Bharatiya Vidya Bhavan Library, Mumbai
Tark Sangrah
Front matter
२ " " " " विपयः पृष्ठं. विषयः पृष्ठं. समवायिकारणम् ३५ खार्थानुमानम् ५० असमवायिकारणम् "परार्थानुमानम् निमित्तकारणम् अवयवाः प्रत्यक्षप्रमाणलक्षणम् ३६ / टी० अनुमित्युत्पत्ती क्रमः ५३ प्रत्यक्षप्रमालक्षणम् अन्वयव्यतिरेकि टी० पूरणीयग्रन्थः केवलान्वयि निर्विकल्पकम् ३७ केवलव्यतिरेकि सविकल्पकम् पक्षः पड्डिधः सनिकपः सपक्षः विपक्षः अनुमानपरिच्छेदः। हेत्वाभासविभागः अनुमानलक्षणम् ३८ (टी० हेत्वाभाससामान्य- टी० पोढा सगतिः निरुक्तिः ।) अनुमितिलक्षणम् ३९ सव्यभिचारः परामर्शः साधारणः व्याप्तिलक्षणम् असाधारणः टी० सिद्धान्तव्याप्तिः ४० अनुपसहारी " पूर्वपक्षव्याप्तिः ४१ विरुद्धः व्यधिकरणधर्मावच्छि- सत्प्रतिपक्षः नाभावघटिता व्याप्तिः ४३ | असिद्धः व्यधिकरणधर्मावच्छि आश्रयासिद्धः न्नाभावस्य खण्डनम् ४८] स्वरूपासिद्धः पक्षधर्मता व्याप्यत्वासिद्धः (टी० पक्षताविचारः) अनुमानविभागः बाधितः ६५ ५० " " " " " ६९ स्मृतिविभागः " विषयः पृष्ठं. विषयः पृष्ठं. उपमानपरिच्छेदः। टी० लकारार्थाः उपमानलक्षणम् ६५ ,, सन्-यड्-तुमुनामाः ७७ उपमितिलक्षणम् "प्रमाणचतुष्टयत्वव्यव- स्थापनम् शब्दपरिच्छेदः। इन्द्रियाणां प्राप्य प्रकाश शब्दप्रमाणलक्षणम् ६७ कारित्वम् अयथार्थानुभव विभागः वाक्यलक्षणम् सशयः पदलक्षणम् शक्तिलक्षणम् विपर्ययः टी० शक्तिमप्रकारः ८० शक्तिग्राहकाणि शक्तिविषये मतान्तराणि ७० सुखम् दुःखम् वाक्यार्थज्ञानहेतवः आकाहा द्वपः टी० तात्पर्यज्ञानस्य शाब्द- कृतिः बोधकारणत्वम् योग्यता सस्कारविभागः सनिधिः अप्रमाणवाक्यम् भावना वाक्यविभागः स्थितिस्थापफः वास्यार्थज्ञानम् ७४ कर्मलक्षणानि टी. शाब्दवोधप्रकारः सामान्यलक्षणम् , अत्र वैयाकरणमतमनूद्य विशेषस्वरूपम् तनिरासः ७५ समवायलक्षणम् ." "लक्षणा ७१ । इच्छा ७२ / धर्माधर्मों ७३ / वेगः " " " " प्रध्वंसः " " विषयः पृष्ठ. विषयः पृष्ठ. प्रागभावः ८३ | टी० गौतमोक्ताना प्रमाणादि- पोडशपदार्थाना सप्तस्त्र- अत्यन्ताभावः न्तर्भावप्रकारः टी० अस्य प्रतियोगिध्वंस साधर्म्यवैधर्म्यनिरूपणम् ८८ प्रागभावाधिकरणवृत्ति- अस्य ग्रन्थस्य न्यायवैशेषिको- त्वव्यवस्थापनम् भयदर्शनव्युत्पादकत्वम् ८९ अभावानामधिकरणा तर्कज्ञानस्य मोक्षार्थत्वम् , स्मकत्वनिरासः मोक्षखरूपे मतान्तराणि अन्योन्याभावः टीकाकरणोद्देश " " प्रशस्तिपत्राणि । श्रीरामचन्द्राय नमः। श्रीपण्डितमुरलीधरशास्त्रिकृतस्य तर्कसंग्रहव्याख्यानस्य कतिपयाः पड्कयो मया श्रुताः । उत्तममस्तीदं व्याख्यानन् । लेखः प्रौढोऽम्ति इति मन्यते- काशीस्थः शिवकुमारशर्मामिश्रः। संवत् १९७० मार्गशीर्षपौर्णमास्याम् । श्रीश्रीविश्वनाथो विजयते । हैदरावादवास्तव्येनाधिगततर्काद्यनेकशास्त्रनैपुण्येन श्रीमता मुर- लीधरशर्मणा विरचितां तर्कविलासिनीं नाम तर्कसंग्रहटीकामामूल- मवलोकयतश्चेतो मे नितरामानन्दमेदुरं समजनि । टीकेयं भाषा- रचनाचातुर्येण, सरलार्थवत्तयापि दुरधिगमाखिलतर्कशास्त्रगाम्भीर्य- समन्विततया च सर्वेपामेव तर्करसिकानामतितरां मनांसि समाक- पति, प्रथयति च टीकाकर्तुः सुविमलं पाण्डित्यवैभवं सहृदय- धुरीणेविति मां प्रतिभाति । नैयायिकमतमधिजिगांसूनां वालाना- मप्यनया बहूपकरिष्यत इत्यहमाशासे । पल्लवितेनालमिति- वाराणसी- राजकीयसस्कृतविद्यामन्दिरात् । } न्यायाचार्यो वामाचरणशर्मा।
૨ श्रीः। न्यायशास्त्रपरिभाषाप्रतिपित्सूनां प्रतिपचिसोकर्याय जागदी- शी-गदाधरी-कणादसूत्र-गौतमसूत्र-प्रभृतिभ्यः द्रव्यादिपदार्थानामु- देशलक्षणपरीक्षाद्युपन्यासपुरःसरं न्यायशास्त्रीयसिद्धान्तजातमुदृत्व श्रीमताऽन्नभटेनोपन्यवन्धि तर्कसंग्रहः । स चायं ग्रन्थः संक्षिप्तोऽपि न्यायशास्त्रीयसारभूतार्थप्रतिपादकः कृत्वन्यायशास्त्रीयतात्त्विकज्ञान- संपादकश्च । परमादरपुरःसरं पण्डितानां पठनपाठनप्रभृतिव्यवहार- विषयो बभूव । ततश्च साम्प्रतिकानां प्रतिपत्तिसौकर्याय वहको विबुधाः खख- वाग्वैभवमाविर्भावयन्तस्तत्र विविधा व्याख्या व्यरचयन् । तथाहि ग्रन्थकूदेव दीपिकानामधेयां तस्याश्चापरो नीलकण्ठनामा पण्डित- स्तकप्रकाशाभिधां टीका रचयामास । ततः कृष्ण टिश्चन्द्रो- दयनाम्नी पदकृत्यनामधेयां चापरस्तथा गोवर्धनसुधीयायबोधिनी तथा स एव लघुबोधिनीच्च प्राणायीत् । परं वेतैर्व्याख्यानैरपि तर्कसंग्रहग्रन्थः सुखबोध्यत्वे नोन्नतिमगमत् । किंतु दिने दिने दुर्बोध्य एव वर्धते । अतोऽधुना तर्कप्रकाश-तरङ्गिणी-मञ्ज- री-मुक्तावल्यादि-विविधकालाध्ययनसाध्यज्ञानविषयीभूतानां खण्ड- शोऽध्ययनं विनाप्येकग्रन्थाध्ययनेन न्यायशास्त्रीयाः सर्वेऽपि विषयाः स्वल्पकालेन संविदिता भवेयुरित्येतदथै तर्कसंग्रहस्य तर्कवि- लासिनीनामधेया टीका प्राणायि पुष्कर्णाज्ञातीय--पण्डितमुरलीधर- शास्त्रिणा । तत्रत्यविषयाणां सौष्ठवमस्तीत्यसिन्नर्थे करांचीस्थपाठ- शालामुख्याध्यापकवर्य--पण्डितशम्भुदत्तस्य संमतिरस्ति ।।
hwaavat
वेदान्तशास्त्रनिष्णात-पण्डितश्रीगिरि-
धरशास्त्री, पुष्करणा.
जमस. ११९७ शक १७६२ माघकृष्ण १२
मृयुस० १११२ शक १८२९ चा शुक्क
(वस ततिलका)
एकोनविंशतिशते प्रमिते च साश्चै
सवत्सरे मिथुनयाभ्यगते च भानौ ।
आपाढशुकदशमीरविवासरेपु
सय प्रकाशमगमत्कृपया हरेहि ॥१॥
(अनुप)
पूज्यपु पादप पु गुरोगिरिधरस्य च ।
मुदार्पिता जयस्वेपा टीका तर्कविलासिनी ॥२॥
एeseePERS
॥श्रीः॥
SEARESHEREDEOSAEYasperseas
श्रीमद्विारिधराष्टकम् ॥
[१]
स्रग्धरा
ध्यायामो रूपरूप्यं गिरिधरसुखदं कामकामानभिज्ञं
हैद्रावादस्थलस्याप्रमुरलिधरपदयग्रियं मानशुद्धम् ।
ध्यायामोरूपरूप्यं गिरिधरसुखदं वामकामानभिज्ञ
हैद्रावादस्थलस्याभ्रममलिधरपदयग्रियं मानशुद्धम् ।।
[२]
चिन्ताकोट्टारहट्टाघटितकटकघट्टाट्टकोट्टारपङ्के
कन्दर्पप्रांशुकोदण्डगखरग्बगसंस्पर्शनष्टस्वसंज्ञान् ।
भो भ्राजिष्णो च जिष्णो गिरिधर वर कष्टाद्धि नसारय त्वम्
दैवज्ञज्ञानसिन्धो मुरलिधरखुधज्येष्ठवन्धोऽयसिन्धो ।
[३]
ध्वान्तावान्ताध्वविज्ञं भवभययजनं पण्डितासण्डकार्य
विद्वन्मार्तण्डचण्डं गिरिधरविजयं दानगौण्डं स्वरामम् ।
ध्यान्ताध्वान्ताध्यविज्ञं भवभरभजनं मण्डिताखण्डकार्य
विद्वन्मार्तण्डचण्डं गिरि धरणिजयं दानशौण्डं स्मरामः ।।
consESSASSPREE
एसटस393E%ES
२
[४]
ब्रह्माण्डेऽस्मिन्नकाण्डे गिरिधर भवतां नानविज्ञानभावं
श्रौतौघस्मार्तशास्त्रप्रथमबहुलविद्यासु विद्वद्वरिष्ठाः ।
ज्ञातुं तेऽद्यासमर्था वयमिह हि जडा ज्ञानविज्ञानहीनाः
जानीमोऽतः कथं तं कुरु सदय कृपां त्वं पृथु सैन्धवेषु ।।
[५]
व्यासाशेपाणि सूत्राणि गिरिधरमुखस्थानलब्धानि यानि
शास्त्रादौ पाणिनीयानि गिरिधर च कै वितानि स्व राम |
व्यासाशेपाणि सूत्राणि गिरिधरमुखस्थानलब्धा नयानि-
शास्त्रातौ पालनीया नु गिरिधर च कैर्भाविता वः स्मरामः ।।
ज्योतिःशास्त्रार्थविद्यागुणगणपणवित्पण्डितमन्यमा-
हं पाण्डित्याग्रगण्यप्रकटितमदन्तावलोत्फुल्लसिंहः ।
भूयादाशुप्रसन्नो गिरिधरवरदो दीनदुःखातिहारी
सिन्धौ ये चासमर्थाः कलुपकलुपिता ज्ञानवाहा हि तेपु॥
[७]
हैद्राबादस्थविद्याः परिमलसरलामोददा नित्यजाहि
वैद्या वेद्याः सदा भो गिरिधरचरणाम्भोरुहाणि समरन्ति ।
हैद्रावादस्थविद्यापरिमलसरलामोददानि त्वमूनि
विद्यावेद्याः सदाभो गिरिधरचरणाम्भोरुहाणि मरामः॥
Sensrancesenter
३
[८]
पूज्येभ्येभ्यो गुरुभ्यो गिरिधरवरसोऽमलेभ्यो वरेभ्यो
विद्वयो धीरविझ्यो मुरलिधरखुधप्रायजेभ्यो जयिभ्यः ।
ज्ञातृभ्यो ज्ञातिविन्यो विकसितनलिनौधास्यभेभ्यो धनिभ्यः
कान्तेभ्यो नो भवद्भ्योस्तु गिरिधर नमःस्याद्धि भक्तिर्भवत्सु।।
इति श्रीकाशीनिवामिपण्डित-पाण्डुरङ्गाचार्यसुत यासुदेवशास्त्रिविरचितं
श्रीमद्विरिधराष्टक संपूर्णम् ।
:
पण्डित मुरलीधर शास्त्री, पुष्करणा. जन्म सवत् १९२६ फालानशुक्र १४ चतुर्दश्या शनो.
तर्कसंग्रहः
तकविलासिनीटीकासहितः।
॥ श्रीकृष्णाय नमः॥
निधाय हृदि विश्वेशं विधाय गुरुवन्दनम् ।
वालानां सुखबोधाय क्रियते तर्कसंग्रहः ॥१॥
किशोरीरमणं वन्दे गौरीरमणवन्दितम् ।
यत्कृपालवतोप्यज्ञा वान्छितं फलमामुयुः ॥ १॥
चार्य च महाप्रभुं सहगणं श्रीविठ्ठलेशं प्रभु
नत्वा श्रीमुकवीन्द्रवन्दितपदं गोवर्द्धनं ज्ञानदम् ।
हं विदुपां प्रमोदनकरी वालार्थसंसिद्धये
टीका तर्कविलासिनी वरगुणां कृष्णस्तया तुप्यताम् ॥ २॥
व्याकरणविदो वन्द्यान् ज्योतिर्विद्याविशारदान् ।
गुरून्गिरिधरान्वन्दे शुद्धाद्वैतपरायणान् ॥ ३ ॥
प्रेमचन्द्राभिधं तातं वन्देऽहं सुखदायकम् ।
पतो जन्म समासाद्य कृतो हि सत्समागमः ॥ ४ ॥
तर्कसंग्रहः तर्कविलासिनीटीकासहितः। ॥ श्रीकृष्णाय नमः॥ निधाय हृदि विश्वेशं विधाय गुरुवन्दनम् । चालानां सुखबोधाय क्रियते तर्कसंग्रहः ।।१।। किशोरीरमणं वन्दे गौरीरमणवन्दितम् । यत्कृपालवतोप्यज्ञा वाञ्छितं फलमामुयुः ॥ १ ॥ आचार्य च महाप्रभु सहगणं श्रीविठ्ठलेशं प्रभु नत्वा श्रीसुकवीन्द्रवन्दितपदं गोवर्द्धनं ज्ञानदम् । कुर्वेदं विदुषां प्रमोदनकरी बालार्थसंसिद्धये टीका तर्कविलासिनी वरगुणां कृष्णस्तया तुप्यताम् ॥ २ ॥ व्याकरणविदो वन्द्यान् ज्योतिर्विद्याविशारदान् । गुरून्गिरिधरान्वन्दे शुद्धाद्वैतपरायणान् ॥ ३ ॥ प्रेमचन्द्राभिधं तातं वन्देऽहं सुखदायकम् । यतो जन्म समासाद्य कृतो हि सत्समागमः ॥ ४॥ श्रीः । प्रारिप्सितस्य ग्रन्थस्य निर्विघ्नपरिसमाप्तिकामस्तार्किकशि- रोमणिः श्रीमानन्नंभट्टः शिष्टाचारानुमितश्रुतिविहितं मगलं निर्माय प्रेक्षावत्प्रवृत्त्यद्गभूतमनुबन्धचतुष्टयं च संदर्शयन् स्वच्छात्रावघानाय १ अनुवनन्ति पुरुष खविषयकशानद्वारा प्रवर्तयन्ति वेऽनुबन्धाः । विषयस- यन्धनयोजनाधिकारिणः ।
तर्कसमहः व्यापारोऽनीकर्तव्यः । ततश्च लोके व्यापाराल्पत्वे कार्याल्पत्वस्य दृष्ट- त्वाचदृष्टान्तेनानापि फादम्प्रर्यादेरसंपूर्णत्वेन व्यापाराल्पत्वमनुमाय तेन च व्यापारिणो मालस्याप्यल्पत्वमनुमातुमुचितम् । एव च मङ्गलाल्पत्वात्समाप्त्यभावसिद्धौ समातिविमान्यूनसल्याफमालयोरेव कार्यकारणभायः फलितः । इत्थंच कादम्पर्यादी विमान्यूनसख्या:- मङ्गलाभावान्नान्वयव्यभिचारः। किरणावल्यादौ तु समाप्त्यनुरोधाद्व- हिरेव मगलं प्रकल्प्य व्यतिरेकन्यभिचारोपि निरसनीयः । नच तत्कर्तुर्नास्तिकत्वान्न ग्रन्थावहिरपि मगलाचरणसंभव इति वाच्यम् । वहिरित्यस्य जन्मान्तरे इत्यर्थकत्वात् । एवमुभयविधव्यभिचारनि- रसनेन सूपपादावन्वयव्यतिरेकसह चारौ । नव्यास्तु जन्मान्तरीयसमाप्तिमुद्दिश्य शिष्टैर्मङ्गलाचरणादर्शना- च्छरीरनिष्ठैव प्रत्यासत्तिरनयो. कार्यकारणभावावच्छेदिका वक्तव्या । १ नचान जन्मभेदाद्वैयधिकरण्य शङ्कनीयम् । आत्मनिष्टप्रत्यासत्या कार्य कारणभापाजीकारात् । सा च स्वप्रतियोगिचरमपर्णानुकूलकृतिमतासबन्धेन चर• भवर्णध्वसरूपसमाप्ति प्रति मङ्गलस्य सानुकूलकृतिमत्तारूपा । उक्तपरपरासय न्धाभ्या समाप्तिमालयोरात्मनिष्टत्वात्। सर्वत्र परंपरासवन्धघटकरखपदेन सवन्ध. प्रतियोगी धर्तव्य । यस्य सबन्धो विवक्षित स प्रतियोगी, यस्मिन्विवक्षितः सोऽनुयोगी । यथा प्रकृते समाप्तिमङ्गलयोरात्मनि सवन्धो विवक्षित इति ते (समाप्तिमङ्गले) प्रतियोगिनी आत्मानुयोगी । अत प्रथमरायन्धे खपदेन चरमवर्णध्वसस्य ग्रहण, द्वितीये मङ्गलस्येति । २ अलौकिक कर्म निविधम्-ऐहलौकिकफल, पारलौकिकफलम्, ऐहिक्पार. निकसाधारणफल चेति । तर कारीर्यादिकमैहलौकिकफारम् । लोकोर देह येन देहेन कारीरीष्टि कृता तेनैव देहेन भोग्यफलसमित्यर्थ । तस्या तदानी शुष्यत्सस्योजीवनफ्लकदृष्टयुद्देशेन विधानात् । नहि यजमानस्य जन्मान्तरे जायमाना वृष्टियांगकालिकशष्यत्सस्योजीवनायालमिति। ज्योतिष्टोमादिक पारलौ किक 'यन दुखेन सभिन्न नच प्रस्तमन तरम् । सकल्पोपनत चैव तत्सुख स्व . पदास्पदम्' इतिलक्षित वर्गापरपर्याय सुखमुद्दिश्य ज्योतिष्टोमविधानात् । तस्सव मानुषशरीरेण भोक्तुमनहत्वात् । व्यामिश्नर्माधीनत्वान्मानुपदेहोपजनस्य । किंतु यजमानशरीरपातानन्तरं धर्मसहकातेजसादिपरमाणुभिरारब्ध दिव्य शरीरभेदमा तर्कविलासिनीटीकासहितः। सा च संप्रतियोगिचरमवर्णावच्छेदकतासंबन्धेन चरमवर्णध्वंसरूप- समाप्तिं प्रति मङ्गलस्य खोत्पत्त्यवच्छेदकजातीयतावत्त्वरूपा । तथाच नास्तिकस्यैतसिजन्मनि मङ्गलाचरणासंभवाद् व्यतिरेकव्य- भिचारस्तदवस्थ एवेति न समाप्तिर्मङ्गलस्य फलम् । नचोक्तश्रुतिवि- रोघः । दर्शितबाधकसद्भावात्समात्यंशपरिहारेण तस्याः कल्पनीय- त्वात् । अतो विघ्नध्वंस एव मङ्गलस्य फलम् । समाप्तिस्तु प्रतिव- न्धकाभावघटितप्रतिभादिकारणकलापात् । विप्रध्वंसत्य समाप्तिहेतुत्वं च प्रतिबन्धकसंसर्गाभावत्वेन नतु तद्धंसत्वेन । तेन स्वत.सिद्धवि- नविरहवता मङ्गलानाचरणेऽपि न क्षतिरित्याहुरिति सक्षेपः । निरूप्यं प्रतिजानीते-क्रियते तर्कसंग्रह इति । तय॑न्ते यथा- थैज्ञानविषयीक्रियन्ते इति तर्काः द्रव्यादयः सप्तपदार्थाः तेपां संग्रहः सक्षेपेण स्वरूपकथनम् । एतेन विषयोऽपि दर्शितः । ननु सुविस्तराणामन्येपा तर्कग्रन्थाना सत्त्वादलं ग्रन्थान्तरकरणाया- स्थाय यजमानात्मना भोग्यफलवात् । पुनकामेष्टयुद्भिद्यागसाग्रहण्येध्यादिकं तु पुनपशुप्रामादिकाम प्रति विहितत्वात् वर्तमानशरीराविरोधेनापि यजमानेनासति प्रतिवन्धके तादृशफलस्य प्राप्त शक्यत्वात्सति तु प्रतिवन्धके जन्मान्तरे तत्प्राप्तरै. हिक्पारनिक्साधारणफलकम् । तदेतत्रिविधेपु कर्ममु मध्ये मङ्गलमैहलौकिकफलं कर्म प्रारिप्सितसमाप्युद्देशेनैव शिष्टैस्तदाचरणात् शुष्यत्सस्सोजीवनरामै कारीर्या- दिवत् जीवच्छरीराविरोधेनारोग्यकामहमन्त्रजपादिवचेति । तस्मादात्मनिष्टप्रत्या- सत्त्या समाप्तिमङ्गलयो कार्यकारणभावोऽनुचित जन्मान्तरीयसमाप्तिमुद्दिश्यापि तत्करणग्रसद्वात्। १अत्र स्खं चरमवर्णध्वस तस्य प्रतियोगी चरमवर्ण तदवच्छेदवं यच्छ- रीरावयवक्ण्ठादिषु साशवर्णनिमित्तकारणीभूतान्तरिताभियातायः सयोग- स्तच्छरीरं तत्वं तच्छरीरे। २ मालस्य ज्ञानरूपसात् तदुत्पत्तियसिनात्मनि भवति तस्यात्मनो यदव. च्छेदकं तदेव तन्मङ्गलोत्पत्तेरप्यवच्छेदकं तम्बातीयल च चैनत्वमैत्रत्वादिना । चैत्रादिशरीरस्याप्यवयवोपचयापचयाभ्यामुत्पादविनाशशारित्वेन नानात्वादाका. शत्लादेरिवानयव्यरेक्त्वात्कथ चैत्रलादेनोतित्वमिति शङ्कानवकाशः।
८ तर्कसंग्रहः रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागए. रत्वापरत्वगुरुत्वद्वत्वलेहशब्दबुद्धिसुखदुःखेच्छाद्वैपप्र- यन्नधर्माधर्मसंस्काराचतुर्विशतिर्गुणाः।। गुणान् विगजते-रूपरसेत्यादिना द्रव्यमानचित्वं द्रव्यकर्मा न्यत्वविशिष्टजातिमत्त्वं वा गुणसामान्यलक्षणं योध्यम् , अत्रापि संख्यादिग्रहणप्रयोजनं पूर्ववद्वोध्यम्, एवमुत्तरत्रापि । उत्क्षेपणापक्षेपणाञ्चनमसारणगमनानि पञ्च कर्माणि । कर्माणि विभजते. उत्क्षेपणेति । संयोगविभागयोरनपेक्षकारणत्वं कर्म सामान्यलक्षणम् । न च भ्रमणरेचनस्पन्दनो ज्वलनतिर्यग्गम- नादीनां कर्मणां सत्त्यात् पञ्चेति विभागोऽनुपपन्न इति वाच्य, तेषां गमनेऽन्तर्भावात् । ननूरक्षेपणादीनामपि गमनेऽन्तर्भावसंभवात् तेपां कथं पृथक्त्वेन कथनमितिचेन, स्वतन्नेच्छरय नियोगपर्यनुयोगानहस्य मुनेः सेमतत्वात् । परमपरं चेति द्विविधं सामान्यम् ॥ सामान्यविभागं दर्शयति--परमपरं चेति । सामान्यलक्षणं तु नित्यत्वे सत्यनेफसमवेतत्वम् । संयोगादावतियाधिवार- गाय नित्यत्वे सतीति । वावन्मात्रोक्तावाकाशादावविव्याप्तिरतो विशेष्योपादानम् । नित्यत्वे सति समवेतत्यमित्युत्तावाकाशा- दिनित्यसमवेससंख्यादावतिध्यातिरतोऽनेकेति । अनेकसमवेत विहायानेकवृत्तित्वमात्रोक्तो अत्यन्तामावस्यापि नित्यत्वादनकवृत्ति- त्वाच तत्रातिव्याप्तिरिति अनेकसमवेतत्वमिति । परत्वम् अधिक- देशत्तित्वं, न्यूनदेशवृत्तित्वमपरत्वम् । तत्र द्रव्यादित्रिकवर्तिनी काचिजातिः सत्ता यट्ठलात् तत्र सत्सदित्यनुगतप्रतीतिर्भवति सा परा, दिना द्रव्यत्वादयः सर्वा अपराः सत्तापेक्षया न्यूनदेशवृत्ति- बाद । नीलपीतादिविभिन्नरूपासु विभिन्नदेशकालस्थिताच नाना- ९ तर्फ विलासिनीटीकासहितः। व्यक्तिपु घटोऽयं घटोऽयमित्यनुगतप्रतीतिव्यवहारयोरनुगतविपयं विनाऽसंभवाज्जातिकल्पनम् । अत्र इतिपदस्य स्खसमभिव्याहतपदार्थ- तावच्छेदकपरत्वात्परत्वापरत्वरूपद्विप्रकारवत्सामान्यमिति वाक्यार्थः । नित्यद्रव्यत्तयो विशेपास्त्वनन्ता एव । विशेष विभजते-नित्यद्रव्यत्तय इति । नित्यद्रव्याणि पृथिव्यादिचतुष्टयस्य परमाणवः आकाशादिपञ्चकं च तेपामा- नन्त्यात् तद्वृत्तयो विशेषा अपि अनन्तसंख्याका इत्यर्थः । घ्यणुकपर्यन्तानां पृथिव्यादीनामवयविनां व्यावर्त्तकास्तत्तदवयवाः अनवयविनां तु परमाण्वादिनित्यद्रव्याणां परस्परं भेदको विशेष एव । ननु तत्तत्परमाणुगतैतत्त्वादिनैव परमाणूनां परस्परं भेदसिद्धे- विशेपो नागीकार्य इति चेन । परमाणौ मेदसिद्धि विना तदतै- तत्त्वस्य दुर्वचत्वात् । नव्यास्तु विशेषपदार्थानामिव परमाणूनां खतोव्यावर्तकत्वमङ्गीकृत्य विशेपे मानाभाव इत्याहुः । केचित्तु शब्दसमवायिकारणतावच्छेदकतयापि विशेषपदार्थः सिध्यतीत्याहुः । समवायस्त्वेक एव । समवायस्य विभागाभावं द्योतयितुं तस्यैकत्वमाह-समवा- यस्त्विति । समवायो नित्यसंबन्धस्तथा च नित्यसंबन्धत्वं समवाय- लक्षणम् । संयोगादिवारणाय नित्येति । आत्मादावतिव्याप्तिवारणाय संबन्धेति । संवन्धत्वं च संबन्धिभिन्नत्वे सति संवन्ध्याश्रितत्वं खभिन्नसंवन्ध्याश्रितत्वं वा । नचाधिकरणस्वरूपस्याभावप्रतियो- गिकसंबन्धस्य स्वभिन्नसंबन्ध्यभावाचत्राव्याप्तिरिति वाच्यं, तस्य मुख्य- "संवन्धत्वाखीकारात्समवायसंयोगयोरेव मुख्यसंबन्धत्वेन प्रकृतलक्षण- लक्ष्यत्वात् । ननु समयायस्य सद्भावे किं प्रमाणमिति चेदन नव्याः- विशिष्टवुद्धित्वावच्छिन्नं प्रति विशेषणज्ञानस्य हेतुत्वात् यद्यद्विशि- प्रज्ञानं तत्प्रकारविशेप्यसंसर्गविपयकमेवेति नियमेन गन्धवती १० तर्कसंग्रहः पृथिवीति विशिष्टज्ञानं विशेषणविशेष्योमयसंसर्गविषयक विशि- एज्ञानत्वात् घटवद्भूतलमिति विशिष्टज्ञानवदित्यनुमानेन संसर्गविपय- कत्वसिद्धौ, द्रव्ययोरेव संयोगात् प्रकृते च विशेषणीभूतस्य गन्धस्या- द्रव्यत्वेन संयोगवाधात्समवायसिद्धिरित्युचरयन्ति । केचित्तु तादा- त्म्यसंवन्धावच्छिन्नकपालत्वावच्छिन्नकारणतानिरूपिता या घटत्वा- वच्छिन्ना कार्यता सा किञ्चित्संवन्धावच्छिन्ना कार्यतात्वात् दण्डत्वा- वच्छिन्नकारणतानिरूपितघटत्वावच्छिन्नकार्यतावदित्यनुमानेन संबन्ध- सिद्धौ युतसिद्धयोरेव संयोगादयुतसिद्धयोस्तदतिरिक्तसमवायसिद्धिः। नच तत्र खरूप एव करप्यतामिति वाच्यम्, सिद्धसाधना- पातादनन्तखरूपाणां संवन्धत्वकल्पने गौरवाच्चेत्याहुः । यत्त्विह तन्तौ पटसमवाय इति प्रत्यक्षेणैव समवायसिद्धिरिति तन्न, संवन्ध- प्रत्यक्षत्वावच्छिन्नं प्रति यावदाश्रयप्रत्यक्षस्य कारणत्वेन परमाण्व- नुयोगिकपरमाणुत्वप्रतियोगिकसमवायाश्रयीभूतपरमाणुप्रत्यक्षाभावेन समवाये प्रत्यक्षप्रमाणाभावात् । नच समवायस्यैकत्वे स्पर्शसमवायस्य रूपसमवायस्य चैक्येन वायौ रूपसमवायसत्त्वाद्रूपवत्ताप्रतीतिः स्या- दिति वाच्यम् । तत्-तत्संबन्धोभयसत्ताया एव तद्वत्ताप्रतीतिहेतु- त्वात् । नन्वैकत्वं कथं विभागप्रतिबन्धकमिति चेच्छृणु । विभागो हि सामान्यधर्मसाक्षान्न्यूनवृत्तियावद्धर्मप्रकारकज्ञानानुकूलो व्यापारः तथा च द्रव्यत्वादीनां साक्षान्यूनवृत्तिपृथिवीत्वजलत्यतेजस्त्यादिधर्मस- त्वाद्रव्यादीनां विभागः सिद्धः, अत्र तु समवायत्वन्यूनवृत्तिधर्मा- भावान्न तद्विभाग इति । अभावश्चतुर्विधः । प्रागभावः अध्वंसाभावोऽत्यन्ताभा- वोऽन्योन्याभावश्चेति ।। इत्युद्देशग्रन्थः । अभावं विमजते-अभाव इति । प्रागभावत्वादिरूपचतुःप्र- कारवानभाव इति समुदायार्थः । अभाववं तु भावभिन्नत्वं, तर्कविलासिनीटीकासहितः। प्रतियोगिज्ञानाधीनज्ञानविषयत्वं वा । अखण्डोपाधिरित्यपि केचित् । भावत्वं च द्रव्यादिपट्कान्यतमत्वं, समवायैकार्थसमवायान्यतरसं- वन्धेन सत्तावत्त्वं वा । तथाच द्रव्यादित्रिके समवायेन सामान्यादी च एकार्थीभूतद्रव्यसमवायेन सचायत्त्वाल्लक्षणसमन्वयः । तत्र गन्धवती पृथ्वी। तत्रोद्दिष्टक्रमानुरोधेन प्रथमं पृथिव्या लक्षणमाह---तत्र गन्धव- तीति । गन्धवतीति गन्धोऽस्यास्ति इति गन्धवान् स्त्रीत्वविवक्षायां उगितश्चेति डीप् । तथाच गन्धवत्त्वं पृथिव्या लक्षणम् । गन्धव. तीत्यस्येयानर्थः कथं निःसरति इति चेत्-गन्धवतीतिभावप्रधानो निर्देशः पृथिवीत्यस्य पष्ठ्या विपरिणामो लक्षणपदाध्याहारश्चेति अस्य वाक्यस्य लक्षणपरत्वेन तात्पर्यानुपपत्त्या कल्पनात् । ननु काला- दावपि कालिकादिसंबन्धेन गन्धसत्त्वादतिव्याप्तिरितिचेन्न । सम- वायसंबन्धेन गन्धवत्त्वस्य विवक्षितत्वात् । अत्र पृथिवी लक्ष्या पृथिवीत्वं लक्ष्यतावच्छेदकं गन्धवत्त्वं लक्षणम् । तथाच लक्ष्यलक्ष्य- तावच्छेदकलक्षणेतत्रितयावगाहित्वादस्य लक्षणशास्त्रत्वम् । ननु पाषा- णादौ गन्धोपलब्ध्यभावाजलादौ च तदुपलब्धिसंभवादव्याप्त्यति- व्याप्ती इतिचेन्न । उत्कटत्वानुत्कटत्वाभ्यामुपलब्ध्यनुपलब्धिदर्श- नात् पापाणादावनुत्कटत्वादनुपलब्धिः । जलादौ तु खाश्रयसं- योगेन गन्धोपलम्भो न समवायेनेति न दोपः । ननु लक्षणस्य किं प्रयोजनमितिचेच्छृणु व्यावृत्तिर्व्यवहारो वा लक्षणस्य प्रयोजनमिति । तत्र व्यावृत्तिरितरभेदानुमितिः। पृथिवी इतरेभ्यो भिद्यते गन्धवत्त्वा- १ नचात्र समवायेऽव्याप्तिः । एकार्थसमवायेत्यस्य समवायघटितसामाना- •धिकरण्येनेत्यर्थकत्वात् । नहि समवायेन सत्ताधिकरणे द्रव्यादी समवायेन सम- चायवत्त्वं, समयायस्य समवायेनावृत्तित्वादिति वाच्यम् । एकार्थसमवायेत्यनेन खसमवायिसमवायवत्त्वस्य विवक्षितत्वात् । समयायवत्त्वं च स्वप्रतियोगित्व- स्वतादात्म्यान्यतरसंवन्धेन । तेन समवाये समवायस्य तादात्म्यसंवन्धेन सत्त्वान कापि क्षतिरिति भावः ।
