Svi-ksri-chennai
Vrxttaratnaakara
Front matter
No text on this page.
ir V. Raghavan, M.A.Ph.d.
Professor of Sumpkrit (Retd)
7. Srikrishanpurnu Street,
Royapettuk, Modras-00014
THE KUPPUSWAMY SASTR
RESEARCH INSTITUTE
de R. H. ROAD. MADRAS
No text on this page.
561732-
॥ श्रीः ॥
केदारभट्टविरचितो
वृत्तरत्नाकरः,
(नारायणभट्टकृतटीकासमेत),
कालिदासकतः श्रुतबोधः,
गङ्गादासप्रणीता छन्दोमञ्जरी च ।
9opoloCHE-KUPPSWAMY SAST
RESEARCH INSTITUTE.
एतत्पुस्तकत्रयं-RH FORT. WADRASI
काशीनाथ पाण्डुरङ्ग परब
इत्यनेन संशोधितम् ।
शाके १८२४ वत्सरे
मुम्बयां
निर्णयसागायनालयाधिपतिना स्वकीये मन्त्रालये
मुद्रयित्वा प्राकाश्मं नीतम् ।
एल्यं १२ आणकाः।
No text on this page.
Dr. V. Raghavan, M.A., Professor of Sacakrit (Ritd ) 7, Srikrishnapurna Street, Royapettab, Madrin-600014 श्रीः ॥ वृत्तरत्नाकरम् । श्रीनारायणभट्टविरचितया व्याख्यया सहितम् । - प्रथमोऽन्याय । नत्वा गणेशं वाग्देवी पिङ्गलं मातरं गुरुम् । अन्यानपि च भाष्यादिकर्तृश्छन्दोविशारदान् ॥ श्रीभट्टरामेश्वरसूरिसूनुर्नारायणः स्वामनिरुध्य बुद्धिम् । संक्षेपवृत्त्या विवृति सुवृत्तरत्नाकरे व्यक्ततया तनोति ॥ विशिष्टशिष्टाचारमूलभूत स्वस्ति न इन्द्रो वृद्धश्रवाः' इत्यादिवैदि- कलिङ्गकल्पितश्रुतिप्रमाणकविशिष्टदेवतानमस्कारजनितनिर्विघ्नता- दिः स्वनामकीर्तनपूर्वकं स्वग्रन्थस्य प्रथान्तरैरधिगतार्थतां च सूचय- न्सप्रयोजनं कर्तव्यं सामान्यज्ञानपूर्वकविशेषजिज्ञासुप्रवृत्तिसिद्ध्यर्थ सामान्यतः प्रतिजानीते सुखेत्यादिश्लोकत्रयेण- सुखसंतानसिद्ध्यर्थं नत्वा ब्रह्माच्युतार्चितम् । गौरीविनायकोपेतं शंकरं लोकशंकरम् ॥१॥ वेदार्थशैवशास्त्रज्ञः पव्येकोऽभूविजोत्तमः । तस्य पुत्रोऽस्ति केदारः शिवपादार्चने रतः ॥२॥ तेनेदं क्रियते छन्दो लक्ष्यलक्षणसंयुतम् । वृत्तरत्नाकरं नाम बालानां सुखसिद्धये ॥३॥ ब्रह्माच्युताभ्यां विधातृविष्णुभ्यामर्चितं पूजितं गौर्या पार्वन्या विनायकेन गणाधिपेन चोपेतं लोकानां चतुर्दशभुवनानां भूरादीनां सप्मनां वा शंकरं सुखकर्तारमेवंविधं शंकर महादेवं सुखसंतानसि- व्यर्थ प्रणामजनिताविप्रतादिसंभूताव्याकुलीभावबुद्धिवैभ्वादिजनि- १. 'पठ्येकः' इति पाठः. २. एतदनन्तरम् इति त्रिभिर्विशेषकम्, इति कलापकम्' इति पाठी.
!. २ वृत्तरत्नाकरम् । तसुखपरम्पराप्राप्त्यर्थं तेन केदारेणेदं छन्दः क्रियत इति तृतीयश्लो- केनान्वयः । वेदानामृगादीनामर्थ शैवशास्त्राणि च रुद्रयामलादीनि जानातीत्येवंविधः पव्येकसंशो द्विजोत्तमो ब्राह्मणोत्तमोऽभूत् । तस्य पुत्रः केदारनामा शिवचरणारविन्दपूजनतत्परोऽस्ति । लक्ष्येणोदा- हरणेन मात्रावर्णान्यतरनियतात्मकेन छन्दसा, लक्षणेन च तन्नियम- कथनान्मकेन छन्दसा तदभिन्नेन युक्तम् । लक्ष्यमेव लक्षणमिति वि- ग्रहः। वृत्तरत्नानामाकरःखनिर्यत्र तत्। यद्वाकरः समूहो यत्र । 'आकरो निवहोत्पत्तिस्थानश्रेष्ठेषु कथ्यते' इति विश्वप्रकाशोक्तेः । एतयैवा- न्वर्थसंशया नाम प्रसिद्ध छन्दस्तत्प्रतिपादकत्वाल्लक्षितं तच्छास्त्रं बा- लानां छन्दःशास्त्राज्ञानानां सुखेनाल्पोपायेन सिद्धये छन्दोज्ञानार्थ क्रियत इत्यर्थः । सुखपदस्य प्रथमप्रयोगादेतच्छ्रवणेन श्रोतॄणां सुखा- तिदायः सूचितः । यद्वा बालप्रतिपत्तेः प्रयोजनत्वेऽपि स्वप्रयोजनत्वा- भावादेतइन्थजनितबालव्युत्पत्तिजनितोपकारादृष्टेन जनिष्यमाणस्व- र्गादिसुखपरम्परैव स्वेष्टस्वग्रन्थप्रयोजनत्वेनानेन निर्दिश्यते । ब्रह्मवि- ष्णुगौरीविनायकम् । तेन मङ्गलान्तरं तदनुस्मृतिसंरूपं सूचितम् । शं- करमित्यत्र शंशब्दस्याव्ययत्वाद्विभक्त्यन्तत्वाभावात् 'सुपो धातुप्राति- पदिकयोः' इति न भवति । द्विजोत्तमग्रहणेन च ब्राह्मणकर्तृत्वादेत- स्य ग्रन्थस्य श्रवणे दोषाभावः सूचितः । लक्ष्येत्यादीनां लक्ष्येभ्यः का- व्यादिभ्यः केवललक्षणेभ्यश्च सूत्रादिभ्यो भिन्नलक्ष्यलक्षणेभ्यश्च वृत्ता- दिभ्योऽतिशय इति सूचितः ॥ एवं सामान्यतो ग्रन्थकरणं प्रतिज्ञाय पूर्वाचार्योक्तिमूलकतया स्वक- ल्पितताशङ्काजनितश्रोत्रनादरं निराकर्तुं प्रतिपाद्यमर्थ विशेषतः प्रति- जानीते. पिङ्गलादिभिराचार्यैर्यदुक्तं लौकिकं द्विधा। मात्रावर्णविभेदेन छन्दस्तदिह कथ्यते ॥४॥ पिङ्गलेन सूत्रका, आदिपदाद्भाष्यकारादिभिश्च आचार्यैरवधेय- वचनैर्यल्लौकिकं छन्दो मात्रावर्णविभेदेनेदं मात्राच्छन्द आर्यादीदं वर्ण- च्छन्दः समान्यादीति भेदेन द्विधा द्विप्रकारमुक्तं तच्छन्द इह ग्रन्थे कथ्यत इत्यर्थः । लौकिकशब्देन वेदवेदाङ्गनिधिकारिणामत्रैवर्णिका- नामप्यस्मिन्प्रत्थेऽधिकार इति दर्शयति । मात्रावर्णग्रहणेन मात्राच्छ- न्दो गणच्छन्द रति कैश्चिदुक्तो देधा विभागः पराकृतः, तादृशविभाये च गणच्छन्दसामपि संग्रहादिति भावः । अन्ये तु गणमात्राक्षरच्छ- -- प्रथमोऽध्यायः . न्दस्त्वेन, त्रैविध्यमाहुः । यदुक्तम्-'आदौ तावद्गणच्छन्दो मात्राच्छ- न्दस्ततः परम् । तृतीयमक्षरच्छन्दश्छन्दस्त्रेधा तु लौकिकम् ॥' इति । गणच्छन्द आर्यादि, मात्राच्छन्दो वैतालीयादि, अक्षरच्छन्दः समा- न्यादीति ॥ . अन्यकर्तृकसंभावितच्छन्दोऽन्तःप्रक्षेपनिक्षेपनिराकरणाय ग्रन्थं प- रिमाणतः परिच्छिनत्ति- षडध्यायनिबद्धस्य छन्दसोऽस्य परिस्फुटम् । प्रमाणमिह विज्ञेयं षट्त्रिंशदधिकं शतम् ॥ ५॥ परि समन्तात्साकल्येन स्फुटं प्रकटं यथा स्यात्तथा षड्भिरध्या- यर्निबद्धस्य घटितस्यास्य च्छन्दसश्छन्दोग्रन्थस्य वृत्तरत्नाकराख्यस्य षट्त्रिंशदधिकं षट्त्रिंशत्संख्याधिकं द्वात्रिंशदक्षराणामनुष्टुप्छन्दसां श्लोकानां १३६ परिमाणं ज्ञेयम् । अनुष्टुप्श्लोकपरिमाणमेवात्र गृ- ह्यते, ग्रन्थगणनायां लोके तस्यैव प्रसिद्धत्वात् । एतेनान्यतरग्रन्थपा- ठे प्रयासाभावाद्विस्तीर्णभाष्यस्ववृत्त्यादिग्रन्थप्रयासनैरपेक्ष्येणैव प्रसि- द्धसकलच्छन्दोज्ञाननिरतैर्युपिन्सुभिरयमेव ग्रन्थोऽभ्यसनीय इत्युक्तं भवति ॥ इदानीं सकलवाग्व्यापित्वेन मादीन्गणान्स्तुवंल्लक्षणकथनार्थमुद्दि- शति- म्यरस्तजनगैर्लान्तरेभिर्दशभिरक्षरैः । समस्तं वाङ्मयं व्याप्तं त्रैलोक्यमिव विष्णुना ॥६॥ मगण-यगण-रगण-सगण-तगण-जगण-भगण-नगण-गुरुभिान्तैर्लघु- युक्तैरेभिर्दशभिर्गणाष्टकगुरुलघुरूपैरक्षरैः समस्तं वाङ्मयं वाग्जालं व्याप्तम् । अस्तीति शेषः । अत्रोपमा-विष्णुना त्रैलोक्यं यथा व्याप्तं तद्वत् । अत्र स्वरोच्चारणं सौकर्यार्थम् । एवमुत्तरत्रापि ॥ वक्ष्यमाणाक्षरप्रस्तारक्रमोपक्रमनिर्देशकसूत्रानुरोधेनायं उक्तः-'धी श्री स्त्री म्', 'वरा सा यु', 'का गुहा र्', 'वसुधा स्', 'सा ते व त्', 'कदा स ज', 'किं वद भ्', 'न हस न्', 'ल' इति क्रमेण गणांल्लक्षयति- . . १. 'अपि' इति पाठः.
४ वृत्तरत्नाकरम् । । सः मः SSS नः । SIS ॥5 SSI ISI Sil सर्वगुर्मो मुखान्तलौं यरावन्तगलौ सतौ। ग्मध्याद्यौ ज्भौ त्रिलो नोऽष्टी भवन्त्यत्र गणास्त्रिकाः ७ अत्र छन्दःशास्त्रेऽष्टौ त्रिकाळयक्षरा गणा भवन्ति । चतुरक्षरा गणा मा भूदि(वनि)ति त्रिका इत्युक्तम् । परिमाणेन तानाह-सर्वेति। सर्व गवो गुरवो यस्मिन्नसौ सर्वगुः । 'नामैकदेशे नामग्रहणम्' इनि न्यायेन गुशब्दो गुरुवाची । एवं लशब्दो लघुवाची । एवं सर्वत्र । मो मगणः । मुख आदावन्तमध्ये लो लघुर्ययोस्तौ य-रौ यगण-रगणौ । 'अन्ते गलौ गुरुलघू ययोस्तौ क्रमेण स-तौ सगण-तगणौ । ग् गुरुमध्य आद्यश्च ययोस्तौ जू-भौ जगण-भगणौ । त्रिलस्त्रिलघुनों नगण । एतेषां प्रस्तारो यथा- यः 155 एतेपां क्रमनियमच प्रस्तारे प्रकटीभविष्यति । अन्यत्रापि मादीनां स्वरूपमुक्तम्-'मस्त्रिगुरुस्त्रिलघुश्च नकारो भादिगुरुः पुनरादिलघु- र्यः । जो गुरुमध्यगतो रलमध्यः सोऽन्तगुरुः कथितोऽन्तलघुस्तः ॥' इति । अन्यैस्तु देवताफलस्वरूपाण्येषामुक्तानि–'मो भूमिस्त्रिगुरुः श्रियं दिशति यो वृद्धिं जलं चादिलो रोऽग्निर्मध्यलघुर्विनाशमनिलो देशाटनं सोऽन्त्यगः । तो व्योमान्तलघुर्धनापहरणं जोऽको रुजं म- ध्यगो भश्चन्द्रो यश उज्ज्वलं मुखगुरु! नाक आयुस्त्रिलः ॥' इति । इदं च फलं काव्यनाटकस्य तत्कर्तुः पठितुर्वा यथायोग्यं व्यस्तं समु- चितं वा ज्ञेयम् । यत्र नायकादिभिः प्राचीनो देवतादिः स्वकल्पितो वात्र कर्तुः श्रोतृणां चेत्यादि । क्वचित्त देवतामात्रमवादि-'पृथ्वी ज- लशिखिवायु गगनं सूर्यश्च चन्द्रमा नाकः। प्रस्तारक्रमवशतो देवा ज्ञेया यथासंख्यम् ॥' इति । अथ यदि दैवाहुष्टफलो गणः काव्यादौ कृतः, तद्रक्षणार्थ द्वितीयो गणः शोध्यः । तत्र मगण-नगणौ मित्रसंशो, भग- ण-यगणौ भृत्यौ, ज-रावुदासीनौ, त-सावरी नीचौ च । तदुक्तम्- 'म-नौ मित्रे भ-यौ भृत्यावुदासीनौ ज-रौ स्मृतौ । त-सावरी नीचसं- शौ शेयावेतौ मनीषिभिः ॥' इति । तथा च यदि मित्रगणान्मित्रगण- स्तदा समृद्ध्यादि फलम्, मित्रगणाद्धृत्यगणो जयादिशुभम् , मित्रा- दुदासीने शून्यकम्, मित्राच्छत्रौ बन्धुपीडा, भृत्यान्मित्रे तु सर्वका- यसिद्धिः, भृत्याङ्कृत्ये सवा लाभः, भृत्यादुदासीने धननाशः, भृत्या- द्वैरिणि शोकः उदासीनान्मित्रे किंचिदेव कार्यसिद्धिः, उदासी नामृत्ये सर्वे वशाः, उदासीनादुदासीने न शुभं न चाशुभम् , उदासी, . , प्रथमोऽध्यायः मच्छत्रौ. स्वजनवैरम्, [शत्रोमित्रे भ्रमः,] शत्रो त्ये गृहिणीनाशः, शत्रोरुदासीने स्वकुलक्षयः, शत्रोः शत्रौ काव्यनायकनाशो भवति । इति गणयुगफलम् । तदुक्तम्-'मित्रान्मित्रादयः स्युर्यदि धनमु- दयं शून्यकं बन्धुपीडा भृत्यान्मित्रादयश्चेद्धृतिमधिकगुणं हानि- शोकौ च कुर्युः । औदास्यार्थाच्च मित्रादय इह कुसखा धैर्यमीष- त्स्ववैरं शत्रोमित्रादयश्चेद्भममथ गृहिणीनाशमाधिं विनाशम् ॥' इति । तथा 'मित्रान्मित्रं विधत्ते प्रचुरधनमथो मित्रतो भृत्यसंशः स्थैर्य मित्रादुदासो न किमपि च फलं मित्रतः शत्रुसंज्ञः । बन्धोः पी. डामथो स्याद्यदि खलु नियतं भृत्यतो मित्रसंशः सर्वे कार्य च भृत्या- द्रुतगण इह चेदायतिः सर्वलोके ॥ भृत्याच्चेत्स्यादुदासो धनविगम- मथो भृत्यतः शत्रुसंशः शोकं कुर्यादुदासाद्यदि भवति तदा मि- त्रसंशोऽल्पकार्यम् । तस्मा नृत्यः प्रभुत्वं तत इह सततं स्यादुदासो- ऽपि नाशं तस्माच्छत्रुः स्ववैरं विविधगुणहरं सर्वसत्कार्यनाशम् ॥ शत्रोर्मित्रं च शून्यं यदि भवति ततो भृत्यसंशो गृहिण्या नाशं तस्मा- दुदासो धनहरमधिकं दुःखदारियशोकम् । शत्रोः शत्रुर्भवेश्चे- द्विगुणससहितो नायकस्यैव नाशं देशोद्वासं विधत्ते कथयाति च फलं पिङ्गलो नागराजः ॥' इति । अत एव किरात-माघ-नैषधीयेषु दुष्टफलादप्युदासीनाजगणादुदासीनस्य तगणस्य सत्त्वान्न मन्दं न चाशुभमिति दोषाभावः । अथ गणशुद्धिप्रसङ्गाद्वर्णशुद्धिरुच्यते । तच्छुद्धौ हि नायकादीनां सुखं भवति । तदुक्तम्-'अक्षरे परिशुद्धे तु नायको भूतिमृच्छति' इति । तत्र ङ-झ-अ-ट-ठ-ढ-ण-प-फ-ब-भ- म-र-ल-व-ष-ह-लान्संयुक्ताक्षराणि च विहाय शेषाक्षराणि शुभफ- लानीति संक्षेपः । तदुक्तं भामहेन–'अवर्णात्संपत्तिर्भवति मुदिव- द्धनशतान्युवर्णादख्यातिः सरभसमृवर्णाद्विरहितात् । तथा ह्येचः सौख्यं ङ-अ-ण-रहितादक्षरगणात्पदादाविन्यासात् भ-र-ब-ह-ल-पूर्व- विरहितात् ॥', 'कः खो गो घश्च लक्ष्मी वितरति न यशो उस्तथा चः सुखं छः प्रीतिं जो मित्रलाभं भयमरणकरौ झ-औ ट-ठौ खेद- दुःखे । डः शोभां ढो विशोभां भ्रमणमथ च णस्तः सुखं थश्च युद्धं दो धः सौख्यं मुदं नः सुखभयमरणक्लेशदुःखं पवर्गः ॥ यो लक्ष्मी रश्च दाह व्यसनमथ ल-वौ शः सुखं षश्च खेदं सः सौख्यं हश्च खेदं विल- यमपि च लः क्षः समृद्धिं करोति । संयुक्तं चेह न स्यात्सुखमरणपटु- वर्णविन्यासयोगः पद्यादौ गद्यवक्रे वचसि च सकळे प्राकृतादौ स- मोऽयम् ॥' इति । तथा दुःखदारिन्यवाचकाः शब्दाश्चादौ न प्रयो- ६ वृत्तरत्नाकरम् । SS ISI SIL ज्याः । अयं च प्रयोगनिषेधः काव्यादावुक्तः श्लोके चादौ शयः । देवतादिवाचकशब्दे तु गणविचारेऽक्षरविचारे दोषाभावः । तदुक्तं भामहेनैव-देवतावाचकाः शब्दा ये च भद्रादिवाचकाः । ते सर्वे नैव निन्द्याः स्युर्लिपितो गणतोऽपि वा।' इति । तथा च माघ-किरात- योजगणसंयोगयोः प्रयोगेऽपि श्रीशब्दप्रयोगाद्दोषाभाव इत्यलं भूयसा प्रसूक्तेन । प्रकृतमनुसरामः ॥ इदानी मात्राच्छन्दःसूपयोगिनो गणानाह- ज्ञेयाः सर्वान्तमध्यादिगुरवोऽत्र चतुष्कलाः । गणाश्चतुर्लघूपेताः पञ्चार्यादिषु संस्थिताः ॥ ८॥ अत्रार्यादिषु छन्दःसु स्थिताश्चतुष्कलाश्चतुर्मात्राः पञ्चगणा शेयाः । प्राकट्याय स्वरूपतस्तानाह-सर्वेति । सर्वत्रान्तर्मध्य आदौ च गुरु- र्येषां ते तथा । कथंभूताः । चतुर्लघुना गणेनोपेता युक्ताः । तत्र चतुर्मात्रिकत्वात्सर्वगुरुर्द्विगुरुर्लभ्यते। यथा- सर्वगुरुः अन्त्यगुरुः मध्यगुरुः आदिगुरुः चतुर्लघुः 15 अयं गणक्रम आर्यानष्टोद्दिष्टयोरुपयोगीति तत्रैव वक्ष्यति । पञ्चकला- दयस्तु प्राकृतप्रक्रमे वध्यन्ते, संस्कृतेऽनुपयोगात् ॥ गणान्संलक्षयित्वा गुरुं लक्षयति- सानुस्वारो विसर्गान्तो दीर्घा युक्तपरश्च यः । वापादान्ते त्वसौ ग्वको ज्ञेयोऽन्यो मात्रिको लजुः॥९॥ असौ वर्णो ग् गुरुज्ञेयः । कोऽसावित्यपेक्षायामाह-सानुस्वार इति । अनुस्वारेण युक्तः अं-कं-इत्यादिः, विसर्गान्तः, अ-का-इत्यादिः। दीर्घः आकार इत्यादिः । इदं प्लुतस्याप्युपलक्षणम् । युक्तपरो युक्तः संयुक्तः परो यस्य सः । संयोगे परभूते यः पूर्वः सोऽपि गुरुरित्यर्थः । यथा विष्णुरित्यादौ विशब्दादिः । पादान्ते श्लोकचरणान्तेऽनुव- र्तमानो लघुर्गुरुर्वा भवति । लध्वपेक्षिते लघु कार्यम्, गुरावपेक्षिते गुरु कार्य करोतीत्यर्थः । अयं च व्यवस्थितविकल्पः । तेन 'अथ वास- वस्य वचनेन' इत्यादावुद्गतादिपदान्तस्य लघुतैव । 'तस्याः खुरन्या- सपवित्रपांसुम्' इत्यादौ च गुरुतैव । युक्तपरश्चेति व्यञ्जनोपध्मानीय- १. 'स.. इति पाठ २ 'पादान्त' इति पाठ , ३. 'मातृको' इति पाठः, । .
प्रथमोऽध्यायः । निह्वामूलीयपराणामुपलक्षणम् । तथा च-'तनुवाग्विभवोऽपि सन् । मन्दः कवियशःप्रार्थी' इत्येवमादिषु सकारस्य जिह्वामूलीयोपध्मानी- यपक्षे च दकार-शकारयोर्गुरुत्वं सिद्धं भवति । इतरथा नकारस्य पा- दान्तत्वात्सकारस्य न प्राप्नोति, जिह्वामूलीयोपध्मानीययोश्च संयोग- त्वाभावाद्दकार-शकारयोर्न प्राप्नोति । तदुक्तम्-'दीर्घ संयोगपरं तथा प्लुतव्यञ्जनान्तमूष्मान्तम् । सानुस्वारं च गुरुं क्वचिदवसानेऽपि तध्व- न्त्यम् ॥' इति । व्यञ्जनपरस्य गुरुत्वाल्लध्वन्तपादेषु समान्यादिषु व्यञ्ज- नान्तः पादो न कार्यः । ननु संयोगे गुरु दीर्घ चेति वदता पाणिन्या- चार्येण पादान्तस्थादीनां गुरुसंज्ञायामनुक्तत्वात्तद्विरोध इति चेत्, मैव- म्। 'कुण्डा' 'हुण्डा' इत्यादिषु 'गुरोश्च हलः' इत्यकारप्रत्ययस्य, 'ईहां- चक्रे,' ऊहांचक्रे,' इत्यादिषु च 'इजादेश्व गुरुमतोऽनृच्छः' इत्याम्प्र- त्ययस्य सिद्ध्यर्थ स्वशास्त्रे संयोगदीर्घयोर्गुरुत्वं पाणिनिः प्रत्यज्ञासी- त् । अन्यैस्तु स्वशास्त्रे प्रयोजनाभावानोच इति न किंचिदेतत् । वृ- त्तिकारस्तु 'गन्ते' इति सूत्रे वाशब्दाश्रवणात्सर्वत्र पादान्तस्थस्य लो गुर्भवतीति व्याचल्यो, तदयुक्तम् । गुरुलघुभ्यां लघुभिरेव च समा- प्रयोः समानीगीत्यार्ययोर्व्यभिचारात् । अथ तत्र लघुसमाप्तिविधायक- शास्त्रेण विशेषात्मकेन सामान्यस्यास्य बाध इति मतम्, तदपि न सिद्ध्यै । न हि लघुना समाप्तिर्विधीयते, न तु समाप्तिस्थस्य लघुन्वं येन बाधः स्यात् । 'गन्ते' इति सूत्रं त्वन्ते पदान्ते स्थितो लघुः क्वचि- द्गुरुरिति क्वाचित्कन्वाभिप्रायं व्याख्येयम् । तेन न तद्विरोध इत्यलं प्र- पञ्चेन । स च प्रस्तारे वक्रः । नागराक्षरेऽकारप्रश्लेष(s)चिह्नवज्ज्ञेयो लेख्यः । अन्यः पूर्वोक्तेभ्यः सानुस्वारादिभ्योऽन्यः ल लघुः । कोऽसा- वन्यः । मात्रिको मात्रारूपः । एतेन गुरोढिमात्रत्वमुक्तं भवति । म प्रस्तारे कर्तव्ये ऋजू रेखाकारः (१)कार्यः ।। संयोगपरस्य क्वचिदपवादमाह- पादादाविह वर्णस्य संयोगः क्रमसंज्ञकः । पुरःस्थितेन तेन स्यालघुतापि कचिद्गुरोः ॥ १० ॥ इह च्छन्दःशास्त्रे पादादौ चरणादौ वर्णान्तरेण संयोगः क्रमसं- शकः । पूर्वाचार्यैरुक्त इति शेषः । तेन पादादिसंयोगेन पुरःस्थितेन क्वचिदपेक्षितविषये संयोगपरत्वाद्गुरोरपि लघुता स्यात् । 'वा पादान्ते' इत्यत्र पादान्ते लघोर्गुरुत्वम् । इह तु गुरोर्ल घुन्वमिति न पौनरुत्य- मिति भावो वक्ष्यते ॥ - वृत्तरत्नाकरम् । गुरोलघुतायामुदाहरणं सांप्रतमाह- तरुणं सर्षपशाकं नवोदनं पिच्छिलानि च दधीनि । अल्पव्ययेन सुन्दरि ग्राम्यंजनो मिष्टमश्नाति ॥ ११ ॥ अस्य पूर्वश्लोकार्धस्यात्र ग्राम्यनागरिकवरागमे ग्राम्यवरे साभि- लामं चतुरवधू निन्दागर्भस्तुत्या निवारयन्ती सख्याह-हे सुन्दरि, ग्राम्यजनो ग्रामीणो जनोऽल्पव्ययेन मिष्टं रसवदशनमश्नाति भुङ्क्ते कि तत् । तरुणं कोमलं सर्षपानां शाकम्, नवानां तण्डुलानामोदनं चापर्यु- षितौदनम्, पिच्छिलानि बद्धानि दधीनि। अल्पद्रव्यो मिष्टाभासभोजी ग्राम्यजनोऽचतुरोऽयम् । हे सुन्दरि, अतोऽमुं परित्यज्य नागरिके सा- भिलाषा भवेत्यत्र ध्वन्यम् । अत्र सुन्दरीत्यत्र संयोगपरत्वाद्गुरुत्वे सति तृतीये पादे त्रयोदश मात्रा मा भूदिति लघुत्वं प्रतिज्ञायते । तथा च द्वादशमात्रतैवेति भावः। कचिदिति व्यवस्थितविकल्पार्थम् । तेन सुन्द- रीस्यत्र लघुतैव । 'गुणिनामपि निजरूपप्रतिपत्तिः परत एव संभवति। स्वमहिमदर्शनमक्ष्णोर्मुकुरतले जायते यस्मात् ॥', 'दानं भोगो नाश- स्तिस्रो गतयो भवन्ति वित्तस्य' इत्यादौ गुरुतैव । आर्यामुदाहरतार्या- सु पादव्यवस्थाभावं वदन्तो वृत्तिकृतः पराकृताः । अत एव 'त्रिभि- स्त्रिभिर्गणैः पादावार्यादेर्विषमौ स्मृतौ' इति, 'यस्याः पाद प्रथमः' इ- त्यादि चाभियुक्तैरुक्तं पथ्याभिप्रायं वा, तत्र पाव्यवस्थाया वक्ष्य- माणत्वात् । ननु वा पादान्ते' इत्यत्र वर्णमात्रस्य वा पादान्तस्थस्य गु- रुता विकल्प्यते, गुरोरेव वा नित्यप्राप्ता सा विकल्यते, लघोरेव वा। नाद्यः, पादान्तवर्णमात्रस्य तेनैव गुरुताविकल्पपक्षे लघुत्वस्यापि सि- द्धत्वात्पादादावित्यस्य वैयर्थ्यप्रसङ्गात्, लध्वंशेऽप्राप्तविकल्पः, गुर्वशे प्राप्तविकता इति विरुद्धार्थद्वयकृतवाक्यभेदप्रसङ्गाश्च । न द्वितीयः, नेनैव पाक्षिकलघुतायाः सिद्धौ पुनर्विधानवैयर्थ्यात्, तरुणमित्युदाह- रण एव द्वितीयचतुर्थपादान्तयोर्लध्वोर्गुरुत्वाभावे च्छन्दोभङ्गप्रसङ्गाश्च । न तृतीयः, लघोस्तत्राप्रस्तुतत्वात्, असंयोगपरस्यापादान्तगुरोरक्रमप- रत्वात्पाक्षिकलघुत्वाभावप्रसङ्गाश्चेति चेत्, अत्र पादान्तवर्णमात्रमुद्दि- श्य विकल्पितं गुरुत्वं तेन विधीयत इति विधेयोद्देश्ययोरेकैकावच्छे- दार्थद्वयस्यार्थसिद्धत्वाद्वाक्यभेदाभावः पौरुषेयत्वाद्वा स न दोषः । पादादाविति च तस्यैव विषयं प्रदर्शयद्विवरणं तरुणमित्यादिषु गुरो- १ अस्य पूर्वम् इदमस्योदाहरणम्' इति क्वचित् २. 'नवीदनम्' इति पाट'. १. 'पिच्छन्नानि' इति पाठ..
प्रथमोऽध्यायः । लघुतायां तृतीयपाद उदाहरणम् , लघोर्गुरुतायां च द्वितीयचतुर्थपाद- योरुदाहरणमित्यापातत उत्तरं भवति । वस्तुतस्त्वप्रस्तुतस्याप्यर्थतो बुद्धिस्थस्य लघोरेव गुरुता तेन विकल्प्यते । पादान्तगुरोस्तु लघुता संयोगपरस्यैवेत्यनेनैवोच्यते । अक्रमपरस्य तु पादान्तगुरोर्लघुता नेष्टैव । अत एव 'गन्ते' इति सूत्रे 'गृ ल' इति पूर्वसूत्राद्रहणमनुवर्त्य गृशब्दोपलक्षितस्य ह्रस्वाक्षरस्य पादान्ते वर्तमानस्य गुरुसंशा निर्दि- श्यते इति वृत्तिकारेणोक्तम् । इदं च गुरोर्लघुत्वं संयोगनिमित्तकगु- रोरेव, न दीर्घादेः । अत्र सोदाहरणो मामकः संग्रहश्लोकः-'युक्तपर- स्त्वनिमित्तकप्रान्तगुरोरेव वेष्यते लघुता । पादान्तस्थस्य लघोरिह गुरुता वेष्टस्य जानीहि ॥' इत्यलं प्रपञ्चेन । इदं चोपलक्षणं प्रशन्दे द्वशब्दे च परतोऽपादान्तस्थस्यापि लघुतायाः कविप्रयोगे दर्शनात् । तथा च कुमारसंभवे-'गृहीतप्रत्युद्गमनीयवस्त्रा' इति प्रशब्दे परतस्त- स्य लघुता दृष्टा । 'प्राप्तनाभिह्रदमन्जनमाशु' इति । अन्यत्रापि तव द्वि- यापहियो मम हीरभूत्' इति हशब्दे परतो लघुता दृष्टा। अन्ये तु संयो- गमात्रे परभूते लघुत्वमतीव प्रयत्नतयेत्याहुः । अत एव सरस्वतीकण्ठा- भरण उक्तम्--'यदा तीव्रप्रयत्नेन संयोगादेरगौरवम् । न च्छन्दोभङ्ग- मित्याहुस्तदा दोषाय सूरयः ॥' इति । तथा च कविप्रयोगाः। रामा- यणे-'कृतार्थाश्च कृतार्थानां मित्राणां न भवन्ति ये । तान्मृतानपिक- व्यादाः कृतघ्नानोपभुञ्जते ॥' इति । 'एवं तदार्या नृपवीरसिंह सीता वचः प्राह विषादयुक्तम् । एतच्च श्रुत्वा गदितो मया त्वं सीतोपलम्भे प्रकुरुष्व यत्नम् ॥' इति च । 'तव ह्रियापह्रियो मम हीरभूच्छशिगृहे वि- हृता न धृता ततः। बहुलभ्रामरमेचकतामसं मम प्रिये व समेष्यति नो पुनः ॥' इति च । अन्यत्र-'धनप्रदानेन श्रुतेन कर्णः' इत्यादि। प्राकृते- ऽपि--'जह ण्हाउं ओइण्णे अब्भन्तमुल्हसिअमंसुअद्धन्तम्।नह अण्हा- आसि तुमं सच्छे गोलाणईतूहे ॥ [यथा स्नातुमवतीर्ण उद्भान्तमुल्ल- सितमंशुकार्धान्तम् । तथा च स्मातासि त्वं स्वच्छे गोदानदीतोये ॥]' इति । अत्र द्वितीयैकादशत्रयोविंशतिवर्णानां संयोगपरत्वाद्गुरुत्वे- ऽपि ण्हल्हादिसंयोगस्यातीवतीवप्रयत्नोच्चारणेन पूर्वस्य लघुतायां न छन्दोभङ्गो भवति । इदं च महाकविप्रयोगदर्शने भवति, न तु स्वे- च्छया। अत एवाहुः-'क्वचिदपि संयुक्तपरो वर्णो लघुरत्र दर्शनेन यथा। परं हसति चित्तधैर्य दारकटाक्षेषु निर्वृत्तम् ॥' इति । तीव्रप्र- यत्ने तु गुरुतैव । 'अथ प्रजानामधिपः प्रभाते' इत्यादौ । तथा इं-हि-उं-हुं-काराणामेकारौकारयोश्च केवलयोः सव्यञ्जनयोर्वा प्राकृता- वृत्तरताकरम् । लोकतः। दिभाषासु विभाषागुरुता भवति । तदुक्तम्-इ-हि-कारौ बिन्दुयुतौ ए-ओ शुद्धौ च वर्णमिलितौ च । रहयोर्व्यञ्जनयोगे सविभाषं सर्व- मेव लघु ॥' इति । अत्र इ-हि-कारावित्युपलक्षणम् । ई-हि-ए-ओ एतेषूदाहरणम्-'माणिणि माणेहि काई फलं एमो जे चरणमिलु कन्त । सहजे भुजङ्गमु जइ णमइ तह किं करिअ मणिमन्त ॥ [मातिनि मानैः किं फलमेष यचरणमिलितः कान्तः । सहजन भुज- अमो यदि नमति तत्र किं क्रियते मणिमन्वैः ॥अत्र-हि-ए-ओ इत्येतेषां गुरुतायां दोहाच्छन्दसोऽधिकमात्रताभ्यपघेत । इह व्यञ्जन- संयोगे तूदाहृतम् । तथा प्राकृतादिषु दीर्घस्यापि त्वरितपाठे लघुता। तथा द्वयोस्त्रयाणां वा वर्णानां त्वरितपाठ एकवर्णता भवति । तदुक्तम्-'दीर्घाक्षरमपि जिह्वा हस्वं चेत्पठति तदपि भवति लघु । द्वौ वा त्रीनथ वर्णानेकं जानीहि शीघ्रपठनाच॥ इति । अत्रोदाह- रणमूह्यम् । अयं प्राकृतविचारः पञ्चमाध्यायान्तवक्ष्यमाणप्राकृतच्छ- न्दःसूपयोगाय कृत इत्यलं बहुना ॥ परिभाषान्तराण्याह- अधिभूतरसादीनां ज्ञेयाः : संज्ञास्तु ज्ञेयः पादश्चतुर्थाशो यतिविच्छेदसैज्ञितः ॥ १२ ॥ लोकतो लोकव्यवहारादम्यादीनां संज्ञाः संशीभूताः । चतुरादि- संख्या इति यावत् । क्षेया यतिनियमेषु । तद्यथा-अब्धयश्चत्वारः, भूतानि पश्च, रसाः षट् । आदिपदादश्वा मुनयश्च सप्त, वसवो ना- गाश्चाष्टौ, ग्रहा नव, दिशो दश, रुद्रा एकादश, आदित्या द्वादश, इत्येवमादि शेयम् । अन्ध्यादिशब्दाः स्वपर्यायाणां स्वार्थसंख्यासमा- नसंख्यार्थानां चाप्युपलक्षकाः। तेन समुद्रवेदादयोऽपि लोकतो शेयाः। तथा 'छन्दःशास्त्रत्वाच्छन्दश्चतुर्थाशश्चतुर्थो भागः पादो सेयः । पा. दादिव्यवहारेष्वंशः समचतुर्थोऽत्र न पाहाः। किंतु यावान्यत्रोक्तः । तथा च समानां विषमाणां चोद्गतादीनां पादाः संगृहीता भवन्ति । पादशब्दः स्वपर्यायाणामविचरणादीनामुपलक्षकः। तथा यतिर्यति- शब्दो विच्छेदे विरामे संशितः परिभाषितः संशाकृतो शेयः। 'संक्षिता' इति पाठे यतिशब्दसामानाधिकरण्यात्त्रीलिङ्गता क्षेयेति विपरिणत- तानुषङ्गः । इयं च यतिः श्रुतिसौकर्यार्थ नियतस्थानेषु कार्या । यति- नियमस्थानानि' च वृत्तकारैः संगृहीतानि–'यतिः सर्वत्र पादान्ते १. 'ज्ञेया सज्ञात्र' इति पाठः २. 'चतुर्थोऽशो' इति पाठः. ३. 'सज्ञिका' इति पाठः. ..
: RESEARCH INSTITUITE, 4RH ROAD. MADRAS.. प्रथमोऽध्यायः । लोकाघे. तु विशेषतः । समुद्रादिषदान्ते च व्यक्ताव्यक्तविभक्तिके । कचित्तु पदमध्येऽपि समुद्रादौ यतिर्भवेत् । यदि पूर्वापरौ भागौ न स्थातामेकवर्णको । पूर्वान्तवत्स्वरसंधौ कचिदेव परादिवत् । एष्टव्यो यतिचिन्तायां यणादेशः परादिवत् ॥ नित्यं प्राक्पदसंबद्धाश्चादयः प्रा- क्पदान्तवत् । परेण नित्यसंबद्धाः प्रादयश्च परादिवत् ॥' इति । तेषा- मर्थ उदाहरणेन स्पष्टीक्रियते । 'यतिः सर्वत्र पादान्ते' इत्यस्योदाह- रणम्-'अत्र मे सखि शिखण्डमण्डने पुण्डरीककमनीयलोचने । श्या- मतामरसदामकोमले रामनामनि मनो मनोरमे ॥' इत्यादि । प्रत्युदा. हरणं तु-'नमस्तस्मै महादेवाय शशाङ्कार्धधारिणे' इत्यादि । श्लोका- धै तु विशेषतः' इत्यस्योदाहरणं पूर्वोदाहरणे 'दधीनि । अल्पव्ययेन' इत्यत्र । संधिनं भवति स्पष्टविभक्तिकता च भवतीति विशेषः । संधौ प्रत्युदाहरणम्-श्यामा कामाकुला रामावमा भोगाय चाप्यते । नैकजन्मसुपुण्यानां निचयो न चितो यदि ॥' अत्र पूर्वरूपकरणम् । स्पष्टविभक्तिकतायां प्रत्युदाहरणम्-'सुरासुरशिरोरत्नस्फुरत्किरणम- अरी-। पिञ्जरीकृतपादाजद्वन्द्वं वन्दे महेश्वरम् ॥' अत्र समासकरणम्। समुद्रादीत्यत्रोदाहरणम्-'तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः स कामी' इति । अत्र मन्दाक्रान्तायां चतुर्षु स्पष्टविभक्तिकता । ततः षडूव्यक्तविभक्तिकता । पादान्तः इत्यस्यापि विशेषणम् । व्यक्ताव्यक्त- विभक्तिक इति । तत्रोभयोदाहरणम्-'स्यन्दने गरुडकेतुलाञ्छने कु- ण्डिनेशतनयाधिरोपिता केनचिन्नवतमालकोमलश्यामलेन पुरुषेण नी- यते॥' कचिदिति समुद्रादौ या यतिः सा पदमध्ये क्वचिद्भवति । यदि- पदस्य यस्यपेक्षया पूर्वपरभागावेकवर्णों न भवत इत्यर्थः । अत्रोदाह- रणम् -'पर्याप्तं तप्तचामीकरकटकतटे क्लिष्टशीतेतरांशौ' इति । समु- द्रादावित्युक्ते पादान्तयतिः पदमध्ये न भवति । प्रत्युदाहरणम्-'प्र- णमत भवबन्धक्लेशनाशाय नारायणचरणसरोजद्वन्द्वमानन्दहेतुम्' । पूर्वोत्तरभागयोरेकाक्षरत्वे तु यतिर्दोषाय । सा च धातुनामप्रत्ययाव्य- यभागभेदेन चतुर्धा । तत्र क्रमेणोदाहरणानि-'एतासां राजति सुम- नसां दाम कण्ठावलम्बि', 'स्वीकुर्वन्ति हि सुधियः प्रकुर्वते च', 'दुः- सोढो दाशरथिमहिमा राक्षसानां बभूव', 'सुरासुरशिरोनिघृष्टचर- णारविन्दः शिवः', 'सबलयति सुखधूकल्पासु रामासु को न', 'भुवि सुरगुरुदेशीयाः कियन्तो न सन्ति', 'कलिवंशविवशः संप्रत्ययं जीव- लोक', 'रामेशं वा प्रतिदिनमुदिताब्दो रमे शंभुनामा' । एवमन्या- न्यपि संकीर्णान्युदाहरणानि क्षेयानि । पूर्वान्तवत्स्वरसंधावित्यस्यार्थः।
१२ वृत्तरत्नाकरम् । योऽयं पूर्वपरयोरेकादेशः स्वरः सवर्णदीर्घादिः, स प्रायः पूर्वान्तत- क्वचिदेव परादिवञ्च द्रष्टव्य इति । अत एवान्तादिवञ्चेति पाणिनिः ससार । पूर्वान्तवद्भावे यथा-'कस्ते दारिग्यदावानल वदतु यशो वावदूकोऽपि दाने', 'स्थादस्थानोपगतयमुनासंगमेवाभिरामर' । परा- दिवद्भावे यथा--'अन्तेवासिदयालुरुज्झितनयेनासादितो जिष्णुना' । अत्र-स्वरस्य परादिवद्भावे व्यञ्जनमपि परादिवद्भवति । तद्भक्तत्वाद्यदि पूर्वापरभागौ न स्यातामेकवर्णकाविति पूर्वान्तवत्स्वरसंधावित्यादेरपि शेषस्तेन 'अस्या वकं समरजयि पूर्णेन्दुशोभं विभाति' इत्यादौ यति. Vष्या । असौ तत्रापि पूर्वभागस्यैवैकवर्णतायां दोषः । न तूत्तरस्य तद्- र्थमेव स्वरसंधावनेनापवादकरणाद्यणादेशः । पूर्वादिवदित्यत्रोदा- हरणम् –'सप्ताकूपारप्रथितपृथुयशस्यर्थिसाथै कृतार्थे । व्यञ्जनस्यापि परादिवद्भावो दृश्यते। यथा-'इत्यौत्सुक्यादपरिगणयन्गुह्यकस्तं यया- चे' इति । तेभ्यः पूर्वा यतिर्न कार्येत्यर्थः । यथा- 'बाले भूपतिमौलि- लालितपदद्वन्द्वश्च वृद्धोऽपि च' ।आदिपदात् 'रक्षोभिः सुरमनुजैर्दितेः सुतैर्वा' । प्रत्युदाहरणं तु-'नमः शिवाय कृष्णाय च दानवविनाशिने। नित्यं प्राक्पदसंवद्धा इति किम् । तथाद्रियन्ते न बुधाः सुधामपि' । चादय इति किम् । 'संपत्तिः सैव रमणी सखैर्या भुज्यते भुवि' । अत्र समासान्तटच्प्रत्ययान्तसखिशब्दस्य नित्यं प्राक्पदसंबन्धत्वेऽपि यति- र्न दुष्यति । परेण नित्यसंबद्धा इति । पदादिति तेभ्यः परा यतिर्न भ- वतीत्यर्थः । 'प्रस्मृतः किमथवा पठितो नु' । आदिपदात् 'निजगृहे ज- यिनं तिसृणां पुराम्' । परेण नित्यसंवद्धा इति किम् । कर्मप्रवचनीये- भ्यः परा यतिर्भवत्विति । यथा--'श्रेयांसि बहुविघ्नानि भवन्ति मह- तामपि' । प्रादय इति किम् । 'राक्षसाधिपबलं प्रणाशयांचक्रतू रघुव- रौ वशौ रमो' । अयं त्वनेकाक्षराणां चादीनां प्रादीनां चादिवद्भावः पादान्तयताविष्यते । एकाक्षराणां तु पादान्तयतौ पादमध्ये समुद्रा- दियतौ च । तदुक्तं कविकल्पलतायाम् –'एकस्वरोपसर्गेण विच्छेदश्रु- तिसौख्यकृत्' इति । पादान्ते यतौ प्रत्युदाहरणं तत्रैवोक्तम् । यथा- 'पिनाकपाणिं प्रणमामि स्मरशासनम्' इति । पादमध्ये यतो प्रत्युदाह- रणम्-'विष्णुं रुद्रं च खलु भजतां नैव संसारबन्धः' । अनेकाक्षराणां तु पादमध्ये चामीकरादिष्विव पूर्वापरभागयोरेकवर्णत्वाभावाद्यतिरि- दैव । तत्र चादीनां यथा-"प्रत्यादेशादपि च मधुनो विस्मृतभूविला- सम्' इत्यादि । प्रादीनां यथा-'दूरारूढप्रमोदं हसितमिव परिस्पृष्ट- माशासखीभिः' । अत्र नित्यं प्राक्पदसंबद्धा इत्यत्र 'स्वादु स्वच्छं स- प्रथमोऽध्यायः । १३ लिलमपि च प्रीतये कस्य न स्यात्' । नित्यं प्राक्पदसंबद्धा इति किम्। 'मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः' इति । 'परेण नित्यसंबद्धा' इत्यत्र च 'दुःखं मे प्रक्षिपति हृदये .दुःसहस्तद्वियोगः' इत्यादि वृत्ति- कारैः समुद्रादियतिरुदाहृता। अन्ते चायं तु पदान्तयतावन्तादिव- द्भाव इप्यते, न तु पादमध्ययतावित्यादि स्वयमेवोक्तम् । तद्विचारणी- यम् । यथा-'अनुक्तयतिकेऽप्येवं कार्या श्रुतिसुखा यतिः' । तदुक्तं कविकल्पलतायाम्-‘एवं यथायथोद्वेगः सुधियां नोपजायते । तथा तथा मधुरतानिमित्तं यतिरिष्यते ॥' इति । शुक्लाम्बरादयस्तु पदान्त एव यतिमाहुः । भरतायस्तु यतिमेव नेच्छन्ति । अत एव कविप्रयो- गाः । तत्र भर्तृहरेः-'लभेञ्च सिकतासु तैलमपि यत्नतः पीडयन्पिश्च मृगतृष्णिकासु सलिलं पिपासार्दितः । कदाचिदपि पर्यटशशविषा- णमासादयेन्न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥' इति। जयदेव- स्यापि-'भावं शृङ्गारसारस्वतमयजयदेवस्य विष्वग्वचांसि' इति । तदुभयं बहुविरोधाञ्चिन्त्यम् । इयं च यतिवृत्तस्वरूपाद्भिन्नापि गुणालं- काराद्यपेक्षयान्तरङ्गाङ्गत्वात्सूत्रकारादिभिर्लक्षणमध्ये निबद्धा, न तु वृ- त्तस्वरूपतया। मात्रागुरुलघुनियमनं हि वृत्तलक्षणं विरामात्मकत्वं च यतेः, अत एव वामनेन काव्यालंकारसूत्रेषु 'न वृत्तदोषात्पृथग्य- तिदोषो वृत्तस्य यत्यात्मकत्वात्' इत्याशङ्कय 'न लक्षणस्य पृथक्त्वात्' इति परिहृतमित्यलम् ॥ परिभाषान्तरमाह- युक्समं विषमं चायुक्स्थानं सद्भिर्निगद्यते । समं द्वितीयचतुर्थादि स्थानं युगिति सद्भिर्निगद्यते। विषमं चैकतृती- यादि स्थानं सद्भिरयुङ् निगद्यते । चकारात्समस्य युग्मानोजसंशे विष- मस्यायुग्मौजसंशे इत्यादि शेयम् । पदैः पादाख्यैर्घटितं पद्यम् । तद्भि- विधम्-जातिवृत्तं चेति । जातिर्नियतमात्रिका, वृत्तं नियतगुरुलघु- विन्यासम् । तत्र जातिरादि । वृत्तमुक्तादि समाधसमविषमात्मकम् । तदुक्तम्-'पद्यं चतुष्पदं तश्च वृत्तं जातिरिति द्विधा । वृत्तमक्षरसं- ख्यातं जातिर्मात्राकृता भवेत् ॥' इति । 'एतत्सर्व मनसि विधाय वृत्तस्य भेदानाह- सममर्धसमं वृत्तं विषमं च तथापरम् ॥ १३ ॥ समास्यमर्धसमाख्यं विषमाख्यं चेति त्रिधा वृत्तमित्यर्थः ।। - वृत्तरनाकरम् । त्रिविधस्यापि वृत्तस्यान्वर्थसंशामाश्रित्य क्रमेण स्वरूपमाह श्लोक- त्रयेण- अङ्ग्रयो यस्य चत्वारस्तुल्यलक्षणलक्षिताः। तच्छन्दःशास्त्रतत्त्वज्ञाः समं वृत्तं प्रचक्षते ॥ १४॥ प्रथमानिसमो यस्य तृतीयश्चरणो भवेत् । द्वितीयस्तुर्यवद्वृत्तं तदर्धसममुच्यते ॥ १५ ॥ यस्य पादचतुष्कोऽपि लक्ष्म भिन्नं परस्परम् । तदाहुर्विषमं वृत्तं छन्दःशास्त्रविशारदाः॥ १६ ॥ यस्याञ्जयः पादाश्चत्वारोऽपि तुल्येन लक्षणेन लक्षितायुक्ताः, तच्छ- न्दःशास्त्रविशारदाश्छन्दःशास्त्रतत्त्वज्ञाः समं वृत्तं वदन्ति । द्वितीयच- रणस्तुर्यवञ्चतुर्थवदर्धसमं यस्य तर्धसममित्यन्वर्थता । यस्य पाद- चतुष्टये परस्परं लक्ष्म लक्षणं भिद्यते तद्विषममाहुः, विगतं समं य- स्मादिति व्युत्पत्तेः । तत्र समं श्यादि, अर्धसमं द्रुतमध्यादि, विषमं पदचतुरूवा॑दि ॥ तत्र समवृत्तभेदानाह- आरभ्यैकाक्षरात्पादादेकैकाक्षरवर्धितः । पृथक्छन्दो भवेत्पादैर्यावत्पड्रिंशतिं गतम् ॥१७॥ एकाक्षरात्पादादारभ्यैकेनाक्षरेण कविना वर्धितैः पादैः कृत्वा पृथ- ग्भिन्नं छन्द उक्तादि भवेत् । वृद्ध्यवधिमाह-यावदिति । यावत्पर्द्धि- शतिं षड्विंशतिसंख्याकं पादं प्रति गतं गमनं भवति । षड्विंशत्य- क्षरपादपर्यन्तं वृद्धिर्भवतीत्यर्थः ॥ अधिकाक्षरपादस्य छन्दसः संज्ञामाह- तदूर्ध्व चण्डवृष्टयादिदण्डकाः परिकीर्तिताः। षविंशत्यक्षराच्छन्दस ऊर्ध्वं सप्तविंशत्याद्यक्षरपादं छन्दश्चण्डवृ. टयादिदण्डकसंशं भवति । सप्तविंशत्यक्षरादेकैकेन रगयादिना वृद्धि, नत्वेकैकाक्षरेण । आदिपदादर्णवादि । इह शाले विशेषलक्षणेनालक्षितस्य छन्दसा कविभिश्च प्रथ्यमानस्य सामान्यसहामाह- १. 'समहत्तम्' इति पाठः, - ।
- प्रथमोऽध्यायः । १५ शेष गाथास्त्रिभिः षड्भिश्चरणैश्चोपलक्षिताः ॥ १८ ॥ शेषं विशेषनिरूपितादन्यत् । तदेवाह-त्रिभिरिति । क्वचित्रिभिः, क्वचित्षभिः, अकारादशादिभिर्विलक्षणगुरुलघुक्रमवद्भिन्यूनाधिका- क्षरैश्चरणैर्युक्तास्ता गाथा शेया इत्यर्थः ।। पूर्वोक्तानामेकाक्षरपादमारभ्य षविंशत्यक्षरपादावधिकानां छ- न्दसां सामान्यतो जातिसंज्ञा आह- उक्तात्युक्ता तथा मध्या प्रतिष्ठान्या सुपूर्विका । गायत्र्युष्णिगनुष्टुप् च बृहती पतिरेव च ॥ १९ ॥ त्रिष्टुप् च जगती चैव तथातिजगती मता । शक्करी सातिपूर्वा स्यादष्टयत्यष्टी ततः स्मृते ॥ २० ॥ धृतिश्चातिधृतिश्चैव कृतिः प्रकृतिराकृतिः। विकृतिः संकृतिश्चैव तथातिकृतिरुत्कृतिः ॥ २१ ॥ एकाक्षरपादोक्ता नामेयं च जातिसंशा । अवान्तरसंज्ञास्तु वक्ष्य- न्ते । एवमितरत्रापि यक्षरपादात्युक्ता । एवं शेषा अपि शेयाः । अ- न्या सुपूर्विका, अनन्तरोक्ता प्रतिष्ठैव, सुपूर्वा सती सुप्रतिष्ठा नामान्या जातिरित्यर्थः । सातिपूर्वेति । सा शकर्यतिपूर्वा । अतिशक्करीत्यर्थः । ननु सूत्रकारेण समच्छन्दसां गायत्र्यादीनामेवोक्तत्वादुक्ताद्यनुक्ते न तत्सूत्रत्वमिति चेन्न । 'द्विको ग्लौ' इत्यादिसूत्रोक्तैकाक्षरादिप्रस्तारस्य तत्संज्ञायां शापकत्वात्, कविभिः प्रायेणाप्रयुक्तत्वाच, तेषां लक्षणाव- सरेऽनुक्तिरिति भाव्यम् । ता:- -१ उक्ता, २ अत्युक्ता, ३ मध्या, ४ प्र- तिष्ठा, ५ सुप्रतिष्ठा, ६ गायत्री, ७ उष्णिक, ८ अनुष्टुप् , ९धृहती, १० पतिः, ११ त्रिष्टुप् , १२ जगती, १३ अतिजगती, १४ शक्करी, १५ अति- शक्करी, १६ अष्टिः, १७ अत्यष्टिः, १८ धृतिः, १९ अतिधृतिः, २० कृतिः, २१ प्रकृतिः, २२ आकृतिः, २३ विकृतिः, २४ संकृतिः, २५ अतिकृतिः, २६ उत्कृतिः । अत्र प्रतिपादमेकैकाक्षरवृद्धौ सकले छन्दसि चतुरक्ष- रा वृद्धिर्भवति । तत्रोक्ता चतुरक्षरा । अत्युक्ताष्टाक्षरा । एवमुत्तरत्रापि। उत्कंतिश्चतुरधिकशताक्षरा॥ -- " १. 'गाथा-लक्षिता' इति पाठः, २. 'स्मृता' इति पाठः, २. 'स्मृता' इति पाठः. ३. 'संस्कृतिः' इति पाठः. ४. 'अपि' इति पाठः. ५. 'अभिकृति.' इति पाठः.
