Bhartiya Jnanpith Delhi

Sri Astak Prakaranam

Suri Sri Vijayodhaya · 2006/04/13

PDF Proofread

Front matter

No text on this page.

औं अहं नमः ।
दिनमणि-संविशिरशेखरनीजिनेवरसूरि पुरन्दरमा
सुप्रथितनामधेयभीमदमयदेवरिप्रतिस
इसंस्कृतप्राकृतमयपथात्मानेकलक्षलोकमितषि
प्रासादसत्रणवत्रधारपूर्वघरासमकालवर्ति-सुविहितावणी
श्रीमरिभद्रसरिसर
॥ श्रीअष्टकप्रकरणम् ॥
बासनसम्राट्-सीर्याशारक-सूरिचकचक्रवर्ति-सर्वतमस्वतं-जगद्गुल-सपागण्याविषयी
श्रीमद्विजयनेमिस्पीश्वरपधल्यायविशारद-सिखाववाचस्पतिविजयोदय
'तछेद-श्रीराजनगरस्थया श्रीजेनप्रन्यप्रकाशाकसमित्या मुरपिता
चीनुमाइनाना लालभाईल स्वकीये 'न्यु सीटी'
स्याका
ti

॥ अष्टकप्रकरणानुक्रमः॥ पत्र " " a A in my ७८ . १ महादेवाष्टकम् ॥ २ स्नानाष्टकम् ॥ ३ पूजाटकम् ४ अग्निकारिकाप्रकम ॥ ५ भिक्षाष्टकम् ॥ ६ सर्वसम्पत्करीभिक्षाटकम् ॥ ७ प्रच्छन्नभोजनाष्टकम् ॥ ८ प्रत्याख्यानाष्टकम् ॥ ९ शानाष्टकम ॥ १० वैराग्याएकम् ॥ ११ तपोऽष्टकम् ॥ १२ वादाष्टकम् ॥ १३ धर्मवादाष्टकम् ॥ १४ एकान्तनित्यपक्षग्वण्डनाष्टकम् ॥ १५ एकान्तानिन्यपक्षखण्डनाष्टकम् ॥ १६ नित्यानित्य (स्याद्वाद) पश्चमण्टनाएका ॥ १७ मांसभक्षणदूपणाटकम् ॥ पत्रं ६३ १८ मांसभक्षकमतदूपणाटकम् ॥ ६६ १०. मद्यपानदृपणाष्टकम् ॥ २० मैथुनदृपणाष्टकम् ॥ २१ धर्मविचारे सूक्ष्मवुद्धयाश्रयणाष्टकम ॥ २२ भावशुद्धिविचाराष्टकम् ॥ २३ शासनमालिन्यनिषेधाष्टकम् ॥ २४ पुण्यानुबन्धिपुण्याष्टकम् ॥ २५ पुण्यानुबन्धिपुण्यप्रधानफलाष्टकम् ॥ २६ तीर्थकृद्दानमहत्त्वसिद्धयष्टकम् ॥ २७ तीर्थकृद्दाननिष्फलतापरिहाराष्टकम् ॥ २८ राज्यादिदानेऽपि तीर्थकृतो दोषाभावप्रतिपादनाष्टकम् ९२ २० सामायिकस्वरूपनिरूपणाष्टकम् ॥ ३० केवलज्ञानाप्टकम् ।। ३१ तीर्थकृद्देशनाष्टकम ॥ २०. " ३९ ४२ ५२ " .

सकळसूरिपुरन्दर-भव्यसत्त्वानुमहाप्रपयात्मकानेकलक्षश्लोकप्रमाणविरहाचतुश्चत्वारिंशदुसर- चतुर्दशशवशास्त्रापासादसूत्रणसूत्रधारश्रीहरिभद्रसूरिणिनिर्मितं- श्रीनवाङ्गीवृत्त्यायमेकग्रन्थकारकचन्द्रकुलाम्बरभास्करश्रीअभयदेवरिप्रतिसंस्कृत- सूरिशेखरश्रीजिनेश्वरमरिसन्धजिवत्यवं- ॥श्री अष्ट्रकप्रकरणम् ॥ आविष्कृताशेषपदार्थसार्था, दोषानुषक्तं तिमिरं विधूय ॥ गावः प्रथन्तर्खलितप्रैचारा, यस्येह तंवीररविं प्रणम्य ॥१॥ गुणेषु रागारिभद्रसूरे-स्तदुक्तमावर्तयितुं महार्थम् ॥ विबुद्धिरप्यष्टकवृत्तिमुखै-र्विधातुमिच्छामि गतत्रपोऽहम् ॥२॥ सूर्यप्रकाश्यं व नुमण्डलं दिवः,खद्योतकाकास्य विभासनोचमीकधीशगम्यं हरिभद्रसदेचा,काधीरहं तस्य विभास(ब) नोवतः तथापि यावद्गुरुपादभके-विनिश्चितं तावदहं ब्रवीमि ॥ यदस्ति मत्तोऽपि जनोऽतिमन्दो, भवेदतस्तस्य महोपकारः॥४॥ इह हि सुग्रहीतनामधेयो हरिभद्राचार्यो मिथ्यादशो विभवमानानासत्कर्वव्यतपा खयं नमानसदुपदेशदानेन जा

महादेवा
ष्टकम्॥१॥
प्रक००
२ श्लो
परानपि नाशयतो विलोक्य, तदुभयमप्युपकर्तुं द्वात्रिंशदधिकारशासनरूपं शास्त्रं चिकीर्षुस्तस्य च श्रेयोभूततया विन-
सम्भवे तििनवर्तनाय असाधारणगुणगणमणिनिकरमकराकरायमाणपुरुषविशेषविषयनमस्कारकरणरूपं भावमल-
मुपकल्पयस्तथा 'सकलपरलोकप्रयोजनेषु प्रवचनादेव प्रायः प्रवृत्तिः परिदृश्यते तच्च पुरुषविशेषेण(प)प्रणीतमेव प्रमाणं
पुरुषविशेषविषये च विप्रतिपद्यन्ते कुप्रवचनानुगामिनो जना' इति तविप्रतिपत्तिव्यपोहनाय तत्खरूपमुपदर्शयन्महा-
देवाष्टकं तावदादावाह ॥ महादेवस्य च तात्त्विकं महत्त्वमखिलजनासुलभस्वभावेभ्योऽतिशयेभ्यस्ते चापायापगमज्ञान-
वचनसुखप्रभृतयस्तत्र चापायापगमातिशयपूर्वकस्वाच्छेषाणां तमेव तावत्तस्य श्लोकहयेनाह ॥
यस्य संक्लेशजननो, रागो नास्त्येव सर्वथा ॥ न च द्वेषोऽपि सत्त्वेषु, शमेन्धनदवानलः ॥१॥
न च मोहोऽपि सज्ज्ञान-च्छादनोऽशुद्धवृत्तकृत ॥ त्रिलोकख्यातमहिमा, महादेवः स उच्यते ॥२॥
(वृत्तिः) 'यस्य देवताविशेषस्य, 'रागो नास्त्येव महादेवः स उच्यत' इति सम्बन्धः। तत्र यस्य कस्याप्यनिर्धारिता-
भिधानस्य पारगतसुगतहरिहरहिरण्यगर्भादेर्देवस्येति सामान्यनिर्देशः। एतेन चमाध्यस्थ्यमात्मनो दर्शितम् ॥आह च॥
"पक्षपातो न मे वीरे, न द्वेषः कपिलादिषु॥युक्तिमवचनं यस्य, तस्य कार्यः परिग्रहः॥१॥" माध्यस्थ्यदर्शनेन चात्मी-
यवचसि श्रोतॄणामुपादेयताबुद्धिरुपाहिता, यस्मादनाग्रहादेव वक्तुः सकाशात्तत्वाधिगमो भवति । यदाह । “आग्रही
बत निनीषति युक्ति, तत्र यत्रमतिरस्य(स्ति)निविष्टा।पक्षपातरहितस्य तु युक्ति-यंत्र तत्र मतिरेति निवेशम् ॥१॥” रागस्या-
व्यभिचरितस्वरूपप्रतिपादनायाह-समिति' सामस्त्येन क्लेशनं विषाधनम्, “लिश विषाधन" इति वचनात्, संक्लेशः
॥१॥

Nm
आत्मनः स्वाभाविकस्वास्थ्यबाधनम् , तं जनयति उत्पादयतीति 'संक्लेशजननः' । अथ व्यभिचार एव विशेषण-
मर्थवद्भवति, न चासंक्लेशजननोऽपि रागोऽस्ति येनासौ व्यवच्छिद्यते, न चाधिकृतमहादेवस्य प्रकारान्तरेणापि
रागो विवक्ष्यत इति विशेषणममर्थकम् । नैवम् । अविदितखभावस्य भावस्य खभावाविर्भावनाय विशेषण-
स्याभिमतत्वाद्यथा परमाणुरप्रदेश” इति । कोऽसावित्याह । जीवखरूपोपरञ्जना रागो'ऽभिष्वलक्षणः ।
'नास्त्येव न विद्यत एव, इदं चावधारणं रागांशस्याप्यभावप्रतिपादनार्थम् । स चोपशान्तमोहावस्थायामुद्यापेक्षया
कदाचिद्रागमेदापेक्षया वा स्यात् । अतः सत्ताद्यपेक्षयापि(प्ये)तद्व्यवच्छेदार्थमाह । 'सर्वथा' सर्वैः प्रकारैर्बन्धोदयसत्ता-
लक्षणैर्विषयरागस्नेहरागदृष्टिरागरूपैर्द्रव्यक्षेत्रकालभावाभिष्वङ्गखभावैर्वेति ॥तथा, 'नच नैव 'देषोऽपि' अप्रीतिलक्षणो,
न केवलं रागो नास्त्येव द्वेषोपि नास्त्येव सर्वथेत्यपिशब्दार्थः । केष्वित्याह 'सत्वेषु' प्राणिषु, सत्त्वग्रहणं च प्रायः
संव्यवहाराहप्राणिनां प्राणिविषयस्यैव क्रोधमानात्मकद्वेषस्य दर्शनादप्राणिषु पुनरसौ महामोहविजृम्भितमेव ॥ उक्तं
च॥" किं एत्तो कट्ठयरं, मूढो जं थाणुगंमि अफिडिओ। थाणुस्स तस्स रूसइ, न अप्पणो दुप्पउत्तस्स'॥१॥” अत
एव रागस्य विषयविशेषानभिधानेनोपादानं कृतम् । तस्य संव्यवहाराहप्राणिनामपि जीवाजीवविषयतयोपलम्भात् ।
जीवाजीवविषयत्वादेव महाविषयतया प्राधान्याद्रागस्यादाघुपादानम् ॥ नन्वप्रीतिमात्रलक्षणस्य द्वेषस्यानिष्टस्पादि-
विषयेष्वप्राणिष्वपि दर्शनाद्देवताविशेषस्य च सर्वविषयस्य द्वेषाभावस्य विवक्षितत्वान्न युक्तं सत्त्वग्रहणमिति । नैवम्,
अनेन हि प्रतिपन्थ्यप्रतिपन्थिरूपप्राणिविषयद्वेषाभावप्रतिपादनेन निखिलजनविदितसपत्ननिपातनादिफलषवतीनां
१ किमेतस्मात्कष्टतरं मूढो यत्स्थाणावास्फालितः । स्थाणवे तस्मै रुष्यति नात्मने दुष्पयुक्ताय ॥१॥

अष्टक
महादेवा
ष्टकम्॥१॥
॥२॥
२ श्लो.
पराभिमतदेवतानां महत्त्वाभावस्य वक्तुमिष्टत्वात् यस्य च प्रतिपन्थ्यमतिपयिष्यपि (प्रापिष्वपि वेषो नास्ति तस्याप्राणिषु
सुतराममौन संभवतीति।कि स्वरूपो देष इत्याह। शम उपशमाक्षान्त्यादिभावः, स एव इन्धन दाएं दावादितस्य हुने
'दवानल' इव वानलो बन्याग्निः 'शमेन्धनदवानल' । इदमपि स्वरूपविशेषण नतु व्यवच्छेदकं सर्वस्यापि वेषस्यैव-
रूपत्वादिति॥तथा 'नच' नैव मोहोपि' मूढताऽपि,न केवलं रागो वेषश्च नास्ति सर्वथा, मोहोऽपि नास्त्येव सर्वथा यस्य
महादेव इति प्रकृतम्।मोहमेव(मोहंच)स्वरूपतो विशेषयन्नाह। 'सत्' शोभनं यथावत्पदार्थपरिच्छेद्रितया तब तज्ज्ञान
बोधः सज्ज्ञानम् , सतां पा सडूतानामर्थानां ज्ञानं सन्ज्ञानम् , तच्छादयितुमावरीतुं शीलं धर्मो वा यस्य स सज्ज्ञानच्छादनः
सज्ज्ञानच्छादकत्वादेव अशुद्ध कल्मषमलकलङ्काङ्कितम् वृत्त 'वर्तनं चेष्टितं, करोतिशरीरिणां विदधाति या सोऽशुद्धत्तकृत
किं भूतोऽसो महादेव इत्याह।प्रयो लोकाः समाहृताः त्रिलोकं त्रिभुवनं तत्र ख्यातः प्रसिद्धो महिमा महत्त्वं यस्य स 'त्रिलोक-
ख्यातमहिमा त्रिलोकख्यातमहिमता च भवत्येव निखिलनरनिकरनाकिनिकायनायकलोककदर्शनसमर्थरागादिरिपूनिकर-
निराकरणसमर्थस्य सकलपुरुषचक्रचूडामणेः पुरुषविशेषस्य। यदाह । “रागद्वेषमहामोहै, कर्थितजगजनैः। नाभिभूत मनो
यस्य महिमा तस्य कः समः॥१॥"दिवुक्रीडाविजिगीषाव्यवहारयुतिस्तुति(मोदमद)कान्तिस्वमगतिषु इति वचनाहिव्यते
स्तूयते इति देवः स्तवनीयः स च प्रेक्षावतामसाधारणगुणगणमाणिक्यमकरनिकेतनायमानत्वेन महानेव स्तवनीय इति महां-
भासौदेवमेति महादेवः', 'स' इति असावेव, ‘उच्यते'ऽभिधीयते महादेवस्वरूपवेदिभिर्न पुना रागादिरिपपराकृतपराक्रम
सति ॥अथ सर्वप्राणिनां रागादिमत्वोपलब्धेर्न सर्वथा तदभावः कस्यापि सम्भवतीति। नैवम। सर्वप्राणिनामनुपलब्धेः प्रति-
नियतप्राण्युपलब्धेश्च व्यभिचारित्वात् ,किश्च स्वात्मन्यपि क्वचिद्विषयविशेषे रागावभावदर्शनात्कस्यापि सार्वदिक देहिक)
॥२॥

सार्वत्रिका सर्वथा चरागाद्यभावो भवनविरुध्यते।आहचा“दृष्टोरागाचसावा, कचिदर्थे यथात्मना तथा सर्वत्र कस्थापि, तदावे नास्ति बाधकम् ॥१॥” तथा रागादयो भावाः सम्भाव्यमानसर्वथाक्षया देशतः क्षयोपलब्धः। ये पौगलिकमावा अल्पबहुषहुतरादिक्षयेण देशतः क्षयवन्तस्ते सर्वतः क्षयवन्तोऽपि दृष्टाः, यथा रविकरावारिका घनपतयः । देशतः क्षपवन्तश्च रागादयोऽतः सम्भाव्यमानसर्वथाक्षया इति ॥ आह च ॥ “देशतो नाशिनो भावा, दृष्टा निखिलनवराः॥ मेघपतयादयो यह-देवं रागादयो मताः॥१॥" अथ सम्भवत्यात्यन्तिकरागाद्यमावेत्तस्यचित्तवृत्तिरूपत्वेन दुर्विज्ञेयत्वा- स्कथं तदान पुरुषविशेषोऽवगन्तव्य इति।अत्रोच्यते, तस्य रू(स्वरू) पाचरिताच। तथाहि । यस्य रूपमकामिनीकमनायुधम- नक्षमालं, चरितं च शृशारादिरसापरिकरितमेकान्तशान्तरसानुरस्चितमजेयान्तरारिजयवन्नासमञ्जसं च स एवासाविति प्रतिपत्तव्यम्।यदाह। “रागोजनासङ्गमनानुमेयो, द्वेषो विषदारणहेति(तुगम्यः। मोहः कुकृत्तागमदोषसाध्यो, नो यस्य देवःसस चैवमर्हन् ॥१॥" तथा "शृङ्गारादिरसाहारै- दूनं देहिनां हितम् । एकान्तशान्ततोपेत (तात्येव)-माहत (मईता) वृत्तमद्भुतम् ॥१॥"देवतान्तराणांतु रागायभावानुचितरूपचरितत्वं सुप्रसिद्धमेव। तथाहि। "ब्रह्मा लूनशिरा हरिहशि सह- ग्व्यालप्सशिमोहरः, सूर्योऽप्युल्लिखितोऽनलोऽप्यखिलभुक्सोमः कलङ्काक्तिः॥स्व थोऽपि विसंस्थुलः खलु धपुसंस्थैरु- पस्थैः कृता, सन्मार्गस्खलनाद्भवन्ति विपदः प्रायःप्रभूणामपि ॥१॥” तथा। “यला चतुराननः समभवदेषो हरिामना, शको गुत्यसहस्रसङ्घलतनुर्यश्च क्षयी चन्द्रमाः ॥ यजिह्वादलनामवापुरहयो राहुः शिरोमात्रता, तृष्णे देवि विडम्बने- यमखिला लोकस्य युष्मत्कृता॥१॥” तथा ब्रह्मा लूनशिरा इत्येतत्कथम् १। अत्रोच्यते। किलैकदात्रयस्त्रिंशद्देवकोव्यो मि- लिताः । तत्र च ते परस्परं मातापितृवर्णनं कुर्वन्ति स्म । तत्र च तैरुक्तं अहो महेन्चरस्य न ज्ञायते मातापितराविति न अष्टक प्र०० महादेवा ष्टकम्॥१॥ ॥३॥ लो०२ तावस्य बभूवतुः । इदं च देववचनमुपश्रुत्य ब्रह्मणः पश्चममुखेन गर्दभमुखाकारेण समत्सरमभिहितम् । यदुत मय्यपि सर्वपदार्थज्ञातरि जीवति सति क एवं ब्रुवते यथा महेश्वरस्य पितरौ न ज्ञायते यतोऽहं जानामि।ततस्तस्य तौ वक्तुमारेमे। ततो महेश्वरेणाप्रकाश्यप्रकाशनारंभ(नात्)कुपितेन कनिष्ठिकानखशुक्तिकरवालव्यापारणेन निखिलसुरसमूहसमक्ष झटिति निकृत्तं तहमणो गर्दभशिर इति॥ एवं ब्रह्मा लूनशिराः॥ अन्ये स्वाहुः॥ किल ब्रह्मवासुदेवयोरात्ममहत्त्वविषयो विवादः समजनि। विवदन्तौ च तौ महादेवमुपस्थितौ । महादेवेन चाभिहितौ अलं भवतोर्विवादेन, य एव मदीयलिस्यान्तं लभते, स एव युवयोर्महांस्तदन्यस्थितर इति। ततो वासुदेवो लिङ्गस्यान्तोपलम्भार्थमघस्तागतवान् । स च प्रभूतं यावन्महा- वेगेन गत्वापि अप्रासतदन्तः पातालवाग्निना च गन्तुमशक्तस्तत्संतापादेव च कृष्णीभूतशरीरः प्रतिनिवृत्य महादेवा- न्तिकमाजगाम निवेदितवांश्च यथा नास्ति भवल्लिास्यान्त इति । ब्रह्मा तू (प्यु) परिष्टात्तथैव गतोऽभासतदन्तश्च निर्विण्णो लिामस्तकानिपतन्तीं मालामासादितवान् तां चासौ पप्रच्छ, कुतो भवतीति। तयोक्तम्, महेश्वरलिङ्गमस्तकात् । कियांच ते कालस्ततः समागच्छन्त्याः । तयोक्तम् । षण्मासाः। ततो ब्रह्मणोक्तम्, अहं लिङ्गान्तोपलम्भाय प्रस्थितः किं तु भवत्या यो मार्गः षड्भिर्मासैरतिक्रान्तस्तस्यातिबहुत्वानिर्विण्णोऽहं निवर्तिव्ये ततो महादेवपृष्टया त्वया साक्ष्य दातव्यम् । तयापि प्रतिपन्नम् । ततस्तां गृहीत्वा शम्भुसमीपमाजगाम समागत्य चोक्तवान् । लब्धो मया लिशान्तः एषा च सम्प्रत्ययार्थ ततो मालामयाऽऽनीता । ततः पृष्टाऽसौ । तयाप्युक्तम्, एव(सर्व)मेतत् । ततोऽनन्तमपि मल्लिई सान्तं व्यवस्थापयत एतावित्यसबूतभाषणकुपितेन शम्भुना कनिष्ठिकानखकुठारेण ब्रह्मणो गर्दभशिरो लून,माला स्वपश्यतया शपितेति ॥ हरिदृशि सरुगित्येतदेवं श्रूयते ॥ किल दुर्वासा महर्षिरुवंशी कामितवान् । तया चासायुक्तः । यद्यपूर्वेण यानेन त्वं स्वर्गे समागच्छसि ततोऽहं भवन्तमिच्छामि । तेन च प्रतिपन्नमेतत् । गतवांश्चासौ वासुदेवसमीपम् । कृता च तेन तस्य प्रतिपत्तिः । पृष्टश्च तेनागमनकारणम् । उक्तं च तेन स्वर्गेऽहं गन्तुमिच्छामि । ततो भवता सभार्येण गोल- पधारिणा रथारूढोऽहं स्वर्गे नेतन्यो, न च गच्छता पश्चाद्भागो निरूपणीयः। प्रतिपन्नं च तद्भक्तिभयाभ्यां वासुदेवेन । नेतुं च प्रवृत्तः। ततः स्त्रीत्वात्तथाविधगमनशक्तिविकलां लक्ष्मी प्राजनकदण्डेन मुनिः पुनःपुनः प्रणुनोद । तच्च स्नेहादसह- मानेन वासुदेवेन तदभिमुखं निभालितम् । तेन च प्रतिपन्नवैतथ्यकारित्वात्कुपितेन वासुदेवो लोचने प्राजनकदण्डेन प्रणोदितः । इत्येवं हरिलोचने सरोगः संवृत्त इति ॥ अन्ये त्वाहुः ॥ किलैकदा वासुदेवः सरित्तटे तपस्यति स्म । तत्र च तापसी काचित् स्नाति स्म । तेन च तस्या निरावरणाया अग्रेषु सकामा दृष्टिनिवेशिता । तयापि लक्षितोऽसौ। ततः शापेन सरोगलोचनः कृत इति ॥ व्यालुप्तशिश्नो हर इत्येतत्पुनरेवम् ॥ किल दारुवनाभिधाने तपोवने तापसाप- रिचसन्ति स्म । तदुटजेषु च भिक्षार्थ महेश्वरो गृहीतसमस्तस्वकीयालङ्कारो घण्टाटङ्कारतुम्बरुझङ्काररवमुखरितदिक् वालः समागच्छति स्म]। तापसीश्च स्वदर्शनजनितकामविकाराः परिभुन्ते स्म । ततोऽन्यदा ऋषिभिर्विज्ञातव्यतिकरैः को- पातिरेकाच्छापेन तल्लिास्य छेदः कृतः । तत्र निखिलजनानां तच्छेदोऽभवत्प्रजानुत्पत्तिश्च । ततो देवैरकाल एव संहारो मा भूदिति तापसाः प्रसादिताः। ते च लिङ्ग तथैव चक्रुरुक्तवन्तश्चेदम् । पूर्वकाले सदा स्तब्धमासीद् , इतस्तु भोगार्थित्व एव स्तब्धीभविष्यतीति। ततोजनाअपि लिङ्गवन्तोजाताः प्रजोत्पत्तिश्चेति ॥ सूर्योऽप्युल्लिखित इत्येतदेवम्॥किल सूर्यस्य रत्नादेवी नाम भार्याऽऽसीत् । तस्याश्च यमाभिधानः पुत्रोऽभूत् । सा च आदित्यतापमसहमाना स्वकीयस्थाने स्वप्रति- छायां व्यवस्थाप्य समुद्रतटे गत्वा वडवारूपेण तिष्ठति स्म । प्रतिच्छाया च शनैश्चरभद्राभिधाने अपत्ये जनितवती । कुचक्र- अष्टक प्रक०० महादेवा ष्टकम्॥१॥ ॥४॥ श्लो. २ अन्यदा यमेन बहिस्तादागतेन भोजनं याचिता प्रतिच्छाया, सा तु तन दत्तवती । ततः कोपात्तेन पाणिप्रहारेण प्रहता । तया च तत्पादः शापेन क्षयीकृतः । तेन च पितुस्तनिवेदितम् । सोऽप्यचिन्तयत् , कथं स्वमातैवं करोति । ततो नूनं नेयमस्य मातेत्यालोचयता दृष्टा तन्माता वडवारूपा । ततः सूर्यस्तत्र गत्वा तामनिच्छन्तीमपि बलादेव बुभुजे । तत्र चाश्विनदेवौ जातौ । तया च रोषारुणनयनावलोकनेनासौ कुष्ठीकृतः। ततश्च सूर्यो नीरुजार्थ धन्वन्तरिमुपतस्थौ । स चोवाच । न शरीरोल्लेखनं विना तव प्रगुणतास्ति । ततः सूर्येण तनू(दु)ल्लेखनाथ देववर्धकिरभ्यर्थितः । स तूषाच। सहिष्णुना भवितव्यम् , नो चेत्त्यक्ष्यामि त्वाम् । तेनोक्तम् । एवमस्तु । ततो मस्तकादारभ्य जानुनी यावदुल्लेखने कृते गाढं पीडितेन सूर्येण सीत्कारः कृतः । तत उल्लेखनादसौ विररामेति । एवमनिच्छद्योषिदोगलक्षणात् सत्पुरुषमार्ग- स्खलनादसौ विपदं प्राप्तवानिति ॥ अन्ये पुनरित्थमाहुः ॥ वडवारूपां स्वभार्यामुपभुज्य सूर्यस्तपितुरुपालम्भं दत्तवान् । यथेयं स्वहुहिता मां विहायाऽन्यत्र तिष्ठति । स सूवाच । स्वच्छरीरतापमसहमाना किं करोत्वियं वराकी। ततो यद्यनया ते प्रयोजनं ततः शरीरमुल्लेखय । ततः सूर्यो देववर्धकिमुपतस्थौ शेषं तथैव ॥ अनलोऽप्यखिलभुगेव- मुच्यते ॥ किल कश्चिदृषिः स्वकीयोटजावस्थितं वैश्वानरं भक्तिभरणाहुतिभिः पूजयति स्म । स चान्यदा मदीयभार्या भवता रक्षणीयेत्यभिधाय प्रयोजनेन बहिर्गतः। ततः केनचिदृषिणागत्य वैश्वानरसमक्षमेव सोपभुक्ता । क्षणान्तरे समा- गतोऽसौ । तेन चेजिताकारनिपुणतया परपुरुषसेवितेति लक्षितासौ । पृष्टश्च तेन वैश्वानरः सा च, यथेह का समागत आसीत् । ततस्तौ न किंचिदूचतुः। ज्ञानोपयोगेन च ज्ञातोऽसावुपपतिस्तेन । ततो रक्षणीयस्यारक्षणात्यच्छतवानिवे- दनात् कुपितोऽसौ वैश्वानरं प्रति, सर्वभक्षको भवेत्ये(वत्वे)वं शापं (च) दत्तवान् । ततश्चाशुच्यादरप्यसौ माणस्वभावो जातो यच्च किल वैश्वानरो भुङ्क्ते तत्सर्वं देवानामुपतिष्ठति, मुखं यसौ देवानाम् । ततश्च देवैरशुच्यादिरसास्वादनादु- विग्नानेनोपलब्धशापव्यतिकरैरागत्य स मुनिः प्रसादयितुमारेमे । न चासौ प्रससाद तथापि देवानुवृत्त्या वैश्वानरस्य सप्त जिवाः कृताः ततोऽसौ सतार्चिरुच्यते । तत्र द्वाभ्यामाहुतीरेवासौ भुङ्क्ते, ताश्च देवानाममृतत्वेनोपतिष्ठन्ति । पञ्चभिस्तु सर्वभक्षक एव स्थापित इति ॥ सोमः कलङ्काङ्कित इत्येतत्पुनरेवम् ॥ किल चन्द्रो बृहस्पतिसमीपेऽध्येतुं गतो देवाचार्यत्वात्तस्य। तेन च तद्गृहेऽधीयमा(या)नेन तद्भार्योपभुक्ता। ज्ञातं च बृहस्पतिना। शपितश्चासौतेन, यथारे गुरुतल्पग कलङ्किनाकालं भवितव्यमिति ॥ स्वर्नाथो भगसहस्रसङ्गुलतनुः पुनरेवं संवृत्तः ॥ किल गौतममुनेरहल्या नाम भार्या बभूव । तद्रूपाक्षिसचेताः सुरपतिस्तदुटजे प्रविश्य तां रेमे । बहिश्च समागतो मुनिः । सोऽपि तद्यान्मार्जाररूपं कृत्वा तद्गृहानिर्गत्य स्वर्ग गतवान् । मुनिस्तु नायं प्राकृतो बिडालः ततः कोऽयमिति पर्यालोचयन्निन्द्रं ज्ञातवान् । ततः कोपादसाविन्द्रदेहे भगसहस्र शापेन विहितवान् स्वछात्रांश्च तदुपभोगाय प्रेषितवान् । मुनिस्तु नाययौ । देवस्त्वसावृषिः प्रसादितस्तेन च भगा लोचनीकृता इति॥ ब्रह्मा चतुर्मुख एवं जातः॥ किल ब्रह्मा महोद्याने तपस्यति। तत्क्षोभणार्थं च रूपस्य तिलं तिलमादाय कृता तिलोत्तमा । अतस्तां प्रेषयामास, अन्याश्च । ताश्च तस्य समाधिध्वंस- नाय पूर्वाभिमुखस्थितस्याग्रे गीतलागुपचारं चक्रुः । तत्राक्षिप्तलोचनमानसं वीक्ष्य दक्षिणतो गत्वा तथैव ताश्चाः । स च ध्वस्तसमाधिरपि लज्जामानाभ्यां तदभिमुखो भवितुमशक्नुवंस्ताः प्रति द्वितीयं मुखं कृतवान् । एवमपरस्यां दिशि गतासु तृतीयमुत्तरतो गतासु चतुर्थम् । उपरि च गतासु पञ्चमं गईभमुखम् । एवं पञ्चमुखः संजातः॥ शम्भुना च गर्दशिरसिच्छिन्ने चतुर्मुख इति ॥ हरिस्तु वामन एवम् ॥ किल बलेर्दानवस्य बन्धनार्थ विष्णुर्वामनो भूत्वा

महादेवा
ष्टकम्॥१॥
प्रक००
३-४ श्लो
मठिकानिमित्तं पदनयमात्रां भुवं तमेव याचितवान् । बलिना च प्रतिपन्ने तहाने पत्रयेण त्रिलोकमाक्रम्य स्थानवर्जितं
तं पाताले निहितवानिति ॥ क्षयी चन्द्रमाः कथम् ?अत्रोच्यते॥किल दक्षस्य सप्तविंशतिर्दुहितरस्ताश्च चन्द्रेण परिणीताः।
तासु च मध्ये रोहिण्यामासक्तोऽसौ । शेषाभिस्स्वपमानिताभिः पितुर्निवेदितम् । तेन शापात्क्षयीकृतोऽसौ । पुनर्देवैः
प्रसादितेन चानुग्रहादेकत्र पक्षे वृद्धिमान् इति ॥ नागाः पुनरेवं विजिवाः॥किल देवैः क्षीरसमुद्रमथनादमृतमुत्पादितम्।
तस्य च कुण्डानि भृतानि द|श्वाच्छादितानि । सास्तद्रक्षणे नियुक्ताः । तत एकान्तमाकलय्य तैस्तत्पातुमारब्धं दर्भेच
तजिह्वा विधा कृताः ॥ अन्ये त्वाहुः ॥ अमृतपानप्रवृत्तानां तेषामिन्द्रेण वज्रक्षेपात् जिह्वाभेदो विहित इति ॥राहोः
शिरोमात्रता पुनरेवम् ॥ देवैः किलामृतस्य कुण्डानि भृतानि विष्णुश्च तद्रक्षायां नियुक्तः । ततश्च कार्यान्तरव्याक्षिप्तस्य
तदाहुणा पातुमारब्धम् । विष्णुना च तं तथा वीक्ष्य चक्रक्षेपेण तच्छिरश्छेदः कृतः। पीतामृतत्वात्तच्छिरोऽजरामरं सं-
वृत्तमिति ॥ व्याख्यातं ब्रह्मा लूनशिरा इत्यादि वृत्तद्वयमिति ॥तथा॥ स एष भुवनत्रयप्रथितसंयमः शङ्करो, बिभर्ति
वपुषाऽधुना विरहकातरः कामिनीम्॥अनेन किल निर्जिता वयमिति प्रियायाः करं, करेण परिताडयञ् जयति जातहासः
स्मरः ॥१॥” तथा ॥"दिग्वासा यदि तत्किमस्य धनुषा सास्त्रस्य किं भस्मना, भस्माथास्य किमाना यदि च सा कामं परि-
देष्टि किम् ॥ इत्यन्योन्यविरुद्धचेष्टितमिदं पश्यन्निजस्वामिनो, भृङ्गी सान्द्रसिरावनद्धपरुषं धत्तेऽस्थिशेषं वपुः ॥१॥"
इति ॥१-२॥ एवमपायापगमातिशयद्वारेण महादेवत्वमुक्तम् ॥ अथ गुणातिशयप्रतिपादनतस्तदेवाह ॥
यो वीतरागः सर्वज्ञो, यः शाश्वतसुखेश्वरः । क्लिष्टकर्मकलातीतः, सर्वथा निष्कलस्तथा ॥३॥
यः पूज्यः सर्वदेवानां, यो ध्येयः सर्वयोगिनाम् । यः स्रष्टा सर्वनीतीनां, महादेवः स उच्यते ॥४॥
॥५॥

(वृत्तिः) 'यो वीतरागः स महादेव उच्यते' इति क्रिया सर्वत्र योज्या।तत्र 'य' इति अनिर्दिष्टनामा वि इति' विशेषेण इतो नष्टो रागः प्रेम यस्य स वीतराग', षिक्षय एव सति रागक्षयो भवतीति वीतद्वेष इत्यपि द्रष्टव्यम् ॥ तथा सर्व समस्तं द्रव्यप्रदेशपर्यायरूपं वस्तु जानाति विशेषग्रहणतः समस्तावरणक्षयाविर्भूतकेवलसंवेदनेनावषुध्यत इति 'सर्वज्ञः॥ सर्वज्ञत्वाव्यभिचरितत्वात् सर्वदर्शित्वस्येति सर्वदर्शीत्यपि दृश्यम् । ननु रागद्वेषमोहाभावःप्राक् प्रतिपादित एव, तत्प्रति- पादने च वीतरागत्वसर्वज्ञत्वे अवगते एव तत्स्वरूपत्वादेतयोरिति किमिह वीतराग[त्व]सर्वज्ञत्वोपादानेन? इति । अत्रोच्यते। यत एव रागायोन सन्त्यत एव वीतरागःसर्वज्ञश्चायं(श्च) इत्येवं हेतुफलभावेन "मलक्षयात्पीतवर्णप्रकर्षवत्कनकम्" इत्यादि- न्यायन गुणातिशयविवक्षणाददोषः एवंविधन्यायस्य वाक्येषु सद्भिस्तत्र तत्राश्रितस्य दर्शनाच इति॥अथवा कैश्चिद्वैराग्य(ग्य च) ज्ञानादयः प्राकृता इष्यन्ते, ते च कैवल्यावस्थायां प्रकृतेविंयुक्तत्वादिनिवर्तन्ते इति तन्मतव्यपोहार्थत्वाददोषः। तथा- हि ज्ञानवैराग्यादयश्चैतन्यस्वभावाश्चैतन्यं चात्मनो रूपं "चैतन्यं पुरुषस्य स्वरूपमिति वचनात्” इति कथं तन्निवृत्तिः ॥ अन्ये पुनराचार्याः यस्य संक्लेशजनन इत्यादिश्लोकद्वयमहच्छद्मस्थावस्थामाश्रित्य व्याख्यान्ति । यतः संक्लेशजननानि रागादिविशेषणानि तस्यामेवावस्थायां व्यवच्छेदफलानि भवन्ति । तथाहि । यस्य संक्लेशजनन एव रागो नास्ति श- मेन्धनद्वानल एव च द्वेषः सज्ज्ञानच्छादनाशुद्धवृत्तकारक एव च मोहो नास्ति न पुनः सत्तागततत्कर्मदलिकरूपोऽपि, स महादेव इति । यो वीतराग इत्यादि तु भवस्थकेवलिनमाश्रित्येति । ननु महत्त्वं छमस्थावस्थायामनुचितं ततो मह- त्तरावस्थान्तरस्य सद्भावात् । नैवम् । एवं हि सिद्धत्वलक्षणस्य महत्तमावस्थान्तरस्य सद्भावात् केवलिनोऽप्यमहत्त्वप्र- सङ्ग इति । अन्यथा वा कथंचिदपौनरुक्तयं भावनीयम् । इह च वीतरागग्रहणेन सरागादीनां महादेवत्वप्रतिषेध उक्तः।

अष्टक प्रक०० महादेवा ष्टकम्॥१॥ ३-४ श्लो %D तत्र च भावना प्रागुपदर्शिता । सर्वज्ञ इत्यनेन च कपिलस्य महादेवत्वमपाकृतम्, तस्य च तन्मतेनैव सर्वज्ञत्वासम्भवात्। तथाहि “बुद्धयध्यवसितमर्थ पुरुषश्चेतयते” इति तन्मतम् । बुद्धश्च प्रकृतिविकारतया कैवल्यावस्थायां प्रकृतिनिवृत्ती निवृत्तस्थात् पदार्थमात्रचेतनापि तस्य न स्यात् किं पुनः सर्वज्ञस्वम् । न चैष पक्षो ज्यायान् , चेतनात्मकपुरुषाभ्युपगमे हि चेतनाव्याघातकारिप्रकृतिवियोगे पुरुषस्य सर्वज्ञत्वेनैवाभ्युपगन्तुं युक्तत्वादिति ॥ तथा अनेनैव बुद्धस्यापि महादेवत्वं किञ्चिज्ज्ञस्वान्निवारितम् । यदाहुस्तच्छिष्यकाः ॥ “सर्वं पश्यतुवामावा, इष्टमर्थ तु पश्यतु ॥कीटसङ्ख्यापरिज्ञानं, तस्य नः कोपयुज्यते ॥१॥” इति । किञ्च किश्चिज्ज्ञत्वमपि तस्य न घटते एकस्याप्यर्थस्य सकलस्वपरपर्यायविशेषितस्यासर्व- ज्ञत्वेन ज्ञातुमशक्यत्वात् । यत आह ॥ "एको भावः सर्वथा येन दृष्टः, सर्वे भावाः सर्वथा तेन दृष्टाः ॥ सर्वे भावाः सर्वथा येन दृष्टा, एको भावः सर्वथा तेन दृष्टः ॥१॥” अथ सर्वज्ञो न संभवत्येव सत्तासाधकप्रमाणाग्राह्यत्वात्तस्य शश- विषाणवत् ॥ यदाह ॥ “सर्वज्ञोऽसाविति ह्येतत् , तत्कालैरपि बोभिः॥तज्ज्ञानज्ञेयविज्ञान-शून्यातुं न शक्यते ॥१॥" इति । नैवम् । सत्तासाधकप्रमाणाग्राह्यत्वस्यासिद्धत्वात् । तथाहि ॥ ये अपचयधर्माणस्ते अत्यन्तक्षयिणोऽपि संभवन्ति यथा सामग्रीविशेषाद्वस्त्र(द्धेम)रत्नमलादयः॥अपचयधर्मकाश्च ज्ञानावरणादयः, अतः सर्वथाक्षयिणोऽपि संभवन्ति इति। तेषां चात्यन्तापचये सर्वज्ञत्वादयो भवन्त्येव। नच ज्ञानावरणादीनामपचयधर्मत्वमसिद्धम्। स्वसन्तानेऽपि ज्ञानादेरुपचय- विशेषानुभूत्या तदावरणापचयविशेषस्य सिद्धेरिति।उक्तं च ॥"दोषावरणयोहानि-निःशेषास्त्यतिशायनात्॥वचिद्यथा स्वहेतुभ्यो, बहिरन्तर्मलक्षयः॥१॥ तथा य एते बन्धमोक्षपरलोकादयोऽतीन्द्रिया भावास्ते कस्यापि प्रत्यक्षा अनुमानगो- चरत्वात् यथा अग्न्यादय इति । उक्तं च ॥ " सूक्ष्मान्तरितदूरार्थाः, प्रत्यक्षाः कस्यचिद्यथा ॥ अनुमेयत्वतोऽग्न्यादि-रिति - सर्वज्ञसंस्थितिः ॥१॥” इति । एवं च तज्ज्ञानज्ञेयविज्ञानशन्यैरप्यनुमानेनावगम्यतेऽसौ, अचतुर्वेदिना चतुर्वेदीवेति॥ तथा 'यः शाश्वतसुखेश्वरः'। क्रिया पूर्ववत् । पुनर्यच्छन्दोपादानमवस्थाविशेषोपदर्शकम्।अयमभिप्रायः। वीतरागत्वं सर्वस्वंच रागादिक्षयादाविर्भूतं भवस्थकैवल्याचवस्थायां महत्वकारणम् , शाश्वतसुखेश्वरत्वादि तु वशेषणत्रयं भवातीतावस्थायां महत्त्वकारणमिति । तत्र शश्वन्नित्यं भवतीति शाश्वतम् । तच्च तत्सुखं च निधणजनितानन्दरूपम् , अपरस्य शाश्वत- त्वानुपपत्तेरिति। शाश्वतसुखम् । तस्य ईश्वरः स्वामी स्वयं तत्प्राप्तत्वात् 'शाश्वतसुखेश्वरः। ननु सर्वस्यापि वस्तुनःक्षणि- कत्वात् कथं सुखस्य शाश्वतत्वम् । अत्रोच्यते । न हि सर्वथा वस्तुनः क्षणिकत्वमुत्पादविनाशध्रौव्यरूपत्वात् । इह च बहु वक्तव्यं तत्तु पञ्चदशाष्टकादवसेयमिति । न च तथाभूतसुखस्यासंभव एव सुखावरणस्यापचयदर्शनेनात्यन्तिकस्यापि तदपचयस्य सम्भाव्यमानत्वादिति च पूर्वमुक्तप्रायमिति । अनेन च शेषणेन प्रतिक्षणक्षयाघातवस्तुवादिपरिकल्पित- देवस्य महत्वव्युदासः । तन्मतेन एवंविधसुखाद्यभावात् तदभावे च महत्त्वस्य कल्पनामात्रत्वादिति ॥ तथा क्लिष्टाः लेशस्वरूपभवहेतुत्वेन क्लेशिका याः कर्मकला ज्ञानावरणाद्यष्टप्रकारकर्माशास्तेभ्योऽतीतोऽपेतो यः स 'क्लिष्टकर्मकलाती- तः अनेन च ये मन्यन्ते "ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम्।गत्वा गच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः॥१॥" इति तत्सम्मतदेवस्य महत्त्वव्युदासः ॥ क्लिष्टकर्मकलाभावे हि भवावतारासम्भवात् आह च । “अज्ञानपांशुपिहितं, पुरा- तनं कर्मबीजमविनाशि। तृष्णाजलाभिषिक्तं, मुञ्चति जन्माङ(तोरं जन्तोः॥१॥" अशुभस्वरूपभवावतारिणश्च स्वकीयतीर्थ- निकारासहिष्णोः प्राकृतस्येव कीदृशं महत्त्वमिति॥ तथा 'सर्वथा' सर्वैः प्रकारै निष्कलः' सर्वशरीरावयवविरहितस्तद्भावे हि सुखसम्भवः । यदाह “शरीरमनसोरभावे दुःखाभावः” । सशरीरत्वेन च दुःखसंभवे कीदृशं महत्त्वम्।अनेन च ये महादेवा टकम्॥१॥ प्रक०वृक्ष ३-४-लो शरीरतोऽस्य महत्त्व प्रतिपन्नाः “विश्वतश्चक्षुरुत . मुखो विश्वतो बाहुरुत विश्वतस्पात्" इत्येतस्य वाक्यस्य श्रूयमाणार्था युपगमात्तन्मतं व्युदस्तमेवंविधस्यासम्भवात्तदसम्भवश्व विश्वस्य सर्वतश्चक्षुषैव व्याप्तत्वात्तदन्येषामवयवा- नामनाधारस्वेनाभावप्रसङ्गात्तैरेव वाक्यान्तरेणान्यथाविधस्य महस्वाभिधानेन स्वमतविरोधाच । आह च।“ अपाणिपादो ह्यमनो (जवनो) ग्रहीता, पश्यत्यचक्षुः स शृणोस्थकर्णः। स वेत्ति विश्वं न च तस्य वेत्ता, तमाहुरग्र्यं पुरुषं महान्तम् ॥१॥" अन्ये तुव्याख्यान्ति। क्लिष्टकर्मकलातीतो घातितघातिकर्मा भवस्थकेवली, सर्वथा निष्कलःक्षीणभवोपग्राहिकर्मा सिद्धकेव- लीति । 'तथा' इति विशेषणसमुच्चये ॥ तथा 'यः पूज्यो'ऽन्यर्चनीयः 'सर्वदेवानां निःशेषभवनपत्यादीनां वीतरागत्वादि- गुणयुक्तो हि पूज्यत एव देवादिभिः, तत्पूज्यत्वेनैव च तत्प्रतिमानामपि पूजनीयत्वम् । अथवा सर्वेऽखिला हरिहरादयो देवाः स्तुत्या येषां तहर्शनप्रतिपन्नानां समूहापेक्षया ते सर्वदेवा बौद्धादयस्तेषां यः पूज्यः यतस्ते निज निज शास्तार पूजयन्तोऽप्युक्तलक्षणं महादेवमेव पूजयन्ति । तथाहि । तदुपदेशात् स्वर्गापवर्गसंसर्गो भविष्यतीति मन्यमानास्तमर्च- यन्ति । उपदेशश्चोपेयाविसंवादी(दि)तत्परिज्ञाने वीतरागवेषत्वे च सत्येव भवति नान्यथा, ततश्च सर्वज्ञत्वादिगुणमध्यारोप्य स्वशास्तरि तं पूजयन्ति इति।अतः परमार्थतः स एव पूजितो भवतीति, ततः सुष्टूक्तं 'यः पूज्यः सर्वदेवानामिति ॥तथा 'योध्येयः' ध्यातव्यः, 'सर्वयोगिनां निःशेषाध्यात्मचिन्तकानां, योगिनोऽपि हि वीतरागत्वादिगुणगौरवोपगतमेव ध्यायन्ति तथाविधचोक्तप्रकारेणाईनेवेति ॥ तथा 'यः स्रष्टा उत्पादकः प्रकाशनद्वारेण 'सर्वनीतीनां समस्तनैगमादिनयानां सामादि- नीतीनां वा । न च ऋषभेणैव सामादयो लोकव्यवहारार्थ नीतयः सृष्टा इति स एव महादेवो न त्वजितादय इति पाच्य, सर्वस्य वाग्विषयस्य पूर्वगतश्रुतेः तैरप्युपदर्शितत्वाऽपि नीतिस्रष्टार एवेति॥'महादेवास उच्यते इतिव्याख्या- तमवा अर्थतत्पूवमुक्तमाप पुनः कस्मादाभहितम् । अत्रोच्यते । सर्वभावानां विविधं स्वरूपं व्यावहारिक पारमार्थिक चेति । तत्र पारमार्थिकमहादेवत्वख्यापनार्थमिदमुक्तमिति ॥ ३-४ ॥ अधिकृतमहादेवं लक्षणान्तरेण लक्षयितुमाह ॥ एवंसदवृत्तयुक्तेन, येन शास्त्रमुदाहृतम् ॥ शिववर्त्म परं ज्योति-खिकोटीदोषवर्जितम् ॥ ५॥ (वृत्तिः) 'एवम्' इति अनन्तरोक्तप्रकारं यत्सवृत्तमनिन्दितवर्तनं रागद्वेषक्षयकारणादिकं भवावस्थोचितं न पुनः शा- श्वतसुखेश्वरत्वादि सिद्धावस्थोचितं, सिद्धावस्थायां शास्त्रोदाहरणाभावात् , तेन युक्तः संगतो योऽसौ 'एवंसवृत्तयुक्तः' तेन देवताविशेषेण, 'येन' अनिर्दिष्टनाम्ना, शिष्यन्ते पदार्था अनेनेति शास्त्र'मागमः, 'उदाहृतं' प्रणीतम्। किम्भूतमित्याह । शिवस्य मोक्षस्य वर्मेववर्म पन्थाः 'शिववर्म' तथा 'पर'मनन्यसाधारणं, 'ज्योतिरिव' ज्योतिःप्रदीपो महामोहतमःपटल- प्रतिहतिप्रत्यलत्वात्। तथा तिसृषु कोटीषु आदिमध्यान्तलक्षणशास्त्रविभागेषु ये दोषाः पूर्वापरविरोधादयः। अथवा तिसृषु कोटीषु शास्त्रहेनः कषच्छेदतापरूपपरीक्षालक्षणासु ये दोषास्तदशुद्धयः, तैर्वर्जितं विरहितं यत्तत्तथा । स महादेव उच्यते इति प्रक्रमः।इह च 'एवंसवृत्तयुक्तेन' इत्यनेन कामुकाचितासमञ्जसानुष्ठानवतां शास्तृणां महादेवत्वस्य निषेध उक्तः रागा- दिजन्यासमञ्जसचेष्टावतामपि महत्त्वकल्पने सर्वस्यापि तत्प्रसङ्गात् । आह च । “कामानुषक्तस्य रिपुप्रहारिणः, प्रपञ्चि- नोऽनुग्रहशापकारिणः । सामान्यपुंवर्गसमानधर्मिणो, महस्ववलप्ती सकलस्य तद्भवेत्॥१॥” 'शास्त्रमुदाहृतम्' अनेन त्वन- दाहृतमपि ये शास्त्रमायुपगच्छन्ति तन्मतमपास्तम्। वदन्ति च तद्वादिनः तथा, "तस्मिन् ध्यानसमापन्ने, चिन्तारत्नवदा- स्थिते । निःसरन्ति यथाकाम, कुडधादियोऽपि देशनाः॥१॥” तन्निरासश्चैवम् । “ कुडयादिनिःसृतानां तु, न स्यादातोप- विष्टता । विश्वासश्च न तासु स्या-केनेमाः कीर्तिता इति ॥१॥" किश्च । यद्यपि तस्य भगवतोऽचिन्त्यपुण्यसम्भारतया अ-

अष्टक
प्रक००
महादेवा
ष्टकम्॥१॥
..
॥ ८॥
५ श्लो
तिशयाः सन्ति, तथापि वक्ततृत्वविरोधो नास्तीति किं वत्ततृत्वव्याघातकारिणा ड्यादिनिर्गतदेशनाकल्पनेनेति । उदा-
हृतं शास्त्रं शिववर्ती इत्यनेन पुरुषानुदाहृतस्याप्रामाण्यमाविष्करोति तस्यासम्भवादेव । तदसम्भवश्चैवम् । या या
वचनरचना सा सा पौरुषेयी दृष्टा यथा कुमारसम्भवादिः वचनरचना च वेद इति तस्मात्पौरषेयोऽसाविति, विरुद्ध च
विवक्षाताल्वादिव्यापारपुरुषधर्मजन्यवचनस्वरूपस्य वेदस्यापौरुषेयत्वम् । यदाह । “ ताल्वादिजन्मा ननु वर्णवर्गो, वर्णा-
स्मको वेद इति स्फुटं च । पुंसश्च ताल्वादिरतः कथं स्या-दपौरुषेयोऽयमिति प्रतीतिः॥१॥" 'शास्त्रं शिववत्#'त्यनेन तु ये
शास्त्रस्याप्रामाण्यमाश्रितास्तन्मतमपास्तम् । ते हि मन्यन्ते, प्रत्यक्षगोचरेऽप्यर्थे वचनस्य व्यभिचारदर्शमान्न तत्प्रमा-
णम् । न चैतद्युक्तम् । सुनिश्चिताप्तप्रणीतस्यैव वचनस्य प्रमाणत्वाभ्युपगमात् , न चेतरवचनस्य व्यभिचारमुपलभ्य
सर्ववचनानामप्रामाण्यं व्यवस्थापयितुं युक्तम् , इतरथा मरीचिकानिचयचुम्बिजलावभासिप्रत्यक्षमसत्यमवलोक्तिमिति
सकलाध्यक्षाणामप्रामाण्यप्रसङ्गः, तदप्रामाण्ये चानुमानमपि न प्रमाणं स्यात् प्रत्यक्षपूर्वकत्वादनुमानस्य, तथा च एवं
प्रमाणे प्रत्यक्षमनुमानं चेति वचनं व्याहतिमापद्यतेति । उक्तं चागमप्रामाण्यवादिभिः। “स्वर्गाद्यतीन्द्रियगतो वच एव
मानं, येनान्यमानविषया न भवन्ति ते हि । किञ्चागमाभिहितमेव समर्थयन्ति, नापूर्वमर्थमनुशासति साधनाज्ञाः ॥१॥
'त्रिकोटीदोषवर्जितम्' अनेन तु यत्परीक्षाक्षम न भवतिन तरिछववर्मयुक्तं भवति।अपरीक्षाक्षममपि धर्मशास्त्र कैश्चिद-
भ्युपगतम् । यदाहुः । “पुराणं मानवो धर्मः, साङ्गो वेदश्चिकित्सितम् । आज्ञासिद्धानि चत्वारि, न हन्तव्यानि हेतुभिः
॥१॥” इति। इहार्थेऽन्ये वदन्ति। “अस्ति वक्तव्यता काचि-त्तेनेदं न विचार्यते। निर्दोष काञ्चनं चेत्स्या-परीक्षाया विभेति
किम् ॥१॥" आसशास्तृकैः पुनराप्तवचनमेवमनूद्यते। “निकषच्छेदतापेभ्यः (पाल्या), सुवर्णमिव पण्डितः। परीक्ष्य भिक्षवो
॥८॥

प्राय, महचो न तु गौरवात् ॥१॥” शास्त्रगतकषादिपरीक्षात्रयस्य च स्वरूपमिदम् । विधिप्रतिषेधौ कषः। आह च । “पा- णिवहाईयाणं, पावट्ठाणाण जो उ पडिसेहो ॥झाणायणाईणं, जोय विही एस धम्मकसो ॥१॥" विधिप्रतिषेधयो-+ रबाधकस्य सम्यक्तस्पालनोपायभूतस्थानुष्ठानस्योक्तिः छेदः । यदाह । “बझाणुट्ठाणेणं, जेण न बाहिजए तयं नियमा ॥ संभवह य परिसुद्धं, सो पुण धम्मम्मि छेओसि ॥२॥” पन्धमोक्षादिसायनिधन्धनास्मादिभाववादः तापः। उक्तं च। “जीवाइभाववाओ, बन्धाइपसाहगो इहं तावो ॥ एएहिं परिसुद्धो, धम्मो घम्मत्तणमुवेइ ॥३॥” कषादिशुद्ध- यस्त्वेवम् । मनोवाकायकरणकारणानुमतिभिरर्थानर्थाश्रयेणाजन्म सूक्ष्मबादराणां प्राणातिपातादीनां प्रतिषेधो रागादि- निग्रहाप्रतिघहेतुभूतयोश्च ध्यानतपसोर्विधिर्यत्र शास्त्रे तत्कषशुद्धम् । आह च। “सुहमो असेसविसओ, सावज्जे जत्थ अस्थि पडिसेहो ॥ रागाइविअ(उडणसहं, झाणाइ य एस कससुद्धो॥४॥" यत्र पुनरेवंविधौ प्रतिषेत्रविधीन भवतोम तस्कषशुद्धम्।यथा। "प्राणी प्राणिज्ञान, घातकचितं च तद्गता चेष्टा।प्राणैश्च विप्रयोगः, पञ्चभिरापद्यते हिंसा ॥” तथा। "अनस्या(स्थिोजन्तूनां शकटभरवधे एका हिंसा ।" यत्रैव विसंवादस्तदेव चासत्यमित्यादि । अयं हि पापप्रतिषेधो नात्यन्तिकः।तथा। "अष्टवर्गान्तकं बीज, कवर्गस्य च पूर्षकम् ॥पहिनोपरिसंयुक्त, गगनेन विभूषितम् ॥१॥" अहमित्यर्थः। प्राणिवधादिकानां पापस्थानानां यस्तु प्रतिषेधः । ध्यानाध्ययनादीनां यश्च विधिरेष धर्मकषः ॥ + विधिमतिषेधयोरबाघयोराधकस्य इति। पाठान्तरे ।। ३ बाह्यानुष्ठानेन येम न बाध्यते तषियमात् । सम्भवति च परिशुद्धं स पुनर्धमें छेद इति ॥ ४ जीवादिभाववादो बन्धादिप्रसाधक इह तापः । एतैः परिशुद्धो धर्मों धर्मत्वमुपैति ॥ ५ सूक्ष्मोऽशेषविषयः सायो यत्रास्ति प्रतिषेधः । रागाद्रिविकुहनसहं ध्यानादि च एष कषशुद्धः ॥

महादेवा टकम्॥१॥ प्रक०० ॥९॥ ५ श्लो. “एतदेव परं तत्वं, योऽभिजानाति तत्त्वतः॥संसारबन्धनं छिरवा, स गच्छेत्परमां गतिम्॥१॥” इत्यादिस्वरूपश्च ध्यान- विधिः न रागादिविकुटनसहः, यतः सुचिरमप्येतद्धथानध्यायिनस्तदुत्तरकालं रागादयः वरूपस्था एव । रागादीनां पुनरैहिकानुष्मिकापायजनकत्वचिन्तयितुस्तदुत्तरकालमपि ते प्रतनवो भवन्तः सर्वथा न भवन्त्यपीति रागाथपायघ्यानं श्रेष्ठो विधिः । अत एव ध्यानान्तरत्यागेन ध्यानविधिरेवं सद्भिरभिधीयते । “ रागहोसकसाया-सवाइकिरियासु घट्ट- मायाणं ॥ इहपरलोगाथाए, झाएजाऽवजपरिवजी ॥१॥"तथा छेदशुद्धं शास्त्रं यत्र समितिगुस्यादिकमुक्तविधिप्रतिषेधो- पापभूतमनुष्ठानमुपदय॑ते । आह च । “एएण न बाहिज्जइ, संभवइ य तं दुगंपिनियमेण ॥ एयवयणेण सुद्धो, जो सो छेएण सुद्धोत्ति ॥५॥” तदशुद्धं प्राणिसंरक्षणशुभध्यानकरणविशुद्धपिण्डग्रहणेषूपायभूतवस्त्रपात्राथुपकरणप्रतिषेधप्रवणं बोटिकशास्त्रमिव इति । अथवा देवताराधनाय साधूनां सङ्गीतककरणाद्युपदेशप्रवणम् । आह च । “जाह देवाणं संगी-य- याइकज्जम्मि उज्जमो जइणो॥ कन्दप्पाईकरणं, असम्भवयणाभिहाणं च ॥६॥” तापशुद्धं पुनः ॥ "आत्मास्ति, स परिणामी, बद्धः स तु कर्मणा विचित्रेण ॥ मुक्तश्च तद्रियोगात्, हिंसाहिंसादि तद्धेतुः ॥१॥” इत्यादिभाववाद- प्रधानम् । एवंविधे यात्मादिवस्तुनि सति विधिप्रतिषेधादिकं सर्वमुक्तखरूपमुपपद्यते न पुनरन्यथाविध इति । तदन्य- थाविधवस्तुप्रणयनप्रवणं तु शास्त्रं तापाशुद्धमिति। तदेवं येनैवंविधं 'शास्त्रमुदाहृतं महादेवः स उच्यत' इति । एतमर्थ ६ रागद्वेषकषायात्रवादिक्रियासु वर्तमानानाम् । इहपरलोकापायान् ध्यायेत् अवद्यपरिवर्जी ॥ ७ एतेन न बाध्यते सम्भवति च तद्वयमपि नियमेन । पतद्वचनेन शुद्धो यः स छेदेन शुद्ध इति ॥ ८ यथा देवानां संगीतकादिकार्य उद्यमो यतेः । कन्दादिकरणमसभ्यवचनाभिधानं च ॥

मुख्यवृत्या वदतानेन श्लोकेन गौणवृत्त्या नानाविधोऽर्थ उक्त इति ॥५॥ ननु यो वीतरागः स कथमाराध्यते । न तावत्स्तुत्यादिभिः सरागत्वप्रसङ्गात् , नापि निन्दादिभिः स्तवादीनां वैयर्थ्यप्रसङ्गात्, उपेक्षयाप्याराधने स एव दोष इत्याशङ्कयाह ॥ यस्य चाराधनोपायः, सदाज्ञाभ्यास एव हि ॥ यथाशक्ति विधानेन, नियमात्स फलप्रदः॥६॥ (वृत्तिः) न केवलं येन शास्त्रमुदाहृतं स महादेव उच्यते, 'यस्य च' देवविशेषस्य, 'आराधनोपाय आज्ञाभ्यास एव स महादेव उच्यते' इति चशब्दार्थः क्रियासम्बन्धश्चेति । 'आराधनं' प्रसादनं आराधनमिवाराधनं तत्फल- प्रसाधकत्वात् न पुनराराधनमेव सरागत्वप्रसङ्गात् । प्रसादाभावेऽपि च प्रसादफलसिद्धिर्वस्तुखभावत्वात् । आह च । वत्थुसभावो एसो, अचिन्तचिन्तामणी महाभागे ॥ थोऊणं तित्थयरे, पाविज्जइ वंछिओ अस्थो ॥१॥” तथा । “उवगाराभावम्मि चि, पुज्जाणं पूयगरस उवयारो॥ मन्ताइसरणजलणा-इसेवणे जह तहेहं पि१०॥२॥” तत्र 'उपायों हेतुः, 'आराधनोपाया', 'सदा' सर्वस्मिन्नपि दुःषमादिकालेऽपि। अनेन किल विशिष्टकाल एवाज्ञायाः कर्तुं शक्यत्वात्तदैव तदभ्यास आराधनोपायः, दुःषमायांत्वनागमिकप्रवृत्तिर-युपायस्तत्राज्ञाया अभ्यसितुमशक्यत्वादिति यस्य मतिः स्यात्त- न्मतं प्रत्यस्तम् । यत आह ।" समइ(ति)पवित्ती सव्वा, आणाबज्झत्ति भवफला चेव॥ तित्थयरुइसेणवि, नतत्तओ सा तदुद्देसा११ ॥१॥” आज्ञायन्ते अधिगम्यन्ते मर्यादया अभिविधिना वा अर्था ययासा 'आज्ञा' आगमः, तस्या 'अभ्यासो' ९ वस्तुस्वभाव एषोऽचिन्त्यचिन्तामणीन्महाभागान् । स्तुत्वा तीर्थकरान प्राप्यते वाञ्छितोऽर्थः ॥ १० उपकाराभावेऽपि पूज्यानां पूजकस्योपकारः । मन्त्रादिस्मरणज्वलनादिसेवने यथा तथेहापि ॥ ११ स्वमतिप्रवृत्तिः सर्वा आज्ञावाोति भवफलैव । तीर्थकरोद्देशेनापि न तत्त्वतः सा तदुद्देशा ॥

अष्ठक
महादेवा
ष्टकम्॥१॥
७ श्लो
ग्रहणभावनापास्तव्यलक्षण 'आशाग्यास स एव, न पुनस्तक्तितोऽपि तदाज्ञापता प्रवृत्तिः॥ पूजादिकं तु तदाज्ञान्यास
एष तस्य द्रव्यस्तषभावस्तवरूपत्वात् । 'हि'शब्दो वाक्यालङ्काराः। मनु यथोक्तस्थानाभ्यासस्यातिदुष्करस्वात्काल संहन-
नादिदोषवतामनाराधनप्रसा इत्याशङ्कायामाह। यथाशक्ति' शतः शरीरसोमर्यस्यानतिक्रमो यथाशक्ति, तेन शतरतु-
लनेनागोपायनेन चेयर्थः । एवं हि वीर्याचारः कृतो भवति । आह च । “अणिग्रहियवलपिरिमओ, परकमइ जो जहु-
समाउत्तो ।। झुंजह य जहाथाम, नायथ्यो पीरियायारो१२॥१॥” आज्ञाभ्यासस्यैव विशेषणार्थमाह। विधानेन विधिना,
ज्यक्षेत्रकालभावानुवर्तमलक्षणेनायव्ययतुलनारूपेणागमिकन्यायेनेति भावः । आह च । “लम्हा सव्वाणुमा, सव्वमिसेहो
य पवयणे नस्थि ॥ आयं वयं तुलेना, लाहाकंखिय वाणियओ३ ॥१॥" ननु आज्ञास्यासेनाराधितो यद्यसौ फल-
प्रदोऽनाराधितस्तहि न तथा स्यादित्येवं विषमवृत्तिरसौ स्यादित्यत आह । 'मियमात्' अवश्यम्भावेन, 'स' इति स एवं
आशाभ्यासो यस्य सम्बन्धी, 'फलप्रदोऽभिप्रेतार्थसाधको, महादेवः स उच्यते इति प्रकृतम्। अतस्तस्य फलापदायित्वात्
तदाज्ञाभ्यासस्यैव च फलसाधकत्वात् कुतो विषमवृत्तित्वदोष इति ॥ ६॥ एतदेव कष्टान्लेन समर्थयमाह ।
सुवैद्यवचनाद्यद्व-याधेर्भवति संक्षयः । सददेव हि तद्वाक्याद्-ध्रुवः संसारसंक्षयः ॥७॥
(त्तिः) 'सुवैद्यषचमात् भिषग्नरोपदेशात्, 'यात् येन प्रकारेण, 'व्या कुष्ठादिरोगस्य, भवति जायते, 'संक्षयः'
सामस्त्येन अपुनर्भावितया विनाशः, 'तद्रदेव' तेनैव प्रकारेण तथैव इत्यर्थः, 'तस्य देवविशेषस्य, 'वाक्यम्' उपदेशः, 'तबा-
१२ अनिहितबलवीर्यः पराक्रमते यो यथोकमायुक्तः । युके च यथास्थानं नातव्यो वीर्याचार ॥
१३ तस्मात् सर्वानुमा सर्वनिषेधश्च प्रवचने मास्ति । आर्य सयं तोलये लाभाकांक्षीव वाणिजकः ॥
॥१०॥

,
क्यम्' तस्मात्, ध्रुवोऽवश्यम्भावी,संसरणं संसारः तस्य संक्षयोऽत्यन्तविनाशः 'संसारसंक्षयों भवति । इह संसारश-
ब्देन भवाद्भवान्तरसंचरणमुच्यते; तेन च परलोकसत्ताज्वेदिता । तत्र चेदं प्रमाणम् । "कार्य कार्यान्तराज्जातं, कार्यस्था-
दन्यकार्यवत् ॥ जन्मेदमपि कार्यत्वं, न व्यतिक्रम्य वर्तते ॥१॥"जन्म च ज्ञानसन्तानविशेषरूपमतस्तदूपमेव तदुपादान-
कारणभूतं जन्मान्तरमनुमीयते न पित्रादिरूपं, तस्योपादानकारणत्वे हितद्धमौमुगमप्रसाइति ॥७॥
प्रकरणार्थमुपसंहरन् विवेचितगुणमहादेवनमस्करणाय आह ।
एवम्भूताय शान्ताय, कृतकृत्याय धीमते ॥ महादेवाय संततं, सम्यग्भक्त्या नमोनमः ॥८॥
(वृत्तिः) एवम्भूताय' अनन्तरोक्तरूपां गुणसम्पदं प्रासाय न परपरिकल्पिताय, 'शान्ताय रागद्वेषोपशमवते, अ-
नुवादरूपं चेदं विशेषणमिति न पुनरुक्तता शङ्कनीया, तथा 'कृतानि' विहितानि न तु विधेयानि समासप्रयोजनस्वात्,
कृत्यानि कार्याणि न स 'कृतकृत्यः तस्मै,तथा धीः केवलज्ञानलक्षणा बुद्धिर्यस्यास्ति स धीमान् तस्मै धीमते, एतदप्य-
नुवादपरमेव। अन्यैस्तु 'धीमते' सत्त्ववत इति व्याख्यातम् , महादेवाय'अनन्तरनिर्णीतस्वरूपाय, सततम्' अनवरतम् ,
'सम्यगितिप्रशंसार्थो निपातः, 'सम्यक्' चासौ भक्तिश्च प्रीतिविशेषः सम्यग्भक्तिस्तया सम्यग्भक्त्या,"नमोनम इति
नमस्कारोऽस्तु । विवंचनेन तु भक्तिकृत सम्भ्रममुपदर्शितवानिति ॥८॥
॥प्रथमाष्टकविवरणं समाप्तम् ॥१॥

अष्टक प्रक०वृक्ष ॥ अथ द्वितीयं स्नानाष्टकम् ॥ द्वितीयं स्नानाष्टकं ॥११॥ , उक्तकमेण निर्णीतमहत्त्वस्य देवस्य पूजादिकं विधेयम् । तच स्नानपूर्वकमिति स्नाननिरूपणायाह ॥ द्रव्यतो भावतश्चैव, द्विधा स्नानमुदाहृतम् ॥ बाह्यमाध्यात्मिकं चेति, तदन्यैः परिकीर्त्यते ॥१॥ (वृत्तिः) द्रवति गच्छति तांस्तान् पर्यायानिति द्रव्यं पुद्गलादि, तस्मात् द्रव्यात् 'द्रव्यतो' जललक्षणं कारण- भूतम्१ देहदेशलक्षणं वा शोधनीयं २ मललक्षणं वाऽपनेयं द्रव्यमाश्रित्येत्यर्थः। अथवा द्रव्यतोऽपरमार्थतो द्रव्यशब्दस्या- प्राधान्यार्थत्वात् ४,अथवा द्रव्यतो भावस्नानकारणत्वेन कारणार्थत्वात् द्रव्यशब्दस्य ५॥ तथा भवनं भावः परिणामस्तस्मा- दू'भावता' शुभध्यानलक्षणं कारणभूतम् १ उपयोगभावात्मकजीवलक्षणं वा शोधनीयम् २ अथवौदयिकभावकारणभू- तकर्ममललक्षणमपनेतव्यं भावमाश्रित्येत्यर्थः। भावतः परमार्थतो वेति ॥'चशब्द समुच्चये, एवकारों'ऽवधारणे। एवं च अनयोः प्रयोगः, द्रव्यतोभावत एव च। ततश्च द्रव्यभावभेदेनैव, 'विधा' विप्रकारम् नामादिभेदेन तु चतुर्धापि,केवलमिह चतुष्पकारत्वं स्नानस्य नाश्रितं नामस्थापनयोः प्ररूपणामात्रोपयोगित्वात् , नहि स्नानस्य नामस्थापने जिननामस्थापने इव प्रमोदहेतुत्वेन पूजागोचरत्वेन च सोपयोगे इति । अथवा एवकारो विधा इत्यनेन सम्बध्यते। तथा च, द्रव्यतो भा- वतश्चेति' एवं 'द्विधैव स्नानमुदाहृतं,' न तु सप्तधा, यथाहुरेके। “सस स्नानानि प्रोक्तानि,स्वयमेव स्वयम्भुवा॥ द्रव्यभाव- विशुद्धयर्थ-मृषीणां ब्रह्मचारिणाम्॥१॥आग्नेयं वारुणं ब्रायं, वायव्यं दिव्यमेव च ॥ पार्थिवं मानसं चैव,स्नानं सप्तविधं स्मृतम् ॥२॥ आग्नेयं भस्मता स्नान-मवगावं तु वारुणम् ॥आपोहिष्ठामयं ब्रायं (मंत्रस्नानमित्यर्थः)। वायव्यं तु गवां- रजः॥शासूर्यदृष्टं तु यदृष्टं,तदिन्यं ऋषयो विदुः। पार्थिवंतु मृदास्नान,मनःशुद्धिस्तुमानसम्॥३॥ इति सप्तविधस्नानकथ- नंबनर्थकम् । यतो यद्बाबमलक्षालनप्रत्यलं तत्सर्वं द्रव्यस्नानमेव,यच्चान्तरमलोन्मूलनायालं तद्भावस्नानम् , यत्पुनरन्यथा- विधं तदस्नानमेवान चगोरजसामन्त्रेण वामलापनयनमुपलभ्यते इति,अतःसुष्टच्यते विधैव,अथवा द्रव्यतो विधैव भाव तश्च विधैव इत्येवं द्विधाशब्दप्रयोगो,दैविध्यं च प्रधानाप्रधानभेदात् , तञ्च दर्शयिष्यत इति । 'द्रव्यतो भावतश्चैवमिति' पाठान्तरे तु एवंकार' उपदर्शनार्थः। तेन एवं'मनेन प्रकारेण, द्विधा स्नान शुचीकरणम् ,'उदाहृतं'तत्त्ववेदिभिरभिहितम्॥ अत्रार्थे परेषामप्यविप्रतिपत्तिमुपदर्शयन्नाह। बहिर्भवं 'बाह्यं शारीरं, अध्यात्मे मनसि भवं आध्यात्मिक' मानसमित्यर्थः। 'चशब्दः' समुच्चयार्थः। 'इति' रूपप्रदर्शने । एवं चानयोःप्रयोगः बाह्यमिति १ आध्यात्मिकमिति च २। 'तदिति' क्रमेण द्रव्यस्नानं भावस्नानं च । 'अन्यैरिति' जैनव्यतिरिक्ततीर्थिकविशेषैः, 'परिकीर्त्यते' संशब्द्यते इति ॥१॥ तत्र द्रव्यस्नानप्रतिपादनायाह ॥ जलेन देहदेशस्य, क्षणं यच्छुद्धिकारणम् ॥ प्रायोऽन्यानुपरोधेन, द्रव्यस्नानं तदुच्यते ॥२॥ (वृत्तिः) 'जलेनाऽ' म्भसा न भस्मादिभिस्तैर्हि द्रव्यस्नानं न भवति मलायपनयनासमर्थत्वात्तेषाम् , " लेपापहं शौचम्” इति स्नानलक्षणाच । 'देहदेशस्येति'शरीरत्वग्लक्षणावयवस्य,इह च देहग्रहणेन "सचेलस्नानेन देवार्चन कार्यमिति"मतमपाकृतंजलाईवस्त्राणांस्नानतया अप्रतीतेः। देशस्येत्यनेन तु ये मन्यन्ते। “एका लिङ्गे गुदे तिस्र-स्तथैकत्र करे दश॥ उभयोः सस विज्ञेया,मृदः शुद्धौ मनीषिभिः॥१॥ एतच्छौचं गृहस्थानां,द्विगुणं ब्रह्मचारिणाम॥ त्रिगुणं वान- प्रस्थानां, यतीनां च चतुर्गुणम् ॥२॥” इति, ते उपहसिता भवन्ति । न हि तैरेवं शौचं प्रति प्रयत्नवद्भिरपि लिङ्गगुदाद्य- गन्ध-

अष्टक
द्वितीयं
स्नानाष्टकं
॥१२॥
३ श्लोक
तभोगस्य शौच कर्तुं शक्य किन्तु त्वङ्मात्रस्येव, न च कर्णनासादीनामे शौच विधीवते, न चैतान्यशुचीनि न भ-
वन्तीति । 'क्षणं'मुहूते यावन्न तु प्रभूतकालम् । 'यदिति' स्नानम् । 'शुद्धिकारण मलविलयहेतुः, 'प्रायो' बाहुल्येन, प्रायोग्र-
हणातथाविधरोगग्रस्तस्य क्षणमपि शुद्धिकारणं न भवतीति दर्शितम् । कुतः पुनः क्षणमेव शुदिकारणमित्यत आह ।
'अन्यस्य प्रक्षालितमलापेक्षयापरस्य मलस्याऽनुपरोधोऽनिरोधोऽप्रतिषेधोऽन्यानुपरोधस्तेन 'अन्यानुपरोधेन हेतुना,न हि
स्नानं मलाश्रयस्वभावत्वाच्छरीरस्य मलान्तरमुपरोढुं शक्नोतीति। तदित्येवंविधं स्नान,किमित्यत आह 'द्रव्याण्युक्तल-
क्षणानि नीरादीन्याश्रित्य स्नान' द्रव्यभूतं वा स्नानमुच्यते'अभिधीयते स्नामेलक्षणविधिः अन्ये तु 'प्रायोऽन्यानुपरोधेने
त्येतदित्यं व्याचक्षते ।प्रायो बाहुल्येनान्येषां जलस्वरूपातिरिक्तानामनुपरोधोऽव्यापादनं प्रायोऽन्यानुपरोधस्तेनेति ॥२॥
अथैतस्यैव कर्तृवशात्प्रधानाप्रधानता दर्शयन्नाह ।
कृत्वेदं यो विधानेन, देवतातिथिपूजनम् ॥ करोति मलिनारम्भी, तस्यैतदपि शोभनम् ॥३॥
(वृत्तिः) कृत्वा' विधाय, 'इदम्'अनन्तरोदितं द्रव्यस्नानम् , 'य'इति तदधिकारवान् धार्मिक, 'विधानेन धार्मिक-
जनोचितस्नानविधिना॥ " भूमीपेहणजलछाण-णाइ जयणा उ होइ पहाणाओ१४॥” इत्येवंरूपेण, ततः किमित्याह ।
'देवता'ऽनन्तरविवेचितस्वरूपमहादेवलक्षणा, अतति सततमप्रतिबद्धविहारितया गच्छतीति 'अतिथि:' अविद्यमामा वा
तिधिरुपलक्षणस्वादुत्सवादयश्च यस्येति अतिथिः सन्मार्गनिरतो यतिः । उक्तं च। “तिविपर्योत्सवाः सर्वे, त्या पेन
१४ भूमिप्रेक्षणजलच्छवादियतना तु भवति स्नानादौ ॥ एसोविसुद्धमावो अणुहवसिद्धो च्चिय खुहाणं ॥१॥ इति गाथापूर्तिः।
॥१२॥

महात्मना ॥ अतिथिं तं विजानीया-च्छेषमभ्यागतं विदुः॥१॥” इति॥ तयोः पूजनमुचितसत्कारकरणं 'देवतातिथिपूजनं' तत्करोति' विधत्ते । द्वितीयव्याख्यानपक्षे तु विधानेन देवतातिथिपूजनं करोती'त्येवं सम्बन्धः कोऽसावित्याह । मलिनो अवद्यमलयुक्त आरम्भो व्यापारो मलिनारम्भः सोऽस्यास्तीति 'मलिनारम्भी' सावधयोगादनिवृत्तो गृहस्थ इत्यर्थः। कुतीर्थिकशिक्षणाभिप्रायप्रवणं चेदं विशेषणं । तच्छिक्षणं चैवम् । हे कुतीथिका यदि यूयं मलिनारम्भिणस्तदा युष्माक- मिदं द्रव्यस्नानं कर्तुमुचितं नान्यथा, तथाहि अस्य विशुद्धभावहेतुत्वेन प्रशस्थता, स च विशुद्धो भावो निर्मलार- म्भाणां सदैवास्तीति किमेतेनेति। तस्य इति देवतातिथिपूजनकर्तुमलिनारम्भिणः, 'एतदपीति' न केवलं वक्ष्यमाणस्वरूपं भावस्नानं शुभपरिणामरूपत्वाच्छोभन'मेतदपि द्रव्यस्नानमपि, शोभनं' साधु,सत्यपि सावद्यत्वे प्रायो मदददिहेतुत्वे च शुभभावाहेतुत्वात् , तस्येतिविशेषणात्तदन्यस्य त्वशोभनमेव तदिति सिद्धं भावशुद्धयनिमित्तत्वादिति ॥३॥ शोभनमिदमित्युक्तं तत्समर्थनार्थमाह । भावशुद्धिनिमित्तत्त्वा-त्तथानुभवसिद्धितः ॥ कथञ्चिद्दोषभावेऽपि, तदन्यगुणभावतः ॥ ४॥ (वृत्तिः) भावोऽध्यवसायस्तच्छुद्धिनिर्मलता तस्या निमित्तं कारणं तस्य भावो 'भावशुद्धिनिमित्तत्वं तस्मादेत- दपि शोभनमिति प्रकृतम् । न चास्य भावशुद्धिहेतुत्वमप्रसिद्धमित्याह । 'तथा' तेनैव प्रकारेण भावशुद्धिनिमित्ततयैव, योऽनुभवः' संवेदनं तस्य या 'सिद्धिः' प्रतीतिःसा तथाऽनुभवसिद्धिस्तस्यास्तथाऽनुभवसिद्धितः। अथ द्रव्यस्नानं भाव- शुद्धिनिमित्तमपि सदप्कायिकादिजीवहिंसादोषदूषितत्वादशोभनमेवेत्याशङ्कयाह। 'कथञ्चित् केनापि प्रकारेणाप्कायि-

