्रविशारदः । अवसन्मूषिकस्तत्र वृद्धः शतमुखे बिले ॥ ३९ ॥ ततो हिरण्यक कपोतावपातभयाञ्चकितस्तूष्णी स्थित । चित्रग्रीव उवाच- "सखे हिरण्यक । किमस्मान्न सभाषसे १" ततो हिरण्यकस्तद्वचन प्रत्यभिज्ञाय ससभ्रम बहिनि सृत्याब्रवीत्-' आ । पुण्यवानस्मि, प्रियसुहृन्मे चित्रग्रीवः समायात । यस्य मित्रेण संभाषा यस्य मित्रेण संस्थितिः। यस्य मित्रेण संलापस्ततो नास्तीह पुण्यवान् ॥ ४०॥ पाशबद्धाश्चैतान्दृष्ट्वा सविस्मय क्षण स्थित्वोवाच-सखे ! किमेतत् १ ' चिन- ग्रीवोऽवदत्-- सखे । अस्माक प्राक्तनजन्मकर्मण फलमेतत् । यस्माञ्च येन च यथा च यदा च यच्च यावञ्च यत्र च शुभाशुभमात्मकर्म । तस्माच्च तेन च तथा च तदा च तच्च तावञ्च तत्र च विधातृवशादुपैति ॥ ४१ ॥ रोगशोकपरीतापबन्धनव्यसनानि च । आत्मापराधवृक्षाणां फलान्येतानि देहिनाम् ॥४२॥' एतच्छ्रुत्वा हिरण्यकश्चित्रग्रीवस्य बन्वन छेत्तु सत्वरमुपसर्पति । चित्रग्रीव उवाच--' मित्र ! मा मैवम् । अस्मदाश्रितानामेषा तावत्पाशाश्छिन्धि, तदा मम पाश पश्चान्छेत्स्यमि ।' हिरण्यकोऽप्याह- अह चाल्पशक्ति , दन्ताश्च मे कोमला., तदेतेषा पाशाश्छेत्तु कथ समर्थ. १ तद्यावन्मे दन्ता न त्रुटयन्ति ताव- त्तव पाश छिनभि । तदनन्तरमेषामपि बन्वनं यावच्छक्य छेत्स्यामि ।' चित्र- ग्रीव उवाच-' अस्त्वेवम् । तथापि यथाशक्त्येतेषा बन्धन खण्डय ।' हिरण्य- केनोक्तम्- आत्मपरित्यागेन यदाश्रिताना परिरक्षणं तन्न नीतिविदा समतम् । यत - आपदर्थे धनं रक्षेदारानक्षेद्धनैरपि । आत्मानं सततं रक्षेदारैरपि धनैरपि ॥ ४३ ॥ ३ (१८) [हितोपदेशे- अन्यच्च- धर्मार्थकाममोक्षाणां प्राणाः संस्थितिहेतवः। तान्त्रिघ्नता किं न हतं रक्षता किं न रक्षितम् ॥४४॥' चित्रग्रीव उवाच-' सखे । नीतिस्तावदीदृश्येव, कि त्वहमस्मदाश्रिताना दुःख सोढु सर्वथाऽसमर्थः । तेनेद ब्रवीमि । यत - धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत् । सनिमित्ते वरं त्यागो विनाशे नियते सति॥ ४५ ॥ अयमपरश्वासावारणो हेतु -- जातिद्रव्यगुणानां च साम्यमेषां मया सह । मत्प्रभुत्वफलं ब्रूहि कदा किं तद्भविष्यति ॥ ४६॥ - अन्यच्च- विना वर्तनमेवैते न त्यजन्ति ममान्तिकम् । तन्मे प्राणव्ययेनापि जीवयैतान्ममाश्रितान् ॥ ४७ ॥ किच- मांसमूत्रपुरीषास्थिनिर्मितेऽस्मिन्कलेवरे । विनश्वरे विहायास्था यशः पालय मित्र मे ॥४८॥ अपर च पश्य- यदि नित्यमनित्येन निर्मलं मलवाहिना। यशः कायेन लभ्येत तन्न लब्धं भवेनु किम् ॥ ४९ ।। यत -- शरीरस्य गुणानां च दूरमत्यन्तमन्तरम् । शरीरं क्षणविध्वंसि कल्पान्तस्थायिनो गुणाः ॥५०॥' इत्याफर्ण्य हिरण्यक प्रहृष्टमना. पुलकित सन्नब्रवीत्-- साधु मित्र । साधु । अनेनाश्रितवात्सल्येन त्रैलोक्यस्यापि प्रभुत्व त्वयि युज्यते ।' एवमुक्त्वा तेन सर्वेषा बन्धानि छिन्नान । ततो हिरण्यक सर्वान्सादर सम्पूज्याह-'सखे चित्र- ग्रीव । सर्वथात्र जालबन्धनविधौ दोषमाशङ्कयात्मन्यवज्ञा न कर्तव्या । यत'- योऽधिकाद्योजनशतात्पश्यतीहामिषं खगः । स एव प्राप्तकालस्तु पाशबन्धं न पश्यति ॥ ५१ ॥ - मित्रलाभ:.] (१९) अपरच- शशिदिवाकरयोग्रहपीडनं गजभुजङ्गमयोरपि बन्धनम् । मतिमतां च विलोक्य दरिद्रतां विधिरहो बलवानिति मे मातः॥५२॥ अन्यच्च- व्योमकान्तविहारिणोऽपि विहगाः संप्राप्नुवन्त्यापदं बध्यन्ते निपुणैरगाधसलिलान्मत्स्याः समुद्रादपि । दुर्नीतं किमिहास्ति किं सुचरितं का स्थानलाभे गुणः कालो हि व्यसनप्रसारितकरो गृहात दूरादपि ॥ ५३॥' इति प्रबोध्यातिथ्य कृत्वालिङ्गय च चित्रग्रीवस्तेन सप्रेषितो यथेष्टदेशान् सपरिवारो ययौ । हिरण्यकोऽपि स्वविवर प्रविष्ट. । यानि कानि च मित्राणि कर्तव्यानि शतानि च । पश्य मूषिकमित्रेण कपोता मुक्तबन्धनाः ॥ ५४॥ अथ लघुपतनकनामा काक सर्ववृत्तान्तदर्शी साश्चर्यमिदमाह- ' अहो हिरण्यक । श्लाघ्योऽसि । अतोऽहमपि त्वया सह मैत्रीमिच्छामि । मतो मा मैत्र्येणानुग्रहीतुमर्हसि ।' एतन्छ्रुत्वा हिरण्यकोऽपि विवराभ्यन्तरादाह-'कस्त्वम् ?' स ब्रूते-' लघुपतनकनामा वायसोऽहम् ।' हिरण्यको विहस्याह-' का त्वया सह मैत्री? यत - यद्येन युज्यते लोके बुधस्तत्तेन योजयेत् । अहमनं भवान्भोक्ता कथं प्रीतिर्भविष्यति ॥५५॥ अपर च- भक्ष्यभक्षकयोःप्रीतिर्विपत्तेरेव कारणम् । शृगालात्पाशबद्धोऽसौ मृगः काकेन रक्षितः॥५६॥' गयसोऽब्रवीत् 'कथमेतत् १' हिरण्यक' कथयति- - कथा २. अस्ति मगधदेशे चम्पकावती नामारण्यानी । तस्या चिरान्महला स्नेहेन मृगकाको निवसत । स च मृग स्वेच्छया भ्राम्यन्हृष्टपुष्टाङ्ग केनचित -- , (२०, [हितोपदेशे- शृगालेनावलोकित । त दृष्ट्वा शृगालोऽचिन्तयत् — आ । कथमेतन्मास सुललित भक्षयामि । भवतु । विश्वास तावदुत्पादयामि' इत्यालोच्योपसृ- त्याब्रवीत- 'मित्र | कुशलते १' मृगेणोक्तम्- 'कस्त्वम् १" स ब्रूते-'क्षुद्रबुद्धि- नामा जम्बुकोऽहम्, अत्रारण्ये बन्धुहीनो मृतवन्निवसामि । इदानीं त्वा मित्रमासाद्य पुन सबन्धुर्जीवलोक प्रविष्टोऽस्मि । अधुना तवानुचरेण मया सर्वथा भवितव्यम् । ' मृगेणोक्तम्-' एवमस्तु ।' तत पश्चादस्त गते सवितरि भगवति मरीचिमालिनि तौ मृगस्य वासभूमि गतौ । तत्र चम्पकवृक्षशाखाया सुबुद्धिनामा काको मृगस्य चिरमित्रं निवसति । तौ दृष्ट्वा काकोऽवदत् ' सखे चित्राङ्ग । कोऽय द्वितीय ?' मृगो ब्रूते-'जम्बुकोऽयम् अस्मत्सख्यमिन्छन्नागत । ' काको ब्रूते 'मित्र । अकस्मादागन्तुना सह मैत्री न युक्ता । तथा चोक्तम्- अज्ञातकुलशीलस्य वासो देयो न कस्यचित् । मार्जारस्य हि दोषेण हतो गृध्रो जरद्गवः॥ ५७ ॥ -' कथमेतत् १ काक कथयति. तावाहतु - कथा ३. अस्ति भागीरथीतीरे गृध्रकूटनाम्नि पर्वते महान्पर्कटीवृक्ष । तम्7 कोटरे दैवदुर्विपाकादलितनखनयनो जरद्वनामा गृध्रः प्रतिवसति । अथ कृपया तज्जीवनाय तदृक्षवासिन पक्षिण स्वाहारात्किचित्किचिदुदृत्य ददति । तेनासौ जीवति । शावकरक्षा च करोति । अथ कदाचिदीर्घकर्णनामा मार्जार पक्षिशावकान्भक्षितु तत्रागत । ततस्तमायान्त दृष्ट्वा पक्षिशावकैर्भयार्ते कोला- हल कृत । तन्छुत्वा जरद्वेनोक्तम्-'कोऽयमायाति १' दीर्घको गृध्रमवलोक्य समयमाह-' हा । हतोऽस्मि । यत - तावद्भयस्य भेतव्यं यावद्भयमनागतम् । आगतं तु भयं वीक्ष्य नरः कुर्याद्यथोचितम् ॥५८॥ अधुनास्य सनिधाने पलायितुमक्षम । तद्यथा भवितव्य तद्भवतु । तावद्विश्वा- समुत्पाद्यास्य समीपमुपगच्छामि । ' इत्यालोच्योपसृ याब्रवीत्- 'आर्य ! त्वामभि- वन्दे ।' गृध्रोऽवदत्-'कस्त्वम् १ ' सोऽवदत्-'मार्जारोऽहम् ' । गृध्रो ब्रूते ' दूर- , मित्रलाभ..] (२१) मपसर । नो चेद्धन्त योऽसि मया । ' मार्जारोऽवदत्- श्रूयता तावदस्मद्वच- नम् । ततो यद्यह वध्वस्तदा हन्तव्य । यत जातिमात्रेण कि कश्चिद्धन्यते पूज्यते क्वचित् । व्यवहारं परिज्ञाय वध्यः पूज्योऽथ वा भवेत् ॥ ५९॥ गृवो ब्रूते- 'ब्रहि । किमर्थमागतोऽसि १ ' सोऽवदत्- 'अहमत्र गङ्गातीरें नित्यस्नायी निरामिषाशी ब्रह्मचारी चान्द्रायणवतमाचरस्तिष्ठामि । यूय धर्मज्ञानरता. विश्वासममय इति पक्षिण सर्वदा ममाने प्रस्तुवन्ति, अतो भवद्गयो विद्या- वयोवृद्धेभ्यो वम श्रोतुमिहागत , भवन्तश्चैतादृशा वर्मज्ञा यन्मामतिथि हन्तुमुद्यता । गृहस्थधर्मश्चैष अरावप्युचितं कार्यमातिथ्यं गृहमागते । छेत्तुः पार्श्वगतां छायां नोपसंहरते द्रुमः॥ ६०॥ यदि वान्न नास्ति तदा प्रीतिवचसाप्यतिथि पूज्य एव । यत तृणानि भूमिरुदकं वाक् चतुर्थी च सूनृता । एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥ ६१॥ अन्यच्च- बालो वा यदि वा वृद्धो युवा वा गृहमागतः । तस्य पूजा विधातव्या सर्वस्याभ्यागतो गुरुः॥ ६२॥ अपर च- निर्गुणेष्वपि सत्त्वेषु दयां कुर्वन्ति साधवः । न हि संहरते ज्योत्स्नां चन्द्रश्चाण्डालवेश्मनः॥ ६३ ।। अन्यच्च- अतिथिर्यस्य भन्नाशो गृहात्प्रतिनिवर्तते । स तस्मै दुष्कृतं दत्त्वा पुण्यमादाय गच्छति ॥६४॥ अन्यच्च- उत्तमस्यापि वर्णस्य नीचोऽपि गृहमागतः। पूजनीयो यथायोग्यं सर्वदेवमयोऽतिथिः॥ ६५ ।।'
(२२) - [हितोपदेशे- गृध्रोऽवदत्-'मार्जारो हि मासरुचि , पक्षिशावकाश्चात्र निवसन्ति, तेना- हमेवं ब्रवीमि ।' तन्छ्रुत्वा मार्जारो भूमि स्पृष्ट्वा कौँ स्पृशति, ब्रूते च–'मया धर्मशास्त्र श्रुत्वा वीतरागेणेद दुष्करं नत चान्द्रायणमव्यवसितम् । परम्पर विउद- मानानामपि धर्मशास्त्राणाम् ' अहिसा परमो धर्म ' इत्यत्रैकमत्यम् । यत सर्वहिंसानिवृत्ता ये नराः सर्वसहाश्च ये। सर्वस्याश्रयभूताश्च ते नराः स्वर्गगामिनः॥ ६६ ॥ अन्यच्च- - एक एव सुहृद्धो निधनेऽप्यनुयाति यः । शरीरेण समं नाशं सर्वमन्यत्तु गच्छति ॥ ६७ ॥ किच- योऽत्ति यस्य यदा मांसमुभयोः पश्यतान्तरम् । एकस्य क्षणिका प्रीतिरन्यः प्राणैर्विमुच्यते ॥ ६८।। अपि च- मर्तव्यमिति यद्दुःखं पुरुषस्योपजायते । शक्यस्तेनातुमानेन परोऽपि परिरक्षितुम् ॥६९ ॥ शृणु पुन - स्वच्छन्दवनजातेन शाकेनापि प्रपूर्यते । अस्य दग्धोदरस्यार्थे कः कुर्यात्पातकं महत् ॥ ७० ॥ एव विश्वास्य स मार्जारस्तरुकोटरे स्थितः ॥ ततो दिनेषु गच्छत्सु पक्षि- सावकानाक्रम्य कोटर आनीय प्रत्यह खादति । अथ येषामपत्यानि खादितानि तै शोकातेविलपद्भिरितस्ततो जिज्ञासा समारब्धा। तत्परिज्ञाय मार्जार कोट- रान्नि सृत्य बहि पलायित । पश्चात्पक्षिभिरितस्ततो निरूपयद्भिस्तत्र तरुकोटरे शावकास्थीनि प्राप्तानि। अनन्तर ऊचु 'अनेनैव जरद्भवेनास्माकं शावका खादिता.' इति सर्वै पाक्षभिनिश्चित्य गृध्रो व्यापादित. । अतोऽह ब्रवीमि अज्ञातकुलशीलस्य ' इत्यादि । ते - मित्रलाभः.] (२३) इत्याकर्ण्य स जम्बुक सकोपमाह-' मृगस्य प्रथमदर्शनदिने भवानप्यज्ञा- तकुलशील एवासीत् । तत्कथ भवता सहैतस्य स्नेहानुवृत्तिरुत्तरोत्तर वर्धते- यत्र विद्वज्जनो नास्ति श्लाघ्यस्तत्राल्पधीरपि । निरस्तपादपे देशे एरण्डोऽपि द्रुमायते ॥७१॥ अन्यच्च- - - अयं निजः परो वेति गणना लघुचेतसाम् । उदारचरितानां तु वसुधैव कुटुम्बकम् ॥ ७२ ॥ यथाय मृगो मम बन्धुस्तथा भवानपि ।' मृगोऽब्रवीत् 'किमनेनोत्तरेण ? सर्वैरेकत्र विश्रम्भालापैः सुखिभि स्थीयताम् । यत न कश्चित्कस्यचिन्मित्रं न कश्चित्कस्यचिद्रिपुः। व्यवहारेण मित्राणि जायन्ते रिपवस्तथा ॥ ७३ ॥' काकेनोक्तम्-'एवमस्तु' अथ प्रातः सर्वे यथाभिमतदेश गता । एकदा निभृतं शृगालो ब्रूते-'सखे ! अस्मिन्वनकदेशे सस्यपूर्णक्षेत्रमस्ति, तदह त्वा नीत्वा दर्शयामि ।' तथा कृते सति मृग प्रत्यहं तत्र गत्वा सस्य खादति । ततो दिन- कतिपयेन गतेन क्षेत्रपतिना त दृष्ट्वा पाशो योजितः । अनन्तर पुनरागतो मृग- स्तत्र चरन् पाशैबद्धोऽचिन्तयत्-' को मामित कालपाशादिव व्याधपाशात् त्रातुं मित्रादन्यः समर्थ १' तत्रान्तरे जम्बुकस्तत्रागत्योपस्थितोऽचिन्तयत्-'फलिता तावदस्माकं कपटप्रबन्धेन मनोरथसिद्धि. । एतस्योत्कृत्यमानस्य मासासृग्लिप्तान्य- स्थीनि मयाऽवश्य प्राप्तव्यानि । तानि बाहुल्येन भोजनानि भविष्यन्ति ।' स च मृगस्त दृष्ट्वोल्लासितो ब्रूते-' सखे । छिन्धि तावन्मम बन्वनम् । सत्वरं त्रायस्व माम् । यतः- आपत्सु मित्रं जानीयाशुद्धे शूरमृणे शुचिम् । भार्या क्षीणेषु वित्तेषु व्यसनेषु च बान्धवान् ॥ ७४ ॥ - अपरं च- उत्सवे व्यसने चैव दुर्भिक्षे राष्ट्रविप्लवे । राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥७५॥', (२४) [हितोपदेशे- - . जम्बुको मुहुर्मुहु पाश विलोक्याचिन्तयत्-'दृढबन्धनबद्धोऽस्ति तावदय मृग' ब्रूते च-सखे । स्नायुनिर्मिता एते पाशा तदद्य भट्टारकवारे कथमेतान्दन्तैः स्पृशामि १ मित्र ! यदि चित्त नान्यथा मन्यसे तदा प्रभाते यत्त्वया वक्तव्य तत्कर्त व्यम् ।' इत्युक्त्वा तत्समीप आत्मानमाच्छाद्य स्थित. स । अनन्तर स काक प्रदोषकाले मृगमनागतमवलोक्येतस्ततोऽन्विष्यन् तथाविव दृष्ट्वोवाच- ' सखे । किमेतत् १ ' मृगेणोक्तम्-'अवधीरितसुहृद्वाक्यस्य फलमेतत् । तथा चोक्तम्- सुहृदां हितकामानां यः शृणोति न भाषितम् । विपत्संनिहिता तस्य स नरः शत्रुनन्दनः॥ ७६ ॥' काको ब्रूते-' स वञ्चक कास्ते ? ' मृगेणोक्तम्-' मन्मासार्थी तिष्ठत्यत्रैव' । काको ब्रूते-'उक्तमेव मया पूर्वम्- अपराधो न मेऽस्तीति नैतद्विश्वासकारणम् । विद्यते हि नृशंसेभ्यो भयं गुणवतामपि ॥ ७७ ॥ परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम् । वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम् ॥ ७८ ।' ततः काको दीघ नि श्वस्य 'अरे वञ्चक । कि त्वया पापकर्मणा कृतम् । यतः- संलापितानां मधुरैचोभि- मिथ्योपचारैश्च वशीकृतानाम् । आशावतां श्रदधतां च लोके किमर्थिनां वश्चयितव्यमस्ति ॥ ७९ ॥ उपकारिणि विश्रब्धे शुद्धमतौ यः समाचरात पापम् । तं जनमसत्यसन्धं भगवति वसुधे कथं वहसि ॥ ८॥ दुर्जनेन समं वैरं प्रीतिं चापि न कारयेत् । उष्णो दहति चाङ्गारः शीतः कृष्णायते करम् ॥ ८॥ अथवा स्थितिरियं दुर्जनानाम्-- प्राक्पादयोः पतति खादति पृष्ठमांसं कर्णे कलं किमपि रौति शनार्वचित्रम् । - मित्रलाभः.] (२५) छिद्रं निरूप्य सहसा प्रविशत्यशङ्कः सर्व खलस्य चरितं मशकः करोति ॥ ८२ ॥ दुर्जनः प्रियवादी च नैतद्विश्वासकारणम् । मधु तिष्ठति जिह्वाग्रे हृदि हालाहलं विषम् ॥ ८३ ॥ अथ प्रभाते क्षेत्रपतिलगुडहस्तस्त प्रदेशमागच्छन्काकेनावलोकित । तमा- लोक्य काकेनोक्तम्-' सखे मृग । त्वमात्मान मृतवत्सदी वातनोदर पूरयित्वा पादान् स्तब्धीकृत्य तिष्ठ, यदाहं शब्द करोमि तदा त्वमुत्थाय सत्वर पलायि- ध्यसे । ' मृगस्तथैव काकवचनेन स्थित । ततः क्षेत्रपतिना हर्षोत्फुल्ललोचनेन तथाविधो मृग आलोकित । 'आ । स्वय मृतोऽसि' इत्युक्त्वा मृग बन्धनान्मो- चयित्वा पाशान्ग्रहीतु सयत्नो बभूव । तत कियहरेऽन्तरिते क्षेत्रपतौ स मृगः काकस्य शब्द श्रुत्वा ससम्भ्रम समुत्थाय पलायित । तमुद्दिश्य तेन क्षेत्रपतिना क्षिप्तेन लगुडेन शृगालो व्यापादित । तथा चोक्तम्--- त्रिभिर्वस्त्रिभिर्मासैस्त्रिभिः पस्त्रिभिर्दिनैः । अत्युत्केटः पापपुण्यैरिहैव फलमश्नुते ॥ ८४ ॥ अतोऽह ब्रवीमि--'भक्ष्यभक्षकयोःप्रीतिः' इत्यादि ॥काक पुनराह- भक्षितेनापि भवता नाहारो मम पुष्कलः। त्वयि जीवात जीवामि चित्रग्रीव इवानध ॥ ८५ ॥ भ- अन्यच्च- तिरश्चामपि विश्वासो दृष्टः पुण्यककर्मणाम् । सतां हि साधुशीलत्वात्स्वभावो न निवर्तते ॥८६॥ कि च- साधो प्रकोपितस्यापि मनो नायाति विक्रियाम् । न हि तापयितुं शक्यं सागराम्भस्तृणोल्कया ॥ ८७॥ हिरण्यको ब्रूते-चपलस्त्वम् । चपलेन सह स्नेह सर्वथा न कर्तव्य ।
(२६) [ हितोपदेशे- तथा चोक्तम्- मार्जारो महिषो मेषः काकः कापुरुषस्तथा । विश्वासात्प्रभवन्त्येते विश्वासस्तत्र नोचितः॥ ८८ ॥ कि चान्यत् । शत्रुपक्षो भवानस्माकम् । उक्तं चैतत्- शत्रुणा न हि सन्दध्यात्सुश्लिष्टेनापि सन्धिना। सुतप्तमपि पानीयं शमयत्येव पावकम् ॥ ८९ ।। दुर्जनः परिहर्तव्यो विद्ययालंकृतोऽपि सन् । मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥ ९० । यदशक्यं न तच्छक्यं यच्छक्यं शक्यमेव तत् । नोदके शकटं याति न च नोर्गच्छति स्थले ॥ ९१॥ अपर च-- - महताप्यर्थसारेण यो विश्वसिति शत्रुषु । भार्यासु च विरक्तासु तदन्तं तस्य जीवनम् ॥ ९२॥ लघुपतनको ब्रूते-'श्रुतं मया सर्वम् । तथापि मम चैतावान्सकल्पस्त्वया सह सौहृद्यमवश्य करणीयमिति । नो चेदनाहारेणात्मान तव द्वारे व्यापादयिष्यामि । तथा हि- मृद्धटवत्सुखभेद्यो दुःसन्धानश्च दुर्जनो भवति । सुजनस्तु कनकघटवहु द्यश्चाशु सन्धेयः ॥ ९३ ॥ किच- द्रवत्वात्सर्वलोहाना निमित्तान्मृगपक्षिणाम् । भयाल्लोभाञ्च मूर्खाणां सङ्गतं दर्शनात्सताम् ॥ ९४ ॥ कि च- नारिकेलसमाकारा दृश्यन्ते हि सुहृजनाः । अन्ये बदरिकाकारा बहिरेव मनोहराः॥९५ ॥ एतज्ज्ञात्वा सता सगतिरिष्यते- स्नेहच्छेदेऽपि साधूनां गुणा नायान्ति विक्रियाम् । भङ्गेऽपि हि मृणालानामनुबन्नन्ति तन्तवः॥९६॥ - मित्रलाभ..] (२७) अन्यच्च- - शुचित्वं त्यागिता शौर्य सामान्यं सुखदुःखयो । दाक्षिण्यं चातुरक्तिश्च सत्यता च सुहृद्गुणाः ॥ ९७ ।। एतैर्गुणैरुपेतो भवदन्यो मया क सुहृत्प्राप्तव्य १' इत्यादि तद्वचन- माकर्ण्य हिरण्यको बहिनि सत्याह-'आप्यायितोऽह भवतामनेन वचनामृतेन । तथा चोक्तम्-- धर्मार्त न तथा सुशीतलजलैः स्नानं न मुक्तावली न श्रीखण्डविलेपनं सुखयति प्रत्यङ्गमप्यर्पितम् । प्रीत्यै सज्जनभाषितं प्रभवति प्रायो यथा चेतसः सद्युक्त्या च पुरस्कृतं सुकृतिनामाकृष्टिमन्त्रोपमम् ॥ ९७॥ - अन्यच्च- रहस्यभेदो याच्या च नैष्ठुर्य चलचित्तता। क्रोधो निःसत्यता द्यूतमेतन्मित्रस्य दूषणम् ॥ ९९ ॥ अनेन वचनक्रमेण तदेकदूषणमपि त्वयि न लक्ष्यते । यतः- पटुत्वं सत्यवादित्वं कथायोगेन बुध्यत । अस्तब्धत्वमचापल्यं प्रत्यक्षेणावगम्यते ॥ १००॥ अपर च-- अन्यथैव हि सौहार्द भवेत्स्वच्छान्तरात्मनः । प्रवर्ततेऽन्यथा वाणी शाठयोपहतचेतसः॥ १०१ ।। मनस्यन्यद्वचस्यन्यत्कर्मण्यन्यदुरात्मनाम् । मनस्येकं वचस्येकं कर्मण्येकं महात्मनाम् ॥ १०२ ॥ तद्भवतु भवतोऽभिमतमेव ।' इत्युक्त्वा हिरण्यको मैत्र्य विधाय भोजन- विशेषैर्वायस सतोष्य विवर प्रविष्ट । वायसोऽपि स्वस्थान गत. । तत.प्रभृति तयोरन्योन्याहारप्रदानेन कुशलप्रश्नैर्विश्रम्भालापैश्च कियान् कालोऽतिवर्तते ॥ एकदा लघुपतनको हिरण्यकमाह ' सखे वायस | कष्टतरलभ्याहारमिदं स्थानम् । तदेतत् परित्यज्य स्थानान्तर गन्तुमिच्छामि ।' -
--
(२८)
[हितोपदेशे-
हिरण्यको ब्रूते-' मित्र क गन्तव्यम् १ तथा चोक्तम्--
स्थानभ्रष्टा न शोभन्ते दन्ताः केशा नखा नराः।
इति विज्ञाय मतिमान्स्वस्थानं न परित्यजेत् ॥१०३॥'
काको ब्रूते-मित्र ! कापुरुषस्य वचनमेतत् । यत.
स्थानमुत्सृज्य गच्छन्ति सिंहाः सत्पुरुषा गजाः ।
तत्रैव निधनं यान्ति काकाः कापुरुषा मृगाः ॥ १०४॥
अन्यच्च-
--
को वीरस्य मनस्विनःस्वविषयः कोवा विदेशः स्मृतो
यं देशं श्रयते तमेव कुरुते बाहुप्रतापार्जितम् ।
यदंष्ट्रानखलाडुलप्रहरणः सिंहो वनं गाहते
तस्मिन्नेव हतद्विपेन्द्ररुधिरैस्तृष्णां छिनत्यात्मनः ॥१०५॥
चलत्येकेन पादेन तिष्ठत्येकेन बुद्धिमान् ।
मासमीक्ष्य परं स्थानं पूर्वमायतनं त्यजेत् ॥ १०६ ॥
अस्ति सुनिरूपितस्थानम् । ' हिरण्यकोऽवदत् 'कि तत् १ ' वायसो ते-
अस्ति दण्डकारण्ये कर्पूरगौराभिवान सर । तत्र चिरकालोपार्जितः
प्रियसुहृन्मे मन्थराभिधान सहजधार्मिक प्रतिवसति । यत.--
परोपदेशे पाण्डित्यं सर्वेषां सुकरं नृणाम् ।
धर्मे स्वीयमनुष्ठानं कस्यचित्तु महात्मनः॥ १०७ ॥
स च भोजनविशेषैर्मा सवर्वयिष्यति । ' हिरण्यकोऽप्याह- तत्किमत्रावस्थाय
-मया कर्तव्यम् १ यत
यस्मिन्देशे न संमानो न वृत्तिर्न च बान्धवः ।
न च विद्यागमः कश्चित्तं देशं परिवर्जयेत् ॥ १०८॥
अपर च-
धनिकः श्रोत्रियो राजा नदी वैद्यस्तु पश्चमः।
पञ्च यत्र न विद्यन्ते तत्र वासं न कारयेत् ॥ १०९ ।।
लोकयात्रा भयं लज्जा दाक्षिण्यं त्यागशीलता ।
पञ्च यत्र न विद्यन्ते न कुर्यात्तत्र संस्थितिम् ॥ ११०॥
मित्रलाभः.] (२९) - तत्र मित्र न वस्तव्यं यत्र नास्ति चतुष्टयम् । ऋणदाता च वैद्यश्च श्रोत्रियः सजला नदी॥ १११ ॥ ततो मामपि तत्र नय ।' वायसोऽवदत् ‘एवमस्तु ' । अथ वायसस्तेन मित्रेण सह विचित्रालापै सुखेन तस्य सरसः समीप ययौ । ततो मन्थरो दूरादवलोक्य लघुपतनकस्य यथोचितमातिथ्य विधाय मूषिकस्यातिथिसत्कार चकार । यत गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः। पतिरेको गुरुः स्त्रीणां सर्वस्याभ्यागतो गुरुः॥११२॥ वायसोऽवदत्-' सखे मन्थर । सविशेषपूजामस्मै विधेहि । यतोऽय पुण्य- कर्मणा बुरीण कारुण्यरत्नाकरो हिरण्यकनामा मूषिकराज । एतस्य गुणस्तुति जिह्वासहस्रद्वयेनापि सर्पराजो न कदाचित्कथयितु समर्थ स्यात् । इत्युक्त्वा चित्र- ग्रीवोपाख्यान वर्णितवान् ।' ततो मन्थर सादर हिरण्यक सपूयाह-' भद्र । आत्मनो निर्जनवनागमनकारणमाख्यातुमर्हसि । हिरण्यकोऽवदतु-'कथयामि । श्रूयताम्- कथा ४. अस्ति चम्पकाभिधानाया नगर्या परिव्राजकारसथ । तत्र चूडाकर्णो नाम परिवार प्रतिवसति । स च भोजनावशिष्ट भिक्षान्नसहित भिक्षापात्रं नागदन्तकेऽवस्थापय स्वपिति । अह च तदन्नमुत्लुत्य प्रत्यह भक्षयामि । अन- न्तर तस्य प्रियसुहृद्वीणाकर्णो नाम परिव्राजक समायातः। तेन सह कथा- प्रसङ्गावस्थितो मम त्रासार्थ जर्जरवशखण्डेन चूडाकर्णो भूमिमताडयत् । तदृष्ट्वा वीणाकर्ण उवाच-'सखे । किमिति मम कथाविरक्तोऽन्यासक्तो भवान् १ यतः मुखं प्रसन्नं विमला च दृष्टि: कथासु (नु) रागो मधुरा च वाणी। स्नेहोऽधिकः सम्भ्रमदर्शनं च सदानुरक्तस्य जनस्य लक्ष्यम् ॥ ११३ ॥ -
AND
(३०)
[हितोपदेशे-
अतुष्टिदानं कृतपूर्वनाशनम्
अमाननं दुश्चरितानुकीर्तनम् ।
कथाप्रसङ्गेन च नामविस्मृति-
विरक्तभावस्य जनस्य लक्षणम् ॥ ११४ ॥
चूडाकर्णेनोक्तम्-'मित्र । नाह विरक्त । कि तु पश्याय मूषिको ममापकारी
सदा पात्रस्थ भिक्षान्नमुत्प्लुत्य भक्षयति । ' वीणाको नागदन्तक विलोक्याह-
कथं मूषिक. स्वल्पबलोऽप्येतावदूरमुत्पतति १ तदत्र केनापि कारणेन भवित-
व्यम् । तथा चोक्तम्-
अकस्मायुवती वृद्धं केशेष्वाकृष्य चुम्बति ।
पतिं निर्दयमालिङ्गय हेतुरत्र भविष्यति ॥ ११५ ॥
चूडाकर्ण पृच्छति-'कथमेतत् ' १ वीणाकर्णः कथयति-
CINDIAN-
कथा ५.
अस्ति गौडीये कौशाम्बी नाम नगरी । तस्या चन्दनदासनामा वाणि
महाधनो निवसति । तेन पश्चिमे वयसि वर्तमानेन कामाधिष्ठितचेतसा धनदात्
लीलावतीनाम्नी वणिक्पुत्री परिणीता। सा च मकरकेतोर्विजयवैजयन्तीव
यौवनवती बभूव । स च वृद्धपतिस्तस्या सतोषाय नाभवत् । यत -
शशिनीव हिमार्तानां धर्मार्तानां रवाविव ।
मनो न रमते स्त्रीणां जराजीणेन्द्रिये पतौ ॥ ११६ ॥
अन्यच्च-
-
पलितेषु हि दृष्टेषु पुंसः का नाम कामिता ।
भैषज्यमिव मन्यन्ते यदन्यमनसः स्त्रियः॥११७ ॥
स च वृद्धपतिस्तस्यामतीवानुरागवान् । यतः-
धनाशा जीविताशा च गुर्वी प्राणभृतां सदा।
वृद्धस्य तरुणी भार्या प्राणेभ्योऽपि गरीयसी ॥ ११८ ॥
मित्रलाभ..]