वृत्तरत्नाकरम् । उक्तानुवादपूर्वकं वक्तव्यमाह- इत्युक्ताश्छन्दसां संज्ञाः क्रमतो वच्मि सांप्रतम् । लक्षणं सर्ववृत्तानां मात्रावृत्तानुपूर्वकम् ॥ २२॥ इति श्रीकेदारभट्टविरचिते वृत्तरत्नाकरे संज्ञाभिधानो नाम प्रथमोऽध्यायः॥ छन्दसामित्यमुना प्रकारेण जातिसंज्ञा उक्ताः । सांप्रतमिदानी मा- त्रावृत्तानुपूर्वकं मात्रावृत्तमादितः कृत्वा सर्वेषां वृत्तादीनामुक्तानां क्रमशः क्रमेण लक्षणं वच्मि वदामीति योजना।प्रथम मात्रावृत्तमुच्यते। तत उद्देशक्रमेण वर्णवृत्तमुच्यत इत्यर्थः । इति श्रीमद्विद्वन्मुकुटमाणिक्यश्रीमद्भट्टरामेश्वरसूनुनारायणभटविरचितायां वृत्तरत्नाक- रव्याख्यायां परिभाषा याय प्रथम ॥ द्वितीयोऽध्यायः। अथ मात्रावृत्तानि विवक्षुः प्रथममार्या लक्षयति-लक्ष्मैतदिति द्वयेन। लक्ष्मैतत्सप्त गणा गोपेता भवति नेह विषमे जः। षष्ठोऽयं नलघू वा प्रैथमेऽर्धे नियतमार्यायाः ॥१॥ षष्ठे द्वितीयलात्परके न्ले मुखलाच्च सयतिपदनियमः । चरमेऽधै पञ्चमके तस्मादिह भवति षष्ठो लः॥२॥ आर्यायाः प्रथम एतन्नियतं सार्वत्रिकं लक्ष्म लक्षणं शेयम् । किं तत्। सप्तसंख्याका गोपेता गुरुणा युक्ता गणाश्चातुर्मात्रिकाः पूर्वोक्ता गुरूपेत. त्वात्सार्धाः । यद्यपि 'स्वरा अर्ध चार्यार्धम्' इति सूत्रे अर्ध चेति ग्रहणा- सार्धाः सप्त गणा भवन्तीति सामान्यत उक्तम्, तथाप्यर्धगणस्थान एको गुरुरेवान्ते कार्यः, न तु लद्वयमिति सूचितम् । इहार्याधै विषमे प्रथम- तृतीयादौ । स्थाने जो जगणो मध्यगुरुर्गणो न कार्यः । षष्ठस्त्वयं १. 'क्रमशी' इति पाठ'. २ एतत्पूर्वम् 'आपलक्षणमाह' इति कचित्. ३. 'नगणो' 'न लघुः' इति पाठी. ४. 'प्रथमार्धे' इति पाठ'. ५. 'अन्ते' इति पाठः, ६. 'षष्ठे' इति पाठ:
द्वितीयोऽध्यायः। १७ । जराणः कार्यः । नलघू वा कार्यों । नश्च लघुश्चेति नलघू वा । चतुर्लघु गणः कार्य इत्यर्थः । अन्ये तु स्वेच्छया शेयाः । षष्ठ इति द्वितीयला- दित्यतः परम् । पूर्वमिति शेषः । षष्ठे न्ले षष्ठस्थाने चतुर्लघौ गणे कृते सति द्वितीयलात्तस्यैव षष्ठस्य चतुर्लघोर्गणस्य द्वितीयलघोः पूर्व प्रथ- मलध्वन्तं सयतिपदनियमो यतिसहितं पदं नियमेन समाप्यत इत्यर्थः। न्ले इति प्रथमाद्विवचनं वा । ततश्च षष्ठे स्थाने यदि न्ले नलघू स्या- ताम्, तदा द्वितीयलात्पूर्व यतिरित्यर्थः । परके न्ले न-ले षष्ठापेक्षया परस्मिन्सप्तमके चतुर्लघौ कृते सति, मुखलात्सप्तमस्य प्रथमलयोः पूर्व . षष्ठगणान्ते सयति पदं नियम्यते । चरमे द्वितीये पुनरर्धे पश्चमके न्ले चतुर्लघौ । तस्मान्मुखलघोः पूर्वम् , अर्थाञ्चतुर्थान्ते, पदं समाप्यत इ- त्यनुषङ्गेण पूर्वपदाध्याहारेण योज्यम् । इहेति । इहार्याचरमार्धे षष्ठो गणो लो लघुरेव भवति । न चतुर्मात्रिका इति पूर्वार्धाद्विशेषः । उत्त- रार्ध एतावन्मात्रं विशेष वदतान्यत्पूर्वार्धलक्षणमेव भवतीति द्योति- तम् । यतिनियम छन्दोमाणिक्यकारोऽप्याह-'पूर्वार्धे षष्ठो जः खो वा खे चास्य लघुनि भवति यतिः । षष्ठः खपरोऽत्र यतिस्तुर्योऽप्यथ भवति चरमदले ॥' इति । अस्यार्थः-ख इति चतुर्लघोर्गणस्य संशा। पूर्वार्धे षष्ठो गणो जगणः खो वा कार्यः । खे तु षष्ठे गणे, अस्य लघुनि तदीयप्रथमलध्वन्ते यतिर्भवति । यदि षष्ठः खपरः खश्चतुर्लघुः परो यस्य स तथा । सप्तमश्चतुर्लघुः स्यादित्यर्थः । तदात्र षष्ठान्ते वा यति- श्वरमदले द्वितीयार्धे यदि तुर्यश्चतुर्थः खपरस्तत्रापि चतुर्थान्ते यति- रिति । यद्वा मूले पञ्चम्यौ ल्यब्लोपे । तेन द्वितीयलमादाय सयतिपद- नियमः, सयतिकपदप्रारम्भनियम इत्यादिरर्थः । उभयथापि लक्षे- ऽविसंवाद एव । किं त्वेतस्मिन्व्याख्याने 'न्लौ चेत्पदं द्वितीयादि,' 'सप्तमः प्रथमादि,' इति सूत्रानुग्रहो पूर्वपदाध्याहारश्च न कर्तव्यो भवति । अत एव क्षेत्रराज आह–'षष्ठे द्वितीयमादाय लमेवारभ्यते पदम् । सप्तमे न्ले पुनर्मुख्यं पूर्वार्धेऽसौ यतिः स्मृता ॥ पदमारभ्यते नित्यं गृहीत्वा प्रथमं लघु । पञ्चमे न्ले बुधैरेवं चरमार्धे स्मृता यतिः॥' इति । छन्दोमाणिक्योक्तसूत्रार्थकथनेनापि संगच्छते । अत्र यतिमात्रे नियते सति चामीकरादिवत्पूर्वापरभागयोरनेकाक्षरत्वे पदमध्यय- तिर्मा भूदिति पदस्यापि नियम उक्तः। तत्र स्पष्टास्पष्टविभक्तिकत्व- योर्न विशेषः । अत्र प्रथमार्या षष्ठजगणपक्षे सामान्यलक्षणोदाहरणम् । षष्ठस्य चतुर्लघुत्वे पूर्वार्धद्विविधयतौ च द्वितीयार्यापूर्वार्धमुदाहर- णम् । उत्तरार्धयतेस्तल्लक्षणस्य तदुत्तरार्धमिति विवेकः । अत्र विषमे १८ वृत्तरत्नाकरम् । जगणनिषेधात्प्रत्येकं चत्वारो विकल्पाः । यथा-5s, us, SI, इति । समस्थाने तु जगणस्यानिषेधात्प्रत्येकं पञ्च । यथा-5s, us, ISI, , इति । ततश्च पूर्वार्धे प्रथमे भेदाः ४, द्वितीये ५, तृतीये ४, चतुर्थे ५, पञ्चमे ४, षष्ठे २ जन्लयोरेव विकल्पनात्, सप्तमे ४, अष्टमे गुरुरेकः । एतेषामन्योन्यगुणने द्वादश सहस्राणि, अष्टौ शतानि पूर्वा- र्धदः । उत्तरार्धे तु षष्ठे लघुनियमनात्तदतिरिक्त सर्व पूर्ववदेव । तथा चान्योन्यगुणने षट्सहस्राणि चत्वारिशतानि भेदा उत्तरार्धे । उभयविकल्पानां परस्परगुणनेऽष्टौ कोटय एकोनविंशतिर्लक्षाणि विं- शतिः सहस्राणि । इयमार्याणां भेदसंख्या । अङ्कतोऽपि ८१९२००००। तदुक्तम्-'जगणविहीना विषमे चत्वारः, पञ्च युजि, जगणनलौ। षष्ठे द्वाविति च गणा तथान्तगः प्रथमदलसंख्या ॥ एवं परार्धसंख्या षष्ठे स्याल्लघुनि चैकस्मिन् । आर्या संख्योभयदलसंघाता विनिर्दिष्टा ॥' इति । अत्रैव प्रसङ्गादासु नष्टोद्दिष्टे उच्यते---'लोके प्रसिद्धनामा वि- धाविद्याविनोदविभवानाम् । जयतीह शुद्धचरितो रामेशाख्यो गुरुः काश्याम् ॥' यदा कश्चिजिज्ञासेतेयमार्या कतिधेति, तदास्या गणान्स्था- पयेत् । गगणाधश्चतुःपञ्चादिकं संख्याविकल्पं यथासंख्यं स्थापयेत् तत उपान्त्यमन्त्येन हत्वेष्टाद्विकल्पादधस्तनाशेषान्विकल्पसंख्यापूर- कान्विकल्पानपनीय शेषया संख्यया तदाद्यगुणकविकल्पाई हत्वे- ष्टविकल्पाधस्तनविकल्पाराशेरपनीय शेषावं पूर्वपूर्वेण गुणयित्वेष्ट- विकल्पाधस्तनविकल्पाइं पातयेत् । एवं यावदाध गणं कुर्यात् । शेषसंख्ययार्यासंख्यां जानीयात् । अत्र सर्वान्तगुरुमध्यगुर्वादिगुरु- सर्वलघुक्रमेणावस्थानेऽधस्तनत्वं ज्ञेयम् । अत्र न्यासः- 5s, ISI, Ss, ss, ss, ISI, IIS, S. ॥S, ISI, Is, ss, ss, I, ss,s. अत्रान्ते न्यस्तस्यार्धगणस्य विकल्पाभावादधस्तनैकाङ्कस्य द्वितीये- ऽर्थे समाप्तेऽधस्तनैश्चतुर्भिर्गुणने जाताश्चत्वारः । सप्तमस्येष्टस्य सर्व- गुरुत्वात्तस्याधस्तनान् ज(Is1)गणव्यतिरिक्तानन्तगुर्वादिगुरुसर्वलघु- स्त्रींचतुर्यु पातयेत् । शेष एकः । षष्ठस्य लघुमात्ररूपत्वाद्विकल्पा- भावः । पञ्चमाधस्थचतुर्भिरेकगुणने कृत्वापि पूर्ववत्रयाणां त्यागे शेष- स्यैकस्य चतुर्थावस्थपष्चमहतौ चतुर्बु शेषस्यैकस्य तृतीयाधस्थैश्चतु- मिर्हतौ शेषयोईयोस्त्यागे शेषद्रयस्य द्वितीयस्थैः पञ्चभिर्हतौ द्वये त्यक्ते शेषा अष्टौ । तेषां प्रथमस्थैश्चतुर्भिहतौ जगणातिरिक्ते इये त्यक्ते त्रि- शत् । एवमुत्तरार्ध पूर्वार्धान्स्यगणार्धे त्वविकल्पं सप्तमस्थैश्चतुर्भिलिं- द्वितीयोऽध्यायः । १९ शतो हतौ द्वये पातिते शतमष्टादशाधिकं तस्य षष्ठंस्थाभ्यां द्वाभ्यां हतौ एकस्य त्यागे पञ्चत्रिंशदधिकं शतद्वयं शिष्टम् । तस्य पञ्चमस्थै- चतुर्भिर्हतौ त्रिषु पातितेषु शिष्टा सप्तत्रिंशदद्धिका नवशती । तस्यां चतुर्थस्थैः पश्चभिर्हतायां चतुर्णा त्यागे एकाशीत्यधिकानि षट्चत्वा- रिशच्छतानि । तेषु तृतीयस्थैश्चतुर्भिहतेषु त्रिषु पातितेषु अष्टादशस- हस्राणि एकविंशत्यधिकानि सप्तशतानि च । तेषां द्वितीयस्थैः पञ्च- भिहतौ द्वयोरपाये सहस्राणां त्रिनवतिरूयधिका षट्शती च । तस्यां प्रथमस्थैश्चतुर्भिर्हतायां त्रयत्यागे सिद्धोऽङ्को लक्षत्रयं चतुःसप्ततिः सहस्राणां नवाधिकानि चत्वारि शतानि च । अङ्कतोऽपि ३७४४०९ । एतावत्संख्येयं पूर्वोक्तार्या भवति । तदुक्तम्-'गणानुद्दिष्टगाथायाः संस्थाप्य तदधो लिखेत् । चतुःपञ्चादिकां संख्यां स्थानस्थानोचिर्ता ततः॥ हत्वा हत्वाद्यमन्त्येन चोपरिस्थागणादधः। पृथग्धातगणेभ्यो ऽथ गणसंख्यां विकल्पयेत् ॥ हताद्धार्योचिता तावद्यावदाद्याङ्कसंभवः। तत्संख्यामुद्दिशेगाथामुद्दिष्टप्रत्यये बुधः ॥' इति ॥ इत्याचार्योंद्दिष्टविधिः ॥ अथ तत्र नष्टं यदा लक्षत्रयं चतुःसप्ततिसहस्राणि चत्वारि शतानि नव चेत्येतत्संख्यार्या कीगिति जिज्ञासा । तदा नष्टानां लिखित्वा- दिभूतगणविकल्पैर्भागं हरेत् । भागे हृते योऽङ्कः शिष्टस्तत्संमितं तद्गण- विकल्पेषु गणं लिखेत् । भागहारे यल्लब्धं तत्सैकं कृत्वा पुनः पुनरुत्त- रगणविकल्पैर्भागे हृते भाज्यशेष संख्याको गणस्तत्तद्गणविकल्पेषु पू- वस्थापितगणानन्तरं स्थाप्यः । इत्येवं यावत्पूर्ति कार्यम् । यत्र तु ग- णविकल्प एवेष्यते तत्र तत्संख्य एव गणो ग्राह्यः। परं लब्धं सैकं न कार्यम् । शिष्टं पूर्ववत् । तद्यथा प्रथमगणस्य चतुर्विकल्पत्वाश्चतुर्भिः पूर्वोक्ते नष्टाङ्के हते लब्धं त्रिनवतिसहस्राणि अधिकानि षट्रशतानि च शेष एकाइ इति । प्रथमगणविकल्पेषु प्रथमः सर्वगुरुः स्थाप्यः । लब्धे सैके कृते द्वितीयगणस्य पञ्चविकल्पत्वात्तैर्भक्ते लब्धं सहस्राण्य- ष्टादशविंशत्यधिकसप्तशती च शेषात्रय इति । तद्विकल्पेषु तृतीयो मध्यगुरुः स्थाप्यः।लब्धे सैके तृतीयस्य चतुर्विकल्पत्वात्तैर्भक्ते लब्धम- शीत्यधिकषट्चत्वारिंशच्छती शेष एक इति । तद्विकल्पेष्वाद्यः सर्व- गुरुः कार्यः । लब्धे सैके चतुर्थः पञ्चविकल्प इति, पञ्चभिर्भागे लब्धं नवशती षट्त्रिंशदधिका शेष एक इति । तद्विकल्पेष्वाधा सर्वगुरुः स्थाप्यः। लब्धे सैके पञ्चमस्य चत्वारो विकल्पा इति तैर्भक्ते लब्धं [चतु- त्रिंशदधिकं शतद्वयं शेष एक इति, तद्विकल्पेषु सर्वगुरुः स्थाप्यः।लब्धे २० वृत्तरत्नाकरम् । सैके षष्ठस्य जगणनलयोरेव विकल्पाहाभ्यां भक्ते लब्धं सप्ताधिकशतं शेष एक इति, तद्विकल्पयोराद्यो मध्यगुरुः स्थाप्यः । लब्धं सैके सप्त- मस्य चत्वारो विकल्पा इति. तैर्भक्ते लब्धम्] एकोनत्रिंशत् शेष द्वयमिति तद्विकल्पेषु द्वितीयोऽन्तगुरुः । ततः सर्वार्यारियतं गुरुं न्यसेत् । एवं पूर्वार्ध सिद्धम् । ततो लब्धे सैके आर्योत्तरार्धादिगणश्चतु- र्विकल्प इति, चतुर्भक्ते लब्धं सप्त शेषं द्वयमिति । द्वितीयविकल्पो- ऽन्तगुरुः।लब्धे सैके, द्वितीयस्य पञ्च विकल्पा इति तैर्भक्त लब्धमेकः शेषं त्रय इति तृतीयविकल्पो मध्यगुरुः । लब्धे सैके तृतीयश्चतुर्विकल्प इति चतुर्भिर्भक्ते लब्धं शून्यम् । शेषं द्वे इति द्वितीयविकल्पोऽन्तगुरुः । लब्धे शून्यं सैके चतुर्थः पञ्चविकल्प इति पञ्चभिर्भागे लब्धं शून्यं शेष एक इति प्रथमविकल्पः सर्वगुरुः । लब्धे सैके पञ्चमश्चतुर्विकल्प इति तैर्भक्ते लब्धं शून्यमवशेष एक इति प्रथमविकल्पः सर्वगुरुः । षष्ठो लघुरेक एव तस्य नियतत्वात् । लब्धे सैके सप्तमश्चतुर्विकल्प इति तैर्भक्ते लब्धं शून्यं शेष एक इति प्रथमः सर्वगुरुः । अन्त पको गुरुर्ले- ख्यो नियतत्वात् । एवं सत्येतादृशीयमिति पूर्वोक्तामेवार्या वदेत् । तदुक्तम्-'नष्टाङ्के प्रथमं भक्ते गणादैश्चतुरादिकैः। शेषसंख्यो गणो ज्ञेयो लब्धं कुर्यात्सरूपकम् ॥ पुनर्भजेत्पुनर्लब्धं सरूपं शेषसंख्यया । गणान्दद्याद्गणे शेषे गाथाथ प्राग्गणक्रमः ॥' इति । एवमार्यादिषु गी- त्यादिषु च शेयम् ॥ इत्यार्यानष्टविधिः ॥ अथ कश्चिदार्याविशेषानाह- त्रिवंशकेषु पादो दलयोरायेषु दृश्यते यस्याः। पथ्येति नाम तस्याः प्रकीर्तितं नागराजन ॥३॥ अधेषु विष्वंशकेषु चतुर्मात्रेषु त्रिषु गणेषु यस्या दलयोरर्धयोः पादो दृश्यते कविप्रयोगेषु तस्या आर्याया नागराजेन श्रेष्ठेन पिङ्गलेन पथ्येति नाम प्रकीर्तितम् । उक्तं 'त्रिषु गणेषु पादः पथ्याचे च' इति सूत्र इत्यर्थः । सर्वत्रात्र ऋषिनामनिर्देशः समूलताप्रदर्शनार्थः, न त्व- न्यतमत्वप्रदर्शनार्थः । इदमेवात्रोदाहरणम् । एवमुत्तरत्रापि ॥ संलङ्घय गणत्रयमादिमं शकलयोईयोर्भवति पादः । यस्यास्तां पिङ्गलनागो विपुलामिति समाख्याति ॥४॥ १. 'छन्दोविद्भि समाख्यातम्' इति पाठ , २. 'उल्लङ्घय' इति पाठ'. ३. 'विपुलेति च' इति पाठ - द्वितीयोऽध्यायः । यस्या आर्याया आद्यं गणत्रयं लकयित्वा परतो यंत्र कचिदयोः शकलयोरर्थयोर्व्यस्तयोः समस्तयोर्वा पादयोर्यतिः स्यात्, तामार्यामि- त्येवंप्रकारतया पिङ्कलनागो विपुलां समाख्याति कथयति । 'विपु- लान्या' इति सूत्रम् । इतिशब्दं प्रकारवचनमङ्गीकृत्य व्याख्येयम् । तेन इति नानुक्तत्वाद्विपुलामिति कर्मणि द्वितीया । न विरोधः । प्रकारवा- चिनेतिशब्देन चपलादीनामपि गणत्रयानन्तरं विरामत्वप्रकारे सति विपुलात्वमपि भवतीति संकीर्णभेदा अपि संगृहीताः। इयं च त्रिविधा पूर्वार्ध एव त्रिगणान्त इति विरामा मुखविपुला, उत्तरार्ध एताह- ग्जघनविपुला, उभयोरर्धयोस्ताहगुभयविपुलेति । इयमेव महाविपु- लेति । तत्र षष्ठे इत्यादिमूलस्थाद्या । द्वितीया ममैव । यथा-'करुणा- विषये करुणां करुणावरुणालयाशु मयि धेहि । राघव, करुणाशील- वतां विषमा मानसी वृत्तिः ॥' तृतीया मूलस्यैव ॥ उभयाधयोर्जकारौ द्वितीयतुयौँ गमध्यगौ यस्याः। चपलेति नाम तस्याः प्रकीर्तितं नागराजेन ॥५॥ यस्या द्वयोरर्धयोर्व्यस्तयोः समस्तयोर्वा द्वितीयचतुर्थी गणौ पश्चा- त्पुरःस्थितगुरुमध्यगौ जगणौ स्याताम्, सार्या चपला । एतदुक्तं भवति-प्रथमो गणो द्विगुरुरन्यगुरुर्वा, तृतीयो द्विगुरुः, पञ्चमो द्विगुरुरादिगुरुर्वा, द्वितीयचतुर्थों मध्यगुरू नियतमस्यामिति । अत्रा- द्यार्थे प्रथमे द्वौ विकल्पौ (5s, us), द्वितीय एकः (151), तृतीये- ऽप्येकः (55), चतुर्थेऽप्येकः (151), पञ्चमे द्वौ (s, ss), षष्ठे द्वौ (si, Im), सप्तमे चत्वारः (m, ss, su, us), अष्टमे गुरुरेव । अन्योन्यगुणने द्वात्रिंशत् । उत्तरार्धे षष्ठस्य लघुतामात्रत्वा- षोडश॥ उभयार्धविकल्पानामन्योन्यगुणने द्वादशाधिकपञ्चशती बिकल्पा- नाम्, अङ्कतोऽपि ५१२ । मुखविपुलादीनां सूत्रकारानुक्तत्वात्स्वयं स्फुटतयानुक्तावपि चपलाभेदी सूत्रोक्तन्वाल्लक्षयति- आद्यं दलं समस्तं भजेत लक्ष्म चपलागतं यस्याः। सेषे पूर्वजलक्ष्मा मुखचपला सोदिता मुनिना ॥ ६ ॥ यस्या आर्याया आचं प्रथमं दलमध चपलान्वितं लक्ष्म लक्षणं भजेत । शेषे द्वितीयाधं पूर्व सामान्यार्याभवं लक्ष्म यस्याः सा तथा सा मुनिना पिङ्गलेन मुखचपलोक्ता । अत्र चपलापूर्वार्धविकल्पानां २२ वृत्तरत्नाकरम् । . द्वात्रिंशतामार्यापरार्धविकल्पानां चतुःषष्टिशतरूपगुणानां परस्परता- डनेन द्वौ लक्षौ चत्वारि सहस्राणि अष्टौ शतानि च विकल्या भवन्ति। अङ्कतोऽपि २०४८००॥ प्राक्प्रतिपादितमधे प्रथमे प्रथमेतरे च चपलायाँः । लक्ष्माश्रयेत सोक्ता विशुद्धधीभिर्जघनचपला ॥ ७ ॥ प्राक्प्रतिपादितं पूर्वोक्तं लक्ष्म सामान्यलक्षणं प्रथमार्धे भवति । प्रथमेतरे द्वितीयाधैं चपलालक्षणं भवति, सार्या विशुद्धा विवेकचतुरा धीर्बुद्धिर्येषां तैः पिङ्गलादिभिर्जघनचपलोक्ता । अत्रापि चपलाया- भिवोत्तरार्धविकल्पाः षोडश विकल्पाः । पूर्वार्धे त्वष्टशताधिकद्वा- दशसहस्रसंख्या आर्यापूर्वार्धविकल्पाः । अविकृता एव परस्परं गुणने द्वे लक्षे चत्वारः सहस्रा अष्टौ शतानि विकल्पाः। अङ्कतोऽपि२०४८००। उभयार्धयोश्चपलालक्षणयोगे महाचपला । सा च प्रथमैव मूले । अत्र चैका पथ्था विपुलाभेदत्रयं चेति चत्वारो भेदाः । पुनश्चैत एव प्रत्येक चपलाभेदत्रयेण संपन्नाः सन्तो द्वादश एव मिलित्वा षोडशार्याभेदः स्थूलदृशां भवति । एषां भेदानां मध्येऽनुक्तोदाहरणानि स्वबुझ्या यथान्तरात्रावगन्तव्यानि । अस्माभिस्तूक्तप्रायत्वाइन्थविस्तरभयाञ्च नोक्तानि ॥ इति श्रीनारायणभट्टविरचिताया वृत्तरत्नाकरटीकायामार्याप्रकरणम् ॥ अथार्यालक्षणशानपूर्वज्ञेयस्वरूपत्वात्कैश्चिदार्याभेदत्वाङ्गीकारागीति लक्षयति- आर्याप्रथमदलोक्तं यदि कथमपि लक्षणं भवेदुभयोः । दलयोः कृतयतिशोभां तां गीतिं गीतवान्भुजङ्गेशः॥ ८॥ तदाशब्दोऽत्राध्याहार्यो यदिशब्दप्रयोगाय । तथा च यद्यार्याप्रथ- माधोक्तं लक्षणमुभयोरर्धयोः कथमपि विकल्पितषष्ठजगणचतुर्लघुग- णान्यतमप्रकारश्च येनापि भवेत, तदा कृतयतिशोभां कृता यत्या वि- च्छेदात्मिकया शोभा श्रुतिसौभाग्यं यस्यास्ताम् । एतेनार्योक्तो यस्त- द्गणविशेषे सति विरामविशेषः सोऽप्यस्यां भवतीति दर्शितां भुज- ङ्गेशः पिङ्गलस्तां गीतिं गीतवानुक्तवान्-'आद्यार्धसमा गीतिः'सूत्रे- णेत्यर्थः । ततश्चात्र द्वितीयार्धेऽपि पूर्णाः सगुरवः सप्तगणा न तु षष्टे लघुमात्रमित्यादि झेयम् । इयमेका पथ्या, तिस्रो विपुलाः, द्वादशा चपलाः । एतत्पूर्वोक्तत्वात्षोडशधा । तत्र पथ्यागीतिर्मूलमन्याः स्वय- १ 'अर्धम्' इति पाठ २'तु' इति पाठः. - द्वितीयोऽध्यायः । २३ मुदाहार्याः । आत्राद्यार्ध आर्या च द्वादश सहस्राण्यष्टौ शतानि च विकल्पाः। उत्तरार्धेऽपि तावन्त एव । परस्परहतौ कोट्यः षोड- शाष्टत्रिशल्लक्षाश्चत्वारिंशत्सहस्राणि च विकल्पाः । अङ्कतोऽपि १६३८४०००००। पथ्यागीत्यादिचतुएं भेदेष्वियं संख्या ज्ञेया । द्वाद- शसु चपलागीतिषु पूर्वापरार्धविकल्पघाते संख्या स्वयमूह्या ।। आर्याद्वितीयकेऽधै यद्गदितं लक्षणं तत्स्यात् । यद्युभयोरपि दलयोरुपगीतिं तां मुनिब्रूते ॥ ९॥ अत्रापि तदेति विशेषः । यद्यार्याद्वितीयार्धे यदुक्तं लक्षणं षष्ठल- घ्वादि, तदुभयोरर्धयोः स्यात् । तदोपगीतिं पिङ्गलोऽन्त्येनोपगीति- रित्यत्राहेत्यर्थः । अस्यां पूर्वाधैं पदसहस्राणि चत्वारि शतानि वि- कल्पाः। उत्तरार्धेऽपि तावन्त एव । अन्योन्यघाते चतस्रः कोट्यो नव लक्षाः षष्टिः सहस्राणां विकल्पाः । अङ्कतोऽपि ४०९६०००० ॥ आर्याशकलद्वितयं व्यत्ययरचितं भवेद्यस्याः । सोद्गीतिः किल गदिता तद्वद्यत्यंशभेदसंयुक्ता ॥१०॥ आर्याद्वयं यस्या व्यत्ययेन विपर्यासेन यत्पूर्वार्धं तदुत्तरार्धम्, यदु- त्तरार्ध तदत्र पूर्वार्धमित्येवंरूपेण रचितम्, सा । किलेति प्रसिद्धा । उद्गीतिरुक्ता। तेनैव तद्वदिति पथ्याद्यार्याभेदवदेव यत्या विरामेण योऽशभेदः पादभेदस्तेन संयुक्तेत्यर्थः । अत्रार्यावद्विकल्पसंख्या । यथा ८१९२००००॥ आर्यापूर्वार्धं यदि गुरुणैकेनाधिकेन निधने युक्तम् । इतरत्तद्वन्निखिलं भवति यदियमुदितेयमार्यागीतिः॥११॥ आर्यायाः पूर्वार्ध यद्येकेनाधिकेन गुरुणा निधने [अन्ते] युक्तं स्यात् । इतरञ्च द्वितीयं समस्तं यदीयमध तद्वत्पूर्वार्धवदियमार्या- गीतिरिति मुनिनोक्ता । आर्यायां हि पूर्वार्धेन गुरुकाः सप्तगणकाः । इह तु पूर्णा अष्टौ गणा अर्धद्वयेऽपि भवन्ति । अन्तिमस्तु गणो द्विगु- रुरेव । अन्यत्सर्वमार्यापूर्वार्धतुल्यमेवेति भावः । आर्यायाः पूर्वार्धवि- कल्पानामष्टमगणे विकल्पाभावात्परस्परताड्ये जातोऽको द्वादश स- हस्राण्यष्टौ च शतानि पूर्वार्धे । उत्तरार्धेऽपि तावदेव । अन्योन्यहतौ जातानि मुख्यगीतिवद्भेदसंख्या । अङ्कतोऽपि १६३८४०००० । केचि- १ दल यदीयमुदितैवम् , 'यदीयमुदितेयम्' इति च पाठ .
२१ वृत्तरत्नाकरम् ।. त्त्वत्रोत्तरार्धेऽर्धशब्दमपठित्वेतरार्याया एवोत्तरार्धं तद्वदन्तेऽधिकैक- गुरुयुक्तं स्यात्सार्यागीतिरिति । आर्यापूर्वार्धमित्यत्र समस्तं यथार्या- शब्द षष्ट्यन्तं समासानिकृष्टननुषज्य पूर्वार्धस्याष्टगणत्वेन द्वात्रिंश- न्मात्रताम्, उत्तरार्धस्यैकोनत्रिंशन्मात्रतां चाभिप्रेत्य व्याचक्षते। भवतु नामैतद्याख्याकौशलम्, किं तु बहूनामसंमतम् , सूत्राननुगुणं च, अर्धे क्सुगण आर्यागीतिरिति सामान्यतोऽर्धे वसुगणेऽष्टगणे सतीति । यद्वा आर्याधै यद्यष्टगणे स्यातामिति सूत्रकार आह, कैश्चित्त्वियं सं- गीतिः संशिता, अपरैः स्कन्धकमिति । गीतिनामप्यापूर्वकत्वादा- त्वमस्त्येव । एताश्चतस्रोऽपि गीतयः प्रत्येकं पथ्यादिपूर्वोक्तषोड- शार्या मिलित्वाशीतिः । तदुक्तं हलायुधेन-'एकैव भवति पथ्या तिस्रो विपुलास्ततश्चतस्रस्ताः । चपलाभेदेस्त्रिभिरपि भिन्ना इति षोड- शार्याः स्युः॥ गीतिचतुष्टयमित्थं प्रत्येकं षोडशप्रकारं स्यात् । साक- ल्येनार्याणामशीतिरेवं विकल्पाः स्युः ॥” इति। छन्दोविरचितौ त्वेकादश परे गीतिभेदाः प्रदर्शिताः । ते यथा-आर्यैव दलद्वयेऽप्यधिकैकगुरु- युता संगीतिः । ममैव यथा-'आगमविद्यैकनिधिविबुधेन्द्रशतैरधीत- निगमविलासः। रामेश्वरभट्टगुरुर्जयति पिता मे पितामहतुल्यः ॥ (१)। पूर्वार्ध एवाधिकैकगुयुक् सुगीति म । पितामहरुगिति पठित्वा पूर्व- मेवोदाहरणम् (२)। यद्युत्तरार्ध एव तादृक्तदा प्रगीति म । अधीत- निगमार्य इति पठित्वा प्रथममेवोदाहार्यम् (३)। सुगीतिरेव व्यत्यस्ता- र्धानुगीतिः। सुगीत्युदाहरणमेव व्यत्यस्तार्धे शेयम्(४)। प्रगीतिरेव व्यत्य- स्तार्धा मझुगीतिः। प्रगीत्युदाहरणं व्यत्यस्तार्धमत्रोदाहरणम् (५)। यद्य- धिकैकगुणार्योत्तरार्धन पठितार्धद्वया तदा विगीतिः। ममैव यथा-'वि- षयान्विषधरविषमान्संसृतिमपि नीरसां ज्ञातवतः। संसारभूते दशर- थयाले भतिरतिस्थैर्यमियात् ॥' (६) । यधुगीतियोरप्यर्धयोरधिक- गुरुयुक्ता तदा चारुगीतिः । अत्र पूर्वोक्तं संगीत्युदाहरणमेव विपर्य- स्तार्ध क्षेयम् (७)। आर्यागीतेरेवैकगुरुहीनोत्तरार्धतायां वल्गुगतिः। ममैव यथा-पीनोन्नतकुचकलशा पीवरजघनोरुभारमन्थरयाता ।प- श्यन्ती प्रणयेन तरुणी कंवा न चालयेत्पुरुषम् ॥'(८)। तस्या एव पूर्वार्ध एव तथा चेल्ललितेति संज्ञा । अर्धयोर्व्यत्यासेन पूर्वमेवोदाहरणम्(९)। उपगीतिरेवाद्यार्धेऽधिकैकगुरुयुता प्रमदा नाम । ममैव यथा-'यस्य विलासवतीनां कलिकलाकौशलरतिर्विरतिः । मैथुनमात्ररसझः शृङ्ग- विहीनः पुमान्स पशुः॥” (१०)। सैवोत्तरार्धेऽधिकैकगुरुयुता चन्द्रिका नाम । व्यत्यस्तार्धं पूर्वमेवोदाहरणम् (११) । एतासामपि पूर्वोक्तय- द्वितीयोऽध्यायः । थ्यादिषोडशार्यानां संमिन्नतया प्रत्येकं षोडशधात्वे संति संख्या१७६॥ एतासामुदाहरणानि स्वयमूह्यानि । विस्तरभयात्तु नोच्यन्ते । पूर्वो- तानां चतुर्विधगीतीनां च तथैव षोडशधात्वे संख्या६४ । ऐक्ये गीति- संख्या २४० । पूर्वोक्तषोडशशुद्धार्याभेदैक्ये संख्या २५६ ॥ इति श्रीनारायणभट्टविरचितायां वृत्तरत्नाकरटीकायां गीतिप्रकरणम् ॥ मात्राच्छन्दसां प्रकृतत्वाद्वैतालीयप्रकरणमारभते- पडूविषमेऽष्टौ समे कलास्ताश्च समे स्यु! निरन्तराः । न समात्र पराश्रिता कला वैतालीयेऽन्ते रलो गुरुः ॥१२॥ वैतालीये छन्दसि विषमे, अर्थात्पादे, प्रथमे तृतीये च षट् कला मात्राः स्युः । समे पादे द्वितीये चतुर्थे चाष्टौ कलाः स्युः । अन्त उक्तानां कलानामन्ते परस्ताद् रलौ रगणलघू गुरुश्च भवतीति वैता- लीयस्वरूपपरिच्छेदः । एतदुक्तं भवति-विषमे पादे चतुर्दश समे च षोडश मात्राः कार्याः । तन्मध्येऽन्तिमा अष्टौ मात्रा रेफलघुगुरुभिः कार्या इति । विषमे पश्चात्षट्र समेऽष्टौ अवशिष्यन्ते, तासां निवेशने नियमविशेषमाह-ताश्चेति । समे ताः षट् कला निरन्तराः केवलाः षट् लघव एव न कार्याः, किंतु गुरुमिश्रा इत्यर्थः । समे विशेषोत्या विषमे स्वरुचिः । अत्रावशिष्टासु षट्स्वष्टसु च कला द्वितीया चतुर्थी षष्ठी च परया तृतीयपञ्चमसप्तमकलयाश्रिता मिलिता न भवन्ति, द्वितीयतृतीयकलादीनामेकेन गुरुणोपादानं न कार्यमित्याशयः । अत्र विषमपादयोराद्यासु षण्मात्रास्वष्टौ विकल्पाः । यथा-5ss, sus, uss, m. ssu, su, sm, us. समपादयोराद्यास्वष्टमात्रासु त्रयोदश विकल्पाः-ssss, sssu, ssus, Sss, Isss, SSHII, SIISII, sills, HISS, 1551), lslls, llslut allsil. एते अर्थाभिवर्णक्रमेण निबद्धाः कैश्चित्-'मीनाङ्काः (१) सुरसः(२) पङ्कजसौ(३)रभितजला: (४)। तत्सारस (५) खगसंभृत (६) सज- नमुदि (७) तवनकुकभि (८)॥ एते विषमे पादे । 'हंससेरा (१) अलिके नद्यो (२) नीरजवक्राः (३) कुवलयनेत्राः (१) सुस्वच्छ- जलाः (५) सुतरङ्गभुजाः (६) केशरदशना (७) राजन्ते कृत (८) जनहर्षा भुवि (९) शारदरात्रिषु (१०) विमलनिशाकर (१२) भानुप्रभृतिषु (१२) ननु पश्य सुतनु (१३) एते समे ॥ ततोऽष्टमि- खयोदशगुणिताश्चतुरधिकं शतं वैतालीयस्याद्यार्धे भेदाः । एतावन्त एवापरार्धे । परस्परहतौ जातं दशसहस्राण्यष्टौ शतानि षोड़श च ।
२६ वृत्तरत्नाकरम् । अङ्कतोऽपि १०८१६ । इयमेवौपच्छन्दसिकापातलिकयोर्वक्ष्यमाणयोः संख्या॥ वैतालीयभेदानाह- पर्यन्ते यौ तथैव शेषमौपच्छन्दसिकं सुधीभिरुक्तम् ॥ १३ ॥ विषमसमपादयोः षण्णामष्टानां च कलानामन्ते यौँ रेफयगणौ स्या- ताम्, शेषं षडष्टककलानियमादीनि तथैव सामान्यवैतालीयवदेव यदा तदा छन्दोविद्भिरौपच्छन्दसिकसंशं वैतालीयमुक्तम् । वैतालीय एव प्रतिचरणमेकगुर्वाधिक्येन विषमपादे षोडश समपादे चाष्टादश मात्राः कार्या इति भावः ॥ आपातलिका कथितेयं भाद्गुरुकावथ पूर्ववदन्यत् ॥ १४ ॥ पण्णामष्टानां च मात्राणां पर्यन्ते भाद्भगणात्परौ गुरुको गुरू स्या- तामिति रेफलघुगुरूणामपवादः। अथान्यच्छेषं पूर्ववद्वैतालीयवत् । से- यमापातलिका सुधीभिः कथितति पर्यन्तसुधीशब्दानुषङ्गेण योज्यम् ॥ तृतीययुग्दक्षिणान्तिका समस्तपादेषु द्वितीयलः ॥ १५ ॥ समस्तेषु चतुर्वपि पादेषु द्वितीयलो द्वितीया मात्रा तृतीया युग यु. ताचेत्स्यात्, तदा दक्षिणान्तिका नाम स्यादिति । चेत्तदाशब्दयोरध्या- हारः कार्यः । सर्वेषु पादेषु द्वितीयो वर्णो गुरुरेव कार्य इति न 'समात्र पराश्रिता कला' इत्यस्यापवादः। शेषं यथाप्राप्तमिति भावः । इयं वैता- लीयौपच्छन्दसिकापातलिकापूर्वकत्वेन त्रेधोदाहार्या । अस्मिन्भेद- त्रयेऽपि विषमपादयोर्विकल्पौ द्वौ । यथा-sis, ISIII. समयोश्चत्वा- रो यथा-1515s, sus, ISIS, Is. द्वयोश्चतुर्णां च परस्परहता- वष्टौ पूर्वार्धे द्वितीयार्धेऽपि तावन्त एव । तयोरन्योन्यघाते चतुःषष्टि- भेदा भवन्ति ॥ उदीच्यवृत्तिद्वितीयलः सक्तोऽग्रेण भवेदयुग्मयोः ॥ १६ ॥ अयुग्मयोर्विषमयोः प्रथमतृतीययोः पादयोर्द्धितीयलो द्वितीयमात्रा अग्रेण तदग्रिमेण लेन सक्तो युक्तश्चेत्, तदा उदीच्यवृत्तिरुदितेति वक्ष्यमाणानुषङ्गः । शेषं यथाप्राप्तम् । इयं वैतालीयौपच्छन्दसिकापात- लिकापूर्वकत्वेन धोदाहार्या । अत्र द्वौ विषमयोर्विकल्पौ।यथा-ऽऽ।, sun. समयोः पूर्वोक्तास्त्रयोदश। परस्परहतौ षड्विंशतिः पूर्वार्धभेदाः । तावन्त एवापरत्र । परस्परहतौ जातर भेदाः षट्शतानि षट्सप्ततिश्च । अङ्कतोऽपि ६७६ ॥ १'उपच्छन्दसिकम् ,' 'त्वीपच्छन्दसिकम्' इति च पाठः, .
द्वितीयोऽध्यायः । २७ पूर्वेण युतोऽथ पञ्चमः प्राच्यवृत्तिरुदितेति युग्मयोः ॥१७॥ अथेति यदीत्यर्थे वैलक्ष्ये वा । निपातानामनेकार्थत्वात् । युग्मयोईि- नीयचतुर्थपादयोः पञ्चमो लः पञ्चमी मात्रा पूर्वेण चतुर्थेन लघुना यदि युतः, एकेन गुरुणा चतुर्थपञ्चममात्रयोरुपादानं यदि स्यादित्य- र्थः। तदा प्राच्यवृत्तिरुदितोक्ता पिङ्गलादिभिरिति । समासानिवष्ट- लशब्दमनुषज्य व्याख्येयं शेषं यथाप्राप्तम् । अनयोरपि उदीच्यवृत्तिप्रा- च्यवृत्त्योः न समात्र पराश्रिता कला' इत्यस्य पूर्ववदेवापवादः । सेयमपि पूर्ववत्रेधा ॥ अत्र विषमयोः पूर्वोक्ता अष्टौ विकल्पाः । समयोश्चत्वारःन यथा-15515, ।।155, ।।।।।।।।। अष्टानां चतुर्भिहतौ द्वात्रिं- शत्पूर्वार्धभेदाः । तावन्त एवोत्तरार्धे । परस्परहतौ भेदाश्चतुर्विशत्य- धिकसहस्रम् । अङ्कतोऽपि १०२४ ॥ यदा समावोजयुग्मको पूर्वयोर्भवति तत्प्रवृत्तकम् ॥ १८ ॥ यदा पूर्वयोरुदीच्यवृत्तिप्राच्यवृत्त्योः समौ तुल्यौ क्रमेणौजयुग्मको विषमसमपादौ स्याताम्, तत्तदा प्रवृत्तकं नाम । विषमयोः प्रथमतृ- तीययोः पादयोर्द्धितीयतृतीयमात्रायोगः । समयोस्तु चतुर्थपञ्चममा- त्रायोगः स्यादिति भावः । इदं वैतालीयौपच्छन्दसिकापातलिकापूर्व- कत्वेन त्रेधोदाहार्यम् । अत्र पूर्वोक्तविषमसमविकल्पानामन्योन्यहतो संख्या स्वयमूहनीया । एवमपरान्तिकादिष्वपि ॥ अस्य युग्मरचितापरान्तिका ॥ १९ ॥ अस्य प्रवृत्तकस्य युग्मपादैर्या संपूर्णा रचिता सापरान्तिका नाम । पञ्चमी चतुर्थमात्रायुक्ता षोडशमात्रता चतुर्वपि पादेषु कार्येत्यर्थः । इयं च वैतालीयौपच्छन्दसिकापातलिकापूर्वकत्वेन पूर्ववत्रेधा । क- श्चित् 'अस्य वैतालीयादिच्छन्दोवृन्दस्य युग्मरचिता' इति व्याचख्यौ । तन्मते वैतालीयादिपूर्वकत्वेन तत्पूर्वकप्राच्यवृत्तिपूर्वकत्वेन च पोढा । उदाहरणानीति तु स्वयमूह्यानि । भेदाः २५६ ॥ अयुग्भवा चारुहासिनी ॥२०॥ अस्य प्रवृत्तकस्यायुग्भवायुक्पादैर्विषमपादै रचिता चारुहासिनी । समस्तपादेषु चतुर्दशमात्रा द्वितीया तृतीयायुक्ता कार्यत्यर्थः । इय- मपि पूर्ववत्रेधा । अस्येति वैतालीयादिच्छन्दोवृन्दपरत्वेन व्याचक्षाण- स्य मते तु वैतालीयौपच्छन्दसिकापातलिकातदुदीच्यवृत्तिपूर्वकत्वेन षोढा । उदाहरणान्यूह्यानि । भेदाः २५६ । अन्येऽपि भेदा अन्यैरु १ 'यस्य' इति पाठः. २. 'अयुग्मगा' इति पाठ.. .
२८ वृत्तरत्नाकरम् । तास्ते स्वकीयैरुदाहरणैः प्रदर्श्यन्ते । यथा वैतालीयसमपादचतुएय- युतान्येयं दक्षिणान्तिका । यथा-'पुरुषश्रेष्ठतमः स पूरुषो विषयैर्यस्य मनो हृतं नहि । पुरुषक्षुद्रतरः स. पूरुषो विषयैर्यस्य मनो हृतं मुहुः॥' वैतालीयविषमपादरचितोत्तरान्तिका । यथा-'विषयान्विषान्विषो- पमानवधार्य ततोऽवधीर्य च । कुरु सर्वकचिन्तनं सदा यदि ते हित- मीहितं स्वकम् ॥' तथापातलिकामाच्यवृत्त्योर्विषमसमपादाभ्यां यत्क- मेण रचितोऽर्धपातलिका नाम । यथा-'यः पुरतो वक्त्यतिमिष्टं दोप- भाषणरतः परोक्षतः । वाञ्छसि सौख्यं त्यज तं द्रामित्रसंशितमरि विषोपमम् ॥' तथाद्यापातलिकादीनां सप्तानां छन्दसां प्रतिपादमन्ते- ऽधिकैकगुरुयोगः स्यात्, तदा तन्नामकान्यौपच्छन्दसिकानि सप्त भव- न्ति। तत्रापातलिकोपच्छन्दसिकम् । यथा-'आपातलिकादिषु चेदेको गुरुरधिको भवति प्रतिपादान्ते । आपातलिकादिकसंज्ञायुगौपच्छ- न्दसिकं तदाभिप्रेतम् ॥' एवं दक्षिणान्तिकौपच्छन्दसिकादौ ग्रन्थगौर- वप्रसङ्गादस्मदनुक्तान्युदाहरणान्यूह्यानि । एवं च वैतालीयसंख्या सप्त- त्रिंशत् ३७॥ इति श्रीनारायणमविरचितायां वृत्तरत्नाकरटीकाया वैतालीयप्रकरणम् ॥ अथ वक्रस्याष्टाक्षरत्वेनानुष्टुभि वक्रस्य व्यवस्थायामपि तद्वत्सकल- नियतगुरुलघुत्वाभावात्पथ्याचपलादिसंक्षा कार्या । मात्रावृत्तनामसौ- कर्याश्च मात्रावृत्तप्रस्ताव एव लक्षणमाह-- वत्रं नाद्यान्नसौ स्यातामब्धेर्योऽनुष्टुभि ख्यातम् ॥ २१ ॥ आद्यादक्षरादूर्व नगणसगणो न स्याताम्, मगणादिर्यथेच्छं स्यात्, अब्धेश्चतुर्थादक्षरादूर्व यो यगणः स्याद्यदि, तदा वकं ख्यातम् ।तश्चानु- हुभि ख्यातमुक्तमाचारिति । यदातदाशब्दाध्याहारेण ख्यातशब्दाव- 'त्या च व्याख्येयम् । यथा-आद्याब्धेश्चेति गणग्रहणमपि संभवति तथा- नुष्टुभि ख्यातमित्यष्टाक्षरत्वसूचनागणचतुष्टयासंभवादब्धिग्रहणं स्यात्, अक्षरपरता । आधग्रहणस्यापि च तत्समभिव्याहारानणग्रहणे चतुर्था- क्षरमादाय गणारम्भाचतुर्थाक्षरादूर्ध्वं यगणारम्भायोगाश्चाक्षरपरतैव । आद्यात्परतो नगणसगणनिषेधे न.द्वितीयतृतीयवर्णात्परस्य गुरु मा- • वश्यं भवतीति सूचितम् । अनुष्टुभि ख्यातमित्यनेनाष्टाक्षरपादता सू- चिता। अतश्चानुक्तोऽप्यष्टमो वर्णो शेयः। समयोध पादयोः प्रथमा- दक्षरादूर्ण रगणोऽपि न कार्य इति संप्रदायः । अत्राचे पादे प्रथमस्थाने द्वितीयोऽध्यायः। २९ गुरुलघुरूपौ द्वौ विकल्पौ, द्वितीये नसनिषेधाच्छेषाः षड्गणाः, तृती- यस्थान एको य एव, चतुर्थे स्थाने ग्लौ । अन्योन्यघाते चतुर्वि- शतिः। एवं द्वितीयादिपादत्रयेऽपि प्रत्येकं चतुर्विशतिः । तेषां परस्प- रहतौ जाता त्रयो लक्षाः एकत्रिंशत्सहस्राणि सप्त शतानि षट्सप्ततिः संख्या । अङ्कतोऽपि ३३१७७६ । एषैव संख्या प्रत्येकं पथ्यावादिषु त्रिषूह्या । संप्रदायमाश्रित्य द्वितीयचतुर्थपादयोर्द्वितीयस्थाने रंगण- स्थापि निषेधात्समयोः प्रत्येकं विंशतिर्भेदाः, विषमयोश्चतुर्विशतिरेव। तेषामन्योन्यघाते जाता संख्या लक्षद्वयं त्रिंशत्सहस्राणि चत्वारि श तानि । अङ्कतोऽपि २३०४०० ॥ अब्धेर्य इत्यस्यापवादेनास्यैव भेदानाह युजोर्जेन सरिद्भर्तुः पथ्यावकं प्रकीर्तितम् ॥ २२ ॥ युजोर्युग्मयोद्धितीयचतुर्थचरणयोः सरिद्भर्तुश्चतुर्थाक्षरात्परेण जग- णेन पथ्यावकं प्रकीर्तितम् । पिङ्गलेन 'पथ्या युजो ज्' इति सूत्र इत्य- र्थः । विषमयोस्तु यगणः सामान्यप्राप्तः ॥ ओजयोर्जेन वारिधेस्तदेव विपरीतादि ॥ २३ ॥ विषमपादयोश्चतुर्थादूचे जगणे तदेव पथ्यावकं विपरीतशब्दादि विपरीतपथ्येति शेयमित्यर्थः । समयोर्य एव ॥ चपलावक्रमयुजोर्नकारश्चेत्पयोराशेः॥ २४ ॥ अयुजोर्विषमयोः पयोराशेश्चतुर्थान्नकारश्चेन्नगणश्चेञ्चपलावक्रम्। समयोर्य एव ॥ यस्यां लः सप्तमो युग्मे सा युग्मविपुला मता ॥ २५ ॥ युग्मे द्वितीये चतुर्थे च पादादेः सप्तमो वर्णों लो लघुर्यस्याः सा विपुला मता संमता । यद्यपि पथ्यायामपि युजोः सप्तमो लस्तथापि तत्र जगणेनैव अत्र तु नजभतः सप्तमस्य लघुतेति न संकरः। तथापि. जगणपक्षे संकर एवेति चेत्, तर्हि तत्र संज्ञाविकल्प एवास्तु । ये त्वत्र जेव सप्तमेनैव लघुतेत्यसंकरमाहुस्तेषां मूलस्य लक्ष्यविरोधो जग- णेन लघुकरणात् । 'सैतवेन पथार्णवं तीर्णो दशरथात्मजः । रक्षाक्षय- करी पुनः प्रतिक्षां स्वेन बाहुना ॥” इति सैतवमतेन विपुलोदाहरणे ज- कारेणैव वृत्तिकृता लघुकरणात्तद्विरोधश्चेति पूर्वमेवोत्तरं युक्तं संज्ञा- विकल्प इति । अत्र समपादयोस्तृतीय स्थाने चत्वारो विकल्पाः शेषेषु प्राग्वत् । तेन समयोः परस्परहतौ षण्णवतिभेदाः, विषमयोः प्रत्येक १ 'अयुजोः' इति पाठः.
