Canegie Mellon Univeristy

Smruti Saroddhara Vol.1

Tripaat'i,vishvambhara · 2006/02/22

PDF Proofread

Front matter

No text on this page.

॥ श्रीः ॥ श्रीगणेशाय नमः । अथ स्मृतिसारोद्धारप्रारम्भः। कृपाशालि जगत्पालि धनुःपाणि सुवाणि यत् । स्फुरत्सीतं घनस्फीतं श्यामधाम नमाम तत् ॥१॥ प्रभुर्यः कौशल्याहृदयदृढशल्यापहरणो गभीरश्चाञ्चल्यानधिकरणबाल्यादिरपि यः। वयं पाल्यास्तस्य प्रबलतरकल्याहितभया- दहल्याकल्याणाकरचरणरेणोर्भगवतः॥२॥ अहं प्रवृत्तः स्मृतिसागरांभसां विलोडनेऽल्पोहविमन्दमन्दरः। मुधार्थनिर्णीतिकृते कृपानिधिर्भवेत्सहायो मम पार्थसारथिः॥२॥ पीताम्बरं रुचिरकुण्डलभव्यगण्ड- मापीनवक्षसमुदारकिरीटहारम् । स्मेराननं नलिननेत्रमशेषसिध्यै वन्दे मियं मुदिरमेदुरमिन्दिरायाः ॥ ४ ॥ अस्मिन्काले जनान्वीक्ष्य सालसानल्पमेधसः । विश्वंभरेण धर्माणां सारोद्धारो विधीयते ॥५॥ अथ विधिबोधितकर्मकलापस्य पर्यायकतया तदाधारक- सया प्रथमं तिथयो निर्णीयन्ते । विधिरसन्तमप्राप्तौ नियमः पाक्षिके सति । विविधविध्यु- तत्र चान्यत्र च प्राप्तौ परिसङ्ख्येति गीयते ॥ असन्तमप्राप्तौ सयां यः प्रापयति प्रवयति स विधिस्त्रि- पपादनम् ૨ स्मृतिसारोद्धारै। विधः नियविधिनैमित्तिकविधिः काम्यविधिश्च । नित्यविधि- र्यथा अहरहः सन्ध्यामुपासीत । नैमित्तिकविधिर्यथा पुढे जाते नान्दीमुखान् पितॄन्यजेत् । काम्यविधिर्यथा ज्योतिष्टोमेन स्वर्ग- कामो यजेतेति। ऋतौ भार्यामुपेयादिति नियमविधिः, पञ्च पञ्च- नखा भक्ष्या इति परिसङ्ख्या । आवश्यकत्वं नियमविधेः परिस- वयातो भेदकमिति दिक् । पुनर्द्रितीयो विधिः प्रवर्तको निवर्त- कश्चेति, प्रवर्तको यथा-- दर्श स्नात्वा पितृभ्यो यद्दद्यात्कृष्णतिलोदकम् । अन्नं च विधिवद्दद्यात्सन्ततिस्तेनवर्द्धते ॥ इति, निवर्तको यथा-अमावास्यायांनाध्यापयेत नाधीयीतनच्छिन्द्या- दादारु नावादनम्परस्येति । तथा, अमावास्यायां न गच्छेत्पा- सकालामपि स्त्रियम् । तैलं न च स्पृशेदाक्षादींश्च न खण्डयेदि- ति । एवमुभयविध्युक्तकर्यकलापाधिकरणत्वेन तिथिनिर्णयस्स- मुचितः । निर्णयो नाम परस्परविरुद्धार्थानां वाक्यानां विरोध- परिहारेणार्थावधारणम् । उक्तं हि, तत्वे विपतिपन्नानां वाक्यानामितरेतरम् । विरोधपरिहारोऽत्र निर्णयस्तत्त्वदर्शनम् ॥ स निर्णयस्स्मृतितो भवति स्मृतीनां च वेदमूलकत्वेन प्रा- माण्यं न स्वतः । तदुक्तं भट्टपादैः। पारतन्त्र्यात्वतो नैषां प्रमाणत्वावधारणा । अप्रामाण्यविकल्पस्तु द्रढिम्नैव विहन्यते ॥ स्मृतिप्रामाण्य- ननुस्मृतीनां न प्रामाण्यनिश्चयः पौरुषेयत्वेन वक्तृदोष- शङ्काकलङ्कात् । नोदनात्मकवेदस्यापौरुषेयत्वात्स्वतः प्रा- माण्यम् औत्पत्तिकसूत्रपर्यालोचनेन, तत्रौत्पत्तिकपदेन सम्बन्धस्य निसत्वं निर्दोषत्वं च प्रतिपादयता पौरुषेयत्वनिराकरणात्, नच व्यवस्थापनम् प्रथमउद्धारः। भाष्यकृता प्रवर्तकवचनस्य प्रामाण्याभिधानात् स्मृतीनामपि प्रा- माण्यामिति वाच्यम्।भाष्यपर्यालोचनया प्रवर्तकापौरुषेयवचनस्यै- व प्रामाण्यावधारणात् न श्रुतिस्मृतिसाधारणतादृशवचनमात्रस्य । तस्मादौत्पत्तिकत्वेन पुरुषदोषनिराकरणादनुपलब्धार्थत्वाच्चापौ- रुषेयनोदनायाः प्रामाण्यं न सवक्तृकनोदनायाः । यदुक्तम् । औत्पत्तिकगिरा दोषः करणस्य निवार्यते । अवाधाव्यतिरेकेण स्वतस्त्वेन प्रमाणता। सर्वस्यानुपलब्धेऽर्थे प्रामाण्यं स्मृतिरन्यथा ॥ इति । स्मृतीनां पौरुषेयत्वेनैवरूपनाभावः । तथा च पारमा मू- त्रम् । धर्मस्य शब्दमूलत्वादशब्दमनपेक्षं स्यादिति । भाष्यं च श- ब्दमूलको धर्म इत्युक्तम् नोदनालक्षणोऽर्थो धर्म इति । अतो निर्मू- लत्वान स्मृतीनां प्रामाण्यम् । न च प्रसक्षमूलत्वेन प्रामाण्यम् धर्मा- धर्मयोस्तदप्रवृत्तेः, न च श्रेयस्करभाष्ये द्रव्यक्रियागुणानामपि ५- मत्वकथनात्मसक्षगम्यत्वं, फलसाधनत्वरूपेण धर्मत्वात्, फलस्य च जन्मान्तरभावित्वाद्धर्मरूपेण प्रयक्षविषयत्वासंभवात् । यदाह बार्ति- ककृत् । अष्टकादिस्वर्गादिसाध्यसाधनभावम्प्रसक्षादीनि तावन्न गृ- हन्तीति, प्रसक्षमूलकत्वाचानुमानादिकमपि निरस्तम्, नचास्तु वे- दमूलकत्वेन प्रामाण्यम् अनुपलम्भात् । न ह्यनुपलभ्यमानो वेदः खप्रमेयं प्रतिपादयितुमीष्टे । नचायं प्रयक्षेणोपलभ्यते अनुच्चार्य- माणत्वात् ।उच्चार्यमाणत्वे वा स्मृतिप्रणय नवैयर्थ्यात् । नाप्युलन- शाखामूलत्वमतिप्रसङ्गात् पाखण्डस्मृतीनामपि प्रामाण्यप्रसङ्गात् मृतसाक्षिकव्यवहारवत् । यथा, मव्यवहारंयोजानातिस्म स साक्षी- मृतः, तथामन्मतंप्रलीनशाखायामस्तीति पारखण्डोऽपिस्वमतप्रामाण्यं निश्चापयेदिति । नापि निखानुमेयश्रुतिमूलत्वम् । अन्धपरंपरापा- सात् । नच विकीर्णशाखामूलत्वं स्मृतित्रणयनवैयर्थ्यात् । विकी- स्मृतिसारोद्धारे। शाखानांसश्चरणादेव क्रियासिद्धेः,अतःस्मृतिप्रामाण्यं विरहिमा- नोरथिकमैथुनमनुकरोतीति । अत्रोच्यते, वेदप्रामाण्याभ्युपगन्तॄणा- म्मन्वादीनामष्टकादिषु धर्मत्वस्मरणं स्वकृतस्मृतेर्वेदमूलकत्वं विना- नुपपन्नं । कथमन्यथा वेदस्यैव प्रामाण्यम् वेदमूलकस्य वेति मन्वा- दयोनिश्चिनुयुः, दूरे वेदामूलकस्मृतिप्रणयनं तेषां, कथमनुच्चारि- तानां मूलत्वोपपत्तिरितिचेत् । उच्चार्यन्त एव स्मृतिमूलभूताः श्रु- तयः। संप्रसपि केचिद्धर्माः कस्यांचिच्छाखायामन्ये तदन्यस्यामिति शाखान्तराध्यायिभिः शाखान्तरगतानामनुपलम्भः, एकस्यामपि शाखायां केचिद्धर्माः कचिदुक्ताः केचिदादावन्ते च केचिदिति विप्रकीर्णानामनुसन्धानं मन्दधीभिर्दुष्करमितिक्रमेणैकत्रोपसंहारार्थ स्मृतिप्रणयनमिति युक्तमवधारयामः । तदुक्तं भट्टपादैः, शाखाना विप्रकीर्णत्वात्पुरुषाणां प्रमादतः, नानापकरणस्थत्वात्स्मृतेर्मूलं न दृश्यत इति । सम्प्रदायोच्छेदभीतर्वेदवाक्यान्येव संहृतानि विशि- शनुपूर्व्या। व्यवस्थितो हि स्वाध्यायोऽध्येतव्य इतिश्रूयते । स्मार्त्त- श्चाचारः कचित्कस्यांचिच्छाखायां तत्र यदि तावन्त्येव वाक्यान्यु- द्धृत्याध्यापयेयुस्तदा क्रमान्यत्वात्स्वाध्यायविरोधः स्यादिति, यदै किञ्चिन्मनुरवदत्तनेषजमभवदितिश्रुत्यामनुवचनस्याहतत्वात्सुतरा- म्प्रामाण्यम्, एवंसदाचारादीनामपिश्रुतिमूलकत्वेन प्रामाण्यमवधा- य॑म् । विवेकस्तु- आचारात्तु स्मृति ज्ञात्वा स्मृतेश्च श्रुतिकल्पनम् । तेन ह्यन्तरितं तेषां प्रामाण्यं विप्रकृष्यते ॥ इति । अलमधिकेनेति । मन्वादिशास्त्राणां तु वेदमूलत्वेन नि- रपेक्षप्रमाणानामपि परस्परसाकांक्षत्वम्, अन्यथा कचिदधिकाङ्ग- कर्मविधिः कचिन्न्यूनाङ्गकर्मविधिरिति परस्परविरोधादप्रामाण्य- प्रसंगः । सर्वशाखाधिकरणन्यायेन सर्वत्र विधेयखकर्मण एकत्वे - प्रथमउखारः। प्रधानाविरोधानाप्यङ्गविरोधः । यस्मिन्शास्त्रे न्यूनाङ्गविधिस्त- छास्त्रं खोक्त निरपेक्षप्रमाणमित्युक्तेऽशे शास्त्रान्तरमपेक्षत इति नात्यन्तनिरपेक्षता अत एवाविरोधानामामाण्यम् । उक्तं च । यन्नाम्नातं स्वशाखायां पारक्यामविरोधि यत् । विद्वद्भिस्तदनुष्ठेयमग्निहोत्रादिकर्मवत् ॥ इति संक्षेपः ॥ अथ द्वैधपरिहारः। श्रुतिद्वैधं तु यत्र स्यात्तत्र धर्मावुभौ स्मृतौ । स्मृतिद्वैधे तु विषयः कल्पनीयः पृथक् पृथक् ॥ श्रुतिस्मृतिविरोधेतु श्रुतिरेव गरीयसीति । ननु तथापि कालनिर्णयो व्यर्थः कर्मण एव निर्णेयत्वाद, यदुक्तम्, कालेहि कर्म चोद्यते नकर्मणि कालः, इति चेन्न, पौर्ण- मास्यां पौर्णमास्यां यजेत अमायाममायां यजेत इत्यादिश्रुत्या का. लकर्मसम्बन्धस्य विधेयत्वप्रतिपादनात् । यदाह गार्ग्यः। तिथिन- क्षत्रवारादि साधनं पुण्यपापयोः, प्रधानगुणभावेन न स्वातन्त्र्येण ते क्षमा इति । अथ कालनिर्णये सवत्सरस्य मुख्यत्वात्सवत्सरो निणीयते। ब्रह्मसिद्धान्ते । चान्द्रसावनसौराणांमासानांतु प्रभेदतः । चान्द्रसाव- नसौराः स्युस्त्रयः सव्वत्सरा अमी, यद्यपि नाक्षत्रोपि मासस्तथापि नाक्षत्रो नान्दो गण्यते, तथाच हेमाद्रिसिद्धान्तकारिका, तत्तन्मास- जमासषट्कयुगतस्यब्दी भमानं विनेति । ज्योतिश्शास्त्रे संवत्सरस्य पञ्चविधत्वमुक्तम् । सौरवृहस्पतिसावनशशधरनाक्षत्रिकाः क्रमेण स्युः। मातुलयातालातुलविमलवराडाश्च वत्सराः पञ्च । तदुक्तम् । चान्द्रः संवत्सरो ज्ञेयस्तिलकादिव्रतेषु च । सौरस्य तु सुजन्मा- तिव्रतादावुपयोगिता । सावनस्य तु सत्रादावुपयोगः प्रकीर्तितः । नाक्षत्रवाईस्यत्योस्तु ज्योतिश्शास्त्रोपयोगिता । सच द्वादशमासा- स्मृतिसारोद्धारे। पक्षभेदाः त्मकः, द्वादशमासाः सन्बत्सरइतिश्रुतेः । मलमासपातेतु प्रयोदश मासाः स्युः। तत्र षष्ठिदिनात्मक एक एव मासःौतद्वादशमासतो- पपत्तये गणनीयः। उक्तंहि, षष्ट्यातु दिवसैर्मासः कथितो बादराय- गैरिति। अयनं द्विविधम् दक्षिणोत्तरभेदात् । तच्चायनं सौरमेव ऋतु- त्रयपरिमितंच, तथाचसंग्रहः, सौरर्तुत्रितयं प्रदिष्टमयनमि- अयन्र्तुमास तिअयनोपयोगश्च सत्यव्रतेन दर्शितः। देवतारामवाप्या- दिप्रतिष्ठोदङ्मुखे रखौ । दक्षिणाशामुखे कुर्वन तत्फलम- वाप्नुयात् । ऋतुर्मासद्वयात्मकः सच षड्डियो वसन्तादिः, ऋतुः सौ- रश्चान्द्रोपि षोदैव गण्यः, षड्धा ऋतव इतिश्रुतेः। यत्तु द्वादश मासाः पञ्चर्तवइति श्रूयते तत्प्रयाजानुमन्त्रोपयोगितया हेमन्तशिशिरयोरे- कीकरणाभिप्रायेण, पञ्चवो हेमन्तशिशिरयोस्समासेनेतिश्रुतेः । उपयोगश्च वसन्ते ब्राह्मणमुपनयीतेत्यादिश्रुतिसिद्धिःचान्द्रवर्षस्य चैत्रशुक्लपतिपद्युपक्रमः चान्द्रवसन्तस्यापि तथैवेति, सौरयोरब्दव- सन्तयोस्तु विकल्पेन मीनमेषावुपक्रमौ कलौ ज्ञेयौ । तदुक्तं संग्रहे, सौरश्चान्द्र इति द्विमासज ऋतुधा वसन्तादिकश्चान्द्रोऽब्दो मधुशु- क्लगप्रतिपदारम्भो वसन्तस्तथा । चैत्रादब्दवसन्तयोरविजयो; मी- नमेषौ मुखमिति । मासश्चतुर्विधः मोक्तः सावनादिप्रभेदतः, त्रि- शदिनात्मकस्तत्र सावनः परिकीर्तितः । एकस्मात्संक्रमादास- क्रान्ति सौरोऽभिधीयते, शुक्लपक्षादिकृष्णान्तश्चान्द्रः स्यादन्यथा- पि वा । सर्वनक्षत्रभुत्या तु नाक्षत्रो मासउच्यते । उपयोगश्च, सौरो मासो विवाहादौ यज्ञादौ सावनः स्मृतः, आब्दिके पितृका- येवा चान्द्रोमासः प्रशस्यते । शुक्लकृष्णप्रभेदेन पक्षोपि द्विविधो मतः, सावनादिषु भेदेन पक्षश्च द्विविधोमतः । सावनादिमभेदेन दिवसोपि चतुर्विधः। नाडीषष्ठिमितस्तत्र साधनो दिवसः स्मृतः। त्रिंशांशकश्चार्कराशेर्दिवस: सौरउच्यते । चान्द्रस्तु तिथ्यवच्छिन्नो प्रथमउद्धारः। मानम् भावधिश्च भभूःस्मृतः। अथ मुहूर्त्तखरूपंगार्ग्यः अक्षिपक्ष्मपरिक्षेपो निमेषः परिकीर्तितः। द्वौ निमेषौ त्रुटिर्नाम द्वौ त्रुटी तु लवः स्मृतः, द्वौ लवौ क्षण इत्युक्तः काष्ठा प्रोक्ता दशक्षणा, त्रिंशत्काष्ठा कला मोक्ता कलात्रिंशन्मुहूर्त्तकः, तेतु त्रिंशदहोरात्र इत्याह भगवान हरः। महाभारते,नाडीद्वयं मुहूर्त्तस्तु ते पञ्चदश वासरः। एवं रात्रिस्तथा- पक्षमासर्वयनवत्सराः, कर्षणाभ्यधिकैः षड्भिः पलैस्ताम्रस्य भाजनम् । त्रिंशदङ्गुलविस्तारमुच्छ्रितं चतुरङ्गुलम्, वर्णमा- षेण कृत्वाच चतुरङ्गुलकाष्ठिकाम्, मध्यभागे तया विद्धं नाडिका घटिका स्मृता, तद्रन्ध्रेणाम्भसा पात्रं यावत्कालेन पूर्यते, स का- लो नाडिका तस्याः षष्ठिभागो विनाडिका । स्वर्णमाषादिमान- चागस्त्येनोक्तम् । यवः स्यात्सप्पैः षड्भिर्गुञाच स्या- माषादितुला- त्रिभिर्यवैः । गुञ्जाभिः पञ्चभिश्चैको माषकः परिकी- तितः, भवेत्षोडशभिर्मापैः सुवर्णस्तैः पुनःस्मृतः, पलं मुवर्णाश्चत्वारः पञ्च वापि प्रकीर्तितम् । कर्षस्तु पलस्य चतुर्थ- भागः सएव सुवर्णोपि । तदुक्तं त्रिकाण्ड्याम् । मानन्तुलाङ्गुलि- प्रस्थैर्गुभाः पञ्चाद्यमाषकः । ते पोडशाक्षः कर्षोऽस्त्री पलं क- पंचतुष्टयामिति । इतिसंवत्सरादिनिरूपणम् । अथैकभक्तायुपयोगितया दिवसभागो निरुप्यते । तत्र स्का- न्दे द्विधा विभागउक्तः । आवर्तनात्तु पूर्वाह्नो ह्यपराहस्तथापरः, आवर्तनं मध्यंदिनम् । शातातपोऽन्हस्वैविध्यमाह। पूर्वाह्नो मध्या- न्होऽपराह्नइति । पूर्वाह्नो वै देवानां मध्यान्होमनुष्याणां अपराह्नः पितॄणामिति । चतुर्दाऽपि, पूर्वाह्नः प्रहरः सार्दो मध्यान्हः प्रह- रात्मकः।अपराहोऽर्द्धयामात्मा सायान्हस्तुर्ययामक इति।व्यासेन पञ्चविधतान्ह उक्ता, मुहूर्तत्रितयं प्रातस्तावानेव तु सङ्गवः । म- ध्यान्हस्त्रिमुहूर्तः स्यादपराह्नश्च तादृशः । सायान्हस्त्रिमुहूर्तः ।

स्मृतिसारोद्धारे। स्यात्सर्वकर्ममु गर्हितः । शातातपेयी श्रुतिरपि पञ्चविधत्वमाहा- न्हः। आदित्यस्त्वेव ऋतवो यदैवोदेत्यथवसन्तो यदा सङ्गवोऽथ- ग्रीष्मो यदा मध्यन्दिनो अथवर्षा यदापराहोप्यथशरद् य. दैवास्तमेत्यथ हेमन्तइति । माधवीयेतु पञ्चदशधा विभागो- दर्शितः । शङ्खः । रौद्रश्चैत्रश्च मैत्रश्च तथा चारभटः स्मृतः, सावित्रश्च जयन्तश्च गान्धारः कुतपस्तथा, रौहिणश्च वि- रिश्चिश्च विजयो नैऋतस्तथा । महेन्द्रो वरुणश्चैव भागः पञ्च- दशः स्मृतः । एषां विभागानां मध्ये कचित्कश्चिदुपयुज्यते । रा- जमार्तण्डेतु श्रुत्रानुगृहीतत्वात्पञ्चधाविभागस्यैव मुख्यत्वमुक्तम्।क्ष- यवृद्धिसाम्यवशादिनद्वयव्यापिन्यां तिथौ विहितं कर्म कुत्र कार्यमिति सन्देहे निर्णयार्थमाह गोभिलः, षौंदर्पस्तथाहिंसा त्रिविधं तिथिल- क्षणम्, धर्माधर्मवशादेव तिथिस्त्रेधा विवर्त्तते इति । पर्वो दिनद्वयपि तिथ्योः साम्यम्, दर्पः पूर्वतिथ्यपेक्षयाऽग्रिमतिथेरधिकत्वम्, हिंसा पूर्वपूर्वापेक्षयाऽग्रिमाग्रिमतिथेन्यूनत्वम्।तत्र निषेधः कालमात्रापेक्षा विधिस्तु पूज्यतिथिविषयः, तिथेः पूज्यत्वं नाम पूर्वविद्धात्वेन प- रिविद्धात्वेन वा विहितत्वम् । तदाहगार्यः । निमित्तं कालमा- दाय वृत्तिविधिनिषेधयोः, विधिः पूज्यतिथौ तत्र निषेधः कालमा- त्रके । तिथीनां पूज्यता नाम कर्मानुष्ठानयोग्यता, निषेधस्तु निवृ- चात्मा कालमात्रमपेक्षते, तिथीनां पूज्यत्वधीधज्ञानाधीनेति वेध- माह पैठीनसिः।पक्षद्वयपि तिथयस्तिथि पूर्बामथोत्तराम्। त्रिभिर्मुहूत्तैविध्यन्ति सामान्योयं विधिः स्मृतः। उभयप- क्षीयप्रतिपदाद्यास्तिथयः सूर्योदयादूर्द्धप्रवर्तिनीभिः षड्- भिर्नाडीभिः पूर्वतिथ्या विद्धाःस्युः, एवंतिथ्यादिवर्तिनीभिः षड्- भिरेव नाडीभिरर्थात्सायाह्नव्यापिनीभिरुत्तरतिथ्याविद्धाः स्युरिस- यः, अयश्च त्रिमुह दिवेध उदयादृर्द्धम्पूर्वतिथ्या अस्तमयात्माक्- तिथिवेधनि- रूपणम् प्रथमउद्धारः। परतिथ्येति गम्यते, सा तिथिस्तदहोरात्रं यस्यामभ्युदितो रविः।व- ईमानस्य पक्षस्य हासेत्वस्तमये स्थितेतिवचनात् । वृद्धवशिष्ठः-य- स्यां तिथावभ्युदियात्सूर्यस्तु त्रिमुहूर्त्तके। स्नानदानजपादिभ्यस्ता- मेवोपक्रमेतिथिम् । वशिष्ठः-त्रिमुहूर्त्ता न कर्त्तव्या या तिथि: क्षयगामिनी, त्रिमुहूर्त्तापि कर्त्तव्या या तिथिर्वृद्धिगामिनी । स्का- न्दे । यां तिथिं समनुप्राप्य यात्यस्तं पद्मिनीपतिः । सा तिथि- स्तद्दिने प्रोक्ता त्रिमुहूर्तापि या भवेत् । शिवरहस्ये सौरपुराणे- यां प्राप्यास्तमुपैत्यर्कः सातु चेत्रिमुहूर्तिका, धर्मकृत्येषु सर्वेषु सम्पूर्णेति विदुर्बुधाः । क्षये पूर्वा प्रकर्त्तव्या वृद्धौ ग्राह्या तथोत्तरा, तिथेस्तस्यास्विक्षणाया हामवृद्धी न कारणम् । विक्षणायास्त्रिमुहू- र्चायाः । स्कान्देतु-तस्यास्तु त्रिमुहूर्तायाइति तृतीयःपक्षः। अत्र हेमाद्रिः त्रिमुहू या हासवृद्ध्योः कारणत्वं पितृकार्ये न पु- नव्रतोपवासादिषु तेषु युग्माग्निवाक्येन व्यवस्थाकरणादिति पूर्व- वाक्येन सह विरोधं पर्यहाीत् । भविष्ये । व्रतोपवासनियमे घ- टिकैका यदा भवेद, सा तिथिस्तदहोरात्रं पित्रर्थे चापराह्निकी । पाझे-व्रतोपवासनियमे घटिकैका यदा भवेत, उदये सा तिथिज्ञेया श्राद्धादावस्तगामिनी । व्यासः-व्रतोपवासस्नानादौ घटिकैका यदा भवेद, तामेव तिथिमाश्रिस कुर्यात्कर्माण्यतन्द्रितः।बौधायनः। आदियोदयवेलायां या स्तोकापि तिथिर्भवेत्, पूर्णा इसेव मन्त- व्या प्रभूता नोदयं विनेति । यदा दिनद्वयेप्यल्पकर्मकालव्यापिनी तदोदाहरिष्यमाणैद्धिहासादिवाक्यैर्युग्मादिवाक्यैर्यथायोग्यं पूर्वा परा वा ग्राह्या । अत्र पक्षद्वये संपूर्णतिथिसंपादितमिव तिथिस्पर्श- मात्रेणापि कृतं कर्म सगुणं भवतीति ज्ञापयितुमाह देवलः।यांतिथि समनुप्राप्य उदयं याति भास्करः, सा तिथिः सकला ज्ञेया स्नानदा- नजपादिषु। विष्णुधर्मोत्तरे स्नानदानादिकमखिति पाठः।व्यास:- २ स्मृतिसारोद्धारे। तिथिस्सर्टीपि कार्यकरणम् उदयनेव सविता यां तिथि प्रतिपद्यते, सा तिथिः सकला ज्ञेयादाना- ध्ययनकर्मसु । देवलः। यांतिथि समनुपाप्य अस्तं याति च भास्करः, सातिथिः सकला ज्ञेया दानाध्ययनकर्मसु । विष्णुधर्मोत्तरे। सा तिथिस्तदहोरात्रं यस्यामभ्युदियाद्र- विः, तया कर्माणि कुर्वीत हासदृद्धीन कारणम्।सा तिथिस्तदहोरात्रं यस्यामस्तमियाद्रविः, सा तिथिः सकला ज्ञेया ह्रासदृद्धीन कारणम्। अत्रोदयगामितिथेः सम्पूर्णत्वकथनं परविद्धोपादेयतिथिविषयम् । अस्तकालीनतिथेः संपूर्णत्वकथनं पूर्वविद्धोपास्यतिथिविषयमिति निर्णयाम्भोजभानौ । निर्णयामृते तु-उदिते दैवतं भानौ पित्र्यं- चास्तङ्गते रवौ, द्विस्त्रिर्मुहूर्तमन्हो या सा तिथिहव्यकव्ययोरिति । उदयाद्विमुहूर्त्तव्यापिन्यां दैविकं कर्म, अस्तमयात्रिमुहूर्तव्या- पिन्यां पित्र्यं कर्म कार्यामिति । एवमुदयास्तमयव्यापिनीनां तिथीनां सामस्त्येन माशस्याभिधानात्पूर्वापरवेधोप्युदयास्तमयका- लीन एवेत्यवसीयत इति व्याख्यातम् । राजमार्तण्डे तु-एतच्च साकल्यम्मन्वादिव्यतिरिक्तविषयम् । तथाच संग्रहकारिका । मन्वादिग्रहपातवैधृतियुगादिष्वेव सत्सु क्रिया, नोतेषां सकलत्व- मिष्टमृषिभिः सायोदयस्थत्वतः । यामाभ्यञ्जनदन्तशुद्धिजलधि- स्नानेषु तात्कालिकी, तद्वत्पारणमृत्युजन्मसु तिथेः साक- ल्यमत्रापिन, इति विशेषोदृश्यते । स्कान्दे । नागो द्वादशनाडीमि दिक्पञ्चदशभिस्तथा, भूतोऽष्टादशनाडीभिदृषयन्त्युत्तरां तिथि- म् । नागः पञ्चमी, दिक्दशमी, भूतश्चतुर्दशी, एतद्वचनं तु दिन- द्वयेपि कर्मकालव्यापितिथिसम्भवे द्रष्टव्यम् । उपवासविषयता तु तस्य नेष्टेति हेमाद्रिः। कालादर्शकृतस्तु द्विमुहूर्त्तघटिकादिवेधं न मन्यन्ते । किन्तु कैमुतिकन्यायेन त्रिमुहूर्त्तवेधप्रशंसापरमाहु स्तन्न, लक्षणयार्थवादकल्पनायां चन्याय्यत्वात्, कथं तत्रिविरोधपरिहारः, प्रथमउद्धारः। ११ उच्यते । उपवासव्रतादौ तावत्रिमुहूर्ना हासवृद्ध्यनादरेण ग्राह्या । तियेस्तस्यास्विक्षणाया हामवृद्धी न कारणमित्युक्तवचनात् । त्रि- मुहर्त्ता न कर्त्तव्या या तिथिः क्षयगामिनीत्यादिवाक्यस्य श्राद्ध- विषयत्वम् । उपवासादौ घटिकामात्रतिविधिप्रतिषेधयोर्हास- वृद्धी न कारणम्, यदातु निथेर् वृद्धिः साम्यं वा स्यात्तदा घ- टिकामात्राप्युपवासादौ ग्राह्या यदा तिथिक्षयस्तदानेति सर्वमव- दातम् । यथाहोशना व्याघ्रश्च । पर्वो दर्पस्तथा हिंमा त्रिविधं ति- थिलक्षणम् । पर्वदो परौ पूज्यौ हिनास्यात्पूर्वकालिकाति व्यासनिगमवचनम् । द्वितीयादिषु युग्मानां पूज्यना नियमादिषु, एकोद्दिष्टविवृद्ध्यादौ हामवृद्ध्यादिनोदना. नियमादिप्पियादिना पितृकर्मव्यतिरिक्तोपत्रासव्रतादिसमस्तकर्मणां संग्रहः । एकोद्दिष्टा- दीत्यनेन विवाहाद्यङ्गभूतद्धिश्राद्धव्यतिरिक्तश्राद्धानां च संग्रहः, विवृद्ध्यादावित्यनेन तिथिविशेषविधेयमाङ्गलिकश्राद्धपरिग्रहः । निर्णयामृते तु-नागोद्वादशनाडीभिरिति वाक्यस्य स्वोत्तरतिथिवि- षयत्वमुक्तम् । सामान्यविहितत्रिमुहूर्त्तवेधस्य पूर्वतिथिविषयत्वम् । चतुर्दशी पञ्चमी च तथाच दशमी तिथिः, पूर्वान्तिथि दृपयन्ति त्रिभिरेव मुहूर्त्तकैरिति कौर्मवचनादिति । ननु दशमी पञ्चदशनाडी- भिरेकादी विध्यतीति यदुक्तं तद्भविष्यपुराणस्मृतिवा- एकादशीवध- क्याभ्यां विरुद्ध्यते, ते वाक्ये यथा-अरुणोदयकालेतु दशमी यदि दृश्यते, पाप मूलं तदाज्ञेयमेकादश्यामुपोपण- म् । तथा। कलानापि विद्धास्यादशम्येकादशी यदि, तदा ोका- दशी त्यक्त्वा द्वादशी समुपोषयेदिति चेत्सत्यम् । अरुणोदयादि- सर्वप्रकारवेधस्तु वैष्णवोपवासविषयः पञ्चदशनाडीवेधस्तु वैष्ण- वव्रतव्यतिरिक्तव्रतविषयः । तदुक्तं निगमे । सर्वप्रकारवेधोयमु- पवासस्य दूषकः, सार्द्धनप्तमुहर्तस्तु वेधोयं वाधते व्रतमिति । स्का- विचार.