१२ तर्कसंग्रहः - दित्यादिना पृथिव्यामितरभेदसिद्धिः । व्यवहारस्तु गन्धज्ञानेन पृथिवी- त्वव्यञ्जने इयं पृथिवीति शब्दप्रयोगरूपः। नच सुरभ्यसुरभिकपाला- रख्यघटे उक्तलक्षणाव्याप्तिः, तत्र परस्परप्रतिबन्धेन कस्यापि गन्धस्या- नुत्पादाच्चित्रगन्धानङ्गीकाराच्चेति वाच्यम् । गन्धसमानाधिकरणद्रव्य- त्वव्याप्यजातिमत्त्वस्य विवक्षितत्वात् । अत्र गन्धाधिकरणत्वं तद्- चित्वं च समवायसंबन्धेन विवक्षणीयम् । तेन न कालिकादिसंबन्धेन गन्धाधिकरणजलादिवृत्तिद्रव्यत्वव्याप्यजलत्वादिजातिमादाय नवा स- मवायेन गन्धाधिकरणपृथिवीनिरूपितकालिकसंबन्धावच्छिन्नवृत्तिता- बद्रव्यत्वव्याप्यजलत्वादिमत्त्वमादाय जलादावतिव्याप्तिः । सत्तामा- दाय जलादावतिव्याप्तिवारणाय द्रव्यत्वव्याप्येति । जात्युपादानाच्च न गन्धाधिकरणनिरूपितवृत्तित्ववतो द्रव्यत्वव्याप्यजलपृथिव्यन्यतर- त्वादिधर्मवत्त्वस्य जलादौ सत्त्वेऽप्यतिव्याप्तिः। यतु कालिकसंबन्धेन कालादावतिव्याप्तिवारणाय सर्वाधारताप्रयोजकसंबन्धभिन्नसंवन्धेन गन्धवत्त्वं विवक्षितमिति तत्तुच्छम् । सर्वाधारताप्रयोजकसंवन्धभिन्न- तादात्म्यादिसंबन्धेन गन्धवत्त्वस्य गन्धे सत्त्वादतिव्याप्यापत्तेरिति दिक् । सा द्विविधा । नित्यानित्या च । नित्या परमाणु- रूपा । अनित्या कार्यरूपा । पुनस्त्रिविधा शरीरे- न्द्रियविषयभेदात् । शरीरमसदादीनाम् । इन्द्रियं गन्धग्राहकं घ्राणं नासाग्रवर्ति विपयो मृत्पापाणादिः। पृथिवीं विभजते-सेति । अत्रापि नित्यत्वानित्यत्वाभिन्न- द्वित्यसंख्याविशिष्टविमाजरुधर्मान्यतरवती पृथिवीत्यर्थः । एवं जलादिविभाजकवास्येपि खयमूहम् । द्विविधत्वमेव दर्श- यति-नित्येति । नित्यत्वं च ध्वंसमिन्नत्वे सति ध्वंसाप्रतियो- गित्वम् घिसेऽतिव्याप्तिवारणाय भिन्नान्तं, घटादायतिव्याप्तिवारणाय ३ . . तर्कविलासिनीटीकासहितः। १३ विशेष्यदलम् । तद्भिन्नमनित्यत्वम् । अथ परमाणुसाधनप्रक्रिया । जालसूर्यमरीचिस्सं सूक्ष्मतमं यद्रजः उपलभ्यते स त्रसरेणुः साव- यवः, चाक्षुपद्व्यत्वाद्धटवदित्यनुमानेन त्रसरेण्ववयवः सिद्धः, यस्त्र- सरेण्ववयवः सोऽपि सावयवः, चाक्षुपद्रव्यारम्भकत्वान्महदारम्भक- त्वाद्वा कपालवदित्यनुमानेन व्यणुकावयवः सिद्धः स एव परमाणुः, तस्याप्यवयवस्वीकारेऽनवस्थाप्रसङ्गात् । तदुक्तं-'जालसूर्यमरीचित्रं यत्सूक्ष्मं दृश्यते रजः । तस्य पष्ठतमो भागः परमाणुः स उच्यते ॥' इति । कार्यरूपेति । व्यणुकादिघटादिपर्यन्तेत्यर्थः । कार्यरूपां पृथिवीं विभजते-पुनरिति । ता एव विधा दर्शयति- शरीरेत्यादिना । द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसंबध्यत इति नियमाद् भेदशब्दस्य प्रत्येकमन्वयः । भेदपदेन खसमभिव्याहृ- तपदार्थतावच्छेदकीभूतशरीरत्वादिधर्मो लक्ष्यते, पञ्चम्यर्थः प्रयुक्तत्वं, तथाच शरीरत्वेन्द्रियत्वविषयत्वप्रयुक्तत्रित्वसख्यावती कार्यरूपा पृथिवीत्यर्थः ॥ शरीरं दर्शयति-शरीरमिति । अन्त्यावय- वित्वे सति चेष्टाश्रयत्वं शरीरत्वम् । अस्मदादीनामित्यादिपदेन पशुपक्षिसरीसृपादयो गृह्यन्ते । तत्र शरीरं द्विविधं योनिजमयो- निजं चेति । तत्र योनिजमपि द्विविधं-जरायुजमण्डजं चेति । गर्भवेष्टनचर्मपुटकं जरायुः । ततो जातं जरायुजमस्सदादीनाम् , अण्डजं पक्षिसादीनाम् । अयोनिजमपि त्रिविधं-खेदजमुद्भिज्ज- मदृष्टविशेषजं चेति । तत्र-खेदजं कृमिदंशादीनाम् । तदुत्पत्ति- स्त्वधर्मसहकृताणुभ्य एव जायते इति भावः । उद्भिजं तरुगुल्मा- दीनाम् । अदृष्टविशेषजन्यं धृष्टद्युम्नादीनाम् । रूपादिद्रवान्ता. त्रयोदश संस्कारश्चैते चतुर्दश गुणाः पृथिव्याम् । इन्द्रियं दर्शयति-इन्द्रियमिति । इन्द्रियत्वं च शब्देतरोद्भूतविशेष- गुणानाश्रयत्वे सति ज्ञानकारणमनःसंयोगाश्रयत्वम् । तथाच शब्देतरे ये उद्तविशेषगुणाः घटनिष्ठरूपादयस्तदनाश्रयत्वं, ज्ञानस्य का- २ तर्कसंग्रहः . , रणीभूतो यो मनःसंयोगः इन्द्रियमनःसंयोगस्तदाश्रयत्वं च चक्षुरा. दावस्ति, आत्मा मनसा संयुज्यते मनः इन्द्रियेण इन्द्रियमर्थेन ततः प्रत्यक्षमिति नियमादिति लक्षणसमन्वयः । गन्धग्राहकमिति । पार्थिवत्वे सति गन्धविषयकप्रत्यक्षजनकत्वं पार्थिवेन्द्रियस्य लक्षणम् । मनस्यतिव्याप्तिवारणाय सत्यन्तं, शरीरादावतिव्याप्तिवारणाय विशेष्य- दलम् । घ्राणमिति संज्ञा । नासाग्रवर्तीत्याश्रयोक्तिः । वायोर्नवाष्टादश तेजसो गुणा जलक्षितिप्राणभृतां चतुर्दश । दिकालयोः पञ्च पडेव चाम्बरे महेश्वरेऽष्टौ मनसस्तथैव च ॥ इति । विपयेति । शरीरेन्द्रियभिन्नत्वे सति भोगसाधनत्वं विषयत्वम् । भोगसाधनत्वं च अदृष्टजन्यत्वात् साक्षात् परंपरया वा व्यणुक- प्रभृतीनां सर्वेषामेव, यच्च कार्य यददृष्टाधीनं तत्तदुपभोगं साक्षा- त्परंपरया वा जनयतीति नियमात् । ननु प्राणस्य पार्थिवत्वे किं मानमितिचेन्न । घ्राणं पार्थिवं रूपादिचतुष्टयाग्राहकत्वे सति गन्धग्राहकत्वादित्यनुमानस्यैव प्रगाणत्वात् । आत्मनि व्यभिचार- वारणाय सत्यन्तं, जलादौ व्यभिचारवारणाय विशेप्यदलम् । एवमपि बोध्यमित्यलं पल्लवितेन । शीतस्पर्शवत्य आपः। अपो निरूपयति-शीतस्पर्शेति । शीतस्पर्शवत्त्वमपां लक्षणम् । १ रूपादिमतुष्टयं रूपरसस्पर्शशब्दाः । २ अन या पार्थिन्दियं न तद्रूपादिचतुष्टयाग्राहकावे सति गन्धप्राहरू यथा चारिति व्यतिरेकोदाहरणं योध्यम् । ३ अगाधारणधर्मो रक्षणम् । असाधारणत्वं च दूषणप्रयरहितत्वम् । दूषणप्रयं च अन्यामिरतिव्याप्तिरसंभवश्वेति । तम भव्याप्तिनाम लक्ष्यफदेशातित्वम् । स्था गोः पिलम् । तदि लक्ष्पकदेशे लक्ष्यतापरछेदकाश्रयीभूतचितश्ये ...
तर्कविलासिनीटीकासहितः। १५ शीतस्पर्शसमवायिकारणतावच्छेदकतया 'जलत्वजातिसिद्धिः । नच शीतस्पर्शसमवायिकारणत्वं जन्यजल एवास्तीति तदवच्छेदकतया जन्यजलत्वजातिसिद्धिर्भवतु नाम न तेन परमाणुसाधारणशुद्ध- जलत्वजातिसिद्धिरिति वाच्यं, जन्यजलत्वावच्छिन्नजन्यतानिरूपित- जनकतावच्छेदकतयैव शुद्धजलत्वजातिसिद्धेः । नचैवमपि चरमावय- विनि जलेऽव्याप्तिः, तस्य जलान्तरं प्रत्यजनकत्वात्, जनकत्वे च चरमावयवित्वव्याघातादिति वाच्यम् । जलस्य जलान्तरसंयोगेन जलान्तरोत्पादकतया जलचरमावयविनोऽनङ्गीकारात् । केचित्तु घटा- दिकारणतायाः खरूपयोग्यतारूपायाः अरण्यस्थदण्डादाविव स्वरू. पयोग्यतारूपायाः शीतस्पर्शसमवायिकारणताया नित्यजलेऽपि सत्त्वेन तदवच्छेदकतयैव जलत्वजातिसिद्धिरिति संजगदुः । ननु शीत- स्पर्शवत्त्वस्य वाय्वादौ सत्त्वेन जले च कंचिदसत्त्वेनातिव्याप्त्यव्याप्ती इतिचेन्न । शीतस्पर्शसमानाधिकरणद्रव्यत्वव्याप्यजातिमत्त्वस्य विव- क्षितत्वात् । शीतकाले वाय्वादौ शीतस्पर्शस्तु जलोपाधिक एव, अन्यथा सर्वदैव तद्भानापचेरिति ध्येयम् । ता द्विविधाः । नित्या अनित्याश्च । नित्याः परमाणु- रूपाः । अनित्याः कार्यरूपाः । पुनस्विविधाः शरीरेन्द्रियविप- शुक्लाया गवि नास्तीत्यव्याप्तमित्युच्यते । अतिव्याप्तिनीम अलक्ष्ये लक्षणसत्त्वम् । यथा गोः शृतित्वम् । तद्धि लक्ष्यभूतगोभिन्नमहिप्यादावस्तीत्यतिव्याप्तमित्युच्यते। असंभवो नाम लक्ष्यमाने कुनापि लक्षणासत्त्वम् । यथा गोरेकशफवत्त्वम् । गोसामान्यस्य द्विशफवत्त्वेन एक्शफवत्वस्य कुत्रापि गव्यभावादेकशफवत्त्वमस- भूतमित्युच्यते । एतानि दूपणरहितत्वाभावान गोर्लक्षणानि । कितु साम्नादि- मत्वे सति गित्वमुक्तदूपणनयरहितत्वागोलक्षण भवति । एवमन्यत्राप्यूह्यम् । १ कारणता द्विविधा-खरुपयोग्यतारूपा फोपधायक्ता चेति । तन कार्याव्यवहितनियतपूर्ववर्तितावच्छेदकधर्मवत्त्वं खस्पयोग्यत्वम्, खाव्यवहितनि- यतपूर्ववृत्तित्वसंवन्धेन कार्यविशिष्टत्वं फलोपधायक्त्वम् । खं कार्यम् । २ उत्पनविनटे इत्यर्थः। ।
१६ तर्कसंग्रहः यभेदात् । शरीरं वरुणलोके । इन्द्रियं रसग्राहक रसनं जिहा- प्रचति । विषयः सरित्समुद्रादिः॥ अपो विभजते-ता द्विविधा इति । अत्रापि नित्यत्वानित्यत्वा- मिन्नद्वित्वसंख्याविशिष्टविभाजकधर्मान्यतरवस्य आप इति वाक्यार्थः। नच संख्या विशिष्टविभाजकधर्मयोनित्यत्वानित्यत्वयोश्चाभेदः कथं भासत इति वाच्यम्, उद्देश्यविधेयभावस्थले उद्देश्यतावच्छेदकसंव- न्धोऽपि विधेये भासत इति नियमात् तादृशाभेदान्वययोघस्य व्युत्प- त्तिसिद्धत्वात् । अनित्या अपो विभजते-~-पुनरिति । जलीयशरीरम- योनिजम् । तद्दर्शयति--वरुणलोके इति। वरुणलोकवासिनामयोनिर्ज शरीरं जलीयमित्यर्थः । ननु जलस्य द्रवत्वेन स्यन्दितया घनीभूत- करचरणदन्तनखाद्यवयवारम्भकत्यासंभवात्कथं तत्तदवययोपेतशरीरा- रम्मकत्वं कथं वानेवंविधस्यावयविनः रूयाद्युपभोगाभावाद्भोगायत- नत्वमितिचेत्सत्यम् । तथापि तनावष्टम्मकपार्थिवभागादिसत्त्वान्नोक्ता- नुपपत्तिः । नव तत्र पार्थिवभागसत्त्वे तत्पार्थिवमेव स्यान्न जली- यमितिचेन्न । यत्र यद्भागस्याधिक्यं तस्य तदीयत्वेनैव व्यवहारात् । वरुणलोकस्थशरीरे च जलीयभागस्याधिक्याजलीयत्वम् । अतएवा- सदादिशरीरे जलभागस्य सत्त्वेऽपि पार्थिवभागस्याधिक्यापार्थिवत्व- व्यवहारो न जलीयत्वव्यवहारः इति दिक । जलीयमिन्द्रियं दर्शयति--रसग्राहकमिति । रसविषयकप्रत्यक्षजनकमित्यर्थः । जलीयत्वे सति रसविषयकाहजनकत्वं लक्षणम् । रूपरसस्पर्श- संख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वद्वत्व स्नेहसंस्का- रा एते चतुर्दश गुणा जले । रसनेन्द्रियस्य जलीयत्वेऽनुमानं प्रमाणं, तद्यथा--रसनेन्द्रियं जलीय, द्रव्यत्त्वे सति रूपादिषु पञ्चसु मध्ये रसस्यैवाभिव्यञ्जकत्वात् , सक्तरसाभिव्यञ्जकोदकवत् । जले मधुररस- व्यञ्जक हरीतक्यादिभक्षणम् । तस्य नामाह-रसनमिति । तदाश्रय- १ धनवान्मुखीत्यादी यथा धनाभिनमुसवान् इति बोरस्तधेयर्थ. ।
तर्कविलासिनीटीकासहितः। माह-जिहाति । शेषं पूर्ववत् । विषय इति । आदिना करका- दिपरिग्रहः ॥ उप्णस्पर्शवत्तेजः। तेजो निरूपयति-उष्णस्पर्शवदिति । उप्णस्पर्शवत्त्वं तेजसो लक्षणम् । अत्रापि जन्योष्णस्पर्शसमवायिकारणतावच्छेकतया जन्य- तेजस्त्वजातिसिद्धिः । तदवच्छिन्नजनकतावच्छेदकतया तेजस्त्वजा- तिसिद्धिरिति बोध्यम् । केचित्तु समवायेन विलक्षणनीलत्वाव- च्छिन्नं प्रति समवायेन तेजःसंयोगत्वेन हेतुत्वात्तेजस्त्वजातिसिद्धि- रित्याहुः । ननूप्णं जलमिति प्रतीते लादावतिव्याप्तिरितिचेन्न । खसमवायिसंयुक्तत्वसंवन्धेन तेजोगतोप्णस्पर्शस्यैव जले प्रतीयमान- त्वात् । ननु रत्नकिरणादावुष्णस्पर्शाभावादव्याप्तिरितिचेन्न । तत्राप्यु- प्णस्पर्शस्य सत्त्वात् । ननु यदि तत्रोप्णस्पर्शोऽस्ति कुतो नानुभूयत इतिचेन्न, तदुपष्टम्भकपार्थिवानुष्णाशीतस्पर्शेन तदभिभवात् । ननु चक्षुरादौ प्रतिबन्धकशून्यत्वादुप्णत्वप्रतीतिः कथं न भवतीति वाच्यम् , तस्य अनुद्भूतत्वेन प्रत्यक्षाभावात् । एवं भास्वरशुक्लरूप- यत्त्वमपि लक्षणं बोध्यम् । ननु वयादौ रक्तरूपस्य सुवर्णादौ च पीतरूपस्य दर्शनात् कथं तेजस्त्वव्यवहार इति चेन्न। तत्रोपष्टम्भकपा- र्थिवरूपाणामेव प्रतीयमानत्वात् । केचित्तु पृथिव्यवृत्तिनैमित्तिकद्रवत्व- वद्वृद्रिव्यत्वव्याप्यजातिमत्त्वं तेजसो लक्षणम् । तत्र क्षित्यादावतिव्या- प्तिवारणाय पृथिव्यवृतीति, वाय्वादावतिव्याप्तिवारणाय नैमित्तिकद्रव- त्ववद्वृत्तीति, पृथिव्यन्यत्वविशिष्ट सत्तामादाय जलादावतिव्याप्तिवार- णाय द्रव्यत्वव्याप्येति, वायुतेजोन्यतरत्वमादायातिव्याप्तिवारणाय जातीत्याहुः॥ तच द्विविधम् । नित्यमनित्यं च । नित्यं परमाणुरू- १ अभिभवो नाम वलवत्सजातीयग्रहणप्रयोज्यग्रहविषयत्वाभावः । प्रयोज्य- सभावान्वयि। .. .
1 १८ तर्कसंग्रहः पम् । अनिलं कार्यरूपम् । पुनखिविधं शरीरेन्द्रियवि- पयभेदात् । शरीरमादित्यलोके प्रसिद्धम् । इन्द्रियं रूप- ग्राहकं चक्षुः कृष्णशाराप्रवति । विपयश्चतुर्विधो भीमदि- व्योदर्याकरजभेदात् । भौमं वह्नयादिकम् । अपिन्धनं दिव्यं विद्युदादि । मुक्तस परिणामहेतुरुदर्यम् । आक- रजं सुवर्णादि । तेजो विमजते-तचेति । ननु चक्षुषः तैजसत्वे किं मानमि- तिचेत् चक्षुस्तैजसं रूपादिपु पञ्चसु मध्ये रूपस्यैवाभिव्यञ्जकत्वात् दीपप्रभावदित्यनुमानमेव । विषयस्य चातुर्विध्यमाह-विपय इति। भौमेति पार्थिवमात्रेन्धनमित्यर्थः । अविन्धनमिति । आप एव इन्धनं दीप्तिसाधनं यस्य तदित्यर्थः । भुक्तखेति । भुक्तस्यान्नादेः परिणामः परिपाकः तत्र हेतुरित्यर्थः । आकरेति । आकरः खनिः तस्माज्जातमित्यर्थः । सुवर्णादीत्यादिपदेन रजतादिसंग्रहः । ननु सुवर्ण पार्थिवं पीतत्वात् हरिद्रादिवदितिचेन्न । असति प्रतिब- न्धकेऽत्यन्तानलसंयोगेन पार्थिवद्रवत्वस्य नाश्यत्वात् सुवर्णे तु वादृशानलसंयोगेऽपि द्रवत्वनाशादर्शनेन सुवर्णस्य तैजसत्वसिद्धिरिति विभावनीयम् । तथाच सुवर्णमपार्थिवं प्रतिवन्धकामावविशिष्टात्यन्ता- १ दीप्तिसाधनत्वं च दहनावयवैर्महादहनोत्पादने सहकारित्वम् । २ लौकिकानां मुवर्णमितिव्यवहारगीचरे वस्तुनि पीतिमगुरुवादेः पार्थिव- खव्यवस्थापकस्य, अनुच्छिद्य रूपापरामृतेश्च तद्वधयेव्यवस्थापकस्य हेतोरुपलम्भात् किमिदं द्रव्यान्तरमाहोस्सिलप्तेष्वन्यतरदुत व्यामिश्रमिति भवति संशयः । तत्र व्यान्तरत्वस्वीकारे गौरवात्, कृष्लेषु दर्शितधर्माणामेकना. समवायात, व्यामिश्रमिदं द्रव्यद्वयमिति परीक्षकाः । वेपामयमाशयः-संदि- ग्घसधर्मणोऽसंदिग्धाविपर्यस्तस्योपलम्भे तत्र दृष्टेन न्यायेन संदिग्धं निर्णेत- व्यमिति । ननु वोऽयं संदिग्धसधर्मनिणीतदृष्टन्यायः । उच्यतेऽनुमानमेवेति । तथाहि-संदिग्धः पक्षः वेन समानो धर्मो हेतुरूपो यस्मितादृशो निर्णीत: सपक्षः उदाहरणमितियावत् तत्र दो न्यायः व्याप्तिरूप इति । प्रकृते संदिग्यः सुवर्णमितिव्यवहारगोचरः तेन समानो धर्मः पार्थिक्त्यव्यवस्थापकहेतुसमामा- तर्कविलासिनीटीकासहितः। मिसंयोगेऽप्यनुच्छिद्यमानद्रवत्वाधिकरणत्वात् यन्नैवं तन्नैवं यथा सर्पि- रित्यनुमानं बोध्यम्। ननु तथापि सुवर्णादौ तेजसि उप्णत्वग्रहः कुतो न भवतीतिचेन्न । पार्थिवरूपस्पर्शाभ्यां भाखररूपोप्णस्पर्शयोरभिभवा- दित्यलम् । रूपस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्व- द्रवत्वसंस्कारास्तेजस्येकादश गुणाः ॥ रूपरहितः स्पर्शवान्वायुः । स विविधः । नित्योपनि- त्यश्च । नित्यः परमाणुरूपः । अनित्यः कार्यरूपः । पुनत्रिविधः शरीरेन्द्रियविपयभेदात् । शरीरं वायु- लोके । इन्द्रियं स्पर्शग्राहकं त्वक् सर्वशरीरवर्ति । वि- पयो वृक्षादिकम्पनहेतुः । शरीरान्तःसंचारी वायुः प्राणः । स चैकोऽप्युपाधिभेदात्माणापानादिसंज्ञा लभते ॥ धिकरणमनुच्छियमानद्रवलं तादृशैव रुपापरावृत्तिश्च तद्वान् जलमध्यस्थं घृतं ता- दृशः पीतपटश्च तत्र दृष्टो न्यायः द्रवत्वनाशं प्रति रुपपरावृत्तिं प्रति च प्रतिवन्धको यो द्रवद्रव्यसंयोगस्तस्य दर्शितधर्मनिष्टा व्याप्तिः तेन निर्णेतव्य इत्यर्थः । अनुमा- नप्रयोगश्चेत्यम्-असन्तानलसंयोगी पीतिमाश्रयः द्रवत्वनाशप्रतिवन्धकद्रवद्र- व्यान्तरसंयुक्तः असन्तानलसंयोगेऽप्यनुच्छिद्यमानद्रवत्याधिकरणत्वे सति गुरुत्वात् जलमध्यस्थतादिवदिति । पीतिमगुरुत्वाश्रयः पीतरूपभिन्नरूपप्रति- बन्धकदयद्रव्यसंयुक्तः, असन्तानलसंयोगेऽपि पीतरुपभिन्नरूपानाश्रयत्वात् अत्यन्तानलसंयोगिजलमध्यस्थपीतपटवदिति । अनेन न्यायद्वयेनापि दवदव्य- संयुक्तद्रव्यत्वं मुवर्णस्य सिद्धम् । इयांस्तु विशेषः यत्प्रथमे पीतिमाश्रयेऽपि नैमित्तिकद्रवत्वाङ्गीकार आवश्यकः, द्वितीये तु मपीक्षोदवदुपपत्तेन पीतिमा- श्रये द्रवत्वाङ्गीकार इति । एवं प्रतिवन्धकतया सिद्धं द्रवद्रव्यं मुवर्णपदेन पक्षीकृत्य तमिस्तैजसत्वं व्यवस्थाप्यते मूलस्थेनानुमानेन नतु पीतिमाश्रयम् । तच उक्ता- नुमानेन पार्थिवत्वस्य नैमित्तिकद्वत्ववत्त्वाच्च जलीयत्वस्य निरासे, द्रवत्वस्य रूपवत्ताव्याप्यत्वेन वायवीयत्वादिनिरासे च परिशेपाद्बोध्यम् । 'अमेरपत्यं प्रथम हिरण्यम्' इत्याद्यागमोऽप्यत्रानुसंधेय इति संक्षेपः । १ अभिभयोऽत्र बलवत्सजातीयसंवन्धः नतु यलवत्सजातीयग्रहणकृताग्रह- णम् , अन्धकारे मुवर्णरूपग्रहापत्तेः।
तस्य तर्कसंग्रहः वायुं निरूपयति-रूपरहित इति । पृथिव्यादित्रयवारणाय रहितान्तं विशेषणम् , आकाशादिवारणाय विशेप्यदलम् । इन्द्रिय दर्शयति--स्पर्शेति । स्पर्शग्राहकमित्युपलक्षणं महत्त्वोद्भूतरूप- स्पर्शबद्दव्यतद्वृत्तिकर्मसामान्यसमवायसंख्यापरिमाणपृथक्त्वसंयोगवि- भागपरत्वापरत्वद्रवत्वस्नेहानामपि ग्राहकम् । त्वगिन्द्रियस्य वायवीयत्वे लगिन्द्रियं वायवीयं रूपादिषु पञ्चसु स्पर्शस्यैव ग्राहकवादित्यनु- मानमेव प्रमाणं बोध्यम् । ननु प्राणस्य क्लुप्सेप्वन्तर्भावाभावेऽतिरिक्त- त्वापत्चिरित्याशझ्याह-शरीरान्तःसंचारीति । तथाच वायवीयविपयेऽन्तर्भावान्न दोष इति भावः । नन्वेवमपानादिव्य- वहारस्य निर्विषयत्वापत्तिरितिचेत्तत्राह---उपाधिभेदादिति । स्थान- भेदाक्रियाभेदाचेत्यर्थः । तथाहि--हृदि स्थितत्वान्मुखनासिकाभ्यां निर्गमनप्रवेशनाच प्राण. । गुदे स्थितत्वान्मलादेरधोनयनाचापानः । नाभौ स्थितत्वात् भुक्तपरिपाकाय जाठरानलस्य समं नयनाच स- मानः । कण्ठे स्थितत्वादन्नादेरू नयनाच्चोदानः । सर्वशरीरे स्थित- स्वान्नाडीमुखेपु वितननाच व्यानः इति । नागकूर्मादयोऽपि प्राणा- दीनामेव भेदाः ॥ अथ सृष्टिसंहारप्रक्रिया-परमेश्वरस्य सर्जनेच्छावशात् परमाणुपु फर्मोत्पतिः, ततः परमाण्यन्तरेण संयोगः, ततः परमाणुसमवायिका- रणकः परमाणुद्वयसंयोगासमवायिकारणकः अदृष्टादिनिमिचका- रणको दाणुक उत्पद्यते । ततः पूर्वोक्तयुक्त्या त्रिभिद्यणुऊख्यणुकः । एवं चतुर्भिर्वणुकैश्चतुरणुक इत्यादिक्रमेण महती पृथिवी महज्जलं महतेजो महान्वायुरुत्पद्यते इति निमित्तकारणत्वमीश्वरस्य सिध्यति । 'यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यं प्रयन्त्य- भिसंविशन्ति' इति श्रुतेरप्यत्रैव तात्पर्यम् । एवं संहरणविषयकतदि- च्छावशात्परमाणुषु कर्मोत्पतिः ततो विभागस्ततः परमाणुद्वयसयोग- १६परस्य निमित्तकारणावे एव ।
तर्कविलासिनीटीकासहितः। २१ नाशस्ततो घणुकनाशस्तस्ततख्यणुकनाश इत्यादिरीत्या महापृथिव्या- दीनां नाशः । अत्र प्रमाणं 'धाता यथापूर्वमकल्पयत्' इतिश्रुतिरेव । प्राञ्चस्तु कंचित्समवायिकारणनाशात् फैचिदसमवायिकारणनाशात् कार्यनाश इति प्रोचुः । सर्वत्रासमवायिकारणनाशात् कार्यद्रव्यनाश इति नव्या इत्यलं विस्तरेण ॥ शब्दगुणकमाकाशम् । तच्चैकं विभु नित्यं च ॥ आकाशं निरूपयति-शब्देति । अत्र आकाशत्वं न जातिः एकव्यक्तिवृत्तित्वात् । तथा चोकं- व्यक्तरभेदस्तुल्यत्वं संकरोऽथानवस्थितिः । रूपहानिरसंवन्धो जातिबाधकसंग्रहः ॥ इति अत्र यद्यपि शब्दवत्त्वमाकाशस्य लक्षणं संभवति तथापि शन्दे विशेषगुणत्वद्योतनाय गुण इति । रूपरसगन्धस्पर्शसांसिद्धिकद्रवत्वस्ने- हशब्दबुद्धिसुखदुःखेच्छाद्वेषप्रयत्लधर्माधर्मभावनाख्यसंस्कारा एते वि- शेषगुणाः । अन्ये संख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्व- गुरुत्वनैमित्तिकद्रवत्ववेगाः T: सामान्यगुणाः । तत्र संख्यापरिमाण- पृथक्त्वसंयोगविभागशब्दा आकाशे ज्ञेयाः। ननु पृथिव्यादिवदस्यापि नित्यत्वानित्यत्वादिना विभागः स्यादित्याशङ्कां परिजिहीपुराह- तचकमिति । तथाचाकाशस्येकत्वाद्विभागो नास्तीति भावः । १ सृष्टिप्रलयसद्भावे। २ श्यणुकादौ । ३ ध्यणुके। ४ व्यरभेदः खाश्रयव्यरैक्यमाकाशत्वादेर्जातित्वे वाधकम् । व्यते- स्तुल्यत्वं च अन्यूनानतिरिकव्यक्तिकत्वं घटत्वकलशत्वयोर्जातित्वे याधकम् । संकरः परस्परायन्ताभावसमानाधिकरणयोधर्मयोरेकत्र समावेशः भूतत्वमू- तत्वयोर्जातित्वे वाधकः । अनवस्था जातित्वादेर्जातित्वे वाधिका । रूपहानिः खतोव्यावर्तकत्वात्मकस्य रूपस्य हानिः विशेषत्वस्य जातित्वे वाधिका । असं. वन्धः असमवेतलमभावत्वादेर्जातित्वे वाधकः ।
अष्ट- . २२ तर्कसंग्रहः चिन्विति । विभुत्वं सर्वमूर्तद्रव्यसंयोगित्वम् । मूर्तत्वं परिच्छिन्न- परिमाणवत्त्वं, तच्च पृथिव्यतेजोवायुमनोवृचि । ननु शब्दस्याकाश- वृत्तिवे किं मानमितिचेत् , शब्दः अष्टद्रव्यातिरिक्तद्रव्याश्रितः, द्रव्यानाश्रितत्वे सति समवेतकार्यत्वात् यन्नैवं तन्नैवं यथा रूपमिति परिशेपानुमानमेव प्रमाणमवेहि । नच शन्दे हेतुघटकाप्टद्रव्यानाश्रित- त्वमेवासिद्धमिति साध्यसमो हेतुरिति वाच्यम् , शब्दः अष्टद्रव्याना- श्रितः बहिरिन्द्रिययोग्यविशेषगुणत्वे सति अमिसंयोगासमवायिकार- णकत्वाभावे च सति अकारणगुणपूर्वकप्रत्यक्षत्वात् यन्नैवं तन्नैवं यथा रूपमिति व्यतिरेक्यनुमानेन तत्साधनात् । तत्र सुखादौ व्यभिचारवार- गाय बहिरिन्द्रिययोग्येति, संख्यादावतिव्याप्तिव्यारणाय विशेषगुणेति, पाकजरूपादौ व्यभिचारयारणाय द्वितीयसत्यन्तम् , पटरूपादो व्यभि- चारवारणायाकारणगुणपूर्वकेति, जलपरमाणुरूपादौ व्यभिचारवारणाय प्रत्यक्षेति । यदिच योग्यत्वं प्रत्यक्षत्वं तदा प्रत्यक्षत्वेत्यनुपादेयमेव । नव्यास्तु शब्दनिमित्तकारणत्वेन कृतस्येश्वरबैव शब्दसमवायि- कारणत्यमित्याहुः । वाचालान्तु मृदगादीनामेव गुणः शब्दः शब्द प्रति मृदङ्गत्वादिना समवायिकारणतायाः खीकारात् मृदझे शब्द इत्यादिप्रतीतरिति वदन्ति । अतीतादिन्यवहारहेतुः कालः । स चैको विमुनित्यश्च ॥ फालं लक्षयति-~-अतीतादीति । अतीतत्वं वर्तमानकाल- वृत्तिध्यसप्रतियोगित्वम् । अनागतत्वं वर्तमानकालवृत्तिप्राग- भावप्रतियोगित्वम् । वर्तमानत्वं प्रयोगाधिकरणकालत्वमिति । क्षणदिनमाससंयत्सरादिव्ययहाराणामापधिकत्वादाह--सचेति । विभुत्वं चात्र सकलकार्यापारत्वं सकलकार्यनिमित्तकारणलं वा। ननु कार्यमानं प्रति तस्य निमित्तकारणत्वे किं मानमिति- चेन्न । अद्य पदो भविष्यति श्वः पटो भवितेत्यादिप्रत्ययेन ततत्कालस्योपादानात् । नच तत्तत्कालस्यास्तु निमित्कारणत्वं नैता- तर्कविलासिनीटीकासहितः। २३ वता महाकाले निमित्तकारणत्वं सिद्धमिति वाच्यम् । यद्विशेषयोः कार्यकारणभावस्तत्सामान्ययोरपि तथेति नियमेन कालसामान्ये निमित्तकारणत्वस्वीकारादिति । ननु 'अद्य घटो भविष्यति' इत्यादिप्रतीतेः सूर्यपरिस्पन्दालम्बनत्वेनैवोपपत्तावतिरिक्तकालखी- कारे मानाभाव इतिचेन्न । इदानीमेतद्देशे सूर्यपरिस्पन्दः इति प्रतीत्या घटादेरिव सूर्यपरिपन्दस्यापि विलक्षणाधिकरणावगाहनाचत्र च सूर्यपरिस्पन्दस्याधिकरणत्वासंभवादतिरिक्तकालानगीकारे तादृशम- तीत्यनुपपत्तेरिति दिक् । क्षणादिव्यवहारप्रयोजकोपाधयस्तु स्वजन्य- विभागप्रागभावावच्छिन्नं कर्म, पूर्वसंयोगावच्छिन्नविभागो वा, पूर्व- संयोगनाशावच्छिन्नोत्तरसंयोगप्रागभावः, उत्तरसंयोगावच्छिन्नं कर्म, एतद्विशिष्टः कालः क्षण इत्युच्यते, क्रिया क्रियातो विभागः ततः पूर्वसंयोगनाशः तत उत्तरसंयोगोत्पत्तिः ततः क्रियानाश इति क्रमा- नुसारादिति । संख्यादयः पञ्च गुणाः काले ॥ प्राच्यादिव्यवहारहेतुर्दिक । सा चैका नित्या विभ्वी च ॥ दिशं निरूपयति--पाच्यादीति । आदिना प्रतीच्यादीनां संग्रहः । तद्व्यवहारकारणत्वं तल्लक्षणम् । उदयाचलसन्निहितदे- शावच्छिन्ना दिक् प्राची । तद्भवत्वं प्राच्यत्वम् । अस्ताचलसन्निहि- तदेशावच्छिन्ना प्रतीची, मेरुसन्निहितदेशावच्छिन्ना उदीची, मेरु- व्यवहितदेशावच्छिन्ना अवाची । एवमन्या दिशो वोध्या । घटादु- दश्चनापेक्षया शरायो दूर इत्यादिव्यवहारहेतुपरत्वादिजनक बहु- तरसंयोगविशिष्टशरावज्ञाने संसर्गतया विषयीभूतवैशिष्टयघटकतया दिशः सिद्धिोध्या । अत्रापि हेतावसाधारणत्वं विशेषणं देयम- न्यथा कालादावतिव्याप्तिः । अत्रापि प्राच्यादिव्यवहार औपाधिको वोध्यः, उपाधयस्त्वधस्तादर्शिताः । दीधितिकारादयस्तु दिकाला- वतिरिक्तौ न मन्यन्ते, तयोरपीश्वरेऽन्तर्भावसंभवादिति दिक् ॥ १ खसमवायिसंयुक्तसंयोगरूपपरंपरारूपम् । .