द्वितीय
स्नानाष्टकं
प्रक००
॥१३॥
५ श्लो
कादिविराधनालक्षणेन, 'दोषभावेऽपि' हिंसालक्षणावधसद्भावेऽपि न केवल दोषाभावे इति अपिशब्दार्थः। तस्मादिसा-
दोषाद् योऽन्यो गुणः सम्यग्दर्शनशुद्धिलक्षणः स तदन्यगुणस्तस्य भाषो लाभस्तदन्यगुणभावस्तस्मा सदन्यगुणभावतः'।
आह च ॥"पूयाए कायवहो, पडिकुष्टोसोउ, किंतु जिणपूया॥सम्मत्त सुद्धिहेउत्ति, भावणीयाउ निरवज्जा५॥९॥" यत्
स्नानं पूजार्थ तत्पूजाणत्वात्तव्यपदेशमहतीति । इह च हेतुप्रयोग एवम्। द्रव्यस्नानमपि शोभन मावशुद्धिनिमित्तत्वात,
यद्यावशुद्धिनिमितं तसच्छोभनं यथा चैत्यवन्दनम् , भावशुद्धिनिमितं च द्रव्यस्नानं तस्माच्छोमन मिति । अथायम-
सिद्धो हेतुरित्यत्रोच्यते । यद्यथानुभूयते तत्तथा प्रतिपत्तव्यं यथा विचित्रं सुखादिसंवेदनम्, अनुभूयते च भावशुद्धि-
निमित्ततया द्रव्यलानम् , तस्माद्भावशुद्धिनिमित्तं तदिति । अथ कथञ्चित्सदोषत्वात्कथं शोभनस्वमस्पेत्यत्रोच्यते । यद्-
यविशिष्टतरगुणान्तरोत्पत्तिहेतुस्तत्तदोषसद्भावेऽपिशोभनं, यथा श्रमपङ्कादिदोषोपेतमपि तृविच्छेदादिविशिष्टतरगुण-
हेतुः कूपखननं, विशिष्टसम्यग्दर्शनशुद्धयादिगुणहेतुश्च द्रव्यलानमिति ॥४॥यदि भावशुद्धिनिमित्तत्वात् शोभनं द्रव्य-
लानं तर्हि करोति मलिनारम्भीति कस्मादभिहितममलिनारम्भिणोऽपि तथैव तस्य शोभनस्वादित्याशझ्याह ।।
अधिकारिवशात् शास्त्रे, धर्मसाधनसंस्थितिः॥ व्याधिप्रतिक्रियातुल्या, विज्ञेया गुणदोषयोः॥ ५ ॥
(वृत्तिः) अधिकारोऽस्यास्तीति अधिकारी योग्याऽनुष्ठाता (नी)तस्य वशोऽपेक्षा अधिकारिवशस्तस्मान यथाकथश्चि-
दित्यर्थः। 'शास्त्रे सुनिश्चितासागमे, धर्मसाधनयोः' प्रस्तुतयोव्यस्नानभावलानलक्षणयोः, संस्थितिः'सम्यग्व्यवस्था, धर्म-
१५ पूजायां कायषधः, प्रतिकुष्टः स तु, किंतु जिनपूजा ॥ सम्यक्त्वशुद्धिहेतुरिति भावनीया तु निरवद्या ॥१॥

साधनसंस्थितिः, किंरूपेयमित्याह। व्याधिप्रतिक्रियातुल्या' रोगचिकित्साव्यवस्थासमाना, विज्ञेया सद्गुरूपदेशादर्थिभि- रवसेया। कयोविषय इत्याह । 'गुणदोषयोः' गुणदोषावाप्रित्येत्यर्थः । इयमत्र भावना। यथातुरवशाव्याधिचिकित्सागुण- करी दोषकरी च तथा मलिनारम्भीतरलक्षणानुष्ठातृवशाद् द्रव्येतरलानरूपे धर्मसाधने गुणदोषकरे, द्रव्यस्नान मलि- नारम्भिण एव गुंणकरं नेतरस्येति हृदयम् , यतो मलिनारम्भी देवतोद्देशेन स्नानादावधिकारी न वितरः। केचित्पुन- वदन्ति मलिनारम्भ्यपि नेहाधिकारी यस्माद्वक्ष्यति अयमेव ग्रन्थकारः। " +धर्मार्थ यस्य वित्तेहा, तस्यानीहा गरीयसी। प्रक्षालनाद्धि पङ्कस्य, दूरादस्पर्शनं वरम् ॥ १॥” इति । अनेन धर्मार्थ सावधप्रवृत्तिर्निषिद्धा, तथा " *शुद्धागमैर्यधा- लाभम्” इति वक्ष्यत्यनेन च पुष्पत्रोटनाभावो देवसम्बन्ध्यारामाभावश्च दर्शित इति । न चायं सम्यगुल्लापः । यतः स्नानं विधेयतया देवार्चनार्थमुपदिष्टमेव । यदाह । तत्थ सुइणा दुहा विहु, दव्वे पहाएण सुद्धवत्थेण” इति । अथ प्रासङ्गिक(क)स्नानापेक्षेोऽयमुपदेशो न तु देवतोदेशिकः । एतदपि न सङ्गतम्। एवं हि यदा कदाचित् स्नातो भवेत् तदा देवतार्चनं कुर्यादित्युपदिष्टं स्यान्न नित्यकृत्यतया, नित्यकृत्यं चतत् । आह च । “वंदति चेहयाई, तिकालं पाऊण वि- हिणा उ१७ इति । यच्चोक्तं धर्मार्थमित्यादिना धर्मार्था सावधप्रवृत्तिर्निषिद्धा तत् सत्यम् , केवलं स निषेधः सर्वविरता(त्य)- पेक्षया तदधिकारेऽस्य श्लोकस्याधीतत्वात् , गृहस्थापेक्षया तु सावधप्रवृत्तिविशेषोऽनुज्ञात एव । यदाह । व्वत्थए १६ तत्र शुचिना द्विधापि हु द्रव्ये स्मातेन शुद्धवस्त्रेण इति ॥ भावे उ अवत्थोचियविसुद्धवित्तिप्पहाणेण ॥ इति गाथापूर्तिः । १७ बन्दन्ते चैत्यानि त्रिकालं पूजयित्वा विधिना तु ॥ + अष्टक ४ श्लोक ६ * अष्टक ३ श्लोक २ "

"
अष्टक
प्रक००
द्वितीयं
स्नानाष्टकं
॥ १४॥
५ श्लो
कूवदितोत्तिा ८॥ तथा वाणिज्यादिसायद्यप्रवृत्तिरपि काचित्कस्यचिन्न दुष्टा विषयविशेषपक्षपातरूपत्वेन पापक्षयगु-
णवीजलाभहेतुत्वात् , यथा संकाशस्य । “संकाशश्रावको हिप्रमादाद्भक्षितचैत्यद्रव्यो निबद्धलाभान्तरायादिक्लिष्टकर्मा चि-
रपर्यटितदुरन्तसंसारकान्तारोऽनन्तकालाल्लब्धमनुष्यभावो दुर्गतनरशिरःशेखररूपः पारगतसमीपोपलब्धस्वकीयपूर्वभव
वृत्तान्तः पारगतोपदेशतो दुर्गतत्वनिबन्धनकर्मक्षपणाय यदहमुपार्जयिष्यामि द्रव्यं तद् ग्रासाच्छादनवर्ज जिनायतनादिषु
नियोक्ष्ये इत्यभिग्रहं गृहीतवान् ,कालेन च निर्वाणमवाप्सवानिति।" अथ युक्तं संकाशस्यैतत्तथैव तत्कर्मक्षयोपपत्तेर्न पुन
रन्यस्य । नैवम् । सर्वथैवाशुभस्वरूपव्यापारस्य विशिष्टनिर्जराकारणत्वायोगादिति। यत्तु"शुद्धागमैर्यथालाभमित्यादि"तन्न
स्वयं पुष्पन्नोटननिषेधपरम् , किन्तुः पूजाकालोपस्थिते मालिके दर्शनप्रभावनाहेतोर्वणिकला न प्रयोक्तव्येत्यस्यार्थस्य
ख्यापनपरम् । इतरथा श्रूयते ॥ "सुच्चइ दुग्गइनारी, जगगुरुणो सिन्दुवारकुसुमहिं । पूयापणिहाणेणं,उववन्ना तियसलो-
गम्मि ॥१॥” इति वचनं व्याहन्येत । न हि तया यथालाभं न्यायोपात्तवित्तेन वा तानि गृहीतानि, इति । तथा चै-
त्यसम्बन्धितया ग्रामादीनां प्रतिपादनानारामाद्यभावः प्रोक्तः॥ यदाह ॥ “चोएइ घेझ्याणं, रुप्पसुवण्णाइ गामगावाई।ल
(म?)ग्गंतस्स हुमुणिणो,तिगरणसुद्धी कहं णु भवे? २०॥१॥ भण्णइ एत्थ विभासा,जो एयाई सयं विमग्गेजा। न हु तस्स
१८ द्रव्यस्तवे कूपदृष्टान्त इति । १९ श्रूयते दुर्गतिनारी, जगद्गुरोः सिन्दुधारकुसुमैः। पूजाप्रणिधानेन, उपपन्ना त्रिदशलोके ॥१॥
२० चोदयति चैत्येभ्यो, हृप्यसुवर्णादि ग्रामगवादि । लग (मार्गय)तो मुनेः, त्रिकरणशुद्धिः कथं नु भवेत् ? ॥१॥
॥१४॥

हुज्ज सुद्धी, अह कोइ हरेज्ज एयाई २१ ॥२॥सव्वत्थामेण तहि,संघेणं होइ लग्गियध्वं तु । सचरिन्सचरिसीणं, एयंस-
व्वेसिं कज्जं तु २२ ॥३॥” तदेवं मलिनारम्भिणो धर्मार्थ स्नानादिकमविरुद्धमिति स्थितम् । ननु यतिरत्र कस्मानाधि-
कारी, यतः कर्मलक्षणों व्याधिरेको छयोरपि यतिगृहस्थयोरतस्तचिकित्सापि पूजादिलक्षणा समैव भवति, ततो योक-
स्याधिकारः कथं नापरस्य । अथ "स्नानमुहर्तनाभ्यङ्ग, नखकेशादिसंस्क्रियाम् || गन्धमाल्यं च धूपं च, त्यजन्ति ब्रह्म-
चारिणः ॥१॥” इति वचनात् यतेः स्नाने तत्पूर्वकत्याहेवार्चनस्य तस्मिंश्च नाधिकारः । नैवम् , भूषार्थस्यैव तस्य नि-
षेधात् । अथ सावधनिवृत्तोऽसाविति तत्र नाधिकारी । ननु यदि यतिः सावद्यानिवृत्तस्ततः को दोषो यत्स्नानं कृत्वा
देवतार्चनं न करोति, यदि हि स्नानपूर्वकदेवतार्चने सावद्ययोगः स्यात्तदासौ गृहस्थस्यापि तुल्य इति तेनापि न कर्तव्यं
स्यात् । अथ गृहस्थः कुटुम्बायर्थेऽपि सावये प्रवृत्तस्तेन तत्रापि प्रवर्तताम् , यतिस्तु तत्राप्रवृत्तत्वात्कथं स्नानादौ प्रवर्तते
इति । ननु यद्यपि कुटुम्बाचर्थ गृही सावये प्रवर्तते तथापि तेन धर्मार्थ तत्र न प्रवर्तितव्यं स्यात्, यतो "नैकं पापमाच-
रितमित्यन्यदप्याचरितव्यं स्यात्।। अथ कूपोदाहरणात् पूजादिजनितमारम्भदोषं विशोध्य गृही गुणान्तरमासादयतीति
युक्तं गूहिणः स्नान पूजादि । ननु यथा गृहिणां कूपोदाहरणात् स्नानादि युक्तमेवं यतेरपि तयुक्तमेव, एवं च कथं स्ना-
नादौ यतिनीधिकारी।इति पूर्वपक्षः ॥ अत्रोच्यते, यतयो हि सर्वथा सावधव्यापारानिवृत्ताः, ततश्च कूपोदाहरणेनापि
२१ भण्यतेऽत्र विभाषा, य एतानि स्वयं विमार्गयेत् ॥ नैव तस्य भवेच्छुद्धिरथ कश्चिद्धरेदेतानि ॥१॥
२२ सर्वस्थाम्ना तत्र, सोन भवति लगितव्यं तु ॥ सचारित्राचारित्रिणां एतत् सर्वेषां कार्य तु ॥१॥

अष्टक
द्वितीय
स्नानाष्टकं
॥१५॥
५लो
तत्र प्रवर्तमानानां तेषामवद्यमेव चित्ते स्फुरति न धर्मः,नत्र सदैव शुभध्यानादिभिः प्रवृत्तत्वात् ,गृहस्थास्तु सावधे स्वभा
पतः सततमेव प्रवृत्ता न पुनर्जिनार्धनादिद्वारेण स्वपरोपकारात्मके धर्मे,तेन तेषां तत्र प्रवर्तमानानां स एव चित्ते लगति
न पुनरषद्यमिति कर्तृपरिणामवशादधिकारी(२)तरौ मन्तव्याविति स्लानादौ गृहस्थ एवाधिकारी न यतिरिति । आगमोऽ-
प्येवं व्यवस्थितः। यदाह ॥ “छज्जीवकायसंजमो, दव्वत्थाए सो विरुज्झए कसिणो । तो कसिणसंजमविऊ, पुप्फाईयन
इच्छन्तिर३ ॥१॥ अकसिणपवत्तगाणं, घिरयाविरयाण एस खलु जुत्तो॥ संसारपयणुकरणे, दव्यथए कूवदितो॥२॥
तथा द्रव्यस्तवरूपत्वात् पूजाया, तस्य च भाषस्तवहेतुत्वात्प्रधानत्वाब यतीनां न द्रव्यस्तवेऽधिकारः । अत एव सामा-
यिकस्थः आपकोऽप्यानधिकारी, तस्यापि सापनिवृत्सतया भावस्तवारूढत्वेन श्रमणकल्पत्वात् । अत एव गृहिणोऽपि
प्रकृत्या पृथिव्याधुपमईनभीरोयतनावतः सापये संक्षेपरुचेर्यतिक्रियानुरागिणो न धर्मार्थ सावद्यारम्भप्रवृत्तिर्युका । य-
दाह।। " असदारम्भपवतो, जं च गिही तेण तेसि विन्नेया। सन्निविशिफलचिय, एसा परिभावणीयमिणम् २५ ॥१॥"
न पायमनन्तरोदितोऽसदारम्भप्रवृतस्तत्कयं तस्य तन्निवृत्तिफलस्वेन स्नानादौ सावद्यारम्भे प्रवृत्तियुक्ता । अत: स्थित-
मिदं न सर्व एव सर्वस्याधिकारी, किन्तु य एवैकत्राधिकारी स एवान्यत्रानधिकारीति ॥५॥
२३ षड्जीवकायसंयमो द्रब्यस्तवे स विरुभ्यते कृत्स्नः । तस्मात् कृत्स्नसंयमविदः पुष्पादिकं नेच्छन्ति ॥१॥
२४ अकृत्स्नप्रवर्तकानां विरताविरतानामेष खलु युक्तः । संसारप्रतनुकरणो द्रव्यस्तचे कूपरष्टान्तः ॥१॥
२५ असदारम्भप्रवृत्ता यच्च गृहिणस्तेन तेषां विज्ञेया । तत्रिवृत्तिफलैवैषा परिभावनीयमिदम् ॥१॥

१ वादनाचाह । ध्यानाम्भसा तु जीवस्य, सदा यच्छुद्धिकारणं ॥ मलं कर्म समाश्रित्य, भावस्नानं तदुच्यते ॥६॥ (कृत्तिः) ध्यानं शुभचिौकाग्रतालक्षणं धर्मादि, तदेव 'अम्भों जलं 'ध्यानाम्मः' तेन, 'तु'शब्दः पुनरर्थः स च द्रव्य- स्नानमावस्नानयोर्विपर्ययलक्षणविशेषाभिधानार्थः, 'जीवस्य' आत्मनः, 'सदा सर्वकालम् ,'यदि ति स्नानम् , 'शु- द्विकारणं' निर्मलत्वहेतुः, 'तद्भावस्नानमुच्यते' इति सम्बन्धः। प्रक्षालनीयप्रदर्शनायाह । 'मलं' मालिन्यनिबन्धनम्, 'कर्म' ज्ञानावरणादिलक्षणम् , समाश्रित्य 'अङ्गीकृत्य, 'भावान्' ध्यानादीनाश्रित्य भावतो'चा परमार्थतः स्नान 'भाव स्नान, "तदित्येवम्भूतम् , उच्यते'तत्स्वरूपविद्भिरभिधीयत इति ॥६॥ अस्यैव कारकभेदेनोसमानुसमस्वरूपतामाह ॥ ऋषीणामुत्तमं ह्येत-निर्दिष्टं परमर्षिभिः ।। हिंसादोषनिवृत्तानां, व्रतशोलविवर्धनम् ॥७॥ (वृत्तिः) पश्यन्ति यथावदस्त्विति 'ऋषयो' मुनयस्तेषाम् ,'हि'शब्दोऽवधारणार्थस्तेन ऋषीणामेव, उत्सम प्रधानम् , 'एतत्' भावस्नानम्, 'निर्दिष्टं प्रतिपादितम्, 'परमर्षिभिः' मुनिपुणवैः सर्वरित्यर्थः। ऋषीणामुत्तममिति विशेषण- सामर्थ्यादन्येषां त्वनुत्तममेव तदिति सिद्धम् , तेषां विशिष्टधर्मध्यानाभावादिति । अथवा भाषीणामुत्तममेतदेवे'त्येव- मवधारणं दृश्यम्, ततश्चोत्तमत्वात्सदेव तेषां विधेयं न तु देवार्चनार्थ द्रव्यस्नानमपि । किम्भूतानामृषीणामित्याह । हिंसा' प्रमत्तयोगात्प्राणव्यपरोपणं, स एष 'दोषो' दूषणं, हिंसादोषस्तो 'निवृत्ता' उपरता येते तथा तेषां 'हिंसा. दोषनिवृत्तानाम् । मनु ऋषय एवंविधा एव भवन्तीति विशेषणमिदमनर्थकम् । नैवं हेतुतयास्योपन्यासात् । ततश्च क्र.

प्रक०० द्वितीयं स्नानाष्टकं ॥१६॥ ८ श्लो षीणामुत्सममिदं हिंसादोषनिवृत्तत्वादिति वाक्यार्थः स्यात् । किम्भूतमिदमित्याह । 'व्रतानि ' महाव्रतानि, 'शीलं'च समाधिः,अथवा व्रतानि मूलगुणाः,शीलमुत्सरगुणास्तेषां विशेषेण 'वर्धन' वृद्धिकारणं 'बतशीलविवर्धनम्,' भावस्नानं हिशुलध्यानरूपतितद्विवर्धर्न भवत्येवेति ॥७॥ उपसहरनाह । :: स्नात्वामेन यथायोग, निशेषमेलवर्जितः॥ भूयौँ न लिप्यते तेन, स्नातकः परमार्थतः ॥६॥ (कृत्तिा) स्नात्वा शौर्च विधाय, 'अनेन भावहेतुद्रव्यस्नानेन भाषस्नानेन च, यथायोग' यथासम्बन्धं द्रव्यस्नानेन मलिनारम्भी भावस्नानेन चेतरः, 'निःशेषमलवर्जितः' पारम्पर्येण साक्षाच सकलकर्ममलमुक्तो भवतीतिशेषः, शेष: करणं विना एककर्तृकत्वाभावात् क्त्वाप्रत्ययो न स्यादिति शेषः कृत इति । एवम्भूतश्च सन् 'भूयः' पुनरपि, न लिप्यते' नोपर्दियते, 'तेन कर्ममलेन, एवं च 'स्नातकः' स्नातः, 'परमार्थतो' वस्तुवृत्त्या भवति। स्नानान्तरस्नातस्तु परमार्थतः स्नातो भवत्ति विवक्षितमलविगमाभावात् पुनर्मलोपलेपनाति । ततो हे कुतीथिका यदि यूयमक्षेपेण पारमार्थिक (परमार्थतः स्नातका भवितुमिच्छय तदा भावस्नानेनैव स्नात,मा द्रव्यस्नानेन, मलिनारम्भिणामेव तस्योक्तत्वादिति इदु- या भयवा एवं व्याख्या 'स्मात्या अनेने त्यनन्तरोक्तभावस्नानेन यथायोगं'यथायुक्ति, निःशेषमलवर्जितः सन , भूयो न लिप्यते तेन' कोऽसावित्याही स्नातक परमार्थतः पारमार्थिकस्नातक इत्यर्थः । इह च क्त्वाप्रत्ययो रूढिवशादिति ॥६॥ ॥ द्वितीयाष्टकविवरण समाप्तम् ||२|| ॥ अथ तृतीयं पूजाष्टकम् ॥ स्नानान्तरं देवता पूजनीयेति पूजास्वरूपाभिधानायाह । तथा ये मन्यन्ते श्वेतभिक्षवो देवतामभ्युपगम्यापि न तां पूजयन्तीति तेषामनर्थकस्तदप्युपगम इति तन्मतनिरासाय च पूजाष्टकमाह ॥ अष्टपुष्पी समाख्याता, स्वर्गमोक्षप्रसाधनी ॥ अशुद्धतरभेदेन, द्विधा तत्वार्थदर्शिमिः ॥ १ ॥ (वृत्तिः) 'अष्टौ पुष्पाणि' पूजात्वेन समाहृतानि 'अष्टपुष्पी,' अथवा 'अष्टौ पुष्पाणि' कुसुमानि यस्यां पूजायां सा अष्टपुष्पी' च । नदादिदर्शनाच ईप्रत्ययः। इयं च जघन्यपदमाश्रित्योच्यते न पुनरष्टावेव पुष्पाण्यारोपणीयानि । यवक्ष्यति "+स्तोकैर्वा बहुभिर्वापि” इति । अष्टपुष्प्या च देवपूजने कारणं वक्ष्यति । विधेत्यस्येह सम्बन्धात् द्वाभ्यां प्रकाराभ्यां 'विधा' विप्रकारा । 'समाख्याता' सम्यगभिहिता । 'तत्त्वार्थदर्शिभिः' इतीह सम्बध्यते । तत्त्वभूता अर्था जीवादयस्तान् , तत्वेन वा परमार्थवृत्त्या अर्थान्पश्यन्तीत्येवंशीलास्तत्त्वार्थदर्शिनस्तैः । कथं विधेत्याह।' अशुद्धतरभेदेन' अशुद्धा च सावधतया इतरा च निरवधतया अशुद्धतरे ताभ्यां कृत्वा तयोर्वा भेदो विलक्षणता ' अशुद्धतरभेदरतेन । इह चेतराशब्दस्य पुंवद्भावो, "वृत्तिमात्रे सर्वादीनां पुंवद्भाव" इति वचनात् । फलतस्तां निरूपयन्नाह । स्वर्गमोक्षप्रसाधनी' आद्या देवलोकसाधनी, द्वितीया तु निर्वाणसाधनीत्यर्थः। पाठान्तरे तु स्वर्गमोक्षप्रसाधनादेतोधिा, एतदेव कथम्, अशुद्धतरमेवेन इत्येवं पदयोजना कार्येति ॥१॥अशुद्धां श्लोकदोन तावदाह ॥ + अष्टक ३ श्लोक. २॥

तृतीयं पूजाष्टकम् ॥ १७॥ २-३श्लो. शुद्धागमैर्यथालाभं, प्रत्यप्रैः शुचिभाजनैः ॥ स्तोकैर्वा बहुभिर्वापि, पुष्पैर्जात्यादिसम्भवैः ॥२॥ अष्टापायविनिर्मुक्त-तदुत्थगुणभूतये ॥ दीयते देवदेवाय, या साऽशुद्धत्युदाहृता ॥ ३ ॥ (वृत्तिः) 'शुद्धो' निर्दोष 'आगमः' प्राप्त्युपायो येषां तानि 'शुद्धागमानि,' न्यायोपात्तपित्तनाचौर्येण वा गृहीतानीत्यर्थः, तेः 'पुष्पैः,' 'दीयते देवदेवाय या साऽशुद्धत्युदाहृता' इति सम्बन्धः । कथं दीयते इत्याह । लाभस्यानक्रिमेण 'यथा- लाभ' प्रवचनप्रभावनार्थमुदारभावेन मालिकाद्यथालाभगृहीतैर्देशकालापेक्षया चोत्तममध्यमजघन्येषु यानि लब्धानि तैः पुष्पैरिति भावना । 'प्रत्यौः' अपरिम्लानः, 'शुचिभाजनैः' पवित्रपटलकाद्याधारैः, इतरथा लानादिशौचमपि न मनो- निवृत्तिमापादयेदिति । 'स्तोकैरल्पैः प्रत्यपायापगमं पुष्पदानादष्टभिरित्यर्थः। 'बहुभिर्भूरिभिस्तदुरेशेन बहूनां दानात् वाशब्दौ स्तोकबहुपुष्पपुञ्जयोर्षहुमानप्रधानस्य फलम्प्रत्यविशेषप्रतिपादनार्थो । अपिशब्दश्च समुच्चयार्थ इति। 'पुष्पैः कुसुमैः, 'जात्यादिसम्भालतीप्रभृतिप्रस(भ)वैरादिशन्दाद्वि चकिलादिपरिग्रहः। इह कश्चिदाह। जात्यादिग्रहणं सुवर्णादिसुमन- सां निषेधार्थ जात्यादिकुसुमानि हि सकृदारोपितानि निर्माल्यमिति कृत्वा न पुनः पुनरारोप्यन्ते, सौवर्णादीनि तु पुनः पुनरारोपणीयानि भवन्ति, निर्माल्यारोपणदोषश्चैवं प्रसज्यत इति । एतच्चायुक्तम् ॥ "कंचणमोत्तियरयणा-दामएहिं च विविहिं॥२६” इत्यनेन तेषामनुज्ञातत्वात्, पुनरारोपणनिषेधे तु का किमाह किन्तु यदा नोत्तार्यन्ते तदा निर्माल्यारोपण- दोषोऽपि न स्याजात्यादिकुसुमानि हि कालातिक्रमेण विगन्धीनि भवन्त्यवश्यमुत्तारणीयानि स्युः, सौवर्णादीनि तु न २६ काश्चनमौक्तिवारमादिदामकैश्च विविधैः ॥

तथेति नावश्यमुत्तारणीयानि तथाविगन्धत्वाभावादेव तेषां पुनरारोपणेऽपि न तथाविधो दोष इति मन्यते ॥ यदपि कैश्चिदुच्यते अलङ्कारारोपणमयुक्तं वीतरागाकारस्याभावप्राप्तेस्तदपि न युक्तम् ॥ पुष्पारोपणेऽपि तथाप्रसङ्गात् , यथा हि आभरणानि वीतरागस्य नोपपद्यन्ते एवं पुष्पाण्यपि, उभयेषामपि सरागैराचरितत्वादिति। अष्टपुष्पीविधाने कारणमाह। अपायोऽनर्थस्तद्धेतुत्वादपाया ज्ञानावरणादयः, 'अष्टावपायाः' समाहृता 'अष्टापायं' तस्माविशेषेण प्रकारान्तरेणैव दग्धरज्जुकल्पकरणतः भवोपग्राहिभ्यश्चतुर्य इत्यर्थः, नितरां निःसत्ताकतया चतुर्य एवघातिकर्म यो मुक्तोऽपेतो धात्व- थैमानवृत्ती वा विशब्दनिशब्दाविति विनिर्मुक्त इव विनिर्मुक्तोऽष्टापायविनिर्मुक्त'स्तथा तस्मादष्टापायविनिर्मोक्षणा- 'दुत्था' उत्थानं यस्याः सा तदुत्था गुणा अनन्तज्ञानदर्शनादयस्तेषां भूतिः प्रादुर्भावात एव वाभूतिर्लक्ष्मीर्गुणभूतिस्तदुत्था गुणभूतिर्यस्य स तथा, 'अष्टापायविनिर्मुक्तरतदुस्थगुणभूति'श्च यः स तथा तस्मै, यद्यपीह गुणीभूतं विनिर्मोचनं क्त- प्रत्ययार्थस्यैव प्रधानत्वात्तथापि तच्छब्देन तदेव परामृश्यते वक्त्रा तथैव विवक्षितत्वात् , दृष्टश्चायं न्यायो यथा “सम्यग्- ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिरिति तद्व्युत्पाद्यते" इत्यादाविति। 'दीयते' वितीर्यते, 'देवदेवाय'स्तुत्यस्तुत्याय, 'या'ऽष्टपुष्पी, साऽ शुद्धा' सावधा. 'उदाहृता' सर्वज्ञैरभिहितेति । ननु अष्टापायविनिर्मुक्तोत्था एतदिनिक्षिणोत्था गुणभूतिर्यस्ये- त्यनेनैवाष्टपुष्पीनिषन्धनस्यावसीयमानत्वारिक नु तच्छन्दोपादानेनेति? । नैवम् । अष्टापायविनिर्मुक्ताय दीयते इत्यनेनाष्ट- पुष्पीनिबन्धनमाह, तदुस्थगुणभूतये इत्यनेन (त) चतुष्पुष्पिकाया अनन्तज्ञानदर्शनसुखवीर्यचतुष्टयरूपत्वादष्टकर्मविनिर्मु- क्तिप्रभवगुणानाम् । अष्टापायविनिमुक्तायेत्यनेनैवावसितमिदमिति चेन्न, सिद्धानां हि कैश्चित्प्रकृतिवियोगात् ज्ञानाभावः

अष्टक
तृतीयं
पूजाष्टकम्
॥ १८॥
२-३ श्लोक
शरीरमनसोरभाषाबी भाषो विषयाभावाच सुखाभावो भाष्यते तम्मतव्युदासार्थत्वादिस्थमुपन्यासः, तदावारकक्षये हि
तेषां न्यायप्राप्तत्वात् । पयेवं ज्ञानावरणपञ्चकक्षये केवलिनो शामपञ्चकप्रसको न चेष्यते "नम्मि उ(य) छाउमथिए
माणे२७" इति वचमात् इति । नैवम् , केवलज्ञानेनैव शेषज्ञानज्ञेयस्य प्रकाशितत्वेन तेषामनर्थकत्वासष्टत्वमुपदिश्यत इति।
एतेन तु पूर्वार्धन ये मन्यन्ते जिनविम्वप्रतिष्ठायामवस्थात्रयं कल्प्यते तेन बालावस्थाश्रयं स्नान निक्रमणावस्थोचितं
रथारोपणपुष्पपूजादिकं कैवल्यावस्थाश्रयं च वन्दनं प्रवर्तत इति तन्मतमपाकरोति । नाष्टापायविनिर्मुक्तिबारेण पूजा
क्रियमाणा गृहस्थावस्थां विषयीकरोति किन्तु कैवल्यावस्थामेव । ननु चिन्तनीयमिदं यदष्टापायविनि क्तिमालम्य कैव-
स्यावस्थायां पूजा कार्येति, यतो न चारित्रिणः स्नानादयो घटन्ते, तत्साधूनामपित्तत्प्रसक्ते, न च तचरितमनालम्बनीय-
मन्यथा परिणताप्कायादिपरिहार आचरणनिषेधार्थः कथं स्यात्, श्रूयते हि “एकदा स्वभावतः परिणतंतडागोदरस्था कार्य
तिलराशि स्थण्डिलदेशं च दृष्ट्वापि भगवान्महावीरस्तत्प्रयोजनक्तोऽपि साधुस्तत्सेवनार्थ न प्रवर्तितवान् मा एतदेवा-
स्मचरितमालम्ब्य सूरयोऽन्यांस्तेषु प्रवर्तयन्तु साधवश्च मा तथैव प्रवर्तन्तामिति” । सत्यं । किन्तु बिम्बकल्पोऽन्य इति
मन्यते, यथैव भावार्हति वर्तितव्यं न तथैव स्थापनार्हत्यपीति भावः । अत एव भगवत्समीपे गौतमादयः साधवस्तिष्ठ-
न्तिम तस्माद् तबिम्बसमीपावस्थाने तु तेषां निषेध उक्तः॥ यदाह॥ “जइविन आहाकम्म,भत्तिकयंतहविवजयंतेहि। भत्ती
खलु होइ कया, इहरा आसायणा परमा२८ ॥१॥ तथा॥ दुन्भिगन्धमलस्सावि, तणुरप्पेसम्हाणिया॥उभओ वाउवहो चेव,
२७ नशे तु छानस्थिके माने ।। २८ यद्यपि न आधाकर्म, भक्तिकृतं तथापि वर्जयनिः॥ भक्तिः खलु भवति कृता, इतरथा माशातना परमा ॥१॥
॥ १८॥

तेण उन्ति न चेहए२८ ॥ २॥” तेनैवायिका दण्डकं स्थापनाचार्य स्थापयन्ति, अन्यथा यथा भावाचार्यसमीपे नावश्यक
कुर्वन्ति तथा स्थापनाचार्यसमीपेऽपि न कुर्युः, च त प्रवर्तिनी स्थापयन्तीति वाच्यम्, प्रतिक्रमणकाल एव चैत्य-
बन्दनावसरे महावीरादेरवश्यं कल्पनीयत्वेन तदोषस्य समानत्वात् , नवाचार्य एव पुरुषो न भगवान्, न च वीतराग-
स्वेऽपि भगवत्समीपे आर्यचन्दनाद्यार्यिका रात्रौ तस्थुः । ननुप्रतिक्रमणादिकाले अर्हत्स्थापनां कृत्वा चैत्यवन्दने क्रियमाणे
आशातनादोषप्रसा इति। नैवं, जिनायतनेऽपि चैत्यवन्दनस्यानुज्ञातत्वात्। यदाह ।। "निस्सकडमनिस्सकडे, वावि ईए
सव्वहिं थुई तिन्नि । वैलं च चेइयाणि य, नाउँ इकिकया वावि३० ॥१॥” इत्सल प्रसङ्गैनैति ।। ३ ॥ अशुद्धाष्टपुष्पी
खरूपतं उक्ता, सैव स्वर्गप्रसाधनीति यदुक्तं तदधुना प्रदर्शयन्नाह ।।
सङ्कोणषा स्वरूपेण, द्रव्याद्भावप्रसक्ति(सूति)तः॥ पुण्यबन्धनिमित्तत्वाद् , विज्ञेया स्वर्गसाधनी ॥४॥
(वृत्तिः) 'सङ्कीर्णा अवयेन व्यामिश्रा, 'एषा' अनन्तरोक्ताष्टपुष्पी, 'स्वरूपेण' स्वभावेन, कथमित्याह, 'द्रव्यात्'
पुष्पादे सकाशात्, भावप्रसक्ति(सूति तो भगवति चित्तप्रसादोत्पत्तेः॥ इदमुक्तं भवति॥पुष्पादिद्रव्योपयोगादषयं शुभ-
भावश्च स्यातामिति सङ्कीर्णत्वम् । इदं च न कर्मक्षपणनिमित्तम् , अपितु पुण्यबन्धनिमिसमेवेत्यत आह, 'पुण्यस्य शुभ-
कर्मणो 'बन्धों' बन्धनं तस्य निमित्तं कारणं पुण्यबन्धनिमित्तम् , तद्रावस्तत्त्वं तस्मात् 'गुण्यबन्धनिमित्तत्वात्', हेतोः,
२९ दुरभिगन्धमलनाविणी तनुरप्येषा स्नापिता । द्विधा वायुपथो(वहो)वापि तेन तिष्ठन्ति न चैत्ये ॥ २ ॥
३० निश्राकृतेऽनिश्राकृत वापि चैत्ये सर्वत्र स्तुतयस्तिस्रः । वेलां च चैत्यानि च शात्वैकैका वापि ॥ १॥

अष्टक
तृतीयं
पूजाष्टकम्
॥१९॥
५-६ श्लो
'विज्ञेया' अवसेया, 'स्वर्गसाधनी' देवलोकप्राप्तिहेतुः । उपलक्षणत्वात् सुमानुषत्वसाधनी पारम्पर्येण भावपूजानि-
बन्धनतां प्रतिपद्य मोक्षसाधनी चेति द्रष्टव्यमिति ॥४॥ अथ शुद्धामष्टपुष्पीमभिधातुमाह ॥
या पुनर्भावजैः पुष्पैः, शास्त्रोक्तिगुणसङ्गतैः॥ परिपूर्णत्वतोऽम्लान-त एव सुगन्धिभिः॥५॥
(वृत्तिः) 'या' अष्टपुष्पी 'पुनः' शब्द उक्तवक्ष्यमाणार्थयोर्विशेषद्योतनार्थः, 'भावजैः' आत्मपरिणतिसम्भवैः,
पुष्पैरिव 'पुष्पै वक्ष्यमाणलक्षणैरात्मधर्मविशेषैः, किम्भूतैः 'शास्त्रोक्तिगुणसातैः' शास्त्रमागमस्तस्योक्तिर्भणितिराज्ञा
इत्यर्थः सैव गुणो धर्मविशेषः तेन सातानि युक्तानि यानि तानि तथा तैः, कषादिशुद्धागमपारतन्त्र्यानुगतैरित्यर्थः ।
अथवा, शास्त्रोक्तिरेव गुणो दवरकस्तत्सङ्गतः, एतेनैषां मालारूपतोक्ता, तथा च द्रव्यपुष्पाण्यपि यदा मालां कृत्वाऽऽ-
रोप्यन्ते तदाष्टावपायापगमान् स्मृत्वाऽऽरोपणीयानीति दर्शितम्। पाठान्तरेतु शास्त्रोक्तगुणसातैरिति तथा (त्र) शास्त्रोक्त
(शास्त्रीय) समि(शमे)त्यादिगुणोपेतैरित्यर्थः । पुनः किम्भूतैस्तैरित्याह, 'परिपूर्णत्वतोऽम्लानैः' परिपूर्णतया सकलजीव-
मृषावादादिविषयत्वेन निरतिचारतया वा अम्लानैः म्लानिमनुपगतैः, 'अत एव' परिपूर्णत्वादेव, 'सुगन्धिभिः'
सगुन्धोपेतः, परिपूर्णताधर्म एवैषामम्लानिसुगन्धितालक्षणौ पुष्पधौं द्रष्टव्यावित्यर्थः, 'विधीयते सा शुद्धे'त्येवंरूपः
लोकापसाने वाक्यशेषो द्रष्टव्य इति ॥५॥नामतस्तान्येवाह ॥
अहिंसा सत्यमस्तेय, ब्रह्मचर्यमसङ्गता ॥ गुरुभक्तिस्तपो ज्ञानं, सत्पुष्पाणि प्रचक्षते ॥ ६ ॥
(वृत्तिः) प्रमत्तयोगात्प्राणव्यपरोपणं हिंसा तदभावोऽहिंसा' सैकं पुष्पम्प तथा सङ्कयो हितं 'सत्य'मनुतापाभावो
॥ १९॥

द्वितीयम् । तथा स्तेनस्य चौरस्य कर्म भावो वास्तेयं चौर्य तदभावोऽस्तेय' मिति तृतीयम् । तथा 'ब्रह्म' कुशलं कर्म तदेव
चर्यते सेव्यत इति 'चय 'ब्रह्मचर्यम्,'मनोवाकायैः कामसेवनवर्जनमित्यर्थः तच्चतुर्थम् तथा नास्ति सनोऽभिष्वनो यस्या-
सावसास्तदावोऽसाता' धर्मोपकरणातिरिक्तपरिग्रहपरिवर्जनं धर्मोपकरणस्यापरिग्रहत्वात् ॥ यदाह ॥ “जंपि वत्थं व
पायं वा, कम्बलं पायपुंछणं ॥ तंपि संजमलज्जा, धारन्ति परिहरन्ति य१ ॥१॥ न सो परिग्गहो वुत्सो, नायपुत्तेण
ताइणा ॥ मुच्छा परिग्गहो वुत्तो, इइ घुत्तं महेसिणा३२ ॥२॥” इतरथा शरीराहाराद्यपि परिग्रहः स्यादिति पञ्चमम्।।
तथा गृणाति शास्त्रार्थमिति गुरुः । आह च ॥ "धर्मज्ञो धर्मकर्ता च, सदाधर्मपरायणः॥ सत्त्वेभ्यो धर्मशास्त्रार्थ-देशको
गुरुरुच्यते ॥१॥” तस्य भक्तिः सेवा बहुमानश्च 'गुरुभक्तिरिति' षष्ठम् । तथा तापयतीति 'तपो'ऽनशनादि।
आह च ॥ “रसरुधिरमांसमेदो-ऽस्थिमजशुक्राण्यनेन तप्यन्ते ॥ कर्माणि वाऽशुभानी-स्यतस्तपो नाम नैरुक्तम् ॥१॥"
इति सप्तमम् । तथा ज्ञायन्तेऽर्था अनेनेति 'ज्ञानं सम्यक्प्रवृत्तिनिवृत्तिहेतुभूतो बोध इत्यष्टमम् इह समुच्चयाभिधायी च
शब्दो द्रष्टव्यः, 'सत्पुष्पाणि' अत्यन्तमेकान्तेन च विवक्षितार्थसाधकतया द्रव्यपुष्पापेक्षया सन्ति शोभनानि पुष्पाणीव
पुष्पाणि भावपुष्पाणीत्यर्थः, 'प्रचक्षते' शुद्धाष्टपुष्पीस्वरूपज्ञाः प्रतिपादयन्तीति ॥ ६॥ उक्तमेवार्थ वाक्यान्तरेणाह ॥
एभिर्देवाधिदेवाय, बहुमानपुरस्सरा ॥ दोयते पालनाद्या तु, सा वै शुद्धेत्युदाहृता ॥ ७॥
३१ यदपि वलं पा पात्रं षा कम्बलं पादपु(प्रो)ञ्छनं । तदपि संयमलजार्थ धारयन्ति परिहरन्ति (परिभुजते इत्यर्थः) च ॥१॥
३२ नासौ परिग्रह उको शातपुत्रेण जात्रा । मूर्ण परिग्रह उक्त इत्युक्तं महर्षिणा ॥२॥

तृतीयं पूजाष्टकम् प्रक० ० ॥ २०॥ ८ श्लो , , (वृत्तिः) 'एमि' रनन्तरोंदितभावपुष्पैः, 'देवाना' पुरन्दरादीनामधिको देवः पूज्यत्वात् 'देवाधिदेवः' प्रागुक्तो महादेवस्तस्मै, 'बहुमानः' प्रीतियोगः 'पुरस्सरः' प्रधानो यत्र सा बहुमानपुरस्सरा,' 'दीयते वितीर्यते, कथमित्याह, 'पालनात्' अहिंसादिपुष्पाणां परिरक्षणहरिण, तत्पालने हिं देवाधिदेवाज्ञा कृता भवति, आज्ञाकरणमेव च सर्वथा कृतकृत्य- स्य तस्य पूजाकरणं, न थाज्ञां विराधयता शेषपूजोद्यतेनाप्यसावाराधितो भवति, आज्ञेश्वरमहाराजवदिति, या तु' यैवाष्ट- पुष्पी, 'सा वै' सैव, 'शुद्धा' निरवद्या, 'इतिः' एवम्प्रकारार्थः, 'उदाहता' तत्ववेदिभिरभिहितेति ॥ ७॥ अर्थ शुद्धाया एव मोक्षसाधनीत्वं दर्शयन् विशेषेण सत्सम्मतत्वं प्रतिपादयन्नाह । प्रशस्तो नया भाव-स्ततः कर्मक्षयो ध्रुवः ॥ कर्मक्षयाञ्च निर्वाण-मत एषा सतां मता ॥ ८॥ (वृत्तिः) 'प्रशस्तः' प्रशस्यः शुद्धो, 'हिशब्दो' यस्मादर्थे । ततश्च यस्मात्प्रशस्तः, 'अनया' अनन्तरोदितत्वेन प्रत्यक्षासनया शुद्धाष्टपुष्प्या, 'भावः' आत्मपरिणामो, भवतीति गम्यते, न पुनद्रव्याष्टपुष्प्या जीवोपमर्दव्यामिश्रत्वात्त- स्याः, 'ततः' प्रशस्तभोवा कर्मक्षयो' ज्ञानाधरणादिकर्मविलयो, भवति, 'ध्रुवो'ऽवश्यम्भावि, 'कर्मक्षयात् चोक्तस्वरूपात्, 'चशब्दः' पुनरर्थः, 'निर्वाणं' मोक्षो भवतीति मोक्षसाधनी इयम् । 'अतः' प्रशस्तभावजन्यकर्मक्षयसाध्यनिवाणसाधन स्वाद , 'एषा' शुद्वाष्टपुष्पी, 'सतां' विदुषां यतीनामित्यर्थः, 'मता' विधेयत्वेनेष्टा, न पुनद्रव्याष्टपुष्पी।ततो है कुतीथिका यदि यूयं यतयस्तदा भावपूजामेव कुरुत इत्युक्तं भवति, अथवा यतोऽनया निर्वाणमतः सतां विदुषामेषा सम्मतेति ॥८॥ ॥ तृतीयाष्टकविवरण समाप्तम् ॥ ३ ॥ --Saket- ॥ अथ चतुर्थमग्मिकारिकाष्टकम् ।। पूजानन्तरमग्निकारिको लोकाः कुर्वन्तीत्यतस्तनिरूपणायाह ॥ कमेंन्धनं समाश्रित्य, दृढा सद्भावनाहुतिः॥ धर्मध्यानाग्निना कार्या, दीक्षितेनाग्निकारिका ॥ १ ॥ (वृत्तिः) 'कर्म' ज्ञानावरणादिकं मूलप्रकृत्यपेक्षयाष्टप्रकारं तदेव दाह्यत्वादपनेयत्वादिन्धनमिवेन्धन 'कर्मे- न्धनं, 'तत् 'समाश्रित्या'गीकृत्य,अग्निकारिका कार्येति योगः। किंविधा 'दृढा' कर्मेन्धनदाहं प्रति प्रत्यला, तथा 'सद्भा- धना' शुभरूपा या जीवस्य वासना, सैव 'आहुति'घृतादिप्रक्षेपलक्षणा यस्यां सा तथा, केन करणभूतेनेत्याह 'धर्म- ध्यानाग्निना' धर्मध्यानमुपलक्षणत्वाच्छुक्लथ्यानं चाग्निरिवाग्निर्धर्मध्यानं चासावग्नि श्च धर्मध्यानाग्निस्तेन । 'कार्या' विधेया । केनेत्याह, 'दीक्षितेन' प्रबजितेन, कासौ 'अग्निकारिका' अग्निकर्मेति । इत्थं चैतदङ्गीकर्तव्यं यतो दीक्षितस्य द्रव्याग्निकारिका अनुचिता तस्या भूतोपमर्दरूपत्वात्तस्य च तनिवृत्तत्वेन तत्रानधिकारित्वात्, “अधिकारिवशाच धर्मसाध- नसंस्थितिः"(अ.२ श्लो.६) इति प्रागुक्तम् , गृहरथस्तु सर्वथा भूतोपमर्दानिवृत्तत्वेनाधिकारित्वात्तां करोत्यपि । अत एव धूपदहनदीपप्रबोधादिना प्रकारेण द्रव्याग्निकारिकामपि कुर्वन्त्याहतगृहस्था इति ॥ अनेन श्लोकेनेदमुक्तं भवति ॥ यदि हे कुतीथिका यूयं दीक्षितास्तदा कर्मलक्षणाः समिधः कृत्वा धर्मध्यानलक्षणमग्नि प्रज्वाल्य सद्भावनाहुतिप्र- क्षेपतोऽग्निकारिका कार्या, न त्वन्यथा, तस्या दीक्षितानामनुचितत्वात् । यदि तु हन्त गृहस्थास्तत्तुल्या वा, ततः कुरुध्वं . ,

चतुर्थमनि
कारिका
प्रक० वृ०
ष्टकम् ॥
॥ २१ ॥
२-३लो
द्रव्याग्निकारिकामिति ॥१॥ अथ ध्यानाग्निकारिकैव कार्या दीक्षितेनेति परसिद्धान्तेनैव प्रसाधयन्नाह ॥
दीक्षा मोक्षार्थमाख्याता, ज्ञानध्यानफलं स च ॥ शास्त्र उक्तो यतः सूत्रं, शिवधर्मोत्तरे ह्यदः ॥२॥
(वृत्तिः) 'दीक्षा' प्रव्रज्या, 'मोक्षार्थ' सकलकर्मनिर्मुक्तिनिमित्तं 'आख्याता' तत्स्वरूपौर्निगदिता, यत एवं
ततस्तां प्रतिपन्नेन मोक्षसाधकमेवानुष्ठानमाश्रयणीयम् , न पुनद्रव्याग्निकारिकेति हृदयम् । द्रव्याग्निकारिकैव साधनं
मोक्षस्येत्याशङ्कानिराकरणायाह, 'ज्ञानध्यानफलं स चेति,' स पुनक्षिो विज्ञप्तिशुभैकाग्रत्वयोः साध्यं वर्तते, न पुन-
द्रव्यामिकारिकाया इति भावना। कथमिदमवसितं प्रत्यक्षायगोचरत्वात्तस्येति चेदत आह, 'शास्त्र उक्तः' आगमे
ज्ञानध्यानफलतयाभिहित इत्यर्थः, यद्यपि हि प्रत्यक्षानुमानयोरसावतीन्द्रियत्वेनागोचरस्तथाप्यागमाभिहितत्वात् ज्ञान
ध्यानफलतयाऽसौ प्रतिपत्तव्यः, आगमश्च प्रमाणतया सर्वमोक्षवादिभिरभ्युपगत एष, यद्यपि च बौद्धैः स तथा ने-
ष्यते, तथापि संशयविशेषनिवन्धनतया प्रवृत्तिनिवृत्तिहेतुत्वात्तैः कथश्चिदभ्युपगत एवेति। अथ कथमवसितमिदं यदुत
शास्त्रेऽसौ तत्फलतयाभिहित इत्याशझ्याह, यतो'यस्मात्कारणात् , 'सूत्र'मर्थसूचकं वाक्यं, 'शिवधर्मोत्तरे शिवधर्मा-
भिधाने पराभिमते शैवागमविशेषे, 'हि' रिति वाक्यालङ्कारे, ' अदः' एतवक्ष्यमाणलक्षणमिति, अतो भवदभ्युपगत-
शास्त्र मोक्षस्य ज्ञानादिफलतयोक्तत्वान्न मोक्षार्थिना दीक्षितेनाधिकृताया अन्याग्निकारिका कार्येति गर्भार्थ इति ॥२॥
तदेव सूत्रं दर्शयन्नाह ।
पूजया विपुलं राज्य-मग्निकार्येण सम्पदः ॥ तपः पापविशुद्धयर्थ, ज्ञानं ध्यानं च मुक्तिदम् ॥३॥
॥२१॥

, (धृत्तिः) पूजया' देवतायाः पुष्पाद्यर्चनलक्षणया, न तु तदन्यया तदन्यस्यास्तपोज्ञानरूपत्वेन पापविशुद्धिमोक्ष- योरेव सम्पादकत्वात् , 'विपुलं' विस्तीर्ण, 'राज्यं ' राजभावो भवति, तत्कारकस्येति गम्यते, अग्निकार्येण अग्नावग्निना वा कार्य कृत्यमग्निकार्य तेन द्रव्याग्निकारिकयेत्यर्थः,न तु भावाग्निकारिकया तस्या ध्यानरूपत्वेन मुक्ति- साधकत्वात् , 'सम्पदः' समृद्धयः, भवन्तीति गम्यम् , तथा 'तपोऽनशनादि, 'पापविशुद्धयर्थ' अशुभकर्मक्षयाय, भ- वति, तथा 'ज्ञान'मवषोधविशेषो, 'ध्यानं च' शुभचिसैकाग्रतालक्षणम् , 'च'शब्दः समुच्चये, 'मुक्तिदं' मोक्षप्रदं भव- तीति शिवधर्मोत्तरग्रन्थसूत्रार्थ इति ॥३॥ एवं तावत्परायुपगमेनैव द्रव्याग्निकारिकाकरणं दीक्षितस्य दूषितम् । अथ तस्यैव पूजां पुनरग्निकारिकां च प्रकारान्तरेण दृषयन्नाह ॥ पापं च राज्यसम्पत्सु, सम्भवत्यनघं ततः॥ न तद्धत्वोरुपादान-मिति सम्यग्विचिन्त्यताम् ॥४॥ (वृत्तिः) न केवलं मुमुक्षोरग्निकारिकाकरणमपार्थकं, 'पापं चाऽ'शुभकर्म च 'राज्यसम्पत्सु' नरपतिस्वसम- द्विषु पूजाग्निकारिकाकरणानन्तरफलभूतासु सतीषु, 'सम्भवति' संजायते, यत एवं 'ततस्तस्माद् , 'अनघं निरवणं, 'न' नैव भवति, तत्विोः' राज्यसम्पत्कारणयोः पूजाग्निकारिकारूपयोः, 'उपादान'माश्रयणम् , 'इति' एतदनन्तरोक्तं पूजाग्निकारिकयोस्पादानस्य सपापत्वं, 'सम्यक्' स्वसिद्धान्ताविरोधेन, 'विचिन्त्यता' पर्यालोच्यतामिति, सुपर्यालो- चितकारिणो हि भवन्ति मुमुक्षव इति ॥४॥ राज्यसम्पत्सु पापं भवर्त.त्युक्तम्, तदेवाश्रित्याक्षेपः क्रियते, ननु राज्य- सम्पदावे भवतु नाम पापं दानादिना तु तस्य शुद्धिर्भविष्यतीत्याशङ्क्याह ।

प्रक० ०
चतुर्थमनि
कारिका
ष्टकम्॥
॥ २२॥
५-६ श्लो
विशुद्धिश्चास्यतपसा, न तु दानादिनैव यत् ॥ तदियं नान्यथा युक्ता, तथा चोक्तं महात्मना ॥५॥
(पृत्तिा) विशोधनं 'विशुद्धिः,' सा 'च' पुनः, 'अस्य' राज्यादिजन्यपापस्य 'तपसा' अवधारणस्येह सम्बन्धात्
'तपसैव' अनशनादिनैव "तपः पापविशुद्धयर्थमिति" वचनात् , 'न तु दानादिना' न पुननिहोमादिना,“दानेन भोगा-
नामोतीति वचनात्,"तत्कथं दीक्षितस्य पूजाग्निकारिके युक्ते इति, इह च द्रव्याग्निकारिकाया एवं मुख्यं दूषणं पूजा-
यास्तु प्रासङ्गिकमित्यग्निकारिकाया एव निगमनमाह । 'तदियं नान्यथा युक्तेति' यस्मान्मुमुक्षोर्व्यर्थेयं पापसाधनसम्प-
हेतुभूताच, तत्तस्मादियमग्निकारिका,'न'नैव, अन्यथा'धर्मध्यानाग्निकारिकायाः प्रकारान्तरापन्ना द्रव्याग्निकारिकेत्यर्थः,
'युक्ता' सातेति, विशोधनार्हपापसम्पादकसम्पन्निमित्तत्वेन द्रव्याग्निकारिकाया अकरणीयत्वं व्यासस्यापि न्यायतः स-
म्मतमिति दर्शयन्नाह 'तथा चोक्तं महात्मनेति' 'तथा च' यथास्मदुक्तार्थसंवादो भवति तथैव, 'उक्त'मभिहितं, महात्मना'
परमस्वभावेन व्यासेनेति शेषः। इह च यन्मिथ्यादृष्टेरपि व्यासस्य महात्मकत्वाभिधाममाचार्येण कृतं तत् परसम्म
तानुकरणमात्रमात्मनो माध्यस्थ्याविष्करणार्थमिति न दुष्टम् , सम्मतश्च परस्य महात्मतया व्यासः, अत एव च तद्वचनं
स्वपक्षे परप्रीतिजननायोपन्यस्तमिति ॥५॥ तदेवाह ॥ (महाभारते वनपर्वणि द्वितीयाध्याये)।
धमार्थ यस्य वित्तेहा, तस्यानीहा गरीयसी ॥ प्रक्षालनाद्धि पङ्कस्य, दूरादस्पर्शनं वरम् ॥६॥
(पृत्तिः) 'धर्मार्थ धर्मनिमित्तं, 'यस्य' कस्यचित्पुंसः, 'वित्तेहा' द्रव्योपार्जनचेष्टा कृषिवाणिज्यादिका,
'तस्य' पुरुषस्थ, 'अमीहा' अचेष्टा वित्तानुपार्जनमेव, 'गरीयसी' श्रेयसीतरा साततरा इत्यर्थः, अयमभिप्रायो, वित्तार्थ
,
,
॥ २२॥

, चेष्टायामवश्यं पापं भवति तच्चोपार्जितवित्तवितरणेनावश्यं शोधनीयं भवति,एवं च वित्तार्थमचेष्टैव वरतरा वित्तवित- रणविशोध्यपापाभावात् परिग्रहारम्भवर्जनात्मकत्वेनाचेष्टाया एव च धर्मत्वादिति । अत्रार्थे दृष्टान्तमाह । 'प्रक्षाल- नात्' धावनात्सकाशात् , 'हि' यस्मात् , पङ्कस्याऽशुचिरूपकर्दमस्य, 'दूरात्' विप्रकर्षात् , 'अस्पर्शनं' असंश्लेषण- मेव, 'वरं' प्रधानमिति । इदमुक्तं भवति, यदि पके करचरणादिरवयवः क्षिप्त्वापि प्रक्षालनीयस्तदा वरमक्षिप्त एव, एवं यद्यग्निकारिकां विधाय सम्पद उपार्जनीयास्तजन्यपातकं च पुनर्दानेन शोधनीयं तदा सैवाग्निकारिका घरमक- तेति। प्रयोगश्चेह, न विधेया मुमुक्षूणां द्रव्याग्निकारिका, तत्सम्पाद्यस्य कर्मपङ्कस्य पुनः शोधनीयत्वात् , पादादेः पङ्क क्षेपवदिति । एवं तर्हि गृहस्थेनापि पूजादि न कार्य स्यात् , नैवम् , यतो जैनगृहस्था न राज्यादिनिमित्तं पूजां कुर्वन्ति, न च राज्याद्यावर्जितमवचं दानेन शोधयिष्याम इति मन्यन्ते, मोक्षार्थमेव तेषां पूजादौ प्रवृत्तेः, मोक्षार्थितया च विहि- तस्यागमानुसारिणो वीतरागपूजादेर्मोक्ष एव मुख्यं फलं, राज्यादि तु प्रासङ्गिकम् , ततो गृहिणः पूजादिकं नाविधेयम् । दीक्षितेतरयोश्च अनुष्ठानस्यानन्तर्यपारम्पर्यकृत एव फले विशेष इति ॥६॥ दीक्षितस्यापि सम्पर्थित्वे सति युक्ता द्रव्याग्निकारिकेत्याशङ्कानिराकरणायाह॥ मोक्षाध्वसेवया चैताः, प्रायः शुभतरा भुवि ॥ जायन्ते ह्यनपायिन्य, इयं सच्छास्त्रसंस्थितिः॥७॥ (वृत्तिः) 'मोक्षो' निर्वाणं तस्याध्वा मार्गः सम्यग्दर्शनज्ञानधरणलक्षणस्तस्य सेवाऽनुष्ठानं 'मोक्षाध्वसेवा' तया, 'च' शब्दः पुनःशब्दार्थः, ततश्चाग्निकारिकायाः कार्यभूताः सम्पदः पापहेतुतया अशुभा, मोक्षाध्वसेवया पुनः शुभ-

अष्टक
क. वृक्ष
चतुर्थमानि
कारिका
॥ २३ ॥
८लो.
तरा भवन्तीत्यर्थो लभ्यते, अवधारणार्थो वा चशब्दस्तेन मोक्षाध्वसेक्यैव नाऽग्निकारिकाकरणतः एता' अनन्तरोदिता
अग्निकारिकाफलभूताः सम्पदः, 'प्रायो'बाहुल्येन प्रायोग्रहणं च कस्यापि मोक्षाध्वसेवाभव(एव)निर्वाणभावान्न जायन्त
एवेति ज्ञापनार्थम् , 'शुभतरा',अग्निकारिकाकरणेभ्यः सकाशात्प्रशस्ततरा, 'भुवि ' पृथिव्याम् , 'जायन्ते' भवन्ति,
'हि' शब्दो यस्मादर्थः, 'अनपायिन्योऽपायवर्जिताः यस्मान्मोक्षाध्वसेवया प्रशस्ततरा अनपायिन्यश्च 'सम्पदो'जायन्ते,
तस्मादियमग्निक्रिया नान्यथा युक्तति प्रक्रमः । मोक्षाध्वसेवया शुभतरा एता भवन्तीति कथमिदमवसितमित्याशङ्का-
यामाह । इयं' अनन्तरोदिता, 'सच्छास्त्रसंस्थिति रविसंवादकागमव्यवस्था ॥ यदाह ॥ “ मोक्षमार्गप्रवृत्तस्य, महाभ्युदय-
लब्धयः॥ सञ्जायन्तेऽनुषण,पलालं सत्कृषाविध ॥१॥” मुमुक्षणां च शास्त्रं प्रमाणमेव ।यदाह॥ " न मानमागमादन्यत्,
मुमुक्षूणां हि विद्यते ॥ मोक्षमार्गे ततस्तत्र, यतितव्यं मनीषिभिः ॥१॥” इति ॥७॥
अथ परसमयसमाश्रयणेनैव द्रव्याग्निकारिकाकरणं निराकुर्वन्नाह ॥
इष्टापूर्त न मोक्षाङ्गं, सकामस्योपर्णितम्॥ अकामस्य पुनर्योक्ता, सैव न्याय्याग्निकारिका ॥८॥
(वृत्तिः) इज्यते दीयते स्मतीष्टम, यते स्मेति र्तम् , इष्टं च पूर्त चेति *'इष्टापूर्तमिति' समाहारद्वन्दः,छान्द-
सत्वाच 'इष्टापूर्तम् ,' तत्स्वरूपं चेदम् , ॥"xअन्तर्धेद्यां तु यहत्तं,ब्राह्मणानां समक्षतः॥ ऋत्विग्भिमन्त्रसंस्कारै-रिष्टं त-
*समाहारे पूर्वपददीघे व इष्टापूर्तम् ॥
+पृथिव्या मध्यस्थितत्वादन्तर्षेदीव । हरिद्वारावधिप्रयागपर्यन्ते शशस्थलीति ब्रह्मावर्त इति च ख्याते देशे ॥ १ अग्न्याधेयं पाकय-
॥२३॥

दभिधीयते ॥१॥ वापीकूपतडागानि, देवतायतनानि च ॥ अन्नप्रदानमारामाः, पूर्त तदभिधीयते ॥२॥” तदेवमुक्तस्व-
रूपमिष्टापूर्त, 'न' नैव, 'मोक्षाङ्ग' मुक्तिकारणम् , इहायमभिप्रायः, अग्निकारिकान मोक्षामिष्टकर्मरूपत्वात्तस्या य-
तोऽन्तवेद्यामाहुतिप्राधान्येन कर्माणीष्यन्त इति, कुतस्तन्न मोक्षामित्याह, 'सकामस्याऽभ्युदयाभिलाषिणः, यस्मात्तदि-
त्येष धाक्यशेषो दृश्यः, 'उपवर्णित'मुपदिष्टं भवदीयसिद्धान्त एव, यतः श्रूयते॥ "स्वर्गकामो यजेत " इत्यादि श्रुति-
वचनम् , तथा॥ "इष्टापूर्त मन्यमाना वरिष्ठं, नान्यछ्यो येऽभिनन्दन्ति मूढाः ॥ नाकस्य पृष्ठे ते सुकृतेन भूत्वा,इमं लोकं
हीनतरं वा विशन्ति ॥१॥"इति ॥ अथाकामस्य का वार्तेत्याशङ्कयाह, 'अकामस्य 'स्वर्गपुत्राद्यनाशंसावतो मुमुक्षोः, 'पुनः'-
शब्दः पूर्ववाक्यार्थापेक्षयोत्तरवाक्यार्थस्य विशेषाभिधायकः, 'या उक्ता' कर्मेन्धनमित्यादिना प्रतिपादिता, 'सैव'नान्या
पराभ्युपगता, 'न्याय्या' न्यायादनपेता, न्यायश्च दर्शित एव, 'अग्निकारिकाऽग्निक्रियेति ॥८॥
चतुर्थाष्टकविवरणं समाप्तम् ॥४॥
-नरQMe
शानग्निष्टोमादिकाम्मखान् ॥ यः करोति घृतो यस्य स तस्यविगिहोच्यते॥१॥ एकाग्निकर्महवनं त्रेतायां यश्च इयते। अन्तर्वेधां च यहानमिष्टं
तदभिधीयते ॥१॥ अग्निहोत्रं तपः सत्यं वेदानां चार्थपालनम् । आतिथ्य वैश्वदेवं च प्राहुरिष्टं सदा बुधाः ॥२॥

पंचम
भिक्षा
१-२ श्लो
॥अथ पञ्चमे भिक्षाष्टकम्॥
एवं च तात्त्विक महादेवं भावस्नानपूर्वकभावपूजया पूजयतो धर्मध्यानाग्निकारिकाकरणपरायणस्य मुमुक्षोरना-
रम्भितया निष्परिग्रहतया च धर्माधारशरीरस्थितिर्मिक्षयैवोपपन्नेति तत्स्वरूपनिरूपणायाह ॥
सर्वसम्पत्करी चैका, पौरुषत्री तथापरा ॥ वृत्तिभिक्षा च तत्त्वज्ञ-रिति भिक्षा त्रिधोदिता ॥१॥
(वृत्तिः) 'सर्वां' निरवशेषा ऐहिक्यामुष्मिकीर्मोक्षावसानाः, 'सम्पदः' श्रियः कर्तुं शीलं यस्याः सा सर्वसम्प-
करी,' 'चकार' उक्तसमुच्चये, एका' प्रथमा अद्वितीया वा प्रधानेत्यर्थः, 'पौरुषं पुरुषकारं, हन्ति' निष्फलीकरणेन ध्वंसय-
तीति 'पौरुषत्री,"तथेत्युक्तसमुच्चय एव,अथवा 'तथा' तेन वक्ष्यमाणप्रकारेण, 'अपरा' वितीया, अथवा न परा 'अपरा'
जघन्येत्यर्थः, वृत्तिर्वर्त्तनं जीविकेत्यर्थः तदर्था भिक्षा 'वृत्तिभिक्षा' सा च अन्येति गम्यते, 'च'कारो भिक्षासामांन्यस-
मुच्चयार्थः, 'तत्वः' परमार्थवेदिभिः, इति' एवमनन्तरोक्तेन प्रकारेण, भिक्षा' याश्चा, 'विधा' त्रिभिः प्रकारैः, उदिता'
अभिहितेति ॥१॥ तत्रायां तावदाह ॥
यतिानादियुक्तो यो, गुर्वाज्ञायां व्यवस्थितः। सदानारम्भिणस्तस्य, सर्वसम्पत्करी मता ॥२॥
(वृत्तिः) 'यतिः साधुः,तस्य सर्वसम्पत्करी मते ति क्रिया भिक्षेति प्रकृतमनेन च व्यवच्छेदफलत्वाचनस्य गृहस्थस्य
व्यवच्छेदः कृतः, यतिश्च द्रव्ययतिरपि स्यादतस्तद्व्यवच्छेदायाह, 'ध्यानादियुक्त तत्र ध्यानं भवशतसमुपचितकर्मवन-
॥२४॥

गहन ज्वलनकामखिलतमप्रकारप्रवरमान्तरतपःक्रियारूपं धर्मध्यानं शुक्लध्यानं च, आदिशन्दा निखिलपारलौकिकानु- छानप्रकाशनप्रदीपकल्पज्ञानपरिग्रहः, अतस्तेन ध्यानादिना युक्तो युतो यः स तथा, अनेन च तपःक्रियाज्ञानयुक्तत्ववि- शेषणेन केवलक्रियाकारिणः क्रियाशुन्यज्ञानवतश्च व्यवच्छेद उक्तः, केवलयोस्तयोरनर्थकत्वात्॥यदाहा"हयं नाणं किया- होणं,इया अन्नाणओ किया। पासन्तो पङ्गुलो दहो,धावमाणो उ अंधओ 33 ॥ १॥ इति। उभय(युक्तस्यैवार्थप्रसाधक- वातायदाह ॥ " संजोगसिद्धीइ फलं वयन्ति, न हु एगचक्केण रहो पयाइ ॥ अंधो य पंगू य वणे समिचा, ते संपउत्सा नगरं पविष्टा३४ ॥२॥” इति 'य' इति सामान्योऽनिर्दिटनामा ध्यानादियुक्त इनिविशेषगसामर्थ्यांसथाविधविशिष्टज्ञान- विकलानां माषतुषादिचारित्रिणां मा भूत्सर्वसम्मत्करभिक्षामतिषेव इत्यत आह 'गुर्वाज्ञायां व्यवस्थितः' गुरोरुगुणों- पेताचार्यस्याज्ञा वचनं तस्यां विशेषगावस्थितः, एष हि गुरुज्ञानत एव ज्ञानवान ज्ञान फलसिदे,यदाह ॥ “यो निरनुबन्ध- दोषात्, श्राद्वोऽनाभोगवान जिनभीरुः ॥ गुरुभक्तो ग्रहरहितः, सोऽपि ज्ञातै(न्ये)व तत्फलतः॥१॥"अथवा यो गुरुकुले वसतां प्रचुरसाधुत्वेन मनागनेषणीयभक्तभोजनसम्भवादिदोषोद्भावनतस्तन्निरपेक्षो भवति तस्यानेन व्यवच्छेद उक्तः, सदगुरूपदेशानंपेक्षो हि शाख्ने निन्द्यते ॥यदाह॥ “जे उ तह विवजस्था, सम्म गुरुलाघवं अयाणन्ता ॥ सग्गाहा किरि- परथा, पवयणखिंसावहा खुद्दा ३५ ॥१॥” इत्यादि, व्यवस्थित इह विशब्देन यः कदाचित् गुर्वाज्ञाव्यवस्थितः कदाचिद- ३३ इतं ज्ञानं क्रियाहीनं, हताऽज्ञानतः क्रिया ॥ पश्यन् पंगुर्दग्धः धावमानस्तु अन्धकः ॥१॥ ३४ संयोगसिद्धौ फलं वदन्ति, न खत्वेकचक्रेण रथः प्रयाति । अन्यश्च पंगुव वने समेत्य तौ सम्पयुक्तौ नगरं प्रविष्टौ ॥२॥ ३५ ये तु तथा विपर्यस्ताः सम्यग्गुरुलाघवं अजानन्तः। स्वाहात् क्रियारवाः प्रवचनखिसाबहाः क्षुद्राः॥१॥ (तुच्छापणाः करावा)

पंचम
मिक्षा
॥ २५॥
२लो.
न्यथा तस्यापि व्यवच्छेदः। ननु ये जिनकल्पिकप्रतिमाकल्पिकादयो गच्छनिर्गतास्तेषां गुर्वाज्ञाविकलानां कथं विवक्षित-
भिक्षामाक्त्वमिति, उच्यते,तत्कल्पस्यैव गुर्वाज्ञारूपत्वादिति। तस्येतीह दृश्यम् , ततस्तस्य यतेः किंविधस्येत्याह, सदाना-
रम्भिणः' सदा सर्वकालं अनारम्भिणः पृथिव्याशुपमर्दपरिहारिणः अनेन पृथिव्यादिषु असंयतस्य व्यवच्छेदः ध्यानादि-
योगस्यापि तदीयस्य निष्फलत्वात् ॥आह च॥ “सम्मरितिस्स वि अवि-रयस्स न तवो महागुणोहोइ॥ होइ हु हत्यिहाणं,
सुंदच्छिययं व तं तस्स ३६॥१॥” “तुन्दाकर्षणे हि पावद्भमिकाष्ठं दवरकेण मुच्यते तावदेव बध्यत इति । सदाग्रहणेन तु
यो विहितसमायिकपौषधतया कदाचिदनारम्भी देशतो यतिस्तस्य व्यवच्छेद उक्तो भिक्षाकत्वेन तस्यागमेऽनभिधा-
नात् । ननु य एकादशी प्रतिमा प्रतिपन्नः श्रमणोपासकस्तस्य प्रतिमाकालावधिकत्वादनारम्भकत्वस्य न तदा तावदाया
भिक्षा सम्भवति,नापि तदितरभितस्य वक्ष्यमाणतत्स्वामिलक्षणायोगादिति कास्य भिक्षेति?,अत्रोच्यते, तस्य श्रमण-
भूतत्वाभिधानात् तदिक्षाया अपि श्रमणभिक्षाकल्पत्वात्तस्यामवस्थायां तस्या आसोपदिष्टत्वाच सर्वसम्पत्करीकल्पत्व-
मवसेयम् , न बसर्वसम्पत्करमतत्कारणं वा विधेयतया वस्त्वाप्ता उपदिशन्ति आतत्वहानिप्रसङ्गादिति । इह ध्यानादि-
युक्त इत्यत्रादिशब्देन सदानारम्भित्वस्यावरोऽपि भेदेन तदुपादानं हेतुस्वार्थम् , ततश्च सदानारम्भिकत्वाद्रेतोः 'सर्व-
सम्पत्करी' उक्तनिर्वचना, मता. तत्वविदामिति ॥ सदानारम्भस्य हिपृत्तिर्भिक्षयैवान्यथा त्वारम्भिवप्रसङ्गात् , सा था-
नारम्भित्वादेव 'सर्वसम्पत्करी,' अत एव सातिप्रशस्या, ॥ यदाह, (इत्याह)। "अहो जिणेहिं असावज्जा, वित्ती साहूण
३६ सम्यग्दृष्टरप्यविरतस्य न तपो महागुणं भवति । भवति हु हस्तिस्नानं तुन्दाच्छिदमिव तत्तस्य ॥२॥ *तुन्दा मन्थानदण्डिका.
.
॥ १५॥

,
दे(दीसिया॥ मोक्खसाहणहेउस्स, साहुदेहस्स धारणा ३७ ॥१॥" ॥२॥ पुनरपि किम्भूतस्य तस्येत्याह ।।
वृद्धाबर्थमसङ्गस्य, भ्रमरोपमयाऽटतः ॥ रहिदेहोपकाराय, विहितेति शुभाशयात् ॥३॥
(वृत्तिः) अटतो'यतेः सर्वसम्पत्करी मिक्षा भवतीति प्रकृतम्, किमर्थमटत इत्याह, वृद्धार्थ वृद्धा वयापर्यायश्रुतस्थवि-
राःआदिशब्दावालग्लानशिष्य(शैक्ष)कमाघुर्णकादिपरिग्रहः तदर्थ तन्निमित्तमिति,अनेन स्वोदरविवरभरणप्रवणान्तःक-
रणस्य क्षपणकादेर्व्यवच्छेद उक्तः, वृद्धादिवैयावृत्त्यं हि सकलकल्याणवल्लरीकल्पकन्दकल्पं वर्तते, ॥यदाह ॥"वेयावर्ष
निवं, करेह संजमगुणे धरन्ताणं ॥ सव्वं किर पडिवाई, वेयावच्चं अपडिवाई ३८ ॥१॥” अतस्तनिरपेक्षस्य कथं सर्व-
सम्पत्करमिक्षामागित्वमिति, तथा 'असास्य' शब्दादिविषयेष्वनभिष्वास्य आह च ॥"सहाइएसु साहू,मुच्छं न क-
रेज्ज गोयरगओय॥ एसणजुत्तो होज्जा,गोणीवच्छो गवत्तिव्य३६ ॥१॥" अथवा वृद्धग्लानायर्थमटतोऽपि तदुशलब्धपे-
शलदालिशालिकूरादिभोजनेष्वलुब्धस्य, तदितरस्य तु तथाविधवैयावृत्त्यकरा(रणा)देर्व्यवच्छेदः, तथा 'भ्रमरोपमया'मधु-
करनिदर्शनेन यथा हि मधुकरः कतिपयमकरन्दकणस्वीकरणतः कुसुमक्लमाकरणेनात्मानमनुप्रीणात्येवमेव मुनिमधुकराः
स्तोकस्तोकानमकरन्दग्रहणतो गृहपतिप्रसूनपीडानापादनेन संयमात्मानमनुपालयन्तीत्येवंरूपेणेति,अनेन च य एकत्र स-
३७ अहो जिनरसावधा, वृत्तिः साधूनां देशिता (दर्शिता)। मोक्षसाधनहेतोः साधुदेहस्य धारणाय ॥१॥
३८ वैयावृत्त्यं नित्यं कुरुत संयमगुणान्धरताम् । सर्व किल प्रतिपाति वैयावृत्यमप्रतिपाति ॥१॥
३९ शब्दादिकेषु साधुः मूछों न कुर्यात् गोचरगतश्च । एषणायुक्तो भवेद् गोवत्सो गौरितीव ॥१॥

अष्टक
पंञ्चम
मिक्षा
४ श्लो
पनि भुङ्क्ते तस्य निरासः, एकत्र भोजने हि कश्चिदुद्गमदोषपरिहरणप्रयत्नपरस्थापि पुरंःकर्मपश्चात्कर्मासंयतचेष्टाक-
तदोषप्रसा इति, अटतः' पर्यटतो भिक्षाकुलेष्वनेन च अनटतो निषेधा, अनटनेन हि मिक्षाग्रहणेऽभ्याहृतदोषसावा,
अथ पे गृहस्थाः साधुषन्दनार्थमागच्छन्ति तदानयनेऽसौ न भविष्यति वन्दनार्थागमनस्य गृहस्थप्रयोजनत्वात्साध्यर्थम-
क्तानयनस्य च प्रासङ्गिकत्वादिति, नैवम् , अभ्याहृतदोषाभावेऽपिमालापहृतनिक्षितपिहितायनेकविधदोषप्रसात् , अथ
गृहस्थवचनप्रामाण्यात्तदषगमे तत्परिहारो भविष्यति, सत्यम् , किन्तु गृहस्थहस्तस्थापितादिदोषो दुष्परिहार्यः स्यादिति,
किंविधेन आशयविशेषेणाटत इत्याह, 'गृहिदेहोपकाराय' गृहिणां स्वशरीरस्य चोपग्रहार्थम् । तत्र गृहिणामारम्भररि-
प्रहगृहीतात्मनां दुर्गतिगमननिबन्धनकर्मबन्धवतां धर्मसाधककायोपकारकाहारग्रहणबारेणास्यन्तिकसुखफलनिर्वाणतरु-
घोजकल्पपुण्यसम्पादनत उपकारः, तथा स्वदेहस्याहारविरहितस्य सुद्धधर्मसौधशिखरमध्यासितुमशक्तस्थाहारलक्षणा-
बलम्बनदानत उपकारः। अनेन तु यो गृहिणामप्रीत्युत्पादनेन धर्मकायस्य चाहारलौल्याद्धर्मानुपग्राहकाहारग्रहणेनाप-
कारी तस्य निषेधः, तथा दैन्याच्छ्रीमत्पुत्रादितया लज्जमानो वा योटिति तनिषेधायाह, 'वहिता' यत्यवस्थोचिता इथं
तीर्थकरैरप्याचरितत्वादुपविष्टत्वाच, 'इत्ये' प्रकारात् . 'शुभाशया प्रशस्ताध्यवसायात, अथवा गृहिदेहोपकाराय वि.
हिता जिनैरुपविध भिक्षा इति एवंरूपाच्छुभाशयात इति प्रकृतमेवेति ॥३॥
उपविषयण पोषनी भवतीति तस्वरूपप्रतिपादनायोह।
प्रवज्या प्रतिपको य-सविरोधेन वर्तते । असदारमिणस्तक मेलानीति कीर्तिता ॥४॥