૨ स्मृतिसारोद्धारे। न्दे । प्रदोषव्यापिनी ग्राह्या सर्वनक्तवते तिथिः, उदयस्था सदा पूज्या हरिनक्तवते तिथिः । अत्र हरिनक्तव्रतस्याप्यौदयिकतिथौ विधानं किमुतोपवासस्येति अल्लाडनाथः । निर्णयांभोजभानौ तु विशेषः कश्चिदस्ति, तथाहि ब्रह्मवैवर्ते-कीदृशस्तु भवेद्वेधो यो- गो विप्रेन्द्र कीदृशः, योगवेधौ ममाचक्ष्व ययोर्दुष्टमुपोषणमिति प्रश्ने, उत्तरम्, या तिथिः स्पृशते राजन् प्रातरावलोकिनी, । स वेध- इति विज्ञेयो योगः सूर्योदये नतु । यातिथिः प्रातःस्पृशतइति व्य- वहितेनान्वयः । नचैतदेकादशीपरं तद्वेधस्यारुणोदये गर्हितत्वा- त् । तस्माद्यास्तिथयः परविद्धात्वेनोपादेयास्ता उदये घटिकामात्रा अपि ग्राह्या इतिसिद्धम् । अथ पूर्वविद्धतिथिनिर्णयः । यदा तु युग्मदिनेऽस्त- मयात्लाङ्ग दृश्यते अयुग्मदिने तूदयास्तसम्बन्धिनी तदा मात- स्तन्येव ग्राह्या युग्मदिनसम्वन्धिन्याः क्रियानहीया असत्कल्प- त्वात् । यदातु युग्मदिनेऽस्तमयात्साक् न दृश्यते अयुग्मदिनेत्व- स्तात्मागेव समाप्यते तत्र जावालिगौतमौ-अतस्स्युस्तिथयः पु- ण्याः कर्मानुष्ठानतो दिवा, नक्तादिव्रतयोगे तु रात्रियोगो विशि- ष्यत इति, तस्मादस्तात् प्राक् समाप्ताप्यौदयिक्येव ग्राह्येति । हेमा- दिरप्येवम् । स्कान्दे । प्रतिपत्प्रमुखाः सर्वा उदयादोदयाद्रवेः, सम्पूर्णा इतिविज्ञेया हरिवासरवर्जिताः। या तु सम्पूर्णा भूत्वा घ- टिकादिवृद्ध्याग्रिमदिने याति सा पूर्वोपादेया, विप्रतिषिद्धसम- वाये भूयसीस्यात्सधर्मत्वमितिन्यायात् । उपवासे तु सा सुतरां ग्राह्या तस्याहोरात्रनिष्पाद्यत्वात् । यत्तु-तिथिः सशल्या परिवर्ज- नीया धर्मार्थकामेषु बुधैर्मनुष्यैः, विहीनशल्यापि विवर्जनीया य- द्यग्रतो वृद्धिमुपैति पक्षः इतिवचनम् । तदेकादशीविषयम् । सश- ल्या दशमीविद्धा, विहीनशल्या सम्पूर्णैकादशी। यदि वो वृद्धि- द्वितीयउद्धारः। १३ वशात् द्वितीयेऽन्हि स्वल्पापि तदा सम्पूर्णामपि त्यक्त्वोत्तरा ग्राह्या, यथा मलिम्लुचः पूर्वो देवो मासस्तथोत्तरः, त्याज्या तिथिस्तथा पूर्वा वृद्धौ ग्राह्या सदोत्तरेति वचनात् इतिदिक् । श्रीविश्वम्भरविहिते स्मृतिसारोडारसंज्ञके ग्रन्थे। सामान्यसमयनिर्णयनामाऽगात्प्रथम उद्धारः ॥ १॥ अथैकभक्तादिवतानां स्वरूपं कालश्च निरूप्यते।तान्येकभक्त- नक्तायाचितोपवासभेदाचतुर्दा । तत्रैकभक्तलक्षणम् स्कान्दे । दि- नार्द्धसमयेऽतीते भुज्यते नियमेन यत् । एकभक्तमितिमोक्तमतस्त- स्यादिवैव हि । एतच्चैकभक्तव्रतं मध्याह्नव्यापिन्यां तिथौ एकभुक्तान- कार्यम् । स्मृतिसंग्रहे-मध्याह्नव्यापिनी सा स्यादेक- भक्ते सदा तिथिः। बौधायनः। उदये तूपवासस्य नक्त- स्यास्तमये तिथिः। मध्याह्नव्यापिनी ग्राह्या एकभक्तवते तिथिः । मध्याह्नस्य षड्यटिकात्मकत्वेनाग्रिमघटिकात्रये एकभक्तं कार्यम् । दिनार्द्धसमयेऽतीते इतिवचनात् । हेमाद्रिणातु-मध्याह्नान्त्यदलै- त्रिभागदिवसे स्यादेकभक्तवतमिति त्रिधाविभागोऽङ्कः प्रोक्तः, फ. लतो न विशेषः, अनन्तभट्टादिभिस्तु पञ्चधाविभाग एव दर्शितो न विधेति, यदातु पूर्वदिनापेक्षया परदिनेऽधिकमध्याह्नव्यापिनी तिथिस्तदा परदिन एकभक्तम् बहुमुख्यकर्मकालव्यापित्वात् तिथि- वृद्ध्या दर्पत्वाच्च । पर्वदौ परौ पूज्यावितिवचनात् । कर्मणोयस्य यः कालस्तत्कालव्यापिनी तिथिः, तया कर्माणि कुर्वीत ह्रासवृ- द्धी न करणम्, यो यस्य विहितःकालः कर्मणस्तदुपक्रमे । विद्य- मानोभवेदङ्गं नोज्झितः प्रक्रमेणतु । यदा दिनद्वये मुख्यकालव्या- पिनी तदा पूर्वैव ग्राह्या, तिथिक्षयेन हिंसात्वात, हिंसा स्यात्पूर्वका- १४ स्मृतिसारोद्धारे। लिकीति वचनात् । यदाचैकस्मिन्दिवसे कर्मतिथिर्भूयसी परस्मि- बल्पीयसी तदा भूयसी स्यात्सधर्मत्वमिति न्यायात् भूयसी ग्रा- ह्या । यदा दिनद्रयेपि समा तदा परैव, तिथेः साम्येन पर्वत्वादि- ति । तदुक्तं मोक्षेश्वरे । व्याप्नोति कर्मकालं या तिथि च दिन- द्वये, वेधवाक्येन निर्णीय ग्राह्या पूर्वा परापि चेति । अयञ्च स्वतन्त्रै- कभक्तविषयः। अन्याङ्गभूतमेकभक्तं तत्तिथावेव कार्य । तिथिर्य- थोपवासे स्यादेकभक्तेपि सा तथेति तूपवासानुकल्पैकभक्तविष- यम् । अन्यथा मध्यान्हव्यापिन्यामेवैकभक्तमिति प्रागुक्तेन वि- रोधः स्यात् । एकभक्तस्य चोपवासानुकल्पतैकादशीविषया । कौर्मे । एकभक्तेन नक्केन क्षीणवृद्धातुरः क्षिपेत् । तदयमर्थः सम्पन्नः। एकभक्तं त्रिविधम् । स्वतन्त्रम्-अनन्तव्रताद्यङ्गम्-उप- वासानुकल्पश्चेति, तत्र स्वतन्त्रं मध्यान्हस्य षड्घटिकात्मकत्वेनो- त्तरभागे घटिकात्रये कार्यम् । अन्यत्रताङ्गं मुख्यकालात्प्रच्युतमपि गौणकाले विधेयम् । मध्यान्हे पूजयेन्नृपेत्यनन्तव्रतीयवचनात् प्रधानपूजानन्तर्गप्राप्तेः मुख्यकालाक्रोधेङ्गिगुणविरोधे तादर्थ्या- दिति । प्रतापमार्तण्डोऽप्येवम् । अथ नक्ततिथिनिर्णयः। नक्तं नाम दिवारात्रिव्रतम् । अहर- नशनाद्रात्रौ भोक्तव्यमिति नियमात् दिवारात्रिव्यापिन्यामेव तिथौ कार्यम् । स्कान्दे-दिवारात्रिवतं यच्च एकमेव तिथौ स्मृ- तम्, तस्यामुभयव्यापिन्यां कुर्यादेव व्रतं व्रती । उभयव्यापिन्या- मेवेत्यन्वयः । कौम्र्मे-प्रदोषव्यापिनी यत्र त्रिमुहूर्ना दिवा यदि, तदा नक्तव्रतं कुर्यात्स्वाध्यायस्य निषेधवत् । प्रदोषलक्षणं तत्रै- बोक्तप । उदयात्माक्तनी सन्ध्या घटिकात्रयमिष्यते । सायंस- न्ध्या त्रिघटिका अस्तादुपरि भास्वतः। प्रदोषस्त्रिमुहूर्तः स्या- द्रनावस्तगते ततः। नक्तविहित भोजनन्तु नक्षत्रदर्शन एव कर्त- द्वितीय उद्धारः। १५ सन्ध्याकाल- निर्णयः व्यम् । भविष्ये-मुहूतों दिनं नक्तम्प्रवदन्ति मनीषिणः। न. क्षत्रदर्शनान्नक्तमहं मन्ये गणाधिप । नक्षत्रदर्शनादिति ल्यव्लोपे पञ्चमी । ननु-वत्तारीमानि कर्माणि सन्ध्यायां परिवर्जयेत् । आहारं गैथुनं निद्रा स्वाध्यायं च चतुर्थकमित्यनेन विरोध इति चेन्न, भोजननिषेधस्य मुख्यमन्ध्याकालविषयत्वात् । खण्डमण्ड- लोपलब्धादियम् तारकोदयान्तो मुख्यः सायमन्ध्या- कालः । किश्चिदालक्ष्यनारकात् मूर्यदर्शनावधिर्मुख्यः मातःसन्ध्याकालः । यदाह याज्ञल्क्यः। प्रातःसन्ध्यां सनक्षत्रां सायंसन्ध्यां सभास्करामित्युपक्रम्य, जपनामीत गायत्री प्रत्यगातारकोदयात् । सन्ध्यायां प्रातरे हि तिष्ठे- दासूर्यदर्शनात् । विघटिकात्मकसन्ध्याकालकथनं मुख्य- काले दैवादकृतसन्ध्यस्य तत्पर्यन्तकरणानुज्ञापनार्थ सन्ध्या- गर्जितादिविहिनानध्यायपरं च । यद्वा भाजननिषेधोयं रा- गप्राप्तं निषेधनि, न वाचनिकं नक्तं भोजनमिति न का- प्यनुपपत्तिः । यदेयं नक्ततिथिः पूर्वदिने प्रदोष व्याप्नोति प- रदिने अस्तादर्वाक् त्रिमुहूर्त किञ्चिद्वा स्पृशति तदा पूव ग्रा- ह्या । प्रदोषव्यापित्वात् । अतः स्युस्तिथयः पुण्या इति पूर्वो- क्तजावालिवचनात् । एकादशीरूपनक्तवते विशेषमाह व्यास:- प्रदोषव्यापिनीग्राह्या सदा नक्तव्रते तिथिः । एकादशी विना सर्वाः शुक्ल कृष्णपि वा समा; । उभयत्र प्रदोषव्यापित्वे । जावालिः-पदि स्यादुभयोरोः प्रदो- पव्यापिनी तिथिः । तत्रोत्तरत्र नक्तं स्यादुभयत्रापि सा. यनः । उभयत्र दिवारात्रावपि । यदातु नक्ततिथियोरहोः प्र- दोषव्यापिनी न तदापि परैव ग्राह्या । स्कान्दे । प्रदोषव्या. पिनी न स्यादिवा नकं विधीयते, आत्मनो द्विगुणच्छायामतिका- परैव ग्राह्या स्मृतिसारोद्धारे। मति भास्करे । तन्नक्तं नक्तमित्याहुन नक्तं निशिभोजनम् । परदिने स्वल्पप्रदोषस्पृगपि नक्ततिथिः परैव शस्ता, दिवारात्रिस्पृश्येव तिथौ विहिनत्वात् । सौरनक्ते विशेषमाह सुमन्तुः-त्रिमुहूर्तस्पृ. गेवान्हि निशि वा तावती तिथिः। तस्यां सौरं चरेनतमहन्येव तु भोजनम् । कौम्र्मे । नरस्य द्विगुणच्छायामतिकामयदा रविः, त- दा सौरं चरेनक्तं न नक्तं निशिभोजनम् । भविष्ये । यस्त्वादित्य दिने भक्त्या भानुं मंपूज्य यवतः। नक्तं करोति पुरुषः स यात्य- मरलोकताम् । सौरनक्ते रात्रौ भोजननिषेधो विशेषः । यतिनक्त देवलः । नक्षत्रदर्शनान्नक्तं गृहस्थानां स्मृतं बुधैः, यतेर्दिनाष्टमे भागे तस्य रात्रौ निषिध्यते । संग्रहोपि-भिक्षोदिनांशेष्टमे, त- स्माद्रात्रौ भोजननिषेधादिनाष्टमभागे यातना नक्तं कार्यम् । इति नक्ततिथिनिर्गायः । प्रसङ्गानक्षत्रव्रतकालो निर्गीयते । विष्णुध- र्मोत्तरे। उपोषितव्यं नक्षत्रं यस्मिन्नस्तमियाद्रविः, यु- लानिया ज्यते यत्र वा तारा निशीथे शशिना सह । अस्तव्या- पिनि नक्षत्रे नक्षत्रव्रतं कार्यम् | यदासन्तक्षयवशादि- नद्वयेऽप्यस्तकालव्याप्यृक्षं न तदार्द्धरात्रादर्वाक् चन्द्रेण युक्ते ऋक्षे कार्यमित्यर्थः । निशीथपदेनार्द्धरात्राद;कालोविव- क्षितः । यदार्द्धरात्रादर्वाक् तु नक्षत्रं प्राप्यते तिथौ । तन्नक्षत्रे व्रतं कुर्यादतीते पारणं तथेति । स्कान्दे-तत्रोपवासे यदृक्ष तनिशीथादधो भवेत् । उपवासे यदृक्षं स्यात्तथा नक्तकभक्त- योः । उपचासे विहितमृक्षं नक्तैकभक्तयोरपिग्राह्यमित्यर्थः। अ. याचितव्रतमेकभक्तरूपत्वात् मध्यान्हव्यापिन्यामेव कार्यम् । अ- लाभे परतो याचित्वापि रात्रौ भोक्तव्यम्-अन्यथाऽभ्यवहरि- ष्याम्येवेति सङ्कल्पभङ्गप्रसङ्गात् इसल्लाडनाथस्तच्चिन्त्यम्। परद्वा- रा याचित्वापि रात्रौ भोक्तव्यमिति वचनाभावात, परतो याचि- नक्षत्रवतका- तृतीयउद्धारः। h तालाभे त्वयाप्युपवासकल्पनात्। अयाचितमेव भोक्ष्ये इति सङ्क- ल्पे एक्कारप्रवेशे तदन्यत् न भोक्ष्ये इयर्थपर्यवसाने अयाचिता- कामे उपवासकल्पनस्यौचियादिति । अथैकभक्तादिवताना. मखण्डतिथावेवोपक्रमसमाप्त्योर्विहितत्वात्खण्डाखण्डतिथिस्वरूपं निरूप्यते । सत्यव्रतः-उदयस्था तिथिर्या हि न भवेदिनमध्यगा। सा खण्डा न व्रतानां स्यात्तत्रारम्भः समापनम् । वृद्धवशिष्ठः- खण्डाण्डवर्तिमार्तण्डा यद्यखण्डा भवेतिथिः, व्रतप्रारम्भणं त- स्यामनष्टगुरुशुक्रयुक् । अत्र समाप्तिपदाभावेपि खण्डतिथौ त- निषेधादखण्डतिथौ ममाप्तिः । प्राप्तभावाभावो विहाय तृतीय- प्रकाराभाव इतिभावः। श्रीविश्वम्भरविहिते स्मृतिसारोद्धारसंज्ञके ग्रन्थे । सिद्धोऽभवद्वितीयः शुभैकभक्तादिनिर्णयोद्धारः ॥२॥ अयोपवासव्रतादिसाधारणयुग्मतिथिनिर्णयः। निगमे-युग्मा- नियुगभूनानि षण्मुनी वमुरन्ध्रके। रुद्रेण द्वादशी युक्ता शुक्ले युग्मवा- चतुर्दश्या च पूर्णिमा । प्रतिपदाप्यमावास्या तिथ्योर्युग्मं महत्फलम् । एतब्यस्तं महाघोरं हन्ति पुण्यं पुराकृतम् । युग्मं द्वितीया। अग्निस्तृतीया। युगं चतुर्थी । भूतं पञ्चमीषषष्ठी। मुनिः सप्तमी । वमुरष्टमी । रन्ध्र नक्मी। रुद्र एकादशी। गौडमैथिल- ग्रन्थेषु ऋतुभूतानि षण्मुन्योरिति पाठः। द्वितीयायुता तृतीया तृतीयायुता द्वितीया ग्राह्या । एवढ्यस्तमिति न प्रतिपदा युता द्वि- तीया न चतुर्थीयुक्ता तृतीया, महाघोरत्वात् महापापजनकत्वात्, पुराकृतकर्मविनाशकत्वाच्च, एवं चतुर्थ्यादियुग्मेषु योज्यम् । ए- तानि शुक्लपक्षयुग्मानि । चतुर्दशीपूर्णिमायुग्मसाहचर्यात् प्रतिपद मावास्यायुग्मसाहचर्याच्च, एतयोः कृष्णपक्षेऽसम्भवात् । दीक्षि- ३ - स्मृतिसारोद्धारे। तानन्दकरकृते दैत्यनारायणग्रन्थे हेमाद्रिग्रन्थे गौडमैथिलग्रन्थे च, युग्मवाक्यमिदं पक्षद्वयेपि समानम् पौर्णमास्यमावास्ययो- विशेषाऽभिधानाच्छुक्लचतुर्दशीशुक्लमतिपदोविशेषोऽस्तु द्विती- यादिदशमीपर्यन्तयुग्मस्य पक्षद्वयसाधारणत्वे वाधकाभाव इ- त्युक्तम् । तन्न, वक्ष्यमाणस्य कृष्णपक्षीयपृथग्युग्मप्रतिपादकवच- नस्य बाधकत्वादिति । निर्णयामृते सम्पूर्णा दशमी का- र्या परया पूर्वयाथवा । युक्ता न दृषिता यस्मादतः सा सर्वतोमु- खी। तथा-संपूर्णा दशमी कार्या मिश्रिता पूर्वयाथवा । तथा- दशमी च प्रकर्तव्या सदुर्गा द्विजसत्तम । एकादशीव्रताङ्गदशम्ये. कादशीयुता नियमेषु कार्या, तदन्या केवलदशमी नवमीयुतेति तात्पर्यम् । सम्पूर्णा शुक्लदशमी, सदुर्गा नवमीयुक्ता। सुमन्तुः- प्रयोदशी तु कर्त्तव्या द्वादशीसहिता मुने । त्रयोदशी शुक्ला । इदं वचनद्वयं दशमीत्रयोदश्योर्विहितकर्माभिप्रेस प्रवृत्तमिति न व्यस्त- त्वम् ।अथ कृष्णयुग्मानि । तत्र प्रतिपदादिका विषमा तिथिः परयुता ग्राहा, द्वितीयादिसमतिथिः पूर्वयुतेति । यथाहापस्तम्बः। कृष्णयुग्मानि प्रतिपत्सद्वितीया स्यात् द्वितीया प्रतिपाता। चतुर्थीसंयुता या च सा तृतीया फलप्रदा। पञ्चमी च प्रकर्त्तव्या षष्ट्या युक्ता च नारद। कृष्णपक्षेऽष्टमी चैव कृष्णपक्षे चतुर्दशी। पूर्वविद्धा प्रकर्त्तव्या परविद्धान कहिंचित् । दशमीच प्रकर्त्तव्या सदुर्गा द्वि- जसत्तम । षष्टयष्टमी अमावास्या कृष्णपक्षे त्रयोदशी, एताः परयुता पूज्याः पराः पूर्वेण संयुताः । अत्र कृष्णपक्षसम्बन्धस्त्र- योदश्या एव नतुषष्ट्यष्टम्योः, पञ्चमी च प्रकर्त्तव्येत्युक्तवाक्येन कृष्णपक्षेऽष्टमीसन्वगुक्तवाक्येन च तयोः पूर्वयुतयोरेव पूज्य- त्वात् । एकादशी कृष्णपक्षेपि द्वादशीयुतैव ग्राह्या, रुद्रेण द्वाद- शी युक्तति युग्मे बाधकवाक्याभावात् । नचैतानि शुक्लपक्षे युग्मा- तृतीयउद्धारः। रूपम् नीति पूर्वोक्तविरोधः । बहूनि युग्मानि शुक्लपक्षीयाणि नतु सर्वा- णीति राजमार्तण्डनिर्णयामृतयोरभिमायात् । एवं सत्येक- स्मिन् दिने द्वितीयादितिथिद्वयसम्भवे द्वितीयादिविहितं कर्म ति- थिद्वयभागेपि कर्त्तव्यम् । तृतीयादिव्रतसङ्कल्पोऽपि द्वितीयादिभागे कर्त्तव्यः । सङ्कल्पश्च व्रतादौ प्रारम्भरूपः, उक्तंहि-पारम्भो वरणं यज्ञे सङ्कल्पो व्रतसत्रयोः। नान्दीमुखं विवाहादौ श्रद्धे प्रारम्भस्व पाकपरिक्रिया। ननु यो यस्य कालो विहित इतिवचनात् कथमन्यतिथिसङ्कल्पोऽन्यस्यां तिथाविति चेत् सत्यम् । तदानीं ज्योतिश्शास्त्रोक्ततिथ्यभावेऽपि स्मृत्युक्ततिथिसत्वात्, यां तिथि समनुप्राप्येतिवचनात् । नच. ज्योतिश्शास्त्रोक्तः प्रथमः कल्पः क्रियताम् । प्रातःकाले तदभावात् प्रातःकालस्यैव सङ्कल्पाङ्गत्वा- त् । यदाह दक्षः -प्रातःकाले तु संप्राप्ते कुर्यान्नक्तव्रतादिकम् । नापराह्ने न मध्यान्हे पितृकालौ हि तौ स्मृतौ । एवमेकस्मिन् दिने तिथिद्वयोपनिपाते मिथो विरुद्धमेकमक्तनक्तादिव्रतद्वयम्पृथक्का- र्यम्, अविरुद्धस्नानादिसकलं पृथक्कार्य्यम् । यथाह. मरीचिः- तिथिद्वयोदितं यत्तु व्रतन्तत्पृथगाचरेत् । तिथ्योधे तु स्नानादि सकृदाह्निकमाचरेत् । पृथक्कर्तृकभेदेन, कारयेद्धर्मपत्रींच पुत्रंबा विनयान्वितमिति वचनात् । स्नानन्देवार्चनादिनियमरूपव्रतादि तन्त्रेणैव कार्य्यम् । एकेनापि कर्तुं शक्यत्वात् । अविरुद्धत्व- मिति तदैव विरुद्धं तु कर्तृभेदेन कालभेदेन वा कार्यमिति । ननु वर्द्धमानस्य पक्षस्य सोदया पूज्यते तिथिः, यदा पक्षः क्षयं याति तदा स्यादापराह्निकी । तथा-शुक्लपक्षे तिथिह्या यस्यामस्त- मिशद्रविः । अत्र शुक्लकृष्णपदाभ्यां वृद्धिक्षयावेव लक्ष्यते । त- दुक्तम् । शुक्लपक्षे हि चन्द्रस्य वृद्धिर्भवति भास्करात् । कृष्णपक्षे क्षयस्ताभ्यां तिथीनामपि तौ खलु । इसादिवचनैर्वृद्धिक्षयाभ्यां - स्मृतिसारोद्धारे। यतिथिपूज्यत्वमुक्तं तद्व्यर्थम् । युग्मवाक्येनासन्देहादिति चेन्न। विषयभेदात् । यदुक्तन्निगमे-द्वितीयादिषु युग्मानां पूज्यता निय- मादिषु । एकोद्दिष्टादिवृद्ध्यादौ वृद्धिहासादिनोदना । अत्र युग्म- तया पूज्यासु व्रतादिकं क्षयवृद्धिभ्यां पूज्याखेकोद्दिष्टादिकं का- यमितिव्यवस्था। श्रीविश्वंभरविहिते स्मृतिसारोद्धारसंज्ञके ग्रन्थे । तिथिसामान्यविनिर्णयनामोद्धारस्तृतीयोयम् ॥३॥ अथ प्रतिपनिर्णयः तन्नामनिरुक्तिश्च । भविष्योत्तरे-ति- थीनां प्रवरा यस्माद्ब्रह्मणा समुदाहृता । प्रतिपाद्या पदे पूर्वे प्रतिपत्तेन सोच्यते । माधवीये-यत्र वह्निपेया कला प्रथमं पी- यते प्रथमेत्युच्यते, तया युक्तः कालविशेषः प्राथम्यवाचिना प्र- तिपच्छब्देनोच्यते । एवं द्वितीयादीनां पञ्चदश्यन्तानां नामनि- रुक्तिः । शुक्लप्रतिपदऽमावास्यायुतैव ग्राह्या । प्रतिपदात्वमावा- स्येति वचनात् । पञ्चमी सप्तमी चैव दशमीच त्रयोदशी, प्रति- पन्नवमी चैव कर्त्तव्या संमुखी तिथिरितिपैठीनसिवचनातू, प्रति- पसंमुखी कार्या या भवेदापराह्निकीति स्कान्दवचनाच । सं- मुखी सायान्हव्यापिनी । वृद्धवशिष्ठोपि-द्वितीया पञ्चमी वे- धादशमी च त्रयोदशी,चतुर्थी चेत्युपवासे हन्युः पूर्वोत्तरे तिथी। उपवासे सप्तमी तु वेधाद्धन्त्युत्तरां तिथिम् । द्वितीयाद्याः पञ्चति- थयः स्ववेधादुपवासादिकार्ये खस्मात्पूर्वामुत्तरां च तिथिं हन्युः, सप्तमी तु स्ववेधादुत्तरामेव तिथिं हन्तीत्यर्थः । तेन प्रतिपत्तृतीया च द्वितीयाविद्धा निषिद्धा, एवं चतुर्थी षष्ठी च पञ्चमीविद्धा नि- षिद्धेसाह्यम् । नन्वेवं प्रतिपत्सद्वितीया स्यादित्यापस्तम्बवचनवि रोधः, नविरोधः तस्य तिलकाशोककरवीरव्रतविषयत्वात् । ननु चतुर्थ उद्धारः। २१ चतुर्थीवष्ट्योः पञ्चमीवेधनिषेधे युगभूतानीसनेन विरुध्येतान विरु- ध्येत, युग्मवचनस्य गणेशव्यतिरिक्तचतुर्थीविषयत्वाद, पञ्चमीवेध- निषेधस्य गणेशव्रतविषयत्वादित्यविरोधः। ननु चतुर्दशी स्ववेधा- त्रयोदशी पूर्णिमाञ्च हन्तीत्युक्तम् । तदपि चतुर्दश्या च पूर्णिमेति- युग्मवाक्येन षष्ट्यष्टमी अमावास्येत्यापस्तम्बवाक्यन च विरोधि, न विरोधि, आपस्तम्बवचनस्य कृष्णत्रयोदशीविषयत्वात् । नि- षेधस्य वटसावित्रीवतव्यतिरिक्तविपयत्वाचाविरोधः । एवं स- समी स्ववेधादष्टमी हन्तीत्यपि न विरुद्धम् । कृष्णपक्षेऽष्टमी चैव कृष्णपक्षे चतुर्दशीत्यनेन निवेधवाक्यस्य शुक्लाष्टमीविषयत्वादिति । एवं वृद्धवशिष्टवाक्यस्य निगमवाक्यैर्विरोधः परिहृतः । एवमन्या- न्यपि विरुद्धवाक्यानि विषयभेदेन व्याख्येयानि । प्रतापमार्त्त- ण्डे–कृष्णा तु सर्वा प्रतिपदपराह्नगा अन्याचोत्तरा ग्राह्या। प्रति- पत्सद्वितीया स्यादित्यापस्तम्बवचनात् । निपिद्धपूर्वतिथिवेधस्तूप- वासे स्वल्पोपि साज्यः । घटिकामात्रवेधोपि दूषयत्युत्तरां ति- थिमितिवचनात् । अत्र पूर्वेयुः शुक्लपतिपद्युपवासं कृत्वा परेधु- स्तिथ्यन्ते पारणं कुर्यादिति । तिथिनक्षत्रनियमे तिथिभान्ते च पारणम् । अतोऽन्यथा पारणे तु व्रतभङ्गमवाप्नुयादिति सुमन्तुव- चनात् । नन्वेवम्-उपवासेषु सर्वेषु पूर्वाह्ने पारणं भवेत् । अन्यथा तु फलस्यार्द्ध धर्ममेवापसर्पति, इति देवलवचनविरोधः स्या त्, न स्यात् । एतस्य परविद्धोपवासविषयत्वात् । यदुक्तं निग- मे । पूर्वविद्धासु तिथिषु भेषु च श्रवणं विना । उपोष्य विधिव- कुर्यात्तत्तदन्ते च पारणमिति । इति प्रतिपत्मामान्यनिर्णयः । अथ तद्विशेषनिर्णयः । भविष्यपुराणे-चैत्रे मासि महावा- हो पुण्या प्रतिपदा परा, यस्तस्यां श्वपचं स्पृष्ट्वा स्नानं कुर्या- नरोत्तम । न तस्य दुरितं किञ्चिन्नाधयो व्याधयो नृप । भवन्ति स्मृतिसारोद्धारे। कुरुशार्दूल तस्मात्स्नानं समाचरेत् । दिव्यं नीराजनं तद्धि सर्व- रोगविनाशनम् । एतच्च नीराजनं पूर्वविद्धायां कार्यम् । होलि- कानन्तरकर्त्तव्यत्वात् होलिकायाश्च पूर्वविद्धाया एव शस्तत्वात् । अत्र होलिकाविभूतिवन्दनं स्नानानन्तरमाचरेत् । तथाहुः, प्रवृत्ते मधुमासे तु प्रतिपत्सु विभूतये । कृत्वा स्नानादिकार्याणि सन्तl पितृदेवताः । वन्दयेद्धोलिकाभूति सर्वदुःखोपशान्तये । विभू तिवन्दनमन्त्रः-वन्दितासि सुरेन्द्रेण ब्रह्मणा शङ्करेण च । अतस्त्वं पाहिनो देवि विभूते भूतिदा भव । तथाच-गोमहिष्यादिकं कि- चित्तत्सर्व भूषयेन्नृप । चैलवस्त्रादिभिस्सर्वैस्तोरणाधस्ततो नयेत्। अथ कामपूजा । युधिष्ठिरं प्रति कृष्णवचनम् । यत्पिबन्ति वस- न्ताये चूतपुष्पं सचन्दनम् । सत्यं हृत्स्थस्य कामस्य पूजनं क्रियते जनैः। वसन्ताये चैत्र कृष्णप्रतिपदि । पुराणसमुच्चये-वृत्ते तुषा- रसमये सितपञ्चदश्यां प्रातर्वसन्तसमये समुपस्थिते च । सम्माश्य चूतकुसुमं सह चन्दनेन सत्यं हि पार्थ पुरुषः स समं सुखी स्यात् । समं सम्पूर्णवर्षम् । दूतमग्नं वसन्तस्य माकन्द कुसुमन्तव । सच- न्दनं पिबाम्यद्य सर्वकामार्थसिद्धये, प्राशनमन्त्रोऽयम् । ततः प्रात- द्वितीयायांपुनर्मित्रादिसंयुतः।नृपतिर्वितते देशे वितानवरशोभिते। सर्वतश्च समास्तीर्णरत्नकम्बलराजिते। उपविश्यासने रम्ये पौरजा- नपदैः सह । सिन्दूरकुङ्कुमक्षोदपटवासैस्सचन्दनैः। विकीर्य लोकां- स्ताम्बूलैः संमान्य च पृथक्पृथक् । नृसंगीतविनोदैश्च कुर्यात्कामं महोत्सवम् । एवं कुर्वनवाप्नोति यावत्सव्वत्सरं शुभम् ब्रह्मपुराणे। चैत्रे मासि जगब्रह्मा ससर्ज प्रथमेऽहनि । तत्र ब्रह्मपूजनम्, सर्वेषां देवानां वत्सराणां च पूजनम् होमो ब्राह्मणपूजनम् । विशेषेण च भोक्तव्यं कार्यश्चापि महोत्सवः। नवसँव्वत्सरारम्भः सर्वसिद्धिन- दायकः। संवत्सरारम्भवतोऽयम् ।