। , तर्कसंग्रहः ज्ञानाधिकरणमात्मा । स द्विविधः । जीवात्मा पर- मात्मा चेति । तत्रेश्वरः सर्वज्ञ. परमात्मा एक एव । जीवस्तु प्रतिशरीरं भिन्नो विभुनित्यथ ।। अष्टमं द्रव्यं निरूपयति-ज्ञानाधिकरणमिति । ज्ञानवत्त्वमा- त्मनो लक्षणम् । अधिकरणपदं तु समवायेनाश्रयतालाभाय । आत्मत्वं जातिः सा चेश्वरेऽप्यस्ति । ननु कथमात्मत्वजातिसिद्धिरितिवेत् सुखदुःखादिसमवायिकारणतावच्छेदकतयेति गृहाण । भावकार्यस्थ समवायिकारणजन्यत्वात् । नित्यस खरूपयोग्यस्य फलावश्यंभाव- नियम इत्यस्याप्रयोजकत्वात् । तथाच सुखसमानाधिकरणद्रव्यत्व- व्याप्यजातिमत्व, सुखसमानाधिकरणद्रव्यविभाजकोपाधिमत्त्वं वाऽपि तल्लक्षणमिति फलितोऽर्थः । आत्मानं विभजते-~स विविध इति । स पूर्वोक्तलक्षणलक्षित इत्यर्थः। परमात्मेति । नित्यज्ञानादिमत्त्वं परमात्मनो लक्षणम् । आत्मनि परमत्त्वं सृष्टिस्थितिलयकर्तृत्त्वं, तदेव जीवेश्वरयोर्भेदसाधकम् । तत्र परमात्मा ईश्वरः नित्यज्ञानेच्छाकृति- मान् खतन्त्रः जगदुत्पत्तिस्थितिसंहारकारकः, सर्वज्ञः सर्वविषयक- ज्ञानवान् 'यः सर्वज्ञः सर्ववित्' इतिश्रुतेः, एकः ससमानधर्मकद्वि- तीयभेदाभाववान् तेन जीवस्य इश्वरेण सह भेदे विवक्षितेऽपि न क्षतिः । क्षित्यङ्करादिकं कर्तृजन्यं कार्यत्वात् , घटवदित्यनुमानेन जग- कर्तृतये धरसिद्धियोध्या । जीवस्त्विति । तत्तन्मनोविशिष्टशरीराव- च्छिन्नभोगवत्वं सति तादृशभोगवद्भिन्न इत्यर्थः । दुःखसमानाधिक- रणनित्यशनासमानाधिकरणजातिमत्त्वं जीवलक्षणं पर्यवसितम् । संख्यादयः पञ्च बुध्यादयोऽष्टौ संस्कारश्चैते चतुर्दश गुणा जीवे । संख्यादिपञ्चकं ज्ञानेच्छाकृतय एतेष्ट ईश्वरे इति बोध्यम् ।। मुखाद्युपलब्धिसाधनमिन्द्रियं मनः । तच्च प्रत्यात्मनि- यतत्वादनन्तं परमाणुरूपं निसं च ।।
तर्कविलासिनीटीकासहितः। २५ मनो निरूपयति-सुखाद्युपलब्धीति | सुखादीनामुपलब्धि- निं तत्साधनत्वे सतीन्द्रियत्वं मनसो लक्षणम् । परमाणुरूप- मिति । ननु मनसो विभुत्वमेवास्तु नच कपोलकल्पितपक्षमात्रेण नार्थसिद्धिरिति वाच्यम् । मनो विभु स्पर्शरहितद्रव्यत्वादात्मवदित्यनु- मानस्य प्रमाणत्वात् । नच ज्ञानानुपपत्तिः विभुद्वयसंयोगस्याप्यङ्गी- कारादितिचेन्न । ज्ञानत्वावच्छिन्नं प्रति पुरीतदन्तर्देशातिरिक्तदेशा- वच्छेदेन आत्ममनःसंयोगस्य कारणतायाः कृप्तत्वेन मनसोऽणुत्वा- गीकारे सुपुप्तिकाले तस्य पुरीतति प्रवेशाङ्गीकाराहहिर्देशावच्छेदेना- स्ममनःसंयोगस्यासत्त्वेन ज्ञानाभावोपपत्तावपि तस्य विभुत्वाङ्गीकारे पुरीतहहिर्देशावच्छेदेनात्ममनःसंयोगाभावस्य वक्तुमशक्यत्वेन सुषुप्ति- कालेऽपि ज्ञानोत्पत्तिप्रसङ्गात् । तच्चेति । प्रत्यात्मेति । आत्मनामान- न्त्येन मनसोप्यानन्त्यमित्यर्थः । संख्यापरिमाणपृथक्त्वसंयोगवि- भागपरत्वापरत्वसंस्कारा एतेऽप्टौ गुणा मनसि । चक्षुर्मात्रग्राह्यो गुणो रूपम् । द्रव्यनिरूपणानन्तरं क्रमप्राप्तान् गुणान्निरूपयति-तत्राप्युद्देश- क्रमेण प्रथमं रूपं लक्षयति--चक्षुर्मात्रग्राह्य इति । इतरेन्द्रिया- ग्राह्यत्वं मात्रशब्दार्थः । चक्षुपश्चेतरत्वे ग्रहे चान्वयः । अथवा ग्राह्यपदस्यैव चक्षुरितरेन्द्रियाग्राह्यत्वविशिष्टचक्षु तत्वविशिष्टे लक्षणा मात्रान्तं तु तात्पर्यग्राहकं, ग्राह्यत्वं च लौकिकग्रहविपयताश्रयत्वं तेन गुरुत्वादीनामलौकिकरहेऽपि नातिव्याप्तिः। न वान्येन्द्रियजन्यालौकि- काहविषयत्वेऽपि रूपादीनामसंभवः। तथाच चैक्षुरितरेन्द्रियजन्यलौ- किकग्रहविषयताशून्यत्वे सति चक्षुरिन्द्रियजन्यलौकिकमहविषयता- १ आत्मना सयोगासंभवात् संयोगस्याप्राप्तिपूर्वकप्राप्तित्वात् विभुनोस्तु निलसर्वगतत्वेन क्रियाशून्यत्वेन च तदसंभवादिति भावः । २ अनित्यसंयोगस्यैव तथालात् । द्रव्यद्वयं युगपत्समानदेशमसंबद्धं चेत्यस्य युक्तिविरुद्धत्वात् अन्यथा विभुमूर्तसंयोगस्याप्यनहीशरप्रसङ्गादित्यभिप्रायः । ३ लाघवात्त्वगिन्द्रियाग्राह्यत्वे सतीत्येव वक्तव्यम् । ३ २६ तर्कसंग्रहः शालिवे सति गुणत्वं समुदितलक्षणार्थः। संयोगादिवारणाय प्रथमस- त्यन्तं, गुरुत्वादिवारणाय द्वितीयसत्यन्तं, रूपत्वादिवारणाय गुणपदम्। ननु तथापि प्रभाभित्तिसंयोगेऽतिव्याप्तिरिति चेन्न । गुणपदेन विशे- पगुणस्य विवक्षणीयत्वात् । यदि च परमाणुरूपेऽव्याप्तिवारणाय जा- तिघटितलक्षणं विवक्षितं स्याचदा विशेषपदं न देयम् । तथाच चक्षुत्रियायजातिमत्त्वे सति गुणवं पर्यवसितोऽर्थः । जाती तग्राह्यत्वं येनेन्द्रियेण यत्प्रत्यक्षं तन्निष्ठजातेः तदभावस्य च प्रत्यक्ष तेनेन्द्रियेणैवेति नियमात् । रूपत्वादीनि सर्वाण्येव जातयः प्रत्यक्षा- दिप्रमाणसिद्धा इति सुधीभिर्विभावनीयम् । तञ्च शुक्लनीलपीतरक्तहरितकपिशचित्रभेदात्सप्तविधम् । पृथिवीजलतेजोवृत्ति । तत्र पृथिव्यां सप्तविधम् । अमा. स्वरशुक्लं जले । भाखरशुलं तेजसि ॥ रूपं विभजते-तञ्चेति । चित्ररूपे प्रमाणं तु चित्रः पटः इति प्रतीतिरेव । ननु चित्रः पटः इति प्रतीतिस्तन्तुगतनीलपीतादिकमे- वावगाहत इति चेन्न । तथासति पटे रूपाभावात्तत्प्रत्यक्षानुपपत्तिः । विषयतासंबन्धेन द्रव्यचाक्षुषं प्रति समवायेनोद्भूतरूपस्य तन्नत्वात् । तदाश्रयमाह-पृथिवीति । शुक्लत्वादयोऽपि जातयः । नच शुक्ला- दीनामेकत्वात् कथं शुक्लत्वादयो जातयः इति चेन्न । शुक्लो नष्टः, शुक्ल उत्पन्नः इत्यादिप्रतीते' शुक्लादीनामुत्पादविनाशशालित्वेन नानात्वात् अन्यथैकत्र शुक्लस्य नाशेन सर्वत्र तदभावप्रसङ्गात् । नच तादृशप्रत्ययः शुक्लादिप्रतियोगिकसमवायस्यैव जन्मविनाशाववगाहत इति वाच्यम् । तादृशप्रतीत्यमिलापकेन समवायस्यानुल्लेखनात्, शुक्लादीनामेव चौल्लेखात् , समवायस्य नित्यत्वेन तत्रोत्पादविनाशयो. रसंभवाच्च । अभास्वरशुक्लमिति । नच कालिन्दीजलादी नीलिमो- १ गुरुलस्यातीन्द्रियत्वेन चधुरितरेन्द्रियाग्राह्यत्वस्य गुमवस्य च सत्त्वादिति भावः।
तकावलासिनीटीकासहितः। पलब्धेर्व्यभिचार इति वाच्यम् । आश्रयीभूतपृथिव्या एव तत्रोपाधि- त्वात् । अन्यथा हस्तादौ धृते तस्मिन्धवलिमोपलब्धिर्न स्यादिति । रसनग्राह्यो गुणो रसः । रसं निरूपयति-रसनग्राह्य इति । रसनेन्द्रियजन्यज्ञानविषयत्वे सति गुणत्वं रसस्य लक्षणम् । अत्रापि पूर्ववत्सर्वमूह्यम् । स च मधुराम्ललवणकटुकपायतिक्तभेदात् पड्विधः । पृथिवीजलवृत्तिः । पृथिव्यां पड्विधः । जले मधुर एव ॥ रसं विभजते-स चेति । पड्विध इति । रूपस्येव रसस्य द्रव्यप्रत्यक्षं प्रत्यहेतुत्वाचित्ररसानङ्गीकारेऽपि क्षतिविरहेण पानकादौ रसप्रतीतेस्त्ववयवगतरससमुदायविषयकत्वेनाप्युपपत्ती चित्ररसो ना- ङ्गीकर्तव्य इति भावः। जले मधुर एवेति । जम्बीरकरवीररसा- दावन्यरसोपलब्धिस्त्वौपाधिकीति भावः । घ्राणग्राह्यो गुणो गन्धः । स द्विविधः । सुरभिरसुर- भिश्च । पृथिवीमात्रवृत्तिः।। गन्धं निरूपयति-घ्राणग्राह्य इति । चित्रगन्धस्तु नाङ्गीक्रियते अवयवगन्धेनैवोपपवेरिति भावः । जलादौ गन्धप्रतीतिस्त्वौपाधिक्येव पृथिवीसंयोगसत्त्वे गन्धसत्त्वं पृथिवीसंयोगाभावे गन्धाभाव इत्य- न्वयव्यतिरेकयोः सत्त्वात् । त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः। स च त्रिविधः । शीतोष्णानुप्णाशीतभेदात् । पृथिव्यप्तेजोवायुवृत्तिः। तत्र शीतो जले । उष्णस्तेजसि । अनुष्णाशीतः पृथि- वीवाय्वोः । रूपादिचतुष्टयं पृथिव्यां पाकजमनित्यं च। अन्यत्रापाकजं नित्यमनित्यं च । नित्यगतं नित्यम् । अनित्यगतमनित्यम् ॥ स्पर्श निरूपयति-त्वगिन्द्रियमात्रग्राह्य इति. । मात्रपदं .२८ तर्कसंग्रहः संख्यादिवारणाय । अत्रापि लक्षणघटकपदप्रयोजन रूपवबोध्यम् । तं विभज्य दर्शयति-शीतोष्णेत्यादिना । तत्रेति पृथिव्यादिचतुष्टय- मध्ये इत्यर्थः । शीतो जल इति । उप्णादिप्रतीतिस्त्वौपाधिक्येवेति मावः । पृथिव्यादिचतुष्टये रूपादीनां नित्यत्वानित्यत्वे दर्शयति- रूपादिचतुष्टयमिति । अपाकजमिति । पाकस्तेजःसंयोगस्तस्मा- ज्जातं पाक तद्भिन्नमपाकजम् । तथाच पृथिव्यामसिसंयोगाद्विजा- तीयरूपाधुत्पादो दृश्यते । जलादौ शतशः क्रियमाणेपि तेजःसंयोगे रूपान्तरोत्पत्तिः कदापि न भवतीति भावः । अत्र पीलपाकवादिनो वैशेषिकाः, तेषामयमाशयः---औपाकनिक्षिप्ते घटे अत्यन्तानल. संयोगे परमाणुपु क्रिया, ततो विभागादिकमेण आणुकादिमहाऽव. यविपर्यन्तस्य नाशः, ततः परमाणुष्वेव पाकेन रूपान्तरोत्पत्तिर्भवति पुनश्चेश्वरेच्छावशतः परमाणुपु क्रिया ततस्तयोः संयोगस्ततो व्यणु- कोत्पत्तिः । एवं क्रमेण चरमावयवी घट उत्पद्यते। तथाचावयव- गतरूपादिनैव कारणगुणपूर्विकावयविनि रूपाचुत्पचिरिति वदन्ति । पिठरपाकवादिनो नैयायिकान्तु आपाकनिक्षिप्ले घटे तदवयवेषु परमाणुपर्यन्तेषु चैकदैवात्यन्तानलसंयोगेनावय विविनाशमन्तरेणैव रूपान्तरमुत्पद्यते । नच यणुकाद्यवयविनि कथ पाकः, अवयवेषु यदवच्छेदेनावयव्यारम्भकसंयोगस्तदवच्छेदेन तत्मतिद्वन्द्विविमागम- न्तरेण तेजःसंयोगरूपपाकासंभवान्मूर्तयोः समानदेशताविरोधादिति वाच्यम् । अवयविनां सच्छिद्रत्वेन वहेः सूक्ष्मावयवैरन्तः प्रविष्टैरवय- वेप्ववयविनावष्टब्धेप्वपि पाकस्याविरोधादवयविन्यपि पाको न वि- रोपावह इत्याहुः । स्पों पाकजत्वं तु प्रत्यक्षसिद्धमेवेति दिक् । १परमाणुरूपेऽव्याप्तिवारणासन परमाणुस्प” इति विशेपः । २ पोलुः परमाणुस्तस्मिन्नेव पाको भवाति वादिनः । ३ भजनार्थ घटादयो यस्मिनिक्षिप्यन्ते कुलालेन स आपाकः । आमपाकेति पारस्तु आपाकशब्दमतवता केनचित्पडितमन्येन कल्पित इति नादर्तव्यः । ४ अवयवावयविसमुदायः पिठरः तस्मिन्नेव पावोन परमाणुष्वेवेति वादिनः।
तर्कविलासिनीटीकासहितः। २९ एकत्वादिच्यवहारहेतुः संख्या। मा नवद्रव्यवृत्तिः । एकत्वादिपरार्धपर्यन्ता । एकत्वं नित्यमनित्यं च । नि- त्यगतं नित्यम् । अनित्यगतमनित्यम् । द्वित्वादिकं तु सर्वत्रानित्यमेव ।। संख्यां निरूपयति–एकत्वादीति । एकत्वादीनां यो व्यवहारः अयमेक अयमेक इमौ द्वावित्याकारकस्तदसाधारणहेतुत्वं संख्या- लक्षणम् । संख्यायाः सावधित्वं निरूपयन्नाह-एकत्वादिपरार्ध- पर्यन्तेति । तथाच- एक दश शतं चैव सहस्रमयुतं तथा । लक्षं च नियुतं चैव कोटिरच्दमेव च ।। वृन्दं खा निखर्वश्च शङ्ख पद्मश्च सागरः । अन्त्यं मध्यं परार्द्ध च दशवृद्ध्या यथाक्रमम् ।। इत्यभियुक्तोक्तेः परार्द्धपर्यन्तैव सख्येति भाव । नित्येपु परमा- ण्यादिपु गतं वर्तमानमेकत्वं नित्यं ध्वंसाप्रतियोगि । अनित्येति । अनित्ये चानित्यं ध्वंसप्रतियोगि । आश्रयनाशेन नाशादिति भावः । द्वित्वादिकं तु सर्वत्र नित्येऽनित्ये चेत्यर्थः । अनित्यमिति । द्वित्वा- दीनां स्वजनकापेक्षावुद्धिनाशनाश्यत्वात् । तथाच अपेक्षावुद्धिनाशाचेषां नाश इति भावः । अपेक्षाबुद्धिश्च अयमेक अयमेक इमौ द्वौ इत्या- कारिका । तन्नाशनमश्चैवं-प्रथममपेक्षाबुद्धिस्ततो द्वित्योत्पत्तिः ततो विशेषणज्ञानं द्वित्वत्वनिर्विकल्पात्मकं ततो द्वित्वत्वविशिष्टप्रत्यक्षम- पेक्षावुद्धिनाशश्च ततो द्वित्वनाश इति । अपेक्षावुद्धिः क्षणत्रयं तिष्ठ- तीति कल्पनीयम् । अन्यथा निर्विकल्पककालेऽपेक्षावुद्धिनाशात्तद- नन्तरं द्वित्वप्रत्यक्षात्प्रागेव द्वित्वस्यैव नाशः स्यादिति दिक् । मानव्यवहारासाधारणं कारणं परिमाणम् । नवद्रव्य- वृत्ति । तच्चतुर्विधम् । अणु महद्दीर्घ इस्खं चेति ॥ परिमाणं निरूपयति--मानव्यवहारेति । परिमाणादीनां नि- तर्कसंग्रहः त्यवादिकं संख्यावस्थयमूह्यम् । आश्रयं दर्शयति-नबद्रव्यवृत्तीति। अणु महदीर्घ हसं चेति भावप्रधाननिर्देशाऽन विरोध इति भावः । पृथग्व्यवहारासाधारणकारणं पृथक्त्वम् । सर्वद्रव्यवृत्ति ॥ पृथक्त्यं निरूपयति--पृथग्व्यवहारेति । अयमस्मात्पृथगिति यो व्यवहारम्तस्य कारणं पृथक्त्वमित्यर्थः । तञ्चानेकविधमेकपृथक्त्व. द्विपृथक्त्वादिभेदात् । तत्रैकपृथक्त्त्वं नित्यगतं नित्यमनित्यगतमनित्यम् । द्विपृथक्त्वादिकं तु सर्वत्रानित्यमेव । ननु भेदातिरिक्तस्य पृथक्त्वस्य सत्त्वे किं मानमिति चेन्न । घटः पटो न, घzः पटात्पृथगिति प्रती- त्योलक्षण्यप्रतीतेरेव प्रमाणत्वात् ।। संयुक्तच्यवहारहेतुः संयोगः । सर्बद्रव्यवृत्तिः ॥ संयोग निरूपयति--- संयुक्तव्यवहारेति । इमौ संयुक्ताविति यो व्यवहारतस्यासाधारणकारणत्वं संयोगस्य लक्षणमित्यर्थः । असाधारणत्वं च तादृशव्यवहारजनकतावच्छेदकमुख्यप्रकारतावत्त्वं वोध्यम् । एवमपि । संयोगोऽव्याप्यवृत्तिरनित्यश्च । अव्याप्यवृत्तित्वं स्वात्यन्ताभाययद्वृत्तित्वं यथा वृक्षे मूलावच्छेदेन संयोगात्यन्तामायः, संयोगश्च शाखावच्छेदेन । तथाच द्वयोरेकाधिकरणवृत्तित्वात् तस्याव्याप्यवृत्तित्वम् । संयोगनाशको गुणो विमागः । सर्वद्रव्यवृत्तिः ।। विमागं निरूपयति-संयोगनाशक इति । विभागोऽप्यनि- स्योऽव्याप्यवृत्तिश्च । संयोगनाशकत्वं च विभागे प्रथमं हस्तादौ क्रिया ततः हस्ताकाशविभागस्ततः पूर्वसंयोगनाशस्तत उत्तरदेशसं- योगोत्पतिः ततः हस्तक्रियानाश इति नियतकमाश्रयणात् । परापरव्यवहारासाधारणकारणे परत्वापरत्वे । पृथि- च्यादिचतुष्टयमनोवृत्तिनी । ते च द्विविधे । दिकृते का- १ प्रकारतायो मुख्यत्वं च प्रकारत्वासमानाधिकरण विशेष्यतानिरूपितत्वम् ।
तर्कविलासिनीटीकासहितः। लकृते चेति । दूरस्थे दिकृतं परत्वम् । समीपस्थे दिक- तमपरत्वम् । ज्येष्ठे कालकृतं परत्वं । कनिष्ठे कालकृत- मपरत्वम् ॥ परत्वापरत्वे युगपन्निरूपयति-परापरव्यवहारेति । परव्यव- हारजनकतावच्छेदकमुख्यप्रकारतावत्त्वं परत्वम् । अपरव्यवहारजनक- तावच्छेदकतादृशप्रकारतावत्यमपरत्वम् । तयोर्दैविध्यं कथयन्नाह- ते द्विविधे इति । आद्यपतनासमवायिकारणं गुरुत्वम् । पृथिवीजलवृत्ति ॥ गुरुत्वं निरूपयति-आद्यपतनेत्यादि । आयत्वं खसमाना- धिकरणपतनप्रतियोगिकध्वंसासमानकालीनत्वम् । वृन्ताद्विश्लिप्टस्य फलस्य भूमिसंयोगपर्यन्तमनेकाः क्रिया भवन्ति तत्र प्राथमिका क्रिया गुरुत्वजन्या द्वितीयादयस्तु वेगजन्या इति वेगवारणायायेति । स्यन्दनासमवायिकारणं द्रवत्वम् । पृधिन्यतेजोवृत्ति । तद्विविधम् । सांसिद्धिकं नैमित्तिकं च । सांसि- द्धिकं जले। नैमित्तिकं पृथिवीतेजसोः । पृथिव्यां घृतादावनिसंयोगजं द्रवत्वम् । तेजसि सुवर्णादौ ।। द्रवत्वं निरूपयति-स्यन्दनेति । स्यन्दनं स्रवणं तच्च संनिकृ- प्टदेशे द्रवद्रव्यसंयोगानुकूलो व्यापारः । अत्रापि द्वितीयादिव्यापारज- नकवेगवारणाय आद्यपदं देयम् । कचित्तथैव पाठः । सांसिद्धि- कमिति । अग्यादिसंयोगाजन्यमित्यर्थः । नैमित्तिकमिति । अग्यादिसंयोगजन्यमित्यर्थः । पृथिवीति । ननु नैमित्तिकद्र- चत्वस्य पृथिव्यां घटादौ तेजसि वयादौ चाभावात् पृथिवीतेजसो- १ अत्र स्वत्वस्य प्रतियोगिन्यन्तर्भावात् खपदेन लक्ष्यभिन्नस्य ग्रहणम् । तथाच स्वसमानाधिकरणपतनप्रतियोगिकध्वंससमानकालीनं यद्यत्तद्भिन्नत्वमर्थः खं द्वितीयादिपतनं तत्समानाधिकरणं पतनं प्रथमपतनं तत्प्रतियोगिकध्वंससमानका- लीनलमेव द्वितीयादिपतनानां तद्भिनत्वं प्रथमे इति लक्षणसमन्वयः ।
तर्कसंग्रहः रिति ग्रन्थासंगतिरित्यत आह-पृथिव्यामिति । करकादौ तथो- पलव्यिस्तु भ्रान्तिरेवेति भावः । चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः । जलमात्रवृत्तिः।। नेहं निरूपयति-चूर्णादीति | चूर्ण पिष्टं तठेव आदिर्यस्य गोधूमादेः स चूर्णादिस्तस्य पिण्डीमावः अवयवानां दृढसंयोगविशे. पस्तस्य हेतुनिमित्तकारणं नेह एवेत्यर्थः । चूर्णादावतिव्याप्तिवारणाय गुणेति । तैलादौ च तदन्तर्गतजलमागस्यैव स्नेह इति न विरोधः । सोऽपि पूर्ववविविधः । गोत्रप्रायो गुणः शब्दः । आकाशमात्रवृत्तिः । स द्वि- विधः । ध्वन्यात्मको वर्णात्मकश्च । तत्र ध्वन्यात्मको भर्यादौ । वर्णात्मकः संस्कृतभाषादिरूपः ॥ शब्द निरूपयति-श्रोत्रग्राह्य इति । श्रोत्रेन्द्रियजन्यग्रह विषय- गुणविभाजकधर्मवत्त्वमर्थः । भेर्याद्यवच्छेदेनोत्पन्नाच्छब्दाद्वीचितरङ्ग- न्यायेन कदम्बमुकुलन्यायेन वा श्रोत्रदेशे उत्पन्नः शब्दो गृह्यते । भेरीशब्दो मया श्रुत इत्यादिप्रतीतिौर्याकाशसंयोगासमवायिकारण- कशब्दजशब्दविपयकत्वेनोपपादनीया । सर्वव्यवहारहेतुर्गुणो बुद्धिर्ज्ञानम् । सा च द्विविधा स्मृतिरनुभवश्च ॥ बुद्धिं निरूपयति--सर्वच्यवहारेति । व्यवहारश्च बुबोधयिपा- पूर्वकवाक्यप्रयोगः । तत्र वाक्यार्थजानं हेतुस्तदेव बुद्धिः । तथाच ताहशव्यवहारजनकतावच्छेदकजातिमत्वमर्थः । ज्ञानमिति लक्ष्य- निर्देशः। बुद्धिरिति बुद्धिपदार्थस्य ज्ञानादिनिरासाय । सा चेति । बुद्धिरित्यर्थः। द्विविधेति । स्मृतित्वानुभवत्वाभिन्नविभाजधर्मद्वया- न्यतरवतीत्यर्थः। १ प्रयुज्यमानवाश्यजन्यवाश्यार्थज्ञानसमानविपयशानमित्यर्थः । ननु वाक्य- जन्य ज्ञानमनवस्याप्रसात् ।
तर्कविलासिनीटीकासहितः। संस्कारमात्रजन्यं ज्ञानं स्मृतिः । तद्भिग्नं ज्ञानमनुभवः । स द्विविधः । यथार्थोऽयथार्थश्च ॥ स्मृतेर्लक्षणमाह-संस्कारमात्रजन्यमिति । स्मृतित्वं स्मरागी- त्यनुभवसिद्धो जातिविशेषः । तद्विन्नं स्मृतिभिन्नमित्यर्थः । अनुभवं विभजते-स द्विविध इति । तद्वति तत्प्रकारकोऽनुभयो यथार्थः । सव प्रमेत्युच्यते ॥ यथार्थानुभवं लक्षयति-तद्वतीति । अन तत्पदं प्रकारपरं सप्त- ग्यों विशेष्यत्वं विशेष्यित्वं वा तत्र तद्वतो निष्ठत्वेन निरूपितत्वेन वान्वयः । तत्प्रकारक इत्यस्य तन्निष्ठप्रकारतानिरूपितप्रकारितावा- नर्थः। तदेकदेशमकारतायां प्रकारितायां वा निरूपितत्वेनावच्छिन्नत्वेन वा सप्तम्यर्थस्यान्वयः । प्रकारता च तद्वत्तावच्छेदकसंवन्धावच्छिन्ना ग्राह्या । अन्यथा समवायेन वहिमति वयवयवे संयोगेन वहिप्रकारक- ज्ञानस्य याथार्थ्यापतिः । तेन सम्बन्धेन तद्वनिष्ठविशेप्यतानि- रूपितविशेप्यित्वावच्छिन्नतत्संबन्धावच्छिन्नतन्निष्ठप्रकारतानिरूपितम- कारिताशालित्वे सत्यनुभवत्वं पर्यवसितार्थः । अयथार्थानुभववारणाय सत्यन्तं, स्मृतीच्छादिवारणायानुभवत्वनिवेशः । संवेति । शास्से यथार्थानुभवात्मिका या बुद्धिः सैव प्रमेत्युच्यते इत्यर्थः । तदभाववति तत्प्रकारकोऽनुभवोऽयथार्थः ।। अयथार्थानुभवं लक्षयति-तदभाववतीति । तदभाववद्विशेष्य- कताकारकानुभवोऽयथार्यानुभव इत्यर्थः । तथाच शुक्ती 'इदं १ वेन संवन्धेन तद्वानित्यन्वयः । अन तत्पदेन प्रकारतावच्छेदकसंयन्धस्य प्रकारस्य च ग्रहणम् । २ विशेष्यित्वावच्छिन्नेति प्रकारितान्वयि । ययोविषयतयोः परस्परं निरूप्यनिरूपकभावस्तन्निरूपितविपयितयोरेवावच्छेयावच्छेदकभाव इति नियमा द्विशेष्यलप्रकारलयोनिरुप्यनिरूपकभावो लभ्यत इति भावः । तत्फलं च गरजतयोरिमे रजतरङ्गे इति भ्रमेऽतिव्याप्तिवारणम् ।
तर्कसंग्रहः रजतम्' इत्यादौ रजतत्वाभाववत्यां शुक्तौ रजतत्वप्रकारकज्ञानसत्त्वा- लक्षणसमन्वयः। नच वृक्षः कपिसंयोगीति प्रमायामतिव्यातिः। अग्रे कपिसंयोगसत्वेपि मूले कपिसंयोगाभाववति वृक्षे कपिसंयोगप्र- कारकत्वादिति वाच्यम् । तदभावावच्छेदकावच्छेदेन तत्प्रकारकत्वमि- त्यस्य विवक्षितत्वात् । इत्थं च कपिसंयोगाभावावच्छेदकं मूलं तद- वच्छेदेन वृक्षे कपिसंयोगानवगाहित्वात्तादृशममायां नातिव्याप्तिरिति भावः । तदमावश्च प्रकारतावच्छेदकसंवन्धावच्छिन्नप्रतियोगिताको प्रायः । तेन न समवायसंवन्धावच्छिन्नप्रतियोगिताकवयभावपति पर्वते संयोगेन वहिप्रकारकज्ञानस्यायथार्थतापत्तिः । ननु तथापि कालिकसंबन्धेन संयोगसंवन्धावच्छिन्नप्रतियोगिताकवयभाववति प- वैते संयोगेन वयवगाहित्वेनोक्तप्रमायामतिव्याप्तिस्तदवस्यैवेति चेल। प्रकारतावच्छेदकसंबन्धेन तद्वत्वामहं प्रति येन संबन्धेन तदभाववचा- निश्चयः प्रतिबन्धकस्तेन संबन्धेन तदभाववत्त्वस्य विवक्षितत्वात् । तथा च प्रकृते प्रकारतावच्छेदकसंयोगसंवन्धेन बहिमत्वाग्रह प्रति स्वरूप- संबन्धेन संयोगसंबन्धावच्छिन्नप्रतियोगिताकवयभाववत्तानिश्चयस्य प्रतिबन्धकतया स्वरूपसंवन्धस्यैव लक्षणपटकत्वात्तेन संबन्धेन तद- भाववान्पर्वतो न भवतीति नातिव्याप्तिः । यथार्थानुभवश्चतुर्विधः। प्रत्यक्षानुमित्युपमितिशाब्दभेदात् ।। यथार्थानुभवं विभजते यथार्थानुभव इति । तत्करणमपि चतुर्विधं प्रत्यक्षानुमानोपमानशब्दभेदात् ।। प्रमाणसामान्यलक्षणं कुर्वस्तानि विभजते-तत्करणमिति । असाधारणं कारणं करणम् ॥ करणज्ञानमन्तरेण प्रमाकरणज्ञानासंभवात् प्रकृतसियनुकूलचि- न्ताविषयत्वरूपोपोद्धातसंगत्या करणलक्षणमाह-व्यापारवदिति । व्यापारवत्त्वं जनकतासंवन्धेन । व्यापारलक्षणं च द्रव्यभिन्नत्वे सति तज्जन्यत्वे सति तजन्यजनकत्वम् । कारणतायामसाधारणत्वं च कार्य- तर्कविलासिनीटीकासहितः । त्वव्याप्यधर्मावच्छिन्नकार्यतानिरूपितत्वम् । तथाच जनकतासंबन्धन व्यापारवत्त्वे सति असाधारणकारणत्वं करणत्वमिति फलितम् ॥ अनन्यथासिद्धकार्यनियतपूर्ववृत्तिकारणम् ॥ करणज्ञानस्य कारणज्ञानाधीनत्वाचल्लक्षणमाह-अनन्यथेति । अन्यथासिद्धत्वम् अवश्यकृप्तनियतपूर्ववर्तिनः कार्यसंभवे तत्सहभू- तत्वं तद्भिन्नत्वं वा । नियतपूर्ववृत्तित्वं कार्याव्यवहितपूर्वक्षणावच्छिन्न- कार्याधिकरणनिरूपिता-धेयतावदभावप्रतियोगितानवच्छेदकधर्मव- त्त्वम् । घटं प्रति दण्डत्वादेर्वारणायानन्यथासिद्धेति, रासभादिवारणाय विशेप्यदलम् । कार्य प्रागभावप्रतियोगि॥ कार्य लक्षयति-कार्यमिति । कारणं त्रिविधं समवाय्यसमवायिनिमित्तभेदात् । यत्स- मवेतं कार्यमुत्पद्यते तत्समवायिकारणम् । यथा तन्तवः पटस्य पटश्च स्वगतरूपादेः॥ कारणं विभज्य दर्शयति-कारणं त्रिविधमिति । समवायि- कारणलक्षणमाह-यत्समवेतमिति। तथाच समवायेन कार्याधिकर- णत्वमिति फलितोऽर्थः । तदेवोदाहृत्य दर्शयति-यथेति । यस्मिन् तन्तुषु समवायेन विद्यमान सन् पटः उत्पद्यते अतः पटं प्रति तन्तवः समवायिकारणमित्यर्थः । एवमन्यत्रापि लक्षणसमन्वयः स्वयं कार्य इति । कार्येण कारणेन वा सहकस्मिन्नर्थे समवेतं सत् कारण- मसमवायिकारणम् । यथा तन्तुसंयोगः पटस्य । तन्तु- रूपं पटरूपस्य ॥ तदुभयभिन्न कारणं निमित्तकारणम् । १ साधारणकारणानि ईश्वरस्तज्ज्ञानेच्छाकृतयः प्रागभावकालदिगदृष्टान्यष्टी । तत्त्वं च कार्यत्वावच्छिन्नकार्यतानिरूपितकारणत्वम् ।
