Library
Kaayaparishuddhi
Front matter
( 13 )
slot
itikathalt!
ht
UNIVERSAL
LIBRARY
OU_184408
LIBRARY
UNIVERSAL
J. P- - 13
UiT
OSMANIA UNIVERSITY LIBRARY
Cail Vo.
Acressione
luckor
11
lic
This bok houve rent on tore the data astma ked belor.
No text on this page.
आनन्दामसंस्कृतग्रन्थावलिः। ग्रन्थाङ्कः १११ श्री. म. म. विद्रल-अभ्यंकगपाहवासुदेवशास्त्रिप्रणीता कायपरिशुद्धिः। गयं व० शा० सं० रा० मारुलकरांपाद्वैः शंकरशामिभिः मंशोधिता। पतत्पुस्तकं बी. ए. इत्युपपदधारिभिः विनायक गणेश आपटे इत्यतैः पुण्याख्यपनने श्रीमन् ‘महादेव चिमणाजी आपटे । इत्यभिधेय- महाभागप्रतिष्ठापिते आनन्दायममुद्रणालये आयसाक्षरैर्मुद्रयित्वा प्रकाशितम् । शालिवाहनशकाब्दाः १८६१ । विस्ताब्दाः १९३९ । ( अस्य सर्वऽधिकारा राजशासनानुसारेण स्वायत्तीकृताः )। मूल्यं सपाद एको रूपकः ( १८४ )।
No text on this page.
कायपरिशुद्धभूमिका । ५) पायादपायाज्जगदीश्वरो नः । तत्त्वमसि ( छा. ६ । ८ । ७ ) अहं ब्रह्मास्मि (बृ. १ । ४ । १०) सर्व खल्विदं ब्रह्म (छा. ३।१४ । १ ) इदं सर्वं यदयमात्मा (बृ. २।४ । मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ( गौ. का. १७) ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः, इत्यादीनि परःशतानि श्रुतिशिरोवचनान्याभियुक्तोक्तस्मृ- तिवांसि चोच्चावचानि प्रस्थानत्रयपरिमाण्डितायां ब्रह्ममीमांसायामद्वैतमधिकृत्य प्रवृत्तानीति जोघुष्यते सर्वैरप्यद्वयब्रह्ममीमांसाशास्त्राभियुक्ततमैः । अखिलाद्वैत- संपदायप्रवर्तकाचार्यवर्यसमयासद्धोऽयं राद्धान्तो यत्सर्वासां श्रुतीनां स्वरसतः परमतात्पर्य जीवब्रह्मणोरभेदे जगद्ब्रह्मणोरभेद एव वेति । तादृशपरमरहस्यभूत- सिद्धान्तपस्थापनेऽतिमात्र प्रयतितं विविधाभिर्विधाभिर्नेकविधशब्दजालजटिलेषु नैकविधसुदूरदुरूहतर्ककर्क शेषु भामत्यद्वैतसिद्धिप्रभृतिषु वादग्रन्थेषु नवनवोन्मेष- शालिप्रज्ञामण्डितै कविधतर्करचनाचतुरैगुरूपासनासमादितपज्ञावैभवैरधरकित्तसुर- गुरुभिरखण्डितपण्डितैः । अधिकरणरत्नाङ्कुरच्छुरिते शारीरकेऽपि हृदयंगमया सरण्या सुष्पपादितामिदं श्रुतिशिरःपरमरहस्यं तत्तवान्तरमतमतान्तरानिरसनपुर:- सरम् । परमपुरुषार्थो मोक्षश्च तादृगद्वयात्मज्ञानादेवोत प्रसिद्धो डिण्डिमः । तमेव विदित्वाऽतिमृत्युमेति । नान्यः पन्था अयनाय विद्यते ( श्वे. ३८ ) इति श्रुतेः । पूर्णानन्दाद्वितीय ब्रह्मपरिज्ञानादेव मृत्योरतिक्रमणं मोक्षं प्राप्नोतीति तदर्थः । ननु तमेव विदित्वेत्यत्रैवकारस्य तंपदैनवान्वयो नतु ज्ञानपदेन । तदिदं श्रुतौ तंशब्दोत्तरमेवैवकारपाठेनावगम्यते । तथा चाऽऽत्मन एव ज्ञानान्मोक्षो नत्वात्मव्य- तिरिक्तज्ञानादित्यर्थपतीतेरात्मेतरविषयकत्यमेव मोक्षसाधनीभूतज्ञानस्य निरसिसि- षितं प्रतीयते । नतु विदित्वैवेत्यन्वयेन कर्मादिसाधनान्तरसहकारः पर्युदस्यते ज्ञानस्य। विदित्वेत्यनन्तरमेवकारपाठाभावात् । अन्यथाऽहमस्मीत्येवमहमर्थस्याऽऽ- त्मनः प्रतीतेः सर्वानुभवसिद्धत्वेनाहं सुखीत्यादेख़नस्याप्यात्मविषयकत्वेन मोक्षहे- तुत्वापत्तेः। तथा च 'ज्ञानादेव तु कैवल्यम् । इत्युक्तं कैवल्यापरपर्यायमोक्षस्य ज्ञानमात्रसाध्यत्वं नैव श्रुतिसिद्धमिति चेन्नैतद्भद्रम् ।
, ' नान्यः पन्था इत्यग्रिमवाक्य एवकारव्यावर्त्यत्वेन मोक्षे साधनान्तरपतिषेध- प्रदर्शनात्तदनुरोधेनवकारस्य भिन्न क्रमत्वं स्वीकृत्य विदित्वेत्यनन्तरमानीय विदि- त्ववेत्येवमन्वयत्यावश्यमङ्गीकरणीयतया ज्ञानैकसाध्यत्वं मोक्षस्य श्रुतिसिद्धमेवे- त्याशयात् । पुरुषार्थे मोक्षे परमत्वं च निःशेषदुःखोपशमलक्षितत्वं परमानन्दैकरस्यत्वं च । दुःखमूलं च मूलाज्ञानापरपर्यायाऽविद्यैव । अविद्यैव हि कर्तृत्वादिसकलानर्थकरी । यश्चासावविद्याशब्दार्थः स एव संसार इत्युच्यते । संसार इत्यत्र समित्येकी- करणे । संभेद इत्यादौ तथाऽर्थोपलम्भात् । तथा चाऽऽत्मानं दहेनकीकृत्य स्वर्गनरकमार्गयोः संसरति पुरुषो येन स संसारः । समुपसृष्टात्सृधातोः करणे घञ्पत्ययः । तादृशसंसारस्य, आत्मज्ञानान्मोक्षं दर्शयन्ती ‘तरति शोकमात्म- वित् ' ( छा० ७ । १ । ३) इति च्छान्दोग्यश्रुतिर्निवृत्तिं सूचयति । संसा- रनिवृत्तिमन्तरेण मोक्षस्यासंभवात् । ननु — अपाम सोमममृता अभूम हिरण्यदा अमृतत्वं भजन्ते । इत्या- दिश्रुतिषु सोमपानाद्युपलक्षितकर्मसाध्यत्वममृतत्वस्य पतिपाद्यते । तमेव विदित्वे- त्य नया तु ज्ञानेन मोक्षसिद्धिरभिधीयते । तत्र श्रुतिद्वयविरोधे सति द्वयोः प्रामाण्याय विकल्पस्याष्टदोषदुष्टत्वेनासंभवात्समुच्चयस्यैवाऽऽश्रयणं युक्तमिति कर्मसमुच्चितस्यैव ज्ञानस्य मोक्षसाधनत्वमूरीकर्तव्यम् । नहि कर्मणा न मोक्षः किंतु ज्ञानेनैवेत्या राज्ञोऽनुशासनमस्ति येन तमेवेतीयमेव श्रुतिः पुरस्क्रियते नापामेतीति चेत् । अत्रोच्यते-ज्ञानमेव यज्ञानं निवर्तयतीति लोके नियमो दृश्यत इत्यविद्या- विद्ययोरेव हि निवर्त्यनिवर्तकभावनियमो लोकसिद्धो नत्वविद्याकर्मणोः । नहि रज्जुसादिभ्रमस्य तत्मयुक्तभयकम्पादेश्च निवृत्तिः कर्मविशेषानुष्ठानेन भवती- त्येवमनुभूयते । किंतु रज्जुतत्त्वपरिज्ञानेनैवेति सर्वानुभवारूढम् । तथा च लोक- सिद्धनाविद्याया ज्ञानकनिवर्त्यत्वनियमेनोपोदलिता ‘तमेव ' इति श्रुतिरेव प्रबलेति न ज्ञानस्य कर्मसमुच्चितत्वं शङ्किन्तुमप्यहम् । एवं च पूर्णानन्दाद्विती- यात्मविषयकाविद्यानिवृत्तिरेव मोक्ष इति पर्यवस्यति । तथा चोक्तं सर्वदर्शनसं- ग्रहे विद्यारण्याचार्यैः-अविद्यास्तमयो मोक्षः, इति । ननु च 'ब्रह्मविद्ब्रह्मैव भवति' (मु० ३ । २ । ९ ) इति ब्रह्मविदो ब्रह्म- प्राप्तिरुच्यते । ब्रह्म च आनन्दो प्रति व्यजानात ' (० ३ । ६) ..
[३] विज्ञानमानन्दं ब्रह्म (बृ. ३ । ९ । २८ ) इत्यादिश्रुतेः परमानन्दस्वरू- पम् । तथा च निरतिशयानन्दाविर्भावो मोक्ष इति सिध्यतीति कथमिवाविद्या- निवृत्तिर्मोक्ष इत्युच्यत इति चेत्सत्यम् । सत्यं ज्ञानमनन्तं ब्रह्म' (ले० २।१।१) अविनाशी वा अरेऽयमात्मा अनुच्छित्तिधर्मा (बृ० ४ । ३ । २३ ) इत्या- दिश्रुतेः सच्चिदानन्दस्वरूपस्य ब्रह्मण आत्यन्तिकनित्यत्वावगमादविद्यानिवृत्तेः पागप्यानन्दाविर्भावसत्त्वात्पतिबन्धकाविद्यानिवृत्ती भस्मापसारणे तदन्तर्गताग्नेः प्रकाशाविर्भाववदानन्दाविर्भावस्य जायमानत्वेनाविद्यानिवृत्तेरपि मोक्षत्वाङ्गीकार इत्याशयादिति गृहाण । एवं स्थितेऽनेन प्रघट्टकेनैतसिध्यति यद्वैतमार्गेणैव मोक्षो लभ्यो नान्येन कर्मादिना द्वैतमार्गेणेति । तस्यास्याद्वैतमार्गस्य पाप्लेरुपायस्य जिज्ञासाकाङ्क्षायां सर्वतः पामुख्ये- णाऽऽदौ कायपरिशुद्धिरेव बुद्धावारोहति । यद्यप्यद्रुतमार्गमाप्तिसाधनत्वेनोद्गीथपा- णामिहोवदहरपश्चाग्निप्रभृतयोऽनेका विद्याः समुपदिष्टाश्छान्दोग्यादिषूपनिषत्सु, पपश्चिताश्च ब्रह्मसूत्रत-भाष्यादौ तथापि नैव ताः स्वातन्त्र्येण स्वकार्य साधयितुं शक्नुवन्त्यपि तु तत्र कायपरिशुद्धेर्मुखमीक्षन्त एव । यतोऽशुद्धयवस्थायां कृतं कर्म नार्थमावहेत् । सूचितश्चायमर्थः प्रमाणभूत आचार्यो दर्भपवित्र- पाणिः शुचाववकाशे प्राङ्मुख उपविश्य महता प्रयत्नेन सूत्राणि प्रणयति स्म, तथाशक्यं वर्णेनाप्यनर्थकेन भवितुम् ' ( पा० सू० १ । १ । १ भाष्यं ) इत्येकस्यापि वर्णस्यानर्थकत्वाभावे सूत्रपणेतुराचार्यस्य पाणिनेः पवित्रपाणित्वं शुचिप्रदेशे प्राङ्मुखोपवेशनं च हेतुं वदता व्याकरणमहाभाष्यकारेण पतञ्जलिनाऽऽचार्येण । अन्यथाऽऽचार्यविशेषणस्य पवित्रपाणित्वादेरुपादानेन किं कृतं स्यात् । शुचिना कर्तव्यम् सबाह्याभ्यन्तरः शुचिः' शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः । इत्येवमादीन्यपि नैकशः शुचित्वापदे- शकवाक्यानि पदे पदेऽस्मच्छास्त्रेषु समुपलभमानान्यनारभ्याधीतत्वात्सर्वेष्वारम्भेषु कायपरिशुद्धेरावश्यकत्वं पतिपादयन्ति । नन्वस्तूक्तरीत्या कायपरिशुद्धेरद्वैतमार्गोपलब्धिसाधनत्वं किंतु के ते कायाः कीदृशं तेषां स्वरूपं कीदृक्षा च सा शुद्धिः कीदृश्या चेतिकर्तव्यतया सा संपा- दनीया तया चाग्रे किं साधनीयम्, इत्येवंपायाः प्रश्नाः पुरतः समुत्तिष्ठन्ते । सत्यम् । एतदर्थमेव वयं निबन्धो म. म. विद्वद्रत्न-अभ्यंकरोपाह्ववासुदेवशा- स्त्रिभिः स्वातन्त्र्येण निबद्धः। तत्र तदेतत्सर्वं साङ्गोपाङ्गं विवेचितम् । अत , [४] एव चास्य ग्रन्थस्य कायपरिशुद्धिरित्यन्वर्थ नाम कृतम् । कायस्य परिशुद्धि- रिति व्युत्पत्त्या देह शुद्धिस्तदर्थोऽवगतो भवति । देहश्च विविधः । स्थूलसूक्ष्मका- रणभेदात् । तत्र पश्चीकृतपञ्चमहाभूतसंभवः प्रत्यक्षतो दृश्यमानः करचरणादि- मान् स्थूलो देहः। तदुक्तं-स्यात्पश्चीलतभूतोत्थो देहः स्थूलः (प० द० १ । ३४ ) इति । ज्ञानेन्द्रियपञ्चकं कर्मेन्द्रियपञ्चकं प्राणपञ्चकं मनो बुद्धिश्चेत्येतैर्मिलितः सप्तदशावयवः सूक्ष्मो देहः। अयमेव लिङ्गदेह इत्युच्यते । तदुक्तं पञ्च- दश्याम्- बुद्धिकर्मेन्द्रियमाणपश्चकैर्मनसा धिया । शरीरं सप्तदशभिः सूक्ष्मं तल्लिङ्गमुच्यते ॥ (प० द० १ । २३ ) इति । कारणदेहस्तु-मलिनसत्त्वप्रधानाऽविद्यैव । तदप्युक्तं पञ्चदश्याम्-- सा कारणशरीरं स्यात् ( प० द० १ । १६) इति । साविद्या स्थूल सूक्ष्मशरीरादिकारणभूतं प्ररुत्यवस्थाविशेषत्वात्कारणशरीरं स्यादिति तदर्थस्तट्टीकायामुक्तः । तस्य कायस्य शुद्धिर्नाम दोषराहित्यम् । स्थूलदेहे दोषश्च वातपित्तकफवै- षम्यकृतो ज्वरादिः । तन्नाशकं वैद्यकं शास्त्रम् । लिङ्गदेहगतदोषाणां काम- कोधमदमोहादीनां शुद्धिसंपादकं पूर्वमीमांसाशास्त्रम् । कारणदेहगतमूलाविद्या- रूपदोषनाशनार्थं वेदान्तशास्त्रमिति तत्तदुपायेन तत्तत्कायस्य शुद्धिः संपाद- नीयेति तात्पर्यम् । येयं कायपरिशुद्धिरुक्ता सा द्विविधा। सर्वांशेन पूर्णा, केनचिदंशेन विकला च । तत्राऽऽद्या मोक्षप्राप्तयेऽत्यन्तमावश्यकी। द्वितीया व्यवहारे सर्वत्रैवापेक्ष्यते । न केवलं वैदिकव्यवहार एव कायपरिशुद्धेरपेक्षा विभावनीया । किंतु लौकि- कव्यवहारोऽपि तत्तत्कर्मानुगुणां कायपरिशुद्धिमपेक्षत एव । अन्यथा तु जाय- मानो द्विविधोऽपि व्यवहारः स्वरूपमात्रपर्यवसायी भवति । तत्र औतेषु स्मार्तेषु च शास्त्रीयकर्मसु यदि तत्तत्कर्मानुगुणा मानसी शुद्धिर्न स्याञ्चेत्तत्कर्म जात- मित्येव । तादृशकर्मकारिणं च केवलमयं सोमयाजीत्यादिशब्देन लोकाः संबो- धयेयुर्न पुनः स कर्मकारी तादृशकर्ममाप्यमैहिकं पारलौकिकं वा फलं कात्स्न्ये- नावामोति । लौकिके व्यवहारेऽपि यो देवदत्तादिर्येन चैत्रादिना सह प्रत्यक्ष सख्येन व्यवहरति तस्य देवदत्तादेस्तादृशचैत्रादिविषयको मानसो भावः शुद्धो !. -- - न चेत्स चैत्रादिरपि तादृशेन तेन देवदत्तादिना साकं व्यवहरन् बहिरेव केवलं सख्यं प्रदर्शयति । अन्ततो देवदत्तादेभीवं सत्यतया जानानोऽपि तत्समक्षं लेशतोऽपि स्वकीयां वाचं तदीयदोषोच्चारणेन नाऽऽसञ्जयति । तथा चोक्तम्-- दोषज्ञा अपि लोकाः परदोषोच्चारणे मुनिव्रतिनः । हेतुविशेषाभावे प्रत्यक्षं कमपि कोऽपि नाऽऽक्षिपति ॥ इति । ये तु स्वभावत एव कुटिला मूर्खास्ते तु नैवम् । तदप्युक्तम्-- सहजान्धदृशः स्वदुर्नये परदोषेक्षणदिव्यचक्षुषः । स्वगुणोच्च गिरो मुनिव्रताः परवर्णग्रहणेष्वसाधवः ॥ इति । तथा च ते प्रत्यक्षमपि परकीयदोषमुद्गिरन्तीत्यन्यदेतत् । तदेवं स्वभावभे- देन प्रत्यक्षतः परकीयदोषोद्घाटनं भवतु मा वा भूत्सर्वथा सर्वत्र कायपरिशुद्धि- रपेक्ष्यत एवेति निर्विवादम् । भगवद्गीतामपि षोडशेऽध्याये- यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः। न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥ (गी.१६।२३) इत्यत्र भगवता सिद्धिशब्देन कायपरिशुद्धिः संगृहीता भवति । अथात्र प्रसङ्गादस्य श्लोकस्यार्थ प्रथमतः प्रदर्श्य ततः प्रकृतमनुसरामः। परा गतिर्मोक्षः । अत्र सुखापेक्षया परां गतिमिति मोक्षस्य पृथनिर्देशान्मोक्षे सुखं नास्तीति ध्वन्यते । एतेन — मोक्षे निरुपमं सुखम् ' इत्येवं द्वैतिभिर्या मोक्षस्य सुखस्वरूपता प्रतिपादिता सा निरस्ता भवति । नन्वत्र सुखशब्देन सातिशयं सुखं गृह्यते । परगतिशब्देन च निरतिशयं मोक्षसुखं गृह्यत इति गीतावचन- संगतिरिति चेत्-उपपत्तिरेषा नतु — मोक्षे निरुपमं सुखम् ' इत्यत्रेदं गीतावचनं प्रमाणं भवति । अद्वैतिनां मते तु मोक्षे सुखाभाव इत्यवायं पृथनिर्देशः प्रमाणं भवति । किंच सातिशयनिरतिशयरूपेण सुखभेद औपाधिकः, देवदत्त- यज्ञदत्तादिभेदेन तत्तत्सुखभेदवत् । नतु स्वरूपतो भेदोऽयम् । तथा च स्वरूपभे- दाभावेन पृथनिर्देशो नैव सामीचीन्येन संगतो भवति । तथा च सुखमिति सामा- न्यनिर्देशात्तेन सुख शब्देन सातिशयं सुखं गृह्यत इति सुखविशेषग्रहणे प्रमा- णाभावः। ननु परां गतिमिति शब्देन निरतिशयसुखग्रहणं तत्र प्रमाणमिति चेत्तत्रापि प्रमाणान्तरापेक्षा वर्तत एव । सुख शब्देन सातिशयसुखग्रहणे सिद्धे सति हि परगतिशब्देन निरतिशयसुखग्रहणम् , परगतिशब्देन च निरतिशयसुखग्रहणे सिद्धे सति सुखशब्देन सातिशयसुखग्रहणमित्यन्योन्याश्रयः । तथा च वैतिमा- मभिमतं मोक्षस्वरूपं नैव संभवति । किंच द्वैत्यभिमतं मोक्षस्वरूपं श्रुतिविरुद्धम् । यतो न ह वै सशरीरस्य सतः पियापिययोरपहतिरस्ति । अशरीरं वाव सन्तं न प्रियापियये स्पृशतः (छा, ८।१२।१ ) इति श्रुतौ मोक्षस्वरूपमशरीरम- भिहितम् । पत्तु शरीरपदेन लौकिकं शरीरं गृह्यते नतु दिव्यं मोक्षकालिकम् । तथा पियापियपदाभ्यामपि लौकिकपियाप्रिययोहणमिति दैतिभिः प्रकल्पितं तन्न स्वारसिकम् । किंतु कथंचिच्छ्रुतेरुपपत्तिरेवेति न तत्र विश्वसनीयं भवति । तदुक्त- ममिपुतैः- विशेषे वक्तृतात्पर्य न चेत्सिद्धं प्रमाणतः । सामान्येन विशेषोऽर्थो न क्वचिग्राह्यतामियात् ॥ इति । शास्त्रविध्यतिक्रमः कामकारद्वारा सिद्धि-सुख-परगतिप्रतिबन्धक इत्यस्मादेष गीतावचनादवगम्यते । शास्त्रविध्यतिक्रमः शास्त्रविधिपरित्यागः कामकारश्च यथेच्छं वर्तनं सुरापानमांसभक्षणपरदारगमनादिकम् । तत्र शास्त्रविध्यतिक्रमः कारणं कामकारश्च तत्कार्यमित्यनयोर्यः कार्यकारणभावः स पूर्वकालबोधको- त्सृज्येति क्त्वापत्ययेन द्योतितः । शास्त्रविध्यतिक्रमश्चाऽऽभ्यन्तरो मानसिको वासश्च सुरापानादिः प्रात्यक्षिकश्चेति द्विविधः। तत्र यदि प्रात्यक्षिकः शास्त्रवि- ध्यतिक्रमो गृह्यते तार्ह तदेव यथेच्छं वर्तनमित्युत्सृज्येति पूर्वकालिकत्वापत्ययो न संगच्छते । अत आन्तर एव शास्त्रविध्यतिक्रमो ग्राह्यो भवति । युज्यते चैतत् । आन्तरं हि बाह्यस्य कारणं भवति । न तु बाह्यमान्तरस्य कारणम् । वायं त्वान्तरस्य केवलं द्योतकं भवति । बायं सुरापानादिकं कर्मोन्द्रयसाध्यम् । इन्द्रियाणि च सर्वाणि मनोधीनानीति यदा मन इन्द्रियाणि प्रेरयेत्तदैवेन्द्रियाणि बहिः कर्म कर्तुं शक्नुवन्ति । मनश्च तदैवेन्द्रियाणि प्रेरयेद्यदा तत्कर्म मनसि स्यात् । यदि च मनसि तादृशं कर्म न स्यात्तर्हि नैव मनो वायं कर्म कर्तुमि- न्द्रियाणि प्रेरयति । प्रेरणाभावे च नैवेन्द्रियाणि कर्म कुर्वन्ति । अत एव नास्तिकानां संध्यावन्दनाद्यान्तरं न भवतीति न बहिस्तत्तैरनुष्ठीयते । आस्तिका- नां च तदान्तरं भवतीति बहिरपि तैस्तदनुष्ठीयत इत्यनुभूयते लोके । अत आन्तरमेव बाह्यस्य कारणमिति नियमः सिध्यति । तादृशनियमानुरोधादप्पान्तर [७] एव शास्त्रविध्यतिक्रमो ग्राह्यो भवति । बाह्यस्य शास्त्रविध्यतिकमस्य सुरापानादेः क्रियारूपत्वाज्ज्ञानेच्छाक्रियाणां च कमिकत्वस्य प्रसिद्धत्वा- तादृशक्रियापेक्षया प्राग्वर्तिनी या तादृशेच्छा तद्विषयीभूतो यः शास्त्रवि- ध्यतिक्रमः स आन्तर इति ज्ञेयम् । तथा च यः शास्त्रविधि मनसाऽ. लिकम्य बहिः सुरापानादिकं यथेच्छं वर्तन करोति स सिद्धिं सुखं परां गतिं च नाऽऽप्नोतीति श्लोकार्थः। नन्वेवमस्तूक्तरीत्या यः शास्त्रविधि मनसाऽतिकामति बहिरपि च प्रात्यक्षिकं पारदार्यादिकमाचरति तस्य सिद्धयादिकं नास्तीति निश्चमचम् । किंतु यस्य शा- स्वविध्यतिकमः केवलं मानसिक एव । बाह्यतः क्रिया तु सर्वा शास्त्रविध्यनुसा- रिण्येव । पितृपितामहादिपरम्पराप्राप्तसंप्रदायसमुत्सर्गे साहसाभावात् । केवलं तत्र विहितं कर्म कश्चिद्यथाकालं करोति कश्चित्त्वालस्यादिना कालातिक्रमण करोतीत्यन्यत् । तादृशस्य तस्य सिद्धिर्भवति न वेति सुतरां संदेग्धि नश्चेतः । तत्र सिद्धिर्भवतीति चेद्बषे हन्त शास्त्रविरुद्धयाऽपि मनोवृत्त्या किं कृतं स्यात् । न किमपि लोमकौटिल्यमपि कृतं भवति । अथ वक्षि न सिद्धिर्भवती- ति चेतार्ह यः शास्त्रविधिमुत्सृज्येत्येकमेव कारणं सिद्धयभावे पर्यवसन्नं नतु कामकारवर्तनमपि तत्र कारणमिति यः शास्त्रविधिमुत्सृज्येत्येतावनैव सिद्धे 'वर्तते कामकारतः' इति द्वितीयचरणस्य न किमपि प्रयोजनं संदृश्यत इति चेत् । अत्रोच्यते-यस्य शास्त्रविध्यतिक्रमः केवलं मानसिकस्तस्य तादृशी मनोवृत्तिः पूर्वसंस्कारानुरोधेन वर्धिष्णुः क्षयिष्णुर्वा जायते । वर्धिष्णुश्चेद्वहिः सुरापानादिक- मपि स्यादिति स सन्मार्गबहिर्भूत एव भवति । न स सिद्धिमवाप्नोति । तादृश्या मनोवृत्तेः क्षयिष्णुत्वे तु क्षयपर्यन्तं विलम्बः पश्चात्स सन्मार्गगामी स्यादेवेति स सिद्धिमाप्नुयात् । तथा च यः शास्त्रविध्यतिक्रमः कामकारवर्तनसहरुतः स एष सिद्धिपतिबन्धको नतु कामकारवर्तनासहकृत इति बोधयितुं वर्तते कामकारतः' इति द्वितीयचरणः सार्थकः । कामकारवर्तनं च मानसिकं बायं चेति द्विविधम् । सुरापानादियथेच्छाचरणविषयकं प्रेम मानसिकम् । बाह्यं तु प्रसिद्धमेव । तादृशद्वि- विधकामकारवर्तनसहरुतः शास्त्रविध्यतिकमो यां पतिवध्नाति यस्याश्च प्रतिबन्धे न कर्मादिद्वैतमार्गसाध्यं स्वर्गादिसुखं नाप्यात्मैक्यविज्ञानाद्वैतमार्गसाध्यं परगति- शब्दवाच्यं मोक्षसुखं च लब्धं शक्यं सा सिद्धिः कीदृशीति तत्स्वरूपे पृष्टे कायपरिशुदिमन्तरेण किमुत्तरं दद्यादुत्तरयिता । नान्यत्किमप्यपि तु कायपरिशु- ..
[८] छिमेवोत्तरयोदित्यर्थः। युक्तं चैतन् । शास्त्रविध्यतिक्रमपूर्वकविविधकामकारवर्तने- नाऽऽदावेवाशुद्धः कायः पुनरधिकतरामेवाशुद्धिं नीत इति स्पष्टमेव । ततश्च काम- कारवर्तनेन हेतुना ' न स सिद्धिमवामोति' इति यः सिद्धयभाव उक्तो भग- वता स कीदृगिति वीक्षायां कायपरिशुद्धयभावस्वरूप एवेति स्पष्टमेव प्रतीयते । अर्थात्सिद्धिरपि कायपरिशुद्धिस्वरूपैवेत्योघेनैव संप्राप्तम् । तस्याः कायपरिशुद्ध- रभावेऽशुद्धयवस्थायां कृतं कर्म फलाभिसंधिसहितं फलाभिसंधिरहित वा न द्वै- तमार्ग नाप्यद्वैतमार्ग जनायितुमलं भवेदिति युक्तमुक्त कायपरिशुद्धेरभावे ' न सुखं न परां गतिम् ' इति । एवं च यः शास्त्रविधिमुत्सृज्यति गीतावचनस्थसिद्धि- पदेन कायपरिशुद्धिरेव भगवताऽभियत इति स्पष्टमेव लभ्यते । इतोऽप्यधिक- विस्तरेण जिज्ञासायामेकवारमाप कायपरिशुद्धिरामूलाग्रं पर्यालोचनीयति प्रशंसे। ईदृशं निरुपमं हृदयंगमया सरण्याऽऽनायासतस्तत्त्वार्थावबोधकममुं ग्रन्थं संग्राह्य समालोच्य च स्वीयस्वीयत्रिविधकायपरिशुद्धिं भावयन्तु सर्वे जनाः स्पृहयन्तु च निरातिशयानन्दायेति श्रीपरमेश्वरं सच्चिदानन्दं संपार्थ्य विरमति- पुण्यपत्तने श्रावण शुक्लतृती- यायां गुरुवासरे श. १८६१ आनन्दाश्रमस्थप्रधानग्रन्थावली- संशोधनाधिकृतः मारुलकरोपाहः शंकरशास्त्री-भारद्वाजः।
अथ कायपरिशुद्धिविषयाणामनुक्रमणिका। ( प. विषयः यत्वं च ... विषयः पृ. पृ. प. मङ्गलम् १--४ द्रष्टव्यश्रुतिर्न द्वैते प्रमाणम् ९-१० अभेदेन जगदुत्पादनसंकल्प द्वा सुपर्णेतिश्रुतिर्न द्वैते प्रमा- एकस्यैवाऽऽश्रयत्वं विष- णम् १०--६ १-१६ श्रुतेरनेकविधा प्रवृत्तिः ... १०-१६ जगदिवोंपादानमात्मा २-१२ विधिहि यावच्छ क्त्येव ११-१. जगदुत्पत्तिकमः ... २-२१ चेतसा वेदितव्य इति श्रुते- शरीरत्रितयादात्मोद्धरणस्व- स्तात्पर्यम् ११-२६ रूपम् ३--५ नायमात्मेति श्रुतेस्तात्पर्यम् १२-- कायपरिशुद्धिः ३-१२ द्वैतस्य न श्रौतत्वम् १२-१६ मुख्यो मनोदोषः कामः ३-१७ देतिकृतस्प क्षुद्रस्थाऽऽक्षेपस्य रथूलदेहारोग्य वैद्यशास्त्रेण ३-२४ निरासः १२-२१ लिङ्गदेहारोग्यं मीमांसाशा महावाक्यप्रतिपाद्यार्थस्य न स्त्रेण ३-२५ शशविषाणायमानत्वम् १२-२.५ कारणदेहारोग्यं वेदान्तशा- जीवनलैक्यं ब्रह्मणः सका- स्त्रेण ४- २४ शाद्भिनमाभन्नं वा १२-२६ कारणदेहस्य दोषस्तद्विषय- ब्रह्मक्यस्वरूपम् १३--६ कमज्ञानम्. ४-२६ ब्रह्मैक्यस्येदंशब्दाग्रहणेऽपि ईश्वरो हि ऐन्द्रजालिंकवत् ५--८ तस्य सिद्धिः १३-१८ प्रलयकाले न मुक्तिः ६--३ इदंशब्देन ग्रहणं भवति... १३-२५ षडस्माकमनादयः ६-१५ प्रमाणावेद्यस्याप्यारोपितरू- मोक्षे संविज्ञानं नास्ति ७--४ पेण प्रमाणवेद्यत्वम् ... १४-- विदेहमुक्तिजीवन्मुक्त्योवि- शास्त्रस्य निष्प्रयोजनत्वं प- शेष: ७-१९ र्यन्त इष्टमेव १४-१६ मायावादः ८--२ ब्रह्मणः कथमावरणम् १४-२६ दैतिकता महावाक्योपपत्तिः ८-२२ अज्ञानेन जीव आवृतः श्रुतिर्न द्वैते प्रमाणम् ८-२५ अज्ञानवैविध्यम् १५--७ -- [ २ । प. विषयः न युक्तम् । र्यायो वा विषयः पृ. पृ. प. बलज्ञानं जायते चेदनित्यम् १५-१४ श्रुतिविचारः... २२--२ तस्य समाधानम् १५-१७ स्वमतेन परमते दोषोद्भावनं अनुबन्धचतुष्टयाक्षेपः २२-२४ तवोत्तरम् १६-१० जात्युत्तरत्वान्न चोद्यम् २३--२ अज्ञानस्य नानाशक्तयः १६-१४ विशिष्टाद्वैतस्यापि न श्रौत- जीवस्वरूपम् १६-२३ त्वम् २५--२ असत्य घटितार्थस्यासत्यत्वमे यस्याऽऽत्मेतिश्रुत्यर्थः २५-२७ वेति न नियमः १७-१५ तत्राऽऽत्मशब्दो विज्ञानपरः २६--४ परस्परविरुद्धयोरितिन्याय- आत्मशब्दः स्वशब्दप- बीजम् १७-२३ २७-१० जीवनप्लैक्यं सिद्धमसिद्धं वा १८--४ महावाक्ये बभेदस्य विधिनतु तत्रोत्तरम् १८-९ सूचनामात्रम्... २७-१८ अज्ञाननिवृत्तिरात्मस्वरूपा महावाक्ये लक्षणा न दोषाय २७-२४ ऽन्या वा १८-१४ महावाक्ये लक्षमा नास्त्येवेति तमोत्तरम् १८-१९ मतम् २७-२८ ज्ञानरूपस्य ज्ञानं न संभवति १८-२८ जातिव्यक्त्योः पृथकशक्ति- तबोत्तरम् इयमथवैकैव शक्तिः २८-६ ज्ञान बह्मणो विषयत्वपतीति शक्तिद्वयं लक्षणा वेत्यनयो- भ्रमः १९.-८ विषयविवेकः २९-११ अज्ञाननिवृत्तिरात्मस्वरूपा- अनुभवविरुद्ध लाघवेऽप्यना- ऽन्या वेति पुनः प्रभः १९-१७ दरः... २९-२४ सत्रोत्तरम् १९-२३ महावाक्ये लक्षणाया आप- विधौ निषेधे वैकवैव वाक्यता- श्यकत्वम् ३०-१८ त्पर्यम् १९-२६ महावाक्यजज्ञाने त्रिपुटी... अज्ञानं सदसदनिर्वाच्यम्... २०-११ नास्ति ३१--८ द्वाविमौ पुरुषौ लोक इति लक्ष्यार्थस्य प्रकारताद्यन्यत- प्रगणविचारः मेन रूपेण भानमिति न इन्दियेभ्यः परा पर्था इति नियमः ३१-२१ पृ . ४०-११ ... ४१-५ विषयः प. विषयः पृ. प. प्रायोदर्शनं न नियामकम् ३१-२३ दृष्टव्य इति विधिना सिध्य- निर्विशेषात्मबोधो यथार्थः ३२--२ न भेदो न सत्य एवेति तदर्थं साधनचतुष्टयसंपत्तिः ३२-४ नियमः ४०--५ साधनचतुष्टयक्रमः ३२-१४ उदरमन्तरमिति श्रुतति-. साधनचतुष्टयवैविध्यम् ३२-२५ कृतोऽर्थः नित्यानित्यवस्तुविवेकः ३३--४ भेदस्यासत्यत्वमेव श्रुन्यभिप्रे- बहामत्रार्थफलभोगविरागः ३३-१० तम् ४०-८ शमदमादिषद्कसंपत्तिः ३३-२२ संविज्ञानाभावेऽप्यात्मैक्यवा- मुमुक्षाभेदाः ३४-६ दसिद्धिः साधनचतुष्टयकार्यम् ३४-२३ निषेधमुखेनाऽऽत्मप्रतिपादने नत्वेवाहमितिश्लोकचतुष्टयेन हेतुः ४१-११ साधनचतुष्ठयसूचनम... ३४-२७ यतो वाच इति श्रुतेति- काम्यत्वेनापि मोक्षस्य मन- कृतोऽर्थः .. ४१-२५ सि प्रवेशः ३५-२३ वैतिकल्पितो द्वैतशब्दार्थः ४२--२ दोषस्यापि सर्वदा न दोषत्वम् ३५-२६ रूढिस्तु मध्यस्थसंमतैवापे- गीतायां साधनचतुष्टय सूचने क्ष्यते ४२-१७ भगवत आशयः ३६-१७ को मोहः कः शोक इति... गीतायाः प्रथमप्रस्थानत्वम ३६-२० श्रुतेरर्थः ४३--२ मुमुक्षोरन्यविधाधिकारापेक्षा ३६-२२ यस्मिन्सर्वाणीति श्रुतेद्वैतिक- ब्रह्मसूत्रस्य द्वितीय प्रस्थान- ल्पितोऽर्थः .. ४३-१४ त्वम् ३७-९ आधारचैविध्यम् ४३--२६ अधिकारं विनोपदेशो व्यर्थः ३८--९ वैतिकल्पितस्याऽऽत्मैवाभूदिति- तृतीयपस्थानरूपोपनिषदुप- श्रुत्यर्थस्यासंभवः योगः ३८-१३ जीवेश्वरभेदः कल्पित एव... १४ चित्तशुद्धयभावे दोषः ३८-१६ ज्ञानैकसाध्यस्य पूर्वसिद्धत्वम् ४४-७ भेदस्य न सत्यत्वम् ३८-२० : जीवेशयोरभेदे श्रुत्यन्तरं प्रमा. अध्याहारः व कर्तव्यः ३८-२६ णम्... ४५-१२ शान्द्रममाणविचारः ... ३९-१५ यस्यामवमितिश्रुत्यर्थः ४४-१६ ...
[४] प. विषयः तोऽर्थो न युक्तः विषयः पृ. पृ.. प. देतिकल्पितस्तदर्थो न युक्तः ४५-२६ धर्मन्यागोऽत्र न स्वरूपतः ५४-२६ उपासत इत्यस्य द्वतिपकल्पि- शस्त्रन्यासादिधर्माणां स्वरूप- ४६-१२ तस्त्यागः ५५-१० जीवबलैक्यं गीताकत्संमतम् ४६-२१ मामेकमित्येक शब्दस्याभिप्रायः ५५-२६ कामा मनोगता नाऽऽत्मगताः ४६-२३ धर्मफलत्यागो न किंतु फल- देतिमते वैराग्यं दुर्लभम् ४७--३ तो धर्मत्यागः... ५६-६ गीतयाऽर्जुनस्य कायपरिशुद्धिः सर्व शब्दस्योपयोगः... ५६-१४ संपादिता भगवता ४७-२४ स्वधर्मान्न कर्मलेपः... ... ५६-१८ सर्वधर्मानित्यस्य तात्पर्यम्... ४८--२ अज्ञानकृतकर्मणाऽपि लेपो उपसंहारस्वरूपम् भवति ४८--४ ५७--८ मोक्षावस्थावर्णनप्रसङ्गः ४८-१५ . सर्वपापेभ्यो मोक्षायष्यामी- साम्यश्रुतेरर्थः ४९--४ त्युक्तेरभिमायः ५७-१२ वैतिनां मते परमं साम्यं न ४९-- ९ . क्त्वाप्रत्ययान्तस्य विधौ प्रवेशः ५८.-९ मामेवैष्यसीत्युक्तिरद्वैतिनां न स्वधर्माचरणोक्तेः स्वधर्मत्या- विरुद्धा ४९-१५। गोक्तेश्च न विरोधः ५८-२४ मन्मना भवेत्याधुपसंहार कर्मभ्रष्टानां मतिनिरासः आक्षेपः ४९-२० मामेकमित्यत्रैकमिति कस्य उपसंहारस्यौचित्यम् ४९-२५ विशेषणम् ५९-२४ आक्षेपाणामुत्तराणि ५०-२२ पापेभ्यो मोक्षयिष्यामीत्य- मियत्वोक्तिसमत्वोक्त्योर्विरोधः५१-१५ त्राऽऽक्षेपः ६०-१५ तत्रोत्तरम् ... ५१-१७ संभावितं पापनिमित्तम् ६०-२४ भक्त्यावापो बीजावापवत् ५२--२ पूर्वसंचितादपि पापान्मोक्षः ६१-१६ बुद्धियोगप्रदानं वर्षणस्था यदृच्छयैार्जनस्प ज्ञानाधि- नीयम् ... .. ५२-१६ कारः... बुद्धियोगपदानस्यात्रानिर्देशे धर्माणां स्वरूपतस्त्याग इति हेतुः... ५२-२१ ६२-६ प्रवृत्तेः कारणद्वयम् ५२-२४ मन्मना भवेत्यादौ न विधिः सर्वधर्मानित्यत्र के धर्मा प्रायाः५३-६ ६२-१३ - ... मतम्... .. ... किंतु नियमः [५] प. विषयः पृ . ६४--४ विषयः पृ. प. मोक्षयिष्यामीत्यत्र प्रयोजक वर्णोच्चारण प्रक्रिया ७०-१० व्यापारः ६३-१८ प्रियायेति न चतुर्थ्यन्तं पदम् ७१-१६ मां हिं पार्थ व्यपाश्रित्येति विशिष्टस्थलेऽध्याहारो न श्लोकार्थः दुष्टः ७१-२९ व्यपाश्रित्येत्यस्यान्वयः ६४--९ प्रियायेति चतुर्थ्यन्ते पदे न प्रथमतृतीयपादयोयत्यासो न किंचिदानुगुण्यम् ७२-१९ कृतः... ६४-२३ प्रथमाध्यायान्तेऽर्जुनस्य नि- सर्वधर्मानिति विध्यव्यवहित- श्चिता मतिः कुतस्त्वा मेवोत्तरार्धोक्तेरनौचित्यम् ६५-१२ कश्मलमिति भगवद्वाक्यं तत्रोत्तरम् ६५-१८ श्रुत्वा संदिग्धाऽभूत् ... ७३-२९ तस्मात्पणम्येति श्लोकार्थः ६५-२५ गीतोपदेशानन्तरमर्जुनस्य स्वीयाचरणस्य स्वोक्त्याऽऽ- स्थितिः ७४-१६ विष्करणं न युक्तम् ... ६६--७ आत्मोपदेशानन्तरं प्रपश्चद- तत्रोत्तरम् र्शने विशेषः ७५--२ एवमुक्त्वेति कव्युक्तिः ६६-२८ गीताया न कर्मपरत्वम् ७६-२१ विराट्स्वरूपदर्शनेनाऽऽनन्द गीताया वेदान्त शास्त्रीयत्वम् ७६-३० विस्मयभयविषादानाम- गीतायाः प्रस्थानत्वे प्रामु- तिशयः ६६-३० ख्ये चोपपतिः ७७--२ क्षमाप्रार्थनम् ६७-१५ गीतायाः कर्मपरत्वे वेदान्त - पितृपुत्रदृष्टान्ताः... ६७-२३ शास्त्रीयत्वं तस्या इति सखिदृष्टान्तः ६८--६ हेतुर्न युक्तः ७७-२४ पियादृष्टान्तः, तस्याऽऽनुगु कर्मणैव हीत्यत्र तृतीयार्थः ७८--६ ण्यम् ६८-१८ कर्मणा मोक्ष इत्यत्र न दृष्टान्तत्रय उत्तरोत्तरमाधि- किंचित्पमाणम् ७८-१२ क्यम् ६८-२८ कर्मणैवेत्यत्र न काम्यं कर्म ७८-१९ विषादातिरेकेणार्जुनोकाव नापि नैमित्तिकं नित्यं च ७८-२८ क्षरच्यतिः ७०-५ कर्मणेति तृतीया सह शब्द- वर्णानुच्चारणद्वैविध्यम् ..... ७०--९ योगे ७९-१८ [] परोक्षः प्रयत्नः विषयः पृ. प. विषयः पृ. प. कर्मसंसिद्धयोः संबन्धः ... ७९-३० विश्वासोत्पादनाय कर्मविपा- कर्म न मोक्षहेतुरित्यत्र हे- कोक्तिः ८८-२६ त्वन्तरम् ८०-२० वृत्तिक्षये कामोपशमः ८९-२५ ज्ञानाग्निना भस्मसात्कृतं कर्म अशुद्धं मनः कामसंपर्कात् ८९-१९ न ज्ञानसहायम् ८१--४ शत्रुरपि कामो मित्रवत्स्वं प्र- ज्ञानकर्मणोन सामानाधिक- त्याययति ८९-२६ रण्यम् ८१-१५ ' कामः शत्रुर्गृहेऽन्ततः प्रविष्टः ८९-३० सोपाधिकेन कृतस्य कर्मण कामस्य कपटपटुत्वत् ... ८९-३० उपाधिराहित्ये कथमुप- दाम्भिकस्य शत्रोनिबर्हणाय योगः ८१-१८ ९०-१२ प्रयोक्तृत्वाभावे कथं कर्म- कामस्य वीजसादृश्यम् ९०-२२ फलम् ८१-२३ बीजापेक्षया कामेजतिशयः ९१--२ कर्मकाण्डस्य वाहुल्येऽपि न कामनिर्दलनायानेक उपायाः ९१-१४ कर्मणो मोक्षसाधनत्वम् ८१-२८ सुखदुःखयोर्विशेषः ९१-३० अभिनिविष्टबुद्धीनां विचारः श्रुतिप्रामाण्यम् ९२-१९ शिथिलः ८२-२० श्रुतेरपामाण्यशङ्का ९२-३० कर्मकाण्डबाहुल्योपपत्तिः... ८३-१० फलदाने कर्मसाधनं न कर्तृ ९३-११ जनाः पश्चविधाः ८३-२२ देवानां सूक्ष्मरूपेणापि संचारः ९३-१९ तेषां संग्रहश्लोकाः ८४-१७ देवानां मन्त्रमयत्वम् ९३-२५ काम्यकर्मवर्णने श्रुतेरुद्देशः ८५-१२ मन्त्राणां विनियोगो नायो- काम्यकर्मणः पञ्जरसादृशम् ८५-१६ श्यः ९४-१४ उपभोगनैव कामोपशमसंभवः ८७-१६ मन्त्रलक्षणम् ९४-१५ कामोपशमे मुख्यो हेतुर्दोष- ग्रहमन्त्राणां विनियोगः ९४-१८ दृष्टिः ८७-१९ देवानां परोक्षमियत्वम् ९८-१७ उपभोगे दोषज्ञानसौकर्यम् ८७-२२ शब्दवैविध्यम् ९८-२९ तत्र संग्रहश्लोकाः ८७-२६ विविधदेहशुद्धरुपयोगः ९९-२४ काम्ये कर्मणि सत्वरं प्रवृत्तिः ८८-१३ कर्मेन्द्रियाणां शुद्धिः १००-६ भुतेर्वात्सल्यम् ८८-२५ बुद्धेः शुद्धिः ... १००-१३
[७]
प. विषयः
विषयः
पृ.
पृ. प.
स्थुलदेहशुद्धिः १००-२१
र्यम्
१०२-२३
कारण देहशुद्धिविचारः
१००-२६ । सुखदुःखोभयसाधने प्रवृ-
परोक्षापरोक्षभेदेन ज्ञानदै-
तिर्वा निवृत्तिर्वा
१०२-२६
विध्यम्
१०१--९
कामस्य पावल्यम्
१०३-१३
जीवन्मुक्तिः ... १०१-२२ सत्त्वोत्कर्षण कामस्य परा-
कायपरिशुद्धयनन्तरं तत्का-
भवः
१०३-३२
इति कायपरिशुद्धिविषयाणामनुक्रमणिका ।
No text on this page.