चतुर्थ उद्धारः। अथ तिलकव्रतम्भविष्योत्तरोक्तम् । नद्यास्तीरे तडागे वा गृहे वा तदलाभतः । पिष्टातकेन विलिखेत्पुरुषं वत्सराकृतिम् । चन्दनेनार्य तिलकं तेन कुर्यात्तु वत्सरम् । भोगाप्तिर्दुःखनाशोऽत्र स्यादन्ते चन्द्रलोकता । अस्यामेव विष्णुधर्मोक्तमारोग्यव्रतम् । सूर्यमभ्यर्च्य विविधैर्नैवेद्यैः सघृतासिनम् । विदध्यावत्सरं याव- च्छुक्लपतिपदि व्रतम् । इदं त्रयोदशे मासि समाप्यारोग्यमश्नुते । अस्यामेव विष्णुधर्मोक्तं विद्याव्रतम् । वेदैः सहाचेंद्रह्माणं शुक्ल- पक्षादिके मधौ । आरभ्य प्रतिमासं तु शुक्लप्रतिपदि व्रतम् । गोदो- Sब्दान्ते समाप्येदं विद्यावान्ब्रह्मलोकगः । अथ ज्येष्टशुक्लप्रतिपदि करवीरव्रतम् । करवीरं पूजयेत्स्त्री दे- वोद्यानभवं नवम् । पञ्चोपचारैः सूर्यश्च ततो भुञ्जीत वाग्यता।भु- क्वेह विविधान्भोगानन्ते मूर्यसलोकिनी । अथ भाद्रशुक्लप्रतिमदि महत्तमाख्यं शिवव्रतम् । स्कन्दपुराणे नन्दिकेश्वरउवाच । देव केन विधानेन व्रतं पुण्यं महत्तमम् । कस्यां तिथौ प्रकर्त्तव्यं त- द्विधानं वदख मे । स्कन्द उवाच। मासि भाद्रपदे शुक्ल पक्षे च प्रतिपत्तिथौ । नैवेद्यञ्च पचेन्मौनात्षोडशत्रिगुणानि च । फलानि मिष्टपकानि दद्याद्विप्राय खेचर । देवाय षोडशैतानि दातव्यानि प्रयत्नतः । भुज्यन्ते षोडश तथा व्रतस्य नियमाश्रयात् । इदं व- तं पूर्वविद्धायां कार्यं रुद्रव्रतत्वात् । रुद्रव्रतेषु सर्वेषु कर्त्तव्या संमुखी तिथिरिति ब्रह्मवैवर्लोक्तेः । एतद्ते शिवसौवर्णप्रति- मा कलशस्थापना कार्या, धेनुदानं व्रतान्ते । फलं राज्यायु:- प्राप्तिरन्ते शिवसायुज्यमिति । अथास्यामेव स्कन्दपुराणोक्तं मौ- नव्रतम् । तच्च षोडशदिनात्मकम् । षोडशग्रन्थिडोरकबन्धनम्, षोडशदूर्वा ग्रन्थौ निवेश्याः । शिवपूजा द्वितीयमतिपदि समाप नम् । मौनेनैव नैवेद्यादिकरणम् । जलाशये पञ्चामृतेन शिवं संपू- २४ स्मृतिसारोद्धारे। ज्य भुञ्जीत। पुत्रपौत्रप्रदं ह्येतत्सर्वकामफलप्रदम् ।स्त्रीपुरुषसाधारण- मिदं व्रतं पूर्वविद्धायामेव कार्यम् रुद्रवतत्वात् । संपूर्णे षोडशे वर्षे कुर्यादुधापनं बुधः। अथाश्विन शुक्ल प्रतिपदि भविष्योत्तरोक्तमशोकव्रतम् । अशो- कक्षपूजा पताकादिभिः ब्राह्मणाय वृक्षप्रतिमादानं ततो भो- जनम् । फलं शोक नाशः सौभाग्यलाभश्च । अन्ते गौरीपदमा- प्तिः । स्त्रीकर्तृकमिदप | अथ कार्तिक शुक्लप्रतिपत् । सा च पू- वयुतैव ग्राह्या, तिथिवृद्धौ परा । तदुक्तं पुराणसमुच्चये.-वर्द्धमान- तिथौ नन्दा यदा सार्द्धत्रियामिका । द्विनीया वृद्धिगामित्वादु- तरा तत्र चोच्यते । तथाचोक्तम-त्रियामगा दर्शातथिर्भवेचे- सार्द्धत्रियामा प्रतिपद्विवद्धौ । दीपोत्सवे ते मुनिभिः प्रदिष्टे अ- तोन्यथा पूर्वयुते विधेये । ननु पूर्वविद्धा प्रकर्त्तव्या शिवरात्रिर्बले- निस्, तथा-या कुहूः प्रतिपन्मिश्रा तत्र गाः पूजयेन्नृप । पूजना- त्रीणि वर्द्धन्ते प्रजा गावो महीपतिः । इति पूर्वयुनाया विधानं परविद्धाया निषेधश्च । यथाहुः, नन्दाया दर्शने रक्षा वलिदाशां- मुचैत्र हि । भदायां गोकुलक्रीडा सदेशो वै विनश्पति । भदायां द्वितीयायाम् । देवलोपि-प्रतिपदर्शमंयोगे क्रीडनं तु गवां म- तम् । परविद्धेषु यः कुर्यात्पुत्रदारधनक्षयः । तथा प्रतिपद्य- निकरणं द्वितीयागां गवार्चनम् | छत्रच्छेदं करिष्येते वित्तनाशं कुलक्षयमित्यादिवाक्यैर्विरोध इति चेत्सत्यम् । यस्यां प्रति- पदि द्वितीयायुक्तायां चन्द्रदर्शनसम्भावना तद्विषयत्वानिषेध चाक्यानां न विरोधः। प्रतिपद्यपगलात्मिकत्रिमुहूर्तव्यापिन्यां द्वितीयायां चन्द्रदर्शनं सम्भाव्यते । तदाहान्वाधानविषये शाता- तपः-द्वितीया त्रिमुहूर्ता चेत् प्रतिपद्यापराह्निकी । अन्वाधान चतुर्दश्यां परतः सोमदर्शनादिति । अपराह्नश्च पञ्चधाविभक्त- चतुर्थ उद्धारः। स्यान्हश्चतुर्थो भागः । अतश्च यत्र प्रतिपदि षण्मुहूर्त्तव्यापिनी द्वितीया तत्र चन्द्रदर्शनमम्भवाद्गोक्रीडा न कार्या । तदुक्तं पु- राणममुच्चये-गवां क्रीडादिने यत्र रात्रौ दृश्येत चन्द्रमाः । सो- मोराजा पशून्हन्ति सुरभीपूजकाँस्तथा। चन्द्रदर्शने तु तिथे दि. गामिताद्वितीयायुक्तैन ग्राह्या । किञ्च माईत्रियामा प्रतिपद्विव- दावित्यत्र प्रतिपदः साईत्रियामच्यापित्वेन द्वितीयावेधोऽप्यसं. भवी, वेधण्य त्रिमुहूर्तात्मिकत्वात् । निषिद्धौ पूर्व विद्धानिषेधाच्च परविद्धाप्राप्तिः । तदुक्तं भविष्ये । यथा द्वादशभिर्मासैर्मासो वृद्धो मलिम्लुचः । तथैवाहोरात्र दा तिथिः प्रोक्ता मलिम्लुचा । य. था मलिम्लुचः पूर्वो मासो दैवस्तथोत्तरः । त्याज्या तिथिस्तथा पूर्वा ग्राह्या चैव तथोचरेति सर्वथा द्वितीयास्पर्शनिषेधाग्रहो न युक्तः, तादृशवाक्याश्रवणात् । अतश्चन्द्रदर्शनासम्भावनायां पू. ह्नेि क्रीडनं गवामिति बोध्यम् । कर्मकालव्यापित्वात् । तिथिवृ- दौ परैव प्रतिपद्गोक्रीडादौ ग्राह्यति सर्वमनवद्यम् । स्कन्दपुरा- णे-प्रातग्र्गोवर्धनः पूज्यो द्यूतं चापि समाचरेत् । भूषणीया. स्तथा गावः पूच्याश्चावाहदोहनाः । अवाहदोहनाः वाहदोहन- रहिता । गोवर्धनपूजामन्त्रः । गोवर्धन धराधार गोकुलत्राणका- रक । बहुबाहुकृतोच्छ्राय गवां कोटिप्रदो भव । गोपूजामन्त्री, लक्ष्मीर्या लोकपालानां धेनुरूपेण संस्थिता । घृतं वहति यज्ञार्थे मम पापव्यपोहतु । अग्रतः सन्तु मे गावो गावो मे सन्तु पृष्ठतः । गावो मे हृदये सन्तु गवां मध्ये वसाम्यहम् । स्कान्दे-ततोऽपराक- समय पूर्वस्यां दिशि भारत । मार्गपाली प्रवनीयागोस्तम्भे बाथ पादपे। कुशकाशमयीं दिव्यां लम्बकैर्वहुभिर्मुने। कृते होमे द्विजेन्द्रस्तु वधीयान्मार्गपालिकाम् । नमस्कारं ततः कुर्यान्मन्त्रेणानेन सुव्रत । मार्गपालि नमस्तेऽस्तु सर्वलोकमुखपदे । मार्गपाली बन्धनम् स्मृतिसारोद्धारे। - विधेयैः पुत्रदाराद्यैः पुनरेहि व्रतस्य मे । नीराजनं च तत्रैव कार्य राष्ट्रजनप्रियम् । मार्गपालीतलेनेथं यान्ति गावो गजा वृषाः ।रा- जानो राजपुत्राश्च ब्राह्मणाः शूद्रजातयः । मार्गपाली समुल्ल- व्य नीरुजः स्युः सुखान्विताः। अथ तस्यामेव वेष्टिकाकषणमपि कार्य्यम् यदुक्तमादित्यपुराणे । कुशकाशमयी कृत्वा वेष्टिकां सु- दृढां नवाम् । तामेकतो राजपुत्रा हीनवर्णास्तथान्यतः । गृहीत्वा- कर्षयेयुस्ते यथासारं मुहुर्मुहुः। जयेऽत्र हीनजातीनां जयो राज्ञस्तु वत्सरम् । वेष्टिका वरत्रा । अथ तस्यामेव बलिपूजोक्ता स्कान्दे- कृत्वा तत्सर्वमेवेह रात्रौ दैयपतेर्बलेः। पूजां कृत्वा नृपः तत्रैवबलिपूजा दूतादिकम् साक्षान्दूमौ मण्डलके शुभे। वलिमालिख्य दैत्येन्द्र वर्णकैः पञ्चरङ्गकैः। सर्वाभरणसम्पूर्ण विन्ध्यावल्या सहासितम् । कुम्भाण्डवाणनंभोरुमयदानवसव्रतम् । सम्पूर्णहृष्टवदनं किरी- टोत्कटसङ्कुलम् । द्विभुजन्दैत्यराजानं कारयित्वा नृपः स्वयम् । गृहमध्ये च शालायां विशालायां ततोऽर्चयेत् । लोकश्चापि गृह- स्याना शव्यायां शुक्लतण्डुलैः । संस्थाप्य बलिराजानं फलैः पु- प्पैश्च पूजयेत् । बलि मुद्दिश्य दीयन्ते दानानि कुरुनन्दन । या- नि तान्यक्षयाण्याहुर्मयैवं सम्प्रदर्शितम् । यदस्यां दीयते दानं स्वल्पं वा यदि वा बहु । तदक्षयम्भवेत्सर्वं विष्णोः प्रीतिकरं प- रम् । देवीपुराणे-कात्तिके शुक्लपक्षे तु प्रथमेऽहनि सत्यवान् । जितश्च शङ्करस्तत्र जयं लेभे च पार्वती । तदर्थं शङ्करो दुःखी गौरी नित्यं मुखोषिता । तस्मादयूतं प्रकर्त्तव्यं प्रभाते तत्र मा- नवैः । तस्मिन्यूते जयो यस्य तस्य सव्वंत्सरं जयः । परा- जयो विरुद्वोऽत्र ल भनाशकरो भवेत् । ब्रह्मपुराणे-का- त्तिके शुकृपक्षेतु विधानं द्वितयं हितम् । नारीनीराजनं प्रा- तः सायं मङ्गलमालिका । अथ चेत्पतिपत्स्वल्पा नारी- चतुर्थ उद्धारः। नीराजनं भवेत् । द्वितीयायां तदा कुर्यात्सायं मङ्गलमालिकाम् । भविष्यपुराणे-लभ्यते यदि वा प्रातः प्रतिपद्घटिकाद्रयम् । तस्यां नीराजनं सायं कुर्यान्मङ्गलमालिकाम् । मङ्गलमालिकां दी- पमालिकाम् । अत्र किञ्चिद्विचार्यते-अनन्दभट्टीये प्रतिपत्स- द्वितीयास्यादिति वचनं तिलकाशोककरवीरव्रतविषयमिति तद्- दुष्यं हेमाद्रिणा । एवं मति कर्मान्तरस्यापि पूर्वाह्न एव विधा- नात्केवलतद्विषयत्वेन प्रतिपत्मद्वितीयेति सङ्कोचायतुं न शक्यते । नच पूर्वाह्नविहितमकलकर्मविषयमेतत्, यस्मिन्काले तु यत्कर्म तत्कालव्यापिनी तिथिरिति सामान्यवचनेनैव तस्य सिद्धत्वात् । किश्चैवं प्रतिपत्संमुखी कार्येति वचनमपि अपराह्नविहितकर्मविषयं प्रसज्जेत, ततश्चास्यापि वैयथ्य स्यात् सामान्यवचनेनैव सिद्धेः। अपि चैवं पूर्वविद्धपरनिद्धग्रहणप्रतिपादकसर्ववाक्यवैयर्थं प्रस- जेत प्रातस्विकपूर्वाह्लादिविधायकवाक्येभ्यः प्रदर्शितसामान्यव- चनाचार्थस्यास्य सिद्धत्वादिनद्वयेपि कर्मकालव्यापितिथ्यभावे पू- विद्धापरविद्धाग्रहणप्रतिपादकवाक्यप्रवृत्तेर्वक्ष्यमाणत्वाचेति । त- यर्थम् पूर्वोत्तरीसा सर्वसामञ्जस्यात् ॥ अथाग्रहणशुक्लप्रतिपदि प्रारभ्य वाराहपुराणोक्तं द्वादशा- सिकं धान्यव्रतम् । रात्रौ विष्णुपूजा वन्दिपूजा कुण्डे च वन्हिमन्त्रै होमः। मार्गादिचतुर्मासं यावकभोजनम् । चैत्रादिषु चतुर्पु पायस- भोजनम् । श्रावणादिषु शक्तुभोजनम् । वत्सरान्ते काञ्चनवन्हिप- तिमादानम्, इह जन्मनि सौभाग्यं धनं धान्यं च पुष्कलम् । पु- स्कर्तृकमिदं । इति प्रतिपद्विशेषनिर्णयः । अथ द्वितीयानिर्णयः । पूर्वाह्निकीकृष्णद्वितीया सदैव पूर्वा ग्राह्या । द्वितीया प्रतिद्युतेत्युक्तेः, प्रतिपत्संमुखी कार्या द्वितीया स्मृतिसारोद्धारे। द्विजसत्तमेत्युक्तेश्च । प्रतिपत्संमुखी तद्विद्धा । अन्या कृष्णद्वितीया सर्वा च शुक्लद्वितीया परविद्धैव ग्राह्या, युग्माग्निवाक्यात् । उप- वासेऽपि शुक्ला द्वितीया परैव शस्ता । कृष्णा तु द्वितीया पूर्वैव, शुक्लपक्षे तिथिह्या इत्युक्तवाक्यात् । एकादश्यष्टमी षष्ठी द्वितीया च चतुर्दशी । त्रयोदशी त्वमावास्या उपोष्याः स्युः परान्विता इति वाक्याच । ननु द्वितीयाप्रतिपद्युतेति वाक्येन प्रतिपद्युक्तद्वितीयाया विधानात् 'तृतीयैकादशी षष्ठी तथाचैवाष्टमी तिथिः, वेधादध- स्ताद्धन्युस्ता उपवासे तिथिस्त्विमा' इति वाक्येन तृतीयायुताया निषेधाच विरोध इति चेन । पूर्वविद्धाविधानस्य परविद्धानिषे- धस्य च यमद्वितीयाऽशून्यशयनव्रतविषयत्वात्, यमद्वितीयायामु- पवासाभावाच । हेमाद्रिस्वरसोऽप्येवम् । तत्संग्रहश्च-अथ कृष्ण- द्वितीयादिमा पूर्वाह्ने यदि सा, सिता तु परतः सर्वेति । पारणा- निर्णयः प्रतिपदत् । इति द्वितीयासामान्यनिर्णयः । अथ तद्विशेषनिर्णयः । भविष्योत्तरे-चैत्रशुक्ल द्वितीयायामुमा पूज्या फलादिभिः। शिवपूजाऽग्निपूजा च कर्त्तव्या मुनि- चैत्र शुक्ल द्वि- सत्तम। देवीपुराणे-उमां शिवं हुताशं च द्वितीयायां प्रपूज- येत् । हविष्यमन्त्र नैवेद्यं देयं गन्धार्चनान्वितं । फलमामोति विपेन्द्र सर्वक्रतुसमुद्भवम् । अस्यामेव विष्णुधर्मोक्तं वालेन्दुव्रतम् । दिनान्ते नदीनानम्, चन्द्रमण्डलपूजनम्, हवनं नक्तभोजनम् । स- बँत्सरं यावत् प्रतिद्वितीयामेवं कृतिः। फलं सौभाग्यं वर्मावाप्तिः। स्त्रीनृकार्यमिदम् । अस्यामेव विष्णुधर्मोक्तं नेत्रव्रतम् । उपवासः, अश्विनोः पूजनम् दक्षिणादानम् । फलं तेजस्वित्ता महाराज्यम् । द्वादशाब्दपर्यन्तं व्रतम् । अथ श्रावणद्वितीयां कृष्णामारभ्य भविष्यपुराणोक्तमशून्यश- यनव्रतम् । सुमन्तुरुवाच । अशून्यशयनीं नाम द्वितीयां शृणुभारत। तीया- चतुर्थ उद्धारः। यामुपोष्य न वैधव्यं स्त्री प्रयाति नराधिप । पनीवियुक्तस्तु नरो न कदाचित्यजायते । उपोष्य देवतामुपास्येत्यर्थः । नतु भोजन- निवृत्तिः। नक्तं भुञ्जीतेत्युत्तरवाक्यविरोधात् । श्रावणोऽत्र पूर्णि- मान्तो ग्राह्यः । वामनपुराणे-एकादश्यां जगत्स्वामीशयनं प- रिकल्पयेत् । त्रयोदश्यां ततः कामः स्वपते शयने शुभे । त्रयो- दश्यां ततो यक्षाः स्वपन्ति सुखशीतले । पौर्णमास्यामुमानाथः खपते धर्मसंस्तरे । ब्रह्मा तथा प्रतिपदि नीलोत्पलमयेऽपि च । विश्वकर्मा द्वितीयायां तृतीयायां गिरेः सुता । आषाढव्यवहितो- त्तरद्वितीया या । तस्यां तिथ्यां स्वपिति विश्वकर्मा प्रजापतिः । द्वितीया सा शुभा पुण्या सुपुण्यशयनोचिता । तस्यां पर्यत स्थलक्ष्मीनारायणपूजनम् । विविधफलाापकल्पनम् । चन्द्रार्घ- दानञ्च, नक्तभोजनम् । प्रातर्ब्राह्मणदम्पतीभ्यां प्रतिमासहितदा- नम् । कचित्तु मासचतुष्टयमेतद्वतम् कार्यमित्युक्तम् । पुत्रपशु- रत्नादिप्राप्तिः विष्णुलोकप्राप्तिश्च फलम् । इदं व्रतं चन्द्रोदय- व्यापिन्यां द्वितीयायां कार्यम् । एकभक्ते दिवानक्ते निशि च- न्द्रोदये व्रते । तिथिस्तात्कालिकी ग्राह्या पारणे त्वपरा तिथिरि- त्युक्तेः । चन्द्रोदयव्रतत्वं चास्य चन्द्राय चा?दातव्य इति व- चनात् । चतुर्थ्यसितपक्षेषु मासेषु श्रावणादिषु । अशून्याख्यं व्रतं कुर्याज्जयया तु फलाधिकम् । दिनद्वयेऽपीन्दयव्यापित्वे वृत्तरैव प्राहा इत्यर्थः। अथ कार्तिक शुक्लद्वितीया यमद्वितीया तत्कृत्यं स्का- न्दे । ऊर्जे शुक्लद्वितीयायामपराह्नेऽर्चयेद्यमम् । स्नानं कृत्वा भानुजायां यमलोकं न पश्यति । तथा ऊर्जे शुक्लद्वितीयायां पूजितस्तर्पितो यमः । महिषासुरमारूढो दण्डमुद्गरधारिभिः । वेष्टितः किङ्करैर्दृष्टैस्तस्मै यच्छति वाञ्छितम् । तथा-काधि- स्मृतिसारोद्धारे। के शुक्लपक्षस्य द्वितीयायां तु नारद । यमो यमुनया पूर्व भोजितः स्वगृहेऽचिंतः । अतो यमद्वितीयेयं त्रिषु लोकेषु विश्रुता । अ- स्यां निजगृहे विप्र न भोक्तव्यं ततो बुधैः । स्नेहेन भगिनीहस्ता- दोक्तव्यं पुष्टिवर्द्धनम् । दानानि चात्र देयानि भगिनीभ्यो विधा- नतः । सर्वा भगिन्यः सम्पूज्या अभावे प्रतिपन्नकाः । प्रतिपन्न- काः भगिनीत्वेन स्वीकृताः । इयञ्च कर्मकालिकी ग्राह्या दिनद- ये तदभावे पूर्वैवेति । पौषशुक्लद्वितीयायां विष्णुधर्मोक्तमारोग्यव्रतम् । गोशृङ्गोद- केन स्नानम् । वालेन्दुपूजनम् । क्षीराद्याहारं, भूमिशयनम् । वत्सरं व्रतकरणम् । आरोग्यसौभाग्याद्याप्तिः फलं । साधारणम् । अथ तृतीया । ब्रह्मवैवर्ते रम्भाख्यां वयित्वा तु तृतीया द्विजसत्तम । अन्येषु सर्वकार्येषु गणयुक्ता प्रशस्य- ते । रम्भान्या सर्वाप्युत्तरैवेत्यर्थः । युग्मवाक्यन्तु रम्भाप- रम् । कामत्रयोदशीरम्भा नोपोष्याः स्युः परान्विता इत्यु- क्तेः । स्कान्दे-कृष्णाष्टमी चतुर्थीच सावित्री वटपैतृकी । शुक्लत्रयोदशी रम्भा नोपोष्याः स्युः परान्विताः । ब्रह्मवैव- ते-तृतीया तु न कर्त्तव्या द्वितीयोपहिता विभो । द्वितीपो- पहितां तान्तु यः करोति नराधमः । सव्वत्सस्कृतेनेह नरो धर्म- रण मुच्यते । पुराणसमुच्चये-द्वितीयाशेषमय्युक्तां तृतीयां कुरु- ते तु या। सा याति नरकं घोरं कालसूत्रभयङ्करम् । तथा-द्विती- याशेषमंयुक्तां या करोति विमोहिता । सा वैधव्यमवाप्नोति प्र. वदन्ति मनीषिणः। तथा-चतुर्थीसहिता या तु सा तृतीया फल- प्रदा। अवैधव्यकरी स्त्रीणां पुत्रपौत्रविवर्द्धिनी। स्कान्दे,कलाका- ठापि या चैव द्वितीया सम्प्रदृश्यते । सा तृतीया न कर्त्तव्या क- ३१ : चतुर्थ उद्धारः। या गगसंयुता । गणश्चतुर्थी । इयं चैकादशीवत्स्वल्पापि द्विनीयदिने ग्राह्या । यदा क्षयस्तदा पूर्वविद्धापि कार्या । तथा- च वृद्धवशिष्ठः । एकादशी तृतीया च षष्ठी चैत्र त्रयोदशी। पूर्व- विद्धापि कर्तव्या यदि न स्यात्परेऽहनि । इति तृतीयासामान्य- निर्णयः। अथ विशेषः । चैत्रशुक्लतृतीयायां गौरीदोलोत्सवः । देवी- पुराणे । तृतीयायां यजद्देवीं शङ्काण ममन्विनाम । कुङ्कुमागुरुक- पूरमणिवस्त्रसुगन्धकैः । स्रग्गन्धधूपदीपैश्च दमनेन विशेषतः । आन्दोलनन्ततो विप्र शिवाया तुष्टय मदा। रात्री जागरणं का- रय प्रातया च दक्षिणा । हेमवस्त्रानपानानि ताम्बूलानि सज- स्तथा । मौवर्णी च उमा कार्यो राजनः शङ्करस्तथा । चतुर्भुजस्तु देवेशो द्विभुजा तु भवेदुमा । इति हिन्दोलकतृतीयाव्रतम् । अ- स्यामेव सौभाग्यशयनवतम् । मात्स्य-वसन्तमासमासाद्य तृती- यायां जनप्रिये । सौभाग्याय सदा स्त्रीभिः कार्य पुत्रमुखेप्मु- भिः । अन्य विधिमत्स्यपुराणाच्च द्रष्टव्यः । विस्तरभयान्नेह श्लो- का लिख्यन्ते । चूर्णिकया किश्चित्किञ्चिदुक्तं वक्ष्यतेच । चैत्रसिततृतीयोमाविराहदिनम् । गौरीशङ्कराचर्चा गोशृङ्गो- दप्राशनप । प्रातर्विप्रदम्पतीभ्यां प्रतिमादानम् । प्राब्दं व्रतम् । सर्वकामावाप्तिः शिवलांकप्राप्तिः फलम् । इयं मन्वन्तरादिरपि । मात्स्ये,-आश्विन शुक्ल नवमी द्वादशी कार्तिके मिता । तृतीया चैत्रमामम्य तथा भाद्रपदस्य च । श्रावगो चाष्टमी कृष्णा पोषे चकादशी नथा। सिताषाढस्य दशमी माघमासस्य मप्तमी। फा- ल्गुण मापमावास्या गष्ठे पश्चदशो तथा। आषाढी कानिकी माघी चैत्री चापि विशेषतः । एता मन्वादयः प्रोक्ता मुनिभिः पूर्वदर्शिभिः । अय चैत्रभादमाघशुक्ऋत्नीयासु भविष्योत्तरोक्त स्मृतिसारोद्धारे। गौरीव्रतम् । चैत्रशुक्लतृतीयायामुपवामनियमं विधाय पहवस्त्रादि- मण्डापकायां पुरत: कुण्डे गौरी यजेत । ततो रात्रौ होमः रात्री जागरणम् । मातदक्षिणादानं भोजनम् । भाद्रमाघचतुर्थ्यामधि- कं विनायकपूजनम् । एतच्च व्रतं सर्वकामप्रदम् । अथ वैशाखशुक्लतृतीयायां भविष्योत्तरोक्तमक्षय्यतृतीयावतम्। श्रीनारायणपूजनम् । घटादिदानम् । एकभक्तम् । दत्तस्याक्ष- व्यता । विष्णुधर्मोत्तरे-वैशाख शुक्लपक्षे तु तृतीयायामुपोषितः । अक्षय्यं फलमामेति सर्वस्य मुकृतस्य च । सा तथा कृत्तिकोपेता रोहिण्या वा युता शुभा । दुर्लभा बुधबारेण सोमेनापि तथा युता । रोहिणीबुधयुक्तापि पूर्वविदा विवर्जिता । देवीपुराणे गौरीपूजोक्ता । तृतीयायां तु वैशाखे रोहिण्यक्षे प्रपूज्य च । उदकुम्भप्रदानेन शिवलोके महीयने । इयं च शुल्का युगादि- स्वाद्विष्णुपूजाहोमदानादिषु पूर्वाह्नव्यापिनी ग्राह्या, शुक्ला पूर्वा- ह्निकी ग्राह्येति वचनात् । भविष्य-वैशाखस्य तृतीयायां श्रीसमे तअगद्गुरुम । नारायण पूजयेथाः पुष्पधूपविलेपनैः । वैशाखे- शुक्लपक्षे तु तृतीयायां नथैव च । गङ्गानोये नरः स्नात्वा मुच्यते सर्वकिल्बिषैः । तस्यां कार्यो योमो यर्विष्णुं समर्चयेत् । यवान्दद्यान्द्वजातिभ्यः प्रयतः प्राशयेद्यवान् । अथ ज्येष्ठशुक्ला रम्भातृतीया भविष्योत्तरोक्ता-पञ्चा. निमध्य उपवेशनम् । गौर्याः पूजनम् । ब्राह्मगाद्वारा होमः ततोऽस्तममये दक्षिणानुममापनम् । सौभाग्यादिमाप्तिः रुद्रलो. काप्तिश्च फलम् । पुष्पमण्डपिका कार्या रम्भास्तम्भोपशोभितेति वचनाद्रम्माख्येयम् । साधारगाव्रतमिदम । श्रावणकृष्णतृती- पायां तुष्टिमाप्तिव विष्णुधर्मोक्तम् । श्रावणोऽत्र पौर्णमास्यन्तः । गोविन्दपूजा तुष्टिमाप्तः फलम् ॥

चतुर्थ उद्धारः। ३३ अथ भाद्रशुक्लतृतीयायां कोटीश्वरव्रतं स्कान्दोक्तम् । उपवासः, आब्दचतुष्टयं व्रतकरणम् । अखण्डतण्डुलैर्लक्षसङ्ख्याकैर्दुग्धमि- धैर्देवीपूजा । उत्कृष्टपतिप्राप्तिः सौभाग्याप्तिश्च फलम् । अ- स्यामेव हरितालिकावतम् । हरितशाद्वलस्थितहरकालीपूज- नम् । काञ्चनीं गौरी कृत्वा संपूज्य गुडापूपं नैवेद्यन्दद्यात् । सर्वपापहरणं फलम् । अथ वैशाखभाद्रमार्गशुक्लनृतीयासु मत्स्यपुराणोक्तमनन्त- तृतीयाव्रतम् । पञ्चगव्येन ललितायाः प्रतिमापूजनम् । आब्द व्रतम्, अन्ते मुवर्णकलशोपेतशय्यादानम् । मिथुनपूजनम् । फ- लञ्च पुत्रादिप्राप्तिः गौरीसलोकता । साधारणमिदम् । मार्गेऽपि भविष्योत्तरोक्तं रम्भातृतीयाव्रतम् । भातरुप- वाससङ्कल्पः प्रतिमासमाब्दं व्रतकरणम् । रात्री पार्वतीपूजा कुशोदकपाशनम् । प्रातर्ब्राह्मणभोजनम् । सहिरण्यलवणदान- म् । ततः पारणम् । फलमिह सौभाग्यमसापत्न्यम्, अन्ते शिव- सलोकता । अस्यामेव भविष्यपुराणोक्तमुमामहेश्वरव्रतम् । उप- वासो ललितापूजा रात्रौ जागरणम् । प्रभाते पूजा प्रार्थनं प- ञ्चगव्यं हविष्यञ्च भोजनम् । आब्दंव्रतम्, उद्यापनम्, पुत्रपौत्रा- द्याप्तिः शिवसलोकता । अस्यामेव कालिकापुराणोक्तमवियोग- व्रतम् । पूर्वदिने चन्द्रदर्शनानन्तरं नक्तं भोजनम् भूशयनम् । तृ- तीयायां प्रातःस्नानादि शालिपिष्टमयनृस्त्रीप्रतिमाद्वयकरणम्, शि- वोमाधिया पूजनम् । उपवासः प्रातर्दानं पारणञ्च, आब्दं व्र- तम्, अब्दान्ते चोद्यापनम् अवियोगाप्तिः फलम् । अथ माघशुक्लतृतीयायां मात्स्योक्तं रसकल्याणीव्रतम् । इक्षुर- सादिना देव्यभिषेकः, स्वर्णाजकुम्भादिदानम्, उपवासः। आब्द- व्रतम्, पापक्षयाउनेकफलम् गौरीसलोकताच । अस्यामेव भविष्यो- स्मृतिसारोद्धारे। त्तरोक्तं गुडलवणदानम्, तदुक्तम्-माघशुक्लतृतीयायां गुडस्य ल- वणस्य च । दानं श्रेयस्करं राजन् स्त्रीणाञ्च पुरुषस्य च । गुडेन तुष्यते गौरी लवणेन महेश्वरः । अथ फाल्गुनशुक्लतृतीयायां वाराहपुराणोक्तं सौभाग्यत- तीयाव्रतम् । उपवासः सश्रीकहरिप्रतिमा पूज्या । मध्वा- दिपूरितबहुपात्रदानम् । फलं सौभाग्याप्तिः । अथ पद्मपु. राणान्तर्गतनागरखण्डे पञ्चपिण्डिकागौरीव्रतम् । 'पञ्चपिण्डात्मिकां गौरी कृत्वा कर्दमसम्भवाम् । एभिः संपूजयेत्पञ्चभूतमन्त्रैः पृथक् पृथक् । लक्ष्मीरुवाच-नमः पृथिव्यै क्षान्त्यै ते नम आपोमये शुभे। तेजखिनि नमस्तुभ्यं नमस्ते वायुरूपिणि । आकाशरूपसम्पन्ने प- वरूपे नमोस्तुते । फलं सौभाग्याप्तिः । अथ चतुर्थी । प्रतापमार्तण्डे-गणेशगौरीबहुलाव्यतिरिक्ताः प्रकीर्तिताः । चतुर्थ्यः पञ्चमीयुक्ता देवतान्तरयोगतः । गौरी- चतुर्थी कुन्दचतुर्थी । युग्मवचनमपि त्रयान्यपरम् । ब्रह्मवैवर्ने । चतुर्थीसंयुता या तु सा तृतीया फलप्रदा। चतुर्थी च तृतीयायां महापुण्यफलपदा । कर्त्तव्या व्रतिभिर्वत्स गणनाथमुतोषिणी । गणनाथपदं गौरीबहुलयोरप्युपलक्षकम् । उपवासेऽपि गणेशच- तुर्थी पूर्वा ग्राह्या अन्या सर्वाप्युत्तरैव । यदाह गर्गः-एकाद- शी च षष्ठी च अमावास्या चतुर्थिका। उपोष्याः परसंयुक्ताः पराः पूर्वेण संयुताः । पुराणसमुच्चये-गौ-श्चतुर्थी वटधेनुपूजा दु- र्गार्चनं दुर्भरहोलिके च । वत्सस्य पूजा शिवरात्रिरेताः परा वि- निघ्नन्ति नृपं सराज्यम् । धेनुपूजा बहुलायां दीपोत्सवप्रतिप. दि च विहिता ग्राह्या । वत्सस्य पूजेति वत्सद्वादशीविहिता, धेनु- पूजायाः पृथगुपादानात् । इति चतुर्थीसामान्यनिर्णयः। अथ तद्विशेषनिर्णयः । चैत्रशुक्लचतुर्थ्यान्तु गणेशपूजा । दे- चतुर्थ उद्धारः। वीपुराणे-गणेशः कारयेत्पूजा लड्डुकादिभिरादरात् । चैत्रशु- क्लचतुर्थ्यान्तु सर्वकामसमृद्धये । गणानामीट् गणेट् तस्य गणेशः। ज्येष्ठशुक्लचतुर्थी स्त्रीभिरुमा पूज्या । तदुक्तं ब्रह्मपुराणे-ज्येष्ठ- शुक्लचतुर्थ्यान्तु जाता पूर्वमुमा सती । तस्मात्सा तत्र संपूज्या स्त्रीभिः सौभाग्यवृद्धये । उपहारैश्च विविधैर्नृत्यगीतोत्सवादिभिः । होमैः पयोभिर्वस्त्रैश्च पत्रपुष्पैः मुगन्धिभिः । श्रावणकृष्णचतुथ्या स्कन्दपुराणोक्तं सङ्कटचतुर्थीव्रतम् । 'श्रावणे बहुले पक्षे चतुर्थ्याञ्च विधूदये । गणेशं पू- जयित्वा च चन्द्रायार्घः प्रदीयते' । चन्द्रानन्तरं पञ्च मोदका विप्राय देयाः पञ्च स्वभक्ष्याः । एतच्च प्रति- मासं यावज्जीवमेकविंशतिवर्षाणि एकवर्षे वा कार्यम् । उद्यापनहोमप्रतिमादानैः सर्वकामफलप्रदम् । श्रावणस्य शुक्लच- तुर्थी कार्तिकस्य वा सौरपुराणोक्तं दूर्वागणपतिव्रतम् । मु- वर्णदुर्वोपरि सौवर्णगणेशपूजा । आचार्याय निवेदनम्। पञ्चव- र्षानन्तरमुद्यापनम् । फलश्च पूर्ववत् । स्कान्दे तु रविवारयुक्तायां कस्यांचिच्चतुर्थ्यामेतद्वतं युक्तम् । अथ भाद्रशुक्लचतुर्थी शिवाख्या । तस्यां गणेशपूज- नम् । स्नानादिकं शतगुणं भवति । तदुक्तं भविष्यो- त्तरे-'शिवा शान्ता सुखा राजन् चतुर्थी त्रिविधा स्मृ- ता । मासि भाद्रपदे शुक्ला शिवा लोके प्रपूजिता । तस्यां स्नानं तथा दानमुपवासो जपस्तथा । क्रियमाणं शत- गुणं प्रसादादन्तिनो नृप । अथास्यामेव सिद्धिविनायकवतम् । स्कन्दे-प्रातः शुक्लतिलैः स्नात्वा मध्यान्हे पूजयेन्नृप । स्व- शत्या गणनाथस्य स्वर्णरूप्यमयाकृतिम् । अथवा मृण्मयी कु- द्वित्तशाठ्यं न कारयेत् । तथैकविंशति गृह मोदकान् घृतपाचि- स्मृतिसारोद्धारे। चन्द्रदर्शन- निषेधः। तान् । स्थापयित्वा गणाध्यक्षसमीपे कुरुनन्दन । दश विप्राय दातव्याः स्वयञ्चाद्यात्तथा दश । एकं गणाधिपे दद्यात्सनैवेद्यं नृ- पोत्तम । विप्राय भोजनं दद्याद्भुञ्जीयात्तैलवर्जितम् । अस्यां चन्द्र- दर्शनं निषिद्धम् ॥ मार्कण्डेये-सिंहादित्ये शुक्लपक्षे चतुर्थ्याञ्चन्द्रदर्शनम् । मिथ्याभिषणं कुर्यात्तस्मा- त्पश्येन्न तं तदा । पराशरः-दोषस्य शान्तये सिंहः प्रसेनमिति संपठेत् ॥ ब्रह्मपुराणे-वासुदेवोभिशप्तस्तु नि- शाकरमरीचिषु । स्थितश्चतुर्थ्यामाद्यायाम्मनुष्याणां पतिश्च सः । ततश्चतुर्थी चन्द्रन्तु प्रयत्नाद्वीक्ष्य मानवः । पठेत्पौ- राणिकं मन्त्रं प्राङ्मुखो वाप्युदङ्मुखः । प्रयत्नात्पठेदित्य- न्वयः,आद्यायां शुक्लचतुर्थ्याम् ॥ मन्त्री विष्णुपुराणे-सिंहः प्र- सेनमवधीव सिंहो जाम्बवता हतः। सुकुमारक मारोदीस्तव ह्येष: स्यमन्तकः । निर्णयामृते-भाद्रकृष्णनवम्यां प्रबोधिताया देव्या- आश्वयुक्शुक्लचतुर्थ्यामभ्यङ्गादिसंस्कारैः केशान्विशोधयेत् ॥ तदु- तं देवीपुराणे-भाद्रस्य कृष्णपक्षेतु पूजयित्वार्द्रभेपि वा । नव- म्यां बोधयेद्देवी गीतवादित्रनिःस्वनैः । शुक्लपक्षचतुर्थ्यां तु देवी- केशविशोधनम् । प्रातरेव तु पञ्चम्यां स्नापयत्सलिलैः शुभैः। सप्त- म्यां पत्रिकापूजामष्टम्यामप्युपोषणम् । नवम्यां पूजयित्वा तु व. लिदानं समाचरेत् । दशम्यां रथमारोप्य गीतवादित्रनिःखनैः । नगरं भ्रामयेद्देवीं प्रणिपत्य विसर्जनम् । अत्राश्विनसितचतुर्थी केशविशोधनप्रसङ्गादशदिनकृत्यमुक्तम् । मार्गशुक्लचतुर्थ्यां स्कन्दोक्तं वरचतुर्थीव्रतम् । तामारभ्य प्र. तिमासं चतुर्थी गणेशपूजा । अक्षारलवणमेकभक्तम् द्वितीयेऽब्दे नक्तम् तृतीयेत्वयाचितः चतुर्थे तूपोषणम्।अथोद्यापनम्, फलं वि- द्यादीप्सितमाप्तिः। अस्यामेव स्कन्दोक्तं कृच्छ्रचतुर्थीव्रतम् पूर्ववत् ।