३० वृत्तरत्नाकरम् । . । पूर्ववञ्चतुर्विंशतिः । परस्परहतौ संख्या त्रिपञ्चाशल्लक्षाः, अष्टौ सहस्राः चत्वारि शतानि [षोडश] । अङ्कतोऽपि ५३८४१६ । अत्रायुग्मे यस्यां लः सायुग्मविपुलत्यकारप्रश्लेषेणापि केचिद्वयाचक्षते । पादव्यत्ययं यत्रोदाहरणमाहुः । विपरीतपथ्याचपलावताभ्यां चैव भेदः । तत्र ज- गणनगणाभ्यां सप्तमस्य लघुता, अत्र तु भ-ताभ्यामपि तथात्वमिति । उदाहरणं च सप्तमस्य लघुत्वमात्रतात्पर्येण जगणेन न त्वभावेनोक्त- मिति चाहुः॥ सैतवस्याखिलेष्वपि ॥ २६ ॥ सैतवस्याचार्यस्य मतेऽखिलेष्वपि पादेषु सप्तमो लः स्यादिति स्मृत इत्यध्याहारेण सममो ल इति पादानुषङ्गेण व्याख्येयम् । संज्ञा विपु. लेति निरुपपदैव । अत्र प्रतिपादं षण्णवतिभेदाः । तेषां परस्परहती संख्या अष्टौ कोट्य एकोनपञ्चाशल्लक्षाश्चतुस्त्रिंशत्सहस्राणि षट्शती पट्रपञ्चाशञ्च । अङ्कतोऽपि ८४९३४६५६ ॥ भेनाधितो भाद्विपुला ॥ २७॥ अब्धितश्चतुरक्षरात्परेण भेन भगणेन भाद् भ इत्यक्षरात्परा विपुला। भविपुलेत्यर्थः । केचिदत्र 'अखिलेप्वपि' इत्यनुवर्तयन्ति । वृत्तिकृतस्तु 'भ्रौ न्तौ च' इति सूत्रे 'सर्वतः सैतवस्येति निवृत्तम् । चपलायुजो नित्यस्मादयुग्ग्रहणमनुवर्तते' इति वदन्तो विषमपादविषया एव भ- विपुला इत्याहुः। इत्थमन्या रश्चतुर्थात् ॥ २८॥ चतुर्थाक्षरात्परतश्चेद्रगणस्तदेत्थमन्या यथा भाद्विपुला तथा रादिति -विपुलेत्यर्थः ॥ नोऽम्बुवेश्चेन्नविपुला ॥ २९ ॥ अम्बुधेश्चतुर्थान्नो नगणश्चेत्तदा नपूर्वान्या विपुला । न-विपुलेत्यर्थः। एवं म-याभ्यां तत्पूर्वे विपुले भवतः ॥ तोऽब्धेस्तत्पूर्वान्या भवेत् ॥ ३० ॥ अत्रैतासु चतसृषु पादचतुष्केऽपि तत्तद्गणयोगस्य ये सत्वमाहु- स्तेषां मते न यत्रैकस्मिन्द्वयोर्वा तत्तद्गणयोगस्तत्रासां परस्परसंसर्गे- णान्ये भेदा शेयाः। वृत्तिकृन्मते तु विषमपादयोरेतद्णयोगः, अन्य- योस्तु सप्तमस्य लघुत्वमात्रम् । यत्र तु चतुर्वपि पादेषु भा- दियोगस्तस्यानुष्टुभ्यमेव । न तु वक्रत्वमिति विवेकः। तत्राप्य- १ 'सैव तस्य' इति पाठः.
द्वितीयोऽध्यायः । भगणा- - युक्पादस्य जातिपरत्वे द्वयोरप्ययुजोगणादियोगः, व्यक्तिपरत्वे त्वन्यतराङ्गीकारेणापि लक्षणार्थ तद्विरोधे तृतीये वा दियोगः । जातिपक्षे भ-विपुलोदाहरणम्-'इयं सखे चन्द्रमुखी स्मि- तज्योत्मा च मानिनी । इन्दीवराक्षी हृदयं दहतीति तथापि मे ॥' आये भ-विपुलोदाहरणम्---‘उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छ- ता। समौ हि शिराम्नातौ वय॑न्तावामयः स च ॥' तृतीये- 'प्रोल्लसत्कुण्डलप्रोतपद्मरागदलत्विषा । कृष्णोत्तरासगरुचं विदध- चौतपल्लवीम् ॥' रेफविपुलायाः क्रमेणोदाहरणानि-'सकारनानार- कासकायसाददसायका । रसाहवा वाहसारनादवाददवादना ॥', 'महाकवि कालिदासं वन्दे वाग्देवतागुरुम् । यज्शाने विश्वमाभाति दर्पणे प्रतिबिम्बवत् ॥', 'कामिनीभिः सह प्रीतिः कस्मै नाम न रोचते । यदि न स्याद्वारिवीचिचञ्चलं हन्त जीवितम् ॥' न-विपुलोदाहरणानि क्रमेण–'युयुत्सुनेव कवचं किमामुक्तमिदं त्वया । तपस्विनो हि व- सते केवलाजिनवल्कले ॥', 'अथानाथाः प्रकृतयो मातृवन्धुनिवासि- नम् । मौलैरानाययामासुर्भरतं स्तम्भिताश्रुभिः ॥', 'तव मन्त्रकृतो मन्त्रैर्दूरात्संशमितारिभिः । प्रत्यादिश्यन्त इव मे दृष्टलक्ष्यभिदः शराः ॥ तत्र त-विपुलोदाहरणानि–'सा वैदुप्ये प्रौढिर्यदि सर्वशास्त्रविशा- रदा । सानुगामिनी विस्मेरा यस्योक्तौ दण्डिताः परे ॥', 'लोकवत्प्र- तिपत्तव्यो लौकिकोऽर्थः परीक्षकैः । लोकव्यवहारं प्रति सदृशौ वालपण्डितौ ॥' स-विपुलोदाहरणानि-'सखा गरीयाशत्रुश्च कृत्रि- मस्तो हि कार्यतः । स्याताममित्रौ मित्रे च सहजप्राकृतावपि ॥', 'यिय- क्षमाणेनाहूतः पार्थेनाथ द्विषन्मुरम् । अभिचैद्यं प्रतिष्ठासुरासीत्कार्य- द्वयाकुलः ॥', 'षड्गुणाः शक्तयस्तिस्रः सिद्धयश्चोदयास्त्रयः। ग्रन्था- नधीत्य व्याकर्तुमिति दुर्मेधसोऽप्यलम् ॥' य-विपुलोदाहरणानि-ततः कुमुदनाथेन कामिनीगण्डपाण्डुना । नेत्रानन्देन चन्द्रेण 'माहेन्द्री दिगलंकृता ॥', 'तथापि यन्मय्यपि ते गुरुरित्यस्ति गौरवम् । तत्प्रयो. जककर्तृत्वमुपैति मम जल्पतः ॥' एवं ज-विपुलाप्युदाहार्या । तत्र तु समपादयोश्चतुर्थादूचं जगणेन पथ्यावक्रता सप्तमस्य लघुतागात्रत्वे ज-विपुलात्वमिति विवेकः । म-विपुला तु कविप्रयोगाभावान्नास्ति । अन्येषां तु मते युयुत्सुनेवेत्यादीनां विषमयोश्चपलादित्वात्समयोस्तु पथ्यात्वाञ्चपलापथ्यावादिसंशा भवन्ति । एवं विपुलापथ्येत्यादि.. संज्ञा ज्ञेयाः। अत्र वृत्तिकृन्मते सर्वासु भ-विपुलादिषु विषमपादयोः प्रत्येकं चतुर्विशतिभेदाः, समयोः प्रत्येकं षण्णवतिः। परस्परहत्तौ यु- ग्मविपुलावत्संख्या ज्ञेया । अन्येषां मते तु सुखवक्रवत्संख्या । तथा वृत्तरत्नाकरम् । संकीर्णत एषां संकीर्णविपुलावकं भवति । भारवेः-'क्वचित्काले प्रस- रता कचिदापस्य निघ्नता । शुनेव सारङ्गकुलं त्वया भिन्नं द्वेषां कु- लम् ॥' कुमारे-'यदध्यक्षेण जगतां वयमारोपितास्त्वया । मनोर- थस्याप्यपथं मनोविषयमात्मनः ।' माघे–'भवोद्रामकसरप्रदा- नाय वचांसि नः । पूर्वरङ्गप्रसङ्गाय नाटकीयस्य वस्तुनः ।' इत्या- दयो विपुलामेदा अनन्ता एव कविप्रयोगेषु द्रष्टव्याः । सर्वेषु तु प्रायेण चतुर्थवर्णस्य गुरुतेति सांप्रदायिकाः ॥ इति श्रीनारायणभट्टविरचिताया वृत्तरलाकरटीकायां वक्रप्रकरणम् ।। अथ मात्रासमान्याह- द्विगुणितवसुलघुरचलधृतिरिति ॥ ३१ ॥ वर्णच्छन्दोऽप्येतद्विगुणितवसुपदस्योत्तरानुवृत्तिसिद्ध्यर्थ प्रकी- केप्वभ्यधायि । तेन मात्रासमकादिषु षोडशमात्रत्वमधिकृतं भवति। द्विगुणवसुलघुञवष्टौ लघवो यस्यां साचलधृतिरिति कथ्यते। चका- रागीत्यार्थति संज्ञा भवति इति पिङ्गलमतसंग्रहः। षोडशलघुपादेत्यर्थः । मात्रासमकं नवमो ल्गान्तम् ।। ३२ ॥ यत्र पादे नवमो लघुरेव गुरुश्चान्तनियतस्तन्मात्रासमकसंक्षम् । नवमान्त्ययोर्लघुगुरुनियमाच्छेष नियमाभावः सूचितः। सर्वथा पो- डशमात्रता कार्येति भावः । सर्वेषु मात्रासमेषु सममात्रा परमात्रया युक्ता न कार्यत्यपि संप्रदायः । ततश्च प्रथमे जगणाभावाचत्वारो गण- विकल्पाः । यथा-5s,us ,,।।।। द्वितीये त्रयः-5s, suns. मध्यगुरुसर्वलघू विश्लोकस्येष्टत्वान्न भवतः । तृतीये एकः-॥ऽ.'नव- मोल्' इति वचनादादिगुरुर्भवति । मध्यगुरुसर्वलघू तु वासिकालक्ष- णस्पृष्टत्वान्न' भवतः । चतुर्थे द्वौ--55, us. गन्तत्वाभिधानादन्ये ग- णा न भवन्ति । एतेषां विकल्पानामन्योन्यघाते प्रतिचरणं चतुर्विश- "तिर्भदाः । चतुर्णा चतुर्विशत्यकानामन्योन्यहतौ वक्रवदेव जाता सं- ख्या लक्षत्रयम् एकत्रिंशत्सहस्री षट्सप्तत्यधिकसप्तशती चेति ॥ जो स्नावथाम्बुधेर्विश्लोकः ॥ ३३ ॥ अथेत्यथवेत्यर्थे । अम्बुधेः कलाचतुष्टयादूर्ध्वं जगणोऽथवा लौ चतुर्ल- धुर्वा गणः स्यात् । शेषं पूर्ववत् ।स विश्लोको नाम मात्रासमकम् । यद्यपि विश्लोकः ‘पञ्चमाष्टमौ' इति सूत्रे पश्चनाष्टममात्रयोर्लघुत्वमात्रमुक्तम्, १ द्विक' इति पाठ २ 'इह' इति पाठः. ३ 'नवमो लान्तम्,' 'नवमो गो- ऽन्तम्,' 'नषमा लान्तम्' इति च पाठ.. ४ 'जो न्लो, 'नान्ली' इति च पाठः. .
द्वितीयोऽध्यायः । ३३ तथापि पञ्चमाष्टमयोलघुता चतुर्थमात्रानन्तरं जगणचतुर्लध्वोरेव भ- वति, नान्यथेत्यभिप्रायेणैवमूचिवान् । जपक्षे इदमेवोदाहरणम् । लपक्षे तु 'सेव्यो रघुपतिरामहितार्थम् । अत्राद्यगणे विकल्पाश्चत्वारः। यथा- ss, ||s,..।।।। द्वितीये द्वौ-15,।।। तृतीयेऽपि द्वौ--ऽऽ, 5. मध्यगुर्वन्तगुरुसर्वलघुरूपं भेदत्रयं तु मात्रासमचित्रापादकत्वान्न भवति । चतुर्थे गुर्वन्तगणद्वयम्-115,55. एतेषां परस्परघाते द्वात्रि- शत्सन्ति पादभेदाः । एतेषां घाते जाता संख्या दश लक्षा अष्टाचत्वा- रिंशत्सहस्राणि पञ्च शतानि षट् सप्ततिः। अङ्कतोऽपि १०४८५७६ ॥. तद्युगलाद्वानवासिका स्यात् ॥ ३४ ॥ तद्युगलादम्बुधियुगलादष्टमात्रानन्तरं यति जो न्लौ वा स्यात् सा वानवासिकेति । 'जो न्लावथ' इति पदत्रयमनुपज्य योज्यम् । अत्रापि 'द्वादशश्च वानवासिका' इति सूत्रे द्वादशचकारलभ्यनवमयोर्लघुतोक्ता, सा चैवमेव नान्यथेत्येवमुक्तम् । जपक्ष इदमुदाहरणम् । लपक्षे यथा- 'लोकहितार्थ हरिहरमूर्ती' । अत्राद्ये गणे विकल्पाश्चत्वारः-55, ॥s, ।।।।। द्वितीये त्रयः-55, 5।।।।5. तृतीये द्वौ-15।।।।। चतुर्थेऽपि द्वौ-55,।।5. एतेषामन्योन्यताडने भेदाः प्रतिपादम- ष्टाचत्वारिंशत् । अन्योन्यहतौ जाता संख्या त्रिपञ्चाशल्लक्षा अष्टौ स- हस्राणि चत्वारि शतानि षोडश च । अङ्कतोऽपि ५३०८४१६ ॥ बाणाष्टनवसु यदि लश्चित्रा ॥ ३५॥ बाणाः पञ्च पञ्चमाष्टनवसु यदि लघुः स्यात् । शेषं पूर्ववत् । तदा चित्रा नाम । अस्यामाघे गणे चत्वारो विकल्पाः पूर्ववत् । द्वितीयेऽपि द्वौ-15, ।।।। तृतीये त्रयः-115,51, ।।।। चतुर्थे द्वौ-55, ।।5. अन्योन्यघाते प्रतिपादं भेदसंख्या अष्टाचत्वारिंशत् । अन्योन्यगुणने पूर्वैव संख्या ॥ उपचित्रा नवमे परयुक्ते ॥ ३६ ॥ नवमे मात्रास्वरूपे दशमेन परेण युक्ते सति मिलिते सत्युपचित्रा नाम । शेषं प्राग्वत् । जयदेवस्त्वेकादशद्वादशादिमात्रास्वपि नियममा- ह-'अष्टभ्यो गो ल्यावुपचित्रा' इति । अष्टकलानन्तरं गुरुलघुयगणा इत्यर्थः । अत्र तृतीयगणे द्वौ विकल्पौ-55, 5. अन्ये गणविकल्पा मात्रासमकवत् । अन्योन्यघाते मतिपादं भेदा अष्टाचत्वारिंशत् । अ- न्योन्यघाते संख्या प्राग्वत् ॥ १ 'नवमे भवति गुरावुपचित्रा' इति पाठ .
३४ वृत्तरत्नाकरम् । - यदतीतकृतविविधलक्ष्मयुतैर्मात्रासमादिपादैः कलितम् । अनियतवृत्तपरिमाणयुक्तं प्रथितं जगत्सु पादाकुलकम् ॥३७॥ अतीतानि पूर्वोक्तानि कृतानि विविधानि नानाप्रकाराणि यानि लक्ष्मा- णि लक्षणानि तद्युक्तैर्मात्रासमादीनां पञ्चानां पादैः कलितं रचितं तथा- नियतवृत्तपादचतुष्केऽपि नियतैकवृत्तलक्षणहीनं परिमाणे च षोडश- मात्रपादत्वेन युक्तं ततः कर्मधारयः । एतादृशं यद्वृत्तं तत्पादाकुलकमि- त्यन्वर्थसंज्ञा शेयेति तच्छब्दाध्याहारेण योज्यम् । अथ प्रथमपादे मात्रा- समकविश्लोकचित्राणां लक्षणयोगः, विश्लोकोपचित्रयोर्द्वितीये, मात्रा- समवासिकयोस्तृतीये, उपचित्राविश्लोकयोश्चतुष्कयोश्चितुर्थ इति । इदं च प्रतिपादमनेकलक्षणयोगंमत्वोदाहरणं मन्तव्यम् । अन्ये तु प्रति- पादमेकलक्षणयोगं वदन्तः समुदितेषु विविधलक्षणयोगाभिप्रायेणेदं व्याचक्षते ।वयं तूभयथा व्याख्याने दोषाभावं वदामः । अत एव मात्रा- समकादिप्रकृत्या एभिः पादाकुलकमिति सूत्रकारः सामान्यत एवाह । तथा मात्रासमकविश्लोकवानवासिकोपचित्राणामसंकीर्ण यावदुदाह- रणं चाह वृत्तिकृद्यथा-'अलिवाचालितविकसितचूते काले मदनस- मागमदूते । स्मृत्वा कान्तापरिहृतसार्थः पादाकुलकं धावति पान्थः॥' इति । संकीर्णोदाहरणं तु मूल एव । तेनोभयथापि न दोषः। अत्र पश्चा- नां मात्रासमकादीनां परस्परसंकरे अनन्ता एव भेदाः । तत्र यथा द्वयोर्द्धयोः संकरे चत्वारिंशदधिकं शतं भेदा भवन्ति । तद्यथा- १२३४ २३४५ अत्रैककोष्ठस्याङ्कद्वयसंज्ञाको वृत्तद्वयस्य संकरे वक्ष्यमाणोपजातिप्र- स्तारमार्गेण चतुर्दश चतुर्दश प्रतिकोष्ठं भेदा भवन्ति । एवं च प्रथम- द्वितीययोः प्रथमतृतीययोः प्रथमचतुर्थयोः प्रथमपञ्चमयोः संकरे चत्वारश्चतुर्दशका मिलिताः षट्पञ्चाशदू (५६) भवन्ति । तथा द्विती- यतृतीयद्वितीयचतुर्थद्वितीयपञ्चमानां संकरे द्विचत्वारिंशत् (४२) । तथा तृतीयचतुर्थतृतीयपञ्चमानां संकरेऽष्टाविंशतिः(२८)।तथा चतुर्थ- पञ्चमयोः संकरे चतुर्दश (१४) इति । सर्वेषांमेलने शतमेकं चत्वारिंशश्च (१४०)। एवं त्रयाणां चतुर्णा संकरेऽप्यूह्याः। एतेषामुदाहरणान्यूह्यानि। विस्तरभयात्तु नोच्यन्ते । अत्राचलधृत्यादीनां सर्वेषां षोडशमात्रपद- त्वेन समत्वान्मात्रासमकसंज्ञा ॥ १ 'सहित' इति पाठ.
- द्वितीयोऽध्यायः। . अथोक्तानां वक्ष्यमाणानां च वृत्तानां गुरुलघुमात्रावर्ण यथापरिक्षा- नोपायमाह- वृत्तस्य ला विना वर्णैर्गा वर्णा गुरुभिस्तथा । गुरवों लैर्दले नित्यं प्रमाणमिति निश्चितम् ॥ ३८॥ वृत्तस्य ला मात्रा वर्णैर्विना गा गुरवो शेया इत्यध्याहारः। ला वर्णा गा इत्यादिभिः शब्दैस्तत्तत्संख्या लक्ष्यते । ततश्चायमर्थः-यदि वृत्त- स्य मात्रावर्णयोः संख्या विज्ञाता गुरुलघुसंख्या चाज्ञाता तदा मात्रा- संख्यामपनीयावशिष्ठा गुरुसंख्या शेयेति, वर्णसंख्यामध्ये च ज्ञाता गुरुसंख्यामपनीयावशिष्टा लघुसंख्या क्षेयेत्याशयः । यदि तु मात्राणां गुरूणां च शातसंख्यत्वं वर्णाश्चाक्षातसंख्यास्तदा तज्ज्ञानोपायमाह-व- र्णा इति । तथा वृत्तमात्रागुरुभिर्विना वर्णा शेयाः । वृत्तमात्रासंख्यायां गुरुसंख्यामपनीयावशिष्टा वर्णसंख्येत्यर्थः । वृत्तमात्रालघुसंख्याया गुरुलघुसंशाने सति गुरुक्षाने प्रकारान्तरमाह-गुरव इति । वृत्तस्य ला इत्यनुषङ्गः। वृत्तस्य मात्रा लैर्लघुभिर्विना दलेऽर्धे कृते गुरवो शेयाः। वृत्तमात्रासंख्यायां लघुसंख्यामपनीयावशिष्टां संख्याम/कृत्य ताव- इत्यमुना प्रकारेण प्रमाणं गुर्वादीनां नित्यं सर्वदा निश्चितं भवतीति शेषः । वृत्तस्येत्युपलक्षणं गद्यादावपि संभवात् । अत्र च गुरुवर्णसं- ख्याज्ञानोपायप्रदर्शनमुपलक्षणार्थम् । तथा हि मात्रावर्णगुरुलघुच- तुष्टयात्मके वृत्ते द्वयोर्द्वयोरियत्तापरिच्छेदेऽन्ययोः संख्यापरिच्छि- तेः । तद्यथा-मात्रावर्णयोरियत्तापरिच्छेदेऽन्ययोः संख्यापरिच्छि- त्तेः । तद्यथा-मात्रावर्णयोर्मात्रालध्वोर्वर्णगुर्वोर्वर्णलध्वोर्मात्रागुर्वो- गुरुलध्वोश्च षट्सु दिकेष्वेकैकद्विकजाते परे द्विकमुक्तया दिशा झे- यमिति । इदं सर्वमुदाहरणे योज्यते-'वागर्थाविव संपृक्तौ' 'इत्यत्र चतुर्दशमात्रास्वष्टरूपां वर्णसंख्यामपनीयावशिष्टाः षड् गुरवो वर्ण- संख्या, पूरकौ च द्वौ लघू । एवं षड्पां गुरुसंख्यामपनीयावशिष्टा वर्णा अष्टौ, गुरूणां षट्त्वादवशिष्टौ द्वौ लघू । एवं लघुद्वयमपुनीयाव- शिष्टद्वादशसंख्यायामर्धितायां षट्संख्या गुरवः, गुरुभिादशमा- त्रासिद्धश्चतुर्दशमात्रासिद्ध्यर्थ छौ लघु इति । एवं वर्णगुरुक्षाने वर्ण- लघुज्ञाने गुरुलधुझाने चेतरद्वयशानं योज्यम् । एवं सर्वेषु गद्यपयेषु ॥ इति श्रीनारायणभडविरचितायां वृत्तरत्नाकरटीकायां मात्रासमप्रकरणम् ॥ १ 'लो' इति पाठ.
वृत्तरत्नाकरम् । मात्रानियमघटितत्वान्मात्रावृत्तप्रसङ्गेन द्विखण्डकान्याह- शिखिगुणितदशलघुरचितमपगतलघुयुगलमपरमिदमखिलम्। सगुरु शकलयुगलकमपि सुपरिघटितललितपदवितति भवति शिखा ॥ ३९ ॥ गार्हपत्याहवनीयदक्षिणाग्नयस्त्रयोऽग्नयः । तैत्रिधाख्या तत्संख्या लक्ष्यते । तेन शिखिभिर्गुणितास्त्रिगुणीकृता ये दश लघवस्तै रचितमेव शकलमित्यध्याहारः, अपरमित्यभिधानात् । तच्चापगतं न्यूनं लघुद्वयं तस्मात्तादृक्कार्यम् । अपरं द्वितीयम् । शकलमित्यर्थः । इदं पूर्वोक्तमखि- लं समग्रं लघुना न्यूनं त्रिंशल्लघुकं भवति । शकलयुगलकमर्धद्वयमपि सगुरु अन्तेऽधिकैकगुरुयुक्तं सुष्टु परिघटिता रचिता ललिता पदवि- ततिः पदरचना यत्र तादृशं भवति शकलं युगलं यस्यां सा शिखेति यत्तच्छन्दोऽध्याहारेणार्थः । अयं भावः- पूर्वार्धेऽष्टाविंशतिर्लघव एको गुरुरिति एकोनत्रिंशदक्षराणि, उत्तरार्धे त्रिशल्लघव एको गुरुरि- त्येकत्रिंशदक्षराणि यत्र सा शिखेति । सुपरिघटितेति पदेन श्रुतिसुख- की यतिः कार्येति सूचयति ॥ विनिमयविहितशकलयुगलकलितपदविततिविरचितर्गुण- निचया। श्रुतिसुखकृदियमपि जगति जि जशिर उपगतवति सति भवति खजा॥४०॥ इयमेव शिखा यदि विनिमयेन व्यत्यासेन विहितं निवेशितं यच्छक- लयुगलं तेन कलिता घटिता पदसमुदायकृतसौकुमार्यादिगुणसमुदा- यवती च फलितान्तस्य पदादिना कर्मधारयः श्रुतिसुखकारिणी वेति पूर्ववद्यतिः कार्येति सूचितम्। भिअकारे जशिर इतिजकारप्रागुदाहरणं प्राप्ते सति खजा भवन्ति । ख ति यावत् । गुरुद्वयस्य छन्दसि प्रवेशयितु- मशक्यत्वादुक्तिप्रकारोऽयम् । विनिमयविनिहितशकलयुगलकलितप- दविततिविरचितगुणनिचयेति युगलान्तस्य लम्वित्यादिना कर्मधारयः। यद्यपि सूत्रकारेण 'अर्धे' इत्यधिकृत्य 'शिखैकोनत्रिंशदेकत्रिंशदन्ते ग्' इति खञ्जामहत्ययुजि' इति च वदता पूर्वोक्तनियमवदेकोनत्रिंशदक्षरैक- त्रिंशदक्षररचितक्रमलघुक्रमवत्पादद्वयसटितार्धद्वयवत्यौ विंशत्यधिक- १ 'युगुलकम्' इति पाठ २ 'निचिति' इति पाठ ३ 'लघुललितपद' इति पाठ ४ 'गण' इति पाठ द्वितीयोऽध्यायः । शताक्षरैः शिखाखले उक्त अत्र षष्टयक्षरे एवेति विरोधस्तथापि ग्रन्था- न्तंरपर्यालोचनयैवमुक्तिः । यद्वा सूत्रकारोक्तिशिखाखञ्जाभ्यामेते अन्ये एव सूत्रानुक्ते एव प्रोक्ते। सूत्रोक्ते तु.चतुर्थाध्यायेऽर्धसमत्वात्स्वयमूझे। अथवोभयत्रापि शकलशब्दाववयववचनत्वात्पादरूपावयवपरौ कृत्वा मूलोदाहरणे चार्धविषये मत्वार्धसमत्वेऽपि च मात्रानियमात्मकत्वा- न्मात्रावृत्तप्रकारेणोक्तिं समाधाय सूत्रानुसारः कार्य इति सर्वभूयम् । अष्टावर्धे गा द्यभ्यस्ता यस्याः सानङ्गक्रीडोक्ता। दलमपरमपि वसुगुणितसलिलनिधिलघु कविरचितपदवि- तति भवति ॥४१॥ यस्य अर्धेऽष्टौ गा गुरवो द्वयभ्यस्ता द्विगुणाः। षोडशेत्यर्थः । अपी- ति चार्थः । अपरं च दलं द्वितीयमपि वसवोऽष्टौ तैर्गुणिताः सलिल- निधिलघवश्चत्वारो लघवो द्वात्रिंशद्यत्र तत्ताहक्कविना रचिता पदानां विततिर्विस्तरो यत्र तदा भवति सानङ्गक्रीडेति संशयोक्ता वृत्तझैः । पू. धैि षोडश गुरवः, उत्तरार्धे द्वात्रिंशल्लघवः कार्या इति तात्पर्यार्थः कवीत्यादिना श्रुतिसुखा यतिर्भवतीत्यसूसुचत् । पैङ्गले त्वियं सौम्यति संज्ञितम् । इयमेव व्यत्यस्तार्धतायां ज्योतिराख्या भवति । उदा- हरणं तु–'यदि सुखमनुपममपरमभिलषसि परिहर युवतिषु रति- मतिशयमिह । आत्मज्योतिर्योगाभ्यासादृष्टा दुःखच्छेदं कुर्याः ॥' अनयोईयोः शिखेति सामान्यसंज्ञा पैङ्गल उक्ता ॥ त्रिगुणनवलघुरवसितिगुरुरिति दलयुगलकृततनुरंतिरु- चिरा ॥ ४२ ॥ त्रिगुणा नव लघवो यत्र। सप्तविंशतिरित्यर्थः । अवसिताववसाने गुरुय॑स्याः सा तथा इत्यमुना प्रकारेणार्धद्वयरचितशरीरातिरुचिरा संज्ञा । पैङ्गले त्वियं चूलिकेत्युक्ता । अर्धसमत्वेऽप्यस्य मात्रामात्रघटि- तत्वादत्रोक्तिः। 'चूलिकैकोनत्रिंशदन्ते ग्' इति सूत्रपाठपक्षेणैवमु- कम् । 'चूलिकार्धमेकोनत्रिंशदेकत्रिंशदन्ते ग्' इति पाठे तु प्रथम द्वितीयं चार्ध क्रमेणैकोनत्रिंशदेकत्रिशन्मानं भवति, अन्ते च मात्राद्व- यस्थाने गुरुरेकः स्यात्सा चूलिकेति सूत्रार्थः । अस्मिन्पक्षे भूलानुक्त- मुदाहरणं ममैव-'रघुकुलनलिनविकसनशशभृति दृशमुखरिपुकुल- . तिमिरहरे । विषधरविषमविषयविषहरमहसि कुरु रतिमिह दशरथ- १ 'इह रुचिरा' इति पाठ.
३८ वृत्तरत्नाकरम् । तनये ॥' अत्र सूत्रेऽर्धग्रहणात्पादनियमो नास्ति । इह चावसितिगुरु- रिति पदेन गुरावेवावसानं नान्यति सूचितम् ॥ इति श्रीमद्भट्टरामेश्वरसूनुनारायणभट्टतिरचितायां वृत्तरत्नाकरव्याख्यायां मात्रावत्ता- धिकारो नाम द्वितीयोऽध्याय ॥ - तृतीयोऽध्याय.। एवं मात्रावृत्तान्यभिधायाधुना वर्णवृत्तेषु सुवृत्तानि कीर्तय इति उक्ता इति । अधिक्रियत इति शेषः । सप्तम्यन्तपाठे तु भेदा अभिधी- यन्त इति । एवमत्युक्तादिष्वपि व्याख्येयम् ।। अथोक्ता (१)- गुः श्रीः॥१॥ एकाक्षरपादायामुक्तायां गुरेकश्चेत्पादः श्री म । लक्ष्यलक्षणयोरे- काक्षरेण पादेनासंग्रहाद!दाहरणमेतत् । 'नोक्ता उक्तादिभेदा ये ग्र- न्थगौरवभीतितः । तांस्तथा शब्दचिहृन वदामोऽन्यत्रदर्शनात् ।' य- था—'असिन्पितृकृते नव्ये काव्ये रामकुतूहले। उक्ता उक्तादयो व्यस्ता विवेक्तव्याः सुयुक्तिभिः।' अत्र वक्ष्यमाणसंख्याख्यानप्रकारेण वृत्त- भेदः २ । न च सुप्रतिष्ठान्तानां पञ्चानां जातीनां सूत्रानुक्तत्वान्निर्मूल- तेति वाच्यम् । 'द्विको ग्लौ' इति प्रस्तारकथने, 'परे पूर्णम्' इति रूप- प्रस्तारकथने च सूत्रकारेणापि दर्शितत्वात् ॥ बहुतरप्रचाराभावात्तु गाथाभेदवल्लक्षणानुक्तति निरूपयति- अथात्युक्ता (२)- गौ स्त्री ॥२॥ द्वौ गुरू यदि पादे स्तस्तदा स्त्री नाम । अत्र वृत्तसंख्या ४ ॥ अथ मध्या (३)- मो नारी ॥३॥ मो मगणश्चेत्पादस्तदा नारी नाम ॥ रो मृगी ॥४॥ रगणश्चेत्पादस्तदा मृगी। अत्र संख्या ८॥ अथ प्रतिष्ठा (४)- म्गौ चेत्कन्या ॥५॥ १ 'ग,.'ग्' इति पाठौ.
mr तृतीयोऽध्यायः । ३९ मगणगुरू चेत्पादश्चतुर्गुरुरित्यर्थस्तदा कन्या। अत्र संख्या १६॥ अथ सुप्रतिष्ठा (५)- भगौ गिति पतिः॥६॥ भगणगुरू पुनर्गुरुश्चेत्येवं पतिः । संख्या ३२ ॥ अथ गायत्री (६)- सौ स्तस्तनुमध्या ॥७॥ त्यौ तगण-यगणौ यदि स्तो भवतस्तनुमध्येति । यदि नदेन्यध्या- हार्यम् ॥ शशिवदना न्यौ ॥ ८॥ नगण-यगणौ यदि पादस्तदा शशिवदना नाम । विद्युल्लेखा मो मः॥९॥ मगणौ चेत्पादस्तदा विद्युल्लेखा नाम ॥ सौ चेद्वसुमती ॥१०॥ तगण-सगणौ चेत्पादस्तदा वसुमती । गायन्यन्तेषु सर्वषु पादेषु पादान्त एव यतिरित्याम्नायः । तत्र संख्या ३४॥ अथोष्णिक (७)- म्तौ गः स्यान्मदलेखा ॥ ११ ॥ मगणसगणगुरुभिर्मदलेखा नाम ॥ तथा- सरगैर्हसमाला ॥ मधुमति ननगाः॥ कुमारललिता सौ ग् ॥ चूडामणिस्तभगात् ॥ अत्र द्वाभ्यां पञ्चभिश्च यतिमाहुः केचित् । अन्ये नु पादान्त एव । अत्र संख्या १२८॥ अथानुष्टुप् (८)- भौ गिति चित्रपदा गः ॥ १२ ॥ १'चेत्' इति पाठ. २ एतदनन्तरम् 'स्याद्ररौ स्रग्विणी,' ययौ सोमराजी, स्यान्म्सो सोमकुलम्, 'कामलतिका म्यौ,' इति सूत्राणि क्वचित्. ३ 'सरगा,' 'भरगै इति पाठी. ४ 'ननगि मधुमती' इति पाठ.: ५ 'जस्गा' इति पाठ.. - .
वृत्तरत्नाकरम् । भगणौ गुरू च यत्र पादे इत्येवं सा चित्रपदा । पादे यतिः॥ मो मो गो गो विद्युन्माला ॥ १३ ॥ मगणौ द्वौ च गुरू विद्युन्मालेति । चतुर्भिश्चतुर्भिश्च यतिरिति संप्रदायः॥ माणवकं भात्तलगाः॥ १४ ॥ भाद्गणात्तगणलघुगुरवो यदि तदा माणवकम् । 'माणवकक्रीडित- केम्' इति पैङ्गले संज्ञा । पूर्ववद्यतिः ॥ नौ गौ हंसरुतमेतत् ॥ १५ ॥ मगण-नगणौ गुरू च द्वावेतद्धंसरुतं नाम ॥ जौ समानिका गलौ च ॥ १६ ॥ रेफ-जकारौ गुरुलघू च समानिका नाम ।। प्रमाणिका जरौ लगौ ॥ १७ ॥ जगणरेफौ लघुगुरू च प्रमाणिका । समान्येव समानिका, प्रमाण्येव प्रमाणिका । स्वार्थ कश्छन्दोऽनुरोधात् ॥ वितानमाभ्यां यदन्यत् ॥ १८॥ आभ्यां समानीप्रमाणीभ्यामन्यद्यदनुष्टुब्जातीयं छन्दो वितानसंज्ञम् । आभ्यामन्यदित्युक्तं लक्ष्यलक्षणम् । केचित्तु–'समानिकायां गुरुलघु- क्रमेण समाप्तिः, प्रमाणिकायां लघुगुरुक्रमेण, विताने तु द्वौ गुरू द्वौ लघू, द्वौ लघू द्वौ गुरू वा, गुरू वा, द्वौ गुरू एको लघुः पुनरेको गुरुरिति वा, द्वौ लघू एको गुरुरेको लघुरिति वा, इत्थं वा नियमः' इत्याहुः । तत्र द्वौ गुरू द्वौ लघू इत्यत्रोदाहरणम्-'तृष्णां त्यज धर्म भज पापे हृदयं मा कुरु । इष्टा यदि लक्ष्मीस्तव शिष्टाननिशं संश्रय॥' द्वौ लघू द्वौ गुरु इत्यत्रोदाहरणम्-'हृदयं यस्य विशालं गगनाभोगसमानम् । लभते- ऽसौ मणिचित्रं नृपतिर्मूर्ध्नि वितानम् ॥' एवमन्यत्राप्युदाहार्यम् । वयं तु गृह्णीम एतदेतेषां वितानतेति न तु नियमम् । अतएवोक्तनियमाति- क्रमेणैवोदाहरणं मूले । सूत्रमपि 'वितानमन्यत्' इति सामान्यत एव, तु नियमं कंचिदाह । वृत्तिकृदपि 'सूत्रकारो वितानस्यानेकप्रकारतां दर्शयति' इति वदन्ननेकमात्रतामाह, न तु नियममिति ॥ तथा- नाराचिका तरौ लगौ ॥ १ एतदनन्तरम् 'कुमारललिता ज्सौ गौ' इति सूत्र क्वचित् २ 'नाराचकम्' इति पाठः: ३ एतदनन्तरम् 'जो जगौ च सिंहलेखा' इति सूत्र वचित्, .
तृतीयोऽध्यायः । . अत्र संख्या २५६ ॥ अथ बृहती (९)- रान्नसाविह हलमुखी ॥ १९ ॥ रगणानन्तरं नगणसगणौ चेदिह छन्दःशास्त्रे हलमुखी नाम । त्रिभिः षभिश्च यतिरिति संप्रदायः ॥ भुजगशिशुभृता नौ मः ॥ २० ॥ द्वाभ्यां नगणाभ्यामेकेन च मगणेन भुजगशिशुभृता । सप्तभिर्दा- भ्यां च यतिः ॥ तथा- भंद्रिकेति रनरैरियम् ॥ वृत्तसंख्या ५१२॥ अथ पतिः (१०)- म्सौ ज्गौ शुद्धविराडिदं मतम् ॥ २१॥ मगण-सगणौ जगणगुरू च तच्छुद्धविराण्मतं छन्दोविदाम् । पा- दान्ते यतिः ॥ नौ गौ चेति पणवनामकम् ॥ २२ ॥ मगण-नगणौ जगण-गुरू चेति पणवनामकम् । पञ्चभिः पञ्चभिश्च यतिः॥ जौं रगौ मयूरसारिणी स्यात् ॥ २३ ॥ रगण-जगण-रगण-गुरुभिर्मयूरसारिणी । पादान्ते यतिः ॥ मौ सगयुक्तौ रुक्मवतीयम् ॥ २४ ॥ भगण-मगणौ सगण-गुरुणा च रुक्मवती । पञ्चकमालेत्यन्ये । पा- दान्ते यतिः॥ ज्ञेया मत्ता मभसगयुक्ता ॥ २५ ॥ १"शशिभृता', 'शिशुसृता'; 'शिशुयुता' इति पाठा . २ 'भद्रिका भवति रो नरौ' इति पाठः, ३ 'नौ रगौ चेति पणवनामेदम्' इति पाठः ४ 'चम्पकमाला 'चेगमसागु' इति पाठ'. ५ 'चम्पकमाला' इति पाठः. ६ एतत्पूर्वम् ‘दीपकमाला चेद्भमौ जगौ'; 'ज्ञेया हसी भमनगयुक्ता' इति सूत्रे क्वचित ४२ वृत्तरत्नाकरम् । म-भ-सगण-गुरुयुता मत्ता । चतुर्भिः षड्भिश्च यतिः नरजगैर्भवेन्मनोरमा ॥ २६ ॥ न-र-जगण-गुरुभिर्मनोरमा । पादे यतिः ॥ जौ जो गुरुणेयमुपस्थिता ॥ २७ ॥ त-ज-जगण-गुरुभिरुपस्थिता नाम । पादे यतिः। द्वाभ्यामष्टभिश्चे- त्येके ॥ अत्र संख्या १०२४॥ अथ त्रिष्टुप् (११)- स्यादिन्द्रवज्रा यदि तौ जगौ गः ॥ २८ ॥ त-त-जगणा गुरुभ्यां चेन्द्रवज्रा नाम । पादे यतिः ॥ उपेन्द्रवजा जतजास्ततो गौ ॥ २९ ॥ ज-त-जगणा गुरू चोपेन्द्रवज्रा नाम । पूर्वोक्तैव यतिः ॥ अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः॥३० अव्यवहितोक्तेन्द्रवज्रोपेन्द्रवज्रालक्षणवन्तौ पादौ यत्संबन्धिनौ ता उपजातयो नाम । अत्र पूर्वोक्तलक्षणपादद्वयेन यथायोगमेकद्विवारवृ- त्या निष्पत्तिर्विवक्षिता, न तु द्वाभ्यामेवं वृत्तपूर्तिः पादद्वयमात्रघटि- तस्य वृत्तस्याभावात् । द्विवचनं लक्षणद्वययोगेन लक्षणया नेयम् । ता- श्चतुरक्षरप्रस्तारवत्प्रस्तारे सत्याद्यन्तभेदयोः केवलेन्द्रवज्रोपेन्द्रवज्रा- त्वात्यागे चतुर्दश भवन्ति । यथा---इउउउ, उइउउ, इइउउ, इउइउ, उउइउ, उइइउ, इइइउ, उउउइ, इउउइ, उइउइ, इइउइ, उउइइ, इउइइ, उइइइ, इति । तथा च वृद्धाः-'एकत्र पादे चरणद्वये वा पादत्रये वा- न्यतरस्थितिश्चेत् । तयोरिहान्यत्र तदोहनीयाश्चतुर्दशोक्ता उपजाति- भेदाः॥' इति । अत्राद्यभेदोदाहरणम् –'दैत्याधिपप्राणमुषां नखाना- मुपेयुषा भूषणतां क्षतेन । प्रकाशकार्कश्यगुणौ दधानाः स्तनौ तरुण्यः परिवठुरेनम् ॥' मूलश्लोकस्तु पृष्ठभेदोदाहरणम् । एवमन्यभेदेष्वप्यु- दाहरणानि काव्येषु च विवेचनीयानि ॥ इत्थं किलान्यास्वपि मिश्रितासु स्मरन्ति जातिविदमेव नाम ॥ ३१॥ १ 'पाद' इति पाठ. २ 'वदन्ति' इति पाठः, तृतीयोऽध्यायः। ४३ अन्यास्वपि जगत्यादिजातिष्वित्थं सामान्यसंख्याक्षरत्वसमानयतिक- त्वादिप्रकारेण मिश्रितास्विदमेवोपजातिनाम वृद्धाः स्मरन्ति । ग्रन्था- न्तरेभ्यो ज्ञात्वा वदन्तीत्यर्थः । इत्थमित्यनेन विषमवर्णसंख्याज्ञानां विषमयतिकानां च जातीनां त्र्यादीनां च मिश्रणे उपजाति म ना- स्तीति सूचितम् । सरन्तीत्यनेन च कविप्रयोगे दर्शनानुरोधः सूचितः। नरेन्द्रवंशावंशस्थाभ्यामुदाहरणम्-'इत्थं रथाश्वेभनिषादिना शो गणो नृपाणामथ तोरणाद्वहिः । प्रस्थानकालक्षमवेषकल्पनाकृतक्षण- क्षेपमुदक्षताच्युतम् ॥' एवमन्यत्र प्रयोगवशादुदाहरणं ज्ञेयम् । सर्वा- सामुपजातीनामुक्तया दिशा चतुर्दश भेदा भवन्ति । विषमासमरू- पन्वेऽप्युपजातीनां समवृत्तेषूपन्यासः समवृत्तघटिततया प्रासङ्गिकः ॥ नजजलगैर्गदिता सुमुखी ॥ ३२ ॥ नजजैर्गणैर्लघुगुरुभ्यां च सुमुखी नाम । पञ्चभिः षड्भिश्च यतिः ॥ दोधकवृत्तमिदं भभभागौ ॥ ३३ ॥ भगणत्रयाद्गुरुद्वयं चेद्दोधकं नाम । भभभादिति समाहारद्वन्द्वैकव- द्भावः । 'दोधकनामनि भत्रयतो गौ' इति वा पाठः । पादान्ते यतिः ॥ शालिन्युक्ता म्तौ तगौ गोऽब्धिलोकैः ॥ ३४ ॥ म-त-तैर्गुरुभ्यां च शालिनी । अब्धिभिश्चतुर्भिोंकैः सप्तभिश्च यति- रिति शेषः । एवमुत्तरत्रापि ॥ वातोर्मीयं कथिता म्भौ तगौ गः ॥ ३५ ॥ म-भ-त-गु-गुरुभिर्वातोर्मी । इयमिति शालिन्युक्तयतिमतीत्यर्थः ॥ बाणरसैः स्याद्भतनगगैः श्रीः ॥ ३६ ॥ भ-त-न-ग-गुरुभिः पञ्चभिः षभिश्च यतौ श्री म ॥ म्भौ न्लौ गः स्याश्रमरविलैंसितम् ॥ ३७ ॥ म-भ-न-लघुगुरुभिर्भमरविलसितमिति । चतुर्भिः सप्तभिश्च यतिः। रोन्नराविह रथोद्धता लगौ ॥ ३८ ॥ रन-र-ल-गैरिह च्छन्दःशास्त्रे रथोद्धता। पादे यतिः॥ १ 'गदिता' इति पाठः. २. 'पश्चरसै 'श्रीभंतनगगै. स्यात्' इति पाठ ३ गतदनन्तरम् 'सान्द्रपद तौ गनलघुभिश्च' इति सूत्र क्वचित्. ४ 'विलसिता' इति पाठः. ५ ‘रो जरा- विह' इति पाठ.
वृत्तरत्नाकरम् । . स्वागतेति रनभाद्गुरुयुग्मम् ॥ ३९ ॥ र-न-भ-गणेभ्यः परं गुरुयुग्मं यदि तदेत्येवं स्वागता । न-र-भादि- त्येकवद्भावः पूर्ववद्यतिः॥ ननसगगुरुरचिता वृत्ता ॥ ४० ॥ 'न-न-स-ग-गुरुवृत्ता नाम चतुर्भिः सप्तभिश्च यतिः ॥ ननरलगुरुभिश्च भद्रिका ॥ ४१ ॥ न-न-र-ल-गैर्भद्रिका । पादे यतिः ॥ श्येनिका रजौ रलौ गुरुयंदा ॥ ४२ ॥ स्पष्टम् । पादे यतिः॥ मौक्तिकमाला यदि भतनागौ ॥ ४३ ॥ भ-त-नादित्येकवद्भावः । पञ्चसु षट्सु च यतिः ॥ उपस्थितमिदं ज्सौ ताद्गकारौ ॥४४॥ अ-स-त-ग-गैरुपस्थितम् । पादे यतिः॥ तथा- उपचित्रमिदं सससा लगौ ॥ कुपुरुषजनिता ननौ! गः॥ अनवसिता न्यौ भगौ गं षडन्ते ।। अत्र वृत्तानि २०४८ ॥ अथ जगती (१२)- चन्द्रवर्त्म निगदन्ति रनभसैः ॥ ४५ ॥ र-न-भ-सैर्गणैश्चन्द्रवर्त्म । चतुर्भिरष्टभिश्च यतिः ।। जतौ तु वंशस्थमुदीरितं जरौ ॥ ४६ ॥ ज-त-ज-रैवंशस्थम् । पादे यतिः ॥ स्यादिन्द्रवंशा ततजैरैसंयुतैः ॥ ४७ ॥ - १ एतदनन्तरम् 'शिखण्डितमिद ज्सौ त्गौ गुरुश्चेत्' इति सूत्र कचित् २ 'गुरुरन्ते' इति पाठः, ३ 'गदित तु' इति पाठ ४ 'असयुता' इति पाठः.
तृतीयोऽध्यायः। । त-त-जैरसंयुतै रगणसहितैरिन्द्रवंशा । पादे यतिः ।। इह तोटकमम्बुधिसैः प्रथितम् ॥ ४८ ॥ अम्बुधिसैश्चतुर्भिः सगणैः । पादे यतिः ॥ द्रुतविलम्बितमाह नभौ भरौ ॥ ४९ ॥ न-भ-भ-रैर्दुतविलम्बितमाहाचार्यः । पूर्वैव पादे यतिः ॥ मुनिशरविरतिनौं म्यौ पुटोऽयम् ॥ ५० ॥ मुनिभिः सप्तभिः शरैः पञ्चभिश्च विरतिर्यत्र ।। प्रमुदितवदना भवेन्नौ च रौ ॥ ५१ ।। स्पष्टम्। नयसहितौ न्यौ कुसुमविचित्रों ॥५२॥ स्पष्टम् । द्वयोरपि पादे यतिः॥ रसैर्जसजसा जलोद्धतगतिः ॥ ५३ ॥ रसाश्च रसाश्चेत्येकशेषे षड्भिः षड्भिश्च यतिः ॥ चतुर्जगणं वद मौक्तिकदाम ॥ ५४ ॥ भुजङ्गप्रयातं भवेद्यैश्चतुर्भिः॥ ५५ ॥ रैश्चतुर्भिर्युता अग्विणी संमता ॥ ५६ ॥ भुवि भवेन्नभजरैः प्रियंवदा ॥ ५७ ॥ त्रीणि स्पष्टानि । पादे यतिः ॥ त्यौ त्यौ मणिमाला च्छिन्ना गुहवः ॥ ५८ ॥ त-य-त-यैर्मणिमाला। गुहस्य स्कन्दस्य वः षभिः षड्भिश्च च्छिन्ना यतिमतीत्यर्थः॥ धीरैरभाणि ललिता तभी जरौ ॥ ५९ ॥ प्रमिताक्षरा सजससैरुदिता ॥ ६०॥ एते स्पष्टे । पादे यतिः॥ 'वसूयुग' इति पाठ.. २ एतदनन्तरम् 'भवति तति मजनरसयुतैः' इति सूत्र क्वचित्. ३ भादनन्तरम् 'जरी जरी बद समोचचामरम्' इति सूत्र कवित.
वृत्तरत्नाकरम् । ननभरसहिता महितोज्ज्वला ॥ ६१ ॥ सहिता पूजिता । श्रेष्ठेत्यर्थः । उज्ज्वलेति नाम । पादे यतिः ॥ पञ्चाश्चैश्छिन्ना वैश्वदेवी ममौ यौ ॥ ६२ ॥ पञ्चभिरश्वैः सप्तभिश्छिन्ना यतिमती वैश्वदेवी नाम ॥ अब्ध्यष्टाभिर्जलधरमाला म्भौ स्मौ ॥ ६३ ॥ अधिभिश्चतुर्भिरष्टाभिश्च पादयतिः । मगण-भगणौ सगण-मगणौ च भवतः तजलधरमाला नाम। चतुर्भिरभिश्छिन्नेत्यनुषङ्गः। पैङ्गले त्वियमेव कान्तोत्पीडा। इह नवमालिका नजभयैः स्यात् ॥ ६४ ॥ इह छन्दःशास्त्रेऽष्टाभिश्चतुर्भिश्च यतिरित्याहुवृद्धाः ॥ स्वरशरविरतिर्ननौ रौ प्रभा ॥ ६५ ॥ स्वरैः षड्जादिभिः सप्तभिः शरैः पञ्चभिश्च यतिर्यत्र ॥ भवति नजावथ मालती जरौं ॥ ६६ ॥ पञ्चभिः सप्तभिश्च यतिः॥ जभौ जरौ वदति पञ्चचामर ॥ ६७ ॥ अभिनवतामरसं नजजाद्यः ॥ ६८॥ स्पष्टम् । इदमेवान्ये ललितपदमाहुः । पादे यतिः ।। तथा-- नयुगरयुगलं च गौरी मता ॥ पञ्चमुनी भ्मौ सात्सयुता ललना ॥ ललितमभिहितं नौ म्रौ नामतः॥ द्रुतपदं भवति नभनयाश्चेत् ॥ अत्र वृत्तसंख्या ४०९६ ॥ अथातिजगती (१३)- तुरगरसयतिनौ ततौ गः क्षमा ॥ ६९ ॥ १ 'अभिहितोज्ज्वला'; 'गदितोज्ज्वला' इति पाठौ. २ 'अन् यहै. स्यात्' इति पाठः. ३ 'ननमालती नजपरौ भ्यौ' इति पाठ.. ४ एतदनन्तरम् ‘इह वद तामरस जजजाद्यः' इति सूत्र क्वचित्. ५ एतदनन्तरम् 'ननररघटिता तु मन्दाकिनी' इति सूत्र क्वचित्.
