Bharti Bhawan Library Allahabad

Sritatkandjpratisthamhostwachampuh

PDF Proofread

Front matter

॥ श्रीगुरुभ्यो नमः ॥ ॥ श्रीताटङ्कप्रतिष्ठामहोत्सवचम्पूः ॥ कैलासाचलतो महीमधिगतः श्रीशंकगख्यां वहन् जित्वा योऽखिलदुर्मतानि परितः षण्णां मतानामपि । कृत्वा स्थापनमाशु काश्चिविलसच्छ्रीकामकोटीरिते पीठे स्थापितवान्स्व शिष्यमपि नः शंभुः सुखायास्तु सः॥ किं च लोकत्राणपरायणः करुणया स्वानहकर्मादिमा- न्वेषान्तोषयुतो विधाय बहुधा शैलूषवद्यः प्रभुः । क्षेमं चाक्षयमातनोत्रिजगतां संत्रासितानां पर- वैकुण्ठः स महानकुण्ठमहिमा पायादपायात्सदा ॥२॥ अपि च--- दोषात्कालकृतात्पराहतधियां निर्भक्तिकानां नृणा- माविष्कृत्य नि प्रभावमतुलं कारुण्यतः केवलम् । सद्भक्ति भवदुःखनाशनचणां याजीजनत्सा सती चित्ते भातु सदापि मे भगवती माताखिलाण्डेश्वरी ।।

No text on this page.

श्रीताटङ्कप्रतिष्ठामहोत्सवचम्पूः । overt wever, : Eng :eed to .r of t o bat: इदं च- राज्ञा द्वारवती जगद्गुरुवरैर्दत्तं प्रसिद्धं मह लुब्ध्वा यो विरुदं समस्तविबुधैर्मान्यं महानैपुणीम् साहित्ये सरसेऽवहच्च सदुपन्यासेषु शास्त्रेषु च श्रीमान्सोऽनिशमान्तरे गणपतिः शास्त्री गुरुर्भातु मे ।। एतचinon. seven their The object D. 67. | of M ased 1 , who देवि त्वत्कृपयैव वक्तुमधुना किश्चिद्यतेऽहं सुतः भक्त्या केवलमत्र वाणि भवती मातानुगृह्णाति चेत् । मे वाग्जन्म च संभजेत्सफलतामेतां कृतिं पश्यता- मानन्दश्च भवेन चेद्विधिवधु स्यात्तेऽपवादो ध्रुवम् ।। अखिलाण्डनायिकायाः कलितं काञ्चीलसज्जगद्गुरुभिः । कर्णाभरणस्थापनमहमुद्दिश्याद्य कथ्यते किंचित् ॥ ६ ॥ तथा हि- सभ्यो माधवमाधवोज्वलमहागारबजालंकृतं हारीभूतमरुदृधाहरिसरित्तीर्थैः पवित्रैः परैः युक्तं मुक्तनिवासयोग्यविभवं वित्तास्तिकर्मण्डितं चोळेषु प्रथितं चकास्ति नगरं श्रीकुम्भघोणाभिधम् ।। मासे मासे रचितमतुलं चोत्सवं विष्णुगौरी- नाथादीनामितरनगरग्रामतो मोदयुक्तैः । r levy n Hy e, frd pared y had Niza I pret I eny uised the accounts, or in the despatches or MT. endoo Rao's court.

प्रथमस्तबका। . द्रष्टुं प्राप्तैर्मनुजनिचयैः पूरिते राजमार्गे यातुं यस्मिन्हढबलवताप्याशु नो शक्यते हि ॥८॥ यस्मिन्कवेरतनुजातटमाश्रितं त. त्सायंप्रगे प्रथितकर्मठविप्रबृन्दम् । आलोक्य वालिन इवैष च ऋश्यमूकः के मेनिरे भुवि कलेविषयो न हीति ॥ ९ ॥ सह्योद्भवाहरीनदी कृतरेखया य. द्धाता कलेन विषयो नगरं तवति । प्राबोधयत्किल पुरैव ततो विहाय तत्सर्वतः कलिरसौ कुरुते विहारम् ॥ १० ॥ कुम्भेशनागेश्वरचक्रपाणिश्रीशार्ङ्गधन्वादिमदेववर्यान् । योगीशवत्स्वान्तरिदं विधाय विराजते पुण्यनदीतटे यत् ।। महामखाख्ये बृहदुत्सवे च पुरे प्रतिद्वादशवत्सरं मुदा। निजांजनि यत्र च सार्थयन्ति तीर्थेऽतिपुण्ये कृतमज्जना जनाः ॥ १२ ॥ यत्किल, नाकमिव सहस्रनयनदर्शनीयविभवं, अलकापुर. मिव 'धनपतिसेवितम, रजतगिरिरिव कलेशमूर्धन्यभूषितम् , , - overt! vever, Eng! eed to : of th | bate non. seven their The objec , , श्रीताटङ्कप्रतिष्ठामहोत्सवचम्पूः । तुहिनगिरितटमिव सर्वमङ्गलाश्रयं निखिलनगरीशेखरीभूतं बिराजतेतराम् ।। यच्च, क्षीराम्भोधिमिव अनर्धरत्नाकरम, लक्ष्मीजनकं च, विन्ध्याटवीतलमिव विविधपुण्डरीकभास्वरम् , कनकभूधर- मिव विबुधनिकानिवासालंकृतम , गाण्डीवधरमिव सन्ततध- मोज्वलम् , अस कृपागच्छन्ति ससे वितुं सकला अपि जनाः ॥ येन च, महेश्वरशरीरेणेव विभूतिभास्वता, नारायणकदि- तलेनेव पीताम्बरमनोहरेण, विधातृपुरेणेव सततवेदाध्ययन- ध्वनिपवित्रितेन, नाकनायकेनेव अनिमेषलोचनदर्शनीयनिज- महिना, अधरीक्रियन्ते सकलान्यपि नगराणि ।। यस्मै च, लङ्कापुरायेव पुण्यजनाधिष्ठिताय, निशीथाकाश- तलायेव सद्गणमण्डिताय, तापस हृदयायेव कल्मषविहीनाय, शारदशशितेजसे इव सुधोज्वल सद्माभिरामाय, स्पृहयन्ते बृन्दारकबृन्दाण्यपि ॥ यस्माश्च, वासन्तपनाकरादिव द्विजाल्यामोदकरात्, दिन- मणेरिव सन्मार्गराजमानात् , पङ्कजभूमुखचतुष्टयादिव सर्वदा सरस्वतीविहारमण्डपभूतात्, कल्पमहीरुहादिव वान्छिता- खिलफळवितरणचणान , निखिलवैदिकलौकिककार्यनिर्वहण- योग्यानि वस्तूनि नयन्ति देशान्तराणि ॥ यस्य च, मलयाचलस्येव चारुचन्दनबासितस्य, पाताल- पुरस्येव सन्नागमण्डलमण्डितस्य, वाराणसीनगरस्येव विश्व- D. 57. of M: ased who r levy 1 Hv. e, fra , Jared • had Niza: PIC r dounts, or in the uespearance kidoo Rao's court.

प्रथमस्तजकः। यस्मिश्च, नाथविशालाक्षीशोभितस्य, नन्दनवनस्येव अनवरताखिल- पुष्पसंपूर्णस्य, समागच्छन्ति सानन्द सर्वे निवासाय ।। युद्धभूतल इव गजाश्वरथपत्तिनिबिडिते, गन्धर्वनगर इव गीतवादित्रमनोहरे, वाल्मीकाश्रम इव अजस्रबोधितश्रीरामकथाप्रसङ्गे, द्वारकानाथ इव सदानन्द- लोकविलसिते, स्थितानि अतिकृपणेभ्योऽपि धनाकर्षण सम- न्यापणवृन्दानि ॥ यत्रोत्रतान्सह्यभवातटस्थान् श्रीनारिकेलाख्यतरून्फलाढ्यान् । विलोक्य पान्थाः ब्रुवते मरुद्धा प्रभावतो भान्ति भृशं दुमा इमे ॥ १३ ॥ अपि च यत्र स्थिताः, कार्याः पयसो रुचिः समधिका खर्गस्थनद्या इति भ्रान्ति नाकनिवासिनां चिरभवां विध्वंसनाय द्रुतम् । मूलापीतकवेरजोदकमिमे श्रीनारिकेलाः फले. ध्वाहत्याशु निवेदितुं सुरपुरं यान्तीति मन्येऽधुना ।। पतिनिकटनिवासः शास्त्रलोकैकमान्यः सततमपि सतीनां स्यादिति खं पतिं सा ।

श्रीताटङ्कप्रतिष्ठामहोत्सवचम्पूः । overtl vever, Eng! eed to c of t1 1 batt non. seven their The objec D. 57. जडनिधिमपि शीघ्रं प्राप्तुकामेव वेगा- स्मवहति किल पूता साजा यत्र मोदात् ॥ १५ ॥ किं च, एतादृशकवेरसुताधिकूलं विराजमाना: मठास्त्रिचतुरा इह प्रथितकर्मठानां सदा जपादिविधिचोदितं कलयितुं च कर्मादरात् लसन्ति किल दर्शनक्षणविदग्धचेतोमला सुबिल्वपनसादिभिः परिवृताश्च पुण्यद्रुमैः ।। १६ ।। एतन्मठद्वारदेशालंकारभूताः पूतावातचलहलाभिधकरैरश्वत्थभूमीरुहा हे लोका इह साजामलपयःपूरे महापुण्यदे । स्नात्वा संसृतिघोरदुःखशमनं कृत्वा फलं जन्मनः सद्यः स्वीकुरुतेति भान्ति कृपया संबोधयन्ती बनः॥ अस्मिनिस्तुलवस्तुविस्तृतवणिग्वीथीत्रजालंकृते कावेर्या करुणालयेन कमलानाथेन कामद्रुहा । अन्यैश्वास्तिकभूसुरैः परिवृते पुण्ये पुरे तादृशः श्रीमच्छंकरनामलोकगुरुराद बाभाति रम्ये मठे ।। श्रीमत्काञ्चिपुरीप्रसिद्धविलसच्ट्रीकामकोव्याख्यस. त्पीठेचं प्रथितात्मवैभवयुतं चाद्वैतविद्यागुरुम् । of Me ased whd r levy 1 Hy e, fro jared had Niza Lucounts, or in the despatches true 1160 Rao's court.

प्रथमस्तबकः। दिक्कूलंकपराजदुत्तमयशोबातैः सदा भूषितं श्रीमच्छंकरदशिकेन्द्रमनिशं कुर्वे मदीये हृदि ॥१९ ।। लोकावनार्थधृतमानुषरूपराज च्छ्रीचन्द्रशेखरममुं सुकृतकलभ्यम् । देवे पुरेऽप्यसुलभं जनभाग्यरूपं संसेव्य केचिदिह तं कृतिनो भवन्ति ।। २० ॥ " यश्च, परमेश्वर इव कलाधिपालं कृतः, सत्याश्रयोऽपि न विषादी नोन्मत्तशेखर:, रमापतिरिव सकलविबुधहितकरोऽपि न पुण्य जनशत्रुः, चतुरानन इव परमहंसोपरि विराजमानोऽपि, न जडजातजातः, नाकाधीश इव सुमनोगणसेवितोऽपि, न शतमन्युः, बाभाति । यं च- जनकमिव तुच्छीकृतराज्यमपि न गृहाश्रमाभि- लाषिणम् , वसिष्ठमिव आइतब्रह्मवाक्यमपि न कौशिकशत्रुम् , मनुमिव सकलवर्णाश्रमधर्मबोधनधणमपि न राज्यासक्तम् , व्यासमिवावेदितपुराणपुण्यकथाप्रबन्धमपि नाविप्रकुलजातम, सादरं प्रणमन्ति सकला लोकाः ।। येन च, पङ्कजपतिनेव द्विजचक्रामोदकारिणापि न कुव- लयद्वेषिणा, धर्मेणेव सूर्यानन्दजनकनापि न दण्डधरेण, वरुणेनेव शीतस्वभावेनापि न जडपतिना, यक्षेश्वरेणेव श्रीताटङ्कप्रतिष्ठामहोत्सवचम्पूः । , overt vever Engl eed to c of ti , 1 batt non. seven their The objec. यस्माञ्च, *. . D. 57. महेश्वरबद्धप्रीतिनापि न किन्नरेशेन, विध्वंस्यन्ते बिनतज- नतान्तरस्थ तमोबृन्दानि ।। यस्मै च, भारतायेव धर्मविजयवृत्तान्तप्रकटनपरायापि न कृष्णचरिताश्रयाय, रामायणायेव सुमालोचनमहिताया- पिन खरबधबोधनपराय, भागवतायेव, भगवन्महिमवर्णनो- त्सुकायापि अस्वीकृतकुचेलवृत्ताय, देवीभागवतायेव वर्णित. श्रीपरदेवतास्वरूपायापि न देवतान्तरमहिमासहिष्णवे, समर्प- यन्ति सादरं वन्दनानि ।। व्याकरणादिव प्रकृतिभ्यः तद्धितानि, विधी- यतोऽपि न पादाङ्गलोपकारिणः, कणादतन्त्रादिवानुमानसा• धितेश्वरस्वरूपादपि न प्राधान्ये नानङ्गीकृनागमप्रमाणात् , मीमांसासन्त्रादिव आविष्कृताखिलवैदिककर्ममर्मस्वरूपाचा- पि फलदातृत्वेनाङ्गीकृतेश्वरात्, वेदान्त दर्शनादिव अद्वैता- स्मस्वरूपनिरूपणबददीक्षादपि अनाविष्कृतनास्तिकमतप्रक्रि- यात् , सर्वेऽपि स्वस्वसुकृत्तानुसारं सदुपदशं गृह्णन्ति ।। यस्य च, कैलासस्येच फलेशशिरोमणिभूषितस्यापि नदुर्व- र्णाश्रयस्य, तुषारभूधरस्येव सर्वमङ्गलोत्पत्तिकारणभूत- स्यापि अजडात्मनः, काञ्चनाद्रेरिव समस्तविबुधालयभूत- स्यापि अचापलताभाजः, विन्ध्याचलस्येव विविधप्राणिजी वनहतोरपि अनाश्रितविषधरस्य, अच्छाच्छयशच्छटाभिर्ध- वलीक्रियते निखिलं जगन्मण्डलम् of M ased who r levy 1 Hy e, fro jared had Niza tueucopaum counts Om doo Rao's court.

प्रथमस्तबका। यस्मिश्च, शारदगङ्गाप्रवाह इव निर्मलान्तरभास्वरेऽपि न स्वीकृतोन्मत्तशेखरे, सारस्वतझर इव, स्वाश्रित पापहरेऽपि नाप्रकटीकृतनिजस्वरूपे, यमुनापूर इव स्वसंचारपवित्रितभू- वनपदेशेऽपि अनङ्गीकृत कृष्णचरित्रे, कावेरीप्रवाह इक समस्तजीवनदानचतुरेऽपि अस्वीकृतभङ्गे, सकल जनचेतांसि सन्ततं रमन्ते ॥ तत्ताहशमहिमविराजमानेन श्रीजगद्गुरु सार्वभौमेन हि, आसेतोरपि चाहिमादिशिखराधनागतानां मही- देवानां प्रतिवासरं शशिकलाचूडस्य देव्यास्तथा । स्वानं च सम्पपाय सधृतापूपं निवेद्यादरा- त्सर्वेषामपि यावदीप्सिततमं संदीयते भोजनम् ॥२१॥ सकलभुवनक्षेमाय दिवानिशमाराधितश्रीचन्द्रमौळीश्वर- श्रीमहात्रिपुरसुन्दरीसुन्दरतरचरणारुण सरसीशहः श्रीजगदा. चार्यवर्यः अवश्थानुष्ठेयं पारायणपाठनपूजनादिकाय विना अन्यं च समयं कचिदेकान्तस्थाने निजचेतश्चारुस्फटिकसिंहा. सनारोपितसचिंदानन्दरूपपरमात्मस्वरूपः गमयेत्समोदम् ।। अथ कदाचित् , तत्तादृशमहिमालंकृतं श्रीलोकगुरुवरं श्रीजम्बुकेश्वरक्षेत्रनिवासिनः सर्वे महाजना: समागत्य कुम्भ- घोणनगरं श्रीपरमाचार्यदर्शनोचितफलनालिकेरादिमण्डितपा- णयः श्रीमठमाटीकमानाः सुसमये श्रीलोकाचार्य संनिधिमधि.

श्रीताटङ्कप्रतिष्ठामहोत्सवचम्पूः । traoverth rever, Eng! red to : of th batt non. seven their The object HAR D. 17. गम्य सादरं साष्टाङ्गं प्रणिपत्य, उत्थाय बद्धाजलयः तत्रैवा- तिष्ठन् । गुरुवाः अपि कुशलं भवत्ताम् ? महाजना:- कुशलमेव तत्रभवतामनुग्रहेण । गुरुवर:-श्रीजम्बुनाथस्य श्रीमदखिलाण्डेश्वर्याश्चाभिषेका- चैनाराधनादिकं सर्वमपि निर्विघ्नमनुष्ठीयते वा! महाजना:-क्रियते यथाशक्ति। इत्यावेद्यानुक्षणं तेषां मध्ये धीरतरः लौकिकज्ञः कश्चिदयमे- वास्मदभिप्रायाविष्करणस्य समुचितः समय इति निश्चित्य सद्यः प्रणभ्या "अस्ति किञ्चिन्महास्वामिसंनिधौ विज्ञापनीयम्" इति निवेद्य, गृहीततदाज्ञापुरःसरं वक्तुमपाक्रमत ।। लोकाचार्यप्रथितगुरुणा श्रीमहेशांशभाजा तस्यै देव्यै कनककलितं यत्रराजाश्चितं तत् । भक्त्या दत्तं भुवनसुखदं रत्नताटङ्कयुग्मं देवी सापि स्फुरति महिता तेन चाद्यापि माता ॥ समस्तभुवनक्षेमैककलिताविर्भावाया: भगवत्या श्रीमदखि- लाण्डेश्वर्याः तत्रभवच्छीशंकरभगवत्पादाचार्यवर्यसमर्पित ता- दृशं श्रीचक्रात्मकं ताटङ्कयुगलमधुना किञ्चिजीर्ण दृश्यते, नातिविलम्बेन तदुद्धारणमारचय्यानुमाया अखिला अपि तालोका: -इति ॥ ज of M: ased whd r levy 1 Hy e, frd ared had Niza cprone AAHALSO Rao's court.