(३१)
अपि च-
नोपभोक्तुं न च त्यक्तुं शक्नोति विषयाञ्जरी ।
अस्थि निर्दशनः श्वेव जिह्वया लेढि केवलम् ॥११९॥
अथ सा लीलावती यौवनढर्यादतिक्रान्तकुलमर्यादा केनापि वणिक्पुत्रेण
सहानुरागवती बभूव । यत -
स्वातन्त्र्यं पितृमन्दिरे निवसतिर्यात्रोत्सवे सङ्गति-
गोष्ठीपूरुषसंनिधावनियमो वासो विदेशे तथा ।
संसर्गः सह पुंश्चलीभिरसकृवृत्तेर्निजायाः क्षतिः
पत्युर्वार्धकमीर्षितं प्रवसनं नाशस्य हेतुः स्त्रियाः ॥१२०॥
अपर च--
पानं दुर्जनसंसर्गः पत्या च विरहोऽटनम् ।
स्वप्नश्चान्यगृहे वासो नारीणां दूषणानि षट् ॥ १२१ ॥
किच-
स्थानं नास्ति क्षणो नास्ति नास्ति प्रार्थयिता नरः ।।
तेन नारद नारीणां सतीत्वमुपजायते ॥ १२२ ॥
अन्यच्च-
न स्त्रीणामप्रियः कश्चित्प्रियो वापि न विद्यते ।
गावस्तृणमिवारण्ये प्रार्थयन्ति नवनवम् ॥ १२३ ॥
अपरच-
स्त्रियो हि चपला नित्यं देवानामपि विश्रुतम् ।
ताश्चापि रक्षिता येषां ते नराः सुखभागिनः॥ १२४ ॥
घृतकुम्भसमा नारी तप्ताङ्गारसमः पुमान् ।
तस्माघृतं च वहिं च नैकत्र स्थापयेबुधः ॥ १२५ ॥
न लज्जा न विनीतत्वं न दाक्षिण्यं न भीरुता।
प्रार्थनाभाव एवैकं सतीत्वे कारणं स्त्रियाः॥ १२६॥
(३२) [हितोपदेशे- - , अपि च- पिता रक्षति कौमारे भर्ता रक्षति यौवने । पुत्रश्च स्थाविरे भावे न स्त्री स्वातन्त्र्यमर्हति ॥ १२७॥ मात्रा स्वस्त्रा दुहित्रा वा न विविक्तासनो भवेत । बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति ॥ १२८ ॥ एकदा सा लीलावती रत्नावलीकिरणकर्बुरे पर्यत्र तेन वणिक्पुत्रेण सह विश्रम्भालापै सुखासीना तमलक्षितोपस्थित पतिमवलोक्य सहसोत्थाय केशे- ध्वाकृष्य गाढमालिङ्गय चुम्बितवती । तत्रावसरे जारश्च पलायित । उक्त च- उशना वेद यच्छास्त्रं यच्च वेद बृहस्पतिः। स्वभावेनैव तच्छास्त्रं स्त्रीबुद्धौ सुप्रतिष्ठितम् ॥ १२९॥ तदालिङ्गनमवलोक्य समीपवर्तिनी कुट्टिन्यचिन्तयतु-' अकम्मादियमेनमुप- गूढवती' इति । ततस्तया कुट्टिन्या तत्कारण जार परिज्ञाय सा लीलावती गुप्तेन दण्डिता । अतोऽह ब्रवीमि- अकस्मायुवती वृद्धम् ' इत्यादि ॥ मूषिकबलोपस्तम्भेन केनापि कारणेनात्र भवितव्यम् । ' क्षण विचिन्त्य परिव्राजकेनोक्तम्- कारण चात्र वनबाहुत्यमेव प्रतिभाति । यत - धनवान्बलवॉल्लोके सर्वः सर्वत्र सर्वदा । प्रभुत्वं धनमूलं हि राज्ञामप्युपजायते ॥ १३० ॥' तत. खनित्रमादाय तेन परित्राजकेन विवर खनित्वा चिरसचित मम धनं गृहीतम् । ततः प्रभृति निजशक्तिहीनसत्त्वोत्साहरहित. स्वाहारमायुत्पादयितु- मक्षम. सत्रास मन्द मन्दमुपमर्पश्चूडाकर्णेनावलोकितः ।' ततस्तेनोक्तम्- धनेन बलवान्सर्वो धनाद्भवति पण्डितः । पश्यैनं मूषिकं पापं स्वजातिसमतां गतम् ॥ १३१ ॥ किंच- अथन तु विहीनस्य पुरुषस्याल्पमेधसः । क्रियाःसर्वा विनश्यन्ति प्रीष्मे कुसरितोयथा ।। ३२ ॥ । - मित्रलाभ..] (३३) अपर च- यस्यास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः । यस्यार्थाःस पुमाँल्लोके यस्यार्थाःस हि पण्डितः।।१३३॥ अन्यच्च- अपुत्रस्य गृहं शून्यं सन्मित्ररहितस्य च । मूर्खस्य च दिशः शून्याः सर्वशून्या दरिद्रता ॥१३४॥ अपर च- दारिद्यान्मरणाद्वापि दारिद्यमवरं स्मृतम् । अल्पक्लेशेन मरणं दारिद्यमतिदुस्सहम् ।। १३५ ॥ तानीन्द्रियाण्यविकलानि तदेव नाम सा बुद्धिरप्रतिहता वद (च)नं तदेव । अर्थोष्मणा विरहितः पुरुषः स एव ह्यन्यः क्षणेन भवतीति विचित्रमेतत् ॥ १३६ ॥ एतत्सर्वमाकर्ण्य मयालोचितम्-- ममात्रावस्थानमयुक्तमिदानीम्, यच्चान्यस्मा- एतद्वृत्तान्तकथनम्, तदप्यनुचितम्- अर्थनाशं मनस्तापं गृहे दुश्चरितानि च । वञ्चनं चापमानं च मतिमान प्रकाशयेत् ॥ १३७ ।। अपि च- आयुर्वित्तं गृहच्छिद्रं मन्त्रमैथुनभेषजम् । तपोदानापमानं च नव गोप्यानि यत्नतः ॥ १३८॥ तथा चोक्तम्- अत्यन्तविमुखे दैवे व्यर्थे यत्ने च पौरुषे । मनस्विनो दरिद्रस्य वनादन्यत्कुतः सुखम् ॥ १३९ ॥ अन्यच्च- - मनस्वी म्रियते कामं कार्पण्यं न तु गच्छति । अपि निर्वाणमायाति नानलो याति शीतताम् ॥१४०॥ ३ (३४) [हितोपदेशे-- किच- कुसुमस्तबकस्येव द्वे वृत्ती तु मनस्विनः । सर्वेषां मूनि वा तिष्ठेद्विशीर्येत वनेऽथवा ॥ १४१॥ यचात्रैव याच्या जीवन तदतीव गार्हतम् । यतः- वरं विभवहीनेन प्राणैः सन्तर्पितोऽनलः। नोपचारपरिभ्रष्टः कृपणः प्रार्थितो जनः ॥ १४२ ॥ अन्यच- दारिद्रयादूधियमेति द्वीपरिगतः सत्त्वात्परिभ्रश्यते निस्सत्वः परिभूयते परिभवानिर्वेदमापद्यते । निर्विण्णः शुचमेति शोकनिहतो बुद्धया परित्यज्यते निर्बुद्धिःक्षयमेत्यहोनिधनता सर्वापदामास्पदम् ॥ १४३॥ किच- वरं मौनं कार्य न च वचनमुक्तं यदनृतं वरं क्लैब्यं पुंसां न च परकलत्राभिगमनम् । वरं प्राणत्यागो न च पिशुनवाक्येष्वभिरुचि- वरं भिक्षाशित्वं न च परधनास्वादनसुखम्॥१४४॥ वरं शून्या शाला न च खलु वरो दुष्टवृषभो वरं वेश्या पत्नी न पुनरविनीता कुलवधूः। वरं वासोऽरण्ये न पुनरविवेकाधिपपुरे वरं प्राणत्यागो न पुनरधमानामुपगमः॥१४५ ॥ अपि च- सेवेव मानमखिलं ज्योत्स्नेव तमो जरेव लावण्यम् । हरिहरकथेव दुरितं गुणशतमप्यर्थिता हरति ॥ १४६ ॥ इति विमृश्य 'तत्किमह परपिण्डेनात्मान पोषयामि १ कष्ट भो । तदपि द्वितीय मृत्युद्वारम् । यत.- पल्लवग्राहि पाण्डित्यं क्रयक्रीतं च मैथुनम् । भोजनं च पराधीनं तिस्रः पुंसां विडम्बनाः॥ १४७॥ - - मित्रलाभ:. ] (३५) रोगी चिरप्रवासी परान्नभोजी परावसथशायी। यज्जीवति तन्मरणं यन्मरणं सोऽस्य विश्रामः॥१४८॥ इत्यालोच्यापि लोभात् पुनरपि तदीयान्न ग्रहीतु ग्रहमकरवम् । तथा चोक्तम्- लोभेन बुद्धिश्चलति लोभो जनयते तृषाम् । तृषार्तो दुःखमाप्नोति परत्रेह च मानवः ॥ १४९ ॥ ततोऽहं मन्दमन्दमुपसर्पस्तेन वीणाकर्णेन जर्जरवशखण्डेन ताडितश्चा- चिन्तयम्- धनलुब्धो ह्यसंतुष्टोऽनियतात्माऽजितेन्द्रियः। सर्वा एवापदस्तस्य यस्य तुष्ट न मानसम् ॥ १५०॥ - तथाच- सर्वाः संपत्तयस्तस्य सन्तुष्टं यस्य मानसम् । उपानद्गूटपादस्य ननु चर्मावृतेव भूः॥ १५१ ॥ अपरच- - सन्तोषामृततृप्तानां यत्सुखं शान्तचेतसाम् । कुतस्तद्धनलुब्धानामितश्चेतश्च धावताम् ॥ १५२ ॥ किञ्च- तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् । येनाशाः पृष्ठतः कृत्वा नैराश्यमवलम्बितम् ॥ १५३ ।। अपि च- असेवितेश्वरद्वारमदृष्टविरहव्यथम् । अनुक्तक्कीबवचनं धन्यं कस्यापि जीवनम् ॥ १५४ ॥ यत न योजनशतं दूरं बाध्यमानस्य तृष्णया । संतुष्टस्य करप्राप्तेऽप्यर्थे भवति नादरः॥ १५५ ॥ तदत्रावस्थोचितकार्यपरिच्छेदः श्रेयान् । उक्त च-
(३६)
[हितोपदेशे-
को धर्मो भूतदया किं सौख्यमरोगिता जगति जन्तोः।
कः स्नेहः सद्भावः किं पाण्डित्यं परिच्छेदः॥ १५६ ॥
तथा च-
परिच्छेदो हि पाण्डित्यं यदापना विपत्तयः ।
अपरिच्छेदकर्तृणां विपदः स्युः पदेपदे ।। १५७ ।।
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ।
ग्रामं जनपदस्याथै स्वात्मार्थे पृथिवीं त्यजेत् ।। १५८ ॥
अपर च--
पानीयं वा निरायासं स्वाइन्नं वाऽभयोत्तरम् ।
विचार्य खलु पश्यामि तत्सुखं यत्र निर्वृतिः॥१५९ ॥
इत्यालोच्याह निर्जनवनमागत । यत -
वरं वनं व्याघ्रगजेन्द्रसेवितं
दुमालयः पक्कफलाम्बुभोजनम् ।
तृणानि शय्या परिधानवल्कलं
न बन्धुमध्ये धनहीनजीवनम् ॥ १६० ॥
ततोऽस्मत्पुण्योदयादनेन मित्रेणाह स्नेहानुवृत्त्यानुगृहीत । अधुना च पुण्य-
परंपरया भवदाश्रय स्वर्ग एव मया प्राप्त । यत
संसारविषवृक्षस्य द्वे एव रसवत्फले।
काव्यामृतरसास्वादः सङ्गमः सुजनैः सह ॥ १६१॥
अपरच--
सत्सङ्गः केशवे भक्तिर्गङ्गाम्भसि निमज्जनम् ।
असारे खलु संसारे त्रीणि साराणि भावयेत् ॥१६२॥'
मन्थर उवाच-
'अर्थाः पादरजोपमा गिरिनदीवेगोपमं यौवनम्
आयुष्यं जललोलबिन्दुचपलं फेनोपमं जीवितम् ।
धर्म यो न करोति निन्दितमतिः स्वर्गार्गलोद्घाटनं
पश्चात्तापयुतो जरापरिगतः शोकाग्निना दह्यते॥१६३॥
मित्रलाभ:.] (३७) युष्माभिरतिसचय कृत तस्याय दोषः । शृणु- उपार्जितानां वित्तानां त्याग एव हि रक्षणम् । तडागोदरसंस्थानों परीवाह इवाम्भसाम् ॥ १६४ ॥ अन्यच्च- यदधोधः क्षितौ वित्तं निचखान मितंपचः । तदधो निलयं गन्तुं चक्रे पन्थानमग्रतः॥ १६५ ।। अन्यच्च- निजसौख्यं निरुधानो यो धनार्जनमिच्छति । परार्थभारवाहीव क्लेशस्यैव हि भाजनम् ॥ १६६ ॥ अपरच- दानोपभोगहीनेन धनेन धनिनो यदि । पृथ्वीखातनिखातेन धनेन धनिनो वयम् ॥ १६७ ॥ अन्यच्च- दानभोगविहीनाश्च दिवसा यान्ति यस्य वै । स कर्मकारभस्त्रेव श्वसनपि न जीवति ॥ १६८ ॥ धनेन किं यो न ददाति नाश्नुते बलेन कि यश्च रिपून्न बाधते । श्रुतेन किं यो न च धर्ममाचरेत् किमात्मना यो न जितेन्द्रियो भवेत् ॥ १६९ ॥ असंभोगेन सामान्यं कृपणस्य धनं परैः। अस्येदमिति सम्बन्धो हानिर्दुःखेन गम्यते ॥ १७०॥ न देवाय न विप्राय न बन्धुभ्यो न चात्मने । कृपणस्य धनं याति वह्नितस्करपार्थिवैः॥ १७१ ॥ अन्यच्च- दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य । यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति१७२ (३८) [हितोपदेशे- दानं प्रियवाक्सहितं ज्ञानमगर्व क्षमान्वितं शौर्यम् । वित्तं त्यागनियुक्तं दुर्लभमेतच्चतुष्टयं लोके ॥ १७३ ॥ उक्तच- कर्तव्यः सञ्चयो नित्यं कर्तव्यो नातिसञ्चयः । पश्य सञ्चयशीलोऽसौ धनुषा जम्बुको हतः॥१७४॥' तावाहतु:-'कथमेतत् ?' । मन्थर' कथयति- कथा ६. आसीत्कल्याणकटकवास्तव्यो भैरवो नाम व्याधः। स चैकदा मास- लुब्बो धनुरादाय मृगमन्विष्यमाणो विन्ध्याटवीं गतवान् । ततस्तेन व्यापादित- मृगमादाय गन्छता घोराकृति' सूकरो दृष्ट । ततस्तेन व्यावेन मृग भूमौ निवाय सूकर शरेण हत । सूकरेणापि घनघोरगर्जन कृत्वा स व्यावो मुष्कदेशे हत' सछिन्नद्रुम इव भूमौ निपपात । यत- जलमग्निर्विषं शस्त्रं क्षुद्याधिः पतनं गिरेः। निमित्तं किश्चिदासाद्य देही प्राणैर्वियुज्यते ॥ १७६ ।। अथ तयो पादास्फालनेन सर्पोऽपि मृत । अथानन्तर दीर्वरावो नाम जम्बुक परिभ्रमन्नाहारार्थी तान्मृतान्मृगव्याधसर्पसूकरानपश्यत् । अचितयच्च 'अहो भाग्य- मद्य महद्भोज्य मे समुपस्थितम् । अथ वा- अचिन्तितानि दुःखानि यथैवायान्ति देहिनाम् । सुखान्यपि तथा मन्ये दैवमत्रातिरिच्यते ॥ १७६ ॥ तद्भवतु, तेषा मार्मासत्रय मे सुखेन गमिष्यति- मासमेकं नरो याति द्वौ मासौ मृगसूकरौ । अहिरेक दिनं याति अद्य भक्ष्यो धतुर्गुणः ॥ १७७ ॥ तत. प्रथमबुभुक्षायामिद नि.स्वादु कोदण्डाटनीलग्नं स्नायुबन्धन खादामि, इत्युक्त्वा तथा कृते सति न्छिन्ने स्नायुबन्धने द्रुतमुत्पतितन धनुषा हृदि निर्भिन्नः स दीर्घराव पञ्चत्व गत । अतोऽह ब्रवीमि-'कर्तव्यः संचयो नित्यम्' इत्यादि । तथा च-
मित्रलाभः.]
(३९)
-
यददाति यदनाति तदेव धनिनो धनम् ।
अन्ये मृतस्य क्रीडन्ति दारैरपि धनैरपि ॥ १७८ ॥
यातु । किमिदानीमतिक्रान्तोपवर्णनेन १ यत
नाप्राप्यमभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम् ।
आपत्स्वपि न मुह्यन्ति नराः पण्डितबुद्धयः ॥ १७९॥
तत्सखे । सर्वदा त्वया सोत्साहेन भवितव्यम् । यत--
शास्त्राण्यधीत्यापि भवन्ति मूर्खा
यस्तु क्रियावान्पुरुषः स विद्वान् ।
सुचिन्तितं चौषधमातुराणां
न नाममात्रेण करोत्यरोगम् ॥ १८० ॥
अन्यच्च-
न स्वल्पमप्यध्यवसायभीरोः
करोति विज्ञानविधिर्णणं हि ।
अन्धस्य किं हस्ततलस्थितोऽपि
प्रकाशयत्यर्थमिह प्रदीपः॥ १८१ ॥
तदत्र सखे । दशाविशेषेण शान्ति करणीया । एतदप्यतिकष्टं त्वया न
मन्तव्यम् । अपर च-
निपानमिव मण्डूकाः सरः पूर्णमिवाण्डजाः।
सोद्योगं नरमायान्ति विवशाः सर्वसम्पदः॥ १८२॥
अन्यच्च-
-
मुखमापतितं सेव्यं दुःखमापतितं तथा ।
चक्रवत्परिवर्तन्ते दुःखानि च सुखानि च ॥ १८३ ॥
अन्यच्च-
उत्साहसम्पन्नमदीर्घसूत्रं
क्रियाविधिज्ञं व्यसनेष्वसक्तम् ।
शूरं कृतज्ञं दृढसौहृदं च
लक्ष्मीः स्वयं याति निवासहेतोः ॥ १८४ ॥
(४०)
[हितोपदेशे-
विशेषतश्च-
विनाप्यथैवीरः स्पृशति बहुमानोन्नतिपदं
समायुक्तोऽप्यथैः परिभवपदं याति कृपणः ।
स्वभावादुद्भूतां गणसमुदयाच्चातिविपुलां
धृति सैही किं श्वा धृतकनकमालोऽपि लभते ॥ १८५॥
धनवानिति हि मदो मे किं गतविभवो विषादमुपयामि ।
करनिहतकन्दुकसमाः पातोत्पाता मनुष्याणाम्।। १८६॥
अपर च-
अभ्रच्छाया खलप्रीतिर्नवसस्यानि योषितः।
किञ्चित्कालोपभोग्यानि यौवनानि धनानि च ॥१८७॥
वृत्त्यर्थ नातिचेष्टेत सा हि धात्रैव निर्मिता ।
गर्भादुत्पतिते जन्तौ मातुःप्रस्रवतः स्तनौ ॥ १८८॥
अपि च सखे ।
येन शुक्लीकृता हंसाः शुकाश्च हरितीकृताः ।
मयूराश्चित्रिता येन स ते वृत्तिं विधास्यति ॥ १८९ ॥
अपर च-सता रहस्य शृणु, मित्र ।
जनयन्त्यर्जने दुःखं तापयन्ति विपत्तिषु ।
मोहयन्ति च सम्पत्तौ कथमर्थाः सुखावहाः॥ १९०॥
अपर च-
धर्मार्थ यस्य वित्तेहा वरं तस्य निरीहता ।
प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ॥ १९१॥
व्यत:-
यथा ह्यामिषमाकाशे पक्षिभिः श्वापदैर्भुवि ।
भक्ष्यते सलिले नस्तथा सर्वत्र वित्तवान् ॥ १९२ ॥
राजतः सलिलादग्नेश्चोरतः स्वजनादपि ।
भयमर्थवतां नित्यं मृत्योः प्राणभृतामिव ॥ १९३ ॥
- मित्रलाभ:.] (४१) तथा हि- जन्मान क्लेशबहुले किं नु दुःखमतः परम् । इच्छा सम्पद्यतो नास्ति यच्चेच्छा न निवर्तते ॥१९४॥ अन्यच भ्रात शृणु- धनं तावन्न सुलभं लब्धं कृच्छेण रक्ष्यते । लब्धनाशो यथा मृत्युस्तस्मादेतन्न चिन्तयेत् ॥१९५।। तृष्णां चेह परित्यज्य को दरिद्रः क ईश्वरः। तस्याश्चेत्प्रसरो दत्तो दास्यं च शिरास स्थितम्॥१९६॥ अपर च- यद्यदेव हि वाञ्छत ततो वाञ्छा प्रवर्तते । प्राप्त एवार्थतः सोऽर्थो यतो वाञ्छा निवर्तते ॥१९७ ।। किबहुना मम पक्षपातेन १ मयैव सहात्र कालो नीयताम् । यत - आमरणान्ताः प्रणयाः कोपास्तत्क्षणभङ्गुराः। परित्यागाश्च निःसङ्गा भवन्ति हि महात्मनाम्॥१९८॥ इति श्रुत्वा लघुपतनको ब्रूते-'धन्योऽसि मन्थर । सर्वथा श्रयणीयोऽसि । यत सन्त एव सतां नित्यमापदुद्धरणक्षमाः। गजानां पङ्कमग्नानां गजा एव धुरन्धराः ॥ १९९ ॥ गुणिनि गुणज्ञो रमते नागुणशीलस्य गुणिनि परितोषः । अलिरेति वनात्कमलं न हि भेकस्त्वेकवासोपि॥॥२०॥ अपर च- श्लाध्यः स एको भुवि मानवानां स उत्तमः सत्पुरुषः स धन्यः। यस्यार्थिनो वा शरणागता वा नाशामिभङ्गाद्विमुखाःप्रयान्ति ॥ २०१॥ तदेव ते स्वेच्छाहारविहार कुर्वाणा सन्तुष्टा सुख निवसन्ति ॥
(४२) [हितोपदेशे- अथ कदाचिच्चित्राङ्गनामा मृगः केनापि त्रासितस्तत्रागत्य मिलित।ततः पश्चादायान्त भयहेतु सचिन्त्य मन्थरो जल प्रविष्ट । मूषिकश्च विवर गत । काकोऽप्युड्डीय वृक्षमारूढः । ततो लघुपतनकेन सुदूरं निरूग्य भयहेतुर्न कोऽग्या- यातीत्यालोचितम् । पश्चात्तद्वचनादागत्य पुन. सर्वे मिलित्वा तत्रैवोपविष्टा. । मन्थरेणोक्तम् भद्र मृग । स्वागतम्, स्वेच्छयोदकाद्याहारोऽनुभूयताम् । अत्रा- वस्थाने वनमिद सनाथीक्रियताम् । चित्राङ्गो ब्रूते-' लुब्धकत्रासितोऽह भवता शरणमागत । - लोभाद्वापि भयाद्वापि यस्त्यजेच्छरणागतम् । ब्रह्महत्यासमं नस्य पापमाहुर्मनीषिणः ॥२०२ ।। भवद्भिः सह सख्यमिच्छामि । हिरण्यकोऽवदत्-'मित्रत्व तावदस्माभिः सहायत्नेनैव निष्पन्न भवत.। औरसं कृतसम्बन्धं तथा वंशक्रमागतम् । रक्षितं व्यसनेभ्यश्च मित्रं ज्ञेयं चतुर्विधम् ॥ २०३ ।। तदत्र भवता स्वगृहनिर्विशेष स्थीयताम् ।' तच्छ्रुत्वा मृग' सानन्दो भूत्वा स्वेच्छाहार कृत्वा पानीय पीत्वा जलासन्नवटतरुच्छायायामुपविष्ट । यत कूपोदकं वटच्छाया श्यामा स्त्री चेष्टकागृहम् । शीतकाले भवेदुष्णमुष्णकाले च शीतलम् ॥२०४॥ अथ मन्थरेणोक्तम्-'सखे मृग । एतस्मिन्निर्जने वने केन त्रासितोऽसि १ कदा- चित्कि व्याधा सचरन्ति ' मृगेणोक्तम्-'अस्ति कलिङ्गविषये रुक्माङ्गदो नाम नरपति । स च दिग्विजयव्यापारक्रमेणागत्य चन्द्रभागानदीतीरे समावा- सितकटको वर्तते । प्रातश्च तेनात्रागत्य कर्पूरसर समीपे भवितव्यमिति व्याधाना मुखात्किवदन्ती श्रूयते । तदत्रापि प्रातरवस्थान भयहेतुकमित्यालोच्य यथा- वसरकार्यमारभ्यताम् ।' तच्छुत्वा कर्मः सभयमाह-मित्र । जलाशयान्तरं गच्छामि ।' काकमृगावप्युक्तवन्तौ-'एवमस्तु ।' ततो हिरण्यको विहस्याह- 'जलाशयान्तरे प्राप्ते मन्थरस्य कुशलम् । स्थले गच्छत का प्रतीकारः १ यतः- १ ,
मित्रलाभ:.]
(४३)
अम्भांसि जलजन्तूनां दुर्ग दुर्गनिवासिनाम् ।
स्वभूमिः श्वापदादीनां राज्ञां सैन्यं परं बलम् ॥२०५॥
सखे लघुपतनक । अनेनोपदेशेन तथा भवितव्यम्-
स्वयं वीक्ष्य यथा वध्वाः पीडितं कुचकुड्मलम् ।
वणिक्पुत्रोऽभवदुःखी त्वं तथैव भविष्यसि ।। २०६ ॥
त ऊचुः-' कथमेतत् ११ हिरण्यकः कथयति-
कथा ७
अस्ति कान्यकुब्जविषये वीरसेनो नाम राजा । तेन वीरपुरनाम्नि नगरे
तुङ्गबलो नाम राजपुत्रो भोगपति कृत । स च महाधनस्तरुण एकदा
स्वनगरे भ्राम्यन्नतिप्रौढयौवना लावण्यवतीं नाम वणिक्पुत्रवधूमालोकयामास ।
तत स्वहर्म्य गत्वा स्मराकुलितमतिस्तस्या कृते दूतीं प्रेषितवान् । यत.-
सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां
लज्जां तावद्विधत्ते विनयमपि समालम्बते तावदेव ।
भ्रूचापाकृष्टमुक्ताः श्रवणपथगता नीलपक्ष्माण एते
यावल्लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणाः पतन्ति॥२०
सापि लावण्यवती तदवलोकनक्षणात्प्रभृति स्मरशरप्रहारजर्जरितहृदया तदे-
कचित्ताऽभवत् । तथा युक्तम्-
असत्यं साहसं माया मात्सर्य चातिलुब्धता ।
निर्गुणत्वमशौचत्वं स्त्रीणां दोषाः स्वभावजाः ॥२०८॥
अथ दूतीवचनं श्रुत्वा लावण्यवत्युवाच-'अह पतिव्रता परपुरुषस्पर्शमात्रमपि
न करोमि । यतः-
सा भार्या या गृहे दक्षा सा भार्या या प्रजावती ।
साभार्या या पतिप्राणा सा भार्या या पतिव्रता॥२०९
कोकिलानां स्वरो रूपं नारीरूपं पतिव्रतम् ।
विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनाम् ॥२१०॥
(४४)
[हितोपदेशे-
अन्यच्च-
,
न सा भायेति वक्तव्या यस्या भर्ता न तुष्यति ।
तुष्टे भर्तरि नारीणां सन्तुष्टाः सर्वदेवताः॥२११॥
ततो यद्यदादिशति मे प्राणेश्वरस्तदेवाहम विचारितं करोमि ।' दृत्योक्तम्-
सत्यमेतत् । ' लावण्यवत्युवाच-'ध्रुव सत्यमेतत् ।' ततो दूतिकया गत्वा तत्त-
सर्व तुड्गबलस्याने निवेदितम् । तच्छ्रुत्वा तुङ्गबलोऽवदत् । विषमेषुणा ब्रणित-
हृदयस्ता विना कथमह जीविष्यामि ? कुट्टिन्याह'-स्वामिन्नानीय समर्पयितव्येति ।'
स प्राह 'कथमेतच्छक्यम् १' कुट्टिन्याह-'उपाय क्रियताम् । तथा चोक्तम्-
उपायेन हि यच्छक्यं न तच्छक्यं पराक्रमैः।
शृगालेन हतो हस्ती गच्छता पडूवर्त्मना ॥ २१२ ।।
राजपुत्रः पृच्छति--' कथमेतत् ?' सा कथयति--
कथा ८.
अस्ति ब्रह्मारण्ये कर्परतिलको नाम हस्ती। तमवलोक्य सर्वे शृगा-
लाश्चिन्तयन्ति स्म - यद्यय केना'युपायेन म्रियते तदास्माकमेतद्देहेन मासचतुष्ट-
यस्य स्वेच्छाभोजन भवेत् । ततः तत्रैकेन वृद्धशृगालेन प्रतिज्ञा कृता--'मया
बुद्धिप्रभावादस्य मरण साधयितव्यम् । ' अनन्तर स वञ्चक. कर्पूरतिलकसमीपं
गत्वा साष्टाङ्गपात प्रणम्योवाच- 'देव' दृष्टिप्रसाद कुरु ।' हस्ती ब्रूते--'कस्त्वम् ?
कुत' समायात. १ ' सोऽवदत्--'जम्बुकोऽहम् । सर्वैर्वनवासिभि.पशुभिर्मिलित्वा
भवत्सकाश प्रस्थापित । यद्विना राज्ञाऽवस्थातु न युक्त तदत्राटवीराज्ये
अभिषेक्तु भवान् सर्वस्वामिगुणोपेतो निरूपित । यत:-
यः कुलाभिजनाचारैरतिशुद्धःप्रतापवान् ।
धार्मिको नीतिकुशलः स स्वामी युज्यते भुवि॥२१३।।
अपरच पश्य-
-
राजानं प्रथमं विन्देत्ततो भार्या ततो धनम् ।
राजन्यसति लोकस्मिन्कुतो भार्या कुतो धनम् ॥ २१४॥
मित्रलाभ..] (४५) अन्यच्च- - पर्जन्य इव भूतानामाधारः पृथिवीपतिः । विकलेपि हि पर्जन्ये जीव्यते न तु भूपतौ ॥२१५ ॥ नियतविषयवर्ती प्रायशो दण्डयोगा- जगति परवशेऽस्मिन्दुर्लभः साधुवृत्तः। कृशमपि विकलं वा व्याधितं वाऽधनं वा पतिमपि कुलनारी दण्डभीत्याभ्युपैति ॥ २१६ ॥ तद्यथा लग्नवेला न विचलति तथा कृत्वा सत्वरमागम्यता देवेन ।' इत्युक्त्वो- त्थाय चलित । ततोऽसौ राज्यलोभाकृष्ट कर्परतिलक शृगालदर्शितवम॑ना धावन्महापङ्के निमग्नः । हस्तिनोक्तम्-' सखे शृगाल । किमधुना विधेयम् ? महा- पड्के निपतितोऽह म्रिये, परावृत्य पश्य । ' शृगालेन विहस्योक्तम् ' देव ! मम पुच्छकामावलम्बन कृत्वोत्तिष्ठ । यन्मद्विधस्य वचसि त्वया प्रत्ययः कृतस्तदनु- भूयतामशरणं दुखम् । तथा चोक्तम्- यदासत्सङ्गरहितो भविष्यसि भविष्यसि । तदासज्जनगोष्ठीषु पतिष्यसि पतिष्यसि ॥२१७ ॥ ततो महापङ्के निमग्नो हस्ती शृगालैर्भक्षित । अतोऽह ब्रवीमि- उपा- येन हि यच्छक्यम् ' इत्यादि । तत कुट्टिन्युपदेशेन त चारुदत्तनामानं वणिकपुत्रं स राजपुत्र सेवक वकार । ततोऽसौ तन सर्वविश्वासकार्येषु नियोजितः । एकदा कुट्टिन्युपदेशेन तेन राजपुत्रेण स्नातानुलिप्तेन कनकरत्नालङ्कारवा- रिणा प्रोक्तम् । चारुदत्त ! मया मासमेक गौरीव्रतं कर्तव्यम् । तदद्यारभ्य प्रतिरात्रमेका कुलीना युवतीमानीय समर्पय । सा मया यथोचितेन विधिना पूजयितव्या । तत स चारुदत्तस्तथाविधा नवयुवतीमानीय समर्प- यति । पश्चात्प्रच्छन्नः सन् किमयं करोतीति निरूपयति । स च तुङ्गबलस्ता युव- तीमस्पृशन्नेव दूराद्वस्त्रालंकारगन्धचन्दनै. सम्पूज्य रक्षकं दत्त्वा तत्क्षणमेव प्रस्था- पयति । अथ तेन वणिक्पुत्रेण तदृष्ट्वोपजातविश्वासेन लोभाकृष्टमनसा स्ववधू m- (४६) [हितोपदेशे- लावण्यवती समानीय समर्पिता । स च तुङ्गबलस्ता हृदयप्रिया लावण्यवती विज्ञाय ससश्रममुत्थाय निर्भरमालिङ्गयानन्दनिमीलिताक्षः प्रहृष्टमना बहुविधाम- नङ्गक्रीडा विधाय पर्यत तया सह सुष्वाप । तदालोक्य वणिक्पुत्रश्चित्र- लिखित इवेतिकर्तव्य तामूढ पर विषादमुपगत अतोऽह ब्रवीमि-स्वयं वीक्ष्य' इत्यादि । तथा त्वयापि भवितव्यम्, इति । तद्धितवचनमवधार्य महता भयेन विमुग्ध इव त जलाशयमुत्सृज्य मन्थरश्चलित. । तेऽपि हिरण्यकादय. स्नेहादनिष्ट शङ्कमाना मन्थरमनुगन्छन्ति । तत स्थले गच्छन्केनापि व्याधेन कानन पर्यटता स मन्थर प्राप्त । प्राप्य त गृहीत्वोत्था'य धनुषि बध्वा धन्योस्मीत्यभिवाय भ्रमन् क्लेशात्क्षुत्पिपासाकुल स्वगहाभिमुखं चलितः । अथ ते मृगवायसमूषका परं विषाद गच्छन्तस्तमनुजग्मु । ततो हिरण्यको विलपति-- एकस्य दुःखस्य न यावदन्तं गच्छाम्यहं पारमिवार्णवस्य । तावद्वितीयं समुपस्थितं मे छिद्रेष्वना बहुलीभवन्ति ॥ २१८॥ स्वाभाविकं तु यन्मित्रं भाग्येनैवाभिजायते। तदकृत्रिमसौहार्दमापत्स्वपि न मुञ्चति ॥२१९॥ अपि च---- न मातरि न दारेषु न सौदर्ये न चात्मजे । विश्वासस्तादृशः पुंसां यादृमित्रे स्वभावजे ॥२२० ॥ इति मुहुर्विचिन्त्य ' अहो दुर्दैवम् । यतः-- स्वकर्मसन्तानविचेष्टितानि कालान्तरावर्तिशुभाशुभानि । इहैव दृष्टानि मयैव तानि जन्मान्तराणीव दशान्तराणि ॥ २२१॥ अथ वा इत्थमेवैतत्- कायः संनिहितापायः सम्पदः पदमापदाम् । समागमाः सापगमाः सर्वमुत्पादि भङ्गुरम् ॥ २२२ ॥'
मित्रलाभ: 1 (४७) पुनरवमृश्याह-- 'शोकारातिभयत्राणं प्रीतिविम्भभाजनम् । केन रत्नमिदं स्पृष्टं मित्रमित्यक्षरद्वयम् ।। २२३ ॥ किञ्च- मित्रं प्रीतिरसायनं नयनयोरानन्दनं चेतसः पात्रं यत्सुखदुःखयोः सह भवेन्मित्रेण तहुर्लभम् । ये चान्ये सुहृदः समृद्धिसमये द्रव्याभिलाषाकुला- स्ते सर्वत्र मिलन्ति तत्त्वनिकषमावा तु तेषां विपत्२४ इति बहु विलप्य हिरण्यकश्चित्राङ्गलघुपतनकावाह- यावदय व्याधो वनान्न नि सरति तावन्मन्थर मोचयितु यत्न क्रियताम् । ' तावूचनु – सत्वर यथा कार्यमुपदिश । ' हिरण्यको ब्रूते-' चित्राङ्गो जलसीपं गत्वा मृतमिवात्मान निश्चेष्ट दर्शयतु । काकश्च तस्योपरि स्थित्वा चञ्च्वा किमपि विलिखतु, नूनम- नेन मृगमासार्थिना लुब्धकेन तत्र कच्छप परित्यज्य सत्वर गन्तव्यम् । ततोऽहं मन्थरस्य बन्वनं छेत्स्यामि । सनिहिते लुब्धके भवद्भया पलायितव्यम् ।' अथ चित्राङ्गलघुपतनका-या शीघ्र गत्वा तथानुष्ठिते सति स व्याव श्रान्त पानीय पीत्वा तरोरवस्तादुपविष्टस्तथाविव मृगमपश्यत् । तत कच्छप जलसमीपे निवाय कतरिकामादाय प्रहृष्टमना मृगान्तिकं चलित । अत्रान्तरे हिरण्यकेनागत्य मन्थ- रस्य बन्धन छिन्नम् । स कूर्म सत्वर जलाशय प्रविवेश । स मृग आसन्न त व्याध विलोक्योत्थाय द्रुत पलायितः । प्रत्यावृत्य लुब्धको यावचरुतलमा- याति तावत्कूर्ममपश्यन्नचिन्तयत्-" उचितमेवैतन्ममासमीक्ष्यकारिण । यत - यो ध्रुवाणि परित्यज्य अध्रुवाणि निषेवते । ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव हि ॥ २२५ ॥ ततोऽसौ स्वकर्मवशान्निराशः कटकं प्रविष्ट. । मन्थरादयः सर्वे मुक्तापदः स्वस्थानं गत्वा यथासुखमास्थिताः ॥ --
-
.