-- तर्कसंग्रहः यथा तुरीवेमादिकं पटस्य ॥ तदेतत्रिविधकारणमध्ये यदसाधारणं कारणं तदेव करणम् ॥ असमवायिकारणं लक्षयति कार्येणेति । कार्येण सह एक- सिन्नर्थे, एवं कारणेन सह एकस्मिन्नर्थे समवेतत्वे सतीति योजना । अत्र कारणपदं समवायिकारणपरम् । उदाहरति-यथेति । तथाच समवाय-खसमवायिसभवायाऽन्यतरसंबन्धन कार्यनियतपूर्ववृत्तित्व- रूपस्स तस्य तन्तुसंयोगे तन्तुरूपे च सत्त्वाल्लक्षणसमन्वयः । आत्म- विशेषगुणान्यत्वमपि लक्षणे प्रवेश्यम् । अन्यथा तत्रातिव्याप्तिः स्या- तेषां कुत्राप्यसमवायिकारणत्वाभावादिति भावः । (तत्र प्रत्यक्षज्ञानकरणं प्रत्यक्षम् ।। प्रासनिकं समाप्य प्रत्यक्षप्रमाणलक्षणमाह-तत्रेति । तादृश- ममाणचतुष्टयमध्ये इत्यर्थः । (इन्द्रियार्थसनिकर्पजन्यं ज्ञानं प्रत्यक्षम् । तद्विविधम् । निर्विकल्पकं सचिकल्पकं चेति ॥ प्रत्यक्षप्रमासामान्यलक्षणमाह-इन्द्रियति । इन्द्रियं चक्षुरादि- कमों घटादिस्तयोः सन्निकर्षः संयोगादिः तजन्य ज्ञान प्रत्यक्षमि- त्यर्थः । ताशसंनिकर्पध्वंसवारणाय ज्ञानमिति । अनुमित्यादिवार- णाय सन्निकर्षान्तम् । द्विविधमिति । [अस्याः करणं विविधम् -- कचिदिन्द्रियं कचिदिन्द्रियार्थसन्निकर्षः कचिद् ज्ञानम् । तत्र इन्द्रियं निर्विकल्पकनाने करणम् । आत्मा मनसा सह संयुज्यते मनः इन्द्रियेण इन्द्रियमर्थेनेति इन्द्रियाणां वस्तुप्रमाकारित्व- नियमात् । इन्द्रियार्थसनिकर्षस्तु निर्विल्पकनानानन्तरं नामजात्या- दियोजनात्मके डित्थोऽयं श्यामोऽयमिति विशेषणविशेप्यभावावगा- हिसविकल्पकज्ञाने करणम् । तत्र निर्विकल्पकज्ञानमयान्तरव्यापारः, सविकल्पकज्ञानं फलम् । यदाच सविकल्पकज्ञानानन्तरं हानोपादा. नोपेक्षाबुद्धयो जायन्ते तदा निर्विकल्पकं ज्ञानं करणं, सविकल्पक- तर्कविलासिनीटीकासहितः। मवान्तरव्यापारः, हानादिवुद्धयः फलमिति शेपः पूरणीयस्तर्क- संग्रहे।] तत्र निष्प्रकारकं ज्ञानं निर्विकल्पकम् ।। निर्विकल्पकलक्षणमाह--निष्प्रकारकमिति । विशेषणविशे- व्यसंवन्धानवगाहि ज्ञानमित्यर्थः । सप्रकारकं ज्ञानं सविकल्पकम् । यथा डित्थोऽयं ब्राह्म- णोऽयं श्यामोऽयमिति ॥ सविकल्पकलक्षणमाह-सप्रकारकमिति । प्रकारितावदित्यर्थः । एवं संसर्गितावत्त्वं, विशेप्यितावत्त्वं वा तल्लक्षणं बोध्यम् । ननु नि- विकल्पकज्ञाने किं प्रमाणमितिचेन्न । अयं घटः अयं पट इत्यादिविशि- टवुद्धिर्विशेपणज्ञानजन्या विशिष्टबुद्धित्वाद्दण्डीतिविशिष्टबुद्धिवदित्य- नुमानस्यैव प्रमाणत्वात् । प्रत्यक्षज्ञानहेतुरिन्द्रियार्थसंनिकपः पड्विधः । संयोगः संयुक्तसमवायः संयुक्तसमवेतसमवायः समवायः सम- वेतसमवायो विशेषणविशेष्यभावश्चेति ॥ चक्षुपा घट- प्रत्यक्षजनने संयोगः संनिकपः॥ घटरूपप्रत्यक्षजनने संयुक्तसमवायः संनिकपः। चक्षुःसंयुक्ते घटे रूपस्य समवायात् ।। रूपत्वसामान्यप्रत्यक्षे संयुक्तसमवेतस- मवायः संनिकपः । चक्षुःसंयुक्ते घटे रूपं समवेतं तत्र रूपत्वस्य समवायात् ॥ श्रोत्रेण शब्दसाक्षात्कारे सम- वायः संनिकपः । कर्णविवरवाकाशस्य श्रोत्रत्वाच्छ- ब्दस्याकाशगुणत्वात् गुणगुणिनोश्च समवायात् ॥ शब्दत्वसाक्षात्कारे समवेतसमवायः संनिकपः । श्रोत्र- समवेते शब्दे शब्दत्वस्य समवायात् ॥ अभावप्रत्यक्षे विशेषणविशेप्यभावः संनिकपः। घटाभाववद्भूतलमि- त्यत्र चक्षुःसंयुक्ते भूतले घटाभावस्य विशेषणत्वात् ।।
तर्कसंग्रहः तादृशं वाक्यमर्थः । धूमपदं धूमव्यापके लाक्षणिकं तस्य वहावभे- देनान्वयः । इतिपदस्य बोध्यतार्थस्तस्याश्रयत्वसंवन्धेन साहचर्यनिय- मेऽन्वयः । तथाच धूमव्यापकवहिसामानाधिकरण्यं हेतौ व्याप्तिरिति फलितम् । तव्यापकत्वं च तत्समानाधिकरणात्यन्ताभावाप्रतियोगि- त्वम् । तत्पदं हेतुपरम् । वहिमान् घूमादित्यादी हेतुडूंमस्तदधिकरणं पर्वतः तन्निष्ठो योऽत्यन्ताभावः घटाभावः तत्प्रतियोगी घटः अप्रति- योगी वहिस्सरसामानाधिकरण्यं धूमेऽस्तीति लक्षणसमन्वयः । तथाच हेतुसमानाधिकरणात्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यं व्याप्ति- रिति भावः । ननु कपिसंयोगी एतवृक्षत्वादित्याद्यव्याप्यवृचिसाध्यक- सद्धेतावव्याप्तिः । एतद्वृक्षत्वसमानाधिकरणकपिसंयोगाभावप्रतियो- गित्यसैव साध्ये सत्त्वादितिचेन्न । प्रतियोगिव्यधिकरणामावस्यैव विवक्षितत्वात् । ननु वहिमान् धूमादित्यादावव्याप्तिः हेतुसमानाधि- करणप्रतियोगिव्यधिकरणतत्तद्वयभावप्रतियोगित्वस्य साध्ये सत्वा- दितिचेन्न । तादृशप्रतियोगितानवच्छेदकं यत्साध्यतावच्छेदकं तदव- च्छिन्नसाध्यसामानाधिकरण्यस्य विवक्षितत्वात् । तथा चान तादृशा- भावप्रतियोगितावच्छेदकं तत्तद्यक्तित्वमनवच्छेदकं साध्यतावच्छेदकं वहित्वमिति नाव्याप्तिः। ननु रूपत्वव्याप्यजातिमत्वान् पृथिवीत्वादि- त्यादौ साध्यतावच्छेदिका रूपत्वव्याप्यजातयस्तासां च शुक्लत्वादि- रूपाणां चालनीन्यायेन नीलघटादिवृत्यभावप्रतियोगितावच्छेदक- त्वादव्याप्तिरितिचेन्न, परंपरया रूपत्वव्याप्यजातित्वस्यैव तत्र साध्य- तावच्छेदकत्वात् । तथाच न रूपत्वव्याप्यजातिमत्त्वावच्छिन्नाभावः कापि पृथिव्यां तिष्ठतीति नाव्याक्षिः। एवं दण्डिमान् दण्डसंयोगात् इत्यत्रापि तत्तद्दण्डयान्नास्तीत्यभावप्रतियोगितावच्छेदकत्वमेव तचद्द- ण्डस्येति तादृशप्रतियोगितानवच्छेदफस्स दण्डस्लाप्रसिद्धत्वादव्याप्ति- . रतस्तत्रापि साश्रयाश्रयत्वरूपपरंपरासंबन्धेन दण्डत्वमेव साध्यताव- च्छेदकं वाच्यमतो नाव्याप्तिः । साध्यसाधनभेदेन व्याप्तेर्भेदात् विशि- तर्कविलासिनीटीकासहितः। प्टसाध्यतावच्छेदकस्यले तादृशाभावप्रतियोगितावच्छेदकतानवच्छेदकं साध्यतावच्छेदकतावच्छेदकमित्येवंघटितमेव लक्षणं, शुद्धसाध्यताव- च्छेदकस्थले यथोक्तमेव लक्षणं वाच्यमिति न कश्चिद्दोपः । हेत्वधि- करणत्वं हेतुतावच्छेदकावच्छिन्नहेतुनिष्ठाधेयतानिरूपिताधिकरणत्वं वाच्यम् । तेन ज्ञानवान् मनोन्यत्वविशिष्टात्ममनःसंयोगादित्यादौ विशिष्टं शुद्धान्नातिरिच्यते इति नियमेन विशिष्टप्रकृतहेतोरनतिरि- क्तस्यात्ममनःसंयोगस्याधिकरणे मनसि वर्तमानः प्रतियोगिव्यधि- करणो यो ज्ञानत्वावच्छिन्नाभावस्तदीयप्रतियोगितावच्छेदकत्वस्यैव साध्यतावच्छेदके ज्ञानत्वे सत्त्वेपि नाव्याप्तिः। हेतुतावच्छेदक- तापर्याप्यधिकरणमनोन्यत्वात्ममनःसंयोगत्वैतदुभयावच्छिन्नाधेयतानि- रूपिताधिकरणतावत्त्वस्यात्मन्येव सत्त्वेन तत्र तादृशाभावस्यासत्त्वात् । केचित्तु साध्याभाववदवृत्तित्वं व्याप्तिः साध्याभाववतो न वृत्तिर्य- त्रेति व्यधिकरणबहुव्रीहिः । निरूपितत्वं षष्ठ्यर्थः तस्य वृत्तावन्वयः । तस्य च प्रतियोगित्वसंबन्धेनाभावेऽन्वयः । तथाच साध्याभावाधिक- रणनिरूपितवृत्तित्वाभावो हेतौ व्याप्तिः। एवं च वह्निमान् घूमादि- त्यादौ साध्यो वह्निः तदभावो वयभावस्तदधिकरणं हृदः तन्निरूपि- तवृत्तित्वं शैवालादौ वृत्तित्वाभावो धूमेऽस्तीति लक्षणसमन्वयः । धूमवान् बहेरित्यादौ धूमाभावाधिकरणतप्तायःपिण्डनिरूपितवृतित्व- स्यैव वह्नौ सत्त्वेन नातिव्याप्तिः । वृत्तित्वाभावश्च वृत्तित्वसामान्या- १ वृत्तित्वसामान्याभावो नाम वृत्तिलखरूपसामान्यधर्मावच्छिन्नप्रतियोगि. ताकोऽभावः । साध्यतावच्छेदकेतरानवच्छिन्नसाध्यतावच्छेदकावच्छिन्नप्रतियो- गित्वसंबन्धावच्छिन्नावच्छेदकतानिरूपकाऽभावत्वेतरानवच्छिन्नाभावत्वावच्छिन्न.. खरूपसंवन्धावच्छिन्नावच्छेदकतानिरूपकाधिकरणत्वेतरानवच्छिन्नाधिकरणत्वाव- च्छिन्ननिरूपितत्वघटितसामानाधिकरण्यसम्बन्धावच्छिन्नावच्छेदकताकवृत्तित्वत्व. पर्याप्तावच्छेदकताकप्रतियोगिताकाभाव इति यावत् । अत्रेत्यं प्रक्रिया-अ- भावप्रतीतावभावे यद्विशेषणं स प्रतियोगी तद्विशेषणं प्रतियोगितावच्छेद प्रतियोगितावच्छेदके यद्विशेषणं तत्प्रतियोगितावच्छेदकतावच्छेदकमित्यादिक- ४२ तर्कसंग्रहः भावो योध्यः । तेन प्यभिचारसले चूमाभायाधिकरणजलदनिरूपित- वृत्तित्वाभावस्य धूमाभावाधिकरणनिरूपितवृत्चित्वघटैतदुभयाभावस्य च यही सत्त्वेऽपि नातिव्याप्तिः। साध्याभावश्च साध्यतावच्छेदकसम्बन्धाव- च्छिन्नसाध्यतावच्छेदकावच्छिन्नप्रतियोगिताको बोध्य । तेन यहिमान मेण तत्तद्विशेषणतया भातस्य तनिष्टानच्छेदयतायच्छेदपत्यं योध्यं, यन घन पस्यचिद्रिशेपणतया भान तमिष्ठायच्छदकता निरयस्टिनेत्युच्यते । एष यद्विशेपण विशेष्ये येन सबन्धेन वर्तते । सबन्ध वद्विशेषण- निष्टावच्छेदस्तायडेदय । यथा प्रकृते-गाध्यामावारित्तित्वाभात्र इतिप्रतीती अभावे विशेषणं पृत्तिवं स प्रतियोगी प्रतियोगिनि वृत्तित्वे विशे पर्ण वृत्तिवत्वं तत्प्रतियोगितावच्छेदय तित्सत्ये च निरूपितत्वघटितसा मानाधिकरण्येन विशेषणमधिकरण, पत्तित्वे निरूपितत्वेन अधिपरणस्य विशेष णत्वात् बन च वृत्तित्वत्वस्य सत्यात्तित्वत्याधिकरणयो सामानाधिकरण्यात् । अतो तित्वत्यनिष्ठाया प्रतियोगितावच्छेदवताया अवच्छेदकताऽधिकरणे सा व निरूपितत्वघटितसामानाधिकरण्यावच्छिना, उत्तरीत्या सामानाधिकरण्येन अधिकरणस्य गृत्तित्यत्वे विशेषणत्वात् । एवमभावोऽधिकरणे स्वरूपसर-धेन तन च साध्य प्रतियोगित्वेन तर च साध्यतावच्छेदक साध्यतावच्छे दस्तावच्छेदकसमयायादिना विशेषणम् । एवमधिररणनिष्टाया अभावनिष्ठा यायावच्छेदकताया अधिकरणत्वमभावत्वं चायच्छेदः भवति अधिकरणे अगावे च तयोरपि विशेषणतया भानात् । अतोऽधिकरणनिष्ठाऽभावनिष्ठा चायच्छेदरता अधिकरणत्वेनाभावत्येन यायच्छिमा भवति । अधिारणतादी म पस्यापि विशेषणतया भागाभायात्तनिष्टापच्छेदकता रियच्छित्युच्यते । अतोऽधिकरणवायच्छित्यस अधिकरणत्यनिष्ठनिरवच्छिमायच्छेदक्तानिरूपि. पेसर्थ । इतरानयच्छिम व विशेषण याव्यात्यनिव्याप्तिवारपाय । एपच प्रकृते-- धूमामायाधिकरणहद निरूपितत्तित्वाभावीयप्रतियोगितावच्छेदके हदस्य सामा- नाधिकरण्येन विशेषणलया भानात प्रतियोगितावच्छेदकता हदयावच्छिन्न- निरुपितत्यपटितयामानाधिकरण्यसंबन्धावच्छिमावच्छेदयताया जाता नत्य- धिररणत्वावच्छिमतारसामानाधिकरण्यसाधावच्छिनावच्छेदकताफेति तार- शामावयुदारा । धूमामावाधिकरणनिरूपितत्तित्यपटेनदुमयामाधीमप्रतियो. गिसापच्छेदयता र तात्तिावत्य-घटस्य-उभयत्वैतत्रितयपयांप्ता नतु वृत्ति स्वत्वपयांतति त दास । उक्ततित्वसामान्याभावपदेन तयोरप्रणामातिव्या. मिरिति भाष तर्कविलासिनीटीकासहितः। ४३ धूमादित्यादौ समवायेन वयभावस्य तहद्दयभावस्य च पर्वतादौ सत्त्वेन तनिरूपितवृत्तित्वाभावस्स धूमेऽसत्वेपि नाव्याप्तिः। साध्याभावाधिक- रणत्वं च सांध्यवत्ताग्रहप्रतिवन्धकतानियामकसंवन्धेन प्रायम् । अन्यथा गुणत्ववान् ज्ञानत्वादित्यादौ विपयित्वादिसंबन्धन साध्यामा. ववति ज्ञानादौ हेतोः सत्त्वेन तत्राव्याप्तिः स्यात् । नच स्वरूपेणैव साध्याभायाधिकरणत्वं विवक्ष्यतामिति वाच्यम् । घटत्वाभाववान् पटत्वादित्यादौ घटत्वरूपसाध्याभावस्य सरूपेणाधिकरणाप्रसिद्ध्या- व्याप्तिप्रसङ्गात् ।धृत्तित्वं च हेतुतावच्छेदकसंबन्धेन विवक्षणीयम् । तेन बयभायाधिकरणधूमायययनिरूपितसमवायेन वृत्तित्वस्य धूमे सत्त्वे- ऽपि न वहिमान्धूमादित्यादावव्याप्तिरित्याहुस्तन्न । सत्तावाखातेरित्यादी केवलान्वयिनि चाव्याप्तिप्रसङ्गात् । अतएव साध्यवद्भिन्नसाध्याभाववढ- तित्वं, साध्यवत्प्रतियोगिकान्योन्यामावासामानाधिकरण्य, सकलसा- ध्याभावाधिकरणनिष्ठात्यन्ताभावप्रतियोगित्वं, साध्यवदन्यावृत्तित्वादि- कमपि व्याप्तिलक्षणं परास्तम् । यत्तु सौन्दडाचार्याः-यत्समानाधिकरणाः साध्यतावच्छेदकाव- १ साध्यवत्ताग्रहप्रतिवन्धकतानियामकसंवन्धेनेत्यस्य साध्यवत्ताग्रहप्रतिवन्ध. कतावच्छेदकीभूतसाध्याभावत्वावच्छिन्नप्रकारतावच्छेदकसंबन्धेनेत्यर्थः । समवा. येन गुणत्ववत्तावुद्धिप्रति खरूपसंवन्धावच्छिन-गुणत्वाभावत्वावच्छिन्न-प्रकार- ताशालिनिश्चयत्वेन प्रतिबन्धकत्वाद्विषयतासंबन्धेन साध्याधिकरणत्वमादाय नाव्याप्तिरिति भावः । २ केवलान्वयिनीति । यद्रूपावच्छिन्नत्तितासामान्ये साध्याभावाधिकरण- निरूपितत्व-हेतुतावच्छेदसंबन्यावच्छिन्नत्वोभयाभावस्तद्रूपावच्छिनत्वं व्याप्ति. रित्यर्थविवक्षायां सत्तावातातेरित्यत्राव्याप्तिवारणं भवति । यद्रूपपदेन हेतुतावस्छे. दकस्य ग्रहणम् । प्रकृते जातित्वावच्छिन्नत्तितासामान्ये सत्ताभावाधिकरणनिरू- पितत्व-समवायसंवन्धावच्छिन्नत्वोभयाभावसत्त्वालक्षणसमन्वयः । अत्रोभया- भावः सत्ताभावाधिकरणनिरूपितत्वाभावप्रयुक्तो बोध्यः ॥ अतः केवलान्वयि- नीति केवलान्वयिसाध्यकहेतौ इत्यर्थः । तत्र चाव्याप्तिः साध्याभावाप्रसिद्धिनि- बन्धना योध्या।
तर्कसंग्रहः च्छिन्नव्यापकतावच्छेदकपतियोगिताका बावन्तोऽभावाः प्रतियोगि- समानाधिकरणास्तत्त्वं व्याप्तिलक्षणम् । तथाच वहिमान् धूमादित्यादी धूमाधिकरणपर्वतादिवृत्यो ये साध्यतावच्छेदकावच्छिन्न व्यापकता- वच्छेदकप्रतियोगिताका नाम साध्यतावच्छेदकावच्छिन्नवनिष्ठाभा- वीयप्रतियोगितानवच्छेदकीमृतमतियोगितानिरूपका अभाचा घर- त्वेन वयमावादयो भवन्ति न तु वद्वित्वेन वयभावादयः । त. थाहि प्रकृते साध्यतावच्छेदक वहित्वं तदवच्छिन्नाधिकरणं पर्वतादि- स्तन्निष्ठो योऽभावः घटाभावीयप्रतियोगितावानातीत्येतादृशप- तीतिसाक्षिकोऽभावः । न तु घटत्वेन वढ्यभावीयप्रतियोगि- तावानास्तीत्यादिपतीतिसाक्षिका अभावास्तत्प्रतियोगितावच्छेदिका घटाभावीयप्रतियोगिता अनवच्छेदिका घटत्वेन वयभावीयप्रतियोगि- तादयः तादृशप्रतियोगिताकाः यावन्तोऽभावाः घटत्वेन बयभावादयः तत्प्रतियोगी वहिस्तत्समानाधिकरणास्तत्वं धूमेऽस्तीति लक्षणसमन्वयः। धूमवान् वहेरित्यादौ हेतुसमानाधिकरण-साध्यव्यापकतावच्छेदकपति- योगिताक-धूमामावस्यापि यावदन्तर्गतत्वाचस्य च प्रतियोगिसामाना- धिकरण्यं नास्तीति नातिव्याप्तिः। एवंचेदं वाच्यं ज्ञेयत्वादित्यादौ केव- लान्वयिसाध्यकहेतौ समवायितया वाच्यत्वाभावस्य घटादौ प्रसिद्ध- त्वेन नायप्तिः । अयमात्मा ज्ञानादित्यादौ आत्मत्वसामान्याभावस्य साध्यव्यापकतावच्छेदकप्रतियोगिताकयावदभावान्तर्गतस्य आत्मनि प्रतियोग्यधिकरणे वृतित्वविरहादव्याप्तिः स्यादतः यत्समानाधिकरणा इति । यत्सामानाधिकरण्यं च यद्पावच्छिन्नसामानाधिकरण्यं वाच्यम् । अग्रेच तत्त्वमित्यस्य तद्रूपावच्छिन्नत्वमित्यर्थः । तेन ज्ञाने साध्ये भ- नोन्यत्वविशिष्टात्ममनःसंयोगे नाव्याप्तिः । विशिष्टसत्तावान् जाते- १ आत्मत्वामावस्य ज्ञानसामानाधिकरण्याभावालक्षणापटकतया प्रतियोगि- सामानाधिकरण्याभावेऽपि न क्षतिरिति भावः । २ अमे अभावानां खविशिष्टहेत्वधिकरणावच्छेदेन प्रतियोगिसामानाधिकर तर्कविलासिनीटीकासहितः। ४५ रित्यादौ विशिष्टसत्तायाः शुद्धसत्तानतिरेकितया सचारूपसाध्यव्याप- कतावच्छेदकप्रतियोगिताकविशिष्टसचाभावस्य सत्तारूपमतियोगिस- मानाधिकरणत्वादतिव्याप्तिरतः साध्यतावच्छेदकावच्छिन्नेति । तथाच यावदन्तर्गतस्य द्रव्यत्वसामान्याभावस्य प्रतियोग्यसमानाधिकरणत्वान्ना- तिव्याप्तिः । साध्यवत्त्वं च साध्यतावच्छेदकसंवन्धेन ग्राह्यम् । तेन ज्ञानवान् द्रव्यत्वादित्यादौ विषयतया ज्ञानाधिकरणघटादिवृत्त्यभा- वप्रतियोगितावच्छेदकप्रतियोगितांफत्वेनात्मत्वाभावस्य साध्यव्याप- पकतावच्छेदकप्रतियोगिताकत्वाभावेऽपि साध्यतावच्छेदकसमवायसं- बन्धेन ज्ञानाधिकरणीभूतात्मवृत्त्यत्यन्ताभावप्रतियोगितानवच्छेदकम- तियोगिताकत्वेन तथाविधयावदन्तर्गतस्य प्रतियोगिसामानाधिकरण्या- भावान्नातिव्याप्तिः । साध्यवन्निष्ठाभावश्च प्रतियोगिव्यधिकरणो बोध्यः । तेन समवायितया वाच्यत्वाभावीयप्रतियोगित्वेन घटाभाव- मादाय नासंभवः । तच्च सामानाधिकरण्यघटितं ग्राह्यम् । अस्मिन्पक्षे अभाव इति खरूपकथनम् । वस्तुतस्तु साध्यवन्निष्ठाभावस्य तत्संब- ग्यस्य वक्तव्यतया, मनसि विशिष्टस्य शुद्धानतिरेकितयाऽऽत्ममनःसंयोगरूपहेतुस- मानाधिकरणस्यात्मत्वसामान्याभावस्य साध्यव्यापकतावच्छेदकप्रतियोगिताकस्य, खविशिष्टहेत्वधिकरणे मनसि आत्मत्वरूपप्रतियोगिसामानाधिकरण्याभावेपीति शेषः । खविशिष्टहेतुतावच्छेदकावच्छिन्नाधिकरणावच्छेदेन तदुक्तौ तु खविशिष्ट- हेतुतावच्छेदकावच्छिन्नाधिकरणाप्रसिद्धावपीति शेपः । आत्मत्वसामान्याभावस्य मनोन्यत्वविशिष्टात्ममनःसंयोगाधिकरणे आत्मन्यत्तित्वेन लक्षणघटकत्वा. भावादिति भावः। १ साध्यवनिष्ठाभावीयप्रतियोगितानवच्छेदकप्रतियोगिता प्रसिद्धिनिबन्धन इति भावः। २ तत्संबन्धेन खावच्छिन्नाधिकरणसामान्यभिन्नसाध्यवनिष्टाभावप्रतियोगि- तावच्छेदको योयस्तदन्यत्वे सति तत्संबन्धावच्छिन्नाथेयतावच्छेदिका यदभावीय- प्रतियोगिता तादृशा यावन्तोऽभावा इत्यादिरर्थः । खपदेन प्रतियोगितावच्छेदक- त्वेनाभिमतस्य ग्रहणम् । तदन्याः प्रतियोगिता व्यापकतावच्छेदिका बोध्याः । तत्संबन्धेत्यत्र तत्पदेन व्यापकतावच्छेदकतयामिमतः संवन्धो ग्राह्यः ।