प्रथमस्तबकः । .. - , एतद्वचनमाकर्ण्य श्रीगुरुवर्य:- किमस्माभिरेव तज्जीणों- द्धार कर्तव्यम् ?' इत्यपृच्छत् । तेऽपि एतद्वचनमाकर्ण्य संजातशङ्का: सविनयं साञ्जलि- 'न तथा निवेदनीयं श्रीमह स्वामिना' इति विज्ञाप्य, तत्तादृश्याः श्रीमदखिलाण्डेश्वर्याः भादौ लोकक्षेमकृते कैला- सादवतरता श्रीजगद्गुरुपरमाचार्येण यथाशाखं स्वेनैव तत्ताटङ्क प्रतिष्ठा कृता; ततः, मध्ये मध्ये यदा यदा किंचिजीण भवति तदा तदा श्रीकाञ्चीकामकोटिपीठाधिपेन तादृशपरमाचार्य- शिष्यपरंपरागतेन प्राचीनाचार्येणैव समुद्धारितम् ॥ अधुनापि, माकी षष्ठि संवत्सरेभ्यः पूर्व जीर्णमिदं ताटङ्कद्व- यमपि एतत्पीठाभिषिक्ताचार्यवर्येणैवोद्धारितम् ; अतः, तद्विषये एतत्पीठाभिषिक्तगुरुवराणामेवाधिकारः, नान्येषाम् । किं वक्तव्यं मादृशसामान्य जनानाम् । 'तस्मादवश्यमस्मत्प्रार्थना- मङ्गीकृत्यानुग्राह्या श्रीमहास्वामिना' इति व्यजिज्ञपन् । श्रुखा वाचं भुवनगुरुणाप्येतदीयां तदानीं मातुर्देव्याः सकलजगतां कार्यमेतत्पवित्रम् । आद्याचार्यैः कलितमपि चानुष्ठितं पूर्वकाले होतत्पीठस्थितगुरुवरैः कार्यमेतच्च भाति ।। ४३ ।। इत्थं विचिन्त्य जगती गुरुराट् तदानीं तेभ्यः सुभक्तिभारतेभ्य इदं ह्यवादीत् ।

श्रीताटङ्कप्रतिष्ठामहोत्सवचम्पूः । चिन्ताधिका न भवतामुचितात्र कार्ये संकल्पयोग्यमिदमय चलेन्महेश्याः॥४४॥ overtl 'ever, Engl ed to of th batt 1on. seven heir The object , अपि च- सिद्ध्येच्छीघ्रं चैतत्कार्य ह्यखिलाण्डनायिकाकृपया। भवतां संकल्पोऽस्मिन्माभूतत्कार्यमेवमेवेति ॥ ४४ ॥ इत्थं निवेद्य प्रसाददानेनैतानन्वगृह्णन् । तेऽपि सानन्दं प्रसादं गृहीत्वा, इतः प्रभृति सर्वदा सर्वे वय श्रीमहास्वाभ्यागमनसमयाकाङ्गिण एव भवाम इति वन्दनपू- वकं विज्ञाप्य स्वप्राममयासिषुः ।। इत्थं कृपाभरजुषा गणपत्यभिख्य श्रीमनुरोर्मुडमधूकरुणाप्तिहेतोः । पञ्चापगेशकविना रचितेऽत्र चम्पू. ग्रन्थे समाप्तिमगमत्स्तबकोऽयमाधः ॥ D. 17. of M. ased who i levý 1 Hy e, fra ared had Nizar G MARtSom 160 Rao's court.

द्वितीयस्तबकः॥ जगनुरुवरोऽथ स पथितवैभवान्यो निज प्रधानमधिकारिणं वकसमीपमाहूय तम् । क्रमेण जययात्रया बहिरटाम ईशाज्ञया चलेदगतभुवो महितकर्णभूषोत्सवः ॥१॥ इति श्रीचन्द्रमौळीश्वरः संकल्पयति, तस्माद्विजययात्रो- चितं सर्वमपि साधनं सज्जीकृत्य, नातिविलम्बेन प्रस्थानोचित- सुमुहूतोऽपि निर्णीयतामिति समादिशत् ।। सर्वाधिकारी, तथैव सजीकरोमि शीघ्र सर्वम् इति गृहीताज्ञः, स्वीय कार्यालयमासाद्य, सर्वेषामपि निदेशकारिणां निकटे एबमाज्ञापयत् ।। श्रीताटङ्कयुगस्य किंचिदधुना जीर्णस्य तस्यार्थितः शिष्यैरुद्धरणाय भक्तिभरितैः श्रीदेशिकेन्द्रो भृशम् । कारुण्याकुलमानसः सपदि तत्समार्थनासक्तहद्भूत्वा- स्माच्च बहिः करिष्याति जयां यात्रां जनाबक्षितुम् ।। श्रीविजययात्रायोग्यसामग्रयः सकला अपि त्वरित- मेव सन्नद्धा भवन्तु इति ॥ अतः १४ " श्रीताटङ्कप्रतिष्ठामहोत्सवचम्पूः । भृत्याः, पूर्वमेव सिद्धानि भवन्ति निखिलान्यपि साधना- नोति न्यवेदयन् , सर्वाधिकारी, सद्यः, विपश्चिदपश्चिमः विजययात्रोचितं प्रशस्ततरं कमपि मुहूर्त निश्चित्य श्रीजगद्गुरू- संनिधावपि व्यजिज्ञपत् ।। overtli lever, Engl sed to ' of t batt श्री 1on. seven their The objeci श्रीगुरुसार्वभौमोऽपि तथैव क्रियतामिनि अङ्गीचकार ॥ अथ, कदाचित्स्वीयश्रीताटङ्कप्रतिष्ठामहोत्सवकरणाय, परदेवतया प्रेरित इव, निखिलभुवनक्षेमंकरे शुभकरे मुहूर्तवरे, श्रीजगद्गुरुवरः विजययात्नया स्वास्थानाच्छ्रीमठानिर्गत्य तत्रैव पट्टणे तदारधनार्थमहमहमिकथा बहुषु शिष्यगणेषु प्रार्थयत्सु सत्सु तत्रैव मासचतुष्टयं निवसन् यथोचितं सर्वानपि परि- पूर्णमनोरथान् व्यतानीत् ॥ D. 17. of M. ased who levyi 1 Hy एतस्मिन्समये समीपविलसद्भामस्थिता आस्तिका नीत्वा क्षेमकरं जगद्गुरुवरं ग्रामं निजं सादरम् । देशं नश्च नृजन्मसाधुविभवं चाचार्यपादार्चना- कार्य सार्थमिति स्वयं समुदितश्रद्धामरैर्मेनिरे ॥३॥ e, from jared had Niza CDRA ततः क्रमेण तत्तद्दामादागतानां मूर्तिमद्भक्तिद्धे इवोज्ज्वलनां प्रार्थयतां छात्रमार्थानां प्रार्थनामुररीकृत्य तगामानलंकृत्य तदिष्टानुसारं तत्र तत त्रीणि चत्वारि पञ्च षडिति दिनानि च कचिदेकवारं कचिद्वारद्वयं कुत्रचिन्मासमेकं च व्यभूषयत । ucop PURIUSpoor "IITLINE 100 Rao's court.

द्वितीयस्तबकः गुरुवररचितं तत्पूतमद्वैतभाष्यं गुरुवरकृपयैव प्राप्यमित्यात्तभक्त्या। शरणमुपगतानां शुद्धचित्तोज्वलानां कचन गुरुवरोऽसावन्वगृह्णात्समोदम् ॥ ४ ॥ अपि च- भक्तिपूर्व कचित्साधु वर्णाश्रमाचार- योग्यो विभो बोधनीयोऽधुना । धर्म इत्यथितः शिष्यवृन्देन सोपादिशद्देशिकेन्द्रो दयावारिधिः ॥५॥ कुहचित्स्थले पवित्रे स्थिवैकान्ते परे स्वरूपे स्वे । संलग्नमना गुरुराद् समाधिवृत्या व्यराजदखिलेड्यः ।। कचित्तत्र तत्र स्थित राजमानं महेशं रमेशं गणेशं गुहं च । सहैवात्पशिष्यैर्गतो देशिकेन्द्रो मुदा सेवतैषप्रक्लुप्तोपचारः कुत्रचित्सामान्यशास्त्रत्राक्थार्थवर्णनेन अपरत्र निकटतटा- टीकमानविनमपटुवटुकूटेभ्यः तदुचितेनं धर्मोपदेशेन इतरत्र स्वसेवनागतचण्डपण्डितपण्डवर्णितवाक्यार्थपरिशोधनेन च परत्न पुण्यतीर्थयात्रया च समयमनैषीत् । एतस्मिन्समये कुलक्रमागतप्राभवः अनर्घरत्नपरीक्षाचण्ड- पाण्डित्ययुक्तः धर्मनिकर इस मूर्तिमान् आमध्यमलोकवि-- overt! rever, Eng! ed to of ti bati श्रीताटङ्कप्रतिवामहोत्सवचम्धुः । ख्यातनिर्मलयशोलंकृतः सकलजनलाध्य सद्वृत्तोज्वलः स्वशरी- रदर्शनमात्रेणाविष्कृतमहापुरुषलक्षण: चेन्ननगरीशेखरीभूत: श्रीसदाशिवठाकराख्यः भूसुरवरः श्रीमदखिलाण्डेश्वरीताटक- प्रतिष्ठार्य विजययात्रया बहिनिर्गतः श्रीलोकगुरुशंकरभगव- त्पादाचार्यवर्य इति कर्णाकर्णिकया श्रुत्वा एतादृशे लोकक्षम- करे श्रीपरदेवताकैङ्कय प्रधानभूतं श्रीताटङ्कपरिष्काररूपं कार्य खेन करणीयमिति श्रीपराशक्तिसंभृतनैसर्गिकभक्त्या धर्म- कार्य संजात श्रद्धया च सदाः श्रीमदाचायचरणसरसिजसंसेवनो- चितपरिकरेण साकं श्रीगुरुसंनिधिरधिगन्तव्य इति कृतनिश्चयो 1on. Seven :heir The objec बभूव ।। D. of M: ised who levy Hy सद्यः स्वीयजनैश्च चेन्ननगरानिष्क्रम्य सद्भक्तिकैः क्षेत्रं सद्गुरुभूषितं स्वयमगाच्छ्रीस्वामिनाथोज्वलम् ज्ञाखा श्रीगुरु सेवनाय समयं योग्यं सहैवागते- गत्वा तन्निकटं प्रणाममकरोत्सोऽयं प्रसादाप्तये ।। आलोक्य तं प्रभुवरं दृढभक्तियुक्तं मन्दस्मितोज्वलमुखः करुणाईदृष्टिः । नारायणस्मरणपूर्वमनुग्रहं तं तस्मै व्यधाद्गुरुवरः महान्समोदम् ।। ८॥ ared had Niza preta एवं प्रणम्योत्थितं सदाशिवचरणारविन्दद्वन्द्वविकृतामन्द- भक्तिभास्वरं सदाशिवाभिलाषिणं लदाशिवठाकराख्यं साज- RALSO 50 Rao's court.

द्वितीयस्तबकः। लिबन्धं तं शिष्याशिरोमणि स्वसमीपे समुपवेशयत् समुचिते स्थाने भुवनगुरुसार्वभौमः ॥ गुरुवरः अपि कुशलं सर्वेषाम् सदाशिवः---लोकक्षेमदानैकबद्धदीक्षाणां तत्रमवतां भव्या- जानुग्रहपात्रीभूतानां मादृशशिष्य सार्थानां कथं अकुशलवार्ता- या: प्रसक्तिः ॥ गुरुवर:-किमिदानी चेन्ननगरादेवागम्यते । सदाशिव:-तस्मादेव । श्रीगुरुवर:--श्रीचन्द्रमौळीश्वरदर्शनार्थमेव वा? मदाशिवः-श्रीमहास्वामिनामनुग्रहं आज्ञां च लब्धं च । श्रीगुरुवरः-श्रीचन्द्रमौळीश्वरप्रसादलामेनैव अस्मदनुप्र- होऽपि सिद्ध एव । नायमर्थः पृथक् प्रयत्नमपेक्षेत । सन्ततमस्म- दभिमततरे सकलजनहितकरे सत्कायें प्रवृत्तिमासेदुषो भवाह- शोऽपि आज्ञाकाङ्क्षा कस्मै अथवा आचार्यानुमतिपुरःसरमेव कायमिति स्वीयशिष्यधर्म परिपालनायेति भाति । भवतु, के विषयमुद्दिश्याज्ञाप्रतीक्षा । सदाशिवः-(उत्थाय सप्रश्रयं साञ्जलिबन्धं च) संकल्पं च विधाय तत्रभवता पूताखिलाण्डेश्वरी- ताटोद्धरणाय तन्यत इयं प्रख्यातयात्राधुना । 2 श्रीताटङ्कप्रतिष्ठामहात्सवचम्पूः । overtl rever. Eng! sed to of ti bat lon. seven their The objec . . 7. सर्वेषां कुशलाय लोकगुरुराट्स्थाने भृशं भास्वता शिष्यत्रातकृतार्थना करुणया स्वीकृत्य देव्याः कृते ॥ इत्थमाकर्ण्य लोकोक्त्या समुत्थितकुतूहलः । संपदा मे च सार्थक्यं संपादयितुमागमम् ।। ९ ॥ श्रीगुरुवर:-अस्मिन्समये इदं कार्यमेवं करणीयमिति ना- स्माभिः संकलितः । किं तु प्राचीनाचार्य संप्रदायमनुसृत्य पुण्यक्षेत्रनिवास पुण्यतीर्थस्नान स्वामिदर्शनादिकं कार्य- मुद्दिश्य बहिर्विजययात्रया प्रस्थितं साम्प्रतम् । यदिदानीमेव स्वीय ताटङ्कप्रतिष्ठा कार्य पूरणीयमिति श्रीपरदेवतायाः संक- व्य: स्यात् , तदा तदपि चलतु इत्येव ममाभिप्रायः । श्रीताटङ्क- प्रतिष्ठामहोत्सवकरणबद्धादरैः लोकैः पुनः एतदर्थमेव विजय- यात्रास्वीकृतेति तत्र तत्र महानुद्घोषः क्रियते । तत्त्वं पुनरुक्तमेव । सदाशिवः-श्रीपराशक्तिसंकल्पानुगुणमेव कार्यसिद्धिर्भ- वेत् । न मादशैः सामान्यजनैर्मनसाध्यन्यथाचिन्तयितुमपि शक्यते । अथापि तद्विषयं किमपि कैङ्कय विधातुं तलभदा- दीयशासनानुग्रहलाभाय श्रीमत्संनिधि प्राप्तोऽस्मि । तदनुवा- होऽयं जन इति ॥ श्रीगुरुवर:-कीदृशं तत्कैयम् ? सदाशिवः-श्रीमदखिलाण्ड नायिकाया: श्रीताटङ्कयुगस्य तत्रभवदाज्ञानुसारं यथाशक्तिसम्यक्परिष्करणरूपमेव । of M ised who levy -- Hy ?, fra ared had Niza 2) pret ALSOT HIN "UCwan Rao's court.

द्वितीयस्तबकः। श्रीगुरुवरः-श्रीपराशक्तिरेव स्वकार्य पूर्तये भवन्तं प्रावर्त. यदिति प्रतिभाति । एतादृशकार्य सर्वदास्मानिमित्तीकृत्य भवाशशिष्य समृहरेवानुष्ठेयम् । प्रकृतविषये इदमेव प्रधान कार्य एतच निर्दोषरत्ननिचयकल्पनीयतया तादृशरत्नपरीक्षादक्षण भवतैव सम्यक् कर्तुं शक्यते । सदाशिव:- नाहं सम्यकर्तु पण्डित इति मे मतिस्तथापि तया । देव्यां सहजोद्भवया भक्त्या कृष्टः प्रयत्नमिह करदै ।। श्रीगुरुवर:-सन्ततविनयविभूषणस्य भवतः नैसर्गिक एवायं व्यवहारः एतत्कार्यकरणे त्वमेवाई इति लोकाभिप्राय निरोद्धं कथं शक्यते । पूर्व स्वयमेवागत्य प्रार्थनाकरणेन एत- स्कैकय भवन्मुखेनैव स्वस्याः करणीयमिति श्रीजगन्मातुरभि- मतोऽपि स्यादिति मन्ये । भवतु तथैवेत्यन्वग्रहीत् । सदाशिवः--सद्यः श्रीजगदाचार्यचरणनळिनयोः प्रणिप- त्याधुनैवास्मस्कुलं पवित्रमासीत् , अर्थश्च सार्थः, जन्म च मे सफलम् , यस्मात् सत्स्वपि बहुशिष्यगणेषु पदीयजन्मान्तरीय- सुचरितनिचयैः एनाशपुण्यकार्य निर्वहणे श्रीपग्माचार्यानु- ग्रहोऽपि लब्धः श्रीगुरुवरः---भवादृशानामास्तिकशिखामणीनां आजान- सिद्धगुरुदेवताभक्तिभूषितानां नैतहुर्लभम् । सदाशिव:-अधुनैव धन्योऽस्मि ।

श्रीताटङ्कप्रतिष्ठामहोत्सवचम्पूः । श्रीगुरुवर:-अस्मात्प्रतिनिवर्तनसमये श्रीजम्बुनाथक्षेत्रमा साध श्रीजम्युनाथाखिलाण्डेश्वरीदर्शनादिकं विधाय तत्पूजक- मुखेन ताटङ्कयुगळमपि यथापरिष्करणयोग्यं सम्यक वीक्ष्य सौकर्यानुसारं गम्यतामित्यवादीत् । - overt vever, Eng eed to of t1 bati non. seven their The objec सदाशिव:-गृहीतः शिरसा श्रीमदनुग्रहः इति सपणाम प्रसादं गृहीत्वा प्राप्तानुज्ञो बहिरयासीत् । D 17. of Mi ased who : levy [ Hy 2, fro ared had Niza prel तत्र स्थित्वा दिनयुगमथ श्रीजगद्देशिकेन्द्रा- दातानुज्ञो विमलसरितालंकृतं सह्यपुत्र्या । क्षेत्रं तादृग्लषितफलदं जम्बुनाथीयमाप्य श्रीमच्छम्भुं व्यनमदखिलाण्डेश्वरीं दिव्यमूर्तिम् ।। निवसन्दिनमेकमत्र मोदा- दपि ताटङ्कयुगं निरीक्ष्य सम्यक् । स्वपुरं प्रतिपद्य चाम्बिकाया- अतनोद्यनमसौ हि पुण्यकार्ये ॥ १२ ॥ अथ गुरुवर एष क्षेत्रवर्याण्यटन्स्वै- विनयभरितशिष्यैः प्रार्थितो भक्तिपूर्वम् । कुतुकजलधिमग्नान्सर्वलोकान्वितन्व- अमजदतिविशालं क्षौम सालं पुरं तत् ।। १३ ॥ MINM "LUO PLEMAILSun Rao's court.