(४८)
[हितोपदेशे-
अथ राजपुत्रै सानन्दमुक्तम्- सर्व श्रुतवन्त सुखिनो वयम् । सिद्धं नः
समीहितम् ।' विष्णुशर्मोवाच- एतावता भवतामभिलषित सम्पन्नम् । अपर-
मपीदमस्तु-
मित्रं प्राप्नुत सजना जनपदैर्लक्ष्मीः समालम्ब्यता
भूपालाः परिपालयन्तु वसुधां शश्वत्स्वधर्मे स्थिताः।
आस्तां मानसतुष्टये सुकृतिनां नीतिर्नवोढेव वः
कल्याणं कुरुतां जनस्य भगवांश्चन्द्रार्धचूडामणिः ॥२२॥
इति विष्णुशर्मसंगृहीते हितोपदेशे
मित्रलाभः प्रथमः ॥१॥
सुहृद्भेदः।
-----
अथ राजपुत्रा ऊचुः-'आर्य ! मित्रलाभ. श्रुतस्तावदस्माभिः । इदानी
सुहृद्भेद श्रोतुमिच्छाम ।' विष्णुशर्मोवाच-' सुहृद्भेदं तावच्छृणुत, यस्याय-
माद्य श्लोकः-
-
वर्धमानो महास्नेहो मृगेन्द्रवृषयोर्वने ।
पिशुनेनातिलुब्धेन जम्बुकेन विनाशितः॥ १॥'
राजपुत्रैरुक्तम्--' कथमेतत् १" विष्णुशर्मा कथयति-
अस्ति दक्षिणापथे सुवर्णवती नाम नगरी । तत्र वर्धमानो नाम महाधनः
गनिवसति । तस्य प्रचुरेऽपि वित्तेऽपरान्बन्धूनतिसमृद्धान्समीक्ष्य पुनरर्थवृद्धिः
..रणीयेति मतिर्बभूव । यतः--
अधोऽधः पश्यतः कस्य महिमा नोपचीयते ।
उपर्युपरि पश्यन्तः सर्व एव दरिद्रति ॥२॥
A
अपरच-
ब्रह्महापि नरः पूज्यो यस्यास्ति विपुलं धनम् ।
शशिनस्तुल्यवंशोऽपि निर्धनः परिभूयते ॥३॥
अन्यच्च-
--
अव्यवसायिनमलसं दैवपरं साहसाच्च परिहीनम् ।
प्रमदेव हि वृद्धपति नेच्छत्युपगुहितुं लक्ष्मीः॥ ४ ॥
किश्च-
आलस्यं स्त्रीसेवा सरोगता जन्मभूमिवात्सल्यम् ।
संतोषो भीरुत्वं षड् व्याघाता महत्त्वस्य ॥
यतः-
-
संपदा सुस्थिरम्मन्यो भवति स्वल्पयापि यः।
कृतकृत्यो विधिर्मन्ये न वर्धयति तस्य ताम् ॥ ६॥
(५०) [हितोपदेशे- - अपर च- निरुत्साहं निरानन्दं निर्वीर्यमरिनन्दनम् । मा स्म सीमन्तिनी काचिजनयेत्पुत्रमीदृशम् ॥ ७॥ तथा चोक्तम्- अलब्धं चैव लिप्सेत लब्धं रक्षेदवेक्षया । रक्षितं वर्धयेत्सम्यग्वृद्धं तीर्थेषु निक्षिपेत् ॥ ८॥ यतो लब्धुमिच्छतोऽर्थयागादथस्य प्राप्तिरेव । लब्धस्याप्यरक्षितस्य निधेरपि स्वय विनाश । अपि च, अवर्धमानश्वार्थ. कालेन स्वल्पव्ययोऽग्यञ्जनवरक्षय- मेति । अनुपभुज्यमानश्च निष्प्रयोजन एव सः । तथा चोक्तम्- अञ्जनस्य क्षयं दृष्ट्वा वल्मीकस्य च संचयम् । अवन्ध्यं दिवसं कुर्यादानाध्ययनकर्मसु ॥९॥ इति सचिन्त्य वद्धमान' नन्दकसञ्जीवकनामानौ वृषभौ बुरि नियोज्य शकटं नानाविधद्रव्यपूर्ण कृत्वा वाणिज्येन गत काश्मीर प्रति । यत - कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् । को विदेशः सविद्यानां कः परः प्रियवादिनाम् ॥१०॥ अथ गच्छतस्तस्य सुदुर्गनाम्नि महारण्ये सञ्जीवको भग्नजानुर्निपतित । एतदा- लोक्य वर्धमानोऽचिन्तयत्- करोतु नाम नीतिज्ञो व्यवसायमितस्ततः । फलं पुनस्तदेवास्य यद्विधर्मनसि स्थितम् ॥ ११ ॥ कि तु-- विस्मयः सर्वथा हेयः प्रत्यूहः सर्वकर्मणाम् । तस्माद्विस्मयमुत्सृज्य साध्ये सिद्धिविधीयताम्॥१२॥ इति सञ्चिन्त्य सञ्जीवक तत्र परित्यज्य वर्धमान पुन स्वय धर्मपुर नाम नगर गत्वा महाकायमन्य वृषभमेक समानीय बुरि नियोज्य चलित । ततः सजीवकोऽपि कथकथमपि खुरत्रये भर कृत्वोत्थितः । यत - निमग्नस्य पयोराशौ पर्वतात्पतितस्य च । तक्षकेणापि दष्टस्य स्वायुर्माणि रक्षति ॥ १३ ॥ -
सुहृद्भेदः.]
(५१)
अपर च-
नाकाले म्रियते जन्तुर्विद्धः शरशतैरपि ।
कुशाग्रेणैव संस्पृष्टः प्राप्तकालो न जीवति ॥ १४॥
यतः-
अरक्षितं तिष्ठति देवरक्षितं
सुरक्षितं दैवहतं विनश्यति ।
जीवत्यनाथोऽपि वने विसर्जितः
कृतप्रयत्नोऽपि गृहे न जीवति ॥ १५॥
ततो दिनेषु गच्छत्सु संजीवकः स्वेच्छाहारविहार कृत्वारण्यं भ्राम्यन् हृष्ट-
पुष्टाङ्गो बलवन्ननाद । तस्मिन्वने पिङ्गलनामा सिंहः स्वभुजोपार्जितराज्य-
सुखमनुभवन्निवसति । तथा चोक्तम्-
नाभिषेको न संस्कारः सिंहस्य क्रियते मृगैः ।
विक्रमार्जितराज्यस्य स्वयमेव मृगेन्द्रता ॥ १६ ॥
स चैकदा पिपासाकुलित पानीय पातु यमुनाकन्छमगच्छत् । तेन च तत्र
मिहेनाननुभूतपूर्वमकालघनगर्जितमिव सजीवकनर्दितमश्रावि । तच्छुत्वा पानीय-
मपीत्वा सचकित परावृत्य स्वस्थानमागत्य किमिदमित्यालोचयस्तूष्णीं स्थित ।
स च तथाविध करटकदमनकाभ्यामस्य मन्त्रिपुत्राभ्या शृगालाभ्या दृष्टः ।
त तथाविव दृष्ट्वा दमनकः करटकमाह- 'सखे करटक । किमित्ययमुदकार्थी
स्वामी पानीयमपीत्वा सचकितो मन्दमवतिष्ठते १' । करटको ब्रूते-' मित्र
दमनक । अस्मन्मतेनास्य संवैव न क्रियते । यदि तथा भवति तर्हि
किमनेन स्वामिचेष्टानिरूपणेनास्माकम्?--यतोऽनेन राज्ञा विनापरावेन चिर-
मववीरिताभ्यामावाभ्या महदुःखमनुभूतम्-
सेवया धनमिच्छद्भिःसेवकैः पश्य यत्कृतम् ।
स्वातन्त्र्यं यच्छरीरस्य मूढैस्तदपि हारितम् ॥१७॥
अपर च-
शीतवातातपक्केशान्सहन्ते यान्पराश्रिताः।
तदंशेनापि मेधावी तपस्तत्वा सुखी भवेत् ॥ १८ ॥
(५२)
[हितोपदेशे-
अन्यच्च-
एतावजन्मसाफल्यं यदनायत्तवृत्तिता।
ये पराधीनतां यातास्ते वै जीवन्ति के मृताः॥ १९॥
अपर च--
एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर ।
एवमाशाग्रहप्रस्तैः क्रीडन्ति धनिनोऽथिभिः॥२०॥
किच-
अबुधैरर्थलाभाय पण्यस्त्रीभिरिव स्वयम् ।
आत्मा संस्कृत्य संस्कृत्य परोपकरणीकृतः ॥२१॥
अन्यच्च-
या प्रकृत्यैव चपला निपतत्यशुचावपि ।
स्वामिनो बहु मन्यन्ते दृष्टिं तामपि सेवकाः ॥२२॥
अपर च-
मौनान्मूर्खः प्रवचनपटुर्वातुलो जल्पको वा
क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजातः।
धृष्टः पार्थे वसति नियतं दूरतश्चाप्रगल्भः
सेवाधर्मः परमगहनो योगिनामप्यगम्यः॥२३॥
विशेषतश्च-
प्रणमत्युन्नतिहेतोर्जीवितहेतोविमुञ्चति प्राणान् ।
दुःखीयति सुखहेतोः को मूढः सेवकादन्यः ॥ २४॥
दमनको ब्रूते- मित्र । सर्वथा मनसापि नैतत्कर्तव्यम् । यत
कथं नाम न सेव्यन्ते यत्नतः परमेश्वराः।
अचिरेणैव ये तुष्टाः पूरयान्ति मनोरथान् ॥ २५ ॥
अन्यच्च पश्य-
-
कुतः सेवाविहीनानां चामरोद्धृतसंपदः।
उद्दण्डधवलच्छवं वाजिवारणवाहिनी॥२६॥
- सुहृद्भेद..] (५३) करटको ब्रूते- ' तथापि किमनेनास्माक व्यापारेण १ यतोऽव्यापारेषु व्यापार सर्वथा परिहरणीय. । पश्य- अव्यापारेषु व्यापार यो नरः कर्तुमिच्छति । स भूमौ निहतः शेते कीलोत्पाटीव वानरः॥२७॥ दमनक, पृच्छति- कथमेतत् ? करटक कथयति कथा १. मगधदेशे धर्मारण्यसनिहितवसुधाया शुभदत्तनाम्ना कायस्थेन प्रासाद' कर्तु- मारब्ध । वत्र करपत्रदार्यमाणैकस्तम्भस्य कियदूरस्फाटितस्य काष्टखण्डद्वयमन्ये कोलकः सूत्रधारेण निहित , तत्र बलवान्वानरयूथ क्रीडन्नागत' । तेषु एको वानरः कालप्रेरित इब त कीलक हस्ताभ्या धृत्वोपविष्ट । तत्र तस्य मुष्कद्वयं लम्बमान काष्ठखण्डद्वयाभ्यन्तरे प्रविष्टम् । अवन्तर स च सहजचपलतया महता प्रयत्नेन त कीलकमाकृष्टवान्, आकृष्टे च कीलके काष्ठाभ्या चूर्णिताण्डद्वय. पञ्चत्व गत । अतोऽह ब्रवीमि-'अव्यापारेषु व्यापारम्' इत्यादि । दमनको ब्रूते-' तथापि स्वामिचेष्टानिरूपणं सेवकेनावश्य करणीयम् ।' करटको ब्रूते- ' सर्वस्मिन्नविकारे य एव नियुक्त. प्रधानमन्त्री स करोतु । यतोऽनुजीविना पराधिकारचर्चा सर्वथा न कर्तव्या । पश्य- पराधिकारचर्चा यः कुर्यात्स्वामिहितेच्छया । स विषीदति चीत्कारागर्दभस्ताडितो यथा ॥२८॥' दमनक. पृच्छति- ' कथमेतत् १ ' करटको ब्रूते-- कथा २. 'अस्ति धाराणस्या कर्पूरपटो नाम रजकः । स चैकदाभिनववयस्कया वध्वा सह चिरं निधुवन कृत्वा निर्भरमालिङ्गय प्रसुप्त । तदनन्तरं तद्गृहद्रव्याणि हतु चौर प्रविष्ट. । तस्य प्राङ्गणे गर्दभो बद्धस्तिष्ठति, कुक्कुरश्चोपविष्टोऽस्ति । अथ गर्दभ श्वानमाह-' सख ! भवतस्तावदय व्यापार , तत्किमिति त्वमुच्चैः शब्दं कृत्वा स्वामिन न जागरयसि १ ' कुक्कुरो ब्रूते-' भद्र ! मम नियोगस्य (५४) [हितोपदेशे- चर्चा त्वया न कर्तव्या । त्वमेव कि न जानासि, यथा तस्याहर्निश गृहरक्षा करोमि, यतोऽय चिरान्निवृतो ममोपयोग न जानाति । तेनावुनापि ममाहारदाने मन्दादर । विना विधुरदर्शन स्वामिन उपजीविषु मन्दादरा भवन्ति ।' गर्दभो ब्रूते-'शृणु रे बर्बर । याचते कार्यकाले यः स किं भृत्यः स किं सुहत ।' कुक्कुरो ब्रूते- यो न सम्भावयेत्यान् कार्यकाले स किं प्रभुः॥ २९॥ किंच- आश्रितानां भृतौ स्वामिसेवायां धर्मसेवने । पुत्रस्योत्पादने चैव न सन्ति प्रतिहस्तकाः॥३० ॥' ततो गर्दभ सकोपमाह- अरे दुष्टमते । पापीयास्त्वम्, यद्विपत्तौ स्वामिकार्ये उपेक्षा करोषि । भवतु तावत् । यथा स्वामी जागरिष्यति तन्मया कर्त- व्यम् । यत - पृष्ठतः सेवयेदर्क जठरेण हुताशनम् । स्वामिनं सर्वभावेन परलोकममायया ॥ ३१॥' इत्युक्त्वातीव चीत्कारशब्द कृतवान् । ततः स रजकस्तेन चीत्कारेण प्रबुद्धो निद्राभङ्गकोपादुत्थाय गर्दभ लगुडेन ताडयामास । ततस्तेन ताडनेन गर्दभः पञ्चत्वमगमत् । अतोऽह ब्रवीमि-'पराधिकारचर्चाम् ' इत्यादि । पश्य । पशूनामन्वेषणमेवास्मन्नियोगः । स्वनियोगचर्चा क्रियताम् ।' (विमृश्य ) कि त्वद्य तया चर्चया न प्रयोजनम् । यत आवयोर्भक्षितशेषाहार प्रचु- रोऽस्ति ।' दमनक, सरोषमाह-'कथमाहारार्थी भवान्केवल राजान सेवते ? एतद. युक्तमुक्त त्वथा। यत.. सुहृदामुपकारकारणात द्विषतामप्यपकारकारणात् । नृपसंश्रय इष्यते बुधै-- जठरं को न बिभर्ति केवलम् ॥ ३२ ॥ , .
सुहृद्भेदः.] जीविते यस्य जीवन्ति विप्रा मित्राणि बान्धवाः । सफलं जीवितं तस्य आत्मार्थे को न जीवति ॥३३॥ अपि च- यस्मिञ्जीवति जीवन्ति बहवः स तु जीवतु । बकोऽपि किं न कुरुते चञ्च्वा स्वोदरपूरणम् ॥ ३४॥ पश्य- -- पञ्चभिर्याति दासत्वं पुराणैः कोऽपि मानवः । कोऽपि लक्षः कृती कोऽपि लक्षैरपि न लभ्यते ॥ ३५॥ यत:- मनुष्यजातौ तुल्यायां भृत्यत्वमतिगर्हितम् । प्रथमो यो न तत्रापि स किं जीवत्सु गण्यते ॥ ३६॥ तथा चोक्तम्- वाजिवारणलोहाना काष्ठपाषाणवाससाम् । नारीपुरुषतोयानामन्तर महदन्तरम् ॥ ३७ ।। तथाहि-- स्वल्पनायुवसावशेषमलिनं निर्मासमप्यस्थिक श्वा लब्ध्वा परितोषमेति न भवेत्तस्य क्षुधः शान्तये। सिंहो जम्बुकमङ्कमागतमपि त्यक्त्वा निहन्ति द्विपं सर्व कृच्छ्रगतोऽपि वाञ्छति जनःसत्त्वानुरूपं फलम्॥३८॥ अपर च सेव्यसेवकयोरन्तर पश्य- लांगूलचालनमधश्चरणावपातं भूमा नपत्य वदनोदरदर्शनं च । श्वा पिण्डदस्य कुरुते गजपुङ्गवस्तु धीरं विलोकयति चाटुशतैश्च भुते॥ ३९ ॥ M- कि च- यज्जीव्यते क्षणमपि प्रथितं मनुष्यै- विज्ञानविक्रमयशोभिरभज्यमानम् ।
(५६)
[हितोपदेशे-
तनाम जीवितमिह प्रवदन्ति तज्ज्ञाः
काकोऽपि जीवति चिराय बलिं च भुते ॥ ४०॥
अपरमपि--
अहितहितविचारशून्यबुद्धः
श्रुतिसमयैर्बहुभिस्तिरस्कृतस्य।
उदरभरणमात्रकेवलेच्छोः
पुरुषपशोश्च पशोश्च को विशेषः॥ ४१॥
करटको ब्रूते--' आवा तावदप्रधानौ । ततोऽप्यावयो किमनया विचारणया १"
दमनको ब्रूते-' कियता कालेनामात्या' प्रधानतामप्रधानता वा लभन्ते।यत्नः-
न कस्यचित्कश्चिदिह स्वभावा-
द्भवत्युदारोऽभिमतः खलो वा ।
लोके गुरुत्वं विपरीततां वा
स्वचेष्टितान्येव नरं नयन्ति ॥ ४२ ॥
कि च-
आरोप्यते शिला शैले यत्नेन महता यथा ।
निपात्यते क्षणेनाधस्तथात्मा गुणदोषयोः॥४३ ॥
तद्भद्रम्, स्वयत्नायत्तो ह्यात्मा सर्वस्य--
यात्यधोऽधो व्रजत्युच्चैर्नरः स्वैरेव कर्मभिः।
कूपस्य खनिता यद्वत्प्राकारस्येव कारकः॥ ४४ ॥'
करटको ब्रूते-' अथ भवान्कि ब्रवीति ? ' स आह- अय तावत्स्वामी
पिङ्गलकः पानीयमपीत्वा कुतोऽपि भयात्सचकित परावृत्त्योपविष्ट. ।' करटको
ब्रूते-'कि तत्त्व जानासि ? ' दमनको ब्रूते-'कि प्रज्ञावतामविदितमस्ति ?
,
उक्त च-
उदीरितोऽर्थः पशुनापि गृह्यते
हयाश्च नागाश्च वहन्ति चोदिताः।
अनुक्तमप्यूहात पण्डितो जनः
परेङ्गितज्ञानफला हि बुद्धयः ॥४५॥
सुहृद्भेदः.] आकारैरिङ्गितैर्गत्या चेष्टया भाषणेन च । नेत्रवऋविकारेण लक्ष्यतेऽन्तर्गतं मनः ॥ ४६॥ अत्र भयप्रस्तावे प्रज्ञाबलेनाहमेन स्वामिनमात्मीयं करिष्यामि । यतः- प्रस्तावसदृशं वाक्यं सद्भावसदृशं प्रियम् । आत्मशक्तिसमं कोपं यो जानाति स पण्डितः॥४७॥ करटको ब्रूते- सखे । त्व सेवानभिज्ञ । पश्य- अनाहूतो विशेद्यस्तु अपृष्टो बहु भाषते । आत्मानं मन्यते प्रीतं भूपालस्य स दुर्मतिः॥४८॥ दमनको ब्रूते- भद्र ! कथमह सेवानभिज्ञ. १ पश्य- किमप्यस्ति स्वभावेन सुन्दरं वाप्यसुन्दरम् । यदेव रोचते यस्मै भवेत्तत्तस्य सुन्दरम् ॥ ४९ ॥ । - यत - यस्य यस्य हि यो भावस्तेन तेन हि तं नरम् । अनुप्रविश्य मेधावी क्षिप्रमात्मवशं नयेत् ॥ ५० ॥ अन्यन्च- कोऽत्रेत्यहमिति ब्रूयात्सम्यगादेशयेति च । आज्ञामवितां कुर्याद्यथाशक्ति महीपतेः॥५१॥ अपर च- अल्पेच्छुकृतिमान्प्राज्ञश्छायेवानुगतः सदा आदिष्टो न विकल्पेत स राजवसतौ वसेत् ॥ ५२ ॥ करटको ब्रूते 'कदाचित्त्वामनवसरप्रवेशादवमन्यते स्वामी । ' स चाह- अस्त्वेवम्, तथाप्यनुजीविना स्वामिसान्निध्यमवश्य करणीयम् । यत:- दोषभीतेरनारम्भस्तत्कापुरुषलक्षणम् । कैरजीर्णभयाभ्रातर्भोजनं परिहीयते ॥५३॥ - पश्य- आसन्नमेव नृपतिर्भजते मनुष्यं विद्याविहीनमकुलीनमपण्डितं वा ।
-- (५८) [हितोपदेशे- प्रायेण भूमिपतयः प्रमदा लताश्च या पार्श्वतो वसति तं परिवेष्टयन्ति ॥ ५४ ॥ करटको ब्रूते-' अथ तत्र गत्वा कि वक्ष्यति भवान् । स आह-शृणु। किमनुरक्तो विरक्तो वा मथि स्वामीति ज्ञास्यामि ।' करटको ब्रूते-' कि तज्ज्ञानलक्षणम् ? ' दमनको ब्रूते-'शृणु- दूरादेवेक्षणं हासः संप्रश्श्रेष्वादरो भृशम् । परोक्षेऽपि गुणश्लाघा स्मरणं प्रियवस्तुषु ॥ ५५ ॥ असेवके चानुरक्तिर्दानं सुप्रियभाषणम् । अनुरक्तस्य चिह्नानि दोषेऽपि गुणसंग्रहः॥५६ ॥ अन्यच्च- A- D कालयापनमाशानां वर्धनं फलखण्डनम् । विरक्तेश्वरचिह्नानि जानीयान्मतिमानरः॥ ५७ ॥ एतज्ज्ञात्वा यथा चाय ममायत्तो भविष्यति तथा करिष्यामि । यत'- अपायसन्दर्शनजां विपत्ति- मुपायसन्दर्शनजां च सिद्धिम् । मेधाविनो नीतिविधिप्रयुक्तां पुरः स्फुरन्तीमिव दर्शयन्ति ॥ ५८ ॥ अपर च-- - दोषा गुणा गुणा दोषा दोषा दोषा गुणा गुणाः । रक्ते विरक्ते मध्यस्थे स्वामिनि त्रिविधा गुणाः॥ ५९॥ करटको ब्रूते-' तथा यप्राप्ते प्रस्तावे न वक्तुमर्हसि । यत अप्राप्तकालवचनं बृहस्पतिरपि ब्रुवन् । प्राप्नुयाद्बुद्धयवज्ञानमपमानं च शाश्वतम् ॥ ६०॥' दमनको ब्रूते-'मित्र ! मा भैषी । नाहमप्राप्तावसर वचन वदिष्यामि । यतः- आपशुन्मार्गगमने कार्यकालात्ययेषु च । अपृष्टेनापि वक्तव्यं भृत्येन हितमिच्छता ॥ ६१ ॥ - . - - सुहृद्भेद:.] (५९) यदि च प्राप्तावसरेणापि मया मन्त्रो न वक्तव्यस्तदा मन्त्रित्वमेव ममा- नुपपन्नम्। यत कल्पयति येन वृत्तिं येन लोके प्रशस्यते सद्भिः। स गुणस्तेन च गुणिना रक्ष्यः संवर्धनीयश्च ।। ६२ ।। तद्भद्र । अनुजानीहि माम् । पिङ्गलकसमीप गच्छामि ।' करटको ब्रूते- 'शुभमस्तु । यथाभिलषितमनुष्ठीयताम्- गम्यतामर्थलाभाय क्षेमाय विजयाय च । शत्रुपक्षविनाशाय पुनरागमनाय च ॥ ६३ ॥' ततो दमनको विस्मित इव पिङ्गलकसमीप गतः ॥ अथ दूरादेव सादर राज्ञा प्रवेशित साष्टाङ्ग प्रणिपत्योपविष्टः । राजाह- 'चिरादृष्टोऽसि ।' दमनको ब्रूते-' यद्यपि मया सेवकेन श्रीमंदवपादाना न किचित्प्रयोजनमस्ति, तथापि प्राप्तकालमनुजीविना सान्निध्यमवश्य कर्तव्यमि- त्यागतोऽस्मि । किञ्च- दन्तस्य निर्धर्षणकेन राजन् कर्णस्य कण्डूयनकेन वापि । तृणेन कार्य भवतीश्वराणां किमङ्गवाक्पाणिमता नरेण ॥ ६४॥ यद्यपि चिरेणावधीरितस्य देवपादै, बुद्धिनाशः शङ्कयते, तदपि न शङ्कनी- यम् । यत'- मणिटुंठति पादेषु काचः शिरसि धार्यते । क्रयविक्रयवेलायां काचः काचो मणिर्मणिः ॥ ६५ ॥ कदर्थितस्यापि च धैर्यवृत्ते- बुद्धविनाशो नहि शङ्कनीयः। अधःकृतस्यापि तनूनपातो नाधः शिखा याति कदाचिदेव ॥६६॥ देव ! तत्सर्वथा विशेषज्ञेन स्वामिना भवितव्यम् । यतः- -
(६०)
[हितोपदेशे-
निर्विशेषो यदा राजा समं सर्वेषु वर्तते ।
तदोद्यमसमर्थानामुत्साहः परिहीयते ॥ ६७ ॥
किच-
विविधाः पुरुषा राजत्रुत्तमाधममध्यमाः।
नियोजयेत्तथैवैतांस्त्रिविधेष्वेव कर्मसु ॥ ६८ ।।
यत'-
-
-
स्थान एव हि योज्यन्ते भृत्याश्चाभरणानि च ।
न हि चूडामणिः पादे नूपुरं शिरसा तथा ॥ ६९ ।।
अपि च-
कनकभूषणसंग्रहणोचितो
यदि मणिस्त्रपुणि प्रणिधीयते।
न स विरौति न चापि स शोभते
भवति योजयितुर्वचनीयता ॥ ७० ॥
अन्यच्च-
-
मुकुटे रोपितः काचश्चरणाभरणे मणिः ।
न हि दोषो मणेरस्ति किं तु साधोरविज्ञता ॥७१ ।।
पश्य--
बुद्धिमाननुरक्तोऽयमिहोभयगुणो जनः ।
इति भृत्यविचारज्ञो भृत्यैरापूर्यते नृपः ॥ ७२ ।।
तथाहि-
अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च ।
पुरुषविशेष प्राप्ता भवन्ति योग्या अयोग्याश्च ॥ ७३ ॥
अन्यच्च-
किं भक्तेनासमर्थेन किं शक्तेनापकारिणा।
भक्तं शक्तं च मां राजन्नावज्ञातुं त्वमर्हसि ॥ ७४ ॥
सुहद्भेदः.] (६१) यतः अवज्ञानाद्राज्ञो भवति मतिहीनः परिजनः ततस्तत्मामाण्याद्भवति न समीपे बुधजनः । बुधैस्त्यक्ते राज्ये न हि भवति नीतिर्गुणवती विपनायां नीतौ सकलमवशं सीदति जगत् ॥ ७५ ॥ अपरच-देव । जनं जनपदा नित्यमर्चयन्ति नृपार्चितम् । नृपेणावमतो यस्तु स सर्वैरवमन्यते ॥ ७६ ॥ कि च- - , बालादपि गृहीतव्यं युक्तमुक्तं मनीषिभिः । रवेरविषये कि नु प्रदीपस्य प्रकाशनम् ॥ ७७ ॥' पिङ्गलकोऽवदत्-'भद्र दमनक! किमेतत् १ त्वमस्मदीयप्रवानामात्यपुत्र सुधी- रियन्तं काल यावत्कुतोऽपि खलवाक्यान्नागतोऽसि । इदानीं यथाभिमत ब्रूहि ।' दमनको ब्रूते-'देव'पृच्छामि किचित् उच्यताम् । उदकार्थी स्वामी पानीयमपीत्वा किमिति विस्मित इव तिष्ठति ।' पिङ्गलकोऽवदत् भद्रमुक्त त्वया।किं वेतद्रहस्य वक्तुं काचिद्विश्वासभूमिर्नास्ति । त्व तु तथाविध , ततः शृणु । सप्रति वनमिदमपूवस- वाधिष्ठितमतोऽस्माक त्याज्यम् । अनेन हेतुना विस्मतोऽस्मि । तथा च श्रुत- स्त्वयापि महानपूर्व शब्दः। शब्दानुरूपेणास्य प्राणिनो महता बलेन भवितव्यम् । दमनको ब्रूते--'देव । अस्ति तावदय महान्भयहेतु , स शब्दोऽस्माभिरप्याकणित । किं तु स किम्मन्त्री य. प्रथम मन्त्राभावेन भूपति भूमित्याग युद्ध चोपदिशति । देव । आस्मन्कार्यसदेहे भृत्यानामुपयोग एव ज्ञातव्यः । यत'- बन्धुस्त्रीभृत्यवर्गस्य बुद्धेः सत्त्वस्य चात्मनः। आपत्रिकषपाषाणे नरो जानाति सारताम् ॥ ७८ ॥ सिहो ब्रूते-' भद्र ! महती शङ्का मा बावते।' दमनक पुनराह (स्वगतम्) अन्यथा राज्यसुखं परित्यज्य स्थानान्तरं गन्तुं कथ मा सभाषसे । (प्रकाश ब्रूते) 'देव ! यावदह जीवामि तावद्भयं न कर्तव्यम् । कि तु करटकादयोऽप्याश्वा- स्यन्ताम् , यस्मादापत्प्रतीकारकाले दुर्लभः पुरुषसमवायः।