चतुर्थ उद्धारः। mum- माघशुक्लचतुर्थी कुन्दैः शिवपूजा । तदुक्तं कौर्मे- माघे शुक्लचतुर्थ्यान्तु कुन्दपुष्पैः सदाशिवम् । सम्पूज्य यो हि नक्ताशी समामोति श्रियन्नरः, इयं वरदाख्या । इयमेव कुन्दचतुर्थी । अथ ब्रह्मपुराणोक्तमुमावतम् । कु- न्दपुष्पैः कुङ्कुमालक्तकसिन्दूरैः पञ्चोपचारैः गौरीपूजा । गु- डाकपयोलवणानि नैवेद्यानि, स्त्रियः पूज्याः विमाश्च भोज- यितव्याः पश्चात्स्वयं भुञ्जीत बन्धुभिः सह । फलं सौभाग्यादि- वृद्धिः । साधारणम् । देवीपुराणे त्वियं कुन्दचतुर्युक्ता-'माघ- मासे तु संप्राप्ते चतुर्थी कुन्दसंज्ञिता । उपोष्या सा मुरश्रेष्ठ ततो राज्यं भविष्यति' । इयमेव भविष्योत्तरे शान्तिचतुर्युक्ता,गणेश- पूजा उपवासः । शान्तिःफलम् । अथ फाल्गुनादिमासचतुष्टयसाध्यगणेशचतुर्थीव्रतं वराहपु- राणोक्तम् । गणेशपूजा तिलहोमः नक्तम् । तिलानं पारणं तिलदानम् । प्रतिशुक्लचतुर्थि चतुर्मासमेवं कृत्वा पञ्चमे हैमं गणेशमासनैः पञ्चगात्रैरुपेतं विप्राय दद्यात् । फलं सर्ववि- घ्ननाशः । भविष्यपुराणे-चतुर्थ्याञ्च यदा राजन्नारवारो व्रता- न्वितः । दद्यात्तिलानं विप्राय स्वयं भुंज्यात्तिलोदनम् । आर- वारः कुजः । वर्षद्वयसमाप्या तिलचतुर्थीयम् । गणेशतुष्टिरिष्टमा- प्तिश्च फलम् । मात्स्ये-चतुर्थ्यान्नक्तभुम्दद्यादब्दान्ते हेमवारणम् । व्रतं वैनायकं नाम शिवलोकफलप्रदम् । इदं द्वादशस्खपि मासेषु विशेषानभिधानात् । एवं गणेशगौरीबहुलाव्रतानि तृतीयायुक्त- चतुर्थ्यामेव कार्याणीति सिद्धम् । अन्यानि नागचतुर्थ्यादीनि पञ्चमीयुक्तायामिति ध्येयम् । तदुक्तं पुराणसमुच्चये-युगं मध्यं- दिने यत्र तत्र चोपोष्य पन्नगान् । क्षीरेणाप्याय्य पञ्चम्यां पार- येत्मयतोनरः । विषाणि तस्य नश्यन्ति नतं हिंसन्ति पन्नगाः ।

स्मृतिसारोद्धारे। युगं चतुर्थी । कौर्मेपि-तिथौ युगान्वितायाञ्च समुपोष्य यथा- विधि । शङ्खपालादिनागानां शेषस्य च महात्मनः । पूजा कार्या पुष्पगन्धक्षीराप्यायनपूर्वकम् । कार्तिक शुक्लचतुझं नागव्रतमिति कालादर्शः । क्षयंगतासु सखिपि चतुर्थीषु गणेशः पूज्यः । च. सुर्खाङ्गणनाथस्येत्युक्तेरिति । अथ पञ्चमीनिर्णयः । साचोपवासादिषु पूर्वविद्धा ग्राह्या यु. गभूतानीत्युक्तेः । जावालिरपि-प्रतिपत्पञ्चमीचैव उपोष्ये पूर्वसय्यु- ते । पैठीनसिः-प्रतिपत्पञ्चमी चैव दशमी च त्रयोदशी । सप्तमी नवमी चैव कर्तव्या सम्मुखी तिथिः ॥ ब्रह्मवैवर्ते, प्रतिपत्पञ्चमी भूता सावित्री वटपूर्विका । नवमी दशमीचैव नोपोष्याः परसं- युताः। यत्तु ब्रह्मवैवर्त्तवचनम्, पञ्चमीच प्रकर्त्तव्या षष्ट्या युक्ता च नारद । नहि षष्ठी नागविद्धा कर्त्तव्यातु कदाचनेति, तत्स्कन्दो- पवासविषयं नागपूजाविषयं वा, स्कन्दोपवासे स्वीका- पञ्चमी परसंयुता । त्रिमुहूर्तातु षष्ठ्याः स्यात्परा पूर्वयुतान्यथा'इति तत्रैवो- क्तत्वात् । नागव्रते तु पञ्चमी परविद्धा ग्राह्या, श्रावणे पञ्चमी शुक्ला संप्रोक्ता नागपञ्चमी । तां परित्यज्य पञ्चम्यश्चतुर्थीसहिता मता' इति वचनात् । ननु 'कृष्णाष्टमी स्कन्दषष्ठी शिवरात्रिश्चतुर्दशी । एताः पूर्वयुताः कार्यास्तिथ्यन्ते पारणं भवेत् ॥ वाराहे-आषाढे शुक्लषष्ठी तु तिथिः कौमारिकी स्मृता । कुमारमर्चयेत्तत्र पूर्वत्रोपोष्य वै दिने । आभ्याविरोध इति चेन्न, देशभेदव्यवस्थया निर्णयामृते विरोधस्य परिहृतत्वात् ॥ तदुक्तम्-केषुचिद्देशेषु पञ्चम्यामुपोष्य षष्ट्यां स्कन्दं पूजयन्ति ॥ हेमाद्रिस्तु-पञ्चमी तु प्रकर्त्तव्या षष्ट्या युक्तेत्यादिवचनं शुक्लपक्षविषयम् । शुक्लपक्षे तिथिह्या यस्या- मभ्युदितो रविरितिवचनात् । षट्त्रिंशन्मते-गणेशस्कन्दयोगाभ्यां चतुर्थ उद्धारः। क्रमानागः शुभाशुभः। शिवामित्रौ तयोः पत्रे नागानामाखुबहिणौ। गणेशश्चतुर्थी, स्कन्दः षष्ठी, नागः पञ्चमी, तयोर्गणेशस्कन्दयोः । पत्रे वाहने, मित्रामित्रौ तयोः पत्रे इति युत्यापि चतुर्थीयुता प- ञ्चमी ग्राह्येति सिद्धम् ॥ इति पञ्चमी सामान्यनिर्णयः ॥ अथ तद्विशेषनिर्णयः।ब्राह्मे-शुक्लायामथ पञ्चम्यां चैत्रे मासि शुभानना । ब्रह्मलोकान्मानुषं हि संमाप्ता केशवाज्ञया । तस्मात्तां पू- जयेत्तत्र यस्तं लक्ष्मीन मुञ्चति । एषा श्रीपञ्चमी कार्या विष्णुलोक- गतिपदा । भविष्ये-पञ्चमी दयिता राजन्नागानन्दविवर्द्धिनी। त- स्यामभ्यर्चयन्तीह नागान् क्षीरेण ये नराः। तेषां कुले नागपञ्चमी। प्रयच्छन्ति अभयं ते सुपूजिताः। इदं वाक्यं चैत्रमुप- क्रम्य देवीपुराणे । पञ्चम्यां पूजयेन्नागाननन्ताद्या- न्महोरगान् । क्षीरं सर्पिस्तु नैवेद्यं देयं सर्पमुखावहम् । मत्स्य पुराणे,-नागास्तत्र तु कर्त्तव्याः खड़खेटकधारिणः । अधः सर्पाकृतिस्तेषां नाभेरूद्धन्तु पौरुषी । फणा च मूर्द्धि कर्त्तव्या द्विजिह्वा बहवोऽसमाः । असमा विषमा । श्रावणसितपञ्चम्यपि नागपञ्चमी । तदुक्तं भविष्योत्तरे-श्रावणे मासि पञ्चम्यां शुक्ल. पक्षे नराधिप । द्वारस्योभयतो लेख्या गोमयेन विषोल्वणाः। पू- ज्याश्च विधिवद्वीर दधिर्वाङ्कुरैः कुशैः । गन्धपुष्पोपहारैश्च ब्राह्म- णानां च तर्पणैः । ये तस्यां पूजयन्तीह नागान्भक्तिपुरःसराः । न तेषां सर्पतो वीर भयं भवति कुत्रचित् ॥ अथ भाद्रशुक्लपञ्चम्यामृपिपञ्चमीव्रतम् ॥ तत्र वेद्यां स- सर्षिपूजा, अकृष्टभूमिजशाकाहारमात्रम् , सर्वपापक्षयः सर्वका- मलाभः फलम् । अस्यामेव ब्रह्मपुराणोक्तं सर्पदष्टोद्धारव्रतम् । दष्टस्य दुर्गनिपरिहाराय पुत्रादिभिः कार्यमेतत्, सौवर्ण राजतं वा नागं पूजयेत् । विप्रपूजा गोदानम् , नक्तकरणम्, प्रतिमादानम्, स्मृतिसारोद्धारे। फलं दष्टोद्धारः । व्रतक विष्णुसलोकता ॥ अथाश्विनसितपञ्चम्यां भविष्योत्तरोक्तं शचीसहितनागपूजा- व्रतम् ॥ कुशमयं शचीसहितं नागं घृतक्षीरजलैः संस्नाप्य क्षी- रसिक्तं गोधूमान्नं नैवेद्यं दद्यात्, शेषादिनागपीतिः फलम् ॥ अथ कार्तिकशुक्लपञ्चम्यां भविष्योत्तरोक्तं जयाव्रतम्।जया- सहितहरिपूजा । वेणुपात्रादिकं दत्त्वा रक्षाबन्धनमाचरेत् । अक्षताः सर्षपा दूर्वा रक्षामध्ये च रोचना ॥ ॐ येन बद्धो बली राजा दा. नवेन्द्रो महाबलः । तेन त्वां प्रतिबध्नामि रक्षे माचल माचलेति र- क्षामन्त्रः । ग्रहपीडादिशान्तिः युद्धादिविजयः फलम् । अस्यामेव वराहपुराणोक्तं शान्तिव्रतम् । आब्दमरहितं भोजनम्, रात्रौ शे- षस्थहरिपूजनम् , होमः, अब्दान्ते उद्यापनम्।नागभयनिवृतिः फलम् । अथ मार्गसितपञ्चम्यां भविष्योत्तरोक्तं श्रीपञ्चमीव्रतम् । उपवासः स्वर्णलक्ष्मीपूजा सुवासिनीपूजा । ब्राह्मणाय प्रतिमादान- म् ,पारणम् वर्षान्ते समापनम् । फलमेकविंशयन्वयान्तं गृहे श्री- स्थिरता । पुराणसमुच्चये-माघमासे सुरश्रेष्ठ शुक्लायां पञ्च- मीतिथौ । रतिकामौ तु सम्पूज्य कर्त्तव्यः सुमहोत्सवः । दानानि च प्रदेयानि तेन तुष्यति केशवः । इयमपि श्रीपञ्चमीति प्र- सिद्धा, वसन्तपञ्चमीत्येके । अथ षष्ठीनिर्णयः । सा च सर्वा परविद्धा ग्राह्या युग्मवा- क्यात् । स्कान्दे-नागविद्धा न कर्त्तव्या षष्ठी चैव कदाचन । स- समीसंयुता काया षष्ठी धर्मार्थचिन्तकैः । उपवासे स्कन्दषष्ठी- भिन्ना सर्वाप्युत्तरैव । एकादश्यष्टमी षष्ठी द्वितीया च चतुर्दशी । अमावास्या तृतीया च ता उपोष्याः परान्विता,इतिभृगुवचनात् । नागविद्धा तु या षष्ठी शिवविद्धा तु सप्तमी । दशम्येकादशीविद्धा ४१ चतुर्थ उद्धारः। नोपोष्या स्यात्कथंचनेति निषेधाच्च । शिवोऽष्टमी । स्कन्दषष्ठी तु पूर्वैवोपोष्या 'कृष्णाष्टमी स्कन्दषष्ठी'इति वाक्यात् । अथ षष्ठीब्रतानि । तत्र चैत्रशुक्लषष्ठ्यामारभ्यमाब्दं का- लोत्तरोक्तं कुमारव्रतम् । उपवासः मृन्मयषण्मुखप्रतिमापूजनम् । ब्राह्मयादिरसमाशनम् । मासि मासि कर्त्तव्यः, अब्दान्ते स- माप्तिः महाकविर्मेधावी भवति । आषाढशुक्लषष्ठी स्कन्दषष्ठी । तत्र पञ्चम्यामुपोष्य षष्ठ्यां स्कन्दं पूजयेत् । आषाढे शुक्ल- षष्ठी तु तिथिः कौमारिकी स्मृतेत्युक्तवाराहपुराणवचनात् । भाद्रशुक्लषष्ठ्यां स्कन्दोक्तचम्पापष्ठीव्रतम् । षष्ठीभाद्रपदे शुक्ला वैधृत्या च समन्विता । विशाखाभौमयोगेन सा चम्पेतीह विश्रुता'। पञ्चम्यामेकभक्तम् , पातव्रतसङ्कल्पः, ततो नद्यादौ मृदा शुक्ल- तिलैश्च स्नानम् । ततो मौनेन गृहमेत्य स्थण्डिले कलशस्थापनम् । तत्रस्थितताम्रादिपात्रोपरि सौवर्णमूर्यपूजनम् । अरुणस्य शुक्ल- गोश्च पूजनम् तिलहोमः । द्वादशविप्रानाशयेत् । दक्षिणा । ग- वांकोटिसहस्राणि कुरुक्षेत्रेऽर्कपर्वणि । चम्पादानस्य राजेन्द्र कलां नाईन्ति षोडशीमितिफलम् । भविष्योत्तरे-येयं भाद्रपदे मासि षष्ठी स्याद्भरतर्षभ । सेयं पापहरा पुण्या शिवा शान्ता शुभा नृप। येऽस्यां पश्यन्ति गाङ्गेयं दक्षिणापथमाश्रितम् । ब्रह्महत्यादिपा- पैस्ते मुच्यन्ते नात्र संशयः। गाङ्गेयःकार्तिकेयः। इयमेव सूर्यषष्ठी। तदुक्तं तत्रैव, शुक्ले भाद्रपदे षष्ठ्यां स्नानं भास्करपूजनम् । माशनं पञ्चगव्यस्य अश्वमेधफलप्रदम् । अथ भाद्रकृष्णषष्ठ्यां कपिलाषष्ठीत्रतम् । तदुक्तं वा- राहे । नभस्यकृष्णपक्षे या रोहिणीपातभूसुतैः । युक्ता षष्ठी पुराणज्ञैः कपिला परिकीर्तिता । तत्र भास्करं पूजयेत् व्रती कपिलां दद्यात् अश्वमेधफलम्,पातो व्यतीपातः,भूमुतो ६ स्मृतिसारोद्धारे। भौमः । पुराणसमुच्चये विशेषः,-भाद्रे मास्यसिते पक्षे भानौ चैव करे स्थिते । पाते कुजे च रोहिण्यां सा षष्ठी कपिला भवेत् । सू. यस्य हस्तस्थितत्वं सति सम्भवे। इयञ्च पूर्वा परा वा यैव भान्वा- दिचतुष्टयवती सैव ग्राह्या 'संयोगे सा चतुर्णां वै निर्दिष्टा परमेष्ठि- नेति वचनात् । इयमेव षष्ठी चन्द्रषष्ठी। चन्द्रोदयव्यापिनी ग्राह्या। उभयत्र तत्वे पूर्वैव, तदुक्तम्, तद्वत् भाद्रपदे मासि षष्ठी पक्षे सि- तेतरे । चन्द्रषष्ठीव्रतं कुर्यात्पूर्ववेधः प्रशस्यते । चन्द्रोदये यदा षष्ठी पूर्वाह्ने वा परेऽहनि । चन्द्रषष्ठयसिते पक्षे सैवोपोष्या प्रयत्नतः । आश्विने षष्ठयां ज्येष्ठायुतायां केवलायां वा बिल्वनिमन्त्रणम् , मन्त्रः-रावणस्य वधार्थाय रामस्यानुग्रहाय च।अकाले ब्रह्मणा बोधो देव्यास्त्वयि कृतः पुरा।श्रीशैलशिखरे जात श्रीफल श्रीनिकेतन।ने- तव्योसि मयागच्छ पूज्यो दुर्गास्वरूपतः। कार्तिक शुक्लषष्ठ्यां व- ह्निमहोत्सवं कुर्यात् । तदुक्तं मात्स्ये—वृश्चिकाके शुक्लषष्ठी भौ- मवारे ऽप्युपस्थिते,महाषष्ठीति सा प्रोक्ता सर्वपापहरा तिथिः। तस्यां स्वपिति वै वन्हिः पूर्वत्रोपोष्य वै दिने । षष्ठ्यां वह्नि समभ्यर्च्य कुर्याद्वन्हिमहोत्सवम् । वृश्चिका: कार्तिक इतिकालादर्शः । अथ मार्गसितषष्ठी स्कन्दप्रिया, यस्यां स्कन्दस्तारकं जघान, तस्यां स्नानदानादिकमक्षय्यं भविष्योत्तरात् । अस्यामेव दक्षिणापथगं गाङ्गेयं पश्येदिति रामकृष्णः । श्रीकामः सर्वासु षष्ठीषूपवसेत् । यदुक्तं भविष्ये-षष्ठ्यां हि श्रीसमायुक्तो यस्मात्स्कन्दोऽभवत्पुरा । तस्मात्षष्ठ्यां न भुञ्जीत प्राप्नुयाद्भार्गवीं सदा । भार्गवी लक्ष्मी । 'यस्तु षष्ठ्यां नरो नक्तं कुर्याद्भरतसत्तम । सर्वपापविनिर्मुक्तो गा- ड्रेयस्य सदो बजेदिति। षष्ट्यामुपवासः। दारिद्यहरषष्ठीव्रतम् । स्कन्दपूजा ब्राह्मणभोजनादि । अथ विष्णुधर्मोक्तं पुत्रमाप्तिव्रतम् । कुमारश्च तथा स्कन्दो विशाखश्च गुहस्तथा। क्रतुरात्मा विनिर्दिष्टो चतुर्थ उद्धारः। भगवान् क्रौञ्चमूदनः । तमभ्यर्च्य नरः षष्ट्यां पुत्रानामोत्यभी- प्सितान् । बालकानां गृहे श्रेयो नरः प्रामोत्यसंशयम् । अथ सप्तमीनिर्णयः । मप्तमी च मर्वा पूर्वविद्वैव ग्राह्या युग्मवा- क्यात्। 'षष्ठ्या युता सप्तमी च कर्त्तव्या तात मर्वदा। षष्ठी च सप्तमी यत्र तत्र संनिहितो रविरिति स्कान्दात् । 'सप्तमी नाष्टमी युक्ता न सप्तम्या युताष्टमी। सर्वेषु व्रतकल्पेषु अष्टमी परतःशुभा इति ब्रह्मवैव- तनिषेधाच । 'षष्ठ्येकादश्यमावास्या पूर्वविद्धा तथाष्टमी।सप्तमी पर- विद्धा च नोपोष्यमितिपञ्चकम् इतिस्कन्दनिषेधाच भविष्ये-पष्टी- समेता कर्त्तव्या मप्तमी नाष्टमीयुता । पतङ्गोपामनायेह षष्ट्यामा- हुरुपोषणमितिविधेः षष्ठीयुता ग्राह्या । पतङ्गः मूर्यः । शिवविद्धो दिवाकर इतिनिषेधाच अष्टमीयुता त्याज्येत्यलं प्रपञ्चेन । गौ- डास्तु आश्विनशुक्लसप्तमी देवीप्रवेशादौ द्वितीयैव ग्राह्या, तथाच भविष्योत्तरे-युगाद्यां वर्षवृद्धिश्च सप्तमी पार्वतीप्रिया । वेरुदय- मीक्षन्ते न तासु तिथियुग्मतेति । वर्षवृद्धिर्जन्मदिनमिति वदन्ति, एतस्य वाक्यस्य निर्णयामृतादिष्वदर्शनादोलायते मनः । इति स- समीसामान्यनिर्णयः। अथ सप्तमीविशेषाः । देवीपुराणे-चैत्रशुक्लपक्षपक्रमे, भास्करस्य च सप्तम्यां पूजां दमनकादिभिः । कृत्वा प्रा- नोति भोगादीन् विगतारिर्महातपाः । चैत्रशुक्लमप्तम्यामेव विष्णुधर्मोक्तं सूर्यव्रतम् । मूर्यपूजा होम: आब्दंव्रतम् ,व्रतान्ते गोदानम्, सर्वकामाप्तिः सूर्यसालोक्यम्० द्वादशाब्दं व्रतकरणे विष्णुसायुज्यम् । वैशाखशुक्लसप्तम्यां निम्बसप्तमीव्रतम् । तदुक्तं भविष्यो- त्तरे-तृतीयां सप्तमी वीर तच्छृणुष्वाग्रतो मम । निम्बपत्रैः स्मृतिसारोद्धारे। कृता या तु पापघ्नी शोकनाशिनी । अस्यामेव पायोक्तं शर्कराव्रतम् । प्रातः शुक्लतिलस्नानम् कुम्भस्थापनं तत्रपूजा,रात्रौ पञ्चगव्यप्राशनम् । अष्टम्यां दक्षिणा,वार्षिकं व्रतम् , प्रातः शर्क- रादानम् । 'शर्करा सप्तमी चैषा वाजिमेधफलप्रदा । सर्वदुःखप्रश- मनी पुत्रसन्ततिवर्द्धिनी' । ब्रह्मपुराणे-आषाढशुक्लसप्तम्यां विव- खानामभास्करः । जातः पूर्वासु तस्मात्तं तत्रोपोष्य यजेत्सदा । रथचक्राकृतौ रम्ये मण्डले सर्वकामदम् । भक्ष्यभॊज्यैस्तथा पेयैः पुष्पैर्दूपविलेपनैः । भाइसितसप्तम्यां भविष्योचरोक्तममुक्ताभरणसप्तमीव्रतम् । शिवाम्बिकयोः पूजा,वेणुपात्रादिदानम् । सौवर्णादिडोरकधा- रणम्,सन्ततिवृद्धिः,विशेषेण मृतवत्साया व्रतमिदम् । आश्विनशुक्लसप्तम्यां समूलायां केवलायां वा पूर्वनिमन्त्रि- तफलद्वययुक्तबिल्वपत्रिकामानीय तया सह देवीं पूजयेत् । त- दुक्तं लिङ्गपुराणे,-मूलाभावेपि सप्तम्यां केवलायां प्रवेशयेत् । यु- ग्मभिन्नां च बिल्वस्य फलाभ्यां शाखिकां तथा । तथा च प्रतिमां देव्याः स्नात्वाभ्युक्ष्य प्रवेशयेत् । पूजा च बिल्वपत्रैरेव कार्या 'सप्त- म्यां पत्रिकापूजेति ब्राह्मणवचनादित्यावाह्यनाथः । वस्तुतः पत्रि- केति पूज्याभिप्रायः। अथ मार्गशुक्लसप्तम्यां पायोक्तं फलसप्तमीव्रतम् । का- ञ्चनफलदानम्, भानुपूजा, आब्दं व्रतम्, अन्ते विममिथुनं स- म्पूज्य हेमपद्मयुतशर्कराकुम्भदानम् । फलं सर्वपापक्षयः सूर्यसा- लोक्यम् । अस्यामेव ब्राह्मोक्तं मित्रसप्तमीव्रतम् । मित्राख्यसूर्य- स्य जन्मदिनमिदम् । मित्रस्य पूजा षष्ट्यां स्नपनमुपवास: रात्री जागरणम् । सप्तम्यां वपनं स्नानं रविपूजा । अ- ष्टम्याञ्च मधुप्लुतपिष्टान्नभोजनम् । फलं सूर्यतुष्टिः । अस्यामेव चतुर्थ उद्धारः। अचलासप्त- भविष्योत्तरोक्तं नन्दासप्तमीव्रतम् । 'पञ्चम्यामेकभक्तं च षष्ठ्या नक्तं प्रकीर्तितम् । सप्तम्यामुपवासं च कीर्तयन्ति मनीषिण' । रविपूजा पारणत्रयं पुत्राद्याप्तिः। अथमाघशुक्ल सप्तम्यां भविष्योत्तरोक्तं रथसप्तमीव्रतम् । षष्ठ्या शुक्लतिलस्नानम् मूर्यालये मूर्यपूजा । गृहमागत्य नित्यकृत्यक- रणानन्तरमतैलभोजनम् , रात्रौ व्रतग्रहणम्, प्रातः काञ्चनरथो- परि मूर्यपूजा, रात्री जागरणम् , प्रातः काञ्चनरथं रक्तवस्त्रधेन च दद्यात् । आरोग्यं पुत्राद्याप्तिः सूर्यसालोक्यञ्च । माघशुक्ल सप्तमी अचला जयन्तीचोच्यते । सा चारुणोदयव्यापिनी ग्राह्या । भ- विष्योत्तरे–माघस्य शुक्लपक्षे तु सप्तमी या त्रिलोचना । मीकृत्यम् जयन्तीनाम सा प्रोक्ता सर्वपापहरा तिथिः । स्मृतिच- न्द्रिकायाम्-मूर्यग्रहणतुल्या तु शुक्ला माघस्य सप्तमी । अरुणोदयवेलायां तत्र स्नानं महाफलम् । तथा—माघे मासि सिते पक्षे सप्तमी कोटिभास्करा । कुर्यात्स्नानार्घ्यदानाभ्यामायुरारोग्य- सम्पदः । अत्राचारात् सप्तार्कस्य वदरस्य च पत्राणि शिरसि कृत्वा स्नायात् । 'एतज्जन्मकृतं पापं यच्च जन्मान्तरार्जिनम् । मनोवा- कायजं यच्च ज्ञाताज्ञाते तु ये पुनः । इतिसप्तविधं पापं स्नानान्मे सप्तसप्तिके । सप्तव्याधिसमायुक्तं हर माकरि सप्तमि' इतिमन्त्री सू- यसेननिबन्धे लिखितौ । प्रतापमार्तण्डे तु–यद्यज्जन्मकृतं पापं मया सप्तमु जन्मसु । तन्मे रोगञ्च शोकञ्च माकरी हन्तु सप्त- मीति । रोकञ्च शोकञ्चेति मैथिलहरिनाथादिनिबन्धे । तत्र रोकं पापच्छिद्रं रोगमित्यर्थः । गर्गः-रविवारेण युक्तायां सप्तम्यामु- त्तरायणे । पुन्नामधेयनक्षत्रे पूजयेच्च दिवाकरम् । उत्तरायणे माघे । पुनामाणि हस्तानुराधापुष्यमृगपुनर्वसवः । निर्णयामृते- सोमवारे त्वमावास्या भानुवारे च सप्तमी । अङ्गारकदिने प्राप्ता च- स्मृतिसारोद्धारे। तुर्थी वा चतुर्दशी । षष्टिवर्षसहस्राणि तत्कर्त्ता लभते फलम् । च- तुर्थी सिता,चतुर्दशीत्वासिता । तथा-षष्ठीच सप्तमी चैव वारश्चेदं- शुमालिनः । योगोऽयं पद्मकोनाम सहस्रार्कग्रहैः समः । अत्रारुणो- दये सप्तमीस्नानाद्गङ्गायां कोटिसूर्यग्रहणसमानफलम् । 'अरुणो- दयवेलायां शुक्ला माघस्य सप्तमी । गङ्गायां यदि लभ्येत कोटि- सूर्यग्रहैस्समेति विशेषवचनात् ॥ अचलापदव्युत्पत्तिर्भविष्योत्तरे इन्दुमत्या वेश्याया उपाख्याने । 'कृत्वा षष्ठ्यामेकभक्तं सप्तम्यां निश्चलं जलम् । राज्यन्ते चालयेथास्त्वं दत्वा शिरसि दीपकम् । माघस्य सितसप्तम्यामचलं चालितं च यत् । जलं मलानां सर्वेषां स्मृतं प्रक्षालनं ततः । अचलासप्तमीस्नानं कथितन्ते विशाम्पते । सर्वपापप्रशमनं सर्वसौभाग्यवर्द्धनम् । व्रतविधिरस्याम् षष्ट्यामेक- भक्तम्, अचलजले स्नानम्, महारजनरञ्जितवर्तिदीपदानं, जले शि- वोमारविपूजा । गृहमागत्य नक्तं भुञ्जीत । रूपसौभाग्याप्तिः। अ- स्यामेवादित्यपुराणोक्तं पुत्रसप्तमीव्रतम् । 'माघमासे तु शुक्लायां स- सम्यां समुपोषितः । यः पूजयेत्तु मां भत्त्या तस्याहं पुत्रतां व्रजे। अस्यामेव भविष्योत्तरोक्तं कामदासप्तमीव्रतम् । उपवासः सूर्य- पूजा होमश्च । अस्यामन्यस्यां वा सितसप्तम्यां धान्यव्रतम् । सूर्य- पूजा सप्तधान्यदानम् नक्तभोजनम् सन्तानदृद्धिः । रवियुतसित- सप्तम्यां पायोक्तं कल्याणसप्तमीव्रतम् । प्रात:दुग्धस्नानम् , अ- क्षतैः पनं कृत्वार्कार्चा, पारणा, वर्षान्ते उद्यापनम् । सर्वाधक्षय- शिवसालोक्यम् । अस्यामेव विजयासप्तमीव्रतम् । पञ्चम्यामेकम- क्तम् षष्ट्यां नक्तम् सप्तम्यामुपवासः, अष्टम्यां पारणा, कलश- स्थरविपूजा सप्तम्याम् । अब्दान्ते गौर्दया, सूर्यसालोक्यं फल- मिति संक्षेपः।

मा चतुर्थ उद्धारः। अथाष्टमीनिर्णयः। तत्र शुक्लाष्टमी सर्वैव परविद्धा ग्राह्या, शुक्लपक्षेऽष्टमीचैवति वचनात्, युग्मवचनाच्च । दुर्वाष्टमी शुक्लापि पूर्वैवोपोष्या। दूर्वा चैव हुताशनीतिवचनात् । कृष्णा तु सामान्यतः पूर्वयुता ग्राह्या,कृष्णपक्षेष्टमी चैवेतिवचनात् । उपवासे तु पक्षद्वयेप्यष्टमी परयुतैवेति ध्येयम् । उपवासे सप्तमी तु वेधाद्धन्त्युत्तरं दिनम् ।पक्षयो रुभयोरेष उपवासविधिः स्मृत इति नारदीयपुराणवचनात् ॥ यत्तु कृष्णपक्षेऽष्टमी वोत वाक्येप्युपवासग्रहणं तद्रोपवासविषयम्। रुद्र- व्रतेषु सर्वेषु कर्त्तव्या सम्मुखी तिथिरिति वचनात् । यत्तु-कृष्णा- ष्टमी तथा रम्भा तृतीया वटपैतृकीत्यादिवचनं कृष्णाष्टम्याः पूर्व- विद्धोपादेयत्वविधायकं तत्कृष्णजन्माष्टमीपरमितिप्रतापरुद्रः। शेष वक्ष्यते । इत्यष्टमीसामान्यनिर्णयः। अथ तद्विशेषाः । लिङ्गपुराणे-अशोककलिकाश्चाष्टौ ये पि- बन्ति पुनर्वसौ । चैत्रे मासि मिताष्टम्यां न ते शोकमवाप्नुयुः । प्राशनमन्त्रः त्वामशोक नराभीष्ट मधुमाससमुद्भव । पिबामि शो- कसन्तप्तो मामशोकं सदा कुरु । अशोकाष्टमीयम् । अस्यामेव भ- विष्यपुराणोक्तं सन्तानाष्टमीव्रतम्। उपवासः, कृष्णपूजा, रात्रौक- ष्णमन्त्रजपादिः, प्रातः पारणम् । सन्तानवृद्धिः फलम् । अस्यामा- श्विनशुक्लाष्टम्यामिव देव्या महापूजा कार्या । मार्कण्डेयपुराणे- शरत्काले महापूजा क्रियते या च वार्पिकीत्यत्र वार्पिकीत्यनेन सां वत्सरिकी पूजा पृथगुच्यते । तेन सवत्सरस्यादौ चैत्रमितपति- पद्यारभ्याष्टमीपर्यन्नं क्रियमाणा पूजा लभ्यते । अतश्च शरदस- न्तयोस्तुल्य एव दुर्गोत्सवः कार्यः । अथ वैशाखशुक्लाष्टम्यां व्रतविशेषः देवीपुराणे-सहकार- फलैः स्नानं वैशाखे ह्यष्टमीदिने । आत्मनो देवतां स्नाप्य मोसी- १जटामासी स्मृतिसारोद्धारे। वालंकवारिभिः। लेपनं फलकर्पूरधूपपञ्चमुगन्धिकम् । उपवासः, केतकीचंपकादिना देवीपूजा । शर्कराक्षीरनैवेद्यम् । कन्यावि- प्रभोजनम् । ततः पारणा । सर्वतीर्थाभिषेकफलम् । अथ ज्येष्ठशुक्लाष्टम्यां ब्राह्मोक्तं शुक्लादेवीव्रतम् । उप- वासः शुक्लापूजा प्रातः पारणम् । शुक्लामीतिः फलम् । अ- स्यामेव भविष्योत्तरोक्ता शिवपूजा । शिवसालोक्यं फलम् । आ- पाढसिताष्टम्यां देवीपुराणोक्तं महिषनीव्रतम् । हरिद्रातोयेन स्ना नम् । तेनैव देवीस्नानम् । पञ्चोपचारपूजा । कन्याविप्रभोजनम् । दीपमालादानम् । ततो भोजनम् । अथ श्रीकृष्णजन्माष्टमी । प्रतापरुद्रीये । सा च द्वि- विधा । शुद्धा विद्धाचेति । तत्र सप्तमीयोगरहिता शुद्धा । सप्तमीयुक्ता विद्धा । तत्र शुद्धा विधा । समा न्यूना अ. धिका चेति, विद्धाप्येवं विधा । समा सूर्योदयात्सूर्योदयप- र्यन्ता । ततोऽर्वानिवृत्ता न्यूना । सूर्योदयमतिक्रम्य प्रवृत्ता- धिका । तत्र शुद्धसमा शुद्धन्यूनाच रोहिणीयोगायोगाभ्यां प्र- त्येकं द्विधा । शुद्धाधिकातु चतुर्दा, पूर्वदिन एव रोहिणीयुक्, परदिन एव रोहिणीयुक्, उभयत्र रोहिणीयुक्, उभयत्र तदयु- क्चेति । एवं शुद्धाष्टविधा । एवं विद्धसमा विद्धन्यूना च रोहिणी- युक्तत्वायुक्तत्वाभ्यां प्रत्येकं द्विधा,विद्धाधिकातुशुद्धाधिकावञ्चतु- छु । एवं विद्धाप्यष्टधा । उभयोर्मेलने षोडशभेदा भवन्ति । मू- यंसेनीये तु द्वावन्याववान्तरभेदावाहुः । अर्द्धरात्रे रोहिणीयु- क्लाष्टमी जयन्तीनाम एका । द्वितीया नवम्या रोहिण्या बुधसो- मान्यतरेण युक्ता । इत्थमष्टादशप्रकारा जन्माष्टमी । तत्र शुद्धयोः समन्यूनयो रोहिणीसहितयोस्तद्रहितयोर्वा न विवादः,द्वितीयदिने- १ सुगन्धवाला चतुर्थ उद्धारः। ४२ ऽष्टम्यभावात् । एवं विद्धयोरपि समन्यूनयो रोहिणीसहितयोस्त- द्रहितयोर्वा न विवादः। रोहिणीसाहित्यं च मुहर्त्तमात्रेणापि ग्रा- ह्यम् । मुहूर्तमपि लभ्यतेतिवचनात् । शुद्धाधिका विद्धाधिका वा यदाऽन्यतरस्मिन्नेव दिने रोहिणीयुक्ता तदा सैव ग्राह्या । 'पाजा. पत्यक्षसंयुक्ता कृष्णा नभसि चाष्टमी । मुहूर्तमपि लभ्येत सो- पोष्या सा महाफला । मुहूर्तमप्यहोरात्रे यस्मिन्युक्तं हि लभ्यते । अष्टम्यां रोहिणीऋक्षं तां सुपुण्यामुपावमेत्' इति विष्णुरहस्यवचना- दिति । शुद्धाधिका यदा पूर्वस्मिन्दिने निशीथे रोहिणीयुक्ता उत्त- रदिनेपि तद्युक्ता तदा पूर्वैव ग्राह्या, 'रोहिण्यामर्द्धरात्रे च यदा कु- ष्णाष्टमी भवेत् । तस्यामभ्यर्चनं शौरईन्ति पापं विजन्मजम् । इति भविष्योचरवचनात् । पारणं च द्वितीयदिने तिथिनक्षत्रवि- योगे कुर्यात् । 'रोहिणीसहिता सेयं विद्वद्भिः समुपोषिता । वियो- गे पारणं चक्रुर्मुनयो ब्रह्मवादिन' इति । तथा-भान्ते कु-त्तिये- पि शस्तं भारत पारणम्' इति । यदा तु शुद्धाधिकाया दिनद्वये- प्यर्द्धरात्रं विहाय रोहिणीयोगस्तदापि पूर्वैव ग्राह्या, तस्याः स- कलाहोरात्रव्यापित्वाद, प्रथमातिक्रमे कारणाभावाच । कपाला- धिकरणन्यायात् प्रथमैव कार्यो । यदा तु शुद्धाधिका दिनद्वयेऽपि रोहिणीरहिता, तदाप्यहोरात्रव्यापित्वात्पूर्वैव ग्राह्या। दिवा वा य- दि वा रात्रौ नास्ति चेद्रोहिणीकला।रात्रियुक्तां प्रकुर्वीत विशेषेणे- न्दुसंयुतामिति वचनाच्च। विद्धाधिका तु यदा पूर्वस्मिन्नेव दिने निशीथे रोहिणीयुक्ता दिनान्तरे तु निशीथं विहाय रोहिणीयुक्ता तदा पू- वैव ग्राह्या, 'सप्तमीसंयुताष्टम्यां निशीथे रोहिणी यदि । भविता सा- ष्टमी पुण्या यावच्चन्द्रदिवाकराविति वह्निवचनात् । यदा तु विद्धा- घिकोत्तरस्मिन्नेव दिने निशीथे रोहिणीसहिता पूर्वदिनेतु निशीथं वि हाय रोहिणीयुक्ता तदोत्तरैव ग्राह्या। 'मासि भाद्रपदेऽष्टम्यां कृष्णप- ।

स्मृतिसारोद्धारे। क्षेऽर्द्धरात्रके।शाके वृषराशिस्थे प्राजापत्यसंसंयुते। उपोषितोऽर्चये- स्कृष्णं यशोदां देवकी तथेतिभविष्योत्तरोक्तेः । यदा तु विद्धाधिका दिनद्वयेप्यर्द्धरात्रे रोहिणीयुक् दिनद्वयेप्यर्द्धरात्रं सक्त्वा वा रोहिणी- युक्तदोत्तरैव ग्राह्या। वर्जनीया प्रयत्नेन सप्तमीसंयुताष्टमी।सशक्षापि न कर्त्तव्या सप्तमीसंयुताष्टमीति ब्रह्मवैवर्तात् । तथा-सप्तमीसंयुता- ष्टम्यां भूत्वा ऋक्षं द्विजोत्तम । प्राजापत्यं द्वितीयेऽह्नि मुहूर्तार्द्ध- म्भवेद्यदि । तदाष्टयामिकं ज्ञेयं प्रोक्तं व्यासादिभिः पुरेति । नि- र्णयामृते--विद्धाधिका दिनद्रये रोहिणीयुगपि पूर्वैव ग्राह्या, अष्ट- यामिकमिति पारणाङ्गीभूतब्राह्मणभोजनदक्षिणादिकं रोहिण्यष्ट. म्यावतिक्रम्य क्रमेणापि विधीयमानं सम्पूर्णायामिव कृतं महाफलं भवतीत्यर्थ इत्युक्तं, तच्चिन्त्यम् । अथ शुद्धा विद्धा याष्टमी अर्द्धरात्रे रोहिणीयुक् सा जयन्तीत्युच्यते 'प्राजापत्यन जयन्तीव्रतम् संयुक्ता कृष्णे नभसि चाष्टमी । जयन्तीनाम सा प्रोक्ता सा छुपोष्या महाफलेति । तथा-अर्द्धरात्रे तु रोहिण्यां यदा कृष्णाष्टमी भवेत् । तस्यामभ्यर्चनं शौरेर्हन्ति पापं विजन्मज- म् । सोपवासो हरेः पूजां कृत्वा तत्र न सीदति । तथा-रोहिणी- सहिता कृष्णा मासि भाद्रपदेष्टमी । अर्द्धरात्रादधः सा हि कलामा- त्रा यदा भवेत् । तत्र जातो जगन्नाथः कौस्तुभी हरिरीश्वरः । तमेवोपवसेत्कालं कुर्यात्तत्रैव जागरम् । तथा-अर्द्धरात्रे तु यो- गोऽयं तारापत्युदये सति । जयन्तीनाम सा रात्रिस्तत्र जातो जनार्दनः । नियतात्मा शुचिस्नातः पूजान्तत्र प्रवर्त्तयेत् । नभ- सीति शुक्लादिमासमभ्युपेत्य, भाद्रपद इति कृष्णादिमासमङ्गी- कृत्य । अन्यत्रापि-रोहिणीनाम नक्षत्रं जयन्तीनाम शर्वरी । मुहत्तों विजयो नाम यत्र जातो जनाईनः । इयं च यत्रै- वार्द्धरात्रे रोहिणीयोगः सैवोपोष्या। यदा तु दिनद्वयेप्यर्द्धरात्रे योगस्तदा तूत्तरैव । 'वर्जनीया प्रयत्नेन सप्तमीसहिताष्टमीत्युदा.