ॐ तत्सद्ब्रह्मणे नमः। श्री. म. म. अभ्यंकरोपाह्ववासुदेवशास्त्रिप्रणीता कायपरिशुद्धिः । ध्यात्वा महापुरुषमात्मनि संवसन्तं दृष्टयैव दोषगणमाशु विनाशयन्तम् । कायांश्च दोषबहुलानपविलोच्य नणां अध्नामि कायपरिशुद्धिमिमां तदर्थम्॥१॥ आराग्यशास्त्रमिति यज्जगति प्रसिद्धं तस्य स्वरूपमिह नोरियते कथंचित् । सूक्ष्मक्षिकां दृदि निधाय कृतः प्रयत्नः साफल्यमेतु सुधियामवलोकनेन ॥२॥ येषां कुमार्गपरिशीलनबद्धभावा पायो मतिः परिजिहासति साधुमार्गम् । ते कायशुद्धिमतुलां यदि साधयेयुनूनं जरामरणबन्धभयं त्यजेयुः ॥ ३ ॥ इह खलु सर्वोऽपि जन्तुः पुरुषार्थसिद्धयै प्रयतत इति प्रसिद्धमेव । तत्र परम- पुरुषार्थो मोक्षश्चाऽऽत्मस्वरूपज्ञानादेवेति श्रुतौ डिण्डिमः । 'विज्ञानं ब्रह्म' (छा. ७।७।२, बृ. ३ । ९ । २८) इति श्रुतितो ज्ञानस्वभाव आत्मेति निश्चीयते । अत एव च सृष्टिमलयौ पुनःपुनर्भवतः । सृष्टि मलययोज्ञानकसाध्यत्वात् । तज्ज्ञानं च प्रथमतो लोकसृष्टीक्षणमेव । तदुक्तम्- 'आत्मा वा इदमेक एवाय आसीत् ० स ऐक्षत लोकानु सृजै । (ऐ. १।१) इति । संकल्पिता चेयं लोक- सृष्टिर्न स्वस्माद्भेदेन । श्रुत्यन्तरे ‘बहु स्यां पजायेय ' (ते. २।६।१ ) इत्येवं संकल्पाकारमदर्शनेनाभेदावगमात्। नन्वयमभेदः कथमुपपद्यत इति चेत् । इत्थम्- संकल्पकाले चायमात्माऽनाद्यज्ञानाश्रयो भूत्वा तादृशाज्ञानोपाधिमत्त्वेन रूपेण संकल्पयति। तथा च यथा वेषविशिष्टो नटो बायवेषपरिवर्तनमात्रेण · अहं नटी भवामि । इति संकल्पयति तथेहाप्यज्ञानपरिणाममात्रेण 'अहं बहु स्याम् । इति संकल्प उपपद्यते । इत्थमेव च द्विविधसंकल्पाकारपदार्शकयोः श्रुत्योरेकवाक्यता संपद्यते । अत एव चेदमद्वैतदर्शनं श्रौतमिति गीयते । यद्यपि सा ज्ञानशकिरा- त्मस्वरूपैव तथाऽपि तस्याः सकाशात्स्वयं भिन्न इव तस्या आश्रयो विषयश्च भूत्वा लोकसृष्टिं निरीक्षितवानिति श्रुतितात्पर्यम् । यथा गर्भागारमन्धकारस्याऽऽ- श्रयो विषयश्च भवति तद्वत् । एक एवाग्र आसीदिति श्रुतौ द्वितीयनिषेधस्य सष्टमेवोक्तत्वादात्मैव ज्ञानविषय उक्तः । आश्रयविषययोर्भेद आवश्यक एवेति १ टी. 'आत्मनि संवसन्तम् ' इत्यनेन 'तमात्मस्थम् ' (का. ५ । १२) इति श्रुतिरर्थत उपनिबदा। - - २ म. वासुदेवशास्त्रिप्रणीता- नियमस्तु वक्तुमशक्यः । देवदत्त आत्मानं जानातीत्यादौ व्याभिचारात् । ननु तत्र विषयतावच्छेदकं शरीराधुपाधिमत्त्वमाश्रयतावच्छेदकं त्वन्तःकरणोपाधिमत्त्वमिति रूपभेदोऽस्त्येवेति चेत्-इहाप्यविद्योपाधिमत्त्वमाश्रयतावच्छेदकमविद्याविशिष्टत्वं च विषयतावच्छेदकमिति रूपभेदोऽस्त्येव । अनाद्यविद्यासंनिधानमात्रेणाऽऽश्रयस्त- द्विारीष्टश्च विषय इति यावत् । कारणत्वं च न निमित्तकारणत्वं केवलम् । किं- तपादानकारणत्वमपि । एक एवाग्र आसीदिति श्रुतावन्यस्य निषेधेनोपादानकारण- स्यान्यस्य वकुमशक्यत्वात् । उपादानकारणत्वादेव च 'यद्भूतयोनि परिपश्यन्ति धीराः । ( मुण्ड • ११) इति श्रुतौ योनिशब्दः प्रयुक्तः । उपादानकारणमपि न परिणाम्युपादानम् । कूटस्थोऽन्तर्यामी ' ( सर्वोप० १) इति श्रुतौ कूटस्थत्वोक्त्याऽऽत्मनो निर्विकारत्वस्य स्पष्टमेव पतिपन्नत्वात् अतो विवर्तीपादानमेव तदित्यभ्युपगन्तव्यम् । यथा रज्जौ सर्पभ्रान्तिस्थले सर्पविवर्तोपादानभूताया रज्ज्वा भ्रान्तेः पूर्वं भ्रान्तिकाले भ्रान्त्युत्तरं चेति का- लत्रयेऽप्येकरूपैवावस्थितिस्तथैवहाऽऽत्मन इति जगद्विवर्तोपादानस्याप्यात्मनः कूटस्थत्वं सिद्धम् । ननु यथा तबान्धकारादिदोषेणोद्भूतं रज्जुविषयकमज्ञानं सर्परूपकार्यस्य परिणाम्युपादानं तथेहाऽऽत्मविषयकमज्ञानं जगद्रूपकार्यस्य परि- णाम्युपादानकारणं वक्तव्यम् । तत्कथं समुत्पन्न मिति चेन्मैवम् । तस्यानादि- स्वात् । ननु तस्याज्ञानस्यानादित्वे एक एवाग्र आसीत् । इति मागुक्तश्रुति- विरोध इति चेन्न । अज्ञानस्य पारमार्थिकसत्त्वाभावात् । एक आत्मैव पार- मार्थिक आसीनान्यत्किंचिदपि पारमार्थिकं द्वितीयं वस्त्विति हि श्रुतितात्पर्यम् । तथा च यथा पटं चिकीर्षुस्तन्तुवायः पटोपादानभूतांस्तन्तून्पश्यति तथाऽय- मात्मा जगदुपादानभूतमज्ञानं पश्यति । पूर्वसृष्टयन्ते तत्तजीवकृतकर्मवीजत- हितमज्ञानं यथाऽऽत्मनि लीनमभूत्तथैव पुनः सृष्टयारम्भक्षणे तदज्ञानं कार्यो- न्मुखमात्मा संकल्पयतीत्यर्थः । सद्य एव चान्तःपतिविम्बितजीवसहितानि व्यष्टिभूतान्यज्ञानानि क्रमेण तत्परिणामविशेषभूता लिङ्गन्देहाश्च प्रादुरभूवन् । ततः स्थूलदेहा भवन्ति । स्थूलदेहेषु या तत्तज्जीवस्य मदीयता तां तादृश- देहमापकमारब्धकर्मसमाप्तौ शास्ता त्याजयति तदेव मरणम् । तथा लिङ्गदेहपा- पकपारब्धकर्मसमाप्तौ शास्ता तत्र मदीयतां त्याजयति स एव लयः । कारणदेहे च मदीयतात्यागो दुर्घट एव । स चाऽऽत्मज्ञानैकसाध्यः । स एव मोक्षः । तदुक्तं पश्चदश्यां भीविचारण्याचार्यैः- - .. कायपरिशुद्धिः। यथा मुनादिपीकैवमात्मा युक्त्या समुध्दृतः । शरीरत्रितपाद्धीरैः परं बलैव जायते ॥ (प० द. ११४२) इति । निद्रायां तु न देहत्यागः । किंतु तत्र मदीयताबुद्धिरेवाज्ञानेनापह्नता, अत- स्तत्र देहत्याग उपचर्यते । तदानीं प्रत्युत 'प्राणेन रक्षनवरं कुला- यम् ' (बृ. ४ । ३ । १२ ) इत्येवं देहसंरक्षणं श्रुतावुच्यते । अतस्तत्र तदानीं नैव देहत्यागप्रयुक्तं दुःखम् । तथा देहे मदीयताबुद्धिरेव यदा त्यज्यते तदा स जीवन्मुक्त एवेति तदुत्तरं कदापि देहपाते दुःखं न भवति । विद्यार- ण्याचार्यैश्च यच्छरीरत्रितयादात्मनः समुद्धरणमुक्तं तद्देहे मदीयताबुद्धित्याग- रूपमेव । बुद्धिश्च लिङ्गशरीरान्तर्वर्तिनी । सा च यदा ममतां विषयी करोति तदा मलिनेत्युच्यते । अहंता ममता चेत्येतौ विषयौ बुद्धर्मल एव । लिङ्गश- रीरं च बुद्धिप्रधानम् । लिङ्गशरीरे च कायपरिशुद्धिरीदृश्येव । स्थूल शरीरे च या कायपरिशुद्धिवैद्यशास्त्रे कथिता तां संपाद्य तया लिङ्गन्देहशुद्धिः संपा- दनीया । तस्यां च जातायां लिङ्गन्देहे ये कामक्रोधादयो रोगास्ते नष्टा भवन्ति । ततः क्रमेण कारणदेहे शुद्धे सद्यो मुक्तिन क्षणमपि तत्र विलम्बः । केवलेन वैद्यशास्त्रेण तथा पूर्वमीमांसाशास्त्रेणापि च न मोक्षमार्गप्रतिबन्धो निवार्यते । प्रतिवन्धकश्च मुख्यो मनसो दोषः कामसंज्ञकः । तदुक्तं भगव- गीतायाम्- काम एष क्रोध एष रजोगुणसमुद्भवः । महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् (गी०३।३७) इति । कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन । सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः॥ (गी० १८४९) इत्येवं मोक्षमार्गाधिकारसंपत्त्यर्थं हि सात्त्विकस्त्याग उक्तः । तदुपपत्तये वैद्यशास्त्रे किमपि नोक्तम् । केवलं स्थूलेऽस्मिन्भौतिके देह आरोग्यसंपादकं वैद्यशास्त्रम् । तच्चौषधसेवनेन भवरोगसमानाधिकरणान्वातपित्तकफा- वस्थानवैषम्यदोषमूलकानन्यावरादीन्रोगानिवारयति नतु भवरोगविनाशये- पदपि प्रयत्नः । भवरोगो हि कारणदेहमारभ्य प्रवृत्तस्तत्संबन्धेन लिङ्गन्देहे, तत्संबन्धेन च स्थूलदेहे प्रवृत्त इति तस्य कारणदेह एव चिकित्साऽऽवश्यकी । लिङ्गदेहे चाऽऽरोग्यसंपादकं पूर्वमीमांशास्त्रम् । तच्च नैमित्तिकं यत्कर्म पाय- श्चित्ताख्यं तादृशौषधसेवनेन भवरोगसमानाधिकरणारजस्तमसोराधिक्यदोषमूल- कानन्यान्महापातकादीन्रोगानिवारयति । तदुक्तम्- ४ म. वासुदेवशास्त्रिप्रणीता- रोगनाशकपदार्थयोजनं शक्तिवर्धकपदार्थसेवनम् । धातुसाम्यकरमन्नभक्षणं वैद्यकं विविधमेतदुच्यते ॥ वैद्यकं लिङ्गन्देहस्य वेद एवोच्यते बुधैः । तत्र पापनाशकानां नैमित्तिककर्मणां मनोवृत्तिप्राणवृत्त्युत्साहकानां काम्यकर्म- णां मनःपाणेन्द्रियाणां प्रमाणानतीतत्वमवस्थापयतां नित्यकर्मणां च प्रतिपादनात् । परिणामे हितं च वेदं विना दुःसाधमेव । यतो यथा- यदि दुष्टं भवेद्रक्तं त्वचि दोषस्य का कथा । यद्यदुष्टं भवेद्रुक्तं त्वचि दोषस्य का कथा ॥ अत्रोभयत्र क्रमेणौषधेनाप्यसाध्यत्वमौषधं विनापि साध्यत्वं च हेतुद्वयम् । तथा- यदि दुष्टं भवेत्सूक्ष्मं स्थूले दोषस्य का कथा । यद्यदुष्टं भवेत्सूक्ष्मं स्थूले दोषस्य का कथा ॥ इत्युक्तरीत्या स्थूलदेहारोग्यतायै लिङ्गदेहारोग्यताऽऽवश्यिकैव भवति । सा च श्रुतिपदर्शितमार्गानुसरणे सत्येव भवति । यद्यपि पूर्वमीमांसाशास्त्रे न भवरोगवि- नाशायेषदपि प्रयत्नस्तथापि तेन पूर्वमीमांसाशास्त्रेण बहूपकृतं मन्ये । यदयं महाशनः काम एकपदे निर्विषयः कर्तुमशक्य इति विचिन्त्य तस्य कामस्य पुरतः सात्त्विकं विषयं निधाय राजसातामसाच्च विषयाद्रीकृतो मीमांसाशास्त्रेण । सात्त्विकविषयानुसारिकामाविष्टचित्तश्च तादृशसंस्कारदाढर्ये यदि कदाचित्पूर्व- सुरुतवशात्सात्त्विकविषयेष्वपि दोषान्पश्येत्तर्यपि नैव राजसतामसविषयाननुसरे- त्मत्युत विचारेण सात्त्विकानपि विषयान्परिहंतु प्रयतेतैव । ततश्च स मोक्षमा- ाधिकारी भवति । विचारं कर्तुमपि च सामीचीन्येन मनसः प्रवत्तिः स्थूलश- रीरस्याऽऽरोग्ये सत्येवेति तादृशारोग्यसंपादकं वैद्यकमपि परम्परयोपकरोत्येवेति वोध्यम् । कारणदेहे चाऽऽरोग्यसंपादकं वेदान्तशालाम् । तच्चाऽऽत्मज्ञानरूपौषध- सेवनेनाज्ञानदोषमूलकमनादिभवरोग निवारयति । ननु कारणशरीरमज्ञानरूपम् । तत्र दोषोऽपि चाज्ञानमेवोच्यते । तत्कथमेतदिति चेत्-उच्यते । अनादि चैतद- ज्ञानं प्रातिभासिकम् । प्रातिभासिकस्य च वस्तुनोऽज्ञातस्य नैव कार्यकारित्वम् । यथा व्यावहारिकात्सदज्ञातादपि दंशः संभवति न तथा प्रातिभासिकात्सा- ५ कायपरिशुद्धिः। दशातात्किंचिदपि कार्य भयकम्पादिकं जायमानं दृश्यते । किंतु ज्ञातादेव । तच्च सर्पज्ञानमपि यदि पातिभासिकत्वेन जायते तदा तस्मादज्ञातादिव भयकम्पादि- कार्यस्याभाव एव दृश्यते । नन्वेवं निरीक्षणकाले निरीक्षितुरनाद्यज्ञानविषयक पातिभासिकत्वेन ज्ञानं नास्तीत्यभ्युपेयम् । तच्च सुतरां नैव संभवति । जीवस्य तथा संभवोऽस्तु नाम । निरीक्षणकर्ता चायमीश्वरस्तस्य कथं याथातथ्येन ज्ञानं न स्यादिति चेत्-उच्यते। ईश्वरस्याज्ञानविषयकं प्रातिभासिकत्वेन ज्ञानं नास्तीति न मन्यामहे । किंतु यथा लोके कश्चनैन्द्रजालिकः पुरुषो लोकानां चमत्कार प्रदर्शयन्स्वयं तत्रत्यपदार्थानां याथातथ्येन ज्ञानवानप्याकस्मिकान्सादीन्पदा- र्थान्पदर्शयति तथैवात्र बोध्यम् । ननु तदानीं तस्यैन्द्रजालिकस्य पुरुषस्य ताह- शसादिपदार्थाः सर्पत्वादिना प्रतीयन्ते न वा । प्रतीयन्ते चेत्तस्य याथातथ्येन ज्ञानं तत्पतीतिपतिबन्धकं कुतो न जायत इति वक्तव्यम् । नहि रज्जुत्वेन रज्जु जानानस्य सर्पप्रतीतिर्भवति । न प्रतीयन्ते चेत् प्रेक्षकाणामयमाकस्मिकस- दिपदार्थदर्शनक्षण इवि तेनैन्द्रजालिकेन कथं ज्ञायते तद्वक्तव्यमिति चेत्-अत्र केचिदित्थं समादधते । प्रातिभासिकं कारणं याथातथ्येन जानतो दृष्ट्या कार्य न प्रतीयत इति सत्यमेव । किंतु सृष्ट्यारम्भक्षणे तस्मिन्नुपादानभूतेऽज्ञाने कुर्वद्रूपतामनुसंधातीश्वरः । तेन च तदानीं तदज्ञानं प्रस्फुरदूपमिव किंचिद्विप- रिवर्तते । तेनैव लक्षणेनायं जगदुत्पत्ति विजानातीश्वरः । तथैन्द्रजालिकोऽपि सर्पोदीन्पदार्थानपश्यन्नपि केनचिदुपादानगतेन सूक्ष्मेण लक्षणेन सांदीपदार्था- नुत्पन्नान्कल्पयति । नैतद्युक्तिसहम् । ईश्वरो हि भक्तस्य दुःखं निवारयन् दुःखसाधनं दृष्ट्वैव तन्निवारयतीत्येवोचितम् । अन्ये वित्थं वर्णयन्ति । पातिभासिकं कारणं याथातथ्येन जानतोऽपि--यावत्तज्ज्ञानं परोक्षं तावत्तदृष्ट्या कार्यमितरजनदृष्ट्येव प्रतीयत एव । केवलं कार्यमपि तदृष्ट्या प्रातिभासिकत्वेनैव प्रतीयते । इतरजनदृष्ट्या तु व्यावहारिकत्वेन प्रतीयत इति विशेषः। प्रकृतमनुसरामः । कारणशरीरमनाद्यज्ञानरूपमिति सत्यमेव । तद्विषयकं च इदमज्ञानम् । इत्येवं ज्ञानं यन्न भवति तदनाद्यज्ञानविषयकमज्ञानं कारणशरी- रस्यानाद्यज्ञानरूपस्य रोगः । तस्य रोगस्याऽऽत्मज्ञानेन विनाशे — इदमज्ञानम् इत्येवंरूपेण तदनाद्यज्ञानं ज्ञातं भवति । एवमनाद्यज्ञाने याथातथ्येन ज्ञाते ज्ञातु- रिच्छाया अभावे तत्कार्यकारि न भवतीति स ज्ञाता भवरोगान्मुक्तो भवति ।
म. वासुदेवशानिप्रणीता- - अत्रेदमवधेयम् । प्रलयकाले सांसारिकाः सर्व एव पदार्था विनश्यन्तीति तदा- नीमनायासेनैव सर्वेषामेव जीवानां कुतो मोक्षो न भवति तदिदानीमुच्यते । लोके यथा घटस्य घटापेक्षया सूक्ष्मेण मृत्तिकारूपेणावस्थितौ घटनाश उच्यते तथैव प्रलयकाले सर्वेषां वस्तूनां नाशो भवति सूक्ष्माणामपि सक्ष्मतररूपेणाव- स्थानम् । यदपेक्षयाऽन्यदान्तरं रूपं नास्ति तद्रूपेणावस्थानमिति यावत् । तादृशं चाज्ञानमेव । तच्चानादि स्वीकार्यम् । तच्चाज्ञानं सर्वेषां पदार्थानामान्तरमिति भावरूपमेव न तु ज्ञानाभावरूपम् । तत्रैवाभुक्तभोगानां जीवकृतकर्मणां भावरू- पाज्ञानविशेषरूपेणावस्थितिः । ईशकृतकर्मणोऽपि तथैव । तादृशाज्ञानसंबन्धेन च पुनः पूर्ववत्सृष्टिः। अत ईशस्य न वैषम्यनैण्यदोषलेशः । 'धाता यथापूर्व- मकल्पयत् ' ( म. ना. ५। ७) इति श्रुतिरत्र प्रमाणम् । तथा च प्रलय- कालेऽप्यविनष्टाः केचित्पदार्थाः पुनः सृष्ट्यारम्भकाले प्रादुर्भवन्ति । अत्रायं संग्रहः- जीव ईशो विशुद्धा चित्तथा जीवेशयोभिदा । अविद्या तच्चितोर्योगः षहस्माकमनादयः ॥ इति । अत्र च विशुद्धचिव्यतिरिक्ताः पञ्च पदार्था अनादित्वेनाभिमता अपि सान्ता भवन्ति । यथा नैयायिकनयेऽनादिः सान्तः पागभावो भवति तद्वत् । ननु सादि- त्वसान्तत्वयोः समनियतत्वं दृश्यते । युक्तं चैतत् । आदिरुत्पत्तिः । अन्तो विनाशः। उत्पत्तिश्चावयवसंयोगेन । तथा विनाशोऽवयववियोगेन भवतीति प्रसिद्धमेव । परमाणुद्वयसंयोगावयणुकोत्पत्तिः । परमाणुद्वयविभागाच्च दयणु- कनाशो भवति । तथा चात्र जीवादीनां पश्चानां सादित्वाभावे कथं सान्तत्व- मुच्यते । न च भावविषय एवायं नियम उक्तयुक्त्या सिध्यति । तथा च जीवे- शयोर्भिदाया अभावरूपायाः सादित्वाभावेऽपि सान्तत्वं स्यात् । तथैवाविद्याया अनिर्वचनीयस्वरूपाया उत्पत्तिरवयवसंयोगेन भवतीति वक्तुमशक्यम् । तथा च तत्राप्युक्तानियमस्याभाव इति सादित्वाभावेऽपि सान्तत्वं वक्तुं शक्यम् । अविद्यायाश्चानिर्वचनीयत्वेन तद्योगस्याप्यनिर्वचनीयत्वात्तत्रापि सान्तत्वं वक्तुं शक्यमिति वाच्यम् । तथापि जीवेशयोर्भावयनिर्वचनीययोश्च सादित्वाभावे सान्तत्वं स्वीकर्तुमशक्यमिति चेन्मैवम् । जीवेशयोरन्तो नाम न विनाशः । किंत्वयं जीवोऽयमीश इति प्रतीत्यभाव एव । तथा च तयोः सान्तत्वमौपचा- रिकमित्यदोषात् ।
.. कायपरिशुद्धिः। अन्तश्च तेषां मोक्षकाल एव। स चाऽऽत्मज्ञानेनैव । नान्यः पन्था विद्यतेऽय- नाय ' ( श्वे. ३ । ८ ) इति श्रुतेः । मोक्षे सर्वविधमनोवृत्तीनां मनसा सहैवाभावे केवलश्चिद्रूप आत्माऽवशिष्यते। तदानीमयमात्मेति संविज्ञानं नास्त्येव । विषयविषयिभावस्याभावात् । ज्ञातुश्च नदानी ज्ञातृत्वरूपेणानवस्थितेः । यथा दर्पणोपाधिविनाशे प्रतिबिम्बस्य बिम्बरूपेणैवावस्थानं भवति तद्वत् । एतेन दर्पणोपाधिविनाशे प्रतिबिम्ब विनाश इवाज्ञानोपाधिविनाशे मोक्षकाले जीव- स्यापि विनाशः स्यादिति स्वविनाशाय मुमुक्षुः कथं प्रवर्तत इति परास्तम् । यतो दर्पणोपाधौ प्रतिबिम्बदर्शनसमयेऽपि च बिम्बसत्ताधीनसत्ताकस्य नेव पृथक्सत्ता प्रतिबिम्बस्य । किंतु तदानीमपि विम्बरूपेणैव सत्ता । केवलं तदानीं पृथगिवावभासते । तथा च यथा किंचित्कारणं कार्योत्पत्तिक्षण एव विन- श्यदपि कारणत्वेनोच्यते यथाऽन्धकारः प्रदीपानयनस्य कारणं भवति तथैवाऽऽ- त्मज्ञानमत्र मोक्षस्य कारणं श्रुतावुच्यते । नन्वन्धकारविनाश एव पदीपानयने हेतुः, तथाऽत्र नाऽऽत्मज्ञानविनाश एव मोक्षे हेतुः । तथा च कथमयं दृष्टान्त इति चेन्न । 'कार्योत्पत्तिक्षण एव कारणविनाशः । एतावन्मात्रेण दृष्टान्तोपा- दानात् । अन्धकारस्यापि विनाशद्वारा दीपानयनहेतुत्वमस्त्येव । अथवा धूम- शकटसाधनकं गमनं ग्रामान्तरमाप्तेः कारणं भवति । तत्र च ग्रामान्तरमाप्तिक्षण एव तत्कारणस्य धूमशकटगमनस्याभावो भवति तद्वदिति दृष्टान्तो बोध्यः । इदं चात्रावधेयम्-अयमात्मेति विज्ञानं मोक्षे नास्येवेति यदुक्तं तद्विदेह- मुक्त्यवस्थायां द्रष्टव्यम् । जीवन्मुक्तिदशायां तु यद्यपि तादृशं ज्ञानं संभवति तथापि तदनस्तिकल्पमेव । ननु मुक्त्यवस्थायामहंकारस्य नाश इदंताया अपि विनाशादयमात्मेति ज्ञानस्य नैव संभव इति चेन्न । तदानीं मनस्यहमित्यभिमा- नाभावेऽप्यन्तःकरणचतुष्टयस्य वस्तुतः सत्त्वेन तत्र च पूर्वसंस्कारवशादयमा- स्मेति ज्ञानस्य संभवसत्त्वात् । यथा स्वापे कस्यचित्पूर्वसंस्कारवशावामवर्ती तद्वत् । अत एव तदानीं जायमानमपि सर्वमेव ज्ञानमनस्तिकल्पं भवति । इत्थं श्रुतीनामेकवाक्यताया अन्यथानुपपत्त्या सिध्यन् ‘मायामात्रमिदं दैतमद्वैतं परमार्थतः । ( गौ. पा. १ । १७ ) इति माण्डूक्यकारिकातः स्वरसतः पतीतोऽन्यत्र श्रुतौ क्वाप्यनिषिद्धश्च योऽयमविद्यावादस्तमनुसृत्येयं प्रक्रियाऽभि- हिता । एतदुक्तं भवति । 'तत्वमास', (छा, ६।८।७) इत्यभेदमपित - n म. वासुदेवशास्त्रिप्रणीता- पादक@त्या जीवब्रह्मणोरैक्ये श्रुतिप्रमाणनिश्चिते तदन्यथानुपपत्त्याऽयमाविद्यावादः औतत्वेनाऽऽश्रितः श्रीमच्छंकराचार्यैः । न तेषां तत्राभिनिवेशः कश्चित् । अविद्याशब्देनाज्ञानमुच्यते । विद्याशब्दस्य ज्ञानवाचित्वात् । इयं च निसर्गत एव विगुणात्मिका । तत्र शुद्धसत्त्वप्रधाना मायेत्युच्यते । मलिनसत्त्वप्रधाना त्वविद्येत्युच्यते । तदुक्तम्- तमोरजःसत्त्वगुणा प्रतिदिविधा च सा । सत्त्वशुद्धयविशुद्धिभ्यां मायाऽविद्ये च ते मते ॥ (पं. द. १।१५) इति । सत्त्वस्य प्रकाशात्मकस्य गुणस्य शुद्धिर्गुणान्तरेणाकलुषीकृतत्वमिति तत्र टीकायां स्पष्टम् । एतदविद्यापदवाच्यमज्ञानं जगन्मूलकारणमनिर्वचनियमित्यगत्या स्वीकर्तव्यं भवति । जगदुपादानकारणस्य निर्वक्तुमशक्यत्वात्। तथा हि-तच्चा- नादि । अथानादिशब्दस्य कोऽर्थः। आदिर्नास्त्येवाथवा सन्नपि न ज्ञायते। नास्त्येव चेत्सांपतमनुभयमानो मध्यः कथं स्यात् । किंचाऽऽदिर्नास्ति चेन्नित्यमेव तद्भवति । तथा च तस्य मोक्षे कथं लयः । अथानादिः सान्तः प्रागभावो यथा तथैवेदम- ज्ञानमिति चेन्नैतद्युक्तिसहम् । आदि विनाऽन्तस्य वक्तुमशक्यत्वात् । अथास्या- ज्ञानस्याऽऽदिरस्त्येव । केवलं स न ज्ञायत इति द्वितीयः कल्पः समाश्रीयत इति चेत्-यद्युत्पत्तिरस्ति तर्हि तदानीं तस्या अवस्थायाः काऽपि कल्पना स्यादेव । तथा च कीदृशी साऽवस्थ स्यादिति विभावनीयं भवति । इदानीमनुभयमानं वैषम्यं तदानीमस्ति न वा । अस्ति चेत्कथं तस्य निरपेक्षस्य सिद्धिः । नास्ति चेत्कदा कथं च तद्वैषम्यं समुत्पन्न मिति वक्तुं न शक्यते । तथा च पक्षद्वयेऽपि युक्तियुक्तं किंचिद्वक्तुं न शक्यत इत्यतोऽनिर्वचनीयस्वरूपमेव तदित्यङ्गीतं भवति । ननु तस्य त्वं तत्त्वमिति षष्ठीतत्पुरुषेण तत्त्वमित्येकं पदं सामासिकं परि- कल्प्य भेदवादिभिः श्रुत्यर्थो योजितः । तथा रामानुजीयैरपि जीवब्रह्मणोः शरीरशरीरिभावमाश्रित्य शरीरशरीरिणोश्चाभेदमारोप्य श्रुत्यर्थो योजितः । एवं द्वैतिनां मतेऽपि तस्याः श्रुतेरुपपत्तिर्भवतीति चेदुपपत्तिरेषा नतु द्वैते प्रमाण- भूतैषा श्रुतिः । उपपत्तिर्नाम सिद्धान्त इति गृहीतस्य कस्यचिदर्थस्य श्रुतिविरोधः प्रतीयते चेदर्थान्तरयोजनया तदविरोधसंपादनम् । नतु स श्रुतितः स्वरसतः प्रतीयमानः सरलोऽर्थः। एतादृशीमुपपतिं कुर्वता च मामाण्यच्छलेन श्रुतेरमामा- ज्यमेव स्वीकृतं भवति । तथा चोक्तम्- कायपरिशुद्धिः। अपामाण्योक्तिपर्याय उपपत्तिवचो मतम् । यथा मूर्योक्तिपर्यायो देवानां पिय इत्ययम् ॥ इति । अपि च-उपपत्तौ प्रवर्तन्ते लज्जन्ते ये नृणां पुरः । वचनस्याप्रमाणत्वं प्रतिपादयितुं किल ॥ इति च । किंचास्त्वेवमुपपत्त्यापि यथाकथंचित्तादृशश्रुत्यविरोधसंपादनम् । नतु सा श्रुतिः सिद्धान्त इति गृहीते स्वाभिमतेऽर्थे प्रमाणभूता भवति । यो यर्थः श्रुति- वाक्यात्स्वरसतः सरल इति प्रतीयते तत्रैवार्थे तद्वाक्यं प्रमाणं भवति । तथा च द्वैतवादिभिदैतविषये श्रुतिवाक्यमेवान्यत्किंचित्प्रमाणतया प्रदर्शनीयं भवति । या तु द्वैतिभिरात्मा वा अरे द्रष्टव्यः (बृ. २ । ४ । ५ ) इति श्रुति दे प्रमाणत्वेनोपन्यस्ता सा न संभवति । एष हि तेषामाशयः-द्रष्टव्य इति हि दर्श- नविधिः । स च दृष्टा दृश्यं दृशिश्चेति त्रिपुटीमन्तरेण नोपपद्यते । तथा च दृशि- कर्ता द्रष्टा भिन्नः । दृशिकर्म दृश्यं ततो भिन्नम् । दृशिक्रिया च ताभ्यां भिन्नेति भेद आवश्यक एवेति दर्शनविध्यन्यथानुपपत्त्या भेदः सिध्यतीति । किंतु तत्रैव- मुच्यते । दर्शनविधितः पूर्वं तादृशोपदेशाय या श्रुतेः प्रवृत्तिः साऽपि तत्रोपदेष्ट्रयु- पदेश्यमुपदेशश्चेति त्रिपुटीमन्तरेण नोपपद्यते । तथा चोपदेष्ट्री श्रुतिभिन्ना । उप- देश्या नरास्ततो भिन्नाः । उपदेशकिया च ताभ्यां भिन्नति भेद आवश्यक एवेति प्रवृत्त्यन्यथानुपपत्त्या भेदः सिध्यतीति कुतो नोच्यते द्वैतिभिः । किमर्थं तत्र वैतिनस्तूष्णींभावमास्थिताः । तथा तत्त्वमसीत्यादिमहावाक्यविषयेऽपि श्रुतेः प्रवृत्त्यन्यथानुपपत्त्या भेदः सिध्यतीति कुतो नोच्यते । अथ दैविनामयमभि- प्रायः-यथा केनचिदुच्चारितं शब्दमनुकुर्वनगत्या तथैवोच्चारयति । तत्रानुका- यंभूतः शब्दः साधुशब्दो वाऽस्त्वसाधुशब्दो वाऽस्तु तत्रौदासीन्यमेवावलम्बते । अन्यथाऽनुकार्यस्वरूपभङ्गापत्तः। तथाऽत्रोपदश्याञ्जीबानुपदेष्टुं प्रवृत्ता अतिरगत्या भेदमवलम्बते । अन्यथोपदेश एव न संभवति । अनादिकालमारभ्य भेदं गृहीत्वैवोपदेश्यानां जनानां व्यवहारे प्रवृत्तत्वात् । तथा चोपदेशान्यथानुपपत्त्या भेदः सिध्येनतु तस्य भेदस्य सत्यत्वं सिध्येत् । यथा साधुशब्दं विजानता पण्डि- तेनाप्यपशब्दमनुकुर्वतोच्चारितः शब्दः साधुरेवेति न निर्णयस्तथा श्रुत्याऽप्युपदे- शार्थ भेदं गृहीत्वा प्रवृत्तया गृह्यमाणो भेदः सत्य एवेति न निर्णयः । अत उपदेशान्यथानुपपत्त्या सिध्यमानस्यापि भेदस्य सत्यत्वे सा श्रुतिर्न प्रमाणत्वेन 1. म. वासुदेवशास्त्रिप्रणीता- पुरस्कारमर्हति । अतस्तत्र द्वैतिनामौदासीन्यमिति चेत्-अग्रे दर्शनविध्यन्यथानु- पपत्त्याऽपि सिध्यमाने भेदेऽप्येवमेव दृष्टिं निधेहि । तत्राप्युपदेश्यजीवानुसारेणैव श्रुत्या दर्शनविधानात् । तथा च भेदस्य सत्यत्वे द्रष्टव्य इति श्रुतिर्न प्रमाणमिति सिद्धम् । अथ 'द्वा सुपर्णा ० ' (श्वे० ४ । ६) इति श्रुतिद्वैतविषये प्रमाणमिति चेन्मैवं वादीः । यथा हि 'तत्त्वमसि ' ( छा० ६। ८ । ७) इति श्रुतिरद्वैत विधत्ते तथा ' द्वा सुपर्णा ० ' इति श्रुति व द्वैतं विधत्ते । किंतु द्वैत सिद्धवद्- गृहीत्वाऽन्यकिंचिद्विधत्ते । एतादृश्य : श्रुतयश्च कर्मकाण्डगताः सर्वा एव । द्वैत- दर्शिन एव जना उपदेश्या इत्यतो द्वैतं सिद्धवद्गृहीत्वा ताः प्रवृत्ताः । बालं पति बालभाषयैव वक्तव्यं भवति । किं बहुना ज्ञानकाण्डस्थश्रुतिरपि द्वैतान्तर्गतं शब्दार्थसंबन्धं गृहीत्वैव प्रवृत्ता भवति । नैतावता द्वैतं तादृशश्रुतिप्रमाणेन सिद्धं भवति । उपदेष्टा हि नानाविधानामुपदेश्यानां मतिवैचित्र्यात्सर्वेषां च प्रज्ञा- मेकेनैव प्रकारेण सन्मार्गे संग्राहयितुं न शक्नोति । प्रकते च श्रुतिरुपदेष्ट्री । उपदेश्याश्च जीवात्मानो यथाकर्म यथाश्रुतं संप्राप्तेष्वनन्तजन्मसु दैतमार्गेण संच- रन्तो दृढसंस्कारवशान्नैकपद एवाऽऽत्मैक्यं निश्चेतुं प्रभवेयुः । अतः सत्येनास- त्येन वा येन केनापि मार्गेणोपदेश्यस्य प्रज्ञायां शनैः शनैरात्मैक्यबोधानुगुण्यं संपादयितुं श्रुतिः प्रवर्तते । क्वचिदात्मानमणुतरत्वेन वर्णयति क्वचिन्महत्तरत्वेन क्वचिदव्यापकत्वेन क्वचित्सर्वज्ञत्वादिगुणैश्चेत्येवं विधिमुखेन प्रवर्तते । क्वचिच्च यद्वाचाऽनभ्युदितं, यन्मनसा न मनुते (के. ४.५) इति । क्वचिच्च निर्गुणशब्दे- नैवेति निषेधमुखेन प्रवर्तते । क्वचिच्च यतो वाचो निवर्तन्तेऽमाप्य मनसा सहे- त्येवं वाङ्मनोनिवृत्त्यपादानत्वेन वर्णयति । नृसिंहोत्तरतापिन्यां तु चनेनैवानुभवन्नुवाच ' (नृ० उ० ७ ) इत्येवमवचनेनैवाऽऽत्मानुभव उक्तः । तथा चोक्तम्- बोधयन्त्यात्मनो रूपं प्रवृत्ताऽपि पुनः श्रुतिः । अशक्ता निर्गुणं वक्तुं पर्यायेण समभ्यधात् ॥ यथा-बोधयन्ती पति साध्वी मर्यादावृतमानसा । इदानीं तत्र कोऽन्यः स्यादित्येवं भाषते ध्रुवम् ॥ इति । अत्र सर्वत्र पार्यन्तिकोद्दिष्टार्थक्यान श्रुतीनां मिथो विरोधः शडून्नीयः । जगत्यस्मिन्यस्य यो गुणो निषेधो वा कस्यचिदिशेषपरिचितस्तदहारा तेनाऽऽत्म- अव- कायपरिशुद्धिः। स्वरूपं प्रथमतः कल्पनीयमिति हि श्रुतितात्पर्यम् । ननूपदेश्यमतिवैचित्र्येणानेकैः प्रकारैरात्मस्वरूपवर्णनमस्तु नाम । किंतु तेऽनेके प्रकारा अन्धगजन्यायेनैकत्र संभविनोऽपेक्षिताः । अत्र तु श्रुतिषु वर्णिताः केचित्मकारा एकत्रासंभविनो दृश्यन्ते । तथा हि-अणीयानिति महीयानिति च मिथो विरुद्धं दृश्यते । तथा एषोऽणुरात्मा चेतसा वेदितव्यः (मु० ३ । १ । ९) इति, यन्मनसा न मनुते । इति च विरुद्ध दृश्यते इति चेदवाऽऽहुः । अणीयस्त्वं न परिमाणतः किंवणीयस्त्वं सूक्ष्मतरत्वम् । सूक्ष्मत्वस्य च महत्त्वेनाऽऽकाश इव न विरोधः । तथा चेतसा वेदितव्य इत्यत्राऽऽत्मस्वरूपं मनसा विभावनीयमित्युच्यते । सर्व- त्रैव हि विधौ यावच्छ क्त्येव विधाने तात्पर्य दृश्यते । भोक्तव्यं द्रष्टव्यमित्युक्ते नैव सर्वावयवशः कात्स्न्येन भोजनं दर्शनं वा विधातुमिष्यते । किंतु यावच्छ- क्त्येव । तथा च मनसैवानुद्रष्टव्यम् , चेतसा वेदितव्यः, इत्यत्र मनसाऽऽत्मचि- न्तनं यावच्छ क्त्येव विधीयते । शक्तिश्च न सर्वेषां समाना । अधिकारिभेदेन तस्यां तारतम्यमवश्यं भाव्येव । तस्याश्चात्र परा काष्ठा कीदृशी सा यन्मनसा न मनुते, मनसा सह वाचो निवर्तन्ते, इत्यत्र प्रदर्शिता भवति । शुकाचार्यसदृशेन शान्ततरमनसा विदुषा यद्यप्यात्मस्वरूपं विभावयितुं प्रयत्यते तथाऽपि पर्यन्ते मनसो निवृत्तिरव स्यात् । अशब्दमस्पर्शमरूपमव्ययमित्यादिकानि विजरो विमृत्युरित्यादीनि चोपनिषद्गतान्यात्मवर्णनपराणि सकलानि श्रुतिवाक्यान्या- लोच्य तदनुसारेणाऽऽत्मस्वरूपं विभाव्यते चेत्तत्र मनोवृत्तेविरतिरेव स्यात् । मनोऽपि हि श्रोत्रादीन्द्रियविषयानतीत्य न विभावनां कर्तुं प्रभवति । इन्द्रियाणां गतिहि विषयसंनिकर्षाधीना संनिक भावेऽपि च मनसो गतिर्भवति । एतावानेव विशेषः । विषयास्तु तुल्या एव । षष्ठस्येन्द्रियस्य तद्विषयस्य चाभावादेव मानसिकी कल्पनाऽपि तादृशी न भवति । तदुक्तम्- शब्दाद्या एव विषया अक्षाणां मनसोऽपि च । संनिकर्षाधीनतायां वैषम्यं स्यात्तु केवलम् ॥ इति । तथा च मनोवृत्तिनिवृत्तिपर्यन्तमात्मस्वरूपविभावना कार्येति 'चेतसा वेदितव्यः । इत्यादिश्रुतीनां तात्पर्यम् । न तु " यतो वाचो निवर्तन्तेऽप्राप्य मनसा सह, इत्येतादृशी श्रुतेरपि यत्र गतिस्तत्र का वार्ता मादृशाम् । अतश्च तूष्णीमेव स्थेयम् । नत्वात्मप्रवचन आत्मचिन्तने च पवर्तितव्यम् " इत्येतादृशक्षदवि- -- १२ म. वासदेवशानिप्रणीता- चारस्यावसरो न देयः । यतो वाचो निवर्तन्ते, इत्यस्याः श्रुतेरेतदेव तात्पर्य यदनवरतं प्रवचनं कुर्वतां निसर्गत एष पाचो निवृत्तिर्भवतीति । एतेन- वानिवृत्ति कथायितुं कथं वागेव वर्तते । मूकोऽस्मीतिवदेतत्स्यादश्रद्धेयं श्रुतेर्वचः ॥ इत्येतदपास्तम् । श्रुतितात्पर्याज्ञानात् । ' नायमात्मा प्रवचनेन लभ्यः' ( का० २ । २३, मु. ३ । २ । ३ ) इत्यस्याः श्रुतेरपि न प्रवचनविरामे तात्पर्यम् । किंतु प्रवचनं कुर्यादेव तच्च तथा कर्तव्यं यथाऽनवरतमात्मप्रवचनं कुर्वत आत्मयाथात्म्यस्य वागविषयत्वेन निसर्गत एवाऽऽत्मानमलब्ध्वैव प्रवचनाद्विरामो यस्य भवेत्तमेवाऽऽत्मा स्वीयत्वेन वृणुते तेनैव च लभ्योऽयमात्मा तस्यैव चायमात्मा स्वयाथात्म्यं प्रका- शयतीति । एषैव च नायमात्मेति श्रुतिगतयोः पूर्वोत्तरार्धयोमिथः संगतिर्बोध्या। न मेधया न बहुना श्रुतेनेत्यस्यापि तात्पर्यमुक्तरीत्यैव बोध्यम् । प्रकृतमनुसरामः । यथा च 'तत्त्वमसि' ( छा० ६ । ८ । ७ ) इति श्रुति- जीवब्रह्मणोरभेदं विधत्ते, एवम् — इदं सर्वं यदयमात्मा ' (बृ० २ । ४ । ६) इति श्रुविर्जगद्ब्रह्मणोरभेदं विधत्त इत्यद्वैतमतस्य औतत्वं सिद्धम् । द्वैतं तु जीवब्रह्मणोर्जगद्बह्मणोर्वा न क्वापि श्रुतौ साक्षाद्विहितमिति द्वैतमतस्य औतत्वं न सिध्यति। यत्तु द्वैतिभिरुक्तम्-तत्त्वमसि, इदं सर्वं यदयमात्मेत्यादिवाक्यानां जीवब्रल- णोजगद्ब्रह्मणोश्चक्यपतिपादकत्वेऽङ्गीक्रियमाणे तेषां प्रेक्षावद्भिरनुपादेयत्वमाप- घेत । श्रुतिसूत्रादीनां प्रेक्षावद्भिरनुपादेयत्वाभ्युपगमो न युक्तः । अतः श्रुति- सूत्रादीनां ब्रलैक्यपतिपादकत्वं नैव वक्तव्यमिति । तच्चिन्त्यम् । तत्त्वमस्यादि- वाक्यानां जीवब्रलैक्यपतिपादकत्वेऽङ्गीक्रियमाणे तेन तेषां वाक्यानामनुपादेयत्वं भवतीत्यत्र प्रमाणाभावात् । न च जीवब्रह्मणोरैक्यस्य शशविषाणवन्ध्यासुतबद- सत्यत्वेन तत्प्रतिपादकवाक्यानामनुपादेयत्वमिति वाच्यम् । जीवब्रलैक्यस्य शशविषाणादिवदसत्यत्वे प्रमाणाभावात् । ननु परं ब्रलैकमेव सत्यं तदतिरिक्त सकलं मिथ्येति ह्यद्वैतिनां मतम् । तथा चात्र यज्जीवब्रलैक्यं तद्ब्रह्मणः सकाशाद्भ- समभिन्नं वा । यदि भिन्न तर्हि तस्य भवदुक्तरीत्यैव मिथ्यात्वं समागतमिति मिथ्याभतार्थप्रतिपादकवाक्यानामुपादेयत्वं कथं स्यात् । अभिन्नं चेत्तत्र न प्रमाणं पश्यामः । इदं सर्वं यदयमात्मेति श्रुतिरेव तत्र प्रमाणमिति तु न संभ- कायपरिशुद्धिः। पति । श्रुत्यर्थोत्तरं सिध्यमानस्य बलैक्यस्य श्रुतिघटकोद्देश्यबोधकेदंशन्देन ग्रहणं न संभवतीति चेत्-मैवं वादीः । जीवनलैक्यं ब्रह्मणः सकाशाद्भिनम- भिन्नं वेति योऽयमाक्षेपः स ब्रलैक्यस्य कीदृशं स्वरूपं गृहीत्वा कृतः । ब्रह्मैक्यं ब्रह्मधर्म इति चेन । अद्वैतिभिर्बलणो निर्धर्मकत्वाङ्गीकारात् । कीदृशं तर्हि ब्रलैक्यस्य स्वरूपमिति चेच्छृणु । बलैक्यं ब्रह्मपतियोगिकभेदा- भावः । अभावस्य च निःस्वरूपत्वान्न तेन ब्रह्मणः सद्वितीयत्वमाशान्ति- व्यम् । यच्च द्वैतिभिरुक्तं जीवब्रलैक्यस्य ब्रह्मणः सकाशाद्भिन्नत्वे ब्रह्मभिन्न- त्वेन मिथ्यात्वात्तादृशमिथ्याभूतार्थप्रतिपादकत्वेन महावाक्यस्यानुपादेयत्वं स्या- दिति । तत्र महावाक्यस्य स्वरूपत एव ब्रह्मभिन्नत्वेन यन्मिथ्यात्वं तत्पारमार्थि- कदशायामेव न तु व्यावहारिकदशायामिति तस्य व्यावहारिकसत्यत्वेन नानुपादेयत्वमिति चेन्महावाक्यार्थभूतस्य जीवब्रलैक्यस्यापि मिथ्यात्वं पार- मार्थिकदशायामेव न तु व्यावहारिकदशायामिति तादृशव्यावहारिक सत्यार्थ- बोधकमहावाक्यस्य कुतोऽनुपादेयत्वमापाद्यत इति स्वयमेव विचारय । यच्चापीदं सर्व यदयमात्मेति श्रुत्यर्थोत्तरं सिध्यमानस्य ब्रह्मैक्यस्य श्रुतिघटकोद्देश्यबोध- केदंशब्देन ग्रहणं न संभवतीत्युक्तं तदपि न क्षोदक्षमम् । इदं सर्वं यदयमा- त्मेति श्रुतिहीदंशब्दगृहीतस्यास्य जगतो ब्रह्मात्मैक्यं नोत्पादयति । किंतु वस्तु सदेव तत्केवलं बोधयति । तथा चेदंशब्दागृहीतस्यापि कस्यचिद्यदि ब्रह्मणा सहैक्यं वस्तु सत्स्यात्तर्हि तन्निवारयितुं नैवेयं प्रभवति श्रुतिः । न हि घटस्य द्रव्यत्वं बोधयद्घटो द्रव्यमिति वाक्यं पटस्य द्रव्यत्वं निषेधति । नन्वेवमिदंशब्दागृहीतस्य ब्रह्मणा सह यदैक्यं तत्र नेयं श्रुतिः प्रमाणं स्यात् । तथा च तत्र प्रमाणान्तरं वक्तव्यं स्यादिति चेत्-अनुमानं प्रमाणमिति गृहाण । श्रुत्या हीदंशब्दगृहीतस्य जगतो ब्रलैक्मे बोधिते तदृष्टान्तेनेदंशब्दागृहीतस्पापि जगदन्तःपातिनो ब्रह्मणा सहैक्यस्यानुमानप्रमाणेन साधनात् । किंच यथा स्वाध्यायोऽध्येतव्य इत्यध्ययनविधेरन्यत्र स्वाध्याय इव स्वाध्यायोऽध्येतव्य इत्येतस्मिन्स्वाध्यायरूपे स्ववाक्येऽप्युद्देश्यतावच्छेदकाक्रान्तत्वाविशेषेण यथा प्रवृत्तिर्भवति तथेदं सर्वं यदयमात्मेति ब्रह्मैक्यबोधकश्रुतेरन्यत्र जगतीव स्ववा- क्येऽपि स्ववाच्यार्थभूते ब्रलैक्येऽपि च प्रवृत्तिरपत्यूहैव भवति । तथा च ' अ उ ण् । सूत्रे शब्दकौस्तुभे भट्टोजीदीक्षितैरुक्तं 'स्वाध्यायोऽध्येतव्यः, नेह नानाऽस्ति किंचन ' इत्यादीनां वाक्यानां स्वस्मिन्नपि यथा प्रवृत्तिः । इति ।
म. वासुदेवशास्त्रिप्रणीता- - तथा च जीवब्रह्मैक्यस्य जगद्बलैक्यस्य चेदं सर्वं यदयमिति श्रुत्या बलणा स- हैक्यं सिध्यत्येव । ननु 'यतो वाचो निवर्तन्ते । इति श्रुतिर्बलणः श्रुतिप्रमा- णाविषयत्वं बोधयति । तथा च तादृशबलाभिन्नं यज्जीवबलैक्यं जगद्बलैक्यं च तस्येदं सर्वामिति श्रुतिप्रमाणविषयत्वं कथं भवद्भिरुच्यत इति चेन । आनु- पूयव सिद्धत्वात् । जीवब्रलैक्यस्य जगबलैक्यस्य च यद्ब्रह्मणा सहैक्यं तसिद्धयनन्तरं हि भवतामयमाक्षेपो न तु ततः पाक् । जीवनलैक्यस्य जगद्- बलैक्यस्य च यद्बह्मणा सहैक्यं ततः पाक्तु तस्यैक्यस्य श्रुतिप्रमाणविषयत्वे न किंचिदाधकं पश्यामः । किंच प्रमाणावेद्यमपि वस्तु समारोपितेन रूपान्तरेण प्रमाणवेद्यं भवति । यथा तत्तद्देवतापतिमाः । साधारणमनुष्याणामप्रत्यक्षा अपीन्द्रादयो देवाः प्रतिमारूपेण प्रत्यक्षा भवन्ति । तथा प्रमाणाविषयमपि ब्रह्म सत्यत्वादिगुणैरारोपितैः शब्दप्रमाणवेद्यं भवति । यत्तु ब्रह्म स्वसंवेद्यं चेद्ब्रह्मज्ञानं बलणोऽस्त्येव । ब्रह्माभिन्नस्य जीवनलैक्यस्य जगहलैक्यस्य च ज्ञानं ब्रह्मणोऽ- स्त्येव । तथा चार्थादेव ब्रह्माभिन्नेन जीवेनैतत्सर्वं ज्ञातमेव भवति । ततश्च ज्ञात- स्तम्भं प्रति स्तम्भवोधकवाक्यवच्छासां निष्प्रयोजनं स्यादित्युक्तं तन्न । जीवस्य स्वस्वरूपाभिधानोत्तरं शास्त्रस्य निष्पयोजनत्वमिष्टमेव । कृतकार्यत्वात् । यदा च जीवो न ज्ञानी संवृत्तस्तदानीमप्राप्ते शालामर्थवदिति न्यायानुसारेण शास्त्रस्य स- प्रयोजनत्वं भवत्येव । एतेन यथाऽन्धकारे त्वगिन्द्रियेण घटे ज्ञाते तद्गतं रूपं तदानीं न ज्ञायते तदा च ज्ञातेऽपि घटे रूपावेदकस्यार्थवत्त्वं दृश्यते । तथा जीवेन ब्रह्मणि ज्ञातेऽपि तस्यैक्यं न ज्ञायेत चेच्छास्त्रमैक्यावेदकमर्थवत्स्यात् । न तु तथाऽस्ति । ब्रह्मणि ज्ञाते तदैक्यज्ञानस्यावर्जनीयत्वात् । तथा च शास्त्रं निष्प्रयोजनमेवेति द्वैतिकल्पितमपास्तम् । अज्ञानिषु शास्त्रसाफल्यस्य दर्शित- त्वात् । शास्त्रोणाज्ञाननिवृत्तौ सत्यां ज्ञानरूपब्रलस्वरूपभूतमैक्यं स्वत एव सिध्यति । सिद्धं तु निवर्तकत्वाच्छालास्येत्यनेनैतदेव बोध्यते । तथा च शाला- मज्ञानं निवर्तयतीति सिद्धम् । यत्तु ब्रह्म स्वप्रकाशं चेत्तस्य कथमज्ञानेनाऽऽवरणं भवति । अथ तथा- विधस्यापि ब्रहण आवरणमज्ञानेन भवति चेत्तस्याज्ञानस्य कथं नाशः स्यात् । दीपेन ह्यन्धकारो दूरी क्रियते । दीप एवान्धकारेणाऽऽवृतश्चेत्कथं सोऽन्धकारा- वृतो दीपोऽन्धकारं दूरीकर्तुं प्रभवेत् । किंच ब्रह्मपकाशे सत्यज्ञानस्य नाशः । अज्ञानस्य च नाशे सति ब्रलपकाश इत्यन्योन्याश्रयः । तस्मानाद्वैतिमतं कायपरिशुद्धिः। १५ युक्तमित्युक्तम् । तदपि न । स्वप्रकाशस्य ब्रह्मण आवरणमज्ञानेन न संभवतीति सत्यमेव । किंत्वज्ञानेन तेन जीवस्वरूपमावृतम् । यथा घनच्छन्नदृष्टिधन- च्छन्नमर्क मन्यते तद्वदेव जीवोऽयं स्वयमज्ञानेनाऽऽवृतः सन्रलाऽऽवृतमिति मन्यते । यश्च ब्रह्मपकाशे सत्यज्ञानस्य नाशः, अज्ञानस्य नाशे च सति रल- प्रकाश इत्यन्योन्याश्रयः प्रदर्शितः सोऽपि न संभवति । अज्ञाननाशस्य रल- प्रकाशकारणत्वाभावात् । एतच्चाज्ञानं भावरूपं त्रिविधम्-वर्धिष्णु क्षयिष्णु समपरिमाणेन परिणामि चेति । तत्र वर्धिष्णु परिणामि च वृद्धिपरिणामशक्ति- सत्ताकाले क्षयिष्ण्वपि चाऽऽत्मविज्ञानं प्रतिबध्नाति । यदा तु केवलं क्षयशक्ति. मत्तदाऽऽत्मविज्ञानस्य न तत्मतिबन्धकं भवति । तथा च तदानीं तादृशाज्ञानस- त्त्वेऽप्यात्मविज्ञानोदय इति नान्योन्याश्रयः। अज्ञानस्य केवलक्षयशीलत्वं च कायपरिशुद्धया संजायते । यत्तु तत्त्वमस्यादिमहावाक्याद्ब्रह्मज्ञानं जायत इति वक्तव्यम् । तच्च न सं- भवति । तथा सति ब्रह्मज्ञानस्यानित्यत्वपसङ्गः । ज्ञानस्य चानित्यत्वे ब्रह्म- णोऽप्यनित्यत्वापत्तिः । ब्रह्मणो ज्ञानस्वरूपत्वस्यातिभिरभ्युपगमात् । तथा चा- नित्यं ब्रह्मेति स्वीकार्यमथवा महावाक्यस्याकिंचनकारित्वं स्वीकार्य भवतीति चेत्-नायं दोषः। यथा सौरं तेजः सदा सर्वत्र च सममेवाऽऽस्ते। किंतु धनच्छन्न- दृष्टिस्तत्र मान्धमारापयति । आतपे संचरंस्तैक्षण्यमारोपयति । यथा च पश्यास्ती- क्ष्णतां मन्यते न तथा बालः । तदपेक्षयापि पशुः । एवमेकरूपेण सदाऽवस्था- यिन्येव तस्मिंस्तेजसि तत्तद्व्यक्त्या स्वस्वानुगुणा धर्मास्तवाऽऽरोप्यन्ते तथैव ज्ञानस्वरूपे नित्ये स्वप्रकाशे सर्वदैकरूपेण प्रकाशमाने कूटस्थे ब्रह्मण्यपि जीवै- रज्ञानिभिर्धर्मा आरोप्यन्ते । तथा च यथा यथा महावाक्यादिभिरधिकः संस्कारो जायते तथा तथा परमात्माऽधिकं प्रकाशते । तदेवाज्ञानिभिर्महावाक्याज्ज्ञानं जायत इत्युच्यते । एतेन महावाक्यस्य जीव ब्रलैक्यरूपसिद्धार्थबोधकत्वेनापा- माण्यामिति परास्तम् । जीवबलैक्यस्य सिद्धत्वेन तरोधकत्वेऽपि यथा महावाक्य- स्योपयोगस्तथा पूर्व प्रदर्शित एव । अनुपयुक्तत्वं यमामाण्ये हेतुः स्यानाम । उपयुक्तश्चेदसत्योऽप्यर्थः स्वी क्रियत एव । तथा च हरिः- उपायाः शिक्षमाणानां वालानामुपलालनाः। असत्ये धर्मनि स्थित्वा ततः सत्यं समीहते ॥ इति ।