and- - (६२) [हितोपदेशे- ततस्तौ दमनककरटकौ राज्ञा महाप्रसादेन पूजितौ भयप्रतीकार प्रतिज्ञाय चलितौ । करटको गन्छन् दमनकमाह--'सखे 'कि शक्यप्रतीकारो भयहेतुरशक्य- प्रतीकारी वेति न ज्ञात्वा भयोपशम प्रतिज्ञाय कथमय महाप्रसादो गृहीतः । यतोऽनुपकुर्वाणो न कस्या युपायन गृह्णीयाद्विशेषतो राज्ञ । पश्य- यस्य प्रसादे पद्माऽस्ते विजयश्च पराक्रमे । मृत्युश्च वसति क्रोधे सर्वतेजोमयो हि सः॥ ७९ ॥ तथा हि- बालोऽपि नावमन्तव्यो मनुष्य इति भूमिपः। महती देवता ह्येषा नररूपेण तिष्ठति ॥ ८० ॥ दमनको विहस्याह-'मित्रातूष्णीमास्यताम्,ज्ञात मया भयकारणम् । बलीवर्द- नर्दित तत् । वृषभाश्चास्माकमपि भक्ष्या , कि पुन सिहस्य ।' करटको ब्रूते- 'यद्येव तदा कि पुन स्वामित्रासस्तत्रैव किमिति नापनीत ' दमनको ब्रूते- यदि स्वामित्रासस्तत्रैव मुच्यते तदा कथमय महाप्रसादलाभ' स्यात् । अपर च- निरपेक्षो न कर्तव्यो भृत्यैः स्वामी कदाचन । निरपेक्षं प्रभुं कृत्वा भृत्यः स्यादधिकर्णवत् ॥ ८१ ॥ करटकः पृच्छति 'कथमेतत् १' दमनक. कथयति-- . , कथा ३. अस्युत्तरापथेऽर्बुदशिखरनाम्नि पर्वते दुर्दान्तो नाम महाविक्रम सिंहः। तस्य पर्वतकन्दरमविशयानस्य केशराम कश्चिन्मूषकः प्रत्यहं छिनत्ति । तत. स केसराग्र लूत दृष्ट्वा कुपितो विवरान्तर्गत मूषकमलभमानोऽचिन्तयत्-कि विधेयमत्र भवति । एव श्रूयते--- क्षुद्रशत्रुर्भवेद्यस्तु विक्रमान्नैव लभ्यते। तमाहन्तुं पुरस्कार्यः सदृशस्तस्य सैनिकः ॥ ८२॥ इत्यालोच्य तेन ग्राम गत्वा विश्वास कृत्वा दधिकर्मनामा बिडालो यत्नेना- नीय मासाहार दत्त्वा स्वकन्दरे स्थापितः । अनन्तर तद्भयान्मूषकोऽपि बिलान सुहद्भेदः.] (६३) नि सरति । तेनासौ सिहोऽक्षतकेसर सुख स्वपिति । मूषकशब्दं यदा यदा शृणोति तदा तदा मासाहारदानेन त बिडाल सविशेष सवर्धयति । अथैकदा स मूषक. क्षुधापीडितो बहि. सचरन् बिडालेन प्राप्तो व्यापादित. खादितश्च । अनन्तर स सिहोऽनेककाल यावन्मूषकशब्दं न शुश्राव, तदोपयोगाभावात्तस्य बिडालस्याहारदाने मन्दादरो बभूव । ततोऽसावाहारविरहाद् दुर्बलो दधिकोऽ- वसन्नो बभूव । अतोऽह ब्रवीमि-निरपेक्षो न कर्तव्यः 'इत्यादि ।। ततो दमनककरटकौ सञ्जीवकसमीप गतौ । तत्र करटकस्तरुतले साटो- पमुपविष्ट । दमनक सञ्जीवकससीप गत्वाब्रवीत्- अरे वृषभ । एषोऽह राज्ञा पिङ्गलकेनारण्यरक्षार्थ नियुक्त सेनापतिः करटक समाज्ञापयति-सत्वरमागच्छ, न चेदस्मदरण्याहूरमपसर । अन्यथा ते विरुद्धं फल भविष्यति । न जाने क्रुद्धः स्वामी कि विधास्यति । ' तच्छत्वा सञ्जीवकश्चायात् । यतः- आज्ञाभङ्गो नरेन्द्राणां ब्राह्मणानामनादरः। पृथक्शय्या च नारीणामशस्त्रविहितो वधः॥ ८३ ।। ततो देशव्यवहारानभिज्ञ सञ्जीवक सभयमुपसृत्य साष्टाङ्गपातं करटक प्रणत- वान् । तथा चोक्तम्- मतिरेव बलाद्रीयसी यदभावात्करिणामियं दशा । इति घोषयतीव डिण्डिमः करिणो हस्तिपकाहतः वणन् ॥ ८४॥ अथ सञ्जीवक साशङ्कमाह- सेनापते । कि मया कतर्व्यम् १ तदभिवीय- ताम् । ' करटको ब्रूते-' वृषभ ! अत्र कानने तिष्ठसि । अस्मद्देवपादारविन्द प्रणम । ' सञ्जीवको ब्रूते- तदभयवाच मे यन्छ, गच्छामि ।' करटको ब्रूते- शृणु रे बलीवर्द । अलमनया शङ्कया । यत प्रतिवाचमदत्त कशवः शपमानाय न चेदिभूभुजे । अनु हुंकुरुते धनध्वनि न हि गोमायुरुतानि केसरी ॥ ८५ ॥ -- (६४) [हितोपदेशे- अन्यच्च- तृणानि नोन्मूलयति प्रभञ्जनो मृदूनि नीचैः प्रणतानि सर्वतः। समुच्छितानेव तरून् प्रबाधते महान्महत्येव करोति विक्रमम् ॥ ८६ ॥ ततस्तौ सजीवक कियहरे सस्थाप्य पिङ्गलकसमीप गतौ । ततो राज्ञा सादरमवलोकितौ प्रणम्योपविष्टौ । राजाह-' त्वया स दृष्टः १' दमनको ब्रूते- देव । कि तु यद्देवेन ज्ञात तत्तथा । महानेवासौ देवं द्रष्टुमिच्छति । तत् सजी- भूयोपविश्यताम्, शब्दमात्रादेव न भेतव्यम् । तथा चोक्तम्- शब्दमात्रान भेतव्यमज्ञात्वा शब्दकारणम् । शब्दहेतुं परिज्ञाय कुट्टिनी गौरवं गता ॥ ८७॥' राजाह--' कथमेतत् । ' दमनक कथनति-- कथा ४. अस्ति श्रीपर्वतमव्ये ब्रह्मपुराख्य नगरम् । तच्छिखर प्रदेशे घण्टाको नाम राक्षसः प्रतिवसतीति जनप्रवाद श्रूयते । एकदा घण्टामादाय पला- यमान कश्चिच्चोरो व्याघ्रण व्यापादित , तत्पाणिपतिता घण्टा वानरैः प्राप्ता । वानरास्ता घण्टामनुक्षणं वादयन्ति । ततो नगरजनै स चोरः खादितो दृष्ट', प्रतिक्षण घण्टारवश्च श्रूयते । अनन्तर घण्टाकण कुपितो मनुष्यान् खादति, घण्टा च वादयतीत्युक्त्वा सर्वे जना नगरात्पलायिता । तत करालनाम्न्या कुट्टिन्या विमृश्यानवसरोऽय घण्टावाद । तत्कि मर्कटा घण्टा वादयन्तीति स्वय विज्ञाय राजा विज्ञापित --' देव यदि कियद्धनोपक्षय क्रियते, तदाहमेन घण्टाकर्ण साधयामि । ' ततो राज्ञा तस्यै धन दत्तम् । कुट्टिन्या च मण्डल कृत्वा तत्र गणेशादिपूजागौरव दर्शयित्वा स्वय वानरप्रियफलान्यादाय वन प्रविश्य फलान्याकीर्णानि । ततो घण्टा परित्यज्य वानराः फलासक्ता बभूवुः । कुट्टिनी च घण्टा गृहीत्वा नगरमागता सर्वजनपूज्याभवत् । अतोऽहं ब्रवीमि--'शब्द- मावान भेतव्यम्' इत्यादि ॥ , " सुहृद्भेदः.] (६५) तत सजीवक आनीय दर्शन कारित.। पश्चात्तत्रैव परमप्रीत्या निवसति ॥ अथ कदाचित्तस्य सिहस्य भ्राता स्तब्धकर्णनामा सिह. समागत । तस्यातिर्थ्य कृत्वा समुपवेश्य पिङ्गलकस्तढाहाराय पशु हन्तु चलित । अत्रान्तरे संजीवको वदति--' देव । अद्य हतमृगाणा मासानि क ? राजाह दमनककरटको जानीत ।' सजीवको ब्रूते--' ज्ञायता किमस्ति नास्ति वा १' सिहो विमृश्याह- ' सजीवको ब्रूते-' कथमेतावन्मास ताभ्या खादितम् ?' राजाह--' खादित व्ययितमवधीरित च । प्रत्यहमेष क्रम ।' सजीवको ब्रूते- कथ श्रीमदेवपादानामगोचरेणेव क्रियते ? ' राजाह-मदीयागोचरेणैव क्रियते।' अथ सजीवको ब्रूते--' नैतदुचितम् । तथा चोक्तम्-- नानिवेद्य प्रकुर्वीत भर्तुः किञ्चिदपि स्वयम् । कार्यमापत्प्रतीकारादन्यत्र जगतीपतेः॥ ८८ ॥ 'नास्त्येव तत्। अन्यच्च- कमण्डलुपमोऽमात्यस्तनुत्यागो बहुग्रहः नृपते किंक्षणो मूखों दरिद्रः किंवराटकः ॥ ८९॥ स ह्यमात्यः सदा श्रेयान्काकिणीं यः प्रवर्धयेत् । कोशः कोशवतः प्राणाः प्राणाः प्राणा न भूपतेः॥९॥ किं चान्यैर्न कुलाचारैः सेव्यतामेति पूरुषः । धनहीनः स्वपत्न्यापि त्यज्यते किं पुनः परैः॥ ९१ ॥ एतच्च राज्ञ प्रधान दूषणम् । पश्य.. अतिव्ययोऽनवेक्षा च तथार्जनमधर्मतः। मोक्षणं दूरसंस्थानां कोशव्यसनमुच्यते ॥ ९२ ॥ यत क्षिप्रमायमनालोच्य व्ययमानः स्ववाञ्छया। परिक्षीयत एवासा धनी वैश्रवणोपमः॥९३ ॥ तदाकर्ण्य स्तब्धकर्णो ब्रूते-' शृणु भ्रात. ! चिराश्रितावेतौ दमनककरटको सन्धिविग्रहकार्याधिकारिणौ च कदाचिदर्थाधिकारे न नियोक्तव्यौ । अपर च नियोगप्रस्तावे यन्मया श्रुत तत्कथ्यते-- (६६) [हितोपदेशे- ब्राह्मणः क्षत्रियो बन्धुाधिकारे प्रशस्यते । ब्राह्मणः सिद्धमप्यर्थ कृच्छ्रेणापि न यच्छति ॥९४॥ नियुक्तः क्षत्रियो द्रव्ये खड्गं दर्शयते ध्रुवम् । सर्वस्वं प्रसते बन्धुराक्रम्य ज्ञातिभावतः ॥९५ ॥ अपराधेऽपि निःशको नियोगी चिरसेवकः । स स्वामिनमवज्ञाय चरेञ्च निरवग्रहः ॥ ९६॥ उपकर्ताधिकारस्थः स्वापराधं न मन्यते । उपकारं ध्वजीकृत्य सर्वमेवावलुम्पति ॥ ९७॥ उपांशु क्रीडितोऽमात्यः स्वयं राजायते यतः। अवज्ञा क्रियते तेन सदा परिचयाध्रुवम् ॥ ९८॥ अन्तर्दुष्टः क्षमायुक्तः सर्वानर्थकरः किल । शकुनिः शकटारश्च दृष्टान्तावत्र भूपते ॥९९ ॥ सदामात्यो न साध्यः स्यात्समृद्धः सर्व एव हि। सिद्धानामयमादेश ऋद्धिश्चित्तविकारिणी ॥ १००॥ प्राप्तार्थग्रहणं द्रव्यपरीवर्तोऽनुरोधनम् । उपेक्षा बुद्धिहीनत्वं भोगोऽमात्यस्य दूषणम् ॥ १०१ ॥ नियोगार्थग्रहोपायो राज्ञां नित्यपरीक्षणम् । प्रतिपत्तिप्रदानं च तथा कर्मविपर्ययः॥ १०२ ॥ निपीडिता वमन्त्युच्चैरन्तःसारं महीपते । दुष्टत्रणा इव प्रायो भवन्ति हि नियोगिनः॥ १०३ ।। मुहुनियोगिनो बोध्या वसुधारा महीपते । सकृतिक पीडितं स्नानवस्त्रं मुञ्चेद्रुतं पयः॥ १०४॥ एतत्सर्व यथावसर ज्ञात्वा व्यवहर्तव्यम् ।' सिहो ब्रूते-' अस्ति तावदेवम्, कि त्वेतौ सर्वथा न मम वचनकारिणौ ।' स्तब्वकर्णो ब्रूते-- एतत्सर्वमनु- चित सर्वथा । यत आज्ञाभङ्गकरान् राजा न क्षमेत्स्वसुतानपि । विशेषः को नु राज्ञश्च राज्ञश्चित्रगतस्य च ॥ १०५ ॥ - सुहृद्भदः.] (६७) स्तब्धस्य नश्यति यशो विषमस्य मैत्री नष्टेन्द्रियस्य कुलमर्थपरस्य धर्मः। विद्याफलं व्यसनिनः कृपणस्य सौख्यं राज्यं प्रमत्तसचिवस्य नराधिपस्य ॥ १०६ ॥ अपर च-- तस्करेभ्यो नियुक्तेभ्यः शत्रुभ्यो नृपवल्लभात् । नृपतिर्निजलोभाच्च प्रजा रक्षेत्पितेव हि ॥ १०७ ॥ भात. सर्वथास्मद्वचन क्रियताम् । व्यवहारोऽप्यस्माभिः कृत एव । अयं सजीवक सस्यभक्षकोऽर्थाधिकारे नियुज्यताम्।' एतद्वचनात्तथानुष्ठिते सति तदा- रभ्य पिङ्गलकसजीवकयोः सर्वबन्धुपरित्यागेन महता स्नेहेन कालोऽतिवर्तते । ततोऽनुजीविनामप्याहारदाने शैथिल्यदर्शनादमनककरटकावन्योन्य चिन्तयत । तदाह दमनक करटकम्-'मित्र ! कि कर्तव्यम् ? आत्मकृतोऽय दोषः, स्वयं कृतेऽपि दोषे परिदेवन यनुचितम् । तथा चोक्तम्- स्वर्णरेखामहं स्पृष्ट्वा बद्धात्मानं च दूतिका । आदित्सुश्च मणिं साधुः स्वदोषादुःखिता इमे ॥१०८॥' करटको ब्रूते-'कथमेतत् १' दमनक' कथयति-- कथा ५. अस्ति काञ्चनपुरनाम्नि नगरे वीरविक्रमो राजा । तस्य धर्माधिकारिणा कश्चिन्नापितो वध्यभूमि नीयमान कन्दर्यकेतुनाम्ना परिव्राजकेन साधुद्वितीयकेन नाय हन्तव्य इत्युक्त्वा वस्त्राञ्चले वृत | राजपुरुषा ऊचु किमिति नाय वध्य १ ' स आह- श्रूयताम् ।' 'स्वर्णरेखामह स्पृष्ट्वा ' इत्यादि पठति । त आहु कथमेतत् १ ' परिव्राजक कथयति-' अस्ति सिहलद्वीपे भूपतेर्जीमूत- केतो पुत्र कन्दर्पकेतुर्नाम । एकदा केलिकाननावस्थितेन मया पोतवणिङ्मुखा- च्छ्रुत यदत्र समुद्रमव्ये चतुर्दश्यामाविर्भूतकल्पतरुतले रत्नावलीकिरणकर्बुरपर्यके स्थिता सर्वालङ्कारभूषिता लक्ष्मीरिव वीणा वादयन्ती कन्या काचिदृश्यत इति । ततोऽहं पोतवणिजमादाय पोतमारुह्य तत्र गतः । अनन्तर तत्र गत्वा पर्यङ्केऽर्धमन्ना (६८) [हितोपदेशे- तथैव साऽवलोकिता। ततस्तल्लावण्यगुणाकृष्टेन मयापि तत्पश्चाज्झम्पो दत्त । तदनन्तर कनकपत्तन प्राय सुवर्णप्रासादे तथैव पय स्थिता विद्यावरी भिरभिनव- यौवनाभिरुपास्यमाना मयालोकिता । तयाप्यह दूरादेव दृष्ट्वा सखी प्रस्थाग्य सादर सभाषित । तत्सल्या च मया पृष्टया समाख्यातम्-' एषा कन्दर्प- केलिनाम्नो विद्याधरचक्रवर्तिन पुत्री रत्नमञ्जरी नाम प्रतिज्ञापिता विद्यते । यः कनकपत्तन स्त्रचक्षुषागत्य पश्यति स एव पितुर्गोचरोऽपि मा परिणेष्यतीति मनसः सकल्पः । तदेना गान्धर्वविवाहेन परिणयतु भवान् ।' अथ तत्र वृत्ते गान्धर्वविवाहे तया सह रममाणस्तत्राह तिष्ठामि । तत एकदा रहसि तयोक्तम्- 'स्वामिन् । स्वेच्छया सर्वमिदमुपभोक्तव्यम्, किन्तु एषा चित्र- गता स्वर्णरेखा नाम विद्यावरी न कदाचित्स्प्रष्टव्या।' पश्चादुपजातकौतुकेन माता स्वर्णरेखा स्वहस्तेन मया स्पृष्टा । तया चित्रगतया यह चरणपझेन ताडित आगत्य स्वराष्ट्र पतित । अथ दु खार्तोऽह परिवजित' पृथिवीं परिभ्राम्य- निमा नगरीमनुप्राप्त । अत्र चातिक्रान्ते दिवसे गोपगृहे सुप्त सन्नपश्यम् । प्रदोषसमये सुहृदा पालन कृत्वा स्वगेहमागतो गोप• स्वववू दूत्या सह किमपि मन्त्रयन्तीमपश्यत् । ततस्ता गोपी ताडयित्वा स्तम्भे वढा सुप्त । ततो- ऽर्धरात्रे एतस्य नापितस्य वधूती पुनस्ता गोपीमुपेतावदत्-' तव विरहान- लदग्धोऽसौ स्मरशरजर्जरितो मुमूर्षरिव वर्तते । तस्य तादृशीमवस्थामवलोक्य परिक्लिष्टमनास्त्वामनुवर्तितुमागता । तदहमत्रात्मान बद्ध्वा तिष्ठामि, त्व तत्र गन्वा त सन्तोष्य सत्वरमागमिष्यसि । तथानुष्ठिते सति स गोप. प्रबुद्धोऽवदतु, 'इदानी त्व जारान्तिक कय न यासि ? ततो यदासौ न किञ्चिदपि बृते तदा क्रुद्धो गोप ' दर्पान्मम वचसि प्रत्युत्तरमपि न ददासि । तेन कत्रिकामादायास्या नासिका छिन्ना । तथा कृत्वा पुन: सुप्तो गोपो निद्रा- मुपगत । अथागत्य गोपी दूतीमपृच्छत्-' का वार्ता ? ' दूत्योक्तम्- ' पश्य माम् , मुखमेव वार्ता कथयति ।' अनन्तर सा गोपी तथा कृत्वात्मान बद्ध्वा स्थिता । इय च दूती ता छिन्ननासिका गृहीत्वा स्वगृह प्रविश्य स्थिता । ततः, प्रातरेवानेन नापितेन क्षुरभाण्ड़ याचिता सती सा तस्मै क्षुरभाण्डमदत्त्वा क्षुरमेक इत्युक्त्वा कोपेन सुहृद्भेद: ] (६९) १ प्रादात् । तत. समुपजातकोपोऽय नापितस्तं क्षुरं दूरादेव गृहे क्षिप्तवान् । अथ कृतार्तरावेय विनाऽपरावेन मे नासिकानेन न्छिन्नेत्युक्त्वा धर्माधिकारिसमीपमे- नमानीतवती । सा च गोपी तेन गोपेन पुन पृष्टोवाच 'अरे पाप । को मा महासती विरूपयितु समर्थ मम व्यवहारमकल्मषमष्टौ लोकपाला एव जानन्ति । यत-- आदित्यचन्द्रावनिलोऽनलश्च द्योभूमिरापो हृदयं यमश्च । अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम् ॥ १०९॥ यद्यह परमसती स्याम् , त्वा विहायान्य न जाने, पुरुषान्तर स्वप्नेऽपि नहि भजे, तेन धर्मेण छिन्नापि मम नासिकाऽन्छिन्नास्तु । मया त्व भम्म कर्तुं शक्यसे, कि तु स्वामी त्वम्, लोकभयादुपेक्षे, पश्य मन्मुखम् । ततो यावदमौ गोपो दीप प्रज्वाल्य तन्मुखमबलोकते तावदुन्नस मुखमवलोक्य तचरणयो पतित - 'धन्यो- ऽह यस्येदृशी भार्या परमसावी' इति । योऽयमास्ते साधुरेतद्वृत्तान्तमपि कथ- यामि । अय स्वगृहान्निर्गतो द्वादशवर्षेमलयोपकण्ठादिमा नगरीमनुप्राप्त । अत्र वेश्यागृहे सुप्त । तस्या. कुट्टिन्या गृहद्वारि स्थापितकाष्ठघटितवेतालस्य मूर्धनि रत्नमकमुत्कृष्टमास्ते । तत्र लुब्वेनानेन साधुना रात्रावुत्थाय तत्र हस्तो दत्त । तदा तेन वेतालेन सूत्रसचारितबाहुभ्या पीडित सन्नार्तनादमय चकार । पश्चा- दुत्थाय कुट्टिन्योक्तम्-' पुत्र ' मलयोपकण्ठादागतोऽसि, तत्सर्वरत्नानि प्रयच्छास्मै, नो चेदनेन न त्यक्तव्योऽसि । इत्थमेवाय चेटक.।' ततोऽनेन सर्वरत्नानि सम- पितानि, यथायमपहृतसर्वस्वोऽस्मासु समागत्य मिलित ।' एतत्सर्व श्रुत्वा राज- पुरुषाये धर्माधिकारी प्रवर्तित । अनन्तर तेन नापितवधूमुण्डिता, गोपी च शासिता, कुट्टिनी दण्डिता, साधोधनानि च प्रदत्तानि । अतोऽह ब्रवीमि- 'स्वर्णरेखामहं स्पृष्ट्वा ' इत्यादि । अथ स्वय कृतोऽय दोष । अत्र विलपन नोचितम् । (क्षण विमृश्य) मित्र । यथानयो सौहार्द मया कारित तथा मित्रभेदोऽपि मया कार्य । यत.
(७०) [हितोपदेशे- अतथ्यान्यपि तथ्यानि दर्शयन्त्यतिपेशलाः। समे निम्नोन्नतानीव चित्रकर्मविदो जनाः॥११० ॥ अपर च- उत्पन्नेष्वपि कार्येषु मतिर्यस्य न हीयते । स निस्तरति दुर्गाणि गोपी जारद्वयं यथा ॥ १११॥ करटकः पृच्छति-' कथमेतत् १' दमनक' कथयति- कथा ६. अस्ति द्वारवत्या पुर्यां कस्यचिद्गोपस्य वधूर्बन्धकी । सा ग्रामस्य दण्डना- यकेन तत्पुत्रेण च सम रमते । तथा चोक्तम्- नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः। नान्तकः सर्वभूतानां न पुंसां वामलोचनाः ॥११२॥ अन्यच्च- न दानेन न मानेन नार्जवेन न सेवया । न शस्त्रेण न शास्त्रेण सर्वथा विषमाः स्त्रियः॥११३ ॥ यत गुणाश्रयं कीर्तियुतं च कान्तं पति रतिज्ञं सधनं युवानम् । विहाय शीघ्रं वनिता व्रजन्ति नरान्तरं शीलगुणादिहीनम् ॥ ११४ ॥ अपर च-- न तादृशी प्रीतिमुपैति नारी विचित्रशय्यां शयितापि कामम् यथा हि दूर्वादिविकीर्णभूमौ प्रयाति सौख्यं परकान्तसङ्गात् ॥ ११५ ॥ अथ कदाचित्सा दण्डनायकपुत्रेण सह रममाणा तिष्ठति । अथ दण्डनाय- कोऽपि रन्तु तत्रागत । तमायान्त दृष्ट्वा तत्पुत्र कुसूले नि क्षिप्य दण्डनायकेन सुहृद्भेदः.] (७१) सह तथैव क्रीडति । अनन्तर तस्या भर्ता गोपो गोष्ठात्समागतः । तमालोक्य गोप्योक्तम्-' दण्डनायक । त्व लगुड गृहीत्वा कोप दर्शयन्सत्वरं गच्छ ।' तथा तेनानुष्ठिते गोपेन गृहमागत्य भार्या पृष्टा 'केन कार्येण दण्डनायकः समागत्यात्र स्थित १ ' सा ब्रूते- अय केनापि कार्येण पुत्रस्योपरि क्रुद्ध., स च पलायमा- नोऽग्यत्रागत्य प्रविष्टो मया कुसूले नि क्षिप्य रक्षित , तत्पित्रा चान्विष्यात्र न अत एवाय दण्डनायकः क्रुद्ध एव गच्छति । तत सा तत्पुत्र कुमूलाबहि- ष्कृत्य दर्शितवती । तथा चोक्तम्- आहारो द्विगुणः स्त्रीणां बुद्धिस्तासां चतुर्गुणा। षड्गुणो व्यवसायश्च कामश्चाष्टगुणः स्मृतः॥ ११६ ॥ अतोऽह ब्रवीमि-"उत्पन्नेष्वपि कार्येषु " इत्यादि ॥ करटको ब्रूते-'अस्त्वेवम्, कि त्वनयोर्महानन्योन्यनिसर्गोपजातस्नेहः कथं भेदयितुं शक्यः १ ' दमनको ब्रूते- उपाय क्रियताम् ।' तथा चोक्तम्- उपायेन हि यच्छक्यं न तच्छक्यं पराक्रमैः। काक्या कनकसूत्रेण कृष्णसर्पो निपातितः ॥ ११७ ॥ करटक पृच्छति-' कथमेतत् ११ दमनक. कथयति- कथा ७. - कस्मिश्चित्तरौ वायसदंपती निवसतः । तयोश्चापत्यानि तत्कोटरावस्थि- तेन कृष्णसर्पेण खादितानि । तत पुनर्गर्भवती वायसी वायसमाह नाथ! त्यज्यतामय तरु । अत्रावस्थितकृष्णसर्पणावयोः सततिः कदाचिदपि न भवि- ष्यति । यत:- दुष्टा भार्या शठं मित्रं भृत्याश्चोत्तरदायकाः । ससर्पे च गृहे वासो मृत्युरेव न संशयः ॥ ११८॥ वायसो ब्रूते-'प्रिये । न भेतव्यम् । वारवार मयैतस्य महापराधः सोढः । इदानीं पुनर्न क्षन्तव्य ।' वायस्याह- कथमेतेन बलवता सार्घ भवान्विग्रहीतुं समर्थः " वायसो ब्रूते-'अलमनया शङ्कया । यत - - - (७२) [हितोपदेशे- बुद्धिर्यस्य बलं तस्य निर्बुद्धेस्तु कुतो बलम् । पश्य सिंहो मदोन्मत्तः शशकेन निपातितः ॥ ११९॥ वायसी विहस्याह-'कथमेतत् १" । वायस कथयति- कथा ८. अस्ति कन्दरनाम्नि पर्वते दुर्दान्तो नाम सिंहः। स च सर्वदा पशूना वधं कुर्वन्नास्ते । तत सर्वै. पशुभिमिलित्वा स सिहो विज्ञप्त -'मृगेन्द्र । किमर्थ- मेकदा बहुपशुधात क्रियते १ यदि प्रसादो भवति तदा वयमेव भवदाहाराय प्रत्यहमेकैक पशुमुपढौकयाम.।' तत सिहेनोक्तम्-' यद्येतदभिमत भवता तर्हि भवतु तत् ।' तत.प्रभृत्येकैक पशुमुपकल्पित भक्षयन्नास्ते । अथ कदाचिद्वृद्ध. शशकस्य वार समायात । सोऽचिन्तयत् - त्रासहेतोर्विनीतिस्तु क्रियते जीविताशया। पञ्चत्वं चेद्गमिष्यामि किं सिंहातुनयेन मे ॥ १२० ॥ तन्मन्दमन्द गच्छामि ।' तत सिहोपि क्षुवापीडित कोपात्तमुवाच-'कुतस्त्व विलम्व्य समागतोसि " शशकोऽब्रवीत- देव । नाहमपरावी । आगच्छन्पथि सिहान्तरेण बलाद्धृत , तस्याग्रे पुनरागमनाय शपथ कृत्वा स्वामिन निवेदयि- तुमत्रागतोऽस्मि ।' सिह सकोपमाह-'सत्वर गत्वा दुरात्मान दर्शय, क स दुरान्मा तिष्ठति १ ' तत शशकस्त गृहीत्वा गभीरकूप दर्शयितु गत । गत्य स्वयमेव पश्यतु स्वामी' इत्युक्त्वा तस्मिन्कूपजले तस्य सिहस्यैव प्रतिबिम्ब दर्शितवान् । ततोऽसौ क्रोधाध्मातो दोत्तम्योपर्यात्मान नि क्षिप्य पञ्चत्व गतः । अतोऽह ब्रवीमि--'बुद्धिर्यस्य बलम् ' इत्यादि ॥ वायस्याह-' श्रुत मया सर्वम्, संप्रति यथा कर्तव्य तद्रूहि ।' वायसो. ऽवदत् - - प्रिये । अनासन्ने सरसि राजपुत्र प्रत्यहमागत्य स्नाति । स्नानसमये तदङ्गाढवतारितं तीर्थशिलानिहित कनकसूत्र चन्वा विवृत्यानीयास्मिन्कोटरे धारयिष्यसि ।' अथ कदाचित्कनकसूत्र दृषदि सस्थाप्य स्नातुं जल प्रविष्टे राजपुत्रे वायस्या तदनुष्ठितम् । अथ कनकसूत्रानुसरणप्रवृत्तै राजपुरुषस्तत्र तरु- कोटरे निरूप्यमाण कृष्णसर्पो दृष्टो व्यापादितश्च । अतोऽहं ब्रवीमि-उपायेन हि यच्छक्यम्' इत्यादि ॥ . तत्रा-
सुहृद्भेद:.]
(७३)
-
करटको ब्रूते- यद्येव तर्हि गच्छ । शिवास्ते सन्तु पन्थान । ' ततो दमनकः
पिङ्गलकसमीप गत्वा प्रणम्योवाच- देव । आत्ययिक किमपि महाभयकारि
कार्य मन्यमान समागतोऽस्मि । यत
आपद्युन्मार्गगमने कार्यकालात्ययेषु च ।
कल्याणवचनं ब्रूयादपृष्टोऽपि हितो नरः॥१२१ ॥
अन्यच-
भोगस्य भाजनं राजा मन्त्री कार्यस्य भाजनम् ।
राजकार्यपरिध्वंसी मन्त्री दोषेण लिप्यते ॥ १२२ ॥
तथा हि पश्य । अमात्यानामेष क्रम:-
वरं प्राणपरित्यागः शिरसो वापि कर्तनम् ।
न तु स्वामिपदावाप्तिपातकेच्छोरुपेक्षणम् ॥ १२३ ॥
पिङ्गलक सादरमाह अथ भवान्कि वतुमिच्छति १ ' दमनको ब्रूते-'देव!
सजीवकस्तवोपर्यसदृशव्यवहारीव लक्ष्यते । तथा चास्मत्सन्निवाने श्रीमद्देवपादानां
शक्तित्रयनिन्दा कृत्वा राज्यमेवाभिलषति । एतच्छ्रुत्वा पिगलक सभय साश्चय
मत्वा तूष्णीं स्थित । दमनक. पुनराह-'देव । सर्वामात्यपरित्याग कृत्वक एवायं
यत्त्वया सर्वाधिकारी कृत स एव महान् दोष । यत -
अत्युच्छ्रिते मन्त्रिणि पार्थिवे च
विष्टभ्य पादावुपतिष्ठते श्रीः।
सा स्त्रीस्वभावादसहाभरस्य
तयोर्द्वयोरेकतरं जहाति ॥ १२४ ॥
'अन्यच्च-
एकं भूमिपतिः करोति सचिवं राज्ये प्रमाणं यदा
तं मोहाच्छ्यते मदः स च मदालस्येन निर्भिद्यते ।
निर्भिन्नस्य पदं करोति हृदये तस्य स्वतन्त्रस्पृहा
स्वातन्त्र्यस्पृहया ततःस नृपतेःप्राणान्तिकं द्रुह्यति॥२५॥
(७४) [हितोपदेशे- अन्यच्च- - विषदिग्धस्य भक्तस्य दन्तस्य चलितस्य च । अमात्यस्य च दुष्टस्य मूलादुद्धरणं सुखम् ॥ १२६॥ किच- यः कुर्यात्सचिवायत्तां प्रियं तद्व्यसने सति । सोऽन्धवजगतीपालः सीदेत्संचारकैर्विना ॥ १२७ ॥ सर्वकार्येषु स्वेच्छात प्रवर्तते । तदत्र प्रमाण स्वामी । एतच्चाह जानामि । न सोस्ति पुरुषो लोके यो न कामयते श्रियम् । परस्य युवतिं रम्यां साकाझं वीक्षते न कः ॥ १२८॥ सिहो विमृश्याह- भद्र! यद्यायेव तथापि सजीवकेन सह मम महान् स्नेह । पश्य- कुर्वन्नपि व्यलीकानि यः प्रियः प्रिय एव सः । अशेषदोषदुष्टोऽपि कायः कस्य न वल्लभः ॥ १२९ ॥ अन्यच्च- अप्रियाण्यपि कुर्वाणो यः प्रियः प्रिय एव सः। दग्धमन्दिरसारेऽपि कस्य वहावनादरः॥ १३० ॥ दमनकः पुनरेवाह- देव । स एवातिदोष । यतः- यस्मिन्नेवाधिकं चक्षुरारोहयति पार्थिवः । सुतेऽमात्येऽप्युदासीनेस लक्ष्म्याश्रीयते जनः ॥१३॥ - शृणु देव । अप्रियस्यापि पथ्यस्य परिणामः सुखावहः । वक्ता श्रोता च यत्रास्ते रमन्ते तत्र सम्पदः ॥ १३२ ॥ त्वया च मूलभृत्यानपास्यायमागन्तुक. पुरस्कृत । एतच्चानुचित कृतम्। यत- मूलभृत्यान्परित्यज्य नागन्तून्प्रति मानयेत् । नातः परतरो दोषो राज्यभेदकरो यतः॥ १३३ ॥ सिहो ब्रूते-'महदाश्चर्यम्, मया यदभयवाच दत्वानीत सवर्धितश्च, तत्कथ मह्य द्रुह्यति ? ' दमनको ब्रूते- देव । ,
सुहृद्भेदः. ]
दुर्जनो नार्जवं याति सेव्यमानोऽपि नित्यशः।
स्वेदनाभ्यञ्जनोपायैः श्वपुच्छमिव नामितम् ॥ १३४ ॥
अपर च--
स्वेदितो मर्दितश्चैव रज्जुभिः परिवेष्टितः।
मुक्तो द्वादशभिर्वर्षेः श्वपुच्छः प्रकृतिं गतः ॥ १३५ ।।
अन्यच्च-
वर्धनं वाथ सम्मानं खलानां प्रीतये कुतः।
फलन्त्यमृतसेकेपि न पथ्यानि विषद्रुमाः ॥ १३६ ।।
अतोऽहं ब्रवीमि-
अपृष्टोऽपि हितं ब्रूयाद्यस्य नेच्छेत्पराभवम् ।
एष एव सतां धर्मो विपरीतमतोऽन्यथा ॥ १३७ ।।
तथा चोक्तम्-
स स्निग्धोऽकुशलान्निवारयति यस्तत्कर्म यन्निर्मलं
सा स्त्री यातुविधायिनी स मतिमान्यः सद्भिरभ्यर्च्यते ।
सा श्रीर्या न मदं करोति स सुखो यस्तृष्णया मुच्यते
तन्मित्रं यदकृत्रिमं स पुरुषो यः खिद्यते नेन्द्रियैः॥१८३॥
यदि सजीवकव्यसनादितो विज्ञापितोऽपि स्वामी न निवर्तते तदा भृत्यस्य
न दोषः । तथा च-
नृपः कामासक्तो गणयति न कार्य न च हितं
यथेष्टं स्वच्छन्दः प्रविचरति मत्तो गज इव ।
ततो मानध्मातः स पतति यदा शोकगहने
तदा भृत्ये दोषान्क्षिपति न निजं वेत्यविनयम्॥१३९॥
पिगलक -(स्वगतम् )
न परस्यापराधेन परेषां दण्डमाचरेत् ।
आत्मनावगतं कृत्वा बनीयात्पूजयेञ्च वा ॥ १४०॥
तथा चोक्तम्-
गुणदोषावनिश्चित्य विधिर्न ग्रहनिग्रहे ।
स्वनाशाय यथा न्यस्तो दात्सर्पमुखे करः॥ १४१॥
(७६)
[हितोपदेशे-
-
प्रकाशं ब्रूते-'तदा संजीवक कि प्रत्यादिश्यताम् १' दमनक ससश्रम-
माह-'देव ! मा मैवम् । एतावता मन्त्रभेदो जायते । तथा ह्युक्तम्-
मन्त्रबीजमिदं गुप्तं रक्षणीयं यथा तथा ।
मनागपि न भिद्येत तद्भिनं न प्ररोहति ॥ १४२ ॥
किच-
,
आदेयस्य प्रदेयस्य कर्तव्यस्य च कर्मणः ।
क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम् ॥ १४३ ।।
तदवश्य समारब्ध महता प्रयत्नेन सपादनीयम् । किच-
मन्त्रो योध इवाधीरः सर्वाङ्गैः संवृतैरपि ।
चिरं न सहते स्थातुं परेभ्यो भेदशङ्कया ॥ १४४ ॥
यद्यसौ दृष्टदोषोऽपि दोषान्निवर्त्य सधातव्यस्तदतीवानुचितम् । यत
सकृष्टिं तु यो मित्रं पुनः सन्धातुमिच्छति ।
स मृत्युमेव गृह्णाति गर्भमश्वतरी यथा १४५ ॥
सिहो ब्रूते-'ज्ञायता तावत्किमस्माकमसौ कर्तुं समर्थ. । ' दमनक आह-'देव ।
अगाङ्गिभावमज्ञात्वा कथं सामर्थ्य निर्णयः ।
पश्य टिटिभमात्रेण समुद्रो व्याकुलीकृतः ॥ १४६॥'
सिह पृच्छति-कथमेतत् ? दमनक कथयति-
कथा ९.
