Svi-vmpl-machilipatnam

Uttararaamacharitamu

Shriibhavabhuti

PDF Proofread

Front matter

No text on this page.

ma.malner)
वि)
विरे
f
॥ श्रीः॥
महाकविश्रीभवभूतिप्रणीतं
उत्तररामचरितम् ।
वीरराघवकृतया टीकया समेतम् ।
mic
मूल्यं रूप्यकपादत्रयम् ।
वि

निर्णयसागरस्थविक्रेयसंस्कृतपुस्तकानि । ... ... १ ... ... ... ... ... १॥ २ १ ... ... ... ... ८ ... ... ... ... ... ... ... मू० अनुभूतिप्रकाशः-विद्यारण्यखामिकृतः. अभिधानसंग्रहः-प्रथमो भागः. अभिधानसंग्रहः-द्वितीयो भागः. अभिज्ञानशाकुन्तलं नाटकम्-आङ्ग्लटिप्पणीयुतम्. अष्टाङ्गहृदयमूलम्-श्रीमद्वाग्भट्टविरचितं (मूलमात्रम्). अष्टाङ्गहृदयम्-वाग्भट्टकृतं-सूत्र-शारीर-निदान-चिकित्सा-कल्प- उत्तरस्थानसहितं, श्रीमदरुणदत्तप्रणीतया सर्वाङ्गसुन्दराख्य- टीकया विभूषितं च. अष्टाविंशत्युपनिषदः-(गुटका, उपनिषदः २८ ) आहिकचन्द्रिका-(सायनमन्त्रभाष्यसहिता) उत्तररामचरितम्-महाकविश्रीभवभूतिप्रणीतं, वीरराघवकृ- तया टीकया समेतम्. ऋक्संहितापदपाठः-(पदानि ). ३ कथासरित्सागरः-महाकविश्रीसोमदेवभट्टविरचितः, एतस्मिन् पृथक् पृथक् मनोहराः १२४ कथाः सन्ति. कादम्बरी-बाणभट्टकृता,भानुचन्द्रसिद्धचन्द्रप्रणीतया टीकया सहिता५ कारिकावली-(सिद्धान्तमुक्तावलीसहिता). किरातार्जुनीयं काव्यम्-भारविकृतं, मल्लिनाथकृतया घण्टापथटीकया सहितम्. कुमारसंभवं काव्यम्-कालिदासकृतं, मल्लिनाथकृतया (१-७ सर्गपर्यन्तं ), सीतारामकृत (८-१७ सर्गपर्यन्तं), संजी- विन्या टीकया सहितं च. २ कुवलयानन्दः-(चंद्रलोक-अलंकारचन्द्रिकाव्याख्यासहितः). गरुडपुराणम्-सटीकं, सारोद्धारः. गीतगोविन्दम्-महाकविश्रीजयदेवविरचितं, कुम्भनृपतिप्रणी- तमा रसिकप्रियाव्याख्यया, महामहोपाध्यायशंकरमिश्रनि- र्मितया रसमजरीव्याख्यया च संवलितम्... चम्पूभारतम्-रामचन्द्रबुधेन्द्रविरचितया व्याख्यया समेतम्. चम्पूरामायणम्-श्रीभोजराजविरचितं (पञ्चमकाण्डपर्यन्तं), लक्ष्मणसूरिविरचितं (षष्ठकाण्डमात्रं ), रामचन्द्रबुधेन्द्रविर- चितया व्याख्यया समेतम्.. ... ... ... ... ... ...

अ० श्लो १ ६ ३ ६ ४० १ .. ४ १२ १ २ २ ४ १३ ७ १ ३ ३ वसिष्ठो वाल्मीकिर्दशरथ वितरति गुरुः प्राने विद्याकल्पेन मरुता विना सीतादेव्या किमिव विनिवर्तित एष वीर विनिश्चेतुं शक्यो न सु विरोधो विश्रान्तः प्रस विलुलितमतिपूरैर्बाष्प विश्वंभरात्मजा देवी विश्वभरा भगवती विनम्भादुरसि निपत्य वीचीवातैः शीकरक्षोद वृद्धास्ते न विचारणीय वेलोलोलक्षुभितकरुणो व्यतिकर इव भीम व्यतिषजति पदार्था व्यर्थ यत्र कपीन्द्रसख्य शम्बूको नाम वृषल: शान्त महापुरुषसंगदित शिशु शिष्या वा यद शुक्लाच्छदन्तच्छविसुन्दरे शैशवात्प्रभृति तोषितां श्रमाम्बुशिशिरीभव स एष ते वल्लभशाखि संख्यातीतैरिदतुरग श्लोक ३९ सतां केनापि कार्येण रग ४ संतानवाहीन्यपि मानु समयः स वर्तत इवैष ३० समाश्वसिहि कल्याणि ८ संबन्धस्पृहणीयता ३५ संबन्धिनो वसिष्ठादी स राजा तत्सौख्यं स च २३ सर्वथा व्यवहर्तव्य स संवन्धी श्लाघ्यः प्रिय ९ सस्वेदरोमाञ्चितकम्भि ४९ सिद्ध ह्येतद्वाचि वीर्य २ सीतादेव्या स्वकरकलितैः ३४ : सुहृदिव प्रकटय्य ३६ सैनिकानां प्रमाथेन १३ सोढश्चिरं राक्षसमध्य १२ सोऽयं शैलः ककुभ ४५ स्निग्धश्यामाः क्वचिदप स्नेह दयां च सौख्यं च ७ स्नेहात्सभाजयितुमेत्य स्पर्शः : पुरा परिचितो २७ / स्मरसि सुतनु तस्मि ४५ हा हा देवि स्फुटति ३७ हा हा धिक्परगृहवास ६ हृदि नित्यानुषक्तेन १२ । हे हस्त दक्षिण मृतस्य ३१ ७ १ ३ ३ २ १ १ १ ११ ३ ६ -० ३ 4 dW ६ ४० २ २ १० २ ३ अ० ० ३ ३ ६ ७ २१ २ ३ ३ २ १ १ ८ न किल भवतां देव्याः न तेजस्तेजस्वी प्रमृत नन्वेप त्वरितसुमन न प्रमाणीकृतः पाणि नमो वः परमानेभ्यो नबकुवलयनिग्धै नियोजय यथाधर्म निष्कूजस्तिमिताः क्वचि नीरन्ध्रवालकदली नीवारोदनमण्डमुष्ण नून त्वया परिभव च नैताः प्रियतमा वाचः पञ्चप्रसूतेरपि तस्य पतनविरलैः प्रान्तो परां कोटि स्नेहे परि परिणतकठोरपुष्कर परिपाण्डुदुर्बलकपोल पश्चात्पुच्छं वहति विपुल पश्यामि च जनस्थान पातालोदरकुलपुज पाप्मभ्यश्च पुनाति वर्ध पुत्रसंक्रान्तलक्ष्मीकै पुरा यत्र स्रोतः पुलि पूरोत्पीडे तटाकस्य ३ ४२ १ 1 श्लो ३२ अमिषु कृतपुटान्त १४ मनोरथस्य यद्वीज १ मन्थादिव क्षुभ्यति ५ महिन्नामेतस्मिन्विनय मा निषाद प्रतिष्ठां त्व २२ मुनिजनशिशुरेक: २० मेघमालेव यश्चाय म्लानस्य जीवकुसुम य एव मे जनः पूर्व यत्र द्रुमा अपि मृगा २३ यत्रानन्दाश्च मोदाश्च ३४ यत्सावित्रैदीपितं भू यथा तिरश्चीनमलात २० यथा वसिष्टाङ्गिरसौ २८ यथेच्छाभोग्य वो वन १३ यथेन्दावानन्द ब्रजति यदस्याः पत्युा रहसि यदा किचित्किंचित्कृत १७ यदि च वयमप्येवंप्रायाः यदि नो सन्ति सन्त्येव यदृच्छासंवादः किमु यं ब्रह्माणमिय देवी यया पूतमन्यो निधि यस्यां ते दिवसास्तया येनोद्गच्छद्विसकिसलय योऽयमश्वः पताकेय २ रणत्करणझञ्झण राज्याश्रमनिवासोऽपि लीलोत्खातमृणाल ur २ ६ २६ ३ ४ ४ २८ ४ ७ ५ २ ४ १० पौलस्त्यस्य जटायुषा २ ३ २ १ ७ १ ६ ६ १६ प्रत्युप्तस्येव दयिते प्रसाद इव मूर्तस्ते प्रियप्राया वृत्तिविनय प्रियागुणसहस्राणां प्रिया तु सीता रामस्य बाष्पवर्षेण नीत वो ब्रह्मादयो ब्रह्महिताय ब्रह्मादयो ब्रह्महिता भृशाश्वः कौशिको राम भृशाश्वतनया ह्येते भो भो लव मद्यवाहो लौकिकानां हि साधूना ६ १ १०॥ ६ १५ वज्रादपि कठोराणि वत्सायाश्च रघूद्वहस्य ९ वपुरवियुतसिद्धा १५ वसिष्ठ एव ह्याचार्यो वसिष्ठाधिष्ठिता देव्यो " ur २२६ २४ १४ १ ... ... ... .. ... ... २ ... ... मू० डा.व्य. महावीरचरितं नाटकम्-भवभूतिकृतं, वीरराघवकृतया टीकया सहितम्. महिम्नस्तोत्रम्-मधुसूदनी (शिवविष्ण्वर्थक )व्याख्यया सहितम्. ... माधवनिदानम्-श्रीमन्माधवकरविरचितम् , श्रीमद्विजयरक्षित- श्रीकण्ठदत्ताभ्यां प्रणीतया मधुकोशाख्यव्याख्यया सहितम्. मालतीमाधवं नाटकम्-भवभूतिकृतं, त्रिपुरारिकृतटीकया, नान्यदेवकृतटीकया जगद्धरकृतटीकया च सहितम्. मालविकाग्निमित्रं नाटकम्-आग्लटिप्पणीविभूषितम्. मुद्राराक्षसं नाटकम्-विशाखदत्तविरचितं, धुण्डिराजकृत- टीकया सहितम्. 'मुहूर्तमार्तड:-मार्तडवल्लभाख्य्या व्याख्यया सहितः मृच्छकटिकम्-शूद्रककविविरचितं, -शूद्रककविविरचितं, पृथ्वीधरकृतया व्याख्यया आङ्ग्लटिप्पणेन च संवलितम्. मेघदूतकाव्यम्-आग्लटिप्पणीसहितम्. रघुवंशकाव्यम्-कालिदासकृतं, मल्लिनाथकृतया संजीविन्या- ख्यया टीकया सहितं, स्थूलाक्षरम्. bar रत्नावलीनाटिका-आग्लटिप्पणीसहिता. राक्षसकाव्यम्-(सटीकम् ) श्रीकालिदासकृतम्. लक्ष्मीहृदयं नारायणहृदयं च-(कौशेयबद्धम्.) लघुयोगवासिष्ठम्-आत्मसुखकृतया वासिष्ठचन्द्रिकाटीकया सहितम्. लौकिकन्यायाञ्जलिः नाम लौकिकन्यायसंग्रहः लौकिकन्यायाञ्जलिः-द्वितीयो भाग उपरिनिर्दिष्टसदृश एव. लौकिकन्यायाञ्जलिः-तृतीयो भागः वाल्मीकिरामायणम्-आदिकविश्रीवाल्मीकिमहामुनिप्रणीत, रामकृततिलकटीकया सहितम्. विक्रमोर्वशीयं नाटकम्-कालिदासकृत, रङ्गनाथकृतया प्रकाशिकाटीकया सहितम्.... विश्वगुणादर्शचम्पू: -श्रीमद्वेङ्कटाध्वरिविरचिता, पदार्थचन्द्रिका- ख्यव्याख्यासहिता. विष्णोर्नामसहस्रम्-प्रथमं मूलश्लोकाः, तदधोभागे एकपार्श्वे मूलश्लोकगतानि नामानि, तत्संमुखद्वितीयपार्श्वे च नामा- र्थश्लोकाश्च, एवं च १००० नाम्नां सहस्रश्लोकानां निवेशः ... ... ... ... ... -17 ... ... ... ... ... ... ... ... wom ... ... ... , .

... ... ... ... ... ... ... ... . ... ... ... ... ... ... मू० डा.व्य. कृतः. तेन च मूलनान्नामर्थज्ञानं सम्यक्तया स्यात्, वृत्तरत्नाकरः-केदारभकृतः, नारायणपण्डितकृतया टीकया सहितः; श्रुतबोधः-कालिदासकृतः, छन्दोमारी च गङ्गादासकृता. वेदान्तसारम्-नृसिहसरखतीखामिकृतया सुबोधिन्या टीकया रामतीर्थविरचितया विद्वन्मनोरञ्जन्या टीकया च सहितम्. कर्नल जी. ए. जेकब इत्येतैः पाठान्तरैः आङ्ग्लटिप्पणी- भिश्च संस्कृतम् वेणीसंहारं नाटकम्-भट्टनारायणप्रणीतं जगद्धरकृतया टी- कया सहितम्. वैदिककोशः-भभास्करकृतनिघण्टुः, चलारि परिशिष्टानि च एतैः सहितः... वैराग्यशतकम्-भर्तृहरिकृतं, महाबलोपाकृष्णशास्त्रिकृतया टीकया सहितम्. शार्ङ्गधरसंहिता-अंजननिदानसहिता (मूलमात्रा)... शिवगीता-लक्ष्मीनरहरिसूनुकृतया बालानन्दिन्या टीकया शंकराचार्यकृतकालभैरवाष्टकेन च सहिता ... शिशुपालवधं काव्यम्-माघकृतं, मल्लिनाथकृतया सर्वकषा- ख्यटीकया सहितम्.... शुक्लयजुर्वेदमाध्यंदिनसंहिता. शृङ्गारशतकम्-भर्तृहरिकृतं, महाबलोपालकृष्णशास्त्रिकृतया टीकया सहितम्. श्रीमद्भागवतमूलमात्रम्-कौशेयबद्धम्. सचूर्णिकं श्रीमद्भागवतम्-रफ, मूल्यं रु० ५ ग्लेजपत्राणि. ६ .१ सत्यहरिश्चंद्रनाटकम्-प्रबन्धशतकर्तृमहाकविरामचन्द्रप्रणीतम्. •ia - सप्तशती (चण्डीपाठः), देवीसूक्तं त्रीणि रहस्यानि च इत्येतैः सहिता कौशेयबद्धा, स्थूलाक्षरा.... सप्तशती-कौशेयपट्टवेष्टिता, मध्यमाक्षरा. सप्तशती-कौशेयेन बद्धा सूक्ष्माक्षरा. अस्यां प्रयोगमन्त्रयन्त्रा- दिवर्धितविषयाः (४८) सप्तशती-बन्धनरहिता, स्थूलाक्षरा, अस्यां प्रयोगमन्त्रयत्रा- दिवर्धितविषयाः (४८) - - .. २ २ ... ... ... ... ... ... ... ... .

... ... ... ... ... २ मू० डा.व्य. चरकसंहिता-अग्निवेशकृता चरकप्रतिसंस्कृता मूलमात्रम्. तर्कसंग्रहः-न्यायबोधिनीपदकृत्यव्याख्याटिप्पणैः संवलितः. ताजकनीलकण्ठी-सटीका, अयं प्राचीनो ज्योतिर्ग्रन्थः जन्मपत्रि- काया वर्षफलकरणेऽतीवोपयुक्तः । तथा फलकथने प्रश्नविषये च। एतदन्तर्गतान्युदाहरणानि ज्योतिर्विद्वारा शोधितानि सन्ति ... " तोषणीव्याख्यायुतः-श्रीमद्भागवतदशमस्कधः. ३ दशकुमारचरितम्-दण्डीकृतम् , पूर्वपीठिका, उत्तरपीठिका, कवीन्द्रसरस्वतीकृतपदचन्द्रिकाख्या टीका, शिवरामकृता भूषणा- ख्या टीका, लघुदीपिका टीका, केवलदशकुमारचरिते, पदच- न्द्रिकाटीका च ( पूर्वपीठिकायां) इत्येताभिः सहितम्. दशरूपकम्-श्रीधनंजयविरचितं, धनिकृतया अवलोकटी- कया सहितम्. द्रव्यगुणसंग्रहः-वैद्यकप्रथः सव्याख्यः । अस्मिन्सवौषधीनां विशिष्टधर्मोपयोगादि यथावद्विवृतमस्ति. नलचम्पू:-दमयन्तीकथा-त्रिविक्रमभट्टकृतया, चण्डपाल- कृतमा विषमपदप्रकाशाख्यटीकया सहितम्. निर्णयसिन्धुः-( मूलम् )-परिच्छेदत्रयात्मकः अस्मिन्नार्या- गां सनातनो धर्मनिर्णयो यथावद्वार्णितोऽस्ति. नीतिशतकम्-भर्तृहरिकृत, महाबलोपाकृष्णशास्त्रिकृतया टीकया सहितम्. नैषधीयचरितम्-श्रीहर्षविरचितं, नैषधीयप्रकाशाख्यया नारायणीटीकया सहितम्. पञ्चतन्त्रकम्-श्रीविष्णुशर्मसंकलितम् आंग्लभाषाटिप्पणीसहितम्. २॥ पञ्चरत्नगीता-भगवद्गीता, विष्णुसहस्रनाम, भीष्मस्तवराजः, अनुस्मृतिः, गजेन्द्रमोक्षश्च इत्येतैः प्रकरणैः सहिता, कौशे- यवनबद्धा स्थूलाक्षरा. पञ्चरत्नगीता-कौशेयवस्त्रबद्धा मध्यमाक्षरा. पञ्चरत्नगीता-कौशेयवनबद्धा सूक्ष्माक्षरा. पञ्चरत्नगीता-पत्रबद्धा म यमाक्षरा. ... पार्वतीपरिणयं नाटकम्-महाकविबाणभट्टप्रणीतम्. पुष्पबाणविलासम्-(श्रीकालिदासकृतं) पण्डितवरश्रीवेङ्क- टसार्वभौमविरचितया व्याख्यया समेतम्. ... प्रबोधचन्द्रोदयं नाटकम्-श्रीमत्कृष्णमिश्रयतिविरचितं, .. ... ... ... . ... ... ... ... .

३ ३ मू. डा. व्य. ..॥ ... : ... ... ... ... 6॥ ... ... ... ... ... ... ... नाण्डिल्लगोपप्रभुविरचितचन्द्रिकाटीका दीक्षितरामदास विर- चिता प्रकाशटीका च इत्येताभ्यां सहितम्. प्रश्नोत्तरपयोनिधिः-बलरामदासमुनिकृतः. प्रसन्नराघवं नाटकम्-श्रीजयदेवकविविरचितम्. प्राकृतमञ्जरी-श्रीमत्कात्यायनमुनिप्रणीतप्राकृतसूत्रवृत्तिः. ब्रह्मसूत्रशांकरभाष्यम्-रत्नप्रभा-भामती-आनन्दगिरीय- न्यायनिर्णयव्याख्यानयोपेतम् । भगवद्गीता-इयं लध्वक्षराकारायामविस्ताराप्यतिमनोहरा कौशेयपट्टबद्धा चिक्कणपत्रै‘त्नाभिनवाक्षरैश्च मुद्रिता. भगवद्गीता-कौशेयपवेष्टिता, स्थूलाक्षरा. भगवद्गीता-कौशेयाच्छादनयुता, मध्यमाञ्जरा. भगवद्गीता-कौशेयाच्छन्ना, सूक्ष्माक्षरा. भगवद्गीता मूलं-(स्थूलाक्षरा) पत्रमात्रा. भगवद्गीता-पत्रबद्धा, मध्यमाक्षरा. भगवद्गीता-मध्यमाक्षरा (बुकसाईज) भगवद्गीता-शंकरानन्दीटीकया सहिता. भगवद्गीता-(श्रीधरीव्याख्यासहिता ) इयं व्याख्यातीव सुलभा नातिविस्तृतापि गीतापदपदार्थबोधनेऽत्यन्तं सहायकारि- ण्यस्तीत्यस्याः सर्वेषां सौलभ्येन लाभार्थमस्माभिर्मुद्रिता । भगवद्गीता-सप्तश्लोकात्मिका. भट्टिकाव्यम्-भष्टिकृतं, जयमङ्गलकृतया जयमङ्गलाख्यटी- कया सहितम् (द्वितीयावृत्तिः).... भामिनीविलासः-पण्डितराजजगन्नाथविरचितः, अच्युतराय- मोडककृतया प्रणयप्रकाशाख्यटीकया सहितः. भास्करोया-तर्कसंग्रहदीपिका-प्रकाश(नीलकण्ठी)व्याख्या भोजप्रबन्धः-श्रीबल्लालविरचितः. मध्यसिद्धान्तकौमुदी-वरदराजप्रणीता, इदं पुस्तकं विपुल- टिप्पण्यादिभिरलकृतं, मध्यकौमुदीगतसूत्राणामकारादिवर्ण- क्रमकोशसहितं च मुद्रितमस्ति. मनुस्मृतिः-कुल्लूकभट्टकृतमन्वर्थमुक्तावल्या सहिता मनुस्मृति- स्थपद्यानामकारादिवर्णक्रमकोशसहिता च.... महावाक्यरत्नावलिः-श्रीमत्परमहंसपरिव्राजकाचार्यरामच- न्द्रयतिकृता. अनोपनिषत्सारोद्धारः. ... ... १ ... ... .. vai ... ...

THE
UTTARA-RÂMACHARITA
OF
BHAVABHẬTI
WITH
The Commentary of Virarâghava.
EDITED
BY
T. R RATNAM AIYAR, B. A.,
HORVERLY PROFESSOR OF MATHEMATICS & SANSKRIT
S. P. G COLLEGE, TRICHINOPOLY,
AND
KÂSÎNÂTH PÂNDURANG PARAB.
SECOND EDITION.
PRINTED AND PUBLISHED
BY
TUKÂRÂM JÁVAJÍ,
PROPRIETOR OF JAVAJÍ DÂDĀJI's “NIRNAYA-SAGARA" PRESS.
Bombay:
1903.
Price 12 Anoas.

No text on this page.

॥ श्रीः॥ उत्तररामचरितम्। प्रथमोऽङ्कः । इदं कविभ्यः पूर्वेभ्यो नमोवाकं प्रशास्महे । वन्देमहि च तां वाणीममृतामात्मनः कलाम् ॥ १ ॥ तलस्पर्शिनी। पुरि भुवि महितायां भूमिसाराभिधायामधिमुनिभृगुतीर्थोपान्तमाबद्धखेलम् । किमपि नतशरण्यं मङ्गलं मनवल्लीजगदधिपतिसंज्ञं द्वन्द्वमानन्दयेन्नः ॥ ज्ञानं सर्वपराधीनं तद्धेतुश्चेद्धयाननः । स चेद्भक्तपराधीनस्त विना कं व्रजाम्यहम् ॥ भूसारपुरवास्तव्यो वाधूलो वीरराघवः । भवभूतिकृति हृद्यां व्याचष्टे करुणामयीम् ॥ भवभूतेः कवीन्द्रस्य व गम्भीरो गिरां भरः । क्व मन्मतिरतिस्थूला सहायोऽन हयाननः ॥ चापल्यमथवा बाल्यं कृतावस्यां प्रवर्तकम् । तथापि कृपया सन्तः संतन्वन्तां शुभां दृशम् ॥ अथ तत्रभवान्भवभूतिनाम कविकण्ठीरवः 'एकः शब्दः सम्यग्ज्ञातः सुष्टुप्रयुक्तः खर्गे लोके कामधुग्भवति' इत्यादिश्रुत्या परिनिष्ठितशब्दप्रयोगस्य धर्मत्वमवगच्छन् , 'काव्य यशसेऽर्थकृते' इत्यादिना काव्यरूपस्य तस्य प्रकर्ष विभाव्य 'शैवा वय न खलु तत्र विचारणीय पञ्चाक्षरीजपपरा नितरां तथापि । चेतो मदीयमतसीकुसुमाव- भासं स्मेराननं स्मरति गोपवधूकिशोरम् ॥' इत्यादिन्यायेन अङ्कुरितभगवद्भक्तिकतया 'स वाग्विस! जनताघविप्लवो यस्मिन्प्रतिश्लोकमबद्धवत्यपि । नामान्यनन्तस्य यशो- ऽङ्कितानि शृण्वन्ति गायन्ति गृणन्ति सन्तः ॥' इत्यादिन्यायेन 'प्रबन्धानां प्रबन्धृ- णामपि कीर्तिप्रतिष्ठयोः । मूल विषयभूतस्य नेतुर्गुणनिरूपणम् ॥' इत्यादिन्यायेन च भगवद्गुणान्विवक्षुः, तत्रापि 'यदि क्षुण्ण पूर्वैरिति जहति रामस्य चरितम्' इत्या- दिन्यायेन रामकथां प्रतिपिपादयिषुः, दृश्यस्य श्राव्यापेक्षया 'देवानामिदमामनन्ति मु- नयः कान्तं ऋतुं चाक्षुषम्' इत्युक्तनाव्याश्रयत्वप्रयुक्तप्राधान्याप्रकरणादीनां यथायथं रसवस्तुनायकापकर्षात्तत्प्रकर्षान्नाटकं चिकीर्षुः, पूर्वचरितस्य महावीरचरितत्वेन वर्णित- त्वात् उत्तरं चरित वर्णयितुमभिसंधाय पूर्वरङ्गप्रधानाङ्गभूतां नान्दीमाह-इदं क- विभ्य इति । 'इद' 'कविभ्यः' इति पदद्वयमिदम् । अतो द्वादशपदत्वसिद्ध्या न नान्दीपदनियमभङ्गः । इदमिति चोद्देश्यसमर्पक द्वितीयान्त विशेष्यवाचकम्, नमोवाक- ..

६ उत्तररामचरिते मिति च विधेयसमर्पक विशेषणवाचकं च । तथा च-इद प्रारिप्सितग्रन्थादौ चिकी-- र्षितत्वेन बुद्धिस्थ मङ्गलं पूर्वेभ्यः कविभ्यो नमोवाकं प्रशास्महे । पूर्वकालप्रसिद्धप्रा- चेतसादिकविविषयकनमउक्तिं निर्दिशामः-इति वाक्यार्थः । 'प्रशासनं तु निर्देशः' इति कोशः । 'आड्शासु इच्छायाम्' इति धातोः अड्पूर्वकत्वं प्रायिकमित्युक्तेः प्रपूर्वक- त्वेनेच्छार्थकत्व च । 'नमउक्तिर्नमोवाक.' इति कोशः । भावे घञ् । कुत्वम् । एत- न्मङ्गलोद्देश्यकपूर्वकविविषयकनमउक्ति विधेयकबोधजनकशब्दप्रयोगवानहम्, एतन्म- गलोद्देश्यकपूर्वकविविषयकनमोवाकविधेयकेच्छावानहम्, इत्यन्वयबोधः । नमोवाक- मित्यतैकदेशनमःशब्दापेक्षया कविभ्य इति चतुर्थी । 'नमःखस्ति-' इत्याद्यनुशा- सनात् । अत्र नान्दीप्रभृतिप्रशस्तिरूपचरमाङ्कपर्यन्तस्य कर्तव्यस्य बुद्धिस्थत्वेऽपि प्र- त्यासत्तिन्यायान्नमोवाकमिति विधेयानुसाराच मङ्गलस्यैव इदंपदेन विवक्षा । इद- मिति च सामान्ये नपुंसकम् । नमोवाकमिति तु पुंलिङ्गम् । तथा च-शुक्तिं रजतं जानातीयादाविव विशेष्यनिघ्नत्वाभावेन समानलिङ्गत्वाप्रसक्त्या न तद्बाधरूपदोषः । इदं नमोवाकमित्यत्र नमोवाकमित्यस्य विशेष्यवाचकत्वमभ्युपगम्य तद्विशेषणवाचकस्य इदंपदस्य सामान्ये नपुंसकत्वाश्रयणे तु विशेष्यविशेषणवाचकपदयोः समानलिङ्गत्वं बाधितव्यम् इत्यस्वारस्यम् । इदंपदप्रयोजनं च मृग्यं स्यात् । उक्तरीत्याश्रयणे तु मालतीमाधवादौ अन्यादृशमगलेच्छायामपि एतनाटककर्तव्यमङ्गलं पूर्वकविविषयक- नमोवाकमिच्छाम इत्यर्थलाभेन सप्रयोजनत्वम् । विशेष्यविशेषणवाचकयोः समानलिङ्ग- त्वबाधाभावश्चेति न दोष इति बोध्यम् । अत्र पूर्वेभ्यः कविभ्यो नमोवाकमिदं प्रशा- स्महे इति योजयित्वा पूर्वकविविषयकनमोवाकरूपमेतन्मङ्गलमिच्छाम इत्युद्देश्यभाववि- रहेण पक्षान्तरमपि । अत्रापि इदमिति सामान्ये क्लीबम् । नमोवाकमिति च पुंलिङ्गमेव । 'राज्यश्रीप्रथमावतारपदवीमारुह्य सिहासनम्' इत्यादाविव विशेष्यनिघ्नत्वाभावेन समा. नलिङ्गकत्वप्रसक्तेः । अमात्यानुवर्तनपुरःसरराजदर्शनन्यायेन गुणकृतात्मसंस्कारः प्र. धानोपकाराय महते प्रभवति । तत्र गुणोऽपि संस्कारमनुभवतीति न्यायेन, कविन- मस्कारानन्तरं वाणी नमस्करोति-वन्देमहीति । एतेन अनुग्राहकवाणीनमस्कारा- त्पूर्वमनुप्राह्यप्राचेतसादिनमस्कारायोगः इत्यपास्तम् । 'भगवद्वन्दनं त्वाद्यं गुरुवन्दन- पूर्वकम्' इति विधेश्च । 'मधुमयफणितीनां मार्गदर्शी महर्षि.', 'काव्यज्ञशिक्षया- भ्यासः' इति च प्राचेतसादीनां गुरुत्वानपायाच्च । तां प्रसिद्धां पूर्वोक्तनमस्कारार्हत्वेन बुद्धिस्थामिति वा । अमृतां शाश्वतीम् । 'यज्ञशेषसुधामोक्षेष्वमृतं शाश्वते त्रिषु' इत्यभि- धानात् । अत्र यज्ञशेषसुधामोक्षस्वरूपेति कश्चित् । तन्न । अमृतामिति स्त्रीत्वालाभात् । तल्लाभेऽपि खरूपामित्यर्थालाभात् । आत्मनः परमात्मनः श्रियः पत्युः कलामंशभूताम् । विग्रहाध्याये तथा प्रतिपादनात् हयग्रीवांशत्वाच्च । तदुक्तमाचार्यैः-'दाक्षिण्यरम्या गिरिशस्य मूर्तिर्देवी सरोजासनधर्मपत्नी । व्यासादयोऽपि व्यपदेश्यवाचः स्फुरन्ति सर्वे तव शक्तिलेशैः ॥ इति। वाणीं वन्देमहि च प्रणमाम च । वन्दतेर्लिंडयुत्तमपुरुषबहुव- चनम् । पूर्वोक्तप्रशासनसमुच्चायकश्चकारः । अत्र पूर्वार्धे सर्वलोकनमस्कार्याः पूर्व- कालप्रसिद्धाः प्राज्ञाः केचिद्वा इति सूच्यते । लोकनमस्कार्या इत्यनेन धूर्तवर्ण्यक- भाणादिव्यावृत्तिः। पूर्वेत्यनेन कल्पितवर्ण्यकप्रकरणादिव्यावृत्तिः । भरतस्य च क्वाप्यव- प्रथमोऽङ्कः। ७ र्णनात् रामलक्ष्मणशत्रुघ्नानां त्रयाणामेव कथांशोपयोगित्वेनात्र बहुवचनस्य कपिजला- धिकरणन्यायेन त्रित्वपर्यवसानमव्याहतम् । कविभ्य इत्यनेन यथा कविषु वाल्मीके- राद्यत्वेन प्राधान्यम् । अन्येषामानन्तर्यादप्राधान्यम् । एवं तत्सूचितवानां मध्ये रामचन्द्रस्य वर्णनायां ज्येष्ठत्वेन प्राधान्यं लक्ष्मणादेश्चाप्राधान्यमिति सूचितम् । एव च नानेकनेतृत्वप्रयुक्तनाटकत्वहानिः । अतएव लक्ष्मणशत्रुघ्नयोरुपसर्जनत्वावगमात् । सीता- परित्यागे लक्ष्मणप्रेषणस्य लवणवधार्थ शत्रुघ्नप्रेषणस्य च ध्वननात्प्रथमावार्थः सूच्यते । उत्तरार्धे प्राज्ञी काचन स्त्री वर्ण्यत इति सूचितम् । आत्मनः कलामित्यनेन तस्या दे- वतांशसंभवत्वं कस्यचिद्धर्मपत्नीत्वं च सूच्यते । 'अर्धी वा एष आत्मनो यत्पत्नी' इति पत्न्या अवयवत्वोपचारात् । कलाशब्दस्यावयववाचित्वात् । अतएव नायकस्यापि देवतांशसंभवत्वं सूच्यते । देवतांशसंभूतस्त्रियं प्रति तादृशस्यैव नायकस्यौचित्यात् । अमृतामिति मरणस्य प्रसक्तिपूर्वकप्रतिषेधाद्गङ्गापतनसंभावितस्य सीतामरणस्य गङ्गा- पृथिवीभ्यां सह तदागमनेन भावनिश्चयरूपो द्वितीयाङ्कप्रभृतिसप्तमाकान्तार्थः सूच्यते । नमस्कारसमुच्चयेन समप्राधान्यावगमाच्छाकुन्तलादाविव नासायाया वर्ण्यत्वम् । अपि तु साध्याया एव वर्ण्यत्वमिति सूच्यत इति सुधियो विभावयन्तु । अस्य श्लोकस्य योजनान्तरमपि-इदमित्यादि । 'इदंकविभ्यः' इत्येक पदम् । 'नमः' 'वाकम्' इति च पदद्वयम् । एतेन द्वादशपदत्वसिद्ध्या न नान्दीनियमहानिः । अयमर्थः-पूर्वेभ्यः प्राचीनेभ्य इदकविभ्योऽस्या बुद्धिस्थरामकथायाः कविभ्यः । रामकथासंबन्धिकविभ्य इत्यर्थः । वाल्मीकिवसिष्ठादिभ्य इति तदर्थः । कथाया बुद्धिस्थत्वात् 'पाप्मभ्यश्च पु- नाति वर्धयति च श्रेयांसि सेय कथा' इत्युपसंहारे वक्ष्यमाणत्वाच्च इदंशब्देन परामर्श इत्युपपन्नम् । प्राथमिककथादर्शित्वरूपमुपकारं ख्यापयितुं पूर्वेभ्य इत्युक्तम् । कथान्त- रकविनमस्कारे प्रयोजनाभावात् इदंकविभ्य इत्युक्तम् । उच्यतेऽनेनेति वाकमुक्ति- साधनीभूतम् । कवेर्वश्यवाक्त्वेऽपि प्रारिप्सितग्रन्थसमाप्तौ कविनमस्कारस्य साधनत्वे तात्पर्यम् । करणे घञ् । तस्य चोपदेशाप्रवृत्तावित्यत्रैव बाहुलकत्वम् । अन्यथा ल्युटा भाव्यम् । 'संज्ञायामिति च प्रायिकम्' इत्युक्तत्वान्न दोषः । यद्वा उच्यते यत्तद्वाकम् । कर्मणि घञ् । 'अकर्तरि च कारके' इत्यनुशासनात् । वाचिकं नमः प्रशास्महे इच्छामः निर्दिशाम इति वा । तां पूर्वोपस्थितां प्रवृत्तिनिमित्तविधयास्याः कविपदेनोपस्थितेः । अमृतामानुपूर्व्यानित्याम् । शब्दस्य नित्यत्वपक्षे स्वरूपेण नित्यामित्यर्थः । यद्वा अमृत मोक्षस्तदस्या अस्तीत्यमृताम् । मत्वर्थीयोऽच्प्रत्ययः। तेन स्त्रीत्वोपपत्तिः । प्रयोजकतास- "वन्धेन मोक्षवतीमित्यर्थः । रामायणादिना मोक्षप्रयोजकत्वं च 'एकैकमक्षरं प्रोक्तं महापातकनाशनम्' इति स्फुटम् । अत्र हेतुमाह-आत्मनः कलां परमात्मप्रतिपा- दकविद्याम् 'विद्यायां कालभेदे च मुक्तौ शिल्पे कलेति च' इति वैजयन्ती । रामा- यणादिकं परमात्मप्रतिपादकत्वं च 'वेदवेद्ये परे पुसि' इत्यादौ स्पष्टम् । रामायणा- ध्यात्मरामायणरूपां वन्देमहि प्रणमाम । 'विषयमङ्गलद्वयसग्रहो विजयते' इति बा- लरामायणनाटके स्फुटम् । अस्यां योजनायां पूर्ववत्काव्यार्थसूचन बोद्धव्यम् । के- चित्तु-'इदम्' इति भिन्नपदम् ‘नमः वा क' इति च पदत्रयम् । कविभ्यः इदं नमः प्र- शास्महे इत्यन्वयः । वाशब्दः समुच्चयार्थः । कमित्यस्य ब्रह्माणमित्यर्थः । एव च वाणी .

८ उत्तररामचरिते .. सरस्वतीदेवी कं वा ब्रह्माण च वन्देमहि च प्रणमाम च । क्रियाद्वयसमुच्चायकश्च कारः वन्दनक्रियानिरूपितकर्मद्वयसमुच्चायकस्तु वाशब्द:-इत्यादि, तन्न । व्यवहिता- न्वयात् । 'यत्राष्टभिर्द्वादशभिरष्टादशभिरेव वा । द्वाविंशत्या पदैर्वापि सा नान्दीति प्रकीर्तिता ॥' इत्यत्र चतुर्दशपदानुक्तेश्च । अन्ये तु-'पूर्ववदेव पदानि । इदं नमो वा पूर्वेभ्यः, कविभ्यः कं प्रशास्महे । तां वाणीं वन्देमहि' इत्यन्वयमुक्त्वा 'इदं नमो वा पूर्वेभ्यः, कविभ्यः अन्यं कं प्रशास्महे । तामेव वाणीं वन्देमहि । इतः प्राचीन नमः पूर्वकविभ्यः । अन्यं प्रति न कृतमेव । इदं वा तदन्यं वा के प्रति प्रशास्महे इत्यर्थः' इति वदन्ति, तदपि न । प्रतीत्यध्याहारापत्तेः । नच 'शासिदुहिरुधि-' इत्यादिना द्विकर्मकत्वं माणवकं धर्म शास्तीतिवत् इति वाच्यम् । तत्र 'शासु अनुशिष्टौ' इत्य- स्यैव ग्रहणाच्च । नच 'तदेवेदम्' इति वाच्यम् । तस्य परस्मैपदित्वात् अर्थासंगतेः च- कारस्यावधारणार्थकत्वाश्रयक्लेशात् पदनियमासिद्धेश्च । यदप्युक्तम्-'पूर्वेभ्यः कविभ्यः इद नमः इत्येकं वाक्यम् , अन्यं वा के प्रशास्महे इत्यपरं वाक्यम् , प्रशास्महे वाचमि- च्छामः इत्यर्थः' इति, तदपि मन्दम् । एकवाक्यत्वसंभवे वाक्यभेदस्यान्याय्यत्वा- कवेर्वश्यवाक्त्वेन वागिच्छाया असंभवाच त्रयोदशपदत्वापत्तेश्च । यदपि चोक्तम्- 'इदकविभ्यः इदानींतनकविभ्य पूर्वेभ्यो वा पूर्वकविभ्यश्च नमः प्रणामं कं शिरसा प्रशास्महे । ‘क शिरोम्बुनोः' इति मान्ताव्ययत्वात् तृतीयार्थलाभ.' इति, तदपि न । पूर्वेभ्य इत्यत्र कविभ्य इत्यध्याहारापत्तेः कविभ्य इत्येतावन्मात्रोक्तौ उभयकविलाभे नि- देशद्वयाश्रयणे प्रयोजनाभावात् । भाविकविद्वेषे मूलाभावात् । त्रयोदशपदत्वापत्तेश्च । बच्चोक्तम्-'पूर्वेभ्यो नमः इदकविभ्यः क वा सुखं वा प्रशास्महे प्राचीनकविभ्यो नमः प्रशास्महे इदानींतनकविभ्यः सुख प्रशास्महे' इति, तन्न । क्रमिकैकान्वयालाभात् पूर्वोक्तदोपाच । यत्तूक्तम्-पूर्वेभ्यो वा पूर्वकविभ्य इव इदकविभ्य इदानींतनक- विभ्यः नम इत्येकं वाक्यम्, कं वा प्रशास्महे इत्यपरम् , सुख इच्छामः इति तदर्थः' इति, तन्न । विघ्नध्वंसस्यैवापेक्षितत्वेन सुखप्रार्थनाया असांगत्यात् पूर्वदोषप्रसङ्गाच्च । केचित्तु–'पूर्वेभ्य. वैदिकेभ्यः कविभ्यः गजाननाय । 'गणानां त्वा गणपतिं हवा- महे' इति श्रुतेः । 'कविः शुक्रगजाननौ' इति, तन्न । बहुवचनखारस्यात् । पूजायां वहुत्वस्य गुरुपित्रादिवाचकशब्देभ्य एव दर्शनात् । किचात्र गजाननस्य प्राचेतसा- दिसाधारणकान्तदर्शित्वरूपकवित्वेन कविपदादुपस्थितिर्न शक्या। सामान्यशब्दस्य विशेषव्यवस्थापकाभावात् पूर्वेभ्यः इत्यस्य च साधारणत्वात् न तव्यवस्थापकम् । 'कविः शुक्रगजाननौ' इति कोशागजाननत्वेन तदुपस्थितिरपि न शवया । पूर्वशब्द- वैयर्थ्यांपत्तेः। नह्यपूर्वः कश्चिद्गजाननोऽस्ति येन तद्यावृत्त्या तत्सार्थक्य स्यात् । 'संयोगो विप्रयोगश्च साहचर्य विरोधिता' इत्यारभ्य 'शब्दार्थस्यानवच्छेदे विशेषे स्मृतिहे- तवः' इत्युक्तरीत्या शुक्रादिव्यवच्छेदकत्वपूर्वकं गजाननोपस्थापकप्रकरणाद्यभावाच । नच वक्तुरपि संयोगादिप्रमाणेष्वन्यतमत्वेन परिगणनात् भवभूतेश्च मालतीमाधवे 'वैनायक्यश्चिरं वो वदनविधुतयः पान्तु' इत्युक्त्या विनायकभक्तत्वावगमात् अत्रापि तत्परत्व युक्तमिति वाच्यम् । तस्य महावीरचरिते परित्यागात् । अत्र औचित्यरूप- दुर्बलप्रमाणमवष्टभ्य बहुवचनश्रुतेः पूजालाक्षणिकत्वस्यान्याय्यत्वाच्च । यत्तु तेनैवोक्त- प्रथमोऽङ्कः । २ (नान्द्यन्ते ।) सूत्रधारः-अलमतिविस्तरेण । अद्य खलु भगवतः कालप्रिया- नाथस्य यात्रायामार्यमिश्रान्विज्ञापयामि-एवमत्रभवन्तो विदांकुर्वन्तु । अस्ति खलु तत्रभवान्काश्यपः श्रीकण्ठपदलाञ्छनः पदवाक्यप्रमाणज्ञो भवभूति म जतुकर्णीपुत्रः। म्-'अनुग्राहक-' इत्यादि, तत्तु अमाल्यानुवर्तनपुरःसरराजदर्शनादिन्यायविरोधादु- पेक्ष्यम् । तेनैव 'कवीन्द्राः कल्पन्ते वयमपि विरिञ्चिप्रभृतयः' इत्यानन्दलायुपष्टम्भेन चतुर्मुखपरत्वमुपक्षिप्य 'केतकीकुसुम-' इत्यादिना 'या ब्रह्माच्युतशंकरप्रभृतिभिः' इत्यादिना च दूषितम् । तत्तुच्छम् । भवव्रतधरा ये च ये च तान्समनुव्रताः' इत्यादिभागव- तप्रामाण्येन गजाननस्य नमस्कारानहत्वशापदानात् । या ब्रह्माच्युतशंकरप्रभृतिभिः' इति। 'सर्वैः सुरैः सेविता' इति ब्रह्मशकरापेक्षया प्राधान्ये विनायकापेक्षया तस्य कैमुत्यसिद्ध- त्वाचेति ग्रन्थगौरवभिया विरम्यत इत्यलम् ॥ १ ॥ नान्दीलक्षण तु- यत्राष्टभिाद- शभिः' इत्यादि दशरूपकादिषु स्फुटम् । नाटकलक्षण च–'वीरशृङ्गारयोरेकः प्रधान यत्र वर्ण्यते । प्रख्यातनायकोपेत नाटक तदुदाहृतम् ॥' इति । यद्यपि करुणरस एवा- स्मिन्नाटके प्रधानमिति सर्वजनीन सूचितम् , मरणस्य प्रसक्तिपूर्वकप्रतिषेधो नाटक- प्रतिपाद्य इति सूचयता नान्दीस्थामृतपदेन करुण एवास्मिन्नाटके प्रधान इति, त- थापि वीरशृङ्गारौ प्रायिकौ इत्युक्ते न दोष इत्याहुः । पूर्वरङ्गलक्षण तु–'यन्नाट्यव- स्तुन पूर्व रङ्गविघ्नोपशान्तये । कुशीलवा. प्रकुर्वन्ति पूर्वरङ्गः स उच्यते ॥' इति । प्र- स्तावनालक्षणं तु–सूत्रधारो नटी ब्रूते मारिष वा विदूषकम् । खकार्यप्रस्तुताक्षेपि- चित्रोक्त्या यत्तदामुखम् ॥ प्रस्तावना वा तत्र स्यात्' इति । नान्द्यन्त इति । नान्द्याः पूर्वोक्ताया अन्ते समाप्तौ सूत्रधारः । प्रविश्याहेति शेष. । तदुक्तम्- 'पूर्वरङ्गं विधायादौ सूत्रधारे विनिर्गते । प्रविश्य तद्वदपरः काव्यमासूत्रयेन्नटः ॥' इति ॥ प्ररोचनां प्रस्तोतु सामाजिकावधानायाह-अद्य खलु भगवत इति । भगवतो ज्ञानशक्त्यादिगुणवतः कालप्रियानाथस्य कालप्रियानामाम्बिकाया नाथः शिवस्तस्य । इयं च कथा पौराणिकी वेदितव्या । यात्रायामुत्सवे आर्याः पूज्या मिश्रा ज्ञानिनस्तथाविधान्विज्ञापयामि । एव वक्ष्यमाणप्रकारेण अत्रभवन्तः पूज्या यूयम् । 'अत्रभवत्तत्रभवच्छब्दौ पूज्याौँ' इत्युक्तेः । यद्वा अत्रास्मि- नगरे भवन्तः । यूयमित्यर्थः । विदाकुर्वन्तु । “विदांकुर्वन्खित्यन्यतरस्याम्' इति सूत्रा- नुशिष्टोऽय शब्दः । यात्रायामिति काल उक्तः । अत्रेति देश उक्तः । 'निर्देशो देश- कालयो.' इत्युक्तेः । अस्ति खल्विति । काश्यपः कश्यपगोत्रोद्भवः । ऋष्यण्प्रत्ययः । 'काश्यपः कश्यपो भवति' इति सर्वज्ञतया श्रुतिप्रसिद्धकश्यपवश्यः । श्रीकण्ठ इति पद शब्दः लाञ्छनं यस्य स तथोक्तः । श्रीकण्ठनामक इत्यर्थः । द्वादशेऽहनि पिता नाम कुर्यात्' इति पैतृक नामधेयमिदम् । पदवाक्यप्रमाणज्ञः । व्याकरणन्या. यमीमांसापरिज्ञातेत्यर्थः । भवभूति म भवभूतिरिति प्रसिद्धनामवान् । एतत्कृत- 'साम्वा पुनातु भवभूतिपवित्रमूर्तिः' इति श्लोकश्रवणसंतुष्टो राजा भवभूतिरित्येनं .

उत्तररामचरिते यं ब्रह्माणमियं देवी वाग्वश्यैवान्ववर्तत । उत्तरं रामचरितं तत्प्रणीतं प्रयोक्ष्यते ॥२॥ एषोऽस्मि कविवशादायोध्यकस्तदानींतनश्च संवृत्तः । (समन्तादवलोक्य ।) ख्यापयामासेति कथात्रानुसंधेया। एवमन्यत्रापि कवितानुसारेण तत्तनामधेयम् । यथा-रत्नखेटकः, कोटिसारः, इति । उदयरक्त चन्द्रबिम्बं रतिपतिरत्नखेटकत्वेनो- त्प्रेक्षितवानित्यैतिह्यस्य, कामिनीस्तनमण्डलं प्रति 'कुलाचलेन्द्रादपि कोटिसारः' इत्यु- क्तवानियैतिह्यस्य च तन्मूलत्वात् । किचास्मै कवये ईश्वर एव भिक्षुरूपेणागत्य भूति दत्तवानिति वदन्ति । एव च भवाद्भगवतो भूतिर्यस्येति भवभूतिरित्यन्वर्थ इत्याहुः । यमिति । ब्रह्माणम् । यजनादिषट्कर्मनिरतमित्यर्थः । लाक्षणिकोऽयं मुख्यार्थपरत्वे प्रयोजनाभावात् । तथाविध यं भवभूतिमिय देवताप्रसादादिना साध्यत्वेन प्रसिद्धा वा- ग्देवी वश्या सत्येव विधिप्रतिषेधाही सत्येवान्ववर्ततानुवर्तितवती । यद्वा ब्रह्माण यमेव वश्या सत्यन्ववर्तत । नत्वन्यमित्यर्थः । पूर्वस्मिन्नर्थे वश्यैवान्ववर्तत नत्ववश्यान्ववर्तत। अलाभेन कालिदासादिषु खयमवश्यैव कालिदासप्रभृत्यनुरोधेनागताया वाग्देव्या यद- नुवर्तन तव्यावर्तते । अत्र 'यं ब्रह्माणमियं देवी वाग्वश्येवान्ववर्तत' इति द्वितीयान्त- ब्रह्मशब्देन इवशब्देन च युक्त पाठान्तरमपि क्वचिदृश्यते । तत्रायमर्थः--इयं वा- ग्देवी यं भवभूति ब्रह्माणमिव स्वभर्तारं चतुर्मुखमिव वश्या सत्यन्ववर्ततानुवर्तित- वती । देवस्य स्त्री देवी । दीव्यति प्रकाशयति प्रकाशते इति वा देवी । 'देव' इति टित्त्वात् डीप् । यद्वा-य देवी यादृशभवभूतिविषयकेच्छावती सती इय वाग्देवी ब्रह्माण वश्येवान्ववर्तत । वश्यानुवर्तनाभिनयमानं स्वभर्तरि, भावबन्धस्तु भवभूतावे- वेति भावः । 'सावित्र्या. प्रथम यमुज्ज्वलगुणं वत्रे स्वयम्' इतिवत्स्वयंवरं कृतव- तीत्यर्थः । दिवुधातोः 'कान्तिगतिः' इत्युक्तेः इच्छायां वृत्तिः दीव्यति कामयत इति देवीति कृदन्तदेवीपदयोगेऽपि । 'तदहम्' इति ज्ञापकात् । 'धयैरामोदमुत्तमम्' इति प्रयोगाच्च कृद्योगषष्ट्या अनित्यत्वात् षष्ठ्या अप्राप्त्या द्वितीया उत्तमपरिमलकर्मक- पानकर्तरि तदा षष्ठीप्रसङ्गात् । परंत्वत्र पाठे व्यवहितान्वयो दोष इत्याहुः । 'उत्तरं रामचरित यत्प्रणीतं प्रयोक्ष्यते' इति यच्छब्दपाठ इति मत्वा यं वाग्देव्यन्वव- तत । यत्प्रणीतं प्रयोक्ष्यतेऽभिनेष्यते स भवभूति म कविः अस्तीति पूर्वेणान्वयः । यत्तदोनित्यसंबन्धात्स इत्यस्य लाभः इति केचित् । परे तु तत्प्रणीतम्' इति तच्छ- ब्दयुक्तमेव पाठमुपष्टभ्य 'इयं वाग्देवी यं भवभूतिमन्ववर्तत स भवभूति म कविरस्ति । तत्प्रणीतं उत्तरं रामचरित प्रयोक्ष्यत इत्यन्वयः । अन्यथा विधेयस्य स्फुटप्रतीत्यनापत्तेश्च' इति वदन्ति । इय प्ररोचना प्रस्तुता । तदुक्तम्-'निवेदन प्रयोज्यस्य निर्देशो देशका- लयोः । कविकाव्यनटादीनां प्रशसा तु प्ररोचना ॥' इति ॥ २॥ एषोऽस्मीति । कविवशात्कव्यनुरोधेनायोध्यकः । अयोध्यासंबन्धिक इत्यर्थः । 'धन्वयोपधाद्रुम्' इति सूत्रेण बुञ् । तस्याकादेशश्च । तदानींतनश्च रामपट्टाभिषेककालीनश्च संवृत्तोऽस्मीति योजना । निष्पन्नोऽस्मीत्यर्थः । अयमाशयः-यद्यपि भोजराज- मतरीत्या सूत्रधारनटीप्रभृतिभिः प्रकृतदेशकालावलम्बिनीं प्रस्तावनामुक्खा . . ..

प्रथमोऽङ्कः। ११ " " भो भोः, यदा तावदत्रभवतः पौलस्त्यकुलधूमकेतोर्महाराजरामस्यायं पट्टाभिषेकसमयो रात्रिंदिवमसंहृतनान्दीकः, तत्किमिदानीं विश्रान्तचा- रचरणानि चत्वरस्थानानि । (प्रविश्य ।) नट:-भाव, प्रेषिता हि खगृहान्महाराजेन लङ्कासमरसुहृदो म- हात्मानः प्लवङ्गमराक्षसाः सभाजनोपस्थायिनश्च नानादिगन्तपावना ब्रह्म- र्षयो राजर्षयश्च, यत्समाराधनायैतावतो दिवसान्प्रमोद आसीत् । सूत्रधारः-आ, अस्त्येतन्निमित्तम् । , सूत्रधारादीनिष्कास्य भूमिका प्रवेश्य प्रवर्तिष्यमाणकाव्याभिनयकथासूचकविष्कम्भो वक्तव्यः, तथापि सूत्रधारस्यैव काव्यकथाघटकदेशकालसंबन्धमङ्गीकृत्य विष्कम्भवर्ण्य- कथोपन्यासः सूत्रधारत्वापरित्यागाच्च प्रस्तावनात्वाहानिरिति कवेर्मतम् । तदनुसारे- णाहमायोध्यकः संवृत्तोऽस्मीति । अयोध्यासंबन्धित्व च तस्यां कादाचित्कावस्थानरूपम् । तेन वैदेशिकोऽस्मीति उपरितनग्रन्थेन न विरोधः । यदा तावदिति । अत्रभवतः पूज्यस्य पौलस्त्यकुलस्य रावणवशस्य धूमकेतोरग्निवद्भस्मीकर्तुरुत्पातग्रहविशेषस्य वा । महाराजश्चासौ रामश्च इति विग्रहः तस्य । रात्रिंदिवमहर्निशम् । 'अचतुर-'सूत्रे निपातितोऽयं शब्दः । असंहृतनान्दीकोऽविच्छिन्नमङ्गलः । 'शेषाद्विभाषा' इति कप् । हखप्रतिषेधः । अयं पट्टाभिषेकसमयः यदा पट्टाभिषेकमुहूर्तः यस्मिन्काले । यद्वा समय आचारः पट्टाभिषेकरूप आचारो यदा यस्मिन्काले । इदानीमस्मिन्काले पट्टाभिषेकसमये चत्वरस्थानान्यगणभागाः विश्रान्तमवसित चाराणामधिकारिपुरुषाणां चरणं संचरण येषु तानि । विश्रान्ताश्चाराणामधिकारिपुरुषाणां चरणा अङ्गयो येष्विति वा । चारा निवृत्तव्यापाराः सन्तः चत्वरेषूपविश्य विश्राम्यन्तीति भावः । तत्किमिदानी पाभि- षेककाले चत्वरस्थानानि विश्रान्तचारचरणानीति यत् तत् किमिति योजना । यस्मिन्दि- वसे कलशतीर्थसेचनरूपपट्टाभिषेकक्रियाधिकरणमुहूर्तस्तद्दिवसात्पूर्वोक्तदिनानां तदुत्स- वकालत्वेन यथायमभिषेकसमय इत्युक्तिरविरुद्धा । सूक्ष्मकालं प्रति स्थूलकालस्या- धारत्वात् । प्रासादखट्वापर्यकन्यायोऽत्रानुसंधेयः ॥ भाव, प्रेषिता इति । महात्मानो महाधैर्याः । सभाजनं सपर्यामुपतिष्ठन्ते प्राप्नुवन्तीति सभाजनोपस्थायिनः । 'सुप्य- जातो' इति णिनिः । इदं च मध्यमणिन्यायेन पूर्वोत्तराभ्यामन्वेति । ब्रह्मर्षयो गौतम- विश्वामित्रादयः, राजर्षयस्तु जनकप्रभृतयः । देवर्षीणां ऊर्ध्व दिग्गमनान्नानादिगन्ते- त्युक्तिः । यत्समाराधनाय येषां प्लवङ्गमादीनां समाराधनाय पूजनायैतावतो दिवसाने- तावत्सु दिवसेषु । अत्यन्तसंयोगे द्वितीया । प्रमोदः । चारगतागतहेतुभूतप्रहर्ष इत्यर्थः। यत्समाराधनाय प्रमोद आसीत् , ते प्रेषिता इत्यन्वयः । 'तत्समाराधनाय' इति त- त्पदयुक्तपाठे तु न विश्रान्तचारचरणत्वे हेतुरुक्तो भवतीत्यत्राह-तत्समाराधना- येति । एवं चारचरणहेतुर्गत इति. भावः ॥ आ, अस्त्येतन्निमित्तम् । आइति स्मरणवा- १२ उत्तररामचरिते नट:-अन्यच्च । वसिष्ठाधिष्ठिता देव्यो गता रामस्य मातरः । अरुन्धतीं पुरस्कृत्य यज्ञे जामातुराश्रमम् ॥ ३ ॥ मूत्रधारः-वैदेशिकोऽस्मीति पृच्छामि । कः पुनर्जामाता । कन्यां दशरथो राजा शान्तां नाम व्यजीजनत् । अपत्यकृतिकां राज्ञे रोमपादाय तां ददौ ॥ ४ ॥ विभण्डकसुतस्तामृप्यशृङ्ग उपयेमे । तेन द्वादशवार्षिकं सत्रमारब्धम् । तदनुरोधात्कठोरगर्भामपि जानकी विमुच्य गुरुजनस्तत्र यातः । चकम् । अतएव 'निपात एकाजना' इति प्रगृह्यत्वात् आ अस्तीति संध्यभावः । 'वाक्यस्मरणयोरडित्' इत्यायुक्तेः । एतनिमित्तमस्ति । मया विस्मृतमिति भावः ॥ वसिष्ठाधिष्ठिता इति । अरुन्धतीं पुरस्कृत्य वसिष्ठाधिष्ठिता इत्यन्वयः । गुरुपत्नी- त्वप्रयुक्तप्राधान्यादरुन्धती मुख्यां कृत्वा वसिष्ठेन व्यापारिता इत्यर्थः । वसिष्ठः कर्तव्य अरुन्धतीमुखमवलोकमानोऽनुशास्ति । ततो देव्योऽरुन्धत्या सह कर्तव्यमनुतिष्ठन्तीति भावः । जामातुरित्येतन्मध्यमणिन्यायेन यज्ञाश्रमाभ्यामन्वेति । यज्ञे यज्ञनिमित्तम् । 'निमित्ताकर्मयोगे' इति सप्तमी । सतीत्यन्याहारेण यज्ञे सति आश्रम गता इति वार्थः ॥३॥वैदेशिको विदेशो देशान्तरं तत्रभवो वैदेशिक । अध्यात्मादित्वाह । वि- देशस्थस्यापि कदाचिदयोध्यास्थितिसंभवादित्याहुः ॥ कन्यामिति । व्यजीजनद- जनयत् । 'जनी प्रादुर्भावे' इति धातोणिच् । तां शान्तां रोमपादाय रोमपादनाम्नेऽप- त्यस्य कृतिप्पारो यस्यास्तथाविधाम् । 'शेषाद्विभाषा' इति कप् । कन्यां ददा- वित्युक्ते कलत्रार्थमिति प्रतीतेस्तद्वारणायापत्यकृतिकामिति ददौ दत्तवान् ॥ ४ ॥ तेन ऋष्यशृङ्गेण । द्वादशवर्षाणि भविष्यन्तीति द्वादशवार्षिकम् । 'तमधीष्टो भृतो भूतो भावी' इत्यधिकृत्य विहितो ठञ् द्विगु: । 'वर्षाल्लुक् च' इति पाक्षिको लुगभावः । अनुशतिकादित्वाटुभयत्र वृद्धिः । नतूत्तरपदवृद्धिमात्रम् । 'अभविष्यति' इति प्रति- षेधात् । न च द्वादशवर्षाणि भूतमित्यर्थोऽस्त्विति वाच्यम् , आरब्धमित्युक्तेरसाङ्गल्या. पत्ते । तदनुरोधात्कठोरगर्भामपीत्यादिना कठोरगर्मेति नानीता सीतेत्युक्ततया सीतायाः गर्भिणीदशायामेतत्सत्रमारब्धमिति स्पष्टमवगम्यते । एवं द्वितीयाङ्कविष्कम्भे 'सम- नन्तरं च गर्भकादशे वर्षे क्षात्रेण कल्पेनोपनीय त्रयीमध्यापितौ' इत्युक्त्वा 'संप्रति परिसमाप्तं द्वादशवार्षिकं सत्रम्' इति वक्ष्यमाणतया अत्रत्यद्वादशवार्षिकशब्दस्य द्वादशवर्षाणि भूतमित्यर्थाभ्युपगमेन तद्विरोधापत्तेरिति ध्येयम् । तदनुरोधात्तदनुस- रणाद्धेतोः कठोरगी पूर्णगर्भाम् । कठोरशब्दः पूर्णवाची । तदुक्तमुणादिषु वैयाक- रणै:-'अयं पूर्णतायामपि' इति । यात इति । 'अनाहूतोऽध्वरं गच्छेत्' इति प्रथमोऽङ्कः । मूत्रधारः–तत्किमनेन । एहि । राजद्वारमेव स्वजातिसमयेनो- पतिष्ठावः । नटः-तेन हि निरूपयतु राज्ञः सुपरिशुद्धामुपस्थानस्तोत्रपद्धति भावः । सूत्रधार:-मारिष, सर्वथा व्यवहर्तव्यं कुतो ह्यवचनीयता । यथा स्त्रीणां तथा वाचां साधुत्वे दुर्जनो जनः ॥ ५॥ नट:-अतिदुर्जन इति वक्तव्यम् । देव्या अपि हि वैदेह्याः सापवादो यतो जनः । रक्षोगृहस्थितिमूलमग्निशुद्धौ त्वनिश्चयः ॥ ६ ॥ विधेः, किं पुनर्व्यायादिति भावः ॥ तत्किमिति । खजातिसमयेन स्वजातिमर्यादr या । उपतिष्टावस्तोषयावः । रामस्य 'आत्मानं मानुष मन्ये राम दशरथात्मजम्' इति देवतात्वाभावात् 'उपाद्देवपूजा-' इत्यादिना नात्मनेपदम् । तथा च वजा- त्यनुगुणरूप यत्स्तोत्रं तत् कुर्व इति बोधः ॥ तेनेति । स्तोतव्यमिति यत्तेनेत्यर्थः । सुपरिशुद्धां सुष्ठु दोषरहिताम् । स्तुवन्त्यनेनेति स्तोत्रं ग्रन्थः तस्य पद्धतिरानुपूर्वी । उप- स्थानाय गुणिनिष्ठगुणाभिधानाय स्तोत्रपद्धतिमित्यर्थः । समासस्तु षष्ठ्यन्तस्येति बोध्यम् । निरूपयतूत्पादयतु । वदत्वित्यर्थ. ॥ ननु यदुक्तं स्तुति निरूपयत्विति तदवगच्छामि, सुपरिशुद्धामिति नाभ्युपगच्छामि, दोषरहितत्वरूपपरिशुद्धत्वस्य प्रयोजनाभावात् । स्तु- तिवचन तु कर्तव्यमेव स्वजातिनियतव्यापारत्वादित्याह-सर्वथेति । सर्वेण प्रका- रेण सर्वथा व्यवहर्तव्य व्यवहारः कर्तव्यः । भावे तव्यप्रत्ययः । व्यवहारशब्दः स्तु- तिकरणरूपव्यापारपरः । अवचनीयता वचनीय दोषस्तद्रहितता । सुपरिशुद्धतेत्यर्थः । कुतः किमर्थम् । यद्वा कुतः कस्मै । 'सार्वविभक्तिकस्त सि.' इति चतुर्थ्यर्थे तसिः । अयमाशयः--दोषवत्तया वा दोषरहिततया वा गुणवनया वा स्तुतिकरणरूपव्यापारः कर्तव्यः । तस्य खजातीयधर्मत्वात्त्वदुक्तसुपरिशुद्धतया तु किम् तस्या. फलाभावा- दिति । ननु जनाभिनन्दनमेव तत्फलमस्तु, कुत. फलााव इत्यत्राह-यथा मित्यादिना । पूर्वपादस्थहिशब्दस्यात्र संवन्धः । हि यस्माजनः स्त्रीणा साधुत्वे दुर्जन- स्तस्मादवचनीयता किमर्थेति पूर्वेण संवन्धः । जनः स्त्रीणां साधुत्वे यथा पातिव्रत्यविषय इव वाचां साधुत्वे माधुयोज्ज्वल्यादिविषये दुर्जनो दोषदशी । दोषदर्शित्वमेव हि दौर्जन्य- मिति भावः । यथा स्त्रीणां साधुत्वे जनो दुर्जनस्तथा वाचां साधुत्वेऽपि जनो दुर्जनः, हि यस्मातस्मादवचनीयता किमर्थत्यर्थः ॥ ५ ॥ प्रकृतकथासगतये यथा स्त्रीणामिति यथेति दृष्टान्त उक्तः। तदुपजीव्य प्रकृतमवलम्बते-नट:-अतिदुर्जन इति वक्तव्य- मिति। तत्र हेतुमाह-देव्या इति। हि यत इत्यनयोर्यथाक्रम पूर्वोत्तरार्धयोरन्वयः । उ० रा. २ १४ उत्तररामचरिते सूत्रधारः-यदि पुनरियं किंवदन्ती महाराज प्रति स्यन्देत ततः कष्टं स्यात् । नट:--सर्वथा ऋषयो देवाश्च श्रेयो विधास्यन्ति । (परिक्रम्य ।) भो । भोः, वेदानी महाराजः । (आकर्ण्य ।) एवं जनाः कथयन्ति- स्नेहात्सभाजयितुमेत्य दिनान्यमूनि नीत्वोत्सवेन जनकोऽद्य गतो विदेहान् । देव्यास्ततो विमनसः परिसान्त्वनाय धर्मासनाद्विशति वासगृहं नरेन्द्रः ॥ ७ ॥ (इति निष्क्रान्तौ ।) इति प्रस्तावना। हि यस्माद्देव्या दीप्तिमत्या अपि । खभावतो दोषप्रतिभटाया अपीत्यर्थः । वैदेह्या वि- देहराजपुत्र्याः । संबन्धसामान्ये षष्ठी । जनः सापवादः । अपवादो दोषकथनं तेन सहित इत्यर्थः । तथा च वैदेहीसंबन्ध्यपवादसहित इत्यर्थः । नित्यसापेक्षत्वात्समासः । तदु- क्तम्-'संबन्धिशब्दः सापेक्षो नित्यं सर्वः समस्यते' इति । यतश्च रक्षोगृहस्थितिः राक्षसगृहावस्थानमात्रम् । नत्वन्यदिति भावः । मूलं दोषकथनहेतुः । अग्निशुद्धौ अनि- श्चयस्तु निश्चयाभावश्च । तुशब्दश्चार्थकः । अत्र देव्या इति दोषाभाव उक्तः । रक्षागृह- स्थितिरित्यनेन असाधारणहेत्वभाव उक्तः । अग्निशुद्धावित्यनेन बाधकप्रमाणमुक्तम् । तथा च एतत्सर्वमपि नावलोकितमिति भावः । विषयप्रभावमविगणय्य असतोऽपि दो- पस्य कथनं सुतरां दुर्जनकार्यम् । तत्राप्यसाधारणहेतुमप्यदृष्ट्वा विषयप्रभावमप्यविगण- व्यासतोऽपि दोषस्य कथनम् , ततोऽपि दुर्जनकार्यम् , तत्रापि बाधकप्रमाणमप्यविश्वस्या- साधारणकारणमप्यदृष्ट्वा विषयप्रभावमप्यविगणय्यासतोऽपि दोषस्य कथनम्, ततोऽप्य- तिदुर्जनकार्यमिति । अत्र हि यस्मात्सापवादः । यतश्च रक्षोगृहस्थितिमूलम् । अग्नि- शुद्धावनिश्चयश्च जनस्य । तस्माज्जनोऽतिदुर्जन इति वक्तव्यमित्येवं पूर्वेणान्वयः ॥ ६ ॥ यदि पुनरिति । किंवदन्ती लोकवादः स्यन्देत प्रस्रवेत् । श्रवणविषयीभवेदिति या- वत् । अनेन प्रथमावार्थः सूच्यते । 'सर्वथा ऋषयः' इत्याद्यनेन शेषाङ्कार्थः सूचितः।- एष ऋषिकर्तृकश्रेयोविधानरूपबीजन्यासादुपक्षेपो नाम संध्यङ्गमुक्तम् । यथा-'बी- जन्यास उपक्षेप.' इति ॥ आकयेति । इदमाकाशभाषितमुच्यते । तदुक्तम्- 'अप्रविष्टैः सहालापो भवेदाकाशभाषितम्' इति । स्नेहादिति । सभाजयितुं पू- जयितुम् । उत्सवेन हर्षजनकव्यापारेण । विमनसो दुःखितहृदयायाः परिसान्त्वनाय तहुःखापनयनक्षममधुरवचनप्रयोगाय । 'तुमर्थाच्च' इति चतुर्थी । धर्मासनात् ।क्षत्रिय- धर्मभूतराज्यपरिपालनार्थसिहासनादित्यर्थः । वासगृहं खावासगृहम् । विशति प्रवि- प्रथमोऽङ्कः । १५ (ततः प्रविशत्युपविष्टो रामः सीता च ।) रामः-देवि वैदेहि, विश्वसिहि । ते हि गुरवो न शक्नुवन्ति विहातुमस्मान् । किं त्वनुष्ठाननित्यत्वं स्वातन्त्र्यमपकर्षति । संकटा ह्याहितामीनां प्रत्यवायैर्गृहस्थता ॥ ८॥ सीता-जाणामि अजउत्त, जाणामि । किंदु संदावआरिणो बन्धु- जणविप्पओआ होन्ति । रामः-एवमेतत् । एते हि हृदयमर्मच्छिदः संसारभागाः । येभ्यो बीभत्समानाः सत्यज्य सर्वान्कामानरण्ये विश्राम्यन्ति मनीषिणः । (प्रविश्य ।) कञ्चकी-रामभद्र-(इत्य?क्त साशङ्कम् ।) महाराज- रामः-(सस्मितम् ।) आर्य, ननु रामभद्र इत्येव मां प्रत्युपचारः शोभते तातपरिजनस्य । तद्यथाभ्यस्तमभिधीयताम् । १. जानामि आर्यपुत्र, जानामि । किंतु संतापकारिणो बन्धुजनविप्र- योगा भवन्ति । शति ॥७॥ एवं प्रस्तावना प्रस्तुता। अथाङ्कः प्रस्तूयते-ततः प्रविशतीत्यादिना। अङ्कलक्षणं तु-'प्रत्यक्षनेतृचरितो बिन्दुव्यक्तिपुरस्कृतः । अङ्को नानाप्रकारार्थसंविधा- नरसाश्रयः ॥ इति । विश्वसिहि संतोषं प्राप्नुहि । 'समाश्वसिहि' इति पाठान्तरम् । वि- हातुं त्यक्तुम् । किं त्विति । किंतु अनुष्ठानस्य नित्यनैमित्तिकादिकर्मकलापनिर्वर्तनस्य नित्यत्वं नियतता । अनुष्ठानाभावविरहरूपनियम इत्यर्थः । खातव्यं खैरावस्थानमपक- पति न सहते । अपकर्षतीत्युक्त्यातिकामदपि खैरावस्थानं निरुन्ध इति लाभेन, क- दाचिदप्यङ्गीकृतमपि खैरचरित तदाननुष्ठितकर्मानुष्ठापनेन, तदनुष्ठानाभावप्रायश्चित्ता- नुष्ठापनेन च लभ्यते । जनैरिति तदाशयः । तदाह-संकटा हीति । हि यस्मात् । आहिताग्नीनां गृहस्थता गृहस्थाश्रमः प्रत्यवायैर्विहितानाचरणजन्यपातकैः संकटा नि- बिडा दुःखरूपावा। जाग्रत्प्रत्यवायेत्यर्थः ॥ ८॥ एवमिति । येभ्य इति संसारभागेभ्यः । संसारेऽवश्यानुभाव्यभाग इत्यर्थः । संसारो हि शरीरसंबन्धानुबन्धिसुखदुःखसमुदाय। तथा च गुरुबन्धुवियोगादीनां तदेकदेशत्व संगतम् । बीभत्समाना जुगुप्समानाः । एतद्दोषानुबन्धजनितचित्तवृत्तिनिवृत्तियुक्ता इत्यर्थः । बीभत्साया जुगुप्सावस्थायिक- खादित्थं व्याख्यातम् । अतएव बीभत्समाना इत्यस्य 'जुगुप्साविराम-' इत्यादिना पञ्चमी । 'बन्ध बन्धने' इत्यस्मात्स्वार्थे सनि रूपमिदम् । 'बधेश्चित्तविकारे' इति १६ १ उत्तररामचरिते कञ्चकी-देव, ऋप्यशृङ्गाश्रमादष्टावक्रः संप्राप्तः । सीता-अज, तदो किं विलम्बीअदि । रामः-त्वरितं प्रवेशय। (कञ्चुकी निष्क्रान्तः।) (प्रविश्य।) अष्टावक्र:-स्वस्ति वाम् । रामः-भगवन् , अभिवादये । इत आस्यताम् । सीता–भैअवं, णमो दे। अवि कुसलं सजामातुअस्स गुरुअ- णस्स अज्जाए सन्ताए । रामः-निर्विघ्नः सोमपीथी भावुको मे भगवानृप्यशृङ्गः, आर्या चशान्ता । सीता—अम्हे वि सुमरेदि । अष्टावक्र:-(उपविश्य ।) अथ किम् । देवि, कुलगुरुर्भगवान्वसि- ष्ठस्त्वामिदमाह विश्वंभरा भगवती भवतीमसूत राजा प्रजापतिसमो जनकः पिता ते । १. आर्य, ततः किं विलम्ब्यते । २. भगवन् , नमस्ते । अपि कुशलं सजामातृकस्य गुरुजनस्यार्यायाः शान्तायाश्च । ३. अस्मानपि स्मरति । वार्तिकादस्य चित्तविकारे वृत्तिः । काम्यन्त इति कामाः । कर्मणि घञ् । गृह- क्षेत्रपुत्रादयस्तानित्यर्थः ॥ उपचारो व्यवहारः । यथाभ्यस्तमभ्यस्तमनतिक्रम्य । यथा- र्थत्वात्समासः । अभिधीयताम् ॥ अष्टावक्रस्तदाख्यः । अष्टौ वक्राणि अस्येति विग्रहः । योगरूढशब्दः । 'अष्टनः संज्ञायाम्' इति दीर्घः । हास्यानुप्रवेशार्थमष्टावक्रप्रवेश. ॥ अवि कुसलं सजामातुअस्सेति । सजामातुअस्स सजामातृकस्य । 'प्रायो लु- कगचजतदपयवाम्' इति सूत्रेण ककारलोपः । तस्मिन्नवशिष्टाकारस्येषत्स्पृष्टयकार- श्रुतिश्च प्राकृतव्याकरणसिद्धा ॥ निर्विघ्न इति । सोमपीथी । सोमपा इत्यर्थः । भा- बुकः पूज्यः । शान्तापतिवादिति भावः ॥ विश्वंभरेति । नन्दिनि गुणपूर्णे । 'टुनदि समृद्धौ' इत्यस्मात् भावे घनि 'अत इनिटनौ' इति इनिप्रत्ययः । एकाक्षरा- प्रथमोऽङ्कः । तेषां वधूस्त्वमसि नन्दिनि पार्थिवानां येषां कुलेषु सविता च गुरुर्वयं च ॥ ९ ॥ तत्किमन्यदाशास्महे । केवलं वीरप्रसवा भूयाः । रामः-अनुगृहीताः स्मः । त्कृतोऽजाताविति निषेधस्तु प्रायिकः । ग्रह्यादिणिनिर्वा । नान्तवात् डीप् । नन्दिनि पुत्रि। संबोधनम् । इद च 'अस्माकं तु जनकसुता दुहितैव' इति वक्ष्यमाणरीत्या दशरथ- मतानुसारेण भगवती षाडण्यपरिपूर्णा विश्वंभरा भूमिः । भूरित्यायनुक्ला विश्वंभरोक्तिः क्षान्तिप्रधानतासूचनाय । भवती पूज्यां त्वामसूत सूतवती । 'घूड् प्राणिप्रसवे' लड् । शपो लुक् । विश्वंभराशब्दस्तु 'संज्ञायां भृतृ-' इत्यादिना खच्प्रत्ययमुमागमान्यां निष्पन्नः । प्रजापतिना ब्रह्मणा समः । स्वाध्यायादिना ब्रह्मतुल्य इत्यर्थः । 'मान्धातार- मपारसंसदि महद्भावे यशोराशिषु' इत्युक्तरीत्या ब्रह्मवत् माहात्म्यशालीति वा । राजा । राजते दीप्यते इति । 'कनिन् युवृषितक्षि-' इत्यादिना कनिन्प्रत्ययः । ब्रह्मज्ञा- नपरिपूर्णतया नैष्ठिकवनिरतिशयदीप्तियुक्त इत्यर्थः । इद चोक्तं मीमांसायाम्-'क्ष- त्रियत्वगतेश्च' इति सूत्रविषयवाक्यप्रकरणे जानश्रुतीनां(?) क्षत्रियवृत्तान्ते स्पष्टम् । यद्वा ज्ञानभक्तिवैराग्यैरस्मदादीनपि रञ्जयतीति राजा धातूनामनेकार्थत्वादिति । जनकः पूर्वोक्तप्रकारेण श्रुतिषु प्रसिद्धः । 'जनको ह वैदेहः', 'कर्मणैव हि संसिद्धिमा- स्थिता जनकादयः' इत्यादिषु प्रसिद्ध इत्यर्थः । ते पिता येषां राज्ञां कुलेष्विति बहुत्वं पूजायाम् । उद्भूतावयवविवक्षया, कुल घुत्पादकप्रबन्धः । सर्वं जगत्सुवति कर्मानुष्ठाने प्रेरयतीति वा सविता सूर्यो गुरुः पिता वयमहम् 'अस्मदो द्वयोश्च' इति एकत्वे बहु- वचनम् । 'सविशेषणस्य प्रतिषेध.' इति तु न विधेयविशेषणविषये। 'ततोऽनु त्वं प्रे- यान्वयमपि हताशाः प्रियतमाः' इत्यादिप्रयोगात् । यद्वा 'वसिष्ठाङ्गिरसौ ऋषी प्राचेतस- स्तथा' इति वक्ष्यमाणरीत्या वाल्मीकेः, जृम्भकास्त्रसंप्रदायेन विश्वामित्रस्य, वामदेवा- देश्च ग्रहणात् वयमिति बहुवचनम् । गुरुरित्यनुषक्तस्य वचनविपरिणामात् गुरवो हितो. पदेष्टारः । गृणातीति गुरुः । 'कृग्रोरुच्च' इत्यौणादिकसूत्रेण निष्पन्नोऽयं शब्द. । 'गुशब्दस्त्वन्धकारः स्यात् रुशब्दस्तनिवर्तक.' इति निरुक्त्या अज्ञाननिवर्तक इत्यर्थः । गुरवः पितर इत्येव वार्थः । स हि विद्यातस्तं जनयति' इति स्मृतेः 'पुत्रका इति होवाच' इत्यादि पुराणाच्च । तेषां पार्थिवानाम् । 'सर्वा पूर्वमिय येषामासीत्कृत्स्ना वसुंधरा' इत्युक्तमुख्यपृथिवीपतित्वधर्माणां वधूरसि स्नुषासि ॥ ९ ॥ तदिति । तस्मात् अन्य. कि वक्ष्यमाणादितरत्किमाशास्महे । 'आड्शासु इच्छायाम्' इति धातोर्लट् । अयं भावः-तव गुणातिशयो नाशास्यस्तस्य 'विश्वंभरा भगवती' इत्युक्तमातृसंबन्धवशादेव तत्सिद्धेः । नापि ज्ञानभक्तिवैराग्यादिकम् , तस्य ब्रह्मवित्तमजनकसंबन्धादेव तल्ला- भात् । न वा हितग्राहित्वमैश्वर्यं भर्तृसंबन्धप्रयुक्तनिकर्षाभावश्च प्रार्थ्यः । तेषां सद्गु- रुसंबन्धशालिमहाराजमहाकुलप्रसूतराजकुलस्नुषात्वादेव सिद्धत्वात् । अत एतेषां ना- शास्यत्वम् , किंतु वीरप्रसवत्वस्येति । एष ऋषिश्रेयोविधानभूतवसिष्ठानुग्रहरूपवीजस्य बहूकरणात्परिकरः । तदुक्तम्-'बीजस्य बहूकरण परिकरः' इति ॥ अनुगृहीता १८ उत्तररामचरिते लौकिकानां हि साधूनामथै वागनुवर्तते । ऋषीणां पुनराद्यानां वाचमर्थोऽनुवर्तते ॥ १० ॥ अष्टावक्र:-इदं च भगवत्यारुन्धत्या देवीभिः शान्तया च भूयो- भूयः संदिष्टम् । यः कश्चिद्गर्भदौहृदोदयो भवत्यस्याः सोऽवश्यमचि- रान्मानयितव्य इति । रामः-क्रियते यद्येषा कथयति । अष्टावक्र:-ननान्दुः पत्या च देव्याः संदिष्टम्-'वत्से, कठोरग- भेंति नानीतासि । वत्सोऽपि रामभद्रस्त्वद्विनोदार्थमेव स्थापितः । तत्पु- त्रपूर्णोत्सङ्गामायुप्मती द्रक्ष्यामः' इति । -(सहर्षलज्जास्मितम् ।) तथास्तु । भगवता वसिष्ठेन न किंचि- दादिष्टोऽस्मि । अष्टावक्र:- -श्रूयताम् । जामातृयज्ञेन वयं निरुद्धास्त्वं बाल एवासि नवं च राज्यम् । युक्तः प्रजानामनुरञ्जने स्यास्तस्माद्यशो यत्परमं धनं वः ॥ ११ ॥ इति । एतन्मनुष्यानुग्रहरूपबीजाङ्गीकरणरूपं समाधान नाम संध्यङ्गमुक्तम् । तदु- कम्-'बीजाङ्गीकरण समाधानम्' इति । लौकिकानामिति । लौकिकानामित्य- तो व्यतिरेकनिर्देशाल्लोकान्यस्य वेदस्यैव झटित्युपस्थितेः ऋषीणामित्युक्तम् । ऋषीणां पुनः । तपखिनामित्यर्थः । वाचमर्थोऽनुवर्तते वागधीनोऽर्थों भवति । तपस्विनामु- क्तिर्हि तपःप्रभावेनानासन्नमप्यर्थमुत्पादयतीति भावः । यद्वा 'ऋष गतौ' इत्यस्य वुध्यर्थत्वात्कालत्रयवर्तिवस्तुसाक्षात्कर्तृत्व ऋषिपदप्रवृत्तिनिमित्तम् । तथा च भाविन- मर्थ दृष्ट्वा ते वदन्ति । ततः खकाले प्राप्ते सोऽर्थस्तामनुसरतीति भावः । हि यस्मात् एवं तस्मादनुगृहीता वयमित्यन्वयः । एतत् ऋषिश्रेयोवितरणरूपबीजगुणवर्णनात् वि- लोभन नाम संध्यङ्गमुक्तम् । यदुक्तम्-'बीजगुणवर्णनं विलोभनम्' इति ॥१०॥ इदं चेत्यादि । गर्भस्य दौहृद लक्षणम् ‘स कीचकैर्मारुतपूर्णरन्धैः' इतिवत् विशेष्यमात्रपरम् । अन्यथा दौहृदशब्दस्यैव गर्भचिह्नवाचित्वात् । तच्च विशिष्टवस्तुविषयाभिलाषादिरूपम् । तस्योदय आविर्भावः । मानयितव्यः संभावयितव्यः । तथा संपादनेन सफलीकार्य इति भावः ॥ क्रियत इति । एषा कथयति यदि क्रियत इत्यन्वयः ॥ ननान्दुरिति । ननान्दुः । शान्ताया इत्यर्थः । देव्या इत्यस्य पूर्वोत्तराभ्यां संबन्धः । तथा च देवी- संबन्धिननान्दपतिना देव्याः संदिष्टम् । देवी प्रति संदिष्टमित्यर्थः । पुत्रपूर्ण उत्सगो- ऽको यस्या इति बहुव्रीहिः । यद्वात्र पूर्णपदेन यमावित्यपि सूच्यते, अन्यथा पुत्रवदु- त्सङ्गामिति वक्तु शक्यत्वात् । द्रक्ष्याम इति । एतत् बीजानुगुणप्रयोजनविभाधनारूपा युक्तिर्नाम संध्यगमुक्तं भवति । तदुक्तम्- 'बीजानुगुणप्रयोजनविभावना युक्तिः' इति ॥ जामात्रिति । ऋष्यशृङ्गेति वक्तव्ये जामात्रियुक्तं पूज्यतास्फोरणाय । एवं च तदिङ्गितं ज्ञात्वैवास्माभिस्तत्रासितव्यम् । किं पुनस्तत्कृतबहुनिर्बन्धे सतीत्यत आ- .