(पृत्ति:) प्रव्रज्या सर्वविरतिलक्षणां, प्रतिपनों'ऽभ्युपगतः सन्, 'या'प्राणी, तबिरोधेन'प्रत्रज्याविरोधेन मूलगुणोत्तरगुण- विराधनारूपेण पूर्वोक्तध्यानज्ञानगुर्वाज्ञानपेक्षत्वलक्षणेन वा हेतुना, वर्तते' चेष्टते, तस्येति' प्रवज्याविरोधवर्तिनः किंवि- घस्य 'असदारम्भिणः' असदशोभनं भूतोपमर्दादिकं वस्त्वारभत इत्येवंशीलो यः स तथा तस्य, 'पौरुषघ्नी' उक्त निर्व- चना मिक्षेति प्रकृतम् , 'इति' अनेनानन्तरोक्तेन वक्ष्यमाणेन वा कारणेन, कीर्तिता' संशन्दिता। ननु प्रवज्याविरोधाभि- धानादेवासदारम्भित्वस्यावगतत्वात्किमेतद्ग्रहणेनेति, सत्यं, किन्तु विवक्षितभिक्षाहेतुत्वेनाभिधानमस्येति न दोषः, तथा च यतोऽसौ असदारम्भी इतिहेतोस्तस्य पौरुषघ्नीति कीर्तितेति वाक्यार्थः स्यात् , अथवा तस्य प्रवज्याविरोधव- तिनः प्रवजितस्यासदारम्भिणश्वाशोभनारम्भस्य गृहिण इत्यर्थः असर्वदारम्भकस्य वाऽष्टम्यादिष्वारम्भवर्जकस्येत्यर्थः,इह च व्याख्याने समुच्चयार्थचशब्दाभावेऽपि समुच्चयः प्रतीयते॥ “अहरहनयमानोऽपि), गामश्वं पुरुषं पशुम् ॥ वैवस्वतो न तृप्येत, सुराया इव दुर्मदी ॥१॥' इत्यादाविवेति ॥४॥ यदुक्तं वक्ष्यमाणेन वा कारणेन तदाह'। अथवा प्रव्रज्याविरोधव- तिनं सामान्यं वा प्राणिनं प्रति पौरुषघ्न्या अन्वर्थघटनामाह। धर्मलाधवकृन्मूढो, भिक्षयोदरपूरणम् ॥ करोति दैन्यात्पीनाङ्गः, पौरुषं हन्ति केवलम् ॥५॥ (वृत्तिः) 'धर्मस्य श्रुतचारित्रलक्षणस्य, 'लाघ'मपभ्राजनं कर्तुं शीलमस्य धर्मलाघवं वा करोति "अनुचितकारिणः ख- स्थाहता" इत्यवर्णमुत्पादयति यः, स 'धर्मलाघवकृत् ,' तथा 'मूढो मुग्धो यः सदानारम्भिविहितायामपि भिक्षायाम- सवारम्भ्यपि तनुचितमात्मानमाकलयन्मोहमाश्रयति यो वा पूर्वोदितानि वृद्धार्थादीन्यटनविशेषणानि कुशास्त्रवासना-

अष्टक
प्रक..
पञ्चम
मिक्षा
॥ २७॥
.
६ लो.
वासितत्वेन नाश्रयति किमित्याह, भिक्षया' भिक्षणेन 'उदरपूरणं' जठरपिठरविवरभरणं, 'करोति विदधाति दैन्यात्'
दीनवृत्या, अवस्थाया घनौचित्येन भिक्षणेन मनसोद्धतस्यापि परमार्थतो दीनत्वमेव,विदुषामलाध्यत्वादिति। 'पीनाङ्गो
रोगाद्यपीडितत्वेनोपचितदेहः। अनेन चेदमाह। रोगादिपीडितदेहो भिक्षयोदरं पूरयन्नपि नोपहन्ति पौरुषं पौरुषस्य रो-
गादिभिरेव हतत्वादिति । इह च यतोऽसौ तस्मादितिवाक्यशेषो दृश्यः॥ 'पौरुषं' पुरुषभावं पुरुषकर्म वा पुरुषकारमि-
त्यर्थः, 'हन्ति' विनाशयति, 'केवलं' यदि परं न पुनः पुरुषार्थ कंधन पुष्णाति ॥ तथाहि ॥ न तावत्सस्य धर्मार्थमोक्षार्था-
वसदारम्भित्वात् नाप्यर्थार्थकामार्थो भिक्षाभोजित्वात् , भिक्षाकस्य यर्थकामौ सतामप्रशंसनीयाविति एवं चमिक्षयायः
पौरुषं हन्ति,तस्य पौरुषं भिक्षैव हन्ति इति तत्प्राधान्यात्पौरुषघ्नी भिक्षेति व्यपदिश्यत इति॥५॥अथ तृतीयभिक्षामाह ॥
निःस्वान्धपङ्गवो ये तु, न शक्ता वै क्रियान्तरे ॥ भिक्षामटन्ति वृत्त्यर्थ, वृत्तिभिक्षेयमुच्यते ॥६॥
(वृत्तिः) 'नि:स्वान्धपङ्गयो' निर्धनोपहतनयनचलनबलहीनाः,'ये' केचन,'तुशब्दः'पुनःशब्दार्थः। तस्य चैवं प्रयोगः, यः
प्रव्रज्याविरुद्धवृत्तिस्तस्य पौरपघ्नी भ क्षाचे पुननि:स्वादयः किंविधा वैशब्दस्यैषकारार्थना 'नासम्बन्धात्रैव 'शक्तास-
मर्थाः, 'क्रियान्तरे भिक्षाव्यतिरिक्त कृषिवाणिज्यादिके कर्मविशेषे, ये तु क्रियान्तरसमस्तेिषां पौरुषघ्न्येवेतिगर्भार्थः।
भिक्ष्यत इति 'भिक्षा' भिक्षणं वा भिक्षा,' ताम् 'अटन्ति भ्रमन्ति, किमर्थमित्याह, वृत्तिर्वर्तनं जीविका तस्यै इदं 'धृ.
क्यर्थ, तेषामिति गम्यते, 'वृत्तिभिक्षा' उक्तनिर्वचना, 'इयम्' एषा, 'उच्यते' अभिधीयते इति ॥६॥
किमियमेषामुचिता अनुचिता वेत्याशङ्कायामाह ॥
॥२७॥

- नातिदुष्टापि चामीषा-मेषा स्यान्न ह्यमी तथा ॥ अनुकम्पानिमित्तत्वाद्, धर्मलाघवकारिणः ॥७॥ (कृत्तिः)'' नैथ, 'अतिदुष्टा' अत्यन्तदोषवती पौरषत्रीव तद्भाजाम् , 'अपि चे'त्यस्यानुक्तसमुच्चयार्थत्वान्नातिप्रशस्या च सर्वसम्पत्करीव तदागिनाम् , अमीषां निःस्वान्धादीनाम् , एषा'ऽनन्तरोक्ता वृत्तिभिक्षा, स्यात् भवेत् ,कुत एतदेवमित्याह, 'न'नव, 'हि'शब्दो यस्मादर्थः, 'अमी' एते नि:स्वादयः, तथा' तेन प्रकारेण येन पौरुषत्रीभागिनः, धर्मलाघवकारिणः' जिनवचनावर्णहेतवः, कुत इत्याह, 'अनुकम्पानिमित्तत्वात् ' स्वविषये जनकरुणायाः कारणस्वात्तेषां तथाविधवालव- दिति । प्रयोगमात्र, धर्मलाघवहेतयो न भवन्ति न तेषां भिक्षादोषोऽस्ति यथा साधूनाम् , धर्मलाघवाहेतषम तथा नि:- स्वादयोऽतस्तेषां न दुष्टा भिक्षेति,न चाभ्यां हेतुदृष्टान्ताभ्यां निःस्वादीनां सर्वसम्पत्करी प्राप्नोतीति वाच्यम् ,अयतित्वेन तेन्यस्तस्या निवर्तित्वात्, सर्वसम्पत्करी हि यतित्वेन व्याप्ता, अतो यतित्वं निवर्तमानं तां निवर्तयतीति ॥७॥ इह भिक्षाकाणां भिक्षाफलं यथार्थस्तन्नामभिरेवोक्तमथ दातॄणां फलनिरूपणायाह ॥ दातॄणामपि चैताभ्यः, फलं क्षेत्रानुसारतः ॥ विज्ञेयमाशयाद्वापि, स विशुद्धः फलप्रदः ॥ ८॥ (पृत्तिः) न केवलं भिक्षाग्राहकाणां फलं सघसम्पत्करावृक्तलक्षणं भवति, 'दातृणामपि च' भिक्षादायकानामपि च गृहिणाम् , 'एताभ्यो' अनन्तरोदिताभ्यो भिक्षाभ्यः, पाठान्तरे तु एतेभ्यो यत्यादिभिक्षाकेभ्यः सकाशात्, ‘फलं' प्रयोजन कुशलकर्मवन्धादि भवति, कथमित्याह 'क्षेत्रानुसारतः' क्षेत्राणि धान्यावापभूमयस्तानीव ये यत्यादयो भिक्षाका धान्य- वपनसाधात्ते क्षेत्राणि तेषामनुसार आनुरूप्यं क्षेत्रानुसारस्ततः क्षेत्रानुसारतः तमाश्रित्य गुणवद्गुणविहीनपात्रा-

भिक्षा
॥२८॥
८लो.
पेक्षयेत्यर्थः, 'विज्ञेयं' ज्ञातव्यम् ॥तथाहि॥ गुणवते पात्राय दीयमानं महाफलम् ॥यदाहा(समणोवासगस गंभंत) तहा.
रूबंसमणं वामाहणंवा पडिहयपञ्चक्खायपावकम्मं तहाविहेणं फासुएणं एसणिज्जेणं असण पडिलामेमाणस्स मन्ते कि
कजा । गोयमा! एगन्तसो निजरा कजइ, नस्थि से अप्पे वि पावे कम्मेति ॥४०" तथा अल्पगुणाय दीयमानमसत्फल-
मेवायदाह,॥"तहारूवं समणं वा माहणं वा अपडिहयअपचक्खायपावकम्मं तहाविहेणं फासुएण वा अफासुएण वा एस-
णिज्जेण वा अणेसणिज्जेणवाअसण४ पडिलाभेमाणस्स भन्ते किंकजइ। गोयमा ! एगन्तसोपावे कम्मे कज्जह,नस्थि
से अप्पा वि निज्जरा ॥४१" अन्धादिदानं स्वनुकम्पारूपप्रशस्यभावपूर्वकत्वासेषामपगुणत्वेऽपि किश्चिच्छुभफलनिवन्धन-
मागमोक्तत्वात्तस्य॥ यदाह॥ “दण पाणिनिवहं,भीमे भवसायरम्मि दुक्खतं ॥ अविसेसओणुकंप,दुहावि सामस्थओ
कुणह४२॥१॥” 'क्षेत्रानुसारत' इति वा दानफलव्यवस्था व्यवहारनयमाश्रित्योक्ता।। अथ निश्चयनयमतेनाहा आशयात्'
अध्यवसायाच्छुभतरेतरादिभेदात् फलमिति प्रक्रमः अध्यवसायो हि शुभाशुभफलेषु परमं कारणं वर्तते ॥आह। “एक-
४० तथारूपं भ्रमण वा माहनं वा (ब्राह्मणं वा) प्रतिहतप्रत्याख्यातपापकर्माणं तथाविधन मासुकेन एषणीयेन अशन प्रतिलाम-
यता भदन्त किं क्रियते । गौतम, पकान्तेन निर्जरा क्रियते, नास्ति तस्य अल्पमपि पापं कर्मेति ॥
४१ तथारूपं भ्रमणं वा ब्राह्मणं वा अप्रतिहताप्रत्याख्यातपापकर्माणं तथाविधेन प्रासुकेन वा अप्रासुकेन वा एषणीयेन वा अने-
षणीयेन वा भशन प्रतिलामयता भदन्त किं क्रियते ? । गौतम! एकान्तेन पापं कर्म क्रियते, नास्ति तस्याल्पापि निर्जरा ॥
रष्ट्या प्राणिनिवह भीमे भवसागरे दुःखार्तम् । अविशेषतोऽनुकम्पां विधापि सामर्थ्यतः करोति ।
॥२८॥

म्मि वि पाणिवहम्भि, देसियं सुमहंतर समए । एमेव निजरफला,परिणामवसा बहुविहाय ॥१॥ ४३" 'निज्जरफलति'
तपःप्रभृतय इति। एवं च गर्वमत्सरादिपरिणामतो गुणवतेऽपि पात्राय ददतो न शुभफलम् , अनुकम्पाप्रवचननिन्दार-
क्षणादिपरिणामात् पुनरगुणवधानमपि शुभफलमिति । 'वाशब्दो' विकल्पार्थः 'अपिशब्दो' भिक्षायाः फलविशेष
प्रति कारणान्तरसमुच्चयार्थः, तच्च कारणान्तरं दातव्यविशेषो दानावसरो वा, दातव्यविशेषमाश्रित्योक्तम् ॥ (समणो-
वासगस्स णं भंते) तहारूवं समणं वा माहणं वा पडिहयपच्चक्खायपावकम्मं अफासुएणं अणेसणिज्जेणं असण४
पडिलाभेमाणस्स (भन्ते)किं कब ?। गोयमा! अप्पे पावकम्मे पहुययरा से निजरा४४" ॥तथा दानावसरमप्याधि-
त्योक्तम् ॥"संथरणम्मि असुद्धं, दुण्हवि गेण्हतदितयाणहियं। आउरदिढतेणं,तं चेव हियं असंथरणे॥१॥४५"एवममेकविधेषु
भिक्षाफलविशेषकारणेषु किमवश्यं फलविशेषसाधकमित्याशङ्कायामाह, 'स विशुद्धः फलपदः सोऽनन्तरोदिताशया,
'विशुद्धो निदानादिसकलकलङ्कुविकला, फलप्रद भिक्षासु विशिष्टस्वर्गापवर्गादिफलसाधको,यतः परिणामोऽन्तरामिह
कारणम्॥ यदाह॥"परमरहस्समिसीणं,समत्तगणिपिडगझरियसाराणापरिणामियं पमाणं,निच्छयमवलंबमाणाण॥१॥४"
४३ एकस्मिन्नपि प्राणिवधे देशितं सुमहदन्तरं समये। एवमेव निर्जरफलानि परिणामवशाबहुविधानि च ॥१॥
४४ तथारूपं श्रमणं वा ब्राह्मणं वा प्रतिहतप्रत्याख्यातपापकर्माणं अप्रासुकेन अनेषणीयेन अशन४ प्रतिलम्भयता किं कियते ।
गौतम, अल्पं पापकर्म बहुप्तरा तस्य निर्जरा ॥४५ संस्तरणेऽशुद्धं द्वयोरपि गृह्णहदतोरहितम्। आतुरदृष्टान्तेन तदेव हितमसंस्तरणे ॥५॥
४६ परमरहस्यं ऋषीणां समस्तगणिपिटकस्मृतसारापम् । पारिणामिकं प्रमाणं निश्चयमवलम्बमानानाम् ॥१॥

अष्टक
पञ्चमं
भिक्षा
॥ २९॥
८ श्लो.
ननूत्मप्रजिताः सिद्धपुत्रसारूपिलक्षणा भिक्षाका जिनागमे श्रूयन्ते ॥यतो व्यवहारचूामुक्तम्,“जो अणुसासिओ नप-
डिनियत्तो सो सारूवियत्तणेण वा सिद्धपुत्तत्तणेण वा अच्छिउं किंचिकालं,xसारूविओ नाम सिरमुण्डो अरजोहरणो
अलाउएहिं भिक्खं हिण्डइ अभज्जो य, सिद्धपुत्तो* नाम सवालओ भिक्खं हिण्डइ वा न वा,वराडएहिं वेटलियं करेइ
लदि(हि)वा वाव(ध) रेत्ति४७ ॥तत एतेषां भिक्षाकाणांकतमा भिक्षा । तत्र न तावत्सर्वसम्पत्करी तेषामयतिस्वात् ,
नापि पौरुषत्री त्यक्तप्रव्रज्यत्वेन प्रव्रज्याविरोधवर्तित्वाभावात्, नापि वृत्तिभिक्षा क्रियान्तरकरणसमर्थत्वात् ,भिक्षान्तरस्य
चानभिधानादिति। अत्रोच्यते॥ वृत्तिभिक्षेतिसम्भावयामो निःस्वत्वात्तेषां क्रियान्तरकरणासामर्थ्याच्च,उत्प्रव्रजितो हि प्रायः
क्रियान्तरकरणासमर्थो भवति, पौरुषन्नी वासौ,यतो न प्रव्रज्यापतिपत्नस्यैव सा,क्रियान्तरकरणसमर्थस्य अन्यस्याप्यशोभ-
नारम्भस्य तस्या इष्टत्वात्पौरुषहननलक्षणान्वर्थयोगाच्च,अथवा तेषामत्यन्तावधभिरूणां संवेगातिशयवतां पुनः प्रवज्यां
प्रति प्रतिवद्धमानसानां सर्वसम्पत्करीभिक्षाया बीजकल्पासौ स्यात् । तत्त्वं पुनरिह केवलिनो विदन्तीति ॥८॥
॥ पञ्चमाष्टकविवरणं समाप्तम् ॥ ५॥
४७ योऽनुशिष्टो न प्रतिनिवृत्तः स सारूपिकत्वेन वा सिद्धपुत्रत्वेन वास्थित्वा कश्चित्कालम् ,सारूपिको नाम मुण्डशिरा अरजोहरण:अलाबुकैः
मिक्षां हिण्डते अभार्यश्च(भवति),सिद्धपुत्रो नाम सवाल भिक्षां हिण्डते वा न वा घराटकै वेण्टलिकां करोति लब्धि (यष्टि) वा व्यापा(धा)रयति
इति ॥ *समान रूप सरूपं तेन चरतीति सारूपिकः ॥ रजोहरणवर्जसाधुवेषधारी गृहस्थः। मुण्डित शिराः शुक्लवास परिधायी कच्छा-
मबध्नानोऽभार्यो भिक्षां हिण्डमानः सारूपिक उच्यते ॥ मुंडसिराया सुकिल्लवत्थधरो नवियच्छं। हिंडा नवा अभजोसारुवी एरिसो
होई ॥१॥ इत्यादिस्वरूपमन्यत्र॥ xमुंड; सशिखाकः सभार्यको गृहस्थविशेषः सिद्धपुत्रः ॥सभार्यकोऽभार्यको वा णियमा सुक्कंबरधरो खुरमुंडो
ससिहो असिहो वा णियमा अडंडगो अपत्तगो य सिद्धपुत्तो भवति ॥२॥ इत्याद्यन्यत्र ॥
॥ २९॥

॥ अथ षष्ठं सर्वसम्पत्करीभिक्षाष्टकम् ॥
अधिकारिवशेन प्राग्भिक्षा निरूपितास्तासां च सर्वसम्पत्करी परमेति तस्या एवाथ स्वरूपमाह ॥
अकृतोऽकारितश्चान्य-रसंकल्पित एव च ॥ यतेः पिण्डः समाख्यातो, विशुद्धः शुद्धिकारकः ॥१॥
(वृत्तिः) 'अकृतः' क्रयणहननपचनैर्भोज्यतया स्वयमनिर्वर्तितः, एवमेव, अकारितश्च' अविधापितः, 'चकार' स-
मुच्चये, 'अन्यैः' कर्मकरादिभिः, 'असंकल्पित एव च ' क्रयणादिप्रकारैः साधवे इदं दास्यामीत्लनभिसन्धितोऽन्यैरेव
एवकारेणान्यथाविधपिण्डस्य साधोरग्राह्यतामाह आह च॥ “पिण्डं असोहयन्तो,अचरित्सी एत्थ संसओ नत्थिाचारि-
सम्मि असन्ते,सव्वा दिक्खा निरथिआ४८॥१॥” चकार उक्तसमुच्चये। अकृतादिपदैश्च क्रयणक्रायणतदनुज्ञानहननघा-
तनतदनुज्ञानपचनपाचनतदनुज्ञानलक्षणकोटीनवकशुद्धता पिण्डस्योक्तेति । 'यतेः' पृथिव्यादिसंरक्षणप्रयत्नवतः, 'पिण्ड'
ओदनादिरूपः,उपलक्षणत्वादस्य शय्योपकरणे च, 'समाख्यातो' विगतरागादिदोषसकलपदार्थसार्थस्वभावावभासनसह-
संवेदनेन निर्वाणनगरगमनासमानमार्गायमाणचरणकरणविशुद्धिहेतुतयोपलभ्य सम्यगभिहितस्तीर्थकरैरिति नान्तराय-
दोषारतेषां । पुनः किंविधः पिण्ड इत्याह । 'विशुद्धः' सकलदोषवियुक्तस्तथा विशुद्धत्वादेव 'शुद्धिकारकः' कर्ममल-
कलङ्कषिकलताकारीति । अथवा कस्मादकृतादिगुणः पिण्डो यतेः समाख्यात इत्याह, विशुद्धो विशुद्ध एव कृतादिदोष-
४८ पिण्ड अशोधयन् , अचारित्री अत्र संशयो नास्ति ॥ चारित्रे असति, सर्वा दीक्षा निरर्थिका ॥१॥

अष्टक
षष्ठं
सर्वसम्प-
स्करी
भिक्षा
१ श्लो
रहित एव 'शुद्धिकारको' भवति नान्यः, विशुद्धयर्थी च यत्तिर्भवप्रपञ्चोपचितकल्मषमलपटलस्येति ॥१॥
असंकल्पित एव चेत्युक्तं तस्य च परमतेनासम्भवमुपदर्शयन्नाह ।।
यो न संकल्पितः पूर्व, देयबुष्ट्या कथं नु तम् ॥ ददाति कश्चिदेवं च, स विशुद्धो पृथोदितम् ॥२॥
(वृत्तिः) 'यः' पिण्डो,'न' नैव, संकल्पितो'ऽभिसन्धितः, 'पूर्व' दानकालात् , 'देयबुद्धधा' दातव्योऽयं मया भिक्षुभ्य
इत्येघरूपया घिया, कथमिति' क्षेपे, 'नु' इति वितर्के,केन प्रकारेण न कथञ्चिदिति यावत्, 'तं' पिण्ड, 'ददाति'मिक्षुभ्यः
प्रयच्छति, 'कश्चित्' कोऽपि दायकः प्राणी न कोऽपीत्यर्थः, दानार्थमसंकल्पितस्यासत्वेन दातुमशक्यत्वादिति भावः ।
'एवं च' अमुना प्रकारेणासंकल्पितस्य देयस्यासम्भवे सति, 'सो'ऽसंकल्पितपिण्डो 'विशुद्धो' निरवद्य इति यदुक्तं प्राक्
तद्, वृथा' व्यर्थमसम्भवाद् , 'उदितं' भणितमिति ॥२॥
असंकल्पित एव पिण्डो ग्रायो यतेरिति अतस्तत्रैवान्युपगमे दूषणान्तरमाह ॥
न चैवं सद्गृहस्थानां, भिक्षा ग्राह्या गृहेषु यत्॥ स्वपराथं तु ते यत्नं, कुर्वते नान्यथा कचित् ॥ ३॥
(वृत्तिः) न केवलमसंकल्पितपिण्डासम्भवेन व्यर्थं तत्प्रतिपादनम् , भिक्षा च न ग्राह्या सद्गृहेषु भवतीति वाक्यार्थः।
पदार्थस्त्वेवं, नेति' प्रतिषेधे, 'चशब्दों' दूषणान्तरसमुचये, एवमिति' असंकल्पितपिण्डान्युपगमे सति, सद्गृहस्थानां'
ब्राह्मणादिशोभनागारिकाणां, 'गृहेबु' वेश्मसु, 'भिक्षा' समुदान, 'ग्राह्या' आदातव्या, कुत एवमेतदित्यत आह, 'यत्'
यस्मात्कारणात्, 'स्वपरार्थ तु' आत्मभिक्षाचरनिमित्तमेव, 'ते' सद्गृहस्था, 'यत्न' पाकनिर्वर्तनप्रयासं, कुर्वते विद्धति,
,
॥३०॥

'नान्यथा' भिक्षाचरदानासंकस्पेन स्वार्थमेव, 'कचित्' कदाचनापि, स्थनिमित्तमेव पाकप्रयत्ने सद्गृहस्थत्वायोगादिति,
यस्मात्॥"स्वकर्माजीवनं कुल्यैः,समानऋषिभिर्वैवाय,ऋतुगामित्वं,देवतापित्रतिथिभर्तव्यपोषणं,शेषभोजनं चेति गृहस्थ-
धर्मः" अतिथिश्च यतिरपि भवति भोजनकालोपस्थायित्वात्तस्यापीत्यर्थः ॥३॥ पर एवाचार्यमतमाशङ्कमान आह ॥
संकल्पनं विशेषेण, यत्रासौ दुष्ट इत्यपि ॥ परिहारो न सम्यक् स्या-द्यावदर्थिकवादिनः ॥४॥
(वृत्तिः) 'संकल्पनं ' अभिसन्धानं 'विशेषेण' अमुष्मै साधवे मयेदं दातव्यमित्येवमसामान्यतः, यत्र' पिण्डे, असौ
स एव पिण्डो, 'दुष्टों' दोषवामान्यः, इत्यपि'अयमनन्तरोदितोऽपि,न केवलमसंकल्पितपिण्डाभ्युपगमो न सम्यगित्यपि-
शदार्थः, 'परिहारः' पूर्वपक्षवाद्युक्तदूषणपरिहरणं,'न' नैव, सम्यक् सङ्गतः, ‘स्याद् भवेत् कस्येत्याह, 'यावदर्थिकवादिन'-
स्तव तत्रयावन्तो यत्परिमाणास्ते च तेऽर्थिनश्च भिक्षुकादयो यावदर्थिनस्ते प्रयोजनं यस्य निष्पादनेस यावदर्थिकः पिण्डः
तमपि परिहार्यतया यो वदतीत्येवंशीलः स तथा तस्य यावदर्थिकवादिनः' यावदर्थिनिमित्तनिप्पादितपिण्डपरिहारवादि-
स्वाद्भवत इति भावः॥ यतोऽभिहितम् ॥ "जावंतियमुद्देस, पासण्डीणं भवे समुद्देसं ॥ समणाणं आएसं, निग्गंथाणं
समाएसं ॥१॥"इति,तथा॥"असणं पाणगं वावि,खाइमं साइमं तहा॥जं जाणिज्ज सुणेज्जा वा,दाणा पगडं इम॥१॥
तं भवे (तारिस) भसपाणं तु, संजयाण अकप्पियं ॥ दितियं पडियाइक्खे,न मे कप्पइ तारिसं५० ॥२॥"पूर्वपक्षवाद्यवाह।
विषयो वाऽस्य वक्तव्यः, पुण्यार्थ प्रकृतस्य च॥ असम्भवाभिधानात् स्या-दाप्तस्यानाप्ततान्यथा ॥५॥
४९ यावतामिदमुद्देश, पाण्डिनां भवेत् समुद्देशं॥ श्रमणानामादेश,निर्ग्रन्थानां समादेशमिति ॥१॥ ५० अशनं पानं वापि,खादिम खादिम
तथायखानीयात् शृणुयाद्वा,दानार्थ प्रकृतमिदम्॥१॥तवेतपानं तु संयतानां अकल्पिक वाटकं प्रत्याख्यायात् ,न मे कल्पते तादृशम्॥२॥

अष्टक
क वृ०
षष्ठ
सर्वसम्प-
करी
भिक्षा
ष्टकम् ॥
॥३१॥
६ लो.
(वृत्तिः) यावदर्थिकपरिहारवादिना भवता पूर्वोक्तपरिहारासम्यक्त्वमभ्युपगन्तव्य,नो चेत् ‘विषयो वा' गोचरो वा,
वाशब्दो विकल्पार्थः, 'अस्य' यावदर्थिकपिण्डस्य, 'वक्तव्यः' वाच्यः, अमुमर्थिविशेषमाश्रित्य निर्वर्तितोऽयं परिहार्य इ-
त्येवं गोचरान्तरपरिकल्पनयैवायं शक्यः परिहत् नान्यथा इति भावः। तथा न केवलं यावदर्थिकपिण्डस्य विषयो वक्तव्यः,
'पुण्यार्थ' पुण्यनिमित्तं, 'प्रकृतस्य च' निष्पादितस्यापि स वक्तव्यो, यतः पुण्यार्थ प्रकृतस्यापि पिण्डस्य परिहारोऽभ्यु-
पगम्यते भवद्भिः॥ यदाह॥"असणं पाणगं वावि, खाइमं साइमं तहा ॥ जं जाणिज्ज सुणेज्जा वा, पुन्नट्ठा पगडं इम॥१॥
तं भवे०५१॥"इत्यादि, अशक्यपरिहारश्चायमपीति तस्यापिविषयविशेषो वाच्य इति भावः। अथ किं विषयान्तराभिधा-
नेनेत्याचार्यमतमाशंक्याह, 'अन्यथा' यावदर्थिकपुण्यार्थप्रकृतपिण्डयोर्विषयविशेषाप्रतिपादने, 'आप्तस्य' क्षीणरागद्वेषमो-
हदोषतयाव्यसकवचनत्वेनैकान्तहितस्य शास्त्रप्रणेतुः, 'अनाप्तता' अक्षीणदोषत्वेनाहितत्वं, 'स्याद्' भवेत् , कुत इत्याह,
असम्भवाभिधानात्' अविद्यमानः सम्भवो यस्य यावदर्थिकादिपिण्डपरिहारस्य सोऽसम्भवस्तस्याभिधानं तस्मात्,
असम्भवश्च तस्य स्वपरार्थ तुते यत्नं कुर्वते नान्यथा'(अ०६ श्लो०३)इत्यनेन दर्शित एव।।इति पूर्वपक्षः॥५॥अनोत्तरमाह।
विभिन्न देयमाश्रित्य, स्वभोग्याद्यत्र वस्तुनि ॥ संकल्पनं क्रियाकाले, तदुष्टं विषयोऽनयोः ॥६॥
(कृत्तिः) 'विभिन्न अतिरिक्तं, 'देयं' दातव्यमोदनादि, 'आश्रित्य' अङ्गीकृत्य, कुतो विभिन्नमित्याह, 'स्वभोग्यात्' वि-
बक्षितात्मीयौदनादिभोगार्हात्, 'यत्र' यस्मिन् , 'वस्तुनि' ओदनादिपदार्थे, 'संकल्पन'मेतावदिह कुटुम्बायैतावचार्थियः
पुण्यार्थं चेत्यभिसन्धानं, क्रियाकाले' पाकनिवर्तनसमये, 'तत्' इति यदेतत्संकल्पनं तत् , 'दुष्टं दोषवद् , 'विषयो'
५१ अशनं पानं वापि, खादिमं स्वादिमं तथा ।। यजानीयात् शृणुयाद्वा पुण्यार्थ प्रकृतमिदम्, ॥१॥ तद्भवेत्।।
॥३१॥

गोचरः, अन्योः' यावदर्थिकपुण्यार्थप्रकृतयोरपि एवंविधसंकल्पनवन्तातो पिण्डविशेषी परिहार्याविति संकल्पनान्तरं तु न दुष्टमित्येतदाह ॥ स्वोचिते तु यदारम्भे, तथा संकल्पनं क्वचित् ॥ न दुष्टं शुभभावत्वात् ,तच्छुद्धापरयोगवत् ॥७॥ (पृत्तिः) स्वस्थ शरीरकुटुम्बादेरुचितो योग्यः 'स्वोचित'स्तस्मिन् । 'तु'शब्दः पुनःशब्दार्थः, 'यदिति' संकल्पन,'आर- म्भे' पाकादिरूपे सति, 'तथा' तेन प्रकारेण स्वयोग्यातिरिक्तपाकशुन्यतया 'संकल्पन'मिदं स्वार्थमुपकल्पितमन्नमतो मु- नीनामुचितदानेनात्मानमथ पूतपापमाधास्यामीति चिन्तनम् , 'कचित्' कस्मिंश्चिदेवारम्भे न तु साध्वनुचितद्रव्यपाकरूपे, तदित्येतस्येह दर्शनात्तत्संकल्पनम् , 'न दुष्टं' न दोषवत् न तत्पिण्डदृषणकारणम् , कुत इत्याह, 'शुभभावत्वा'चित्त- विशुद्धिमात्रत्वात् , न हि तत्संकल्पनं साध्वाद्यर्थपृथिव्यादिजीवोपमर्दनिमित्तमपि तु दायकस्य शुभभावमात्रं तदिति' भावः, किंतदित्याह, 'शुद्धापरयोगवत्' यः शुद्धः प्रशस्तोऽपरयोगः संकल्पनव्यतिरिक्तव्यापारो मुनिवन्दनादिस्तत्, यथा हि मुनिविषयो नमनस्तवनादिरनवद्यो व्यापारो न पिण्डदूषणकारणमेवमेवंविधसंकल्पनमपीति भावनेति ॥७॥ यदुक्तमसम्भाविनोऽसंकल्पितस्थाभिधानादाप्तस्थानाप्ततेति, (अ० ६ श्लो०६)तत्परिहरन्नाह ॥ दृष्टोऽसंकल्पितस्यापि, लाभ एवमसम्भवः ॥ नोक्त इत्याप्ततासिद्धि-यतिधर्मोऽतिदुष्करः॥८॥ (वृत्तिः) 'दृष्ट' उपलब्धः,'असंकल्पितस्यापियत्याद्यर्थमसम्भावितस्थापि,न केवलं संकल्पितस्यैव लाभो भवन्नीत्या दृष्ट इत्यपिशब्दार्थः, लाभः'प्राप्तिः, पिण्डस्येति गम्यते,यतो गृहस्था अदित्सवोऽपि सूतककान्तारादिषु तथा भिक्षूणामभावेऽपि तथा रात्र्यादौ भिक्षानवसरेऽपि पाकं कुर्वन्ति तथा कथञ्चिदत्यपीति दृश्यते॥ आह च ॥ "संभवइ य एसोवि हु, के-

अष्ट्रक
षष्ठं-
सर्वसम्प
करी
भिक्षा
॥३२॥
८श्लो
सिंचिय सूयगाइभावे वि ॥ अविसेसुवलम्भाओ, तत्थवि तहलाभसिद्धीओ ५२ ॥१॥” एवं च यदुक्तम्॥ “यो न संक-
ल्पित"(अ०६श्लो०१)इत्यादि “न चैवं सद्गृहस्थानाम्"(अ०६श्लो०३)इत्यादि च,तत्परिहृतम् ।गाथा चेह॥"सिझवि य
केड इहं,विसेसओ धम्मसस्थकुसलमती॥ इय न कुणन्ति वि अणडणमेवं भिक्खाए वइमेत्तं५॥१॥"यद्यसंकल्पितस्यापि
पिण्डस्य लाभो दृष्टः ततः किमित्याह, 'एव'मिति अनेनासंकल्पितमकारेण पिण्डलाभदर्शने सति, 'असम्भवः' अस-
म्भावना अप्रातिरसंकल्पितपिण्डस्य, 'नोक्तो नाभिहित आप्तेन, ततः किमित्याह, इतिशब्दो हेत्वर्थः, तेन असम्भ-
विपिण्डस्थानभिधानाद्धेतोः सम्भविन एवाभिधानादित्यर्थः । 'आसताया' असम्भविपिण्डाभिधानसम्भावितानासता-
व्यतिरेकभूतायाः, सिद्धिः प्रतिष्ठा, 'आसतासिद्धिः,' शास्तुरिति गम्यते, अथ भवत्वसंकल्पितपिण्डस्य सम्भवस्तथापि
तवृत्तेर्दुष्करत्वात्तत्प्रणेतुरनासतैवेत्याह, 'यतिधर्मों 'मूलगुणोत्तरगुणसमुदायरूपः, अतिदुष्करो'ऽतीवदुष्परिपाल्य इतिप्र-
सिद्धमेव,नानेनाप्तस्थानाप्तता भवत्यनन्योपायत्वान्मोक्षस्येति॥ आह च॥"दुकरयंअह एयं,जइधम्मो दुकरोचिय पसिद्धं॥
किं पुण एस पयत्तो, मोक्खफलतेण एयस्स त्ति५४ ॥१॥” ततो हे कुतीथिका यदि यूयमात्मनो यतित्वेन सर्वसम्प-
करी भिक्षा मन्यध्ये, तदा अकृतादिगुणोपेतपिण्डपरिग्रहः कार्य इति प्रकरणगर्भार्थ इति ॥८॥
॥ षष्ठाष्टकविवरणं समाप्तम् ॥ ६॥
५२ सम्भवति च एषोऽपि खलु केषांचिव सूतकादिभावेऽपि । अविशेषोपलम्मात् तत्रापि तथालामसिद्धः ॥१॥
५३ शिष्टा अपि केचिदिह विशेषतः धर्मशास्त्रकुशलमतयः । इति न कुर्वन्ति अपि अनटनमेवं भिक्षायै वचोमात्रम् ॥१॥
५४ दुष्करकमथैतद् यतिधर्मो दुष्कर एव (इति) प्रसिद्धम् । किं पुनः एष प्रयत्नो मोक्षफलत्वेन एतस्य इति ॥१॥
॥३२॥

॥ अथ सप्तमं प्रच्छन्नभोजनाष्टकम् ।। अकृतादिगुणसम्पदुपेतः पिण्डो विशुद्धाशुद्धिकारकः इत्युक्त (अष्टक ६ श्लो १) स च शुद्धिकारकः प्रकटमोजने न सम्भवतीति प्रच्छन्नं भोजनं यतिना विधेयमित्युपदिशनाह ॥ सर्वारम्भनिवृत्तस्य, मुमुक्षोर्भावितात्मनः॥ पुण्यादिपरिहाराय, मतं प्रच्छन्नभोजनम् ॥ १ ॥ (वृत्तिः) मुमुक्षोर्मतं प्रच्छन्नभोजनमिति क्रिया, किंविधस्येत्याह 'सर्वे' निरवशेषा मनोवाकायकृतकारितानुमतिमेदा ये 'आरम्भाः प्रथिव्यादिजीवसंघटपरितापातिपातरूपास्तेभ्यो 'निवृत्तो' यः स तथा तस्य, एवं तस्य हि प्रकटं भुञ्जान- स्य दीनादिकाय याचमानाय तद्दाने तत्पोषणत आरम्भप्रवृत्तिहेतुत्वेन सर्वारम्भनिवृत्तिक्षतिर्भवतीति तत्परिहारार्थमे- तेन प्रच्छन्नमेव भोक्तव्यमित्युपदेष्टुं 'सर्वारम्भनिवृत्तस्ये'त्युक्तम् , अनेन चेह तदन्यस्य व्यवच्छेदस्तस्य हि प्रकटभोज- नेऽपि न सर्वारम्भनिवृत्तेः क्षतिस्तदभावादिति, कस्य एवम्भूतस्येत्याह, मोक्तुं मोचयितुं कर्मवन्धनादात्मानमिच्छ- तीति 'मुमुक्षु' र्दीक्षितस्तस्य, अनेन चामुमुक्षोर्व्यवच्छेदः, तस्य हि पुण्यबन्धस्यानुज्ञातत्वादिति, पुनः किम्भूतस्य, 'भा- वितः वासितः स्वपरोपकारकरणधर्मया प्रशमवाहितया जिनाज्ञया वा 'आत्मा' अन्तःकरणं येन स तथा तस्य, एतेन हि साधुसामाचार्या यत्प्रकटभोजनं तज्जन्यो यः प्रवचनोपघातः स्वपरानर्थनिबन्धनभूतो अप्रशमवहो जिनाज्ञामारूपः सो- अष्टक कि.. सप्तमं- प्रच्छन्न मोना- २ श्लो. ऽवश्यं परिहार्य इत्यावेदितं भवति ॥ निषिद्धं च जिनागमे प्रकटभोजनम् ॥ यदाह ॥ "छक्कायदयावन्तो वि, संजओ दुल्लहं कुणइ घोहिं ॥ आहारे नीहारे, दुगंछिए पिण्डगहणे य५५॥१॥" किमर्थमित्याह पुण्यं शुभकर्म, आदिशब्दाथा- चकाप्रीत्यादिदोषः पापमसंयतपोषणद्वारायातारम्भप्रवर्तनं प्रवचनोपघातश्च परिगृह्यते, अतः पुण्यादीनां परिहारो वर्जन पुण्यादिपरिहारस्तस्मै 'पुण्यादिपरिहाराय,' 'मत' सम्मतं विदुषां, 'प्रच्छन्नभोजन'मप्रकटजेमनमिति ॥१॥ कथमप्रच्छन्नभोजने पुण्यबन्ध इत्याह ॥ भुजानं वीक्ष्य दोनादिाचते क्षुत्पीडितः॥ तस्यानुकम्पया दाने, पुण्यबन्धः प्रकीर्तितः ॥२॥ (वृत्तिः) 'भुञ्जानं' अभ्यवहरन्तम् , मुमुक्षुमिति गम्यते, वीक्ष्य' दृष्ट्वा, क इत्याह 'दीनादि'नो दैन्यवान् , आदिश- ब्दादनाथवनीपकादिपरिग्रहः, 'याचते' मृगयते, किंविधः सन् , 'क्षुत्पपीडितः' बुभुक्षात्यन्तबाधितः, अपीडितस्य हि याचने न तथाविधानुकम्पोत्पाद इत्यसौ विशेषितः, 'तस्ये'त्थम्भूतस्य दीनादेरिह सम्प्रदानेऽपि षष्ठी, सम्बन्धस्यैव वि- वक्षितत्वादिति । 'अनुकम्पया' करणया, 'दाने' भोजनस्य वितरणे, 'पुण्यबन्धः' शुभकम्ोपादानम् , 'प्रकीर्तितः' आग- मेऽभिहितः॥ यदाह ॥ “भूयाणुकम्पवयजोग-उज्जओ खन्तिदाणगुरुभत्सो ॥ बन्धइ भूओ सायं, विवरीयं बन्धर इय- रोप ॥१॥” इति कथं प्रकटं मुमुक्षुर्भुजीतेति ॥२॥ भवतु पुण्यबन्धः का नो हानिरिति चेदत आह ॥ ५५ षट्कायदयावानपि संयतो दुर्लभं करोति बोधिम् । आहारे नीहारे जुगुप्सिते पिण्डग्रहणे च ॥ ५६ भूतानुकम्पवतयोगोधतः शान्तिदानगुरुभक्तः ॥ बध्नाति भूयः सातं विपरीतं बध्नाति इतरः ॥

. भवहेतुत्वतश्चायं, नेष्यते मुक्तिवादिनाम् ॥ पुण्यापुण्यक्षयान्मुक्ति-रितिशास्त्रव्यवस्थितेः॥३॥ (वृत्तिः) 'भवहेतुत्वतः' संसारकारणत्वात् , 'चशब्दः' पुनरर्थः, 'अयं' अनन्तरोद्दिष्टः पुण्यबन्धः, 'नेष्यते' आश्र- यणीयतया नानुमन्यते, प्रवचनप्रणेतृभिः, केषामित्याह, मुक्तिं सकलकर्मनिर्मोक्षं स्वकीयस्यानुष्ठानविशेषस्य फलतया घदितुं शीलं येषां ते 'मुक्तिवादिनस्तेषां मोक्षार्थिनामिति हृदयम् , अथवा 'मुक्तिवादिना'मित्येतत्पदं शास्त्रव्यवस्थि- तेरित्यनेन सम्बन्धनीयम, नेष्यते इति कुतोऽवसितमिति चेदत आह । 'पुण्यापुण्यक्षयात्' शुभाशुभकर्मात्यन्तिकप्रल- यादेव, 'मुक्तिक्षो “जीवस्य स्वरूपेऽवस्थानम्” भवतीति गम्यते, 'इति' एवम्प्रकारायाः, 'शास्त्रव्यवस्थिते रातप्रणी- तागमव्यवस्थाया हेतोरिति ॥३॥ अथ दीनादेर्याचमानस्यापि न दास्यत इति कुतः पुण्यषन्धो भविष्यतीत्याशंक्याह ॥ प्रायो न चानुकम्पावां-स्तस्यादत्त्वा कदाचन ॥ तथाविधस्वभावत्वा-च्छक्नोति सुखमासितुम् ॥४॥ (वृत्तिः) यदि न ददाति तदा न भवति पुण्यबन्धः, 'न च' न पुनः, 'अनुकम्पावान्' करुणापरायणान्तःकरणः, 'प्रायो' बाहुल्येन, 'तस्य' याचमानस्य दीनादेः, 'अइत्या' दानमकृत्वा, 'कदाचन' कस्मिंश्चित्काले, शक्नोति'समर्थो भवति, सुखं अमनःपीडं यथा भवत्येवम् , 'आसितुं' स्थातुम् ,कुत एतदेवमित्याह, तथाविधस्तत्प्रकारो याचमानदीनदाननिबन्धनभूतः स्वभावः स्वरूपं यस्यानुकम्पावतः स तथा तस्य भावस्तत्वं तस्मात्तथाविधस्वभावत्वात्', इति । हेतुप्रयोगश्चैवम् , यबस्तु यत्करणस्वभावंतत्तदकृत्वा नासितुं शक्नोति,यथा मयं पुरुषस्य नृत्या(हसा)दिकं विकारम्',दीनदानस्वभावश्चानुकम्पावान, तस्माददत्वा सुखमासितुं न शक्नोतीति ॥४॥ अथ पुण्यबन्धभीरतया दृढचित्ततां विधाय न दास्यतीति कथं पुण्यबन्ध

अष्टक
क. वृ०
सप्तमं
पच्छन्नं
भोजमा-
ष्टकम्॥
६ श्लो
इत्याशंक्याह, अथवा पुण्यादिपरिहारार्थमिहादिशब्दोपात्तयाचकाप्रीत्यादिदोषप्रतिपादनायाह ॥
अदानेऽपि च दीनादे-रप्रीतिर्जायते ध्रुवम् ॥ ततोऽपि शासनद्वेष-स्ततः कुगतिसन्ततिः ॥५॥
(वृत्तिः) 'अपि च' इति पुनःशब्दार्थः, ततो दाने पुण्यबन्धो भवति, 'अदाने ओदनाचवितरणे, पुनींनादेर्दीनानाथा-
देरर्थिनः, 'अग्रीतिः' चित्तोडेगः, 'जायते' भवति तस्यैव, 'ध्रुव'मवश्यम्भावेन । भवतु सा को दोष इति चेदत आह,
'ततोऽपि' अपिशब्दः पुनःशब्दार्थः, ततस्तस्याः पुनरप्रीतेः सकाशात् , शासनवेषः' आप्तप्रवचनं प्रति मत्सरस्तस्यैव, त-
तोऽपि किमित्याह, 'ततः'शासनप्रवेषात् ,कुगतीनां नारकतिर्यक्कुनरकुदेवत्वलक्षणदुर्गतीनां, सन्ततिः सन्तानः प्रवाहः,
'कुगतिसन्ततिः,' जायते दीनादेरिति प्रक्रम इति॥५॥यदि नाम मिथ्यात्वोपहतबुद्धेस्तस्य स्वदोषादप्रीत्यादयः संजायन्ते
ततः किमस्माकमसंक्लेशवन्मानसानामित्याशंक्याह, अथवा पुण्यादिपरिहारार्थमिहादिशब्दोपात्तपापबन्धप्रदर्शनायाह ।
निमित्तभावतस्तस्य, सत्युपाये प्रमादतः॥ शास्त्रार्थबाधनेनेह, पापबन्ध उदाहृतः ॥६॥
(पृत्तिः) शास्त्रार्थबाधनेन पापबन्धस्तस्योदाहृत' इति सम्बन्धः,शास्त्रार्थवाधनमेव कुत इत्याह 'निमित्तभावतो'दीना-
चप्रीतिशासनद्वेषकुगतिसन्ततीनां कारणत्वेन परेषामप्रीत्यादिवर्जनं हि शास्त्रार्थः, 'तस्ये ति प्रकटभोजकयतेः, नन्वेवं
महामुनीनामपि पापबन्धप्रसास्तेषामपि महामिथ्यात्वोपहतेष्वप्रीत्यादिनिमित्तत्वादित्याशंक्याह, सति विद्यमाने,उपाये
प्रच्छन्नभोजनलक्षणे दीनाथग्रीत्यायुत्पतिपरिहारस्य हेती, महामुनीनां पराप्रीतिपरिहारोपायाभावे तत्परिहारार्थ च प्रय-
स्ले सति परिणामविशुद्धेः पापषन्धाभाव इति, नन्वेवं हठाहीनादिना भुञानस्य साधोर्दर्शने उक्तदोषप्रसा इत्यत आह,
॥३४॥

प्रमावतः प्रमादेनालस्योपहततया, अप्रमत्तस्य पुनरप्रीत्यादिहेतुत्वेऽपि शास्त्रार्थापापनाशास्ति पापमयाजासकस्यवाचः आया चेव अहिंसा,आया हिंसत्ति निच्छओ एस ॥जो होइ अप्पमत्तो अहिंसओ,हिंसओ इयरोपण॥१॥" शा- स्त्रार्थस्यासागमार्थस्य बाधनमन्यथाकरणं शास्त्रार्थवाधनं तेन हेतुना,महानर्थनिवन्धनं हि शास्त्रार्थवाधनम् । यदाह॥"यः शास्त्रविधिमुत्सृज्य, वर्तते कामचारतः। न स सिद्धिमवाप्नोति न सुखं न परां गतिम्॥१॥" शास्त्रं च पराप्रीतिपरिहार- प्रयत्नप्रतिपादनपरमेव व्यवस्थितम् ॥तद्यथा॥ "अणुमित्तो न करसह,बन्धो परवत्थुपचया भणिओ॥ तहवि हु जयन्ति जइणो, परिणामविसोहिमिच्छंता५८॥१॥ तथा "इय सव्वेणवि सम्म, सकं अप्पत्तियं सइ जणस्स॥ नियमा परिहरि- यव्वं, इयरम्मि सतत्तचिन्ता उ ५८॥२॥"इह इति प्रकटभोजने, पापबन्धोऽशुभकर्मोपादानम् ,'उदाहृतोऽभिहितस्तत्त्ववे- दिभिरिति ॥६॥ भवतु शास्त्रार्थवाघेति चेन्नेत्याह ॥ शास्त्रार्थश्च प्रयत्नेन, यथाशक्ति मुमुक्षुणा ॥ अन्यव्यापारशून्येन, कर्तव्यः सर्वदेव हि ॥७॥ (वृत्तिः) 'शास्त्रार्थश्च' दृष्टेष्टाभ्यामविरुद्धागमस्यार्थोऽभिधेयं शास्त्रार्थः, चशब्दः'पुनरर्थ एवकारार्थो वा,तेन शास्त्रार्थः पुनः कर्तव्यः,शास्त्रार्थ एव वा कर्तव्यः, कथम् , 'प्रयत्नेन महता आदरेण,अनादरकरणे हि विवक्षितफलासिद्धेः कृषीवला- नामिव, ननु शास्त्रार्थस्य संहननादिहीनेन समग्रस्य दुष्करत्वादशक्यानुष्ठानोऽयमुपदेश इत्याह, 'यथाशक्ति' शक्तः शरीरबलस्यानतिक्रमो यथाशक्ति तेन,एवं हि आराधनोक्ता ॥ यदाह ॥ “अनिगृहंतो विरियं, न विराहेइ चरणतवसुएखा ५७ आत्मा चैवाहिंसात्मा हिंसेतिनिश्चयएषायोभवति अप्रमत्तोऽहिंसको हिंसकहतरः॥ ५८ अणुमात्रोऽपिनकस्यचिद्वन्धःपरवस्तुप्रत्ययाभ- णितातथापि खलु यतन्तेयतयःपरिणामविशुद्धिमिच्छन्तः॥ ५९ इतिसर्वेणापिसर्वशक्यंअप्रीतिकसदाजनस्य। नियमात्परिहर्तव्यं इतरस्मिन् सप्तमं पच्छन्नं भोजना- ॥ ३५॥ ष्टकम् ॥ ८लो जह संजमे वि विरियं, न निगहिजा न हाविजा ॥१॥" चरणं न हापयेदित्य, केनेत्याह 'मुमुक्षुणा' मोक्षेप्सुना, अनन्योपायत्वान्मोक्षस्य ॥यदाह॥ "जम्हा न मोक्खमग्गे, मोसूणं आगमं इह पमाणं ॥ विज्जइ छउमत्थाण, तम्हा त- स्थेष जइयव्वं ९१ ॥ १॥" किम्भूतेन 'अन्यव्यापारशून्येन' शास्त्रार्थकरणव्यतिरिक्तलोकयात्रादिकर्तव्यविरहितेन, व्यापारान्तरेण हि शास्त्रार्थकरणबाधा भवतीति, 'कर्तव्यो विधेयः। किं प्रतिनियत(त)कालम् ,नेत्याह, सर्वदेव' सदैवाऽऽज- न्मापीत्यर्थः, 'हिशब्दो' वाक्यालङ्कारार्थो यस्मादर्थो वा,ततश्च यस्माच्छास्त्रार्थ एव कर्तव्यस्तस्मात्प्रच्छन्नमेव भोजनं वि- धेयमिति प्रक्रम इति ॥७॥ प्रकरणार्थमुपसंहरन्नाह । एवं झुभयथाप्येत-दुष्टं प्रकटभोजनम् ॥ यस्मान्निदर्शितं शाखे, ततस्त्यागोऽस्य युक्तिमान् ॥८॥ (कृत्तिः) 'एवं हि' अनेनैवानन्तरोक्तेन प्रकारेण,'उभयथा' दीनादेर्दानादानलक्षणाभ्यां वर्णितस्वरूपाभ्यां प्रकाराभ्याम् , न केवलमेकेनैव प्रकारेण, अपि तु' उभयथाऽपीत्यपिशब्दार्थः,अथवा इहलोकपरलोकापेक्षया,तत्र परलोकापेक्षया प्रकट- भोजनस्य दुष्टत्वमुपदर्शितमनन्तरमेव,इहलोकापेक्षया त्वमुतो नीतिश्लोकादवगन्तव्यम् ॥"प्रच्छन्नं किल भोक्तव्यं, दरि- द्रेण विशेषतः ॥ पश्य भोजनदौर्बल्या-द्धटः सिंहेन नाशितः ॥१॥ 'एतद'ऽनन्तरोक्तं प्रकटभोजनम् ,' 'दुष्टं दोषवत्, 'यस्मात्यतो हेतोः,निदर्शितं प्रतिपादितम् , शास्त्रे आगमे,'ततः'तस्मात्,'त्याग' परिहारः, अस्य प्रकट भोजनस्य, युक्ति- मान्'उपपत्तियुक्तः,अतो हे कुतीथिका यदि यूयं मुमुक्षवः तदा भवतामपि प्रच्छन्नभोजनं कर्तुयुज्यत इतिगर्भार्थ इति।। स्वतस्वचिन्ता तु ॥ ६० अनिगृहयन् वीर्य न पिराधयति चरणतपःश्रुतेषु । यदि संयमेऽपि वीर्य न निगृहयेन हापयेत् ॥ ६१ यस्मान्न ।

॥ अथ अष्टमं प्रत्याख्यानाष्टकम् ॥ Suck-- क्षणमात्रमपि नाविरतेन स्थातव्यमिति भोजनानन्तरं प्रत्याख्यानं निरूपयन्नाह ॥ द्रव्यतो भावतश्चव, प्रत्याख्यानं द्विधा मतम् ॥ अपेक्षादिकृतं ह्याय-मतोऽन्यच्चरमं मतम् ॥१॥ (पृत्तिः) यद्यपि द्रव्यशन्दः प्रत्याख्यानविषये सचेतनादिष्वशनादिषु वा प्रत्याख्येयेषु ताल्वोष्ठादिषु वा प्रत्याख्यान- सूत्रोचारहेतुषु द्रव्येषु युज्यते, तथापीहाप्राधान्यार्थो द्रष्टव्यो, यतस्तदर्थस्यैवास्य बहुश आगमे प्रयोगः ॥ यथाह ॥ "अ- प्पाहने वि इहं कत्था दिछो उ दव्वसहोत्ति॥ अंगारमहगो जह,दव्वायरियो सयाऽभव्यो२ ॥१॥"ततश्च 'द्रव्यतोऽप्रधा- नभाषमाश्रित्याप्रधान(प्रत्याख्यान)मित्यर्थः,अप्रधानता च विवक्षितप्रत्याख्यानफलाप्रसाधकत्वात् १॥अथवा कारणार्थे(ों) द्रव्यशब्दः, ॥ यदाह ॥ “समयम्मि द्रव्वसदो, पायं जं जोग्गयाए रूढोति ॥णिरुवचरिओ उ बहुहा,पओगमेदोवलम्मा- ओ ॥१॥मिउपिण्डो दव्वघडो, सुसावगो तहय व्वसाहुत्ति ॥ साहू य दवदेवो, एमाइ सुए जओ भणितं ४ ॥२॥” ततश्च 'द्रव्यतो' भावप्रत्याख्यानयोग्यतामाश्रित्य २॥ अथवा “अनुपयोगो द्रव्यम्" इति वचनात् 'द्रव्यतो' ६२ अप्राधान्येऽपि इह कुत्रचित् दृष्टस्तु द्रव्यशब्द इति । अङ्गारमर्दको यथा द्रव्याचार्यः सदाऽभव्यः ॥१॥ ६३ समये द्रव्यशब्दः प्रायो यद्योग्यतायां सढ इति । निरुपवरितस्तु बहुधा प्रयोगमेदोपलम्भात् ॥१॥ ६४ मृत्पिण्डो द्रव्यघटः सुश्रावकस्तथा च द्रव्यसाधुरिति । साधुश्च द्रव्यदेव एवमादि च श्रुते यती भणितम् ॥२॥ - अष्टमं- प्रत्याख्या- नाष्टकम्॥ १-लो विषक्षितोपयोगशून्यतामाश्रित्य ३॥ अथवा 'द्रव्यात' आहारवस्त्रादिद्रव्याण्याश्रित्य, तल्लाभार्थमित्यर्थः ॥तथा भाव- शब्दो यद्यपि प्रत्याख्येयेषु क्रोधादिभावेष्वपीह युज्यते,तथापि उपयोगार्थो द्रष्टव्यस्तथैवागमेऽभिधानात् ॥ तथाहि ॥ "मणरहिएण उ कारण,कुणइ पायाए भासए जंच॥ तं होइ दन्वकरणं,मणसहियं भावकरणं तु९५ ॥१॥"ततश्च भावतो विवक्षितोपयोगमाश्रित्य॥ परमार्थो वा भावस्तमाश्रित्य,विवक्षितफलसाधनभावमाश्रित्येत्यर्थः,'चशब्दः'समुच्चयार्थः, 'एवकारो'ऽवधारणार्थः,तेन द्रव्यभावाभ्यामेव विधा, प्रकारान्तरतस्तु षोढा ॥यदाह॥ “णाम ठषणा दविए; अदिच्छ पडि- खेहमेव भावे य॥ एए स्खलु छम्भेया पचक्खाणस्स आइपए (गंमि नायव्या) ॥१॥"अंदित्सा अदानेच्छा,आदिपदम्,“प- चक्खाणं पचक्खाओx" इत्यादीनां षण्णां द्वाराणांप्रथमहारमिति,प्रति प्रवृत्तिप्रातिकून्येन, आ मर्यादया,ख्यानं कथनम् , 'प्रत्याख्यानम्', निषेधेन विधिना वा प्रतिज्ञा, द्वाभ्यां प्रकाराभ्यां 'विधा', 'मत'मिष्टम् ,तदिदामिति, एतयोरेव स्वरूप- भावनार्थमाह,अपेक्षणमपेक्षा अभिष्वाः,साऽऽदिर्येषामविद्यादीनांते तथा,तः करणभूतैः कृतं विहितम् , अपेक्षादिकृतम्', 'हि'शब्दःप्रत्याख्यानभेदव्यभावनासूचनार्थः,आदौ भवम् 'आद्यम्', अनन्तरोक्तयोईयो प्रथमम् ,द्रव्यप्रत्याख्यानमित्यर्थः, ६५ मनोरहितेन तु कायेन करोति वाचा भाषते यश्च । तद्भवति द्रष्यकरणं मनःसहितं भावकरणं तु॥ ६६ नाम स्थापना द्रव्यं अदित्सा प्रतिषेध एवं भावश्च । एते खलु षड्मेदाः प्रत्याख्यानस्य आदिपदम् ॥ (ख्याने सातव्याः) + पच्चक्नेयं च आणुपुवीए । परिसा कहणविहीया फलं च आईइ छम्मेया ॥१॥ इति गाथापूर्तिः॥ (प्रत्याख्यानं प्रत्याख्याता प्रत्याख्येयं च आनुवां ॥ पर्षत् कथनविधिश्च फलं च आदौ षड् मेदाः।

'अत' एतस्मादपेक्षादिकृतात्, 'अन्या विलक्षणमपेक्षादिशून्यम्, 'चरम'मनन्तरोदितयोईयोरन्स्यम् ,भावप्रत्याख्यानमि-
त्यर्थः, 'मत'मिष्टम् , प्रत्याख्यानस्वभाववेदिनामिति ॥१॥ आयविवरणायाह ॥
अपेक्षा चाविधिश्चैवा-परिणामस्तथैव च ॥ प्रत्याख्यानस्य विनास्तु, वीर्याभावस्तथापरः ॥२॥
(वृत्तिः)-'अपेक्षा ऐहिकामुभिकार्थकामिता, 'अविधिः' विधिव्यतिरेकः । विधिश्वायम् ॥ "गिण्हति सयंगहीयं,
काले विणएण सम्ममुवउत्तो ॥ अणुभासन्तो पइपत्थु, जाणगो जाणगसमासे ॥१॥” चशदौ' समुच्चयार्थी, 'एव-
कारो'ऽवधारणार्थः, तस्य चैवं प्रयोगः अविधिरेव च न तु विधिरपीत्यर्थः, तथा 'अपरिणामः' प्रत्याख्यानप्रतिपत्तौ
निजश्रद्धारूपपरिणामाभावः, 'तथैव' यथा अपेक्षादयो भावप्रत्याख्यानविनास्तथैवायमपीति, 'चशब्दः' समुचये, 'प्र-
त्याख्यानस्य भावतो नियमस्य, विनास्तु प्रतिघाता एव द्रव्यप्रत्याख्यानहेतव एते अपेक्षादय इत्यर्थः, वीर्य वीर्यान्तरा-
यक्षयोपशमादिसमुत्थो जीवपरिणामः, तस्याभावो 'वीर्याभावः', 'तथेति' यत्प्रकारा अपेक्षादयस्तत्प्रकारः प्रत्याख्यान-
विनः, 'अपरों'ऽन्यइति, अयं च परिणामे सत्यपि प्रत्याख्यानापरिपालनहेतुत्वेन प्रत्याख्यान विघ्नो भवतीति ॥२॥
अपेक्षाकृतप्रत्याख्यानं निष्फलत्वेनाप्रधानत्वाद् द्रव्यप्रत्याख्यानमित्यस्यार्थस्य प्रतिपादनायापेक्षां निन्दन्नाह ॥
लण्याद्यपेक्षयाह्येत-दभव्यानामपि कचित् ॥ श्रूयते न च तत्किञ्चि-दित्यपेक्षात्र निन्दिता ॥३॥
(वृत्तिः) 'लधि भोजनादिलाम 'आदि'र्येषां यशःपूजादीनां ते लब्ध्यादयस्तेषु तेषां वा 'अपेक्षा' स्पृहा 'लब्ध्याचपेक्षा'
तया, हिशब्दो यस्मादर्थः, एतत्'प्रत्याख्यानम् , 'अभव्यानामपि सिद्धिगमनायोग्यानामपि,आस्तां भव्यानामित्यपिशब्दा-
'६७ मति स्वयंगृहीतं काले विनयेन सम्यगुपयुक्तः। अनुभाषमाणः प्रतिवस्तु शायको शायकसकाशे ॥१॥

अष्टम प्रत्याख्या- नाष्टकम्॥ ४ लो. थी,'कचित् 'अवस्थान्तरे, यथाप्रवृत्तिकरणेन ग्रन्थिप्रदेशमागतानाम् , श्रूयते'आगमे आकर्ण्यते, तथाहि॥"असंजयभवि- यदव्यदेवाणं भन्ते ? देवलोएसु उववजमाणाणं करस कहिं उववाए पन्नते ? गोयमा! जहन्नेणं भवणवई(वासी)सु, उको- सेणं उपरिमगेविज्जएसु८ ॥” इह चासंयतभविकद्रव्यदेवा अभव्याः सन्तो ये देवत्वेन भाविनस्ते व्याख्याताः ॥तथा।। "एगमेगरसणं भन्ते? मणुसरस गेवेजगदेवत्ते केवइया दग्विन्दिया अईया ? गोयमा!अणन्तत्तिा" द्रव्येन्द्रियाणि च स्वगादीनि शरीराणीति तात्पर्यम् , अवेयकोपपातश्च साधुलिङ्गेनैव, तत्र च प्रत्याख्यानमवश्यं भवतीति ॥ आह च॥ "आणोहेणाणन्ता,मुक्का गेवेनगेसु उ सरीरा॥ न य तत्थासंपुण्णाए,साहुकिरियाए उबवाओ०॥१॥” ततश्च किमित्याह । 'न च'न पुनः, तत्'अपेक्षाजनितप्रत्याख्यानम् , किश्चित्'वस्तु,मुमुक्षुविवक्षितमोक्षलक्षणस्वफलाप्रसाधकत्वात् ,स्वफलसा- धकं हि वस्तु वस्तुत्वमामोति न पुनरन्यबन्ध्यासुतवदिति, 'इतिशब्दो' हेत्वर्थः, ततश्च यतोऽपेक्षाकृतप्रत्याख्यानमफ- लमतोऽपेक्षा भावप्रत्याख्यान विघ्नभूता, 'अत्र' प्रत्याख्यानविषये, जिमशासने वा, 'निन्दिता' गर्हिता इति ॥३॥ अविधेर्भावप्रत्याख्यानविनतामाह ॥ यथैवाविधिना लोके, न विद्याग्रहणादि यत् ॥ विपर्ययफलत्वेन, तथेदमपि भाव्यताम् ॥४॥ (वृत्तिः) 'यथैव' येनैव प्रकारेण, 'अविधिना' अविधानेन प्रसिद्धेन, लोके' सामान्यजने, 'विद्याग्रहणादि' विद्यामन्त्रो- ६८ असंयतमविकद्रव्यदेवानां भवन्त देवलोकेषूपपद्यमानानां कुत्र उपपातः प्राप्तः। गौतम,जघन्येन भवनपतिषु (वासिषु)उत्कर्षेण उपरिम- प्रैदेयकेषु॥ ६९ पकैकस्य, भदन्त, मनुष्यस्य अवेयकदेवत्वे कियन्ति द्रव्येन्द्रियाणि अतीतानि । गौतम, अनन्तानीति ॥ , ॥ ३७॥ ७० मानतानि मक्तानि बेयकेषरीराणि । नत्रामया माधभियया उण्यातः॥॥

पादानादि, 'यत्' किमपि, नशब्दस्येह दर्शनात्तदित्यस्य च गम्यमानत्वान्न नैव तद्विद्याग्रहणादिकं भवति स्वस्वभावं न लभात इत्यर्थः । कथमित्याह,विपर्ययेण वाञ्छितफलविपर्यासेन, फलं यस्य तत् 'विपर्ययफलम् , तद्भावस्तस्वम् ,तेन म- रणादिफलरनेत्यर्थः। दान्तिकयोजनामाह, 'तथा' तेनैव प्रकारेण, अप्रत्याख्यानत्वेनेत्यर्थः, 'इदमपि' अविधिकृतम- स्यास्यानमपि, 'भाव्यता निरूप्यतामिति। प्रयोगश्चेवम् , अविधिप्रत्याख्यानमप्रत्याख्यानमेव, विपर्ययफलत्वात् ,यद्धि- पर्ययफलं तत्तन्न भवति अविधिविद्याग्रहणादिवत्,विपर्ययफलं चाविधिप्रत्याख्यानम्,अतः प्रत्याख्यानं न भवति इति ॥४॥ अपरिणामकृतप्रत्याख्यानस्य द्रव्यप्रत्याख्यानतामाह ॥ अक्षयोपशमात्याग-परिणामे तथाऽसति ॥ जिनाज्ञाभक्तिसंवेगवैकल्यादेतदप्यसत् ॥५॥ (कृत्तिः) क्षय उदीर्णस्य विरस्यावारककर्मणो विनाशः, तेन सहोपशमस्तस्यैवानुदीर्णस्य विपाकोद्यापेक्षया विष्कम्भि- तोदयत्वं क्षयोपशमः, तहिषेधात् 'अक्षयोपशमात्,' 'त्यागपरिणामें प्रत्यारयेयवस्तुविवेकपरिणतो, 'तथा' तेन प्रकारेण देशसर्वविरतिनमस्कारसहितादिप्रत्याख्यानप्रतिपत्तिलक्षणेन, 'असति' अविद्यमाने, अनेन देशविरतिसर्वविरति- प्रत्याख्यानयोस्तथा तद्वतोरेव गृहिश्रमणयोनमस्कारसहितायुत्तरगुणप्रत्याख्यानस्य च द्रव्यतोक्ता । अथवा 'तथा' इति यथाविधक्षयोपशमे सति त्यागपरिणामो भवति तथाविधे त्यागपरिणामे 'असति'। एतेन चाविरतसम्यग्दृष्टीनां वासुदेवादीनांअभव्यादीनां च प्रत्यारयानस्य द्रव्यतोक्ता।अथ कथश्चित्प्रत्याख्येयवस्तुत्यागपरिणामेऽपि सत्यभव्यादेः कथं द्रव्यप्रत्याख्यानतेत्याशंक्याह, जिनाज्ञायामासागमे, भक्तिर्वहुमानः, जिनाज्ञाभक्तिः, सा च संवेगश्च मोक्षाभिलाषो जि- नाज्ञामक्तिसंवेगी, जिनाशाभक्तवा सकाशात्संवेगो जिनाज्ञाभक्तिसंवेगः, तयोस्तस्य था, वैक यं विरहितत्वम्, 'जिना-

अष्ट
प्रत्याख्या
नाष्टकम्॥
३८॥
६-७-छो
शाभक्तिसंवेगर्वकल्पम्,' तस्मात् । एतदुक्तं भवति,अमन्यादीनां त्यागपरिणामस्य संवेगादिविकलतया परिणामत्वा-
सहव्यमत्याख्यानमिति, 'एतदपि केवलमविधिप्रत्याख्यानमपरिणामप्रत्याख्यानमषि, 'असर' अशोभनम् , भाष-
प्रत्याख्यानापेक्षया अप्रधानं द्रव्यप्रत्याख्यानमित्यर्य इति ॥५॥ अथ वीर्याभाषस्य द्रव्यप्रत्याख्यानहेतुतामाह ।
उदग्रवीर्यविरहात्, क्लिष्टकोदयेन यत् ।। बाध्यते तदपि द्रव्य-प्रत्याख्यानं प्रकीर्तितम् ॥६॥
(वृत्तिः) उदग्रमुत्कटं यहीय वीर्यान्तरायक्षयोपशमसम्पन्नात्मपरिणामलक्षणम्' तस्य विरहो विच्छेदः, 'उदग्रवीर्य-
विरहा,' तस्मादवधेः, 'क्लिष्टकर्मोदयेन' तीव्रतीब्रवीर्यान्तरायादिकर्मविगकेन कर्तृभूतेन, यत्प्रत्याख्यानम्, प्रतिपन्नमपि
सद्, पाध्यते अभिभूयते, वीर्योल्लासेन हि जीवः क्लिष्टं कर्म शमयति, तदभावे च लिटकदियो भवति, नत्र
प्रत्याख्यानं बाध्यते, इति वीर्यामावः प्रत्याख्यानबाधने हेतुः, अथवा 'क्लिष्टकमेदियेन' यो वीर्याभावस्तस्मात्प्रत्या-
ख्यानं 'यद्' 'पाध्यते' जीवेनेति, 'तदपि न केवलमविधिप्रत्याख्यानं वीर्याभावात्याख्यानमपि, 'द्रव्यप्रत्याख्यानं'
उक्तलक्षणम्, 'प्रकीर्तित' भणितं तस्ववेदिभिः। अन्यैस्तु व्याख्यातं कालान्तरे भावप्रत्याख्यानकारणत्वात् द्रव्यत्वमस्य,
सकृत्ससातो हि भावो भावान्तरं जनयति, यदाह, “सह संजाओ भावो, पायं भावन्तरं ज ओ कुणइ ॥१॥” इति।
इह च द्रव्यशब्दो योग्यतावाची द्रष्टव्य इति ॥६॥ उक्तं द्रव्यप्रत्याख्यानम् , अय भावप्रत्याख्यानमाह ।
एतद्विपर्ययानावप्रत्याख्यानं जिनोदितम् । सम्यक्चारित्ररूपत्वा-नियमान्मुक्तिसाधनम् ॥७॥
५ सकत्सत्रातो भावः प्रायो भावान्तरं यत. करोति ॥ +ता पवमेत्य पवर लिंगं सद भावबुद्धी तु ॥ (इतिगाथापूर्तिः)
॥ ३८॥

,
(वृत्तिः) एतविपर्ययात्' अपेक्षादिकृतप्रत्याख्यानविपर्यासात् ,अनपेक्षादिकृतमित्यर्थः, भावप्रत्याख्यान' उक्तशब्दार्थम् ,
भवतीति गम्यम् , किम्भूतं 'जिनोदितम्' आताभिहितम् । इह च प्रयोगः, यद्यस्य विपर्ययभूतं तत्तस्याभावेऽवश्यं भ-
वति, यथा छायाया अभावे सत्यातपः, द्रव्य प्रत्याख्यानविपर्ययभूतं च भावप्रत्याख्यानमिति द्रव्यप्रत्याख्यानाभावेऽव-
श्यम्भवति प्रत्याख्यानसामान्ये सतीति । तच्च भावप्रत्याख्यानं किम्फलमित्याह, “नियमात्' अवश्यम्भावेन, मुक्तिसाध-
नं' मोक्षकारणम् , साक्षास्पारम्भर्येण वा, कुत इत्याह 'सम्यक्चारित्ररूपत्वात्' शोभनचरगस्वभावत्वात् , तथाभूतध्या-
नादियोगवदिति दृष्टान्त ऊध इति ॥७॥ द्रव्यप्रत्याख्यानं किमनर्थकमेव, न, इत्याह ॥
जिनोक्तमितिसद्भक्त्या, ग्रहणे द्रव्यतोऽप्यदः॥ बाध्यमानं भवेद् भाव-प्रत्याख्यानस्य कारणम् ॥८॥
(कृत्तिः) इहैवा.क्षरघटना, 'आई' एनत्प्रत्याख्यानम् , 'ग्रहणे' उपादाने, 'द्रव्यतोऽपि न केवलं भावतः अपेक्षादियोगेन
द्रव्यतो गृहीतमपीत्यर्थः, 'भवे' भावप्रत्याख्यानस्य कारणमिति योगः, कथम्भूतं सदित्याह, 'जिनोक्त'मासप्रणीतम् ,
'हति' एवमुल्लेखवती, या 'सती' शेभिना प्रशता, 'भक्ति'बहुमान विशेषः, सा 'जिनोतभिनित क्तिः' तया, अथवा
'जिनोक्त'मिति हेतोः,शेषं तथैव, वाध्यमान' निराक्रियमाणाम् भवे' स्थान, भावप्रत्याख्यानस्य'परमार्थपघाख्यानस्य,
'कारणं' निमित्तम्। जिनोक्तमितिसद्भक्तिर्हि द्रव्यप्रत्याख्यानहेतूनामपेक्षादिभावानां विरुद्वा अनो यत्र सा स्यात्ततेषां
निवृत्तेर्भावप्रत्याख्यानीभवति सर्वमेवेति भावनेति ॥८॥
॥ इति अष्टमाष्टकविवरणं समाप्तम् ॥८॥

-तरह- १-२लो. ॥ अथ नवमं ज्ञानाष्टकम् ॥९॥ इदं भावप्रत्याख्यानं ज्ञानविशेष सति सम्भवतीति तदेव निरूपयमाह ॥ विषयप्रतिभासं चा-मपरिणतिमत्तथा ॥ तत्त्वसंवेदनं चैव, ज्ञानमाहुमहर्षयः ॥ १॥ (पृत्तिः) विषय प्रोत्रादीन्द्रियज्ञानगोचरः शब्दादिः,तस्यैव न पुनरतत्प्रवृत्तीतजन्यरयात्मनोऽर्थानर्थसद्धावस्य, प्रतिभासः' प्रतिभासन परिच्छेदो यत्र तत् विषयप्रतिभासम्, ऐहिकामुग्मिकेषु छानस्थिकज्ञानविषयेष्वर्थषु प्रवृत्तावात्मनस्ताविका- थानर्थप्रतिभासशन्यमित्यर्थः,ज्ञानमाहुरिति सम्बन्धः। 'चशद'उत्तरज्ञानविशेषापेक्षया समुचयार्थः, इदं व मिथ्याशा भवतीति । तथा आत्मनो जीवस्य,परिणतिरनुष्ठान विशेषसम्पायः परिणामविशेषः, सैव ज्ञेयतया यस्मिन्नस्ति ज्ञाने न पुनस्तदनुरूपप्रवृत्तिनिवृत्ती अपि, तत् 'आत्मपरिणतिमत्,"तथेति' समुच्चये,इदं चाविरतसम्यग्दृष्टीनां भवतीति। तस्वं परमार्थः तत्सम्यग् वैद्यते ज्ञायते येन तत् तावसंवेदनम् हेयोपादेयार्थनिवृत्तिप्रवृत्तिसम्पादकमित्यर्थः, 'पशब्दसमुच्चये, 'एषकारोऽवधारणे,तस्य चैवं प्रयोगः,तषसंवेदनमेव चनोक्तव्यतिरिक्तम्, इदं बातु)विशुद्धचारित्रिणांस्यात् ।'ज्ञान'बो- धम्, 'आहुः' कुछते, महर्षयः' महामुनयः। एते च त्रयोऽपि ज्ञानभेदा मत्यादिविशेषा एवेति ॥१॥ आयस्वरूपमाह ॥ विषकण्टकरत्नादौ, बालादिप्रतिभासवत् । विषयप्रतिभासं स्यात्, तद्धेयरवायवेदकम् ॥२॥ (कृत्ति) विषं च शृनिकादि, कण्टकाश्च बाबूलायवयवविशेषा इति हेयं वस्तु, रत्नानि च मरकतादीनि चोपादेयम्, विषकण्टकररमानि तानि आदियरय हसथा, तत्र' विषकष्टकररनादौ द्रष्टव्ये,इहादिशब्दाद्धयोपादेयरूपवस्वन्तरपरि- प्रहः, उपेक्षणीयपरिग्रहो वा, बालः शिशुरादिर्येषां ते बालादयः, आदिशब्दादतिमुग्धपरिग्रहः, तेषां प्रतिभासो वस्तु- बोधः, बालादिप्रतिभासः, स इव 'बालादिप्रतिभासवत्' तत्तुल्यमित्यर्थः, 'विषयप्रतिभासं' उक्तनिर्वचनं ज्ञानम्, 'स्यात् भवेत् । कथं वालादिप्रतिभासतुल्यत्वमरयेत्याह,तेषां ज्ञेयविषयाणाम् , हेयत्वादिहेयस्थमुपादेयत्वमुपेक्षणीयत्वं चेत्यर्थः, तस्यावेदकमनिश्वायकं तयित्वायवेदकम्'। यथा बालादिप्रतिभासो विषादिविषयस्य रूपादिमात्रमेवाध्यवस्यति न तु हेयस्वादिकं तद्धर्मम् ,एवं यत् ज्ञानं बहुश्रुतानामप्यभिग्रन्थीनां मोहमलमलीमसमानसत्वेनातत्त्वानां हेयतायास्तस्वानां चोपादेयताया विमाक्षम तावातावयोःसमतावभासकं विपर्ययावभासकंवा तद्विषयप्रतिभासमिति भावना। उक्तंच॥ 'विसयपडिभासमिस, बालरसेवकखरयणविसयंति ॥ वयणाइएसु (वयणा इमेसु इत्युपदेशपदे) नाणं, सम्वत्थण्णाण मोणेयम् ७२ ॥१॥",'वयणाइएसुत्ति' सूत्रार्थादिग्विति ॥२॥ इदमेव लिङ्गादिभिर्निरूपयन्नाह ॥ निरपेक्षप्रवृत्यादि-लिङ्गमेतदुदाहृतम् ॥ अज्ञानावरणापाय, महापायनिबन्धनम् ॥३॥ (कृत्तिः) निर्गता अपेता अपेक्षा ऐहिकामुग्मिकापायशङ्का यस्याःसा तथा निरपेक्षाप्रवृत्तिःप्रवर्तनमादिर्यस्य निवृत्यादेस्त- निरपेक्षप्रवृत्यादि,निरपेक्षस्य वा निराशङ्करय प्रवृत्यादि निरपेक्षप्रवृत्यादि,तल्लिङ्गं चिह्न यस्य तत् 'निरपेक्षप्रवृत्त्यादिलिङ्ग- म्', एतत् अनन्तरोदित विषयप्रतिभासं ज्ञानम् ,'उदाहृतं' आप्तरुपदिष्टम् , अथ किंतुकमिदमित्यत आह,न ज्ञानमज्ञानं मिथ्यात्योदयदूषिते मतिश्रुते अवधिश्च, नत्रः कुरसार्थत्वात्॥आह च ॥"अविसेसिया मई चिय,सम्महिडिरस सा मइ- ७२ विषयप्रतिभासमात्रं बालस्येवाक्षरत्नविषयमिति॥ वचनादिकेषु (वचनात् एषु इत्युप० पदवृत्तिः) शानं सर्वत्रामानामेव ज्ञेयम्॥