दक्षिणसमुद्रतीरे टिट्टिभदंपती निवसत । तत्र चासन्नप्रसवा टिटिभी
भर्ताग्माह-'नाथ । प्रसवयोग्यस्थान निभृतमनुसन्वीयताम् । ' टिट्टिभोऽवदत्-
नन्विदमेव स्थान प्रसूतियोग्यम् । सा ब्रूते-' समुद्रवेलया व्याप्यते स्थानमेतत् ।'
टिट्टिभोऽवदत् ' किमह निर्बल ? यन्मम गृहावस्थितानि अण्डानि समुद्रेणापह-
तव्यानि।' टिटिभी विहस्याह-'स्वामिन् । त्वया समुद्रस्य च महदन्तरम् । अथवा-
पराभवं परिच्छेत्तुं योग्यायोग्यं च वेत्ति यः।
अस्तीह यस्य विज्ञानं कृच्छ्रेणापि न सीदति॥१४७ ॥
अपि च-
अनुचितकार्यारम्भः स्वजनविरोधो बलीयसा स्पर्धा ।
प्रमदाजनविश्वासो मृत्योर्द्वाराणि चत्वारि ॥ १४८ ॥
मुहद्भेदः.] (७७) तत कृच्छ्रेण स्वामिवचनात्सा तत्रैव प्रसूता । एतत्सर्व श्रुत्वा समुद्रेणापि च्छक्तिज्ञानार्थ तदण्डान्यपहृतानि । ततष्टिटिभी शोकार्ता भर्तारमाह ‘नाथ ! ष्टमापतितम् । तान्यण्डानि मे नष्टानि ।' टिट्टिभोवऽदत् प्रिये ! मा भैषीः ।' त्युक्त्वा पक्षिणा मेलक कृत्वा पक्षिस्वामिनो गरुडस्य समीपं गत । तत्र गत्वा कलवृत्तान्त टिट्टिभेन भगवतो गरुडस्य पुरतो निवेदितम्-' देव | समुद्रेणार्ह वगृहावस्थितो विनापरावेनैव निगृहीत ।' ततस्तद्वचनमाकर्ण्य गरुत्मता प्रभुर्भ- वान्नारायण सृष्टिस्थितिप्रलयहेतुर्विज्ञप्त । स समुद्रमण्डदानायादिदेश । ततो गवदाज्ञा मौलौ निवाय समुद्रेण तान्यण्डानि टिट्टिभाय समर्पितानि । अतोऽह वीमि · अङ्गाङ्गिभावमज्ञात्वा' इत्यादि । राजाह-' कथमसौ ज्ञातव्यो द्रोहबुद्धिरिति १' दमनको ब्रूत- यदासौ दर्य शृङ्गाग्रप्रहरणाभिमुखश्चकितमिवागच्छति तदा ज्ञास्यति स्वामी' एवमुक्त्वा जीवकसमीप गत । तत्र गतश्च मन्दमन्दमुपसर्पन्विस्मितमिवात्मानमदर्शयत् । जीवकेन सादरमुक्तम्-' भद्र | कुशल ते ।' दमनको ब्रूते-' अनुजीविना त कुशलम् १ यत संपत्तयः पराधीनाः सदा चित्तमनिर्वृतम् । स्वजीवितेऽप्यविश्वासस्तेषां ये राजसेवकाः॥ १४९ ॥ MA अन्यच्च- कोऽर्थान्प्राप्य न गर्वितो विषयिणः कस्यापदोऽस्तं गताः श्रीभिः कस्य न खण्डितं भुवि मनः को वास्ति राज्ञां प्रियः। क कालस्य भुजान्तरं न च गतः कोऽर्थी गतो गौरवं को वा दुर्जनवागुरासु पतितः क्षेमेण यातः पुमान् ॥ १५०॥' सजीवकेनोक्तम्-' सखे । ब्रूहि किमेतत् ? दमनक आह-'कि ब्रवीमि न्दिभाग्य मज्जनपि पयोराशौ लब्ध्वा सावलम्बनम् । न मुश्चति न चादत्ते तथा मुग्धोऽस्मि संप्रति ॥ १५१ ॥ पश्य- यत' एकत्र राजविश्वासो नश्यत्यन्यत्र बान्धवः। किं करोमि क गच्छामि पतितो दुःखसागरे ॥ १५२ - (७८) [हितोपदेशे- इत्युक्त्वा दीर्व नि श्वस्योपविष्ट । सजीवको ब्रूते- मित्र ! तथापि सविस्तर मनोगतमुच्यताम् । ' दमनक सुनिभृतमाह-' यद्यपि राजविश्वासो न कथनी- यस्तथापि भवानस्मदीयप्रत्ययादागत । मया परलोकार्थिनावश्य तव हितमाख्ये- यम् । शृणु, अय स्वामी तवोपरि विकृतबुद्धी रहस्युक्तवान्-'सजीवकमेव हत्वा स्वपरिवार तर्पयामि ।' एतच्छ्रुत्वा सजीवक पर विषादमगमत् । दमनक पुन- राह- अल विषादेन प्राप्तकाल कार्यमनुष्ठीयताम् । ' सजीवक क्षण विमृश्याह सुष्टु खल्विदमुच्यते । यत दुर्जनगम्या नार्यः प्रायेणापात्रभृद्भवति राजा । कृपणानुसारि च धनं देवो गिरिजलधिवर्षी च ॥५३॥ नीचमाश्रयते लक्ष्मीरकुलीनं सरस्वती । अपात्रं भजते नारी गिरौ वर्षति वासवः॥ १५४ ॥ ( स्वगतम् ) किमिदमेतावद्विचेष्टितं न वा इति एतद्व्यवहारात् निर्णेतुं न शक्यते । यत- कश्चिदाश्रयसौन्दर्याद्धत्ते शोभामसज्जनः। प्रमदालोचनन्यस्तं मलीमसमिवाञ्जनम् ॥ १५५ ॥ तत्र विचिन्त्योक्तम्, कष्ट किमिदमापतितम् । यत आराध्यमानो नृपतिः प्रयत्ना- न तोषमायाति किमत्र चित्रम् । अयं त्वपूर्वप्रतिमाविशेषो यः सेव्यमानो रिपुतामुपैति ॥ १५६ ॥ तदयमशक्यार्थ प्रमेय । यत.-- निमित्तमुद्दिश्य हि यः प्रकुप्यति ध्रुवं स तस्यापगमे प्रसीदति। अकारणद्वेषिमनस्तु यस्य वै कथं जनस्तं परितोषयिष्यति५७ कि मयापकृत राज्ञ १ अथ वा निर्निमित्तापकारिणश्च भवन्ति राजान. । दमनको ब्रूते-' एवमेतत् , शृणु-- - सुहृद्भेद:.] (७९) विज्ञैः स्निग्धैरुपकृतमपि द्वेष्यतामेति कश्चित् साक्षादन्यैरपकृतमपि प्रीतिमेवोपयाति । चित्रंचित्रं किमथ चरितं नकभावाश्रयाणां सेवाधर्मः परमगहनो योगिनामप्यगम्यः॥ १५८ ॥ अन्यच्च- - कृतशतमसत्सु नष्टं सुभाषितशतं च नष्टमबुधेषु । वचनशतमवचनकरे बुद्धिशतमचेतने नष्टम् ॥ १५९ ॥ कि च-- चन्दनतरुषु भुजङ्गा जलेषु कमलानि तत्र च पाहाः। गुणघातिनश्च भोगे खला न च सुखान्याविनानि ॥१६॥ अन्यच्च- - मूलं भुजङ्गैः कुसुमानि भृङ्गैः शाखाः प्लवङ्गैः शिखराणि भिल्लैः। नास्त्येव तञ्चन्दनपादपस्य यन्नाश्रितं दुष्टतरैश्च हिस्रः॥ १६१ ॥ अय सावत्स्वामी वाचि मधुरो विषहृदयो ज्ञात । यत दूरादुच्छ्रितपाणिराईनयनः प्रोत्सारितार्धासनो गाढालिङ्गनतत्परः प्रियकथाप्रश्श्रेषु दत्तादरः। अन्तर्भूतविषो बहिर्मधुमयश्चातीव मायापटुः को नामायमपूर्वनाटकविधिर्यः शिक्षितो दुर्जनैः ॥१६२ ॥ तथा हि- पोतो दुस्तरवारिराशितरणे दीपोऽन्धकारागमे निर्वाते व्यजनं मदान्धकरिणां दोपशान्त्यै सृणिः । इत्थं तदू भुवि नास्ति यस्य विधिना नोपायचिन्ता कृता मन्ये दुर्जनचित्तवृत्तिहरणे धातापि भग्नोद्यमः ॥ १६३ ॥' सजीवक (स्वगतम् ) 'कष्ट भो । कथमह सस्यभक्षक सिहेन निपातयि- - तव्यः । यतः- r (८०) [हितोपदेशे- ययोरेव समं वित्तं ययोरेव समं बलम् । तयोविवादो मन्तव्यो नोत्तमाधमयो क्वचित् ॥१६४ ॥ ( पुनर्विचिन्त्य ) केनाय राजा ममोपरि विकारितः, न जाने, भेदमुपग- ताद्राज्ञ सदा भेतव्यम् । यत - मन्त्रिणा पृथिवीपालचित्तं विघटितं क्वचित् । वलयं स्फटिकस्येव को हि सन्धातुमीश्वरः ॥ १६५ ।। - अन्यच्च- वजं च राजतेजश्च द्वयमेवातिभीषणम् । एकमेकत्र पतितं पतत्यन्यत्समन्ततः॥ १६६ ॥ ततः सम्रामे मृत्युरेव वरम् । इदानीं तदाज्ञानुवर्तनमयुक्तम् । यत - मृतःप्रामोति वा स्वर्ग शत्रु हत्वा सुखानि वा। उभावपि हि शूराणां गुणावेतौ सुदुर्लभौ ॥ १६७ ॥ युद्धकालश्चायम्- यत्र युद्धे ध्रुवं मृत्युयुद्धे जीवितसंशयः । तमेव कालं युद्धस्य प्रवदन्ति मनीषिणः॥ १६८ ॥ अयुद्धे हि यदा पश्येन्न किश्चिद्धितमात्मनः। युध्यमानस्तदा प्राज्ञो म्रियते रिपुणा सह ॥ १६९ ॥ जये च लभते लक्ष्मी मृतेनापि सुराङ्गनाम् । क्षणविध्वंसिनः कायाः का चिन्ता मरणे रणे ॥१७०॥ एतचिन्तयित्वा सञ्जीवक आह-'भो मित्र ! कथमसौ मा जिघासुर्ज्ञातव्य ?" दमनको ब्रूते- यदासौ पिङ्गलक समुन्नतलागूल उन्नतचरणो विवृतास्यस्त्वा पश्यति तदा त्वमेव स्वविक्रम दर्शयिष्यमि । यत बलवानपि निस्तेजाः कस्य नाभिभवास्पदम् । निःशहूं दीयते लोकैः पश्य भस्मचये पदम् ॥१७१ ।। किन्तु सर्वमेतत्सुगुप्तमनुष्ठातव्यम् , नो चेन्न त्वं नाहम् ' इत्युक्त्वा दमनका करटकसमीप गत । करटकेनोक्तम्-' कि निष्पन्नम् १" दमनकेनोक्तम्- निष्प- नोऽसावन्योन्यभेद ।' करटको ब्रूते-- कोत्र सन्देहः १ । यतः- + सुहृद्भेदः.] (८१) बन्धुः को नाम दुष्टानां कुप्यते को न याचितः। को न दृप्यति वित्तेन कुकृत्ये को न पण्डितः॥१७२॥ अन्यच्च- दुर्वृत्तः क्रियते धूतैः श्रीमानात्मविवृद्धये । किं नाम खलसंसर्गः कुरुते नाश्रयाशवत् ॥ १७३ ॥' ततो दमनक पिङ्गलकसमीप गत्वा ' देव ! समागतोऽसौ पापाशय । तत. सज्जीभूय स्थीयताम् ' इत्युक्त्वा पूर्वोक्ताकार कारयामास । सञ्जीवकोऽप्या- गत्य तथाविध विकृताकार सिह दृष्ट्वा स्वानुरूप विक्रम चकार । ततस्तयोयुद्धे सञ्जीवक. सिहेन व्यापादित । अथ सञ्जीवक सेवक पिङ्गलको व्यापाद्य विश्रान्तः सशोक इव तिष्ठति । ब्रते च- कि मया दारुण कर्म कृतम् १ यत:- परैः संभुज्यते राज्यं स्वयं पापस्य भाजनम् । धर्मातिक्रमतो राजा सिंहो हस्तिवधादिव ॥ १७४ ।। अपर च- भूम्येकदेशस्य गुणान्वितस्य भृत्यस्य वा बुद्धिमतः प्रणाशः। भृत्यप्रणाशो मरणं नृपाणां नष्टापि भूमिः सुलभा न भृत्याः ॥ १७५॥' दमनको ब्रूते-- स्वामिन् । कोऽय नूतनो न्याय १ यदराति हत्वा सन्तापः क्रियते । तथा चोक्तम्- पिता वा यदि वा भ्राता पुत्रो वा यदि वा सुहृत् । प्राणच्छेदकरा राज्ञा हन्तव्या भूतिमिच्छता ॥ १७६ ॥ अपि च- धर्मार्थकामतत्त्वज्ञो नैकान्तकरुणो भवेत् । न हि हस्तस्थमप्यनं क्षमावान्भक्षितुं क्षमः ॥ १७७॥ किञ्च- क्षमा शत्रौ च मित्रे च यतीनामेव भूषणम् । अपराधिषु सत्वेषु नृपाणां सैव दूषणम् ॥ १७८ ॥ ६ (८२) [हितोपदेशे- अपर च- राज्यलोभादहद्वारादिच्छातः स्वामिनः पदम् । प्रायश्चित्तं तु तस्यैकं जीवोत्सर्गो न चापरम् ॥ १७९।। अन्यच्च- राजा घृणी ब्राह्मणः सर्वभक्षः स्त्री चावशा दुष्प्रकृतिः सहायः। प्रेष्यः प्रतीपोऽधिकृतः प्रमादी त्याज्या इमे यश्च कृतं न वेत्ति ॥१८० ॥ विशेषतश्च- सत्यानृता च परुषा प्रियवादिनी च हिंस्रा दयालुरपि चार्थपरा वदान्या । नित्यव्यया प्रचुररत्नधनागमा च वाराङ्गनेव नृपनीतिरनेकरूपा ॥ १८१॥' इति कपटवचनेन दमनकेन सन्तोषित पिङ्गलक स्वा प्रकृतिमापन्न सिहा- सने समुपविष्ट । दमनक प्रहृष्टमना भूत्वा राजानमाहा' विजयता महाराज. । शुभमस्तु सर्वजगताम् ' इत्युक्त्वा यथासुखमवस्थित. ॥ विष्णुशर्मोवाच- सुहृद्वेद श्रुतस्तावद्भवद्भिः । राजपुत्रा ऊचु प्रसादाच्छ्रुत. । सुखिनो वयम् । ' विष्णुशर्माब्रवीत्--' अपरमपीदमस्तु- सुहद्भेदस्तावद्भवतु भवतां शत्रुनिलये खलः कालाकृष्टः प्रलयमुपसर्पत्वहरहः। जनो नित्यं भूयात्सकलसुखसंपत्तिवसातिः कथारम्भे रम्ये सततमिह बालोऽपि रमताम् ॥ १८२॥ इति विष्णुशर्मसंगृहीते हितोपदेशे सुहृद्भेदो द्वितीयः ॥२॥ " भव- विग्रहः। पुन• कथारम्भकाले राजपुत्रा ऊचु: 'आर्य ! राजपुत्रा वयम्-तद्विग्रह श्रोतु न कुतूहलमस्ति' । विष्णुशर्मणोक्तम्-' यदेव भवद्भयो रोचते कथयामि । विग्रह श्रयताम् । यस्यायमाद्य श्लोक हंसैः सह मयूराणां विग्रहे तुल्यविक्रमे। विश्वास्य वञ्चिता हंसाः काकैः स्थित्वारिमन्दिरे॥१॥ राजपुत्रा ऊचु कथमेतत् ' विष्णुशर्मा कथयति- अस्ति करद्वीपे पद्मकेलिनामवेय सर । तत्र हिरण्यगर्भो नाम राज- हंसः प्रतिवसति । स च सर्वैर्जलचरपक्षिमिर्मिलित्वा पक्षिराज्येऽभिषिक्त । यत यदि न स्यानरपतिः सम्यडू नेता ततः प्रजा। अकर्णधारा जलधौ विप्लवेतेह नौरिव ॥२॥ - - अपर च- प्रजां संरक्षति नृपः सा वर्धयति पार्थिवम् । वर्धनाद्रक्षणं श्रेयस्तदभावे सदप्यसत् ॥३॥ एकदासौ राजहस सुविस्तीर्णकमलपर्यङ्के सुखासीन परिवारपरिवृतस्तिष्ठति । तत. कुतश्चिद्देशादागत्य दीर्घमुखो नाम बक प्रणम्योपविष्ट ।राजोवाच-दीर्घ- मुख ! देशान्तरादागतोऽसि, वार्ता कथय । स ब्रूते-' देव । अस्ति महती वार्ता, ता वतु सत्वरमागतोऽहम् , श्रूयताम्-अस्ति जम्बूद्वीपे विन्ध्यो नाम गिरिः, तत्र चित्रवर्णों नाम मयूरः पक्षिराजो निवसति । तस्यानुचरैश्चरद्भि पक्षिभिरह दग्वारण्यमध्ये चरन्नवलोकित पृष्टश्च — कस्त्व कुतः समागतोऽसि १ । तदा मयोक्तम् — कर्पूरद्वीपस्य राजचक्रवर्तिनो हिरण्यगर्भस्य राजहसस्यानुचरो- ऽहम् । कौतुकाद्देशान्तर द्रष्टुमागतोऽस्मि ' इति । एतन्छुत्वा पक्षिभिरुक्तम्- 'अनयोर्देशयो को देशो भद्रतरो राजा च १ । मयोक्तम्- 'आ । किमेव मुन्यते, महदन्तरम्, यत कर्पूरद्वीप' स्वर्ग एव, राजहसश्च द्वितीय स्वर्ग- पति , कय वर्णयितु शक्यते १ अत्र मरुस्थले पतिता यूय कि कुरुथ, १ आग- (८४) [हितोपदेशे- च्छतास्मद्देशे गम्यताम् । ' ततोऽस्मद्वचनमाकर्ण्य सर्वे सकोपा बभूवु । तथा चोक्तम्- पयःपानं भुजङ्गानां केवलं विषवर्धनम् । उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये ।। ४ ॥ अन्यच्च- - विद्वानेवोपदेष्टव्यो नाविद्वांस्तु कदाचन । वानरानुपदिश्याथ स्थानभ्रष्टा ययुः खगाः॥५॥ राजोवाच-' कथमेतत् ।' दीर्घमुख कथयति- कथा १. अस्ति नर्मदातीरे पर्वतोपत्यकाया विशाल शाल्मली तरु । तत्र निर्मित- नीडक्रोडे पक्षिणो निवसन्ति सुखेन । अथैकदा वर्षासु नीलपटलैरावृतनभस्तले वारासारैर्महती वृष्टिर्बभूव । ततो वानरांश्च तरुतलेऽवस्थिताञ्छीताकुलान कम्पमानानवलोक्य कृपया पक्षिभिरुक्तम्- 'भोभो वानरा शृणुत- अस्माभिनिर्मिता नीडाश्चञ्चुमात्राहृतैस्तृणैः। हस्तपादादिसंयुक्ता यूयं किमिति सीदथ ॥ ६॥ तन्छुत्वा वानरैर्जातामईरालोचितम्-'अहो निर्वातनीडगर्भावस्थिता सुखिन पक्षिणोऽस्मान्निन्दन्ति, भवतु तावदृष्टेरुपशम ।' अनन्तर शान्ते पानीयवर्षे तैर्वानरैर्वृक्षमारुह्य सर्वे नीडा भग्नास्तेषामण्डानि चाध पातितानि । अतोऽह ब्रवीमि-'विद्वानेवोपदेष्टव्यः' इत्यादि ।। राजोवाच- 'ततस्तै कि कृतम् ।' बक. कथयति- 'ततस्तै पक्षिभि कोपादुक्तम् ' केनासौ राजहसो राजा कृत १ । ततो मयोपजातकोपेनोक्तम्- अययुष्मदीयमयूरः केन राजा कृत. १ तन्छ्रुत्वा ते सर्वे मा हन्तुमुद्यता । ततो मयापि स्वविक्रमो दर्शित. । यत अन्यदा भूषणं पुंसां क्षमा लज्जेव योषिताम् । पराक्रमः परिभवे वैयात्यं सुरतोष्वव ॥ ७॥' -
विग्रहः.]
(८५)
राजा विहस्याह-
आत्मनश्च परेषां च यः समीक्ष्य बलाबलम् ।
अन्तरं नैव जानाति स तिरस्क्रियतेऽरिभिः॥८॥
अन्यच-
सुचिरं हि चरन्नित्यं क्षेत्रे सस्यमबुद्धिमान् ।
द्वीपिचर्मपरिच्छन्नो वाग्दोषागर्दभो हतः॥९॥'
बक पृच्छति- कथमेतत् १ ' राजा कथयति-
कथा २.
अस्ति हस्तिनापुरे विलासो नाम रजकः । तस्य गर्दभोऽतिवहना-
हुर्बल मुमूर्षुरिवाभवत् । ततस्तेन रजकेनासौ व्याघ्रचर्मणा प्रन्छाद्यारण्यसमीपे
सस्यक्षेत्रे मोचित । ततो दूरात्तमवलोक्य व्याघ्रबुद्धया क्षेत्रपतय पलायन्ते ।
अथैकदा केनापि सस्यरक्षकेण धूसरकम्बलकृततनुत्राणेन वनु काण्ड सज्जीकृत्या-
नतकायेनैकान्ते स्थितम् । त च दूरादृष्ट्वा गर्दभ पुष्टाङ्गो यथेष्टसस्यभक्षणजात-
बलो गर्दभीयमिति मत्वोच्चै शब्द कुर्वाणस्तदभिमुख धावित । ततस्तन सस्य-
रक्षकेण चीत्कारशब्दान्निश्चित्य गर्दभोऽयमिति लीलयैव व्यापादित । अतोऽहं
ब्रवीमि-'सुचिरं हि चरनित्यम्' इत्यादि ।
दीर्घमुखो ब्रूते-' तत पक्षिभिरुक्तम्-अरे पाप दुष्ट बक । अस्माक
भूमौ चरन्नस्माक स्वामिनमधिक्षिपसि तन्न क्षन्तव्यमिदानीम् इत्युक्त्वा सर्वे
मा चञ्चुभिर्हत्वा सकोपा ऊचु पश्य रे मूर्ख । स हसस्तव राजा सर्वथा मृदुः
तस्य राज्याधिकारो नास्ति । यत एकान्तमृदु करतलस्थमप्यर्थ रक्षितुमक्षम ।
स कथ पृथिवीं शास्ति, राज्य वा तस्य किम् ? किन्तु त्व च कूपमण्डूक ।
नेन तदाश्रयमुपदिशसि । शृणु-
सेवितव्यो महावृक्षः फलच्छायासमन्वितः।
यदि दैवात्फलं नास्ति च्छाया केन निवार्यते॥
अन्यच्च-
हीनसेवा न कर्तव्या कर्तव्यो महादाश्रयः।
पयोऽपि शौण्डिकीहस्ते वारुणीत्यभिधीयते ॥११॥
(८६) [हितोपदेशे- अजा सिंहप्रसादेन वने चरति निर्भयम् । राममासाद्य लड्वायां लेभे राज्यं विभीषणः ॥ १२॥ अन्यच्च- - - -- महानप्यल्पतां याति निगुणे गुणविस्तरः। आधाराधेयभावेन गजेन्द्र इव दर्पणे ॥ १३ ॥ विशेषतश्च- व्यपदेशेऽपि सिद्धिः स्यादतिशक्ते नराधिपे। शशिनो व्यपदेशेन शशकाः सुखमासते ॥ १४ ॥' मयोक्तम्-'कथमेतत् १' पक्षिण कथयन्ति- कथा ३. कदाचित् वर्षासु वृष्टेरभावात्तृषार्तो गजयूथो यूथपतिमाह-' नाथ कोऽभ्युपायोऽस्माक जीवनाय ? नास्ति क्षुद्रजन्तूना निमजनस्थानम्, वय च निमज्जनस्थानाभावान्मृतार्हा इव । कि कुर्मः क याम.?' ततो हस्तिराजो नातिदूर गत्वा निर्मल हृद दर्शितवान् । ततो दिनेषु गच्छत्सु तत्तीरावस्थिता गजपादाहतिभिश्चूर्णिता क्षुद्रशशका । अनन्तरशिलीमुखो नाम शशक- श्चिन्तयन्नाह-' अनेन गजयूथेन पिपासाकुलितेन प्रत्यहमत्रागन्तव्यम्, अतो विनश्यत्यस्मत्कुलम् ।' ततो विजयो नाम वृद्धशशकोऽवदत्-' मा विषीदत, मयात्र प्रतीकार कर्तव्य ।' ततोऽसौ प्रतिज्ञाय चलित , गच्छता च तेना- लोचितम्-' कथ गजयूथसमीपे , स्थित्वा वक्तव्यम् १ यत स्पृशन्नपि गजो हन्ति जिघ्रन्नपि भुजङ्गमः। पालयनपि भूपालः प्रहसन्नपि दुर्जनः ॥ १५ ॥ अतोऽह पर्वतशिखरमारुह्य यूथनाथ सवादयामि ।' तथानुष्ठिते यूथनाथ उवाच- कस्त्वम् कुत समायात १" स ब्रूते- शगकोऽहम्, भगवता चन्द्रेण भवदन्तिक प्रेषित ।' यूथपतिराह- कार्यमुच्यताम् ।' विजयो ब्रूते- 'उद्यतेष्वपि शस्त्रेषु दूतो वदति नान्यथा । सदैवावध्यभावेन यथार्थस्य हि वाचकः ॥ १६ ॥ , विग्रहः.] (८७) तदह तदाज्ञया ब्रवीमि, शृणु। यदेते चन्द्रसरोरक्षकाः शशकास्त्वया निःसा- रितास्तदनुचित कृतम्, यतो रक्षकास्ते शशका मदीयाः, अत एव मे शशाङ्क इति प्रसिद्धि ' एवमुक्तवति दूते यूथपतिर्भयादिदमाह- प्रणिधे इदमज्ञानतः कृतम्, पुनर्न गमिष्यामि ।' दूत उवाच-' यद्येव तदत्र सरसि कोपात्कम्पमान भगवन्त शशाङ्क प्रणम्य प्रसाद्य गन्छ ।' ततो रात्रौ यूथपति नीत्वा जले चञ्चल चन्द्रबिम्ब दर्शयित्वा यूथपति प्रणाम कारित , उक्त च तेन-' देव । अज्ञाना- दनेनापराध कृत , तत क्षम्यताम्, नैव वारान्तर विधास्यते' इत्युक्त्वा तेन शशकेन स यूथपति. प्रस्थापित । अतोऽह ब्रवीमि — व्यपदेशेऽपि सिद्धिः स्यात्' इति ॥ ततो मयोक्तम्-' स एवास्मत्प्रभू राजहसो महाप्रतापोऽतिसमर्थ. । त्रैलो- क्यस्यापि प्रभुत्व तत्र युज्यते ,कि पुना राज्यम्' इति । तदाह तै. पक्षिभिः दुष्ट । कथमस्मद्भूमौ चरसि ' इत्यभिवाय राज्ञश्चित्रवर्णस्य सप्तीप नीतः । ततो राज्ञ पुरो मा प्रदर्श्य तै प्रणम्योक्तम्-'देव । वध्यतामेष दुष्टो बकः, यदस्म- देशे चरन्नपि देवपादानविक्षिपति ।' राजाह-' कोऽय कुत. समायात १' ते ऊचु- -' हिरण्यगर्भनाम्नो राजहसस्यानुचर कपुरद्वीपादागत ।' अथाह गृध्रेण मन्त्रिणा पृष्टः-'कस्तत्र मुख्यो मन्त्री' १ इति । मयोक्तम्-' सर्वशास्त्रार्थ- पारग सर्वज्ञो नाम चक्रवाक. । ' गृध्रो ब्रूते ' युज्यते, स्वदेशजोऽसौ । यतः- स्वदेशजं कुलाचारविशुद्धमथ वा शुचिम् । मन्त्रज्ञमव्यसनिनं व्याभिचारविवर्जितम् ॥ १७ ॥ अधीतव्यवहारार्थ मौलं ख्यातं विपश्चितम् । अर्थस्योत्पादकं चैव विदध्यान्मंत्रिणं नृपः॥ १८॥' अत्रान्तरे शुकेनोक्तम्- देव । करद्वीपादयो लघुद्वीपा जम्बूद्वीपान्तर्गता एव, तत्रापि देवपादानामेवाधिपत्यम् ।' ततो राज्ञा'युक्तम्-' एवमेव ।' यत - राजा मत्तः शिशुश्चैव प्रमादी धनगर्वितः। अप्राप्यमपि वाञ्छन्ति किं पुनर्लभ्यतेऽपि यत् ॥१९॥ ततो मयोक्तम्- यदि वचनमात्रेणैव देवपादानामधिपत्य सिद्धयति, तदा जम्बूद्वीपेऽग्यस्म प्रभोर्हिरण्यगर्भस्य स्वाम्यमस्ति । ' शुको ब्रूते-' काथमत्र (८८) [हितोपदेशे- निर्णयः ? ' मयोक्तम्- सग्राम एव । ' राज्ञा विहस्योक्तम्-' स्वस्वामिन गत्वा सज्जीकुरु ।' तदा मयोक्तम्-' स्वदूतोऽपि प्रस्थाप्यताम् ' राजोवाच-' क प्रया यति दौत्येन १ यत एवभूतो दूत कार्य भक्तो गुणी शुचिर्दक्षः प्रगल्भोऽव्यसनी क्षमी । ब्राह्मणः परमर्मज्ञो दूतः स्यात्प्रतिभानवान् ॥ २० ॥' गृध्रो वदति- सन्त्येव दूता बहव , कितु ब्राह्मण एव कर्तव्यः । यत प्रसादं कुरुते पत्युः सम्पत्तिं नाभिवाञ्छति । कालिमा कालकूटस्य नापैतीश्वरसङ्गमात् ॥ २१ ॥ राजाह-तत शुक एव व्रजतु । शुक । त्वमेवानेन सह गत्वास्मदभिलषित ब्रूहि ! ' शुको ब्रूते- यथाज्ञपयति देवः, किन्वय दुर्जनो बक , न गच्छामि । तथा चोक्तम्- खलः करोति दुर्वृत्तं नूनं फलति साधुषु । दशाननोहरत्सीतां बन्धनं च महोदधेः ॥ २२ ॥ तढनेन सह we अपर च- न स्थातव्यं न गन्तव्यं दुर्जनेन समं कचित् । काकसङ्गाद्धतो हंसस्तिष्टन् गच्छंश्च वर्तकः ॥ २३॥' राजोवाच- कथमेतत् ।' शुकः कथयति- कथा ४. जस्युजयिनीवर्त्मप्रान्तरे महान् प्लक्षतरु । तत्र हंसकाको निवसत. । कदाचिद्ग्रीष्मसमये परिश्रान्त कश्चित्पथिकस्तत्र तरुतले धनुष्काण्ड सनि- धाय सुप्त । तत्र क्षणान्तरे तन्मुखादृक्षन्छायापगता । तत सूर्यतेजसा तन्मुख व्याप्तमवलोक्य तद्वृक्षस्थितेन हसेन कृपया पक्षौ प्रसार्य पुनस्तन्मुखे छाया कृता। ततो निर्भरनिद्रामुखिना पथि श्रमेणाकुलेन परिश्रान्तेन पान्थेन मुखव्यादान कृतम् । अथ परसुखमसहिष्णु स्वभावदोर्जन्येन स काकस्तस्य मुखे पुरीषोत्सर्ग कृत्वा पलायित । ततो यावदसौ पान्थ उत्थायोर्व निरीक्षते तावत्तेनावलोकितो हसः काण्डेन हत., अतोऽह ब्रवीमि 'न स्थातव्यम्' इत्यादि । तथाहि- - विग्रहः.] (८९) त्यज दुर्जनसंसर्ग भज साधुसमागमम् । कुरु पुण्यमहोरात्रं स्मरनित्यमनित्यताम् ॥ २४॥ कथा ५. देव । वर्तककथामपि कथयामि । एकः काको वृक्षशाखाया स्वपिति, वर्तकश्चावस्ताद्भूमौ निवसति । एकदा भगवतो गरडस्य यात्राप्रसङ्गेन सर्वे पक्षिण समुद्रतीर गताः । तत काकेन सह वर्तकश्चलित । अथ गच्छतो गोपालस्य मस्तकस्थितदविभाण्डाद्वारवार तेन काकेन दधि खाद्यते । ततो यावदसौ दविभाण्ड भूमौ निवायोर्वमवलोकते तावत्तेन काकवर्तकौ दृष्टौ । तत- स्तेन खेदित काक पलायित । वर्तक स्वभावनिरपराधो मन्दगतिस्तेन प्राप्तो व्यापादित । अतोऽह ब्रवीमि-'न स्थातव्यं न गन्तव्यम्' इत्यादि । ततो मयोक्तम्-'भ्रात शुक । किमेव ब्रवीषि १ मा प्रति यथा श्रीमद्देव- म्तथा भवानपि । ' शुकेनोक्तम्-' अस्त्वेवम् । कितु- दुर्जनैरुच्यमानानि संमतानि प्रियाण्यपि । अकालकुसुमानीव भयं संजनयन्ति हि ॥ २५ ॥ दुर्जनत्व च भवतो वाक्यादेव ज्ञातम्, यदनयोर्भूपालयोर्विग्रहे भवद्वचना निदानम् । पश्य- प्रत्यक्षेऽपि कृते दोष मूर्खः सान्त्वेन तुष्यति । रथकारो निजां भार्या सजारांशिरसाऽकरोत् ॥२६॥' राज्ञोक्तम्-' कथमेतत् १' शुक कथयति -- कथा ६. अस्ति श्रीनगरे मन्दमतिर्नाम रथकारः। स च स्वभार्या बन्धकी जानाति, किन्तु जारेण सम स्वचक्षुषा नैकस्थाने पश्यति । ततोऽसौ रथकार' 'अहमन्यं ग्राम गच्छामि' इत्युक्त्वा चलित । कियद्र गत्वा पुनरागत्य पर्यङ्क- तले स्वगृहे निभृत स्थित । अथ रथकारो नामान्तर गत इत्युपजातविश्वासया तथ्वा स जार सध्याकाल एवाहूत । पश्चात्तेन सम तस्मिन् पर्यङ्के क्रीडमाना अर्यङ्कतलस्थितस्य भतु किचिदङ्गस्पर्शात्स्वामिन मायाविनमिति विज्ञाय विषण्णा-
(९०)
[हितोपदेशे-
भवत् । ततो जारेणोक्तम्-'किमिति त्वमद्य मया सह निर्भर न रमसे १ विस्मि-
तेव प्रतिभासि मे त्वम् ।' तयोक्तम्- अनभिज्ञोऽसि, मम प्राणेश्वरो येन मम
कौमार सख्य सोऽद्य ग्रामान्तर गत , तेन विना सकलजनपूर्णोऽपि ग्रामो मां
प्रत्यरण्यवद्भाति, कि भावि तत्र परस्थाने कि खादितवान्, कथ वा प्रसुप्त ? इत्य-
स्मदृदय विदीयते । जारो ब्रूते- तव किमेव स्नेहभूमि १ स ते भर्ता कलहकार ।
बन्धक्यवदत् रे बर्बर, कि वदसि । शृणु-
परुषाण्यपि या प्रोक्ता दृष्टा या क्रोधचक्षुषा ।
सुप्रसन्नमुखी भर्तुः सा नारी धर्ममागिनी ॥ २७ ॥
अपरच-
नगरस्थो वनस्थो वा पापो वा यदि वा शुचिः।
यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदया॥२८॥
अन्यच्च-
-
भर्ता हि परमं नार्या भूषणं भूषणैर्विना।
एषा विरहिता तेन शोभनापि न शोभना ॥२९॥
त्व जार पापमति । मनोलोल्यात्पुष्पताम्बूलसदृश, कदाचित्सेव्यसे च । स
च स्वामी मा विक्रेतु देवेभ्यो ब्राह्मणेभ्योऽपि दातुमीश्वरः । कि बहुना १ तस्मि-
जीवति जीवामि, तन्मरणे चानुमरण करिष्यामीति प्रतिज्ञा वर्तते । यत.-
तिनः कोटयोऽर्धकोटी च यानि लोमानि मानवे ।
तावत्कालं वसेत्स्वर्गे भर्तारं यानुगच्छति ॥ ३० ॥
अन्यच्च-
व्यालग्राही यथा व्यालं बलादुद्धरते बिलात् ।
तद्वद्भर्तारमादाय स्वर्गलोके महीयते ॥ ३१ ॥
अपर च-
चितौ परिष्वज्य विचेतनं पति
प्रिया हि या मुश्चति देहमात्मनः।
कृत्वापि पापं शतसङ्खयमप्यसौ
पतिं गृहीत्वा सुरलोकमाप्नुयात् ॥ ३२ ॥
विग्रहः.] यत:- यस्मै दद्यात्पिता त्वेना भ्राता वानुमते पितुः । तं शुश्रूषेत जीवन्तं संस्थितं च न लवयेत् ॥ ३३ ॥' एतत्सर्व श्रुत्वा मन्दमती रथकारोऽवदत्-'वन्योऽहम् , यस्येदृशी प्रियवादिनी स्वामिवत्सला भार्या ' इति मनमि निधाय ता खट्वा स्त्रीपुरुषसहिता मूर्ति कृत्वा सानन्द ननर्त । अतोऽह ब्रवीमि-'प्रत्यक्षेऽपि कृते दोषे' इत्यादि । ततोह तेन राज्ञा यथाव्यवहार सम्पूज्य प्रस्थापित. । शुकोऽपि मम पश्चादा- गन्छ नाम्ते, एतत्सर्व परिज्ञाय यथाकर्तव्यमनुसन्धीयताम् ।' चक्रवाको विह- स्याह-'देव | बकेन तावद्देशान्तरमपि गत्वा यथाशक्ति राजकार्यमनुष्ठितम् । किन्तु देव । स्वभाव एष मूर्खाणाम् । यत शतं दद्यान्न विवदेदिति विज्ञस्य लक्षणम् । विना हेतुमपि द्वन्द्वमेतन्मूर्वस्य लक्षणम् ॥ ३४ ॥' राजाह-' किमतीतोपालम्भनेन ? प्रस्तुतमनुसन्वीयताम् । चक्रवाको ब्रूते- देव । विजने ब्रवीमि । यत.- वर्णाकारप्रतिध्वाननॆत्रवऋविकारतः। अप्यूहन्ति मनो धीरास्तस्माद्रहसि मन्त्रयेत्॥ ३५ ॥' राजा मन्त्री च तत्र स्थितौ, अन्येऽन्यत्र गता, । चक्रवाको ब्रूते-'देव अह-- मेव जानामि, कस्याप्यस्मन्नियोगिन प्रेरणया बकेनेदमनुष्ठितम् । यत.- वैद्यानामातुरः श्रेयान् व्यसनी यो नियोगिनाम् । विदुषां जीवनं मूर्खः सवृन्दो नृपतेर्जनः ॥ ३६॥ राजाब्रवीत्-' भवतु । कारणमत्र पश्चान्निरूपणीयम् । मप्रति यत्कर्तव्य तन्निरूप्यताम् ।' चक्रवाको ब्रूते- देव । प्रणिधिस्तावत्प्रहीयताम् । ततस्तदनु- ष्ठान बलाबल च जानीम । तथाहि- भवेत्स्वपरराष्ट्राणां कार्याकार्यावलोकने । चारचक्षुर्महीभर्तुर्यस्य नास्त्यन्ध एव सः ॥ ३७॥ स च द्वितीय विश्वासपात्र गृहीत्वा यातु, तेनासौ स्वय तत्रावस्थाथ द्वितीय तत्रत्यमन्त्रकार्य सुनिभृत निश्चित्य निगद्य प्रस्थापयति । तथा चोक्तम्-
(९२)
[हितोपदेशे-
तीर्थाश्रमतुरस्थाने शास्त्रविज्ञानहेतुना ।
तपस्विव्यञ्जनोपेतैः स्वचरैः सह संवदेत ॥ ३८॥
गूढश्चारश्च यो जले स्थले चरति ततोऽसावेव बको नियुज्यताम् । एतादृश
एव कश्चिद्धको द्वितीयत्वेन प्रयातु, तद्गृहलोकाश्च राजद्वारे तिष्ठन्तु । कितु देव !