द्वितीयस्तबक:। तत्र च दक्षिणदेशशेखरीभूत: सहजसंजातश्रीगुरुचरणसरो- जभक्तिः 3: प्राकृत श्रीमदाचार्य यवर्यव्यासपूजापरिचर्यालव्धश्रेयोऽ- भिवृद्धिः स्वशासनाधीनीकृततद्देशीय जननिकरः प्रवर्तयिता गोष्टीनां अग्रगण्यो धैर्यशालिनां श्रीमदात्मनाथक्षेवालंकार- भूत: एकाम्रनामा शिष्यशिखामणि: श्रीजगदाचार्यपादसरोज मूलमाश्रित्य कृतानेकप्रणामपूर्वकं एतद्वार्षिकश्श्रीव्यासपूजामहो- सवः श्रीमदात्मनाथक्षेत्र एवं विधाय तत्रत्याः सर्वेऽपि अतु. माह्या इति प्रार्थयांचकार । श्रीगुरुवर:-एतादृशकार्यनिर्वहणश्रमः प्रागनुभूतचर: भ- वता। अतः नाधिकं वक्तव्यं श्री चन्द्रमौळीश्वरसंकल्पानुसार भवदिष्टसिद्धिर्भवेदिति प्रसादं दत्वान्वग्रहीत् । सोऽपि महता मोदेन स्वं ग्राममालाद्य पूर्वमनुभूततया श्रीपूजाब्राह्मणसमा- राधनादीनां योग्यं यद्यत्करणीयं तत्कर्तुमारभत ।। अथ गुरुवर एष क्षौमसाले जनाना. मभिमतमनुसृत्य स्वल्पकालं च नीत्वा । गमनसरणिमध्ये प्राप्य किंचिद्विलम्ब विमलमभजदाशु यात्मनाथस्थलं तत् ॥ १४ ॥ तत्रस्थाः शिष्यवर्गाः गुरुवरचरणे प्रार्थयन्भक्तिपूर्व कार्यायाचार्यवर्येहशरदिमहितापुण्यदासेवितृणाम् क्षेत्रेऽस्मिन्त्रात्मनाथक्षपितकलिमले पूतपूते मनोज्ञे कृत्वा तां व्यासपूजां कलय जनचयान्धन्यधन्यानिह स्थान् श्रीताटङ्कप्रतिष्ठामहोत्सवचस्पूः । Overt vever, Eng) eed to : of | bath ततः एकाम्राख्येन शिष्येण स्वनिवासाय सज्जीकृतं समु- चितं स्थानं अधिगम्य तहिनकृत्यमखिलमपि नियममन्वति. पदाचार्यवर्यः । non. seven their The objec_ अन्येचुर्लसदात्मनाथसदने श्रीव्यासपूजाकृते बाह्ये वातपुरीश संनिधिगते रम्ये महामण्डपे । जातीचम्पकमल्लिकादिकुसुमैः सम्यकृतालंकृति- स्थानं मजुतमं सुगन्धभरितं सज्जीकृतं चोषसि ॥१६॥ D. 17. -- of Mi ased who : levy [ Hy 2, fro ared had Niza: pret श्रीलोकगुरुशेखरोऽपि प्रातः चतुर्थघण्टासमये उत्थाय तदिवसकरणीयं स्वीयं विशेषानुष्ठानमखिलमपि यथाविधि परिसमाप्य सार्धाष्टमघण्टासमये तत्तद्राजस्थानायथासंप्रदाय मोपहारं प्रेषितैः तत्प्रतिनिधिभिः श्रीगुरुवरचरणसरसिजयुग- लसहजभवभक्तिगरिमदृढगुणसमाकृष्टागतप्रभुतलजनिकरैश्व तत्क्षेत्रं परितो विराजमानेभ्यो प्रामसहस्रेभ्यः अत्यद्भुतम् अतिपवित्रतम श्रीव्यासपूजामहोत्सवमालोक्य जन्मसाफल्यं संपादनीयमिति समायात: बहुजनसमूहैः निरन्तरं कवचिते तरक्षेत्र राजकीय प्रधानाधिकारिभिः महता अमेण प्रदर्शितमा- र्गेण मन्दं मन्दं श्रीचन्द्रमौळीशसदनात् आत्मनाथालये सम्य- गलंकृतं पूजामण्डपं प्रतिपद्य पूर्व तत्तदेवस्थानादागतदेवताप्र- सादान यथाक्रमं परिगृह्य तदनुपूजामुपक्रम्य विधिवव्यतानीत् । mumtaj doo Rao's court,

द्वितीयस्तबकः ।
सर्वान्व्यासमुखानृषीनिजगुरून्संपूज्यभक्क्या भृशं
श्रीमदेशिकराडुपागतजनान्दूरात्मसादेप्सया ।
आलोक्याशु कृपारसार्द्रितमहापूनस्वदृष्ट्या मुदा
प्रादाच्छिष्यगणस्य सर्वफलदं व्यासप्रसादं तदा॥१७॥
इत्थं यथावदखिलान्यपि तत्र कृत्वा
श्रीचन्द्रमौळिविलसत्सदनं च तस्मात् ।
आगत्य पूजनमथाकलयच्छशाङ्क-
चूडस्य सर्वजनतापरिसेव्यमानः ॥ १८ ॥
ततः, राखौ सार्थसप्तमघण्टासमये श्रीमदात्मनाथदर्शनाय
सपरिवारः प्रतस्थे श्रीलोकगुरुवरः तत्र प्रधानाधिकारिणा
सभक्तिश्रद्धमुपचर्यमाणः पूर्व श्रीविघ्नेश्वरं संसेव्य पश्चात्
कैलासमिव सविलासं बालदिनकरनिकरविराजमानदीपमाला-
मण्डितं पुरोमण्डपमासान भगवन्तं करुणानिधि सुन्दरतरमि-
न्दुशेखरमन्तात्वा एवं स्तोतुमुपाक्रमत ।
यया तव दृशा विभो भवजदुःखहन्यातनो.
विलोक्य सदनुग्रहं गिरिशवातपूरीशितुः ।
तया स दयया कदा महितयात्मनाथप्रभो
निरीक्ष्य वितनिष्यसे जनमिमं कृतार्थ भृशम् ॥१९॥

श्रीताटङ्कप्रतिष्ठामहोत्सवचस्पूः । अपि च, overti vever Eng eed to c of ti । bate non. seven their The objec असंख्यसुरकोटिषु प्रविलसत्स्वपि त्र्यंबक त्वमेव शरणं ममेति च विहाय सार्वान्सुरान् । गतं निकटमद्य मां त्यजसि चात्मनाथेश चे. द्भजेयमितरं कथं भवति वा दयालुश्व कः ॥ २० ॥ किंच, D. of M ased whc. levy 1 Hy 2, fro ared had Niza pret शंभो वातपुरीश्वरेण गदितां श्रीपाण्ड्यमुद्दिश्य तां वाचं पालयितुं विधाय सकलान्क्रोष्ट्रन्हयानुत्तमान् । गत्वा तद्विलसद्गणैः : सह मुदा वेदाश्वमारुह्य च द्रा तस्मै तुरगान्विभोर्पितवतः किं दुष्करं स्यात्तव ।। २१॥ ततः सकलभुवनजननी योगाम्बिकानाम्नी श्रीभगवतीं अन्यान्यपि देवतानि यथासंप्रदायं संसेव्य श्रीचन्द्रमौळीश्वर- निवासगेहमभजत् । अपरेाः प्रभृतिपञ्चषदिनानि देशान्तरादागतपण्डितमण्ड- लीभ्यः शास्त्रवाक्यार्थवर्णनसदुपन्यासादिकं च विधाय स्वग्राम प्रतिजिगमिपून्विदुषः क्रमेण तत्तदुचितमर्यादानुग्रहदानपुरःसरं प्रेषिषदाचार्यवर्यः । अथ प्रतिदिवसमपि प्रातः पञ्चमघण्टासमये श्रीजगद्गुरु- सार्वभौमः आलय यत्र देशे लोकोद्वारणार्थ करुणया श्रीपर- -- Rao's court.

द्वितीयः स्तबकः । मेश्वरः दक्षिणामूर्तिरूपमधिगम्य निवसन् पुण्यशालिभ्य: शिष्येभ्यः स्वयं तत्वोपदेशमकार्षीत् । नादृशं पूनतमं श्रीकुन्द- वृक्षमूलं प्रतिपद्य काष्ठवद्विराजमान: एकान्त अष्टमघण्टावधि किमपि तत्वं ध्यायन् समयं नीत्वा श्रीमद द्वैतवेदान्तभाष्यपठ- नाय सन्नद्धानामास्तिकशिष्य सार्थानां प्रार्थनया निशिततरनि- यमपूर्वकं तत्रैव दशघण्टापर्यन्तं तेभ्यो भाष्योपदेशं विधाय तदनु, क्रमेण श्रीमदात्मनाथादिदर्शनपूर्वक स्वसदनं संग्राप्य श्रीचन्द्रमौळीश्वराराधनतत्परोऽभूत् । इति स कुतुकमस्यामात्मनाथीयपुर्या भुवनगुरुवरोऽसौ सन्ततं वीतविघ्नम् । कलितनियमबृन्दो ध्याततत्वस्वरूप: समयमगमयद्धि स्वीयशिष्यप्रपूज्यः ॥ २२ ॥ इत्थं कृपाभरजुषा गणपत्यभिख्य श्रीमद्गुरोमडवधूकरुणाप्तिहेतोः। पश्चापगेशकविना रचितेऽत्र चम्पू. ग्रन्थे समाप्तिमगमत्स्तबको द्वितीयः॥ २३ ।।

overt तृतीयस्तबकः । veyer Eng eed to [ of t | bat non. Seven their The objec एकाम्रनान्ना भृशभक्तिभाजा शिष्येण मासयमादरेण । आराधितो लोकगुरुत्तमोऽसौ श्रीरामसेतुं प्रति यातुमैच्छत् ॥ १॥ सद्यः श्रीजगद्गुरुवरः सर्वाधिकारिणमाहूय भावि महोदय- पुण्यकाले सेतुस्नानमपि लभ्यतेति प्रतिभाति तस्मात् श्वः विश्वरूपयात्रानन्तरं दक्षिणाशामुखेनैव विजययात्रा कार्या सब्जीक्रियन्तां सर्वाण्यपि साधनानीति समदिशत् । D. 17. of M ased who : levv | HD सर्वाधिकारी तथैवेति तदाज्ञां शिरसि कृत्वा सज्जीकृतवान् सर्वमपि। ared had Nizai Preto अन्येचुर्नगरप्रदक्षिणकृते श्रीदेशिकेन्द्रो भृशं शिष्यैरथित आत्मनाथचरणं संसेव्य पूर्व ततः । एकाम्रादिमशिष्यलोकलषितं संपूरयन्तनिशि प्रातः प्रस्थितवानिजैः परिजनैः श्रीरामसेतुं प्रति ॥ Jere LI Pos court.

तृतीयस्तबकः ।
खेनैवागतभक्तशिष्यनिवहः श्रीदेशिकेन्द्रस्ततः
रामस्थापितविघ्नराजसहित क्षेत्रं प्रपद्यामलम् ।
स्थिता वासरयुग्ममत्र कुतुकात्संसेव्य विघ्नेश्वरं
देवीपत्तननामकं प्रतिययौ क्षेत्र प्रसिद्धं ततः ॥
आदिसेतुरित्याजगन्मण्डलंविख्यातं भगवता श्रीरामचन्द्रेण
निर्विघ्नं पौलस्त्यस्य विजयाय सिन्धुतीरविरचितश्रीनवग्रहदेव-
तापूजनं आतुषारगिरिशिखरात् अनवरतागतजननिकरनिबि
डितं तत्क्षेत्रमासाद्य श्रीजगदाचार्यवर्यः स्वपूर्वाचार्यानुष्ठित-
क्रमानुसारं नवग्रहपूजादिकं यद्यत्तत्र कर्तव्यं तत्तयथाविधि
विधाय दिनमनु समुद्रस्नानपवित्रान् तत्क्षेत्रवासिनः स्वकृतसुव-
दानवर्षणेन अतिमहत्यानन्दसागरे निमज्जयामास ।
स्थित्वादिसेतौ जगती गुरूत्तमः
स्नानादिकं सर्वमपि स्वकृत्यम् ।
कृखानयत्तत्र दिनत्रयं हि
विशुद्धचेता निखिलेश्च सेव्यः ॥ ४ ॥
ततः प्रस्थितोऽतो जगदेशिकेन्द्रो
विलम्ब्यामागें त्रयं वासराणाम् ।
अगादन्तिकं द्राक् स रामेश्वरस्य
प्रशस्तैः समस्तैः स्वाशिष्यैरुपेतः ॥५॥

श्रीताटङ्कप्रतिष्ठामहोत्सवचम्पूः । .. overt vever Eng eed to c of t i bati non. sevens their The objed तदानीं बहो: कालादारभ्य तत्रागतजननिचयसातन्दव- णितश्रीजगद्गुरुशेखरगुणगण समाकर्णनमंजातहढभक्तिप्रेरित. सिषेविषासाहितैः कदा गमिष्यन्ति श्रीजगद्गुमचरणाः कदा वा वयं च तदर्शनेनात्मानं कुलं च पवित्रीकुर्मः कदा वा तदीयम दुपदेशश्रवणेन अस्मादपारात्संसारपारावारात उत्तराम इति बहुविधचिन्तया सन्ततं सादरं चातकवृन्देनेव पयोदनिकुरुम्ब तदागमनं प्रतिपालयद्भिः तन्नगरसीमान्ले माकी क्रोशदशक- दूरे बिराजमाने विनेश्वरालये पूर्वमेव सज्जीकृतकरितुरगछत्र- चामरवाद्यादिविरुदपूर्णकुम्भमालानालिके कदलीफललिकुच फलादिमङ्गलद्रव्यभास्वरस्वकरैः श्रीगुरुचरणागम मार्गमावृत्य निष्ठद्भिःनिखिले रामेश्वरवास्तव्यमहाजन. तद्देशागतस्य श्रीजग- गुरुमहास्वामिनः पर्णकुम्भप्रदर्शनहारसमणिपूर्वकं चरणनलि. नयो: अकारिषत नमांसि । 17. of Me ased whd : levo | Hy e, fra aredi had Niza pret ततः उत्थाय, उत्तप्तचामीकर चारुरुचिपरिहसनपटुतरशरीर. शोभाभरेण निजकलेवराच्छादिताचिन्त्यामूल्यात्यद्भुतपीताम्बर- भास्वरतेज:पुजेन चाच्छादिताग्विलदिगन्तप्रदेशं निसर्गनिस्सर' त् करुणाप्रवाहाभूतदिव्य कटाक्षालंकृतं श्रीजगद्गुरुशिरोमणि. मालोक्य क्षणमानन्दसागरनिमन्नाः सर्वेऽपि चित्रलिखिता- इव निष्पन्दावयवा: अस्वाधीनचित्ताश्च बभूवुः । गुरुत्तमस्ततो महान्सुचित्तभक्तसंतति सुधाझरीकिरकटाक्षवीक्षणेन सादरम् । : ucopana ATIONSHOTI tael Rao's court.

तृतीयस्तबकः । निरीक्ष्य पावनां च तां विधाय मोदवारिधी न्यमज्जयत्तदा सुधांशुशेखरावतारभाक् ॥ ६ ॥ क्रमेण च महाजनागुरुवरं ज्वलद्दीपिका सहस्त्रविलसन्महानगरवीधिमार्गेण ते । अनेषुरखिलाचितं पथितरामनाथालय प्रदक्षिणपुरस्सरं महति सज्जिते सद्गृहे ॥ ७ ॥ तस्मिन्महाहासनराजमानं श्रीदेशिकेन्द्र प्रणिपद्य भक्त्या । संतिष्ठते सर्वजनाय सोऽयं दत्वा प्रसादं स्वगृहं .ह्य नैषीत् ।। ८ ॥ अन्येशुः श्रीभुवनगुरुराट् तत्र विराजमानपुण्यतीर्थेषु यथा- विधि स्नात्वा तत्र तत्रागतवैदिकभूसुरवृन्देभ्यः कनकराव- पीताम्बरादिवानेनाल्पितसुरोधानावधोतमान कल्पमहीमहः अ- न्तत: श्रीरामनाथसंनिधौ देदीप्यमाने सकलप्राणिदु:कर्म- जनित दुरितसंततिनिःशेषनिर्मूलनबद्धकङ्कणे अग्मितीर्थ इति नानव स्वस्मिननातानां समस्तपापपलालानां भस्मीकरणे दक्षो- हामिति स्पष्टमावेदयति प्राच्यां भास्वति पयोनिधावपि विधि- वत्स्नात्वा तत्रापि स्वर्णपीताम्बरादीनि समय वैदिककुलेभ्यः स्वनिवासस्थानमवाप्य श्रीचन्द्रमौळीश्वरपूजाय उपाक्रमत ।

श्रीताटङ्कप्रतिष्टामहोत्सवचम्पूः । Overt vever Eng eed to [ of the ) bat non. sevent their The objec D. 7. तस्मिन्नेव दिवसे तवस्थदेवस्थानप्रधानाधिकारिभिः सादर श्रीस्वामिदर्शनार्थमागन्तव्यमिति संप्रार्थितः श्रीदेशिकेन्द्रः सायमष्टमघण्टोपरि श्रीरामनाथदर्शनार्थ सपरिवारः बहुशिष्य- गणपरिवीतश्च स्वस्थानात्प्रस्थाय देवस्थानाधिकारिभिः पुरः प्रदर्शितसरणिः मन्दं मन्दं श्रीरामनाथालयं आसाद्य महागण- पतिदर्शनपूर्वक श्रीरामनाथस्वामिसनिधि आटीकत । सर्वेऽधिकारिपुरुषाः वाद्येऽतिष्ठन्हि मण्टपे चान्ये । एकान्ते गुरुराजः स्तोतुं श्रीरामनाथमारभत ।। ९ ।। स्वाराडादिसुपर्वशेखरमणिं नारायणाच्याडिक वीराग्रेसरमागमान्तरमणी हारायितपाभवम् । पारावारभवं विषं विदधतं भूरादिदाहोन्मुखं तारानायकशेखरं स्मररिपुं श्रीरामनाथं भजे ॥१०॥ जन्तूनां त्वं परमशिवसम्पाल नायात्र लोके संजातो भूः सहजकृपया रामनाथाभिधेन । योग्योऽयोग्योऽयमिति भवता चिन्तनां तां च हित्वा रक्ष्याः सर्वे न हि विमुखता युज्यते स्वी यधर्मे ॥११॥ किं च- सकलभजनयोग्य पार्वतीपुण्यभाग्य निगमशिरसिमृग्यं योगिबृन्दैकभोग्यम् । of M ased who : levy 1 Hy e, fro ared had Niza * pret AURI PRESOTue Rao's court. Guper तृतीयस्तवकः । धनपतिकृतसख्यं देवगोष्ठीषु मुख्यं भज हृदयमुविख्यं रामनाथाख्य मेनम् ॥ १२ ॥ तस्माद्धिमगिरिवरविरचितसुचरितनिचयपरम्पराया इव मू- तिमत्याः शारदराकानिशोदयाकृशशाङ्करूचिपरिहसनपटुतर- मुग्धनिजमुखारविन्दभास्वरसुन्दरतरमन्दस्मितालंकृतायाः, क. रुणारसवरुणालयभक्तगणपरिरक्षगचणवीक्षणकोणमनोहराया श्रीपर्वतवर्धनी नाम्न्या: सकलभुवनजनन्याः सन्निधिमधिगम्य श्रीशंकरगुरुवरः यथावद्धयात्वा स्तुत्वा च ततो निष्क्रम्य प्रदक्षि- णक्रमेण श्रीनटराजादिदेवतादर्शनमपि विधाय चण्डिकेश्वरा- नुमतिपूर्वकं निजावास सदनं अयासीत् । परेद्यः, यस्य दर्शनमात्रेण मुक्तिरित्युच्यते बुधैः । यदेशगमनाल्लोकाः मुच्यन्ते सर्वपातकैः ॥ १३ ॥ संसारांबुधिमग्नलोकनिवहाः कूलं प्रयातुं पर जात्यन्धा इव सन्ततं सुसरणेरज्ञानतस्तत्र च । कामक्रोधमदादिदुष्टविलसज्जन्तुव्रजैराहते कुर्वाणा भ्रमणं प्रयान्ति परमं पारश्च यत्स्नानतः॥ दुष्टग्रहाविष्टजना नितान्तं कष्ट वहन्तो बहुमन्त्रतन्त्रैः।