अष्ठक
नवर्म
ज्ञानाष्टक
४ श्लो
४० ॥
पणाणं॥ महअन्नाणं मिच्छा-दिद्विस्त सुयपि एमेव॥१॥” तया" सदसदविसेसगाओ, भवहेउजदिच्छिओवलम्भा-
ओ॥णाणफलाभावाओ, मिच्छदिहिस्स अन्नाणं५४ ॥१॥ तस्याज्ञानस्य मस्यज्ञानादिलक्षगस्थावरणमावृतिकारणं
कर्म अज्ञानावरणं तस्यापायोऽपगमः क्षयोपशमो यस्मिंस्तद् 'अज्ञानावरणापायम्,' मत्यज्ञानावरणादिकर्मक्षयोपशम-
हेतुकमित्यर्थः, अथवा अविद्यमानो ज्ञानावरणापायो यत्र तत्तथा, अथ किंफलमिदमित्याह, महान्तश्च ते गुरुका अ.
पायाश्च स्वपरगतैहिकामुमिकात्याया महापायास्तेषां निबन्धनं हेतुः 'महापायनिबन्धनम्,' इदं व भावतोऽज्ञानमेव,
भवति चाज्ञानं महापायनिवन्धनम् ॥यत आह॥ "अज्ञानं खलु भोः कष्टं, क्रोधादिभ्योऽपि सर्वपापेभ्यः॥ अर्थ हितमहितं
वा, न वेत्ति येनातो लोकः" ॥१॥इति॥ ॥३॥ द्वितीयज्ञाननिरूपणायाह ॥
पातादिपरतन्त्रस्य, तदोषादावसंशयम् ॥ अनर्थाद्याप्तियुक्तं चा-त्मपरिणतिमन्मतम् ॥ ४॥
(वृत्तिः) पातोऽधःपतनमादि यस्योतिर्यगाकर्षणविपरीतशिक्षाश्वोदहनादेस्तत्पातादि तेन तस्य वापरतन्त्रः परायत्तः
पातादिपरतन्त्रः, पातादिपरतन्त्र इव 'पातादिपरतन्त्रः' तस्य, विषयकषायादिवशीकृतस्य देहिनः तस्मिन् पातादौ यो दो-
षोङ्गभङ्गमरणादिलक्षणः स आदिर्यस्य रुतोत्करमृदुस्पर्शादिगुणस्य स तथा तत्र 'तदोषादौ,' दार्शन्तिके तु कर्मबन्धदु-
गस्यादिदोषे गुणे चाभ्युदयादौ ज्ञेये, 'असंशयम्' उपलक्षणत्वादविद्यमानसंदेहविपर्ययं विलीनमोहग्रन्थित्वेन यथाव-
७३ अविशेषिता मतिरेव सम्यग्दृष्टेः सा मतिज्ञानम् ॥ मत्यज्ञानं मिथ्यादृष्टेः श्रुतमप्येवमेव ॥१॥
७४ सदसदविशेषणात् भवहेतुतो यादृच्छिकोपलम्भात् ॥ ज्ञानफलाभावात् मिथ्यादृष्टेरज्ञानम् ॥१॥
॥४.॥

नियस्वरूपमित्या, अनयोऽयायोगमादिरादिर्यस्य सुखस्पर्शादरयस्य स तथा तस्यातिः प्राप्तिस्तया युक्तमन्वितम् 'अनर्थाचासियुक्तम्,' इह च यद्यपि पुरुषस्यैवानांद्यासियोगस्तथापि ज्ञानाव्यतिरिक्तत्वात्तस्य ज्ञानमेवानर्थाचासियुक्त- मुक्तम् दाष्टान्तिकेतु अनर्थाचासिः कर्मवन्धदुर्गतिगमनपरम्परापवर्गगमनरूपावगन्तव्या, चशब्दो विशेषणान्तरसमुखया- था,तदेविषं ज्ञानम्, 'आत्मपरिणतिमत्प्रतिपादितनिर्वचनम्, 'मतम्' अभिमतमध्यात्मतत्त्वविदुषामिति,इह चसंवादगा- थे।"भिन्ने उतए(इतो उप०पदे)नाणं जहक्खरयणेसु तागयं चेवा पडिबन्धम्मि विसद्धाइ-भावओ सम्मरूवं तु७५॥१॥" भिन्ने तुतकस्मिन् मोहप्रन्यावित्यर्थः, 'तग्गय वत्ति अक्षे अक्षगतमेव,रत्ने रत्नगतमेव,प्रतिबन्धेऽपि सानुष्ठानव्याघाते- ऽपिइत्यर्थः। “जमिणं असप्पवित्तीह,दव्यओ संगयं पि नियमेण। होइ फलंगं असुहा-णुबन्धबोच्छेयभावाउत्ति"॥२॥४॥ एतदेव लिङ्गादिमिनिरूपयन्नाह ॥ तथाविधप्रवृत्त्यादि-व्यङ्गथं सदनुबन्धि च ॥ ज्ञानावरणहासोत्थं, प्रायो वैराग्यकारणम् ॥५॥ (पृत्तिः) तथातत्यकारा विधा स्वरूपं यस्याः सा तथाविधा,"हिअर जिगाण आणा,चरियं रह परिसं अउन(स)स॥ एवं आलपाल अषो दूर विसंबयह ॥१॥” इत्यादिभावनया असंक्लिष्टा चासो प्रकृति । हिंसादिषु वर्तनं तथाविध- ७५ मिन्ने तु तकसिन(इतः उप० पद वृ०) मानं यथाक्षानयोः तस्तव ॥ प्रतिबन्धेऽपि प्रवादिभावतः सम्बर तु॥ ७६ पदिई असत्प्रवृत्या द्रव्यतः सातमाप नियमेन ॥ भवति फअंग मशुमानुजन्यायकामावानु इति ॥ ७ दयें जिनानामाहा चरितं मनेशमग्यस्य । एतदालन्यालम् अहो ? दूरं विसंगति ॥ -rus

.
नवमं
प्रक००
टकम
-
॥४१॥
६-लो
प्रवृत्तिः सा आदिर्यस्य निवृतिप्राप्स्यादेः तत्तथाविधप्रवृश्यादि, तेन च्यायते व्यक्तीक्रियते यत् तत् 'तथाविधप्रवृत्या-
दिव्यङ्गयम्', तथा सन् शोभनोऽनुबन्धः परम्परया मोक्षफलप्रदायकत्वं सदनुबन्धः सोऽस्यारतीति सदनुवन्धि,"चशब्दो
विशेषणसमुपये, किंतुकमिदमित्याह, ज्ञानतावरणं मत्याद्यावारकं कर्म तस्य हासः क्षयोपशमस्तस्मादुत्तिष्ठत उत्पद्यते
यत्तत् 'ज्ञानावरणहासोत्थम्', कथमिदं सदनुबन्धि इत्यत आह, 'प्रायो' बाहुल्येन, वैराग्यकारण' सद्भावनानिमित्तम्,
यनोभवतीति गम्यते॥यदाहा"वालधुलीगृहक्रीडा,तुल्यात्यांभाति धीमताम्॥तमोग्रन्थिविभेदेन,भवचेष्टाखिलैव हि॥१॥"
प्रायोग्रहणं च कषायोदयविशेषे सति तराध्यकारणं न स्यादपि, राज्यादिप्रसाधनप्रवृत्तभरतादेरिवेति प्रतिपादनार्थ-
मिति ॥५॥ तृतीयप्रतिपादनायाह ॥
स्वस्थवृत्तेः प्रशान्तस्य, तद्धेयत्वादिनिश्चयम् ॥ तत्त्वसंवेदनं सम्यग्-यथाशक्ति फलप्रदम् ॥६॥
(वृत्तिः) स्वस्था अनाकुला वृत्तिर्वचनकाव्यव्यापाररूपं वर्तनं यस्य स तथा तस्य 'स्वस्थवृत्तः, एतदेव कुत इत्याह, प्रशा-
न्तस्य' रागद्वेषाद्युपशमप्रकर्षवतः, तस्वसंवेदनं भवतीति क्रिया । किम्भूतमित्याह, तेषां ज्ञेयवस्तुतत्त्वानां हेयत्वादि' त्य-
जनीयत्वादि आदिशब्दादुपादेयत्वोपेक्षणीयत्वपरिग्रहः तत्र निश्चयो निर्णयो यस्य तत्तद्धेयत्वादिनिश्चयम्'इति,अथवा
यदिति शेषस्ततश्च स्वस्थवृत्तेः प्रशान्तस्य पुंसो यद्ज्ञानं तत्तत्वसंवेदनमिति योगः, तस्वसंवेदनम्' उक्तनिर्वचनम्, 'स-
म्यक् समीचीनतया, 'यथाशक्ति' पुरुषसंहननादिसामांनुसारतः, 'फलप्रद' स्वप्रयोजनप्रसाधकम् , ज्ञानस्य चानन्तरं
फल विरतिः परम्पराफलं स्वपवर्ग इति ॥६॥ एतस्य लिङ्गादि प्रतिपादयन्नाह ॥
॥४१॥

न्याय्यादौ शुद्धवृत्त्यादि-गम्यमेतत्प्रकीर्तितम् ॥ सज्ज्ञानावरणापायं, महोदयनिबन्धनम् ॥७॥
(वृत्तिः) न्यायो नीतिस्तस्मादनपेतो न्याय्यः सम्यग्दर्शनादित्रयरूपो मोक्षमार्गः स आदिर्यस्यान्याय्यस्य मिथ्यादर्शना-
दिरूपस्य भवमार्गस्य सन्याय्यादि स्त्रशुद्धवृत्तिनिरतिचारप्रवृत्तिरादिर्यस्या निवृत्तः सा तथा तया गम्यमनुमेयं 'शुद्ध-
वृत्यादिगम्यम्', 'एतत्' अनन्तरोदितस्वरूपं तावसंवेदनज्ञानम् ,'प्रकीर्तितं' ज्ञानस्वरूपविद्भिः संशब्दितम्, किंतुकमि-
दमित्याह, सत् शोभनं प्रकृष्टं यज्ज्ञानमाभिनियोधिकादि तस्य यदावरणं तस्यापायोऽपगमः क्षयक्षयोपशमलक्षणो य-
स्मिंस्तत् 'सज्ज्ञानावरणापायम् ,' अथवा सन्विद्यमानो ज्ञानावरणापायो यत्र तत्तथा, फलमस्याह महोदयो महाभ्युदयो
निर्वाणं तस्य निबन्धनमक्षेपेण कारणं 'महोदयनिषन्धनम्' इति ॥६॥ उपसंहरन्नुपदेशमाह ।।
एतस्मिन्सततं यत्नः, कुग्रहत्यागतो भृशम् ॥ मार्गश्रद्धादिभावेन, कार्य आगमतत्परैः॥वा
(वृत्तिः) 'एतस्मिन्' अनन्तरोक्त तसंवेदनज्ञाने, सततम्', अनवरतम् , यत्नः' आदरः कार्य इति सम्बन्धः,कुतः 'कु-
ग्रहत्यागतः' शास्त्रबाधिताभिनिवेशपरित्यागेन, 'भृशम्' अत्यर्थम् , केन करणभूतेन कार्यो यत्न इत्याह,मार्गे मोक्षमार्गे
श्रद्धादिर्गिश्रद्धादिस्तद्रूपो भाव आत्मपरिणामो 'मार्गश्रद्धादिभावरतेन, तत्र श्रद्धानमादिशब्दात् ज्ञानमासेवनं चेति,
'कार्यो विधेयः, कैरित्याह 'आगमतस्परैः' आसप्रवचनप्रधानैरिति ॥८॥
॥नवमाष्टकविवरणं समाप्तम् ॥९॥

.
अकर्म।
1४१॥
१-२-३
लो.
॥अथ दशमं वैराग्याष्टकम् ॥on
सम्यग्ज्ञानावैराग्यमुपजायत इत्यतस्तनिरूपणायाह ॥
आर्तभ्यानाख्यमेकं स्या-मोहगर्भ तथापरम् ॥ सज्ज्ञानसतं चेति, वैराग्यं त्रिविध स्मृतम् ॥१॥
(पृत्तिः) मतं दुःखं तब भवमात तच्च तद्यानं चैकाग्रचित्तत्वम् आर्तध्यानम् इष्टानिष्टार्थवियोगावियोगनिमित स-
विक्लवं चित्तमित्यर्थः तदेवाख्या संज्ञा यस्य तत् 'आर्सध्यानाख्यम् ,' 'एक' प्रथमम् , 'स्यात्' भवेस् , मोहो मिथ्यात्वम-
शानं च गर्भोऽन्तःसारो यस्य तद्'मोहगर्भम् , 'तथा' इति समुच्चये, 'अपरम्' अन्यत्, सज्ज्ञानं सम्यग्बोधस्तेन स-
प्रतं युक्त 'सम्मानसातम्,"चः' सनुच्चये, 'इति' अनेन प्रकारेण, विगतो रागः प्रमादो यस्य स विरागः तस्य भावः
कर्म वा 'वैराग्यम् , तिस्रो विधा भेदा यस्य तत् 'त्रिविधम् , 'स्मृतम्' आप्तरुपदिष्टमिति ॥१॥ आद्य तावदाह ॥
इष्टेतरवियोगादि-निमित्तं प्रायशो हि यत् ॥ यथाशक्त्यपि हेयादा-वप्रवृत्त्यादिवर्जितम् ॥२॥
उद्वेमकृद्विषादात्य-मात्मघातादिकारणम् ॥ आर्तव्यानं ह्यदो मुख्यं, वैराग्यं लोकतो मतम् ॥३॥
(पृत्तिः) इष्टश्च प्रिय इतरश्चानिष्ट इष्टेनरौ विषयाविति गम्यते तयोर्यथासङ्ख्येन यो वियोगादिविरहसम्मयोगीस नि-
मितं कारणं यस्य तत् 'इष्टेतरवियोगादिनिमितम् ,"प्रायशो बाहुल्येन, न पुनरिष्टेतरवियोगादिनिमित्तमेव,स्वविक-
ल्पनिमित्तस्यापि तस्य सम्भवात, "हिशब्दो' यस्मादर्थः, तत्त्रयोगं च दर्शयियामः, 'यदिति' वैराग्यम् ,'आई' एतदा-
सध्यानमेवेति सम्बन्धः, कुतस्तदातध्यानमेव, न पुनर्ययावबैराग्यमित्याह, यस्मात् 'यथाशक्त्यपि' सामयानुरूपमपि
॥४२॥

आस्तां श्रद्धातिशयाच्छक्त्यतिक्रमतः, 'हेयादौ हेयोपादेयवस्तुविषये, क्रमेण अप्रवृत्त्यादिवजितानवतनप्रवर्तनविरहितम्, यत्किल यथावबैराग्यं भवति तद्धयेग्विन्द्रियार्थेषूपादेयेषु च तपोध्यानादिषु यथाशक्ति निवृतिप्रवृत्तियुक्तं भवति तत्स्वरूप- त्वात् , इदं तु तवर्जितं यस्मात्तस्मादार्तध्यानमेवेति भावः ॥२॥ तथा उद्वेगंमनःस्वास्थ्यचलनं करोतीति 'उछेगकृत् ,' तथा विषादो दैन्यं तेनाढ्य परिपूर्ण 'विषादाढ्यम् ,' अनेन मनोदुःखहेतुताऽस्योक्ता, अथ शरीरदुःखहेतुतामस्यैवाह, आल्मेह रूढितः स्वशरीरं तस्य यद्धातादि हिंसनताडनादि तस्य कारणं हेतुः 'आत्मघातादिकारणम्,' 'आर्तध्यानम्,' 'हि'श- ब्दस्यैवकारार्थत्वादार्तध्यानमेव, अद'इति सम्बन्धितमेव,किम्भूतमित्याह, मुखे भवं 'मुख्यं प्रधानं निरुपचरितमित्यर्थः, ननु यद्यार्तध्यानमेतत्सदा कस्मात्रैराग्यतयोक्तमिलाह, वैराग्यम्' उक्तनिर्वचनम् , 'लोकतो' लोकं पृथग्जनमाश्रित्य तबू- ढन्थेत्यर्थो न पुनस्तत्वतः, 'मत' सम्मतं तत्वविदुषामिति ॥३॥ मोहगर्भस्वरूपोपदर्शनायाह ॥ एको नित्यस्तथाऽबद्धः, क्षय्यसन्वेह सर्वथा ॥ आत्मेतिनिश्चयाद् भूयो, भवनैर्गुण्यदर्शनात् ॥४॥ तत्त्यागायोपशान्तस्य, सद्वृत्तस्यापि भावतः ॥ वैराग्यं तद्गतं यत्तन्-मोहगर्भमुदाहृतम् ॥५॥ (पृत्तिः) 'एको'ऽद्वितीय 'आत्मेत्यादिनिश्चयात् सद्वृत्तस्यापि यद्वैराग्यं तन्मोहगर्भमुदाहृतम्' इति योगः, तत्र एक ए- वात्मा लोकव्यापी चेत्येको वादी निश्चितवान् , यदाह ॥ “पुरुष एवेद रिनं सर्व यद्भूतं यच्च भाव्यम् । उतामृतत्वस्ये- शानो यदन्नेनातिरोहति यदेजति यन्नेजति यत् दूरे यदु अन्तिके । यदन्तरस्य सर्वस्य यदु सर्वस्यास्य बाह्यतः॥” इति (ऋग्वेदे १० मण्डले, ९० सूक्ते,२ श्लोकः) ॥ ग्निं इति वाक्यालङ्कारो निपातः। उतामृतत्वस्येशानो मोक्षस्यापि प्रभुः पु. रुप एच, एजति चलति, यदु अन्तिके इह उशब्दो निपातः, अन्तः आध्यात्मिक वस्तु अस्य जगत इति ॥ एतन्मतानुसा- -

"
दशम
विराग्या-
लो
वैवाह ॥ एक एव हि भूतात्मा, भूते भूते व्यवस्थितः ॥ एकया बहुधा चैव, दृश्यते जलचन्द्रवत् ॥१॥ (ईशोपनिषदि
५ श्लोकः ॥ ॥तथा॥ " नित्यज्ञानविवर्तोऽयं, क्षितितेजोजलादिकः ॥ आत्मा तदात्मकचेति, संगिरन्ते परे पुनः ॥१॥"
(ब्रह्मबिन्दौ १२ श्लोकः) तथा 'नित्य' इति,अनेकत्वेऽपि नित्य आत्मा इति कश्चित्, अप्रच्युतानुत्पन्नस्थिरैकरूपत्वात्,
आह थ॥"अमूर्तश्चेतनो भोगी, नित्यः सर्वगतोऽक्रियः॥अकर्ता निर्गुणः सूक्ष्म, आत्मा कपिलदर्शने ॥१॥” इति। 'तयेति'
विशेषणान्तरसमुच्चये, 'अबद्धो न केनचित्संस्पष्टः॥यदाह॥"तस्मान बध्यते नापि,मुच्यतेनापि संसरतिकश्चित्॥संसरति
षध्यते मु-च्यते च नानाश्रया प्रकृतिः॥१॥" तथा क्षयी' क्षणिकात्मेतिकश्चित् , यतस्तत्सिद्धान्तोऽयम्॥"जह लेटुयम्मि
खित्ते उप्पाए अस्थि कारणं ॥ पडणे कारणं नस्थि, अन्नत्थुप्पायकारणा ॥१॥ एवं संकडधम्माणं, उप्पाए अस्थि कारणं ॥
विणासे कारणं नथि, अन्नत्थुप्पायकारणा ७८ ॥२॥ न निहाणगया भग्गा, पुनो नत्थि अणागए। निव्वुया नेव चिट्ठन्ति,
आरग्गे सरिसोवमा० ॥३॥” तथा ॥ “अर्थक्रियाविधायित्वं, वस्तुलक्षणमुच्यते ॥ क्रमाक्रमाविरुद्धा च, क्रिया निःशेष-
वस्तुषु ॥१॥ क्रमाक्रमविरोधक्ष, नित्ये वस्तुनि तां प्रति ॥ तेन वस्तु क्षणस्थायि, परिणामवियोगतः ॥२॥” तथा असन्'
न विद्यमान आत्मेति, यतो बौद्धसिद्धान्ते वृत्तमिदम् ॥ “यथा कुमारी स्वप्नान्तरेऽ(तस्मिन् , सा पुत्रं जातं च मृतंच
पश्यति ॥ जातेऽतितुष्टा मते दौर्मनस्थिता, तथोपमान जानत सर्वधर्मान् ॥१॥" एतस्य वृत्तस्य छान्दसत्वात् नापशब्द-
७८ यथा लेष्ठुके क्षिप्ते उत्पादेऽस्ति कारणम् । पतने कारणं नास्ति अन्यत्रोत्पादकारणात् ॥ १ ॥
७९ एवं सङ्कटधर्माणामुत्पादेऽस्ति कारणम् ॥ विनाशे कारणं नास्ति अन्यत्रोत्पादकारणात् ॥ २ ॥
८० न निधानगता भन्नाः पुओ नास्त्यनागते ॥ निर्वृता नैव तिष्ठन्ति आराने सर्षपोपमाः ॥ ३ ॥
॥४३॥

च्छन्दोभाववधार्याविति । तथा "सर्वे धर्मा निरात्मान, एतत्साधनहानितः॥ दृष्टयुच्छेदस्तुमा भूया-दिति सत्ता प्रकीर्ति- ता॥१॥” 'वाशब्दो विकल्पार्थोऽनुक्तसमुच्चयार्थो वा, तेन चित्तमात्रं वात्मेति ॥ यतः सुगतवचनम् ॥ "चित्तमात्रं भो जिन- पुत्र, यदेतत्वैधातुकमिति ॥ 'इह' इत्यस्मिल्लोके, 'सर्वथा' इति सर्वत्र सम्बध्यते, ततश्च सर्वथैकः सर्वथा नित्य आत्मेत्यादि- निश्चयादेव मोहगर्भवं वैराग्यस्य स्यात्, कथञ्चिदेकत्वादिनिश्चयात् पुनः सज्ज्ञानसाततां तस्य वक्ष्यति,तथाविधनिश्च- यस्य वस्तुपरामर्शित्वेन सज्ज्ञानत्वादिति, तथाहि, सामान्यरूपापेक्षया एकत्वमस्य, विशेषरूपापेक्षयात्वनेकत्वमेव,न च वाच्य सामान्यं विशेषेभ्यो भेदाभेदविकल्पाभ्यामनुपपद्यमानस्वादसत्, विशेषेभ्यः सामान्यस्यैकान्तेन भेदाभेदयोरनभ्यु- पगमात् , तथाहि,विशेषा एव समताप्रत्ययनिबन्धनतामापद्यमानाः सामान्यमुच्यते,विषमताप्रत्ययनिबन्धनतामापद्यमाना विशेषा इति॥यदाह॥ "वैषम्यसमभावेन, ज्ञायमाना इमे किल॥प्रकल्पयन्ति सामान्य-विशेषस्थितिमात्मनि ॥१॥" इति॥ तथा सर्वथैकत्वे आत्मनः सर्वमसमञ्जसं स्यात् , यदाह ॥"आत्मनां सर्वथैकत्वे, वेदनं सुखदुःखयोः॥ भेदसिद्धं न युज्येत, न वा संसारनिवृती ॥१॥" यच्चोक्तम् ॥ “पुरुष एवेदमित्यादि"॥ तद्वचनमात्रम्, अप्रमाणकत्वादिति । तथा नित्यत्वम- प्यात्मनो द्रव्यार्थापेक्षया सातमेव, न तु सर्वथा, पर्यायार्थतया तस्यानित्यत्वात् ॥आह च ।। "द्रव्याश्रयं च नित्यत्व- मात्मनो हन्त सातम् ॥ कूटस्थनित्यतायोगे, बन्धमोक्षाद्यसङ्गतेः॥१॥ पर्यायतस्त्वनित्यत्वं,सिद्धं वाल्यादिदर्शनात् ॥ अ- नित्यतां विना नैव, स्यादवस्थाविचित्रता ॥२॥ यथाहेः कुण्डलावस्था, व्यपैति तदनन्तरम् । सम्भवत्यार्जवावस्था, सर्प. त्वं त्वनुवर्तते ॥३॥ एवमस्य निवर्तन्ते, जायन्ते चापरापराः॥ अवस्थाः सुखदुःखाया-चैतन्यं स्वनुवर्तते ॥४॥न चावस्था- विभेदेन, सर्वथैव स भिद्यते ॥ क्रमववर्णसंस्पर्शि-विकल्पप्रत्ययो यथा॥५॥विकल्पस्याप्यनेकत्वे, न स्यावस्तुविनिश्चयः॥

ष्टक
९
००
दशमं
वैराग्या
ष्टकं ॥
४४॥
श्लो.
सदभावे च न स्यातां, प्रवर्तन निवर्तने ॥६॥विरुद्धधर्मयोगोऽपि,नैकान्तेन विभेदकः॥ यथैकमपि प्रत्यक्ष, प्रान्ताधान्ततया
मतम् ॥७॥"तथा सर्वथैवात्मनो षन्धाभावे प्रकृतेरेव वा बन्धे आत्मनो मोक्षो न युज्यत्ते, लोके हि यो पद्धस्तस्यैव मोक्षो
व्यपदिश्यते नान्यस्येति, आह च, "प्रकृतेरेव बन्ध-सदा पैसो न मुक्तता ॥ अबद्धत्वेन तस्यापि, मुक्तौ स्यादसम
सम् ॥१॥” तथा क्षणिकत्वमपि सर्वथैव सद्भिर्माभिमन्यते, कथञ्चिदेव तस्यानुमतत्वात् , इदं चानन्तरमेयोपदर्शितम्, "द्र-
व्याश्रयं च नित्यत्वम्" इत्यादिना पचनसन्दर्भेण । यच्चक्षणिकत्वसाधनायोक्तम् ,"जह लेठुयम्मि खिसे इत्यादि, तत्पर्या-
यापेक्षया युक्तमेव,द्रव्यापेक्षया तु नित्यत्वमुपदर्शितमेव । यच्चोक्तम् ,"अर्थक्रियाविधायित्वमित्यादि,"तत्रोच्यते।अर्थक्रि-
याकारित्वं सत्वलक्षणं न भवत्येव, दीपाद्यन्तक्षणेन व्यभिचारात्॥अथ ज्ञानजनकत्वात्तस्य न व्यभिचारः, नैवम् , योगि-
ज्ञानजनकत्वेनातीतानागतार्थानां वस्तुत्वप्राप्तेः भवतुषार्थक्रियाकारित्वलक्षणं सत्वम् ,तथापि तत्परिणामिन्येष वस्तुनि
सङ्गच्छते, क्षणिकाक्षणिकयोस्तदसम्भवात्,तथाहि, क्षणिकोऽर्थः पूर्वक्षणे १स्वक्षणे २ अनागतक्षणे ३ वा कार्य करोतीति
विकल्पाः,तत्र न तावत् पूर्वक्षणे, तस्य तदानुत्पन्नत्वेनासत्वात् , नापि स्वक्षणे, समकालभाविनि व्यापाराभावादितरथैक-
क्षणवर्तिनां समस्तार्थक्षणानामितरेतरं कार्यकारणभावः प्रसज्येत, नाप्यनागतक्षणे, तत्र तस्य विनष्टत्वेनासस्थादेव ।
किश्त्र, क्षणिकोऽर्थः क्रमेणार्थक्रियां करोति योगपद्येन था, न तावत् क्रमेण,क्षणिकत्वे क्रमकरणस्यासम्भवात्,नापियोग-
पोनेतिपक्षः, यतोऽसोसन् करोति असन् वा, न असन् ,असत्वादेव, खरविषाणयत् ,नापि सन् ,स्वक्षणकरणोक्तदोषप्रस-
मात् । किा स्वभावभेदवतामनेककार्याणां युगपत्करणे वस्तुनोऽनेकस्वभावतापत्ति: स्यात् ,न चासौ क्षणवादिनामस्तीति।
अक्षणिकं तु भवतैवैकस्वभावतया विकल्पछयेनापि न कार्यकरणदक्षमित्युक्तम् , अतः परिणामिन्येव वस्तुन्यर्थकि.
॥४४॥

पाकारित्वलक्षणं सावमवतिष्ठत इति । किब,"सर्वथा क्षणिकं वस्तु, यदि हन्त त्वयेष्यते॥कार्यकारणभावादि, तदा का प्रतिपद्यते॥१॥ को हि व्यवस्थित कर्ता, संघो क्रमवद्गतिम् ॥ अस्य दृष्टाविदं दृष्ट, नास्यादृष्टीतु लक्ष्यते॥२॥"तथा अ- सत्वमप्यात्मना सर्वथात्वेन असातम्, कवितुसातमेव, आह च, “पररूपेण वासस्व-मिष्यतेमतु सर्वथासिघातद- भावे हि, परलोको न सिध्यति॥१॥" इति। यच्चोक्तम्,“यथा कुमारीत्यादि, तत्सकलवस्तुविषयाभिवादोषोन्मूलनार्य, नतु सर्वथा आत्माभाषप्रतिपादनार्थमितियोद्धव्यम्।यच्चोक्तम्, "सर्वे धर्मा निरात्मान एतत्साधनहानिता, स्वादि,तद- तम्, आत्मसाधनानां शास्त्रान्तरेषु प्रतिपादितत्वादिति । यच्चोच्यते, "दृष्टधुच्छेदस्तु मा भूयात्" इति तदयुक्ततरम्, असतो यात्मनः सर्वोपदर्शन परप्रतारणस्वरूपमेष, न चैतत्सता सातमिति । अतति सततं गच्छत्तीति “आत्मा प्राणी 'इति एवम्प्रकारात्, 'निश्चयात् निर्णयात् , भूयः पुनरपि, भवनैर्गुण्यदर्शनात् संसारासारतोपलम्भात्, "सदापाय: कापा- प्रणयिषु सुखं स्थैर्यविमुख,महारोगा भोगाः कुषलयदृशः सर्पसदृशः।गृहावेशालेशःप्रकृतिचपलाश्रीरपिखलायमास्वैरी वैरी परमिह हितं कर्तुमुचितम् ॥१॥"इत्यादिभाषनपेत्यर्थः॥४॥ तस्यागाय' संसारविमोक्षार्थम् , उपशान्तस्य कपानिय- निग्रहयतः, 'सवृत्तस्यापि' स्वसिद्धान्तानुसारेण शोभनानुष्ठानवतोऽपि, आस्लामन्यस्य, भावतः सावन, यत् इत्यस्याह सम्बन्धात् , 'वैराग्यम्' अभिष्वाभावः, किम्भूतम् , तद्गतं भवविषयम् ,'तत् इति वैराग्यम् , मोहगर्भम् अज्ञामसारम, दाहृतं' बैराग्यस्वरूपवेदिभिरभिहितम् , मोहगर्भता चास्यान्यथाभूतस्य वस्तुनोऽन्यथावबोधात्, अत एवेदन परमार साधकमात्यन्तिकसन्निपातग्रस्तस्य सदोषषवत् सुखमात्रसम्पादकत्वादस्य, यदाह । “कुणइजह सनिवाए, सदोसह जोग्ग- सोक्खमित्तं तु ॥ तह एवं विशेष, अणोरपारम्मि संसारे ॥१॥"इति ॥५॥ अथ सज्ज्ञानसातवैराग्यातिपादनायाह । तिच्या समिपाले सोपवल्यमुखमा । तथैवधिमापारे संसारे इति ॥

दशम
बैराग्या-
ष्टकं ॥
६ श्लो.
भूयांसो नामिनो बद्धा, बाह्येनेच्छादिना हमी ॥ आत्मानस्तद्वशात्कष्टं, भवे तिष्ठन्ति दारुणे ॥६॥
(कृत्तिः) 'भूयांसो'ऽतिषहवः, आत्मान इति योगः, भूयस्त्वं चैषां प्रतिप्राण्यन्तर्मुखावभासिविचित्रचैतन्योपलब्धेः, अ-
नेन च सर्वथैकत्वप्रतिषेधोऽभिहितः, तथा नमनं नामः परिणामोऽपरापरपर्यायगमनम् ॥यदाह। “परिणामो अर्थान्तर-
गमनं, न तु सर्वथा व्यवस्थानम् ॥ न च सर्वथा विनाशः, परिणामस्तदिदामिष्टः॥१॥” स एषामस्तीति 'नामिनः, अनेन
च एकान्तनित्यत्वानित्यत्वयोर्व्यवच्छेद उक्तः, यदाह, “सर्वव्यक्तिषु नियतं,क्षणेक्षणेऽन्यत्वमथचन विशेषः॥ सत्योधि-
त्यपचित्यो-राकृतिजातिव्यवस्थानात्॥१॥" तथा, बद्धान त्वनादिशुद्धाः,बन्धाभावे हि सुखसाधनयुक्तस्यापि पुंसो दुःखो-
पलम्भो दुःखसाधनयुक्तस्यापि च सुखोपलम्भोऽयं लोके दृश्यते, सन स्यात्, कार्यत्वात् , कारणाभावे घटवदिति ॥य-
दाह ॥ "जो तुलसाहणाणं, फले बिसेसो न सो विणा हे ॥ कज्जत्तणओ गोयम, घडो व्व हेऊ य सो कम्मं ॥१॥"
अनेन चैकान्तेनाबद्धात्मवाव्यवच्छेद उक्तः॥ किंविधेन केन तेथद्धा इत्याह, बायेनं आत्मन्यतिरेकिणा, स्वरूपाव्यतिरि-
तवन्धनेन हि बद्धानां यन्धनक्षये स्वरूपक्षतिप्रसङ्गः, अनेन चात्माव्यतिरिक्ताविद्यादिषन्धनाभ्युपगमनिरासमाह,अभ्युप-
गतं चात्माव्यतिरिक्ताधिद्यादिवन्धनं कैश्चित्, यदाह, “कार्यकारणभूताच, तत्राविद्यादयो मताः॥षन्धस्तदिगमादिष्टा, मु-
क्तिनिर्मलता धियः॥१॥" एषणमिच्छा राग इत्यर्थः। आह च, "इच्छा मूछ रागः, स्नेहो गाय ममत्वमभिनन्दः। अभि-
लाप इत्यनेका-नि रागपर्यायवचनानि ॥१॥"(प्रशमरति श्लोक १७) सा आदिर्यस्य द्वेषादेः स तथा तेन 'इच्छादिना'मि-
ध्यात्वाविरतिकषाययोगलक्षणपन्धहेतुजन्येन कर्मणेति भावः, इच्छादेव पाह्यत्वमात्मन्यतिरिक्तकर्मकृतविकाररूपत्वा-
८२ पस्तुल्यसाधनयोः फले विशेषो न स विना हेतुम् ॥ कार्यत्वात्, गौतम, घट इव हेतुब तत् कर्म ॥१॥
॥४५॥

दिति, 'हि'शब्दश्चशब्दार्थः स च भूयांसो नामिनो बद्धाश्चेत्येवं सम्बन्धो द्रष्टव्यः, 'अमी' एते लोकव्यवहारगोचराज्ञान-
रूपतद्गुणप्रत्यक्षत्वेन प्रत्यक्षगोचरा वा । यदाह, “गुणपच्चक्खसणओ, गुणी वि जीवो घडो व्व पच्चक्लो॥ घडओ
विधिप्पड गुणी, गुणमित्तग्गहणओ जम्हा ॥१॥" 'आत्मानों' जीवाः, तशात्' इच्छादिजन्यबन्धसामर्थ्यात, कष्ट'
सदुःखम् , भवें' संसारे, 'तिष्ठन्ति' आसते, 'दारुणेरौद्रे इति ॥६॥ ततः किमित्याह ॥
एवं विज्ञाय तत्त्याग-विधिस्त्यागश्च सर्वथा ॥ वैराग्यमाहुः सज्ज्ञान-सङ्गतं तत्त्वदर्शिनः ॥७॥
(वृत्तिः) 'एवम्' उक्तप्रकारम् , आत्मभूयस्त्वादिकं वस्तुस्वभावम् , 'विज्ञाय' उपपत्तिगर्भाप्तोपदेशादिनिमित्य, ततः
किमित्याह, 'तस्येच्छादेर्बन्धनस्य भवावस्थाननिवन्धनस्य, 'त्यागविधिः' त्यजनविधानं तदुधमा सर्वसावधविरतिप्र-
तिपत्तौ परिकर्मेत्यर्थः, तथा, 'त्याग'त्यजनं चेच्छादेरेव, कथम्, 'सर्वथा' सर्वप्रकारैः सकलसावययोगविरतिरित्यर्थः,
यो विधीयते इति वाक्यशेषो दृश्यः, तदिति च, ततश्च, तदेवंविधम् , 'वैराग्यमुक्तनिर्वचनम्, 'आहुः' अवते, 'सज्जा-
नसतम्' उक्तस्वरूपम् , 'तत्त्वदर्शिनः वैराग्यपरमार्थवेदिन इति, सज्ज्ञानसत्तत्वमस्य यथावस्तुबोधपूर्वकत्वादिति ॥७॥
एतदेव सिद्धिसाधनमिति प्रतिपादयत्राह ॥
एतत्तत्त्वपरिज्ञाना-नियमेनोपजायते ॥ यतोऽतः साधनं सिद्धे-रेतदेवोदितं जिनः ॥ ८॥
(वृत्तिः) 'एतत् अनन्तरोदितं सज्ज्ञानसतं वैराग्यम्, न पुनरायव्यम्, तत्त्वपरिज्ञानात् आत्मादिवस्तुनः परिणामि-
स्वादिस्वरूपावबोधात्सकाशात्, 'नियमेन' अवश्यम्भावेन, नान्यतः आयव्यवत्, 'उपजायते सम्पयते, 'यतों यस्मा-
८३ गुणप्रत्यक्षत्वाद्गुण्यपि जीवो घट इव प्रत्यक्षः । घटकोऽपि गृखते गुणी गुणमात्रग्रहणतो यस्मात् ॥ १॥

एकादश तपोष्टकम् लो०१ कारणात, '' पतनकारांत सावकतमम्, 'सिदे मुखपलदेव इदमेव, महालकातवैराग्यमेव, नावामन, 'उदितम्' अभिक्षितम् , 'जि' रागादिजेमिरिति ॥ ८॥ दशमानकविवरण समारम् ॥१०॥ ॥अथ एकादशं तपोष्टकम् ॥ ११ ॥ बैरान्पयुन तो विषेषन् । अतो वैराग्याष्टकानन्तरं तपोष्टकमारभ्यते, तत्रापि परमतमाशमान आह ॥ दुःखात्मकं तपः केपि मन्यन्त तन युक्तिमत् ॥ कर्मोदयस्वरूपत्वाद्-बलोपादिवालवत् ॥१॥ (कृति) कुलमसुखमात्मा स्वमायो यस्य तत् 'दुःखात्मकम्,' किं तत्, 'तपोऽनशनादिरूपम्, इति कृत्या, 'केचित्' अनषिणतपारगातागमगायो:, 'मन्यन्ते' अभ्युपगच्छन्ति, 'तत्' इति तपः, 'न'नेच, 'युक्तिमत्' उपपत्या सस्तम्'म मोक्षार्ग तप एवन सम्भवतीति यावत्, अप दुःखात्मकमपि सत् कस्मान मोक्षामिस्याह, 'कोयस्वरूपत्वादिति' कर्मोदयोऽसातवेदनीयादिकर्मविपाकः स्वरूप स्वमायो यस्य तत्तथा तद्रावस्तत्वं तस्मात् , तथाहि, भवन्स्यनशनादिषु क्षुत्पिपासादया परीपहा, ते पवेदनीयामादयसम्पाया आगमे श्रूयन्ते इति वेदनीयकोदयात्मकमनशनादि, कर्मो- दयस्वरूपत्वाचन मोक्षार्ग तत्, किंवदित्याह, पलीवदादिदुःखवत् गवादिगतासातमिय, प्रयोगधेवम् , यत्कर्मोदयस्व. सर्व मतमोक्षासम्, यसागवादिदुःखम् , कामोदयलरूपं च तपा, तस्मात्र मोक्षामिति स्थितम्, अर्थच लोकार्य इमारत) अवस्तुकगाधामुपजीव्य मयानिहिता, "एन पि केह, णाणसणाइ दुहं पि (ति) मोक्सग । कम्मविवागतो,

भणन्ति एवं पि परिसिद्धम् ॥” इति ॥१॥ अथ दुःखस्वरूपस्यापि तपसो युक्तिमत्वान्युपगमे पर एष प्रसामाह॥
सर्व एव च दुःख्येवं, तपस्वी सम्प्रसज्यते ॥ विशिष्टस्तविशेषेण, सुधनेन पनी यथा ॥ २ ॥
(कृत्तिः) सर्व एव' निरवशेष एव, यः कबित्, 'दुःखी' दुःखवान्, 'पशब्दो' दूषणान्तरसमुचये, ‘एवं' दुःखात्मक-
स्यापि तपसो युक्तिमत्वाभ्युपगमे सति, स, 'तपस्वी' तपोयुक्तः, 'सम्प्रसज्यते' प्रामोति,अनशनादिदुःखस्य व्याध्यादि
दुःखस्य पदुःखत्वाविशेषात् दुःखात्मकस्य तपसोऽग्युपगमे च दुःखस्यैव तपरत्वेनाभ्युपगमादिति भावः, तथा विशिष्ट
प्रधानतरः, तपस्वी प्रसज्यत इति प्रक्रमः, केनेत्याह, 'तविशेषेण दुःखविशेषेण हेतुना, क इव केनेत्याह, 'सुघनेन'
प्रयुरधनेन, 'धनी महाधनः, 'यथा' येन प्रकारेणेति ॥२॥ अथ सर्व एव दुःखी तपस्वी प्रसज्यतां को दोष इत्याह ।
महातपस्विनश्चैवं, त्वन्नीत्या नारकादयः ॥ शमसौल्यप्रधानत्वा-योगिनस्त्वतपस्विनः ॥३॥
(वृत्तिः) महातपस्विनः विशिष्टतपोधनाः, प्रसज्यन्त इति गम्यते, चकारो दोषान्तरसमुचये, ‘एवम्' उक्तप्रकारया
'त्वनीत्या' भवन्यायेन, दुःखी तपस्वीत्यन्युपगमलक्षणेनेति भावः, 'नारकादयो' नैरयिकादयः, तेषां महादुःखितत्वात्,
आदिशब्दान्महावेदनाभिभूततिर्यगादेः परिग्रहः, शमः प्रशमः स एव सौख्यम्, यदाह॥ तणसंथारनिसको वि,
मुणियरो भरागमयमोहो ॥ पावह मुत्तिसुह, कसो त चवही वि०५॥१॥" शमसौख्यं प्रधानं येषां तेन था
प्रधाना येते तथा तावस्तावं तस्मात् शमसोल्यप्रधानत्वात्'अदु:खितत्वादित्यर्थः, योगिनः' समाधिमन्तः, 'तुशब्दः'
८४ एतेन यदपि केचिन्नानशनादि दु:खमिति मोक्षाम् । कर्मविपाकवाङ्गणन्ति एतदपि प्रतिषिद्धम् ॥
८५ क्षणसंस्तारनिषण्णोपि, मुनिवरो अष्ठरागनदमोहा । यत् प्रायोति मुक्तिमुख, कुतस्तचक्रवत्यपि ॥१॥

एकादश
तपोष्टकम्
।४७॥
४-५लो.
"
पुनरर्थः, 'अतपस्विनः' अतपोधनाः, दुःखात्मकतपसोऽभावादिति भावना, स्वप्नीत्या प्रसज्यन्त इति प्रकृतमेवेति ॥३॥
पर एव स्वपक्षं निगमयमाह ॥
युक्त्यागमबहिर्भूत-मतस्त्याज्यमिदं बुधैः ॥ अशस्तभ्यानजननात्, प्राय आत्मापकारकम् ॥ ४ ॥
(वृत्तिः)युक्तिश्योपपत्तिरागमवाप्तवचनं ताभ्यांबहिर्भूतं तदननुपातितबाधितं 'युक्तयागमवहिभूतम्,' तत्र युक्तिव-
हिर्भूतता प्रागुपदर्शिता, आगमबहिर्भूतता चैवमनगन्तव्या ॥"भावियजिणवयणाणं, ममत्सरहियाण नथि उ विसेसो॥
अप्पाणम्मि परम्मि य, तो बजे पीडमुमो वि८६ ॥१॥ अनशनादौ तु स्वकायपीडा प्रतीतैवेति, 'अतः' इति
यस्मादनेकानन्तरोदितदूषणोपेतं, अत' एतस्माद्धेतोः, 'त्याज्यं' त्यागाईम्, 'इदं अनशनादिदुःखात्मकं तपः, कैरित्याह,
'बुधैः' युक्तयागमहृदयः, न तैर्लोकरूच्या प्रवर्तितव्यं भवति, घुधवाभावप्रसादिति हृदयम्, तथा 'आत्मापकारक'
स्वस्यानर्थनिवन्धनमिदम, कृतः, 'अशस्तध्यानजननात्' अप्रशस्ताध्यवसायोत्पादकत्वात, 'प्रायों बाहुल्येन, उत्पद्यते
हि भोजनाचमारे अप्रशस्तध्यानम् ॥ यदाह ॥ " आहारवर्जिते देहे, धातुक्षोमः प्रजायते ॥ तत्र चाधिकसत्वोऽपि,
चित्तभ्रंश समश्नुते ॥१॥” इह व प्रायोग्रहणात् श्रीमन्महावीरादिभिर्व्यभिचारपरिहारोदर्शित इति, अतोऽपि त्याज्य-
मेवेदं बुधैरिति प्रक्रमः ॥ इति पूर्वपक्षः॥४॥ अत्रमूरिरुत्तरमाह ।।
मनइन्द्रिययोगाना-महानिश्चोदिता जिनैः॥ यतोऽत्र तत्कथं त्वस्य, युक्ता स्यात् दुःखरूपता ॥५॥
(कृतिः) पूर्वरक्षवादिना यदुक्तम्,दुःखात्मकं तपोनयुक्तिमत्कौदयस्वरूपत्वात् तत्र दुःखात्मकमिति विशेषणं तपसो
८६ भावितजिनवचनानां ममत्वरहितानां नास्ति तु विशेषः । आत्मनि परस्मिन् ततो वर्जयेत्पीडामुमयोरपि ।
॥४७॥

न सिद्धमिति तावदावेदयति, कथम्, मनश्च चित्तमिन्द्रियाणि च करणानि योगाश्च प्रत्युपेक्षणादयः संयमव्यापारा 'मन- इन्द्रिययोगा'स्तेषाम्, 'अहानिः अनावाधता, चोदिता'अभिहिता,अथवा चशब्दसमुखये,तेन अनुपप्लुनता च, 'उदिता' उक्ता, 'जिनैः तीर्थरैः, 'यतो' यस्मात्कारणात्, अत्र तपसि ॥ यदाह ॥ सो हु तवो कायव्यो, जेण मणो मंगुल न चिन्ता ॥ जेण न इन्दियहाणी, जेण य जोगा न हायंति ॥१॥" ॥ तथा ॥ ता जह न देहपीडा, न यावि चियर्म- ससोणियत्तं तु ॥जह धम्मज्माणबुडी, तहा इमं होइ कायवं.८ ॥२॥ 'तत्' इति तस्मात्कारणात्, 'कर्य' केन प्रकारेण न कथञ्चिदित्यर्थः, 'तु' इति वितर्के, 'अस्य तपसः, ‘युक्ता' उपपन्ना, 'स्यात् भवेत्, 'दुःखरूपता'असुखस्वभावता, तदेवं दुःखात्मकत्वं तपसोऽसिद्धं तदसिद्भावयुक्तिमत्वमप्यसिद्धमित्युक्तमिति ॥५॥ ननु देहपीडाकारित्वेनानशनादीनां दुःखस्वरूपत्वमनुभयमानमपि कथमसिद्धमिति व्यपदिश्यत इत्याह । यापि चानशनादिभ्यः, कायपीडामनाक्कचित् ॥ व्याधिक्रियासमा सापि, नेष्टसिध्यात्र बाधनी ॥६॥ (पृत्तिः) 'यापि' इति, 'अनशनादिभ्यः' उक्तन्यायेन तावदहपीडा न भवत्येव, 'यापि च अनशनादिभ्य' उपवासा- दिभ्यः, आदिशब्दादूनोदरतादेः सकाशात, 'कायपीडा' शरीरबाधा न तु मनःपीडा, ‘मना' स्वल्पा, 'कचित् देशे काले वा न पुनः सर्वत्र सर्वदा सा सम्भवति उक्तन्यायप्रवृत्तस्य, 'साऽपि' इति इह दृश्यं तेनासावपि, 'न बाधनी नैव बाधिका न मनसो दुःखदा, किमित्यत आह, 'इष्टसिद्वया' वाञ्छितार्थसाधनात्, 'अ' प्रवचने, किंविधासावित्याह, ८७ तत् खलु तपः कर्तव्यं, 'येन ममो मागुलं (अशुभं) न चिन्तयति । येन नेन्द्रियहानिः येन च योगा मयन्ते ॥१॥ ८८ तस्मात् यथा न देहपीडा न चापि चितमांसशणितत्वं तु । यथा धर्मभ्यानवृद्धि तथा इदं भवति कर्तव्यम् I

एकादश
तपोष्टकम्
।४८॥
७-लो.
'च्याधिविन्यासमा' रोगचिकित्सातुल्या, यथाहि रोगचिकित्सायां मनाक् देहस्य पीडा सत्यपि म वापिका आरोग्य-
सिद्धेः, एवं तपस्यपि देहपीडा भाषारोग्यससिटे भावतो पाधिकेति भावनेति ॥६॥
इष्टार्थससिडी देहपीडाया अदुःखरूपतां दृष्टान्तेन समर्पयामाह ॥
दृष्टा चेष्टार्थसंसिद्धो, कायपीडा हदुःखदा। रत्नादिवणिगादीनां, सवदत्रापि भाव्यताम् ॥७॥
(कृत्तिः) म केवलमस्माभिरेवेहोपन्यस्ता, 'चेष्टा च' लोकेऽवलोकिता, यासंसिद्धीमभिप्रेतायोजनप्राप्ती सत्थान,
'कायपीडा' देहबाया, 'दिशब्दः स्फुटार्थः, 'अदुःखदान पीडाकारिणी,केषामित्याहरत्नानि मरकतादीनि मादिनी
बससुवर्णादीनां तानि तथा तेषां वणिक् वाणिजको रत्नाविषणिक सादिर्येषां कृषीवलादीनां ते तथा तेषां 'रत्नादि-
पणिगादीनाम्, ततः किमित्याह तेषामिव वणिगादीनामिव 'तमत्,'मत्रापि'अनशनादितपोविषयेऽपि, 'भाव्यतां निपु-
णधिया पोलोच्यताम्, तथाहि, रत्नसुवर्णवसनादिषणिकृषीवलादीनां समीहितार्यसंसिद्धिपद्धनिभयानां भपार-
पारावारावतारकान्तारनिस्तरणधरणीप्रकर्षणादिविविधव्यापारपरायणानां क्षुत्पिपासाश्रमादिजनितदेहपीडानमनोविधु-
रताऽऽधायिनी,एवं साधूनामपारसंसारसागरमचिरादुत्तितीणामनशनोमोदरतादितपोजनितदेहपीडानमनोवाधाविधा
यिनीति ॥ इह पुनर्विशेषसम्प्रदाय विदेषम"किल कोपि दरिद्रवणिजको दूरदेशान्तरं गत्वाकर्षकथमपिरत्नान्यु
पार्जितवान् चिन्तितवांश्च, कथमहमेतानि महामूल्यानि सर्वाशासम्पादकानि महारत्नानि चौरव्याकुलमरण्यं मिस्तीय
स्वनगरं गत्योपभोग नेष्यामि, ततस्तेनोत्पन्नबुद्धिना तान्येकन स्थाने निहितानि, काचादिशकलानि च पोलिकायां
बद्धानि,साप दण्डाने निबद्धातोरपल्लीमध्येन 'अहोरनवणिजको गच्छति इत्येवमहता शम्देन व्याहरभरण्यमतिका-
॥४८॥

मति स्म, ततो मार्गपल्लीषु च ये जनास्ते तं वीक्ष्य ससंभ्रममागत्य निभालयन्ति स्म, अपश्यंच काचादिशकलानि, अवधीरितवन्तश्च ग्रहगृहीतोऽयमिति विभावयन्तः, ततः पुनरपि तथैव निवृत्तः, तत्रापि यः पूर्व न वीक्षित आसीते तथैव वीक्षितवन्तोऽथावधीरितवन्तश्च, एवं पुनरपि असावरण्यमध्येन गतवान् ततस्तृतीयवेलायामतिपरिचितत्वाव- धीरितस्तस्करजनेन, ततोऽसौ निश्चितं न मां कोपि अत्रारण्यमार्गे स्खलयिष्यतीति निश्चित्य रत्नानि गृहीत्वा शीघ्र शीघ्रं तदुपयो (भो)गाय वाञ्छितपुरप्राप्तावरण्यात्तनिर्वाहणे चातीवौत्सुक्येनानवरतमहाप्रयाणकैः क्षुत्पिपासाश्रमादीन् भ- वतो भूयसोऽप्यवगणयन् गन्तुं प्रवृत्तः।बहुतरमार्गमतिलडिन्तःसन् पिपासाभिभूतो भावयामास,अहो अहमद्यजलंविना निये, न च रत्नोपभोगभाजनं भवामीत्येवं भावयता मरणभयभीतेन रत्नोपभोगकाविणा दृष्टं सरः पङ्कमायपानीयं पङ्कमग्नमृगादिकलेवरपूयकृमिजलव्याकुलं विलीनमतिदुर्गन्धं विरसं तुच्छजलं दृष्ट्वा च गन्धमजिघ्रता रसमनास्वादयता दुष्करकरणं कुर्वता अक्षिणी निमील्याञ्जलिभिस्तत्पीतवान् परं स्वास्थ्यं चागमत्, तदुपष्टम्भितश्च क्षीणपिपासादुःखोऽ क्षेपेणेष्टपुरं प्राप्तः रत्नोपभो(यो गसुखं चेति ॥” उपनयस्तुप्रागुक्त एवेति ॥७॥ तदेवं दुःखात्मकतां तपसो व्युदस्य कर्मोदय स्वरूपतां व्युदस्यन्नाह ॥ विशिष्टज्ञानसंवेग-शमसारमतस्तपः ॥ क्षायोपशमिकं ज्ञेय-मव्याबाधसुखात्मकम् ॥ ८॥ (वृत्तिः) विशिष्टा'प्रधानाः सम्यग्दर्शनविशेषितत्वान, 'ज्ञान' च तत्त्वसंवेदनम्, संधेगश्च संसारभयंमुक्तिमार्गाभिला- षिता वा, शमश्च कषायेन्द्रियमनसां निरोधोज्ञानसंवेगशमाः,विशिष्टाश्च ते ते चेति कर्मधारयः,त एव सारोऽन्तर्गर्मों यस्य तैर्वा सारं यत्तत्तथा,ज्ञानादिसारमेव तपः, तपो भवतिनेतरत,अल्पफलत्वात्,यदाह॥ “सहिवाससहस्सा" गाथा,* * षष्टिवर्षसहस्राणि ॥ तिसत्तखुत्तो दएण धोएण ॥ अणुचिण्णं तामलिणा, अन्नाणतवृत्ति अप्पफलो ॥१॥ इति गाथापूर्तिः ॥

एकादशं तपोष्टकम् लो०८ “जीवकायवहगा" गाथा ॥'अतः' इति यस्मादुक्तयुक्तरदुःखात्मकमत एतस्मादेतो, 'तपोऽनशनादि, किमित्याह, क्षयेण उदोर्णचारित्रमोहनीयकर्मणश्वेदेन सह उपशमस्तस्यैव विपाकापेक्षया विष्कम्भितोदयत्वं क्षयोपशमस्तत्र भर्व 'मायोपशमिकम् , शेयं ज्ञातव्यम् , न पुनः कर्मोदयस्वरूपम् । तथा अविद्यमामा व्यापापा अविरतिजनिताः अनन्त पारम्पर्यकृताचा ऐहिक्या पारत्रिक्यो वा यस्मिंस्तवव्यापाथम्, तच तस्मुलं च तदेवात्मा स्वभावो घस्थ तन् 'अन्यावाध- सुखात्मक' प्रशमसुखात्मक सिद्धसुखानुकारीत्यर्थः । अनेन च लोकेन तपसोऽकौदयस्वरूपत्वमदुःखत्वरूपत्वं चावेदि- सम् । उक्त चैतदन्यत्रापि ॥"जयम न दुक्खं, कम्मविषागो पिसव्यहा जैवं ॥ खाओक्समियभावे, एयंति जिणागमे भणिय८९ ॥१॥ खन्ताइसाहुधम्मै, तबगहण सोय खोपसमियम्मिा भावम्मिषिणिदिहो, दुक्ल चोदरपणे सम्बा एतेन च तपसो दुःखरूपत्वकोदयस्वरूपत्वपरिहारेण "सर्व एव हि दुःण्येव" इत्यादिश्लोक (२-३)यामिति तपोदूषण सर्व परिहतमवगन्तव्ये दुःलस्वरूपत्वाश्रयत्वात्तस्येति ॥८॥ अन्ये विदमष्टकमेवं व्याचक्षते, 'दुःखात्मक' दुःखमेवेत्यर्थः, 'तपः कैचिन्मन्यन्ते, तदेतत् दुखात्मकतपोमानम्, युक्तिमन्, कुत इत्याह, कादयस्वरूपत्वात् दुःखस्य, किंवत् इत्याह, बलीवदादिदुःलवत्, तपसमक्षायोपश- मिकत्वादिति (१), इह एष दूषणान्तराभिषामायाह, सर्व एव चेत्यादिश्लोकबम् , अयया दुःखात्मक तपः केचिन्मन्यन्त x पजीवकायषधकाला हिंसकसत्थाई उवासंति पुणो ॥ सुबई पि तवकिलेसो बालतवस्सीण अप्पफसो ॥२॥ इति गाथापूतिः। . यदितीदं न दु नापि कर्मविपाकोऽपि सर्वथा नैव। क्षायोपशामकमा पतदिति जिनागमै माणितम् ॥१॥ ९० सान्त्यादिसाधुध तपीग्रहण त मायोपशमिक । मावे विनिर्दिष्ट दुखं चौयिक सर्वम् ॥२॥ . ॥

कर्मोदयस्वरूपत्वाइलीवदादिदुःखपदिति, म चेह साध्यदृष्टान्तयोरेकत्वमिति वाच्यम् , बलीवादिशब्देन विशेषितत्वात्
दृष्टान्तस्येति, सद्धेतुरेवायम् वृक्षोऽयम् ,शाखादिमत्त्वात् ,ग्रामवृक्षवदित्यादिवदिति। अत्राचार्य आहे,तन्त्र युक्तिमदिति, कत
इत्याह,सर्व एष चेत्यादिश्लोकवयम् , इह पशब्दो यस्मादर्थो द्रष्टव्यः॥(२-भाचार्य एवोभयत्र परस्योपदेशमाह,यत्याग
भेत्यादि, इदमिति तपसो दुःखात्मकत्वमननम् (४)॥ शेषं तु श्लोकचतुष्टयं पूर्ववदेव, नवरं “मनइन्द्रिययोगानामहानिमो.
दिता जिनेः" इत्यत्र चशब्दः पूर्वोक्तयुक्त्यपेक्षया युक्तयन्तरसमुपयार्या द्रष्टव्य इति। एकादशाहकविवरण समासम् ॥११॥
॥अथवादशं बादायकम् ॥ १२॥
एवं तावत्मायः कुदृष्टीन्विविधार्थेषु विप्रवदमानान् अनुशास्य तदनुशासनविधेर्वादस्य स्वरूपनिरूपणाय आह॥
शुष्कवादो विवादश्च, धर्मवादस्तथापरः ॥ इत्येष त्रिविधो वादः, कीर्तितः परमर्षिभिः॥१॥
(त्तिा) शुष्क इव शुष्को नीरसा गलतालशोषमात्रफल इत्या, सचासौ वादा कमपि विप्रतिपसिविषयमाभित्य
प्रतिवादिना सह पदम शुष्कवादा, तथा विरूपो जयमापावपि परलोकादिषाधको वाद विवादा,"शब्द' उत्तासमुपये,
तयाधर्मप्रधानो वादो धर्मवादा, तथा तेनात्यन्तमाध्यस्थ्यादिना धमकवादिपरीक्षालक्षणेन या प्रकारेण, समुण्यार्थी
वा तथाशब्दा, 'पररा' प्रधानामपरो वा उक्तवादाम्यामन्यः, इति' अनेन प्रकारेण, 'एषोऽनन्तरोत्ता, तिस्रो विषा:
प्रकारावस्था 'त्रिविषा, कीर्तिता, संशदिता, परमर्षिभि' प्रधानमुनिमिरिति ॥१॥ भायवादस्वरूपमा
अत्यन्तमानिना साध, क्रूरचित्तेन च हडम् ॥ धर्मविष्टेन मूढेन, शुष्कवादस्तपस्विनः ॥२॥

द्वादश
वादाष्टकम्
६ श्लो.
(वृत्तिः) अत्यन्तमत्यर्थ मानी गर्वी 'अत्यन्तमानी' तेन, स हि जितोऽपि परगुणं न मन्यते, 'सार्ध' सह, 'कूरचित्तेन'
संक्लिष्टाध्यवसायेन, स हि जितो वैरी स्यात्, चशब्दः समुच्चये, तथा, दृढम् अत्यर्थम् ,धर्मो जिनाख्यातः श्रुतचारित्ररूपः,
तस्यैव दुर्गती प्रपततां धरणसमर्थत्वात् , तस्य विष्टो द्वेषवान 'धर्मविष्ट' तेन, स हि निराकृतोऽपि धर्म न प्रतिपद्यतेऽतो
व्यर्थप्रयासः स्यात् , 'मूढेन' युक्तायुक्तविशेषानभिज्ञेन, स हि धादेऽनधिकृत एव, प्रतिवादिना यो वादः स इति गम्यते,
किमित्याह, 'शुष्कवादोऽनर्थवादो भवतीति गम्यम् , कस्येत्याह, तपस्विनः साधोः, तपस्विग्रहणं चेह तस्य सदैवोचित-
प्रवृत्तिकतया योग्यत्वेन शास्त्रेऽधिकारित्वोपदर्शनार्थमितरस्य चान्यथात्वेन तत्रानधिकारित्वोपदर्शनार्थ च, अथवा
सपस्थिन इति ॥२॥ अथ कथमस्य शुष्कवादत्वम्, अनर्थवर्धनत्वादिति बेमा, एतदेवाह ॥
विजयेऽस्यातिपातादि, लाघवं तत्पराजयात् ॥ धर्मस्येति द्विधाप्येष, तत्त्वतोऽनर्थवर्धनः ॥३॥
(वृत्तिः) 'विजये'ऽभिभवे तपस्विना कृते सति, 'अस्य' अत्यन्तमानादिदोषयुक्तस्य प्रतिवादिनः, अतिपतनमतिपातो
मरणम् , स एव आदिर्यस्य चित्सनाशादिदोषवृन्दस्य तत् 'अतिपातादि,' भवतीति गम्यते, स हि विजितो मानात्
नियेत चित्सनाशवैरानुषन्धाशुभकर्मबन्धसंसारपरिभ्रमणादिकं वाऽऽप्नुयात्, अथवा साधोरेव वैरानुषन्धात् सामर्थे
सत्यतिपातं शासनोच्छेदादि वा कुर्यादिति भावना । तथा 'लाघवं' माहात्म्यहानिः, भवतीति गम्यम् , कुत इत्याह,
तस्मात्पतिवादिनः सकाशात् पराजयःसाधोरभिभव तत्पराजयस्तस्मात्,' कस्य लाघवमित्याह, धर्मस्य जिनप्रवचनस्य,
यतोवादे जितो जैनोस्तोऽसारं जैनशासनमित्यवर्णवादात् । इति अनन्तरोदितहेतो, 'विधापि दाभ्यामपि प्रकाराभ्याम्
आस्तां पराजये विजयपराजययोरपीति भावः, 'तत्वतः' परमार्थतो न तु व्यवहारत एव, संसारकारणत्वात् , 'अनर्थव-
धनः'अपायवृद्धिकारीति ॥३॥ अथ बित्तीयवादस्वरूपमाह ॥
॥५०॥

लब्धिख्यात्यर्थिना तु स्यादुःस्थितेनाऽमहात्मना ॥ छलजातिप्रधानो यः, स विवाद इति स्मृतः (वृत्तिः) 'लधिः' सुवर्णादीनां लामा, ख्यातिश्च' प्रसिद्धिः, ताभ्यामर्थःप्रयोजनं यस्यास्तिस तथा तेन, 'तुशब्दः' पुन:- शब्दार्थः, स चायवादविवादयोर्विशेषयोतकः, 'स्यात् भवेत्, योवाद इति सम्बन्धः, 'दुःस्थितेन'दरिद्रेण मनोदुःस्थितेन वा, 'अमहात्मना' अनुदारचित्तेन, एवंविधस्य हि पराजये विषादवृत्तिच्छेदादिदोषप्रसङ्गेन साधोः परलोकबाधेति कृत्वा वादस्य विरुद्धता स्यात्, अत एव कारणात् विशेषितोऽसाविति, इह च सह वादिनेति गम्यम्, 'छलजातिप्रधानो यः, तत्र छलं वाक्छलादि, यथा नवकम्बलो देवदत्तः, जातयो दूषणाभासाः, यथाऽनित्यः शब्दः, कृतकत्वात्, घटवदिति, अस्य हेतोः दूषणम् , तथाहि, यदि घटगतं कृतकत्वं हेतुः तदा तच्छब्देनासिद्धमित्यसिद्धो हेतुः, अथ शब्दगतं तदा तदनित्यत्वेन व्याप्तं न सिद्धमित्यसाधारणानैकान्तिको हेतुरिति, तत्प्रधानो यः स तथा, 'स' एवंविधो वादः, 'विवाद इति स्मृतः' एवमभिहित इति ॥४॥ कस्माद्विवादोऽयं स्मृत इत्याह ॥ विजयो सत्र सन्नीत्या, दुर्लभस्तत्त्ववादिनः ॥ तद्भावेऽप्यन्तरायादि-दोषोऽदृष्टविघातकृत् ॥ ५॥ (वृत्तिः) विजयः' प्रतिवायभिभवहारेण जयः, 'हिं' यस्मात्, 'अन' छलादिप्रधाने विवादे, 'सन्नीत्या' शोभनेन न्यायेन, यतस्तत्र सन्नीत्युद्ग्राहणपरस्यापि छलापशब्दादिना निग्रहस्थानावाप्तिः स्यात् , 'दुर्लभः' न सुलभः, कस्येत्याह, तत्त्ववा- दिनः वस्तुतस्ववदनशीलस्य साधो, अथात्यन्ताप्रमादितया छलादिपरिहरतो विजयस्य लाभो भवति, तत्रापि दोषमाह, 'तदावेऽपि आस्तां विजयाभावे दोषस्तावेऽपिपरनिराकरणेपि (हि)अन्तरायःप्रतिवादिनोलामख्यात्यादिविघात आदिर्यस्य शोकप्रदेषादेः स तथा, स चासो दोषश्च इति 'अन्तरायादिदोषः, सम्भवतीति गम्यते, स हि पराजितो राजादिभ्यो न बाद लो. किविलमते लब्धं चास्य हियते, किंविधो दोष इत्याह, 'अदृष्टविघातकृत् ' परलोकल्याइतिकारीति ॥५॥ धर्मवादस्वरूपनिरूपणायाह ॥ परलोकप्रधानेन, मध्यस्थेन तु धीमता ॥ स्वशास्त्रज्ञाततत्त्वेन, धर्मवाद उदाहृतः॥६॥ (पृत्तिः) परलोको जन्मान्तरं स प्रधानो नोपसर्जनभूतो यस्य स 'परलोकप्रधानस्तेन, स हि परलोकभयादसमासस्य वक्ता कर्ता च न भवति, मध्यस्थेन' आत्यन्तिकस्वदर्शनानुरागपरदर्शनशेषरहितेन,एवंविधो हि सुखप्रतिपायो भवति, 'तुशब्दः'पुनःशब्दार्थः, धीमता बुद्धिमता, एवंविधो हि गुणदोषज्ञो भवति, तथा 'स्वशास्त्रस्य अभ्युपगतदर्शनस्य 'ज्ञात' अवगतं, तत्वं परमार्थो येन स तथा तेन,एवम्भूतो हि स्वदर्शनं दूषितमदृषितं वा जानातीति, सह प्रतिवादिनेति गम्यते, यो वादः स 'धर्मवाद उदाहृतः' कथितस्तत्त्ववेदिभिरिति ॥ ६ ॥ कुतोऽयं धर्मवाद उच्यते, यस्मादिह विशिष्टं तत्फलमस्तीत्यत आह ॥ विजयेऽस्य फलं धर्म-प्रतिपत्त्यायनिन्दितम् ॥ आत्मनो मोहनाशश्च, नियमात्तत्पराजयात् ॥७॥ (कृत्ति) 'विजये' सन्यायेनाभिभवे सति, 'अस्य' परलोकप्रधानत्वादिविशेषणस्य प्रतिवादिनः, 'फलम् अर्थसिद्धिः, धो जिनोक्तश्रुतचारित्रलक्षणस्तस्य प्रतिपत्तिरभ्युपगमः स आदिर्यस्यावेषपक्षपातावर्णवादादेः तत् 'धर्मप्रतिपत्त्यादि, 'भनिन्दितम्' अनवद्यम्, फलविशेषणं क्रियाविशेषणं चेदं, भवतीति चेह गम्यते ।अथ प्रतिवादिनः सकाशादात्मनः पराजयो भवति तत्राह ।'आत्मनः' साधोरधिकृतवादिनः, 'मोहनाश'अतवादी तत्त्वायध्यवसायलक्षणयोधहानिः, 'पशब्दः समुषयाः, 'नियमात्'अवश्यम्भावेन,कुत इत्याह,तेन तस्मादा पराजयोऽभिभवः तत्पराजयस्तस्मादिति ॥७॥ ,

तर्हि किं धर्मवादः कर्तव्य एवेतरौ तु न कर्तव्यावेवेत्याशङ्कायां यविधेयं तदुपदिशन्नाह ॥
देशायपेक्षया चेह, विज्ञाय गुरुलाघवम् ॥ तीर्थकृज्ज्ञातमालोच्य, वादः कायों विपश्चिता ॥८॥
(वृत्ति:) देशोग्रामनगरजनपदादिरादिर्येषां कालराजसम्यप्रतिवाचादीनां ते देशादयः,तत्र देशः कुत्तीथिकाचुरेलरस्व-
रूपः, कालो दुभिक्षादिः, राजादयो मध्यस्था विज्ञा इतरे वा, प्रतिवादी वादयोग्यस्तदन्यो वा यदाह। "अत्यवाणा
निवडणा,पक्खवया पलवया पयण्डेणं ॥गुरुणा नीएण तव-स्सिणा य सह बजए वायं९१"॥१॥आत्मा वादसमर्थोऽन्यथा
वेति ॥यदाह॥"कः कालः कानि मित्राणि,को देशः को व्ययागमौकश्चाहं का च मे शक्ति-रिति चिन्त्यं मुहर्मुहुः॥१॥
इति । एतेषाम् अपेक्षा'तया देशादीनाश्रित्येत्यर्थः, चकार पुनःशब्दार्थः, इह' वादविषये, विज्ञाय ज्ञात्वा,कि तदित्याह,
गुरुचलघुष गुरुलघुनी,तयोर्भावोगुरुलाघवं,'गुरु एवं विधेषु देशादिषुषादे विधीयमाने प्रवचनस्यात्मनोवागौरवं माहात्म्य
भवति,एवंविधेषु च तेषु लाघवं माहात्म्यक्षतिस्तयोर्भवतीत्येवं विज्ञाय,यथा गौरवमेव भवति तथा वादः कार्यों न यथा-
कथचिदिति भावना,किं कृत्वेत्याह, तीर्थकृदेव वर्धमानजिन एव ज्ञातं दृष्टान्तः 'तीर्थकृज्ज्ञात तत्, आलोच्य विभाव्य,
यथा तेन भगवतावर्धमानस्वामिना प्रथमसमवसरणसमागतामभव्यपर्षदं धर्जयित्वाऽन्यत्र विशिष्टा धर्मदेशना कृता, एव-
मन्येनाप्यनुचितदेशादिकं स्वपरोपकाराभावं चर्जियित्वान्यत्र, वादोऽनन्तरोदितस्त्रिविधः, कार्यों विधेयः, विपश्चिता'
पण्डितेनेति, सर्वत्र गुरुलाघवालोचनपूर्वकप्रवृत्तिक एव परमार्थतो विपश्चिवति तदन्यस्य परमार्थेनाविपश्चित्वादि-
त्युक्तं विपमितेति ॥ ८॥ द्वादशाष्टकविवरणं समाप्तम् ॥१२॥
२१ अर्थपतिमा नृपतिना पसवता बलषता प्रचण्डेन । गुरुणा नीचेन तपस्विना व सह वर्जयेद्वादम् ॥१॥

त्रयोदशं
धर्मवादा
२॥
लो.
१-२
॥ अथ त्रयोदशं धर्मवादाष्टकम् ॥१३॥
अनन्तरं वादा उक्तास्तेषां च मध्ये मुख्यवृत्त्या धर्मवाद एव विधेय इति तद्विषयमुपदर्शयन्नाह ॥
विषयो धर्मवादस्य, तत्तत्तन्त्रव्यपेक्षया ॥ प्रस्तुतार्थोपयोग्येव, धर्मसाधनलक्षणः ॥१॥
(वृत्तिः) विषयो गोचरः, धर्मसाधनलक्षण इति योगः,कस्य, 'धर्मवादस्य' उक्तलक्षणस्य, कथमित्याह, 'तस्य तस्येति'
वीप्सायां द्विवचनम्, तन्त्रस्य शास्त्रस्य, षष्टितन्त्रादेविशिष्टापेक्षा निश्रा तत्तत्तन्त्रव्यपेक्षा तया,' यद्यदर्शनं प्रति-
वादी समाश्रितस्तत्तदपेक्षयेत्यर्थः। किंयावांस्तदभ्युपगतदर्शनार्थोऽभिधीयते तावदपेक्षोऽसौ धर्मवादविषयः, नैवमित्याह,
'प्रस्तुतार्थों' मुमुक्षूणां मोक्षार्थ एव, तत्रोपयोगः प्रयोजनभावो यस्यास्ति म 'प्रस्तुतार्थोपयोगी, स एव नान्योऽपि
धर्मवादविषयः, कश्चासावित्याह, धर्मस्य कर्मानुपादाननिर्जरणलक्षणस्य, 'साधनानि ' हेतवोऽहिंसादीनि, तानि
'लक्षण' स्वभावो यस्य स तथेति ॥१॥ धर्मसाधनान्येवाह ॥
पञ्चैतानि पवित्राणि, सर्वेषां धर्मचारिणाम् ॥ अहिंसा सत्यमस्तेयं, त्यागो मैथुनवर्जनम् ॥ २ ॥
(वृत्तः) 'पञ्च' इति सख्या, 'एतानि' वक्ष्यमाणानि, 'पवित्राणि' पावनानि, सर्वसम्मतत्वादेषाम, सर्वेषां समस्तानां
जैनसायबौद्ववैशेषिकादीनाम्, 'धर्मवारिणां धार्मिकाणाम्, कानि तानीत्याह, 'अहिंसा' प्राणिवधविरतिः, 'सत्यम्
ऋतम, अस्तेयम् ' अचौर्यम् 'त्यागः ' सर्वसायजनम्, मैथुनवर्जनम् ' अब्रह्मविरतिरिति । सर्वसम्मतत्वं चैषामे-
यम् । जैनस्तावदेतानि महाप्रतान्यभिधीयन्ते ॥ साङ्ख्यैासमतानुसारिभिश्च यमाः, यतस्ते आहुः,
नियमाः", " तत्र यमाः
" अहिंसा सत्यमस्तेयं ब्रह्मचर्यमव्यवहार ति" ॥ "नियमास्तु" अक्रोधो गुरुशुरूषा
पञ्चयमाः पञ्च
॥५२॥

शोचमाहारलाघवम् ॥ अप्रमादधेति” ॥ पाशुपतेस्तु धमेशन्देनोक्तानि, यतस्ते दश धानाहुः, तथथा, हिंसा सत्यवचन-मस्तैन्यं चाप्यकल्पनाब्रह्मचर्य तथाऽक्रोधो, स्थार्जवं शौचमेव च ॥ संतोषो गुरुशुश्रूषा,इत्येते दश कीर्तिताः॥१॥ भागवतैस्तु प्रतशब्देनोच्यन्ते, यदाहुस्ते,“पञ्च प्रतानि पञ्चोपवतानि, तत्र व्रतानि यमा, उपव्रतानि तु नियमाः"॥ौद्धः पुनरेतानि कुशलधर्मा उक्ताः, यदाहुस्ते, दश कुशलानि, तयथा, "हिंसास्तेयान्यथाकाम-पैशून्यं परुषाहतम्। सम्मिना- लापव्यापादमभिध्या दृग्विपर्ययम्॥पापं कर्मेति दशधा कायवाङ्मानसैस्त्यजेत् ॥१॥अत्र चान्यथाकामः पारदार्यम्, सम्मि- नालापोऽसम्बद्धभाषणम्, व्यापादः परपीडाचिन्तनम्, अभिध्या धनादिष्वसन्तोषः परिग्रह इति तात्पर्यम्, इग्विपर्ययो मिथ्याभिनिवेशः, एतद्विपर्ययाच दश कुशलधर्मा भवन्तीति ॥ वैदिकैस्तु ब्रह्मशब्देनैतान्यभिहितानीति ॥२॥ यद्येतानि पवित्राणि ततः 'किमित्याह॥ क खल्वेतानि युज्यन्ते, मुख्यवृत्त्या क वा न हि ॥तन्त्रे तत्तन्त्रनात्यैव, विचार्य तत्त्वतो पदः ॥३॥ धर्मार्थिभिः प्रमाणादे-लक्षणं न तु युक्तिमत् ॥ प्रयोजनाद्यभावेन, तथा चाह महामतिः॥४॥ (वृत्तिः) 'क' कस्मिन्, तन्त्रे इति योगः, खलु' वाक्यालङ्कारे, एतानि अनन्तरोदितानि अहिंसादीनि, 'युज्यन्ते' घटन्ते, 'मुख्यवृत्त्या अनुपचारेण, क वा कस्मिन् वा तन्त्र, 'न हिं' नैव, युज्यन्ते इत्यनुवर्तते, 'तन्ने' बौद्धादिसिद्धान्त, कर्य युज्यन्ते कथं वा न युज्यन्ते इत्याह, तस्यैव बौद्धादेस्तन्त्रस्य शास्त्रस्य नीतिरात्मादिपदार्थानां सत्यासत्त्वनित्यानित्यत्वा- दिका व्यवस्था तत्सन्त्रनीतिः, तया एष, न तु शास्त्रान्तरनीत्या, एकशास्त्रोक्तप्रकाराणां त्यहिंसादीनामन्यशानन्याये- नायुज्यमानतायाः स्फुटमेव प्रतीयमानत्वात् इति, किमित्याह, हिशब्दस्यैवकारार्थत्वात, 'अदा एवं एतदेवानन्तरोक्तम्, न

प्रयोग
लो.
'विचार्य विचारणीयम् , 'तत्वतः' परमार्थेन, वस्त्वन्तरविचारणे धर्मवादाभावप्रसार, कैर्विचार्यमित्याह, धार्थिमि:'
धार्मिक उक्तविपर्ययमाह, 'प्रमाणस्य प्रत्यक्षादेः, आदिशब्दात् प्रमेयस्य आत्मादेः, लक्षणं तदन्यव्यवच्छेदक स्वल्पम्,
यथा "स्वपराषमासिज्ञानं प्रमाणमित्यादि,” 'तुशब्दः पुनरः, 'न' नैव, 'युक्तिमत्' उपपत्त्युपेतम् , विचार्यमाणमिति
शेषः, केन हेतुना इत्याह, प्रयोजनं फलं तदादिर्यस्योपायादेस्तत्प्रयोजनादिस्तस्याभावोऽसत्ता प्रयोजनाचमावस्तेन
प्रमाणलक्षणविचारणस्य प्रयोजनायभावेन' हेतुना इत्यर्थः, प्रयोगश्चात्रैवम् , प्रमाणादिलक्षणविचारणं न युक्तिमत्,
प्रयोजनायभावात् , यद्यत्प्रयोजनादिरहितं तत्सन्न युक्तिमत्, यथा कण्टकशाखामर्दनम् , प्रयोजनादिरहितं च प्रमाणा-
दिलक्षणविचारणम् , इति तम युक्तिमत्, न चायमसिद्धो हेतुः, सिद्धसेनवरिवचनप्रतिष्ठितत्वादस्य, एतदेवाह, 'तथा
चाह महामतिः, 'तथाच तेनैव प्रमाणनिष्प्रयोजनस्वेन, 'आहे' ब्रूते, इह तत्कालापेक्षो वर्तमान निर्देशः, कोसावित्याह,
'महामतिः' अतिशयवत्प्रज्ञा सिद्धसेनाचार्य इत्यर्थ इति ॥ ३-४॥ एतदेवाह ॥
प्रसिद्धानि प्रमाणानि, व्यवहारश्च तत्कृतः॥प्रमाणलक्षणस्योक्ती, ज्ञायते न प्रयोजनम् ॥५॥
(पृत्ति:) 'प्रसिद्धानि' लोके स्वत एव रूढानि, न तु प्रमाणलक्षणप्रणेतृवचनप्रसाधनीयानि, 'प्रमाणानि' प्रत्यक्षादीनि,
सथा, 'व्यवहरणं व्यवहार स्नानपानदानदहनपाचनादिका क्रिया, चशब्दः प्रसिद्धत्वसमुख्या:, 'तत्कृतः' प्रमाणप्रसा-
ध्या, प्रमाणलक्षणाप्रवीणानामपि गोपालवालापलादीनां तथान्यवहारदर्शनात, ततवं सति, प्रमाणलक्षणस्य अविसं-
वाविज्ञान प्रमाणमित्यादेः, 'उक्तौ प्रतिपादने, 'ज्ञायते' उपलभ्यते, 'न' नैव, प्रयोजन' फलम् ,उपलम्माई सचन्नोपलभ्यते
तमास्तीत्यभिप्रायः, इह च नास्तीति मुख्यवृत्या वक्तव्ये सत्यपि यज्ज्ञायते नेत्युक्तमाचार्येण तदतिवचनपारुष्यप
॥५३॥

रिहारार्थमिति ॥५॥ एवं तावत्प्रमाणलक्षणप्रतिपादने प्रयोजनाभाव उक्तोऽथ तत्रेयोपायाभावप्रतिपादनायाह ॥ प्रमाणेन विनिश्चित्य, तदुच्येत न वा ननु ॥ अलक्षितात्कथं युक्ता, न्यायतोऽस्य विनिश्चितिः॥॥ (वृत्तिः) 'ननु' इति प्रमाणलक्षणप्रणायकमताशङ्कायाम् , ततश्चाह, प्रमाणलक्षणप्रणेतुः 'प्रमाणेन' प्रत्यक्षादिना, विनिधि- स्य निर्णीय, 'तत् ' प्रमाणलक्षणम्, 'उच्येत' अभिधीयेत, त्वया, 'न वा' इति अन्यथा वा, तत्र यथायः पक्षस्तदा यसपमाणलक्षणनिधायकं प्रमाणं तल्लक्षणतो निश्चितमनिश्चितं वा स्यात्, यदि निश्चितं तत्, तदा किं तेनैवाषिक- तप्रमाणेन प्रमाणान्तरेण वा, तत्र यदि तेनैव, तदा इतरेतराश्रयः, तथाहि, प्रमाणात् तल्लक्षणनिधयः, तल्लक्षणनिमयेच तत्प्रमाणमिति,यावत्सलक्षणं न निश्रितं न तावत्प्रमाणस्य प्रमाणत्वम् ,यावचन प्रमाणस्य प्रामाण्यं न तावत्तलक्षणनिमय इति, नापि प्रमाणान्तरेण तल्लक्षणनिश्चयः, अनवस्थापत्तेः, तथाहि, यत्तत्यमाणान्तरं तनिश्चितलक्षणमन्यथा वा, नान्यथा वक्ष्यमाणदोषापत्ते, नापि निमितलक्षणम् , यतस्तल्लक्षणनिश्चयः किं तेनैव, उतान्येन, यदि तेनैव, तदा पूर्व- पदितरेतराश्रयः, अथ प्रमाणान्तरेण, तदा तदपि निश्चितलक्षणमन्यथा वेत्यनवस्थानात् , तन्न निधिलक्षणमितिपक्षा, नाप्यनिश्चितलक्षणमिति वाच्यम् , यत आह, 'अलक्षितात्' अनिर्णीतलक्षणात प्रमाणलक्षणनिभायकात्प्रमाणात्, 'कर्य' केन प्रकारेण, न कश्चिदित्यर्थः, 'युक्ता' सस्ता, 'न्यायतो' नीत्या, अस्य प्रमाणलक्षणस्थ, 'विनिमितिः' नितिः। अयमभिप्राय:, निश्रितलक्षणेन प्रमाणेन विनिचित्य प्रमाणलक्षणं वक्तव्यं भवतीति न्यायः,न पचिकीर्षितप्रमाणलक्षण- व्युत्पादकशानं विना प्रमाणलक्षणविनिधायकप्रमाणस्य लक्षणनिश्चयः, ततबानिधिलक्षणमेव तदित्युपलक्षितात्ममा- णास युक्तातल्लक्षणविनिचितिरिति॥॥मथानिम्मितलक्षणादपि प्रमाणात्ममाणनिधितिर्मविष्यति इत्पत्यां शङ्कायामाहा। .