तर्कसंग्रहः न्यावच्छिन्नप्रतियोगितायाः सामानाधिकरण्येनानवच्छेदकत्वमेव तत्सं- बन्धेन साध्यव्यापकतावच्छेदकत्वं वाच्यम् । तत्र साध्यवनिष्ठत्वं चाभावे स्वरूपसंबन्धेन । तेन स्पन्दो महाकालत्वादित्यादौ स्पन्दत्वा- भावस्यापि कालिकसंबन्धेन स्पन्दे सत्वेन साध्यतावच्छेदकावच्छिन्न- व्यापकतावच्छेदकप्रतियोगिताकत्वाभावेन यावदनन्तर्गतत्वात् समवा- यितया वाच्यत्वाभावस्य च तादृशप्रतियोगिसामानाधिकरण्येऽपि नाति- व्याप्तिः । इत्थंच जात्यभावाभावमादायासंभववारणाय अभावा इति भावभिन्नार्थकम् । सर्वत्र गोत्वाद्यभावमादायासंभववारणाय साध्यता- वच्छेदकेत्यादिदलम् । साध्यनिष्ठप्रतियोगिताका इत्युक्तौ महान- सीयवयभावादिमादाय वहिमान् धूमादित्याद्यनेकव्यक्तिसाध्यकेऽ. व्यातिः स्यादतो व्यापकतावच्छेदकेत्यादिः। व्यभिचारिणि समवायि- तया वाच्यत्वाद्यभावमादायातिव्याप्तिरतः यावन्त इति । प्रतियोगि- सामानाधिकरण्यं च विशिष्टहेत्वधिकरणावच्छेदेनेत्यपि बोध्यम् । १ वद्विमान्धूमादित्यादौ हेतुसमानाधिकरणो धूमाधिकरणरत्तियः जातिसा. मान्याभावाभावः जातिरूपः । स उक्तसामानाधिकरण्येनानवछेदकत्वघटितव्याप- कतावच्छेदकप्रतियोगिताको भवति । तथाहि साध्यवति पर्वतादौ खरूपसंब- न्धेन वर्तमानो घटाद्यभावीयप्रतियोगितावदभावः नतु जातिसामान्याभावाभावः तस्य जात्यात्मकतया स्वरूपेणात्तित्वात्, तस्य (साध्यवनिष्ठाभावस्य) संयोग-, संबन्धावच्छिन्न प्रतियोगितायाः सामानाधिकरण्येनावच्छेदिका घटसामान्याभावीय- प्रतियोगिता अनवच्छेदिका जातिसामान्याभावाभावीयप्रतियोगिता तन्निरूपकत्वं जातिसामान्याभावाभावस्येति । तस्य जातिसामान्याभावात्मकप्रतियोगिसामाना- धिकरण्याभावादिति भावः । २ स्वविशिष्टेत्यादि । खविशिष्टेत्यस्य हेत्वधिकरणविशेषणत्वाद्विशेष्यानि- वेशे विशेषणनिवेशनासंभवात्प्रथमं हेत्वधिकरणावच्छेदेनेत्यस्य प्रतियोगिसामाना- धिकरण्याविशेषणतायाः फलमाह--प्रलयारत्तीत्यादिना । कालत्वस्य प्रलयेऽपि- वृत्तित्वात्तन च प्रलयात्तिधर्मस्य साध्यस्याभावाद, कालत्वं प्रलयात्तिधर्म- साधने व्यभिचारे । प्रकृतलक्षणे प्रतियोगिसामानाधिकरण्ये हेलधिकरणावच्छे- देनेलस्याविवक्षायर्या कालखसमानाधिकरण-प्रलयारत्तिधर्मत्वावच्छिन्नव्यापकता. वच्छेदकप्रतियोगिताकयावदभावान्तर्गतो यद्यपि साध्यसामान्याभावो भवति तर्कविलासिनीटीकासहितः । . तेन प्रलयावृचिधर्मवान् कालत्यादित्यादौ नातिव्याप्तिः। फपिसंयोगा- भाववान् मेयत्वादित्यादौ संयोगादिखरूपसाध्यामावस्य सकलहेत्वधि- तथापि तस्य महाकालान्तर्भावण प्रतियोगिसामानाधिकरण्यादतिव्याप्तिः, प्रति. योगिसामानाधिकरण्यस्य हेत्यधिकरणावच्छेदेन विवक्षायां तु प्रलयकालस्यापि हेत्वधिकरणत्वात्तत्र च प्रलयावृत्तिधर्माभावात्विधिकरणावच्छेदेन प्रतियोगि- सामानाधिकरण्यं नास्तीति नातिव्याप्तिः। हेत्वधिकरणावच्छेदेनेत्यस्य यावद्ध- त्वधिकरणेविसर्थकत्वात् । १ प्राची मते संयोगसामान्याभावे साध्ये मेयत्वं द्रव्ये एव व्यभिचारि पृथि. व्यादिषु मूर्तषु सर्वावययावच्छेदेन विभुसंयोगस्य सत्वात् तत्र संयोगसामान्या- भावाभावादतः कपिपदम् । कपिसंयोगस्य सर्वत्राव्याप्यत्तित्वात् तदभावस्य सार्वत्रिकत्वेन केवलान्वयित्वात्तस्मिन्साव्ये न मेयत्वस्य व्यभिचारित्वमिति भावः। २ संयोगादिस्वरूपेति । प्रकृतलक्षणे साध्यव्यापकता प्रतियोगिवैयधि- करप्यघटितव निवेशितेसभिप्रायेणेदम् । साध्यव्यापकता प्रतियोगिवैयधिकरण्य- घटितेल्यस्य साध्य( साध्यतावच्छेदकावच्छिन्न )समानाधिकरणासन्ताभावप्रतियो- गितानवच्छेदकत्वरूपसाध्यव्यापकतावच्छेदकलघटकात्यन्ताभावः प्रतियोगि- वैयधिकरण्येन विशेषित इत्यर्थः । इदं संयोगस्य साध्यव्यापकतावच्छेदकातियो- गिताकत्वाभिधानम् । अन्यथा (प्रतियोगिवैयधिकरण्याघटितव्यापकलनिवेशे) साध्यसमानाधिकरणासन्ताभावपदेन संयोगाभावाभावीयप्रतियोगितावदभावस्य संयोगात्मकस्यापि ग्रहीतुं शक्यत्वात् संयोगाभावनिष्टप्रतियोगितायाः साध्यव्यापक तानवच्छेदकत्वेन, लक्षणघटकतादृशयावदनन्तर्गतत्वेन संयोगात्मकस्य साध्या- भावस्य तमादायाव्याप्तिकथनासंगतिप्रसङ्गात् । प्रतियोगिवैयधिकरण्यघाट- तव्यापकत्वनिवेशे तु संयोगात्मकस्याभावस्य द्रव्यान्तर्भावेण संयोगसामान्याभावरू- पप्रतियोगिसामानाधिकरण्येन धैयधिकरण्याभावात् व्यापकताघटकात्यन्ताभाव. पदेन ग्रहीतुमशक्यत्वात्संयोगाभावनिष्टप्रतियोगितायाः साध्यव्यापकताव- च्छेदकत्वेन संयोगात्मकसाध्याभावमादायाव्याप्तिकथनं संगच्छते । ननु द्रव्ये संयोगसामान्याभावमनङ्गीकुर्वतां प्राचीनानां मतेन कपिपदमिरयुक्तं प्रागधुना च संयोगात्मकाभावस्य प्रतियोगिसामानाधिकरण्यात् व्यापकतायां च प्रतियो. गिव्यधिकरणाभावस्य निवेशाद्यापकताघटकाभावपदेन तस्य ग्रहणासंभवः इति कथमुच्यत इतिचेत्, कपिपदसार्थक्योपपादनमात्रपरं तत् नत्वनिमग्रन्थस्यापि प्राचीनमतीयत्वपरं, वृक्षादिपृथिव्यादिपु शाखादितत्तदवयवावच्छिन्नवृत्तिसंयोग प्रति तत्तदवयवत्वेन हेतुलस्यावश्यकतया वृक्षादौ व्याप्यवृतिसंयोगस्यासंभवात तर्कसंग्रहः करणावृत्तित्वादव्याप्तिरतः स्वविशिष्टेति प्राहुस्तत्तुच्छम् । व्यधिकरणध. विच्छिन्नाभावस्याप्रामाणिकत्वात् । प्रतियोग्यवृत्तिधर्मस्य प्रतियोगि- तानवच्छेदकत्वात् । अतएव वृत्तिगट्टत्यो यावन्तः साध्याभाषरानु- दायाधिकरणवृत्तित्वामावास्तद्वत्त्वमित्यादिकमपि व्याप्तिलक्षणं निरस्त- मित्यलं बहुविस्तरेण । एवं च साहचर्यनियमो व्यापकसामानाधिकरण्य प्रतियोगिव्यधिकरणहेतुसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छे- दकसाध्यतावच्छेदकावच्छिन्नसामानाधिकरण्यरूपमिति फलितम् ।। व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता ॥ ननु का नाम पक्षधर्मतेत्यत आह-व्याप्यस्येति । धूमादे- रित्यर्थः । पक्षधर्मतेति । ननु किं नामपक्षत्वं नच संदिग्धसाध्यवत्त्वं तद्धि संदेहविषयीभूतसाध्यवत्त्वरूपं जलं विनष्टवहिमदित्यादी सादृशसाघ्याभावेन अव्याप्तम् । नच प्रकृतपक्षतावच्छेदकावच्छिन्नवि- शेप्यतानिरूपितसाध्यतावच्छेदकसंवन्धावच्छिन्नप्रकृतसाध्यतावच्छे- दकावच्छिन्नप्रकारिताशालिनिश्चयत्वावच्छिन्नप्रतिवन्धकतानिरूपितप्र- तिबध्यतावान् यः संशयः स पक्षता । तथाच वहिमान् धूमादि- त्यादौ तादृशनिश्चयत्वं पर्वतो वह्निमान् इत्याकारकनिश्चयत्वं तदव- तन्मतस्सानुपादेयखात् । अथवा ( लक्षणे प्रतियोगिवैयधिकरण्यघटितव्यापक- खानिदेशे द्रव्ये संयोगसामान्याभावमननीकर्तृमते च ) गगनलादिविशिष्टवाच्य- त्वाद्यभाव-गगनत्ववाच्यलोभयत्वावच्छिन्नाभावादेर्यावदन्तर्गतस्य च हेलधिकर- पणीभूतगगनावच्छेदेन प्रतियोग्यसमानाधिकरणलादव्याप्तिरतः स्वविशिष्टपदम् । एतदभिप्रायेणैव 'सयोगादिस्तरूप' इत्यत्रादिपदम् । स्वपदं साध्यव्यापकताच. च्छेदकप्रतियोगिताकामावपरम् । इति संक्षेपः । ९ अभावणस्यमय घटत्वादिविशिष्टपादेः प्रतियोगित्वावगाहितया विशि- एवैशिष्यवुद्धित्वात् विशेपणतावच्छेदकविशिष्टज्ञानस्य विशिष्टवैशिष्ट्यप्रत्ययहेतु- त्वात् तद्यदि अभावो व्यधिकरणधर्मेण विशिष्टं प्रतियोगिनं नावगाहते तर्हि व्यधिकरणधर्मस्यापि प्रतियोगितावच्छेदकत्वं नावामहेत । यद्यवगाहते व्यधि. करणधर्मेण विशिष्ट प्रतियोगिनं तर्हि स भ्रम एवेति भावः । व्यधिकरणेसस्य प्रतियोग्मत्तिरर्थः।
तर्कविलासिनीटीकासहितः। च्छिन्नप्रतिबन्धकतानिरूपितप्रतिवध्यतावान् संशयः पर्वतो पहिमान् न वेति स एव पक्षता निप्पन्ना। पक्षधर्मिकसाध्यवत्तानिश्चयनियर्यत्वं बाधेऽप्यस्तीत्यतः संशयपदं तादृशनिश्चयाप्रतिवन्धकत्वार्थकम् । तथाच ताहशनिश्चयनिवर्त्यत्वे सति तादृशनिश्चयप्रतिवन्धकतावच्छे- दकविषयताशून्यज्ञानत्वं फलितार्थः । तेन निर्वहिः पर्वतो रूपवान् नवेति संशयात्मकबाधनिश्चयस्य पूर्वोक्तलक्षणवत्त्वेपि नौतिप्रसङ्ग इति वाच्यम् । एवमपि यत्र सिद्धिकाले सिपाधयिपावशादनुमितिर्जायते तत्र तादृशसंशयरूपपक्षताया असत्त्वेनानुमित्यनुपपत्तेः । अत्रोच्यते- सिपाधयिपाविरहविशिष्टसिद्ध्यभावः पक्षता । यत्र सिपाधयिपा नास्ति सिद्धिरपि नास्ति तत्र सुतरां सिध्यभावान्न पक्षताविरहः । यत्र सिद्धिरस्ति सिपाधयिपा च वर्तते-तत्र सिध्यभावस्य असत्त्वात्प- क्षतासंपादनाय विशिष्टान्तं विशेपणम् । तथाच सिद्धिसत्त्वेऽपि सिपाध. १ प्रतिवन्धकत्वं निवर्तकरयम् । २ निवर्त्यत्वं प्रतियध्यत्वम् । ३ नातिप्रसङ्ग इति ।अयं भावः-बाधज्ञाने पक्षतालक्षणगमने बाधज्ञानो- तरमनुमित्यापत्तिरेवातिप्रसङ्गः। स च वाधज्ञानोत्तरमनुमितिर्न भवति सेदानी याध- ज्ञानस्य पक्षतात्वे भवेदिति । नचेदं संभवति वाधज्ञानस्य ग्राह्याभावावगाहित्यमु- द्रयाऽनुमिति प्रति प्रतिबन्धकत्वेन तदुत्तरमनुमित्यनुत्पादसिद्धेः, तस्मात्पक्षधाम- कसाध्यवत्तानिश्चयनिवर्त्यत्वमेव लक्षणमस्तु कि संशयग्रहणेनेति चेन । यानिश्च येऽपि यदा तत्राप्रामाण्यसंशयो भवति तदा तस्य प्रतिवन्धकत्वाभावात् सिध्यात्म- कपरामर्शादनुमित्यापत्तिरूपातिप्रसङ्गस्य दुर्वारत्वात् । अप्रामाण्यज्ञानानास्कन्दित- स्यैव याधनिश्चयस्य प्रतिबन्धकत्वात् । तस्मात्तद्वारणार्थ निरुक्तार्थकं संशयपदम् । एवं च निहिः पर्वतो रूपवानवेति ज्ञानस्य निढिपर्वताशे संदिग्धाप्रामाण्यक्त्वे पर्वतधर्मिकवहिसाध्यकपक्षतात्वापत्त्या तादृशज्ञानोत्तरं सिध्यात्मकपरामर्शात्पर्व- तर्मिकवहिसाध्यकानुमित्यापत्तिरूपातिप्रसङ्गो न, संदिग्धाप्रामाण्यवाधज्ञानस्य पक्षधर्मिकसाध्यवत्ताज्ञानाप्रतिवन्धकत्वेऽपि तत्प्रतिवन्धकतावच्छेदकविषयता- वत्त्वात्तछ्न्यत्वघटितपक्षतालक्षणानाक्रान्तत्वेन तदापादकत्वाभावात् । । सिपाधयिपाविरहः सिपाधयिपाभावस्तद्विशिष्टा या सिद्धिः पक्षविशेष्यक- साध्यप्रकारकनिश्चयस्तदभाव इत्यर्थः ।
तर्कसंग्रहः ५० यिपाविरह विशिष्टसिद्धेरभावान्नानुपपतिलेशोऽपीति बोध्यम् । सिपाध- यिपा च प्रकृतपक्षतावच्छेदकविशिष्टपक्षविशेष्यकमकृतसाध्यतावच्छे- दकविशिष्टसाध्यप्रकारकानुमितिविपयिणीच्छा तेन यत्किचिद्विषय- कं ज्ञानं जायतामितीच्छासत्त्वेपि सिद्धौ सत्यां न अनुमित्यापचिः । किंतु पर्वतो वहिमानित्यनुमितिर्जायतामित्याकारकसिपाधयिपासत्त्व एव अनुमितिर्जायते । अत्र लिङ्गविपयकत्वेनापि नियन्त्रिता पक्षता ग्राह्या । तेन घूमेनानुमिनुयामितीच्छायामालोकलिङ्गकपरामर्शासि- द्धिकाले नानुमितिप्रसङ्ग इत्यलं पल्लवितेन । अनुमानं द्विविधं । स्वार्थ परार्थ च । अनुमानं विमजते- अनुमानमिति । स्वार्थ स्वानुमितिहेतुः । तथाहि-स्वयमेव भूयोदर्श- नेन यत्र यत्र धूमस्तत्र तत्रानिरिति महानसादौ व्याप्ति गृहीत्वा पर्वतसमीपं गतस्तद्गते चानौ संदिहानः पर्वते धूमं पश्यन् व्याप्तिं सरति 'यत्र यत्र धूमस्तत्रामिः' इति । तदनन्तरं वहिव्याप्यधूमवानयं पर्वत इति ज्ञानमुत्प- द्यते । अयमेव लिङ्गपरामर्श इत्युच्यते । तस्मात्पर्वतो वह्निमानिति ज्ञानमनुमितिरुत्पद्यते । तदेतत्वार्थानु- मानम् ॥ खार्थानुमानलक्षणमाह-स्वार्थ खेति । तथाच खार्थानुमि- तित्वावच्छिन्नहेतुरित्यर्थः । तदुपसंहरति-तदेतदिति । यत्तु स्वयं धूमादग्निमनुमाय परं प्रति योधयितुं पश्चा- वयववाक्यं प्रयुज्यते तत्परार्थानुमानम् । यथा पर्वतो वह्निमान् । धूमवत्वात् । यो यो धूमवान्स स वह्निमान् यथा महानसम् । तथा चायम् । तसात्तथेति । अनेन प्रतिपादिताल्लिङ्गात्परोऽप्यग्नि प्रतिपद्यते ॥
तर्कविलासिनीटीकासहितः। परार्थानुमानलक्षणमाह-यत्त्विति । अत्र तदिति सपञ्चमीक- मव्ययं, प्रयोज्यत्वं पञ्चम्यर्थः । पञ्चावयववाक्यप्रयोज्यमित्यर्थः । पञ्चावयववाक्यप्रयोज्यत्वं च पञ्चावयवाक्यजन्यमहावाक्यार्थबोधज- न्यत्वम् । पञ्चावयववाक्यान्याह-यथेति । 'पर्वतो वहिमान्' इत्यत्र वहिमतोऽभेदेन पर्वतेऽन्वयाद् वहिमदभिन्नः पर्वत इति बोधः । 'धूम- वत्वात्' इत्यत्र पञ्चम्यर्थो ज्ञानजन्यज्ञानविषयत्वं प्रथमज्ञाने धूमस्या. न्वयात् धूमज्ञानजन्यज्ञानविषयत्वमिति बोधः। 'यो यो धूमवान् सस वहिमान् यथा महानसम्' अत्र द्विरुक्ततच्छब्दसमभिव्याहृतवद्विपदस्य धूमव्यापकवहौ निरूढलक्षणा । यत्तत्पदे तात्पर्यग्राहके । धूमवत्पदा- र्थस्य महानसपदार्थेऽन्वयः । धूमवदन्वितमहानसपदार्थे पहिमत्पदा- र्थस्याभेदेनान्वयस्तादृशान्वयतात्पर्यग्राहकत्वमेव यथेति पदस्य । तथाच धूमवन् महानसं धूमव्यापकवहिमदित्यन्वयबोधः धूमवन्महानसमि- त्यस्यैकदेशे धूमवति वहिमतो भानेन धूमव्यापकवहिसमानाधिकरण- धूमवन्महानसमिति पर्यवसितो वोधः । तथाचायम्' तथेत्यस्य धूम- वानित्यर्थः । अयमिति सन्निकृष्टवर्तिपदार्थपर्वतबोधकम् । ततो वह्नि- व्याप्यधूमवान् पर्वत इति बोधः । तस्मात्तथा' व्याप्तिविशिष्टपक्ष- 'धर्मताविशिष्टधूमस्तत्पदार्थः । तथाच व्याप्तिपक्षधर्मताविशिष्टधूमज्ञा- नज्ञाप्यवह्निमदभिन्नः पर्वत इति बोधः । उपसंहरति-अनेनेति । प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्चावयवाः । प- चतो वद्विमानिति प्रतिज्ञा ।। धूमवचादिति हेतुः । यो यो धूमवान् स स वह्निमानित्युदाहरणम् । तथा चाय- मित्युपनयः । तसात्तथेति निगमनम् ॥ स्वार्थानुमि- तिपरार्थानुमित्योर्लिङ्गपरामर्श एव करणम् । तसा- ल्लिङ्गपरामर्शोऽनुमानम् ॥ अवयवान्विभजते-प्रतिज्ञेत्यादिना । अवयवत्वं न्यायान्त- र्गतत्वे सति प्रतिज्ञादागतमत्वम । किं तावत्प्रतिजात्यमितिचेदन तर्कसंग्रहः ाप्तिग्रहः इति चेन्न । व्यभिचारज्ञानविरहसहकृतसहचारज्ञानस्यैव च्यातिप्राहकत्वात् । ननु धूमाग्योनिरुपाधिकव्याप्तिमहः कथं ज्ञात इति चेन्न । यद्यत्र कश्चिदुपाधिः स्यात् तर्हि उपलभ्येत नोपलभ्यते अतो दर्शनाभावान्नास्तीति तर्कसहकारिणानुपलम्मसना- थेन-प्रत्यक्षेणैवोपाध्यभावस्यावधारणात् । तथाधुपाध्यभावग्रहणज- नितसंस्कारसहकृतेन भूयोदर्शनेन संस्कारसहकृतेन साहचर्यग्राहिणा प्रत्यक्षेणैव धूमायोर्याप्तिरवधार्यते । अतो धूमाग्योः खाभाविक एव संवन्धः नत्यौपाधिकः । तथाचानेन न्यायेन धूमाग्योाप्तौ गृह्यमाणायां यद्भूमज्ञानं महानसे जायते तत्प्रथमम् १ पर्वतादौ धूम- ज्ञानं द्वितीयं २ ततः महानसादौ गृहीतां धूमाग्योर्व्याप्तिं स्मृत्वा पर्वते पुनधूमं परामृशति अस्त्यत्र पर्वते वहिव्याप्याश्रयो धूम इति तदिदं धूमज्ञानं तृतीयं ३ अयमेव लिङ्गपरामर्शः । अनुमि- तिकरणत्वाचानुमानमित्यर्थः । लिङ्गं त्रिविधम् । अन्वयव्यतिरेकि केवलान्वयि केवल- व्यतिरकि चेति । अन्वयेन व्यतिरेकेण च व्याप्तिमदन्व- यव्यतिरेकि । यथा वह्रौ साध्ये धूमवत्त्वम् ।यत्र धूमस्त- जानिर्यथा महानसमित्यन्वयव्याप्तिः । यत्र वहिर्नास्ति तत्र धूमोऽपि नास्ति यथा इद इति व्यतिरेकव्याप्तिः॥ लिङ्गं विभजते-लिङ्गमिति । अन्वयव्यतिरेकिणो लक्षणमाह-- अन्वयेनेति । प्रयोज्यत्वं तृतीयार्थः । साध्यसाधनयोः साहचर्य- मन्वयः । तदभावयोः साहचर्य व्यतिरेकः । तथाचान्वयप्रयोज्य- व्यतिरेकप्रयोज्यव्याप्तिमदन्वयव्यतिरेकीत्यर्थः । उदाहरति-य- थेति । महानसे धूमाम्योरन्वयसद्भावस्य दर्शनादित्यर्थः । अर्थव- शाद्विभक्तेविपरिणाम इति भावः । महाहद इति । अत्रापि तयो- 4तिरेकसद्भावदर्शनादिति योजनीयमिति भावः । अत्रेदं बोध्यम् । अन्वयव्याप्तौ यो व्याप्यस्तदभावोऽत्र व्यापकः । यथा यत्र धूमस्त- तर्कविलासिनीटीकासहितः । नामिरित्यन्वयव्याप्ती धूमो व्याप्यः तस्यैवाभावः यत्राभिर्नास्ति तत्र धूमो नास्तीति व्यतिरेकव्याप्ती व्यापको जातः । यश्च व्यापकः यथा वह्निः तस्याभावस्तु पुनरत्र व्याप्य इति । तदुक्तं- व्याप्यव्यापकभावो हि भावयोर्यागिप्यते । तयोरभावयोस्तस्माद्विपरीतः प्रतीयते ॥ अन्वये साधन व्याप्यं साध्यं व्यापकमिप्यते । साध्याभावोऽन्यथा व्याप्यो व्यापकः साधनात्ययः ॥ इति । तदेवं धूमवत्त्वे हेतौ अन्वयेन व्यतिरेकेण व्याप्तिरस्त्यतो धूमय- वमन्वयव्यतिरेकव्याप्तिमज्जातमिति सिद्धम् । अन्वयमात्रव्याप्तिकं केवलान्वयि । यथा घटोऽभिधेयः प्रमेयत्वात्पटवत् । अत्र प्रमेयत्वाभिधेयत्वयोर्व्यतिरेक- व्याप्तिर्नास्ति सर्वस्यापि प्रमेयत्वादभिधेयत्वाच ॥ केवलान्वयिनो लक्षणमाह-अन्वयमात्रेति । मात्रपदेन व्यति- रेकव्यवच्छेदः । तथाच व्यतिरेकाप्रतियोगिसाध्यकत्वे सत्यन्वय- व्याप्तिमत्वं केवलान्वयित्वमित्यर्थः । उदाहरति-यथा घट इति । तयोर्व्यतिरेकव्याप्तिं निराकरोति-अत्रेति । व्यतिरेकमात्रव्याप्तिकं केवलव्यतिरेकि । यथा पृथिवी- तरेभ्यो भिद्यते गन्धवत्त्वात् । यदितरेभ्यो न भिद्यते न तद्गन्धवत् । यथा जलम् । न चेयं तथा । तस्मान्न तथेति । अत्र यद्गन्धवत् तदितरभिन्नमित्यन्वयदृष्टान्तो नास्ति । पृथिवीमात्रस्य पक्षत्वात् । केवलव्यतिरेमिणो रक्षणमाह-~व्यतिरेकमात्रेति । व्यतिरेक- योरेव व्याप्तिग्रहो यत्र तदिति विग्रहः । उदाहरति-यथा पृ- थ्वीति । इयं पृथ्वी न तथा न गन्धाभाववतीत्यर्थः । तस्मात् गन्धयत्त्वान्न तथा इतरभेदाभाववती किंतु इतरभेदवतीत्यर्थः ।
सर्कसंमहः अन्वयव्याप्ति परिहरति-अत्रेति । पृथ्वीमात्रस्य पक्षत्वादिति । एवमन्यत्रापि जीवच्छरीरं सात्मकं प्राणादिमत्वात् यत्सात्मक न भवति तत्प्राणादिमन्न भवति यथा घटः नचेह जीवच्छरीरं तथा तस्मान तथेति । अत्र यत्प्राणादिमत्तत्सात्मकमित्यन्वयदृष्टान्तामा. वादित्यादिकं ज्ञातव्यम् । अत्रान्वयव्यतिरेकि पक्षधर्मत्व-सपक्षसत्त्व-विपक्षासत्त्व-अबाधि- तत्व-असत्प्रतिपक्षत्वात्मकपञ्चरूपोपपन्नमेव साध्य साधयति । तथा हि-पर्वतस्य धूमवत्त्वं धर्मोऽतोहेतोऽमस्य पक्षधर्मत्वं, सपक्षे महानसे वर्तमानत्वं सपक्षसत्त्वं, विपक्ष हदादावविद्यमानत्वं विपक्षासत्त्वं, वयमावसाधकहेत्वन्तरपयुक्तबाधशून्यत्वमसत्प्रतिपक्षत्वम्, एवं व. हयभावश्च केनापि न सिद्धः इत्यबाधितत्वं संभवति । पञ्चरूपव- स्वात् धूमवस्वं हेतुः वहिं साधयति । ततश्च हेतोः पक्षवृत्तित्वा- हेरपि तद्वृत्तित्वं सिद्ध्यतीति भावः । तथाचोकम्-अनुमानस्य द्वयं सामर्थं व्याप्तिः पक्षधर्मता च । तत्र व्याप्त्या साध्यसिद्धिः पक्ष- धर्मतया साध्यस्य पक्षसंबन्धित्वविशेषसिद्धिरिति । एवं केवला. न्वयि विपक्षासत्त्वभिन्नचतूरूपोपपन्नमेव साध्यं साधयति । केवल. व्यतिरेकि च सपक्षसत्त्वभिन्नचतूरूपसंयुक्तमेव साध्य साधयतीति ज्ञातव्यमिति दिक् । संदिग्धसाध्यवान् पक्षः । यथा धूमवत्त्वे हेतौ पर्वत्रः ॥ के पुनः पक्षसपक्षविपक्षा इति विभागपूर्वकं तालक्षयन् प्रथम पक्षं लक्षयति-संदिग्धेत्यादिना। संदिग्यं साध्यं यत्रेति विग्रहः । तमुदाहरति-~-यथेति। निधितसाध्यवान् सपक्षः । यथा तवैव महानसम् ।। सपक्षलक्षणमाह-निवितेति । अत्रापि समासः पूर्ववत् । उदाहरतियथा तत्रैवेति। निवितसाध्याभाववान् विपक्षःयथा तत्रैव महाइदः॥
तर्कविलासिनीटीकासहितः। ५७ विपक्षलक्षणमाह-निश्चितसाध्याभावेति । उदाहरति- यथा तत्रैव महारुद इति । सव्यभिचारविरुद्धसत्पतिपक्षासिद्धबाधिताः पञ्च हेत्वा- भासाः॥ सैद्धेतुं निरूप्य प्रसङ्गसशत्याऽसद्धेतून् निरूपयति-सव्य- भिचारेत्यादिना । हेतुवदाभासन्ते ये ते हेत्वाभासाः । दुष्ट- हेतव इत्यर्थः । तथाच अनुमितिप्रतिबन्धकयथार्थज्ञानविपयत्वं हेत्वाभासलक्षणम् । अनुमिति. हृदो वहिमानित्याकारिका तन्निष्ठा या प्रतिवध्यता हूदत्वावच्छिन्नविशेप्यतानिरूपितवहित्वावच्छिन्न- १ सद्धेतुमिति । व्याप्तिपक्षधर्मताविशिष्टो हेतु सद्धेतु । तस्य यग्निरूपण प्रतिपत्त्यनुकूलो व्यापार तदुत्तरकालीन यत्प्रसङ्गसगतिप्रयोज्यमसद्धेतुनिरूपणं तदनुकूलकृतिमान्प्रन्यकार इत्यर्थ । अन सद्धेतुनिरूपणस्यासद्धेतुनिरूपणे प्रसङ्ग- सातिनिर्वाहक्मसद्धेतुस्मारक सद्धेतुविरुद्धव व्याप्तिपक्षधर्मताविरहवत्वरूप स. वन्धो बोध्य । सन्धिविधया 'एकसबन्धिज्ञानमपरसबन्धिस्मारकम्' इतिप्र. कारेण खविरुद्धखरूपसबन्धवतो सदसद्धखोर्मध्ये एकस्य सद्धेतोनिरूपणे तत्प्र- तिपत्तावपरसबन्धिनोऽसद्धेतो स्मरण भवति । ततोऽसद्धेतव के इति शिष्यस्य जिज्ञासा भवति । सेवासद्धेतूना निरूपणे प्रयोनिका । एव सद्धेतुनिरुपणानन्तर- मसद्धेवभिधानप्रयोजिका या जिज्ञासा 'असद्धता के' इति तजनक ज्ञान सवन्धिविधयाऽसद्धेतुस्मरणरूप, तद्विपयत्व यदसद्धेतुषु तदेव सङ्गति । तस्या प्रसङ्गल च तलनिर्णयविजयप्रयोगकखरूपप्रयोजनवत्त्वेनोपेक्षानहत्वादुक्तप्रकारेण स्मृतिविपयत्वाच तदाश्रयाणा बोध्यम् । २ हेतोराभासा हेवाभासा इतिव्युत्पत्त्या हेतुदोषाणा लक्षणमित्यर्थ । तद्वत्व च दुष्टहेतूनामिति भाव । तेन वाधादिज्ञानस्य हेलविपयकतया तनत्य- हेतावन्याप्तिरित्यपास्तम् । तद्वत्त्व च एकज्ञान विषयत्वविशिष्टप्रकृतहेतुतावच्छेदक- वत्वसवन्धेन योध्यम् । तेन हदो वहिमान् धूमादित्यादी वहयभाववद्भदादिरूपदो- पस्य धूमादिवृत्तिलासभवात् कालिकादिसवन्धेन तद्वत्त्वसभवेऽपि तस्यातिप्रस अक्वात् ( हदे धूमेन वहिसाधने घटो दुष्ट इत्यादिव्यवहारप्रसञ्जकलात् ) व्यभिचारभिन्नेषु दोषवत्त्व दुर्घटमित्याशङ्का परास्ता । एक्ज्ञान च दोप-हेतूमय विषयक समूहालम्बनात्मक बोध्यम् । यथा 'वहयभाववान्हदो धूमश्च' इत्यादि ।
५८ तर्कसंग्रहः प्रकारिताशालिवुद्धित्वावच्छिन्ना प्रतिबध्यता तनिरूपिता या वय- भावत्वावच्छिन्नप्रकारतानिरूपितहूदत्वावच्छिन्नविशेष्यताशालिनिश्च. यत्वावच्छिन्नप्रतिबन्धकता तच्छालि यद्यथार्थज्ञानं 'वढ्यभाववान् हृदः' इत्याकारकं तद्विषयत्वस्य वयमाववद्भदे सत्त्वालक्षणसमन्वयः । नन्वनुमितिपदस यत्किंचिदनुमितिपरत्वे वयभाववद्धदे लक्षण- समन्वये कर्तव्ये घटो वहिमानित्यनुमितिमादाय वयभाववद्धटा- दावतिव्याप्तिः स्यात् । अनुमितिसामान्यपरत्वे अनुमितिसामान्यनि- छैका प्रतिवध्यताऽप्रसिद्धेत्यसंभवः स्यादितिचेन्न । अनुमितिपदेन प्रकृतपक्षसाध्यहेतुकानुमितित्वस्य विवक्षितत्वात् । तथाच न कोऽपि पूर्वोक्तदोष इति ध्येयम् । नचानुमितिपदस्सैतादृशानुमितिपरत्वेऽपि व्यभिचारादायव्याप्तिमाभाववदृत्तिवहिरिल्याकारकस्य व्यभिचार- ज्ञानस्य पर्वतो वद्विमान् इत्यनुमित्यप्रतिवन्धकत्वात्तस्य च व्याधि- ज्ञानं प्रत्येव प्रतिबन्धकत्वादिति वाच्यम् । अनुमितिपदेन अनुमि- तितत्करणान्यतरस्य विवक्षितत्वात् । अनुमितिकरणमात्रस्य विवक्षणे वाधादावव्याप्तिः चाधज्ञानस्यानुमितिकरण परामर्श प्रत्यपतिबन्ध- कत्वादियुभयोपादानम् । अत्र नव्याः-अनुमितिप्रतिवन्धकेत्यत्र प्रतिबध्यता अनुमि- तिनिष्ठा किंवाऽनुमितित्वावच्छिन्नाऽनुमितित्वव्यापिका वा ग्राह्या । नायः, पर्वतो वहिमान् हृदश्च तथेत्याकारकानुमितिनिष्ठा या वय- भाववद्रदविषयकवुद्धित्वावच्छिन्नप्रतिबध्यता तन्निरूपितवद्ध्यभाव- पद्दविषयकनिश्चयत्वावच्छिन्नप्रतिबन्धकताशालियथार्थज्ञानविष- यतामादाय पर्वतो यहिमान् इत्यादौ वढ्यभाषवद्ध देऽतिप्रसङ्गापः । न द्वितीयः, बुद्धित्वनिश्चयत्वरूपधर्मयोरेव प्रतिबध्यप्रतिबन्धकमा- यावच्छेदकत्वेन अनुमितित्यनिष्ठतदवच्छेदकत्वस्यैवानझीकारात् । १ धूमेन हदे पहिसाधने इलधः । २ अमानुमितित्वपदमनुमितितकरणान्यतरलपरम् । .