तृतीयोऽध्यायः। न-न-त:त-गुरुभिः क्षमा, सप्तभिः षड्भिश्च तत्र यतिः । चन्द्रिके- त्यन्ते॥ नौ नौ गस्त्रिदशयतिः प्रहर्षिणीयम् ॥ ७० ॥ त्रिभिर्दशभिश्च यतिर्यत्र सा ॥ चतुर्ग्रहरतिरुचिरा जभस्जगाः ॥ ७१ ॥ जभसजगैश्चतुर्यु नवसु च यतावतिरुचिरा ॥ वेदै रन्धै? यसगा मत्तमयूरम् ॥७२॥ वेदाश्चत्वारो रन्ध्राणि नव ॥ उपस्थितमिदं सौ सौ सगुरुकं चेत् ॥ ७३ ।। सजसा जगौ भवति मञ्जुभाषिणी ॥ ७४ ॥ स्पष्टम् । पञ्चभिरष्टभिश्चात्र यतिः॥ ननततगुरुभिश्चन्द्रिकाश्वर्तुभिः ॥ ७५ ॥ अश्वाः सप्त, ऋतवः षट् । इयं क्षमैवाचार्यमतभेदेन संज्ञान्तरार्थ पुनरूचे ॥ तथा यमौ रौ विख्याता चञ्चरीकावली गः ॥ जभौ स्जगावतिरुचिराम्बुधिग्रहः ॥ भरतमतेनेयमेव पूर्वमतिरुचिरोक्ता ॥ नसरयुगगैश्चन्द्रलेखर्तुलोकैः॥ पभिः सप्तभिश्च यतिः॥ ऋतुमुनियति विद्युन्ननौ तौ गुरुः ॥ अत्र वृत्तसंख्या ८१९२ ॥ अथ शक्करी (१४)- म्तो न्सी गावक्षग्रहविरतिरसंबाधा ॥ ७६ ॥ १'प्रहर्षणी' इति पाठः २ 'चतुर्ग्रहैरिह चिरा उभौ सरौ ग', 'चतुर्ग्रहैरिह रुचिरा जभी स्जगा' इति पाठौ. ३ 'यदि गुरु स्यात्' इति पाठ ४ एतदनन्तरम् ‘जतौ सजी गो भवति मञ्जुहासिनी,' 'नवनन्दिनी सजससैर्गुरुयुक्त', 'कुटिलगतिर्नजौ सप्तभिस्तो गुना' इति सूत्राणि क्वचित्, वृत्तरत्नाकरम् । म-त-न-सगणैर्गुरुभ्यां चासंबाधा नाम । अझैर्बाह्येन्द्रियैः पञ्चभिः, ग्रहैनवभिश्च यतिर्यत्र सा तथा ॥ ननरसलघुगैः स्वरैरपराजिता ॥ ७७ ॥ स्वराश्च स्वराश्चेत्येकशेषे सप्तभिः सप्तभिश्च यतिर्भवति ॥ ननभनलघुगैः प्रहरणकलिता ॥ ७८ ॥ पूर्वोक्तैव यतिः॥ उक्ता वसन्ततिलका तभजा जगौ गः ॥ ७९ ॥ त-भ-ज-जा गणा गुरू चेति वसन्ततिलका ॥ सिंहोन्नतेयमुदिता मुनिकाश्यपेन ॥ ८ ॥ काश्यपेन मुनिनेयं वसन्ततिलकैवसिंहोन्नतोक्तेति संज्ञान्तरोक्तिः॥ उद्धर्षिणीयमुदिता मुनिसैतवेने ॥ ८१ ॥ सैतवेन त्वाचार्येणेयमुद्धर्षिणीत्युक्ता ॥ इन्दुवदना भजसनैः सगुरुयुग्मैः ॥ ८२ ॥ गुरुयुगलसहितैर्भ-ज-स-नैः ॥ द्विःसप्तच्छिदलोला म्सौ म्भी गौ चरणे चेत् ॥ ८३ ॥ द्विर्द्धिवारं सप्तसु च्छिद्यतिर्यस्याः सालोला नाम ॥ तथा- ननतजगुरुगैः सप्तयतिर्नदी स्यात् ॥ लक्ष्मीरन्तविरामा म्सौ तभौ गुरुयुग्मम् ॥ त्रिननगगिति वसुयति सुपवित्रम् ॥ मध्यक्षामा युगदशविरामा म्भौ न्यौ गौ ॥ १'लगिति' इति पाठ..२ 'कलिका' इति पाठ.. ३ 'सिंहोद्धता' इति पाठ . ४ 'उद्ध- र्षणीति गदिता किल' इति पाठः. ५ एतदनन्तरम् 'नागेन सैव गदिता मधुमाधवीति', 'सजसा यलगाश्च वसुधा सपश्चग्रहै' इति सूत्रे क्वचित् ६ एतदनन्तरम् 'युगदिग्भि कुटिलमिति मतस्थौ न्यौ गौ', 'नजभजलम्युता धृतिरिय कथिता',म्भौ न्यौ गौ चेजल- घिदश च हसंश्येनी'; 'म्भौ न्यौ ल्गौ चेद्भवति अगति चन्द्रौतस.', 'देवरवरतनु भननन- लघुगै'; 'मस्तोनो मो गौ यदि गदिता वासन्तीयम्', 'ननततगयुतै. सप्तभिः वसन्त' इति सूत्राणि क्वचित् नृतीयोऽध्यायः । . इदमेव कुटिलमित्यन्ये ॥ नजभंजला गुरुश्च भवति प्रमदा ॥ सजसा यलो पिति शरग्रहैमारी। नजभजगैर्गुरुश्च वसुषद् कुमारी ॥ नरनरैर्लगौ च रचितं सुकेशरम् ॥ अत्र वृत्तसंख्या १६३८४ ॥ अथातिशक्करी (१५)- द्विहतहयलघुरथ गिति शशिकला ॥ ८४ ॥ द्विगुणिता हयाः सप्त लघवो यत्र सा तथा । अथ तदनन्तरं गुरुर्गु- र्विताश्चतुर्दश लघवः शशिकलेत्यर्थः। इयमेव पैङ्गले ननननसैश्च- न्द्रावर्ता नामोक्ता । अत्र सप्तभिरष्टभिश्च यतिरिति संप्रदायः ॥ स्रगिति भवति रसनवकयतिरियम् ॥ ८५ ॥ इयं शशिकलेवरसेषु षट्सु नवसु यतौ स्रगिति संशिता मालेत्यर्थः॥ वसुहययतिरिह मणिगुणनिकरः ॥ ८६ ॥ अष्टसु सप्तसु च यतावियमेव शशिकला मणिगुणनिकरसंशितेति । यतिभेदेन संज्ञान्तरद्वयमुक्तम् ॥ ननमयययुतेयं मालिनी भोगिलोकैः ॥ ८७ ॥ भोगिभिर्नागैरष्टभिर्लोकैर्भूरादिभिः सप्तभिर्यताविति शेषः । 'नागलो- कैः' इति रुचिरः पाठः॥ भवति नजौ भजौ रसहितौ प्रभद्रकम् ॥ ८८ ॥, रसहितौ रगणयुक्तौ । सप्तस्वष्टसु च यतिः ॥ सजना नयौ शरदशयतिरियमेला ॥ ८९ ॥ शरेषु पञ्चसु दशसु च यतौ सजननयैरेला नाम ॥ नौ म्यौ यान्तौ भवेतां सप्ताष्टभिश्चन्द्रलेखा ॥ ९० ॥ यान्तौ यगणयुक्तौ ॥ । मा याणा स्युर्यस्यां सा कामक्रीडांसंज्ञा झेया ॥ १ 'कवि.' इति पाठः. २ 'सज्ञातव्या' इति पाठ..
५० वृत्तरत्नाकरम् ।। नजभजविराजितमिदं सुकेसरम् ॥ चन्द्रलेखाभिधा रौ म्यौ यो विरामः स्वराष्टौं' ननतभरकृताङ्गैः स्वरैरुपमालिनी॥ अत्र वृत्तानि ३२७६८ ॥ अथाष्टिः (१६)- भत्रिनगैः स्वरात्खमृषभगजविलसितम् ॥ ९१ ॥ भ्रौ च त्रयो नाश्च गुरुश्च तैर्विग्रहः, स्वरात्सप्तमात्परं खं विरामो यदि तदेति शेषः । सप्तसु यतिः । पादान्ते यतिः प्राप्तैवेति सा नोक्ता। स्वरात्परं खं शरीरच्छिद्रं नवकं यतिस्थानमिति शेष इति वार्थः । ऋषभेत्यादि सर्व नाम ॥ नजभजरैः सदा भवति वाणिनी गयुक्तैः ॥ ९२ ॥ गयुक्तैर्गुरुयुक्तैः॥ तथा- चित्रसंज्ञमीरितं रजौ रजौ रगौ च वृत्तम् ॥ जरौ जरौ ततो जगौ च पञ्चचामरं वदेत् ॥ संकथिता भरौ नरनगाश्च धीरललिता ॥ पश्चभकारयुताश्वगतिर्यदि चान्त्यगुरुः ॥ अत्र संख्या ६५५३६॥ अथात्यष्टिः (१७)-- रसै रुद्रैश्छिन्ना यमनसभला गः शिखरिणी ॥ ९३ ॥ रसैः पभी रुद्रैरेकादशभिश्छिन्ना यतिमती ॥ जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः ॥ ९४ ॥ वसुभिरष्टभिर्ग्रहैनवभिश्च यतिमती ॥ दिमुनि वंशपत्रपतितं भरनभनलगैः ॥ ९५ ॥ १ 'सुखेलकम्' इति पाठ'. २ 'चन्द्रकान्ता' इति पाठ . एतत्पूर्वम् 'भवतः सजौ ससयुता वृषभस्ततो य' इति सूत्र क्वचित् ३ एतदनन्तरम् 'रानभद्वितयरैरुदित रम- णीयकम्' इति सूत्र कचित्. ४ एतत्पूर्वम् 'नजरभभेन गेन च स्यान्मणिकल्पलता' इति सूत्र क्वचित् ५ 'कृताश्व' इति पाठः ६ एतदनन्तरम् 'जरौ जरौ जगाविद वदन्ति पश्चचामरम्' इति सूत्र क्वचित् तृतीयोऽध्यायः । द्विशो दृश, मुनयः सप्त । दिशो मुनयश्चेति समाहारे छन्दोविशे- षणं यतिस्थाने, न च तत्संख्याकाक्षररूपता विवक्षिता दिङ्मुनिभि- वंशपत्रपतितमिति । एकं वा पदं यतिपदस्य मध्यमस्य लोपेन वा स- मासः । तत्र यतिस्थानमिति वाध्याहारः । दिङ्मुनियतीति पदेऽन्त्य- पदलोप इति केचित् । लुप्तविभक्त्यन्तमित्यन्ये । तदुभयं चिन्त्यम् ॥ रसयुगहयैन्सौ नौ स्लौ गो यदा हरिणी तदा ॥ ९६ ॥ षट्सु चतुर्षु सप्तषु च त्रिषु स्थानेषु यतौ हरिणी नाम ॥ मन्दाक्रान्ता जलधिषडगैम्भी नतो ताद्गुरू चेत् ॥ ९७ ॥ मभनततगगैर्मन्दाक्रान्ता जलधिषडगैश्चतुर्भिः षड्भिरगैः पर्वतैः सप्तभिः॥ हैयदशभिर्नजौ भजजला गुरु नर्कुटकम् ॥ ९८ ॥ सप्तभिर्दशभिश्च यतिः ॥ मुनिगुहकार्णवैः कृतयति वद कोकिलकम् ॥ ९९ ॥ मुनयः सप्त, गुहस्य स्कन्दस्य कानि मुखानि षट्, अर्णवाश्चत्वारस्तैः कृता यतिर्यत्र तन्नकूटकमेव कोकिलकं वद ब्रूहीति शिष्योपदेशः । यतिभेदेन तस्यैवान्या संक्षेति ॥ तथा- रसयुगहययुङ्नौ नौ सो लगौ हि यदा हरिः ॥ भवेत्कान्ता युगरसहयैर्यभौ नरसा लगौ ॥ ससजा भजगा गु दिक्स्वरैर्भवति चित्रलेखा ॥ अत्र वृत्तसंख्या १३१०७२॥ अथ धृतिः (१८)- स्याद्भूतर्वश्वैः कुसुमितलतावेल्लिता म्तौ नयौ यौ ॥१०॥ भूतानि पञ्च, ऋतवः षट्, अश्वाः सप्त ॥ १ 'यदि भवतो नजी भजजला गुरुर्मर्कटकम्' इति पाठ . २ 'नर्दटकम्' इति पाट . ३ एतदनन्तरम् 'ससजैरतिशायिनी मता भजपरैर्गुरुभ्याम्' इति सूत्र क्वचित् ४ एतद- नन्तरम् ‘दशवसुविरतिननौ रैश्चतुभिर्युता सालसा, 'अधिक दर्शयति ननौ रौ भवेता ररौ तारका', 'स्याद्भूतत्व॑श्वोभ्मौ विरतिश्चेत्सिंहविस्फूर्जित यौ', 'सौजी भरसयुतौ करिबा- णख हरननिम्' इति सूत्राणि क्वचित्.
५२ वृत्तरनाकरम् । तथा- - मात्सो जौ भरसंयुतौ करि(८)बाण(५)कै(५)हरिणप्लुतम् ॥ यदिह नयुगलं ततो वेदरेफैर्महामालिका ॥ पञ्चभकारकृताश्वगतिर्यदि चान्तसरचिता॥ सुधा तकस्तर्भवति ऋतुभियों मो नसतसाः ॥ तर्काः वर्णाश्वैर्मननततमकैः कीर्तिता चित्रलेखेयम् ।। वणाश्चत्वारः भागननानसौ भ्रमरपदकमिदमभिहितम् ॥ शार्दूलं वद मासषद्कयति मः सौ जसौ रो मश्चेत् ॥ मासा द्वादश ॥ अर्थाचाश्वैर्मभनयरयुगैर्वृत्तं मतं केशरम् ॥ अर्थाश्चत्वारः ॥ म्भौ न्जौ भ्रौ चेञ्चलमिदमुदितं युगैर्मुनिमिः स्वरैः ॥ अत्र वृत्तानि २६२१४४ ॥ अथांतिधृतिः (१९)- सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम् ॥ १०१॥ द्वादाशभिः सप्तभिश्च यतिः॥ तथा- नयुगललगुरु निरन्तरं यदा स पष्चचामरः ॥ रसवश्वेयमौ सौ ररगुरुयुता मेघविस्फूर्जिता स्यात् ॥ भूताश्वाश्वान्तं मतनसररगैः कीर्तितं पुष्पदाम ॥ वृत्तं बिम्बाख्यं शरमुनितुरगैम्तौ सौ ततौ चेद्गुरुः ॥ इयं छाया ख्याता ऋतुरसहयैर्यों मनसा भ्तौ रसै षभिर्लोकैर्यमनसजजा गुरुर्मकरन्दिका ॥ युगाश्वैः स्याधभनयजजगाः कीर्तिता मणिमारी॥ गजाब्धितुरगै सौ जसतभा गश्चेत्समुद्रतता ॥ १.एतदनन्तरम् 'नजभयसा जगौ च रचना शूलिककुद्भिरत्र सा', 'भी जतौ तौ स गुरुको यदा दिग्ग्रहच्छेदभाग्भवति' इति सूत्रे क्वचित्. २ 'इना' इति पाठः.
तृतीयोऽध्यायः । अत्र वृत्तानि ५२४२८८ ॥ अथ कृतिः (२०)-- ज्ञेयाः सप्ताश्वषड्भिर्मरभनययुसा भ्लौ गः सुवदना॥१०२॥ सप्तभिः सप्तभिः षड्भिश्च यतिः ॥ त्री रजौ गलौ भवेदिहेदृशेन लक्षणेन वृत्तनाम ॥ १०३ ॥ त्रिवारं रगणजगणौ गुरुलघू चेदेतादृशेन लक्षणेन वृत्तं नाम गुरु- लघुक्रमेणेत्यर्थः । अत्र पादान्ते यतिः। 'ढलोपे पूर्वस्य दीर्घोऽणः' इति त्रिरित्यत्र दीर्घः ॥ तथा- रसैरश्वैरश्वैर्यमननततगैगैने शोभेयमुक्ता ॥ अत्र संख्या १०४८५७६ ॥ अथ प्रकृतिः (२१)- नौ भनौ यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्। मरभनैर्यगणत्रयेण च स्रग्धरा त्रिवारं मुनिषु यतियुक्ता सप्तसु स- ससु सप्तसु यतीमतीत्यर्थः॥ तथा- सलिलनिधिर्भवेदिह नजौ भगणो जगणास्त्रयश्च रः॥ अन्येषां मते सिद्धकमिति संशितमेतत् ॥ अत्र संख्या २०९७१५२ ॥ अथाकृतिः (२२)- भ्रौ नरना रनावथ गुरुर्दिगर्कविरमं हि भद्रकमिति ॥१०५॥ दिक्षुदशस्वर्केषु द्वादशसु च विरमो विरतिर्यस्य तत्तथा प्रसिद्रम् ॥ तथा- सप्तभकारकृतावसितौ सगुरुः कविभिः कथिता मदिरा ॥ अत्र वृत्तानि ४१९४३०४ ॥ १ एतदनन्तरम् ‘ख्याता पूर्वै. सुवशा यदि मरभनास्तद्वय गो गुरुश्च' इति सूत्र क्व- चित् '२ 'नम्नैर्याना' इति पाठ . ३ एतदनन्तरम् 'भवति नजौ हि सिद्धिरिति भाज- जजा यदि रो भविता' इति सूत्र क्वचित्ः ४ 'इदम्' इति पाठः. ५.एतरनन्तरम् 'ला- लिस भुजगेन्द्रेण भाषितमेतञ्चेन्मसरस्तजनगुभि'; 'सजतानसौ ररौ गः फणितुरगहयै. स्यान्महास्रग्धराख्या' इति सूत्रे क्वचित्.
वृत्तरताकरम् । . .. , अथ विकृतिः (२३)- यदिह नजौ भजौ भ्जभलगास्तदश्वललितं हरायति- मत् ॥ १०६ ॥ हराः ११, अर्काः १२॥ मत्ताक्रीडा मौ नौ नौ नलिगति भवति वसुशरदशयति- युता ॥ १०७॥ वसवोऽष्टौ पञ्चदश च तेषु यतिमती । अष्टमे पञ्चदश इति च वर्णे यतिः कार्येत्यर्थः । न तु पञ्चसु दशसु चेत्यर्थः । 'मत्ताक्रीडा मौ नौ नौ न्लौग् वसुपञ्चदशको' इति सूत्रे द्विवचननिर्देशात् । अन्यथा हि बहुवचनं स्यात् । अन्यैस्तु वाजिवाहनमेतदुक्तम् ॥ अत्र संख्या ८३८८६०८ ॥ अथ संकृतिः (२४)- भूतमुनीनैर्यतिरिह भतनाः स्भौ भनयाश्च यदि भवति तन्वी ॥१०८॥ भूतानि पञ्च, मुनयः सप्त, इनाः सूर्या द्वादश । अत्र पैङ्गले द्वाद- शसु च यतिरुक्ता॥ अत्र संख्या १६६७७२१६ ॥ अर्थातिकृतिः (२५)- क्रौञ्चपदा भ्मौ स्भौ नैनना न्गाविषुशरवसुमुनिविरतिरिह भवेत् ॥ १०९॥ इषवः पञ्च, शराः पञ्च, वसवोऽष्टी, मुनयः सप्त । एतेषु विरति- . यस्याः सा॥ अत्र संख्या ३३५५४४३२ ॥ अथोत्कृतिः (२६)- वस्वीशाश्वच्छेदोपेतं ममतनयुगनरसलगैर्भुजङ्गविज़म्भित- म् ॥ ११०॥ १.मत्ताक्रीड' इति पाठ.. २ 'न्लौ गिति' इति पाठ . ३ 'युतम्' इति पाठ . ४ 'अभि- कृति' इति पाठः. ५ 'नननन्गाः' इति पाठः.
• तृतीयोऽध्यायः । ५५ वसवः ८, ईशाः ११, अश्वाः ७ । एतैश्छेदेन यत्या युक्तम् ॥ मो नाः षट् सगगिति यदि नवरसरसशरयतियुतमपवाहा- ख्यम् ॥ ११ ॥ मो मगणः, षड् नाः नगणाः, सगणाः गो गुरुः पुनर्गुरुश्च नवभिः षभिः पुनः षड्भिः पञ्चभिश्च यत्या युतमपवाहाख्यकम् ।। अत्र वृत्तसंख्या ६७१०८८६४ ॥ इति श्रीनारायणभट्टविरचितायां वृत्तरत्नाकरटीकायामुक्तादिप्रकरणम् ।। इदानीं समवृत्तसङ्गेन समवृत्तरूपान्दण्डकानाह- यदिह नयुगलं ततः सप्तरेफास्तदा चण्डवृष्टिपातो भवे- दण्डकः ॥ ११२॥ यदीति यदेत्यर्थेऽव्ययम् । हेति प्रसिद्धार्थेऽव्ययं वा । नयुगलं न- गणद्वयं ततस्तदनन्तरं सप्त रगणाः स चण्डवृष्टिप्रपातो नाम दण्डकः। इदमेवोदाहरणं पादे । इयं च संशा रातमाण्डव्यव्यतिरिक्तपिङ्गला- दिमते । न ताभ्यां त्वेतस्य संज्ञान्तरमकारि ॥ प्रतिचरणविवृद्धरेफाः स्युरार्णवव्यालजीमूतलीलाकरोद्दा- मसंख्यादयः ॥ ११३ ॥ यद्यपि प्रतिचरणं विवृद्धो रेफो रगणो येषु ते तथेति व्युत्पत्त्या प्रथमे पादे नौ ततोऽष्टौ रेफाः, द्वितीये नव, तृतीये दश, चतुर्थे एकादशेति वृद्धिरित्यर्थः प्रतीयते, तथापि ग्रन्थान्तरविरोधात्प्रतिदण्डकं चरणेषु विवृद्धा रेफा यस्येति विग्रहेणोत्तरदण्डकेषु चरणचतुष्टयेऽप्येकैकरेफ इत्यर्थाश्रयणेन ग्रन्थान्तराविरोधकार्यः । ततश्च नाभ्यां रगणाष्टकेन च घटितपादोऽर्णाख्यो दण्डकः, रगणनवकेनार्णवः, दशभिर्व्यालः, एकादशभिर्जीमूतः, द्वादशभिर्लीलाकरः, त्रयोदशभिरुद्दामः, चतुर्द- शभिः शङ्खः । सर्वत्रादौ नगणद्वयं कार्यम् । आदिशब्दात्पञ्चदशादिरा- राम-सशाम-सुराम-वैकुण्ठ-सोत्कण्ठ-सार-कासार-विस्तार-संहार-नी- हार-मन्दार-केदार-साधार-सत्कार-संस्कार-माकन्द-गोविन्द-सानन्द- १ एतत्पूर्वम् 'यत्किंचिदृश्यते छन्द षड्डिशत्यक्षराधिकम् । शेषजात्यादिक मुक्त्वा न सर्व दण्डजातिमत् ॥' इत्यधिक क्वचित्. २ 'प्रयातो' इति पाठः, ३ 'शङ्खादय' इति पाठ. " वृत्तरत्नाकरम् । संदोह-नन्देत्येवमादिनामका एकैकरगणवृद्ध्या नद्वयोत्तरैकत्रिंशदधिक- शतत्रयरगणघटितैकोनसहस्राक्षरपादपर्यन्तं कविप्रयोगानुसारेण द- ण्डका ज्ञेयाः । यदाहुः- एकोनसहस्राक्षरपर्यन्ता दण्डकाङ्क्षयः प्रोक्ताः। वर्णत्रिकगणवृझ्या नद्वितयाद्या महामतिभिः ॥' इति । तथा च रग- णघटितदण्डकाः पञ्चविंशत्यधिकशतत्रय(३२५)संख्याका भवन्ति । एवं यगणादिघटितदण्डका अपि । तत्र रीतिप्रदर्शनायोदाहरणं ममैव यथा-'त्रिभुवनसुखहेतवे धातृमुख्यामरप्रार्थनासार्थनावर्षिचिन्ता- मणे, दशरथकृतयागसौभाग्यतस्तत्तनूजन्मतास्थापितश्रोतमार्गार्गल । मुनिवनगतताटकाकण्टकीमूलकुदालितस्वीयबाणावले राघव, कुशिक- यजनसिद्धये व्योम कृत्वा शरैश्चण्डवृष्टि प्रयासि प्रहन्तुं रिपून ॥' एवमर्णादिष्वप्युदाहार्यम् ॥ प्रचितकसमभिधो धीरधीभिः स्मृतो दण्डको नयादुत्तरैः सप्तभिर्यैः॥ ११४ ॥ नगणद्वयादुत्तरभाविभिः सप्तभिर्यगणै/रबुद्धिभिः कविभिः प्रचि- तकसंशको दण्डक उक्तः । प्रचितक इति समभिधा नाम यस्येति विग्रहः । अत्रापि पूर्ववदेकैकयगणवृद्ध्या दण्डकाः कार्याः । बैरि- त्युपलक्षणम् । अष्टभिरपि गणैः कविप्रयोगानुरोधाभोगावलीबिरु- दावल्यादिषु दण्डकानामिष्टत्वात् । यद्यपि 'शेषः प्रचितः' इति सूत्रं वृत्तिकृता रेफाष्टकादिरचितदण्डकपरं शेषशब्दमङ्गीकृत्य रगणघटिता- नामेव चण्डवृष्टिप्रपातोर्श्वभाविनां प्रचित इति समापनसंज्ञाभिधा- नार्थतया व्याख्यातम् । अत एव चाह सः-'प्रथमकथितदण्डकश्च- ण्डवृष्टिप्रपाताभिधानो मुनेः पिङ्गलाचार्यनामो मतः, प्रचित इति ततः परं दण्डकानामियं जातिरेकैकरेफाभिवृद्ध्या यथेष्टं भवेत् । स्वरुचि- रचितसंशया तद्विशेषैरशेषैः पुनः काममन्येऽपि कुर्वन्तु वागीश्वराः, भवति यदि समानसंख्याक्षरैर्यत्र पादन्यवस्था ततो दण्डकः पूज्यते- ऽसौ जनैः॥' इति । तथापि यगणादिदण्डकानामपि कविप्रयुकत्वाः दुक्तरगणरचितदण्डकन्यतिरिक्तयादृशकृतदण्डकानामेव शेषशब्दोहि- टानामपि तत्संक्षाज्ञापनार्थतां सूत्रस्याभिप्रेत्य व्याख्या । अत्र तत्कृत- व्याख्यामनुसरत एव ममादिकोदाहरणेऽप्यदोषः । सर्वेषु दण्डकेषु पादान्ते यतिः । भूमिसौकर्येण वाऽपि दण्डका अन्यैरुताः । जयुगलगुरुयुगेवंयकाराः कवीच्छानुरोधात्तदा यत्र वक्ष्यन्त एभो- ऽपरो दण्डकः पण्डितैरीरितः सिंहविक्रान्तनामा ॥
चतुर्थोऽध्यायः । यत्र रेफान्कविः स्वेच्छया पाठसौभाग्यसापेक्षयारोपयत्येष धीरैः स्मृतो दण्डको मत्तमातङ्गलीलाकरः ।। लघुर्गुरुक्रमेण यत्र बध्यते सुधीभिरिच्छया स दण्डकस्त्वनङ्गशे- खरः स्मृतः॥ स्वेच्छया रजौ क्रमेण संनिवेशयत्युदारधीः कविः स दण्डकः स्मृतो जगत्यशोकमञ्जरी ॥ सगणः सकलः खलु यत्र भवेत्तमिह प्रवदन्ति बुधाः कुसुमस्तब- कम्॥ यकारैः कवीच्छानुरोधान्निबद्धैः प्रसिद्धो विशुद्धोऽपरो दण्डकः सिंहविक्रान्तनामा ॥ एवं मेघमालाकुसुमस्तरणोत्तरकामबाणादयो दण्डकाः षड्विंश- त्यक्षराधिकाक्षरपदाः कविप्रयोगानुसारेण शेयाः । षड्विंशत्यक्षरन्यू- नतायां तु पूर्वोक्तासु जातिष्वेवान्तर्भावो यथायोगं भवति ॥ इति श्रीमद्भट्टरामेश्वरसूरिसूनुनारायणभट्टविरचितायां वृत्तरत्नाकरटीकायां समवृत्तान्यायस्तृतीयः ॥ एवं समवृत्तान्यभिधायाधुना अर्धसमान्याह- विषमे यदि सौ सलगा दले भौ युजि भाद्गुरुकावुपचित्रम्१ विषमे दले प्रथमे तृतीये च पादे सौ सगणद्वयं सलगाश्च सगण- लघुगुरवः, युजि समे द्वितीये चतुर्थे च पादे भौ भगणौ पुनर्भगण- स्ततो द्वौ गुरू तदोपचित्रं नाम । अर्धसमत्वाद्वितीयार्धमप्येवमेवोदा- हार्यम् । एवमन्येऽपि ॥ भत्रयमोजगतं गुरुणी चेद्युजि च नजौ ज्ययुतौ द्रुतमध्या २ ओजगतं विषमपादगतं भगणत्रयं च गुरुणी चेहे अक्षरे, युजि सम- पादे जयपरौ नगणजगणौ चेत्सा द्रुतमध्येति नाम । उपचित्रापातलि- कापरान्तिकेयम् । अत्रापरान्तिकासंनिवेशो भ्रान्तः ॥ सयुगात्सगुरू विषमे चेद्भाविह वेगवती युजि भागौ ॥३॥ विषमे पादे सत्रयं गुरुश्च, युजि समे पादे भगणत्रयं गुरू च, इह छन्दःशास्त्रे वेगवती नाम, आपांतलिकवेयम् ॥ १ 'विक्रीड' इति पाठः.
५८ वृत्तरत्नाकरम् । ओजे तपरौ जरौ गुरुश्चेन्म्सौ ज्गौग्भद्रविराड् भवेदनोजे ४ ओजे विषमे पादे तगणात्परौ जगणरगणौ गुरुश्च, अनोजे विषमे मसजगगुरवश्च भद्रविराड् भवेत् । औपच्छन्दमिकस्यैवेयं गणनिवे- शविशेषे संज्ञा॥ असमे सजौ सगुरुयुक्तौ केतुमती समे भरनगाद्गः ॥५॥ विषमे दले पादे सजसा गणा गुरुश्च, समे भरना गणा गुरू च केतुमती नाम । भरनगादिति समाहारैकवचनम् ॥ आख्यानकी तौ जगुरू गै ओजे जतावनोजे जगरू गुरुश्चेत्॥ तौ गणौ जगणगुरू गुरुश्चौजे विषमे पादे, अनोजे समे पादे जत- जगगुरवस्तदाख्यानकी नाम ॥ जती जगौ गो विषमे समे चेत्तौ ज्गौ गं एषा विपरीतपूर्वा॥ विषमे जतजगगुरवः, समे ततजगगुरवस्तदैषा आख्यानकी विप- रीतशब्दपूर्वा । विपरीताख्यानकीत्यर्थः । अनयोरुपजात्यन्तर्भावेऽपि विशेषसंज्ञाविधानार्थमर्धसमाध्याये पाठः ॥ सयुगात्सलघू विषमे गुरुर्युजि नभौ भैरकी हरिणप्लुता॥८॥ सगणद्वयात्सगणलघू गुरुश्च विषमपादे, युजि समे पादे नभभरा गणा हरिणप्लुता नाम ॥ अयुजि ननरला गुरुः समे जमपरवमिदं ततो जरौ॥९॥ विषमे ननरलगुरवः, समे नजजरा अपरवकं नाम । अस्य वैताली- यान्तर्गतत्वेऽपि संज्ञान्तरविधानार्थमत्रोक्तिः ॥ अथुजि नयुगरेफतो यकारो युजि चनजौ जरगाश्च पुष्पितामाँ॥ विषमे नयुगलरेफयकाराः, युजि समे नजजरगुरवस्तदा पुष्पिताना नाम । इयमप्यौपच्छन्दसिकान्तर्भूतैव विशेषसंज्ञार्थमिहोक्ता ॥ वदन्त्यवरवक्राख्यं वैतालीयं विपश्चितः। पुष्पिताग्राभिधं केचिदौपच्छन्दसिकं तथा ॥ ११ ॥ १ 'आख्यातिकी' इति पाठ'. २ 'गम्' इति पाठः. ३ 'स्यात्' इति पाठः. ४ 'गम् इति पाठ . ५'च भरौ' इति पाठ . ६ तदपरवमिद नजौ जरौं' इति पाठ.. ७ एत- दनन्तरम् . विषमे यदि सौ जगौ समे स्तरलागोऽपरवक्रमीरितम्' इति सूत्र क्वचित् पञ्चमोऽध्यायः । विपश्चितः पण्डिता अपरपक्राख्यं वैतालीयमेव वदन्ति । पुष्पिता- प्राभिधं छन्द औपच्छन्दसिकमेव केचिदाहुः । इदं स्वस्यापि संमतम् । भावस्तूक्त एव ॥ स्यादयुग्मके रजौ रयौ समे चेजरौ चरौ गुरुर्यवात्परामतीयम्। विषमपादे रजरयाः, समे जरजरगाः, यवाद्यशब्दात्परा मती । यवमतीत्यर्थः। , तथा- - सौं लगौ विषमे यदि, सजजा गुरुर्ललिता समे ॥ ओजपरौ भरौ जरौ गुरू समे जौं यौँ, कीर्तिता बुधैरियं तु षट्प- दाख्या॥ रोजरौ जसंयुतौ पदे पदेऽथ, युग्मे तरौ जरौ गुरुमंगी यवानी ॥ अयुजि ननभभाः समकेऽपि तु, नयुगरयुगलं तदा कौमुदी ॥ यदि विषमे भवतो नजौ जरौ, सजया समे जगुरू मञ्जुसौरभम् ॥ तथाष्टाविंशतिर्लघव एको गुरुरिति विषमः पादः, त्रिंशल्लघव एको गुरुश्चेति समः साशिखान्ता । इयमेव विपर्यस्तपादा खञ्जा नाम । एते द्वे अपि द्विखण्डकप्रकरणोक्तशिखाखायोश्छन्दसोः षष्टवक्षरता- मङ्गीकृत्य यथाश्रुतव्याख्याने तदतिरिक्ते अत्र शेये । यदा त्वस्मदुक्तप्र- कारेण तत्र सकलशब्दं पादपरमाश्रित्य व्याख्यायते तत्रैवैतयोरुक्त- त्वान्नात्र वक्तव्यता भवति । इति श्रीमद्भट्टरामेश्वरसूरिसूनुनारायणभट्टविरचितायां वृत्तरत्नाकरव्याख्याया- मर्धसमान्यायश्चतुर्थ. ॥ , अर्धसमान्यत्राभिधायोद्देशक्रममनुसृत्य विषमवृत्तानि लक्षयति- मुखपादोऽष्टभिर्वर्णैः, परे स्युर्मकरालयैः कमावृद्धैः। सततं यस्य विचित्रः पादैः संपन्नसौन्दर्यम् । तेदुदितममलमतिभिः पदचतुरूर्वाभिधं वृत्तम् ॥१॥ १"रजौ समे तु जरौ जरौं' इति पाठः. २ एतदनन्तरम् 'विषमे ससजा गुरू अनोजे सभरायश्च तु मालभारिणीयम्', 'विषमे ससजा गुरू अनोजे स्मरयाश्छन्दसिक तदोपपूर्वम्' इति सूत्रे क्वचित, ३ 'अस्मात्' इति पाठ.. ४ 'वृद्धया' इति पाठ . ५ 'तदभिहितम- मलधीभि' इति पाठ'.
१० वृत्तरत्नाकरम्। . - यस्य वृत्तस्य मुखपादोऽप्रपादो वर्णाष्टकेन, परे द्वितीयायाः पादा मकरालयैः समुद्रैश्चतुर्भिरक्षरैः क्रमाः सततं नैरन्तर्येण स्युस्तकृत्तं निर्मलबुद्धिभिः पिङ्गलादिभिः पदचतुरूर्वाभिधमुदितमुक्तम् । कि- विशिष्टम् । विचित्रैविलक्षणैः पादैर्जातं सौन्दर्य यस्य तादृशम् । अत्र वर्णैरिति संपन्नसौन्दर्यमिति च वदता गुरुलघुनिवेशनियमो नास्ति । किंतु श्रोतृश्रोत्रसौभाग्याथै वर्णवैचित्र्यं विधेयमिति सूचितम् । प्रथ- मपादोऽष्टाक्षरः, द्वितीयो द्वादशाक्षरः, तृतीयः षोडशाक्षरः, चतुर्थों विंशत्यक्षरः कार्य इति फलितोऽर्थः । अत्र चैकद्वित्रिचतुष्कानां पर- स्परताडनया पादानां परस्परसंकरे शङ्खचक्रगदापमानां परस्परसंक- रे केशरचनाया इव चतुर्विशतिर्भदा भवन्ति । तत्प्रस्तारतो यथा- ८.१२.१६.२०, ८.१६.१२.२०, ८.२०.१६.१२, ८.१२.२०.१६, ८.१६. २०.१२, ८.२०.१२.१६, १२.८.१६.२०, १२.१६.८.२०, १२.२०.१६.८, १२.८.२०.१६, १२.१६.२०.८, १२.२०.८.१६, १६.१२.८.२०, १६. ८.१२.२०, १६.२०.८.१२, १६.१२.२०.८, १६.८.२०.१२, १६.२०.१२. ८, २०.१२.१६.८, २०.८.१६.१२, २०.१२.८.१६, २०.१६.८.१२, २०. १६.१२.८, २०.८.१२.१६. ॥ अत्रैकैकपतिस्थितकोष्टकचतुष्टयस्थिताङ्कसमानाक्षरक्रमिकपादैरेकै- को भेदो शेयः। तत्र प्रथमभेदे मूलस्थितमुदाहरणम् । द्वितीये तु म मैव यथा-'लोभ लम्भय विलयं (८) लाभालाभावुभौ भावय समाना भव धीरः (१६) । यत्नाद्गुरुजनगौरवमाचर (१२) यदि तवास्मिन्नमु- मिश्च लोके यशोविशालमाशास्यं स्यात् (२०)॥ इदमेवोदाहरणं पा- दव्यत्ययेनेतरेषु द्वाविंशतिभेदेषु योज्यम् ॥ एतस्यैव प्रतिपादान्ते गुरुद्वयनियमे संज्ञान्तरमाहुः- प्रथममुदितवृत्ते विरचितविषमचरणभाजि । गुरुकयुगलनिधन इह संहित आङा लघुविरचितपदविवृ- तियतिरिति भवति पीडः ॥२॥ विरचितान्विषमान्विषमसंख्याकाक्षरांश्चरणान्भजति, एवंभूते प्रथ- मोक्ते पदचतुरूर्वाभिधे वृत्ते इति सर्वोऽनुवादः, गुरुयुग्मं निधने यस्य तादृशे सति । स्वार्थे कः, इतीत्थं प्रकार आङा उपसर्गेण सहितः १ 'युगलक' इति पाठ २ 'कलित आविधृतरुचिरपद' इति पाठः. इति पाठः.
पञ्चमोऽध्यायः । पीडः आपीडो भवतीत्यर्थः । कीदृक् । लघुकृतपदरचनया यतिर्यस्मिन् , अन्ते गुरुद्वयस्य नियतत्वादितरभागे लघुविरचितत्वं श्रुतिसुखकरी च लघुपादयतिः कार्येति सूचनाय यतिग्रहणम् । विशिष्टानुवादश्चाष्टा- द्यक्षरेष्वेक पादेष्वन्ते गुरुद्वयं कार्यम्, न तु ततोऽतिरिक्तमिति सूच- नार्थः । आपीड इति संशामाश्छन्दस्य प्रवेशादाङा सहित इत्युक्ति- रीतिः । पूर्वोक्तरीत्यापीडेऽपि चतुर्विंशतिप्रकारो भेदः। प्रथमभेदोदा- हरणमिदम् । आपीड एव सप्तमाष्टमैकादशान्भेदान्व्युत्पादनाय व्यु- त्पादयति । प्रथमे विभिः॥ प्रथममितरचरणसमुत्थं, श्रयति से यदि लक्ष्म । इतरदितरगदितमपि यदि चतुर्य चरणयुगलकमविकृतमप- रमिति कलिका सा ॥३॥ तुर्यशब्देन श्लोकचतुर्थाशः पाद उच्यते । ततश्च प्रथमं तुर्य प्रथम- श्वरण इतरचरणसमुत्थं स्थानपितरद्वितीयचरणगतं लक्ष्म लक्षणं श्रयति, इतरदपि द्वितीयमपीतरगदितं प्रथमगदितं श्रयति च यद्यपरं चरणद्वयकं तृतीयचतुर्थरूपमविकृतं यथा स्थितमित्येवंविधा स आपीड एव सा प्रसिद्धा कलिका । यद्वा स आपीडः प्रथमं प्रथम- स्थाने प्रथमपादे द्वितीयपादलक्षणं श्रयति सा कलिका द्वादशाक्षरा- ष्टाक्षरषोडशाक्षरविंशत्यक्षरपादैःक्रमेण घटितेति फलितार्थः। पैङ्गले त्वेतस्या मञ्जरी नाम ॥ द्विगुरुयुतसकलचरणान्ता मुखचरणगैतमनुभवति च तृतीयम्। चरणमिह हि लक्ष्म प्रकृतमखिलमपि यदिदमनुभवति ल. वली सा॥४॥ तृतीयश्चरणो मुखचरणगतं प्रथमचरणस्थं लक्षणमनुभवत्यषल- म्बते । अपरं पादत्रयं प्रकृतमखिलं लक्ष्म आपीडलक्षणं च यदि तदा लवली नाम। क्रमेण द्वादशाक्षरषोडशाक्षराष्टाक्षरविंशत्यक्षरपादाव- लीत्यर्थः । गुरुद्वययुक्तचतुष्टयान्तेति वृत्तपूरणार्थ सामान्यलक्षणमेवा- नूदितम् ॥ १'अपर' इति पाठः. २ 'जगति'• इति माठः. ३ 'जनितमपि भवति शेषम्' इति पाठः. ४ 'रचितमनुभवति तृतीयः' इति पाठ.. ५ 'अपर', 'चरण' इति पाठौ. ६ 'अपरमखिलमपि यदि भवति' इति पाठः.
, ६२ वृत्तरत्नाकरम् । प्रथममधिवसति यदि तुर्य चरमचरणपदमवसितगुरुयुग्मम् । अखिलमपरमुपरिगतमिति ललितपदयुक्ता तदियममृतधारा॥५॥ प्रथमतुर्य प्रथमश्चरणश्चरमचरणपदं चतुर्थचरणस्था प्रामोति । चतुर्थो भवतीत्यर्थः । अपरनिखिलं प्रथमचरणनयमापीडप्रथमपा- दोपरिगतद्वितीयादिपादसमं तदिदं छन्दोऽमृतधारा नाम । अवसितौ गुरुवययुक्तमिति इदमित्यस्य विशेषणं तुर्यवत्स्वरूपकीर्तनार्थम् । ल- लितपदयुक्तेति वृत्तपूरणाय स्वरूपोक्तिः । द्वादशषोडशविंशत्यष्टा- क्षरपादक्रमेण भवतीति संकलितार्थः। यद्यपि वृत्तिकारेण प्रथमस्य तृतीयत्वे तृतीयस्य प्रथमत्वे लवली, प्रथमस्य चतुर्थत्वे चतुर्थस्य च प्र. थमत्वेऽमृतधारेति षोडशद्वादशाष्टविंशत्यक्षरपादक्रमेण विंशतिद्वाद- शषोडशाष्टाक्षरपादक्रमेण च त्रयोदशैकोनविंशतिभेदयोरेते संझे इति मर्यभावेऽपि तयोर्विशेष उक्तः, उदाहरणेच तथैव कृते, तथापि प्रथ- मस्य विपर्यासे मञ्जरीलवल्यमृतधारा इति सूत्रस्य साधारणत्वात्प्रथ- मपादमात्रविपर्यासोक्तेरितरेषां क्रमोऽभ्यनुज्ञया वा सूत्रस्य मूलका- रोक्त एवार्थस्तात्पर्यादेवमुक्तम् । आपीडवत्पदचतुरूर्वेऽपि पादवल्या से मजाद्या भेदा शेयाः । तथा आदावेव सकलपादेषु गुरुद्वययुतं चतुरूज़ प्रत्यापीडः । यथा वृत्तौ--'चित्तं मम रमयति, कान्तं वन मिदमुपगिरिनदि । कूजन्मधूकरकलरवकृतजनधृति, पुंस्कोकिलमुख रितसुरभिकुसुमचिततरुतति ॥' आदावन्ते च गुरुद्वयसहितं तदेवो भयापीडः। पैङ्गले त्वयमपि प्रत्यापीड एव । यथा तत्रैव-'कान्ताव दनसरोजं, हृधं घनसुरभिमधुरसाळ्यम् । पातुं रहसि सततम भिलषति मनो मे, किंचिन्मुकुलितनयनमविरतमणितरमणीयम् ॥ अनयोः पूर्वोक्तविधया चतुर्विशतित्वमूह्यम् । उदाहरणानि विस्तरभ यानोदाहृतानि स्वयमूह्यानि ॥ इति श्रीनारायणभट्टविरचितायां वृत्तरत्नाकरटीकायां पादचतुरूर्वप्रकरणम् ॥ विषमवृत्तान्तराण्याह- सजमादिमे सलघुको च, नसजगुरुकैरथोद्गता। यभिगतभनजला गयुताः सजसा जगौ चरणमेकतः पठेत् ॥६ १ "निखिलमपरमुपरितनसममिह ललितपादात्रितयममृतधारा' इति पाठ'. २ 'गु केषु' इति पाठः, ३ 'अद्रि' इति पाठः. .
पञ्चमोऽध्यायः । पाद इति शेषः । आदिमे पादे सजसलघवः, अथानन्तरम् । द्विती- यपांदे इत्यर्थः । नसजगुरुषु सत्सु तृतीयेऽङ्ग्रौ भनजलघवस्ते गाता गुरुयुक्ताः । कार्या इत्यर्थः। परिशेषे चतुर्थे सजसा गणा जगुरू च चर- णमेकवचरनिर्देशाप्रथममेकं चरणमेकत एकीकृत्य द्वितीयेनेत्यर्थात्प- ठेत् । प्रथमद्वितीयौ पादौ विलम्बेन पठेत् । अत्यन्तयतिं न कुर्यादित्यर्थः । सजमिति द्वन्द्वैकवद्भावः । स्वार्थे कः । त्रयाणां पूरणेऽध्रौ गता येभ- नजला गयुक्ताः कार्या इति । मध्यमपूरणपदलोपिसमाश्रयणेन उद्दे- शविधानाद्वा सर्वविधानाच सीयप्रत्ययोत्पत्तिरसामर्थ्य च न भवत इति शेयम् । एकत इति एकशब्दो भावप्रधानस्तृतीयार्थे च तसिः । तथा चैक्येनेत्यर्थः। ल्यब्लोपे पञ्चमी । प्रथम द्वितीयेनैकं विधाय पठे- दित्यर्थः॥ चरणत्रयं ब्रेजति लक्ष्म, यदि सकलमुद्गतागतम् । नौं भगौ भवति सौरभकं, चरणे यदीह भवतस्तृतीयके ॥७॥ स्वार्थे कः । तृतीये चरणे नौ रगणनगणौ भगुरू च भवतः । चरण- त्रयपरिशेषात्प्रथमद्वितीयचतुर्थरूपं उद्गतास्थितं समग्रलक्षणं भजति, तदेह शास्त्रे सौरभकं भवतीति व्यवसितिश्च । तदाध्याहाराभ्यामर्थः ॥ नयुगं सकारयुगलं च, भवति चरणे तृतीयके । तदुदितमुरुमतिभिर्ललितं, यदि शेषमस्य खलु पूर्वतुल्यकम् ॥८॥ तृतीयपादे ननससाः, शेषं तृतीयान्यश्चरणत्रयं पूर्वोक्तोद्गतावत्तदा वहुदर्शिभिललितं नामोक्तम् । मतेर्विषयबाहुल्येनोरुता न तु स्वतः । अन्यथा स्थूलबुद्धित्वोक्त्या निन्दैव स्यात् । स्वार्थे कः । तथोद्गतायाः प्रथमतृतीयपादव्यत्यये मन्थरा नाम । उदाहरणमूह्यमेव ॥ इति वृत्तरत्नाकरटीकायामुद्गताप्रकरणम् ॥ म्सौ ज्भौ गौ प्रथमाध्रिरेकतः पृथगन्यत्रितयं सनजरगा- स्ततो, ननौ सः। त्रिनपरिकलितजयौ, प्रचुपितमिदमुदितमुपस्थितपूर्वम् ॥९॥ मंसजभगगुरवः प्रथमपादः । स चैकः पृथक्पठनीयः, न तूद्गताव- १ 'भजति' इति पाठः. २ 'भजति चरण तृतीयकम्' इति पाठ.. ३ तथा' इति पाठः. . .
वृत्तरत्नाकरम् । द्वितीयेनैकीकृत्येत्यर्थः । प्रथमाथै तसिः । अन्यश्चरणत्रयं कथ्यत इति शेषः। सनजरगुरुभिर्द्वितीयः पादस्तदनन्तरं तृतीयपादे ननौ सग- ण विभिनगणैः परिकलितौ सहितौ जयौ गणौ चतुर्थे पादे इदं छन्द उपस्थितपदपूर्व प्रचुपितम् । उपस्थितप्रचुफ्तिमित्यर्थः । अन्यस्तु प्रथमोऽझिरेकः केवलः पठनीयः । अन्यत्तु चरणत्रयं पृथकथनाद्भिन्न त्येनैकीकृत्य पठनीयम्। न तु तत्प्रतिचरणान्तं विरामः कार्यः, ततः श्लो कार्धेतु विशेषत इत्यस्यापवादोऽयमिति व्याचल्यो। नौ पादेऽथ तृतीयके सनौ नसयुक्ती, प्रथमाङ्गिकृतयतिस्तु वर्धमानम् । त्रितयमपरमपि पूर्वसदृशमिह भवति प्रततमतिभिरिति गदितं लघु वृत्तम् ॥ १० ॥ तृतीयपादे नौ नगणौ, अथ सनौ सगणनगणौ ननगणाभ्यां युक्तं एवं षड् गणा भवन्ति । अपरं पादत्रयं प्रथमद्वितीयचतुर्थरूपमुपसि तप्रचुपिततुल्यमेव भवति । इत्यमुना प्रकारेण प्रसिद्धधीभिर्लघु सुन्द वर्धमानं नाम वृत्तमुदितमुक्तम्। प्रथमाडौ कृतया यत्या प्रस्तूयते प्रश् स्यते प्रशस्ततया पठ्यते तत्तादृगिति वर्धमानविशेषणम् । तुगभार स्त्वागमजमनित्यमिति स्मरणात् । तु इति भिन्नपदे तु यतिरित्या पुंलिङ्गं स्त्रीलिङ्गं वानन्वितं स्यात् । यतीह' इति तु पाठो निर्दोषः। अ च पूर्वोक्तानुवाद एवेति व्याख्यानं तद्वदेव क्षेयम् ॥ अस्मिन्नेव तृतीयके येदा तजराः स्युः, प्रथमे च विरतिरार्षभं ब्रुवन्ति । तच्छुद्धविराट् पुरः स्थितं, त्रितयमपरमपि यदि पूर्वसमं स्यात् ॥११॥ अस्मिन्वर्धमाने एव उपस्थितप्रचुपिते एव तृतीयपादे यदि त रगणालयः स्युरपरं च चरणत्रयमुपस्थितप्रचुपितवत्स्यात्, तर विराट्पदं पुरः स्थितं पूर्ववर्तमानं यस्य तादृशमार्षभं शुद्धविरा र्षभं नाम ब्रुवन्ति वृद्धाः । संज्ञाया वृत्तेऽप्रवेशादुक्ते रीतिरियं प्र पादे यतिरिति पूर्ववदेवार्थः । पैङ्गले तु शुद्धविराड्डषभमिति संघ १'न सयुक्तौ च' इति पाठ;. २ 'यतिप्रवर्धमानम्' इति पाठः, ३ 'इह' पाठः ४ 'खलु' इति पाठः. ५ 'पादके' इति पाठः. ६ 'त्रितयमापि' इति पाठः.