१६ म. वासुदेवशास्त्रिप्रणीता- यत्तु स्वमकाशे सूर्येऽन्धकारस्येव ज्ञानरूपे स्वप्रकाशे ब्रलण्यज्ञानस्य प्रवेश एव न संभवति । तथा चावतिनां वेदान्त शास्त्र विषयप्रयोजनाधिकारिसंबन्धरूप- मनुबन्धचतुष्टयं न संभवति । अज्ञातो हि विषयः । अज्ञाननिवृत्तिः प्रयोजनम् । अज्ञाननिवृत्तीच्छुरधिकारी । एतदनुवन्धत्रयमज्ञानघटितमेवेति यत्राज्ञानमेवा- स्तितां नोपैति तत्र तटितमधिकारित्रयमेतत्कथं वक्तुं शक्येत । एवमेतेषां त्रयाणां शशविषाणायमानत्वे यथा तादृशयोर्विषाणयोमिथः संबन्धो दुर्वचस्त- थाऽत्रापि त्रयाणां तेषामनुबन्धानां मिथः संबन्धो दुर्वचो भवति । एवमनुबन्ध- चतुष्टयासंभवेऽर्थादेव शास्त्रमनुपादेयं भवतीति । अत्राऽऽचमहे । सर्वोऽयं व्यूहो मूलबन्धशैथिल्याद्विदीर्ण एव भवति । स्वप्र. काशे ज्ञानरूपे ब्रह्मण्यज्ञानस्यासंभवेऽपि जीवे तत्संभवस्य पागेवोक्तत्वात् । अत्राज्ञानमूलकं जीवत्वं जीवाश्रितं चाज्ञानमित्यन्योन्याश्रयो न शङ्कनीयः। नहीदमज्ञानं जीवमाश्रित्योत्पन्नमित्युच्यते । अज्ञानस्यानादित्वाभ्युपगमात् । विचि- वार्थसर्गकरी मायेत्येतदेवोच्यते । अज्ञानं चैतन्नानाविधशक्तियुतम् । सृष्ट्या- रम्भे तदेक्षतेत्येवं वर्णितेक्षणशक्तिरप्येतदन्तर्गतैव । याश्चास्यानिर्वचनीयस्याज्ञा- नस्य नानाविधाः शक्तयस्तासां सर्वासां सर्वत्रोपयोगो भाव्य इति न नियमः। किंतु यथासंभवं व्यवस्था । अनादिरज्ञानशक्तिश्चयमात्माश्रयेण नरीनति । सा चाऽऽकाशवाय्वादिक्रमेण ब्रह्माण्डं प्रदर्शयति । इयं विक्षेपशक्तिरित्युच्यते । आवरणशक्तेस्तु न तत्रोपयोगः । परमात्मनस्तदायत्तत्वाभावेन तत्र तस्याः शक्ते- रनुपयोगात् । उक्तशक्तिविशिष्टो हि परमात्मेत्युच्यते । उक्त शक्तिरहिता केवला चित्तु शुद्धत्युच्यते । नर्तनं चास्यानाद्यज्ञानस्याव्यारुतस्य व्याकृतरूपेण परि- णामः । व्याकृतं चाऽऽदौ सूक्ष्मं ततः स्थूलं ब्रह्माण्डं दृश्यते। तत्र सूक्ष्मसृष्ट्यन्त- गते सात्त्विकेऽन्तःकरणे प्रतिबिम्बितं चैतन्यं जीव इत्युच्यते । तथा चाज्ञानप- रिणामभूतान्तःकरणोपाधियुतो जीवोऽर्थादेवाज्ञानायत्त इति तस्य जीवस्य मूलस्वरूपमज्ञानेन स्वकीयावरणशक्त्याऽऽवृतं भवति । आवृतोऽप्ययं जीवोऽना- वृत इव स्वमवगच्छन् बरलाऽऽवृतमिति भ्रमेण मन्यते । तदुक्तम्- घनच्छन्नदृष्टिर्घनच्छन्नमर्के यथा निष्पभं मन्यते सोऽतिमूढः । इति । यत्तु द्वैताभिमानिन आहुः-अद्वैतिनां मते जीवत्वमज्ञानकल्पितं चेदर्थादेव तन्मिथ्या भवति । एवं जीवत्वस्य मिथ्यात्वे जीवनलाभेदोऽपि मिथ्या भवति । जीवनलाभेदघटकस्य जीवस्य मिथ्यात्वात् । तथा चार्थादेव जीव- - कायपरिशुद्धिः। १७ रमणोर्भेदः सिध्यति । परस्परविरुद्धयोः पदार्थयोरेकस्य मिथ्यात्वे परस्य सत्यस्वमर्थादेव सिध्यति । यथा दरिद्रत्वधनिकत्वयोमिथो विरोधादामगतं दारिद्रयं मिथ्या चेत्तस्मिन्दारिद्रयविरोधि धनिकत्वं सत्यमित्येव सिध्यति । तथा पकते भेदाभेदयोः परस्परविरुद्धतया जीवब्रह्मणोरभेदस्य मिथ्यात्वेऽङ्गीकते तद्विरुद्धस्य जीवरलणोर्भेदस्य सत्यत्वं स्यादेवेति । तदेतत्पलापमात्रमिति शिष्टैरनादरणीयमेव । तुल्यन्यायाज्जीवस्य मिथ्यात्वे जीवब्रह्मभेदोऽपि मिथ्या भवति । जीवरह्मभेदघटकस्य जीवस्य मिथ्या- त्वात् । तथा चार्थादेव त्वदुक्तरीत्यैव जीवरलाभेदः सिध्यतीति कथं न पर्या- लोचयेः। यच्चोक्तं जीवस्य मिथ्यात्वे तद्घटितस्य जीवरलाभेदस्य मिथ्यात्व- मर्थादेव सिद्धमिति तादृशाभेदविरुद्धस्य भेदस्य सत्यत्वं सिद्धमिति । तदप्य- सत् । न हि जीवस्य मिथ्यात्वे कल्पितेऽपि तद्घटितो जीवरलाभेदस्तेन मिथ्या भवति । यस्य हि वस्तुनो येन यादृशं स्वरूपं प्रकल्पितं तत्सत्यं वा मिथ्या वा बौद्धं वा स्वाप्निकं वा प्रातिभासिकं वा तत्तथैव स्वीकृत्य तद्घ- टितोऽर्थो वर्णनीयो भवति । न हि शशविषाणस्यासत्यत्वे शशविषाणं नास्तीति शशविषाणप्रतियोगिको निषेधोऽपि शशविषाणघटितत्वादसत्यो भवति । अन्यथा बवैतिमतं खण्डनीयत्वेन भवतोपक्षिप्तमिति भवता तस्याव- तमतस्यासत्यत्वं कल्पितमिति तद्घटितं तत्खण्डनमप्यसत्यमिति कुतो न कल्प्यते । तथा तैरेव यत्मलपितं परस्परविरुद्धयोः पदार्थयोरेकस्य मिथ्यात्वे परस्य सत्यत्वमर्थादेव सिध्यति । यथा दारिद्रयधनिकत्वयोमिथो विरोधा- द्रामगतं दारिद्रयं नष्टं चेत्तस्मिन्दारिद्रयविरोधि धनिकत्वमर्थादेव सिभ्यतीति । तत्रोच्यते । शब्दमात्रेणायं न्यायस्तैः प्रदर्शितः, न त्वर्थतोऽवगतः प्रतीयते । परस्परविरुद्धयोः पदार्थयोरेकस्य यन्मिथ्यात्वं तद्यदि तदितरं पदार्थ कक्षी- कृत्य तत्सहायेनाऽऽपाद्यते चेदेव तत्रापरस्य सत्यत्वं सिध्येत् । तदेव हि तत्र बीजम् । न हि देवदत्तस्य दारिद्रयं देवदत्तमरणानष्टमिति मृतस्य तस्य धनिकत्वं कोऽपि प्रत्येति । प्रहते च यज्जीवर लणोरभेदस्य मिथ्यात्वं दैतिभिः प्रतिपादितं तज्जीवस्याज्ञानकल्पितत्वेन मिथ्यात्वानीवरलाभेदस्यापि मिथ्यात्वमापादितमथवा रहभिन्नस्य मिथ्यात्वमवैतिपतिपादितं कक्षी कृत्य स्वयं च जीवरमाभेदस्य रमभिन्नत्वं प्रकल्प्य तस्याभेदस्य मरहम- १८ म. वासुदेवशास्त्रिप्रणीता- भिन्नत्वान्मिथ्यात्वमापादितं नतु द्वैतस्य सत्यत्वं प्रसाध्य तत्सहायेन पतिपादित- मिति कुतोऽत्र तन्न्यायावकाश इत्यूहनीयं सरिभिः । यत्तु जीवरह्मैक्यं सिद्धमसिद्धं वा । रह्मस्वरूपत्वात्सिद्धमेवेति चेत् । महावाक्यस्य विषयाभावः । असिद्धो यर्थः साध्यमानतया शास्त्रस्य विषयो भवति । असिद्धं चेन्महावाक्येन तत्साधनीयमिति महावाक्यस्य विषयलाभः स्यात्तथापि महावाक्यन निष्पाद्यं जीवरलैक्यमुत्पन्नत्वायदा कदापि नष्टं स्यादेवति मुक्तस्य पुनरावृत्तिपसङ्ग इत्युक्तं तदविचारितरमणीयम् । जीव- र लैक्यं महावाक्यन साध्यत इत्यस्य नोत्पाद्यत इत्यर्थः । किंतु पूर्वसिद्धमेव केवलं महावाक्येन झाप्या इनि । तथा च न महावाक्यस्य निर्विषयत्वं नापि मुक्तस्य पुनरावृत्तिप्रसङ्गः । नहि जीवरक्यं पूर्वसिमित्येतावता तज्ज्ञातं भवति । यदप्याहुरज्ञाननिवृत्तिमोक्ष इत्यद्वैतिनां मतं न संभवति । अज्ञाननिवृत्ति- रात्मस्वरूपा तदन्या वा । आत्मस्वरूपा चेदात्मा सिद्ध एवेत्यज्ञाननिवृत्तिरप्यात्म. स्वरूपत्वात्सिदैव वक्तव्या भवति । सिद्धा चेत्तदथै शाखारम्भो न युक्तः। लोके हि मूढतमोऽपि मनुजः सिद्धपदार्थसाधनाय प्रयतमानो न केनापि दृष्टः । कथं वा सिद्धमेव साधयितुं शक्यते । अथाज्ञाननिवृत्निरात्मस्वरूपादन्यति चेत्तस्या मिथ्यात्वं स्यात् । आत्मभिन्नत्वात् । तदापि च मिथ्याभूषार्थसंसिद्ध- ये शास्त्रारम्भो न युक्त इति तदप्यसमञ्जसम् । अज्ञाननिवृत्तिरात्मस्वरूपादन्येति न वदामः । किंतु प्रतिजीवं सा नानाविधा । आपेक्षिकं तस्यास्तत्तज्जीवं प्रत्य- सिद्धत्वम् । तथा च यस्य यावदसिद्धा सा प्रतीयते न तावत्तां स सिद्धा- त्मस्वरूपभूतां मन्यते । तदानीं च तदर्थं शास्त्रारम्भो युक्त एव भवति । मिथ्याभूता- र्थसंसिद्धये च नात्र शास्त्रारम्भः । किंतु मिथ्याभूतत्वेन प्रतीयमानस्यार्थस्य मिथ्यात्वाभावप्रतिपत्त्यर्थं शास्त्रमिति गृहाण । यत्तु ब्रह्मज्ञानेनाज्ञाननिवृत्तिः, तदर्थं च शास्त्रारम्भः। तथा च जीवेन खलु ब्रल ज्ञातव्यं भवति । परं त्वेतद्वैतिनां मते कथं संभवेत् । तेषां मते हि ब्रल ज्ञानरूपम् । रह्माभिन्नो जीवश्च ज्ञानरूपः। ततश्च ज्ञानेनैव ज्ञानं ज्ञातव्यमिति फलितम् । तच्च न संभवति । स्वस्य कर्तृकर्मविरोधादित्युक्तं तत्तुच्छम् । रल ज्ञानरूपमिति सत्य- मेव । तथा जीयोऽपि ब्रह्माभिन्नो ज्ञानरुरूप इति सत्यमेव । किंतु न यावदेतादृशं. ज्ञानं तावत्तदर्थ एव शास्त्रारम्भः। तथा च रस ज्ञानभिनं ज्ञानविषयपिति यावत्य- कायपरिशुद्धिः। १९ तीयते तथा जीवोऽपि भरलभिन्नः स च ज्ञानाश्रय इति यावत्पतीयते तावत्तादृश. प्रतीतिनिवृत्त्यर्थमेव शास्त्रमारभ्यते । ब्रह्मज्ञानार्थं शास्त्रमिति यदुच्यते तस्यैतदेव तात्पर्य बोध्यम् । तथा च वस्तुतो ज्ञानाविषयस्य ब्रह्मणो ज्ञानविषयत्वप्रतीतिर्या भवति रमविषयकं ज्ञानमिति स श्रम एव । स एव च शास्त्रेण दूरी क्रियते। ननु यदि रह्मविषयकं ज्ञानमिति प्रतीतिर्भमस्तर्हि स्तनंधयस्य ब्रह्मविषयकं ज्ञानं नास्तीति अमो नास्त्येव । तथा च स तदवस्थायां किं मुक्तो भवति। नैतदेवम् । ब्रह्मविष- यकं ज्ञानमिति प्रतीतिर्न भ्रमस्वरूपम् । किंतु ज्ञाने ब्रह्मणो विषयत्वप्रतीतिश्रमः । तथा च ज्ञानमावश्यकमेव । केवलं तत्र कस्यापि विषयस्य प्रतीतिर्मा भूदिति हि वस्तुस्थितिः। शास्त्रेण च या तत्र ज्ञाने ब्रह्मणो विषयता प्रकल्पिता सेतरेषां विष- याणां ततोऽपसारणार्थम् । यथा मलिने पात्रे पूर्वसंसृष्टमलाप सारणार्थ भस्मादिर- धिको मलस्तत्रोपलिप्यते पश्चाज्जलेन सर्वविधो मलोऽपसारितो भवति तद्वत् । ततश्च शास्त्रेणाखिलविषयाणां ज्ञानतो निवृत्तौ ब्रा स्वयमपि विषयरूपेण निवर्तते। इयं च विषयरूपेण निवृत्तिर्ज्ञानतः पृथग्भावेन या ब्रह्मणो निवृत्तिस्तन्मूलिकैव । तथा च ब्रह्मरूपं ज्ञानं सिद्धम् । इयमेव मोक्षावस्था। तथा च मोक्षावस्थायामा- त्मनो न ज्ञानविशिष्टत्वं नापि च परमार्थतया ज्ञानोपलक्षितत्त्वम् । यत्तु द्वतिभिरुक्तम्-अज्ञाननिवृत्तिरात्मस्वरूपादन्या चेदात्मनो यदन्यत्तदज्ञानम- ज्ञानकार्य वा भवति । तथा चाज्ञाननिवृत्तेरज्ञानत्वे सर्वथा निवृत्तिरेवाज्ञानस्य न घटते । अज्ञाननिवृत्तेरज्ञानकार्यत्वे च घटद्वारेण मृत्तिकायाः सत्त्वमिव कार्यद्वारे- णाज्ञानस्य सत्त्वं तदवस्थमेवेति कथमज्ञाननिवृत्तिरूपो मोक्षः स्यादिति । अत्रोच्यते । अज्ञाननिवृत्तिमात्मस्वरूपादतिरिक्तां प्रकल्प्य यानि दूषणानि पद- शितानि तानि नैव विचारसहानि । अज्ञाननिवृत्तिरात्मनःसकाशादन्येत्यस्मा- भिरनभ्युपगमात् । यच्चाज्ञाननिवृत्तेरात्मस्वरूपत्वाभ्युपगम आत्मनः सिद्धत्वेना- ज्ञाननिवृत्तेः सिद्धत्वात्तदर्थं शास्त्रारम्भो न युज्यत इति दूषणमुक्तं तदनुप- दमेव दत्तोत्तरम् । किंच तदज्ञानविजृम्भितमेव । अज्ञाननिवृत्तिरात्मस्वरूपेत्येतत्ता- पर्यानाकलनात् । तथा हि-कस्यापि वाक्यस्य विधौ निषधे वैकत्रैव तात्पर्य न द्वयोरर्थयोः। 'पृथिव्यां रूपम् । इति वाक्यस्य विधावेव तात्पर्य न पृथिवीतोऽन्य- व रूपस्य निषेधे न वा पृथिव्यां रूपादन्यस्य निषेधे । तेन पृथिव्यां रूपमिति वाक्यस्य जले रूपमित्यनेन, पृथिव्यां रस इत्यनेन च न विरोधः। एवमाकाशे न रूपमित्यस्य निषेध एव तात्पर्य नाऽऽकाशादन्यत्र रूपस्य विधौ नवाऽऽकाशे २० म. वासुदेवशानिप्रणीता- रूपादन्यस्य विधौ । सेनाऽऽकाशे न रूपमित्यस्य वायो न रूपमित्यनेनाऽऽकाश न रस इत्यनेन च न विरोधः । यत्र तु विधिवाक्यत्वेन प्रतीयमानस्यापि विधेः सिद्धत्वादिना विधौ तात्पर्य न विवक्ष्यते तत्राप्येकब निषेध एव तस्य तात्पर्यम् । एवं निषेधवाक्यत्वेन प्रतीयमानस्यापि वाक्यस्य क्वाचिद्विधावेकत्रैव तात्पर्य बोध्यम् । एवमद्वैतवादिना या 'अज्ञाननिवृत्तिरात्मस्वरूपा' इत्युक्तिः सा विधिवाक्यत्वेन यद्यपि वाह्यतः प्रतीयते तथाऽप्यन्ततस्तस्याः 'अज्ञाननिवृत्ति- रात्मव्यतिरिक्ता नेति निषेध एव तात्पर्यमवसीयते । तेन तस्या उक्तेविधी तात्पर्याभावानाऽऽत्मनः सिद्धत्वेन तस्या अज्ञाननिवृत्तेः सिद्धत्वमापादनीयम् । जगन्मूलभूतभावरूपाज्ञानसंबन्धेन च न सन्नासन्न सदसद्विरोधात् । किंतु सदसदनिर्वाच्यमेतत् । इति यद्वदन्ति तत्तात्पर्यमेवमेवोहनीयम् । तथा हि । अज्ञानकायस्यास्य पपश्चस्य भावरूपेण प्रतीयमानत्वात्तदज्ञानं भावरूपम् । तस्य च सत्त्वासत्त्वसंबन्धन विचारे क्रियमाणे चत्वारः कल्पाः प्रादुर्भवन्ति । अज्ञानं सत् अज्ञानमसत् एतदुभयमपि विधितात्पर्यकमिति प्रथमः कल्पः (१)। अज्ञानं सदिति विधितात्पर्यकमज्ञानमसदिति निषेधतात्पर्यकमिति द्वितीयः(२) । तद्विपर्ययेण चाज्ञानं सदिति निषेधतात्पर्यकमज्ञानमसदिति विधितात्पर्यक- मिति तृतीयः ( ३ ) । अज्ञानं सत् अज्ञानमसत् एतदुभयमपि निषेधतात्पर्यक- मिति चतुर्थः कल्पः ( ४ ) । एषु कः संभवति कश्च नेतीदानी प्रदर्श्यते । तत्र प्रथमः कल्पो न संभवति । अज्ञानं न सत् । विधितात्पर्यकमज्ञानं सदिति न तादृशाज्ञानसंबन्धेन वक्तुं शक्यमित्यर्थः । आत्मा वा इदमेक एवाय आसीत् ( ऐ० १ ) इति श्रुतिविरोधात् । तथाऽज्ञानं नासत् । विधितात्पर्यकमेवा ज्ञानमसदिति च न तादृशाज्ञानसंबन्धेन वक्तुं शक्यमित्यर्थः। तत्कार्यस्यास्य जगतः सद्रूपेण प्रतीयमानत्वात् । एवं न सन्नासदिति प्रथमः कल्पो निरस्तः । 'न सदसद्विरोधात् ' इत्यनेन द्वितीयतृतीयकल्पौ निरस्तौ । अज्ञानं सदित्यनेन विधितात्पर्यणाज्ञानस्य सत्त्वे विहिते कथं तद्विरुद्धमज्ञानमसदित्यनेन निषेध- तात्पर्यकेण सत्त्वं निषिद्धं स्यात् । तथाऽज्ञानं सदित्यनेन निषेधतात्पर्यके- णाज्ञानस्यासत्त्वे निषिद्धे कथं तद्विरुद्धमज्ञानमसदित्यनेन विधितात्पर्यके- णाज्ञानस्यासत्त्वं विहितं स्यात् । एवं द्वितीये तृतीये च कल्प निरस्ते सदसदनिर्वाच्यमिति चतुर्थः पक्षः स्वीक्रियते । तत्र ह्यज्ञानं सदित्यनेन निषेध- तात्पर्यवेणाज्ञानस्यासत्त्वं निषिध्यते न तु सत्त्वं विधीयते । येन ' आत्मा वा०' इति श्रुतिविरोधः स्यात् । वथाऽज्ञानमसदित्यनेनापि निषेधतात्पर्यकेण सत्त्वं , कायपरिशुद्धिः। २१ केवलं निषिध्यते। न स्वसत्वं विधीयते । येन तत्कार्यस्य जगतोऽसत्त्वेन प्रतीतिः स्यात् । नन्वेतादृशस्याज्ञानस्य शब्देन सुवचत्वेऽपि मानसिककल्पनाया 'ईदृशं तत्स्यात् । इत्येवं तस्य कोऽप्याकारो मनोवृत्ति नाऽऽरोहतीति चेत्- अत एवानिर्वाच्यमित्युक्तम् । अत एव चैतदज्ञानं तत्कार्यभूतं सर्वं च जगत् मायामात्रमिदं द्वैतमद्वैतं परमार्थतः । ( गौ० का. ) इत्यत्र माया- शब्देन व्यपदिश्यते । अघटितघटनापटीयसी हि माया। अनिर्वाच्यत्वं च मायाया भूषणमेव न दूषणमिति बोध्यम् । यत्तु वैविभिर्विष्णोः सर्वोत्तमत्वे, जीवब्रह्मणोर्मेंदे, जीवनलैक्पनिषेधे च किं प्रमाणमिति प्रश्नमुद्भाव्य तत्र प्रमाणत्वेनेमे गीताश्लोका उदाहताः- द्वामिमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहतः । (गी० १५ । १६ ) इति । एतत्सिद्धोऽर्थश्चेत्थमुक्तः येषां नश्वरं शरीरं तादृशा ब्रलरुद्रेन्द्रगण- पत्यादयोऽत्र क्षरशब्देनोच्यन्ते । अनश्वरशरीरा लक्ष्मीरचाक्षरशब्देनोच्यते । पर- मात्मा विष्णुस्तु ताभ्यां भिन्न इति । अत्रोच्यते । द्वाविमावित्यनेन क्षरा- क्षरद्वैविध्यं प्रतिपाद्योत्तरार्धे क्षराक्षरशब्दार्थः स्वयमेवोक्तः । तथाच तदनुराधेन क्षर शब्देन भूतानामक्षरशब्देन चेतनस्य च ग्रहणमेव युक्तम् । नात्र रलरुद्रा- दीनां लक्ष्म्याश्च नामापि दृश्यते । लक्ष्म्या अनश्वरो देहो रहलादीनां च नश्वर इत्यत्र च न किंचित्प्रमाणं प्रदर्शितम् । तथा च तद्वैपरीत्येनाथवा तेषां सर्वेषामेव नश्व- रो देह इति सर्वेषामनश्वरो देह इति वा कुतो नोच्यते । तथा चात्र क्षरशब्देन भूतानामक्षरशब्देन चेतनस्योत्तमपुरुषशब्देन परमेश्वरस्य च ग्रहणमित्येव स्वी- कार्यम् । तच्चाद्वैतिमतेऽप्यविशिष्टमेव भवति । न चारैतिमते देहचेतन- विभागाभावात्क्षराक्षर विभागो नोपपद्यत इति वाच्यम् । वस्तुतः परमार्थदशायां तादृशविभागाभावेऽपि प्रमाणपमेयव्यवहारे प्रवृत्ते व्यावहारिकभेदस्य सत्त्वात् । परमार्थदशायां तु यत्र वेदा अवेदा इत्येवं श्रुतिरपि स्वस्य सत्त्वं नाभ्युपैति दूरत एक कथा प्रमाणप्रमेयव्यवहारस्य ।
म. वासुदेवशानिप्रणीता- पच्च-इन्दियेभ्यः परा त्या अर्थेभ्यश्च परं मनः। मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः ॥ महतः परमव्यक्तमव्यक्तात्पुरुषः परः । पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः (का. १।३।१०) इति श्रुतितिभिः प्रमाणमित्युदाहृता । तत्र यदि प्रमाणमित्यस्याप्रमाणं नेत्यर्थस्तर्हि विवाद एव नास्ति । यदि च विष्णोः सर्वोत्तमत्व इयं प्रमाणमि- त्यर्थस्तर्हि सोऽर्थो न लभ्यते । अत्र विष्णुपदाभावात् । पुरुषपदमा पत्र दृश्यते । परमपुरुषश्च सर्वैरप्यास्तिकैः स्वस्वमतानुसारेण स्वी क्रियत एव । य- च्चोक्तं महत्पदेनात्र महत्तत्त्वाभिमानी ब्रह्मदेव उच्यते । तदपेक्षया परा लक्ष्मी देवी । सा चाव्यक्ततत्त्वाभिमानिनीत्यव्यक्तशब्देनात्रोच्यते । तादृशलक्ष्मी- देव्यपेक्षया परश्च विष्णुरेवेत्युक्तं तदपि न। ब्रह्मदेवलक्ष्मीशब्दप्रयोगोऽत्र नास्ति । इन्द्रियाद्यभिमानिन्यो देवताश्च सर्वेरेवाऽऽस्तिकैः स्वी क्रियन्त एव । अत्र श्रुतौ केवलं तासां पौर्वापर्यं प्रदश्यते । तथा चेयं सर्वसाधारणी श्रुतिनैव केनाप्यास्ति- केन स्वकीयमतसाधकत्वेन पुरस्कार्येत्यास्तां तावत् । तदेवं द्वतिमतस्य श्रौतत्वं कथमपि सिद्धं न भवति । यश्चायं द्वैतिना साकं वादाय प्रवृत्तमद्वैतवादिनं प्रति प्रतिवादिनां द्वैतिना- मुद्धोषः-' भवन्तोऽद्वैतमतं गृहीत्वा वादाय प्रवृत्ता इत्येतावतैव भवद्भिद्वैतमा- श्रितं भवति । यतो भवदपेक्षया भवतां मतं भिन्नम् भवन्तश्च तादृशमतापेक्षया भिन्नाः, तदुभयापेक्षयाऽपि प्रतिवादिनो वयं भिन्नाः, अस्माकं मतं च भिन्नम्, वादश्च सर्वापक्षयापि भिन्नः । एतादृशमनेकविधं भेदमुपजीव्यैव भवतामियं प्रवृत्तिरिति तद्विरुद्धोऽयं वाद एव न संभवतीति । अत्राऽऽचक्ष्महे । नाद्वैतवा- दिनामयं दोषोऽपि तु दैतिनामेव । परस्परपतिद्वंद्विनोईयो दिनोर्हि मध्ये केना- प्येकेनापरस्य य आक्षेपः क्रियते स तस्यापरस्य मतं गृहीत्वैव कर्तव्यो भवति । नतु स्वमतेन । नहि नास्तिकं चार्वाकं खण्डयितुं प्रवृत्तेनाऽऽस्तिकेनादृष्टोऽर्थः स्वर्गादिः श्रुतिप्रमाणेन साधयितुं शक्यते । श्रुतिपमाणस्य चार्वाकेणानङ्गीकारात् । तथा च द्वैतिनामेव द्वैतमेवोपजीव्य या वादाय प्रवृत्तिर्दृश्यते सैव न संभवति । यच्च द्वैतवादिनोऽद्वैतवादिनं प्रत्याहुः-अद्वैतं नाम न द्वैतमद्वैतम् । तथाचेद- मद्वैतं द्वैताद्भिन्नमभिन्नं वा। उभयथाऽपि द्वैतसिद्धिः । आधे द्वैताद्भिनं चेद्भिनं भेदाश्रयमिति भेदः स्वीकृतः स्यात् । अन्त्ये वैतादभिन्नं चेद्यद्वैतादभिन्नं तद् - ।
कायपरिशुद्धिः। द्वैतरूपमेवेत्येवं भेदः स्वीकृतो भवतीति । किंतु जात्युत्तरत्वान्नेदं चोद्यम् । तथा चोक्तम् । वादिनो नार्थसिद्धिः स्याज्जात्युत्तरसमाश्रयात् । मुखं स्यापिहितं तेन केवलं प्रतिवादिनः ॥ इति । किंचायं प्रश्नः ‘विण्मूत्रयोः पीततायै हरिद्रा लभ्यते कुतः ।। इति प्रश्नवत्परिदृश्यते । तत्र च यथा प्रतिवादिनोत्तरमदत्त्वा प्रष्टारं वादिनं पति धिमूर्ख-आदौ विचारय स्वान्ते हरिद्रा तादृशी कुतः इत्येवं पुनः प्रश्न एव क्रियमाणो दृश्यते तथाऽत्र द्वैतवादिनं प्रत्यप्येवं पुनः प्रश्नः सुवचः । द्वैतमद्वैताद्भिन्नमभिन्नं वा । उभयथाऽपि दोषः । अद्वैताद्भिनं चेद्भिनं भेदाश्रयामति स भेदः पुनरद्वैताद्भिन्नोऽभिन्नो वा । तत्रापि भिन्न- श्वेदनवस्था । अथ द्वैतमद्वैतादभिन्नं चेद्वैतादभिन्नस्याद्वैतरूपत्वादवितं स्वीकृत स्यादिति । किंच वादे वादिना प्रतिवादिना वा तागेव वक्तव्यं यदेतविचारयोग्य- मित्येवं मध्यस्थ ऊरी कुर्यात् । सांप्रतं तु द्वैतिभिः कृतेषु पश्नेषु केचित्पना ईदृशा दृश्यन्ते येषां विचारयोग्यता वक्त्तुरेव स्वस्यापि मनोवृत्तौ न पविशति दूर एव मध्यस्थेन तेषां विचारयोग्यतया स्वीकारः । तथा च तादृशस्थले स्वरूपव्याक्रियैव पराक्रिया भवति नोत्तरं दातुमुत्सहे । किंच- वादो हि निश्चयाय स्यान्न तु वादाय निश्चयः । कथा तत्त्वबुभुत्सोर्या स वाद इति गौतमः ॥ प्रेक्षावन्तः पूर्व आसन्प्रमाणायत्तनिश्चयाः । अधुना निश्चयः पूर्वं प्रमाणान्वेषणं परम् ॥ इत्युक्तदिशा दैतिभिः प्रवर्तितो वादो वादस्वरूपं त्यक्त्वा जल्पे वित- ण्डायां वा पर्यवस्यति । यतस्तैर्वादात्पूर्वमेव द्वैतं निश्चितम् । तथा चोक्तम्- तत्त्वस्य निश्चयो वादसमाप्तिक्षण इष्यते । दैतिनां तु विपर्यासो वादारम्भस्तदुत्तरम् ॥ ततः स्यात्पर्यवसितो वादो जल्पवितण्डयोः । अयोग्यसमयारम्भकोधारिक रूपनिङ्गवः ॥ इति ।
२४ म. वासुदेवशास्त्रिप्रणीता- किंचैतादृशाः प्रश्नाः प्रथमतो येषां मनोवृत्तौ प्रादुर्भवन्ति तेषां मतं किम- प्यस्तु द्वैतं वाऽस्त्वद्वैतं वाऽस्तु नूनं तेऽभिनिवेशयस्ता इति नैव कायपरि- शुद्धिस्तेषाम् । तथा च तत्त्वबुभत्सुत्वाभावातत्र तत्त्वबुभुत्सोः कथा वाद इति वादस्वरूपं नास्त्येवेति वादे वादे जायते तत्त्वबोध इत्युक्तरीत्या तत्त्व- बोधो दूर एव भवति। अतस्तेषामात्मयाथात्म्यज्ञानासंभवेन मोक्षस्याऽऽशाऽपि न कर्तव्या भवति । अतः प्रथमतः कायपरिशुद्धिः संपादनीया । संपादितायां च कायपरिशुद्धावीदृशप्रश्नानां मनोवृत्तौ प्रवेश एव न भवति । किंच कायपरि- शुद्धौ क्वाप्यभिनिवेशाभावेन येन केनापि प्रकारेण श्रुत्यविरोधसंपादने प्रवृ- त्यभाव इति श्रुतेर्यः सरलोऽर्थः स एव तेषां मनोवृत्तावारूढो भवति । तथा च ौतमतानुसारिणां तेषां मोक्षमार्गो निकट एवेति विभावनीयम् । किंच दैतिनां मते मोक्षेऽपि द्वैतमस्त्येव । सर्वोत्तमस्य विष्णोः सामीप्यं तदा भवति । भूयांश्च तदानीं विष्णुसेवानन्द इति हि ते वदन्ति । तत्थ- मुच्यते । अयं च भोग विशेष एव । न मोक्षः इति कथमत्र मोक्षशब्दः प्रवृत्तः । यस्मात्कस्मादपि मोक्षश्चेत्सांसारिका जना अपि यस्मात्कस्माच्चिन्मुक्ता एवेति को विशेषः। किंच द्वतिभिः प्रकल्पितेऽस्मिन्मोक्षे आशापयुक्तं दुःखं दुर्निवारमेव भवति । यतः आशैव दुःखमूलं स्यादाशैव मनसो मलः। आशैव चाऽऽन्तरः शत्रुराश सर्वविघातिनी ॥ आशा तु तत्र मुक्तानामपि स्यादेव । तदुक्तम्- स्वस्मादुत्कृष्टमालोच्य जायते चेतनावतः । न कस्य तत्पदपेप्सा यो न मूल् न वा पशुः । एवं विष्णुपदपेप्सा दुर्वारा तिनां मते । मुक्तानामपि तन्मोक्षस्वरूपं वद कीदृशम् । इति । नन्वेवं द्वैतस्य श्रीतत्वाभावेऽपि विशिष्टाद्वैतस्प औतत्वमुपपद्यते । अन्तर्या- मित्रालणे हि जीवब्रह्मणोजगदलणोश्च शरीरशरीरिभावः शरीरम् ' (बृ० ३ । ७। २२ ) यस्य पृथिवी शरीरम् (ब० ३ । ७ । ३ ) इत्येवं साक्षादेव विधीयते । अतो विशिष्टाद्वैतमतस्य औतत्वं सिध्यति । शरीरशरीरिणोश्च स्थूलोऽहं कशोऽहं गौरोऽहमित्येवमभेदारोपः प्रसिद्ध एवेति सं गृहीत्वा तत्वमासि, इदं सर्वं यदयमात्मा, इति श्रुत्योरुपपतिर्भवतीति न वाह- यस्याऽऽत्मा कायपरिशुद्धिः। २५ रोध आपादनीयः । एवं च विशिष्टाद्वैतमतस्य औतत्वमिति चेत्-प्रान्तोऽसि । वश्चितोस द्वयर्थन शरीरशब्देन । तथा हि । शरीरशब्दस्य ह्येकोऽर्थो योगेन प्रतीयतेऽपरश्च योगरूढ्या । शीर्यते तच्छरीरमित्यवयवशक्तिमात्रेण विनाशशीलं पृथिव्यादिकं सर्वं जगच्छरीरशब्दार्थ एकः । योगरूढ्या प्रतीयमानश्च कर्मपा- प्यो हस्तपादाद्यवयवयुतो भोगायतनभूतो देहरूपोऽर्थः प्रसिद्ध एव द्वितीयः । तत्र यस्य पृथिवी शरीरमित्यादिश्रुतिविहितं पृथिव्यादीनामात्मशरीरत्वं परिगृह्य शरीरशरीरिणोश्चाऽऽरोपितमभेदं व्यवहारप्रसिद्धं परिगृह्य च 'इदं सर्वं यदयमात्मा' इतिश्रुत्यर्थ उपपादितः किल किंतु यस्य पृथिवी शरीरमित्यादिश्रुतिषु योगार्थेन शरीरशब्दः प्रयुक्तः, न तत्रार्थे शरीरशरीरिणोरभेदो लोकमसिद्धः, यत्र च द्वितीये योगरूढेऽर्थे शरीरशरीरिणोरभेदारोपो लोके प्रसिद्धो न तेनार्थेन यस्य पृथिवी शरीरमित्यादिश्रुतौ शरीर शब्दः प्रयुक्तः । अतो वञ्चनैव केवलेयम् । न च यस्य पृथिवी शरीरमित्यादिश्रुतौ योगरूढार्थक एव शरीरशब्दो गृह्यते । अत एव च यस्येति संबन्धिनिर्देश उपपद्यते । योगार्थस्य तु निरपेक्षस्य कस्ये- त्याकाङ्क्षाया अभावेन यस्येति निर्देशोऽनुपपन्नः स्यादिति वाच्यम् । तथा सति पृथिव्यादिविकारेणेश्वरस्य दुःखप्रसङ्गात् । अतो योगरूढार्थक एव शरी- रशब्दोऽत्र सिंहो माणवक इतिवद्गौणार्थकः प्रयुक्त इत्यवश्यं वक्तव्यम् । किंच तत्रैव प्रकरणे यस्याऽऽत्मा शरीरम् (बृ. ३ । ७ । २२ ) इत्येवं जीवात्मनः परमात्मशरीरत्वमुक्तमिति तैरेवाभिहितम् । तत्र च जीवात्मनि शरीरशब्दो न केवलया योगशक्त्या. प्रवर्तते । जीवात्मनो विशरणस्वभावत्वाभावात् । तत एव च न योगरूढ्याऽपि । भोगायतनाभावाच्च । अतश्च तत्र शरीरशब्दः सिंहो माणवक इतिवद्गौण एवाऽऽश्रयणीयः। एवं यदि तत्रैका गौण आश्री- यते तर्हि यस्य पृथिवी शरीरमित्यादौ सर्वत्रैव गौणार्थकग्रहणं युक्तम् । गौणार्थ- ग्रहणे बीजभूतस्यान्तःस्थितेन नियम्यत्वस्य गुणस्य श्रुतौ तत्र सर्वत्रैव निर्देश- दर्शनात् । अस्मिन्पक्षे यस्य पृथिवी शरीरमित्याद्यर्थ शरीरशब्दस्य केवलयोग- कल्पनं न कर्तव्यं भवतीति लाघवमनन्यलभ्य एव शब्दार्थ इति न्यायानुग्रहश्च सिद्धो भवति । नन्वतिनां मते यस्याऽऽत्मा शरीरम् (बृ. ३ । ७ । २२ माध्यं ) इत्यत्र शरीरशब्दस्य कोऽर्थः । न तावन्मुख्योऽर्थः। जीवात्मनः परमा- त्मशरीरत्वस्याभावात्। न हि परमात्मनो भोगायतनं जीवः । नापि गौणार्थः । न हि परमात्मा जीवस्यान्तरो भूत्वा जीवं नियमयतीत्यद्वैतवादिभिः स्वी क्रियते ।
२६ म. वासुदेवशास्त्रिप्रणीता- जीवो हि वस्तुगत्या परमात्मरूप एवेति हि ते वदन्ति । य आत्मानमन्तरो यम- यति ( बृ० ३ । ७ । २२ ) इति तत्रत्यश्रुतिविरोधश्चेति चेन्मैवम् । तत्राऽऽ- स्मशब्दो न जीवात्मपरः किंतु जीवात्मनिष्ठविज्ञानपरः। समानप्रकरणे काण्व- शाखायामात्मशब्दस्थाने 'यो विज्ञाने तिष्ठन् (बृ० ३ । ७ । २२ काण्व ) इति विज्ञानशब्देन निर्देशदर्शनात् । तथा च जीवात्मगुणभूतं विज्ञानं परमात्मा नियमयतीत्यर्थः । केचित्त्वत्र विज्ञानं च सृष्ट्यारम्भकाले ' तदैक्षत ' ( छा० ६ । २ । ३ ) इति निर्दिष्टं परमात्मकर्तृकमीक्षणम् । तच्च प्रथमत एव परमा- त्मनः सकाशात्तदीय गुण रूपेण ततः पृथग्भूतमिव पतीतमभूत् । गुणं चान्तररू- पेण गुणी नियमयतीति प्रसिद्धमेवेत्याहुः । एतदुक्तं भवति । अन्तर्यामिब्राह्मणे माध्यंदिन शाखायामित्थं पठ्यते-य आत्म- नि तिष्ठनात्मनोऽन्तरो यमात्मा न वेद यस्याऽऽत्मा शरीरं यमात्मानमन्तरो यम- यत्येष त आत्माऽन्तर्याम्य मृतः (बृ. ३ । ७ । २२ माध्यं ) काण्वशाखायां त्वित्थं पठ्यते-'यो विज्ञाने तिष्ठन्विज्ञानादन्तरो यं विज्ञानं न वेद यस्य विज्ञान शरीरं यो विज्ञानमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः । इति । एवं शाखाभेदेन पाठभेदेऽपि द्वयोः पाठयोरेक एवार्थ इति सर्वेषां संमतं न कस्य- चिदपि तत्र विवादः। स चैकोऽर्थो द्विधा संभवति-य आत्मनि तिष्ठन्नित्य- धाऽऽत्मशब्दस्य विज्ञानमित्येवार्थ इत्येकः प्रकारः। यो विज्ञाने तिष्ठन्नित्यत्र विज्ञानशब्दस्य जीवात्मेत्येवार्थ इत्यपरः । अत्राद्वैतवादिनामाद्यः प्रकारः। विशिष्टाद्वैतवादिनां त्वन्त्यः। आद्य एव तु युक्तः । अन्तर्यामिब्राह्मणं ह्येतत् । अत्र च सर्ववस्तुष्वान्तरः परमात्मा सन् सर्वाणि वस्तूनि नियमयतीत्युच्यते । जीवात्मा च सूक्ष्मः । ततोऽपि परमात्मा सूक्ष्मतरः । परमात्मा तस्याऽऽन्तरः संस्त जीवात्मानं नियमयतीति यद्यपि कल्पयितुं शक्यते तथापि तत्र परमा- महतं जीवात्मनियमनं गुणद्वारैव वक्तव्यम् । गुणानां च सर्वेषामुपजीव्य आद्यो ज्ञानगुणः । ज्ञानस्य नियमनं च विषयसंनिकर्षसदसद्भावकृतमित्येवं संभवो वक्तव्यः । तथा च जीवात्मनो नियमनमपि तदीयविज्ञानस्यैव निय- मनं संपन्नमिति विज्ञानं नियमयतीत्येवार्थस्तत्र वक्तुं युक्तः। किंच पृथिव्यवन्त- रिक्षवायुघुलोकादित्यदिक्चन्द्रतारकाकाशतमस्तेजसा नियमनमधिदेवतमुक्त्वाधि- भूतमपि सर्वभूतनियमनमुक्त्वा ततोऽध्यात्ममिति प्रकृत्य माणवाक्चक्षुःश्रोत्र- मनस्त्वग्विज्ञानरेतसामात्मसंबन्धिना पदार्थानां नियमनमुक्तम् । वत्र चाऽऽत्मसं- कायपरिशुद्धिः। बन्धिषु नियम्यत्वेनोक्तेषु पदार्थेषु विज्ञानमेव ग्रथितुं युक्तं न तु जीवात्मा । एवं च यो विज्ञाने तिष्ठन्' इत्यादिकण्डिकायां विज्ञानशब्दस्थान आत्मशब्दपाठेऽपि तस्याऽऽत्मशब्दस्य विज्ञानमेवार्थो ग्राह्यो भवतीति नैव जीवात्मनः परमात्मशरीरत्वे श्रुतिः प्रमाणं भवति । अतः शरीरशरीरिणोः मसिद्धमभेदारोपं गृहीत्वा तत्त्वमसीत्यभेदोपपत्तिरापास्तैव भवति । किंच- जीव ईशशरीरं चेज्जीवदुःखेन दुःखिता। ईशस्य दुर्निवारा स्याद्विशिष्टाद्वैतिनो मते । इति दोषः स्यादेव । अन्ये तु य आत्मनि तिष्ठन्नित्यादिश्रुतावात्मशब्दः स्वशब्दपर्यायः । तेनायमर्थः। यथा परमात्मा पृथिव्यादीनां सर्वेषामन्तर्यामी संस्तान् सर्वानियमयति तथाऽस्य परमात्मनः स्वस्मादन्यो न कोऽप्यन्तर्यामी नियन्ताऽस्तीति श्रुतेस्तात्पर्यमाहुः । किंच य आत्मनि तिष्ठन्नित्यादिश्रुति प्रमाणीकृत्य परमात्मा च जीवात्मनोऽप्यात्मा इति येऽभ्युपगच्छन्ति तेषां ज्ञानी त्वात्मैव मे मतम् । ( भ. गी. ७ । १८ ) इति भगवद्वाक्यविरोधः । अत्र हि ज्ञानी परमात्मनोऽप्यात्मा इत्युक्तम् । ज्ञानी च जीवविशेषः । जीवात्मा परमात्मा चेत्यनयोर्द्वयोश्च परस्परं पति परस्परस्याऽऽत्मत्वं तु नैव संभवति । अद्वैतिनां मते तु जीवात्मपरमात्मनोरैक्यमेवेति तदेवोभयत्रापि तात्प- यमिति न विरोधः । किंच तत्त्वमसीतिवाक्यात्स्वरसतोऽभेदो विधेयतया श्रुते- विवक्षित इति गम्यते । स मुख्यतया विधेयोऽभेद एव विशिष्टाद्वैतवादिभिरा- रोपेण प्रतिपाद्यत इति चित्रमिदम् । एतेन तत्त्वंपदमुख्यार्थयोरेवाभेदवोध- नसंभवे तत्त्वंपदलक्ष्यचिन्मात्राभेदप्रतिपादकत्वाश्रयणं निर्मूलम् ' इति परा- स्तम् । श्रुतिवाक्ये हि मुख्यतयाऽभेदो विधीयते । तत्र गौणत्वकल्पनापेक्ष- याऽभेदसंबन्धित्वेन निर्दिष्टयोस्तत्त्वंपदयोलक्ष्यार्थाश्रयणस्य लघीयस्त्वात् । किंचात्र तत्त्वंपदयोर्या लक्षणाऽऽश्रीयते सा नैव दोषाय भवति । लक्षणायां परार्थकल्पनारूपो यो दोषः सोऽत्र सुतरां नास्त्येव । यत इयं जहदजहल्लक्षणा तैराश्रीयते । यश्च स्वार्थहानिरूपो दोषः सोऽप्यत्रांशत एव । तथा च नात्र लक्षणागताः सर्वे दोषा इति लक्षणाशब्दमावान भेतव्यम् । धर्मराजाध्वरीन्द्राश्चात्र लक्षणां विनैवार्थनिष्पत्तिमाहुः । इत्थं हि वेदा- न्तपरिभाषायां तैरुच्यते-' सोऽयं देवदत्तः, तत्त्वमसीत्यादौ विशिष्टवाचकप- - - २८ म. वासुदेवशास्त्रिप्रणीता- दानामेकदेशपरत्वेऽपि न लक्षणा । शक्त्युपस्थितयोविशिष्टयोरभेदान्वयानुपप- तौ विशेष्ययोः शक्त्युपस्थितयोरभेदान्वयाविरोधात् । यथा 'घटोऽनित्य इत्यत्र घटपदवाच्यैकदेशघटत्वस्यायोग्यत्वेऽपि योग्यघटव्यक्त्या सहानित्यत्वान्वयः । इति । अयमाशयः । घटादिपदानां जातिव्यक्त्योः पृथक् शक्तिः स्वी क्रियते चेद- नित्यो घट इत्यत्र लक्षणां विना न काचिदनुपपत्तिः। व्यक्ति शक्त्योपस्थिते व्य- क्तिरूपेऽर्थे जातिरनित्य इति च द्वयमपि विशेषणं संभवति । तत्र जातिराश्रय- तया विषेषणमनित्य इति तु सामानाधिकरण्येनेत्यन्यत् । घटादिपदानामेकैव शक्तिविशिष्टेऽर्थ इति पक्षेऽपि घटत्वविशिष्टे घटेनित्य इति विशेषणं भवति । घटत्वस्य नित्यत्वेन घटत्वविशिष्टे घटरूपेऽर्थेऽनित्य इति विशेषणस्यासंभवेऽपि केवलघटे तादृशविशेषणस्य संभवात् । न हि यावच्छ क्यं तावत्येवान्वय इति नियमः । शक्यतावच्छेदकसमानाधिकरणमेवान्वयितावच्छेदकमित्येव नियमो न तु शक्यतावच्छेदकमेवान्वयितावच्छदकामिति । तावतैवापधाने विशि- टार्थैकदेशे स्वतन्त्र विशेषणस्य निरस्तत्वेन दूषणानवकाशात् । अत एव घटत्वस्य नित्यत्वेऽपि न तदभिप्रायेण नित्यो घट इति प्रयोगः । नित्यत्वस्य शक्यतावच्छेदकवृत्तित्वेऽपि शक्यतावच्छेदकसामानाधिकरण्याभावात् । जाती व्यक्तौ च पृथक्शक्तिरिति मतेऽपि न नित्यो घट इति प्रयोगः । घटत्वस्य स्वातन्त्र्येण घटपदशक्यत्वेऽपि तत्र शक्यतावच्छेदकस्यान्यस्याभावात् । घटत्व- जातिर्हि स्वेनैव रूपेण शक्या भवति । तथा च घटत्वे शक्यतावच्छेदकस्या- न्यस्य कस्याप्यभावेन तत्र विद्यमानस्यापि नित्यत्वस्य शक्यतावच्छेदकसामाना- धिकरण्याभावात् । अथात्र प्रसङ्गादनयोः पक्षयोः कः श्रेयानित्युच्यते । घटादिपदानां वि- शिष्टे शक्तिरेकैवति पक्षे शक्यार्थो यद्यपि गुरुभूतस्तथाऽपि तत्र पक्षे शक्त्यन्त- रकल्पनापेक्षया लाघवमेव । यद्यपि शक्तिद्वयकल्पने पृथगुपस्थितयोधर्मधर्मि- णोईयोर्मध्ये विशेषणविशेष्यभावे कामचारेण भावप्रधाननिर्देशस्यापि सं- गतिः सुवचा तथाऽपि शक्तिद्वयकल्पने यदि युगपवयोरर्थयोः प्रतीतिविवक्षिता चेत्तत्र तन्त्रादिस्वीकारः, एकस्यैवार्थस्य प्रतीतिविवक्षिता चेच्छक्तिनियामकस्य संयोगविप्रयोगाद्यन्यतमस्यानुसंधानमावश्यकमित्येवं गौरवान्तरमपरिहार्यं भवति । तस्माच्छक्तिद्वयकल्पनापेक्षया विशिष्ट शक्तिपक्ष एव श्रेयान् । ननु विशिष्टश- कायपरिशुद्धिः। २९ तिपक्षे भावपधाननिर्देशस्थले का गतिरिति चेत्-अत्र केचिदित्थं समादधिरे । तादृशभावप्रधाननिर्देशस्थले निर्वाहाय व्यक्त्युपसर्जनकभावरूपे विशि- टेऽर्थे शक्त्यन्तरं कल्पनीयमिति । नैतद्युक्तम् । शक्त्यन्तरकल्पनजगौरव- परिहाराय हि विशिष्टशक्तिकल्पनपक्षाभ्युत्थानम् । यदि विशिष्टशक्तिप- क्षेऽपि शक्त्यन्तरकल्पना स्यात्तर्हि किं तत्पक्षाङ्गीकारेण । तस्मादित्थं समाधे- यम्-भावप्रधाननिर्देशस्थले तादृशप्रयोगाणामल्पत्वात्ते लक्षणया निर्वायाः । यद्यपि लक्षणा जघन्या वृत्तिस्तथाऽपि तत्र शक्त्यन्तरकल्पनापेक्षया लाघवमेव । अत एव गङ्गायां घोष इत्यादौ गङ्गापदस्य तटे लक्षणावृत्तिः स्वीकृता न तु तटरूपेऽर्थे गङ्गापदस्य शक्त्यन्तरं प्रकल्पितम् । शक्त्यन्तरकल्पने शक्तिनिया- मकानुसंधाने च गौरवस्य स्पष्टत्वात् । अवार्य निष्कर्षः । यत्रैकस्माच्छब्दा- त्पयोगभेदेनार्थद्वयप्रतीतिस्तत्र यदि तयोरर्थयोस्तथा संबन्धः स्याद्यथा तयोरे- कस्मिञ्शब्दादुपस्थिते सति कारणे सद्य एव तेन संबन्धेनान्योऽर्थो बुद्धिमारो- हति तर्हि तयोरर्थयोर्मध्ये यस्मिन्नर्थे भूयांसः प्रयोगास्तत्र तस्य शब्दस्य शक्ति- यस्मिंश्चार्थेऽल्पीयांसः प्रयोगास्तवार्थे लक्षणेति । यत्र त्वेकस्माच्छब्दात्पयोगभे- देनार्थद्वयं प्रतीयते किंतु तत्र यदि तयोरर्थयोमिथस्तादृशः संबन्धविशेषो न स्यातर्हि तत्रागत्या द्वयोरप्यर्थयोः पृथक् शक्तिद्वयं स्वीकार्यं भवति । यथा सैन्धवादिशब्दाः । तथा यत्र निरुक्तसंबन्धविशेषेण संबद्धयोयोरर्थयोरेकस्मा- देव शब्दादेकस्मिन्नेव प्रयोगे युगपदुपस्थितिश्चेत्तत्रापि शक्तिद्वयं स्वीकार्य भवति । यथा घटादिपदानां जातिव्यक्योः । ननु शक्तिद्वयस्वीकारापे- क्षया लक्षणाया लघुभूतत्वेनैकत्र शक्तिरपरत्र लक्षणेति कुतो न स्वी क्रियते । स्वीकृतं च तथा कैश्चिन्मीमांसकैरिति चेत्-सत्यम् । अत्र लक्षणाऽत्र न लक्षणेति निर्णयो हि प्रथमतोऽनुभवाधीनो न तु लाघवगौरवाधीनः । लक्षणा यनुपपत्तिपूर्वकं प्रसरति । तस्माद्यत्र तथाऽनुभवस्तत्र लाघवेऽप्यनादरः। तदुक्तम्- अनुभूतेविरोधे हि त्याज्यं भवति लाघवम् । अनुभतेरानुगुण्ये ग्राह्यं भवति गौरवम् ॥ इति । तथा च फलमुखस्येवानुभवमुखस्यापि गौरवस्यादूषकत्वमिति तात्पर्यम् । यत्र च नानुभवेन निर्णयो भवति तत्र लाघवगौरवचर्चाया अवसरः । अत - ३. म. वासुदेवशास्त्रिप्रणीता- एव 'तेजोऽभावन सिद्धावन्धकारो न पदार्थान्तरम् । इति नैयायिकमतं मघवानुगृहीतमपि न स्वीकृतमितरैवेदान्त्यादिभिः । अत्रान्धकार इत्येवं तस्य तेजोऽभावात्पार्थक्येन भावरूपेणानुभवस्य सर्वजनसिद्धत्वात् । एवमेव गुरुत्वा- भावेन सिद्धावपि लघुत्वं द्रवत्वाभावेन सिद्धावपि काठिन्यं च गुणान्तरं स्वी- कार्य भवति । तथा च घटमानयेत्यादौ घटत्वादिजातिघटादिव्यक्तिश्चाव्य- वधानेनैव बुद्धावारोहति न तु प्रथमतो घटत्वादिजातिबोधस्तदनन्तरं तस्याऽऽ- नयनाद्यन्वयानुपपत्तिपतिसंधानपूर्वकं घटादिव्यक्तिबोध इत्यनुभव इत्यतस्तत्र न लक्षणा स्वीकार्या भवति । तत्र घटादिपदानां जातौ व्यक्तौ च पृथक्शक्ति- द्वयमेकैव वा विशिष्टे शक्तिरित्येवं संदेहे शक्तिद्वयाङ्गीकार एवोचितः । जाति- विशिष्टव्यक्तौ शक्तिकल्पनायामपि भावप्रधाननिर्देशस्थले तथाबोधार्थ व्यक्ति- विशिष्टजातौ पुनः शक्त्यन्तरकल्पनं गले पतितं स्यात् । अनुभवानुसारेण तत्र लक्षणाङ्गीकारस्याशक्यत्वात् । तथा च विशिष्टशक्तिपक्ष एव प्रत्युत गौरवा- धिक्यमिति जाती व्यक्तौ च पृथक्शक्तिद्वयकल्पनमेवोचितं भवति । तथैव च वेदान्तिभिः स्वीकृतम् । तथा च पृथक्शक्तिवादे विशिष्टशक्तिवादे चानि- त्यो घट इत्यत्र यथा लक्षणां विनैव वाक्यार्थबोधस्तथैव तत्त्वमसीत्यत्रापि स्यादिति तत्रापि लक्षणा माऽस्त्वेवेति । आचार्याणां त्वयमाशयः-तत्त्वमसीत्यादिवाक्याद्यज्ज्ञानं जायते तत्केवलं शाब्दं ज्ञानमिति न मन्तव्यम् । किंतु तज्ज्ञानं शाब्दमुच्यत एव प्रत्यक्षमपि च तदेवोच्यते । प्रत्यक्षज्ञानं शब्दादपि भवत्येव । ' दशमस्त्वमसीत्यादौ शब्दा- देवापरोक्षधीभवति । तदुक्तं पञ्चदश्यां विद्यारण्याचार्यैः- त्वमेव दशमोऽसीति गणयित्वा प्रदर्शितः। अपरोक्षतया ज्ञात्वा हृष्यत्येव न रोदिति ॥ (पं० द० ७२७ ) तत्रैतावान्विशेषः । दशमस्त्वमसीत्यत्र यच्छाब्दं ज्ञानं तदेव प्रत्यक्षमिति सत्यमेव । यथा च घटमानयेत्यादिवाक्येषु प्रथमतः पदज्ञानं, ततः पदार्थधीः, ततोऽन्वयबोधः। ततः शाब्दबोधः । तत्र च विषयविषयिभावो भेदप्रतीतिश्च विद्यत एव । तथैव दशमस्त्वमसीत्यत्रापि विद्यत एव । घटपटादिप्रत्यक्षवदेव च दशमस्त्वमसीत्यतोऽपि प्रत्यक्षम् । प्रत्यक्षेऽपि च पूर्वमिन्द्रियार्थसंनिकों विद्यत एव । प्रत्यक्षे विषयविषयिभावो भेदमतीतिश्चेतरपत्यक्षवद्विद्यत एव ।
कायपरिशुद्धिः। ३१ पकते तत्त्वमसीत्यत्र तु यज्ज्ञानं जायते तदेव शाब्दं तदेव च प्रत्यक्षमिति सममेव । केवलं तच्छाब्दज्ञानं शब्दाज्जातमित्येव न तु तस्मिञ्शाब्दे ज्ञाने शब्दो वा अर्थो वा कश्चिदपि कमपि च प्रति प्रकारतया भासते । इतरस्मिञ्शाब्दे प्रत्यक्षे च ज्ञाने ज्ञानात्पूर्वभवः सर्वोऽपि यो व्यवहारः स महावाक्यजज्ञाने वर्तत एव । केवलं ज्ञानं तु न तत्सदृशम् । महावाक्यजज्ञाने हि लेशतोऽपि न द्वैतं प्रतीयते । अद्वैतमपि च तत्र प्रतीयत इति न मन्तव्यम् । विषयविषयिभावा- भावात् । किंतु प्रकाश इत्येव । ज्ञाता ज्ञेयं ज्ञानमिति च विपुट्यपि तत्र नास्ति। ननु निद्रायामपि त्रिपुटी न प्रतीयत इति चेत्-किं ततः। ततोऽत्र महद्वैषम्यम् । निद्रायां हि त्रिपुटी प्रतीतियोग्या विद्यमानैव सती प्रतिबन्धकाज्ञानवशान प्रती- यते । महावाक्यजज्ञाने तु त्रिपुटी स्वरूपत एव नास्ति । अतो न प्रतीयते । एतादृशनिर्विशेषबोधे तत्त्वमसीतिश्रुतेस्तात्पर्यम् । तच्च नेह नानास्ति किंचन, यतो वाचो निवर्तन्ते, यन्मनसा न मनुते, इत्याद्यनेकश्रुत्येकवाक्यतया सिध्यतीति पूर्वमेव पतिपादितम् । स च निर्विशेषबोधो न शक्तिसाध्यः। शक्तिलभ्यस्यार्थस्य प्रकारतया विशेष्यतया संसर्गतया वा भानावश्यकत्वात् । तथा हि । अन्विताभि- धानवादे तावच्छक्त्या योऽर्थ उपस्थितो भवति सोऽन्वयघटित एवेति तत्र पक्षे तथा भानं दुर्वारमेव । अभिहितान्वयवादेऽपि शक्यार्थोपस्थितौ सत्यां तत आ- काक्षायोग्यतासंनिधिवशादन्वयांशोऽपदार्थोऽपि समुल्लसत्येव । स चान्वयांशस- मुल्लास इतरत्रेव तत्त्वमसीत्यत्रापि पामोत्येव । एवमन्वयांशसमुल्लासे च प्रकारतया विशेष्यतया संसर्गतया च भानमवर्जनीयमेव भवति । अतोऽत्र श्रीमदाचार्यपादैर्लक्षणा स्वीकृता । ननु लक्षणयोपस्थितस्याप्यर्थस्य शक्यस्येव प्रकारताद्यन्यतमप्रकारेण भानमन्यत्र गङ्गायां घोष इत्यादिषदाहरणेषु सर्वत्र दृश्यत एवेति चेत्-किं ततः। न हि केवलेन प्रायोदर्शनेन नियमः सिध्यत्यनुकूलतीभावे । सति चानुकूल- तर्के प्रायोदर्शनाभावेऽपि नियमः सिध्यत्येव । तदुक्तम्- अनुकूलस्तर्क एव नियमे बीजमुच्यते । अन्वयव्यतिरेकाभ्यां वृथैव प्रायदर्शनम् ॥ इति । प्रायोदर्शनस्योपयोगस्तु विषयव्याप्तौ भवतु नाम, न तु तेन नियमः सिध्यति । लक्षणास्थले शाब्दबोधस्तु वक्तृतात्पर्यानुरोधेनैव वक्तव्यः । तात्पर्यानुपपत्त्या हि लक्षणा प्रसरन्ती यथा तात्पर्यमेव लक्षयेन तु लेशतोऽपि तद्विरुद्धम् । तथा व तत्त्वमसीत्यतो निर्विशेषात्मावबोधसिद्धये लक्षणाऽऽवश्यकी । तदेव च ३२ म. वासुदेवशास्त्रिप्रणीता- यथार्थज्ञानम् । जीवेशभेदस्य मिथ्यात्वेन सविशेषात्मबोधस्यायथार्थत्वात् । विशेष एव हि भेदं प्रयोजयति । तदयं यथार्थो निर्विशेषात्मबोधः श्रुत्यादीनि प्रमाणानि पुरस्कृत्य तत्त्वदर्शि- नाऽऽचार्येण संपादितोऽपि यदि शिष्यः साधनचतुष्टयसंपन्नो न चेत्, संपन्नोऽपि वा ब्रह्मसूत्र दृढा-यासजायसंस्कारसहितमानसो न चेत्तार्ह नैव तस्य चित्तवृत्ती प्रविशेत्मत्युतान्यत्राभिनिविष्टचेताश्चेन्निविशेषात्मावबोधस्य याथार्थेऽपि तस्य संदेहः स्यात् । तदुक्तम्- प्रमाणभूतैः श्रुत्यादिवचनैः साधितस्तु यः । स वक्त्रा प्रोच्यमानोऽपि दुर्योधो विषयो यदि ॥ बुद्धिमन्दोऽपि च श्रोता स्वदोषं नैव पश्यति । वक्तर्यारोपयेहोषं श्रुत्यादिवचनेषु वा ॥ इति । अथात्र प्रसङ्गात्साधनचतुष्टयस्वरूपं तदुपयोगश्च प्रतिपाद्यते । साधनचतु- ष्टयं च-(१) नित्यानित्यवस्तुविवेकः । (२) इहामुत्रफलभोगविरागः । ( ३ ) शमदमादिषट्कसंपत्तिः । ( ४ ) मुमुक्षुत्वं चेति । तदुक्तमभियुक्तैः- नित्यानित्यत्वमीमांसा वैराग्यं चित्त निग्रहः । मुमुक्षा चेति विज्ञेयं साधनानां चतुष्टयम् ॥ इति । एतच्च साधनचतुष्टयमात्मज्ञानमार्गाधिकारसंपत्तयेऽपेक्ष्यते । एतेषां मध्ये कस्याप्यभावे नैव श्रवणमनननिदिध्यासनरूपे ज्ञानमार्गे पदं प्रक्षेप्तुं शक्नुयात् । एषु च पूर्वपूर्वमुत्तरस्य कारणामिति यदा प्रथमस्यैवाभावस्तदाऽग्रिमसाधनत्रयस्या- भाव एव । तथा द्वितीयस्याभावे तृतीयचतुर्थयोरभावस्तृतीयस्याभावे चतुर्थस्या- भावश्च बोध्यः। यथा च पूर्वपूर्वमुत्तरोत्तस्य कारणामति पूर्वस्याभावे परस्याभाव- स्तथा पूर्वस्य सत्त्वे तत्र क्रमेण यथाकालेन परस्योत्पत्तिर्जायत एवेत्यप्यत्र नियमो वोध्यः। साधनत्वं चैतेषां परिपूर्णत्वेन । तथा हि। विवेकादीनि चत्वापि चेमानि प्रत्येकं व्यापक संकुचितभेदेन द्विविधानि । तत्राऽऽपेक्षिकनित्यत्वमूलको यो विवेकः स संकुचितः । स चाव साधनतां नार्हति । तदुक्तम्- श्वः स्थायी नार्थोऽसावित्येवं जायते मतियंत्र । उपयुज्यते स सद्यः किमिदं तत्त्वावबोधसामर्थ्यम् ॥ इति । पथा पक्वमात्रादिफलमद्य नोपयुज्यते चेच्छ्वो विकृतं स्यादिति बुद्धया कायपरिशुद्धिः। ३३ सद्य एवोपयुज्यते । सांसारिकस्य जन्तोरयं विवेको न मोक्षमार्गोपयोगी । मोक्ष- मार्गोपयोगी विवेकस्त्वीदृशः- विषयेन्द्रियसंबन्धे दोषैकदृशां विवेकधीयां स्यात् । सोऽनित्यत्वविवेकस्तदितरदाभासमात्रमेव स्यात् ॥ इति । यो हि विषयेन्द्रियसंबन्धो देशतः कालतः प्रकारान्तरेण वा कथमपि धर्म- शास्त्रेण निषिद्धो न भवति तत्रापि भाविविनाशङ्कादयः सूक्ष्माः सूक्ष्मतराश्च दोषा दोषैकदृशां जनानां मनस्यहमहमिकया प्रादुर्भवन्ति । ते च दोषास्तत्राऽऽ- सक्तानां ये तवत्या गुणाः प्रतीयन्ते तानप्यपसारयन्ति । एवं केवलदोषैराका- न्तचेतसां जनानां मनोवृत्तौ निसर्गत एव वैराग्यस्योदयो भवति । स एव चाऽs- त्मावबोधायावकल्पते । तदुक्तम्- स्थूलो दोषो यद्वत्सद्यो हेयत्वबुद्धिमातनुते । तद्द्यदि सूक्ष्मः स्याद्यदृष्ट्या सोऽत्र वेदनाधिकृतः ॥ इति । वैराग्यमपि व्यापकसंकुचितभेदेन द्विविधम् । तत्र भोक्तुर्विषयेषु स्थूलदोषदृष्ट्या तत्र जायमानं वैराग्यं संकुचितम् । तदत्र साधनतां नार्हति । तदुक्तम्- बुभुक्षितोऽपि पक्वान्नं यदि स्याद्विषशडिन्तम् । न जिघत्सति यत्तत्र वैराग्यं कारणं कथम् ॥ इति । संकुचितमेतद्वैराग्यं सांसारिकस्यापि संभवति । व्यापकमेव च वैराग्यं ज्ञानमार्ग उपयुज्यते । तच्च यथा- नित्यानित्यविवेकाद्यद्वैराग्यं पजायते नृणाम् । तज्ज्ञेयं वैराग्यं तदितरदाभासमात्रमेव स्यात् ॥ इति । पूर्वोक्तप्रकारेण परिपूर्णावस्थां प्राप्ताद्विवेकायद्वैराग्यं जायते तस्मादिन्दि- यनिग्रहो जायते । तादृश एव चेन्द्रियनिग्रहश्चिरस्थायी कार्यकारी च । इन्द्रि- यनिग्रहोऽपि व्यापकसंकुचितभेदेन द्विविधः । तोन्द्रियाणां पूर्णसामर्थे सत्यपि यत्नेन विषयाग्रहणं स इन्द्रियनिग्रहो व्यापकः। सामर्थ्याभावेन यद्वि- षयायहणं स संकुचित इन्द्रियनिग्रहः । तदुक्तम्- शुश्रूषते न बधिरस्तथा नान्धो दिदृक्षते । गतिं दीपावलीं चैव किमसावक्षनिग्रहः ॥ इति । संथा-तृप्तः स्वादपि पक्वान्नं परिवेषितमादरात् । पज्जिहासति किं तत्र हेतुरिन्द्रियनिग्रहः ॥ इति च ।