त्रयोद सत्यां चास्यां तदुक्त्या किं, तद्विषयनिश्चितेः॥ तत एवाविनिश्चित्य, तस्योतिान्थ्यमेव हि ॥७॥ (कृत्तिः) सत्या भवन्त्याम्, चशब्दः पुनरर्थः, 'अस्याम्' अनन्तरोक्तायामनिर्णीतलक्षणात्प्रमाणात्ममाणलक्षणनिमिती, 'तदुत्त्या प्रमाणलक्षणप्रतिपादनेन, किन किश्चित्प्रयोजनमित्यर्थः, कुतइत्याह, तबत् प्रमाणलक्षणवत्, विषयनिति' प्रमेयपरिच्छेदात, यथा हि, अनिर्णीतलक्षणेनापि प्रमाणेन प्रमाणलक्षणं निमीयते, एवं चिकीर्षितलक्षणेन प्रमाण प्रमेयस्यापि निश्चितिप्रसङ्गात् व्यर्थ प्रमाणलक्षणप्रणयनमिति भावः, तदेवं "प्रमाणेन विनिश्चित्य तदुच्येत इतिपक्षो निरा- कृतः । अथानिश्चित्येति पक्षस्य दूषणायाह, 'तत एवं' इति यत एव प्रमाणेन विनिमित्य प्रमाणलक्षणप्रतिपादनमुक्त- युक्त्या मोहरूपं वर्तते तत एव, 'अधिनिश्चित्य प्रमाणेनाविनिर्णीय, तस्योक्तिः' प्रमाणलक्षणप्रतिपादनम्, किमित्याह, 'धियो' बुद्धः, 'आन्ध्यम्' अन्यत्वं सम्मोहः, 'ध्यान्भ्यम्' तद् एव वर्तते प्रमाणलक्षणप्रतिपादयितुर्मूढतैव, निष्फलाया- सनिवन्धनस्वासस्याः, इति भावना, हिशन्दो यस्मादर्थे, तस्य चोत्तरश्लोके तस्मादित्यनेन सम्बन्ध इति ॥५॥ एवं प्रमाणलक्षणविचारस्य निष्प्रयोजनतामनुपायतां चोपदर्योपसंहारतः प्रक्रान्तां धर्मवादस्यैव विधेयतां दर्शयन्नाह ।। तस्माद्यथोदितं वस्तु, विचार्य रागवर्जितैः ॥ धर्मार्थिभिः प्रयत्नेन, तत इष्टार्थसिद्धितः॥८ (कृत्तिः) 'यस्मात् प्रमाणादिलक्षणविचारः प्रयोजनादिविरहितः तस्मात् ' हेतोः, 'यथोदितं ' पूर्वोक्तवस्तुनो - क खल्वेतानि युज्यन्त " इत्यादिरूपम्, वस्तु ' धर्मसाधनस्वरूपमर्यजातम्, विचार्य विवेचनीयम्, किंविधः कैरित्याह ' रागवर्जितैः' स्वदर्शनपक्षपातरहितैः, उपलक्षणत्वाचास्य परदर्शनषवियुक्तरित्यपि दृश्यम्, 'धर्मा- थिमि धर्मप्रयोजनवद्भिः (निमिः) तदन्यैस्तु वस्त्वन्तरमपि विचारणीयं स्यादिति विशेषणफलम्, कर्य, प्रयत्नेन आदरेण, निवृत्सम, किमित्येवमित्याह, 'ततो' धर्मसाधनविषयविचारात्, 'इष्टार्थसिद्धितो' धर्मलक्षणवाञ्छितार्थप्राप्तः कारणादिति॥८॥ ॥ त्रयोदशाष्टकविवरणम् समाप्तम् ॥ १३ ॥ ॥अथ चतुर्दशमेकान्तनित्यपक्षखण्डनाष्टकम् ।। अनन्तराष्टके क्व तन्त्रे तसन्त्रनीत्या अहिंसादीनि युज्यन्ते क वा नेति विचारणीयमित्यभिहितम्, अथ तदेव तयैव विचारयवाह॥ तत्रात्मा नित्य एवेति, येषामेकान्तदर्शनम् ॥ हिंसादयः कथं तेषां, युज्यन्ते मुख्यत्तितः ॥१॥ (कृत्तिः) 'तत्र' धर्मसाधनविषये विचारे प्रस्तुते,अतति सततं गच्छति अपरापरपर्यायानिति आत्मा'जीवः, नित्य एवं अपच्युतानुत्पन्नस्थिरैकरूप एष, न पुनः कथश्चिदनित्योऽपि, 'इति' अनेन प्रकारेण, येषां' नैयायिकवैशेषिकसाङ्ख्यो- पनिषदिकादीनाम्, 'एकान्तेन'नित्यानित्योभयात्मके वस्तुनि नित्यत्वलक्षणेनैकविभागेनावलम्बनभूतेन दर्शन दृष्टिर्मतम् 'एकान्तदर्शन', तयेषामस्ति, 'हिंसादयः' प्राणिवधादयः,आदिशब्दादसत्यादयो वषिरतिकर्तृत्वं भोक्तृत्वं जन्मादयध, 'कर्य' केन प्रकारेण, 'युज्यन्ते घटन्ते, न कथञ्चिदित्यर्थः ॥ अथ नित्येऽप्यात्मनि युज्यन्त एव ते, यदाहुस्तबादिनः, ज्ञानयत्नादिसम्बन्धः, कर्तृत्वं तस्य वर्ण्यते ॥सुखदुःखादिसंवित्ति-समवायस्तु भोक्तृता ॥१॥निकायेन विशिष्टामि-र. पूर्वामिश्च सातिः॥पुद्धिमिदनाभिस्तु, तस्य जन्माभिधीयते ॥२॥प्रागाताभिर्वियोगस्तु, मरणं जीवनं पुनः ॥ सदेहस्य मनोयोगो, धर्माधर्माभिसंस्कृतमाशाएवं मरणादियोगेन,हिंसायुक्ताऽवसीयतेतित्प्रतिपक्षभूतापि(च), किमहिंसा न युज्यते

चतुर्दश-
i००
नित्यप
I
१५॥
लो०२
॥४॥ सत्यादीन्यपि तेनैव, घटन्ते न्यायसातेः॥ एवं हिंसादयो शेया, वैशेषिकविकल्पिता: ॥५॥"सारख्यानां पार्य
विशेषः, "प्रतिबिम्बोदयन्याया-देव तस्योपभोक्तृता ॥ न जहाति स्वरूपं तु, पुरुषोऽयं कदाचन ॥१॥" इत्याशंक्याह,
'मुख्यवृत्तितः' अनुपचरितत्वेन न युज्यन्ते, उपचारतस्तु युज्यन्तेऽपि, केवलं नासो तस्वचिन्तायां सम्मतः, औप-
चारिकत्वं चैषां हिंसादीनामेकान्तनित्यस्यात्मनः पूर्वोपात्तधुद्धिवेदनावियोगादीनामसम्भवात्सदसम्भवच निस्यस्यैक-
रूपत्वादिति ॥१॥ अथ कथमत्र मुख्यवृत्त्या हिंसादयो न युज्यन्त इत्याह ॥
निष्क्रियोऽसौ ततो हन्ति, हन्यते वा न जातुचित् ॥ कञ्चित् केनचिदित्येवं, न हिंसाऽस्योपपद्यते॥२॥
(वृत्तिः) 'निर्गतः ' क्रियायाः कार्यकरणादिति निष्क्रियः, 'असौ' एकान्तनित्य आत्मा, एकान्तनित्यत्वादेव,तथाहि,
नित्यः क्रमेण वा कार्य करोति योगपन वा, न तावत् क्रमेण कार्य करोति, यतोऽसावेककार्यकरणकाले कार्यान्तरकरणे
समर्थः स्यादसमर्थो वा, नासमर्थः, नित्यस्यैकरूपत्वेन सर्वदेवासमर्थत्वप्रसमात्, नापि समर्थः, कालान्तरमाविसकल-
कार्यकरणप्रसात, न विकलसामर्थ्य सदपि कारणं कार्य न करोतीति वक्तुं युक्तम् विवक्षितकार्यस्याप्यकरणप्रसमात्,
अथ सहकारिकारणाभावात् कार्यान्तरं न करोति, ननु सहकारी तमुपकुर्वन् वा स्यादनुपकुर्वन् वा, नानुपकुर्वन् बन्ध्या-
पुत्रादेरपि सहकारित्वासात्, अयोपकुर्वनिति पक्षस्तदा तस्मादुपकारं मिनं करोत्यभिन्न वा, भिन्नोपकारकरणे
नित्योऽनुपकृत एव, अमिझोपकारकरणे च स एव कृतः स्यात्तथा च नित्यत्वक्षतिरिति नित्यस्य न क्रमेण कार्यकर-
गम्, नापि योगपयेन, वर्तमानसमय एतज्जन्यसकलकालालीनकार्यकरणप्रसवात्तथानुपलम्भाव, तदेवमक्रियो नित्या,
अथवा नित्यात्मवादिभिः कैबिदकर्तृकत्वं तस्याभ्युपगम्यते ॥अतो निष्क्रियोऽसौ, 'ततः तस्मान्निष्क्रियत्वात, 'हन्ति'
॥५५॥

नीतिसर्वास्तिकानांसम्मतमेव, विशेषतोजैनानाम् ॥यथोक्तम्।। “एक चिय इत्पवयं, निहिं जिणवरेहिं सव्वहिं।पाणा- न कशिद इति व्यवहितेन सम्बन्धः 'हन्यते' व्यापाद्यते, 'वाशब्दों विकल्पार्थः, 'नजातुचित्' न कदाचित, व्यापादका- त्मनो निष्क्रियत्वात्, हननीयस्य वा सर्वथा नित्यत्वात्, केनचित्'इत्यनेन सम्बन्धः, कश्चित् सूक्ष्मवादरादिभेदं प्राणिनम्, 'केनचित्' घातकपुंसा कर्तृभूतेन दण्डादिना वा करणभूतेन मनःप्रभृतिना था, 'इतिशब्दों' हेत्वर्थः, 'गवंशब्दयोपदर्श- नार्थः,' ततमेत्येवमन्यूनाधिकादनन्तरोदिताद् घातकहननीयामावलक्षणादेतो, नैव, 'हिंसा' व्यापत्ति:, 'अस्य' सर्वथानित्यात्मनः, उपपद्यते घटत इति ॥२॥ तथा सति किं सत्यादित्याह ॥ अभावे सर्वथैतस्या, अहिंसापि न तत्त्वतः । सत्यादीन्यपि सर्वाणि, नाहिंसासाधनत्वतः ॥३॥ (कृत्तिः) 'अमावे' अविद्यमानत्वे, 'सर्वथा' सर्वप्रकारैः, 'एतस्या' हिंसायाः, अहिंसापि' हिंसानिवृत्तिलक्षणा, 'न' नैव, 'तत्वता' परमार्थेन, उपपद्यते इत्यनुवर्तते, न केवलमात्मनो निष्क्रियत्वादिंसा नोपपद्यते तदमावेहिंसापि नोपपत इत्यपिशब्दार्थः ॥ अथ मोपपद्यतामहिंसा, सत्यादीनि धर्मसाधनानि भविष्यन्तीत्याशङ्कानिराकरणायाह, न केवलम- हिंसा नोपपद्यते 'सत्यादीन्यपि' मुषावादनिवृत्त्यादीन्यपि, आदिशब्दाच्छेषधर्मसाधनसमहः, 'सर्वाणि' निरवशे- पाणि, 'न' नैव, उपपद्यन्त इत्यनुवर्तते, कुत इत्याह, 'अहिंसासाघनत्वतः' अहिंसाप्रसाधकत्वात्तेषाम्, साध्याभावे हि साधनानुष्ठानमनर्यकमेव, न हि व्योमारविन्दसंरक्षणाय प्राकारादियत्नाः कर्तु युज्यन्ते, अहिंसासाधनानि च सत्यादी. इवायविरमण-भवसेसा तस्स ररकहा२ ॥१॥इति ॥३॥ यदि सत्यादीन्यपि हिंसाया अभावान्नोपपद्यन्ते ततः किमित्याह। २१ एकमेवान प्रतं निदिष्टं जिनवरैस्सः ॥ प्राणातिपातविरमणमवशेषाणि तस्य रसाय इति ॥१॥ - १०० 'अभा- मकान्त ततः सन्नीतितोऽभावा-दमीषामसदेव हि ॥ सर्व यमाद्यनुष्ठानं, मोहसङ्गतमेव वा ॥ ४॥ (वृत्तिः) ततः' इत्युपसंहारे,तस्मादेवं स्थिते सति, सनीतितः'शोभनन्यायानिष्क्रियोऽसावित्यादिनोक्तलक्षणात्, पात'अविद्यमानत्वात् , 'अमीषाम्',अहिंसादीनाम् , असदेव'अविद्यमानमेव न साझाविकम् , 'हिशब्दों वाक्यालङ्कारे, 'स- म्' अशेषम्, 'यमाचनुष्ठान' यमनियमासेवनम् ,आपद्यत इति शेषः,तत्र यमा हिंसादिनिवृत्तयः, नियमास्तुशौचसंतो- षतपास्वाध्यायेश्वरप्रणिधानानि, अयोपचारात् ससदिष्यते तत्राह, मोहसातमेव वा',उपचारात् सदपि तदज्ञानयुक्तमेव, न पुनर्ज्ञानसत्तम् , तथाहि,एकस्वभावस्थात्मनो मुक्तरसम्भवात्तदर्थमनुष्ठानमज्ञानसातमेव, वाशब्दो विकल्पार्थ इति॥४॥ नित्यात्माभ्युपगमे दूषणान्तरमाह ॥ शरीरेणापि सम्बन्धो, नात एवास्य सङ्गतः ॥ तथा सर्वगतत्वाच, संसारश्चाप्यकल्पितः ॥५॥ (वृत्तिः) न केवलमहिंसादयो नित्ये सत्यात्मनि न साच्चन्ते, शरीरेणापि देहेनापिसह, सम्बन्धी संयोगः, 'न' नैव, 'अत एवं निष्क्रियत्वादेव हेतोः, निष्क्रियस्य हि सम्बन्धक्रिया नोपपद्यते,अथवा, 'अत एवेति नित्यत्वादेवेत्यर्थः, नि त्यस्य हि शरीरसम्बन्धः पूर्वरूपत्यागे वा स्यादत्यागे वा, अत्यागे चेत्तदा शरीरेणासम्बद्ध एवासौ स्याच्छरीरासम्बद्धत्व- लक्षणस्य पूर्षरूपस्य तदवस्थस्थात्, त्यागे चेत्सदा तदनित्यत्वम् स्वभावत्यागस्यानित्यत्वलक्षणा (णत्वा)त्, 'अस्य' इति नित्यात्मनः, न नैव, सातो' युक्तः । तथा' इति वाक्यान्तरोपक्रमार्थः, 'सर्वगतत्वात् सकलभुवनव्यापकत्वात् ,इष्यते च कैधिदात्मनो विभुत्वम् ॥ यदाह॥ “मदीयेनात्मना युक्तं, दूरदेशादिवर्त्यपि ॥ क्षित्यादि मूर्तिमत्वादे-रस्मदीयशरीरवत् ॥१॥"चकारानि (रोनि)कियत्वानित्यत्वाहा,किमित्याह, संसारश्चापि,'न केवलं शरीरसम्बन्धोऽस्य न साता, संसारबापि तिर्यनरनारकनाकिनिकायसंसरणलक्षणोन सातः,संप्तरणं सर्वव्यापकस्यैव युज्यते सक्रियस्य कश्चिदनित्यस्य चेति, 'चापि' इति निपातयमपि समुच्चयार्थम्, अपिच इत्यादिवत्, तथाहि, सर्वगतत्वे निष्क्रियत्वे नित्यत्वेवा सत्यात्मनः सर्वत्र सर्वदा च भावान संसारः सातः, किं सर्वथा न सात इत्यत आह, 'अकल्पितः' तात्त्विकः, कल्पितस्तु साच्छ- मानोऽपिन हेयोपादेयकोटिमारोहति नभोम्भोरहवादिति ॥५॥ एवं च विभुत्वेन संसाराभावे सति यदापनं तदाह । ततश्चोर्ध्वगतिधर्मा-दधोगतिरधर्मतः॥ ज्ञानान्मोक्षश्च वचनं, सर्वमेवोपचारिकम् ॥ ६॥ (वृत्तिः) 'ततश्च' एवं संसाराभावे सति, ऊर्ध्वगतिः' स्वर्गाचवानिलक्षणा, 'धर्मात्' अहिंसाधनुष्ठानलक्षणात्,तथा, 'अधोगति'नारकावाप्तिरूपा, अधर्मतो'ऽधर्मादिंसाधनुष्ठानरूपात्,तथा, ज्ञानात् पञ्चविंशतितत्त्वावषोधरूपात मोक्षो निखिलकर्मनिर्मुक्तिलक्षणः, 'चशब्दः' उक्तमुपये,इतिशब्दोऽत्र लुप्तो द्रष्टव्यस्तेन इतिवचनम् एतदर्थप्रतिपादनम् ,किमि- स्याह, 'सर्वमेव निरवशेषमेव, 'औपचारिक काल्पनिकमपारमार्थिकमित्यापश्म् ,अभ्युपगम्यते चोर्ध्वगतिमादित्यादि साङ्ल्यैः ॥आह च ईश्वरकृष्णः ॥ “धर्मेण गमनमूर्या, गमनमधस्तावत्यधर्मेण ॥ ज्ञानेन चापवर्गों, विपर्ययादिष्यते बन्धः ॥१॥ तथा “पञ्चविंशतितत्वज्ञो, यत्र तत्राश्रमे रतः ॥ जटी मुण्डी शिखी वापि, मुच्यते नात्र संशयः ॥२॥" इति ॥६॥ अथ विभुत्वेन संसरणाभावेऽपि यदोछलोके स्वहेतोरेव भोगायतनमस्य भवति तदोर्ध्वगतिरपदिश्यते यदा स्वधस्तदाघोगतिरित्येवं भोगायतनद्वारेणोर्ध्वगत्यादिरात्मनो भविष्यतीत्याशङ्कायामाह ॥ भोगाधिष्ठानविषये-प्यस्मिन् दोषोऽयमेव तु ॥ तनेदादेव भोगोऽपि, निष्कियस्य कुतो भवेत् ॥७॥ (वृत्तिः) भोगो विषयप्रतिभासिनो मनस आत्मनि स्फटिकोपाधिन्यायेन प्रतिविम्बनम्, तथा चोक्त विन्ध्यवासिना॥

चतुर्दश- निकान्त- नित्यप सो. "पुरुषोऽविकृतात्मैव,स्वनिर्भासमवेतनम्।मनः करोति सान्निध्या-दुपाधिः स्फटिक यथा ॥१॥" स्वनि सनिति स्वाका- रवन्तं पुरष मनः कर्तृभूतं करोतीनि ॥ "तमतपरिणतो,बुद्धौ भोगोऽस्य कथ्यते ॥प्रतिबिम्बोदयः स्वच्छ, यथा चन्द्रम- सोऽम्भसि ॥१॥” तस्य भोगस्याधिलानमायतनं भोगाधिष्ठानम् यत्र बुद्धयहड्वारेन्द्रियादौ प्रकृतिविकारे सति पुरुषस्य भोगो भवनितगोगाधिष्ठानं शरीरम्,तद्विषयो यत्र संसारे स तथा,तत्रापि भोगाधिष्ठानविषयेऽपि,'न केवलं भोगा- यतनकल्पनारहिते इत्यपिशब्दार्थः, 'अस्मिन्' इति संसारे, 'दोषो'दूषणम्,'अयमेव' एष एवानन्तरोदित ऊर्ध्वगत्यादि- संसारापारमार्थिकत्वलक्षणः, यतो भोगाधिष्ठानं शरीरमेव, तेन च सह सम्बन्धो निष्क्रियत्वेनात्मनो नयुक्ततदमा- वात्तद्धारकः संसार औपचारिक एनि, 'तुश: पादपूरणे,तथा भोगाधिष्ठानकल्पनमसातमेव, भोगस्यैवात्मनोऽयु- ज्यमानत्वादित्येतदाह, 'तबेदादेवेनि,' इह तच्छन्देन क्रिया परामृश्यते, ततः क्रियाभेदादेव क्रियाविशेषत्वादेव भोगस्य, भोगो हि क्रियाविशेष एव अतः, 'भोगोनिविषयोपभोगोऽपि,न केवल भोगाधिष्ठानविषयः संसार इत्यपिशब्दार्थ, 'निष्क्रियस्य' सकलक्रियाकलापविहीणस्यात्मनः, 'कुतः' कस्माद्धेतोः, 'भवेत्' जायेत, न कुतोऽपीति भाव इति ॥७॥ अथाहिंसादीनां शरीरसम्बन्धम्य भोगस्य चाभावलक्षणदोषभयात् सक्रियत्वमात्मनोऽभ्युपगम्यते तत्राह ॥ इष्यते चेस्क्रियाप्यस्य, सर्वमेवोपपद्यते ॥ मुल्यवृत्त्यानघं किन्तु, परसिद्धान्तसंश्रयः ॥८॥ (कृत्तिः) 'इष्यते' भन्युपगम्यते, 'चेत्' यदि, क्रियापिकाचित् शरीरसम्पन्धनादिका, किया तावदिष्टेवेति प्रतिपादना- थोऽपिशब्दः, 'अस्य नित्यात्मनः, यह तदेति शेषो दृश्यः, ततश्चात्तदा, सर्वमेव'निःशेषमेव यत्पूर्वमहिंसादिकमनुपपद्य- मानतया प्रतिपादित तत्, 'उपपद्यते घटते, कथमित्याह, 'मुल्यवृत्त्या' पारमार्थिकतया,न पुनः क्रियानभ्युपगमेश्यामुल्य- वृत्या, 'अनर्ध निदेोषम, अनुपचारपृश्योपपद्यमानत्वात्, 'किन्त' केशरमेतावान् दोषो यदुन, परसिद्धान्तसंश्रयः' जैनाभ्युपगतपरिणामवादाश्रयणमिति, न चैतरिग्रहस्थानमप्यतिदुष्करमनभिनिवेशिनां मुमुक्षूणामिति, तदेवमेकान्त- नित्यात्मवादिमतेऽहिंसा नि न घटन्त इति स्थितमिति ॥ ८॥ चतुर्दशाष्टकविवरणं समासम् ॥ १४॥ ॥ अथ पञ्चदशैकान्तानित्यपक्षखण्डनाष्टकम् ॥१५॥ अननरं द्रव्यास्तिकनयम्ते यथाहिंसादीनि धर्मसाधनानि धर्मवादविषयभूतानि न घटन्ते तथा प्रतिपादितम्, अथ पर्यायास्तिकनयमते यथा नानि म युज्यन्ते तयाह ।। क्षणिकज्ञानसन्तान-रूपेऽप्यात्मन्यसंशयम् ॥ हिंसादयो न तत्त्वेन, स्वसिद्धान्तविरोषतः ॥१॥ (कृत्ति) क्षणः परमनिकृष्टः कालः, सोऽस्यास्तीति क्षणिकम् , तब तज्ज्ञानं च चैतन्य क्षणिकज्ञानम् , तस्य सन्तानः प्रवाहः स एव रूपं यस्य स तथा,तत्र 'क्षणिकज्ञानसन्तानरूपेऽपि न केवलं नित्यरूपे,त्याह, आत्मनि'जीये, असंशय निःसन्देहं यथा भवनि, हिंसादयः' प्राणिवपादयः, न नैव, 'तरवेन निरुपचरितवृत्त्या,घटन्ते इति गम्यते,किंगामात्रेण, नेत्याह, स्वसिद्धान्तविरोधनः स्वकीयागमविरोधादिति ॥१॥ स्वसिद्धान्तविरोधमेव दर्शयसाह ॥ नाशहेतोरयोगेन, क्षणिकत्वस्य संस्थितिः ॥ नाशस्य चान्यतोऽभावे, भवेद्धिसाप्यहेतुका ॥२॥ (त्तिः) 'नाशहेतो' क्षयकारणस्य, 'अयोगेन' अयुज्यमानत्वेन, क्षणिकत्वस्य क्षणक्षयित्वस्य, संस्थितिः' व्यवस्था प्रतिष्ठेत्यर्थः ॥ तथाहि क्षणवादिभिरभिधियते,मुद्रादिना नाशहेतुना घटादेनाशो विधीयमानों मिस्तस्माविधीयते अभिको वा, भिन्नश्वेटादेस्तादवस्थ्यं स्यात्, अथाभिन्नस्तदा घटादिरेष कृतः स्यात, सब स्वकीयकारणकलापेनेच कान्तानि |५८॥ - को कूत इति न तस्य किश्चित् करीयमस्तीत्येवं नाशहेतोरयुज्यमानत्वेन नाशिनो भाषाः स्वभावत एवं नश्यन्ति स्वभाव नाशिनः पुनरुदयानन्तरापवर्गिण एव भवन्तीति नाशहेतोरभावाचदि क्षणिकत्यव्यवस्था ततः किमित्याह, नाशस्य , विनाशस्य पुनः, अन्यतः स्वभावव्यतिरिक्तामाशहेतोः सकाशात, 'अमावे अमवने,सर्वनाशानां निर्हेतुकत्याभ्युपगमात्, 'भवेत् जायेत, 'हिंसापि' वघोऽपि, न केवलं घटादिक्षयः, 'अहेतुका स्वरूपलामातिरिक्तनिमित्तशून्यैवेत्यर्थः ॥२॥ निर्हेतुकत्वे चास्या दोषमाह ।। ततश्चास्याः सदा सत्ता, कदाचिन्नेव वा भवेत् ॥ कादाचित्कं हि भवनं, कारणोपनिबन्धनम् ॥३॥ (कृत्तिः) यस्मादियमहेतुका, 'ततश्च तस्मात्पुनहिंसाया निर्हेतुकत्यात, अस्या'हिंसाया, सदासर्वदा, सत्ता सहावा, भवेदिति योगः, 'कदाचित् क्वचिदपि काले, नैव' न खलु, वाशब्दो विकल्पार्थः, भवेत् , जायेत,सत्तेति वर्तते, कुत एतदेवमित्याह,कदाचिकादाचित्कम्,' 'हिशब्दो'यस्मादर्थः, भवन' प्रादुर्भावः, 'कारणोपनिवन्धनं हेतुनिवन्धनम्, यतोऽभिधीयते ॥" नित्यं सावमसावं वा-ऽहेतोरन्यानपेक्षणात् ॥ अपेक्षातो हि मावानां,कादाचित्कत्वसम्भवः ॥१॥ इतिाशा ननु जनक एव हिंसकोऽतः कथं निर्हेतुकत्वं हिंसायाः,कथं वा निर्हेतुकत्वाश्रयो नित्यसत्त्वादिको दोष इत्यत्रोच्यते, ननु योऽयं जनक एव हिंसकः कल्प्यते स किं सन्तानस्य क्षणिकस्य वेति विकल्पवयम्, तत्राथविकल्पं दूषयन्नाह ॥ न च सन्तानभेदस्य, जनको हिंसको भवेत् ॥ सांस्तत्वान्न जन्यवं, यस्मादस्योपपयते ॥ ४ ॥ (वृत्तिः) 'न च' नैव, भियत इति भेदः सन्तानचासौ भेदश्च सन्तानमेवः तस्य 'सन्तानमेदस्य क्षणप्रवाहविशेषस्य हिंस्यमानहरिणक्षणसन्तानच्छेदेनोत्पत्स्यमानमनुष्यादिक्षणसन्तानस्य, 'जनक उत्पादको लुब्धकादिः , हिंसकों हिंसा- कारी, 'भवेत्' जायेत, कुत एतदित्याह, संवृतौ कल्पनायां भवः सांवृतः, तस्य भावस्तत्वं तस्मात्, 'न' नैव, 'जन्यत्वम्' उत्पादनीयत्वम्, यस्मात्' कारणात, अस्य'सन्तानभेदस्य, उपपद्यतें घटते॥ प्रयोगवम् यज्जन्यं न भवति तस्य जनको नास्ति वियदम्मोजस्येव, अजन्यश्च सन्तानभेद इति न तस्य जनकोऽस्ति, तदभावाच हिंसकाभावः, न चाजन्यत्वं सन्तानस्यासिद्धम्, सांवृतत्वात् , यत्सांकृतं तदजन्यं वियदिन्दीवरवत्, सांकृतश्च सन्तान इत्यजन्यः,सांवृतत्वं च सन्ता- नस्य सन्तानिभ्यो भेदाभेदविकल्पद्वारेण चिन्त्यमानस्यायुज्यमानत्वादिति ॥ ४॥ द्वितीयविकल्पवृषणायाह । न च क्षणविशेषस्य, तेनैव व्यभिचारतः॥ तथा च सोऽप्युपादान-भावेन जनको मतः ॥५॥ (वृत्तिः) 'न च'नापि, क्षणविशेषस्य नियमाणसूकरादिक्षणानन्तरमुत्पित्सुमनुष्यादिक्षणस्य,जनको हिंसकः भवेदिति वर्तते, कुत एतदित्याह, 'तेनैव' नियमाणहरिणादेरन्स्यक्षणेन, 'व्यभिचारतो' विसंवादात्, 'तथा च' इति व्यभिचार- स्यैवोपदर्शनार्थः, 'सोऽपि' यो नियमाणहरिणादेरन्त्यः क्षणः सोऽपि, न केवलं लुब्धकक्षण एवं जनक इति योगा,कथं जनक इत्याह, 'उपादानभावेन' परिणामिकारणत्वेन, 'जनक' उत्पादका, मतः' अभीष्टः,नियमाणान्त्यक्षणलुब्धकक्षण- योजनकत्वं प्रत्युपादानसहकारिभावकृत एव यदि परं विशेष इति भावना,एवं चोपादानक्षणस्यापि हिंसकत्वमासक्त- मिति ॥५॥ आसज्यतां नामोपादानक्षणस्य हिंसकत्वं का नो बाधेत्याशझ्याहु ॥ तस्यापि हिंसकत्वेन, न कश्चित्स्यादहिसकः ॥ जनकत्वाविशेषेण, नैवं तद्विरतिः कषित् ॥६॥ (वृत्तिः) तस्यापि ब्रियमाणस्य हरिणादेरन्त्यक्षणस्यापि, आस्तांव्यावस्थ, हिंसकत्वेन व्यापादकत्वेन, 'न'नेव, कश्चित्' कोपिषोधिसत्वादिरपि, स्यात् 'भवेत, आहिंसक' अव्यापादका, कथमेतदित्याह, 'जनकत्वाविशेषेण युद्धादेलबकादेव

कान्तानि
पना
लो
अनन्तरक्षणस्योत्पादकत्वेऽविशिष्ठत्वात् , उपादानसहकारिभावेन तयोर्यदि परं विशेषस्तत्र च यदि सहकारितयापि
हिंसकत्वं तदोपादानभावेन सुतरां तषिष्यतीति, अथ भवतु नामाविशेषेण हिंसकत्वं को दोष इत्याशझ्याह, 'न'
नामुना प्रकारेणाविशेषेण जनकहिंसकत्वाभ्युपगमलक्षणेन, 'तविरतिः' हिंसानिवृत्तिः, 'कचित् ' देशान्तरे कालान्तरे
पुरुषान्तरेऽवस्थान्तरे विषयान्तरे बेति ॥६॥ मा भूदहिंसा का नो हानिर्भविष्यतीति चेदत आह ॥
उपन्यासश्च शाखेऽस्याः, कृतो यत्नेन चिन्त्यताम् ॥ विषयोऽस्य यमासाद्य, हन्तैष सफलो भवेत् ॥७॥
(वृत्तिः)'उपन्यासश्च' उपादानं पुनः, 'कृत' हात सम्बन्धः, यदि उपन्यासं नाकरिष्यत्तदाहानिरपि नाभविष्यदिति भावः,
कासौ कृत इत्याह, 'शास्त्रे सौगतशासने, यदाह॥"सर्वे त्रसन्ति दण्डेन,सर्वेषां जीवितं प्रियम्॥ आत्मानमुपमा मत्वा,
नैव हिंसेन न घातयेत् ॥१॥” 'अस्याः' अहिंसायाः, 'कृतो' विहितः, इत्यतो यत्नेन' आदरेण, 'चिन्त्यता पर्यालोच्यतां
त्वया क्षणवादिना, कोसावित्याह, 'विषयो' गोचरः, 'अस्य' शास्त्रे अहिंसोपन्यासस्य, किम्भूतो विषयश्चिन्त्यताम्, 'य'
विषयम्, 'आसाद्य प्राप्य, 'हन्त' इति प्रत्यवधारणार्थः कोमलामन्त्रणार्थोवा, 'एष' शालोपन्यासः,'सफल'सप्रयोजना,
'भवेत् ' जायेत इति ॥७॥ अथ अहिंसाया अघटनेऽपि सत्यादीनि धर्मसाधनानि भविष्यन्तीत्याह ॥
अभावेऽस्या न युज्यन्ते, सत्यादीन्यपि तत्त्वतः ॥ अस्याः संरक्षणार्थ तु, यदेतानि मुनिर्जगो॥८॥
(वृत्तिः) 'अमावे' अविद्यमानत्वे, अस्या अहिसायाः, 'न युज्यन्ते न घटन्ते, सत्यादीन्यपि' मृषावादविरमणादीन्यपि,
अहिंसा तावन्न युज्यत एव इत्यपिशब्दार्थः, 'तत्वतः' परमार्थतः,कुत एतदेवमित्यत आह, 'अस्याः' अहिंसायाः, 'संरक्ष-
णार्थ तु' परिपालनायैव, 'तुशब्द' एषकारार्थः, 'यत्'यस्मात्, 'एतानि' सत्यादीनि, 'मुनिः' जगतो मन्ता जिनः, 'जगों
॥ ५९॥

गदितवान्, न हि सस्यादिपालनीयाभावे घृतौ विद्वान् यतत इति ॥८॥ पञ्चदशाष्टकविवरणं समाप्तम् ॥१५॥ ॥अथ षोडशं नित्यानित्यपक्षमण्डनाष्टकम् ॥ ययेकान्तेन नित्येऽनित्ये वाऽऽत्मनि हिंसादयो न घटन्ते तर्हि क घटन्त इत्यत आह ॥ नित्यानित्ये तथा देहाद, भिन्नाभिन्ने च तत्त्वतः ॥ घटन्त आत्मनि न्याया-द्धिसादीन्यविरोधतः॥१॥ (कृतिः) नित्यश्चासावनित्यश्चेति नित्यानित्यः, तत्र 'नित्यानित्ये 'आत्मनि' अभ्युपगम्यमाने,हिंसादान घटन्त इति सम्बन्धः। न हि एकान्तेन नित्यमनित्यं वा वस्तु किमपि कस्यापि कार्यस्य करणक्षमम् , तथाहि, मृत्पिण्डस्य कार्य घटो नभवति, एकरूपत्वेनानतिक्रान्तमृत्पिण्डभावत्वात्, मृत्पिण्डवत्, मृत्पिण्डत्वातिक्रमे थानित्यत्वप्राप्ते,तथा मृत्पिण्डस्य कार्य घटो न भवति, सर्वथैवानुगमाभावेनानतिक्रान्तमृत्पिण्डत्वलक्षणपर्यायत्वात् ,पटवत्, मृत्पिण्डत्वलक्षणपर्यायाति- क्रमाभ्युपगमे चानुयायित्वेन नित्यानित्यत्वं वस्तुनः स्यादिनि।आह च ॥ “घटः कार्यन पिण्डस्य, पिण्डभावानतिकमात्॥ पिण्डवस्पटवञ्चेति, स्यात् क्षधित्वादिरन्यथा ॥१॥ तदेवं नित्यानित्यमेव वस्तु कार्यकरणक्षममिति ॥ ननु नित्यानित्यत्व- धर्मयोविरुद्धत्वात्कथमेकाधिकरणत्वम् । अत्रोच्यते । यथा ज्ञानस्य भ्रान्तत्वाधान्तत्वे परमार्थसंव्यवहारापेक्षया न विरुद्धे एवं द्रव्यतो नित्यत्वं पर्यायतश्चानित्यत्वं न विरुद्धम्, न च द्रव्यपर्याययोः परस्परं भेदः, यता,यदेव वस्त्वनपेक्षित- विशिष्टरूपं द्रव्यमिति व्यपदिश्यते तदेवापेक्षितविशिष्टरूपं पर्याय इति ॥ 'तथा' इति वाक्यान्तरोपक्षेपार्य:, 'देहात्' शरीरात, किमित्याह, 'भिन्नः' व्यतिरिक्तः स चासापभिन्नश्चाव्यतिरेकी भिन्नाभिन्नस्तत्र,' भिन्नाभिन्न एव च जीवः शरीरात, तथैवोपलभ्यमानत्वात्। तथा हि, जीवस्यामूर्तत्वाहेहस्य च मूर्तत्वान्मूर्तामूर्तयोश्चात्यन्तविलक्षणत्वा दस्तयोः,

नित्यानि
सो.२
देहस्य स्पर्शने व जीवस्य वेदनोत्पत्तेरभेदधेति, आह च॥"जीवसरीराणं पिहु,मेयामेओ तहोबलम्माओ॥मुत्तामुत
तणओ, छिकमि य वेयणाओ य३ ॥१॥" सर्वथा भेदे हि शरीरकृतकर्मणो भवान्तरेऽनुभवानुपपत्ति: 'स्यात्, अमेदे
च परलोकहानिः शरीरनाशे जीवनाशादिति॥'यशब्दः' अनुक्तसमुखये । ततश्च सदसती इत्यायपि द्रष्टव्यम् । आह
च॥ 'सन्तस्स सरूपेणं, पररवेणं तहा असन्तस्स ॥ हंदि विसिहत्तणओ,होन्ति विसिट्ठा सुहाईया४॥९॥"विशिष्टाः
प्रतिप्राणिवेद्याः। तस्वत' इति परमार्थतो नित्यानित्यादौ न पुनः कल्पनया, पारमार्थिकत्वं च नित्यानित्यत्वादीनां
दर्शितमेष । 'घटन्ते' युज्यन्ते । आत्मनि' जीवे । 'न्यायात्' परिणामिस्वरूपस्यात्मनोऽपरापरपर्यायसंपदुपपत्तिलक्षणया
नीत्या । हिंसादीनि' आश्रवसंवरपन्धमोक्षसुखादीनि । कथमित्याह । 'अविरोधतः' अविरोधेन, एकान्तपक्षे ये हिंसा-
दिष्वभ्युपगम्यमानेषु विरोधादर्शितास्तत्परिहारेणेति भाव इति ॥१॥आत्मनः परिणामित्वे हिंसाया अविरोधदर्शनायाह।
पोडाकर्तृत्वयोगेन, देहव्यापत्त्यपेक्षया ॥ तथा हन्मीतिसक्लेशा-द्धिसैषा सनिबन्धना ॥२॥
(कृत्तिः)पीडा दुःखवेदना तस्याः कर्ता विधातातगावः पीडाकर्तृत्वं तस्य तेन वा योगः सम्बन्धस्तेन पीडाकर्तृत्वयोगेन,
तथा, देहस्य शरीरस्य व्यापत्तिविनाशो देहन्यापत्तिस्तस्या अपेक्षा निश्रा 'देहव्यापत्त्यपेक्षा तया, 'तयेति नबन्धना-
न्तरसमुचये, 'हन्मि' मारयामि प्राणिनमित्येवंरूपात् 'सक्लेशात्' चिसकालुष्यात् , 'हिंसा' प्राणव्यपरोपणा या परि-
णामवादिभिरभ्युपगतेति गम्यम्, 'एषा' इयं हिंसा, 'सनिबन्धना' सनिमित्ता । परिणामवादे हि पीडकस्य पीडनीयस्य
९३ जीवशरीरयोरपि खलु मेवामेदस्तथोपलम्भात् । भूतमूतत्वतः स्पर्श च वेदनातच ॥९॥
९४ सतः स्वरूपेण पररूपेण तथाऽसतः । हंदि विशिष्टत्वाअवन्ति विशिष्टाः सुखादिकाः ॥२॥
॥१०॥

म च परिणामित्वात् पीडाकर्तृत्वमुपपद्यते देहविनाशसङ्क्लेशौ च, एकान्तवादे तु पीडाकर्तृत्वादीनां पुर्वोक्तन्यायेनायुज्य. मानत्वात् हिंसा निर्निवन्धनेति ॥२॥ यचोच्यते नाशहेतुना देहाद्रिनो नाशः क्रियते अभिन्नो वा, यदि भिन्नस्तदा देहस्य तादवस्थ्यं स्यात्, अथ अभिन्नस्तदा देह एव कृतो भवतीति, तद्युक्तम्, अमिन्ननाशकरणे हि वस्तु नाशितमेव भवति न कृतम्, यथाऽभिन्नोत्पादकरणे उत्पादितमेव भवतीति । अनेन च श्लोकेन स्थानान्तरप्रसिद्धस्त्रिविधो वो निर्दिष्टातथाच॥ “तप्पज्जायविणासो, दुक्खुप्पाओयसंकिलेसोया|एस वहो जिणभणिओ, वज्जेयव्योपयत्तेणार॥ ननु अस्माद् घातकान्मरणमनेन देहिना प्राप्तव्यमित्येवंफलात् स्वकृतकर्मणो वशाद्धिसा भवति अन्यथाषा, यदिआधः पक्षस्तदाहिंसकस्याहिंसकत्वमेव स्वकर्मकृतत्वात् हिंसायाः, पुरुषान्तरकृतहिंसायामिष,तथा कर्मनिर्जराहेतुत्वेन हिंसकस्य वैयावश्यकरस्येव कर्मक्षयावाप्तिलक्षणो गुणः स्यात्, अथ अन्यथेति पक्षस्तदा निर्विशेषत्वात्सर्व हिंसनीयं स्यात्,तथा स्वर्गसुखादयोऽपि स्वकृतकर्मानापादिता एव स्युरिति कर्माभ्युपगमोऽनर्थक इत्येवमाहतानामपि हिंसाया असम्भव एवेत्याशङ्ख्याह॥ हिस्यकर्मविपाकेऽपि, निमित्तत्वनियोगतः ॥ हिंसकस्य भवेदेषा, दुष्टा दुष्टानुबन्धतः॥३॥ (कृत्तिः) हिंस्यते मार्यते इति हिंस्यस्तस्य यत्कर्म तस्य विपाक उदयो हिंस्थकर्मविपाक' तत्रापि,हिंस्यकर्मविपाकरूपत्वेऽपि हिंसायां, आस्तां हिंस्यकर्मविपाकाभावकल्पनायाम्, 'निमित्तत्वस्य' निमित्तकारणभावस्थ, नियोगोऽवश्यंभावो निमित्त स्वनियोगः तस्मात् 'निमित्तत्वनियोगतः,' 'हिंसकस्य' व्यापादकस्य, 'भवेत्' जायेत, 'एषा' हिंसा' । अयमभिप्रायः। ९५ तत्पर्यायविनाशो दुःखोत्पादश्च संक्लेशश्च । एष वधो जिनमणितो वर्जयितव्यः प्रयत्नेन ॥

क.. पोरश नित्यानि- त्यपक्षम लो.४ यद्यपि प्रधानहेतुभावेन कर्मोदयाद्धिंस्यस्य हिंसा भवति, तथापि हिंसकस्य तस्यां निमित्तभावेनोपयुज्यमानस्वासस्थासो भवतीत्युच्यते, न च वाच्यं हिंस्यकर्मणैव हिंसकस्य हिंसायां प्रेरितत्वात्तस्य न दोष इति, अभिमरादेः परप्रेलिस्यापि लोके दोषदर्शनादिति । ननु यदि निमित्तभावेऽपि हिंसा स्यादितीष्यते तदा वैद्यानामपि तत्प्रसा, सत्यम्, केवलं सा तेषां न दुष्टा, अदुष्टाभिसंधिवात्, एतदेवास्थातिरेकेणाह, 'दुष्टा' दोषवती, कर्मबन्धनिबन्धनत्वात् , दुष्टानुवन्धतो' दुष्टचित्ताभिसन्धेः, भवति । यदाह ॥ "जो उ पमन्तो पुरिसो, तस्स उ जोगं पड जे सत्ता॥ वायजन्ती नियमा, तेर्सि सो हिंसओ होई ॥१॥” न शुभाभिसन्धेः ॥यदाह॥"जा जयमाणस्स भवे, विराहणा सुत्तविहिसमग्गस्स॥सा होइ निजरफला,अजमत्थविसोहिजुत्तस्सा२॥"एतेन च यदुक्तं वैयावृत्त्यकरस्येव हिंसकस्य कर्मनिर्जरणसहायत्वाग्निर्जरालाम इति, तदपि परिहृतम्, यतो न 'हिंसको वैयावृत्त्यकरवत् शुभाभिसन्धिः, शेष त्वभ्युपगमानिरस्तमिति । अधिकृत- श्लोकार्थसंवादिनी चेयं गाथा॥"नियकयकम्मुवभोगे वि, संकिलेसो धुवं वहंतस्स ॥ ततो बन्धोतं खलु, तम्विरईए विव- अन्ति८ ॥१॥" ॥शाएवं परिणामिन्यात्मनि हिंसायाः सम्भवमाविर्भाव्याहिंसायास्तमाह ॥ ततः सदुपदेशादेः, क्लिष्टकर्मवियोगतः ॥ शुभभावानुबन्धेन, हन्तास्या विरतिर्भवेत्॥ ४ ॥ (कृत्तिः) यतः परिणामिन्यात्मनि सति हिंसा घटते ततस्तस्माद्धिंसाघटनात् , अस्या विरतिर्भवेदितियोगः सतां ज्ञान- ९६ यस्तु प्रमत्तः पुरुषस्तस्य तु योगं प्रतीत्य ये सवाः ॥ व्यापचन्ते नियमातेषां स हिंसको भवति । ९७ या यतमानस्य भवहिराधना सूत्रविधिसमप्रस्य ॥ सा भवति निर्जराफला, मण्यात्मविशुशियुक्तस्य ॥ ९८ निजकृतकोपभोगेऽपि संपलेशो धुवं वधतः ॥ ततो बन्धस्तं बलु तद्विरत्या विवर्जयन्ति ॥ ३ ॥ .

गुरुः जिनादीनां, उपदेशो' हिंसाहिंसयोः स्वरूपफलादिप्रतिपादनं सदुपदेशः, सतां वा भाषानामुपदेशः, सन् वा शोभन उपदेशः, स आदिर्यस्य स तथा तस्मात्,आदिशब्दात् ज्ञानश्रद्धानपरिग्रहोऽभ्युत्थानादिपरिग्रहोवा॥ आह॥ :"अन्मुडाणे विणए, परकमे साहुसेवणाए य ॥ सम्मईसणलंभो, विरयाविरई य विरई य॥१॥"तथा लिष्टकर्मणां दीर्घ- स्थितिकज्ञानावरणादीनां वियोगः क्षयोपशमस्तस्मात् 'क्लिष्टकर्मवियोगतः ॥आह च, "सत्तण्हं पयडीणं, अन्भिन्तरओ उ कोडिकोडीए ॥ काऊण सागराणं, जइ लहइ चउण्हमन्नयरम्१००॥१॥"शुभभावानुबन्धेन प्रशस्ताव्यवसायाव्यवच्छेदेन इत्येवंकारणपरम्परया, 'हन्त' इति प्रत्यवधारणार्थः कोमलामन्त्रणार्थो वा, ‘अस्याः' परिणाम्यात्महिंसायाः, विरति'- निवृत्तिः, 'भवेत्' जायते घटत इत्यर्थ इति ॥ ४ ॥ ततः किं जातमित्याह॥ अहिंसैषा मता मुख्या, स्वर्गमोक्षप्रसाधनी ॥ एतत्संरक्षणार्थ च, न्याय्यं सत्यादिपालनम् ॥५॥ (वृत्तिः) अहिंसा अव्यापादनम् , एषा' अनन्तरोत्तोपपत्तिका हिंसाविरतिः, मता'इष्टा विदुषाम् ,'मुख्या 'निरुपचरिता, इयं च प्रासङ्गिकप्रधानफलापेक्षया क्रमेण 'स्वर्गमोक्षप्रसाधनी' देवलोकनिर्वाणहेतुभूता । अथैतस्या एवं स्वर्गादि- साधनत्वात् किं सत्यादिपालनेनेत्याशङ्कयाह। एतत्संरक्षणार्थ 'अनन्तरोदिताहिंसावतपरित्राणार्थम्, 'चशब्दः'पुनरोऽव- धारणार्थो वा, 'न्याय्यं न्यायादनपेतं उपपन्नमित्यर्थः, 'सत्यादिपालन' मृषावादादिनिवृत्तिनिर्वाहणम्, अहिंसासस्य- संरक्षणे वृतिकल्पत्वात्सत्यादिवतानामिति ॥५॥ अथ पूर्वोक्तस्यात्मनो नित्यानित्यत्वस्य देहाद्भिन्नाभिन्नत्वस्य च ९९ अभ्युत्थाने विनये पराक्रमे साधुसेवनायां च ॥ सम्यग्दर्शनलाभो विरताविरतेस विरतेच ॥ १०० सप्तानां प्रकृतीमामभ्यन्तरतस्तु कोटिकोटयाः ॥ कृत्वा सागराणां यदि लभते चतुर्णामन्यतरत् ॥

मष्टक
वृ०
पोरशं
नित्यानि-
त्यपक्षम-
पहना
हो.
साधने प्रमाणोपदर्शनायाह ॥
स्मरणप्रत्यभिज्ञान-देहसंस्पर्शवेदनात् ॥ अस्य नित्यादिसिद्धिश्च, तथा लोकप्रसिद्धितः॥६॥
(कृत्तिः) 'स्मरणं पूर्वोपलब्धार्थानुस्मृतिः, प्रत्यभिज्ञान' सोऽयमित्येवंरूपा प्रत्यवमर्शः,तथा देहस्य' शरीरस्य, संस्पर्शो'
वस्त्वन्तरेण स्पर्शनं तस्य, वेदनं अनुभवनम्, देहसंस्पर्शेन वा वेदनं स्पर्शनीयवस्तुपरिज्ञानं देहसंस्पर्शवेदनमिति, पद-
प्रयस्यास्य समाहारबन्छः तस्मात, 'अस्य आत्मनः, 'नित्यादिसिद्धिः नित्यानित्यत्वदेहाद्भिन्नाभिन्नत्वप्रतिष्ठा, 'शब्द'
पुनःशब्दार्थः, नित्यानित्यत्वादिविशेषणे आत्मनि अहिंसादिसिद्धिः, नित्यानित्यत्वादिसिद्धिः पुनः स्मरणादेरिति
भावः ॥ प्रयोगश्चात्र, नित्यानित्य आत्मा, स्वयंनिहितद्रव्यादिसंस्मरणान्यथानुपपत्तेः । तथाहि न तावदेकान्तामित्के
स्मरणसम्भवः, तस्यैकरूपतयानुभवस्यैव स्पष्टरूपेणानुवर्तनादितरथा नित्यताहानेः, नापि अनित्यत्वे स्मरणसम्भवो
नुभवकालानन्तरक्षण एवं कर्तुनिष्टस्वात्कस्य स्मरणमस्तु, न हि अन्येनानुभूतमन्यः स्मरति ॥ अथानुभवक्षणसंस्का-
रात्तथाविधः स्मरणक्षणः समुत्पद्यते, नैवम्, यतोऽनुगमलेशेनापि विवर्जितानामत्यन्तविलक्षणानामतिकमे जायमानस्य
स्मरणक्षणस्य पूर्वकालीनानुभवक्षणसंस्कारो यदि परं श्रद्धानगम्यो न युक्तिप्रत्याय्यः, प्राक्तनानुभवक्षणस्य चिरतर:
नष्ठत्वादपान्तरालक्षणेषु च संस्कारलेशस्याप्यनुपलब्धेः, सहसैवानन्तरक्षणविलक्षणस्मरणक्षणोत्पादोपलब्धेरिति ॥परि-
णामपक्षे तु प्राक्तनानुभवक्षणेनाहितसंस्कारानुगमवत्सत्क्षणप्रवाहरूपानानाविधधर्मसमुदयस्वभावात्मनः सकाशात्स्मर-
लक्षणोत्पादो युक्तियुक्त इति ॥ न च वाच्यमपान्तरालक्षणेष्वनुभवसंस्कारो नोपलभ्यत इति कथं तत्सत्तेति, नीं-
जत्वेन स्मरणस्यानुपपतिप्रसमात् इति ॥ तथा नित्यानित्य आत्मा, प्रत्यभिज्ञानान्यथानुपत्तेः, तथाहि, एकान्तनित्यत्वे
॥१२॥

नुभवस्य च साक्षादनुवृत्तेन प्रत्यमिज्ञानसम्भवः, अनित्यत्वे तु अनित्यत्वादेव पूर्वद्रष्टुः पूर्वदृष्टवस्तुनच नष्टत्वादपूर्व- योधोत्पन्नस्वान्न प्रत्यभिज्ञानसम्भवः, न चादृष्टवतोऽदृष्टे प्रत्यभिज्ञानमस्ति तथा अप्रतीतेरिति, अथ खूषे छूनपुनर्जातके- शादिष्वपि प्रत्यभिज्ञानमस्तीति ग्राह्य प्रति तस्य व्यभिचारित्वेनाप्रमाणतया सर्वत्राप्रामाण्यम्, नैवम्, प्रत्यक्षस्थापि कचिद्व्यभिचारात् सर्वत्राप्रामाण्यप्रसङ्गादिति ॥ तथा देहाद्भिन्नाभिन्न आत्मा, स्पर्शवेदनान्यथानुपपत्तेः, तथा हि, यद्यसौ देहाद्भिन्नो भवेत् तदा देहेन स्पृष्टस्य वस्तुनो न संवेदनं स्यात,देवदत्तस्पृष्टवस्तुन इव यज्ञदत्तस्य,नाप्यभिन्नो देहमात्रत्वेन सस्य परलोकाभावप्रसङ्गात् , अवयवान्तरहानौ चैतन्यहानिप्रसङ्गाचेति ॥ तथेति' समुच्चये, 'लोकप्रसिद्धितो' जन- प्रतीतेर्नित्यानित्यमात्मादि वस्त्विति गम्यते, यतस्तदेव वस्त्वेवं परिणतमिति वदन वस्तुत्वाविच्छित्तिमवस्थान्तरापति च प्रतिपद्यमानो जनो लक्ष्यते, न च लोकप्रतीतिविरुद्धमर्थमुपकल्पयत्प्रमाणं प्रमाणतामासादयतीति ॥६॥ आत्मनो विभुत्वे पूर्व दोष उक्तोऽथासर्वगतत्वेऽस्य गुणमाह ॥ देहमात्रे च सत्यस्मिन्, स्यात्सकोचादिधर्मिणि ॥ धर्मादेसर्वगत्यादि, यथार्थ सर्वमेव तत् ॥७॥ (वृत्तिः) देह एव शरीरमेव मात्रा परिमाणं यस्य स देहमात्रस्तस्मिन् देहमात्रे देहमात्रता चास्य देह एव तगुणोपलव्धे ॥ 'शब्द' पुनरर्थः नित्यानित्यादिधर्मके आत्मनि हिंसादिरुपपद्यते 'दहमात्रे पुनः, 'सति' भवति, अस्मिन् आत्मनि, 'स्यात्' भवेत् , 'सर्वं यथार्थमिति' सम्बन्धः,किम्भूते तत्र, सङ्कोचादिः'सङ्कोट(च)नादिरादिशब्दात् प्रसरणं धर्मः स्वभावो यस्य स तथा तस्मिन्, सङ्कोचादिधर्मत्वं 'चास्य' सूक्ष्मेतरशरीरव्याप्तेः, किं तत्स्यादित्याह, 'धर्मादेवंगत्यादि,"धर्मेण गमनमूर्ध्व, गमनमधस्ताद्भवत्यधर्मेण ॥ ज्ञानेन चापवर्गः (ो विपर्ययादिष्यते सर्गः) ॥१॥ इत्यादिकं वचनमिति सतदर्श मांसभक्ष. दूषणा. टकम् लो.१ गम्यते, 'यथार्थ निरुपचरितम्, 'सर्वमेव, निरवशेषमेव, 'तुशब्दः' पूरण इति ॥७॥ उपसंहरबाह ॥ विचार्यमेतत्सद्बुद्धया, मध्यस्थेनान्तरात्मना ॥ प्रतिपत्तव्यमेवेति, न खल्वन्यः सतां नयः ॥ ८॥ (वृत्तिः) विचार्य' विचारणीयम्, 'एतत्' यत् अनन्तरमहिंसादि विचारितं सर्वमेव, सद्बुद्धया'शोभनप्रज्ञया, मध्यस्थेन' अपक्षपतितेन, 'अन्तरात्मना जीवेन मनसा वा, न केवलं विचार्य तथा प्रतिपत्तव्यमेव' न तुन स्वीकर्तव्यम्, 'इति शब्दों विवक्षितार्थपरिसमाप्तौ, अथ कस्मात्प्रतिपसव्यमेवेत्याह, 'न खलु' नैव,' 'अन्य' उक्तनयविलक्षणः, 'सा' सत्पुरुषाणां, 'नयों' न्याय इति ॥ ८॥ षोडशाष्टकविवरणं समासम् ॥ १६ ॥ ॥ अथ सप्तदश मांसभक्षणदूषणाष्टकम् ॥ धर्मवादमुपदर्शयता सूरिणा यथा हिंसादीनि तत्तत्तन्त्रव्यपेक्षया युज्यन्ते न युज्यन्ते च तथा विचारितम्, अथ मांसभक्षणादिकं हिंसादिनिवृत्तैरपि कुतीर्थिकैरदोषतयाभ्युपगतं तत्सतन्त्रन्यपेक्षया धर्मवादोपदर्शनार्थमेव विचारयि- तुमुपक्रमते, तत्र मांसमक्षणमधिकृत्य तावदाह ॥ भक्षणीयं सता मांस, प्राण्यङ्गत्वेन हेतुना ॥ ओदनादिवदित्येवं, कश्चिदाहातितार्किकः ॥१॥ (कृत्तिः) भक्षणीयं भोक्तव्यम्, 'सता' विदुषा, 'मांस पिशितम्, इति प्रतिज्ञा, केन हेतुनेत्याह, 'प्राण्यापेन हेतुना' जीवावयवस्वाद्धेतोः, 'ओदनादिवदिति' भक्तप्रभृतिकं यथा, इति अन्वयदृष्टान्तः, इतिशब्दप्रयोगार्थसमाप्तौ॥प्रयोग- , वैवम्, यद्यत्प्राण्या तत्तदक्ष्यं दृष्टम्, ओदनवत, प्राण्यङ्गं च मांसमिति, मांसस्य च प्राण्यातया प्रत्यक्षसिद्धत्वालासिद्धो हेतुः, ओदनस्य चैकेन्द्रियप्राण्यत्वेन प्रतीतत्वाञ्च हेतुविकलो दृष्टान्तः ॥ एवं' इत्यनन्तरोक्तप्रकारेण, 'कश्चित्' कोऽपि सौगत इत्यर्थः, अतिशयवांस्तार्किकः प्रामाणिको तितार्किक' इति उपहासवचनम्, प्रायः शुष्कतप्रधानत्वात्तस्य, अधिकृतप्रमाणस्य वा प्रमाणामासस्वादिति ॥ १॥ शुष्कतार्किकतां चास्य पूर्वपक्षदूषणत आह ॥ भक्ष्याभक्ष्यव्यवस्थेह, शास्त्रलोकनिबन्धना ॥ सर्वैव भावतो यस्मा तस्मादेतदसाम्प्रतम् ॥२॥ (पृत्तिः) ननु भक्षणीयं मांसं प्राण्यात्वादित्येतत् स्वतन्त्रसाधनं प्रसासाधनं वा ॥ स्वतन्त्रसाधनपक्षे ओदनादिव- दित्ययं साधनविकलो दृष्टान्त:,' वनस्पत्यायेकेन्द्रियाणां बौद्धस्य प्राणित्वेनासिद्धत्वात, ततश्च दृष्टान्ते प्राण्यात्व- भक्ष्यत्वलक्षणसाध्येन व्याप्तत्वासिद्धरसिद्धान्वयाभिधानोऽनैकान्तिको हेतुः ॥ प्रसासाधनपक्षे त्विदमुच्यते, 'भक्ष्यं भक्षणीयमोदनादि, अभक्ष्यं मधुमांसपलाण्ड्वादि,तयो व्यवस्था' मर्यादा, "भक्ष्याभक्ष्यव्यवस्था, उपलक्षणवादस्य पेयापेयगम्यागम्यादिपरिग्रहः, 'इह 'अस्मिल्लोके,' 'शास्त्र' आप्तवचनम्, 'लोको' लोकव्यवहार, तो 'निबन्धन हेतुर्यस्याः सा तथा, न तु प्राण्यरेतरमात्रनिबन्धना, 'सर्वैव' निरवशेषैव, न तु काचिदेव, “भावतः' पार- मायेन, 'यस्मात्' कारणात्, 'तस्मात्' 'एतत् अनन्तरोक्तं भक्षणीयं सता मांसमित्यादिसाधनम् 'असाम्प्रतं' अयुक्त- मिति ॥ २॥ असाम्प्रतत्वमेव हेतोरनैकान्तिकतोपदर्शनतो भावयताह ॥ तत्र प्राण्यामप्येकं, भक्ष्यमन्यत्तु नो तथा ॥ सिद्धं गवादिसत्क्षीर-रुधिरादौ तथेक्षणात् ॥३॥ (वृत्ति) तप्रेति'तयोःशास्त्रलोकयोः, वाक्योपक्षेपमात्रार्थो वा तत्रशब्द:, 'प्राण्यामपि जीवावयवोऽपि, आस्तामप्राण्य- लक्षणताधनस्य

ससदश
वृ
मांसभक्ष-
गदूषणा-
६४॥
ग्लो०४
मप्येकं किञ्चित, 'भक्ष्य' भोज्यम्, 'अन्यत्सु' परं पुनः, 'नो तथा' तेन प्रकारेण अभक्ष्यमित्यर्थः, 'सिद्धे' प्रतिष्ठितम्,
कुतः सिद्धमित्याह, 'गवादीनाम्' आदिशब्दात् मातृप्रभृतीनाम्, 'सत्' शोभनम्' अभिनवप्रसवधेनुसत्कादन्यत्, क्षीरं
च पयो 'रुधिरं च लोहितमादिर्यस्य तत्तथा, तत्र 'गवादिसत्क्षीररुधिरादौ विषये, आदिशब्दात् गवादिमूत्रमांसादौ
च, 'तथा' तेन भक्ष्याभक्ष्यादिप्रकारेण, 'ईक्षणात्' अवलोकनात, तथाहि, “गवां क्षीरं मूत्रं वा पेयतया शास्त्रे लोके
चन नपिध्यते रुधिरमांसे तु नानुमन्येते" ततश्च प्राण्या सद्भक्ष्यं चाभक्ष्यं चोपलब्धमतः सपक्षविपक्षवृत्तित्वादन-
कान्तिको हेतुरिति ॥३॥ किञ्च प्रसङ्गसाधनं हि पराभ्युपगमानुसारेण भवति,न चास्माकं प्राण्यामिति कृत्वा मांसमभ-
क्ष्यमित्यभ्युपगमः, किन्तु तदुस्थजीवापेक्षयेति दर्शयितुमाह ॥
प्राण्यङ्गत्वेन न च नो-भक्षणीयन्त्विमिदं मतम् ॥ किन्त्वन्यजीवभावेन, तथा शास्त्रप्रसिद्धितः ॥४॥
(कृत्तिः) प्राण्यङ्गत्वेन जीवाषयवतया हेतुना, 'न च' नैव, नोऽस्माकम्, 'अभक्षणीम्' अभोज्यम्, 'इदं मांसम्, 'मतं
सम्मतम्, किन्तु किं पुनः, 'अन्यजीवभावेन' मांसस्वामिव्यतिरिक्तप्राणिसमुत्पादेन हेतुना, अभक्षणीयमिदं मत-
त्यावर्तते॥ अन्यजीवभाव एष कुतःसिद्ध इत्यत्राह, तथा तेन प्रकारेण जीवसंसक्तिलक्षणेन, शास्त्रप्रसिद्धितः आप्तागम-
प्रतिष्ठितेः, प्रसिद्धं यागमे मांसस्य जीवसंसक्तिनिमित्तत्वम्, यदाह ॥ " आमासु य पकासु य, विपक्षमाणामु मांस-
पेसीसु ॥ आयन्तियमुववाओ,मणिओय निगोयजीवाण॥१॥"एतेन च लोकेन परस्य परमतानभिज्ञतापादनतोऽषि-
कृतप्रमाणस्य प्रसासाधनता निराकृतेति ॥ ४ ॥ अथाधिकृतहेतोरेवानिष्ठार्थसाधकतां दर्शयबाह ॥
१ आमा व पर्याप विपच्यमानासु मांसपेशीषु । आत्यन्तिकमुपपातो भणितो निगोदजीवानाम् ।।
॥ ६४॥

भिक्षुमांसनिषेधोऽपि, न चैवं युज्यते क्वचित् ॥ अस्थ्यायपि च भक्ष्यं स्या-प्राण्यङ्गत्वाविशेषतः॥५॥
(वृत्तिः) भिक्षोर्चाद्धविशेषस्य, मांसं पिशितम्, तस्य निषेधो वर्जनं 'भिक्षुमांसनिषेधः,' स किल भवन्मतेन
भिक्षोरतिपूज्यत्वादवश्यं युक्तो भवति, सोऽपि, आस्तां गवादिमांसनिषेधः, 'न च' नैव, एवं प्राण्यङ्गत्वेन मांसभक्ष-
णाभ्युपगमे सति, युज्यते'घटते,'कचित्'कुत्रचित्,देशान्तरे कालान्तरे पुरुषान्तरे वा,अस्यैवाभ्युच्चयमाह, अस्थि' कीकसम्,
आदिर्यस्य तत्तथा अस्थ्यादि, तदपि च, न केवलं भिक्षुमांसादि, यत्किल 'भक्षयितुमशक्यमस्थिशृङ्गखुरादि
तदपि च 'भक्ष्य भक्षणीयम, 'स्यात् ' भवेत्, कुत इत्याह, 'प्राण्यङ्गत्वस्य' जीवावयवत्वस्य हेतोः, 'अविशेषः'
तुल्यत्वं मांसे अस्थ्यादौ चेति प्राण्यात्वाविशेषस्तस्मात्, अतोऽभक्ष्यस्य भक्ष्यत्वापादनेन विरुद्धो हेतुरिति ॥५॥
अत्रैव दूषणान्तरमाह ॥
एतावन्मात्रसाम्येन, प्रवृत्तिर्यदि चेष्यते॥ जायायां स्वजनन्यां च, स्त्रीत्वात्तुल्यैव साऽस्तु ते ॥६॥
(वृत्तिः) एतदेव एतत्परिमाणमेव एतावन्मात्रम्, तेन साम्यं सादृश्यं 'एतावन्मात्रसाम्यम् तेन प्राण्यङ्गत्वमात्रसादृश्ये-
नेत्यर्थः, 'प्रवृत्तिः' मांसभक्षणादौ प्रवर्तनम् ,'यदि' इत्यभ्युपगमे, 'चशब्दः' पुनरर्थः, 'इष्यते' भवताऽभिमन्यते, तदा
किमस्त्वित्याह, 'जायायां' भार्यांयाम्, स्वजनन्यां च'आत्मीयमातरि च, 'स्त्रीत्वात्' अनात्वेन हेतुना, 'तुल्यैव'समानैव,
अभिगमरूपा पूजारूपा वा, 'सा' प्रवृत्तिः, 'अस्तु' भवतु, 'ते' तव, स्त्रीत्वाविशेषाद् ब्योरपि, यथा प्राण्यात्वाविशेषा-
मांसौदनयोरिति ॥ ६॥ प्रकरणार्थनिगमनायाऽऽह ॥
तस्माच्छास्त्रं च लोकं च, समाश्रित्य वदे बुधः ॥ सर्वत्रैवं बुधत्वं स्या-दन्यथोन्मत्ततुल्यता ॥७॥