पञ्चमोऽध्यायः। . - केचित्तु प्रथमे पादे यतावार्षभम् , यदा तु प्रतिपादं यतिस्तदा शुद्ध- विराडादिकं तदेवेति यतिभेदाच्छन्दोवयमेव पृथग्वदन्ति । इत्युपस्थितप्रचुपितप्रकरणम् ॥ अत्र ग्रन्थेऽनुक्तानि च्छन्दांसि सामान्यसंक्षया गृह्णाति- विषमाक्षरपादं वा पादैरसमं दशधर्मवत् । यच्छन्दो नोक्तमत्र गाथेति तत्सूरिभिःप्रोक्तम् ॥ १२ ॥ विषमान्यक्षराणि येषु तादृशाः पादा यस्य तत्, तथाक्षराणां वैषम्यं पादेषु गुरुलघुक्रमनियमसाम्याभावात्संख्यासाम्याभावाच वा, अथवा पादैरसमं स्वीयैः पादैः कृत्वा चतुःसंख्याकपादैरन्यवृत्तैरतुल्यं त्रिप- वषडादिपादमिति यावत् । न तु समसंख्याकपादरहितमित्यर्थः । षट्- पदाद्यसंग्रहापत्तेः । अत एव-शेष गाथास्त्रिभिः षड्भिश्चरणैश्चोपल- क्षिताः' इति प्रागुक्तं विषमाक्षरपादत्वं चतुरूर्वादीनामप्यस्तीति तेषां गाथात्वं निवारयितुमाह-यदिति । अत्र यच्छन्दो विशेषेण नोक्तं तदि- त्यर्थः । इदंचावृत्त्या स्वातन्त्र्येणापि योज्यम् । तेन समाक्षरपादानां सम- पादानां च कुखमलदन्त्यादीनामपि गाथात्वं सिध्यति। अत एव 'अत्रा- नुक्तं गाथा' इति संदिग्धाकारेण सूत्रितं पिङ्गलेन । विषमाक्षरपादस्य गाथात्वेऽष्टादशसप्तनवाक्षरमूलकारिकैवोदाहरणं पादैरसममेव । उदा- हरणमाह-दशधर्मवदिति । दशधर्मशब्दयोगाल्लक्षणया भारतस्था षट्पदा गाथा दशधर्मशब्देनोच्यते ।सा यथा-'दश धर्म न जान- न्ति धृतराष्ट्र निबोध तान् । मत्तः प्रमत्त उन्मत्तः श्रान्तः कुछो बु- भुक्षितः ॥ त्वरमाणश्च भीरुश्च लुप्तः कामी च ते दश ॥' इति । असमपादानां दशाष्टादशादिपादानां नाटकादिस्थनान्यादीनामप्य- नेन गाथात्वमुक्तं भवति । यथोक्तम्-'शब्दतो वार्थतो वापि मनाका- व्यार्थसूचना । यत्राष्टभिर्वा दशभिरष्टादशभिरेव वा । षड्विंशत्या पदै- वापिसानान्दी परिकीर्तिता॥' इति ।यच्छन्दो नोक्तमित्यस्य स्वातन्त्र्येण व्याख्या। तेनोत्तमानामपि गाथात्वं भवति ।तन कियतीनां वृत्त्यादिपर्या- लोचनयोदाहरणानि सलक्षणानि कथ्यन्ते।तत्र त्रिष्टुमि-भतनगगुरुभिः कुडालदन्ती नाम । यथा-' कुलदन्ती विकटनितम्बा किंनरकण्ठी लघुतरमध्या। बिम्बफलोष्ठी लघुतरनेत्रा मित्र भवन्तं सुखयतुकान्ता।' अत्र पञ्चभिः षड्भिश्च यतिः ॥ जगत्याम्-नजजरैर्वरतनुः । यथा- 'अयि विजहीहि दृढोपगृहनं त्यज नवसंगमभीरु वल्लभम् । अरुणकरो- द्वम एष वर्तते वरतनु संभवदन्ति कुछुटाः॥ षड्भिः षड्मिश्च यतिः॥
६६ वृत्तरत्नाकरम्। मभसमैर्जलधरमाला । यथा-'धत्ते शोभा कुवलयदामश्यामे शैलो- त्सङ्गे जलधरमाला लीना । विद्युल्लेखा कनककृतालंकारा क्रीडासुप्तायु- वतिरिवाङ्के पत्युः॥ चतुर्भिरष्टाभिश्च यतिः॥ नौरौ गौरी । यथा-'प्र- णमत चरणारविन्दद्वयं त्रिभुवननमितस्य गौरीपते। सकृदपि मनसैव यः सेवितः प्रवितरति यथेष्टमष्टौ गुणान् ॥ एतस्या एव गौर्या दण्ड- कात्प्रागेकैकरेफवृद्धौ नामान्तराणि भवन्ति ॥ भतनसा ललना । यथा---'या कुचगुर्वी मृगशिशुनयना पीननितम्बा मदकरिगमना। किंनरकण्ठी सुललितदशना सा तव सौख्यं वितरतु ललना ॥' पञ्च- भिः सप्तभिश्च यतिः ॥ अतिजगत्याम्-सजसजगैः कनकप्रभा । यथा-'कनकप्रभा पृथुनितम्बशालिनी विपुलस्तनी हरिणशावकेक्षणा। इयमङ्गना नयनयोः पथि स्थिता कुरुते न कस्य मदनानुरं मनः॥ ननत- तगुरुभिः कुटिलगतिः । यथा-'अधरकिसलये कान्तदन्तक्षते हरिण- शिशुदृशां नृत्यति भ्रूयुगम् । ध्रुवमिदमुचितं यद्विपत्तौ सतामतिकुटि- लगतैः स्यान्महानुत्सवः ॥' सप्तभिः षभिश्च यतिः॥ शक्कर्याम्-भज- सनैर्गुरुभ्यां च वरसुन्दरी । यथा-'स्वादुशिशिरोज्ज्वलजलैः सुपरि- पूर्ण वीचिचयचञ्चलविचित्रशतपत्रम् । हंसकलकूजितमनोहरतटान्तं पश्य वरसुन्दरि सरोवरमुदारम् ॥' मभनयगगैः कुटिलम् । यथा- 'अध्वन्यानां जनयति सुखमुश्वैः कूजन्दात्यूहोऽयं पथि निचुलिनि तो. योपान्ते । कर्णाटस्त्रीरतिकुहरिततुल्यच्छेदैर्नादैः कण्ठस्खलनकुटिल- मन्दावर्तेः ॥ वेदै रसैः समुद्रैश्च यतिः ॥ अष्टौ-भरनभभगैः शैलशि- खा । यथा-'शैलशिखा निकुञ्जशयितस्य हरेः श्रवणे जीर्णतृणं करेण निदधाति कपिश्चपलः । क्षुद्रवधापवादपरिहारविनीतरुषस्तस्य न तावतैव लघुता द्विपयूथभिदः॥' भरयननगैर्वरयुवती । 'कुञ्जरकुम्भपी- ठपीनोन्नतकुचयुगला पार्वणशर्वरीशगर्वापहमुखकमला । पीननितम्ब- बिम्बसंवाहनशिथिलगतिर्मुञ्ज नराधिराज भूयात्तव वरयुवतिः ॥' अ- त्यष्टौ-ससजभजगगैरतिशायिनी । यथा माघे–'इति धौतपुरंभ्रिम- त्सरान्सरसि मजनेन श्रियमाप्तवतोऽतिशायिनीमपमलाङ्गभासः । अवलोक्य तदैव यादवानपरवारिराशेः शिशिरेतररोचिषाप्यपां त- तिषु मखुमीशे॥' दशभिः सप्तभिश्च यतिः ॥ नजभजजलगैरवितथम् । यथा-'श्रुतिपरिपूर्णवक्रमतिसुन्दरवाग्विभवं प्रमथितजैमिनीयमत- सागरपारगतम् । अवितथवृत्तविप्रजनपूजितपादयुगं पितरमहं नमामि बहुरूपमुदारमतिम् ॥ एतदेवाष्टपश्चचतुर्भिर्यतौ कोकिलकं नाम । यथा---'नवसहकारपुष्पमधुनिष्कलकण्ठतया मधुरतरस्वरेण परि- पञ्चमोऽध्यायः । कूजति कोकिलकः । प्रथमककारविद्धवचनैर्धनलुब्धमते तव गमनस्य भङ्गमिव.संप्रति कर्तुमनाः ॥ धृतौ-रसजजभरैर्विबुधप्रिया । यथा- 'कुन्दकोमलकुमलद्युतिदन्तपङ्किविराजिता हंसगद्गदवादिनी वनिता भवेद्विबुधनिया । पीनतुङ्गपयोधरद्वयभारमन्थरगामिनी नेत्रकान्तिवि- निर्जितश्रवणावतंसितकैरवा ॥' अष्टभिर्दशभिश्च यतिः ॥ अतिधृतौ यमनसररगुरुभिर्विस्मिता । यथा माघे-श्रिया जुष्टं दिव्यैः सपटहर- वैरन्वितं पुष्पवर्वपुष्टश्चैद्यस्य क्षणमृषिगणैः स्तूयमानं निरीक्ष्य । प्रकाशेनाकाशे दिनकरकरान्विक्षिपद्विस्मिता:नरेन्द्ररौपेन्द्रं वपुरथ विशद्धाम वीक्षांबभूवे ॥' षड्भिः षभिः सप्तभिश्च यतिः । प्रक- तौनजभजजजरैधृतश्रीः । यथा माघे -'तुरगशताकुलस्य परितः परमेकतुरङ्गजन्मनः प्रमथितभूभृतः प्रतिपथं मथितस्य भृशं मही- भृता । परिचलतो बलानुजबलस्य पुरः सततं धृतश्रियश्चिरविगत- श्रियो जलानिधेश्च तदाभवदन्तरं महत् ॥' त्रिःसप्तसु यतिः । एव- मादीनि वृत्तप्रस्तारमहाकविप्रयोगेषु दृश्यमानानि गाथाख्यानि ॥ यदा तु यच्छन्दो नोक्तमत्रेति विषमाक्षरपादमित्यस्य विशेषणं तदा समच्छन्दसां गाथात्वाभावादेतानि त्रिष्टुवादिष्वेव द्रष्टव्यानि । एवमन्यान्यपि छन्दांसि कविप्रयोगानुरोधाज्यानि, समाधसमवि. पमप्रस्तारेषु तेषामुपलम्भात् । विशेषसंज्ञाभावात्तु नोदाहृतानि । ए. तजातिवृत्तात्मना द्विविधमपि च्छन्दो न केवलं संस्कृतविषये किंतु प्राकृतदेशभाषास्वपि कवीच्छया भवति । तत्रार्यैव प्राकृतादिषु गा- थेति संज्ञा । यथा ममैव-'सअलसिणेहुमिअङ्को तुइ गुणरअणाअरे उदिदो । मीलुप्पलप्पवोहे सिठिलो मा भोदु पच्छणा एसा॥ [सकल- स्नेहमृगाङ्कस्त्वयि गुणरमणाम्बरे उदितः । मिलितापरप्रबोधे शि- थिला मा भवतु प्रार्थनैषा ॥ वैतालीये च शकुन्तलायां यथा- 'सहजे किल जे विणिन्दिए गहु दे कम्म विवजणीअके । पैसुमालण- कम्मदालुणे अणुकम्पाभिदुले असोत्तिए ॥ [सहजं किल यद्विनिन्दितं न खलु तत्कर्म विवर्जनीयम् । पशुमारणकर्मदारुणे अनुकम्पाभिदुरे च श्रोत्रिये ॥]' एवं समादिष्वपि कर्पूरमार्यामुदाहरणानि शे- यानि । भाषायामपि । तत्र महाराष्ट्रभाषायामुपजातौ यथा---'अगा मुरारी भवदुःख भारी कामादिवैरी मन हे थरारी । मी मूढ देवा न करींच सेवा माझा कुठावा परि तां करावा ॥' गुर्जरभाषया स्रग्वि- णी यथा-'वित्तते संचवू युक्ततें भोगबूं अग्नितें होमवू विप्रतें आपबूं। पापते खंड कामतें दंडवू पुण्यते संचबूरामते सेववू ॥' कान्यकुन्नभा- षायां वसन्ततिलका यथा-'कन्दर्परूपजवने तुलली न कृष्णसेकोप- वृत्तरताकरम् । काम हमही बहुपीर छोडी । तो भेटिके विरहपीरन साउ मारी मैं भांति दूति पई कठिलातगोपी॥' म्लेच्छसंस्कृतयोः संकरे मालिन्या तथा कस्यचित्-'हरनयनसमुत्थज्वालवहि जलाया रतिनयनजलौघैः खाक बाकी बहाया। तदपि दहति चेतो मामकं क्या करोगी मदन- शिरसि भूयः क्या बला आगि लागी॥' एवं गौडादिभाषासु तत्तत्सं- करे चोदाहरणानि यानि । अथ शेषं गाथा इति सामान्यत उपक्षि- तानि विस्तरभीतेर्विशेषतो नोक्तानि प्राकृतादिषु प्रायः परिदृष्टानि छ- न्दांसि प्राकृतपिङ्गलशंभुच्छन्दश्चूडामण्यादिग्रन्थपर्यालोचनया व्यु- त्पित्सुव्युत्पत्यर्थमस्माभिरुच्यन्ते । तत्र मात्राच्छन्दःसूपयुक्ता गणभे- दाः । तत्र द्विकलौ द्वौ यथा s,॥ चित्रकलास्त्रयः-51,15, च- तुःकलाः पश्चार्यादिषु संस्थिता इत्यत्र पञ्च मूल एव पूर्वमुक्ताः। पञ्चकला अष्टौ--5si, sis, Iss, SI, 15, usi, ms, ।।।।। षट्कला- अयोदश यथा-5ss, ss, sis, sus, Isis, Iss, Iss, s।।1, ISII, SI, msi,ims, ।।।।।। एतेषां व्यवहारार्थ सं- शास्तास्तास्तैः कृतास्ता अत्यन्तोपयोगाभावाहिककलादिशब्दैरेव व्यव- हारसिद्धेप्रन्थविस्तरभयानोच्यन्ते। गौरवात्षद्कलस्य हरि-शशि-सू- र्य-शक-शेष-अहि-कमल-ब्रह्म-कलि-चन्द्र-ध्रुव-धर्म-शाल-करसंशाः ॥ अथ गाथाप्रकरणम् । तत्र चतुःपश्चाशद्भिर्मात्राभिर्गाथः, सप्तपञ्चा- शद्भिर्गाथा, विपरीतार्धघटिताभिस्ताभिरेव विगाथः, षष्टिमात्र उ. हाथा, द्विषष्टिमात्रा गाहिनी, सैव विपरीतार्था सिंहिनी द्विषष्टिमात्रा, चतुःषष्टिमात्राभिः स्कन्दकमिति सप्त भेदाः । तत्र यदार्धद्वयेऽपि सप्त सार्धाश्चतुर्मात्रिका गणाः षष्ठगणास्त्वेककलचतुर्थरूपस्तदा गाहः । अत्र उदाहरणम्-'चन्दो चन्दणहारो तावअरूअं पआसन्ति । चण्डे. सरस्स कीती जावअ अप्पं न दंसेइ ॥ [चन्द्रश्चन्दनहारस्तावद्रूपं प्रकाशयतः। चण्डेश्वरस्य कीर्तिर्यावदात्मानं न दर्शयति ॥] सं. स्कृते त्वियमुपगीतिः । आर्येव प्राकृते गाथा उदाहरणं ममैव प्रा. गुक्तम् । तदुक्तम्-'पढमं बारह मत्ता वीरा अठराहइ संजुत्ता । जह पढमं तह तीअं दहपश्चविहूसिआ गाहा ॥ [प्रथमं द्वादश मात्रा विरा- मोऽष्टादशभिः संयुक्ता । यथा प्रथमं तथा तृतीयं दशपञ्चविभूषिता गाथा॥]' इति । तत्र यदि सप्तविंशतिर्मुरवस्त्रयश्च लघव इत्येवं त्रिंश- दक्षरा तदा लक्ष्मीनाम्नी । षडिशतिर्मुरवः पञ्च लघवस्तदा ऋद्धिः । एवमेकगुरुपञ्चाशलघुपर्यन्तमेकैकगुरुहासे लघुद्वयद्वयवृद्धौ च त्रिंश- दक्षरकं भेदमारभ्य षट्पञ्चाशदक्षरभेदपर्यन्तं सप्तविंशतिर्भेदाः । पञ्चमोऽध्यायः । . ६९ २ क्रमेण तन्नामानि-लक्ष्मी-ऋद्धि-बुद्धि-लजा-विद्या-क्षमा-गौरी-देही- रात्रि-पूर्णा-च्छाया-कान्ति-महामाया-कीर्ति-सिद्धा-मानी-रामा-गाहिनी- विश्वा-वासिता-शोभा-हरिणी-चक्री-सारसी-कुररी-सिंही-हंसी (२७) इति । त्रयोदशलघुपर्यन्तं विप्रा, तत एकविंशतिलघ्वधि क्षत्रिया, ततः सप्तविंशत्यवधि लघुभिर्वैश्या, ततः सर्वा शूद्रोति गाथाजातिः । गा- थान्तर्गतेनैकेन जगणेन कुलीना गाथा भवति, द्वाभ्यां कुलटा, बहु- भिर्वेश्या, जगणरहिता रण्डा । तत्रापि या प्रथमादिविषमादिस्थाने जगणयुक्ता सा गुर्विणीति संशिता कर्तु यकस्य च दुष्टा भवति । सर्वासां गाथानां प्रथमपादो हंसीवन्मन्थर पठनीयः, द्वितीयः सिंह- विक्रमवदुद्धतः, तृतीयो गजगतिवल्ललितः, चतुर्थः सर्पगतिवञ्चञ्चल इति । गाथाद्वितीयाधं यदि प्रथमं प्रथमं च द्वितीयं तदा विगाथः । इयं संस्कृते उद्गीतिः । यथा-'परिहर माणिणि माणं पेक्खहि कुसुमाई णीवस्स । तुम्ह कए खरहिअओ गेण्हइ गुलिआ धणुइ किर कामो ॥ [परिहर मानिनि मानं प्रेक्षस्व कुसुमानि नीपस्य । तव कृते खरहृद- यो गृह्णाति गुलिका धनुषि किल कामः ॥' तथा द्वयोरप्य- र्धयोस्त्रिंशन्मात्रा गाथा प्रथमार्धवद्यदि भवति तदोद्गाथः । यथा 'सोऊण जस्स णामं अंसूणअणाई सुमहि रुद्धन्ती । भण वीर चेइवइ णो पेच्छामि मुहं कहं जदिच्छं से ॥ [श्रुत्वा यस्य नामाश्रुनयने संमुखं रुणद्धि । भण वीर चेदिपते नो प्रेक्ष्ये मुखं कथं यथेच्छं तस्य ॥' इयमेव संस्कृते गीतिः । तथा पूर्वार्धे त्रिंशन्मात्रा गाथावत् उत्तरार्धे एकगुर्वाधिक्येन द्वात्रिंशत् तदा गाहिनी । अर्धवैपरीत्ये च सिंहिनी । क्रमेणोदाहरणे-'मुश्चहि सुन्दरि पाअं अप्पहि हसिऊण सुमुहि वाहं मे । कप्पिअ मेच्छसरीरं पेच्छिइ वअणाइ तुम्म धुअहं वीरो॥ [मुश्च सुन्दरि पापमर्पय हसित्वा सुमुखि बाहुँ मे! कल्पयि- त्वा म्लेच्छशरीरं प्रेक्षिष्ये वदनं तव ध्रुवमहं वीरः ॥]' 'वरिसइ कणअह विहि तप्पइ भुअणे दिआणिसं जागान्तो । णीसङ्के साहसको णिन्दइ इन्दं अ सूरबिम्बं अ॥ [वर्षति कनकस्य वृष्टिं तपति भुवने दिवानिशं जाग्रत् । निःशवं साहसाङ्को निन्दति इन्द्रं च सूर्यबिम्ब च॥ एते संस्कृते ललितावल्गुगीतिसंज्ञे । तथार्धद्वयेऽपि चतुर्मा- त्रिकाष्टगणघटितं स्कन्धकं सेतुकाव्ये यथा-'जं जं आणेइ गिरि रइर- अचकंपडिघट्टणसहं हणुमा । तं तं लीलाइ णलो वामकरत्तोल्लिअं र- एइ समुद्दे ॥ [यं यमानयति गिरि रविरथचक्रपरिघट्टनसहं हनुमान् । तं तं लीलया नलो वामकरोत्तोलितं रचयति समुद्रे ॥] इदमेव संस्कृते आर्यागीतिः । अत्र यद्यष्टाविंशतिर्गुरवः, अष्टौ लघवस्तदा न- वृत्तरत्नाकरम् । न्दसंज्ञा । तत एकगुरुद्विषष्टिलघुपर्यन्तमेकैकगुरुहासे लघुद्वयद्वय- वृद्धौ चाष्टविंशतिर्भेदाः । तेषां क्रमेण संशाः-नन्द-भद्र-शेष-सारङ्ग- शिव-ब्रह्म-चारण-वरुण-नील-मदन-तालङ्क-शेखर-शर-गगन-शरभ-विम- ति-क्षीर-नगर-नर-स्निग्ध-स्नेहन-मदकल-लोभ-शुद्ध सरित्-कुम्भ-कलश- शशधराख्याः । तत्र नन्दोदाहरणम् --'चन्दा कुन्दा कासा हारा हेसा तिलोअणा केलासा । जेता जेता सेता तेता कासीस जिणिआ तेरिसि किती ॥ [चन्द्रः कुन्दः काशो हारो हंसात्रिलोचनः कैलासः। यावद्यावच्छेतं तावत्काशीश जितं ते कीर्त्या ॥]' एवमन्येष्वपि भेदेषु शेयम् । इति गाथाप्रकरणम् ॥ अथ दोहा । यस्याः प्रथमतृतीययोः पादयोः प्रथमं षट्कलो गणः, ततश्चतुष्कलः, ततस्त्रिकल इत्येवं त्रयोदश मात्राः, द्वितीयचतुर्थयोः षट्कलचतुष्कलौ समानौ त्रिकलस्थाने एको लघुरित्येकादशमात्रास्त- दिदमष्टाचत्वारिंशन्मात्राभिर्दोहाच्छन्दः । यथा-'सुरुतरु सुरही प- रसमणि णहि वीरेससमाण । ओपुण वक्कलकटिणतणुओ पसुओ पा- खाण ॥ [सुरतरुः सुरभिः स्पर्शमणिनहि वीरेशसमानः । एते वल्क- ले कठिनतनुः पशुः पाषाणः ॥' अत्र द्वाविंशतिर्मुरवश्चत्वारो लघवो यत्र तगमरम् । तत एकगुरुपर्यन्तमेकैकगुरुहासे ल- घुद्वयद्वयवृद्धौ त्रयोविंशतिर्नामानि । यथा-भ्रमर-भ्रामर-शरभ-श्येन- मण्डूक-मर्कट-करभ-नर-मराल-मधुकल-पयोधर-वल-वानर-त्रिकल-क- च्छप-मत्स्य-शार्दूल-अहिवर-व्याघ्र-विडाल-श्व-उन्दुर-सपैति । सर्वे अ- ष्टाचत्वारिंशल्लघव एव । तत्र भ्रमरोदाहरणम्-जा अद्धङ्गे पवई सीसे गङ्गा वासु । जो देआणं वल्लहो वन्दे पाअंतासु ॥ [यस्यार्धाङ्गे पार्वती शीर्षे गङ्गा वसति । यो देवानां वल्लभो वन्दे पादं तस्य ॥]' तत्रापि 'द्वादशावधिलघुका विप्रा । ततो द्वाविंशत्यवधिका क्ष- त्रिया । द्वात्रिंशदवधिलघुका वैश्या । इतरा शूद्रेति । तत्र यस्याः प्रतिपादं प्रथमे तृतीये च चरणे जगणः सा दुष्टा दोहेति । इति दोहा- प्रकरणम् ॥ अथोत्कष्टी । प्रथमं चतुष्कलो द्वौ गणौ, ततस्त्रिकल एकः, एवमेका- दशमात्रारचितपादषद्कयुक्तोत्कष्टा । तत्रापि सर्वैर्लघुभिर्लोहागिनी नाम । ततश्चतुश्चतुर्गुरुवृद्धौ अष्टाष्टलघुहासे दशपर्यन्तं हंस्यादीनि । लौहाङ्गिनी लघवः ६६, हंसी गुरु ४'लघवः ५८, रेखा गुरु ८ लघवः ५०, तालकी गुरु १२ लघवः ४२, कम्पी गुरु १६ लघवः ३४, गम्भीरा गुरु २० लघवः २६, काली गुरु २४ लघवः १८, कालरुद्राणी गुरु २८ । पञ्चमोऽध्यायः। लघवः १०, एवमष्टौ भेदाः । तत्र लौहाङ्गिनी यथा-विमुहचलिअ रण अचलु परिहरिअ हअगअवलु । हलहलिअ मलअणिवा जसु जस तिहुअण पिवइ । वरणसिणरवइ लुलिअ सउलु उपरि जस फुलिअ॥ [विमुखचलितो रणेऽचलः परिहृत्य हयगजघटाः । हलहलायमानो मलयनृपतिर्यस्य यशस्त्रिभुवनं पिवति । वाराणसीनरपतेर्लुलितं सक- लमुपरि यशः स्फुटितम् ॥]' एवं सर्वेषूह्यम् । इत्युत्कष्टा ॥ अथ रोला । यथेच्छं गुरुलघुभिश्चतुर्विशतिमात्राः प्रतिचरणं भ- वन्ति, एवं पादचतुष्टययुता रोला । यथा-'पअभरहरमह धरणी त- रणि धजधुलिहि रुम्पिअ । कमटपीठ ढरपडिअ मेरुमन्दरगिरि क- म्पिअ । कोहे चलिअ हम्मीरवीर गअजूहजुत्तो । कठे किअउ हाकन्द मुच्छि मेच्छके पुत्तो॥ [पदभरहर्मरिता धरणी तरणिर्ध्वजधूलिभिल- प्तः। कमठपीठं धडपडितं मेरुमन्दरशिरः कम्पितम् । क्रोधेन चलितो हम्मीरवीरो गजयूथयुक्तः । कष्टेन कृत आक्रन्दो मूञ्छितो म्लेच्छपु. त्रः॥]' अत्र एकादश गुरवो द्वौ लघू यदि पादे तदा रोला शुद्धा । प्रतिपादमेकगुरुहासे लघुद्वयवृद्धौ च करतालादिसंशा भेदा द्वादश । यथा-कुन्द-करताल-मेघ-तालङ्क-काल-रुद्र-कोकिल-कमल-इन्द्र-शंभु- चामर-गणेश्वरेति । इति रोला ॥ अथ गन्धा । प्रथमपादे सप्तदशवर्णाः, द्वितीयेऽष्टादश । मात्रासु न नियमः। द्वितीयार्धमपि तागेव सा गन्धा । 'कस्स चलन्ते कुम्म चलइ पुहविअ सरण । कुम्म चलन्ते महि चलइ भुअणभअकरणा । महि चलन्ते महिहरअ तह अ सुरगणा । चक्कवइचलन्ते चलइ चक्क जइ तिहुअण ॥ [कस्य चलने कूर्मश्चलति पृथिव्यां शरणम् । कूर्मे च- लति मही चलति भुवनभयकरणा ।मह्यांचलन्त्यां महीधरास्तथा च सु- रगणाः। चक्रवर्तिचलने चलति चक्रं यथा त्रिभुवनम् ॥]' इति गन्धा॥ अथ चतुष्पदा । चतुर्मात्राः सप्तगणा गुरुश्चेति त्रिंशन्मात्र एकः पादः, तादृशा एवान्ये त्रयः, एवं विंशत्यधिकशतं मात्रा भवन्ति । एवं चतुर्भिः पादैरेकः पादस्तादृशैश्चतुर्भिः पादैश्चतुःशतान्यशीत्यधि- कानि मात्रा एतावता चतुष्पदा भवति । तत्र लाघवायं एकपादोदा- हरणम्-'जसु सीसहि गङ्गा गोरी अधङ्गा गिम पिन्धिअ फणिहारा। कण्ठे द्विअ वीसा पिन्धन दीसा संतारिअ संसारा । किरणावलिकन्दा बन्दिअ चन्दा णअणहि अणल' फुरन्ता । सो मङ्गल दिजउ बहुसुख किजउ तुझ भवाणीकन्ता ॥ [यस्य शीर्षे गङ्गा गौरी अर्धाङ्गे ग्रीवा- यां पिनखः फणिहारः। कण्ठे स्थितं विषं परिधानं दिशः संतारयन्ति ७२ वृत्तरत्ताकरम् । संसारात् । किरणावलिकन्दो बलश्चन्द्रो नयनेऽनलः स्फुरति । स मङ्गलं ददातु बहु सुखं करोतु तव भवानीकान्तः ॥]' एतस्यानन्ता एव भेदाः । इति चतुष्पदा ॥ अथ घाता । चतुर्मात्रैः सप्तभिर्गणैस्त्रिभिलघुमिश्चैकः पादः । तत्र प्रथमं दशमात्रासु विरतिः, ततोऽष्टसु, ततस्त्रयोदशसु, एवंप्रकार- कपादचतुष्टयेन घाता नाम । यथा-'रणु दक्ख दक्ख हणु जिणु कुसुमधणु अन्धअगन्धवि णासकरु । सो रक्खउ संकरु असुरभयंकर गोरिनारि अद्धङ्गधरु ॥ [रणे दक्षो दक्षो हतो जितः कुसुमधनु- रन्धकगन्धमपि नाशं चकार । स रक्षतु शंकरः असुरभयंकरो गौरी- नार्यर्धाङ्गधरः ॥]' इति घाता ॥ अथ घातोनन्दः। षट्कल आदौ, ततश्चतुष्कलास्त्रयः, ततः पञ्चकलः, ततः षट्कलः, ततो लघुद्वयम् । एवंप्रकारकपदचतुष्टयेन द्विषष्टि- मात्रका घातोनन्दः । एकादशसु (सप्तसु) त्रयोदशसु च यतिः । यथा-'जे बन्दिा सिर गङ्ग हणि अणङ्ग अद्धङ्गे परिकर धरुणु । सो जोइजनमित्त हरेउ दुरित्त सड्काहरु संकरचरणु ॥ [येन बद्धा शिरसि गङ्गा हतोऽनङ्गोऽर्धाङ्गे परिकरं धरति । स योगिजनमित्रं हरतु दुरितं शङ्काहरः शंकरचरणः ॥]' अथ षट्पदप्रकरणम् । काव्यनाम्नश्छन्दसः पादचतुष्टयेनोल्लालनाम्नः पादद्वयेन षट्पदं भवति । प्रथमं द्वे मात्रे, ततः पञ्च चतुर्मात्रा गणाः, ततो द्वे मात्रे, इति चतुर्विशतिमात्राभिः काव्यपदचतुष्टयम् । तत्रैका- दशसु त्रयोदशसु च यतिः, उल्लालस्याये पादे अष्टाविंशतिर्मात्राः, पञ्चदशसु त्रयोदशसु च यतिः। एवं पदद्वयम् । एतादृक् षट्पदम् । यथा-'पिन्धउ दिढसंनाह वाहउप्पर पक्खर दइ । बन्धुसमदि रण धसउ सामिहम्मीर वअण लइ । उड्डल णभपह भमउ खग्गा रिउसीस भालउ ।पक्खर पक्खर ठेल्लिवेल्लि पव्वउ अप्फाल।हम्मीरकजे जज- ल्ल भण कोहाणल महुमह जलउ । सुरताणसीस करवाल दइ तेजि क- लेवर दिउ चलउ ॥ [परिधाय दृढसंनाहं वाहोपरि पक्षरं दत्त्वा । बन्धू- नां संमत्या रणं धर्षयामि स्वामिहम्मीरवचनंगृहीत्वा । उड्डयामि नमः- पन्थानं भ्रमामि खङ्गं रिपुशिरसि झाटयामि । पक्षरे पक्षरे पातयित्वा पर्व- तमुत्फालयामि । हम्मीरकार्ये जजल्लो भणति क्रोधानलो मुखमध्ये ज्व- लति । सुलतानशिरसि करवालं दत्त्वा त्यक्त्वा कलेवरं दिवं चल- ति ॥' प्रकारान्तरमपि षट्पदे भवति । आदौ षट्कलो गणः, तत- चत्वारश्चतुःकलाः, ततोऽन्ते विकलः, एवंविधचतुर्भिश्चरणैः षण्णव- पञ्चमोऽध्यायः । तिमात्रा भवन्ति । तत उल्लालपदद्वयं पूर्ववदेव । उभण्थापि द्विपक्षा- शदधिकं शतं मात्राणां षट्पदे भवति । अत्रोदाहरणम्-'जहा सर- अससिबिम्ब जहा हरहारहंसा ठिअ । जहा फुल्लसिअकमल जहा सिरिखण्डखण्ड दि।जहा गङ्गकल्लोल जहा ए सोधिअ रुप्पइ । जहा दुद्धवरसुद्धंफेण फम्फाइत लुप्पइ । पिअपाअपसाअदिढिपलु णिहु- अहसइ जहा तरुणिजण । वरमन्ति चण्डेसर तह तुअ किति देक्खु- हरिबम्भ भणा ॥[यथा शारदशशिबिम्बं यथा हरहारहंसाः स्थिताः। यथा फुल्लसितकमलं यथा श्रीखण्डखण्डो दृश्यते । यथा गङ्गाकल्लोलो यथा रमणीयं रूप्यम् । यथा दुग्धवरशुद्धफेणं स्फुरितं लुप्यते । प्रियपा- तप्रसाददृष्टिपतितो निभृतं हसति यथा तरुणीजनः । वरमश्रिन् चण्डेश्वर तत्र तव कीर्तिर्दश्यते हरिब्रह्मा भणति ॥]' काव्यस्वरूपं त्वादावन्ते च षट्कलो मध्ये त्रयश्चतुष्कलास्तृतीयो जो लौ वेति । इदं स्वतन्त्रस्य काव्यच्छन्दसः करणे । षट्पदे तूक्ता विधा शेयाः । काव्यस्य भेदाः पञ्चचत्वारिंशत् । तत्र यत्र पण्णवतिर्लघूनांन तु गुरुः स शक्रः । तत एकैकगुरुप्रक्षेपेण लघुद्वयद्वयहासे च शंभ्वाद्या भृङ्गान्ता भेदा भवन्ति । तथा च भृङ्गे अष्टौ लघवः प्रतिपादमेकादश लघुप्रका- रेण समुदिते चतुश्चत्वारिंशञ्च गुरवस्ततो न ह्रासः । यथा-शक्र- शंभु-शूर-गण्ड-स्कन्ध-विजय-दर्प-ताराक-समर-सिंह-शीर्ष-उत्तेज़-फणि- रक्षः-प्रतिधर्म-मराल-मृगेन्द्र-दण्ड-मर्कट-अनुबन्ध-वासण्ठ-कठ-मयूर- बध-भ्रमर-भिन्न-महाराष्ट्र-बलभद्र-राज-वलित-मयूख-मन्थान-बलिमोह- सहस्राक्ष-वाल-दर्पित-सरभ-दम्भ-उद्दम्भ-वलिताङ्ग-तुरग-हार-हारण- अन्ध-भृङ्गेति। तत्र शक्रस्योदाहरणम्-'जसु कर फणिवइ वलय तरुणि- वर तनुमह विलसइ । नयन अनल गल गरल विमल ससहर सिर णिवसइ । सुरसरि सिरिमह वहइ सअलमणदुरितदलणकर। हसि ससहरहर हरउ दुरित तुअ दिसउ अभअवर ॥ यस्य करे.फणिपति- वलयस्तरुणीवरा तनुमध्ये विलसति । नयने अनलो गले गरलं विमलः शशधरः शिरसि निवसति। सुरसरिच्छिरोमध्ये वहति सकलमनोदुरि- तदलनकरः। हसित्वा शशधरधरो हरतु दुरितं तव दिशत्वभय- वरम् ॥]' पड्गुणाः शुद्धादौ पङ्गुत्वादयो दोषा ग्रन्थान्तरादवसेयाः, विस्तरभयात्तु न प्रपश्यन्ते । द्वात्रिंशल्लध्ववधि काव्यस्य विप्रजातिः, ततश्चत्वारिंशल्लध्ववधि क्षत्रियजातिः, ततोऽष्टाचत्वारिंशल्लघ्ववधि वैश्यः, अवशिष्टः शूद्र इति जातिभेदः। उल्लाललक्षणं तु 'त्रयश्चतुः- कला आदौ त्रिकलः षट्कलस्ततः । चतुष्कलोऽथ त्रिककल उल्लालल- क्षणम् ॥' तत्र सर्वगुरुः षटूपदो यथा-'जाआ जाआ अद्धङ्गे 'गङ्गा वृत्तरताकरम् । सीसे लोलन्ती सव्वासा जा पूरन्ती सव्वं दुक्खान्तं लन्ती । अग्गे आराआहारा दीसा भासा भासन्ता । वेआला जासं सङ्गे णट्टे दुट्ठा णाचन्ता गावन्ता कान्ता उच्चे ताले भूमीकम्पाणो । जा दिढे मोक्खा पाई सो तुम्भाणं सुक्खं दे ॥ [जाया जाता अर्धाङ्गे गङ्गा शीर्षे लोलन्ती सर्वाशा या पूरयन्ती सर्व दुःखान्तं नेत्री। अग्ने ताराधारो दिशो भासा भासयन् । वेताला यस्य सङ्गे नृत्ये दुष्टं नृत्यन्ति । गायन्ति कान्ता ऊर्ध्व- तालैर्भूमिकम्पनम् । यदृष्टे मोक्षः प्राप्यते स युष्माकं सौख्यं ददातु ॥' अथ षट्पदभेदाः। तत्र काव्ये चतुश्चत्वारिंशद्गुरवः, उल्लाले च षड्- विंशतिः। एवं मिलित्वा सप्ततिः गुरवो द्वादश च लघवो यत्र स यद्य- शीत्यक्षरो अजयनामा प्रथमो भेदः, ततः सर्वलघुपर्यन्तमेकैकगुरुहासे लघुद्वयप्रक्षेपेणैकैकवर्णवृद्धौ एकसप्ततिरजयाद्या भेदा भवन्ति । यथा- अजय-विजय-वलि-वर्ण-वीर-वेताल -बृहन्नल-मर्कट-हरि-हर-ब्रह्म-इन्दु- चन्दन-शुभंकर-शाल-सिंह-शार्दूल-कूर्म-कोकिल-खर-कुञ्जर-मदन-मस्त्य- सारङ्ग-शेष-सारस-पयोधर-कुन्द-कमल-कारण-शरभ-जङ्गम-शर-सुशर- समर-सारस-सरस-मेरु-सकल-मृग-सिद्ध-बुद्धि-कलकल-कमलाकर-धव- ल-मृतक-ध्रुव-वलय-किंनर-शक-जन-मेधाकर-ग्रीष्म-गरुड-शशिसूर्य-श- ल्य-नर-तुरग-मनोहर-गगन-रत्न-नव-हीर-भ्रमर-शेखर-कुसुमाकर-दीप- शङ्ख-वसु-शब्दाः ॥ तथा अजये वर्णाः ८२, गुरवः ७० लघवः १२ । अन्त्ये शब्दे लघवः १५२ । इति षट्पदप्रकरणम् ॥ प्रतिपादं चत्वारश्चतुष्कला गणास्तत्रान्तिमो जगण एव । एवं च- तुर्भिः पादैश्चतुःषष्टिमात्रं पज्झटिकाच्छन्दः । यथा-'जे जे गजिअ गउड वइ एउ, उण्डऊडज सभअ पराउ । उरुविक्रमविकमजणिअजूरु, ताकणपरकम कोइ ण वुझु॥ [यदा यदा गर्जित्वा गरुडो बहिरोति, उद्दण्डाण्डुजाः सभयाः पलायन्ते । उरुविक्रमविक्रमजनितस्तस्य, तत्क्षगपराक्रम को न बुद्ध्यते ॥]' इति पज्झटिका ॥ प्रतिपादं षोडशमात्राः, अन्ते च मात्राद्वयं लघुद्वयात्मकं पादे चेजग- णो न भवति तच्छन्दोऽलिल्लिहसंशम् । यथा-'जहि आसामविदेहा- किल्लउ, सुत्थिरडाहररजा जिणि लिउ । कालिञ्जर जिण्हि किती थ- प्पिअ, धण आरजिअ धम्मे अप्पिअ ॥ [जहि आसामविदेहकिल्लानि, सुस्थिरडाहरराज्यं जित्वा गृहाण । कालिञ्जरं जित्वा कीर्ति स्थापय, धनमर्जयित्वा धर्म अर्पय ॥]' इत्यलिल्लिहः॥ अनियतगुरुंलघुक्रमाः षोडशमात्राः प्रतिपादं भवन्ति, तञ्चतुःषष्टि- मात्रं पादाकुलकम् । पञ्चदशमात्राभिः प्रथमतृतीयपश्चमपादाः ।
पञ्चमोऽध्यायः । - .. पञ्चदशमात्राः, द्वितीयो द्वादशमात्राः, चतुर्थ एकादप मात्राः, एवम- पृषष्टिमात्रा भवन्ति । एतदनन्तरं दोहाच्छन्दः समस्तमित्येवं नवपदं छन्दो रट्टा नाम । तत्र विषमपादेष्वादौ त्रिकलस्ततस्मयश्चतुष्कलाः, तत्रापि प्रथमेऽन्ते जगणश्चतुर्लघुर्वा, तृतीयपञ्चमयोर्भगणोऽन्ते द्वितीय- पादे सर्वलध्वन्तात्रयश्चतुष्कला वा, चतुर्थे द्वौ चतुष्कलौ, ततस्त्रयो लघव इति । तत उक्तलक्षणं दोहाच्छन्दः । यथा-'भमइ महुअर फुल्लअरविन्द, णवकेसुकाणणपुलिअ सव्वदेस । पिक एव सुणिय, सिअलपवण लहु वहइ, मलयकुहर णउवल्लि पेल्लिअ । चित्त मणोभउ सर हणइ, दूर दिगन्तरकन्त । के परि अप्पउ वारिहउ, ए परिमि- लिअ दुरन्त ॥ [भ्रमति मधुकरः फुल्लारविन्दे, नवकिंशुककाननपूरिता सर्वदेशाः । पिक एव श्रूयते, शीतलपवनो लघु वहति, मलयकुहरे नववल्ली क्षिप्त्वा । चित्तं मनोभूः शरैर्हन्ति, दूरदिगन्तरे कान्तः । केन प्रकारेणात्मानं धारयामि, एवं परिमीलितो दुरन्तः॥]' एतद्भेदाः सप्त। तत्र प्रथमतृतीयपञ्चमपादेषु चतुर्दशमात्रा कलभी (२), द्वितीयचतुर्थ- योरेकादश सा नन्दा(२),प्रथमतृतीयपश्चमपादेषूनविंशतिद्धितीयचतुर्थ- योरेकादश सा मोहिनी(३), विषमपादेषु पञ्चदश समयोरेकादश सा चा- रुसेनी (४), विषमेषु पञ्चदश समयोर्द्वादश सा भद्रा (५), विषमेषु पञ्चदश द्वितीये द्वादश चतुर्थे एकादश स राजसेनः (६), विषमेषु षोडश समयोरेकादश द्वादश वा सा तालकिनी (७) इति । इति नवपदप्रकरणम् ॥ अथ पप्रावती । द्विगुरुरन्तगुरुरादिगुरुः सर्वलघुरित्यतैश्चतुर्मात्री गणौ यथासंभवं गणाष्टकघटितपादचतुष्टया पप्रावती। अत्र जगणो ना- यकपीडादिदोषदाता अतश्चण्डाल इत्युच्यतेऽतो न शुभः । यथा- 'भ- अभङ्गिअ वङ्गा भग्गु कलिङ्गा तेलङ्गा रण मुक्कि चले । मरहट्ठ ठिठा लग्गिअ कट्ठा सोरट्ठा भअपअपाअ पले । चम्पा रणकम्पा पव्व कम्पा ऊत्थाऊत्थि जीऊ हरे । कासीसर राणा किअउपआणां विजाहर भण मन्तिवरे ॥ [भयभग्ना वङ्गा भग्नाः कलिङ्गास्तैलङ्गा रणं मुक्त्वा चलिताः । महाराष्ट्राः स्तिमिता लग्ना कष्टाः सौराष्ट्रा भयेन पदे पदे प- लायिताः। चम्पा रणकम्पा पर्वताः कम्पिता उत्थायोत्थाय जीवं ह- रति । काशीश्वरो राजा कृतप्रयाणो विद्याधरो भणति मन्त्रिवरः ॥]' इति पप्रावती॥ पूर्वोक्ताया दोहाया योकमर्धमपरं चार्ध पूर्वोक्तलक्षणकाव्येन युक्तं तदिदं चतुश्चत्वारिंशदधिकशतमात्ररभिः शृङ्गलायसकानुप्रासवद्गु- णालंकारवत्कुण्डलिकाख्यं छन्दः । अत्र चाविरम्य कुण्डलिकारेण प- ठनात्कुण्डलिकेति संज्ञा । यन्मते दोहा द्विपदा तन्मतेनेयं षट्पदा, ७६ वृत्तरत्नाकरम् । यन्मते दोहा चपदा तन्मते कुण्डलीकाष्टापदेति । यथा---'ढोल्ला मारिअ ढिल्लिमह मुच्छिअ मेच्छसरीर । पुर जजल्ला मल्लवर चलिअ वीर हम्मीर । चलिअ वीर हम्मीर पाअभर मेइणि कम्पइ । दिस म- गणह अन्धार धूलि सूरहरह झम्पइ । दिग मगणह अन्धार आणु खु. रसाणक ओल्ला । दमलिदअसु विपक्ख मारू ढिल्लीमह ढोला । [ढोलं ताडयित्वा दिल्लीमध्ये मूर्च्छयित्वा म्लेच्छशरिराणि।पुरो जजलो मल्लवरश्चलति वीरो हम्मीरः । चलिते वीरे हम्मीरे पादभरेण मेदिनी कम्पते । दिशो मग्ना अन्धकारे धूली सूर्यरथं झम्पयति । दिशो मन्ना अन्धकारे अनन्तरं खुरसानका उत्सन्नाः । प्रमाथितो विपक्षस्ताड्यते दिल्लीमध्ये ढोलः ॥]' इति कुण्डलिका ॥ यत्र प्रतिपादे विंशत्यक्षराणि पश्चविंशतिश्च मात्राः, तत्रापि प्रथम- श्चतुर्मात्रिको गणः, अन्ते एको गुरुः, मध्ये यथासुखमिश्रिता गुरुलघवो स मदनान्तकः । यथा--'भञ्जिअ मलअचोलवइअ चलिअ गञ्जिअ गुजरा । मालउराअ मलअगिरिअ लुक्कि परिहरि कुञ्जरा । खुरसाणा खलिअ रणमहमहिअ लजिअ साअरा । हम्मीर ह चलिअ हारव प- लिअ रिउगण काअरा ॥ [भग्ना मलयचोलपतयश्चलिता गर्जित्वा गुर्जराः । मालवराजो मलयगिरौ लुक्कायितः परिहृत्य कुञ्जरान् । खुर- सानाः स्खलिताः रणमनहिता लकिताः सागराः । हम्मीरे च चलिते हृताः पलायिता रिपुगणाः कातराः ॥]' इति मदनान्तकः ॥ आद्यन्तयोः षट्कलो गणो मध्ये चतुष्कलाश्चत्वारः। एवंविधपद- द्वयरचिता द्विपदी । आदौ षटूकलस्ततः पञ्च चतुष्कलास्ततो गुरुरि- ति वा ॥ यथा---'दाणउ देउ वेविकन्तउ गिरिवरसिहर कम्पिउ । हअगअपाअघाअ उद्दन्तऊ धूलिहि गअण रुम्पिउ ॥' [दानवा देवा विस्मयात्रान्ता गिरिवरशिखराणि कम्पितानि । हयगजपादघातो- त्थितंधूलिभिर्गगनं लुप्यते ॥]' इति द्विपदी ।। नव चतुर्लघवस्ततो रगण एवं दशभिर्गणेरेकोनचत्वारिंशदक्षरैरेक- चत्वारिंशन्मात्राभिरधैं यस्याः सा खञ्जा । द्वितीयमप्यर्ध तादृक् । यथा-'महि ललइ अहि पलइ गिरि चलइ हर खलइ ससि घुमइ अमिअ वमइ भझ जिविअ उट्टए । पुणु धसइ पुणु खसइ पुणु ललइ पुणु चलइ पुणु घुमइ अमिअ वमइ विविहपरिदिहए ॥ [मही लल- ति अहिः पलायते गिरिश्चलति हरः स्खलति शशी निद्राति अमृतं वमति भग्नो जीवित्वोत्थितः । पुनर्धर्षति पुनः स्खलति पुनर्ललति पुन- श्चलाते पुनर्निद्गाति अमृतं वमति विविधपरिदृष्टयै ॥]' इति खञ्जा ॥
A.RH ROAD. MADRAS-. पञ्चमोऽध्यायः । ७७ यत्र प्रथमार्धे पद चतुर्लघवो द्वितीयाधैं सप्त उभयोरप्यन्ते जगणो भवति सा शिखा । यथा---'फुलिअमहुभमरवहु रअणि पहु किरणवहु अवअरु वसन्त । मलयगिरि कुसुसरि पवणवहु सहव णहु सइ भण णिज णहुहु कन्त ॥ [फुल्लितमधुभ्रमरवधू रजनिर्यत्र किरणबहुरव- तरति वसन्तः । मलयगिरिकुसुमधरपवनवहः सहे कति सखि भण निजो नास्ति कान्तः ।]' इति शिखा । आद्यार्धे नव चतुर्लघवस्ततो रगणास्ततोद्वौ गुरू इत्येवं पञ्चचत्वारिं- शन्मात्राः गाथोत्तरार्धेण द्वितीयाधं सैषा माला ॥ यथा --.-'वरिस जल भमइ घण मलअसिअल पवण मणहरण कणअपिजरिणिचइ विजुरि- फुल्लिआ णीवा । पच्छरविच्छर हिअला पिअला णहअलं ण आवेह ॥ [वर्षति जलं भ्रमति घनो मलयशीतलः पवनो मनोहरणः कनकपि- अरनिचिता विद्युत्फुल्ला नीपाः । प्रस्तरविस्तरो हेलति खेलति नभ- स्तलं नावेद्यते ॥]' इति माला ॥ यदि दोहाच्छन्दसि प्रत्यर्ध लघुगुरुद्वयरूपाः पञ्चकला अधिका दी- यन्ते, तथा दोहाच्छन्दसो मात्राः ४८ अधिकाश्च १०, एवं अष्टपश्चा- शन्मात्रा भवन्ति तदा चूलिका नाम च्छन्दः। यथा -'राआ लुद्धसमा- ज खल बहुकरिहारिणि सेवक धुत्तउ । जीवण चाहसि सुखे जइ परि- हर घरजण वहुरणजुत्तउ ॥ [राजा लुब्धसमाजः खलः बहुकलहका- रिणः सेवका धूर्ताः । जीवनं वाञ्छसि सुखे यदि परिहर गृहजनं बहु- रणयुक्तम् ॥]' इति चूलिका ॥ व्यस्तार्धा दोहैव सौराष्ट्रा । यथा- 'सो माणि पुणमन्त जासु भत्त पण्डिअ तनअ । जासु घरिणि गुणमन्ति सो वि पुहवि सगाहणिल॥ [स मानी पुण्यवान्यस्य भक्तः पण्डितस्तनयः । यस्य गृहिणी गुणवती सोऽपि पृथिव्यां स्वर्गनिलयः ॥]' इति सौराष्ट्रा । सगणभगणचतुर्लघवो गणा गुरुश्चैको यत्र प्रतिपदं एकादशाक्षर- श्चतुर्दशमात्रकश्च स काहलिः । यथा-'उचउत्थाणअ विमलघरा तरुणी गेहिणि विणअपरा । पुण वित्तब्भपुरलमुद्रा वलिसासंम- असुखहकरा ॥ [उच्चोत्थानकं विमलगृहं तरुणी गृहिणी विनयपरा । पुनर्विष्टब्धपूर्णामुदारा वर्षासंमदसौख्यकराः ॥' इति काहलिः ॥ यंत्र जगणान्तौ चतुर्मात्रौ प्रतिपादं तन्मधुभारतम् ॥ यथा-'जसु चन्द सीस पिन्धन इ दीस।सो संभुपेउमहासुख देउ ॥ यस्य चन्द्रः शीर्षे परिधानं च दिशः । स शंभुः पातु महासुखं ददातु ॥' इति मधुभारतम् ॥
वृत्तरत्नाकरम् । यत्र पादे जगणान्ता एकादशमात्राः स आभीरः । यथा-'सुन्दरि गुजरणारि लोअण दीहविसारि। पीणउ स्थणअभार लुलई मोति- हार ॥ [सुन्दरी गुर्जरनारी लोननं दीर्घविसारि । पीने स्तनभारे लो- लते मतिहारः॥]' इत्याभीरः॥ चत्वारश्चतुर्मात्रास्ततःषण्मात्रस्ततश्चतुष्कलौ गुरुश्चेति द्वात्रिंशन्मा- श्री यदोद्दण्डकाहलः सर्वा अस्मिन्मात्राः १२८। यथा-'राअह भगन्ता दिगन्तलगन्त परिहरि हअगअघररमणी, लोरहिभरुसरवर पलूनिअ- परिकरु लोटइ पडइतनु धरणी । पुणु उद्वइ संभरि करदत्तग्गुलि- बालतणअकरकमलधरे, कासीसर राआ णेह लुकाआ कर माआ पुण थप्पि धरे ॥ [राजानो भग्ना दिगन्तरलग्नाः परिहृत्य हयगजगृहरमणीः, रुदितभरसरोवराः पतितनिजपरिकरा लोटन्ते पतिततनवोधरण्याम् । पुनरुत्तिष्ठन्ति संभृत्य करदत्ताङ्गुलिवालतनयकरकमलधराः, काशी- श्वरो राजा नेह लुक्कायितो भव कुरु मायां पुनराक्रम्य धरिष्यति ॥] इति दण्डकाहलः॥ आदौ गुर्वन्तश्चतुष्कलस्ततो गुर्वन्तः पञ्चकलस्तत एको लघुरित्येवं पादघटितं दीपकम् ॥ यथा-'जसु हत्थ करआल विपक्खाकुलकाल- सिरसे ह वरछत्त संपुण्ण स सिमन्त ॥ [यस्य हस्ते करवालो विपक्षः कुलकालः। शिरसि च वरच्छत्रं संपूर्ण स श्रीमान् ॥] इति दीपकम् । यद्यादौ चतुष्कलसगणौ ततः षट्कला गुरुश्चेति षोडशमात्रापाद- सिंहावलोकः ॥ यथा-'हणु उजरगुजरसाउदलं दरमल्लिअवल्लि मरहट्टबलम् ॥ वलमोलिअमालअराअकुला कण उज कुलच्छवि कर- मफुरो ॥ [जाहि ऊर्जरगुर्जरशाकदलं दलदर्पितवल्लितं महाराष्ट्रबलम् । बलमौलितमालवराजकुलं कुरु उच्चां कुलच्छविं कर्मपूरैः॥' इत्यलम्॥ इति श्रीमद्भट्टरामेश्वरसूरिसूनुनारायणभट्टरचितायां वृत्तरत्नाकरव्याख्याया पश्चमो- ऽध्याय ।। । षष्ठोऽध्याय । एवं समादिवृत्तत्रयमभिधायेदानीं तेषामुत्पत्तिप्रदर्शनायानुक्तानां च वृत्तानां कविप्रयोगेषु दृश्यमानानां सद्भावोपपत्तये प्रस्तारादयः षद्प्रत्यया व्याख्यातव्याः। प्रतीयते संख्यादिकमेभिस्ते प्रत्ययाः। सं. भावितेषु वृत्तेषु विश्वासापरपर्यायप्रत्ययख्यापकत्वाहा । ते च प्रस्ता- राद्याः षट् । तदुक्तम्- प्रस्तारो नष्टमुद्दिष्टमेकद्वयादिलगक्रिया । संख्यानमध्वयोगश्च षडेते प्रत्ययाः स्मृताः ॥१॥ १. 'सध्या चैवाध्व' इति पाठः.