एतदपि सुगुप्तमनुष्ठातव्यम् । यत:-
षट्कर्णो भिद्यते मन्त्रस्तथा प्राप्तस्य वार्तया।
इत्यात्मना द्वितीयेन मन्त्रः कार्यों महीभृता ॥ ३९ ॥
यत
मन्त्रभेदेपि ये दोषा भवन्ति पृथिवीपतेः।
न शक्यास्ते समाधातुमिति नीतिविदां मतम् ॥४०॥
राजा विमृश्योवाच-' प्राप्तस्तावन्मयोत्तम प्रणिवि ' मन्त्री ब्रूते-'तदा
सग्रामविजयोऽपि प्राप्त । अत्रान्तरे प्रतीहार• प्रविश्य प्रणम्योवाच- 'देव ।
जम्बूद्वीपादागतो द्वारि शुफस्तिष्ठति ।' राजा चक्रवाकमालोकते । चक्रवाके-
णोक्तम् तावद्वत्वावासे तिष्ठतु पश्चादानीय द्रष्टव्य ।' प्रतीहारस्तमावासस्थान
नीत्वा गत
। राजाह-' विग्रहस्तावत्समुपस्थित ' चक्रवाको ब्रूते-'देव ।
सहसाप्रागेव विग्रहो न विधि । यत -
स किं भृत्यः स किं मन्त्री य आदावेव भूपतिम् ।
युद्धोद्योगं स्वभूत्यागं निर्दिशत्यविचारितम् ॥४१॥
-
अपर च---
--
विजेतुं प्रयतेतारीन युद्धेन कदाचन ।
अनित्यो विजयो यस्मादृश्यते युद्धयमानयोः ॥४२॥
अन्यच-
-
साम्ना दानेन भेदेन समस्तैरथवा पृथक् ।
साधितुं प्रयतेतारीन्न युद्धेन कदाचन ॥ ४३ ॥
अपरं च-
सर्व एव जनः शूरो ह्यनासादितविग्रहः ।
अदृष्टपरसामर्थ्यः सदर्पः को भवेन हि ॥ ४४ ॥
विग्रहः.]
(९३)
-
किञ्च-
न तथात्थाप्यते ग्रावा प्राणिभिरुणा यथा ।
अल्पोपायान्महासिद्धिरेतन्मन्त्रफलं महत् ॥ ४५ ॥
कि तु । विग्रहमुपस्थित विलोक्य व्यवयिताम् । यत --
यथाकालकृतोद्योगात्कृषिः फलवती भवेत् ।
तद्वन्नीतिरियं देव चिरात्फलति रक्षणात् ।। ४६ ॥
अपर च-
महतो दूरभीरुत्वमासन्ने शूरता गुणः।
विपत्तौ च महाँल्लोके धीरतामनुगच्छति ॥ ४७ ॥
अन्यच्च-
प्रत्यूहः सर्वसिद्धीनामुत्तापःप्रथमः किल ।
अतिशीतलमप्यम्भः किं भिनत्ति न भूभृतम् ॥४८॥
विशेषतश्च महाबलोऽसौ चित्रवर्णो राजा । यत-
बलिना सह योद्धव्यमिति नास्ति निदर्शनम् ।
ताद्धं हस्तिना सार्ध नराणां मृत्युमावहेत् ॥ ४९ ॥
अन्यच्च--
स मूर्खः कालमप्राप्य योऽपकर्तरि वर्तते ।
कलिबलवता सार्ध कीटपक्षोद्यमो यथा ॥ ५० ॥
किं च-
कौम संकोचमास्थाय प्रहारमपि मर्षयेत् ।
प्राप्तकाले तु नीतिज्ञ उत्तिष्ठेत्क्रूरसर्पवत् ॥ ५१ ॥
महत्यल्पेऽप्युपायज्ञः सममेव भवेत्क्षमः।
समुन्मूलयितुं वृक्षांस्तृणानीव नदीरयः ॥ ५२ ॥
अतस्ततोऽप्याश्वास्य तावद्भियता यावदुर्ग, सज्जीक्रियते । यत
एकः शतं योधयति प्राकारस्थो धनुर्धरः।
शतं शतसहस्राणि तस्मादुर्ग विशिष्यते ॥ ५३ ॥
(९४) [हितोपदेशे- किं च- - अदुर्गो विषयः कस्य नारेः परिभवास्पदम् । अदुर्गोऽनाश्रयो राजा पोतच्युतमनुष्यवत् ॥ ५४ ।। दुर्ग कुर्यान्महाखातमुच्चप्राकारसंयुतम् । सयन्त्रं सजलं शैलसरिन्मरुवनाश्रयम् ॥ ५५॥ विस्तीर्णतातिवैषम्यं रसधान्येध्मसंग्रहः। प्रवेशश्चापसारश्च सप्तैता दुर्गसंपदः ॥५६॥' राजाह- दुर्गानुसधाने को नियुप्यताम् १ ' चक्रवाको ब्रूते- 'यो यत्र कुशलः कार्ये तं तत्र विनियोजयेत् । कर्मस्वदृष्टकर्मा यः शास्त्रज्ञोऽपि विमुह्यति ॥ ५७ ॥ तदाहूयता सारस ।' तथानुष्ठिते सत्यागत सारसमालोक्य राजोवाच- 'भो सारस । त्व सत्वर दुर्गमनुसवेहि । ' सारस. प्रणम्योवाच-'देव ! दुर्ग तावदिदमेव चिरात्सुनिरूपितमास्ते महत्सर । कि त्वत्र मव्यवर्तिद्वीपे भक्ष्यद्रव्यसग्रह क्रियताम् । यत - धान्यानां संग्रहो राजनुत्तमः सर्वसंग्रहात् । निक्षितं हि मुखे रत्नं न कुर्यात्प्राणधारणम् ॥५८॥ किच- ख्यातः सर्वरसानां हि लवणो रस उत्तमः। गृहीतं च विना तेन व्यञ्जनं गोमयायते ॥ ५९॥' राजाह- सत्वर गत्वा सर्वमनुतिष्ट ।' पुन प्रविश्य प्रतीहारो ब्रूते-' देव । सिहलद्वीपादागतो मेघवर्गो नाम वायस. सपरिवारो द्वारि तिष्ठति । देवपाद द्रष्टु- मिच्छति । ' राजाह-' काका पुन सर्वज्ञा बहुद्रष्टारश्च । तद्भवति सग्राह्य इत्यनुवर्तते । ' चक्रो ब्रूते- देव । अस्त्येवम् । कि तु अस्मद्विपक्ष. काक स्थलचर । तेनास्मद्विपक्षे नियुक्त कथ सग्राह्य । तथा चोक्तम्- आत्मपक्षं परित्यज्य परपक्षेषु यो रतः। स परैर्हन्यते मूढो नीलवर्णशृगालवत् ॥६०॥' राजोवाच- 'कथमेतत् १ ' मन्त्री कथयति- .
विग्रहः.] (९५) कथा ७. कश्चिच्छृगालः स्वेच्छया नगरोपान्ते भ्राम्यन्नीलीभाण्डे पतितः । पश्चा- त्तत उत्थातुमसमर्थ प्रातरात्मान मृतवत्सदर्य स्थित । अथ नीलीभाण्ड- स्वामिना मृत इति ज्ञान्वा तस्मात्समुत्थाग्य दूरे नी वापसारितस्तस्मात्पलायित । ततोऽसौ वन गत्वा स्वकीयमात्मान नीलवर्णमवलोक्याचिन्तयत्- अहमिदानी- मुत्तमवर्ण ।तदाह स्वकीयोत्कर्ष कि न साधयामि' इत्यालोन्य शृगालानाहूय तेनो- क्तम्-' अह भगवत्या वनदेवतया स्वहस्तेनारण्यराज्ये सर्वोषविरसेनाभिषिक्त । पश्यन्तु मम वर्णम्, तदद्यारभ्यारण्यऽस्मदाज्ञया व्यवहार कार्य । शगालाश्च त विशिष्टवर्गमवलोक्य साष्टाङ्गपात प्रणम्योचु.-" यथाज्ञापयति देव ' इत्यनेनैव क्रमेण सर्वेष्वायरण्यवासिष्वाधिपत्य तस्य बभूव । ततस्तेन स्वज्ञातिभिरावृतेना- विक्य सावितम् । ततस्तेन व्याघ्रसिहाढीनुत्तमपरिजनान्प्राप्य सदसि शृगाला- नवलोक्य लज्जमानेनावज्ञया स्वज्ञातय सर्वे दूरीकृता । ततो विषण्णान् शृगा- लानवलोक्य केनचिदृद्धशगालेनैतत्प्रतिज्ञातम्-' मा विषीदत यदनेनानभिज्ञेन मर्मज्ञा वय स्वसमीपात्परिभूतास्तद्यथाय नश्यति तन्मया विधेयम् । यतोऽमी व्याघ्रादयो वर्णमात्रविप्रलब्धा. शृगालमज्ञात्वा राजानमिम मन्यन्ते । तद्यथायं परिचितो भवति तथा कुरुत । तत्रैवमनुष्ठेयम् । यतः सर्वे सन्ध्यासमये सनि- वाने महारावमेकदेव करिष्यथ । ततस्त शब्दमाकर्ण्य जातिस्वभावात्तनापि शब्द. कर्तव्य । यत- यः स्वभावो हि यस्यास्ति स नित्यं दुरतिक्रमः। श्वा यदि क्रियते राजा तत्कि नाश्नात्युपानहम् ॥६॥ तत शब्दादभिज्ञाय व्यात्रेण हन्तव्यः ।' तथानुष्ठित सति तदृत्तम् । तथा चोक्तम्- छिद्रं मर्म च वीर्य च सर्व वेत्ति निजो रिपुः । दहत्यन्तर्गतश्चैव शुष्कं वृक्षमिवानलः ॥ ६२ ॥ अतोऽह ब्रवीमि-'आत्मपक्ष परित्यज्य ' इत्यादि । , (९६) [हितोपदेशे- -- राजाह-' यद्येव तथापि दृश्यता तावदय दूरादागतः । तत्सग्रहे विचारः कार्य.।' चक्रो ब्रूते- देव । प्रणिधि प्रहितो दुर्गश्च सज्जीकृत. । अतः शुकोऽप्यानीय प्रस्थाप्यताम् । किन्तु- नन्दं जघान चाणक्यस्तीक्ष्णदूतप्रयोगतः। तदूरान्तरितं दूतं पश्येद्धीरसमन्वितः ॥ ६३ ॥ तत सभा कृत्वाहूतः शुकः काकश्च । शुक किञ्चिदुन्नतशिरा दत्तासन उपविश्य ब्रूते-'भो हिरण्यगर्भ ! महाराजाधिराजः श्रीमच्चित्रवर्णस्त्वा समाज्ञाप- यति यदि जीवितेन श्रिया वा प्रयोजनमस्ति तदा सत्वरमागत्यास्मच्चरणौ प्रणम, न चेदवस्थातु स्थानान्तर चिन्तय ।'तच्छ्रुत्वा राजा सकोपग्राह-'आ । कोऽप्य- स्माक पुरतः समाया नास्ति य एन गलहस्तयति । तत उत्थाय मेघवर्णों ब्रूते-'देव । आज्ञापय । हन्मि दुष्ट शुकम् ।' सर्वज्ञो राजान काक च सान्त्व- यन्ते- भद्र | मैवम् । शृणु तावत्- न सा सभा यत्र न सन्ति वृद्धा वृद्धा न ते ये न वदन्ति धर्मम् । धर्मः स नो यत्र न सत्यमस्ति सत्यं न तद्यच्छलमभ्युपैति ॥ ६४ ॥ यतो धर्मश्चैष दूतो म्लेच्छोऽप्यवध्यः स्याद्राजा दूतमुखो यतः । उद्यतेष्वपि शस्त्रेषु दूतो वदति नान्यथा ॥६५॥ किच- स्वापकर्ष परोत्कर्ष दूताक्तैर्मन्यते तु कः। सदैवावध्यभावेन दूतः सर्व हि जल्पति ॥६६॥" ततो राजा काकश्च स्वा प्रकृतिमापनौ । शुकोऽप्युत्थाय चलितः । पश्चाच्चक्र- वाकेणानीय प्रबोव्य कनकालकारादिक दत्त्वा सप्रेषितो स्वदेशं ययौ। शुकोऽपि विन्ध्याचल गत्वा राजान चित्रवर्ण प्रणतवान् । तमालोक्य राजोवाच-'शुक ! का वार्ता । कीदृशोऽसौ देश १' शुको ब्रूते-'देव ! सक्षेपादिय वार्ता । सप्रति
विग्रहः.]
(९७)
युद्धोद्योग क्रियताम् । देशश्चासौ करद्वीपः स्वर्गकदेशो राजा च द्वितीय स्वर्ग-
पति । कथ वर्णयितु शक्यते ? ततः सर्वाञ्छिष्टानाहूय राजा मन्त्रयितुमुप-
विष्टः । आह च-' सम्प्रति यत्कर्तव्य तब्रूत । विग्रह पुनरवश्य कर्तव्य ।
तथा चोक्तम्-
असन्तुष्टा द्विजा नष्टाः सन्तुष्टाश्च महीभुजः।
सलज्जा गणिका नष्टा निर्लज्जाश्च कुलस्त्रियः॥६॥'
दूरदर्शी नाम गृध्रो ब्रूते- देव ! व्यसनितया विग्रहो न विविः । यतः-
मित्रामात्यसुहद्धर्गा यदा स्युदृढभक्तयः।
शत्रूणां विपरीताश्च कर्तव्यो विग्रहस्तदा ॥ ६८॥
अन्यच्च-
भूमिर्मित्रं हिरण्यं च विग्रहस्य फलं त्रयम् ।
यदैतनिश्चितं भावि कर्तव्यो विग्रहस्तदा ॥६९॥
राजाह- मद्बल तावदवलोकयतु मन्त्री । तदैतेषामुपयोगो ज्ञायताम् । एव
माहूयतामौहर्तिक. । स निर्णीय यात्रार्थ शुभलग्न ददातु ।' मन्- 1 ने-
'तथापि सहसा यात्राकरणमनुचितम् । यत -
विशन्ति सहसा मूढा येऽविचार्य द्विषद्बलम् ।
खड्गधारापरिष्वङ्गं लभन्ते ते सुनिश्चितम् ॥ ७० ॥
राजाह-' मन्त्रिन् । ममोत्साहभङ्ग सर्वथा मा कृथाः। विजिर्ग:पुर्यथा पर-
भूमिमाक्रमति तथा कथय ।' गृध्रो ब्रूते-'तत्कथयामि । कि तु र दष्टितमेव
फलप्रदम् । तथा चोक्तम्-
किं मन्त्रेणाननुष्ठानाच्छास्त्रवित्पृथिवीपतेः।
न ह्यौषधपरिज्ञानाड्याधेः शान्तिः क्वचिद्भवेत ॥७॥
राजादेशश्चानतिक्रमणीय । यथाश्रुत तन्निवेदयामि, शृणु-
नद्यद्रिवनदुर्गेषु यत्रयत्र भयं नृप ।
तत्रतत्र च सेनानीर्यायावयूहीकृतैर्बलैः॥ ७२ ॥
बलाध्यक्षः पुरो यायात्प्रवीरपुरुषान्वितः।
मध्ये कलत्रं स्वामी च कोशः फल्गु च यद्वल. ॥७३॥
(९८) [हितोपदेशे- पार्श्वयोरुभयोरश्वा अश्वानां पार्श्वतो रथाः। रथानां पार्श्वयोर्नागा नागानां च पदातयः ।। ७४॥ पश्चात्सेनापतिर्यायात्खिन्नानाश्वासयञ्छनः। मन्त्रिभिः सुभटैर्युक्तः प्रतिगृह्य बलं नृपः॥ ७५ ॥ समयाद्विषमं नागैर्जलाढयं स महीधरम् । सममश्वैर्जलं नाभिः सर्वत्रैव पदातिभिः॥७६ ।। हस्तिनां गमनं प्रोक्तं प्रशस्तं जलदागमे । तदन्यत्र तुरङ्गाणां पत्तीनां सर्वदैव हि ॥ ७७ ॥ शैलेषु दुर्गमार्गेषु विधेयं नृपरक्षणम् । स्वयोधै रक्षितस्यापि शयनं योगिनिद्रया ॥७८॥ नाशयेत्कर्षयेच्छन्दुर्गकण्टकमर्दनः । परदेशप्रवेशे च कुर्यादाटविकान्पुरः ॥ ७९ ॥ यत्र राजा तत्र कोशो विना कोशान राजता । स्वभृत्येभ्यस्ततो दद्यात्को हि दातुर्न युध्यते ॥ ८० ॥ यत.- न नरस्य नरो दासो दासस्त्वर्थस्य भूपते । गौरवं लाघवं वापि धनाधननिबन्धनम् ॥ ८१॥ अभेदेन च युध्येत रक्षेच्चैव परस्परम् । फल्गु सैन्यं च यत्किचिन्मध्ये व्यूहस्य कारयेत् ॥८२॥ पदातीश्च महीपालः पुरोऽनीकस्य योजयेत् । उपरुध्यारिमासीत राष्ट्र चास्योपपीडयेत् ॥ ८३॥ स्यन्दनाश्वैः समे युध्येदनूपे नौर्द्विपैस्तथा । वृक्षगुल्मावृते चापैरसिचर्मायुधैः स्थले ॥ ८४ ॥ दूषयञ्चास्य सततं यवसानोदकेन्धनम् । भिन्द्याञ्चैव तडागानि प्राकारान्परिखांस्तथा ॥ ८५।। बलेषु प्रमुखो हस्ती न तथान्यो महीपतेः। निजैरवयवैरेव मातङ्गोऽष्टायुधः स्मृतः ।। ८६॥
विग्रहः. ] (९९) बलमश्वश्च सैन्यानां प्राकारो जङ्गमो यतः । तस्मादश्वाधिको राजा विजयी स्थलविग्रहे ॥ ८७॥ तथा चोक्तम्- युद्धयमाना हयारूढा देवानापि दुर्जयाः। अपि दूरस्थितास्तेषां वैरिणो हस्तवर्तिनः ॥ ८८॥ प्रथमं युद्धकारित्वं समस्तबलपालनम् । दिड्मार्गाणां विशोधित्वं पत्तिकर्म प्रचक्षते ॥ ८९॥ स्वभावशूरमस्त्रज्ञमविरक्तं जितश्रमम् । प्रसिद्धक्षत्रियप्रायं बलं श्रेष्ठतमं विदुः॥९० ॥ यथा प्रभुकृतान्मानाशुध्यन्ते भुवि मानवाः। न तथा बहुभिर्दत्तैविणैरपि भूपते ॥९१ ॥ वरमल्पबलं सारं न कुर्यान्मुण्डमण्डलीम् । कुर्यादसारभङ्गो हि सारभङ्गमपि स्फुटम् ॥ ९२ ॥ अप्रसादोऽनधिष्ठानं देयांशहरणं च यत् । कालयापोऽप्रतीकारस्तद्वैराग्यस्य कारणम् ॥ ९३ ॥ आपडियन्बलं शत्रोर्जिगीषुरभिषेणयेत् । सुखसाध्यं द्विषां सैन्यं दीर्घयानप्रपीडितम् ॥ ९४ ॥ दायादादपरो मन्त्रो नास्ति भेदकरो द्विषाम् । तस्मादुत्थापयेद्यत्नादायादं तस्य विद्विषः ॥ ९५ ॥ संधाय युवराजेन यदि वा मुख्यमन्त्रिणा । अन्तःप्रकोपनं कार्यमभियोक्तुः स्थिरात्मनः ॥९६॥ क्रूरामित्रं रणे चापि भङ्गं दत्त्वा विघातयेत् । अथवा गोग्रहाकृष्टया तल्लल्याश्रितबन्धनात् ॥ ९७ ॥ स्वराज्यं वासयेद्राजा परदेशावगाहनात् । अथ वा दानमानाभ्यां वासितं धनदं हि तत् ॥९८॥' राजाह-'आ ! कि बहुनोदितेन ?
(१००) [हितोपदेशे- आत्मोदयः परग्लानिर्द्वयं नीतिरितीयती। तदूरीकृत्य कृतिभिर्वाचस्पत्यं प्रतार्यते ॥ ९९॥' मन्त्रिणा विहस्योच्यते- 'सर्व सत्यमेतत् । कि तु- अन्यदुच्छृङ्खलं सत्त्वमन्यच्छास्त्रनियन्त्रितम् । सामानाधिकरण्यं हि तेजस्तिमिरयोः कुत ।। १०० ॥' तत उत्थाय राजा मौहर्तिकावेदितलग्ने प्रस्थितः । अथ प्रहितप्रणिधिर्हिरण्य- गर्भसमीपमागन्य प्रणम्योवाच- 'देव । समागतप्रायो राजा चित्रवर्ण । सप्रति मलयपर्वतावित्यकाया समावसितकटकोऽनुवर्तते । दुर्गशोधन प्रतिक्षणमनुसवा- तव्य यतोऽसौ गुनो महामन्त्री । कि च केनचित्सह तस्य विश्वासकथाप्रसङ्गेनैव तदिङ्गितमवगत मया यदनेन कोऽप्यस्मदुर्गे प्रागेव नियुक्तः।' चक्रो ब्रूते-- * देव । काक एवासौ सभवति ।' राजाह--'न कदाचिदेतत् । यद्येव तदा कथ तेन शुकस्याभिभवोद्योग कृत । अपर च शुकस्यागमनात्तस्य विग्रहोत्साह । स चिरादत्रास्ते ।' मन्त्री ब्रूते--' तथाऽप्यागन्तु शङ्कनीय । ' राजाह-- आगन्तुका हि कदाचिदुपकारका दृश्यन्ते । शृणु-- परोऽपि हितवान्वन्धुर्वन्धुरप्यहितः परः। अहितो देहजो व्याधिर्हितमारण्यमौषधम् ॥ १०१॥ अपर च- आसीद्वीरवरो नाम शूद्रकस्य महीभृतः । सेवकः स्वल्पकालेन स ददौ सुतमात्मनः॥ १०२ ॥' चक्र पृच्छति-- 'कथमेततु १' राजा कथयति- कथा ८. अह पुरा शूद्रकस्य राज्ञः क्रीडासरसि कर्पूरकेलिनाम्नो राजहसस्य पुत्र्या कर्पूरमञ्जर्या सहानुरागवानभवम् । तत्र वीरवरो नाम महाराजपुत्र: कुतश्चिद्देशादागत्य राजद्वारमुपगम्य प्रतीहारमुवाच-'अहं तावद्वेतनार्थी राजपुत्र । मा राजदर्शन कारय ।' ततस्तेनासौ राजदर्शनं कारितो ब्रूते- देव । यदि मया सेवकेन प्रयोजनमस्ति तदास्मद्वर्तन क्रियताम् ।' शूद्रक उवाच-' किं ते , , " । विग्रहः.] (१०१) वतनम् १ ' वीरवरो ब्रूते- प्रत्यह सुवर्णपञ्चशतानि देहि। राजाह-' का ते मामग्री १ ' वीरवरो ब्रूते-' द्वौ बाहू तृतीयश्च खड्ग' राजाह-' नैतच्छक्यम् ।' तन्छुत्वा वीरवरश्चलित । अथ मन्त्रिभिरुक्तम्-' देव । दिनचतुष्टयस्य वर्तनं दत्त्वा ज्ञायतामस्य स्वरूप किमुपयुक्तोऽयमेतावद्वर्तन गृह्णात्यनुपयुक्तो वेति'। ततो मन्त्रिवचनादाहूय वीरवराय ताम्बूल दत्त्वा पञ्चशतानि सुवर्णानि दत्तानि तद्विनियोगश्च राज्ञा सुनिभृत निरूपितः । तढवं वीरवरेण देवेभ्यो ब्राह्मणेभ्यो दत्तम् । स्थितस्या दुखितेभ्य । तदवशिष्ट भोज्यव्ययविलासव्ययाय । एतत्सर्व नित्यकृत्य कृत्वा राजद्वारमहर्निश खड्गपाणि सेवते । यदा च राजा स्वयं पमादिशति तदा म्वगृहमपि याति । अयैकदा कृष्णचतुर्दश्या रात्रौ राजा सक- रुण क्रन्दन बनि शुश्राव । शूद्रक उवाच- क. कोऽत्र द्वारि ।। तेनोक्तम्- 'देव । अह वीरवर । राजोवाच-' क्रन्दनानुसरण क्रियताम्' वीरखर --' यथा- ज्ञापयति देव ' इत्युक्त्वा चलित । राज्ञा च चिन्तितम्-' अयमेकाकी राजपुत्रो मया सूचीभेद्ये तमसि प्रेरित , नैतदुचितम्, अहमपि गत्वा किमेतदिति निरू- पयामि ।' ततो राजापि खड्गमादाय तदनुसरणक्रमेण नगराबहिर्निर्जगाम । गत्वा च वीरवरेण सा रुदती रूपयौवनसपन्ना सर्वालकारभूषिता काचित्स्त्री दृष्टा पृष्टा च-' का त्वम्, किमर्थ रोदिषि १ ' स्त्रियोक्तम्-' अहमेतस्य शूद्र- कस्य राजलक्ष्मी , चिरादेतस्य भुजन्छायाया महता सुखेन विश्रान्ता । देव्यप- राधेन तृतीये दिवसे राजा पचत्व यास्यति । अहमनाथा भविष्यामि । इदानीं नोऽत्र स्थास्यामीति रोदिमि।' वीरवरो ब्रूत-'कथ पुनरिहावासो भगवत्या भवति ?' लक्ष्मीरुवाच- यदि त्वमात्मन पुत्रस्य शक्तिधरस्य द्वात्रिशल्लक्षणोपेतस्य मस्तक स्वहस्तेन छित्त्वा भगवत्याः सर्वमङ्गलाया उपहारीकरोषि, तदा राजा शतायु- भविष्यति, अह च सुचिर सुख निवसामि' इत्युक्त्वाऽदृश्याभवत् । ततो वीरवरेण स्वगृह गत्वा निद्रायमाणा स्ववधू प्रबोविता पुत्रश्च । तौ निद्रा परित्यज्योत्थायोपविष्टौ । वीरवरस्तत्सर्व लक्ष्मीवचनमुक्तवान् । तच्छ्रुत्वा सानन्द शक्तिधरो ब्रूते- धन्योऽहमेवभूत स्वामिराज्यरक्षार्थ यन्ममोपयोगः । तत्कोऽधुना विलम्बस्य हेतु १ कदापि तावदेवविधे कर्मणि देहस्य विनियोगः श्लाध्यः । यत.- , (१०२) [हितोपदेशे- १ धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत् । सन्निमित्ते वरं त्यागो विनाशे नियते सति ॥ १०३॥' शक्तिधरमातोवाच- अस्मत्कुलोचित यद्येतन्न कर्तव्य तदा गृहीतराज- वर्तनस्य निस्तार कथ भविष्यति १' इत्यालोन्य सर्वे सर्वमङ्गलाया स्थान गता । तत्र सर्वमङ्गला सपूय वीरवरो ब्रूते-देवि । प्रसीद विजयता विजयत' शूद्रको महाराज', गृह्यतामुपहार इत्युक्त्वा पुत्रस्य शिरश्चिन्छेद । ततो वीरवरश्चिन्तयामास- गृहीतराजवर्तनस्य निस्तार कृत अधुना निष्पुत्रस्य जीवनेनालम् ' इत्यालोच्यात्मन शिरश्छेद कृत । तत स्त्रियापि स्वामिपुत्र- गोकार्तया तदनुष्टितम् । एतत्सर्व दृष्ट्वा राजा साश्चर्य चिन्तयामास- 'जीवन्ति च म्रियन्ते च मद्विधाः क्षुद्रजन्तवः। अनेन सदृशो लोके न भूतो न भविष्यति ॥ १०४ ॥ तदेतेन परित्यक्तेन मम राज्येनाप्यप्रयोजनम् ।' तत शूद्रकेणापि शिर- श्छेत्तु खड्ग समुत्थापित । अथ भगवत्या सर्वमगलया प्रत्यक्षभूतया राजा हस्ते वृत उक्तश्च-' पुत्र । प्रसन्नास्मि ते, एतावता साहसेनालम्, इदानीं ते राज्य- भङ्गो नास्ति ।' राजा च साष्टाङ्गपात प्रणम्योवाच- देवि । कि मे राज्येन, जीवितेन वा कि प्रयोजनम् १ यद्यहमनुकम्पनीयस्तदा ममायु शेषेणाय सदार- पुत्रो वीरवरो जीवतु । अन्यथाह यथाप्राप्ता गति गच्छामि ।' भगवत्युवाच- 'पुत्र । अनेन ते सत्त्वोत्कर्षेण भृत्यवात्सल्येन च सर्वथा तुष्टास्मि गन्छ, विजयी भव, अयमपि सपरिवारो राजपुत्रो जीवतु ' इत्युक्त्वा देव्यदृश्याभवत् । ततो वीरवर सपुत्रदारो प्राप्तजीवन स्वगृह गत । राजापि तैरलक्षित सत्वरमन्त पुर प्रविष्ट. । अथ प्रभाते वीरवरो द्वारस्थ पुनर्भूपालेन पृष्ट सन्नाह-'देव । सा रुदती स्त्री मामवलोक्यादृश्याभवत्, न काप्यन्या वार्ता विद्यते । तद्वचनमाकर्ण्य सतुष्टो राजा साश्चर्यमचिन्तयत्-' कथमय श्लाघ्यो महासत्व । यत प्रियं ब्रूयादकृपणः शूरः स्यादविकत्थनः। दाता नापात्रवर्षी च प्रगल्भः स्यादनिष्ठुरः॥ १०५॥ -
-
विग्रहः.]
(१०३)
एतन्महापुरुषलक्षणमेतस्मिन्सवमस्ति ।' ततः स राजा प्रातः शिष्टसभा
कृत्वा सर्ववृत्तान्त प्रस्तुत्य प्रसादात्तस्मै कर्णाटराज्यं ददौ । तत्किमागन्तुको
जातिमात्राष्टः । तदुत्राप्युत्तमाधममध्यमा सन्ति । चक्रवाको ब्रूते-
योऽकार्य कार्यवच्छास्ति स किं मन्त्री नृपेच्छया ।
वरं स्वामिमनोदुःखं तन्नाशो न त्वकार्यतः॥ १०६ ॥
वैद्यो गुरुश्च मन्त्री च यस्य राज्ञः प्रियंवदः ।
शरीरधर्मकोशेभ्यः क्षिप्रं स परिहीयते ॥ १०७
शृणु देव-
पुण्याल्लब्धं यदेकेन तन्ममापि भविष्यति ।
हत्वा भिक्षु महालोभान्निध्यर्थी नापितो हतः॥१०८॥"
राजा पृच्छति-' कथमेतत् १ ' मत्री कथयति-
कथा ९.
अस्त्ययोध्याया चूडामणि म क्षत्रियः । तेन धनार्थिना महता
कायक्लेशेन भगवाश्चन्द्रार्धचूडामणिश्चिरमारावित । ततः क्षीणपापोऽसौ स्वप्ने
दर्शन दत्त्वा भगवादेशाद्यक्षेश्वरेणादिष्ट'-' यत्त्वमद्यदा प्रात क्षौर कृत्वा लगुड-
हस्तः सन् गृहद्वारि निभृत स्थास्यसि ततोऽस्मिन्नेवागणे समागतं य भिक्षु
पश्यसि त निर्दय लगुडप्रहारेण हनिष्यसि । ततोऽसौ भिक्षुकस्तत्क्षणात् सुवर्ण-
पूर्णकलशो भविष्यति । तेन त्वया यावज्जीव सुखिना भवितव्यम् ।' ततस्त-
थानुष्ठिते तद्वृत्तम् । तत्र क्षौरकरणायानीतेन नापितेन तत्सवमालोक्य चिन्ति-
तम्-' अये । निधिप्राप्तेरयमुपाय तदहमप्येव कि न करोमि । ततः प्रभृति
नापितः प्रत्यह तथाविधो लगुडहस्त सुनिभृत भिक्षोरागमन प्रतीक्षते ।
एकदा तेन तथा प्राप्तो भिक्षुर्लगुडेन व्यापादितः । तस्मादपराधात्सोऽपि नापितो
राजपुरुषैर्व्यापादितः । अतोऽह ब्रवीमि-'पुण्याल्लब्धं यदेकेन ' इत्यादि ।
राजाह-
पुरावृत्तकथोद्गारैः कथं निर्णीयते परः।
स्यनिष्कारणबन्धुर्वा किं वा विश्वासघातकः ॥ १०९॥
(१०४)
[हितोपदेशे-
an
यातु, प्रस्तुतमनुसवीयताम् । मलयाधित्यकाया समासितो वर्तते चित्रवर्णो
राजा तदधुना कि विधेयम् ।' मत्री वदति- देव । आगतप्रणिधिमुखान्मया श्रुत
तन्मामन्त्रिणो गृध्रस्योपदेशे यच्चित्रवर्णेनानादर कृत । ततोऽसौ मूढो जेतु
शक्य । तथा चोक्तम्-
लुब्धः क्रूरोऽलसोऽसत्यः प्रमादी भीरुरस्थिरः।
मूढो योधावमन्ता च सुखच्छेद्यो रिपुः स्मृतः॥११०॥
ततोऽसौ यावदस्मदुर्गद्वाररोध न करोति तावन्नद्यद्रिवनवमसु तद्बलानि
हन्तु नारसादय सेनापतयो नियुज्यन्ताम् । तथा त्तोक्तम्-
दीर्घवर्त्मपरिश्रान्तं नद्यद्रिवनसंकुलम् ।
घोराग्निभयसन्त्रस्तं क्षुत्पिपासार्दितं तथा ॥ १११ ।।
प्रमत्तं भोजनव्यग्रं व्याधिदुर्भिक्षपीडितम् ।
असंस्थितमभूयिष्ठं वृष्टिवातसमाकुलम् ॥ ११२ ।।
पङ्कपांसुजलाच्छन्नं सुव्यस्तं दस्युविद्रुतम् ।
एवंभूतं महीपालः परसैन्यं विघातयेत् ॥ ११३॥
वन्यच-
-
अवस्कन्दभयाद्राजा प्रजागरकृतश्रमम् ।
दिवासुप्तं समाइन्यान्निद्राव्याकुलसनिकम् ॥ ११४ ।।
अतस्तस्य प्रमादिनो बल गत्वा यथावकाश दिवानिश घ्नन्त्वस्मत्सेनापतय. ।
तथानुष्ठिते चित्रवर्णस्य सैनिका सेनापतयश्च बहवो निहताः । ततश्चित्रवर्णो
विषण्ण' स्वमन्त्रिण दूरदर्शिनमाह-' तात । किमित्यस्मदुपेक्षा क्रियते । कि
क्वाप्यविनयो ममास्ति । तथा चोक्तम्-
न राज्यं प्राप्तमित्येव वर्तितव्यमसांप्रतम् ।
श्रियं ह्यविनयो हन्ति जरा रूपमिवोत्तमम् ॥ ११५ ।।
अपर च-
दक्षः श्रियमधिगच्छति पथ्याशी कल्पता सुखमरोगी।
उद्युक्ता विद्यान्तं धर्मार्थयशांसि च विनीतः॥ ११६॥
विग्रहः.]