३४ म. वासुदेवशास्त्रिप्रणीता- आत्मज्ञामोपयोगी व्यापक इन्द्रियनिग्रहस्तु पूर्णवैराग्यमूलकः । तदुक्तम्- वैराग्यमूलको यो निग्रह इन्द्रियगणस्य आयेत । स शमो विज्ञेयस्तदितरदाभासमात्रमेव स्यात् ॥ इति । एवं पूर्णदशापन्न इन्द्रियनिग्रहे सति पूर्व विद्यमानैव या मुमुक्षा साऽपि तदानीं पूर्णदशामापद्यते । तथा हि मुमुक्षाऽपि व्यापकसंकुचितभेदेन द्विविधा । इयमेव क्रमेण तीवा मन्दा चोच्यते । सा द्विविधाऽपि च पुनः प्रत्येकं द्विविधा । तीवा तीवतरा मन्दा मन्दतरा चेति । तत्र प्राणिमात्रस्य मनसि ज्ञाताऽज्ञाता वा मुमुक्षा बीजरूपेण विद्यत एव । भवरोगस्य रोगत्वेनाज्ञानात्केवलं तस्माद्वी- जादङ्घरोत्पत्तिर्न भवति । तदानीं सा रोगज्ञानादुद्भूताऽनुद्भूता वा मन्दतरे- त्युच्यते । प्रथमसाधने नित्यानित्यविवेके पूर्णतामापने तु सा मन्दा भवति । अङ्कुरमाधत्त इति यावत् । अपरूढाङ्कुरा मन्दतरा प्ररूढाङ्कुरा तु मन्दा बोध्या । अङ्कुरमरोहेऽपि मोक्षार्थ श्रवणमननादिप्रयत्नाकरणान्मुमुक्षाया मान्यत्व- मेव । सांसारिकाणां स्त्रीपुरुषाणामिदानीं दृश्यमाना मुमुक्षा प्राय ईदृश्येव । तदुक्तम्- कलौ लुब्धा नरा नार्यो व्यग्रा संसारकर्मणि । क्षणं कीडन्ति विश्रान्त्यै सायं वेदान्त चर्चया ॥ इति । अत्र च श्रवणादिकस्य क्रीडात्वेनाभिधानादयं प्रयत्नो नैव मोक्षार्थ इति सूचि- तम् । ततो द्वितीयसाधने वैराग्ये सति सा मुमुक्षा मान्धं परित्यज्य तीव्रतामापद्यते। तीवत्वाच्च श्रवणमननादिषु प्रवृत्तिर्जायते । किंतु सांसारिकव्यापारान्तराविरोधेन तृतीयसाधन इन्द्रियनिग्रहे परिपूर्णे सति तु सा मुमुक्षा तीव्रतरा भवति । यया गृह- कर्मपरित्यागेनापि श्रवणादौ प्रवृत्तिः । यच्चापरिहार्य गृहकर्म तत्करणसमयेऽ- प्यन्ततो मननं भवत्येव । एवं साधनचतुष्टयस्वरूपं तेषां मिथः संबन्धश्च प्रदर्शितः। अथात्रानेन साधनचतुष्टयेन किं साधितं भवति तदुच्यते । नित्यानित्यविवेके क्रियमाण आत्मा केवलमेक एव नित्यस्तद्व्यतिरिक्तं सर्वमनित्यं देहोऽ- प्यात्मव्यतिरिक्तत्वादनित्य एव । नित्यस्य च न कदापि विनाशो नापि विकारः। अनित्यस्य च विनाशो विकारश्चावर्जनीय एव । स्वभावत एवानित्यत्वादिति ज्ञायते । एतदेव च विवेकसाध्यमात्मनित्यत्वज्ञानं न वेवाहम् ० ( २ । १२) इति श्लो- केन गीतायां भगवता प्रदर्शितम् । तथा विवेकपूर्वकवैराग्ये सत्यात्मनो विनाशि- त्वभ्रमेण तत्संरक्षणाय यः प्रयत्नः स न भवति । देहस्य चाऽऽत्मव्यतिरिक्तत्वज्ञा नेन तत्र पूर्ववत्पीत्यभावे तत्संरक्षणार्थमपि न प्रयतते । कृतेऽपि प्रयत्ने विनाश- ३५ । कायपरिशुद्धिः। स्यावर्जनीयत्वात् । न च यदा कदापि विनाशो यद्यपि स्यातथापि किंचि- कालपर्यन्तं देहसंरक्षणं स्यादिति बुद्धया तदर्थं प्रयत्नः स्यादिति वाच्यम् । तावताऽपि 'अमुकप्रयत्नेनामुकालपर्यन्तं देहसंरक्षणं स्यादेव । इति निश्चयाभावेन तदर्थं प्रयत्नस्यासंभवात् । संभावनामात्रेण प्रयत्नस्तु तावत्स्याद्यावदेह आत्मत्व- बुद्धिरविनष्टा । देह आत्मत्वबुद्धौ विनष्टायां तु देहं तृणकाष्ठादिवत्तुच्छं मन्यते । देहान्तरमापकं मरणमाप स तृणाय मन्यते । एतदेव च 'देहिनोऽस्मिन् ' (गीता २। १३) इति श्लोके गीतायां भगवता प्रतिपादितम् । अस्यां चावस्थायामात्म- नो नित्यत्वेन निर्विकारत्वान्न सुखं दुःखं वा । नापि देहस्य । तस्य जडत्वात् । अतः स तदानीं सुखार्थं दुःखनिवृत्यर्थं वा न प्रयतते । यदृच्छया जायमानं तु सुखं दुःखं वा तदाभास इति मत्वापेक्षत एव । सुखाभासोऽप्ययं तत्स्थिरता- यै कृतेऽपि प्रयत्ने नैव चिरस्थायी भवति । तथा दुःखाभासोऽप्ययं तद्विनाशाया- कृतेऽपि प्रयत्ने स्वयमेव कियताचित्कालेन निवय॑त एव । सर्वथा यदृच्छा- पाप्तं सुखं दुःखं वा सहत एव तूष्णीमेवावतिष्ठते । एतदेव च 'मानास्पर्शा० । (गी. २ । १४) इति श्लोके भगवता प्रतिपादितम् । अस्यां चावस्थितौ परि- पूर्ण इन्द्रियनिग्रहे लौकिकाच्छास्त्रीयाच्च काम्यकर्मणः सकाशानिवृत्तं मनो निर्मलं भवति । कामनैव हि मनसो मलः । तथापि मनसो मननस्वभावत्वाचं कंचित्तदानीं समुपस्थितं विषयमधिकृत्य मनोवृत्तिरुदिता स्यादेव । समुपस्थित च तदानीं विषयद्वयम् । कामनाराहित्यमेकं सर्वसाधारणो बीजरूपेण मनस्येवाव- स्थितो मोक्षश्च । मनोवृत्तिगतो विषयश्च ग्राह्यश्चेत्काम्यत्वेन त्याज्यश्चेवेष्यत्वेन चिन्त्यते । अत्रोपस्थितं विषयद्वयं च काम्यत्वेनैव चिन्त्यते । कामनाराहित्य- मपि तदानीं काम्यमेव । कामस्य मनोमल रूपेण तदानीमनुसंहिततया तद्वि- रुद्धस्य कामनाराहित्यस्य तदानीं ग्राह्यतयाऽनुसंधानात् । तथा मोक्षोअप तदानीं काम्य एव । भवस्य रोगरूपेण तदानीमनुसंहिततया तद्विरुद्धस्य मोक्षस्य तदानी ग्राह्यतयाऽनुसंधानात् । ननु कामनैव हि मनसो मल इत्यनुपदमेवोक्तम् । सत्यमुक्तम् । न तु सर्वविधानां कामानां सर्वदैव मलत्वम् । किंत्वापेक्षिक तत् । यथा- अन्धकारोऽपि निद्रायां गुणो भवति कस्यचित् । तथा लोके दारिद्यस्य दोषत्वेऽपि दारिद्यस्य दारियं न दोषाय गण्यते । तदुक्तं नैषधे- म. वासुदेवशानिप्रणीता- . अयं दरिद्रो भवितेति वैधसी लिपि ललाटेर्थिजनस्य जामतीम् । मृषा न चकेल्पितकल्पपादपः प्रणीय दारिद्यदरिद्रतां नलः ॥ इति । तदेवं कामनाराहित्यस्य मोक्षस्य च काम्यत्वेनानुसंधानं यस्यापतिहतं भवति तस्य व्यावहारिकाः शब्दादिविषयाणामिन्द्रियैः साकं संबन्धा लेश- तोऽपि न पीडयन्ति स एव चाऽऽत्मविज्ञाने पूर्णोऽधिकारी संपद्यते । एतदेव च 'यं हि न व्यथयन्त्येते ' ( गी० २। १५) इति श्लोके गीतायां भग- वता प्रतिपादितम् । तदेवं साधनचतुष्टयेनानेनाऽऽत्मविज्ञानोपदेशाधिकारः सिद्धो भवति । अत एव युद्धे पुरत उपस्थितान्भीष्मद्रोणादीन्दृष्ट्वा सद्यो विषण्णचेतसस्तत एव युद्धाद्विरतस्य न्यस्त शस्त्रस्यार्जुनस्य युद्धकर्मणि प्रवृ- त्यर्थमुपदेष्टुं प्रवृत्तेन 'नायमर्जुनस्य विषाद आत्मविज्ञानाधिकारोपदेशं विना समुच्छेत्स्यति ' इत्यालोचयता भगवता नान्तरीयकतया तस्य तादृशाधिकार- साधनाय प्रथमत एव ' न त्वेवाहम् । ( गी० २ । १२) इत्यादिना श्लोक- चतुष्टयेनैतत्साधनचतुष्टयानुगुणोऽर्थः क्रमेण गुम्फितः । तस्यैव चार्थस्य शीघ- तरं सुखाववोधायानुभवारूढत्वाय चाऽऽवश्यकं समुपबृंहणं यावच्छक्यं संक्षे- पेण यत्कृतं तदियं भगवदुक्तिस्तत्र तादृशप्रसङ्गवशाज्जायमानाऽपि यथाऽर्जुनस्य युद्धकर्माविरोधेनाऽऽत्मविज्ञानोपदेशाधिकारं संपादितवती तथाऽन्यानपि सांसा- रिकजनान्पूर्वसंस्कारानुरोधेनाऽऽत्माविज्ञानमार्गाभिमुखीभूतान्सांसारिककर्माविरोधे- नाऽऽत्मविज्ञानोपदेशाधिकारं संपादयेदेव । अत एवेयं भगवदुक्तिीतापदवाच्या प्रस्थानत्रयात्मकात्मविज्ञानमार्गीयं प्रथमं प्रस्थानमेतदिति प्रसिद्धिमुपगताऽऽसीत् । एवं गीतया प्रथमेन प्रस्थानेन साधकस्याऽऽत्मविज्ञानमार्गोपदेशाधिकारे साधि- तेऽपि तस्यान्यः कश्चिदधिकारविशेषोऽपेक्ष्यते । उपदेष्टुराचार्यादेः प्रवचनशैली न यावच्छ्रोतृभिरवगता भवति तावत्तत्पयुक्ताया वाचस्तात्पर्यार्थ निश्चेतुं न ते शक्नुयुः। तदुक्तं महाभाष्ये पतञ्जलिना-' एषा ह्याचार्यस्य शैली लक्ष्यते यत्तुल्यजातीयांस्तुल्यजातीयेषूपदिशति ' (म० भा० हयवरट् स० ) इति । अत्राऽऽचार्यमहेश्वरस्य शैलीं दृष्ट्वा तदनुसारेण अ इ उ ण् इत्यत्र णकारस्य न प्राधान्येनोपदेश इति निश्चित्य तस्य प्रत्याहारे ग्रहणाभावः साधितः । तथा चात्र साधनचतुष्टयसंपन्नस्याप्यधिकारिण उपदेष्टुः प्रवचनशैलीज्ञानमाव- श्यकम् । अत्र चाऽऽत्मविज्ञानविषये मुख्यत उपदेष्टुत्वं श्रुतेरेव । तद्द्वारेणाऽऽ- चार्याणामुपदेष्टुत्वम् । श्रुतिरपि यत्र यतो वाचो निवर्तन्तेऽमाप्य मनसा क कायपरिशुद्धिः। सह ( तैः ० २ । ४ । १ इत्येवं स्वयमेव स्वस्या निवृत्तिमाह तत्र का वार्वे- तरषामाचार्याणाम् । किंतु 'मनसा सह वाचो निवर्तन्ते । एतदपि श्रुत्यैव ज्ञायते । तस्मात्साधनचतुष्टयसंपन्नस्य निष्कामकर्मणा शुद्धचित्तस्यापि श्रुति- तात्पर्यनिश्चयाय श्रुतेः कीदृशी प्रवचनशैली तद्विशेषावगम आवश्यकः । तदर्थ- मेव च श्रीमद्वेदव्यासैब्रह्मसूत्र प्रणीतम् । येन च श्रुतेः प्रवृत्तिः कीदृशी, वाच्यवृत्त्या क्व लक्षणावृत्त्या क्व विधिमुखेन व निषेधमुखेन कुतो वा तथे- त्यादि सर्वमवगम्य ' अत्रेदमेव श्रुतितात्पर्यम् ' इति निश्चयः कर्तुं शक्यते । अत एवेदं ब्रह्मसूत्रं द्वितीयं प्रस्थानमिति गीयते । अथोपदेशविशेषादिषु यत्र यादृशोऽधिकारी प्रतिपादितः स तादृशः संपन्न इति कथं ज्ञातव्यमिति चेत्- उच्यते । संध्याग्निहोत्रादावुपनीतोऽधिकारी। किंतु तत्रापि संध्याग्निहोत्रानुगुण- वर्तने योऽनलसः स एव मुख्योऽधिकारी ज्ञातव्यः। स च संध्यामिहोत्रादिकं कर्म बन्धनत्वेन न मन्यते । उपदिष्टार्थानुगुणं यद्वर्तनं तदनिष्टमित्यायासक- रमिति न यस्य कदापि मतिर्भवति । किंत्विदमिष्टमावश्यकं चेति यस्य मतिः स मुख्योऽधिकारीति यावत् । तादृशी मतिश्च कस्यचित्पूर्वमेव भवेत् । यस्य च तादृशी मतिः पूर्वं न स्यात्तर्हि साऽधिकारापादकेन कर्मणैव संपादनीया भवति । नवधिकारोत्तरमुपदेशादिना । तदुक्तम्- यथा यस्य प्रवृत्तिः स्यादविचाल्यैव तां यदि । उपदेशः कृतः स्याच्चेत्साफल्यं याति सत्वरम् ॥ इति । यस्य चोपनीतस्यापि न तादृशी मतिः स यथावदुपनीत एव नाभूदिति मन्तव्यम् । एवमेव सर्वत्र बोध्यम् । प्रकृते च प्रस्थानद्वयेन योऽधिकारी भवति तस्य श्रुतेः स्वारसिकः सरलश्च योऽर्थः स एव श्रवणमात्रेण प्रथमत एव बुद्धिमारोहति । तादृश एव चाऽऽत्मज्ञानोपदेशाधिकारी संपन्न इत्यभि- ज्ञातव्यम् । ब्रह्मसूत्रेण च नाऽऽपाततोऽवलोकितेन सकदवलोकितेन वा श्रुतितात्पर्या- कलनं भवति । अपि तु शान्तवृत्त्या पुनः पुनरभ्यस्तेन । तदुक्तम्- तच्चित्तनं तत्कथनमन्योन्यं तत्मबोधनम् । एतदेकपरत्वं च ब्रह्माभ्यासं विदुर्बुधाः ॥ इति । इत्युक्तरीत्याऽभ्यासे कृते सत्येव क्रमशस्तत्रानेकविधसंशयनिवृत्तिर्भवति । तादृगभ्यासश्च शान्तवृत्त्यैव भवतीति तदर्थं प्रथम स्थानेन निष्कामकर्मयोगेण - म. वासुदेवशानिप्रणीता- चित्तशुद्धिः साधिता । चित्तशुद्धौ हि यत्र क्वापि विषये मनसोऽभिनिवेशो न जायते । चित्त शुद्धेरभावे हि यस्य पूर्वसंस्कारवशेन यत्र क्वाप्यसदर्थेऽभिनिवे- शश्चेत्तत्पतिकूलेऽर्थे निसर्गत एव मनसो गतिः कुण्ठिता भवति । तदेवं सुतीक्ष्ण- मतेविचारशीलस्यापि मनोऽभिनिविष्टं चेत्- अभिनिवेशवशीकृतचेतसां बहुविदामपि संभवति भ्रमः' इति न्यायेन श्रुतेर्मुख्यं तात्पर्य नावबुध्येत प्रत्युत विपरीतार्थविषयक एव निश्चयः स्यात् । तदुक्तम्- विनाधिकारसंपत्तिमुपदेशो भवेद्यदि । न तस्मात्फलनिष्पत्तिः प्रत्युतानर्थ उद्भवेत् ॥ इति । यथा शूद्राणां कृतेऽपि गायत्र्युपदेशे नैव तेन ब्रह्मतेजः पाप्यते प्रत्युतोपदेष्टो- पदेश्यश्चेति द्वयोरपि तयोरधोगतिर्भवति । तदेवं क्रमेण प्रस्थानद्वयेन द्विविधेऽ- प्यधिकारे साधकेन संपादिते ततः साधकस्तृतीयपस्थानाभिमुखश्चेन्नूनं तस्य सदेव सोम्येदमय आसीदेकमेवाद्वितीयम् (छा० ६ । २ । १) तत्त्वमसि ( छा० ६।८।७) इत्यादिश्रुतीनां सारल्येनार्थोपस्थितौ सद्य एवाद्वैतात्मावबोधः स्यादेव । चित्तशुद्धयभावे यनादिकालमारभ्य चिदचिद्भेदस्य जीवेशभेदस्य चा- नुभवेन तदनुगुणतादृशसंस्कारस्य चाविनाशेन तदानुगुण्येनैवोक्तश्रुत्यर्थयोजने स्वरसतः प्रतीयमानस्यार्थस्य त्यागे च मानसिकी प्रवृत्तिर्वारा स्यादित्यात्म- तत्त्वज्ञानं न स्यात् । नन्वनादिकालमारभ्य प्रवृत्तो भेदः सत्य एव कुतो न स्यादिति चेन । एकमेवाद्वितीयम् ( छा० ६।२। १) नेह नानाऽस्ति किंचन ( बृ० ४ । ४ । १९) इत्यादिश्रुतिभिः स्पष्टमेव भेदनिषेधप्रतिपादनात् । निषेधश्चात्र मुख्यतया वाक्यतात्पर्यविषयीभूतो दृश्यते । ननु सदेव सोम्य० एकमेवाद्विती- यम् (छा० ६। २। १) इत्यत्र नियन्तुरनेकत्वं निषिध्यते न तु तत्र सामान्यतो भेदो निषिध्यत इति चेन्न । तत्र नियन्तृपदाश्रवणेन स्वरसतस्ता- दृशार्धापतीतेः । अध्याहारस्य च वक्तृतात्पर्यानुरोधेनैव वक्तव्यत्वात् । तदुक्तम्- योऽर्थोऽनुक्तोऽप्युद्भवति श्रोतचित्ते निसर्गतः। स एवाध्याहतो ज्ञेयो वाक्यावद्भिः प्रकल्पितः॥ वक्तृतात्पर्यानुरोधस्तव तन्वं न चेद्यदि । निषेधकत्वं दुर नगर्थेऽध्याहते विधेः ॥ इति ।
३ ९ कायपरिशुद्धिः। किंच यथेयं श्रुतिभेदनिषेधे प्रमाणं भवति न तथाऽऽध्याहारेऽपि सा श्रुति- भदे प्रमाणं भवितुमर्हति । भेदस्य तत्राविधेयत्वात् । दृष्टव्यः श्रोतव्यः (बृ. २ । ४ । ५) इति श्रुतावपि भेदो नैव विधीयते । नाप्यनद्यते । किंतु विधी- यमानस्य दर्शनश्रवणादेरन्यथानुपपत्या केवलं कल्पनीयः । सा चानुपपत्तिरपि नास्ति । व्यवहारे प्रतीयमानं भेदं गृहीत्वा तदुपपत्तरिति प्रागुक्तमेव । सा च प्रतीतिः सत्याऽसत्या वेत्यन्यदेतत् । न चासत्यो भेदश्चेत्तेन कथमुपपत्तिः स्या- दिति वाच्यम् । दर्शनश्रवणादेखत्रोपपत्तिः कार्या । असत्यभेदवादिनो हि दर्श- नश्रवणादेरप्यसत्यत्वमेव मन्यन्ते । ' असत्ये वर्त्मनि स्थित्वा ततः सत्यं समी- हते । ( वाक्यपदीयः ) इति हि तेषां न्यायः। तथा च यथा स्वप्नस्थेना- सत्येन दण्डेन जायमान आघातोऽपि स्वप्नस्थोऽसत्य एव भवति केवलं तत्र तद्विषयकं ज्ञानं सत्य मेव भवति तथा प्रकृतेऽसत्येन भेदेन जायमानोपासनाs- प्यसत्यैवाऽऽस्तां नाम । केवलं तत्राऽऽत्मविज्ञानं सत्यमेव भवति । अतो नेयं श्रुतिः सत्ये भेदे प्रमाणम् । अथ प्रसङ्गाच्छाब्दप्रमाणविचारः । शाब्दप्रमाणेन सिध्यनर्थः प्रका- रत्रयेण सिध्यति । विधेयत्वेनानुवाद्यत्वेनानुपपत्त्या कल्पनीयत्वेन चेति । यथा 'पीनो देवदत्तो दिवा न भुङ्क्ते । इति वचनाद्देवदत्तस्य दिवाभोजनाभावो विधेयत्वेन सिद्धो भवति । देवदत्तस्य पीनत्वं तु तत्रानूद्यमानत्वेन सिद्धं भवति । देवदत्तस्य रात्रिभोजनं च पीनत्वान्यथानुपपत्त्या सिद्धं भवति । तत्राऽऽद्ये प्रकारे साक्षादेव शाब्दप्रमाणेनार्थः सिध्यति । द्वितीये तृतीये च प्रकारे परम्प- रया सिध्यति । यथा देवदत्तः पीनः पानत्वेन तस्यान्द्यमानत्वादित्यनुमानेन देवदत्तस्य पीनत्वं साक्षाज्ज्ञायते । तद्दारा च तत्र शाब्दं प्रमाणं प्रवर्तते । अत्रेदमवधेयम् । योऽर्थः प्रमाणान्तरद्वारा शाब्दममाणेन सिद्धो भवति स मुख्य एवेति न नियमः किंतु तत्सदृशोऽपि । एतदभिप्रायेणैवोक्तमभियुक्तै:- यदपत्यमपत्यस्य तदपत्यसमं भवेत् । पौत्रप्रभृत्यपत्यं यदेवं वदति पाणिनिः ॥ इति । अयं भावः- अपत्यं पौत्रप्रभृति गोत्रम् ' ( पा० स० ४ । १ । १६२ ) इति हि पाणिनिवचनम् । तत्र शाब्दपमाणेन पौत्रप्रभतेर्गोत्रत्वं साक्षादेव सिद्धं भवति । पौत्रप्रभतेरपत्यत्वं त्वनुमानद्वारेति । तथा तस्यापत्यत्वं सिध्यदपत्य सादृश्ये पर्यवस्यतीति । अपत्यसदृशे ऽप्यपत्यसादृश्य मात्रेणापत्य शब्दे.
४० म. वासुदेवशास्त्रिप्रणीता- - यदा वैष नानुवादसंभवादिति । एवं पीनो देवदत्तो दिवा न भुङ्क्त इत्युक्ते तत्र शाब्द- प्रमाणेनापत्तिप्रमाणान्तरद्वारा साध्यं रात्रिभोजनमपि रात्रिभोजनसदृशे पर्य- वस्यति । तेन तत्र तादृशवल्लीविशेषसेवनमपि सिध्यति । तथा प्रकृते द्रष्टव्यः श्रोतव्य इति शाब्दप्रमाणेन दर्शनाद्यनुपपत्त्यार्थापत्तिप्रमाणान्तरद्वारा सिध्यन् भेदः कथं मुख्य एव स्यादिति यत्किचिदेतत् । किंच एतस्मिन्नुदरमन्तरं कुरुते। अथ तस्य भयं भवति ' (० २।७। १) इति तैत्तिरीयश्रुतौ भेददर्शिनो भयपातिरभिहिता । तेन स नैव मोक्षाधिकारीति सूच्यते । यतस्तत्र पूर्वस्मिन् वाक्येऽभयप्राप्तिरूपेण मोक्षो निर्दिष्टः । तद्विरुद्धा चात्र भयप्राप्तिरुक्ता । भेदस्य सत्यत्वे तु तद्दर्शनमवर्जनीयमेव स्यात् । यत्तु तत्र श्रुतावन्तरशब्देन भेदवाचिना भेदप्रयोजकीभूतो निकृष्टत्वधर्मो लक्ष्यते । स च धर्म ईश्वरात्सकाशाद्भेदं जीवेषु प्रयोजयति । स च धर्मो जीवगत इत्युदरशब्देनोच्यते । उत् उत्कृष्टः अः वासुदेवः येभ्य इत्येव- मुच्छब्दस्य अशब्देन पञ्चमीबहुव्रीही उशब्दस्य जीवार्थकत्वम् । उदान् रातीत्युदरः, जीवगत इति यावत् । तथा च जीवगतं निकृष्टस्यमेतस्मिन्नीश्वरे ये मन्यन्ते तेषां भयमित्यर्थ इति भेदवादिभिरुक्तं तन्न सम्यक् । एतादृश- कष्टकल्पनयोदरशब्दस्य जीवनिष्ठ इत्यर्थं प्रकल्प्य तदभिप्रायेण श्रुतावुदरशब्दो निर्दिष्ट इति मनोरथमात्रम् । श्रुतावीदृशार्थकल्पना भवन्तमन्तरेण कस्यापि मनो न स्पृशति । कष्टकल्पनया हि किं न स्यात् । यस्य कस्यापि वाक्यस्य यः कोऽप्यर्थः स्यात् । कस्तत्र नियामकः स्यात् । पूर्ववाक्ये अभयं गतो भवतीत्यत्राभयशब्दे वासुदेववाचकस्य अशब्दस्य भयशब्देन पञ्चमी- तत्पुरुषे वासुदेवाट्यं प्रामोतीत्यर्थः स्यात् । अथ तस्य भयं भवतीत्यत्र संसारार्थकाद्भवशब्दादाचारविपि भव इवाऽऽचरतीत्यर्थकल्पनया संसारवत्तस्य भयं विपरिवर्तत इत्यर्थः स्यात् । तस्मादुत् अरम् इति पदद्वयं परिकल्प्य ईषद्भेदं यो मन्यते तस्य भयमित्यर्थ इत्येव कल्पना ज्यायसी । 'किंच माया- मात्रमिदं दैतमद्वैतं परमार्थतः । ( गौ० का० १ । १७ ) इति माण्डूक्यका- रिकायां दैतस्य मायामात्र त्वमद्वैतस्य च पारमार्थिकत्वं स्पष्टमेव विधेयत्वेन प्रतीयत इति भेदस्यासत्यत्वमेव सुतरां श्रुतेरभिप्रेतमिति गम्यते । मायामात्र- मिति कारिकाया अयमर्थः-दं द्वैतम्-अनादिकालमारभ्यानुभयमानम् ' अहं ममेति । इदं द्रव्यमयं गुण इति, अयं घटोऽयं पट इति, अयं शब्दोऽयं ४१ कायपरिशुद्धिः। स्पर्श इत्यादिकं सर्वमेव मायामात्रम् । केवलं प्रतीयत इत्येव । नतु वस्तु- तस्तस्य सत्यत्वम् । ननु सर्वविधव्यवहारमूलभूतस्य द्वैतस्यैवासत्यत्वे किं शून्यमेव श्रुतेरभिप्रेतमिति चेत्तत्राऽऽह-अद्वैतं परमार्थत इति । नैव शून्यवादः श्रुतेरभिप्रेतः कित्वात्मैक्यवाद एव । नन्वयमात्मैक इति न कस्यापि संविज्ञानम् । तदानीं द्वैतस्यैवाभावात् । तथा च संविज्ञानाभावे कथमात्मै- क्यवादः सिध्येदिति चेन्मैवम् । वस्तुसत्तायाः संविज्ञानाधीनत्वाभावात् । शुक्तिरजतादिपातिभासिकपदार्थसत्तायाः संविज्ञानाधीनत्वेऽपि पारमार्थि- कसत्तायाः संविज्ञानाधीनत्वाभावात् । अत एवाद्वैतमिति परमार्थत इति चोक्तम् । परमार्थत इति पारमार्थिकी सत्ता द्योत्यते । अद्वैतपदेन च द्वैत- निषेधमुखेनाऽऽत्मैक्यं द्योत्यते । निषेधमुखेन प्रतिपादनस्य तत्पूर्वकालिकसं- विज्ञानसापेक्षत्वाभावात् । अत एव भूयसीषु श्रुतिषु निषेधमुखेनाऽऽत्मा पति- पादितः । तथा हि--अपहतपाप्मा विजरः ( छा० ८ । ७। १) नेह नानाऽस्ति किंचन ( बृ० ४ । ४ । १९ ) अशब्दमस्पर्शम् ( का. ३। १५ ) यतो वाचो निवर्तन्ते (तै ० २ । ४ । १) यन्मनसा न मनुते ( के० ५) न चक्षुषा पश्यति ( के० ३ । ५ ) इत्याद्याः । ननु सत्यं ज्ञानम् ० ( ० २ । १ । १ ) इत्येवं विधिमुखेनाप्यात्मपतिपादने श्रुतेः प्रवृत्तिदृश्यते । सत्यं दृश्यते । किंतु जिज्ञासोरनुग्रहाय कल्पनामात्रसिद्धयर्थं तथा वर्णनम् । विधिमुखेन श्रुतोऽर्थो हि कल्पनाया अनुकूलो भवति श्रोतृणां मनसि । तथा च सत्यमित्यस्यासत्यं नेत्यर्थे तात्पर्यम् । एवमेव विधिमुखेन प्रवृत्तानामितरेषां पदानां तात्पर्य बोध्यम् । अत एव ' यन्मनसा न मनुते ( के० ५ ) इति श्रुतेन विरोधः । अन्यथा सत्यत्वज्ञानत्वादिना मननसंभवन सा श्रुतिविरुद्धा स्यात् । भेदस्य सत्यत्वे त्वीश्वर ईदृशो जीवश्चेदृश इत्येवं भेदपयोजकधर्माणा- मावश्यकत्वेन तेषां च धर्माणां वाङ्मनोविषयत्वस्यावर्जनीयतया यतो वाचो. (तै ० २ । ४ । १) इत्यादिश्रुतिविरोधः स्पष्ट एव । यत्तु द्वैतवादिभिर्य- तो वाच इति श्रुतौ साकल्येनेत्यध्याहृत्य साकल्येनामाप्य यतो वाचो मनसा सह निवर्तन्त इत्यर्थः । तथा यद्वाचाऽनभ्युदितमित्यत्रापि साकल्येने- त्यध्याहारं कृत्वाऽर्थः पतिपादितः । स चास्वरसग्रस्त इति स्पष्टमेव । अध्याहारे प्रमाणाभावात् । शन्दानामसंकोचेन स्वार्थपतिपादने प्रवृतेः स्वभावसिद्धत्वाच्च ।
४२ म. वासुदेवशास्त्रिप्रणीता- यत्तु द्वैतवादिभिरुक्तम्-इणगतावित्यस्य धातोर्गत्यर्थानां बुद्धयर्थकत्वेन शानार्थकत्वं स्वीकृत्य तस्माद्भावे ते ज्ञानार्थक इतशब्दः। द्वितीयपकारार्थ- केन द्विशब्देन इतशब्दस्य समासे द्वितीयप्रकारेण जायमानं ज्ञानमित्यर्थों द्वीतशब्दस्य सिद्धः। तस्मात्स्वार्थेऽण्पत्यये द्वैतशब्दस्य स एवार्थः। कर्मणि- कपत्यये तु द्वीतशब्दाद्भावार्थेऽण्प्रत्यये द्वैतशब्दस्य स एवार्थः । वस्तुनि विद्यमानो धर्म एकः प्रकारः । अविद्यमानश्च द्वितीयः । यथा शुक्तौ शुक्तित्वं पथमः प्रकारः। रजतत्वं च द्वितीयः । तथा च शुक्तौ रजतादिज्ञानं द्वैत- शब्देनोच्यते । तन्मायामात्रम् । मायाशब्देनेश्वरेच्छा गृह्यते । तथा चेश्वरे- च्छामात्रकल्पितं तादृशं ज्ञानम् । अद्वैतं प्रथमप्रकारेण जायमानं ज्ञानं तु पारमार्थिकमिति । अत्रोच्यते । द्विशब्दस्य द्वितीयः प्रकार इत्यर्थे स च तत्राविद्यमान एव धर्मो ग्राह्य इत्यर्थे च प्रमाणाभावात् । किमत्र द्वैतशब्दे योगो वा योगरूढिर्वा । योगश्चेदतिप्रसङ्गः । घटे स्पर्श एको धर्मः, रूपं च द्वितीयः। तस्य च तत्र विद्यमानस्यापि द्वितीय शब्देन ग्रहणे शुक्लो घट इति ज्ञानस्यापि तन्मतेऽपारमार्थिकत्वापत्तिः । रूढिश्चन सा वादिमतमात्र- सिद्धा पतिवादिमतमात्रसिद्धा वा ग्राह्या भवति, किंतु- मध्यस्थसंमता या स्यात्सैव रूढिनिगद्यते इति न्यायेन मध्यस्थसंमतापेक्ष्यते । तथा त्वत्र न दृश्यते । किंच द्वैता- द्वैतमध्येऽद्वैतस्य पारमार्थिकत्वे पोक्त तद्विरुद्धस्य द्वैतस्य पारमार्थिकत्व- विरुद्धमपारमार्थिकत्वं वक्तव्यमिति मायामात्रशब्दस्यापारमार्थिकार्थत्वमेवोचितम् । किंच द्वैताद्वैतयोरुभयोरपीश्वरेच्छासाधारणत्वाइद्वैतस्यैवेश्वरेच्छाकल्पितत्वोकिन संगच्छते । अथाविद्यमानेन धर्मण ज्ञानमीश्वरेच्छामात्रकल्पितं मनोराज्य- मिव भवति न तथा विद्यमानेन धर्मेण ज्ञानमद्वैतपदवाच्यमिति द्वैताद्वैतयोवि- शेष इति चेत्तावताऽपि मायामात्रमिदं द्वैतमित्येतावतैव सिद्धावद्वैतं परमार्थत इत्यस्य वैयर्थ्यं स्यादेव । विरुद्धयोरर्थयोर्मध्य एकत्र कस्मिंश्चिद्धर्मे प्रतिपा- दितेऽपरत्र तद्विरुद्धधर्मस्यायन्नसिद्धत्वात् । किंच विद्यमानेन धर्मेण ज्ञान- मित्यर्थस्यात्राद्वैतशब्देन निषेधमुखेन प्रतिपादने को हेतुः । न हि सोऽर्थो विधिमुखेन प्रतिपादयितुं न शक्यते । किंच यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः । तत्र को मोहः कः शोक एकत्वमनुपश्यतः (बृ० १ । ३ । ७) इति श्रुतेरपि भेदस्यासत्यावं सिध्यति ।
कायपरिशुद्धिः। ४३ पस्मिन्परमात्मनि सर्वात्मनि ज्ञानिना स्वात्मतयाऽवगते सति । अयं चावार्थः प्रकरणलभ्यो यस्मिन्नित्यनेन परामृष्टः । अन्यत्र तु — सर्वात्मानम् ' ( श्वे. ३ । २१ ) इति स्पष्टमेवोक्तम् । विजानतस्तादृशज्ञानतः साक्षात्कृतवतो ज्ञा- निनः सर्वाणि भूतान्यात्मरूपाण्येवाभूवन् । आत्मशब्देन ज्ञानिनः परामर्शः । ज्ञानी हि सर्वाणि भूतानि स्वात्माव्यतिरिक्तान्येव साक्षात्करोति । एवं स्वात्मै. कत्वमनुपश्यतो मोहशोको कथं स्याताम् । मोहः शोकश्च स्वात्मव्यतिरिक्तप- तियोगिकः । यत्र क्वापि व्यतिरिक्तबुद्धिर्यस्य नास्ति तस्य शोको मोहश्च कथं स्यादित्यर्थः । अवाऽऽत्मैवाभूदित्येव शब्देनाऽऽत्मीभवनप्रतिपादन एव मुख्यं तात्पर्य पूर्वार्धस्यावगम्यते । अनात्मत्वबुद्धयभावसहरूतात्मत्वबुद्धि- रात्मैवाभूदित्यस्यार्थः । तादृशात्मत्व बुद्धिमेवोत्तरार्ध एकत्वमनुपश्यत इत्येव- मन्द्य तच्छोकमोहाभावे हेतुगर्भ विशेषणं विजानत इत्यस्योक्तम् । अतः पूर्वोत्तरार्धयोरत्र हेतुहेतुमद्भावसंगतिः । अस्माच्छ्रतिवाक्यानेदस्यासत्यत्वं स्पष्ट- मेवावगम्यते । यत्तु द्वैतवादिभिरुक्तम्-अत्र वाक्यत्रयम् यस्मिन्सर्वाणि भूतानि ' इत्येकम् । ' आत्मैवाभूत् ' इति द्वितीयम् । 'विजानतः । इत्यादि तृतीयम् । द्वितीये वाक्ये य इत्यध्याहारः । तृतीये चैवमित्यध्याहारः । तद- यमर्थः-यस्मिन्परमात्मनि सर्वाणि भूतानि सन्ति । यश्च परमात्मा सर्वेषामाधा- रतयाऽऽत्मैवाभूत् । एवं विजानतः सर्वेषामेक एवाऽऽधार इत्येकत्वमनुपश्यतश्च शोकमाही न स्तः । शोको मोहश्च प्रतियोग्यनुयोगिनोर्भिन्नाधारत्वे यथा संभव- ति न तथा तयोरेकाधारत्वे । वस्तुस्थितेराधारतन्त्रत्वादित्याशयः । अत्रोच्यते । अनेन श्रुत्यर्थेन द्वैतवादिभिः स्वमतेनास्याः श्रुतेरुपपत्तिः कथं- चित्कृता स्यात् । नत्वयमस्याः श्रुतेः स्वारसिकोऽर्थ इति बालैरपि सुज्ञेयम् । अत्र वाक्यत्रयम् , तत्राध्याहारः, आत्मत्वं चाऽऽधारतया, तथैकत्वमाधारस्येत्यत्र प्रमाणाभावात् । सर्वमेतत्स्वकपोलकल्पितमिव दृश्यते । किंच शोकमोहयोरभावः सर्वथा न संभवति । एकाधारयोरपि द्रव्ययोर्मध्य एकपतियोगिकोऽन्यानुयो- यिकः शोकस्तथा मोहश्च संभवत्येव । अत्रेदं बोध्यम्-आधारस्त्रिविधः। वस्तुनः स्वरूपधारकत्वेन, स्वरूपपोषकत्वेन, अस्तितापयोजकत्वेन चेति । आद्यो यथा घटस्य भूतलम् । भूतलं हि न घटं पोषयति नापि घटस्यास्तितां प्रयोजयति । द्वितीयो यथा राजा प्रजाजनस्य, आचार्यो वा शिष्यस्य, विषयो वा विषयिणः। तृतीयो यथा शरीरस्य जीवः । शरीरं हि स्वास्तित्वे सर्वथा जीवमवलम्बते ।
४४ म. वासदेवशास्त्रिप्रणीता- परमात्मा वा सर्वस्य । परमात्मा बिम्बरूपेण सर्वेषां जीवानामस्तित्वप्रयोजकः, अधिष्ठानतया जडवस्तूनां चास्तित्वप्रयोजकः । यद्यपि परमात्मा पोषकोऽपि भवति तथापि वैविध्यं निर्वाधम् । उपधेयसंकरेऽप्युपाधीनामसंकरात् । अत्र तृतीय आधार आत्मेत्युच्यते । यथा शरीरस्य जीव आत्मा । परमेश्वरश्च सर्वात्मा । अयं चाऽऽत्मशब्दवाच्यस्तृतीय आधार आधेयस्य नियामकोऽपि भवति । नि- यामकत्वं चैतदन्तत एव न बहिः । स च क्वचित्केनचिदंशेन क्वचित्सर्वथेत्य- न्यत् । तत्राऽऽद्यः शरीरस्य जीवात्मा । वाधक्ये हि शरीरस्य शक्तौ क्षीयमाणा- यां न तारुण्य इव नियामको भवति जीवात्मा । तारुण्येऽपि चारुग्णमिव न रुगणं शरीरं नियमयितुं प्रभवति । सर्वथा नियामकस्तु परमात्मा । अयमेव शा- स्तेत्युच्यते । तदुक्तम्-' अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा ' इति । पर- मात्मा च जीवकतकर्मपरवश एव जीवान्नियमयतीत्यत्र न कस्यचिदपि विवादः। तदेवं स्थिते द्वैतिनां मते जीवानामीश आधारो न तृतीयेन प्रकारेण संभवति । जीवानामपीश्वरेण सममेव नित्यत्वाभ्युपगमेनेश्वरस्य जीवास्तितामयोजकत्वाभावा- त्। अथ पोषकत्वेनाऽऽधारत्वं भवत्विति चेन्न। तादृशाधार आत्मशब्दस्य रूढय- भावात् । तथा च यः सर्वेषां भूतानामात्मैवाभूदिति भवत्कल्पितद्वितीयवाक्यस्या- र्थो न संभवति । अथ तत्राऽऽत्मत्वमुच्यमानं गौणमिति चेत्-' आत्मैवाभूत् इति विधेयतया प्रतिपादितस्याऽऽत्मत्वस्य गौणत्वप्रकल्पनं नोचितम् । किंच गौ- णेनाऽऽत्मत्वेनाऽऽधार एकत्व बुद्धिः कथं जायेत । तथा च तत्र पूर्वोत्तरार्धयोहे- तुहेतुमद्भावसंगतिर्न स्यात् । किंचायं जीवेश्वरभेदः कल्पित एव नतु सत्य इत्यव- श्यमङ्गीकर्तव्यम् । यत आत्मप्राप्तिरेव मोक्ष इति सर्वेषां समतं न कस्यचिदपि तत्र विवादः । मोक्षश्च ज्ञानैकसाध्यः। तमेवं विद्वानमृत इह भवति (न. प. उ. ६) इति श्रुतौ विद्वानमृतो भवतीत्यनेनामृतत्वप्राप्तौ ज्ञानं साधनमुक्तम् । तत्र चे- हशब्देनान्यत्र क्वाप्यमृतत्वप्राप्त्यर्थं गमनाभावः सूचितः । ज्ञानादेव तु कैव- ल्यम् ( ) इत्यत्रैवशब्देन ज्ञानेतरन्मोक्षसाधनं व्यवच्छिद्यते । नान्यः पन्था अयनाय विद्यते (श्वे. ३ । ८) इति श्रुत्या च ज्ञानेतरसाधनस्य नि- षेध एव स्पष्टं पतिपाद्यते । ज्ञानैकसाध्यं वस्तु च पूर्व प्राप्तमेवेत्यवश्यमेवाङ्गी- कर्तव्यं भवति । तदुक्तम्- यस्य प्राप्तौ ज्ञानमात्रान्नाधिको यत्न इष्यते । सोऽर्थः संप्राप्त एव स्यात्पूर्वमेवेति निश्चयः ।। अवशिष्टं विजानीयात्तत्राज्ञानं तु केवलम् ॥ इति ।
कायपरिशुद्धिः। तथा च यथा पर्वते देवालयमिति शब्देन देवालयस्य परोक्षज्ञाने सत्यपि प्रत्यक्षज्ञानाय तब गमनमपेक्ष्यते तथाऽत्रापि द्वैतिनां मते जीवेश्वरयॊभेदेनेश्वर- ज्ञानेऽपि तत्मत्यक्षायाधिकः कश्चिद्यत्नः कर्तव्यः स्यात् । तथा चोक्तश्रुतिरोधः । तथा चोक्तम्- घटमीप्सुईण्ड चक्रादिकं साधनमीहते । न ध्वान्तस्थघटप्राप्त्यै दण्डचक्राद्यपेक्ष्यते ॥ इति । तथा चात्र परमात्मा तथा कल्पनीयो यथा मोक्षात्पूर्व बद्धेनापि जीवेन प्राप्त एव स्यात् । केवलं ध्वान्तस्थानीयेन ज्ञाननिव]न केनचित्पदार्थेन स परमात्मा तदानीमन्तर्हितं इति । स च पदार्थोऽज्ञानमेव । इदमेव मायाशब्देन व्यपदिश्यते । तेनान्तर्हितोऽपि मोक्षात्पूर्वं जीवेन प्राप्त एवेत्यस्यार्थस्योपपत्तये जीवेशयोरभेद एव युक्तोऽभ्युपगन्तुमिति बोध्यम् । किंच जीवेशयोरभेदे श्रुत्य- न्तरमपि प्रमाणं भवति । भेदस्य सत्यत्वे हि भेदप्रयोजकधर्मवत्त्वेनेश्वरस्य स- विशेषत्वं दुर्वारम् । इष्टापत्तिरेवेति चेत्-यस्यामतमिति श्रुतिविरोधः । यस्यामतं तस्य मतं मतं यस्य न वेद सः। अविज्ञातं विजानतां विज्ञातमविजानताम् ।। येन ब्रह्म न चिन्तितं तेन ब्रह्म ज्ञातम् , येन च चिन्तितं तेन न ज्ञातम् । ज्ञानिभिरविज्ञातमज्ञानिभिश्च ज्ञातमित्यस्याः श्रुतेरुत्तानार्थः । अत्राऽऽशक्यते कृमिकीटादिभिरप्यज्ञानिभिर्बह्म ज्ञातं किम् । तथा शुकवामदेवादिभिः प्रसि- द्धतरैनिभिरपि ब्रह्म न ज्ञातं किम् । मैवम् । श्रुतेरयमाशयः-यस्यामतं निर्विशेषं ब्रह्म चिन्तनाविषयमेवेति यो वेत्ति तेन ब्रह्म यथार्थत्वेन चिन्तितम् । मतं यस्य, येन च ब्रह्म सविशेष मत्वा चिन्तनविषयतां नीतं तेन ब्रह्म यथार्थत्वेन न ज्ञातम् । तथा च ज्ञानविषयं मत्वा विजानतामज्ञातमेव तत् । ज्ञानाविषयतां मत्वा अविजानतां ब्रह्म स्वयमेव यथार्थत्वेन प्रकाशितं भवतीति । सविशेषं ब्रह्म मत्वा कृतमस्याः श्रुतेरभिप्रायवर्णनं तु न स्वारसिकमध्या हारलक्षणादिदोषग्रस्तं चेति हेयमेव । तथा हि-द्वैतिनां मते ब्रह्म ज्ञानवि- षयं भवत्येव । किंतु परिच्छिन्नत्वेन ज्ञानविषयं न भवति । तथा चात्र परिच्छिन्नत्वेनेत्यध्याहारः । अथवा विजानतामित्यत्र ज्ञाधातोर्ज्ञानविशेषे ४६ म. वासुदेवशास्त्रिप्रणीता- . लक्षणा स्वीकार्या भवति । किंचाविजानतां विज्ञातं विजानतां चाविज्ञात- मित्यस्याः श्रुतेरीदृशं तात्पर्य चेदेतवर्णनं परमात्मनोऽसाधारणं न भवति । आम्रादिफलमपि साकल्येन ज्ञातं न भवति । रूपं स्पर्श आकारश्चेत्येषां ज्ञानेऽप्यन्तर्गतरसस्याज्ञानमेव । तस्यापि ज्ञानेऽन्तर्गतबीजस्य रूपरसादिकं न साकल्येन ज्ञायते । किंच ब्रह्मणः सविशेषत्वे तस्योपासनाविषयत्वं दुरिमिति । यदाचाऽनभ्युदितं येन वागभ्युद्यते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ' ( के० ४ ) इति अतिविरोधः । अत्र हि यदिदमुपासते तन ब्रह्मेति ब्रह्मण उपास- नाविषयत्वं स्पष्टमेव निषिद्धम् । यत्त्वत्र द्वैतमतानुसारिभिः कैश्चित्मजल्पितम् उपासते ' इति न क्रियापदम् । किंतु उप आस ते इति पदत्रयम् । उपे- त्यस्य समीप इत्यर्थः । आसेत्यास्ते इत्यर्थकं तिङन्तमतिरूपकमव्ययम् । ते इत्यरप तवेत्यर्थः । यदिदं तव समीपे आस्ते तन्न ब्रह्मेत्यर्थः । श्रुते- रीदृशाभिप्रायवर्णनं तु स्वस्यैवोपहासास्पदं भवति । न श्रोतॄणां मनसि लेशतोऽपि चमत्काराधायकमित्यारतां तावत् । तदेवं द्वैतिनां मतं न श्रुतिप्रमा- णसिद्धम् । पजहाति यदा कामान् सर्वान्पार्थ मनोगतान् । आत्मन्येवाऽऽत्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ( गी० २ । १५) इति गीतावाक्य आत्मन्येवाऽऽत्मना तुष्ट इत्युक्तम् । आत्मनि परमात्मन्या- त्मना चिद्रूपेण तुष्टस्तृप्त इति तस्यार्थः । तथा च जीवबौक्यमभिपेत- मिति गम्यते । किंच तत्र सर्वान्कामान्मनोगतान् इत्युक्तम् । तेन च कामाः सर्वे मनोगता न त्वात्मगता इति सिध्यति । कामसमानाधिकरणाश्च बुद्धि- सुखदुःखादयः सर्वे नाऽऽत्मगुणाः किंतु मनोगुणा एव भवन्ति । तथा च निर्गुण आत्मनि भेदपयोजकीभूतधर्मस्य कस्याप्यभावनार्थादेवाऽऽत्मैक्यं सिध्यति । भगवताऽपि चार्जुनस्याऽऽत्मयाथात्म्यज्ञानाधिकारसंपत्तये साधनचतुष्टयमेव प्रभ- वतीति मनसि कृत्वाऽऽद्यश्लोकचतुष्टयेन क्रमेण साधनचतुष्टयसंपत्तिः प्रदर्शिता । सा च पूर्व प्रदर्शितैव ( १२ । १५)। तत्र साधनचतुष्टये द्वितीयं साधनं पराग्यम् । तच्च सर्वाशनापेक्ष्यते । लेशतोऽपि कामाभाव इति यावत् । स्वापे- कायपरिशुद्धिः। ક૭ क्षयोत्कृष्टं पश्यतो मनसि तत्पदमाप्तीच्छाऽवर्जनीयैव भवति । तथा च द्वैतिनां मते स्वापेक्षयोत्कृष्टं परमेश्वरं पश्यतां जीवानां मनसि स्यादेवेच्छेति वैराग्यं दुर्लभम् । न चोत्पन्नकामोऽपि विषयेषु दोषदृष्ट्या यथाऽन्यतो निवर्तते तथाऽवे. शपदादपि निवतेतति वाच्यम् । परमेश्वरपदे लेशतोऽपि दोषस्य कल्पयितुम- शक्यत्वात् । तथा च युद्धानिवृत्तस्यार्जुनस्य पुनर्युद्धे प्रवृत्तिः कायपरिशुद्धिम- न्तरेण साधनान्तरेण केनापि दुःसाध्येति मत्वा तदर्थं साधनचतुष्टयं प्रदर्शितं तत्सर्वमत्र स्पष्टी क्रियते । तत्र हि- स्वसंशयमपाकर्तुं शुश्रूषोर्भगवद्वचः । मोक्षाधिकारः संपाप्तो गीतया सव्यसाचिनः ॥ वराटिकान्वेषणाय प्रवृत्तस्यापि कस्यचित् । यथा चिन्तामणेाभो जायते भाग्यशालिनः ॥ तत्संशयमपाकर्तुं तदानीं भगवानपि । तत्कायपरिशुद्धयर्थं गीतां संमोक्तवानिति ।। अयं भावः-अर्जुनस्य दूरदृष्ट्या युद्धे प्रवृत्तस्यापि पुरतोऽवस्थितान् भीष्मा- दीन् सर्वान् स्वकीयान् दृष्ट्वैकपद एव विषादातिशयेन या मनोवृत्तिविपर्य- स्ताऽभूत्साऽलौकिकं किंचित्कारणं विना नैव पूर्वावस्थां प्राप्स्यति । यतो दूर- दर्शिनां पेक्षावतां महानुभावानामर्जुनसदृशानां नैव क्षुद्रेण कारणेन बुद्धिवि- पर्यासो भवति । तथापि योग्येन केनचिन्महता तादृशेन कारणेन जात एव चेत्पुनः पूर्वावस्थां पायो नैव पाप्स्पति तन्मतिः । तथा चात्यन्तकठिनमेतत्कृत्यं भगवन्तमन्तरेण कः संपादयितुं शक्नुयात् । अघटितघटनापटुरपि भगवांस्तदानीं लोकवदेव व्यवसितुं प्रवृत्तोऽनेकाभियुक्तिप्रयुक्तिभिस्तत्कार्यं साधितवान् । अत एव सा रीतिर्लोकानां भूयसां मार्गदर्शिन्यभूत् । भगवताऽपि च तदानीं काय- परिशुद्धिमन्तरेणैतत्कार्य साधयितुमशक्यमिति पर्यालोच्यार्जुनस्य कायपरि- शुद्धिः संपादिता । कायपरिशुद्धिरपि चेयं न सामान्यतः । किंतु यादृश्यात्म- विज्ञानमार्गोपदेशाधिकारसंपत्तयेऽपेक्ष्यते तादृश्येवावाऽऽवश्यिकेत्यालोच्य तत्सा- धनार्थ यत्नः कृतो भगवता । तथा च- उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ( गी. ४ । ३४ ) इति तेन तत्र प्रसङ्गादुक्तम् । एतेन सर्वधर्मानित्यत्रोपसंहारात्मके श्लोकेऽ- हं त्वामिति भेदेन निर्देशाद्भेद एव वस्तुतः सत्य इत्यपास्तम् । अयं हि श्लोक उपसंहारात्मकः । तथा हि- ४८ म. वासुदेवशास्त्रिप्रणीता- - सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः (गी. १८६६) । पूर्व विस्तरणोक्तस्य पुनः संक्षेपेण कथनं यत्क्रियते स उपसंहारः । उप- संहारेण हि श्रोतॄणां विषयावधारणं सौलभ्येन भवति । तेन च तत्र शीघं तस्य प्रवृत्तिर्भवति । गीतायां चाऽऽत्मविज्ञानोपदेशो नैव कृतः । नापि च तादृशोपदेशाधिकारसिद्धये प्राधान्येन प्रयत्नः कृतो भगवता । किंतु तादृशा- धिकारः प्रासङ्गिकतया सिद्धोऽभूदित्यन्यत् । तथा च कः प्रसङ्गोऽत्र मोक्षा- वस्थावर्णनस्य । आत्मविज्ञानोपदेशात्माक्तु सर्वोऽयं भेदव्यवहारोऽबाधित एवेत्यहं त्वामिति निर्देशो न विरुध्यते । यदि तु गीतायां मोक्षसाधनीभूता- त्मविज्ञानोपदेशो भगवता कृतः स्यात्तस्य चानेन श्लोकेनोपसंहार इत्यत्र मोक्षावस्थावर्णनं स्यात्तर्हि त्वदुक्तेः संभवो नत्वन्यथा । सोऽपि च यथाकथं- चिदेव । मोक्षावस्थापाकालीनस्थितिपदर्शको यहं त्वेति भेदेन निर्देशो न तु मोक्षावस्थापदर्शक इत्यर्थस्य तत्र बालैरपि सुज्ञेयत्वात् । ननु यथा माता रोगिणो बालस्यौषधग्रहणमवृत्त्यर्थं रोगनिवृत्तिमाधुर्यास्वादश्चे- त्येतद्वयमौषधभक्षणैकसाध्यमिति मत्वा · कथमप्ययं बाल औषधग्रहणे प्रवृत्तो भवतु ' इतीच्छया तवोद्दिष्टामपि रोगनिवृत्तिमन्ततः कृत्वा बहिस्तस्य परोचनार्थ- मनुद्दिष्टमप्यौषधमाधुर्यमास्वादयति तथाऽत्र भगवानर्जुनस्य युद्धे प्रवृत्त्यर्थं युद्धे प्रवृ- त्तिर्ज्ञानद्वारा मोक्षश्चेत्येतद्द्वयं कायपरिशुद्धयेकसाध्यमिति मत्वा 'कथमप्युर्जुनो युद्धे प्रवृत्तो भवतु' इतीच्छया तत्रोद्दिष्टामपि युद्धे प्रवृत्तिमन्ततः कृत्वा बहिस्तस्य परोचनार्थमनुद्दिष्टमपि मोक्षरूपं फलं प्रदर्शयेत् । तथा चात्र मोक्षावस्थावर्णनं संगतमेव भवति । तच्चानोपसंहारे पूर्वश्लोके मामेवैष्यसीत्युक्तम् । तथा हि- मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामवैष्यसि सत्यं ते प्रतिजाने पियोऽसि मे ॥ (गीता ० १८।६५) इत्यत्र मामवैष्यसीति मोक्षावस्थां पदय परोचितो भगवताऽर्जुनः । तस्यां चावस्थायां कर्तृकर्मणोंर्भेदेन निर्देशाद्भेदस्य सत्यत्वं सिध्यति । 'ब्रह्म वेद ब्रह्मैव भवति । (मु० ३ । २ । ९ ) इति श्रुतिस्तु- वस्तुनोः साम्यातिशये तादात्म्यमुपचर्यते । तदेवौषधमित्यादौ सजातीयेऽपि दर्शनात् ॥ इति न्यायेनौपचारिकी बोध्येति चेत- .