चतुर्थ उद्धारः। हृतवचनाद । यदि तु मूर्योदये स्वल्पाष्टमीमा च रोहिणीयुक् ।उपरि समस्ता नवम्या शशिबुधान्यतरेण युक्ता सा जयन्ती मुक्तिदा, सम्पू- र्णाष्टमी परित्यज्य स्वल्पापि सैवोपोष्या । पाने-प्रेतयोनिगतानाच प्रेतत्वं नाशितं नरैः। यैः कृता श्रावणे मामि अष्टमी रोहिणीयुता। किम्पुनर्बुधवारेण सोमेनापि विशेषतः । किम्पुनर्नवमीयुक्ता कु- लकोट्यास्तु मुक्तिदा । स्कान्दे -उदये चाष्टमी किञ्चिनवमी स- कला यदि । सा भवेद्रुधसंयुक्ता प्राजापत्यसंसंयुता । अष्टवर्षशते- नापि लभ्यते वा न लभ्यते । अत्राहुः कृष्णाष्टमी द्विधा जन्मा- टमी जयन्ती च, तत्र जन्माष्टमीव्रतम् भविष्योत्तरे-सप्तम्यां ल- घुभुक्कुर्यादन्तधावनपूर्वकम् । उपवासस्य नियमं रात्रौ मुसान्जि- तेन्द्रियः। केवलेनोपवासेन तस्मिन् जन्मदिने मम । सप्तजन्मकृता- सापान्मुच्यते नात्र संशयः । जयन्तीव्रतम् अग्निपुराणे-कृ- ष्णाष्टम्यां भवेद्यत्र कलैका रोहिणी नृप ! जयन्तीनाम सा मोक्ता उपोष्या तुप्रयत्नतः। उपवासश्च तत्रोको महापातकनाशनः । तहिने पूर्वदेवक्या विष्णुराराधितः किल । अष्टमी रोहिणीयुक्ता निशाः दृश्यते यदि । मुख्यकाल इति ख्यातस्तत्र जातो जनाईनः । ज- यन्त्यां चन्द्रार्घस्यावश्यकत्वात्तस्य चन्द्रोदयकालीनत्वानिशीथे रो- हिणीयोगः प्रशस्त इति भावः । ननु जन्माष्टमीजयन्तीव्रतयोः कथं भेदः, अथ नित्यकाम्ययोरिव भेदोऽस्तु । तथाहि- न्याभेदाभदवि नित्या जन्माष्टमी अकरणे प्रत्यवायश्रवणात् । 'गृध्रमां सं खरङ्काकं श्यनं वा मुनिसत्तम । मांसं च द्विपदां मुझे कृष्णजन्माष्टमीदिने । श्रावणे बहुले पक्षे कृष्णजन्माष्टमीव्रत- म् । न करोति नरो यस्तु भवति क्रूरराक्षसः । वर्षे वर्षे तु या नारी कृष्णजन्माष्टमीव्रतम् । न करोति महाप्लीहा व्याली भवति कानने' इत्यादि।जयन्ती काम्या फलविशेषश्रवणान् । 'बहुजन्मकृतं जन्माष्टमीजय- चारः।

स्मृतिसारोबारे पापं हन्ति सोपोषिता तिथिः । महाजयाय कुरुतां जयन्ती मु. तयेऽनघ । धर्ममर्थ च कामं च मोक्षं च मुनिपुङ्गव । ददा- ति वाञ्छितानानानार्थानतिदुर्लभान् । इत्यादिबहुविधफलबो- धनादिति चेन्न । अयं हि गुणविधिर्न तु पृथग्विधिः, जन्माष्टम्येव जयन्ती भूत्वा फलाधिक्यरूपगुणाय भवति गोदोहनवत् दध्या- दिवच्च । यथा प्रकृतमेवापाम्प्रणयनमाश्रित्य पशुरूपफलाय गोदोह- नमानं विधीयते, एवन्नित्याग्निहोत्रे फलाय दधि, एवं नित्यां जन्मा- टमीमाश्रित्य फलविशेषाय रोहिणीयोगो विधीयतामिति, अत्रोच्य- ते। जन्माष्टमीजयन्त्योर्मेंदो नामभेदात् । जन्माष्टमीव्रते केवलतिथि- निमित्तम् । जयन्तीव्रते रोहिणीयोग इति । व्रतभेदात् । जन्माष्टम्या मुपवासः केवल: जयन्त्यां दानादिविशिष्टः स इति । स्मारयति हि, 'केवलेनोपवासेन तस्मिन् जन्मदिने मम । शतजन्मकृतात्पापान्मुच्य- ते नात्र संशयः' इति । तस्माजन्माष्टमीव्रतस्योपवासमात्र स्वरू- पम् । तत्रापि जागरादिकरणे न दोषः । जयन्तीव्रतस्य तु दानादि- सहित उपवास: स्वरूपं, स्मयंते हि-तुष्ट्यर्थं देवकीसुनोर्जयन्ती- सम्भवं व्रतम् । कर्त्तव्यं वित्तमानेन भत्त्या भक्तजनैरपि । एवं शु मिश्रभेदाढ़ेदः। शुद्धं नित्यमात्रं जन्माष्टमीव्रतम् । अकरणेदोष- श्रवणात् । जयन्तीव्रतं नित्यं काम्यं चेति मिश्ररूपम् । 'अकुर्वन् या- ति नरकं यावदिन्द्राश्चतुर्दश । शूद्रानेन तु यत्पापं शवहस्तस्य भोजने । तत्पापं लभते कुन्ति जयन्तीविमुखो नर इसादिवाक्या नित्यं जयन्तीव्रतम् । फलश्रवणाच काम्यम् । नच नित्यानित्यसंयो- गविरोधः । संयोगपृथक्त्वन्यायेनोपपत्तेः । निर्देशादाप व्रतमे- दः । तथा च भृगुः-जन्माष्टमी जयन्ती च शिवरात्रिस्तथैव च । १ पूर्वमीमांसाअ० २ पा० २ अधि० ११ । २ पू० मी० अ०४ पा० ३ अधि०३।

५३ चतुर्थ उद्धारः। पूर्वविद्धैव कर्चव्या तिथिमान्ते च पारणम् । अनुष्ठानभेदादपि भे- दः, अन्यथा यस्मिन्नन्द नवम्यादौ रोहिणीयोगस्तत्र जन्माष्टमी- लोप: स्यात् । अतोऽपि जयन्त्यभावेपि क्रियत एव जन्माष्टमी।न- न्वेवं सति यदा दिनद्रयेऽप्यर्द्धरात्रेऽष्टमी रोहिणी तूत्तरदिने एव तत्र पूर्वदिने जन्माष्टम्युपवासः परदिने जयंत्युपवास इत्युपवासद्वयं प्रसज्जे तेतिचेन्न, रोहिणीयोगे सति जयन्तीव्रत एव जन्माष्टमीव्रतान्तर्भावसं- भवात् । सर्वत्र गुणवन्नक्षत्रसंयोगाभावे केवलतिथेरपेक्षणीयत्वात् । गुणविकृतित्वादपि भेदः, जयन्ती जन्माष्टम्या गुणविकृतिः। दर्शस्य साकंप्रस्थापीयकवत् । यथा दर्शस्य सर्वे प्रयोगाः साकंप्रस्थापी- यके, भेदस्तु दर्शयागे शान्ताज्यहविषोर्दधिपयसोः पृथगेव दानम् साकंप्रस्थापीये सहैवेति । तथा जन्माष्टम्यामुपवासो जयन्त्यां दा- नादिरधिको गुणोऽभिधीयते अतो जयन्ती गुणविकृतिः। आश्र- यायिभावादपि भेदः, जन्माष्टमीमाश्रित्य रोहिणीयोगनिमित्त- कदानादिविधानाद । यथा ज्योतिष्टोमआश्रयः । तस्याङ्गान्यु- दीयादीनि तं चोग्दीथमाश्रित्योपासनानि विहितानि अमित्ये काक्षरमुद्गीथमुपासीतति कृतमप्रकृतेन । वयन्तु ब्रूमः यैव रो- हिणीयुक्ता जयन्तीत्युच्यते सैव मुख्या जन्माष्टमी । 'रोहिणी- नाम नक्षत्रं जयन्तीनाम शर्वरी । मुहूर्तो विजयो नाम यत्र जा- तो जनाईन इत्यादिभूरिवचनेम्यः । तस्माद्विशिष्टाभावे केवला- प्यष्टमी कर्त्तव्यति उभयोर्वैशिष्टयावैशिष्टये भेदके । नतु व्रतयो- ८द इतिकर्त्तव्यताभेदाभावाद्देवताभेदाभावाचेति । व्रतद्वयत्वे चो- पवासद्वयं वज्रलिप्तं स्यादिति । अथ पारणनिर्णयः। विष्णुधर्मे-जयन्ती शिवरात्रिश्च कार्ये भद्राजयान्विते । कृत्वोपवासन्तिथ्यन्ते तथा कुर्य्याच पारणम् । ब्रालये-कार्या विद्धापि सप्तम्या रोहिणीसहिताष्टमी । तत्रो ६४ स्मृतिसारोद्धारे। पवासकुर्वीत तिथिभान्तेच पारणम् । ब्रह्मवैवर्ते-अष्टम्या- मथ रोहिण्यान्न कुर्यात्पारणं कचिम् । हन्यात्पुराकृतं कर्म उ- पवासाज्जितं फलम् । तिथिरष्टगुणं हन्ति नक्षत्रन्तु चतुर्गुणम् । तस्मात्प्रयत्नतः कुर्यातिथिभान्ते च पारणम् । ब्रह्मवैवर्ते-स- वेष्वेवोपवासेषु दिवापारणमुच्यते । अन्यथा पुण्यहानिः स्या- द्विना श्रवणपारणम् । गारुडे-अन्यतिथ्यागमो रात्रौ ताम- सैस्तेजसोपि वा । तामसे पारणं कुर्वस्तामसी गतिमाप्नुयात् । नारदीये-तिथिनक्षत्रसंयोगे उपवासो यदा भवेत् । पारणन्तु न कर्त्तव्यं यावदेकस्य संक्षयः । तिथ्यक्षयोर्यदा च्छेदो नक्षत्रान्त- मथापि वा । अर्द्धरात्रेऽथवा कुर्यात्पारणं त्वपरेऽहनि' इति हेमा- दिलिखितवचनम् । अस्यार्थो निर्णयामृते । तिथिनक्षत्रान्ते अन्य- तरान्ते वा दिवा पारणं कुर्य्याद । यद्यर्द्धरात्रे तिथिमान्तस्तदा अप- रेऽहनि दिवसे एव पारणं कुर्यात् । निशि पारणनिषेधादर्द्धरात्रे भोजननिषेधाच्चेति । तन्न सम्यगिति ब्रूमः, 'अर्द्धरात्रेऽथवा कुर्या- पारणम्' अर्द्धरापि तिथिमान्ताभावोपरि कुर्यादित्यर्थात् । 'न रात्रौ पारणं कुर्याहते वै रोहिणीव्रतात् । तत्र निश्यपि तत्कुर्य्या- द्वयित्वा महानिशाम् । इति वचने महानिशानिषेधस्तदर्वापा रणकालसत्वेपि बोध्यः। अन्यथा निशीथपारणविधायकवचनवि- रोधादिति । अशक्तस्तु दिवा तिथिभान्ताभावपि नृत्यगीतादिरू. पोत्सवांते पारणं कुर्यात् । 'जयन्त्यां पूर्वविद्धायामुपवासं समा- चरेत् । तिथ्यन्ते चोत्सवान्ते वा व्रती कुर्यात्तु पारणमिति काला- दर्शनिबन्धवचनादिति । एतच्च स्त्रीनृसाधारणम् । 'प्रतिवर्षविधा- नेन मद्भक्तो धर्मनन्दन । नरो वाप्यथवा नारी यथोक्तफलमाप्नुया दिति भविष्योत्तरादिवचनादिति । अथ भाद्रसिताष्टम्यां भविष्योत्तरोक्तं दुर्वाष्टमीव्रतम् । 'शुक्ला- चतुर्थ उद्धारः। ष्टमी तिथिर्या तु मासि भाद्रपदे भवेत् । दूर्वाष्टमी तु सा ज्ञेया नो. त्तरा सा विधीयते' । उपवासः फलाहारोवा, दूर्वा पूज्या, दूर्वाभि- विविधफलैश्च शिवपूजा, विप्रेभ्यः फलादिदानम् । ब्रह्महत्यादिपा- पक्षयः फलम् । स्त्रीव्रतमिदम् । प्रतिवर्षे वधूजनैरिति वचनात् । अत्र दुर्वापूजाया अकरणे दोषः। पुराणसमुच्चये—या न पूजयते दुर्वा मोहादिह यथाविधि । त्रीणि जन्मानि वैधव्यं लभते नात्र सं- शयः। तथा-दूर्वामभ्यर्चयेद्भत्या ज्येष्ठां मूलं च वर्जयेत् ।स्कान्दे। शुक्के भाद्रपदे मासि दूर्वासंज्ञा तथाष्टमी । सिंहार्के साच कर्त्तव्या क- न्यान कदाचन।अगस्त्य उदिते तात पूजयेन्नामृतोद्भवाम् । अमृतो- द्भवां दूर्वाम्। 'कर्त्तव्या चैकभक्तेनज्येष्ठामूलं यदाभवेत् ।ज्येष्ठामूला भावे उपवासो ऽनग्निपकाशनं वा कार्यम् । दूर्वापूजा मध्यान्हादुप- रिका- 'मुहूरौहिणेष्टम्यां पूर्वावा यदि वा परा। दूर्वाष्टमी तुसा कार्या ज्येष्ठां मूलंचवर्जयेत् अत्रपरविद्धानिषेधेपि परविद्धाविधा- नम् पूर्वस्यां ज्येष्ठामूलयुक्तायां परस्यां कर्मकालव्यापिन्यां परापि कार्येति ज्ञापनार्थम् । कालादर्श-भाद्रशुक्लाष्टमी ज्येष्ठानक्षत्रेण सम- न्विता । महती कीर्तिता तस्यां ज्येष्ठां देवीं प्रपूजयेत् । उपहारैर्बहुविधैरलक्ष्मीविनिवृत्तये । मात्स्ये-प्रत्याब्दिकं तिथावुक्तं यज्ज्येष्ठादैवतं व्रतम् । प्रतिज्येष्ठात्रतं यच्च विहितं के- वलोडुनि । तिथावेवाचरेदाचं द्वितीयं केवलक्षतः । प्रतिवर्ष क्रियमा णं ज्येष्ठाव्रतं नक्षत्राभावे तिथावेव केवलायां कार्य, ज्येष्ठायुक्ता- यामेवतिथौ ज्येष्ठाप्राधान्येन यत् क्रियते तत्तिथिनक्षत्रयोगाभावे केवलनक्षत्रे कार्यमित्यर्थः। अथास्यामेवारभ्याग्रिमाष्टमीपर्यन्तं स्कान्दोक्तं महालक्ष्मीव्रतम् । 'महालक्ष्मीव्रतन्तत्र यस्यामुदयते शशी । यस्यामुदयते भानुः सा भवेज्जीवपुत्रिकेति मनूक्तेः। विशेषः कथायाम् । इदं व्रतं ज्येष्ठा- ज्येष्ठाव्रतम् ।

स्मृतिसारोद्धारे। युक्ताष्टम्यामारब्धव्यम् ज्येष्ठाभावे केवलायाम् । समापनश्चन्द्रो- दयव्यापिन्याम् । 'चन्द्रोदयव्रते चैव तिथिस्तात्कालिकी स्मृता' इ- त्युक्तेः । उभयत्र तयापित्वे पूर्वस्याम् । कृष्णपक्षेऽष्टमीचैवेत्युक्तेः। उत्तरदिने चन्द्रोदयोत्तरमुहूर्त्तत्रयव्यापिनी चेदुत्तरस्याम् । 'पूर्वावा परविद्धा वा ग्राह्या चन्द्रोदये सदा । त्रिमुहूर्त्ता तु विज्ञेया परतश्चो- ईगामिनीति वचनात् । 'कन्यागतेऽर्के प्रारभ्य कर्त्तव्यं न श्रियोऽर्च- नम् । हस्तपान्तदलस्थेऽर्के तद्वतं न समापयेत् । अर्द्धरात्रमतिक्रम्य वर्तते योत्तरातिथिः । तदा तस्यां तिथौ कार्य महालक्ष्मीव्रतं शु- भम् । तथा-पूजनीया प्रयत्नेन अष्टमी प्रावृषि श्रियः। दोषैश्च. तुर्भिः सन्त्यक्ता सर्वसंपत्करी तिथिः । दोषचतुष्टयम्-नवमीवेधः १ रखेर्हस्तोत्तरदलगतत्वम् २ त्रिस्पृग्दिनम् ३ अवमदिनं चेति ४।'पु- त्रहा नवमीविद्धा स्वघ्नी हस्तोड़गे रवौ । कर्मनी त्रिदिने प्रोक्ता त्याज्या चैवावमपि वा । दोषचतुष्टयवर्जनमुपक्रमोद्यापनयोरेव । अ- तएव षोडशाब्दपर्यन्तं नैरन्तर्येण कुर्वन्ति । तथा चोक्तम्-धि- योऽर्चनं भाद्रपदे सिताष्टमी प्रारभ्य कन्यामगते च सूर्ये । समापये- त्तत्र तिथौ हि यावत्सूर्यस्तु पूर्वार्द्धगतो युवत्याः । शक्तौ सत्यां दोषः परिहार्यः, अपरिहार्यत्वे न मध्ये व्रतलोपः। नवमीवेधनिषेधोपि चन्द्रोदयादग्विोध्या, चन्द्रोदयादूर्द्ध त्रिमुहूर्त्तव्यापिनी नवमीवि- दैव ग्राह्येत्युक्तम् । अथाश्विनसिताष्टमीनिर्णयः । सा च दुर्गापवासादिषु न- वमीयुतैव ग्राह्या । वसुरन्ध्रयोरिति युग्मवाक्यात् । तथा च- नाष्टमी सप्तमीयुक्ता सप्तमी नाष्टमीयुता । नवम्या सह कार्या स्यादष्टमी सर्वदा बुधैः । तथा–अष्टमीनवमीयुग्मे महोत्साहे महो- त्सवः । तथा-अष्टम्यां सनवम्यां च जगन्मातरमम्बिकाम् । पूज- यित्वाऽऽश्विने मासि विशोको जायते नरः । इति नवमीवेधप्रशं- चतुर्थ उद्धारः। सावचनानि । अथ सप्तमीवेधे निन्दावचनानि । 'पुत्रान्हन्ति पशू- न्हन्ति हन्ति राज्यं सराष्ट्रकम् । हन्ति जातानजाताँश्च सप्तमीसहि- ताष्टमी । तस्मात्सर्वमयत्नेन सप्तमीवघसंयुता । वर्जनीयाऽष्टमी चाय भुवो राज्यमभीप्मुभिः । सप्तमीशल्यसंयुक्ता वर्जनीया सदा- टमी । स्तोकापि सा तिथिः पुण्या यस्यां सूर्योदयो भवेत् । चार- न्महाष्टमी पूज्या नवमीसंयुता सदा । सप्तमीसंयुता नित्यं शोकस- तापकारिणी' । तथा-जम्भेन सप्तमीयुक्ता पूजिता तु महाष्टमी । इन्द्रेण निहतो जम्भस्तदा दानवपुङ्गवः । सप्तमीशल्यसंयुक्तां मो- हादज्ञानतोपि वा । महाष्टमी प्रकुर्वाणो निरये परितप्यते । तथा, नवमी च सदा देव्या मूर्तिदैत्यविनाशिनी । अत एव हि पूज्या स्यादष्टमी नवमीयुता । इति निर्णयामृतराजमार्तण्डहेमाद्रिकालाद- क्षेमप्रकाशिनिबन्धेषु लिखितानि वचनानि दर्शितानि । दर्शनीया- नि च भोजराजीये भीमपराक्रमे । 'न दिवा न निशापि च विष्टि- हता नच सप्तमीशल्यतमोपहता। यदि चाष्टमीशेषयुता नवमी त्व- मरैरपि पूज्यतमा नवमी' । अष्टम्यामुदिते सूर्ये दिनान्ते नवमी भ- वेत् । कुजवारो भवेत्तत्र पूजनीया प्रयत्रतः । तथा-आश्वयुक्- शुक्लपक्षे तु याष्टमी मूलसंयुता। पूर्वया पाढया सार्द्धमक्षद्वययुताथ- वा । सा महानवमी मोक्ता त्रैलोक्यपि सुदुर्लभा । कन्यां गते स- वितरि शुक्लपक्षेऽष्टमीयुता । मूलनक्षत्रसंयुक्ता सा महानवमी स्मू- ता। आभ्यामष्टमीनवम्योर्युग्मतामूचिता, मूलःयुक्तापि सप्तमीले- शसहिता चेद दुष्टैव । यदुक्तं दुर्गोत्सवे--मूलेनापि हि संयुक्ता स- दा त्याज्याष्टमी बुधैः। लेशमात्रेण सप्तम्या अपि स्याषिता य- दि। देवीपुराणे-सन्तर्पयन्ती हुङ्कारैः खडोत्वातपरापरा । नवम्यां पूजिता देवी दद्यादानन्ददं फलम् । सा पुण्या सा पवित्रा च सा धा मुखदायिनी। तस्यां संपूजनीया तु चामुण्डा मुण्डमालिनी ।

स्मृत्तिसारोद्धारे। रूपनारायणीये-मूले संपूजयेदेवीं तथा सलिलदैवते । वैश्वदे- वे तु नक्षत्रे पूजिता दुःखदा भवेत् । वैश्वदेवे उत्तराषाढायाम् । उत्तराषाढनिषेधः सति सम्भवे । तदुक्तं-मूलाभावे च कर्त्तव्या अ- ष्टमी तोयसंयुता। विश्वयुक्ता च कर्त्तव्या अष्टमी नवमीयुता । तोयं पूर्वाषाढा, विश्वमुत्तराषाढा । ग्रन्थान्तरे विशेष उक्तः, मूलेनागमनं देव्याः पूर्वापाढासु पूजनम् । उत्तरासु बलिं दद्याच्छ्वणे चाप- राजिता । सूर्योदये परं रिक्ता पूर्णा स्यादपरा यदि । बलिदानं प्रकर्त्तव्यं तत्र देशे शुभावहम् । रिक्ता नवमी, पूर्णा दशमी । 'ब. लिदाने कृतेऽष्टम्यां पुत्रभङ्गो भवेन्नृप । तथा-अष्टम्यामुदिते सूर्य दिनान्ते नवमी भवेत् । प्रभाते बलिदानं च कियन्मात्रापि- लभ्यते । नवम्यां तत्र संपूज्या दुर्गा दुर्गातिनाशिनी। उदयगामिन्या- मष्टम्यामुपवासपूजादिकम् । उदयगामिन्यां नवम्यां वलिदानमिति पर्यवसितं । नन्वत्र विरुद्धानि वाक्यानि श्रूयन्ते । तथाहि -अहं भद्रा च भद्राहं नावयोरन्तरं कचित् । सर्वसिद्धि प्रदास्यामि भद्रा- यामचिंता ह्यहम् । भद्रायां भद्रकाल्याश्च मध्ये स्यादर्चनक्रिया । तस्मादै सप्तमीविद्धा कार्या दुर्गाष्टमी बुधैः । तथा—विष्टिं त्यक्त्वा महाष्टम्यां मम पूजां करोति यः । तस्य पूजाफलं न स्यात्तेनाह- मपमानितेत्यादीनि इति चेत् सत्यम् । सप्तमीविद्धाविधायक- वचनान्यग्रिमदिनेऽष्टम्यभावविषयकाणि । नच 'सप्तम्यामुदिते मूर्ये परतश्चाष्टमी भवेत् । तत्र दुर्गोत्सवं कुर्यान्न कुर्या- दपरेहनि । दुर्भिक्षं तत्र जानीयान्नवम्यां यत्र पूज्यते' । इत्यादीनि परदिनेऽष्टमीलाभेपि सप्तमीविद्धाविधायकानीति वाच्यम् । तेषां नवमीक्षयविषयत्वात् । तदुक्तं स्मृतिसं- ग्रह-'यदा सूर्योदये न स्यान्नवमी चापरेऽहनि । तदाष्टमी प्रकुर्वीत सप्तम्या सहितां नृप । दुर्गोत्सवेपि---उत्तरास्तिथयो यत्र क्षयं या- चतुर्थ उद्धारः। ६९ न्ति परेऽहनि । पूर्वाष्टमी तदा कुर्यादन्यथा त्वशुभं भवेत् । सूर्य- सेनमहीपालनिवन्धे तु नवमीयुक्ताष्टमीनिषेधकवाक्यानि कृष्णपक्षे नवम्यां विहिते देवीप्रबोधे तदङ्गत्वेन क्रियमाणकृष्णाष्टम्यधिकर- णकदेवीपूजाविषयाणि । 'कृष्णपक्षेऽष्टमी चैव कृष्णपक्षे च- तुर्दशी' इत्यादिवाक्यैः कृष्णाष्टम्याः पूर्वविद्धाया एव प्राश- स्त्याभिधानात् । नच रूपनारायणनिबन्धे तु अष्टमीसामान्यनिर्ण- यवाक्यान्येव लिखितानि न महाष्टम्या विशेपानर्णय इति वा- च्यम् । आश्वयुक्शुपक्षे तु याष्टमी मूलसंयुता । तथा, मूलेना- पि हि संयुक्तेत्यादिवाक्यैर्विशेषनिर्णयकरणात् । आश्वयुगिति कन्यागत इत्यादिविशेषलिङ्गैर्महाष्टम्या एव प्रतिपादनादिति । यच्चानन्तभट्टीयादिषु महाष्टम्यादिविशेषनिर्णयो न कृतः। तेषां ग्र- न्थकृतामियं शैली यत् सामान्यनिर्णयप्राप्तानां विशेषनिर्णयप्रयासो न क्रियते इति । तस्माद्वसुरंध्रयोरित्यादिमामान्यवाक्यनिर्णीताया महाष्टम्या निर्णयार्थ व्यर्थं विशेषवाक्यमपञ्चेनेत्यनन्तभट्टादीनाम- भिप्रायः। ननु भविष्योत्तरे-तत्राष्टम्यां भद्रकाली दक्षयज्ञविनाशि- नी। प्रादुर्भूता महाघोरा योगिनीकोटिभिः सह'इति, अत्र अहनीति दिवापूजा विधीयते । तथा-निशायां पूजिता देवी वैष्णवी पाप- नाशिनी, तस्मात्सर्वप्रयत्नेन अष्टम्यां निशि पूजयेत् । तथा-महा- टम्याविने मासि शुक्ला कल्याणकारिणी । सप्तम्या संयुता कार्या मुलेन तु विशेषतः' इत्यादिवाक्यैर्विविधिपूजाया विधानानिशि पू. जायां सप्तमीविद्धा दिवापूजायां नवमी विद्धाद्रियतामिति चेद् । भ्रान्तोसि, सप्तमीविद्धाविधायकवचनानां तिथिक्षयपरत्वादियुक्तम् । किमत्र विनिगमकमिति चेत्सत्यम् । महाप्रामाणिककविलिखि- तयोः स्मृतिसंग्रहदुर्गोत्सवयोर्वचने एव सूर्योदये यदा न स्यान्नवमी चापरेहनि । तदाष्टमी प्रकुर्वीत सप्तम्या सहितां नृप' । 'उत्तरा ६० स्मृतिसारोद्धारे। " स्तिथयो यत्र क्षयं यान्ति नराधिप । पूर्वाष्टर्मी तदा कुर्यादन्यथा त्वशुभं भवेत्' इति । तवतु वचनाभावागौरवादुपवासद्वयकल्पना- पत्तेश्च पूजाद्वयकल्पना कल्पनैव । नच तेनाहमपमानितेति निषेधवचनस्य निर्विषयत्वापत्तिः, तिथिक्षयविषयत्वात् । अ- यमभिप्रायः । अष्टमीक्षयवशात्सप्तमीविद्धाष्टमीमाप्तौ विष्टिभिया दिवैव पूजा येन त्यज्यते तेनाहमपमानितेति । तस्मादे- कस्यामेवाष्टम्यां दिवापूजानिशीथपूजयोरुभयोरपि करणे ला- घवं तिथिद्वये करणे गौरवमिति । यत्त्वानन्दकरदीक्षितः स्वकृते विश्वरूपनिबन्धानुसारिणिदैत्यनारायणनिबन्धे लिखि- तम् । अष्टमीव्रतं तु रात्रिव्रतम्, तत्र देवीपुराणे-वाविषे तु कन्यास्थे शुक्लाष्टम्यां प्रपूजयेत् । सोपवासो निशातु महाविभव- विस्तरैः । पूजां समारभेद्भत्या नक्षत्रे वारुणेपि च । पशुधातश्च कर्त्तव्यो गवलाजवधस्तथा । बलिक्षयं सुरेशानां कृत्वा सर्वां निशा नयेत् । इषे आश्विने, गवलो महिषः । अजश्छागः । तथाभविष्ये- सोपवासधूपमाल्यै रात्रि जागरणेन च । उपोषणमथाष्टम्यां साष्ट- शक्तेश्च पूजनम् । नवम्यामुग्रचण्डायास्तद्वदेवार्चनं दिवा । पू- जाच वलिदानञ्च रात्रौ मातृः प्रपूजयेत् । पाझे-कुलं पुत्रं प. शून राज्यं वीर्यमायुस्तथैव च । प्रथमा चाष्टमी पूज्या यदीच्छेच्छ्रे- य आत्मनः । दुर्भिक्षं तत्र जानीयान्नव वर्षाणि पञ्च च । अया- ज्या चाष्टमी यत्र नवमीसहिता नृप । भविष्ये-देवीनिवेशनं यत्र नवम्याच नराधिप । राजपीडा भवेत्तत्र बलप्राणप्रणाशिनी । देवीपुराणे ब्रह्मोवाच । 'आश्विने मासि मेघान्ते महिषादिनिव- हिणीम् । देवीञ्च पूजयित्वा तु अर्द्धरात्रेष्टमीषु च । घातयित्वा प- शून्भत्त्या ते भवन्ति महाबलाः । बलिञ्च ये प्रयच्छन्ति सर्वभू- तविनाशकम् । तेषां वै तुष्यते देवी यावत्कल्पन्तु शाङ्करी' इसादि चतुर्थ उद्धारः। ६१ वाक्यस्वरसात्सप्तमीविद्धैव ग्राह्येति । तथा-महाष्टा भगवती भद्रायामपि पूजिता । ददाति चायुरारोग्यं यतो भद्रास्वरूपि- णी'इत्यादिवाक्यपर्यालोचनया पूर्वविदैव लभ्यते रात्रिपूजैव च लभ्यते इति । तदपि तुच्छतरम्, रात्रिपूजाविधायकवाक्यानां सात सम्भवेऽतिप्राशस्त्यपरत्वात् । पूर्णाष्टम्यां दिवापि विष्टिसम्भवाहि- वारात्रिविहिते पूजाद्वयेऽवश्यकरणीये विष्टेरदोषत्वगुणवत्वक- थनादुक्तयुक्तेश्चेति । दुर्भिक्षं तत्रजानीयादित्यपि षष्टिदण्डात्मिका- यामष्टम्यामग्रिमदिने च घटिकात्मिकायां नवमीविद्धायामपि पू- जादिकं न कर्त्तव्यमित्येवंपरम् । पूर्वदिन एव दिवारात्रिपूजयोः काललाभात् । षष्टिदण्डाधिकघटिकादेर्योतिश्शास्त्रे तिथिमलत्वा- भिधानादिति । अन्यथा 'अष्टमी नवमीयुक्ता नवमी नाष्टमीयुता । अर्द्धनारीश्वरमाया तिथिः सर्वत्रतादिषु' । इत्यादिबहुवचनविरोध: स्यात् । उपवासे शुक्लाष्टम्या नवमीविद्धायाः सर्वैरेवनिवन्धिभिर- भ्युपगमात् । अतएव 'सोपवासो निशा.तु इतिश्रुतेः यदाष्टम्यु- पवासविधिस्तदा पूजा प्राप्यते उपवासस्तु नवमीयुक्तायामेवेति न काप्यनुपपत्तिः । निर्णयामृते तु-महाष्टम्याश्विने मासि इति- मूलयोगवैशिष्ट्यविधिरयं 'भूतभव्यसमुच्चारणे भूतं भव्यायोपदि- श्यते' इतिन्यायेन सप्तमीविद्धाविधेर्मूलयोगवैशिष्ट्यपरत्वं प्रतीयते न सप्तमीविद्धाविधानार्थत्वमिति । किञ्च सप्तमीविद्धाविधायकवा. क्यानि विश्वरूपनिवन्धे लिखितान्यपि चिरन्तनानन्तभट्टीयभोज- राजीयादिनिबन्धेष्वदर्शनात्सन्दिग्धमूलकान्यपीति ज्ञायते । एवं मैथिलोपि जगद्गुरुसंज्ञको निशीथपूजासप्तमीविद्धापामाण्यं वदन जगल्लघुरेव गण्यते । पुत्रवतस्तु महाष्टम्यामुपवासो निषिद्धः । कालिकापुराणे-उपवासं महाष्टम्यां पुत्रवान्न समाचरेत् । यथा तथैव पुत्रार्थी व्रती देवीं प्रपूजयेदिति । एतच्च केवलाष्टमीपरम् ।