(१०५)
गृध्रोऽवदत् देव । शृणु-
अविद्वानपि भूपालो विद्यावृद्धोपसेवया ।
परां श्रियमवाप्नोति जलासनतर्यथा ॥ ११७ ॥
अन्यच्च-
पानं स्त्रीमृगया यूतमर्थदूषणमेव च ।
वाग्दण्डयोश्च पारुष्यं व्यसनानि महीभुजाम् ॥११८॥
कि च-
न साहसैकान्तरसानुवर्तिना
न चाप्युपायोपहतान्तरात्मना।
विभूतयः शक्यमवाप्तुमूर्जिता
नये च शौर्ये च वसन्ति सम्पदः॥ ११९ ॥
त्वया स्वबलोत्साहमवलोक्य साहसैकवासिना मयोपन्यस्तेष्वपि मन्त्रेष्वन-
वधान वाक्पारुष्य च कृतम् । अतो दुनीते फलमिदमनुभूयते । तथा चोक्तम्-
दुर्मत्रिणं कमुपयान्ति न नीतिदोषाः
सन्तापयन्ति कमपथ्यभुजं न रोगा।
कं श्रीन दर्पयति कं न निहन्ति मृत्युः
कं स्त्रीकृता न विषयाः परितापयन्ति ॥ १२० ॥
अपर च-
मुदं विषादः शरदं हिमागम-
स्तमो विवस्वान्सुकृतं कृतघ्नता ।
प्रियोपपत्तिः शुचमापदं नया
श्रियः समृद्धा अपि हन्ति दुर्नयः ॥ १२१ ।।
ततो ममाप्यालोचितम्-'प्रज्ञाहीनोऽय राजा । नो चेत्कथ नीतिशास्त्रकथा-
कौमुदी वागुल्काभिस्तिमिरयति । यत -
यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् ।
लोचनाभ्यां विहीनस्य दर्पणः किं कीरष्यति ॥१२२॥
(१०६) [हितोपदेशे- । - इत्यालोच्य तूष्णी स्थित ।' अथ राजा बद्धाञ्जलिराह-' तात । अस्त्यय ममापराध इदानी यथावशिष्टबलसहितः प्रत्यावृत्त्य विन्ध्याचल गच्छामि तथो- पदिश।' गृध्र स्वगत चिन्तयति-' क्रियतामत्र प्रतीकार. । यत देवतासु गुरौ गोषु राजसुब्राह्मणेषु च । नियन्तव्यः सदा कोपो बालवृद्धातुरेषु च ॥ १२३॥ मन्त्री प्रहस्य ब्रूते- देव ! मा भैषी । समाश्वसिहि । शृणु, देव ! मन्त्रिणां भिन्त्रसंधाने भिषजां सान्निपातके। कर्मणि व्यज्यते प्रज्ञा सुस्थे को वान पण्डितः॥१२४॥ अपरच- आरभन्तेऽल्पमेवाज्ञाः कामं व्यग्रा भवन्ति च । महारम्भाः कृतधियस्तिष्ठन्ति च निराकुलाः ॥१२५॥ तदत्र भवत्प्रतापादेव दुर्गं भड्क्त्वा कीर्तिप्रतापबलसहित त्वामचिरेण कालेन विन्ध्याचल नेष्यामि । ' राजाह-'कथमधुना स्वल्पबलेन तत्सपद्यते १' गृध्रो वदति-' देव । सर्वं भविष्यति । यतो विजिगीषोरदीर्घसूत्रता विजयसिद्धेरवश्य- भाविलक्षण तत्सहसैव दुर्गावरोव क्रियताम् ' अथ प्रहितप्रणिधिना बकेनागत्य हिरण्यगर्भस्य तत्कथितम् — देव । स्वल्पबल एवाय राजा चित्रवर्णो गृधस्य मन्त्रो- पष्टम्भेन दुर्गावरोध करिष्यति । ' राजाह-'सर्वज्ञ । किमधुना विधेयम् ?' चक्रो ब्रूते--' स्वबले सारासारविचार क्रियताम् तज्ज्ञात्वा सुवर्णवस्त्रादिक यथाहं प्रसादप्रदान क्रियताम् । यतः- यः काकिणीमप्यपथप्रपन्नां समुद्धरेन्निष्कसहस्रतुल्याम् । कालेषु कोटिष्वपि मुक्तहस्त- स्तं राजसिंहं न जहाति लक्ष्मीः ॥ १२६ ॥ अन्यच्च- क्रतो विवाहे व्यसने रिपुक्षये यशस्करे कर्मणि मित्रसंग्रहे।
विग्रहः ]
(१०७)
प्रियासु नारीष्वधनेषु बान्धवे-
ष्वतिव्ययो नास्ति नराधिपाष्टसु ॥१२७॥
यत.
मूर्खः स्वल्पव्ययत्रासात्सर्वनाशं करोति हि ।
कः सुधीः संत्यजेद्भाण्डं शुल्कस्यैवातिलाध्वसात १२८
राजाह-'कथमिह समयेऽतिव्ययो युज्यते ?
उक्त च-'आपदर्थे धनं रक्षेत्' इति ।
मन्त्री ब्रूते-'श्रीमतः कथमापदः? राजाह-कदाचिचलते लक्ष्मीः।
मत्री ब्रूते-संचितापि विनश्यति ।
तदेव । कार्पण्य विमुच्य दानमानाभ्या स्वभटा पुरस्क्रियन्ताम् । तथा चोक्तम्-
परस्परं सुसंहृष्टास्त्यक्तुं प्राणान्सुनिश्चिताः।
कुलीनाः पूजिताःसम्यग्विजयन्ते द्विषद्बलम् ॥१२९॥
अपरच-
सुभटाः शीलसंपन्नाः संहताः कृतनिश्चयाः।
अपि पञ्चशतं शूरा निघ्नन्ति रिपुवाहिनीम् ॥१३०॥
किञ्च-
शिष्टैरप्यविशेषज्ञ उग्रश्च कृतनाशकः।
त्यज्यते किं पुनर्नान्यैर्यश्चाप्यात्मभरिनरः ॥ १३१ ॥
यतः
सत्यं शौर्य दया त्यागो नृपस्यैते महागुणाः ।
एभिर्मुक्तो महीपालः प्राप्नोति खलु वाच्यताम् ॥१३२ ॥
ईदृशि प्रस्तावेऽमात्यास्तावदेव पुरस्कर्तव्या । तथा चोक्तम्-
यो येन प्रतिबद्धः स्यात्सह तेनोदयी व्ययी।
स विश्वस्तो नियोक्तव्यः प्राणेषु च धनेषु च ।। १३३ ।।
यत'-
धूर्तः स्त्री वा शिशुर्यस्य मन्त्रिणः स्युर्महीपतेः।
अनीतिपवनक्षिप्तः कार्याब्धौ स निमज्जति ॥१३४ ॥
(१०८) [हितोपदेशे- शृणु देव! हर्षोधौ समौ यस्य कोशः स्वल्पव्ययेन च । नित्यं भृत्यातुपेक्षा च तस्य स्याद्धनदा धरा ॥ १३५॥ येषां राज्ञा सह स्यातामुच्चयापचयो ध्रुवम् । अमात्या इति तानाजा नावमन्येत्कदाचन ॥१३६॥ यत । महीभुजो मदान्धस्य मज्जतोऽकार्यसागरे। स्खलतो हि करालम्बः सुहृत्सचिवचेष्टितम् ॥ १३७ ॥' अथागत्य प्रणम्य मेघवर्णो ब्रूते- देव ! दृष्टिप्रसाद कुरु' इदानीं विपक्षो युद्धार्थी दुर्गद्वारि वर्तत । तद्देवपादादेशाद्वहिनि सृत्य स्वविक्रम दर्शयामि तेन देवपादानामानृश्यमुपगच्छामि । ' चक्रवाको ब्रूते-' मैवम्, यदि बहिनि मृत्य योद्धव्य तदा दुर्गाश्रयणमेव निष्प्रयोजनम् । अपरं च- विषमो हि यथा नक्रः सलिलानिर्गतोऽवशः। वनाद्विनिर्गतः शूरः सिंहोऽपि स्याच्छृगालवत् ॥१३८॥ देव ! स्वय गत्वा दृश्यता युद्धम् । यत:- पुरस्कृत्य बलं राजा योधयेदवलोकयन् । स्वामिनाधिष्ठितःश्वापि किं न सिहायते ध्रुवम्॥१३९॥' अथ ते सर्वे दुर्गद्वार गत्वा महाहव कृतवन्त । अपरेधुश्चित्रवर्णो राजा गृध- मुवाच-'तात ! स्वप्रतिज्ञातमधुना निर्वाहय ।' गृध्रो ब्रूते-'देव ! शृणु। तावत्- अकालसहमत्यल्पं मूर्खव्यसनिनायकम् । अगुप्त भीरुयोधं च दुर्गव्यसनमुच्यते ॥ १४०॥ तत्तावदत्र नास्ति- उपजापश्चिरारोधोऽवस्कन्धस्तीव्रपौरुषम् । दुर्गस्य लंघनोपायाश्चत्वारः कथिता इमे ॥ १४१॥ अत्र यथाशक्ति क्रियते यत्न । चित्रवर्णः कथयति ' एवमेव ।' ततो- ऽनुदित एव भास्करे चतुर्ध्वपि दुर्गद्वारेषु वृत्ते युद्धे दुर्गाभ्यन्तरगृहेष्वकदा काकै- रग्निनि क्षिप्तः । तत. 'गृहीत गृहीत दुर्गम् ' इति कोलाहल श्रुत्वाऽनेकगृहेषु च - ,
-
विग्रहः.]
(१०९)
पावकम्प्रदीप्त प्रत्यक्षेणावलोक्य राजहससैनिका बहवो दुर्गवासिनश्च सत्वर हृद
प्रविष्टा । यत
सुमन्त्रितं सुविक्रान्तं सुयुद्धं सुपलायितम् ।
कार्यकाले यथाशक्ति कुर्यान तु विचारयेत् ॥ १४२ ॥
राजहस स्वभावान्मन्दगति सारसद्वितीयश्च चित्रवर्णस्य सेनापतिना कुक्कुटे-
नागत्य वेष्टित हिरण्यगर्भ सारसमाह--' सारस सेनापते । ममानुरोधादात्मान
कथ व्यापादयिष्यसि, त्वमधुना गन्तु शक्त ।तत्कृत्वा जल प्रविश्यात्मान परिरक्ष ।
अस्म पुत्र चूडामणिनामान सर्वज्ञसमत्या राजान करिष्यसि ।'सारसो ब्रूते-'देव न
वक्तव्यमेव दुसह वचा, यावच्चन्द्राकौं दिवि तिष्ठतस्तावद्विजयता देवः । अह देवा
दुर्गाविकारी । मन्मासासृग्विलिप्तेन द्वारवर्मना प्रविशतु शत्रु । अपर च देव ।
दाता क्षमी गुणग्राही स्वामी भाग्येन लभ्यते।'
राजाह-'सत्यमेवैतत् । कि तु-
शुचिर्दक्षोऽनुरक्तश्च जानेभृत्योऽपि दुर्लभः ॥ १४३ ॥
सारसो ब्रूते-' शृणु देव ।
यदि समरमपास्य नास्ति मृत्यो-
र्भयमिति युक्तमितोऽन्यतः प्रयातुम् ।
अथ मरणमवश्यमेव जन्तोः
किमिति मुधा मलिनं यशः क्रियेत ॥ १४४ ॥
अन्यच्च-
भवेऽस्मिन्पवनोद्धान्तवीचिविभ्रमभङ्गरे।
जायते पुण्ययोगेन परार्थे जीवितव्ययः॥ १४५ ।।
देव । त्व च स्वामी सर्वथा रक्षणीय । यत.-
स्वाम्यमात्यश्च राष्ट्रं च दुर्ग कोशो बलं सुहृत् ।
राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च ॥ १४६॥
अपि च-
प्रकृतिः स्वामिनं त्यक्त्वा समुद्धापि न जीवति ।
अपि धन्वन्तरिवैद्यः किं करोति गतायुषि ॥ १४७॥
(११०) [हितोपदेशे- - अपरं च-- नरेशे जीवलोकोऽयं निमीलति निमीलति । उदेत्युदीयमाने च रवाविव सरोरुहम् ॥ १४८ ॥ अथ कुक्कुटेनागत्य राजहसस्य शरीरे खरतरनखाघात कृत.तदा सत्वरमुपमृत्य सारसेन स्वदेहान्तरितो राजा । अथ कुकुटनखप्रहारजर्जरीकृतेन सारसेन स्वाङ्गेना- न्छाद्य राजा जले प्रक्षिप्त कुक्कुटोऽपि सेनापतिना सारसेन स्वचञ्चुप्रहारेण व्यापादित । पश्चात् सारसोऽपि बहुभि पक्षिभि सम्भूय व्यापादित ।अथ चित्र- वर्णो दुर्ग प्रविश्य दुर्गावस्थित द्रव्य ग्राहयित्वा वन्दिमिर्जयशब्दैरानन्दित. स्वस्क- न्वावार जगाम ॥ अथ राजपुत्रैरुक्तम्-' तस्मिन् राजहसबले स पुण्यवान्सारस एव, येन स्वदेह- त्यागेन स्वामी रक्षित.। उक्त चैतत्- जनयन्ति सुतान गावः सर्वा एव गवाकृतीन् । विषाणोल्लिखितस्कन्धं काचिदेव गवां पतिम्॥१४९॥ विष्णुशर्मोवाच- स तावत् सत्त्वक्रीतानक्षयॉल्लोकान्विद्याधरीपरिजनोऽनुभवतु महासत्त्वः । तथा चोक्तम्- आहवेषु च ये शूराः स्वाम्यर्थे त्यक्तजीविताः। भर्तृभक्ताः कृतज्ञाश्च ते नराः स्वर्गगामिनः ॥ १५० ॥ यत्र तत्र हतः शूरः शत्रुभिः परिवेष्टितः। अक्षयाल्लभते लोकान्यदि क्लैब्यं न गच्छति ॥ १५१ ॥ विग्रहः श्रुतो भवद्भिः ।' राजपुत्रैरुक्तम्-' श्रुत्वा सुखिनो वयम् ' । विष्णु- शर्माऽब्रवीत् ' अपरमायेवमस्तु । विग्रहः करितुरङ्गपत्तिभिः ! कदापि भवतां महीभुजाम् । नीतिमन्त्रपवनः समाहताः संश्रयन्तु गिरिगह्वरं द्विषः ॥१५२ ॥' इति श्रीविष्णुशर्मकृते हितो देशे विग्रहस्तृतीयः ॥३॥ । MES सन्धिः। - - पुन. कथारम्भकाले राजपुत्रैरुक्तम्-' आर्य । विग्रह श्रुतोऽस्माभिः । सन्धि- रधुनाभिधीयताम् ' । विष्णुशर्मणोक्तम्-' श्रयताम् । सन्धिमपि कथयामि । यस्यायमाद्य श्लोक वृत्ते महति सङ्ग्रामे राज्ञानिहतसेनयोः। स्थेयाभ्यांगृध्रचक्राभ्यांवाचा सन्धिः कृतःक्षणात् ॥१॥' राजपुत्रा ऊचु -कथमेतत् १ विष्णुशर्मा कथयति ततस्तेन राजहसेनोक्तम्-केनास्मदुर्गे नि क्षिप्तोऽग्नि -कि पारक्येण कि वास्मदुर्गवासिना केनापि विपक्षप्रयुक्तेन १' चक्रवाको ब्रूते-देव । भवतो निष्कारणबन्धुरसौ मेघवर्ण. सपरिवारो न दृश्यते । तन्मन्ये तस्यैव विचेष्टित- मिदम् ।' राजा क्षण विचिन्त्याह-'अस्ति तावदेव, मम दुर्दैवमेतत् । तथा चोक्तम्- अपराधः स दैवस्य न पुनर्मन्त्रिणामयम् । कार्य सुचरितं कापि दैवयोगाद्विनश्यति ॥२॥' मन्त्री ब्रूते-' उक्तमेवैतत्- विषमां हि दशां प्राप्य दैवं गर्हयते नरः। आत्मनः कर्मदोषांश्च नैव जानात्यपण्डितः ॥ ३ ॥ - अपर च-- सुहृदां हितकामानां यो वाक्यं नाभिनन्दति । स कूर्म इव दुर्बुद्धिः काष्ठाद्रष्टो विनश्यति ॥४॥ राजाह-'कथमेतत् १ ' मन्त्री कथयति- कथा १. अम्ति मगवदेशे फुलोत्पलाभिवान सर । तत्र चिर संकटाविकटनामानौ हंसौ निवसत । तयोमित्र कम्बुग्रीवनामा कूर्मश्च प्रतिवसति । अथैकदा वीवरैरागत्य तत्रोक्तम्-' यदत्रास्माभिरद्योषित्वा प्रातमत्स्यकूर्मादयो व्यापादयि- । तदाकर्ण्य कूर्मों हसावाह - सुहृदौ ।, श्रुतोऽय धीवरालाप । अधुना - नव्या - (११२) [हितोपदेशे- कि मया कर्तव्यम् १ ' हंसावाहतु' ज्ञायताम् । पुनस्तावत्प्रातर्यदुचित तत्कर्त- व्यम् । कूर्मो ब्रूते-' मैवम् । यतो दृष्टव्यतिकरोऽहमत्र । तथा चोक्तम्- अनागतविधाता च प्रत्युत्पन्नमतिस्तथा । द्वावेतो सुखमेधेते यद्भविष्यो विनश्यति ॥ ५॥' तावाहतुः-' कथमेतत् ? कूर्म कथयति- कथा २. पुरास्मिन्नेव सरस्येवविधेषु धीवरेषूपस्थितेषु मत्स्यत्रयेणालोचितम् । तत्र अनागतविधाता नामैको मत्स्य । तेनालोचितम्-' अह तावजलाश- यान्तर गच्छामि ' इत्युक्त्वा ह्रदान्तर गत । अपरेण प्रत्युत्पन्नमतिनाम्ना मत्स्येनाभिहितम्-' भविष्यदर्थे प्रमाणाभावात्कुत्र मया गन्तव्यम् १ तदुत्पन्ने यथाकार्य तदनुष्ठेयम् । तथा चोक्तम्- उत्पन्नामापदं यस्तु समाधत्ते स बुद्धिमान् । वणिजो भार्यया जारः प्रत्यक्षे निहतो यथा ॥ ६ ॥' यद्भविष्यः पृच्छति-' कथमेतत् । ' प्रत्युत्पन्नमति कथयति- - कथा ३. विक्रमपुरे समुद्रदत्तो नाम वणिगस्ति । तस्य रत्नप्रभा नाम गृहिणी स्वसेवकेन सह सदा रमते । न स्त्रीणामप्रियः कश्चित्प्रियो वापि न विद्यते । गावस्तृणमिवारण्ये प्रार्थयन्ति नवनवम् ॥ ७ ॥ अथैकदा सा रत्नप्रभा तस्य सेवकस्य मुखे चुम्बन ददती समुद्रदत्तेनावलो- किता। तत सा बन्धकी सत्वर भर्तु समीप गत्वाह-' नाथ । एतस्य सेवकस्य महती निर्वृति । यतोऽय चोरिका कृत्वा कर्पूर खादतीति मयास्य मुखमाघ्राय ज्ञातम् ।' तथा चोक्तम्- आहारो द्विगुणः स्त्रीणां बुद्धिस्तासां चतुर्गुणा । षड्गुणो व्यवसायश्च कामश्चाष्टगुणः स्मृतः ॥८॥' - + m- सन्धिः.] (११३) तच्छ्रुत्वा सेवकेन प्रकुप्योक्तम्-' नाथ । यस्य स्वामिनो गृहे एतादृशी भार्या तत्र सेवकेन कथ स्थातव्यम् १ यत्र प्रतिक्षणं गृहिणी सेवकस्य मुर्ख जिघ्रति । ' ततोऽसावुत्थाय चलितः, साधुना यत्नात्प्रबोध्य धृतः । अतोऽहं ब्रवीमि उत्पन्नामापदम्' इत्यादि । ततो यद्भविष्येणोक्तम्- 'यदभावि न तद्भावि भावि चेन तदन्यथा। इति चिन्ताविषघ्नोऽयमगदः किं न पयिते ॥ ९ ॥ तत प्रातर्जालेन बद्ध. प्रत्युत्पन्नमतिर्मुतवदात्मानं संदर्य स्थितः । ततो जालादपसारितो यथाशक्त्युत्प्लुत्य गभीर नीर प्रविष्ट. । यद्भविष्यश्च धीवरैः प्राप्तो व्यापादित । अतोऽह ब्रवीमि-' अनागतविधाता' इत्यादि ।। तद्यथाहमन्यहद प्राप्नोमि तथा क्रियताम् ।' हसावाहतु:-' जलाशयान्तरं प्राप्त तव कुशलम् । स्थले गच्छतस्ते को विधिः १' कूर्म आह-- यथाहं भवद्भया सहाकाशवर्मना यामि स उपायो विधीयताम् ।' हंसौ ब्रूतः-' कथमु- पाय संभवति १' कच्छपो वदति-' युवाभ्यां चंचूधृतं काष्ठखण्डमेकं मया मुखेनावलम्ब्य गन्तव्यम् । युवयोः पक्षबलेन मयापि सुखेन गन्तव्यम् । ' हसौ बृतः-'सभवत्येष उपायः । किं तु- उपायं चिन्तयन्प्राज्ञो ह्यपायमपि चिन्तयेत् । पश्यतो बकमूर्खस्य नकुलैक्षिताः प्रजाः ॥ १० ॥ कूर्मः पृच्छति- कथमेतत् ? ' तौ कथयतः-- -- कथा ४. अत्युत्तरापथे गृध्रकृटो नाम पर्वतः । तत्रैव रेवातारे न्यग्रोवपादपे बका निवसन्ति । तस्य वृक्षस्याधस्ताद्विवरे सर्पस्तिष्ठति । स च बकाना बालापत्यानि खादति । अथ शोकार्ताना बकाना विलापं श्रुत्वा केनचिद्वकेना- भिहितम्-'भो ! एव कुरुत, यूयं मत्स्यानुपादाय नकुलविवरादारभ्य सर्पविवरं . (११४) [हितोपदेशे- यावदेकैकशो मत्स्यान् पक्तिक्रमेण विकिरत, ततस्तदाहारलुब्धैनकुलैस्तद्वम॑ना- गत्य सर्पो द्रष्टव्य. स्वभावद्वेषाद्वयापादयितव्यश्च । ' तथानुष्टिते तदृत्तम् । तत- स्तत्र वृक्षे नकुलैर्बकशावकराव श्रुतः, पश्चात्तैर्वृक्षमारुह्य बकशावका खादिताः । अत आवा ब्रूव -' उपायं चिन्तयन् ' इत्यादि । आवाभ्या नीयमान त्वामवलोक्य लोकै किञ्चिद्वक्तव्यमेव । तदाकर्ण्य यदि त्वमुत्तर दास्यसि तदा त्वन्मरणम् , तत्सर्वथात्रैव स्थीयताम् । ' कूर्मों वदति- किमहमप्राज्ञ. १ नाहमुत्तर दास्यामि, किमपि न वक्तव्यम् । , तथानुष्ठिते तथाविव कूर्ममालोक्य सर्वे गोरक्षका पश्चाद्धावन्ति वदन्ति च-" अहो महदा- श्चर्यम् । पक्षिभ्या कूर्म. समुह्यते ।' कश्चिद्वदति-' यद्यय कूर्म पतति तदात्रैव पक्त्वा खादितव्य' ।' कश्चिद्वदति- अत्रैव सरस्समीपे दग्ध्वा खादितव्यो- ऽयम् ।'कश्चिद्वदति- गृहं नीत्वा भक्षणीय ' इति । तत्परुषवचन श्रुत्वा स कूर्म कोपाविष्टो विस्मृतपूर्वसस्कार प्राह- युष्माभिर्भस्म भक्षितव्यम् ।' इति वदन्नेव पतितस्तैळपादितश्च । अतोऽह ब्रवीमि सुहृदां हितकामानाम् इत्यादि ।। अथ प्रणिविर्बकस्तत्रागत्योवाच- देव । प्रागेव मया निगदितम् । दुर्ग- शोधन हि प्रतिक्षग कर्तव्यमिति तच्च युष्माभिर्न कृम् , तदनववानस्य फलमनु- भूतम् । दुर्गदाहो मेववर्णेन वायसेन गृध्रप्रयुक्तेन कृतः ।' राजा निश्वस्याह- 'प्रणयादुपकाराद्वा यो विश्वसिति शत्रुषु स सुप्त इव वृक्षापात्पतितःप्रतिबुद्धयते ॥ ११॥' प्रणिधिरुवाच-' इतो दुर्गदाह विधाय गतो मेघवर्णस्तदा चित्रवर्णेन प्रसा- दितेनोक्तम्-' अय मेववर्णोऽत्र कर्पूरद्वीपराज्येऽभिषिच्यताम् । तथा चोक्तम्- कृतकृत्यस्य भृत्यस्य कृतं नैव प्रणाशयेत् । फलेन मनसा वाचा दृष्टया चैनं प्रहर्षयेत् ॥ १२॥" चक्रवाको ब्रूते-' देव । श्रुत यत्प्रणिविः कथयति ? ' राजाह- ततस्ततः ।' प्रणिविरवोचत्-तत. प्रधानमन्त्रिणा गृध्रेणाभिहितम्-' देव । नेदमुचितम् । प्रसादान्तर किमपि क्रियताम् । यत--- सन्धिः.] (११५) अविचारयतो युक्तिकथनं तुषखण्डनम् । नीचेषूपकृतं राजन्वालुकास्विव मूत्रितम् ॥ १३ ॥ महतामास्पदे नीच कदापि न कर्तव्य. । तथा चोक्तम्- नीचः श्लाध्यपदं प्राप्य स्वामिनं हन्तुमिच्छति। मूषिको व्याघ्रतां प्राप्य मुनि हन्तुं गतो यथा ॥ १४॥' चित्रवर्ण पृच्छति-' कथमेतत् १' मन्त्री कथयति- कथा ५. अस्ति गौतमस्य महर्षेस्तपोवने महातपा नाम मुनिः। तत्र तेनाश्रम- सन्निधाने मूषिकशावकः काकमुखाद्भष्टो दृष्टः । तत. स्वभावदयात्मना तेन मुनिना नीवारकणैस्सवद्धितः । त च मूषिक खादितुमनुधावन् बिडालो मुनिना दृष्ट । पश्चात तप प्रभावात् तेन मुनिना स मूषिको बलिष्ठो बिडाल कृतः । स बिडाल कुकुराद्विभेति । ततोऽसौ कुक्कुर कृत । कुक्कुरस्य ततो व्याघ्रान्म- हद्भयमभूत् । तदनन्तर स व्याघ्र कृत । अथ त व्याघ्र मुनिर्मूषिकनिर्विशेष पश्यति । अतः सर्वे तत्रत्या व्याघ्र दृष्ट्वा वदन्ति । अनेन मुनिना मूषिको व्याघ्रता नीत. । एतन्छ्रुत्वा स व्याघ्र सव्यथमचिन्तयन्-यावदनेन मुनिना जीवितव्य तावदिद मे स्वरूपाख्यानमकीर्तिकर न पलायिष्यते इत्यालोच्य मुनि हन्तु समु- द्यतः । मुनिस्तस्य चिकीर्षितं ज्ञात्वा ' पुनर्मूषिको भव इत्युक्त्वा मूषिक एव कृत । अतोह ब्रवीमि-- नीचः श्लाघ्यपदम् ' इत्यादि ॥ अपर च देव । सुकरमिदमिति न मन्तव्यम् । शृणु- भक्षयित्वा बहून्मत्स्यानुत्तमाधममध्यमान् । अतिलोभाद्वकः पश्चान्मृतः कर्कटकग्रहात् ॥ १५॥ चित्रवर्ण पृच्छति--' कथमेतत् १ ' मन्त्री कथयति- कथा ६. अस्ति मालवदेशे पद्मगर्भनामवेय सर. । तत्रैको वृद्धो बकः सामर्थ्यहीन उद्विग्नमिवात्मान दर्शयित्वा स्थित । स च केनचित्कुलीरेण दृष्ट. दूरादेव - , (११६) [हितोपदेशे- पृष्टश्च-'किमिति भवानत्राहारत्यागेन तिष्ठति ? बकेनोक्तम्-' मत्स्या मम जीवनहेतव । ते कैवतैरागत्य व्यापादयितव्या इति नगरोपान्ते कैवर्तालापो मया श्रुत. । अतो वर्तनाभावादेवास्मन्मरणमुपस्थितमिति ज्ञात्वाहारेऽप्यनादर कृत । ततो मत्स्यैरालोचितम्-' इह समये तावदुपकारक एवाय लक्ष्यते तदय- मेव यथाकर्तव्य पृच्छयताम् । तथा चोक्तम्- उपकारिणा संधिर्न मित्रेणापकारिणा । उपकारापकारौ हि लक्ष्यं लक्षणमेतयोः ॥ १६ ॥ मत्स्या ऊचु -'भो बक | कोऽत्रास्माक रक्षणोपाय " बको ब्रूते-' अस्ति रक्षणोपायो जलाशयान्तराश्रयणम्, तत्राहमेकैकशो युष्मान्नयामि ।' मत्स्या भयादाहु -'एवमस्तु ।' ततोऽसौ बकस्तान्मत्स्यानेकैकशो नीत्वा कस्मिश्चिद्देशे खादित्वा पुनरागत्य वदति ' ते मया जलाशयान्तरे प्रस्थापिता ।' अनन्तर कुलीरस्तमुवाच- भो बक । मामपि तत्र नय ।' ततो बकोऽप्यपूर्वकुलीरमा- सार्थी सादर त नीत्वा स्थले वृतवान् । कुलीरोऽपि मत्स्यकण्टकाकीण तत्स्थल- मालोक्याचिन्तयत-' हा । हतोऽस्मि मन्दभाग्य । भवतु । इदानीं समयोचित व्यवहरिष्यामि । यत:- तावद्भयातु भेतव्यं यावद्भयमनागतम् । आगतं तु भयं वीक्ष्य प्रहर्तव्यमभीतवत् ॥ १७ ॥ - अपर च-- आभियुक्तो यदा पश्येन किश्चिद्धितमात्मनः। युद्धयमानस्तदा प्राज्ञो म्रियते रिपुणा सह ॥ १८ ॥ इत्यालोच्य कुलीरस्तस्य ग्रीवा चिच्छेद । स बक पञ्चत्व म्मतः । अतोऽह ब्रवीमि-भक्षयित्वा बहून्मत्स्यान् ' इत्यादि । ततश्चित्रवर्णोऽवदत् 'शृणु तावन्मन्त्रिन् । मयैतदालोचितमस्ति । अत्रा- वस्थितेन मेववर्णेन राज्ञा यावन्ति वस्तूनि कर्पुरद्वीपस्योत्तमानि तावन्त्यस्माक- मुपनेतव्यानि । तेनास्माभिर्महासुखेन विन्ध्याचले स्थातव्यम् ।' दूरदर्शी विहस्याह-' देव !
सन्धिः.] (११७) अनागतवती चिन्तां कृत्वा यस्तु प्रहृष्यति । स तिरस्कारमाप्नोति भग्नभाण्डो द्विजो यथा ॥ १९ ॥ राजाह-'कथमेतत् १' मन्त्री कथयति- कथा ७. अस्ति देवीकोटनाम्नि नगरे देवशर्मा नाम ब्राह्मणः । तेन महाविधु- वत्सक्रान्त्या सक्तुपूर्णशराव एक प्राप्त । तमादायासौ कुम्भकारस्य भाण्डपूर्ण- मण्डपैकदेशे रौद्रेणाकुलित सुप्त । तत सक्तुरक्षार्थ हस्ते दण्डमेकमादायाचि- न्तयन्-“यद्यह सक्तुशराव विक्रीय दशकपर्दकान्प्रास्यामि,तदात्रैव तै कपर्दकै- र्घटशरावादिकमुपक्रीयानेकवा वृद्धस्तद्धनै पुन पुन, पूगवस्त्रादिकमुपक्रीय विक्रीय वाणिज्य कृत्वा लक्षसख्यानि धनानि कृत्वा विवाहचतुष्टय करिष्यामि, अनन्तर तासु सपत्नीषु रूपयौवनवती या तस्यामविकानुराग करिष्यामि, मपत्न्यो यदान्योन्य द्वन्द्व करिष्यन्ति तदा कोपाकुलोऽह ता लगुडेन ताडयि- ष्यामि " इत्यभिधाय लगुड क्षिप्तः । तेन सक्तुशरावश्चर्णितो भाण्डानि च बहूनि भग्नानि । ततस्तेन शब्देनागतेन कुम्भकारेण तथाविधानि भाण्डान्य- वलोक्य ब्राह्मणस्तिरस्कृतो मण्डपाबहिष्कृतश्च । अतोऽह ब्रवीमि- अनाग- तवती चिंताम् ' इत्यादि ॥ ततो राजा रहसि गृध्रमुवाच- तात । यथा कर्तव्य तथोपदिश ।' गृध्रो ब्रूते- मदोद्धतस्य नृपतेः संकीर्णस्येव दन्तिनः। गच्छन्त्युन्मार्गयातस्य नेतारः खलु वाच्यताम् ॥२०॥ शृणु देव । किमस्माभिर्बलढदुर्ग भग्नम् , न । कि तु तव प्रतापाधिष्ठिते- नोपायेन ) ' राजाह-' भवतामुपायेन । गृध्रो ब्रूते- यद्यस्मद्वचन क्रियते तदा स्वदेशे गम्यताम् । अन्यथा वर्षाकाले प्राप्ते तुल्यबलेन सह पुनर्विग्रहे सत्यस्माक परभूमिष्ठाना स्वदेशगमनमपि दुर्लभ भविष्यति । सुखशोभार्थ सधाय गम्यताम् । दुर्ग भग्न कीर्तिश्च लब्धैव मम समत तावदेतत् । यत.- ,
(११८)
[हितोपदेशे-
यो हि धर्म पुरस्कृत्य हित्वा भर्तुः प्रियाप्रिये ।
अप्रियाण्याह तथ्यानि तेन राजा सहायवान् ॥ २१॥
अन्यच्च-
सुहृद्धलं तथा राज्यमात्मानं कीर्तिमेव च ।
युधि सन्देहदोलास्थं को हि कुर्यादबालिशः ॥ २२ ॥
अपर च-
-
मनया
वर वर-
संधिमिच्छेत्समेनापि संदिग्धो विजयो युधि ।
न हि संशयितं कुर्यादित्युवाच बृहस्पतिः॥ २३ ॥
अपि च-
युद्धे विनाशो भवति कदाचिदुभयोरपि ।
सुन्दोपसुन्दावन्योन्यं नष्टौ तुल्यबलौ न किम् ॥२४॥
राजोवाच-'कथमेतत् ? ' मन्त्री कथयति-
कथा ८.