कायपरिशुद्धिः। ४९ मैवं वादीः । न खलु श्रुत्या स्मृतिरनुवा स्मृत्यैव तु नाम श्रुतिरनुवा भवति । तथा च बरलैव भवतीति ' श्रुतिरौपचारिकेति रिक्तं वचः। ननु निरञ्जनः परमं साम्यमुपैति ( मु० ३।११३ ) इति श्रुत्यन्तरानुरोधेन रस्लैवेति श्रुतेरौपचारिकत्वं वर्णितं न तु केवलस्मृत्यनुरोधेनेति चेत्तदपि न । परमं साम्यं हि स्वस्य स्वेनैवाऽऽयाति न तु परेणेत्यभेद एव तस्याः श्रुतेस्तात्पर्यम् । निर- ञ्जनः केनापि संबन्धेन रहितः । कस्यापि संबन्धस्य सत्त्वे तत्कृतं वैषम्यं दुर्नि- वारमेव भवति । मुक्तेश्वरयोर्भवदभिमतसाम्येऽपि सेव्यसेवकभावरुतं वैषम्यमस्त्ये- वेति न तस्य परमत्वम् । सेव्यसेवकयोः साम्यापेक्षया सेव्यद्वयमध्ये मिथः सा- म्यस्य परमत्वं को न ब्रूयात् । ननु सेव्यद्वयं द्वैतिभिनीङ्गी क्रियते इति चेत् । किं दैत्यभिमतसिद्धान्तानुरोधेन श्रुत्यर्थो योज्यते भवता । प्रत्युत श्रुतेर्यः स्वार- सिकः सरलोऽर्थस्तदनुरोधेन सिद्धान्तो ग्रहीतव्यो भवति किल । ततश्च यदपेक्षयाऽन्यदधिकं साम्यं नास्ति तादृशं केनापि संबन्धेन रहितस्य यत्साम्यं तदैक्य एव पर्यवस्यति । आत्मैक्ये गृहीतेऽपि 'मामेवैष्यसि इति स्मृतिर्न विरुध्यते नापि च गौणार्थी ग्राह्या भवति । यत्मापणक्रियानन्तरं भेददर्शनाभावेऽपि ततः पूर्वं भेददर्शनेन मामेवैष्यसीति निर्देशस्य साम्राज्यात् । न हि 'चान्द्रं ज्योतिः प्रातरादित्यमेति' इत्यत्रैतिर्गौणार्थ इति केनाप्युच्यते, नापि युक्तिमत् । पापणार्थको ह्येतिः। पापणानन्तरमेकीभावो वाऽस्तु पार्थक्यं वाऽस्तु न विशेष इत्यास्तां तावत् । अथावान्यांकचिद्विचार्यते-ननु मन्मना भव, सर्वधर्मान् ० (गी० १८१६५।६६) इति श्लोकद्वयेनात्र य उपसंहारः कृतोऽस्ति सोऽवानुचित इव दृश्यते । अर्जुनस्य युद्धे प्रवृत्ति सपदि संपिपादयिषोभंगवतोऽत्र- मदुक्तिमेकां हृदये निधाय गतसंशयः । परित्यज्य मतीः सर्वाः सद्यश्चापं करे कुरु ॥ इत्येतादृश उपसंहार उचितः। अथ मन्मना भवेत्याद्युपसंहारे किमनौचित्यमिति चेत्-उच्यते ( १ ) मामेवैष्यास , इत्यनेन भगवत्माप्तिरुक्ता । तस्या अवोपसंहारे कः पसङ्गः । तथा ( २ ) ' स्वधर्ममपि चावेक्ष्य ० ( २ । ३१ ) इत्यत्र स्वधर्म- स्यापरित्याग उक्तः। अत्र तु सर्वधर्मपरित्यागः कथमुच्यते । तथा (३) ५० म. वासुदेवशास्त्रिप्रणीता- तत्र पूर्व युध्यस्वेत्यनेक श उक्तम् । अत्र तु तद्विरुद्धमेकं मच्छरणगमनमेव विधी- यते तच्च कथम् । तथा ( ४ ) धर्मपरित्यागं विधाय तज्जन्यपातकान्मोक्षः पतिज्ञातः । सोऽनुचितः । प्रक्षालनादि पङ्कस्य दूरादस्पर्शनं वरमिति न्याय- विरोधात् । तथा (५) पातकान्मोक्षश्च भोगप्रायश्चित्तान्यतरदन्तरेण न संजा- यते । तयोरन्यतरेण जायमानश्च सर्वसाधारण इति किं तत्र भगवतो विशे- षकत्यमहं त्वेत्यादिपदगम्यम् । यद्यपि भगवानिच्छामात्रेणापि पातका- न्मोक्षं कर्तुं शक्तस्तथाऽपि तथा स न करोति । स्वकृत नियमानुसारेणैव तस्य वर्तनात् । मनुष्यपशुपक्ष्यादीनां नियतावयवसंनिवेशस्य तत्तत्पत्रपुष्पफलादेश्व कदाऽप्यनतिक्रमात् । एवं च कथमेतदिति चेत् । उच्यते -अब यर्जुनस्य युद्धेऽप्रवृत्तस्य प्रवृत्तिस्थैर्यसंपादनाय भगवत उक्ति- र्गीताऽष्टादशाध्यायात्मिका । तत्राप्रवृत्तिदिधा-( १ ) प्रयोजनाज्ञानेन स्वभावत एवाप्रवृत्तिः । ( २) ज्ञातपयोजनस्य प्रवृत्तीच्छोः प्रतिबन्धकवशादप्रवृतिश्च । तत्र प्रतिबन्धकं त्रिविधम् । ज्ञातस्य प्रयोजनस्य कैमर्थ्यप्रतीति( क ), सत्यस्य प्रयोजनान्तरस्याज्ञानम् ( ख ), पापाद्युत्पत्तिभीति( ग )श्चेति । प्रथममकारणामवृत्तस्य प्रयोजनज्ञापनमुपदेष्ट्रा कर्तव्यम् । द्वितीयपकारेणापवृत्तस्य तु प्रतिबन्धकनिरास उपदेष्ट्रा कर्तव्यः । तत्रापि भीष्मादीन्दृष्ट्वा विरक्तस्यार्जुन नस्य यदाज्यरूपे प्रयोजने कैमर्थक्यं प्रतीतं तन निरस्यते । अशक्यत्वात् । केवलमत्र प्रयोजनान्तरस्य मोक्षस्य ज्ञापनं तथा पापादिभीतिनिराकरणं च कर्तव्यम् । तदेव च भगवता गीतायां संपादितम् । तदनुसारेणायमुपसंहार उचित एव । अथानौचित्ये यत्कारणपञ्चकमुक्तं तस्य क्रमेणोत्तरमुच्यते-( १ ) मोक्षरूपं स्वधर्माचरणस्य प्रयोजनान्तरं गीतायामुक्तमिति तस्योपसंहारे 'मामेवैष्यसि । इत्युक्तिः प्रासङ्गिन्क्येव । ( २ ) पूर्व स्वधर्माचरणस्य विधिः स्वरूपतः, तु फलतः कृतः । अत्रोपसंहारे तु तद्वैपरीत्येन धर्माचरणस्य परित्यागो न स्वरू- पतः कृतः, किंतु फलम् । अथवा भोजनादिकस्य मलमत्रपक्षालनादेश्च कर्म- णो यथा सर्वपदेन न ग्रहणं तथा नित्यत्वेन प्राप्तस्य स्वधर्मस्यापि सर्वशब्देन न ग्रहणं किंतु तदितरस्यैव परित्यागयोग्यस्यैवात्र सर्वपदेन ग्रहणात् । अत एव च न तृतीय आक्षेपः। युद्धे प्रवृत्तः क्षत्रियश्चेत्तस्य युद्धं नित्यमाप्तमेव भवति । ( ३ ) मामकं शरणं व्रजेति विधिना न युद्धरूपं कर्म व्यावय॑ते । न कायपरिशुद्धिः। मामित्यस्य 'युध्यस्व ' इति कथयन्तं मामित्यर्थः । तादृशस्य मम शरण- गमनं च युद्धापरित्यागेनैव । युद्धस्य शरणगमनान्तर्गतत्वात् । (४) पातकान्मो- क्षोऽत्र न युद्धजन्यपापस्य ध्वंसरूपः, किंतु पातकानुत्पत्तिरूपः । अतो न पक्षालनाछि ' इति न्यायविरोधः । ( ५) समुत्पन्नस्य हि पापस्य प्रकार- रद्वयेन विनाशः । अत्र त्वनुत्पत्तिरेव साध्या। सा च भगवत्पदर्शितेनैव मार्गेण जायते । अतः ' अहं त्वा० । इति विशेषत उक्तिः। अथावान्यत्किंचिदुच्यते-अत्रार्जुनस्य भगवत्मियत्वमुक्तम् । भक्तोऽसि मे (४ । ३) इत्यनेनार्जुनस्य भगवद्भक्तत्वमुक्तम् । भक्तस्य च भगवत्मियत्वं द्वाद- शाध्यायान्ते बहुश उक्तम् । यो मे भक्तः स मे पियः ( १२ । १४ ) यो मद्भक्तः स मे प्रियः (१२।१६) भक्तिमान् यः स मे पियः ( १२ । १७) भकिमान् मे पियो नरः ( १२ । १९) भक्तास्तेऽतीव मे मियाः (१२ । २०) इति । हर्षामर्षभयोवगैर्मुक्तो यः स च मे प्रियः ( १२ । १५ ) इत्यत्र च हर्षादिमनोविकाररहितस्य भगवत्मियत्वमुक्तम् । किंत्वेतत्सर्वं 'समोऽहं सर्व- भूतेषु न मे द्वेष्योऽस्ति न मियः ( ९ । २९ ) इत्यनेन विरुध्यते । तत्र हि भगवतः कोऽपि प्रियो नास्तीति प्रतीयत इति चेत् । उच्यते-पियत्वं प्रेम । तच्च द्विविधम् । स्वाभाविकं नैमित्तिकं च । तत्र स्वाभाविकं जन्मनः प्रभृति यावदायुर्विद्यमानम् । यथा मात्रादीनां पुत्रादिषु । नैमित्तिकं च निमित्तानन्तरमुत्पद्यमानं यावन्निमित्तं विद्यमानम् । निमित्तानि चोपास्योपासकभाव, गुरुशिष्यभाव, स्वामिभृत्यभाव, पोष्यपोषकभावदांपत्यादीनि । तत्राऽऽद्यं प्रेम भगवतो न संभवति । परमात्मनि जीवात्मनामवस्थितिराभासवादे- नावच्छेदवादेन प्रतिविम्बवादेन कथमपि भवतु । सा च जीवात्मसु सर्वत्र समैव । न वत्र मनुष्यपशुपक्षिभेदेनाप्यवस्थितिवैशेष्यम् । अतस्तन्मूलको न क्वचिदपि द्वेषः प्रेम वा। अत एव न मे द्वेष्योऽस्ति न प्रिय इत्यत्र कारणं संमोहं सर्वभूतेष्विति प्रदर्शितम् । नैमित्तिकं प्रेम तु भगवति संभवति । अत एव तत्र यो मे भक्तः स मे पिय इत्येवं मियत्वे भक्तिः कारणत्वेन प्रदर्शिता । भक्तिश्चोपासकस्य मनोवृ- तिविशेषः । तथा च नैव गीतावचनयोमिथो विरोधः । प्रियत्वस्य वैविध्येनावि- रोधात् । तदेवमर्जुनस्य भगवत्मियत्वं निर्बाध सिद्धं भवति । इदं चार बोध्यम् । पथा क्षेत्रे प्रथमतो हलेन भूमेविलेखनं क्रियते तेन चाङ्कुरनिर्गमपतिबन्धक .
५२ म. वासुदेवशास्त्रिप्रणीता- .. काठिन्यं विनाश्यते । ततो वीजावापः क्रियते । ततः पुनः समीकरणं क्रियते । तेन चाङ्कुरवृद्धिपतिबन्धकं तृणकण्टकपाषाणादि दूरी क्रियते । ततः क्षेत्रम- भितः कण्टकशाखावरणं क्रियते । तेन चाङ्कुरविमर्दको गोमनुष्यादिसंचारः प्रतिवध्यते । एतावत्पर्यन्तं जीवाधीनम् । वर्षणं चेश्वराधीनम् । वर्षणेन च क- णिशोद्मद्वारा सस्यनिष्पत्तिः फलं संपद्यते । तथा मानसे क्षेत्रे प्रथमतः प्रवे- शितेन हलस्थानीयेन भगवत्स्वरूपेण मनोवृत्तेविलेखनं क्रियते । तदेतदुक्तं मन्मना भवेति । तेन चाङ्कुरनिर्गमप्रतिवन्धकं (मनोवृत्तेः) काठिन्यं विनाश्यते । मनो- वृत्तिार्ह विषयान्तरैर्बहुभिनिरन्तरसान्द्रखचिता व्यसनासक्तस्येव कठिना चिरा- याभूत् । ततस्तस्यां मनोवत्तौ भक्तिरूपं बीजमोप्यते । तदेतदुक्तं मद्भक्तो भवेति । ततः पुनर्मनोवृत्तेः समीकरणं क्रियते । तेन च तत्र पूर्व पूज्यत्वेन प्रविष्टा इन्द्रादयो देवा भगवद्भक्त्यङ्कुरवृद्धिपतिबन्धका अपसायन्ते । तदेतदुक्तं मद्याजीति । मदेकयाजी भवेत्यर्थः । ततो मां नमस्करु, इत्यनेन मामेव नमस्कु- वित्यर्थकेन मानसक्षेत्रस्याऽऽवरणं क्रियते । तेन च तत्र देवद्विजगुरुपाज्ञा- दीनां नमस्कार्यत्वेन संचारो भगवद्भक्तिबीजाङ्कुरविमर्दकः प्रतिबध्यते । एताव- पर्यन्तं भक्ताधीनम् । ततो वर्षणस्थानीयं तदनुगुणबुद्धिप्रदानं भगवधीनम् । ददामि बुद्धियोगं तम् (१०।१०) इत्युक्तेः। वर्षणेन फलप्राप्तिरनुभवसिद्धा। बुद्धि- योगेन भगवत्माप्तिश्च ‘ददामि बुद्धियोगं तमित्यनन्तरं' 'येन मामुपयान्ति ते' इति भगवदुक्त्यैव सिद्धा । ननु चात्र भक्ताधीनं मन्मना भवेत्यादि निर्दिष्टम् । तथा फलमपि मामेवैष्यसीति निर्दिष्टम् । भगवदधीनं बुद्धियोगपदानमत्र कुतो न निर्दि- ष्टमिति चेत्-उच्यते । प्रथमतो छत्र राज्यलोभेन युद्धकर्मणि प्रवृत्तोऽर्जुनो भीष्मद्रोणादीन् पुरतो दृष्ट्वा तथा विरतोऽभूत् । राज्यलोभोऽपि समूलकार्ष कषि- तोऽभूत् । एतादृश्यामवस्थितावपि च पुनस्तस्यार्जुनस्य पुनः प्रवृत्तिः कथमपि सं- पादनीया । तस्याः संभवश्च राज्यापेक्षयाऽप्यधिकफललोभेन कदाचित्स्यात् । कदाचित्कर्तव्यमानबुद्धिरुदिता चेत्तया स्यात्। अत्र तु भगवता द्वयमपि प्रयुक्तम् । तत्राऽऽयं देवैरपि प्रार्थनीयं मोक्षरूपं महत्फलम् । तच्च ' सोऽमृतत्वाय कल्पते । इत्यादिभिर्बहुषु स्थलेषु भङ्ग्यन्तरेण प्रदर्शितम् । तत्र च सर्वत्रोक्तिवैचित्र्यमात्र- मेव । तात्पर्य तु मोक्षरूपमेकमेव । युद्धप्रवृत्तेर्द्वितीयं कारणं कर्तव्यमावबुद्धिरूपं च यद्भगवता प्रदर्शितं तदपि मोक्षसंबद्धमेव । यतो मोक्ष आत्मविज्ञानमन्तरेण न कथमपि सिध्यति । आत्मविज्ञानं च चित्तशुद्धिमन्तरेण न संपद्यते । चित्तशुद्धिश्चाहंभाव- कायपरिशुद्धिः। फलाभिसंधिरहितेन कर्मणैव सेखुमर्हति । तादृशं कर्म च कर्तव्यमात्रबुद्धयुद- यमन्तरेण नैव संभवतीति । तथा चार द्विविधकारणमध्ये मुख्य कारणं मोक्ष- रूपमेकमेव । तदेव चात्र मामेवैष्यसीति निर्दिष्टम् । मोक्षरूपफलप्राप्तिकारश्च बुद्धियोगपदानरूपः । तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मामुपयान्ति ते ( १० । १० ) इत्येवं प्रानिर्दिष्टत्वादत्र न निर्दिष्टः । नन्वेवं मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥ ( ९ । ३४ ) इत्येवं मामेवैष्यसीत्यन्तेन सर्वमेवैतनिर्दिष्टमेव । तत्किमर्थं पुनरत्र निर्दि- श्यत इति चेत्-अत्रोच्यते । मामेवैष्यसीति पत्र कार्यम् । मन्मना भवेत्यादिकं तस्य कारणम् । कार्यकारणभावं ज्ञात्वैव हि कार्यार्थिनः कारणे प्रवृत्तिः । तथा प्रवर्तमानस्य च द्वयी विधा । अस्मात्कारणादनेन प्रकारेण कार्यपाप्तिर्भ- वतीत्येवं कार्यप्राप्तिप्रकारजस्तादृशे प्रकारे शक्यतां च ज्ञात्वा कश्चित्पवर्तते । कश्चित्तु तादृशं प्रकारमजाननप्युपदेष्टुर्वचसि विश्वासातिरेकात्मवर्तते । तत्र चायं विशेषः- फलमाप्तिप्रकारज्ञो यद्यप्याशु प्रवर्तते । किंत्वसंभावनाग्रस्तो निर्वतेतापि कर्हिचित् ॥ यस्तु प्रवर्तते लोके विश्वासादेव केवलम् । मन्दं पवर्तमानोऽपि न निवर्तत कर्हिचित् ।। इति । पकते चार्जुनस्य युद्धाथै प्रवृत्तौ शैध्यं स्थैर्य चेति द्वयमपि संपादनीयं भगवतो मनसि । तत्र शैघ्यं प्रथमतः साध्यमिति तदर्थं पूर्व नवमेऽध्याये मामे- वैष्यसि ( ९ । ३४ ) इत्युत्तरं 'युक्त्वैवमात्मानं मत्परायणः' इत्यनेन फलमाप्तिपकारस्य दिक् प्रदर्शिता । स च प्रकारो दशमे ‘ददामि बुद्धियोगं येन मामुपयान्ति ते ( १० । १०) इत्यनेन स्पष्टीकृतः । अत्राष्टादशे चाध्याये युद्धे प्रवृत्तोऽर्जुनो यश पुनस्ततो न निवतेत तथा स्थैर्यसंपादनाय स्ववचसि विश्वासातिशयोत्पादनाय 'मामेवैष्यसि । ( १८ । ६५) इत्यु- तरं ' सत्यं ते पतिजाने ' इत्युक्तम् । यद्यपि भगवद्वचस्यर्जुनस्य स्वाभाविक एव विश्वासातिशयस्वथाऽप्पभिमन्युवधाद्यालोच्य विरक्त्युत्पत्त्या कदाचियुद्धा- म. वासुदेवशानिप्रणीता- निवृत्तिरर्जुनस्य स्यादिति शङ्कानिवृत्तय एवेदं भगवतोक्तम् । शङ्का हि स्नेहा- तिशयेनोद्भवति । तथा च कालिदास आह-अतिस्नेहः पापशङ्कगति ( शाकु. ) एतन्मूलकमेव च सत्यं ते पतिजाने । इत्युत्तरं 'मियोऽसि मे ' इति भगवन्मुखानिर्गवमित्यास्तां तावत् । अन्यच्च किंचिदुच्यते-सर्वधर्मान्परित्यज्येत्यत्र सर्वपदस्यासंकोचेन प्रवृत्तत्वा- दन यद्यपि रलचर्याद्याश्रमाणां बरालणादिवर्णानां चातुर्वर्ण्यव्यतिरिक्तानां म्लेच्छादीनां च ये धर्मास्तेषां सर्वेषां ग्रहणं संभवति तथाऽपि सर्वधर्माणां परित्यागकर्मत्वेनात्रोक्तत्वात्परित्यागस्य च पाप्तिपूर्वकत्वावश्यंभावाद्ये धर्मा- स्तदानीमर्जुनस्य कर्तव्यत्वेनोपस्थितास्त्यक्तुं शक्याश्च भवन्ति तथाविधा एव सर्वे गृह्यन्ते । तादृशाश्च धर्मा अत्र द्विविधा:-अर्जुनस्य क्षत्रियत्वेन क्षत्रियजात्युचिताः स्वधर्मत्वेनोपस्थिताः, अन्ये च तदानीं भीष्मद्रोणादीन्प- श्यतो दयार्द्रचेतसो मनस्युपस्थिताः । आद्याः शस्त्रग्रहणादयः स्वधर्माः, द्वितीयाश्च शस्त्रन्यासादयः । द्विविधानामप्यत्र त्याज्यत्वेन ग्रहणाय सर्वप- दोक्तिः । अन्यथा धर्मान्परित्यज्येत्येव केवलमुक्तं चेत्तत्र स्वधर्माणामेव ग्रहणं स्यान्न तु शस्त्रन्यासादीनाम् । न च स्वपदानुक्त्या शस्त्रन्यासादीनामपि ग्रहणं स्यादिति वाच्यम् । यतः स्वपदानुक्तावपि धर्मपदात्स्वधर्मपतीतिरौत्सर्गिकी । देवदत्तोऽयं धर्मवाह्य इतिवत् । शस्त्रन्यासादीनां चात्र त्याज्यत्वेन ग्रहण- मत्यावश्यकम् । अर्जुनस्य पूर्ववत्पुनयुद्धे प्रवृत्तिसंपिपादयिषयैवात्र भगवतो वक्तुं प्रवृत्तत्वात् । नन्वेवमर्जुनस्य पुनः पूर्ववयुद्धे प्रवृत्तिसंपिपादयिषया भगवतो वक्तुं प्रवृत्ति- रिति सत्यमेव । किंतु तदनुरोधेनात्र स्वधर्माणां शस्त्रग्रहणादीनां ग्राह्यत्वोक्तिरा- वश्वकी न तु त्याज्यत्वेनोक्तिः । अत्र केवलं शस्त्रन्यासादिविषयिणी सांपतिकी मनोवृत्तिरर्जुनस्य संजाता सैव निरसनीया भवति । तथा च- त्यक्त्वेमां स्वमनोवृत्ति मामेकं शरणं बज ' इत्येव वक्तव्यं न तु सर्वधर्मानितीति चेन्मैवम् । धर्मत्यागोऽत्र न स्वरूपतो विव- क्षितः किंतु फलतः । फलतस्त्यागश्च शस्त्रग्रहणादीनामप्यत्राऽऽवश्यक एव । सुखदुःखे समे कृत्वा० ततो युद्धाय युज्यस्व ( २ । ३८ ) मा कर्मफलहेतुर्भः ( २ । ४७) इत्येवं भगवतैव प्रागुतत्वात् । नन्वत्र ‘स्वरूपतस्त्यागो न विव- क्षितः किंतु फलतः' इति कथमवगम्यत इति चेत्-उच्यते । परित्यज्येति क्त्वा- कायपरिशुद्धिः। ५५ प्रत्ययेन बोधितः परित्यागस्य 'मामेकं शरणं व्रज ' इत्येवमुक्तया शरणममन- क्रियया सह संबन्धः शब्दत एवात्र प्रतीयते । तत्र च मामित्यर्थान्तरे संक्रमितम् । अशोच्यानन्वशोचः ( २।११) इत्याधुक्तपकारेण कथयन्तं मामिति तस्यार्थः । तथा चात्र धर्मपरित्यागपूर्वकशरणगमनं न केवलाया भगवद्व्यक्तेः किंतु तादृशोक्तिरूपविशेषणविशिष्टायाः । तच्च तादृशोक्त्यनुल्लङ्घनेनैव स्वरूपं लभते न त्वन्यथा कथमपि । तादृशोक्तौ च युद्धस्य स्वरूपत उपादेयत्वं युध्यस्वेत्येव- मनेकशो दृश्यते । केवलं तत्फलस्य मा कर्मफलहेतुर्भूः' इति त्याग उक्तो दृश्यते । अतस्तथैवात्र त्यागो विवक्षित इति सिध्यति । नन्वेवं यथा शस्त्रग्रहणादीनां स्वधर्माणां स्वरूपतो न त्यागस्तथा तदानी- मर्जुनस्य मनसि कर्तव्यत्वेनोपस्थितानां शस्त्रन्यासादीनां धर्माणामपि स्वरूपतस्त्यागो न स्यात् । उभयोरप्येकेनैव सर्वधर्मानिति पदेन गृहीतत्वेन परित्यागे तदन्वयस्या- विशेषात् । शस्त्रन्यासादयो धर्मास्त्वत्र स्वरूपतोऽपि नैवेष्टा भगवतः । तथा चैकं साधयतोऽपरं प्रच्यवत इति न्यायापातः । यथा- पुत्रावियोगमाधित्सुर्भार्ययाऽत्याजि शंतनुः । तथा च कथमेतदिति चेत्-भ्रान्तोऽसि । यथा स्वधर्माचरणं फलेच्छायामपि भवति फलेच्छाया अभावेऽपि भवति न तथा तदितरधर्माचरणम् । तत्तु फलानुसंधान एव भवति । तथा च फलतस्त्यागे स्वरूपतस्त्यागोऽवश्यंभाव्येव । तदुक्तम्- परधर्मे प्रवृत्तिर्हि न फलेच्छां विना क्वचित् । इति । यथा सुखस्य दुःखस्य तज्ज्ञानाव्यभिचारिता । मायिकानां पदार्थानामाभासाव्यभिचारिता ॥ तथैवैतत् । ननु फलेच्छयाऽपि स्वधर्मस्यानुष्ठेयत्वं श्रुतिस्मृत्यादिषुच्यते । तथा च कथ- मत्र फलेच्छायाः सर्वथा त्यागो भगवतोच्यत इति शङ्कगनिरासार्थमेकमित्यु- तम् । ' श्रुतिस्मृत्यादिषु किमुक्तमित्येवमन्यत्र दृष्टिप्रक्षेपस्य नायमवसरः। मया यदुच्यते तत्रैव केवलमिदानी दृष्टिं निधेहि ' इत्येवं भगवत एकमित्युक्तवतोमि- मायः। ननु पापमेवाऽऽश्रयेदस्मान्हत्वैतानाततायिनः ( १ । ३६) इत्युक्तरीत्या पापानुत्पत्तिरूपं फलमनुसंधायैवार्जुनस्य मनसि शस्त्रन्यासादयः परकीयधर्माः समु. पस्थिताः । इदानीं तु भगवता फलतस्त्याग उक्तः । तथा च किं भगवतो मतिः ५६ म. वासुदेवशास्त्रिप्रणीता- . करोत्वयमर्जुनो भीष्मद्रोणादिवधम् , भवतु पापम् , ईदृशी समभूत् । तथा तु भगवति कथमपि न संभवः । तथा चात्र भगवता कथं त्याग उक्त इति चेत्तत्रो- तरार्धमाह-अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामीति । त्वदनुसंहितं पापानुत्पत्ति- रूपं फलं प्रकारान्तरेण साधयिष्य एवाहमिति भगवतो भावः । अत एव चात्र धर्मफलानां त्यागो नोक्तः। त्वदीप्सितधर्मफलस्य पापानुत्पत्तिरूपस्य प्रकारान्तरेण साधयिष्यमाणत्वात् । किंतु फलतो धर्माणां त्याग उक्तः । पापानुत्पत्तये त्वदभी- प्सितं शस्त्रन्यासादिरूपं कारणं न युक्तमित्याशयः । तथा हि । शस्त्रन्यासे स्वधर्मत्यागजन्यपातकसंभावना 'अथ चेत्त्वमिमम् ' पापमवाप्स्यसि (२ । ३३) इत्यत्रोक्ता । शस्रग्रहणे तु भीष्मद्रोणादिवधजन्यपातकसंभावना ' पापमेवाऽऽश्र- येदस्मान् ० . ( २ । ३६ ) इत्यत्रोक्ता । सेयमुभयतःस्पाशा रज्जुः । उभयतः पाशो बन्धो यस्यास्तादृशरज्जुवदत्र वर्तनासक्तिः । अर्जुनाभीप्सिते शस्त्रन्यासे तु भीष्मद्रोणादिवधप्रसक्त्यभावादेका पातकसंभावना निरस्ता भवेत् । द्वितीया तु तदवस्थैव । भगवांस्तु तं द्विविधादपि पातकान्मोक्तुमिच्छति । अतः सर्वपापेभ्य इत्यत्र सर्वग्रहणम् । द्विविधादपि पातकान्मोक्षस्तु न शस्त्रन्याससाध्यः कथ- मपि । किंतु शस्त्रग्रहण एव कथंचित्साध्यो भवेत् । तत्पकारस्तु — सुखदुःखे समे कृत्वा० युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ( २ । ३८ ) इति प्रागुक्तः । किंच यत्र न फलाभिसंधिर्नापि कर्तृत्वानुसंधानं तत्र तत्कर्म न कृतं भवति किंतु जातम् । अदृष्टं च पुण्यपापरूपं कर्तरि संकामति न त्वकर्तरीति न पापलेपसंभवः। एतदपि- 'बुद्धियुक्तो जहावीह उभे सुकृतदुष्कते ( २ । ५०) इत्यत्र प्रदर्शितम् । कर्मकर्तृत्वेऽपि तदकर्तुत्वं कर्तृत्वानुसंधानाभावाद्भवति । तथा च चातुर्वर्ण्यम् ० ( गी० ४ । १३ ) इति श्लोके तस्य कर्तारमपि मां विद्धयकर्तारम् । इत्युक्तम् । अत एव योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा० (२ । ४८ ) · तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ' ( ३ । ९) इत्यत्र सङ्ग- त्याग उक्तः । कर्मणा सह सङ्गश्च कर्तुः कर्तृत्वानुसंधानमेव । तत्त्यागश्च कर्तृत्वा- नुसंधानस्य शक्यत्वे सति तदकरणम् । नतु क्रियात्याग एवाकरणम् । — सङ्ग त्यक्त्वा कर्माणि कुरु । मुक्तसङ्गः समाचरेत्येवं कर्मणो विहितत्वेन क्रियाया अवर्जनीयत्वेन तत्त्यागस्यासंभवात् । कर्तृत्वानुसंधानरूपस्य सङ्गस्य च त्यानः ' कायपरिशुद्धिः। कर्तृत्वे सत्यपि संभवति । तथा च यत्र कर्तृत्वानुसंधानस्य शक्यत्वे सति यस्तादृशकर्तृत्वानुसंधानत्यागस्तत्रैव तादृशकर्मजन्यं पुण्यपापरूपमदृष्टं नोत्प- यते । निद्रायां तु लत्तापहारादिकर्मकर्तुनिंद्राणस्य मनोवृत्तेविलीनत्वेन न तदानीं तादृशकर्मकर्तृत्वानुसंधानस्य शक्यत्वम् । तथा जागृतावपि सत्कर्मा- सत्कर्म वाऽज्ञानेन यद्भवति तत्र मनोवृत्तेविद्यमानत्वेऽपि तस्यां विषयतया तार- शकर्मणोऽप्रवेशान तदानीं तादृशकर्मकर्तृत्वानुसंधानस्य शक्यत्वम् । अत उक्तस्थलइये कर्तृत्वानुसंधानाभावेऽपि पुण्यपापरूपमदृष्टं लेशत उत्पद्यत एव । कर्तृत्वानुसंधानस्य शक्यत्वसहितो योऽभावः स एवादृष्टानुत्पत्तौ कारणं भवति । ईदृशश्च कर्तृत्वानुसंधानस्याभावोऽत्रार्जुनेन युद्धकाले संपादनीय इति भग- बतो भावः। अथात्र भगवता मनसीत्थं संभावितं स्यात्-यदेतदुक्तरूपं कर्तत्वाननुसंधानं तहक्तुं सुकरमध्यवसितुं दुष्करम् । जगद्वैचित्रीनिर्मात्रा मया यथा- तस्य कर्तारमपि मां विद्धयकर्तारम् ( ४ । १३ ) इत्युक्तरीत्या कर्तृत्वाननुसंधानं संपाद्यते तथाऽनेनार्जुनन संपादयितुमशक्यम् । यतोऽस्यार्जुनस्य प्रवृत्तिरीदृशी संदृश्यते " शस्त्रन्यासे स्वधर्मत्यागजन्यपाप- संभावना, शस्त्रग्रहणे भीष्मादिवधजन्यपातकसंभावना । द्विविधात्पातकान्मो- क्षस्त्वावश्यकोऽपि योग्योऽपि च मया संपादयितुमशक्यः । का गतिः । अन्यतरत्सोढव्यमेव " इति मनसि कुर्वतः शस्त्रन्यासे मतिरासीत् । तथा प पूर्वमुक्तम् — विसृज्य सशरं चापम् ' ( १ । ४७ ) ' न योत्स्य इति गोवि- न्दमुक्त्वा । (२ । ९) इति । एवं चास्य द्विविधात्पातकान्मुक्तो भवेयमिती- छाऽपि न दृश्यते । युक्तं चैतत् । यतः- उचितायाप्यशक्याय कार्याय कृतबुद्धयः । महासत्त्वा अपि प्राज्ञाः स्पृहयन्ते न कर्हिचित् ॥ इत्यभियुक्तोक्तिरेतदेव कथयति । ईदृशीमर्जुनस्य मनोवृत्ति दूरीकुर्वमा- ह भगवान्-सर्वपापेभ्यो मोक्षयिष्यामीति । मुचेः सन्नन्ताणिच् । णिजर्थस्य स्वामिति कर्म न तु मुचरिति । मुचेरकर्मकत्वात् । 'मुचोऽकर्मकस्य ' ( पा. स. ७ । ४ । ५७ ) इति सूत्रेण गुणः । 'द्विविधादपि पातकान्मुक्तो भवेयम् । इसीच्छामुत्पादयामीत्यर्थः । अथाशक्यार्थविषये कथमिच्छा भवदिति संदेह निराकर्षनाह-मा शुच इति । मा शुच इति पदवयेन- ५० म. वासुदेवशास्त्रिप्रणीता- मा शुचः संपदं दैवीमभिजातोऽसि पाण्डव ' ( १६ । १५) इति पूर्वोक्ति स्मारितोऽत्रार्जुनो भगवता । तत्र 'दैवी संपद्विमोक्षाय निबन्धायाऽऽसुरी मता ( १६ । ५) इति पूर्वार्धम् । तथा चात्र द्विविधादपि पातकान्मोक्षस्त्वया दैवीं संपद- मभिजातेन नैवाशक्य इति विभावनीयः । अशक्य इति भावना च तवेयं मोह- मलिकैव । सर्वथा तां त्यजेत्यभिप्रायः । तथा चैतदनुसारेणैवाग्रे — नष्टो मोहः स्मृतिर्लब्धा ' ( १८ । ७३) इत्यर्जुनेनोक्तम् । अत्रेदं बोध्यम्-यत्र विधि- वाक्ये क्त्वापत्ययान्तस्य निर्देशस्तव स विधिः स्ववाचकपत्ययप्रकृतिभूतधातूप- स्थाप्यक्रियामा कक्षीकृत्य न पर्यवस्यति किंतु तादृशक्रियापूर्वकालीनक्रियाम- पि कक्षी करोति । केवलं तत्र क्त्वाप्रत्ययप्रकृतिभूतधातूपस्थाप्यक्रियाया विधिर्न स्वातन्त्र्येण । किंतूत्तरकालीनक्रियाङ्गत्वेनैव । तथा चात्र सर्वधर्मपरित्यागस्य विधिः शरणगमनाङ्गत्वेनैवेति सिद्धम् । शरणं गच्छतश्च शरण्यस्येच्छानुसारे- ण सर्वथा वर्तनं शरण्यस्याऽऽज्ञाया अंशेनाप्यनुल्लङ्घनं च यथा भवेत्तथा मान- सिकः संकल्प आवश्यकः । प्रकृते च शरण्यो भगवान् । तेन च योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनंजय ( २ । ४८ ) इत्येवं प्रागाजधमेव । तादृशाज्ञाया अपरित्यागेनात्र धर्मपरित्यागश्च कीदृश इति चेत्-उच्यते । धर्मशब्दश्च पुत्रपल्यादिशब्दवन्नित्यसापेक्षः कस्य धर्म इति । यदि च तत्रामुकस्यति न ज्ञायते न तावत्तस्य कर्मणो धर्मत्वमवबुध्यते । अथ च नैसर्गिकः शस्त्रग्रहणादिस्तदानी कर्तव्यत्वेन प्रतीतः शस्त्रन्यासादि योऽर्थ उपस्थितस्तत्र ममायं धर्मः' इत्येवमर्जुनस्य या मदीयत्वबुद्धिः स एव सङ्गः । तस्य सङ्गं त्यक्त्वेति पूर्वकृतभगवदाज्ञानुसारेण त्याग उपस्थितार्थे मदीयत्व( मत्कृतत्व )बुद्धित्यागे यो धर्मस्य धर्मत्वेनावबोधाभावः स धर्मपरित्याग एव भवति । तथा च कर्मणि कर्तृत्वानुसंधानाभावेऽर्थादेव धर्मप- रित्यागः सिध्यति । एतेन- स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि ( २ । ३० ) अथ चेत्त्वमिमं धयं संग्रामं न करिष्यसि । ततः स्वधर्म कीर्ति च हित्वा पापमवाप्स्यसि ( २ । ३३ ) इति पूर्वमुक्तम् । अत्र तु तद्विरुद्धं सर्वधर्मान् परित्यज्य ' इत्युच्यत इति भगवदुक्तौ पूर्वापरविरोध इत्यपास्तम् । वस्तुतो धर्मस्य सतोऽनुष्ठानं पूर्वमुक्तम् ।
माऽस्तु संध्या- कायपरिशुद्धिः। ५९ अत्र तु सत्यप्यनुष्ठाने केवलं तत्र धर्मत्वबुद्धिनिराकतेत्यविरोधात् । एवं चात्र सर्वधर्मपरित्यागविधिर्न वस्तुतः किंतु फलत एव धर्मत्वबुद्धित एव वेति संकु- चित एवात्र विवक्षितः । एतेनेदानींतनाः केचित्कर्मभ्रष्टाः मिहोत्रं ब्रह्मयज्ञश्च । मा भूवंश्च तपांसि यज्ञा वा । केवलं श्रीकृष्ण एवा- स्माकं रक्षितेति भावनीयम् । इत्येवं वदन्तस्तत्र च- सर्वधर्मान्परित्यज्य मामेकं शरणं ब्रज इति पीतावचनं प्रमाणयन्तः परास्ताः । अब गीतावचने हि पूर्वोक्त- पकारेणोपदेष्टुर्मगवतः शरणगमनं प्राधान्येन विधीयते । तदनुसारेण तत्र- त्योपदेशसंरक्षणाय सर्वधर्मपरित्यागविधेः संकोचस्यावश्याङ्गीकर्तव्यत्वात् । न च सर्वधर्मपरित्यागविध्यनुसारेणोपदेष्टुशरणगमनविधेरेव संकोचोऽस्तु । तथा च मोपदेशविशिष्टस्य शरणगमनं किंतु केवलस्यैव भगवत इति वाच्यम् । गुणविध्यनुसोरण पधानविधिसंकोचस्यान्याय्यत्वात् । तदुक्तमभियुक्तैः- प्रकृत्यैव विधेाप्तिरसंकोचेन जायते । यदि मुख्यविधेबर्बाधः स्यादङ्गविधिना ततः ॥ प्रधानविध्यवाधाय संकोचोऽङ्गविधेर्मतः ॥ इति । अत एवात्रोक्तवैपरीत्येन मामेकं शरणं गत्वा सर्वधर्मान्परित्यज, इति नोक्तम् । तथा सति सर्वधर्मपरित्यागविधेः पाधान्यापत्त्या तत्संको- चस्य ग्रहीतुमशक्यत्वात्मागुतपूर्वापरविरोधदोषापत्तेः। तथा च सदा गुरुं विचार्यैव वक्तव्यं राजसंसदि । इत्यत्र राजसंसदि वक्तव्यमिति प्रधानविध्यनुसारेण तवत्यवचनमेव कक्षी करोति । गुरुं विचार्येत्यङ्गविधिर्न तु शौचमुखमार्जनादिकमपि । अथात्रेदं विचार्यते-मामेकं शरणं व्रजेत्यत्रैकमिति किं मामित्यस्य विशे- षणमथवा शरणं बजेति शरणगमनक्रियायाः । नन्विदं शरणगमनक्रियाया एव विशेषणं भवितुमर्हति । तथा हि-मिथः संबद्धे वाक्यद्वय एकस्मिन्नेव वाक्ये वा सर्वशब्द एकशब्दश्चेति द्वयं निर्दिष्टं चेत्तयोश्चैकत्रैव विशेष्योपादा- नेऽन्यत्रापि तादृशमेव विशेष्यं ग्राह्यत्वेनोपतिष्ठत इति हि वाक्यविदां समयो न्यायसिद्धः। पकते च सर्वशब्दार्थस्य विशेष्यत्वेन धर्मो निर्दिष्टः। धर्मश्च क्रिया- .