प्रथमोऽङ्कः। ov रामः यथा समादिशति भगवान्मैत्रावरुणिः । स्नेहं दयां च सौख्यं च यदि वा जानकीमपि । आराधनाय लोकस्य मुञ्चतो नास्ति मे व्यथा ॥ १२ ॥ ह-निरुद्धा इति । अनेन सर्वप्रकारेणापि नगरं प्रत्यागमने त्वरातिशयो वसिष्ठस्येति व्यज्यते । ननु कुत ईदृशस्त्वरातिशय इत्यत आह -त्वं बाल एवासीति । नतु रा- ज्यतन्त्रविचारोपमर्दाभिज्ञ इत्यर्थः । किं च दशरथजामातरं ऋष्यशृङ्गं जामातेति निर्दिशन्वसिष्ठः खस्य दशरथस्थानीयतामभिप्रैति । तच्च रामबुद्ध्या स्वबुद्ध्या च । एवं चात्रत्यबालशब्दः पुत्रत्वाभिप्रायमूलकः । ततश्च ननु यद्यत्राचार्यक प्रस्तुतं स्यात् । इति तदागमने त्वरातिशय इति । न केवलमहमाचार्यः, किं तु त्वद्या दशरथस्थानी- यश्च । तथा च त्वदीयराज्यतन्त्रविषयकास्थानानर्थशङ्का मामसंनिकृष्टं बाधत इत्याह- त्व बाल एवासि । नत्वन्यादृशरघुकुलराजवत् शिष्य इत्यर्थः । तथा च तव शिष्यमा- त्रत्वे पौरोहित्यादिकं वामदेवादयो निर्वक्ष्यन्तीति तदर्थ नास्माक त्वरा । किंतु तत्पु- त्रत्वात् त्वां युवराजीकृत्य महाराजस्थानीयेन मया राज्यतन्त्रो विचारयितव्यः । अन्यथा न मामतिशङ्का मुञ्चतीति भावः । नन्वस्त्वेवम् , तथापि युद्धादिषु लब्धवर्णस्य यौवराज्यस्य पालने सहायापेक्षा नास्तीत्यत्राह-राज्यमिति । नवं च नवमेव । नतु युद्धादिवत् परिचितपूर्वमित्यर्थः । ननु तर्हि किं कर्तव्यमित्यत्राह-युक्त इति । युक्तः संनद्धः । 'योगः संनहने' इति कोशात् स्वस्मादात्मन आत्मीयाद्वा । परमं सर्वोत्कृष्ट प्रसिद्धधनस्य क्षयित्वमिति, तद्व्यावृत्तिः परमशब्देन विवक्षिता । धनं लब्धां- शपरिपालनालब्धांशार्जनाभ्यां धनतुल्यमित्यर्थः॥११॥ यथेति । मैत्रावरुणिः मित्रावरु- णयोरपत्यमित्यर्थे बाह्लादित्वादिप्रत्ययः । देवताद्वन्द्वेच' इत्यानड् । इयं च कथा पौरा- णिकी वेदितव्या । समादिशत्याज्ञापयति। तथा करोमीति शेषः । स्नेहमिति । स्नेहो हि सुखरूपः सुखान्तरहेतुश्च । किंच 'शरीरं वसु विज्ञान मित्रार्थे संपरित्यजेत्' इत्युक्त- रीत्या सर्वापेक्षया प्रशस्तश्च । अपि च 'अहेतुः पक्षपातो यस्तस्य नास्ति' इत्युक्तरीत्या दुर्निवर्त्यश्च । तथा च तत्परित्यागोऽपि मम न दुःखायेति भावः । स्नेहस्य व्यवस्थित- विषयत्व एव गुणत्वम् , अन्यथा तु दोषत्वमस्तीति निष्कर्षः। दया तु सर्व विषयापि गुणत्वं न मुञ्चति । यथा 'सर्वभूतेषु सर्वत्र संतुष्ट्या येनकेनचित् । सर्वेन्द्रियोपशान्त्या च तु - ष्यत्याशु जनार्दनः॥' इत्युक्त्या धर्मरूपतया च । किच परदुःखाधीनसत्ततया तन्निवृत्ति विना दुर्निवल् । तामषि मुञ्चतो मम न व्यथेति भावः । एतेषां व्यतिरेकेऽप्या- स्मनो न व्यतिरेक इत्यस्यापकर्षः । सीता तु 'प्राणेभ्योऽपि गरीयसी' इत्युक्तरीत्या जीवितं प्रत्यपि प्रधानभूता । किच 'अद्यावसितं रामस्य जीवितप्रयोजनम्' इति वक्ष्यमाणरीत्या मद्यतिरेकप्रयोजनव्यतिरेकवती । पूर्वोक्तस्नेहदयासौख्यैः संतुष्टोऽहं तामवलम्ज्य । तथाभूतामपि मुञ्चतो मम न व्यथेति भावः । सीतामित्यनुक्त्वा जान- कीमित्युक्तिर्लोकाराधनापेक्षया ब्रह्मवित्तमजनकानुरोधोऽप्यकिंचित्कर इति सूचयति । लोके हि अभिमतवस्तुपरित्यागात्पूर्वकाले तस्य संनिधानात् न दुःखभूयस्त्वम् । परि- त्यागात्परमपि तस्यातीतत्वात् न दुःखभूयस्त्वम् । तत्परित्यागकाले तु भवति दु:- २० उत्तररामचरिते सीता-अदो जेब राहवधुरंधरो अजउत्तो । रामः-कः कोऽत्र भोः । विश्राम्यतादष्टावक्रः । अष्टावक्र:-(उत्थाय परिक्रम्य च ।) अये, कुमारलक्ष्मणः प्राप्तः ।। (इति निष्क्रान्तः ।) (प्रविश्य।) लक्ष्मणः-जयति जयत्यार्यः । आर्य, अर्जुनेन चित्रकरणास्सदुप- दिष्टमार्यस्य चरितमस्यां वीथ्यामभिलिखितम् । तत्पश्यत्वार्यः । रामः-जानासि वत्स, दुर्मनायमानां देवीं विनोदयितुम् । तत्कि- यानवधिः । लक्ष्मणः-यावदार्याया हुताशनशुद्धिः । रामः-शान्तं पापम् । (ससान्त्ववचनम् ।) उत्पत्तिपरिपूतायाः किमस्याः पावनान्तरैः । तीर्थोदकं च वह्निश्च नान्यतः शुद्धिमर्हतः ॥ १३ ॥ १. अत एव राघवधुरंधर आर्यपुत्रः । खभूयस्त्व तावद्वर्तमानत्वात् । मम तु वर्तमानकालेऽपि न दुःखमिति वर्तमानार्थक- मुञ्चत इति पदतो लभ्यते। व्यथेति सामान्यशब्देन मनोव्याधिरपि नेत्यर्थः ॥१२॥ राघ- वधुरंधरः । रघुवशश्रेष्ट इत्यर्थः । राघवपदोघादान साभिप्रायकम् । शरणागतसंरक्षण- भूतदयालोकाराधनकपररघुवंशजस्य तवेदमनुरूपमित्यभिप्रायः ॥ विश्राम्यताद्विश्रम प्राप्नोतु । आशिषि परस्मैपदलोटस्तातड् । 'विश्राम्यताम्' इति पाठे तु परिजनैरिति शेषः । विश्रमवान्कियतामित्यर्थः । णिजन्तात्कर्मणि लोट् ॥ अर्जुनेन तन्नाम्ना । वी- थ्यां चित्रमयश्रेण्याम् ॥ दुर्मनायमानां दुःखितमनस्काम् । जनकस्य खदेशान्प्रति गमनादिति भाव. । 'कर्तुः क्यड्सलोपश्च' । डिवादात्मनेपदम् । शानच् । विनोदयितुं दु.खविस्मरणपूर्वक संतोष ग्राहयितुम् । 'नुद प्रेरणे' । उपसर्गबलेन उक्तार्थलाभः । तत्कियानवधि. । तदित्यव्ययम् । तस्येत्यर्थः । अवधिरन्तः कियान् । किप्रमाणक इत्यर्थः । अनेकसंख्याकेषु मद्यापारेषु कीदृशसंख्यायुक्तोऽस्मद्व्यापारः । अस्य चि- त्रस्यावधिरित्यर्थ. ॥ यावदिति । हुताशनेन शुद्धिरिति विग्रहः । यावच्छब्दोऽवधार- ' णार्थकः । हुताशनशुद्धिर्यावत् । हुताशनशुद्धिरेवावधिरित्यर्थः। अवधिरिति पूर्वस्मादनु- षड्गः ॥ शान्तं पापमिति । योऽयमलीकोपन्यासस्तस्य पीडाहेतुभूतपापशान्तिको भवत्विति तात्पर्यम् । लोकोक्तिरियमिष्टजन प्रत्यनिष्टवचनाक्षमजनाशीर्वचनरूपा । ससान्त्ववचनम् । अत्यर्थमधुरवाक्सहितमित्यर्थः ॥ उत्पत्तीत्यादि । उत्पत्त्या परिपूतायाः परिशुद्धायाः । कृत्रिमत्वनिरासार्थमिदम् । स्वभावतो दोषप्रतिभटाया इ- त्यर्थः । अस्याः सीतायाः । पावयन्तीति पावनानि । नन्द्यादित्वाल्लयुप्रत्ययः । अ- प्रथमोऽङ्कः। २१ देवि देवयजनसंभवे, प्रसीद । एष ते जीवितावधिः प्रवादः । क्लिष्टो जनः किल जनैरनुरञ्जनीय- स्तन्नो यदुक्तमशुभं च न तत्क्षम ते । नैसर्गिकी सुरभिणः कुसुमस्य सिद्धा मूर्ध्नि स्थितिर्न चरणैरवताडनानि ॥ १४ ॥ .. •. न्यानि पावनानि पावनान्तराणि । तैरित्यर्थः । किम् । न किमपीत्यर्थः । शुद्धिर्हि दोषनिर्हरणम् । अविद्यमानदोषायाः कथं शुद्धिरिति भावः । किच अन्तरशब्देन दो- घरहितमात्रस्य पावकवस्त्वपेक्षा नास्ति । पावकस्य तु तन्नरपेक्ष्यं कैमुतिकम् । इयं च केवल दोषरहिता न । कितु पावका चेति सूच्यते । 'अपि मां पावयेत्साध्वी स्नात्वे- तीच्छति जाह्नवी' इति न्यायात् । उक्तमर्थमुत्तरार्धेन दर्शयति-तीर्थोदकमिति । गङ्गादिपावनजलम् । तीर्थशब्दो विशेषणमात्रपरः । यथाश्रुते तीर्थशब्दस्यैव परिशु- द्धोदकवाचित्वात् । यद्वा तीर्थानां गुरूणामुदकं पादावनेजनाम्भः । 'आपः पादावने- जनीषिन्त निर्दहन्तु मे' इति श्रुते । वदिश्च । अन्यतः शुद्धिमन्यहेतुकशुद्धि नार्हतः । यथा पावकत्वाविशेषात्तीर्थोदकवदयोरितरापेक्षा नास्ति तद्वदस्या अपि पावकत्वावि- शेषेण तदपेक्षा नास्तीत्यतिस्फुटम् । किच विनिगमनाविरहात् वनेर्वा सीतासंव- न्धत. शुद्धिः कि न स्यादित्याशयः । अग्निप्रवेशानुमतिर्मूढप्रत्यायनार्थी वा । अग्नि- प्राशस्त्यार्थी वा॥१३॥जीवितावधिरिति । जीवितस्यावधिर्यस्येति बहुव्रीहिः ।यदी- यावधिः जीवितावधिः । स इत्यर्थः । प्रसीद । 'अञ्जलिः परमा मुद्रा क्षिप्रं देवप्रसा- दिनी' इत्युक्तरीत्या बहुतरापराधानां क्षिप्र क्षमापकोऽयमजलिरपराधभूयस्त्वानुगुण्या- च्छरीरपातपर्यन्तमनुष्ठेयः । स चाशक्त्या तन्त्रेणानुष्ठीयत इति भावः । क्लिष्ट इति । यद्यस्मात्कारणाक्लिष्टो जनो दुःखितो जनो जनैरनुरञ्जनीयः । क्लेशं विस्मार्य लालनीय इत्यर्थः । नतु पूर्वानुभूतदु.खस्मारणेन क्लेशयितव्य इत्यर्थः । तत्तस्मात् । अशुभम- मङ्गलम् । 'अशिवम्' इति पाठान्तरम् । ते त्वद्विषये । शेषे षष्ठी । न आवयोः । 'अस्मदो द्वयोश्च' इति द्वित्वे बहुवचनम् । यदुक्तम् । 'अस्मत्कर्तृकं यद्वचनमित्यर्थः । 'नपुसके भावे क्त.' । 'यावदार्याया हुताशनशुद्धि.' इत्युक्तलक्ष्मणवचनमित्यर्थः । अत्र लक्ष्मणवचनस्य रामस्य खोक्तितैक्याभिसंधिना । 'रामस्य दक्षिणो बाहुनित्य प्राणो बहिश्वर.' इत्युक्तेः । तत् । वचनमित्यनुषज्यते । नः । त्वदेकजीवितयोस्तव निर्दोषतां च जानतोरित्यर्थः । न क्षम नोचितम् । अयं भावः-बन्धुत्वमित्रत्वानाद- रेण जनत्वरूपसामान्यधर्म एवानुरञ्जनीयानुरञ्जकभावे पर्याप्तो हेतुः । तत्र 'प्रेयो मित्रं बन्धुता वा समग्रा सर्वे कामाः संपदो जीवित वा । स्त्रीणां भर्ता धर्मदाराश्च पुमाम्' इत्युक्तरीत्या सर्वप्रकारप्रियतमायास्तव विषये तथाविधानामस्माक पूर्वानुभूतदुःखस्मारण- महापराधो नोचित एव । तत्राप्यलोकनिर्बन्धतत्स्मारणं तु सुतराम् । किच निर्दोषतां च जानतोरावयोस्तत्कथन तु दूरोत्सारितमिति । सुरभिणः कुसुमस्य सुगन्धप्रधानस्य पुष्पस्य मूर्ध्नि स्थितिनैसर्गिकी निसर्ग एव । विनयादित्वात्स्वार्थे ठक्प्रत्ययः । सिद्धा .4 २२ उत्तररामचरिते , सीता-होदु अजउत्त, होदु । एहि । पेक्खम दाव दे चरिदम् । (इत्युत्थाय परिकामति ।) लक्ष्मणः-इदं तदालेख्यम् । सीता—(निर्वर्ण्य ।) के एंदे उवरिणिरन्तरट्ठिदा उवत्थुवन्दि विअ अज्जउत्तम् । लक्ष्मणः-देवि, एतानि तानि सरहस्यानि जृम्भकास्त्राणि । यानि भगवतो भृशाश्वात्कौशिकमुपसंक्रान्तानि । तेन च ताटकावधे प्रसादी- कृतान्यार्यस्य । रामः-वन्दख देवि, दिव्यास्त्राणि । ब्रह्मादयो ब्रह्महिताय तप्त्वा परःसहस्रं शरदां तपांसि । एतान्यदर्शन्गुरवः पुराणाः खान्येव तेजांसि तपोमयानि ॥ १५ ॥ १. भवत्वार्यपुत्र, भवतु । एहि । प्रेक्षामहे तावत्ते चरितम् । २. क एते उपरिनिरन्तरस्थिता उपस्तुवन्तीवार्यपुत्रम् । प्रसिद्धा । चेतनाचेतनसाधारण्येन प्रसिद्धा । चेतनैरवचूडरूपेणाचेतनैः शाखाने च धार- णात् । चरणैरवताडनानि न । न दृष्टानीत्यर्थः । अयं भावः-त्रिविधानि तावत्कु- सुमान्यवगन्तव्यानि । यानि कान्तिप्रधानानि, सौरभ्यप्रधानानि, उक्तोभयप्रधानानि चेति । तत्र कान्तिप्रधानानि शाल्मलीकुसुमादीनि, सौरभ्यप्रधानानि दमनकादीनि, उभयप्रधानानि मालतीप्रभृतीनि । तत्र सौरभ्यमात्रप्रधानस्यापि न चरणावताडना- हत्वम् । तस्य प्राणैकनिरन्तरानुभाव्यत्वात् । एवं नाद्यस्यापि । तस्य दर्शनैकानुभाव्य- त्वात् । उभयप्रधानस्य तु सुतरां न चरणावताडनाहत्वमिति । सुरभिणः कुसुमस्येति पदद्वयोपादानादित्थं व्याख्यातम् । अत्र 'न मुसलैः' इति केचित्पठन्ति । अत्र प्रा- ज्ञस्य पूजनीयस्य लक्ष्मणस्यैकस्य सकृत्किचिद्वचनमुपमेयमुक्त्वा निहीनबहुतरचरण- करणकानामुपमानतावचनात् तादृशताडनजन्य सुरभिकुसुमस्य यावदत्याहित तावल्ल- क्ष्मणवचनजन्यं सीताया अत्याहितमिति व्यज्यते ॥१४॥प्रेक्षामहे । पश्याम इत्यर्थः ॥ आलेख्यं चित्रम् ॥ उपरिनिरन्तरस्थिताः । अविरलं स्थिता अनुपविष्टा इत्याशयः । तेषां दिव्यास्त्रत्वादुपरिस्थितियुक्त्युपरिलेखनम् । उपस्तुवन्ति स्तोत्र कुर्वन्ति ॥ सर- हस्यानि । प्रयोगप्रतिसंहारौपयिकमन्त्रादयो रहस्यानि । तत्सहितानीत्यर्थः । जृम्भका- स्त्राणि भृशाश्वात्तन्नान्नो मुनेः कौशिक विश्वामित्रमुपसंक्रान्तानि प्राप्तानि । उपसंक्रा- न्तानीति कर्तृप्रत्ययेन स्वयमेव तानि कौशिक प्राप्तानीति लभ्यते । तथा च-भू- शाश्वः परःसहस्रपरिवत्सरान्तेवासिने कौशिकाय' इति वक्ष्यमाणं परःसहस्रपरिवत्स- रान्तेवासित्वं जृम्भकास्त्ररूपफलगुरुत्वमपेक्ष्यासत्कल्पमिति हृदयम् । तेन च विश्वामित्रेण प्रसादीकृतानि । प्रसादतत्कार्यजृम्भकास्त्रयोरभेदाध्यवसायादित्थमुक्तम् । केवलप्रसादेन दत्तानीत्यर्थः ॥ ब्रह्मादय इति । पुराणा ब्रह्मादयश्चतुर्मुखप्रभृतयः । गुरवस्तप उपदे- .

प्रथमोऽङ्कः । २३ णमो एदाणम् । आ- सीता- रामः-सर्वथेदानीं त्वत्प्रसूतिमुपस्थास्यन्ति । सीता-अणुगहीदह्मि । लक्ष्मण:-एष मिथिलावृत्तान्तः । सीता-अह्महे, दलन्तणवणीलुप्पलसामलसिणिद्धमसिणसोहमाण- मंसलेण देहसोहग्गेण विह्मअथिमिदताददीसन्तसोम्मसुन्दरसिरी अ- णादरत्थुडिदसंकरसरासणो सिहण्डमुद्धमुहमण्डलो अज्जउत्तो लिहिदो। १. नम एतेभ्यः। २. अनुगृहीतास्मि । ३. अहो, दलन्नवनीलोत्पलश्यामलस्निग्धमसृणशोभमानमांसलेन देहसौ- भाग्येन विस्मयस्तिमिततातदृश्यमानसौम्यसुन्दरश्रीरनादरत्रुटितशंकरशरासनः शिखण्डमुग्धमुखमण्डल आर्यपुत्र आलिखितः । धारः । तमोनिवर्तका इत्यर्थः । 'शरदस्तपांसि' इति वा पाठः। तपास्यन्तःकरणनै- मल्यापादनद्वारा भगवत्साक्षात्कारहेतुभूतकायशोषणव्रतानि । परःसहस्रम् । सहस्रात्परा इत्यर्थः । 'कर्तृकरणे कृता बहुलम्' इति बहुलग्रहणात्समासः । सुप्सुपेति वा । परस्प- रादित्वात्सहस्रशब्दस्य सुडागमः । सहस्रसंख्याधिकसंख्याका इत्यर्थः । 'विशत्याद्याः सदैकत्वे सर्वाः संख्येयसंख्ययोः' इत्यनुशासनादेकत्वम् । शरदः संवत्सरान् । अत्य- न्तसंयोगे द्वितीया । तथा च सहस्रसंख्याधिकसंवत्सरेषु निरन्तरं तप्त्वेत्यर्थः । ब्रह्म परमात्मा, प्रधानं च । तत्कार्यत्वाज्जगत् ब्रह्मशब्देनोच्यते । तदुक्तम्-'तादादुप- चारोऽस्ति क्वचित्स्वस्वामिभावतः। अजाजीभावतात्काद्वैपरीयादपीष्यते ॥' इति । तस्य हिताय तदपेक्षितेष्टानिष्टप्राप्तिपरिहारसाधनाय तपःफलभूतजृम्भकोपदेशेन राज- भिर्विरोधिनिरसनेन जगतः पुरुषार्थसाधननिर्वर्तनसिद्धेरिति भावः । अथवा ब्रह्म वैदस्तस्य हिताय धारणाय । धारणार्थकधाञ्धातोर्नपुंसके भावे क्तः । 'दधातेहिः' इति हिभावश्च । अनुत्सादायेति भावः । तपोमयानि तपःस्वरूपाणि । खार्थिको म- यटू । खानि स्वकीयानि तेजांसि एतान्यदर्शझम्भकास्त्राण्यपश्यन् । कार्यकारणनि- बन्धनमिदं सामानाधिकरण्यम् । 'दृशिर् प्रेक्षणे' इति धातोः लुड् । तथा च-बहुत- रतपःकार्यभूतानामेतेषां केवलगुरुप्रसादसाध्यत्वम् । नतु शुश्रूषादिसाध्यत्वमिति भावः ॥१५॥ त्वत्प्रसूतिं त्वत्प्रसवम् । त्वत्पुत्रावित्यर्थः । 'द्विधागर्भग्रन्थिस्तदनुदिवस' इति वक्ष्यमाणरीत्या यमलत्ववत्पुप्रजात्वमपि निर्णीतमिति सूच्यते । अन्यथा स्त्रीप्र- जात्वे ज़म्भकाभ्यनुज्ञानमसंगतं स्यात् । उपस्थास्यन्ति प्राप्स्यन्ति । मामिव स्तोष्य- न्तीति वार्थः ॥ अझह इति । दलितनीलोत्पलवच्छयामलं स्निग्धं च चाकचक्ययु- उत्तररामचरिते लक्ष्मण:- -आर्ये, पश्य पश्य । संबन्धिनो वसिष्ठादीनेष तातस्तवार्चति । गौतमश्च शतानन्दो जनकानां पुरोहितः ॥ १६ ॥ रामः-सुश्लिष्टमेतत् । जनकानां रघूणां च संबन्धः कस्य न प्रियः । यत्र दाता ग्रहीता च खयं कुशिकनन्दनः ॥ १७ ॥ क्तम् । मांसल स्फीत तेन । तथाविधेनेत्यर्थः। विशेषणसमासः। देहसौभाग्येन देहसौ- न्दर्येण । विस्मिता आश्चर्ययुक्ताः । अतएव स्तिमिता निश्चलास्तातास्तदृश्यमाना सौम्या आह्लादकरी सुन्दरश्रीर्यस्य स तथोक्तः । प्राकृते आत्मनेपदाभावादीसन्ते. त्युक्तिः । त्रुटितं भग्नं शरासन येन स तथोक्तः ॥ संबन्धिन इति । जनकानां जनकापत्यभूतानाम् । लाक्षणिकोऽयं शब्दः । पुरोहितो गौतमो गौतमपुत्रः । 'ऋष्य- न्धकवृष्णिकुरुभ्यश्च' इत्यणप्रत्ययः । शतानन्दस्तन्नामा । तथा च-एष तव तातो वसिष्ठादीन्संबन्धिनोऽर्चति पूजयति । जनकानां पुरोहितो गौतमः शतानन्दश्चार्च- तीत्यनुषड्गः । यथाक्रम तव तातो जनकः संबन्धिनो दशरथप्रभृतीनर्चयति । जन- कानां पुरोहितो गौतमः शतानन्दश्च वसिष्ठादीनर्चयति चेत्यन्वयः ॥१६॥ सुश्लिष्ट- मिति । हेमारविन्दपरिमलन्यायादिति भावः । जनकानामिति । जनकानां जनकवशोद्भवानां रघूणां रधुवशोद्भवानां च । लाक्षणिकोऽय शब्दः । संवन्धो- ऽपत्यसंवन्धः । कस्य न प्रियः । सर्वस्यापि प्रिय इत्यर्थः । यत्र संबन्धे कुशिकनन्दनो विश्वामित्रः स्वय दाता स्वयं प्रतिग्रहीता च । दशरथं प्रति दाता, जनकं प्रति प्रति- ग्रहीता चेत्यर्थः । अयं भाव.-तव मम च परिणयरूपोऽय संबन्धो जनकदशरथयो- रावयोजनानां च मध्ये कस्यचिदपि नाप्रियः । तथा हि-जनकानां रघूणामित्यनेन रघुवइयाअनकवश्यान्प्रति नाप्रियत्वमिति लभ्यते । अत्र निमीनामित्यनुक्त्वा ज- नकानामिति पदोपादानेन 'कर्मणैव हि संसिद्धिमास्थिता जनकादयः' इति जनके प्रसिद्ध कर्मयोगशीलत्वमिह स्फोर्यते । एव काकुत्स्थानामित्यनुक्खा रघूणामित्युक्त्या 'श्रुतस्य यायादयमन्तमर्भवास्तथापरेषां युधि चेति पार्थिवः' इत्यादि कालिदासनिरुक्त्या 'ल- विबंयोनलोपश्च' इत्यनुशासनेन च लब्धया लवते जानाति सर्वमिति व्युत्पत्त्या 'मनुरिक्ष्वाकवेऽब्रवीत्' इत्यैक्ष्वाकव रघुकुलासाधारणज्ञानयोगशीलत्वं सूच्यते । तथाचान्यादृशजनकविषये जातोऽपत्यसंबन्धः संबन्धिनामित्यभिमतो भवति । तत्र क्षीरशर्करावदन्योन्यसंपर्करमणीयज्ञानकर्मशीलजनकविषयत्वे तु तस्य हेमारविन्द- परिमलन्यायेनातिलाध्यत्वमिति तान्प्रत्यप्रियत्वव्यावृत्तिः । अतएव चावां प्रत्यपि नाप्रियत्वं यत्र दातेत्यादिनापि जनकदशरथौ प्रत्यप्रियत्वं व्यावर्त्यते तत्र दशरथं प्र- त्ययाचितोपनतत्वाजनके प्रति दुष्करधनुर्भङ्गप्रतिज्ञानिवर्तनरूपमहोपकारकरणाच गुर्वनुज्ञाप्राप्तत्वान्महर्षिकारितत्वाच नावां प्रत्यप्रियत्वम् । स्वयमित्यनेनाग्रहादिमूल- कत्रिशङ्कुयाजनहरिश्चन्द्रोपप्लवव्यावृत्ति । अतएव जनान्प्रत्यप्रियत्वं निरस्तम् । शि- प्रथमोऽङ्कः। २५ सीता-एदे क्खु तकालकिदगोदाणमङ्गला चत्तारो भादरो । वि. आहदिक्खिदा तुझे । अझो जाणामि तस्सि जेव्व पदेशे तस्सि जेव्व काले वत्तामि। राम:- समयः स वर्तत इवैष यत्र मां समनन्दयत्सुमुखि गौतमार्पितः । अयमागृहीतकमनीयकङ्कण- स्तव मूर्तिमानिव महोत्सवः करः॥ १८ ॥ लक्ष्मणः—इयमार्या । इयमप्यार्या माण्डवी । इयमपि वधूः श्रु- तकीर्तिः। सीता-वच्छ, इअं वि अवरा का । १. एते खलु तत्कालकृतगोदानमङ्गलाश्चत्वारो भ्रातरः । विवाहदीक्षिता यूयम् । अहो जानामि तस्मिन्नेव प्रदेशे तस्मिन्नेव काले वर्ते । २. वत्स, इयमप्यपरा का। ष्टानुमतस्य धर्मत्वे शिष्टकारिते तस्य कैमुतिकसिद्धत्वात् । तथा चापस्तम्बस्मृतिः 'यत्त्वार्याः क्रियमाणं तं प्रशंसन्ति स धर्मः' इति ।ब्रह्मर्षि विश्वामित्रः इत्याद्यनुक्त्वा कुशि- कनन्दन इति पदोपादानं विश्वामित्रः खब्रह्मर्षित्वमविगणय्य भूतपूर्वगत्या क्षत्रियत्वं खीकृत्य बन्धुभावेनास्मत्संबन्धिभावे नास्ति असतिसंबन्धे ब्रह्मर्षिकृत्यानीति व्यञ्जयति ॥१७॥ एदेक्खु इति। गोदानमङ्गलं क्षौरकर्म तस्य मङ्गलार्थत्वान्मङ्गलत्वम् । विवाहेन दीक्षिता विवाहदीक्षिता इति । विवाहहेतुकव्रतवन्त इत्यर्थः । 'दीक्ष मौण्ड्येज्योपनय- नव्रतादेशेषु' इति दीक्षधातोः कर्तरि क्तः। तस्मिन्नेव प्रदेश इति प्रत्यभिज्ञादायमिति॥ समय इति । यत्र समये गौतमार्पितः पुरोधसा शतानन्देन प्रतिपादित आगृही- तकमनीयकङ्कणः समन्ताद्गृहीतकमनीयवलयः, तथापि मूर्तिमान् महोत्सव इव स्थितः समनन्दयत् , स एष समयो वर्तत इव ।स्मृतिवैशद्यमिदम् । अत्र सुमुखि 'आ- गृहीतकमनीयकङ्कणः' इत्युक्त्या सिद्धसाध्यसमभिव्याहारन्यायेनागृहीतकमनीयकङ्कणवं प्रति सीताया वदनकमलसौन्दर्यातिशयो हेतुरित्यवगम्यते । अन्यथा 'पाणि गृह्णीष्व पाणिना' इत्युक्तपाणिपीडनस्य प्रकोष्टवर्तिमणिवलयग्रहणासंगतेः । तथा च-सीतामु- खचन्द्रदर्शनानन्दपारवश्येन सम्यक्करग्रहणाभावात्संवृत्तः तथात्व एव स पाणिर्मूर्ति- मान्महोत्सव इव स्थितः । सम्यक्स्पर्शे तु निःसीमानन्दकर इति व्यज्यते । आगृ- हीताः सम्यग्गृहीताः शृङ्गारमूलकसात्विकभावविशेषरूपत्वेन स्पृहणीयाः कङ्कणाः स्वेदजलबिन्दवो यस्मिन्स तथोक्त इत्यप्याहुः । आगृहीतवैवाहिकप्रतिसर इत्यपि केचित् ॥ १८ ॥ इयमार्या माण्डवीति भरतभार्यात्वात् , इयमपि वधूरिति शत्रुन्नभार्या- :- .. .. . उ० रा० ३ २६ उत्तररामचरिते , लक्ष्मणः-(सलजास्मितम् । अपवार्य ।) अये, ऊर्मिलां पृच्छत्यार्या । भवतु । अन्यतः संचारयामि । (प्रकाशम् ।) आर्ये, दृश्यतां द्रष्टव्यमेतत् । अयं च भगवान्भार्गवः। सीता--(ससंभ्रमम् ।) कम्पिदह्मि । रामः-ऋषे, नमस्ते । लक्ष्मणः-आर्ये, पश्य । अयमार्येण–(इत्य|क्ते ।) रामः-(साक्षेपम् ।) अयि, बहुतरं द्रष्टव्यम् । अन्यतो दर्शय । सीता-(सस्नेहबहुमानं निर्वर्ण्य ।) सुड्डु सोहसि अजउत्त, एदिणा विण- अमाहप्पेण । लक्ष्मणः-एते वयमयोध्यां प्राप्ताः । राम:-(सास्रम् । स्मरामि हन्त स्मरामि । जीक्त्सु तातपादेषु नूतने दारसंग्रहे । भातृभिश्चिन्त्यमानानां ते हि नो दिवसा गताः ॥ १९ ॥ १. कम्पितास्मि । २. सुष्ठु शोभसे आर्यपुत्र, एतेन विनयमाहात्म्येन । त्वात् स्नुषात्वेन ग्रहणम् ॥ अयमिति । भार्गवः परशुरामः ॥ कम्पितास्मि। येनेति शेषः ॥ अयमार्येणेत्यादि । अत्र वैष्णव धनुरारोपयित्वा समाकृष्टतेजस्क इति वक्तुमुद्युक्तवान् लक्ष्मणः, तावदात्मप्रशसामसहमानो रामः प्रतिषिद्धवानित्याशयः ॥ साक्षेप सप्रतिषेधम् । क्षिपु निरसने' इत्यस्मात् भावे घञ्प्रत्ययः । अन्यतो दर्शय । अन्यत्र लिखितं दर्शयेति भावः ॥ विनयमाहात्म्येन विनयस्य खोत्कर्षतानाविष्करणरू- पस्य खस्मिन्निकर्षानुसंधानरूपस्य वा माहात्म्य भूयस्ता तेनेत्यर्थः ॥ एते वयमयोध्या प्राप्ताः । तथालिखिता इत्यर्थः ॥ जीवत्स्विति । तातपादेषु । पितरीत्यर्थः । पूजायां पादशब्दो बहुवचने । 'उत्तमानां स्वरूपं तु पादशब्देन फण्यते' इति । जीवत्सु सप्राणेषु । 'यस्य च भावेन' इति सप्तमी । दारसंग्रहे नूतने सति मातृभिश्चिन्त्यमा- नानां नस्ते दिवसा गता इत्यन्वयः । गता दिवसास्ते हीति स्मरणाकारप्रदर्शन वा । अबन्धोरपि रक्षकस्य जीवनमानन्दाय । सर्वविधसंरक्षणशीलस्य पितुर्जीवर तु निरवधिकाढादजनकम् । किच दाराणां सततपरिचयेऽपि प्रियैकवेषत्वम् , नूतनसंग्रहे तु अमन्दानन्दहेतुत्वम् । खरूपसत्येव माता निरतिशयसौख्यकारिणी । तत्रापि सा लोकप्रसिद्धसर्वविधसंरक्षणानि कृत्वा ततोऽप्यधिकानि चिन्तयति चेत् निःसीमान- न्दलामः । एवमपरिच्छिन्नानन्दकन्दलहेतुत्वाद्दिवसानां तच्छब्देन निर्देशः । अत्र मातृभिरिति न यथावसंबन्धः सर्वासां रामसर्व विषयहितचिन्तावत्वम् । संकोचे मानाभावात् । कैकेय्याः क्रौयौँपाधिकम् । एवं चेदायतिशयितानन्दहेतु: सपत्नीमातृ- प्रथमोऽङ्कः। २७ : . इयमपि तदा जानकी पतनविरलैः प्रान्तोन्मीलन्मनोहरकुङ्मलै- र्दशनकुसुमैर्मुग्धालोकं शिशुर्दधती मुखम् । ललितललितैयॊत्स्नाप्रायैरकृत्रिमविभ्रमै- रकृत मधुरैरङ्गानां मे कुतूहलमङ्गकैः ॥ २० ॥ प्रयुक्तोपप्लवस्य सगरादिषु प्रसिद्धत्वेन तदभावस्याभिमतत्वात् । तातपादजीवनादीनां मध्य एकैकमेवानन्दहेतुः । समुदितानि तु सुतरामिति भावः॥१९॥ 'नूतने दारसंग्रहे' इत्युक्तं विशिनष्टि-इयमपि तदेत्यादिना । पतनेति । शिशुः शैशवान्तवती । शिशुपायेत्यर्थः । 'पतिसंयोगसुलभं वयो दृष्ट्वा च मे पिता' इत्युक्तेः । पतनेन प्रस्थि- तदशनपतनेन । प्रान्तोन्मीलदित्युक्तेः विरलैः सान्तरालैः । प्रान्तेत्याद्यत्र उन्मील. च्छब्दः प्ररोहद्दन्तपरः दशनकुसुमैरिति । रूपकसाहचर्यात् । तथा च उन्मीलदेव उद्यभूतनदशनाङ्कुर एव मनोहरकुड्मलमुन्मीलन्मनोहरकुड्मलं प्रान्ते उन्मीलन्मनो- हरकुड्मलं येषामिति बहुव्रीहिः । यद्वा कुड्मलशब्दो मुकुलसदृशदशनपरः । प्रान्तो- न्मीलन्ति मनोहरकुड्मलानि येषामित्यर्थः । रूपकातिशयोक्तिरलंकारः । दशनकुसु- मैरिति तु रूपकमुपमा वेति संकर इत्यपि वदन्ति । दशना एव कुसुमानि तैर्धावल्य- शिखरित्वादिसादृश्याद्रूपणम् उपमा वा हेतुभिः । मुग्धः सुन्दर आलोको यस्य तत्त- थोक्तम् । यद्वा दशनकुसुमैरिति इत्थंभूतलक्षणे तृतीया । दशनकुसुमैरुपलक्षितमि- त्यर्थः । मुग्धालोकं सुन्दरकटाक्षं मुखं दधती इयं सीता ललितादपि कुसुमादपि ल- लितैः सुकुमारैः । यद्वा ललितं नाम हासाद्यन्यतमविशेषः । तदुक्तम्-'सुकुमाराङ्ग- विन्यासो ललितं परिकीर्तितम्' इति । तेन ललितैः । विलसितैरित्यर्थः । 'लड विलासे' कर्तरि क्तः । लडयोरेकत्वम् । ज्योत्स्नाप्रायोत्स्नासदृशैः । यद्वा ज्योत्स्ना कान्तिः । लावण्यमिति यावत् । तत्प्रायैः । तत्प्रचुरैरित्यर्थः । प्रायशब्दः प्रचुरवाची । जलप्रायो देश इतिवत् । लावण्यखरूपं तु 'भूयिष्ठं तेज एवाद्भिर्बहुलाभिम॒दूकृतम् । चक्षुरान- न्दजननं लावण्यमिति कथ्यते ॥ इति । अकृत्रिमाः स्वाभाविका विभ्रमा विलासा येषां तानि । तैरित्यर्थः । विभ्रमशब्दो गोबलीवर्दन्यायेन माधुर्यललितान्यपरः । यद्वा 'विभ्रमस्त्वरयाकालभूषास्थान' इत्युक्तविभ्रमपरः । सोऽकृत्रिमः येषु तथोक्तैरित्यर्थः । मधुरैः । प्रियरित्यर्थः । 'अभूषणेऽपि रम्यत्व माधुर्यमिति कथ्यते' इत्युक्तमाधुर्ययु- तैरित्यर्थः । अनुकम्पितैरझैरङ्गकैः । 'अनुकम्पायाम्' इति कन्प्रत्ययः । अतिसुकुमार- तया गाढालिङ्गनादिषु दयनीयैरित्यर्थः । तदाह कालिदासः-'सदयं सुन्दरि गृह्यते रसोऽस्य,' 'पीतं मया सदयमेव रतोत्सवेषु' इति । उद्दण्डकविश्च 'इमां कावेऽहमरभ्य उरसि सदयम्' इति । यद्वा अल्पैरङ्गैरजकैः । 'अल्पे' इति सूत्रेण कन्प्रत्ययः । अल्पत्वं चेह तनुत्वमभिप्रेतम् । तदुक्तम्-‘स्वभावतनुका नूनम्' इति । अनेन 'सुश्लिष्टसंधि- बन्धत्व सौन्दर्यमिति कथ्यते' इत्युक्तसौन्दर्यमप्युक्तं भवति । तेन विना तनुत्वस्य दोषत्वात् । मेऽङ्गानां कुतूहलमकृत कृतवती । 'डुकृञ् करणे' सिचो लोपः । कत्र- २८ उत्तररामचरिते लक्ष्मण:-एष मन्थरावृत्तान्तः । (सत्वरमन्यतो दर्शयन् ।) देवि वैदेहि, इङ्गुदीपादपः सोऽयं शृङ्गिबेरपुरे पुरा । निषादपतिना यत्र स्निग्धेनासीत्समागमः ॥ २१ ॥ लक्ष्मणः-(विहस्य । खगतम् ।) अये, मध्यमाम्बावृत्तान्तमन्तरित- मार्येण । - सीता-अहो, एसो जडासंजमणवुत्तन्तो। लक्ष्मण:- पुत्रसंक्रान्तलक्ष्मीकैयदृद्धक्ष्वाकुभिधृतम् । धृतं बाल्ये तदार्येण पुण्यमारण्यकव्रतम् ॥ २२ ॥ सीता-ऐसा पसण्णपुण्णसलिला भअवदी भाईरही । रामः-रघुकुलदेवते, नमस्ते । १. अहो, एष जटासंयमनवृत्तान्तः । २. एषा प्रसन्नपुण्यसलिला भगवती भागीरथी । भिप्राय आत्मनेपदेन रामाङ्गकुतूहलकरणफलं सीताया इत्यवगम्यते । 'अद्वैतं सुखदुः- खयोः' इति वक्ष्यमाणत्वात् । केचित्तु 'अम्बानाम्' इति पाठ इत्याहुः ॥२०॥ मन्थरा- वृत्तान्तस्तत्प्रयत्नफलपट्टाभिषेकान्तरायरूपः ॥ इङ्गुदीति । स्निग्धेन स्नेह्नता निषा- दपतिना गुहेन समागमः संबन्धः ॥ २१ ॥ मध्यमाम्बावृत्तान्तमिति क्लीबत्वं प्रामादि- कम् ।अन्तशब्दं त्यक्त्वा मध्यमाम्बावृत्तमन्तर्हितमिति पठनीयमित्याहुः ॥ जटासं- यमनं जटाबन्धनम् ॥ पुत्रेति । पुत्रेषु संक्रान्ता खयमेवाश्रयशैथिल्यादागता । स्वतः संक्रान्तेत्यर्थः । गत्यर्थादिसूत्रेण कर्तरि क्तः । तथाविधा लक्ष्मीर्येषां ते तथोक्तास्तैः उरःप्रभृतित्वात्कए । वृद्धाश्च ते इक्ष्वाकवश्चेति विग्रहः । इक्ष्वाकुवंश्या इत्यर्थः । तैर्यगतं धृतं तत्पुण्यं व्रतमार्येण बाल्ये धृतमिति योजना । आरण्यकानां व्रतम् । अरण्यचरमनुष्यसंबन्धि व्रतमित्यर्थः । अत्र पुत्रसंक्रान्तलक्ष्मीकैरित्यनेन पुत्रवत्वमु- पभुक्तराज्यत्वम् , संक्रान्तेति क्तप्रत्ययेन यावच्छरीरशैथिल्यमुपभुक्तराज्यवत्वम् , वृद्धत्यनेन वार्धक चावगम्यते । एव चैतेषां समुदितानां सब एव पूर्वेषामारण्यक- व्रतधारणं न तु यत्किचित्सत्वे ।रामस्य तु एतेषां सर्वेषामभावेऽप्यारण्यकव्रतधारणम् । बाल्ये इत्यनेन पुत्रवत्वोपभुक्तराज्यकत्वशरीरशैथिल्यवार्धकाभावानां लाभात् । व्रतमित्यनेन असमज्जादिव्यावृत्तिः । व्रतस्य पुण्यत्वाव्यभिचारात् पुण्यमिति विशेषणं प्रसिद्धव्यावृत्त्यर्थम् । तद्धि अनुष्ठातुरेव पुण्यफलसाधनम् । इद तु सकलभुवनाभी- टसाधनमिति । आर्येणेत्यनेनासामर्थ्य निबन्धनलोकवादभीत्यादिना न कृतम् । किंतु प्रथमोऽङ्कः। २९ तुरगविचयव्यग्रानुर्वाभिदः सगराध्वरे कपिलमहसा रोषाप्लुष्टान्पितुश्च पितामहान् । अगणिततनूतापस्तप्त्वा तपांसि भगीरथो भगवति तव स्पृष्टानद्भिश्चिरादुदतीतरत् ॥ २३ ॥ सा त्वमम्ब, स्नुषायामरुन्धतीव सीतायां शिवानुध्याना भव । लक्ष्मणः—एष भरद्वाजावेदितश्चित्रकूटयायिनि वर्त्मनि वनस्पतिः कालिन्दीतटे वटः श्यामो नाम । (रामः सस्पृहमवलोकयति।) सीता-सुमरेदि वा तं पदेसं अजउत्तो । रामः-अयि, कथं विस्मयते । अलसललितमुग्धान्यध्वसंपातखेदा- दशिथिलपरिरम्भैर्दत्तसंवाहनानि । परिमृदितमृणालीदुर्बलान्यङ्गकानि त्वमुरसि मम कृत्वा यत्र निद्रामवाप्ता ॥ २४ ॥ १. स्मरति वा तं प्रदेशमार्यपुत्रः । वैदिकश्रद्धामूलमित्यवगम्यते ॥२२॥ प्रसन्नपुण्यसलिला खच्छपरिशुद्धजला ॥तुरगेति। सगराध्वरे तुरगस्येन्द्रापहृताश्वस्य विचयेऽन्वेषणे व्यग्रान्ससंभ्रमान् । अत एवो:- भिदो भूमिखानिनः । भिदेः क्विप् । कपिलमहसा तन्नामकमुनितेजसा रोषाद्धेतोः प्लुष्टान्दग्धान् । 'लुष दाहे' । कर्मणि क्तः। तवाद्भिः स्पृष्टानुदतीतरदुत्तारयति स्म।तरते- र्णिचि लुड्॥२३॥ शिवे मङ्गलेऽनुध्यानं यस्या इति विग्रहः । एतेन बीजानुगुणप्रोत्साह- नरूपं भेदो नाम संध्यगमुक्तम् । तदुक्तम्-'बीजानुगुणप्रोत्साहनं भेदः' इति ॥ वन- स्यतिरपुष्पत्वे सति फलवान् । वटः श्यामो नाम तथा प्रसिद्धिमान् ॥ अलसेत्यादि । अध्वनि मार्गे संपातः सम्यग्गमनम्।रामलक्ष्मणापेक्षया खरितगमनमिति भाव.। अग्रतस्ते गमिष्यामि मृद्गन्ती कुशकण्टकान्' इत्युक्तत्वात् । तेन यः खेद आयासस्तस्माद्धेतोरलस- ललितमुग्धान्यलसानि प्रसरणाकुञ्चनासमर्थानि ललितानि मृदूनि मुग्धानि सुन्दराणि । खभावतः सौन्दर्यसौकुमार्ययोः सत्वेऽप्यध्वसंपातखेदादलसललितमुग्धानीत्युक्त्या मार्गगमनायासेन तयोर्द्विगुणीभाव इति भावः । तथापि दृशोः प्रिया' इत्युक्तेः । अशि- थिलपरिरम्भैदृढतरालिङ्गनैः । बहुवचनमालिड्सनावृत्त्यभिप्रायकम् , कामतन्त्रप्रसिद्धालि- गनभेदबाहुल्याभिप्रायक वा । दत्तानि संवाहनानि येभ्य इति चतुर्थीबहुव्रीहिः । संवाहनं नामाङ्गानां गमनादिजनितायासशमनौपयिकदृढतमस्पर्शविशेषः । परितः साकल्येन मृदिता निष्पीडिता या मृणाली तद्वदुर्बलानि स्वखधारणसामर्थ्यरहिता- ३० उत्तररामचरिते लक्ष्मणः-एष विन्ध्याटवीमुखे विराधसंवादः । सीता-अलं दाव एदिणा । पेक्खम्मि दाव अजउत्तसहत्तधरि- दतालवुन्तादवत्तं अत्तणो अच्चाहिदं दक्खिणारण्णपहिअत्तणम् । रामः- एतानि तानि गिरिनिर्झरिणीतटेषु वैखानसाश्रिततरूणि तपोवनानि । येप्वातिथेयपरमा यमिनो भजन्ते नीवारमुष्टिपचना गृहिणो गृहाणि ॥ २५ ॥ लक्ष्मण:-अयमविरलानोकहनिवहनिरन्तरस्निग्धनीलपरिसरारण्य- परिणद्धगोदावरीमुखकन्दरः संततमभिष्यन्दमानमेघमेदुरितनीलिमा जनस्थानमध्यगो गिरिः प्रस्रवणो नाम । स्मरसि सुतनु तस्मिन्पर्वते लक्ष्मणेन प्रतिविहितसपर्यासुस्थयोस्तान्यहानि । १. अलं तावदेतेन । पश्यामि तावदार्यपुत्रस्वहस्तधृततालवृन्तातपत्रमात्मनो- ऽत्याहितं दक्षिणारण्यपथिकत्वम् । न्यगकानि । 'अनुकम्पायाम्' इति कन्प्रत्ययः । त्वं ममोरसि कृत्वा यत्र यस्मिन्प्रदेशे निद्रामवाप्ता स कथं विस्मर्यत इति योजना । अयं भावः-पूर्वमध्वसंपातखेदः, ततो ललितत्वसौकुमार्यद्विगुणीभावः, ततस्तद्दर्शनवशादशिथिलालिङ्गनबाहुल्यम् , त- तश्च तत्संवाहनता, ततः खधारणसामर्थ्यविरहदौर्बल्यम्, ततो रामवक्षःस्थल एव लग्नता, ततस्तदीयसौकुमार्यपारवश्यात्तत्रैव निद्रावाप्तिरिति ॥२४॥खहस्तधृततालपत्र- मेव तालवृन्तं तदेवातपत्र यस्मिन्निति विग्रहः। आत्मनोऽत्याहितं जीवितनिरपेक्ष- क्रियारूपम् । दक्षिणारण्ये पथिकलमिति विग्रहः ॥ एतानीति । येषु तपोवनेषु । अतिथिषु विषये साधुरातिथेयोऽतिथिसत्कारः परमः येषां ते पुरुषा इत्यर्थः । यमिन इति द्वितीयान्तम् । पक्वान्नाधिकारिणो यतीन् भजन्ते सेवन्ते । किं च नी- वारमुष्टेः पचन यैस्ते गृहिणो गृहाणि भजन्ते । यद्वा यमिन इति .गृहिविशेषणपदं प्रथमान्तम् । यमवन्तः । इद धर्मादीनामप्युपलक्षणम् । आतिथेयपरमा गृहिणो गृहस्था गृहाणि भजन्त इत्यन्वयः । यद्वा आतिथेयपरमा आतिथ्यापेक्षिणो नीवार- मुष्टेः पचनं येभ्य इति तथोक्ता यमिनः पक्वान्नाधिकारिणः कर्तारो गृहिणो गृहस्थस्य गृहाणि भजन्ते । तानि वैखानसैर्मुनिभिराश्रितास्तरवो येषु तथोक्तानि एतानीत्यन्वयः ॥ २५ ॥ अयमविरलेत्यादि । अरण्यपरिणद्धा गोदावरीमुखेषु येषां तानि कन्द- राणि यस्य स तथोक्तः । पर्वतानां खतोऽपि नीलत्वान्मेदुरितेत्युक्तम् ॥ स्मरसीति । हे सुतनु शोभना तनुर्यस्या इति विग्रहः । तनूरित्यूडन्ताद्वा संबुद्धौ हखः ।

प्रथमोऽङ्कः। ३१ स्सरसि सरसनीरां तत्र गोदावरी वा स्मरसि च तदुपान्तेप्वावयोर्वर्तनानि ॥ २६ ॥ किं च । .. किमपि किमपि मन्दं मन्दमासक्तियोगा- दविरलितकपोलं जल्पतोरक्रमेण । अशिथिलपरिरम्भव्यापृतैकैकदोष्णो- रविदितगतयामा रात्रिरेव व्यरंसीत् ॥ २७ ॥ तस्मिन्पर्वते । प्रस्रवण इत्यर्थः । विहिताश्च ताः सपर्याश्च विहितसपर्याः । विहितसपर्यासु विहितसपर्यासु प्रतिविहितसपर्यम् । वीप्सायामव्ययीभावः । तत्र आसमन्तात्सुखेन स्थितयोरित्यर्थः । 'सुः पूजायाम्' इति कर्मप्रवचनीयत्वात् षलाभावः । यद्वा प्रति- विहिताभिः । प्रत्युपकारीकृताभिरित्यर्थः । अस्मत्कृतवनानुगमनानुज्ञामहोपकारस्येति शेषः । आवयोरित्याकृष्यते । सरसनीरां स्वाभाविकमधुररसयुक्तजलवतीम् । अनेन समुद्रसंगमसमीपस्थजलं व्यावर्त्यते । तत्रास्याः क्षारप्रसिद्धर्वा किमित्यर्थः । अत एव पूर्वोत्तरयोः किमिति लभ्यते । अत्र प्राथमिकन्वाद्बाह्यत्वाच्च प्रथमं तान्यहानीति दिन- स्योक्तिः । आनन्तर्याद्रहस्यत्वाच्च आवयोर्वर्तनानीत्यस्यानन्तरोक्तिः तदुभयोपका- रित्वानोदावर्या मध्योक्तिरिति ध्येयम् ॥ २६ ॥ किमपीति । आसक्तिः रत्यभिनि- वेशो विषयानुभूत्यानवस्थानलक्षणस्तस्याः योगात् संबन्धाद्धेतोः अविरलितौ निर. न्तरीकृतौ कपोलौ यस्मिन्कर्मणि तथोक्तम् । मन्द मन्दमतिसूक्ष्माक्षरं यथा तथा अक्रमेणान्योन्यस्वभावविरुद्धप्रक्रियया किमपि किमपि इदं च गुप्त- कथनम् । जल्पतोरशिथिले गाढे परिरम्भे व्यापृतमेकैकं दोः ययोरिति पूर्वस्माद- नुषड्गः । शेषे षष्ठीयम् । अविदितं यथा तथा गता यामा यस्यास्तथाविधा रात्रि- रेव व्यरंसीत् विरमति स्म । नैवासक्तियोगविस्रम्भसंलापक्रीडादय इत्यर्थः । 'व्याड्- परिभ्यो रमः' इति परस्मैपदम् । 'यम रम-' इति सगिटौ । अत्र अविदित. गतेति वाविदितगतनाडीति वा अकृत्वा यामपदोपादानादयमाशयोऽवगम्यते । 'व्रजति रतिसुखाथै चित्रिणीमग्रयामे व्रजति दिनरजन्या हस्तिनी च द्वितीये । गमयति च तृतीये शलिनीमाभावं रमयति रमणीयां पद्मिनी तुल्ययामे ॥' इत्युक्तप्रकारेण पद्मिन्यादीनां सुरतसौख्यातिशयाय यामविशेषा विधीयन्ते । तथा च पद्मिनीपाश्चालादी- नां खखविहितयामप्रतीक्षणं विहितेतरयामानां कथंचिदतिवाहनं च सिद्धम् । एव च सीतारामयोः पद्मिनीपाश्चालयोस्तुर्ययामस्यैव सुरतयोग्यत्वेन निरतिशयसुखावच्छेद- ककालत्वात्तस्याविदितगतत्वं किंतु तदुच्यमान तदितरयामेषु पर्यवस्यतीति । तद्व- त्तेषामतिशयितसुखकालत्वं सिद्ध्यति । तेषामतिशयितकालत्वमान्तरसंभोगेनैवेति कि- मपि किमपीत्यादिभिरवगम्यते । तथाहि किमपि किमपीत्यस्य सुरतकालीनवक्तव्य- जातमेवार्थः । गुप्तकथनादेवं च किमपि किमपि जल्पतोरित्यत्र मन्दमन्दमविरलितक- पोलमित्युभयत्र जल्पनेऽन्वेति । अक्रमेणेत्यपि तथा । एवं च सुरतकालीनजल्पनस्य ३२ उत्तररामचरिते हन्त, लक्ष्मणः-एष पञ्चवट्यां शूर्पणखाविवादः। सीता-हा अजउत्त, एत्तिअं दे दंसणम् । रामः-अयि वियोगत्रस्ते, चित्रमेतत् । सीता-जहा तहा होदु । दुजणो असुहं उप्पादेइ । रामः वर्तमान इव मे जनस्थानवृत्तान्तः प्रतिभाति । लक्ष्मण:- अथेदं रक्षोभिः कनकहरिणच्छद्मविधिना तथा वृत्तं पापैर्व्यथयति यथा क्षालितमपि । जनस्थाने शून्ये विकलकरणैरार्यचरितै- रपि ग्रावा रोदित्यपि दलति वज्रस्य हृदयम् ॥ २८ ॥ १. हा आर्यपुत्र, एतावत्ते दर्शनम् । २. यथा तथा भवतु । दुर्जनोऽसुखमुत्पादयति । मान्द्यातिशयोक्तिकथनादावाक्त्व सीताया गम्यत इत्युक्तादतिविशेषात्फुल्लजृम्भि- ताख्यबन्धविशेषौ सूच्यते । तदुक्तं काञ्चीनादेन–'उत्फुल्लजृम्भितयोः स्त्रिया आईवचो न क्रोधः' इति । तल्लक्षणं तु अविरलितकपोलत्वमुपविष्टयोरेव सुलभमिति । अक्रमे- णेति पुरुषायित सूच्यते । तच्च भ्रामरादिभेदात्रिविधमप्यत्र बोध्यम् । अत्र पुरुषायि- तस्य 'स्वेच्छया भ्रमणीवल्लभ-' इत्युक्तत्वात्स्वेच्छैव निमित्तमिति बोध्यम् । अशिथि- लेत्यादिना पार्श्वशायिनोः सुरतमिति लभ्यते । अन्यथा उभाभ्यामेव बाहुभ्यां किं न स्यात् । एवं कतिपयैरेव बन्धविशेषै रात्रेरेवावसितत्वाद्बहूनां क्रीडाविशेषाणां तद्धेतु- भूतासक्तियोगस्य वाविरतत्वाद्रात्रिरेव व्यरंसीदित्युक्तम् । इदमेवाभिसंधाय 'बिन्दुमात्रं विशिष्यते' इति कालिदासेनोक्तम् । वस्तुतस्तु संलापादिबाह्यसंभोग एव स्वारस्यमिति सुधियो विभावयन्तु ॥२७॥ एष इति । शूर्पणखाविवादः । रामेण लक्ष्मण प्रति तेन रामं प्रति प्रेषणादिरिति भावः । 'नखमुखात्संज्ञायाम्' इति डीषो निषेधः । पूर्वपदातू' इति णत्वम् ॥ वियोगत्रस्तेति । वियोगात्रस्त इति विग्रहः । पञ्चमी' इति योगविभा- गात्समासः ॥ असुखं दुःखम् ॥ अथेति । अथ विकलकरणैरार्यचरितः। यथा ग्रावापि रोदिति, वज्रस्यापि हृदयं दलति, तथा पापै रक्षोभिर्जनस्थाने शून्ये सति कनकहरिण- च्छद्मविधिना वृत्तमिद क्षालितमपि व्यथयतीत्यन्वयः। अथ शूर्पणखाचित्रदर्शनानन्तरम् । यथा येन प्रकारेण विकलानि खखव्यापारशून्यानि करणानि चक्षुरादीनि येषु तथोक्तै- रायंचरितैर्मूर्छाप्रभृतिव्यापारै वापि शिलापि रोदिति रोदनं करोति । 'रुदादिभ्यः' इतीटू । वज्रस्यापि वज्रादन्येनाभेद्यस्य वज्रस्यापि हृदयं मध्यप्रदेशो दलति द्विधा भिन्नं भवति, तथा तेन प्रकारेण वृत्तमिति संबन्धः । जनस्थाने पापै रक्षोभिः शून्ये सति । खरदूषणादिवधानन्तरमित्यर्थः । कनकहरिणच्छद्मविधिना वर्णमारीचमायिकमृगव्याज- .

प्रथमोऽङ्कः। ३३ सीता—(सास्रमात्मगतम् ।) अह्मो, दिणअरकुलाणन्दणो एव्वंवि मह कालणादो किलन्तो आसि । लक्ष्मण:- (राम निर्वर्ण्य साकूतम् ।) आर्य, किमेतत् । अयं तावद्वाप्पस्युटित इव मुक्तामणिसरो विसर्पन्धाराभिलठति धरणी जझरकणः । निरुद्धोऽप्यावेगः स्फुरदधरनासापुटतया परेषामुन्नेयो भवति चिरमाध्मातहृदयः ॥ २९ ॥ रामः-वत्स, तत्कालप्रियजनविप्रयोगजन्मा तीव्रोऽपि प्रतिकृतिवाञ्छया विसोढः । दुःखाग्निर्मनसि पुनर्विपच्यमानो हृन्मर्मव्रण इव वेदनां तनोति ॥ ३० ॥ सीताहेद्धी हद्धी । अहंवि अदिभूमि गदेण रणरणएण अज- उत्तसुण्णं विअ अत्ताणं पेक्खामि । १. अहो, दिनकरकुलानन्दन एवमपि मम कारणाक्लान्त आसीत् । २. हा धिक् हा धिक् । अहमप्यतिभूमिं गतेन रणरणकेनार्यपुत्रशून्यमिवा- त्मानं पश्यामि। करणेन वृत्तं निष्पन्नमिदमिति सीताहरणादेश्चित्रस्याडल्या निर्देशः । क्षालितमपि प्रति- कृतमपि व्यथयति दु.खं जनयति । शूर्पणखानन्तरं सीताहरण लिखितमिति भावः । अत्र ग्रावापि रोदितीत्यादिकं नायोगे योगकल्पनम् । किंतु वास्तवमेव । 'अपि वृक्षाः परिम्लानाः' इतिवदुपपत्तेः । एवं स्मृत्वाद्यापि रोदितीत्यवगम्यते ॥२८॥ आर्येति । एतद्रक्ष्यमाणम् ॥ अयं तावदिति । त्रुटितश्छिन्न आवेगो दुःखातिशयः । अधरश्च नासापुटश्चेति विग्रहः । तयोर्द्वन्द्वश्च । अतो न नासाशब्दे ह्रखः । उन्नेयोऽनुमेय आध्मात- हृदयो गद्गदशब्दयुक्तकण्ठः । 'ध्मा शब्दे' इति धातोः कर्मणि क्तः। नेदं चित्रकथनं किंतु तादात्विकवास्तवावस्थाकथनमेव । तत्कथयेत्यादि प्रतिवचनानुरूप्यात् ॥ २९॥ तत्का- लेति । प्रतिकृतिषु प्रतिक्रियासु वाञ्छयादरेण विपच्यमानः । स्वयमेव परिपाकमाश्रि- त्येत्यर्थः । कर्मणः कर्तृत्वविवक्षया 'कर्मवत्कर्मणा' इत्यातिदेशिकयगात्मनेपदम् । इद च मध्यमणिन्यायेन पूर्वोत्तराभ्यामन्वेति । तनोति । विस्तारयतीत्यर्थः ॥३०॥ भूमिमतिका- न्तोऽतिभूमिः । 'अत्यादयः' इति समासः । भावप्रधानो निर्देशः । अतिभूमित्वं गतेने. त्यर्थः । वैपुल्यं प्राप्तेनेति यावत् । रणरणकेन भयसंभ्रमेण ॥ आक्षिपाम्यन्यतो मनः प्र.

३४ उत्तररामचरिते लक्ष्मण:-(स्वगतम् ।) भवतु । आक्षिपामि । (चित्र विलोक्य प्रकाशम्।) अर्थतन्मन्वन्तरपुराणस्य तत्रभवतस्तातजटायुषश्चरित्रविक्रमोदाहरणम् । सीता-हा ताद, णिव्वूढो दे अवच्चसिणेहो । राम: हा तात काश्यप शकुन्तराज, क नु खलु पुनस्त्वादृशस्य महतस्तीर्थभूतस्य साधोः संभवः । लक्ष्मणः-अयमसौ जनस्थानस्य पश्चिमतः कुञ्जवान्नाम पर्वतो दनु- कवन्धाधिष्ठितो दण्डकारण्यभागः । तदिदममुष्य परिसरे मतङ्गाश्रमपदम् । तत्र श्रमणी नाम सिद्धा शबरतापसी । तदेतत्पम्पाभिधानं पद्मसरः । सीता-जत्थ किल अज्जउत्तेण विच्छिण्णामरिसधीरत्तणं पमुक्क- कण्ठं परुण्णं आसि । रामः-देवि, परं रमणीयमेतत्सरः । एतस्मिन्मदकलमल्लिकाक्षपक्ष- व्याधूतस्फुरदुरुदण्डपुण्डरीकाः । १. हा तात, नियूंढस्तेऽपत्यस्नेहः । २. यत्र किलार्यपुत्रेण विच्छिन्नामर्षधीरत्वं प्रमुक्तकण्ठं प्ररुदितमासीत् । वर्तनेन पूर्वोक्तं विस्मारयामि ॥अथैतदिति । अन्यो मनुमन्वन्तरम् । मयूरव्यसकादि- त्वात्समासः । मन्वन्तरात्पुराणस्येति विग्रहः ।सुप्सुपेति समासः । तातजटायुषः। पितृस- खत्वात्तातपदव्यपदेशः । चरित्र खवृत्तम् । विक्रमः शौर्यम् । उदाहरणम् । सदृशचित्र- लेखनमिति भावः ॥ हा तातेति । काश्यपः कश्यपपुत्रः । तीर्थभूतस्य हितोपदेष्टुः ॥ एतस्मिन्निति । मदेन कलं कूजितं येषां ते तथोक्ताः । तथाविधानां मल्लिकाक्षाणां हसविशेषाणां पक्षैर्गरुद्भिाधूताः कम्पिताः स्फुरन्त उरवो दण्डा येषां तानि पुण्ड- रीकाणि येषु ते तथोक्ताः । कुवलयिनश्च विभागाः प्रदेशा बाष्पाम्भसः परिपतनोद्गमयोर- न्तराले मया संदृष्टाः । निरन्तरं दृष्टा इत्यर्थः । तथा कुवलयिन इत्यत्र प्रशंसायां मतुपा प्रशस्तकुवलययुक्ता इत्यर्थलाभेन रात्रौ दृष्टा इति सूच्यते । केचित्तु-मदकलमल्लिकाक्ष- पक्षव्याधूतस्फुरदुरुदण्डपुण्डरीका विभागा बाष्पाम्भःपरिपतनोगमान्तराले कुवलयिनो दृष्टा इत्यन्वयमुक्त्वा बाष्पाम्भःप्रसरणमलिनीकृतपुण्डरीकाः कुवलयवन्तो दृष्टा इत्य- र्थमाहुः । परे तु-मदकलमल्लिकाक्षपक्षव्याधूतस्फुरदुरुदण्डपुण्डरीकाः कुवलयिनश्च विभागाः । विभज्यन्त इति विभागाः । परस्परसंकीर्णप्रदेशा बाष्पाम्भःपरिपतनोद्ग- मान्तराले संदृष्टा एकीकृत्य दृष्टाः । समित्येकीकारे । अविभागेन दृष्टा इत्याहुः । इतरे तु-'ननु रमणीयमेतत्पद्मसरः' इत्युक्तं त्वया तत्कथमुपपद्यते विरहोद्दीपककलकूजितयु- क्तहंसाधिष्ठितपुण्डरीकयुक्तस्य सरसो द्रष्टुमशक्यत्वादित्यत्राह-एतस्मिन्मदकलेति । मत् अकलेति पदच्छेदः । मदिति पञ्चम्येकवचनम् । पृथक्पदं समस्तं वा । मन्मनिमित्तं .. -- प्रथमोऽङ्कः। ३५ बाप्पाम्भ.परिपतनोद्गमान्तराले संदृष्टाः कुवलयिनो मया विभागाः ॥ ३१ ॥ लक्ष्मणः-अयमार्यो हनूमान् । सीता-एसो सो चिरणिव्बूढजीवलोअपच्चद्धरणगुरुओवआरी महानुभावो मारुदी। राम:--- दिष्टया सोऽयं महाबाहुरञ्जनानन्दवर्धनः । यस्य वीर्येण कृतिनो वयं च भुवनानि च ॥ ३२ ॥ एष स चिरनियूंढजीवलोकप्रत्युद्धरणगुरूपकारी महानुभावो मारुतिः। विरहव्यथातुरमद्धेतोर्न विद्यते कल कूजित येषां ते तेषां मल्लिकाक्षाणां हंसविशेषाणां प:- फ्धूतानि । कम्पितानीति यावत् । अत एव स्फुरदुरुदण्डानि निवृत्ताधारतया चलदुरुद- ण्डानि पुण्डरीकानि येषु तथोक्ताः कुपलयिनः पुण्डरीकवद्दिवा विकासाद्यभावेनाकिंचि- करत्वाद्धसैरव्याधूततया कुवलयसत्तामात्रवन्तः। एतस्मिन्विभागा बाष्पाम्भःपरिप- तनोद्गमान्तराले संदृष्टाः सम्यग्दृष्टाः । परिहाससंभावितत्वादवस्थितिव्यतिरेकनिश्चय- पर्यन्त दृष्टा इत्यर्थः । निवृत्तोपल्लवतया सम्यग्दृष्टा इति भावः । मल्लिकाक्षाः खलु विर- होद्विग्नस्य मम कृते स्वयं विरहसमुद्दीपकं कूजितं त्यक्त्वा तदुद्दीपकानि पुण्डरीका- न्यप्यनाशयन् । ततोऽहं निवृत्तोपप्लवतया नान्तरीयकतयावस्थितिपर्यन्तं तान्वि- हंगान्दृष्टवानिति भावः । युक्तं चैतत् । विरहखिन्नं रामं प्रति मल्लिकाक्षाणाम् 'अपि ग्रावा रोदिति' इति न्यायेन करुणायाः संभवात् । दृप्तचक्रवाकशापदर्शनेन चक्रवाक- शापदाता रामोऽस्माकमपि शापं दास्यतीति भीत्या शब्दासंभवात् । 'कण्ठेषु स्खलित गतेऽपि शिशिरे पुस्कोकिलानां रुतम्' इत्यादिविषयविशेषैस्तिरश्चामपि विरहिज- नानुरोधः प्रसिद्धश्चेति वदन्ति ॥ ३१ ॥ एष इति । चिरानियूंढ निष्पादित यज्जी- वलोकप्रत्युद्धरणं तेन गुरु यथा भवति तथा । उपकरोतीत्युपकारी । दशमासपरिमि- तरावणगृहवासस्यातिभूयस्त्वाभिसंधिना चिरादित्युक्तम् । खसत्तयैव जीवलोकमग्न- तासंभावनया स्वोद्धरणेन तदुद्धरणसंभावनया च जीवलोकप्रत्युद्धरणमित्युक्तम् ॥ दिष्टयेति । दिष्टयेत्यानन्दे । यस्य वीर्येणेत्यादि । वयम् । लक्ष्मणभरतशत्रुन्नसीता- विभीषणसुग्रीववानराः अह चेत्यर्थः । कृतिनः सुकृतिनः । यद्वा कृतमुपकारस्तद्वन्तः । उपकृत इत्यर्थः । अन्योन्यवृत्तान्तकथनेन सीतारामयोः, खानवधानप्रयुक्तसीताविरह- परिहारेण लक्ष्मणस्य, वहिप्रवेशपरिहारेण भरतशत्रुघ्नयोः, शरणागतवपरिग्रहसिद्धान्तेन विभीषणस्य, सुखोत्पादनेन सुग्रीवस्य, मधुवनभङ्गापराधवारणेन वानराणाम् , स्वसंजी- वनादिना भुवनानां च कृतित्वमिति यथायथमूहनीयम् ॥ ३२ ॥ अनुभावः प्रभावः । सौभाग्यं सौन्दर्यम् । प्ररुदितेन रोदनका । 'आदिकर्मणि क्तः' । रोदनप्रारम्भ एव ।