ससदर्श मांसभक्ष- णदूषणा- ६५॥ लो.८ (कृत्तिः) यस्माद्भवदुक्तसाधनमनन्तरोक्तन्यायेन बाहुदोषदुष्टं 'तस्मात् कारणात्, शास्त्रं च' आप्तवचनम् , लोकं चोविशिष्ट- जनम्, 'समाश्रित्य अङ्गीकृत्य, 'वदेत्' बूयात्, कोऽसौ, 'बुधः' पण्डितः, क विषये इत्याह, 'सर्वत्र' न मांसभक्षण- विषय एव,अपितु सर्वत्र'सर्वस्मिन्नन्यस्मिन्नपि विषये,अन्यथा हिब्रुषाणस्य लोकरूढिनिराकृतादयः पक्षदोषा:प्रसंजेयुः,एवं वाणस्य को गुण इत्याह, 'एवम् ' अनेन प्रकारेण लोकशास्त्रसमाश्रयणपूर्वकवदनलक्षणेन, 'बुधव' पण्डितत्वम्, 'स्यात्' भवेत्, विपर्यये किं स्यादित्याह, 'अन्यथा' अन्येन प्रकारेण लोकशास्त्रानपेक्षतावदनलक्षणेन, 'उन्मसतुल्यता' ग्रहगृहीतसमानता, स्यादिति गम्यते, आह ॥ "सतां पथा प्रवृत्तस्य,तेजोवृद्धी रवेरिव ॥ यदृच्छया प्रवृत्तस्य, रूपनाशो- ऽस्ति वायुवत् ॥१॥" इति ॥७॥ बौद्धाभ्युपगताप्तप्रवचन निषिद्धत्वं मांसभक्षणस्य दर्शयन्नुपसंहारार्थमाह ॥ शास्त्रे चाप्तेन वोऽप्येत-न्निषिद्धं यत्नतो ननु ॥ लङ्कावतारसूत्रादौ, ततोऽनेन न किञ्चन ॥ ८॥ (पृत्तिः) न केवल लोके अस्मच्छाले चेदं निषिद्धम् , शानेच आगमे च, आप्तेन'क्षीणरागादिदोषेण सुगतेन,वोऽपि युष्माकमपि, न केवलमस्माकमेव, 'एतद् मांसभक्षणम् , निषिद्धं निवारितम् , 'यत्नतः' आदरेण, 'ननु' इत्यक्षमायाम्, कशाने निषिद्धमित्याह, 'लकावतारसूत्रादौ निशाचरविनयनाय लङ्कायामवतारः सूत्र्यते तथागतस्य यत्र तलाव- तारसूत्रं तदादौ तत्र किलोक्तम् ॥ " न प्राण्यासमुत्थं, मोहादपि शखचूर्णमभीयात् ॥" आदिशब्दात् शीलपटला- दिपरिग्रहः, 'ततः' इति यस्मादेवं तस्मात् , 'अनेन' मांसमक्षणसमर्थनेन, 'न किश्चन' नास्ति भवतोऽपि कञ्चन, प्रयोजनमिति शेष इति ॥८॥ सप्तदशाष्टकविवरणं समासम् ॥ १७॥ * ॥ अथ अष्टादशं मांसभक्षणदूषणाष्टकम् ॥ तदेवं मांसं न भक्षणीयं लोकशास्त्रविरोधादिति धर्मवादतो व्यवस्थापिते यः कश्चिदसहमान आह "न मांसभक्षणे दोष" इति तन्मतप्रस्तावनायाह ॥ अन्योऽविमृश्य शब्दार्थ, न्याय्यं स्वयमुदीरितम् ॥ पूर्वापरविरुद्धार्थ-मेवमाहात्र वस्तुनि॥१॥ (वृत्तिः) अन्यः' पूर्व पूर्वपक्षीकृतषौद्धादपरो विज इत्यर्थः,'अविमृश्य' अपर्यालोच्य, शब्दार्थ' मांसमित्यस्यध्वनेरभि- घेयम्, 'आहे' इति 'सम्बन्धः, किम्भूतं शब्दार्थमित्याह, 'न्याय' न्यायादनपेतम् , तथा, 'स्वयं' आत्मना, 'उदीरित' प्रतिपादितम्,"मां स भक्षयिता"इत्यादिना श्लोकेन,कथमाहेत्याह, पूर्वस्य'पूर्वोक्तस्य "मांस भक्षयिता" इत्यादेमीसमक्ष- णनिषेधार्थस्य, 'अपरेण' अपरोक्तेन " न मांसभक्षणे दोषः" इत्यनेन "प्रोक्षितं भक्षयेन्मांस इत्यादिना वा, अथवा "न मांसभक्षणे दोषः" इत्यस्य पूर्वस्य "निवृत्तिस्तु महाफला' इत्यनेनापरेण सह, 'विरुद्धो विसंवादी, 'अ' अभि. धेयो यत्र तत् 'पूर्वांपरविरुद्धार्थम्,' क्रियाविशेषणं चेदम् , 'एवम्' इति वक्ष्यमाणप्रकारम्, 'आहे'ब्रवीति, 'अत्र' मांसभक्षणे, 'वस्तुनि' पदार्थ इति ॥१॥ यदाह तदेव दर्शयति॥ न मांसभक्षणे दोषो, न मये न च मैथुने | प्रवृत्तिरेषा भूतानां, निवृत्तिस्तु महाफला ॥२॥ (वृत्तिः)न' नैव, मांसभक्षणे'पिशिताशने, 'दोष इति दृषणम् कर्मवन्धलक्षणः,अस्यैव चायपादार्थस्य पूर्वलोकेन प्रस्ता- बना कृता, तत्प्रसोन च शेषपादत्रयं श्लोकस्याधीतमिति, तस्य व्याख्या,तथा, 'न' नैव, मधे' मधुनि,पीयमान इति गम्यते, 'न' नैव, 'चशब्दः' समुपयार्थः, 'मैथुने' अब्रह्मचर्ये, क्रियमाण इति गम्यते, कुत एतदेवमित्याह, यता प्रवृत्तिः' अष्टक कि वृक्ष अष्टादशं मांसभक्ष- णदूषणा- ष्टकम् लो स्वभावः, 'एषा' मांसभक्षणादिकाऽनन्तरोक्ता, 'भूतानां प्राणिनाम्, 'निवृत्तिः' विरमणम्, पुनर्मासभक्षणादिभ्य इति गम्यते, ‘महत्' बृहत, फलं'साध्यमभ्युदयादिकं यस्याःसा महाफलेति ॥२॥ योऽसौ स्वयमुदीरितो मांसशब्दार्थस्तमाह। मांस भक्षयिताऽमुत्र, यस्य मांसमिहाम्यहम् ॥ एतन्मांसस्य मांसत्वं, प्रवदन्ति मनीषिणः ॥३॥ (वृत्तिः) 'माम्' इति भक्षक आत्मानं निर्दिशति, 'स' इति भक्ष्यमाणो जीवः, 'भक्षयिता' इति श्वस्तनीप्रथमपुरुषेक- वचननिर्देशः, ततो भक्षयिष्यत इत्यर्थः, न त्वयं शीलार्थिकः, 'अमुत्र' जन्मान्तरे, किंविधो य इत्याह, 'यस्य' पश्चादेः, 'मांसं पिशितम्, 'इह' अस्मिन् जन्मनि, 'अनि भक्षयामि, 'अहम्' इत्यात्मानं भक्षको निर्दिशति, एतद् अनन्तरो- दितम्, भक्षणेन भक्षणलक्षणम्, 'मांसस्य' पिशितस्य, 'मांसत्वं' मांसशब्दव्युत्पत्सिनिमित्तम्, निरुक्तमित्यर्थः, 'प्रवद- न्ति' प्रतिपादयन्ति, 'मनीषिणः' निरुक्तविधिकुशला इति ॥ ३॥ एतेन च मांसभक्षणापायप्राप्तिप्रतिपादनेन मांसभ- क्षणे दोषोऽस्तीति वक्तव्यमेवोक्तमतः कथ (कि) मुक्तं "न मांसभक्षणे दोष" इत्येतदेवाह ॥ इत्थंजन्मैव दोषोऽत्र, न शास्त्राबाह्यभक्षणम् ॥ प्रतीत्यैष निषेधश्च, न्याय्यो वाक्यान्तराद् गतेः॥ ४ ॥ (वृत्तिः) 'इत्थम्' अनेन प्रकारेण, भक्षकस्य भक्षणीयत्वप्राप्तिलक्षणेन, यद् 'जन्म' उत्पत्तिस्तद् , 'एव, किमपरदो- षगवेषणेन, 'दोषों' दूषणम्, अनर्थावाप्तिरित्यर्थः, 'अन' मांसभक्षणे, ततः कथ(कि)मुक्तम् “नमांसभक्षणे दोषः” इति हृदयम् ॥ अत्र किल परः प्राह, 'न' नैव, यद्भक्षकस्य भक्षणीयत्वप्राप्तेर्मासभक्षणे दोष इति, कुत इत्याह, यतः, 'शास्त्राद' आगमात्, वायभक्षणं' बहिर्भूतमांसादनम्, 'प्रतीत्य' आश्रित्य एषोऽनन्तरोक्तः इत्थंजन्मलक्षणो दोषः, न पुनः शास्त्रीयमांसभक्षणे, तथा, 'निषेधश्च' मांसभक्षणप्रतिषेधोऽपि, "मांस भक्षयिता" इत्यादिनिरुक्तवलप्रापितः, - शास्त्राद्वायभक्षणमेव प्रतीत्य, 'न्याय्य' उपपन्नः, कथं वाक्यान्तरात्' "मांस भक्षयिता" इत्यादिवाक्यापेक्षया यदन्यदू वाक्यं तद्वाक्यान्तरं तस्मात्, 'गतेः' परिच्छित्तः, मांसभक्षणस्येति गम्यम् ॥ अथवा, इत्थं 'जन्मैव दोषोऽत्र' इत्येक तावदूषणम्, तथा अपरम्, 'न' नैव, शास्त्राद्वायभक्षणं प्रतीत्य,' 'एषोऽनन्तरोक्तः " मांसभक्षणे दोषः" इत्येवं- लक्षणः, 'निषेधो मांसभक्षणे दोषप्रतिषेधः, चशब्दों' दूषणान्तरसमुच्चयार्थः, 'न्याय्यः' समता, वक्ष्यमाणमोक्षितादि- विशेषणमांसादन एव दोषनिषेधो न्याय्यः, शास्त्रोक्तत्वादेव, न पुनः सामान्येनेति भावः ॥ कुत एतदिति चेदित्यत आह, 'वाक्यान्तराद्गतेः' इति, "न मांसभक्षणे दोषः” इत्येवंविधात् सामान्यत एव मांसादनदोषाभावप्रतिपादनपराद् वाक्यादू यदन्यत् "प्रोक्षितं भक्षयेत्" इत्यादि वक्ष्यमाणं वा वाक्यं तद् वाक्यान्तरम्, तस्मात्, गते परिच्छिते,शास्त्रो- तत्वेन मांसादनविशेषस्य निर्दोषतयावगमादित्यर्थ इति ॥४॥ एतदेव' वाक्यान्तरमाह ॥ प्रोक्षितं भक्षयेन्मांस, ब्राह्मणानां च काम्यया ॥ यथाविधि नियुक्तस्तु, प्राणानामेव वाऽत्यये ॥५॥ (वृत्तिः) 'प्रोक्षितं वैदिकमन्त्राभ्युक्षितम्, 'भक्षयेत्,' अश्नीयात्, 'मांस' पिशितम्, 'ब्राह्मणानां विजानाम्, शब्दों विशेषणसमुच्चये, 'काम्यया' इच्छया, ब्रिजभुक्तावशेष प्रति तदनुज्ञया, 'विधियायः,या यत्र यागश्राद्धपाधूर्णकादौ प्रक्रिया तस्या नातिक्रमेण यथाविधि,'तत्र यागविधिः पशुमेधाश्वमेधादिविधायकशास्त्रविहितः, श्राद्धविधिस्तु मांस विशेषापेक्षोऽयम्॥ "औरणेह चतुरः, शाकुनेन तु पञ्च वै॥षण्मासांच्छागमांसेन,पार्षतीयेन सप्त वै ॥१॥ अष्टावणस्य मासेन, शौकरेण नवैव तु ॥ दश मासांस्तु तृप्यन्ति, वराहमहिषामिषैः ॥२॥ कूर्मशशकमांसेन, मासानेकादशैव तु ॥ संवत्सरं तु तृप्यन्ति, पयसा पायसेन तु ॥३॥ प्राघूर्णकविधिस्तु याज्ञवल्क्योक्तोऽयम्, "महोक्षं वा महाजं वा, ॥ " अटक क० ० अष्टादर्श मांसमक्ष- णदुषणा- । ६७॥ लो. ६-७ श्रोत्रियाय प्रकल्पयेत्,” इति, तथा, 'नियुक्तस्तु' गुरुभिर्व्यापारित एव,नियुक्तशब्दस्य वा यथाविधीति विशेषणम् , तुशब्द एवकारार्थः, तथा, 'प्राणानामेव' इन्द्रियादीनामेव, न तु द्रव्यादीनाम्, 'या शब्दः' पक्षान्तरद्योतकः, अत्यये विनाशे, उपस्थिते इति शेषः, मांस भक्षयेदित्यनुवर्तते, आत्मा हि रक्षणीयः, यदाह, “सर्वत एवात्मानं गोपयेत्," इति ॥५॥परोक्तमेवार्थमनुवादबारेणाशक्य दूषयनाह, द्वितीयव्याख्यापेक्षया पुनरुत्तरश्लोकस्यैवम्पातना, भवदापादित एष शास्त्रीयमांसभक्षणे दोषाभावोऽस्माभिरभिधीयते न सामान्येनेति परमतमाशंक्य दूषयन्नाह ॥ अत्रैवासावदोषश्चे-निवृत्तिर्नास्य सज्यते । अन्यदाऽभक्षणादत्रा-भक्षणे दोषकीर्तनात् ॥ ६॥ (कृत्तिः) अत्रैव' अनन्तराभिहित एव प्रोक्षितादिविशेषणमांसभक्षणे,अन्यत्र तु दोष एव, असौं' या न मांसभक्षणे दोषः” इत्यनेन वचसा युपगतः, 'अदोषों' दोषाभावः, 'चेद्' ययेवं मन्यसे, तदेतिशेषः, किं दूषणमित्याह, निवृत्तिः' विरतिः, न नैव, अस्यमांसभक्षणस्य, सन्यतेप्राप्नोति,कुत इत्याह, अन्यदा'अन्यस्मिन् प्रोक्षितादिमांसविशेषणाभाव- काले, 'अभक्षणात्' अनन्यवहरणात्, उक्तविधिव्यतिरेकेण हि मांसं न भक्ष्यते अतो मांसभक्षणस्याप्राप्तेर्निवृत्ति स्य प्रसज्यत इत्युच्यते,“प्रातिपूर्वको हि निषेधः सफलो भवतीति,” अथ प्रोक्षितादिविशेषणसावे निवृत्तिर्भविष्यतीति "निवृत्तिस्तु महाफला" इति वचः सफलीभविष्यतीत्यत्राह, 'अन' प्रोक्षितादिविशेषणसावे, अभक्षणे अनशने, मांसस्य, 'दोषकीर्तनात्' दूषणाभिधानात्, निवृत्तिनांस्य प्रसज्यते इति प्रकृतमिनि ॥६॥ दोषकीर्तनमेव दर्शयन्नाह ॥ यथाविधिनियुक्तस्तु, यो मांसं नात्ति वै द्विजः ॥ स प्रेत्य पशुतां याति,सम्भवानेकविंशतिम् ॥७॥ (कृति)यो यो विधिः शास्त्रीयन्यायो यथाविधि,तेन नियुक्तो युक्तो व्यापारितो वागुरुभिः, यथाविधिनियुक्तः,"तुशब्दः' पुनःशब्दार्थः,तस्य चैवं प्रयोगः,विधिनामांसमखादन निर्दोष एव,यथाविधिनियुक्तः पुनः, 'य'अनिर्दिष्टनामा, 'मांस'पिशि- तम्, 'न' नैव, 'असि' भुङ्क्ते, वै' इति निपातो वाक्यालङ्कारार्थः, 'बिजो' विप्रः,'स' इति द्विजः, 'प्रेत्य'परलोके पशुता' तिर्यग्भावम् , 'याति प्राप्नोति, कियतो भवान् यावदित्याह, सम्भवनानि 'सम्भवा' जन्मानि, तान् ‘सम्भवान,“एकविंश- तिम्',एकेनाधिका विंशतिस्तामिति ॥७॥प्रोक्षितादिविशेषणाभावे मांसस्य भक्षणे प्रवृत्त्यभावेन निवृत्तेरफलत्वात् प्रोक्षि- तादिविशेषणस्य च तस्याभक्षणे दोषकीर्तनात् निवृत्तिर्नास्य सज्यत इति यदुक्तम्,तत्र परकीयं परिहारमाशंक्य परिहरनाह॥ पारिव्राज्यं निवृत्तिश्चे-यस्तदप्रतिपत्तितः॥ फलाभावः स एवास्य, दोषो निषितैव न ॥८॥ (वृत्तिः)परिव्राजो भावः 'पारिव्राज्यम् ,' मस्करित्वं गृहस्थभावत्याग इत्यर्थः, 'तदेव' निवृत्तिनिवन्धनत्वात् 'निवृत्तिः' मांसभक्षणोपरतिः, 'चेत्,' ययेवं मन्यसे, अयमभिप्रायो गृहस्थतायां प्रोक्षितादिविशेषणं मांस भक्षणीयमेव, तस्माच पारिवाज्यप्रतिपत्तिद्वारेण निवर्तत इत्येवं प्राप्तिपूर्विका निवृत्तिमांसभक्षणस्य स्यात्, सा च महाफलेति, अतो निवृत्ति- नांस्य सज्यते इत्याचार्यवचनं परेण दूषितम्, अतोत्र दुषणमाह, 'यः' कोपि, 'तप्रतिपत्तितः' पारिव्रज्याप्रतिपत्तितः पारिवाज्याप्रतिपत्तिमाश्रित्य, फलाभावः' अभ्युदयादिप्रयोजनाप्रासिः, 'स एवं' किमपरदोषगवेषणेन, 'अस्य' मांस- भक्षणस्य, दोषों' दूषणम् ,ततः किमित्याह 'निर्दोषता निर्दूषणता, 'एध'शब्दस्यान्यन्त्र सम्बन्धात्, नैव' नास्त्येव, अतः कथमुच्यते न मांसभक्षणे दोषः" इति,तथा “निवृत्तिस्तु महाफला” इति । अत्र विशेषेण किश्चिदुच्यते,ननु निवृत्तिनिरष- चावस्तुनो विधीयमाना महाफला सावधावा, यदि निरवद्यासदा यत्याश्रमादेरपि निवृत्तिरङ्गीकर्तव्या,तस्य निरवद्यत्वात् , न चैतदिष्टम् ,अथ बितीयपक्षस्तदा मांसभक्षणस्य सावधत्वेन सदोषताप्राप्तेरिति ॥४॥ अष्टादशाष्टकविवरणं समाप्तम् ॥

अष्टक
एकोनवि-
शतितम
मद्यपान-
दूषणा
१
। ६८॥
ग्लो. १
॥अथ एकोनविंशतितमं मद्यपानदूषणाष्टकम् ॥
न मांसभक्षणे दोष इति निराकृतम्, अथ न मये इत्येतनिराकरणायाह ॥
मयं पुनः प्रमादाङ्गं, तथा सञ्चित्तनाशनम् ॥ सन्धानदोषवत्तत्र, न दोष इति साहसम् ॥ १ ॥
(वृत्तिः)मदयतीति 'मर्च'शीधुः, पुनः'शब्दः पूर्ववाक्यार्थापेक्षयोत्सरवाक्यार्थस्य विशेषद्योतनार्थः,तथाहि,मांसं जीवसं-
सक्तिनिमित्तं मयं पुन:, 'प्रमादागम् ,' प्रमदनं प्रमादोऽशुभो जीवपरिणामविशेषः, तस्याहं कारणम् , अथवा प्रमादो
मद्यादिः॥ यदाह ॥ "मजं विसयकसाया,निहा विगहा य पंचमी भणिया॥ एए पंच पमाया,जीवं पाति संसारे ॥शा"
तस्यामवयवः, पश्चावयवरूपत्वात्तस्य, 'तथेति' विशेषणसमुच्चये, सच्छुभं यच्चित्तं मनः तनाशयति प्रध्वंसयतीति
'सच्चिसनाशनम् , तथा सन्धाने जलमिश्रितबहुद्रव्यसंस्थापने ये दोषा जीवसंसक्तयादयस्ते विद्यन्ते यत्र तत् 'सन्धा-
नदोषवत्,'यदेवंविधं मयं तत्र'मधे, न' नास्ति, 'दोषो दूषणं कर्मवन्धादि, इतिएवं, वदत इतिगम्यते, 'साहसंधाष्टयम्।
अथवा 'तत्र' मधे गुडधातक्यादिसन्धानरूपे न दोषोऽस्ति पापप्रासिलक्षणः, क इवेत्याह, सन्धानदोषवत्'काधिकादिस-
न्धानदोषवत् , अयमभिप्रायः, यथारनालादौसन्धानवति पीयमाने कर्मबन्धलक्षणो दोषो नास्त्येवं मोऽपिदोषो नास्तीति,
एतवचनस्य च साहसत्वं चित्तभ्रमनिषन्धनानामतिषहूनां मद्यपानदोषाणां प्रत्यक्षत एषोपलभ्यमानत्वात् ॥ यथोक्तम् ॥
"बैरूप्यं व्याधिपिण्डः स्वजनपरिभवः ४कार्यकालातिपातो, पविद्वेषो ज्ञाननाशः स्मृतिमतिहरणं विप्रयोगश्च
सद्भिः॥पारुष्यं नीचसेवा १२कुलषलतुलनाधर्मकामार्थहानिः, १४-१५-१६कष्ट भोः षोडशैते निरुपचयकरा मद्य-
पानस्य दोषाः॥१॥ अथवा कियन्तस्ते दर्शयिष्यन्त इत्याह॥
१०२ मचं विषयकषाया, निद्रा विकथा च पञ्चमी भणिता ॥ एते पज प्रमादा जीवं पातयन्ति संसारे ॥१॥
॥ ६८॥

किं वेह बहुनोक्तेन, प्रत्यक्षेणैव दृश्यते ॥ दोषोऽस्य वर्तमानेऽपि, तथाभण्डनलक्षणः ॥ २॥
(वृत्तिः) किम्, इति प्रतिषेधे,ततश्च न किश्चित्प्रयोजनमित्यर्थः स्यात्, वाशब्दोऽथवार्थः,इहमद्यपानदूषणविषये, 'बहुना'
प्रभूतेन,'उक्तन भणितेन, मद्यं प्रमादाङ्गमित्यादिना,"यतः. प्रत्यक्षेणैव'एषशब्दस्यापिशब्दार्थत्वात् अध्यक्षप्रमाणेनापि,न
केवलमनुमानादिना, 'दृश्यते' उपलभ्यते, 'दोषों दूषणम् , 'अस्य' मद्यपानस्य, 'वर्तमानेऽपि काले न केवलमतीतकाले
द्वारकावतीदाहादि श्रूयते, 'तथा' तत्प्रकारं सदसिमञ्जसवचनप्रसरमुपपतत्प्रभूतप्रहारमुपरममाणनरविसरं यभण्डनं'
संग्रामस्तदेव लक्षणं रूपं यस्य स तथेति॥२॥ न केवलं प्रत्यक्षगोचरामद्यपानस्यदोषाः श्रुतगोचरा अपोत्येतदर्शयितुमाह
श्रूयते च ऋषिर्मयात्, प्राप्तज्योतिर्महातपाः ॥ स्वर्गाङ्गनाभिराक्षिप्तो, मूर्खवन्निधनं गतः ॥३॥
(वृत्तिः) श्रूयते च'पुराणकथास्वाकर्ण्यते च,न केवल भण्डनमेव दृश्यते,कोऽसौ श्रूयत इत्याह,ऋषिमुनिः,विसन्धिह
विशेषलक्षणात्, 'मद्यात्' शीधुनः सकाशात् , निधनं गत इति सम्बन्धः, किंविशिष्टोऽसावित्याह,प्राप्तमवाप्तं ज्योतिस्तेजो
ज्ञानरूपमष्टविधमहर्द्रिरूपं वा येन स प्राप्तज्योतिः,'कथमित्याह,यतो महातपा' उग्रतपाः,पुनः किम्भूतः सनित्याह, स्वर्गा-
अनामिन कनितम्बिनीभिः, 'आक्षिसः' आवर्जितः सन्, 'मूर्खवद्यालिश इव, 'निधनं विनाशम् , गतः प्राप्त इति॥॥
एतदेव दर्शयन् श्लोकपञ्चकमाह ॥
कश्चिदृषिस्तपस्तेपे, भीत इन्द्रः सुरखियः ॥क्षोभाय प्रेषयामास, तस्यागत्य च तास्तकम् ॥४॥
विनयेन समाराध्य, वरदाभिमुखं स्थितम् ॥ जगुर्मयं तथा हिंसां, सेवस्वाब्रह्म वेच्छया ॥५॥
स एवं गदितस्ताभि-योनरकहेतुताम् ॥ आलोच्य मद्यरूपं च, शुद्धकारणपूर्वकम् ॥६॥

अष्टक एकोनवि- शातित मद्यपान- दूषणा- ६९॥ हो. मयं प्रपद्य तद्भोगा-नष्टधर्मस्थितिर्मदात् ॥ विदंशार्थमजं हत्वा सर्वमेव चकार सः॥७॥ ततश्च भ्रष्टसामर्थ्यः, स मृत्वा दुर्गतिं गतः ॥ इत्थं दोषाकरो मयं, विज्ञेयं धर्मचारिभिः ॥ ८॥ (वृत्तिः)एषां गमनिका, 'कश्चित्' कोप्यनिर्दिष्टनामा, 'ऋषिः'बालतपस्वी,किल महाटव्यां वसन्, 'तप'अनशनादिक' अतिघोररूपम्, 'ते' तप्यतेस्म, दिव्यं वर्षसहस्रं यावत्, ततो 'भीतो' महत्सपोऽनेन कृतं मामितो नाकिनिकायनायक- पदात् पातयिष्यतीति भावनया भयमुपगतः, 'इन्द्रः शतमखः, ततः, 'सुरस्त्रिया' नाकिनितम्बिनीस्तिलोत्तमाप्रमुखाः, 'क्षोभाय' क्षोभणनिमित्तम्, 'तस्य' इह सम्बन्धात्तस्य ऋषः, 'प्रेषयमास' स्वर्गात्तत्राटव्यां प्रेषितवान, ताश्च तत्त- पस्तेजसा तवनप्रवेशं कर्तुमशक्नुवत्यो वनाहिस्तदभिमुखकृतविकसितकुसुमप्रकरा मस्तकन्यस्तहस्तकुमलसम्पुटमति- प्रणत्य तद्गतगुणगानप्रधाननृत्यप्रन्वन्धं विदधुः, ततोऽसौ तदाक्षिप्तान्तःकरणश्चित्रलिखित इव बभूव, ततस्तास्तत्समीपमु- पजग्मुः, 'आगत्य च' समीपीभूय च, 'ता:' सुरलिया, 'तक'ऋषिम् ॥४॥ 'विनयेन विविधचाटुवचनाबलिकरणपादप- तनादिना, 'समाराध्य'प्रसनमानसं विधाय, वरस्य अभिलषितार्थस्य दानं 'वरदान'तस्य अभिमुखः प्रहो 'वरदाभिमुखः' तम्, 'स्थित' सञ्जातम्, 'जगुः' नानाविधशपथदानपुरस्सरमुक्तवत्या, यदुत, 'मयं' शीधु, तथेति समुपये, हिंसां प्राणि- वषम्, 'सेवस्व' भजस्व, 'अब्रह्म या' मैथुनं था, 'वाशब्दो' विकल्पार्थः, 'इच्छया' इष्व्या, यदेतेषु त्रिषु तुभ्यं रोचते तदित्यर्थः॥५॥'स' ऋषिः, 'एवम्' अनेन प्रकारेण, 'गदितोऽभिहितः, 'ताभिः' सुरनीभिः, 'यो हिंसाऽब्रह्मणोः, 'नरकहेतुता निरयनिवन्धनताम्, 'आलोच्य स्वशास्त्रानुसारेण निश्चित्य, तथा, 'मयरूपं मदिरास्वभावम, 'चशब्दः' आलोच्येतिक्रियानुकर्षणार्थः, किंविधमित्याह, 'शुद्धानि' निर्दोषाणि, 'कारणानि' निमिसानि गुडघातकीजलप्रभृतीनि, 'पूर्व मद्यावस्थायाः प्राकाले 'यस्य तत्तथा ॥६॥ ततः,"मयं' मदिराम्, 'प्रपद्य तत् पास्यामीत्यङ्गीकृत्य, तस्य विचित्र- चित्रमणिखण्डमण्डित्तपनीयभाजनन्यस्तस्य सौरभ्यातिशयसमाकृष्टषट्पदपटलावनद्धगगनमण्डलस्य करणषट्चरण- चक्रलांपठ्यप्रकृष्टताकारकस्य ताभिःससम्भ्रममुपनीतस्य मद्यस्य भोग आसेवनं तोगस्तस्मात्,'नष्टां'भ्रष्टा, 'धर्मस्य'कुश- लानुष्ठानलक्षणस्य, 'स्थिति'र्व्यवस्था यस्य स तथा,ततश्च, मदात् वित्तविप्लुतिलक्षणात, 'विदंशाथै मद्यपानोपदंशार्थम्, 'अज' छागम्, 'हत्वा' विनाश्य, सर्वमेव निरवशेषमपि यत्ताभिरभिहितमनभिहितं च पापमजपिशितपचननिमित्त- मिन्धनार्थमाराध्यदेवतादारुमयप्रतिमास्फोटनादि तत, 'चकार' कृतवान्, 'स' इत्यसावृषिः ॥७॥ 'ततच' मद्यासेवना- नन्तरं पुनः, 'भ्रष्टसामर्थ्यो' निहततपोवीर्यः, 'स' ऋषिः, 'मृत्वा' प्राणान्परित्यज्य, दुर्गतिं नरकरूपाम्, 'गतः' प्राप्त इति दृष्टान्तः ॥ 'अर्थ' प्रकृतयोजनायाह, 'इत्थम्' अनेन प्रकारेण, 'दोषाकरों' दूषणोत्पत्तिभूमिः, मर्च' मदिरा, विज्ञेयं ज्ञातव्यम्, 'धर्मचारिभिः' कुशलानुष्ठानसेवाशीलैरिति ॥ ८॥ एकोनविंशति(शा)तमाष्टकविवरणं समाप्तम् ॥ १९ ॥ ॥ अथ विंशतितमं मैथुनदूषणाष्टकम् ।। अथ यदुक्तं न च मैथुने दोषः' इति तन्निराचिकीर्षुराह ॥ रागादेव नियोगेन, मैथुनं जायते यतः॥ ततः कथं न दोषाऽत्र, येन शास्त्रे निषिध्यते ॥१॥ (वृत्तिः) रागोऽभिष्वङ्गलक्षणः,अथवा स्नेहरागविषयरागदृष्ठिरागमेदास्त्रिविधो रागः,तत्रायो पत्यादिषु,मितीयः पुंदा- दिरूपः, तृतीयो वादिनां स्वदर्शनपक्षपातरूपः, तत्र 'रागात्' कामोदयरूपात्, 'एक्शब्दो'ऽनाभोगमाध्यस्थ्यादिव्यवच्छे-

क.०
विंशतित-
म मैथुन-
दुषणा-
.
।७०॥
लो. २
दार्थः, 'नियोगेन' अवश्यम्भावेन, अनेन च मैथुने माध्यस्थ्येन प्रवृत्त्यसम्भवोपदर्शनेन मैथुनव्रतस्य निरपवादतामाह,
आह च ॥ "न वि किंचि अणुन्नायं, पडिसिद्धं वा वि जिणवरिंदेहिं ॥ मुत्तुं मेहुणभावं,न तं विणा रागदोसेहिति॥१॥"
मिथुनस्य प्रायः स्त्रीपुरुषबन्छस्य कर्म 'मैथुनम् ,' 'जायते' उपपद्यते, 'यतो' यस्मात्, 'ततः तस्मात्, 'कर्य' केन प्रकारेण,
'न' नैव, 'दोषो' दूषणम् , रागलक्षणस्तजन्यकर्मबन्धलक्षणो घा, 'अत्र' एतस्मिन्मैथुने, 'येन' कारणेन, 'शाने 'नच
मैथुने दोषः' इत्येवलक्षणे ग्रन्थे, 'निषिध्यते' निराक्रियते, त्वया दोष इति गम्यम् , अथवा चकारदर्शनात् येन च यतश्च
शास्त्रे निषिध्यते मैथुनमतः कथं न दोषः अथवा यदि नाम रागाज्जायते मैथुनं तदा जायताम् , कुतोऽत्र दोषसद्भावः,
उच्यते, येन कारणेन शास्त्रे निषिध्यते, राग इत्यनुवर्तते,आह च॥ “को दुक्खं पाविज्जा,कस्स व सोक्खेहिं विम्हओ
हुज्जा ॥ को व न लभेज्ज मोक्खं, रागदोसा जइ न होज्जा॥१॥"अतः शास्त्रनिषिद्धरागपूर्वकस्वान्मैथुने कथं न दोष
इति हृदयम् ॥ प्रयोगोऽत्र, यद्रागजन्य तत्सदोषम् , यथा हिंसाविशेषः, रागजन्यं च मैथुनम् , अतः सदोषमिति ॥१॥
अथ पक्षकदेशासिद्धोऽयं हेतुरिति परमतमाशङ्कमान आह ॥
धर्मार्थ पुत्रकामस्य, स्वदारेष्वधिकारिणः ॥ ऋतुकाले विधानेन, यत्स्यादोषो न तत्र चेत् ॥२॥
(कृत्तिः) धर्मार्थ पुण्यनिमित्तम् , 'पुत्रकामस्य सुतार्थिनः, अपुत्रस्य हि धर्मो न भवति,यदुच्यते ॥"अपुत्रस्य गतिना-
स्ति,स्वर्गो नैव च नैव चातस्मात्पुत्रमुखं दृष्ट्वा पश्चाद्धर्म चरिष्यति।(समाचरेत्)॥१॥” इति। स्वदारेषु स्वकलत्रे,न तुपरकलत्र,
१०३ नापि किश्चिदनुसातं प्रतिषिद्धं वापि जिनवरेन्द्रैः । मुक्तवा मैथुनमावं न तद्विना रागद्वेषाभ्यामिति ॥१॥
१०४ को दुःखं प्राप्नुयात् कस्य वा सौख्यैविस्मयो भवेत् । को वा न लमेत मोक्षं रागद्वेषौ यदि न भवेताम् ॥२॥
॥७०॥

वेश्यायां वा, तदधिगमस्यानर्थहेतुत्वात् , यदाह ॥ "कुलानि पातयत
यत्यष्टौ, परदारानधिगच्छति ॥ स्वयं च नष्टसंस्कारः
षण्ढत्वं लभते मृतः॥१॥"तथा *वृषलीफेनपीतस्य,निःश्वासोपहतात्मनः॥तस्याश्चैव प्रसूतेश्व,निष्कृतिपिपद्यते ॥१॥
तस्याश्चैव प्रसूतेश्च वृषलीप्रसवस्य च निष्कृतिः प्रतिक्रिया शुद्धिरित्यर्थः । 'अधिकारिणों' गृहस्थस्य, न यतेः, तस्य
कलवाद्यभावात् , 'ऋतुकाले' आर्तवसम्भवावसरे, अन्यदा दोषसम्भवात् ,यदाह॥"ऋतुकाले व्यतिक्रान्ते, यस्तु सेवेत
मैथुनम् । ब्रह्महत्याफलं तस्य, सूतकं च दिने दिने॥१॥"विधानेन' स्त्रीशरीरनवनीतदर्भाच्छादनदर्भमणिमूलबन्धनादिना
स्मृतिमार्गाभिहितेन विधिना, 'यत्' मैयुनम् ,'स्यात्' भवेत् , दोषो दूषणम् , 'न' नैव, 'तत्र' मैथुने गतरागप्रवृत्तत्वाछेद-
नादिकारणाश्रितभोजन इवेति, 'चेत्' यदि मन्यसे त्वं परः, अनेन च पक्षकदेशासिद्धता हेतोर्दर्शिता न च मैथुने दोष
इत्यस्य च पक्षस्य विषयविशेषोपदर्शनेनाव्याहतिरभिहितेति ॥२॥ अत्राचार्य उत्तरमाह ॥
नापवादिककल्पत्वा-न्नैकान्ते नेत्यसङ्गतम् ॥ वेदं ह्यधीत्य स्नायाद्य-दधीत्यैवेति शासितम् ॥३॥
(वृत्तिः) धर्मार्थमित्यादिविशेषणोपेतमैथुने न दोष इति यदुक्तं तत्,'न' नैव,कुत इत्याह, 'अपवादो हि विशेषोक्ति-
विधिः, तत्रापवादे भव आपवादिकः, स चासौ कल्पश्चाचार आपवादिककल्प आपवादिकमायं वाऽऽपवादिककल्पम्,
तद्भावस्तत्त्वम् , तस्मात् 'आपवादिककल्पत्वात् , 'व्यसनगतस्य स्वमांसभक्षणवदिति दृष्टान्तोऽभ्यूया, अयमभित्रायः,
यद्यप्यपवादेन स्वमांसाचासेव्यते तथापि तत्स्वरूपेण निर्दोषं न भवति, प्रायश्चित्ताचप्रतिपत्तिप्रसकात्, किं तर्हि गुणा-
तरकारणत्वेन गुणान्तरार्थिना तदाश्रीयत इति, ‘एवं' मैथुनं स्वरूपेण सदोषमप्याकौमारायतित्यपालनासहिष्णुर्गुणा-
* पितुर्गेहे व या नारी रजः पश्यत्यसंस्कृता ॥ भ्रूणहत्या पितुस्तस्याः सा कन्या वृषली स्मृता ॥१॥

अष्टक
..
विंशतित-
में मैथुन-
दूषण
। ७१॥
ग्लो.४
न्तरापेक्षी समाश्रयते, सर्वथा निर्दोषत्वे तु आकुमारत्वाचतित्वपालनोपदेशोऽनर्थकः स्यात् गार्हस्थ्यत्यागोपदेशश्च,
इत्यतः साधूक्तं धर्मार्थादिविशेषणेन मैथुने दोषाभाव आपवादिककल्पस्वात्तस्येति, ततश्च, 'नैकान्तेन' सर्वथा मैथुने
दोष इति यदुक्तं न च मैथुने' इत्यनेन वचनेन इत्येतत् , 'असतिम्' अयुक्तम्, रागादिभावेन कथञ्चित् तस्य सदोष-
स्वात्, धर्मार्थिनोऽपि हि पुंसो मैथुने मेहनविकारकारिणः कामोदयस्य तथाविधारम्भपरिग्रहयोचावश्यम्भावित्वात्, न
च कामोद्रेकं विना मेहनविकारविशेषः सम्भवति भयाद्यवस्थायामिवेति, 'आपवादिककल्पस्वात्' इति कचित्पठ्यते
तत्रैकवाक्यतया व्याख्या कार्या, अथ कथमापवादिककल्पत्वं धर्मार्थादिविशेषणयुक्तमैथुनस्येत्याह, 'वेद' ऋगादिकम्,
'हिशब्दों' वाक्यालङ्कारार्थः, 'अधीत्य पठित्वा, स्नायात्' कलत्रसंग्रहाय स्नानं कुर्यात्, इत्यत्र घेदवाक्ये वेदव्याख्या-
तृभिः, 'यत्' इति यस्मात्, 'अधीत्यैव' वेदं पठित्वैव, नापठित्वा स्नायादित्येवमवधारणम्, 'शासित व्याख्यातमिति॥३॥
विपर्ययमाह॥
स्नायादेवेति न तु य-ततो हीनो गृहाश्रमः ॥ तत्र चैतदतो न्याया-प्रशंसास्य न युज्यते ॥४॥
(वृत्तिः) वेदमधीत्य स्नायादेव'वेदाध्ययनानन्तरं कलत्रसंग्रहाय स्नानं कुर्यादेव, इति एवं नितुन पुनरवधारणं शासितम्,
अत औत्सर्गिको मैथुनपरिहार आपवादिकं मैथुनमित्यभिहितम्, अनेन चापधादिकेऽपि तत्र रागभावसूचनातो रागज-
न्यत्वहेतोः पक्षकदेशासिद्धता परिहृता, अथाधिकृतवाक्यार्थनिगमनायाह, 'यत्' इति यस्मादेवमवधारणविधिः, 'ततः'
तस्मात्कारणात्, 'हीनो' जघन्यः, 'गृहाश्रमो' गृहस्थत्वम्, यत्याश्रमापेक्षयेति गम्यम्, ततः किमित्याह, 'तर' च तस्मि-
पुनर्गृहस्थाश्रमे 'एतत् मैयुनं धर्मार्थादिविशेषणं सम्भवति, तत्रैव दारसंग्रहात् 'अत' एतस्मात्, 'न्यायात्' नीते,
॥७१॥

'प्रशंसा' श्लाघा, 'अस्य' मैथुनस्य, 'न युज्यते' न घटते, यत्याश्रमापेक्षया होनगृहाश्रमसम्भवित्वेन हीनत्वादस्पेति भावः, यत्रोक्तं पुत्रार्थमित्यत्रापुत्रस्य गतिर्नास्तीति, तदयुक्तम्, परमतेनैव तस्य बाधितत्वात्, यदाह॥ "अनेकानि सह- नाणि, कुमारब्रह्मचारिणाम् ॥ दिवं गतानि विप्राणा-मकृत्वा कुलसंततिम्" ॥१॥ इति ॥४॥ अथ यदुक्तं प्रशंसास्य न युज्यते इत्यत्र परमतमाशङ्कमान आह ॥ अदोषकीर्तनादेव, प्रशंसा चेत् कथं भवेत् ॥ अर्थापत्त्या सदोषस्य, दोषाभावप्रकीर्तनात् ॥ ५॥ (कृत्तिः) अदोषो दूषणाभावस्तस्य कीर्तनं "न च मैथुने” इत्यनेन मनुवचनेन संशब्दनम् 'अदोषकीर्तनम् ' 'तस्मादेव' निमित्तान्तरव्यवच्छेदार्थमवधारणम्, 'प्रशंसा' श्लाघा, मैथुनस्य युज्यत इति शेषः, 'चेत् ' यद्येवं मन्यसे, तदा यो दो- पस्तमाह, 'कथं' केन प्रकारेण, न कथञ्चिदित्यर्थः, 'भवेत्' जायेत, प्रशंसेति वर्तते, अर्थापत्त्यावेदं वधीत्य स्नायादिति पूर्वोक्तप्रमाणेन, 'सदोषस्य' पापस्वरूपस्य मैथुनस्य, 'दोषाभावप्रकीर्तनात्' न च मै इत्येवं लक्षणाद्दोषाभावोक्ति- मात्रादेवाप्रमाणकादिति, न हि यदर्थांपत्त्या दोषवदिति निश्चितं तदप्रमाणकेन वचनमात्रेण नषमिति प्रतिपत्तुं शक्यमिति भावः ॥ अथवा प्रशंसाऽस्य न युज्यत इति यदुक्तं, तद्युक्तम्, यतो न मया तत्पशंसितम्, किन्तु निर्दोष- मित्युक्तम्, इत्याशङ्कय परिहरन्नाह, 'अदोषेत्यादि' अदोषकीर्तनमात्रादेव कथं प्रशंसास्य भवतीति चेदिति परमतं, सूरिराह, अर्थापत्त्या' भवति, अथ तामेवाह, 'सदोषस्य दोषाभावप्रकीर्तनात्' प्रशंसा कृता भवतीति ॥६॥ यदुक्तमदोषकोतनात् प्रशंसास्य युक्तेति तत्रादोषतोक्तेरेवाव्याप्यत्वमुपदर्शयन्नाह ॥ तंत्र प्रवृत्तिहेतुत्वा-त्याज्यबुद्धरसम्भवात् ॥ विघ्युक्तेरिष्टसंसिद्धे-रुक्तिरेषा न भद्रिका ॥६॥ न

अष्टक
प्रक००
विंशतित
में मैथुन-
दूषणा.
॥७२॥
गलो. ६
(कृत्तिः) 'उक्तिः' न मांसभक्षणे दोष इत्यादिभणनम्, 'एषा' अनन्तराभिहिता इति धर्मिनिर्देशः, 'न भद्रिका' न
शोभना इति साध्यधर्मनिर्देशः,कुत इत्याह, 'तत्र' मैथुनेर्थापत्या प्रागुपदर्शितदोषे, 'प्रवृत्तिहेतुत्वात्प्राणिनां प्रवर्तन-
निवन्धनत्वादिति हेतुः, प्रयोगश्चैवं या प्राणिनां सदोषपदार्थे प्रवृत्तिहेतुभूतोक्तिः सा न भद्रिका, यथा हिंसानिर्दोष-
तोक्तिः, सदोषमैथुनप्रवृत्तिहेतुधेयं न मांसेत्यादिकोक्तिरिति, प्रवृत्तिहेतुत्वमेव कुत इत्याह, 'त्याज्यबुद्धेरसम्भवात्'
त्याज्यं मैथुनमेवम्भूता बुद्धिस्तस्या असम्भवात् अनुत्पादात्, न मैथुने दोष एतामुक्तिं श्रद्दधानस्य कस्य नाम त्याज्य-
मिदमित्येषा बुद्धिराविरस्तीति त्याज्यबुद्ध्यभावे च को नाम न तत्र प्रवर्तत इति॥त्याज्यबुद्धयसंभव एव कुत इत्याह
विधिविधानमनुष्ठानं मैथुनस्य, तस्योक्तिर्भणितिर्विध्युक्तिस्ततो 'विघ्युक्तः,' को हि नाम मैथुने न दोषोऽस्तीति वचना-
विधेयं मैथुनं न प्रतिपद्यत इति, नन्वनेन वचनेन दोषाभावमात्रमेव मैथुनस्योक्तमिति कथमियं विध्युक्तिः स्यादि-
त्याह, इष्टस्य अनादिमहामोहवासनावासितमानसानां देहिनामभिलषितस्य मैथुनस्येतो. मैथुननिर्दोषताभिधायकवच-
नात् संसिद्धिनिष्पत्तिः इष्टसंसिद्धिस्तत 'इष्टसंसिद्धेः,' को हि तस्य निर्दोषतामधगम्य तदिष्टं 'न निष्पादयति,' इष्टं
चेदं सर्वप्राणभृतामिति, आह च॥ “कामिनीसनिभा नास्ति, देवतान्या जगत्त्रये ॥यां समस्तोऽपि पुंवर्गो,घते मानस-
मन्दिरे ॥१॥” अत उक्तिरेषा न भद्रिकेति व्याख्यातमेव ॥ अथवा उक्तिरेषान भद्रिकेत्यस्यां प्रतिज्ञायां प्रवृत्तिहेतुत्वा-
दयो भिनाश्चत्वारो हेतव इति ॥ ६॥ मैथुनं प्रकारान्तरेण दूषयमाह ॥
प्राणिनां बाधकं चैत-च्छाखे गीतं महर्षिभिः ॥ नलिकातप्तकणक-प्रवेशज्ञाततस्तथा ॥७॥
(वृत्तिः) 'प्राणिनां जीवानाम्, बाधकं उपघातकम्, चशब्दो दूषणान्तरसमुच्चयार्थः, 'एतत्' मैथुनम्, शासो व्याख्या-
॥७२॥

प्रज्ञस्याख्यपञ्चमाके, 'गीत' गदितम्, 'महर्षिभिः' महामुनिभिः, श्रीवर्धमानस्वामिप्रमुखैः, कथं बाधकं गीतमित्याह, नलिकायां वेणुपादिरूपायां तप्तस्याग्निना दीप्तस्य कणकस्य लोहशलाकाविशेषस्य प्रवेशः प्रक्षेपः स एव ज्ञातमुदा- हरणं ततो नलिकातप्तकणकप्रवेशज्ञाततः, 'तथा' इति तत्प्रकारात्, रुतभृतनलिकेति विशेषणयुक्ता, तथाहि ॥ "मेहुणं भन्ते सेवमाणस्स केरिसए अस्संजमे कज्जही गोयमा से जहा नामए के पुरिसे बूरनलियं वा स्यनलियं वा तत्तेणं अओकणएणं समहिद्धंसेज्झा, मेहुन्न सेवमाणस्स एरिसए णं अस्संजमे कज्जइ” इति ॥७॥ दूषणान्तरमासवचनप्रसिद्ध मैथुनस्य ब्रुवाणः प्रकरणोपसंहारायाह ॥ मूलं चैतदधर्मस्य, भवभावप्रवर्धनम् ॥ तस्मादिषान्नवत्त्याज्य-मिदं मृत्युमनिच्छता ॥ ८॥ (वृत्तिः) 'मूल कारणम्, 'चशब्दः' समुच्चये, 'एतत्' मैथुनम्, 'अधर्मस्य पापस्य, यत एवमत एव भवभावप्रवर्धनम्, भवभावस्य संसारसत्तायाः, अथवा भवे संसारे ये भावा उत्पादास्तेषाम्, भवहेतूनां वा भावानां परिणामानां प्राणि- वधादिक्रोधादीनाम् प्रवर्धनम्' वृद्धिकरमिति विग्रहः,उक्तं च ॥"मूलमेयमहम्मस्स,महादोससमुस्सयं ॥ तम्हा मेहुणसंस- ग्गि, णिग्गन्या वज्जयन्ति थ६ ॥१॥” यस्मादेवम्, 'तस्मात्' कारणात्, 'विषान्नवत्' हालाहलमिश्रभोजनमिव, त्याज्यं ५. मैथुन भदन्त सेवमानस्य(नेन) कीदृशोऽसंयमः क्रियते, गौतम, तद्यथा नाम कश्चित् पुरुषः खूरनलिकांचा सतनलिकां वा तप्तेन अयःकणकेन समभिध्वंसयेत मैथुन सेवमानस्य (नेन) ईशोऽसंयमः क्रियते ॥ ६. मूलमेतवधर्मस्य महादोषसमुच्छ्रयः ॥ तस्माम्मैथुनसंसर्ग निर्मन्था वर्जयन्ति ॥

२१ धर्म.
याश्रय-
श्लो
१-२
परिहार्यम्, 'मृत्यु' मरणम्, 'अनिच्छता' अनभिलषता, अमुमूर्षुणा यथा विषान्नं त्यजनीयमेवं मैथुनं त्याज्यमिति
भाव इति ॥८॥ विंशतितमाष्टकविवरणं समासम्॥ २०॥
॥ अथ एकविंशतितमं धर्मविचारे सूक्ष्मबुद्धयाश्रयणाष्टकम् ॥
एवं कुतीथिकाननुशास्य स्वयूथ्याननुशासनार्थमाह ॥ अथवा सदोषमपि मांसायासेवनं स्थूलधुद्धित्वात्
कुतीर्थिकैरदोषतयावसितमिति प्रागुपदर्शितमथ स्थूलबुद्धित्वादेव धर्मार्थिनोऽपि धर्मव्याघातः स्यादिति धर्मविचारे
सूक्ष्मबुद्धेराश्रयणीयतामुपदिशन्नाह ॥
सूक्ष्मबुद्धया सदा ज्ञेयो, धर्मो धर्मार्थिभिर्नरैः ॥ अन्यथा धर्मबुद्धयेव, तद्विघातः प्रसज्यते॥१॥
(वृत्तिः) 'सूक्ष्मबुद्धया' निपुणमत्या, 'सदा' सर्वकालम्, 'ज्ञेयो' ज्ञातव्यः, कोऽसावित्याह, धर्मो दुर्गतिप्रपातरक्षणे हेतुः,
कैरित्याह, 'धर्मार्थिभिः' धर्मश्रद्धालुभिः, 'नरैः' मानवैः, 'अन्यथा' स्थूलघुद्धया धर्मविवेचने कुतीथिकानामिव, 'धर्मषु-
द्वथैव धर्माभिप्रायेणापि, 'तविघातो' धर्मव्याहतिः, 'प्रसज्यते' प्राप्नोतीति ।१॥ एतदेव दर्शयन्नाह ।।
गृहीत्वा ग्लानभैषज्य-प्रदानाभिग्रहं यथा ॥ तदप्राप्तौ तदन्तेऽस्य, शोकं समुपगच्छतः॥ २ ॥
(वृत्तिः) 'गृहीत्वा' आदाय, 'ग्लानाय' अशक्ताय 'भैषज्यप्रदाने' औषधवितरणविषये 'योऽभिग्रहः' प्रतिज्ञा, ग्लानाय
मया भैषज्यं दातव्यमित्येवरूपः, 'स' तथा तम्, 'यथा' इत्युदाहरणोपन्यासार्थः, 'तस्य' ग्लानत्वाभावेन ग्लानभैषज्य-
प्रदानस्य, 'अप्राप्तिः' असम्भवः 'तदप्राप्तिः तस्याम् ,तस्य ग्लानभैषज्यप्रदानाभिग्रहस्य अन्तःकालावधिपूर्त्या पर्यवसानं
॥७३॥

'तदन्तः' तत्र, 'शोक' उवगम्, 'समुपगच्छतो' व्रजतो अभिग्रहीतुर्धर्मबुद्धयाप्यधर्मों भवति,तथा सर्वत्रेति प्रकृतमिति ॥२॥शोकमेव दर्शयति ॥ गृहीतोऽभिग्रहः श्रेष्ठो, ग्लानो जातो न च क्वचित् ॥अहो मेऽधन्यता कष्टं, नसिद्धमभिवाञ्छितम्॥३॥ (वृत्तिः) 'गृहीतः' आत्तः, 'अभिग्रहः' उक्तरूपा प्रतिज्ञा, 'श्रेष्ठः' अतिप्रशस्यः, 'ग्लानों' रोगवान्, 'जातो' भूतः, 'न च' न पुनः, 'कचित् देशे काले वा, एवं चाभिग्रहस्य विफलतागमनात्, 'अहो' इति विस्मये आमन्त्रणेवा, 'मैं' मम, धनं लब्धा धनं वा (अथवा) अर्हतीति धन्यस्तद्भावस्तत्ता तन्निषेधो 'अधन्यता,' 'कष्टं' इति खेदवचनम्, 'न सिद्ध' न निष्पन्नम्, 'अभिवाञ्छितं' अभिमतमिति ॥ ३ ॥ प्रकृतयोजनायाह ॥ एवं ह्येतत्समादानं, ग्लानभावाभिसन्धिमत् ॥ साधूनां तत्त्वतो यत्तद्, दुष्टं ज्ञेयं महात्मभिः ॥ ४ ॥ (वृत्तिः) एवम्' अनेन प्रकारेणाभिग्रहविषयाप्राप्तौ शोकगमनलक्षणेन, हिशब्दोऽधिकृताभिग्रहस्य धर्मव्याघातरूपताभा- वनार्थः, एतस्य ग्लानभैषज्यप्रदानाभिग्रहस्य समादानं ग्रहणं 'एतत्समादानम्' यच्छन्दोऽत्र द्रष्टव्यः, 'यत्' यस्मात्, ग्लानभावे रोगवश्वेऽभिसन्धिरभिप्रायो “यदि कश्चित्साधुग्लानो भवति तदा शोभनं स्यादस्मदर्भिग्रहस्य सफलत्वप्रा- प्तेः" इत्येवं लक्षणो विद्यते यत्र तत् 'ग्लानभावाभिसन्धिमत्' 'साधूनां मुनीनाम् , एतत्समादानमिति योगः, अथवा साधूनां ग्लानभावाभिसन्धिमदिति योगः, 'तत्त्वतः' परमार्थवृत्त्या, 'तत्' इति तस्मात्कारणात् , दुष्टं दोषवत्, ग्लानभावाभिसन्धिमत्त्वेन कर्मबन्धहेतुत्वात् , 'ज्ञेयं ज्ञातव्यम् , 'महात्मभिः' प्रशस्यस्वभावैरिति ॥४॥ एवमर्थापत्त्या दोषप्राप्तिरन्यैरप्युपलब्धेति दर्शयन्नाह ॥

अष्टक
२१ धर्म.
यात्रय
णाष्टकम्
।७४॥
ग्लो
लौकिकैरपि चैषोऽर्थो, दृष्टः सूक्ष्मार्थदर्शिभिः॥ प्रकारान्तरतः कैश्चि-दत एतदुदाहृतम् ॥ ५ ॥
(वृत्तिः) लोके विदिता 'लौकिका' वाल्मीकिप्रभृतयः, तैरपि च, न केवलं जैनैरेव, एषोऽनन्तरोदितः, 'अर्थो' अर्था-
पत्तिजनितदोषलक्षणः, 'दृष्टः' उपलब्धः, किम्भूतैरित्याह, 'सूक्ष्मार्थदार्शभिः'पटुदृष्टिभिःज्ञेयवस्तुविवेचकैः न वै पति-
स्थूलबुद्धयोऽर्थापत्तिगम्यानेवंविधानान ज्ञातुमलं भवन्ति, ननु मिथ्यादृशां कथं सूक्ष्मार्थदर्शित्वम्, उच्यते, मत्यज्ञाना-
धरणादिक्षयोपशमविशेषात् , अज्ञानं तर्हि तेषां कथम् ,अत्राप्युच्यते सदसतोरविशेषात् ,आह च,“सयसयविसेसणाओ"
गाहा॥" (अष्टक ९ श्लो० ६ वृत्तौ) प्रकारान्तरतः' अस्मदुक्तप्रकारात् ग्लानभैषज्यदानाभिग्रहलक्षणादन्येन प्रकारेण,
'कैचित्' वाल्मीश्यादिभिरेव,न सर्वैः, कथं तैदृष्टोऽयमित्यवसितमित्याह, 'यतो' यस्मात्, एतत् ' वक्ष्यमाणम् , 'उदाहृतं'
अभिहितमिति॥५॥
अङ्गेष्वेव जरां यातु, यत्त्वयोपकृतं मम ॥ नरः प्रत्युपकाराय, विपत्सु लभते फलम् ॥ ६ ॥
(वृत्तिः) किल सुग्रीवेण तारावाप्तौ रामदेव एवमुक्तः, अनेष्वेव मदीयगात्रेष्वेव, 'जरी' जरणपरिणामम् , 'यातु'
गच्छतु, मा प्रत्युपकारबारेण तियातनीयं भवस्वित्यवधारणार्थः, किं तत्, वालेः सकाशात् तारां विमोच्य मम
तदर्पणेन, 'त्वया' भवता, 'उपकृतम्' उपकारः कृतः, 'मम' इत्यात्मानं सुग्रीवो निर्दिशति, तस्मात् किमित्येवमित्याह,
'नर' उपकारकारिमानवः, उपकारं प्रतीत्याश्रित्योपकारः तस्मै 'प्रत्युपकाराय' उपकृतनरेण क्रियमाणाय, सम्पद्यते यत्
फलम् , 'विपत्सु' व्यसनेषु सत्सु, 'लभते' प्राप्नोति, तत् ‘फलम्' उपकारकारिक्रियायाःसाध्यम्, अयमभिप्रायः, उप-
कारको व्यसनगत एव उपकारक्रियायाः फलमुपकृतेन कृतं लभते, न पुनरन्यदा व्यसनाभावे निरवसरत्वेन तदसम्भवादिति
॥ ७४॥

' किमुक्तं भवति, मा त्वमापदं प्राप यस्यामहं भवन्तमुकपरोमीति। अन्ये त्वाः, 'नरः' उपकृतमानवः प्रत्युप- कारार्थ विपत्सु'उपकारकारिव्यसनेषु, लभते फलं'फलहेतुत्वावसरमिति ॥६॥ एवं तावद्धर्मार्थप्रवृत्तावपि धर्मव्याघातो भवत्यनिपुणषुद्धीनां ग्लानभैषज्याभिग्रहप्रवृत्ताविवेति समर्थितम्, अधुनैवमेव सर्वास्वपि प्रवृत्तिष्विति दर्शयन्नाह ॥ एवं विरुद्धदानादी, हीनोत्तमगतेः सदा ॥ प्रव्रज्यादिविधाने च, शास्त्रोक्तन्यायबाधिते ॥७॥ द्रव्यादिभेदतो ज्ञेयो, धर्मव्याघात एव हि ॥ सम्यग्माभ्यस्थ्यमालम्ब्य, श्रुतधर्मव्यपेक्षया ॥८॥ (वृत्तिः)यथाग्लानभैषज्यदानाभिग्रहे धर्मबुद्धया कृतेऽपिबुद्धिदोषात् धर्मव्याघातःप्रसज्यते (जति), एवं अनेनैव न्यायेन, विरुद्धस्य शास्त्रे विनिवारितस्य जीवोपघातहेतुत्वाद्रे(इ)यद्रव्यस्याधाकर्मादिदोषदृषितस्य माष(मांस)तिलादेर्वा, विरुद्धाय वासदोषत्वेन शास्त्रनिराकृताय पात्राय, दानं वितरणं विरुद्धदानम्, तदादिर्यस्य शीलतपोभावनाधर्मस्य गुरुविन- यदेवतापूजनादेर्वा स 'विरुद्धदानादिः' तत्र, द्रव्यादिभेदतो धर्मव्याघात एव ज्ञेय इति योगः,कुत इत्याह,हीनस्य गुण- वियुक्तस्य देयद्रव्यस्य पात्रस्य वा उत्तम प्रधानं एतदिति गतिरवगमो बोधो हीनोत्तमगतिः ततोहीनोत्तमगतेः,' 'सदा' सर्वदा, शास्त्रनिराकृतत्वेन हि हीनमपि देयं पात्रं चोत्तममिति बोधविपर्ययादनवगच्छन् यदा दाने प्रवर्तते तदा धर्मस्य व्याघातः स्फुट एवेति ॥ दातव्यद्रव्यविरुद्धता च॥ "अन्नाईणं सुद्धाण, कप्पणिज्जाण देसकालजुयं ॥ दाणं जई- णमुचियं,गिहीण सिक्खावयं भणियंग॥१॥"इत्येतदानविशेषणविपर्ययादवसेया ॥पात्रविरुद्धता पुनरेवम्॥ “सीलब्धय- रहियाण, दाणं,जं दिज्जई कुपत्ताणं ॥ तं खलु धोवइ वत्थं,रुहिरकयं लोहितेणेवः ॥"तथा प्रव्रज्यादीनां सर्वविरति- ७. अन्नादीनां शुद्धानां कल्पनीयानां देशकालयुतम् । दानं यतिभ्य उचितं गृहिणां शिक्षाव्रतं भणितम् ॥ ८. शीलबतरहितानां (तेभ्यो) दानं यहीयते कुपात्राणाम् (त्रेभ्यः) । तत् खलु धाव्यते धवं रुधिरकृतं लोहितेनैव ॥

२१ धर्म.
००
सूक्ष्मबुद्ध-
याप्रय-
णाष्टकम्
लो
प्रतिपत्तिप्रभृतीनां विधानं करण 'प्रव्रज्यादिविधानम्,' आदिशब्दादेशविरत्यादिग्रहः, 'तत्र च' न केवलं विरुद्ध-
दानादावेव, किम्भूते प्रव्रज्यादिविधान इत्याह, 'शास्त्रोक्तन्यायबाधिते' आगमाभिहितनयनिराकृते, हीनोत्तमगतेरिति
हेतुरिहापि वर्तते धर्मव्याघातो ज्ञेय इत्येतदत्रापि सम्बन्धनीयम् तत्र प्रव्रज्यादिविधाने शास्त्रोक्तोऽयं न्याय:॥"निय-
यसहावालोयण-जणवायावगमजोगसुद्धीहिं॥ उचियसं नाऊणं,निमित्तओसह पवजार॥१॥"तथा “पव्वजाए जोग्गा,
आरियदेसम्मि जे समुप्पन्ना ॥ जाइकुलेहिं विसिट्ठा, तह खीणप्पायकम्ममला ॥१॥” इत्यादि ॥ देशविरतौ पुनः॥
गुरुमूले सुयधम्मो,संविग्गो इत्तरं वइयरं वावज्जेत्तुतओसम्म, वज्जेइ इमे अईयारे॥१॥"जिनदीक्षायांतु“दीक्खाए
घेव रागो, लोगविरुद्धाण घेव चागोत्ति ॥ सुंदरगुरुजोगो विय, जस्स तओ एस्थ उचिओति॥१७॥
एतबाधा च एतद्विपर्ययादिति, द्रव्यादिभेदतो'द्रव्यक्षेत्रकालभावविशेषानाश्रित्य,विरुद्धदानादौ प्रव्रज्यादिविधाने च, ज्ञेयो'
ज्ञातव्यः, धर्मव्याघात एवं' धर्मवाधैव,न तु धर्माराधनम्,तत्र विरूद्धदाने द्रव्यतो धर्मव्याघातो यथैषणीयत्वेनाविरुद्धद्रव्ये
कूरादौसाधुसंस्तरणहेतौ सत्यपि अनेषणीयतया विरुद्धमत एव हीनमुत्तममिति वुद्धया ददता,एवं क्षेत्रतोऽकान्तारादिक्षेत्रे
कालतः सुभिक्षकाले, भावतस्तु अग्लानावस्थायाम्, उक्तं च ॥ "संथरणम्मि असुद्धं, दोण्ह वि गेण्हन्तदेन्तयाणहियं ॥
९. निजकस्वभावालोचनजनवादावगमयोगशुद्धिभिः ॥ उचितत्वं ज्ञात्वा निमित्ततः सदा प्रवर्तेत ॥
१०. प्रव्रज्याया (यै) योग्याः आर्यदेशे ये समुत्पन्नाः । जातिकुलैर्विशिष्टाः तथा क्षीणप्रायकर्ममलाः ॥
११. गुरुमूले श्रुतधर्मः संविग्न इत्वरं वा इतरं (सर्वकालं) वा । वर्जयित्वा ततः सम्यग वर्जयति इमानतिवारान् ॥
१२. दीक्षायामेव रागो लोकविरुद्धानामेव त्याग इति । सुन्दरगुरुयोगोऽपि च यस्य सोऽनोचित इति ॥१॥
॥७५॥

आउरर्दिछन्तेणं, तं चैव हियं असंथरणे॥१॥'तथा प्रवज्यादिविधाने औत्सर्गिकशास्त्रबाधिते द्रव्यतो धर्मव्याघातो यथा,
शास्त्रनिराकृतं नपुंसकादिकं जीवद्रव्यं प्रवाजयतः, क्षेत्रतोऽकान्तारादिक्षेत्रे, कालतः सुभिक्षकाले, भावतः स्वस्थावस्था.
यामिति, हिशब्दः स्फुटार्थः, कथं धर्मव्याघातो ज्ञेय इत्याह, 'सम्यक् अविपरीतम्, 'माध्यस्थ्य' अनाग्रहत्वम्, 'आल-
म्न्य' आश्रित्य, तदपि न स्वरुच्या किन्तु 'श्रुतधर्मव्यपेक्षया' आगमापेक्षया, न तु तदनपेक्षया इति ॥८॥
॥ एकविंशतितमाष्टकविवरणं समाप्तम् ॥२१॥
॥ अथ द्वाविशतितमं भावशुद्धिविचाराष्टकम् ॥
अथ विरुद्धदानादावपि भावशुद्धधर्म एव न तु तद्व्याघात इत्यत आह ॥
भावशुद्धिरपि ज्ञेया, यैषा मार्गानुसारिणी ॥ प्रज्ञापनाप्रियात्यर्थ, न पुनः स्वाग्रहात्मिका ॥१॥
(वृत्तिः) भावशुद्धिः' मनसोऽसंक्लिश्यमानता या परैर्विरुद्धदानादौ धर्मव्याघातपरिहारनिवन्धनतया कल्पिता सापि, न
केवलं धर्मव्याघात एव ज्ञेय इति 'अपि'शब्दार्थः, ज्ञेया ज्ञातव्या, 'या एषा' वक्ष्यमाणस्वरूपा नान्या, तामेवाह,
मार्ग जिनोक्तज्ञानादिकं मोक्षपथमनुसरत्यनुगच्छतीत्येवंशीला 'मार्गानुसारिणी,' अथ परो ब्रूयात, सैषाममेत्यत्राह,
प्रज्ञापना आगमार्थोपदेशनं सा प्रिया वल्लभा यस्यां भावशुद्धौ सा 'प्रज्ञापनाप्रिया, 'अत्यर्थे अतिशयेन, उक्तस्वास्थ
व्यतिरेकमाह, 'न' नैव, पुनःशब्दः पूर्वोक्तार्थापेक्षया प्रकृतार्थविलक्षणताप्रतिपादनार्थः, स्वः स्वकीयो न तु शास्त्रीया,
१३. संस्तरणेऽ शुद्धं द्वयोरपि गृहहदतोरहितम् । आतुरदृष्टान्तेन तदेव हितमसंस्तरणे ॥१॥

१२. भाव-
कि००
स पासावाग्रहवार्थाभिनिवेशः स्वाग्रहास एवात्मा स्वभावो यस्याःसा स्वाग्रहात्मिकेति॥१॥अथ कस्मात् स्वाग्रहात्मि-
कापि'भावशुद्धिर्न भवतीति,अत्रोच्यते भावशुद्धिविपर्ययभूतभावमालिन्यरूपत्वात्स्वाग्रहस्येत्येतत् श्लोकत्रयेणदर्शयन्नाह शुद्धिवि-
रागो द्वेषश्च मोहश्च, भावमालिन्यहेतवः ॥ एतदुत्कर्षतो ज्ञेयो, हन्तोत्कर्षोऽस्य तत्त्वतः ॥२॥ चाराष्टकम्
(वृत्तिः)रागोऽभिष्वङ्गलक्षणः, द्वेषोऽप्रीतिरूपः, 'मोहच' अज्ञानलक्षणश्च, 'चशब्दो समुच्चयायौँ, एते त्रयोपि'भावमा-
लिन्यहेतवः' आत्मपरिणामाशुद्धि नियन्धनानि स्वाग्रहादिभावकारणानीति गर्भः, एतेषां रागादीनां उत्कर्ष उपचय लो.
एतदुत्कर्षस्तत 'एतदुत्कर्षतो, 'ज्ञेयो' ज्ञातव्यः, 'हन्त' इति प्रत्यवधारणार्थः कोमलामन्त्रणार्थों था, 'उत्कर्ष उपचयः,
'अस्य' भावमालिन्यस्य स्वाग्रहादिरूपस्य, 'तत्त्वतः' परमार्थवृत्त्येति ॥२॥ ततः किमित्याह ॥
तथोत्कृष्टे च सत्यस्मिन्, शुद्धि शब्दमात्रकम् ॥ स्वबुद्धिकल्पनाशिल्प-निर्मितं नार्थवद्भवेत् ॥३॥
(वृत्तिः) तथा' तेन प्रकारेण रागागुत्कर्षलक्षणेन, 'उत्कृष्टे' उत्कटे, 'चशन्दः' पुनरर्थः, 'सति भवति, अस्मिन् रागादि-
हेतुके स्वाग्रहादिरूपे भावमालिन्ये, 'शुद्धिः' शुद्धत्वम् , भावस्येति गम्यते, वैशब्दो वाक्यालङ्कारार्थः,शब्द एवाभिधान-
मेव शब्दमानं तदेव कुत्सितम् 'शब्दमात्रक' निरभिधेयमित्यर्थः, मालिन्योत्कर्षे सति नास्ति भावशुद्धिर्मालिन्यस्य
तविरुद्धरूपत्वादग्निसद्भावे शीतवदिति भावना । अथ मालिन्ये सत्यपि शुद्धिरिष्यते ततः कथं शब्दमात्रत्वमस्या
इत्यत्राह, स्वबुद्धया प्रमाणापरतन्त्रया मस्या कल्पना क्लूप्तिः सैव शिल्पं चित्रादिकौशलं तेन निर्मित विरचितं स्वधु-
द्धिकल्पनाशिल्पनिर्मितं यच्छब्दरूपं तदिति गम्यम्, 'न' नैव, 'अर्थवत्' साभिधेयम्, 'भवेत्' जायेतेति ॥ ३ ॥
अथ स्वाग्रहस्य भावमालिन्यरूपतां स्पष्टयन्नाह ॥
॥७६॥

न मोहोद्रिक्तताऽभावे, स्वाग्रहो जायते कचित् ॥ गुणवत्पारतन्त्र्यं हि, तदनुत्कर्षसाधनम् ॥ ४॥ (वृत्तिः)'न'नैव,मोहस्याज्ञानस्योपलक्षणत्वात् रागद्वेषयोश्वोद्रिक्तता उद्रेकस्तस्या अभावः अविद्यमानता मोहोद्रिक्तताऽ- भावस्तत्र 'मोहोद्रिक्तताभावे,' स्वाग्रहोऽनागमिकार्थाभिनिवेशो भावशुद्धिविपर्ययलक्षणः, 'जायते भवति, चित्' कुत्रचिदपि वस्तुनि । इदमुक्तं भवति, मोहोत्कर्षजन्यत्वात्स्वाग्रहों भावमालिन्यम् ,मोहोत्कर्षजन्यत्वं चास्य “रागो वेषश्च” (श्लो०-२) इत्यादिवचनप्रामाण्यात् , तदेवं स्वाग्रहस्य भावमालिन्यरूपत्वादावशुद्धिर्न तदात्मिकेति स्थितम् । अथ मोहहासस्य स्वाग्रहाभावहेतोः क उपाय इत्याह, गुणवतां विद्यमानसम्यग्ज्ञान क्रियागुणानां पारतन्त्र्यमधीनत्वं 'गुणवत्पारतन्त्रयम्,' हिशब्दः पुनरर्थः, गुणवत्पारतन्त्र्यं पुनः तस्य मोहस्यानुत्कर्षों हासस्तस्य साधनं कारणं तदनु- स्कर्षसाधनम्,' दृश्यते यागमस्यागमविदां वा पारतन्त्र्यान्मोहानुत्कर्ष इति गुणवत्पारतन्त्र्यस्य मोहानुत्कर्षसाधकत्वमागमज्ञाऽऽचरितेन समर्थयन्नाह ॥ अत एवागमज्ञोऽपि, दीक्षादानादिषु धुवम् ॥ क्षमाश्रमणहस्तेने-त्याह सर्वेषु कर्मसु ॥५॥ (कृतिः) यत एव कारणात् गुणवत्तारतलयं मोहानुत्कर्षस्य साधकम् ,'अत एवं'एतस्मादेव कारणात्, 'आगमज्ञोऽपि' आसवचनवेद्यपि सन्, आस्तामनागमज्ञः, 'दीक्षादानादिषु' प्रव्रज्यावितरणप्रभृतिषु, आदिशब्दादुदेशसमुद्देशादिषु, कर्मस्विति योगः, धुर्व' निश्चितम् , 'क्षमाश्रमणहस्तेन' सारुकरेण, न स्वातन्त्र्येण, 'इति' एवंरूपममिलापम्, 'आह' ब्रूते, दीक्षादिदाता मोहानुत्कर्षार्थमेष, 'सर्वेषु', समस्तेषु कर्मसु'व्यापारेष्विति, तस्माद्गुणवत्पारतन्त्र्यादेव मोहानुत्कर्ष- लक्षणा भावशुद्धिनान्ययेति ॥५॥ एतदेवाह ॥ R

२२.भाव-
शुद्धिवि-
बाराष्टकम्
श्लो.
इदं तु यस्य नास्त्येव, स नोपायेऽपि वर्तते ॥ भावशुद्धेः स्वपरयो-गुणायज्ञस्य सा कुतः॥६॥
(वृत्तिः) 'इदम्' अनन्तरोदितं गुणवत्पारतन्यम् , 'तुशब्दः' पुनरर्थः, 'यस्य' प्राणिनः, 'नास्त्येव' न विद्यत एव, स'
प्राणी, न नैव, उपायेऽपि हेतावपि, वर्तते,'आस्तां भावशुद्धौ,गुणवत्पारतन्ध्यस्यैव तदुपायत्वात् , कस्यानोपायेऽपि वर्तत'
इत्याह, 'भावशुद्धेः' परिणामशुद्धे, कुत एतदित्याह, यस्मात 'स्वपरयो' आत्मेतरयोर्विषये 'गुणायज्ञस्य' 'सा'
भावशुद्धिः, 'कुतः,' न कुतोऽपि, नास्तीत्यर्थः, अयमभिप्रायः, यो हि गुणवत्पारतन्ध्ये न वर्तते स गुणवणान्
स्वगतगुणदोषांश्च न जानाति, कथमन्यथा गुणवत्परतन्त्रो न भवति, यश्च तान जानाति तस्य मोहोपहतबुद्धित्वान्नास्ति
भावशुद्धिस्तस्या मोहानुत्कर्षरूपत्वादिति ॥६॥ अथ यादृश्यां भावशुद्धौ धर्मव्याघातो न भवति तां लक्षयितुमाह ॥
तस्मादासन्नभव्यस्य, प्रकृत्या शुद्धचेतसः ॥ स्थानमानान्तरज्ञस्य, गुणवद्बहुमानिनः ॥७॥
औचित्येन प्रवृत्तस्य, कुग्रहत्यागतो भृशम् ॥ सर्वत्रागमनिष्ठस्य, भावशुद्धिर्यथोदिता॥ ८॥
(वृत्तिः) यस्माद् गुणदोषानभिज्ञस्य भावशुद्धिर्न भवति, तस्मात्'कारणात् ,अथवा तस्माद् गुणवत्पारतन्त्रयात्, आसनो
मुक्तनिकटवर्ती स चासौ भव्यश्च मुक्तिगमनयोग्य आसनमव्यः' तस्य, भाषशुद्धिरिति सम्बन्धः, तथा, 'प्रकृत्या
समावेनैव 'शुद्धचेतसो असंक्लिष्टमानसस्य, रागादीनामपचीयमानत्वात् , तथा, स्थानं चाचार्योपाध्यायादिकं गुणास्पदं,
मानचैतस्यैव पूजा स्थानमानौ तयोः स्वजात्यपेक्षया अन्तरं विशेषस्तं जानातीति तज्ज्ञस्तस्य 'स्थानमानान्तरज्ञस्य',
इदमुक्तं भवति आचार्योपाध्यायादिकस्य स्थानस्य च तथा तद्विषये मानस्य च यो विशेष उत्समोसमतरमहाफलरतरादि-
लक्षण इदमस्योचितमिदं चास्येत्येवंरूपस्य (च)तज्ज्ञस्य,अत एव गुणवद्वहुमानिनास?णपक्षपातिनः,तथा स्थानमानान्त-
,
॥७७॥

रज्ञस्य गुणवहहुमानिनोऽपि सतः 'औचित्येन' यथागुणं यथायोग्यमिति यावत्, 'प्रवृत्तस्य' व्यापूतस्य विधेयानुष्ठानेषु,
'कुग्रहत्यागतो, मिथ्यावासनाव्यपोहेन, 'भृशम्' अत्यर्थम् , 'सर्वत्र' समस्तेषु घ्यक्षेत्रकालभावेषु विधिषु, 'आगमनि-
प्ठस्य आप्तवचनप्रमाणस्य, किमित्याह, 'भावशुद्धिः' परिणामशुद्धता, 'यथोदिता' पारमार्थिकी,भवति, य या(था)
धर्मव्याघातो न जायते, उक्तविशेषणाभावे तु या सा पुनरयथोदितेति ॥७-८॥वाविंशतितमाष्टकविवरणं समासम् ॥
॥ अथ त्रयोविंशतितमं शासन(स्त्र)मालिन्यनिषेधाष्टकम् ॥
धर्मार्थिना साभावशुद्धिर्विधेयेत्युक्तम् , अथ तामिच्छता शासनमालिन्यं सर्वथा रक्षणीयमन्यथा महानर्थ इति दर्शयनाह॥
यः शासनस्य मालिन्ये-ऽनाभोगेनापि वर्त्तते । स तन्मिथ्यात्वहेतुत्वा-दन्येषां प्राणिनां ध्रुवम् ॥१॥
बध्नात्यपि तदेवालं, परं संसारकारणम् ॥ विपाकदारुण घोरं, सर्वानर्थविवर्धनम् ॥ २॥
(वृत्तिः) 'या' कोऽपि श्रमणादिः, 'शासनस्य' जिनप्रवचनस्य, 'मालिन्ये लोकविरुद्धाचरणेनोपघाते, आह च॥
छक्कायदयावन्तो वि,संजतो दुल्लभं कुणइ बोहिं ॥आहारे नोहारे,दुगुंछिए पिंडगहणे या॥१॥” 'अनामोगेनापि' अज्ञा-
नेनापि किंपुनराभोगेनापि, वर्तते'व्याप्रियते,'स'प्राणी,तेनाजिनशासनमालिन्येन करणभूतेन मिथ्यात्वहेतुर्विपर्यस्तबोध-
जनकातन्मिथ्यात्वहेतुः'तत्त्वम्, अथवा तस्मिन् जनशासनविषये मिथ्यात्व भावहेतुत्वं मिथ्यात्वजनकत्वं तन्मिथ्या-
स्वहेतुत्वं तस्मात् तन्मिथ्यात्वहेतुत्वात, केषां मिथ्यात्वहेतुत्वात् ? केषां मिथ्यात्वजनकस्वादित्याह, अन्येषां आत्मव्यति-
१४. षट्कायदयावानपि, संयतः दुर्लभं करोति बोधिम् ॥ आहारे नीहारे जुगुप्सिते पिण्डग्रहणे च ॥२॥

२३.शा- समालि- न्यनिषे- वाष्टकम् लो. ३ रिक्तानां ये हि तस्यासदाचारेण जिमशासनं हीलयन्ति तेषाम्, 'प्राणिना' जीवानाम्, 'ध्रुवं' अवश्यतया, 'बन्धात्यपि' स्वात्मप्रदेशेषु सम्बन्धयत्यपि न केवलं, तेषां तज्जनयति, 'तदेव' मिथ्यात्वमोहनीयकर्मैव यदन्यप्राणिनां जनितं न स्वन्यच्छुभं कर्मान्तरम्, 'अलं' अत्यर्थम्, निकाधनादिरूपेण, 'पर' प्रकृष्टम्, 'संसारकारणं भवहेतुम्, 'विपाकदारुणं' दारुणविपाकम्, 'घोर' भयानकम्, 'सर्वानर्थविवर्धन' निखिलप्रत्यूहहेतुम् ॥ ननु सम्यग्दृष्टिर्न मिथ्यात्वं बध्नाति मि- थ्यात्वहेतुकत्वात् मिथ्यात्वप्रकृतेः,. अत्रोच्यते,शासनमालिन्योत्पादनावसरे मिथ्यात्वोदयान्मिथ्यादृष्टिरेवासावतो मिथ्यात्ववन्ध इति ॥१-२॥उक्तविपर्यये गुणप्रतिपादनायाह ॥ यस्तून्नती यथाशक्ति, सोऽपि सम्यक्त्वहेतुताम् ॥ अन्येषां प्रतिपद्येह, तदेवाप्नोत्यनुत्तरम् ॥३॥ (वृत्तिः) 'यस्तु' यः पुनः प्राणी, 'उन्नतौ' प्रभावनायाम्, शासनस्येति वसते, 'यथाशक्ति' सामर्थ्यानुरूपम्, वर्तते इत्यनुवर्तते, तत्र साधुः प्रावनिकत्वादिना शासनोन्नती वर्तते, यदाह ।। पावयणी'धम्मकहीर,वादी नेमित्तिओ तबस्सीय ॥ विज्जा सिध्धोश्य कवी, अहेव पभावगा भणिया॥१॥"श्रावकस्तु कार्पण्यपरिहारतो विधिमता जिन- बिम्बस्थापनयात्राकरणेन जिनभवनगमनजिनपूजनादिना साधुसाधर्मिककृपणाधुचितकरणपुरस्सरभोजनादिना वेति, 'सोऽपि शासनप्रभावकः प्राणी, न केवलं शासनमालिन्यकारी स्वव्यापारानुरूपं फलमासादयति शासनप्रभावकोऽपि स्वव्यापारानुरूपमेष फलमषामोतीत्यपिशब्दार्थः, 'सम्यक्त्वहेतुतां' शासनोन्नतिकरणेन सम्यग्दर्शनलाभस्य निमित्त- भावम, 'अन्येषां आत्मव्यतिरिक्तप्राणिनां समुपजनितशासनपक्षपातानाम्, 'प्रतिपय स्वीकृत्य, इह इत्यस्मिन् जन्मनि, १५. प्रवचनी धर्मकधी वादी नैमित्तिकस्तपस्वी च । विद्यावान् सिन्ध कविरष्टैव प्रभावका भणिताः ॥

- 'तदेव'सम्यक्तवं न तु मिथ्यात्वम्,'आमोति'आसादयति, अनुत्तरं सर्वोत्तमंक्षायिकमित्यर्थ इति॥॥सम्यक्त्वस्वरूपमाह।। प्रक्षीणतीव्रसंक्लेशं, प्रशमादिगुणान्वितम् ॥ निमित्तं सर्वसौख्यानां, तथा सिद्धिसुखावहम् ॥ ४॥ (पृत्तिः) 'प्रक्षोणो' निःससाकतां गतः, तीव्र' उत्कटः , 'संक्लेशो'अनन्तानुबन्धिकषायोदयलक्षणो यस्मिस्तत्तथा,यतोऽ- नन्तानुबन्ध्युदये तन्न भवतीति, यदाह॥“पढमिल्लुयाण उदए, नियमा संजोयणाकसायाण ॥ सम्मईसणलम्भं, भव- सिद्धीया वि न लहन्ति ॥१॥ ” (आवश्यकनियुक्तौ) प्रशमादिगुणान्वितं प्रशमसंवेगनिर्वेदानुकम्पास्तिक्यलक्षणसा- सम्,यदाह"उवसमासंवेगोविय,निव्वेआतिहय होइ अणुकम्पा ॥अत्थिक(त) चियएए,भवन्ति सम्मत्तलिङ्गाई॥१॥ भवन्ति च सम्यग्दृष्टेः सद्बोधसामर्थ्यात् प्रशमादयो गुणाः विशिष्टक्रोधादीनामभावात् । आह च ॥ तन्नास्य विषयतृष्णा, प्रभवत्युच्चैनै दृष्टिसंमोहः॥अरुचिर्न धर्मपथ्ये,न च पापा क्रोधकण्डूतिः॥१॥"आदिशब्दादन्येषामपि जिनशासनकुशलतादि- गुणानां परिग्रहः। तथाहि॥"जिणसासणे कुसलया, पभावणाययणसेवणा धिरया॥भत्ती य गुणा सम्म-त्तदीवगा उत्तमा पञ्चति॥१॥" तथा 'निमित्त कारणम् , सर्वसौख्यानां समस्तनरामरभवसम्भवानन्दविशेषाणाम् , आह च॥"सम्म- सम्मि उ लद्धे, ठड्याइ नरयतिरियदाराई॥ दिव्वाणि माणुसाणिय, मोक्खसुहाई सहीणाई८ ॥१॥” (उपदेशमालायां) १६. प्राथमिकानामुदये नियमात् संयोजना(अनन्तानुबन्धि)कषायाणाम् । सम्यग्दर्शनलाभं भवसिद्धिका अपि न लभन्ते ॥ १७. उपशमः संवेगोऽपि च निर्वेदस्तथा च भवति अनुकम्पा ॥ आस्तिक्यमेव एते भवन्ति सम्यक्त्वलिशानि॥ १८ जिनशासने कुशलता प्रभावना आयतनसेवना स्थिरता । भक्तिश्च गुणाः सम्यक्त्वदीपका उत्तमाः पञ्चेति ॥ १९ सम्यक्त्वे तु लब्धे स्थगितानि नरकतिर्यग्द्वाराणि । दिव्यानि मानुषाणि च मोक्षसुखानि स्वाधीनानि ॥