म. वासुदेवशास्त्रिप्रणीता- - । विशेष इत्येक शब्दार्थस्यापि शरणगमनरूपः क्रियाविशेष एव विशेष्यं भवितुमर्हति । मामित्यस्यार्थो भगवांस्तु न क्रियाविशेष इति चेन्मैवम् । धर्मो हि रूपयेनोपादेयो भवति-अनुष्ठेयत्वेन रक्षकत्वेन च । धर्मो रक्षति रक्षित इत्युक्तेः । रक्षित इत्यस्य यथावदनुष्ठित इत्यर्थः । तथा च यदि सर्वधर्मान्परित्यज्येत्यत्र रक्षकत्वेन रूपेण धर्मपरित्यागो विधीयते तदा मामित्यस्यार्थो भगवानपि रक्षकत्वसादृश्यादेकमि- त्यस्य विशेष्यं भवितुमर्हति । तथा च पूर्वोक्तः संशयस्तदेवस्थ एवेति चेत् । अत्रोच्यते । अस्मिंश्च संशये मामित्यस्यैकमिति विशेषण एकशब्दबोध्य- मवधारणं रक्षकस्य स्यात् । मन्यतिरितेऽन्यत्र कापि ' अयं रक्षकः' इति रक्षकत्वेन दृष्टिं न विधेहीति । शरणं व्रजेत्यस्य विशेषणे तु कर्तव्यस्यावधा- रणं स्यात् । मच्छरणगमनमित्येकमेवेदानीं त्वयाऽनुष्ठेयं न त्वन्यत्किंचिदिति । उभयथाऽपि त्विष्टमेव । एवं चात्र सर्वधर्माणामनुष्ठेयत्वरूपेण न त्यागः किंतु रक्षकत्वरूपेणैव । सर्वधर्मानुष्ठानं तु भवतु मा वा भूत्तत्रोदासीन एवायं परि- त्यागविधिः । अत एवाग्रे युद्धे प्रवर्तमानमर्जुनमयं विधिन विरुणद्धि । ननु स्वधर्मानुष्ठाने पातकसंभावनाया अभावेन किमर्थमुक्तमुत्तरार्धे पापेभ्यो मोक्ष- यिष्यामीति । ईदृशी यस्मिश्लोके पूर्वार्धात्तरार्धयोस्तत्र संगतिर्यत्पूर्वार्धे विहि- तेऽपि सर्वधर्मपरित्यागे तत्र पापोत्पत्तिशङ्कयाऽर्जुनस्य प्रवृत्तिर्न स्यात् । अतः प्रवृत्तिसिद्धयर्थमुत्तरार्धे पापान्मोक्षः प्रतिज्ञातो भगवतेति । यदि च धर्म- स्यानुष्ठेयत्वेन परित्यागो न विहितस्तर्युक्ता संगतिर्न संभवतीति चेत्-सत्यम् । तादृशी संगतिः . समीचीना किल । किंतूत्तरार्धे यः पापान्मोक्ष उक्तः स किं पापनिमित्तं भगवताऽनुसंधायोक्तः स्यादित्याकाङ्क्षायां पूर्वा|पस्थितमेव किंचिनिमित्तं भगवता मनस्यनुसंहितं भवति । पूर्वा|पस्थितं चात्र निमि- नद्वयम् । प्रथमचरणोपात्तः सर्वधर्मपरित्याग एकं निमित्तम् । द्वितीयचरणे च मामित्यस्य युद्धे प्रवर्तयन्तं मामित्यर्थेन युद्धे संभावितः स्वजनवधो द्वितीयं निमित्तम् । अत्र प्रथमचरणोपस्थिनं शाब्दम् । द्वितीयचरणोपस्थितं त्वर्थगत्याऽवसेयम् । तथापि तदेवात्र भगवता मनस्यनुसंहितं भवति । युध्यस्वे- त्यसकत्तदुक्त्या युद्धत्यागस्य भगवतोऽनिष्टत्वेन सर्वधर्मपरित्यागस्य फलत एव ग्रहणात् । द्वितीयचरणोपस्थितत्वेनोत्तरार्धस्य प्रथमचरणापेक्षया संनिहिवतर- त्वाच । श्रीषा चार्जुनेन- , कायपरिशुद्धिः। कथं न ज्ञेयमस्माभिः पापादस्मानिनितुम् । (१।३९) इत्येवं तस्यैव शङ्कितत्वाञ्च । एतेन सर्वधर्मान्तरित्यज्यत्यत्र धर्मपरित्याग: स्वरूपेणैव प्रायः। वथा सत्येव धर्मत्यागमूलकपातकसंभवेन सर्वपापेभ्यो गोक्ष- यिष्यात्युित्तरार्धसंगतिरित्पपास्तम् । किंच संगविसामीचीन्याय धर्मत्यागोऽत्रानुष्ठेयत्वेनोक्त इति कल्पना नैव संभ- वति । साधारणोऽपि जनः पातकोत्पादके कर्मणि प्रवर्त्य पचासतो मोक्षसंपा- दनं न कुर्यात् । प्रक्षालनाद्धि पडून्स्य दूरादस्पर्शनं वरम् । इति न्यायात् । किमुत भगवांस्तादृशे कर्मणि प्रवर्तयेत् । अतः पातकोत्पचि- शङ्कगनिवृत्त्यर्थमेवोत्तरार्धम् । अत एघ- अहं ते सर्वपापानि नाशयिष्यामि मा शुचः इति नोक्तम् । पापान्मोक्षणं तु पापानुत्पत्तिरूपं संभवति । न चैव- किंचिदप्यत्र पापं ते न भविष्यति मा शुचः ' इति स्पष्टमेव कुतो नोक्तामिति वाच्यम् । सर्वपापेभ्य इति सर्वशब्देन पूर्वसंचि- तादपि पापान्मोक्ष इत्यर्थस्यात्र विवक्षणात् । न च पूर्वसंचिवपापान्मोक्षो मोक्ष- दशायामेवेति कथं तस्यात्र विवक्षा स्यादिति वाच्यम् । मन्मना भव मद्भको मद्याजी मां नमस्कुरु । मामेवैष्यसि सत्यं वे प्रतिजाने पियोसि मे ॥ (१८ । ६५) इति पूर्वश्लोके मामेवैष्यसीत्यनेन मोक्षावस्थायाः पतिपादनात् । न च युद्धारम्भे कः प्रसङ्गो मोक्षावस्थाप्रतिपादनस्येति वाच्यम् । युद्धारम्भसमये युद्धे प्रवृत्तिसंपादनार्थं यादृश्यर्जुनस्य मतिरवश्यमुत्पादयितव्या तादृश्यैव मत्या परिणामे तस्य मोक्ष आनुषङ्गिकतयैव सिद्धोऽभूदिति मोक्षावस्था प्रदर्शि- ता भगवता । यदि चार्जुनस्य युद्धारम्भे शोको न जातः स्यात्मविबन्धाभावन युद्धे प्रवृत्तिश्चापतिहता स्याचदा युद्धसमाप्त्यनन्तरं मोक्षसाधनीभूतात्मज्ञानसं- पादनायावश्यं यदा कदापि प्रयत्नो भगवतः कर्तव्यः स्यात् । यतोऽर्जुनो भव. तोऽतीन मियः । तदुक्तम् ' इष्टोऽसि मे ' ( १८ । ६४ ) भियोगसिके ( १८ । ६५ ) भक्तोऽसि मे सखा च ( ४ । ३ ) इति । तथा चामे यदा कदापि यदवश्यं कर्तव्यं तत्तदानीं शोकनिवारणप्रसङ्गन साहणिकवयैव लिव- पायमभूदिति मुदा वत्परवशस्तथोक्तवान् । वदेवत् ' बराटिकाम्नेषणाय प्रवृक्ष- ६२ म. वासुदेवशान्त्रिप्रणीता- चिन्तामणि लब्धवान् । इति न्यायानुगुणमभूत् । एतेनार्जुनं निमित्तीकृत्य सर्व- लोकानुग्रहार्थं भगवता गीताशास्त्रं पोक्तम् , इत्यपास्तम् । तादृशमसङ्गानु- गुणमर्जुनस्य यदवश्यवक्तव्यमित्युक्तं भगवता तदेव गीताशासां सत्सर्वलोका- मुग्रहार्थमभूत् । इति हि वस्तुस्थितिः । अत्रापरे प्रत्यवतिष्ठन्ते । सर्वधर्मान्परित्यज्येत्यत्र यो धर्माणां परित्याग उक्तः स स्वरूपत एव यथाऽत्र ग्रहीतुं शक्येत तथाऽयं श्लोको व्याख्ययो भवति । तथा हि-सर्वधर्मानित्यत्र के सर्वे धर्मा इत्यपेक्षायां पूर्वश्लोके ये व्यावर्तितास्त एवात्रोपतिष्ठन्ते । तेषां च धर्माणां परित्यागः पूर्वश्लोक आर्थः। अत्र शाब्द इति विशेषः । अयं हि पूर्वः श्लोक:- मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यास सत्यं ते पतिजाने पियोऽसि मे ॥ ( १८ । ६५) अत्र मन्मना भवेति नापूर्वो विधिः। न बर्जुनस्य मनोवृत्तौ कदापि भगवान पविशतीति युज्यते वक्तुम् । तथा मद्भक्तो भवेत्यपि नापूर्वो विधिः । स च मद्भक्तः सन् मन्मना भवेत्येवं मन्मना भवेत्यस्याऽऽनुषङ्गिकतयाऽ- स्तु भवेत्यस्याऽऽवृत्त्या वाक्यान्तरकल्पनया मद्भक्तो भवेत्येवं स्वातन्त्र्येण वाऽस्तु, उभयथाऽपि नापूर्वः । भक्तोऽसि मे सखा चेति (४।३ ) इति भगवतैव भक्त- त्वस्यानूदितत्वेन तस्य सिद्धत्वात् । तथा मद्याजी भव, मां नमस्कुरु, इत्यपि ना- पूर्वो विधिः। शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्(२।७)इत्युक्तवताऽर्जुनेन भगवति पूज्यत्वस्य नमस्कार्यत्वस्य च गृहीतत्वात् । तदेवं विधिद्वयमस्तु विधिचतुष्टयं वा सर्वथापि नापूर्वो विधिरपि तु नियमः । नियमविध्यङ्गीकारे च यथा प्रक- त्यैव समपदेशे यष्टुं प्रवृत्तस्य समे यजेतेति वचनमुदास्ते केवलं विषमप्रदेशे यष्टुं मवृत्तस्य ततो निवृत्तिमा करोति । समेऽपि प्रदेशे यष्टुं प्रवृत्तिश्च स्वर्गकामो यजेतेत्यादिवचनान्तरसाध्यैव न तु समे यजेनेति वचनसाध्या । तथा प्रह- तेऽर्जुनस्य मनोवृत्तौ भक्तौ पूज्यत्वबुद्धौ नमस्कार्यत्वबुद्धौ च यदा यदृच्छयैव भगवान् विषयस्तदा मन्मना भवेत्यादिनियमाविधेर्न कश्चिद्व्यापारः। यदि च तासु भगवद्व्यतिरिक्तः कश्चन विषयः प्रविशेत्तदा ततो निवृत्तिमात्रमेतद्वचन- साध्यम् । सा च निवृत्तिन शाब्दी । मदितरमना मा भरित्यादिवचनव्यक्त्य- भावात् । किंत्वार्थी । सैव च निवृत्तिः सर्वधर्मान् परित्यज्येत्यनेन शब्दतः क्रियते । ननु समपदेशे यष्टुं प्रवृत्तिर्न समे यजेतेति वचनसाध्या वचनस्य निव- कायपरिशुद्धिः। ६३ तकस्य प्रवर्तकत्वाङ्गीकारेऽतिभारमसङ्गात् । तथा च यथा तत्र स्वर्गकामो यजेतेति वचनान्तरं प्रवर्तकं तथा प्रकृते किं प्रवर्तकमिति चेत्तत्राऽऽह-मामेकं शरणं बजेति । ननु समे यजेतेति वचनस्य केवलं विषमप्रदेशानिवृत्तिमात्र- परत्वे प्रवर्तकस्य स्वर्गकामो यजेतेत्यादिवचनान्तरस्यापेक्षा युज्यते । अदृष्ट- फलके कणि निसर्गतः प्रवृत्त्यभावात् । अत्र तु मन्मना भवेत्यस्य केवलं निव- तकत्वेऽपि निर्वृत्तिकस्य मनसोऽवस्थित्यभावेन तत्र वृत्तौ च मन्मना भवेत्यादिभि- विषयान्तरनिवृत्तौ भगवानक एव विषयस्तवावशिष्ट इति तं गृह्णीयादेवेति न प्रवर्तकस्य मामेकं शरणं ब्रजेत्यस्य वचनान्तरस्यापेक्षा युज्यत इति चेन। यद्यप्य- जुनस्य मनोवृत्त्यादिषु भगवानेक एव विषयोऽवशिष्टस्तथापि तासु भगवतः प्रवेशः शरण्यत्वेनैव स्यादिति वक्तुमशक्यम् । अतः शरण्यत्वेनैव प्रवेशाय मामेकं शरणं वजेत्युक्तम् । एवं च पूर्वश्लोके भवेत्यादिनार्थतः, मन्मना अत्र च श्लोके सर्वधर्मान् परित्यज्येत्यनेन शब्दतो भगवद्व्यतिरिक्तविषयस्य मननभक्तिपूजानमस्कारादि- धर्माः स्वरूपतो व्यावर्तिताः। भगवदर्पणबुद्धया क्रियमाणास्तु न व्यावर्तिता भव- न्ति । अतो धर्मपरित्यागजन्यपातकस्यासंभव एवेति पूर्ववदेव युद्धे भाविस्वजनबध- निमित्तेनैव संभावितं पातकं मनसि कृत्याहं त्वा सर्वपापेभ्यो मोक्षयिष्यामीत्युत्त- रार्ध उक्तमिति । अथ मोक्षयिष्यामीत्यत्र शिप्रत्ययार्थः प्रयोजकन्यापारः कीदृश इति तदुच्यते । सर्वपापान्मोक्षच तदधिगमाद्भवतीति तदधिगम उत्तरपूर्वघयो- रश्लेषविनाशौ तद्व्यपदेशात् ' (ब. स. ४ । ४ ) इति सूत्रे प्रतिपादितम् । तस्य परमात्मनोऽधिगमस्तदधिगमः । अधिगमः पाप्तिर्ज्ञानं च । साकं रामेण मिथिलामधिगच्छति गाधिजः । . इति शास्त्रार्थमधिगच्छतीति च दर्शनात् । पकते चार्थद्वयमप्रेकरूपमेव । परमात्मप्राप्तेजानरूपत्वात् । न हि व्यापकस्य परमात्मन आकाशस्येव क्वापि क- दापि चापाप्तिः संभवति । अतः परमात्मविषयकमज्ञानं तदमाप्तिशब्देन परमा- त्मज्ञानं च तत्माप्तिशब्देन व्यपदिश्यते । तथा च परमात्मप्राप्त्या सर्वपापान्मो- क्ष इति सिद्धम् । परमात्ममाप्तिसाधनं च बुद्धियोगविशेषः । ददामि बुद्धियोगं तं येन मामुपयान्ति ते (१०।१०) इत्युक्तेः । एवं च मोक्षयिष्यामीत्या पापा-मोक्षप्रयोजकीभूतो व्यापारी भगषनिष्ठस्तादृशबुद्धियोगपदानरूप इति सिद्धम् । तादृशधुद्धियोगः परमात्म- ४ म. वासुदेवशानिप्रणीता- . पातिद्वारा सर्वपापान्मोक्षं साधयति । बुद्धियोगमदानं च शरणागतस्य परमा- त्मा करोत्येवेत्यतः पूर्वार्धे ' मामेकं शरणं व्रज ' इत्युक्तम् । मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः। स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥ ( ९।३३) इत्यत्रापि व्यपाश्रित्येत्युक्तो व्यपाश्रयश्चानन्यभावेन शरणागतिरेव । वीत्युपसर्ग- बोधितो विशेषश्च शरणागतिरूपः । अपेत्यनेन तत्रानन्यभावो बोध्यते । परग- तिमाप्तिश्च मोक्ष एव । साऽपि च बुद्धियोगप्रदानद्वारैवेत्येकवाक्यतैव । ननु चात्र व्यपाश्रित्येति ल्यवन्तस्य क्वान्वयः । पापयोनयः स्युरित्यत्र परां गति यान्तीत्यत्र वा । नाऽऽद्यः। असंभवात् । नहि परमात्माश्रयेण पाप- योनौ जन्म भवतीत्युपपद्यते । नान्त्यः । दूरान्वयमसङ्गात् । 'येऽपि पापपोनयः लियो वैश्याः शदाश्च स्युः । इत्येवं यच्छब्दघटितेन वाक्येन व्यवधानादिति चेत्-उच्यते । व्यपाभित्येत्यस्य स्युरित्ययान्वयः। पापयोनय इति हुद्देश्यघटकम् । लियो वैश्याः शूदा वा येऽपि पापपोनयो मां व्यपा- भित्य स्युस्तेऽपि परां गात यान्तीत्यन्वयः । सत्ताक्रियायाः कालपरिच्छेदस्त्वौ- पाधिकः। स्वीयं संरक्ष्यायमास्ते कुमारोऽपि कुशामधीः । इति यथा । तत्र हि सांपतिकी या सत्तां तदपेक्षया पूर्वकालिकत्वं संरक्षण- किमाया इति स्थापत्ययोपपतिः । संरक्ष्याऽऽस्त इत्यस्य संरक्षतीत्यर्थः। तथा प्ररुते स्युरित्यवास्धातुवाच्या संभाविनी या ससा तदपेक्षया पूर्वकालि- कत्वं व्यपाश्रयक्रियाया इति क्त्वापत्ययोपपत्तिः । व्यपाश्रित्य स्युरित्यस्य व्यपाश्रयेयुरित्यर्थः। ननु चान प्रथमतृतीयपाइयोयत्यासेन- लियो वैश्यास्तथा शदा येऽपि स्युः पापयोनयः । मां हि पार्थ व्यपाश्रित्य तेऽपि यान्ति परां गतिम् ॥ इति पाठः कुतो न कृतः । लथा पाठे हि व्यपाश्रित्येत्यस्य क्वान्वय इति शङ्काऽपि नोदेतीत्यपरं लापवमिति चेत्-उच्यते । व्यत्ययेन पाठे यद्यपि लाघवं तथापि परमात्माश्रितत्वरयोद्देश्यकोटौ निवेशो न स्यात् । उद्देश्यबोधक वाक्यं हि यच्छब्दपीटतं 'येऽपि पापयोनयः स्युः । इत्येव । स्यादयश्च तत्र निदर्शनम् । न चोद्देश्यकोटौ परमात्माभितत्वस्य निवेशाभावे किं स्यादिति कायपरिशुद्धिः। ६५ . सद्य वाच्यम् । तथा सत्युद्देश्यतावच्छेदकस्य विधेयतावच्छेदकव्याप्यत्वनियम- स्यौत्सर्गिकत्वात्सर्वेषां पापयोनीनां मुक्तिरावश्यिकी स्यात् । ननु भवतु सर्वेषां मुक्तिः कस्ते द्वेषः । यतः सर्वेषामपि परमात्माश्रयेणैव स्याद्विधेयकोटौ मां व्य- पाश्रित्येत्यस्य प्रवेशादिति चेत्सत्यम् । न मे कश्चन द्वेषः प्रत्युत सर्वेषां मुक्तिरि- टैव मे । किंतु सांप्रतं तथा न दृश्यते। यतः पापयोनयः सांपतं दृश्यन्ते जगति। तैः परमात्माश्रयो न कृत इति चेत्कुतो न जातस्तेषां स परमात्माश्रयः । एवं च परमात्माश्रयः सर्वेषां न दृश्यत इति तदनुसारेणात्रोद्देश्यकोटौ 'येऽपि पापयोनयः परमात्माश्रिताः स्युः । इत्येवं परमात्माश्रयस्य प्रवेश आवश्यकः । स च यथान्यासे सत्येव सिध्यतीति नैव विपर्यासेन पाठोऽवावकाशं लभत इति बोध्यम् । नन्वत्र सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज' इति विध्यनन्तरं एव प्रत्युत्तरावकाशमप्यदत्त्वैवाहं त्वा सर्वपापेभ्यो मोक्षयिष्यामी- त्युक्तिर्मा शुच इति समाश्वासनं च नोचितमिव प्रतिभाति विध्यनुसारेणायं वर्तेनैवेति निश्चयानन्तरं ह्येतादृश्युक्तिरुचिता । अत्र तु विधि- श्रवणानन्तरं तथा करिष्यामीति प्रतिश्रवणमपि नास्ति दूरे निश्चयः । तथा मन्मना भवेति पूर्वश्लोकेऽपि मन्मना भवेत्यादिविध्यनन्तरं सद्य एव मामेवैष्य- सीति फलोक्तिः, स्वोक्तेः सत्यत्वकथनं, तत्र पियत्वहेतुश्च नोचितः । तथा च कथमेतदिति चेत्-उच्यते । मदाज्ञानुसारेणायं वर्ततेवति निश्चयोऽत्र भगवतो मनसि विधितोप पूर्वमेवाऽऽसीत् । मन्मना भवेत्यादिविधयोऽप्यत्र विधिच्छाया- पन्नाः सिद्धार्थस्यैवानुवादकाः । पूर्वमेकादशाध्याये विश्वरूपदर्शनानन्तरं 'स्थाने दृषीकेश ० ( ११ । ३६) इत्याद्यर्जुनोक्त्यैतसिध्यति । निदर्शनार्थं तत्रत्यमुपसंहारात्मकं तस्मात्मणम्येति श्लोकमुपपादयामि- तस्मात्मणम्य पणिधाय कार्य प्रसादये त्वामहमीशमीड्यम् । पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम् ॥ ४४ ॥ तस्मात् सखेति मत्वा पसभं यदुक्तम् ( ११ । ४१ ) यच्चावहासार्थमसत्कृतोऽसि ( ११।४२ ) इत्येवं मया लोकत्रयेऽप्यपतिमप्रभावस्य तवापराधाः कृतास्तस्माद् अहमत्यन्तापकृष्टोऽहमीशमीशनशीलमीड्यं स्तुत्यं च त्वां प्रणम्य कार्य पणि- धाय नीचैः कृत्वा त्वां प्रसादये तव यथा मद्विषये प्रसन्नता स्यात्तथा प्रार्थये ।
६६ म. वासुदेवशास्त्रिप्रणीता- प्रार्थनापकारमेवाऽऽहोत्तरार्धन-पितवेत्यादि । यथा पुत्रस्यापराधं पिता सहते यथा च मित्रस्यापराधं मित्रं सहते यथा च पियाया अपराधं पियः सहते तथा हे देव ममापराधं सोढुमर्हसीत्यर्थः । अत्रार्जुनेन कृतामीहशी प्रार्थनां श्रुत्वा भगवत इत्थं मतिः स्यादेव यदयं मद्विचाराद्धहिले शतोऽपि न वर्तेतति । अथात्र प्रसङ्गास्किंचिद्विचार्यते । नन्वत्र पूर्वार्धेऽर्जुनेने घणामकायमणिधा- नादिकं स्वकीयमाचरणं स्वोक्त्यैव यदाविष्कृतं तन्न युक्तम् । नार्जुनसदृशः प्रेक्षावान् खकीयमनवद्यमाचरणं स्वमुखेनैवोद्गिरति । किंतु ततः प्रणम्य पणिधाय कायं प्रसादितस्तेन स ईश ईडयः। इत्येवं कव्यक्तित्वेन तादृशार्थस्यात्र निबन्धनमुचितम् । एवमुक्त्वाऽर्जुनः संख्ये रथोपस्थ उपाविशत् । विसृज्य सशरं चापं शोकसंविनमानसः (१।४७)। इतिवत् । नतु तत्र तादृशोऽर्थः । अधुनोपविशाम्येव रथोपस्थेऽत्र केवलम् । विसृज्य सशरं चापं शोकसंविनमानसः । इत्येवमर्जुनोक्त्योपनिबद्ध इति चेत्-सत्यम् । यद्यप्येवं तथाऽपि तदानीम - नोऽत्यन्तापराधिनमात्मानं मन्यमानो विषादातिशयग्रस्तो विवेकशिथिलस्तथा स्वयमुक्तवान् । सांपतमाप लोके कश्चिद्दारिद्यातिशयपीडितः क्षुधातः क्वचि- द्गृहद्वार्यवस्थितोऽन्नं याचमानस्तथा ( तुमच्या पाया पडतो ) क्लिपन् दृश्यते । तेन च गृहे निवसतां मानसं दयार्दतां नीयते । प्ररुतेऽपि च भमक्तो मानसं दयाईतां निनीषनेवार्जन ईदृशं वक्तुं प्रवृत्तः । भगवतो मानसं प्रकृत्यैव दयाई- मिति त्वन्यत् । एवं चात्र स्वोक्त्यैव स्वीयाचरणाविष्करणेनार्जुनस्य विपादस्य निरवधिरतिरेकः सूचितो भवतीति गुणावहैवान स्वोक्त्याऽऽविष्कतिः। पूर्व भी- मद्रोणादीन् दृष्ट्वा कथमेभिः सह युद्धं कार्यमित्येवं मायामोहितस्यार्जुनस्य यो विषादोऽभूत्स विषादी विराट्स्वरूपावलोकनानन्तरकालिकविषादवत्र परमावाधं गत इवि तदानीत नाचरणस्य न स्वोक्त्याऽऽविष्करणं किंतु ' एवमुक्त्वाऽर्जुनः संख्ये रथोपस्थे० । इत्येवं कव्यक्तित्वेनोपनिबन्धनमिति भेदः । युक्तच विराट्स्व- रूपावलोकनेनार्जुनस्य मनसि समुत्पन्नस्य विषादस्य परमावधिरतिरेकः । तथा हि-भगवतो विराट्य रूपमदृष्टपूर्व दृष्टयतोऽर्जुनस्य मनोवृसिरानन्दात्मिका विस्मयात्मिका भयालिका चाभूत् । तदानीमानन्दविस्मयभयानामतिरेकश्च तथाविधोऽभूद्यथा स तदानीं जीवन्नपि मृतवदेव मनोवृत्ति शून्य इवाभूत् ।
कायपरिशुद्धिः। इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ( ११ । ५१ ) इत्यो पूर्ववत्सौम्यं भगवत्स्वरूपं दृष्टवतोऽर्जुनस्योक्तेः । तत्राऽऽनन्दो हषि- तोऽस्मीति ( ११ । ४५ ) हषितपदेन, विस्मयश्च विस्मयाविष्टः ( ११३१४ ) इत्यनेन, भयं च भीतभीतः (११ । ३५ ) भयेन च प्रव्यथितम् ( ११ । ४५) इत्यनेनेत्येवं स्पष्टमेव पदर्शितानि विराट्स्वरूपावलोकनबेलायामान- न्दविस्मयभयानि । तदनन्तरं च पूर्ववत्सौम्यस्वरूपावलोकनकाले भगवतो दिव्यं स्वरूपं स्मरतः क तन्महामहिमशालि मनसाऽप्यचिन्त्यं भगवतो दिव्यं रूपं क चाहं कीट इस क्षुद्रतरः । मेरुसर्षपयोरिव महदेवैतदन्तरम् । तथापि ताह- शेन भगवता सह मित्रस्येव म आह्वानावहासादिकोऽत्यन्तानुचितो व्यवहार आसीदिति चिन्तयतश्च विषादः । यच्च तद्भगवतो दिव्यं रूपमर्जुनस्य मनस्या- नन्दविस्मयभयानां परमावधिमतिरेकमजनयत्तद्विषादस्याप्यतिरेकं परमाषधि जनयदेवेति युक्तमुत्पश्यामः । अत एव च सखेति मत्वा० ( १११४१) यच्चावहासार्थमसत्कृतोऽसि । तत्क्षामये ( ११ । ४२ ) इत्येवं स्वापराधोक्ति- पूर्व क्षमा प्रार्थिता । तथा तस्मात्प्रणम्य० अर्हसि देव सोढुम् ( ११।४४ ) इत्येवं प्रकृतश्लोकेऽपि प्रणामकायपणिधान( लोटांगण घालणे )पभृतिस्व- कीयाचरणोक्तिपूर्वकं क्षमा पार्थितेति बोध्यम् । अत्र च किं सोढुमर्हसीत्येवं सहनक्रियायाः कर्माकाङ्क्षायां तत्क्षामये (११ । ४२ ) इत्यत्र तच्छब्देन गृहीतमपराधजातमत्र संवध्यते । सहनक्रियाकर्मत्वेनैव तत्र तस्य निर्देशात् । अत्रापराधश्च भगवदननुगुणमर्जुनाचरणम् । तत्सहनं चापराधकार्यानुत्पादनम् । अपराधकार्य चापराधिपत्यपकारचिन्तनं प्रेमहासश्च । एतदपराधकार्य चाप- राधज्ञानद्वारा बोध्यम् । तथा च मदीयापराधजातं क्षमस्वेत्येवमत्रार्जुनेन भगवान्पार्थ्यत इति सिद्धम् । तत्र दृष्टान्तमाह-पितेव पुत्रस्येति । नन्वत्र कीदृशावस्थः पुत्रो ग्रासः । यतः पुत्रसंबन्धेन पितुराचरणस्यावस्थात्रयं दृश्यते- लालयेत्पश्च वर्षाणि दश वर्षाणि ताडयेत् । पाहे तु पोडशे वर्षे पुरे मित्रवदाचरेत् ।। इति । ततश्चात्र पुत्रपदेन किं लालनावस्थो ग्राह्य उत ताडनावस्थोऽथवा मित्र- सदृशावस्थ इति संशयः । नाऽऽद्यः । पित्रा स्वाङ्के गृहीतो बालो यल्लत्ता- प्रहारादिकं करोति सदनुचितमपि तदा बालस्तदनुचितमिति न मन्यते । पिताऽपि तथा म मन्यते । प्रत्युत तादृशावस्थस्य' वालस्य हस्तपादचालन- - ६८ म. वासुदेवशास्त्रिप्रणीता- मुचितमित्येव मन्यते । तथा च तत्रापराध एव स्वरूपं न लभते दूर एवं तत्सहनचर्चा । न तृतीयः । सखेव सख्युरित्यनेन गतार्थत्वात्पुनरुक्तिप्रसङ्गात् । नापि द्वितीयः। तत्र ताडनोक्त्याऽपराधसहनाभावेन दृष्टान्तासंभवात् । यदि च तत्र प्रत्यपकारचिन्तनाभावमात्रेण प्रेमहासाभावमात्रेण वाऽपराधसहन- मित्युच्यते तबस्तु । इत एव वाऽरुचेदृष्टान्तान्तरमाह-सखेव सख्युरिति । अपराधी सखा बपराधकाले स्वकीयमाचरणमनुचितमित्येवमपराधत्वेन जाना- ति । यस्य चापराधः सोऽपि सखा तदाचरणमपराधत्वेन जानात्येव । तथा सत्यपि नैव कश्चित्सखाऽपराधिनोऽपकारं करोति फित्वपराधं सहत एव तद्वदिति भावः । ननु यथा सखिलतापराधं सखा सहते तद्वत्त्वं ममापराधं सहस्वेति पर्यवसितं भवति । सखा च पूर्वतोपकारस्मरणेन भाव्युपकारसंभावनया वा सखिकृतापराधं सहत इति तत्रापराधसहनमौपा- धिकम् । तथाऽत्र भगवता कथमर्जुनरुतापराधः सोढव्यः । नार्जुनेन भगवति पूर्व कश्चिदुपकारः कृतः। अग्रेअप नैवार्जुनादुपकारसंभवः । भगवतः परिपूर्ण- शक्तित्वेन कस्या अपि न्यूनताया असंभवेनोपकारानवकाशात् । तथा च नायं दृष्टान्तः क्षोदक्षम इति चेत्-सत्यम् । उपकारसहनांशमात्रेण दृष्टान्ताभिधानात् । तथा च सहने यो हेतुविशेषस्तदंशेन साम्याभावेऽपि न क्षतिरित्याशयः। हेतु- विशेषसाम्येनापि दृष्टान्तमाह-प्रियः प्रियाया इति । भार्या छपराधकाले स्व- कीयाचरणं भर्तुरननुगुणमिति जानाति । भर्ताऽपि तदा तथा जानात्येव । तथापि कश्चिद्भर्ता न भायर्या ताडयति नापकारं चिकीर्षति नापि च प्रेमशैथि- ल्यमापादयति किंतु केवलमपराधं सहत एव । यतस्तदपराधज्ञानं विद्युल्लवन- मिव क्षणिक क्षणान्तरास्पर्शि भवति । अत एव तत्कार्योत्पादनाय न प्रभवति । एवं च यथा भार्यास्तापराधज्ञानं पत्युर्जायमानमपि प्रेमातिरेकेणाऽऽकालिकं क्षणान्तरास्पर्शि कार्याक्षमं जायते तथा मदीयापराधज्ञानं भगवतस्तव जाय- मानपपि प्रेमातिरेकेणाऽऽकालिकं क्षणान्तरास्पार्श कार्याक्षमं भवत्विति प्रार्थ्यतेऽ- र्जुनेन भगवानिति बोध्यम् । अथवा मदीयापराधं नैवापराधत्वेन वेत्तु भवानिति प्रार्थनाऽत्र बोध्या । तदनुसारेण दृष्टान्तत्रयेऽस्मिनुत्तरोत्तरमपराधसहनस्याऽअधिक्यमेवमत्र बोध्यम् । प्रथमे दृष्टान्ते यत्पिता पुत्रस्यापराधं सहते तन्नैसर्गिकप्रेम्णा बद्धः पिता तथा करोतीति युक्तमेव । किंतु तदपेक्षयाऽऽपेक्षिकपेम्णा बद्धोऽपि सखा सख्यु- रपराधं सहत इत्यधिकम् । तदपेक्षयाऽपि पियो यत्मियाया अपराधं सहते तत्तु कायपरिशुद्धिः। विचित्रमेव । यतस्तत्र कचित्मियया कृतमपराधमपराधत्वेनैव न जानाति प्रियः । अतोऽयमपराधसहनपकारोऽतीव विचित्रः। अत्र चार्जुनरुतभगवत्मार्थनाया- मयं पियादृष्टान्तोऽतीवोपयुक्ततरः। मत्कृता येऽपराधास्तेऽपराधत्वेन त्वन्मतौ मा प्रविशन्त्विति हि प्रार्थनाऽत्र समुचितैव । अपराधत्वेन ज्ञानपूर्वकं यदपराध- सहनं तदपेक्षयाऽपराधस्यापराधत्वेनाज्ञानं ज्याय एव भवति । ननु प्रियया कृत- स्यापराधस्यापराधत्वेन ज्ञानं कस्यचित् पियस्य कुतो न भवतीति चेत्-एतत्का- मचेष्टितमवेहि । तदुक्तम्- ज्ञानतोऽज्ञानतो वाऽपि स्वापराधं प्रियाकृतम् । नापराधत्वेन वेत्ति पियस्तत्कामचेष्टितम् ॥ इति । नन्वत्र ज्ञानत इति न संभवति । यदि भर्ता तस्याः पियस्तर्हि सा तदपराध ज्ञानतो नैव कुर्यात् । अथ ज्ञानतोऽपराधं सा करोति चेत्स न तस्याः पियो भवति । तथा च कथमेतदिति चेत्-उच्यते । अत्र पिय इत्यस्य । अहं तस्याः पियः' इत्येवं प्रियमात्मानं मन्यमान इत्यर्थ इति न कश्चिद्दोषः । ननु भार्यायां भर्तुः प्रेमातिरेके कामो हेतुरत्र त्वर्जुने भगवतः प्रेमातिरेके भक्तिहेतुरिति वैषम्यमत्राप्यस्त्येवेति चेदीदृशवैषम्यस्यावर्जनीयत्वेनाकिंचित्कर- त्वात् । सर्वांशसाम्ये हि दृष्टान्तदान्तिकभाव एव न घटते । एतेन शान्तरस- प्रधानेऽत्र वेदान्तशास्त्रे पियः प्रियाया इति शृङ्गारिको दृष्टान्तो नोचित इत्य- पास्तम् । अत्र शृङ्गाररसस्य प्रतीतावपि तस्य दृष्टान्तगतत्वेन शान्तरसव्यधि- करणत्वात् । आश्रयैक्ये विरुद्धो यः स कार्यों भिन्नसंश्रयः (का०प०७) इत्युक्तरीत्याऽत्र शृङ्गारशान्तयोाश्रयत्वस्य स्पष्टत्वात् । किंच दृष्टान्तगतो यः शृङ्गाररसानुगुणोंऽशस्तेन दृष्टान्तदाान्तिकयोः साम्यस्य विवक्षितत्वे हि स्यान्नाम तथा दोषः। प्रकृते तु तेनांशेन वैषम्यमेव । वैषम्यं च वस्तुगतं 'विद्यते । इत्येव न तु वाक्यार्थानुबन्धि । अतो नैव तेन वाक्यार्थबोधेऽ- शतोऽविहीनतेति तस्य दोषत्वाभावात् । वाक्यार्थबोधान्तरायो हि दोषवी- जम् । किंच नैव प्रियः प्रियाया इति पदद्वयश्रवणमात्रेण शृङ्गाररसाविर्भावो भवति । 'निर्भसंयन्नाचरणं तदीयं पियः प्रियाया जनयत्यमर्षम् । इतिवत् । अत्रेदं बोध्यम् । विषादातिरेकयस्तमना अर्जुनः स्वकीयाचरणं स्वोक्त्यैव म. बासदेवशाषिप्रणीता- पूर्व आविष्कृतवामिति पूर्वमुक्तमेव । तथैव विषादाविरेकमस्तममा आत्मान- मस्यन्तापराधिनं मन्यमानो भगवन्तं प्रार्थयितुं प्रवृत्तः कदा भगवत्मसादं लभेष- मिति संभ्रान्तस्त्वरया वक्तुं प्रवृत्त इति तदुक्ती 'पियः प्रियाया इव । इत्य- पत्य इक्शो गलितः । पदच्युतिरियं त्वरायोतिकति गुण एष । एवमेवा- हसीत्पत्राऽऽयोऽकारः, हे सखेति ( ११ । ४१) इत्पति शब्दावयव आध इकारब्ध मनःसंभ्रमेण गलित इति तादृश्यक्षरच्युतिरपि त्वराधोतिकेति गुण एव । ईदृशस्थले चशब्दानुच्चारणेऽपि तदर्थलाभः सुलभ एव । वर्णानुयारणं हि द्विविधम् । उच्चारणानुगुणव्यापारवैविन्यात् । वर्णोच्चारणस्य हीत्थं प्रक्रिया । किंचिद्वक्तुं प्रवृत्तस्य मनुष्यस्य मनसा समाहतः कायाग्निर्मारुतमूर्ध्वं प्रेरयति । स ऊर्ध्वं प्रेरितो वायुजिह्वायोपामादीनां कण्ठताल्वादिस्थानः सह तत्तद्वर्णोच्चारणानुगुणसंयोगविशेषजनक व्यापारविशेष प्रतिक्षणमन्यमन्यं जनयति । ते च व्यापारविशेषाः क्रमशो जायमानाः स्वस्वानुगुणान्वर्णान्क्र- मशोऽभिव्यञ्जयन्ति । एवं स्थिते यत्र वर्मनात कस्यचिच्छब्दस्यानुच्चारण- मुद्दिष्टमेव भवति तत्र तादृशेन मनसा समाहतेन कायामिनो प्रेरितो वायुस्ता- दृशशब्दघटकवर्णोच्चारणानुगणाजिह्वायादिव्यापारान्नैव जनयति । अय- मेकोऽनुच्चारणपकारः। यत्र तु न तथोद्दिष्टं किंतु केवलं संभ्रान्तमनास्त्वरया वक्तुं प्रवर्तते तत्र स ऊर्ध्वप्रेरितो वायुस्त्वरान्वित एकस्मिन्नेव क्षणेऽनेकवर्णा- नुगुणाननेकान्व्यापारविशेषान्कमशोऽपि युगपदिव जनयितुं प्रवर्तते । तत्र केचिद्व्यापारा अलब्धावकाशाः स्वानुगुणान्वर्णान्व्यञ्जयितुं न प्रभवन्ति । अयं हि द्वितीयोऽनुच्चारणप्रकारः । अत्राऽऽद्ये वर्णानुच्चारणं क्रियते द्वितीये तु वर्णानुच्चारणं जायत इति विशेषः । अयं चावापरो विशेषः । श्रोतुः प्रथमतः शब्दज्ञानं ततस्तदर्थस्मरणं ततो वाक्यार्थावबोधो जायते । तत्राऽऽद्य प्रकारे श्रोतुरनुचारितशब्दार्थज्ञानं वाक्यार्थावबोधकाले जायते चेसध्याहारलभ्यम् । द्वितीये तु प्रकारे श्रोतुः शब्दश्रवणसमकालमेवानुच्चारितशब्दस्फुरणम् । तच्चाध्याहारमन्तरेणैव निसर्गत एव जायते । तथा हि । तादृशशब्दोच्चारण- जनकव्यापारस्य व्यापारान्तरसंमर्दैन तज्जन्योच्चारणस्य स्पष्टत्वाभावेऽपि तस्य सूक्ष्ममुच्चारणं जायत एव । एव । तादृशसूक्ष्मोच्चारितशब्दोपरक्तपूर्वपरशब्दश्र- क्णाद्वकृवैशिष्टयाच्च श्रोतुर्मनसि सूक्ष्मोच्चारितस्यापि शब्दस्य स्फुरणं भवति । किंचाषाऽऽयः प्रकारोऽयवत्येष संभवति । द्वितीयस्त प्रकारोऽर्थवात कायपरिशुद्धिः। चानके चैकस्मिन्वर्णे वर्णसमुदाये वा संभवति । तथा चात्र ‘प्रियः रियाया इवाहसि देव सोढुम् ' इत्यत्राक्षरद्वयात्मकस्यानर्थकस्य । इवा ' इति भागस्य पूर्वोक्तमकारेण त्वरावशास्पष्टमनुच्चारणं संभवतीति ' इव' शब्दस्याहतीत्यत्रा- कारस्य चेति च्युतिद्वयं न कल्पनीयं भवति । ननु च्युतिद्वयकल्पने वैक- च्युतिकल्पने वोभयथाऽपि हसि ' इत्यस्यासाधुत्वं स्यात् । अकारलोपस्प शास्त्रीयत्वाभावादिति चेन्मैवम् । अनुकार्यस्यामर्थकस्पासाधुत्वेऽप्यनुकरण- स्यासाधुत्वामावात् । अनुकरणं अनुकार्येणैवार्थवद्भवति । एवं च्युतिमकल्पन- योपमा सिध्यति । युत्यकल्पने विवशब्दाध्याहारेणोपमोपपादनीया । आवश्यकी चेयं प्रियः प्रियाया इवेत्युपमेति मागुपपादितमेव । अध्याहारपक्षे पियायाहसीति संधिरार्षः । उपपत्तिस्तु तत्राऽऽतिदे- शिकमनित्यमिति पूर्ववासिद्धम् (पा० स० ८।२।१ ) इत्यतिदेशस्या- नित्यत्वेन यलोपस्य सिद्धत्वात्सवर्णदीर्घः सुलभ इति । इयं च रीतिरत्राकारच्यु- तिपक्षेऽप्यवश्यं शरणीकरणीयैव । अन्यथाऽत्रैव प्रिय इति पदे प्रियाया इति पदे च रुत्वस्यासिद्धत्वाद्रोरुकारस्येत्संज्ञालोपयोरभावपसङ्ग इति स्पष्टमेव व्याक- रणदर्शने । एतेनात्र प्रियाय । इति पदच्छेदं प्रकल्पयन्तः परास्ताः । अयं हि तेषामाशयः । अत्र चतुर्थ्यन्तः पियशब्दो निर्दिश्यते नतु षष्ठ्यन्तः पियाशब्दः । उपमाईयमेवा । पियः पियायेति पदद्वयं दार्शन्तिकार्थसं- बद्धम् । प्रियायेति षष्ट्यर्थे चतुर्थी । यथा पुत्रस्यापराधं पिता सहते यथा वा सख्युरपराधं सखा सहते तथा हे देव पियरत्वं पियस्य ममापराधं सोढुमर्ह- सीत्यर्थः । अत्र च नेवशब्दाध्याहारक्लेशो नापि संधेरापत्वकल्पनं नापि च शान्तरसमधानेऽत्र गीताशास्त्रे ‘प्रियः पियायाः' इति शृङ्गाररसानुगु- णवर्णनमनुचितमिति दोष इति । वयं तु पश्यामः किमत्राऽऽनुगुण्यं तैः संपादितमिति । यदुक्तमिवशब्दाध्या- हारक्लेशो नेति । न तद्युक्तम् । इव शब्दच्युतौ स्वीकृतायामध्याहारस्यैवाभावात् । अध्याहारपक्षेऽप्यत्र क्लेशो नास्त्येव । तदुक्तमध्याहारतत्त्वज्ञैः- अध्याहारस्तु तत्रैव दोषावह उदीरितः । तदर्थस्य विवक्षास्ति न बेति यदि संशयः॥ संशये हि विलम्बन वाफ्यार्थावगतिर्यतः । विवक्षा मिथिता स्याचेदयाहारो न दुष्पति ।। यतस्तत्राविलम्बन जायते श्रोतुरर्थधीः ॥ इति ।
, ७२ म. वासुदेवशास्त्रिप्रणीता- एतदुक्तं भवति । अध्याहारक्लेशश्च मानसः । पदार्थज्ञानोत्तरं वाक्यार्थ- ज्ञानमिति क्रमः । तत्र वाक्यार्थज्ञानसाधनीभूते पदार्थज्ञाने यदि काचि- न्यूनता स्यातर्हि तो दूरीकर्तुं याऽध्याहारकल्पनादिव्यापारान्तरासक्तिर्मनसो जायते स मानसः क्लेशः। स चाध्याहारस्थले सर्वत्रैव भवतीति न नियमः । यत्र हि पदार्थज्ञानसमय एवाध्याहतपदार्थविज्ञान संस्कारविशेषाद्भवति तत्र न क्लेशः । संस्कारविशेषश्च पूर्वोपक्रान्तार्थज्ञानात्परिस्थित्यवलोकनाद्वा जायते । लोके हि क्वचिद्गवाक्षद्वारा वहन्तं वायुमसहमानेन रोगिणा द्वार- मित्युक्ते सद्य एव तादृशपरिस्थितिज्ञस्य श्रोतुर्मनसि पिधेहीति पिधानक्रियास्फु- रणं भवति । तदुक्तम्- अरे द्वारमिति श्रुत्वा तद्भावमधिगच्छति । तादात्विकी स्थिति ज्ञात्वा पिधेयुद्धाटयेति वा ॥ इति । प्रकृते च प्रथमान्तं षष्ठयन्तं चेति पदद्वयमिवशब्दसहितं 'पितेव पुत्रस्य इति 'सखेव सख्युः' इति च द्विःपयुक्तमिति तच्छ्रवणजन्यसंस्काराहि- तमनसस्तदने 'पियः प्रियायाः ' इत्येवं प्रथमान्तं षष्ठ्यन्तं चेति पदद्वयपत्य- भिज्ञया पूर्वसदृश एवार्थोऽत्रोपनिबध्यत इति जानतश्च सद्य एवेवार्थस्फुरणं युक्तमेव । तस्मादीदृशरथले व्यापारान्तरासक्तिरूपक्लेशस्याभावेन दूषकताबी- जस्याभावान्नाध्याहारस्य दुष्टत्वमिति विभावनीयं सूरिभिः । यच्च प्रियायेति चतुर्थ्यन्तपदच्छेदे संधेरापत्वकल्पनं नेत्यानुगुण्यं प्रदर्शितं तत्रैकं संघित्सवोऽपरं पच्यवत इति न्यायापातः । संधेरापत्वकल्पनं दूरीकुर्वतः षष्ठ्यर्थे चतुर्थ्या आर्षत्वकल्पनं गले पततीति । किंच संधेरुपपत्तिः प्राक् प्रदर्शिता । षष्ठ्यर्थे चतुर्थ्या उपपत्तये तु केवलं 'व्यत्ययो बहुलम् ' (पा० सू० ३ । १ । ८५) इत्येवं बाहुलकं शरणीकरणीयम् । किंच यः संधेरुपपत्तिप्रकारः स चतुर्थ्यन्त- पदच्छेदेऽपि पिय इति पदे त्वयाऽप्यङ्गीकर्तव्य एव । किंच वाहुलकानुसर- णेऽपि यो विभक्तिव्यत्ययो दृश्यते तत्र षष्ट्यर्थेऽन्या विभक्तिः पायो न दृश्यते । षष्ठ्येवान्यविभक्त्यर्थे दृश्यते । किंचात्र गीतामणेवा तथाऽत्र चतुर्थी निर्दिष्टा स्यादित्यत्र न किंचिद्धेतुं पश्यामः । न पियस्येति षष्ठीनिर्देशे छन्दो- भङ्गः । प्रत्युतार्थावगतिसौलभ्यमेव । यच्च मियाया इति षष्ठ्यन्तपदच्छेदे शान्तरसमधानेऽस्मिन्गीताशास्त्रे शृङ्गाररसानुगुणवर्णनमनुचितमिति दोषपदर्शनं कृतं तत्मागेव दसोत्तरम् ।
कायपरिशुद्धिः। पकृतमनुसरामः । या चेयं कायपरिशुद्विरुक्ता सा विविधस्यापि कायस्य सर्वांशेन चापेक्ष्यते । कायवैविध्यं च स्थूलसूक्ष्मकारणभेदेन पूर्व प्रदर्शितमेव । कायशुद्धिश्चेत्तत्र मोक्षः करतलामलकवदनायाससाध्य एवेति मन्तव्यम् । तदुक्तम्- यावदशुद्धः कायस्तावदुर एव भवबन्धः । शुद्धौ संवृत्तायां मुक्तेः किं साधनैरन्यैः ॥ इति । अत्र च काय शुद्धेः प्रशंसायां तात्पर्य न तु मोक्षसाधनीभूतस्याऽऽत्मवि- ज्ञानस्याधिक्षेपे । नहि निन्दति न्यायात् । कायशुद्धेरावश्यकत्वं चान्यत्रा- प्युक्तम्- विना काय शुद्धिं न धर्मार्थकामाः कथा दूर एवापवर्गस्य नित्यम् । इति । त्रिविधेषु च स्थूलादिषु देहेषु यः सर्वीपेक्षयाऽप्यत्यन्तसूक्ष्मतरः कारणदेहस्तस्य शुद्धिश्चेदर्थीदेव तन्मूलकस्य स्थूल सूक्ष्मरूपदेहवयस्य शुद्धिः स्यादेव । कारण- देहश्च भावरूपाज्ञानमयः । तस्य शुद्धिश्च तद्गतदोषापसारणम् । दोषश्च तद्गत- स्तद्विषयकमज्ञानम् । इदमज्ञानमित्येवमज्ञानत्वेनाज्ञानविषयकं यज्ज्ञानं तस्याभाव इति यावत् । तस्य दोषस्यापसारणं च साधनचतुष्टयसंपत्त्या भवति । अत एव गीतायामारम्भ एव न त्वेवाहम् ' (गी० २ । १२) इत्यादिना श्लोक- चतुष्टयेन साधनतुष्टयसंपत्तिः क्रमेण प्रदर्शिता भगवता । यश्चायमर्जुनस्याज्ञान- रूपकारणशरीरगताज्ञानदोषनिबर्हणाय भगवता गीतोपदेशरूपः प्रयत्नः रुष- स्तत्साफल्यम्- नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाऽच्युत । इदानीं गतसंदेहः करिष्ये वचनं तव ॥ ( गी० १८ । ७३ ) इत्यर्जुनोक्त्या स्पष्टमेवावगम्यते । अयमर्थः-कारणशरीरं यद्भावरूपम- ज्ञानं तद्विषयकमर्जुनस्य यदज्ञानं तदिह मोहशब्देनोच्यते । भावरूपस्याज्ञानस्या- ज्ञानत्वेन याथातथ्येन यज्ज्ञानं तस्याभाव इति यावत् । तादृशज्ञानाभावादेव चायं शरीरादिकः सर्वः प्रपञ्चः सत्य इव प्रतीयते । तत एव च कथं भीष्ममहम् ' ( गी० २ । ४ ) इत्याधुक्तप्रकारेणार्जुनस्य मनसि संशयः मादुरभूत् । यद्यपि कथं भीष्ममित्याद्यर्जुनक्तिौ संशयाकारो न दृश्यते किंतु कथमिति पदगम्य आक्षेपस्तथाऽपि प्रथमाध्यायान्ते । एवमुक्त्वा० । (गी. १.। ४७ ) यथा शस्त्रन्यासपर्यवसायिनी निश्चिता मतिरभूत्सा 'कुतस्त्वा १० ७४ म. वासुदेवशास्त्रिप्रणीता- कश्मलमिदम् । ( गी० २ । १ ) इति भगवद्वचसा शिथिलाऽभूदित्येवं संश- यस्तत्र पर्यवस्यति । ननु पूर्व याऽर्जुनस्य निश्चिता मतिरासीत्तस्याः शैथिल्य- मेव कुतस्त्वा कश्मलमित्यादिभगवद्वचसा जातमिति न संभवति । किंतु ताह- शमतेर्भगवद्वचसा विपर्यास एव भाव्य इति चेत्-सत्यम् । येन संस्कारेण भीष्मादिदेहे स्वीयत्वभावना जायते स संस्कारः कुतस्त्वा कश्मलमित्येतावन्मात्रा- दुपपत्तिरहितान्न नष्टो भवति । अतश्चायथार्थत्वेनागृहीतं भीष्मादिदेहविषयक स्वीयत्वप्रत्यक्षं भगवद्वचसा जायमानं शाब्दं ज्ञानं च समवलमभूदिति संशये तस्य पर्यवसानं जायते । यथा नेवगतेन केनचि दोषेण रज्ज्वां सर्प इति प्रान्तस्य नायं सर्प इत्याप्तवचः शृण्वतोऽपि यावनेत्रदोषं सर्पप्रत्यक्ष भवति । पश्चाच्च तेनाऽऽप्तेनाञ्जनादिना नवदोषेऽनपसारितेऽपि ' नायं सर्पो यतो न चलति पूर्वं त्वयैवेयं पक्षिप्ता तत्र रज्जू रज्जुग्रन्थिश्च मध्ये दृश्यत इत्यादि- रीत्या रज्ज्ववृत्तीनां सर्पवृत्तीनां चलनादीनां धर्माणां तत्राभावं तथा सर्पावृत्तीनां रज्जवृत्तीनां ग्रन्थिविशेषादीनां धर्माणां तत्र भावं चानुभावयता पुनः पश्ये- त्युक्ते सर्प पश्यन्नपि रज्जुभावनया पश्यन्पूर्ववन्न पश्यति निश्चितमतिर्न बिभेति च । तथैव तदानी गीतोपदेशानन्तरमर्जुनस्य स्थितिरभूत् । तत्र हि भीष्मादि- शरीरेष्वनित्यावृत्तीनामात्मवृत्तीनां नित्यत्वादिधर्माणां तत्राभावं तद्विपर्ययेण च नित्यावृत्तीनामनित्यत्वादिधर्माणां तत्र भावं चानुभावयता भगवताऽनेकैदृष्टा- तैयुक्तिमयक्तिभिश्च योधितोऽर्जुनस्तादृग्भावनया यावत्पुनष्मिादिदेहान्पश्यदि सावन तत्र पूर्ववत्स्वीयत्वबुद्धिरासीत् । स्वदेहेऽप्यात्मीयत्वबुद्धिर्विलयं गता। तत्र कथं तस्याऽऽत्मीयत्वबुद्धिर्भीष्मादिदेहे स्यात् । अत एवार्जुनेन तदानीं नष्टो मोह इत्युक्तम् । यथा च लोके भ्रान्तस्य चक्षुषि दोषापसारणायाञ्जनं प्रक्षेप्यं भवति तथाऽत्र उपदेश्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ' ( गी० ४ । ३४ ) इत्युक्तो ज्ञानिकृतोपदेश इत्यन्यत् । किंतु तादृशोपदेशात्पूर्वमर्जुनस्यो- पदेशाधिकारसिद्धिर्जातति सूचितं भगवता । ननु यदि पश्चाद्भावी ज्ञानि- कृतोऽर्जुनस्याऽऽत्मोपदेशोऽञ्जनस्थानापन्नस्ततो यथाऽञ्जनपक्षेपे सपद्येव रज्ज्यां सर्पो न दृश्यते तथाऽत्राऽऽत्मोपदेशे ज्ञानिभिः कृते सति सद्य एवायं प्रपञ्चो न दृश्येत । दृश्यते तु मरणपर्यन्तं सः। तत्कथमेतदुपपद्यत इति चेदन केचित् । अञ्जनप्रक्षेपेऽपि तस्याञ्जनस्येन्द्रियसंसर्गद्वारा दोषापसारणपर्यन्तं क्षणं पणा यः कायपरिशुद्धिः। ७५ था यावान् कालस्तावत्सर्पदर्शनमवश्यं भाव्येव । तद्वदनापि पूर्वजातसंस्कारेण प्रपो दृश्यत इति । यद्यप्यात्मविज्ञानोपदेशादनन्तरं मरणपर्यन्तं कालो भूया- नपि भवति तथाऽपि तत्रानादिसृष्टयारम्भकालमारभ्योपदेशपर्यन्तं कालस्तदपेक्षया स तदुत्तरं मरणपर्यन्तं कालो भूयानपि क्षणतुल्य एव भवति । इयमेव जीवन्मुक्त्यवस्था बोध्यति । अन्ये त्ववेत्थं समादधते-यद्यप्यञ्जनप्रक्षेपानन्तरं क्षणं क्षणार्धं वाऽवकाशः सर्पदर्शनस्य स्यात्तथाऽप्यत्र तावानपि नैवावकाशः । यथा दशमस्त्वमसीत्यादौ शान्दज्ञानसमकालमेव दशमसाक्षात्कारस्तथैवात्र महावाक्योपदेशजायमान. प्रत्यक्षज्ञानसमकालमेव प्रपञ्चनिवृत्तिः । तर्हि तदानीमेव देहादिप्रपश्चस्य निवृत्तिर्न कुत इति चेत्--किमयं सर्वः प्रपञ्च एकस्यैवास्याज्ञानमूलकः । अपि तु सर्वेषामेव जीवानाम् । तथा च ये संसारचके बुद्धा जीवास्तेषां यद- शानं तन्मूलकस्यास्य प्रपश्वस्यास्तित्वं दुवारमेव । यथा देवदत्तस्य नेत्रदोषा- पसारणायाञ्जनपक्षेपेऽपि येषामन्येषां दुष्टनेत्राणां यज्ञदत्तादीनां नेत्रेष्वञ्जनं न पंक्षिप्तं तादृशयज्ञदत्तादिदृष्टया तत्र सर्पो दृश्यतैव । न तस्य निवृनिर्देव- दत्तनेोऽजनप्रक्षेपेण भवति तद्वत् । ननु तान्यदृष्टया सर्पदर्शनेऽपि यस्य नेत्रेऽञ्जनं पक्षिप्तं तादृशदेवदत्तदृष्टया तत्र सर्पो न दृश्यते । अत्र तु यस्यो- पदेशः कृतस्तदृष्टयाऽप्ययं प्रपश्चो विद्यत एव । तदेतत्कथमुपपद्यत इति चेद्धान्तोऽसि । यस्योपदेशो जायते तस्योपदेशात्पूर्व तदृष्टया प्रपश्चो विद्यते प्रतीयते चेत्यास्तां नाम । प्रतीतिर्हि मनोवृत्तिः । तथा च मनस एव तादृशी प्रवीतिः । किंतु मनआत्मनोरभेदाध्यारोपेणाऽऽत्मनस्तादृशी प्रतीतिरित्युच्यते । उपदेशानन्तरं तु मनसस्तादृशी प्रतीतिर्यद्यप्यस्ति तथापि सा नाऽऽत्मनः । तदानीं मनआत्मनोस्तादात्म्यारोपाभावात् । तथा च तदानीं यथा प्रपश्चो मिथ्या तथा प्रपञ्चपतीतिरपि मिथ्यैवेति बोध्यम् । इदं चात्रावधेयम्--भ्रान्तस्याऽऽप्तवच सः पूर्वमनन्तरं चेति सर्पदर्शनं द्विर्य- दभूत्तयोर्महदेवान्तरं दृश्यते । प्राथमिकदर्शने हि सर्प सत्यत्वप्रतीतिर्भयकम्पादिकं महारार्थ दण्डादिग्रहणं च जायते । द्वितीयदर्शने तु सर्प मिथ्यात्वपतीतिर्भ- यकम्पादिकस्याभावश्च भवति । तथाऽत्र भगवत्कृताद्गीतोपदेशात्पूर्वमनन्तरं चेति पदर्जुनस्य द्विीष्मादिदेहदर्शनमभूत्तत्र प्राथमिके दर्शने भीष्मादिदेहे सत्यत्व- स्वीयत्वादिप्रतीतिविषादातिशयः शस्त्रन्यासश्चाभूत् । द्वितीये तु दर्शने भीष्मा-- ७६ म. वासुदेवशास्त्रिप्रणीता- दिदेहे सत्यत्वस्वीयत्वादिमतीत्यभावो विषादलयः शस्त्रग्रहणप्रवृत्तिश्चाभूत् । ईदृर्श च महदन्तरं कायपरिशुद्धिं विना दुर्लभमेव । मोहनाशेन च कायपरि- शुद्धिर्भवति । स मोहनाश एव चार्जुनेन नष्टो मोह इति स्वोक्त्याऽऽविष्कृतः । मोहः--भावरूपाज्ञानविषयकमज्ञानम् । तादृशाज्ञाननाशादेव च स्मृतिर्लब्धा । यतोऽज्ञानरुतावरणादेव जन्मान्तरीयस्मरणं न भवति । अज्ञाननाशादेव च जन्मान्तरीयार्थस्मरणे संजाते देहस्य प्रतिजन्म पृथक्त्वेऽप्यात्मैको निन्य एव, भीष्मविनाशायैव च शिखण्डयुत्पत्तिः, द्रोणाचार्यविनाशायैव च धृष्ट- द्युम्नोत्पत्तिरित्यादिकं सर्व साधारण्येन ज्ञातमभूत् । अत एव च तदानीमर्जु- नो गतसंदेहोऽभूत् । यद्यप्येते न पश्यन्ति० ( गी० १ । ३८ ) कथं भीष्म- महम्० ( गी० २ । ४ ) इत्येवं या विचित्राः कल्पना अर्जुनस्य मनसि पूर्व प्रादुरभवस्ताः सर्वा अज्ञानमूलिकाः समूलं नष्टाः । अत एव च करिष्ये वचनं तवेत्येवमर्जुनेनोक्तम् । युध्यस्वेति भगवतो यद्वचनं तत्करिष्य इत्यर्थः । अत्र केचिदाधुनिकाः प्रार्शमन्या ' गीता कर्मपरा ' इति वदन्ति । तेषा- मयमाशयोऽवगम्यते । गीतायां ' कुरु कर्माणि । ( २।४८ ) नियतं कुरु कर्म त्वम् ( ३ । ८ ) कुरु कमैंव ( ४ । १५ ) तस्माद्युध्यस्व ( २ । १८ ) युध्यस्व विगतज्वरः ( ३ । ३० ) युध्यस्व जेतासि ( ११ । ३४ ) इत्येवं सामान्यरूपेण विशेषरूपेण च कर्मविधानं दृश्यते । गीता च वेदान्तशास्त्रीय- ग्रन्थेषु प्राधान्येन गण्यते। तथा च तत्र विहितं कर्म साक्षान्मोक्षसाधनं भवति । वेदान्तशास्त्रीयग्रन्था हि सर्वे मोक्षतत्साधनपरा इति प्रसिद्धमेवेति । अत्रैवमुच्यते। यद्यप्यर्जुनो मुमुक्षुः स्याद्भगवांश्च तस्याऽऽत्मज्ञानोपदेशं कर्तुं प्रभ- वेत्तथाऽपि न तदुद्देशेन तदानीं भगवतः प्रवृत्तिः । तथा च वेदान्तशास्त्रीयग्रन्थ- विशेषप्रणयने कर्तुवाद्देशः। किंतु युद्धारम्भे पुरतो भीष्मादीन्स्वकीयान्दृष्ट्वा विष- ण्णचेतसो न्यस्तशस्त्रस्यार्जुनस्य पुनयुद्धे प्रवृत्ति साधयितुं तदानीं भगवतः प्रवृत्तिः। सा चार्जुनस्य प्रवृत्तिर्भगवता तस्य कायपरिशुद्धयर्थमावश्यकेन साधनचतुष्टय- प्रदर्शनेन संपादिता। एवं कारणान्तरेण साधनचतुष्टयसंपन्नस्याऽऽर्जुनस्याऽऽनु- पङ्गिक एव संपाप्त आत्मज्ञानोपदेशाधिकारः। तथा चोक्तं भगवता 'उपदेक्ष्यन्ति ते ज्ञानम् ' ( गी० ४।३४ ) इति । एवमनया गीतया संप्राप्ता याऽऽनुषङ्गि- क्यात्मविज्ञानोपदेशाधिकारसंपत्तिस्तद्वाराऽस्या गीताया आत्मविज्ञानसंबन्ध- सत्त्वेनास्या वेदान्तशास्त्रीयग्रन्थेषु गणनाऽभूत् । नन्वेवमस्त्वस्या वेदाशास्त्रीय- कायपरिशुद्धिः। अन्धेषु गणना । तेष्वस्याः प्रामुख्यं कुत इति चेत्-उच्यते । मोक्षबन्धी हि मिथः प्रतिद्वंद्विनौ । बन्धश्च कर्मणा भवति । कर्मणा बध्यते जन्तुरिति पभियु- कोक्तिः । कर्म च पुण्यपापद्वारा बन्धकं भवति । तथा च ये शुद्धसात्त्विकारते पुण्यपापजनकं कर्म त्यक्त्वा केवलं नित्यं कर्म कुर्वाणा अधिकारिणो ब्रह्मसूत्रोप- निषत्पदर्शितमार्गण कृतकृत्या भवन्ति । परं त्वेतादृशा अग्रिमप्रस्थानद्वया- वलम्बिनोऽतीव स्वल्पा जना भूयांसस्त्वनादिकालमारभ्य तादृशे कर्मण्यासक्ता अभ्यासवशाच्च संजाततदनुगुणसंस्कारा बन्धकमपि कर्म त्यक न शक्नुवन्ति । अतस्तेषां सुलभ उपायः कश्चिदावश्यकः । स च गीतया पदार्शतः । यथा- रोगीत्ययं माणवको बन्धुभिनीपसार्यते । प्रयत्नः क्रियते किंतु रोगमात्रापसारणे ॥ तथा बन्धकमिति ज्ञात्वापि यदि कर्म त्यक्तुं न शक्यते तर्हि मा नाम त्यज्य- ताम् । किंतु तादृशकर्मगतदोषमात्रापसारणे यत्नः क्रियताम् । स च यत्नः- बुद्धया युक्तो यया पार्थ कर्मबन्धं प्रहार पसि । ( २ । ३९) योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनंजय ॥ (२।४८ ) यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः । तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥ ( ३ । ३९ ) इत्येतादृशो गीतायां पदार्शतः । तथा च कर्म कतुं निसर्गत एव प्रवृत्तिश्चे- दस्तु । कर्मकर्तृत्वरूपो यः कर्मसङ्गस्तं दोषं त्यक्त्वा कामं क्रियतां कर्मेत्येवं कर्मत्यागापेक्षया सुलभेनोपायेन भूयसां सांसारिकाणां जनानामुपकारिणीयं गीता प्रामुख्यं लेभे । ब्रह्मसूत्रप्रदर्शितश्रुत्यर्थविचारभूमिकां च तान्सांसारिकाञ्जना- पापयन्ती प्रथमं प्रस्थानमिति प्रतीतिं च लेभे । तथा चानया गीतया प्रदर्शितो यो निष्कामकर्ममार्गः स किं मोक्षसाधनमित्युपयुज्यतेऽथवा मोक्षसाधनीभूता- त्मज्ञानोपदेशाधिकारसिद्धय उपयुज्यत इति संशये तत्र निश्चयोऽस्या वेदान्तग्रन्थे- षु मामुख्येण प्रवेशान्नैव कर्तुं शक्यते । निश्चयादनन्तरभावी प्रवेश इति स पूर्वभाविनिश्चयस्य कारणं नैव भवितुमर्हति । प्रत्युत मोक्षसाधनीभूतात्मज्ञानो- पदेशाधिकारसिद्धिद्वारैव तस्या मोक्ष उपयोग इति उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदार्शनः । (गी. ४।३४) इति भगवदुक्त्यैव ज्ञायते । तथा च गीता कर्मपरेत्युक्तिरभिनिवेशमूलिका नतु युक्तियुक्तेत्यास्तां तावत् ।
म. वासुदेवशानिप्रणीता- अथ गीता कर्मपरा' इति वदतामयमाशयः । भगवता गीतायां कर्तृ- खानुसंधानरहितं यत्कर्म प्रतिपादितं तद्यद्यपि मोक्षसाधनत्वेन न प्रतिपादित तथाप वस्तुतस्तत्साक्षान्मोक्षसाधनं भवत्येव । कर्मणैव हि संमिद्धिमास्थिता जनकादयः (गी. ३।२० ) इति वचनादिति । अत्रोच्यते । कर्मणेति करणे तृतीया । कर्म च संसिद्धिप्राप्तः करणम् । संसिद्धिश्च मोक्ष इति हि तेषामाशयः । किंतु तत्र कर्मपदेन कीदृशं कर्म गृह्यते । कर्म हि नित्यनैमित्तिककाम्यभेदेन विविधम् । तत्र चतुर्थी विधा नास्ति । तत्र काम्यं कर्मात्र ग्रहीतुं न शक्यते । कर्म हि स्वरूपतो न किं- चिदपि फलं जनयति । उत्पन्नविनष्टं तत्परम्परैयैव फलदायकं भवति । तत्र मध्ये दारं चादृष्टं किंचित्कल्पनीयम्। तच्च श्रुतिप्रमाणेन पुण्यपापरूपं कल्प्यते । सुकृता- स्वर्गपानिर्दष्कृतान्नरकमाप्तिश्च श्रुतिसिद्धा । तत्र यदि ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यादिवत् 'अमुककर्मणा मोक्षकामो यजेत, उपासीत' इत्येतादृशं किंचिद्वाक्यं श्रुती दृष्टं स्यात्तर्हि तादृशश्रुतिबलात्तत्रापि किंचित्पुण्यं द्वारं प्रकल्प्य तद्द्वारा तादृशकर्मविशेषमाप्यो मोक्ष इति कल्पना स्यात् । नतु तादृशी श्रुतिः क्वचि- दपि दृश्यते । महजेमिनेरपि तादृशी अति!पलब्धा । इतरथा हि ‘स स्वर्गः स्यात्सर्वान् पत्यविशेषात् ' (जै. सू. ४।३।१३ ) इतिवत् ‘स मोक्षः स्या- त्सर्वान् पत्यविशेषात् । इत्येतादृशं सूत्रं तेन कृतं स्यात् । यतः स्वर्गविषयेऽपि कस्यचित्कदाचिद्विरक्तिः स्यान्न तु मोक्षविषये कस्यचिदपि । किंच कर्मणवेत्यत्र कर्भपदेन काम्यं कर्म गृहीत्वा तत्र तन्मोक्षसाधनत्वेनोक्तमिति निश्चित्य वदला- द्रीता तादृशकर्मपरेति वक्तव्यम् । तच्च ‘मा कर्मफलहेतुर्भूः' (गी. २।४७ ) इति गीतावचनेनैव विरुध्यते । किंच येन जीवविशेषेण मोक्षसाधनीभूतं कर्मा- नुष्ठितं तेनैव प्राप्यस्तत्फलीभूतो मोक्ष इति मोक्षावस्थायामपि द्वैतमवर्जनीयमेव भवेत् । तथा च मोक्षस्वरूपमेव भज्येत । अद्वैतमेव हि तत्त्वं श्रुत्यभिप्रेतमिति माङ् निरूपिवमेव । किंच कर्मणैवेत्यत्र काम्यकर्मणो ग्रहणे धातुदोषः कायमल: कामना स्यान्मनोमलः । इत्युक्तरीत्या चित्त शुद्धिनैव संभवतीति कथं ते तामन्तरेण मोक्षं प्राप्तुं शक्नुयुः। तथा चात्र काम्यं कर्म ग्रहीतुं न शक्यते । नैमित्तिकं कर्म तु निमित्तानन्तर- भावि । मूलनक्षत्रादौ प्रसवे जननशान्त्यादिवत् । तत्र निमितं दुष्कृतविशेषश्चेत्त- मिचिकं कर्म तं विनाशयति, सुरुतविशेषश्चेत्तं पोषयति। नैतावता स्वातन्त्र्येण - :
- कायपरिशुद्धिः। तत्किमपि फलं दातुं प्रभवति । अतोऽत्र कर्मणेति पदेन नैमित्तिकं कर्म ग्रहीतुं न शक्यते । अवशिष्टं नित्यं कर्म । किंतु तदपि स्वातन्त्र्येण किमाप फलं दातुं न शक्नोति । कुतो मोक्षस्तस्मात्पाप्यः स्यात् । नित्यं कर्म हि स्ववर्णाश्रमधर्मानुसा- रेणावश्यमिदानीमेतत्कर्म कर्तव्यमिति बुद्धथैव केवलं किंचिदपि फलमननु- संधायैव क्रियते । तेन च कर्मणा ' स्वधर्मतत्परोऽयम् । इति ज्ञात्वेश्वरः प्रीतो भवति । पीतश्चेश्वरस्तस्य पूर्वसंचितकर्मानुसारेण तदनुगुणं फलं ददाति । संचितं कर्म न चेत्स मुक्तो भवति । एवंप्रकारेण जनकादयोऽपि मुक्ता अभूवश्चेदस्तु नाम । किंतु तेषां तादृशरीत्या मोक्षपाप्तौ कर्मणः करणत्वेन नैवोपयोगो दृश्यते येन कर्मणेति तृतीयाया उपपत्तिः स्यात् । अथ प्रतिबन्धकाभावसंपादनद्वारा नित्यस्य कर्मणो मोक्षसाधनत्वं स्यात् । यथा- प्रातः सदैव हेमन्तेऽधीयते बटवोऽमिना । इत्यत्राध्ययनप्रतिबन्धकस्य शैत्यस्यापनयनं कुर्वतोऽग्नेरध्ययनसाधनत्वं तद्- दिति चेत्--तदपि न । यथा हिममध्ययनपतिबन्धकं तथाऽत्र काम्यं कर्म मोक्षप्रतिबन्धकम् । तत्र यथाऽमिना हिमं दूरी क्रियते न तथाऽत्र नित्यक- मणा काम्यं कर्म दूरी क्रियते । नित्यं कर्म कुर्वतामेव काम्ये कर्मणि प्रवृत्ति- दर्शनात् । तथा चात्र कर्मणो मोक्षसाधनत्वमङ्गीकुर्वताऽपि 'कर्मणैव हि संसिद्धिम् । इत्यत्र कर्मणेति तृतीया सहशब्दमध्याहत्य वधोगेऽगत्याऽभ्यु- पगन्तव्या । सहशब्दश्च विग्रंमानवाची । सहैव दशभिः पुत्रैर्भार वहति गर्दभी , इतिवत् । विद्यमानेष्वपि दशसु पुत्रेषु तस्या भारवाहकत्वमवर्जनीयमेवेति तत्तात्पर्यम् । तथा च गीताया भवदभिप्रेतकर्मपरत्वे कर्मणैव हि संसिद्धिमिति वचनं न प्रमाणमिति सिद्धम् । किंच कर्मणैव हि संसिद्धिमास्थिता जनकादयः ( गी० ३ । २०) इति गीतावचने कर्म संसिद्धिपाप्तिश्चेति द्वावौँ निर्दिश्य तयोः कार्यकारणभावसं- वन्धस्तृतीयया प्रदर्शित इति भवान्मन्यते तत्तु गीतावचनेनैव विरुध्यते । तथा हि-अष्टादशाध्याये वे स्वे कर्मण्यभिरतः संसिदि लभते नरः(गी० १८१४५) स्वकर्मणा तमभ्यर्च्य सिद्धि विन्दति मानवः ( गी० १८ । ४६ ). इत्युभय- वापि कर्म संसिद्धिप्राप्तिश्चेति द्वावप्यर्थी निर्दिष्टौ । किंतु तयोः कार्यकारण- भावसंबन्धस्तष न प्रदर्शितः । न केवलमेतावदेव किंतु प्रत्युत तयोः कीदृशः संबन्धस्तं पदर्शयामीति..