पुरा दैत्यौ महोदरौ सुन्दोपसुन्दनामानौ महता क्लेशेन त्रैलोक्यका-
चिराचन्द्रशेखरमाराधितवन्तौ । ततस्तयोर्भगवान्परितुष्ट. '
यतम्' इत्युवाच । अनन्तर तयो कण्ठाविष्ठितया सरस्वत्या तावन्यद्वक्तुकामा-
वन्यदभिहितवन्तौ, यद्यावयोर्भवान्परितुष्टस्तदा स्वप्रिया पार्वती परमेश्वरो ददातु ।
अथ भगवता क्रुद्धेन वरदानस्यावश्यकतया विचारमूढयो पार्वती प्रदत्ता । तत-
स्तस्या रूपलावण्यलुब्धाभ्या जगद्धातिभ्या मनसोत्सुकाभ्या पापतिमिराभ्या मम
ममेत्यन्योन्यकलहाभ्या प्रमाणपुरुष कश्चित्पृच्छयतामिति मतौ कृताया स एव
भट्टारको वृद्धद्विजरूप समागत्य तत्रोपस्थितः । अनन्तरम् ' आवाभ्यामिय
स्वबललब्धा । कस्येयमावयोर्भवति १' इति ब्राह्मणमपृच्छताम् ।
ब्राह्मणो ब्रूते-
ज्ञानश्रेष्ठो द्विजः पूज्यः क्षत्रियो बलवानपि ।
धनधान्याधिको वैश्यः शूद्रस्तु द्विजसेवया ॥२५ ॥
सन्धि:.1 (११९) तद्युवा शत्रुधर्मानुगौ । युद्ध एव युवयोनियमः।' इत्यभिहिते सति — साधूक्त- मनेन' इति कृतान्योन्यतुल्यवीरों समकालमन्योन्यघातेन विनाशमुपगतौ । 'अतोऽह ब्रवीमि-'संधिमिच्छेत्समेनापि' इत्यादि । राजाह-' प्रागेव कि नोक्त भवद्भि.१ ' मत्री ब्रूते-'मद्वचन किमवसानपर्यन्त श्रुत भवद्भिः । तदापि मम संमत्या नाय विग्रहारभ्भ ।साधुगुणयुक्तोऽय हिर- ण्यगर्भो न विग्राह्यः । तथा चोक्तम्- सत्यारों धार्मिकोनार्यो भ्रातृसंघातवान्बली । अनेकयुद्धविजयी संधेयाः सप्त कीर्तिताः ॥ २६ ॥ सत्योऽनुपालयेत्सत्यं सन्धितो नैति विक्रियाम् । प्राणबाधेऽपि सुव्यक्तमार्यो नायात्यनार्यताम् ॥ २७ ॥ धार्मिकस्याभियुक्तस्य सर्व एव हि युध्यते। प्रजानुरागाद्धर्माच्च दुःखोच्छेद्यो हि धार्मिकः॥२८॥ सन्धिः कार्योऽप्यनार्येण विनाशे समुपस्थिते । विना तस्याश्रयेणार्यों न कुर्यात्कालयापनम् ॥ २९ ॥ संहतत्वाद्यथा वेणुनिबिडैः कण्टकैर्वृतः। न शक्यते समुच्छेत्तुं भ्रातृसंघातवांस्तथा ॥ ३० ॥ बलिना सह योद्धव्यमिति नास्ति निदर्शनम् । प्रतिवातं न हि घनः कदाचिदुपसर्पति ॥ ३१ ॥ जमदग्नेः सुतस्येव सर्वः सर्वत्र सर्वदा । अनेकयुद्धजयिनः प्रतापादेव भुज्यते ॥ ३२ ॥ अनेकयुद्धविजयी संन्धानं यस्य गच्छति । तत्प्रतापेन तस्याशु वशमायान्ति शत्रवः ॥ ३३ ॥ तत्र तावद्बहुभिर्गुणैरुपेत सन्धेयोऽयं राजा।' चक्रवाकोऽवदत्-'प्रणिवे ! सर्वत्रावव्रज सर्वमवगतम् । गत्वा पुनरागमिष्यसि । ' अथ राजा चक्रवाक पृष्ट- वान्-'मन्त्रिन् । असन्धेया कति ताञ्छ्रोतुमिच्छामि १ . मत्री ब्रूते-'देव ! कथयामि । शृणु- -
(१२०)
[हितोपदेशे-
बालो वृद्धो दीर्घरोगी तथा ज्ञातिबहिष्कृतः।
भीरुको भीरुजनको लुब्धो लुब्धजनस्तथा ॥ ३४ ॥
विरक्तप्रकृतिश्चैव विषयेष्वतिसक्तिमान् ।
अनेकचित्तमंत्रस्तु देवब्राह्मणनिन्दकः ॥ ३५ ॥
देवोपहतकश्चैव तथा देवपरायणः
दुर्भिक्षव्यसनोपेतो बलव्यसनसंकुलः ॥ ३६ ॥
अदेशस्थो बहुरिपुर्युक्तः कालेन यश्च न
सत्यधर्मव्यपेतश्च विंशतिः पुरुषा अमी॥ ३७॥
एतैः सन्धि न कुर्वीत विग्रहीयात्तु केवलम् ।
एते विगृह्यमाणा हि क्षिप्रं यान्ति रिपोर्वशम् ॥ ३८ ॥
बालस्याल्पप्रभावत्वान लोको योद्धमिच्छति ।
युद्धायुद्धफलं यस्माज्ज्ञातुं शक्तो न बालिशः ॥ ३९ ॥
उत्साहशक्तिहीनत्वावृद्धो दीर्घामयस्तथा ।
स्वैरेव परिभूयेते द्वावप्येतावसंशयम् ॥ ४० ॥
सुखोच्छेद्यो हि भवति सर्वज्ञातिबहिष्कृतः।
त एवैनं विनिघ्नन्ति ज्ञातयस्त्वात्मसात्कृतः॥४१ ।।
भीरुयुद्धपरित्यागात्स्वयमेव प्रणश्यति ।
तथैव भीरुपुरुषः संग्रामे तैर्विमुच्यते ॥४२॥
लुब्धस्यासंविभागित्वान्न युद्धचन्तेऽनुयायिनः।
लुब्धातुजीविकैरेष दानभिन्नैर्निहन्यते ॥ ४३ ॥
संत्यज्यते प्रकृतिभिर्विरक्तप्रकृतियुधि ।
सुखाभियोज्यो भवति विषयेष्वतिसक्तिमान् ॥ ४४ ।।
अनेकचित्तमन्त्रस्तु भेद्यो भवति मंत्रिणा।
अनवस्थितचित्तत्वात्कार्यतः स उपेक्ष्यते ॥ ४५ ॥
सदा धर्मबलीयस्त्वदेवब्राह्मणनिन्दकः ।
विशीर्यते स्वयं ह्येष दैवोपहतकस्तथा ॥ ४६ ॥
सन्धिः.] (१२१) संपत्तेश्च विपत्तेश्च दैवमेव हि कारणम् । इति देवपरो ध्यायन्नात्मानमपि चेष्टते ॥ ४७ ॥ दुर्भिक्षव्यसनी चैव स्वयमेव विषीदति । बलव्यसनयुक्तस्य योद्धं शक्तिर्न जायते ॥४८॥ अदेशस्थो हि रिपुणा स्वल्पकेनापि हन्यते । ग्राहोऽल्पीयानपि जले गजेन्द्रमपि कर्षति ॥ ४९ ॥ बहुशत्रुस्तु संत्रस्तः श्येनमध्ये कपोतवत् । येनैव गच्छति पथा तेनैवाशु विपद्यते ॥ ५० ॥ अकालसैन्ययुक्तस्तु हन्यते कालयोधिना। कौशिकेन हतज्योतिर्निशीथ इव वायसः॥५१॥ सत्यधर्मव्यपेतेन संदध्यान कदाचन । स संधितोऽप्यसाधुत्वादचिराद्याति विक्रियाम्॥५२॥ अपरमपि कथयामि । सधिविग्रहयानामनसश्रयद्वैधीभावा पाइगुण्यम्, कर्मणामारम्भोपाय पुरुषद्रव्यसपद्देशकालविभागो विनिपातप्रतीकार कार्य- सिद्धिश्चेति पञ्चाङ्गो मन्त्रः, सामदानभेददण्डाश्चत्वार उपायाः, उत्साह- शक्तिर्मन्त्रशक्ति' प्रभुशक्तिश्चेति शक्तित्रयम्, एतत्सर्वमालोच्य नित्य विजिगी- घवो भवति महान्त । यत - या हि प्राणपरित्यागमूल्येनापि न लभ्यते । सा श्रीतिविदं पश्य चञ्चलापि प्रधावति ॥ ५३ ।। था चोक्तम्- वित्तं यदा यस्य समं विभक्तं गूढश्चरः सनिभृतश्च मन्त्रः। न चाप्रियं प्राणिषु यो ब्रवीति स सागरान्तां पृथिवी प्रशास्ति ॥५४ ॥ कितु यद्यपि महामत्रिणा गृध्रेण सवानमुपन्यस्त तथापि तेन राज्ञा संप्रति भूतजयदर्पान्न मन्तव्यम् । देव । तदेव क्रियताम् । सिंहलद्वीपस्य महाबलो नाम सारसो राजास्मन्मित्र जम्बूद्वीपे कोप जनयत । यत - - ११ वायस १२२) [हितोपदेशे- सुगुप्तिमाधाय सुसंहतेन बलेन वीरो विचरन्नरातिम् । संतापयेयेन समं सुतप्त- स्तप्तेन सन्धानमुपैति तप्तः ॥ ५५ ॥' राज्ञा' एवमस्तु ' इति निगद्य विचित्रनामा बक सुगुप्तलेख दत्त्वा सिहल- द्वीप प्रहित । अथ प्रणिधि. पुनरागत्योवाच-' देव । श्रूयता तावत् तत्रत्यप्र- स्ताव । एव तत्र गृव्रणोक्तम्--' देव । यन्मेघवर्णस्तत्र चिरमुषितः स वेत्ति कि सधेयगुणयुक्तो हिरण्यगर्भो न वा इति । ततोऽसौ चित्रवर्णेन राज्ञा समाहूय पृष्टः वायस ! कीडशोऽसौ हिरण्यगर्भ १ चक्रवाको मत्री वा कीदृश उवाच-'देव । हिरण्यगर्भो राजा युविष्ठिरसमो महाशय. । सत्यवाक् चक्रवाक- समो मन्त्री न क्वाप्यवलोक्यते ।' राजाह-'यद्येव तदा कथमसौ त्वया वञ्चित ? विहस्य मेघवर्ण प्राह-'देव । विश्वासप्रतिपन्नानां वञ्चने का विदग्धता । अङ्कमारुह्य सुप्तं हि हत्वा कि नाम पौरुषम् ॥ ५६॥ शृणु देव । तेन मत्रिणाह प्रथमदर्शन एव ज्ञात । कि तु महाशयोऽसौ राजा । तेन मया विप्रलब्ध । तथा चोक्तम्- आत्मौपम्येन यो वेत्ति दुर्जनं सत्यवादिनम् । स तथा वञ्च्यते धूतॆाह्मणश्छागतो यथा ॥ ५७॥' राजोवाच । कथमेतत् १ . मेघवर्ण. कथयति-- कथा ९. अस्ति गौतमस्यारण्ये प्रस्तुतयज्ञः कश्चिद्भाह्मणः । स च यज्ञार्थ ग्रामान्तर गत्वा छागमुपक्रीय स्कन्वे नीत्वा गच्छन्धूर्तत्रयेणावलोक्ति. । ततस्ते धूर्ता यद्येष च्छाग केनाप्युपायेन लभ्यते तदा मतिप्रकर्षों भवतीति समालोच्य प्रान्तर- वृक्षत्रयतले क्रोशान्तरेण तस्य ब्राह्मणस्यागमनं प्रतीक्ष्य पथि स्थिता । तत्रैकेन धूर्तेन गन्छन्स ब्राह्मणोऽभिहितः । 'भो ब्राह्मण । किमिति कुक्कुरः रकन्धेनो- हते ? ' विप्रेणोक्तम्-नाय श्वा, कितु यज्ञन्छाग.। अथानन्तर पुनाद्वैतीयेन धूर्तेन - सन्धिः.] (१२३) क्रोशमात्रस्थितेन तथैवोक्तम् । तदाकर्ण्य ब्राह्मणश्छाग भूमौ निधाय मुङनिरीक्ष्य पुनः स्कन्धे कृत्वा दोलायमानमतिश्चलितः । यतः- मतिभेलायते सत्यं सतामपि खलोक्तिभिः। ताभिर्विश्वासितश्चासौ म्रियते चित्रकर्णवत् ॥ ५८ ॥' राजाह-' कथमेतत् ।' स कथयति- कथा १०. अस्ति कस्मिश्चिद्देशे मदोत्कटो नाम सिंहः । तस्य सेवकास्त्रय काको व्याघ्रो जम्बुकश्च । अथ तैर्भमद्भिः कश्चिदुष्ट्रो दृष्टः पृष्टश्च-- कुतो भवानागत " स चात्मवृत्तान्तमकथयत् । ततस्तैर्नीत्वा सिहेऽसौ सम- पित्तः, तेनाभयवाच दत्त्वा चित्रकर्ण इति नाम कृत्वा स्थापितः । एव कालो गच्छति । अथ कदाचित्सिहस्य शरीरवैकल्यारिवृष्टिकारणाचाहारमलभमानास्ते व्यग्रा बभूवुः । ततस्तैरालोचितम्-' चित्रकर्णमेव यथा स्वामी व्यापादयति तथानुष्ठीयताम् । किमनेन कण्टकभुजा ।' व्याघ्र उवाच- स्वामिनाभयवाच ढत्त्वाऽनुगृहीतस्तकथमेव सभवति काको ब्रूते-' इह समये परिक्षीण स्वामी पापमपि करिष्यति । यत'- त्यजेत्क्षुधार्ता महिला स्वपुत्रं खादेत्क्षुधार्ता भुजगी स्वमण्डम् । बुभुक्षितः किं न करोति पापं क्षीणा नरा निष्करुणा भवन्ति ॥५९ ॥ - अन्यच्च- मत्तः प्रमत्तश्चोन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः। लुब्धो भीरुस्त्वरायुक्तः कामुकश्च न धर्मवित् ॥६०॥ इति सञ्चिन्त्य सर्वे सिहान्तिक जग्मुः । सिहेनोक्तम्-' आहारार्थ किञ्चि- प्राप्तम् १ तैरुक्तम्-' यत्नादपि न प्राप्त किञ्चित् ' । सिहेनोक्तम्-' कोऽधुना जीवनोपाय. । काको वदति- देव । स्वावीनाहारपरित्यागात्सर्वनाशोऽय- मुपस्थित.!' मिहेनोक्तम्-' अत्राहार' कः स्वाधीन ?' काकः करें कथयति- (१२४) [हितोपदेशे- - चित्रकर्ण. ' इति । सिहो भूमि स्पृष्ट्वा कर्णो स्पृशति ब्रूते च अभयवाच दत्त्वा वृतोऽयमस्माभिः । तत्कथमेव सम्भवति । तथा च- न भूप्रदानं न सुवर्णदानं न गोप्रदानं न तथान्नदानम् । यथा वदन्तीह महाप्रदानं सर्वेषु दानेष्वभयप्रदानम् ।। ६१ ॥ अन्यब- - सर्वकामसमृद्धस्य अश्वमेधस्य यत्फलम् । तत्फलं लभते सम्यग्रक्षिते शरणागते ।। ६२ ।। काको ब्रूते-' नासौ स्वामिना व्यापादयितव्य । कि त्वस्माभिरेव तथा कर्तव्य यथासौ स्वयमेव स्वदेहदानमङ्गीकरोति' मिहस्तच्छ्रुत्वा तूणी स्थितः । ततोऽसौ लब्धावकाश कूट कृत्वा सर्वानादाय सिहान्तिक गत । अथ काके- नोक्तम्-' देव । यत्नाद'याहारो न प्राप्त । अनेकोपवासखिन्न. स्वामी। तदि- दानी मदीयमासमुपभुज्यताम् । यत स्वामिमूला भवन्त्येव सर्वाः प्रकृतयः खलु । समूलेष्वपि वृक्षेषु प्रयत्नः सफलो नृणाम् ॥ ६३ ॥' सिहेनोक्तम्-' वर प्राणपरित्याग । न पुनरीदृशि कर्मणि प्रवृत्ति । जम्बु- केनापि तथोक्तम् । तत. सिहेनोक्तम्-' मैवम् ' अथ व्याघेणोक्तम्-' मद्देहेन जीवतु स्वामी ' सिहेनोक्तम्-' न कदाचिदेवमुचितम् ' । अथ चित्रकर्णोऽपि जात विश्वासस्तथैवात्मदानमाह । ततस्तद्वचनात्तेन व्याघ्रणासौ कुक्षि विदार्य व्यापा- दित सर्वैभक्षित । अतोऽह ब्रवीमि-'मतिौलायते सत्यम्' इत्यादि । ततस्तृतीयधूर्तवचन श्रुत्वा स्वमति भ्रम निश्चित्य न्छाग त्यक्त्वा ब्राह्मण. स्नात्वा गृह ययौ । स च्छागस्तैधूर्तीत्वा भक्षित । अतोह ब्रवीमि-'आत्मा- प्रम्येन यो वेत्ति' इत्यादि । राजाह- मेघवर्ग ! कथ शत्रुमध्ये त्वया चिरमुषितम् । कथ वा तेषामनु- न्य कृतः।' मेववर्ण उवाच- देव । स्वामिकार्यार्थिना स्वप्रयोजनवशाद्वा कि न क्रियते । पश्य- , सन्धिः.] (१२५) लोको वहति किं राजन्न मूर्धा दग्धुमिन्धनम् । क्षालयन्नपि वृक्षांधिं नदीवेगो निकृन्तति ॥ ६४ ॥ तथा चोक्तम्-- स्कन्धेनापि वहेच्छन् कार्यमासाद्य बुद्धिमान् । यथा वृद्धेन सर्पण मण्डूका विनिपातिताः॥६५॥' राजाह-'कथमेतत् " मेघवर्ण कथयति- कथा ११. अस्ति जीर्णोद्याने मन्दविषो नाम सर्पः । सोऽतिजीर्णतयाहारमप्य- न्वेष्टुमक्षमः सरस्तीरे पतित्वा स्थितः । ततो दूरादेव केनचिन्मण्डूकेन दृष्ट पृष्टश्च- 'किमिति त्वमाहार नान्विष्यसि " सर्पोऽवदत् 'गच्छ भद्र । मम मन्दभाग्यस्य वृत्तान्तप्रश्नेन किम् १" ततः सजातकौतुक स भेकः ‘सर्वथा कथ्यताम् ' इति तं सर्पमाह । सर्पोग्याह-'भद्र अत्र ब्रह्मपुरे कौण्डिन्यनाम्नः श्रोत्रियस्य विश- तिवर्षीय पुत्र सर्वगुणसम्पन्नो दुर्दैवान्मया नृशसेन दष्ट । ततस्त पुत्र सुशी- लनामान मृतमालोक्य कौण्डिन्य. शोकेन मूच्छित. पृथ्वीतले लुलोठ । अनन्तर ब्रह्मपुरवासिन बान्धवास्तत्रागत्योपविष्टा । तथा चोक्तम्- उत्सवे व्यसने युद्धे दुर्भिक्षे शत्रुनिग्रहे । राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥ ६६ ॥ तत्र कपिलो नाम स्नातकोऽवदत्-' अरे कौण्डिन्य । मूढोऽसि येनैव विलपसि । शृणु- क्रोडीकरोति प्रथमं यथा जातमनित्यता। धात्रीव जननी पश्चात्तथा शोकस्य कः क्रमः ।। ६७॥ क गताः पृथिवीपालाः ससैन्यबलवाहनाः। वियोगसाक्षिणी येषां भूमिरद्यापि तिष्ठति ॥ ६८॥ प्रतिक्षणमयं कायःक्षीयमाणो न लक्ष्यते । आमकुम्भ इवाम्भःस्थो विशीर्णः सम्विभाव्यते॥६९॥ me -
( १२६)
[हितोपदेशे-
आसन्नतरतामेति मृत्युर्जन्तोदिनदिने ।
आघातं नीयमानस्य वध्यस्येव पदेपदे ॥ ७० ॥
यतः
-
अनित्यं यौवनं रूपं जीवितं द्रव्यसंचयः ।
ऐश्वर्य प्रियसंवासो मुह्येत्तत्र न पण्डितः ॥ ७१ ॥
यथा काष्ठं च काष्ठं च समेयातां महोदधौ ।
समेत्य च व्यपेयातां तद्वद्भूतसमागमः॥ ७२ ॥
यथा हि पथिकः कश्चिच्छायामाश्रित्य तिष्ठति ।
विश्रम्य च पुनर्गच्छेतद्वद्भूतसमागमः ॥ ७३ ॥
अन्यच्च-
पञ्चभिनिर्मिते देहे पञ्चत्वं च पुनर्गते ।
स्वां स्वां योनिमनुप्राप्ते तत्र का परिदेवना॥ ७४ ॥
यावतः कुरुते जन्तुः संबन्धान्मनसः प्रियान् ।
तावन्तोऽपि निखन्यन्ते हृदये शोकशंकवः ॥ ७५ ॥
नायमत्यन्तसंवासोलभ्यते येन केनचित् ।
अपि स्वेन शरीरेण किमुतान्येन केनचित् ।। ७६॥
अपि च-
संयोगो हि वियोगस्य संसूचयति संभवम् ।
अनतिक्रमणीयस्य जन्म मृत्योरिवागमम् ॥ ७७ ॥
आपातरमणीयानां संयोगानां प्रियैः सह।
अपथ्यानामिवान्नानां परिणामोऽतिदारुणः॥ ७८॥
अपर च-
व्रजन्ति न निवर्तन्ते स्रोतांसि सरितां यथा ।
आयुरादाय मानां तथा रात्र्यहनी सदा ॥ ७९ ॥
सुखास्वादपरो यस्तु संसारेऽसत्समागमः।
स वियोगावसानत्वादुःखानां धुरि युज्यते ॥ ८॥
सन्धिः.1
( १२७)
अत एव हि नेच्छन्ति साधवः सत्समागमम् ।
यद्वियोगासिलूनस्य मनसो नास्ति भेषजम् ॥ ८१ ।।
सुकृतान्यपि कर्माणि राजभिः सगरादिभिः।
अथ तान्येव कर्माणि ते चापि प्रलयं गताः ॥८२॥
संचिन्त्यसंचिन्त्य तमुपदण्ड
मृत्यु मनुष्यस्य विचक्षणस्य ।
वर्षाम्बुसिक्ता इव चर्मबन्धाः
सर्वे प्रयत्नाः शिथिलीभवन्ति ॥ ८३ ।।
यामेव रात्रि प्रथमामुपैति
गर्ने निवासं नरवीरलोकः।
ततःप्रभृत्यस्खलितप्रयाणः
स प्रत्यहं मृत्युसमीपमेति ॥ ८४ ॥
अतः ससार विचारय । शोकोऽयमज्ञानस्य प्रपञ्च । पश्य-
अज्ञानं कारणं न स्याद्वियोगो यदि कारणम् ।
शोको दिनेषु गच्छत्सु वर्धतामपयाति किम् ॥ ८५ ॥
तद्भद्रात्मानमनुसन्वेहि । शोकचर्चा परिहर । यत -
अकाण्डपातजातानां गात्राणां मर्मभेदिनाम् ।
गाढशोकप्रहाराणामचिन्तैव महौषधम् ॥८६॥'
ततस्तद्वचन निशम्य प्रबुद्ध इव कौण्डिन्य उत्थायाब्रवीत्-' तदलमिदानी
गृहनरकवासेन । वनमेव गच्छामि ।' कपिल. पुनराह-
'वनेऽपि दोषाः प्रभवन्ति रागिणां
गृहेऽपि पञ्चेन्द्रियनिग्रहस्तपः।
अकुत्सिते कर्मणि यः प्रवर्तते
निवृत्तरागस्य गृहं तपोवनम् ॥ ८७ ॥
(१२८) [हितोपदेशे- MP- यत दुःखितोऽपि चरेद्धर्म यत्र कुत्राश्रमे रतः । समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणम् ।। ८८ ॥ - वृत्त्यर्थ भोजनं येषां सन्तानार्थं च मैथुनम् । वाक्सत्यवचनार्थाय दुर्गाण्यपि तरन्ति ते ॥ ८९ ॥. तथा हि- आत्मा नदी संयमपुण्यतीर्था सत्योदका शीलतटा दयोमिः। तत्राभिषेकं कुरु पाण्डुपुत्र न वारिणा शुद्धयति चान्तरात्मा ॥९० ॥ विशेषतश्च- जन्ममृत्युजराव्याधिवेदनाभिरुपद्रुतम् । संसारमिममुत्पन्नमसारं त्यजतः सुखम् ॥९१॥ - यतः- - दुःखमेवास्ति न सुखं यस्मात्तदुपलक्ष्यते । दुःखार्तस्य प्रतीकारे सुखसंज्ञा विधीयते ॥९२॥ कौण्डिन्यो ब्रूते-' एवमेव । ततोऽह तेन शोकाकुलेन ब्राह्मणेन शप्तः-यद- चारभ्य मण्डूकाना वाहन भविष्यसि ' इति । कपिलो ब्रूते- सम्प्रत्युपदेशासहि- ष्णुर्मवान् । शोकाविष्ट ते हृदयम् । तथापि कार्य शृणु- सङ्गः सर्वात्मना त्याज्यः स चेत्यक्तुं न शक्यते । स सद्भिः सह कर्तव्यः सतां सङ्गो हि भेषजम् ॥९३॥ अन्यच्च- कामः सर्वात्मना हेयः स चेद्धातुं न शक्यते। स्वभार्या प्रति कर्तव्यः सैव तस्य हि भेषजम् ॥९४॥'
. , सन्धिः.] (१२९) एतच्छ्रुत्वा स कौण्डिन्यः कपिलोपदेशामृतप्रशान्तशोकानलो यथाविधि दण्ड- ग्रहण कृतवान् । अतोऽहं ब्राह्मणशापान्मण्डूकान्वोढुमत्र तिष्ठामि ।' अनन्तरं तेन मण्डूके नगत्वा मण्डूकनाथस्य जालपादनाम्नोऽग्रे तत्कथितम् । ततोऽसावागत्य मण्डूकनाथस्तस्य सर्पस्य पृष्टमारूढवान् । स च सर्पस्तं पृष्ठे कृत्वा चित्रपदक्रम बभ्राम । ततो परेशुश्चलितुमसमर्थ त मण्डूकनाथोऽवदत्-'किमद्य भवान् मन्दगतिः ।' सो ब्रूत--- देव । आहारविरहादसमर्थोऽस्मि ।' मण्डूकनाथो- ऽवदत्-' अस्मदाज्ञया मण्डूकान्मक्षय ।' ततः गृहीतोऽय महाप्रसाद इत्युक्त्वा क्रमशो मण्डूकान्खादितवान् । अतो निर्मण्डुक सरो विलोक्य मण्डूकनाथोऽपि तेन खादितः । अतोऽह ब्रवीमि-' स्कन्धेनापि वहे- च्छत्रून् ' इत्यादि । देव । यात्विदानी पुरावृत्ताख्यानकथनम् । सर्वथा संवेयोऽय हिरण्यगर्भो राजा सन्धीयतामिति मे मति ।' राजोवाच-'कोऽय भवतो विचारः । यतो जित- स्तावदयमस्भाभिस्ततो यद्यस्मदाज्ञया सेवाया वसति तदास्ता नो चेद्विगृह्यताम् । आत्रान्तरे जम्बूद्वीपादागत्य शुकेनोक्तम्-' देव ! सिहलद्वीपस्य सारसो राजा सम्प्रति जम्बूद्वीपमाक्रम्यावतिष्ठते ।' राजा ससभ्रम ब्रूते-'कि किम् १" शुक पूर्वोक्त कथयति । गृध्र स्वगतमुवाच 'सा रे चक्रवाक मन्त्रिन् सर्वज्ञ । साधु साधु ।' राजा सकोपमाह-' आस्ता तावदयम् । गत्वा तत्रैव समूलमुन्मूल- यामि — दूरदर्शी विहस्याह- न शरन्मेघवत्कार्य वृथैव धनगर्जितम् । परस्यार्थमनर्थ वा प्रकाशयति नो महान् ॥ ९५ ॥ अपरं च - एकदा न विगृह्णीयादहूनाजाभिघातिनः। सदर्पोऽप्युरगः कीटर्बहुभि श्यते ध्रुवम् ॥ ९६ ॥ देव ! किमिति विना सधान गमनमस्ति । यतस्तदास्मत्पश्चात्प्रकोपोऽनन कर्तव्यः । अपर च- योऽर्थतत्त्वमविज्ञाय क्रोधस्यैव वशं गतः। स तथा तप्यते मूढो ब्राह्मणो नकुलाद्यथा ॥९७ ॥' राजाह--' कथमेतत् !' दूरदशी कथयति--- -- '-
(१३२)
[ हितोपदेशे
,
तदेव ' यथाशक्ति त-पूजार्थ रत्नोपहारादिसामग्री सुसज्जीक्रियताम् । तथानु-
ष्ठिते सति स गृध्रो मन्त्री दुर्गद्वाराचक्रवाकेणोपगम्य सत्कृत्यानीय राजदर्शन
कारितो दत्तासने चोपविष्टः । चक्रवाक उवाच- युष्मदायत्त सर्वम् । स्वेच्छ-
योपभुज्यतामिद राज्यम् ।' राजहसो व्रते-' एवमेव ।' दूरदर्शी कथयति '
मेवैतत् । कि त्विदानी बहुप्रपञ्चवचन निष्प्रयोजनम् । यत
लुब्धमर्थेन गृहीयात्स्तब्धमञ्जलिकर्मणा ।
मूर्ख छन्दानुरोधेन याथातथ्येन पण्डितम् ॥ १०८ ॥
एव
अन्यच्च-
सद्भावेन हरेन्मित्रं सम्भ्रमेण तु बान्धवान् ।
स्त्रीभृत्यौ दानमानाभ्यां दाक्षिण्येनेतराञ्जनान् ॥१०९॥
तदिदानी संधाय गम्यताम् । महाप्रतापश्चित्रवर्णो राजा' चक्रवाको ब्रूते-
'यथा सधान कार्य तदप्युच्यताम् ।' राजहसो ब्रूते-'कांत प्रकारा. सवीना सभ-
वन्ति ।' गृध्रो ब्रूते-' कथयामि श्रूयताम्-
बलीयसाभियुक्तस्तु नृपो नान्यप्रतिक्रियः।
आपन्नः संधिमन्विच्छेत्कुर्वाणः कालयापनम् ॥११०॥
कपाल उपहारश्च सन्तानः सङ्गमस्तथा ।
उपन्यासःप्रतीकारः संयोगः पुरुषान्तरः॥ १११ ॥
अष्टनर आदिष्ट आत्मादिष्ट उपग्रहः ।
परिक्रयस्तथोच्छन्नस्तथा च परिभूषणः॥ ११२ ॥
स्कन्धोपनेयः सन्धिश्च षोडशैते प्रकीर्तिताः।
इति षोडशकं प्राहुः सन्धि सन्धिविचक्षणाः ॥११३॥
कपालसन्धिर्विज्ञेयः केवलं समसन्धितः।
सम्प्रदानाद्भवति य उपहारः स उच्यते ॥ ११४ ॥
सन्तानसन्धिर्विज्ञेयो दारिकादानपूर्वकः ।
सद्भिस्तु सङ्गतःसन्धिमैत्रीपूर्व उदाहतः॥ ११५ ।।
यावदायुष्प्रमाणस्तु समानार्थप्रयोजनः ।
सम्पत्तो वा विपत्तौ वा कारणैर्यो न भिद्यते॥११६॥
सन्धिः ]
( १३३)
सङ्गतः सन्धिरेवायं प्रकृष्टत्वात्सुवर्णवत् ।
तथान्यैः सन्धिकुशलैः काञ्चनः स उदाहतः ॥ ११७॥
आत्मकार्यस्य सिद्धिं तु समुदिश्य क्रियेत यः।
स उपन्यासकुशलैरुपन्यास उदाहृतः ॥ ११८ ॥
मयास्योपकृतं पूर्व ममाप्येष करिष्यति ।
इति यः क्रियते सन्धिः प्रतीकारः स उच्यते ॥११९॥
उपकारं करोम्यस्य ममाप्येष करिष्यति ।
अयं चापि प्रतीकारो रामसुग्रीवयोरिव ॥ १२० ॥
एकार्थी सम्यगुद्दिश्य क्रियां यत्र हि गच्छति ।
सुसंहितप्रमाणस्तु स च संयोग उच्यते ॥ १२१॥
आवयोर्योधमुख्यैस्तु मदर्थः साध्यतामिति ।
यस्मिन्पणस्तु क्रियते स सन्धिः पुरुषान्तरः॥१२२॥
त्वयैकेन मदीयोऽर्थः सम्प्रसाध्यस्त्वसाविति ।
यत्र शत्रुः पणं कुर्यात्सोऽदृष्टपुरुषः स्मृतः ॥१२३ ॥
यत्र भूम्येकदेशेन पणेन रिपुरूर्जितः।
सन्धीयते सन्धिविद्भिः स चादिष्ट उदाहतः॥ १२४ ॥
स्वसैन्येन तु संधानमात्मादिष्ट उदाहृतः।
क्रियते प्राणरक्षार्थ सर्वदानानुपग्रहः॥ १२५ ॥
कोशांशेनार्धकोशेन सर्वकोशेन वा पुनः ।
शिष्टस्य प्रतिरक्षार्थ परिक्रय उदाहृतः॥ १२६॥
भुवां सारवतीनां तु दानादुच्छिन्न उच्यते ।
भूम्युत्थफलदानेन सर्वेण परभूषणः ॥ १२७ ॥
परिच्छिन्नं फलं यत्र प्रतिस्कन्धेन दीयते ।
स्कन्धोपनेयं तं प्राहुः सन्धि संधिविचक्षणाः ॥१२८॥
परस्परोपकारस्तु मैत्री सम्बन्धतस्तथा ।
उपहारश्च विज्ञेयाश्चत्वारश्चैव संधयः॥ १२९ ॥
(१३४) [हितोपदेशे- एक एवोपहारस्तु संधिरेव मतो मम । उपहारविभेदास्तु सर्वे मैत्रविवर्जिताः॥ १३०॥ अभियोगी बलीयस्त्वादलब्धा न निवर्तते। उपहारं विना तस्मात्संधिरन्यो न विद्यते ॥१३१॥' राजाह-'भवन्तो महान्त पण्डिताश्च । तदास्माक यथाकार्यमुपदिश्यताम् ।' दूरदर्शी ब्रूते-'आः । किमेवमुच्यते- आधिव्याधिपरीतापादद्य श्वो वा विनाशिने। को हि नाम शरीराय धर्मापेतं समाचरेत् ॥ १३२ ॥ जलान्तश्चन्द्रचपलं जीवितं खलु देहिनाम् । तथाविधमिति ज्ञात्वा शश्वत्कल्याणमाचरेत् ॥१३३॥ वाताभ्रविभ्रममिदं वसुधाधिपत्यं आपातमात्रमधुरो विषयोपभोगः। प्राणास्तृणाग्रजलबिन्दुसमा नराणां धर्मः सखा परमहो परलोकयाने ॥ १३४ ॥ मृगतृष्णासमं वीक्ष्य संसारं क्षणभङ्गुरम् । सज्जनः संगतं कुर्याद्धर्माय च सुखाय च ॥ १३५ ॥ तन्मम समतेन तदेव क्रियताम् । यत.- अश्वमेधसहस्राणि सत्यं च तुलया धृतम् । अश्वमेधसहस्राद्धि सत्यमेवातिरिच्यते ॥ १३६ ॥ अत' सत्याभिधानदिव्यपुर सरयोरग्यनयोभूपालयो. काञ्चनाभिधानमधिर्वि- पीयताम् ।' सर्वज्ञो ब्रूते-'एवमस्तु ।' ततो राजहंसेन राज्ञा वस्त्रालकारोपहारै न मन्त्री दूरदर्शी पूजितः । प्रहृष्टमनाचक्रवाक गृहीत्वा राज्ञो मयूरस्य संनिधान तः । तत्र चित्रवर्णेन राज्ञा सर्वज्ञो गृध्रवचनाद्बहुमानदानपुरःसर सभाषितस्तथा- वेधं स्वीकृत्य राजहससमीप प्रस्थापितः । दूरदर्शी ब्रूते-'देव | सिद्धं नः समी- इतम् । इदानीं स्वस्थानमेव विध्याचल व्यावृत्य प्रतिगम्यताम् । अथ सर्वे स्वस्थान प्य मनोऽभिलषितं फल प्राप्नुवन्तु । इति ॥ HD सन्धिः.] (१३५) विष्णुशर्मणोक्तम्-'अपर कि कथयामि १ कथ्यताम् । राजपुत्रा ऊचुः ‘आर्य ! तव प्रसादाद्राज्यव्यवहाराङ्गं ज्ञातम् । ततः सुखिनो वयम् । विष्णुशीवाच- यद्यप्येवम् । तथाप्यपरमपीदमस्तु- संधिः सर्वमहीभुजां विजयिनामस्तु प्रमोदः सदा सन्तः सन्तु निरापदः सुकृतिना कीर्तिश्चिरं वर्धताम् । नीतिर्वारविलासिनीव सततं वक्षःस्थले संस्थिता वकं चुम्बतु मन्त्रिणामहरहर्भूयान्महानुत्सवः॥१३७॥' इति विष्णुशर्मविरचिते हितोपदेशे सन्धिश्चतुर्थः ॥ ४॥ समाप्तोऽयं हितोपदेशः॥ Mar पुस्तक मिलनेका ठिकाना- गङ्गाविष्णु श्रीकृष्णदास, खेमराज श्रीकृष्णदास, "लक्ष्मीवेंकटेश्वर" स्टीम् प्रेस, | "श्रीवेंकटेश्वर" स्टीम् प्रेस, कल्याण-बंबई. खेतवाडी-बंबई जाहिरात. की, रु आ. .. १-८ १-४ १-४ . ०-१२ अक्षयनीतिसुधाकर उद्योगप्रारब्धविचार-अर्थात् उद्योग तथा प्रारब्धके निर्बल सबल विचार कलाविलास कामन्दकीय नीतिसार-( महाभारतान्तर्गत ) स्व०- वि० वा० पं० ज्वालाप्रसादजीमिश्रकृत भाषाटीकासहित जान स्टुअर्ट ब्लैकी-ब्लैकीके फिजिकल, व्यायाम, स्वास्थ्य, करचरका हिन्दी अनुवाद उदाहरणसहित ताजीरातहिन्द-(इण्डियन पिनलकोड अर्थात् हिन्दुस्थानका दण्डसंग्रह )-स्वर्गीय प बलदेव- प्रसाद मिश्रद्वारा अनुवादित दम्पतिवाक्यविलास-(भाषा पद्य दृष्टान्तमुक्तावली-भाषा दृष्टान्तमञ्जूषा न्यायालयकार्यपत्रसंग्रह प्रपञ्चसारविवेक पुरुषपरीक्षा-भा टी. सहित [बडा सूचीपत्र अलग है मगाकर देखना. ] ... . . २-८ १-० ०-१२ - १-४ १-० १-८ . . . पुस्तकं मिलनेका ठिकाना- गङ्गाविष्णु श्रीकृष्णदास, लक्ष्मीवेङ्कटेश्वर" स्टीम्-प्रेस. कल्याण-मुम्बई.
No text on this page.