षष्ठोऽध्यायः . तत्र नष्टोद्दिष्टादीनां प्रस्तारज्ञानाधीनत्वात्प्रस्तारं तावदाह- मादे सर्वगुरावाद्याल्लघु न्यस्य गुरोरधः । यथोपरि तथा शेष भूयः कुर्यादमुं विधिम् ॥२॥ प्रस्तारवृत्तिजातिपादस्थवर्णसंख्याकसर्वगुरौ पादे लिखिते सति तत्राद्यात्प्रथमाद्गुरोरधो लघु स्थापयेत्तृतीयभेदानुपपत्तेः । तं लघु न्यस्य यथोपरिपतौ तथैवाधस्तनाधस्तनपको शेषपादे वर्णसंख्यापूर्व्यवधि द्वितीयादिकं गुरुं लघु वा लिखेत् , यत्रोपरि गुरुस्तत्राधस्तादपि गुरु- यंत्रोपरि लघुस्तत्राधस्तादपि लघुरित्यर्थः । भूयः पुनरमुं पूर्वोक्तं विधि लेखनरूपं कुर्यात्तृतीयादिपतो गुरुमध्ये आद्यगुरोरधो लघुः शेषं चोपरिवदेवेत्यर्थः ॥ एवं सति तृतीये भेदे आद्यस्थानत्वात् , तत्र किं लेख्यमित्यत आह- ऊने दद्याद्गुरूनेव ऊने न्यूने स्थाने गुरूनेव दद्याल्लिखेत् । बहुवचनमुत्तरोत्तरपता- वपि न्यूने गुरूणां प्राप्त्यर्थम् । ततश्च भूयःशब्दोऽपि वीप्सार्थे शेयः । तेन पुनःपुनर्गुपेक्षया आद्यगुरोरधो लघु लिखित्वा शेषमुपरिवदेव संपाद्य ऊने स्थाने गुरवो देया इत्यर्थः ॥ प्रस्तारकरणेऽवधिमाह- यावत्सर्वलघुर्भवेत् । प्रस्तारोऽयं समाख्यातश्छन्दोविचितिवेदिभिः ॥३॥ सर्वलघुपादः प्रस्तारो वा यावद्भवति तावदेव कुर्यात् । प्रस्तार्यते- ऽनेन च्छन्दसि छन्दांसि वा । छन्दोविचितिश्छन्दःशास्त्रम् । तदुक्त- म्—'स्थापयेलघुमधो गुरोः पुरः स्याद्यथोपरि तथैव पूरयेत् । पश्चिम च गुरुभिः पुनः पुनः सर्वलध्ववधिरित्ययं विधिः ॥' इति । तदियमु- तादौ योज्यते । तत्रोक्तायां यथा-5, ।, तस्या द्विकविकल्पत्वात् । अत्युक्तायां यथा-5s, Is, SI, ॥ (४)। मध्यायां यथा-ऽऽऽ, Iss, sis, us, ssi, ISI, SI, Im (८)। एते मगणादय एव सिद्ध्यन्ति । चतुरक्षरायां प्रतिष्ठायां यथा-55ss, Isss, siss, uss, ssis, ISIS, sus, us, ISSI, sssI, SISI, ssil, ISI, SM, ISI, Um (१६) एव । सर्वेषां समवृत्तानां प्रस्तारे कृते पूर्वपूर्वापेक्षया उत्तरोत्त- रस्य द्विगुणा भेदा भवन्ति । अत्र मामकसंग्रहश्लोकः-- पादं सर्वगुरुं ८. वृत्तरत्नाकरम् । लिखेन्मुखगुरोश्चाधो लघु न्यस्य च चायं मूलगुरोः पुनर्लघुमधो शेषं पुनः पूर्ववत् । ऊने न्यस्य गुरूनशेषलघुकं पादं च यावत्पुनः कार्योऽयं विधिरित्यचीक्लपद नारायण प्रस्तुतिम् ॥' अर्धसमेषु त्वर्धस्यैव पा. दतां प्रकल्प्य प्रस्तारः कार्यः, पाद इत्यस्योपलक्षणत्वात् । तदुक्तम्- 'अर्धसमस्य प्रस्तारेऽर्धप्रस्तारः कार्यः' इति । तद्यथा-द्वयक्षरपादे च्छन्दसि पादद्वयरूपस्यार्धस्य पादताकल्पनया चतुरक्षरपूर्वोक्तप्रस्तार- वत्प्रसारे द्वयक्षरच्छन्दसः षोडश भेदाः । तत्र प्रथमः Ssss, षष्ठः ISIS, एकादश 5151, m. पोडशानां भेदानां समवृत्तभेदत्वेनार्धसमभे- दत्वात्तान्परित्यज्य शुद्धार्धसमप्रस्तारः सिद्धो भवति । तदुक्तम्-'प्र- स्तुतभेदकारी विकल्पः प्रस्तारक्रमायातोऽपि वर्जनीयः' इति । व्याख्या- यां तु गणना कार्येव । अन्यथा नष्टोद्दिष्टाद्यसिद्धेः । ततश्च द्वादश शु- द्धार्धसमभेदाः । यथा--155s, SISs, Iss, ssis, sus, us, sss!, IssI, ISI, SS, II, ॥ एवमन्यत्रापि योज्यम् । विषमाणां प्रस्तारे पादचतुष्टयात्मकस्य च्छन्दसः पादस्थानीयत्वं प्रकल्प्य प्रस्तारः कार्यः । उक्तं हि विषमप्रस्तारे-'पादचतुष्टयस्य प्रस्तारः कार्यः' इति । यथा- द्वयक्षरस्य विषमवृत्तस्य पादकल्पनायां सर्वगुरोःssssssssपूर्ववदाद्य- गुरोरधो लघु विन्यस्य यथोपरीति गुरुसप्तकं लिखित्वा भूयः कुर्यादिति द्वितीयप्रस्ताराद्यगुरोरधो लघुः परतो यथोपरीति कृत्वा ऊने गुरून्द- द्यात् । एवं सर्वलघुप्रस्तरं यावत्कृते षट्पञ्चाशदधिकं शतद्वयं भेदाः । तेषां मध्ये पूर्ववत्समार्थसमरूपत्वेन प्रस्तुनविषमप्रस्तारभेदकारित्वा- प्रथमः द्वितीयाच सप्तदशः सप्तदशोऽन्त्यं यावर्जनीयाः ते च यथा---प्रथमः SSSSSSSS, अष्टादशः । 55SISss, पञ्चfra SISSSISS, far: NSSIISS, parafa: SSI ssss, षडशीतिः ।ऽ।ऽ।ऽ।ऽ, व्यधिकशतं sussus, विंशत्य- धिकशतं ॥sus, सप्तत्रिंशदधिकशतं ssssss), चतुःपञ्चाशद- धिकशतं ।ssssI, एकसप्तत्युत्तरशतं ISISisi, अष्टाशीत्यधि- कशतं ॥5॥s, पश्चोत्तरद्विशतं ssussu, द्वाविंशत्युत्तरद्विशतं । ॥- s, एकोनचत्वारिंशदधिकद्विशतं smsm, षट्पञ्चाशदधिकद्विशत- संख्या।।।।।।। एवं षोडश । एषां मध्ये प्रथम ssssssss, षष्ठ ISISISIS, एकादश SISISISI, षोडशाः ।।।।।।।। समभेदाः । अन्ये द्वादशार्धसमभेदाः । शेषाश्चत्वारिंशदधिकशतद्वयं शुद्धविषमभेदाः। एवं सर्वत्र विषमेषु प्रस्तारभेदो शेयः । मात्राप्रस्तारे तूपरिपतौ यथा- योग्यं मात्राद्वयवयस्थान एकैकगुरुक्रमेण गुरुंल्लिखित्वा प्रथमगुरोरधो लघु लिखित्वा शेषमुपरि पङ्क्तिवत्कुर्यात् । एवं सत्येका मात्रा न्यूना . षष्ठोऽध्यायः । ८१ भवति, सा लघोः पूर्व लघुरूपेण देया । तृतीयपतौ प्रथमगुरोर्लधु दत्त्वा शेषमुपरिवल्लिखित्वा न्यूनास्तिस्रो मात्राः, ता लघुगुरुरूपेण लघोः पूर्व देयाः। एवं क्रमेणाद्यगुरोरधो लघौ दत्ते उपरिवच्छेषे लिखिते शेषा मात्रैका चेदाद्यलयोः पूर्व लघुरूपेण देया । द्वे चेच्छेषे तदा तत एव पूर्व गुरुरूपेणैव । एवं युग्मा गुरुरूपेणैवेति । तिम्रश्चेत्तदा एको लघुरेको गुरुश्चेति, पञ्च चेत्तदा एको लघुझे गुरू चेत्येव क्रमेण सर्व- लघुप्रस्तारपर्यन्तं लिखेत् । अत्रैवं लिखिते पूर्वोक्तषट्कलत्रयोदशग- णप्रस्तारोयथा--5ss, ||ss, sis, Sus||S, ISSI, SISI ||151, ऽऽI, 15, 15।।।, ।।।।।।।।।।(१३)। पञ्चकलस्य सर्वगुरुभेदाभा- वादादिलघ्वाद्या एव भेदाः । यथा-15s, ss, ||s, ss, ||s, ।5।।, 5. एवमन्यत्रापि । विषमकलप्रस्तारवादी लघु दत्त्वा प्रस्तारः कार्य इति ॥ अथ प्रस्तारशोधनोपयोगि नष्टमाह- नष्टस्य यो भवेदङ्कस्तस्यार्धेऽर्धे समे च लः। विषमे चैकमाधाय स्यादर्धेऽर्धे गुरुर्भवेत् ॥ ४ ॥ अङ्क इत्यतः परं तत्रेत्यध्याहार्यम् । ततश्च नष्टस्य वृत्तस्य योऽङ्क- स्तत्र समे सति लो लघुलेख्यः, तस्य चार्थेऽर्धे कृतेऽर्धाङ्के समे सति लघुर्विषमे त्वर्थे करणाशक्तेरेकमधिकं क्षिप्त्वार्धयेन्नष्टस्याङ्के विषमे सति गुरुर्भवेल्लेख्य इत्यर्थः, तदनन्तरं तस्मिन्विषमे एकमधिकमांधाय संयोज्य योऽको जातस्तस्यार्धे विषमे सति गुरुः समे तु लघुः, तस्मिन्न- प्यर्धे विषमे गुरुः समे लघुरित्येवं विवक्षितनष्टवृत्ताक्षरसंख्यापूरणं यावत्कुर्यात् । अर्धेऽर्धे इत्युभयत्र वीप्सया पुनः पुनः करणं सूचितम्। यथा त्र्यक्षरे प्रस्तारे पञ्चमं वृत्तं कीदृगिति प्रश्ने कृते पश्चमाङ्कस्य विष- मत्वाद्गुरुं विन्यस्य सैकार्थेऽङ्कस्य विषमत्वाद्गुरुरेव । पुनः सैकस्यार्ध- ऽङ्कस्य समत्वाल्लघुरिति । यथा-55. सोऽयं पञ्चमस्तगणः । समोदा- हरणं यथा-चतुरक्षरप्रस्तारे चतुर्थ वृत्तं कीदगिति प्रश्ने समत्वाल्लघु- स्तदर्धेऽङ्के व्यङ्के पुनर्लघुः शिष्टेऽर्धितद्व्यङ्के एकस्यासमत्वाद्गुरुः शिष्टै- काङ्के सैकेऽर्धिते पुनर्गुरुर्यथा-॥ss. एवं सर्वत्र प्रथमे भेदे प्रथमा- इस्य विषमत्वात्सैकार्धतायामपि विषमत्वात्सर्वगुरुता ॥ अर्धसमानां तु नष्टे पूर्वोदाइतळ्यक्षस्पादार्धसमप्रस्तारे पश्चमो भेदः। कीदृगिति प्रश्ने पञ्चानां विषमत्वाद्गुरुः सैकेऽर्धे प्रयाणां विषमत्वात्पुन- गुरुः सैकेऽर्धे वयोः समत्वाल्लघुयोरर्धे विषमत्वाद्गुरुरिति सिद्धम , (२ वृत्तरत्नाकरम्। . र्धम् sss. द्वितीयार्धेऽप्येवमेव । अत्र यदि समाधसमयोः संसृष्टत्वं तदा पञ्चमत्वम्, यदा तु शुद्धार्धसमगणना तदा प्रथमस्य सर्वगुरोः समत्वात्यागे चतुर्थता। नष्टसिद्धिस्तु संवलितसंख्ययैवेत्युक्तं प्राक्, एवं सर्वत्रापि । विषमाणां नष्टे तु व्यक्षरविषमवृत्तस्य चतुर्थो भेदः। कीगिति प्रश्ने उक्तविधाने ।।ssssss अयं चतुर्थः । अत्रापि समाई- समसंवलनेन चतुर्थता, शुद्धविषमभेदेषु तु प्रथमस्य समाधसमतया- सक्तत्वात्तृतीयता । एवं सर्वेषु हि समविषमेषु योज्यम् । अत्र मदीय संग्रहश्लोकः--'पृष्टाके विषमे समे गुरुलघू युग्मे तथैकाधिका युग्मे द्वे विषमे समे गुरुलघू भूयोऽवशिष्टेऽर्धिते । तद्वत्प्रश्नविवक्षितान्गुरु- लघून्यावद्विदध्यादिदं श्रीरामेश्वरभट्टसूनुरकरोन्नष्टे विधामीहशीम् ॥' अथ मात्रावृत्ते नष्टम्-तत्र लाघवार्थ षष्ठमात्रप्रस्तारे उदाहरणमु- च्यते । षण्मात्रप्रस्तारेषु सप्तमस्थाने कीदृशो गणोऽस्तीति प्रश्ने षडपि कलास्तावत्पृथक्स्थापनीयाः । तत्र प्रथमकलोपर्येकाको देयः, द्वितीय- कलाया व्यङ्क एव, एकाङ्कात्पूर्व कस्यचिदकस्याभावेनैकीकरणासं भवादेककलोपर्यवं द्वितीकलोपर्यवं चैकीकृत्य त्र्यवं तृतीयकलोपरि, व्यकत्र्यकावेकीकृत्य पञ्चाङ्कं चतुर्थोपरि, त्र्यङ्कपश्चाकावेकीकृत्याष्टाई पञ्चमोपरि, पञ्चाष्टौ चैकीकृत्य त्रयोदशावं षष्ठोपरि विन्यसेत्।यथा ॥ १ ॥ २॥ ३ ॥ ५॥ ८॥ १३ ॥ ॥। एवं सर्वत्र पूर्वपूर्वकलाद्वयोप- रिस्थाङ्कमेकीकृत्य परम्परं कलासु न्यसेत् । एवं कृते पृष्टाङ्कमन्तिम- कलोपर्यङ्के लोपयेत् । अवशिष्टाङ्केऽव्यवहितपूर्व पूर्वतरं पूर्वतरमेवाई यथासंभवं लुम्पेत् । तत्र यस्य यस्याङ्कस्य लोपो भवति तत्तदधस्तनक- लास्वग्रिमकलामादाय गुरुतामेति । एवं यावत्संभवं कुर्यात् । प्रस्तुते पृष्टं सप्ताई त्रयोदशाङ्के विलोप्यावशिष्टषडड्केऽष्टौ न लुप्यन्त इति पञ्च लोपंयेत्, अवशिष्टे एकाङ्के त्रयो द्वौ वा न लुप्येत इति एकाङ्कस्य लोपे शून्यता । एवं कृते पञ्चमैकाङ्कलुप्तत्वात्तदधस्तने मात्रे चतुर्थप्र- थमे पञ्चमद्वितीयमाने आदाय गुरुतां गच्छतः । एवं कृते सिद्धः ष- दकलः सप्तमप्रस्तारः 55. एवं मात्रावृत्तेषु सर्वेषु ज्ञेयम् । बह- द्धिप्रसङ्गानोदाहृतमस्माभिः । यदाहुः--'नष्टे सर्वाः कलाः कार्या अ- कन्यासस्तु पूर्ववत् । पृष्टोऽङ्कः शेषके लोप्यः परोऽप्यङ्कोऽत्र लुप्यते ॥ यस्य यस्य भवेल्लोपो व्युत्क्रमेण पुनः पुनः । तदधो गुरुतामेति परया कलया सह ॥' इति । उहिष्टस्य रीतेः पूर्वमुक्तत्वात्पूर्ववदिति । उद्दिष्ट- वदित्यर्थः । आर्याया मात्रावृत्तत्वादनया रीत्या नष्टसिद्धावपि त- न्मात्रविषयो लघुरुपाय आर्याप्रकरणे प्रसादस्माभिरुक्तः ॥
षष्ठोऽध्यायः । - - अथ प्रस्तारशोधनायोपयुक्तमुद्दिशति- उद्दिष्टं द्विगुणानाद्यादुपर्यकान्समालिखेत् । लघुस्था ये च तत्राङ्कास्तैः सैकैमिश्रितैर्भवेत् ॥५॥ आधादक्षरादारभ्योपर्याचादेकाङ्कादारभ्य द्विगुणान्विगुणानकानु- तरोत्तरं लिखेत् । तत्र लेखने कृते सति लघुलेखोपरिस्था येऽङ्कास्तै- मिश्रितैर्यथास्थानं योजितैरेकाधिकेन सहितैरुद्दिष्टं भवेदिति । आद्य- द्विगुणशब्दयोरावृत्त्या व्यवहितान्वयेन च व्याख्येयम् । उपरीत्युपल- क्षणमधोलिखनेऽप्यक्षतेः । यथा-त्र्यक्षरे प्रस्तारेऽन्तर्गुरुर्भेदः कतिपय इति प्रश्ने न्यासः।। . अत्र लघुस्थैकाङ्कद्व्यङ्कमेलने त्रय एकसहिता- चत्वारो भवन्ति, ततश्चतुर्थभेदं कथयेत् । एवं चतुरक्षर आद्यन्तगुरुः कतिपय इति प्रश्ने न्यासः ।। 5. अत्र लघुस्थाभ्यां व्यकचतुरङ्काभ्यां सैकाभ्यां सस भवन्ति, ततः सप्तमोऽयं भेदः । एवं सर्वत्र । अर्धसमे- ऽपि चतुरक्षरार्धे sss. अयं प्रस्तारः किंसंख्याक इति प्रश्ने न्यासः- 55. लघुस्थे चतुरङ्के सैके पञ्चमो भेदः समाधसमसंसृष्टतायाम् , शुद्धार्धसमेषु पूर्वन्यायेन चतुर्थः । एवं सर्वत्र विषमेष्वपि व्यक्षरपा- दकविषमवृत्ते ॥ssssss. अयं भेदः कतम इति प्रश्ने न्यासः। यथा 1555555. अत्र लघुस्थानकव्यकौ सैकौ चत्वारस्ताव- संख्याकं समाईसममेलनेन जानीयात्, शुद्धविषमे तृतीयम् । एवं सर्वेषु विषमेषु शेयम् ॥ अत्र संग्रहश्लोकः--'प्रथमाद्विगुणानकान्प्रस्ता- राद्यादुपर्यधो वास्येत् । लघुगैरकैः सैकैर्मिलितैरुद्दिष्टमुद्दिष्टम् ॥' सूत्रे तूद्दिष्टे प्रकारान्तरमुक्तम् । यद्वृत्तं जिज्ञासेत्तत्तद्भूमौ प्रस्तार्य तन्मध्य- स्थलघुषु योऽन्त्यो लघुस्तदुपर्यधो वैकाई लिखित्वा तत्रैव सं द्विगुण- येत् । ततस्तत्पूर्वस्मिन्गुरौ लघौ वा तमत द्विगुणितं कृत्वा पूर्ववन्य- सेत् । यदा त्वेवंप्रकारे क्रियमाणे गुरुमापद्यते संख्या तदा तन्मध्ये एकं त्यक्त्वा पुनरुत्तरोत्तरं द्विगुणितं कृत्वा गुरुस्थाने एकं त्यक्त्वा पुनर्द्विगुणादिक्रमेण यावत्प्रस्तारपूर्ति कुर्यात्, एवं कृते या संख्या संपद्यते तावतिथं तवृत्तं जानीयात् । यथा चतुरक्षरे गुरुलघू द्वौ गुरू चेति वृत्तं कथितमिति प्रश्न न्यासःSss. अत्र लघ्वधः संख्या द्विगु- णयेत्, तं च पूर्वसाद्गुरोरधो द्विगुणितं.चतुर विलिख्य गुरुस्थसंख्या- त्वादेकं जह्यात् । अवशिष्टख्यंकस्तावतिथं वृत्तमिति । अत्र मात्रावृत्ते उद्दिष्टम् । उहिष्टवृत्तप्रस्तारं कृत्वा प्रथमकलायां प्रथमाकं दद्यात्, द्वि- वृत्तरत्नाकरम् । - २ 13 - तीयकलायां नन्यायेन व्यङ्कम् , ततस्तृतीयकलायामेकन्यको मेल- यित्वा व्यङ्कम् , चतुर्थ्या द्वित्र्यवं मेलयित्वा पश्चाङ्गमित्येवं पूर्वपूर्वाङ्क- द्वयमेलनं कृत्वोत्तरोत्तरकलायां न्यसेनष्टवत् । गुरौ तु मात्राद्वयस्य वर्तमानत्वादकासंकरार्थमेकोऽङ्क उपरि देयो द्वितीयस्त्वध इति वि- शेषः । एवमकेषु स्थापितेष्वन्त्यकलायां योऽस्तन्मध्ये गुरुशिरसि स्थिता येऽवास्तानेकीकृत्य पातयेत्, अवशिष्टाकसंख्यां पृष्टवृत्तस्य जानीयात् । यथा-आद्यन्तगुरुः षद्कलप्रस्तारः कतिपय इति पृष्टे • न्यासः ।।ऽ.अत्र गुरुशिरस्येकाकाष्टाकौ मिलितौ नव तेऽन्त्यकलास्थ- त्रयोदशस्वपनेयाः, अवशिष्टश्चत्वारः । सा संख्योद्दिष्टप्रस्तारस्य । एवं मात्रावृत्तेष्वपि शेयम् । तदुक्तम्-'मात्रायां प्रथम समोऽक उपरि स्था- प्यो युगायां द्वयं संयुज्यैकयुगौ त्रयं च त्रिकलामूर्ध्नि द्वयेन त्रयम् । एकीकृत्य च पञ्चकं जलनिधावेवं कृते लुप्यते शिष्टे तद्गुरुमूर्धकाङ्क इह चेदुद्दिष्टबोधस्तदा ॥' इति । आर्यासु तु तत्प्रकारान्तरमपि तत्प्रकरण एवाभ्यधायि॥ अथोक्तादिषु सर्वगुर्वेकलघुद्विलघुत्रिलध्वादिपादकवृत्तकथनद्वारा प्रस्तारशोधनायैकद्व्यादिलगक्रियामाह- 'वर्णान्वृत्तभवान्सैकानौत्तराधर्यतः स्थितान् । एकादिक्रमतश्चैतानुपर्युपरि निक्षिपेत् ॥ ६ ॥ उपान्त्यतो निवर्तेत त्यजन्नेकैकमूर्खतः । उपर्याद्याद्गुरोरेकमेकद्वयादिलगक्रिया ॥७॥ उक्तादिवृत्तनिष्ठान्वर्णान्वर्णासंख्याकानान्सैकानेकेनाधिकेन सहि- तानौत्तराधर्यत उत्तराधरभावेन स्थितान्कुर्यादित्यध्याहारः । औत्त- राधर्यत इति गुणवचनब्राह्मणादिभ्यः कर्मणि चेति ब्राह्मणादित्वा- झावे ष्यम् । ततस्तसिः । एतान्पूर्वस्थापितानकानेकद्वित्र्यादिक्रमेणो- पर्युपर्य के निक्षिपेन्मेलयेत् । मेल्यमानाङ्कसमसंख्याया उपरि क्षेपो मे- लनं न तु स्वस्यैव स्वरूपस्तत्स्थाने शून्यताप्रसत्तया द्वितीयादिमे- लनावृत्त्यभावापत्तेः। अधस्तनमेकाकं तदुपर्यकाके मेलयित्वा व्यक्त कु- र्यात्, तं तृतीयैकाङ्के संयोज्य व्यकं कुर्यादित्येवमुत्तरोत्तरं कुर्यादि- त्यर्थः । उपान्त्यस्याप्यन्तमेलने प्रसक्तेऽपवादमाह-उपास्यत इति । उपान्त्यपर्यन्तमेलनं कृत्वा तमन्त्येऽमेलयित्वोर्ध्वप्रत्यावृत्तकैकं त्यजन्नि- वर्तेत विरमेत् । अन्त्यश्च प्रथममेलने सर्वोपरितनः, द्वितीयमेलना- १. 'उत्तरानूलतः स्थितान्' इति पाठः, २. 'क्रमश' इति पाठः, " पष्ठ'ऽध्यायः । , वृत्तौ तदधोभावी द्वितीयः, तृतीयावृत्तौ तदधोभावी तृतीय इत्येव- मुत्तरोत्तरो शेयः । उपान्त्यश्चान्त्याधोभावी प्रतिमेलनावृत्तकमेकं त्यक्त्वाधस्तनान्मलयेदिति भावार्थः। एकैकमिति वीप्सया सर्वाध- स्तनाङ्कपर्यन्तं पुनःपुनर्मेलनावृत्तिः कार्येत्यसूसुचत् । सिद्धमाह-उ. परीति । एवं कृत आद्यात्प्रथमाद्गुरोः सर्वगुरो दादुपर्यनन्तरमेकद्वि- त्र्यादीनां लघूनां क्रिया शेयेति शेषः । प्रथममेकः सर्वगुरुस्तदधस्तना- कसंख्य एकलघुः, तदधोऽङ्कसंख्या द्विलघवः, चतुर्थाङ्कसंख्यास्त्रिल- घवः, एवमधोभाव्यङ्कसंख्याश्चतुर्लघ्वादिभेदा शेया इत्यर्थः । एवं प्रथ-. मः सर्वगुरुः, द्वितीयाङ्क एकगुरवः, तृतीयाके द्विगुरवः, चतुर्थाके त्रि- गुरवः, इत्यादिप्रकारेण गुरुक्रिया । अत्र त्र्यक्षरे उदाहरणं १.१.१.१. एवं सैकान्वृत्तवर्णसंख्यानेकाङ्काच्यसेत् । चतुरक्षरे च यथा--१.१.१. १.१. ततोऽधस्तनमेकावं तदुपरिस्थैकाङ्के संयोज्य व्यकं कुर्यात् । यथा-त्र्यक्षरे १.१.२१. चतुरक्षरे च यथा-१.१.१.२ १. द्वितीयं तृ- तीये मेलयेत् । आये यथा-१.३.२.१. द्वितीये यथा-१.१.३ २.१. तृतीयं चतुर्थे मेलयेत् । चतुरक्षरोदाहरणे १.४.३ २.१ । त्र्यक्षरे तु न मेलयेत् । उपान्त्यतो निवर्तेतेन्युक्तेः । पुनरूयक्षरेऽधनस्तनं द्वितीये मे- लयेत् । यथा-१.३.३.१. त्र्यक्षरे एतावतैव सिद्धिः, चतुरक्षरे त्वध- स्तनं द्वितीये मेलयेत्। यथा--१.३.३.४.१. द्वितीयं तृतीये यथा--१.४. ६४.१ ततो मेलनं नास्ति । एवं त्र्यक्षरे एकः सर्वगुरुर्भेदः, त्रय एकल- घवः, त्रयो द्विलघवः, एकः सर्वलघुरिति गुरुक्रियायां त्वेकः सर्व- गुरुः, त्रय एकगुरवः, त्रयो द्विगुरवः, एकः सर्वलघुरिति सिद्धम् । चतुरक्षरे एकः सर्वगुरुः-55ss. चत्वार एकलघवः --1555 (१), siss (२), sss (३), ऽऽऽ। (४), षट् द्विलघवः-1155 (१), ISIS (२), 15 (३), Iss। (४), ऽ।ऽ। (५), 55।। (६), चत्वार- खिलघवः-॥5 (१), ।। (२),।5।। (३), ।।5। (४), एकः सर्वलघु भेदः।।।। एवं गुरुभेदा अपि । एवं सर्वत्र । अर्धसमे तु वि- शेषः । यक्षरार्धसमानां षोडश भेदाः पूर्वोक्तरीत्या तन्मध्ये प्रथमषष्ठै- कादशषोडशांश्चतुरो भेदान्हापयेत् । यथा --चतुरक्षप्रस्तारे एक- व्यादिलगक्रियायां कृतायां प्रथमान्त्यौ त्याज्यौ समत्वात्, षष्ठैकादशौ द्विलघुत्ववृत्तसंख्याबोधके षडके त्याज्यौ । एवं कृते न्यासः ४४ ४, ततश्चत्वार्येकलघूनि, चत्वारि द्विलघूनि, चत्वारि त्रिलचूनि वृत्तानीति द्वयक्षरार्धसमभेदा द्वादश । एवमन्यत्राप्येकद्वयादिलघुकान्समभे- दानेकद्वयादिलघुकवृत्तसंख्याबोधकाऊ पातयित्वाधान्त्यौ च भेदौ .
८६ वृत्तरत्नाकरम् । त्यक्त्वावशिष्टाकैरेकड्यादि लगक्रियासमेषूह्या । विपमेषु तु द्वय- क्षरपादस्य कथ्यते । अष्टाक्षरजातेस्तावदेव लगक्रियायां पूर्वोक्तरीत्या वृत्तायां न्यासः।१।८।२८। ५६।७०।५६।२८।८।१। अत्र समाई- समरूपत्वात्प्रस्तारकरणोक्तप्रकारेण षोडश भेदा यथास्थानं पात्याः। यथा एकलघवो हेयेषु न सन्ति, द्विलघवश्चत्वारस्तदीयेऽष्टाविंशत्यङ्के हेवाः, त्रिलघवो हेयेषु न सन्त्येव, चतुर्लघवः षट्कं सप्तत्यकेषु हेयाः, पञ्चलघवस्तु न सन्त्येव, षट्लघवश्चत्वारोऽशाविंशत्यङ्के हेयाः, सप्तल- घवो न सन्तीति।आद्यन्तौ चैकाको त्याज्यौ। एवं कृते द्वयक्षरविषमस्थ एकद्वयादिलगक्रियाङ्कन्यासः -८।२४।५६ । ६४।५६।२४।८। अत्रा- यावेकलघवश्चतुर्विशतिः द्विलघव इत्यादि पूर्ववत्कथनीयम् । एवमन्ये- प्वपि विषमेष्वपि शेयम् । संग्रहश्लोकः-'छन्दोवर्णमितानुपर्यधर- गान्सैकान्मुखाङ्काल्लिखेदेकैकं शिरसि त्यजन्नधरगानूर्वेषु संयोजयेत् । भेदः सर्वगुरुर्मुखे तदनु चैकद्वयादिलघ्वन्विता चान्ते सर्वलघुक्रिया लघुगतैवं स्याद्गुरूणामपि ॥' भास्कराचार्यैस्तु लीलावत्यां लघुगुरु- क्रियायां प्रकारान्तरमभ्यधायि । तदुच्यते -वृत्तपादाक्षरसंख्याका- नेकाद्यङ्कानुपरि व्युत्क्रमेण विन्यस्य तदधस्तानेव क्रमेण न्यसेत् । ततोऽधस्तनेन स्वोपरिस्थो भाज्यः, भागेन लब्धेन तदग्रिमो गुण्यः, तद्धस्तलेन भाज्यः । लब्धेनाग्रिमं गुणयेत्, तदधस्तनेन भागं हरेत्, इत्येवं यावदङ्कसमाप्ति कार्यम् । लब्धाङ्काश्च क्रमेण स्थाप्याः । एवं कृते लब्धाङ्केषु प्रथमेनैकगुरवो ज्ञेयाः, द्वितीयेन द्विगुरव इत्यादि शे- यम् । इदं षडक्षरपादे गायत्रीकृते योज्यते न्यासः।। ५.४:३:३: । अ- त्रैकेन षण्णां भागे लब्धाः षट्, षड्भिः पञ्चसु गुणितेषु ३० द्वाभ्यां भक्ते लब्धः १५, एतश्चतुर्पु गुणितेषु ६० त्रिभिर्भागे लब्धं २०, एभि- स्त्रिषु गुणितेषु ६० चतुर्भिर्भागे लब्धं १५, एतैर्द्वयोर्गुणनेन ३० पञ्चभि- र्भागे लब्धं ६, एतैरेकस्मिन्गुणितं पडेव षड्भिर्भागे लब्धं १, एतेषां क्रमेण विभक्तानां न्यासः ६।१५।२०।१५।६।१॥ एकगुरवः ६, द्विगुरवः १५, त्रिगुरवः २०, चतुर्गुरवः १५, पञ्चगुरवः ६, सर्वगु- रुः सर्वलघुरेकः स्वतःसिद्ध एव । एवमन्यत्रापि योज्यम् । तदाहुर्ली- लावतीकाराः-एकाघेकोत्तरा अशा व्यस्ता भाज्याः क्रमस्थितैः । परः पूर्वेण संगुण्यस्तत्परस्तत्परेण च ॥ एकद्विव्यादिभेदाः स्युरिदं साधा- रणं स्मृतम् । छन्दश्चित्युत्तरे छन्दस्युपयोगोऽस्ति तद्विदाम् ॥' इति ॥ अथैकद्वयादिलघुगुरुक्रियासिद्ध्यर्थमेव सूत्रकारोक्तो मेरुप्रस्तार:- तत्र प्रथममेकं चतरां कोष्टं लिखेत् । तदध उभयतोऽर्धनिष्क्रान्तं को- - षष्ठोऽध्यायः । ष्ठद्वयम् । तदधस्तथैव त्रयम् । तदधस्तथैव चतुष्टयम् । इत्येवं षविं- शतिकोष्ठलेखनं यावत्कार्यम् । उपरि कोष्ठे एकाको देयः । तथा प्रति- पति आद्यन्तकोष्ठेषु एकाङ्क एव । तृतीयपको मध्यमकोष्ठे शून्ये तदु- परिगतकोष्ठद्वयगतौ एकाङ्कावेकीकृत्य व्यवं न्यसेत् । एवं चतुर्थपतौ मध्यकोष्ठयोरुपरिगतकोष्ठद्वयाङ्कमेकीकृत्य व्यकौ । एवं सर्वोपरि- तनकोष्ठद्वयाङ्कमेकीकृत्याधस्तनकोष्ठे दद्यात् । एवं षड्विंशतिकोष्ठक- पति यावत्कार्यम् । तदुक्तम्-'आदावेकं लिखेत्कोष्ठं तदधो द्वे च संलिखेत् । तदधस्त्रीणि कोष्ठानि एवं रूपेण वर्धयेत् ॥ आदावेकं . लिखेत्कोष्ठमेकं मध्यं च पूरयेत् । लेख्यकोष्ठोपरिप्रातैरग्रिमाङ्केन संयु- नैः ॥ इति । १ २ १. १ १० २ ६ २१ ३५ ३५ ८ १ १ १० ४५ १२० २१० २५२ २१० १२० ४५१० ? १ ११ ५५ १६५ ३३० ४६२ ४६२ ३३० १६५ ५५१? ? १ १२ ६६ २२० ४९५ ७८२ ९२४ ७९२ ४९५ २२० ६६ १२२ (एव षड्विशतिकोष्ठकपति यावत्पूरणीयम् । ) अत्रोद्धारप्रकारोऽयं मेरोः-अत्र द्विकोष्ठायां द्वितीयपको एकाक्षर- पादाया उक्ताया लगक्रिया । तृतीयायां द्वितीयपतौ अत्युक्ताया एव । • इत्येवं क्रमेण षड्विंशतिजातीनां विशेषनिवेशः । स चैकाकोपरिगत- प्रतिपतिगद्वितीयकोष्ठस्थाङ्कन शेयः । तत्र द्वितीयपलावेकं सर्वलघु, एकं सर्वगुर्युक्तायाम् । तृतीयपकावेकं सर्वगुरु हे एकलघूनि, एक सर्वलस्वित्यत्युक्तायाम् । चतुर्थपङ्कावेकं सर्वगुरु त्रीण्येकलघूनि, त्री- णि द्विलघूनि, एकं सर्वलध्वितिप्रकारेणैकद्विव्यादिलघुगुरुक्रिया स- र्वेषु श्रेयेति सूचिमेरुप्रस्तारः । गुरुलघुसंख्यासूचकत्वात्सूचिः, मेरु- संस्थानत्वाच मेरुरिति ।
वृत्तरत्नाकरम् । , .. अथ प्रस्तारे कृते सर्वगुरुः कुत्र स्थानेऽस्ति, तदपेक्षयैकन्यूनगुरुः कु- त्रास्ति । ततोऽथैकन्यूनगुरुः कुत्रास्ति, इत्येवंप्रकारे प्रश्ने तत्स्थानक्षा- नार्थ पताकाप्रस्ताराः कथ्यन्ते, यत्संख्याक्षरप्रस्तारे प्रश्नस्तदक्षरसंख्या- कान्कोष्ठानेकाधिकांल्लिखित्वान्तेषूद्दिष्टवदेकाङ्कादारभ्योत्तरोत्तरद्विगुणा अङ्का देयाः । ततः प्रथमाङ्केन व्यादीनां संयोजनं कृत्वा व्यङ्कादधः कोष्ठकान्कृत्वा तेषु संयुक्ताङ्काल्लिखेत् । अन्तिकेन प्रथमाको न योज्यः । तावत्संख्यस्य तस्य वृत्तस्याभावात् । ततो द्वितीयावं तृतीयकोष्ठाङ्क- रुपान्त्यपर्यन्तैः संयोज्य तृतीयकोष्ठाधः कोष्ठकान् कृत्वा तेषु लिखेत् द्वितीयाकोष्ठाधःस्थैरप्यकैस्तृतीयकोष्ठस्थितचतुरत संयोज्य तस्या- मेव पतावको लिखेत्, एवं चतुरङ्कमष्टादिभिः संयोज्याष्टमाङ्कोऽधो लिखेत्, तदधोऽपि चतुरङ्काधापतिस्थैरटमाङ्क संयोज्य लिखेत्, एवं सर्वत्र यावदङ्कसमाप्ति लेख्यम् । एवं क्रियमाणे यत्र प्रस्तारसं- ख्याधिकसंख्या पठ्यते सा न लेख्या ॥ एकत्र लिखिता चापरत्र न लिखितव्या किंतु तदग्रिमसंख्यायोगस्तदधःसंख्यायोगो वा कार्यः । एवं सर्वत्र । तथा च प्रथमस्थाने सर्वगुरुः द्वितीयपतिस्थेषु द्वितीया- दिस्थानेषु विवक्षितसर्वगुरुमध्ये एकं न्यूनं कृत्वा तावद्गुरुकभेदस्था- नानि । एवं तृतीयादिपतिप्वकैकगुरुन्यूनप्रस्तारस्थानानि । यद्वा प्र- थमः सर्वगुरुर्द्धितीयपङ्कावेकलघुस्थानानि, तृतीयपतौ द्विलघुस्थाना- नीत्यादि शेयम् । तदुक्तम्-‘एको द्वावथ चत्वारस्ततोऽष्टाविति वर्ध. नम् । पूर्व परेण संयोज्य तदधो लेखयेद्बुधः॥ अन्तिमाङ्कावधिं नैव ल- ड्वयेदत्र कुत्रचित् । एकत्र लिखितं प्राज्ञः पुनरन्यत्र नो लिखेत् ॥' अ- त्रोदाहरणमेकाक्षरे १ । २ अस्य द्विविकल्पत्वादेकस्थानस्थ एकगुरुः, द्वितीयस्थ एकलघुरिति । एतावतैव सिद्धिः । व्यक्षरे यथा-१. २. ४. अत्रैकाङ्कयङ्कयोः संयोजने त्र्यको व्यड्काधो लेख्यः, तस्य चतुर्वि- कल्पत्वात्तावतैव सिद्धिः । प्रथमस्थानस्थैकः सर्वगुरुः, द्वितीयतृती- यस्थानस्थौ एकगुरु एकलघु वा, चतुर्थस्थानस्थः सर्वलघुरिति त्र्य- . क्षरे यथा अत्र पञ्चाकस्य चतुरङ्कयोजनं न कार्यम् , नवमभेदाभावात् । तेन त्र्यकस्य चतुरस्य संसृष्टौ सप्त षडधो निवेश्या इति ।
षष्टोऽध्यायः । चतुरक्षरे पताका यथा- २ ३ ६ २१ ११ १३ , । अत्रैकं द्वाभ्यां सह त्रयं द्वयकाधः, एकं चतुर्भिः सह पञ्च व्याधः, एकाष्टयोगे नव पञ्चाधः, द्विचतुर्योगे षद् चतुरधः, द्वयष्टयोगे दश षडधः, द्विषोडशयोगो न कार्यः। त्रिचतुर्योगे सप्त दशाधः पञ्चचतु. योगे नव एकत्र लिखितत्वान्न लेख्याः, त्र्यप्रयोग एकादश सप्ताधः) त्रिषोडशयोगो न कार्यः । पञ्चाष्टयोगे त्रयोदश एकादशाधः, चतुर- ष्टयोगे द्वादशाप्टाधः, चतुःषोडशयोगो न कार्यः, षडष्टयोगे चतुर्दश द्वादशाधः, दशाप्टयोगो न, सप्ताप्टयोगे पञ्चदश चतुर्दशाधः । अत्र प्रथमस्थाने सर्वगुरुः, द्वित्रिपञ्चनवस्थाने त्रिगुरवः एकलघनो वा, चतुःषड्दशसप्तैकादशत्रयोदशसु स्थानेषु द्विगुरवो द्विलघवो वा, नष्टद्वादशचतुदशपश्चदशस्थानष्वकगुरुास्त्रलघवा वा षाडशस्थान पर्वलघुरिति योजना। . पञ्चाक्षरपताका यथा- १ ३२ . ३ w १० १४ २८ ३० ३१ U २२ २६ २३ २५ २९ वृत्तरत्नाकरम् । षडक्षरपताका यथा- १ ८ १६ ३२ Y Mm. ६ १२ ३६ ३४ ६० ६२ ६३ ३३ २२ ११ १९ १३ ३१ १५ २३ ३९ २५ ६१ ५१ अनयोरे कठ्यादिगुरुस्थानं पूर्ववदेव वक्तव्यम् । इति पताकोदाव- निका ॥ अथ मात्रामेरुप्रस्तारः तत्रैककलद्विकलत्रिकलादिषु कति सर्वगुर- वः कति चैकगुर्वादय इति बुभुत्सायां तद्वोधार्थ तत्प्रस्तावः, यथा- उपर्येककोष्टं लिखित्वा तदधः कोष्ठद्वययुक्तिद्वयं तदधः कोष्ठत्रययुतं पतिद्वयं ततः कोष्ठचतुष्टययुतं पङ्क्तिद्वयं इत्येवंरूपेण यावदिच्छयैकैकं कोष्ठं वर्धयित्वा पतिद्वयं लेख्यम् । एतं कृते उपरिकोष्ठके द्वयं एकाङ्को देयः, सर्वपतयन्तकोष्ठे च स एव देयः, पतयादिकोष्ठेषु एकान्तरेण व्यादयोऽका वृद्ध्या देयाः । यथा---प्रथमपङ्गिप्रथमकोष्ठे प्रथमाङ्कः, षष्ठोऽध्यायः । १ २ ६ १ १ २० १ १ २१ ३५ १ ६ ३५ ३६ २० १ १ २४ १२० १ १२ ६६ १३ ७८ १४ १ २५२ ३३० १ द्वितीयपतयाद्यकोष्ठे द्वितीयाङ्कः, तृतीयपनयाद्य एकाङ्कः, चतुर्थप- तयाद्ये व्यङ्कः, तत एकः, ततश्चतुष्टयमिति क्रमेणाद्यकोष्टपूरणे सतीति, एवमाद्यन्तकोष्ठपूरणे कृते समानकोष्ठद्वयमध्ये उपरि पतिमध्यस्थित- शून्यकोष्ठेषु पूरणीयकोष्ठोपरिस्थकोष्ठद्वयाद्यकोष्ठाङ्केन तदुपरिस्थित- कोष्टानिमकोष्ठाङ्कमेकीकृत्य योऽङ्कस्तं दद्यात् । द्वितीयपतिमध्यस्थकोष्ठे तु पूरणीयकोष्ठोपरिस्थकोष्ठाङ्केन तदुपरिस्थितकोष्ठद्वयमध्येऽन्तको ठाङ्कमेकीकृत्य दद्यात् । एवं कोष्ठपूरणे कृते प्रथमकोष्ठ एककलस्य न्यासः, द्वितीयपतौ द्विकलस्य, तृतीयपतौ त्रिकलस्य, चतुर्थ्यां चतु- कलस्य, पञ्चम्यां पञ्चकलस्येत्येवं न्यासः । तत्रैककले एक एव. सर्व- लघुरेकलघुरूपः, द्विकले एकः सर्वगुरुरेकगुरुरूप एकः, सर्वलघुद्धिल-. घुरूपः, त्रिकले सर्वगुर्वभावाद्वौ लघू एकगुरुः एकः सर्वलघुः, चतु- कले सर्वगुर्वात्मक एकः, एकगुर्वात्मकं त्रयं सर्वलघुरेका, पञ्चकले सर्वगुर्वभावाद्विगुर्वात्मकं त्रयमेकगुर्वात्मकं चतुष्कं सर्वलघुरेकः, षष्ट्यां षट्कलेषु एकः, सर्वगुरुः, षट्र द्विगुरवः, पञ्चैकगुरवः, एकः सर्व- लघुरित्येवं शेयम् । तत्तत्पतयङ्कानेकीकृत्य तत्तत्संख्या च शेया। यथा- षट्कले एक षट्-पञ्चैकाङ्कानां मेलने त्रयोदश प्रागुक्ता भेदा भवन्ति । एवमन्यत्र ॥ मात्रामेरुप्रस्तारः ॥
९२ वृत्तरत्नाकरम् । , खण्डमेरु:-धद्वा मात्रावृत्तेषु कत्येकगुरवः, कति द्विगुरव इत्यादि- शानार्थ खण्डमात्रामेरुः कार्यः । यथा-उपर्येकः कोष्ठो लेख्यः, तदधो दक्षिणतो वामतो वातिक्रान्तैककोष्टं कोष्ठद्वयवत्पतिद्वयम्, तद्धस्तथैव कोष्ठत्रयवत्पङ्किद्वितयम्- १ १ Mo. amom ३ १ orm w or १३ २१ an on १ १ १ २० २१ २८ ६ ३५ ३६ २१ ११ २३३ ५६ १२० १२ ३७७ १६५ ६६ ६१० २५२ ३३० २२० १४ ९८७ तदधस्तथैव कोष्ठचतुष्टयवत्पतिद्वयम्, तदधः कोष्ठपञ्चकोपेतपति- द्वयमित्येवंप्रकारेण यावदिच्छं कुर्यात् । एवं कोष्ठेषु लिखितेषु कोष्ठब- हिर्निगमप्रदेशेऽन्त्यकोष्ठेषु एकद्वि-एकत्र्येकचतुरादिक्रमेणैकान्तरेणैको- त्तरख्याका देयाः, द्वितीयप्रदेशेऽन्त्यकोष्ठेषु सर्वत्रैकाङ्का देयाः । मध्यकोष्ठे तु स्वोपरि कोष्ठाकेन तदुपरि कोष्ठपुरःस्थितकोष्ठाङ्कमेकी- कृत्य पूर्ववल्लिखेत् । यथा--अत्र प्रथमपलावेकमात्रस्य न्यासः । द्विती- यपको द्विकलस्य, तृतीयायां त्रिकलस्येत्येवं पूर्ववन्यासः । सर्वगुर्वे कगुर्वादिकथनं च पूर्ववदेव कार्यम् । प्रतिपतिप्रस्तारसंख्याज्ञानार्थ तत्तत्पतिस्थान्सर्वानानेकीकृत्य सिद्धमङ्कमेकाङ्कात्परतो बहिर्लिखेत् । मात्रामेरौ मात्राखण्डमेरौ च संमतिः । 'आदावेकं न्यसेत्कोष्ठं तदद्धः पतियुग्मके । द्वौ द्वौ च तद्धस्त्रीस्त्रीनेवरूपण वर्धनम् ॥ अन्तकोष्ठेषु सर्वेषु प्रथमाकं न्यसेत्सुधीः । आदौ चैकं ततो द्वौ च पुनश्चैकं ततस्त्र- यम् ॥ एकान्तरं च वृद्धाङ्कमेवंरूपेण पूरणम् । मध्यकोष्ठं ततः प्राज्ञः पूरणीयं शिरःस्थितैः ॥ शिरःस्थितोलकायाकमेकीकृत्य प्रपुरयेत् । एवं क्रमेण सिद्धः स्यान्मात्रामेरुन संशयः॥' इति खण्डमात्रामेरुः॥ .
षष्ठोऽध्यायः । ९३ अथ क्रमप्राप्तां संख्यामाख्याति- लगक्रियाङ्कासंदोहे भवेत्संख्या विमिश्रिते । लगक्रियायां पूर्वोक्तायां येऽशाः सिद्धास्तेषां समूहे मिलिते योजिते सति योऽः सा संख्या भवेत् । यक्षरे यथा-१. ३. ३. १. एतेषामे- कत्रित्र्येकाशनां मेलनेऽष्टौ प्रस्ताराः । चतुरक्षरे च--१. ४. ६. ४. एषामेकचतुःषट्चतुरेकाहानां मेलने षोडश ॥ प्रकारान्तरेण संख्यामाह- उद्दिष्टाङ्कसमाहारः सैको वा जनयेदिमाम् ॥ ८॥ पूर्वोक्तानामुद्दिष्टानामकानां सैक एकसहितः समाहारो मेलनं वा । अथवेमा संख्यां जनयेदुत्पादयेत् । तद्यथा--त्र्यक्षरे एकद्विचतूरूपा उ- द्दिष्टाकाः सप्तमेलनेऽष्टौ सा तस्य संख्या, चतुरक्षरे च एकद्विचतु- रष्टाङ्कमेलने १५ सैका षोडश सा तस्य संख्या । एवंप्रकारद्वयमन्य- प्रावधेयम् । इदं चोपलक्षणं प्रस्तारगणनयापि संख्याज्ञानसिद्धः, प्रथ- मवृत्तसंख्याद्विगुणोत्तरोत्तरवृत्तसंख्येति सिद्धेश्च । अर्धसमविषमयोर- पि पूर्वोक्तरीत्या लगक्रियोहियाकमेलनेन संख्या शेयेति । संग्रहपधं तु संख्याध्वनोरेकमेव वक्ष्यते । सूत्रे तु संख्यानयनेऽन्यः प्रकार उक्तः। यथा--यत्संख्यां जिशासेत तजातिनिष्ठाक्षरसंख्या भूमौ स्थापित अर्धमपनयते, अर्धकरणे भागद्वयस्य कृतत्वात्सद्धि संख्या लब्धा ता. पृथकृत्य भूमौ स्थापयेत् । अवशिष्टार्धसंख्या यदि समा ततस्तस्याम- धितायां द्वयकस्य लब्धस्य पूर्वलब्धाङ्काधस्तान्यासः कार्यः। एवमुत्त- रत्र । यदा त्वर्धसंख्या वृत्ताक्षरसंख्यैव विषमा, तदा द्वीकरणाशक्ते- रेकं रूपमपनीय शून्यं पूर्वलब्धाङ्काद्धः स्थापयेत् । एवमेकृपर्यन्तक- रणेऽधःस्थितशून्यस्थान एकाङ्कं निधाय द्विगुणयेत् । तौ द्वौ तस्योपरि- पावर्धस्थाने निधाय तया संख्यया सैव गुणनीया, ततो गुणितामुपरि स्थाने त्रिः क्षिपेत्, तत्स्थानं यदि शून्यस्य तत्तदा न्यस्तमहं द्विगुणयेत्, यदि त्वर्धस्थानं तदा तयैव संख्यया गुणयेत्, एवमुपरिस्थानपर्यन्ते- कृते योऽको जातः स इष्टवृत्तसंख्या ज्ञेयेति । अत्रोदाहरणं षडक्षरे गायत्रे षट्संख्याभ्यामर्धेऽपनीते द्वयके स्थापिते अवशिष्टात्रयस्तेषु रूपमपनीय द्वयाधः शून्यं स्थाप्यम् । यथा--२ | ०. अवशिष्टद्विसं- ख्यानोऽर्धेऽपनीते शून्याधो द्विसंख्या लेख्या । यथा-२०।२। ततोऽवशिष्टं रूपं तदपनीय द्वयाधः शून्यं स्थाप्यम् । यथा-२।। २।०. अधः शून्ये एकाई द्विगुणं न्यस्य तं द्वयकमर्धस्थाने स्थित- वृत्तरताकरम्। मपनीय तत्स्थाने निधाय तं तावद्गुणं कुर्यात् । ततो द्वौ द्वाभ्यां गुणितौ चत्वारो भवन्ति तेषामुपरिष्टाच्छ्न्यस्थाने तं निधाय शून्यस्थानाकत्वाद्विगुणयेत् । ततोऽष्टौ भवन्ति तानप्यर्धस्थाने निधाय तावद्गुणान्कुर्यात्, तेनाष्टावष्टभिर्गुणिताश्चतुःषष्टिर्भवन्ति गाय- त्र्यां समवृत्तानि । एवं सर्वत्र समवृत्तसंख्या ज्ञेया, सा च तत्र तत्र द- र्शितैव । यदा तु शुद्धार्थसमवृत्तसंख्यां जिशासेत तदा समसंख्या तथैव गुणनीया सिद्धेऽके समसंख्यां पातयेत् । अवशिष्टा शुद्धार्थसमसंख्या भवति । यथा त्र्यक्षरे समसंख्या ८ ते तैरेव गुणिताश्चतुःषष्टिस्तन्मध्ये- ऽष्टस्वपनीतेषु षट्पञ्चाशच्छुद्धार्थसमानि । एवं सर्वत्र । यदा तु तत्त जातिषु शुद्धविषम संख्या जिशासिता तदा संख्यायां तथैव गुणितायां या संजाता तां पुनस्तथैव गुणयेत् । सिद्धेऽके समाधैं समे अपनीय शि- ष्टा संख्या शुद्धविषमस्य । यथा-त्र्यक्षरे समानि(८)तैरेव गुणने चतुः- षष्टिः ६४ पुनरेतयैवैतद्गणने चत्वारि सहस्राणि षण्णवतिः। अतोऽपि ४०९६। समाईसममेलने६४एतेष्वपनीतेष्ववशिष्टं४०३२। इयं शुद्धविष- मसंख्या यदा तु समाविषमाणि समुदितानि जिज्ञासितानि, तदा समार्धसमे नापनेये पूर्वैव तत्संख्या । एवमन्यत्रापि शेयम् । यदैतजा- त्यन्तानि कति समवृत्तानि इति संख्याजिज्ञासा तदा विवक्षितप्रान्तच्छ- न्दः संमवृत्तसंख्यां द्विगुणयेत्तन्मध्ये द्वावपनयेत् । शिष्टा विवक्षितजा- तिपर्यन्तानां समवृत्तसंख्या यथा चतुरक्षरे षोडश समवृत्तानि तेषां द्वैगुणगे द्वात्रिंशत् । द्वयोरपनये तदन्तानां संख्या ३० । एवमु- त्कृतेर्भेदाः षट्कोट्य एकसप्ततिर्लक्षाणि अष्टौ सहस्राणि अष्टौ शतानि चतुःषष्टिश्चेति । अतोऽपि ६७१०८८६४ । एतद्वैगुण्ये द्वयोर्हानिः । त्रयोदशकोट्यो द्वाचत्वारिंशल्लक्षाः सप्तदशसहस्राणि सप्तशतानि पविंशत्यधिकानि । अङ्कतोऽपि १३४२१७७२६ । एतावन्ति सर्वाणि समवृत्तानि । तदुक्तम् --'विवक्षितान्तजातेस्तु भेदा द्विगुणितास्ततः । द्विहीनाः सर्वसंख्यायां ते स्युरुक्तादिजा इति ॥' अथाध्वयोगमाह- संख्यैवं द्विगुणैकोना सद्भिरध्वा प्रकीर्तितः । या समादिवृत्तानां तत्तजातिषु संख्या पूर्वमुक्ता सा द्विगुणा एको- नेति स सद्भिः प्रस्तारादिहरध्वा वृत्तप्रस्तारख्याप्यः प्रदेशस्तत्तज्जा- तिषूक्तः स्वस्वग्रन्थेषु । त्र्यक्षरे यथा संख्याष्टरूपा द्विगुणा षोडश ए- १ 'एक' इति पाठः.