૨૨ स्मृतिसारोद्धारे। नवरात्रोपवासस्य विहितत्वादिति ध्येयम् । इति दुर्गाष्टमीनिर्णयः ।। अथ दुर्गानवमी व्यवधानभिया ऽत्रैव निर्णीयते । सा च दु- र्गापूजादौ पूर्वविद्धा ग्राह्या श्रावणी दुर्गनवमी' इत्युक्तेः। भविष्यो- त्तरे-आश्वयुक्शुक्लपक्षे तु अष्टमी मूलसंयुता । सा महानवमी नाम त्रैलोक्यपि सुदुर्लभा । कन्यां गते सवितरि शुक्लपक्षेऽष्टमी- युता । मूलनक्षत्रसंयुक्ता सा महानवमीस्मृता । मूलग्रहणम्मूला- वृक्षत्रयोपलक्षणम् । तदुक्तं लैङ्गे-दुर्गापूजासु नवमी मूला- क्षत्रयान्विता । महती कीर्त्तिता तस्यां दुर्गा महिषमर्दिनीम् । च- ण्डिकामुपहारैस्तु पूजयेद्राज्यवृद्धये । बलिदाने तूत्तरविद्धा ग्राह्या। सूर्योदये परं रिक्तेत्युक्ते 'बलिदाने कृतेष्टम्यां पुत्रभङ्गो भवेन्न- प' इति मदनरत्ने देवीपुराणात् । यत्तु 'न कार्या दशमी- विद्धा नवमी तु सदा बुधैः । नवी दशमीविद्धां ये कु- र्वन्ति विमोहिताः । वृथा तेषां भवेत्सर्वं बलिपूजाविधान- कमितिवचनम् । तच्छुद्धायां नवम्यां बलिदानं कर्त्तव्य- मित्येवं परम् । अन्यथा सूर्योदये परंरिक्तति वाक्यविरोधः स्या- दिति । विश्वरूपनिबन्धे-आश्विनस्य सिते पक्षे आरब्धे नवरात्र. के । शवमूते समुत्पन्ने क्रियाः कार्याः कथं बुधैरिति प्रश्ने । 'मू- तकं वर्तमाने च तत्रोत्पन्नं यदा भवेत् । देवीपूजा प्रकर्त्तव्या पशु- यज्ञविधानतः' । वर्तमाने प्रारब्धे नवरात्रके सूतकं यदोत्पन्नं भ- वेत्तदा स्वयमेव देवीपूजा कर्त्तव्या, अपारब्धे पशुयज्ञविधानतः अन्येनाग्निहोत्रादिवत् कारयितव्यमित्यर्थः ॥ अथ नवरात्रकृत्यम्, । भविष्योत्तरे-आश्विने मासि शुक्ले तु कर्त्तव्यं नवरात्रकम् । प्रतिपदादिक्रमेणैव यावच नवमी भवेत् । त्रिरात्रं वापि कर्त्तव्यं सप्तम्यादि यथाक्रमम्।तथा-एवञ्च विन्ध्य- वासिन्यां नवरात्रोपवासतः। एकभक्तन नक्तेन तथैवायाचितेन बलिदान विधि । चतुर्थ उद्धारः। ६३ च । पूजनीया जनैवी स्थाने स्थाने पुरे पुरे । तथा देवीपुराणे- कन्यासंस्थे रवौ तत्र शुक्लामारभ्य नन्दिकाम् । अयाची वाथ- वैकाशी नक्ताशी वाथ वाग्यतः। नन्दिकां प्रतिपदम् । मार्कण्डेये- निराहारौ यताहारौ। भविष्योत्तरे-आश्वयुक्शुक्लपतिपत्स्वातियोगे शुभे दिने । पूर्वमुच्चैःश्रवानाम प्रथमं श्रियमावहत् । तस्मात्साश्व- नरैस्तत्र पूज्योऽसौ श्रद्धया सह । पूजनीयाश्च तुरगा नवमीं याव- देवहि। अथ वलिदानविधिः। अजस्य दशवर्षाणि रुधिरेण प्रतर्पिता। माहिषेण शतं वीर तृप्ता भवति चण्डिका । सहस्रं तृप्ति- मायाति स्वदेहरुधिरेण च । शान्तिस्वस्त्ययनं कार्यं तदा तेपां दिने दिने। धान्यं भल्लातकं कुठं वचाः सिद्धार्थ- कास्तथा । पञ्चवर्णेन सूत्रेण ग्रन्थि वेषां तु बन्धयेत् । महानवमी मुपक्रम्य तस्याङ्के छुपयुज्यन्ते प्राणिनो महिपादयः । सर्वे ते स्वर्गतिं यान्ति नतां पापं न विद्यते । यावन्न चालयेद्गात्रं पशुस्ता- वन्न हन्यते । न तथा बलिदानेन पुष्पधूपविलेपनैः । यथा सन्तु- ष्यते मेषैर्महिषैविन्ध्यवा सिनी । भवानीमाङ्गणे प्राणा येषां याता युधिष्ठिर । तेषां स्वर्गे ध्रुवं वासो वीरास्तेऽप्सरसां गणाः । अथ कालिकापुराणोक्तो बलिदानविधिः । स्थापयित्वा वलिं तत्र पुष्पचन्दनवन्दनैः । पूजयेत्साधको देवीं बलिमन्त्रैः पृथक् पृथक् ॥ उत्तराभिमुखो भूत्वा वलिं पूर्वमुखं स्थितम् । निरीक्ष्य साधकः पश्चादिमं मन्त्रमुदीरयेत् ॥ वरस्त्वं बलिरूपेण मम भाग्यादुपस्थितः। प्रणमामि ततः सर्वरूपिणं बलिरूपिणम् ॥ चण्डिकाप्रीतिदानेन दातुरापविनाशने । वैष्णवीबीलरूपाय बले तुभ्यं नमोनमः ॥

स्मृतिसारोद्धारे।
यज्ञार्थे पशवः सृष्टाः स्वयमेव स्वयंभुवा ।
अतस्त्वां घातयाम्यद्य तस्माद्यज्ञे वधोऽवधः ॥
यूँहीश्रीमितिमन्त्रेण बलिं वामनरूपिणम् ।
चिन्तयित्वा न्यसेत्पुष्पं मूद्धि तस्यच भारत ॥
ततोदेवीं समुद्दिश्य काममुद्दिश्य चात्मनः।
अभिषिच्य बलिं पश्चात्करवालं प्रपूजयेत् ॥
रसना त्वं चण्डिकायाः सुरलोकप्रसाधकः ।
ह्रींखड्गायनमइति नत्वा खड् प्रपूजयेत् ॥
कृष्णं पिनाकपाणिञ्च कालरात्रिस्वरूपिणम् ।
उग्रं रक्तास्यनयनं रक्तमाल्यानुलेपनम् ॥
रक्ताम्बरधरं चैकपाशहस्तं कुटिम्बिनम् ।
पिवन्तं रुधिरं चापि भुञ्जानं व्यसंहतिम् ।।
असिर्विशसनः खडस्तीक्ष्णधारो दुरासदः।
श्रीगर्भो विजयश्चैव धर्मधारोसि ते नमः ॥
पूजयित्वा ततः खडं आँहूंफडितिमन्त्रकैः।
गृहीत्वा विमलं खड्गं छेदयेद्वलिमुत्तमम् ॥
ततो बलीनां रुधिरं तोयसैन्धवसत्फलैः।
मधुभिर्गन्धपुष्पैस्तदधिवास्यप्रयत्नतः ॥
ॐ हीश्रीकौशिकीतिरुधिराप्यायिता भव ।
स्थाने नियोजयेद्रक्तं शिरसश्च प्रदीपकम् ॥
एवं दत्वा बलि पूर्ण फलमानोति साधकः ।
हीनात्तस्माद्धीनफलं विफलं स्याद्विपर्ययात् ॥
बलिदानेतु दुर्गायाः अन्यत्रापि विधिस्तदा ।
अयमेव प्रयोक्तव्यः सद्भिवेतालभैरव ॥
तथा वैष्णवीमन्त्रकल्पोक्तः क्रमः सर्वत्र सर्वदा ।

चतुर्थ उद्धारः।
६
.
साधकैबलिदानस्य ग्राह्यः सर्वेश्वरस्य च ॥
बलिभिः साध्यते मुक्तिलिभिधौँश्च साध्यते ।
बलिदानेन सततं जयेच्छन्नृपात्मजः ॥
मत्स्यानां कच्छपानां तु रुधिरैः सततं शिवा।
मासकं तृप्तिमामोति ग्राहैर्मासत्रयन्तथा ॥
मृगाणां शोणितर्देवी खगानामपि विस्तृतैः ।
अष्टौ मासानवाप्नोति तृप्तिं कल्याणदा सदा ॥
गोधिकानाञ्च रुधिरैर्वार्षिकी तृप्तिमाप्नुयात् ।
कृष्णसारस्य रुधिरैः शूकरस्य च शोणितैः ॥
प्रामोति सततं देवी तृप्ति द्वादशवार्षिकीम् ।
अजाविकानां रुधिरैः पञ्चविंशतिवार्षिकीम् ॥
महिषाणां च खड़ानां रुधिरैः शतवार्षिकीम् ।
तृप्तिमाप्नोति परमां शार्दूलरुधिरैस्तथा ॥
सिंहस्य शरभस्याथ स्वगात्रस्य च शोणितैः।
देवी तृप्तिमवामात सहस्रं परिवत्सरान् ॥
मांसैरपि तथा तृप्ती रुधिरैर्यस्य यावती ।
कृष्णसारमृगं खडं तथा मत्स्यञ्च रोहितम् ॥
वार्थीनसयुगं चापि फलं तेषां पृथक्पृथक् ।
कृष्णसारस्य मांसेन तथा खड़स्य चण्डिका ॥
वर्षपञ्चशतं देवी वृप्तिमाप्नोति केवलाम् ।
रोहितस्य तु मत्स्यस्य मांसैर्वार्थीनसस्य च ॥
तृप्तिमाप्नोति वर्षाणां शतानि त्रीणि मत्प्रिया ।
त्रिपिवन्विन्द्रियंक्षीणं श्वेतं वृद्धमजापतिम् ॥
बुधाः वार्ड्सनसं माहुर्हव्ये कव्ये च संस्कृतम् ।
नीलग्रीवो रक्तशीर्षः कृष्णपादः सितच्छदः॥

स्मृतिसारोद्धारे।
वार्ड्सनसः स्यात्पक्षीच स मे विष्णोरपि प्रियः।
नरेण बलिना देवी सहस्रं परिवत्सरान् ॥
विधिदत्तेन चामोति तृप्तिं लक्षं विभिनरैः।
नारेणैवाथ मांसेन त्रिसहस्राणि वत्सरान् ॥
तृप्तिमामोति कामाख्या भैरवी मम रूपधृक् ।
मन्त्रपूतं शोणितं तत्पीयूषं जायते सदा ॥
समस्तकं चापि तस्य मांसं चापि शिवा तथा ।
तस्मात्तु पूजने देव्या बलेः शीर्ष च लोहितम् ॥
भोज्ये होमे च मांसानि नियुञ्जीत विचक्षणः।
पूजासु नाममांसानि दद्यादै साधकः क्वचित् ॥
दत्ते च लोहितं शीर्षममृतत्वं च जायते ।
कूष्माण्डमिक्षुदण्डं च मद्यमासवमेव च ॥
एते बलिसमाः प्रोक्तास्तृप्तौ छागसमास्तथा।
चन्द्रहासेन का वा छेदनं मुख्यमिष्यते ॥
दात्रासिधेन्वझुकण्ठसंकुलाभिस्तु मध्यमम् ।
क्षुरक्षुरप्रभल्लैर्वा चाधर्म परिकीर्तितम् ॥
एभ्योन्यैश्शक्तिभिर्वाणैरस्त्रैश्शस्त्रैः कथञ्चन ।
नात्ति देवी बलिं तं तु दाता मृत्युमवाप्नुयात् ॥
हस्तेन घातयेद्यस्तु प्रोक्षितं साधकः पशुम् ।
पक्षिणं वा ब्रह्महत्यामसावामोति दुस्सहाम् ॥
नामंत्र्य खड़न्तु वलिं नियुजीत विचक्षणः ।
खड़स्या मन्त्रणे मन्त्राः पूर्वमेव प्रदर्शिताः ॥
अथ दैवतमुद्दिश्य काममुद्दिश्य चात्मनः।
छेदयेत्तेन खड़ेन बलि पूर्वाननं ततः॥
अथवोत्तरवकं तु बलिं पूर्वमुखः स्वयम् ।

चतुर्थ उद्धारः।
पूर्वोक्तसलिलादींस्तु रक्तचास्य नियोजयेत् ।।
सौवर्ण राजतं तानं रैत्यं पर्णपुटं तथा ।
माहेयं कांस्यमथवा यज्ञकाष्ठमयन्तथा ॥
पात्रन्तु रुधिरादाने कर्तव्य विभवावधि ।
न लौहे वाल्कले वापि वैत्रे रङ्गेऽथ कौपिके ॥
दद्याद्रक्तं बलीनां तु भूमौ प्रतिस्रवे तथा ।
दद्यान्नरपतिस्तत्र पुटकादौ कथञ्चन ।।
हयमेधमृते दद्यान्न कदाचिद्धयं बलिम् ।
तथा दिक्पालमेधे तु गजं दद्यान्नराधिपः॥
न कदाचित्तथा देव्यै प्रदद्याद्धयहस्तिनौ ।
हयकर्णं चामरं तु बलिं दद्यान्नराधिपः ।।
सिंहं व्याघ्रं नरं वापि स्वगात्ररुधिरं तथा ।
न दद्याहाह्मणो मद्यं तथा देव्यै कदाचन ॥
सिंहं व्याघ्रं नरं दद्याद्राह्मणो नरकं व्रजेत् ।
इहापि स्यान्महीनाथ सुखभोगविवर्जितः ॥
स्वगात्ररुधिरं दत्वा चात्मवध्यामवाप्नुयात् ।
मद्यं दत्वा ब्राह्मणस्तु ब्राह्मण्यादेव हीयते ॥
प्रदधुः कृष्णसारन्तु न बलिं क्षत्रियादयः।
ददतः कृष्णसारन्तु ब्रह्मवध्यामवाप्नुयुः॥
यत्र सिंहस्य व्याघ्रस्य नरस्य विहितो वधः ।
क्षत्रियादौ तथावणे तत्रायं प्रोच्यते विधिः॥
कृत्वा घृतमयं व्याघ्रं नरं सिंहञ्च भैरव ।
अथवा सूपविहितं यवक्षोदमयं तथा ॥
घातयेत्तं महास्त्रेण स्वेन मन्त्रेण संस्कृतम् ।
प्रभूतबलिदाने तु त्रीस्त्रीस्तद्भागतः कृतान् ।।

स्मृतिसारोद्धारे।
पूजयेत्पमुखान्कृत्वा सर्वान्मत्रेणसाधकः ।
सामान्यपूजा कथिता बलीनां पूर्वतोमया ॥
विशेषो यत्र यत्रास्ति तत्पुनः शृणु भैरव ।
महिष यो ददेद्देव्यै भैरव्यै भैरवाय वा ॥
अनेनैव तु मन्त्रेण तदा तं पूजयेद्वलिम् ।
हृतवान् द्वेक्षि यथा वहसि चण्डिकाम् ॥
तथा वहख पुष्टिं मे शुभं च वह मामकम् ।
यमस्य वाहनं त्वं तु वररूपधराव्यय ॥
आयुर्वित्तं यशो देहि कासराय नमोस्तु ते ।
दैवे पिये च मुभग खड़ त्वं खड़सन्निभः ।।
जहि विघ्नान्महाभाग गुहाजात नमोस्तु ते ।
कृष्णसार ब्रह्ममूर्ते ब्रह्मतेजोविवर्द्धन ॥
चतुर्वेदमयोसि त्वं प्रजां देहि यशो महत् ।
त्वमष्टपादान् विभ्रत्तु चन्द्रभागसमुद्भव ॥
अष्टमूर्ते महाबाहो भैरवाय नमोस्तु ते ।
यथा भैरवरूपेण वाराहो निहतस्त्वया ।।
यथा शरमरूपेण त्वं वा वहसि चण्डिकाम् ।
तथा शुभानि मे नित्यं वह विघ्नांश्च सूदय ॥
त्वं हरिः सिंहरूपेण जगत्प्रत्यक्षरूपधृक् ।
जघान येन रूपेण हिरण्यकशिपु पुरा ॥
नरस्य गावरुधिरैः सपर्या
शृणु
पीठे यद्दीयते नित्यं बलिं दद्यात् श्मशानके ॥
श्मशानं हेरुकाख्यञ्च तत्पूर्वम्प्रतिपादितम् ।
मम रूपं श्मशानन्तु भैरवाख्यञ्च कथ्यते ।
तत्राङ्गत्वं ततः सिद्धौ त्रिभागन्तु भविष्यति ॥
भैरव।

RARY
चतुर्थ उद्धारः।
पूर्वाङ्गं भैरवाख्यन्तु समुत्सृष्टं नरस्य च ।
दक्षिणांशे शिरो दद्याद्भरव्या मुण्डमालया ॥
रुधिरं पश्चिमाने तु हेरुकाख्ये नियोजयेत् ।
दत्वा संपूज्य च बलीन्विसृज्य गमनक्रमे ।।
पीठं श्मशानेषु बलिं लिखेत्तु बलिदीपकम् ।
तथाप्यन्यत्र चोत्सृज्य छिद्राण्यत्र शिरोमृतम् ॥
निवेदयेत्साधकस्तु विपूज्याथ विलोक्य च ।
कण्ठाधो नाभितश्चोर्दै स्वाङ्गे पाणिमृते तथा ॥
प्रदद्याद्रुधिरं घातं नातिकुर्याच्च साधकः ।
गण्डयोश्च ललाटस्य भ्रुवोर्मध्यस्य शोणितम् ॥
कर्णाग्रस्यच बाव्होश्च स्तनयो रुदिरस्य च ।
कण्ठाधो नाभितश्चोई हृद्भागस्य यतस्ततः ॥
पार्श्वयोश्चापि रुधिरं दुर्गायै विनिवेदयेत् ।
तदङ्गकृतघाताच नक्रुद्धोऽक्षुब्धमानसः ॥
क्षतरक्तं प्रदद्यात्तु पद्मपुष्पस्य पत्रके ।
सौवर्णे राजते ताने कांस्थपात्रे तु वा नरः ।।
विधाय देव्या दद्यात्तु तद्रक्तं मन्त्रपूर्वकम् ।
क्षणेन क्षुरिकाखड्गसंकुलादियदस्त्रकम् ॥
घातेन वृहदस्त्रस्य महत्फलमवाप्नुयात् ॥
पद्मपुष्पस्य पत्रं तु यावद्हाति शोणितम् ।
तत्पमाणचतुर्भागा अधिरक्तन्तु साधकः ॥
न कदाचित्प्रदद्यात्तु नाङ्गच्छेदं समाचरेत् ।
यः स्वहृदयसङ्घातमांसं माषप्रमाणतः ॥
तिलमुद्गप्रमाणं वा देव्यै दद्यात्तु भक्तितः।
षण्मासाभ्यन्तरे सोत्र काममिष्टमवाप्नुयात् ॥

स्मृतिसारोद्धारे।
बाहो| कर्णयोऽपि यो दद्यादीपतिकाम् ।
हृदये वा स्नेहपात्रं विना भत्त्यातु साधकः ॥
क्षणमात्रेण तद्दीपप्रदानस्य फलं शृणु ।
भुक्त्वाथ विपुलान्भोगान्देवीगहे यथेच्छया ॥
कल्पत्रयं तत्र स्थित्वा सार्वभौमो भवेन्नृपः ॥
महिषस्य शिरश्छिन्नं सप्रदीपं शिवापुरः।
हस्ताभ्यां यः समाधाय अहोरात्रं तु तिष्ठति ॥
स चिरायुः पूतमूर्तिरिह भुक्त्वा मनोरमान् ।
भोगानन्तेमगृहगो गणानामधिपो भवेत् ।
नरस्य शीर्षमादाय साधको दक्षिणे करे ॥
वामे तु रुधिरं पात्रे गृहीत्वा निशि जागृतम् ।
यावद्रात्रिस्थितो मयो राजा भवति चेह वै ॥
मृतो मम पुरं प्राप्य गणानामधिपो भवेत् ।
महामाये जगन्नाथे सर्वकामप्रदायिनि ।
ददामि देहरुधिरं प्रसीद वरदा भव ।
इत्युक्त्वा नतिपूर्वेण मूलमन्त्रेण साधकः ॥
खगात्ररुधिरं दत्वा मानवः सिद्धिमाप्नुयात् ।
सौभाग्येन परं यच्च प्रदीपं परमं रुचिः ॥
दीपयेन्मां सदेहस्थं दीपं हौंहोंनमोनमः ।
इत्यनेन तु मन्त्रेण दीपं दद्याद्विचक्षणः ॥
महानवम्यां शरदि शुक्लपक्षे बलिं हरेत् ।
चैत्रे मासि शिते पक्षे चतुर्दश्यां विशेषतः ॥
बलिभिर्महिषैश्छागैर्मा च भैरवरूपिणम् ।
तोषयेन्मधुभिर्मत्स्यैस्तेन तुष्याम्यहं सुतौ ॥
पशूनां पक्षिणां वापि नराणां तु विशेषतः।

चतुर्थ उद्धारः।
७१
स्त्रियं न दद्यात्तु वलिं दत्वा नरकमाप्नुयात् ॥
सङ्घातबलिदाने तु योषितं पशुपक्षिणोः ।
बलिं दद्यान्मानुषं तु भक्त्या सङ्घातपूजितम् ॥
न त्रिमासीयकान्यूनं पशुं दद्याच्छिवाबालम् ।
नच त्रैपाक्षिकान्यूनं प्रदद्याद्वै पतत्रिणम् ॥
काणखण्डत्वव्यङ्ग्यादिदुष्टं न पशुपक्षिणम् ।
तिवृद्धं रोगिणश्च क्लोबं हीनाधिकाङ्गकम् ॥
छिन्नलाङ्कुलकर्णादि भग्नदन्तं तथैव च ।
भग्नशृङ्गादिकं चापि न दद्यात्तु कथञ्चन ।।
न ब्राह्मणं बलिं दद्याचाण्डालमपि पार्थिवम् ।
नोत्सृष्टं द्विजदेवेभ्यो भूपतेस्तनयं तथा ॥
बलेन विजितं दद्यात्तनयं विप्रभूभृतोः ।
नारं सव्यं शिरोरक्तं देव्यास्सम्यनिवेदयेत् ॥
छागस्य वामतो दद्यादग्रतो देहशोणितम् ।
क्रव्यादानां पशूनां च पक्षिणां च शिरोसृजम् ॥
वामे निवेदयेत्पार्थे जलजानां च सर्वतः ।
कृष्णसारस्य खडस्य कूर्मस्य मकरस्य च ॥
ग्राहाणामथ मत्स्यानामग्र एव निवेदयेत् ।
सिंहस्य दक्षिणे दद्यात्खड़िनो वापि दक्षिणे ॥
पृष्ठदेशे न दद्यात्तु शिरो वा रुधिरं वलिम् ।
नैवेद्यं दक्षिणे वामे पुरतो नच पृष्ठतः ॥
वामतस्तु तथा धूपमग्रे वाणान्सुदक्षिणे ।
निवेदयेत् पुरोभागे पुष्पं धूपं च दक्षिणाम् ॥
मण्डले चेन्मध्यभागे वामदक्षिणपूर्ववत् ।
मदिरां पृष्ठतो दद्यादन्यपानं तु मध्यतः ॥

૭૨
स्मृतिसारोद्धारे।
छिन्नं शिरस्तथैशान्यां नारं दिश्यथ राक्षसे ।
पतितं राज्यहानि च विनाशं च विनिर्दिशेत् ॥
पूर्वाग्नियाम्यवारुण्यवायव्यादिगतं क्रमात् ।
श्रियं पुष्टिं भयं नाशं पुत्रलाभं धनं तथा ॥
क्रमाद्रिनिर्दिशेन्नारं छिन्नं शीर्ष तु भैरव ॥
उत्तरादिक्रमादेव महिषस्यापि मस्तकम् ।
पतितं वायुवा काष्टं यद्यद्दद्याच्छृणुष्व तत् ॥
भोग्यं हानि तथैश्वर्यं वित्तं रिपुजयं भयम् ।
राज्यलाभं श्रियं चापि क्रमात्तद्विद्धि भैरव ॥
पशूनां चैव सर्वेषां छागादीनां विशेषतः ।
एवं फलं क्रमाद्विद्याहते च जलजाण्डजौ ॥
जलजानां पक्षिणां तु याम्यनैर्ऋतयोर्भयम् ।
अन्यत्र तु श्रियं दद्यात्पतितं शातितं शिरः ॥
यास्यात्कटकटाशब्दो दन्तानां छिन्नमस्तके ।
नराणां पशुपक्ष्यादिग्रहादीनां च शोकदम् ॥
लोतकं चक्षुषोर्जातं यदि श्रवति मस्तके ।
छिन्ने नरस्य राज्यस्य तदा हानि विनिर्दिशेत् ॥
माहिषे मस्तके नेत्राद्यदि श्रवति लोतकम्
छिन्ने निवेदिते चैव अपमृत्युं विनिर्दिशेत् ॥
अन्येषामपि पश्वादिबलीनां शिरसोदितात् ।
निर्गतं लोतकं धत्ते परां भीति गदं तथा ॥
हसति च्छिन्नशीर्षश्चेन्नारं स्याञ्च रिपुक्षयः।
श्रीद्धिरायुषो वृद्धिस्तदा दातुन संशयः॥
यद्यद्वाक्यं निगदति तथा भवति चाचिरात् ॥
हुङ्काराद्राज्यहानिस्तु जायते छिन्नमस्तके ।

चतुर्थ उद्धारः। विभूतिमतुलां दद्यात्षण्मासाभ्यन्तरेपि वा ॥ रुधिरादानकाले तु शकुन्मूत्रे यदि सवेत् । कायाद्धं याति चोर्ट्स चेदातुःस्यान्मरणं तदा ॥ आक्षेपाद्वामपादस्य महारोगः प्रजायते । अन्यत्राक्षेपकरणे कल्याणमुपजायते ॥ महिषः पञ्चवर्षीयः पञ्चविंशतिवार्षिकः। बलियो नरो देव्यै तस्य दानं तु भूतये ॥ महानवम्यां शरदि यद्येवं दीयते बलिः । सदा तदष्टाङ्गभवैौसोमं समाचरेत् ॥ दुर्गातन्त्रेण मन्त्रेण प्रणीते दहने शुचौ । एवं दत्वा बलि मर्यो रिपुक्षयमवाप्नुयात् ॥ इति श्रीकालिकापुराणोक्तो बलिदानविधिसंक्षेपः । अथ शिष्टाचाराच्चित्रावैधृतिरहितायां प्रतिपदि कलशास्था- पनम् । दुष्टायां प्रतिपदि अशौचादिदोषे वा सप्तम्यादित्रिरात्रप- क्षः। त्रिरात्रं वापि कर्त्तव्यमिति वचनात् । केवलाष्टमीपक्षो वा कार्यस्तृतीयश्चतुर्थपक्षाभावादिति ध्येयम् । कलशममाणम् दे. वीपुराणे। पञ्चाशाङ्गुलवैपुल्यमुत्सेधः षोडशाङ्गुलः । कलशानां प्रमाणं तु मुखमष्टाङ्गुलं भवेत् ॥ मुक्ताफलं हीरकं च वैयै पद्मरागकम् । पुष्परागं च गोमेदं नीलं गारुत्मतं तथा ॥ प्रवालमुक्तान्युक्तानि महारत्नानि वै नव ॥ सुवर्ण रजतं मुक्ता राजावत प्रवालकम् । रवपञ्चकमाख्यातं शेषं वस्तु ब्रवीम्यहम् ॥

स्मृतिसारोद्धारे।
अभावे सर्वरत्नानां हेम सर्वत्र कल्पयेत् ।
तथा, पूजनीया जनैर्देवी स्थाने स्थाने पुरे पुरे ॥
सातैः प्रमुदितैर्दृष्टाह्मणैः क्षत्रियैर्नृपैः ।
वैश्यैः शूद्रभक्तियुक्तम्लेंच्छैरन्यैश्च मानवैः ।।
स्त्रीभिश्च कुरुशाल तद्विधानमिदं शृणु ।
जयाभिलाषी नृपतिः प्रतिपत्प्रभृति क्रमात् ॥
लौहाभिसारिकं कर्म कारयेद्यावदष्टमीम् ।
लोहनामाभवत्पूर्वन्दानवः सुमहाबलः ॥
स देवैः समरे क्रुदैर्बहुधा शकलीकृतः ।
तदङ्गसंभवं सर्व लोहं यदृश्यते क्षितौ ॥
शस्त्रास्त्रमन्त्रैर्होतव्यं पायसं घृतसंयुतम् ।
हुतशेषन्तुरङ्गाणां राजानमुपहारयेत् ॥
लौहाभिसारिकं कर्म तेनैतदृषिभिः स्मृतम् ।
प्रागुदमवणे देशे पताकाभिरलङ्कतम् ॥
मण्डपं कारयेदिव्यं नवसप्तकरं वरम् ।
षोठशहस्तप्रमाणमित्यर्थः॥
आग्नेय्यां कारयेत्कुण्डं हस्तमात्रं तु शोभनम् ।
मेखलात्रयसंयुक्तं योन्यश्वस्थदलाभया ।
राजचिन्हानि सर्वाणि शस्त्राण्यस्त्राणि यानि च ।
आनीय मण्डपे तानि सर्वाण्यत्राधिवासयेत् ॥
ततः पुरोहितः स्नातः शुक्लाम्बरधरः शुचिः।
ॐकारपूर्वकर्मत्रस्तल्लिङ्गैर्जुहुयाघृतम् ॥
भविष्योतरे।
दुर्गागृहं प्रकर्तव्यं चतुरस्रं सुशोभनम् ॥
रहस्यस्वस्तिकाद्यैश्च चर्चितं वस्त्रमण्डितम् ।

चतुर्थ उद्धारः।
गौरमृगोमयाभ्यां च लिप्तं शस्त्रसमन्वितम् ॥
तन्मध्ये वेदिका कार्या चतुर्हस्ता सभा शुभा।
तस्यां सिंहासनं क्षौमकम्बलाजिनसंयुतम् ॥
तत्र दुर्गाम्प्रतिष्ठाप्य सर्वलक्षणसंयुताम् ।
सर्वदेवमयीं प्रौढयौवनोन्मादशालिनीम् ॥
भुजैश्चतुर्भी रुचिरैर्दशभिर्वा विभूषिताम् ।
तप्तहाटकवर्णाङ्गीन्त्रिनेत्रां शशिशेखराम् ॥
पीतवस्त्रपरीधानां नीलकौशेयसंयुताम् ।
ग्रैवोपहारकेयूरनूपुराभरणान्विताम् ॥
नानारत्नविचित्रेण मुकुटेन विराजिताम् ।
अनेककुसुमाकीर्णकपर्दैन सुशोभिताम् ।।
नितम्बबिम्बसंबद्धकिङ्किणीकणनादिताम् ।
शूलचक्रदण्डशक्तिभल्लचापासिधारिणीम् ॥
घण्टाक्षमालाकरकपानपात्रलसत्कराम् ।
तदने च्छिन्नशिरसं महिषं रुधिरप्लुतम् ॥
निःसृतार्द्धतर्नु कण्ठनालाचर्मासिधारिणम् ।
देवीकरधृतग्रीवं शूलेनोरसि ताडितम् ॥
दैत्यं करालदंष्ट्रास्यं विद्युत्कपिशमूर्द्धजम् ।
नागपाशेन विलितं हर्यक्षेणापि विद्रुतम् ॥
वमद्रुधिरबक्रेण धुन्वतोर्द्धसटं रुषा ।
ऊर्द्धलाङ्गुलदण्डेन देव्यधिष्ठानशोभिना ।।
शोभितां मातृचक्रेण सेव्यमानां मुरैस्तथा ।
पूजयेत्प्रयतो देवीन्नरो नियममास्थितः ॥
नियमाः प्रागुक्ता एकभक्तादयः।
दुर्मोत्सवे, भूमौशायी तथामन्त्र्य कुमारी जयेन्मुदा।