तर्कविलासिनीटीकासहितः। ५९ नापि तृतीयः, अनुमित्यप्रतिबन्धकव्यभिचारादौ व्याप्त्यप्रतिवन्धक- बाधादौ चाव्याप्तेरपरिहारत्वात् । नचात्रानुमितिपदेन साध्यव्याप्य- हेतुमान् पक्षः साध्यवानित्याकारकानुमितिर्विवक्षिता । तथाच । प्रकृतपक्षतावच्छेदकावच्छिन्नविशेष्यतानिरूपितमकृतसाध्यतावच्छे- दकावच्छिन्नप्रकारताक-प्रकृतसाध्यतावच्छेदकावच्छिन्ननिरूपित- व्याप्तिविशिष्टप्रकृतहेतुतावच्छेदकावच्छिन्नप्रकारताकानुमितित्वव्या- पकप्रतिबध्यतानिरूपितप्रतिबन्धकताशालियथार्थज्ञान विपयत्वं हे- त्वामासत्यमिति लक्षणं निप्पन्नम् । बाधादायव्याप्तिवारणाय प्रकृ- तपक्षतावच्छेदकावच्छिन्नविशेष्यताकत्वनिवेशः । साध्यतावच्छेद- कावच्छिन्नप्रकारकत्वानिवेशे परामर्शाविरोधिनि बाधे सत्प्रतिपक्षे चाव्याप्तिरतस्तन्निवेशः । व्यभिचारादविव्याप्तिवारणाय द्वितीयदल- प्रवेशः । आहार्यज्ञानस्यापि तथात्वात् वाधादिज्ञानाप्रतिवध्यत्वा- १ एवं च अत प्रतिवभ्यतायामनुमितिलव्यापकलस्य विवक्षणात् 'पर्वतो वद्धि- मान्' इत्यादी 'पर्वतो वहिमान् वहिव्याप्यधूमवांश्च हदो वहिमान्' इत्याकारिकां समूहालम्वनानुमितिमादाय वहयभाववद्भदे न दर्शितातिप्रसङ्गः । अनुमितिल. व्यापकप्रतियध्यतानिरूपितप्रतिवन्धकतेत्याद्यस्य तादृशानुमितिसामान्यं प्रति प्रतिबन्धकेत्याद्यर्थः । तादृशयावदनुमितिं प्रतीति यावत् । इत्यं च तादृशयावद- जुमित्यन्तर्गतायां पर्वतो वह्निमान् वहिन्याप्यधूमवांश्च' इत्यनुमितौ 'वयमाव- वान् हृदः' इतिनिश्चयस्य प्रतिबन्धकलाभावादिति भावः । १ वाधादाविति । अन आदिपदेन सत्प्रतिपक्षखरूपासिध्याश्रयासिद्धीनां ग्रहणम् । तेषा पक्षतावच्छेदकविशिष्टपक्षघटितत्वात् । पक्षतावच्छेदकावच्छिन्न- विशेष्यकलानिवेशे तादृशानुमितिलं प्रकृतपक्षतावच्छेदकविशिष्टपक्षानवगाहनु- मितो तत्र च बाधादिज्ञाननिरूपितप्रतिवध्यताया अभावेन तस्यां प्रतिबध्यतायां तादृशानुमितिवव्यापकलासंभवात् याधादिज्ञानानां तादृशानुमितिलव्यापकप्रति- वध्यतानिरूपितप्रतिबन्धकताशालित्वाभावेन तादृशयथार्थज्ञानविषयलाभावाद- व्याप्तिरित्यर्थः। ३ व्यभिचारादाविति । अत्र आदिपदेन विरोध-साधनाप्रसिद्धि- खरूपासिद्धीनां ग्रहणम् । साध्यविशिष्टपक्षावगाहियुद्धिं प्रति व्यभिचारादिशा- नानां प्रतिबन्धकत्वाभावात् ।
६० तर्कसंग्रहः चासंभव इत्यतस्तादृशानुमितित्वनिवेशः । धूमो ययभाववगृत्ति- रितिनमादप्यनुमितिप्रतिवन्धेनातिप्रसङ्गवारणाय यथार्थेति व्या- ख्याने न कोऽपि दोष इति वाच्यम् । तथापि प्रतिबन्धकज्ञान- विषयव्यभिचारादिघटकसाध्यादेरपि प्रत्येकमतिप्रसङ्गः । विशिष्ट- विषयकज्ञानस्यैव प्रतिबन्धकत्वं तद्धरकस्य च न विशिष्टत्वमिति- चेत्-पर्वतादेवधभावविशिष्टत्वाभावात् भ्रमविशिष्ट विषयस्यामसि- द्धत्वाद्यथार्थपदवैयर्थ्यस्य वज्रलेपत्यादित्याहुः । केचित्तु-अनाहार्यापामाण्यज्ञानानास्कन्दितनिश्चयचित्ववि- शिष्टयद्रूपावच्छिन्नविषयत्वं प्रकृतानुमितित्वव्यापकप्रतिवध्यतानिरू- पितप्रतिबन्धकत्वाभाववत्यवर्तमानं तत्त्वं हेत्वाभासत्यमित्याहुः । १ प्रतियध्यतानां व्यापकलासंभवात् तादृशप्रकारकत्वव्यापकप्रतिवध्यताप- टितरवाच लक्षणस्येति भावः । २ अनाहार्य वाधकालीनेच्छाजन्य ज्ञानमाहार्य तद्भिनमनाहायम् । ३ अप्रामाण्यशानानास्कन्दितं खविपयत्व-स्वसामानाधिकरण्योभयसं. बन्धेनाप्रामाण्यप्रकारकज्ञानविशिष्टान्यत्वम् । अन्यविषयकज्ञानधर्मिकाप्रामाण्यज्ञा- नेन अन्यविषयकज्ञानस्याप्रामाण्यास्कन्दितत्वं मा भूदिति प्रथमसंबन्धनिवेशः । एकस्याप्रामाण्यज्ञाने अन्यसमवेतज्ञानस्य तत्त्वं माभूदिति द्वितीयसंबन्धनिवेशः । ४ अत्र यद्रूपपदेन वयभाववद्रदत्वादेर्दोपतावच्छेदकस्य ग्रहणम् । हदो वह्निमान् इत्यादी वयभाववद्रदे लक्षणसमन्वयस्त्वित्थम्-अनाहायप्रामा- ण्यज्ञानानास्कन्दितनिश्चयवृत्तित्वविशिष्टयद्रूपावच्छिन्नविषयत्वं तादृशनिश्चयर- तित्वविशिष्टवथभाववद्रदत्वावच्छिन्नविषयत्वं, प्रकृतानुमितित्वव्यापकप्रति- वध्यतानिरूपितप्रतिवन्धकताभाववत्यवर्तमान प्रकृतानुमितिः "हदो पहिमान् वहिव्यायधूमवांश्च' इसनुमितिः तादृशानुमितित्वव्यापिका या प्रतिबध्यता घहित्वावच्छिन्नप्रकारतानिरुपितह्रदत्वावच्छिन्नविशेष्यताशालिवुद्धित्वावच्छिन्नप्र- तिबध्यता तादृशप्रतिवध्यतानिरूपिता या प्रतिबन्धकता वयभावत्वावच्छिन्न- प्रकारतानिरूपितहदत्वावच्छिन्नविशेष्यताशालिनिश्चयत्वावच्छिन्न प्रतिबन्धकता ताशप्रतिवन्धकताभाववत्यवर्तमानं भवति तादृशनिश्चयत्तित्व विशिष्टवहयभा. ववद्भदत्वावच्छिन्नविषयताशाविज्ञानमात्रस्स हदो पहिमानिति बुद्धिं प्रति प्रतिव- न्धकरचात् अतः तद्रूपावच्छिन्नत्वं वहृयभाववद्रदत्वावच्छिन्नत्वं वयभाववद्भदे इति । एवमन्यत्राप्यूद्यम् ।
तर्कविलासिनीटीकासहितः। वस्तुतस्तु यद्विपयकनिश्चयोचरानुमितिसामान्ये विरोधिविपयताप्र- युक्तः प्रकृतपक्षतावच्छेदकविशिष्टपक्षे प्रकृतसाध्यतावच्छेदफवि- शिष्टसाध्यवैशिष्ट्यावगाहित्वस्य साध्यतावच्छेदकविशिष्टसाध्यनिरू- पितव्याप्तिविशिष्टप्रकृतहेतुतावच्छेदकविशिष्टहेतुवैशिष्यावगाहित्वस्य च द्वयोर्व्यतिरेकस्तत्वं हेत्वाभासत्वमिति दिक् । सव्यभिचारः हेतौ साध्याभाववद्वृतित्वरूपव्यभिचारसहितः । विरुद्धः हेतुनिष्ठसाध्यव्यापकीभूताभावप्रतियोगित्वरूपविरोधसहितः। सत्प्रतिपक्षः सन् प्रतिपक्षः साध्याभावसाधकव्याप्तिपक्षधर्मतावि- शिष्टः प्रतिहेतुर्यस्येति विग्रहे साध्याभावसाधकहेत्वन्तरविशिष्टः । असिद्धः हेत्वभाववत्पक्षादिरूपासिद्धिविशिष्टः । बाधितः साध्या- भाववत्पक्षादिरूपबाधविशिष्ट इति समुदायाभिप्रायः । सव्यभिचारोऽनैकान्तिकः । स त्रिविधः साधारणासा- १ वस्तुतस्त्विति । निर्वह्निः पर्वतो वह्निमानित्यादिस्थले प्रकृतपक्षक- प्रकृतसाध्यकप्रकृतहेतुकानुमितेरप्रसिद्धलात्- प्रकृतपक्षतावच्छेदकावच्छिन्नपक्षे प्रकृतसाध्यतावच्छेदकविशिष्टसाध्यवैशिष्ट्यावगाहिज्ञानस्य 'निर्वह्निः पर्वतो वहि- मान्' इत्यस्य स्खविरोधिधर्मधर्मितावच्छेदकक-खप्रकारकनिश्चयत्वरूपनियताहा. यंलात्, आहार्यपरोक्षज्ञानानङ्गीकारात्, अनुमितेः परोक्षज्ञानतात्-अनुमिति लघटितलक्षणस्य तत्रत्यदोपे आश्रयासिद्ध्यादावव्याप्तेरिति भावः । २ वयभावविशिष्टहदलावच्छिन्नविषयकनिश्चयानन्तरं 'हदो वहिमान् वह्नि- व्याप्यधूमवांश्च' इत्याकारानुमिते. कदाचिदप्यनुत्पत्त्या घटाद्यनुमितय एव ताह- शनिश्चयोत्तरानुमितिसामान्यान्तर्गताः तासु च हदलादिविशिष्टे यहिलाद्यव- रिछनवैशिष्ट्यावगाहिलं वहिवाद्यवच्छिन्नवहिव्याप्तिविशिष्टधूमलाद्यवच्छिन्नवैशि- प्यावगाहिलं च तदुभयाभाववत्त्वमक्षतमेव । तत्र ( उक्तोभयाभावे ) तादृशानि- चयनिष्टविरोधिविषयताप्रयुक्तलं च खनिष्टप्रतिबन्धकतावच्छेदकधर्मस्य खान- न्तरोत्पन्नज्ञाननिष्टप्रतियध्यतावच्छेदकधर्माभावप्रयोजकलादिति बोध्यम् । नि- वहिः पर्वतो वह्निमान्' इत्यादी तादृशानुमितेरप्रसिद्धावपि वहिमपर्वतादिरु. पाश्रयासिध्यादिविषयकनिश्चयानन्तरप्रसिद्धघटाद्यनुमितिषु अन्यत्रप्रसिद्धपक्षताव- च्छेदकविशिष्टविषयकत्वावच्छिन्नसाध्यतावच्छेदकविशिष्टप्रकारिताघटितोभया भाववलमक्षतमेवेति लक्षणसमन्वयः । अधिकमन्यतोऽवसेयम् ।
तसंग्रहः धारणानुपसंहारिभेदात् । तत्र साध्याभाववद्वृत्तिः सा- धारणोऽनकान्तिकः । यथा पर्वतो यहिमान् प्रमेयत्वा- दिति । प्रमेयत्वस वदयभाववति दे विद्यमानत्वात् ।। सव्यभिचारपर्यायशब्दमाह-सव्यभिचारोऽनकान्तिक इति। सव्यभिचारत्वं साधारणाद्यन्यतमत्वम् । तं विभजते-स विविध इति । साधारणं लक्षयति-तत्रेति । साध्यतदभाववति वर्त- मानत्वं साधारणत्वं । यथा पर्वतो वहिमान् प्रमेयत्वादिति प्रमेय- त्वस्य वन्ह्यभाववति हृदे विद्यमानत्वात् । सर्वसपक्षविपक्षव्यावृत्तः पक्षमात्रवृत्तिरसाधारणः। यथा शब्दो नित्यः शब्दत्वादिति । शब्दत्वं सर्वेभ्यो नित्ये- भ्योऽनित्येभ्यश्च व्यावृत्तं शब्दमात्रवृत्ति ।। असाधारणं लक्षयति-सर्वसपक्षेति । सर्वे ये सपक्षाः विप- क्षाश्च तेभ्यो व्यावर्तते निवर्तते इति व्यावृत्तः इत्यर्थः । उदा. हरतियथा शब्दो नित्य इति । नित्येभ्य आकाशादिभ्यः अनित्येभ्यो घटादिभ्य इत्यर्थः । अन्वयव्यतिरेकदृष्टान्तरहितोऽनुपसंहारी। यथा सर्व- मनित्यं प्रमेयत्वादिति । अत्र सर्वखापि पक्षत्वादृष्टान्तो नास्ति ॥ अनुपसहारिणमाह-अन्वयेति । अत्यन्ताभावाप्रतियोगिसा- ध्यकलं लक्षणं, व्यतिरेकव्याप्तिग्रहप्रतिबन्धकश्चायम् । उदाहरति- यथेति। साध्याभावव्याप्तो हेतुर्विरुद्धः । यथा शब्दो नित्यः कृतकत्वादिति । कृतकत्वं हि नित्यत्वाभावेनानित्य- त्वेन व्याप्तम् ॥ विरुद्धं लक्षयति-साध्याभावव्याप्त इति । साध्याभावव्या- तर्फ विलासिनीटीकासहितः। पकीभूताभावप्रतियोगित्वमित्यर्थः । साध्याभाववचाग्रहसामग्रीत्वेन प्रतिवन्धकः। साध्याभावसाधकं हेत्वन्तरं यस्य स सत्प्रतिपक्षः । यथा शब्दो नित्यः श्रावणत्वाच्छन्दत्ववत् । शब्दोनित्यः कार्यत्वाद्धटवत् ।। सत्प्रतिपक्षलक्षणमाह-साध्याभावसाधकमिति । समानव- लयोधितसाध्यविपर्ययलिङ्गत्वं फलितार्थः । अन परस्पराभावव्याप्य- वत्ताज्ञानात्परस्परानुमि तिप्रतिबन्ध फलम् । असिद्धतिविधः । आश्रयासिद्धः स्वरूपासिद्धो व्याप्य- स्वासिद्धयेति ॥ असिद्धं विभजते-असिद्ध इति । आश्रयासियाद्यन्यतमत्वं लक्षणम् । आश्रयासिद्धो यथा । गगनारविन्दं सुरभि, अरविन्द- त्वात् । सरोजारविन्दवत् । अत्र गगनारविन्दमाश्रयः स च नास्त्येव ॥ आश्रयासिद्धमुदाहरति-आश्रयासिद्ध इति । पक्षे पक्ष- तावच्छेदकस्याभावस्तल्लक्षणम् । स्वरूपासिद्धो यथा । शब्दो गुणश्वाक्षुपत्वात् , रूपवत् । अत्र चाक्षुपत्वं शब्दे नास्ति शब्दस श्रावणत्वात् ॥ खरूपासिद्धमुदाहरति-स्वरूपासिद्ध इति । पक्षे हेत्वभाव- स्तलक्षणमित्यर्थ । १ समानवलेति । समानवरेन (लिङ्गा-तरेण ) बोधित साध्यविपर्यय. साध्याभावो यस्य तादृशलिङ्गत्व हेतुल सत्प्रतिपक्षत्वमिलक्षार्थ । प्रकृतसाध्या- नुमापवरशालित्वे सति प्रकृतसाध्याभावानुमापकबलशालिहेवन्तरकत्वमिति- यावत् । अत्रानुमापकत्वमनुमितिफ्लोपधायक्व न सभवति परस्परप्रतिवन्धनो. भयोरप्यवोधकत्वात् । अतोऽनुमितियोग्यत्वरूप तबोध्यम् ।
६४ तर्कसंग्रहः सोपाधिको हेतुाप्यत्वासिद्धः । साध्यव्यापकत्वे सति साधनाच्यापकत्वमुपाधिः । साध्यसमानाधिकरणात्य- न्ताभावाप्रतियोगित्त्वं साध्यव्यापकत्वम् । साधनवनि- ठात्यन्ताभावप्रतियोगित्त्रं साधनाव्यापकत्वम् । पर्व- तो धूमवान् वह्निमत्यादित्यत्रार्दैन्धनसंयोग उपाधिः । यत्र धूमस्तवार्दैन्धनसंयोग इति साध्यव्यापकता। यत्र वहिस्तवाट्टैन्धनसंयोगो नास्ति अयोगोलके आर्दैन्धन- संयोगाभावादिति साधनाव्यापकत्ता । एवं साध्यव्या- पकत्वे सति साधनाच्यापकत्वादाइँन्धनसंयोग उ- पाधिः । सोपाधिकत्वादहिमत्त्वं व्याप्यत्वासिद्धम् ।। व्याप्यत्यासिद्धमुदाहरति-सोपाधिक इति । व्याप्यत्वस्या- सिद्धिर्यस्मादिति व्युत्पत्त्या उपाधिरेव व्याप्यत्वासिद्धः। पक्षे व्याप्य- त्वेनाभिमतस्य साधनस्याभावे ज्ञाते पक्षे साध्यव्याप्यहेतुमत्ताज्ञान- रूपस्य परामर्शस्य प्रतिवन्धः फलम् । तथाच व्यभिचारितासंब. न्धेन उपाधिविशिष्ट इत्यर्थः । तं लक्षयति सोपाधिक इति । व्याप्यत्वासिद्धस्तु द्विविधः-एको व्याप्तिग्राहकप्रमाणाभावप्रयुक्तः, अपर उपाधिसद्भावप्रयुक्तः । तत्राद्यो यथा--यत्सत् तत्क्षणिक यथा घनः इत्यत्र न सत्त्वक्षणिकत्वयोर्व्याप्तिग्रहसाधकप्रमाणमस्ति । द्वितीयो यथा--कत्वन्तवर्तिनी हिंसाऽधर्मसाधिका हिंसात्वात् ऋतुबाह्यहिसावत् । अत्राधर्मजनकत्वे हिसात्वं न प्रयोजकं किंतु निषिद्धत्वमेव । अतः निषिद्धत्त्वं साध्यस्साधर्मजनकत्वस्य व्यापकं, यत्र यन्नाधर्मजनकत्वं तनावश्यं निषिद्धत्वमपि । एवं साधनस्या- व्यापकं निषिद्धत्वम् । नहि यत्र यत्र हिसात्वं तत्र निषिद्धत्वमिति नियमः । यागीयपशुहिसायां सत्यपि हिंसात्वे निषिद्धत्वा- अतो निषिद्धत्वमुपाघिस्तद्विशिष्टत्वाद्धिंसात्वहेतुर्व्याप्यत्वा- सिद्ध उपाधिसद्भावप्रयुक्त एवेति ध्येयमित्यन्यत्र विस्तरः। भावात् , तर्कविलासिनीटीकासहितः। यस्य साध्याभावः प्रमाणान्तरेण निश्चितः स बाधितः। यथा वहिरनुप्णो द्रव्यत्वादिति । अत्रानुष्णत्वं साध्य तदभाव उप्णत्वं स्पार्शनप्रत्यक्षेण गृह्यते इति वाधि- तत्वम् ।। बाधितं लक्षयति-यस्येति । सत्प्रतिपक्षान्यत्वे सति पक्षवि- शेयकसाध्यप्रकारकानुमितिप्रतिवन्धकयथार्थज्ञानविषयत्वं पर्यव- सितार्थः । ननु साध्याप्रसिध्यादीनामप्यतिरिक्तहेत्वाभासानां सत्त्वा- स्कथं पञ्चैवेति चेन्न । व्याप्यत्वासिद्धौ तदन्तर्भावात् । साध्ये सा- ध्यतावच्छेदकाभावविशिष्टः साध्याप्रसिद्ध इत्याद्यवगन्तव्यमिति ।। व्याख्यातमनुमानम् । उपमानपरिच्छेदः। उपमितिकरणमुपमानम् । संज्ञासंज्ञिसंबन्धज्ञानमुप- मितिः । तत्करणं सादृश्यज्ञानम् । तथाहि कश्चिद्वयप- दार्थमजानन्कुतश्चिदारण्यकपुरुषाद्गोसदृशो गवय इति श्रुत्वा वनं गतो वाक्यार्थं सरन्गोसदृशं पिण्डं पश्यति । तदनन्तरमसौ गवयशब्दवाच्य इत्युपमितिरुत्पद्यते ॥ उपमानं निरूपयंस्तल्लक्षयति-उपमितिकरणमिति । उप- मिति लक्षयति--संज्ञासंज्ञीति । संज्ञा पदं, संज्ञी चार्थः । तयोः संबन्धः वाच्यत्वं तत्रकारकं गवयो गवयपदवाच्य इति ज्ञानमुप- मितिरित्यर्थः । उपमितित्वं चोपमिनोमीत्यनुभवसिद्धो जातिवि- शेपः । तत्करण तज्जनकमित्यर्थः । सादृश्यज्ञानमिति । सादृश्य- प्रकारकं ज्ञानमित्यर्थः। उपमितेः करणत्वमेव व्यवस्थापयति- तथाहीति । वाक्यार्थमिति । अतिदेशवाक्याथै स्मरन्नित्यर्थः । १ स्मरनिति। मरिष्यन्नित्यर्थः । 'यतमानसामीप्य वर्तमानवद्वा' इति वर्तमानसमीपे भविष्यति लट् । एवं च वाक्यार्थस्मरणस्य सादृश्यदर्शनजन्यता- . तर्कसंग्रहः तदनन्तरमिति । पिण्डदर्शनानन्तरमित्यर्थः । एतेन यत्र सादृश्य- वपिण्डदर्शनानन्तरमतिदेशवाक्यार्थबोधक्षत्रातिदेशवाक्यस्मरणस्या- नावश्यकतया अतिदेशवाक्यार्थस्मृतिरूपव्यापार विशिष्टसादृश्यवि- शिष्टपिण्डदर्शनं न करणं किंतु सादृश्यप्रकारकज्ञानमात्र विशेषण- ज्ञानविधया तज्जन्यमतिदेशवाक्यार्थज्ञानं सादृश्यवपिण्डदर्शनं चोभयं व्यापार इति कैपांचिन्मतं दूरतोऽपास्तम् । तथाच यत्र सादृश्यनि- शिष्पिण्डदर्शनोत्तरमतिदेशवाल्यार्थमरणं नास्ति किवतिदेशवाक्या- अंशाब्दयोधस्तत्रोपमित्यनभ्युपगमात् । किंतु तदुत्तरं पुनः सादृश्य- विशिष्टपिण्डदर्शनं ततोऽतिदेशकाक्यार्थस्मरणं तर्दुत्तरमेवोपमिति- रिति दिनकी सष्टम् । ननूपमानस्य प्रमाणान्तरत्वे किं मानमिति चेत्, प्रत्यक्षादिपमितिविलक्षणप्रमितिकरणमेवेति ब्रूमः । नत्र प्रत्यक्षादिप्रमितित उपमितेरेव विलक्षणप्रमितित्वासिद्धिरिति वा- च्यम् । चक्षुरादिव्यापाराभावेपि उपमित्युदयेन चाक्षुपत्वाभावात् उपमित्युत्तरं साक्षात्करोमीतिप्रत्यक्षत्यसाधकमतीत्यनुदयाच । व्या- लाभेन तद्व्यापारतालाभः सदृशपिण्डदर्शनस्य च करणतालाभः । अत एव पतेने. त्याद्यग्रिमग्रन्थः संगच्छते । यथावते सादृश्यवत्पिण्डदर्शनानन्तरमित्या- दिना वाक्यार्थरसरणस्य पिण्डदर्शनव्यापारताक्षेपः, किंतु तदुत्तरमित्यादिना तत्समाधानं चासजतं स्यात् वाक्यार्थस्मरणोत्तरपिण्डदर्शनस्य सहकारिमात्रता. लाभेन करणत्वाङ्गीकारासंभवात् अनङ्गीकृते च पक्षे आक्षेपप्रदर्शन स्योन्मत्तप्रल- पितलापतादिति ध्येयम् । १ अनन्तरमित्यस्य पक्षणे (तदुत्पतितृतीयक्षणे ) इत्यर्थः । तेन द्विती- यक्षणे अतिदेशवाश्यार्थ स्मरणस्य व्यापारस्थ लाभात्सदृशपिण्डदर्शनस्य करणवी- पपत्तिः। २ एतेनेति । सादृश्यवपिण्डदर्शनस्य करणत्वोपगमेन अतिदेशवाश्यार्थ- लणस तव्यापारखोपगमेत चेत्यर्थः । ३ मनूक्तस्थले उपमिलनभ्युपगमेऽनुभवापलापप्रसङ्गः, तत्रोपमितेरनुभवति- इलादत आह-कित्विति। ४ तदुत्तरमिति । एवंचार योपमितिरनुभवसिधा सा क्षणदयविलम्वेना- सन्मतेऽप्युपपद्यत इति न कश्चिद्दोष इति भावः ।
तर्कविलासिनीटीकासहितः। ६७ स्यादिज्ञानाभावेऽपि तटातीत्युदयेनानुमितित्वासंभवाच । पदज्ञानाज- न्यत्वाच्छाब्दत्वासंमवाच । अत एव न स्मृतिरननुभूतार्थस्य स्पर- णायोग्यत्वादित्यन्यत्र विस्तरः ॥ इति व्याख्यातमुपमानम् । शब्दपरिच्छेदः। आप्तवाक्यं शब्दः । आप्तस्तु यथार्थवक्ता । वाक्यं पद- मूहः । यथा गामानयेति । शब्दस्योपमानोपजीवकत्वात् उपजीव्योपजीवकभावसंगतिमभि- प्रेत्याह-आप्तेति । आप्तोचरितवाक्यमित्यर्थः । शब्द इति शब्द- प्रमाणमित्यर्थः । उपोद्घातेनाप्तं लक्षयति--आप्तस्त्विति । यथा- यति । प्रकृतवाक्यार्थविषयकयथार्थशाब्दबोधविषयकत्तात्पर्यवानि- त्यर्थः । तथाचैतादृशतात्पर्यजन्यवाक्यत्वं शब्दप्रमाणत्वं पर्यवसि- तमिति भावः। शक्तं पदम् । असात्पदादयमों बोद्धव्य इतीश्वर- संकेतः शक्तिः ।। शक्तमिति । शक्तिमदित्यर्थः । तत्स्वरूपमाह–असादिति । जन्यत्वं पञ्चम्यर्थः । बोद्धव्य इति बोधविषय इत्यर्थः । तथाच १ उपजीव्येति । उपमानफलस्य शक्तिपरिच्छित्ते शब्दफ्लस्य वाक्यार्थ- वोधस्य चोपजीव्योपजीवकभावो बोध्य. । वाक्यार्थवोधं प्रति शक्तिपरि- च्छित्ते. (शक्तिज्ञानस्य ) हेतुत्वात् । स च फलनिष्टोऽपि खाश्रयकरणत्वसव- धेन उपमान-शब्दनिष्ठ सस्तनिरूपणानन्तर्यनिर्वाहको भवति । इदं ज्ञायमान- शब्दस्य प्रमाणतावादिना प्राचां मतेन । शब्दज्ञानस्य प्रमाणतामभ्युपगच्छता नवीनानां मते तु साक्षादेवानयोरुपजीव्योपजीवकभावः । उपमितेः शक्तिमा छन्दविषयकत्वेन शब्दज्ञानलात् तस्य चोपमानजन्यवात् । उपजीव्यं कार णम् । उपजीयक कार्यम् । एवं चेयं निर्वाहकारया कार्यतापरपर्याया संगतिर्बोध्या ।
६८ तर्कसंग्रहः घटपदजन्यबोधविपयो घटो भवतु इतीश्वरेच्छा शक्तिरिति पर्यवसि- तम् । नन्वीश्वरेच्छाया ऐक्याटपदजन्ययोधविषयत्वकारिका था भगवदिच्छा सद्विषयत्वस्य पटेऽपि सत्त्वात् घंटपदात् पटविषयकयो- धोऽपि जायताम् । एवं गङ्गापदजन्यबोधविषयत्वप्रकारकेच्छायाः तीरे सत्त्वेन शक्तिवृत्त्यैव तीरविषयकवोधोपपत्वेक्षणा नाहीक- व्येति चेन्न । इच्छाया ऐक्येपि इच्छाविषयत्वस्य नानात्वेन तात्पर्य- तस्तस्यैव निवेशसंभवात् । एवंच घटादिपदजन्यबोधविषयतात्वाव- च्छिन्नप्रकारतानिरूपितविशेप्यतासंबन्धेनेश्वरेच्छावत्वत्यैव घटादि- पदवाच्यत्त्वात् , पादौ तादृशविशेष्यतासंबन्धेनेश्वरेच्छाया अमा- यान्नातिप्रसङ्ग इति भावः । नव्यास्तु डिस्थादिपदेषु आधुनिक संकेतविपयेषु. ईश्वरीयसंकेताभावाच्छाब्दबोधानुपपचिरितीच्छामानं शक्तिरिति निगदन्ति । शक्तिग्राहकश्च वृद्धव्यवहारादिः तथाहि.-- उत्तमवृद्धेन मध्यमवृद्धं प्रति घटमानयेति वाक्ये उच्चारिते मध्यम- वृद्धस्स घटानयनप्रवृत्ति दृष्ट्वा व्युत्पित्सुः कश्चिद्वालः, अन्वयव्यति- रेकाभ्यां मध्यमवृद्धनिष्ठा गवानयनप्रवृत्तिरुत्तमवृद्धप्रयुक्त-गामान- येति-वाक्यज्ञानजन्यज्ञानजन्येति निश्चिनोति । तदनन्तरमेव गां बधान अश्धमानयेति उत्तमवृद्धवाक्यं श्रुत्वा मध्यमवृद्धः गोबन्धन- .. १ पटपदवाच्यत्वस्य पटेऽतिप्रसनः स्वादिति भावः । २ गन्धेवमपि ईश्वरेच्छायाः सन्मात्र( यावत्पदा )विषयकत्सात . तीर- निर्छ यद्गगापदजन्य( लक्षणाधीन )बोधविषयत्वं तद्विषयकलेन गहापदजन्य बोधविषयबसावच्छिन्न प्रकारतानिरूपितविशेष्यतासंबन्धेनेश्वरेच्छावत्त्वरूपस्य ग- जापवाच्यलस्य तीरेऽप्यक्षततया तत्रातिप्रसगतवस्थ एवेति चेदनोव्यते-~ ईश्वरेच्छायाः सन्मानविषयवस्स तीसंशे गहापदजन्यवोधविपयतायाः केवलविषयतात्वेन तत्र प्रकारवाहीकारेणाप्युपपत्ती तादशयिशिरविषयतावा- दिना तस्यास्खन तथात्वानहोकारानोक्तातिप्रसव इति । ३ अन्वयव्यतिरेकाभ्यामिति । अत्र वाक्यज्ञानजन्यज्ञानसत्त्वे प्रति सत्त्व, वाक्यमानजन्यज्ञानामाचे प्रत्यभाव इति अन्वयव्यतिरेको बोध्यो।