श्रीताटङ्कप्रतिष्ठामहोत्सवचम्पूः । श्रमं प्रपद्याधिकमन्ततो य देशं गतास्ते सुखिनो भवन्ति ॥ १५ ॥ overt प्रायश्चित्तशतरप्यनिर्वत्या ये जनार्जिता दोषाः । यस्य स्पर्शनमात्रात्कलयन्ति पलायनं स्वयं ते हि ।। never Eng eed to r of ) bati non. seven their The objed तत्तादृशं सर्वसुखैकहतुं श्रीरामसेतुं प्रतियातुकामः । प्रस्थाय तस्मात्सहसर्वलोकैः मापाशु तं देशिकसार्वभौमः ॥ १७ ॥ D. 57. of M ased whe c levy 1 HO 2, fre ared had Niza * pret अनन्तरडिने च श्रीमहागुरूदयात्प्राक स्वेनापि सज्जेन भवितव्यमिति मनीषयेव महोदयपुण्यकालेऽपि झडिति समा- गते सेतुस्नानकरणमेव महाविशेषः तत्रापि महोदयपुण्यकाल स्नानं विशेषतरं ततोऽपि जगदाचा चायवर्य श्रीमहास्वामिसन्निधौ स्नान विशेषतममित्यभिप्रायेण नानादेशसादरसमागतैः जन- सहस्रनिचयैः क्षौद्रपटले मक्षिकवृन्दैरिव निरन्तरं कचिते मार्गे निरवकाशे श्रीगुरुवरोऽपि उषःकालोचित स्वीयानिखिल. नियममपि यथावत् विधाय महता जनसङ्घन साकं पूर्वमेव श्री- रामधनुष्कोटौ सज्जीकृतं नारिकेलपर्णनिर्मितं अतिपवित्रतम स्थानमभजत। ASHOTTE CHOur Rao's court.

तृतीयस्तबकः । ३३ श्रीगुरूत्तमस्तदा महोदयाभिधे दिने पूर्वपश्चिमोज्ज्वलत्समुद्रयोश्च सङ्गमे । सचापकोटिनामके स्वभृत्यवर्गवेष्टितो मुहुर्मुहुर्त्यमज्जदात्तकौतुको यथाविधि ॥ १८ ॥ तत: ततीर्थमध्यात्सुञ्जी भूतैरिख राजतचूर्णैः अतिपवित्रतमै- रच्छाच्छसिकतासमूहै: भासमानं तत्कूलप्रदेशमासाद्य परिश- हीतशुष्कशाट्यन्तरः श्रीजगदाचार्यवर्यः तत्कालोचित स्वीयम- नुष्ठानं विधिवन्निवयं तत्र संमिलिनानां विद्वन्मणीनां भूसुर- निकराणां यथाई कौशेयपीताम्बरकम्बलकनकादीनि बहूनि दानानि कृत्वा अवशिष्टेभ्योऽपि सर्वेभ्यः प्रधानाधिकारिमुखेन बहूनि दानान्य कार्षीत् । एवं श्रीगुरुवरनवमेघवर्षितं सुवर्णादि- काधिगतवन्तः सकला लोका इत्थं स्तोतुमुपाक्रमन्त । भोजो नाम पुरा बभूव नृपतिः दाता कवीनां परं कश्चित्किञ्चिदिति कचिद्विलिखितो ग्रन्थें परं दृश्यते । लोकाचार्यवराभिधोऽयमधुना भूमौ नवीनाम्बुदः सर्वेषामपि वाञ्छिताधिकमहो स्वर्णाम्बु संवर्षति । अन्ये च, महोदय इतीरित महितपुण्यकालेऽधुना समस्तकलुषच्छिदि प्रथितरामसेताविह। 3 श्रीताटङ्कप्रीतष्ठामहोत्सवचम्पूः । महेशमहिमोज्ज्वलद्भुवनदेशिकेन्द्रान्तिके विषाय किल मज्जनं तदुचितश्च लब्धं फलम् ॥ overt ever. Eng ed to of t bat इतरे च, lon. seven heir The objec श्रीकाचिकामकोटीशाः जगद्गुरुवरा इमे । महान्तः सर्वदा भान्तु स्वदानाल्पितकल्पकाः ।। इत्याद्यनेकप्रकारं वर्णितनिजरवमुखरितनिखिलदिख्मुखाः स- कललोकाः श्रीमदाचार्यवर्यचरणसरोजयुगलं प्रणम्य लब्धतदीय- दिव्यानुग्रहाः स्वस्वनिवासस्थानमवापुः। श्रीगुरुशेखरोऽपि तस्मा- निर्गत्य श्रीचन्द्रमौलीश्वरसदनं प्रतिपद्य यथाक्रमं पूजोपक्रममता- नीत । 7. of M esed who levy Hyi e, fre ared he अथ तत्रैव धनुष्कोटौ स्थित्वा प्रतिवासरं सेतुम्नानपूर्वकं नवरात्रमहोत्सवपूजां सानन्दं सविशेषञ्च विधाय नत्रत्यानां सर्वेषामप्यभ्यधिको मुदमुत्पादयामास श्रीदेशिकेन्द्रः । सारस्वतं पूजनमत कृत्वा परेधुरस्मात्स महान्गुरूत्तमः । निर्गत्य रामेश्वरपूर्निवासि- लोकार्थितः तत्पुरमाप तूर्णम् ॥ २२ ॥ तत्र स्थितार्यनिकरैः समहाजनैश्च संपूर्णभक्तिभरितैनिजशक्तियोग्यम् । II "LTIE Hcope SUSNOR Rao's court.

तृतीयस्तवकः । .. सर्वैरपूज्यत महागुरुराट् स्वकीय वाचाझरीभिरखिलान् समतोषयच ।। २३ ।। तदानीं- नटेशार्य इति ख्यातः मधुरापुरभूषणम् । गुरुपादाब्जसेवायै प्राप रामेश्वरं पुरम् ।। २४ ।। सद्यः श्रीगुरुपादवन्दनकृते साकं सुपुष्पैः फला- न्यदाय प्रथमं निवेद्य तदनुज्ञातस्तदीयान्तिकम् । प्राप्तः पुष्पफलानि तत्र च नयन् श्रीमानटेशः प्रभुः साष्टाङ्गं प्रणिपातनं समतनोदानन्दपूर्णान्तरः ।। श्रीगुरुवरः-प्रणम्योत्थाय सभक्तिश्रद्धं साञ्जलिबन्धं च तिष्ठन्तं तं नटेशार्य अनवरतनिसर्गनिष्यन्दिकरुणाप्रवाहवि- राजमाननिजकटाक्षवीक्षणस्य पात्रीकृत्य कोमलतराल्पमन्द- स्मितालंकृतमुखारविन्दः 'अपि कुशलम्' इत्यमाक्षीत् । नटेशार्य:-तत्र भवदव्याजानुग्रहाचरमभाजनीभूतानाम- स्मादृशानामकुशलमिति वार्तायाः का प्रसक्तिः ।' गुरुवर:-'किमधुना मधुरात एव आगमनम् ? नटेशाय:-'तस्मादेवागच्छामि' श्रीगुरुवरः--'द्वित्राणि वासराणि सहैव स्थातुं शक्यते वा' नटेशाय:-'सर्वदा श्रीमद्भिः साकमेव स्थातव्यमित्येवाभि- श्रीताटङ्कप्रतिष्ठामहोत्सवचम्पूः । overti rever, Eng! ed to of t bat lon. seven heir The object प्रायः तथापि लौकिककर्मपिशाचिकया बलात्समाकृष्टः मदीया- भिप्रायानुसारं श्रीमदानामनुष्टातुमशक्नुवन अपराधीभवामि' श्रीगुरुवरः-- 'सर्वेऽपि कर्मवशगा एव तत्रापि बहुजनोपकार- पराणां गृहस्थमार्गावलम्बिनों कथं कर्म त्यक्तुं शक्यत? अत एव 'नहिं देहभृताशक्यं त्यक्तुं कर्माण्यशेषतः' इति गीताचार्ये- णापि वर्णित नावापराधलं शोऽपि किं भवत्यन्यो निवेदनीयांश: 7. of M ised whd levy | Hy नटेशार्य:-'नास्त्यधिकं निवेदनीयं अथापि किञ्चित विज्ञापये । बहोः कालादारभ्य तत्र भवत्सन्निधौ असकृन्निवे- दितो मदीयमनोरशोऽधुना सफलीकरणीय इति' श्रीगुरुवरः-'कोऽसौ मनोरथः ?' नटेशार्थ:-- मधुरामधुराकार्या धन्याश्च जनसंचयाः । श्रीमतां विजयनेति या कृता प्रार्थना च सः ॥ श्रीगुरुवरः- तवत्याः सर्वेऽपि श्रीमठागमनमभिलषन्ति का नटेशाय:--प्रायः सोत्सुकाः प्रतिपालयन्ति श्रीमतां विजयम्' श्रीगुरुवर:-- श्रीताम्रपर्णातीरविराजत्पुण्य तीर्थक्षेत्रस्नान- दर्शनार्थ गम्यते ; तन्नगरमार्गेणैव प्रयातव्यमिति भाति । तदानीं तत्र द्वित्राण्यहानि बिलम्बनेन भवत्प्रार्थनां सार्थी कुर्मः' इति न्यवेदयत् । 2, fro ared had ७ HOKritSyleon co Rao's court.

तृतीयस्तबकः । नटेशार्य:-'अधुनव धन्योऽस्मि इतःप्रभृति श्रीमद्विजय- यात्रां प्रतीक्षमाणा भवामः । श्रीगुरुवरः-वारद्वयानन्तरमेव तत्रागन्तुं शक्यतेति प्रति- भाति । नटेशार्यः-- 'श्रीमती सौकर्यानुसारं भवतु' इत्युत्थाय प्राणसीत् । श्रीगुरुवरः-'किमीदीनीमेव गन्तव्यं । नटेशाय:-श्वः अवश्यं तत्र स्थातव्यं साम्प्रतमेव धूमश- कटागमनसमयः श्रीमदाज्ञानुसारं कर्तुं सज्जोऽस्मि ।' श्रीगुरुवरः-तयधुनत्र याहि दीयते प्रसादः ; रे कृष्ण, आ- नीयता प्रसादः कृष्ण: तथा करोति श्रीगुरुवरः-नाटेशायमाहूय तं प्रसादमर्पयतिस्म । सोऽपि गृहीत्वा वन्दनपूर्वक प्राप्तानुज्ञः स्वनगरमगात्--- रामेश्वरे गुरुवरः स महान्समस्तै. राराधितो दिवसपञ्चकमादरेण । श्रीरामनाथपदपङ्कजपुण्यतीर्थ- संसेवनेन समयं गमयेत्समोदम् ।। २७ ।।

श्रीताटकप्रतिष्ठामहोत्सवचम्यूः । bverti ever, Eng! ed to of t) batt इत्थं कृपाभरजुषा गणपत्यभिख्य श्रीमद्गुरोमडबधूकरुणाप्तिहेतोः। पश्चापगेशकविना रचितेऽत्र चम्पू- ग्रन्थे समाप्तिमगमत्स्तबकस्तृतीयः ॥ २८ ॥ lon. seven heir The objec 7. of M ised who • levy | Hy 3, fre ared had ANSAR a Rao's court.

चतुर्थः स्तबकः ।
श्रीगुरुवर:- श्रीसेतुपतिकृतप्रार्थनाया: पूरणविषयेऽयमेव
समयः इत्येवं मत्वा ।
संपाप्य स्वपुरं दिनानि कतिचित्रीत्वात्र सर्वे जनाः
कार्या धन्यतरा इति प्रकलितां प्राक्सेतुनाथेन च ।
सार्थी कर्तुमिहार्थना पुरवराद्रामेश्वरात्तत्पुरं
प्राध्यं चेति निजाधिकारिनिकटेऽवादीत्कृपाब्धिस्तदा।।
प्रातः प्रयाणोचितसर्वकार्य
सम्यविधायाथ मठाधिकारी।
व्यज्ञापयत्सज्जितमित्यमुष्मिन्
श्रीदोशिकेन्द्र दिवसावसाने ॥ २॥
तत्रस्थसर्वजनतार्थनया कृपालुः
धर्मोपदेशममृतोपमवाग्झरीभिः ।
कृता जगद्गुरुवरः सकलान्प्रसाद-
दानेन शिष्यनिवहान्समतोषयत्सः ॥ ३ ॥
अन्येचुरस्मान्नगरान्निर्गत्य गुरुराडसौ ।
अनुद्भुतो भक्तलोकैः रामनाथपुरं ययौ ॥ ४ ॥

श्रीताटङ्कप्रतिष्ठामहोत्सवचम्पूः । तत्र च, .. .. overt ever, Eng! ed to of ti bati lon. sevens their The objec . 7. श्रुत्वा लोकगुरुत्तमस्य विजयं स्वां राजधानी प्रति श्रीमान्सेतुपतिः स्वराज्यविल सल्लोकैः समस्तैः सह । सानन्दं प्रतिपालयन्बुधवरः तं कृत्यविच्छ्रीगुरुं प्रत्युद्गम्य कृतानतिः सविनयं स्वीयां पुरीमानयत् ।। सोऽपि श्रीभुवनगुरुशिरोमणिः तां नगरी प्राप्य सम्यक् सकलकार्यनिर्वहणपटुतरेण निजकुलपरम्परागतपूज्यलोकोचित- मर्यादार्पणसंजातयशोऽलंकृतेन, सतताराधिनपण्डितमण्डलेन सेतुपतिना तेन महीपतिना सादरं संपूजित: पञ्चषदिनानि सानन्दं तन उषित्वा तत्रत्यान्सर्वान् परिपूर्णमनोरथान्विधाय तस्माचिळवगङ्गाभिधं नगरं प्रययौ । सत्रापि प्रभुतल्लजेन नितरां सद्भक्तियुक्तेन भूभृ- कल्पेन च भास्वता मतिमता साकं स्वकीयैर्जनः । आगत्य स्वपुरात्वाहिः कृतयथोक्तात्मीयमर्यादया लोकाचार्यवरः स सादरमयं नीतःपुरं तन्मुदा॥६॥ दिनानि खलु पश्चतचितवयंशुश्रूषया मुदा गुरुवरः प्रभुं शशिकलाधरं पूजयन् । स्वसेवनकृतास्थयागतजनान् भृशं तोषय- [पादिशदयं स्वयं विमलधर्मसूक्ष्म तदा ।। ७ ।। of M. used whd : levya । Hy 3, fre ared H do Rao's court.

चतुर्थस्तबकः । ४१ ततः तस्मानिर्गत्य मधुरामार्गमध्यस्थक्षेत्रवासिजनप्रार्थना- मपि सफलीकरणाय तत्र तत्र क्षेत्र कश्चित्कालं विलम्ब्य क्रमेण मधुरानगरसमीपमभजत देशिकेन्द्रः । मधुरायामपि तत्रभवान्नटेशार्य: रामेश्वरात्स्वपुरागमनानु- क्षणमेव श्रीगुरुवरानुग्रहबलेनावाप्तानन्दः यथाशक्ति अस्मिन् कायें प्रयतितव्यम इदमेवैतजन्मनोऽवश्यकर्तव्यं कार्यमिति नैसर्गिकगुरुभक्तिदाब्येन स्वशरीरश्रमं धनव्ययञ्च किञ्चिद- प्यगणयन् श्रीजगद्गुरुमहास्वामिविजयबोधिनीः बही:पत्रिकाः मुद्राप्य सर्वत्र प्रकटीकृत्य स्वयमपि तत्र तत्र गत्वा वाचापि समु- चिताधिकारिणे निवेद्य तन्नगरवासिनां तत्समीपग्रामस्थानां सर्वेषामपि महान्तमुत्साहं समुत्पाद्य कदा श्रीमदा चार्यचरणा इमां नगरी भूषयेयुः, कदा वा तदर्शनलाभो घठेतास्माकं, तदीयानु- ग्रहम्य च कदा पात्रीभविष्याम इति निरन्तरचिन्ताव्याकुलः समस्तैः माकं श्रीजगद्गुरूणां तत्परिवाराणां च निवासयोग्यं स्थानमपि यथोचितं परिकल्प्य सज्जीकृताखिलकार्य: सांदरं श्रीमदाचार्यविजयाकांक्षी अवर्तत । अस्मिन्समये श्रीमुखशास्त्री गुरुराजशासनात्कश्चित् । भधुरां प्राप्य च गुरुरा विजयं प्रातः करिष्यति श्वोऽत्र ॥ अवदजनतामध्ये नटराजार्यस्य चान्तिके स्पष्टम् । पीत्वा तद्वचनामृतमभजन्निखिला अमन्दमानन्दम् ।।

श्रीताटङ्कप्रतिष्ठामहोत्सवचम्पूः । overt! ever, Eng ed to of ti batt lon. seven their The objec D. अन्येषुः करिवाहचामरमहाछत्रैश्च पुष्पैः फलैः हारैराजतपूर्णकुम्भनिकरैः देदीप्यमाना भृशम् । सर्वे तत्पुरवासिनः सकुतुकं श्रीवेगवत्यास्तटे शुद्धाः श्रीगुरुराजपादयुगली संसेवनायै स्थिताः ॥१०॥ श्रीमदाचार्योऽपि पूर्वदिनराखौ घण्टाद्वये प्रस्थाप्य पञ्चम- घण्टासमये निखिलनगरीशेखरीभूतां तादृश्याः महामहिमाञ्चि- तायाः श्रीकाञ्चनमालाया: जन्मान्तरकृतपुण्यपरंपरयेव मूर्ति- मत्या, मञ्जुलमन्दस्मितभासुरनिजमुखारविन्दाच्छाच्छतेजच्छ- दाच्छादिताखिलादिगन्तरया त्रिभुवनविलसल्ललनारत्नललाटतल- तिल कायमानया विगतचञ्चलयेव विद्युत्सन्तत्या अद्भुतशरीरया अकृत्रिमवचनकोटिभिरण्यविदितनिजप्रमावया, आजानसिद्ध- करुणाप्रवाहकल्लोलितकमनीयनिजकटाक्षवीक्षणपरिरक्षितभक्त जनसमूहया, अनादिस्वरूपया, अखिलवन्धचारुचरणारवि. न्या सकललोकजनन्या श्रीमीनाक्षीनाम्न्या परदेवतया कलत्र- वता स्वकीयपद, सरोजयुग, कृतानतिक, नरालिगत, करालभव, पयोधिभय, निराकरण, विधानिपुण, महामहिम, भासुरेण, सकलमुनिजनहदयकुहर, सततविधृतनिजस्वरूपेण पिष्टविक्रय- ण्याः कस्याश्चित् वृद्धायाः जन्मान्तरीयातुलभाग्योदयात् पिष्ट- मूल्यग्रहणेन तद्दासभावमङ्गीकृत्य तदीयत्वेन वेगवतीकूले पृथ- कृतमृद्भारवहनसमयानुभूतवेत्राहतिना आचण्डालमावेदितस्वी- यभक्तगणपालनविषयसमुपजाततादृशकरुणाप्रवाहेण स्वेनाना• of M ised who - levy [ Hy AN 2, frd - ared ad Rao's court.