स्मृतिसारोखारे।
वखालङ्कारदानैश्च सन्तोष्य प्रतिवासरान् ।।
बलिं च प्रसहं दद्यादोदनं मांसमाषवद ।
त्रिकालं पूजयेद्देवीं जपस्तोत्रपरायणः ॥
जपो देव्यादिमन्त्रस्य, स्तोत्रं सप्तशतिकादि ।
कुमारीपूजा स्कान्दे ।
एकैकां पूजयेत्कन्यामेकड्या तथैवच ।
द्विगुणं त्रिगुणं वापि प्रत्येकं नवकं च वा॥
नवभिलभते भूमिमैश्वर्यन्द्रिगुणेन च ।
एकवृद्ध्या भवेत्क्षेममेकैकेन श्रियं लभेत् ॥
एकवर्षा तु या कन्या पूजार्थे तां विवर्जयेत् ।
गन्धपुष्पफलादीनां प्रीतिस्तस्या न विद्यते ।।
कुमारिका द्विवर्षा च त्रिवर्षा च त्रिमूर्तिनी ।
चतुर्वर्षा च कल्याणी पञ्चवर्षा च रोहिणी ॥
षड्वर्षा च भवेत्काली सप्तवर्षा च चण्डिका ।
अष्टवर्षा शाम्भवी च दुर्गा च नवभिः स्मृता ।।
दशवर्षा सुभद्रेति नामभिः परिकीर्तिताः ।
अतऊर्द्ध तु या कन्या सर्वकार्येषु वर्जिता ।।
फलम्।
दुःखदारिद्यनाशाय शत्रूणां नाशनाय च ।
आयुष्यबलवृद्ध्यर्थं कुमारी पूजयेन्नृप ।
आयुःकामस्त्रिमूत्तिं च त्रिवर्गस्य फलाप्तये ।
अपमृत्युव्याधिपीडादुःखपापापनुत्तये ॥
सौख्यधान्यधनारोग्यपुत्रपौत्रादिवृद्धये ।
कल्याणी पूजयेद्धीमान्नित्यं कल्याणवृद्धये ॥
आरोग्यमुखकामी च जयकामी तथैव च ।

चतुर्थ उद्धारः।
यशाकामी नरो नित्यं रोहिणी पूजयेत्तथा ॥
विद्यार्थी च जयार्थी च राज्यार्थी च विशेषतः।
शत्रूणां च विनाशार्थी कालिकां पूजयेन्नरः॥
ऐश्वर्यमुखकामी च स्वर्गकामी च यो नरः।
संग्रामे जयकामी च चण्डिकां परिपूजयेत् ॥
दुःखदरियनाशाय नृपसंमोहनाय च ।
महापापप्रणाशाय शाम्भवी परिपूजयेत् ॥
सबलोत्कटशत्रूणामयसाधनकर्मणि ।
दुर्गा दुविनाशाय पूजयेद्यनतो बुधः ।।
सौभाग्यधनधान्यादिवांछितार्थफलाप्तये ।
मुभद्राम्पूजयेन्मयो दासीदासविवृद्धये ।।
पातःकाले विशेषेण कृताभ्यङ्गो विशेषतः।
आवाहयेत्ततः कन्यां मन्त्रेणानेन भार्गव ॥
मन्त्राक्षरमयीं लक्ष्मी मातृणां रुपधारिणीम् ।
नवदुर्गात्मिकां साक्षात्कन्यामावाहयाम्यहम् ॥
ततः संपूजयेद्धीमान्मन्त्ररेतैः पृथक् पृथक् ।
जगत्पूज्ये जगद्वन्ये सर्वशक्तिस्वरूपिणि ।
पूजां गृहाण कौमारि जगन्मातर्नमोस्तु ते ॥
त्रिपुरां त्रिपुराधारां त्रिवर्गज्ञानरूपिणीम् ।
त्रैलोक्यवन्दितां देवीं त्रिमूर्ति पूजयाम्यहम् ॥
कालात्मिकां कलातीता कारुण्यहृदयां शिवाम् ।
कल्याणजननी नित्यं कल्याणीं पूजयाम्यहम् ।।
अणिमादिगुणाधारामकाराद्यक्षरात्मिकाम् ।
अनन्तशक्तिकां लक्ष्मी रोहिणी पूजयाम्यहम् ॥
कामाचारां शुभां कान्तां कालचक्रस्वरूपिणीम् ।
-

स्मृतिसारोद्धारे।
कामदां करुणोदारां काली संपूजयाम्यहम् ॥
चण्डवीरां चण्डमायां चण्डमुण्डप्रभअिनीम् ।
पूजयामि सदा देवी चण्डिकाञ्चण्डविक्रमाम् ॥
सदानन्दकरी शान्तां सर्वदेवनमस्कृताम् ।
सर्वभूतात्मिकां लक्ष्मी शाम्भवीं पूजयाम्यहम् ॥
दुर्गमे दुस्तरे कार्ये भवदुःखविनाशिनीम् ।
पूजयामि सदा भत्त्या दुर्गा दुर्गविनाशिनीम् ॥
मुन्दरीं स्वर्णवर्णाभां मुखसौभाग्यदायिनीम् ।
सुभद्रजननी देवीं सुभद्रां पूजयाम्यहम् ॥
एवमभ्यर्चनं कुर्यात् कुमारीणां प्रयत्नतः।
कंचुकैश्चैव वस्त्रैश्च गन्धपुष्पाक्षतादिभिः ।
नानाविधैर्भक्ष्यभोज्यैर्भोजयेत्पायसादिभिः ।।
अथापूज्या आह।
हीनाधिकाङ्गी कुष्ठाञ्च विशालकुलसंभवाम् ।।
ग्रन्थिस्फुटितशीर्णाङ्गी रक्तपूयव्रणांकिताम् ।
जात्यन्धां केकरां काणी कुरूपान्तनुरोमशाम् ।।
संत्यजेद्रोगिणीं कन्यान्दासीगर्भसमुद्भवाम् ।
अथ पूज्या आह, ।
अरोगिणीमकुष्ठाङ्गी सरूपां व्रणवर्जिताम् ।
एकवंशसमुद्भूतां कन्यां सम्यक् प्रजापते ॥
ब्राह्मणी सर्वकार्येषु जयार्थे नृपवंशजाम् ।
लाभार्थे वैश्यवंशोत्यां सुतार्थे शूद्रवंशजाम् ॥
दारुणे चान्त्यजातीयां पूजयेद्विधिना नरः।
नवरात्रस्य त्रिरात्रस्य वा करणासामर्थ्य महाष्टम्यामेव कु
र्यात् । 'तत्राष्टम्यां भद्रकाली दक्षयज्ञविनाशिनी'इत्युदाहृतवचना

चतुर्थ उद्धारः। ७९ त् । प्रत्यहं होमः कार्यः । तदुक्तम् । वायव्यैर्वारुणैः शौरैः शाऊमन्त्रैश्च वैष्णवैः । वैश्वदेवैस्तथाग्नेयैर्होमः कार्यो दिने दिने ॥ तुरङ्गा रक्षणीयास्तु पुरुषैः शस्त्रपाणिभिः । नच ताड्याः कचित्तत्र नच वाह्याः कथंचन ॥ तत्र नवरात्रे । दुर्बलानि हि रक्षांसि प्रत्यूषे ब्रह्मतेजसा । भवन्ति कस्मात्प्रत्यूपे स्नापयेत्पाययेद्धयान् ॥ पुरोहितस्तु द्विकालं तर्पयित्वा द्विजोत्तमान् । पुण्याहं कारयेन्नित्यं स्वस्त्याशीर्मङ्गलैर्युतम् ॥ अत्र प्रसङ्गात्कुण्डमण्डपादिविधिविस्तरभयादनुपयुक्तत्वाच्च नेह प्रपञ्चितः । प्रतापमार्तण्डे मदीये च नवरात्रकृत्यसंबके ग्रन्थेऽनुसन्धेयः। धृतपल्ययनानश्वान् गजांश्च समलङ्कृतान् । भ्रामयेनगरे नित्यं नन्दिघोषपुरःसरम् ॥ प्रत्यहं नृपतिः स्नात्वा संपूज्य पितृदेवताः। पूजयेद्राज्यचिन्हानि फलमाल्यविलेपनैः ॥ तस्याभिसारणाद्राज्ञो विजयः समुदाहृतः। पूजामन्त्रान्प्रवक्ष्यामि पुराणोक्तानहन्तव ॥ यैः पूजिताः प्रयच्छन्ति कीर्तिमायुर्यशो वलम् । तत्रादौ छत्रमन्त्रः । यथाम्बुदाश्छादयन्ति शिवायेमां वसुन्धराम् । तथा च्छादय राजानं विजयारोग्यवृद्धये ॥ चामरमन्त्रः। शशाङ्ककरस- काश क्षीरडिण्डीरपाण्डुर । प्रोत्सारयाशु दुरितं चामरामरवल्लभ ।। अथाश्वपूजा । तत्र प्रथमं रेवन्तपूजा । नमो देवादिदेवाय तुरङ्ग- बलधारिणे । सूर्यपुत्राय देवाय तुरङ्गाणां हिताय च ॥ तुरङ्गप- स्मृतिसारोद्धारे। रिरक्षत्वं मृगयोपरि धावसि । सत्वगं स्वाधिपं रक्ष शरणं त्वां बजाम्यहम् ॥ मन्त्रान्तरम् । सूर्यपुत्र महाबाहो छायाहृदयनन्दन । शान्ति कुरु तुरङ्गाणां रेवन्ताय नमोनमः ॥ अथोच्चैःश्रवःपूजा । दुग्धाम्भोनिधिसम्भूत देवेन्द्रविजयावह, । उच्चैःश्रवो नमस्तुभ्यं वा- जिवृन्दं प्रयच्छ मे ॥ अथ प्रत्यक्षाश्वमन्त्रः । गन्धर्वकुलजातस्त्वं मा भूयाः कुलदृषकः । ब्रह्मणः सत्यवाक्येन सोमस्य वरुणस्य च ॥ प्रभावाच हुताशस्य वर्द्धय वं तुरङ्गमान् । तेजसा चैव सूर्यस्य मुनीनां तपसा तथा ॥ रुद्रस्य ब्रह्मवीर्येण पवनस्य बलेन च । स्मर त्वं राजपुत्रोसि कौस्तुभं च मणिं स्मर ॥ यां गतिं ब्रह्महा गछेन्मावहा भ्रातृहा तथा । भूमिहा वनदाही च क्षत्रियश्च परा- मुखः ॥ सूर्याचन्द्रमसौ वायुर्यावत्पश्यन्ति दुष्कृतम् । ब्रजाश्व तां गति शिमं तच्च पापं भवेत्तव ॥ निष्कृन्तो यदिवा च्छिन्नो युद्ध- ऽध्वनि तुरङ्गम । रिपून्विजित्य समरे सह भर्चा सुखी भव ॥ ध्व- जमन्त्रः। शक्रकेतो महावीर्य श्यामवर्णाऽर्चयाम्यहम् । पारिजात नमस्तेस्तु तथा नारायणध्वज ॥ गरुत्मन्मारुतगतिस्त्वयि सन्निहितो यतः । सारवन्त्यायुधान्यत्र रक्ष त्वं च रिपून्दह ॥ अथ पताका- मन्त्रः । हिरण्यकशिपोर्युद्धे युद्धे देवासुरे तथा । कालनेमिवधे यच्च तथा त्रिपुरघातने । शोभितासि तथैवाद्य शोभयास्माँश्च सं- स्मर । पूतनारेवतीनाम्ना कालरात्रिश्च या स्मृता ॥ दहवाशु रिपून्सर्वान्पताके त्वं मयार्चिता । अथ हस्तिमन्त्रः । कुमुदैरावणः पः पुष्पदन्तोथ वामनः । सुप्रतीकोंजनो नील एतेऽष्टौ देवयो- नयः ॥ तेषां पुत्राश्च पौत्राश्च वनान्यष्टौ समाश्रिताः । मद्रो भद्रो गजश्चैव राजासङ्कीर्ण एव च ॥ वने वने प्रसूता ये यूथानि सुमहा- न्ति च । यान्तु त्वाम्बसवो रुद्रा आदित्याश्च मरुद्गणाः ॥ भर्तारं गच्छ नागेन्द्र स्वामी च प्रतिपाल्यताम् । अवाप्नुहि जयं युद्ध चतुर्थ उद्धारः। गमने स्वस्तितो व्रज ॥ अथ खड़मन्त्रः । असिर्विशसनः खग- स्तीक्ष्णधारो दुरासदः । श्रीगर्भो विजयश्चैव धर्मधारस्तथैव च ॥ इत्यष्टौ तव नामानि स्वयमुक्तानि वेधसा । नक्षत्रं कृत्तिका ते तु गुरुर्देवो महेश्वरः ॥ हिरण्यं च शरीरं ते धाता देवो जनाईनः । पिता पितामहो देवस्त्वं मां पालय सर्वदा ॥ इयं येन धृता क्षोणी हतश्च महिषासुरः । तीक्ष्णधाराय शुद्धाय तस्मै खड़ाय ते नमः ॥ अथ चापमन्त्रः । सर्वायुधमहाभाग सर्वदेवारिसूदन । चाप मां स- र्वदा रक्ष साकं शायकसत्तमैः॥धृतं कृष्णेन रक्षार्थ संहारार्थ हरेण च । त्रयीमूर्तिगतं देवं धनुरस्त्रं नमाम्यहम् ॥ अथ च्छुरिकामन्त्रः । सर्वायुधानां प्रथमं निर्मितासि पिनाकिना । शुलायुधाद्विनिष्कृष्य कृत्वा मुष्टिग्रहं शुभम् ॥ चण्डिकायाः प्रदत्तासि सर्वदुष्टनिबहिणी । तया विस्तारिता चासि देवानां प्रतिपादिता ॥ सर्वसत्वाङ्गभूतासि सर्वाशुभनिवारिणी । छुरिके रक्ष मां नित्यं शान्ति यच्छ नमो. स्तु ते ॥ अथ कट्टारमन्त्रः । रक्षाङ्गानि गजान् रक्ष रक्ष वाजिध- नानि च । मम देहं सदा रक्ष कट्टारक नमोस्तु ते ॥ अथ कुन्त- मन्त्रः ॥ कुन्तायुध महावीर रिपुसैन्यविदारण । गृहाण जीवितं तेषां मम सैन्यं च रक्ष माम् ॥ पाशमन्त्रः । पाश घातय शस्त्व- मनया लोकमायया । गृहाण जीवितं तेषां मम सैन्यं च रक्ष माम् ॥ अथ चर्ममन्त्रः । शर्मप्रदस्त्वं समरे चर्मन्सत्यं यथोदिते । रक्ष मां रक्षणीयोऽहं तापनीय नमोस्तु ते ॥ कनकदण्डमन्त्रः। प्रोत्सारणाय शत्रूणां साधूनां रक्षणाय च । ब्रह्मणा निर्मितश्चासि व्यवहारम- सिद्धये ॥ यशो देहि मुखं देहि जयदो भव भूपतेः । ताडयस्व रिपून्सर्वान्हेमदण्ड नमोस्तु ते ॥ अथ दुन्दुभिमन्त्रः । दुन्दुभे त्वं सपनानां घोरो हृदयदारणः । भव भूमिपसैन्यानां तथा विजय- वर्द्धनः ॥ यथा जीमूतघोषेण हृष्यन्ति च वराङ्गनाः। तथास्तु नव ८२ स्मृतिसारोद्धारे। शब्देन हर्षोऽस्माकं मुदावहः ॥ शङ्खमन्त्रः। पुण्यस्त्वं शङ्ख पुण्यानां मङ्गलानां च मङ्गलम् । विष्णुना विधृतो नित्यमतः शान्तिप्रदो भव ॥ सिंहासनमन्त्रः। विजयो जयदो जेता रिपुघाती शुभङ्करः । दुःखहा धर्मदः शान्तः सर्वारिष्टनिवहर्णः ॥ एते वै संनिधौ यस्य सब सिंहा महाबलाः । तेन सिंहासनेति वं मन्दैश्च गीयसे ॥ नमस्ते सर्वतोभद्र भद्रदो भव भूपतेः । त्रैलोक्यजयसर्वस्व सिंहासन. नमोस्तु खे ॥ तथैव कचिन्हानि स्वानि पूज्यानि शिल्पिभिः । लौहाभिसारिकं कर्म कृत्वैवं मन्त्रपूर्वकम् ॥ अष्टम्यां नियमं कृत्वा पूर्वाह्ने स्नानमाचरेत् । कुङ्कुमचन्दनचन्द्रश्चतुःसमैः शैलपिष्टैश्च ॥ चर्चितयार्थी देर्वी कुसुमैरभ्यर्चयेद्बहुभिः । कुसुदैस्सपद्मपुष्पैः स- धूपदीपैः सनैयैः॥ मांसर्बल्युपहारैर्मङ्गलशब्दैः समूच्छिश्चिन्हैः । विहितच्छत्रैर्यानैः स्यन्दनशितशस्त्रधारिभिलॊकैः॥ तुष्टैः पश्वादिभि- स्तु निवेद्यते सर्वमेव भगवत्यै । पूजामन्त्रस्तु-जयन्तीमङ्गलाकाली तिप्रसिद्धः। अथ बिल्वपत्रमन्त्रः॥अमृतोद्भव श्रीवृक्ष महादेवप्रियः सदा। बिल्वपत्रं प्रयच्छामि पवित्रं ते सुरेश्वरि॥ दुर्गा सा पूजनीयाथ तदिने द्रोणपुष्पकैः। सा चाभीष्टा सुरेशान्यां तयारूढायतेग्रतः॥ सतः खड़ें नमस्कृत्य शत्रूणां वधसिद्धये । इच्छेदृद्धिं च राज्यश्च मुभिक्षं चात्मनो नृपः ॥ पुनः पुनः प्रणम्याा सँस्मरन् हृदये शिवाम् । सर्वं कृत्वेति कौरव्याष्टम्यां जागरणं निशि ॥ नटनर्त्तनगीतैश्च का- रयेत्सुमहोत्सवम् । एवं हृष्टैर्निशां नीत्वा प्रभाते अरुणोदये ॥ घा- तयेन्महिषान्मेषानग्रतोनतकन्धरान् । शतमर्द्धशतं वापि तदर्द्ध वा यथेच्छया ॥ सुरासवभृतैः कुम्भैस्तर्पयेत्परमेश्वरीम् । कापालिके- भ्यस्तदेयं ज्वलगिर्दीपवृक्षकैः ॥कश्चिच्चोपोषितो धीरो विधृतोन्येन 'खगवान् । भूतेभ्यस्तु बलिं दद्यान्मन्त्रेणानेन सामिषम् ॥ सरक्तं सजलं चान्नं गन्धपुष्पाक्षतैयुतम् । त्रीस्त्रीन्वारान्समूहेन दिग्विदि- चतुर्थ उद्धारः। क्षु किरेद्रलिम् ॥ 'बलिं गृह्णन्तु मे देवा आदित्या वसवस्तथा । म- रुतश्चाश्विनौ रुद्राः सुपर्णाः पन्नगा ग्रहाः ॥ अमुरा यातुधानाच पिशाचोरगराक्षसाः । डाकिन्यो यक्षवेताला योगिन्यः पूतनाः शिवाः ॥ दिक्पाला लोकपालाश्च येच विघ्नविनायकाः। जगतां शान्तिकारो ब्रह्माद्याश्च महर्षयः ॥मा विघ्नम्मा च मे पापं मा संतु परिपन्थिन । फलम्-महानवम्यां ये तुष्टाः कृत्वा दुर्गामहो- त्सवम् ॥ पठतां शृण्वतां चापि सर्वाशुभनिवारणम् ॥ अथ क्रमं समुल्लङ्ग्य प्रसङ्गादत्रैव विजयदशमी निर्णीयते । सा चाघिनदशमी अपराजितापूजादौ नवमीयुता ग्राह्या । तदुक्तं पुराणसमुच्चये दशम्यां च नरैः सम्यक् पूजनीयापराजिता । ऐ- शानी दिशमाश्रित्य अपराह्ने प्रयत्नतः ॥ या पूर्णा ननमीयुक्ता तस्यां पूज्याऽपराजिता । क्षेमार्थं विजयार्थं च प्रसिद्धविधिना नृपः ॥ आश्विन शुक्लपक्षे तु दशम्यां पूजयेन्नृपः । रुद्रयुक्तः दशम्यां तु पूजयेन्नापराजिताम् ॥ श्रवणयुक्ता चेत्पूर्वा परा वा ग्राह्या, कश्पपः-उदये दशमी किञ्चित्सम्पूर्णैकादशी यदि । श्रवण तदा काले सा तिथिर्विजयाभिधा ॥ श्रवणः तु पूर्णायां काकुत्स्थः प्रस्थितो यतः । उल्लङ्घयेयुः सीमानं तद्दिनः ततो नराः ॥ स्कान्दे-दशर्मी यः समुल्लङ्घय प्रस्थान कुरुते नृपः । तस्य सवत्सरं राज्ये न कापि विजयो भवेत् ॥ अनेन वि- जयदशम्यां प्रस्थाननियमो दर्शितः । श्रवणाभावे केवलदश- म्यामेव प्रस्थानं कार्यम् । तदाह लल्ल:-तिथि: शरीरं ति- थिरेव साधनं तिथि: प्रमाणं तिथिरेव कारणम् । अन्यच्च-दशम्यां पूजयित्वा तु मृन्मयीं चापराजिताम् । कलशीं तोयसम्पूर्णा ज- यन्तीपल्लवानताम् ॥ चतुर्वर्णैस्तथा यात्रा कर्तव्या साधनेन च ।

स्मृतिसारोद्धारे। दशम्यां सवलं राजा पूजयित्वापराजिताम् ॥ दशदिक्षु मनोयो- गाद्यानां कृत्वा तु वै नृपः। नीराजनं स्वस्य कृत्वा ततो नीराज- येद्वलिम् ॥ नीराजनमन्त्रश्च। 'चतुरङ्गवलं मह्यं निररिष्टं व्रजत्विह । विजयो मम सर्वत्र अस्तु चाग्निप्रसादतः ॥ दशदिक्ष्विति वचना- दिग्विरोधाद्यदोषः सूचितः । अथर्वगोपथब्राह्मणोक्तोऽपराजिता- पूजाविधिनगरीसीमान्ते कार्यः, तत्रादौ वास्तुपूजा दिक्पालपूजा शमीपूजा, 'अमङ्गलानां शमनीं शमनीं दुष्कृतस्य च । दुःस्वप्न- शमनी धन्यां प्रपद्येऽहं शमी शुभाम् । शरेण शत्रुप्रतिकृतिवेधः चतुर्दिक्षुहोमश्च । एवं कृते विजयमाप्तिः ॥ . अथ प्रकृतं क्रममनुसरामः। कार्तिकशुक्लाष्टम्यां कूर्मपुराणोक्ता गोपूजा, गोग्रासगोप्रदक्षिणगवानुगमनैः सर्वकामावाप्तिः । इयंगो- पाष्टमीत्युच्यते । मार्गकृष्णाष्टम्यां स्कान्दोक्तं रुक्मिण्यष्टमीव्रतम् सप्तवर्ष- साध्यम्, प्रथमवर्षे एकमुखे गृहे रुक्मिणीकृष्णप्रद्युम्नादिपूजा, उ- पवासः, चन्द्रार्घदानानन्तरं भोजनं वा, द्वितीयवर्षे द्विमुखं गृह एवं प्रत्यब्दं मुखवृद्ध्या सप्तमे वर्षे सप्तमुखे गृहे उद्यापनम् । पु- त्राद्याप्तिः फलम् । पौषशुक्लाष्टमी भविष्योत्तरे । बुधवारयुक्ता महाभद्रा तस्यां स्नानादि शिवपूजादि शिवप्रीतये भवाति, इयमेव भरणीयोगाज- यन्तीत्युच्यते । तस्यां स्नानदानादि कोटिगुणमुक्तम् । अथ माघसितपक्षे भीष्माष्टमी सूर्यसेनीये । 'माघे मासि सि- ताष्टम्यां सलिलं भीष्मवर्मणे । श्राद्धं चैव सदा कुर्युस्ते स्युस्स- न्ततिगामिनः । श्राद्धं काम्यम् । तर्पणं नित्यम् । 'ब्राह्मणाद्याश्च ये वर्णा दार्भीष्माय नोजलम् । सम्वत्सरकृतन्तेषां पुण्यं नश्यति स- चतुर्थ उद्धारः। त्तम' इति वचनात् । तर्पणमन्त्रस्तु-वैयाघ्रपदगोत्राय साङ्कतिप्रव- राय च । अपुत्राय ददाम्येतत्सलिलं भीष्मवर्मणे ॥अथ बुधवारसं- योगात्सिताष्टम्यां भविष्योत्तरोक्तं बुधाष्टमीव्रतम् । बुधपूजा ल- क्ष्मीपूजा हेमलक्ष्मीसहितजलपूर्णकरकदानम् । यावत्कथासमाप्ति- स्तावद्भोजनम् । अन्ते बुधप्रतिमादानम् । अष्टाष्टम्यः कार्या स- सजन्मनि जातिस्मरतादिः फलम् ॥ अथ फाल्गुनसिताष्टम्यां लक्ष्मीसीतयोः पूजा,प्रदोषे सहस्र- शो दीपा देयाः। ब्राह्मणेभ्यो यदेवान्नं ततच्छेषं तत्तज्जातीयमे- ववाश्य,लक्ष्मीप्रीतिः फलम् । 'भूताष्टम्योर्दवा भुक्त्वा रात्रौ भुक्त्वा तु पणि । एकादश्यां दिवारात्रौ भुक्त्वा चान्द्रायणं चरेत्' इतिका- लादीयवचनम् । अत्र पर्वपदं चतुर्दश्यष्टमीभिन्नपरम् । यद्वा 'शु- क्लाष्टमी कृष्णचतुर्दशी च पूर्णाथ राका रविसंक्रमश्चेति वाक्य विशिष्यैव शुक्लाष्टमीकृष्णचतुर्दश्योः पर्वत्वमुक्तम् । कृष्णाष्टमीशु- क्लचतुर्दश्योरपि दिवा भोजननिषेधार्थ पर्वणीत्युक्त्वापि भूताष्टम्यो- रिति पुनर्वचनं ध्येयम् ॥ अथ नवमीनिर्णयः । सा च पूर्वविद्धव ग्राह्या । युग्मवाक्या- तू, 'अष्टम्या नवमी विद्धा कर्त्तव्या फलकाटिभिः। न कुर्यानवमी तात दशम्या तु कथञ्चन' इति ब्रह्मवैवर्ताच्च । पाझे-नवम्येकाद- शी चैव दशाविद्धा यदा भवेत् । तदा वा विशेषेण गङ्गा- म्भः बहतौ यथा । खतौ कुक्कुरचर्मणि । अथ नवमीव्रतानि । तत्र चैत्रसितनवम्यामगस्त्यसंहितोक्तं राम- नवमीव्रतम् । तच्च नित्यम्, 'यस्तु रामनवम्यां वै भुङ्क्ते स च निर्णय नराधमः। कुम्भीपाकेषु घोरेषु पच्यते नात्र संशय' इतिवच- नात् । 'अकृत्वा रामनवमीव्रतं सर्वव्रतोत्तमम् । व्रतान्य- स्मृतिसारोवारे। न्यानि कुरुते नतेषां फलमश्नुते । इयं च तिथिद्वैधे मध्यान्हव्यापिनी ग्राह्या लग्ने कर्कटकाहूये इत्यगस्त्येन कर्कटस्य जन्मकालाभिधानाच्चैत्रे तस्य च मध्यान्हवर्तित्वात् । तथा-चैत्रशुक्लाथ नवमी पुनर्वसुयुता यदि । सैव मध्यान्हयोगेन महापुण्यतमा भवेत्' । उभयत्र मध्याह्न- व्यापित्वे तदव्यापित्वे वा या पुनर्वसुयुता सैव ग्राह्या, 'पुनर्वस्वृक्षसं- योगः स्वल्पोपि यदि दृश्यते । चैत्रशुक्रनवम्यान्तु सा पुण्या स- र्वकामदा' इत्यगस्त्यवचनात् । यदा दिनद्वयेपि पुनर्वसुयोगः एकत्र मध्याह्ने अपरत्र तं विहाय तदा मध्याह्ने ग्राह्या श्रीराम- जन्मकालत्वात्तस्येति । यदा तु दिनद्वयपि मध्यान्हे ऋक्षयोगो म- ध्यान्हं विना वा तदोत्तरैव ग्राह्या । 'नवमी चाष्टमीविद्धा त्याज्या धर्मपरायणैः। उपोषणं नवम्यां वै दशम्यामेव पारणम्' इत्यगस्त्य- वचनात् । दशम्यामेवेसेवकारेणान्ययोगव्यवच्छेदपरेण नवम्यां पारणं व्यवच्छिद्यते । यद्यपि रामनवमीव्रतं हेमाद्रिकालादर्शमू- यसेनीयादिनिबन्धे न लिखितम् तथाप्यस्माभिरगस्त्यसहितायां दृष्ट्वा व्यलेखीति । अथात्रैव भैरवसहितचतुःषष्टियोगिनीपूजा दु- र्गापूजा वलिदानं च शरदत् । अथ भविष्योत्तरोक्ता वैशाखोभयनवम्योश्चण्डिकापूजा, फ- लम्-विमानेन देवलोकाप्तिः । ज्येष्ठसितनवम्यां श्वेतब्राह्मणीसंज्ञो- मापूजा । आषाढनवमीद्वये ऐन्द्रीपूजा नक्तं भोजनम् । श्रावण- नवमीद्वये करवीरैः कौमारीपूजा कुमारीभोजनम् नक्तकरणम् । सर्वत्र देवीप्रीतिसालोक्ये फले । अथ भाद्रशुक्लनवम्यां नन्दानवमीत्रतम् । उपवासो देवी- पूजा, फलं विष्णुसालोक्यम् । अस्यामेव दुर्गापूजा । अथाश्विनशुक्लनवम्यां देवीप्रबोधनम् । देवीपुराणे-कन्यायाः कृष्णपक्षे तु पूजयित्वार्द्रभेपि वा । नवम्यां बोधयेदेवी गीतवादित्र .

चतुर्थ उद्धारः। निस्स्वनैः । आश्विनसितनवम्यां विष्णुधर्मोक्तं भद्रकालीव्रतम् । उपवासो जागरणम् तत्पतिमादानम् । यात्रादिसिद्धिः फलम् । अ- स्यामेव भविष्योत्तरोक्तं रथनवमीव्रतम् । उपवासो दुर्गास्थपूजा पारणम् फलं विष्णुसालोक्यम् । अस्यामेव पायोक्तं शौर्यत्र- तम् । दुर्गापूजा शौर्याप्तिः फलम् । अथ मार्गशुक्लनवम्यां भविष्योत्तरोक्तं नन्दिनीव्रतम् । त्रिरात्रोपवासो नन्दिनीपूजा । पुत्राद्याप्तिः फलम् । अथ दशमीसामान्यनिर्णयः। दशमी सर्वापि पूर्वयुतैव ग्राह्या, 'दशमीचैव कर्त्तव्या सदुर्गा द्विजसत्तम' इति स्कान्दात् । अङ्गिराः- 'सम्पूर्णा दशमी ग्राह्या पूर्वया परयाथवा । युक्ता तदूषिता यस्माद्यतः सा सर्वतोमुखी' । एतत्तु पूर्वविद्धाया अलाभे उदयव्यापिनी ग्रा- खेत्येवपरम् । यद्वा एकादशीव्रताङ्गत्वेन क्रियमाणमेकमक्तादिकं परविद्धायामेव ग्राह्यमित्येवं परम् । उपवासेपि दशमी सर्वापि पूर्वविद्वैव ग्राह्या । 'दशम्येकादशीविद्धा नोपोष्या स्यात्कदाच- न' इति वचनादिति ॥ अथ चैत्रसितदशमीमुपक्रम्य देवीपुराणे । 'धर्मराजन्दशम्यां तु पूजयित्वा सुगन्धकैः । विगतारिनिरालम्ब इहचान्ते परम्पदम् । धर्मराजं यमम् । स्कान्दे-ज्येष्ठस्य शुक्लदशमी सवत्सरमुखी स्मृता । तस्या स्नानं प्रकुर्वीत दानं चैव विशेषतः ॥ यां काञ्चित्सरित प्राप्य दद्यादर्थ्यन्तिलोदकम् । मुच्यते दशभिः पापैःस महापातकोपमै ॥ वाराहे-दशमी शुक्लपक्षे तु ज्येष्ठे मासि कुजेऽहनि । अवतीर्णा यतः स्वर्गाद्धस्तः तुसरिद्वरा । हरते दशपापानि तस्माद्दशहरा स्मृता । अत्र गङ्गाया असंनिधाने नद्य- ज्येष्ठेदशहरा- निर्णयः ।