तविलासिनीटीकासहितः । मश्वानयनं च करोतीति तटस्सो बालः आवापोद्वापाभ्यां गोपदं गोत्त्वावच्छिन्ने शक्तमश्चपदं चाश्चत्वावच्छिन्ने शक्तमिति वृद्धव्यव- हारप्रयुक्तां शक्तिं गृहाति । एवं भूसत्तायां, वर्तमाने लडिति व्याक- रणसूत्रादपि वर्तमानकालिकी सत्तेति योघो भवति । तदुक्तं- शक्तिमहं व्याकरणोपमान- कोशाप्तवाक्याद्व्यवहारतश्च । वाक्यस्य शेषाद्विवृतेर्वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः । इति । तथाहि-व्याकरणाच्छक्तिग्रहस्तूक्त एव । उपमानाच यथा गंवयशब्दवाच्यमजानन् कश्चित्केनाप्युक्तं 'गोसदृशो गवय' इति वाक्यं श्रुत्वा वनं गतः सन् गोसहशं पिण्डं पश्यति तदनन्तरं च तद्वाक्यं स्मृत्वाऽयं गवयशब्दवाच्य इति शक्तिं गृह्णाति । ततूप- मानादेवेति भावः । कोशाच्च गुणे शुक्लादयः पुंसीत्यनुशासनात् पीतः शह इत्यादौ पीतगुण विशिष्ट इति निश्चिनोति । वृद्धवाक्या- निरूपित एव शक्तिमहः । एवमाप्तवाक्यादपि । वाक्यशेषाद्यथा- यवमयश्चर्भवतीत्यत्र यवशब्दस्य दीर्घशूकविशेपे । वसन्ते सर्वसस्यानां जायते पत्रशातनम् । मोदमानाश्च तिष्ठन्ति यवाः कणिशशालिनः ॥ इत्यादितः । विवृतिविवरणं, खपतिपादितार्थप्रतिपादकपदान्तर- कथनं तस्माद्यथा---पाकशासनः इन्द्र इत्यादौ । सिद्धपदस्य सानि ध्यात्-~'इह विकसितसरोरुहे प्रमरः' इत्यादौ भ्रमरादौ शक्तिग्रहो भवतीति बोध्यम् । गवादिपदानां व्यक्तावेव शक्तिर्नतु जातावपि गौरवादिति नव्याः। १ आवापः तस्मिन्नधिकस्य प्रक्षेपः । उद्वापः ततः सतो निष्कासनम् । यथा प्रकृते गामानयतिवाक्ये वधानेयस्यावापः, आनयेत्यस्य उद्वापः । २ नव्या इति । परं त्वेवं अमेण शक्यतावच्छेदकेऽपि शतिर्न स्यात्, .
तर्कसंग्रहः घट पदजन्यबोधविषयो घटो भवतु इतीश्वरेच्छा शक्तिरिति पर्यवसि- तम् । नन्वीश्वरेच्छाया ऐक्याटपदजन्ययोपविषयत्वप्रकारिका या भगवदिच्छा तद्विषयत्वस्य पटेऽपि सत्त्वात् घंटपदात् पटविषयकवो- धोऽपि जायताम् । एवं गङ्गापदजन्यवोधविपयत्वप्रकारकेच्छायाः तीरे सत्त्वेन शक्तिवृत्त्यैव तीरविपयकयोधोपपत्तेर्लक्षणा नाङ्गीक- व्येति चेन्न । इच्छाया ऐक्येपि इच्छाविषयत्वस्य नानात्वेन तात्पर्य- तस्तस्यैव निवेशसंभवात् । एवंच घटादिपदजन्यबोधविपयतात्वाव- च्छिन्नप्रकारतानिरूपितविशेष्यतासंवन्धेनेश्वरेच्छावत्त्वस्यैव घटादि- पदवाच्यत्त्वात् , पटादौ तादृशविशेष्यतासंबन्धेनेश्वरेच्छाया अभा- वान्नातिप्रसङ्ग इति भावः । नव्यास्तु डित्यादिपदेषु आधुनिक- सकेतविषयेषु ईश्वरीयसकेताभावाच्छाब्दबोधानुपपत्तिरितीच्छामात्रं शक्तिरिति निगदन्ति । शक्तिग्राहकश्च वृद्धव्यवहारादिः तथाहि- उत्तमवृद्धेन मध्यमवृद्ध प्रति घटमानयेति वाक्ये उच्चारिते मध्यम- वृद्धस्य घटानयनप्रवृत्तिं दृष्ट्वा त्युत्पित्सुः कश्चिद्वालः अन्वयव्यति- रेकाभ्यां मध्यमवृद्धनिष्ठा गवानयनप्रवृत्तिरुत्तमवृद्धप्रयुक्त-गामान- येति-वाक्यज्ञानजन्यज्ञानजन्येति निश्चिनोति । तदनन्तरमेव गां वधान अश्वमानयेति उत्तमवृद्धवाक्यं श्रुत्वा मध्यमवृद्धः गोर्बन्धन- १ घटपदवाच्यलस्य पटेऽतिप्रसङ्गः स्यादिति भावः। २ नन्वेवमपि ईश्वरेच्छायाः सन्मान( यावत्पदार्थ )विपयक्त्वात् तीर- निष्ठं यद्गमापदजन्य( लक्षणाधीन )बोधविषयत्वं तद्विषयक्लेन गहापदजन्य- वोध विषयलवावच्छिन्नप्रकारतानिरूपितविशेष्यतासबन्धेनेश्वरेच्छावत्त्वरूपस्य ग- झापदवाच्यखस्स तीरेऽप्यक्षततया तत्रातिप्रसास्तदवस्थ एवेति चेदनोच्यते-- ईश्वरेच्छाया. सन्मानविषयत्वस्य तीराशे गङ्गापदजन्यबोधविषयतायाः केवलविषयतात्वेन तत्र प्रारत्वाङ्गीकारेणाप्युपपत्ती तादृशविशिष्टविषयतास्वा- दिना तस्यास्तत्र तथात्वानीकारानोक्तातिप्रसङ्ग इति । ३ अन्वयव्यतिरेकाभ्यामिति । अन याश्यमानजन्यज्ञानसत्त्वे प्रति- सावं, पापयशानजन्यज्ञानामाये प्रत्यभाव इति अन्ययन्यतिरेको योध्यो ।
- तर्कविलासिनीटीकासहितः। मश्वानयनं च करोतीति तटस्थो बालः आवापोद्वापाम्यां गोपदं गोत्त्वावच्छिन्ने शक्तमश्चपदं चाश्वत्वावच्छिन्ने शक्तमिति वृद्धव्यव. हारप्रयुक्तां शक्तिं गृह्णाति । एवं भूसचायां, वर्चमाने लडिति व्याक- रणसूत्रादपि वर्तमानकालिकी सचेति वोधो भवति । तदुक्तं- शक्तिमहं व्याकरणोपमान- कोशाप्तवाक्याद्व्यवहारतश्च । वाक्यस्य शेषाद्विवृतेर्वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः । इति । तथाहि-व्याकरणाच्छक्तिग्रहस्तूक्त एव । उपमानाच यथा गवयशब्दवाच्यमजानन् कश्चित्केनाप्युक्तं 'गोसदृशो गवय' इति वास्यं श्रुत्वा वनं गतः सन् गोसदृशं पिण्डं पश्यति तदनन्तरं च तद्वाक्यं स्मृत्वाऽयं गवयशब्दवाच्य इति शक्तिं गृह्णाति । तत्तूप- मानादेवेति भावः । कोशाच गुणे शुक्लादयः पुंसीत्यनुशासनात् पीतः शङ्ख इत्यादौ पीतगुणविशिष्ट इति निश्चिनोति । वृद्धवाक्या- निरूपित एव शक्तिग्रहः । एवमाप्तवाक्यादपि । वाक्यपाद्यथा- यवमयश्चरुर्भवतीत्यत्र यवशब्दस्य दीर्घशूकविशेपे । वसन्ते सर्वसस्याना जायते पत्रशातनम् । मोदमानाश्च तिष्ठन्ति यवा. कणिशशालिन. ॥ इत्यादितः । विवृतिविवरणं, स्वप्रतिपादितार्थप्रतिपादकपदान्तर- कथनं तस्माद्यथा-पाकशासन. इन्द्र इत्यादौ । सिद्धपदस्य सान्नि ध्यात्-इह विकसितसरोरुहे प्रमरः' इत्यादौ भ्रमरादौ शक्तिमहो भवतीति बोध्यम् । गवादिपदाना व्यक्तावेव शक्तिर्नतु जातावपि गौरवादिति नव्याः। १ आवापः तस्मिनधिकस्य प्रक्षेप । उद्वापः तत सतो निष्कासनम् । यथा प्रकृते गामानयेतिवाक्ये बधानेत्यस्यावाप , आनयेत्यस्य उद्वाप । २ नव्या इति । पर त्वेवं क्रमेण शक्यतावच्छेदकेऽपि शक्तिर्न स्यात् , , ७२ तर्कसंग्रहः क्रमेण तेषां लक्षणान्याह-पदस्येति । पदनिष्ठमित्यर्थः । अन्वयाननुभावकत्वमन्वयबोधानुपधायकत्वमित्यर्थः । तथाच गामा- नयेत्यत्र गोपदस्य अम्पदाभावप्रयुक्तं शाब्दबोधानुपधायकत्वं गोपदे अम्पदाकाद्वेति शाब्दबोधः । अत्र घटकर्मताबोधं प्रति घटपदो- त्तरद्वितीयारूपाकाहाज्ञानं कारणम् । अन्यथा घटः कर्मत्वमानयनं कृतिरित्यादितोऽपि शाब्दबोधः स्यात् । एवं तात्पर्यज्ञानमपि शाब्द- बोधे कारणम् । अन्यथा हरिं भजते इत्यादौ कचिदिन्द्रस्य कचि- द्विष्णोश्च बोघो न स्यात् । नच प्रकरणादीनां तात्पर्य ग्राहकत्वेना- वश्यमपेक्षणीयतया तेषामेव शाब्दबोधकरणत्वमस्त्विति वाच्यम् । प्रकरणादीनामननुगतत्वेन परस्परजन्यशाब्दबोधे चालनीन्यायेन स- वैपां व्यभिचरितत्वेन शाब्दबोधकरणत्वाभावात् । ननु संयो- गांद्यन्यतमत्वेन तेषां परिगणितानामनुगम इति चेन्न । अन्यतमत्वस्य तद्भिन्नभिन्नत्वरूपस्य कुक्षौ सर्वस्य जगतः प्रविष्टतयाऽतिगुरुतर- त्वेन कारणतावच्छेदकत्वानङ्गीकारात् । ननु तात्पर्यज्ञानजनकत्वेना- नुगमय्यैव कारणतास्त्वितिचेन्न । जनकतावच्छेदकविधयावश्यकस्य तात्पर्यज्ञानस्य लाघवेन कारणत्वात् । अतश्च सिद्धं तात्पर्यज्ञानस्य शाब्दबोधत्वावच्छिन्नं प्रति कारणत्वमिति दिक् । अर्थावायो योग्यता ॥ योग्यतां लक्षयति-अर्थावाध इति । अर्थस्यान्वयस्यावाधः अभावाभावः एकपदार्थेऽपरपदार्थसंबन्ध इति यावत् । अत्र शाब्द- योधं प्रति योग्यताज्ञानस्य संशयनिश्चयसाधारण्येनैव कारणत्वं १ संयोगादयश्च काव्यप्रकाशकृता दर्शिताः- संयोगो विप्रयोगश्च साहचर्य विरोधिता। अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य सन्निधिः ॥ १॥ सामर्थ्य मौचिती देशः कालो व्यक्तिः खरादयः। शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥२॥ अनवच्छेदे अनेकत्वे इत्यर्थः ।
तर्कविलासिनीटीकासहितः। योध्य, तेन शाव्दवोधात्पूर्व योग्यताज्ञानस्य निश्चयामायेऽपि न क्षतिः । नन्यास्तु शाब्दबोधं प्रति योग्यताज्ञानं न कारणं, यहिना सिञ्चेदित्यत्र शाब्दवोधामावस्तु सेके वहिकारणत्वामावरूपायोग्यता- निश्चयरूपप्रतिबन्धफप्रयुक्तः। ननु अयोग्यतानिश्चयस्य प्रतिवन्धफत्वे तदमाववत्त्वेन हेतुत्वस्यावश्यकतया तदपेक्षया लाघवेन योग्यता- ज्ञानमेव कारणमस्त्वितिचेन्न । तदभाववचारूपायोग्यतानिश्चयस्य लौकिकसन्निकर्पाद्यजन्यदोषविशेषाजन्यतज्ज्ञानमात्रे प्रतिबन्धकत्वेन शाब्दबोधं प्रत्यपि प्रतिवन्धकत्वस्याक्षतत्वात् । ननु यत्र योग्यता- ज्ञानमपि नास्ति नाप्ययोग्यताज्ञानं तत्र शाब्दबोधापत्तिरितिचेन्न । इप्टापत्तेः। पदानामविलम्बेनोचारणं संनिधिः ॥ सन्निधिं लक्षयति-पदान्तमिति । यस्य पदस्यार्थेन सह यस्य पदस्यार्थस्यान्वयोऽपेक्षितस्तयोः पदयोरव्यवधानेनोच्चारणमित्यर्थः । ए- तेन गिरि क्तमनिमान्देवदयेनेत्यादौ गिरिपदभुक्तपदयोः सान्नि- ध्येन शाब्दबोधः कथं न भवतीत्याशङ्का परास्ता । तथाच आकाशादिरहितं वाक्यमप्रमाणम् । यथा गौरश्वः पुरुषो हस्तीति न प्रमाणमाकाझाविरहात् । यदिना सिञ्चदिति न प्रमाणं योग्यताविरहात् । प्रहरे प्रहरेऽसहोचारितानि गामानयेत्यादिपदानि न प्रमाणे सांनिध्याभावात् ।। आकाहादिरहितस्य वाक्यस्य प्रमाणत्वं निषेधति-तथाचेति । अन्न सान्निध्यसत्त्वेपि परस्परापेक्षाभावादाकाहाविरहेण न शाब्द- योघ इति भावः । अनाकाहायुदाहरणं दर्शयति-यथा गौरव इति । वाक्यं द्विविधम् । वैदिकं लौकिकं च । वैदिकमीश्वरो- .
७१ तर्कसंग्रहः तत्वात्सर्वमेव प्रमाणम् । लौकिकं त्वाप्पोक्तं प्रमाणम् । अन्यदनमाणम् ॥ प्रसङ्गाद्वाक्यं विभजते-चाक्यमिति । विभज्य दर्शयति- वैदिकमिति । वेदघटकं वैदिकं, तद्भिन्नं लौकिकमित्यर्थः । ईश्व- रोक्तत्वादिति । वेदः पौरुषेयः महावाक्यत्वाद्धारतादिवदित्यनुमा- नेन तसिद्धिरिति । इतिहासपुराणादीनां प्रामाण्यं तु वेदमूलकत. यैव बोध्यम् । यस्य मूलभूता श्रुतिपिलभ्यते तस्यापि मूलभूत- श्रुतिघटिता शाखोच्छिन्नेति कल्प्यते इत्यन्यत्र विस्तरः ॥ वाक्यार्थज्ञानं शाब्दज्ञानम् । तत्करणं शब्दः ॥ शब्दलक्षणमाद-चाक्यार्थेति । तत्करणमिति । एकपदार्था- नुयोगिकाऽपरपदार्थप्रतियोगिकसंसर्गविषयकं ज्ञानमित्यर्थः । तथाच नीलो घट इत्यादौ घटपदानुयोगिकनीलपदार्थप्रतियोगिको यः संसर्गः अभेदरूपस्तद्विपयकज्ञानमेव वाक्यार्थज्ञानमिति बोध्यम् ॥ शाब्दलक्षणं तु शक्तिलक्षणान्यतरसंबन्धेर्ने पदजन्यपदार्थस्मृतित्वाव- च्छिन्नकारणतानिरूपितकार्यत्वम् । अत्रायं शाब्दबोधप्रकारः—गामानयेत्यत्र द्वितीयार्थः कर्मत्वं 'कर्मणि द्वितीया' इत्यनुशासनात् । नीधात्वर्थ आनयनम् । आख्या- ताथैः कृतिः । तथा कर्मत्वे वृत्तित्वसंबन्धेन गोपदार्थस्यान्वयः । तस्य प्रतियोगित्वसंबन्धेनानयनेऽन्वयः। तस्यानुकूलत्वसंबन्धेन कृतावन्वय. १ पौरुषेय इति । सजातीयोचारणानपेक्षोचारितजातीयत्वम्, प्रमाणान्त- रेणार्थमुपलभ्य विरचितलं वा पौरुषेयत्वम् । २ अदृष्टार्थविषये इति शेषः । दृष्टार्थे तु व्यासाद्याप्तोतलादेवेति बोध्यम् । ३ शब्देति । प्रमाणशब्देत्यादिः । ४ संयन्धेनेति । अत्र तृतीयार्थः प्रकारकलं तस्य पदपदार्य पदधर्मि- ज्ञानेऽन्वयः। इत्थंच-पद्धर्मिक-शक्तिलक्षणान्यतरसंवन्धप्रकारकज्ञानजन्य- पदार्थस्मृतित्वेत्याद्यर्थः । ५ प्रतियोगित्वं निरूपकत्वम् ।
शाब्दबुद्धित्वावच्छिन्नं प्रति पदजन्यपदार्थोपस्थितिर्विशेप्यतासंब- न्धेन प्रयोजिका-इति नियमस्य सर्वैः स्वीकार्यतया ध्वंसप्रति- तर्कविलासिनीटीकासहितः। स्तस्याः समवायसंवन्धावच्छिन्नाश्रयतासंवन्धेन त्वंपदार्थेऽन्वयः । तथाच गोवृत्तिकर्मताप्रतियोगिकानयनानुकूलकृत्याश्रयस्त्वमिति शाब्द- योधः। एवं चन्द्रवन्मुखमित्यत्र चन्द्रस्य निरूपितत्वसंबन्धेन सादृश्ये. ऽन्वयः । तस्याश्रयतासंबन्धेन मुखेऽन्वयः । तथाच निरूपितत्व- संबन्धावच्छिन्नचन्द्रत्वावच्छिन्नप्रकारतानिरूपितसादृश्यत्वावच्छिन्न- विशेष्यतासमानाधिकरणाश्रयतासंबन्धावच्छिन्नसादृश्यनिष्ठप्रकारता. निरूपितमुखत्वावच्छिन्नविशेष्यताशाली शाब्दवोधः प्रथमान्तार्थ- मुख्यविशेष्यक एव । अत्र वैयाकरणाः-धात्वर्थमुख्यविशेष्यक एव शाब्दवोधः सर्वत्राङ्गीकार्यः । तथाच ग्रामं गच्छति देवदत्त इत्यत्र देवदत्त- कर्तृक ग्रामकर्मकं वर्तमानकालीनं गमनमिति बोधः। एवमन्यत्रापि । एवं च शृणु गर्जति मेघ इत्यादौ गर्जनाश्रयीभूतमेघकर्मकश्रवणाश्र- यीभूतस्त्वमिति नैयायिकानां शाब्दबोधः स न संभवति मेषकर्मक- श्रवणासंभवात् । एवं शृणु नटो गायतीत्यत्र गायनाश्रयीभूतनट- कर्मकश्रवणासंभवादित्यूचुस्तन्न रमणीयम् । प्रथमान्तार्थमुख्यविशेष्य- कशाब्दबोधखीकारेपि 'सविशेषणे हि विधिनिषेधौ वर्तमानी सति विशेष्ये बाघे विशेषणमुपसंक्रामतः' इति विशेप्ये मेधे श्रवणा- संभवेऽपि विशेषणेषु गर्जनादिपु श्रवणादीनामन्वयसंभवात् । दृष्टं चैतद्विशेषणान्वयित्वं खर्गी ध्वस्तः शिखी ध्वस्तः इत्यादिप्रयोगे। तत्र ध्वस्त इति क्तप्रत्ययार्थध्वंसप्रतियोगिनः शिखिनः खर्गिणश्च विनाशेन सममन्वयासंभवेन शिखाखर्गयोरेव तेन सहान्वयविवक्ष- णात् । ननु ‘पदार्थः पदार्थेनान्वेति नतु पदार्थैकदेशेन' इति न्यायलभ्य-यत्किंचित्पदार्थनिष्ठप्रकारतानिरूपितविशेष्यतासंबन्धेन १ स्वीकार्यतयेति । घटत्वे नित्यपदार्थस्याभेदान्वयतात्पर्येण घटो नित्य इति प्रयोगस्य साधुत्वापत्तिवारणायेति भावः ।
-- तर्कसंग्रहः वान्नास्तीति तर्कितप्रतियोगिसत्त्वविरोध्यनुपलब्धिप्रमाणेन घटाभावो निश्चीयत इतिचेन्न । तत्सहकारेण प्रत्यक्षस्यैवाभावग्राहकत्वाङ्गी- कारात् । एवं 'शते पञ्चाशत्' इति संभवोषि अनुमानान्तर्भूतः । इह चटे यक्षस्तिष्ठतीत्यैतिह्यमप्यज्ञातमूलवक्तृके शब्दे । चेष्टाया अनुमानेऽन्तर्भाव इति प्रत्यक्षानुमानोपमानशब्दाश्चत्वार्येव प्रमाणा- नीति सिद्धम् । ननु चक्षुया वसंबद्धार्थस्यैव प्रतिपत्तिर्भवतीत्यत्र किं प्रमाण मितिचेन्न । चक्षुःश्रोत्रे वस्तु प्राप्य प्रकाशकारिणी इन्द्रियत्वात् त्वगादिवदित्यनुमानस्यैव वस्तु प्राप्य प्रकाशकारित्वद्वारा तत्र प्रमा- णत्वात् । ननु त्वगादीनामेव वस्तु प्राप्य प्रकाशकारित्वे किं प्रमा- णमितिचेन्न । त्वगादीन्द्रियाणि वस्तुप्रकाशकानि प्रत्यक्षज्ञानकरण- त्वादालोकवदित्यनुमानस्य प्रमाणत्वात् । किं च तेषां वस्तु प्राप्य प्रकाशकारित्वं तु प्रत्यक्षसिद्धमेवेति न तदंशे विवादः । नन्वस्तु वस्तु प्राप्य प्रकाशकारित्वमिन्द्रियस्य परं संबन्धाभावात् कथं चक्षुपा संबन्धाभावप्रत्यक्षमितिचेन्न । विशेप्यविशेषणभावरूपसंबन्धस्य सत्त्वात् । नच यो हि संबन्धो भवति स संबन्धिभ्यां भिन्न उभ. याश्रित एकश्च । यथा भेरीदण्डसंयोगः । नायं तथा विशेप्यविशे- पणभावस्य तत्स्वरूपत्वकल्पनेनैव सामञ्जस्यादिति वाच्यम् । असं- बद्धाभावग्रहेऽप्यतिप्रसङ्गदोपस्यैतादृशसंबन्धेनैव वारणीयत्वात् । उभ- यमतेऽपि तुल्यदोपतत्परिहारत्वात् । तथोक्तं-- 'यत्रोभयोः समो दोपः परिहारोऽपि वा समः । नैकः पर्यनुयोक्तव्यस्तागर्थविचारणे ॥' इति । अयथार्थानुभवस्त्रिविधः संशयविपर्ययतर्कभेदात् । ए- तर्कितेति । तर्किता आपादिता प्रतियोगिनो घटादेः सत्त्वस्य सत्त्वप्र- सक्तेविरोधिनी या उपलब्धिः तत्प्रतियोगिकोऽभावोऽनुपलब्धिस्तद्रूपनमाणेने- त्यर्थः। - ग्रहणस्मरणात्मकं मानद्वयमशीकुर्वन्ति । ते अख्यातिवादिन इयुच्यन्ते । तर्कविलासिनीटीकासहितः । ७९ कसिन्धर्मिणि विरुद्धनानाधर्मवैशिष्ट्यावगाहि ज्ञानं संशयः । यथा स्थाणुर्वा पुरुपो चेति ॥ प्राग्लक्षितस्यायथार्थानुभवस्य विभागमाह-अयथार्थेति । विभज्य दर्शयति-संशयेत्यादिना । संशयलक्षणमाह-एक- सिन्निति । एकथर्मिनिष्ठविशेप्यतानिरूपितविरुद्धनानाधर्मनिष्ठ- प्रकारताशालिज्ञानत्वमित्यर्थः । उदाहरति-यथेति । घटपट- विपयकसमूहालम्बनरूपे ज्ञाने विरुद्धघटत्वपटत्वादिनानाधर्मवैशि- यावगाहित्वादतिप्रसङ्गवारणाय एकसिन्निति । एकस्मिन्नेव घटादी घटत्वपमेयत्वादिनानाधर्मवैशिष्यावगाहनादतिव्याप्तिरतः विरुद्धेति । विपर्ययेऽतिव्याप्तिवारणाय नानेति । स च त्रिविधः--एकः समान- धर्मदर्शनजः, द्वितीयो विप्रतिपचिजः, तृतीयोऽसाधारणधर्मदर्श- नजः । तत्रायो यथा-स्थाणुर्वा पुरुषो वेति । तत्रैकमिन्नेव स्थाणु- त्वनिश्चायकं चक्रकोटरत्वादिकं, पुरुषत्वनिश्चायकं च शिरःकम्पादिक विशेषमपश्यतः, समानधर्ममूर्द्धत्वं पश्यतः, पुंसो भवत्येव संशय इति। द्वितीयो यथा--शब्दो नित्य उतानित्य इति । अत्र कश्चिद्वदति गब्दो नित्य इति । अनित्य इत्यपरः । ततो विप्रतिपत्त्या शब्दो नित्योऽनित्यो वेति संशयः । तृतीयो यथा-नित्यानित्यव्यावृत्तं पृथिवीमात्रवृत्तिगन्धवत्त्वज्ञानं भुवि नित्यानित्यत्वस्य संशयं करोति।। मिथ्याज्ञानं विपर्ययः । यथा शुक्तौ 'रजतम्' इति ॥ विपर्ययं निरूपयति-मिथ्याज्ञानमिति । तदभाववति ता- १ विप्रतिपत्तिः। विरुद्धार्थप्रतिपादकं वाक्यद्वयम् । २ मिथ्येति । मिथ्याज्ञानमेवाऽन्यथाख्यातिपदेनोच्यते । अन्यथेत्यत्र थाल' प्रत्ययस्य प्रकारवाविलात् अन्यथेत्यस्य अन्यप्रकारेण विशेष्यात्तिध- मग या ख्यातिः शानं (विशेष्यस्य) इत्यर्थ कलात् । प्राभाकरास्तु ईदृशस्थले अद्वैतिनतु असत्ख्यातिमसतः शुक्तिरजतलयोः समवायस्य ख्याति वदन्ति ।
तर्कसंग्रहः कारकनिश्चयानुभवत्वमित्यर्थः । तऽतिव्याप्तिवारणाय तर्कान्यत्व- मपि देयम् । व्याप्यारोपेण व्यापकारोपस्ततः । यथा यदि वहिर्न सातहिं धृमोऽपि न स्यादिति ।। तकै लक्षयति-व्याप्यारोपेणेति । अयं च प्रवर्तमानस्य धूम- लिङ्गस्य विषयमशिमत्त्वमनुजानाति, अनमिमत्त्वं च प्रतिषेधति । अतोऽनुमानस्य भवत्यनुप्राहक इति विपर्ययात् पृथर्देिशः । स्मृतिरपि द्विविधा । यथार्था अयथार्था च । प्रमाजन्या यथार्था । अप्रमाजन्या अयथार्था । स्मृति विभजते-स्मृतिरपीति । स्वजन्यसंस्कारसंबन्धेन प्र- मायाः स्मृतिकारणत्वमिति भावः । सर्वेपामनुकूलवेदनीयं सुखम् ।। सुखं लक्षयति-सर्वेपामिति । सुखत्वं चाहं सुखीत्यनुभव- गम्यो जातिविशेषः। प्रतिकूलवेदनीयं दुःखम् ॥ दुःखं निरूपयति-प्रतिकूलेति । दुःखत्वं जातिः । इच्छा कामः। इच्छां निरूपयति-इच्छेति । सा द्विविधा, फलविषयिणी उपायविपयिणी च । फलमिच्छायाः सुखं दुःखाभावश्च । तत्र फलेच्छां प्रति फलज्ञानं कारणम् । उपायेच्छां प्रतीष्टसाधनताज्ञानं कारणम् । क्रोधो द्वेपः। द्वेष लक्षयति-क्रोध इति । तं प्रति दुःखज्ञानं, दुःखोपायद्वेष १ अनुजानातीति । कारणोपपत्त्येति शेषः । २ प्रतिषेधतीति ! कारणस्यानुपपद्यमानखदर्शनादिति शेषः।