२३. शा-
सनमालि-
न्यनिषे-
घाटकम्
लो
'तथा' इति समुपये 'सिद्धिसुखावह निर्वाणसौख्यप्रापकम् । 'न' मोक्षसुख न सम्यक्तवमात्रावति अपि तु सम्य-
ग्दर्शनादित्रयात्॥ यदाह ॥सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः"ततः कथं सम्यक्तवं सिद्धिसुखावहमिति,अत्रोच्यते,
ससहायस्य सम्यग्दर्शनस्य सिद्धिसुखसाधकत्वात् सामध्यन्तर्भावेन तदावहतान विरुद्धा, बीजादिसामग्र्यन्त विनो
वर्षस्येवा रहेतुतेति ॥४॥ अथ पूर्वोक्तस्य प्रवचनमालिन्यस्य वर्जनमुपदिशमाह ॥
अतः सर्वप्रयत्नेन, मालिन्यं शासनस्य तु ॥ प्रेक्षावता न कर्तव्यं, प्रधानं पापसाधनम् ॥५॥
(कृत्तिः) यतोऽनाभोगविहितमाप शासनमालिन्यं घोरसंसारकारणभूतमिथ्यात्वकर्मनिवन्धनं भवति, अत' एतस्मात्का-
रणात, 'सर्वप्रयत्नेन सादरेण, 'मालिन्य' दूषणम्, 'शासनस्य' प्रवचनस्य, 'तुशब्दोऽवधारणार्थः तस्य च प्रयोग
दर्शयिष्यामः, 'प्रेक्षवता' बुद्धिमता, 'न कर्तव्यं नैव विधातव्यम् , कुत इत्याह 'प्रधानम्' उत्कृष्टम् , 'पापसाधनम् ' अशु-
भकर्मनिवन्धनं यत इति गम्यमिति ॥५॥कुत एतदेवमित्याह ।।
अस्माच्छासनमालिन्या-ज्जातो जातो विगर्हितम् ॥ प्रधानभावादात्मानं, सदा दूरीकरोत्यलम् ॥६॥
(कृत्ति) 'अस्मात्' अनन्तरोदितमिथ्यात्वषन्धनफलात्, 'शासनमालिन्यात्' प्रवचनापनाजनात्, 'जातो जातो' भवे
भवे,वीप्सापचन(नेन मालिन्यकारिणोऽनन्तं भवसन्तान दर्शयति, 'विगर्हितं'जात्यादिहीनतयोत्पत्तेविशेषेण निन्दितम्
आत्मानमितियोगः, प्रधानमावात्प्रभुत्वात् ,'आत्मानं स्वम्, 'सदा' सर्वकालम् ,'दरीकरोति'अनासनं पदधाति अमास-
व्यप्रभुत्व करोतीत्यर्थः, अलम्'भतिशयेनेति॥६॥शासनस्य मालिन्य वर्जनीयमित्युपदिश्य तस्यैव यविधेयं तदुपदिशमाह॥
कर्तव्या चोन्नतिः सत्यां, शक्काविह नियोगतः ॥ अवन्ध्यं बीजमेषा य-तत्त्वतः सर्वसम्पदाम् ॥७॥
॥
॥७९॥

(पृत्तिः) न केवलं शासनस्य मालिन्यं वर्जनीयम् , 'कर्तव्या च' विधेया च, 'उमतिः' प्रभावना, 'सत्यां विद्यमानायाम् , 'शक्ती' सामर्थे, इह' इति प्रक्रान्ते जिनशासने, नयोगतो नियमेन, कस्मादेवमित्याह, 'अवन्ध्यं फलसाधकम्, वीज- मिव बीज कारणम् , 'एषा' शासनप्रभावना, 'यत्' यस्मात्कारणात् , 'तत्वतः परमार्थतः, 'सर्वसम्पदा समस्तश्रि- यामिति ॥७॥ कथमित्याह। अत उन्नतिमानोति, जातो जातो हितोदयाम् ॥ क्षयं नयति मालिन्यं, नियमात्सर्ववस्तुषु ॥८॥ (वृत्तिः) 'अत' एतस्माजिनशासनोन्नतिकरणात्, 'उन्नति' जातिकुलरूपविभवादिगुणैरुन्नतत्वम् , आमोति'आसादयति, 'जातो जातौ भवे भवे, 'हितः' शुभानुबन्ध 'उदय' उद्गमो यस्याः सा तथा तां हितोदया कल्याणानुबन्धिनीमित्यर्थः, एतेनार्थप्रासिकारित्वमुतं शासनोन्नतिकरणस्य, अथ अनर्थप्रतिघातकस्वमाह, 'क्षयम्' अपुनर्भावेन विनाशम् , 'नयति' प्रापयति, 'मालिन्य दूषणभावम्, आत्मन इति गम्यते, नियमात' अवश्यतया, 'सर्ववस्तुषु जातिकुलबुद्धयादिसम- स्तभावविषये, अतः कर्तव्योन्नतिरिति ॥ ८॥ अन्ये तु चतुर्थादीनां श्लोकानां स्थाने अमून्पश्च श्लोकान्पठन्ति, यः शासनस्योन्नती प्रवर्तते सोऽन्येषां जीवानां सम्यक्त्वहेतुतां प्रतिपद्य तदेव सम्यक्त्वमनुत्तरमवाप्नोतीति तृतीयश्लो- केभिहितम् , अथ यथासौ सम्यक्त्वहेतुतां प्रतिपद्यते तथा दर्शयन्नाह ॥ तत्तथा शोभनं दृष्ट्वा, साधु शासनमित्यदः॥ प्रतिपद्यन्ते तदेवेके, बाजमन्येऽस्य शोभनम् ॥ ४॥ (वृतिः) तत्' इति प्रवचनोन्नतिहेतुभूतं पूजाथनुष्ठानम् , 'तथा' तेन विशिष्टोदायर्यादिना प्रकारेण, 'शोभन शासना- सरासम्मवित्वेन प्रधानम्, 'दृष्टी अवलोक्य, 'साधु' प्रधानम्, शासनम्'आहेतप्रवचनम्, पत्रैवविधमत्युदारमनवयमनु-

ro
२३. शा-
सनमालि-
न्यनि-
पाष्टकम्
॥
सो
ष्ठानम्, 'इति' एवममुतो वोधादित्यर्थः, 'अदः' एतदनन्तरश्लोकोपातं सम्यक्रूवम् , 'प्रतिपद्यन्ते' समाश्रयन्ते, 'तदैव'
तस्मिन्नेव काले यदा जिनशासनं प्रतिपक्षपात उत्पद्यते, 'एके' केचन भव्याः, बीजमिव 'बीज' कारणं शासनपक्षपातरूपं,
प्रतिपद्यन्त इति वसंत एवेति, 'अन्य' सम्यग्दर्शनप्रतिपतृभ्योऽपरे, 'अस्य' सम्यग्दर्शनस्य, शोभनम्'अवन्ध्यं कालान्तरे
अवश्यं सम्यग्दर्शनफलजननादिति ॥ ४ ॥ अथ सम्यक्त्वयीजस्य हेतुतां प्रतिपद्यमानः कथं सम्यक्त्वहेतुतां प्रतिपद्यत
इत्यभिधीयतेत, ए इति ? अत्रोच्यते वीजस्य कालान्तरे सम्यक्तवजननादेतदेवाह ॥
सामान्येनापि नियमा-द्वर्णवादोऽत्र शासने ॥ कालान्तरेण सम्यक्त्व-हेतुतां प्रतिपद्यते ॥ ५॥
(वृत्तिः) 'सामान्येनापि' अविशेषेणापि, जिनशासनमपि साधु इत्येवंपरिणाम आस्तां पुनर्विशेषेण जिनशासनमेव
साध्वित्येवं शासनान्तरव्यपोहेनापि, 'नियमात्' अवश्यंभावेन, 'वर्णवादः' श्लाघा सम्यग्दर्शनबीजमित्यर्थः, 'अत्र'
इति प्रत्यासन्ने जैन इत्यर्थः लोके वा, 'शासने प्रवचने, कालान्तरेण वर्णवादकरणकालादन्यः कालः कालान्तरं तेन,
कियताप्यागामिकालेनेत्यर्थः,, 'सम्यक्त्वहेतुता' सम्यग्दर्शनानिमित्तताम् , 'प्रतिपद्यते' भजते सम्यक्त्वं जनयतीत्यर्थ
इति ॥५॥ एतदेव दृष्टान्तेन भावयन्नाह ॥
चौरोदाहरणादेवं, प्रतिपत्तव्यमित्यदः ॥ काशाम्ब्यां स वणिग्भूत्वा, बुद्ध एकोऽपरो न तु ॥६॥
(पृत्तिः) चौरोदाहरणात्' स्तेनयोर्जातात् , 'एवम्'अनेन प्रकारेण कालान्तरसम्यक्त्वहेतुतालक्षणेन, 'प्रतिपत्तव्यं प्रत्येत-
व्यम् , 'इतिशब्दों वाक्यपरिसमाप्तौ वक्ष्यमाणदृष्टान्तार्थोपदर्शनार्थो वा, 'अद' एतवर्णवादरूपवीजस्वरूपम्, चौरोदा-
हरणं भावयन्नाह, कौशाम्भ्यां नगर्याम् , 'स' शासनवर्णवादकारी चौरः, वणिक् 'वाणिजको, भूत्वा' उत्पद्य, 'युद्धो बोधि
न
॥८॥

प्राप्तः, एका,"अपरः' अन्यो, नतु'नैवेत्यक्षरार्थः॥भावार्थः कथानकगम्यस्तच्चेदम् ॥कौशाम्न्यां नगर्यो धनयक्षाभिधानयोः श्रेष्ठिनोधनपालषसुपालाभिधानावन्योन्यमतिस्नेहवन्तौ स्नेहवशादेव प्रायः समचित्तौ समशीलौ समधनौ सुतावभव- ताम् । अन्यदा श्रीमन्महावीरवर्धमानस्वामी तत्र विहरन्नाजगाम । ततोऽसावमरवरविनिर्मितस्य रत्नादिप्रभापटलविपु- लजलमध्यगस्य विचित्रपत्रपङ्क्तित्रयोपेतसहस्रपत्रोपमस्य रजततपनीयमणिमयविशालशालवलयत्रयस्य मध्यगतः केसरनिकराकारकायो मधुकरनिकरकल्पाशोकानोकहनिरुद्धगगनाभोगः गगनतलोपनिपतत्कलहंसयुगलकल्पोपलीयमा- ननिर्मलधवलचामरयुगो मत्समधुकरनिकरझङ्काररवरम्यतममहाध्वनिः जगजननियन्त्रकमोहवरत्रात्रटत्त्रोटनपटीयांसं सु- रनिवहसकुलसंसदि सद्धर्माऽकुण्ठकुठारमुपदिशतिस्म । ततस्तत्रत्यनरपतिः समवगतपारगतागमनवातोऽन्तःपुरपुरजना- दिपरिवृतो भक्तिभरावर्जितमानसो जिनान्तिकमाजगाम । तावपि नैगमनायकतनयौ भक्तिकौतुकाभ्यां तत्रागतौ । ततो भगवताभिहिते जन्तुसन्तानस्य कर्मबन्धहेतो, वर्णिते मुक्तिकारणे, दर्शिते भवनैर्गुण्ये, प्रकटिते निर्वाणसुखानन्त्ये, मोह- निद्राविद्रवणेन दिनकरकरनिकरिवाम्भोजराजयो भगवचनैः प्रतिषुद्धा भूयांसो भव्यजन्तवः । ततस्तयोरपि वणि- ग्नन्दनयोज्येष्ठस्य सम्पन्ना योधिः, द्वितीयस्य तु वजतण्डुलस्येव दुर्भेदत्वेन योधिर्नाभवत् । ततो ज्येष्ठस्य हर्षोऽजनि, अहो धन्योऽहं येन मयाऽनर्वापारभवजलनिधिनिमग्नेन सद्वर्मयानपात्रमेवंविधमवाप्तम् । इतरस्य तु क्लिष्टकर्मणा माध्यस्थ्यमेवाभवत् । ततः परस्परस्याभिप्रायमवगतवन्तौ, यथावयोधर्मपरिणतिविशेषे भेदोऽभूत् । ततो ज्येष्ठो भग- वन्तं पप्रच्छ, यदुत भगवंस्तुल्यस्नेहयोरावयोस्तुल्य एव विभूतिरूपविनयादिसम्बन्धोऽभवत् , अधुना पुनर्मुक्तिफलकल्प- तहकल्पसम्यक्त्वविभूतिप्राप्तावतुल्यता जाता, मम मित्रस्य तहिकलत्वात् , तत् किमत्र कारणम् । ततो भगवानुवाच, भो

२४.पुण्या-
नुवन्धिपु-
ज्यादिवि-
लो.
भद्रा भवन्तो जन्मान्तरे ग्राममहत्तरसुतावभूताम् , ततो व्यसनोपहतो चौर्यपरायणावभवताम् , अन्यदा प्रामान्तरं गत्वा
गा अपहृतवन्तौ, ततस्ताः स्वस्थानं नयन्तौ दण्डपाशिकान् पश्चाल्लग्नान् विज्ञाय तदयात्पलायमानो गिरिंगहवरे प्राविश-
ताम् , शैलगृहायां चातापयन्तं महातपस्विनमपश्यताम्, ततस्त्वं संवेगमागतोऽवोचः, यथा सुलब्धमस्य जन्म योऽयं
परित्यक्तसकलपुत्रकलत्रमित्रादिसम्बन्धः संतोषसुखसागराषगाढो धर्मनिरतचित्तो विषयविरतः स्वर्गापवर्गसंसगीय
तपस्यति,मादृशास्त्वधन्या उभयलोकगर्हितमनर्थफलं क्लेशबहुफलं पचौर्यमाश्रिता इत्येवंविधा साधु साधुप्रशंसा भवतो
बोषिवीजमजनि, इतरस्य तु यतिबेषो बोधिवीजदाहीसजातः।इदं भवतोवेधिभावामाषकारणमिति ॥| उपसंहरबाह॥
इति सर्वप्रयत्नेनो-पघातः शासनस्य तु ॥ प्रेक्षावता न कर्तव्य, आत्मनो हितमिच्छता ॥७॥
स्पष्टः ॥७॥ कर्तव्यं च किमित्याह ।
कर्तव्या चोन्नतिः सत्यां, शक्ताविह नियोगतः ॥ प्रधानं कारणं ह्येषा, तीर्थकुन्नामकर्मणः ॥ ८॥
स्पष्ट एवेति ॥ ८॥प्रयोविंशतितमाष्टकविवरणं ममासम् ॥२६॥
॥ अथ चतुर्विंशतितमं पुण्यानुबन्धिपुण्यादिविवरणाष्टकम् ॥ २४ ॥
शासनोमतिकरणाद्वितोदयामुन्नतिमाप्नोतीत्युक्तम्, तत्र किमहितोदयाप्युन्नतिरस्ति पेनासो सविशेषणाभिधीयते,
उच्यते, अस्ति, यतः पुण्यजन्योन्नतिः । पुण्यापुण्यविचारे च चत्वारो भगा भवन्ति, तयथा, पुण्यानुवन्धिपुण्यमित्येका,
पापानुषन्धिपुण्यमिति द्वितीयः, पापानुवन्धिपापमिति तृतीयः, पुण्यानुषन्धिपापमिति चतुर्पी, तत्राथमाकप्रतिपादना-
॥८१॥

याह। पाठान्तरापेक्षया पुनरेवं सम्बन्धः॥ तीर्थकृन्नामकर्मण इति प्रागुकं, तब पुण्यं, पुण्यादिविचारे च प्रागुक्ता एव चत्वारो भाका भवन्ति । तत्राथभक्काभिधानायाह ॥ गेहाद् गेहान्तरं कश्चि-च्छोभनादधिकं नरः॥ याति यद्वत्सुधर्मेण, तद्वदेव भवाइवम् ॥ १॥ (कृत्तिः) गेहाद्नेहान्तरं कश्चित् ' अनिर्दिष्टनामा नर इतियोगः, किम्भूताद्नेहात् 'शोमनात रमणीयात्, किम्भूतं गेहान्तरं 'अधिक' शोभनतरम्, 'नरों'मानवः, नरग्रहणं चेह विशिष्टचरणसाध्यपुण्ययोग्यत्वेन तस्य प्राधान्यख्यापनार्थम्, 'याति' गच्छति, 'यदत् ययेति दृष्टान्तः, सुधर्मेण' पुण्यानुवन्धित्वाच्छोमनः कृपादिधर्मजन्यत्वाद्धर्मश्चेतिसुधर्मस्तेन, पुण्यानुवन्धि- पुण्यकर्मणेत्यर्थः, 'तहदेव' तथैव, 'भवात् मनुष्यादिजन्मनः शोभनस्वभावात्सकाशात, 'भवं' देवादिभवं शोभनतर- स्वभावम्, यातीति प्रकृतम्, यस्किल शुभमनुष्यादेर्जीवस्य पूर्वभवपश्चितं कर्म मानुष्यत्वादिशुभभावानुभवहेतुर्भवति तदनन्तरं देवादिगतिपरम्पराकारणं च तत्पुण्यानुबन्धिपुण्यमुच्यते, एतच्च ज्ञानपूर्वकनिर्निदानकुशलानुष्ठानाद्भवति, भरतादेरिवेति ॥ १॥ अथ द्वितीयभाकमाह ॥ गेहाद गेहान्तरं कश्चि-च्छोभनादितरन्नरः ॥ याति यद्वदसद्धर्मा-तद्वदेव भवाद्भवम् ॥ २॥ (वृत्तिः) 'गेहादेहान्तरं कश्चिन्नरो ययाति' इति सम्बन्धः, किम्भूतात् किम्भूतं 'शोभनात्' रमणीयात्, इतरत्' अशोभनम्, 'तहदेव' तथैव, 'असद्धर्मात्' असनशोभनः पापानुषधित्वात् धर्मम दयादिधर्मजन्यत्वादित्यसद्धर्मस्तस्मात् पापानुबन्धिपुण्यादित्यर्थः, 'भवात्', शोभनान्मनुष्यादेः, "भवं' अशोभनं नारकादिकमिति, यत्किल शुभमनुष्यादेर्जी- वस्य पूर्षभवाजितं कर्म मानुषत्वादिशभभावानुभूतिहेतुर्भवति तदनन्तरं नारकादिभवपरम्पराकारणं च तत् पापानुवन्धि-

२४.पुण्या-
नुबन्धिपु-
ग्यादिवि-
वरणाष्ट-
लो०
पुण्यमित्युच्यते, तच्च नदानाहायडूषिताद्धर्मानुष्ठानाद्भवति, ब्रह्मदत्सादेरिषेति ॥ २ ॥ अथ तृतीयभाकमाह ॥
गेहाद गेहान्तरं कश्चि-रशुभादधिकं नरः । याति यद्वन्महापापा-तद्वदेव भवाद्भवम् ॥ ३ ॥
(वृत्तिः) 'गेहादेहान्तरं यत्कश्चिन्नरोयाति,' किंविधारिकविधमित्याह, 'अशुभात्' अरमणीयात् , 'अधिक' अशुभत-
रम्, 'तबदेव महापापात्' महच्च तत्पापानुषन्धित्वात्पापं चाशुभकर्मेति महापापं तस्मात्पापामुबन्धिपापादित्यर्थः, 'भ-
वात् अशुभात्तिर्यगादेः 'भवं' अशुभतरं नारकादिकमिति,यत्किल तिर्यगादेर्जीवस्य पूर्वजन्मोपात्तं कर्म तिर्यक्त्वाघशुभ-
भावानुभवनिमित्तभूतं भवति तदनन्तरं नारकायशुभगतिपरम्पराकारणं च तत् पापानुबन्धिपापमुच्यते, तथाविधवि-
डालादेरिव, तच्च महाप्राणातिपातादिहेतुकमिति ॥ ३ ॥ चतुर्थभाकमधुना प्राह ।।
गेहाद्गेहान्तरं कश्चि-दशुभादितरन्नरः॥ याति यद्वत्सुधर्मेण, तद्वदेव भवाद् भवम् ॥ ४॥
(वृत्तिः) 'गेहादेहान्तरं कश्चिन्नरो यस्याति,' किंविधात्किंविधमित्याह, 'अशुभात्' अकमनीयात, 'इतरत्' शोभनम्,
'तबदेव सुधर्मेण' अकुशलानुष्ठानमिश्रनिर्निदानादिकुशलानुष्ठानलक्षणेन, 'भवात्' अशुभतिर्यगादेः, 'भवं' शुभ-
मनुष्यादिकमिति, यत्किल तिर्यगादेर्जीवस्य प्राग्भवार्जितं कर्म तिर्यक्त्वायशुभभावानुभूतिनिमित्तभूतं भवति तदनन्तरं-
देवादिशुभगतिपरम्पराहेतुश्च तत्पुण्यानुषन्धिपापमुच्यते, चण्डकौशिकादेरिव ॥ इह च भङ्गकनिर्देशे यद्यपि पाप प्रधा-
नम्, तथापि पुण्यानुबन्धहेतुत्वात् पुण्यानुषन्धकारिणि पापे शुभधर्मतामुपचर्य सुधर्मेण तदेवेत्यागुक्तमिति ॥ ४॥
एवं फलतचतुर्धा कर्म व्यवस्थाप्योपदेशमाह ॥
शुभानुबन्ध्यतः पुण्यं, कर्तव्यं सर्वथा नरैः ॥ यत्प्रभावादपातिन्यो, जायन्ते सर्वसम्पदः ॥५॥

(वृत्तिः) शुभं पुण्यं कर्मानुषध्नात्यनुसन्धत्ते यदेवंशीलं तत् 'शुभानुथन्धि,' 'अत' इति यतोगेहाद्गेहान्तरमित्यादि- दृष्टान्तप्रतिपादितं शुभाशुभं कर्मफलमस्ति एतस्मात् कारणात, 'पुण्यं शुभकर्म, 'कर्तव्यं विधेयम्, 'सर्वथा' सर्वप्रकारैः, 'नरैः' मानवैः, किम्भूतं तदित्याह, 'यत्प्रभावात् यस्य सामर्थ्यात्, 'अपातिन्यः'अपतनशीला अविनश्वर्यः, 'जायन्ते' भवन्ति, 'सर्वसम्पदः समस्तनरामरनिर्वाणश्रियः ॥ इति ॥५॥ सत्पुनः शुभानुषन्धिपुण्यं कथं क्रियत इत्याह ॥ सदागमविशुद्धन, क्रियते तच्च चेतसा ॥ एतच्च ज्ञानवृद्धेभ्यो, जायते नान्यतः क्वचित् ॥ ६ (वृत्तिः) 'सदा सर्वकालं अथवा सदागमस्त्रिकोटीदोषवर्जितत्वेन शोभनं शास्त्रं तेन विशुद्धं निर्मलीकृतं यत्तत्तथा तेन 'सदागमविशुद्धन,' 'चेतसा' इति योगः, 'क्रियते' विधीयते, 'तच्च' तत्पुनः शुभानुबन्धि पुण्यम्, 'चेतसा' मनसा, 'एतच्च' एतत्पुनः सदागमविशुद्धं चेतः, 'ज्ञानवृद्धेभ्यः' श्रुतस्थविरेभ्यः सम्यगुपासितेभ्यः, 'जायते' सम्पद्यते, 'नान्यतो न पुनरन्यस्मात् कारणान्तरात्, कचित्' देशे काले पात्रे वेति, यद्यपि कालस्वभावनियतिकर्मपुरुषकाराणां कारणभावः सर्वत्र, तथापि कर्मक्षयोपशमे चित्तविशुद्धेरान्तरकारणे ज्ञानवृद्धसम्पर्कस्य प्रधानकारणत्वात् , 'एतच्च ज्ञानवृद्धेभ्य' इत्यु- क्तमिति ॥ ६॥ यदि विशुद्धं चित्तं न भवति तदा किं स्यादित्याह ॥ चित्तरत्नमसंक्लिष्ट-मान्तरं धनमुच्यते ॥ यस्य तन्मुषितं दोष-स्तस्य शिष्टा विपत्तयः॥७॥ (वृत्तिः) चित्तं मनस्तद्रत्नमिव 'चित्तरत्न' निर्मलस्वभावत्वोपाधिजनितविकारत्वादिसाधर्म्यात्, 'असाक्लष्टं रागादिसं क्लेशवर्जितम्, 'आन्तरं' आध्यात्मिकम्, 'धनं' वसु, 'उच्यते' अभिधीयते, 'यस्य देहिनः, 'तत्' चित्तरत्नम्, 'मुषित' अपतहम, 'दोषैः' रागादिभिः 'तस्य' देहिनः, 'शिष्टा' उद्धरिताः 'विपत्तयो' व्यसनानि, असंक्लिष्टचित्तरत्नाभावे हि

ग
२४.पुण्या-
नुबन्धिपु-
ण्यादिवि-
वरणा-
श्लो
हर्षविषादादिरूपाः कुर्मातामनरूपा वा विपद एवावशिष्यन्त इति ॥७॥ अन्ये तु अमुं श्लोकं न पठन्ति अमुं चास्य
स्थाने पठन्ति॥आगमविशुद्धं चित्तं ज्ञानवृद्धेभ्यः सकाशादुपजायत इत्युक्तं तत्रेदं किं सत्पयते, असबा, यदि सदिति
पक्षः, स न युक्तः,सत उत्पादायोगात्, गगनस्येष, सतोऽप्युत्पादे उत्पादाविरामप्रसङ्गात्, अथासदिति पक्षा, सोऽप्य-
युक्तः, सर्वथा असत उत्पादाभावात्, गगनाम्भोरहस्येवेति, अत्रोसरमाह।
प्रकृत्या मार्गगामित्वं, सदपि व्यज्यते ध्रुवम् ॥ ज्ञानद्धप्रसादेन, वृद्धिं चाप्नोत्यनुत्तराम् ॥ ७॥
(वृत्तिः) अस्य व्याख्या-'प्रकृत्या' स्वभाषेन, 'मार्गगामित्वं' भागमविशुद्धत्वं चेतस इति गम्यते, 'सदपि' क्वधि-
द्विधमानमपि, अपिशब्दात् व्यक्तितः अविद्यमानमपि, अनेनैकान्तसत्यासत्त्वपक्षोक्तदोषः परिहतो भवति, कि-
मित्याह, 'व्यज्यते' व्यकं भवति, 'ध्रुवं' निश्चितम्, अनेन ज्ञानवृदप्रसादस्य मार्गगामित्वव्यञ्जकत्वं प्रत्यव्यभिचा
रिकारणतामाह, केनाभिव्यज्यत इत्याह, ज्ञानेन बोधेन वृद्धा महान्तो ज्ञानं वा वृद्धं येषां ते ज्ञानवृद्धाः तेषां प्रसादः
प्रसन्नता ज्ञानवृद्धप्रसाद' तेन, किमभिव्यक्तिमात्रमेव, नेत्याह, 'वृद्धिं च' विपुलतां च, 'चशब्दः' समुच्चये, आमोति'
लमते, 'अनुत्तरी अविद्यमानप्रधानतरां मार्गगामित्वमिति प्रकृतमिति ॥७॥
शुभानुषन्ध्यतः पुण्यं कर्तव्यमित्युक्तम्, अथ तदुपायोपदर्शनायाह ॥
दया भूतेषु वैराग्यं, विधिवद्गुरुपूजनम् ॥ विशुद्धा शीलवृत्तिश्च, पुण्यं पुण्यानुबन्ध्यदः ॥ ॥
(पृत्तिः) 'दया' कृपा, "भूतेषु सामान्यता जीवेबु, 'वैराग्य' विरागता शेषाभावाविनाभूतत्वादेराग्यस्येति विगतद्वेषता
च, विधिर्विधानं शास्त्रोक्तो न्यायश्रद्धासत्कारक्रमयोगादिः स विद्यते यत्रतत् 'विधिवत्', इह यद्यपि विधिमत् इति
.
॥८३॥

शब्दः सिद्धयति तथाप्यन्द्रादिव्याकरणप्रवीणत्वात् हरिभद्राचार्यस्य नापशब्दः शङ्कनीय इति, गृणन्ति शास्त्रार्थमिति गुरवः साधवः तेषां पूजनं भक्तपानवस्त्रपात्रप्रणामादिभिरभ्यर्चनं गुरुपूजनं, 'विशुद्धा' निरतिचारा, 'शीलवृत्तिः हिंसान- तादत्ताब्रह्मपरिग्रहविरमणरूपकुशलानुष्ठानवर्तनम्, 'चशब्द' उत्तसमुच्चये अनुक्तगुणान्तरसमुच्चयेवा, किमेतदित्याह, 'पुण्यं शुभं कर्म, पुण्यकर्मवन्धहेतुत्वेनोपचारात्, किम्भूतमित्याह, 'पुण्यानुपन्धि' शुभकर्मसन्तानवत्, अद' एतदनन्तरो- दितम्, ननु क्ष्या भूतेषु इह भूतग्रहणमनर्थकं यतो दया प्राणिगोचरैव दया हि दुःखितेषु भवति दुःखितत्वं च प्राणि- नामेवेति, अत्रोच्यते, न भूतग्रहणमधेतनव्यवच्छेदार्थमपितुभूतसामान्यग्रहणार्थ,तेन सर्वभूतेषु दया विधेयेत्युक्तं भवति॥ आह च॥"दहळूणपाणिनिवहं, भीमे भवसागरम्मि दुक्खत्त। अविसेसओ णुकम्पं, दुहावि सामथओकुण॥१॥त्ति२०॥" चतुर्विशतितमाष्टकविवरणं समाप्तम् ॥ २४ ॥ ॥ अथ पञ्चविंशतितमं पुण्यानुबन्धिपुण्यप्रधानफलाष्टकम् ॥२५॥ पुण्यानुबन्धिपुण्यं स्वरूपात उपदर्शितमय तदेव प्रधानफलतो दर्शयन्नाह ॥ अतः प्रकर्षसम्प्राप्ता-द्विज्ञेयं फलमुत्तमम् । तीर्थकृत्वं सदौचित्य-प्रवृत्त्या माक्षसाधकम् ॥१॥ (कृत्तिः) 'अतः' एतस्मात्पुण्यानुवन्धिपुण्यात् , 'प्रकर्षसम्प्राप्तात्' अतिप्रकृष्टतां गतात्, विज्ञेयं ज्ञातव्यम् , 'फलं' कार्यम्, उत्तम प्रधानम्, 'तीर्थकृत्त्वं' तीर्थकरत्वम्, किंस्वरूपं तदित्याह, 'सा' सर्वकालं आगर्भावस्थायाः, 'औचित्यप्रवृत्त्या' २०. हा प्राणिनिष भीमे भवसागरे दुःखार्तम् । अविशेषतोऽनुकम्पा विधापि सामर्थ्यतः करोति ॥१॥ ....

२५.पुण्या-
प्रक००
नुबन्धिपु-
ण्यप्रधान-
फलाष्टकम्
॥८४॥
लो०२-३
यथार्हप्रवर्तनेन, 'मोक्षसाधक' निर्वाणप्रापकमिति ॥१॥औचित्यप्रवृत्तिमेवाप्तस्य सार्वदिकी दर्शयितुमाह ॥
सदौचित्यप्रवृत्तिश्च, गर्भादारभ्य तस्य यत् ॥ तत्राप्यभिग्रहो न्याय्यः, श्रूयते हि जगद्गुरोः॥२॥
(वृत्तिः) सदा सर्वकालम् , 'औचित्यप्रवृत्तिः' सातासेवनम् , चशब्दः' पुनःशब्दार्थः, 'गर्भादारभ्य गर्भावस्थामवधीकृत्य,
'तस्य' इति यः प्रकृष्टपुण्यानुवन्धिपुण्यफलभूतस्तीर्थङ्करस्तस्य, भवतीति शेषः, कुत एतदेवं सिद्धमित्याह 'यत्' यस्मा-
कारणात्, 'तत्रापि' गर्भेऽपि, आस्तां प्रत्रज्याप्रतिपत्तौ, 'अभिग्रह प्रतिज्ञाविशेषो वक्ष्यमाणस्वरूपः, 'न्याय्यो न्याया-
दनपेतः, 'श्रूयते' आकर्ण्यते, 'हिशब्दो' वाक्यालङ्कारे, 'जगद्गुरोः' त्रिलोकगौरवाहस्य महावीरस्येति भावना ॥२॥
किमर्थमसावभिग्रह इत्याह ।।
पित्रुद्धगनिरासाय, महतां स्थितिसिद्धये ॥ इष्टकार्यसमृद्धयर्थ-मेवम्भूतो जिनागमे ॥ ३ ॥
(कृतिः) माता च पिता च पितरौतयोरखेगश्चित्तसंतापस्तस्य निरासोऽभावः पित्रुद्ध गनिरासस्तस्मै 'पित्रुछेगनिरासाय,
यतन्ते च महान्तो विश्वस्यापि उठेगनिरासार्थ तेषां तथास्वभावत्वात् , विशेपतः पुनः पित्रोः अतिदुष्पतिकारित्वात्त-
योरिति, तथा 'महतां महापुरुषाणाम्, 'स्थितिसिद्धये' व्यवस्थासाधनाय, अन्येऽपि महान्तो मातापित्रुद्वेगनिरासेन
प्रवर्तन्तामित्येतदर्थ प्रधानमार्गानुसारित्वाचनस्येति, तथा 'इष्टकार्य' वाञ्छितप्रयोजनं मोक्षार्थिनां मोक्षोपायभूता प्रव्रज्या
तस्य समृद्धिनिष्पत्तिरिष्टकार्यसमृद्धिः तस्यै इदं 'इष्टकार्यसमृद्धयर्थम् , इदं चाभिग्रहः कृत इति गम्यमानक्रियाविशेषणं
मोक्षसिद्धिहेतोरित्यर्थः, सिध्यति हि मोक्ष उचितप्रवृत्त्या, अनुचितप्रवृत्तिस्तु तद्विघ्न इति, 'एवम्भूतो' वक्ष्यमाणस्वरू-
पोऽभिग्रह इतियोगः, जिनागमे आप्तवचने, श्रयते इति सम्बन्धः, पठ्यते चावश्यकनियुक्तौ॥ "अह सत्तमम्मि मासे,
॥८४ ॥

गन्मथो चेव अभिग्गहं गिण्हे ॥ नाहं समणो होहं, अम्मापियरम्मि जीवन्ते ॥१॥ सि ॥” ॥३॥
यथाभूतोऽभिग्रहः श्रूयते तथाभूतमेवाह ॥
जीवतो गृहवासेऽस्मिन्, यावन्मे पितराविमौ ॥ तावदेवाधिवत्स्यामि, गृहानहमपीष्टतः॥४॥
(वृत्तिः) किल भगवान् श्रीमन्महावीरवर्धमानस्थामी देवभवाच्युत्वा पूर्वभवोपात्तनीचै!त्राभिधानकर्मशेषवशाद्
ब्राह्मणकुण्डग्रामाभिधाननगरनिवासिऋषभदत्ताभिधानद्रिजातिजायाया देवानन्दाभिधानायाः कुक्षावुत्पन्नः । अथ
द्वन्यशीतितमदिवसे सिंहासनचलनजनितावधिप्रयोगपुरन्दरप्रयुक्तहरिनैगमेषिनाम्ना देवेन क्षत्रियकुण्डाभिधाननगरना-
यकसिद्धार्थाभिधाननरपतिप्रधानपन्यास्त्रिशलाभिधानायाः गर्ने संक्रमितः। ततो देवानन्दामुपलब्धचतुर्दशमहास्वप्नाप-
हारा सम्भावितगर्भसंहारां हृतसर्वस्वामिवातिशोकसागरमग्नामवधिनावषुध्याहोऽस्मानिमित्तमेषानाख्येयदुःखमवाप्त-
वत्येवमेषापि त्रिशला मदचलनचेष्टानिमित्तमसुखमथ मा प्रापदित्यालोच्य निश्चलोऽवतस्थे। ततोऽसौ निष्पन्दतां
गर्भस्थावगम्य गलितो गर्भो ममेति भावनया गाढतरं दुःखसमुदयमगमत् । ततो भगवांस्तदुःखविनोदाय स्फुरतिस्म,
पोलोचयांचकार च, यदुतादृष्टेऽपि मयि मातापित्रोरहो गाढः स्नेहो दृष्टे पुनः परिचयादवगतगुणग्रामे गाढतरोऽसौ
भावी, ततः प्रव्रजनतो वियुज्यमाने शोकातिशयान्महानन्तस्तापो भविष्यति, ततोऽनयोर्जीवतोस्तत्सन्तापपरिहारार्थम-
प्रबजितेन मया भाव्यमिति सप्तममासेऽभिग्रहं जग्राहेति श्लोकसमुदायार्थः। अक्षरार्थस्स्वयम्। 'जीवतः' प्राणान्धारयतः,
'पितरौं' इति योगः, 'गृहवासे' गृहस्थतायाम् , 'अस्मिन् ' अधुनातने न पुनर्देवादिभवसंभवेऽपि, यावत् यत्परिमाण-
२१. अथ सप्तमे मासे गर्भस्थ पव अभिग्रहं गृहाति । नाहं श्रमणो भविष्यामि अम्बापित्रोजींवतोरिति ॥१॥

अष्टक
२५.पुण्या
नुवन्धिपु-
म्यप्रधान-
॥ ८५॥
लो.
मिति पितृजीवनक्रियाविशेषणम् , 'मे' मम सम्बन्धिनौ, 'इमौ' प्रत्यक्षासन्नी त्रिशलासिद्धार्थलक्षणो न पुनर्ऋषभदत्त-
देवानन्दास्वरूपो, 'तावदेव' तत्परिमाणमेव न पुनरधिकम् , विरतावभिष्वाच्चेस्थमुक्तमवधारणम् , एतबाधिक्स्यामी-
तिक्रियाविशेषणम् , 'अधिवत्स्यामि' अध्यासिष्ये, 'गृहान्' गेहम्, गृहशब्दो हि पुल्लिङ्गो बहुवचनान्तोऽप्यस्तीति,
अथवा राजस्वाद बहुगृहाधिपतित्वमनेन दर्शितम्, 'अहमपि न केवलं पितरौ गृहानधिवत्स्यत इति 'अपिशब्दार्थः,
इष्टमिच्छा तदाश्रित्य 'इष्टतः' इच्छया स्वच्छन्दतया,न पुनः पारवश्येन, इति भावः ॥ ननु तावन्तं कालं चारित्रमोहनीय-
कर्मविशेषोदये सति तस्य गृहावस्थानमन्यथावा, तत्र यद्याधः पक्षस्तदा कर्मविशेषोदय एव तत्रावस्थानकारणं नाभि-
ग्रहणं ततः किं तदभिग्रहणेन, अथ चारित्रमोहनीयविशेषोदयाभाव इति पक्षः, तदप्यसङ्गतम् , मोहकर्मविशेषोदया-
भावे विरतेरेव भावेन गृहावस्थानासम्भवात् , व्यर्थमेवाभिग्रहकरणमिति, अनोच्यते । मोहनीयविशेषोदय एव तत्र
तस्यावस्थानम्, किन्तु तस्कर्मणः सोपक्रमत्वेन पियेगनिरासायवलम्बनाभिग्रहानङ्गीकरणे विरतेरेव भावान्न गृहावस्था-
नहेत्वभिग्रहकरणमसातम्, उच्यते च सोपक्रमता कर्मणाम् ॥ यदाह ॥ "उदयक्खयक्खओवसमो-वसमा जंच कम्मुणो
भणिया ॥ दन्वं खितं कालं भावं च भवं च संपप्प२२॥१॥” तदिहोक्तविशेषणाभिग्रहलक्षणं भावमाश्रित्य तरक्षयोपशम
इति न व्यर्थमभिग्रहकरणमिति ॥४॥ ननूक्ताभिग्रहकरणापित्रु गनिरासो महतां च स्थितिसिद्धिरिति सङ्गतम् , यत्पु-
नरिष्टकार्यसद्धिरिति, सदसाम्प्रतम् , गृहावस्थानस्य प्रवज्याविरोधिस्वादित्यस्यामाशङ्कायामाह ॥
इमौ शुश्रूषमाणस्य, गृहानावसतो गुरू ॥ प्रव्रज्याप्यानुव्र्येण, न्याय्याऽन्ते मे भविष्यति ॥ ५॥
२२. उदयक्षयक्षयोपशमोपशमा यश्च कर्मणो भणिताः । द्रव्यं क्षेत्र कालं भावं व भवं च संप्राप्य ॥१॥
॥८५॥

(वृत्तिः) 'इमौ' प्रत्यक्षासन्नौ, 'गुरू' इति सम्बन्धः, 'शुश्रूषमाणस्य' परिचरतो 'मे' इति योगः, तथा तच्छुश्रूषणार्थमेव 'गृहान् ' गेहं, 'आवसतो' अधितिष्ठतः सतः, 'गुरू' मातापितरौ, 'प्रव्रज्यापि' चिकीर्षितानगारितापि, आस्तां पित्रु ग- निरासादि, 'आनुपूर्येण' परिपाट्या, 'न्याय्या' न्यायोपपन्ना युक्तेत्यर्थः, 'अन्ते' गुरुशुश्रषावसाने एव, 'मे' मम, 'भविष्यति' सम्पत्स्यते ॥५॥ कुत एतदेवमित्याह ॥ सर्वपापनिवृत्तिर्यत्, सर्वथैषा सतां मता ॥ गुरुद्वेगकृतोऽत्यन्तं, नेयं न्याय्योपपद्यते ॥६॥ (वृत्तिः) 'सर्वपापनिवृत्तिः' अशेषावधानुष्ठानव्युपरतिः, 'यत्' यस्मात् ,' 'सर्वथा' सर्वैः प्रकारैनिमित्तभावेनापि इत्यर्थः, 'एषा' प्रव्रज्या, 'सता' विदुषाम् , 'मता' इष्टा, इह तस्मादिति शेषो दृश्यः, तस्मात् 'गुख्खेगकृतो' मातापितृचित्तसन्ताप- कारिणः, 'अत्यन्त' अतिशयेन तदसम्बोधनपूर्वकं शास्त्रोक्ततत्सम्योधनोपायाप्रयोगपूर्वकं वा प्रवृत्तस्य,'न' नैव, इयं प्रव्रज्या, 'न्याय्या' युक्ता, 'उपपद्यते' घटते, पितृसन्तापरक्षणोपायाप्रवृत्तत्वेन निमित्तभावेन तचित्तसन्तापलक्षणपापकारित्वा- सस्येति, परिहर्तव्यश्च तच्चित्तसन्तापः॥ यदाह॥ "अपडिबुझमाणे(अपडिबुद्धे)कहिंचि पडियोहिज्जा अम्मापियरो(२)२३" प्रव्रज्याभिमुखीकुर्वीतेत्यर्थः। “अपडिबुझमाणेसु यकम्मपरिणईए विहिजा जहासत्ति तदुवगरणं ,, "तअ अणुनाए पडि- पजिज धम्म२४॥अथ नानुजानीत, सदा,"*अनहा अणुवहे थेव उवहिजुत्ते सिया" अल्पायुरहमित्यादिकां मायां कुर्या- दित्यर्थः । एवमुपायप्रवृत्तमपि यदा न मुत्क लयतः, तदा तौ त्यजेत् । न च तो त्यजतस्तच्चित्तसंतापेऽपि तस्य दोषो २३. मप्रतिबुध्यमानौ (अप्रतियुद्धौ) कश्चित्प्रतिबोधयेद् अम्बापितरौ॥२४. अप्रतिबुभ्यमानेषु च कर्मपरिणत्या विदयाद्यथाशक्ति तदुपकरण॥ ततोऽनुशातः प्रतिपद्येत धर्मम् ॥ *अन्यथा (तदनुशाभावे) अनुपध एव (भावतः) उपधियुका (ब्याजवान ) स्यात् ॥

अटक
००
२५.पुण्या-
नुवन्धिपु-
ग्यप्रधान-
फलाष्टकम्
1८६॥
लो. ७
विशुद्धभावत्वात् ॥यदाह। “सवहा अपडिवज्जमाणे चएज्जा ते अद्धाणे (अट्ठाण) गिलाणोसहत्थचागनाएणं२५
यथाध्वनि ग्लानीभूतयोः पित्रोरौषधार्थ गच्छतस्तत्त्यागोऽत्याग एव भावतः, एवं तयोः स्वस्यान्येषां चोपकाराय
प्रवजात इति ज्ञातभावना, अत एव॥ "सोयणमान्दणविल-वणं च जं दुक्खिओ तओ कुणइ ॥ सेवह जं च अकज,
तेण विणा तस्स सो दोमो२६ ॥” (पश्चवस्तु गा. ८०) इत्यादिकमाक्षिप्यैवं परिहतम् ॥"अभुवगमेण भणियं,न उ
विहिचागो वितस्स हेउत्ति ॥ सोगाइम्मि वि तेसिं, मरणेव्व विसुद्धचित्तस्स२७ ॥२॥" (पञ्चवस्तु गा.९०) क्वचित्पठ्यते
'सर्वपापनिवृत्तियाँ' इति तत्र व्याख्येयं 'सर्वथा सर्वपापनिवृत्तियाँ इतीतरैषा सतां मता, गुरुद्वेगकारिणश्चात्यन्तं नेयं
सर्वपापनिवृत्तियाग्योपपद्यत इति ॥ ६ ॥ कस्मादेवमित्याह ॥
प्रारम्भमङ्गलं बस्या, गुरुशुश्रूषणं परम् ॥ एतौ धर्मप्रवृत्तानां, नृणां पूजास्पदं महत् ॥७॥
(वृत्तिः) 'प्रारम्भमाल' आदिमङ्गलम् , 'हि' यस्मात् , 'अस्याः' प्रव्रज्यायाः, 'गुरुशुश्रूषणं मातापितृपरिचरणम् , 'परं'
प्रकृष्टं भावमालमित्यर्थः, प्रारम्भमालता एवास्य कुत इत्याह, 'एतौ' गुरू, 'धर्मप्रवृत्तानां मोक्षहेतुसदनुष्ठानसमुपस्थि-
तानाम्, 'नृणां पुंसाम , ऋग्रहणं च प्रधानतया तेषां, न तु तदन्यव्यवच्छेदार्थम् , 'पूजास्पद' अर्हणास्पदम्, 'महत्'
गुरुकम् ॥ यदाह ॥ मातापितृपूजा, आमुष्मिकयोगकारणम् ॥ तदनुज्ञया प्रवृत्तिः॥प्रधानाभिनवोपनयनम् ॥ तदभोगोऽ-
२५. सर्वथा अप्रतिपद्यमानान् त्यजेत् तान् अध्वनि (अस्थान) ग्लानौषधार्थत्यागवातेन ।
२६. शोचनमाक्रन्दनविलपनं च यदुःखितस्ततः करोति । सेवते यच्चाकार्य तेन विना तस्य स दोषः ॥
२७. अभ्युपगमेन भणितं न तु विधित्यागोऽपि तस्य हेतुरिति । शोकादावपि तेषां मरणं व विशुद्धचित्तस्य ।
-
॥८६॥

, पुमान् , 'एतौ' भोगोऽन्यत्र तदनुचितादिति ॥७॥ पूजास्पदत्वमेव समर्थयन्नाह ।। स कृतज्ञः पुमान् लोके, स धर्मगुरुपूजकः ॥ स शुद्धधर्मभाक् चैव, य एतौ प्रतिपद्यते ॥८॥ (वृत्तिः) स' इति य एतौ प्रतिपद्यते असावेव, ‘कृतज्ञः' पितृकृतोपकारज्ञाता, 'पुमान् नरः, 'लोके' लौकिकमार्ग, तथा 'स' एष (व) धर्मगुरोः'दीक्षाचार्यस्य 'पूजकः' पूजयिता धर्मगुरुपूजकः,' भविष्यतीति गम्यते नान्यः, यदाह॥"उपकारीति पूज्यः स्याद्गुरू चाग्रुपकारिणी॥तावप्यर्चयते यो न, स हि धर्मगुरुं कथम् ॥१॥' तथा 'स' इति स एव, 'शुद्धधर्मभाग्' निषकुशलधर्मभाजनं, भवति, 'चशब्दः समुच्चये, 'एवशब्दोऽवधारणे, तस्य च दर्शितः प्रयोगः, 'यः' पुमान् , मातापितरौ, 'प्रतिपद्यते' सेवनतोऽङ्गीकरोति, दुष्प्रतिकारित्वात्सयोः॥ आह च॥ दुष्प्रतिकारौ माता-पितरौ स्वामी गुरुश्च लोकेऽस्मिन् ॥ तत्र गुरुरिहामुत्र च, सुदुष्करतरप्रतीकारः॥" ॥१॥ इति ॥८॥ पञ्चविंशतितमाष्टकविवरणं समाप्तम् ॥२५॥ ॥ अथ षड्विंशतितमं तीर्थकृदानमहत्त्वसिद्धयष्टकम् ॥ २६ ॥ प्रकर्षवतः पुण्यानुबन्धिपुण्यस्य तीर्थकरत्वफलमुक्तम् , तीर्थकरस्य च पुण्यप्रकर्षरूपत्वेन जगद्गुरुत्वादानेन महता भाव्यम् , सङ्घयावञ्च तत्तस्य श्रूयत इति कथं तदानस्य महत्त्वमित्यधुनोपदर्शयन्नाह ॥ जगद्गुरोर्महादानं, सङ्ग्यावच्चेत्यसङ्गतम् ॥ शतानि त्रीणि कोटीन, सूत्रमित्यादि चोदितम् ॥१॥ (कृत्तिः)'जगद्गुरोः'भुवनभर्तुर्जिनस्या, 'महादानं अतिशायिवितरणं वरवरिकारूपम् , सङ्घयावच्छ' परिगणितम्,'चशब्दः' समुच्चये, 'इति' एतत् , 'असङ्गतम्' विरुद्धम् , तथाहि, महादानं चेत्सलयावत् कथम् , सङ्घयावच्चेन्महादानं कथमिति,

अष्टक
क. वृक
२६. तीर्थ-
कृदानमह-
स्वसिद्धय-
॥८७॥
श्लो
सवथावरचं तस्य कथं सिद्धमित्यारेकायामाह, यतः शतेत्यादि, इह च "शतानि त्रीणि कोटीना"इत्यतः परं इत्यादीति पदं
द्रष्टव्यम् , ततश्च 'शतानि त्रीणि कोटीनामित्यादि' एवंप्रभृति, आदिशब्दात् 'अट्ठासीइंच होति कोडीओ' (अष्टाशीतिश्च
भवन्ति कोटयः) इत्यादेः परिग्रहः। 'सूत्रं' अर्थसूचनपरं वचनम् ,'चोदितं' उदितम् , तच्चेदम् , "तिन्नेव य कोडिसया,
अट्ठासीइंच होंति कोडीओ ॥असीइं च सयसहस्सा, एयं संवच्छरे दिन्नम्२८॥१॥” पाठान्तरेण 'शास्त्र इत्यादि चोदित'-
मिति तत्र 'शाने' आगमे, शेषं तथैवेति परवच इति ॥१॥
एवं जिनस्य महादानविरुद्धतामभिधाय बुद्धस्य महादानसात्यमभिधातुं पर एवाह ॥
अन्यस्त्वसङ्ख्यमन्येषां, स्वतन्त्रेषूपवर्ण्यते ॥ तत्तदेवेह तयुक्तं, महच्छब्दोपपत्तितः॥२॥
(पृत्तिः) अन्यैस्तु' अपरैः पुन नापेक्षया बौद्धैः, 'असङ्ख्य अविद्यमानपरिमाणम् ,'अन्येषां जिनादपरेषांषोधिसत्त्वानाम्,
'स्वतन्त्रेषु स्वकीयशास्त्रेषु, उपवर्ण्यते' प्रतिपाद्यते॥तथथा।"एते हाटकराशयःप्रवितताः शैलप्रतिस्पर्धिनो, रत्नानां निचयाः
स्फुरन्ति किरणैराक्रम्य भानोः प्रभाम् ॥ हाराः पीवरमौक्तिकौघरचितास्तारावलीमासुरा, यानादाय निजानिव स्वगृहतः
स्वैरं जनो गच्छति ॥१॥" 'तत्' इति तस्मात् 'तदेव' बुद्धदानमसळ्यातमेव, इह' दानविचारे, 'तत्' इति महादानम् ,
'युक्तं' सातम् , कुत इत्याह 'महच्छब्दोपपत्सितः' महध्वनेस्तत्रैव बुद्धदान उपपद्यमानत्वात् , सङ्ख्यातदानापेक्षया
असण्यातदानस्यानुपचरितमहस्वसिद्धेरिति ॥ २॥ ततः किमित्यत आह ॥
ततो महानुभावत्वा-त्तेषामेवेह युक्तिमत् ॥ जगद्गुरुत्वमखिलं, सर्व हि महतां महत् ॥३॥
२८. त्रीण्येव च कोटिशतानि अष्टाशीतिश्च भवन्ति कोटयः । अशीतिश्च शतसहस्राणि एतत् संवत्सरे दत्तम् ॥ १ ॥
॥८७॥

(वृत्तिः) यतो बोधिसत्यानां महच्छन्दोपपत्तितो महादानं युक्तं ततः' तस्मान्महादानयोगात्, 'महानुभावत्वात्' अधि- त्यशक्तियुक्तत्वात् , 'तेषामेव बोधिसत्थानामेव, न जिनस्य, 'इह' अस्मिन् लोके,'युक्तिमत्' सोपपत्तिकम्, किं तदि- त्याह, 'जगद्गुरुत्वं' भुवनभर्तृत्वम् , किम्भूतमित्याह, अविद्यमानं खिलं गुरुत्वाविषयो यत्र जगद्गुरुत्वे तत् 'अखिल' सर्व- व्यापकं सम्पूर्णमिति यावत् , कुत एतदेवमित्याह, 'सर्व' निरवशेषं दानादिक्रियाजालम्,'हि'यस्मात्, महतां महासत्त्वानाम्, 'महत्' सातिशयं भवति, अतो महादानयोगात्त एव महानुभावा जगद्गुरवश्च भवन्ति नान्य इति, इह च तेषामिति धर्मी, जगद्गुरुत्वं साध्यम् , महानुभावत्वं हेतुः, महतां महदिति च हेस्वसिद्धतापरिहार इति ॥३॥ पूर्वपक्षमुपसंहरनाह ॥ एवमाहेह सूत्रार्थ, न्यायतोऽनवधारयन् ॥ कश्चिन्मोहात्ततस्तस्य, न्यायलेशोऽत्र दर्यते ॥ ४ ॥ (वृत्तिः) एवं' अनन्तरोक्तप्रकारम् ,'आह' छूते पूर्वपक्षवादी, इह' प्रक्रमे,'सूत्रस्य"तिन्नेव य को डिसया,” इत्यादेराग- मस्य, 'अर्थः' अभिधेयः सूत्रार्थ',तमनवधारयन्निति योगः, किं सर्वथानवधारयन् ,नेत्याह, न्यायतो'नीतिमाश्रित्यार्थाप- त्तिगम्यमर्थमित्यर्थः, 'अनवधारयन्' अनवधुध्यमानः, 'कश्चित्' इत्यसम्बद्धभाषित्वात् अनिर्देश्यनामा सौगत इति भावः । 'मोहात्' अज्ञानात्, यत एवं 'ततः' तस्मात्कारणात्, 'तस्य' मूढवादिनः, 'न्यायलेशों' युक्तिमात्रा, 'अत्र' दानव्यतिकरे, 'दर्यते' अभिधीयत इति ॥ ४ ॥ तत्प्रतिपादनायैवाह ॥ महादानं हि संख्याव-दर्थ्यभावाज्जगद्गुरोः॥ सिद्धं वरवरिकात-स्तस्याः सूत्रे विधानतः॥५॥ (वृत्तिः) 'महादान' अतिशायिविश्राणनम् ,'हिशब्दो' दानमहत्वभावनार्थः, यत् ‘संख्यावत्' विद्यमानपरिमाणम् , तत् 'अर्यभावात् प्रयोजनिनामविद्यमानत्वात, न पुनरौदार्याभावात् द्रव्याभावाबा, 'जगद्गुरोः भुवननायकस्य जिनस्य, कुत

प्रक० धु
२६. तीर्थ-
कृदानमह-
स्वसिद्धय-
"
HCCU
ग्लो०७
एतदवगतमित्याह, 'सिद्धं निर्णीतम् , वरं वृणुत वरं वृणुतेत्येवमाख्यानं वरवरिका तस्याः वरवरिकातः' हेतोः,न च तस्या
अप्यसिद्धिरित्याह, तस्या' वरवरिकायाः, 'सूत्रे' नियुक्तिरूपे आगमे, 'विधानतो' विहितत्वात् , तथाहि, "सिंघाडगति-
यचउक-धवरचउम्मुहमहापहपहेसु॥दारेसु पुरवराणं,रत्थामुहमज्झयारेसु॥१॥वरवरिया घोसिज्जा, किमिच्छियं दिज्जए
बहुविहीयं ॥सुरअसुरदेवदाणव-नरिन्दमहियाण निक्खमणेत्ति ॥२॥२६ ॥५॥
अथ वरवरिकया दीयमानमर्यभावात् तत्संख्यावदिति कुतः सिद्धमित्यत्राह ॥
तया सह कथं संख्या, युज्यते व्यभिचारतः ॥ तस्माद्यथोदितार्थं तु, संख्याग्रहणमिष्यताम्॥६॥
(वृत्तिः) 'तया' वरवरिकया, 'सह' सार्धम् , 'कथं' केन प्रकारेण न कथञ्चिदित्यर्थः, 'संख्या' परिमाणम् , 'युज्यते'
सङ्गच्छते, कुत इत्याह, 'व्यभिचारतो' विसंवादात् , अर्थिसद्भावे सतीति गम्यम् , तथाहि, अर्थिनः प्रभूता महेच्छाश्च
दानं वरवरिकया दोयत इति कथं तन्नियतसंख्यं भवितुमर्हति, यस्मादेवं 'तस्मात् यथोदितार्थ तु' अनन्तरास्मदुक्तप्रयो-
जनमेव तशविधार्थ्यभावप्रतिपादनार्थपरमेव, संख्याग्रहणं "तिन्नेव य कोडिसया” इत्यादिदानसंख्याविधानम् ,'इष्यता'
अभ्युपगम्यतां, न पुनरौदार्याभावद्रव्याभावाभ्यामिति । ननु यदि तीर्थकरानुभावादशेषदेहिनां संतोषभावादर्थ्यभावः
स्यात्तदा संख्याकरणमप्ययुक्तम्, अल्पस्यापि दानस्यासम्भवादिति, अनोच्यते, देवताशेषाया इव संवत्सरमात्रेणाप्रभू-
तपाणिग्राह्यत्वाशुक्तमेव संख्यावस्वमिति, अनेन महादानं संख्यावच्चेत्यसङ्गतम् । इत्येतत्परवचो निरस्तमिति ॥६॥
२९. शृङ्गाटकत्रिकचतुष्कचत्वरचतुर्मुखमहापथपथेषु ॥ द्वारेषु पुरवराणां रथ्यामुखमध्येषु ॥१॥
वरवरिका घोष्यते किमीप्सितं दीयते बहुविधिकं ॥ सुरासुरदेवदानवनरेन्द्रमहितानां निष्क्रमणे ॥२॥ इति ॥
॥८८॥

अथ यदुक्तं ततो महानुभावत्वादित्यादि तहषयन्नाह ॥ महानुभावताप्येषा, तद्भावे न यदर्थिनः॥ विशिष्टसुखयुक्तत्वा-सन्ति प्रायेण देहिनः ॥ ७ ॥ (वृत्तिः) 'महानुभावतापि' अतिशायिप्रभावतापि, न केवलं 'देहिनां संतोषसंपत्संपादनेन संख्योपेतमेव 'दान' महा- दानमित्यपिशब्दार्थः, 'एषा' एषैव वक्ष्यमाणस्वरूपान पुनर्देहिनामसंख्यातवित्तवितरणरूपा, तामेवाह, 'तदावे' जगद्गुरु- सद्भावे, 'न' नैव, 'यत्' इति यदेतत् , 'अर्थिन:' तुच्छतया परप्रार्थनशीलाः सन्तीति सम्बन्धः, कुत इत्याह, विशिष्ट- सुखयुक्तत्वात्' अपेक्षया सातिशयानन्दसम्पदुपेतत्वात् , सुखं च संतोषो, यदाह॥"सज्ज्ञानं परमं मित्र-मज्ञानं परमोरिपुः॥ संतोषः परमं सौख्य(स्थ्य)माकाङ्क्षा दुःखमुत्तमम् ॥१॥” 'सन्ति' भवन्ति, 'प्रायेण' बाहुल्येन, अनेन च निरुपक्रमकर्म- जनितधनादानवाञ्छास्तद्भावेऽप्यर्थिनः केचित्सम्भवन्तीत्यावेदयति, भवति चैवं॥ यतः॥ "जगत्प्रिये सुरूपेच, शशिनो रश्मिमण्डले। सत्यप्यम्भोजिनीखण्डं, न विकासं प्रपद्यते ॥” अत एव संख्यातदानसंभवोऽन्यथा तदसम्भव एव स्यादिति, 'देहिनः' प्राणिनः, दृश्यन्ते च द्रव्याणां प्रभावविशेषाः, यतः॥ "समुद्गच्छत्यसौ कोपि, हेतुर्गगनमण्डले ॥ यस्मात्प्रमुदितप्राणि, जायते जगतीतलम् ॥१॥” तदेवमसंख्येयदानस्य महादानत्वाभावादसंख्येयदानदायिनां महानु- भावत्वासिदेर(रित्य)सिद्धो हेतुरित्यभिहितम् ॥ ७॥ तथा । धर्माद्यताश्च तद्योगा-ते तदा तत्त्वदर्शिनः॥ महन्महत्त्वमस्यैव-मयमेव जगद्गुरुः ॥८॥ (बृत्तिः) धर्माद्यताश्च कुशलानुष्ठाननिरताश्च भवन्तिन केवलमनर्थिन इति चशब्दार्थः, 'तद्योगात्' जगद्गुरुसम्बन्धात्, 'ते' देहिनः, 'सदा तस्मिन् जगद्गुरुकाले, तथा तत्वदर्शिनो' भवन्ति, अथवा कुतस्ते धर्मोद्यता इत्याह यतः 'तत्वदार्शनः,

अष्टक
प्रक. वृ०
२७. तीर्थ-
कहाननि-
फलताप-
रिहारा
श्लो०१
---
तत्वं च॥"लेशायासपराः प्रायः, प्राणिनां बाह्यसंपदः।। एकान्तेनापरायतं, सुखं संतोष इष्यते॥१॥” इत्यादिकम् , ततश्च
किमित्याह, महद्'अतिशायि, महत्त्वं' माहात्म्यं महानुभावत्वम् ,अथवा महद्भयो महतां वामहत्त्वं 'महन्महत्त्वम् ,"अस्य'
जिनस्यैव, व्यवच्छेदफलत्वाचनस्येति नान्येषां बोधिसत्वादीनाम्, 'एवम् अनन्तरोदितयानीत्या संख्यावदानतो महा-
दानदायित्वेन महानुभावता इत्येवंरूपया, 'अयमेव' जिनपतिरेव न तु बोधिसत्वः, 'जगद्गुरुः' भुवनभर्तेति, अनेन च
बोधिसत्त्वलक्षणे धर्मिणि महानुभावत्वलक्षणस्य हेतोरसिद्धतोक्ता महानुभावत्वनिवन्धनमहादानस्यामहत्त्वख्यापनात्,
जिनलक्षणे च धर्मिणि महादानताख्यापनतो महानुभावत्वहेतोः सिद्धताभिधानेन जिनस्य जगद्गुरुतोक्ता, अतो निरस्त
'ततो महानुभावत्यादि' दृषणमिति ॥ ८॥ षड्विशतितमाष्टकविवरणं समाप्तम् ॥ २६ ॥
॥ अथ सप्तविंशतितमं तीर्थकृदाननिष्फलतापरिहाराष्टकम् ।।
अनन्तरं जगद्गुरोर्महादानमुक्तम् तच्च न युक्तमिति परमतमावेदयन्नाह ॥
कश्चिदाहास्य दानेन, क इवार्थः प्रसिध्यति ॥ मोक्षगामी ध्रुवं ह्येष, यतस्तेनैव जन्मना ॥१॥
(वृत्तिः)अथ 'कश्चित्' दुर्विदग्धमतिः,'आह' ब्रूते,'अस्य जगद्गुरोः, दानेन' वितरणेन, क इव' न कश्चिदित्यर्थः, 'अर्थ'
पुरुषार्थः धर्मार्थकाममोक्षाणामन्यतमः, फलं वा, 'प्रसिध्यति' निष्पद्यते, अर्थादिषु तस्य निरपेक्षत्वाधानधर्मस्य च
तत्कारणत्वात् , मोक्षार्थः सिध्यतीति चेत्,नेत्याह, 'मोक्षं निर्वाणम्, गमिष्यति यास्यतीति 'मोक्षगामी"ध्रुवं' निश्चितम्,
हिशब्दो जिनदानस्य प्रयोजनाभावभावनार्थः, 'एष' जगद्गुरुः, 'यतो' यस्मात् कारणात् , 'तेनैव' अधिकृतेन यस्मिन्
॥८९॥

जन्मनि दानं ददाति न जन्मपरम्परया, 'जन्मना' भवेन, दानं हि भवपरम्परया मोक्षफलं येन च तद्भवेनैवावश्यं निर्वा- (वर्ति) तव्यं तस्य दानेन न कश्चिदर्थ इति ॥१॥ अमोत्तरमाह ॥ उच्यते कल्प एवास्य, तीर्थकृन्नामकर्मणः ॥ उदयात्सर्वसत्त्वानां, हित एव प्रवर्तते ॥ २ ॥ (वृत्तिः) 'उच्यते' अनन्तरोदिताक्षेपस्य समाधिरभिधीयते, कल्पशब्दः करणार्थो, यदाहा"सामर्थ्य वर्णनायां च, च्छे- दने करणे तथा ॥ औपम्ये चाधिवासे थ, कल्पशब्दं विदुर्बुधाः ॥१॥" करणं च क्रियासमाचार इत्यर्थः, ततश्च 'कल्प एवं' जीतमेव वक्ष्यमाणो दानादिना सर्वसत्वहितवर्तनलक्षणः, 'अस्य जगद्गुरोः, न पुनः फलविशेष प्रति प्रत्याशा, किं- रूपोऽसौ कल्प इत्याह, तीर्थकृतस्तीर्थकरस्य सम्बन्धि तीर्थकरत्वनिषन्धनं यन्नामाख्यं कर्मादृष्टं तत्तथा तस्य 'तीर्थकृनाम- कर्मणः, 'उदयात्' विपाकात्, 'सर्वसत्त्वानां' सकलशरीरिणाम् , इह च हितशब्दयोगेऽपि न चतुर्थी, सम्बन्धस्यैव विवक्षितत्वात् , 'हिते एवं' अनुकूलविधावेव, इह यदिति शेषो दृश्यः तेन यदेतत् प्रवर्तते व्याप्रियते भगवानिति, ततश्चास्य दानात् कल्पपरिपालनं विना नान्यत्फलमस्तीति भावनेति ॥२॥परिहारान्तरमाह ॥ धर्माङ्गख्यापनार्थ च, दानस्यापि महामतिः ॥ अवस्थौचित्ययोगेन, सर्वस्यैवानुकम्पया ॥३॥ (वृत्तिः) धर्मस्य कुशलात्मपरिणामविशेषस्याङ्गमवयवः कारणं वा धर्माङ्ग तस्य ख्यापनं प्रकाशन धर्माङ्गख्यापनं तस्मै 'धर्माङ्गख्यापनार्थ भावप्रत्ययगर्भवानिर्देशस्य धर्माङ्गताख्यापनार्थमितिद्रष्टव्यं महादानं दत्तवानिति प्रक्रमगम्यम्, धर्मा दानम्, भगवता प्रवृत्तत्वात् ,शीलवत्,इति भव्यजनसम्प्रत्ययार्थमित्यर्थः, 'चशब्दः'पूर्वोक्तपरिहारापेक्षया परिहारान्तर- समुच्चयार्थः। कस्येत्याह 'दानस्यापि' विश्राणनस्यापि, न केवलं शीलादेर्धनितेत्यपिशब्दार्थः, महामतिः' अव्याहतपोधो

२७. तीर्थ-
प्रक० ०
कृदाननि-
फलताप-
रिहारा
॥९॥
श्लो०४
भगवान , किं यथाकथञ्चिदस्य धर्मातायाः ख्यापनं नेत्याह, अवस्थाया भूमिकाया औचित्ययोग आनुरूप्यलक्षणधर्म-
सम्बन्धः 'अवस्थौचित्ययोगः' तेन स्वभूमिकोचितत्वेनेत्यर्थः, धर्माङ्गता च तस्य किं गृहिणामेव, नेत्याह, 'सर्वस्यैव'
एवशब्दस्यापिशब्दार्थत्वात् न केवलं गृहिण एव निरवशेषस्यापि दातुर्यतेहिणो वा, 'अनुकम्पया' कृपया, ननु गृहिणा-
मनुकम्पादानमुचितम् , “अणुकम्पादाणं पुण, जिणेहि न कयाइ पडिसिद्ध॥३०” इति वचनात् , यत्पुनः साधुःसाधवे ददाति
तदनुकम्पानिमित्तं न भवति,भक्तिनिमित्तत्वात् तस्य, यत्पुनरसंयताय दानं तत्साघोर्न सम्भवति, “गिहिणो वेयावडियं
न कुजा,अभिवायणं वन्दणं पूयणं च॥३१" इति वचनात् , (दशवैकालिकद्वितीयचूलिकायाम्)ततःसर्वस्यापि गृहस्थस्येति
व्याख्येयम् , नैवम् , यतो विशिष्टपुष्टालम्बनसद्भावे यतेरप्यनुकम्पादानसम्भव इति न दोषः, अमुं धार्थ ग्रन्थकार एव
व्यक्तीकरिष्यति, श्रूयते चागमे आर्यसुहस्त्याचार्यस्य रङ्कदानम् , न चानुकम्पादानं साधुषु न सम्भवति,
"आयरिय-
गुकम्पाए, गच्छो अणुकम्पिओ महाभागो॥३२” इति वचनादिति ॥३॥ धर्मानमेव दानं यतः ॥
शुभाशयकरं ह्येत-दाग्रहच्छेदकारि च ॥ सदभ्युदयसाराङ्ग-मनुकम्पाप्रसूति च ॥ ४ ॥
(वृत्तिः) शुभप्रशस्तमाशयं चित्तं कर्तु शीलमस्येति 'शुभाशयकरम् ,'हि' इति यस्मादेवं तस्माद्धगिता दानस्येति प्रकृतम्
'एतत्' इति दानम्,
तथा 'आग्रहच्छेदकारि च' वित्तं प्रति ममकारलक्षणाभिनिवेशनाशकर्तृ च, 'चशब्दः' समुच्चये, तथा
सन् शोभनोऽभ्युदयान्तरानुषन्धित्वेन योऽभ्युदयः कल्याणावाप्तिस्तस्य साराङ्गं प्रधानकारणं 'सदभ्युदयसाराङ्गम् ,
३०. अनुकम्पादानं पुनर्जिनैर्न कदापि प्रतिषिद्धम् । ३१. गृहिणो वैयावृत्त्यं न कुर्यात् अभिबादनं धन्दनं पूजनं च ॥
३२. आचार्यानुकम्पया गच्छोऽनुकम्पितो महाभागः ।
.
॥९॥

आह च । “दानेन भोगानाप्नोति, यत्र य (त)त्रोपपद्यते॥ शीलेन भोगान् स्वर्ग च, निर्वाणं चाधिगच्छति, ॥१॥” तथा अनुकम्पाया दयायाः सकाशात् प्रसूतिः प्रभवो यस्य तत् 'अनुकम्पाप्रसूति,' 'चशब्दः' समुच्चय इति ॥४॥ यतिनाप्यौचित्येन दान देयमिति ज्ञापकेन समर्थयन्नाह ॥ ज्ञापकं चात्र भगवान् , निष्क्रांतोऽपि द्विजन्मने ॥ देवदूष्यं ददद्धीमा-ननुकम्पाविशेषतः॥५॥ (वृत्तिः)'ज्ञापकंच' उदाहरणं पुनः चशब्दस्य पुनरर्थत्वात् , 'अत्र' अनुकम्पया दाने, भगवान्' वर्धमानस्वामी, किम्भूतो 'निष्कान्तोऽपि' प्रव्रज्याप्रतिपत्त्या गृहवासान्निर्गतोऽपि, आस्तामनिर्गतः, 'द्विजन्मने ब्राह्मणाय, 'देवदूष्यं' देवांशुकम् , 'ददत्' प्रयच्छन्, 'धीमान' ज्ञानचतुष्टययोगान्महाप्रज्ञः, अनेन च "ज्ञानवदासेवितमालम्बनीयं भवति" इत्यावेदितम् ,कुतो दददित्याह, 'अनुकम्पाविशेषतः' दयातिशयादिति, उदाहरणप्रयोगश्चैवम् , यतेरप्यवस्थाविशेषे असंयताय दानमदुष्टम्, अनुकम्पानिमित्तत्वात् , यदनुकम्पानिमित्तं तददुष्टं निष्क्रान्तस्य भगवतो बिजन्मदानवत् , अनुकम्पानिमित्तं च यतेरसं- यतदानम् , तस्मात् तद्दुष्टमिति, अथवा 'ज्ञापकं' हेतुरित्यर्थः, तत्र चैवं प्रयोगः, यद्भगवदासेवितं तद्यतीनां सेवनीयं शीलमिव, आसेवितं च भगवता असंयतदानमिति। श्रूयते च,“किल भगवान्महावीरो महामेघ इवानवरतवसुधाराभिः प्रहतपटुपटहकनादगर्जितध्वनिना निर्विभागं संवत्सरं यावदानवर्षेण विगतवित्तवाञ्छापिपासासन्तापं तर्पकलोकचातक- कुटुम्बकं कृत्वा अमरनरनायकनिकरानुगम्यमानो ज्ञातखण्डवनमुपागत्य परित्यक्तसकलसाः प्रव्रज्यांप्रतिपन्नवान् । अत्र पावसरे भगवपितृवयस्यो ब्राह्मणो देशान्तरसरणपरिक्षीणशरीरकः स्वकीयनिकेतनमागतो भार्यया चाभिहितः यदुत भगवानिखिलभूतलमापूर्णमनरथं वरवरिकावितरणतो विधायानगारितांगतः। भवांस्तु निर्भाग्यतया अर्थार्थी देशान्तरा- कर

प्रक० वृ०
२७. तीर्य-
कहाननि-
फलताप
रिहारा
श्लो०६
ण्वनुसरति, ततस्त्वरितं गत्वा भगवन्तं याचस्व, दास्यतीदानीमपि किञ्चिदिति। ततोऽसौ भगवत्समीपमागत्ययाचितवान्,
भगवास्तु नाकनायकसमर्पितस्य कल्प इतिगृहीतस्य देवदृष्यस्यार्धमनुकम्पापरीतान्त:करणो गुणान्तरापेक्षी तस्मै प्रदत्त-
वानिति” । नन्विहैव ग्रन्थे "तस्यानुकम्पया दाने पुण्यवन्धः प्रकीर्तितः” (७-२)इत्यादिना यतेरसंयतदानं निवारितम्,
"गिहिणो वेयावडियं न कुज्जा" (गृहिणो वैयावृत्त्यं न कुर्यात्) इत्यादिना चागमे, तत्कथं न विरुध्यते । उच्यते,
अवस्थौचित्ययोगेनेति विशेषणोपादानान्न विरोधः, पठन्ति चेहाथै लौकिका अपि ॥"उत्पद्यते हि सावस्था, देशकाला-
मयान् प्रति॥ यस्यामकार्य कार्य स्या-त्कर्म कार्य च (तु) वर्जयेत् ॥१॥ इति ॥५॥ एतदेव स्फुटयनाह ॥
इत्थमाशयभेदेन, नातोऽधिकरणं मतम् ॥ अपि त्वन्यद्गुणस्थानं, गुणान्तरनिबन्धनम् ॥ ६ ॥
(वृत्तिः) इत्थं अनेनानन्तरोत्तेनावस्थौचित्ययोगलक्षणेन, य‘आशयभेदो' अध्यवसायविशेषोऽनुकम्पाविशेषः कथमयं
वराकः कर्मकान्तारोत्तारणेन निखिलासुखविरहभाजनं भविष्यतीत्यादिरूपस्तेन,'न' नैव, 'अतो' असंयतदानात्, अधि-
क्रियते प्राणी दुर्गतावनेनेति अधिकरणं' दानेनासंयतस्य सामर्थ्यपोषणतः पापारम्भप्रवर्तनम् , 'मत' इष्टं वदुषाम् यतस्त-
देवाधिकरण यदुर्गतिनिबन्धनं, यत्पुनर्देहिनां योधिनिमित्ततयापवर्गकारणं तत्कथं तदिति, अनेन च दानादनर्थस्थासंभव
उक्तः। अथ अर्थप्राप्तिमाह, अपितु' इत्यभ्युच्चये, अन्यत्' अधिकृतगुणस्थानकान्मिथ्यादृष्टित्वादेरपरमविरतसम्यग्दृष्टया-
दिकम् , गुणानां ज्ञानादीनां स्थान विशेषो 'गुणस्थान मतमिति प्रकृतम्, किम्भूतम् , विवक्षितगुणादन्यो गुणो गुणान्तरं
सर्वविरत्यादिस्तस्य निबन्धनं हेतुर्गुणान्तरनिबन्धनमिति' ॥६॥ ननु यद्यतोऽसंयतदानाधिकरणं न भवति तदा
कथमस्य प्रशंसाया अपि निषेधपरं सूत्रमिदं न विरुध्यते, यदुताजे उदाणं पसंसन्ति, वहमिच्छन्ति पाणिणं॥जे उ(य) णं
॥९१॥

पडिसेहन्ति, वित्तिच्छेयं करन्ति ते॥१॥३४ ” इत्येतदाशङ्कयाह ॥ ये तु दानं प्रशंसन्ती-त्यादिसूत्रं तु यत्स्मृतम् ॥ अवस्थाभेदविषयं, द्रष्टव्यं तन्महात्मभिः॥ ७॥ (पृत्तिः) ये तु ये पुनः धर्मविचारकाः, 'दान' असंयताय वितरणंजीवोपमर्दका(बा)रकत्वात्, प्रशंसन्ति' श्लाघन्ते, इत्यादि' एतदालापकप्रभृतिकमनन्तरोपदर्शितमसंयतदाननिषेधगर्भार्थम्, 'सूत्रं' अर्थसूचकवाक्यम्, 'तुशब्दः' पुनःशब्दार्थः, 'यस्मृतं' अभिहितं सूत्रकृताओं, 'अवस्थाभेदविषयं दातृपात्रयोदशाविशेषगोचरमपुष्टालम्बनमित्यर्थः, पुष्टालम्बनं त्वा श्रित्यन निषेधपरं तत्, यदाह ॥ “सालम्यणो पडन्तो वि, अप्पयं दुग्गमे विधारेइ॥ इय सालम्बणसेवी, धारेइ जई असढभावा३५॥१॥” 'द्रष्टव्यं' विज्ञेयम् ,'तत्' इत्यनन्तरोक्तं सूत्रम्,'महात्मभिः' सद्भिरिति । स्वकीयासंयतदानसमर्थन- गर्भार्थमिदं प्रकरणं सूरिणा कृतमिति केचित्कल्पयन्ति, हरिभद्राचार्यों हि स्वस्य भोजनकाले शङ्खवादनपूर्वकमर्थिभ्यो भोजनं दापितवानिति श्रूयते, न चैतत्सम्भाव्यते, संविग्नपाक्षिको यसौ, न च संविग्नस्थ तत्पाक्षिकस्य वाऽनागमिकार्यो- पदेशः सम्भवति, तत्त्वहानिप्रसंगात्, आह च॥ “संविग्गोऽणुवएस, न देइ दुम्भासियंकडुविवागंजाणन्तोतम्मि तहा, अतहकारो उ मिच्छ ३६ ॥१॥” इति ॥७॥ उक्त प्रासंगिकम् , अधुना प्रकृतार्थनिगमनायाह, ३४. ये तु दानं प्रशंसन्ति वधमिच्छन्ति प्राणिनां । ये पुनः एतत् प्रतिवेघन्ति वृत्तिच्छेदं कुर्वन्ति ते ॥ ३५. सालम्बनः पतनपि आत्मानं दुर्गमेऽपि धारयति । इति सालम्बनसेवी धारयति यतिरशठभावम् ॥ ३६. संविग्नोऽनुपदेशं न ददाति दुर्भाषितं कटुविपाकम् । आनन् तस्मिन् तथा अतथाकारस्तु मिथ्यात्वम् ।