उत्तररामचरिते सीता-वच्छ, एसो सो कुसुमिदकदम्बताण्डविअबंहिणो किंणा- महेओ गिरी। जत्थ अणुभावसोहग्गमेत्तपरिसेससुन्दरसिरी मुच्छन्दो तुए परुण्णेण ओलम्बिओ तरुअले अज्जउत्तो आलिहिदो । लक्ष्मण:- सोऽयं शैलः ककुभसुरभिर्माल्यवान्नाम यस्मि- न्नीलः स्निग्धः श्रयति शिखरं नूतनस्तोयवाहः । आर्येणास्मिन् विरम विरमातःपरं न क्षमोऽस्मि प्रत्यावृत्तः स पुनरिव मे जानकीविप्रयोगः ॥ ३३ ॥ लक्ष्मणः-अतःपरमार्यस्य तत्रभवतां राक्षसानां चापरिसंख्यान्युत्त- रोत्तराणि कर्माश्चर्याणि । परिश्रान्ता चेयमार्या । तद्विज्ञापयामि विश्रा- म्यतामिति । सीता-अजउत्त, एदिणा चित्तदंसणेण पच्चुप्पण्णदोहलाए मए विण्णावणिज्जं अस्थि । राम:-नन्वाज्ञापय । सीता-जाणे पुणोवि पसण्णगम्भीरासु वणराईसु विहरिअ पवि- त्तणिम्मलसिसिरसलिलं भअवदि भाईरहिं ओगाहिस्सं ति । १. वत्स, एष स कुसुमितकदम्बताण्डवितबर्हिणः किंनामधेयो गिरिः । यत्रानुभावसौभाग्यमात्रपरिशेषसुन्दरश्रीमूर्छस्त्वया प्ररुदितेनावलम्बितस्तरुतल आर्यपुत्र आलिखितः। २. आर्यपुत्र, एतेन चित्रदर्शनेन प्रत्युत्पन्नदोहलाया मम विज्ञापनी- यमस्ति । ३. जाने पुनरपि प्रसन्नगम्भीरासु वनराजिषु विहृत्य पवित्रनिर्मलशि- शिरसलिलां भगवती भागीरथीं अवगाहिष्य इति । अवलम्बितः पतन् यथा धारित इति ॥ शैल(सोऽयं) इति । ककुभा वृक्षविशेषा. स्तेषां पुष्पैः सुरभिः । 'पुष्पमूलेषु बहुलम्' इति लुप् । विप्रयोगः वियोगः । प्रत्यावृत्तः पुनरागतः ॥३३॥ अपरिसंख्यानि परिसंख्यानिषेधः । अवधिरिति यावत् । तद्रहितानि संख्याशून्यानीति वा ॥ प्रत्युत्पन्नदोहलायाः । उत्पन्नाभिलाषाया इत्यर्थः । उत्पन्नमनो- प्रथमोऽङ्कः। , रामः-वत्स लक्ष्मण । लक्ष्मणः-एषोऽस्मि । रामः-वत्स, अचिरादेव संपादनीयो दौहृद इति संप्रत्येव गुरुभिः संदिष्टम् । तदस्खलितसंपातं रथमुपस्थापय । सीता-अजउत्त, तुझेहिं वि आअन्दव्वम् । रामः-अतिकठिनहृदये, एतदपि वक्तव्यम् । सीता-तेणे हि पिअं मे पिअं मे । लक्ष्मणः-यदाज्ञापयत्यार्यः । (इति निष्क्रान्तः ।) रामः—प्रिये, वातायनोपकण्ठे संविष्टा भव । सीता- ऍव्वं होदु । ओहरिदम्हि परिस्समणिदाए । रामः तेन हि निरन्तरमवलम्बस मामनुगमनाय । वियन्निव ससाध्वसश्रमस्वेदविन्दुरधिकण्ठमर्प्यताम् । बाहुरैन्दवमयूखचुम्बितस्यन्दिचन्द्रमणिहारविभ्रमः ॥ ३४ ॥ (तथा कारयन्सानन्दम् ।) प्रिये, किमेतत् । विनिश्चेतुं शक्यो न सुखमिति वा दुःखमिति वा प्रमोहो निद्रा वा किमु विषविसर्पः किमु मदः । १. आर्यपुत्र, युष्माभिरप्यागन्तव्यम् । २. तेन हि प्रियं मे प्रियं मे । ३. एवं भवतु । अपहृतास्मि परिश्रमनिद्रया। .. विकाराया इति वा ॥वत्स, अचिरेत्यादि । एष गूढप्रकाशनादुद्भेदः ॥जीवयन्नि- ति । साध्वसं भयम् । अधिकण्ठम् । कण्ठ इत्यर्थः । इन्दोरिमे ऐन्दवाः। चन्द्रमणिश्च- न्द्रकान्तशिला । जीवयन्नर्प्यतामिवेत्यन्वयः । इवशब्द ईषदर्थकः । जीवयन्निति च 'लक्षणहेत्वोः' इति-शतृ । तथा च मत्संजीवनफलक यदीषदर्पण तत्कर्म क्रियतामित्यर्थः । अथवा एतद्विरहे 'न जीवेयं क्षणमपि' इत्युक्तम् । अत्र ऐन्दवेत्यादिना सादृश्यमुक्खा जीवयन्निति विशेषस्योक्तेः व्यतिरेकालंकारः । 'व्यतिरेको विशेषश्चेदुपमानोपमेययोः' इति ॥३४॥तथा कारयन्निति । 'सहजलज्जाजडदृशः' इति वक्ष्यमाणरीत्या लज्जया. विष्टायां तस्यां स्वयं तथा कारयन्नित्यर्थः । पूर्वोक्तश्रमवशाच्च खयमेव तथा कारयतीत्यु- क्तम् ॥ विनिश्चेतुमिति । अत्रत्यसुखदुःखशब्दौ प्रियाप्रियमित्रशत्रुसंश्लेषादिजन्य- मानससुखदुःखपरौ शारीरसुखदुःखमदविषविसर्पयोः पृथग्ग्रहणात् । सुखदुःखयोः शा- रीरमानसत्वविभागस्तु 'कर्मणि च येन संस्पर्शात्कर्तुः शरीरसुखम्' इति सूत्रतद्व्याख्या- .. उ० रा. ४ ३८ उत्तररामचरिते . तव स्पर्शे स्पर्शे मम हि परिमूढेन्द्रियगणो विकारश्चैतन्यं भ्रमयति च संमीलयति च ॥ ३५॥ सीता-धीरप्पसादा तुझेत्ति एत्थ दाणिं अच्चरिअम् । राम:- म्लानस्य जीवकुसुमस्य विकासनानि संतर्पणानि सकलेन्द्रियमोहनानि । १. धीरप्रसादा यूयमित्यत्रेदानीमाश्चर्यम् । नयोः :: स्पष्टः । अत्रसीत इति संबुध्यन्तमध्याहार्यम् । तवेत्युक्तेः।हे सीते, तव स्पर्श स्पर्शे त्वदीययावत्स्पर्शेषु परिमूढः खखविषयग्रहणासमर्थ इन्द्रियगणश्चक्षुरादीन्द्रियसमूहः येन स तथोक्तो मम विकार आन्तरावस्थाविशेषः । चैतन्यमन्तःकरणावच्छिन्नचैतन्यम् । जीवचैतन्यमिति यावत् । अद्वैतमतप्रक्रिययेदमुक्तम् । मदन्तरात्मानमिति फलितोऽर्थः भ्रमयति प्रतिकूलतया भासमानः सन् क्षुब्ध करोति । संमीलयति च अनुकूलतया भास- मानः सन् उल्लासयति च । अयमित्यध्याहार्यम् । अयं विकारः सुखमिति विनिश्चेतुं न शक्यः दुःखमिति वा विनिश्चेतुं न शक्यः । प्रमोहो वा प्रकृष्टमूछात्वेन संशयितुं योग्यो निद्रा वा सुषुप्तित्वेन संशयितुं योग्यो विषविसर्पः किमु । विषेण विसृप्यत इति विग्रहः । कर्मणि घञ् । विषप्रसरणजन्यत्वेन संशयितु योग्य इत्यर्थः । मदः किमु । मदत्वेन संशयितुं योग्य इत्यर्थः । अस्य विकारस्य स्पर्शजन्यत्वात्परिमूढेन्द्रियगणत्वादन्तरात्मक्षोभकरत्वाच्च तथाविधशात्रवादिस्पर्शजन्यमानसदु:खत्वेन संशययोग्यत्वम् । एवं स्पर्शजन्यत्वात्परिमू- देन्द्रियगणत्वादन्तरात्मोल्लासकारित्वाच्च तथाविधमित्रादिस्पर्शजन्यमानससुखत्वेन संश- याहत्व भवति च मित्रादिस्पर्शजन्यसुखं परिमूढेन्द्रियगणम् । 'नीवी प्रति प्रणिहिते तु करे प्रियेण सख्यः शपामि यदि किंचिदपि स्मरामि' इत्युक्तेः । एवं स्पर्शजन्यत्वात्परिमू- टेन्द्रियगणत्वादन्तरात्मक्षोभकरत्वाच्चास्य दण्डाद्यभिघातजन्यपरिमूढेन्द्रियगणत्वान्तरा- त्मक्षोभकरवविशिष्टसूक्ष्मप्राणसंचाररूपमूर्छात्वेन संभावनाहत्वम् ।एवमस्य विकारस्य स्प- जिन्यत्वात्परिमूढेन्द्रियगणत्वादन्तरात्मानुकूलत्वाच्च मृदुतरतल्पादिस्पर्शजन्यत्वनिवृत्ते- न्द्रियव्यापारत्वपरमात्मसुपरिष्वङ्गप्रयुक्तसुखरूपत्वविशिष्टनिद्रात्वेन संशयाहत्वम् । एवम- स्य स्पर्शजन्यत्वात्परिमूढेन्द्रियगणत्वादन्तरात्मप्रतिकूलत्वाच्च तथाविधविषस्पर्शजन्यवि. कारत्वेन संशयास्त्वम् । एवमस्य स्पर्शजन्यत्वात्परिमूढेन्द्रियगणत्वादन्तरात्मानुकूलत्वा. तथाविधमदत्वेन संशययोग्यत्वम् । मदस्य क्षीरसुराद्याप्यायकवस्त्वायत्तत्वात्स्पर्शजन्यत्वं परिमूढेन्द्रियगणत्वमन्तरात्मानुकूलत्व च । तदुक्तम्-'मदिरादिकृतो मोहहर्षव्यति- करो मदः' इति । सर्वमिदं सीताया भोग्यताप्रकर्षे तात्पर्यमाविष्करोति । हिशब्दः प्रसि- धौ । तथा च मदीयोऽय विकारस्त्वयापि ज्ञायत इति व्यज्यते ॥३५॥ म्लानस्येति । म्लानस्य हर्षक्षयवतो जीवकुसुमस्य जीव एव कुसुमं तस्य विकासनानि विकासजन- कानि हर्षोत्पादकानि संतर्पणानि तृप्तिजनकानि भोग्यान्तरापेक्षानुत्पादकानि अत एव सकलानामिन्द्रियाणां मोहनानि खव्यापारनिरोधीनि कर्णयोरमृतानि । 'यथामृतस्य दृष्ट्वा तृप्यन्ति' इति दर्शनमात्रेण तृप्तिजनकत्वम् । तद्वदेषामर्थपर्यालोचनं विनापि रमणीय- प्रथमोऽङ्कः। .. ३९ पुनः। एतानि ते सुवचनानि सरोरुहाक्षि कर्णामृतानि मनसश्च रसायनानि ॥ ३६॥ सीता-पिअंवद, एहि । संविसमा । राम:-अपि संदेष्टव्यम् । आविवाहसमयागृहे वने शैशवे तदनु यौवने स्वापहेतुरनुपाश्रितोऽन्यया रामबाहुरुपधानमेष ते ॥ ३७॥ सीता--(निद्रां नाटयन्ती ।) अस्थि एदम् । अजउत्त, अत्थि एदम् । (इति खपिति । रामः-कथं प्रियवचनैव मे वक्षसि प्रसुप्ता । (निर्वर्ण्य ।) १. प्रियंवद, एहि । संविशावः । २. अस्त्येतत् । आर्यपुत्र, अस्त्येतत् । त्वमिति भावः। मनसश्च रसायनानि रसायनं नाम अनेकरसवस्तुसमुदायात्मकरसवस्तुवि- शेषो बाहटे प्रसिद्धः । बहुवचनेनानेकरसायनसदृशानीति व्यज्यते । किचानेकरसायन- वस्त्वाखादनेन सर्वेषां रसानां तत्रोपलम्भः । एवं शब्दान्तरश्रवणजन्यसुखानामेतद्वच- नैर्लाभ इति व्यज्यते । अपि च यथा रसायनस्य रसमयत्वाद्भोग्यत्वम् , औषधात्म- कत्वाद्रोगनिवर्तकत्वं च, एवमेतेषामपि प्रियत्व हितत्व चेति व्यञ्जयितुं रसायन- त्वोक्तिः । सरोरुहाक्षि आयामत्वविपुलत्वाभ्यां सादृश्यमभिप्रेतम् । एवं च खस्या अपि स्ववचनवैलक्षण्यप्रयुक्तविस्मयातिशयाच्चक्षुषोरायतत्वविपुलत्वद्विगुणी- भाव इति भावः । ते सुवचनानि स्वकीयवचनवैलक्षण्यातिशयतः सीतायाः ख- वचनेषु स्वीयतासंशयः स्यादिति ते इत्युक्तिः । सुशब्देन सीतावचनेष्वपि एता. दृशं सौभाग्यं नानुभूतपूर्वमिति व्यज्यते । 'क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीयतायाः' इति न्यायेन न दोषः ॥ ३६ ॥ प्रियंवद प्रियवादिन् । 'प्रियवशे वदः खच्' । संविशावः । 'स्वप्नः संवेश इत्यपि' इत्यमरः ॥ अपि संदेष्ट- व्यम् । संदेश उक्तिः । भ्रुकुटीभटोऽयं सूचयितव्यः । किमर्थमुक्तिप्रयास इति भावः। यद्वा यथा शयनदशायामुपधानादीनामुपकरणत्वं तद्वन्ममापीति विधिर्वा किमर्थ इति भावः ॥ उपकरणत्वमेवाह-आविवाहेति । आविवाहसमयाद्विवाहसमयादारभ्ये- त्यर्थः । गृहे शैशवे यौवने च स्वापहेतुः । वने पुनयौवने खापहेतुरित्यन्वयः । न तु यथासंख्यम् । अन्ययानुपाश्रितः खापहेतुतयानुपाश्रित इत्यर्थः । अतः 'जुष्टं परम- नारीणां भुजैः परमसुन्दरैः' इत्यनेन न विरोधः । चेटीविधयासंवाहने तात्पर्यात् 'न रामः परदारान्वै चक्षुामपि पश्यति' इत्युक्तेः । मद्वाहुरुपधानमित्यनुक्त्वा रामबाहुरि- उत्तररामचरिते इयं गेहे लक्ष्मीरियममृतवर्तिर्नयनयो- रसावस्याः स्पर्शो वपुषि बहुलश्चन्दनरसः । अयं बाहुः कण्ठे शिशिरमसृणो मौक्तिकसरः किमस्या न प्रेयो यदि परमसह्यस्तु विरहः ॥ ३८ ॥ (प्रविश्य।) प्रतीहारी–देव, उवविदो। राम:--अयि, कः। प्रतीहारी--आसण्णपरिआरओ देवस्स दुम्मुहो । रामः-(स्वगतम् ।) शुद्धान्तचारी दुर्मुखः स मया पौरजानपदेष्व- पसर्पः प्रहितः । (प्रकाशम् ।) आगच्छतु । (प्रतीहारी निष्क्रान्ता ।) (प्रविश्य।) दुर्मुखः :-(स्वगतम् ।) हो कहं दाणिं देवीमन्तरेण ईरिसं अचिन्त- णिज्जं जणाववादं देव्वस्स कहइस्सं । अवा णिओओ क्खु मह मन्दभाअहेअस्स एसो। १. देव उपस्थितः । २. आसन्नपरिचारको देवस्य दुर्मुखः । ३. हा कथमिदानी देवीमन्तरेणेशमचिन्तनीयं जनापवादं देवस्य कथयि- ध्यामि । अथवा नियोगः खलु मम मन्दभागधेयस्यैषः । त्युक्तिः प्रसिद्धिद्योतनार्था । 'उपधाय भुजं तस्य' इत्यादिवचनात् ॥ ३७ ॥ इय- मिति । इयं गेहे लक्ष्मीलक्ष्मीसदृशी । इयममृतवर्तिनयनयोः। तथा नयनानन्दक- रीत्यर्थः । किमेतत्पर्यन्तानुधावनवचनेन । एतदीयमेव यत्किंचिन्मम पर्याप्तमित्याह- असावस्या इति । वपुषि प्रसिद्धचन्दनव्यावृत्तिः । अस्याः कि न प्रेयः । एतत्संबन्धि किं न प्रियम् । सर्वमपि प्रियमेवेत्यर्थः । अत्र सीतापेक्षया तत्संबन्ध्येव प्रियमिति रा- मचन्द्रमतमिति कवेराशयोऽवगम्यते । उपसंहारे किमस्या न प्रेय इत्युक्तत्वात् । इत- रथा कथमेषेत्येव न वदेत् । भर्तृमीढश्च--'मनसिजरुजः सा वा दिव्या ममालमपोहितुं रहसि लघयेदारब्धा वा तदाश्रयणी कथा' इत्याह । अत्र रामबाहुरुपधानमिति सीतां प्रति खबाह्वोरुपधानत्वमुक्त्वा 'अयं बाहुः कण्ठे शिशिरमसृणो मौक्तिकसरः' इत्युक्तं रामेण । तदिदं वैलक्षण्यातिशयकार्यम् । अत्र 'इय गेहे लक्ष्मी.' इत्यादिभिरेकस्या एव सीतायाः गृहविषये दीपकलिकाकार्यकारित्वं चक्षुर्विषये ज्योत्स्नादिकार्यकरत्वं कण्ठे हार- कार्यकारित्वं च व्यज्यते । रूपकमुल्लेखो वा अलंकारः ॥ ३८ ॥ आसनपरिचारको दुर्मुख- प्रथमोऽङ्कः। ४१ : सीता—(उत्स्वप्नायते ।) अज्जउत्त, कहिंसि । रामः-सेयमेव रणरणकदायिनी चित्रदर्शनाद्विरहभावना देव्याः खप्नोद्योगं करोति । (सस्नेहमङ्गमस्याः परामृशन् ।) अद्वैतं सुखदुःखयोरनुगतं सर्वास्ववस्थासु य- द्विश्रामो हृदयस्य यत्र जरसा यस्मिन्नहार्यो रसः । कालेनावरणात्ययात्परिणते यत्प्रेमसारे स्थितं भद्रं तस्य सुमानुषस्य कथमप्येकं हि तत्प्रार्थ्यते ॥ ३९ ॥ १. आर्यपुत्र, कुत्रासि । स्तन्नामा ॥ अपसो गूढचरः। प्रहितः प्रयुक्तः। न तु वास्तव्य इत्यर्थः ॥ रणरणकदायिनी विक्षोभकारिणी । विरहभावना वियोगध्यानम् । चित्रदर्शनादिति स्मरणहेतुरुक्तः । खप्ने निद्रायामुद्योग वचनादिप्रयत्नम् । 'उद्वेगम्' इति पाठे भयसंभ्रममित्यर्थः । अङ्गमस्याः परामृशन् । एतेनोपरितनश्लोकस्यापत्यविषयत्वकल्पना परास्ता, तथा सति उदरमस्याः परामृशनिति वक्तव्यतापत्तेः । न च 'मयैवादौ ज्ञातः करतलपरामर्श- कलया द्विधा गर्भग्रन्थि.' इति वक्ष्यमाणानुवादस्य पुरोवादसापेक्षतया अत्रत्यागश- ब्दस्य तद्विशालोदरपरत्वं कवेः संमतमिति वाच्यम् । तत्र 'सहजलज्जाजडदृशः' इति जागरप्रतीतेः । अत्र च सुषुप्तिप्रतीतेस्तदयोगादिति ध्येयम् । अद्वैतमिति । य- त्सर्वास्ववस्थासु सुखदुःखयोरद्वैतमनुगतम् । जाग्रत्स्वप्नसुषुप्त्यादिसर्वावस्थासु ये सुख- दुःखे तयोः संबन्धि यदद्वैतमभिन्नत्वं तदनुगतम् । तद्विशिष्टमित्यर्थः । सर्वाखवस्थाख- भिन्नसुखदुःखापादकमित्यर्थः । द्वयोर्भावो द्वैतम् । इदमेवाद्वैत चक्रवाकमिथुनवर्णन- व्यपदेशेन नवेन कविना व्याख्यातम्-'भुक्तं तद्विमृणालयोमिथुनयोः पीतं द्विराजी- वयोः : सुप्त तद्विफलाशयोरविरलं संश्लिष्टयोर्यद्यपि । पर्यायात्समयद्वयेन विरुतं भिन्न- प्रयत्नेन वा मूर्तिद्वैतवशान्मतिमिथुनमित्यद्वैतमेवानयोः॥' इति । पर्यायादिति पर्यायश- ब्दमन्तर्भाव्य न विरुद्धमिति ल्यब्लोपे पञ्चमी व्याख्येया ।नातः समयद्वय इत्यनेन पौनरु- क्त्यम् । यत्र दाम्पत्ये हृदयस्य गुरुकुलशिष्टमनस इत्यर्थ. । विश्रामः श्रमापनयनकसुख- विशेषानुभवः । अत्र विश्राम इत्यपाणिनीयम् , नोदात्तेति वृद्धिप्रतिषेधात्' इति वैया- करणाः । श्रीहर्षस्तु 'विश्रामो विश्रमश्च' इति द्विरूपकोश उक्तवान् । यस्मिन्दाम्पत्ये रसः स्पृहारूपो जरसा जरया अहार्यों हर्तुमशक्यः । यद्वा यस्मिन्सति रस आहादो जरसाप्यहार्यः। आवरणात्ययात् । पदद्वयमिदम् । वरण विवाहः, अत्ययः शरीरसंपातः, वरणं चात्ययश्चेति समाहारद्वन्द्वः । आवरणात्ययात् । वारणात्ययमभिव्याप्येत्यर्थः । वरणमारभ्य शरीरपातपर्यन्त वर्तमानेन कालेन परिणते उपचयं प्राप्ते प्रेमसारे उत्कृष्टप्रेम्णि स्थितं स्थितिमत् । 'मालत्याः प्रथमावलोकदिवसादारभ्य विस्तारिभि- भूयः स्नेहविचेष्टितैर्मृगदृशो नीतस्य कोटि पराम्' । 'परां कोटि स्नेहपरिचयविकासात् अधिगते' इत्यादि समानार्थकम् । 'कालेनावरणात्ययात्परिणते यत्प्रेमसारे स्थितम्' ४२ उत्तररामचरिते दुर्मुखः-(उपसृत्य ।) 'जेदु देव्वो। रामः- ब्रूहि यदुपलब्धम् । दुर्मुखः-उवढुवन्ति देवं पौरजाणपदा जहा विसुमरिदा अम्हे.. महाराअं दसरहं रामदेव्वेणेत्ति । रामः-अर्थवाद एवैषः । दोषं तु मे कथंचित्कथय येन प्रति- विधीयते । दुर्मुखः-(सास्त्रम् ।) सुणादु महाराओ। (कर्णे ।) एव्वं विअ । इति। रामः-अहह, अतितीव्रोऽयं वाग्वजः । (इति मूर्च्छति ।) दुर्मुखः-आससदु देव्वो। राम:--(आश्वस्य।) हा हा धिक्परगृहवासदूषणं य- द्वैदेह्याः प्रशमितमद्भुतैरुपायैः । १. जयतु देवः। २. उपस्तुवन्ति देवं पौरजानपदा यथा विस्मारिता वयं महाराज दशरथं रामदेवेनेति । ३. शृणोतु महाराजः । एवमिव । ४. आश्वसितु देवः । इति वाक्य वेदितव्यम् । केचित्तु आवरणात्ययात्प्रतिबन्धकनिवृत्तेरिति व्याचक्षते। प्रेम्ण उत्कृष्टत्व च परकीयावेश्योपपत्याद्यविषयकलम् । तस्य सुमानुषस्य दाम्पत्यस्य । 'समानुष तु दाम्पत्यम्' इत्यभिधानात् । इति प्राश्च आहुः । अत एवैतद्विकृतिभूत- दाम्पत्यार्थकमनिच्छितिशब्दस्य द्रविडभाषाप्रसिद्धिरपि । अन्ये तु 'प्रकरणानुगुण्या- द्विशेषणवारस्यात्तच्छब्देन दाम्पत्ये लब्धे सुमानुषस्येति तद्विशेषणतया योजनीयम् । शोभनो मानुषो येन' इत्याहुः । केचित्तु 'सुमानुषस्य सौजन्यस्य' इत्याहुः । कथमपि सर्वप्रकारेणापि तत्प्रसिद्धमेक मुख्यं भद्रं क्षेम प्रार्थ्यते प्रकर्षण याच्यते । अभिलष्यते वा । हि यस्मात्सुमानुषस्य भद्रमेकं प्रार्थ्यते तस्मात् सैव रणरणकदा- यिनीत्यादिपूर्वेणान्वयः । अनर्थशदीनि बन्धुमित्रहृदयानीति न्यायेनेति भावः । प्रेमसारे स्थितमित्यनेन मधुकटाहनिक्षिप्तरसालफलसादृश्यं व्यज्यते । अत्र फलविषयको- त्सुक्यप्रतिपादनादारम्भ उक्तः । तदुक्तम्-'औत्सुक्यमात्रमारम्भः फललाभाय भूय- से' इति ॥३९॥ कर्णे एवमिवेति । 'अर्थस्त्वेकेन विज्ञेयः पश्चाज्ज्ञात्वा प्रसङ्गतः । कर्ण एवमिवेत्युक्त्वा काव्यबन्धे प्रयुज्यते ॥' इत्युक्तत्वात् ॥ हा हेति । परगृहवास प्रथमोऽङ्कः। ४३ एतत्तत्पुनरपि दैवदुर्विपाका- दालकै विषमिव सर्वतः प्रसक्तम् ॥ ४० ॥ तत्किमद्य मन्दभाग्यः करोमि । (विमृश्य सकरुणम् ।) अथवा किमेतत् । सतां केनापि कार्येण लोकस्याराधनं परम् । तत्प्रतीतं हि तातेन मां च प्राणांश्च मुञ्चता ॥ ४१ ॥ संप्रत्येव च भगवता वसिष्ठेन संदिष्टम् । अपि च । यत्सावित्रैर्दीपितं भूमिपालै- लोकश्रेष्ठैः साधुचित्रं चरित्रम् । मत्संबन्धात्कश्मला किंवदन्ती स्याच्चेदस्मिन्हन्त धिङ्मामधन्यम् ॥ ४२ ॥ हा देवि देवयजनसंभवे, हा स्वजन्मानुग्रहपवित्रितवसुंधरे, हा मुनिजनकनन्दिनि, हा पावकवसिष्ठारुन्धतीप्रशस्तशीलशालिनि, हा एव दूषणम् । नान्यदिति भावः । आलकै श्वसंबन्धि प्रसक्तम् । पाठान्तरे 'प्रसप्तम्' इति वा । एकत्र स्पर्शः कालान्तरेण सर्वतः प्रसरणमिति भावः ॥ ४० ॥ मन्दभा- ग्योऽल्पभाग्यः । सतामिति । केनापि कार्येण । 'स्नेह दयां च सौख्यं च यदि वा जानकीमपि' इत्युक्तरीत्या लोकस्याराधनं लोकस्य प्रीतिजनकव्यापारः । सतां धर्मशास्त्रस्मृत्यादीनां परं धर्मः श्रेष्ठत्वेनाभिमतः । तथा चापस्तम्बः-'यत्त्वार्याः क्रियमाणं प्रशंसन्ति स धर्मः' इति । न चेदमननुष्ठानपराहतमित्याह-तत्प्रती- तमिति । 'अवश्यं पितुराचारः' इति स्फोरणार्थमिदम् । मां च मुख्यतममत्परित्या- गानुषङ्गिकः तातस्य स्वप्राणत्याग इत्याह-प्राणांश्चेति । मुञ्चतेति हेतौ शतृ । प्राण- त्यागहेतुकं पूरणमित्यर्थः॥ ४१ ॥ संप्रत्येव संदिष्टमिति । 'युक्तः प्रजानामनुरञ्जने- ऽस्याः' इति संदिष्टमिति भावः । यदिति । सावित्रैः सवितुः पुत्रैः । 'तस्यापत्यम्' इत्यण्प्रत्ययः । अनेनाभिजन उक्तः । भूमिपालैरित्यनेन क्षत्रधर्मभूतभूमिपालनात्मक- वृत्तमुक्तम् । परिशेषालोकश्रेष्ठैरित्यनेन विद्योक्ता । एवमभिजनविद्यावृत्तैः सर्वाभ्यर्ह- मनुप्रभृतिराजभिर्दीपितं प्रकाशितं खयमनुष्ठितमनुष्ठापितं च चित्रमाश्चर्यभूतम् । कश्मला हेया । किवदन्ती लोकवादः ॥ ४२ ॥ खतो निर्दोषेत्याह-हा देवि । उत्प- त्तिवंशदोषोऽपि नास्तीत्साह-देवयजनसंभवे । स्वोत्पत्तिभूमेरपि शुद्धिजननीत्याह- खजन्मेति । संपर्कवशदोषोऽपि नास्तीत्याह-मुनिजनकेति । नन्दिनीत्य- नेन औरसकन्यापेक्षयाभिमतेति व्यज्यते । गुरुदेवताभिमतेत्याह-पावकवसि- टेति । शीलेन वृत्तेन शाज्यते श्लाध्यत इति शीलशालिनि । 'शाट्ट श्लाघायाम्' इत्यस्माद्बाहुलकात्कर्मणि णिनिः । डलयोरेकत्वम् । तद्विवृणोति-राममयेति ।

४४ उत्तररामचरिते " राममयजीविते, हा महारण्यवासप्रियसखि, हा तातप्रिये, हा स्तोकवा- दिनि, कथमेवंविधायास्तवायमीदृशः परिणामः । त्वया जगन्ति पुण्यानि त्वय्यपुण्या जनोक्तयः । नाथवन्तस्त्वया लोकास्त्वमनाथा विपत्स्यसे ॥ ४३ ॥ (दुर्मुख प्रति ।) दुर्मुख, ब्रूहि लक्ष्मणम् । एष नूतनो राजा रामः समा- ज्ञापयति । (कर्णे ।) एवमेवम् । इति । अनेन रावणस्मरणमपि दूरोत्सारितमिति व्यज्यते । रामस्य रावणस्मरणगन्धा- सहत्वान त्विदमनुमेयम् । किं त्वनुष्टानेन प्रकटितमित्याह-महारण्येति । प्रिय- त्वविशेषणम् । निर्बन्धलोकवादादिव्यावृत्तिः । सखीत्यनेन दण्डकारण्यगमने पत्नी- त्वप्रयुक्तप्राधान्यं नाङ्गीकृतम् । किं तु पुरुषसिंहरामसमप्रधानत्वमेवेति । 'समानं ख्यायते इति सखा' इति व्युत्पत्तेरुपलक्षणमिदम् । रामापेक्षया प्राधान्यस्यापि । 'अग्रतस्ते गमिष्यामि मृगन्ती कुशकण्टकान्' इत्युक्तत्वात् । तातस्य प्रिये अभि- मते 'वधूचतुष्केऽपि' इत्यादिवक्ष्यमाणरीत्येति भावः । स्तोकं मितं वदन्तीत्यर्थः । 'सत्याय मितभाषिणाम्' इत्युक्तरीत्या । निमित्तलेशाभावेऽपि कथमयं परिणाम इति भावः । त्वयेति । त्वया जगन्ति पुण्यानि पुण्यवन्ति । मत्वर्थीयाच्प्रत्ययः । 'पापानां वा शुभानां वा वधार्हाणां प्लवङ्गम । कार्य करुणमार्येण न कश्चिन्नापराध्यति ॥' इति त्व- न्मतानुसारेण पापपुण्ययोरनुग्रहतौल्यादिति भावः । जनानामुपजीव्यविरोध इत्याह- त्वय्यपुण्या जनोक्तयः । अत्र त्वया जगन्ति पुण्यानीति भुवनानां पुण्यत्वमुक्त्वा जनोक्तय इति जनशब्दोपादानानैव लोकान्तरस्थानामुपजीव्यविरोध इति व्यज्यते । उक्तिपदेन वस्तुस्थित्यभावाद्विषयप्रभावाच । इत्थं मनसा संभावनमपि नोचितम् । सुतरां बहिस्तदुक्तिः सापि जातेति व्यज्यते । जनानामुक्तय इति विग्रहाद्यः कश्चिदित्थं प्रलपतीत्यपि न कितु बहुजना एवं वदन्तीति व्यज्यते। षष्ठीबहुववनेन विग्रहे प्रमाण तु–रेरे पौरजानपदाः, न खलु भवतां देव्याः स्थान गृहेऽभिमत ततः' इत्यादिवक्ष्यमाणरामवचनम् । तेऽपि कदाचिदित्युक्त्वा विरमन्तीत्यपि न बहुकृत्वो वदन्तीति बहुवचनार्थः । अपुण्या इति व्यतिरेकोक्त्या कश्चिदपि कदाचिदपि न यथार्थ प्रत्येति नापि वक्तीति व्यज्यते । नाथवन्त इति । अहं लोकानामधीशः, मम त्वं नाथा। तथा च-'यस्यैते तस्य तद्धनम्' इति न्यायेन लोकानामपि त्वमेव नायिकेत्या- शयः । यद्वा त्व मय्यात्मतयावस्थिता, अहं च त्वयि तथावस्थितः । आह च हनूमान्- 'अस्या देव्या मनस्तस्मिस्तस्य चास्यां प्रतिष्ठितम् । तेनेयं स च धर्मात्मा मुहूर्तमपि जीवति ॥' इति । तथा च लौकिकैर्मयि प्रतिपद्यमान लोकनाथत्वं त्वदीयमित्यर्थः । इत्याचूहनीयम् । त्वमनाथेति । त्वत्सत्तामात्र मम लोकनाथत्वे प्रयोजनम् । अहं तु त्वत्कृते व्यर्थ इति भावः । विपत्स्यसे विपन्ना भविष्यसि । पूर्ववियोगोऽपि रावणवधे- प्सितत्वादसत्कल्प इति न तस्मिस्त्वं विपन्ना, अस्य तु वियोगस्य सौमित्रेरपि पत्रिणा- मविषये तत्र प्रिये क्वासि मे' इति वक्ष्यमाणरीत्या पूर्वोपायाविषयत्वात् इतः परमेव - .. ..

प्रथमोऽङ्कः । ४५ दुर्मुखः–हा, कहं अग्गिपरिसुद्धाए गब्भद्विदपवित्तसंताणाए देवीए दुजणवअणादो इदं ववसिदं देव्वेण । रामः-शान्तं पापम् , शान्तं पापम् । दुर्जना नाम पौरजानपदाः। इक्ष्वाकुवंशोऽभिमतः प्रजानां जातं च दैवाद्वचनीयबीजम् । यच्चाद्भुतं कर्म विशुद्धिकाले प्रत्येतु कस्तद्यदिदूरवृत्तम् ॥ ४४ ॥ तद्गच्छ। दुर्मुखः -हा देवि । (इति निष्कान्तः।) रामः-हा कष्टम् । अतिबीभत्सकर्मा नृशंसोऽस्मि संवृत्तः । शैशवात्प्रभृति पोषितां प्रियां सौहृदादपृथगाश्रयामिमाम् । छद्मना परिददामि मृत्यवे सौनिके गृहशकुन्तिकामिव ॥ ४५ ॥ तत्किमस्पृश्यः पातकी देवीं दूषयामि । (इति सीतायाः शिरः समुन्नमथ्य बाहुमाकृष्य ।) १. हा, कथमग्निपरिशुद्धाया गर्भस्थितपवित्रसंतानाया देव्या दुर्जनवचना- दिदं व्यवसितं देवेन । विपन्ना भविष्यसीति लटा व्यज्यते । पूर्वार्धे विभावनाविशेषोऽलंकारः । 'विरुद्धात्का- र्यसंपत्तिदृष्टा काचिद्विभावना' इति लक्षणात् ॥ ४३ ॥ इक्ष्वाकुवंश इति । विशुद्धिकाले यदद्भुतं कर्म तद्यदि तदस्तीति ययुच्यते दूरवृत्तं कः प्रत्येति । न कोऽपीत्यर्थः ॥ ४४ ॥ हा कष्टमिति । नृशंसः क्रूरः । अतिबीभत्स- कर्मेति प्रसिद्धनृशंसाद्व्यावृत्तिः । शैशवादिति । शैशवात्प्रभृति पोषितां बाल्यमारभ्य वर्धिताम् । अनेन 'विषवृक्षोऽपि संवर्ध्य खयं छेत्तुमसां- प्रतम्' इति न्यायः स्फोर्यते । ननु खाप्रियत्वे त्याज्यत्वमित्यत्राह-प्रियामिति । ननु तथापि दोषप्रसक्तौ का गतिरित्यत्राह-अपृथगाश्रयामिति । पृथगाश्रयर- हितामित्यर्थः । ननु तथापि मनोवृत्तिरन्यत्रेत्यत आह-सौहृदादिति । इमामि- तीदंपदेन तात्कालिकान्तर्वत्नीत्वनिद्रावत्वादिकं परामृश्यते । छद्मना व्याजेन । सीताभि- लषितवनप्रस्थापनव्याजेनेत्यर्थः । मृत्यवे परिददामि देयसाकल्यादानसाकल्यम् । तदिमाम् । गर्भस्थशिशुद्वयं चेत्यर्थः । सौनिके जीवहिंसाजीविनि । 'कर्मणा यमभिप्रैति स संप्रदानम्' इति चतुर्थ्यर्थे सप्तमी । प्रथमान्तपाठोऽप्यस्ति । गृहशकुन्तिकाम् ।

४६ उत्तररामचरित अपूर्वकर्मचण्डालमयि मुग्धे विमुञ्च माम् । श्रितासि चन्दनभ्रान्त्या दुर्विपाकं विषद्रुमम् ॥ ४६ ॥ (उत्थाय ।) हन्त हन्त, संप्रति विपर्यस्तो जीवलोकः । अद्यावसितं, जीवितप्रयोजनं रामस्य । शून्यमधुना जीर्णारण्यं जगत् । असारः संसारः। 'अनुकम्पायां कन्' ॥ ४५ ॥ अपूर्वेति । अत्र मुग्धे विमुञ्च मामिति सिद्धसाध्यसम- भिव्याहारन्यायेन अद्यतनमोचनप्रसञ्जकवतीत्यर्थों लभ्यते । मौरध्यस्य मोचनप्रसञ्ज- कत्वं च तदापादकसंपर्कापादनद्वारा । स च संबन्धो रावणप्रत्याख्यानपूर्वको लका- देशीय एव । तथाहि-भवितव्यः परगृहवासो जातः, तथापि नैतावता ममात्याहित प्रसजति । रावणो न मां बलात्कर्तुमर्हति । ततश्च तदभिमततदसंपादनेनैव काल- यापनं सुकरम् । प्रत्याशया च स मां न हनिष्यति । रामस्तु इदानीं मां निर्दोषां परीक्ष्यानुमन्यमानोऽपि कदाचित्कस्यचिद्वचनमनुसरंल्लोकाराधनश्रद्धया मामरण्ये प- रित्यजेत् इत्यादिको विचारः सीतायाः स्यात् । तदा नैवंविधदुःखानुभवप्रसक्तिरिति तदिदं मौग्ध्यस्याद्यतनविपत्प्रयोजकत्वमित्याशयः । सर्वमिदं निर्वेदातिशयद्योतकम् । अपूर्वश्चासौ कर्मचण्डालश्चेति विग्रहः । चण्डालो हि क्रूरतमः। कर्मचण्डालस्तु सुतराम् । यस्तत्रापूर्वो विलक्षणः अहं कर्मचण्डालो रावणादपि क्रूर इति भावः । स हि रावणो न सीतायाः प्राणहानिकरोऽभवत् । अहं तु तत्कारी भवामीति पूर्वोक्तमौढ्यहेतुकरामसं- श्रयणमेवाह-श्रितासीति । द्रुमत्वोक्तिर्भूयस्त्वाभिप्रायात् । दुर्विपाकत्ववचनमत्य- न्तक्रौर्यातिशयप्रतिपत्त्यर्थम् । चन्दनभ्रान्त्येत्येतदुःखभूयस्त्वावर्जनीयत्वख्यापनार्थः । अन्यभ्रान्तौ प्रवृत्तिमान्द्यादिकं स्यात् । असीत्यनेनाद्यापि न मुञ्चसीत्यपि व्यज्यते । श्रितेति कर्तृवाचकनिष्ठान्तम् । तेन श्रयणस्य लकादेशीयत्वलाभः । अयमाशयः- लोके हि फलवज्जातीयानामपि वृक्षाणामफलत्वे छेद एवोचितः । अनर्थावहत्वे तु सुतराम्। विषवृक्षस्य तु छेदे का प्रतिहतिः । तस्यापि दुर्विपाकत्वे सर्वथा छेद्यत्वमेव । तथापि 'विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसांप्रतम्' इति न्यायेन यदि छेदप्रतिषेधः, तर्हि तस्य परित्यागे का प्रतिहतिः । अत्र क्रूररामकर्मकसंश्रयणप्रतिबिम्बस्य सीताप्रस्तुतकर्तृकदु- विपाकविषट्ठमाश्रयणस्य वर्णनाल्ललितालंकारः । 'प्रस्तुते वर्ण्यवाक्यार्थप्रतिबिम्बस्य वर्ण- नम् । ललितम्' इति लक्षणात् ॥४६॥ हन्तेति दुःखे। संप्रति सीताविरहे । विपर्यस्तो- ऽन्यथाभूतः । साहित्ये 'यस्तया सह स खर्गो निरयो यस्तया विना' इति रामायणोक्त- रीत्या जीवलोकस्य स्वर्गत्वम् । वियोगे तु नरकत्वमेवेति । स्वर्गान्यस्य नरकस्यैव खारसिकत्वात्प्राणिनां नरकप्राप्तावपि नात्मवस्तुनाशः । मम तु सीतामयजीवितत्वा- तन्नाशे जीवितनाश इति । अद्यावसितमिति समाप्तं जीवितमेव प्रयोजनम् । जीवि- तमिति वक्ष्यमाणमिहानुसंधेयम् । सीताविरहितजीवितं निष्प्रयोजनमित्यर्थः । यत एवं ततोऽधुना जीर्णारण्य जगत्स्वर्गादिक ह्यात्मनः स्थिरत्वे कालान्तरानुभाव्य स्यात् । 'अनादौ संसारे' इति न्यायात् । आत्मवस्तुनाशे तु खानुपभोगात् जीर्णारण्यत्वम् । सीता- साहित्ये हि अरण्यस्यापि पञ्चवट्याः 'यस्यां ते दिवसाः' इति रीत्या खगृहत्वात् तद- .

प्रथमोऽङ्कः । ४७ काष्ठप्राय शरीरम् । अशरणोऽस्मि । किं करोमि । का गतिः । अथवा । दुःखसंवेदनायैव रामे चैतन्यमागतम् । मर्मोपघातिभिः प्राणैर्वज्रकीलायितं हृदि ॥ ४७ ॥ हा अम्ब अरुन्धति, भगवन्तौ वसिष्ठविश्वामित्रो, भगवन्पावक, हा देवि भूतधात्रि, हा तात जनक, हा मातः, हा प्रियसख महाराज सुग्रीव, सौम्य हनूमन् , महोपकारिन् लङ्काधिपते बिभीषण, हा सखि त्रिजटे, परिमुषिताः स्थ परिभूताः स्थ रामहतकेन । अथवा को नाम तेषामह- मिदानीमाह्वाने । , योगे तु स्वगृहस्यापि जीर्णारण्यत्वमित्याशयः । असारः शून्यः । काष्टप्राय शरीरम् । 'ज्योत्स्नेव हिमदीधितेः' इत्युक्त्या यथा चन्द्रस्य कौमुद्यभावे काष्ठप्रायता तद्वत्वस्येति भावः । अद्य पूर्ववत् । 'सुग्रीवं शरण गतः', 'सागरं शरण गत.' इत्यादिकस्य नावकाश इत्याह-अशरणोऽस्मीति । पूर्ववत्सेतुबन्धनादि कर्तव्य नास्तीत्साह-कि करो- मीति । अद्य पूर्ववद्रावणवधादिरूपप्राप्य नास्तीयाह-का गतिरिति । गम्यत इति गतिः । यतश्चैवं ततः क्व गच्छामि, किमरण्य गच्छामि, उत पातालविवरम् , किवा मरण गच्छामि इति विकल्पाशयः । न तूक्तः कल्पः सर्वोऽपि न कल्पत इत्याह-अथवेति । पूर्वोक्तक्षेपकः । दुःखेति । चैतन्यमात्मा ज्ञप्तिर्वा । दुःखसंवेदनायैव रामे आगतम् । आगतमित्यनेन दुर्मुखवाक्यश्रवणानन्तरं गत चैतन्य पुनरागतमिति व्यज्यते । यद्वा शक्तिप्रहारादिषु गतं पुनरागतमिति वा । पाभिषेकादिनान्तरीयकसुखं तु असत्कल्प- मिति हृदयम् । 'अर्पितम्' 'आहितम्' इति पाठयोस्तु आदितः प्रभृति 'राज्याझंशो वने वासः सीता नष्टा द्विजो हतः । ईदृशीय ममालक्ष्मीर्निर्दहेदपि पावकम् ॥' इत्युक्तरीत्या दुःखानुभवायैव चैतन्यसद्भाव इति भावः । स्वर्गिणां चैतन्यं दुःखा- संभिनसुखानुभवाय । जनाना दुःखमित्रसुखानुभवाय । मम सुखासंभिन्नदुःखानु- भवाय । तस्मात्पातालविवरगमनेऽप्यपरिहार्य दुःखमिति भावः । तर्हि मरणं गमिष्या- मीति कल्पः कल्प्यतामित्याह-मर्मोपघातिभिरिति । मर्म हृदयादिप्रदेशानुपन्नन्तीति विग्रहः । 'सुप्यजातौ-' इति णिनिः । न केवल दुःखानुभवापादकाः कि तु खयमपि दुःखप्रदा इति भावः । वज्रकीलवहरुद्धरतया स्थिरीभूयते । भङ्गानहत्वेन वा सादृश्यम् । तथा च मरणमपि दुर्लभमित्यर्थः ॥४७॥ हेति । अरुन्धति । अरुन्धतीकृतसीतापा- तिव्रत्यानुमोदनं न प्रमाणीकृतमिति भावः । भगवन्ताविति । भवतां ज्ञानशक्ति- मपि खला न पश्यन्तीति भावः । पावकेति। तव वचनप्रवेशौ व्यर्थाविति भावः । भूतधात्रि त्वत्सुतायामनिमित्तदोषवादिनो जनान्कथं विभर्षि इति भावः । सौम्येति। सीतावृत्तान्तकथनजनितानन्दप्रयुक्तमत्कृतालिङ्गनमद्विज्ञातशरीरसौभग भवदीयप्रया- उत्तररामचरिते ते हि मन्ये महात्मानः कृतघ्नेन दुरात्मना । मया गृहीतनामानः स्पृश्यन्त इव पाप्मना ॥ ४८॥ योऽहम् विस्रम्भादुरसि निपत्य जातनिद्रा- मुन्मुच्य प्रियगृहिणी गृहस्य लक्ष्मीम् । आतङ्कस्फुरितकठोरगर्भगुर्वी क्रव्याद्भयो बलिमिव दारुणः क्षिपामि ॥ ४९ ॥ (सीतायाः पादौ शिरसि कृत्वा ।) अयं पश्चिमस्ते रामशिरसि पादपङ्कजस्पर्शः। (इति रोदिति ।) (नेपथ्ये।) अब्रह्मण्यमब्रह्मण्यम् । रामः-ज्ञायतां भोः, किमेतत् । (पुनर्नेपथ्ये ।) ऋषीणामुग्रतपसां यमुनातीरवासिनाम् । लवणत्रासितः स्तोमस्त्रातारं त्वामुपस्थितः ॥ ५० ॥ रामः-कथमद्यापि राक्षसत्रासः । तद्यावदस्य दुरात्मनो माधुरस्य कुम्भीनसीकुमारस्योन्मूलनाय शत्रुघ्नं प्रेषयामि । (परिक्रम्य पुनर्निवृत्य ।) हा देवि, कथमेवंविधा गमिष्यसि । भगवति वसुंधरे, सुश्लाघ्यां दुहितरमवेक्षस्व जानकीम् । सो व्यर्थ इति भावः । परिमुषिताः मुषितद्रव्यकाः । ते हीति । कृतं उपकारं ह- न्तीति कृतघ्नः । एतत्कृतपूर्वोपकारविस्मरणादिति भावः ॥ ४८ ॥ विनम्भादिति। विस्रम्भादन्तरङ्गत इति ज्ञानादिति भावः । गृहस्य लक्ष्मी शोभां तदलंकारभूताम् । कठो- रगर्भः पूर्णगर्भः । गुर्वीमित्यनेन यमलत्व सूचयति । क्रव्याझ्यो मांसभक्षकेभ्यः । ऋव्यं मांसमदन्ति खादयन्तीति विग्रहः । 'क्रव्ये च' इति विद्॥ ४९ ॥ अब्रह्मण्यं ब्राह्मणा- नामत्याहितम् । 'अब्रह्मण्यमवध्योक्तौ' इत्यमरः ॥ ऋषीणामिति । लवणो नाम राक्षसस्तेन त्रासितो ऋषीणां स्तोम इत्यन्वयः॥५०॥कथमित्यादि । निःशेषितराक्ष- सकुलत्वात् । खस्येति भावः । यद्वा कथमद्य राक्षसत्रासोऽपीत्यन्वयः । न केवलं सी- ताविश्लेषदुःखप्राप्तिः किं तु राक्षसभय चेति समुच्चयार्थः । कथमिति विस्मये । पूर्व- वदेवोभयं मिलितमिदमाश्चर्यमिति भावः । दुरात्मनो दुर्बुद्धेः । माधुरस्य मधुरेश्वरस्य । कुम्भीनसी नाम तन्माता । उन्मूलनाय मूलेन सहोत्पाटनाय यावत् । प्रेषयामि प्रेष- यिष्यामि । 'यावत्पुरानिपातयोर्लट्' । एवंविधा मया वञ्चिता गर्भिणी सती कथं ।

प्रथमोऽङ्कः। . जनकानां रघूणां च यत्कृत्वं गोत्रमङ्गलम् । यां देवयजने पुण्ये पुण्यशीलामजीजनः ॥ ५१ ।। (इति रुदनिष्क्रान्तः।) सीता हा सोम अजउत्त, कहिंसि । (इति सहसोत्थाय ।) हद्धी हद्धी । दुस्सिविणअरणरणअविप्पलद्धा अजउत्तसुण्णं विअ अत्ताणं पेक्खामि । (विलोक्य ।) हद्धी हद्धी । एआइणिं पसुत्तं मं उज्झिअ कहिं गदो णाहो । होदु । से कुप्पिस्सं जइ तं पेक्खन्ती अत्तणो पहविस्सं । को एत्थ परिअणो। (प्रविश्य।) दुर्मुखः-देवि', कुमारलक्खणो विष्णवेदि—'सज्जो रहो । तं आरुहदु देवि त्ति । सीता-ईअं आरूढमि । (उत्थाय परिक्रम्य ।) फुरइ मे गब्भभारो । सणि गच्छर । दुर्मुखः—ईदो इदो देवी। १. हा सौम्य आर्यपुत्र, कुत्रासि । हा धिक् हा धिक् । दुःस्वप्मरणरणक- विप्रलब्धा आर्यपुत्रशून्यमिवात्मानं पश्यामि । हा धिक् हा धिक् । एकाकिनी प्रसुप्तां मामुज्झित्वा कुत्र गतो नाथः । भवतु । अस्मै कोपिष्यामि यदि तं प्रेक्ष- माणा आत्मनः प्रभविष्यामि । कोऽत्र परिजनः । २. देवि, कुमारलक्ष्मणो विज्ञापयति-'सज्जो रथः । तदारोहतु देवी' इति । ३. इयमारूढास्मि । स्फुरति मे गर्भभारः। शनैर्गच्छामः । ४. इत इतो देवी। गमिष्यसीति भावः । भगवति सर्वज्ञे । सुश्वाध्यां निर्दोषां निरुपप्लवां वा । जनकानामिति । यत्कृत्स्नं गोत्रमङ्गलम् । यदिति विधेयापेक्षया क्लीबम् । अजीजनः । उत्पादितवत्यसीत्यर्थः । अत्र बिन्दु म संध्यगमुक्तम् । दाम्पत्यविशेषविच्छेदहे- तुत्वात्पुनरच्छेदकारणत्वाच । तदुक्तम्-'अवान्तरार्थविच्छेदे बिन्दुरच्छेदकारणम्' इति ॥५१॥ कोऽत्र परिजनः । परिजनस्य मध्ये कोऽत्र संनिहित इत्यर्थः । परिज- नस्येति निर्धारणे षष्ठ्येकवचनान्तम् । निर्धारणे षष्ठीप्रयोगोऽप्यस्ति ॥ सज्जो गमनाय उ० रा० ५

उत्तररामचरिते
सीता–णमो रहुउलदेवदाणं ।
(इति निष्क्रान्ताः सवै ।)
इति महाकविश्रीभवभूतिविरचित उत्तररामचरिते
प्रथमोऽङ्कः।
१. नमो
रघुकुलदवताभ्याम्
संनद्धः ॥ रघुकुलदेवते लक्ष्मीनारायणाविति प्रसिद्धमेव । तनमस्कारो यात्राकाले
विहितः । 'आदित्यमण्डले विष्णु ध्यात्वा यात्रां प्रवर्तयेत्' इति स्मरणात् ॥
दाशरथिवंशजनुषो भूसारजवीरराघवार्यस्य ।
उत्तररामचरित्रव्याख्यालेष्वादिमः प्रायात् ॥
इति श्रीवाधूलवीरराघवविरचितायां भवभूतिभावतलस्पर्शिनी-
समाख्यायामुत्तररामचरितव्याख्यायां प्रथमोऽङ्कः॥

द्वितीयोऽङ्कः (नेपथ्ये।) खागतं तपोधनायाः। (ततः प्रविशत्यध्वगवेषा तापसी।) तापसी-अये वनदेवता फलकुसुमगर्भण पल्लवायेण दूरा- न्मामुपतिष्ठते । (प्रविश्य ।) वनदेवता—(अर्घ्य वितीर्य ।) यथेच्छाभोग्यं वो वनमिदमयं मे सुदिवसः सतां सद्भिः सङ्गः कथमपि हि पुण्येन भवति । तरुच्छाया तोयं यदपि तपसां योग्यमशनं फलं वा मूलं वा तदपि न पराधीनमिह वः ॥ १ ॥ तापसी-किमत्रोच्यते । प्रियप्राया वृत्तिर्विनयमधुरो वाचिनियमः प्रकृत्या कल्याणी मतिरनवगीतः परिचयः । नेपथ्य इति । 'कुशीलवकुटुम्बस्य स्थली नेपथ्यमिष्यते' इत्युक्ततिरस्करिणीतिरो- हितनर्तनभूमिकापरिग्रहीपयिकस्थानविशेष इत्यर्थः ॥ वनदेवतेति । पल्लवायेण पल्लवयुक्तपूजाद्रव्येण दूरात् प्रविष्टा सती उपतिष्ठते पूजयति । देवतात्वारोपादात्म- नेपदम् । दूरादित्यपादाने पञ्चमी । यद्वा मामुपतिष्ठते संगता भवति । 'गड्डा यमुनामुप- तिष्टते' इतिवत् उभयत्रापि 'उपाद्देवपूजा-' इत्यादिना तङ् ॥ अयं वितीर्य दत्त्वा । यथेच्छमिति । इदम् । मदीयमित्यर्थः । वनं वनमेव न तु स्पृहणीयपुरप्रासादादिक- मित्यपरितोषो व्यज्यते । तथापि 'अविद्यमानं कर्णोऽपि' इति न्यायेन यथाधिकार सभाजयितव्यमेवेत्साह-यथेच्छाभोग्यं इच्छामनतिक्रम्य यथेच्छम् । यथेच्छं आभो- ग्यमिति विग्रहः । इच्छानिवृत्तिपर्यन्तमसंकोचेनोपभोगाईमित्यर्थः । व इति पूजायां बहुवचनम् । अतिथिसामान्याभिप्रायक वा।अयं मे सुदिवसः साधुजनसंपर्कादिति भावः । सतां विद्यमानानामेव, न तु प्रसादनादिकुर्वतामित्यर्थः । सद्भिः साधुभिः सह सङ्गः संपर्कः कथमपि कृच्छ्रेण पुण्येन भवति साधुजनसंपर्कलाभः प्रणिपातादिसाध्यो भवति । तदभाववतां तु दृष्टहेत्वभावात् केवलादृष्टसाध्यो भवतीति भावः । यद्वा कथमपि सतां येनकेनप्रकारेण वर्तमानानाम् । कामचारे स्थितानामित्यर्थः । सद्भिः । ब्रह्म- विद्भिरित्यर्थः । 'अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुः' इति श्रुतेः । सङ्गः संपर्कः पुण्येन हि भवति ।अयमाशयः-'तस्मादेवं विदा नासीत' इति श्रुत्या ब्रह्मज्ञानवतां तच्छू- न्यैः सहवासादिक प्रतिषिद्धम् । एवं च तेषां तैः सङ्गः पुण्यैकसाध्य इति । इद च स्वनि- कर्षभावनाकार्यम् । फलं वा मूलं वा इतोऽन्यदपि तपसा योग्यमशनम् । नीवारपाण्डुपत्र- वातजलादिकमित्यर्थः । तदपि तच पराधीनं नेति ॥१॥ प्रियेति । प्रियप्राया प्रिय- ५२ उत्तररामचरिते पुरो वा पश्चाद्वा तदिदमविपर्यासितरसं रहस्यं साधूनामनुपधि विशुद्धं विजयते ॥२॥ (उपविशतः।) वनदेवता-कां पुनरत्रभवतीमवगच्छामि । तापसी-आत्रेय्यस्मि । वनदेवता-आर्ये आत्रेयि, कुतः पुनरिहागम्यते । किंप्रयोजनो दण्डकारण्योपवनप्रचारः। आत्रेयी अस्मिन्नगस्त्यप्रमुखाः प्रदेशे भूयांस उद्गीथविदो वसन्ति । तेभ्योऽधिगन्तुं निगमान्तविद्या वाल्मीकिपार्धादिह पर्यटामि ॥ ३ ॥ वनदेवतायदा तावदन्येऽपि मुनयस्तमेव हि पुराणब्रह्मवादिनं प्राचेतसमृषि ब्रह्मपारायणायोपासते । तत्कोऽयमार्यायाः प्रवासः । - .. प्रचुरा युक्ता चेत्यर्थः। वृत्तिः कायिकव्यापारः। तथापि वाकौर्ये महान्दोष इत्यत आह- विनयमधुरो वाचिनियमः विनयेन खनिकर्षभावनारूपेण खोत्कर्षाननुसंधानरूपेण वा मधुरः प्रियः वाचिनियमः सत्याय मितभाषित्वम् । तथापि मनोवृत्तिदौष्ट्यं स्यादत आह-प्रकृत्या कल्याणी मतिःप्रकृत्या खभावतः कल्याणी प्रेयखिनी । तथाप्यसत्सङ्गव- शाद्वैपरीत्य स्यादत आह-अनवगीतः। अनिन्दित इत्यर्थः। तदिद वृत्तिवाचिनियमादि- परिचयसमुदायरूपं विजयते सर्वोत्कर्षेण वर्तते । तत्कथंभूतमित्याह-पुरो वा पश्चाद्वा भू- तभविष्यत्कालयोः। तत्तत्पुरुषसंनिधानयोरिति वार्थः। अविपर्यासितरसं अन्यूनखभावम्। रसपदेन प्रियवं व्यज्यते। अनुपधि निर्व्याज विशुद्धं प्रामादिकदोषरहित रहस्यम् । 'शील संवसता ज्ञेयम्' इति न्यायेन चिरकालशुश्रूषादिभिरेव ज्ञातुं शक्यं न तु दाम्भिक- त्तिवत्स्वयं प्रकटमित्यर्थः । तथाविध तदिद विजयत इति योजना ॥२॥ अवगच्छामि जानामि ॥ किंप्रयोजन इति । प्रचारः संचारः ॥ अस्मिन्निति । अगस्त्यप्रमुखा अगस्त्यप्रभृतयो भूयांसो बहव उद्गीथविदः । 'ओमित्युद्गीथमुपासीत' इति परस्मिन् ब्रह्मणि उद्गीथदृष्टि कुर्वन्त इत्यर्थः । दहरविद्यादीनामुपलक्षणम् । सकलवेदान्ततात्पर्य- पर्यालोचनशीला इति भावः । तेभ्यः अधिगन्तु तत्कृतव्याख्यानेन ज्ञातुम् । 'आख्यातोप- योगे' इति पञ्चमी । पर्यटामि । 'अट गतौ ॥३॥ यदातावदिति। पुराणश्चासौ ब्रह्मवादी चेति विग्रहः । ब्रह्म परमात्मानं वेदान्वा वदतीति णिनिः। पुराणत्वे प्राचेतसमिति हेतु- कथनम् ।ब्रह्मपारायणाय वेदान्तविद्याध्ययनाय । पारायणं नाम आदित आरभ्यान्तादवि- . द्वितीयोऽङ्कः। आत्रेयी -तस्मिन्हि महानध्ययनप्रत्यूह इत्येष दीर्घप्रवासोऽ- ङ्गीकृतः। वनदेवता—कीदृशः। आत्रेयी-तस्य भगवतः केनापि देवताविशेषेण सर्वप्रकाराद्भुतं स्तन्यत्यागमात्रके वयसि वर्तमानं दारकद्वयमुपनीतम् । तत्खलु न केवलं तस्य, अपि तु तिरश्चामप्यन्तःकरणानि तत्त्वान्युपस्नेहयति । वनदेवता-अपि तयोर्नामसंज्ञानमस्ति । आत्रेयी—तयैव किल देवतया तयोः कुशलवाविति नामनी च प्रभावश्चाख्यातः। वनदेवता—कीदृशः प्रभावः । आत्रेयी--तयोः किल सरहस्यानि जृम्भकास्त्राणि जन्मसिद्धानीति । वनदेवता-अहो नु भोश्चित्रमेतत् । आत्रेयी-तौ च भगवता वाल्मीकिना धात्रीकर्मतः परिगृह्य पोषितौ रक्षितौ च । निर्वृत्तचौलकर्मणोस्तयोस्त्रयीवर्जमितरास्तिस्रो विद्याः सावधा- नेन परिनिष्ठापिताः । तदनन्तरं भगवतैकादशे वर्षे क्षात्रेण कल्पेनोपनीय त्रयीविद्यामध्यापितौ । न त्वेताभ्यामतिदीप्तिप्रज्ञाभ्यामस्मदादेः सहाध्य- यनयोगोऽस्ति । यतः। च्छेदेनाध्ययनमुपासते । तदिति । प्रवासो देशान्तरगमनम् ॥ तस्मिन्निति । प्रत्यूहः विघ्नः ॥ तस्येति । स्तन्यत्यागमानं यस्मिन्निति बहुव्रीहेः कप्प्रत्ययः । दारक- द्वयं शिशुद्वयम् । तदिति। तस्य वाल्मीकेः तिरश्चामपि मृगाणामप्यन्तःकरणानि हृदयरू- पाणि तत्त्वानि पदार्थानुपस्नेहयति संनिधानीकरोति॥अपीति । नाम्नोऽभिलापकशब्दस्य संज्ञानं संकेतसंबन्धकरणम् ॥ तयोरिति । जन्मसिद्धानि जन्मना ज्ञातानि, नतूपदे- शेन ॥ तौ चेति । धात्रीकर्मत उपमातृव्यापारेण । पोषितौ क्षीरादिना वर्धितौ। र- क्षितौ। पिपीलिकादिभ्य इति भावः । निवृत्तेति । निर्वृत्तं निष्पन्नम्।त्रयीवर्ज वर्जयिखा। अङ्गान्यपीति शेषः । इतराः । 'आयुर्वेदो धनुर्वेदस्तथा गान्धर्वनामकः' इत्युक्ता इत्यर्थः। सावधानेन । वाल्मीकिनेति शेषः। परिनिष्ठापिताः सम्यड् निष्पादिताः। तदनन्तरमिति। एकादशानां पूरणं एकादशम् । तस्य पूरणे' इति डप्रत्ययः । गर्भात गर्भवर्षात् एकादशं गर्भकादश तस्मिन्नित्यर्थः । 'गर्भेकादशेषु राजन्यम्' इति स्मृतेः । कल्प्यतेऽनुष्ठीय- तेऽनेनेति कल्पः अनुष्ठानपरिपाटीप्रकाशकग्रन्थः । न त्वेताभ्यामिति । दीप्तिः उत्तररामचरिते वितरति गुरुः प्राज्ञे विद्यां यथैव तथा जडे न तु खलु तयोर्ज्ञाने शक्तिं करोत्यपहन्ति वा । भवति हि पुनर्भूयान्भेदः फलं प्रति तद्यथा प्रभवति शुचिर्बिम्बग्राहे मणिर्न मृदादयः ॥ ४ ॥ वनदेवता-अयमध्ययनप्रत्यूहः । आत्रेयी--अन्यश्च । वनदेवता-अथापरः कः। आत्रेयी-अथ स ब्रह्मर्षिरेकदा माध्यंदिनसवनाय नदीं तमसामनु- प्रपन्नः । तत्र युग्मचारिणोः क्रौञ्चयोरेकं व्याधेन वध्यमानं ददर्श । आ- कस्मिकप्रत्यवभासां देवीं वाचमानुष्टुभेन छन्दसा परिणतामभ्युदैरयत् । मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः । यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥ ५॥ वनदेवता-आम्नायादन्यत्र नूतनच्छन्दसामवतारः । आत्रेयी-तेन हि पुनः समयेन तं भगवन्तमाविर्भूतशब्दप्रकाशमृ- षिमुपसंगम्य भगवान्भूतभावनः पद्मयोनिरवोचत्-'ऋषे, प्रबुद्धोऽसि प्रतिभा । प्रज्ञा ज्ञानं उक्तार्थग्रहणम् । वितरतीति । तयोः प्राज्ञजडयोः ज्ञाने शक्ति न करोति, प्राज्ञस्य ज्ञाने अपूर्वी शक्ति न जनयति । जडस्य ज्ञाने शक्तिं नापहन्ति जडस्य ज्ञाननिष्ठां शक्ति न नाशयति । बिम्बग्राहे प्रतिबिम्बज्ञानोत्पादने मणिः वज्रं रत्नसामान्यं वा । मृदादयः । आदिपदात् वृक्षपाषाणलोष्टग्रहणम् ॥४॥अथेति प्रश्ने॥ अथेति । माध्यंदिनसवनाय मध्यंदिनसंबन्धिकर्मणे । अनुप्रपन्नः प्राप्तः । तत्रेति । युग्मं द्वन्द्वं यथा तथा चरत इति युग्मचारिणौ तयोः क्रौञ्चयोः पक्षिविशेषयोः । व्याधेन पुलिन्देन । ददर्श अपश्यत् । आकस्मिकप्रत्यवभासां निर्हेतुकाविर्भावाम् । आनुष्टु- भेन छन्दसा । खार्थिकोऽण्प्रत्ययः । मा निषादेति । प्रतिष्ठां तु अम गमः इति पदचतुष्टयं निषादपक्षे बोध्यम् । एवं च माझ्योगेऽडागमनिषेध उपपद्यते । अमेत्यस्य न विद्यते मा लक्ष्मीः यस्येति विग्रहः । एवं च अलक्ष्मीकेति निषादं प्रति मन्युर्गम्यते । अत एव भगवन्तं प्रति रावणवधजनितप्रीत्यतिशयेन मानिषादेति सलक्ष्मीकलप्रति- पादनम् । भगवत्परत्वे मा लक्ष्मीः निषीदत्यस्मिन्निति मानिषादः । बाहुलकादधिकरणे घञ् । तस्य संबुद्धिः निषेधार्थमाशब्देन अडागमसमर्थनं तु क्लिष्टम् । प्रतिष्ठां आस्पदम् । व्याधपक्षेमा गमः न गच्छेः। भगवत्पक्षे अगमः प्राप्तवानिति ।समाः संवत्सरान् । अत्यन्त- संयोगे द्वितीया ॥५॥ आम्नायात् वेदात् ॥तेनेति । तेन समयेन कालेन । भूतेन प्रजाः भावयति उत्पादयतीति विग्रहः।यद्वा भूतं सत्यम् , निर्निरोधमिति वा भावना अध्यवसायः यस्येति वा । पद्मयोनिःभगवन्नाभिकमलजातः । अनेन पूर्वोक्तभूतभावनत्वप्रयुक्तपरखश- द्वितीयोऽङ्कः । वागात्मनि ब्रह्मणि । तद्रूहि रामचरितम् । अव्याहतज्योतिरार्ष ते चक्षुः प्रतिभातु । आद्यः कविरसि' इत्युक्त्वान्तर्हितः । अथ स भगवान्प्राचेतसः प्रथमं मनुष्येषु शब्दब्रह्मणस्तादृशं विवर्तमितिहासं रामायणं प्रणिनाय । वनदेवता-हन्त पण्डितः संसारः । आत्रेयी-तस्मादेव हि ब्रवीमि तत्र महानध्ययनप्रत्यूह इति । वनदेवता- युज्यते । आत्रेयी-विश्रान्तास्मि भद्रे । संप्रत्यगस्त्याश्रमस्य पन्थानं ब्रूहि । वनदेवता इतः पञ्चवटीमनुप्रविश्य गम्यतामनेन गोदावरीतीरेण । आत्रेयी-(सास्त्रम् ।) अप्येतत्तपोवनम् । अप्येषा पञ्चवटी । अपि सरिदियं गोदावरी । अप्ययं गिरिः प्रस्रवणः । अपि जनस्थानवनदेवता त्वं वासन्ती। वनदेवता-तथैव तत्सर्वम् । आत्रेयी—हा वत्से जानकि । स एष ते वल्लभशाखिवर्गः प्रासङ्गिकीनां विषयः कथानाम् । त्वां नामशेषामपि दृश्यमानः प्रत्यक्षदृष्टामिव नः करोति ॥ ६॥ वासन्ती-(सभयम् । स्वगतम् ।) कथं नामशेषेत्याह । (प्रकाशम् ।) किमत्याहितं सीतादेव्याः। आत्रेयी-न केवलमत्याहितम् , सापवादमपि । (कर्णे ।) एवमिति । वासन्ती हा दारुणो दैवनिर्धातः । (इति मूर्च्छति ।) आत्रेयी-भद्रे, समाश्वसिहि समाश्वसिहि । का निराकृता । प्रवुद्धोऽसि प्रकृष्टज्ञानवानसि । वागेव आत्मा यस्य तस्मिन् ब्रह्मणि शब्दब्रह्मणि । वाचो वैपुल्याभिप्रायकं ब्रह्मवरूपणं ब्रह्मतत्त्वमेव शब्दरूपेण भातीत्यर्थ इति कैयटमतानुसारेण वा । अव्याहतज्योतिः अप्रतिहतप्रकाशं आर्षे ऋषिसंबन्धि योगजन्यज्ञानं चक्षु: नेत्रं ज्ञानमिति फलितोऽर्थः । 'तत्सर्व मत्प्रसादेन विदितं ते भविष्यति' इत्यादि रामायणे द्रष्टव्यम् । आद्यः कविरसीत्युक्त्वा अनुगृह्य । अन्तर्हितः परोक्षतां गतः ॥ स इति । दृश्यमानः दृष्टिविषयीभूतः । प्रासङ्गिकीनां प्रसक्त्य- नुप्रसक्त्या जातानां कथानां प्रश्नप्रतिवचनरूपाणां वाक्यसंदर्भाणां विषयः प्रतिपाद्यः वल्लभशाखिनां खयं वर्धितत्वात् अत्यर्थप्रीतिविषयाणां वृक्षाणां शाखिनामिति वचनं सीताकरस्पर्शप्रयुक्तस्फीतत्वाभिप्रायकम् ॥६॥ दैवनिर्धातः दैवप्रहारः । दारुणः तीव्रः॥

उत्तररामचरिते वासन्ती-हा प्रियसखि, ईदृशस्ते निर्माणभागः । हा रामभद्र । अथवा अलं त्वया । आर्ये आत्रेयि, अथ तस्मादरण्यात्परित्यज्य निवृत्ते लक्ष्मणे सीतायाः किं वृत्तमिति काचिदासीत्प्रवृत्तिः । आत्रेयी-नहि नहि। वासन्ती-कष्टम् । आर्यारुन्धतीवसिष्ठाधिष्ठितेषु नः कुलेषु जीव- न्तीषु च वृद्धासु राज्ञीषु कथमिदं जातम् । आत्रेयी-ऋष्यशृङ्गसत्रे गुरुजनस्तदासीत् । संप्रति परिसमाप्तं द्वा- दशवार्षिकं सत्रम् । ऋष्यशृङ्गेण च संपूज्य विसर्जिता गुरवः । ततो भगवत्यरुन्धती नाहं वधूविरहितामयोध्यां गच्छामीत्याह । तदेव राममातृभिरनुमोदितम् । तदनुरोधाद्भगवतो वसिष्ठस्यापि श्रद्धा वाल्मी- किवनं गत्वा तत्र वत्स्याम इति । वासन्ती--अथ स रामभद्रः किमाचारः। आत्रेयी-तेन राज्ञा राजऋतुरश्वमेधः प्रक्रान्तः । वासन्ती-अहह धिक् । परिणीतमपि । आत्रेयी-शान्तम् । नहि नहि । वासन्ती—का तर्हि यज्ञे सहधर्म वारिणी । आत्रेयी-हिरण्मयी सीताप्रतिकृतिर्गृहिणीकृता। वासन्ती-हन्त भोः । वज्रादपि कठोराणि मृदूनि कुसुमादपि । लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति ॥ ७ ॥ हा प्रियसखीति । निर्माणभागः सृष्टिफलम् । अथवेति जनवापिधानस्य दुःशक- त्वादिति भावः । किं वृत्तमिति निष्पन्नमिति । प्रवृत्तिः वार्ता । आसीत् अभूत् । किमिति काका योजनीयम् ॥संप्रति परिसमाप्तमिति । इदमेवाभिसंधाय -पूर्वोक्तव्याख्यान- मिति न विस्मर्तव्यम् । वधूविरहितां स्नुषाविरहिताम् । तदन्विति । तदनुरोधात् तदनुसरणात् । श्रद्धा निश्चयः॥अथेति । किमाचारः कीदृशव्यापारवान् ॥ तेनेति । राजक्रतुः राज्ञां साधारणो यः क्रतुः ऋतुराजो वा अश्वमेधः । राजदन्तादित्वात् पर- निपातः ॥ सीतेति । सीतायाः प्रतिकृतिः प्रतिमा । गृहिणीकृता धर्मपत्नीकृता ॥ वज्रादपीति । अयमाशयः-निर्दोषायां सीतायां रामहृदयस्य मृदुत्वमेव खाभा- विकम् । कठोरत्वं तु मूर्खलोकानुसरणार्थत्वादागन्तुकमिति प्रतिकृतिकरणादवगम्यत इति । नच 'यस्य भार्या विदूरस्था यदि सा दूषितापि वा । अनिच्छुः प्रतिकूला च ।

द्वितीयोऽङ्कः। •. - आत्रेयी-विसृष्टश्च वामदेवानुमन्त्रितो मेध्याश्वः । प्रक्लप्ताश्व तस्य यथाशास्त्रं रक्षितारः । तेषामधिष्ठाता लक्ष्मणात्मजश्चन्द्रकेतुर्दत्तदि- व्यास्त्रसंप्रदायश्चतुरङ्गसाधनान्वितोऽनुप्रहितः । वासन्ती-(सहर्षकौतुकास्रम् ।) कुमारलक्ष्मणस्यापि पुत्र इति मातर् , जीवामि। आत्रेयी-अत्रान्तरे ब्राह्मणेन मृतं पुत्रमुत्क्षिप्य राजद्वारे सोरस्ताड- मब्रह्मण्यमुद्धोषितम् । ततो न राजापचारमन्तरेण प्रजानामकालमृत्युः संचरतीत्यात्मदोषं निरूपयति करुणामये रामभद्रे सहसैवाशरीरिणी वागुदचरत्- शम्बूको नाम वृषलः पृथिव्यां तप्यते तपः। शीर्षच्छेद्यः स ते राम तं हत्वा जीवय द्विजम् ॥ ८॥ इत्युपश्रुत्य कृपाणपाणिः पुप्पकमधिरुह्य सर्वा दिशो विदिशश्च शूद्रतापसान्वेषणाय जगत्पतिः संचारं समारब्धवान् । वासन्ती-शम्बूको नामाधोमुखो धूमपः शूद्रोऽस्मिन्नेव जनस्थाने तपश्चरति । अपि नाम रामभद्रः पुनरिदं वनमलंकुर्यात् । आत्रेयी-भद्रे, गम्यतेऽधुना। वासन्ती-आर्ये आत्रेयि, एवमस्तु । कठोरश्च दिवसः । कण्डूलद्विपगण्डपिण्डकषणाकम्पेन संपातिभिः धर्मसंसितबन्धनैश्च कुसुमैरर्चन्ति गोदावरीम् । तस्याः प्रतिकृती क्रिया ॥' इति स्मरणात् । प्रतिकृतिकरण मृदुत्वानुपपादकमिति वाच्यम् । तस्य परिणयान्तराशक्तनिरवकाशक्रियाविषयत्वात् । अश्वमेधादेः सावकाशत्वात् परि- णयान्तरशक्तत्वात् । किंच सीतासदृशप्रतिमाकरणं मृदुत्वापादकमेव । एतादृशविचार- साध्यत्वात् 'को हि विज्ञातुमर्हति' इति तज्ज्ञानखरूपयोग्यतापि दुर्लभेत्युक्तम् । अत्रा- र्थान्तरन्यासालंकारः॥७॥वामदेवेन अनुमन्त्रितः अनुज्ञातः।वसिष्ठासंनिधानादिति भावः। मेभ्याश्वः यज्ञीयाश्वः । प्रकृप्ता इति यथाशास्त्रं शास्त्रोक्तन्यायेन । तेषामिति 'चतुःशता रक्षन्ति यज्ञस्याघातये' इत्यादिश्रुतिमनुलद्धय अधिष्ठाता नियामकः अनुप्रहितः ॥ अत्रा- न्तर इति । अब्रह्मण्यमिति वचनम् उद्घोषितं उच्चैरुच्चारितम् । तत इति । राजापचारं राजदोषम्। निरूपयति मीमांसमाने। करुणामये परदुःखदुःखित्वरूपानुकम्पाप्रचुरे।उद- चरत् उगतवती ॥ शम्वूक इति । तपः तप्यते तपश्चरति । 'तप ऐश्वर्ये वा' इति तड् । दिवादित्वात् श्यन् । शीर्षच्छेद्यः शिरश्छेदाहः। 'शीर्षच्छेदाद्यच्च' इति यत्प्रत्ययः । दिशः प्राच्यादयः, विदिशः आग्नेय्यादयः ॥ अपि नामेति अलंकुर्यादित्यनेनान्वयः । संभावनायामपिशब्दः ॥ कण्डूलेति । कण्डूलानां कण्डूमतां द्विपगण्डपिण्डानां .. .

उत्तररामचरिते छायापस्किरमाणविप्किरमुखव्याकृष्टकीटत्वचः कूजत्लान्तकपोतकुक्कुटकुलाः कूले कुलायद्रुमाः ॥ ९ ॥ (इति परिक्रम्य निष्क्रान्ते । इति शुद्धविष्कम्भः । (ततः प्रविशति सदयोद्यतखड्गो रामभद्रः।) राम:- हे हस्त दक्षिण मृतस्य शिशोद्धिजस्य जीवातवे विसृज शूद्रमुनौ कृपाणम् । पिण्डाकारगजकपोलानां कषणेन संघटनया आकम्पेन अत्यर्थचलनेन संपतन्तीति संपातिनः तथाविधैः । धर्मेण निदाघौष्ण्येन स्रंसितबन्धनैः शिथिलितवन्तः । छायायां अनातपे अपस्किरमाणाः भक्षार्थ चञ्वा भूमि लिखन्तः । “किरतेहर्षजीविकाकुलाय- करणेष्विति वाच्यम्' । 'अपाच्चतुष्पाच्छकुनिष्वालेखने' इति सूत्राभ्यां तड्सुटौ । तथा- विधानां विष्किराणां वायसादीनां मुखैः व्याकृष्टा कीटत्वकू येषामिति विग्रहः । कपोताः पारावताः कुक्कुटाः चरणायुधाश्च ते कूजन्तः क्लान्ताश्च येष्विति विग्रहः । कूले । तीर- वर्तिन इत्यर्थः । कुलायद्रुमाः पक्षिनीडयुक्तद्रुमाः स्वकुसुमैः गोदावरी अर्चन्ति पूज- यन्ति इति संबन्धः । अत्र वृक्षवर्णनया वैदिकशिरोमणीनां गृहमेधिनां मध्याह्नकाल- त्तान्तः प्रतीयते । कण्डूलेल्यादिविशेषणेन द्रव्याणां दुरूहशास्त्रार्थसंदेहनिर्णयार्थमुपसन्नैः तैः तत्कृतोपदेशनिवृत्तसंशयतया संतुष्टैः भूमिपतिभिः समर्पितवं प्रतीयते । धर्मसंसितै- रित्यनेन तेषां कषाये कर्मणि पक्क' इति निवृत्तकामलोभादितया द्रव्याणां देवताराधन- तया प्रतिहतप्रदान प्रतीयते । छायापस्किरमाणेत्यनेन तेषां गृहेषु अतिथयः खयमागत्य भोज्यानि भुजत इति प्रतीयते । कूजलान्तेत्यनेन तेषां मध्याह्नकालप्रयुक्तश्रान्तियुक्त- नानाशाखाध्येतृनानाबटुसमाजपौष्कल्यं प्रतीयते । कुलायेत्यनेन तेषामनेककुटुम्बभरणं प्रतीयत इति सहृदया दयां कुर्वन्तु॥अत्र कुसुमपतनस्य गोदावरीपूजात्वोत्प्रेक्षा कृता। सा च गम्या वाचकशब्दप्रयोगाभावात् । तस्य भगवतः केनापि' इत्यारभ्य 'अय- मध्ययनप्रत्यूहः' इत्यन्तेन अष्टावक्रप्रवेशात् लक्ष्यस्य सीतावनप्रापणेनालक्ष्यस्य बीजस्योद्भेदात् प्रतिमुखसंधिरियम् । 'लक्ष्यालक्ष्यस्य बीजस्य व्यक्तिः प्रतिमुख मतम्' इति लक्षणात् । 'अप्येतत्तपोवनम्' इत्यारभ्य दृष्टनष्टपदार्थानुसरणरूपपरिसर्प उक्तः । 'हा रामभद्र' इति प्रमुखनिष्ठरवचनरूप वज्रमुक्तम् । 'सीताप्रतिकृतिः' इत्यादिनानुरा- गप्रकाशनरूपप्रगम उक्तः । 'वज्रादपि' इत्यत्रारत्युपशमनात्मक शम उक्तः। 'विसृष्टश्च वामदेवानुमन्त्रितः' इत्यारभ्य 'जनस्थान एव तपश्चरति' इत्यन्तेन ब्रह्मक्षत्रियशूद्राणां कीर्तनात् वर्णसंकर उक्तः । इय चूलिका । तदुक्तम्-'नेपथ्यान्तःस्थितैः पात्रैथूलि- कार्थस्य सूचनम्' इति॥९॥उद्यतः उन्नमितः॥ हे हस्तेति । दक्षिणहस्त अपसव्यहस्त, कृपाणं खङ्गं शुद्रमुनौ विसृज विमुञ्च । निर्भरः पूर्णः। विवासनं निष्कासनम् । पटोरित्यनेन 'छमना परिददामि' इत्येतद्विवक्षितम् । अत्र विध्यलंकारः॥१०॥प्रहृत्य प्रक्षिप्येत्यर्थः । .. .

द्वितीयोऽङ्कः। ५९ रामस्य वाहुरसि निर्भरगर्भखिन्न- सीताविवासनपटोः : करुणा कुतस्ते ॥ १० ॥ (कथचित्प्रहल ।) कृतं रामसदृशं कर्म । अपि जीवत्स ब्राह्मणपुत्रः । (प्रविश्य ।) दिव्यपुरुषः-जयतु देवः । दत्ताभये त्वयि यमादपि दण्डधारे संजीवितः शिशुरसौ मम चेयमृद्धिः । शम्बूक एष शिरसा चरणौ नतस्ते सत्सङ्गजानि निधनान्यपि तारयन्ति ॥ ११ ॥ रामः-द्वयमपि प्रियं नः । तद्नुभूयतामुग्रस्य तपसः परिपाकः । यत्रानन्दाश्च मोदाश्च यत्र पुण्याश्च संपदः । वैराजा नाम ते लोकास्तैजसाः सन्तु ते शिवाः ॥ १२ ॥ शम्बूकः-खामिन् , युप्मत्प्रसादादेवैष महिमा । किमत्र तपसा । अथवा महदुपकृतं तपसा । अन्वेष्टव्यो यदसि भुवने लोकनाथः शरण्यो मामन्विष्यन्त्रिह वृषलकं योजनानां शतानि । इद चिन्त्यम्-'दूरावानं वधम्' इत्यारभ्य 'एतान्युद्वेगकारित्वात् प्रयोगानुचितानि' इति तनिषेधात् । अनानिष्टवस्तुविक्षेपात् विधूतम् । कृतमिति । रामसदृश कर्म, न 'तु दशरथसदृशं कर्म । दशरथो ह्यबुद्धिपूर्वक शुगतापसवध कृतवान् । तथा च 'पितुः शतगुण पुत्रः' इति न्यायेन दोषविषय एव, न तु गुणविषय इति स्वोपालम्भ इह व्य- ज्यते। अपि जीवेदिति। अपिः संभावनायाम् । अशरीरवाण्या शिशुजीवननिश्चयेऽपि पावकवचनेन सीतायाः निर्दोषत्वनिश्चयेऽपि फलाभाववत् स्वीयदैव विपर्ययेणात्रापि तथा स्यादित्याशयः॥प्रविश्येति । दिव्यपुरुष.शम्बूकशरीरं विहाय देवत्वेनेति भावः। दत्ताभय इति । यमादपि दत्ताभये त्वयि दण्डधारे सतीत्यन्वयः । यमहेतुकभयनि- 'वारणदातरि यमशासितरि त्वयि सति असौ शिशुः बुद्धिस्थो ब्राह्मणशिशुः । निधनानि मरणानि तारयन्ति । संसाराब्धिमिति शेषः ॥ ११ ॥ तदिति । परिपाकः फलभूतः अनुभूयताम् । यति । आनन्दाः आत्मानुभवजन्याः हर्षाः । मोदाश्च दिव्यविषयानु- भवजन्या हपः। संपदः अणिमादिविभूतयः । वैराजा नाम वैराजा इति प्रसिद्धाः।।१२।। युष्मत्प्रलादेति । 'धातुः प्रसादान्महिमानमीदृशम्' इति श्रुतिः प्रत्यभिज्ञायते । किमत्र तपसा । तपसा किमत्रेत्यर्थः । अथवेति । तपःकर्तृको महोपकार इति भावः । तदुपपादयति-अन्वेष्टव्य इति । यदसीति प्रसिद्धवनिर्देशात् 'सोऽन्वेष्टव्यः' इति श्रुतिः प्रत्यभिज्ञायते । अनेन कारणत्वमप्युक्तम् । 'कारण तु ध्येयः' इति श्रुते. । न ६० उत्तररामचरिते क्रान्त्वा प्राप्तः स इह तपसां संप्रसादोऽन्यथा तु क्वायोध्यायाः पुनरुपगमो दण्डकायां वने वः ॥ १३ ॥ रामः-किं नाम दण्डकेयम् । (सर्वतोऽवलोक्य ।) हा, कथम् स्निग्धश्यामाः क्वचिदपरतो भीषणाभोगरूक्षाः स्थाने स्थाने मुखरककुभो झांकृतैर्निर्झराणाम् । एते तीर्थाश्रमगिरिसरिद्र्तकान्तारमिश्राः संदृश्यन्ते परिचितभुवो दण्डकारण्यभागाः ॥ १४ ॥ शम्बूकः-दण्डकैवैषा । अत्र किल पूर्व निवसता देवेन चतुर्दश सहस्राणि चतुर्दश च राक्षसाः । त्रयश्च दूषणखरत्रिमूर्धानो रणे हताः ॥ १५ ॥ येन सिद्धक्षेत्रेऽस्मिन्मादृशामपि जानपदानामकुतोभयः संचारः संवृत्तः । केवलं प्रधानहिरण्यगर्भादिवत् कारणत्वम् , किंतु निरुपाधिकखामित्वं स्वीकृतमित्या- ह-लोकनाथ इति । 'एष सर्वभूताधिपतिः' इति श्रुतिः प्रत्यभिज्ञायते । पूर्वोकान्वेष्ट- व्यत्वादिफलमाह-शरण्य इति । 'एष सर्वभूतपालः' इति श्रुतिः प्रत्यभिज्ञायते । तेन हि पालनसामर्थ्यमृते सर्वेश्वरत्वहानिरित्युपबृहणात् हरहिरण्यगर्भादीनां रक्षकत्वशङ्का- निरासः । इदं च घण्टाकर्णादिविषये स्पष्टम् । वृषलकं अज्ञातो वृषलो वृषलकः तम् । अज्ञाते कन्प्रत्ययः । अनेन प्रयासेनान्वेषणीयत्वं खस्य सूच्यते । अन्विष्यन् । न तु चारादिनान्वेषयन्निति भावः । योजनानां शतानि अयोध्यादण्डकयोः योजनेयत्तानिश्च- येऽपि एवमुक्तिः कृत्स्नभूमण्डलान्वेषणानन्तरं अत्र प्राप्त इति सूचयति । तन्मूलं तु 'पृथिव्यां तप्यते तपः' इति अशरीरवाण्या पृथिव्यामिति सामान्योक्तिः । प्राप्तः । नतु मां दूतैः प्रापितवानित्यर्थः । वृषलक इत्यत्र वृषं धर्म लुनातीति वृषल इति व्युत्पत्त्या 'शुश्रूषा शुद्रस्य' इत्युक्तखधर्मच्छेदेन खतन्त्रतपश्चरणरूपखदोषाधीनत्वं विवक्षितम् । तपसां संप्रसादः तपःकृतानुग्रहः । पुनरित्यनेन अपूर्ववनविलोकनस्पृहयान्यथासिद्धि- वारिता । वनपदं दण्डकायामपि गमनप्रदेशत्वसूचनार्थम् । एवं सर्वप्रकारेणापि दुर्घटभ- वदागमनसंघटकत्वात् तपसां प्रसाद इति भावः ॥१३॥स्निग्धेति । श्यामाः नीलाः। आभोगः विपुलावकाशः। रूक्षाः चित्तक्षोभकराः। गर्ताः अवटाः ॥१४॥चतुर्दशेति। दूषणखरत्रिमूर्धान इति । समासान्तविधेरनित्यत्वात् 'द्वित्रिभ्यां ष मूर्ध्नः' इति षप्रत्यया- भावः । केचित्तु दूषणखरत्रिमूर्धा नः इति पदद्वयं कृत्वा नः अस्माकं रणे दूषणखरत्रि- मूर्धाः हता इति षप्रत्ययान्तमेव समर्थयन्ते । अस्माकमिति रामेण समाधिना दिव्यपु. रुषवचनं पक्याभिप्रायकम् । वस्तुतस्तु नोशब्दः पृथक्पदमित्याश्रित्य अत्र निवसता देवेन दूषणखरत्रिमूर्धाः हताः । नो किमिति काका योजनीयम् । इय च प्रत्यभिज्ञापन शैली गौरव्यविषयेष्वनुभवसिद्धा ॥१५॥येनेति। सिद्धक्षेत्रे सिद्धिप्रदपुण्यक्षेत्रे अकुतो- ..