स्मृतिसारोद्धारे। न्तरेपि गङ्गास्मरणपूर्वकस्नानेन दश पापानि हरति । यां का- श्चित्सरितमिति वचनात् । यदा याङ्काञ्चिदनिर्वचनीयां स- रितं गङ्गामेवेत्यर्थः अन्यथात्वविशेष इति वयम् । अत्र ब्राह्मे हस्तेन दशहरा, भविष्योत्तरे तु भौमहस्ताभ्याम्, वाराहे ताभ्या- मेव गङ्गा भुवमवतीर्णा, दशहरा स्कान्दे बुधहस्ताभ्यां योगा- दिति विरोधः । कल्पमेदव्यवस्थया भेदः पारणीयः । दशपा- पानि हरति सा तथा । तानि मनुराह-अदत्तानामुपादानं हिंसा चैवाविधानतः । परदारोपसेवा तु कायिकं त्रिविधं स्मृतम् ॥ पा- रुष्यमनृतं चैव पैशून्यं चापि सर्वशः । असम्बद्धप्रलापश्च वाअयं स्याञ्चतुर्विधम् ॥ परद्रव्येष्वभिध्यानं मनसानिष्टचिन्तनम् । वितथा भिनिवेशश्च मानसं त्रिविधं स्मृतम् ॥ नद्यां नद्यन्तरनिषेधस्तु गङ्गा- न्यविषयः । स्कान्दे-स्नानकालेन्यतीर्थेषु जप्तव्या जान्हवीं नरैः । विना विष्णुपदी कान्यत्समर्थमघशोधने । अघमर्षविधौ श्रुतिरप्या ह, इमं मे गङ्गे यमुने सरस्वतीत्यादि । अतश्च गङ्गायमुनासरख- तीशतद्रूणां स्मरणं नद्यन्तरेष्वपि न दुष्यतीति ॥ अथैकादशीनिर्णयः । तत्रैकादशीव्रतं नित्यं काम्यं चेत्यु- भयरूपम् । तत्र नित्यत्वबोधकानि । कण्वः-एकादश्यामुपवसेन्न- कदाचिदतिक्रमेत् । सनत्कुमारः-न करोति हि यो मूढ एकाद- श्यामुपोषणम् । स नरो नरकं याति रौरवं तमसावृतम् । नारदी- ये-यानि कानि च पापानि ब्रह्महत्यासमानि च । अन्नमाश्रित्य तिष्ठन्ति संप्राप्ते हरिवासरे। स्कान्दे-मातृहा पितृहा चैव भ्रात- हा गुरुतल्पगः । एकादश्यां तु यो भुङ्क्ते पक्षयोरुभयोरपि । तथा, परमापदमापन्नो हर्षे वा समुपस्थिते। सूतके मृतके वापि न त्याज्यं द्वादशीव्रतम्। विष्णुरहस्ये-द्वादशीन प्रयोक्तव्या यावदायुःसुवृत्ति- चतुर्थ उद्धारः। एकादशीनि- भिः । इत्यादीनि बहूनि । अथ काम्यत्वबोधकानि । विष्णुरहस्ये- यदीच्छाद्वष्णुसायुज्यं शुभां संपदमात्मनः । एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि । कात्यायनः-संसारसागरोत्तारमिच्छेद्विष्णुपरा- यणः । ऐश्वर्यं सन्तति स्वर्ग मुक्तिं वा यद्यदिछति । एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि । नारदीये-अश्वमेधसहस्राणि वा- जपेयशतानि च । एकादश्युपवासस्य कलां नाहन्ति षोडशीम् । इत्यादीनि भूयांसि । अत्र कश्चिदाह--एकस्यैव नित्यत्वं काम्यत्वं च विरुद्धम् । नित्यत्वं नाम फलानपेक्षत्वं काम्यत्वं फ- त्या काम्यावा लापेक्षत्वम् । न चैकस्य विरुद्धरूपद्वयसम्भव इति । तन्न, इति विचारः संयोगपृथक्त्वन्यायेनोपपत्तेः, सापेक्षनिरपेक्षकर्तृभेदेन कत्तुं शक्यत्वाच्च । 'पूर्वामुपवसेत्कामी निष्कामस्तूत्तरां सदा' इति दिनद्वय- विधानात् । 'जह्याद्भक्तद्वयं नित्ये काम्ये भक्तचतुष्टयम्' इति व्रताङ्ग- नियमभेदात् । नोकं प्रत्येकस्मिन्नेव प्रयोगे नित्यत्वं काम्यत्वं चेति ब्रूमः । तथा सत्येकस्य कर्मणो द्वैरूप्याङ्गीकारे नित्यत्व- काम्यत्वाभ्यां विरोधः स्यात् । यद्वा प्रमाणद्वयसद्भावादेकस्यापि कर्मणो द्वैरूप्याङ्गीकारः खादिवत् । यथा-खादिरो यूपो भव- तीति नित्यः खादिरः, खादिरं वीर्यकामस्य यूपं कुर्वन्तीति त- स्मिन्नेव क्रतौ काम्यः । तद्वदत्रापि स्यात् । तथाच सूत्रम् । ए- कस्य तूमयत्वे संयोगपृथक्त्वमिति । अग्निहोत्रवद्वा द्वैरूप्यम् । यावज्जीवमग्निहोत्रं जुहोतीति नित्यत्वम् । अग्निहोत्रं जुहुयात्व- काम इतिकाम्यत्वम्, तद्वदत्रापि स्यात् । अर्जुनविनोदे तु अग्निहोत्रवदेकस्याप्युपवासस्य निमित्तभेदेन द्वैरूप्यम् । यथाग्नि- होत्रे यावज्जीवमित्यनेन यावज्जीवशब्देन पुरुषायुषपरिमितकालो निमित्तम् । काम्ये चाग्निहोत्रे स्वर्गकामनैव निमित्तम् । तथा- त्राप्युभयं निमित्तम् । कालविशेप इति कर्मधर्मो निसविधिः, स्मृतिसारोद्धारे। काम्यविधिर्गुणविधिर्नतु प्रयोगभेदः । ननु कर्जेक्यांच निसका- म्यरूपौ द्वौ प्रयोगौ कथं घटेते । इत्थं-विविदिषाधिकरणन्या- यात्तकृदेवानुतिष्ठतः प्रयोगद्वयसिद्धिः । अयमर्थः । तमेव वेदा- नुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन' इति श्रुत्या यज्ञादीनां ब्रह्मविद्यार्थत्वं विहितम् । यावज्जीवामित्यादिना आश्रमधर्मत्वं च । तत्र प्रयोजनभेदेन प्रयोगभेद इतिपूर्वपक्षे सि- द्धान्तो न योगभेदः, नियन्त्रितब्राह्मणभोजनप्रयोगवत् । यथा नि- मन्त्रितब्राह्मणेन द्विर्न भुज्यते किन्त्वेकेनैव भोजनेनान्यकर्तृक- श्राद्धनिष्पत्तिः स्वातिश्च साध्यते । तद्ब्रह्मविद्यार्थत्वमाश्रमध- मत्वं चाग्निहोत्रादीनाम् । नच नित्यानिससंयोगविरोधः, उ- भयवोधकवाक्येन नदभावात् । तस्मात्सकृदेव प्रयोगइति । त- द्वत्सदुपवासेनैकादश्यां नित्यकाम्यप्रयोगोस्तु यत्र न कालभेदो- ङ्गभेदोवेति सर्व स्वस्थम् । विविदिषाधिकरणसंग्राहको । 'विद्यार्थ- माश्रमार्थं च द्विःप्रयोगोऽयवा सकृत् । प्रयोजनविभेदेन प्रयोगोपि विभिद्यताम् । श्राद्धार्थभुक्त्या तृप्तिः स्याद्विद्यार्थेनाश्रमस्तथा । अ- नित्यनित्यसंयोगयुक्तिभ्यां खादिरो मत' इति । ननु सकृदनुष्ठाने- नानेकार्थसिद्धिधा तन्त्रेण प्रसङ्गेन वा, तन्वं यथा-दर्शपौर्णमासयोः पण्णां प्रधानयागानां त्रयाणां मध्ये सकृत्सकृदनुष्ठितेन प्रयाजाद्य- ङ्गयागेनोपकारः साध्यत इति । प्रसङ्गोयथा-पश्चर्थमनुष्ठितेन प्र- याजादिना पशुसत्रमध्यपातिना पशुपुरोडाशस्याप्युपकारः सि- ध्यतीति, प्रकृते तन्त्रमसङ्गयोः कतरस्योपादानमिति चेत्प्रसङ्ग- स्येति ब्रूमः । काम्यायोगेणैव नित्यप्रयोगस्यापि सिद्धत्वात् । तथा च स्मृतिः । काम्यपि नित्यसिद्धिः स्यात्मसङ्गेनोभयात्मके ।। अथाधिकारिणः । कासायन:-अष्टवर्षाधिको मर्यो ह्यपूर्णा- १ उत्तरमी० अ०३ पा०४ अधि०८॥

चतुर्थ उद्धारः । एकादश्याधि- कौििनर्णय. .. शीतिवत्सरः । एकादश्यामुपवसेत्पक्षयोरुभयोरपि' इति सामान्य विशेषव्यवस्थामाह कालादर्शः। विधवाया वन- स्थस्य यतेश्चैकादशीद्वये। उपवासो गृहस्थस्य शुक्लायामेव पुत्रिणः। भुजेनिषेधः कृष्णायां सिद्धिस्तस्य ततो व्रत' इति ।गारुडे- पुनः प्रभातसमये घटिकैकादशी भवेत् । तत्रोपवासो विहितो वन- स्थस्य यतेस्तथा। विधवायास्तु तत्रैव परतो द्वादशी न चेत् । कोर्मे-एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि । वनस्थयतिध- ोयं शुक्लामेव सदा गृही। तथा—सङ्क्रान्त्यां कृष्णपक्षे च रवि- शुक्रदिने तथा । एकादश्यां न कुर्वीत उपवासं च पारणम् । का- त्यायनः-एकादशीषु कृष्णासु रविसंक्रमणे वतम् । चन्द्रमूर्योपरागे च न कुर्यात्पुत्रवान्गृही। व्रतमुपवासम् । मौतमः-आदि- पुत्रवद्गृहिणां सेऽहनिसंक्रान्त्यामसितैकादशीषु च।व्यतीपाते कृते श्राद्धे पुत्रीनोपवसेद्धृही । संक्रान्त्यादिविहिनोपवासविषयोऽयं निषेधोनतु तयुक्तकादश्युपवासविषयः। तन्निमित्तोपवासस्य निषेधो- यमुदाहृतः। नानुषङ्गकृतो ग्राह्यो यतोनित्यसुपोषणम्' इति जैमिनः। अनुषङ्गकृतः संक्रान्त्यादियोगकृतः एकादश्युपवासे निषेधो न ग्राह्य इत्यर्थः । कौमें न शकेन पिबेत्तोयं न खादेत्कूर्मशूकरौ । एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि । शयनीबोधिनीमध्ये या कृष्णैकादशी भवेत् । सैवोपोष्या गृहस्थेन नान्या कृष्णा कदा- चन । अनन्तभट्टीये-उपवासनिषेधे तु भक्ष्यं किञ्चित् प्रकल्प- येत् । अत्र प्राचः । गृहस्थैः शुक्लायामुपवासः कृष्णायां फला- हारादिकं कार्य,नत्वन्नादिभक्षणं स्वच्छन्देन । 'युनिषेधः कु- ष्णायां सिद्धिस्तस्य ततो व्रत' इत्यादिवाक्यात् । कृष्णायामुपवा- सनिषेधेपि न व्रतनिषेधः, न शङ्खन पिबेत्तोयमित्यादिनिपेयकवा- क्यस्योभयकादशीसाधारण्यात् । हेमाद्रिसंग्रहेपि-भुञ्जीरन ह- ९२ स्मृतिसारोद्धारे। रेर्दिनेऽखिलजनाः पक्षद्वयेपि व्रते, ह्येकादश्युभयी गृहीतरनृभिः कार्या तु शुक्लैव सा । शस्ता स्यागृहिणोऽसिता तु शयनी- बोधान्तरस्थाप्यथो, न स्यात्सात्मजितोऽथ पुत्रिगृहिणां काम्यव्रते स्यावयी' इति । तस्मादुपवासनिषेधे कृष्णायां किञ्चिद्भक्ष्यमोदना- दिव्यतिरिक्तं कल्प्यम्, विद्धायां शुक्लायाञ्च । 'अविद्धानामलाभे तु पयोदधिघृतानि च । सकृदेवाल्पमश्नीयादुपवासस्वसौ भवेदि- त्यनन्तभट्टीयवचनादिति वदन्ति । तन्न सम्यगिव, यतिब्रह्मचा- रिवानप्रस्थविधवादीनामुभयैकादश्युपवासाधिकारस्य दर्शितत्वा- तु । गृहस्थस्य शुक्लायामेवोपवासो नित्योऽन्यत्र तु काम्य इ- त्युक्तम् । तत्कथं न शङ्खन पिबेत्तोयमित्यादि निषेधस्य सर्वसा- धारण्यम् । तेन यस्य यस्यामेकादश्यामुपवासाधिकारस्तस्य तद- करणे निन्दावचनमन्वेति। नतु गृहस्थस्य कृष्णैकादश्यकरणे, अ- नधिकारात् । तस्मात् गृहस्थस्य कृष्णैकादश्यां फलाहाराद्युप- वासानुकल्पे नाधिकारः, उपवास एवानाधिकारात् । मुख्यपक्षा- भावेऽनुकल्पाभावात् । नयकृतगोदानस्य तदनुकल्पे रजतनिष्क- दानादावधिकारः सम्भवति । नच शयनीबोधिनीमध्यवर्तिकृष्ण- कादश्युपवासोपि गृहस्थस्य नित्यः,सैवोपोष्या गृहस्थेनेति वि- शेष्यसङ्गतैवकारस्यान्ययोगव्यवच्छेदपरत्वादिति वाच्यम् । उ- पोष्यैवेति क्रियासङ्गतत्वेनात्यन्तायोगव्यवच्छेदपरत्वादेवकारस्य । नच विशेष्यसङ्गतिपरिहारे बीजाभावः । अत्यन्तायोगव्यवच्छेद- स्याग्रे कथनीयस्यैव बीजत्वात् । अन्यथा सैवेत्यनेनैवान्यकृष्णा- व्यवच्छेदे प्राप्ते नान्या कृष्णेत्यस्य पौनरुत्यापत्तिरिति । किञ्च 'एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि' इत्यनेन भुक्तिनिषेधो न क्रियते किन्तूपवासो विधीयते । भुक्तिनिषेधे फलाहारादीना- मपि निवृत्तिप्रसङ्गात् । तस्मात् एकादश्यां न भुञ्जीतेत्यस्य ए- क चतुर्थ उद्धारः। कादश्यामुपवसेदित्यर्थः । स चोभयोः पक्षयोहस्थस्य न सम्भ- वति इति यत्यादिपरमेवेदं वचनमित्यस्मदादीनां प्रतिभासते ॥ उपवासानुकल्पानाह वायुपुराणे । 'नक्तं हविष्यान्नमनोद- नं वा फलन्तिलाः क्षीरमथाम्बु चाज्यम् । यत्पञ्चगव्यं यदि वापि वायुः प्रशस्तमत्रोत्तरमुत्तरञ्च' । वायुः प्राणायामादिना वा- युपानं न तूपवासो वायुशब्देनोच्यते, तदनुकल्पानां प्रक्रान्त- त्वादिति । नक्तं हविष्यान्नकल्पः नतु दिवा, हरिवासरेऽर्थादे- कादशीदिने ऽन्नस्य निषिद्धत्वात् । नच हरिवासरपदमेकादश्य- होरात्रपरम् । रात्री हविष्यान्नस्यानुकल्पत्वविरोधात् । अनोद- नं वेति सामान्येनानोदनस्यानुकल्पत्वाच्च । नच तर्हि सर्वस्यामेका- दश्यां रात्रावन्नभक्षणं प्रसज्जेत । उपवासविरोधादिति । अन्नश- ब्दस्यौदनवाचकत्वादोदनभक्षणे सकलब्रह्महत्यादिपातकसम्भ- वात् । न चैकादश्यां पिष्टादिभुक्तिरिष्टा स्यात्, उपवासविधिविरो- धादित्युक्तमेव । तस्मापिष्टादिभक्षणे नित्योपवासाकरणनप्रत्य- वायसामान्यापातः। अन्नभक्षणे तु ब्रह्महत्यादिसकलपापापत्तिरिति ध्येयम् । अत्रैवाधिकरणन्यायः-अन्नेन जुहुयादिति श्रुतौ अन्नम- दनीयम्, तत्केनादनीयेन होतव्यमिति सन्देहे । अनं प्र- रुपकान त्यक्षमोदनमित्युत्तरश्रुत्या निर्णयकरणादग्नेनैव होमः पर्य- वसितः। अत्राप्यन्नपदस्यादनीयमात्रपरत्वे पयोऽभ्यवहारा दीनामपि निवृत्तिप्रसङ्ग इति न काप्यनुपपत्तिः । यद्वा हविष्ययो- गेन हविष्यमदनीयमोदनभिन्नमेव । अस्मिन्पक्षे नक्तमित्येकोनुकल्पः हविष्यानमित्यपरः । अनोदनमिति तृतीयः, हविष्यानमित्यस्यैव वा विशेषणमनोदनमिति । ओदनस्यात्यन्तनिषिद्धत्वादेवानोदनप- देनौदनं वारयति । तुल्यत्वे त्वपिष्टकमित्याद्यपि स्यादिति दिक् ॥ अथोपवासखरूपं निरूप्यते । विष्णुधर्मोत्तरे--उपावृत्तस्य अन्नपदनि- २४ स्मृतिसारोद्धारे। यमाः। पापेभ्यो यस्तु वासो गुणैः सह । उपवासः स विज्ञेयः सर्वभोग- विवर्जितः।पापानि असम्भाष्यसम्भाषणास्पृश्यस्पर्शनादीनि, उपा- वृत्तस्य निवृत्तस्य, गुणाः विष्णुजपध्यानकथाश्रवणादयः। वृद्धव- उपधामनि- शिष्ठः-उपवासे तथा श्राद्धे न खादेइन्तधावनम् । खादनं दन्तघर्षणम्,दन्तधावनानुकल्पोद्वादशगण्डूषाः। विष्णुध- र्मोचरे-'श्राद्धोपवासदिवसे खादित्वा दन्तधावनम् । गायत्रीशत- सम्पूतमम्बु माश्य विशुध्यति' खदारव्यतिरिक्तस्त्रीणां प्रेक्षणादी- न्यप्युपवासे वानि। 'स्त्रीणां संप्रेक्षणाचैव ताभिः संकथनादपि। भिद्यते ब्रह्मचर्यन्तु वदारैर्ऋतुसङ्गमात्' इति निर्णयामृतोदाहृतव- चनात् । प्रकर्षण ईक्षणं भावपूर्वकमवलोकनम्,उदासीनावलोक- नादावदोषात् । ऋतुरत्र पञ्चदशनिशान्त्यनिशाव्यतिरिक्तो बो- ध्या,तत्र मैथुनस्यावश्यकस्वात् । अकरणे भ्रूणहसायापातात् । सदभिप्रायेणाह कात्यायनः-रेतासेकात्मकं भोगमृतेऽन्यत्र क्ष- यास्मृतः । क्षय उपवासस्य । देवलः-गृहीत्वौदुम्बरं पात्रं वारि- पूर्णमुदङ्मुखः । उपवासन्तु गृह्णीयाद्यद्वा सङ्कल्पयेद्बुधः । औदु- म्बरं ताम्रमयम् । गृह्णीयादित्यन्तं काम्योपवासाभिमायेण । स- कल्पयेदिति नित्योपवासाभिमायेण,सङ्कल्पयेन्मनसैवाभिध्यायेत् । मन्त्रस्तु-एकादश्यां निराहारो भूत्वा तदपरेऽहनि । भोक्ष्येऽहं पु- ण्डरीकाक्ष शरणं मे भवाच्युत । कात्यायन:--नित्योपवासी यो मर्त्यः सायं प्रात(जिक्रियाम् । सन्त्यजेन्मतिमान्विप्रः संमाते ह- रिवासरे । विष इत्युपलक्षणम् । नित्योपवासे भोजनद्वयनिवृत्तिरेव न तु दशमीद्वादश्योरेकमुक्तादि । काम्येत्वाह देवलः । सायमाद्य- न्तयोरहोः सायं पातश्च मध्यमे । उपवासफलमेप्मुर्जबाद- कचतुष्टयम्। उपवासफलपेप्मुरिसनेनास्य काम्यविषयता सूचिता । काम्येऽपरं विशेषमाह कात्यायन:-अष्टाक्षरेण काम्योपवासे विशेषः चतुर्थ उद्धारः। मन्त्रेण निर्जप्तेनाभिमन्त्रितम् । उपवासफलपेप्मुः पिबेत्पात्रगतं ज- लम् । काम्योपवासे दशम्यादिनियममाह । मात्स्ये—कांस्यं मार्स सुराक्षौद्रं तैलं वितथभाषणम् । आयासं च प्रवासञ्च दिवास्वापं च मैथुनम् । शिलापिष्टं मसूरं च दशम्यादिषु वर्ज- येत् ।'सुरा येषां प्राप्ता तेषां निषिध्यते । स्कान्दे-कांस्यं मांस मसूरं च चणकं कोरदूषकम् । शाकं मधु पराग्नं च हन्युरष्टा- विमे फलम् ॥ एकादशीच परविदैव ग्राह्या युग्मवाक्यात् । 'एकादशी न क- तिव्या दशमीसंयुता विभो' इतिस्कान्दात् । एकादशी संक्षेपात् शुद्धाविद्धेतिद्वेधा । सूर्योदये दशमीयोगरहिता शुद्धा तत्र धविचार। तत्सहिता विद्धा । 'सूर्योदयस्पृशा ह्येषा दशम्या गर्हिता सदा' इति वचनात् । सूर्योदयस्पर्शिन्या दशम्या युक्ता निन्दितेत्यर्थः । यत्तु 'आदित्योदयवेलायाः प्राङ्मुहूर्त्तद्वयान्विता। एकादशी तु सम्पूर्णा विद्धान्या परिकीर्तिता' इतिवचनं तद्विष्णु- मन्त्रोपवासविषयम् । 'दशमीशेषसंयुक्तो यदिस्यादरुणोदयः । वै- ष्णवैर्न तु वर्त्तव्यं तदिनैकादशीव्रतम्' इति वचनात् । 'परमापद- मापनो हर्षे वा समुपस्थिते । नैकाी त्यचेज्जातु यस्य दीक्षास्ति वैष्णवी । समात्मा सर्वभूतेषु निजाचारादविप्लुतः। विष्वर्पिता- खिलाचारः स हि वैष्णव उच्यते । अतिवेधादयः सर्वे ये वेधा- स्तिथिषु स्मृताः । सर्वेऽप्यवेधा विज्ञेया वेधाः सूर्योदये मता। अतिवेधादयश्चारुणोदयवेधविशेषाः। 'अरुणोदयवेधः स्यात्साई तु घटिकात्रयम् । अतिवेधो द्विघटिकः प्रभासंदर्शनाद्रवेः । महावे- धोपि तत्रैव दृश्यते ऽर्को न दृश्यते । तुरीयस्तत्र विहितो वेधः मू- योदये बुधैः । सूर्योदयात्माक् मुहूर्त्तद्वयात्मको ऽरुणोदयः। सूर्यो- दयसन्देहकाले दशमीयोगोमहावेधः कालनिर्णये प्रातर्वेधः कृतयुगे स्मृतिसारोद्धारे। अष्टादशवि- निर्णयः । त्रेतायामरुणोदये। द्वापरे चाप्युषःकाले कलौ सूर्योदये स्मृत' इति । तत्र शुद्धैकादशी समन्यूनाधिक्यभेदेन त्रिधा । त्रिविधापि द्वादशी- साम्यन्यूनाधिक्यभेदेन योगात्सत्येकं त्रिविधा भवति, धकादशी एवं विद्धापीति मिलित्वाष्टादशभेदाः। पाने-शुद्धा विद्धा पुनस्त्रेधा भेदैन्यूनसमाधिकैः । तत्रैकैका पुनस्त्रेधा द्वादश्यू- नसमाधिः । अत्र समत्वं पष्ठिदण्डात्मकम् । ततो न्यूनत्वे न्यून- त्वमाधिक्ये चाधिक्यमिति । तत्र द्वादशीसाम्यादियुक्तशुद्धसमही- नाषड्भेदेषु पूर्वैवोपोष्या। तदुक्तं स्कान्देशुद्धा यदा समा हीना समा हीनाधिकोत्तरा । तदा पूर्वामुपवसेन्नोत्तरां वैष्णवीमपि । पू- मेकादशी, वैष्णवीं द्वादशीम् । नारदीये-न चेदेकादशी- विद्धा द्वादशी परतः स्थिता । उपोष्यैकादशी तत्र यदीच्छेत्प- रमम्पदम् । यत्तु 'एकादशी भवेत्पूर्णा परतोद्वादशी यदि । तदा खेकाशीं त्यक्त्वा द्वादशी समुपोषयेत्' इति । अविद्धापि तथा वि- देत्यादि वचनं । तत् द्वितीयदिने एकादश्याः सद्भावे द्रष्टव्यम् । यदपि 'सम्पूर्णैकादशी त्याज्या परतोद्वादशी यदि । उपोष्या द्वादशी शुद्धा द्वादश्यामेव पारणम्' इत्यादि द्वादशीवृद्धौ वचनं तद्भागवतपरम् । 'द्वादश्यामुपवासस्तु द्वादश्यामेव पारणम् । व- जुलीवैष्णवैः कार्या हत्यायुतविनाशिनी' इति ब्रह्मवैवर्तात् । अ- न्यथा शुद्धा यदा समाहीनेति स्कान्दविरोषः । शुद्धाधिका द्वा- दशीसमा शुद्धाधिका द्वादशीन्यूना च पूर्वा गृहस्थैरुत्तरा य- तिभिरुपोष्या । मार्कण्डेये-सम्पूर्णैकादशी यत्र प्रभाते पुनरे- व सा । पूर्वामुपवसेत्कामी निष्कामस्तूत्तरां तथा । विधवापि च तत्रैव परतो द्वादशी न चेत् । स्कान्दे--सम्पूर्णैकादशी यत्र प्रभाते पुनरेव सा । त्रयोदशी उषःकाले उपोष्या तत्र का भवे- त् । उपोष्ये द्वे तिथी तत्र विष्णुमीणनतत्परैरिति । अत्रापि वै- विद्धायाः नद चतुर्थ उद्धारः। ष्णवैरेव द्वे तिथी उपोष्ये । शुद्धाधिका द्वादश्यधिका तु सर्वैरुत्तरै- चोपोष्या । नारदः--सम्पूर्णैकादशी यत्र प्रभाते पुनरेव सा । सर्वैरेवोत्तरा कार्या परतो द्वादशी यदि । अत्रैव 'अविद्धापि तथा विद्धा परतो द्वादशी यदि' । अथ विद्धा भविष्योत्तरे। अरुणोदय- काले तु दशमी यदि दृश्यते। सा विद्धैकादशी तत्र पाप- भदाः मुलमुपोषणम्'।इत्यपिवैष्णवपरम्,युगान्तरपरंवा।सौरध- मेष्वरुणोदयवेधप्रतिपादिकानि सर्वाण्यपिवचनानिभागव- तपरतया योज्यानि । विद्धसमा द्वादशीसमा विद्धसमा द्वादशीन्यूना च पूर्वा गृहस्थैः परा यतिभिरुपोष्या। पुराणसमुच्चये-दशमीमिश्रि- ता पूर्वा द्वादश्यां च विलुप्यते । एकादश्यां तदा ब्रह्मन्नुपवास: कथं भवेत् । शुद्धैव द्वादशी राजन्नुपोष्या मोक्षकाङ्क्षिभिः । स- कामैहिभिः पूर्वा विद्धापीति विनिश्चयः । ऋष्यशृङ्गः-पार- णाहे न लभ्येत द्वादशी कलयापि चेत् । तदानीं दशमीविद्धा- प्युपोष्यैकादशी तिथिः। अत्रैव 'विद्धाप्यविद्धा विज्ञेया परतो द्वाद- शी न चेत्' । व्यासः-दशमीमिश्रिता पूर्वा द्वादशी यदि लुप्यते । एकादश्यां महाप्राज्ञ उपवासः कथं भवेत् । शुद्धैव द्वा- दशी राजन्नुपोष्या फलकाटिभिः । पारणं तु त्रयोदश्यां पूज- यित्वा जनार्दनम् । विद्धसमायां द्वादश्याधिक्यवत्यां तु द्वाद. श्यामेकादशीसद्भावात्सर्वेषां परत्रैवोपवासः । 'कलार्द्धनापि विद्धा स्यादशम्येकादशी यदा । तदा ह्येकादशीं त्यक्त्वा द्वादशी समुपो- षयेदितिवचनात् । विद्धन्यूना द्वादशीसमा विद्धन्यूना द्वादश्यधिका च सर्वैः पूर्वैवोपोष्या । 'अविद्धानि निषिद्धश्चेन लभ्यन्ते दिनानि तु । मुहूर्तेः पञ्चभिर्विद्धा ग्राद्यैवैकादशीतिथिः' । मुहूर्तपञ्चक- वेधस्वरुणोदयमारभ्य ग्रायः, सूर्योदयमारभ्य ग्रहणेनोत्तरदिने ए- कादश्यभावकथनं नोपपद्यत । यदाह स एव 'सर्वत्रैकादशी का- स्मृतिसारोद्धारे। र्या दशमीविश्रिता बुधैः । प्रातर्भवतु वा माभृद्यस्मान्नित्यमुपोष. णम्। प्रातस्त्रयोदश्यां द्वादशी भवतु मा वा भूदित्यर्थः । मुमुक्षु- भिस्तु विद्धां परित्यज्य शुद्धद्वादश्यामेवोपवस्तव्यम् । व्यासः। 'एकादशी यदा लुप्ता परतो द्वादशी भवेत् । उपोष्या द्वादशी तत्र यदीच्छेत्परमां गतिम् । लुप्ता दशमीविद्धा सती परदिने अवर्त- माना । एवमन्यान्यपि शुद्धद्वादश्युपवासविधायकानि मुमुक्षुपरा- णि ज्ञातव्यानि । पाझे-एकादशी दशाविद्धा परतो न विवर्द्धते । यतिभिहिभिश्चैव नैवोपोण्या क्षये तिथि' । अत्र यतिशब्दो नियमब्रह्मचार्यादिपरः नतु चतुर्थाश्रमपरः । तस्य मुमुक्षुत्वेन द्वा. दश्युपवासविधानात् । तथाच सुमन्तुः 'दिनक्षयेऽपि शुद्धैव द्वाद- शी मोक्षकातिभिः । उपोष्या दशमीविद्धा नोपोष्यैकादशी सदा' पुत्रवइगृहिणां तु विद्धन्यूनायां निषिद्ध उपवासः । व्यास:-ए- कादशीषु नष्टासु रवौ संक्रमणे तथा । पारणं चोपवासं च न कुर्यात्पुत्रवान्गृही' । अयमपि तन्निमित्तोपवासस्यैव निषेधो नत्वेका- दश्युपवासस्य । यदाह सनत्कुमारः-भानुवारेण संयुक्ता तथा संक्रा- न्तिसंयुता । एकादशी सदोपोष्या सर्वसंपत्करी तिथिः । पारणा तुरविवारादौ सर्वदा निषिद्धा, निषिद्धकाले पारणापाते निसोपवासे- प्यनुकल्प एव शरणम् । यदातु विद्धाधिका द्वादशीहानिसा- म्याधिक्यवती तदा विद्धां विहाय मिश्रायां द्वादश्यामुपवसेत् । य- दाह कौर्म । 'एकादशी द्वादशी च रात्रिशेषे त्रयोदशी । तत्र क्रतुशतं पुण्यं त्रयोदश्यां च पारणम् । तथा 'द्वादश्येकादशी यत्र द्वादशी परतोऽपि हि । द्वादश्यां पारणं कृत्वा क्रनुकोटि- फलं भवेत् । नारदः-नोपोष्या दशमीविद्धा सदैवैकादशी तिथिः । तामुपोष्य नरो • जह्यात्पुण्यं वर्षशतोद्भवम् । तथा-दशमीशे- पसंयुक्ता गान्धार्या समुपोषिता । तस्याः पुत्रशतं नष्टं त- चतुर्थ उद्धारः। स्मात्ता परिवर्जयेत् ॥ अयं विद्धानिषेधो द्वादशीवेधमद्भावे बो- ध्यः । अन्यथा पारणाहे न लभ्येतेत्यादि विरोधः। निर्णयामृते तु विद्धाधिका द्वादशीन्यूना गृहिभिः पूर्वा यतिभिरुत्तरोपोष्येति निरणायि। वचनान्यप्युदाहारिषत । तानि यथा-एकादशी द्वादशी चराविशेषे त्रयोदशी । उपवासं न कुर्वीत पुत्रपौत्रसमन्वितः॥ द्वि- स्पृगेकादशी यत्र तत्र संनिहितो हरिः । पुण्यं क्रतुशतस्योक्तं त्र- योदश्यां तु पारणम् ॥ कलाप्येकादशी यत्र द्वादश्यनुगता भवेत् । दिनक्षयेपिसा पुण्यायतीनामुत्तरातिथिः॥पुत्रपौत्रसमन्वितो विद्धा- धिकां न्यूनद्वादशिकां नोपवसेदित्यर्थः। शातातपः-एकादशी यदा- विद्धा द्वादशी च क्षयं गता। क्षीणा सा द्वादशी ज्ञेया नक्तं तत्र विधी- यते । तत्रोपवासानुकल्पत्वाभावेपि वचनबलानक्तव्रतम् पुत्रवद्वहि णाम् ॥ तदुक्तं स्कान्दे । 'एकादशीकला यत्र द्वादशी च क्षयं गता । तत्र नक्तं प्रकुर्वीत नोपवासोगृहाश्रमे । यानितु-दशमीशेष- संयुक्तां यः करोति विमूढधीः । एकादशीफलं तस्य नस्याबाद- शवार्षिकम् । तथा-दशम्यनुगता यत्र तिथिरेकादशी भवेत् । तत्रा पत्यविनाशश्च परेत्य नरकं व्रजेत्' इत्यादीनि दशमीविद्धोपवास- निषेधकानि तानि विद्धाधिकाविषयाणीत्युक्तम् । यान्यपि 'एका- दश्यामुपोष्यैवं द्वादश्यां पारणं स्मृतम् । त्रयोदश्यां न तत्कुर्यात् द्वादशद्वादशीक्षयात्' तथा-दशम्यनुगता हन्ति द्वादशद्वादशीफलम् । धर्मापत्यधनायूंषि त्रयोदश्यां तु पारणम्' इत्यादि, तान्यपि द्वाद- शीहानियुक्तविद्धाधिकापराणीति । वायवीये-एकादशी यदा वि: द्धा द्वादशी च क्षयं गता। दशमीमिश्रिता तत्र उपोष्या मुनिसत्तम । विद्धानिषेधकवाक्यानिद्वादश्यधिकविद्धसमाविद्धाधिकाविषयाणि । विद्धाविका द्वादशीहीना तु गृहिभिः पूर्वैचौपोष्या यतिभिरुत्तरे- ति सिद्धम् । 'त्रितिथिस्पृगहोरात्रं नोपोष्यं तु सुतार्थिभिः' इतिवच- स्मृतिसारोद्धारे। नाव । द्वादशीसङ्गता यत्र भवत्येकादशीकला । दिनक्षयेपि सा पु. ण्यान दशम्या युता कचित्' इत्यादि यतिपरम् । विज्ञानेश्वरस्वरसो- प्येवम् । एवं सति गृहिणो द्वादशीक्षये दशाविद्धोपोषणे सिद्धे यन्न- क्तायुक्तम् । तदशक्तविषयमिति स्मर्त्तव्यम् । 'पुण्यं क्रतुशतस्योक्तं त्रयोदश्यां तु पारणम्' इत्यपि यतिपरम् । यतेख्दशीक्षये- गयान- प्युत्तरैकादश्युपवासविधानात् । गृहिणस्तु त्रयोदशीपारणे द्वादशद्वादशीक्षयादिदोषस्योक्तत्वात्पूर्वैवोपोष्यति नानुपप- त्तिरिति ।गृहिणामपिनिष्कामाणां त्रयोदशीपारणमुचितम् । पारणं तु त्रयोदश्यां निष्कामानां विमुक्तिदमितिस्कान्दवचनात् । यत्रतु द्वादशीसमायां विद्धाधिकायां गृहियत्योरुत्तरत्रैवोपवासस्तत्र - योदशीपारणमायातमितिचेत् । आयातु, द्वादशीसद्भावे त्रयोदशी- पारणस्य निषिद्धत्वात् 'यदि किञ्चित्त्रयोदश्यां द्वादशीचोपलभ्य- ते । द्वादश्यां पारणं तत्र वर्जयित्वा त्रयोदशीम् ॥ तदा हानिकरी ोषा द्वादशी लंघिता नरैः। करोति धर्महरणमस्नातेव सरस्वती' इसादिवचनात् । गारुडे-यदा स्वल्पा द्वादशी स्यादपकर्षों भुजेर्भ- वेत् । विधेर्मव्यान्हिकस्यापि तत्र स्यादपर्कषणम् ॥स्कान्दपि-यदा भवेदतीवाल्पा द्वादशी पारणादिने । उषःकाले द्वयं कुर्यात्मातर्म- ध्यान्हिकं सदा । अत्यल्पायां द्वादश्यां प्रकारमाह कात्यायनः 'वि ध्यादिकं भवेन्नित्यं पारणंतु निमित्तजम् । अद्भिस्तुपारणं कुर्यात्पु- नर्भुक्तं न दोषकृत्' । विष्णुधर्मोत्तरे विशेषः-द्वादश्याः प्रथमः पा- दोहरिवासरसंज्ञितः । तमतिक्रम्य कुर्वीत पारणं विष्णुतत्परः । विष्णुतत्पर इति वचनाद्वैष्णवस्य विशेषेण द्वादशीपथमपादवारणं माप्तमिति । अथोपवासानुकल्पाः। निर्णयाम्भोजभानौ। 'उपवासासमर्थश्चे- देकं विप्रन्तु भोजयेत् । तावद्धनानि वा दद्याद्विप्रेभ्यो द्विगुणानि

No text on this page.

Smruti Saroddhara Vol.1

Author
Tripaat'i,vishvambhara
Other authors
Misra,mangal (ed.)
Title
Smrxti Saaroddhaara Vol.1
File name
Smruti Saroddhara Vol.1
Text
OCR done
Published
2006/02/22
Publisher
Chowkambha Sanskrit Book Depot.banaras,vidya Vilasa Press,banares
Language
Sanskrit
Pages
102
Library
Canegie Mellon Univeristy
Classification
Ecclesiastical Law. Canon Law. Religious Law
Keywords
Hindu religious law
DLI number
496332
Barcode
1990020083235.00
Scanning centre
ASR, Melkote
Digital publisher
Digital Library Of India
Rights
Not Available
VMLT id
t8ae9fPLg2J
Download PDF

Smruti Saroddhara Vol.1