चतुर्थस्तबकः । ४३ a , यासेनाचरितया तादृशचतुष्षष्ठिसंख्याकया लीलया प्राकृताना- मपि स्पष्टतम बोधितनिजप्रभावेण, निजविहारहायमाणागम- निकरण चारुतरेन्दुकलालंकृतस्वमूर्धा भगवता श्रीसुन्दरेशेन अनितरनगरसुलभा आत्मीयां शोभामावहन्ती अमरावतीमि- वाश्रितकल्पलतिकां, मेरुस्थलीमिव सद्रनभूषितां क्षीराम्भो निधिमिव परमोत्तमाश्रयां, इन्द्रधनुरिवानेकवर्णोज्वला, सन्तत- सजनकृत्तागममधुरां आदिदंपतिनिवासमधुरां अधिगत्य श्रीवेग- वतीनाम्न्याः पुण्य सरितः क्वचित्पावने प्रदेशे कृतावतरणः स्नानादिकं विधाय कचिदेकान्ते तत्कालोचित स्वीयं जपादिक- मन्वतिष्ठत् । तत: प्रातः सप्तमघण्टासमये समापितनियमः श्रीशंकरगुरु- वरः पूर्वमेव सज्जितसकलशिष्यवर्गकृतप्रणामः प्रदर्शितपूर्ण- कुम्भः कण्ठदेशसादरार्पितानघहार: महाशिविकामारुह्य क्रमेण सर्वैरनुगम्यमानः राजवीधीमार्गेण श्रीसुन्दरेश्वरालयं प्रदक्षिणी- कृत्य तदालये तत्सन्निधौ विराजमानं कल्याणमण्टपाख्यं महामण्टपं मण्डयांचकार । सद्यः सर्वानपि प्रसाददानेनानुगृह्य श्रीचन्द्रमौळीश्वराराध- नाय अन्तरयासीत् । प्रतिदिनमपि पूजादर्शनायागतेस्तैः नगरजनसमूहैः पीडित मण्डपेऽस्मिन् ।

श्रीताटङ्कप्रतिष्ठामहोत्सव चम्पूः । overt! ever, Eng! ed to of t1 bati lon. seven heir The objec श्वसितुमपि जनानां दुर्लभः सोऽवकाशः तदपि सततपूजादर्शनं न त्यजन्ति ॥ ११ ॥ पूजावसानसमयेऽनुदिनं सहस्त्र- युग्माधिको जनचयो घृतमूपयुक्तम् । सव्यञ्जनं सरसपायसभक्ष्यपूर्ण मोदादभुत किल भोजनमर्यमाणम् ॥ १२ ॥ द्राक्षामाक्षिकनूतनामृतरुचेः शिक्षाविधी दीक्षित श्रीमद्देशिकसार्वभौमसदुपन्यासोपदेशं मुदा । वेदार्थाभिमतं सतां बहुमतं दूरीभवहुर्मतं श्रुत्वाऽनन्दपयोनिधौ प्रतिदिन भग्नाः समस्ता अपि । . 7. अपि च । of Me ised wh levy | Hy y, fre ared ITTER ad स्मृतीरितनरोचितामलसुधर्मसंबोधिनी कुधीजनसुधीकृतिप्रथितचातुरीभासुराम् । जगद्गुरुवरोद्भयां सरससाधुवाचाझरी निपीय सकला जना अतनिषुर्हि सार्थाञ्जनिम् ।। अथ तत्क्षेत्रविराजमान श्रीमीनाक्षीसुन्दरेश्वरालयप्रधाना- धिकारिणा समर्यादं श्रीस्वामिदर्शनार्थ प्रार्थितः तत्रभवान भुवनगुरुवरः यथासंप्रदायं निर्गत्य प्रथमतो विघ्नेश्वरदर्शन Rao's court, चतुर्थस्तबकः । विधाय तदनन्तरं बाह्यमण्डप एव विलसत्सकलशिष्यसमूहः श्रीसुन्दरेश्वरसन्निधिं प्राप्य एकान्ते तमेवं प्रार्थयांचकार । तथाहि, यस्मात् सूनशरस्य शक्तिरतुला जातात्मनश्चेत्यहो मारः नो कलयन् समस्तजगतां नाथेऽपि शंभो त्वयि । किञ्चिचेष्टितुमुद्यतः स्वयमभूनाम्नावशिष्टः परं तादृशं परमेश्वरं भवति को वेत्तुं पटुस्त्वां भुवि ॥ १५ ॥ किच, लोकानामवनाय पाण्ड्यनृपतेर्वेत्रेण संताडनं मृद्भारोद्वहनं विषाशनमथो पार्थाहतिस्तादृशी। गण्डूषाम्ब्यभिषेचनं दृढशिलाघातः शिवेत्यादिक कष्ट प्राप्तवतो ब्रवीमि करुणां किं ते त्रिलोकेश्वर ।। कृतनतजनरक्षो दग्धमाराख्यकक्षः कलितगरळभक्षो दत्तदुष्टौघशिक्षः । स्ववशगतसमाक्षः पातु मां द्राक् सदक्षो रविशशिलसदक्षः सुन्दरेशोऽसदृक्षः ॥ १७ ॥ इति संप्रार्थ्य तस्मात् भगवत्याः त्रिलोकजनन्याः श्रीमीना- श्याः संनिधिमधिगम्य तामपि स्तोतुमुपचक्रमे ।

४६ श्रीताटङ्कप्रतिष्ठामहोत्सवचम्पूः । overt ever, Eng ed to of t1 bati lon. seven heir The object श्रुत्यादिपूज्यवचनान्यपि लोकमातः स्तोत्रे तवेशि नितरां भयमावहन्ते । एवं स्थिते भगवति स्तुतिकर्म तत्ते कर्तु कथं प्रभवति प्रथितो बुधोऽपि ॥ १८ ॥ अनादिशुद्धरूपिणीमचिन्त्यशक्तिभासुरां समस्तलोकपूज्यपादपङ्कजद्वयां शिवाम् । महेशवामवासिनीं निशेशभूषणोज्ज्वलां सुमनयन्त्ररूपिणीं महेश्वरी सदा भजे ॥ १९ ।। नानावेदवनोद्भवासुकृतिना केनाऽपि लभ्यापरं मानातीतमहातनुर्विदधती ज्ञानाभिधं सत्फलम् । दानापास्तसुरद्रवैभवभरा सेनापतिमेमगा मीनाक्षीति विभाति कापि लतिका सूनायुधारिपिया ।। इति प्रार्थयन् श्रीजगदाचार्यः तस्मानिर्गत्य प्रदक्षिणपूर्वक निजनिवासस्थानमभजत् । अथ कदाचित् पूर्वसर्वाधिकारी श्रीस्कन्दस्वाम्यायः श्रीज- गद्गुरुनाथाज्ञया श्रीचन्द्रमौलीश्वरदर्शनाय नातिविलम्बनागन्त- व्यमिति मधुरात: समागतां पत्रिकामालोक्य सद्यः श्रीमहा- स्वामिवन्दनाय मधुरां प्राप्य श्रीकल्याणमण्डपे विराजमान श्रीमठमाससाद । 7. of M ised whd levy | Hy 2, fro ared had 360 Rao's court.

चतुर्थस्तबकः । : ततः तत्रस्थ सर्वाधिकारिणा समर्यादमाहूतः श्रीमदाचार्यदर्श- नाय स एव समुचितः समय इति विज्ञाय तस्मात् श्रीगुरुद- र्शनोचितनालिकेरफलाद्यलंकृतपाणिः सभक्तिश्रद्धं गत्वा फला- दीनि तत् सन्निधौ समर्यावन्दिष्ट । उत्थानानन्तरं श्रीगुरुराट् शिशिरशिशिरेणानुग्रहगर्भितेन निजकटाक्षेण सप्रेम तं निरीक्ष्य कुशलप्रश्नपूर्वकं कस्मादिदानीमागम्यत इत्यपृच्छत् । स्कन्दस्वाम्याय:-कुम्भघोणनगरादिति व्यजिज्ञपत् । श्रीगुरुवरः-भवतः कथंभवत्यवकाशोऽधुना । स्कन्दस्वाम्यायः- श्रीमतामाज्ञापरिपालने सर्वदाप्यवकाश एव। श्रीगुरुवरः-दृढतरगुरुभक्तियुक्तानां वचनमेवमेष भवेत् , तन्नोचितमिति अस्माभिः सौकर्य सम्यक् ज्ञात्वाऽऽज्ञा दातव्येति पृच्छ्यते । स्कन्दस्वाम्यायः-- यदा मदीयजन्मान्तरीयभाग्यवशाच्छ्री- मदाज्ञाविषयो भवेयं तदा सर्वमप्यसौकर्य स्वयमेव पलायेत । अवकाशोऽपि संपूर्णः स्वयमेव सज्जोभवेत् । तदादिश्यतां निःशकं जागरूकोऽस्मि तत्रभवदीयानुप्रहेण यथाशक्त्यनुष्ठातु- मिति । श्रीगुरुवरः-विजययात्राप्रस्थानात् पूर्व यत्प्रार्थितं श्रीज- म्बुनाथक्षेत्रनिवासिभिः अस्माभिरपि श्रीपरदेवतायाः संकल्पा- नुगुणं सिद्धयेदित्युक्तं तादृशं श्रीताटङ्कप्रतिष्ठामहोत्सवकार्य ४८ श्रीताटङ्कप्रतिष्ठामहोत्सवचम्पूः । - overt rever, Eng ed to of ti batt lon. seven heir The object D. 7. भाविवत्सरे पूरणीयमिति श्रीपराशक्तेः संकल्पो भवेदिति प्रतिभाति । तत्काय नातिविळम्बेन कर्तव्यमिति । स्कन्दस्वाम्याय:- प्रागेव कर्तव्यमित्ति ममाभिप्रायः । इदा- नीमेव तस्य पुण्यकाल: समागत इति मन्ये । शीघ्रमेव तत्कार्य- मेव । तदर्थ मया यदनुष्ठेयमिति श्रीमदाज्ञा प्रवर्तते तां शिरसा वहामीति । श्रीगुरुवर:--भवादशशिष्यमुखेनैव सर्वे करणीयमस्मादृशा- नाम्। स्कन्दस्वाम्याय:--लोकक्षमाय करिष्यमाणस्य एतादृशोत्त- मकैकर्यस्यापि अनुपयुक्तेन अनेन शरीरेण किंवा प्रयोजन पुण्यशालिभिरेव लभ्यमिदं कार्यम् । यतः एकत्र, श्रीपरदेवता- कङ्कीम । अपरत्र, श्रीमहागुरूणामाज्ञा | किमतोऽप्युत्तमं कार्य- मस्तीति श्रीगुरुवर:-भवदीयहदि यद्वर्तते तदनुवदनि बागपि कार्यमपि तथैव स्यात् । सर्वेऽप्येवमेव मन्येरन्वा भवतु । आत्मनाथक्षेत्रे प्रागेव कश्चन मुहूर्तो निश्चितः अन्यैरपि ज्योति:- शास्त्रप्रवीणरङ्गीकृतः स च मुहूर्तः भाविनि चैत्रमासे एकोन- सप्तदशदिवस इति । स्कन्दस्वाम्याय: मयापि केषांचित पण्डितानां निकट आलोचितः स एवाङ्गीकृतः । श्रीगुरुवर:---- तमेव मुहूर्त निश्चित्य उपक्रम्यतामप्रभृति तत्कार्यायेति । स्कन्दस्वाम्यायः निमित्तं सूचयति । of M ised whd levy | Hy 2, fro ared had Tiza Nao's court.

चतुर्थस्तबकः । तथा हि, सुन्दरसुन्दरघण्टामङ्गळशब्दो निवेदयत्येवम् । अखिलाण्डनायिकायाः प्रचलेनिर्विनमुत्सवं चेति ॥ श्रीगुरुवरः---तयोरेवादिदंपत्योरनुग्रहेण परणीयमिदं, केवलं निमित्तमात्रमेवास्मादृशानां प्रयत्नांमति । स्कन्दस्वाम्यायः-गृहीतः श्रीमहास्वामिनिदेशः शिरसेति प्राणसीत् । श्रीगुरुवरः-- सायन्तनानुष्ठानसमय आयात इति प्रसादा. नयनाय समादिशत् पूजागृहवासिनं; सोऽपि झटिति प्रसाद समार्पयत्। श्रीगुरुवर: निर्विनमेतत्कार्यकरणाय प्रथमत: श्रीचन्द्र- मौळीश्वरप्रसादो गृह्यतामिति सानुग्रहमदात् । स्कन्दस्वाम्यायः--सप्रणामं तं गृहीत्वावाप्तानुमतिः बहिरा- PRODUR गतः । श्रीगुरुवर:- अङ्गीकृतार्थबहने कृतसाहसेऽस्मि- न्धीरे निवेदितमिदं बहुभक्तियुक्ते । तत्स्वीकृतं च वचनं कुतुकेन तेन साहाय्यमस्य करणीयमपेक्षितं च ॥ २२ ॥ इत्यालोचयन्दिनावसानकर्तव्यनियमानुष्ठानाय ययौ । ।

श्रीताटङ्कप्रतिष्ठामहोत्सवचम्पः । इत्थं कृपाभरजुषा गणपत्यभिख्य- श्रीमद्गुरोपंडवधूकरुणाप्तिहेतोः। पश्चापगेशकविना रचितेऽत्र चम्पू- ग्रन्थे समाप्तिमगमत्स्तबकश्चतुर्थः ।। २३ ।। overt rever Eng ed to of t bati lon. seven cheir The objec ३. 7. of M ised who levy Hy ared mhad 12 Rao's court.

पञ्चमस्तबकः॥ आचार्येन्द्रसमागमात्प्रभृति स श्रीमान्नटेशो विभुः त्यक्तस्वीयसमस्तकृत्यमनिशं शुश्रूषमाणों गुरुम् । हृद्वाकायधनादिभिः प्रभुवरै जाप्तवृन्दैः समं प्राप्तश्रीगुरुदिव्यपूतकरुणासत्पात्रतां भक्तिमान् ।। मुधाकृतसुधाधुनीमहितवैभवां श्रीगुरो- निरगळगलचोमधुझरी निपीयादरात् । नितान्तमुदितान्तरः स च नटेशनामा बुधः निमेषमिव मासमप्यगणयत्तदानीं गतम् ॥२॥ इत्थं स देशिकवरो मधुरापुरेऽस्मि न्मासोपरि स्वयमहानि च पश्चषाणि । नीत्वा बहिर्जिगमिपत्यथ यत्र काले तत्राभजद्गुरुवियोगजदुःखमेषः ॥ ३ ॥ अथ श्रीजगदाचार्यवर्य: गुरुभक्तिभृतामग्रगण्यं विनयभूषणं देवाजिरावास्य निजसर्वाधिकारिणमाहूय, अन्न नगरेऽधिककाल- विलम्बोऽभूत् । अस्मान्निर्गत्य श्रीदाक्षिणकाशीक्षेत्रादिदर्शनं विधाय त्वरितमेव ताटङ्कप्रतिष्ठामहोत्सवकृते श्रीमदखिलाण्डे.

श्रीताटङ्कप्रतिष्ठामहोत्सवचम्पूः । overt rever, Eng ed to of t bat lon. seven heir The objec श्वरीक्षेत्र गन्तव्यं, तत् श्वः विजययात्राय सज्जीक्रियतां सर्व- मपीति समादिशत् । सर्वाधिकारी-गृहीतं शिरसा गुरुशासनं तथैव झटिति करोमीति प्राप्तानुज्ञो बहिरगात् । उत्सवकार्य कर्तुं प्राप्ता श्रीगुरुवरायदाज्ञा सा । स्कन्दस्वाम्यभिधार्यस्सन्ततश्चिन्तनापरी ह्यभवत् ।। ततः शीवमेव श्रीताटङ्कप्रतिष्ठामहोत्सवाय पत्रिका मुद्राप्य सर्वतो बहिः प्रकटनीया इति श्रीमहास्वामि सन्निधौ निवेद्य तदनुग्रहपूर्वकमस्मात् कुम्भघोणनगरी प्राप्येति निश्चित्य स्कन्दार्य: श्रीमदाचार्यचरणमूलमधिगम्य कृतप्रणामः सविनयमतिष्ठत् । श्रीगुरुवरः --- अस्ति वा निवेदनीयांशः । स्कन्दस्वाम्याय:--प्रकृतमहोत्सवाय त्वरित पत्रिकामुद्राप- णादिकार्य करणीयमिति भाति । श्रीगुरुवर:-अन्नस्थ सर्वाधिकारो आहूयतामिति । सद्यस्तत्रत्येन समाहूतः सर्वाधिकारी वेगेनागत्य प्रणिपत्य उत्थाय सप्रश्रयं श्रीमदाचार्याज्ञां प्रत्यपालयत् । D. of M ised who levy | Hy a, frd ared had iza श्रीगुरुवरः- वर्षे भाविनि चैत्रमास सुदिने ताटङ्कभूषोत्सवो देव्याः कार्य इतीह निश्चितमतः स्कन्दार्य एषोऽत्र च । Rao's court.