षष्ठोऽध्यायः । काना पञ्चदश भवन्ति सोऽयं तस्य अध्वा पञ्चदशाङ्गुलायां भुवि तवृत्तं प्रस्तार्य इति भावः। चतुरक्षरेऽपि तथाकरणे एकत्रिंशत् स तस्य। एवमर्धसमविषमयोः उक्तेऽर्थे उपपत्तिमाह --- वृत्तस्याङ्गुलिकी व्याप्तिरधः कुर्यात्तथाङ्गुलिम् ॥ ९॥ वृत्तस्य वृत्तप्रस्तारस्य व्यासतो व्याप्तिरङ्गुलिमिता, वृत्ताधश्चाङ्गु- लिं कुर्यात् । त्यक्तामिति शेषः । अङ्गुलायामा गुरुलघवः कार्याः प्रस्ता- रान्तरालं चाङ्गुलिमितमेव कार्यमित्यर्थः । अत्र चोद्दिष्टाङ्कलेखनाय मध्येऽङ्गुलावस्थापनम्, अङ्गुलन्यूनाधिकपरिमाणानां गुरुलघूनामुद्दि- टाकानां च लेखनं संभवेऽप्यननुगतस्याशास्त्रार्थत्वादगुणमिति सि- द्ध्यर्थमङ्गुलिनियमनं कृतं नतु व्यसनिमात्रतया । न च प्रथमप्रस्तारे- ऽप्युद्दिष्टकरणायोपर्यङ्गुलमितभूमिग्रहे पूर्णव द्विगुणा संख्याध्वा स्यात् । न त्वेकोनेति वाच्यम् । प्रथमस्य सर्वत्र सर्वत्र स्वसर्वगुरुत्वेनैव नियमा- दुद्दिष्टकरणानपेक्षणात् । न चैवमन्तिमस्यापि सर्वलघुत्वेन शातत्वादूना द्विगुणा संख्या अध्वा स्यादिति वाच्यम् । कोट्यवधिकलघुप्रस्तारेषु सर्व- लघोः सामान्यतः अन्त्यत्वज्ञानेऽपि कथितोऽयमिति विशेषाशाने गण- नाव्यतिरेकेणापि तावत्संख्याक इति शानार्थमुद्दिष्टकरणापेक्षणात् । एतेनैतदपास्तं यत्केचिदाहुः-'षष्ठः प्रत्ययोऽध्वयोगपरिच्छित्तिः' इ- त्येके सोऽल्पफलत्वात्पुरुषेच्छानुविधायित्वेनानियतत्वाच्च नोक्त इति । संख्याध्वनोः संग्रहपद्यम् -'सैकोद्दिष्टाङ्ककूटाल्लगकरणगताकैर्विमिथैः परेषां पूर्वद्वैगुण्यतो वा भवति गणनया प्रस्तृतीनां च संख्या । वृत्ते वृत्तान्तरे चाङ्गुलिपरिमितता स्यात्तदैकेन हीना संख्यैव द्विः कृताध्वा विधिरयमुदितो भट्टनारायणेन ॥' इदानी नियूंढप्रतिज्ञाभारो ग्रन्थकारः स्वग्रन्थे श्रोतृभिः प्रवृत्तिवि- शेषः कार्य इति सूचनार्थ स्ववंशपित्रादिगुणप्रतिपादनपूर्वकं ग्रन्थक- तिमुपसंहरति वंशेऽभूत्कश्यपस्य प्रकटगुणगणः शैवसिद्धान्तवेत्ता विप्रः पंव्येकनामा विमलतरमतिर्वेदतत्त्वार्थबोधे । केदारस्तस्य सूनुः शिवचरणयुगाराधनैकाग्रचित्त- श्छन्दस्तेनाभिरामं प्रविरचितमिदं वृत्तरत्नाकराख्यम्॥१०॥ १ 'पब्बेक इति पाठ . २ 'तत्त्वावबोधे' इति पाठ .
वृत्तरताकरम् । कश्यपस्य महर्षेर्वशेऽन्वये गोत्रे प्रकटः प्रसिद्धो गुणसमुदायो यस्य स तादृशः पव्येकाल्यो विप्रो ब्राह्मणोऽभूत् । कीदृक् । शिवो देवता येषां ते शिवपूजकाः शैवास्तत्सिद्धान्तस्य वेत्ता माता । शैवागमवेत्तेत्य- र्थः । तथा वेदानां तत्वार्थस्याबोधितस्यार्थस्य बोधे शाने निर्मलतर- बुद्धिस्तस्य पव्येकस्य पुत्रः केदारनामा । कीदृक् । शिवचरणयुगल- सेवामात्रैकाप्रचेतास्तेन केदारेणाभिरामं मनोज्ञ संक्षेपेणैव लक्ष्यलक्ष- णयोरभिधानात् । अथान्तरेभ्योऽतिशयवत् । वृत्तरत्नाकरनामकं छन्दः छन्दःशास्त्रप्रकरणं प्रविरचितं कृतम् । यद्यपि 'कर्तरि च' इति कर्बर्थ. तृजन्तस्य षष्ट्या सह समासो निषिद्धस्तथापि जनिकर्तुः प्रकृतिशाप- केन निषेधस्यानित्यताशापनात् । शैवसिद्धान्तवेत्तेति षष्ठीसमासः । केचित्तु तृनन्तेन समास इति । तत्र तुनो योगे 'न लोकाव्ययनिष्ठाख- लर्थतनाम्' इति षष्टीनिषेधात् । इति सर्व मनोहरम् ।। भट्टश्रीनागनाथात्समजनि विबुधश्चाङ्गदेवाख्यभट्टः प्रासोष्टासौ तनूजं रघुपतिनिरतं भट्टगोविन्दसंशम् । विश्वामित्रान्ववायाम्बुधिविधुरधिकं वर्धते तत्तनूजो विद्याब्धौ लब्धपारः प्रथितपृथुयशा भट्टरामेश्वराख्यः ॥ नारायणेन सुधिया काश्यां निवसता सता। वृत्तरत्नाकरे टीका तद्भुवा रचिता चिता॥ अन्थेऽस्मिन्गुणगणवत्त्वमुच्यते चे- स्वं कार्य गुणगणवन्न मन्यते कः। तत्सन्तः शिरसि कृताञ्जलिस्तु याचे शोध्यं तत्सदसदिहोदितं मया यत् ॥ यति विक्रमशके द्विखषड्भू(१६०२)संमिते सितगकार्तिकरुद्रे। ग्रन्थपूर्तिसुकृतं किल कुर्मो रामचन्द्रपदपूजनपुष्पम् ॥ इति श्रीविद्वन्मुकुटमाणिक्यश्रीभट्टरामेश्वरसूरिसूनुनाराणभट्टविरचितायां वृत्तारत्नाकर- टीकायां प्रस्ताराप्यायः षष्ठः समाप्तः॥ समाप्तश्चायं वृत्तरत्नाकरः।
॥श्रीः॥ श्रुतबोधः। छन्दसां लक्षणं येन श्रुतमात्रेण बुध्यते । तमहं संप्रवक्ष्यामि श्रतबोधमविस्तरम् ॥१॥ संयुक्ताचं दीर्घ सानुस्वारं विसर्गसंमिश्रम् । विज्ञेयमक्षरं गुरु पादान्तस्थं विकल्पेन ॥ २ ॥ एकमात्रो भवेद्रस्वो द्विमात्रो दीर्घ उच्यते । त्रिमात्रस्तु प्लुतो ज्ञेयो व्यञ्जनं चार्धमात्रकम् ॥ ३ ॥ यस्याः पादे प्रथमे द्वादश मात्रास्तथा तृतीयेऽपि । अष्टादश द्वितीये चतुर्थके पच्चदश सार्या ॥४॥ आर्यापूर्वार्धसमं द्वितीयमपि भवति यत्र हंसगते । छन्दोविदस्तदानीं गीति ताममृतवाणि भाषन्ते ॥५॥ आर्योत्तरार्धतुल्यं प्रथमार्धमपि प्रयुक्तं चेत् । कामिनि तामुपगीतिं प्रतिभाषन्ते महाकवयः॥.६ ॥ आद्यचतुर्थ पञ्चमकं चेत् । यत्र गुरु स्यात्साक्षरपतिः॥७॥ अगुरुचतुष्कं भवति गुरू द्वौ । धनकुचयुग्मे शशिवदनासौ ॥८॥ तूर्य पञ्चमकं चेद्यत्र स्यालघु बाले । विद्वद्भिर्मंगनेत्रे प्रोक्ता सा मदलेखा ॥ ९ ॥ श्लोके षष्ठं गुरु ज्ञेयं सर्वत्र लघु पञ्चमम् । • द्विचतुःपादयोहस्वं सप्तमं दीर्घमन्ययोः ॥ १० ॥ १ अस्य स्थाने 'आदिमध्यावसानेषु भजसा यान्ति गौरवम् । यरता लाघव यान्ति मनौ तु गुरुलाघवम् ॥' इति क्वचिद्वर्तते. २ 'यत्र भवति' इति पाठः. ३ 'प्रकाशयन्ते' इति पाठः.
श्रुतबोधः । पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः। षष्ठं गुरु विजानीयादेतत्पद्यस्य लक्षणम् ॥ ११ ॥ आदिगतं तुर्यगतं पश्चमकं चान्त्यगतम् । स्याद्गुरु चेत्संकथितं माणवकाक्रीडमिदम् ॥ १२ ॥ द्वितुर्यषष्ठमष्टमं गुरु प्रयोजितं यदा। तदा निवेदयन्ति तां बुधा नगस्वरूपिणीम् ॥ १३ ।। सर्वे वर्णा दीर्घा यस्यां विश्रामः स्याद्वेदैवैदैः। विद्वदृन्दैर्वीणावाणि व्याख्याता सा विद्युन्माला ॥१४॥ तन्वि गुरु स्यादाद्यचतुर्थ पञ्चमषष्ठं चान्त्यमुपान्त्यम् । इन्द्रियबाणैर्यत्र विरामः सा कथनीया चम्पकमाला ॥१५॥ चम्पकमाला यत्र भवेदन्त्यविहीना प्रेमनिधे । छन्दसि दक्षा ये कवयस्तन्मंणिमध्यं ते ब्रुवते ॥ १६ ॥ मन्दाक्रान्तान्त्ययतिरहिता सालंकारे यदि भवति या। सा विद्वद्भिर्बुवमभिहिता ज्ञेया हंसी कमलवदने ॥ १७ ॥ इस्वो वर्णों जायते यत्र षष्ठः कम्बुग्रीवे तद्वदेवाष्टमान्त्यः । विश्रान्तिः स्यात्तन्वि वेदैस्तुरङ्गै- स्तां भाषन्ते शालिनी छान्दसीयाः॥१८॥ आद्यचतुर्थमहीननितम्बे सप्तमकं दशमं च तथान्त्यम् । यत्र गुरु प्रकटस्मरसारे तत्कथितं ननु दोधकवृत्तम् ॥ १९ ॥ यस्यास्त्रिषट्सप्तममक्षरं स्या- द्रस्वं सुजड़े नवमं च तद्वत् । १ 'तत्कथितम्' इति पाठः २ मणिबन्धम्' इति पाठः. ३. 'विश्रामः' इति पाठः ४ 'यस्याम्' इति पाठः.
९९ श्रुतबोधः । गत्या विलज्जीकृतहंसकान्ते तामिन्द्रवज्रां ब्रुवते कवीन्द्राः ॥ २० ॥ यदीन्द्रवज्राचरणेषु पूर्वे. भवन्ति वर्णा लघवः सुवर्णे । अमन्दमाद्यन्मदने तदानी- मुपेन्द्रवज्रा कथिता कवीन्द्रैः ॥ २१ ॥ यत्र द्वयोरप्यनयोस्तु पादा भवन्ति सीमन्तिनि चन्द्रकान्ते । विद्वद्भिराद्यैः परिकीर्तिता सा प्रयुज्यतामित्युपजातिरेषा ॥ २२ ॥ आख्यानकी सा प्रकटीकृतार्थे यदीन्द्रवज्राचरणः पुरस्तात् । उपेन्द्रवज्राचरणास्त्रयोऽन्ये मनीषिणोक्ता विपरीतपूर्वाः ॥ २३ ॥ आद्यमक्षरमतस्तृतीय सप्तमं च नवमं तथान्तिमम् । दीर्घमिन्दुसखि यत्र जायते तां वदन्ति कवयो रथोद्धताम् ॥ २४ ॥ अक्षरं च नवमं दशमं चं व्यत्ययाद्भवति यत्र विनीते । प्राक्तनैः सुनयने यदि सैव स्वागतेति कविभिः कथितासौ ॥ २५ ॥ इस्वो वर्णः स्यात्सप्तमो यत्र बाले तद्वद्विम्बोष्ठि न्यस्त एकादशाद्यः । बाणैर्विश्रामस्तत्र चेवा तुरंमै- र्नान्ना निर्दिष्टा सुभ्र सा वैश्वदेवी ॥.२६ .. , 'पूर्वा' इति पाठ . २ 'चेत्' इति पाठः. ३ 'प्रोक्तमेणनयने' इति पाठः, १ १०० श्रुतबोधः । सतृतीयकषष्ठमनगरते नवमं विरतिप्रभवं गुरु चेत् । घनपीनपयोधरभारनते ननु तोटकवृत्तमिदं कथितम् ॥ २७ ॥ यदाचं चतुर्थ तथा सप्तमं स्या- त्तथैवाक्षरं इस्वमेकादशाद्यम् । शरच्चन्द्रविद्वेषिवक्रारविन्दे तदुक्तं कवीन्द्रैर्भुजङ्गप्रयातम् ॥ २८ ॥ अयि कृशोदरि यत्र चतुर्थक गुरु च सप्तमकं दशमं तथा । विरैतिगं च तथैव सुमध्यमे द्रुतविलम्बितमित्युपदिश्यते ॥ २९ ॥ यदि तोटकस्य गुरु पञ्चमकं विहितं विलासिनि तदक्षरकम् । रससंख्यकं गुरु न चेदबले. प्रमिताक्षरेति कविभिः कथिता ॥ ३०॥ प्रथमाक्षरमाद्यतृतीययो- द्रुतविलम्बितकस्य हि पादयोः। यदि नास्ति तदा कमलेक्षणे भवति सुन्दरि सा हरिणीप्लुता ॥ ३१ ॥ उपेन्द्रवज्राचरणेषु सन्ति चे- दुपान्त्यवर्णा लघवः पैरे कृताः। मदालसाजतकामकामु वदन्ति वंशस्थविलं बुधास्तदा ॥ ३२ ॥ यस्यामशोकाङ्करपाणिपल्लवे वंशस्थपादा गुरुपूर्ववर्णकाः। १ 'अनन्तरते' इति पाठः. २ 'चेत्' इति पाठः. ३ 'विरतिजं च' इति पाठः ४ 'विचक्षणैः' इति पाठः. ५ 'च' इति पाठः. ६ 'चेन्न' इति पाठः. ७ 'कृता यदा' इति पाठः. ८ 'वशस्थमिदम्' इति पाठः, श्रुतबोधः । १०१ तारुण्यहेलारतिरङ्गलालसे तामिन्द्रवंशां कवयः प्रचक्षते ॥ ३३ ॥ यस्यां प्रिये प्रथमकमक्षरद्वयं तुर्य तथा गुरु नवमं देशान्तिमम् । सान्त्यं भवेद्यतिरपि चेयुगग्रहैः सालक्ष्यताममृतरुते प्रभावती ॥ ३४ ॥ आद्यं चेत्रितयमथाष्टमं नवान्त्यं द्वावन्त्यौ गुरुविरतौ सुभाषिते स्यात् । विश्रामो भवति महेशनेत्रदिग्भि- विज्ञेया ननु हुँदति प्रहर्षिणी सा ॥ ३५॥ आद्यं द्वितीयमपि चेद्गुरु तच्चतुर्थ यत्राष्टमं च दशमान्त्यमुपान्त्यमन्त्यम् । अष्टाभिरिन्दुवदने विरतिश्च षभिः कान्ते वसन्ततिलक किल तं वदन्ति ॥ ३६॥ प्रथममगुरुषट्कं विद्यते यत्र कान्ते तदनु च दशमं चेदक्षरं द्वादशान्त्यम् । गिरिभिरथ तुरङ्गैर्यत्र कान्ते विरामः सुकविजनमनोज्ञा मालिनी सा प्रसिद्धा ॥ ३७ ॥ सुमुखि लघवः पश्च प्राच्यास्ततो देशमान्तिमः तदनु ललितालापे वर्णौ तृतीयचतुर्थको । प्रभवति पुनर्योपान्त्यः स्फुरत्कनकप्रभे यतिरपि रसैर्वेदैरश्वैः स्मृता हरिणीति सा ॥ ३८॥ १ 'दशान्तिकम्' इति पाठः २ 'भवेद्यदि विरतियुगग्रहः सा लक्षिता मृतलते' इति पाठ . ३ 'द्वे चान्ये' इति पाठः. ४ सुभंगे' इति पाठः ५ 'कामाङशाकुशितकामिमतङ्ग- जेन्द्र कान्ते' इति पाठः, ६ 'ताम्' इति पाठः. ७ दशमान्तिकम्' इति पाट ८ 'यदि त्रिचतुर्दशौ' इति पाठः. ९ 'स्फुरत्करकङ्कणे' इति पाठः, १०२ श्रुतबोधः । यदि प्राच्यो ह्रस्वः कलितकमले पंञ्च गुरवः ततो वर्णाः पञ्च प्रकृतिसुकुमाराणि लघवः। त्रयोऽन्ये चोपान्त्याः सुतनुजंघने भोगसुभगे रसैरीशैर्यस्यां भवति विरतिः सा शिखरिणी॥ ३९ ॥ द्वितीयमलिकुन्तले गुरु पंडष्टमद्वादशं चतुर्दशमथ प्रिये गुरु गभीरनाभिहूदे। सपञ्चदशमान्तिम तदनु यत्र कान्ते यति- गिरीन्द्रर्फणभृत्कुलैर्भवति सुभ्र पृथ्वीति सा ॥ ४० ॥ चत्वारः प्राक्सुतनु गुरवो 'द्वौ दशैकादशी चे- न्मुग्धे वौँ तदनु कुमुदामोदिनि द्वादशान्त्यो । तद्वच्चान्त्यौ युगरसहयैर्यच्चै कान्ते विरामो मन्दाक्रान्तां प्रवरकवयस्तन्वि तां संगिरन्ते ॥४१॥ आद्यं यत्र गुरु त्रयं प्रियतमे पंष्ठं ततश्चाष्टमं सन्त्येकादशतस्त्रयस्तदनु चेदंष्टादशाद्यान्तिमाः। मार्तण्डैर्मुनिभिश्च यत्र विरतिः पूर्णेन्दुबिम्बानने तद्वृत्तं प्रवदन्ति काव्यरसिकाः शार्दूलविक्रीडितम् ॥४२॥ चत्वारो यत्र वर्णाः प्रथममलघवः षष्ठकः सप्तमोऽपि द्वौ तद्वषोडशाद्यौ मृगमदतिलके षोडशान्त्यौ तथान्त्यो । रम्भास्तम्भोरुकान्ते मुनिमुनिमुनिभिदृश्यते चेद्विरामो बाले वन्द्यैः कवीन्द्रैःसुतनु निगदिता स्रग्धरा सा प्रसिद्धा४३ इति श्रीकालिदासविरचितः श्रुतबोधः संपूर्णः । १ 'यदा पूर्वो' इति पाठ'. २ 'कमलनयने' इति पाठः ३ 'षष्ठकपराः' इति पाठ 'जघनाभोग' इति पाठ .५ 'रुद्र' इति पाठ.. ६ 'षडष्टम' इति पाठ . ७ दशमन्तिक' इति पाठ . ८ 'फणि' इति पाठ . ९ 'हि' इति पाठ १० 'द्वादशै' इति पाट ११ 'यत्र' इति पाठ . १२ 'आद्याश्चेद्दुरवस्त्रय इति पाठः. १३ 'षष्टस्तथा चाटमो' इति पाठ. १४ 'नन्वेकादश' इति पाठ , १५ 'अष्टादशाद्यौ ततः' इति पाट १६ 'मुदिते' इति पाठ .
॥ श्रीः॥ छन्दोमञ्जरी। प्रथमः स्तबकः। समचतुष्पादं भवत्यर्धसमं देवं प्रणम्य गोपालं वैद्यगोपालदासजः। संतोषातनयश्छन्दो गङ्गादासस्तनोत्यदः ॥१॥ सन्ति यद्यपि भूयांसश्छन्दोग्रन्था मनीषिणाम् । तथापि सारमाकृष्य नवकार्थो ममोद्यमः ॥२॥ इयमच्युतलीलाढ्या सद्वृत्ता जातिशालिनी। छन्दसां मञ्जरी कान्ता सभ्यकण्ठे लगिष्यति ॥३॥ पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा। वृत्तमक्षरसंख्यातं जातिर्मात्रा कृता भवेत् ॥४॥ सममर्धसमं वृत्तं विषम चेति तत्रिधा। समं पुनः॥५॥ आदिस्तृतीयवद्यस्य पादस्तुर्यो द्वितीयवत् । भिन्नचिह्नचतुष्पादं विषमं परिकीर्तितम् ॥ ६ ॥ म्यरस्तजनगैर्लान्तरेभिर्दशभिरक्षरैः । समस्तं वाङ्मयं व्याप्तं त्रैलोक्यमिव विष्णुना ॥७॥ मखिगुरुस्त्रिलघुश्च नकारो भादिगुरुः पुनरादिलघुर्यः। जो गुरुमध्यगतो रलमध्यः सोऽन्तगुरुः कथितोऽन्तलघुस्तः॥८॥ गुरुरेको गकारस्तु लकारो लघुरेककः । क्रमेण चैषां रेखाभिः संस्थानं दर्श्यते यथा-॥९॥ म-555, न-11, भ-5।।, य-55, ज-15, र-51S, स-115, त-55, ग-5, ल.. ज्ञेयाः सर्वान्तमध्यादिगुरवोऽत्र चतुष्कलाः । गणाश्चतुर्लघूपेताः पश्चार्यादिषु संस्थिताः ॥ १९ ॥ .
१०४ छन्दोमजरी। - यथा-5515, 151,511, ।।।। सानुस्वारश्च दीर्घश्च विसर्गौ च गुरुर्भवेत् । वर्णः संयोगपूर्वश्च तथा पादान्तगोऽपि वा ॥११॥ अत्र पादान्तगो लघुर्गुरुर्भवेद्वा । यथा- 'तरुणं सर्षपशाकं नवौदनं पिच्छिलानि च दधीनि । अल्पव्ययेन सुन्दरि ग्राम्यजनो मिष्टमश्नाति ॥' सुन्दरीति ग्राम्यशब्दे परे विकल्पेन लघुत्वम् । तथा भट्टिः- 'अथ लुलितपतन्त्रिमालं रुग्णाशनबाणकेसरतमालम् । स वनं विविक्तमालं सीतां द्रष्टुं जगामालम् ॥' अत्र प्रथमपादान्तगुरोर्लघुत्वम् । तथा मत्पितुः पारिजातहरणनाटके. 'सिन्दूरपूरकृतगैरिकरागशोभे शश्वन्मदस्रवणनिर्झरवारिपूरे । सङ्ग्रामभूमिगतमत्तसुरेभकुम्भ- कूटे मदीयनखराशनयो विशन्तु ॥' अत्र तृतीयचतुर्थपादान्तलघ्वोर्गुरुत्वम् । तथा ममाच्युतचरितेऽपि--- 'रक्तेन केशिदशनक्षतसंभवेन रेजे स मण्डिततरो हरिबाहुदण्डः । तद्दन्तसंदलितभीमभुजप्रताप- वह्नेरिव स्फुटकणप्रकरण कीर्णः ॥' अत्र प्रथमतृतीयपादान्तस्यापि लघोर्गुरुत्वम् । 'प्रद्धेव' इति पुनः पिङ्गलमुनर्विकल्पविधायकं सूत्रम्। ततश्च कुमारे- 'सा मङ्गलस्नानविशुद्धगात्री गृहीतप्रत्युद्रमनीयवस्खा। निवृत्तपर्जन्यजलभिषेका प्रफुल्लकाशा वसुधेव रेजे॥' अत्र प्रशब्दे परे गुरोलघुत्वम् । 'प्राप्तनाभिहदमज्जनमाशु प्रस्थितं निवसनग्रहणाय । औपनीविकमरुन्ध किल स्त्री वल्लभस्य करमात्मकराभ्याम् ॥ इति माघे । अत्र हशब्दे परे गुरोलघुत्वम् । तीवप्रयत्नोधारणेनात्र लघुत्वमिति कण्ठाभरणः । यदुक्तम्- 'यदा तीव्रप्रयत्नेन संयोगादेरगौरवम् । .न च्छन्दोमन इत्याहुस्तदा दोषाय सूरयः॥
छन्दोमञ्जरी।
१०५
-
यतिर्जिह्वेष्टविश्रामस्थानं कविभिरुच्यते ।
सा विच्छेदविरामाद्यैः पदैर्वाच्या निजेच्छया ।
कचिच्छन्दस्यास्ते यतिरभिहिता पूर्वकृतिभिः
पदान्ते सा शोभां व्रजति पदमध्ये त्यजति च ।
पुनस्तत्रैवासौ स्वरविहितसंधिः श्रयति तां
यथा कृष्णः पुष्णात्वतुलमहिमा मां करुणया ॥'
भयं च श्लोकश्छन्दोगोविन्दे मम गुरोर्गङ्गादासस्य-
'श्वेतमाण्डव्यमुख्यास्तु नेच्छन्ति मुनयो यतिम् ।
इत्याह भट्टः स्वग्रन्थे गुरुमें पुरुषोत्तमः ॥'
अतएव मुरारिः-
'संतुष्टे तिसृणां पुरामपि रिपौ कण्डूलदोर्मण्डली
लीलालूनपुनर्विरूढशिरसो वीरस्य लिप्सोवरम् ।
याच्यादैन्यपराश्चि यस्य कलहायन्ते मिथस्त्वं वृणु
त्वं वृण्वित्यभितो मुखानि स दशग्रीवः कथं कथ्यताम् ॥ इति ।
जयदेवोऽपि-
'साध्वी माध्वीक चिन्ता न भवति परितः शर्करे कर्करासि
द्राक्षे द्रक्ष्यन्ति के त्वाममृत मृतमसि क्षीर नीरं रसस्ते
माकन्द कन्द कान्ताधर धरणितलं गच्छ यच्छन्ति याव-
द्भावं शृङ्गारसारस्वतमयजयदेवस्य विष्वग्वचांसि ॥'
एवमन्येऽपि-
'कत्यद्रिप्रतिरोधिताः कति नदीपाथोनिधिलाविताः
कत्येवाटवितां गताः कति न वा भूदेवदेवैर्वृताः ।
भूम्यो भूमिपतीन्द्र तावकयशःप्रस्तावनामण्डली
कोष्ठीकृत्य जगद्धनं कति वराटीभिर्मुदं यास्यति ॥' इति ।
आरभ्यैकाक्षरात्पादादेकैकाक्षरवर्धितः ।
पादैरुक्थादिसंज्ञं स्याच्छन्दः षड्रिंशतिं गतम् ॥ १२ ॥
उक्थात्युक्था तथा मध्या प्रतिष्ठान्या सुपूर्विका ।
गायत्र्युष्णिगनुष्टुप्च बृहती पक्तिरेव च ॥ १३ ॥
त्रिष्टुप्च जगती चैव तथातिजगती मता।
शर्करी सातिपूर्वा स्यादष्टयत्यष्टी तथा स्मृते ॥ १४ ॥
द्वितीयः स्तबकः । धृतिश्चातिधृतिश्चैव कृतिः प्रकृतिराकृतिः। विकृतिः संस्कृतिश्चैव तथातिकृतिरुत्कृतिः॥ १५॥ इत्युक्ताश्छन्दसां संज्ञाः क्रमशो वच्मि सांप्रतम् । [लक्षणं सर्ववृत्तानां मात्रावृत्तानुपूर्वकम् ॥ १६ ॥ इति छन्दोमञ्जर्या मुखबन्धाख्यः प्रथम स्तबक । द्वितीयः स्तबकः। (१) उक्था । (एकाक्षरा वृनि ।) गः श्रीः॥१॥ श्रीस्ते । सास्ताम् ॥ (२) अत्युक्था । (द्यक्षरा नि ।) गौ स्त्री ॥१॥ गोपस्त्रीभिः। कृष्णो रेमे ॥ (३) म' या। (त्यक्षरा वृत्ति ।। मो नारी ॥१॥ गोपानां नारीभिः। श्लिष्टोऽव्याकृष्णो वः ॥ रो मृगी ॥२॥ सा मृगीलोचना । राधिका श्रीपतेः॥ (४) प्रतिष्ठा । (चतुरक्षरा वृत्ति ।) ग्मौ चेत्कन्या ॥१॥ भास्वत्कन्या सैका धन्या । यस्याः कूले कृष्णोऽखेलत् ॥ नगि सती ॥ २॥ मुररिपो तव पदम् । नमति सा ननु सती ॥ (५) सुप्रतिष्ठा । (पञ्चाक्षरा वृत्ति ।) भगौ गिति पतिः॥१॥ कृष्णसनाथा तर्णकपतिः । यामुनकच्छे चार चचार ।। सलगैः प्रिया ॥२॥ ब्रजसुभ्रवो विलसन्कलाः । अभवन्प्रिया मुग्वैरिणः ॥ ० छन्दोमरी। (६) गायत्री । (षडक्षरा वृत्तिः ।) त्यौ घेत्तनुमध्या ॥१॥ मूर्तिर्मुरशत्रोरत्यद्भुतरूपा। आस्तां मम चित्ते नित्यं तनुमध्या ॥ 'नश्यन्ति ददर्श वृन्दानि कपीन्द्रः। हारीण्यबलानां हारीण्यबलानाम् ॥' इति भट्टो । पादान्तत्वेन 'ददर्श' इत्यत्र गुरुत्वम् ॥ शशिवदना न्यौ ॥२॥ शशिवदनानां व्रजतरुणीनाम् । अधरसुधार्मि मधुरिपुरैच्छत् ॥ द्विया सोमराजी ॥३॥ हरे सोमराजीसमा ते यशःश्रीः। जगन्मण्डलस्य च्छिनन्त्यन्धकारम् ॥' (७) उष्णिक् । (सप्ताक्षरा वृत्ति ।) ननगि मधुमती ॥१॥ रविदुहितृतटे वनकुसुमततिः । व्यधित मधुमती मधुमथनमुदम् ॥ कुमारललिता ज्स्गाः ॥२॥ मुरारितनुवल्ली कुमारललिता सा । : बजैणनयनानां ततान मुवमुचैः ॥ मस्गौ स्यान्मदलेखा ॥३॥ रङ्गे बाहुविरुग्णाद्दन्तीन्द्रान्मदलेखा। लग्नाभून्मुरशत्रौ कस्तूरीरसचर्चा ॥ (८) अनुष्टुप् । (अष्टाक्षरा वृत्ति ।) चित्रपदा यदि भी गौ ॥१॥ यामुनसैकतदेशे गोपवधूजलकेलौ । कंसरिपोर्गतिलीला चित्रपदा जगव्यात् ॥ भात्तलगा माणवकम् ॥२॥ चञ्चलचूडं चपलैर्वस्सकुलैः केलिपरम् । ध्याय सखे मेरमुखं नन्दसुतं माणवकम् ॥ १ एतदनन्तरम 'मो मो विद्युल्लेखा' इति सूत्र क्वचित्. २ 'म्सौ ग.' इति ।
द्वितीयः स्तबकः । १ मो मो गोंगो विद्युन्माला ॥ ३ ॥ वासोवल्ली विद्युन्माला बहश्रेणी शाक्रश्चापः । यस्मिन्नास्तां तापोच्छित्त्यै गोमध्यस्थः कृष्णाम्भोदः ।। ग्लौ रजौ समानिका तु ॥४॥ यस्य कृष्णपादपनमस्ति हत्तडागसम्म । धीः समानिका परेण नोचितात्र मत्सरेण ॥ प्रमाणिका जरौ लगौ ॥ ५ ॥ पुनातु भक्तिरच्युता सदाच्युतानिपभयोः । श्रुतिस्मृतिप्रमाणिका भवाम्बुराशितारिका ॥ 'मतल्लिका मचर्चिका' इत्यमरकोषः॥ नभलगा गजगतिः॥५॥ रविसुतापरिसरे विहरतो दृशि हरेः । बजवधूगजगतिर्मुदमलं व्यतनुत । 'अवतु वो गिरिसुता शशिभृतः प्रियतमा । वसतु मे हृदि सदा भगवतः पदयुगम् ॥' इति कस्यापि ॥ (९) बृहती । (नवाक्षरा वृत्तिः।) भुजगशिशुभृता नौ मः॥१॥ हृदतटनिकटौणी भुजगशिशुभृता यासीत् । मुररिपुदलिते नागे ब्रजजनसुखदा साभूत् ॥ 'सृता' इत्येवं शंभुप्रभृतिषु पाठः । 'वृता' इत्येवमाधुनिकाः पठन्ति ॥ स्यान्मणिमध्यं चे मसाः॥२॥ कालियभोगाभोगगतस्तन्मणिमध्यस्फीतरुचा। चित्रपदाभो नन्दसुतमारु ननर्त मेरमुखः ॥ सजरैर्भुजङ्गसंगता ॥३॥ तरला तरङ्गरिङ्गितैर्यमुना भुजङ्गसंगता । 'कथमेति वत्सचारकश्चपलः सदैव तां हरिः ।। १ ‘स स्तात्' इति पाठ. २ एतदनन्तरम् 'नौ गौ हसरुतमेतत्' इति सूत्र कचित् ३ एतदनन्तरम् 'रानसाविह हलमुखी,' 'भद्रिका भवति रो नरौ,' 'द्विगुणनगण सहितः सगण इह हि विहितः । फणिपतिमतिविमला क्षितिप भवति कमला ॥, 'अङ्को न्माना वर्णा यत्र स्युः सर्वे दीर्घाः सपेशेनोक्तम् । स्पामालीसंझ तवृत्तं यसिंचेतः केषा मुदृत्तम् ॥ इति सूत्राणि छन्दोमञ्जरीपरिशिष्टे. 3 छन्दोमञ्जरी। १०९ (१०) पतिः । (दशाक्षरा वृत्तिः ।) रुजमवती सा यत्र भमस्गाः॥१॥ कायमनोवाक्यैः परिशुद्धैर्यस्य सदा कंसद्विषि भक्तिः । राज्यपदे हालिरुदारा रुक्मवती विघ्नः खलु तस्य ।। रूपवतीयं क्वचित् । क्वचिश्चम्पकमाला च ॥ ज्ञेया मत्ता मभसगसृष्टा ॥२॥ पीत्वा मत्ता मधु मधुपाली कालिन्दीये तटवनकुञ्ज । उद्दीव्यन्तीव्रजजनरामाः कामासक्ता मधुजिति चक्रे ॥ त्वरितगतिश्च नजनगैः ॥३॥ त्वरितगतिव्रजयुवतिस्तरणिसुता विपिनगता । मुररिपुणा रतिगुरुणा परिरमिता प्रमदमिता ॥ 'क्षितिविजितिस्थितिविहितिव्रतरतयः परगतयः। उरु रुरुधुर्गुरु दुधुवुर्युधि कुरवः रवमरिकुलम् ॥' इति दण्डिनि ॥ नरजगैर्भवेन्मनोरमा ॥४॥ तरणिजातटे विहारिणी बजविलासिनीविलासतः। मुररिपोस्तनुः पुनातु वः सुकृतशालिनां मनोरमा ॥ (११) त्रिष्टुप् । (एकादशाक्षरा वृत्तिः।) स्यादिन्द्रवज्रा यदि तौ जगौ गः॥१॥ गोष्ठे गिरि सन्यकरण धृत्वा रुष्टेन्द्रवज्राहतिमुक्तवृष्टौ । यो गोकुलं गोपकुलं च सुस्थं चके स नो रक्षतु चक्रपाणिः ॥ उपेन्द्रवज्रा प्रथमे लघौ सा ॥२॥ उपेन्द्र वज्रादिमणिच्छटाभिर्विभूषणानां छुरितं वपुस्तै । स्मरामि गोपीभिरुपास्यमानं सुरदुमूले मणिमण्डपस्थम् ॥ अनन्तरोदीरितलक्ष्मभाजी पादौ यदीयावुपजातयस्ताः । इत्थं किलान्यास्वपि मिश्रितासु वदन्ति जातिविदमेव नाम ॥ ३ ॥ १ एतदनन्तरम् ‘म्सौ ज्गौ शुद्धविराडिद मतम् , 'प्रौय्गौ चेति पणवनामेदम् , 'जी रगौ मयूरसारिणी स्यात्, 'तो जी गुरुगयमुपस्थिता,' 'दीपकमला भ्मी मता जगी, 'ज्ञेया हंसी मभनगयुता,' इति सूत्राणि छन्दोमारीपरिशिष्टे. .
द्वितीय. स्तबकः ।
-
ममैवाच्युतचरिते यथा-
'काचिन्मुरारेर्वदनारविन्दं संक्रान्तमालोक्य जले नवोढा ।
व्यक्तं सलजा परिचुम्बितुं तत्तदर्थमेवाम्भसि निर्ममज ॥
मुखारविन्दैवजसुन्दरीणामामोदमत्युत्कटमुद्रिद्भिः।
अहारि चित्तेन समं मुरारेहेमाम्बुजेभ्योऽपि मधुवतौघः ॥
तोयेषु तस्याः प्रतिबिम्बितासु बजाङ्गनानां नयनावलीषु ।
स्वबन्धुपतिभ्रमताऽतिमुग्धा गोष्ठी शफर्यो रचयांबभूवुः ॥'
तथा ममैव गोपालशतके-
'वनेषु कृत्वा सुरभिप्रचारं प्रकाममुग्धो मधुवासरेषु ।
गायन्कलं क्रीडति पद्मिनीषु मधूनि पीत्वा मधुसूदनोऽसौ ॥'
एवमनयोर्नानाविधा अप्युपजातयो बोद्धव्याः।
तथा वंशस्थविलेन्द्रवंशयोरित्थमुदाहार्यम्-
'इत्थं रथाश्वेभनिपादिनां प्रगे गणो नृपाणामथ तोरणादहिः ।
प्रस्थानकालक्षमवेशकल्पनाकृतक्षणक्षेपमुदक्षताच्युतम्॥' इनि माघे।
नजजलगैर्गदिता सुमुखी ॥ ४ ॥
तरणिसुतातटकुञ्जगृहे वदनविधुस्मिनदीधितिभिः।
तिमिरमुदस्य मुखं सुमुखी हरिमवलोक्य चुचुम्ब चिरम् ॥
मात्तौ गौ चेच्छालिनी वेदलोकैः ॥ ५॥
अंहो हन्ति ज्ञानवृद्धिं विधत्ते धर्म दत्ते काममर्थ च सूते ।
मुक्तिं दत्ते सर्वदोपास्यमाना पुंसां श्रद्धाशालिनी विष्णुभक्तिः ॥
वातोर्मीयं गदिता म्भौ तगौ गः॥६॥
ध्याता मूर्तिः क्षणमप्यच्युतस्य श्रेणी नाम्नां गदिता हेलयापि ।
संसारेऽस्मिन्दुरितं हन्ति पुंसां वातोर्मी पोतमिवाम्भोधिमध्ये ॥
मो गो नौ गो भ्रमरविलसिता ॥७॥
भ्रमरविलसितं क्वापि ।
मुग्धे माजं परिहर न चिरात्तारुण्यं ते सफलयतु हरिः।
फुल्ला वल्ली भ्रमरविलसिताभावे शोभां कलयति किमु ताम् ।।
स्यादनुकूला भतनगगाश्चेत् ॥ ८॥
बल्लववेशा मुररिपुमूर्तिोपमृगाक्षीकृतरतिपूर्तिः ।
वाञ्छितसिद्ध्यै प्रणतिपरस्य स्यादनुकला जगति न कस्य ॥
रात्परैर्नरलगै रथोद्धता ॥९॥
छन्दोमञ्जरी । १११ १ गधिका दधिविलोडनस्थिता कृष्णवेणुनिनदै रथोद्धता । यामुनं तटनिकुञ्जमञ्जसा सा जगाम सलिलाहृतिच्छलात् ॥ स्वागता रनभगैर्गुरुणा च ॥ १० ॥ यस्य चेतसि सदा मुरवैरी वल्लवीजनविलासविलोलः । नस्य नूनममरालयभाजः स्वागतादरकरः सुरराजः ॥ दोधकमिच्छति भत्रितयागौ ॥ ११॥ देव सदोध कदम्बतलस्थ श्रीधर तावकनामपदं मे । कण्ठतलेऽसुविनिर्गमकालमपि स्वल्पमपि क्षणमेष्यति योगम् ॥ स्यान्मोटनकं तजजाश्च लगौ ॥ १२ ॥ रङ्गे खलु मल्लकलाकुशलश्चाणूरमहाभटमोटनकम् । यः कलिलवेन चकार स मे संसाररिपुं परिमोटयतु ॥ श्येन्युदीरिता रजौ रलो गुरुः ॥ १३ ॥ यस्य कीर्निरिन्दुकुन्दचन्दनश्येन्यशेषलोकपावनी सदा । जाह्नवीव विश्ववन्धविभ्रमा तं भजामि भावगम्यमच्युतम् ॥ (१२) जगती । (द्वादशाक्षरा वृत्ति.।) चन्द्रवर्त्म निगदन्ति रनभसैः ॥१॥ चन्द्रवर्म पिहितं घनतिमिरै राजवर्त्म रहितं जनगमनैः । इष्टवर्म तदलंकुरु सरसे कुजवर्मनि हरिस्तव कुतुकी ॥ वदन्ति वंशस्थविलं जती जरौ ॥ २ ॥ विलासवंशस्थविलं मुखानिलैः प्रपूर्य यः पञ्चमरागमुनिरन् । वजाङ्गनानामपि गानशालिनां जहार मानं स हरिः पुनातु नः ।। वंशस्तनितमिति कापि ॥ तच्चेन्द्रवंशा प्रथमाक्षरे गुरौ ॥ ३ ॥ दैत्येन्द्रवंशाग्निरुदीर्णदीधितिः पीताम्बरोऽसौ जगतां तमोपहः । यस्मिन्ममज्जुः शलभा इव स्वयं ते कंसचाणूरमुखा मखद्विषः ॥ जसो जसयुतौ जलोद्धतगतिः ॥ ४ ॥ १ एतदनन्तरम् 'नगसगगुरुरचिता वृत्ता, 'ननरलगुरुभिश्च भद्रिका,' 'उपस्थितमिद जसौ ताद्कारौ, 'शिखण्डितमिद ज्सौं त्गी गुरुश्चेत् ,' 'उपचित्रमिद ससप्ताल्लगी,' 'कुपु रुषजनिता ननौगौ ग, 'अनवमिता न्यौ भगौ गुरुरन्ते, "विश्वतमाला भवेनौ तर्ग ग ,' 'सान्द्रपद स्याद्भतनगलैश्च' इति सूत्राणि छन्दोमबरीपरिशिष्टे. ..
११२ द्वितीयः स्तबकः । यदीयहलतो विलोक्य विपदं कलिन्दतनया जलोद्धतगतिः । विलासविपिनं विवेश सहसा करोतु कुशलं हली स जगताम् ॥ 'सनाकवनितं नितम्बरुचिरं चिरं सुनिनदैर्नदैर्वृतममुम् । मता फणवतोऽवतो रसपरा परास्तवसुधा सुधाधिवसति ॥' इति भारवौ॥ भुजङ्गप्रयातं चतुर्भिर्यकारैः॥५॥ सदारात्मजज्ञातिभृत्यो विहाय स्वमेतं ह्रदं जीवनं लिप्समानः । मया क्लेशितः कालियेत्थं कुरु त्वं भुजङ्ग प्रयातं द्रुतं सागराय ॥ वद तोटकमब्धिकारयुतम् ॥ ६ ॥ यमुनातटमच्युतकेलिकला लसदजिसरोरुहसङ्गरुचिम् । मुदितोऽट कलेरपनेतुमघं यदि चेच्छसि जन्म निजं सफलम् ॥ कीर्तितैषा चतूरेफिका प्रग्विणी ॥ ७ ॥ इन्द्रनीलोपलेनेव या निर्मिता शातकुम्भद्रवालंकृता शोभते । नव्यमेघच्छविः पीतवासा हरेर्मूर्तिरास्तां जयायोरसि स्रग्विणी ॥ बाणाश्वैश्छिन्ना वैश्वदेवी ममी यौ ॥ ८॥ अर्चामन्येषां त्वं विहायामराणामद्वैतेनैकं विष्णुमभ्यर्च्य भक्त्या । तत्राशेषात्मन्यर्चिते भाविनी ते भ्रातः संपन्नाराधना वैश्वदेवी ॥ प्रमिताक्षरा सजससैः कथिता ॥९॥ अमृतस्य शीकरमिवोगिरती रदमौक्तिकांशुलहरीच्छुरिता । प्रमिताक्षरा मुररिपोर्भणितिर्बजसुभ्रुवामधिजहार मनः ॥ 'प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता । अवलम्बनाय दिनभर्तुरभून्न पतिष्यतः करसहस्रमपि ॥ इति माघे ॥ द्रुतविलम्बितमाह नभौ भरौ ॥१०॥ तरणिजापुलिने नवबल्लवीपरिषदा सह केलिकुतूहलात् । द्रुतविलम्बितचारुविहारिणं हरिमहं हृदयेन सदा वहे । ननररघटिता तु मन्दाकिनी॥ ११ ॥ बलिदमनविधौ बभौ संगता पदजलरुहि यस्य मन्दाकिनी । सुरनिहितसिताम्बुजसङ्गिभा हरतु जगदधं न पीताम्बरः ॥ 'सहशरधि निजं तथा कामुकं वपुरतनु तथैव संवर्मितम् । निहितमपि तथैव पश्यन्नसिं वृषभगतिरुपाययौ सविस्मयम् ॥' इति भारवी॥
छन्दोमञ्जरी। 'अतिसुरभिरभाजि पुष्पश्रियामतनुतरतयेव संतानंकः। तरुणपरभृतःस्वनं रागिणामतनुत रतये वसन्तानकः॥ इति माघे ॥ नयसहितौ न्यौ कुसुमविचित्रा ॥ १२ ॥ विपिनविहारे कुसुमविचित्रा कुतुकितगोपीमाहितचरित्रा। मुररिपुमूर्तिर्मुखरितवंशा चिरमवताद्वस्तरलवतंसा ॥ इह वद तामरसं नजजा यः ॥ १३ ॥ स्फुटसुषमामकरन्दमनोशं ब्रजललनानयनालिनिपीतम् । तव मुखतामरसं मुरशत्रो हृदयतडागविकाशि ममास्तु ॥ भवति नजावथ मालती जरौ॥१४॥ इह कथयाच्युत केलिकानने मधुरससौरभसारलोलुपः । कुसुमकृतस्मितचारुविभ्रमामलिरपि चुम्बति मालती मुहुः॥ यमुना कापि। 'आय विजहीहि दृढोपगूहनं त्यज नवसंगमभीरु वल्लभम् । अरुणकरोगम एष वर्तते वरतनु संप्रवदन्ति कुकुटाः॥ इति भारवौ। त्यौ त्यौ मणिमाला छिन्ना गुहवः॥१५॥ प्रहामरमौलौ रत्नोपलकृप्ते जातप्रतिबिम्बा शोणा मणिमाला । गोविन्दपदाने राजी नखराणामास्तां मम चित्ते ध्वान्तं शमयन्ती॥ मो भः स्मौ चेजलधरमालाब्ध्यन्त्यैः॥१६॥ या भक्तानां कलिदुरितोत्तप्तानां तापच्छेदे जलधरमाला नव्या । भव्याकारा दिनकरपुत्रीकूले केलीलोला हरितनुरव्यात्सा वः ॥ (१३) अतिजगती । (त्रयोदशाक्षरा वृत्तिः ।) व्याशाभिर्मनजरगाः प्रहर्षिणीयम् ॥१॥ गोपीनामधरसुधारसस्य पान- रुत्तुङ्गस्तनकलशोपगूहनैश्च । १ एतदनन्तरम् 'वसुयुगविरतिौम्यौ पुटोऽयम्,' 'भुवि भवेनभजरैः प्रियवदा, 'धीरैरभाणि ललिता तभी जरौ,' 'ननभरसहिता गदितोज्वला, 'इह नवमालिका नजभयै. स्यात् , 'पञ्चमुनि भ्मी स्यात्सयुता ललना,''ललितामभिहित नौ नौ नामतः,' 'दुतपद भवति न भनयाश्चेन्,' 'सर्वे मा यस्मिन्सोऽयं विद्याधारः स्यात,' 'लघुगुरुवदन्ति पश्च- चामरम्, 'सारङ्गसज्ञ समसौस्तकारैस्तु, 'समस्तजमीरय मौक्तिकदाम, 'मोटकनाम सम- स्तभमीरय,' 'रविलघु तरलनयनमिह' इति सूत्राणि छन्दोमञ्जरीपरिशिष्टे.
११४ द्वितीयः स्तबकः । आश्चर्यैरपि रतिविभ्रमैर्मुरारः संसारे मतिरभवत्प्रहर्षिणीह ॥ जभी सजौ गिति रुचिरा. चतुर्ग्रहः ॥ २॥ पुनातु वो हरिरतिरासविभ्रमी परिभ्रमन्ब्रजरुचिराङ्गनान्तरे । समीरणोल्लसितलतान्तरालगो यथा मरुत्तरलतमालभूरुहः॥ 'अभूनृपो विबुधसखः परंतपः श्रुतान्वितो दशरथ इत्युदाहृतः । गुणैर्वरं भुवनहितच्छलेन यं सनातनः पितरमुपागमत्स्वयम् ॥' इति भट्टौ ।। रन्धेतौ यसगा मत्तमयूरम् ॥ ३ ॥ लीला नृत्यन्मत्तमयूरध्वनिकान्तं नृत्यन्नीपामोदिपयोदानिलरम्यम् । रासक्रीडाकृष्टमना गोपवधूभिः कंसध्वंसी निर्जनवृन्दावनमाप ॥ 'हा तातेति ऋन्दितमाकर्ण्य विषण्ण- स्तस्यान्विष्यन्वेतसगूढं प्रभवं सः । शल्यप्रोतं वीक्ष्य सकुम्भं मुनिपुत्रं तापादन्तःशल्य इवासीक्षितिपोऽपि ॥' इति रघो॥ नयुगलसयुगलगैरिति चण्डी ॥४॥ जयति दितिजरिपुताण्डवलीला कुपितकवलकरकालियमौलौ । चरणकमलयुगचापलचण्डी पदनखरुचिजितभोगमणिश्रीः ॥ सजसा जगौ च यदि मञ्जुभाषिणी ॥ ५ ॥ अमृतोर्मिशीतलकरेण लालयं- स्तनुकान्तिरोचितविलोचनो हरे। नियतं कलानिधिरसीति बल्लवी 1 मुदमच्युते व्यधित मञ्जुभाषिणी ॥ सुनन्दिनीति शंभो ॥ ननततगुरुभिश्चन्द्रिकाश्वर्तुभिः ॥ ६ ॥ .
छन्दोमञ्जरी । . शरदमृतरुचश्चन्द्रिकाक्षालिते दिनकरतनयातीरदेशे हरिः । विहरति रभसादल्लवीभिः समं त्रिदिवयुवतिभिः कोऽपि देवो यथा ॥ 'इह दुरधिगमैः किंचिदेवागमैः सततमसुतरं वर्णयन्त्यन्तरम् । असुमतिविपिनं वेद दिग्व्यापिनं पुरुषमिव परं पद्मयोनिः परम् ॥” इति भाग्यौ ।। 'उत्पलिनीति केचित् ॥ सजसा सगौ च कथितः कलहंसः ॥ ७ ॥ यमुनाविहारकुतुके कलहंसो व्रजकामिनीकमलिनीकृतकेलिः । जनचित्तहारिकलकण्ठनिनादः प्रमदं तनोतु तव नन्दतनूजः ॥ सिहनादः क्वापि ॥ मजसा जगौ च भवति प्रबोधिता ॥ ८॥ शयिता मृषा चटुलमाननिद्रया रतिकलिकुञ्जनिलये विलासिनी । मुरवैरिणा वदनचुम्बनादिना स्मितमाततान सपदि प्रबोधिता ।। भवति मृगेन्द्रमुखं नजौ जरौ गः॥९॥ गुरुभुजवीर्यभरं हरिं मदान्धा युधि समुपेत्य न दानवा जिजीवुः । श्रुधितमृगेन्द्रमुखं मृगा उपेत्य क नु खलु बिभ्रति जीवनस्य योगम् ॥' (१४) शकरी । (चतुर्दशाक्षरा वृत्ति ।) मो गौ नौ मश्चेच्छरनवभिरसंवाधा ॥५ १ एतदनन्तरम् 'यमौ रौ विख्याता चचरीकावली ग',' 'नसरयुगगश्चन्द्ररेख लोके 'उपस्थितमिद सौ यदि गुरु स्यात् , 'जती• सजौ गो भवति मजुहामिनी,' 'कुटजगा- तिनजो सप्तर्तुम्ती गुरु , 'इद कन्दुक यंत्र येभ्यश्चतुर्यो ग.,' 'एते कमानभमजमज्ञका गणा गश्वान्ततो यदि निहितो महीपते । वेदैर्ग्रहैभवति यतिश्च शोभना नगाधिपो वदनि तदा प्रभावतीम् ॥' इति सूत्राणि छन्दोमञ्जरीपरिशिष्टे. , .