६ द्वितीयोऽङ्कः । रामः-न केवलं दण्डकैव, जनस्थानमपि । शम्बूकः-बाढम् । एतानि खलु सर्वभूतरोमहर्षणान्युन्मत्तचण्ड- श्वापदकुलाक्रान्तविकटगिरिगहराणि जनसानपर्यन्तदीर्वारण्यानि दक्षिणां दिशमभिवर्तन्ते । तथाहि । निप्कूजस्तिमिताः क्वचित्कचिदपि प्रोच्चण्डसत्त्वस्वनाः खेच्छासुप्तगभीरभोगभुजगश्वासप्रदीप्ताग्नयः । सीमानः प्रदरोदरेषु विरलस्वल्पाम्भसो या स्वयं तृप्यद्भिः प्रतिसूर्यकैरजगरस्वेदद्रवः पीयते ॥ १६ ॥ राम:- पश्यामि च जनस्थानं भूतपूर्वखरालयम् । प्रत्यक्षानिव वृत्तान्तान्पूर्वाननुभवामि च ॥ १७ ॥ (सर्वतोऽवलोक्य ।) प्रिया रामा हि वैदेह्यासीत् । एतानि नाम कान्ता- राणि । किमतः परं भयानकं स्यात् । (सालम् ।) त्वया सह निवत्स्यामि वनेषु मधुगन्धिषु । इतीवारमते हासौ स्नेहस्तस्याः स तादृशः ॥ १८ ॥ न किंचिदपि कुर्वाणः सौख्यैर्दुःखान्यपोहति । तत्तस्य किमपि द्रव्यं यो हि यस्य प्रियो जनः ॥ १९ ॥ भयः नास्ति कुतो भयं यस्येति विग्रहः॥ एतानीति। रोमहर्षणानि रोमाञ्चजनकानि। निष्कूजेति । निर्गताः कूजाः कूजितानि येभ्य इति विग्रहः । कूजितशून्या इत्यर्थः । 'कूज अव्यक्ते शब्दे' इत्यस्मात् भावे घञ्प्रत्ययः। सत्त्वानां जन्तूनाम् ।प्रदरोदराणि गुहा- मध्याः । प्रतिसूर्यकैः वक्रकृकलासकैः ॥ १६ ॥ पश्यामीति । भूतपूर्वो यः खरालयः तथाविधमित्यर्थः । भूतपूर्वः खरालयः खरगृहं यस्मिनिति वा । प्रत्यक्षानिव पुरोवर्त- 'मानानिव । अनुभवामि स्मृतिवैशयेन प्रत्यक्षीकरोमि ॥ १७ ॥ कान्ताराणि दुर्गमव- मानि । भयानकं भयजनकम् । त्वयेति । मधुगन्धः एषु अस्तीति मधुगन्धीनि तेषु बनेषु इह कान्तारेषु आरमते प्रीति प्राप्तवत्येव । कुत इत्यत आह-स्नेहस्तस्याः स तादृश इति । 'हृदयं त्वेव जानाति प्रीतियोगं परस्परम्' इत्युक्तरीत्या परिच्छेदातीत इत्यर्थः ॥१८॥ नेति । यस्य प्रियः प्रीतिमान् प्रीतिविषयो वा यः जनः किंचिदपि न कुर्वाणः सन् किंचित्कारलेशेनापि शून्यः सन् सौख्यैः खीयसुखैः करणैः दुःखान्यपो- इति नाशयति । तत् दुःखनाशहेतुभूतो जनः । विधेयप्राधान्यात् नगुसकत्वम् । तस्य उ० रा. ६ ६२ उत्तररामचरिते शम्बूकः-तदलमेभिर्दुरासदैः । अथैतानि मदकलमयूरकण्ठकोमल- च्छविभिरवकीर्णानि पर्यन्तैरविरलनिविष्टनीलबहुलच्छायातरुषण्डमण्डिता- न्यसंभ्रान्तविविधमृगयूथानि पश्यतु महाभागः प्रशान्तगम्भीराणि श्वापद- कुलशरण्यानि महारण्यानि । इह समदशकुन्ताक्रान्तवानीरमुक्त- प्रसवसुरभिशीतस्वच्छतोया वहन्ति । फलभरपरिणामश्यामजम्बूनि कुञ्ज- स्खलनमुखरभूरिस्रोतसो निर्झरिण्यः ॥ २० ॥ अपि च । दधति कुहरभाजामत्र भलूकयूना- मनुरसितगुरूणि स्त्यानमम्बूकृतानि । शिशिरकटुकषायः स्त्यायते सल्लकीना- मिभदलितविकीर्णग्रन्थिनिष्यन्दगन्धः ॥ २१ ॥ राम (सबाष्पस्तम्भम् ।) भद्र, शिवास्ते पन्थानो देवयानाः । प्रलीयस्व पुण्येभ्यो लोकेभ्यः । शम्बूक -यावत्पुराणब्रह्मर्षिमगस्त्यमभिवाद्य शाश्वतं पदमनुप्र- विशामि । (इति निष्कान्तः ।) अपोहनीयदुःखवतः पुरूषस्य किमपि विलक्षणं द्रव्यं भव्यवस्तु । 'द्रव्य च भव्ये' इत्य- नुशासनम् । यद्वा सौख्यैरिति इत्थभूतलक्षणे तृतीया । तथा च सौख्यैः विशिष्टः सुखितः प्रियः इष्टः यः जनः यस्य न किंचिदपि कुर्वाणः खरूपातिरेकिव्यापारलेशशून्यः सन् दुःखानि अपोहन्दि तदित्यादि पूर्ववत् । दुःखनिवृत्तिहेतुव्यापारलेशशून्यः सन्नपि स्वीय- सुखनिरिराष्टः यः खरूपेणैव यदुःखनिवृत्ति प्रति कारण तं प्रति तस्य निस्तुलभव्यद्रव्य- त्वमिति भावः । एवं चाह सीताविषये किचित्कारलेशशून्योऽपि सुखितः सन् तदुःखनि- वर्तक इति कान्तारगमनं युक्तमेवेति हृद्यस्थितोऽर्थः ॥१९॥ अथेति । पर्यन्तैः अ- पर्णप्रदेशैः । छायाप्रधानाः तरवः छायातरवः । प्रशान्तानि अनुद्वेगजननानि । इहे- ति । शकुन्ताः पक्षिणः । वानीराः वेतसविशेषाः । मुखराणि शब्दवन्ति भूरीणि स्रोतांसि यासां ताः॥२०॥द्धतीति । कुहरभाजांगुहावर्तिनां भल्लूकयूनां ऋक्षाणां अनुरसितेन अनुरणनेन गुरूणि महान्ति अम्बूकृतानि निष्ठीवनशब्दानि स्त्यानं वृद्धि वैपुल्य वा दधति भजन्ति । निष्यन्दः खरसद्रवः । स्त्यायते वर्धते विसरति वा॥२१॥ देवयानाः देवया- ननामकाः । ते च 'अग्निज्योतिरहः शुक्लः षण्मासा उत्तरायणम्' इत्युक्ताः। लोकेभ्यः .. . - .

द्वितीयोऽङ्कः । ६ - राम:- एतत्पुनर्वनमहो कथमद्य दृष्टं यस्मिन्नभूम चिरमेव पुरा वसन्तः । आरण्यकाश्च गृहिणश्च रताः स्वधर्मे सांसारिकेषु च सुखेषु वयं रसज्ञाः ॥ २२ ॥ एते त एव गिरयो विरुवन्मयूरा- स्तान्येव मत्तहरिणानि वनस्थलानि । आमञ्जुवचुलरुतानि च तान्यमूनि नीरन्ध्रनीपनिचुलानि सरित्तटानि ॥२३॥ मेघमालेव यश्चायमारादिव विभाव्यते । गिरिः प्रस्रवणः सोऽयमत्र गोदावरी नदी ॥ २४ ॥ अस्यैवासीन्महति शिखरे गृध्रराजस्य वास- स्तस्याधस्ताद्वयमपि रतास्तेषु पोटजेषु । गोदावर्याः पयसि विततानोकहश्यामलश्री- रन्तः कूजन्मुखरशकुनो यत्र रम्यो वनान्तः ॥ २५ ॥ अत्रैव सा पञ्चवटी यत्र निवासेन विविधविनम्भातिप्रसङ्गसाक्षिणः प्रदेशाः प्रियायाः प्रियसखी च वासन्ती नाम वनदेवता । किमिदमाप- तितमद्य रामस्य । संप्रति हि । चिराद्वेगारम्भी प्रसृत इव तीब्रो विषरसः कुतश्चित्संवेगात्प्रचल इव शल्यत्य शकलः । लोकाननुभवितुम् ॥ एतदिति । गृहिणः गृहमेधिनः । सांसारिकेषु जन्मफलभूतेषु १॥२२॥ एत इति । विरुवन्मयूराः कूजर्हिणः ॥ २३ ॥ मेघमालेति । मेघमालेब मेघमालासदृशः यः अय पुरोवर्तिपदार्थः आरादिव समीपस्थ इव विभाव्यते ज्ञायते । यत्र 'गिरौ गोदावरी नदी सः प्रस्रवणो गिरिः ॥२४॥ अस्यैवेति । मुखरशकुनः कूजत्प- क्षियुक्तः अत एव अन्तः कूजन् वय कूजनिव स्थितः ॥२५॥ यत्रेति । विसम्भाः खैरविलासाः । चिरादिति । तीव्रः स्पर्शदशायामपि दुःसहः । अनेन अज्ञातस्प- शविषविशेषव्यावृत्तिः । चिरात् भूयांसं कालं शमित्वा । वेगं वेदनाशैघ्य आरम्भयति उत्पादयतीति वेगारम्भी। अनेन पूर्वोक्तविषविशेषव्यावृत्तिः। प्रसृतः यत्राडल्यादौ स्पर्शः ततोऽन्यत्र सर्वाङ्गेषु प्रसृतः दलनादिना दुःसहप्रसरणः यः विषरसः तत्सदृश इत्यर्थः । रसशब्देन विशेषोत्कर्षों विवक्षितः । कुतश्चित् यस्मात् कस्माञ्चित् संवेगात् संभ्रमा- ६४ उत्तररामचरिते व्रणो रूढग्रन्थिः स्फुटित इव हृन्मर्मणि पुनः पुराभूतः शोको विकलयति मां नूतन इव ॥२६॥ तथाविधानपि तावत्पूर्वसुहृदो भूमिभागान्पश्यामि । (निरूप्य ।) अन- वस्थितो भूतसंनिवेशः । तथाहि । पुरा यत्र स्रोतः पुलिनमधुना तत्र सरितां विपर्यासं यातो घनविरलभावः क्षितिरुहाम् । बहोर्दृष्टं कालादपरमिव मन्ये वनमिदं निवेशः शैलानां तदिदमिति बुद्धिं द्रढयति ॥ २७ ॥ हन्त हन्त । परिहरन्तमपि मां पञ्चवटी स्नेहाङ्कलादाकर्षतीव । (सकरुणम् ।) यस्यां ते दिवसास्तया सह मया नीता यथा स्वे गृहे यत्संबन्धकथाभिरेव सततं दीर्घाभिरास्थीयत । एकः संप्रति नाशितप्रियतमस्तामेव रामः कथं पापः पञ्चवटी विलोकयतु वा गच्छत्वसंभाव्य वा ॥ २८ ॥ .. दिजन्यात् निर्घातात् प्रचलः शल्यस्य बाणाग्रस्य शकलः खण्ड इव स्थितः । स हि मरणभयादनुवृत एव तिष्ठति। रूढाः प्रादुर्भूताः ग्रन्थयः उपत्रणाः यस्मात् स तथोक्तः। स्फुटितः दलितः हृन्ममणि व्रण इव हृदयमर्मवर्तिव्रणसदृशः क्वाचित्कस्पर्शसार्वत्रिक- प्रसरणाभ्यां प्रथमः दृष्टान्तः । प्रतिकार्यत्वशङ्काव्युदासाय द्वितीयः । स्वल्पकालत्वव्या- वृत्तये तृतीयः । विशेषमाह-नूतन इवेति । विकलयति शून्य करोति ॥२६॥ अन- वस्थितो भूतसंनिवेशः अनियता पदार्थस्थितिः । पुरेति । बहोः कालात् दृष्टं बहुका- लमदृष्ट्वा दृष्टम् । ल्यब्लोपे पञ्चमी । यद्वा पूर्वदर्शनकालबहुविप्रकृष्टकाले दृष्टम्। 'सप्तमी- पञ्चम्यौ' इति पञ्चमी । तदिदमिति बुद्धि प्रत्यभिज्ञाम् । अत्र प्रस्तुतवृत्तान्तवर्णनात् अप्रस्तुतप्राणिकुटुम्बोपचयापचयपरिस्फूर्तिरिति कुवलयानन्दकृत् ॥ २७ ॥ यस्या- मिति । स्वे गृहे यथा यस्यां ते दिवसाः नीताः निरुपप्लवत्वरामणीयकादिभिः खगृहतुल्यायां यस्यां पञ्चवट्यां नीताः अतिवाहिताः । न केवलं रात्रयो नीताः कितु दिवसा अपि नीता इति दिवसपदेन व्यज्यते । तेन खगृहापेक्षया वैलक्षण्यमपि पञ्च- वट्याः । तत्र हि-राज्यतन्त्रादिना दिवसेषु न सहावस्थान घटते तया सह मयेति वा- न्वयः। स्वगृहे गुरुसंनिधितिरोहितप्रणयपारतव्यासंकोचात् खगृहाद्विशेषः । यत्संबन्धक- थाभिः कत्रीभिः । आस्थीयत । तिष्ठतेर्भावे लड् । एवकारेण वाग्व्यापारान्तरप्रतिषेधः। यत्कथाभिः इत्यनुक्त्वा यत्संबन्धकथाभिरित्युक्तेः पञ्चवटीपरिसरवर्तिनामपि रामणी- यक व्यज्यते । अत्र 'स्मरन्कमलपत्राक्षी रामः संध्यामुपागमत्' इत्युक्तरीत्या सर्वकाल बुद्धिस्थत्वात् तथेत्युक्तम् । तामेव, न तु यां कांचिदित्यर्थः । वियोगे हि रमणीयवस्तु- ..

द्वितीयोऽङ्कः। ६५ (प्रविश्य । शम्बूकः-जयतु देवः । भगवानगस्त्यो मत्तः श्रुतसंनिधानस्त्वा- माह--'परिकल्पितावरणमङ्गला प्रतीक्षते वत्सला लोपामुद्रा, सर्वे च महर्षयः । तदेहि । संभावयास्मान् । अथ प्रजविना पुष्पकेण स्वदेशमुपग- त्याश्वमेधसज्जो भव' इति । रामः-यथाज्ञापयति भगवान् । शम्बूकः-इत इतो देवः । रामः—(पुष्पकं प्रवर्तयन् ।) भगवति पञ्चवटि, गुरुजनादेशोपरोधा- तक्षणं क्षम्यतामतिक्रमो रामस्य । शम्बूकः-देव, पश्य । गुञ्जत्कुञ्जकुटीरकौशिकघटाघुक्कारवत्कीचक- स्तम्बाडम्बरमूकमौकलिकुलः क्रौञ्चाभिधोऽयं गिरिः । एतस्मिन्प्रचलाकिनां प्रचलतामुद्वेजिताः कूजितै- रुद्वेल्लन्ति पुराणरोहिणतरुस्कन्धेषु कुम्भीनसाः ॥ २९ ॥ दर्शनमात्र दुःसहम् , किं पुनः सहानुभूतरमणीयदर्शन दुःसहमिति। एकः केवलः । सीता- शून्य इति भावः । ननु राज्ञः शुद्धान्त एव स्थित्यहीयाः कथं सहगमनं घटते। पुरं प्रति गमने तु सुलभमेव तद्दर्शनमिति किमिहात्याहितमिति अत्राह-नाशितप्रियतम इति । नाशितत्वमपि दैवाधीन चेत् कथंचित् सह्यत एव, न तु तथा । कितु मदधीन एव नाश इति दुःखातिशयो व्यज्यते । ननु तर्हि यत्र सा तत्रैव गम्यतामित्यत्राह- पाप इति। मरणप्रतिबन्धकपापवानित्यर्थः । तथाप्येषः प्राणः स्फुरति न तु पापो विर- मति' इत्युक्तेः । असंभाव्य असंमान्य रामः पञ्चवटीं विलोकयतु । वेत्यन्यादृशशैल्यात् सर्वथा न मत्स्वरूपविलोकनमसंभाव्य गमन वेति व्यज्यते। संप्रति नाशितप्रियतम इत्यनेन आर्द्रदुःखवं व्यज्यते। सर्वथा प्रियारामेत्यारभ्य एतच्छ्रोकपर्यन्तमनुरागप्रकाश- नविशिष्टवचनरूपं पुष्प नाम संध्यगमुक्तम् ॥ २८ ॥ भगवानिति । मत्तः श्रुतं संनिधानं त्वत्सामीप्य येन सः । मत्त इति रामागमनाख्यातुः दिव्यपुरुषस्यागस्त्य प्रति गुरुप्रायत्व कवेरभिमतमिति व्यज्यते । 'आख्यातोपयोगे' इति पञ्चमीविधानात् । परि- कल्पितेति । आवरणमङ्गलं नीराजनादिकम् । लोपामुद्रा अगस्त्यपत्नी प्रतीक्षते कृत- क्षणा तिष्ठति । त्यक्तसर्वव्यापारा तिष्ठतीत्यर्थः । अथ प्रजविना प्रकृष्टवेगवता। एकदे- शिनेति ज्ञापनात् कर्मधारयादिनिः ॥ प्रवर्तयन् गमयन् । गुरुजनस्य अगस्त्यस्य आदे. शोपरोधात् आज्ञानुसरणाद्धेतोः । अतिक्रमः असंभाव्यगमनरूपः । अत्रेष्टजनानुन- यात् पर्युपासनं नाम संध्यगमुक्तम् ॥ गुञ्जदिति । कुजा एव कुटीराः गुञ्जन्तः अव्यक्तशब्दवन्तः कुञ्जकुटीराः येषां ते कौशिकघटाः घूकपतयः तासां घुक्काराः - ६ उत्तररामचरिते अपि च । एते ते कुहरेषु गद्दनदद्गोदावरीवारयो मेघालम्बितमौलिनीलशिखराः क्षोणीभृतो दाक्षिणाः । अन्योन्यप्रतिघातसंकुलचलत्कल्लोलकोलाहलै- रुत्तालास्त इमे गभीरपयसः पुण्याः सरित्संगमाः ॥ ३० ॥ (इति निष्क्रान्ताः सर्वे ।) द्वितीयोऽङ्कः। एषु सन्तीति तद्वन्तः कीचकाः तेषां रन्ध्रबतां वेणुविशेषाणां स्तम्बाः काण्डाः तेषा- माडम्बरः संभ्रमः तेन मूकानि जोषमासीनानि मौकलिकुलानि यस्य स तथोक्तः । क्रौञ्चाभिधोऽयं तन्नामकोऽयं गिरिः । प्रचलाकिनां मयूराणां रोहिणतरवः हरिचन्दन- वृक्षाः कुम्भीनसाः सपीः उद्वेल्लन्ति वेपन्ते। 'वेल्ल चलने' ॥ २९ ॥ एत इति । कुहरेषु गुहासु गद्गद यथा तथा नदन्ति शब्दवन्ति गोदावरीवारीणि येषु तथोक्ता । शिखरान मौलिः । पर्वताग्रं शिखरमिति इह भेदः । क्षोणीभृतः पर्वताः दाक्षिणाः दक्षि- गदिशावर्तिनः एते ते पूर्व भवता दृष्टाः । अन्योन्यप्रतिघातेन परस्परप्रत्यास्फालनेन संकुलाः निबिडाः चलन्तः कल्लोलाः तरङ्गाः तेषां कोलाहलैः कलकलैः उत्ताला: उल्बणाः सरित्संगमाः नदीसंगमाः ॥ ३० ॥ बाधूलवंशजनुषो भूसारजवीरराघवार्यस्य । उत्तररामचरित्रव्याख्यायामवसितो द्वितीयोऽङ्कः ।। इति श्रीवाधूलवीरराघवविरचितायां भवभूतिभावतलस्प- शिनीसमाख्यायामुत्तररामचरितव्याख्यायां द्वितीयोऽङ्कः।

तृतीयोऽङ्कः । (ततः प्रविशति नदीद्वयम् ।) एका—सखि मुरले, किमसि संभ्रान्तेव । मुरला-सखि तमसे, प्रेषितासि भगवतोऽगस्त्यस्य पन्या लो- पामुद्रया सरिद्वरां गोदावरीमभिधातुम् । जानास्येव यथा वधूपरित्या- गात्प्रभृति अनिर्भिन्नो गभीरत्वादन्तगूढघनव्यथः । पुटपाकप्रतीकाशो रामस्य करुणो रसः ॥ १ ॥ तेन च तथाविधेष्टजनकष्टविनिपातजन्मना प्रकृष्टगद्गदेन दीर्घशो- कसंतानेन संप्रति परिक्षीणो रामभद्रः । तमवलोक्य कम्पितमिव कुसुमसमबन्धनं मे हृदयम् । अधुना च रामभद्रेण प्रतिनिवर्तमानेन नियतमेव पञ्चवटीवने वधूसहनिवासविस्रम्भसाक्षिणः प्रदेशा द्रष्टव्याः । च निसर्गधीरस्याप्येवंविधायामवस्थायामतिगम्भीराभोगशोकक्षोभ- संवेगात्पदे पदे महाप्रमादानि शोकस्थानानि शङ्कनीयानि । तद्भगवति गोदावरि, त्वया तत्रभवत्या सावधानया भवितव्यम् । वीचीवातैः शीकरक्षोदशीतै- राकर्षद्भिः पद्मकिञ्जल्कगन्धान् । वधूपरित्यागात् स्नुषापरित्यागात् । अनिर्भिन्न इति । करुणो रसः इष्टजनबियो- गजन्यदुःखातिशयात्मकरसः पुटपाकप्रतीकाशः लोहादिमयसंपुटान्तर्वर्तिसंतापन- सदृश इत्यर्थः ॥ १॥ तेनेति । तथाविधेष्टजनस्य सीतायाः कष्टविनिपातात् दुःख- मयविक्षेपात जन्म उत्पत्तिः यस्य तथोक्तेन । प्रकृष्टोऽधिकः गद्गदः गद्गदशब्दः येन तथोक्तेन । 'प्रकर्षगद्गदेन' इति पाठे प्रकर्षेण गद्गदो यस्मिन्निति विग्रहः । दीर्घशोक- संतानेन दीर्घदुःखपरिवाहेण परिक्षीणः कार्यदौर्बल्यादियुक्तः । कुसुमेन समं बन्धनं यस्येति विग्रहः कुसुमसमबन्धनम् । तद्वत् सुच्छेदमित्यर्थः । अधुनेति । वधूसह- निवासे ये विनम्भाः खैरलीलाः तत्साक्षिणः तत् साक्षात्कर्तारः प्रदेशाः वनोद्देशाः नियतमित्यसंदेहवाचि । तत्रेति । गम्भीरः आभोगः आयामः यस्य तथोक्तः यः शोकः तेन जातस्य क्षोभस्य प्रकृतिविपर्यासस्य संवेगातू वेगातिशयातू । महान् प्रमादः अनवधानता येषु तथोक्तानि । संज्ञाच्छेदकारीणीत्यर्थः । शोकस्थानानि जगतां शोक- निमित्तानि । रामात्याहितानीति भावः । सावधानया अवधान मनसो विषयान्तरसंचार- विमुखता तत्सहितया ॥ वीचीति । शीकराणां क्षोदैः सूक्ष्मांशैः । पद्मकि- अल्कानां अरविन्दकेसराणां गन्धान् सौरभ्याणि आकर्षद्भिः हरद्भिः । शीकरक्षोदेत्य- ..

६८ उत्तररामचरिते मोहे मोहे रामभद्रस्य जीवं खैर खैरं प्रेरितैस्तर्पयेति ॥ २ ॥ तमसा-उचितमेव दाक्षिण्यं स्नेहस्य । संजीवनोपायस्तु मूलत एव रामभद्रस्य संनिहितः। मुरला-कथमिव । तमसा-तत्सर्वं श्रूयताम् । अस्ति खलु वाल्मीकितपोवनोपकण्ठात्प- रित्यज्य निवृत्ते सति लक्ष्मणे सीता देवी प्राप्तप्रसववेदनमतिदुःखसंवेगा- दात्मानं गङ्गाप्रवाहे निक्षिप्तवती । तदैव तत्र दारकद्वयं च प्रसूता भग- वतीभ्यां पृथ्वीभागीरथीभ्यामप्युभाभ्यामभ्युपपन्ना रसातलं च नीता । स्तन्यत्यागात्परेण दारकद्वयं च तस्य प्राचेतसस्य महर्षेर्गङ्गादेव्या सम- पितं खयम् । मुरला-(सविस्मयम् ।) ईदृशानां विपाकोऽपि जायते परमाद्भुतः । यत्रोपकरणीभावमायात्येवंविधो जनः ॥ ३ ॥ तमसा-इदानीं तु शम्बूकवृत्तान्तेनानेन संभावितजनस्थानं रा- मभद्रं सरयूमुखादुपश्रुत्य भगवती भागीरथी यदेव लोपामुद्रया स्नेहा- दभिशङ्कितं तदेवाभिशङ्कय सीतासमेता केनचिदिव गृहाचारव्य- पदेशेन गोदावरीमुपागता । - नेन शैत्यमुक्तम् । पद्मकिञ्जल्कगन्धानित्यनेन सौरभ्यमुक्तम् । आकर्षद्भिरित्यनेन मान्द्यमुक्तम् । वहनाशकावेव कर्षणसंभवात्। खैरं निःशङ्कम् । अत्र खैरमित्युक्त्या सुर- भिशीतलमृदुवाता अपि विरहिणामनर्थकारिण इति न शङ्कथम् । विरहिणां चैतन्यदशा- यामेव दुःसहा इमे । मूर्च्छितानांतु प्राणप्रतिष्ठापनकरा एव । नातस्त्वयातिशङ्का कर्तव्ये- ति व्यज्यते ॥ २ ॥ उचितमिति । दाक्षिण्यं सामर्थ्य ऊहापोहात्मकज्ञानवत्त्व वा । मूलतः । सीताङ्कुरात् मूलमिति सीतोच्यते । मौलिक इति पाठेऽप्यर्थः प्रागिव ॥ वाल्मीकीति । प्राप्तप्रसववेदनं जातप्रसवदुःखम् । आत्मानं खम्। दारकद्वयं शिशु- द्वयम् । प्रसूता प्रसूतवती । अभ्युपपन्ना संगता। स्तन्यत्यागात् परेण स्तन्यत्यागानन्तरम् ।। ईदृशानामिति । विपाकः दशा। उपकरणीभावमुपकरणत्वम् ॥ ३॥ इदानीं त्विति । उपश्रुत्याकर्ण्य । तत् सर्व श्रूयतामित्यारभ्य ऋषिश्रेयोवितरणरूपबीजस्य अन्वेषणात् गर्भसंधिरयम् । 'गर्भस्तु दृष्टनष्टस्य बीजस्यान्वेषणं मुहुः' इत्युक्तेः । केनचिदिव गृहाचारव्यपदेशेनेत्यत्र प्रस्तुतोपयोगिच्छमाचरणरूपं अभूताहरण नाम तृतीयोऽङ्कः । ६९ मुरला-सुष्ठ चिन्तितं भगवत्या भागीरथ्या । राजनीतिस्थितस्यास्य खलु तैश्च तैश्च जगतामाभ्युदयिकैः कार्येापृतस्य रामभद्रस्य नियता- श्चित्तविक्षेपाः । अव्यग्रस्य पुनरस्य शोकमात्रद्वितीयस्य पञ्चवटीप्रवेशो महाननर्थ इति । कथं सीतया रामभद्रोऽयमाश्वासनीयः स्यात् । तमसा-भगवत्या भागीरथ्या 'वत्से देवयजनसंभवे सीते, अद्य खल्वायुप्मतोः कुशलवयोर्द्वादशस्य जन्मवत्सरस्य संख्यामङ्गलग्र- न्थिरभिवर्तते । तदात्मनः पुराणश्वशुरमेतावतो मानवस्य राजर्षिवंशस्य प्रसवितारं सवितारमपहतपाप्मानं देवं स्वहस्तापचितैः पुष्पैरुपतिष्ठख । न त्वामवनिपृष्ठवर्तिनीमस्मत्प्रभावाद्वनदेवता अपि द्रक्ष्यन्ति किमुत माः' इति । अहमप्याज्ञापिता 'तमसे, त्वयि प्रकृष्टप्रेमैव वधूर्जानकी । अतस्त्वमेवास्याः प्रत्यनन्तरीभव' इति । साहमधुना यथादिष्टमनुतिष्ठामि । मुरला-अहमप्येतं वृत्तान्तं भगवत्यै लोपामुद्रायै निवेदयामि । रामभद्रोऽप्यागत एवेति तर्कयामि । तमसा-तदियं गोदावरीहदान्निर्गत्य परिपाण्डुदुर्बलकपोलसुन्दरं दधती विलोलकबरीकमाननम् । करुणस्य मूर्तिरथवा शरीरिणी विरहव्यथेव वनमेति जानकी ॥ ४ ॥ संध्यङ्गमुक्तम् ॥ सुष्ठिति । राजनीतिस्थितस्य क्षत्रियोचितराज्यपरिपालनात्मकध- मनिष्ठस्य । अभ्युदयाय भवन्तीत्याभ्युदयिकानि इति विग्रहः । तैः आभ्युदयिकैः । चि- त्तविक्षेपाः हृदयतोदाः । अव्यग्रस्य व्यापारान्तरशून्यस्य । अनर्थः तद्दुःखहेतुः । एष तत्त्वार्थानुकीर्तनरूपो मार्ग उक्तः ॥ द्वादशस्य जन्मवत्सरस्य संख्यामङ्गलग्रन्थि- रभिवर्तते संख्यापूर्तिहेतुकमङ्गलग्रन्थिः । वत्सरे वत्सरे शिशूनां जन्मनक्षत्रे शान्त्यु- त्सवं कृत्वा मङ्गलार्थ करे पटसूत्रादिना स्त्रियो ग्रन्थि कुर्वन्ति । स तु करे वलयरूपेण ति. छतीत्युपदेशः । मानवस्य मनुसंबन्धिनः । प्रसवितारं जनकम् । अपहतपाप्मानं निरस्तस- मस्ताविद्यादिदोषगन्धम् । देवं जगत्सृष्टयादिलीलाशालिनम् । अत्र 'एष सर्वेभ्यः पाप्म- भ्य उदेति' इत्यन्तरादित्य विद्याप्रत्यभिज्ञापिता । तत्र च कप्यासश्रुत्या नारायण एव प्रतिपाद्य इति स्पष्टमेव । उपतिष्ठव सेवस्व । अत इति । प्रत्यनन्तरीभव अनु- चरीभव ॥ रामभद्र इति । तर्कयामि अनुमिनोमि ॥ परिपाण्ड्विति । करु- णस्य इष्टवियोगजन्यदुःखातिशयस्य मूर्तिः आकारो वा । विरहव्यथा विरहजन्यसंता. ..

उत्तररामचरिते मुरला- -इयं हि सा किसलयमिव मुग्धं बन्धनाद्विप्रलूनं हृदयकमलशोषी दारुणो दीर्घशोकः । ग्लपयति परिपाण्डु क्षाममस्याः शरीरं शरदिज इव धर्मः केतकीगर्भपत्रम् ॥ ५ ॥ (इति परिक्रम्य निष्क्रान्ते।) इति शुद्धविष्कम्भः। (नेपथ्ये।) जात जात। (ततः प्रविशति पुष्पापचयव्यग्रा सकरुणौत्सुक्यमाकर्णयन्ती सीता।) सीता-अम्हहे, जाणामि पिअसही वासन्दी वाहरदित्ति । (पुनर्नेपथ्ये।) सीतादेव्या स्वकरकलितैः सल्लकीपल्लवा?- रग्रे लोलः करिकलभको यः पुरा वर्धितोऽभूत् । सीता- -किं तस्स। (पुनर्नेपथ्ये ।) वध्वा सार्ध पयसि विहरन्सोऽयमन्येन दर्पा- दुद्दामेन द्विरदपतिना संनिपत्याभियुक्तः ॥ ६ ॥ १. अहो, जानामि प्रियसखी वासन्ती व्याहरतीति २. किं तस्य । पादिरूपा ॥४॥ किसलयमिति । परिपाण्डु उक्तरीत्या अतिम्लानत्वेऽपि लाव- ण्याविरोधिपाण्डुतोक्ता। ग्रीष्मविरहतापयोरयमेव विशेषः । यत् ग्रीष्मस्य लावण्यनाशक- खम् , विरहस्य तु तदभाव इति । तथा च कालिदास:--'समस्तापः कामं मनसिजनिदाघ- प्रसरयोर्नतु ग्रीष्मस्यैवं सुभगमपराद्ध युवतिषु'इति । एवं सुभगं न । एवं लावण्यापरित्यागेन रमणीयं न भवतीत्यर्थः । तथाह भगवान वाल्मीकिः-'ज्योत्स्ना तुषारमलिना पौर्णमा- स्यां हि लक्ष्मण । सीतेव चातपश्यामा दृश्यते न च शोभते ॥' इति । ग्रीष्मस्यातपश्यामेति लावण्यनाशकत्वम् । क्षामं कृशं ग्लपयति म्लान करोति । शरदिजः शरत्कालजः। 'प्रावट शरत्' इत्यादिसूत्रेणालुक् । अत्र लिङ्गादभ्यूहनरूपं अनुमानं नाम संध्यगमुक्तम् ॥ ५॥ शुद्धविष्कम्भ इति । संस्कृतात्मकविष्कम्भ इत्यर्थः । विष्कम्भस्वरूपं तु-'वृत्तवर्ति- ध्यमाणानां कथांशानां निदर्शकः । संक्षेपार्थस्तु विष्कम्भो मध्यपात्रप्रयोजितः ॥ इति । केवलसंस्कृतप्रायः शुद्ध इति ॥ व्याहरति वदति ॥ सीतेति । स्वकरकलितैः .

तृतीयोऽङ्कः। सीता--(सनंत्रमम् । कतिचिन्पदानि गन्वा ।) अजउत्त, परित्ताहि परित्ताहि मह पुत्तअन् । (विचिन्य।) हद्धी हद्धी । ताई एव चिरपरिइदाई अक्खराई पञ्चवटीदसणेण मं मन्दभाइणिं अनुबन्धन्ति । हा अजउत्त । (इति मूर्च्छति ।) (प्रविश्य।) तमसा-समाश्वसिहि समाश्वसिहि । (नेपथ्ये।) विमानराज, अत्रैव स्थीयताम् । सीता--(ससाध्वसोल्लासम् ।) अम्हहे, जलभरभरिअमेहमन्थरत्थणिअ- गम्भीरमंसलो कुदो णु भारईणिग्योसो भरन्तकण्णविवरं मं वि मन्दभा- इणिं झत्ति उस्सुआवेइ । तमसा-(सस्मितास्त्रम् ।) अयि वत्से, अपरिस्फुटनिकाणे कुतस्त्येऽपि त्वमीदृशी । स्तनयित्नोमयूरीव चकितोत्कण्ठितं स्थिता ॥ ७ ॥ सीता-भैअवदि, किं भणासि अपरिप्फुडेत्ति । सरसंजोएण पच्च- हिजाणामि णं अजउत्तेण एव एवं वाहरिदम् । १. आर्यपुत्र, परित्रायस्व परित्रायख मम पुत्रकम् । हा धिक् हा धिक् । नान्येव चिरपरिचितान्यक्षराणि पञ्चवटीदर्शनेन मां मन्दभागिनीमनुबध्नन्ति । हा आर्यपुत्र । २. अहो, जलभरभरितमेघमन्थरस्तनितगम्भीरमांसलः कुतो नु भारती- निर्घोषो नियमाणकर्णविवरां मामपि मन्दभागिनी झटित्युत्सुकापयति । ३. भगवति, किं भणस्यपरिस्फुटेति । स्वरसंयोगेन प्रत्यभिजानामि नन्चार्य- पुत्रेणैवैतद्ध्याहृतम् । वकराभ्यां दत्तरित्यर्थः । वध्वा सार्धे स्त्रिया सह। उद्दामेन उत्कटेन संनिपत्य स्वयमापत्य । अभियुक्तः प्रत्यर्थितया संगतः ॥ ६॥ आर्यपुत्रेति । परित्रायस्वेति । एष ह्यप- कारिजनात् भीतिरूप उद्वेग उक्तः । तानीति । अक्षराणि आर्यपुत्रेति वर्णाः । अनु- बध्नन्ति अनुसरन्ति । मन्दभागिनी अल्पपुण्यफलाम् ॥ जलेति । मांसलः स्फीतः । भारतीनिर्घोषः वर्णोचारणध्वनिः । उत्सुकापयति उत्कण्ठितां करोति ॥ स्वरसंयोगेन २ , उत्तररामचरिते तमसा-श्रूयते तपस्यतः किल शूद्रन्य दण्डवारणार्थमैक्ष्वाको राजा दण्डकारण्यमागत सीता-दिडिआ अपरिहीणधम्मो सो राआ। (नेपथ्ये ।) यत्र द्रुमा अपि मृगा अपि बन्धवो मे यानि प्रियासहचरश्चिरमध्यवात्सम् । एतानि तानि बहुकन्दरनिर्झराणि गोदावरीपरिसरस्य गिरेस्तटानि ॥ ८ ॥ सीता-दिडिआ कहं पहादचन्दमण्डलापण्डरपरिक्खामदुब्वलेन आआरेण णिअसोम्हगम्भीराणुभावमेत्तपञ्चहिजाणिज्जो एव अजउत्तो होदि । भअवदि तमसे, धारेहि मम् । (इति तमसामाश्लिष्य मूर्च्छति ।) तमसा-वत्से, समाश्वसिहि समाश्वसिहि । (नेपथ्ये ।) अनेन पञ्चवटीदर्शनेन अन्तर्लीनस्य दुःखानेरद्योदामं ज्वलिष्यतः । उत्पीड इव धूमस्य मोहः प्रागावृणोति माम् ॥ ९ ॥ हा प्रिये जानकि । १. दिष्टथा अपरिहीनधर्मः स राजा । २. दिष्टया कथं प्रभातचन्द्रमण्डलापाण्डरपरिक्षामदुर्वलेनाकारेण निजसौ- म्यगम्भीरानुभावमात्रप्रत्यभिज्ञेय एवार्यपुत्रो भवति । भगवति तमसे, धारय माम् । खरसंदर्भेण प्रत्यभिजानामि तदिदमिति वेभि ॥ श्रूयत इति । तपस्यतः तपश्च- रतः । कण्डादिरयम् । दण्डधारणार्थम् अपराधानुगुगशिक्षणार्थम् । ऐश्वाकः इक्ष्वाकु- वेश्यः । 'दाण्डिनायन-' इत्यादिसूत्रेण टिलोपः ॥ अपरिहीनधर्मः अन्यूनधर्मः ॥ यत्रेति । अध्यवात्सम् उषितवानस्मि । 'उपान्वध्यावसः' इति कर्मत्वम् । एतानीति । गोदावरीपरिसरस्य गोदावरीसमीपवर्तिनः ॥ ८॥ परिक्षामदुर्बलेन दुर्बलायमानेन । पाठान्तरम् ‘परिक्षामधूसरेण' इति । अतिकृशेन दुर्बलेन चेत्यर्थः ॥ अनुभावमात्र- प्रत्यभिज्ञेयः प्रभावेन केवलं प्रत्यभिज्ञातुं शक्यः ॥ अन्तलीनस्येति । अन्तली- नस्य अन्तगूढस्य । उद्दाम उल्बणं यथा तथा अद्य ज्वलिष्यतः एतदव्यवहितोत्तरक्षणभा- तृतीयोऽङ्कः। तमसा-(खगतम् ।) इदं तावदाशङ्कितं गुरुजनेन । सीता-(समाश्वस्य ।) हा, कहं एदम् । (पुनर्नेपथ्ये ।) हा देवि दण्डकारण्यवासप्रियसखि विदेहराजपुत्रि । (इति मूर्च्छति ।) सीता-हैद्धी हद्धी । मं मन्दभाइणिं वाहरिअ आमीलिदणेत्तणी- लुप्पलो मुच्छिदो एव । हा, कहं धरणिपिढे णिरुद्धणिस्सासणीसहं विप- न्हत्थो । भअवदि तमसे, परित्ताएहि परित्ताएहि । जीवावेहि अज्जउत्तम्। (इति पादयो. पतति) तमसा- त्वमेव ननु कल्याणि संजीवय जगत्पतिम् । प्रियस्पर्शो हि पाणिस्ते तत्रैष निरतो जनः ॥ १० ॥ सीता-जं होदु तं होदु । जह भअवई आणवेइ । (इति ससंभ्रम निष्क्रान्ता ।) १. हा, कथमेतत् । २. हा धिक् हा धिक् । मां मन्दभागिनीं व्याहृत्यामीलितनेत्रनीलोत्पलो मूच्छित एव । हा, कथं धरणिपृष्ठे निरुद्धनिःश्वासनिःसहं विपर्यस्तः । भगवति तमसे, परित्रायस्व परित्रायस्व । जीवयार्यपुत्रम् । ३. यद्भवतु तद्भवतु । यथा भगवत्याज्ञापयति । विज्वलनवत. धूमस्य उत्पीड इव धूमसंबन्धिसंघात इव संमर्द इवेति वा । मोहः मूछी प्राक् ज्वलनात् पूर्वम् । आवृणोति संछादयति ॥ ९॥ इदमिति । गुरुजनेन । लोपामुद्राप्रभृतिनेत्यर्थः । एष संचितार्थप्राप्तिरुपक्रम उक्तः ॥ हेति । धरणीपृष्ठे भूतले निरुद्धनिःश्वासनिःसहं निरुद्धः प्रवृत्तिहीनः नि.श्वासः यस्मिन् कर्मणि तद्यथा भवति तथा निःसहं दुर्बलं विपर्यस्तः ॥ त्वमेवेति । त्वमेव ननु कल्याणीत्यस्याय भावः । त्वयैवायं संजीवनीयः इति चिरंतनी प्रसिद्धिः । 'आनीदवात खधया तदेकम्' इति श्रुत्यायमर्थोऽवगम्यते। एक जगतां प्रलीनत्वादसहायम् । अतो निर्व्यापारम् । तत् परं ब्रह्म स्वधया 'ल सिद्धिस्त्व खधा खाहा' इति स्वधाशब्दवाच्यया लक्ष्म्या आनीद- जीवत् इति । एव च अद्य कथमह वैदेशिकी जीवयामि त्वमेव जीवयेति । अत्र मां मन्दभागिनीमित्यारभ्य परित्रायस्वेत्यन्तसंदर्भेण शङ्कात्रासरूपसंभ्रम उक्तः ॥ १० ॥ उ० रा. ७ ७४ उत्तररामचरिते .. . (ततः प्रविशति भूम्यां निपतितः सास्त्रया सीतया स्पृश्यमानः साहादोच्छ्वासो रामः ।) सीता-(किंचित्सहर्षम् ।) जाणे उण पच्चाअदं विअ जीविअं तेल्लोकस्स। रामः-हन्त भोः, किमेतत् । आश्च्योतनं नु हरिचन्दनपल्लवानां निष्पीडितेन्दुकरकन्दलजो नु सेकः । आतप्तजीवितपुनः परितर्पणोऽयं संजीवनौषधिरसो हृदि नु प्रसक्तः ॥११॥ अपि च । स्पर्शः पुरा परिचितो नियतं स एव संजीवनश्च मनसः परितोषणश्च । संतापजां सपदि यः परिहृत्य मूर्छा- मानन्दनेन जडतां पुनरातनोति ॥ १२ ॥ सीता-(ससाध्यसकरुणमुपसृत्य ।) ऐत्ति एव दाणिं मह बहुदरम् । रामः-(उपविश्य ।) न खलु वत्सलया देव्याभ्युपपन्नोऽस्मि । सीता-हद्धी हद्धी । किंति अजउत्तो में णिन्दिस्सदि । राम:-भवतु । पश्यामि । १. जाने पुनः प्रत्यागतमिव जीवितं त्रैलोक्यस्य । २. एतावदेवेदानीं मम बहुतरम् । ३. हा धिक् हा धिक् । किमित्यार्यपुत्रो मां निन्दिष्यति । आह्लादः आनन्दः, उच्छ्वासः श्वाससंचारः, ताभ्यां सहितं यथा तथा ॥ जान इति । प्रत्यागतं पुनरागतम् । त्रयाणामपि लोकानां राममयजीवितत्वात् रामजीवने तज्जी- वनमिति भावः । तदुक्तम्-'रामो रामो राम इति प्रजानामभवन्कथाः । रामभूत जगदभूद्रामे राज्य प्रशासति ॥' इति ॥ आश्योतनमिति । हरिचन्दनपल्लवानां आश्चयोतनं नु कल्पतरुकिसलयरसक्षरणाद्वीकरण किम् । कन्दलजः अङ्कुरजः ॥ ११ ॥ स्पर्श इति । संजीवनश्च प्राणधारणहेतुभूतश्च परितोषणश्च आह्लादज- नकश्च मूच्छी प्रज्ञाशून्यता आनन्दनेन जडतां आनन्दाधिक्यप्रयुक्तप्रज्ञाशून्यतां आतनोति आ समन्तात् विस्तारयति ॥ १२ ॥ एतावदेव मत्स्पर्शे पुरा परिचितत्वकथन- मेव । इदानीं वियोगसमये ॥वत्सलया प्रीतिमत्या मदीयदोषं सहमानया वा । अभ्युपप- नोऽस्मि अनुगृहीतोऽस्मि । इद इष्टजनातिसंधानात्मकमतिबलं नाम संध्यगमुक्तम् ॥ .

- A तृतीयोऽङ्कः । सीता-भअवदि तमसे, ओसरम्ह दाव । मं पेक्खिअ अणभणु- ण्णादेण संणिहाणेण राआ अहिअं कुप्पिस्सदि । तमसा-अयि वत्से, वत्से, भागीरथीप्रसादाद्वनदेवतानामप्यदृश्यासि संवृत्ता। सीता-अस्थि खु एदम् । रामः- हा प्रिये जानकि । सीता-(ससाध्वसगद्गदम् ।) अजउत्त, असरिसं क्खु एवं इमस्स वुत्त- न्दस्स । (सास्त्रम् ।) भअवदि, किंति वजमई जम्मन्तरेसु वि पुणो वि असं- भाविअदुल्लहदसणस्स मं एव मन्दभाइणि उद्दिसिअ एवं वच्छलस्स एवंवादिणो अजउत्तस्स उवरि णिरणुक्कोसा भविस्सम् । अहं एब एदस्स हिअअं जाणामि, मह एसो। रामः--(सर्वतोऽवलोक्य सनिर्वेदम् ।) हा, न किंचिदत्र । सीता-भैअवदि, णिकारणपरिच्चाइणो वि एदस्स दंसणेण एवंवि- घेण कीलिसी मे हिअआवत्था । १. भगवति तमसे, अपसराव तावत् । मां प्रेक्ष्यानभ्यनुज्ञातेन संनिधानेन राजाधिकं कोपिष्यति । २. अस्ति खल्वेतत् । ३. आर्यपुत्र, असदृशं खल्वेतदस्य वृत्तान्तस्य । भगवति, किमिति वज्र- मयी जन्मान्तरेष्वपि पुनरप्यसंभावितदुर्लभदर्शनस्य मामेव मन्दभाग्यामुद्दिश्यैवं वत्सलस्यैवंवादिन आर्यपुत्रस्योपरि निरनुक्रोशा भविष्यामि । अहमेवैतस्स हृदयं जानामि, ममैषः। ४. भगवति, निष्कारणपरित्यागिनोऽप्येतस्य दर्शनेनैवंविधेन कीदृशी मे हृदयावस्था। अनभ्यनुज्ञातेन अननुमतेन । संनिधानेन समीपस्थित्या ॥ आर्यपुत्रेति । एतत् प्रिये- त्यामन्त्रणम् । अस्य वृत्तान्तस्य । परित्यागरूपस्येत्यर्थः । वज्रमयी अत्यन्तकाठिन्य- युक्ता । मन्दभाग्यां मामुद्दिश्य वत्सलस्य निर्दोषत्वनिश्चयपूर्वक मयि प्रीतिमतः निरनु- क्रोशा निर्दया । अनुक्रोशपदेन रामदशामिमां दृष्ट्वा मुक्तकण्ठं मया रोदितव्यम् । तत् किमेव कठिना भवामीति व्यज्यते । अनुक्रोशति मुक्तकण्ठं रोदित्यनेनेति अनुक्रोशः' इत्यमरव्याख्या ॥कीदृशी मे हृदयावस्था । आर्यपुत्र, परित्रायस्व मम पुत्रकमित्यारभ्य उत्तररामचरिते -- तमसा-जानामि वत्से, जानामि । तटस्थं नैराश्यादपि च कलुषं विप्रियवशा- द्वियोगे दीर्घऽस्मिञ्झटितिघटनास्तम्भितमिव । प्रसन्नं सौजन्याद्दयितकरुणैर्गाढकरुणं द्रवीभूतं प्रेम्णा तव हृदयमस्मिन्क्षण इव ॥ १३ ॥ राम:- देवि, प्रसाद इव मूर्तस्ते स्पर्शः स्नेहाशीतलः । अद्याप्यानन्दयति मां त्वं पुनः कासि नन्दिनि ॥ १४ ॥ सीता-एदे क्खु अगाधमाणसदंसिदसिणेहसंभारा आणन्दणिस्स- न्दिणो सुहामआ अजउत्तस्स उल्लावा । जाणे पच्चएण णिकालणपरि- चाअसल्लिदोवि बहुमदो मह जम्मलाहो । १. एते खल्वगाधमानसदर्शितस्नेहसंभारा आनन्दनिष्यन्दिनः सुधामया आर्यपुत्रस्योल्लापाः । जाने प्रत्ययेन निष्कारणपरित्यागशल्यितोऽपि बहुमतो मम जन्मलाभः। ममाप्येष इत्यन्तेन संदर्भण प्रतिपादिता मम हृदयावस्था कीदृशीत्यर्थः ॥ तटस्थ- मिति । तव हृदयं अस्मिन् क्षणे नैराश्यात् तटस्थमिवेत्यादिविभिन्नवाक्यतया योजना । नैराश्यात् प्रत्याशाभावात् तटस्थं प्रसादकालुष्यादिरहितम् । विप्रियवशात् कलुष परित्यागरूपादप्रियाद्धेतोः कलुषं क्रोधयुक्तम् । दीर्घ अस्मिन् वियोगे आमर- णान्तभावित्वेन ज्ञातेऽस्मिन् विरहे झटितिघटनात् आकस्मिकसंघटनात् स्तम्भित- मिव विस्मयस्तिमितमिव सौजन्यात् प्रकृत्या कल्याणत्वात् प्रसन्नं भविष्यतानुसंधानेन निवृत्तकालुष्यम्। दयितकरुणैः रामस्य दुःखात्मकावस्थाविशेषैः गाढकरुणं परदुःखदुःखि- त्वरूपकरुणासान्द्रम् । प्रेम्णा प्रणयेन द्रवीभूतं विलीनम् । अत्र तटस्थं नैराश्यादित्यनेन तान्येव चिरपरिचितान्यक्षराणीतिवाक्याभिमता सीतावस्था प्रतिपादिता । अपि च कलुष विप्रियवशादित्यनेन असदृशं खल्वमुष्य वृत्तान्तस्येत्येतद्वाक्याभिमतावस्था प्रतिपादिता । वियोगे दीर्धेऽस्मिन्नित्यनेन कथं प्रभातचन्द्रमण्डलेत्यादिविवक्षितावस्था प्रतिपादिता । कथमित्यस्य विस्मयार्थकत्वात् । प्रसन्न सौजन्यादित्यनेन अथ वा किमिति वज्रमयीवेत्यादिप्रतिपादितावस्था दर्शिता । दयितकरुणैर्गाढकरुणमित्यनेन हा धिकू इद मां मन्दभागिनीं व्याहृत्येत्यादिवाक्यविवक्षितावस्था प्रतिपादिता । द्रवीभूतं अम्णेत्यनेन उत्सुकयति उत्कण्ठित स्थितमित्यादिवाक्यप्रतिपादितावस्थोक्ता ॥ १३ ॥ प्रसाद इति । स्नेहार्द्रशीतलः स्नेहार्द्रश्चासौ शीतलश्चेति विग्रहः । स्नेहहेतुकत्वात् स्नेहा- ईत्वम् ॥१४॥ प्रत्ययेन विश्वासेन । शल्यितोऽपि शल्यवान्कृतोऽपि । 'तदस्य संजा.

तृतीयोऽङ्कः ।
राम:-अथवा कुतः प्रियतमा । नूनं संकल्पाभ्यासपाटवोपादान
एष भ्रमो रामभद्रस्य ।
(नेपथ्ये ।)
अहो, महान्प्रमादः प्रमादः । ('सीतादेव्याः खकरकलितैः' इत्यर्थ
,
पठ्यते ।)
राम:--(सकरुणौत्सुक्यम् ।) किं तस्य ।
(पुनर्नेपथ्ये ।)
('वध्वा सार्ध' इत्युत्तरार्धे पठ्यते ।)
सीता–को दाणिं अभिजुज्जइ ।
रामः--वासौ दुरात्मा यः प्रियायाः पुत्रं वधूद्वितीयमभिभवति ।
(इत्युत्तिष्ठति ।)
(प्रविश्य।)
वासन्तिका-(संभ्रान्ता ।) देव, त्वर्यतां त्वर्यताम् ।
सीता—हो, कहं मे पिअसही वासन्तिआ ।
रामः-कथं देव्याः प्रियसखी वासन्तिका ।
वासन्ती-देव, त्वर्यतां त्वर्यताम् । इतो जटायुशिखरस्य दक्षिणेन
सीतातीर्थेन गोदावरीमवतीर्य संभावयतु देव्याः पुत्रकं देवः ।
सीता-हा ताद जडाओ, सुण्णं तुए विणा इदं जणट्ठाणम् ।
रामः-अहह, हृदयमर्मच्छिदः खल्वमी कथोद्धाताः ।
वासन्ती-इत इतो देवः ।
सीता–भैअवदि, सच्चं एव वणदेवदावि मं ण पेक्खदि ।
१. क इदानीमभियुज्यते ।
२. हा, कथं मे प्रियसखी वासन्तिका ।
३. हा तात जटायो, शून्यं त्वया विनेदं जनस्थानम् ।
४. भगवति, सत्यमेव वनदेवतापि मां न पश्यति ।
तम्' इति सूत्रेणेतच् ॥ नूनमिति । संकल्पाभ्यासस्य स्मृतिसंतानस्य पाटव
स्फूर्तिः तदेव उपादान कारण यस्य तथोक्तः भ्रमः सीता स्पृष्टवतीत्याकारकान्यथाज्ञा-
नम् ॥ अहहेति । हृदयमर्माणि छिन्दन्तीति विग्रहः । कथोद्धाताः पुरावृत्तोपन्यासाः॥

-- ७८ उत्तररामचरिते तमसा-अयि वत्से, सर्वदेवताभ्यः प्रकृष्टतममैश्वर्य मन्दाकिन्याः । तत्किमिति विशङ्कसे । रामः-भगवति गोदावरि, नमस्ते । वासन्ती--(निरूप्य ।) देव, मोदख विजयिना वधूद्वितीयेन देव्याः पुत्रकेण । रामः--विजयतामायुष्मान् । सीता-अम्हहे, ईदिसो मे पुत्तओ संवुत्तो । रामः-हा देवि, दिष्ट्या वर्धसे । येनोद्गच्छद्विसकिसलयस्निग्धदन्ताङ्कुरेण व्याकृष्टस्ते सुतनु लवलीपल्लवः कर्णमूलात् । सोऽयं पुत्रस्तव मदमुचां वारणानां विजेता यत्कल्याणं वयसि तरुणे भाजनं तस्य जातः ॥ १५ ॥ सीता-अविउत्तो दाणिं दीहाऊ इमाए सोम्हदसणाए होदु । रामः-सखि वासन्तिके, पश्य पश्य । कान्तानुवृत्तिचातुर्यमपि शिक्षितं वत्सेन । लीलोत्खातमृणालकाण्डकवलच्छेदेषु संपादिताः पुष्यत्पुष्करवासितस्य पयसो गण्डूषसंक्रान्तयः । सेकः शीकरिणा करेण विहितः कामं विरामे पुन- यस्नेहादनरालनालनलिनीपत्रातपत्रं धृतम् ॥ १६ ॥ १. ततोऽनुसरावः । २. अहो, ईदृशो मे पुत्रकः संवृत्तः । ३. अवियुक्त इदानीं दीर्घायुरनया सौम्यदर्शनया भवतु । , अयीति । प्रकृष्टमुत्कृष्टम् । अत्र प्रस्तुतोत्कर्षाभिधानरूपोदाहृतिरुक्ता ॥ येनेति । तरुणे वयसि यत् कल्याणं अङ्गनापरिष्वङ्गरूपं मङ्गलं तस्य भाजन पात्रं जातः ॥१५॥ लीलेति । लीलया उत्खाताः उद्धृताः मृणालकाण्डा एव कवलाः ग्रासाः तेषां छेदेषु अवसानेषु पुष्यद्भिः वर्धमानैः पुष्करैः पद्मः वासितस्य सुरभितस्य पयसः जलस्य गण्डूषसंक्रान्तयः पयःसंबन्धिगण्डूषसंक्रमणानि संपादिताः नियूंढाः । अथवा पुष्यति .

तृतीयोऽङ्कः । सीता-भअवदि तमसे, अयं दाव ईरिसो जादो ।दे उण ण आ- णामि एत्तिएण कालेण कुसलवा कीरिसा संवुत्तेत्ति । तमसा-यादृशोऽयं तादृशौ तावपि । सीता-ईरिसंम्हि मन्दभाइणी जाए ण केवलं अजउत्तविरहो पुत्तविरहो वि । तमसा-भवितव्यतेयमीहशी। सीता-किंवा मए पसूदाए जेण एआरिसं मह पुत्तआणं ईसि- विरलधवलदसणकुम्हलुज्जलं अणुबद्धमुद्धकाअलीविहसिदं णिच्चुज्जलं मुहपुण्डरीअजुअलं ण परिचुम्बिअं अजउत्तेण । तमसा-अस्तु देवताप्रसादात् । सीता-भैंअवदि तमसे, एदिणा अवच्चसंसुमरणेण उस्ससिदप- ण्हुदत्थणी दाणिं वच्चाणं पिदुणो संणिहाणेण खणमेत्तं संसारिणी संयु- त्तम्हि । तमसा-किमत्रोच्यते । प्रसवः खलु प्रकृष्टपर्यन्तः स्नेहस्य । परं चैत- दन्योन्यसंश्लेषणं पित्रोः । १. भगवति तमसे, अयं तावदीदृशो जातः । तौ पुनर्न जानाम्येतावता कालेन कुशलवौ कीदृशौ संवृत्ताविति । २. ईदृश्यस्मि मन्दागिनी यस्याः न केवलमार्यपुत्रविरहः पुत्रविरहोऽपि । ३. किंवा मया प्रसूतया येनैतादृशं मम पुत्रकयोरीषद्विरलधवलदशनकु- मलोज्ज्वलमनुबद्धमुग्धकाकलीविहसितं नित्योज्ज्वलं मुखपुण्डरीकयुगलं न परिचुम्बितमार्यपुत्रेण । ४. भगवति तमसे, एतेनापत्यसंस्मरणेनोच्छसितप्रस्नुतस्तनी इदानीं वत्सयोः पितुः संनिधानेन क्षणमात्रं संसारिणी संवृत्तास्मि । उपचयवति पुष्करे शुण्डाग्रे वासितस्य संजातवासस्य पयसः जलस्य गण्डूषसंक्रान्तयः । लीलोत्खातमृणालकाण्डरूपकवलच्छेदेषु कवलार्धखण्डेषु । अधिकरणे सप्तमी । संपादि- ताः नियूंढाः । तत्न हि 'अच्छिद्राणि भूयासि' इति भावः । अनरालं अवक्रम् ॥१६॥ अनुबद्धमुग्धकाकलीविहसित उत्पन्नसूक्ष्ममधुरास्फुटध्वनिमुग्धस्मितम् ॥ देवताप्रसा- ताद्देवतानुग्रहात् ॥ प्रसव इति । पर्यन्तः परा कोटिः । अन्योन्यसंश्लेषणं अविना- उत्तररामचरिते 4 अन्तःकरणतत्त्वस्य दम्पत्योः स्नेहसंश्रयात् । आनन्दग्रन्थिरेकोऽयमपत्यमिति पठ्यते ॥ १७ ॥ वासन्ती-इतोऽपि देवः पश्यतु । अनुदिवसमवर्धयत्प्रिया ते यमचिरनिर्गतमुग्धलोलबर्हम् । मणिमुकुट इवोच्छिखः कदम्बे . नदति स एष वधूसखः शिखण्डी ॥ १८ ॥ सीता -- (सकौतुकस्नेहास्रम् ।) एसो सो। रामः-मोदस्व वत्स । वयमद्य वर्धामहे । सीता- रामः- भ्रमिषु कृतपुटान्तर्मण्डलावृत्तिचक्षुः- प्रचलितचटुलभूताण्डवैर्मण्डयन्त्या । कराकेसलयतालेर्मुग्धया नर्त्यमान सुतमिव मनसा त्वां वत्सलेन स्मरामि ॥ १९ ॥ एव्वं होदु । १. एष सः । २. एवं भवतु। भावहेतुभूतम् । तदुभयमपीत्याह–अन्तःकरणेति । दम्पत्योः जायापत्योः अन्तःकरणतत्त्वस्य हृदयवस्तुनः स्नेहसंश्रयात् । स्नेहःप्रीतिः ।संश्रयः संश्रयणम् । अविश्लेष इति यावत् । स्नेहश्च संश्रयश्चेति समाहारद्वन्द्वः । तस्मानिमित्तादित्यर्थः । अन्नाद्धेतोर्वसती- त्यत्र अन्नफलको वास इति बोधः।तद्वदनापि स्नेहसंश्रयणफलकानन्दग्रन्थिरिति ।आनन्द- प्रन्थिः आनन्दमयग्रन्थिः । आनन्दपदेन ग्रन्थ्यन्तरव्यावृत्तिः । अपत्यमिति पठ्यते परिभाष्यते ॥ १७ ॥ अनुदिवसमिति । अचिरनिर्गतमुग्धलोलबह प्रत्यग्रोत्पन्न- सुन्दरचलत्पिच्छ य अवर्धयत् स एष शिखण्डी वधूसखः सन् कदम्बे वृक्षे मणिमु- कुट इव । आनुपूर्व्यात् पृथुकृशत्वात् नानावर्णत्वाच रत्नमयकिरीटसादृश्यम् । नदति केका करोति ॥ १८ ॥भ्रमिष्विति । मण्डलं यथा भवति तथा आवृत्तिः मण्डलावृत्तिः । पुटे अन्तः पुटान्तः। पुटान्तः मण्डलावृत्तिः पुटान्तर्मण्डलावृत्तिः।भ्रमिषु भ्रमणेषु।मयूरस्य मण्डलाकारनाट्यचारिध्विति यावत् । कृता रचिता पुटान्तर्मण्डलावृत्तिः ययोस्तथोक्ते चक्षुषी यैस्तथोक्तानि कृतपुटान्तर्मण्डलावृत्तिचक्षूषि । प्रचलितयोः चटुलयोः सुन्दरयोः भ्रुवोः ताण्डवानि नर्तनानि कृतपुटान्तर्मण्डलावृत्तिचक्षुषि च तानि प्रचलितचटुलभूता- ण्डवानि चेति विग्रहः । तैः। तदुक्त कनककविना---'किंचाधस्तादुपरि च नयन्त्यानतो- तृतीयोऽङ्कः । . ८१ हन्त, तिर्यञ्चोऽपि परिचयमनुरुन्धन्ते । कतिपयकुसुमोद्गमः कदम्बः प्रियतमया परिवर्धितोऽयमासीत् । सीता-(सास्रम् ।) सुड्डु पञ्चहिजाणिदं अजउत्तेण । स्मरति गिरिमयूर एष देव्याः खजन इवात्र यतः प्रमोदमेति ॥ २० ॥ वासन्ती-अत्र तावदासनपरिग्रहं करोतु देवः । एतत्तु देवस्याश्रमम् । (राम उपविशति । वासन्ती नीरन्ध्रबालकदलीवनमध्यवर्ति कान्तासखस्य शयनीयशिलातलं ते । अत्र स्थिता तृणमदाद्वनगोचरेभ्यः सीता ततो हरिणकैर्न विमुच्यते स ॥ २१॥ राम:-इदमशक्यं द्रष्टुम् । (इत्यन्यतो रुदनुपविशति ।) सीता-सैहि वासन्ति, किं तुए किदं अजउत्तस्स मह अ एवं दसअ- न्तीए। हद्धी हद्धी। सो एव्व अजउत्तो । तं एव्व पञ्चवडीवणम् । सा एव्व पिअसही वासन्दिआ। दे एव्व विविहविस्सम्भसक्खिणो गोदावरीकाणणु- देसा।दे एव्व जादणिव्विसेसा मिअपक्खिणो पाअवा अ । मह उण मन्दभा- १. सुष्ठु प्रत्यभिज्ञातमार्यपुत्रेण । २. सखि वासन्ति, किं त्वया कृतमार्यपुत्रस्य मम चैतदर्शयन्त्या । हा धिक् हा धिक् । स एवार्यपुत्रः । तदेव पञ्चवटीवनम् । सैव प्रियसखी वासन्तिका । त एव विविधविस्रम्भसाक्षिणो गोदावरीकाननोद्देशाः । त एव जातनिर्विशेषा निद्रपक्ष्मा चक्राकारं भ्रमयति मुहुर्विश्वमावर्तयन्ती' इति । करकिसलयतालैः करसंघटन- जाततालध्वनिभिः । जातिभेदाभिप्रायकं बहुवचनम् । वत्सलेन सस्नेहेन ॥ १९ ॥ अनुरुन्धन्ते अनुसरन्ति । कतिपय इति । कतिपयकुसुमानामुद्गमः उत्पत्तिः यस्मि- निति विग्रहः । स्मरतीति । एष गिरिमयूरः गिरिप्रियो मयूरः गिरिमयूरः । शाक- पार्थिववत्समासः । गिरेः प्रियवं उन्नतत्वनिरुपप्लवत्वादिना । अत्र अस्मिन् प्रियतमापरि . वर्धितकदम्बवृक्षे खजन इव स्वबन्धुविषय इव यतः यस्मात्कारणात् प्रमोदं प्रीति एति ८२ उत्तररामचरिते इणीए दीसन्तं वि सव्वं एव्व एदं णत्थि । ईरिसो जीवलोअस्स परिणामो संवुत्तो। वासन्ती-सखि सीते, कथं न पश्यसि रामभद्रस्यावस्थाम् । नवकुवलयस्निग्धैरङ्गैर्ददन्नयनोत्सवं सततमपि नः स्वैच्छादृश्यो नवो नव एव सः । विकलकरणः पाण्डुच्छायः शुचा परिदुर्बलः कथमपि स इत्युन्नेतव्यस्तथापि दृशोः प्रियः ॥ २२ ॥ सीता-सहि, पेक्खामि । तमसा-पश्य प्रियं भूयः । सीता-हा देव्व, एसो मए विणा अहंवि एदेण विणेत्ति केण संभा- विदं आसि । ता मुहुत्तमेत्तं जम्मन्तरादोवि दुल्लहलद्धदसणं बाहसलि- सन्तरेषु पेक्खामि दाव वच्चलं अजउत्तम् । (इति पश्यन्ती स्थिता ।) तमसा-(परिष्वज्य सास्रम् ।) विलुलितमतिपूरैर्वाष्पमानन्दशोक- प्रभवमवसृजन्ती पक्ष्मलोत्तानदीर्घा । स्नपयति हृदयेशं स्नेहनिष्यन्दिनी ते धवलमधुरमुग्धा दुग्धकुल्येव दृष्टिः ॥ २३ ॥ मृगपक्षिणः पादपाश्च । मम पुनर्मन्दभाग्याया दृश्यमानमपि सर्वमेवैतन्नास्ति । ईदृशो जीवलोकस्य परिणामः संवृत्तः । १. सखि पश्यामि । २. हा दैव, एष मया विना अहमप्येतेन विनति केन संभावितमासीत् । तन्मुहूर्तमात्रं जन्मान्तरादपि दुर्लभलब्धदर्शनं बाष्पसलिलान्तरेषु पश्यामि तावद्वत्सलमार्यपुतम् । प्राप्नोति । तस्मादेष देव्याः स्मरति । सीतां स्मरतीत्यर्थः ॥ २० ॥ २१ ॥ नवेति । विकलकरणः शून्यचक्षुरादिकरणः शुचा दुःखेन परिदुर्बल: खधारणेऽग्यसमर्थः । बल हि धारणसामर्थ्यम् । उन्नतव्यः अनुमेयः। तथापि दृशोः प्रियः । अनुपहतलावण्यकला- दिति भावः ॥२२॥ हा इति। केन संभावितमासीत् केन हेतुना संभावित उत्पादितम् । त्वयेति शेषः ।दुर्लभलब्धदर्शनं यदृच्छयालब्धदर्शनमिति व्याख्यातारः ॥ विलुलित- मिति । 'विलुठितम्' इति पाठान्तरम् । अतिपूरैःअतिशयितस्रोतोभिः विलुलितं विकीर्ण आनन्दशोकप्रभवं आनन्दशोकहेतुकं बाष्पं अश्रु अवसृजन्ती उत्पादयन्ती । पक्ष्मला च तृतीयोऽङ्कः। ८३ - वासन्ती- ददतु तरवः पुष्पैरर्थ्य फलैश्च मधुश्च्युतः स्फुटितकमलामोदप्रायाः प्रवान्तु वनानिलाः । कलमविरलं रज्यत्कण्ठाः क्वणन्तु शकुन्तयः पुनरिदमयं देवो रामः स्वयं वनमागतः ॥ २४ ॥ रामः-एहि सखि वासन्ति, नन्वितः स्थीयताम् । वासन्ती-(उपविश्य सास्रम् ।) महाराज, अपि कुशलं कुमारल- क्ष्मणस्य । राम:-(अनाकर्णनमभिनीय ।) करकमलवितीर्णैरम्बुनीवारशप्पै- स्तरुशकुनिकुरङ्गान्मैथिलीयानपुष्यत् । भवति मम विकारस्तेषु दृष्टेषु कोऽपि द्रव इव हृदयस्य प्रस्रवोद्भेदयोग्यः ॥ २५ ॥ वासन्ती-महाराज, ननु कुशलं पृच्छामि कुमारलक्ष्मणस्येति । रामः-(आत्मगतम् ।) अये, महाराजेति निष्प्रणयमामन्त्रणपदम् । .. सा उत्ताना च सा दीर्घा च इति विग्रहे विशेषणसमासः। उत्तानविपुला । स्नेहस्य अनुरा- गस्य निष्यन्दः यस्यामस्तीति विग्रहः । दुग्धकुल्येव सुधामयकृत्रिमाल्पसरिदिव नपयति स्नान करोति । आदन्तत्वात् पुगागमे 'ग्लानावनुवमां च' इति वैकल्पिको ह्रखः॥२३॥ ददत्विति । मधूनि मकरन्दानि श्चोतयन्ति क्षरन्तीति विग्रहः । 'श्चतिर् क्षरणे' इत्यस्मादन्तर्भावितण्यर्थात् कर्तरि किप्प्रत्ययः। यद्वा मधुभिः मकरन्दैः श्योतन्ति आर्दी- कुर्वन्तीति विग्रहः । 'श्युतिर आसेचने' इत्यस्मात् क्विप् । इदं च वनानिलानां विशेषणम्। तृतीयान्तपाठे फलविशेषण पुष्पविशेषण वा। 'च्यु च्यवने' इत्यस्मात् भावे क्तप्रत्यये म- धूनां च्युतं च्यवन येभ्य इति पुष्पपक्षे । फलपक्षे तु कर्मणि क्तप्रत्ययेन मधुभ्यः च्युतैरि- ति पञ्चमीतत्पुरुषः । पुष्परससमृद्धौ तात्पर्यम् । तदेव पक्षत्रये-आद्यः शकारचकाराभ्यां युक्तः पाठः। द्वितीयः शकारचकारयकारैर्युक्तः। तृतीयस्तु चकारयकाराभ्यामिति विवेकः। रज्यत्कण्ठाः रागयुक्तकण्ठाः क्वणन्तु गीतवाद्यभेदेन शब्द कुर्वन्तु । अत एव कूजन्विति नोक्तम् ॥ २४ ॥ अनाकर्णन आकर्णनाभावम् । करकमलेति । करकमलवितीणः करकमलदत्तैः अम्बुनीवारशष्पैः नीवारो धान्य विशेषः, शष्प चालतृण तै. अपुष्यत् अवर्धयत् । अत्राम्बुना तरून् , अम्बुनीवाराभ्यां शकुनीन् , अम्बुनीवारशष्यै. कुरङ्गानि- ति विवेकः । तेषु दृष्टेषु सत्सु प्रस्रवोद्भेदयोग्यः प्रसरणोत्पत्तियोग्यः द्रव इत्र कोऽपि वि- कारः मम हृदयस्य भवति उत्पद्यते ॥ २५ ॥ महाराजेत्यामन्त्रणपदं संबोधनशब्दः॥ ..

उत्तररामचरिते " सौमित्रिमात्रके बाष्पस्खलिताक्षरः कुशलप्रश्नः । तथा मन्ये विदितसी- तावृत्तान्तेयमिति । (प्रकाशम् ।) आः, कुशलं कुमारलक्ष्मणस्य । वासन्ती-(रुदती ।) अयि देव, किं परं दारुणः खल्वसि । सीता-सहि वासन्दि, किं तुभं एव्वंवादिणी होसि । पूआरुहो सव्वस्स अजउत्तो विसेसदो मह पिअसहीए । वासन्ती- त्वं जीवितं त्वमसि मे हृदयं द्वितीयं त्वं कौमुदी नयनयोरमृतं त्वमङ्गे। इत्यादिभिः प्रियशतैरनुरुध्य मुग्धां तामेव शान्तमथवा किमतःपरेण ॥ २६ ॥ (इति मुह्यति ।) तमसा-स्थाने वाक्यनिवृत्तिर्मोहश्च । रामः-सखि, समाश्वसिहि समाश्वसिहि । वासन्ती-(समाश्वस्य ।) तत्किमिदमकार्यमनुष्ठितं देवेन । सीता-सहि वासन्दि विरम विरम । रामः-लोको न मृष्यतीति । वासन्ती- कस्य हेतोः । १. सखि वासन्ति, किं त्वमेवंवादिनी भवसि । पूजाहः सर्वस्यार्यपुत्रो वि- शेषतो मम प्रियसख्याः । २. सखि वासन्ति, विरम विरम । आः इति सोपालम्भाङ्गीकारे ॥ त्वमिति । त्वं जीवितं प्राणाः । त्व मे द्वितीय हृदय- मसि । त्वं नयनयोः कौमुदी तद्वदानन्दिनी। 'कौ मोदन्तेजना यस्मात्तेनेयं कौमुदी मता' इति कौमुदीपदनिरुक्तेः। त्वमझे विषये अमृत पीयूषम् । तद्वजराप्रतिबन्धेन नित्ययौवना- वहेत्यर्थ. । अत्र प्राणाः प्राणा एव, हृदय हृदयमेव, कौमुदी कौमुद्येव, अमृत अमृतमेव । त्व तु प्रागा हृदय कौमुद्यमृतमेतत् सर्वमिति प्राणाद्यपेक्षया वैलक्षण्यमपि सूच्यते। देवता- याः स्वस्या अपि ज्ञातुं वत्तु चाशक्यत्वादाह-इत्यादिभिरिति । प्रियाणां प्रियवच- नानां शतैः । अनन्तवाची शतशब्दः। ‘शत सहस्रमयुत सर्वमानन्त्यवाचकम्' इत्युक्तेः। मुग्धां अनुरुन्य । 'उदयद्यौवना मुग्धा' इति लक्षणलक्षितां सुन्दरीम्। त्वत्क्रौर्यमजानन्ती- मिति वार्थः । अनुरुध्य अनुनीय तामेव पूर्वोक्तानुनयविषयभूतामेवान कथं त्यक्तवानसि । नाशितवानसीति वा। वाक्यशेषस्य दुःखातिशयेन वक्तुमशक्यतया प्रकरणाद्यनुग्रहेणा- तृतीयोऽङ्कः। ६ राम:-स एव जानाति किमपि । तमसा-चिरादुपालम्भः । वासन्ती- अयि कठोर यशः किल ते प्रियं किमयशो ननु घोरमतःपरम् । किमभवद्विपिने हरिणीदृशः कथय नाथ कथं बत मन्यसे ॥ २७ ॥ सीता-सैहि वासन्दि, तुम एव्व दारुणा कठोरा अ। जा एव्वं पलवन्तं पलावेसि । तमसा-प्रणय एवं व्याहरति शोकश्च । रामः-सखि, किमत्र मन्तव्यम् । त्रस्तैकहायनकुरङ्गविलोलदृष्टे- स्तस्याः परिस्फुरितगर्भभरालसायाः । ज्योत्स्वामयीव मृदुबालमृणालकल्पा क्रव्याद्भिरङ्गलतिका नियतं विलुप्ता ॥ २८ ॥ सीता-अजउत्त, धरामि एसा धरामि । राम: हा प्रिये जानकि, क्वासि । सीता-हैद्धी हद्धी । अण्णो विअ अजउत्तो पमुक्तकण्ठं परुण्णो होदि । तमसा-वत्से, सांप्रतिकमेवैतत् । कर्तव्यानि खलु दुःखितैर्दु खनि- र्धारणानि । , १. सखि वासन्ति, त्वमेव दारुणा कठोरा च । यैवं प्रलपन्तं प्रलापयसि । २. आर्यपुत्र, धराम्येषा धरामि । ३. हा धिक् हा धिक् । अन्य इवार्यपुत्रः प्रमुक्तकण्ठं अरुदितो भवति । र्थाध्याहारवादे विवक्षितार्थलाभासंभवात् शब्दाध्याहारवादे तस्य सुलभत्वात् प्रयोगे हेतु- भूततत्स्मरणेन मूर्योत्पत्तेश्चाह-मुह्यतीति । अथवेति पूर्वोक्ताक्षेपे। शान्त त्वामुपल- भ्यालम् । अतः परेण किम् । अतिक्रान्तत्वादिति भावः॥२६॥२७॥ त्रस्तेति । ज्यो- सामयीव ज्योत्स्नाविकृतिरिव स्थिता क्रव्याद्भिः विलुप्ता । नाशितेति भावः । नियतमिति संभावनायाम् । अत प्रकरणे उपायापायशङ्काभ्यां कार्यसंभवरूपप्राप्याशा प्रतिपादिता उ. रा. ८ ८६ उत्तररामचरिते पूरोत्पीडे तटाकस्य परीवाहः प्रतिक्रिया । शोकक्षोभे च हृदयं प्रलापैरवधार्यते ॥ २९ ॥ विशेषतो रामभद्रस्य बहुप्रकारकष्टो जीवलोकः । इदं विश्वं पाल्यं विधिवदभियुक्तेन मनसा प्रियाशोको जीवं कुसुममिव धर्मो ग्लपयति । स्वयं कृत्वा त्यागं विलपनविनोदोऽप्यसुलभ- स्तदद्याप्युच्छ्वासो भवति ननु लाभो हि रुदितम् ॥ ३० ॥ रामः-कष्टं भोः, कष्टम् । दलति हृदयं शोकोद्वेगाद्विधा तु न भिद्यते वहति विकल: कायो मोहं न मुञ्चति चेतनाम् । ज्वलयति तनूमन्तर्दाहः करोति न भस्मसा- त्प्रहरति विधिर्ममच्छेदी न कृन्तति जीवितम् ॥ ३१ ॥ हे भगवन्तः पौरजानपदाः, न किल भवतां देव्याः स्थानं गृहेऽभिमतं तत- स्तृणमिव वने शून्ये त्यक्ता न चाप्यनुशोचिता । चिरपरिचितास्ते ते भावास्तथा द्रवयन्ति मा- मिदमशरणैरद्यास्माभिः प्रसीदत रुद्यते ॥ ३२ वासन्ती—(खगतम् ।) अतिगभीरमापूरणं मन्युभारस्य । (प्रकाशम् ।) देव, अतिक्रान्ते धैर्यमवलम्ब्यताम् । रामः-किमुच्यते धैर्यमिति । ॥२८॥ अन्य इव पृथग्जन इव । पूरोत्पीड इति । पूरोत्पीडे स्रोतोभूयस्त्वे । परीवाहः जलनिःसारणम् । प्रतिक्रिया प्रतीकारः चिकित्सा । शोकक्षोभे शोकाधिक्यप्रयुक्तप्रकृति- विपर्यासे । प्रलापैः परिदेवनैः ॥२९॥ बहुप्रकाराणि कष्टानि बहुविधानि दुःखानि यस्मिन् तथोक्तः । इदमिति । अभियुक्तेन तत्परेण विधिवत् यथाशास्त्र विलपन चासौ वि- नोदश्चेति विग्रहः । उच्छासः प्राणधारणम् ॥ ३०॥ दलतीति । दलति स्फुटति । द्विधा न भिद्यते । पृथक्कारेण शकलद्वय न भवतीत्यर्थः । न कृन्तति न छिनत्ति ॥३१॥ न किलेति। देव्याः सीतायाः गृहे स्थान गृहस्थितिः न चाप्यनुशोचिता। तत्परित्याग हेतुकशोकोऽपि युष्माकं नेति भावः । भावाः अभिप्रायाः तथा द्रवयन्ति वाचामगोचरं यथा तथा विलापयन्ति । 'परिद्रवयन्ति' इत्यपि पाठः । रुद्यते रोदन करोमि। भावे लद। प्रसीदत प्रसादं कुरुत ॥ ३२ ॥ मन्युभारस्य कोपातिशयस्य आपूरणमाविष्करणम् ।

तृतीयोऽङ्कः। देव्या शून्यस्य जगतो द्वादशः परिवत्सरः । प्रणष्टमिव नामापि न च रामो न जीवति ॥ ३३ ॥ सीता--ओहरामि अ मोहिआ विअ एदेहिं अजउत्तस्स पिअव- अणेहिं । तमसा- -एवमेव वत्से, नैताः प्रियतमा वाचः स्नेहार्द्राः शोकदारुणाः । एतास्ता मधुनो धाराः श्योतन्ति सविषास्त्वयि ॥ ३४॥ रामः-अयि वासन्ति, मया खलु यथा तिरश्चीनमलातशल्यं प्रत्युप्तमन्तः सविषश्च दन्तः। तथैव तीब्रो हृदि शोकशङ्कु- मर्माणि कृन्तन्नपि किं न सोढः ॥ ३५ ॥ सीता-एव्वंवि मन्दभाइणी अहं जा पुणो आआसआरिणी अज्जउत्तस्स। रामः-एवमतिगूढस्तम्भितान्तःकरणस्यापि मम संस्तुतवस्तुदर्श- नादद्यायमावेगः । तथाहि । वेलोल्लोलक्षुभितकरुणोज्जृम्भणस्तम्भनार्थ यो यो यत्नः कथमपि समाधीयते तं तमन्तः । १. अपहरामि च मोहितेव एतैरार्यपुत्रस्य प्रियवचनैः । २. एवमपि मन्दभागिन्यहं या पुनरायासकारिणी आर्यपुत्रस्य । अतिगभीरमतिगूढम् । अवलम्ब्यतां आधीयताम् । त्वयेति शेषः ॥ देव्या इति । द्वादशानां पूरण: द्वादशः। तस्य पूरणे डट्। परिवत्सरः संवत्सरः। रामः न जीवतीति न। जीवत्येवेत्यर्थः । जीवनाभावोऽन्याय्य इति व्यज्यते ॥ ३३ ॥ नैता इति । प्रियतमाः इष्टतमाः स्नेहार्दाः अनुरागशीतलाः शोकदारुणाः दुःखेन रूक्षाः एताः वाचः न । किंतु एताः सविषाः मधुनो धाराः श्चयोतन्ति स्रवन्ति । अनापडुतिरलंकारः ॥ ३४ ॥ यथेति । तिरश्चीनं तिर्यग्भूतं प्रत्युप्तं निखातं अलातशल्यं उल्कामयं लोकीलाग्रं सविषो. दन्तश्च यथा तीव्रः तथैव तीव्रः मर्माणि हृदयादीनि कृन्तन् सन्नपि छिन्दन् स- अपि हृदि शोकशङ्खः दुःखात्मककीलं किं न सोढः न व्यषहयत किम् । सहतेः कर्मणि क्तः ॥ ३५॥ वेलेति । वेलायाः मर्यादायाः उल्लोलः उद्गतः । अतिवेल इत्यर्थः । क्षुभितः प्रवाहभूयस्तया नदीवत् क्षोभवांश्च यः करुणः प्रियजनविश्लेषजन्यदुःखातिशयः तस्य ८८ उत्तररामचरिते हित्वा भित्वा प्रसरति बलात्कोऽपि चेतोविकार- स्तोयस्येवाप्रतिहतरयः सैकतं सेतुमोघः ॥ ३६ ॥ सीता-अजउत्तस्स एदिणा दुव्वारदारुणारम्भण दुःखसंजोएण परिमुसिअणिअदुःखं पमुक्कजीविरं मे हिअअं फुडइ । वासन्ती-(स्वगतम् ।) कष्टमत्यासक्तो देवः । तदाक्षिपामि तावत् । (प्रकाशम् ।) चिरपरिचितामिदानीं जनस्थानाभोगानवलोकनेन मान- यतु देवः। राम:-एवमस्तु । ( इत्युत्थाय परिकामति ।) सीता-संदीवण एव्व दुःखस्स पिअसहीए विणोदणोवाओ त्ति तकेमि । वासन्ती-देव देव, अस्मिन्नेव लतागृहे त्वमभवस्तन्मार्गदत्तेक्षणः सा हंसैः कृतकौतुका चिरमभूगोदावरीसैकते । आयान्त्या परिदुर्मनायितमिव त्वां वीक्ष्य बद्धस्तया कातर्यादरविन्दकुमलनिभो मुग्धः प्रणामाञ्जलिः ॥ ३७ ॥ .. १. आर्यपुत्रस्यैतेन दुर्वारदारुणारम्भेण दुःखसंयोगेन परिमुषितनिजदुःखं प्रमुक्तजीवितं मे हृदयं स्फुटति । २. संदीपन एव दुःखस्य प्रियसख्या विनोदनोपाय इति तर्कयामि । उज्जृम्भणमभिवृद्धि तस्य स्तम्भनं प्रतिहतिः तदर्थम् । 'करणस्तम्भनार्थम्' इति पाठे वेलोल्लोलं वेलातिक्रान्तं क्षुभितं क्षोभः यस्य तथोक्तस्य करणस्य । हृदयादेरित्यर्थः । कथमपि प्रयासेन समाधीयते उत्पाद्यते । चेतोविकारः संभ्रमातिशयः । ओघः दीर्घ- प्रवाहः ॥३६॥ आर्यपुत्रस्येति । दुर्वारः दुर्निवर्ल्सः दारुणानां क्रूरमू संतापादीनां आरम्भः उपादानं येनेति विग्रहः । परिमुषितं निजदुःख खीयदुःखं यस्येति यथोक्तम् । स्फुटति दलति ॥ आक्षिपामि । अन्यत्र नयामीत्यर्थः ॥संदीपन इति । विनोदनोपायः चिरपरिचितजनस्थानाभोगावलोकनरूपः दुःखस्य संदीपन एव उद्दीपनहेतुरेवेति तर्कयामि जानामि ॥ अस्मिन्निति । अस्मिन्नेव लतागृहे त्वं अभवः स्थितवान् । तन्मार्गे सीताया आगमनमार्गे दत्तं ईक्षणं नेतं येन तथोक्तः । हसैः कृतं उत्पादितं कौतुकं हर्षः यस्यास्तथोक्ता । गोदावरीसैकते पुलिनोच्चये । आयान्त्या आगच्छन्त्या तया सीतया परिदुर्मनायितमिव परिकुपितमनस्कमिव स्थितम् । नतु वस्तुतः कुपितह- दित्यर्थः । त्वां वीक्ष्य कातर्यात् अपराधप्रतिसंधानजनितसाध्वसात् अरविन्दकुमल- तृतीयोऽङ्कः। ८९ सीता-दालुणासि वासन्ति, दालुणासि । जा एदेहिं हिअअम- म्मुग्धाडिअसल्लसंघट्टनेहिं पुणोपुणोवि मं मन्दभाइणिं अजउत्तं अ- सुमरावेसि । रामः-अयि चण्डि जानकि, इतस्ततो दृश्यसे नानुकम्पसे । हा हा देवि स्फुटति हृदयं ध्वंसते देहबन्धः शून्यं मन्ये जगदविरलज्वालमन्तज़लामि । सीदन्नन्धे तमसि विधुरो मज्जतीवान्तरात्मा विष्वङ्मोहः स्थगयति कथं मन्दभाग्यः करोमि ॥ ३८ ॥ (इति मूर्च्छति।) सीता-हैद्धी हद्धी । पुणोवि मुद्धो अजउत्तो । १. दारुणासि वासन्ति, दारुणासि । या एतैर्हृदयमर्मोद्घाटितशल्यसं- घट्टनैः पुनःपुनरपि मां मन्दभागिनीमार्यपुत्रं च स्मरयसि । २. हा धिक् हा धिक् । पुनरपि मूढ आर्यपुत्रः । निभः पद्मकोशसदृशः मुग्धः सुन्दरः प्रणामाञ्जलिः । मस्तकन्यस्तकरसंपुटादिप्रणामाङ्ग- भूताजलिरित्यर्थः । अथवा 'नामयत्यपि वा देव प्रह्वीभावयति ध्रुवम् । प्रह्वीभवति नी- चे हि परो नैच्य विलोकयन् ॥ अतो वा नम उक्तीद यत्तं नामयति स्वयम् । वाचा नम इति प्रोच्य वपुषा मनसा च यत् ॥' इति भगवच्छास्त्रोक्तरीत्या प्रणामः कोपोद्धतराम- हृदयनमनहेतुभूतोऽजलिरित्यर्थः। उक्तं च–'अञ्जलिः परमा मुद्रा क्षिप्रं देवप्रसादिनी' इति । अत एव रामायणे---'कृतापराधस्य हि ते नान्यत्पश्याम्यह क्षमम् । अन्तरेणाञ्जलि बढ्दा लक्ष्मणस्य प्रसादनात् ॥' इति बद्धः घटितः ॥ ३७॥ दारुणेति । हृदयमर्मोद्धा- टितशल्यस्य हृदयमर्मणि स्थितकीलाग्रस्य संघटनैः संचलनैः एतैः पुरावृत्तान्तकथनैः आर्यपुत्रं मां च स्मरयसि । मद्विषयकस्मृति आर्यपुत्रस्य जनयसीत्यर्थः । या स्मरयसि सा ख दारुणेति पूर्वेणान्वयः ॥ चण्डि कठिने जानकि जनकपुत्रि, नानुकम्पसे दयां न करोषि । जानकीत्युक्त्या परमदयालुजनकराजपुत्र्यास्तवेद निर्दयलं नोचितमिति व्यज्यते । हा हेति । हाहाशब्दो दुःखातिशयद्योतकः । हृदयं स्फुटति दलति । देह- बन्धः शरीरावयवानां संधिः । जातावेकलम् । ध्वंसते विशीर्णो भवति । जगत् लोक शून्यं असत्कल्पम् । अभावप्रतियोगीति यावत् । मन्ये जानामि । अविरलाः अविच्छिन्नाः ज्वालाः यस्मिन् कर्मणि तत्तथोक्तम् । अन्तः शरीरान्तः ज्वलामि । काष्ठवत् ज्वलामीति यावत् । विधुरः ज्ञानादिशून्यः सीदन् विशीर्णीभवन् अन्तरात्मा अन्धे अन्धयति लोकानित्यन्धं तस्मिन् तमसि मन्नति अवगाढं भवति । मोह मूर्छा विष्वक् परितः स्थगयति संछादयति । कथं करोमि कि करोमि । किं हृदयस्फोटादि निवारयामि, उत वदागमनार्थ लोकाननुनयामि, अथवा तानिगृह्य खामानेष्यामि वेति भावः ॥ ३८ ॥ .. .. .