पञ्चमस्तवकः। किं किं पत्रिकया निवेदयति नः द्राक् तस्य तस्योचितं कर्तव्यं प्रति पत्रिकापि सपदि प्रेष्या हि तस्मै त्वया ।। । सर्वाधिकारी-सज्जोऽस्मि यथाशक्त्यनुष्ठातुं श्रीमदाज्ञां । स्कन्दस्वाम्यायः-ममाप्यनुज्ञा दातव्येत्यर्थये इतःपर- मस्मानित्य श्रीमठेऽभिमानिनां सर्वेषामपि पत्रिकया साक्षाच तत्तत् कार्यनिर्वहणाय पूर्वमेव निवेदनीयमिति । श्रीगुरुवर:---क्रियतां तथैव; वयमपि इतः दक्षिणकाशीपर्यन्तं विराजमानतीथदेवतास्नानदर्शनादिकं विधाय चैत्रमासोद्दिष्ट- दिवसेऽवश्यं तत्रागच्छामः; असकृन्निवेद्यतामनुष्टीयमानं कार्य- जातमिति आज्ञाप्य चेन्नपुरवासिना श्रीमठीयकार्यनिर्वहण- समर्थन रामशेषार्येण साकं तस्य प्रसादमहात् । उभावपि सप्रणाम गृहीतप्रसादौ श्रीगुर्वाज्ञां प्राप्य तस्मात्रिशिरःपुरम- भाजताम् । सद्यः श्रीपरदेवतोत्सवकृते मुद्राप्य ताः पत्रिकाः आमेतोरपि चाहिमाचलतटं सर्वत्र संप्रेष्य च । ग्रामायान्तिकभास्वरायगुरुगशिष्यत्रजाब्याय च स्कन्दार्य: स जनान्बहून्स्वलिखितैः पत्रैः सह प्राहिणोत् ।। मर्वोत्सवेषु प्रभुनलजेभ्यो विधाय याच्या सकलैश्च पूर्णम् । यो भोजनं वर्णचतुष्टयानां समर्पयत्यादरतः स्वयं महान् ।।

श्रीताटङ्कप्रतिष्ठामहोत्सवचम्पूः । overt rever, Eng! ped to of the batt lon. seven their The objec 7. श्रीकुम्भघोणनगरान्तिकराजमान- ग्रामस्थित शिव इति प्रथिताभिधेय । तस्मिन्न्यवेदयदयं गुरुशासनेन देव्युत्सवः प्रचलितेति च चैत्रमासे ॥ ८॥ स्कन्दार्यवर्णितमिदं वचनं समोदं श्रुत्वा शिवः स्वयमिदं वचनं जगाद । तस्मिन्समागतजनवजभोजनं त. दातुं प्रयत्नमधुनैव करोमि नूनम् ॥ ९ ॥ एवं शिवोदितं शिवकरं वचनं निशम्य प्रमुदितहृदयः स्कन्दार्यः साक्षादेवावश्यं द्रष्टव्यान् प्रभुवरानालोक्य सकल- मपि विषयं तेषां निकटे निवेद्य सद्यः त्रिशिर:पुरमागत्य श्रीजम्बुनाथक्षेत्रमास्वरनूतननिर्मिते श्रीजगद्गुरुमहास्वामिनां मठे श्रेष्टविनायकपुरवासिनं श्रीजगदाचार्यवर्यचरणसरसि- जाव्याजभक्तियुक्तं निखिललौकिकवैदिककार्यनिर्वहणनिपुणं स्कन्दस्वाम्यायस्य मित्ररत्नं सत्यसन्धं सद्गुणगणालंकृतं प्रभुवरं वैद्यनाथनामानं भूसुधाशनशिरोमणि स्थापयित्वा सकलान्यपि तत्र करणीयानि महोत्सव कार्याणि तस्मिन्निवेश्य स्वयं सर्वतो बहिरटन् क्रमेण सर्वमपि सज्जीचकार । श्रीमदाचार्यसार्वभौमोऽपि मधुरानगरात् प्रस्थाय मध्येमार्ग तत्र तत्र स्थितः आस्तिकशिष्यसमूहयथाशक्त्युपास्यमानः of M ised who : levy | Hy a, frd ared d 05 court.

पञ्चमस्तबकः। श्रीदक्षिणकाशीक्षवं प्रतिपद्य तत्र गिरौ भासमाने दर्शनमात्रेण महानन्दजनके निजस्पर्शनिवारितनिखिलरोगे अच्छाच्छे अ- तिशीतले सन्ततसमस्तजनतासेव्यमानेऽसमाने पावनतरे नि- झरे सानन्दं निमज्ज्य तद्दिरिमूले देदीप्यमानं भगवन्तं इन्दु- शेखरं तद्वामाङ्गविभूषणां वामामणि च निषेव्य दिनत्रयं तत्र न्यवलत्। तत: क्रमेण पापविनाश, कल्लडक्कुरुचि, शालिवाट्यादीनि क्षत्रवराणि तत्तन्निवासिलोकनिवप्रार्थनानुसारमलंकृत्य पश्चात् मधुरामार्गेण षण्मुखनिषेविषया श्रीफलिनीगिरीशमाजगाम । तत्र भूधरवरे, भास्वन्तं आपण्डिताज्ञजनषण्डेभ्यः सम्यक् प्रकटीकृत निजमहिमानं तत्तल्लोकलषिताखिलैहिकामुष्मिकश्रेयो विषानदीक्षितं अनवरतागतविबुधनिकरवन्धमाननिजचरणार- बिन्दद्वन्द्वं अद्भुतविग्रहं आसेचनकमणामम्बिकाप्रियकुमार संसेव्य एवं स्तोतुमपाक्रमत । भक्ति गेऽभिनयन्ति बाह्यविधयायल्पीयसी सादरं तेषां सर्वमनोरथार्पणविधौ जागर्ति यः कौतुकात् स्वामिन् श्रीफलिनीगिरीश गिरिजाप्रेमास्पद त्वं विभो स्वाभाव्येन कृपाभरेण भगवन् सेनापते पश्य माम् ।। कृतामरसुतोषणं नतजनातिसंशोषणं बलारिकुलभीषणं श्रुतिशिरोविहारेषणम् ।

श्रीताटङ्कप्रीतष्ठामहात्सेवचम्पूः । overt ever, Eng! ed to of ti batt lon. seven cheir गिरीशकृतपोषणं तनुजिनोल्लसत्पूषणं कुमारगिरिभूषणं बुधवरं भजे षण्मुखम् ॥ ११ ॥ तिष्ठत्सु दैवतगणेष्वखिलेषु दान- दक्षेषु पीडयति मामिति लोक एषः । श्रीमन्कुमार भगवन् कुप मा दयाब्धे कोऽन्यो झटित्यभिमतं त्वदृते ददाति ॥ १२ ॥ पूर्वोपात्तैः सुकृतनिचयैः केवलं दर्शनीयः शाखाबृन्दप्रकटिनलसद्वैभवः शैलराजे स्कन्दाख्योऽसौ विलसति तरुभक्तिभाजामपूर्व सर्वाभीष्टपदामिह फलं सन्ततं यो ददाति ॥१३॥ The objec D. of M ised who levyt | Hy a, frda ared d रोगादिसर्वविपदो जनतास्थिता. स्त्वमुन्मूल्य वाञ्छितसुखान्यखिलानि सद्यः। दातेति निश्चययुता इह कार्तिकेय त्वां प्रामुवन्ति भगवन् सततं दयाब्धिम् । १४॥ तत्रोषित्वा दिनत्रयमविन्ददवाङानसगोचरमानन्दम । निर्गत्यास्माद्विशालं पुरमपि नवसालाभिधं प्राप्य भूप. श्रेष्ठेन प्रोज्चलेनानिशगुरुचरणाम्भोजसद्भक्तिभाजा। OScourt.

पञ्चमस्तबकः। लोकैश्चाराधितोऽयं भुवनगुरुवरस्तत्र नीत्वा दिनानां चत्वारि प्रातनिष्टामृतसमसदुपन्याससन्तोषिणस्तान् ।। ततः दृढतरगुरुभक्तियुक्तं तत्पुरसमीपभासमानं ग्राम भूषयता केनचिदाड्यन श्रेष्ठिना प्रणामपूर्वकं सादरमाहूत: श्री- भुवनगुरुसार्वभौमः तदीय प्रार्थनामपि सार्थयित्वानन्तरं श्रीता- टङ्कप्रतिष्ठामहोत्सवकृते श्रीजम्बुनाथक्षेत्र प्राप्त प्रस्थित: कीर. नूमिमार्गेण त्रिशिरःपुरस्य क्रोशदशकदूरे भास्वन्तं मात्तूराख्यं ग्राममभजत् । श्रीदेशिकेन्द्रो नवसालपट्टणं समागतो द्रागिह यास्यतीति। ज्ञाखा समस्तास्त्रिशिरःपुरस्था:श्रीरङ्गपूर्गाश्च सभामकार्युः।। तल सभायां त्रिशिरःपुररंगनाथ क्षेत्रवासिषु ये प्रधाना: निसर्गभव श्रीमदाचार्य चरणातुल भक्तिभास्वरा आस्तिकाश्च विराजन्ते ते सर्वेऽपि ममागत्य, श्रीगुरुवरः त्रिचतुर्दिना- दर्वाक श्रीताटङ्कप्रतिष्ठामहोत्मवाय समागमिष्यतीति पूर्वमेव मठीयश्रीमुखशास्त्रिमुखात् श्रुतम । अधुना पुनः श्रीमठीय सर्वा- धिकारिणा प्रकटितया प्रसिद्धपत्रिकया अस्मिन् चैत्रमासि भावि सोमवारे एकाधिकनवमदिने सायं पञ्चविंशतिधटिका- समये इमां पुरी भूषयिष्यतीति स्पष्टं विज्ञायते । अतः तत्काले सर्वे वयं अस्मिन्नगरसीमनि सज्जीभूत्वा यथाभक्ति, यथाशक्ति शिष्यधर्मोचितया मर्यादया तान् सादरं प्रणिपत्य श्रीगुरुवरेण साकं क्रमेणागत्य श्रीजम्बुकेश्वरक्षवे विलसन्तं श्रीमठमधिगत्य ५८ श्रीताटङ्कप्रतिष्ठामहोत्सवचम्पूः । overth 'ever, Eng! ed to of ti batt lon. seven heir The objecu तत्र शिबिकातोऽवरुह्य महासिंहासने भासमानं श्रीमहास्वामि- नं नमस्कृत्य गृहीतप्रसादाः अनन्तरदिवसेष्वपि यत् कर्तव्य- त्वेनादिश्यते तत्सर्व कर्तव्यमित्येकाभिप्रायेण निश्चित्य तथैव पत्रिकयापि सर्वत्र नगी प्रकटीकृत्य सादरं श्रीजगद्गुरुमहा- स्वाभ्यागमनसमयाकांक्षिणो बभूवुः । आचार्यागमनाय निश्चितदिने प्रातः प्रभृत्यादरा द्रम्यभूषितमापणैर्जनचयैरध्यासितं तादृशम् । मार्ग योजनदूरकं च सकला लोका अलंचक्रिरे द्रष्टुणां हृदयाभिकर्षणविधौ दक्षं यथा स्यात्तथा । तथाहि, D. 7. of M. ised who levy Hy ?, fra श्रीगुरुचरणैः सहागच्छतां जनचयानां परस्परं दृढनर- संघर्षणेन तापो माभूदिति नीरपूरस्नापितस्वस्वसदनपुरोभाग स्थविधयः चारुतरहरितपत्रावलिकपिशफलनिचयालंकृतमोचा- चयकवचितनिजागारबहिरोभयपावा: गारुत्मतरत्नमरी- चिजालविजयपटुतरचूतस्तबकभूषिताभिः उत्तप्त चारुकन कका- न्तिपरिहसनपण्डितानेकविचित्रकर्मरचनामनोहरनालिकेरताळ बालपत्रनिर्मिताभिःतोरणमालिकाभिः निरन्तरपिहिताका- शावकाशा: प्रतिगृहं बहुविचित्रएटमण्डितासमानहम्व- कायमानभासमानबाह्यद्वारान्तिकस्थभूम्यु परिभागा: श्वेत नील- हरितशोणमुखनानारत्नमयूखपुजानि विकिरन्तीभिः विद्युत्ख- ण्डनिर्मिताभिरिव स्वच्छतरं प्रकाशयन्तीभिः दीपावळिभिः ared ad Rao's court.

पन्नमस्तबकः। ५१ श्रीलोकगुरुसार्वभौम: समागमिष्यति नेदानीमत्र पुरे अन्ध- कारलेशस्याप्यवकाशो दातव्य इति बहुदूरोत्सारिततमोबृन्दाश्च कचिन्नानावर्णविराजमानकाकळीनिर्मितविचित्रदीपभूषितसौध बृन्दाः। अन्यत्र सादरनिजकरकमलकलितमजुळचामरराजत- दीपादिकसारङ्गनयनारूपसालभलिकादेदीप्यमानसदनबाह- द्वारोभयपावविराजमानकुट्टिमाः कुत्रचिदन्तस्थितकूपनिर्मित- यबविशेषव्यापारण बहिवेदिकास्थाप्यमा नकृत्रिमवारविलामि- नीपाणिपयोरुहभास्वरगन्धाम्बुसेचनसमर्थाच्छाच्छरजतनिर्मित यन्त्रेभ्यः निखिलाश्चर्यकरं किमिदं कस्मादेवमागच्छत्तीत्यज्ञात- तत्वं क्रोशद्वयावधिसन्ततप्रभारितसामोदशिशिरसूक्ष्मनीरशी- कर कदम्बानन्दितजनसन्दोहाः अन्यान्यपि बहाने विचित्रक- माणि विधाय द्रष्टणां स्वर्गलोक एव श्रीजगद्गुरुचरणसिषेविष- यात्र समागत इति मतिमुत्पादयन्त: सर्वेऽपि तन्नगरवासिनः श्रीलोकगुरुपरमाचार्यदर्शनाकाङ्गिणः सादरं समयं प्रतिपाल- यन्तिस्म। तादृक्पट्टणवासिलोकनिवहेष्वत्र्याः समस्ता अपि श्रीमल्लोकगुरूत्तमागममिमे भक्त्या प्रतीक्ष्यादरात् । रम्ये शीतकरस्य तत्र दिवसे सज्जाश्च घण्टात्रये यारामे गरुसेवनोचितफलस्रक्पूर्णकुम्भादिभिः ॥१८॥ श्रीमज्जगद्गुरुवरं समये च क्लसे सर्वैः स्वभृत्यनिवहैः क्रमशोऽभियान्तम् ।

श्रीताटङ्कप्रतिष्ठामहोत्सवचम्पूः । vert! ever, Eng! ed to of ti batt सज्जा समस्तजनतापि निरीक्ष्य तस्य पादाम्बुजातयुगळे प्रणति कार्षीत् ॥ १९ ॥ ततश्च स गुरूत्तमोऽप्यमृतपूरनिष्यन्दिभि : सुकृनशालिभिः सुलभतः प्रलभ्यः शुभैः । समीक्ष्य शिशिरैः समानपि जनान्कटानिजे- श्वकार किल पावनाविमलधीः स्खशिष्यान्तदा ।। lon. seven heir The objec भनन्तरं श्रीदेशिकेन्द्रः शिबिकातोऽवरुह्य तत्रारामे मनो- हरे पवित्रतरे क्वाचप्रदेशे सज्जीकृत सिंहासनमलमकार्षीत् 7. of M: ised who levy Hy सद्यः केचिदुपायनानि लिकुच श्रीनारिकेळाम्रस - न्मोचारम्य फलादिमानि गुरुरापादे निधायानमन् । हारेणोत्तमपुष्पगेण च परे तत्कण्ठमाभूषय न्ध्यात्वा दिव्यनदीयमूर्तमितरे चानन्दमापुः परम् ।। इत्थं साधपश्चमघण्टापर्यन्तं तत्रागतानां प्रभुमणीनामन्येषां चनिजदर्शनदानेन सरसतरसल्लापेन चामन्दमानन्दमुत्पाद्य सद्यः स परमहंसशखरः तत्कालोचितानुष्ठानाय तत्रैवान्तिके गज- मानं अच्छाच्छनीरपूरितं मंजुलं पल्बलमयासीत् । ,, fra ared had in सद्यः समस्ताः प्रभवः समोद श्रीलोकगुर्वानयनाय सजिताम् । Rao's court.