अष्टक प्रक०० २८ राज्यादि- दानेऽपि तीर्थकृतो दोषाभावा प्रतिपादन ष्टकम् ॥९२॥ * एवं न कश्चिदस्यार्थ-स्तत्त्वतोऽस्मात्प्रसिध्यति ॥ अपूर्वः किन्तु तत्पूर्व-मेवं कर्म प्रहीयते ॥८॥ (वृत्तिः) 'एवं' अनन्तरोक्तेन प्रकारेण कल्प एवास्येत्यादिनाभिहितेन,'न' नैव, 'कश्चित्' कोऽपिचित्,'अस्य तीर्थकृतः, 'अर्थः पुरुषार्थः फलं वा, 'तत्वतः' परमार्थतः, 'अस्मात्' महादानात् , 'प्रसिध्यति' प्रकर्षेण निष्पयते, किम्भूतोऽसा- वित्याह, अपूर्वः'अभिनवो हेत्वन्तराणामसाध्य इत्यर्थः। एवं सर्वथा दानस्य निरर्थकत्वं माभूदित्यत आह 'किन्तु' केवलम्, 'तत्' इति तीर्थकरत्वनिमित्तभूतम् , पूर्व' पूर्वभवोपार्जितम् , एवं' अनन्तरोदितेन महादानलक्षणप्रकारेण, 'कर्म अदृष्टम्, 'प्रहीयते' क्षयं यातुं प्रवर्तते, प्रशब्दस्यादिकार्थत्वात्, अथवा 'तत्पूर्व' दानपूर्वकं 'प्रहीयते' इत्येतस्याः क्रियाया विशेषणमिदमिति ॥ ८॥ सप्तविंशतितमाष्टकविवरणं समाप्तम् ॥ २७॥ ॥ अथ अष्टाविंशतितमं राज्यादिदानेऽपि तार्थकृतो दोषाभावप्रतिपादनाष्टकम् ॥ एवं जगहुँरुविषयां महादानविप्रतिपति निरस्य तस्यैव राज्यदानविषयां तां निरस्यन् परमतं तावदाह । अन्यस्त्वाहास्य राज्यादि-प्रदाने दोष एव तु ॥ महाधिकरणत्वेन, तत्त्वमार्गेऽविचक्षणः॥१॥ (वृत्तिः) 'अन्यस्तु' जगद्गुरुमहादानपूर्वपक्षवाद्यपेक्षया अपरः पुनर्वादी, 'आह' ब्रूते, 'अस्य जगनुरोः, 'राज्यादिप्रदाने' स्वपुत्रादिभ्यो नरनायकत्वकलत्रकलाकर्मशिल्पप्रभृतीनां वितरणे, 'दोष एवं' अशुभकर्मबन्धलक्षणं दूषणमेव, 'तुशब्द' पूरणे, केन हेतुनेत्याह महच्च त रुकमधिकरणं च दुर्गतिहेत्वनुष्ठानं 'महाधिकरणं तद्वावस्तत्त्वं तेन, राज्यादिप्रदान हि महाधिकरणम् , महारम्भमहापरिग्रहकुणिमाहारपञ्चेन्द्रियवधादिहेतुत्वात्तस्य, अग्निशस्त्रादिदान इवेति दृष्टान्तोऽभ्यूयः, लो०१ ॥ ९२० - क एषमाहेत्याह, 'तरथमार्गे वस्तुपरमार्थाध्यनि परिच्छेत्तव्ये, 'अविचक्षणः' अपण्डितः, अविचक्षणत्वं चास्य वक्ष्यमा- णराज्यादिदानहेतोरपरिज्ञानादिति, अथवा 'विचक्षण' इत्युपहासषचन मिति ॥१॥ उत्तरमाह ॥ अप्रदाने हि राज्यस्य, नायकाभावतो जनाः ।। मिथो वै कालदोषेण, मर्यादाभेदकारिणः॥ २॥ विनश्यन्त्यधिकं यस्मा-दिह लोके परत्र च ॥ शक्तौ सत्यामुपेक्षा च, युज्यते न महात्मनः॥३॥ तस्मात्तदुपकाराय, तत्प्रदानं गुणावहम् ॥ परार्थदीक्षितस्यास्य, विशेषेण जगद्गुरोः ॥४॥ (वृत्तिः) अप्रदाने पुत्रादिभ्योऽवितरणे सति, हिशब्दः' पूर्वपक्षपरिहारभावनार्थः, राज्यस्य भूपतित्वस्य, 'नायकाभावतः' स्वामिकाभावात् , 'जनाः' लोकाः, 'मिथ' परस्परेण, 'विनश्यन्ति' इति योगः, 'वैशब्दो' वाक्यालङ्कारे, 'कालदोषेण' अवसर्पिणीलक्षणस्य हीनहीनतरादिस्वभावस्य समयस्यापराधेन हेतुना, 'मर्यादाभेदकारिणः' स्वपरधनदारादिव्यवस्था- लोपकारकाः सन्तः, 'विनश्यन्ति' क्षयमुपगच्छन्ति, नायकसद्भावेऽपि केचिहिनश्यन्तो दृश्यन्त इत्यत्राह, 'अधिक' अत्यर्थम् , 'यस्मात्' कारणात् , क विनश्यन्तीत्याह, 'इहलोके' इहैव मनुष्यजन्मनि प्राणादिक्षयात्, परन' च परलोकेच हिंसानृतधनदारापहारादेः, तथा 'शक्ती' सामर्थे, 'सत्यां विद्यमानायाम्, 'उपेक्षा' अवधीरणा,'चशब्दो' हेत्वन्तरसमुचये, 'युज्यते' घटते, 'न' नैव, 'महात्मनो' जगद्गुरोर्युगादिदेवादेः ॥२-३ ॥ यस्मादेवं 'तस्मात्' कारणात् , तेषां परस्परेण विनश्यतामुपकारोऽनयंत्राणं तदुपकारस्तस्मै तदुपकाराय, तत्पदानं राज्य(ज्यादि)दानम् , 'गुणावह राज्यदातुरुपकारकमेव न पुनर्दोषावहम् , परस्मै इदं 'परार्थ' परोपकारार्थमित्यर्थः, 'दीक्षितस्य कृतनिश्चयस्य, परार्थोद्यतस्येत्यर्थः, 'अस्य' जगद्गुरोः, 'विशेषेण सुतरां सामान्यराज्यदायकापेक्षया, 'जगद्गुरोः' भुवनभर्तुर्जिनस्येति, अनेन च राज्यप्रदानस्य महाधिकरणस्व-

अष्टक
प्रक. वृ
२८
राज्यादि-
दानेऽपि
तीर्थकृतो
दोषामावा
प्रतिपादना
ष्टकम्
भावत्वं व्युदस्तम्, तदानस्यैव महाधिकरणत्वेन प्रसाधनतः परोक्तो महाधिकरणत्वलक्षणो हेतुरसिद्ध इत्युक्तम्,
तदसिद्धेश्च राज्यादिदाने दोष एवेत्यपहस्तितमिति॥४॥राज्यादिदाने दोष एवेत्यत्रादिशब्देन विवाहादिव्यवहारदर्शन
भगवतः सदोषमित्यासञ्जितम्, तत्र परिहारातिदेशमाह ॥
एवं विवाहधर्मादी, तथा शिल्पनिरूपणे॥ न दोषो ह्युत्तमं पुण्य-मित्थमेव विपच्यते ॥५॥
(वृत्तिः) यथा राज्यादि(राज्यदाने नदोषो महाधिकरणत्वाभावाद्गुणावहत्वाच, एवं अनेनैव प्रकारेण, विवाहःपरिणयनं
तद्रूपो धर्मः समाचारो व्रतबन्धो वा 'विवाहधर्मः' तदादौ तत्प्रभृतिके, आदिशब्दात राजकुलग्रामधर्मादिपरिग्रहः,
'तथाशब्दः' समुखये, 'शिल्पनिरूपणे' घटलोहचित्रवस्त्रनापितव्यापारोपदर्शने, किमित्याह, 'न दोषों' नैवाशुभकर्मवन्ध-
लक्षणं दृषणमस्ति भगवतः, इह प्रतिज्ञायां हेतुमाह, हिशब्दो' यस्मादर्थः, ततम यस्मात्, 'उत्तम प्रकृष्टं तीर्थकरनाम-
कर्मलक्षणम्, 'पुण्यं शुभकर्म, 'इत्थमेव' अनेनैव विवाहशिल्पादिनिरूपणप्रकारेण, 'विपच्यते विपाकं याति स्वफलं
ददातीत्यर्थ इति ॥५॥ इहैवाभ्युच्चयमाह ॥
किञ्चहाधिकदोषेभ्यः, सत्त्वानां रक्षणं तु यत् ॥ उपकारस्तदेवैषां, प्रवृत्त्यङ्गं तथास्य च ॥ ६ ॥
(कृत्तिः) किञ्चेति' उत्तरपक्षस्याभ्युच्चयप्रतिपादनार्थः, इहेति' राज्यदानविवाहधर्मशिल्पादिप्ररूपणेषु, 'अधिकदोषेभ्यः'
राज्यादिदानाधिकरणलक्षणदोषापेक्षया ये अधिका अतिरिक्ता दोषाः परस्परोपघातपारदार्यादयस्तेभ्यः, 'सत्वानां' असु.
मताम् , रक्षणं त्राणम्, 'तुशब्दः पुनरर्थः, प्रयोगश्चास्य यत् पुनरित्येवं द्रष्टव्यः, 'उपकारों हितकरणम्, 'तदेव' रक्षणमेव,
'एषां सत्वानाम्, किशान्यत् 'प्रवृश्य राज्यादिदानप्रवृत्तावकं कारणं, तदेवेति प्रकृतम्, 'तथा' इति वाक्यान्तरवल्या-
लो.५-६
॥९३॥

:पनार्थम् , 'अस्य' जगद्गुरोः, 'च: समुच्चयार्थः, अधिकतरानर्थपरिहारलक्षणोपकारकरणाय भगवतस्तत्र प्रवृत्तिरिति भा-
घना आह च ॥ “एसोचिय निहोस, सिप्पाइविहाणमो जिणिन्दस्स ॥ लेसेण सदोसंपि हु, बहुदोसनिवारणतणं७
॥१॥" ति॥ इति ॥ ६॥ उक्तमर्थ दृष्टान्तेन समर्थयाह ॥
नागादे रक्षणं यद्व-दर्ताधाकर्षणेन तु । कुर्वन्न दोषवांस्तद्व-दन्यथासम्भवादयम् ॥ ७॥
(वृत्तिः) 'नागादेः सर्पगोनसादेः सकाशात् रक्षण' इष्टपुत्रादित्राणम् , यवत्' यथा, गादेः'श्वभ्रादेः सकाशात्, आदि-
शब्दात् सोपानपत्यादिपरिग्रहः, 'आकर्षण आक्षेपणं, गाद्याकर्षण' तेनापिकरणभूतेन हनुजानुप्रभृत्याधर्षणलक्षणा-
नर्थकारणेन, अन्यथा रक्षणस्यासम्भवात् इति भावः,'तुशब्दः'अपिशब्दार्थः,'कुर्वन्' विधत्, रक्षणमितियोगः,'न' नैव,
'दोषवान्' दूषणवान्, मात्रादिरिति दृष्टान्तः, अथ दा_न्तिकमाह, 'तबत्' तथा राज्यादि यच्छन् घर्षणतुल्यानर्थस-
म्भवेऽपि नागादिरक्षणकल्पमहानर्थ निवारणलक्षणोपकारसंपादनेन न दोषवान् अयमिति योगः, अथ किमल्पस्थापि
दोषस्याभावेन महानर्थरक्षां न करोतीत्याह, 'अन्यथा' अन्येन प्रकारेण अल्पस्याप्यनर्थस्थानाश्रयणलक्षणेन, 'असम्भ-
वात्' महानर्थरक्षणस्याघटनात्, 'अयमिति' जगद्गुरुरिति । उक्तं च ॥" तत्थ पहाणो अंसो, बहुदोसनिवारणाउ (जेह)
जगगुरुणो॥नागाइरक्खणे जह, कढणदोसे वि सुहजोगो३८ ॥१॥ गत्ता(खडा)तडम्मि वसमे, इहसुय पिच्छिऊण
कीलन्तम् ॥ तप्पञ्चवायभीया, तयाणणहा गया जणणी ॥२॥ दिट्ठो य तीए नागो, तं पइ एन्तो दुओय गडाखडा)ए,
३७ अत एव निर्दोषं शिल्पादिविधानं जिनेन्द्रस्य । लेशेन सदोषमपि खलु बहुदोष निवारणत्वेन ॥१॥
३८ तत्र प्रधानोंऽशो बहुदोषनिवारणात् (णेह) जगद्गुरोः । नागादिरक्षणे यथाँ कर्षणदोषेऽपि शुभ (सुख)योगः ॥१॥
३९ गतिटे विषम इष्टसुतं प्रेक्ष्य क्रीडन्तम् । तत्पस्यपायभीता तदानयनार्थ गता जननी ॥२॥

अष्टक
प्रक वृक्ष
२९
सामायिक
स्वरूप
निरूपणा-
ष्टकम्
॥९४॥
तो कढिओ तगो तह, पीडाए विसुद्धभावाए ॥ ३ ॥ ति"४० ॥७॥
अधिकदोषनिवारणार्थी प्रवृत्तिरस्य किन्निदोषवत्यपि न दुष्टेत्येतस्य पक्षस्यानभ्युपगमे बाधामाह ।
इत्थं चैतदिहैष्टव्य-मन्यथा देशनाप्यलम् ॥ कुधर्मादिनिमित्तत्वा-दोषायैव प्रसज्यते ॥ ८॥
(त्तिः) 'इत्थं च अनेनैवानन्तरोक्तेन गुरुतरानर्थनिवारकत्वलक्षणेन, चशब्दोऽवधारणे, 'एतत् अनन्तरोदितं राज्यप्र-
दानादिकं वस्तु, 'इह' प्रक्रमे, 'एष्टव्यं' अभ्युपगन्तव्यम्, 'अन्यथा एतस्यान युपगमे, 'देशनापि तत्त्वप्ररूपणापि, आस्तां
राज्यादिदानं दोषायैवेति योगः, 'अलं' अत्यर्थम् , कुत इत्याह 'कुधर्माः' शाक्यादिप्रवचनान्यादिर्येषां, श्रुतचारित्रप्रत्य-
नीकत्वादिभावानां ते तथा तेषां 'निमित्तं' हेतुस्तद्रावस्तत्वं तस्मात्, जिनदेशना हि नयशतसमाकुला, नयाश्च कुप्र-
पचनालम्बनभूताः, 'दोषायैव ' अनायैव न पुनर्गुणाय, 'प्रसज्यते' प्राप्नोति, न च भगवद्देशनाया अनर्थ निवन्धनत्व-
मभ्युपगन्तव्यम् , अनन्योपायत्वेन नार्थप्राप्तेरभावप्रसङ्गादिति ॥ ८ ॥ अष्टाविंशतितमाष्टकविवरणं समाप्तम् ॥ २८ ॥
श्लो०१
॥ अथ एकोनत्रिंशत्तमं सामायिकस्वरूपनिरूपणाष्टकम् ॥
राज्यादिदानपूर्वकं च जगद्गुरुः सामायिकं प्रतिपन्नवानिति तत्स्वरूपनिरूपणायाह ।
सामायिकं च मोक्षाङ्गं, परं सर्वज्ञभाषितम् ॥ वासीचन्दनकल्पाना-मुक्तमेतन्महात्मनाम् ॥ १॥
४० दृष्टश्च तया नागस्तं प्रति आयन् द्रुतश्च गर्तायाः । तदाकृष्टस्ततस्तथा पीडायामपि शुद्धभावया इति ॥ ३ ॥
+US
॥९४॥

(वृत्तिः) समस्य रागद्वेषकृतवैषम्यवर्जितस्य भावस्यायो लाभः समायः स एव 'सामायिकं' चारित्रं तच्च, पशब्दात् ज्ञानदर्शने च ॥यदाह॥"सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः"(त. सू.१-१)अवधारणार्थत्वाहा चशब्दस्य सामायिक- मेव, न तु परपरिकल्पितं कुशलचित्तम् , अथवा चशब्दः पुनरर्थः तस्य चैवं प्रयोगः, इह भगवता राज्यदानमहादाना- दीनि कृतानि सामायिक पुनस्तेषु मोक्षाङ्ग निर्वाणकारणम् , नन्वेवं ज्ञानादीनां तदकारणत्वं स्यादित्यत आह 'पर' प्रधा- नमनन्तरमित्यर्थः, ज्ञानादीनां हि सामायिककारणत्वेन मोक्षकारणत्वम्॥ यदाह ॥ “णाणाहियस्स गाणं पुज्जइ, णाणं पवत्सए चरणं ति४१ ॥” तत्किं स्वमतिविकल्पितं नेत्याह 'सर्वज्ञभाषितम्,' अथवा कथमिदमवसितमिति चेदत आह यतः 'सर्वज्ञभाषितं' समस्तवित्प्रणीतम् , मोक्षादयो हि भावा अतीन्द्रियास्ते च सर्वविद्वचनावसेया एव भवन्ति, प्रमाणान्तरस्य तेष्वप्रवृत्तः, एतच्च किं सर्वेषां भवति नेत्याह, वासी लोहकारोपकरणविशेषः, वासीव वासी अपकारकारी तां चन्दनमिव मलयजमिव दुष्कृततक्षणहेतुतयोपकारकत्वेन कल्पयन्ति मन्यन्ते 'वासीचन्दनकल्पाः,' यदाह, “यो मामपकरोत्येष, तत्त्वेनोपकरोत्यसौ॥शिरामोक्षाद्युपायेन कुर्वाण इव नीरुजम् ॥१॥” अथवा वास्यामपकारिणि चन्दनस्य, कल्प इव च्छेद इव य उपकारित्वेन वर्तन्ते 'वासीचन्दनकल्पाः,' ॥आह च ॥ “अपकारपरेऽपि परे, कुर्वन्त्युपकारमेव हि महान्तः ॥ सुरभीकरोति वासी,मलयजमपि(भि) तक्ष्यमाणमपि ॥१॥" वास्यां वा चन्दनस्येव कल्प आचारो येषां ते तथा, अथवा वास्याँ चन्दनकल्पाश्चन्दनतुल्या ये ते तथा, भावना तु प्रतीतैव, तेषां 'वासीचन्दनकल्पानाम् ,' 'उक्तं' अभिहित- माप्तः, नान्येषाम् 'एतत्'सामायिकम् केषामेवंविशेषणानामित्याह, 'महात्मनां' उत्समसस्ववतामिति ॥१॥ ४१ ज्ञानाधिकस्य शानं पूज्यते शानं प्रवर्त्तयति चरणमिति ।

अष्टक
प्रक० ०
२९
सामायिक
स्वरूप
निरूपणा-
॥ ९५॥
श्लो. २
सामायिक फलतः स्वामितश्च निरूपितम् , अथ स्वरूपतस्तदेव निरूपयन्नाह, अथवा मोक्षा सामायिकं यत आह ।
निरवमिदं ज्ञेय-मेकान्तेनैव तत्त्वतः ॥ कुशलाशयरूपत्वा-सर्वयोगविशुद्धितः ॥ २ ॥
(कृत्तिः) निर्गतमवद्याद्गर्हितकर्मणो हिंसादिक्रोधादेरिति निरवचं स्वरूपेण, इदं सामायिकम् , ज्ञेयं ज्ञातव्यम्, एकान्ते-
नैव सर्वथैव न पुनरंशेनापि सावधम् , तथाविधस्य तस्याविशुद्धत्वात्, ॥ यदाह ॥ “पडिसिद्धसु य देसे, विहिएतु य
ईसिरागभावम्मि ॥ सामाइयं असुद्धं, सुद्धं समयाए दोण्हंपि४२ ॥१॥” 'तत्त्वतः' परमार्थतो न तूपचारवृत्त्या, उपचरितं
पवस्तु, तस्कार्याकरणात्, कुत एतदेवमित्याह 'कुशलाशयरूपत्वात् शुभाभिसन्धिस्वभावत्वात् , तस्य सर्वथा निरवद्य-
स्वाभावे हि कुशलाशयत्वं न स्यादिति, ननु ज्ञानदर्शनयोरप्येतदस्तीत्याह 'सर्वयोगविशुद्वितः' समस्तमनोवाकाय-
व्यापारशुद्धिभावात्, न हि ज्ञानादिषु योगविशुद्धिरस्तीति ॥२॥
अथोक्तरूपसामायिकविलक्षणं शाक्यपरिकल्पितं कुशलचितं मोक्षातया निषेधयन्नाह ।
यत्पुनः कुशलं चित्तं, लोकदृष्टया व्यवस्थितम् ॥ तत्तथौदार्ययोगेऽपि, चिन्त्यमानं न तादृशम् ॥३॥
(पृत्तिः) सामायिकं तावत् मोक्षाग, 'यस्पुनः' यदित्युद्देशे पुनरिति विशेषणार्थः, 'कुशलं' शुभम्, 'चित्त' मनः,
कि
तत्त्वतः कुशलं नेत्याह 'लोकदृष्टया' सामान्यजनदर्शनेन, लोकोत्तरजनदृष्टथा तु तस्य विचार्यमाणस्य कुशलाभासतैव,
'व्यवस्थित प्रतिष्ठितम् , 'तत्' चित्तम् , 'तथेति तथाविधस्य सामान्यषुद्विजनसम्मतस्य 'औदार्यस्य' उदारताया, 'योग'
सम्बन्धः 'तथौदार्ययोगः तत्रापि, आस्तां तदयोगेऽपि, 'चिन्त्यमानं' विचार्यमाणम्, 'न' नैव, 'तादृशं' सामायिकस-
४२ प्रतिषिद्धेषु च देशे विहितेषु चेषद्रागभावे । सामायिकमशुद्धं शुद्धं समतायां योरपि ॥
॥९५॥

दृशम्, यत्किल सामायिकादधिकतमतया सम्मतं परेषां तद्विचार्यमाणं तत्सममपि न भवतीति कथं तन्मोक्षामिति ॥ ३ ॥ अथ तदेव मायापुत्रीयकल्पितं कुशलचित्समुपदर्शयन्नाह । मय्येव निपतत्वेत-ज्जगदुश्चरितं यथा ॥ मत्सुचरितयोगाच्च, मुक्तिः स्यात्सर्वदेहिनाम् ॥ ४॥ (वृत्तिः) 'मयि' इत्यनेन बोधिसत्त्व आत्मानं निर्दिशनि, एवशब्दोऽवधारणे, तेन मय्येव न पुनः परत्र, 'निपततु' नित- रामापद्यताम्, 'एतत् प्रतिप्राणिप्रत्यक्षमक्षुण्ण(लक्षणं) सांसारिकासुखकारणम् , 'जगतां प्राणिनां 'दुश्चरित' हिंसादि- निबन्धनं कर्म 'जगदुश्चरितम् ,' 'यथा' इत्युपदर्शनार्थः, तस्य चैवं सम्बन्धः तत्तयौदार्ययोगेऽपि चिन्त्यमानं न तादृशं यथा एतन्मय्येवेत्यादि, तथा 'मत्सुचरितयोगात्' मदीयाहिंसादिसदनुष्ठानसम्बन्धात्, चशब्दः समुच्चये, 'मुक्तिः मोक्षः, 'स्यात्' भवेत्, 'सर्वदेहिनां सकलसंसारिणामिति कुशलचित्तमिति ॥४॥ कस्मादिदं तथौदार्ययुक्तमपि न सामायिकसदृशं भवतीत्याह । असम्भवीदं यद्वस्तु, बुद्धानां निर्वृतिश्रुतेः ॥ सम्भवित्वे त्वियं न स्या-तत्रैकस्याप्यनिर्वृतौ ॥ ५॥ (वृत्ति:) 'असम्भवि' न सम्भवनस्वभावम् , 'इदं अनन्तरोदितम्, 'यत्' यस्मात् , 'वस्तु' अन्यकृतकर्मणोऽन्यत्र सम्ब- न्धलक्षणोऽर्थः, कुत इत्याह 'बुद्धानां बोधिसत्वानाम् , 'निर्वृतिश्रूतेः' निर्वाणगमनश्रवणात् तदागमे ॥ तथाहि ॥ "गङ्गा- वालुकासमा बुद्धा निर्वृता" इति तदागमः ॥अयमभिप्रायो यदि जगदुश्चरितं बुद्ध न्यपतिष्यत्तदा तस्य निर्वाणं नामवि- व्यत्, इष्यते च तत्तस्य, इति असम्भवीदं वस्तु, एतदेवाह, 'सम्भवित्वे तु' भवनस्वभावत्वे पुनरस्य वस्तुनः, 'इयं' श्रूयमाणा बुद्धनिर्वतिः 'न स्यात्' न भवेत्, 'तत्र' तेषु जगत्सु मध्ये, 'एकस्यापि' जगत आस्तां बहूनाम्, 'अनिर्वृतो' अष्टक प्रक. वृक्ष सामायिक स्वरूप निरूपणा- ॥ ९६॥ श्लो०६ अनिर्वाणे सति, अतोऽसंभविवादस्य वस्तुन एतत् कुशलचित्तं न सामायिकसदृशमिति ॥५॥ यदि सामायिकसदृशं नेदं चित्तं तर्हि किंविधमित्याह । तदेवं चिन्तनं न्याया-त्तत्त्वतो मोहसङ्गतम् ॥ साध्ववस्थान्तरे ज्ञेयं, बोध्यादेः प्रार्थनादिवत् ॥ ६ ॥ (वृत्तिः) 'तत्' इति यस्मादसंभवीदं वस्तु तस्मात् , 'एवं' अनन्तरोदितं मरयेवेत्यादि, 'चिन्तनं ध्यानम्, 'न्यायात्' उपदर्शितादसम्भवित्वलक्षणात् नयात्, 'तत्त्वतः' परमार्थचिन्तायाम्, 'मोहसतं' मोहनीयकर्मोदयानुगतम्, मोहो- दयाभावे हि समस्तविकल्पोत्कलिकावर्जितमेव चित्तं भवति, सरागावस्थायां पुनः स्यादप्येवंविधं चित्तं साधुता च तस्य स्यादित्याह, 'साधु' शोभनमनन्तरोदितं प्रणिधानम्, 'अवस्थान्तरे' सरागावस्थायां, न पुना रागक्षये, 'ज्ञेयं ज्ञात- व्यम् , किंवदित्याह 'बोध्यादेः' आरोग्यबोधिलाभादेः, आदिशब्दात् समाधिवरपरिग्रहः, 'प्रार्थनादिवत्' याश्चादि यथा, यदाह॥ "आरुग्गयोहिलाभ, समाहिवरमुत्सम दिंतु४॥" आदिशब्दादर्हदादिरागपरिग्रहः, यदाह ॥"अरिहन्तेसु य रागो, रागो साहूसु बम्भयारीसु ॥एस पसत्यो रागो, अन्न सरागाण साहणं४४॥१॥" अयमभिप्रायः, यद्यपि प्रार्थनीयानामर्हता वीतरागतया बोधिलाभादिदानमसम्भवि, तथापि रागवतो भगवत्सु भक्तिमावेदयतो भावोत्कर्षादिदं साध्वेव, आह च॥"भासा असञ्चमोसा, नवरं भत्तीइ भासिया एसा ॥ न हु खीणपेजदोसा, देन्ति समाहिं च बोहिं च४५॥१॥” यदि च मोहसंगतमप्यौदार्यमात्रापेक्षया मय्येवेत्यादिचिन्तनमनधयं स्यात्तदा एतदनवद्यतरं भविष्यति, यथा ॥ “अन्धादीनां ४३ आरोग्यबोधिलाभं समाधिवरमुत्तमं ददतु ॥ ४४ अर्हत्सु च रागो रागस्साधुषु ब्रह्मचारिषु । एष प्रशस्तो राग आर्य ? सरागाणां साधूनाम् ॥ ४५ भाषा असत्यमृषा केवलं भक्त्या भाषितैषा । न खलु क्षीणप्रेमद्वेषा ददति समाधिं च बोधिं च॥

यदज्ञान-मास्तां मय्येव तत्सदा॥मदीयज्ञानयोगाच्च, चैतन्यं तेवु सर्वदा ॥१॥" अथैतदसंभवान्मोहसंगतमिति चेत्, इत- रत्राप्यसंमवित्वं तुल्यमेवेति । अस्य च श्लोकस्य प्रथमपादमन्यथापि पठन्ति, तद्यथा 'एवं च चिन्तनं येतत्' इति, अर्थ- स्तु प्रकट एवेति ॥ ६ ॥ यदपि व्याघ्रादेः स्वकीयमांसदानादावतिकुशलं चित्तं परेणेष्यते, तदपि सामायिकापेक्षया असाध्विति दर्शयन्नाह । अपकारिणि सद्बुद्धि-विशिष्टार्थप्रसाधनात् ॥ आत्मम्भरित्वपिशुना, तदपायानपेक्षिणी ॥७॥ (वृत्तिः) 'अपकारिणि' अपकारकरणशीले बुद्धमांसभक्षके व्याघ्रादौ दुर्जने वा विषयभूते, सन् शोभनोऽयमिति बुद्धि- मतिः 'सबुद्धिः',कुत इत्याह विशिष्टार्थस्य पीडोत्पादकतया कर्मकक्षकर्तनसाहाय्यककरणतः सकलशरीरनिवृतिहेतुभूत- सर्वज्ञतासौधशिखरारोहणलक्षणस्य प्रधानवस्तुनः प्रसाधनं निष्पादनं 'विशिष्टार्थप्रसाधनं' तस्मात् , या सद्बुद्धिः सा किमित्याह, आत्मानमेव न परं विभर्ति पुष्णातीति आत्मम्भरिस्तद्रावं पिशुनयति सूचयतीति 'आत्मम्भरित्वपिशुना', कुत एतदित्याह यतोऽसौ तेषां बुद्धशरीरापकारिणां व्याघ्रादीनां येऽपाया दुर्गतिगमनादयस्तानापेक्षत इत्येवंशीला 'तदपायानपेक्षिणी', आत्मम्भरित्वं परापकारानपेक्षित्वं च महढ्षणं महतामिति ॥ ७॥ प्रकृतमुपसंहरन्नाह । एवं सामायिकादन्य-दवस्थान्तरभद्रकम् ॥ स्याच्चित्तं तत्तु संशुद्धे- यमेकान्तभद्रकम् ॥ ८॥ (कृत्तिा) एवं' अनन्तरोक्तनीत्या मोहसातत्वाभिधानलक्षणया, 'सामायिकात्' मोक्षभवादिसकलभावोपेक्षालक्षणात, 'अन्यत्' अपरं, "मय्येव निपतस्वित्यादि" परपरिकल्पितं "आरुग्गषोहिलाभमित्यादि" जैनकल्पितं च चित्तमिति योगा, अवस्थान्तरे योग्यताविशेषे एव साभिष्वङ्गतायामेव, न तु केवलित्वे, भद्रकं कल्याणं युक्तं 'अवस्थान्तरभद्रकम्', 'स्यात् ,

अष्टक
प्रक. वृक्ष
किवलज्ञा-
नाष्टकम्
॥९७॥
लो०१-२
भवेत् , 'चित्तं मनः, 'तत्तु' सामायिकं पुनः, 'संशुद्धः' समस्तदोषवियोगाद्वेतोः, 'ज्ञेयं ज्ञातव्यम्, 'एकान्तभद्रक' सर्व-
थैव शोभन मिति ॥८॥ एकोनत्रिंशत्तमाष्टकविवरणं समाप्तम् ॥ २९॥
॥ अथ त्रिंशत्तमं केवलज्ञानाष्टकम् ॥
अनन्तरं सामायिकमेकान्तभद्रकमुक्तम्, तच्च कथम् , उच्यते, यतः ।
सामायिकविशुद्धात्मा, सर्वथा घातिकर्मणः ॥ क्षयात्केवलमाप्नोति, लोकालोकप्रकाशकम् ॥१॥
(वृत्तिः) 'सामायिकेन' पूर्वोक्तस्वरूपेण विशुद्धो निर्मलीकृत 'आत्मा' स्वभावो यस्य स तथा, 'सामायिक' वा 'विशुद्धं'
यस्य स तथा, सचासौ 'आत्मा' चेति, स इत्थम्भूतो जीवः, 'सर्वथा' सर्वैः प्रकारैः, घातयति जीवगुणान्नाशयतीत्येवंशीलं
घाति, क्रियत इति कर्म, घाति च तत्कर्म चेति 'घातिकर्म' ज्ञानावरणदर्शनावरणमोहनीयान्तरायाख्यं तस्य, 'क्षयात्',
विनाशात्, किमित्याह केवलं' केवलज्ञानं केवलदर्शनं च, 'आप्नोति' लभते, किम्भूतमित्याह, लोकालोकौ ॥ "धर्मा-
दीनां वृत्ति-द्रव्याणां भवति यत्र तत् क्षेत्रं ॥ तैव्यैः सह लोक-स्तविपरीतं त्यलोकाख्यम् ॥१॥” इत्येवमुक्तलक्षणी
प्रकाशयतीति 'लोकालोकप्रकाशकं' इति ॥१॥
सामायिकेन विशुद्धस्थ विशुद्धसामायिकस्य वा जीवस्य केवलावाप्तिर्भवतीत्युक्तमेतदेव भावयन्नाह ।
ज्ञाने तपसि चारित्रे, सत्येवास्योपजायते ॥ विशुद्धिस्तदतस्तस्य, तथाप्राप्तिरिहेष्यते ॥२॥
(कृत्ति) 'ज्ञाने' ज्ञेयप्रकाशके दीपकल्पे श्रुतादौ, ज्ञानग्रहणात्सम्यक्त्वमपि गृहीतं द्रष्टव्य, तबिहीनस्य ज्ञानस्य अज्ञानत्वात्,
॥९७॥

तथा 'तपसि' पुराणकर्मकचवरशोधके कर्मकरपुरुषकल्पेऽनशनादौ, तथा 'चारित्रे'च अभिनवकर्मरेणुनिवारणफले छिद्रस्थगनकल्पे संयमे, चशब्दो लुप्तोऽत्र द्रष्टव्यः, ज्ञानादिग्रहणं चेह एतस्य त्रयस्यात्मशुद्धाववन्ध्यकारणत्वेनाभि- हितत्वात् , तथाहि ॥ “णाणं पयासयं सो-हओ तवो संजमो य गुत्तिकरो॥तिण्हपि समाओगे, मुक्खो जिणसासणे भणिओ४॥१॥" एतस्मिन् त्रये, 'सत्येव विद्यमान एव, 'अस्य' आत्मनः सामायिकस्य वा समभावरूपस्य 'उपजायते' भवति, कासौ 'विशुद्धिः' घातिकर्ममलविलयलक्षणा यथाख्यातरूपा वा, ततश्च ज्ञानतपश्चारित्राणां सामायिकस्वभाव- स्वात्सामायिकेन विशुद्धो भवत्यात्मा ज्ञानादिभिर्वा सामायिकं विशुद्धधतीति, अनेन च "सामायिकविशुद्धात्मा" इति भावितम् , अथ शेषभावनायाह, 'तत्' इति यत एवं तत्तस्मात् , 'अतो' ज्ञानादित्रयरूपसामायिककृतजीवविशुद्धः सा- मायिकविशुद्धा सकाशात् , 'तस्य केवलज्ञानस्य, 'तथा' तेन प्रकारेण घातिकर्मक्षयलक्षणेन मोहक्षयलक्षणेन वा, 'प्राप्तिः' लाभा, 'इह' प्रक्रमे, 'इष्यते' तत्त्ववेदिभिरभिमन्यत इति ॥ २ ॥ अथ किं स्वरूपं केवलज्ञानमित्याह । स्वरूपमात्मनो ह्येत-किन्त्वनादिमलावृतम् ॥ जात्यरत्नांशुवत्तस्य, क्षयात्स्यात्तदुपायतः ॥३॥ (वृत्तिः) 'स्वरूप' स्वभाव एव, अवधारणार्थस्य हिशब्दस्येह सम्बन्धात्, कस्येत्याह 'आत्मनो' जीवस्य, 'एतत्' केवलज्ञानम्, एतेन घेदमुक्तं भवति, न प्रकृतिवियोगमानं केवलज्ञानं तस्याभावरूपत्वात्, नापि आत्मनो भिन्नं पुरु- पान्तरज्ञानवदसंवेदनप्रसङ्गात्, नापि समवायवशात् तत्र वर्तत इति समवायकृतो विशेषः, तस्यैकत्वेन सर्वत्रता नप्रसादिति, ननु योतदात्मनः स्वरूपं तत्कुतः सदा नोपलभ्यत इत्यत्राह, 'किन्तु' केवलं अनादिः अप्राथम्यो यो मलो ४६ ज्ञान प्रकाशकं शोधकं तपः संयमश्च गुप्तिकरः । प्रयाणामपि समायोगे मोक्षो जिनशासने भणितः ॥

अष्टक
प्रक० ०
केवलज्ञा-
नाष्टकम्
.
॥९८॥
श्लो. ४
ज्ञानावरणादिकर्मरूपः तेनावृतमाच्छादितं 'अनादिमलावृतं' इति कृत्वा सदा नोपलभ्यते, अनादित्वं च कर्ममलस्य
प्रवाहापेक्षया, सादित्वे चास्य मुक्तस्येव बन्धाभावः स्यादिति, किंवदित्याह जात्यं प्रधानं यद्रत्नं माणिक्यं मरकतादि
तस्यांशवः किरणास्त इव 'जात्यरत्नांशुवत्,' 'तस्य' अनादिमलस्य, 'क्षयात्' विनाशात, 'स्यात्' सञ्चायते, 'तत्'
केवलज्ञानम् , मलक्षय एव कथं स्यादित्याह 'उपायतः' उपायादेतोः सामायिकाभ्यासलक्षणात्, नन्वनादित्वादेव न
युक्तोऽस्य कर्ममलवियोगो न्योमात्मनोरिव, नैवम्, अनादित्वेऽपि रत्नांशुमलसंयोगस्योपायतः क्षयदर्शनात्, आह
च ॥"जह बेह कंचणोवल-संजोगोऽणाइसंतहगओ वि॥वोच्छिज्जइ सोवाय, तह जोगो जीवकम्माणं ति४७ ॥१॥"॥॥
नन्वात्मरूपत्वेऽपीदं, केवलज्ञानं कथं लोकालोकप्रकाशकमित्यत आह ।
आत्मनस्तत्स्वभावत्वा-ल्लोकालोकप्रकाशकम् ॥ अत एव तदुत्पत्ति-समयेऽपि यथोदितम् ॥ ४ ॥
(वृत्तिः) 'आत्मनः' जीवस्य, तत् लोकालोकप्रकाशनं स्वभावाऽस्य स तद्भावस्तत्त्वं तस्मात् 'तत्स्वभावत्वात्', 'लोका-
लोकप्रकाशकं' सकलपदार्थसार्थाविर्भासकमित्यर्थः, केवलमिति प्रकृतम्, ननूत्पत्तिसमये तद्यथोक्तप्रकाशं न सङ्गत-
मुत्पद्यमानत्वात् दीपादिरिव, दीपो हि क्रमेण स्वप्रकाश्यं प्रकाशयतीत्यत आह 'अत एवं' इति यत एव तत् लोका-
लोकप्रकाशकस्वभावात्मरूपं अत एव कारणात् , 'तत्' केवलज्ञानम्, 'उत्पत्तिसमयेऽपि' प्रादुर्भावक्षणेऽपि, आस्तामु.
त्पत्तिसमयानन्तरम्, 'यथोदितं' उक्तस्वरूपमेव युगपल्लोकालोकप्रकाशकमित्यर्थ इति ॥४॥
अथेदं किं प्राप्य विषयं परिच्छिनत्ति ? अप्राप्य वा?, अप्राप्येति ब्रूमः, कथम् ? , यतः ।
४७ यथा वेह काञ्चनोपलसंयोगोऽनादिसंततिगतोऽपि । व्यवच्छिद्यते सोपायं तथा योगो जीवकर्मणामिति ॥
॥९८॥

आत्मस्थमात्मधर्मत्वा-संवित्या चैवमिष्यते ॥ गमनादेरयोगेन, नान्यथा तत्त्वमस्य तु ॥५॥ (पृत्तिः) आत्मनि जीवे शरीरपरिमाणे तिष्ठतीति ‘आत्मस्थम्', शरीरपरिमाणता चास्य तत्रैव तद्गुणोपलब्धेः, कुत आत्मस्थं तदित्याह 'आत्मधर्मत्वात्' जीवपर्यायत्वात् । यो हि यस्य धर्मः स तत्रैव वर्तते यथा घटे रूपम्, आत्म- धर्मश्च केवलज्ञानमिति । न केवलमात्मधर्मत्वात्तदात्मसंस्थं, 'संवित्त्या च' स्वसंवेदनाच हेतोः, तथाहि, यद्यत्र संवेद्यते तत्सत्रैव वर्तते यथा घटे रूपम् , संवेद्यते चात्मनि ज्ञानमित्यात्मस्थज्ञानसिद्धिः, तथा यद्यज्ज्ञानं तत्सदात्मस्थं यथा रूप- ज्ञानं, ज्ञानं केवलमिति, एवं' अनेन प्रकारेणात्मस्थतालक्षणेन, 'इष्यते' अभिमन्यते, केवलमिति प्रक्रमः, तदेवं संवे- दनात्प्रणालिकयात्मस्थकेवलसिद्धिः, अथवा 'आत्मस्थं केवलम् , 'आत्मधर्मत्वात्', अथ आत्मधर्मत्वमेव कथमित्याह, 'संवित्या' पुनः,' एवं 'आत्मधर्मत्वेन,'इष्यते' केवलज्ञानम्, संवेद्यते यात्मधर्मतया ज्ञानं, ज्ञानं च केवलमित्यात्मधर्मस्त- दित्यात्मधर्मवलक्षणहेतुसिद्धिः, तथा 'गमनादेः' केवलज्ञानस्य ज्ञेयदेशेगत्यादेः, आदिशब्दात् ज्ञेयदेशं गत्वा पुनः स्व- स्थानागमनग्रहः, 'अयोगेन' अयुज्यमानत्वेन, केवलस्य हि ज्ञेयदेशगमने आत्मनो निःस्वभावत्वं स्यात् तत्स्वरूपत्वादा- स्मना, केवलस्य चात्मधर्मत्वं न स्यात् आत्मविरहेऽपि भावादिति, किमित्यत आह, 'नान्यथा' नैवान्येन प्रकारेण प्राप्य परिच्छेदतोऽनात्मस्थतालक्षणेन, 'तत्वं' तत्स्वरूपम्, 'अस्य' केवलस्य, 'तु'शब्दोऽवधारणे, तस्य च प्रयोगो दर्शित एव, ततो यदभिधीयते ॥ "अन्जवि धावइ नाणं, तहवि अलोओ अणन्तओ चेव ॥ अज्जविन कोइ एवं, पायह सव्वण्णुयं जीवोशत्ति८॥" तन्निरस्तमिति, अथवा 'गमनादेरयोगेनात्मस्र्थ' तदितियोगः, 'अन्यथेति गमनादिसदावे पुनः, 'तत्त्वं ४८ अद्यापि धावति शानं तथापि अलोकोऽनन्तक एव । अद्यापि न कोऽपि एवं प्राप्नोति सर्वशत्वं जीव इति ॥ -

प्रक.
केवलज्ञा-
नाष्टकम्
॥९९॥
लो० ६-७
केवलत्वं, अस्य' न स्यात्', केवलज्ञानं हिसकलज्ञानमुच्यते अलोकश्चानन्तस्वेन गमनतः सकलो ज्ञातुमशक्या, 'तुशब्दः'
पुनरर्थो योजितश्चेति ॥५॥ अथ यदीदमात्मस्थमेव तदा कथं चन्द्रादिप्रभोपमानमेतदभिधीयते ॥"स्थितः शीतांशुव-
ज्जीवः, प्रकृत्या भावशुद्धया ॥ चन्द्रिकावच विज्ञानं, तदाबरणमभ्रवत् ॥१॥” इति । अत्रोत्सरमाह-
यञ्च चन्द्रप्रभायत्र, ज्ञातं तज्ज्ञातमात्रकम् ॥ प्रभा पुद्गलरूपा य-तद्धर्मो नोपपद्यते ॥६॥
(कृत्ति:) आत्मस्थमेवेदं तावत्केवलज्ञानं यच्च' यत्पुनः, 'चन्द्रप्रभादि' शीतांशुरश्मिप्रभृतिकं, आदिशब्दादादित्यदीपादि-
परिग्रहः, 'अन' केवलज्ञानस्वरूपे ज्ञापयितव्ये प्रकाशमात्रसाधर्म्यात्, 'ज्ञातं' ज्ञापकम् , तत्किमित्याह, ज्ञातमेव ज्ञात-
मात्र, तदेव चावगीतं 'ज्ञातमात्रक' विशिष्टसाधाभावात् , कुत एतदेवमित्याह 'प्रभा' दीप्तिः 'पुद्गलरूपा' परमाणु.
प्रचयस्वभावा, 'यत्' यस्मात् कारणात् ततोऽसौ प्रभा, 'तद्धर्मः' चन्द्रादिपर्यायः, 'नोपपद्यते' न घटते, न हि पुद्गलानां
धर्मतास्ति, द्रव्यत्वात्, तदेवं केवलस्य जीवधर्मस्वात् प्रभायाश्चाधर्मत्वात् न सर्वसाधर्म्य ततो ज्ञातमात्रकमेवैतदिति,
अथवा प्रभा पुद्गलरूपा यत्सतश्च प्रभाकेवलयोविशिष्टसाधाभ्युपगमे तदिति' केवलज्ञानं, 'धर्मो जीवपर्यायो, 'नोप-
पद्यते, द्रव्यत्वेन प्रभायाः केवलस्यापि द्रव्यत्वप्राप्तेरन्यथा सर्वसाधय न स्यादित्यतो ज्ञातमात्रकत्वमिति ॥६॥
पुनातमात्रतामेवास्य समर्थयन्ताह-
अतः सर्वगताभास-मप्येतन यदन्यथा ॥ युज्यते तेन सन्न्याया-संवित्त्यादोऽपि भाव्यताम् ॥ ७ ॥
(वृत्तिः) 'अत:' एतस्माचन्द्रप्रभाज्ञातात्, सर्वेषु समस्तेषु वस्तुषु गतः प्राप्त आभासः प्रकाशो यस्य तत् 'सर्वगतामास
न केवलमात्मस्थं आत्मधर्मो वा न युज्यते 'सर्वगताभासमपि न युज्यत इति सम्बन्धः, 'एतत्' केवलज्ञानम्, 'न' नैव,
॥९९॥

'यत्' यस्मात् कारणात, 'अन्यथा' अनन्तरोक्तप्रकारात् प्रकारान्तरेण चन्द्रप्रभाज्ञातस्य सर्वसाधर्म्यज्ञाततालक्षणेन, 'युज्यते', घटते, अघटना चैवं, चन्द्रप्रभा हि न सर्वगताभासा तत्साधाच्च केवलमपि तथा स्यादिति, 'तेन' इति तस्मात्कारणात, 'सन्न्यायात्' उक्तलक्षणया शोभनोपपत्त्या, 'संवित्या' स्वसंवेदनेन च, 'अदोऽपि' एतदपि प्रभा- ज्ञातस्य ज्ञातमात्रत्वमपि, न केवलमात्मस्थत्वं केवलस्य, 'भाव्यता' पर्यालोच्यताम् , तथा हि संवेद्यत एव ज्ञातस्य ज्ञात- मात्रत्वं प्रभायाः पुद्गलद्रव्यत्वेन केवलस्य जीवधर्मत्वेन वैधर्म्यस्येष्टत्वादिति ॥७॥ अथ पूर्वोक्तस्वरूपं केवलज्ञानं निगमयन्नाह । नाद्रव्योऽस्ति गुणोऽलोके, न धर्मान्तो विभुर्न च ॥ आत्मा तद्गमनायस्य, नास्तु तस्माद्यथोदितम् ॥८॥ (त्तिः) 'न' नैव, 'अद्रव्यो' द्रव्यवर्जितः, 'अस्ति' विद्यते, 'गुणो' धर्मः, “द्रव्याश्रया निर्गुणा गुणाः" इति वच- नात्,(त. ५.४०) अत आत्मगुणत्वात् केवलस्य, आत्मस्थमेव तदिति गर्भः, तथा, अलोके' केवलाकाशे, 'न' नैव, धर्म धर्मास्तिकायो जीवपुद्गलानां गत्युपष्टम्भकारी अन्तच पर्यवसानं 'धर्मान्तौ', स्त इति गम्यते, इदमुक्तं भवति, लोके गमनसंभवात् सम्भवति नदनात्मस्थमपि लोकप्रकाशकम् , अलोके पुनर्धर्मास्तिकायाभावाद्गमनाभावेन अन्ताभावाचा सर्वत्रालोके गन्तुमशक्तत्वेनात्मस्थमेव सत्सदलोकप्रकाशकमिति, अथ सर्वगतत्वादात्मन आत्मस्थमपि केवलं लोकालोक- प्रकाशक भविष्यतीत्याशङ्कयाह, 'विभुः' सर्वव्यापी, 'न च' नैव च, 'आत्मा' जीवः, शरीरमात्र एव चैतन्योपलब्धेः, अतः शरीरावगाहमानमेव सत् तत् सर्वाभासकमिति भावः, 'तत्' इति यस्मादेवं तस्मात् , 'गमनादि' गत्यादिका किया, आदिशब्दादगमनपरिग्रहः, 'अस्थ' केवलज्ञानस्य, 'न' नैव, अस्तीति गम्यते, 'अस्तु' भवतु, 'तस्मात् कार-

प्रक० वृक्ष
तीर्थकृहे.
शनाष्टकम्
॥१०॥
श्लो०१.२
णात्, 'यथोदितं' यथाभिहितमात्मस्थं केवलमित्यर्थ इति ॥ ८॥ त्रिंशत्तमाष्टकविवरणं समाप्तम् ॥ ३० ॥
॥ अथ एकत्रिंशत्तमं तीर्थकृद्देशनाष्टकम् ॥
ननु केवलज्ञानावाप्तौ कृतकृत्यो भगवान् किमिति धर्मदेशनायां प्रवर्तत इत्याशङ्कायामाह ।
वीतरागोऽपि सदेद्य-तीर्थकृन्नामकर्मणः ॥ उदयेन तथा धर्म-देशनायां प्रवर्तते ॥१॥
(त्तिः) 'वीतरागोऽपि' विगताभिष्वङ्गोऽपि, सरागः किल प्रवर्तत इत्यपिशव्दार्थः, सदेद्यं च सातवेदनीयं तीर्थकृनाम
च सद्यतीर्थकृन्नाम्नी ते एव कर्म 'सवेद्यतीर्थकृनामकर्म', अथवा सता शोभनेन धर्मदेशनादिना प्रकारेण यद्यते
तत् 'सोय' तब (तत्) 'तीर्थकृन्नामकर्म' च तस्य, 'उदयेन' विपाकेन, 'तथा' तेन प्रकारेण समवसरणादिश्रीसम-
नुभवलक्षणेन, 'धर्मदेशनायां' कुशलानुष्ठानप्रज्ञापनायाम् , 'प्रवर्तते' व्याप्रियते इति ॥१॥ कर्मस्वरूपमेवाह ।
वरबोधित आरभ्य, परार्थोद्यत एव हि ॥ तथाविधं समादत्ते, कर्म स्फीताशयः पुमान् ॥ २ ॥
(वृत्तिः) 'वरबोधितो' विशिष्टसम्यग्दर्शनलाभात्, 'आरभ्य' तत्प्रभृति, 'परार्थोधत एव' परहितकरणोधमवानेव
नान्यथाविधः, पुमानिति योगः, आह च
*अरहन्तमिद्ध"
इत्यादि, 'हिशब्दो' वाक्यालङ्कारे, तथा नत्प्रकारा विधा
* अरिहंत १ सिद्ध २ पवयण ३, गुरु ४ थेर ५ बहुस्सुए ६ तवस्सीसुं ७ (य)॥ वच्छल्लया य एसिं, अभिक्खनाणोवओगे ८ य ॥१॥
दलण ९ विणए १० आव-स्सए ११ य सील १२ व्वर १३ निरस्यारो ॥ खणलव १४ तव १५ दियाए १६, यावच्चे समाही १७
य ॥ २॥ अपुव्वनाणगहणे १८, सुयभत्ती १९ पधयणे पभावणया २० ॥ एपहिं कारणेहिं. तित्थयरतं लहा जीवो ॥३॥
"
॥१०॥

स्वभावो यस्य तत् 'तथाविधं' प्रकृतधर्मदेशनानिबन्धनं तीर्थकृन्नामकर्मेत्यर्थः, 'समादत्ते' बन्नाति, 'कर्म' अदृष्टम् , 'स्फीताशयः' उदाराभिप्रायः, 'पुमान्' पुरुषः, पुंग्रहणं मनुष्यमात्रोपलक्षणं न तु स्त्रीनिवृत्त्यर्थम् , नार्या अपि तद्वन्ध- कत्वात् इति ॥२॥ ततः किमित्याह । यावत्सतिष्ठते तस्य, तत्तावत्संप्रवर्तते ॥ तत्स्वभावत्वतो धर्म-देशनायां जगद्गुरुः ॥३॥ (वृत्तिः) 'यावत्' इति निपातस्तेन यावन्तं कालम् , 'संतिष्ठते' अक्षीणमास्ते, 'तस्य' जगद्गुरोः, 'तत्' तीर्थकर- नामकर्म परहितोद्यतताहेतुकम् , 'तावत्' इति तावन्तं कालम्, 'संप्रवर्तते' व्याप्रियते, कुत इत्याह 'तत्स्वभावत्वतो' धर्मदेशनाप्रवृत्तिस्वभावत्वात् तस्य, आह च ॥ "तित्थयरो किंकारणं, भासह सामाइयं तुअज्ज्ञयणं॥ तित्थयरनामगोतं, बद्धं से वेइयव्वं तु४८ ॥१॥” तथा॥"तंच कहं वेइज्जइ, अगिलाए धम्मदेसणाईहिं५०॥" क संप्रवर्तते इत्याह, 'धर्मदेश- कुशलानुष्ठानप्ररूपणायाम्, कोऽसावित्याह 'जगद्गुरुः' भुवननायक इति ॥३॥ जगद्गुरुतानिबन्धनस्य तवचनस्य स्वरूपमाविर्भावयन्नाह, वचनं चैकमप्यस्य, हितां भिन्नार्थगोचराम् ॥ भूयसामपि सत्त्वानां, प्रतिपत्तिं करोत्यलम् ॥ ४॥ (वृत्तिः) 'हिता' समस्ताङ्गिवर्गोपकारिणीम् , 'भिन्नार्थगोचरां' विविधवस्तुविषयाम् , 'भूयसामपि' असंख्यातानामपि, 'वचन' वाक्, 'च शब्दः' पुनरर्थः, वचनं पुनः, 'एकमपि' अभिन्नस्वभावमपि न केवलमनेकम् , 'अस्य' जगद्गुरोः, ४९ तीर्थकरः किंकारणं भाषते ? सामायिकं तु अध्ययनम् । तीर्थकरनामगोत्रं बद्धं तस्य वेदितव्यन्तु ॥ ५० तच्च कथं वेद्यते! अग्लान्या (ग्लानिरहितत्वेन) धर्मदेशनादिमिः ॥ नायां'

तीर्थकहे-
शनाष्टकम्
॥१०॥
श्लो०५-
६-७
किमुताल्पानाम् , 'सत्वानां' प्राणिनाम्, प्रतिपत्तिं प्रतीतिं 'करोति' विद्धाति, 'अलं' अतिशयेनेति ॥४॥
कुत इदमीशमसंभाव्यं भवतीत्याह ।
अचिन्त्यपुण्यसंभार-पामर्थ्यादेतदीदृशम् ॥ तथा चोत्कृष्टपुण्यानां, नास्त्यसाध्यं जगत्त्रये ॥५॥
(कृत्तिः)अचिन्त्योऽप्रमेयः स चासौ पुण्यसंभारश्च तीर्थकरनामादिशुभकर्मसंचयः अचिन्त्यपुण्यसंभार' तस्य 'सामर्थ्य
प्रभावस्तस्मात्, 'एतद्' वचनम् , 'ईदृशं' ईदृक्षमेकमप्यसंख्येयसत्त्वानां भिन्नार्थविषयप्रतिपत्तिकरणसमर्थमिति भावः,
एतस्यैवार्थस्य समर्थनार्थमाह, तथेत्यादि, 'तथा च' इत्यनन्तरोक्तार्थोपप्रदर्शनार्थः, 'उत्कृष्टपुण्याना' उत्तमशुभकर्मणाम् ,
'नास्ति' न विद्यते, 'असाध्यं' साधयितुमशक्यम्, 'जगत्त्रये' त्रिभुवन इति ॥५॥
ननु यद्यसौ सत्वानां भिन्नार्थप्रतीतिं करोति तदा किमभव्यानामपि न करोतीत्याह ।
अभव्येषु च भूतार्था, यदसौ नोपपद्यते ॥ तत्तेषामेव दोर्गुण्यं, ज्ञेयं भगवतो न तु ॥ ६ ॥
(वृत्तः) 'अभव्येषु' सिद्धिगमनायोग्येषु, 'चशब्दः पुनरर्थः, 'भूताः समु(स)ता 'अर्थी' जीवादयो यस्यांसा तथा, 'यत्'
इत्युदेशे, 'असौ' इत्याद्यश्लोकोपात्ता देशना प्रतिपत्तिा, 'नोपपद्यते' न घटते, तत् इति देशनाया अनुपपद्यमान-
स्वम्, 'तेषां' अभन्यानाम्, 'एव' दौर्गुण्यं दुर्गुणत्वम्, 'ज्ञेयं' ज्ञातव्यम्, न तु इतीह दृश्य, तेन 'न तु' पुनः,
भगवतो' जगद्गुरोरिति ॥ ६ ॥ अमुमेषार्थ दृष्टान्तेन समर्थयन्नाह ।
दृष्टश्चाभ्युदये भानोः, प्रकृत्या क्लिष्टकर्मणाम् ॥ अप्रकाशो ह्युलूकानां, तद्वदत्रापि भाव्यताम् ॥७॥
(वृत्तः) 'दृष्टश्च' उपलब्धश्च, म केवलं श्रुत एव, 'अभ्युदये' उद्गमने, 'भानोः' आदित्यस्य, अप्रकाश इति योगः,
॥१०॥

- 'प्रकृत्या' स्वभावेन, 'क्लिष्टकर्मणां' अशुभादृष्टानाम् , 'अप्रकाशः' चक्षुषोऽव्यापारः, 'हिंशब्दो'ऽभव्यदौर्गुण्यभाव- नार्थः, 'उलूकानां' घूकानाम् , तद्वत्' उलूकाप्रकाशवत्, 'अत्रापि' तीर्थकरदिनकरदेशनामयूखमण्डलोद्रमेप्यभव्य- कौशिकाप्रबोध इति, "भाव्यता' पर्यालोच्यतामिति ॥ ७॥ भगवद्देशनाया एव स्वरूपमाह । इयं च नियमात् ज्ञेया, तथानन्दाय देहिनाम् ॥ तदात्वे वर्तमानेऽपि, भव्यानां शुद्धचेतसाम् ॥८॥ (पृत्तिः) 'इयं च ' एषा पुनरनन्तरोदितातिशया भागवती देशना, 'नियमात्' अवश्यंभावेन, 'ज्ञेया' अवसेया, 'तथा' तेन प्रकारेण “वणिग्वृद्धदास्युदाहरणतः" प्रसिद्धन, 'आनन्दाय' हर्षाय, 'देहिनां प्राणिनाम् , कदेत्याह, 'तदात्वे तस्मि- काले तदा तदेत्यस्य भावस्तदात्वं तस्मिन् देशनाकरणकाल एवेत्यर्थः, किं तदात्व एष, नेत्याह, 'वर्तमानेऽपि' साम्प्रत- कालेऽपि, किं सर्वेषां सस्थानामानन्दाय, नेत्याह, 'भव्यानां' सिद्धिगमनोचितानाम्, किं जातिमात्रयतामपि, नेत्याह, 'शुद्धचेतसां' विदलन्महामोहमलपटलमनसामिति ॥ ८॥ एकत्रिंशत्तमाष्टकविवरणं समाप्तम् ॥ ३१ ॥ ॥ अथ द्वात्रिंशत्तमं मोक्षाष्टकम् ॥ सामायिकविशुद्धात्मनो घातिकर्मणः क्षयात् केवलं भवतीत्युक्तमथ सकलकर्मक्षयाद्यत्स्यात्तदर्शयितुमाह । कृत्स्नकर्मक्षयान्मोक्षो, जन्ममृत्यवादिवर्जितः ॥ सर्वबाधाविनिर्मुक्त, एकान्तसुखसङ्गतः ॥१॥ (वृत्तिः) कृत्स्नं सकलं कर्म ज्ञानावरणायष्टधा तस्य क्षयोऽत्यन्तविलयः कृत्स्नकर्मक्षयस्तस्मात् 'कृत्स्नकर्मक्षयात, मोचनं 'मोक्षो' अपवर्गः, किंविधोऽसावित्याह, 'जन्म' प्रादुर्भावो 'मृत्युः' मरणं तावादिर्येषां जरादीनां ते तथा तैः पर्जितो' यः - मोक्षा- ॥१०२॥ 4 R श्लो २ स तथा, भवति हि "कारणाभावात् कार्याभाव” इति, तथा 'सर्वयाधाविनिर्मुक्तः' निःशेषशारीरमानसपीडाविप्रमुक्तः, तथा 'एकान्तेन' सर्वथा, 'सुखसङ्गत आनन्दयुक्तो यः स तथेति ॥१॥ मोक्ष एवान्यैः.परमपदसंज्ञयाभिहित इति परमपदस्वरूपं दर्शयन्नाह ॥ यन्न दुःखेन संभिन्नं, न च भ्रष्टमनन्तरम् ॥ अभिलाषापनीतं य-तज्ज्ञेयं परमं पदम् ॥२॥ (वृत्तिः) 'यत्' पदम्, 'म' नैव, 'दुःखेन' असुखेन, 'संभिन्न व्यामिश्रम्, 'न च' नैव च, 'भ्रष्टं क्षीणम् , 'अनन्तरं उत्पत्तिक्षणानन्तरम् , अथवा 'अनन्तरं' अव्यवच्छिन्नम्, तथा अभिलाषेभ्यो विविधवाञ्छाभ्योऽपनीतमपेतं 'अभि- लाषापनीतम्', 'यत्' पदम्, 'तत्' इति तदेव, 'ज्ञेयं ज्ञातव्यम् , 'परम' सर्वोत्तमम् , 'पदं' आस्पदं सर्वगुणानामिति गम्यम् , मूलटीकाकृता तु नायं श्लोको व्याख्यात इति ॥ २॥ एकान्तसुखसंगतो मोक्ष इत्युक्तं तत्र परविप्रतिपत्तिं दर्शयन्नाह ॥ कश्चिदाहान्नपानादि-भोगाभावादसङ्गतम् ॥ सुखं वै सिद्धिनाथानां, प्रष्टव्यः स पुमानिदम् ॥३॥ (वृत्तिः) 'कश्चित्' कोऽप्यनिर्दिष्टनामा पारमार्थिकसुखरूपावगमवर्जितः, 'आह' ब्रूते, अन्नमोदनादि पानं द्राक्षापाना- दि एते आदिर्येषां खाद्यस्रक्चन्दनाङ्गनादीनां ते तथा तेषां यो भोगः सेवा तस्याभावो 'अन्नपानादिभोगाभावः तस्मात्, ‘असतं' अयुक्तम् , किं तदित्याह, 'सुखं ' शर्म, 'वै' इति वाक्यालङ्कारे, केषामित्याह, 'सिद्धिनाथानां' निर्वृतिस्वामिनां सिद्धानामित्यर्थः, "भोगसद्भावे हि सुखं दृष्टं तदभावे तदभाव” इति परमतम् , अत्राचार्यः समाधान- दानायाह, 'प्रष्टव्यः' प्रच्छनीयः, 'स' इति सिद्धिसुखाभाववादी, 'पुमान्' पुरुषः, इदं वक्ष्यमाणस्वरूपमिति ॥३॥ तदेव प्रष्टव्यमान॥

किम्फलोऽन्नादिसंभोगो?, बुभुक्षादिनिवृत्तये ॥ तन्निवृत्तेः फलं किं स्यात्?, स्वास्थ्यं तेषां तु तत्सदा ॥४॥ (वृत्तिः) किं फलं-प्रयोजनमस्येति 'किम्फलः,' 'अन्नादिसंभोगः' अशनपानस्रक्चन्दनागनादिपरिभोगः१, एवं राष्टः परः किल वक्ष्यति, धुभुक्षादिनिवृत्तये' क्षुत्पिपासारत्यादिदुःखविनिवर्सनाय, आचार्य एव परं पृच्छन्नाह, 'तन्निवृत्तेः' बुभुक्षा- दिदुःखनिवर्तनस्य, 'फलं' प्रयोजनम् , 'किं स्यात् किं भवेदिति प्रश्नः, अथ परोक्तमुत्तरं दर्शयन्नाह, स्वस्मिस्तिष्ठतीति स्वस्थातायः 'स्वास्थ्यं' अनाथाधता, एवं परेणोक्त आचार्य आह, 'तेषां तु' सिद्धानां पुनः, 'तत्' स्वास्थ्यम्, 'सदा' सर्वकालमस्ति, अस्वास्थ्यहेतूनां कर्मणामिच्छादीनां वाल्वाऽभावात् ,अतोऽन्नादिभोगाभावेऽपिसुखमेव सिद्धानामिति॥४॥ अमुमेवार्थ भायन्तरेणाह । अस्वस्थस्यैव भैषज्यं, स्वस्थस्य तु न दीयते । अवाप्तस्वास्थ्यकोटीनां, भोगोऽन्नादेरपार्थकः ॥ ५॥ (कृत्तिः) 'अस्वस्थस्यैव' अपटोरेव, 'भैषज्यं' औषधं, दीयत इति योगः, इह च संप्रदानस्याविवक्षितत्वात्सम्बन्ध तु विवक्षितत्वात् तथाप्रयोगदर्शनाच षष्ठीनिर्देशः कृतः, 'स्वस्थस्य तु निरातङ्कस्य पुनः, 'न' नैव, 'दीयते' वितीर्यते, अयं च दृष्टान्तः, अथ दान्तिकार्थप्रतिपादनायाह, यत एवं ततः, अवाप्ता-लब्धा स्वास्थ्यकोटि:-अनाबापताप्रकर्षपर्यन्तो यस्ते तथा तेषां 'अवाप्तस्वास्थ्यकोटीनाम्', सिद्धानामिति गम्यम्, 'भोगः' सेवा, 'अन्नादेः' अशनादेः, 'अपार्थकः निरर्थकः, साध्यस्य सिद्धत्वात् इति ॥५॥ यत एवमत एव । अकिञ्चित्करकं ज्ञेयं, मोहाभावाद्रतायपि । तेषां कण्ड्वायभावेन, हन्त कण्डूयनादिवत् ॥ ६ ॥ (वृत्तिः) अकिञ्चित्करं-अफलं तदेव 'अकिश्चित्करकम् ,' पाठान्तरे 'तथाऽकिश्चित्कर' इति व्यक्तं च, 'ज्ञेयं ज्ञातव्यम्, कुतो

अष्टक
प्रक० वृक्ष
मोक्षा-
ष्टकम्
॥१०३॥
श्लो ७-८
मोहाभावात् ' पुवेदादिमोहनीयाभावात् , किं तदित्याह, 'रताद्यपि ' न केवलमन्नादिभोगो मैथुनाद्यपि, आदिशब्दा-
विलेपनादिग्रहः, केषामित्याह, 'तेषां' सिद्धानां मुक्तानाम् , अत्र दृष्टान्तमाह, 'कण्ड्वायभावेन' खाद्यभावेन हेतुना,
आदिशब्दात् शीतादिपरिग्रहः, 'हन्त' इति प्रत्यवधारणार्थः कोमलामन्त्रणार्थो वा, 'कण्डूयनादिवत्' खर्जुकरणादि-
कमिव, आदिशब्दादनलसेवनादिवदिति ॥ ६॥ सिद्धसुखं स्वरूपत आह ॥
अपरायत्तमौत्सुक्य-रहितं निष्प्रतिक्रियम् ॥ सुखं स्वाभाविकं तत्र, नित्यं भयविवर्जितम् ॥ ७ ॥
(वृत्तिः) 'अपरायत्तं' स्वाधीनं स्वतन्त्रत्वात् सिद्वानाम् , सुखमिति योगः, 'औत्सुक्यरहितं' विषयाकाङ्क्षावर्जितं रा-
गाभावात्, निर्गतं प्रतिक्रियाया दुःखप्रतीकाररूपाया इति 'निष्प्रतिक्रियम्', इदं हि सांसारिकसुखवढेदनाप्रतिकाररूपं
न भवति, 'सुखं' सौख्यम् , स्वभावे विषयानपेक्षे आत्मस्वरूपे भवं 'स्वाभाविक' अनन्तज्ञानदर्शनसुखवीर्यरूपत्वा-
दात्मनः, 'तत्र' मोक्षे परमपदे वा, 'नित्यं' सार्वदिकं साद्यपर्यवसितत्वात् , अत एव 'भयविवर्जितं' प्रतिपातजनित-
भीतिविरहितम् , सांसारिकसुखं त्वेतद्विपरीतमिति ॥७॥ इदं च परैः परमानन्द इत्यभिहितमेतदेवाह ।
परमानन्दरूपं त-द्रीयतेऽन्यैर्विचक्षणैः ॥ इत्थं सकलकल्याण-रूपत्वात्साम्प्रतं ह्यदः॥८॥
(वृत्तिः) 'परमानन्दरूपं' प्रकृष्टाहादस्वभावम् , 'तत्' इति मोक्षसुखम् , 'गीयते' अभिधीयते, 'अन्यैः आर्हतेभ्योऽपरैः,
'विचक्षणैः' पण्डितैः, उपसंहरन्नाह, 'इत्थं अनन्तरोक्तप्रकारेण "अपरायत्तमित्यादिना', 'सकलकल्याणरूपत्वात्' निखि-
लश्रेयास्वभावत्वात हेतोः, 'साम्प्रतं' युक्तम्, 'हि' शब्दोऽवधारणे तस्य चैवं प्रयोगः, अद एव-एतदेव मोक्षसुखं,
न पुनः सांसारिकमिति ॥ ८॥ भय केषामिदमवसेयमित्यत आह ।
॥१.३॥

, संवेयं योगिनामेत-दन्येषां श्रुतिगोचरः ॥ उपमाऽभावतो व्यक्त-मभिधातुं न शक्यते ॥ ९ ॥ (वृत्तिः) 'संवेद्य' संवेदनाहम्, 'योगिनां' केवलिनाम्, 'एतत् ' मोक्षसुखम् , अन्येषां का वार्तेत्याह, 'अन्येषां' अयोगिनाम्, 'श्रुतिगोचरः' श्रवणविषय एव, न संवेदनीयम् , श्रुतिगोचरोऽपि तदन्येषां यथावत्तया न भवति, तथा- त्वेन तस्य वक्तुमशक्यत्वात्, एतदेवाह, 'उपमाऽभावतो' दृष्टान्ताभावेन, 'व्यक्तं' स्फुटम् , वक्तुं 'अभिधातुं', 'न' नैव, 'शक्यते' पार्यते मुक्तिसुखमिति प्रक्रमः, यदाह ॥ “जह नाम कोइ मिच्छो, नगरगुणे बहुविहे वियाणन्तो॥ न चएइ परिकहेउं, उरमाएँ ता असंतीए५१ ॥१॥” सामान्येन पुनरभिधीयते, तद्यथा ॥ “जह सब्वकामगुणियं, पुरिसो भोत्तूण भोयणं कोई ॥ तण्हाछुहाविमुक्को, अच्छिज्ज जहा अमियतित्तो५२ ॥२॥ इय सन्चकालतित्ता, अउलं निव्वाणमुवगया ५१ यथा नाम कश्चिम्लेच्छो नगरगुणान् बहुविधान् विजानन् । न शक्नोति परिकथयितुमुपमायां तबासस्याम् ॥ भावार्थ: कथानकगम्यः ॥ म्लेच्छः कोऽपि महारण्ये, वसति स्म निराकुलः । अन्यदा तत्र भूपालो, दुष्टाश्वेन प्रवेशितः ॥२॥ म्लेच्छे. नासौ नृपो रष्टः, सत्कृतश्च यथोचितम् । प्रापितश्च निजं देशं, सोऽपि रामा निजं पुरम् ॥२॥ ममायमुपकारीति, कुतो राक्षाऽतिगौरवात् । विशिष्टभोगभूतीनां, भाजनं जनपूजितः ॥ ३॥ ततः प्रासादशृङ्गेषु रम्येषु काननेषु च । घृतो विलासिनीसाथै क्ते भोगसुखान्यसौ ॥४॥ अन्यदा प्रावृषः प्राप्ती, मेघाडम्बरमण्डितम् । व्योम दृष्ट्वा ध्वनि श्रुत्वा, मेघानां स मनोहरम् ॥५॥ जातोत्कण्ठो दृढं जातोऽरण्यवा- सगमं प्रति । विसर्जितश्च राशाऽपि, प्राप्तोऽरण्यमसौ ततः ॥ ६ ॥ पृच्छन्त्यरण्यवासास्तं, नगरं तात कीदृशम् ? ॥ स स्वभावान् पुरः सर्वान् , जानात्येव हि केवलम् ॥ ७ ॥ न शशाकतमां तेषां, गदितुं स कृतोदयमः ॥ वने वनेचराणां हि नास्ति सिद्धोपमा तथा ॥॥ ५२ यथा सर्वकामगुणितं पुरुषो भुक्त्वा भोजनं कश्चित् । तृष्णाक्षुद्विमुक्तस्तिष्ठेत् यथाऽमृततृप्तः ॥ . .

प्रक० वृक्ष ३२ मोक्षा- टकम् ॥१.४॥ लो०१ सिद्धा ॥ सासयमव्वाबाहं, चिट्ठतिसुही सुहं पत्त५३ ॥३॥त्ति"॥९॥छात्रिंशतोऽष्टकप्रकरणानां समाप्तिसूचकं श्लोकमाह ।। अष्टकाख्यं प्रकरणं, कृत्वा यत्पुण्यमर्जितम् ॥ विरहात्तेन पापस्य, भवन्तु सुखिनो जनाः ॥१०॥ (वृत्ति:) मूलटीकायां नास्त्येवायं श्लोकः, इह तु स्पष्टत्वान्न व्याख्यातः, केवलं विरहशब्देन हरिभद्राचार्यकृतत्वं प्रकरण- स्यावेदितम्, विरहाइत्वाद्धरिभद्रसूरेरिति । द्वात्रिंशत्तमाष्टकविवरणं समाप्तम् ॥ ३२ ॥ (वृत्तिकृत्प्रशस्तिः) जिनेश्वरानुग्रहतोऽष्टकानां, विविच्य गम्भीरमपीममर्थम् ॥ अवाप्य सम्यक्त्वमपेतरेक, सदैव लोकाश्चरणे यतध्वम् ॥१॥ सूरेः श्रीवर्धमानस्य, निःसंबन्धविहारिणः । हारिचारित्रपात्रस्य, श्रीचन्द्रकुलभूषिणः ॥२॥ पादाम्भोजबिरेफेण, श्रीजिनेश्वरसूरिणा। अष्टकानां कृता वृत्तिः, सत्वानुग्रहहेतवे ॥३॥ समानामधिकेशीत्या, सहस्र विक्रमागते । श्रीजावालिपुरे रम्ये, वृत्तिरेषा समापिता ॥४॥ नास्त्यस्माकं बचनरचनाचातुरी नापि तादृग् , षोधः शास्त्रे न च विवरणं नाऽ(वाड)स्ति. पौराणमस्य । किन्स्वभ्यासो भवतु भणितो सूदितायाममुष्मात्, संकल्पानो विवरणविधावत्र जाता प्रवृत्तिः ॥५॥ प्रत्यक्षरं निरूप्यास्या, ग्रन्थमानं विनिश्चितम् । त्रयख्रिशच्छतानि स्युः, श्लोकानां सततिस्तथा ॥१॥ ॥श्रीचन्द्रकुलाम्बरभास्करश्रीजिनेश्वराचार्यकृता तच्छिष्यश्रीमदभयदेवसूरि- प्रतिसंस्कृता अष्टकवृत्तिः समाप्ता ॥ - JUBIIMIHDUSID ॥१०४॥ Step222- -कालतप्ता अतुलनिर्वाणमुपगताः सिद्धाः । शाश्वतमव्यायाधं तिष्ठन्ति सुखिनः सुखं प्राप्ता इति ॥

॥ सवृत्तिकाष्टकप्रकरणस्य शुद्धिपत्रकम् ॥ पत्रं पृष्ठ पक्तिः अशुद्ध शुद्धं पत्रं पृष्ठं पंक्तिः अशुद्धं अहि अहिं २ अशुद्धं सहस्त्र वशे पत्रं पृर पंक्तिः ५ स्वज ७८ १ ३-८ ६४ माप २ २ मन- मतमि- किञ्च १३ १३ ८० १ १० कञ्च - १३ २ २ १ १ २ ८ २ वर्दू मांच्छा २ तेत्, एह काशा नदा कचि २ शुद्धं स्वभावज मपि विद बीज ने, कौशा निठा क्वचि पित्रु যুগ नओ १० . १३ २ १ २ १३-१४ पात्र काचि ज्यादि तेम य चनं भ्यछे मंप वहि १ १४ १ कलन २ १३ सहस्त्र विशे हस्य काद्यनुचि वुझ्यादि तेन म्य चैत न्यच्छे ते संप विहि स्पपी गश्चै र्थेषु काय दोष पत्रु २ १ ३ २५ वह सांश्छो षोऽत्र कलने मैथुन निर्दो कीर्त प्रतिया निर्दि ननर्थ जिन १ १० त ११ १ दयो दगे . म नी को। तिया नदि नर्थ २ ३३ ६ ७४ २ २ १० १ CC वदु वस निर्व ९४ १२ . २ गश्शे र्थषु काव्य दोष ५ ७८ ६ विदु विस निर्व वोऽस्य मु[स] १ १ ७८ १ १ १ वाऽस्य २ जन स्वभावहे १ ७ वहे मु[सद्ध பாப்பா பாப்பாற்ற யமரமம பாபா ராம ராமாயமாயமாம் மாமாயன்ற பயம் श्रीचन्द्रकुलाम्बरदिनमणि-विमशिरःशे वरश्रीजिरेश्वर पूरिपुरन्दरपणीत-तच्छिष्यनवाङ्गीकृत्तिकदिति- सुप्रथितनामधेयश्रीमदभयदेवमूरिमतिसंस्कृतवृत्तिविभूषितम् भव्यसत्वानुग्रहसंस्कृतपाकृतगद्यपद्यात्मानेकलक्ष लोकपमितपिरहाङ्कचतुश्चत्वारिंशदुत्तरचतुर्दशशतशास्त्र- मासादमूत्रणसूत्रधार-पूर्वधरासनकालवर्ति-सुविहिताग्रणी-सकलमूरिपुरन्दर- श्रीमद्वरिभद्रमरिमन्तब्ध ॥ श्रीअष्टकप्रकरणम् ॥ समाप्तम. সন্ধাঠিন্ধা-খীলন ঋীলনয়মকাহানি | SHWH\m] [m] [m][HIMDIOHINHID] [[]||1] [Ini|\m] [[]]|HT ||\] [10] [MI] |\]WWEPni] 21/11 तैयार छे ! न्यायविशारद-न्ययाचार्य-महामहोपाध्याय श्रीमद्-यशोविजयगणिपणीत अतिदुर्लभप्राय. तैयार छे!!

No text on this page.

Sri Astak Prakaranam

Author
Suri Sri Vijayodhaya
Title
Sri Astak Prakaranam
File name
Sri Astak Prakaranam
Text
OCR done
Citation
1937
Published
2006/04/13
Publisher
Jain Granth Prakasak Rajnagar
Language
Sanskrit
Pages
214
Library
Bhartiya Jnanpith Delhi
Classification
Literature
Keywords
Jain Shatiya
DLI number
292700
Barcode
99999990186996.00
Scanning centre
C-DAC, Noida
Digital publisher
Digital Library Of India
VMLT id
tQEY6WjJlyp
Download PDF

Sri Astak Prakaranam