उत्तररामचरिते
,
वासन्ती-देव, समाश्वसिहि समाश्वसिहि ।
सीता-अजउत्त, मं मन्दभाइणिं उदिसिअ सअलजीवलोअमङ्ग-
लिअजम्मलाहस्स दे वारं वारं संसइदजीविअदालुणो दशापरिणामो त्ति
हा हदम्हि । (इति मूर्च्छति ।)
तमसा-वत्से, समाश्वसिहि समाश्वसिहि । पुनस्ते पाणिस्पर्शो
रामभद्रस्य जीवनोपायः।
वासन्ती-कथमद्यापि नोच्छृसिति । हा प्रियसखि सीते, कासि ।
संभावयात्मनो जीवितेश्वरम् ।
(सीता ससंभ्रममुपसृत्य हृदि ललाटे च स्पृशति ।)
वासन्ती—दिष्टया प्रत्यापन्नचेतनो रामभद्रः ।
राम:-
आलिम्पन्नमृतमयैरिव प्रलेपै-
रन्तर्वा बहिरपि वा शरीरधातून् ।
संस्पर्शः पुनरपि जीवयन्नकस्मा-
दानन्दादपरमिवादधाति मोहम् ॥ ३९ ॥
(सानन्दमुन्मीलिताक्ष एव ।। सखि वासन्ति, दिष्टया वर्धसे ।
१. आर्यपुत्र, मां मन्दभागिनीमुद्दिश्य सकलजीवलोकमाङ्गलिकजन्म-
लाभस्य ते वारं वारं संशयितजीवितदारुणो दशापरिणाम इति हा हतास्मि ।
पुनरपि मूढो मूर्च्छितः ॥ वारं वारं पदे पदे संशयितजीवितः संशयितं संशयविषयं
जीवितं यस्मिस्तथोक्तः। मरणपर्यवसायीति भावः । अत एव दारुणः क्रूरः दशापरिणामः
दशापरिपाकः ॥ हा प्रियसखीति । जीवितेश्वरं प्राणनाथ रामं संभावय संभा-
वितं कुरु । रामासंभवं परिहरस्वेत्यर्थः॥ हृदि ललाटे च स्पृशति । इदंच लोकेऽनुभवसि-
द्धम् ॥ दिष्टयेति । दिष्टयेत्यानन्दे । प्रत्यापन्ना पुनरागता चेतना प्रज्ञा यस्य स त-
थोक्तः॥ आलिम्पन्निति । अमृतमयैः अमृतखरूपैः । चिन्मयमित्यादाविव स्वार्थिको
मयत्प्रत्ययः । प्रकृष्टो लेपः यैस्ते । लेपसाधनद्रव्यैः अन्तर्वा बहिरपि वा अन्तर्वहिश्च
शरीरं धातूश्च । नाडीश्च अन्तर्नाडीः बहिः शरीरमिति विवेकः । आलिम्पन्निव । सर्वाङ्गीणः
लेपनकर्तेति संभावनीयः । जीवयन् प्राणप्रतिष्टाहेतुभूतः अकस्मात् निर्हेतुकः संस्पर्शः
पुनरपि आनन्दात् आनन्दमुत्पाद्यापरं मोहं दुःखहेतुकपूर्वमूर्छातिरिक्तमूर्छाम् , आ-
नन्दादिति ल्यब्लोपे पश्चमी । यद्वा आनन्दादिति हेतौ पञ्चमी । तथा च दुःखजन्यपूर्व-
मूर्छातिरिक्ताम् । आनन्दहेतुका मूीमादधतीव उत्पादयतीव । अन्ये तु परो न भव-
तीत्यपरः । अनन्य इत्यर्थः । आनन्दादपरं मोहं आनन्दात्मकमूर्छामित्याहुः ॥३९॥

तृतीयोऽङ्कः। वासन्ती-कथमिव । रामः-सखि, किमन्यत् । पुनरपि प्राप्ता जानकी । वासन्ती-अयि देव रामभद्र, क सा । रामः-(स्पर्शसुखमभिनीय ।) पश्य नन्वियं पुरत एव । वासन्ती-अयि देव रामभद्र, किमिति मर्मच्छेददारुणैरतिप्रलापैः प्रियसखीविपत्तिदुःखदग्धामपि मां पुनःपुनर्मन्दभाग्यां दहसि । सीता-ओसरिदं इच्छम्मि । एसो उण चिरप्पणअसंभारसोम्मसी- अलेण अजउत्तप्फरिसेण दीहदारुणंवि झत्ति संदावं उल्लाहअन्तेण वज्ज- लेहोवणद्धो विअ परिअद्धवावारो आसंजिओ विअ मे अग्गहत्थो । रामः-सखि, कुतः प्रलापाः । गृहीतो यः पूर्व परिणयविधौ कंकणधरः सुधासूतेः पादैरमृतशिशिरैर्यः परिचितः । सीता-अजउत्त, सो एव दाणिंसि तुमम् । १. अपसर्तुमिच्छामि । एष पुनः चिरप्रणयसंभारसौम्यशीतलेन आर्यपुत्र- स्पर्शेन दीर्घदारुणमपि झटिति संतापं उल्लाघयता वज्रलेपोपनद्ध इव पर्यस्त- व्यापार आसञ्जित इव मेऽग्रहस्तः । २. आर्यपुत्र, स एवेदानीमसि त्वम् । सानन्दमुन्मीलिताक्ष एव उन्मीलिते त्यक्तमुकुलीभावे अक्षिणी यस्य तथोक्तः। अत्र हृदि ललाटे चेत्यादिना इष्टार्थोपायानुसरणात्मकाक्षेप उक्तः ॥ अयीति । मर्मच्छेदवत् हृदयाद्यवयवक्षतिवत् दारुणैः दुःसहैः प्रलापैः अनर्थकवचोभिः दहसीत्यत्रान्वयः । प्रियसख्याः सीतायाः विपत्त्या विपदा यदुःख तेन दग्धां भस्मीक्रियमाणाम् ॥ अपसर्तुमिति । चिरस्य बहुकालरूढस्य प्रणयस्य स्नेहस्य संभारेण अतिशयेन हेतुना सौम्यः आह्लादकरः शीतलः शीतश्च तथाविधेन । दीर्घश्चासौ दारुणश्चेति विग्रहः । खजकुब्जादिवत् समासः। तथाविध संतापं झटिति उल्लाघयता लघूकुर्वता आर्यपुत्रस्पर्शन वज्रलेपेन उपनद्ध इव घटित इव पर्यस्तव्यापारः । निष्पन्द इत्यर्थः । मे अग्रहस्तः आसञ्जित इव लग्न इव । प्रलापैरिति वासन्तीवाक्यस्योत्तरमाह-'सखि, कुतः प्रलापा.' इति । गृहीत इति । यः परिणयविधौ विवाहविधौ ककणधरः गृ- हीतः यः करः सुधाया अमृतस्य सूतिरुत्पत्तिः यस्मात्तस्य चन्द्रस्य अमृतशिशिरैः सुधाशीतलैः पादैः किरणैः परिचितः संश्लिष्टः । उक्तविशेषणसाम्यादाह-'आर्यपुत्र, स एवेदानीं त्वमसि' इति । यः करः कंकणधरो गृहीतः यः सुधासूतेः पादैः परिचितः ९२ उत्तररामचरिते राम:- स एवायं तस्यास्तदितरकरौपम्यसुभगो मया लब्धः पाणिर्ललितलवलीकन्दलनिभः ॥ ४० ॥ (इति गृह्णाति । सीता-हैद्धी हद्धी । अजउत्तप्फरिसमोहिदाए पमादो मे संवुत्तो। रामः-सखि वासन्ति, आनन्दमीलितः प्रियास्पर्शसाध्वसेन पर- वानस्मि । तत्त्वमपि धारयेमाम् । वासन्ती-कष्टमुन्माद एव । (सीता ससंभ्रम हस्तमाक्षिप्यापसर्पति ।) रामः-हा धिक् प्रमादः । करपल्लवः स तस्याः सहसैव जडो जडात्परिभ्रष्टः । परिकम्पिनः प्रकम्पी करान्मम खिद्यतः खिद्यन् ॥ ४१ ॥ सीता-हैद्धी हद्धी । अजवि अणुबद्धबहुअघुम्मन्तवेअणं ण संठावेमि अत्ताणम् । तमसा-(सस्नेहकौतुकस्मितं निर्वर्ण्य ।) सखेदरोमाञ्चितकम्पिताङ्गी जाता प्रियस्पर्शसुखेन वत्सा । १. हा धिक् हा धिक् । आर्यपुत्रस्पर्शमोहितायाः प्रमादो मे संवृत्तः । २. हा धिकू हा धिक् । अद्याप्यनुबद्धबहुघूर्णमानवेदनं न संस्थापया- म्यात्मानम् । स एव त्वमिदानी मित्यर्थः। उभयत्रापि परिणयविधौ ककणधरत्व लावण्यसंश्लिष्टत्वरू- पसुधासूतिकिरणपरिचितत्व चावशिष्टमिति कृत्वा सीतावाक्यं प्रवृत्तम् । राम आह- स एवायमिति । ललितेन सुकुमारेण लवलीकन्दलेन लवलीनामकलताङ्करेण निभः सदृशः तदितरकरेण गृहीतान्यकरण औपम्येन सादृश्येन सुभगः मनोज्ञः । सव्यकरसा- दृश्यं दक्षिणकरस्य तथा दक्षिणकरसादृश्यं सव्यकरस्येति भावः । तस्याः स एव पाणिः मया लब्धः ॥४०॥ गृह्णाति ग्रहणमभिनयति ॥ प्रमादः अनवधानम्॥ प्रियास्पर्शसाध्व- सेन प्रियायाः सीतायाः स्पर्शन यत् साध्वसं शृङ्गारजं भय तेन परवान् परवशः ।। उन्मादः चित्तविभ्रमः ॥ हस्तमाक्षिप्य रामहस्तं निरस्य ॥ करपल्लव इति । प्रकम्पी चञ्चल: खिद्यन् स्वेदवान् तस्या. सः करपल्लवः परिकम्पिनः चञ्चलात् ज- डात् मम करात् अनवधानतो जडात्मनः मम करात् सहसा परिभ्रष्टः परिच्युतोऽभ. वत् ॥ ४१ ॥ अनुबद्धा उत्पन्ना बढी घूर्णमाना उद्गच्छन्ती वेदना यस्य तमात्मानं तृतीयोऽङ्कः। ९३ मरुन्नवाम्भःपरिधूतसिक्ता कदम्बयष्टिः स्फुटकोरकेव ॥ ४२ ॥ सीता--(स्वगतम् ।) अवसेन एदेण अत्ताणएण सज्जाविदमि भअवदीए तमसाए। किंत्ति किल एसा मण्णिस्सदि एसो परिच्चाओ एसो अहिसङ्गोत्ति । रामः-(सर्वतोऽवलोक्य ।) हा, कथं नास्त्येव । नन्वकरुणे वैदेहि । सीता-अकरुणमि जा एवं विहं तुम पेक्खन्दी एव जीवेमि । -क्कासि प्रिये । देवि, प्रसीद प्रसीद । न मामेवंविधं परित्यक्तुमर्हसि । सीता-अयि अजउत्त, विप्पदीवं विअ । वासन्ती-देव, प्रसीद प्रसीद । खेनैव लोकोत्तरेण धैर्येण संस्तम्भ- यातिभूमिं गतमात्मानम् । कुत्र मे प्रियसखी । रामः- व्यक्तं नास्त्येव । कथमन्यथा वासन्त्यपि न पश्येत् । अपि खलु स्वप्न एष स्यात् । न चास्मि सुप्तः । कुतो रामस्य निद्रा । सर्व- १. अवशेनतेनात्मना लज्जापितास्मि भगवत्या तमसया । किमिति किलैषा मंस्थत एष परित्याग एषोऽभिसङ्ग इति । २. अकरुणास्मि यैवंविधं त्वां पश्यन्त्येव जीवामि । ३. अयि आर्यपुत्र, विप्रतीपमिव । न संस्थापयामि न स्थिर करोमि ॥४२॥ कथं नास्त्येव नास्त्येवेति व्यक्तम् । स्फुटमित्यर्थः। कथमन्यथा वासन्ती न पश्येत् । अन्यथा सीताया अस्तित्वे वासन्ती कथ कस्माद्धेतोः न पश्येत् । स्वस्य भ्रान्तिशङ्कया वनदेवतायाः प्रमितिप्रकर्ष विभाव्य वासन्तीत्युक्तम् । एवं योग्यानुपलम्भेन सीताया नास्तिवं निश्चित्य पूर्वोक्तस्पर्शनस्य भ्रमरूपत्वं मीमां- सते । अपि खलु खप्न एष स्यात् । एष सीतास्पर्शः खप्नः स्यात् । खाग्निकज्ञानविषयः स्यादिति संभावना । यद्वा एष सीतास्पर्शः खप्नः स्यात्खप्नावस्थोत्पादितः किमु । स्वप्नावस्थायां हि 'संध्ये सृष्टिराह हि' इति सूत्रप्रामाण्यात् । तत्पुरुषानुभाव्यतत्तत्पदार्थ- सृष्टिः परमात्मकर्तृकाभ्युपगम्यते । विस्तरस्तूत्तरमीमांसायां द्रष्टव्यः । स्वप्नं प्रति सुप्तेः कारणत्वादाह-न चास्मि सुप्त इति । तदुपपादयति-कुतो रामस्य निद्रेति । 'अनिद्रः स- ततं रामः' इति सीतावियोगे रामस्य निद्रा नास्तीति प्रसिद्धमेवेति ननूपपत्तिरिति भावः। पर्यवसितमाह-सर्वथेत्यादिना । मम वासन्याश्चानुपलम्भान्निद्राया अभावेन स्वप्नानुप. पत्तेश्च सर्वप्रकारेणापि सीतास्पर्शनं भ्रमरूपमिति भावः । विप्रलम्भः भ्रमः । भगवा- नित्यनतिलचनीयत्वप्रयुक्तपूज्यताख्यापनार्थम् । अनुबध्नात्यनुसरति ॥ दारुणया कठि- ..

उत्तररामचरिते थापि स एवैष भगवाननेकवारपरिकल्पितो विप्रलम्भः पुनः पुनरनुब- नाति माम् । सीता-मए एव दारुणाए विप्पलद्धो अजउत्तो । वासन्ती-देव, पश्य पश्य । पौलस्त्यस्य जटायुषा विघटितः कार्णायसोऽयं रथ- स्ते चैते पुरतः पिशाचवदनाः कङ्कालशेषाः खराः । खड्गच्छिन्नजटायुपक्षतिरितः सीतां चलन्तीं वह- नन्तापृतविद्युदम्बुद इव द्यामभ्युदस्थादरिः ॥ ४३ ॥ सीता-(सभयम् ।) अजउत्त, तादो वावादीअदि । ता परित्ताहि परित्ताहि । अहं वि अवहरिज्जामि । रामः-(सवेगमुत्थाय ।) आः पाप तातप्राणसीतापहारिन् लङ्कापते, क यास्यसि । वासन्ती-अयि देव राक्षसकुलप्रलयधूमकेतो, किमद्यापि ते मन्यु- विषयः। सीता-अम्हहे, उब्भत्तम्हि । १. मयैव दारुणया विप्रलब्ध आर्यपुत्रः । २. आर्यपुत्र, तातो व्यापाद्यते । तस्मात्परित्रायस्व परित्रायस्ख । अहम- ३. अहो, उद्घान्तास्मि । नया । विप्रलब्धः वञ्चितः । भ्रान्त इति वा ॥ पौलस्त्यत्स्येति । अयं दृ- श्यमानः । उद्देश्यसमर्पकमिदम् । कृष्णायसविकारः कार्णायसः । लोहमय इत्यर्थः । जटायुषा विघटितः प्रध्वंसितः । पौलस्त्यस्य रावणस्य रथः स्यन्दनम् । विधेयसमर्प- कमिदम् । एते पुरतः पुरोवर्तमानाः कङ्कालशेषा' शरीरास्थिरूपशिष्टांशाः । ते पिशा- चवदनाः खराः रावणस्यन्दनीयाः पिशाचमुखाः रासभाः खङ्गेन छिन्ना कृत्ता च सा जटायुपक्षतिश्चेति समानाधिकरणसमासः । इतः अत्र । पक्षतिः पक्षमूलम् । अन्त- ामृता अन्तश्चलन्ती विद्युत्तडिद्यस्य तथोक्तः । अनेन दृष्टान्तेन रावणस्पर्शवशदोषो नास्तीति सूचितम् । अरिः रावणः । द्यां खमभ्युदस्थादभ्युद्गतवान् । इत इत्यस्माद्दे- शादिति वा ॥ ४३ ॥ आः पापेत्यादि । अत्र रोषसंभ्रमवचनरूप तोटक नाम सं- ध्यगमुक्तम् ॥ प्रलयधूमकेतो प्रलयसूचकधूमकेतुनामकग्रहसदृशेति भावसंबुद्धिः । यद्वा राक्षसकुलस्य प्रलये धूमकेतुरग्निः । राक्षसकुलदाहे प्रलयाग्निसदृशेत्यर्थः । मन्यु- विषयः क्रोधविषयः ॥ अन्य एव पूर्वसीतावियोगाद्विलक्षण एव विपर्ययः सीतावियोग- तृतीयोऽङ्कः । रामः-अन्य एवायमधुना विपर्ययो वर्तते । उपायानां भावादविरलविनोदव्यतिकरै- विमर्दैवीराणां जनितजगदत्यद्भुतरसः । वियोगो मुग्धाक्ष्याः स खलु रिपुघातावधिरभू- कटुस्तूष्णी सह्यो निरवधियं तु प्रविलयः ॥ ४४ ।। सीता-बहुमाणिदम्हि पुत्रविरहे । णिरवधित्ति हा हदम्हि । राम:-कष्टं भोः । व्यर्थ यत्र कपीन्द्रसख्यमपि मे वीर्य हरीणां वृथा प्रज्ञा जाम्बवतो न यत्र न गतिः पुत्रस्य वायोरपि । मार्ग यत्र न विश्वकर्मतनयः कर्तु नलोऽपि क्षमः सौमित्रेरपि पत्रिणामविषये तत्र प्रिये वासि मे ॥ ४५ ॥ १. बहुमानितास्मि पूर्वविरहे । निरवधिरिति हा हतास्मि । रूपविपर्यासः । वैलक्षण्यमेवाह----उपायानामिति । उपायानां सेनासंनाहसेतु- बन्धादिसाधनानां भावात्सत्त्वादविरलाः संतताः विनोदानां दुःखविस्मरणहेतूनां व्यतिकराः संबन्धा येषु तथोक्ताः तथाविधैः वीराणां सुग्रीवप्रभृतीनां विमर्दैः परस्प- रसंप्रहारैर्जनितः उत्पादितः जगतामत्यद्भुतरसो वीररसमयरसो येनेति तथोक्तः । वीररसादद्भुतरसस्योत्पत्तिरिति रसविदः । तदुक्तम्-'हास्यो भवति शृङ्गारात्करुणो रौद्रकर्मणः । अद्भुतश्च तथा वीराद्वीभत्साच्च भयानकः ॥' इति । मुग्धे सुन्दरे अक्षिणी यस्या इति बहुव्रीहिः । 'न त्वामिहस्थां जानीते रामः कमललोचने । तेन त्वां नानय- त्याशु शचीमिव पुरंदरः ॥' इत्युक्तम् । स वियोगः पूर्वकालिकविरहः । रिपुघातावधि- रभूद्रावणसंहारपर्यन्तोऽभूत् । कटुः क्रूरः । तूष्णी सह्यः उपायाद्यभावात् जोषभावेन सह्यः । अयं तु प्रविलयः इदानींतनवियोगः । पुनदर्शनाभावाभिप्रायेण वियोगस्य प्रलय- त्वोक्तिः । निरवधिर्यावजीवभावीत्यर्थः ॥४४॥ बहुमानितास्मि पूर्व विरहहेतुकबहुमानव- त्यस्मि । रिपुधातावधिरिति रावणसंहारस्य तन्मूलकत्वोक्तरिति भावः । न त्वदर्थ मया कृतम्' इति हि पूर्व रामेणोक्तम् । निरवधिरिति हा हतास्मि । अस्य वियोगस्य निरव- धित्वोक्तेः प्रत्याशा छिन्नेति भावः ॥ व्यर्थमिति । यत्र प्रदेशे कपीन्द्रसख्यं सुग्रीवमै- त्र्यम् । इदमुपलक्षणं सुग्रीवापेक्षयोपसर्जनत्वस्यापि । तदुक्तं रामायणे-'लोकनाथः पुरा भूत्वा सुग्रीवं नाथमिच्छति' इति, ‘स रामो वानरेन्द्रस्य प्रसादमभिकाङ्कते' इति च । व्यर्थ निरर्थकम् । हरीणां वानराणां वीर्य पराक्रमः । यत्र वृथा निष्प्रयोजकः । जाम्बवतः प्रज्ञा युक्तायुक्तकुशलता यत्र न सार्थिकेयध्याहारः । वायोः पुत्रस्य हनू- मतः गतिरपि न सार्थिका । मार्ग सेतुम् । न क्षमः न योग्यः । सौमित्रेरपि लक्ष्मणस्य । अपिशब्दात् स्वस्य । पत्रिणां बाणानामविषये अगोचरे तत्र तथाविधे क कस्मिन्देशे ..

उत्तररामचरिते सीता-बहुमाणिदम्हि पुषविरहे । रामः-सखि वासन्ति, दुःखायैव सुहृदामिदानी रामदर्शनम् । कि- यचिरं त्वां रोदयिष्यामि । तदनुजानीहि मां गमनाय । सीता-(सोद्वेगमोहं तमसामाश्लिष्य ।) हो भअवदि तमसे, गच्छदि दाणिं अजउत्तो । किं करिस्सम् । (इति मूर्च्छति ।) तमसा-वत्से जानकि, समाश्वसिहि समाश्वसिहि । विधिस्तवानु- कूलो भविष्यति । तदायुप्मतोः कुशलवयोवर्द्धिमङ्गलानि संपादयितुं भागीरथीपदान्तिकमेव गच्छावः । सीता-भैअवदि, पसीद । खणमेत्तं वि दुल्लहदंसणं पेक्खामि । रामः-अस्ति चेदानीमश्वमेधसहधर्मचारिणी मे । सीता—(साक्षेपम् ।) अजउत्त, का । वासन्ती-परिणीतमपि किम् । रामः-नहि नहि । हिरण्मयी सीताप्रतिकृतिः । १. बहुमानितास्मि पूर्वविरहे। २. हा भगवति तमसे, गच्छतीदानीमार्यपुत्रः । किं करोमि । ३. भगवति, प्रसीद । क्षणमात्रमपि दुर्लभदर्शनं पश्यामि । ४. आर्यपुत्र, का। असि भवसि॥४५ ॥सुहृदां मित्राणां रामदर्शनं दु.खायैव दु खफलदमेव । रोदयिष्यामि रुदन्तीं करोमि । अनुजानीहि अनुमति कुरु ॥ वर्द्धिमङ्गलानि द्वादशवर्षपूर्तिमगलानि देवतापूजादीनि शुभानि । आयुष्मतोः कुशलवयोः कुशलवोद्देशेन संपादयितुमुत्पाद- यितुम् । भागीरथ्याः संबन्धद्योतनायेयमुक्तिः ॥ अश्वमेधस्य सहधर्मचारिणीति विग्रहः । दम्पत्योः सहाधिकारत्वात् । अश्वमेधनिरूपितकर्तृकत्ववती जायास्तीति भावः ॥ साक्षे- पम् । आक्षेपश्चोदन तेन सह वर्तत इत्यर्थ. । क्रियाविशेषणम् । आर्यपुत्र का । सहधर्मचारि- णीति शेषः ॥ परिणीतमपि । भावे क्तः । परिणयोऽपि किमिति काका योजनीयम् । सीतापरित्यागानन्तरं न केवल शरीरधारणं कितु परिणयोऽपि जातः किमिति समु- च्चयार्थः । सीतावियोगे रामस्य शरीरधारणमाश्चर्यमिति प्रसिद्धम् । तदुक्तं हनूमता- 'दुष्करं कृतवान्रामो हीनो यदनया प्रभुः। धारयत्यात्मनो देह न शोकेनावसीदति ॥' इति, 'दुष्करं कुरुते रामो य इमां मत्तकाशिनीम् । विना सीतां महाबाहुर्मुहूर्तमपि जीवति ॥' इति च ॥ नहि नहि । परिणयप्रसक्तिरप्यनिष्टेति द्विरुक्त्या व्यज्यते ॥ इदा- नीमसि त्वम् । 'खापहेतुरनुपाश्रितोऽन्यया' इत्युक्तरीत्या एकदारव्रतत्वं तवेदानीमेव -- तृतीयोऽङ्कः । सीता-(सोच्छ्वासास्रम् ।) अजउत्त, दाणिं सि तुमम् । अम्हहे, उ. क्खाइदं दाणिं मे परिचाअसल्लं अजउत्तेण । रामः-तत्रापि तावद्वाप्पदिग्धं चक्षुर्विनोदयामि । सीता-धण्णा खु सा जा एवं अज्जउत्तेण बहुमण्णीअदि । जा एवं अजउत्तं विणोदयन्दी आसाबन्धणं खु जादा जीअलोअस्स । तमसा—(सस्मितस्नेहार्दै परिष्वज्य ।) अयि वत्से, एवमात्मा स्तूयते । सीता--(सलज्जम् ।) परिहसिदम्हि भअवदीए । वासन्ती-महानयं व्यतिकरोऽस्माकं प्रसादः । गमनं प्रति यथा कार्यहानिर्न भवति तथा कार्यम् । राम:-तथास्तु। सीता-पंडिऊला दाणिं मे वासन्दी संवुत्ता । १. आर्यपुत्र, इदानीमसि त्वम् । अहो, उत्खातितमिदानी मे परित्यागशल्य- मार्यपुत्रेण । २. धन्या खलु सा यैवमार्यपुत्रेण बहुमन्यते । यैवमार्यपुत्रं विनोदयन्त्याशा- बन्धनं खलु जाता जीवलोकस्य । ३. परिहसितास्मि भगवत्या । ४. प्रतिकूलेदानी मे वासन्ती संवृत्ता। प्रकटितमिति भावः । परित्याग एव शल्य परित्यागशल्यम् । निष्कारणपरित्यागस्य प्रत्यवायहेतुत्वप्रयुक्तदुःखजनकत्वाच्छल्यत्वरूपणम् । ननु वास्तवदोषाभावेऽपि दोष- वत्ता वृथारूपमित्यभिशस्तिमतां परित्यागो धर्मशास्त्रसिद्ध इति चेन्मैवम् । अग्निप्रवे- शादिना मिथ्याभिशस्तेरनवकाशात् । उत्खातितमुद्धृतम् ॥ तत्रापि हिरण्मयीसीताप्र- तिकृतौ बाष्पदिग्धमश्रुणा लिप्तम् । विनोदयामि विस्मृतदु.ख करोमि । एव च सीता- प्रतिकृतेरश्वमेधसहधर्मचारिणीत्वमानुषङ्गिकम् । मुख्य तु चक्षुर्विनोदनमिति सूचितम् । यैव बहुमन्यते चक्षुर्विनोदहेतुत्वप्रयुक्तबहुमानविषयीक्रियते सा प्रतिकृतिर्धन्या यैव- मार्यपुत्रं विनोदयन्ती विस्मृतदुःखं कुर्वन्ती जीवलोकस्याशाबन्धनं रामजीवनप्रत्या- शाहेतुत्वात्वखविषयकाशाहेतुर्जाता सा धन्येत्यन्वयः॥परिष्यज्यालिङ्गय । एव 'धन्या खलु सा' इत्यदिपूर्वोक्तरीत्या आत्मा स्तूयते स्तुतिविषयीक्रियते । त्वयेति शेषः ॥ भगवत्या । तमसयेत्यर्थः । अयं व्यतिकरः एष समागमः । अस्माक महान्प्रसादः । अस्मद्विषयानुग्रहप्रयोजित इत्यर्थः । यथा येन प्रकारेण कार्यस्य कर्तव्यस्य हानिर्लोपो न भवति तथा तेन प्रकारेण गमन प्रति गमनोद्देशेन कार्य यत्नः कर्तव्यः ॥ इदानीं वासन्ती मे प्रतिकूलानिष्टकारिणी संवृत्ता जाता । रामगमनं प्रत्यनुज्ञाकरणादिति भावः॥

उत्तररामचरिते तमसा-वत्से, एहि गच्छावः । सीता---एवं करम्ह । तमसा-कथं वा गम्यते । यस्यास्तव प्रत्युप्तस्येव दयिते तृष्णादीर्घस्य चक्षुषः । मर्मच्छेदोपमैर्यत्नैः संनिकर्षों निरुज्यते ॥ ४६॥ सीता-णेमो सुकिदपुण्णजणदंसणिज्जाणं अजउत्तचलणकमलाणम् । (इति मूर्च्छति ।) तमसा-वत्से, समाश्वसिहि । सीता--(आश्वस्य ।) केच्चिरं वा मेहान्तरेण पुण्णचन्ददंसणम् । १. एवं करिष्यावः। २. नमः सुकृतपुण्यजनदर्शनीयाभ्यामार्यपुत्रचरणकमलाभ्याम् । ३. कियचिरं वा मेघान्तरेण पूर्णचन्द्रदर्शनम् । .. एव कुर्वः । गच्छाव इत्यर्थः ॥ यस्यास्तव । प्रत्युप्तस्येवेति । तृष्णया अ- वलोकनस्पृहया दीर्घस्य आयतस्य । दयिते रामे प्रत्युप्तस्येव स्थितस्य कीलितस्येव स्थितस्य यस्यास्तव चक्षुषो नेत्रस्य संनिकर्षः दयिते संबन्धः । मर्मच्छेदोपमैहृदयादि- प्रदेशकृन्तनसदृशैर्यत्नैर्निरुद्धयते निवर्त्यते । तथाविधया त्वया कथं गम्यत इति पूर्वे- णान्वयः । तृष्णादीर्घस्येत्युक्त्या दयिते प्रत्युप्तस्येवेति दयितपदविवक्षितरामस्यामृत- सादृश्य व्यज्यते ॥ ४६ ॥ नम इति । प्राकृते चतुर्थीस्थाने षष्ठीद्विवचनस्य बहु- वचनत्वम् । सुकृतानि पुण्यानि यैस्ते सुकृतपुण्याः । सुकृतपुण्याश्च ते जनाश्चेति विग्रहे कर्मधारयः। तथाविधैः दर्शनीयाभ्यां सेवितुं शक्याभ्याम् । न तु मादृशपापकृज्जनदर्शना- हाँभ्यामित्यर्थः । 'न ते मनुष्या देवास्ते ये चारुशुभकुण्डलम्' इत्यादि दशरथोक्तरीत्या पुण्यकृद्दर्शनीयत्वं रामचरणयोरिति भावः । 'ममैव दुष्कृत किचिन्महदस्ति न संशयः' इत्युक्तरीत्या स्वस्याः पापकृत्त्वमिति तात्पर्यम् । अत्र सुष्टु कृत यैस्ते सुकृताः । तथा- विधाश्च ते पुण्यजना राक्षसाश्चेति ते विभीषणादयः इति कश्चित् । उक्तरीत्याश्रयणे कृतस्यापि संग्रह इति धिक् । इति मूर्च्छति मूर्छामभिनयति ॥ कियचिरं मेघान्तरे- ण पूर्णचन्द्रदर्शनं मेघमध्ये पूर्णचन्द्रदर्शनम् ॥ 'वीरशृङ्गारयोरेकः प्रधानं यत्र वर्ण्यते' इत्यौत्सर्गिकस्य शृङ्गारवीरान्यतरप्राधान्यस्य वीरशृङ्गारौ प्रायिकावित्यपवादेऽपि करुण- रसप्राधान्यकरणे मानाभावः । रसान्तराणां सत्वात् । नपत्र विनिगमकमस्ति येन करुणरसस्य प्राधान्यमुपपद्यते । किच करुणस्य दुःखात्मकत्वेन रसत्वं नास्ति । येन रस- प्रधाननाटके तस्योक्तिसंभवः स्यादिति शङ्कां कविस्तमसावाक्यव्याजेन परिहरति ।

तृतीयोऽङ्कः। ९ . तमसा-अहो संविधानकम् । एको रसः करुण एव निमित्तभेदा- द्भिन्नः पृथक्पृथगिव श्रयते विवर्तान् । आवर्तबुढ्दतरङ्गमयान्विकारा- नम्भो यथा सलिलमेव हि तत्समस्तम् ।। ४७ ॥ रामः-विमानराज, इत इतः । (सर्वे उत्तिष्ठन्ति ।) अहो संविधानकमिति । अपूर्वरूपकनिर्माणं विस्मयनीयमित्यर्थः । एक इति । रस्यते खाद्यत इति रसः काव्यानुशीलिनाभ्यासवशविशदीभूतवर्णनीयतन्मयी- भवनयोग्यसामाजिकमनोमुकुरभाव्यमानतया निर्भरानन्दसंविद्रूपः । करुणः इष्टजनवि- योगजन्यदुःखातिशयः । एक एव सन्नपि निमित्तभेदात् व्यञ्जकविभावादिविच्छित्तिवि- शेषाद्भिन्नः विलक्षणः । पृथक्पृथग्विवर्तान् परस्परविलक्षणशृङ्गाराद्यात्मना परिणामान् । 'व्यत्यस्तपरिणामः स्याद्विवर्तः' इति कपिलः । श्रयते भजते । एकस्यानेकधा विकारमात्रे दृष्टान्तमाह-आवर्तेति । आवर्तः जलस्य भ्रमः, बुद्बुदः कुङ्मलाकारजल- संस्थानविशेषः, तरङ्गः भङ्गः, एतद्रूपान्विकारान् । अवस्थान्तराणीत्यर्थः। तत्समस्तमा- वर्तादिकं सर्वं सलिलमेव जलमेव । तरङ्गादीनां जलविवर्तत्वाभावाद्विकारमात्रे दृष्टान्तार्थ- मिदम् । अत एव विवर्तानित्युक्तिः । इदमत्र कवेर्मतम्-'यद्यपि शृङ्गार एक एव रस इति शृङ्गारप्रकाशकारादिमतम् , तथापि प्राचुर्याद्रागिविरागिसाधारण्यात्करुण एक एव रसः । अन्ये तु तद्विकृतयः' इति । करुणस्यानुकार्ये रामादौ दुःखरूपत्वेऽपि सहृदयमा- नन्दात्मना परिणमतीत्युक्तरीत्या सामाजिके आनन्दरूपत्वमेव । तर्हि भावकानां करु- णात्मककाव्यश्रवणे अश्रुधाराविर्भावः कथमिति चेदत्राहुः-संभोगसमये स्त्रीणामध- रदशनादौ कृत्रिमदुःखानुभवसीत्कारवदत्राप्युपपत्तिः । सुखेऽपि दुःखवदुपचारः कुट्ट- मिति तल्लक्षणात्। यद्यस्य सहजदुःखात्मकत्वं स्यात्, न कोऽपि सामाजिकस्तत्र प्रवर्तेत, ततश्च करुणैकरसानां रामायणादीनामुच्छेदप्रसङ्गः स्यात्। तस्माद्रसान्तरवत्करुणस्याप्या- नन्दात्मकत्वमेवेति । एवं व रसान्तरापेक्षया प्रकृतित्वमेव करुणस्य प्राधान्ये विनिगमक शृङ्गारवीरयोः प्रायिकत्वोक्तेस्तदभावे अस्यैवोचितत्वादिति । यद्वा एको रसः रसश- ब्दवाच्यः। 'अत्र ओदनं पचति' 'अस्य सूत्रस्य पटो वातव्यः' इत्यादाविव भाविनी वृत्ति- माश्रित्य रसशब्दप्रयोगः । एवम् 'पुटपाकप्रतीकाशो रामस्य करुणो रसः' इत्यत्रापि बो. ध्यम् । करुणः अनुकार्यरामादिगतेष्टजनवियोगजन्यदुःखातिशयः । एक एव सन्नपि निमित्तभेदात्सखित्वपतित्वपत्नीत्वाद्युपाधिभेदाद्भिन्नः विलक्षण इव पृथक्पृथग्विवर्तान श्रयते । वासन्तीसीतारामप्रभृतिषु परस्परविलक्षणावस्थाविशेषान्भजति । अत्र विवर्त- शब्दो विकारमात्रपरः । एवं दृष्टान्तसामञ्जस्यमुपपद्यते । शेषं पूर्ववत् । अस्मिन् पक्षे रतान्तरसत्वे करुणरसप्राधान्यं तूक्तयुक्त्या ग्रन्थावहिः समर्थनीयम् । तथाचैता. दृशकरुणरसप्रधानत्वादपूर्वोऽयं कथासंनिवेश इति पूर्वेणान्वयः ॥ ४७ ॥ तमसा .. ..

. १०० उत्तररामचरिते तमसावासन्त्यौ—(सीतारामौ प्रति ।) अवनिरमरसिन्धुः सार्धमस्मद्विधाभिः स च कुलपतिराद्यश्छन्दसां यः प्रयोक्ता । स च मुनिरनुयातारुन्धतीको वसिष्ठ- स्तव वितरतु भद्रं भूयसे मङ्गलाय ॥ ४८ ॥ (इति निष्कान्ताः सर्वे ।) तृतीयोऽङ्कः। वासन्यौ सीतारामौ प्रति यथासंख्यं प्रति उद्दिश्य । अवनिरिति । अवनिर्भूमिः । अमरसिन्धुः गङ्गा । अस्मद्विधाभिः । तमसापक्षे मुरलागोदावरीप्रभृतिभिरित्यर्थः । वासन्तीपक्षे अन्याभिर्देवताभिः सहेत्यर्थः । यश्छन्दसा प्रयोक्ता वेदानां प्रवक्ता आद्यः कुलपतिः स च सूर्यश्च । मुनिर्मननशीलः सः प्रसिद्धः । अनुयातानुगता अरुन्धती य- मिति विग्रहे द्वितीयाबहुव्रीहिः । 'शेषाद्विभाषा' इति कप् । 'न कपि' इति हवप्रतिषेधः। तथाविधो वसिष्टः । तव भूयसे प्रचुराय मगलाय भद्रं मङ्गलं वितरतु ददातु । अत्र ग- भबीजस्य ऋषिश्रेयोवितरणरूपस्योद्भेदनादाक्षेपो नाम संध्यङ्गमुक्त भवति । 'यदत्रोच्छ्र- खलं किचित्कविनानेन बध्यते । निरङ्कुशतया तत्तु समाधेयं मनीषिभिः ॥ भावस्य तु गभीरत्वात्स कश्चिदिह कथ्यते । कोशव्याकरणे प्रायेणोच्यते ग्रन्थगौरवात् ॥४८॥' वाधूलवंशजनुषो भूसारनिवासराघवार्यस्य । उत्तररामचरित्रव्याख्यायामवसितस्तृतीयोऽङ्कः ॥ इति श्रीवाधूलवीरराघवविरचितायां भवभूतिभावतल. स्पर्शिनीसमाख्यायामुत्तररामचरितव्याख्यायां तृतीयोऽङ्कः।

. चतुर्थोऽङ्कः । (ततः प्रविशतस्तापसौ। एकः-सौधातके, दृश्यतामद्य भूयिष्ठसन्निधापितातिथिजनस्म सम- धिकारम्भरमणीयता भगवतो वाल्मीकेराश्रमपदस्य । तथाहि । नीवारोदनमण्डमुप्णमधुरं सद्यःप्रसूताप्रिया- पीतादभ्यधिकं तपोवनमृगः पर्याप्तमाचामति । गन्धेन स्फुरता मनागनुसृतो भक्तस्य सर्पिष्मतः कर्कन्धूफलमिश्रशाकपचनामोदः परिस्तीर्यते ॥ १ ॥ तत इति । तापसौ तपःशीलौ । एकः । तयोरन्यतर इत्यर्थः । सुधातुरपत्यं सौधातकिः । 'सुधातुरकड्च' इत्यकड्डादेश इञ्प्रत्ययश्च । तस्य संबुद्धिः सौधातके इति । अद्य मध्याह्ने भूयिष्ठ यथा भवति तथा सन्निधापितः निकटागामितः अतिथिजनो यस्मिन्निति तथोक्तस्य भगवतो वाल्मीके: ज्ञानशक्त्यादिपूर्णस्य प्राचेतसस्य यदा- श्रमपदं आश्रमस्थान तस्य समधिकारम्भेण प्रचुरतरमारभ्यमाणातिथिजनसत्कारादि- ना रमणीयता हृद्यता दृश्यतां चक्षुर्विषयीक्रियताम् । त्वयेति शेषः । नीवारेति । तपोवनमृगः तपोवनाश्रयो मुनिसंवर्धितहरिणः । सद्यः समानेऽह्नि । तस्मिन्दिन इत्यर्थः। प्रसूता प्रसववती । कर्तरि कः । तथाविधया प्रियया प्रियविषयहरिण्या पीतात् पानं प्राप्य । भावे क्तः । ल्यब्लोपे पञ्चमी । अभ्यधिकं अवशिष्टं प्रचुरं वा हरिणीकर्तृकं वा पानं प्राप्यापि प्रचुरमित्यर्थः । उष्णं च तत् मधुरं च माधुर्ययुक्तं चेति विशेषण- समासः । तथाविधं नीवारोदनमण्डं नीवारो धान्यविशेषः तत्संबन्ध्योदनस्य यन्मण्ड घनीभूतद्रवविशेषः तत्पर्याप्तं यावदिच्छानिवृत्ति आचामति पिबति । यद्वा सद्यःप्रसूतंप्रियापीतादिति हेतौ पञ्चमी । सद्यःप्रसूतप्रियाकर्तृकपानाद्धेतोः अभ्यधिक यथा भवति तथा प्रचुरं यथा भवति तथा उष्णं मधुरं चेत्यर्थ. । अत्र सद्यःप्रसूतत्वमुष्णत्वे हेतुः । उष्णत्वं हि प्रसवविह्वलशरीरतोदपरिहारकम् । प्रि- यात्वं च मधुरत्वे हेतुः । अत एव मधुरत्वोक्तिः प्रयोजनवती । अन्यथा तस्य मा- धुर्याव्यभिचारात्तद्वैयर्थ्य स्पष्टमेव । इदमेवाभिसंधाय 'अम्बुनीवारशष्पैः' इत्यत्र अम्वुना तरून् अम्बुनीवाराभ्यां शकुनीन् अम्वुनीवारशष्पैः कुरजानिति विवेक उक्त इति बोध्यम् । अत एव पर्याप्त यावदिच्छानिवृत्ति आचामति पिबति । सर्पि- ष्मतः घृतवतः भक्तस्यान्नस्य स्फुरता प्रसरता गन्धेन सौरभ्येण मनागीषदनुसृतः अनुगतः कर्कन्धूफलमिश्रस्य बदरीफलमिश्रस्य शाकपचनस्य पच्यमानशाकस्य । बद. रीफलानि हि आत्मरसार्थ शाकेन सह पच्यन्ते । आमोदः सौरभ्य परिस्तीर्यते विस्ती. येते विततीक्रियते । वायुनेति शेषः । यद्वा परिस्तीर्यते विस्तीर्णो भवतीत्यर्थः । लुयते केदारः खयमेवेत्यादाविव कर्मवद्भावाद्यगात्मनेपदे । अथवा सर्पिष्मतो भक्तस्य स्फुर- ता गन्धेन का अनुसृत: अनुक्षणं प्रसर्पन कर्कन्धूफलमिश्रशाकपचनामोदः कर्म .. ..

१०२ उत्तररामचरिते सौधातकिः-साअदं अणीअपिआराणं जिण्णकुच्छाणं अणज्झा- अकालणाणं तपोधणाणम् । प्रथमः-(विहस्य ।) अपूर्वः खलु बहुमानहेतुर्गुरुषु सौधातके । सौधातकिः-भो दण्डाअण, किंणामहेओ दाणिं एसो महत्तस्स इत्थिआसत्थस्स धुरंधरो अज्ज अदिही आअदो । दण्डायन:-धिप्रहसनम् । नन्वयमृष्यशृङ्गाश्रमादरुन्धतीं पुर- स्कृत्य महाराजदशरथस्य दारानधिष्ठाय भगवान्वसिष्ठः प्राप्तः । तत्कि- मेवं प्रलपसि । सौधातकिः-हुं वसिट्ठो। दण्डायन: -अथ किम् । सौधातकिः-मैए उण जाणिदं कोवि वग्यो विअ एसोत्ति । १. स्वागतमनेकप्रकाराणां जीर्णकूर्चानामनध्ययनकारणानां तपोधनानाम् । २. भो दण्डायन, किंनामधेय इदानीमेष महतः स्त्रीसार्थस्य धुरंधरोऽद्या- तिथिरागतः। ३. हुं वसिष्ठः। ४. मया पुनर्जातं कोऽपि व्याघ्र इव एष इति । अभिव्याप्यत इति व्याख्येयम् ॥१॥ साअदमिति । खागतम् । सकारस्य न लुक् । गकारस्य प्रायो लुक् । 'कगचजतदपयवाम्' इति प्राकृतव्याकरणसूत्रेण लोपः। अकारस्य ईषत्स्पृष्टतया श्रुतिरपि । सूत्रे प्रायोग्रहणाद्दकारस्य न लुक् । अनेकप्रका- राणाम् । बहुविधानामित्यर्थः । पूर्ववदेव लोपः। यः श्रुतिबोध्यम् । अत्र चकारशब्दस्य घवेति प्राकृतव्याकरणसूत्रेण पूर्वस्य वैकल्पिकलात् 'पिआर' इति दीर्घः । 'पाआ- राणा' इति खासुपोरिति सूत्रेणानुस्वारः । अनध्ययननिमित्तानामित्यर्थः । शिष्टान- ध्ययनस्य धर्मशास्त्रसिद्धलादिति भावः । जीर्णकूर्चानां शिथिलभ्रूमध्यानाम् । जीर्ण- शब्दे 'संयोगे च' इति प्राकृतव्याकरणसूत्रेण हृखः । गुरुषु वसिष्ठादिषु । भो दण्डाअ- णेति । नामधेयं तस्य संबुद्धिः । महतः प्रचुरस्य स्त्रीसार्थस्य अङ्गनासमूहस्य धुरं- घरो निर्वापकोऽतिथिरागतः किंनामधेय इत्यन्वयः । दण्डाअणेति खरस्य बिन्दव- मिति हखः । किंणामहेय इत्यत्र 'खघथधभाम्' इति सूत्रेण धकारस्य हकारः । स्त्री- शब्दस्य 'स्त्रीभगिनीदुहितवनितानां इत्थिबहिणीधूआविलआ' इति प्राकृतसूत्रेण इस्थिआदेशे कप्रत्ययस्य कलोपः । सार्थस्येत्यत्र 'संयोगे' इति इखः ॥ धिक्प्रहसनं हासहेतुभूतं वदीयं वचः। निन्दनीयं मिति भावः। दारान कौसल्याप्रभृतीन् । अधि- चतुर्थोऽ। २ दण्डायन:-आः, किमुक्तं भवति । सौधातकिः-जेण परावडिदेण एव सा वराई कविला कल्लाणी बलामोडिअ मडमडाइआ। दण्डायनः-समांसो मधुपर्क इत्याम्नायं बहुमन्यमानाः श्रोत्रियाया- भ्यागताय वत्सतरी महोक्षं वा पचन्ति गृहमेधिनः । तं हि धर्म धर्म- सूत्रकाराः समामनन्ति । सौधातकिः--भो, णिगिहीदोसि । दण्डायन:- कथमिव । सौधातकिः-जेणें आअदेसु वसिट्ठमिस्सेसु वच्छदरी विससिदा । अज एव्व पञ्चाअदस्स राएसिणो जणअस्स भअवदा वम्मीइणा धहि- महूहिं एव णिवत्तिदो महुवको । वच्छतरी उण विसजिदा । दण्डायन:-अनिवृत्तमांसानामेवं कल्पं व्याहरन्ति केचित् । निवृ- त्तमांसस्तु तत्रभवान् जनकः । १. येन परापतितेनैव सा वराकी कपिला कल्याणी बलात्कृत्य मडम- डायिता। २. भोः, निगृहीतोऽसि । ३. येनागतेषु वसिष्ठमिश्रेषु वत्सतरी विशसिता । अद्यैव प्रत्यागतस्य राज- जनकस्य भगवता वाल्मीकिना दधिमधुभ्यामेव निर्वर्तितो मधुपर्कः । वत्सतरी पुनर्विसर्जिता। ष्टाय । तनियामको भूत्वेत्यर्थः । प्रलपसि अनर्थकं वदसि ॥ हुमिति प्रश्ने ॥ अथ किमित्यङ्गीकारे । एष कोऽपि व्याघ्र इति मया ज्ञातमित्यन्वयः । संयोगे' इति ह्रखः। किमुक्तं भवति कुत एवमुक्तं भवति ॥ हि तेन वसिष्ठेन हि । वराकी प्रतिकूलदैवा। कपिला नाम गवामवान्तरजातिः । कल्याणी वत्सतरी। द्विहायनीत्यर्थः । बलात्कृत्य म- डमडायिता। आलम्भनशब्दानुकरणमिदम् । तथाविधशब्दयुक्ता कृतेत्यर्थः । आलब्धेति यावत् । मडायितेत्यर्थः । 'मृद्गातेर्मड्डपरिहट्टखडववन्नाजचडमलमडा' इति प्राकृतव्याकर- णसूत्रेण मृद्धातोर्मड इत्यादेशः । तेन व्याघ्र इति ज्ञातमिति पूर्वेण संबन्धः ॥ आम्नायं धर्मशास्त्रम् । महांश्चासौ उक्षा चेति विग्रहः । निपातनादकारान्तत्वम् । पचन्ति श्र- पयन्ति । समामनन्ति उपदिशन्ति । अत्र मया व्याघ्र इत्यादिना गुरुतिरस्कृतिरुपद्रव उक्तः ॥ भो निगृहीतोऽसि पराजितोऽसि ॥ आगतेष्वेवेति । मिश्रशब्दः पूज्य- ताद्योतकः । एवार्थे एव्व' इति प्राकृतसूत्रेण एव्वादेशः । दधिमधुभ्यामित्यनेन दधि- मधुसंस्पृष्टमित्यापस्तम्बवचनमभिप्रेतम् । निर्वर्तितः निष्पादितः । वत्सतरी पुनरिति । विसर्जिता मुक्ता । न बालब्धेत्यर्थः ॥ व्याहरन्ति केचिदिति । केचिद्धर्मशास्त्रकारा १०४ उत्तररामचरिते सौधातकि:-किंणिमित्तम् । दण्डायनः-यद्देव्याः सीतायास्तादृशं दैवदुर्विपाकमुपश्रुत्य वैखा- नसः संवृत्तः, तदस्य कतिपयसंवत्सरश्चन्द्रद्वीपतपोवने तपस्तप्यमानस्य । सौधातकि: -दो किंति आअदो। दण्डायनः-संप्रति च प्रियसुहृदं भगवन्तं प्राचेतसं द्रष्टुम् । सौधातकि:-अवि अज्ज संबन्धिणीहिं समं णिउत्तं दंसणं से णवेत्ति । दण्डायनः--संप्रत्येव भगवता वसिष्ठेन देव्याः कौसल्यायाः सकाशं भगवत्यरुन्धती प्रहिता । यथा स्वयमुपेत्य स्नेहादयं द्रष्टव्य इति । सौधातकिः-जंह एदे दृविरा परप्परं एव मिलिदा, तह अम्हे वि वडुहिं सह मिलिअ अणज्झाअमहूस्सवं खेलन्तो मणेम्ह । अह कुत्थ सो जणओ। दण्डायन:-तथायं प्राचेतसवसिष्ठावुपास्य संप्रत्याश्रमस्य बहि- वृक्षमूलमधितिष्ठति । य एषः हृदि नित्यानुषक्तेन सीताशोकेन तप्यते । अन्तःप्रसृप्तदहनो जरन्निव वनस्पतिः ॥ २ ॥ (इति निष्क्रान्तौ ।) इति मिश्रविष्कम्भः। १. किंनिमित्तम् । २. ततः किमित्यागतः। ३. अप्यद्य संबन्धिनीभिः समं निवृत्तं दर्शनमस्स नवेति । ४. यथैते स्थविराः परस्परमेव मिलिताः, तथावामपि बटुभिः सह मिलित्वा- नध्यायमहोत्सवं खेलन्तो मानयावः । अथ कुत्र स जनकः । आपस्तम्बादयः। एव कल्पं मांसवर्ज मधुपर्कानुष्ठानपरग्रन्थं व्याहरन्ति वदन्ति । निव- त्तमांसो वर्जितमांसः ॥ यद्देव्या इत्यादि । वैखानसः वानप्रस्थः । चन्द्रद्वीपतपोवने तपस्तप्यमानस्य तपश्चरतः कतिपयः संवत्सरः । गत इति शेषः । चन्द्रद्वीप इति क- श्चिद्दीपविशेषः ॥ प्राचेतसं वाल्मीकिम् ॥ संबन्धिनीभिः दर्शनं निवृत्त नवेति ज्ञायते अपीति योजना अपि । अयम् । जनक इत्यर्थः । नेहाद्रष्टव्यः प्रेम्णा दर्शनीयः ॥ स्थ- विराः वृद्धाः । अनध्यायः अध्ययनाभावः स एव महोत्सवः । आनन्दहेतुत्वादुत्सव- त्वरूपणम् ॥ उपास्य परिचर्य । हृदीति । य एषः। जनक इत्यर्थः । हृदि नित्यानुषक्तेन चतुर्थोऽङ्कः। . (ततः प्रविशति जनकः ।) जनक: अपत्ये यत्ताहग्दुरितमभवत्तेन महता विषक्तस्तीत्रेण व्रणितहृदयेन व्यथयता। पटुर्धारावाही नव इव चिरेणापि हि न मे निकृन्तन्मर्माणि क्रकच इव मन्युर्विरमति ॥ ३ ॥ कष्टं एवं नाम जरया दुःखेन च दुरासदेन भूयः पराकसांतपनप्रभृति- भिस्तपोभिः शोषितान्तःशरीरधातोरवष्टम्भ एव महानद्यापि मम दग्ध- देहो न पतति । अन्धतामिस्रा ह्यसूर्या नाम ते लोका प्रेत्य तेभ्यः प्रति- विधीयन्ते य आत्मघातिन इत्येवमृषयो मन्यन्ते । अनेकसंवत्सरातिक्र- मेऽपि प्रतिक्षणपरिभावनास्पष्टनिर्भासः प्रत्यग्र इव न मे दारुणो दुःख- संवेगः प्रशाम्यति । अयि मातः देवयजनसंभवे, ईदृशस्ते निर्माण- भागः परिणतः, येन लज्जया खच्छन्दमप्याक्रन्दितुं न शक्यते । नित्यलग्नेन सीताशोकेन सीतानिमित्तदुःखेन तप्यते तप्तो भवति । जरन् वृद्धः अन्तः प्रज्वलद्वह्निः । वनस्पतिः पुष्पहीनफलवृक्षः ॥२॥ मिश्रविष्कम्भः। संस्कृतप्राकृतात्मकवि- ष्कम्भ इत्यर्थः ॥ अपत्य इति । यस्मात् अपत्ये । सीतायामित्यर्थः । तादृग्दुरितं कौलीन- रूपपापं व्यसनं वाभवत् । तीव्रेणातिप्रचुरेण तेन दुरितेन व्यथयता दुःखं प्रापितेन ब्रणि- तहृदयेन विषक्तः प्रसक्तः । पटुः तीक्ष्णः । धारया वहतीति धारावाही । अत्यन्तनैरन्त- र्येण प्रवाहीत्यर्थः । चिरेणापि चिरकालेनापि नव इव स्थितः मर्माणि हृदयादीनि निकृन्तन् छिन्दन् क्रकच इव कराल इव स्थितः । मन्युः शोकः कोपो वा न विरमति न शाम्यति॥३॥जरया वयोहान्या । दुरासदेन दुःसहेन । दुःखेन सीताविश्लेषजेन । पराको द्वादशदिनोपवासकृच्छ्रम् , सांतपनं चान्द्रायणविशेषः, एवमादिभिः कायशोषकनि- यमविशेषैः शोषितान्तःशरीरधातोर्मे कथमवष्टम्भ एव पातप्रतिबन्धकावलम्बनमेव । दग्धदेहः हतहृदयमितिवत् निन्दायां दग्धशब्दः । अद्यापि न पततीति योजना । अनेकसामग्रीसमवधानेऽपि पाताभावो विस्मयनीय इति भावः । तर्हि भृगुपतनादिना त्यज्यतामित्यत्राह-अन्धतामिस्त्रा इति । आत्मानं घ्नन्तीति आत्मघातिन इति विग्रहः । 'सुष्यजातौं' इति णिनिः । ये बलात्कियन्ते तेभ्यः तान् पातयितुं क्रियार्थे चतुर्थी । असूर्या सूर्यरहिता अन्धतामिस्रा अन्धतमसमयास्ते प्रसिद्धा लोका नरकवि- शेषाः प्रेत्य मरणानन्तरं प्रतिविधीयन्ते इत्येवमृषयो मन्यन्ते । 'असूर्या नाम ते लोका अन्धेन तमसावृताः। तांस्ते प्रेयाभिगच्छन्ति ये के चात्महनो जनाः॥ इति श्रुतिः । इति धर्मशास्त्रकाराणां मतम् । प्रतिक्षणपरिभावनया संततविचारेण । 'भूअवकल्कने' ।अव- कल्कनं चिन्तनम् । स्पष्टनिर्भासः विशदप्रकाशः । प्रत्यग्र इव नव्य इव न प्रशाम्यति - १०६ उत्तररामचरिते हा पुत्रि, अनियतरुदितस्मितं विराज- कतिपयकोमलदन्तकुङ्मलाग्रम् । वदनकमलकं शिशोः स्मरामि स्खलदसमञ्जसमजु जल्पितं ते ॥ ४ ॥ भगवति वसुंधरे, सत्यमतिदृढासि । त्वं वह्निर्मुनयो वसिष्ठगृहिणी गङ्गा च यस्या विदु- माहात्म्यं यदि वा रघोः कुलगुरुर्देवः स्वयं भास्करः । विद्यां वागिव यामसूत भवती शुद्धिं गतायाः पुन- स्तस्यास्त्वहुहितुस्तथाविशसनं किं दारुणे मृष्यथाः ॥ ५ ॥ न नश्यति । निर्माणभागः सृष्टिफलम् । येन निर्माणभागेनाक्रन्दितुमपि रोदितुमपि । अपिशब्दाक्रियान्तरानर्हत्वं सूच्यते । दोषवादहेतुकत्वात्त्यागस्येति भावः अनियतेति । अनियतरुदितस्मितं अव्यवस्थितरोदनहासनम् । विराजन्तः कति- पये त्रिचतुराः कोमलाः ललिताः दन्ता एव कुड्मलाग्राणि यस्य तथोक्तम् । तेन कुमलाग्रशब्दस्य न पूर्वनिपातः । न वा दन्तशब्दस्य दतादेशः । स्खलदपूर्णम- समञ्जसं पूर्वापरसंगतिरहितं मञ्जु सुन्दरं जल्पितं वचनं यस्य तथोक्तं ते वदनकम- लकं वदनमेव कमलम् । अनुकम्पायां कन् । स्मरामि उत्कण्ठापूर्वकं चिन्तयामि । अनानियतरुदितस्मितं स्खलदसमञ्जसमिति विशेषणानुगुण्याद्वदनकमलकमित्यत्र परि- णामालंकारः । केवलकमलस्य प्रकृतक्रियान्वयित्वानुपपत्तेः । 'परिणामः क्रियार्थश्चे- द्विषयी विषयात्मना' इति लक्षणात् । दन्तकुङ्मलाग्रमित्यत्रापि क्रियान्वयविवक्षायां परिणामः रूपकं वा॥४॥भगवतीति । अतिदृढासि अतिकठिनासीति सत्यम् । अत्र 'यो वा बिभर्ति काठिन्यं तस्मै भूम्यात्मने नमः' इति वचन द्रष्टव्यम् । तव वसुंधरात्वप्रयुक्त- धैर्येण पुत्रीनाशोऽप्यकिंचित्कर एवेत्युपालम्भो व्यज्यते । त्वमिति । यस्याः सीताया माहात्म्यममानुषत्वं त्वं वेत्थ । विदुरित्यस्य विभक्तिवचनयोर्विपरिणामेन योजना । वहिर्वेद, मुनयो विदुः, वसिष्ठगृहिणी अरुन्धती वेद जानाति, गङ्गा च वेद जानाति । यदि वा किंच रघोः कुलगुरुः रघुवंशजनकस्तदाचार्यों वसिष्ठो वा । देवः दीप्तशील: भास्करः खयं वेद परानपेक्षं जानाति । अत्र भूम्यादीनामन्योन्यनिरपेक्षप्रामाण्यप्र- तिपत्त्यर्थे क्रियैकशेषाकरणाद्विदुरित्यत्र न मध्यमपुरुषः प्रयुक्तः । अत एव पुरुष- वचनविपरिणामेन भिन्नानि वाक्यानि । यां प्रसूतवती तस्यास्तथाविधायाः पुनः शुद्धि गतायाः । अग्निप्रवेशादित्यर्थः । त्वहुहितुः सीतायास्तथाविशसनमन्यादृशहिंसनं किं मृध्यथाः कथं सोढवत्यसि ॥ ५॥ गृष्टिः दशरथकञ्चुकी तेन । निरूप्य हेतुभिर्विचार्य । इयं सैवेति एतां कः प्रत्येति प्रत्यभिजानाति । नाम प्रसिद्धौ । न कोऽपीत्यर्थः । , ..

चतुर्थोऽङ्कः । (नेपथ्ये ।) इत इतो भगवतीमहादेव्यौ । जनकः-अये, गृष्टिनोपदिश्यमानमार्गा भगवत्यरुन्धती । (उत्थाय ।) कां पुनर्महादेवीत्याह । (निरूप्य ।) हा हा, कथमयं महाराजस्य दशरथस्य धर्मदाराः प्रियसखी मे कौसल्या । क एतां प्रत्येति सैवेयमिति नाम । आसीदियं दशरथस्य गृहे यथा श्रीः श्रीरेव वा किमुपमानपदेन सैषा । कष्टं बतान्यदिव दैववशेन जाता दुःखात्मकं किमपि भूतमहो विकारः ॥ ६ ॥ य एव मे जनः पूर्वमासीन्मूर्ती महोत्सवः । क्षते क्षारमिवासह्य जातं तस्यैव दर्शनम् ॥ ७ ॥ (ततः प्रविशत्यरुन्धती कौसल्या कञ्चुकी च ।) अरुन्धती—ननु ब्रवीमि द्रष्टव्यः स्वयमुपेत्यैव वैदेह इत्येवं वः कुलगुरोरादेशः । अत एव चाहं प्रेषिता । तत्कोऽयं पदे पदे महान- नध्यवसायः । कञ्चकी-देवि, संस्तभ्यात्मानमनुरुध्यख भगवतो वसिष्ठस्यादेश- मिति विज्ञापयामि । कौसल्या-'ईरिसे काले मिहिलाहिवो मए दिट्टयो त्ति समं एव सबदुःखाइ ओदरन्ति । ता ण सक्कुणोमि उबट्ठमाणमूलबन्धणं हिअअं पज्जवत्थावेदुम् । १. ईदृशे काले मिथिलाधिपो मया द्रष्टव्य इति सममेव सर्वदुःखान्यवतरन्ति । तस्मान्न शक्लोम्युदर्तमानमूलबन्धनं हृदयं पर्यवस्थापयितुम् । आसीदिति । इयं कौसल्या दशरथस्य गृहे श्रीरिवासीदथवा श्रीरेवासीत् । उपमा- नत्वबोधकयथाशब्देन किम् । न किमपीत्यर्थः । अत्रोपमालकारः, रूपकालंकारः, आक्षेपालकारश्च । सैषा श्रीसदृशी श्रीभूता वा इयं कौसल्या दैववशेन दैवेच्छया अन्यदिव जातान्यद्भूतमिव संवृत्ता । अलक्ष्मीरिव जातेत्यर्थः । अत्रेवेति वर्तते । दुः. खात्मक दुःखैकरसं किमपि वाचामपरिच्छेद्यं भूतं प्राणिविशेषः जाता । साक्षादलक्ष्मी जातेत्यर्थः । यथा श्रीः श्रीरेव वेत्यनयोः प्रतिद्वन्द्वभूतमिदमहो विकारः प्राणिनामुप- चयापचयरूपागन्तुको विस्मयनीय इत्यर्थः । कष्ट बतेति दुःखातिशये ॥६॥य इति । य एष जनः कौसल्या ॥ ७ ॥ आदेशः आज्ञा । अनध्यवसायः संशयः ॥ आत्मानं .

उत्तररामचरिते अरुन्धती-अत्र कः संदेहः । संतानवाहीन्यपि मानुषाणां दुःखानि संबन्धिवियोगजानि । दृष्टे जने प्रेयसि दुःसहानि स्रोतःसहरिव संप्लवन्ते ॥ ८ ॥ कौसल्या-कहं णु खु वच्चाए मे वहूए वनगदाए तस्सा पिदुणो राएसिणो मुहं दंसम्ह। अरुन्धती- एष वः श्लाघ्यसंबन्धी जनकानां कुलोद्वहः । याज्ञवल्क्यो मुनिर्यस्मै ब्रह्मपारायणं जगौ ॥ ९ ॥ कौसल्या-ऐसो सो महाराअस्स हिअअणिबिसेसो वच्चाए मे वहूए पिदा विदेहराओ सीरद्धओ । सुमारिदम्हि अणिवेदरमणीए दिवहे । हा देव, सवं तं णत्थि । १. कथं नु खलु वत्साया मे वध्वा वनगतायास्तस्याः पितू राजर्षेर्मुखं दर्शयामः । २. एष स महाराजस्य हृदयनिर्विशेषो वत्साया मे वध्वाः पिता विदेहराजो सीरध्वजः । स्मारितास्मि अनिर्वेदरमणीयान्दिवसान् । हा देव, हा देव, सर्व तन्नास्ति । धृतिम् । संस्तभ्य प्रतिहतगतिं कृत्वा । अनुरुध्यस्वानुतिष्ठेत्यर्थः । सम युगपत् । अवत- रन्ति प्राप्नुवन्ति । उद्वर्तमानमुद्गतं मूलबन्धनं मूलनियन्त्रणं यस्य तथोक्तम् । शिथि. लबन्धनमित्यर्थः । पर्यवस्थापयितुम् ॥ संतानेति । संतानेन अविच्छेदेन वाहीनि प्रवहन्त्यपि दुःखानि प्रेयसि जने दृष्टे सतीत्यन्वयः । स्रोत.सहस्रैरनन्तैः स्रोतोभिः उपलक्षणे तृतीया । संप्लवन्ते महोवीभवन्ति ॥८॥ वध्वाः स्नुषायाः ॥ एष इति । यस्मै यं जनकं सार्थयितुम् । 'क्रियार्थ-' इति चतुर्थी । ब्रह्मपारायणं स्वरूपेण गुणैश्च अनवधिकाशयब्रह्मत्वयुक्तपरमात्मप्रतिपादकवेदान्तभाग जगौ उपदिदेश । स एष इति योजना ॥९॥ हृदयनिर्विशेषः । अन्तरङ्ग इत्यर्थः । सीरः ध्वजो यस्य तथोक्तः । अनि- र्वेदाश्च ते रमणीयाश्च । न विद्यते निर्वेदश्चित्तग्लानिर्येषु तथोक्ताः । रमणीया आनन्द- हेतवः । तथाविधान्दिवसान्स्मारितास्मि दिवसविषयकस्मरणवती कृतास्मि । सर्वमेतदु. पलभ्यमानं सर्व नास्ति असत्कल्पम् । हा दुःख्यते ॥ अभिवादयते । प्रणामेनाशीर्वा- .