म. वासुदेवशास्त्रिप्रणीता- - स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु (गी० १८।४५) इत्येवं प्रतिज्ञाय ततः- यतः प्रवृत्तिभूतानां येन सर्वमिदं ततम् । स्वकर्मणा तमभ्यर्च्य सिद्धि विन्दति मानवः ( गी० १८१४६ ) इत्युक्तम् । तत्र जगदुत्पादको जगद्व्यापकश्च यः परमेश्वरस्तदभ्यर्चनेन सह कर्मणः साक्षात्कार्यकारणभावसंबन्धं स्वकर्मणेति तृतीयया प्रदर्श्य तद्- द्वारा संसिद्धिप्राप्त्या सह कर्मणः परम्परया संबन्धः स्पष्ट एवोक्तः । परमे- श्वराभ्यर्चनं च परमेश्वरपीतिसंपादकं कर्म । परमेश्वरश्च जगदुत्पादकत्वाज्जग- व्यापकत्वाच्च ' अयं पूर्वसंचितेनामुकेन कर्मणाऽस्यां योनौ समुत्पन्नः, अस्यायं वर्णः 'अयं चाऽऽश्रमः, एतच्चास्य स्वधर्मोचितं कर्म, इत्यादिकं सर्व सर्वजीवसंबन्धेन भावयति । भावनानुरूपं च कर्माऽऽलोचयन् परमेश्वरस्तत्र पीतो भवतीति युक्तमेव । अत एवोचितं कर्म कृत्वा तदन्ते 'श्रीकृष्णार्पणमस्तु, अनेन कर्मणा श्रीपरमेश्वरः प्रीयताम् ' इत्यादिकं विपश्चिद्भिरुच्यमानं दृश्यते । पीतश्च परमेश्वरो जीवेनासंकल्पितं संकल्पितं वा तदिष्टं फलं ददातीति योग्य- मेव । इष्टफलप्राप्त्यैव च सिद्धि विन्दति मानवः । इत्युच्यते । तथा च योऽयं जीवक्तस्वकर्मणः संसिद्धिमाप्तेश्च संबन्धोऽत्र स्पष्टमुक्तस्तं संबन्धमत्यज- वैक 'कर्मणैव संसिद्धिम् । इत्यस्यार्थो वक्तव्य इति नैव तद्वचनात्कर्मणः साक्षा- म्योक्षसाधनत्वं सिध्यति । किंच कर्मणो मोक्षसाधनत्वं मन्वानैरपि ज्ञानस्य मोक्षसाधनत्वं नैव निरा- क्रियते । तस्य तमवं विद्वानमृत इह भवति, ज्ञानादेव तु कैवल्यम् , इत्यादि- श्रुत्या सिद्धत्वात् । न च नान्यः पन्था अयनाय विद्यत इति श्रुत्या कर्मणो मोक्षसाधनत्वं निषिध्यत इति वाच्यम् । तया श्रुत्या ज्ञानव्यतिरेकेण स्वात- व्येण कर्मणो मोक्षसाधनत्वं व्यवच्छिद्यते नतु ज्ञानसहकारितया । तथा तु कर्मणो मोक्षसाधनत्वमिष्यत एवेति ते वदन्ति । किंतु तत्रैवमुच्यते । ज्ञानाद्या मोक्षमाप्तिः सा केवलं ज्ञानस्वरूपमवलम्ब्यैव जायतेऽथवा मध्ये किंचित्क्रियादिद्वारा । आद्यः कल्पः स्वी क्रियते । यथा दीपः स्वसत्तयैव केवलमन्धकारं निवर्तयति तद्वत् । किंतु तत्र कर्मणः सहायता न संभवति । तैलं वर्तिका चेत्यादयोऽर्थास्तु नैव दीपसहायाः किंतु दीपजनकाः। तथा च कर्म चित्तशुद्धिद्वारा ज्ञानजनकं भवेन तु ज्ञानसहायम् । मध्ये किंचित्क्रियादि- ८" कायपरिशुद्धिः। द्वारा ज्ञानान्मोक्षमाप्तिरित्येवमन्त्यः कल्पस्त्वसंभवादेव निरस्तः । अज्ञानमेव हि मोक्षपतिवन्धकम् । तस्य च ज्ञानसमकालमेव निवृत्तिसंभवात् । किंच ज्ञानात्पूर्वकालिकं कर्म ज्ञानस्य मोक्षजनने सहायतामापद्यते ज्ञानोत्तरकालिक वा । ज्ञानात्पूर्वभावि कर्मापि कायपरिशुद्धः पूर्वं छतं तदुत्तरं वा । तत्राऽऽत्म- ज्ञानाद्यस्य मोक्षस्तेनैव कृतं कर्म तादृशमोक्षप्राप्तौ सहायं भवतीति वक्तव्यम् । तत्र ज्ञानोत्तरं यत्कर्म तत्कर्तुत्वं तस्य नास्ति । ज्ञानात्पूर्वं च कायपरिशुद्धयनन्तरं यत्कर्म भवति तत्राप्यहंकाराभावेन तस्येदं कर्म, इति वक्तुं न शक्यते । किंच तदानींतनं कर्म, उत्पन्नविनष्टं सत्कथं ज्ञाने सहायतां बजत् । कर्तृत्वासङ्गा- भावात्तादृशं कर्मादृष्टं जनयितुं न प्रभवति यद्द्वारा तत्कर्म ज्ञानस्य सहायता बजेत् । किंचोत्पन्नस्यादृष्टस्याऽऽत्मज्ञानेन विनाशे कथं तत्सहायं भवेत् । तदुक्तं बलसूत्रकारैः-तदधिगम उत्तरपूर्वाधयोरलेषविनाशौ तद्व्यपदेशात् , इतरस्याप्ये- घमसंश्लेषः पाते तु (ब० सू० ४ । १ । १३-१४) इति । एतेन काय- परिशुद्धः मारुतस्य कर्मणोऽपि ज्ञानसहायता निरस्ता वेदितव्या । किंच ज्ञानकर्मणोः सामानाधिकरण्यमेव न संभवति । तत्कुतस्वयोरेकस्या- परेण सहायं स्यात् । भेदप्रतीतो सत्यामेव हि कर्म भवति । भेदपतीत्यभाव एव च ज्ञानस्य समुदयः। किंच देवदत्तेन छतस्य कर्मणः फलं देवदत्तस्यैव दृश्यते नत्वन्यस्य कस्यापि । तथा च तादृशनियमसंरक्षणाय 'यदुपाधिकस्य कर्म तत्फलं तदुपाधिकस्यैव भवति । इत्ययं नियमोऽवश्यं स्वीकार्यः। प्रत्यासत्तिमूलकश्चायं नियमः । अन- यष रीत्या यदुपाधेर्षिभाषा तदुपाधेः पतिषेधः (म० भा० ७ । २ । १५) इति महाभाष्य उक्तम् । तथा चाऽऽत्मज्ञानेनोपाधिविनाशे ततस्तस्य तदुपाधि- कत्वं नास्तीति कथं तत्कर्म सहायकं कुर्यात् । किंच शास्त्रफलं प्रयोक्तीति मीमांसकानां नियमः । युक्तश्चायं नियमः । प्रत्यासचिमूलकत्वात् । तथा च पारस्थं जलं पावरहितं नद्यादौ प्रक्षिप्तं चेत्ततस्तत्र नद्यामिदमेव पूर्व पाशस्थ- मासीदिति पार्थक्येन ज्ञातुं न शक्यते । तथाऽनाऽऽत्मसाक्षात्कारोत्तरं कर्मपयो- काध्यमेवेति पार्थक्येन प्रतीतिर्नास्तीति तदानीं कथं पूर्वक कर्म, उपयुक्तं भवेत् । पाच साक्षान्मोक्षसाधनीभूतकर्मपरत्वं गीताया मन्वानरुक्तम्-साक्षान्मोक्षसा- धनममुफामति श्रुतित. एष निणेयं भवति । अतिहि प्रमाणमूर्धन्यभूता । श्रुतौ च कर्ममण्डभागो भूयात्यो । संहिया बम्पमापरि सिविषेणापि दमा- ११ ८२ म. वासुदेवशास्त्रिप्रणीता- गेषु बाहुल्येन कर्मैव वर्ण्यते। ज्ञानकाण्डभागस्तूपनिषद्रूपस्तत्र कर्मकाण्डापेक्षयाs- तीव स्वल्पतरः। तथा च मोक्षो यः परमः पुरुषार्थस्तत्साधनमुपदिशन्त्या [श्रुत्या] भूयसा भागेन यद्वाणितं तदेव मोक्षसाधनं स्यादित्यनुमानं साधारणोऽपि जनः कर्तुं शक्नोति । तत्रैवमुच्यते- स्वरूपतो नैव यस्य वस्तुनः स्यात्तु संभवः । केवलेनानुमानेन तस्य सिद्धिः कथं भवेत् ॥ केवलाद्वचनाच्चापि नैव तद्वस्तु सिध्यति। वचनं तत्र गौणार्थतया प्रत्युत योज्यते ॥ आदित्यो यूप इत्यस्य वेदस्यापीदृशी गतिः । श्रुतौ हि ज्ञानस्य मोक्षसाधनत्वं स्पष्टमेवोक्तम् । युज्यते च तत् । कर्मणश्च ज्ञान- सामानाधिकरण्यमेव न संभवति दूर एव ज्ञानसमुच्चयेन मोक्षसाधनत्वम् । तथा च मोक्षसानत्वं कर्मणः स्वरूपत एव न संभवतीति तत्र प्रमाणत्वेन प्रदर्शितमनु- मानमाभासी भवति । एवं गीताया मोक्षसाधनीभूतकर्मपरत्वे यानि यानि प्रमा- णानि प्रतीयन्ते ते सर्व प्रमाणाभासा एव युक्तयश्च युक्त्याभासा एव । कथं तर्हि विचारशीलैः पेक्षावद्भिर्गीतायास्तादृशकर्मपरत्वमभ्युपेतमिति चेत्-उच्यते । यत्र मार्गा अनेके स्युस्तत्रौचित्यविचारणा । एक एव प्रतीतश्चेत्स एव स्वीकृतो भवेत् ॥ इति हि जनानां साधारणी प्रवृत्तिः । तथा च विचारशीलानां कुशाग्रधिष- णानामपि यदि येन केनचित्कारणेन क्वचिद्विषयविशेषे बुद्धिरभिनिविष्टा स्या- छेत्तर्हि विचारं कर्तुं प्रवृत्तानामपि तेषां विचारद्वाराणि सर्वतो नोद्घाटितानि भवन्ति । किंवभीप्सितविषयस्य प्रामाण्यं युक्तिसहत्वं संभावयतां तदनुगुणमेव विचारद्वारमुद्घाटितं भवतीति ते प्रमाणाभासानपि प्रमाणत्वेन युक्त्याभासानपि युक्तित्वेनाऽऽलोचयन्ति । तथा च यथा- काचावृतपदीपस्य पसरन्ती बहिः प्रभा । अस्तित्वे दीपतन्त्रापि वर्णे काचानुसारिणी ॥ तथा आग्रहाक्रान्तचित्तस्य प्रसरन्ती बहिर्मतिः । गहीतार्थानगुण्येन नदिशैव प्रधापति ॥
८६ - कायपरिशुद्धिः। * तथा चोक्तमभियुक्तैः-आग्रही वत निनीपति युक्तिं तत्र, यत्र मतिरस्य निविष्टा। पक्षपातरहितस्य तु युक्तियंत्र, तत्र मतिरेति निवेशम् ॥ इति । एतदर्थकं वचनान्तरमपि दृश्यते- आग्रही निश्चितमतिस्तदर्थं युक्तिमीक्षते । युक्तिं समीक्ष्य प्रेक्षावानिश्चिनोति स्विकां मतिम् ॥ इति । युक्तिमूलको ह्याग्रहो नत्वाग्रहमालिका युक्तिरिति तत्तात्पर्यम् । ननु तर्हि कर्म, मोक्षसाधनम् , मोक्षमार्गोपदेशार्थं प्रवृत्तायां श्रुतौ भूयसा भागेन कर्म- वर्णनात् ' इत्यनुमानं कथमाभास इति चेत्-उच्यते । यत्र यो मुख्योऽशस्तस्य वर्णनं भूयसा भागेन कर्तव्यमिति न नियमः । किंतु- उद्दिष्टार्थस्य संसिद्धिर्यया रीत्या प्रजायते । रीतिः साऽभ्युपगन्तव्या लाघवादिष्वनादरः ।। लोके बनेकविधव्यापारसाध्यैककार्यनियुक्तानां बहूनां मध्ये यस्य यत्र सौकर्यं स तादृशव्यापारद्वारोद्दिष्टं कार्यं साधर्यात । अज्ञातवासैककार्यं साध- यितुं किल पाण्डवैद्रौपद्या च यस्य यत्सुकरं तदनुष्ठितमिति प्रसिद्धमेव । यद्यपि तैरनुष्ठितं स्वस्वकार्यमनुचितमेव तथाऽप्युद्दिष्ट कार्यसाधनकदृशां तेषामनौचित्येऽ- नादर एवाभूत् । प्रकृते च सर्वेषां जनानां कल्याणाय ज्ञानमार्गमुपदेष्टुं प्रवृत्ता [श्रुतिः] प्रायः सर्वानेव तादृशोपदेशानधिकारिण आलोच्य तेषामधिकारसाधनाय प्रथमतः कर्म वर्णितवती । किंतु भिन्नरुचिर्हि लोकः क्वचित्कस्यचिन्मतिरिति नैवैकेन कर्मणा सर्वेऽधिकारं संपादयेयुरित्यालक्ष्यानेकविधं कर्म वर्णितम् । तथा हि- जनाः पञ्चविधाः (१) उत्तमोत्तमा [२ ] उत्तमा [ ३ ] मध्यमा [४] अधमा [५] अधमाधमाश्चेति । प्राणिनां हि द्वयी प्रवृत्तिः सुखार्था दुःख- निवृत्त्यर्था च । तत्र येषां नराणां सुखार्थी न प्रवृत्तिर्नापि च विशेषतो दुःखनिवृत्त्य- र्था । द्वयमप्येतद्भागधेयानुसारेण पूर्वतकर्मानुसारेण च यथा भवेत्तथा भवत्वि- ति मतिस्त उत्तमोत्तमाः सत्त्वगुणप्रधानाः । रजस्तमसी तु तत्र भृत्यवदेव स्तो नैव स्वातन्त्र्येण किंचित्कार्यं कुर्वाते । तादृशाश्च जना जन्मान्तर एव संपादितदुरित- क्षया उपनिषत्पतिपादितेन मार्गेणाऽऽत्मज्ञानं संपादयन्ति । किंतु तादृशा जना अतीव स्वल्पाः (१)। येषां च जनानां न सुखार्थी विशेषतः प्रवृत्तिः किंतु दुःखानिवृत्यर्थैव विशेषतः प्रवृत्तिः। सुखं च भागधेयानुसारेण पूर्वकृतकर्मानुसारेण ८४ म. वासुदेवशानिप्रणीता- प पथा भवेत्तथा भवत्विति मतिस्त उत्तमाः सत्त्वगुणप्रधानाः । रजोगुणस्वत्स- हकारीति पूर्वापेक्षया विशेषः । तमोगुणस्तु भत्यवदेव । एते च नित्येन नैमित्ति- केन च कर्मणा दुःखनिवृत्त्यर्थं पूर्वसंचितदुरितक्षयं संपादयन्ति । एवादृशा अपि जनाः स्वल्पा एव। किंतु पूर्वापेक्षया लेशतोऽधिकाः स्युः (२)। येषां च जनानां सुखार्था दुःखनिवृत्त्यर्था चेति द्विविधाऽपि विशेषतः प्रवृत्तिस्ते मध्यमा रजो- गुणप्रधानाः । सत्त्वगुणस्तत्सहकारी । तमोगुणस्तु भृत्यवत् । एते च नित्येन नैमित्तिकेन च कर्मणा दुःखनिवृत्त्यर्थं दुरितक्षयं संपादयन्ति, काम्येन कर्मणा च सुखं संपादयितुं प्रयतन्ते । एतादृशाश्च पूर्वापेक्षयाऽप्यधिकाः (३) । येषां च विशेषतः प्रवृत्तिः सुखाथैव । दुःखनिवृत्तिस्तु भागधेयानुसारेण पूर्वकतकर्मानुसारेण च यथा भवेत्तथा भवत्विति मतिस्तेऽधमास्तमोगुणप्रधानाः । रजोगुणस्तत्स- हकारी । सत्त्वगुणस्तु भृत्यवत्। एतेषां च नित्ये नैमित्तिके च कर्मणि प्रवृत्तानाम- पि विशेषतः प्रवृत्तिः काम्ये कर्मणि दृश्यते । आभिचारिकेऽपि कर्मण्येतेषां ना- प्रवृत्तिः । एतादृशाश्च पूर्वापेक्षयाऽप्यधिकाः (४)। ये चाश्रद्धालवः श्रुतिपदार्शतं कमपि मार्ग नानुसंदधते ते नास्तिकास्तमोगुणप्रधानाः। रजः सत्त्वं चेति द्वाव- पिं तत्र गुणौ भृत्यवदेव स्तस्तादृशा अधमाधमाः । ईदृशाश्च सांपतं कलौ भू- यांस एव दृश्यन्ते (५) । अत्र संग्राहकाः श्लोकाः- सुखमाप्तिर्दुःखहानियेऽप्यस्मिन्नुदासते । मुमुक्षवो दिष्टदृशस्ते नरा उत्तमोत्तमाः ॥ १ ॥ यतमाना दुःखहान्यै सुखे तूष्णीमवस्थिताः । उत्तमा मनुजाः पोक्ता योगिनोऽत्र निदर्शनम् ॥ २ ॥ सुखमाप्तिर्दुःखहानिर्द्वयमेतच्चिकीर्षवः । साम्येन यत्नं कुर्वन्तो मध्यमाः कर्मिणो नराः ॥३॥ दुःखहानाबुदासीनाः सुखाप्तौ हतबुद्धयः । अधमा मनुजाः मोक्ताश्चोरा अत्र निदर्शनम् ॥ ४ ॥ विधि निषेधं चोल्लय यतमाना सुखाप्तये । स्वोत्मेक्षितेन मार्गेण ते नरा अधमाधमाः ॥ ५ ॥ इति । अत्र पथमा द्वितीयाश्च सात्त्विकाः । तृतीया राजसाः । चतुर्थाः पश्च- माश्च तामसा इति बोध्यम् । एषु च पञ्चविधेषु ये प्रथमा उत्तमोत्तमास्तेषामेव केवलमुपनिषत्मदर्शितेन मार्गेण श्रेयःमातिः स्यात् । किंतु वादशा अवीव कायपरिशुद्धिः। स्वल्पाः । जगति मायस्तदपेक्षयोत्तरोत्तरमधिका एवं द्वितीयादयो दृश्यन्ते । तेषामात्मज्ञानोपदेशाधिकारसिद्धयर्थ कर्मकाण्डं यावद्वर्ण्यतया समुपस्थित तावदगत्या वर्णितं किल । एवमुद्दिष्टार्थसिद्धयर्थममुख्यार्थस्य विस्तृतावपि न क्षतिः । अधिकारश्च तादृशः कायपरिशुद्धि विना न संभवतीति तदर्थ कर्म- काण्डं श्रुतावारब्धम् । ननु कायपरिशुद्धौ मुख्यतश्चित्त शुद्धिदृश्यते । तत्र काम्यस्य कर्मणः कथमुपयोगः । प्रत्युत तादृशेन कर्मणा चिने कामः संलमो भवति । तदुक्तम्- न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्मेव भूय एवाभिवर्धते. ॥ इति । कामश्च मनसो मल एव । तथा च मलापसारणाय प्रवृत्तया श्रुत्या कथं काम्यं कर्म वर्णितमिति चेत्-उच्यते । अयं हि काम्यकर्मपतिपादिकायाः श्रुतेरभिप्रायः । निष्कामकर्मणा चित्तशुद्धिः किल । किंतु कर्मणि पयासा- धिक्यं दृष्ट्वा येषां कर्मण्येव सामान्यतो न प्रवृत्तिस्तेषामादौ कथमपि कर्मणि प्रवृत्तिः साधनीया । पश्चात्तवत्यो मलः कथमपि दूरीकर्तुं शक्यो भवेदिति । एतदुक्तं भवति । कामवन्धनाय श्रुत्याऽयं कश्चिद्विलक्षणः पञ्जरो विनिर्मितः काम्यकर्मकाण्डेन । यथा मूषकादिवन्धनाय पञ्जरः क्रियते तद्वत् । ऋतौ भार्यामुपेयादित्यादयो विधयः काममूषकस्य प्रवेशद्वारं रागतः प्राप्तमेव । न परदारान्गच्छेदित्यादयो निषेधास्तु पञ्जरशलाकाः । यथा पञ्जरे द्वारव्यति- रिक्ते प्रदेशे निर्गमनपतिवन्धाय सर्वतो लोहशलाका प्रथ्यन्ते तद्वत् । रागतः प्रवृत्तस्य पाणिनो बसन्मार्गानिवर्तनं न सहसा निवृत्त्युपदेशेन साध्यं भवेत् । किंतु प्रवृत्तिसंकोचेनैव । तथा च कर्मणि प्रवृत्यर्थमेव श्रुत्या काम्यं कर्म वर्णितम् । तत्र यद्यपि सुखं दुःखानुबन्धीति सुखानुसंधानेन प्रवृत्तेरिव दुःखानुसंधानेन निवृत्तेरपि संभवस्तथापि श्रुत्या तथा नाऽऽलोचितम् । यतः सुखलेशमात्रेणापि जनानां चेतसि कामः प्रादुर्भवति दुःखं च नानुसं- धत्ते । तदुक्तम् । वस्तुनीह सुखसाधनबुद्धिःखसाधनमति निसर्गतः । बाधते खलु समामवरां वा नोत्कटामिति सुखार्थिनां कमः ॥ इति । कामश्च पुरतो योऽयं प्रदर्शिवः स बालस्य कटुकौषधमाशनमवृत्त्यर्थं पुरः- स्थापितशर्कराखण्डवत् । यथा च पञ्जरे यत्किंचिद्भक्ष्यं स्थाप्यते न तस्य जीव- म. वासुदेवशास्त्रिप्रणीता- .. नोद्देशेन किंतु पञ्जरे तत्पवेशायैव । तत्र मुख्यमुद्देश्यं भक्ष्यान्तरान्निवर्तनमेव । तथैव श्रुतौ काम्यकर्मप्रतिपादनस्योद्देश्यं ज्ञेयम् । तदुक्तम्- पञ्जरे स्थाप्यते भक्ष्यं व्याघादेर्जीवनाय न । किंतु भक्ष्याशया तेषां प्रवेशायैव केवलम् ॥ शर्कराखण्डलोभेन बालं पाययते यथा। जठरान्तःशुद्धिकामा माता कटुकमौषधम् ॥ तथा स्वर्गादिलोभेन बहायासकराण्यपि । श्रुतिः कारयते कर्माण्यन्तताश्चित्त शुद्धये ॥ कामाहंकारदम्भाद्या बहवो मनसो मलाः । ते सर्वे समनुच्छेद्या विषवल्लीसमुद्भवाः । क्षुद्राः स्थूलाः स्थूलतरा कामा बहुविधाः स्मृताः । दूषयन्ति मनोवृत्तिं सुधियामपि सात्त्विकीम् ।। न केनापि समुच्छेद्याः कामा एकपदेऽखिलाः । अतस्तान्कमशश्छेत्तुं पन्थाः श्रुत्या प्रदर्शितः ॥ इमं श्रुतेः समुद्देशं कुशाग्रधिषणा विदुः । यथाऽपसार्यते लोके कण्टकेनैव कण्टकः । तद्वत्कामान्समुच्छेत्तुं प्रवृत्तिदृश्यते श्रुतेः ।। न भस्मलेपः पात्रेषु मलाधिक्याय दीयते । किंतु पाग्दृढसंसृष्टमलध्वंसकहेतवे ।। स्वर्गकामो यजेतेति श्रुत्या संप्रेरितो नरः। नूनं शिथिलयत्येतामहिकी सुखलालसाम् ॥ श्रुत्या स्वर्गादयः कामा मनोवृत्तौ प्रवेशिताः । शनैः शनैमनोवृत्तिं व्याप्नुवन्तो दिवानिशम् ॥ तथा तत्र स्थापयन्ति स्वीयं पदमनर्गलम् । क्षुद्रकामोद्बोधकानां यथा नावसरः क्वचित् ॥ यदिनोदकावाप्तिः शत्रूणां प्रतिवध्यते । श्रुत्या लौकिककामानां तद्वदुबोधकागमः ॥ न कश्चिदपि कामः स्यात्स्थूलः क्षुद्रो निसर्गतः । आपेक्षिक्येव सर्वत्र स्थूलता क्षुद्रताऽपि वा ॥
७ कायपरिशुद्धिः। श्रुतिपदर्शितपथा प्रवृत्तः श्रद्धया नरः । नित्यं स पुरतो दृष्टिर्न कदापि पराङ्मुखः ॥ इति । एवं च श्रुतौ कर्मकाण्डे यत्काम्यानां कर्मणां स्वर्गादिकं फलं प्रदर्शितं तन्नैव भोगोद्देशेन प्रदर्शितमपि तु कर्मणि प्रवृत्तिद्वारा तदितरभोगव्यवच्छेदायैव । इतरव्यवच्छेद एव च मुख्यं गूढतरं च श्रुतेस्तात्पर्यम् । ननु ज्योतिष्टोमेन स्वर्ग- कामो यजेतेति विधिना ज्योतिष्टोमे प्रवृत्तस्येतरव्यवच्छेदेऽपि तस्य चित्तं स्वर्ग- कामनया मलिनं स्यादेव । न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्मेव भय एवाभिवर्धते ॥ इत्युक्तेरिति चेत्-उपभोगेन कामो न शाम्यतीति सत्यमेव । किंत्वनुपभोगेऽपि न शाम्यति । न जातु कामः कामानामलाभेनोपशाम्यति । भूय एवाभिवर्धेत सुखसंभावनाशया ॥ वार्धक्येऽपि च पुत्रोष्टिं चके दशरथो नृपः ॥ इत्युक्तेः । एवमुपभोगेऽनुपभोगेऽपि च कामोपशमाभावः । किंतु कदाचिदुपभोगे प्रवृत्तस्यैव तृप्तस्य कामोपशमो दृश्यते । स्वादप्यन्नं कामयते नैव तृप्तः कथंचन ' इत्युक्तेः । तथा-' न जिघत्सति पक्वानं क्षुधितो विषशङ्कया । इत्युक्तेर्दोषदृष्टिः कामोपशमे हेतुः । दोषदर्शनं च यथा कामानामनुपभोगे केवलं कल्पनामा- श्रेण जायते तदपेक्षया कामानामुपभोग एवोत्कटं जायते । यतः कामानामनुपभोगे तत्यानां दोषाणां कल्पनामात्रम् । कामानामुपभोगे तु प्रत्यक्षत एव दोषा- नुभवः । किंचानुपभोगसमये कल्पनामात्रमपि दोषविचारार्थं प्रवृत्तस्यैव भवति । उपभोगसमये तु दोषविचारार्थमप्रवृत्तस्यापि वस्तुतो विद्यमाना दोषाः प्रकटी भवन्त्येव । तदेतत्सर्वमुक्तमभियुक्तैः- कामोपशमने हेतुबलीयान्दोषदर्शनम् । यथाऽपरोक्षानुभवादोषाविर्भाव उत्कटः॥ न तथा कल्पनामात्राज्जायते हीति निर्णयः । अत्र श्मशानवैराग्यं सुप्रसिद्ध निदर्शनम् ॥ त्यन्त एव संसारेस्मिन् दोषा अन्तरान्तिरा ।
te म. वासुदेवशास्त्रिप्रणीता- किंतु कार्यमनुत्पाद्य लीयन्ते बुद्बुदा इव ॥ अजातपायमेवैतन्नितरां दोषदर्शनम् । विद्युल्लवनवद्यस्मात्क्षणमात्रेण लुप्यते ॥ कामस्तत्र पदं धत्ते यत्रार्थमाप्तिसंभवः । विशेषतः पदं धत्ते यंत्र तद्भोगसंभवः । संप्राप्तकामः कामानामुपभोगेन शाम्यति ॥ स्वादप्यनं कामयते नैव तृप्तः कथंचन । अमाप्तकामः कामानामलाभेनोपशाम्यति । अतृणे पतितो वह्निः स्वयमेवोपशाम्यति ॥ इति । तथा च न यावद्वैराग्यं तावदभोगापेक्षयोपभोग एव वरमित्यभिसंधाय श्रुतौ काम्यानि कमाणि विविधजनोपकारार्थं बहूनि प्रतिपादितानि । राजसानां च काम्ये कर्मणि कामाशया यथा शीघं प्रवृत्तिर्न तथा नैमित्तिके कर्मणि । तदपे- क्षयाऽपि नित्ये कर्मणि विलम्बेन प्रवृत्तिर्जायते । तथा च तादृशजनानुग्रहाय श्रुतेः काम्यकर्मपतिपादने प्रवृत्तिः। सात्त्विकानां तु नित्ये कर्मण्येव प्रथमतः प्रवृ- तिः स्यात् । तथैव राजसानां नित्ये कर्मणि विलम्बेन प्रवृत्तावपि सा तत्र तेषां प्रवृत्तिः स्थिरा भवेत् । यतः सा श्रुतौ विश्वासाधिक्यमूलिका । काम्ये कर्मणि तु क्षणिकविश्वासेन शीघं प्रवृत्तावपि काममाप्तौ लेशतोऽपि संशयश्चेदविश्वासेन विपरीतसंभावनया निवृत्तिरपि भवेत् । न तु तत्र स्थैर्य स्यादेव । तदुक्तम्- फलप्राप्त्याशया काम्ये यद्यप्याशु प्रवर्तते । कित्वसंभावनामस्तो निवर्तेतापि कहिचित् ॥ यस्तु प्रवर्तते लोके विश्वासादेव केवलम् । मन्दं पवर्तमानोऽपि न निवर्तेत कहिचित् ॥ इति । सर्वथा कर्मणि भन्दप्रवृत्तिकानां जनानामपि कर्मणि सांमीचीन्येन प्रवृत्ति- संपादनाय श्रुतौ काम्यकर्मप्रतिपादनम् । अतिहि मातृसहसवद्वत्सलैव । तस्या वात्सल्यातिशयः किमु वर्णनीयः । यतो येषां जनानां कर्मणि प्रवृत्ति- मन्दाऽपि नास्ति तेषां विश्वासोत्पादनाप श्रुत्या कर्मविपाकमकरणमारब्धम् । समुत्पने च श्रुतौ विश्वासे फर्मणि प्रवृत्तिः सुलभैव । अयं भावः-नास्ति- कोऽपि कश्चित् स्वस्य स्वेतरेण केनचित्सहैहिक साधनमान्तरं बुद्धिमत्त्वेन्द्रिय- जामपियाभ्यासादिक माझं च श्रीपुत्रगेहेमच्यादिक सबै समं पश्यत्वाचन ८९ कायपरिशुद्धिः। केवलं' दारिद्रयरुतवैषम्यं पश्यति । कश्चित्स्वशरीरेऽशक्तताकृतं वैषम्यं पश्यति । एवं कश्चित्केनचित्प्रकारेण वैषम्यं पश्यंस्तत्र कारणमीक्षमाण ऐहिक किंचिदपि कारणमपश्यन्नगत्या जन्मान्तरकृतं किंचित्स्यादिति कल्पयति । तच्च कीदृशं स्यादिति जिज्ञासायामर्थात्कर्मविपाकमनुसंधाति । अनुभयमानवैषम्य- स्यान्यथानुपपत्त्या कर्मविपाकपरवचनेषु श्रद्धा चेतसि पविशति । यतश्चैतादृशः प्रयत्नो विश्वासोत्पादनमारभ्य श्रुतेदृश्यते ततो वात्सल्यस्य परा काठैवेयम् । वात्सल्यमूलकमेव च श्रुतौ ज्ञानकाण्डापेक्षया कर्मकाण्डस्य भूयस्त्वम् । तदेवं जनानामनेकविधत्वाच्छ्रेयःमाप्तिसाधनीभूतेषु यत्र यस्य सौकर्य स तं मार्ग स्वी करिष्यतीत्यालोच्य तेषां सर्वेषामनुग्रहार्थं श्रुत्पाऽनेकविधानि कर्माणि पतिपादितानि । सर्वथा कायपरिशुद्धये कामः परिहरणीयः । कामश्च मनोवृत्ति- विशेषः । तथा च वृत्तिक्षये न कामोपशमाय यत्नान्तरमास्थेयं भवति । वृत्ति- क्षये च जाते मनस एवोपशमो भवति । तथा चोक्तं पश्चदश्याम्- यथा निरिन्धनो वह्निः स्वयोनावुपशाम्यति । तथा वृत्तिक्षयाच्चित्तं स्वयोनावुपशाम्यति ॥ (प००११११११) इति । : प्रायः कायपरिशुद्धिप्रतिकूलाः कामाधीना एव । कामसं- पणैव यशुद्ध मनो भवति । तदप्युक्तं तत्रैव- मनो हि द्विविधं प्रोक्तं शुद्धं चाशुद्धमेव च । अशुद्धं कामसंपर्काच्छुद्धं कामविवर्जितम् ॥ (१०६०११।११६) इति । सर्व हि वस्तुजातं ग्रहीतुं योग्यं मनसा गृह्यते त्यक्तुं योग्यं च मनसा त्यज्यते । कामश्चायं त्यक्तुं योग्योऽपि मनसा दुस्त्यजः। यतोऽनेन मन एवाऽऽ- क्रान्तम् । तच्च तथाऽऽक्रान्तं यथाऽयं कामोऽन्ततः शत्रुरपि बहिमित्रवदेव भाति । शत्रुत्वं चास्य गीतायामुक्तम्- काम एप क्रोध एष रजोगुणसमुद्भवः । महाशनो महापाप्मा विद्धयेनभिह वैरिणम् ॥ ( गी० ३ । ३७ ) इति । तच कामस्य शत्रुत्वं वस्तु सदपि बहिर्न प्रदर्शयति किंतु मित्रवदेव स्वं प्रत्या- ययति । यदेव वस्तु कामानुगुणं तदेव ग्रहीतुं योग्यमिति मनसा गृह्यते। तथा यवस्तु कामप्रतिकूलं तत्त्यक्तुं योग्यमिति भनसा त्यज्यने । रिपुर्हि गृहाबाहिर्विद्य- मानोऽपसारयितुं शक्यो भवति । नतु गृहं प्रविष्टः । अयं कामस्तु न केवलं गृहं पविष्ट इत्येव किंतु गृहस्वामिनं स्वात्मसात्रुत्य स्वामिनोऽनिष्टमपि स्वाभी- प्सितं साधयत्येव । गृहस्वामी तु वस्तुतस्तत्स्वानिष्टमपि स्वाभीप्सितमेव मन्यते । १२ वृत्तयश्च सर्वाः ९० म. वासुदेवशास्त्रिप्रणीता- रिपुत्वस्य परा काठैवेयम् । एतादृशो रिपुश्चात्यन्तं दुर्जेयो भवति। किंतादृशस्थले स्वामिनो हितैषिणा केनचिद्यदि तं रिपुं स्वामिनः सकाशात्पृथक्कत प्रयत्न तीप्ययं पृथक्कर्तुं न शक्यते । तदुक्तम्- तृणवीजं यथा भूमौ न पार्थक्येन दृश्यते । तत एव पृथक्कत न केनापि प्रभूयते ॥ सददेव निरूढोऽयं कामोऽत्र पाणिनां हदि । नैव तस्मादपसरेत्पयत्नातिशयं विना ॥ इति । तथा चात्र कामस्य निःसारणाय प्रयत्नातिशयोऽपेक्ष्यते । शत्रुनिर्दलनाय क्रियमाणः प्रयत्नश्च द्विविधः। मार्दवेन क्रियमाणो हठात्क्रियमाणश्चेति । शत्रु- निर्दलनहेतुना क्रियमाणोऽपि त हेतुमपनुत्य यः क्रियते स आद्यः। तमनपौँत्यैव यः प्रयुज्यते स द्वितीयः। शत्रुर्दाम्भिकश्चेदाधः पयोक्तव्यः । सरल श्चेद्वितीयः। कामः शत्रुश्च दाम्भिक एव । दाम्भिकत्वं च तस्यानुपदमेव प्रदर्शितम् । तथा च तस्य निर्दलनाय क्रियमाणः प्रयत्नो मार्दवेन कर्तव्यो भवति । जनानां हितैषि- ण्या श्रुत्या च कामनिर्दलनाय प्रवृत्तयाऽपि तस्य हेतोरपह्नवं कृत्वा स्वर्गादीन् कामान् पुरस्कृत्य काम्यकर्माणि प्रदर्शितानि । तस्या आन्तसे हेतुस्तु माभद- शित एव । तदुक्तं किरातार्जुनीये- बजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु ये न मायिनः । पविश्य हि भन्ति शठास्तथाविधानसंवृताङ्गानिशिता इवेषवः ॥ (कि. १।३०) इति । अतः श्रुत्यापि मायावित्वं पुरस्कृत्य स्वर्गादयः कामाः पद- शिताः । अत्र : बोबसौकर्याय कामे यद्वीजरूपकमाम्नातं तत्पदयते- कामो बीजं मनो भूमिविभूतिस्तु हलः स्मृतः । उत्कर्षणं मनःस्वास्थ्यं जलं विषयचिन्तनम् । यत्नेनाङ्कुरितः कामः पुष्पितो वस्तुलाभतः । भोगेन फलितो ध्यातो भोग उत्तेजकः स्मृतः ॥ इति । पथा हलेन भूमेरुत्कर्षणे संपादिते तत्र निक्षिप्तं बीजं जलेन युत्तं सदङ्करपुष्प- फैलद्वारोपभोगाय भवति । तथा विभूत्या माणिनां मनसः स्वास्थ्ये संपादिते तत्र निविष्टः कामो विषयचिन्तनेन युतः संस्तदर्थप्रयत्नतद्विषयपाप्तितदुपभोग- द्वारा सुखाय भवति । तादृशसुखानुस्मृतिश्च पुनः कामवीजे कुर्वद्रूपता प्रस्था- पयति । एवं साम्ये सत्यपि बीजस्याङ्करोदमे सहायभूतं गलं पराधीन दृश्यते ।
सायपरिशुदि। पृटपावधीनत्वात् । अब तु जलस्थानीय विषयचिन्तन स्वाधीनमेवेति विशेषः । क्वेवं कपटपमेमहारिपोरस्य कामस्य सर्वत्र निर्दलमयावश्यकम् । तर यथा कीटादिमिर्चीजे निःसारतापापादिते बजिस्म भर्जने वा तथा वर्षणाभावेन वीण- स्य जलसंयोगाभावे वाऽङ्कुरोदमो न भवति तथाऽत्र विषयोपभोगे दुःखानुभव- श्वेत्तेन कामे निःसारतामापादिते दुःखकल्पनया कामस्य भर्जने वा तथा शमेन विषयचिन्तनाभावे वा कामस्याङ्कुरोगमो न भवति । यथा च क्षेत्रकाठिन्येना- कुरोगमायावकाशो न प्राप्यते तथा क्वचिद्दारिद्रयेण विषयोपभोगाय न पर्या- प्तिर्भवति । यथा च क्वचिदुद्गतोऽप्यङ्कुरोऽतिवृष्टया तिर्यक् पतितः सन्कणिशं धतुं मशक्नोति तथा क्वचित्संपाप्ता अपि केचित् क्षुद्राः कामा मनोराज्येनोपभोगाय न पर्याप्ता भवन्ति । यथा च पूर्णदशापन्नमपि कणिशं कचिच्छलभोच्चयेन शुष्कं भवति तथा कचित्संपाप्ता अपि विषया वैराग्योदयेनोपभोगाय न पर्याप्ता भवन्ति । एवं यथायथं पूर्वकर्मानुसारेण तत्र तत्र कामो दुर्वलो भवति । श्रुत्या चास्य कामस्म निर्दलनायानेक उपाया अनुसंहिताः। तत्र कश्चिदुपायः क्वाचि- विष्टकार्यसाधनाय पर्याप्तो भवेत् । उपायश्च क्वचित्कामस्यानुद्भवायोपयुक्तो भवति । क्वचिदुद्भूतस्यापि फलाभावायोपयुक्तो भवति । क्वचित्तु सफलस्यापि पुनस्तत्रामवृत्तय उपयुक्तो भवति । तत्र विषयज्ञानेन हि कामोद्भवः । ज्ञानं च द्विविधं-परोक्षमपरोक्षं चेति । परस्त्रीसुरामांसादिचिन्तनस्य यो निषेधः शास्त्रेण प्रतिपादितः स तत्र कामस्यानुद्भवाय परोक्षज्ञाननिषेध उक्तः । अयं चात्यन्त- सात्विकस्थल उपयुज्यते । न नग्नां स्त्रियमीक्षेत, न सुराविक्रयस्थानं गच्छेदि- त्यादयो निषेधाः प्रत्यक्षज्ञानस्य । एते च निषेधाः सात्त्विकस्थल उपयुज्यन्ते । सजसस्थले त्वेतान्निषेधानुल्लध्य कामोद्भवे तत्र तत्काभिावाय न परदारान् गच्छेन्न सुरां पिवेदित्यादयो निषेधाः शास्त्रे प्रतिपादिताः । क्वचित्तु राजसस्थले रजःप्रधानतामसस्थले च कामः कृतार्थश्चेत्तत्र पुनरावृत्तये प्रायश्चित्तकाण्ड पविपादितं शाले । प्रायश्चित्तं हि पुनरपराधाभावाय शिक्षापतिपादनम् । लम हि दुःखानुभवे सति तत्संस्कारेण पुनर्निषिद्ध कर्मणि न प्रवर्तते । किंच स्वाभाविकी या सत्त्वगुणमूलिका निषि कर्मण्यप्रवृत्तिस्तदपेक्षयेयं दुःखानुभवपू- विका निषि कर्मण्यप्रवृत्तिबलीयसी । यतो यावदुःखस्मरणं तावत्पर्यन्तं पुनस्तादृशे कर्मण्यमवृत्तिः स्थिरैव । यद्यप्यसत्कर्म सत्कर्मापेक्षमा निन्ध- मेव तथापि तज्जन्ययोर्भोगयोर्मध्येऽयं विशेषः । सत्कर्मजन्यः सुखानुभवो ९२ म. वासुदेवशांत्रिप्रणीता- - भोगः । स च कामरूपं बीजमुत्थापयति । सुखी जनो हि पुनस्तादृशं सुखमिच्छत्येव । असत्कर्मजन्यो दुःखानुभवो भोगः । स च कामरूपं बीजं निवर्तयति । दुःखी जनो हि पुनस्तादृशं दुःखं निवारयितुमेवेच्छति । तदुक्तम्- विशेषो भोगयोरेष सदसत्कर्मजन्ययोः । बीजमुत्थापयत्येको निवर्तयति चापरः ॥ इति । अवेदं बोध्यम् । यस्य कायपरिशुद्धिः संजाता तस्य सत्कर्मजन्यं सुखम- नुभवतोऽपि तत्रावर्जनीयं सुखसमं सुखान्यूनं वा दुःखं संभावयतः स तस्य भोगः कामवीजं नोत्थापयति किंतु निवर्तयत्येव । तथा यस्य काये शुद्धियोग्यताऽपि नास्ति तस्यासत्कर्मजन्यं दुःखमनुभवतोऽपि पुनः कामसुखं संभावयतः स तस्य भोगः कामबीजं न निवर्तयति किंतूत्थापयत्येव । तदुक्तम्- उत्थापको यदि निवर्तकतामुपेयाचं निनीषति तमात्मसुखाभिरामम् । उत्थापकत्वमभियाति निवर्तकश्चेत्कीदृश्यधोगतिरिहान्यविधाभिधेया। इति । एवं च पूर्वोक्तप्रकारेण त्रिविधानामपि जनानां सन्मार्गप्रदर्शनं श्रुत्या साधितम् । अत्यन्ततामसानामप्यनुग्रहार्थं कर्मविपाकपकरणं शास्त्रे प्रतिपादितमित्यनुपदमेवोक्तम् । यद्यप्येते सर्वे निषेधाः श्रुतिषु नोपलभ्यन्ते किंतु केचिच्छ्रतिषु केचित्स्मृतिषु केचिच्च पुराणादिषु तथापि ते सर्वेऽपि श्रुतिमूला, एव । श्रुतौ सूचिता एव हि निषेधा विधयश्च स्मृतिपुराणेषु स्पष्टमुक्ताः । अथ श्रुतिमूलतया स्मृत्यादीनां प्रामाण्यमस्तु श्रुतेस्तु प्रामाण्यं कथं सिध्य- तीति चेत्-उच्यते । प्रत्यक्षमूलानि हीतरप्रमाणानि । श्रुतितात्पर्यार्थस्तु वचित्पत्यक्षसिद्धो भवति क्वचित्त्वस्मत्प्रत्यक्षसिद्धो न भवति । परंतु क्वचिदप्यस्म- त्मत्यक्षविरुद्धो नैव दृश्यते । यजमानः प्रस्तर इत्यत्रापि तात्पर्यार्थो नैव प्रत्यक्षविरुद्धः । अतः क्वापि श्रुत्युक्तार्थस्य मिथ्यात्वं प्रत्यक्षासद्धं न भव- तीत्यर्थादेव श्रुतेः प्रामाण्यं सिद्धम् । केषांचिच्छ्रुत्युक्तानामर्थानां प्रत्यक्ष- मूलकत्वेन प्रामाण्ये निश्चिते तदितरेषामपि श्रुत्युक्तानामर्थानां तद्दष्टान्तेन श्रुत्युक्तत्वसाम्येन प्रामाण्यस्यानुमानप्रमाणसिद्धत्वात् । किंच शब्दपमाण- वादिना येन केनापि कस्यचिच्छन्दविशेषस्य स्वपामाण्यमनवस्थाभियाऽ- भ्युपेयमेव । तच्च श्रुतेरेव स्वीकार्यं भवति । तत्रामामाण्यकारणस्याभावात् । एतचर्वेदभाष्यारम्भे भाष्यकारैः स्पष्टमुक्तं तत्तत एवावधार्यम् । अत्र केचित्मत्यवतिष्ठन्ते--अतिर्न प्रमाणं भवितुमर्हति । यतस्तत्रासंभविनो:- कायपरिशुद्धिः। र्थस्य वर्णनं क्रियमाणं दृश्यते । कर्मणः सकाशात्स्वर्गादिफलमाप्तिस्तत्रोक्ता । कर्म चोत्पन्नविनष्टमचेतनं च कथं स्वर्गादिफलं दातुं प्रभवेत् । इन्द्रादिदे- वतानां हविर्भागश्च देयत्वेन तब अयते । स न संभवति । देवतानां तत्रादर्श- नात् । किंचानेकदेशेषु युगपत्मवृत्तेष्वनेककर्मस्वेक एवेन्द्रः कथं गन्तुं प्रभ- वेत् । तथा यस्यामृचि यस्या देवताया वर्णनं क्रियते तस्या देवतान्तरे विनि- योगः श्रुत्यैव क्रियमाणो दृश्यते । सोऽपि न संभवति । यथैन्द्रया गार्हपत्य- मुपतिष्ठते ( स० श्री० सू० ) इति । तथा चोन्मत्तालापवच्छ्रुतिर्न प्रमाण- णत्वेन स्वीकरणीयेति । अत्रोच्यते । श्रुतौ कर्मणां फलानि स्वर्गादीनि निर्दिष्टानि किल । तत्र च फलदाने कर्मणो निर्देशः कर्तृत्वेन क्वापि नैव कृतः। किंतु साधनत्वेन । फलदाता त्वीश्वरश्चेतन एव । उत्पन्नविनष्टमपि च कर्मादृष्टमुत्पाद्य तद्द्वारा साधनं भवति । महिम्नस्तोत्रेऽप्युक्तम्- कतौ सुप्ते जायत्त्वमसि फलयोगे ऋतुमतां क कर्म प्रध्वस्तं फलति पुरुषाराधनमृते । अतस्त्वां संप्रेक्ष्य ऋतुषु फलदानपतिभुवं श्रुतौ श्रद्धां बद्ध्वा दृढपरिकरः कर्मसु जनः ॥ (म० २०) इति । अतो न काचिदनुपपत्तिः । तथा कर्मसंनिधौ देवानामसंभवो यः प्रतिपादितः सोऽपि नास्ति । न खल्वीश्वरदेहः स्वदेहवत्कल्पयितव्यो भवता । जीवेन परिगृहीतो देहो हि न जीवाधीनः । प्रत्युत जीव एव देहाधीनः । न तथेश्वरदेहः । ईश्वरदहस्त्वीश्वराधीनः । तत्र देहे यथेच्छं रूपं परिवयितुं शक्नोतीश्वरः । सूक्ष्मं सूक्ष्मतरं स्थूलं महन्महत्तरं वा । तथैवैकमनेकं वा । ततश्चेन्द्राद्या देवताः स्वीयेन सूक्ष्मरूपेण युगपदनेकत्राप्युपस्थातुं शक्नुवन्ति । सूक्ष्मत्वाद्भवत्सदृशैर्न दृश्यन्ते स्थूलदेहलिङ्गन्देहकारणदेहभेदेन त्रिविध एव देहो जीवानाम् । ईश्वरस्य तु तेभ्योऽन्यो मन्त्रमयो देहो विद्यते । मन्त्रमयी देवतेत्युक्तः। मन्त्रमयो देहोऽप्यनेकविधः । श्रुत्युक्तः स्मृत्युक्तः पुरा- णोक्तो नाममन्त्रश्चेत्येवं मन्त्राणामनेकविधत्वात् । सोऽपि च प्रत्येकं पुनरनेकविध उच्चारयितुपुरुषभेदात् । अतश्च मन्त्रमयेन देहेनैकस्या एवेन्द्रादिदेवताया युग- पदनेका संनिधानं संभवति । तदुक्तम्- किंच ९४ म. वासुदेवशानिप्रणीता- देवता स्यान्मन्त्रमयी शब्दस्तस्याः स्मृता तनः। तत्र पाणाः सूक्ष्मरूपा निविशन्ते गुरोर्मुखात् ॥ गायत्रीत्वं हि गायत्र्या नाऽऽचार्यादन्यतो भवेत् । नैव मूर्तेर्वतात्वं विना पाणप्रतिष्ठया ॥ नैव यज्ञोपवीतत्वं तन्तूनां मन्त्रमन्तरा । नैव चित्रस्थपतिना भवेन्नारी सुवासिनी ॥ आचार्यादैव विदिता विद्या साधिष्ठदायिनी । छान्दोग्यश्रुतिरेषाऽव तादृशेऽर्थे निदर्शनम् ॥ मन्त्रमय्या देवताया एकस्या अप्यनेकधा । पादुर्भावः क्रतुशते युगप नैव दुर्लभः ॥ इति । तदुक्तं पातञ्जले महाभाष्ये-'एक इन्द्रशब्दः क्रतुशते प्रादुर्भूता युगपत्सर्षयागे ध्वङ्गं भवति । इति । तथा मन्त्रे वर्णनमेकस्या देवतायाः । तस्प मन्त्रम्स विनियोगस्तु देवतान्तरविषय आवाहनादौ श्रुत्यैव कृत इति य आक्षेपः सोऽप्य- स्थान एव । तथा हि-प्रयोगसमवेतार्थस्मारको मन्त्र इति हि मन्त्रलक्षणम् । तत्र लक्षणेऽर्थस्मारक इत्युक्तं नत्वर्थवाचक इति । वाचक इत्युक्ते त्ववाचकस्प केवलं स्मारकस्य संग्रहो न स्यात् । स्मारक इत्युक्ते तु तेन वाचकस्यापि संग्रहो भवति । वाचकस्यापि वाच्यार्थस्मारकत्वात् । यथा-आसत्येन रजसाऽऽवर्त - मानो निवेशयन्नमृतं मयं च । हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् । ( तै० सं० ३ । ४ । ११ )। अत्र भाष्यम्-सविता आदित्यो हिर- ण्ययेन रथेन आयाति । सुवर्णनिर्मितं रथमारुह्य प्रतिदिनं पूर्वस्यां दिश्याग- छति । किं कुर्वन्-सत्येन रजसाऽऽवर्तमानः । अमोघेन रञ्जकात्मकेन मण्ड- लेनोदयास्तमययोाम्यन् । तथाऽमृतं देवशरीरं मत्यै मनुष्यशरीरं च निवे- शयन् स्वस्वकाले प्रकाशन तत्त लोके व्यवहारक्षमं कुर्वन् । तथा भुवना भुव- क्नानि विपश्यन्नवलोकयन्निति । अत्र सवितुः प्रशंसा वाच्योऽर्थः । सवितुरेष चाऽऽवाहनादावयं मन्त्री विनियुज्यते । यथा वा-बृहस्पते अति यदर्यो अदि- घुमद्विभाति ऋतुमज्जनेषु । यद्दीदयच्छवसर्तप्रजात तदस्मासु द्रविणं धेहि चित्रम् ॥ (तै० सं० १।८। २२ ) इति । अस्यार्थः-तात्सत्यात्परमात्मनः सकाशात्मकर्षेण देवगुरुत्वेनोत्पन्न ऋतपजातः । हे ऋतप्रजात बृहस्पते यन- नादिकं द्रविणम्, अर्यः राजा अतिअहात् इतरान् अतिक्रम्य स्वयमेवानुभ- कायपरिशुद्धिः । ९५ वितुमर्हति । तथा जनेषु द्युमत् क्रतुमच्च यद्विभाति । तत्रामात्यादिषु धुमत्भूष- णादिमत् यज्ञकर्तृषु ऋतुमत् यज्ञसाधनवत् । पुनरपि यद्दविणं शक्त्या बलेन जीवितपदानसंपादितसैन्यरूपेण दीदयत् दीप्यते तद्यथोक्तगुणोपेतं चित्रं माण- मुक्तादिरूपं द्रविणमस्मासु धेहि स्थापयेति । अत्र बृहस्पतेः प्रार्थना वाच्योऽर्थः । बृहस्पतेरेव चाऽऽवाहनादावयं मन्त्रो विनियुज्यते । स्मारकमन्त्रस्योदाहरणं तु यत्र मन्त्रगतेन केनापि शब्देनार्थेन वा लिङ्गभूतेन सादृश्यादिसंबन्धेन या देवता मर्यते तत्र तस्या देवताया आवाहनादौ स मन्त्र उपयुक्तो भवति । यथा-आप्यायस्व समेतु ते विश्वतः सोम वृष्णियम् । भवा वाजस्य संगथे । ( तै० सं० ३ । २ । ५ ) । अनेन मन्त्रेण हि सोमवल्ली पार्थ्यते । किंतु तत्र सोमशब्देन चन्द्रग्रहः स्मृतो भवति । अतश्चन्दावाहनादावयं मन्त्रो विनियुक्तो भवति । तस्य मन्त्रस्य ययमों भाष्यकारैः प्रतिपादित:-हे सोम त्वमाप्यायस्व सर्वतो वर्धस्व । ते तव वृष्णियं वीर्य विश्वतः समेतु सर्वतः संगच्छताम् । त्वमपि वाजस्यानस्य संगथे संगमने निमित्तं भव, इति । सोम- शब्देन चन्द्रस्य ग्रहणे प्रार्थनापीयं तस्य संभवति वाक्यार्थमुखेनैव । अत ईदृशस्थले नैवासंभवि किंचित् । तथा-उद्बुध्यस्वाग्ने प्रतिजागृपेनमिष्टापूर्ते सरसृजेथामयं च । पुनः कृण्वस्त्वा पितरं युवानमन्वातासीत्त्वाय तन्तुमेतम् ॥ (ले० सं० ४ । ७१३ ) । अस्पार्थो भाष्यकारैरित्थमुक्त:-' हे अमे त्वमु- बुध्यस्व । अस्मद्विषये सावधानो भव । एनं यजमान प्रतिजागृहि । यजमान प्रतिदिनं सावधानं जागरूकं कुरु । अयं च त्वं च मिलित्वा इष्टापूर्ते श्रौतस्माते कर्मणी संसृजेथां संपादयतम् । हे यजमान त्वां पितरं पितृवत्पालकं युवानं तरु- णवत्सशक्तं पुनः कृण्वन् कुर्वन्नयमग्निस्त्वयि निमित्तभूते सति । एतं तन्तुं यज्ञन- बाहम् अन्वानांसी अनुक्रमेण तनोतु संपादयतु ' इति । अमेरुद्धोधनं यत्र वाच्योऽर्थः । किं द्वोधनगुणेन बुधग्रहः स्मृतः। भवति । अतो बुधग्रहस्याऽऽ- चाइनादावयं मन्त्रो विनियुज्यते । उद्बोधनं हि बुधग्रहस्य विशेषो धर्मः । बुध- ग्रहो हि स्वभक्तस्वार्चकादीनामिष्टसाधने सदा मबुद्ध एवाऽऽस्ते न कदाऽप्युपे- क्षते । अत एव तस्य बुध इति नाम । तथा च बुधग्रहस्याऽऽवाहनादावयं मन्त्री विनियुज्यते । अवाने इति यासंबोधनं तत्रत्यानिशब्दः सिंहो माणवक इतिवद्वौणलक्षणया बुधग्रहार्थको गृहोत चेद्वाक्यार्थमुखेनैवयं प्रार्थना बुध- महस्य संभवति । अथवा-अभिशब्दो यौगिकः । अङ्गयतीत्यग्निः । अङ्गेलो.