द्वितीयः स्तबकः ।
बीर्याग्नौ येन ज्वलति रणवशाक्षिप्ते
दैत्येन्द्रे जाता धरणिरियमसंबाधा।
धर्मस्थित्यर्थ प्रकटिततनुसंबन्धः
साधूनां बाधां प्रशमयतु स कंसारिः॥
ज्ञेयं वसन्ततिलकं तभजा जगौ गः॥२॥
फुलं वसन्ततिलकं तिलकं वनाल्या
लीलापरं पिककुलं कलमत्र रौति ।
वात्येष पुष्पसुरभिर्मलयाद्रिवातो
यातो हरिः स मथुरां विधिना हताः स्मः॥
सिहोद्धता क्वापि ॥
ननरसलघुगैः स्वरैरपराजिता ॥३॥
यदनवधिभुजप्रतापकृतास्पदा
यदुनिचयचमूः परैरषराजिता
व्यजयत समरे समस्तरिपुव्रज
स जयति जगतां गतिर्गरुडध्वजः ॥
ननभनलगिति प्रहरणकलिका॥४॥
व्यथयति कुसुमप्रहरण कलिका
प्रमदवनभवा तव धनुषि तता।
विरहविपदि मे शरणमिह ततो
मधुमथनगुणस्मरणमविरतम् ॥
मात्तो नो मो गौ यदि गदिता वासन्तीयम् ॥ ५॥
भ्राम्यद्धृङ्गीनिर्भरमधुरालापोद्गीतैः
श्रीखण्डानेर तपवनैर्मन्दान्दोला ।
लीलालोला पल्लवविलसद्धस्तोल्लासैः
कंसारातौ नृत्यति सदृशी वासन्तीयम् ।।
द्विःसपच्छिदि लोला म्सौ म्भौ गौ चरणे चेत् ॥६॥
मुग्धे यौवनलक्ष्मीविद्युद्विभ्रमलोला
त्रैलोक्याद्भुतरूपो गोविन्दोऽतिदुरापः ।
तवृन्दावनकुळे गुञ्जद्धृङ्गसनाथे
श्रीनाथेन समेता स्वच्छन्दं कुरु केलिम् ॥
स्वरभिदि यदि नौ तौ च नान्दीमुखी गौ ॥७॥
द्वितीयः स्तबकः । सरसखगकुलालापनान्दीमुखीयं लहरिभुजलया चारुफेनस्मितश्रीः । मुरहर कलयासत्तिमासाद्य किं ते प्रमुदितहृदया भानुजां नृत्यतीह ॥' (१५) अतिशर्करी । (पञ्चदशाक्षरा वृत्तिः ।) गुरुनिधनमनुलघुरिह शशिकला ॥१॥ मलयजतिलकसमुदितशशिकला वजयुवतिलसदलिकगगनगता । सरसिजनयनहृदयसलिलनिधि व्यतनुत विततरभसपरितरलम् । सगियमपि च रसनवरचितयतिः ॥२॥ अयि सहचरि रुचिरतरगुणमयी म्रदिमवसतिरनपगतपरिमला। स्रगिव निवस विलसदनुपमरसा सुमुखि मुदितदनुजदलनहदये ॥ वसुमुनियतिरिति मणिगुणनिकरः ॥ ३ ॥ नरकरिपुरवतु निखिलसुरगति- रमितमहिमभरसहजनिवसतिः.। अनवधिमणिगुणनिकरपरिचितः सरिदधिपतिरिव धृततनुविभवः ॥ ननमयययुतेयं मालिनी भोगिलोकैः ॥ ४ ॥ मृगमदकृतचर्चा पीतकौशेयवासा रुचिरशिखिशिखण्डाबद्धधम्मिल्लपाशा । अनृजु निहितमंसे वंशमुत्क्वाणयन्ती धृतमधुरिपुलीला मालिनी पातु राधा ॥ १ एतदनन्तरम् 'इन्दुवदना भजसनैः सगुरुयुग्मै , 'ननतजगुरुगै. सप्तयति नरी स्यात्,' 'लक्ष्मीरन्तविरामा मसौ तनी गुरुयुग्मम् ,' 'त्रिननगगिति वसुयति सुपवित्रम् , 'मध्यक्षामा युगदशविरमा म्भी न्यौ गौ,' 'युगदिग्भि कुटिलमिति सभी न्यौ गौ चेत , 'नजभजला गुरुश्च भवति प्रमदा,' 'सजसा यलो गिति शरग्रहमसरी, 'नजभजगैर्गुरुश्च वसुषदकुमारी,' 'नरनरैलंगी च रचित सुकेसरम्,' 'म्भी न्यौ लगौ वेदिह भवति च चन्द्रौरस ,' 'वासन्तीय स्यादिह खलु मतो न्यौ गौ चेत् , 'चक्रपदमिह भनननलगुरुभि' इति सूत्राणि छन्दोमबरीपरिशिष्टे. . ११ छन्दोमञ्जरी। एकन्यूनौ विद्युन्मालापादौ चेल्लीलाखेलः ॥ ५ ॥ पायाद्वो गोविन्दः कालिन्दीकूलक्षोणीचके रासोल्लासक्रीडद्गोपीभिः सार्ध लीलाखेलः। मन्दाकिन्यास्तीरोपान्ते स्वैरक्रीडाभिलालो यद्वद्देवानामीशः स्वर्वेश्याभिः खेलन्तीभिः ॥ 'मा कान्ते पक्षस्यान्ते पर्याकाशे देशे स्वाप्सीः कान्तं वकं वृत्तं पूर्ण चन्द्रं मत्वा रात्रौ चेत् । श्रुत्क्षामः प्राटश्चेतश्चेतो राहुः क्रूरः प्राद्या- त्तस्माद्धान्ते हर्म्यस्यान्ते शय्यैकान्ते कर्तव्या ॥' इति कण्ठाभरणः॥ विपिनतिलकं नसनरेफयुग्मैर्भवेत् ॥ ६ ॥ विपिनतिलकं विकसितं वसन्तागमे मधुकृतमदैर्मधुकरैः कणद्भिर्वृतम् । मलयमरुता रचितलास्यमालोकय- न्वजयुवतिभिर्विहरति स्म मुग्धो हरिः ॥ तूणकं समानिकापदद्वयं विनान्तिमम् ॥ ७ ॥ सा सुवर्णकेतकं विकाशि भृङ्गपूरितं पञ्चबाणबाणजालपूर्णहेमतूणकम् । राधिका वितl माधवाद्य मासि माधवे मोहमेति निर्भरं त्वया विना कलानिधे ॥ म्रो मो यो चेद्भवेतां सप्ताष्टकैश्चन्द्रलेखा ॥ ८ ॥ विच्छेदे ते मुरारे पाण्डुप्रकाशा कृशाङ्गी म्लानच्छायं दुकूलं न भ्राजते बिभ्रती सा । राधाम्भोदस्य गर्ने लीना यथा चन्द्रलेखा किंचार्ता त्वां स्मरन्ती धत्ते ध्रुवं जीवयोगम् ॥ चित्रा नाम च्छन्दश्चित्रं चेत्रयो मा यकारौ ॥९॥ गोपालीलीलालोला यत्कलिन्दात्मजान्ते खेलन्मुक्ताहारारण्यनग्लसन्मूर्धचित्रा।
द्वितीयः स्तबकः । ११९ . कंसारातेर्मूर्तिस्तद्वन्मे हदि क्रीडतीयं कोऽन्यः स्वर्गो मोक्षी वास्माद्विद्यते तन्न जाने ॥' (१६) अष्टि. । (षोडशाक्षरा वृत्तिः ।) चित्रसंज्ञमीरितं समानिकापदद्वयं तु ॥१॥ विद्रुमारुणाधरौष्ठशोभि वेणुवाद्यहृष्ट- बल्लवीजनाङ्गसङ्गजातमुग्धकण्टकाङ्ग । त्वां सदैव वासुदेव पुण्यलभ्यपाद देव वन्यपुष्पचित्रकेश संस्मरामि गोपवेश ॥ भत्रिनगैः स्वराङ्कमृषभगजविलसितम् ॥ २॥ यो हरिरुञ्चखान खरतरनखशिखरै- दुर्जयदैत्यसिंहसुविकटहृदयतटम् । कि विह चित्रमेतदखिलमपहृतवतः कंसनिदेशदृप्यदृषभगजविलसितम् ॥ गजतुरगविलसितमिति शंभौ । भात्समतनगैरष्टच्छेदे स्यादिह चकिता ॥ ३ ॥ दुर्जयदनुजश्रेणीदुश्चेष्टाशतचकिता यद्भुजपरिघत्राता याता साध्वसविगमम् । दीव्यति दिविषन्माला शश्वनन्दनविपिने गच्छत शरणं कृष्णं तं भीता भवरिपुतः ॥ प्रमाणिकापदद्वयं वदन्ति पञ्चचामरम् ॥ ४ ॥ सुरद्रुमूलमण्डपे विचित्ररत्ननिर्मिते लसद्वितानभूषिते सलीलविभ्रमालसम् । सुराङ्गनाभबल्लवीकरप्रपञ्चचामर- स्फुरत्समीरवीजितं सदाच्युतं भजामि तम् ॥ म्भो नो नो गो मदनललिता वेदैः षडतुभिः॥५॥ १ एतदनन्तरम् भवति नजौ भजो रसहितौ प्रभद्रकम् , 'सजना नयौ शरदशयतिरि- यमला,' 'चन्द्रकान्ताभिधा रौ सौ यो विस्म स्वराष्टौ,' 'ननतभरकृताष्टस्वररुपमा- लिना,' 'ऋषभाख्यमेतदुदित सयसा समौ चेत्,' 'कथयन्ति मानसहस नाम सजी जभराः,' 'सगणैः शिववक्कमितैर्गदिता नलिनी,' 'शस निशिपालकमिद भजसनाश्चर' इति सूत्राणि छन्दोमझरीपरिशिष्टे.
१२० छन्दोमञ्जरी। स्फुरतु ममाननेऽध विभ्रष्टलग्गलितचिकुरा धौताधरपुटा ग्लायत्पत्रावलिकुचतटोच्छवासोर्मितरला । राधात्यर्थ मदनललितान्दोलालसवपुः कंसाराते रतिरसमहो चक्रेऽतिचटुलम् ॥ नजभजरैर्यदा भवति वाणिनी गयुक्तैः ॥६॥ ननु वाणि नीतिरम्यं तव चरणप्रसादपरिपाकतः कवित्वम् । भवजलराशिपारकरणक्षमं मुकुन्दं सततमहं स्तवैः स्वरचितैः स्तवानि नित्यम् ॥ यमो नः सौ गश्च प्रवरललितं नाम वृत्तम् ॥ ७ ॥ भुजोत्क्षेपः शून्ये चलवलयझकारयुक्तो मुधा पादन्यासः प्रकटिततुलाकोटिनादः । स्मितं वक्रेऽकस्मादृशि पटुकटाक्षोर्मिलीला हरौ जीयादीप्रवरललितं बल्लवीनाम् ॥ द्विगुणितवसुलघुभिरचलधृतिरिह ॥ ८॥ तरणिदुहितृतटरुचिरतरवसति- रमरमुनिमुखजनविहितनुतिरिह । मुररिपुरभिनवजलधररुचितनु- रचलधृतिरुदयति सुकृतिहृदि खलु ॥ गरुडरुतं नजौ भजतगा यदा स्युस्तदा ॥९॥ अमरमयूरमानसमुदे पयोदध्वनि- गरुडरुतं सुरारिभुजगेन्द्रसंत्रासने । धरणिभरावतारविधिडिण्डिमाडम्बरः स जयति कंसरगभुवि सिंहनादो हरेः॥' (१७) अत्यष्टिः । (सप्तदशाक्षरा वृत्तिः ।) रसै रुद्वैश्छिन्ना यमनसभला गः शिखरिणी ॥१॥ करादस्य भ्रष्टे ननु शिखरिणी दृश्यति शिशो- विलीनाः सः सत्यं नियतमवधेयं तदखि १ एतदनन्तरम् ‘सकथिता भरौ नरनगाश्च धीरललिता,' 'पश्चमकारयुताश्वगतिर्यदि चान्त्वगुरुः, 'नजरभभेन येन च स्यान्मणिकल्पलता, 'यस्मिन्सर्वे गा राजन्ते ब्रह्माब तद्रूप नाम, 'भो रयना नभौ च यस्यां वरयुवतिरियम्' इति सूत्राणि छन्दोमजरीपरिशि 7 .
द्वितीयः स्तबकः । १२१ इति त्रस्यगोपानुचितनिभृतालापजनितं स्मितं बिभ्रद्देवो जगदवतु गोवर्धनधरः ॥ जसा जसयला वसुग्रहयतिश्च पृथ्वी गुरुः ॥२॥ दुरन्तदनुजेश्वरप्रकरदुःस्थपृथ्वीभरं जहार निजलीलया यदुकुलेऽवतीर्याशु यः । स एष जगतां गतिर्दुरितभारमस्सादृशां हरिष्यति हरिः स्तुतिस्मरणचाटुभिस्तोषितः ॥ दिमुनि वंशपत्रपतितं भरनभनलगैः ॥ ३ ॥ नूतनवंशपत्रपतितं रजनिजललवं पश्य मुकुन्द मौक्तिकमिवोत्तममरकतगम् । एष च तं चकोरनिकरः प्रपिबति मुदितो वान्तमवेत्य चन्द्रकिरणैरमृतकणमिव ।। 'संप्रति लब्धजन्म शनकैः कथमपि लघुनि क्षीणपयस्युपेयुषि भिदां जलधरपटले । खण्डितविग्रहं बलभिदो धनुरिह विविधाः पूरयितुं भवन्ति विभवः शिखरमणिरुचः॥' इति भारवौ । वंशपत्रपतितेति केचित् ॥ मन्दाक्रान्ताम्बुधिरसनगैर्मो भनौ तौ गयुग्मम् ॥ ४॥. प्रेमालापैः प्रियवितरणैः प्रीणितालिङ्गनाथै- मन्दाक्रान्ता तदनु नियतं वश्यतामेति बाला। एवं शिक्षावचनसुधया राधिकायाः सखीनां प्रीतः पायास्मितसुवदनो देवकीनन्दनो नः ॥ • नसमरसला गः षड्वेदैर्हयैर्हरिणी मता ॥ ५ ॥ व्यधित स विधिर्नेत्रं नीत्वा ध्रुवं हरिणीगणा- जमृगहां संदोहस्योल्लसन्नयनश्रियम् । यदयमनिशं दूर्वाश्याम मुरारिकलेवरे व्यकिरदधिकं बद्धाकाङ्के विलोलविलोचनम् ॥ यदि भवतो नजौ भजजला गुरु नर्दटकम् ॥६॥ ब्रजवनितावसन्तलतिकाविलसन्मधुपं मधुमथनं प्रणम्रजनवाञ्छितकल्पतरुम् ।
१२२ छन्दोमञ्जरी। विभुमभिनौति कोऽपि सुकृती मुदितेन हृदा रुचिरपदावलीघटितनर्दटकेन कविः ॥ हयऋतुसागरैर्यतियुतं यदि कोकिलकम् ॥ ७ ॥ लसदरुणेक्षणं मधुरभाषणमोदकरं मधुसमयागमे सरसकेलिभिरुल्लसितम् । अलिललितद्युति रविसुतावनकोकिलकं ननु कलयामि तं सखि सदा हृदि नन्दसुतम् ॥ वेदवश्वैर्मभनमयला गश्चेत्तदा हारिणी ॥ ८ ॥ यस्या नित्यं श्रुतिकुवलये श्रीशालिनी लोचने रागः स्वीयोऽधराकिसलये लाक्षारसारञ्जनम् । गौरी कान्तिः प्रकृतिरुचिरा रम्याङ्गरागच्छटा सा कंसारेरजनि न कथं राधा मनोहारिणी॥ भाराकान्ता मभनरसला गुरुः श्रुतिषड्हयैः ॥९॥ भाराकान्ता मम तनुरियं गिरीन्द्रविधारणा- कम्पं धत्ते श्रमजलकणं तथा परिमुञ्चति । इत्यावृण्वञ्जयति जलदस्वनाकुलबल्लवी संश्लेषोत्थं स्मरविलसितं विलोक्य गुरु हरिः॥' (१८) धृति । (अष्टादशाक्षरा वृत्तिः।) स्याद्भूतत्वंश्वैः कुसुमितलतावेल्लिता म्तौ नयौ यौ ॥ १ ॥ क्रीडत्कालिन्दीललितलहरीवारिभिर्दाक्षिणात्यै- तैः खेलद्भिः कुसुमितलता वेल्लिता मन्दमन्दम् । भृङ्गालीगीतैः किसलयकरोल्लासितैास्यलक्ष्मी तन्वाना चेतो रभसतरलं चक्रपाणेश्चकार ॥ 'ग्राम्याजानूपं पिशितलवणं शुष्कशाकं नवान्नं गौडं पिष्टान्नं दधि सकृसरं निर्जलं मद्यमम्लम् । धानावल्लूरं समसनमथो गुर्वसात्म्यं विदाहि स्वप्नं चारात्रौ श्वयथुगदवान्वर्जयेदङ्गनांच॥ इति वैद्यके॥ नजभजरैस्तु रेफसहितैः शिवैर्हयैर्नन्दनम् ॥२॥ १ एतदनन्तरम् 'रसयुगहययुड् नौ नौ सो लगौ हि यदि हरिः, 'भवेत्कान्ता रस- युगहयैर्यभौ नरसा लगौ,' 'ससजैरतिशायिनी भजपरैर्गुरुभ्याम् , 'अवेहि पञ्चचामर जरी जरौ जगौ लघुश्च' इति सूत्राणि छन्दोमझरीपरिशिष्टे .
द्वितीयः स्तबकः । १२३ तरणिसुतातरङ्गपवनैः सलीलमान्दोलितं मधुरिपुपादपङ्कजरजःसुपूतपृथ्वीतलम् । मुरहरचित्रचेष्टितकलाकलापसंस्मारकं क्षितितलनन्दनं व्रज सखे सुखाय वृन्दावनम् ॥ 'अहृत धनेश्वरस्य युधि यः समेतमायोधनं तमहमितो विलोक्य विबुधैः कृतोत्तमायोधनम् । विभवमदेन निद्भुतहियातिमात्रसंपन्न व्यथयति सत्पथादधिगताथवेह संपन्न कम् ॥ इति भट्टो॥ इह ननरचतुष्कसृष्टं तु नाराचमाचक्षते ॥ ३ ॥ दिनकरतनयातटीकानने चारुसंचारिणी श्रवणनिकटकृष्टमेणेक्षणा कृष्ण राधा त्वयि । ननु विकिरति नेत्रनाराचमेषातिहृच्छेदनं तदिह मदनविभ्रमोद्धान्तचित्तां विधत्स्व द्रुतम् ।। 'रघुपतिरपि जातवेदोविशुद्धां प्रगृह्य प्रियां प्रियसुहृदि बिभीषणे संक्रमय्य श्रियं वैरिणः । रविसुतसहितेन तेनानुयातः ससौमित्रिणा भुजविजितविमानरत्नाधिरूढः प्रतस्थे पुरीम् ॥' इति रघौ । मन्दाक्रान्ता नपरलघुयुता कीर्तिता चित्रलेखा ॥ ४.॥ शकेऽमुष्मिागति मृगदृशां साररूपं यदासी- दाकृष्येदं नजयुवतिसभा वेधसा सा व्यधायि ॥ नैतादृक्चेत्कथमुदधिसुतामन्तरेणाच्युतस्य प्रीतं तस्यां नयनयुगमभूचित्रलेखाद्भुतायाम् ॥ मः सोजः सतसा दिनेश ऋतुभिः शार्दूलललितम् ॥ ५ ॥ कृत्वा कंसमृगे पराक्रमविधिं शार्दूलललितं यश्चक्रे क्षितिभारकारिषु दरं चैद्यप्रभृतिषु । संतोषं परमं तु देवनिवहे त्रैलोक्यशरणं श्रेयो नः स तनोत्वपारमहिमा लक्ष्मीप्रियतमः ॥' १ एतदनन्तरम् ‘मात्सो जौ भरसयुतौ करिबाणखैर्हरिणप्लुता', 'पञ्चभकारयुताश्वगति- यदि चान्त्यसरचिता', 'सुधा तस्तकैभवति ऋतुभिर्यो यो न सतसा', 'वर्णाश्वर्मननततमकैः कीर्तिता चित्रलेखेयम्', 'भाद्रनना नसौ श्रमरपदकमिदमभिहितम्', 'शार्दूल वद मासष- यति म सोजसौ रोमश्चेत्', 'अर्थाश्वाश्वैर्मभनयरयुगैर्वृत्त मत केसरम्', 'म्भी श्री चेञ्च- .
१२४ छन्दोमञ्जरी। (१९) अतिधृतिः । (ऊनविंशत्यक्षरा वृत्ति ।) रसवश्वयमौ न्सौ ररगुरुयुतौ मेघविस्फूर्जिता स्यात् ॥१॥ कदम्बामोदाच्या विपिनपवनाः केकिनः कान्तकेका विनिद्राः कन्दल्यो दिशि दिशि मुदा दर्दुरा दृप्तनादाः। निशा नृत्यद्विाद्विलसितलसन्मेघविस्फूर्जिता चे- प्रियः स्वाधीनोऽसौ दनुजदलनो राज्यममात्किमन्यत् ।। 'उदञ्चत्कावेरीलहरिषु परिष्वङ्गरङ्गे लुठन्तः कुहकण्ठी कण्ठीरवरवलवत्रासितप्रोषितेभाः। अमी चैत्रे मैत्रावरुणितरुणीकेलिकोल्लिमल्ली- चलदल्लीहल्लीसकसुरभयश्चण्डि चञ्चन्ति वाताः ॥' इति कस्यचित् ॥ भवेत्सैव च्छाया तयुगगयुता स्याहादशान्ते यदा ॥ २ ॥ अभीष्टं जुष्टो यो वितरति लसद्दोश्चारुशाखोज्ज्वलः स्फुरनानारत्नस्तबकिततनुचित्रांशुकालम्बितः। नयस्याङ्ग्रेश्छायामुपगतवतां संसारतीवातप- स्तनोति प्रोत्तापं जयति जगतां कंसारिकल्पद्रुमः ॥ सूर्याश्वैर्यदि मः सजौ सततगाः शार्दूलविक्रीडितम् ॥ ३ ॥ गोविन्दं प्रणमोत्तमाङ्ग रसने तं घोषयाहर्निशं पाणी पूजयतं मनः स्मर पदे तस्यालयं गच्छतम् । पवं चेत्कुरुताखिलं मम हितं शीर्षादयस्तद्धवं न प्रेक्षे भवतां कृते भवमहाशार्दूलविक्रीडितम् ॥ नौ नौ यो नो गुरुश्चेत्स्वरमुनिकरणैराह सुरसाम् ॥ ४ ॥ कामक्रीडासतृष्णो मधुसमयसमारम्भरभसा- त्कालिन्दीकूलकुले विहरणकुतुकाकृष्टहृदयः । गोविन्दो बल्लवीनामधररससुधां प्राप्य सुरसां शङ्के पीयूषपानैः प्रचयकृतसुखं व्यस्मरदसौ। लमिदमुदित युगैर्मुनिभि स्वरै', 'सैका वसुविरतिस्तनौ रैश्चतुर्भिर्युता लालसा', 'भवति नयुगल रभौ रौ दशभिर्गजेन्द्रलता', 'तद्भूतत्वश्वेमौ म्भौ विरतिश्चेत्सिंहविस्फूर्जित यौ', 'सौ जजौ भरसयुती करिवाणखैहरनर्तनम्', 'इद क्रीडाचक्र सदीर्घ समस्तैर्यकारै समे- तम्', 'वेदाङ्गान्तर्मभनयययुगैः स्यादिय चन्द्रलेखा', 'हीरकमुदित भसनजनैरिह रगणो- अन्तत ' इति सूत्राणि छन्दोमबरीपरिशिष्टे. .
द्वितीयः स्तबकः। १२५ ६ ॥ मो गौ नौ तौ गौ स्वरहयतुरगैः फुल्लदाम प्रसिद्धम् ॥५॥ शश्वल्लोकानां प्रकटितकदनं ध्वस्तमालोक्य कंसं दृष्यचेतोभित्रिदिववसतिभिव्योमसंस्थैर्विमुक्तम् । मुग्धामोदेन स्थगितदशदिगाभोगमाहूतभृङ्गं मौलौ दैत्यारेयंपतदनुपमं स्वस्तरोः फुलदाम (२०) कृतिः । (विंशत्यक्षरा वृत्ति ।) ज्ञेया सप्ताश्वषड्भिर्मरभनययुताम्लौ गः सुवदना ॥ १ ॥ प्रत्याहत्येन्द्रियाणि त्वदितरविषयानासाग्रनयना त्वां ध्यायन्ती निकुञ्ज परतरपुरुषं हर्षोत्थपुलका। आनन्दाश्रुप्लुताक्षी वसति सुवदना योगैकरसिका कामात त्यक्तुकामा ननु नरकरिपो राधा मम सखी ।। सजजा भरौ सलगा यदा कथिता तदा खलु गीतिका ॥२॥ 'करतालचञ्चलकङ्कणस्वनमिश्रणेन मनोरमा रमणीयवेणुनिनादरङ्गिमसंगमेन सुखावहा । बहुलानुरागनिवासराससमुद्भवा तव रागिणं विदधौ हरिं खलु बल्लवीजनचारुचामरगीतिका ॥ इति महाकाव्ये॥ वृत्तमीदृशं तु नामतो रजो रजौ रजौगुरुर्लघुश्च ॥ ३ ॥ चित्रवृत्तिलीलया निसर्गरम्यदेहरूपविभ्रमेण राजमानसद्वयोर्विलाससंपदा कलाकुतूहलेन । यः समं बजागनाजनैः सुराङ्गनानिभैः सुखं समेत्य विष्णुरुल्ललास चित्तपयकोषषट्पदः स मे सदास्तु ॥ 'रसाश्वाश्वैः शोभा नयुगगजठरा मेघविस्फूर्जिता चेत् ॥ ४ ॥ सदा पूषन्मीलत्सरसिजयुगला मध्यनम्रा फलाभ्यां तयोरूर्व राजत्तरलकिसलयाश्लिष्टसुस्निग्धशाखा । १ एतदनन्तरम् 'नयुगलगलघुनिरन्तरौ यदा स पञ्चचामर.', 'वृत्त बिम्बाख्य शरमु- नितुरगैम्तौ न्सी ततो चेद्गुरुः,' 'रसैः घडि.कर्थमनसजजा गुरुर्मकरन्दिका,' 'इनाश्चै स्यद्यभनयजजगा कीर्तिता मणिमबरी,' 'गजाब्धितुरगै सौ जसतभागश्चेत्समुद्रतता' इति सूत्राणि छन्दोमवरीपरिशिष्टे.
१२६ छन्दोमञ्जरी । .. लसन्मुक्तारक्तोत्पलकुवलयवञ्चन्द्रबिम्बाश्चिताना- महो शोभा मौलौ मिलदलिपटलैः कृष्ण सा कापि वल्ली ॥' (२१) प्रकृतिः। (एकविंशत्यक्षरा वृत्ति ।) म्रझर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्॥१॥ व्याकोषेन्दीवराभा कनककषलसत्पीतवासाः सुहासा बहरुञ्चन्द्रकान्तैर्वलयितचिकुरा चारुकर्णावतंसा । अंसव्यासक्तवंशीध्वनिसुखितजगदल्लवीभिर्लसन्ती मूर्तिर्गोपस्य विष्णोरवतु जगति नः स्रग्धरा हारिहारा॥ नजभजजा जरौ यदि तदा गदिता सरसी कवीश्वरैः ॥२॥ चिकुरकलापशैवलकृतप्रमदासु लसद्सोर्मिषु स्फुटवदनाम्बुजासु विलसद्भुजबालमृणालवल्लिषु । कुचयुगचक्रवाकमिथुनानुगतासु कलाकुतूहली व्यरचयदच्युतो प्रजमृगीनयनासरसीषु विभ्रमम् । 'तुरगशताकुलस्य परितः परमेकतुरङ्गजन्मनः प्रमथितभूभृतः प्रतिपथं मथितस्य भृशं महीभृता । परिचलतो बलानुजलबलस्य पुरः सततं धृतश्रिय- श्चिरगलितश्रियो जलनिधेश्च तदाभवदन्तरं महत् ॥' ति.माधे ॥ (२२) आकृति' । (द्वाविंशत्यक्षरा वृत्ति ।) मौ गौ नाश्चत्वारोगोगो वसुभुवनयतिरिति भवति हंसी॥१॥ सार्ध कान्तेनैकान्तेऽसौ विकचकमलमधुसुरभि पिबन्ती कामक्रीडाकूतस्फीतप्रमदसरसतरमलघु रसन्ती । कालिन्दीये पमारण्ये पवनपतनपरितरलपरागे कंसाराते पश्य स्वेच्छं सरभसगतिरिह विलसति हंसी ।। सप्तभकारयुतैकगुरुर्गदितेयमुदारतरा मदिरा ॥२॥ माधवमासि विकस्वरकेसरपुष्पलसन्मदिरामुदितै- भृङ्गकुलैरुपगीतवने वनमालिनमालि कलानिलयम् । १ एतदनन्तरम् ‘ख्याता पूर्वैः सुवशा यदि मरभना सद्वय गो गुरुश्च, 'सभरा न्यौ गायोडायतिर्मनेभविक्रीडितम' इति पत्रे टन्टोमवारीपरिशि 1 RESPAPCHINSTITUTE 4.R.HROAT NANRAS द्वितीयः स्तबकः। कुञ्जगृहोदरपल्लवकल्पिततल्पमनल्पमनोजरसं. तं भज माधविकामृदुनर्तनयामुनवातकृतोपगमा ॥ (२.) विकृति । (त्रयोविंशत्यक्षरा वृत्ति ।) नजभजभा जभी लघुगुरू बुधैस्तु गदितेयमद्रितनया ॥१॥ खरतरशौर्यपावकशिखापतङ्गनिभभग्नदृप्तदनुजो जलधिसुताविलासवसतिः सतां गतिरशेषमान्यमहिमा । भुवनहितावतारचतुरश्चराचरधरोऽवतीर्ण इह हि क्षितिवलयेऽस्ति कंस शमनस्तवेति तमवोचदद्रितनया ॥ 'विलुलितपुष्परेणुकपिशं प्रशान्तकलिकापलाशकुसुमं कुसुमनिपातविचित्रवसुधं सशब्दनिपतद्रुमोत्कशकुनम् । शकुननिनादनादितककुब्विलोलविपलायमानहरिणं हरिणविलोचनाधिवसतिं बभञ्ज पवनात्मजो रिपुवनम् ॥' इति भट्टी । अश्वललितमिदमन्यत्र ॥ मत्ताक्रीडं वस्विष्वाशायति मयुगगयुगमनुलघुगुरुभिः॥२॥ मुग्धोन्मीलन्मत्ताक्रीडं मधुसमयसुलभमधुरमधुरसा- गाने याने किंचित्स्पन्दत्पदमरुणनयनयुगलसरसिज्म् । रासोल्लासक्रीडत्कम्रवजयुवतिवलयविहितभुजरसं सान्द्रानन्दं वृन्दारण्ये स्मरत हरिमनघचरणपरिचयम् ॥ (२४) सकृति । (चतुर्विशत्यक्षरा वृत्ति ।) भूतमुनीनैर्यतिरिह भतनाः स्मौ भनयाश्च यदि भवति तन्वी ॥१॥ माधव मुग्धैर्मधुकरविरुतैः कोकिलकूजितमलयसमीरैः कम्पमुपेता मलयजसलिलैः प्लावनतोऽप्यविगततनुदाहा। पद्मपलाशैविरचितशयना देहजसंज्वरभरपरिदून- निश्वसती सा मुहुरतिपरुपं ध्यानलये तव निवसति तन्वी ॥ १ एतदनन्तरम् 'श्री नरना रनावथ गुरुर्दिगर्कविरम हि भद्रकमिदम्', 'लालित्य भुजगेन्द्रेण भाषितमेतच्चेन्मसरस्तजनगुभि ,' 'सजता नसौ ररौ ग फणितुरगहयै स्यान्म हास्रग्धराख्या' इति सूत्राणि छन्दोमअरीपरिशिष्टे २ एतदनन्तरम् इह सुन्दरिका पिङ्गलमुनिनोक्ता सद्वयतो भसतालमगा' इति सूत्र छन्दोमारीपरिशिष्टे ३ एतदन- न्तरम् 'नाम किरीटमिद भगणा यदि पिङ्गलनागमुनीन्द्रमत किल,' 'सगणैरिह वृनवर वमुभिः किल दुर्मिलमुक्तमिद कविभि' इति सूत्रे छन्दोमअरीपरिशिष्टे. .. 3 .
१२८ छन्दोमञ्जरी। (२५) अतिकृति । (पञ्चविंशत्यक्षरा वृत्ति.।) क्रौञ्चपदा स्याभो मसगाश्चेदिषुशरवसुमुनियतिमनुलघुगैः१ कौश्चपदालीचित्रिततीरा पदकलखगकुलकलकलरुचिरा फुल्लसरोजश्रेणिविलासा मधुमुदितमधुपरवरभसकरी । फेनविलासप्रोज्ज्वलहासा ललितलहरिभरपुलकितसुतनुः पश्य हरेऽसौ कस्य न चेतो हरति तरलगतिरहिमकिरणजा ।। (२६) उत्कृति । (षइविंशत्यक्षरा वृत्ति ।) वस्वीशाश्वैश्छेदोपेतं ममतनयुगलसजजगैर्भुजङ्गविजृम्भितम्॥ हेलोदश्चभ्यश्चत्पादप्रकटविकटनटनभरो रणत्करतालक- श्वारुप्रेथूडाबहः श्रुतितरलनवकिसलयस्तरङ्गितहारधृक् । अस्यन्नागस्त्रीभिर्भक्त्या मुकुलितकरकमलयुगं कृतस्तुतिरच्युतः पायानश्छिन्दन्कालिन्दीह्रदकृतनिजवसतिबृहद्भुजङ्गविजृम्भितम् ॥ दण्डक । यदिह नयुगलं ततः सप्तरेफास्तदा चण्डवृष्टिप्रपातो भवेद्दण्डकः प्रलयघनघटामहारम्भमेघावलीचण्डवृष्टिप्रपाताकुलं गोकुलं सपदि समवलोक्य सव्येन हस्तेन गोवर्धनं नाम शैलं दधल्लीलया। कमलनयन रक्ष रक्षेति गर्जत्रसन्मुग्धगोपाङ्गनालिङ्गनानन्दितो गलदभिनवधातुधाराविचित्राङ्गरागो मुरारातिरस्तु प्रमोदाय नः ॥ प्रतिंचरणविवृद्धरेफाः स्युरोऽर्णवव्यालजीमूतलीलाकरो- हामशङ्खादयः ॥२॥ जयजयजगदीश विष्णो हरे राम दामोदर श्रीनिवासाच्युतानन्त नारायण त्रिदशगणगुरो मुरारे मुकुन्दासुरारे हृषीकेश पीताम्बर श्रीपते माधव । गरुडरामन कृष्ण वैकुंठ गोविंद विश्वंभरोपेंद्र चक्रायुधाधोक्षज श्रीनिधे बलिदमननृसिंहशौरे भवांभोधिघोरार्णसित्वंनिमजंतमभ्युद्धरोपेत्यमाम् एवमर्णवादीनामप्युदाहरणानि बोध्यानि ॥ प्रचितकसमभिधो धीरधीभिः स्मृतो दण्डको नद्वयादुत्तरैः सप्तभिः ॥ ३॥ मुरहर यदुकुलाम्भोधिचन्द्र प्रभो देवकीगर्भरत्न त्रिलोकैकनाथ प्रचितकपटमुरारिनजोद्दामदन्तावलस्तोमविद्रावणे केसरीन्द्र। चरणनखरसुधांशुच्छटोन्मेषनिःशेषितध्यायिचेतोनिविष्टान्धकार प्रणतजनपरितापोप्रदावानलोच्छेदमेघ प्रसीद प्रसीद ॥
द्वितीयः स्तबकः । १२९ यत्र दृश्यते गुरोः परो लघुः क्रमात्स उच्यते बुधैरशोकपु- पमञ्जरीति ॥४॥ मूर्ध्नि चारुचम्पकस्रजा सलीलवेष्टनं लसल्लवङ्गचारुचन्द्रिका कचेषु कर्णयोरशोकपुष्पमञ्जरीवतंसको गले च कान्तकेसरोपक्लुप्तदाम । फुल्लनागकेसरादिपुष्परेणुरूपणं तनौ विचित्रमित्युपात्तवेश एष केशवः पुनातु न सुपुप्पभूषितः सुमूर्तिमानिवागतो मधुर्विहर्तुमत्र ॥' सगणः सकलः खलु यत्र भवेत्तमिह प्रवदन्ति बुधाः कुसुम- स्तबकम् ॥५॥ विरराज यदीयकरः कनकातिवन्धुरवामदृशः कुचकुमलगो भ्रमरप्रकरेण यथावृतमूर्तिरशोकलताविलसत्कुसुमस्तबकः । स नवीनतमालदलप्रतिमच्छवि बिभ्रदतीव विलोचनहारि वपु- श्चपलारुचिरांशुकवल्लिधरो हरिरस्तु मदीयहृदम्बुजमध्यगतः ।। यत्र रेफः परं स्वेच्छया गुम्फितःस स्मृतो दण्डको मत्तमा- तङ्गालीलाकरः॥ ६॥ हेमगौरे वसानोंऽशुके शक्रनीलासिते वर्मणि स्पष्टदिव्यानुलेपाङ्किता तारहारांशुवक्षोनभश्चित्रमालाञ्चितो भव्यभूषोज्ज्वलाङ्गः समं सीरिणा। अञ्जनाभाम्बरणेन्दुकुन्दाभदेहेन लीलापरीहासहासोर्मिकौतूहलैः कंसरङ्गाद्रिगः पातु नश्चक्रपाणिर्गतिक्रीडया मत्तमातङ्गलीलाकरः॥ लघुर्गुरुर्निजेच्छया यदा निवेश्यते तदैष दण्डको भवत्यन- ङ्गशेखरः ॥७॥ उदेत्यसौ सुधाकरः पुरो विलोकयाद्य राधिके विजृम्भमाणगौरदीधिती रतिस्वहस्तनिर्मितः कलाकुतूहलेन चारुचम्पकैरनङ्गशेखरः किमु इति प्रमोदकारिणीं प्रियाप्रसादलक्षणां गिरं समुगिरन्मुरारिरद्भतां प्रदोषकालसंगमोल्लसन्मना मनोशकेलिकौतुकी करोतु नः कृतार्थताम् ॥' इति छन्दोमार्या समवृत्ताख्यो द्वितीय. स्तबकः । . १ एतदनन्तरम् यकारै' कवीच्छानुरोधानिबद्ध प्रसिद्धो विशुद्धोऽपरो दण्डक. सिंहवि क्रीडनामा,' 'स्वेच्छया रजी 'क्रमेण सनिवेशयादारधी कवि स दण्डक' स्मृतो जय- त्यशोकमञ्जरी,' 'यत्र रेफान्कवि स्वेच्छया पाठसौकर्यसापेक्षया रोपयत्येष धीरैः स्मृतो द- ण्डको मत्तमातङ्गलीलाकर' 'नयुगलगुरुयुगेव यकाराः कवीच्छानुरोधात्तदा यत्र वक्ष्यन्त एषोऽपरो दण्डकः पण्डितैरीरितः सिंहविक्रान्तनामा' इति सूत्राणि छन्दोमझरीपरिशिष्टे, १२ १३० छन्दोमञ्जरी । तृतीयः स्तबकः। विषमे यदि सौ सलगा दले भौ युजि भाद्गुरुकावुपचित्रम् ॥१॥ द्विरावृत्त्या श्लोकः पूरयितव्यः ।। मुरवैरिवपुस्तनुतां मुदं हेमनिभांशुकचन्दनलिप्तम् । गगनं चपलामिलितं यथा शारदनीरधरैरुपचित्रम् ॥ विषमे प्रथमाक्षरहीनं दोधकमेव हि वेगवती स्यात् ॥२॥ स्मरवेगवती ब्रजरामा केशववंशरवैरतिमुग्धा । रभसान गुरून्गणयन्ती केलिनिकुञ्जगृहाय जगाम ॥ अयुजि प्रथमेन विवर्जिता द्रुतविलम्बिता हरिणप्लुता ॥ ३ ॥ स्फुटफेनचया हरिणप्लुता बलिमनोज्ञतटा तरणेः सुता । कलहंसकुलारवशालिनी विहरतो हरति स्म हरेर्मनः ।। अयुजि ननरला गुरुः समे तदपरवमिदं नजौ जरौ ॥४॥ स्फुटसुमधुरवेणुगीतिभिस्तमपरवक्रमवेत्य माधवम् । मृगयुवतिगणैः समं स्थिता ब्रजवनिता धृतचित्तविभ्रमा । अयुजि नगरेफतो यकारो युजि तुनजी जरगाश्च पुष्पिताग्रा५ वैतालीयं पुष्पितानां चेच्छन्त्यपरवक्रकम् । करकिसलयशोभया विभान्ती कुचफलभारविनम्रदेहयष्टिः । स्मितरुचिरविलासपुष्पितामा बजयुवतिव्रततिहरेर्मुदेऽभूत् ॥ अयुजोर्यदि सौ जगौ युजोः सभरागी यदि सुन्दरी तदा॥६॥ यदवोचदुदीक्ष्य सुन्दरी परितः स्नेहमयेन चक्षुषा । अपि कंसहरस्य दुर्वचं वचनं तद्विदधीत विस्मयम् ॥ 'यदवोचत वीक्ष्य मानिनी परितः स्नेहमयेन चक्षुषा । अपि वागधिपस्य दुर्वचं वचनं तद्विदधीत विस्मयम् ॥' इति भारवौ॥ इति छन्दोमजामर्धसमाख्यस्तृतीय स्तबक. । १. एतदनन्तरम् ‘भत्रयभोजयज गुरुणी चेयुजि च नजौ ज्ययुतौ द्रुतमभ्या', 'ओजे तपरौ जरौ गुरुश्चेन्म्सौ गौ ग्भद्रविराड्भवेदनोजे,' 'असमे सजी सगुरुयुक्तौ केतुमती समे भरजगाद्गः, 'आख्यान की ती जगुरू ग ओजे जतावनोजे जगुरू गुरुश्चेत्', 'जतौ जगौ गो विषमे समे चेत्तौ ज्गौ ग एषा विपरीतपूर्वा', 'स्यादयुग्मक रजौ रमौ समे चगजरौ जरौ गुरुर्गवात्परामतीयम्', 'अयुजि गनभभाः समकेऽपि तु नयुगरयुगल तदा कौमुदी, 'यदि विषमे भवतो नजौ जरौ सजगा समे तु जगरू मञ्जुसौरभम् , 'विषमे ससजा यदा गुरु चेत्सभरा येन तु भालभारणीयम्,' इति सूत्राणि छन्दोमञ्जरीपरिशिष्टे. १ " चतुर्थः स्तबकः । १३१ चतुर्थः स्तबकः । प्रथमे सजौ यदि सलौ च नसजगुरुकाण्यनन्तरम् । यद्यथ भनभगाः स्युरथो सजसा जगौ च भवतीयमुद्गता॥१॥ विललास गोपरमणीषु तरणितनया प्रभोद्गता । कृष्णनयनचकोरयुगे दद्धती सुधांशुकिरणोर्मिविभ्रमम् ॥ प्रथमे सजौ यदि सलौ च नसजगुरुकाण्यनन्तरम् । यद्यथ भनजलगाः स्युरथो सजसा जगौ च भवतीयमुद्गतार 'अथ वासवस्य वचनेन रुचिरवदनस्त्रिलोचनम् । क्लान्तिरहितमभिराधयितुं विधिवत्तपांसि विदधे धनंजयः॥' इति भारवावुद्गताभेदः॥ त्रयमुद्गतासदृशमेव पदमिह तृतीयमन्यथा । जायते रनभगैर्ग्रथितं कथयन्ति सौरभमिदं तदीदृशम् ॥३॥ अपि धूतफुल्लशतपत्रलवविस्मितगन्धविभ्रमा । कस्य हुन्न हरतीह हरे मुखपद्मसौरभकला तवाद्भुता ॥ नयुगसकारयुगलं च भवति यदि चेत्तृतीयके । तदुदितगुरुमतिभिर्ललितं यदि शेषमस्य सकलं यथोद्गता॥ वजसुन्दरीसमुदयेन मुदितमनसा स्म पीयते । हिमकरगलितमिवामृतकं ललितं मुरारिमुखचन्द्रविद्रुतम् ॥ भवत्यर्धसमं वक्तं विषमं च कदाचन । तयोईयोरुपान्तेऽत्र छन्दस्तदधुनोच्यते ॥ वत्रं युग्भ्यां मगौ स्यातामब्धेर्योऽनुष्टुभि ख्यातम् ॥ ५ ॥ अत्रापि द्विरावृत्त्या श्लोकः पूरयितव्यः॥ बक्राम्भोजं सदा स्मेरं चक्षुर्नीलोत्पलं फुल्लम् । बल्लवीनां मुरारातेश्वेतोभृङ्गं जहारोच्चैः ।। युजोश्चतुर्थतो जेन पथ्यावकं प्रकीर्तितम् ॥ ६ ॥ रासकेलिसतृष्णस्य कृष्णस्य मधुवासरे आसीद्गोपमृगाक्षीणां पथ्या वक्रमधुश्रुतिः ॥ पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः । गुरु षष्ठं च पादानां शेषेष्वनियमो मतः ॥ ७॥ - १३२ छन्दोमञ्जरी। प्रयोगे प्रायिकं प्राहुः केऽप्येतद्वलक्षणम् । लोकेऽनुष्टुबिति ख्यातं तस्याष्टाक्षरता कृता ॥ ८॥ इति छन्दोमचर्या विषमवृत्ताख्यश्चतुर्थ स्तबक । पञ्चमः स्तबकः। अथार्या । लक्ष्मैतत्सप्तगणा गोपेता भवति नेह विषमे जः। षष्ठो जश्च नलघु वा प्रथमार्धे नियतमार्यायाः ॥ १ ॥ षष्ठे द्वितीयलात्परकेन्ले मुखलाच्च सयतिपद नियमः। चरमेऽर्धे पञ्चमके तस्मादिह भवति षष्ठो लः॥२॥ कृष्णः शिशुः सुतो मे बल्लवकुलटाभिराहृतो न गृहे । क्षणमपि वसत्यसाविति जगाद गोष्ठयां यशोदार्या ॥ वृन्दावने सलीलं वल्गुदुमकाण्डनिहिततनुयष्टिः । स्मेरमुखार्पितवणुः कृष्णो यदि मनसि कः स्वर्गः ।। पथ्या विपुला चपला मुखचपला जघनचपला च । गीत्युपगीत्युद्गीतय आर्यागीतिश्च नवधार्या ॥३॥ प्रथमगणत्रयविरतिर्दलयोरुभयोः प्रकीर्तिता पथ्या। जय जय जगदीश विभो केशव कंसान्त माधवानन्त । कुरु करुणामिति भणितिः पथ्या भवरोगदुःस्थानाम् ॥ संलङ्घय गणत्रयमादिमं शकलयोईयोभवति पादः॥४। यस्यास्तां पिङ्गलनागो विपुलामिति समाख्याति । पुंसां कलिकालव्यालहतानां नास्त्युपहतिरल्पापि । वीर्यविपुला मुखे चेत्स्यागोविन्दाख्यमत्रोक्तिः ॥ दलयोर्द्वितीयतूयौँ गणो जकारौ तु यत्र चपला सा ॥ ५ द्विरावृत्त्या श्लोकः पूरयितव्यः ॥ चपता न चेत्कदाचिन्नृणां भवेद्भक्तिभावना कृष्णे। धर्मार्थकाममोक्षास्तदा करस्था न संदेहः ॥ आद्यं दलं समस्तं भजेत.लक्ष्म चपलागतं यस्याः। शेषे पूर्वजलक्ष्मा मुखचपला सोदिता मुनिना ॥ ६ ॥ नन्दसुत वञ्चकस्त्वं दृढं न ते प्रेम गच्छ तत्रैव । यत्र भवति ते रागः कापि जगादेति मुखचपला ॥
पञ्चम. स्तबकः । प्राक्प्रतिपादितमधे प्रथम चरमदले तु चपलायाः। लक्ष्माश्रयेत सोक्ता विशुद्धधीभिर्जघनचपला ॥ ७ ॥ कृष्णः शृङ्गारपटुर्योवनमदचपलः सुललिताङ्गः । आसीद्रजाङ्गनानां मनोहरो जघनचपलानाम् ॥ आर्याप्रथमार्धसमं यस्याः परार्धमीरिता गीतिः॥ केशववंशजगीतिर्लोकमनोमृगहारिणी जयति । गोपीमानग्रन्थेविमोचनी दिव्यगायनाश्चर्या ॥ आर्यापरार्धतुल्थे दलद्वये प्राहुरुपगीतिम् ॥ ८ ॥ नवगोपसुन्दरीणां रासोल्लासे मुरारातिम् । अस्मारयदुपगीतिः स्वर्गकुरङ्गीदृशां गीतेः ॥ आर्याशकलद्वितये विपरीते पुनरिहोद्गीतिः । नारायणस्य संततमुद्गीतिः संस्मृतिर्भक्त्या। अर्चायामासक्तिर्दुस्तरसंसारसागरे तरणिः ॥ आर्याप्राग्दलमन्तेऽधिकगुरु तादृक्परार्धमार्यागीतिः॥९॥ द्विरावृत्त्या श्लोकः पूरणीयः॥ हर्षाश्रुस्तिमितदृशः प्रमोदरोमाञ्चकञ्चकाञ्चितदेहाः । आर्या गीतिं भक्त्या गायन्ति श्रीपतेश्चरितसंबद्धाम् ॥ 'चारुसमीरणविपिने हरिणकलङ्ककिरणावली सविलासा। आवद्धराममोहा वेलामूले विभावरी परिहीना ॥' इति भट्टौ ॥ अथ वैतालीयम् । पविषमेऽष्टौ समे कलास्ताश्च समे स्युनों निरन्तराः । न समात्र पराश्रिता कला वैतालीयेऽन्ते रलौ गुरुः ॥१॥ घुसृणेन मदेन चर्चितं तव यन्निन्दति राधिके कुचम् । मुदमातनुतेऽत्र पाकिमं तद्वैतालीयं फलं हरेः ॥ तत्रैवान्तेऽधिके गुरौ स्यादौपच्छन्दसिकं कवीन्द्रहृद्यम् ॥२॥ द्विरावृत्त्या श्लोकः पूरयितव्यः ॥ आतन्वानं मुरारिकान्तास्वौपच्छन्दसिकं हृदो विनोदम् । कंसं यो निर्जघान देवो वन्दे तं जगतां स्थितिं दधानम् ॥ .
१३४ छन्दोमञ्जरी। अथ पज्झटिका। - प्रतिपदयमकितपोडशमात्रानवमगुरुत्वविभूषितगात्रा। पज्झटिकाया वेकः क्वापि न मध्यगुरुगण एकः॥१ तरलवतंसा। एस्कन्धश्चलतरपज्झटिकाकटिबन्धः । मौलिचपलशिखिचन्द्रकवृन्दः कालियशिरसि ननर्त मुकुन्दः नवमगुरुत्वं व्यभिचरति च रणधरणीजितरजनिविहारीति मात्रात्रयोदशकं यदि पूर्व लघुकपरिविरामि । पठ पुनरेकादशं दोहडिका द्विगुणेन ॥ ३ ॥ प्राकृतभाषायां प्रचारः। राईदोहडिपठण सुणि हासिओ कण्णगोआल । बिन्दावणघणकुञ्जचलिओ कमला रसाल ॥ इति छन्दोमार्या मात्रावृत्ताख्यः पञ्चम स्तबकः । - षष्ठः स्तबकः। गद्यं पद्यमिति प्राहुवाड्मयं द्विविधं बुधाः। प्रागुक्तलक्षणं पद्यं गचं संप्रति गद्यते ॥ १ ॥ अपादं पदसंतानं गद्यं तत्तु त्रिधा मतम् । वृत्तकोकलिकाप्रायवृत्तगन्धिप्रभेदतः ॥ २॥ अकठोराक्षरं स्वल्पसमासं वृत्तकं मतम् । तत्तु वैदर्भरीतिस्थं गद्यं हृद्यतरं भवेत् ॥ ३ ॥ भवेदुत्कलिकाप्रायं समासाढयं दृढाक्षरम् । वृत्तैकदेशसंबन्धाद्वृत्तगन्धि पुनः स्मृतम् ॥ ४ ॥ वृत्तकं यथा- स हि त्रयाणामेव जगतां गतिः परमपुरुषः पुरुषोत्तमो दृप्तदानव रेण भङराङ्गमिवनिमवलोक्य करुणाहृदयस्तस्या भारमवतारयि रामकृष्णस्वरूपेणांशतो यदुवंशेऽवततार । यस्तु प्रसङ्गेगापि स्मृतं ऽभ्यर्चितो वा गृहीतनामा पुंसां संसारसागरपारमवलोकयति ॥ उत्कलिकाप्रायं यथा- प्रणिपातप्रवणसप्रधानाशेषसुरासुरादिवृन्दसौन्दर्यप्रकटकिरीटको- टिनिविष्टस्पष्टमणिमयूखच्छटाच्छुरितचरणनखचक्रविक्रमोद्दामवान पष्ठः स्तबकः । १३५ mest पादाङ्गुष्ठनखशिखरखण्डितब्रह्माण्डविवरनिःसरच्छरदमृतकरप्रकर- भासुरसुरवाहिनीप्रवाहपवित्रीकृतपिष्टपत्रितय कैटभारे क्रूरतरसंसार- सागरनानाप्रकारावर्तविवर्तमानविग्रहं मामनुगृहा । वृत्तगन्धि यथा- जय जय जय जनार्दन सुकृतिमनस्तडागविकस्वरचरणपन्न पनपा- त्रनयन पद्मापद्मिनीविनोदराजहंस भास्वरयशःपटलपरिपूरितभुवन- कुहर हरकमलासनादिवृन्दारकवृन्दवन्दनीयपदारविन्दद्वन्द्र द्वन्द्वनि- मुक्त योगीन्द्रहृदयमन्दिराविष्कृतनिरञ्जनज्योतिःस्वरूप नीरदरूप वि- श्वरूप अनाथनाथ जगन्नाथ मामनवधिभवदुःखव्याकुलं रक्ष रक्ष रक्ष ॥ व्यवहारोचितं प्रायो मया च्छन्दोऽत्र कीर्तितम् । प्रस्तारादि पुनर्नोक्तं केवलं कै.तुकं हि तत् ॥ ५ ॥ सर्गः षोडशभिः समुज्ज्वलपदैनव्यार्थभव्याशयै- येनाकारि तदच्युतस्य चरितं काव्यं कविप्रीतिदम् । कंसारेः शतकं दिनेशशतकद्वन्द्वं च तस्यास्त्वसौ गङ्गादासकवेः श्रुतौ कुतुकिनां सच्छन्दसां मञ्जरी ॥३॥ इति छन्दोमार्या गद्यप्रदो नाम षष्ठ स्तबक. । समाप्तोऽयं ग्रन्थः ।
No text on this page.
CHE KI!PPI" WARY SSTR.
44. RH ROAD
MADRAS.