चतुर्थोऽङ्कः । १०९ जनकः-(उपसृत्य ।) भगवत्यरुन्धति, वैदेहः सीरध्वजोऽभिवादयते। यया पूर्तमन्यो निधिरपि पवित्रस्य महसः पतिस्ते पूर्वेषामपि खलु गुरूणां गुरुतमः । त्रिलोकीमाङ्गल्यामवनितललीनेन शिरसा जगद्वन्द्यां देवीमुषसमिव वन्दे भगवतीम् ॥ १०॥ अरुन्धती-अक्षरं ते ज्योतिः प्रकाश्यताम् । स त्वां पुनातु देवः परोरजसां य एष तपति । जनकः-आर्य गृष्टे, अप्यनामयमस्याः प्रजापालकस्य मातुः । कञ्चकी--(स्वगतम् ।) निरवशेषमतिनिष्ठुरमुपालब्धाः स्मः।(प्रकाशम् ।) राजर्षे, अनेनैव मन्युना चिरपरित्यक्तरामभद्रदर्शनां नार्हसि दुःखयितुम- तिदुःखितां देवीम् । रामभद्रस्यापि दैवदुर्योगः कोऽपि । यत्किल स- मन्ततः प्रवृत्तबीभत्सकिंवदन्तीकाः पौराः । न चामिशुद्धिमनल्पकाः प्र- तियन्तीति दारुणमनुष्ठितं देवेन . जनकः-(सरोषम् ।) आः, कोऽयमग्निर्नामास्मत्प्रसूतिपरिशोधने । कष्टमेववादिना जनेन रामभद्रपरिभूता अपि पुनः परिभूयामहे । चयतीत्यर्थः ॥ ययेति । पूर्तमन्यः आत्मविषयकपूतत्वप्रकारकज्ञानवान् । त्रिलो. कीमाइल्यां लोकत्रयमङ्गलहेतुभूतामुषसमिव प्रातःसंध्यादिदेवतामिव स्थिताम् । अवनितललीनेन शिरसेत्युपलक्षणमष्टाङ्गप्रणामस्य ॥१०॥ अक्षरं प्रकृतिपुरुषवत्खरूप- स्वभावविकाररहितं ज्योतिः स्वयंप्रकाशं प्रकाश्यतां प्रतिभासताम् । 'अक्षरमम्बरान्त- धृतेः' 'ज्योतिश्चरणाभिधानात्' इत्यधिकरणद्वयार्थः प्रत्यभिज्ञापितः । देवः जगत्सृष्टया- दिलीलावान् । रजसा समस्तदोषजातेभ्यः परः । संबन्धसामान्ये षष्ठी । 'परोरजाः' इति वा पाठः । रजसः पर इति विग्रहः। बाहुलकात्समासः । पृषोदरादित्वादोकारश्च य एषस्तपति स त्वां पुनातु । अनेन 'अन्तस्तद्धर्मोपदेशात्' इत्यधिकरणार्थः सूचितः । परोरजसामित्यनेन 'उदेति ह वै सर्वेभ्यः पाप्मभ्यः' इति श्रुतिश्चोदिता ॥ अना- मयमारोग्यम् । प्रजापालकस्य मातु: राममातुः कौसल्यायाः । इदं च साभिप्रायम् । अनामयमित्यनेन एवं दुःखिनी कियच्चिरं जीवयिष्यतीत्युपालम्भो व्यज्यते ॥ निरवशेष निःशेषमतिनिष्ठुरं अतिरूक्षम् । अनेनैव मन्युना 'अप्यनामयं प्रजापालकस्य मातुः' इ- त्यनेन व्यज्यते न क्रोधेन । दैवस्य भवितव्यतायाः दुर्योगः दुःखजननसन्नाहः । यत्किल यस्माद्धेतोः प्रवृत्ता प्रसृता बीभत्सा जुगुप्सनीया किवदन्ती जनश्रुतिः येषां तथोक्काः । 'किंवदन्ती जनश्रुतिः' इत्यमरः। पौराः पुरे भवा ।तस्माद्देवदुर्योगः कोऽपीति पूर्वेणान्वयः । अनल्पकाः अत्यल्पाः । अग्निशुद्धि न च प्रतियन्ति न विश्वसन्ति च । इति पूर्वोक्ताद्धेतोः दारुणं परित्यागात्मकं रौक्ष्यम् ॥ अग्निशुद्धिरिति क इति योजना । प्रस्ताव इति शेषः । , . उ. रा. १० ११० उत्तररामचरिते अरुन्धती--(निश्वस्य ।) एवमेतत् । अमिरमिरिति वत्सां प्रति लघून्यक्षराणि । सीतेत्येव पर्याप्तम् । हा वत्से, शिशुर्वा शिष्या वा यदसि मम तत्तिष्ठतु तथा विशुद्धेरुत्कर्षस्त्वयि तु मम भक्तिं द्रढयति । शिशुत्वं स्त्रैणं वा भवतु ननु वन्द्यासि जगतां गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः ॥ ११ ॥ कौसल्या-अहो, समुम्मूलअन्ति विअ वेअणाओ। (इति मूर्च्छति ।) जनक: हन्त, अरुन्धती-राजर्षे, किमन्यत् । स राजा तत्सौल्यं स च शिशुजनस्ते च दिवसाः स्मृतावाविर्भूतं त्वयि सुहृदि दृष्टे तदखिलम् । विपाके घोरेऽस्मिन्न खलु न विमूढा तव सखी पुरंध्रीणां चित्तं कुसुमसुकुमारं हि भवति ॥ १२ ॥ किमेतत् । १. अहो, समुन्मूलयन्तीव वेदनाः । एवंवादिना अग्निशुद्धिरिति वादिना जनेन परिभूयामहे अवमन्यामहे । उपसर्गवशेन भवतेः कर्मणि लकारः ॥ एतत्परिभूयामहे इत्येतत् । एवं जनकोक्तदशासद्भाव एव । लघून्यक्षराणि लाघवापादकशब्दाः । सीतेत्येव पर्याप्तम् । वहिसीतयोः पावनत्वे सम- कक्ष्यत्वात्प्रत्युत सीतायाः प्रकर्षात्सीताशब्द एव परिपूर्ण इति भावः । शिशुरिति । त्वं मम शिशुर्वा शिष्या वासीति यत् तत्तिष्ठत्विति योजना । विशुद्धः निर्दोषतायाः उत्कर्षः अतिशयः । तथा भक्तिं अन्यादृशीं पूजनीयताप्रतिपत्ति त्वयि मम द्रढयति स्थिरां करोति । शिशुत्वं स्रणं स्त्रीत्वं वा । 'स्त्रीपुंसाभ्यां ननो' इति नञ्प्रत्ययः । भवतु स्यात् । न तु तावता वन्द्यावहानिः । जगतां वन्द्यासि अभिवादनीयासि । न- न्वित्यवधारणे । गुणाः गुणिषु अहिंसाशौचमस्तेयमित्यायुक्तगुणवत्सु पूजास्थानमन्व- यव्यतिरेकाभ्यां पूजाप्रयोजकाः। लिङ्गजटोपवीतादिकं न पूजाप्रयोजकम् ॥११॥ वेदना दुःखानि । समुन्मूलयन्ति मूलमुत्पाटयन्ति । इति मूर्च्छति मूर्छामभिनयति ॥ हन्त किमेतत् । शस्त्राभिघातादिकमन्तरा मूर्छा विस्मयनीयेत्यर्थः ॥अन्यत्किम् । वक्ष्यमाणाद- न्यन्न किमपीत्यर्थः । स राजेति । स राजा तत्सौख्यं स च शिशुजनस्ते च दिवसा इति यत्तदखिल सुहृदि त्वयि दृष्टे सति स्मृतावाविर्भूतं कस्याप्यंशस्य प्रतोषेण स्मृ- तिविषयीभूतम् । 'सदृशा दृष्टचित्तायाः स्मृतिबीजस्य बोधकाः' इत्युक्तेः। घोरे भयकरे अस्मिन्विपाके प्रकृतसीतात्यागरूपदैवपर्यवसाने तव सखी कौसल्या विमूढा नेति न । अप्यनामयमस्या इत्यादिभवद्वचनभनयाविष्कृतो भवन्मतरीत्या योऽस्याः कठिनचित्त- चतुर्थोऽङ्कः । १११ जनक: हन्त सर्वथा नृशंसोऽस्मि । यच्चिरस्य दृष्टान्प्रियसुहृदो प्रियदारानस्निग्ध इव पश्यामि । स संबन्धी श्लाघ्यः प्रियसुहृदसौ तच्च हृदयं स चानन्दः साक्षादपि च निखिलं जीवितफलम् । शरीरं जीवो वा यदधिकमतोऽन्यत्प्रियतरं महाराजः श्रीमान्किमपि मम नासीद्दशरथः ॥ १३ ॥ कष्टमियमेव सा कौसल्या। यदस्याः पत्युर्वा रहसि परमं त्रायितमभू- दभूवं दम्पत्योः पृथगहमुपालम्भविषयः । प्रसादे कोपे वा तदनु मदधीनो विधिरभू- दलं वा तत्स्मृत्वा दहति यदवस्कन्ध हृदयम् ॥ १४ ॥ ताप्रयुक्तमूर्छाभावो वा नेत्यर्थः । पुरंध्रीणां चित्तं हि यस्मात्कुसुमवन्मृदु तस्माद्विमूढाने- तिन॥१२॥ एवमरुन्धत्या बोधितोऽनुतपति-हन्तेति। योऽह चिरस्य दृष्टान् चिरा- यान्प्रियसुहृदो दशरथस्य यिप्रान्मत्प्रीतिविषयान्मयि प्रीतियुक्तान् हि दारान् कौसल्याम- स्निग्ध इव शत्रुरिव पश्यामि शत्रुकर्तृकदर्शनसदृशदर्शनवानस्मि । सोऽहं सर्वप्रकारेण क्रूरोऽस्मि । हन्त अनुतप्यते । स संबन्धीत्यादि । श्रीमान् लक्ष्मीवान्महाराजः सा. र्वभौमः स दशरथः मम श्लाघ्यः संबन्धी अभूत् । असौ संबन्धीभूतो दशरथः प्रि. यसुहृदभूत् प्रीतिमान् शोभनहृदयवांश्चाभूत् । 'सुहृदुहृदौ मित्रामित्रयोः' इति हृदयश- ब्दस्य हृदादेशः । तदन्तरङ्गत्वेन प्रसिद्ध हृदयं चाभूत् । चकारेण संबन्धिसुहृत्त्व- समुच्चयः । तदिति दशरथपरं विधेयप्राधान्याक्लीबत्वम् । एवं च तत् संबन्धिसुहृ- द्भूतदशरथः हृदयं चाभूदिति वा । स पूर्वोक्तत्रयात्मा दशरथः साक्षादानन्दश्च । सा- क्षाच्छब्देनानन्दहेतावानन्दत्वात्कोपो व्यावर्तते । साक्षान्मुख्य इत्यर्थः। निखिलं जीवितफलमपि च कर्मज्ञानभक्तिरूपं जीवनप्रयोजनं च । चकारः पूर्वसमुच्चायकः । शरीरमभूदुर्लभो मानुषो देह इत्युक्तं शरीरं चाभूत् । सकलधर्मसाधनत्वात् । जीवो वाभूत्। जीवश्चाभूत्तस्य हि ज्ञानानन्दमयत्वात्प्रेमास्पदत्वम् । अतो जीवादधिकं समस्तकल्याणगुणा- मृतोदधित्वेनानन्दमयत्वेन च प्रकृष्टं प्रियतरं प्रियो जीवः प्रियतरं ब्रह्म तथाविध यत्परं ब्रह्म तदभूत् । यत एव ततः कि नाभूत् । सर्वमप्यभूदित्यर्थः । लोके संबन्धि. सुहृदादीनां तत्तन्मात्रत्वमस्य तु सर्वदा सर्वविधत्वमिति भावः ॥१३॥ यदस्या इति। अस्या वा पत्युर्दशरथस्य वा यत्परम त्रायितमभूद्रहसि गुप्तभाषण विचारो वा जातः । आचारणिजन्तात्कर्तरि क्तः । तत्राह दम्पत्योर्जायापत्योः पृथगुपालम्भविषयोऽभूवं परस्परपरिहारेण परस्परविषये अयमेवमुक्तवानयमेवं कृतवानियमेवमुक्तवती इयमेवं कृतवतीत्यादिपरस्परापराधकथनपात्रमासम् । 'परमत्याहितमभूत्' इति पाठोऽपि दृश्य ते। प्रणयकलहरूपजीवानापेक्षकर्मेति तदर्थः । शेष पूर्ववत् । तदनु उपालम्भानन्तर ११२ उत्तररामचारत - अरुन्धती-हा कष्टम् । अतिचिरनिरुद्धनिःश्वासनिष्पन्दहृदयमस्याः । जनक:-हा प्रियसखि । (इति कमण्डलूदकेन सिञ्चति ।) कञ्चकी सुहृदिव प्रकटय्य सुखप्रदां प्रथममेकरसामनुकूलताम् । पुनरकाण्डविवर्तनदारुणः परिशिनष्टि विधिर्मनसो रुजम् ॥ १५ ॥ कौसल्या-(आश्वस्य ।) हो वच्छे जाणइ, कहिं सि । सुमरामि दे णवविवाहलच्चीपरिग्गहेक्कमङ्गलं संप्फुल्लमुद्धमुहपुण्डरीअं आरुहन्तकौमु- दीचन्दसुन्दरम् । एहि मे पुणो वि जादे, उज्जोएहि उच्चङ्गम् । सबहा महाराअ एवं भणादि । एसा रहुउलमहत्तराणं वहू अम्हाणं दु जण- असुदा दुहिदेव । १. हा वत्से जानकि, कुत्रासि । स्मरामि ते नवविवाहलक्ष्मीपरिग्रहैकमङ्गलं संफुल्लमुग्धमुखपुण्डरीकमारुहत्कौमुदीचन्द्रसुन्दरम् । एहि मे पुनरपि जाते, उद्यो- तय उत्सङ्गम् । सर्वदा महाराज एवं भणति । एषा रघुकुलमहत्तराणां वधूर- स्माकं तु जनकसुता दुहितैव । प्रसादानुष्ठानं कोपानुष्ठानं वा । मदधीनमभूदित्यर्थः । स्मृत्वालम् । तत्स्मरणेन सायं नास्तीत्यर्थः। यदृदयमवस्कन्द्याक्रम्य दहति भस्मीकरोति । तस्मृत्वाल कोपप्रसादयो- रन्यविषयत्वं च पाठद्वये क्रमाद्विवक्षितम् । तत्र हि परस्परेत्युक्तिरुपलक्षणार्थी ॥१४॥ निरुद्धाः संचाररहिताः श्वासाः प्राणवायवो यस्मिन् तथोक्त निष्पन्दं च ॥सुहृदिति । विधिः प्रथममादौ सुहृदिव मित्रमिव सुखप्रदामेकरसामेकप्रकारामनुकूलतां योगक्षेम- हेतुभूतां प्रकटय्य प्रकाशयित्वा पुनरनन्तरमकाण्डेन निर्निमित्तेन विवर्तनेन व्यत्यस्त- परिपाकेन दारुणः सन् क्रूरः सन्मनसो रुजं हृदयपीडां परिशिनष्टि परिशिष्टां करोति । अकाण्डनिवर्तनेन दारुणोऽकाण्डनिवृत्तो भू वेत्यप्याहुः । सुहृदपि त्यक्त्वा गतश्चेन्मनः- पीडां करोतीति साम्यम् ॥ १५॥ नवविवाहलक्ष्म्याः परिग्रहेण एकं मुख्य मङ्गल यस्य तथोक्तम् । कौमुद्यां कृत्तिकापौर्णमास्यां भवश्चन्द्रः कौमुदीचन्द्रः । आरोहन्ती प्रादु- र्भवन्ती या कौमुदीचन्द्रचन्द्रिका तद्वत्सुन्दरमहं यस्यास्तथोक्ता । उत्सङ्गममुद्योतय उपवेशेन प्रकाशय । सर्वदा सर्वस्मिन्काले महाराजो दशरथः । एषा सीता रघुकुले महत्तरा ये मनुप्रभृतयस्तेषां वधूः स्नुषा । जनकसुता सीता अस्माकं तु मम तु दुहितैव मदभिप्रायेण दुहितैवेत्येवं भणति ॥ देवी कौसल्या यथाह । तथैवेति शेषः । .

, १ चतुर्थोऽङ्कः। ११३ कञ्चकी-यथाह देवी। पञ्चप्रसूतेरपि तस्य राज्ञः प्रियो विशेषेण सुबाहुशत्रुः । वधूचतुष्केऽपि तथैव नान्या प्रिया तनूजास्य यथैव सीता ॥ १६ ॥ जनकः-हा प्रियसख महाराज दशरथ, एवमपि सर्वप्रकार- हृदयंगमः कथं विस्मयते । कन्यायाः किल पूजयन्ति पितरो जामातुराप्तं जनं संबन्धे विपरीतमेव तदभूदाराधनं ते मयि । त्वं कालेन तथाविधोऽप्यपहृतः संबन्धबीजं च त- द्धोरेऽस्मिन्मम जीवलोकनरके पापस्य धिग्जीवितम् ॥ १७ ॥ कौसल्या—जादे जाणइ, किं करोमि । दिढवज्जलेवपडिबद्ध- णिचलं हदजीविदं मं मन्दभाइणी ण पडिच्चअदि । १. जाते जानकि, किं करोमि । दृढवज्रलेपप्रतिबन्धनिश्चलं हतजीवितं मां मन्दभागिनी न परित्यजति । पञ्चप्रसूतेरिति । पञ्च प्रसूतयः पुत्राः यस्य तथोक्तस्यापि । तस्य राज्ञः पतिरथस्य सुबाहुशत्रुः रामः विशेषेण प्रियः इष्टः । पञ्च प्रसूतयो यस्मिन् वृन्दे इति वा विग्रहः । निर्धारणे षष्ठी। तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य' इति पाक्षिकः पुंवद्भावः । पञ्चानां मध्ये रामः प्रिय इत्यर्थः । रामादयश्चत्वारः शान्ता चेति पञ्च । वधूचतुष्केऽपि सीतादिस्नु- षाचतुष्टयेऽपि अस्य जनकस्य तनूजा सीता यथा तस्य राज्ञो दशरथस्य प्रिया तथा अन्या ऊर्मिलाप्रभृतिः राज्ञः प्रिया न । अस्य तनूजा सीतेत्यनेन सीताया एव जनका. भिसंधिना तनूजालं नान्यासामिति व्यज्यते । वधूचतुष्केऽपीति निर्धारणे सप्तमीदर्श- नात् ॥१६॥ सर्वैः प्रकारैर्धमैः हृदयंगमः । कन्याया इति। संबन्धे कन्यावरसंबन्धे । कन्यायाः पितरो जनन्यः जनकाश्च जामातुर्वरस्याप्त संनिहितबन्धुं जनं पूजयन्ति किल संभावयन्तीति प्रसिद्धम् । तदाराधनं पूजनं ते मयि विपरीतमभूत् । त्वत्कर्तृकम- द्विषयकपूजनं सत् प्रतिलोमं जातमित्यर्थः । तथाविधोऽपि त्वं कालेनापहृतः । मया पूज्यमानं भवन्तं द्रष्टुमन्याय्यं तावद्भाग्याभावेऽपि केवलं वा भवन्तं द्रष्टुं मदीयदै- वदुर्विपाको नाक्षम्यतेति भावः । संबन्धबीजं सीता चापहृतं लिङ्गविपरिणामः । पूर्वो- क्तयोरभावेऽपि तादृशभवदभिमता सीतापि दैवेन नाक्षम्यतेति भावः । घोरे भयंकरे अस्मिन्नेवविधबहुदुःखभाजने जीवलोकबिले पापस्य पूजनविपर्यासादिहेतुभूतदुरि- तप्रचुरस्य मम जीवितं प्राणधारणं धिक् । तत्कर्मिका निन्देत्यर्थः । अत्रेदानीं भवत्पू- ११४ उत्तररामचरिते अरुन्धती---आश्वसिहि राज्ञि । बाष्पविश्रामोऽप्यन्तरेषु कर्तव्य एव । अन्यच्च किं न स्मरसि । यदवोचदृष्यशृङ्गाश्रमे युष्माकं कुल- गुरुः । भवितव्यं तथेत्युपजातमेव । किंतु कल्याणोदक भविष्यतीति । : कौसल्या-कुदो अदिक्कन्दमणोरहाए मह एदम् । अरुन्धती-तत्किं मन्यसे राजपति, मृषोद्यं तदिति । न हीदं क्षत्रि- ये मन्तव्यम् । आविर्भूतज्योतिषां ब्राह्मणानां ये व्याहारास्तेषु मा संशयोऽभूत् । भद्रा ह्येषां वाचि लक्ष्मीनिषक्ता नैते वाचं विप्लुतार्थी वदन्ति ॥ १८ ॥ (नेपथ्ये कलकलः । सर्वे आकर्णयन्ति ।) जनक:-अये, शिष्टानध्ययन इत्यस्खलितं खेलतां बटूनां कोलाहलः। १. कुतोऽतिक्रान्तमनोरथाया ममैतत् । । जायभावेऽपि यत्र तल्लाभो लोकान्तरे तत्र गमनस्यापि मदीयजीवनयोनिदुरितप्रति- बन्धकमिति भावः ॥१७॥ दृढेन वज्रलेपेन बन्धकद्रव्यलेपेन यःप्रतिबन्धो विश्लेषानुत्पाद- स्तेन निश्चलं हतजीवितं निन्द्यजीवितम् ॥ आश्वसिहि आश्वासं दुःखलघूकरण प्राप्नुहि । बाष्पस्य दुःखाश्रुणः विश्रामो विच्छेदोऽपि । अपिशब्देन बाष्पादिकं समुच्चीयते । अन्तरेषु मध्ये मध्ये । अन्यच्च बाष्पविश्रामादन्यदपि । यत्कुलगुरुर्वसिष्ठः अवोचत्तन्न स्मरसि किम् । भवितव्यं तथेति परित्यागरूपेण भवनं परिहार्यमिति हेतोः । उपजा- तमापाततो जातम् । न त्वन्ततस्तथेत्यर्थः । कल्याणोदक मङ्गलपर्यवसायि भविष्यतीति यदवोचत्तन्न स्मरसि किम् ॥ अतिक्रान्तमनोरथाया असंभाव्याभिलाषविषयायाः ॥ मृषोद्यमिति मिथ्यावचनमिति । आविर्भूतेति । आविर्भूतज्योतिषां परज्योतिर्वि- षयकापरोक्षज्ञानवतां ब्राह्मणानां विप्राणां ये व्याहारा उक्तयस्तेषु संशयः प्रामाण्यसं- देहो माभूत् नोत्पत्त्यहः । हि यस्मादेषां ब्राह्मणानां वाचि भद्रा मङ्गलकरी लक्ष्मीः अर्थोपधायकत्वातिशयः । निषक्ता नित्यसङ्गिनी भवति । एते आविर्भूतज्योतिषो ब्राह्मणाः विप्लुतार्थामसदों वाचमेकामपि गिरं न वदन्ति नोच्चारयन्ति । पूर्वत्र बहुव- चनं तदीयसर्ववाचामपि प्रामाण्यबोधनार्थम् , अत्रैकवचन तु तदीययत्किंचिद्वचोऽप्यप्रा- माण्यं नेति बोधनार्थमिति द्रष्टव्यम् । अत्र श्लोके 'सक्तुमिव तितउना पुनन्तो यत्र धीरा मनसा वाचमकत । अत्रा सखायः सख्यानि जानते भद्रैषां लक्ष्मीनिहिताधिवाचि ॥'

चतुर्थोऽङ्कः। ११५ 4 कौसल्या-सुलहसोक्खं दाणिं बालत्तणं होदि । (निरूप्य 1) अम्हहे, एदाणं मज्झे को एसो रामभद्दस्स कोमारलच्छीसावट्ठम्भेहिं मुद्धललि- देहिं अङ्गेहिं दारओ अम्हाणं लोअणे शीअलावेदि । अरुन्धती-(स्वगतम् । सहर्षोत्कण्ठम् ।) इदं नाम भागीरथीनिवेदितं रहस्यकर्णामृतम् । नत्वेवं विद्मः कतरोऽयमायुष्मतोः कुशलवयोरिति । (प्रकाशम् ।) कुवलयदलस्निग्धश्यामः शिखण्डकमण्डनो बटुपरिषदं पुण्यश्रीकः श्रियैव सभाजयन् । पुनरपि शिशुभूत्वा वत्सः स मे रघुनन्दनो झटिति कुरुते दृष्टः कोऽयं दृशोरमृताञ्जनम् ॥ १९ ॥ कञ्चकी-नूनं क्षत्रियब्रह्मचारी दारकोऽयमिति मन्ये । जनकः-एवमेतत् । अस्य हि चूडाचुम्बितकङ्कपत्रमभितस्तूणीद्वयं पृष्ठतो भस्सस्तोकपवित्रलाञ्छनमुरो धत्ते त्वचं रौरवीम् । १. सुलभसौख्यमिदानी बालत्वं भवति । अहो, एतेषां मध्ये क एष राम- भद्रस्य कौमारलक्ष्मीसावष्टम्भैर्मुग्धललितैरङ्गैर्दारकोऽस्माकं लोचने शीतलयति । इति श्रुतिः स्फोरिता॥१८॥शिष्टागमनप्रयुक्ताध्ययनाभावः शिष्टानध्ययनः॥सुलभ सौख्यं यस्मिस्तथोक्तम् । अनेन 'वृद्धो जनो दुःखशतानि भुते' इत्युक्तवार्द्धकनिन्दा व्यज्यते । रामभद्रस्य कौमारलक्ष्म्या चन्द्रवदाहादकारिरामशैशवस्य योऽयमवष्टम्भः आलम्भनं तत्सहितैः। लक्ष्मीपदेन शैशवस्य स्पृहणीयत्वं व्यज्यते । संबन्धशब्दत्वात्साक्षेप- त्वेऽपि समासः । मुग्धललितैः सुन्दरसुकुमारैः ॥ हर्षः इष्टागमात्प्रीतिः । उत्कण्ठा आकारादिविषयाभिलाषः । भागीरथीनिवेदितं गड्या कथितं रहस्यं गूढं यत्कर्णयो- रमृतवद्भोग्यम् । तदिदं नामायुष्मतोः कुशलवयोर्मध्ये कतरोऽयमिति कुश इति वा लव इति वा न विद्मः न जानामि । 'अस्मदो द्वयोश्च' इत्येकत्वे बहुवचनम् । कुवल- येति । शिखण्डकमण्डनः काकपक्षधरो बटूनां ब्रह्मचारिणां परिषदं सदः श्रिया कान्त्या सभाजयन्नलकुर्वन् । अमृताञ्जनममृतमयमञ्जनं शीतलत्वादिभिः । तद्धि रमणीयमिति कविसमयप्रसिद्धिः ॥१९॥ मन्ये अनुमिनोमि ॥ एतद्भवता संभाव्यमानमेवं वस्तुभूतम् । चूडाचुम्बितेति । चूडाचुम्बितानि संयुक्ताग्राणि कङ्कपत्राणि बाणपक्षा यस्मिस्तथो- क्तम् । पृष्ठतोऽभितः पृष्ठे । द्वयोभीगयोरित्यर्थः । भस्ममय स्तोकमल्पं पवित्रं पावनं लाञ्छन पुण्ड्रं यस्य स तथोक्तम् । उरः रौरवीं ऐणेयीं त्वचं धत्ते । मौर्व्यात्मकरश- ११६ उत्तररामचरिते मौा मेखलया नियन्त्रितमधो वासश्च माञ्जिष्ठकं पाणौ कार्मुकमक्षसूत्रवलयं दण्डोऽपरः पैप्पलः ॥ २० ॥ भगवत्यरुन्धति, किमित्युत्प्रेक्षसे कुतस्त्योऽयमिति । अरुन्धती-अद्यैध वयमागताः । जनकः-आर्य गृष्टे, अतिकौतुकं वर्तते । तद्भगवन्तं वाल्मीकिमेव गत्वा पृच्छ। इमं च दारकं ब्रूहि । वत्स, केऽप्येते प्रवयसस्त्वां दिदृक्षव इति । कञ्चुकी-यदाज्ञापयति देवः । (इति निष्कान्तौ ।) कौसल्या-कि मण्णेध । एव्वं भणिदो आअमिस्सदि वा ण वेत्ति । जनकः-भिद्यते वा सद्वृत्तमीदृशस्य निर्माणस्य । कौसल्या-(निरूप्य ।) कहें सविणअणिसमिदगिट्ठिवअणो विस- जिदासेससरिसदारओ एत्तोमुहं अवसारिदो एव स वच्छो । जनकः-(चिरं निर्वर्ण्य ।) भोः, किमप्येतत् । महिम्नामेतस्मिन्विनयशिशिरो मौग्ध्यमसृणो विदग्धैर्नियो न पुनरविदग्धैरतिशयः । १. किं मन्यध्वे । एवं भणित आगमिष्यति वा न वेति । २. कथं सविनयनिशमितगृष्टिवचनो विसर्जिताशेषसदृशदारक इतोमुखम- पसरित एव स वत्सः। नया नियन्त्रितं माञ्जिष्ठं मञ्जिष्ठरक्तं वासः अधः उरसोऽधस्तात् । क्षत्रियब्रह्मचारिणा मेखलेत्युक्तं माञ्जिष्ठं राजन्यस्य इति च । पाणौ कार्मुकं धनुरक्षसूत्रवलयं जपमालिकावल- यम् । अस्तीति शेषः । 'अपरे पैप्पलः' इति पाठे अपरे पाणौ अश्वत्थदण्डः । 'अपरः प्रैप्पलः' इति पाठे धनुर्दण्डादपरः । अन्य इत्यर्थः ॥२०॥ कुतस्त्यः कस्माद्भवः ॥अतिश- यितं कौतुकं विशिष्टवस्तुजिज्ञासौत्कण्ठ्यम् । प्रवयसो वृद्धाः । दिदृक्षवः द्रष्टुमिच्छवः ॥ यदाज्ञापयतीत्यत्र तदनुतिष्ठामीति शेषः ॥ एव भणितः प्रवयसस्त्वां दिदृक्षव इत्युक्तः सन् आगमिष्यति किमिति मन्यध्वे । कि संदिग्धे ॥ ईदृशस्य लोकोत्तरस्य निर्माणस्याकारस्य । निर्मीयते यन्निर्माणम् । कर्मणि ल्युट् । 'कृत्यल्युटो बहुलम्' इत्युक्तेः । सद्वृत्तं सदाचारो भिद्यते वा । छिन्नं भवति किमित्यर्थः । 'कर्मवत्कर्मणा' इति यगात्मनेपदे ॥ सविनयं निशमितं श्रुतं गृष्टिवचनं येन तथोक्तः ॥ एतद्वक्ष्यमाणं किमपि अपूर्वमि- त्यर्थः । तदाह-महिनामित्यादि । विनयेन ज्ञानवृद्धशीलवृद्धसन्निधौ स्खनिकर्ष- पर्यवसाय्यवस्थानेन शिशिरः शीतल: मौग्ध्येन बाल्येन मसृणः पौरुष्यरहितः। वि- दग्धैः सूक्ष्मदर्शिभिर्निर्ग्राह्यो निर्णेयः । अविदग्धैः पुनर्न ग्राह्यो निर्णेतुमशक्यः । एत- स्मिन्महिम्नामतिशयः लवनिष्ठप्रकृष्टज्ञानतेजःप्रकृतिगुणादिमाहात्म्यानामुत्कर्षः। संमो- चतुर्थोऽङ्कः। मनो मे संमोहस्थिरमपि हरत्येष बलवा- नयोधातुं यद्वत्परिलघुरयस्कान्तशकलः ॥ २१ ॥ लवः-(प्रविश्य ।) अविज्ञातवयःक्रमौचित्यात्पूज्यानपि सतः कथ- मभिवादयिष्ये । (विचिन्त्य ।) अयं पुनरविरुद्धप्रकार इति वृद्धेभ्यः श्रूयते । (सविनयमुपसृत्य ।) एष वो लवस्म शिरसा प्रणामपर्यायः । अरुन्धतीजनको -कल्याणिन् , आयुप्मान्भूयाः । कौसल्या-जाद, चिरं जीव । अरुन्धती-एहि वत्स । (लवमुत्सङ्गे गृहीत्वा । आत्मगतम् ।) दिष्टया न केवलमुत्सङ्गश्चिरान्मनोरथोऽपि मे पूरितः । कौसल्या-जाद, इदो वि दाव एहि । (उत्सङ्गे गृहीत्वा ।) अम्हहे, ण केवलं दरविप्पटकन्दोट्टमंसलुजलेण देहबन्धणेण कवलिदारविन्दकेसरक- साअकण्ठकलहंसघोसघग्घराणुणादिणा सरेण अ रामभदं अणुसरेदि । णं कठोरकमलगब्भप्फम्मलसरीरप्पस्सो वि तारिसो एव्व । जाद, १. जात, चिरं जीव । २. जात इतोऽपि तावदेहि । अहो न केवलं दरविस्पष्टकुवलयमांस- लोज्ज्वलेन देहबन्धनेन कवलितारविन्दकेसरकषायकण्ठकलहंसघोषघर्घरानु- नादिना स्वरेण च रामभद्रमनुसरति । ननु कठोरकमलगर्भपक्ष्मलशरीरस्पर्शो- हेन मूर्च्छया स्थिरमपि काष्ठवन्निष्पन्दमपि मे मनश्चित्तं परिलघुरल्पः अयस्कान्तशकल: अयस्कान्तखण्डः अयोधातुं यद्वल्लोहपिण्ड मिव हरति कर्षति । अत्र विनयशिशिरो मौग्ध्यमसृण इत्याभ्यां सलिलहिमोपष्टम्भेन ज्योत्स्नीभवतां सूर्यतेजसां सादृश्यं व्यज्यते ॥२१॥क्रमः सत्काराद्यानुपूर्णं वयः स्थाविरादिकं वयःक्रमस्तस्यौचित्य प्राप्तवता । ज्ञात च तद्वयःक्रमौचित्य तस्याभावः अज्ञातवयःक्रमौचित्यम् । अर्थाभावे अव्ययीभावः । अ- पञ्चम्या इति प्रतिषेधादम्भावो न । तथा च वयःक्रमौचित्यज्ञानाभावादित्यर्थः । क- थमभिवादयिष्ये केन क्रमरूपप्रकारेण नमस्करिष्ये । अविरुद्धः अविपरीतः प्रका- रोऽनुष्ठानविशेषः । सामान्यवृद्धविषयकप्रणामकरणरूप इति भावः । सभायां प्रत्येक न नमस्कुर्यादिति गौतमस्मरणमिहाभिप्रेतम् ॥ उत्सङ्गे अङ्के ॥ दिष्टयेत्यानन्दे । उत्सङ्गः केवलं न पूरितः किंतु मनोरथोऽपि पूरित इत्यर्थः । जातेति संबोधनम् । विप- टमिति विस्तृतवाचकम् । कन्दोदृशब्दः कुवलयवाची । घर्घरश्च कांस्यध्वनिस्तद्वद- नुकरणं तथाविधेन । अनुसरति अनुकरोति । कठोरस्य समग्रस्य कमलस्य गर्भव- दान्तरपत्रवत्पक्ष्मल: स्फीतः तादृश एव राभद्रस्पर्शसदृश एव । चुबुकमधराधो- देशम् । निपुणं निरूप्यमाणः हेतुभिः पटुतरं विचार्यमाणः । अयमिति शेषः । मुख ..

११८ उत्तररामचरिते पेक्खामि दे मुहपुण्डरीअम् । (चुबुकमुन्नमय्य निरूप्य सबाष्पाकूतम् ।) राएसि, किं ण पेक्खसि । णिउणं णिरूवज्जन्तो वच्छाए मे वहुए मुहच- देण वि संवददि एव्व। जनक:-पश्यामि सखि, पश्यामि । कौसल्या-अम्हहे, उम्मत्तीभूदं विअ मे हिअअं कुदोमुहं विलवदि। जनका वत्सायाश्च रघूद्वहस्य च शिशावस्मिन्नभिव्यज्यते संवृत्तिः प्रतिबिम्बितेव निखिला सैवाकृतिः सा द्युतिः । सा वाणी विनयः स एव सहजः पुण्यानुभावोऽप्यसौ हा हा देवि किमुत्पथैर्मम मनः पारिप्लवं धावति ॥ २२ ॥ कौसल्या-जाद, अत्थि दे मादा, सुमरसि वा तादम् । लव:--नहि । कौसल्या- -तैदो कस्स तुमम् । ऽपि तादृश एव । जात, पश्यामि ते मुखपुण्डरीकम् । राजर्षे, किं न प- श्यसि । निपुणं निरूप्यमाणो वत्साया मे वध्वा मुखचन्द्रेणापि संवदत्येव । १. अहो, उन्मत्तीभूतमिव मे हृदयं कुतोमुखं विलपति । २. जात, अस्ति ते माता, स्मरसि वा तातम् । ३. ततः कस्य त्वम् । चन्द्रेण संवदत्येव । सीतामुखचन्द्रेति यौगिकसादृश्यप्रमाणविषयो भवति ॥ पश्यामि सखि पश्यामीति आदराद्विरुक्तिः ॥ उन्मत्तीभूतमिव विभ्रान्तमिव कुतोमुखं यत्र कापि असंभाव्यविषये लग्नमिति यावत् । विलपति परिदेवयति । 'विवलते' इति च पाठः ॥ वत्साया इति । अस्मिन् शिशौ लवे वत्सायाः सीताया रघूद्वहस्य रामचन्द्रस्य च संवृत्तिः संपर्कः । संबन्ध इत्यर्थः । प्रतिबिम्बितेवाभिव्यज्यते अभिव्य- का भवति । दर्पणादौ बिम्बवदृश्यत इत्यर्थः । निखिला कृत्ला आकृतिरवयवस्थानवि- शेषः सैव सीता रघूद्वहसंबन्धिन्येव । द्युतिर्लावण्यं तयोरेव संबन्धिनी । वाणी लवस्य वाक् सा तयोरेव संबन्धिनी । विनयः प्रश्रयः स एव सहजः स्वाभाविकः । पुण्य. श्चासौ पावनश्चासौ अनुभावः समीचीनव्यवसायः । असौ सीतारघूद्वहसंबन्ध्येव । अदू- रविप्रकृष्टवाच्योऽदःशब्दः । 'अनुभावः प्रभावे च सतां च मतिनिश्चये' इत्यमरः । देवि सीते, मम मनः पारिप्लवं सत् चञ्चलं सत् उत्पथैरमागः धावति अनवस्थितं भवति । हा हा। दुःख्यत इत्यर्थः । देवीत्यनेन देवभूयगतायास्तव कथमिद संगच्छत इति व्यज्यते । अत एव ह्युत्पथैरित्युक्तम् । अत्र च 'ऋक्पूरब्धूःपथामा--' इति समासान्तः ॥२२॥ कस्य ..

, , चतुर्थोऽङ्कः। ११९ लव:-भगवतः सुगृहीतनामधेयस्य वाल्मीकेः । कौसल्या-अयि जाद, कहिदवं कहेहि । लवः-एतावदेव जानामि । (नेपथ्ये ।) भो भोः सैनिकाः, एष खलु कुमारश्चन्द्रकेतुराज्ञापयति न केनचि- दाश्रमाभ्यर्णभूमय आक्रमितव्या इति । अरुन्धतीजनको-अये, मेध्याश्वरक्षाप्रसङ्गादुपागतो वत्सश्चन्द्रके- तुर्द्रष्टव्य इत्यसौ सुदिवसः। कौसल्या-वच्छलक्खणस्स पुत्तओ आणवेदित्ति अमिदबिन्दुसु- न्दराइं अक्खराइं सुणीअन्दि । लवः-आर्य, क एष चन्द्रकेतुर्नाम । जनकः-जानासि रामलक्ष्मणौ दाशरथी । लवः-एतावेव रामायणकथापुरुषौ । जनक: -अथ किम् । लव:-तत्कथं न जानामि । जनकः-तस्य लक्ष्मणस्यायमात्मजश्चन्द्रकेतुः । लवः-ऊर्मिलायाः पुत्रस्तर्हि मैथिलस्य राजर्षौहित्रः । अरुन्धती-आविष्कृतं कथाप्रावीण्यं वत्सेन । जनकः---(विचिन्त्य ।) यदि त्वमीदृशः कथायामभिज्ञस्तब्रूहि तावत्प- १. अयि जात, कथितव्यं कथय । २. वत्सलक्ष्मणस्य पुत्रकः आज्ञापयतीत्यमृतबिन्दुसुन्दराण्यक्षराणि श्रूयन्ते । त्वम् । कस्माजात इत्यर्थः।सुगृहीत सुष्टुप्रतिपादितं नामधेयं यस्य तथोक्तस्य वाल्मीकेस्त. स्माज्जातः॥सैनिकाः सेनासमवायिनः । अभ्यर्णभूमयः समीपदेशाः । ताः नाक्रमितव्या न केनापि स्प्रष्टव्या इति।आज्ञापयतीत्यर्थः॥ मेध्याश्वस्य यज्ञाशाश्वस्य प्रसङ्गादवश्यानुरो- व्यत्वाद्धेतोः द्रष्टव्य इति सुदिवसः। चन्द्रकेतुदर्शनाच्छोभनदिवसोऽयं विस्मयनीय इत्यर्थः ॥ अमृतबिन्दुसुन्दराण्यक्षराणि सुधापृषत इव भोग्याः वर्णाः ॥ दाशरथी दशरथपुत्रौ जानासि किमिति काका योजनीयम् ॥ रामायणकथायाः रामायणना- मकवाक्यप्रबन्धस्य पुरुषौ प्रतिपाद्यौ ॥ अथ किमित्यङ्गीकारे ॥ तर्हि ऊर्मिलापुत्रत्वे मैथिलस्य मिथिलाधिपतेः ॥ आविष्कृत प्रकाशितम् । वत्सेन लवेन ॥ कथायामभिज्ञस्त. ..

१२० उत्तररामचरिते श्यामस्तेषां दशरथस्य पुत्राणां कियन्ति किंनामधेयान्यपत्यानि केषु दारेषु प्रसूतानि । लव-नायं कथाविभागोऽस्माभिरन्येन वा श्रुतपूर्वः । जनक:-किं न प्रणीतः कविना । लव-प्रणीतो न प्रकाशितः । तस्यैव कोऽप्येकदेशः प्रबन्धान्त- रेण रसवानभिनेयार्थः कृतः । तं च खहस्तलिखितं मुनिर्भगवान्व्यसृजद्भ- गवतो भरतस्य तौर्यत्रिकसूत्रधारस्य । जनकः-किमर्थम् । लवः-स किल भगवान्भरतस्तमप्सरोभिः प्रयोजयिष्यतीति । जनकः-सर्वमिदमाकूततरमस्माकम् । लवः-महती. पुनस्तस्मिन्भगवतो वाल्मीकेरास्था । यतः केषां- चिदन्तेवासिनां हस्तेन तत्पुस्तकं भरताश्रमं प्रति प्रेषितम् । तेषामनुया- त्रिकश्चापपाणिः प्रमादच्छेदनार्थमस्मद्भाता प्रेषितः । कौसल्या-भादावि दे अस्थि । लवः-अस्त्यायः कुशो नाम । कौसल्या-जेटेत्ति भणिदं होदि । १. भ्रातापि तेऽस्ति । २. ज्येष्ठ इति भणितं भवति । त्प्रतिपाद्यार्थज्ञानवान् । किंनामधेयानीत्यारभ्य केषु प्रसूतानीत्यन्तस्य ब्रूहीत्यनेना- न्वयः । पश्यामः अस्मज्ज्ञातविषयकत्वद्वचनं शृणुम इत्यर्थः ॥ कथाविभागः कथे- कदेशः ॥ प्रणीतः किं न प्रवन्धः कि नोक्तः किमिति वा न प्रकाशितः न श्रावितो नाध्यापितश्च ॥ तस्य रामायणस्य कोऽपि अनिर्धारितः एकदेशोंऽशः । स च सप्तमे वक्ष्यमाणान्तर्नाटकार्थक इति ज्ञेयम् ॥ प्रबन्धान्तरेण श्राव्यप्रबन्धातिरिक्तदृश्यप्रबन्ध- रूपकरूपेण वा रसवान् करुणाद्भुतरसप्रतिपादकः सर्वाकर्णनादितररसप्रतिपादकः अभिनेयः सत्वाशिकादिचतुर्विधाभिनयप्रकाश्योऽर्थः अभिधेयः यस्य तथोक्तीकृतः । मुनिर्वाल्मीकिः । तौर्यत्रिकसूत्रधारस्य नृत्तगीतवादित्रशास्त्राचार्यस्य भरतस्य भावराग- तालशास्त्राचार्यत्वमूलकृत्तदाद्यक्षरघटितभरतनामकस्य ॥ तं प्रबन्धं अप्सरोभिः प्रयो- ज्यकर्तृभिः प्रयोजयिष्यतीत्येतदर्थम् ॥ सर्वमिदं प्रणीतस्याप्रकाशनं प्रबन्धान्तरेण क- रण भरतं प्रति प्रेषणं चाकूततरं गूढार्थकम् ॥ आस्था आवश्यकत्वप्रकारकेच्छा । अनु- यात्रिकोऽनुचरः। प्रमादस्यानवधानप्रयुक्तप्रतीतस्य च्छेदनार्थ निवृत्त्यर्थमस्मदाता म- सहजः ॥ आर्यः पूज्यः ॥ ज्येष्ठ इति भणितं भवति अग्रज इति ध्वनितं भवति ।।

चतुर्थोऽङ्कः। १२१ लवः-एवमेतत् । प्रसवानुक्रमेण स किल ज्यायान् । जनकः-किं यमावायुप्मन्तौ । लव:-अथ किम् । जनकः-वत्स, कथय कथाप्रपञ्चस्य कियान्पर्यन्तः। लवः-अलीकपौरापवादोद्विग्नेन राज्ञा निर्वासितां देवी देवयजन- संभवां सीतामासन्नप्रसववेदनामेकाकिनीमरण्ये लक्ष्मणः परित्यज्य प्रतिनिवृत्त इति । कौसल्या-हा वच्छे मुद्धमुहि, को दाणिं दे सरीरकुसुमस्स झत्ति देवदुबिलासपरिणामो एक्काइणीए निवडिदो । जनकः-हा वत्से, नूनं त्वया परिभवं.च वनं च घोरं तां च व्यथां प्रसवकालकृतामवाप्य । क्रव्याद्गणेषु परितः परिवारयत्सु संत्रस्तया शरणमित्यसकृत्स्मृतोऽहम् ॥ २३ ॥ लवः-आर्ये, कावेतौ। अरुन्धती-इयं कौसल्या । अयं जनकः । (लवः सबहुमानखेदकौ- तुक पश्यति । जनकः-अहो निर्दयता दुरात्मनां पौराणाम् । अहो रामभद्रस्य क्षिप्रकारिता। १. हा वत्से मुग्धमुखि, क इदानीं ते शरीरकुसुमस्स झटिति दैवटु- विलासपरिणाम एकाकिन्या निपतितः । प्रसवानुक्रमेणोत्पत्तिप्रकारेण । ज्यायान् ज्येष्ठः । यमसाधारणपूर्वजानुजत्वव्यवस्थापक- जननानुपूर्वेण ज्येष्ठ इति भावः ॥ अत एव पृच्छति-कि यमाविति ॥ कथाप्रपञ्चस्य कथाविस्तरस्य । पर्यन्तोऽवसानम्। यद्वा प्रपञ्चनं प्रकाशनं प्रपञ्चस्तस्य कोऽवधिः । कियत्प- र्यन्तं प्रकाशित इत्याशयः ॥ अलीको मिथ्याभूतः पौरापवादः पौरकर्तृकदोषकथन तेनोद्विग्नेन संभ्रान्तेन राज्ञा रामेण निर्वासितां गृहाच्यावितां देवयजनसंभवां याग, भूमिजातां परित्यज्य लक्ष्मणः प्रतिनिवृत्त इति यत् एष पर्यन्त इति योजना ॥ श- रीरकुसुमस्य कुसुमसदृशशरीरस्य । दैवदुर्विलासस्य दैवदुश्चेष्टितस्य परिणामः फलोप- धानम् । क इति दु.ख्यते ॥ नूनमिति । ऋव्याद्गणेषु व्याघ्रादिषु परितः समन्तात्परि- वारयत्सु सत्सु मण्डलीकृत्य व्याप्नुवत्सु सत्सु । संत्रस्तया त्वयाहं शरणमिति स्मृतः नूनं संभावये ॥ २३ ॥ दुरात्मनां दुर्बुद्धीनाम् । क्षिप्रकारिता असमीक्ष्यकारित्वम् ॥ उ० रा. ११ १२२ उत्तररामचरिते एतद्वैशसवज्रघोरपतनं शश्वन्ममोत्पश्यतः क्रोधस्य ज्वलितुं झटित्यवसरश्चापेन शापेन वा । कौसल्या-(सभयकम्पम् ।) भअवदि, परित्ताअदु । पसादेहि कुविदं राएसिम् । एतद्धि परिभूतानां प्रायश्चित्तं मनस्विनाम् । अरुन्धती राजन्नपत्यं रामस्ते पाल्याश्च कृपणा जनाः ॥ २४ ॥ जनकः शान्तं वा रघुनन्दने तदुभयं यत्पुत्रभाण्डं हि मे भूयिष्ठद्विजबालवृद्धविकलस्त्रैणश्च पौरो जनः ॥ २५ ॥ (प्रविश्य संभ्रान्ता बटवः ।) कुमार कुमार, अश्वोऽश्व इति कोऽपि भूतविशेषो जनपदेष्वनु- श्रूयते, सोऽयमधुनास्माभिः स्वयं प्रत्यक्षीकृतः । लव:-अश्वोऽश्व इति नाम पशुसमाम्नाये सांग्रामिके च पठ्यते । तद्भूत कीदृशः। १. भगवति, परित्रायताम् । प्रसादय कुपितं राजर्षिम् । एतद्वैशसेति । एतद्वैशसमेव महाव्यसनमेव वज्रस्याशने]रं पतन तीक्ष्णपातन शश्वदुत्पश्यतो मम क्रोधस्य शापेनानिष्टोपधायकसंकल्पेन चापेन च मारकधनुषा च झटिति ज्वलितुमवसरःप्राप्तकालता । राजर्षित्वादिति भावः ॥ प्रसादय प्रसन्नं कुरु ॥ एतदिति । परिभूतानामवमतानां मनस्विनां महामनसां प्रायश्चित्तं कोपप्रतीकारः एतत् प्रसादनमित्यर्थः ॥ अपत्यं रामः कृपणजनाश्च ते पाल्याश्च रक्षणीयाः ॥ २४ ॥ शान्तं वेत्यादि । वा अथवा । शापेन चापेन च ज्वलनाभावे इत्यर्थः । यद्यस्मात्पुत्रभाण्डं पुत्र एव भाण्डं मूलधनं पुत्रभूतरामात्मकमूलधनम् । भूयिष्ठानि भूयांसि द्विजाः बालाः शिशवः वृद्धाः स्थविराः विकलाः अन्धबधिरादयः स्त्रैणं स्त्रीस- मूहः यस्य तथोक्तः पौरो जनश्च मे हि मदीयाः किल । तस्मात्तदुभयं शापश्चापश्च शान्तं भवतु निवृत्त भवतु । रुषं न दधे कोप न धारयामि । यद्वा यद्यस्माद्भूयिष्ठद्विजबालवृ- द्धविकलस्त्रैणः पौरो जनः । चकारेण रामः समुच्चीयते । तदुभयं पौरजनरामात्मकोभयं मे पुत्रभाण्डं पुत्रात्मकमूलधनवन्मम संरक्षणीयं तत्तस्मात् शान्तं क्रोधेन ज्वलित्वा अलं रुषं न दधे क्रोधं न धारयामि । स्थैर्यद्योतनाथ द्विःकथनम् ॥ २५ ॥ बटवः प्र- विश्य । अत्र आहुरिति शेषः । भूतविशेषः प्राणिविशेषः । जनपदेषु कोसलादिदेशेषु । आरण्यकत्वादेवमुक्तिः । श्रूयते शाब्दबोधविषयो भवति । प्रत्यक्षीकृतः चक्षुर्विषयी- .

चतुर्थोऽङ्कः । १२३ बटवः-अये, श्रूयताम् । पश्चात्पुच्छं वहति विपुलं तच्च धूनोत्यजसं दीर्घग्रीवः स भवति खुरास्तस्य चत्वार एव । शप्पाण्यत्ति प्रकिरति शकृत्पिण्डकानाम्रमात्रा- कि व्याख्यानैर्बजति स पुनर्दूरमे हि यामः ॥ २६ ॥ (इत्यजिने हस्तयोश्चाकर्षन्ति ।) लवः-(सकौतुकोपरोधविनयम् ।) आर्याः, पश्यत । एभिनीतोऽस्मि । (इति त्वरितं परिकामति ।) अरुन्धतीजनको—महत्कौतुकं वत्सस्य । कौसल्या-अरण्णगब्भरूवालावेहिं तुम्हे तोसिदा अम्हे अ । भअ- वदि, जाणामि तं पेक्खन्ती वञ्चिदा विअ । ता इदो अण्णदो भविअ पेक्खम्ह दाव पलायन्तं दीहाउम् । अरुन्धती—अतिजवेन दूरमतिक्रान्तः स चपलः कथं दृश्यते । कञ्चकी-(प्रविश्य ।) भगवान्वाल्मीकिराह ज्ञातव्यमेतदवसरे भव- द्भिरिति । १. अरण्यगर्भरूपालापै!यं तोषिता वयं च । भगवति, जानामि तं प्रेक्ष्यन्ती वञ्चितेव । तस्मादितोऽन्यतो भूत्वा प्रेक्षामहे तावत्पलायन्तं दीर्घायुषम् । .. कृतः। पशुसमान्नाये पशुद्रव्यकयागप्रतिपादकवेदभागे, साङ्ग्रामिके युद्धकाण्डे च। कीदृशः किलक्षणः ॥ पश्चादित्यादि । सः अश्व इत्युच्यमानः विपुलं पुच्छं पश्चाद्वहति । वनमहिषः कोऽयमुभयतःपुच्छ इत्यारण्यवासनानुरूपेण व्यावृत्त्यर्थः । पश्चात्पदम् । अन्यथा पुच्छस्य पश्चाद्वहनाव्यभिचारात् । विपुलमित्यनेन खरव्यावृत्तिः तस्य हि पुच्छं गोवद्रज्जूकृत भवति । एवं च वक्ष्यमाणविशेषणाना तत्साधारणत्वेऽपि न दोषः। धूनोति चालयति । दीर्घग्रीवो भवति आयतकण्ठो भवति । तस्य खुराश्चत्वार एव । नाधिका इत्यर्थः । शष्पाणि वालतृणानि अत्ति खादति । शकृत्पिण्डकान् पुरीष- पिण्डकानाम्रमात्रान् रसालशलाटुपरिमितान् प्रकिरति विक्षिपति । स पुनर्वैरं व्रजति गच्छति ॥ २६ ॥ कौतुक हर्षः, उपरोधः बलाक्रियमाणत्वम् ॥ अरण्यगर्भाणां अर- ण्यचरशिशूनां रूपैरालापैश्च तोषिता यूयम् । अह त पश्यन्ती वश्चितेति जानामि । रामभद्रसंवादेन प्रलोभिताहमिति भावः ॥ कञ्चुकी । गृष्टिरित्यर्थः । अवसरे प्राप्त- काले ॥ एतद्वाल्मीकिवाक्यमतिगम्भीरं गूढाशय किमपि अपूर्वम् ॥ वृद्धानामरुन्धती- १२४ उत्तररामचरिते जनकः-अतिगम्भीरमेतत्किमपि । भगवत्यरुन्धति, सखि कौसल्ये, आर्य गृष्टे, स्वयमेव गत्वा भगवन्तं प्राचेतसं पश्यामः । (इति निष्क्रान्तो वृद्धवर्गः।) (प्रविश्य बटवः । पश्यतु कुमारस्तावदाश्चर्यम् । लवः-दृष्टमवगतं च । नूनमाश्वमेधिकोऽयमश्वः । बटवः-कथं ज्ञायते । लवः—ननु मूर्खाः, पठितमेव हि युष्माभिरपि तत्काण्डम् । किं न पश्यथ प्रत्येकं शतसंख्याः कवचिनो दण्डिनो निषङ्गिणश्च रक्षितारः । तत्प्रायमेवान्यदपि दृश्यते । यदि च विप्रत्ययस्तत्पृच्छथ बटवः-भो भोः, किंप्रयोजनोऽयमश्वः परिवृतः पर्यटति । लव:-(सस्पृहमात्मगतम् ।) अश्वमेध इति नाम विश्वजयिनां क्षत्रि- याणामूर्जखलः सर्वक्षत्रपरिभावी महानुत्कर्षनिकषः । (नेपथ्ये ।) योऽयमश्वः पताकेयमथवा वीरघोषणा । सप्तलोकैकवीरस्य दशकण्ठकुलद्विषः ॥ २७ ॥ लवः-(सगर्वमिव ।) अहो संदीपनान्यक्षराणि । प्रभृतीनां वर्ग: समूहः ॥ दृष्ट चक्षुर्विषयीकृतम् । नूनमाश्वमेधिकोऽयमश्व इत्यव- गतम् अनुमितम् । अश्वमेधाय प्रभवत्याश्वमेधिकः ॥ तत्काण्डमश्वमेधप्रतिपादकश्रुति- भागः । बालकाण्ड वा तत्रापि ह्यश्वमेधः प्रसक्तः । काण्डोऽस्त्रीत्युक्तेः क्लीबत्वम् । शतं कवचिनः शतं निषद्भिणः शरधिवन्तः। शतमित्यर्थः । शतं दण्डिनःशतं रक्षितार इत्येतन्न पश्यथ किमित्यर्थः । तत्प्रायमेवान्यदपि कवचिप्रभृतिसुसदृशं चान्यदपि । अनीकमि- त्यर्थः । विप्रत्ययो यदि संशयश्चेत् ॥ किप्रयोजनः किंफलकः । परिवृतः । रक्षितृभि- रिति शेषः । पर्यटति परिवृतः संचरति परिगतो गच्छति ॥ अनागते वस्तुनीच्छा स्पृहा । सर्वक्षत्रपरिभावी सकलराजकुलपरिभवजनकः । उत्कर्षनिकषः उपादेयवैलक्ष- ण्यज्ञापकहपद्विशेषः। ऊर्जखलः बलिष्ठः । अविचाल्यनिकष इत्यर्थः॥ योऽयमिति । योऽयमाश्वमेधिकोऽश्वः । इयम्। अश्व इत्यर्थः । विधेयप्राधान्यात्स्त्रीत्वं पताका व विधेयम् । सप्तावयवेषु लोकेषु एकवीरस्य एकेषु प्रधानेषु वीरयति पराक्रमत इत्येकवीरः तस्य । सप्तलोकेत्यत्र मध्यमपदलोपवत्समासः । पात्रादित्वं वा वीरैक इत्यापत्तिवारणाय एकेषु वीरयतीति विग्रहोऽङ्गीकृतः । दशकण्ठकुलस्य रावणवंशस्य द्विद् शासिता । तस्य राघवस्य पताका विजयध्वजोऽथवा पूर्वोक्तातिरेकेण वीरघोषणा वीर इति जगदा- कर्णनानुकूलव्यापारः ॥ २७ ॥ गर्वः परोत्कर्षानादरः। संदीपनानि क्रोषजनकानि ।

चतुर्थोऽङ्कः। १२५ वटवः-किमुच्यते । प्राज्ञः खलु कुमारः । लव:-भो भोः, तत्किमक्षत्रिया पृथिवी यदेवमुद्धोप्यते । (नेपथ्ये ।) रे रे, महाराजं प्रति कुतः क्षत्रियाः । लव:-धिग्जाल्मान् । यदि नो सन्ति सन्त्येव केयमद्य विभीषिका । किमुक्तैरेभिरधुना तां पताका हरामि वः ॥ २८ ॥ हे बटवः, परिवृत्य लोष्टैरभिघ्नन्त उपनयतैनमश्वम् । एष रोहितानां मध्येचरो भवतु । . (प्रविश्य सक्रोधः) पुरुषः—धिक्चपल, किमुक्तवानसि । तीक्ष्णतरा ह्यायुधश्रेणयः शि- शोरपि दृप्तां वाचं न सहन्ते । राजपुत्रश्चन्द्रकेतुर्दुर्दान्तः सोऽप्यपूर्वारण्य दर्शनाक्षिप्तहृदयो न यावदायाति तावत्त्वरितमनेन तरुगहनेनापसर्पत । वटवः-कुमार, कृतं कृतमश्वेन । तर्जयन्ति विस्फारितशरासनाः कुमारमायुधीयश्रेणयः । दूरे चाश्रमपदम् । इतस्तदेहि । हरिणप्लुतैः पलायामहे । 'मन.प्रज्वलनं क्रोधः' इति ह्युक्तम् ॥ एव पूर्वोक्तरीत्या उद्घोष्यत इति यावत्तसात्कि- मक्षत्रिया पृथिवील्यन्वयः ॥ महाराज प्रति तदौन्मुख्येन कुतः कस्माद्धेतोः क्व वा ॥ धिग्जाल्मानसमीक्ष्यकारिणः । भवद्विषयका निन्देत्यर्थः । अक्षत्रिया इत्यनुषज्यते । क्षत्रिया न सन्तीति भवद्भिरुच्यते यदि सन्त्येवेत्यवगन्तव्यम् । अद्य क्षत्रियसत्तावि- करणे अस्मिन्दिवसे इय विभीषिका भयोत्पादन का । कीदृशीत्यर्थः । एभिरक्तैरधुना किम् । न किमपीत्यर्थः। तां व पताका हराम्यन्यत्र प्रापयामि ॥२८॥ अभिन्नन्तस्तर्ज- यन्तः । रोहितानां मृगविशेषाणाम् ॥ आयुधश्रेणयः शत्रपतयस्तीक्ष्णतरा हि। त्वत्तोऽपि क्रूरा इत्यर्थः । दृप्ता दर्पयुक्ता वाच न सहन्ते । शिक्षणाभाववन्तो न भवन्तीत्यर्थः । सोऽपि चन्द्रकेतुरिति योजना । दुर्दान्तोऽमर्षशील: । अपूर्वारण्यदर्शनेन अननुभूतवि- पिनावलोकनेनाक्षिप्तहृदयो व्यासक्तमनाः । तरूणां गहनेन दुर्गमसंनिवेशेनापसर्पत पलायध्वम् ॥ कृतं कृतमश्वेनेति । अश्वेन साध्यं किमपि नास्तीत्यर्थः । गर्हायां द्विरुक्तिः । अज्ञानादेव वयमत्र प्रवृत्ता इति भाव. । विस्तारितशरासनाः घोषवद्ध- नुषः तर्जयन्ति भयमुत्पादयन्ति । आश्रमपद चाश्रमस्थान च दूरे । विप्रकर्ष इत्यर्थः । हरिणानां यानि प्लुतानि अभूस्पर्शगमनानि । तत्सदृशगमनैरित्यर्थः । पलायामहे परागता भवामः । 'अय गतौ तस्य परेत्युपसर्गपूर्वकत्वम् 'उपसर्गस्यायतौ' इति लत्वम् ॥ विस्फु.

१२६ उत्तररामचरिते लव:-किं नाम विस्फुरन्ति शस्त्राणि । (इति धनुरारोपयन् ।) ज्याजिया वलयितोत्कटकोटिदंष्ट्र- मुद्भरिघोरघनघर्घरघोषमेतत् । ग्रासप्रसक्तहसदन्तकवक्त्रयन्त्र- जृम्भाविडम्बि विकटोदरमस्तु चापम् ॥ २९ ॥ (इति यथोचित परिक्रम्य निष्क्रान्ताः सर्वे ।) चतुर्थोऽङ्कः। रन्ति घोषयुक्तानि । धनुरारोपयन् । ज्यामिति शेषः । ज्याजिह्वयेत्यादि । ज्या मौवीं सैव जिह्वा रसना तया वलयिता वेष्टिता । उत्कटकोटिरेवोत्तुङ्गाग्रभाग एव दष्ट्रा यस्य तथोक्तम् । उद्भूरयोऽसंख्याता घोरा भयजनकाः घनाः सान्द्राः घर्घर- घोषा यस्य तथोक्तम् । एतचापम् । क्लीबत्व विचारयितव्यम् , सामान्ये नपुंसकत्वं वा । अथवा भयामृतसकृस्त्रचापाभरणलाञ्छनमिति नपुसंकशेषोक्ते क्लीबत्वम् । ग्रासे कवलने प्रसक्तं उद्युक्त हसत् हासयुक्तमन्तकवक्त्रयन्त्रं व्याघ्रादिमारणयन्त्रसदृशकृ- तान्तस्य कुहरं तस्य जृम्भाविडम्बि जृम्भानुकारि विकट विषमं उदरं मध्य यस्य तथाविधमस्तु । अस्य चापस्य तथाभवन प्राप्तकालमित्यर्थः । जिह्वेव ज्या ज्याजिवेत्यु. पमालकारो व्याख्येयः । कोटिदंष्ट्रमित्यत्र तु कोट्यात्मकं यदृष्ट्रासदृशमिति व्याख्येयम् । विशेष्यविशेषणभावस्य च कामचारत्वान दोष इत्यप्याहुः ॥ २९ ॥ वाधूलवशजनुषो भूसारनिवासराघवार्यस्य । उत्तररामचरित्रव्याख्यायामवसितस्तुरीयाङ्कः ॥ इति श्रीवाधूलवीरराघवविरचितायां भवभूतिभावतल- स्पर्शिनीसमाख्यायामुत्तररामचरितव्याख्यायां चतुर्थोऽङ्कः।

श्रुत्वा वः प्रधनमुपैति पञ्चमोऽङ्कः। (नेपथ्ये।) भो भोः सैनिकाः, जातं जातमवलम्बनमस्माकम् । नन्वेष त्वरितसुमन्त्रनुद्यमान- प्रोद्वलगत्प्रजवितवाजिना रथेन । उत्खातप्रचलितकोविदारकेतुः चन्द्रकेतुः ॥ १ ॥ (ततः प्रविशति सुमन्त्रसारथिना रथेन धनुष्पाणिः साद्भुतहर्षसंभ्रमश्चन्द्रकेतुः ।) चन्द्रकेतुः—आर्य सुमन्त्र, पश्य पश्य । किरति कलितकिंचित्कोपरज्यन्मुखश्री- रविरतगुणगुञ्जत्कोटिना कार्मुकेन । समरशिरसि चञ्चत्पञ्चचूडश्चमूना- मुपरि शरतुषारं कोऽप्ययं वीरपोतः ॥२॥ आश्चर्यम् । मुनिजनशिशुरेकः सर्वतः संप्रकोपा- नव इव रघुवंशस्याप्रसिद्धिप्ररोहः । नेपथ्ये इत्यादि । भो भोः सैनिकाः सेनासमवायिनः, जातमवलम्बनम् । आश्रयो लब्ब इत्यर्थः । नन्विति । सुमन्त्रनुधमाना. सुमन्त्रेण प्रेर्यमाणाः प्रोद्वल्गाः प्रकर्षण चञ्चलाः प्रजविताः प्रकृष्टवेगयुक्ताः वाजिनोऽश्वाः यस्मिस्तथोक्तेन । उत्खातेषु निम्नोन्न. तप्रदेशेषु प्रचलितकोविदारयुक्तध्वजवान् । प्रधन युद्ध श्रुत्वा उपैति । ननु किल चूलिका । 'नेपथ्यान्तस्थितैः पात्रैश्रूलिकाङ्गस्य सूचनम्' इत्युक्तेः ॥१॥ किर- तीति । कलितेनाहृतेन किचित्कोपेन ईषन्मन्युना रज्यन्ती रक्तीभवन्ती मुखश्रीरा- ननशोभा यस्य तथोक्तः । अत्र प्रत्यर्थिनामकिचित्करत्वात्किचित्कोपेत्युक्तम् । चञ्च- त्पञ्चचूडश्चलितशिखण्डकः कोऽप्यपूर्वोऽय वीरपोतः वीरशिशुः अविरतं विश्रान्तिर- हित यथा तथा गुणे ज्यायां गुजन्यौ अव्यक्तशब्दवत्यौ कोटी अग्रे यस्य तथोक्तेन कार्मुकेन । करणत्वात्तृतीया । समरशिरसि युद्धरङ्गे चमूनामुपरि शरतुषारं वाणवर्ष किरति । तुषारो हि अतिसूक्ष्मसलिलवृष्टिः । अत्र रज्यन्मुखश्रीः कार्मुकेण चञ्चत्पञ्च- चूड इत्येतैः शरतुषारमित्यनेन च तडित्वतः शक्रचापयुक्तस्य चलिताग्रस्य मेघकिशो- रस्य च साम्यं व्यज्यते ॥ २ ॥ मुनिजनेत्यादि । एक. असहायः संप्रकोपात्प्रकृ. ष्टमन्युना । लवकोपस्य तदृष्टयाल्पत्वेऽपि चन्द्रकेतुबुद्ध्या महत्त्वाघोषः। सर्वतः समन्ता- दलितानां करिकपोलग्रन्थिना संधीनां टकारेण दलनध्वनिना घोरं भयजनक ज्वलितं १२८ उत्तररामचरिते दलितकरिकपोलग्रन्थिटंकारघोर- ज्वलितशरसहस्रः कौतुकं मे करोति ॥ ३ ॥ सुमत्र:----आयुप्मन्, अतिशयितसुरासुरप्रभाव शिशुमवलोक्य तथैव तुल्यरूपम् । कुशिकसुतमखद्विषां प्रमाथे धृतधनुषं रघुनन्दनं स्मरामि ॥ ४ ॥ चन्द्रकेतुः-मम त्वेकमुद्दिश्य भूयसारम्भ इति हृदयमपत्रपते । अयं हि शिशुरेकको मदभरेण भूरिस्फुर- करालकरकन्दलीजटिलशस्त्रजालैर्बलैः । कणत्कनककिङ्किणीझणझणायितस्यन्दनै- रमन्दमददुर्दिनद्विरदडामरैरावृतः ॥ ५ ॥ सुमत्रः-वत्स, एभिः समस्तैरपि नालमस्य, किं पुनर्व्यस्तैः । चन्द्रकेतुः—आर्य, त्वर्यतां त्वर्यताम् । अनेन हि महानाश्रितजन- प्रमारोऽस्माकमारब्धः । तथा हि । आगर्जगिरिकुञ्जकुञ्जरघटानिस्तीर्णकर्णज्वर- ज्यानि?षममन्ददुन्दुभिरवैराध्मातमुज्जृम्भयन् । शराणां सहस्र यस्य तथोक्तम् । आनन्त्यवाची सहस्रशब्दः । नवः प्रत्ययः रघुवंशस्य अप्रसिद्धिप्ररोह इव स्थितः अपख्यात्यकुरवस्थितः मुनिजनशिशुः । मुनिजनाः शमप्र- धानास्तेष्वपि वाल इत्यर्थः । मे कौतुक हर्प करोत्युत्पादयति ॥ ३ ॥ अतिशयिते- ति । तथैव तुल्यरूपम् । यथा रामेण तुल्यप्रभावस्तथैव तुल्याकार इत्यर्थः । तथाविध कुशिकसुतमखद्विषां सुबाहुप्रभृतीनाम् । अत्र स्मृतिमदलंकारः ॥ ४॥ अपनपते लज्जते । अयं हीति । अयमेकक. शिशु: एकाकी बालः । मदभरेण वीरपानेन समुपजनिनमदातिशयेन भूरि अधिकं स्फुरन्ति चलितानि करालानि क्रूराणि करक- न्दलीषु करशाखाग्रेषु जटिलानि निबिडानि शस्त्रजालानि येषां तथोक्तैः । क्वणन्तीभिः शब्दवतीभिः कनककिङ्किणीभिः हेममयक्षुद्रघण्टिकाभिः झणझणायितैः शब्दविशेषयु- तैरमन्दमदैरतिशयितदानवारिभिर्दुर्दिनैरन्धकारितैर्द्विरदैर्गजैः कारणैः डामरैः भयंकरै- बेलैः सैन्यैरावृतः ॥५॥ समस्तैः सहितैय॑स्तैः पृथक्स्थितै लम् ।न पर्याप्तिरित्यर्थः। आश्रितजनानामुपजीविजनानां प्रमारः मारणम् । आगजदिति । बीरः अयं लवः अ- मन्ददुन्दुभिरवैरतिशयितभेरिशब्दैराध्मातं द्विगुणीकृतम् । आगर्जतां भयवशाद्गाढगर्जनं कुर्वतां गिरिकुजकुञ्जराणां पर्वतगुहावर्तिगजानां घटायै पतये निस्तीर्णो दत्तः कर्णज्वरो पञ्चमोऽङ्कः । १२९ - वेल्लझैरवरुण्डखण्डनिकरैर्वीरो विधत्ते भुवं तृप्यत्कालकरालवऋविघसव्याकीर्यमाणामिव ॥ ६॥ सुमन्त्रः- (स्वगतम् ।) कथमीदृशेन सह वत्सस्य चन्द्रकेतोर्द्वन्द्वसं- प्रहारमनुजानीमः । (विचिन्त्य ।) अथवा इक्ष्वाकुकुलवृद्धाः खलु वयम् । प्रत्युपस्थिते रणे का गतिः । चन्द्रकेतुः-(सविस्मयलज्जासंभ्रमम् ।) हन्त धिक् । अपावृत्तान्येव सर्वतः सैन्यानि मम । सुमन्त्रः-(रथवेगं निरूप्य ।) आयुप्मन् , एष ते वाग्विषयीभूतः सवीरः। चन्द्रकेतुः-(विस्मृतिमभिनीय 1) आर्य, किं नामधेयमाख्यातमाह्वायकैः। सुमन्त्र:-लव इति । चन्द्रकेतुः- भो भो लव महाबाहो किमेभिस्तव सैनिकैः । एषोऽहमेहि मामेव तेजस्तेजसि शाम्यतु ।। ७ ॥ सुमन्त्र:-कुमार, पश्य पश्य । विनिवर्तित एष वीरपोतः पृतनानिर्मथनात्त्वयोपहूतः । स्तनयित्नुरवादिभावलीना- मवमर्दादिव दृप्तसिंहशावः ॥ ८॥ (ततः प्रविशति धीरोद्धतपराक्रमो लवः ।) लवः-साधु राजपुत्र, साधु । सत्यमैक्ष्वाकः खल्वसि । तदहं परागत एवास्मि । येन तथोक्तश्चासौ ज्यानिर्घोषस्तम् । उज्जम्भयनुल्बणयन्सन् । बेलर्खिठद्भिभैरवै- भयकरैः । रुण्डखण्डानां शिर.कपालानां निकरैः समूहैर्भुवम् । तृष्यतः कालस्य पि- पासितस्य कालस्य मृत्योः करालवक्रस्य विघसैर्भुक्तशिटैः। 'विघसो यज्ञशेषभोजन- शेषयोः' इत्यमरः । व्याकीर्यमाणामिव संस्तीर्यमाणामित्र विधत्ते करोति । तृष्यदित्यनेन पिपासयान्यपरेण मृत्युना अर्धजग्धानि मुक्तानीति व्यज्यते ॥ ६ ॥ द्वन्द्वसंप्रहारं द्वन्द्वयुद्धमनुजानीमः अनुज्ञां करोमि । इक्ष्वाकुलवृद्धाः खल्बित्यनेन विमृश्यकारित्व- मवश्यमिति व्यज्यते । अत्र प्रकाशानुक्तिश्चिन्त्या ॥ अपावृत्तानि पराङ्मुखीभूतानि ॥ आह्वायकैः आह्वानं कुर्वद्भिः ॥ भो भो इति । तेज शौर्य तेजसि शाम्यतु निर्वाण भवतु ॥ ७ ॥ विनिवर्तित इति । पृतनानिर्मथनात्सेनाप्रहारात् । अपादाने प- श्चमी । उपहूतः आहूतः । स्तनयित्नुरवात् मेघध्वनेः सिहशावः सिहशिशुरिव विनि- वर्तित इत्येतत्पश्येत्यर्थः ॥ ८॥ ततः प्रविशतीति । धीरोद्धतस्य युध्युद्भटस्य .. ..

१३० उत्तररामचरिते (नेपथ्ये महान्कलकलः।) लव:--(सावष्टम्भ परावृत्य ।) कथमिदानीं भग्ना अपि पुनः प्रतिनि- वृत्ताः पृष्ठानुसारिणः पर्यवष्टम्भयन्ति मां चमूपतयः । धिग्जाल्मान् । अयं शैलाघातक्षुभितवडवावक्त्रहुतभु- क्प्रचण्डक्रोधार्चिनिचयकवलत्वं व्रजतु मे। समन्तादुत्सर्पद्धनतुमुलहेलाकलकलः पयोराशेरोघः प्रलयपवनास्फालित इव ॥ ९॥ (सवेगं परिकामति ।) चन्द्रकेतुः—भो भोः कुमार, अत्यद्भुतादपि गुणातिशयात्प्रियो मे तस्मात्सखा त्वमसि यन्मम तत्तवैव । तरिक निजे परिजने कदनं करोषि नन्वेष दर्पनिकषस्तव चन्द्रकेतुः ॥ १०॥ लवः-(सहर्षसंभ्रमं परावृत्य ।) अहो महानुभावस्य प्रसन्नकर्कशा वीरवचनप्रयुक्तिर्विकर्तनकुलकुमारस्य । तत्किमेभिरेनमेव तावत्संभा- वयामि। (पुनर्नेपथ्ये कलकलः ।) लव:-(सक्रोधनिर्वेदम् ।) आः, कद कृतोऽहमेभिर्वीरसंवादविघ्नका- रिभिः पापैः । (इति तदभिमुखं परिक्रामति ।) चन्द्रकेतुः-आर्य, दृश्यतां द्रष्टव्यमेतत् । , पराक्रमो यस्येत्यर्थः । धीरोदात्तादयश्चत्वारो नायकाः प्रसिद्धाः, तेषु प्रायेण भटानामेव धीरोद्धतत्वमायाति-॥ सर्वे भग्ना अपि पराजिता अपि पर्यवष्टम्भयन्ति समीपस्थिता भवन्ति । 'अवाच्चालम्बनाविदूर्ययोः' इति षत्वम् । अयं शैलेत्यादि । अयमोघः यु- ध्माकं समूहः शैलाघातेन मन्दरसंघटनेन क्षुभितो विपर्यस्तः यः वडवावक्रहुतभुग्वाड- वमुखाग्निस्तद्वत्प्रचण्डस्य तीक्ष्णस्य क्रोधार्चिर्निचयस्य कोपाग्निज्वालासमूहस्य कवलत्व भक्ष्यत्वं व्रजतु । क इवेत्यत्राह-पयोराशेरोषःप्रवाह इवेत्यर्थः ॥ ९ ॥ अत्यद्भुता- दिति । मम त्वं सखा तस्मान्मदीयं यद्वस्तु तत्तवैव त्वदीयमेव । तन्निजे परिजने किमर्थमेवं कदन युद्धं करोषि । तव दर्पपरीक्षास्थानमेष चन्द्रकेतुरित्यर्थः ॥ १० ॥ प्रसादवती कर्कशा च कठिना च । आपाततो हृद्या पर्यालोचने तु कठिनेत्यर्थः। वीरवच- नप्रयुक्तिः वीरवादप्रयोगः । संभावयामि पुरस्करोमि ॥ कद कृतः अनुचितव्यापा- पञ्चमोऽङ्कः । दर्पण कौतुकवता मयि बद्धलक्ष्यः पश्चाइलैरनुसृतोऽयमुदीर्णधन्वा । द्वेधा समुद्धतमरुत्तरलस्य धत्ते मेघस्य माधवतचापधरस्य लक्ष्मीम् ॥ ११ ॥ सुमन्त्रः-कुमार एवैनं द्रष्टुमपि जानाति । वयं तु केवलं पर- वन्तो विस्मयेन । चन्द्रकेतुः-भो भो राजानः, संख्यातीतैर्द्विरदतुरगस्यन्दनस्थैः पदाता- वोकस्मिन्कवचनिचितैर्नद्धचर्मोत्तरीये । कालज्येष्ठेरपरवयसि ख्यातिकामैर्भवद्भि- र्योऽयं बद्धो युधि समभरस्तेन विग्यो धिगस्मान् ॥ १२ ॥ लवः-(सोन्माथम् ।) आः, कथमनुकम्पते नाम । (ससंभ्रमं विचिन्त्य ।) भवतु । कालहरणप्रतिषेधाय जृम्भकास्त्रेण तावत्सैन्यानि संस्तम्भयामि । (इति ध्यानं नाटयति ।) सुमन्त्रः-तत्किमकस्मादुल्लोलाः सैन्यघोषाः प्रशाम्यन्ति । लवः--पश्याम्येनमधुना प्रगल्भम् । सुमन्त्र:-(ससंभ्रमम् ।) वत्स, मन्ये कुमारकेणानेन जृम्भकास्त्रमा- मन्त्रितमिति । रवान्कृत. । वीरसंवादस्य चन्द्रकेतोरुक्तिप्रत्युक्तिकायाः युद्धस्य वा ॥दणेति । कौ- तुकवता सामर्थ्यदर्शनेच्छायुक्तेन दर्पण बलेन मयि बद्धलक्ष्यः दत्तचक्षुर्मयि व्यवसितल- श्यलवान् । उदीर्णधन्वा उत्क्षिप्तचापः। द्वेधा मथि बले चाभिमुखोऽयं लवः द्वेधा समुद्ध- तस्य चलितस्य मघवत्सबन्धिचापधरस्य वर्षाकालमेघस्य लक्ष्मी त्रिय धत्ते ॥११॥ संख्यति । संख्यातीतैरसंख्येयैः । द्विरदतुरगस्यन्दनेषु तिष्ठन्तीति द्विरदतुरगस्य- न्दनस्थास्तथाविधैः कवचनिचितैर्वारबाणपिहितः । अपरवयति वार्धके ख्यातिकामैः विजयप्रशस्तिकामनावद्भिः कालज्येष्ठैर्वयोधिकैः । न तु शौर्येणेत्यर्थः। भवद्भिरेकस्मिन्न- सहाये पदातौ पादचारिणि नद्धचर्मोत्तरीयेऽस्मिन् शिशौ विषये योऽय समभरः एकौ- घभारः बद्धः तेन वः धिक। युष्माकमव्यवधानेन निन्दा, अस्माकं तु युष्मद्वारा ॥ १२ ॥ अनुकम्पते मम दौर्बल्यमाशङ्कय मदुःख परिजिहीर्षति । कालहरणप्रतिषे- धाय कालयापननिवृत्तये संस्तम्भयामि निवृत्तव्यापाराणि करोमि ॥ प्रशाम्यन्ति विर- म्यन्ति ॥ प्रगल्भं प्रौढम् ॥ आमन्त्रितमाहूतम् ॥कः संदेहः । आमन्त्रित इत्यत्र संशयः क इत्यर्थः । मन्ये इत्यस्य संभावनावाचित्वात्तस्याश्चोत्कटैकतरकोटिकसंशयरूपत्वात् ।

१३२ उत्तररामचरिते चन्द्रकेतुः-अत्र कः संदेहः । व्यतिकर इव भीमस्तामसो वैद्युतश्च प्रणिहितमपि चक्षुर्घस्तमुक्तं हिनस्ति । अथ लिखितमिवैतत्सैन्यमस्पन्दमास्ते नियतमजितवीर्य जृम्भते जृम्भकास्त्रम् ॥ १३ ॥ आश्चर्यमाश्चर्यम् । पातालोदरकुञ्जपुञ्जिततमश्यामैर्नभो जृम्भकै- रुत्तप्तस्फुरदारकूटकपिलज्योतिर्वलद्दीप्तिभिः । कल्पाक्षेपकठोरभैरवमरुयस्तैरभिस्तीर्यते लीनाम्भोदतटित्कडारकुहरैर्विन्ध्याद्रिकूटैरिव ॥ १४ ॥ सुमन्तः कुतः पुनरस्य जम्भकाणामागमः स्यात् । चन्द्रकेतुः-भगवतः प्राचेतसादिति मन्यामहे । सुमन्त्रः-वत्स, नैतदेवमस्त्रेषु विशेषतो जृम्भकेषु । यतः। भृशाश्वतनया ह्येते भृशाश्वात्कौशिकं गताः । अथ तत्संप्रदायेन रामभद्रे स्थिता इति ॥ १५ ॥ चन्द्रकेतुः-अपरेऽपि प्रचीयमानसत्त्वप्रकाशाः स्वयं सर्व मन्त्रदृश: पश्यन्ति । व्यतिकर इति । तमःसंबन्धी तामसः, विद्युत्संबन्धी वैद्युतश्च । तथाविधो व्यतिक- रः संपर्कः प्रणिहितमपि प्रयत्नेन निक्षिप्तमपि । अस्तं च तन्मुक्त च । खञ्जकुब्जादिव- त्समासः । तमसा ग्रस्तं ज्योतिषा मुक्तम् । तमस्यसत्कल्पत्वाद्स्तत्वम् , ज्योतिषि च कार्यकरत्वात्ततो मुक्तत्वम् । चक्षुर्हिनस्ति बाधते । नियतं निश्चितम् ॥ १३ ॥ आश्च- र्यमभूतपूर्वम् । पातालेति । पातालोदरमेव कुञ्जः गुहा तस्मिन्पुञ्जितानि संहतभावं प्राप्तानि यानि तमांसि तद्वत् श्यामैः । उत्तप्त स्फुरत्तेजिष्ठं च यदारकूटं त्रपुधातुविशे- षस्तस्य यत्कपिलं पिशङ्ग ज्योतिस्तद्वज्ज्वलद्दीप्तिभिः । अत एव कल्पाक्षेपे कल्पावसाने कटोरेण दृढेन भैरवेण भीतिजनकेन मरुता व्यस्तैर्वियोजितैलीनाम्भोदानि तटित्कडाराणि च कुहराणि एषां तथोक्तः । कडारः कपिलः । विन्ध्याचलशृङ्गैरिव स्थितैः जृम्भकै- नभः अभिस्तीर्यते आच्छाद्यते ॥ १४ ॥ कुतः पुनः कस्मात्पुरुषात्पुनरस्य लवस्य ॥ मन्त्रेषु विषये एतदागमनमेवं न त्वन्मतरीत्या न घटते । जृम्भकास्त्रेषु विषये एतत्प्रा- चेतसादधिगम इत्येतद्विशेषत एव तु न घटते । भृशाश्वेति । भृशाश्व- तनया ह्येते एते अस्त्रदेवताविशेषाः भृशाश्वमुनिना आदौ जनिताः । हीति प्रसिद्धौ । कौशिकं विश्वामित्रम् । अथानन्तरं तत्संप्रदायेन विश्वामित्रोपदेशेन ॥ १५ ॥ अप- पञ्चमोऽङ्कः । सुमन्त्रः-वत्स, सावधानो भव । परागतस्ते प्रतिवीरः । कुमारौ--(अन्योन्यं प्रति ) अहो प्रियदर्शनः कुमारः । (सस्नेहानुराग निर्वर्ण्य ।) यदृच्छासंवादः किमु गुणगणानामतिशयः पुराणो वा जन्मान्तरनिबिडबद्धः परिचयः । निजो वा संबन्धः किमु विधिवशात्कोऽप्यविदितो ममैतस्मिन्दृष्टे हृदयमवधानं रचयति ॥ १६ ॥ सुमन्त्रः-भूयसां जीविनामेव धर्म एष यत्र खरसमयी कस्यचित्क- चित्प्रीतिः, यत्र लौकिकानामुपचारस्तारामैत्रकं चक्षुराग इति । तदप्र- तिसंख्येयनिबन्धनं प्रमाणमामनन्ति । अहेतुः पक्षपातो यस्तस्य नास्ति प्रतिक्रिया । स हि स्नेहात्मकस्तन्तुरन्तर्भूतानि सीव्यति ॥ १७ ॥ रेऽपि भवदुक्तेभ्योऽन्येऽपि प्रचीयमानसत्त्वप्रकाशाः व्याप्नुवत्संवित्प्रकाशाः । मन्त्रदृशः खयमेव संप्रदायेन विनापि ॥ सावधानोऽनन्यमनाः भव ॥ कुमारौ लवचन्द्रकेतू । प्रियं सुखजनक दर्शन यस्य तथोक्तः । स्नेहः मैत्री । अनुरागो भोग्यताज्ञानम् । यहच्छेति । यदृच्छया दैवेन संवादः समागमः यस्य तथोक्तः । यदृच्छया दैवेन संवाद एकरूपं यस्य तथोक्तो वा । रामादिगुणगणैरेकरूप इति हृदयम् । तथाविधो गुणगणानामतिशयः किमु । पुराणः पुरापि भवः । जन्मान्तरेष्वन्येषु जन्मसु निबि- डबद्धः दृढारूढः परिचयो वासना किमु । विधिवशाईवेच्छया अविदितः कोऽपि निजः संबन्धः जननसंबन्धः किमु । यत एव ततो हृदयं कर्तृ अवधानं व्यापारा- न्तररहिततां रचयति करोति । अथवा एतस्मिन्दृष्टे सति मम हृदयं कर्म गुणातिशया- दिषु त्रिषु अन्यतमावधानता अवधान अवहित करोतीति । द्विकर्मणि च ल्युडित्यप्याहुः ॥१६॥ भूयसामित्यादि । यत्र यस्यां प्रीतौ । तारामैत्री मैत्री तारा कनीनिका तत्प्रेम वा । चक्षुरागः आदराद्वीक्षणम् । 'चक्षुःप्रीतिर्भवेद्यत्र' इत्युक्तचक्षुराग इति च लौकिकानां जनानामुपचारो व्यवहारस्तादृशी कस्यचित्पुरुषस्य क्वचित्पुरुषे खरसमयी अक्रूररसा अकृत्रिमा वा प्रीतिरिति यत् एषः । विधेयप्राधान्यात्पुंस्त्वम् । भूयसां महीयसां जी- विनां प्राणभृतां धर्मः खभावः । अप्रतिसंख्येयनिबन्धनम विचारणीयमूलं तत्प्रेम प्रमाण यथार्थानुभवविषयमामनन्ति असकृद्वदन्ति । अहेतुमिति । यः अहेतुनिष्कारणकः पक्षपातः आत्मीयत्वप्रतिसंधानमूलकानुकूलज्ञानरूपस्तस्य अहेतुकपक्षपातस्य प्रति- क्रिया निवर्तकव्यापारः नास्ति न संभवति । स्नेहात्मकः प्रेममयः सः तन्तुः भूतानि उ० रा. १२ १३४ उत्तररामचरिते कुमारौ- (अन्योन्यमुद्दिश्य ।) एतस्मिन्मसृणितराजपट्टकान्ते मोक्तव्याः कथमिव सायकाः शरीरे । यत्प्राप्तौ मम परिरम्भणाभिलाषा- दुन्मीलत्पुलककदम्बमङ्गमास्ते ॥ १८ ॥ किं चाक्रान्तकठोरतेजसि गतिः का नाम शस्त्रं विना शस्त्रेणापि हि तेन किं न विषयो जायेत यस्येदृशः। किं वक्ष्यत्ययमेव युद्धविमुखं मामुद्यतेऽप्यायुधे वीराणां समयो हि दारुणरसः स्नेहक्रमं बाधते ॥ १९ ॥ सुमन्त्रः---(लव निर्वर्ण्य सास्रमात्मगतम् ।) हृदय, किमन्यथा परिप्लवसे । मनोरथस्य यद्वीजं तदैवेनादितो हृतम् । लतायां पूर्वलनायां प्रसवस्योद्भवः कुतः ॥ २० ॥ चन्द्रकेतुः-अवतराम्यार्य सुमन्त्र, स्यन्दनात् । सुमन्त्र:-कस्य हेतोः। चन्द्रकेतुः-एकस्तावदयं वीरपुरुषः पूजितो भवति । अपि च प्राणिनः अन्तः सीव्यति अन्तःस्यूतानि करोति ॥ १७ ॥ एतस्मिन्निति । राज- पट्ट नीलरक्तपट्टवस्त्रं तद्वत्कान्ते कमनीये एतस्मिन् लवे चन्द्रकेतौ वा । परिरम्भणाभि- लाषादालिङ्गनेच्छया। उन्मीलत्पुलककदम्बमुद्यद्रोमाञ्चनिकुरम्बम् ॥१८॥ किं चेति । किंच पूर्वोक्तादन्यत् । आक्रान्तकठोरतेजसि आक्रान्त प्राप्त कठोरं पूर्ण तेजः पराभि- भवनसामर्थ्य यस्य तस्मिन्विषये शस्त्रं विना का गतिः शस्त्रसाधनकयुद्धादृते किं कर्तव्यम् । न किमपीत्यर्थः । तर्हि शरीरसौभाग्यानुरोधेन शस्त्रन्यासः क्रियतामित्यत्राह-शस्त्रेणे- ति । यस्य शस्त्रस्य ईदृशः महावीरः न जायेत तेन शस्त्रेणापि किम् । न किमपीत्यर्थः। तर्हि सौकुमार्यवीर्ययोः प्राबल्यदौर्बल्यविचारेण सौकुमार्यानुसारेण शस्त्रन्यासः क्रियतामि- त्यत्राह-उद्यतेऽप्यायुधे युद्धविमुखं मामयमेव किं वक्ष्यति । यत एवं ततः दारुण- रसः क्रौर्यैकवेषः शूराणां समयः आचारः स्नेहक्रम स्नेहव्यापारपरिपाटी बांधते निवर्न- यति ॥ १९ ॥ अन्यथा संभाव्यविषयानुसारेण परिप्लबसे चञ्चलीभवसि । रामसा- दृश्यात्तदपत्रं लव इति कि शङ्कसे इति भावः । मनोरथस्येति । मनोरथस्य अभि- लष्यमाणलवनिष्ठरामापत्यत्वस्य यद्वीजं सीतारूपं तदादितो हृतं गर्भिणीदशायामेव न- टम् । 'लूनपूर्वायाम्' इति पाठे पूर्व लूना छिन्ना तथाविधायाम् । भूतपूर्वनिर्देशात् लून- शब्दस्य पूर्व निपातः । 'पूर्वलूनायाम्' इति पाठे तु पूर्वस्मिन् काले लूनेत्यर्थः । प्रस- वस्य पुष्पस्य ॥ २० ॥ वीरपुरुषः लवः पूजितस्तावद्भवति । द्वयोरवतरणप्रयोजनयोः पञ्चमोऽङ्कः। . १३५ खल्वार्य, क्षत्रधर्मः परिपालितो भवति । न रथिनः पादचारमभियुञ्जन्ती- ति शास्त्रविदः परिभाषन्ते । सुमन्त्रः-(खगतम् ।) आः, कष्टां दशामनुप्रपन्नोऽस्मि । कथं हीदमनुष्ठानं मादृशः प्रतिषेधतु । कथं वाभ्यनुजानातु साहसैकरसां क्रियाम् ॥ २१ ॥ चन्द्रकेतुः-यदा तातमिश्रा अपि पितुः प्रियसखं त्वामर्थसंशयेषु पृच्छन्ति तत्किमार्यो विमृशति । सुमन्त्रः-आयुष्मन् , एवं यथाधर्ममभिमन्यसे । एष साङ्ग्रामिको न्याय्य एष धर्मः सनातनः । इयं हि रघुसिंहानां वीरचारित्रपद्धतिः ॥ २२ ॥ चन्द्रकेतुः-अप्रतिरूपं वचनमार्यस्य । इतिहासं पुराणं च धर्मप्रवचनानि च । भवन्त एव जानन्ति रघूणां च कुलस्थितिम् ॥ २३ ॥ सुमन्त्रः-(सस्नेहानं परिष्वज्य ।) जातस्य ते पितुरपीन्द्रजितो निहन्तु- वत्सस्य वत्स कति नाम दिनान्यमूनि । प्रथम वीरपुरुषपूजा भवति । क्षत्रधर्मः खल्पपि परिपालितोऽनुष्ठितो भवति । पाद- चारं पदाति रथिनो नाभियुञ्जन्तीति न युध्यन्तीति शास्त्रविदः क्षत्रधर्मप्रतिपादकार्थ- शास्त्रज्ञाः परिभाषन्ते नियच्छन्ति ॥ कथं हीति । इदमनुष्ठानं राजपुत्रस्य रथाद- वतरणं प्रतिषेधतु निषिद्ध्यात् । निवर्तयेदित्यर्थः । साहसैकरसां साहसप्रकृत्येकवेषां क्रियां अनुष्ठानमभ्यनुजानातु अनुमन्येत ॥ २१ ॥ तातमिश्रा अपि । मिश्रशब्द. पूज्यवाची रामादयोऽपि अर्थसंशयेषु अनुष्ठेयाननुष्ठेयसंदेहेषु पितुः प्रियसखं दशरथप्रियसखं त्वां पृच्छन्ति जिज्ञासां बोधयन्ति ॥ यथाधर्म क्षत्रधर्मानतिकमेण । एष इति । सङ्ग्रामे भवः साभामिकः एषः वीरपुरुषपूजारूपः न्याय्यः उचितः । एष धर्मः क्षत्र- धर्मपरिपालनरूपः सनातनश्चिरंतनः । इयं पूर्वोक्तद्वयी वीरचारित्रपद्धतिः वीरव्या- पारपरिपाटी ॥ २२ ॥ अप्रतिरूप निस्तुलम् । इतिहासमिति । इतिहासं रामायण- भारतादिकम् । पुराण 'सर्गश्च प्रतिसर्गश्च' इत्यायुक्तलक्षणकम् । धर्माः नित्यनैमित्ति- कादयः प्रोच्यन्ते प्रकाश्यन्ते एभिरित्यर्थे 'करणाधिकरणयोश्च' इति ल्युट् । मन्वादिस्मृ- तयस्ता इत्यर्थः । कुलस्थिति कुलमर्यादाम् ॥ २३ ॥ जातस्येति । वत्स चन्द्रकेतो, पितुर्जातस्य त्वत्पितुरस्मच्छिशोरिन्द्रजितो निहन्तुर्वत्सस्य लक्ष्मणस्य अमूनि दिनानि । एतावान् जीवितकाल इति यावत् । कति नाम कियन्ति नाम । यद्वा वत्सस्य जातस्यामू- उत्तररामचरिते तस्याप्यपत्यमनुतिष्ठति वीरधर्म दिष्टयागतं दशरथस्य कुलं प्रतिष्ठाम् ॥ २५ ॥ चन्द्रकेतुः-(सकष्टम् ।) अप्रतिष्ठे कुलज्येष्ठे का प्रतिष्ठा कुलस्य नः। इति दुःखेन तप्यन्ते त्रयो नः पितरोऽपरे ॥ २५ ॥ सुमन्त्रः-हृदयमर्मदारणान्येव चन्द्रकेतोर्वचनानि । लव:-हन्त, मिश्रीकृतक्रमो रसो वर्तते । यथेन्दावानन्दं ब्रजति समुपोढे कुमुदिनी तथैवास्सिन्दृष्टिर्मम कलहकामः पुनरयम् । रणत्कारक्रूरक्वणितगुणगुञ्जद्गुरुधनु- धूतप्रेमा बाहुर्विकचविकरालव्रणमुखः ॥ २६ ॥ चन्द्रकेतुः-(अवतरणं निरूपयन् ।) आर्य, अयमसावैश्वाकश्चन्द्रकेतु रभिवादयते । सुमन्त्रः-अहितस्यैव पुनः पराभवाय महानादिवराहः कल्पताम् । अपि च । नि दिनानि कति नामेत्यन्वयः । वत्सस्य लक्ष्मणस्य यज्जात जन्म तत्संबन्धिदिनानि। जन्मप्रभृतिदिनानीत्यर्थः । तस्याप्यपत्य कर्तृ वीरधर्ममनुतिष्ठति अनुष्ठित करोति । प्रतिष्ठामागतमास्पदं प्राप्तं माहात्म्य प्राप्तम् । 'प्रतिष्ठा स्थितिमाहात्म्ये' इति यादवः । दिष्टयेत्यानन्दे ॥ २४ ॥ अप्रतिष्ठे इति। कुलज्येष्ठे रामे अप्रतिष्ठे अनास्पदे । अन- पत्ये सतीति यावत् । त्रयः पितर. लक्ष्मणभरतशत्रुघ्नाः ॥ २५ ॥ हृदयमर्मणां हृदय- मध्यप्रदेशानां दारणानि छेदकानि । दुःखजनकानीत्यर्थः । यथेति । कुमुदिनी कुमु- द्वती सरस्योषधिर्वा इन्दौ चन्द्रे समुपोढे सति समुपागते सति यथानन्दं संतोष व्रजति तथा मम दृष्टिरस्मिन् चन्द्रकेतौ समुपोढे सति आनन्द ब्रजति । एवकारः सा- दृश्यद्योतनार्थः । रणत्कारेण रणदिति शब्देन क्रूरं भयकर क्वणितं घण्टादिरणित येन तथोक्तेन गुणेन ज्यया गुञ्जदव्यक्त गुरु महद्यद्धनुस्तस्मिन्धृतः प्रेमा कृता प्रीतिर्थेन तथोक्तः । विकचानि विस्तृतानि, विकरालानि अतिदृढानि व्रणानि मुखे अग्रे यस्य तथोक्तः : । अय मम बाहुः पुनः बाहुस्तु । दृष्टिवैषम्यार्थः पुनःशब्दः । कलहकामः युद्धकाली । भवतीत्यर्थः । अतो रतिक्रोधस्थायिकयोः शृङ्गारवीरयोमेलनान्मिश्रितयोः रसयोः क्रमः परिपाटिर्वर्तत इति पूर्वेण संबन्धः । 'पुभावं मनसा ययुः' इति न्यायेन कुमुदिनीदृष्टान्तात् शृङ्गाररसोत्पत्तिरिति द्रष्टव्यम् ॥ २६ ॥ अहितस्यैवानभिमतस्यैव पराभवायावमानायादिवराहः प्रलयार्णवमनभूमेरुद्धता वराहरूपेणावती! भगवान् ..