९६ म. वासुदेवशास्त्रिप्रणीता- पश्च ( उ० स० ४ । ५० ) इत्युणादिसूत्रेण चौरादिकादङ्गिधातोर्निपत्ययः । अग्निर्हि केनापि वस्तुना स्वसंबन्धे जायमाने तत्र किंचिञ्चिह्न करोत्येव । तथै- वायं बुधग्रह इति तस्य प्रशंसा । यद्यपि रूढिर्योगप्रतिबन्धिका तथापि वा- क्याथै पतिवन्धं कुर्यान्न व्यङ्गन्येऽर्थे । तथा च व्यङ्गन्यार्थेन बुधग्रहस्य प्रशंसा न निवारिता भवति । एवमिन्द्रप्रतिपादिकया मचाऽपीन्दतीति इन्द्र इति परमैश्वर्यवाचकादिन्दधातो रक्सत्ययेन साधितेनेन्द्रशब्देनाग्नेरपि प्रतिपादनं संभवति । अनेन्द्राय ० ( उ० सू० २ ! २९ ) इत्युणादिसूत्रेणेन्द्रशब्दो रमत्ययान्तो निपातितः । एवं चान्यदेवतापतिपादकस्य मन्त्रस्य देवता- न्तरे श्रुत्या विनियोगः कृत इति न मन्तव्यम् । प्रत्युत मन्त्राणामनयाऽपि रीत्या विनियोगो भवतीति विनियोगस्य प्रकारविशेषः पदार्शतः । यथा- शुक्रं ते अन्यद्यजतं ते अन्यद्विषुरूपे अहनी द्यौरिवासि । विश्वा हि माया अवसि स्वधावो भद्रा ते पूषनिह रातिरस्तु । (तै० सं० ४ । १ । ११ )। अस्यार्थः-हे पूषन् ते तव शुक्र शुद्धस्वरूपमन्यत् अनेकपकारम् । उदय- काले रक्तवर्ण रूपमन्यत् मध्याह्नकाले श्वेतवर्ण रूपमन्यत् इत्येवमनेकपका. रत्वम् । तथा ते तव यजतं पूजनमप्यन्यत् अनेकपकारम् । प्रातःकाले मित्रस्य चर्षणी धृत० इत्यादिभिर्मन्वैः पूज्यसे । मध्याह्ने त्वासत्येनेत्यादिभिः । तथा त्वया निष्पादिते अहनी अपि विषुरूपे नानारूपे । अहःशब्दश्छत्रिन्यायेन रात्रिमप्युपलक्षयति । अहः प्रकाशोपेतं रात्रिस्तमोयुक्तेति नानारूपत्वम् । एवं विचित्रकार्यकपि त्वं द्यौरिवासि । आकाशं यथैकरूपं तद्वत्त्वमपि पक्षपातराहि- त्यादेकरूपोऽसि । मीयन्ते पदार्था यामिश्चित्तवृत्तिभिस्ताश्चित्तवृत्तयो मायाः । कन्यदानवाचिना च स्वधाशब्देन कृत्स्नमप्यन्नमुपलक्ष्यते । हे स्वधावः अन्नवन् विश्वा हि मायाः सर्वा अप्यन्यदीयचित्तवृत्तीरवसि रक्षासि । हे पूषन् इह कर्मणि ते तव रातिदानं भद्रा फलवदस्तु । समीचीनं भवत्वित्यर्थः। अत्र पून्निति संबोधन पुष्णातीति पूषेति यौगिकार्थेन शुक्रशब्देन स्मृतस्य शुक्रग्रहस्यापि संभवति । मन्त्रार्थोऽपि तस्य प्रशंसाय वर्णितो ग्रहाणामतिशयशक्तिमत्त्वेन संगमनीयः । केतुं कृण्वन्नकेतवे पेशो भर्या अपेशसे । सपद्भिरजायथाः ॥ (तै० सं० ७ । ४ । २ ) इति मन्येऽपि केतुशब्देन तुमहः स्मृतो भवति । मन्त्रार्थोऽपि तत्र सामर्थ्यविशेषेण संगतो भवति । अयं मन्त्रार्थ:-हे मर्या मनुष्या भवन्तोऽ- केतवे ध्वजरहिताय रथाय केतुं कृण्वन् ध्वजं कुर्वन्तु । तथा-अपेशसे सुवर्णालं- कायपरिशुद्धिः। ९७ - काररहिताय रथाय पेशः सुवर्णालंकारं कुर्वन्तु । तथा सति हे रथ त्वं समुषद्भि- ज्वालासदृशैः सुवर्ण रश्मिभिः समजायथाः संगतो जातोऽसीति । हे केतो त्वदी- यदृष्टिप्रक्षेपमात्रेण सर्वो हि रथः सुसंपन्नो भवतीति व्यङ्ग्योऽर्थः। तेन च केतुमहस्य प्रशंसा भवति । अत्र मन्त्रे यथा शुक्रकेत्वादिशब्दैः सार्थकैस्तत्त- नामकदेवतास्मरणं जायते तथाऽनर्थकैरप्यक्षरैस्तत्तन्नामकदेवतास्मरणमक्षरसाह- श्याज्जायते चेत्तत्रापि तादृशदेवताया आवाहनादौ स मन्त्रो विनियोगयोग्यो भवति । लोकेऽपीयं रीतिः प्रसिद्धैव । महाकविना कालिदासेनापि पश्यैतच्छ- कुन्तलावण्यम् । इति केनचित्पयुक्तं यदाक्यं तवत्यादनर्थकादपि ' शकुन्तला, इत्यक्षरचतुष्टयात्तन्नामिकाया मातुः स्मरणं भरतस्य जातमित्यर्थो वर्णितः शाकु- न्तलनाटके । किंबहुना-अक्षरसादृश्यमपि सर्वांशेन नापेक्ष्यते । किंतु स्मर- णपर्याप्त सादृश्यं चेत्तावताऽपि तस्य मन्त्रस्य तत्र विनियोगयोग्यता प्राप्यते । तेन तत्र तादृशनामगतवर्णमात्रादीनां केषांचिद्यत्यये च्युतावपि पा न क्षतिः । यथा-शंनो देवीरभिष्टय आपो भवन्तु पीतये । शंयोरभित्रवन्तु नः (ते. आ. ४।४२ ) इति मन्त्रस्य शनिग्रहस्याऽऽवाहनादौ विनियोगः। तत्रायं वि- शेषः-मन्त्रे 'शं नो' इत्याद्याक्षरद्वयेन शकारनकारघटितत्वाच्छनिरिति पदं स्मयते । तेन च पदेन तद्वाच्यस्य शनेः स्मरणं भवति । मन्त्रार्थस्तु-आपो देव्यो नोऽस्माकमभिष्टये पीतयेऽभीष्टाय पानाय शं सुखहेतवो भवन्तु । तथा नो. स्माकं शंयोः सुखहेतोस्ता आपोऽभिस्रवन्तु सर्वतः पवहन्तु, इति । अत्र मन्चे श. नरियं प्रार्थना सूचिता भवति । अत्रेदं बोध्यम्-राहुमहस्याऽऽवाहनादौ ‘कया नश्चित्र आभुवदूती सदावृधः सखा । कया शचिष्ठया वृत (तै. आ. ४।४५) अयं मन्त्रो विनियुज्यते । मन्त्रार्थस्तु कस्येयं का ब्रह्मदेवसंबन्धिनी । ऊतीशग्दो रक्षावाची । सदावृधः सदावर्धमानः सखा सखिवत्मियतमः चित्रोऽयं यज्ञः नः अस्मान् पति ब्रह्मदेवकृतरक्षणेन आभुवन् अभ्यागतः । स च यज्ञः प्रजाप- तिसंबन्धिन्या विशेषशक्त्या वृतो वर्तते । ब्रह्मदेवेन स्वीय शक्तिविशिष्टं यज्ञ प. ज्ञाप्य घयं रक्षिता इति यावत् । अयं च वृत्तान्तो राहोापयितुं योग्यो भवनि । हे राहो त्वं दैत्यः सन्नव ग्रहयज्ञे हविर्भागं ग्रहीतुं समागतोऽसि । किंत्वयं यज्ञो दैविक्या शक्त्या युतः। अतोऽत्र तदनुगुणं समावति राहुग्रही यज्ञकत्र विज्ञा- प्यते । तथा च मन्त्रगतेन शब्देनार्थेन वा सादृश्यादि वन्धेन केनापि. प्रकारा- रेण वा स्मृताया देवताया आवाहनादौ स मन्त्री विनियुक्तो भवति । पन्या- १३ ९८ म. वासुदेवशास्त्रिप्रणीता- त्पतीयमानः प्रार्थनामशंसादिरूपस्तात्पर्यार्थः शक्त्या लक्षणया व्यञ्जनया वा स्मृतदेवतां संबध्नात्येवेति बोध्यम् । यथा चामिधा दिवः ककुत् पतिः पृथि- व्या अयम् । अपां रेतासि जिन्वति (ते. सं. ४।४।४)। अस्य मन्त्रस्य भाष्य- कारैः कृतोऽयमर्थः- अयमग्निरादित्यरूपेण दिवः धुलोकस्य ककुत् उच्छ्रितः मूर्धा शिरःस्थानीयः । पृथिव्याः पतिः । दाहपाकादिकारित्वेन पालकोऽप्ययम् । किंचापां रेतांसि उदककार्याणि स्थावरजङ्गगमशरीराणि जाठराग्मिरूपेण जि- न्वति पीणयति । इति । अत्र च धुलोकमूर्धत्वेनं, पृथिवीपालकत्वेन, शरीर- पोषकत्वेन चामे: स्तुतिदृश्यते । भौमोऽपि युलोकमूर्धा भवति । सूर्यादप्युच्छ्रि- तत्वात् । पृथिव्याः पालकश्च भवति । पृथिवीपुत्रत्वात् । ग्रहाणां सामर्थ्य विशे- षेण शरीरपोषकत्वमपि तत्र संभवति । अत्र च मन्त्रे पृथिवीपालकत्वेनाग्नेः प्रशंसा क्रियमाणा दृश्यते । पृथिवीसंबन्धेन च तत्पुत्रो भौमग्रहः स्मृतो भवति । अथात्रेदमुच्यते । मन्त्रविशेषस्य देवताविशेषे यो विनियोगो दृश्यते तस्येय- मुपपत्तिः पदार्शता । किंत्वीदृशः प्रकारः इत्या कुतः स्वीकृतः । तत्तत्कर्मणि विनियुक्तैर्मन्त्रैवांच्याविधयैव तत्तदर्थप्रकाशनं सर्वत्र वस्तुतोऽपेक्षितम् । तथा सर्वत्र न दृश्यते । तत्र को हेतुरिति चेत्-उच्यते । प्रत्यक्षव्यवहारापेक्षया परोक्षव्यवहारो देवेभ्योअधिकं स्वदते । अतस्तथा विनियोग उक्तः । देवानां परोक्षपियत्वं च 'परोक्षमिया इव हि देवाः । (ते. बा. २।३।११) इति श्रु- त्यैव स्पष्टमुक्तम् । तत्र हि जगत्कारणीभूतः परमात्मा दशहोतृनामकमन्त्राभिमानि- देवतानां शरीराणि सृष्ट्वा तानि जीवात्मना संपद्येयामिति विचार्य, आत्मन्नात्म- नित्यनेकवारमाहूतवान् । दशमे चाऽऽह्वाने स जीवात्मा हुंकारं ददौ । अतस्त- दनुरोधेन तस्य 'दशहूतः' इत्यन्वर्थ नाम संपन्नम् । तच्च नाम प्रत्यक्षम् । अतस्तत्र नाम्नि वर्णव्यत्ययेन 'दशहोतृ ' इति परोक्षेण नाम्ना तमाहूतवन्तः । तस्माद्देवानां परोक्षमियत्वं सिध्यतीति श्रुत्यैव स्पष्टमभिहितम् । एवं कश्चित्सप्तम आह्वाने हुंकारं ददौ । कश्चिषष्ठे, कश्चित्पश्चमे, कश्चिच्चतुर्थे, तेषां सर्वेषामपि क्रमेण सप्तहोत, षड्ढोत, पश्चहोत, चतु)तु, इत्येतेः परोक्षेनामभिरेव व्यवहारस्त- वाभिहितः । तथा च श्रुतौ भयान् देवव्यवहारः कथितः। तत्र च परोक्षवृत्तयोऽ- तिपरोक्षवृत्तयश्च शब्दा बहव उपलभ्यन्ते येषामर्थावबोधाय निघण्टुपकरणमार- ब्धम् । तत्र निरुक्कटीकायां दुर्गाचारित्थमभिहितम्-विविधा हि शब्द- व्यवस्था । प्रत्यक्षवृत्तयः परोक्षवृतयोतिपरोक्षवृत्तयश्चेति त्रिविधाः शब्दाः।
९९ कायपरिशुदिः। तत्रोत्कटक्रियाः प्रत्यक्षवृत्तयः। अन्तनिक्रियाः परोक्षवृत्तयः । अतिपरोक्षवृत्तिषु शब्देष्वेष निर्वचनाभ्युपायः । तस्मात्परोक्षवृत्तितामापाद्य प्रत्यक्षवृत्तिना शब्देन निर्व- कव्याः। यथा निघण्टव इत्यतिपरोक्षवृत्तिः। निगन्तव इति परोक्षवृत्तिः। निगमाय- तार इति प्रत्यक्षवृत्तिः । निगमयितारः श्रुत्यर्थज्ञापयितारः । यस्मानिगमयितार एते शब्दा अतो निगन्तव इति । तत एव च निघण्टव इत्युच्यन्त इति । तस्माद्देवानां परोक्षपियत्वं सिद्धम् । परोक्षपियत्वादेव च सर्वाशेन सादृश्या- भावेऽपि स्मरणपर्याप्तसादृश्यमात्रेण यन्मन्त्रस्थादक्षरसमुदायानामस्मरणद्वारा या देवता स्मृता भवति सा देवता तब मन्त्रे संनिधत्त इति बोध्यम् । एवं च कर्मप्रतिपादकश्रुतिषु य आक्षेपास्ते निरस्ता वेदितव्याः । श्रुत्यभिप्राया- नाकलनमूलत्वात्तेषाम् । अलमनया प्रसक्तानुपसक्त्या । परुतमनुसरामः । तदेवं श्रुत्या नराणामनेकविधानां कायपरिशुद्धयेऽनेके मार्गाः प्रतिपादिताः । यस्मै यो रोचते स तेन स्वीकर्तव्यः । तेनैव च मार्गेण तस्य कायपरिशु- द्धिर्यथाधिकारं सत्त्वरं शनैर्वा भवेदेवेदिति बोध्यम् । नन्वात्मविज्ञानोपदेशाधिकारसंपत्तये कायपरिशुद्धिरपेक्षिता किल । अधि- कारसंपत्तिश्च मनस एव । तथा च केवलमनःशुद्धथैवालम् । तथा चात्र कारणदेहस्य स्थूलदेहस्य च शुद्धिः किमर्था । तथेन्द्रियदशकं पाणपश्चकं मनो बुद्धिश्चेत्येवं सप्तदशात्मके लिङ्गदेहे मनोव्यतिरिक्तानां षोडशपदार्थानां शुद्धिः किमर्थेति चेत्-सत्यम् । यद्यपि चित्तशुद्धिमात्रेणाधिकारसंपत्तिः स्यात्तथापि तादृशी चित्तस्य शुद्धिरेव कायपरिशुद्धयधीना । तत्र केषां- चिच्छुद्धिश्चित्तशुद्धरुत्पत्तिमेव साधयति । केषांचिच्छुद्धिस्तु चित्तशुद्धः स्थिर- तायै समुपयुज्यते । तथा केषांचिच्छुद्धिश्चित्तशुद्धेः कार्यसाधनाय सहायता प्रतिपद्यते । तथा हि-लिङ्गन्देहे तावन्मनोव्यतिरिक्तः षोडशगणः । तत्र ज्ञानेन्द्रियाणां शुद्धिर्नाम दोषराहित्यम् । दोषश्च तेषां विषयासक्तिः । तेषु च विषयाधीनेषु तैराकृष्टं मनः कथंकारं तत्पातिकूल्येन कामं हातुं शक्नुयात् । नन्विन्द्रियाणां प्रवर्तकं निवर्तकं वा चित्तमेव । तथा च चित्तेनारिताना- मिन्द्रियाणां कथं विषयैराकर्षणमिति चेन्न । चित्तेनारितानामपीन्द्रियाणां पूर्व- संस्कारवशेन विषयसंनिधाने विषयैराकर्षणसंभवात् । इयांस्तु विशेषः । स. काममनसां कामानुगुणमनोवृत्तिपूर्वकं विषयसंबन्धः । अकाममनसां च विष- यसंबन्धपूर्वकं कामानुगुणा मनोवृत्तिरिति । न चेन्द्रियाणां मनसश्त्युभयोः काम- :
म. वासुदेवशास्त्रिप्रणीता- राहियेऽपि विषयसंनिधाने पूर्वसंस्कारवशेनेन्द्रियाणां विषयैराकर्षणं पूर्वव- स्वादिति वाच्यम् । वैषम्यात् । विषयैर्हि संनिहितैरपीन्द्रियगतकाममव- लम्ब्यैवेन्द्रियाण्याकृष्यन्ते । इन्द्रियैस्तु स्वगतकाममवलम्ब्यैव मन आक- ध्यते । मनसः सकामत्वे तु सोऽपि काम इन्द्रियरुते मन आकर्षण उप- युज्यत इत्यन्यत् । तथा कर्मेन्द्रियाणां प्राणानां च शुद्धिरप्यपेक्षितैव । कर्मेन्द्रि- पाणां च प्राणाधीनत्वेन तेषां शुद्धिरपि पाणशुद्धयधीनैव । शुद्धिश्व दोषनिर्यातनम् । दोषश्च प्राणादिवायूनां शरीरे योग्यसंचलनाभावः। तेन च कर्मेन्द्रियाणि स्वस्वकार्य कर्तुं न प्रभवन्ति । तथा सति शुद्धमपि चित्तं विचारं कर्तुं नोत्सहते । अधिकारमाप्त्यनन्तरं जायमान उपदेश आत्मवि- चारे पर्यवस्यति । तथा च पाणानां कर्मेन्द्रियाणां च शुद्धयभावे जायमानोऽ. प्यात्मविज्ञानोपदेशः स्वस्मिन्नेव लीनः स्यान्न तु फलोन्मुखो भवेत् । तथा बुद्धरपि शुद्धिरपेक्षितैव । बुद्धिरेव हि मनसः कार्य पूर्णतां संपादयति । मनो विमर्शरूपं स्याद्बुद्धिः स्यानिश्चयात्मिका ( प० द. १ । २०) इत्युक्तेः । न संकल्पमात्रेण कस्यापि कार्यस्य सिद्धिर्भवति । किंतु निश्चये सत्येव प्रवृत्तिर्वा निवृत्तिा जायमाना दृश्यते । तथा च यद्यात्मज्ञानोपदेशानन्तरं विचारे संप्रवृत्तेऽपि निश्चयो न भवेत्तर्हि जायमानोऽप्युपदेशो नैष्फल्यमापद्येत । किंच मनोबुद्धयोः संवन्धदाढर्यान्मनः शुद्धं बुद्धिरशुद्धा, विपर्ययेण वा मनोऽ- शुद्धं बुद्धिः शुद्धति कल्पद्वयमपि नैव संभवति । एवं लिङ्गन्देहघटकानां सर्वेषां शुद्धिरपेक्षिता न तु केवलं मनोमात्रस्य शुद्धया निर्वाहो भवतीत्युक्तम् । तथा स्थूलदेहस्य कारणदेहस्य च शुद्धिरप्यपोक्षतैव । तत्र स्थूलदेहः पञ्चीकतपश्च- महाभूतात्मकः । तस्य शुद्धिश्च दोषराहित्यम् । स्थूलदेहे दोषश्च तत्र वातपित्त- कफानां यावता प्रमाणेनावस्थितिरपेक्ष्यते तदपेक्षया तेषां न्यूनताऽऽधिक्यं वा दोषः । दोषे च सति तत्रावस्थितानां तदधीनस्थितीनां ज्ञानेन्द्रियाणां प्राणानां च स्वस्वकार्यजनने यथोचिता प्रवृत्तिर्न स्यादिति तत्साहाय्यं मनसो न स्यात् । स्यादेतत् । स्थूलदेहस्य या शुद्धिस्तदपेक्षा स्यानाम चित्तशुद्धः। परंतु कारपदेहस्य या शुद्धिस्तदपेक्षा सुतरां चित्तशुद्धेर्न संभवति । जगन्मूलभूतं बलाविषयकं यदज्ञानं तद्रूपो हि कारणदेहः । तस्य दोषश्च तस्य याथातथ्येन जायमानस्य ज्ञानस्याभाव इति पाक्पदर्शितमेव । इदमज्ञानम् ' इत्येवम- ज्ञानत्वेन यन्मूलभूताज्ञानविषयकं ज्ञानं तस्याभाव इति यावत् । तादृशज्ञाना.
कायपरिशुद्धिः। १.१ भावरूपस्य दोषस्य निरासेन हि कारणदेहस्य शुद्धिर्वाच्या। तादृशदोषनिरासश्च मूलभूताज्ञानस्य यदधिष्ठानं तस्य साक्षात्कारेण भवेत् किल । किंतु मूलभूताज्ञानस्याधिष्ठानं बलैवेति तत्साक्षाकारे सति मूलभूताज्ञानं विनष्ट- मिति तदानीं कारणदेहस्यास्तित्वमेव नास्ति कुतस्तच्छुद्धिः कुतस्तरां तदपेक्षा। तथा तदानीमज्ञानमूलकः सर्व एव प्रपञ्चो विलयं यात इति चित्तमपि नष्ट- मेव । दूरे तच्छुद्धिः । दूरतरे च तस्याः शुद्धेरन्यापेक्षेति । अत्रोच्यते । बलविषयकाज्ञाने ब्रह्मज्ञानेन विनष्टे कारणदेहो विनष्ट एव भव. तीति सत्यमेव । किंतु ब्रह्मज्ञानं द्विविधं--परोक्षं प्रत्यक्षं च । तत्र प्रत्यक्षज्ञानेना- ज्ञानं नश्येत् । न हि रज्जु प्रत्यक्षां ज्ञातवतः सर्पमतीतिर्भवति । एतावांस्तु तत्र विशेषः । रज्जुपत्यक्षे ज्ञातुज्ञेयज्ञानरूपा त्रिपुटी भासते । ब्रह्मपत्यक्षे सर्वथा भेदाभावेन त्रिपुटयपि न भासते । प्रातिभासिकपदार्थज्ञानाभावस्तूभयन समानः । परोक्षज्ञानेन तु नाज्ञानस्य विनाशः । किंतु क्षयोन्मुखत्वम् । एतावती या च तत्राज्ञानरूपस्य कारणदेहस्य शुद्धिः सा तत्र चित्तशुद्धेरपेक्षिता । कारणदेहस्याशुद्धत्वे तत्परिणामभूतस्य चित्तस्य शुद्धिरेव नोदयमासादयेत् । कारणदेहस्य क्षयोन्मुखत्वे सत्येव हि तत्परिणामभूते चित्ते कामः शिथिलसंचारः स्यान्नान्यथा । तथा च तदानीं चित्तशुद्धः कारणदेहशुद्धयपेक्षोपपद्यत एव । तदवस्थमुमुक्षुदृष्टया सर्वस्यास्य प्रपञ्चस्य पुरतः प्रतीयमानत्वात् । अत्रेदं बोध्यम् । यथा नायं सर्प इत्याप्तोपदेशेन निश्चितायामपि रज्जौ याव- च्चक्षुर्दोषस्तावत्सर्पः प्रतीयत एव । किंतु तत्रायं प्रातिभासिक इति बुद्धिसत्त्वा- तज्जन्यौ भयकम्पौ निवर्तते । तदानीं तस्य सर्पस्य भर्जितबीजवत्कार्यकारि- त्वाभावात् । एतादृश्येव जीवन्मुक्तावस्था । यदि तु नायं सर्प इति केनचिद्वाक्य उच्चारिते श्रोतुस्तत्र वाक्ये न पूर्णो विश्वासो नापि च सुतरामविश्वासरतार्ह तस्यामवस्थितौ नेत्रदोषण दृश्यमानात्सद्भयं कम्पश्चोत्पद्यत एव । विश्वस्त- वाक्याद्यथा भयं कम्पश्च नोत्पद्यते तथा तस्यामवस्थायां भयकम्पादिकं नास्त्ये- वेति वक्तुमशक्यम् । संशयादपि तादृशकार्योत्पत्तिजननात् । तादृशी च या मुमुक्षोरवस्थाऽऽत्मविज्ञानोपदेशात्माक्तन्यधिकारसंपत्तिस्तस्यामवस्थितौ या चित्तशुद्धिस्तया कारणदेहशुद्धिरपेक्ष्यत एव । यावती च तदानीं कारणदेहस्य शुद्धिस्तावत्येवापेक्ष्यत इति न कश्चिद्दोषः। तदेवं चित्तमात्रशुद्धचा न कार्यसिद्धिः किंतु कायपरिशुद्धिरपेक्ष्यत इति प्रदर्शितम् ।
१.२ म. वासुदेवशास्त्रिप्रणीता- अत्रेदं बोध्यम् । कायपरिशुद्धिश्चयं धार्मिकस्यैव भवति । धार्मिक- लक्षणं तु- देवतागोदिजादीनां परिचर्यादिकर्मसु । व्यापारयति यः कायं स धार्मिक इति स्मृतः ॥ देवतादिपशंसायां स्वाध्यायाध्ययने जपे । व्यापारयति यो वाचं स धार्मिक इति स्मृतः ॥ संध्योपासनहोमादिविधयो नैव बन्धनम् । किंत्वनुग्रह इत्येवं मतिर्यस्य स धार्मिकः ॥ इति । एतच्च धार्मिकस्य न पृथग्लक्षणत्रयं मन्तव्यम् । किंतु समुच्चित्यैकमेवेदं धार्मिकलक्षणं बोध्यम् । तदुक्तमभियुक्तः- कायेन वाचा मनसा चैव योऽहनिशं नरः । धर्मप्रवणतामेति स धार्मिक इतीर्यते ॥ इति । ननु संध्यादिविधीनामनुग्रहत्वेन ज्ञानं धार्मिकलक्षणे प्रतिपादितम् । किंतु तेभ्यस्तादृशीं बुद्धिमीश्वर एव ददाति । न देवा दण्डमादाय रक्षन्ति पशुपालवत् । यं हि रक्षितुमिच्छन्ति बुद्धया संयोजयन्ति तम् ।। इत्युक्तेः । न चेश्वरश्चै सर्वसाधारणस्तादृगी बुद्धिं कुतः सर्वेभ्यो न ददातीति वाच्यम् । यतः साधारणोऽपि दोषशून्योऽपि चेश्वरः कर्मायत्त एव तादृश- बुद्धिपदाने प्रभवति । तादृशं कर्म च देवतादीनां परिचयादिषु कायवाग्व्यापारा- दिकं बोध्यम् । नच तादृशव्यापारानुगुणाऽपि बुद्धिः परमेश्वरमदत्तैव । तथा च तत्र कीदृशकायत्तत्वं परमेश्वरस्येति वाच्यम् । तत्र तत्पूर्वतनकाय- तत्वात् । संसारस्यानादित्वमत्र पार्यन्तिकः समाधिोध्यः । अथ कायपरिशुद्धौ जातायां कार्यसिद्धिः कया विधया भवति तदुच्यते । सर्वो हि जन्तुः सुखार्थ दुःखनिवृत्त्यर्थं च प्रयतत इति प्रसिद्धमेव । यत्र चैकस्मादेव विषयात्सुखं दुःखं च प्राप्यते तत्र प्राणिनां प्रवृत्तिा भवति निवृत्तिर्वा । तत्रायं संसारासक्तानां प्राणिनां क्रमः- वस्तुनीह सुखसाधनबुद्धिदुःखसाधनमात निसर्गतः। बाधते खलु समामवरां वा नोत्कटामिति सुखार्थिनां क्रमः ॥
कायपरिशुद्धिः। यद्वस्तु सुख साधनं तदेव दुःखसाधनं चेत्तद्वस्तु सुखसाधनत्वाद्यास- मथवा दुःखसाधनत्वात्त्याज्यमिति विचारे यदि तत्र सुखापेक्षया दुःखं न्यूनमथवा सुखेन समं प्रतीतं भवेत्ताह तत्र दुःखसाधनमतेर्बाधो भवति । अतस्तत्र निष- तिर्न भवति किंतु तद्ग्रहणे प्रवृत्तिरेव भवति । वस्तुतस्तु- समत्वमवरत्वं वा यत्रापि ज्ञायते नरैः । तत्रापि वस्तुतोऽरव दुःखभारोऽतिदुःसहः ॥ इत्युक्तरीत्या प्रायः सर्वत्र सुखापेक्षया दुःखमधिकमवेति बोध्यम् । ननु सुखा- पेक्षया दुःखं न्यूनं प्रतीतं चेदस्तु नाम तत्र दुःखसाधनमतेर्वाधात्सुखार्थी प्रवृत्तिः । सुखदुःखयोः साम्ये पतीत तु कदाचित्सुखार्थी प्रवृत्तिः कदाचिदुःख- निवृत्त्यर्था निवृत्तिरिति तत्र प्रवृत्तिरेव कथमुच्यत इति चेन । संशये निश्चायिका हि बुद्धिः । सा च मलिना कामपरवशा । कामश्च स्वपति- कूलतया वस्तुतो दुःखसाधनतां निहनुते । तथा च तादृशकामसंयुक्ता बुद्धि- यित्वेनैव निश्चयमातनुते । किंच यत्रापि सुखापेक्षया वस्तुतोऽधिकं दुःखं तत्रापि कामो यथासंभवं दुःखस्याऽऽधिक्यमपह्नत्य सुखेन साम्यं न्यूनता पा प्रदर्शयन् दुःखसाधनमते धमेव साधयति । यत्र तु सुखदुःखयोर्महदन्तरं सुखं स्वल्पतरं दुःखं च महत्तरं मृत्युसमं तत्र दुःखस्याऽऽधिक्यमपह्नोतुमशक्नुवधगत्या कामस्तत्र तूष्णीमास्ते । यथा- नानं विषेण संपृक्तं क्षुधार्तोऽपि जिघत्सति । कचित्तु तादृशे महदन्तरेऽपि कामः माणिनमन्धं कर्तुं प्रभवति । तत्र स पाणी सुखलोलुपः सन् कामान्यतया भावि दुःखमपश्यन् तत्र प्रवर्तत एव । तदुक्तम्- कामान्धः किं न कुर्वीत यत्पाण्डुः काममोहितः । जानन्नपि स्वकं मृत्युं माया साकमरीरमत् ॥ इति । भाविनो दुःखस्य महत्तरत्वेऽपि निश्चितत्वेऽप्यहिकत्वेऽपि चैवं कामस्य स्वाराज्यं किमुत भाविनो दुःखस्य स्वल्पत्वे संदिग्धत्वे जन्मान्तरगतत्वे ।। तत्र महत्तरमपि दुःखं जन्मान्तरगतं चेत्तत्र व्यवधायकं मरणकालघटित भूयांसं कालं पुरस्कृत्य ससहाय इव कालस्तव तज्जन्मान्तरगतं दुःखं निहनुत्यै- हिकसुखार्थे प्रवर्तयति । प्रायस्तादृशे विषये यथेच्छं कामो नरीनति । केवलं सत्त्वगुणो कर्षे सलले वास्य कामस्य पयलो निष्फलो भवति । तदुकम्-
१:०४
म. वासुदेवशास्त्रिप्रणीता-
पराभूतो भवेत्कामः सत्त्वोत्कर्षेण नान्यतः ।
रजोगुणः सहायः स्यादविरोधी तमोगुणः ।। इति ।
सत्त्वोत्कर्षश्च कायपरिशुद्धाववश्यंभावीति तत्र कामोऽकिंचित्करो भवति ।
तथा चाऽऽत्मविज्ञानोपदेशाधिकारः संपद्यते । सति चैवमधिकारसंपत्तौ नित्यस्य
स्वरूपयोग्यत्वे फलावश्यंभावनियमाद्यदा कदाचित्तस्योपदेष्ट्राचार्यसंनिधानं स्यादे-
वेति तेनोपदेशे कृते सति साक्षादात्मसायुज्यमुपैतीति सिद्धम् ।
समर्ण्य गौरीरमणे भक्त्यैतं ग्रन्थमादरात् ।
श्रीवासुदेवो जनुषः साफल्यं लब्धुमीहते ॥
इति श्रीमन्महामहोपाध्यायाभ्यंकरोपाह्ववासुदेवशास्त्रिविरचिता
कायपरिशुद्धिः समाप्ता ॥
कायपरिशुद्धावुद्धृतानां श्रुत्यादीनां वर्णानुक्रमेण सूचीपत्रम् । श्रुत्यादयः। पृष्ठम्। अ. ८८ । ९ ... अ इ उ ण अग्निर्धा अङ्गे लोप अजातपाय अतस्ताक्रम अतिस्नेहः २३ ३६ ७२ अतृणे पतितो १० अत्र श्मशान ४४ अथ चेत्त्वमि ४५ अथ तस्य भयं अधमामनुजां ६ पृष्ठम्। श्रुत्यादयः। अमाप्तकामः १३ अप्ताप्ते शास्त्र ९८ अपामाण्ये ९५ अभिनिवेश ८८ अयोग्यसम ८६ अयं दरिद्रो ५४ अरे द्वार ८८ अवचनेनैव ८७ अवशिष्टं वि ५८ अविज्ञातं ४० अविद्या त ८४ अशक्ता नि २३ अशब्दमस्प ६६ अशब्दमस ७१ अशुद्ध काम ३१ असत्ये वर्त्म २९ असत्ये वर्त्म २९ अस्तित्वे दीप ४४ अहं ते सर्व ३५ अहं त्वा सर्व ११ अहं त्वा सर्व ३१ ३९ आग्रहाकान्त ४१ आग्रही नि ९८ आग्रही बत १० ११ अधुना निश्च ४१ ८९ १५ अधुनोप अध्याहारस्तु अनुकूलस्त अनुभतेरा अनुभूतेर्वि अन्तः प्रविष्ट अन्धकारोऽपि अन्धगज अन्वयव्यति अपत्यं पौत्र अपहतपाप्मा अपार रेतासि ३९ ८२ ६१ ४८८ ६५ आ. ८२ ८३ ८३ [२] पृष्ठम् । पृष्ठम् । श्रुत्यादयः। ९४ इमं श्रुतेः ८६ ... है. ४६ ईशस्य दुनि २७ ... ९ उ. ... श्रुत्यादयः। आचार्यादैव आत्मन्नात्म आत्मन्येवा आत्मा वा अरे आत्मा वा इद आत्मा वा इद आत्मा वा इद आदित्यो यूप आदौ विचार आपेक्षिक्येव ... : :: : : २१ ८४ ... १ उचितायाप्य २० उत्कर्षणं म २० उत्तमः पुरुषः ८२ उत्तमा मनु २३ उत्थापकत्व ८६ उत्थापको य ९५ उद्दिष्टार्थस्य १ उद्बुध्यस्वा २४ उपदेष्यन्ति २४ उपदेश्यन्ति ९२ ९२ ८३ ... आप्यायस्व आरोग्यशास्त्र ९५ : : : : आशैव चान्तः आशैव दुःख ४७ ७४ ७६ ... आश्रयैक्ये आसत्येन आसत्येन ७७ ६९ उपदेक्ष्यन्ति ९४ उदेश्यन्ति ९६ ... ३७ ... ... or इ. इतरस्याप्येव ... उपदेशः रुतः उत्पत्तौ उपभुज्यते ८१ उपायाः शिक्ष १२ उमयतमाशा १२ १२ : : :: ३२ १५ इदं सर्व ... ... ५६ . ऋ. : : २४ कजेन्द्राय २५ तौ भार्या ८५ ... इदं सर्व इदं सर्व इदं सर्व इदं सर्व इदानी गत इदानीं तत्र इदानीमस्मि इन्द्रियेभ्यः प ए. ७२ : : १. एकं संधिस ६७ एक इन्द्रश २२. एक एव प ८२ [३] श्रुत्यादयः। पृष्ठम्। ८६ एक एवाग्र ... एक एवाग्र ८७ ९० : : ܩ ... ... ... १०२ पृष्ठम् । श्रुत्यादयः। १ कामाहंकार १ कामोपशम २ कामो बीज ३८ कायांश्च दोष ३८ कायेन वाचा ३७ कार्यमित्येव ६६ किंचिदप्यत्र ७३ किंतु कार्यम २४ किंतु माग्दृढ ३६ किंतु भक्ष्या ११ कित्वनुग्रह ... .... एक एवाग्र एकमेवादि एकमेवा एतदेकपर एवमुक्त्वा एवमुक्त्वा एवं विष्णुप एषा याचार्य एषोऽणुरात्मा ३ ६१ ८८ :: ... ८६ ८६ १०२ ५३ نا कित्वसंभाव ऐन्द्रया गाईप ९३ किंवसंभाव ८८ क. कुतस्त्वा कश्म : : कथं न ज्ञेय कथं भीष्म कथं भीष्म कथा तत्त्वबु ६१ कुरु कर्माणि ७३ कुरु कमैव ७६ कूटस्थोऽन्त ७६ ७६ ... ... ... २ कया नश्चित्र कया शचि कर्मणैव हि कर्मणैव हि २३ केतुं रुण्व ९७ केवलाद्वच ९७ केवलेनानु ७८ क्षणं कीडन्ति ७९ क्षरः सर्वाणि ३४ । क्षुद्रकामोरो ८२ क्षुः स्थूलाः : : ८२ ८२ ३४ २१ ८६ ८६ कलौ लुब्धा . काचावृतम काम एष ३ ग. काम एष ८९ गायत्रीत्वं ८८ गीति दीपा १०३ गृहीतार्था कामस्तत्र कामांन्धः किं न ... ३३ ८२ [४] श्रुत्यादयः। पृष्ठम् । घ. ४२ घटमीप्सु घनच्छन्न १० घनच्छन्नम च. ... चान्द्रं ज्योतिः छ. श्रुत्यादयः। तत्र को मोहः ४५ तत्त्वमसि १६ तत्त्वमसि १६ तत्त्वमसि तत्त्वमसि ४९ तत्त्वमसि तत्त्वमसि ९३ तत्त्वमसि तत्त्वमसि ८६ / तत्त्वमसि १०३ तत्त्वमसि २७ तत्त्वमसि ६ तत्त्वस्य नि ६९ तत्संशय छान्दोग्यश्रुति ज. १२ २४ २७ ३० ३० ३१ ३१ ३१ ३८ २३ ४७ : : : : .. ... जठरान्तः जानन्नपि जीव ईश जीव ईशो ज्ञानतोऽज्ञान ज्ञानादेव तु ज्ञानादेव तु ज्ञानी त्वात्मैव ज्योतिष्टोमेन ज्योतिष्टोमेन ८६ ... :: ... ... ४४ तथा तत्रस्था ८० तथा वृत्ति २७ तथा स्वर्गा ७८ तदधिगम ८७ | तदधिगम तदर्थं कर्म ८६ ६३ ८१ त. ५६ :: ७७ तञ्चिन्तनं तज्ज्ञेयं वै ३७ तदर्थं कर्म ३३ तदर्थस्य ७१ तत एव ९० तद्वत्कामान् ८६ ... ... ततः प्रणम्य ... ४८ ... तत्र पाणाः ६६ तदेव ब्रह्म ९४ तदेवौषध २३ तदैक्षत ५८ तद्वदेव . : : ततः स्यात्प १६ ... ततः स्वधर्म तत्कायपरि : : : : ४७ तद्वयदि ... ३३ [५] श्रुत्यादयः। पृष्ठम् । श्रुत्यादयः । ४४ दृष्टव्यः श्रो ८० दृष्टव्यः श्रो पृष्ठम् । ३९ तमेवं विद्वान् तमेवं विद्वान् तमो रजः ... .. २१ ... तस्मात्मण ८हाविमौ ६५ वा सुपर्णा ७६ वा सुपर्णा १० द्वतिनां तु ५६ २३ ध. : : : : १०३ :: : ६ :: ४ धर्मप्रवण ७२ ९० धाता यथा ३३ धातुदोषः १ धातुसाम्य ५३ ८६ ५४ न कश्चिदपि ९८ न कस्य तत्प ध्यात्वा महा १ ... न. तरमाधुध्य तस्य कर्तार तस्य कर्तार तादात्विकी तृणबीजं तृप्तः स्वाद ते कायशुद्धि तेषां सतत ते सर्वे स त्यक्त्वेमां त्रिविधा हि ददामि बुद्धि ददामि बुद्धि ददामि बुद्धि ददामि बद्धि दशमस्त्व दुःखहाना दृषयन्ति दृश्यन्त एव देवता गो देवतादि ८६ :: :: ५२ न केनापि ... ८६ ८६ ४१ : : : : ५३ न चक्षुषा ५३ न जातु कामः ६३ न जातु कामः ३० न जातु कामः कामानामला... ८४ न जिघत्सति ८५ ८६ ३३ ८६ न जिघत्साति ८७ .. : : ८७ न तथा कल्प ८७ ... :: سے سہ देवता स्यात् १०२ न तस्मात्फल १०२ नत्वेवाह ९४ नत्वेवाह ३५ नत्वेवाह ३८ ३४ ३६ ७३ :०२ ... दहिनोऽस्मिन् देवी संपति ५८ न देवा दण्ड [६] पृष्ठम् । श्रुत्यादयः। न ध्वान्तस्थ न नमां स्त्रिय ४१ १३ ... न परदारा न परदारा ९० न मस्मलेपः ९४ ९." ... नष्टो मोहः नष्टो मोहः न सम्मास पृष्ठम् । श्रुत्यादयः। ४५ नेह नाना ९० नेह नाना ८५ नैव चित्रस्थ ९१ नैव तस्मा ८६ नैव मूर्ते ५८ नैव यज्ञोप ७३ २० पक्षपातर ९१ पञ्जरे स्थाप्य ९१ परधर्म प्र १०३ पराभूतो ७ परित्यज्य ४४ पिया ८० पश्यैतच्छकु प. ... ८३ ८६ ... न सुरां पिये न सुराविक नानं विषेण ... ... नान्यः पन्था ... नान्यः पन्था ... नान्यः पन्था ... नापराध ... ५५ नापराध ... ... ६५ ३९ नायमात्मा ... नित्यं स पुर ५५ नित्यस्य स्वरू नित्यानित्यत्व नित्यानित्यवि ६९ पापमेवाऽऽश्र ६९ पितेव पुत्र १२ पीनो देवदत्तः पुत्रावियोग १०४ । पुनः कृण्व ३२ पुरुषान ३३ पूर्वत्रासिद्ध ७६ पौत्रप्रभृति • ... नियनं कुरु २२ ७१ ३९ ५९ ५० . निरञ्जनः निसयन निरोधकत्वं ननं शिथिल नेह नाना ४९ प्रकृत्यैव वि ६९ प्रक्षालनाद्धि ३८ प्रक्षालनाद्धि ८६ प्रजहाति य ३१ प्रधानविध्य ३८ प्रमाणभूतैः ... ४६ ५९ ३२ नेह नाना ...
पृष्ठम् । श्रुत्यादयः। पृष्ठम् । श्रुत्यादयः। प्रयत्नः कि प्रयोगसम म. ९४ मदुक्तिमेकां मध्यस्थसं ४९ ४२ ... प्रविश्य हि प्राणेन रक्ष : : ३ मनसस्तु २२ १०० प्रातः सदैव प्रादुर्भावः क प्रेक्षावन्तः प्राप्ते षोडशे : : : •.. ७९ मनो विमर्श ९४ मनो हि द्वि २३ मन्त्रमय्या ६७ मन्दं प्रवर्त मन्दं प्रवर्तते ... • .. •.. ५३ 6. ८८ फलप्राप्ति ५३ | मन्मना भव : : फलमाप्त्या ८८ मन्मना भव ::: ब. मन्मना भव ५३ ६१ ६२ २२ बहु स्यां प्र बाधते खलु बाधते खलु :: :: ३ बीजमुत्था : : ८९ ५७ बुद्धिमन्दो बुद्धियुक्तो बुद्ध्या युक्तो बुभक्षितोऽपि बहस्पते ब्रह्म वेद ब्र १ मन्मना भव १०२ महतः पर ८५ महाशनो ९२ महाशनो ३२ महासत्त्वा ५६ मा कर्मफल ७७ मात्रास्पर्शा ३३ मामेकं शर ९४ मामेवैष्यास ४८ मामेवैष्यसि ३५ ५९ :: ... ६१ ... : : : : भ. मामेवैष्यसि मामेवैष्यसि ६२ ५३ यु भक्तिमान्मे भक्तिमान्य भवावाज ५१ मायामात्र ... भय एवाभि ९५ मायामात्र ८७ मायामात्र ९० मायिकानां भोगेन फलि [८] पृष्ठम् । ४१ ९० ८२ श्रुत्यादयः। मा शुचः संप मां हि पार्थ मां हि पार्थ व्य मित्रस्य चर्ष मुक्तानामपि मुखं स्यापि मुमुक्षवो ८६ पृष्ठम् । श्रुत्यादयः। ५८ यतो वाचो ६४ यत्नेनाङ्कुरि ६४ यत्र मार्गा अ ९६ यथाऽपरो २४ यथाऽपसार्य २३ यथा चिन्तामणि ८४ | यथा निरि ३२ यथा मुञ्जा १२ यथा मूर्यो ३६ यथा यस्य ४७ यथा सुखस्य यदपत्य ८९ मुमुक्षा चेति ... ३ मूकोऽस्मीति ... :: or मृषा न चके ... ... ३७ ५५ य. २६ / यदा होवैष य आत्मनि य आत्मनि य आत्मनि ४ : : २७ / यदि दुष्टं २७ | यदि मुख्य ५९ य आत्मान ८१ २६ / यदुपाधे ९२ यद्दीदय ३३ यद्भूतयोनि : : :: २ ... oc ७७ | यद्यदुष्टं यद्यप्येते ८४ | यद्वदन्नोद ... ७६ ... ... ... १० यजमान यज्जिहास यज्ञार्थाक यतः प्रवृत्ति यतमाना दुः यतस्तत्रा यतो वाचो यतो वाचो यतो वाचो यतो वाचो यतो पाचो यतो वाचो : : ... ४१ ४६ ७१ यद्दाचाऽनभ्यु १० यदाचाऽनभ्यु ११ यद्वाचाऽनभ्यु ३१ यन्मनसा ३६ यन्मनसा ४१ यन्मनसा : : ११ ३१ ४१ .. ४१ यन्मनता [९] पृष्ठम् । श्रुत्यादयः। पृष्ठम् । श्रुत्यादयः। यन्मनसा र. १०४ यस्तु भवत यस्तु पवर्त ५३ रजोगुणः :स ८८ रीतिः साऽभ्यु ८३ ... यस्मिन्सर्वा यस्यामतं ४२ रोगनाशक ४५ / रोगीत्ययं . यस्याऽऽत्मा २४ ल. ... ६७ : : २५ लालयेत् २५ : : व . २४ वक्तर्यारोप ३२ ... ५७ यस्याऽऽत्मा यस्याऽऽत्मा यस्य पृथिवी यस्य पृथिवी यस्य माप्तौ यावदशुद्धः युक्ति समी युध्यस्व जे युध्यस्व वि : :: वचनं तत्र ८२ ४७ २५ वक्तुं सुकर ४४ वक्तृतात्पर्य ७३ वचस्याप ८३ वराटिका ७६ वराटिका वस्तुनीह सु वस्तुनोः सा ३८ वानिवृत्ति ५६ वादिनो ना ५८ वादो हि नि वार्धक्येऽपि च ८५ ૪૮ :: : १२ २३ २३ ८७ येषां कुमार्ग योऽर्थोऽनुक्तों योगस्थः कुरु योगस्थः कुरु योगस्थः कुरु यो मद्भक्तः यो मे भक्तः यो विज्ञाने यो विज्ञाने यो विज्ञाने यं हि न व्य यं हि रक्षितु विज्ञानं ब्रह्म ५१ विण्मूत्रयोः १ ... २३ : : : ८८ ... २६ विद्युल्लवन २६ विधि निषेधं २६ विनाधिकारः ३६ विना कायशु १०२ विवक्षा नि ३८ : : : : : :: ७३ ७१ २ [१०] पृष्ठम्। पृष्ठम् । श्रुत्यादयः। ८८ स. ... ... १ ३ श्रुत्यादयः। विशेषतः प विशेषो भोग विषयेन्द्रिय विसृज्य स विसृज्य स वैद्यकं लि वैराग्यमूल व्यत्ययो व व्यापारयति बजन्ति ते ४१ ९२ स एवाध्या ३३ स ऐक्षत ६६ सङ्गं त्यक्त्वा ६६ सत्यं ज्ञान ४ सत्त्वशुद्धय ३४ सदा गुरुं ७२ सदेव सोम्य १०२ सदेव सोम्य ८ ५९ ... ... ९० समुषद्भि श . ९६ १०४ ६३ ५१ ४८ ५८ शनैः शनैः शंयोर शब्दाद्या एवं शरीरत्रित शर्कराखण्ड शास्त्रमलं प्र शिष्यस्तेऽहं शुद्धी संवृत्ता ... ... ६५ ४३ ३२ ३४ ... ... ... समर्य ८६ समे यजेत ९७ समोऽहं स ११ सर्वधर्मान् ३ सर्वधर्मान् ८६ सर्वधर्मान् ८१ सर्वात्मानम् ६२ स वक्त्रा पा ७३ स शमो वि ९६ स स्वर्गः स्यात् ३३ सहैव दश ९७ | साकं रामेण ८६ साम्येन यत्न ८७ सिद्धं तु निवर्त ८६ सुखदुःखे ८६ सुखमाप्तिर्दुःख १०४ सुखमाप्तिर्दुःख ३२ सूक्ष्मेक्षिकां ७८ शुक्र ते ७९ ६३ शुश्रूषते शं नो देवी श्रुतिः कारय अतिमदर्शित ८४ ... ... १४ ... :: श्रुत्या लौकिक श्रुत्या स्वर्गा ८४ ... ८४ श्रीवासुदेवो भास्थायी ... ...
[१] पृष्ठम् । ८२ पृष्ठम् । श्रुत्यादयः। ३३ स्वरूपतो २७ | स्वर्गकामो ४४ स्वर्गकामो १०२ | स्वसंशय ८६ ४७ २४ ११ स्वस्मादुल ८८ श्रुत्यादयः। सोऽनित्यत्व सोऽयं देव सोऽर्थः संभा संध्योपासन संनिकर्षा संपाप्तकामः संशये हि स्त्रियो वैश्याः स्त्रियो वैश्याः स्थाने हृषीके स्थूलो दोषो स्वकर्मणा स्वकर्मणा स्वकर्मनिर स्वधर्ममपि स्वधर्ममपि : : : : १३ ६४ ७९ ... :: ८८ स्वादृप्यन्नं ७१ स्वादप्यन्नं ६४ स्वाध्यायोऽध्ये ६४ स्वीयं संर ६५ स्वे स्वे कर्म ३३ स्वोत्मेक्षितेन ७९ ८० हर्षामर्ष ८० | हविषा कृष्ण ४९ हविषा कृष्ण ५८ हिरण्ययेन he ५१ ८५ समाप्तमिदं श्रुत्यादिसूचीपत्रम् ॥
No text on this page.
No text on this page.