पञ्चमस्तबकः । छत्रादिमां तां विरुदावलि द्रुतं यथाक्रम संव्यभजन्तदैवम् ॥ २२ ।। বখছি, अस्मत्प्रभुः श्रीचन्द्रशेखर: श्रीशंकरभगवत्पादरूपेणावनि- मवतीर्य उत्तप्तचामीकरकान्तिकचाकचिप्रथनबद्धकङ्कणलावण्य- भूषितदिव्यनिजशरीरदर्शनदानेन सर्वानपि धन्यीकरोति अह- मपि स्थूलमिदं कलेवरमनेकधाविभज्य तादृशपुण्यमूर्तिसेवनेन पवित्रीकरोम्यात्मानमिति कलितनिश्चयेन कैलासाचलेनानेकधा स्वीकृताभिः तनुभिरिव भासमानाभिः कान्तदीपसन्ततिभि- गभितः सरणिमभिमण्डिते छत्रचामरमकरतोरणादिविचित्रतर- नानाविधबिरुदनिकरालंकृतोभय पार्थे मत्तकरिनिवहवाहसमूह. परिशोभितपुरोभागे धीरतरपुरुषसमोदवाद्यमानैः ठक्काडमरु- डिण्डिमशंखपटहप्रमुखमङ्गलवाद्यकदम्बैबाधरीकृतभुवनत्रये , तजापुरविराजमानमञ्जुलवाद्यपुजवादनानुरजितजनसञ्चाये, प्रागेव मुद्रितपत्रिकाद्वारा सर्वत्रापि निवेदिततया श्रीजगद्गुरु- चरणसरसिजसेवनपरसकुटुम्बसरभससमागतसकललोकसङ्घ निबिडितमध्यप्रदेशे सङ्घपरिरक्षणार्थस्थापितागतराजकीयप्रधा- नाधिकारिवृन्दविरचिताज्ञापरिपालनबद्धकङ्कण सततभ्रमद्राजकी यसेवकसहस्रविरळीक्रियमाणजनसमूहे अत्यद्भुतवेषभूषितः त- त्तदश्वोपरि विद्योतमानः श्रीमठीयराश्विकैरभिमाण्डतपुरोभागे श्रीभगवत्पादपादपयोरुहाव्याजभक्तियुक्तैः भागवतमूर्धन्यैः स्व- गोष्ठीभिः साकं तत्ताहक्तालमृदङ्गादिवाद्यविशेषैः सह गीत- .:

श्रीताटङ्कप्रतिष्ठामहात्सवचम्पूः । . overti ever, Eng! ed to of ti batt lon. seven heir The objec नव्यसुधारसवर्षिभिः श्रीपारमेश्वरपुण्य कथाप्रबन्धहर्षिताखिल- लोकमानसे, उपनिषत्पारायणपरायणवसुधागीर्वाणशिरोमणि- गणनिबिडितकदेशे, श्रीगुरुचरणगमनमार्गे सकलसन्नाहैः स- ज्जीकृते समापितनिखिलानुष्ठान: आपादमस्तकं कवचीकृतविम- लपावनविभूतिप्रभाधवलिताखिलदिङमण्डलः कलिदोषकलुषित लोकहृदयेभ्यो बहिरागतया अनन्यशरणया स्वीकृतवर्तुलानेक- हस्वशरिया कलिना विद्रुनया भीतभीतया निजावनायालि- ङ्गितकण्ठया मत्वगुणपरंपयेरव भास्वरया निर्मलया स्फाटिक- मालिकया रुद्राक्षमालाभिश्च प्रकाशितकण्ठदेशः अदृष्टपूर्वाग्र- तिमानर्धपीतांबरावकुण्ठिताखिलकलेबर: अनुष्णकिरण: आस्था- गृहीतमानुषविग्रहः सहस्रदीधितिरिव देदीप्यमानः श्रीजगद्गुरु- परमाचार्यवर्यः तस्मानिर्गत्य पार्श्वयुगलविलसत्रिशिरःपुरश्रीर- जनाथक्षेत्रनिवासिप्रभुवरशिष्यवर्ग: विना जनसंबाधं सन्द- र्शितसरणिः मन्दमन्दमागत्य पूर्वमेवालंकृत्य सन्नद्धां दन्त- शिखिकां समारोह । सकलजनसमूहं राजकीया ब्रुवन्तो. ऽप्यतिदृढनिजशब्दैर्गच्छगच्छति तूर्णम् । भुवनगुरुकटाक्षाकाझ्या भक्तिपूर्णः पदचलनमपि स्वं नाचरत्यत्र काले ॥ २३ ।। तचादृक्षामतुळशिविका भासमानां सुमेरो- रच्छच्छायं शिखरमिव संभूषयन्देशिकेन्द्रः । 7. of M: ised who levy Hy , frg ared had 173 Rao's court.

पञ्चमस्तबकः। .. शिष्यव्रातः कुतुकभरितैराकृतेः स प्रतस्थे मन्दंपन्दं महितचरितो जम्बुनाथस्य पुयै ॥२४॥ एकीभूतैर्जलधिनिवहैर्दर्शनेनेच चेन्दोः लोकबाजैर्गुरुवरसमालोकनाय प्रवृद्धैः। पन्थानं तं निबिडितमसो मन्दमुल्लङ्घय रम्यां सर्वैः पूर्णां तदनु महती पण्यवीधीमयासीत् ॥ गुरुवरपदसेवालोलुपा अप्यशक्त्या निबिडितजनसङ्के भीतियुक्ताः प्रयातुम् निजनिजगृहसोधे जागरूकास्तदानीं सरभसमवदस्ता योषितोऽन्योन्यमेवम् ।। २६ ॥ तथाहि, अयि मुग्धे क पश्यास अत्र दक्षिणस्यां दिशि समालोकय, हे सुन्दरि, एतावति वाद्यशब्दकोलाहलेऽपि कथं स्वपिषि, जागृहि, उत्तिष्ट झटिति, अयि मञ्जुभाषिणि, तव विनोदा- लापस्य नायं समय:, हे मन्दगमने गतिविन्यासोऽधुना माभूत त्वरितमायाहि, मदनमञ्जरि तवालंकारसमाप्तः प्राक् आचार्य- वर्यः स्वास्थानं गच्छेत् अलमलमलंकारेण आगच्छ शीघ्रं, अयि कान्तिमति, किमर्थमधुना निद्रान्तं द्विहायनं वालकमु- न्मीलनाय हिंसयास, हे मीनलोचने तूष्णीं क्षणमास्व नाधुना तव कुटुम्बकलहवात श्रवणाय मेऽवकाशः, रे निलजे विशा- ..

श्रीताटङ्कप्रतिष्ठामहात्सवचम्पूः । overti ever, Eng! ed to of ti batt lon. seven heir The objec . लाझि, बधान सम्यक् कञ्चुकं, भो गौरि तव समीपे ममापि स्थातुमेकं स्थानं संजीकुरु, हे कनकाङ्गि मान्वय तव सुत निदाघमेघध्वनिनिभेन रोदनरवेण भिनत्ति नः सर्वासां कर्ण- पुटानि, सखि सरस्वति दशजनोपवेशनयोग्यं स्थानं त्वमेकाकी कथं रुणद्धि दीयतामवकाश:, हे चम्पकलते कथं मुक्तकेशी भवति भवती मनु कुरु केशपाशबन्धनं, आये विद्युत्प्रभे कटि- तटाधः गळितमपि वखं किं न जानामि इत्याद्यनेकव्यवहार- जातशब्दजालपूरितमासीदखिलमधि दिमण्डलम् । एवं तत्पुरवासिलोकनिवहे कौतूहलाजाग्रति श्रीमदेशिकवर्यपाद जलरुटमं पेवने सर्वतः । आचार्योऽपि तदा समस्तविरुदैर्वाद्यैरनेकैस्तथा दीपैमजुतमैरगाद्विपणिकावीधि भृशं भास्वरः ॥२७॥ केचिद्गुरूत्तमपदे महितं दुकूलं पीतांबराणि च परे कुतुकात्समये । कर्पूरक्लप्सविमलप्रभदिव्यदीपै- राराध्य तं समभजन्गुरुराप्रसादम् ॥ २८।। क्रमेण सकलैजनैः परिहतो जगद्देशिको विलच्य विपणि ततः पथि च तत्र तत्रादरात् । जनैः स परिपूजितो महति जम्बुनाथस्थले स्थितं मठमगान्मुदा जितसुरेशसमश्रियम् ॥ २९ ।। of M. ised who levy Hy 2, frd ared had Tiza ORao's court.

पञ्चमस्तवकः ।
सद्योऽवरुद्ध गुरुराद शिविकात एप
प्रागव क्लुप्तमतुळपभमासनं तत् ।
यावधभूषयत तावदशेषलोका
आनन्दपूर्णहृदयाः प्रणति कार्पः ॥ ३० ॥
आनम्योत्थितमाहताञ्जलिपुटं शिष्यत्र सादर
तत्ताहकरुणारसाद्रितल सत्पूतात्मदृष्ट्या प्रभुः।
वीक्ष्य श्रीगुरुशेखरः समकरोत् धन्यं प्रदानात्तदा
श्रीमचन्द्रविभूषणस्य सुकृतप्राप्यप्रसादस्य हि ॥३१॥
आचार्यवर्यशशिशेखरयोः प्रसाद-
माप्याखिलाः प्रमुदिता अभजनस्वगेहम् ।
श्रीमजगद्गुरुवरोऽप्यथ चात्मकृत्यं
ध्यानादि कर्तुमगमाद्विजनं प्रदेशम् ।। ३२ ।।
इत्थं कृपाभरजुषा गणपत्यभिख्य-
श्रीमद्गुरोमडबधूकरुणाप्तिहेतोः।
पञ्चापगेशकविना रचितेऽत्र चम्पू
ग्रन्थे समाप्तिमगमत्किल पञ्चमोऽयम् ॥३३॥

षष्ठस्तबकः ॥ overt) 'ever, Eng! ed to of ti bati lon. seven heir The objec 7. of M. ised who • levy | Hy क्षेने वसन्तोऽत्र च जम्बुनाथ- पूजारताः आर्यजनाः समस्ताः । अवाप्य गुर्वन्तिकमादरेण प्रणम्य लब्ध्वास्तदनुग्रहं परम् ॥ १ ॥ ततः सकुतुकाः समे प्रथितजम्बुनाथालयं प्रपद्य विधिवत्क्रियां परिसमाप्प पूर्वी ततः। परां च महतीं क्रियां कलयितुं यथावत्क्रमात् ययुर्यजनवाटिकां निखिलवस्तुपूर्णी शुभाम् ॥ २ ॥ अपेक्षितं यदा यद्यत्तेन तेन प्रपूरिताम् । यागशालामवाप्यते चारभन्त यथाविधि ।। ३ । आमकरमासादारभ्य सर्वत्र पत्रिकया प्रकटिततया ऋग्यजु: सामाख्येषु निगमेषु तत्तदवान्तरशाखासु च ये ये प्रवीणा श्रीचन्ननगरप्रान्तात आचरामसेतोः आपश्चिमोदधः आचक- लिकातानगर्याः राजमानग्रामनगराण्यालकुर्वन्ति, ते सर्वेऽपि श्रोत्राईन्तीचणाः सानन्दं श्रीगुरुवर चरणसेवनास्थया समाग ,, frd ared had liza Hop Rao's court.

षष्ठस्तबका। प्रत्येकं निपुणैः परीक्षणविधी क्लुप्तमहापण्डितै. मर्यादापरिपालनाय निगमे प्रष्ट मनाक् कुत्रचित् । सम्यकेचिदवादिषुः पटुधियस्तस्मिन्धनान्तं तथा केचित्तत्र पदान्तमूचुरपरे चाहुः क्रमान्तं तथा ॥ ४ ॥ एवं परीक्ष्य मिलिता निगमेषु योग्याः साहस्रसंख्यकबुधा जपकर्म कर्तुम् देधा विभज्य निहिताः शशिशेखरस्य तद्योषितश्च महिते किल सन्निधौ ते ॥ ५॥ तर्के व्याकरणे च जैमिनिकृते तन्त्र च वैमासिके वेदाङ्गेधु परेषु च स्फुटतरप्रज्ञाविशेषोज्वलाः । काव्यालङ्करणेषु चारु सदुपन्यासेषु दक्षाः परं विद्वांमः समभूषयन्हि बहवः क्षेत्रं तदत्यद्भुतम् ॥ ६ ॥ यत्र यत्र स्थिता देशिकेन्द्रे भृशं भक्तियुक्ता जनाः शिष्यभूताः स्वयम् । आगतैः सादरं चाखिलाण्डेश्वरी क्षेत्रवर्यन्तदातैरभूत्संकुलम् ॥ ७ ॥ पूर्वमंत्र श्रीजगद्गरूसार्वभौममहितानुग्रहपात्रीभूत: श्रीपरदेव- तानाटङ्कपरिष्करणाय स्वीयप्रार्थनानुरूपं देशिकेन्द्रादहीतानु- मति: सदाशिवठाकरभिवः महीसुधाशनतिलक: श्वतनील- श्रीताटङ्कप्रतिष्ठामहोत्सवचम्पः । Overt! 'ever, Engl ed to of the bati lon. seven heir The objec D. 7. हरितारणादिनिर्दोषानर्धरत्नवरनिकरविरचितेन सन्तताचञ्चल वर्तुलविलसद्विात्तवितेनछटापरिहमनबद्धदीक्षण भवदीय इत्य- विजानता मूढमतिना मत्सुतेन धर्मेण मुनिकुमारे कृनचेष्टाया अनुरूपं फलमलंभि इतःपरं जागरूकेण भवितव्यमिति सम्यक मयापि शिक्षितः हे देवि करुणानिधे तव भर्तुनिकटे सुसमये निवेद्य विहाय कोपं तच्चरणपरिचर्यापरान्यतमत्वेनायमाप म्वी- करणीय इति रहनि श्रीपरदेवताकर्णयुगळे कथयितुमागतेनेव दिनोदयराजमानराजीवजीवातुबिम्बेन श्रीचक्ररूपताटङ्ककवच- द्वयेन साकं सपरिवारः समागत्य श्रीगुरुचरणसन्निधौ प्रणाम- पुरस्सरं तत्ताटङ्कभूषणं समापिपत् । प्रभातभानुभानुनायुतां निशेश्वरविषं परीहसचिजमभाभरेण भूषणं वरम् । महेश्वरीपदोत्थभक्तिमस्य बोधय दृढां विलोक्य लोकदेशिकोऽभजन्मदं परां विभु: । सद्यो यथा विधिपरिष्करणीयशेष- कृत्यं प्रसिद्धविदुषाशु च कारयित्वा । श्रीचन्द्रमौळिसविधे शुभदे मुहूर्ते कुलार्चयद्गुरुवरः किल भूषणं तत् ॥ ९ ॥ शिवेन च यथा पुरा प्रथितकीर्तिनाङ्गीकृतं तथा सकलवस्तुभिर्नवनवागतैः पूरितम् । of M ised whe levy 1. Hy ared had iza Rao's court.

षष्ठस्तबका। अवाप्य सदनोत्तमं स कुतुकं प्रदत्वं तदा समागतजनालये सुरुचिरं महद्भोजनम् ॥ १० ॥ आदराभोक्तलोकान्तिकं सागत- श्लाघ्यभक्ष्यादिकं खादखादेति च । यावदिष्टं ददौ कष्टतो माममे- त्याहुरास्थाभृतोऽप्याशु पूर्णोदराः ॥ ११ ॥ सर्वाश्च वर्णानपि तत्र काले मृष्टानदानेन विभुः शिवोऽसौ। यथेष्टमाराध्य भृशं यतोषय. नवर्णमेकं न कदापि मेने ॥ १२ ॥ दिनमनुमनियमजपपरभूसुरनिकरस्य पण्डितानां च । पावनभोजनदान कार्य मठ इति गुरूत्तमाज्ञातः ॥१३॥ तत्ताक्गुरुसार्वभौमविलसच्छ्रीमन्मठेऽप्यादरा दापातर्दिवसावसानसमयं चारात्रिघण्टैककम् । ये ये यद्यदपेक्ष्य भोजनकृते शास्त्राविरोध जना आगच्छन्ति समानुवन् हि निखिलास्तत्तत्समस्तं द्रुतम् ।। अपि च, सहान्नेषु निरादरानियमिनो ये वैदिकाः पण्डिताः प्रत्येक नियमस्य योग्यममलं तेषां च दत्वा गृहम् ।

७० श्रीताटङ्कप्रतिष्ठामहोत्सवचम्पूः । तत्तद्वासिबुधौघयोग्यमखिलं सर्वाधिकार्यादरा- पादाबृत्यमुखेन नित्यपपि तत्प्रश्नं विनैव स्वयम् ।। किं च, overt! rever, Eng! ed to of batt lon. seven -heir The objec ये लौकिका भक्तियुता नितान्तं समागता श्रीगुरुपादसेवया । तेषां सुखायोचितमत्र यत्त- सज्जीकृतं सर्वमपि क्षणेन ॥१६॥ एवं तत्तजनापेक्षितानि निवासयोग्यानि मनोहगणि स्था- नानि अन्यान्यपि यान्ति सौकर्याणि कर्तव्यानि तानि सर्वा- ण्यपि सम्यक विचनानि, आलयविराजमानवैभवान भोजन- शाला पण्डितगोष्ठ्यादीनि व विलोक्य एतदुत्सवदर्शनास्थयाग. तानां ग्रामीण जनानामेवं सल्लाप: समुदभूत । D. 7. . of M. ised whd levy [ Hy e, frd ared had विश्वनाथाभिधः कश्चित् - सखे सुन्दरक, श्रीमदखिलाण्डे- श्वरीसन्निधौ यजुर्वेदमन्त्र पारायणपराणां वसुधागीर्वाणगणानां सन्दर्शनेन महानानन्दो जायते मम । तथाहि, इस्वाद्यविमलस्वरैः सह गुणैर्युक्तैरुदात्तादिभि प्लः स्पष्टविराजमानमहितस्थानोद्भवस्तादृशः । वगैरागममन्त्रमादरभरणोच्चारयन्तः स्थिता शब्दब्रह्ममया इव प्रकलयन्त्येते न केषां मुदम् ॥ 1Za Rao's court.

षष्ठस्तबका।
प्राचीभागं विमल चरिताः सामगा भूषयन्तः
साम्नां सप्तस्वरकृतविभागोज्ज्वलैश्वारुगानैः ।
प्राप्तानां ते हृदयमखिलाण्डेश्वरीदर्शनाय
द्रागानन्दाभिधजलनिधो मज्जयन्ते नितान्तम् ।।
महेशगृहिणीलसन्माहिमवर्णने तत्परः
क्रमेण बहुभिर्बुधैरिह च पठ्यमानैमुदा।
पुराणनिचौरदं स्थलवरं जनैराठत
विभाति मुनिवेष्टितं वनमिवाधुना नैमिशम् ॥
अपर आहे.
दृश्यं सर्वमनित्यमेतदिति च स्पष्ट सदृष्टान्तकं
संबोध्यान्यमतानि साधुवचनैर्विद्रावयन्तो भृशम् ।
अद्वैतं परमेकमौपनिषदा ग्रन्था वदन्तोऽमलं
पठ्यन्ते विबुधोत्तमैः कतिपयैर्देवीप्रसादाप्तये ॥ २० ॥
अपि च,
दिनमनुनियमान्याः सात्विकाहारयुक्ता
बहव इइ महान्तः पञ्चदश्यादिमन्त्रान् ।
परमशिववधूटीप्रीतिहेतून्पवित्रान्
सहजविपुलभक्त्या निश्चलाङ्गा जपन्ति ॥२१॥

श्रीताटङ्कप्रतिष्ठामहोत्सवचम्पूः । e overt wever - Eng Eeed to r of o bat non. seven their The objec कि च, आजानसिद्धगिरिजापदभक्तिभाज- स्तालादिवाघधरभागवताः समस्ताः। रम्यनिर्भगवतीगुणबोधदक्ष- राकर्षयन्ति निखिलानपि तत्र गीतेः ।। २२॥ इति श्रीजम्बुनाथालय विराजमानां सकलविबुधपति सभ- क्तिश्रद्धं संसेव्य श्रीमदम्बिकादर्शनार्थमन्तर्गमनसमये अग्रे आ- यान्तमात्रेयनामानं सुहृदं पश्यन् सखे आत्रय कस्मादागच्छासि इत्यपृच्छत् । आत्रेय:--अधिचन्द्रमौलीश्वरसदनं श्रीजगद्गुरुमहास्वामि- सन्निधौ पण्डितमण्डलीभिरारब्धं अध:कृतामनासं शास्त्रवा- क्यार्थ श्रुत्वानन्दतुन्दिलितमनाः तस्मादेवायामि अन्य:-कुत्र कुत्र शास्त्रे वाक्वार्थों वर्णितः? आत्रेयः- तकें व्याकरणे च जैमिनिकृते तन्त्रे च वैयासिके विद्यार्थिपवरैः प्रसिद्धविबुधैः श्रीदेविकेन्द्राऽन्तिके । तत्तत्मश्नसमर्पितोत्तरयुतो गीर्वाणवाण्या मुदा वाक्यार्थोऽखिललोकभूषितसदस्यत्यद्भुतोऽवर्णि हि ।। अन्यः-संस्कृतभाषया विबुधनिवहाधिकानन्दजनके शा- बीयवाक्यार्थे सम्यक्चलत्यपि सामान्यजनानां अयमुच्चैर्व्यव- . 57. of M ased who 1 levy 1 Hy maya e, frd .. pared had 1za O's court.