पञ्चमोऽङ्कः। : देवस्त्वां सविता धिनोतु समरे गोत्रस्य यस्ते पति- स्त्वां मैत्रावरुणोऽभिनन्दतु गुरुय॑स्ते गुरूणामपि । ऐन्द्रावैष्णवमाग्मिमारुतमथो सौपर्णमोजस्तु ते देयादेव च रामलक्ष्मणधनाघोषमन्त्रो जयम् ॥ २७ ॥ लवः-अतीव हि नाम शोभसे रथस्थ एव । कृतं कृतमत्यादरेण । चन्द्रकेतुः- तर्हि महाभागोऽप्यन्यं रथमलंकरोतु । -आर्य, प्रत्यारोपय रथोपरि राजपुत्रम् । सुमन्त्रः-त्वमप्यनुरुद्धयख वत्सस्य चन्द्रकेतोर्वचनम् । लवः-को विचारः स्वेषूपकरणेषु । किं त्वरण्यसदो वयमनभ्य- स्तरथचर्याः । सुमन्त्रः-जानासि वत्स, दर्पसौजन्ययोर्यदाचरितम् । यदि पुन- स्त्वामीदृशमैक्ष्वाको राजा रामभद्रः पश्येत्तदायमस्य स्नेहेन हृदयमभि- व्यन्दयेत् । लवः-अन्यच्च चन्द्रकेतो, सुजनः स राजर्षिः श्रूयते । (सलजमिव ।) यदि च वयमप्येवंप्रायाः क्रतुद्विषतामरौ क इव न गुणैस्तं राजानं जनो बहु मन्यते । , कल्पता तस्मिन् समर्थों भवतु । देव इति । देवः सविता सूर्यः धिनोतु प्रीणयतु । मैत्रावरुण' वसिष्ठस्त्वामभिनन्दतु । इन्द्रस्य विष्णोश्च इदं ऐन्द्रावैष्णवम् । 'देवताद्वन्द्वे च' इति आनड् । अग्नेर्मारुतस्य चेदमाग्निमारुतम् । इद्वद्धौ' इति इत् । सौपर्ण गरुडदैव- त्यमोजः पराक्रमः । ज्याघोष एव मन्त्रः । जयं पराभिभवं देयाद्दद्यात् । 'एतेर्लिडि' इत्येत्वम् ॥ २७ ॥ शोभसे हृद्यो भवसि । अत्यादरेण कृतम् । अवरोहणं न कार्यमिति भावः ॥ तर्हि मदवरोहणे अनिष्टे ॥ प्रत्यारोपय आरोपय । राजपुत्रं चन्द्रकेतुम् ॥ त्वमप्यनुरुध्यस्व यथा चन्द्रकेतुस्त्वद्वचनं रथादनवरोहणेनानुरोधितवान् तथा त्वमपि तद्वचन रथारोहणेनानुसर ॥ स्वेषु खीयेषूपकरणेषु रथादिषु । अरण्ये सीदन्ति वस- न्तीत्यरण्यसदः । 'सत्सूद्विष-' इत्यादिना क्विप् । अनभ्यस्तरथचर्याः अपरिचितरथग- तयः ॥ दर्पसौजन्ययोः यदाचरितं पराक्रमसख्यगत्योरनुगुणोऽयमाचारस्तम् । जानासी- त्यर्थः । अयं लवः अस्य रामभद्रस्य हृदयमभिष्यन्दयेत् द्रवयेत् ॥ यदि चेति । वयमह ऋतुद्विषतां यज्ञादिधातुकानामरौ शासितरि रामभद्रविषये एवंप्राया यदि प्रेमपात्रभू- ताश्चेत्क इव को वा त राजान रजक त रामभद्रं गुणैः शीलादिभिः हेतुभिः न बहु मन्यते।

उत्तररामचरिते तदपि खलु मे स व्याहारस्तुरङ्गमरक्षिणां विकृतिमखिलक्षत्राक्षेपप्रचण्डतयाकरोत् ॥ २८ ॥ चन्द्रकेतुः-किं नु भवतस्तातप्रतापोत्कर्षेऽप्यमर्षः । लवः-अस्त्विहामर्षो माभूद्वा । अन्यदेतत्पृच्छामि दान्तं हि राजानं राघवमनुशुश्रुमः । स किल नात्मना दृप्यति नाप्यस्य प्रजा वा हप्ता जायन्ते । तत्कि मनुप्यास्तस्य राक्षसीं वाचमुदीरयन्ति । ऋषयो राक्षसीमाहुर्वाचमुन्मत्तदृप्तयोः । सा योनिः सर्ववैराणां सा हि लोकस्य निष्कृतिः ॥ २९ ॥ इति ह म तां निन्दन्ति । इतरामभिष्टुवन्ति । कामं दुग्धे विप्रकर्षत्यलक्ष्मी कीर्ति सूते दुहृदो निष्पलान्ति । शुद्धां शान्तां मातरं मङ्गलानां धेनुं धीराः सूनृतां वाचमाहुः ॥ ३० ॥ सुमन्त्रः-परिभूतोऽयं बत कुमारः प्राचेतसान्तेवासी । वदत्यय- मभ्युपपन्नामर्षेण संस्कारेण । लवः-यत्पुनश्चन्द्रकेतो, वदसि किं नु भवतस्तातप्रतापोत्कर्षेऽप्य- मर्ष इति तत्पृच्छामि किं व्यवस्थितविषयः क्षत्रधर्म इति । सर्वोऽपि त संभावयतीत्यर्थः । सौजन्यस्य को विरोध इत्यत्राह-तदपि तथापि अखि- लक्षत्राक्षेपः सकलराजतिरस्कारस्तेन प्रचण्डतया क्रूरतया तुरङ्गमरक्षिणामश्वमेधाश्व- रक्षकानां विकृति मन्युं स व्याहारश्च 'तां पताकां हरामि वः' इत्यादिकः । अथवा तुर- गमरक्षिणां व्याहारः 'सप्तलोकैकवीरस्य' इत्युक्तिः मे विकृति मन्यु अकरोत् ॥ २८ ॥ दान्तमनहंकारमनुशुश्रुमः श्रुतवानस्मि । आत्मना स्वयं न दृष्यति नाहंकरोति,प्रजा वा दृप्ता न जायन्ते । राक्षसीं वाचं दृप्तवाचम् । तदाह-ऋषय इति । योनिः कारणम्। निष्कृतिः परिभवहेतुः ॥ २९ ॥ इतरां वक्ष्यमाणाम् । काममिति । काममभिल- षितं दुग्धे प्रपूरयति । अलक्ष्मी विप्रकर्षति दूरीकरोति । कीर्ति गुणवत्ताप्रथां सूते जनयति । दुहृदः शत्रून् निष्प्रलान्ति अतिशयेन नाशयति । सूनृता वागिति शेषः । शुद्धां दोषशून्यां शान्तां कार्कश्यरहितां मङ्गलानां मातरं हेतुं धेनुं स्वरूपेणाभोग्यां धीराः ध्यानशीलाः सूनृतां शुद्धामाहुरिति योज्यम् । इतीतरामभिष्टुवन्तीति पूर्वेणा- न्वयः ॥ ३० ॥ अभ्युपपन्नामर्षेण उत्पन्नासहनेन संस्कारेण वासनया ॥ तातप्रतापो- त्कर्षेऽयमर्ष इति यद्वदसि अनोच्यते इति शेषः । व्यवस्थितविषयः रामभद्रमात्रनिय- ताधिकरणकः क्षत्रधर्मः क्षत्रियासाधारणपराक्रमातिशयादिः ॥ अतिप्रसङ्गादनिष्टप्रस- , ।

पञ्चमोऽङ्कः । , सुमन्त्रः-नैव खलु जानासि देवमैक्ष्वाकम् । तद्विरमातिप्रसङ्गात् । सैनिकानां प्रमाथेन सत्यमोजायितं त्वया । जामदग्यस्य दमने न हि निर्बन्धमर्हसि ॥ ३१ ॥ लवः—(सहासम् ।) आर्य, जामदग्न्यस्य दमनः स राजेति कोऽय- मुच्चैर्वादः । सिद्धं ह्येतद्वाचि वीर्य द्विजानां वाह्वोवीर्य यत्तु तत्क्षत्रियाणाम् । शस्त्रग्राही ब्राह्मणो जामदग्य- स्तस्मिन्दान्ते का स्तुतिस्तस्य राज्ञः ॥ ३२ ॥ चन्द्रकेतुः-(सोन्माथमिव ।) आर्य सुमन्त्र, कृतमुत्तरोत्तरेण । कोऽप्येष संप्रति नंवः पुरुषावतारो वीरो न यस्य भगवान्भृगुनन्दनोऽपि । पर्याप्तसप्तभुवनाभयदक्षिणानि पुण्यानि तातचरितान्यपि यो न वेद ॥ ३३ ॥ लवः-को हि रघुपतेश्चरितं महिमानं च न जानाति । यदि नाम किंचिदस्ति वक्तव्यम् । अथवा शान्तम् । वृद्धास्ते न विचारणीयचरितास्तिष्ठन्तु हुं वर्तते सुन्दस्त्रीमथनेऽप्यकुण्ठयशसो लोके महान्तो हि ते । अनाद्विरम विरतो भव । 'जुगुप्साविराम-' इति पञ्चमी । सैनिकानामिति । प्रमाथेन प्रकृष्टविलोडनेन ओजायितमोजस्वीभूतम् । भावे क्तः । जामदग्न्यस्य दमने परशुरामस्य जेतरि रामभद्रे विषये । निर्बन्ध रूक्षवादम् ॥३१॥सिद्धमिति । द्विजानां विप्राणां वाचि वीर्य पराभिभवनसामर्थ्य मिति यत् । क्षत्रियाणां बाह्वोर्वीर्यमिति यत् । एतत्सिद्धं प्रसिद्धं किल । जामदग्न्यः शस्त्रयाही ब्राह्मणः । तस्मिन्दान्ते तस्य राज्ञः तद्दमनकराम- भद्रस्य स्तुतिः गुणाभिधानिका का । न किमपीत्यर्थः ॥३२॥ कोऽपीति । यस्य परशु- रामश्च वीरो न । यज्ज्ञानविषयावीरखवान् भृगुनन्दनः । यः पुरुषः सप्तानां भुवनानां समाहारः सप्तभुवनं तस्याभयं भयनिवारणं तदेव दक्षिणा प्रत्युपकारनिरपेक्षं खाभ्यु- दयमुद्दिश्य दानं सा पर्याप्ता पूर्णा येषु तथोक्तानि तातचरितानि पुण्यानि रामभद्रवृत्त- लक्षणगुम्फकर्माणि शुभकर्माणि तथा तु न वेद न जानाति । एषः नवः पुरुषावतारः कोऽपि । क्षेपेऽय किशब्दः । अत्र रामचरितलक्षणक्रतूनां जगदभयदानमेव दक्षिणेति वर्णनाद्रूपकालंकारः ॥ ३३ ॥ यदि नाम किचिदस्ति वक्तव्यम् । वक्तव्यं किंचिदस्ति किमित्यर्थः । वृद्धा इति । अविचारणीयचरितास्ते वृद्धास्तिष्ठन्तु । वयोमात्र तेषां १४० उत्तररामचरिते यानि त्रीण्यकुतोमुखान्यपि पदान्यासन्खरायोधने यद्वा कौशलमिन्द्रसूनुनिधने तत्राप्यभिज्ञो जनः ॥ ३४ ।। चन्द्रकेतुः-आः तातापवादिन् , भिन्नमर्याद, अति हि नाम प्रगल्भसे। लव:-अये, मय्येव भृकुटीमुखः संवृत्तः । सुमन्त्रः-स्फुरितमनयोः क्रोधेन । तथा हि । क्रोधेनोद्धतधूतकुन्तलभरः सर्वाङ्गजो वेपथुः किंचित्कोकनदच्छदस्य सदृशे नेत्रे स्वयं रज्यतः । धत्ते कान्तिमिदं च वक्रमनयोभङ्गेन भिन्नभ्रुवो- श्चन्द्रस्योद्भटलाञ्छनस्य कमलस्योद्धान्तभृङ्गस्य च ॥ ३५ ॥ लवः—कुमार, कुमार, एोहि । विमर्दक्षमा भूमिमवतरावः । (इति निष्कान्ताः सर्वे ।) इति पञ्चमोऽङ्कः। गौरवहेतुरिति भावः । सुन्दस्त्रीमथने ताटकावधेऽपि अकुण्ठयशसः अप्रतिहतकीर्तयः। कुतोमुखानि पराङ्मुखानि पदानि पादन्यासपराङ्मुखानीति वाचा वक्तमपि जुगुप्सया- कुतोमुखानीत्युक्तम् । तदिदं शौर्यातिशयकार्यम् । अत्रात्यन्तमासन्नो भूत्वा खरः स्थितः तदा रामभद्रश्वापकर्षणार्थ पदत्रय निवृत्य तं जघानेति प्रसिद्धिः । इन्द्रसूनुनिधने वालिवधे यत्कौशल नैपुण्यमन्तर्धानपूर्वकत्वरूपं तत्राप्यभिज्ञो जनः वर्तते। हुमिति परिहासे ॥३४॥ तातापवादिन् रामभद्रविषयदोषवादिन् । भिन्नमर्याद अतिक्रान्तसमुदाचार ॥ भ्रुकु- टीमुखः क्रोधप्रयुक्तन्नूभङ्गयुक्तवदनः ॥ अनयोर्लवचन्द्रकेखोः । क्रोधेनेति । उद्धताः धूताश्चलन्तः कुन्तलाः केशभराः यस्मिन् स तथोक्तः । कोकनदच्छदस्य रक्तारविन्द- पत्रस्य रज्यतः रक्तीभवतः । भुवोभ न भीमम् । अनयोरिदं वक्र च । उद्भटलाञ्छनस्य प्रकटलक्ष्मणः चन्द्रस्य उद्भान्तभृङ्गस्य कमलस्य च कान्ति धत्ते । वक्रमित्येकवच- नोक्तिः संतानैक्यप्रयुक्तात्यन्तसारूप्यद्योतनाय । निदर्शनालंकारः ॥ ३५ ॥ एह्या- गच्छ । विमर्दक्षमा युद्धयोग्यां भूमिमवतरावः । इति निष्क्रान्ताः सर्वे ॥ वाधूलवंशजनुषो भूसारनिवासराघवार्यस्य । उत्तररामचरित्रव्याख्यायामवसितः पञ्चमोऽङ्कः ॥ इति श्रीवाधूलवीरराघवविरचितायां भवभूतिभावतल- स्पर्शिनीसमाख्यायामुत्तररामचरितव्याख्यायां पञ्चमोऽङ्कः। ..

षष्ठोऽङ्कः । (ततः प्रविशति विमानेनोवल विद्याधरमिथुनम् ।) विद्याधरः-अहो नु खल्वनयोर्विकर्तनकुलकुमारयोरकाण्डकल- हप्रचण्डयोरुद्योतितक्षत्रलक्ष्मीकयोरत्यद्भुतोद्धान्तदेवासुराणि विक्रान्त- विलसितानि । तथाहि प्रिये, पश्य । रणत्करणझञ्झणकणितकिङ्किणीकं धनु- व॑नद्गुरुगुणाटनीकृतकरालकोलाहलम् । वितत्य किरतोः शरानविरतं पुनः शूरयो- विचित्रमभिवर्तते भुवनभीममायोधनम् ॥ १ ॥ जृम्भितं च विचित्राय मङ्गलाय द्वयोरपि । स्तनयित्नोरिवामन्ददुन्दुभेदुन्दुमायितम् ॥ २ ॥ तत्प्रवर्त्यतामनयोः प्रवीरयोरनवरतमविरलमिलितविकचकनककमलकम- नीयसंहतिरमरतरुतरुणमणिमुकुलनिकरमकरन्दसुन्दरः पुष्पनिपातः । विद्याधरी-ता किं ति पुरो आआसं दुइंसतरलतडिच्छडाकडारं अवरं विअ झत्ति संवुत्तम् । विद्याधरः-तत्किं नु खल्वद्य । १. तत्किमिति पुर आकाशं दुर्दर्शतरलतडिच्छटाकडारमपरमिव झटिति संवृत्तम्। युद्धस्य 'दूरध्वानवधम्' इति दृश्यत्वप्रतिषेधाद्विष्कम्भेन तदाह-विद्याधरमिथुन- मित्यादिना ॥ विकर्तनः सूर्यः । अकाण्डकलहेन उभयोरप्येकत्वेन वास्तवहेतुरहितवैरेण प्रचण्डयोः क्रूरयोरुद्योतिता क्षत्रलक्ष्मीः ययोस्तथोक्तयोः । अत्यद्भुतेनातिविस्मयेन उशान्ता देवासुराः यैस्तथोक्तानि विक्रान्तस्य विक्रमस्य विलसितानि । अहो विस्मयनी- यानीत्यर्थः । रणदिति । रणत्करणेन रणदिति शब्दहेतुव्यास्फालनेन झणझणत्कार- क्वणितयुक्तम् । ध्वनन् गुरुगुणः ज्या यया तथोक्तया अटन्या धनुष्कोट्या कृतः करालो भीषणः कोलाहलो यस्य तथोक्तं धनुर्वितत्य मण्डलीकृत्य विस्तार्य शरानविरत किर- तोर्वर्षतोः लवचन्द्रकेखोः ॥१॥ स्तनयित्नोरिव गर्जन्मेघस्येव । अमन्ददुन्दुभेदुन्दु- मायित दुन्दुमशब्दः जृम्भितं प्रवृत्तम् ॥२॥ अनयोलवचन्द्रकेखोस्तादर्सेन अवि- रलमिलिता कसूलकमनीयसंहतिर्येन तथोक्तः पुष्पनिपातः पुष्पवृष्टिः ॥ तडिच्छटया विद्युज्जालेन कडारं कपिल आकाशमन्यदिव जातमित्यर्थः ॥ तत्कि नु खलु नु किमिति .

१४२ उत्तररामचरिते त्वष्ट्रयन्त्रभ्रमिभ्रान्तमार्ताण्डज्योतिरुज्ज्वलम् । पुटभेदो ललाटस्थनीललोहितचक्षुषः ॥ ३ ॥ आं ज्ञातम् । जातक्षोभेन चन्द्रकेतुना प्रयुक्तमप्रतिरूपमाग्नेयमस्त्रम् , यस्यायममिवच्छरसंपातः संप्रति हि । अवदग्धबर्बरितकेतुचामरै- रपयातमेव हि विमानमण्डलैः । दहति ध्वजांशुकपटावलीमिमां नवकिंशुकद्युतिसविभ्रमः शिखी ॥ ४ ॥ आश्चर्यम् । प्रवृत्त एवायमुच्चण्डवज्रखण्डावस्फोटपटुरटत्स्फुलिङ्गगुरुरु- त्तालतुमुललेलिहानोज्ज्वलज्ज्वालासंभारभैरवः भगवानुषर्बुधः । प्रचण्ड- श्वास्य सर्वतः संपातः । तत्प्रियामंशुकेनाच्छाद्य सुदूरमपसरामि । (तथा करोति ।) पदद्वयमस्य च वक्ष्यमाणवाक्यद्वयेनान्वयः । त्वष्ट्रिति । वष्टशाणचक्रभ्रमिभ्रान्तमा- ताण्डज्योतिः किम् । उज्ज्वल: ललाटस्थनीललोहितचक्षुषः रुद्रललाटनेत्रस्य पुटभेदो नु उन्मीलनु । अथवा कि न्वित्येकमेव पदम् । मार्ताण्डज्योतिरुज्ज्वल इत्येकपदं पुटभेदवि- शेषणम् । ज्योतिरिवोज्ज्वलतीति तदर्थः ॥ ३ ॥ जातक्षोभेन प्रकृतिविपर्यासता । आग्नेयमग्निदैवत्यम् । शरसंपातः इषुधारा । अवदग्धेति । अवदग्धानि प्रायेण दग्धानि बर्बरितानि यानि दाहजबर्बरध्वनियुक्तानि केतवः क्षुद्रध्वजाश्चामराणि वालव्यजनानि येषां तथोक्तैः । अपयातम् । भावे क्तः । नवपलाशकुसुमकान्तिसदृशः शिखी अग्निः । ध्वजाः महाकेतवः तेषामंशुकानि चीरांशुकानि तान्येव पटाः । सामा- न्यविशेषशब्दयोः कर्मधारयः । 'उत्तरीये वस्त्रमाने सूक्ष्मवस्त्रेऽपि चांशुकम्' इति रत्न- माला । अंशुकपदं सूक्ष्ममात्रपरं गोबलीवर्दन्यायेन ।तेपामावलीम् । ध्वजलक्षणकान्ति- व्याजपुञ्जानीति वार्थः । अत्र ध्वजाश्च अंशुकपटाश्चेति विग्रहः ।व्याजपर्यायः कपटशब्दः । अशव एव ध्वजव्याजेन वर्तन्त इति लाभात्तेजिष्ठत्व ध्वजानां लभ्यते। किचायमाग्ने याग्निरग्निमपि दहतीति असंवन्धेऽपि संबन्धादतिशयोक्तिरिति अपहवेन सह संकरः ॥ ४ ॥ वज्रखण्डस्याशनिशकलस्य अवस्फोटः स्फुटनं तद्वत्पटु तीक्ष्ण यथा तथा रटन् स्फुलिङ्गगुरुः कणवहुलः । उत्तालतुमुलं यथा तथा अतिशयितसंकुलं यथा तथा लेलिहानः भृशं कवलनपरः । लिहधातोर्यइलुकि चानशू । उज्ज्वलज्ज्वालासंभारेण ज्वालातिशयेन भैरवः भयकरः । उर्बुधः अग्निः । अस्याग्नेः संपातः सम्यक्पतनम् । प्रचण्डः अतितीक्ष्णः ॥ विमलमुक्ताशैलवत् निर्दोषमौक्तिकपर्वतवत् शीतलेन स्निग्धेन ..

षष्ठोऽङ्कः। विद्याधरी-दिट्ठिआ एदेण विमलमुत्तासेअसीअलसिणिद्धमसिण- मंसलेण णाहदेहप्पंसेण आणन्दसंदलिदघुण्णमाणवेअणाए अद्धोदिदो एव अन्दरिदो मे संदावो। विद्याधरः-अयि, किमत्र मया कृतम् । अथवा । न किंचिदपि कुर्वाणः सौख्यैर्दुःखान्यपोहति । तत्तस्य किमपि द्रव्यं यो हि यस्य प्रियो जनः ॥५॥ विद्याधरी-केहं अविरलविलोलघुण्णमाणविज्जुल्लदाविलासमंसलेहि मत्तमहूरकण्ठसामलेहिं ओत्थरीअदि णभोङ्गण जलहरेहिं । विद्याधरः-कुमारलवप्रयुक्तवारुणास्त्रप्रभावः खल्वेषः । कथम- विरलप्रवृत्तवारिधारासंपातैः प्रशान्तमेव पावकास्त्रम् । विद्याधरी–पि मे पिअं मे। विद्याधरः-हन्त भोः, सर्वमतिमात्रं दोषाय । यत्प्रलयवातोत्क्षो- भगम्भीरगुलगुलायमानमेघमेदुरितान्धकारनीरन्ध्रनद्धमिव एकवारविश्व- असनविकटविकरालकालमुखकन्दरविवर्तमानमिव युगान्तयोगनिद्रानि- १. दिष्टया एतेन विमलमुक्ताशैलशीतलस्निग्धमसृणमसालेन नाथ- देहस्पर्शनानन्दसंदलितधूर्णमानवेदनाया अोदित एवान्तरितो मे संतापः। २. कथमविरलविलोलघूर्णमानविद्युल्लताविलासमांसलैर्मत्तमयूरकण्ठश्यामलैरव- स्तीर्यते नभोगणं जलधरैः। ३. प्रियं मे प्रिय मे। स्नेहयुक्तेन मसृणेन चाकचक्यवता मासलेन स्फीतेन । सर्वत्र विशेषणसमासः । आनन्देन संदलिता वर्तिता वेदना यस्मिस्तथोक्तः । अन्तरितस्तिरोहितः ॥ मया किमत्र कृतम् । न किमपीत्यर्थः । न किंचिदपीत्यादि । पूर्व व्याख्यातम् ॥५॥ विलोलाः वेपमानाः घूर्णमानाः वेष्टमानाः । अवस्तीर्यते आच्छाद्यते । 'अवतीर्यते' इति च पाठः ॥ आग्नेयास्त्रप्रतिद्वन्द्वलाद्वरुणास्त्रं प्रयुक्तम् । धारासंपातैर्धारासम्यक्प- तनैः प्रशान्त निर्वापितम् ॥ अतिमात्रं प्रमाणातिक्रान्त दोषाय । कल्पत इति शेषः । प्रलयवातेन कल्पान्तमारुतेन उत्क्षोभाः अतिशयितक्षोभयुक्ताः गम्भीराः अनल्पाः गुलगुलायमानाः गुलुगुलु इत्याकारकवर्णध्वनियुक्ता ये मेघास्तैमदुरितेन सान्द्रितेन अन्धकारेण नीरन्ध्रमविरलं नद्धमिव बद्धमिव । एकेन वारेण क्षणेन विश्वस्य प्रपञ्चस्य उत्तररामचरिते रुद्धसर्वद्वारं नारायणोदरनिविष्टमिव भूतं विपद्यते । साधु चन्द्रकेतो, साधु । स्थाने वायव्यमस्त्रमीरितम् । यतः । विद्याकल्पेन मरुता मेघानां भूयसामपि । ब्रह्मणीव विवर्तानां वापि प्रविलयः कृतः ॥६॥ विद्याधरी–णाध, को दाणिं एसो ससंभमोक्खित्तकरम्भमदुत्तरी- अञ्चलो दो एव महुरसिणिद्धवअणपडिसिद्धजुद्धवावारो एदाणं अन्दरे विमाणवरं ओदरावेदि । विद्याधरः—(दृष्ट्वा ।) एष शम्बूकवधात्प्रतिनिवृत्तो रघुपतिः । शान्तं महापुरुषसंगदितं निशम्य तद्वौरवात्समुपसंहृतसंप्पहारः । १. नाथ, क इदानीमेष ससंभ्रमोत्क्षिप्तकरभ्रमदुत्तरीयाञ्चलो दूरत एव मधुरस्निग्धवचनप्रतिषिद्धयुद्धव्यापारो एतयोरन्तरे विमानवरमवतारयति । असनेन कवलनेन । एकवारः इहानावृत्तिा । विकट निम्नोन्नत विकरालं विशेषेण भीषणं कालमुख मृत्युवकं तस्मिन्विवर्तमानमिव विकुर्वाणमिव । युगान्ते कल्पान्ते योगनिद्रया ध्यानात्मकखापेन निरुद्धानि सर्वाणि द्वाराणि यस्य तथोक्तम् । यन्नाराय- णोदरं समस्तवस्त्वाधारभूतलक्ष्मीनायकोदरम् । तस्मिन्निविष्टमिव भूतम् । जात्येकवचनम्। प्राणिन इत्यर्थः । विपद्यते विपदं प्राप्नोति । वायव्य वायुदैवत्यम् । 'वाय्वतु-' इति यत्प्र- त्ययः । ईरित प्रेरितमिति यत्तत्स्थाने युक्तम् । यतः यस्मात् । विद्येति । विद्या- कल्पेन तत्त्वमस्यादिवाक्यविहिततत्त्वज्ञानसदृशेन मरुता वायुना का भूयसां बहुत- राणां मेघानां ब्रह्मणि निर्विशेषसन्मात्रे कूटस्थे चैतन्ये विवर्तानामिव अधिष्ठानविष- यसत्ताकव्यावहारिकघटपटादिविकल्पानामिव प्रविलयः निवृत्तिः कृतः । इदं चाद्वैतप्र- क्रियया व्याख्यातम् । परमार्थतस्तु विद्याकल्पेन दर्शनसमानाकाराविच्छिन्नस्मृतिसं- तानात्मकसद्विद्यादिसदृशेन मरुता ब्रह्मणि निखिलचेतनाचेतनशरीरके समस्तकल्याण- गुणाकारे श्रीमति नारायणे विवर्तानामिव विशेषणीभूतचिदचिद्वारकविलक्षणविकारभूत- देहेन्द्रियादीनामिव प्रविलयः कृतः जगदुपादानस्य ब्रह्मणः कार्यसनियतनामरूपप्र- हाणलक्षणात्यन्तिकलय एव तदपृथक्सिद्धविशेषणभूतजीवस्य मोक्षः । स च 'तमेव विदिला--' इत्यादि श्रुतिभिर्भक्तसाध्य इति । एवमुक्तिः ब्रह्मैव सन् ब्रह्माप्येति इत्युक्तेः ॥ ६॥ प्रतिषिद्धः निवर्तितः युद्धव्यापारो येन तथोक्तः । अन्तरे मध्य । प्रतिषेधवा- क्येन तयोस्तत्प्रतिघाताय मध्ये रथस्थापनेन तन्निवर्तयतीति भावः ॥ शम्बूकवधात् शम्बूकवधं निवर्त्य । ल्यब्लोपे पञ्चमी । शान्तमिति । शान्तं कार्कश्यरहित महा- पुरुषस्य रामस्य संगदितं वचनं निशम्य तद्गौरवादामविषयकगरीयस्त्वबुद्ध्या समुपसं- षष्ठोऽङ्कः। १४५ . शान्तो लवः प्रणत एव च चन्द्रकेतुः कल्याणमस्तु सुतसंगमनेन राज्ञः ॥ ७॥ तदितस्तावदेहि । (इति निष्क्रान्तौ ।) मिश्रविष्कम्भः। (ततः प्रविशति रामो लवः प्रणतश्चन्द्रकेतुश्च ।) रामः-(पुष्पकादवतरन् ।) दिनकरकुलचन्द्र चन्द्रकेतो सरभसमेहि दृढं परिप्वजस्त्र । तुहिनशकलशीतलैस्तवाङ्गैः शममुपयातु ममापि चित्तदाहः ॥ ८॥ (उत्थाप्य सस्नेहास्र परिध्वज्य ।) अप्यनामयं नूतनदिव्यास्त्रायोधनस्य तव । चन्द्रकेतुः-कुशलमत्यद्भुतप्रियवयस्यलाभाभ्युदयेन । तद्विज्ञापयामि मामिव विशेषेण स्निग्धेन चक्षुषा पश्यत्वमुं वीरमनरालसाहसं तातः । रामः-(लवं निरूप्य ।) दिष्टया अतिगम्भीरमधुरकल्याणाकृतिरयं वयस्यो वत्सस्य । त्रातुं लोकानिव परिणतः कायवानस्त्रवेदः क्षात्रो धर्मः श्रित इव तनुं ब्रह्मकोशस्य गुप्त्यै । हृतः निवृत्तः संप्रहारः युद्ध येन तथोक्तः । लवः शान्तः निवृत्तव्यापारोऽभूत् । चन्द्रकेतुश्च प्रणत एव । यत एवं ततः सुताभ्यां लवचन्द्रकेतुभ्यां संगमनेन समागमेन राज्ञः रामस्य कल्याणमस्तु । विद्याधरेण ज्ञातत्वात्सुतेत्युक्तिः ॥ ७ ॥ दिनकरेति । दिनकरकुलचन्द्र सूर्येण सह तदीयस्यास्मद्वंशस्य आह्वादकप्रसिद्धचन्द्र । सूर्य प्रति चन्द्रत्वाभावेनास्य तं प्रत्यपि चन्द्रत्वमाधिक्ये पर्यवस्यति । अत एव ममापि चित्तदाह इत्युक्तिः संगच्छते । ममापि एवमत्यन्ततप्तस्यापि मम । अनेन सहस्रभानुतापापेक्ष- यापि स्वतापस्य भूयस्त्वं गम्यते । शम निर्वाणमुपयातु प्राप्नोतु ॥ ८॥ नूतनदिव्या- स्नायोधनस्य नूतनामानुष्यास्त्रकरणकयुद्धस्य । नूतनं दिव्यास्त्रैरायोधन यस्येति बहु- व्रीहिः । तवेति शेषः । अनामयमारोग्यम् ॥ अत्यद्भुतस्य आश्चर्यकरस्य प्रियवयस्यस्य लाभ एवाभ्युदयस्तेन । स्निग्धेन स्नेहवता चक्षुषा अनरालसाहसमकुटिलयुद्धादिव्यापा. रम् । अमु लवम् । अतिगम्भीरा अक्षोभ्या कल्याणी मङ्गलावहा आकृतिराकारो यस्य तथोक्तः। दिष्टया आनन्दहेतुः । त्रातुमित्यादि । लोकान् चतुर्दशभुवनानि त्रातु रक्षितु कायवान्मूर्तिमान् सन् परिणतः जातः अस्त्रवेदः अस्त्रमन्त्रभागस्तद्वस्थितः । ब्रह्मकोशस्य ब्रह्माण्डस्य गुप्त्यै रक्षणाय तनु मूर्ति श्रितः प्राप्तः क्षात्रो धर्म इव उ. रा. १३ + ..

उत्तररामचरिते सामर्थ्यानामिव समुदयः संचयो वा गुणाना- माविर्भूय स्थित इव जगत्पुण्यनिर्माणराशिः ॥ ९ ॥ लव:-(स्वगतम् ।) अहो पुण्यानुभावदर्शनोऽयं महापुरुषः । आश्वास इव भक्तीनामेकमायतनं महत् । प्रकृष्टस्येव धर्मस्य प्रसादो मूर्तिसुन्दरः ॥ १० आश्चर्यम् । विरोधो विश्रान्तः प्रसरति रसो निवृतिघन- स्तदौद्धत्यं वापि व्रजति विनयः प्रहृयति माम् । झटित्यस्मिन्दृष्टे किमिति परवानस्मि यदि वा महार्घस्तीर्थानामिव हि महतां कोऽप्यतिशयः ॥ ११ ॥ रामः-तत्किमयमेकपद एव मे दुःखविश्रामं ददात्युपस्नेहयति .. स्थितः शौर्यवीर्यादिरूपक्षत्रियखभाव इव स्थितः । सामर्थ्यानामारब्धकार्यनिर्वह- णशक्तीनां समुदय इव स्थितः । गुणानां धैर्यादीनां संचयो वा समूह इव स्थितः । 'वा स्याद्विकल्पोपमयोः' इति कोशः । जगत्पुण्यनिर्माणानां जगत्पुण्यानुष्ठानानां राशि- रिव स्थितोऽयं वत्सस्य वयस्य इति पूर्वेण संबन्धः । आविर्भूय प्रत्यक्षीभूय स्थितः जगत्पुण्यनिर्माणराशिरिव स्थितः । अभूतोपमा ॥ ९ ॥ पुण्ये अनुभाव- दर्शने यस्य तथोक्तः । अनुभावः प्रभावः दर्शनं साक्षात्कारः । आश्वास इति । भक्तीनां स्नेहपूर्वानुध्यानानामाश्वास इव स्थितः दुःखविस्मरणपूर्वकाह्लाद इव स्थितः । भक्तयोऽन्यत्र हि क्रियमाणा विषयदोषेण दुःख्यन्ति । तासां रामे क्रियमाणानां विषय- सौष्ठवेनाबादो जायते । तद्धेतौ तत्त्वारोपः। एकमद्वितीय महद्विपुलं भक्तीनामायतनं स्थानं च । 'आश्वासस्नेहभक्तीनामेकमालम्बनं महत्' इति च पाठान्तरम् । आश्वासः द्वेषाभावः । स्नेहः प्रणयः भक्तिः स एव भावनाप्रकर्षेण प्रत्यक्षसमानाकारतामापन्न एव तासां मुख्यविषयभूत इत्यर्थः । प्रकृष्टस्य लोकोत्तरस्य धर्मस्य सुकृतस्य मूर्तिसुन्दरः प्रसाद इव स्थितः महापुरुष इति पूर्वेणान्वयः । उक्तं च 'रामो विग्रहवान्धर्मः' इति । प्रसाद इह फलप्रदानोन्मुखता ॥ १० ॥ विरोध इति । विरोधः वैरम् । विश्रान्तः विरतः नितिघनः आनन्दसान्द्रः । रस्यते चळते इति रसः । अपरोक्षावभास-न रूपः प्रसरति प्राप्नोति । तद्विपुलमौद्धत्यं दर्पहेतुकसंभावनारूपं क्वापि व्रजति । विनयः महाजनसंनिधौ खोत्कर्षाननुसंधानरूपः मां प्रलयति नमयति । अस्मिन्महा- पुरुषे दृष्टे सति साक्षात्कृते सति किमिति परवानस्मि कस्माद्धेतोः परतत्रोऽस्मि । यदि वा अथवा तीर्थानामिव गड्डादिपावनसलिलानामिव महतां पुरुपाणां महार्घः अ- मूल्यः । इलाध्य इति यावत् । अतिशय उत्कर्षः कोऽपि । अन्यादृश इत्यर्थः । इमं च श्लोकं बहवो बहु मन्यन्ते ॥ ११॥ एकपद एव एकक्षण एव दुखविश्रामं दुःख- ..

षष्ठोऽङ्कः। . ने , च कुतोऽपि निमित्तादन्तरात्मानम् । अथवा स्नेहश्च निमित्तसव्यपेक्ष इति विप्रतिषिद्धमेतत् । व्यतिषजति पदार्थानान्तरः कोऽपि हेतु- खलु बहिरुपाधीन्प्रीतयः संश्रयन्ते । विकसति हि पतङ्गस्योदये पुण्डरीकं द्रवति च हिमरश्मावुद्गते चन्द्रकान्तः ॥ १२ ॥ लव:-चन्द्रकेतो, क एते । चन्द्रकेतुः प्रियवयस्य, ननु तातपादाः । लवः—ममापि धर्मतस्तथैव यतः प्रियवयस्येति भवतोक्तम् । किंतु चत्वारः किल भवन्त्येवंव्यपदेशभागिनस्तत्रभवन्तो रामायणकथापु- रुषाः । तद्विशेषं ब्रूहि । चन्द्रकेतुः-ज्येष्ठतात इत्यवेहि । लवः-(सोल्लासम् ।) कथं रघुनाथ एव । दिष्टया सुप्रभातमद्य यदयं देवो दृष्टः । (सविनय निर्वर्ण्य ।) तात, प्राचेतसान्तेवासी लवोऽभि- वादयते । रामः-आयुष्मन् , एोहि । (इति सस्नेहमालिङ्गय ।) अयि वत्स, कृत- मत्यन्तविनयेन । अङ्गेन मामपरिश्लथं परिरम्भस्व । -- निवृत्ति ददाति । कुतोऽपि निमित्तादनिर्धारिताद्धेतोरन्तरात्मानमुपस्नेहयति स्नेहयुक्तं- करोति । अथवा पूर्वोक्तपक्षाभावे निमित्तसव्यपेक्षः हेतुसापेक्षः स्नेहश्च निमित्तसव्यपे- क्षश्चेति यत् स्नेहत्वनिमित्तसापेक्षत्वरूपं विप्रतिषिद्धं व्याहतम् । व्यतिषजतीति । कोऽपि हेतुः भवितव्यतारूपः तस्यान्तरत्वमलौकिकत्वं पदार्थानन्तःकरणप्रभृति- वस्तुजात व्यतिषजति अन्योन्यलग्नान्करोति । अन्तर्भावितण्यर्थोऽय धातु: कर्तरि कर्मव्यतिहाराभावान्नात्मनेपदम् । प्रीतयः अत्यन्तानुकूलत्वज्ञानरूपस्नेहः बहि- रुपाधीन बाह्यहेतून संश्रयन्ते खलु खोत्पादकत्वेन नापेक्षन्त इति प्रसिद्धम् । दृष्टान्त- माह-विकसतीत्यादि । पतङ्गस्य सूर्यस्य । चन्द्रकान्तः शिलाविशेषः । अत्र मार्दवः स्याप्रयोजकत्वसूचनाय द्वितीयदृष्टान्तः ॥ १२ ॥ धर्मतः पुण्यात् । मित्रस्य पिता स्वस्य पितेति शास्त्रस्यायमर्थः । स्वपितृविषये यादृशमनुवर्तन तादृशं मित्रपितृविषयकं महते श्रेयसे कल्पत इति । एवं च मद्धर्महेतुकपितृलवानित्यर्थः । एवंव्यपदेशस्य तातपादश- ब्दस्य भागिनः स्वामिनः । भागो हि स्वं भागी स्वामी तातपादशब्दस्य वाच्यतया खा- मिनः अर्थप्रत्यायनार्थत्वाच्छब्दस्य वाच्यशेषत्वं वाचकस्य । तत्रभवन्तः पूजनीयाः रामायणकथापुरुषाः रामायणनामकवाक्यप्रबन्धप्रधाननायकाः । तद्विशेष तेषु विशेष १४८ उत्तररामचरिते परिणतकठोरपुष्करगर्भच्छदपीनमसृणसुकुमारः । . नन्दयति चन्द्रचन्दननिष्यन्दजडस्तव स्पर्शः ॥ १३ ॥ लव:-(खगतम् ।) ईदृशो मां प्रत्यमीषामकारणस्नेहः । मय, पुनरेभ्य एवाभिद्रोग्धुमज्ञेनायुधपरिग्रहः कृतः। (प्रकाशम् ।) मृप्यन्तां त्विदानी लवस्य बालिशतां तातपादाः । रामः-किमपराद्धं वत्सेन । चन्द्रकेतुः- अश्वानुयात्रिकेभ्यस्तातप्रतापाविष्करणमुपश्रुत्य वीरा- यितमनेन । रामः-नन्वयमलंकारः क्षत्रियस्य । न तेजस्तेजस्वी प्रसृतमपरेषां विषहते स तस्य स्वो भावः प्रकृतिनियतत्वादकृतकः । मयूखैरश्रान्तं तपति यदि देवो दिनकरः किमानेयो ग्रावा निकृत इव तेजांसि वमति ॥ १४ ॥ चन्द्रकेतुः--अमर्षोऽप्यस्यैव शोभते महावीरस्य । पश्यन्तु हि तातपादाः । प्रियवयस्यनियुक्तेन जृम्भकास्त्रेण विक्रम्य स्तम्भितानि सर्वसैन्यानि । रामः-(सविस्मयखेदं निर्वर्ण्य । स्वगतम् ।) अहो, वत्सस्य ईदृशः प्र- .. " तातपादत्वव्याप्यरामत्वाद्यन्यतमधर्मविशिष्टत्वं ब्रूहि बोधय ॥ प्राचेतसान्तेवासी वाल्मी- किशिष्यः ॥ परीति।परिणतस्य विकसितस्य कठोरस्य समग्रस्य पुष्करस्य पद्मस्य गर्भच्छ- दवदातपाद्यनभिहतान्तरपत्रवत् पीनः मांसलः मसृणः दन्तुरतारहितः सुकुमारः मृदुलः चन्दननिष्यन्दवत् चन्दनद्रववत् जड: शीतलः । अत्र एकमात्राधिक्यम् । 'चन्दननि- ष्यन्दजड' इति संबुद्धयन्तपाठोऽपि ॥ १३॥ अमीषाम् । रामस्येत्यर्थः । एभ्यः अभिद्रो- ग्धुमेतद्विषये अपकर्तुम् । 'क्रिया-'इति चतुर्थी । आयुधपरिग्रहः कृतः । बालिशतां मूर्खतां मृष्यन्तां सहन्ताम् ॥ किमपराद्धं कोऽनिष्टाचारः ॥ अश्वस्य मेन्याश्वस्य आनुयात्रिकाः अनुयात्रायां नियुक्तास्तेभ्य इति पञ्चमी । आविष्करण प्रकाशनमुपश्रुत्याकर्ण्य वीरायित वीरवदाचरितम् ॥ अय वीरायित विधेयप्राधान्यात्पुस्त्वम् । अलंकारः शोभाकरः । न तेज इति । प्रसृतमपरेषां तेषां तेजः पराभिभवनसामर्थ्य न विषहते न सहत इति यत् सः प्रकृतिनियतत्वादुपादानकारणव्याप्तत्वादकृतकः अनागन्तुकः । खो भावः धर्म. सत्कार्यवादे कारणगुणाः कार्ये उपलभ्यन्ते । मयूखैः किरणैरश्रान्तमवि- रतमाग्नयो ग्रावा अग्न्युत्पादकसूर्यकान्तशिला निकृत इव परिभूत इव तेजांसि वमति उद्गिरति । दृष्टान्तालंकारः ॥ १४ ॥ अमर्षोऽपि न केवल तेजः कितु मन्युरपि शोभते षष्ठोऽङ्कः । , भावः । (प्रकाशम् ।) वत्स, संह्रियतामस्त्रम् । त्वमपि चन्द्रकेतो, निर्व्या- पारतया विलक्षणानि सान्त्वय बलानि । (लवः प्रणिधान नाटयति ।) चन्द्रकेतुः-यथा निर्दिष्टम् । (इति निष्क्रान्तः ।) लव:-तात, प्रशान्तमस्त्रम् । रामः-सरहस्यप्रयोगसंहारजृम्भकास्त्राणि दिष्टया वत्सस्यापि सं- पद्यन्ते । ब्रह्मादयो ब्रह्महिताय तत्त्वा परःसहस्रं शरदस्तपांसि । एतान्यदर्शन्गुरुर्वः पुराणाः स्वान्येव तेजांसि तपोमयानि ॥ १५॥ अर्थतामस्त्रमन्त्रोपनिषदं भगवान्कृशाश्वः परःसहस्राधिकसंवत्सरपरि- चर्यानिरतायान्तेवासिने कौशिकाय प्रोवाच । स भगवान्मह्यमिति गुरुपूर्वानुक्रमः । कुमारस्य कुतः संप्रदाय इति पृच्छामि । लवः स्वतःप्रकाशान्यावयोरस्त्राणि । रामः-(विचिन्त्य ।) किं न संभाव्यते । प्रकृष्टपुण्योपादानकः कोऽपि महिमा स्यात् । द्विवचनं तु कथम् । लव:-भ्रातरावावां यमौ । रामः-स तर्हि द्वितीयः क । हृयो भवति । स्तम्भितानि निर्व्यापाराणि ॥ संह्रियतामाकृष्यताम् । जृम्भकास्त्रप्रयु- तपीडाया अननुभूतत्वात् , निर्व्यापारतया विलक्षणानि विस्मयान्वितानि । सान्त्वय मधुरोक्तिभिर्मोदय ॥ प्रणिधान ध्यानम् ॥ प्रयोगो नियोजनम् , संहार आकर्षणम् । सर- हस्यौ अङ्गन्यासाद्यनुष्ठानसहितौ प्रयोगसंहारौ येषा तथोक्तानि । संपद्यन्ते स्थितानि भवन्ति । ब्रह्मादय इति । व्याख्यातम् ॥ १५ ॥ अस्त्रमन्त्रोपनिपद अस्त्रमन्त्रमयी- मुपनिषदम् । परःसहस्राधिकसंवत्सरं परिचर्या निरताय कौशिकाय विश्वामित्राय । भगवान् कौशिकः । पूर्वेषां गुरूणामनुक्रमः परम्परासंप्रदायः गुरुमुखोपदेशः । कुत. कस्मात् ॥ स्वतःप्रकाशानि गुरूपदेशेन विना ज्ञातानि ॥ कि न संभाव्यते । सर्व सभा- वितमेवेति भावः। प्रकृष्टपुण्योगदानक. प्रभूतसुकृतादिकरणकः । द्विवचनं तु आवयो- १५० उत्तररामचरिते (नेपथ्ये ।) दाण्डायन, आयुष्मतः किल लवस्य नरेन्द्रसैन्यै- रायोधनं ननु किमात्थ सखे तथेति । अद्यास्तमेतु भुवनेषु च राजशब्दः क्षत्रस्य शस्त्रशिखिनः शममद्य यान्तु ॥ १६ ॥ . अथ कोऽयमिन्द्रमणिमेचकच्छवि- निनैव बद्धपुलकं करोति माम् । नवनीलनीरधरधीरगर्जित- क्षणबद्धकुङमलकदम्बडम्बरम् ॥ १७ ॥ लवः-अयमसौ मम ज्यायानार्यः कुशो नाम भरताश्रमात्प्रति- निवृत्तः । रामः-(सकौतुकम् ।) तर्हि वत्स, इत एवैतमायायुप्मन्तम् । लवः यदाज्ञापयति । (इति निष्क्रान्तः ।) (ततः प्रविशति कुशः।) कुशः-(सक्रोध कृतधैर्य धनुरास्फाल्य ।) दत्तेन्द्राभयदक्षिणैर्भगवतो वैवस्वतादा मनो- ईप्तानां दमनाय दीपितनिजक्षत्रप्रतापाग्निभिः । आदित्यैर्यदि विग्रहो नृपतिभिर्धन्यं ममैतत्ततो दीप्तास्त्रस्फुरदुग्रदीधितिशिखानीराजितज्यं धनुः ॥ १८ ॥ रिति षष्ठीद्विवचन तु ॥ आयुष्मत इति । आयुष्मतः अनुजतया तथोक्तिः । नरेन्द्र. सैन्यैः राजसैनिकैरायोधन ननु युद्धं किम् । तथेत्यात्थ किम् । भुवनेषु राजशब्दः अस्त नाशमेतु प्राप्नोतु । क्षत्रस्य क्षत्रियजातेः शस्त्राण्येव शिखिनः वयः शमं निर्वाण यान्तु प्राप्नुवन्तु ॥ १६ ॥ अथेति । इन्द्रमणिमेचकच्छविः इन्द्रनीलवनीलच्छवि: अथेति प्रश्ने । कदम्बस्येव डम्बरं विभ्रमो यस्येति विग्रहः ॥ १७ ॥ ज्यायानग्रजः ॥ इत एव अत्रैव । एतं कुशम् ॥ सक्रोध कृतधैर्य च यथा तथा । दत्तेति । अभयमेव दक्षिणा अभयदक्षिणा । इन्द्रस्य अभयदक्षिणा दत्ता यैरिति बहुव्रीहिः । भगवतः पाहुण्य- वतः वैवखताद्विवस्वतपुत्रादा मनोःआ मनुमारभ्य दृप्तानां दमनाय शिक्षणाय दीपितः ज्वलितः निजः असाधारणः क्षत्रप्रताप एवाग्नियैस्तथोक्तैः । 'दहनाय' इत्यपि च पाठः । आदित्यैः सूर्यवश्यैः । दित्यदित्या-' इति ण्यः। नृपतिभिः विग्रहो यदि विरोधश्चेत्ततः तदा षष्ठोऽङ्कः । १५१ (विकट परिकामति ।) रामः-कोऽप्यस्मिन्क्षत्रियपोतके पौरुषातिरेकः । तथाहि । दृष्टिस्तृणीकृतजगत्रयसत्त्वसारा धीरोद्धता नमयतीव गतिधरित्रीम् । कौमारकेऽपि गिरिवद्गुरुतां दधानो वीरो रसः किमयमेत्युत दर्प एव ॥ १९ ॥ लव:-(उपसृत्य ।) जयत्वार्यः । कुशः-नन्वायुप्मन् , किमियं वार्ता युद्धं युद्धमिति । लवः-यत्किंचिदेतत् । आर्यस्तु दृप्तं भावमुत्सृज्य विनयेन व- तताम् । कुश -किमर्थम् । लव:-यदत्र देवो रघुनन्दनः स्थितः । स रामायणकथानायको ब्रह्मकोशस्य गोप्ता। कुश:-आशंसनीयपुण्यदर्शनः स महात्मा । किंतु स कथमम्मा- भिरुपगन्तव्य इति संप्रधारयामि । दीप्तानामस्त्राणां स्फुरन्त्यस्तरलाः उपास्तीक्ष्णाः या दीधितयस्तासां शिखया कोट्या नीराजिता आतांकृता ज्या मौर्वी यस्य तथोक्तम् । ममैतद्धनुः । धन्यं प्रशस्तम् ॥ १८ ॥ विकटं विषमं परिक्रामति ॥ दृष्टिरिति । तृणीकृतः अनाहतः जगत्रय- सत्त्वसारः लोकत्रयबलोत्कर्षों यया सा। धीरोद्धता धीरा चासौ उद्धता चेति विग्रहः । कौमारेऽपि बाल्येऽपि गिरिवत्पर्वत इव । गिरिहि उत्पत्तिप्रभृतिगुरुत्ववान् वृक्षादयस्तु नैवम् । कितु परिणामविशेषेण गुरुत्वं भजन्ति किं वीरो रस एति शत्रुकृतापराधा- दिना प्रज्वलनरूपक्रोधस्थायिकखसंवेद्यः प्रकाशविशेषः किमेति । रसालम्बने रसत्वा- रोपाद्धत्वलकारः । दर्पः युद्धकण्डूलता ॥ १९ ॥ आयुष्मन् लवं प्रति संबोधनम् । युद्धं युद्धमिति वार्ता प्रवृत्तिः युद्धमासीदिति जनवादः श्रूयते स कि सत्य इत्यर्थः ।। एतयुद्धं यत्किचिदल्पकम् । न प्रश्नाहमित्यर्थः । आर्यस्तु । ज्येष्ठ भ्रातृप्रयुक्तपूजाद्योत- नाय आर्यशब्दप्रयोगः । दृप्तं भाव दर्पात्मकस्वभावमुत्सृज्य त्यक्त्वा । दृप्तमित्यत्र भावे क्तः । विनयेन निकर्षप्रतिसंधानेन । उपलक्षणे तृतीया ॥ देवः पूज्यः रघुन- न्दनः रामः अत्र स्थित इति यत्तस्माद्विनयेन वर्ततामिति पूर्वेणान्वयः । ब्रह्मकोशस्य ब्रह्माण्डस्य गोप्ता रक्षकः ॥ स महात्मा अनन्यसामान्यस्वभावः रामः । आशंसनीयम- भिलक्षणीयं पुण्य सुकृतमूल दर्शनं साक्षात्कारः यस्य तथोक्तः । भवतीति शेषः। 'अस्ति- भवन्तीपर.' इत्युक्तेः । अप्राप्तस्य प्रयोजनस्य प्राप्तुमिच्छा आशंसा । कितु एव सत्यपि अस्माभिर्मया कथमुपगन्तव्य इति संप्रधारयामि केन प्रकारेण उपस्थातव्य मिति १५२ उत्तररामचरिते लवः-यथैव गुरुस्तथोपसदनेन । कुश:-कथं हि नामैतत् । लवः-अत्युदात्तः सुजनश्चन्द्रकेतुरौर्मिलेयः प्रियवयस्येति सख्येन मामुपतिष्ठते । तेन संबन्धेन धर्मतस्तात एवायं राजर्षिः । कुश:-संप्रत्यवचनीयो राजन्येऽपि प्रश्रयः । (उभौ परिकामतः ।) लवः-पश्यत्वेनमार्यो महापुरुषमाकारानुभावगाम्भीर्यसंभाव्यमान- विविधलोकोत्तरसुचरितातिशयम् । कुश:--(निर्वर्ण्य ।) अहो प्रासादिकं रूपमनुभावश्च पावनः । स्थाने रामायणकविर्दैवीं वाचमवीवृधत् ॥ २० ॥ तात, प्राचेतसान्तेवासी कुशोऽभिवादयते । रामः-ए।ह्यायुष्मन् । अमृताध्मातजीमूतस्निग्धसंहननस्य ते । परिष्वङ्गाय वात्सल्यादयमुत्कण्ठते जनः ॥ २१ ॥ (परिष्वज्य । खगतम् ।) तत्किमित्ययं च दारकः । मीमासे ॥ यथैवेति । यथा गुरुः पिता उपसदनेन समीपानुभजनेन । प्राप्य इति पूरणीयम् । तथैव उपसदनेनात्रापि प्राप्य इत्यध्याहारः ॥ एतद्गुरुवदुपसदनीयत्व कथ कस्माद्धेतोः ॥ अत्युदात्तः अत्युच्चस्वभावः सुजनः समीचीनजनः । सौजन्यवानिति यावत् । और्मिलेय. ऊर्मिलापुत्रः । स्त्रीभ्यो ढक् । सख्येन सखित्वेन मामुपतिष्ठते संश्लिष्यते । 'उपाद्देव-' इति आत्मनेपदम् । तेन संवन्धेन चन्द्रकेत्वभ्युपगतमैत्रीरूप- संबन्धेन ॥ संप्रति धर्मतस्तातत्वे राजन्ये रामेऽपि प्रश्रयो विनयः अवचनीयो निर्दुष्टः ॥ आकारः महापुरुषलक्षणयुक्त विग्रहसन्निवेशः, अनुभावः प्रभावः, गाम्भीर्यमक्षोभ्य- त्वम्, एतैः संभाव्यमानोऽनुमीयमान. विविध: नानाप्रकारः लोकोत्तरो विश्वातिशायी सुचरिताना सुकर्मणामतिशयः उत्कर्षः यस्य तथोक्तम् ॥ अहो इति । प्रसादः पारुष्यराहित्यं तस्मिन् भवं प्रासादिकम् । प्रसादगुण एवास्य रूपस्य उपादानकारण- मिति भावः । रूपं विग्रहः । पावनः स्वसंबन्धानामन्येषामपि शुद्धिहेतुः । अनुभावः व्यवसायविशेषश्च । अहो विस्मयनीयावित्यर्थः । रामायणकविः रामायणप्रणेता वाल्मी- किलक्षणकविः देवीं वाच वाग्देवीमवीवृधत् इति स्थाने युक्तम् । वृधधातोणिचि लु चड् द्वित्वम् ॥ २० ॥ अमृताध्मेति । अमृताध्मातजीमूत इव सुधापूरितकालमेघवत् स्निग्धं संहननं गात्रं यस्य तथोक्तस्य। 'गात्रं वपुः संहननम्' इत्यमरः। ते तव परिष्व- गाय आलिभितुमुत्कण्ठते । 'सर्वेन्द्रियसुखास्वादो यत्रास्तीत्यभिमन्यते । तत्प्राप्तीच्छां ससंकल्पामुत्कण्ठां कवयो विदुः ॥' इत्युक्ताभिलाषवान्भवति । अयं जन. इत्युक्तेः दय- षष्ठोऽङ्कः । १५३ अङ्गादङ्गात्सृत इव निजस्नेहजो देहसारः प्रादुर्भूय स्थित इव बहिश्चेतनाधातुरेकः । सान्द्रानन्द भितहृदयप्रस्रवेणावसिक्तो गाढाश्लेषः स हि मम हिमच्योतमाशंसतीव ॥ २२ ॥ लवः-ललाटंतपस्तपति धर्माशुः । तदत्र सालवृक्षच्छायायां मुहू- तमासनपरिग्रहं करोतु तातः । रामः-यदभिरुचितं वत्सस्य । (परिक्रम्य यथोचितमुपविशन्ति ।) राम:-(स्वगतम् ।) अहो प्रश्रययोगेऽपि गतिस्थित्यासनादयः । साम्राज्यशंसिनो भावाः कुशस्य च लवस्य च ॥ २३ ॥ वपुरवियुतसिद्धा एव लक्ष्मीविलासाः प्रतिकलकमनीयां कान्तिमुद्भेदयन्ति । नीयत्वरूपवस्तुध्वनिः ॥ २१॥ किमित्यय च दारकः । अङ्गादङ्गादित्यादि । अत्र गद्यस्थायपदस्य पद्यस्थसशब्देन संबन्धात् दारकविशेषणत्वम् । एवं च सोऽयं समस्त- विलक्षणो बुद्धिस्थश्च दारकः बालकः । अङ्गादगात् सर्वेभ्योऽङ्गेभ्यः सृतः क्षरितः स्नेहजः स्नेह एव मैत्र्येव स्नेहः द्रवद्रव्यं तस्मिन् जातः निजः नैसर्गिकः । देहे रूप- लावण्यसौन्दर्यसमुदयात्मके शरीरे यः सारः उत्कृष्टरूपलावण्यसौन्दर्यसमुदाय इव स्थितः । स्वरसग्राहिणो जलादिद्रवद्रव्य संयोज्यैव खरसं गृह्णन्ति । तद्वत्प्रकृष्टेऽपि स्नेहलक्षणद्रवद्रव्यसंबन्धेन गाढाश्लेषरूपसंघटनवशाबहिःसृतः खदेहसार इवेत्युत्प्रेक्षा । स्नेहज इति श्लिष्टरूपकानुप्राणिता च । अत्र 'अङ्गादगात्संभवसि हृदयादधिजायसे' इति श्रुतिः प्रत्यभिज्ञाप्यते । एक चेतनाधातुश्चैतन्यैकरसे आत्मवस्तुनि एकदेशः बहिः प्रादुर्भूय स्थित इव साक्षात्कारार्हः सन् स्थित इव । सान्द्रानन्दक्षुभितस्य घनतरान- न्देन क्षोभ प्राप्तस्य हृदयस्य प्रत्रवेण प्रकृष्टसेकेनावसिक्तः आर्द्राकृतः गाढः दृढ श्लेष आश्लेषो यस्य तथोक्तः सन् सोऽय दारक. गाढालेपः सन् हिमच्योतं हिमवर्षमाश- सतीव सूचयतीव । किमिति विस्मये ॥ २२ ॥ ललाटतपः ललाट तपतीति विग्रहः । खच्प्रत्यये मुमागमः । मध्याह्नसूर्य इति भावः । तदा हि सर्वासु दिक्षु ललाटातपसंयोगो- ऽपरिहार्यः । अन्यदा तु न तथा ॥ यथोचितं पितृत्वपुत्रलानुगुणम् ॥ अहो इति । प्रश्रययोगेऽपि विनयसंवन्धेऽपि । साम्राज्यशसिनः सार्वभौमलसूचकाः गतिस्थित्यासना- दयः । आदिशब्देनोक्तिवीक्षणादिपरिग्रहः । भावाः क्रियाः सन्ति । अहो विस्मयनीयम् ॥ २३ ॥ वपुरिति । अवियुतसिद्धाः अपृथक्सिद्धाः लक्ष्मीविलासाः लावण्याति- शयाः प्रतिकलकमनीयामनुक्षणरमणीयां कान्ति चारुतां वपुः शरीरं कर्म । वपुः कान्तिमुद्भेदयन्ति । द्विकर्मकोऽय धातुः । उत्पादयन्तीत्यर्थः । स्वे स्वीयाः रश्मयः उत्तररामचरिते अमलिनमिव चन्द्रं रश्मयः खे यथा वा विकसितमरविन्दं बिन्दवो माकरन्दाः ॥ २४ ॥ भूयिष्ठं च रघुकुलकौमारमनयोः पश्यामि । कठोरपारावतकण्ठमेचकं वपुर्वृषस्कन्धसुबन्धुरांसयोः। प्रसन्नसिंहस्तिमितं च वीक्षित ध्वनिश्च मागल्यमृदङ्गमांसलः ॥ २५ ॥ (निपुण निरूपयन् ।) अये, न केवलमस्मद्वंशसंवादिन्याकृतिः । अपि जनकसुतायास्तच तच्चानुरूपं स्फुटमिह शिशुयुग्मे नैपुणोन्नेयमस्ति । ननु पुनरिव तन्मे गोचरीभूतमक्ष्णो- रभिनवशतपत्र श्रीमदास्यं प्रियायाः ॥ २६ ॥ शुक्लाच्छदन्तच्छविसुन्दरेयं सैवोष्ठमुद्रा स च कर्णपाशः। नेत्रे पुनर्यद्यपि रक्तनीले तथापि सौभाग्यगुणः स एव ॥ २७ ॥ मयूखाः अमलिन निष्कलई चन्द्रमिव । माकरन्दाः मकरन्दसंवन्धिनः बिन्दवः कणाः विकसितं त्यक्तमुकुलीभावमरविन्दमिव च वपुःकान्तिमुद्भेदयन्ति ॥ २४ ॥ अनयोः कुशलवयोः भूयिष्ठं अतिशयेन बहु रघुकुलकौमारं रघुवंशसंबन्धिबालबम् । कठोरेति । कठोरपारावतकण्वन् प्राप्तयौवनकपोतकण्ठवन्मेचक नीलम् । वृषस्क- न्धवद्वृषभककुदिव सुबन्धुरं सुन्दरमसं भुजशिखरं ययोस्तथोक्तयोः । प्रसन्नसिहवत्का- कश्यरहितसिहवीक्षितवत् स्तिमितमतरलम् । मानल्यमृदङ्गवन्मङ्गलार्थमृदङ्गध्वनिव- न्मांसलः स्फीतः । हितादिलाद्यत्प्रत्यये सति प्रज्ञाद्यणि च आदिवृद्धौ माङ्गल्यशब्द- सिद्धिः ॥ २५ ॥ निपुणं निरूपयन् सम्यग्विबारयन् । आकृतिरस्मद्वंशसंवादिनी केवल न भवति अस्मद्वंशसंत्रादः अस्मत्कुलसादृश्यं सोऽस्यास्तीति विग्रहः । अ- पीति । तच तचावयवादिकं गुणजातमेवं च जनकसुनायाः सीतायाः अनुरूपं सदृशं तच्चावयवादिकमिह शिशुयुग्मे कुशलवयोः स्फुटं व्यक्तम् । तच्च गुणजातं च नैपुणेना- वहिततया उन्नेय निश्चयाहमस्ति विद्यते । क्रियाद्यान्नैकशेषः । अभिनवशतपत्रस्य नूतनकमलस्य श्रीरिव श्रीर्यस्य तथोक्तमास्यं पुनरक्ष्णोर्गोचरीभूतमिव ननु भूयोऽपि चक्षुर्विषयीभूतमिव ननु संभाव्यते । द्वादशसु संवत्सरेषु चक्षुरगोचरमय गोचरतां गतमिति विप्रत्ययेन लभ्यते ॥ २६ ॥ शुक्लाच्छदन्तच्छविसुन्दरेयं ओष्ठमुद्रा अध- रोत्तरोष्ठसंनिवेशः सैव सीताया एव । कर्णपाशः स एव सीतासंबन्ध्येव । नेत्रे

षष्ठोऽङ्कः।
(विचिन्त्य ।) तदेतत्त्राचेतसाध्युषितमरण्यं यत्र किल देवी परि-
त्यक्ता । इयं चानयोराकृतिर्वयोऽनुभावश्च । यत्स्वतःप्रकाशान्यस्त्राणीति
च । तत्रापि स्मरामि खलु तदपि चित्रदर्शनप्रासनिकं शस्त्राभ्यनुज्ञानं
प्रबुद्धं स्यात् । न ह्यसंप्रदायिकान्यस्त्राणि पूर्वेषामपि शुश्रुमः । अयं
विस्मयसंप्लवमानसुखदुःखातिशयो हृदयस्य मे विप्रलम्भः । यमाविति
च भूयिष्ठमात्मसंवादः । जीवद्वयापत्यचिह्नो हि देव्या गर्भिणीभाव
आसीत् । (सास्रम् ।)
परां कोटिं स्नेहे परिचयविकासादधिगते
रहो विस्रब्धाया अपि सहजलज्जाजडदृशः ।
मयैवादी ज्ञातः करतलपरामर्शकलया
द्विधा गर्भग्रन्थिस्तदनु दिवसैः कैरपि तया ॥ २८ ॥
(रुदित्वा ।) तत्किमेतौ पृच्छामि केनचिदुपायेन ।
..
पुनः अनयोः सीतायाश्च दृशौ तु रक्तनीले यद्यपि अनयोः रक्ते सीताया नीले एव ।
तथापि सौभाग्यगुणः सौन्दर्यगुगः स एव एकरूप एव ॥ २७ ॥ प्राचेतसाध्युषित
वाल्मीकिकर्तृकवासाधिकरणम् । यत्रारण्ये । आकृतिरवयवसंस्थानविशेषः। इयमीदृशम् ।
वयः द्वादशवत्सरपरिमितमित्यर्थः । अनुभावश्च प्रभावश्च । ईदृश इति शेषः । अस्त्राणि
जृम्भकाणि खतःप्रकाशानि गुरूपदेशेन विना ज्ञातानीति यत् । तत्रापि चित्रदर्शने प्रा-
सङ्गिक प्रसङ्गानुप्रसकं शस्त्राभ्यनुज्ञान सर्वथा त्वत्प्रसवमुपस्थास्यन्तीत्यत्र कृतं प्रबुद्धं
स्यात्तथा संपादनेन प्रकटं भवेदिति स्मरामीत्यन्वयः । हि यस्मादसंप्रदायकानि गुरूप-
देशक्रमरहितानि अस्त्राणि पूर्वेषामपि मनुप्रभृतीनामपि नेति शुश्रुमस्तस्मात्प्रबुद्ध स्या-
दिति तत्रापि स्मरामीति पूर्वेण संवन्धः । विस्मये संप्लवमानः अमज्जन् सुखदुः-
खातिशयः हृदयस्य विप्रलम्भः विप्रयोगशृङ्गारः । प्रायेण हि स्वरूपसंतापेन प्रियजन-
संयोगविप्रयोगौ सुखदुःखहेतू भवतः । विस्मयसंप्लवमानेत्यनेन विस्मयस्य प्रवाहात्म-
कल ध्वन्यते । अजले प्लवनासंभवात् । यमाविति द्वाविति । आत्मसंवादः प्रकृतानु-
भूयमानयमत्वानुरूपस्त्रपूर्वानुभवः । भूयिष्ठम् । बहुतम इत्यर्थः । सामान्ये क्लीवत्वम् ।
जीवद्वय यदपत्यं तस्य चिह्न सूचितं यस्मिस्तथोक्तः । परामिति । स्नेहे परिचयस्य
संततसाक्षात्कारस्य विकासादतिशयात्परां कोटिमपकर्षासमानाधिकरणोत्कर्षमधिगते
प्राप्ते सति । रहो विस्रब्धाया अपि लज्जाविरोधिखैरस्थित्यापादकदशाविशेषाहाण
अपि । अh क्तः । सहजलज्जाजडदृशः अपरिहरणीयलज्जागुणेनाधीरलोचनायां आदी
प्रथमं करतलपरामर्शकलया पाण्युदरपरिमार्जनविद्यया । कलाशब्देन सूक्ष्मदर्शनं
ध्वन्यते । अन्थिः भस्त्रिका द्विधा अपत्यद्वयरूपप्रकारद्वययुक्तः ज्ञातः निश्चितः । तदनु
मज्ज्ञानानन्तरं कैर्दिवसैः कतिपयदिवसैस्तयापि ज्ञात: सीतयाप्यवगतः ॥ २८ ॥

१५६ उत्तररामचरिते लव:-तात, किमेतत् । बाप्पवर्षेण नीतं वो जगन्मङ्गलमाननम् । अवश्यायावसिक्तस्य पुण्डरीकस्य चारुताम् ॥ २९ ॥ कुश:-अयि वत्स, विना सीतादेव्या किमिव हि न दुःखं रघुपतेः प्रियानाशे कृत्रं किल जगदरण्यं हि भवति । स च स्नेहस्तावानयमपि वियोगो निरवधिः किमेवं त्वं पृच्छस्यनधिगतरामायण इव ॥ ३० ॥ रामः-(स्वगतम् ।) अये, तटस्थ आलापः । कृतं प्रश्नेन । मुग्ध- हृदय, कोऽयमाकस्मिकस्ते संप्लवाधिकारः । एवं निर्मिन्नहृदयावेगः शि- शुजनेनाप्यनुकम्पितोऽस्मि । भवतु तावदन्तरयामि । (प्रकाशम् ।) वत्सौ रामायणं रामायणमिति श्रूयते भगवतो वाल्मीकेः सरस्वतीनिष्यन्दः प्रशस्तिरादित्यवंशस्य । तत्कौतूहलेन यत्किंचिच्छ्रोतुमिच्छामि । कुशः कृत्स्न एव संदर्भोऽस्माभिरावृत्तः । स्मृतिप्रत्युपस्थितौ ता- वदिमौ बालचरितस्यान्ते द्वौ श्लोकौ । रामः-उदीरयतं वत्सौ। केनचिदुपायेन अनिर्धारणीयेन व्याजेन ॥ बाष्पवर्षेणेति । जगन्मङ्गलं जगद यु- दयहेतुभूतं वः आननमवश्यायेन हिमेनावसिक्तस्य पुण्डरीकस्य सिताम्भोजस्य । विरहपाण्डिन्ना पुण्डरीकलोक्तिः । चारुतां शोभा नीत प्रापितम् । निदर्शनालंकारः ॥ २९॥ विनेति । सीतादेव्या विना सीतावियोगो रघुपतेः किं वा दुःख न । सर्व दुःखात्मकम् । कृत्स्नं जगत्प्रियानाशे प्रियाया अदर्शने अरण्य भवति हि । स च मेहः सीताविषयकः प्रणयः स तावानपरिमितः । वियोगः निरवधिरवसानशून्यः । अनधिगतरामायण इवानधीतरामायण इव पृच्छसि ॥ ३० ॥ तटस्थः अस्मज्जिज्ञा- सितसीतापुत्रखास्पर्शनेन उक्तमित्यर्थः । आकस्मिकः निष्कारणिकः संप्लवाधिकारः प्लुतगमनान्वयः दुर्लभविषयमनोरथायासः किमर्थ इति यावत् । अन्तरयामि छाद- यामि । सरखत्याः वाण्याः निष्यन्दः द्रवः । आदित्यवशस्य प्रशस्तिः प्रख्यातिहेतुः । रामायणं रामायणमिति श्रूयते । श्रवणबहुवाभिप्रायं द्विरुक्तम् । तत्र तदेकदेशं यत्किंचिच्छोतुं इच्छामि । कौतूहलं हर्षः ॥ कृत्न एव सकल एव संदर्भः ग्रन्थः आवृत्तः उपाध्यायासहकारेण स्वमात्रेणोच्चारणानुकूलावृत्तिविशेषः कृतः । स्मृति प्रत्यु- पस्थितौ अद्य स्मृतिविषयभूतौ । बालचरितस्य बालकाण्डस्यान्ते सर्गान्ते द्वौ श्लोको द्वे पद्ये ॥ वत्सौ संबोधनद्विवचनम् । उदीरयतं वदतम् । विधौ लोमध्यमद्विवचनम् ॥ ..