भावनां निरूपयति-अनुभवजन्येति । अनुभववारणायानु। तर्कविलासिनीटीकासहितः। ८१ प्रति च बलवद्विष्टसाधनताशानं कारणम् । बलवदिएसाधनताशानं प्रतिवन्धकम् । निवृतेः साक्षादनुकूलत्वं लक्षणम् । कृतिः प्रयतः ॥ प्रयतं निरूपयति-कृतिरिति । स त्रिविधः-प्रवृत्ति-नि- वृत्ति-जीवनयोनिभेदात् । विहितकर्मजन्यो धर्मः । निपिद्धकर्मजन्यस्त्वधर्मः ॥ बुधादयोऽष्टाचात्ममात्रविशेषगुणाः । युद्धीच्छामयला नित्या अनित्याच । नित्या ईश्वरस्य । अनित्या जीवस्य ।। धर्भ लक्षयति--विहितेति । इष्टसाधनतया वेदप्रतिपाद्यत्वं लक्ष- गमित्यर्थः । साक्षात्सुखसाधनलं पर्यवसितं लक्षणम् । तेन ज्योति- प्टोमादौ, नोतिप्रसङ्कः । अधर्म लक्षयति-निपिद्धति । अनिष्ट- साधनत्वेन वेदवोधितमित्यर्थः । तत्र धर्मः भोग-कीर्तनादिनाऽधर्मश्च भोगमायश्चित्तादिना नश्यति । एतावेवादृष्टमिति कथ्यते । एतावेव च सुखदुःखस्यासाधारणकारणावनुमानलब्धौ । तथाहि-देवदचस्य शरीरादिकं देवदत्तविशेषगुणजन्यं कार्यत्वे सति देवदचस्य भोगहेतु- त्वाद्देवदत्तप्रयत्नजन्यवस्तुपदिति । शरीरादिजनकात्मविशेषगुणश्च धर्माधर्मावेव । प्रयत्नादीनां शरीराद्यजनकत्वादिति दिक् । संस्कारस्त्रिविधः । वेगो भावना स्थितिस्थापकश्चेति । वेगः पृथिव्यादिचतुष्टयमनोवृत्तिः। संस्कारं विभजते-संस्कार इति । संस्कारव्यवहारहेतुत्वं लक्षणम् । क्रियाजन्यत्वे सति क्रियाजनकत्वं वेगस्य लक्षणम् । वेग- १ नातिप्रसङ्ग इति । मीमांसकमते ज्योतिष्टोमादेर्धर्मत्वेऽपि नयायिकमते तबन्यस्यापूर्वस्यैव धर्मलाम्योतिष्टोमस्यालक्ष्यसमिति भावः । स्याश्रयमाह-~-प्रथिन्यादीति । अनुभवजन्या स्मृतिहेतुर्भावना आत्ममात्रवृत्तिः।
८२ तर्फसंग्रहः भवजन्येति । स्मृतिवारणाय स्मृतिहतुरिति । भावनात्यसंस्कारस्तू- बुद्ध एव स्मृतिं जनयति । उद्बोधश्च संस्कारस्य सहकारिलाभः । सहकारिणश्च संस्कारस्य सदृशदर्शनादयः । तथाचोक्तं सदशा- दृष्टचिन्तायाः स्मृतिबीजस्य बोधकाः । इति अन्यथाकृतस्य पुनस्तवस्थापादकः स्थितिस्थापक कटादिशृथिवीवृत्तिः ॥ इति गुणाः ॥ स्थितिस्थापके लक्षयति-अन्यथेति । तदाश्रयमाह-कटा- दीति । इतीति समाप्ता गुणा इत्यर्थः ॥ चलनात्मक कर्म । ऊर्ध्वदेशसंयोगहेतुरुत्क्षेपणम् । अ- धोदेशसंयोगहेतुरपक्षेपणम् । शरीरस्य संनिकृष्टसंयोग- हेतुराकुञ्चनम् । विप्रकृष्टसंयोगहेतुः प्रसारणम् । अन्य- त्सर्व गमनम् ॥ उद्देश्यक्रमेण कर्म निरूपयति-चलनात्मकमिति । गुणवद्- द्रव्यमात्रवृत्तीति शेषः। नित्यमेकमनेकानुगतं सामान्यम् । द्रव्यगुणकर्मवृत्ति । परं सत्ता । अपरं द्रव्यत्वादि । सामान्य लक्षयति-नित्यमिति । नित्यद्रव्यवृत्तयो व्यावर्तका विशेषाः ॥ विशेषपदार्थस्य स्वरूपमाह-नित्यद्रन्यवृत्तय इति । पूर्वमेव व्याख्याताः। नित्यसंबन्धः समवायः । अयुतसिद्धवृत्तिः । ययोयो- मध्य एकमविनश्यदवस्थमपराश्रितमेवावतिष्ठते ताक्यु- तसिद्धौ । यथा अवयवावयविनौ गुणगुणिनी क्रिया- क्रियावन्तौ जातिव्यक्ती विशेषनित्यद्रव्ये चेति ॥ समवायं लक्षयति-नित्यसंवन्ध इति । ययोरिति । घर- नच तयोरधिकरणेऽपि रक्तं रूपं नास्तीति प्रत्ययानुरोधेनात्यन्ता- तर्कविलासिनीटीकासहितः । ८३ कपालयोर्मध्ये एको घटः नाशममाप्यैव कपालाश्रित एवावतिष्ठते तौ घटकपालौ अयुतसिद्धावित्यर्थः । एवमन्यत्रापि । अनादिः सान्तः प्रागमावः । उत्पत्तेः पूर्व कार्यस्य ।। प्रागभावं लक्षयति-अनादिरिति । घटादिवारणायानादि- रिति । आकाशादिवारणाय सान्त इति ॥ सादिरनन्तः प्रध्वंसः। उत्पत्त्यनन्तरं कार्यस्य ।। ध्वंसं लक्षयति~-सादिरिति । परमाण्वादिवारणाय सादि- रिति । घटादिवारणायानन्त इति । भने घटे कपालमालायां घट- ध्वंसस्तिष्ठति स च मुद्गरप्रहारजन्यः अविनाशीति लक्षणसङ्गतिः। त्रैकालिकसंसर्गावच्छिन्नप्रतियोगिताकोऽत्यन्ताभावः । यथा भूतले घटो नास्तीति ।। अत्यन्ताभावं लक्षयति-त्रैकालिकेति । स च एकपर्याप्तधर्मा- वच्छिन्नप्रतियोगिताकः, अनेकपर्याप्तधर्मावच्छिन्नप्रतियोगिताकश्च । तनायो घटत्वाधवच्छिन्न प्रतियोगिताकः । अपर उभयत्वाचवच्छिन्न- प्रतियोगिताकः । नन्वत्यन्ताभावस्य त्रैकालिकत्वे यादृशभूतलाद्य- वच्छेदेन घटादिकं दूरीकृतं पुनश्च कालान्तरेण तदानीतं तत्र घट- सत्त्वदशायामपि तदत्यन्ताभावस्य सत्त्वात्तत्प्रतीतिः कथं न भवतीति- चेन्न । संबन्धसंवन्ध्युभयसत्तायाः विशिष्टविषयकप्रत्यक्षप्रयोजकत्वेन संबन्धिनः अत्यन्तामावस्य भूतलस्य च सत्त्वेऽपि घटाभावयद्भूतल- मित्यादिज्ञानकालीनविशेष्यविशेषणभावरूपसंवन्धाभावेन तदानीं- तत्प्रतीत्यनुदयात् । केचितूत्पादविनाशशाली चतुर्थोऽयमभाव प्राचीनास्तु ध्वंसप्रागभावयोरधिकरणे नात्यन्ताभावो वर्तते । . इत्याहुः। भाववत्त्वाङ्गीकार आवश्यक इति वाच्यम् । तत्र तादृशमत्ययस्य तर्कसंग्रहः ध्वंसमागमावावगाहित्यात् ।नच तादृशमत्ययस्य ध्वंसाद्यवगाहित्ये यत्र पूर्वरक्तस ध्वंसः भविष्यद्रास च प्रागमावः मध्ये रक्ततादशामां समागभावयोः सत्त्वेन रक्तं रूपं नास्तीति कथं न प्रत्ययो भवतीति वाच्यम् । रक्ततादशायां रक्तान्तरध्वंसमागमावयोः सत्वेपि तत्र रक्तत्वायच्छिन्नप्रतियोगिकत्वाभावेन तादृशमतीतेरनुदयात् । नच ध्वंसप्रतियोगितायाः किंचिद्धर्मावच्छिन्नत्वे मानाभावेन तत्तदनन्त- रक्तध्वंसादिपु रक्तत्वावच्छिन्नमतियोगिताकत्वस्य कल्पनापेक्षया ध्वंसप्रागभावाधिकरणे रक्तं रूपं नास्तीति प्रतीतिरत्यन्ताभावमेवा- वगाहतामिति वाच्यम् । यावन्ति रक्तरूपाणि तत्तव्यक्तित्वेतरधर्मा- नवच्छिन्नततध्यक्तिनिष्ठप्रतियोगिताफामावैरेव रक्तं रूपं नास्तीति प्रत्ययोपपत्तेस्तदत्यन्ताभावावगाहित्वस्य निष्फलत्वेन मध्ये रक्तता- दशायां च तव्यक्तिनिष्ठप्रतियोगिताकाभावस्यासत्वेन क्षैत्यभावादित्या- हुस्तन्न । तथासत्यन्तराश्यामे रक्तं रूपं नास्तीति निर्णयेऽपि तत्र रक्तं रूपमस्तीति प्रत्ययापत्तेः। नच तत्र प्रतिबन्धकस्य सत्त्वान्न तथा प्रत्यय इति वाच्यं, विरोधिनः सामान्याभावस्यानिश्चयात् विशे- पाभावकूटनिश्चयस्य चाप्रतिबन्धकत्वात् । अन्यथा विशेषाभावकूटे- नैवोपपत्ती सामान्यामावस्यापलापापतेरिति दिक् ॥ १ मानाभावेनेति । अमावीयप्रतियोगितायाः किंचिद्धर्मावच्छिन्नत्वे मानं तादृशाभावयत्तानिश्चयस्य प्रतिबन्धकखान्यथानुपपत्तिः । ध्वंसप्रागभाववत्तानि- श्चयस्य तु कुत्राप्यप्रतिवन्धकत्वेन प्रतिबन्धकलानुपपत्तिरूपप्रतियोगितावच्छेद- ककल्पकाभावादित्यर्थः । २ तादृशाभावकूटस्य (ताशयावदभावानां) रक्तं रूपं नास्तीति प्रतीति- विषयलकल्पनादित्यर्थः। ३ क्षत्यभावादिति । मध्ये रक्ततादशायां 'रक्तं रूपं नास्ति' इतिप्रती- स्वायत्तेरभावादिसर्थः। ४ तथासति रक्तं रूप नास्तीति प्रतीती रक्तलाभावकूटस्य विषयत्वा- गीकारे इत्यर्थः। ५ अन्यथा विशेपाभावकूटनिश्चयस्य प्रतिबन्धकलाङ्गीकारे इत्यर्थः ।।
२ येन सह यस्यान्वययोधे तात्पर्य तत्पदोत्तर तत्पदस्य कर्पणादिति भावः। तर्फविलासिनीटीकासहितः । नन्वभावानामधिकरणात्मकत्वमस्तु लाघवादिति चेन्न । अनन्ता- धिकरणस्वरूपकल्पनापेक्षयातिरिक्ताभावपदार्थकल्पनाया लघीय- स्त्वात् । नचावश्यकृप्ततत्तत्खरूपेष्वभावत्वकल्पनं न गौरवावहमिति याच्यम् । आधाराधेयभावानुपपत्तेः । ननु अभावाधिकरणकाभा- वप्रतियोगिकामावस्याधिकरणखरूपत्वे यथाधाराधेयभावोपपत्तिस्तथा सर्वत्राप्यस्त्विति चेन्न । अभावस्याधिकरणात्मकत्वे तत्तच्छब्द- गन्धरसाद्यभावानां प्रत्यक्षत्वानुपपत्तेः । येनेन्द्रियेण यत्प्रत्यक्षं तन्निष्ठा जातिस्तदभावश्च तेनेन्द्रियेण गृह्यत इति समयेन चाक्षुपज्ञानविप- यघटादीनामात्मखरूपत्वेनात्मनश्चाक्षुपज्ञानाभावेनाप्रत्यक्षतापतेरित्यलं बहुशकोत्थापनेनेति । एवमभावाभावस्तु प्रतियोगिखरूपः । अति- रिक्त इति केचित् । तादात्म्यसंवन्धावच्छिन्नप्रतियोगिताकोऽन्योन्या- भावः । यथा घटः पटो नेति ॥ अन्योन्याभावं लक्षयति-तादात्म्येति । उदाहरति-यथेति । ननु घटः पटो न भवतीत्यत्र कस्य भेदः क विवक्षित इति चेत् उच्यते--यत्पदोत्तरं नञ् श्रूयते तद्धर्मावच्छिन्नप्रतियोगिकभेद एव नत्रा विवक्षित इति नियमेन पटप्रतियोगिकभेदस्यैव घटे बोधनात् । नन्वेताहशनियमखीकारे घटानधिकरणं भूतलमित्यादावपि घटभेद- प्रत्ययापत्तिरितिचेन्न । नियमस्य समासातिरिक्तविषयकत्वेन संको- चात् । नच तथापि ‘रात्रौ प्रकाशफश्चन्द्रो न वहिर्न च भास्करः' इत्यत्र चन्द्रपदोचरं श्रूयमाणस नञश्चन्द्रभेदबोधकतापत्तिरिति बाच्यं, तात्पर्यविषयीभूतधर्मावच्छिन्नप्रतियोगिताकस्यैव बोधनात् । सर्वेपी पदार्थानां यथायथमुक्तेप्यन्तर्भावात्सप्रैव पदार्था इति सिद्धम् । १ यपदोत्तरमिति यद्धर्मावच्छिन्नवाचकपदोत्तरमित्यर्थः ८ ८६ तर्कसंग्रहः " - ननु प्रमाण-प्रमेय-संशय-प्रयोजन-दृष्टान्त-सिद्धान्ता-ऽवयव- -तर्क-निर्णय-बाद-जल्प-वितण्डा-हेत्वामास-च्छल-जाति--नि- ग्रहस्थानानां तत्वज्ञानानिःश्रेयसाधिगमः' इति न्यायस्यादिसूने पो- डशपदार्थानां प्रतिपादनात् सप्तैव पदार्थ इति कथनमसङ्गतमित्यत आह-सर्वेपामिति । अन्तर्भावप्रकारश्चेत्यम्-प्रमाणस्येन्द्रियस्य द्रव्ये व्याप्तिज्ञानादेर्गुणे आत्म-शरीरे-न्द्रिया-ऽर्थ-बुद्धि-मनः-प्रवृत्ति-दोप- प्रेत्यभाव-फल-दुःखा-ऽपवर्गाः प्रमेयं, तत्रात्मशरीरेन्द्रियाणां द्रव्ये, अर्थस्य गन्धरसरूपस्पर्शशब्दस्वरूपस्य गुणे, बुद्धेर्गुणे, मनसो द्रव्ये, प्रवृत्तेर्गुणे, रागद्वेपमोहात्मकस्य दोपस्य गुणे, प्रेत्य मृत्वा भावो जननमिति व्युत्पत्त्या मरणोत्तरजन्मखरूपस्य प्रेत्यभावस्य गुणे, सुख- दुःखसंवेदनरूपस्य फलस्य गुणे, पीडालक्षणस्य दुःखस्य गुणेन्तर्भावः । अपवर्गस्तु मोक्षः एवैकविंशतिभेदमिन्नस्य दुःखस्यात्यन्तिकी नि- वृत्तिः । एकविंशतिदुःखानि च शरीरं, पडिन्द्रियाणि, पड्पियाः, पड्बुद्धयः, सुख, दुःखं च । नच शरीरादौ दुःखत्वजात्यभावात् कथं तदुःखशब्देनोच्यते इति वाच्यम् । तेषां सर्वेषामेव दुःख- संवन्धितया दुःखत्वस्य तत्राप्यारोपादौपचारिकस्तत्र दुःखशब्द- प्रयोगः । नच मनसो नित्यत्वेन कथं तन्नाश इति वाच्यम् । यद्रूप- विशिष्टस्य मनसो दुःखहेतुत्वं तद्विशिष्टस्यैव नाशात् । शिखी ध्वस्तः इत्यत्र यथा शिखाविशिष्टेऽविनश्यदवस्थेऽपि शिखायां नष्टायां तथा व्यवहारः तद्वदत्रापि इति बोध्यम् । दुःखनिवृत्तावात्यन्तिकत्वं च वसमानाधिकरणदुःखासमानकालीनत्वम् । मोक्षप्रकारश्वेत्थं- तत्वज्ञानेन मिथ्याज्ञानजन्यवासनानाशः। वासनानाशेन वासनाविशि- प्टरागादेरभावः । तदभावेन प्रवृत्तेधर्माधर्मरूपाया अभावः । ततः जन्माभावः । ततश्च दुःखाभावः । ततश्च स्वसमानाधिकरणदुःखा- समानकालीनकविंशतिदुःखध्वंसात्मको मोक्षो भवति । तदुक्तं- . , २ पदार्थानां साधयंवैधयं निरूप्येते-अभिधेयत्वं प्रमेयत्वं तर्कविलासिनीटीसहितः। 'दुःखजन्मप्रवृत्तिदोपमिथ्याज्ञानानामुनरोचरापाये तदनन्तराभावाद- पवर्गः' इति । तथाचैतादृशस्यापवर्गस्वाभाषेन्तीयः । संशयस्य गुणे, साध्यतयेच्छाविषयरूपप्रयोजनस्य द्रव्यादिषु महा- नसादिरूपदृष्टान्तस्य द्रव्यादौ, उभयमतसिद्धसिद्धान्तस्स द्रव्यादिपु, अवयवस्य गुणे, निर्णयस्य गुणे, तर्कस्स गुणे, तत्त्ववुभुत्सोः कथारूपया- दस्य गुणे, विजिगीपुकथारूपजल्पस्य गुणे, वपक्षस्थापनाहीनकथारूप- वितण्डाया गुणे, हैत्वाभासानां यथायथं द्रव्यादिपु, अभिप्रायान्त- रेण प्रयुक्तस्य शब्दस्यार्थान्तरं परिकल्प्य दूषणाभिधानरूपस्य छलस्य गुणे, असदुत्तररूपजोतेर्गुणे, पराजयहेतुखरूपनिग्रहस्थानानां यथा- ययं द्रव्यादिषु, तत्र विशिष्य प्रतिज्ञातस्य पक्षादेः परित्यागरूपप्रति- शाहानेरभावे, परोक्तदोपोद्दिधीर्षया पूर्वानुक्तविशेषणविशिष्टतया प्रतिज्ञातार्थकथनरूपस्य प्रतिज्ञान्तरस्य गुणे, खोक्तसाध्यादिविरुद्ध- हेत्वादिकथनरूपप्रतिज्ञाविरोधस्य गुणे, स्त्रोक्तसाध्यादौ परेण दूपिते तत्साध्यापलापरूपस्य प्रतिज्ञासंन्यासस्यामाये, परोक्तदूपणोदिधीर्पया पूर्वोक्तहेतुतावच्छेदकातिरिक्तहेतुतावच्छेदफविशिष्ट हेतुकथनरूपहेत्व- न्तरस्य गुणे, प्रकृतानाकाहिताभिधानरूपान्तरस्य गुणे, अवाचक- पदप्रयोगरूपनिरर्थकस्स गुणे, अविज्ञातार्थस्य गुणे, अपार्धकस्य गुणे, अप्राप्तकालस्य गुणे, न्यूनस्य गुणे, अधिकस्य गुणे, पुनरमि- धानरूपस्य पुनरुक्तस्य गुणे, अननुभाषणस्याभावे, अविज्ञानस्याभावे, अप्रतिभाया अभावे, विक्षेपस्यामावे, मतानुज्ञायाः गुणे, पर्यनुयो- ज्योपेक्षणस्याभावे, निरनुयोज्यानुयोगस्य गुणे, अपसिद्धान्तस्याभावे, हेत्वाभासानां द्रव्यादिप्वन्ताव इति । एते निग्रहस्थानीयाः ॥ इति सदैव पदार्था इति सिद्धम् ॥ १जातिः परख ससाम्यापादकमुत्तरम् ।
तर्कसग्रहः वाच्यत्व जेयत्व सप्ताना साधर्म्यम् । सन्नितिप्रतीतिविपयत्व भावत्व पण्णा साधर्म्यम् । अनेकत्वे सति भावत्य पञ्चाना साधर्म्यम् । समवा- यान्यत्वे सति समवेतवृत्तिपदार्थविभाजकोपाधिमत्व चतुर्णा साध- Hम् । सत्तावत्त्व त्रयाणा साधर्म्यम् । कर्मान्यत्वे सति सतावत्त्व द्वयो साधर्म्यम् । गुणवत्त्व कर्मवत्त्व द्रव्यस्य साधर्म्यम् । महत्परि. माणवत्त्वम् अष्टाना साधर्म्यम् । ज्ञानानधिकरणत्वे सति मनोऽ. न्यत्व सप्ताना साधर्म्यम् । मनोदिगन्यत्वे सति ज्ञानानधिकरणत्व पण्णा साधर्म्यम् । परत्वादिसमानाधिकरणद्रव्यत्वजातिमत्त्व, मूर्तत्व, क्रियायत्त्व, पञ्चाना क्षित्यप्तेज पवनमनसा साधर्म्यम् । कालाकाश- दिगात्मना सर्वगतत्व साधर्म्यम् । क्षित्यादीना पञ्चाना भूतत्य साध- र्म्यम् । स्पर्शवत्त्व द्रव्यारम्भकत्य च चतुर्णा साधर्म्यम् । रूपवत्त्व त्रयाणा साधर्म्यम् । पृथिवीजरयो गुरुत्व साधर्म्यम् । गन्धवत्व पृथिव्या साधर्म्यम् । रूपादिचतुष्टय-सासिद्धिकद्रवत्व-सहादिदश- भावनाना विशेषगुणत्वम् । सख्याद्यष्ट नैमित्तिकद्वत्व वेगाना सामान्यगुणत्वम् । सख्यादिपञ्चाना मूर्तामूलॊभयवृत्तिगुणत्वम् । एकत्वभिन्नसख्यै कपृथक्त्वभिन्नपृथक्त्व सयोग विभागानामनेकवृत्ति- गुणत्वम् । तदन्येपा गुणानामेकैकवृत्तिगुणत्वम् । रूपादिचतुष्टय- शब्दाना बाबैकैकेन्द्रियग्राह्यगुणत्वम् , सख्याधष्ट द्रवत्व सेह वेगाना द्वीन्द्रियग्राह्यगुणत्वम् । बुद्ध्यादिषदानामन्तरिन्द्रियग्राह्यगुणत्वम् । गुरुत्वधर्माधर्मभावनानामतीन्द्रियगुणत्वम् । अपाकप्रभवरूपादिचतु- टय मध्यमपरिमाणे कपृथक्त्व-गुरुत्व-सासिद्धिकद्रवत्व-स्नेह-वेग- स्थितिस्थापकाना कारणगुणपूर्वकत्वम् , जन्यद्रव्यवृत्तिविशेषगुणाना मकारणगुणपूर्वकत्वम् । सयोग विभाग वेगाना कर्मासमवायिकार- णकत्वं कारणगुणसमचायिकारणत्व च । सयोग विभाग शब्दाद्यष्ट भावानामव्याप्यवृत्तिगुणत्वम् । बुद्धीच्छाद्वेषप्रयतभावनाना सविषय- त्वम् । गन्ध सयोगादिचतुष्टय शब्द-सुख दु ख द्वेष धर्मा-ऽधर्म स तर्कविलासिनीटीकासहितः। स्काराणामनित्यगुणत्वम् । तदितरगुणानां नित्यगुणत्वं साधये ज्ञेयम् ॥ एवं ज्ञेयत्वादिकं विहाय यस्य यत्साधर्म्यमुक्तं तदितरेपां वैधर्म्यम् । यथा द्रव्यादित्रिकाणां साधर्म्यमुक्तं तत्सामान्यादीनां चैधर्म्यमेवं गुणवत्त्वं द्रव्यस्य साधर्म्यमुक्तं तत्तु गुणादीनां वैधर्म्य ज्ञेयमेवमन्यत्रापि स्वयमूह्यम् ॥ इति दिक् । काणादन्यायमतयोर्वालव्युत्पत्तिसिद्धये । अन्नंभट्टेन विदुपा रचितस्तर्कसंग्रहः ।। इति श्रीमदसंभट्टविरचितस्तर्कसंग्रहः समाप्तः ॥ ननु कतमद्दर्शनमयमनुसरति ? न तावत्काणाद, प्रमाणचतुष्टयम- तिपादनात् । नापि गौतमीयं, सप्तपदार्थप्रतिपादनादित्याशङ्कायामाह- काणादेत्यादि । तथाच दर्शनद्वयव्युत्पित्सुभिरध्येतव्योऽयं प्रन्थ इति भावः ॥ ननु सप्तपदार्थज्ञानात् किं भवतीति चेत् मोक्षपदार्थः तस्य वाक्यार्थज्ञानाधीनत्वात्, वाक्यार्थज्ञानस्य च पदार्थज्ञानाधीनत्वात् । अतः पदार्थज्ञानस्य मोक्षोपयोगित्वं परंपरया सिद्धयति । स च मोक्षः स्वर्गादिरूप इति मीमांसकाः । नित्यसुखाभिव्य- तिरिति तदेकदेशिनः । अहंकारनिवृत्तौ औदासीन्यमिति कपिला- नुयायिनः । तत्वज्ञानेन मिथ्यादिवासनादिनिवृत्तौ चैतन्य-रूपस्य जीवस्य ब्रह्मणैक्यमिति शाङ्कराः । सारूप्य-सामीप्य-सार्टि-एकत्व- मिति चतुर्विधो मोक्षः इति पौराणिकाः । अविदितसुखदुःखं निर्गुणं वस्तु किंचि. जडमतिरिह कश्चिन्मोक्ष इत्याचचक्षे । १ प्रमाणचतुष्टयेति गौतमीयलावगमकम् । २ सप्तपदार्थति काणादसायवोधरम् ।
- तर्कसंग्रहः मम तु मतमनहस्सेरतारुण्यघूर्ण- न्मदकलमदिराक्षीनीविमोक्षो हि मोक्षः ।। इति खतन्त्रालंकारिकाः॥ तथाचैतच्छास्त्रस्य मोक्षोपयोगित्वात् मुमुक्षुभिरेतदवश्यमध्येत- व्यम् । यद्यप्यस्मदादीनां कुतर्ककर्कशबुद्धिसार्वभौमादिमायावादिनि- वारकसकलकरुणावतारवैष्णववृन्दवन्दितचरणकमलदीनोद्धारकश्रीन- न्दनन्दनाभेदमूर्तिकथीमदल्लभाचार्याश्रितानां वैष्णवप्रवराणां श्रीन- न्दनन्दनशरणगतानां तदध्ययनं नोचितं, यतः- सारूप्य-सार्टि-सामीप्य-सारूप्यैकत्वमप्युत । दीयमानं न गृहन्ति विना मत्सेवनं जनाः । इति भगवदुक्तपरमभागवतसद्धर्मपुष्टिमार्गानुयायिनः 'न कामये नाथ तदप्यहं कचि. न्न यत्र युप्मच्चरणाम्बुजासवम् । इति पुनः पुनः कामयमाना पयं तादृशमोक्षादिकमपि तुच्छीकृत्य गणयामस्तदुक्तं-- तुलयामि लवेनापि न वगै नापुनर्भवम् । भगवत्सगिसङ्गस्य मानां किमुताशिषः ॥ इति तथापि श्रीमद्गोखामिश्रीमल्लमाचार्यभक्तिप्रतिपादकेपु परं रम- णीयतरगम्भीरार्थकमहावाक्येपु बोधोपयोगित्वात् अस्मदादिभिरपि तन्मार्गस्थैरवश्यमेवैतच्छास्त्रमध्येतव्यमतो व्याख्यातमिति दिक् । श्रीकृष्णचन्द्रचरणाम्बुजसेवकेन गोवर्द्धनस्य हि कृपाम्बुधिभाजनेन । श्रीमन्महीध्रधरपादसुभक्तिकेन टीका समाप्तिमगमत् सुधिया कृतेयम् ॥ १॥ .
तर्कविलासिनीटीकासहितः। भोग्यब्धिनन्दविपुलाप्रमिते सुरम्ये संवत्सरेऽग्निसुतिथौ बुधवासरे च । सिन्धोखटे परमरम्यतमे प्रणीता मुरलीधरेण विदुपार्यविनोदनाय ॥२॥ इनि हैद्राबादपुटभेदनिवासि-पुष्कर्णाशात्यवतंस-श्रीमद्वल्लभाचार्यमतानुयायि- श्रीमद्विद्वद्वरसन्दवन्धपादश्रीगोखामिश्रीगोविन्दलालवरणशिष्य- मापारेत्यपटड़ित-मुरलीधरकृतिवरकृता तर्कविला- सिनी टीका समाप्तिममजत् ।।