षष्ठस्तबका। हरति अयं वेगेन बढ़तीति परं ज्ञातुं शक्यते न तु शाखीय- विषयगौरवम् । आत्रेयः-भवदुक्तप्रकारेण स्थूलदृष्ट्यैव किश्चिस्किश्चित् ज्ञातुं शक्यते न तु विशेषत: अथापि श्रीजगद्गुरुमहास्वामिना- माज्ञया सर्वजनोपकाराय प्रतिदिनं सायं सप्तमघण्टाया उपरि आनवमघण्टं तत्र समागतविद्वद्वन्देषु ये प्रधानभूताः तेष्वेकैको द्राविडभाषया शास्त्रीय सरससदुपन्यासं करोति तच्छ्रवणेन सकला आनन्दाम्बुनिधौ निमग्ना भवन्तीति न्यवेदयत् । अन्य:-अहो अवाङानसगोचरस्ताटङ्कप्रतिष्ठामहोत्सवम- हिमा । तथा हि, साम्नां गानैर्यजुरुरुजपैः पूतऋग्वेदमन्त्रै- रन्यमन्त्रैरपि च पठनैः सत्पुराण व्रजानाम् । नानाशास्त्रप्रथितविषयीतवाद्यैर्विमान्ती कस्यानन्दं जनयति न सा सनिधिलॊकमातुः ॥ सखे अन्तर्गत्वा श्रीमदखिलाण्डेश्वरीदर्शनं विधाय श्रीमठं- प्रति गच्छावः इति उभावपि श्रीपरदेवतादर्शनवन्दनादिकं यथा- विधि कृत्वा तस्माच्छ्रीजगद्गुरुमठमवापतुः । आत्रेयः-- सखे कौण्डिन्य वैदिकब्राह्मणानां नियमेनात्र भोजनशालानिर्मितेति श्रूयते कुत्र सा? MATHMANROERAIGARIES ७३ श्रीताटङ्कप्रतिष्ठामहोत्सवचम्पूः । overt आलया vever Eng eed to c of ) bar non. Seven their The objec कौण्डिन्य:- अत्र मण्डपे निटे च । -इदानीं भोजनममय एवं भवेत् तत्र गत्वा सम्यक पश्याव इति द्वावपि अन्तस्यामिष्टां। कौण्डिन्यः ---परितो विलोक्य सरखे अत्यद्भुता: संपादिता भोजनसामयः । तथाहि, कान्त्या निजेन धवलेन च मादेवेन द्रोणोज्लत्कुसुमसद्रुचिमार्दवं च । सन्तर्जयविमलजीरकशालिराज दनं समस्तादशमप्यमलीकरोति । २५ ।। बालावनीधरोद्भवसुमधुरकदलीफलानि सर्वेभ्यः । प्रीत्या ददाति तावद्यावन्मामेति नोदभूच्छब्दः ।। गोधूमाज्यसुशर्करादि कलितं नानाप्रभेदोज्वलं भक्ष्यं स्वादुतमं स्वदुर्लभतरं वीक्ष्यास्थया तादृशा । म्वीयमत्रवरे बहूनि कुतुकात्संगृह्य भक्ष्याणि ता- न्यत्तुं मोक्तुमपि प्रहीणधृतिकः कश्चिदृशं खिद्यते । तिलानमुद्गोदनशर्करान श्रीनारिकेलानमुखौदनानि । स्वादनि सर्वाण्यपि तानि भोक्त नास्तेऽवकाशोऽन्तरिति ब्रुवन्ति ॥ २८ ॥ D. 17 of M ased who levy 1 Hy e, fre ared had liza to Rao's court, पष्टस्तबकः । नित्यं नाकि गणा अदन्ति कुतुकात्पीयूषरुच्युज्वलं मां भूनाकि गणा अपीह समये तुष्यन्तु भुक्त्वा भृशम् । इत्येवामृतरुक्मपर्पट इनि व्याजेन नेजात्मना प्रत्येक वसुधासुरानकलयत्तृप्तान् समस्तानपि ॥ २९ ।। कोचिच्छाष्यं परमिति पर चोदनं भक्ष्यमन्ये प्रेम्णा दानं सततमितर केचिदाज्यं सुगन्धि । इत्थं स्वस्वप्रियतरपदार्थ भृशं श्लाघयन्तः भुक्खैकान्ते कुतुकभारिताः सर्वलोका अभूवन् ॥३०॥ प्रतिदिनमपि माकी भूसुराणां सहस्र- त्रयमनितरवाधं भक्ष्य भाज्यादिपूर्णम् । सुरुचिरमिह भुक्त्वा भोजन सेवते तं गुरुवरमखिलाण्डस्येश्वरी तत्पतिं च ॥ ३१ ॥ अपरेाः श्रीपरदेवताताटङ्कप्रतिष्ठामहोत्सवदर्शनायेव झटिति समागते सुमुहूर्ते आवारात् एतदुत्सवावलोकनाभिलाषया स्वस्व- कुटुम्बकृल्यमवश्यकतव्यमप्यविगणय्य महता कोलाहलेनाभिषेक- लमयं प्रतिपालयद्भिः नानादेशसमागत जननिवहः कवचीकृतेषु आलयस्योपरिभागेपु गोपुरेषु प्राकारेषु तदावरणभित्तिषु अन्त- स्थितमण्डपनि चयेषु च, महाभिषेकद्योतकनाळकगम्भीरशब्दैः व्याप्नेषु सर्वदिगन्तेषु राजकीयजनरक्षकाधिकारिवगैरलंकृतेषु Haram AREARRAMA श्रीताटकप्रतिष्ठामहोत्सवचम्पूः । overt vever Eng eed to [ of ) bat non. seven their The objec D, तत्र तत्र मार्गेषु, वाद्यमानेष्वनेकविधमङ्गळवाद्यकदम्बेषु, गीयमा- नेषु भागवतगोष्ठीभिः ताळमद्दळादिवाथैः साकं पवित्रतरमनो- हरादिदम्पतिपुण्यचरितेषु, सबमध्यगमनाशक्तः वृद्धरोगिबाल- कादिजनैश्च भूषितेषु तत्तद्रह सौधेषु, सानन्दं निगमपारायण- परेषु धरणीगीर्वाणगणेषु, कुवचित् अव्याजविधृतपारमेश्वरभक्ति- भरर्भस्मालंकृतशरीरैः शेवसंधैः सतालवाद्यं गीयमानेषु द्राविड. प्रबंधेषु, तत्र तत्र धूपितागरुगुग्ल्वादिगन्धद्रव्यधूमधूम्राणि नील- नीरदकवचितानीव विलसितानि गगनतलान्यालोक्य नर्तनपरेषु मयूरकुलेषु, आजगद्गमठात् आचाखिलाण्डेश्वर्यालयात मध्ये किंचित् मार्ग विहाय पावद्वयेऽपि क्रमेण राजमानेषु करितुरग- पदातिछत्रचामरतोरणादिबिरुदनिवहेषु, प्रागुद्दिष्टसुमुहूर्ते कु- म्भाभिषकोत्सवकरणाय पूर्वमेव यथाविधि सर्वमपि कृत्यं निर्वत्य श्रीमहास्वाम्यागमनं प्रतिपालयत्सु तदालयपूजानियुक्तषु पण्डितेषु, श्रीलोकगुरुवरोऽपि निजास्थानात् श्रीपरदेवतासनि- धिगमनाय बहिनिम्गात् । आयाति आगमिष्यतीति तत्र स्थित जनसमूहः विरचिनैः कोलाहलरवर्मुखरितेषु निखिलदिशाग्वेषु, श्रीजगद्गुरुमहास्वामिनः तद्दिनारम्भकालोचितं सकलमीप निजं नियमं विधिवत विधाय श्रीत्रिपुरसुन्दर्या साकमाराधि- ताखिलाण्डनायिकातेज इव मूर्तिमत् कान्तिमयमिव सर्वत: कु- वर्वाणं अत्सद्भुतमदृष्टपूर्वमासेचनकमणां तत्तादृशं श्रीचक्रताटङ्क युगलं सादरं स्वहस्ताभ्यां परिगृह्य श्रीमठीयसर्वाधिकारिप्रभु- वरप्रमुखः पुरो गत्वा सन्दर्शितमरणयः पाश्वद्वविधृतमहाश्व- 7. of M ased who r levy 1 Hy - e, frd ared had Jiza v Rao's court.

षष्ठस्तबका।
तच्छत्रा: पुरोभागे संवीज्यमानधवलचामराः श्रीमठानिर्गत्य
अनकसहस्रजनकदम्बनिबिडिततया निश्वसितुमप्यवकाशशू-
न्येन पथा मन्दं मन्दं महताश्रमेण गत्वा श्रीमदखिलाण्डेश्वरी-
सन्निधिमभजत।
मद्यः पूर्वमेव उद्दिष्टशुभमुहतेन सह सन्नद्धाः दीक्षाभृत् प-
ण्डिताः श्रीगुरुचरणकरारविन्दात् सभक्तिश्रद्धं तत्ताटङ्कयुगलं
स्वीकृत्य तेभ्योवामानुज्ञा: शोभने तत्र मुहूर्त मन्त्रपूतैः पुण्यतीर्थ:
सकलभुवनक्षेमकरं समस्तजनसन्तोषपारावारशारदराकाहिम-
कर तत्तादृशमहिमभास्वरं श्रीजम्बुनाथाखिलाण्डेश्वयोः महाकु-
म्भाभिषेकमङ्गळमहोत्सवं विधिवद्ध्य तानिषुः ।
तत्तादृग्गुरुसार्वभौमरचितामाज्ञा पुरस्कृत्य तां
शास्त्रोक्तेन कृतं पथा च जगतां क्षेमंकरं पावनम् ।
द्रष्टृणां सफलां जनि प्रकलयच्छ्रीजम्बुनाथस्य त-
पत्न्या वीक्ष्य मुदं परां समवहन्कुम्भाभिषेकोत्सवम् ।।
श्रीमज्जगद्गुरुबरः परदेवतायाः
श्लाघ्यं समस्तविबुधैरचितं पवित्रम् ।
वीक्ष्याभिषेकमघनाशकमात्त मोदः
स्तोतुं तदा भगवतीमुपचक्रमे ताम् ॥ ३३ ॥

७८ श्रीताटङ्कप्रतिष्ठामहोत्सवचम्पूः । overt rever Eng sed to of bat none seven their The objeg D. तथा हि, अखिलाण्डनायिक ते निगमैस्तुत्ये पदाम्बुजे भक्त्या । पञ्चभिरिह मञ्जरीभिरहमामि त्वदीयकरुणाप्त्यै ।। मातर्मान्यगुणालये त्रिजगतां पोतस्तवायं शिवे भीतो जन्मजघारतापभरतो नीतंश्च कष्टां दशाम् । पूतत्वत्करुणामृतामलसरित्पातं समाकाङ्क्षने सा तं जम्बुपतेः पिये त्वमधुना भक्तस्य शीघ्रं कुरु ॥ कामाक्षीणबलप्रदात्मनयना सोमार्धचूडामणे ामांककविभूषणा स्वजनता कामाद्यमिध्वंसिनी । सीमातीतगुणाश्रया श्रुतिशिरांवामान्यकीयुज्वला सा मां जम्बुपतेर्वधर्भगवती बामापणी रक्षतु ॥३६॥ अकृत्रिमवचांस्यपि प्रथितवैभवानीश्वरि बदीयगुणवर्णने भजति मूकभावं स्वयम् । अलं कथमिमे जना जननि मादृशास्त्वत्स्तुतौ निसर्गकृपयाव मां झटिति जम्बुनाथपिये ॥ ३७ ॥ हार्दध्वान्तनभोमणिं स्वजनताभीष्टाप्तिचिन्तामणि देववातशिरोमणि हिममहीभृदंशमुक्तामणिम् । पापध्वंसचणं मणिं मुनिमनः पेटीविराजन्मणि जम्बूनाथवधूमणि हृदि दधे त्रैलोक्यभूषामणिम् ॥३८॥ 17. of M ised who : levy | Hy 2, fro ared had Tiza DAILSPOTWITDC 00 Rao's court.

षष्ठस्तबकः । ७९ देवेषु सत्स्वपि बहुवाखिलान्विहाय त्वां सर्वलोकजननी करुणादृष्टिम् । प्राप्तं जन यदि जहास्यगति त्वदीयं कं प्राप्नुयामि शरणं भवतीह को वा ।। ३९ ।। मञ्जर्याश्रयतो विभान्ति भुवने लोका इतीदं विना त्वत्सङ्गेन च मञ्जरी मम लसेत्सेयं सदेत्यम्बताम् । अम्लानां नवमञ्जुवर्णकलितां श्रीजम्बुनाथपिये कण्ठ सादरमर्पयामि कुरु मां धन्यं गृहीत्वा मुदा ॥४०॥ इति स्तुत्वा गृहीताखिला ण्डेश्वरीप्रसादः श्रीचन्द्रमौलीश्वर- पूजनाय तत्स्थानमभजन् । अन्येपि लोकनिवहा: सानन्दं कु. म्भाभिषकोत्सववैभवमालोक्य श्रीपरदेवतादर्शनादिकं महता- श्रमेण विधाय श्री चन्द्रमौलीश्वर प्रसादग्रहणार्थ श्रीमठमाटी- माध्यन्दिनं स्वनियमं विधिवद्विधाय श्रीचन्द्रमौलिपदपङ्कजपूननं च । कृत्वा यथावदखिलानपि तत्मसाद- दानादतोषयदसौ गुरुसार्वभौमः ॥४१॥ तस्मिन्सायानि सर्वे गुरुवरनिकटं प्राप्य नखा पदाम्जे ऽस्माकं श्रीमद्भिरद्यमथितकरुणया सारधर्मोपदेशः ।

श्रीताटङ्कप्रतिष्ठामहोत्सवचम्पूः । कार्यश्चायरितीत्थं सविनयरचितपार्थनासक्तचित्तः साचार्येन्द्रः पियेणारभन सरससद्धर्मसंवोधनाय ॥ ४२॥ द्राक्षेक्षुमाक्षिकामृतरुचिशिक्षाविधिसुदक्षम सक्षम् । श्रुत्वा तदुपन्यासं सर्वे विन्दनमन्दमानन्दम् ।। ४३ ।। अन्येधुरत्र बहुदूरात्समायातविधिद्वत्सु वेदनिपुणान् संमान्यमञ्जतरपीताम्बरस्वर्णरूप्यादिमैः सकुतुकम् । श्रीचन्द्रमौळिवरपूजाप्रसादेन दत्वा विशुद्धचरितः सर्वान्बुधान्मोदयुक्तान्जगद्वन्द्यपादो गुरुः प्रहितवान् ।। शास्त्रज्ञानां बुधानामपि महति सदस्याचते लोकबृन्दै- स्ततज्ज्ञानाईपीताम्बरकनकलमत्कम्बळक्षोममुख्यैः । द्रव्यैर्युक्तैः प्रसादरमृतरुचिकलाचारुचूडस्य शंभोः स्वीयेनानुग्रहेण प्रथितगुरुवरः प्रेषितत्तापयित्वा ।। ४५ अन्यान्मान्यगुणान्मभूञ्जिगमिषून्यामं पुरं च स्वकं पादाम्भोजकृतानतीननुमति चाकासमाणान्मुदा। वाचाशीर्वचनैश्च मूर्धचलनः सत्मीतिसंबोधकैः सन्मानैः सदनुग्रहैश्च सकलान् स प्रेषयामास हि ।। कुम्भाभिषकोत्सवकालतः परं संभावनावारचतुष्टयावधि ।

षष्ठस्तबकः । कृताक्रमेणागतपण्डितानां श्रीदेशिकेन्द्रेण कृपालुना मुदा ॥ ४७ ।। तत्ताडपरदेवताकरुणया संपूर्णया पूज्यया निर्विघ्नं च विधाय सर्वमहितं ताटङ्कभूषोत्सवम् । तादयेन समागतानपि समान्संमान्य लोकान्तदा संप्रेष्यादरतो जगद्गुरुवरः सन्तोषमापातुलम् । ४८। इत्थं शङ्करदेशिकेन्द्रचरणाम्भोजातसंजातया भत्त्यात्यल्पिकया जडोऽद्य विबुधैः कार्येऽत्र कृष्टो बलात्। प्राप्तुं तामखिलाण्डमातृकरुणां संसारविच्छेदिनी- मतं ग्रन्थमलेखिषं न कवितापाण्डित्यग दहम् ॥ ४९ ॥ यथाम्बुना संमिलितं विभज्य क्षीरं परं चूषति राजहंसः। तथाऽत्र गृहन्तु विहाय दोषान् गुणान् परं पण्डितराजहंसाः ॥ ५० ॥ श्रीमद्देशिकराजपादजलरुट्रमंसेवनावाप्तत. त्कटाक्षाङ्कुरलेशजातधिषणा भाजा मया वर्णिते । ग्रन्थेऽस्मिन् यदि चाल्पकोऽपि सुगुणः स श्रीगुरूणामिति क्षन्तव्या इतरे च दोषनिवहा मत्का इति प्रार्थय ।। 6

No text on this page.

श्रीताटङ्कप्रतिष्ठामहोत्सवचम्पूः । । इत्थं कृपाभरजुषा गणपत्यभिख्य- श्रीमद्गुरोर्मुडवधूकरुणाप्तिहेतोः। पश्चापगेशकविना रचिंतत्र चम्पू. ग्रन्थ समाप्तिमगमत्स्तबकश्च षष्ठः ।। ५२॥ श्रीमदखिलाण्डेश्वरीताटङ्कप्रतिष्ठामहोत्सवचम्पू: संपूर्णा ।

Sritatkandjpratisthamhostwachampuh

Title
Sritatkandjpratisthamhostwachampuh
File name
Sritatkandjpratisthamhostwachampuh
Text
OCR done
Publisher
Null
Language
Sanskrit
Pages
84
Library
Bharti Bhawan Library Allahabad
DLI number
273827
Barcode
5990010894438.00
Scanning centre
IIIT, Allahabad
Digital publisher
Digital Library Of India
VMLT id
t4rMsZdvSTw
Download PDF

Sritatkandjpratisthamhostwachampuh