षष्ठोऽङ्कः। १५७ कुश:- प्रिया तु सीता रामस्य दाराः पितृकृता इति । गुणै रूपगुणैश्चापि प्रीतिर्भूयोऽप्यवर्धत ॥ ३१ ॥ तथैव रामः सीतायाः प्राणेभ्योऽपि प्रियोऽभवत् । हृदयं त्वेव जानाति प्रीतियोगं परस्परम् ॥ ३२ ॥ रामः-कष्टमतिदारुणो हृदयमर्मोद्धातः । हा देवि, एवं किलै- तदासीत् । अहो निरन्वयविपर्यासविप्रलम्भस्मृतिपर्यवसायिनस्तावकाः संसारवृत्तान्ताः। क्व तावानानन्दो निरतिशयविस्रम्भबहुलः क्क वान्योन्यप्रेम क्व च नु गहनाः कौतुकरसाः । प्रिया त्विति । सीता पितृकृता दारा इत्येव रामस्य गुणैः शीलादिभिः । रूपगुणरभूषि- तेष्वग्यङ्गेष्विति लक्षणलक्षितरूपप्रभृतिगुणैश्च प्रीतिर्भूयोऽप्यवर्धत ॥३१॥ तथैवेति । तथैव यथा रामस्य सीता प्रिया तथा रामः सीतायाः प्रियोऽभवत् । हृदय त्वेव । एव. कारेण सीतारामयोरपि खप्रीतिज्ञानव्यावृत्तिः । प्रीतियोगं प्रीतेरुत्तरोत्तरवृद्धिसंनाहम् । 'योगः संनहन-' इत्युक्तेः । जानाति ॥३२॥ हृदयमेव मम मर्मस्योद्धातः प्रहारः दारुणः दुःसहः । हा देवीत्यादि । एतद्वक्ष्यमाणमेवमासीद्वक्ष्यमाणप्रकारेणासीत् । यद्वा 'प्रिया तु-' इत्यादिश्लोकद्वयोक्तमेवमासीद्यथोक्तमभूत् । हा दुःख्यते । अहो इत्यादि। निरन्वयविपर्यासे निरन्वयविनाशे । 'अयं तु विप्रलम्भः' इत्युक्तेः विश्लेषस्य निरन्वयवि- नाशत्वोक्तिः । दीपस्य निर्वाणजन्यो ध्वसः निरन्वयविनाशः । तस्यैव उत्तरोत्तरदशा- संक्रमणलिङ्गानुमेयो ध्वंसोऽन्यः । सीताया मरणरूपेऽस्मिनिरन्वयविनाशे विप्रलम्भ- स्मृतिपर्यवसायिनः । विप्रलम्भश्च स्मृतिश्च विप्रलम्भस्मृती । विप्रलम्भो वञ्चन तच्च परेच्छाधीनभ्रमः । स्मृतिर्भूतपूर्वविषयकं ज्ञानम् । तत्पर्यवसायिनस्तद्विषयतामात्र- वन्तः दैववञ्चनास्मरणमात्रविषयाः संसारवृत्तान्ताः प्रणयभोगादयः । नतु वस्तुसत्ता- वन्त इति भावः । यद्वा । निरन्वयविपर्यासात्मको विप्रलम्भः अन्यतरनाशात्मकविर- हहेतुकविप्रलम्भशृङ्गारस्तस्मिन् स्मृतिपर्यवसायिनः स्मृतिविषयतामात्रवन्तो भवन्ती- त्यर्थः । अभिलाषाप्रवासकलहविरहहेतुत्वेन विप्रलम्भशृङ्गारस्य पञ्चविधवात् । 'संभोगो विप्रलम्भश्च शृङ्गारो द्विविधो मतः । संयुक्तयोस्तु संभोगो विप्रलम्भो वियु- क्तयोः ॥' इत्यादिकमिहानुसंधेयम् । युक्तश्चायमर्थः । नाटकस्थविप्रलम्भशृङ्गारपरत्व- खारस्यात् । केचित्तु अन्वयश्च विपर्यासश्च अन्वयविपर्यासौ । अन्वयव्यतिरेकावित्यर्थः । तौ न विद्यते येषां ते निरन्वयविपर्यासाः। अन्वयव्यतिरेकशून्या इत्यर्थः। विप्रल- भ्यन्ते भ्राम्यन्ते एभिरिति विप्रलम्भाः । बाहुलकः करणे घञ्प्रत्ययः । अन्वयव्यतिरे- कशून्यत्वेन सद्विलक्षणतया तुच्छत्वेन विषयतासंबन्धेन भ्रममात्रहेतवः स्मृतिपर्यवसा- यिनः स्मृतिमात्रविषयातीतघटादिवदर्थक्रियाकारिखविधुरा इति व्याचक्षते ॥ क्वेति । .. .. उ० रा. १४ १५८ उत्तररामचरिते सुखे वा दुःखे वा क नु खलु तदैक्यं हृदययो- स्तथाप्येष प्राणः स्फुरति न तु पापो विरमति ॥ ३३ ॥ भोः, कष्टम् । प्रियागुणसहस्राणां क्रमोन्मीलनतत्परः । य एव दुःसहः कालस्तमेव स्मारिता वयम् ॥ ३४ ॥ यदा किंचित्किंचित्कृतपदमहोभिः कतिपयै- र्यदेतद्विस्तारि स्तनमुकुलमासीन्मृगदृशः । वयःस्नेहाकूतव्यतिकरघनो यत्र मदनः प्रगल्भव्यापारः स्फुरति हृदि मुग्धश्च वपुषि ॥ ३५ ॥ लवः-अयं तु चित्रकूटवर्मनि मन्दाकिनीविहारे सीतादेवीमुद्दिश्य रघुपतेः श्लोकः । त्वदर्थमिव विन्यस्तः शिलापट्टोऽयमायतः । यस्यायमभितः पुष्पैः प्रवृष्ट इव केसरः ॥ ३६ ॥ निरतिशयेनानपकृष्टेन विस्रम्भेण भोगदशायां खैरस्थित्युपपादकलज्जाविरोधिज्ञानविशे- श्रेण बहुलः स्फारः सः तावानपरिमेयः आनन्दः । क गत इति शेषः । अन्योन्यस्य प्रेम परस्परविषयक परस्पराधिकरणकं च प्रेम प्रणयः क । गहनाः अगाधाः कौतुकरसाः भोगाभिलाषाः क्व । हृदययोः मम तस्याश्च मनसोः सुखे वा दुःखे वा सुखदुःखानुभ- वकाले तदैक्यमभिन्नत्वं क्व । तच्छब्देन हृदयैक्यस्य दौर्लभ्यं द्योत्यते । तथापि एतेषु सर्वेषु गतेष्वपि पापः मरणप्रतिबन्धकपापवान् । पापगुणसारत्वात्पापलव्यपदेशः। एपः प्राणः आत्मा स्फुरति न विरमति न नश्यति ॥ ३३ ॥ प्रियेति । प्रियागुणसहस्राणां सौन्दर्यसौजन्याद्यनन्तगुणानाम् । 'संख्यायां द्विबहुत्वे स्तः' इत्युक्तेः बहुवचनम् । क्रमेण उन्मीलनतत्परः प्रकाशनासक्तः यः कालः दुसःहस्तमेव कालं वय स्मारितास्त- द्विषयकस्मरणवन्तः कृताः ॥ ३४ ॥ यदेति । कृतपदं सूचितरेखाकारसंनिवेश तत् मृगदृशः सीतायाः स्तनमुकुलं कतिपयैरहोभिर्दिवसैरीषद्विस्तारि यस्मिन् काले अभवत् । 'यतः स्नेह-' इति पाठे स्नेहाकूतयोः अनुरागाभिलाषयोर्व्यतिकरस्य संपर्कस्य घनः मेदुरता यतः । यादृशकालहेतुक इत्यर्थः । 'वयःस्नेहाकूत-' इति पाठे तु-यत्र काले वयसस्तारुण्यस्य स्नेहस्यानुरागस्य आकूतस्याभिप्रायस्य च व्यतिकरण घनः सान्द्रः । धर्मपरो धर्मिपरश्चायं शब्दः मदनविशेषणम् । मदनः मन्मथः कर्ता हृदि प्रगल्भव्या- पारः सन् मनस्यतिशयितशरपातनादिचेष्टायुक्तः सन्वपुषि मुग्धश्च सन्नप्रकटः सन् स्फु- रति वर्तते । तमेव कालं स्मारिता वयमित्यन्वयः । अनेन श्लोकेन मुग्धालक्षणं स्फो- रितम् । पादत्रयेण 'उदयद्यौवना मुग्धा' इति दलमुक्तम् । तुरीयपादेन च 'लज्जाविजित- मन्मथा' इति दलमुक्तम् ॥३५॥ चित्रकूटवर्मनि चित्रकूटपर्वतमार्गे मन्दाकिनीविहारे गङ्गातीरनीरक्रीडायां सीतामुद्दिश्य सीताबोधेच्छया । त्वदर्थमिति । अयं ..

षष्ठोऽङ्कः। १५९ रामः- (सलज्जास्मितस्नेहकरुणम् ।) अति हि नाम मुग्धः शिशुजनः । विशेषतस्त्वरण्यचरः । हा देवि, स्मरसि वा तस्य तत्समयविसम्भाति- प्रसङ्गस्य । श्रमाम्बुशिशिरीभवत्प्रसृतमन्दमन्दाकिनी- मरुत्तरलितालकाकुलललाटचन्द्रद्युति । अकुङ्कुमकलङ्कितोज्ज्वलकपोलमुत्प्रेक्ष्यते निराभरणसुन्दरश्रवणपाशमुग्धं मुखम् ॥ ३७॥ (स्तम्भित इव स्थित्वा । सकरुणम् ।) अहो नु खलु भोः, चिरं ध्यात्वा ध्यात्वा निहित इव निर्माय पुरतः प्रवासे चाश्वासं न खलु न करोति प्रियजनः । जगज्जीर्णारण्यं भवति च कलत्रेऽप्युपरते कुकूलानां राशौ तदनु हृदयं पच्यत इव ॥ ३८ ॥ केसरः बकुलवृक्षः यस्याभितः यदीयेषु चतसृषु पार्श्वेषु प्रवृष्ट इव पुष्पकरणकप्रवर्षण- कर्तेत्युत्प्रेक्षते । सोऽयमायतः शिलापट्टस्वदर्थ विन्यस्त इव । उत्प्रेक्षाद्वयम् । अयम- भितः केसरः परितो वर्तमानः केसरवृक्षः । यस्य प्रष्ट इव भविष्यत्त्वदुपदेशमूलकय- दधिकरणकपुष्पवृष्टिकर्तेत्युत्प्रेक्षते । अयं लदर्थे विन्यस्त इव । अय श्लोको रामायण- लेखकैः प्रभ्रशित इति वदन्ति ॥३६ ॥ लज्जा रहस्यप्रकाशनात् हृदयसंकोचः । स्मित विस्मयात् । शिशुजनः अतिमुग्धो हि नामेति योज्यम् । अरण्यचरस्तु विशेषतो मुग्धः । तस्य पूर्वानुभूतस्य तस्मिन्समये 'त्वदर्थम्-' इत्यादिश्लोकार्थसमये यो विस्रम्भः लज्जाप्रतिघातेन खैरस्थित्यापादकज्ञानविशेषः तेन योऽतिप्रसङ्गः भोगातिमात्रता तस्यामित्यर्थः । स्मरसि । 'अधीगर्थदयेशां-' इति कर्मणि षष्ठी । श्रमासिब्वति । श्रमाम्बुशिशिरीभवत् इदं भिन्नं पदं मुखविशेषणम् । सुरतकालजस्वेदसलिलेन शीत- लीभवत् । अलकाकुला चूर्णकुन्तलैय॑क्ता । चन्द्रसदृशललाटद्युतिः यस्य तथोक्तम् । संजातः कलको यस्मिन् कलङ्कितः । कुङ्कुमेन कलङ्कितो न भवतीत्यकुङ्कुमकलङ्कितः । अत एवोज्ज्वल: लावण्यातिरोधानेन प्रकाशमानः कपोलो यस्य तथोक्तम् । कुङ्कुमस्य कलङ्कलोक्त्या न केवलमाभरणस्याभरणं किंतु आभरणासहमिति व्यज्यते । निराभरण- स्ताटङ्कमौक्तिकगुच्छादिभूषणरहितोऽपि सुन्दरः यः श्रवणपाशः पाशसदृशकर्णसंनि- वेशस्तेन मुग्धं सुन्दरमुत्प्रेक्ष्यते संभाव्यते ॥ ३७॥ चिरं ध्यात्वेत्यादि । अत्र श्लोके स्थितस्य जनस्येत्यध्याहार्यम् । प्रियजनः कर्ता प्रवासे देशान्तरगमने चिरं ध्याला याला स्थितस्य पुरतो निर्माय निहित इव । अनवरतभावनाप्रकर्षयुक्तस्य जनस्य पुरस्तावत्तेन भावनाप्रकर्षेण सृष्टा स्थापित इव । आश्वासं न करोतीति न खस्य पुनरागमनेन संतोष करोत्येव । प्रियजने प्रोषितं ध्यायति सति तदानीमागतः प्रोषितस्तेन ध्यानेन सृष्ट इत्युत्प्रेक्षाह इति भावः । कलने ह्युपरते च कलत्रनाशे तु .. ..

१६० उत्तररामचरिते ते (नेपथ्ये।) वसिष्ठो वाल्मीकिर्दशरथमहिष्योऽथ जनकः सहैवारुन्धत्या शिशुकलहमाकर्ण्य सभयाः । जरामस्तैर्गात्रैरथ खलु सुदूराश्रमतया चिरेणागच्छन्ति त्वरितमनसो विश्लथजटाः ॥ ३९ ॥ रामः--कथं भगवत्यरुन्धती वसिष्ठोऽम्बाश्च जनकश्चात्रैव । कथं खलु द्रष्टव्याः । (सकरुण विलोक्य ।) तातजनकोऽप्यत्रैवायात इति वज्रणेव ताडितोऽसि मन्दभाग्यः । संबन्धस्पृहणीयताप्रमुदितैज्येष्ठैर्वसिष्ठादिभि- दृष्ट्वापत्यविवाहमङ्गलविधौ तत्तातयोः संगमम् । पश्यन्नीदृशमीदृशः पितृसखं वृत्ते सहावैशसे दीर्ये किं न सहस्रधाहमथवा रामेण किं दुष्करम् ॥ ४० ॥ (नेपथ्ये।) भो भोः, कष्टम् । अनुभावमात्रसमवस्थितश्रियं सहसैव वीक्ष्य रघुनाथमीदृशम् । जगत्कर्तृ जीर्णारण्यं शून्यकल्पं भवति । प्रवासवत्पुनरागमनकलवाभावेन भावनाप्रकर्ष- स्यालीकलानाश्वासहेतुरिति भावः । तदनु जगज्जीर्णारण्यकानन्तरं हृदयं कर्तृ कुकूलानां राशौ तुषाग्नीनां समुदाये पच्यत इव पक्वं भवति । कर्मकर्तृलकारोऽयम् । आतिदे- शिकयगादयः ॥ ३८ ॥ दशरथमहिष्यः कौशल्यादयः शिश्वोर्लवचन्द्रकेखोः कलहं युद्धमाकर्ण्य जरया वार्धकप्रयुक्तशैथिल्येन प्रस्तैाप्तैर्गात्रैरुपलक्षिताः । सुदूर आश्रमो यस्माद्रणरङ्गात्तथोक्तम् । तस्य भावः सुदूराश्रमता । तया चिरेण बहुकालेन॥ ३९॥ कथं द्रष्टव्याः केन प्रकारेण द्रष्टव्याः । तातजनकोऽपि भार्यापितृवात्स्वपितृलोपचारः । वजे- णेव अशनिघातेनेव ताडितोऽस्मि व्यथितोऽस्मि । संबन्धेति । संबन्धस्यापत्यसंब- न्धस्य स्पृहणीयतया श्लाध्यतया प्रमुदितैः प्रकृष्टमोदयुक्तैः वसिष्ठादिभिः ।आदिशब्देन गौतमकौशिकादिपरिग्रहः । अपत्यविवाहमङ्गलविधौ मम तस्याश्च पाणिग्रहणकर्मणि । तत्तातयोस्तथाविधजनकदशरथयोः संगम संमेलन दृष्ट्वा महावैशसे वृत्ते सीतात्याग- रूपमहाहिंसायां पितृसखं जनकमीशमत्यन्तदुःखितमीदृशः पश्यन् वैशसनिमित्तभूतः पश्यनहं किं कुतः सहस्रधा अनन्तभागतया न दीर्ये विदारितो न भवामि । अथवा विदारणाभावे रामेण दुष्करं किं न किमपि । रामेण दुष्करं दारणाभावो वा इतोऽग्य- न्यद्वा सवै सुकरमिति भावः ॥ ४० ॥ अनुभावमात्रेति । अनुभावमात्रेण अनि- तरसाधारणमहापुरुषत्वेन समवस्थिता समवस्थाही निश्चयाही श्रीरैश्वर्यं यस्य तथो. ..

षष्ठोऽङ्कः। १६१ . प्रथमप्रबुद्धजनकप्रबोधिता विधुराः प्रमोहमुपयान्ति मातरः ॥ ४१ ॥ जनकानां रघूणां च यत्कृत्स्नं गोत्रमङ्गलम् । तत्राप्यकरुणे पापे वृथा वः करुणा मयि ॥ ४२ ॥ वत्संभावयामि । (इत्युत्तिष्ठति ।) कुशलवौ-इत इतस्तातः । (सकरुणं परिक्रम्य निष्कान्ताः सर्वे ।) इति षष्ठोऽङ्कः। क्तम् । प्रथमप्रबुद्धेन कौसल्याद्यपेक्षया पूर्वोत्पन्नप्रत्यभिज्ञापकेन जनकेन प्रबोधिताः प्रत्य- भिज्ञापिताः मातरः अनुभावमात्रसमवस्थितश्रियमीदृशं रघुनाथ वीक्ष्य विधुराः सत्यः शून्यकरणाः सत्यः प्रमोह प्रकृष्टां मूर्छामुपयान्ति प्राप्नुवन्तीत्यन्वयः॥४१॥ जनकाना- मिति । जनकानां रघूणां च कृत्स्नं गोत्रमङ्गलमखण्डं कुलश्रेयः । तत्रापि तथाविध- सीतायामपि अकरुणे तदुःखाधीनदुःखवत्त्वरूपकरुणारहिते मयि वः युष्माकं करुणा महुःखाधीनदुःखवत्ता वृथा । दयया सर्वभूतेषु इत्युक्तादृष्टविशेषमात्ररूपप्रयोजनेनापि शून्येत्यर्थः ॥ ४२ ॥ यावत्संभावयामि अभ्युत्थानाभिवादनादिभिः पुरस्करिष्यामि । यावत्पुरानिपातयोः भविष्यदर्थे लट् । इत्युत्तिष्ठति उत्थानमभिनयति ॥ इत इतस्तातः । अनागच्छलिति शेषः । मार्गदर्शनपरमिदं वाक्यम् ॥ निष्क्रान्ताः रङ्गस्थानादिति शेषः । सर्वे । वसिष्ठाद्येतदकाभिनेयभूमिकाधारिण इत्यर्थः ॥ दाशरथिवशजनुषो भूसारनिवासवीरराघवार्यस्य । उत्तररामचरितनाटकव्याख्यायामवसितोऽङ्कः षष्ठः ॥ इति श्रीवाधूलवीरराघवविरचितायां भवभूतिभावतल- स्पर्शिनीसमाख्यायामुत्तररामचरितव्याख्यायां । षष्ठोऽङ्कः।

सप्तमोऽङ्कः। (ततः प्रविशति लक्ष्मणः।) लक्ष्मणः-भोः, किं नु खलु भगवता वाल्मीकिना सब्रह्मक्षत्रपौ- रजानपदाः प्रजाः सहास्माभिराहूय कृत्न एव सदेवासुरतियनिकायः सचराचरो भूतग्रामः स्वप्रभावेन संनिधापितः । आदिष्टश्चाहमार्येण- 'वत्स . लक्ष्मण, भगवता वाल्मीकिना स्वकृतिमप्सरोभिः प्रयुज्यमानां द्रष्टुमुपनिमन्त्रिताः स्मः । गङ्गातीरमातोद्यस्थानमुपगम्य क्रियतां समा- जसंनिवेशः' इति । कृतश्च मामर्त्यस्य भूतग्रामस्य समुचितस्थानसं- निवेशो मया । अयं तु- राज्याश्रमनिवासोऽपि प्राप्तकष्टमुनिव्रतः । वाल्मीकिगौरवादार्य इत एवाभिवर्तते ॥ १ ॥ , अथ समग्रप्रयोजनक्रोडीकाररूपनिर्वहणसंधि सप्तमेन वक्ष्यन् चमत्कृतिविशेषलाभाय परित्यागानन्तरभाविनी सीतायाः दशामन्तर्नाटकेन विवक्षुस्तदुपक्षेपिकां लक्ष्मणप्रवेश- वती रङ्गरचनामाह-ततः प्रविशति लक्ष्मण इति । ततः षष्ठाङ्कप्रयोगादनन्त- रम् । भोः किं नु खल्वित्यादि । भो इति हृदयं प्रति संबुद्धिः । किं नु संनिधापित इति योजना । भगवता षामुण्यवता । ब्रह्म ब्राह्मणाः, क्षत्रं क्षत्रियाः, पौराः अवशिष्टाः पुरवासिजनाः, जानपदाः देशवासिजनाः, एतैः सहिताः । अस्माभिः सह प्रजा आहूय कृत्स्न एवाखण्डल एव देवाः इन्द्रादयः, असुराः निर्ऋतिप्रभृतयः, तिर्यश्चः नागादयः, एतेषां निकायो वर्गस्तेन सहितः भूतानां प्राणिनां प्रामः समूहः । सचराचरः सस्थावर- जङ्गमः । खप्रभावेन खतपःशक्त्यतिशयेन किं नु संनिधापितः । किं न्विति विस्मये। आर्येण रामेणादिष्टः आज्ञप्तः । स्वकृति स्वग्रन्थम् । अप्सरोभिः उर्वशीप्रभृतिभिः प्रयुज्यमानामभिनीयमानां द्रष्टुमुपनिमन्त्रिताः स्मः आवश्यकत्वेनाहूता भवामः । गङ्गा- तीरं गङ्गाकूलम् । आतोद्यस्य नृत्तगीतवाद्यसमुदायस्य स्थानं प्रवर्तनाधिकरणमुपगम्य प्राप्य समाजस्य सदसः संनिवेशः यथोचितस्थानविभागः क्रियतामित्यादिष्टश्चाहमिति पूर्वेणान्वयः । सीताया गङ्गाजलादुद्गमनसौकर्याय गङ्गातीरस्य रङ्गत्वकल्पनम् । सलि- लादुपैति हि वक्ष्यते । मर्त्यः मरणाहः, अमर्त्यः तदनईः । मर्त्यश्वासावमय॑श्चेति विशेषणयोः समासः । नित्यानित्यात्मकस्येत्यर्थः । भूतग्रामस्य पृथिव्यादिभूतसमुदा. यस्य समुचितस्थानस्याधिकारानुरूपस्थानस्य संनिवेशं प्रतिष्ठापनम् । पूर्वमाज्ञापनप्रकार- कथनमद्य खनुष्ठानकथनमिति पुनरुक्तिः । अयं तुराज्यति । राज्यं भूमिपरिपाल- नात्मकराजकर्म । तदेवाश्रमः खैराचारप्रतिबन्धकनियमविशेषः । सुखाल्पत्वदुःखभूय- स्त्वाभ्यामाश्रमत्वरूपणम् । प्राप्तं कष्टं दुःखरूपं मुनिव्रतं येन तथोक्तः । वाल्मीको सप्तमोऽङ्कः। १६३ (ततः प्रविशति रामः।) राम:-वत्स लक्ष्मण, अपि स्थिता रङ्गप्राश्निकाः । लक्ष्मण:-अथ किम् । रामः-इमौ पुनर्वत्सौ कुमारचन्द्रकेतुसमा प्रतिपत्तिं लम्भयितव्यौ । लक्ष्मणः-प्रभुस्नेहप्रत्ययात्तथैव कृतम् । इदं चास्तीर्ण राजासनम् । तदुपविशत्वार्यः । रामः-(उपविश्य ।) प्रस्तूयतां भोः । मूत्रधारः-(प्रविश्य ।) भगवान्भूतार्थवादी प्राचेतसः स्थावरज- ङ्गमं जगदाज्ञापयति-यदिदमस्माभिरार्षेण चक्षुषा समुद्वीक्ष्य पावनं वचनामृतं करुणाद्भुतरसं च किंचिदुपनिबद्धम् । तत्र काव्यगौरवादव- धातव्यमिति । .. वाल्मीकेर्वा गौरवादुरुत्वप्रतिपत्त्या पूजनीयत्वानुसंधानेन ॥ १ ॥ रङ्गस्य नाट्यस्थानस्य प्राश्निका. सामाजिकाः । रङ्गस्थले राज्ञा सह द्रष्टार इत्यर्थः । प्रश्नं ज्ञातव्यार्थजिज्ञासा- महन्तीति प्राश्निकाः । तदर्हाधिकारीयष्ठञ् । समस्तशास्त्रनिष्णातहृदया इति भावः ।। अथ किमित्यङ्गीकारे ॥ इमौ वत्सौ । कुशलवावित्यर्थः । कुमारश्चासौ चन्द्रकेतुश्च तेन समां प्रतिपत्ति लालनीयवादिधियं लम्भयितव्यौ प्रापयितव्यौ ॥ प्रभो राजः स्नेहेन कुशलवविषयप्रीत्या यः प्रत्ययस्तथैव कार्यमिति व्यवसायः । तस्मादिदं चास्तीर्णं राजा- सन सिहासनस्यास्तीर्णासंभवेऽपि अन्यत्तद्योग्यमासनमास्तीर्णमिति मन्तव्यम् । कृत्स्न एव सदेवासुरेति ब्रह्मेन्द्रादीनामपि तत्र संनिधापितत्वोक्त्या तदैकरूप्याय सिहा- सनातिरेकेणास्तीर्णार्हासनस्यैव युक्तलात् । एतेनात्र कवेः प्रमादवचनं प्रत्युक्तम् , अत एव ‘स चापि रामः परिषद्गतः शनैर्दुभूषयासक्तमना बभूव ह' इति बालकाण्डश्लोके परिषद्गत इति सिहासनादवरुह्य परिषदि जनानामुत्थानाशङ्कया शनैः स्थित इति व्या- ख्यातमस्मदाचार्यैः । सर्वे रामादय इत्यर्थः । प्रस्तूयतामभिनय आरभ्यतामित्यर्थः । प्रविश्य सूत्रधारः । अन्तर्नाटकीयसूत्रधारः प्रविश्याहेत्यर्थः । भगवान् ज्ञानादिषागु- ग्यपूर्णः । भूतार्थ सत्यमभिधेय वदतीति भूतार्थवादी। ‘सुष्यजातौ' इति णिनिः । 'युक्त मादावृते भूतम्' इति कोशः।प्रचेतसो वरुणस्यापत्य पुमान् प्राचेतसः । स्थावरं च तज- गमं च विशेषणयोः समासः । आज्ञापयति अकरणदण्डप्रयोजकविधिराज्ञा तां करोती- त्यर्थः । आर्षेणालौकिकेन चक्षुषा दृष्ट्या योगजप्रत्यासत्तिसहकृतपरिशुद्धान्तःकरणेन समुद्वीक्ष्य सम्यगतिशयेन साक्षात्कृत्य । अत्र 'रहस्यं च प्रकाशं च यथावत्संप्रप- इयसि' इत्यादिकं द्रष्टव्यम् । पावनं खदर्शनादन्येषां शुद्धिजननम् । अनेन 'काव्याला- पांश्च वर्जयेत्' इति निषेधोऽन्यपर इति सूचितम् । वचनरूपममृतं सुधा यस्मिस्तथो- क्तम् । भोग्यत्वेन सादृश्यरूपणम् । करुणश्चाद्भुतश्च करुणाद्भुतौ रसौ यस्मिंस्तथोक्त- म् । इष्टजनवियीगजन्यदुःखातिभूमिरूपः शोकः सहकारिभूतविशिष्टदेशकालकाव्यनि- १६४ उत्तररामचरिते रामः-एतदुक्तं भवति । साक्षात्कृतधर्माणो महर्षयः । तेषाममृतं भराणि भगवतां परोरजांसि प्रज्ञानानि न वचिद्ध्याहन्यन्त इति नहि शङ्कनीयानि । (नेपथ्ये ।) हा अजउत्त कुमार लक्खण, एआइणिं असरणं आसण्णप्पसववेअणं अरण्णे हदासं सावदा अहिलसन्दि । हा दाणिं मन्दभाइणी भाईरईए अत्ताणं णिक्खिविस्सम् । १. हा आर्यपुत्र कुमार लक्ष्मण, एकाकिनीमशरणामासन्नप्रसववेदनामरण्ये हताशां श्वापदा अभिलषन्ति । हा इदानीं मन्दभाग्या भागीरथ्यामात्मानं निक्षिपामि । . पुणनटचेष्टादिवशात्सामाजिकैर्भाव्यमानो निरतिशयखप्रकाशानन्दमयरसतां प्रतिपा- द्यत इति रसविदां संप्रदायः । अद्भुतश्च तथाविधो विस्मयः । गङ्गाप्रवाहपतन तत्र- त्यप्रसववर्णनादिनाद्भुतरसयुक्तत्वम् । किचिन्मार्गरूपकमित्यर्थः । उपनिबद्ध प्रथितम् । तत्र रूपके काव्यगौरवात्काव्यस्य रूपकरूपस्य तद्गौरवान्महनीयत्वादवधातव्यं मनसो विषयान्तरसंचारराहित्यरूपमवधानं कर्तव्यमित्याज्ञापयतीति संबन्धः ॥ साक्षात्कृतो धर्मोऽलौकिकश्रेयःसाधनरूपो यैस्तथोक्ताः। महान्तश्च ते ऋषयः महर्षयः । 'ऋषयःस- त्यवचसः' इत्यमरः । 'अमृतं भराणि' इति क्वचित्पाठः । इदं च पदद्वयम् । बिभांति भरम् । पचाद्यच्। त्रिलिङ्गत्वानपुंसकबहुवचनोत्पत्तौ भराणीति भवति ।अमृतमिति कर्म- णि द्वितीया । अमृतकर्मकभरणकर्तृणीत्यर्थः । कर्तृकर्मणोः कृति' इत्यस्यानित्यत्वान्न षष्ठी। तज्ज्ञापकं तु तदर्हम्, 'अन्तधौयेनादर्शनम्' इति निर्देशद्वयमिति स्पष्टं व्याकरणपरिशील- नशालिनाम् । धयैरामोदमुत्तमम्' इति भडिप्रयोगाना प्रयुक्तत्वशङ्का। एतेन 'अमृतंभरा- णि' इति कवेः प्रमाद इति वदन व्याख्याता निरस्तः । अमृतभरणकर्तृत्वं चेह मोक्षसा- धनत्वरूपम् । यद्वा । ऋतंभराणीति दारमर्थवन्ति । 'ऋतभरां च मां प्राहुः' इत्युक्तेः संज्ञाशब्दत्वात्संज्ञायां खच्प्रत्ययः । 'ऋतंभराभिधानम्' इत्युक्तेश्च । रजसः पराणि परोरजांसि । परिशुद्धानीत्यर्थः । 'शुद्धमरजस्क परोरजः' इति कोशः । तेषां भगवतां प्रज्ञानानि प्रमादरहितानि ज्ञानानि न व्याहन्यन्ते । अयथार्थानि न भवन्तीत्येतदुक्तं भव- तीति पूर्वेणान्वयः। नहि शङ्कनीयानि ।अप्रामाण्यसंशयानर्हाणीत्यर्थः ॥ नेपथ्ये इति । इदं चाङ्काभिनेयसीताप्रवेशाद्युपक्षेपकम् । एकाकिनीमेकाम् । आसन्नप्रसववेदनां समी- पागतप्रसूतिव्यथाम् । हताशां व्यर्थमनोरथाम् । श्वापदाः दुष्टमृगाः अभिलषन्ति भक्षितु- सप्तमोऽङ्कः। १६५ लक्ष्मण:-कष्टं बतान्यदेव किमपि । मूत्रधार:- विश्वंभरात्मजा देवी राज्ञा त्यक्ता महावने । प्राप्तप्रसवमात्मानं गङ्गादेव्यां विमुञ्चति ॥ २ ॥ (इति निष्क्रान्तः प्रस्तावना। राम:--(सावेगम् ।) देवि देवि, लक्ष्मणमवेक्षख । लक्ष्मणः-आर्य, नाटकमिदम् । रामः-हा देवि दण्डकारण्यवासप्रियसखि, एष ते रामाद्विपाकः । लक्ष्मणः-आर्य, आश्वस्य दृश्यताम् । प्रबन्धस्त्वार्षः । रामः-एष सज्जोऽस्मि वज्रमयः । (ततः प्रविशति उत्सङ्गितैकैकदारकाभ्यां पृथिवीगङ्गाभ्यामवलम्बिता प्रमुग्धा सीता।) रामः-वत्स, असंविज्ञातपदनिबन्धने तमसीवाहमद्य प्रविशामि । धारय माम् । देव्यौ- समाश्वसिहि कल्याणि दिष्टया वैदेहि वर्धसे । अन्तर्जले प्रसूतासि रघुवंशधरौ सुतौ ॥ ३ ॥ मिच्छन्ति । भागीरथ्यां गङ्गायामात्मानं निक्षिपामि पातयामि ॥ विश्वंभरेति । विश्वंभरात्मजा भूमेः सुता । देवी कृताभिषेका। राज्ञा लक्ष्मणेन । प्राप्तः प्रसवः यं प्राप्तप्रसवस्तम् । गङ्गा च सा देवी च तस्याम् ॥२॥ प्रस्तावनेति । अन्तर्नाटकीय. प्रस्तावना वृत्तेत्यर्थः ॥ सावेगं सभयम् । लक्ष्मणमवेक्षख । मयि सापराधेऽपि त्वत्पुत्रं लक्ष्मणं दृष्ट्वा गङ्गायां न पतितव्यमित्यर्थः ॥ नाटकमिदमुच्यमानगङ्गापतनं नाटकं नाटकप्रयोज्याभिनयात्मकम् ।न वास्तवमित्यर्थः ॥ रामाद्विपाकः रामहेतुकः दुःखानुभव इत्यर्थः । दण्डकेति विशेषणं तु साभिप्रायम् । मत्सुख त्वदधीनं त्वदुःखं तु मदधीनमि- त्यर्थः ॥ आर्य, आश्वस्य दुःखं लघुकृत्य । आर्षः ऋषिप्रणीतः । दर्शनाभावे मुनिः कुप्येदिति हृदयम् ॥ वज्रमयः अत्यन्तकठिनः । सज्जोऽस्मि सीताविपत्तिनाटकं द्रष्टुं बद्धपरिकरोऽस्मि ॥ उत्सङ्गितः उत्सङ्गेन गृहीतः एकैको दारको याभ्यां तथोक्ता- भ्यामवलम्बिता धारिता प्रमुग्धा प्रकृष्टमूर्छावती ॥ असंविज्ञातमविदित पदनि- बन्धनं स्थानसंबन्धो यस्मिस्तथोक्ते । पदनिबन्धनः पादन्यासो वा । मां धारय पतनप्रतिघातं कुरु ॥ समाश्वसिहीति । हे कल्याणि मङ्गलवति । संबुद्धिरियम् । वर्धसे श्रेयखिनी भवसि । दिष्ट्या आनन्देऽय शब्दः । अन्तर्जले जले अन्तः । प्रसू- तासि उत्पादितवत्यति । रघुवंशधरौ रघुसंतानैकदेशौ दिष्टया दैवेन दुष्टसाधनसंप- त्यभावात्प्रसूतिप्रतिबन्धकसद्भावाद्देवमेवात्र कारणमिति भावः ।सुन्दरकाण्डस्थादिष्टयेति .

" उत्तररामचरिते सीता--(आश्वस्य ।) दिट्ठिआ दारए पसूदम्हि । हा अजउत्त । लक्ष्मणः--(पादयोर्निपत्य ।) आर्य, दिष्टया वर्धामहे । कल्याणप्ररोहो रघुवंशः । (विलोक्य ।) हा कथं क्षुभितबाष्पोत्पीडनिर्भरः प्रमुग्ध एवार्यः (वीजयति।) देव्यौ-वत्से, समाश्वसिहि । सीता--(समाश्वस्य ।) भैअवदीओ, का तुम्हे । मुञ्चह । पृथिवी-इयं ते श्वशुरकुलदेवता भागीरथी । सीता-जमो दे भअवदि । भागीरथी-चारित्रोचितां कल्याणसंपदमधिगच्छ । लक्ष्मण:-अनुगृहीताः स्मः । भागीरथी-इयं ते जननी विश्वंभरा । सीता-हाँ अम्ब, ईरिसी अहं तुए दिट्ठा । पृथिवी-एहि पुत्रि वत्से सीते। (उभौ आलिङ्गय मूर्छतः।) लक्ष्मण:-(सहर्षम् ।) कथमार्या गङ्गापृथिवीभ्यामभ्युपपन्ना । रामः-दिष्टया खल्वेतत् । करुणान्तरं तु वर्तते । भागीरथी-अत्रभवती विश्वंभरा व्यथत इति जितमपत्यस्नेहेन । १. दिष्टया दारको प्रसूतास्मि । हा आर्यपुत्र । २. भगवत्यौ, के युवाम् । मुञ्चतम् । ३. नमस्ते भगवति । ४. हा अम्ब, ईदृश्यहं त्वया दृष्टा । पदस्य देवेनेत्युत्तानार्थो वर्णितः ॥ ३॥ कल्याणः शुभकरः प्ररोहोऽङ्कुरो यस्य त- थोकः॥ मुञ्चतं त्यजतम् । लोट्मध्यमद्विवचनम् । मामिति शेषः ॥ श्वशुरकुलस्य पत्युः पितृवंशस्य देवता योगक्षेमनिर्वाहिका भागीरथी । साभिप्रायं नामेह निर्दिष्टम् ॥चा- रित्रस्य पातिव्रत्यसच्चरितस्य उचितामनुरूपां कल्याणसंपदं श्रेयःसंपत्तिम् ॥ अनुगृ- हीताः स्मः । रामः सीता अहं च क्षेमोपधायिका आशीविषयीकृता इत्यर्थः । सीताक्षेमे सर्वक्षेम इति हृदयम् ॥ जननी माता । विश्वभरेति साभिप्रायम् । पुत्र्यां त्वयि एव- मलीकवादिनोऽपि जनान् बिभर्तीति क्षमातिशयव्यञ्जनात् ॥ ईदृशी एवमलीकपौ. रवादेन त्यक्ता विपद्यमाना सती दृष्टा ॥ उभौ सीतापृथिव्यौ ॥ अभ्युपपन्ना अनुगृ. हीता ॥ एतन्मातापुत्र्योरालिङ्ग्य मूर्छारूपं करुणान्तरं महुःखातिरिक्त दुःखम् ॥ अत्र- सप्तमोऽङ्कः । . १६७ , .. यद्वा सर्वसाधारणो ह्येष मनसो मूढग्रन्थिरान्तरश्चेतनावतामुपप्लवः संसा- रतन्तुः । सखि भूतधात्रि वत्से वैदेहि, समाश्वसिहि । पृथिवी-(आश्वस्य ।) देवि, सीतां प्रसूय कथमाश्वसिमि । सोढश्चिरं राक्षसमध्यवास- म्त्यागो द्वितीयस्तु सुदुःसहोऽस्याः । गङ्गा- को नाम पाकाभिमुखस्य जन्तु- द्वाराणि दैवस्य पिधातुमीष्टे ॥ ४ ॥ पृथिवी-भगवति भागीरथि, युक्तमेतत्सर्वं वो रामभद्रस्य । न प्रमाणीकृतः पाणिर्बाल्ये बालेन पीडितः। नाहं न जनको नाग्निर्न तु वृत्तिर्न संततिः ॥ ५ ॥ सीता-हा अजउत्त, सुमरेसि । पृथिवी-आः, कस्तवार्यपुत्रः । १. हा आर्यपुत्र, स्मरसि। भवती पूज्या विश्वभरा क्षमाप्रधाना भूमिः व्यथत इति दुःख्यत इति हेतोरपत्यम्नेहेन जितमभिभवः कृतः । अपत्यस्नेहो बलवान्धीरानप्यभिभवतीत्यर्थः । यद्वेति पूर्वक- ल्पातिरिक्तकल्पद्योतकम् । मनसः हृदयस्य मूढग्रन्थिः मोहात्मको विभागाभावप्रयो- जकसंपर्कजनकः । चेतनावतां प्रेक्षावतामान्तरः उपप्लवः अभ्यन्तर उपद्रवः संसार- तन्तु: संसारसंधायकः एषः अपत्यस्नेहः सर्वसाधारणः । न केवलं विश्वंभरायाः किंतु सर्वेषां समानः । दधातीति धात्री पोषयित्री । यद्वा दधत्येतामिति धात्री । ग्राणिनां वर्धयित्रीत्यर्थः । इद च संबोधनं पृथ्वी प्रति अभिप्रायगर्भम् ॥ सीतां प्रसूय कथमाश्वसिमि कथ केन प्रकारेणाश्वसिमि क्षीणदुःखा भवामि । मत्सुता संपन्नप्रजेति वा स्वाधीनपति केति वा केन हेतुना क्षीणदुःखा भवामीत्यर्थः । सोढ इति । राक्षसम- ध्यवासः चिरं सोढः । भूयांसं कालमनुभूत इत्यर्थः । सुदुःसह इति । अस्याः द्वितीय- स्त्यागस्तु अलीकजनवादप्रयुक्तल्यागस्तु सुदुःसहः पूर्ववत्सहनानह इत्यर्थः ॥ इदमन्तं पृथ्वीवाक्यमनन्तरं गगावाक्यम् ॥ गङ्गेति । आहेति शेषः । को नाम जन्तुः प्राणी पाकाभिमुखस्य फलोपधानप्रवृत्तस्य दैवस्य सुकृतदुष्कृतात्मकभाग्यस्य द्वाराणि अनुभ- बमार्गान् पिधातुं रोद्भुमीष्टे समर्थो भवति ॥ ४ ॥ वः रामभद्रस्य युष्मद्वेश्यस्य राम- भद्रस्य । अनेन स्वसंबन्धः परिहृत इति ध्वनितम् । एतद्वक्ष्यमाणम् । युक्त संगतम् । न प्रमाणीकृत इति । वाल्ये बालभावे । बालेन स्वेनेति शेषः । पीडितः उद्वाह- कर्मणि गृहीतः पाणिः न प्रमाणीकृतः युक्तायुक्तविचारे निर्णयहेतुर्न कृतः । गृहीत इत्यनुक्त्या पीडित इत्युक्तेरयं भावः । सामुद्रिकतन्त्रवेत्ता स्वयं रामो मत्सुतापा- णिस्थसाध्वीत्वनिश्चायकं रेखाविशेषं दृष्ट्वा निर्दोषेयं चिरानुभवाहेति सूचनाय दृढ पाणिं गृह्णन्नद्य तद्विसस्मारेति । अन्यथा पाणिग्रहणस्य दोषवत्यास्त्यागाप्रतिबन्धकत्वा- १६८ उत्तररामचरिते , सीता--(सलज्जास्रम् ।) जह अम्बा भणादि । रामः-अम्ब पृथिवि, ईदृशोऽस्मि । गङ्गा-भगवति वसुंधरे, शरीरमसि संसारस्य । तत्किमसंविदानेव जामात्रे कुप्यसि । घोरं लोके विततमयशो या च वह्नौ विशुद्धि- लङ्काद्वीपे कथमिव जनस्तामिह श्रद्धधातु । इक्ष्वाकूणां कुलधनमिदं यत्समाराधनीयः कृत्स्नो लोकस्तदिह विषमे किं स वत्सः करोतु ॥ ६ ॥ लक्ष्मणः-अव्याहतान्तःप्रकाशा हि देवताः सत्त्वेषु । गङ्गा-तथाप्येष तेऽञ्जलिः। रामः-अम्ब, अनुवृत्तस्त्वया भगीरथकुले प्रसादः । पृथिवी-नित्यं प्रसन्नास्मि तव । किं त्वसावापातदुःसहः स्नेहसं- वेगः । न पुनर्न जानामि सीतास्नेहं रामभद्रस्य । १. यथाम्बा भणति। दिति मन्तव्यम् । प्रमाणीकृत इत्येतदुत्तरत्र यथालिङ्गं विपरिणमयितव्यम् । वृत्तिः शीलम् । संततिर्वशः ॥ ५॥ यथाम्बा भणति अत्र तथैवेति शेषः ॥ ईदृशोऽस्मि अनार्यपुत्रोऽस्मि ॥ संसारस्य दम्पतिमातृपुत्रवसूदुहित्रादिकुटुम्बसंबन्धस्य शरीर- मसि शरीरवत्प्रवृत्तिनिवृत्तिनिबन्धनभूतासि । जामाने कुप्यसि जामातृविषयकप्रति कूलप्रतिसंधानरूपमनःप्रज्वलनवती भवसि । 'क्रुधगृह-' इति चतुर्थी । घोरमिति । अयशः दोषवत्ताप्रथा । लङ्का चासौ द्वीपश्च लङ्काद्वीपस्तस्मिन् । द्विर्गता आपो यस्मिन्स द्वीपः । 'यन्तः' इति अकारस्य ईकारः । लङ्काद्वीपे या वह्नौ विशुद्धिस्तामिह जनः कथ श्रद्दधातु प्रत्येतु । कृत्स्नो लोकः समाराधनीय इति यदिदमिक्ष्वाकूणां कुलधनं कुल- क्रमागतं धनम् । तत्तस्मादिह विषमे एतस्मिन्धर्मसंकटे स वत्सः रामः कि करोतु ॥६॥ अव्याहतः अकुण्ठितः अन्तःप्रकाशः परोक्षज्ञानरूपः यासां तथोक्ताः । सत्त्वेषु पदार्थेषु । पृथिव्यपि जानात्येवेति भावः ॥ तथापि एवं सत्यपि एषोऽअ- लिस्ते । 'अञ्जलिः परमा मुद्रा क्षिप्रं देवप्रसादिनी' इति प्रसादन इत्यर्थः ॥ अम्ब भा. गीरथीति संबुद्धिः । अनुवृत्तः भगीरथप्रभृतिमत्पर्यन्तं संबन्धित इत्यर्थः ॥ तव नित्य प्रसन्नास्मि नित्यं त्वदीयविषयकमनःकालुष्यरहितास्मि । किमर्थोऽअलिरि- त्यर्थः । कित्वेवं प्रसन्नत्वेऽपि स्नेहस्य संवेगस्त्वरा आपाते श्रवणोत्तरक्षणे दुःसहः सोढुमशक्यः । 'दर्शनक्षण आपातस्तथैवाकर्णनक्षणे' इति कोशः । स्नेहेन पुत्रीविषय- प्रेम्णा संवेगस्तरलत्वं भयं वा । 'ओविजी भयचलनयोः' इत्यस्माद्भावे घञ्प्रत्ययश्च ।

सप्तमोऽङ्कः । दह्यमानेन मनसा देवाद्वत्सां विहाय सः । लोकोत्तरेण सत्त्वेन प्रजापुण्यैश्च जीवति ॥ ७॥ रामः-सकरुणा हि गुरवो गर्भरूपेषु । सीता-(रुदती कृताञ्जलिः ।) णेदु मं अत्तणो अङ्गेसु विलअं अम्बा। गङ्गा-किं ब्रवीषि । अविलीना वत्से, संवत्सरसहस्राणि भूयाः । पृथिवी-वत्से, अवेक्षणीयौ ते पुत्रौ । सीता—किं' एहिं अणाहेहिं । राम:-हृदय, वज्रमसि । गङ्गा-कथं वत्सौ सनाथावप्यनाथौ । सीता-कीरिसं मे अभग्गाए सणाहत्तणम् । देव्यो- जगन्मङ्गलमात्मानं कथं त्वमवमन्यसे । आवयोरपि यत्सङ्गात्पवित्रत्वं प्रकृप्यते ॥ ८ ॥ लक्ष्मणः-आर्य, श्रूयताम् । राम:-लोकः शृणोतु । (नेपथ्ये कलकलः।) रामः-अद्भुततरं किमपि । १. नयतु मामात्मनोऽङ्गेषु विलयमम्बा । २. किमेताभ्यामनाथाभ्याम् । ३. कीदृशं मे अभाग्यायाः सनाथत्वम् । 'स्तोः' इति कुत्व च । रामभद्रस्य सीताविषयकं स्नेह पुनः प्रेम तु न जानामीति न जानाम्येव । दह्यमानेनेति । दह्यमानेन भस्मीक्रियमाणेन मनसा करणेन दैवाद्धेतोः वत्सां सीतां विहाय त्यक्त्वा लोकोत्तरेण सत्त्वेन धैर्येण प्रजानां पुण्यैः सुकृतैश्च जीवति प्राणं धारयति ॥ ७ ॥ गर्भाणामिव रूप येषां तथोक्तेषु । अस्मास्विति शेषः । गर्भस्य यथा खरक्षणीयानहलं मन्त्ररक्षणीयत्वं तद्वद्गुरूणां वयमित्यर्थः ॥ विलयमदर्शनम् ॥ किं ब्रवीपि । किमिति क्षेपे । संवत्सरसहस्राणि । सहस्रशब्दोऽनन्तवाची । अत्यन्तसं- योगे द्वितीया ॥ अवेक्षणीयौ कटाक्षणीयौ । तदर्थ स्थातव्यमिति भावः ॥ अभाग्यायाः पुण्यरहितायाः सनाथत्वं नाथवत्त्वम् ॥ जगन्मङ्गलमिति । जगन्मङ्गलं जगतां मङ्गलं यस्मादिति बहुव्रीहिः । अनेन मङ्गलदेवतेति समाख्या स्मारिता । अवमन्यसे परिभवसि । यस्य त्वदात्मनः सङ्गात्संपर्कादावयोरपि जगत्पवित्रत्वेन प्रसिद्धयोरपि पवित्रत्व वसंबन्धादन्येषामपि दोषापनोदकत्वं प्रकृष्यते पूर्वीपेक्षया अतिशयितं भवति । कर्मकर्तरि तड् ॥ ८ ॥ लोकः शृणोतु । मम हि सीतायाः शुद्धता व्यक्ता । कौलीनवादिजन एव शृणोत्वित्यर्थः ॥ नेपथ्ये इति । जृम्भकास्त्राणां प्रयोगायोग्य- उ० रा० १५ ।

उत्तररामचरिते सीता-कित्ति आबद्धकलकलं पज्जलिअं अन्तरिक्खम् । देव्यौ-ज्ञातम् । भृशाश्वः कौशिको राम इति येषां गुरुक्रमः । प्रादुर्भवन्ति तान्येव शस्त्राणि सह जृम्भकैः ॥ ९ ॥ (नेपथ्ये ।) देवि सीते नमस्तेऽस्तु गतिर्नः पुत्रको हि ते । आलेख्यदर्शनादेव ययोर्दाता रघूद्वहः ॥ १० ॥ सीता-दिट्ठिआ अत्थदेवदाओ एदाओ। अजउत्त, अजावि दे पसादा पडिप्फुरन्दि । लक्ष्मणः-उक्तमासीदार्येण सर्वथैतानि त्वत्प्रसवमुपस्थास्यन्तीति । देव्यौ- नमो वः परमास्त्रेभ्यो धन्याः सो वः परिग्रहात् । काले ध्यातैरुपस्थेयं वत्सयोर्भद्रमस्तु वः ॥ ११ ॥ - क्षुभिताः कामपि दशां कुर्वन्ति मम संप्रति । विस्मयानन्दसंदर्भजर्जराः करुणोर्मयः ॥ १२ ॥ १. किमित्याबद्धकलकलं प्रज्वलितमन्तरिक्षम् । २. दिष्टया अस्त्रदेवता एताः । आर्यपुत्र, अद्यापि ते प्रसादाः परि- स्फुरन्ति । त्वेन तदागमनसूचनार्थ नेपथ्ये इत्युक्तम् ॥ प्रज्वलितं प्रकाशवत् ॥ भृशाश्व इति । गुरुक्रमः आचार्यानुपूर्वी । जृम्भकैः सह शस्त्राणि वारुणादीनि प्रादुर्भनन्ति प्रक- टीभवन्ति॥९॥देवीति । पुत्रको नो गतिः अस्माकं प्राप्यौ । आलेख्यदर्शनात्प्रथमा- डोक्तचित्रदर्शनात् ॥ १०॥ दिष्टयेति । एताः अस्त्रदेवताः । आनन्दहेतव इत्यर्थः। अद्याप्येवं दोषवादप्रयुक्तपरित्यागकालेऽपि ते प्रसादाः त्वदनुग्रहाः परिस्फुरन्ति प्रकाशन्ते ॥ उक्तमासीत् । प्रथमाई इति शेषः॥नम इति । वः परिग्रहाद्युष्मत्कर्तृक- खीकारात् धन्याः स्मः क्षेमलाभयुक्ता भवामः । काले युद्धादिसमये ध्यातैरागन्तव्यमिति चिन्तितैः । काले युद्धादिसमये वत्सयोरुपस्थेयं संनिधातव्यम् ।युष्माभिरिति शेषः॥११॥ क्षुभिता इति । क्षुभिताः क्षोभं प्राप्ताः । विस्मयः अपूर्ववस्तुसंदर्शनजन्यान्तःकरणवि- कारविशेषः । स चात्र गङ्गापतनतत्रत्यप्रसवजृम्भकप्राप्त्यादिमूलकः । आनन्दः खसंबन्ध- संभावनार्हताप्रयुक्तप्रीतिविशेषः । ताभ्यां जर्जराः व्याकुलिताः। करुणस्य सीतावियोग. जन्यदुःखातिशयस्य ऊर्मयः तरङ्गाः मम कामपि दशामनिर्वाच्यामवस्यां कुर्वन्त्युत्पाद- - ' - सप्तमोऽङ्कः । १७१ देव्यो-मोदख वत्से, मोदख । रामभद्रतुल्यौ ते पुत्रकाविदान संवृत्तौ । सीता-भअवदीओ, को एदाणं खत्तिओइदविहिं कारइम्सदि । राम:- एषा वसिष्ठशिष्याणां रघूणां वंशनन्दिनी । कष्टं सीतापि सुतयोः संस्कर्तारं न विन्दति ॥ १३ ॥ गङ्गा-भद्रे, किं तवानया चिन्तया । एतौ हि वत्सौ स्तन्यत्यागात्प- रेण भगवतो वाल्मीकेरर्पयिष्यामि । वसिष्ठ एव ह्याचार्यो रघुवंशस्य संप्रति । स एव चानयोर्ब्रह्मक्षत्रकृत्यं करिष्यति ॥ १४ ॥ यथा वसिष्ठाङ्गिरसौ ऋषिः प्राचेतसस्तथा । जनकानां रघूणां च वंशयोरुभयोर्गुरुः ॥ १५ ॥ रामः-सुविचिन्तितं भगवत्या । लक्ष्मणः-आर्य, सत्यं विज्ञापयामि । तैस्तैरुपायैरिमौ वत्सौ कुश- लवावुत्प्रेक्षे । एतौ हि जन्मसिद्धास्त्रौ प्राप्तप्राचेतसावुभौ । आर्यतुल्याकृती वीरौ वयसा द्वादशाब्दकौ ॥ १६ ॥ १. भगवत्यौ, क एतयोः क्षत्रियोचितविधि कारयिष्यति । यन्ति । ऊर्मिपदेन करुणस्य समुद्रलं व्यज्यते ॥ १२ ॥ मोदख मोदं प्राप्नुहि । इदानी जृम्भकास्त्रलाभे । संवृत्तौ संजातौ ॥ क्षत्रियोचितं क्षत्रियजात्यनुरूपं विधिमु- पनयनसंस्कारादिशास्त्रार्थ कः कारयिष्यति ॥ एषेति । वसिष्ठशिष्याणां रघूणां वंशनन्दिनी संततेरानन्दहेतुः एषा सीतापि सुतयोः संस्कारमुपनयनादिसंस्कारका- चार्य न विन्दति न लभते। कष्टम् ।दुःख्यत इत्यर्थः ॥१३॥ भद्रे मङ्गलवति । एतौ वत्सौ । द्वितीयान्तम् । स्तन्यत्यागात्परेण स्तन्यत्यागकालान्तरकाले । अर्पयिष्यामि विद्यादि. प्रदानार्थमिति शेषः। एतेन द्वितीयाङ्कविष्कम्भस्थं केनापि देवताविशेषेणेति वाक्य व्याख्यातम् । वसिष्ठ इति । ब्रह्म च क्षत्रं च ब्रह्मक्षत्रे । तयोरुचितं कृत्यं ब्राह्मणव- जात्यनुगुणत्रय्यध्यापनं क्षत्रियत्वोचितधनुर्वेदाध्यापनं च करिष्यति ॥१४॥ यथेति । जनकानां रघूणां च उभयवंशयोः यथा वसिष्ठाङ्गिरसौ वसिष्ठशतानन्दौ गुरू तथा प्रा. चेतसः ऋषिर्गुरुः । इदं गङ्गावचनम् ॥१५॥ तैस्तैरुपायैः बहुभिः हेतुभिः वत्सौ कुश- लवौ उत्प्रेक्षे वत्सकुशलवत्वेन अभिनेयशिशुद्वयं संभावयामि । हेतूनाह-एतौ हीत्यादिना । तन्त्रेणायं श्लोकचतुष्टयपरः अभिनेयशिश्वोः कुशलवयोश्च जन्मसिद्धा- .

१७२ उत्तररामचरिते रामः-वत्सावित्येवाहं परिप्लवमानहृदयः प्रमुग्धोऽस्मि । पृथिवी-एहि वत्से, पवित्रीकुरु रसातलम् । रामः-प्रिये, लोकान्तरं गतासि । सीता-णेदु मं अत्तणो अङ्गेसु विलअं अम्बा । ण सहिस्सं ईरिसं जीअलोअस्स परिभवं अणुभविदुम् । लक्ष्मणः-किमुत्तरं स्यात् । पृथिवी -मन्नियोगतः स्तन्यत्याग यावत्पुत्रयोरवेक्षख । परेण तु यथा रोचिष्यते तथा करिष्यामि । गङ्गा-एवं तावत् । (इति निष्क्रान्ते देव्यौ सीता च ।) रामः-कथं प्रतिपन्न एव तावत् । हा चारित्रदेवते, लोकान्तरे पर्यवसितासि । (इति मूर्छति ।) लक्ष्मणः-भगवन्वाल्मीके, परित्रायख परित्रायस्व । एष ते. काव्यार्थः । (नेपथ्ये ।) अपनीयतामातोद्यम् । भो जङ्गमस्थावरा प्राणभृतो मामाः, पश्य- न्त्विदानी वाल्मीकिनाभ्यनुज्ञातं पवित्रमाश्चर्यम् । १. नयतु मामात्मनोऽङ्गेषु विलयमम्बा । न सहिष्यामीदृशं जीव- लोकस्य परिभवमनुभवितुम् । स्त्रवादिकं समान योज्यम् । वयसा जीवनकालेन हेतुना । द्वादशाब्दको द्वादशसंख्या- कसंवत्सरयुक्तौ । अभिनेयशिश्वोरप्यभिनयकालापेक्षया द्वादशाब्दकत्व बोध्यम् ॥१६॥ वत्साविति । परिप्लवमानहृदयस्तरलहृदयः । प्रमुग्धोऽस्मि प्रमूढोऽस्मि ॥ रसातल- भधोभुवनम् ॥ लोकान्तरमन्यं लोकम् ॥ विलयं तिरोहितत्वम् । जीवलोकस्य परिभवं जीवलोककर्तृकतिरस्कारम् ॥ उत्तरं पृथिव्याः प्रतिवचनं किं स्यात् । उत्तरमनन्तरभावि वा ॥ मन्नियोगतः मदादेशेन स्तन्यत्यागं यावत्स्तन्यत्यागमभिव्याप्य पुत्रयोरवेक्षख पुत्रौ पश्येत्यर्थः । परेण तु परस्तात्तु यथा रोचिष्यते येन प्रकारेण रुचिर्भविष्यति ते तथाहं करिष्यामीत्यर्थः ॥ एवं तावदेवमेव । देव्यौ गङ्गापृथिव्यौ। निष्कान्ते । रङ्गस्था- नादिति शेषः ॥ लोकान्तरे पर्यवसितासि । पर्यवसानं विश्रान्तिः। लोकान्तरमेव गता- सीति प्रतिपनं निश्चितम् । स्तन्यत्यागात्परत्र रसातलगमनस्य पृथिव्याभ्यनुज्ञातत्वात् द्वादशानां वत्सराणामतीतत्वाच लोकान्तरं गतासीत्येतावनिश्चितमिति भावः ॥ एष ते काव्यार्थः । पर्याप्तं दृष्ट इति शेषः । इतः परं निवर्तितव्यमिति हृदयम् ॥ आतोयं नृत्तगीतसमुदायः । अपनीयतां निवर्त्यताम् । मामा देवमनुष्यात्मकाः जङ्गमस्था- ..

सप्तमोऽङ्कः । १७३ लक्ष्मण:-(विलोक्य ) - मन्थादिव अभ्यति गाङ्गमम्भो व्याप्तं च देवर्षिभिरन्तरिक्षम् । आश्चर्यमार्या सह देवताभ्यां गङ्गामहीभ्यां सलिलादुपैति ॥ १७ ॥ (नेपथ्ये ।) अरुन्धति जगद्वन्द्ये गङ्गापृथ्व्यौ जुषस्व नौ। अर्पितेयं तवावाभ्यां सीता पुण्यव्रता वधूः ॥ १८ ॥ लक्ष्मणः-अहो आश्चर्यमाश्चर्यम् । आर्ये, पश्य पश्य । कष्टम- द्यापि नोच्छुसित्यार्यः। (ततः प्रविशत्यरुन्धती सीता च ।) अरुन्धती- त्वरस्व वत्से वैदेहि मुश्च शालीनशीलताम् । एहि जीवय मे वत्सं सौम्यस्पर्शेन पाणिना ॥ १९ ॥ सीता--(ससंभ्रमं स्पृशति ।) समस्ससदु समस्ससदु अजउत्तो । रामः-(समाश्वस्य सानन्दम् ।) भोः, किमेतत् । (दृष्ट्वा सहर्षाद्भुतम् ।) कथं देवी जानकी । (सलज्जम् ।) अये, कथमम्बारुन्धती । कथं सर्वे ऋष्यशृङ्गादयोऽस्मद्गुरवः । अरुन्धती-वत्स, एषा भागीरथी रघुकुलदेवता देवी गङ्गा सुप्रसन्ना। १. समाश्वसितु समाश्वसित्वार्यपुत्रः । । वृक्षादीनामपि प्राणवत्त्वात्स्थावरोक्तिरविरुद्धा । वल्मीकिना- भ्यनुज्ञातं करुणाद्भुतरसमित्यत्राद्भुतपदेन प्रकाश्यत्वेन बोधितं पवित्रं निर्दोषमाश्चर्य पश्यन्तु ॥ मन्थादिवेति । गाङ्गमम्भः मन्थादिव मथनादिव क्षुभ्यति क्षोभं प्राप्नो- ति। अन्तरिक्षं देवैः ऋषिभिश्च व्याप्तम् । कौतुकादिति भावः ।आर्या सीता देवताभ्यां गङ्गामहीभ्यां सह सलिलादुपैति प्राप्नोति ॥ १७ ॥ नपथ्ये । अरुन्धतीति । नौ द्वितीयाद्विवचनम् । गङ्गापृथ्व्यौ जुषख जानीहि नौ । जुषख प्रीयख । तव वधूः स्नुषा इयं सीता आवाभ्यां तवार्पिता ॥ १८ ॥ आर्थे । अरुन्धती प्रति संबोधनम् । नोच्छ्सिति उच्छासं न प्राप्नोति ॥ त्वरस्वेति । शालीनशीलतामधृष्टवभावत्वं मुश्च त्यज । सौम्यस्पर्शेन चन्द्रवच्छीतलेन पाणिना मे वत्सं जीवय सप्राणं कुरु॥१९॥ एतत्सीतास्पर्शरूपं किं किहेतुकम् । कथ देवी जानकी । विस्मयद्योतकः कथंशब्दः । G वरात्मकाश्च प्राणभृतः उत्तररामचरिते (नेपथ्ये ।) जगत्पते रामभद्र, स्मर्यतामालेख्यदर्शने मां प्रत्यात्मवचनम् । सा त्व- मम्ब स्नुषायामरुन्धतीव सीतायां शिवानुध्यानपरा भवेति । तदनृणास्मि । अरुन्धती-इयं ते श्वश्रूभगवती वसुंधरा । (नेपथ्ये ।) उक्तमासीदायुष्मता वत्सायाः परित्यागे 'भगवति वसुंधरे, श्लाघ्यां दुहितरमवेक्षस्व जानकीम्' इति । तदधुना कृतवचनास्मि । राम:-कृतापराधोऽपि भगवति, त्वयानुकम्पयितव्यो रामः प्रणमति । अरुन्धती-भो भोः पौरजानपदाः, इयमधुना वसुंधराजाह्नवीभ्या- मेवं प्रशस्यमाना मया चारुन्धत्या च समर्पिता पूर्व भगवता वैश्वानरेण निर्णीतपुण्यचारित्रा सब्रह्मकैश्च देवैः स्तुता सावित्रकुलवधूर्देवयजनसंभवा जानकी परिगृह्यताम् । कथमिह भवन्तो मन्यन्ते । लक्ष्मणः-आर्य, एवमम्बयारुन्धत्या निर्भसिताः पौरजानपदाः कृत्स्नश्च भूतग्राम आर्य नमस्कुर्वन्ति । लोकपालाः सप्तर्षयश्च पुष्पवृ- ष्टिभिरुपतिष्ठन्ते। अरुन्धती-जगत्पते रामभद्र, नियोजय यथाधर्म प्रियां त्वं धर्मचारिणीम् । हिरण्मय्याः प्रतिकृतेः पुण्यां प्रकृतिमध्वरे ॥ २० ॥ लज्जा मनःसंकोचः । स चेहारुन्धतीदर्शनात् ॥ भागीरथी भगीरथनीता रघुकुलदेवता देवी दीप्तिशालिनी । सुप्रसन्ना अनुग्रहं कृतवती ॥ आलेख्यदर्शने चित्रदर्शने । आत्म- वचनं त्वद्वचनम् । अनृणास्मि निर्यातितऋणास्मि । ऋणं ह्यवश्यप्रतिविधेयमिति साह- श्यादेवमुक्तम् ॥ आयुष्मता । त्वयेति शेषः । वसुंधरायै वसुंधरां बोधयितुमुक्तमासी- दिति वचनं जातम् । श्लाघ्या दुहितरमवेक्षख जानकीमितीदं वस्तु उक्तमासीदिति कर्मणि क्तो वा ज्ञेयः । कृतवचनास्मि । उच्यत इति वचनः उक्तार्थः । कृतः अनुष्ठितः उक्तार्थो यया तथोक्तास्मि ॥ अनुकम्पयितव्य इति दयाविषयः कर्तव्य इति प्रणमति प्रकर्षेण नमस्यति ॥ पौराः पुरवासिनः । जानपदाः देशवासिनः । एवं प्रशस्यमाना 'आव- योरपि यत्सङ्गात्पवित्रत्व प्रकृष्यते' इत्यभिष्टुता । पूर्व रावणवधानन्तरकाले । वैश्वानरे- णाग्निना । निर्णीतपुण्यचारित्रा निश्चितपातिव्रत्या। परिगृह्यतां राज्ञीत्वेन खीक्रियताम्। इहास्मिन्नर्थे कथं मन्यन्ते किं वो मतमिति भावः ॥ भूतग्रामः गोबलीवर्दन्यायेन पौर- जानपदातिरिक्ता ग्राह्याः । आर्यों सीतां नमस्कुर्वन्ति । लोकपालाः इन्द्रादयः । सप्त- र्षय अत्र्यादयः । पुष्पवृष्टिभिः करणैरुपतिष्ठन्ते पूजयन्ति । आर्यामित्यनुषङ्गः॥नियो- ..

सप्तमोऽङ्कः। १७५ सीता-(स्वगतम् ।) अवि जाणादि अज्जडत्तो सीदाए दुक्खं पडिमज्जिदुम् रामः-यथा भगवत्यादिशति । लक्ष्मण:-कृतार्थोऽस्मि । सीता-पंचुज्जीविदम्हि । लक्ष्मणः-आर्ये, अयं लक्ष्मणः प्रणमति । सीता-वच्छ, ईरिसो तुम चिरं जी। अरुन्धती-भगवन्वाल्मीके, उपनयेदानी सीतागर्भसंभवौ रामभ- द्रस्य कुशलवौ । (इति निष्क्रान्ता ।) रामलक्ष्मणौ -दिष्टया तथैवैतत् । सीता-कहिं ते पुत्तआ । (ततः प्रविशति वाल्मीकिः कुशलवौ च ।) वाल्मीकिः-वत्सौ, एष वां रघुपतिः पिता । एष लक्ष्मणः कनि- ष्ठतातः । एषा सीता जननी । एष राजर्षिर्जनको मातामहः । सीता--(सहर्षकरुणाद्भुतं विलोक्य ।) कहं तादो । कहं जादा । १. अपि जानात्यार्यपुत्रः सीताया दुःखं परिमाष्टुम् । २. प्रत्युजीवितामि। ३. वत्स, ईदृशस्त्वं चिरं जीव । ४. क्व तौ पुत्रको। ५. कथं तातः । कथं जाती। जयेति । प्रियां त्वद्विषयकप्रीतियुक्ताम् । धर्मचारिणी धर्मानुष्ठानशीलाम् । अध्वरे यागे। हिरण्मय्याः प्रतिकृतेः प्रतिमायाः प्रकृतिपावनी प्रकृति प्रतिमां सीतां यथाधर्म नियोजयाज्ञापय। पुण्यामित्यनेन 'यस्य भार्या विदूरस्था पतिता दूषिताथवा । अनिच्छुः प्रतिकूला वा' इत्याधुदासः ॥ २० ॥ यथा भगवत्यादिशति । तथास्त्विति शेषः ॥ कृतार्थोऽस्मि सीतारामयोः समागमरूपप्रयोजनसिद्धिमानस्मि । त्यागस्य खद्वारकत्वा- देवमुक्तम् ॥ प्रत्युज्जीवितास्मि 'यस्त्वया सह स खर्गः' इत्युक्तरामसमागमात्मकपु- नरुज्जीवनवती कृतासि ॥ ईदृशः सन् चिरं जीव मम पत्युश्च समागमं परमं श्रेयो मन्वानः सन् चिरं जीव ॥ रामभद्रस्य उपनय रामभद्रसमीपं प्रापय ॥ दिष्टया तथै- वैतत् । एतत्कुशलवोत्पत्त्यादिकं तथैव पूर्वमस्मच्चिन्तितप्रकारेणैव । आसीदिति शेषः। क तौ पुत्रौ । इद वाल्मीकिप्रवेशसूचकम् ॥ मातामहः मातुः पिता । 'मातृपितृभ्यां १७६ उत्तररामचरिते , वत्सौ-हा तात, हा अम्ब, हा मातामह । रामलक्ष्मणौ-(सहर्षमालिङ्गय ।) ननु वत्सौ, युवां प्राप्तौ स्थः । सीता-एहि जाद कुस, एहि जाद लव, चिरस्स में परिस्सजह लोअन्दरादो आअदं जणणिम् । कुशलवौ-(तथा कृत्वा ।) धन्यौ स्वः । सीता-भअवं, एसा हं पणमामि । वाल्मीकिः-वत्से, एवमेव चिरं भूयाः । (नेपथ्ये।) उत्खातलवणो मधुरेश्वरः प्राप्तः । लक्ष्मणः-सानुषङ्गाणि कल्याणानि । रामः-सर्वमिदमनुभवन्नपि न प्रत्येमि । यद्वा प्रकृतिरियमभ्यु- दयानाम् । वाल्मीकिः-रामभद्र, उच्यतां किं ते भूयः प्रियमुपहरामि । रामः-~अतः परमपि प्रियमस्ति । किं त्विदं भरतवाक्यमस्तु- १. एहि जात कुश, एहि जात लव, चिरस्य मां परिष्वजेथां लोकान्तरादा- गतां जननीम् । २. भगवन् , एषाहं प्रणमामि । . पितरि डामहच् ॥ कथ जातौ कुशलवौ । जातौ कथमिति चित्तविकासे ॥ हा ताते- त्यादि । सर्वत्र हाशब्दो हर्षद्योतकः ॥ ननु वत्सौ युवां प्राप्तौ स्थः । ननु वत्साविति संबोधनम् ॥ चिरस्य परिष्वजेथां बहुकालमालिङ्ग्यतम् । न तु यत्किंचित्क्षणालिगनेन तृप्तिरिति भावः । परिष्वजेथामिति लोट्मध्यमद्विवचनम् ॥ लोकान्तराद्रसातलात् ॥ तथा कृला आलिङ्गय । धन्यौ खः प्रशस्तौ भवावः ॥ एवमेव चिरं भूयाः एममेव पत्यपल्याभ्यां संगतैव भूयाः ॥ नेपथ्ये । उत्खातः उन्मूलितः लवणः लवणनामकासुरो येन तथोक्तः । मधुरायाः तन्नाम्न्याः नगर्याः ईश्वरः स्वामी । शत्रुघ्न इत्यर्थः । अस्यापि प्रथमाङ्कारब्धप्रयोजनलानिर्वहणे निवेशः ॥ कलत्रपुत्रसमागमादिश्रेयांसि सानुषङ्गाणि । अनुषज्यन्ते अनुसंबध्यन्ते यदित्यनुषङ्गं मगलान्तरम् । कर्मणि घञ् । संबन्धमनु- वर्तिष्यत इत्याचार्यभगवत्पतञ्जलिप्रयोगेण नपुंसकत्वम् । संपत्संपदमनुबनातीति मङ्ग- लान्तरसहितानीत्यर्थः । शत्रुवधतद्राज्यप्राप्त्योश्च श्रेयस्वादनुभवन्नपि साक्षात्कुर्वन्नपि न प्रत्येमि नियतमिति न विश्वसिमि । यद्वेति । न मद्दोष इति भावः । इयमनियतमि- त्ययं प्रत्ययः । अभ्युदयानां श्रेयसां प्रकृतिः खभावः । विधेयप्राधान्यात्स्त्रीत्वम् ॥ भूयः पुत्रकलत्रसमर्पणात्परमिष्टं किमुपहरामि उपहारीकरोमि । इदमेव सर्वथी ऋषयः श्रेयो सप्तमोऽङ्कः। १७७ पाप्मभ्यश्च पुनाति वर्धयति च श्रेयांसि सयं कथा माङ्गल्या च मनोहरा च जगतो मातेव गङ्गेव च । तामेनां परिभावयन्त्वभिनयर्विन्यस्तरूपां बुधाः शब्दब्रह्मविदः कवेः परिणतां प्राज्ञस्य वाणीमिमाम् ॥ २१ ॥ (निष्कान्ताः सर्वे ।) इति सप्तमोऽङ्कः। : . विधास्यन्तीति प्रथमाझे सूचितः॥अतः परमपि उक्तादन्यदपि । कि विदं भरतवाक्य- मस्तु । एव सत्यपि वक्ष्यमाणं भरतवचनमस्तु भवनाहम् । अर्ह लोट् । पाप्मभ्य इति । इयं च प्रशस्तिः । सा प्रसिद्धा इयं बुद्धिस्था कथा रामायणात्मकवाक्यप्रबन्ध- रूपा कथा । 'कथ वाक्यप्रबन्धे' इति धातुः । सा च वाल्मीकीयचतुर्विंशतिसहस्रिका । पाप्मभ्यः दुरितेभ्यः जगत्पुनाति विभाजयति । जगत इति षष्ठ्यन्त विपरिणम्य योजनीयम् । पूड् धातुः यद्यपि दुरितविभजनात्मकदोषनिर्हरणवाची तथापि पाप्मभ्यः पुनातीति 'सकीचकैर्मारुतपूर्णरन्त्रैः' इतिवव्याख्येयम् । जगतः श्रेयांसि पुत्रमित्रा- दीनि वर्धयति मोक्षपर्यन्तानि उत्तरोत्तरमधिकानि करोति । अत्र कुटुम्बवृद्धि धन- धान्यवृद्धि इत्यादिश्लोकद्वयमनुसंधेयम् । मातेव गङ्गेव मानल्या मनोहरा च ।माता हि दुःखविस्मारिणी सुखदा च भवति । गङ्गा च पापनाशनी मोक्षदा च भवति । तद्वद्रा- मायणमपीति भावः । शब्दब्रह्मविदः शब्द एव ब्रह्म परिच्छिन्नत्वापरिच्छिन्नत्वाभ्यां परब्रह्मसाम्याद्रूपणम् । तद्विदन्तीति शब्दब्रह्मविदः । बुधाः सहृदयाः । अभिनयाः सात्विकालिकाहार्यवाचिकभेदेन चतुर्विधाः । अभिनयरितीत्थभूतलक्षणे तृतीया । अभिनयविशिष्टो यो विन्यासः रचनावैशिष्ट्य च प्रतिपादकत्वरूपं विन्यस्तं विन्यासेन निष्पन्नं यस्यास्तथोक्ताम् । शरीरं चेहानुपूर्वी । प्राज्ञस्य सर्वज्ञशिरोमणेः कवेःभवभूति- कवेः इमां वाणी परिणतामेनामुत्तररामचरितनाटकरूपभवभूतिवागात्मना यः परि- णामः तद्वतीमेनां श्रीरामायणात्मककथां परिभावयन्तु परितश्चिन्तयन्तु । 'भू अवक- ल्कने । अवकल्कनं चिन्तनमित्युक्तम् । इय कथा श्रेयांसि वर्धयति एनां परिभाव. यन्वित्यन्वादेशादेनादेशः । वाल्मीकिवागेव भवभूतिवागात्मना परिणतेत्युक्तिः । उत्तररामचरितस्य गाम्भीर्यमाधुर्ये लभ्यते। परिभावयन्त्वित्यनेन 'बद्धा यदर्पणरसेन विम- दपूर्वम्' इति श्लोकार्थो ध्वनितः। परिपूर्वकस्य 'भू सत्तायाम्' इति पठितस्यैवावज्ञानार्थ- कत्वमिति नास्य तत्प्रसक्तिः । शब्दब्रह्मविदो बुधाः अभिनयैः सह विन्यस्तरूपां प्राज्ञस्य कवेरिमां वाणी परिणतामेनां परिभावयन्त्विति योजना । एतेन 'एनाम्' 'इमाम्' इत्यन- योर्न पौनरुक्त्यम् । अभेदसंबन्धेनान्वयवाचकयोरिव प्रकृतिविकृतिवाचकयोरपि समानविभक्तिकत्वनियमादुभयोर्द्वितीयान्तत्वम् । एवं साङ्ग नाटक वृत्तम् ॥ २१ ॥ ..

१७८ उत्तररामचरिते यदप्यत्राखिलं किचित्कविनानेन बध्यते । निरङ्कुशतया तत्तु समाधेयं मनीषिभिः ।। कोशव्याकरणे नात्र लिखिते ग्रन्थगौरवात् । भावस्य तु गभीरत्वात्स कश्चित्कथितो मया ।। भवभूतेः कवीन्द्रस्य व गम्भीरो मिरां भरः । क मे मतिरतिखल्पा सहायोऽत्र हयाननः॥ अनवरतभावनाभिर्योऽर्थः क्लेशान्मया लब्धः । तस्य प्रकाशनीयं व्याख्या विदधातु कौतुक सुधियाम् ॥ इति श्रीवाधूलवीरराघवविरचितायां भवभूतिभावतल- स्पर्शिनीसमाख्यायामुत्तररामचरितव्याख्यायां सप्तमोऽङ्कः। समाप्तमिदं नाटकम्।

६ मू० डा.व्य. ... ... ... ... सप्तशती-पत्रमात्रा, मध्यमाक्षरा, अस्यां प्रयोगमन्त्रयन्त्रादि- वर्धितविषयाः (४८) सप्तशती-इयं कवचार्गलाकीलकरहस्य त्रयसंपुटितास्ति । इयं लध्वक्षरायामविस्ताराप्यतिमनोहरा कौशेयपट्टबद्धा चिकण- पत्रैत्नाभिनवाक्षरैश्वाङ्किता. समयोचितपद्यमालिका-प्रासङ्गिकश्लोकचरणान्तःपाति- श्लोकानां संग्रहः.... सारस्वतव्याकरणं पूर्वार्धम्-वनबद्धम्. सारस्वतव्याकरणं पूर्वार्धम्-पत्रमात्रबद्धम्. सारस्वतव्याकरणं वृत्तित्रयात्मकम्-इदं पुस्तकं प्रथम हस्तलिखितपुस्तकान्येकीकृत्य संशोधय्य च मुद्रितम् । केवलं वस्त्रबद्धपुस्तकस्य. सारखतव्याकरणम्-त्रयोऽपि वृत्तयः-पत्रमात्रबद्धम् साहित्यदर्पण:-विश्वनाथकविराजप्रणीतः. श्रीरामचरणतर्क- वागीशभट्टाचार्याकृतया टीकया समेतः, सिद्धान्तकौमुदी-तत्त्वबोधिनीसमाख्यव्याख्यासंवलिता. सुन्दरकाण्डम्-वाल्मीकिरामायणान्तर्गतं मूलमानं नित्यपाठ- योग्यं कौशेयपट्टबद्धम्. सुभाषितरत्नभाण्डागारम्.. सुभाषितत्रिशती--अर्थात् भर्तृहरिशतकत्रयम्-श्रीरामचन्द्रबु- धेन्द्रविरचितया सहृदयानन्दिन्याख्यय व्याख्यया समेता. हर्षचरितम्-बाणभट्टकृतं, शंकरकृतसकेतटीकया सहितम्... हितोपदेशः-आङ्ग्लटिप्पणीसहितः.... हिरण्यकेशीयब्रह्मकर्मसमुच्चयः-(विषयाः ३८८) ... ... ... ... ३॥ ... १ ४॥ तुकाराम जावजी, निर्णयसागराख्यमुद्रणयन्त्रालयाध्यक्षः, मुबई.

No text on this page.

Uttararaamacharitamu

Author
Shriibhavabhuti
Title
Uttararaamacharitamu
File name
Uttararaamacharitamu
Text
OCR done
Citation
1903
Publisher
Tukaram Javaji,bombay
Language
Sanskrit
Pages
187
Library
Svi-vmpl-machilipatnam
Classification
Literature
DLI number
368858
Barcode
5010010032870.00
Scanning centre
RMSC, IIIT-H
Rights
OUT_OF_COPYRIGHT
VMLT id
tfMdBD6yEXl
Download PDF

Uttararaamacharitamu