Others
Vrxttaalang-kaararatnaadlii
Front matter
No text on this page.
1143
श्रीरामायनमः।
श्रीमत्कौशिककुलजलधिकौस्तुभस्य श्रीमदनन्तनारायणशर्मणस्तनयेन
श्रीपार्वतीगर्भशुक्तिमुक्ताफलेन ।
चेन्नपुरीपञ्चप्पकलाशालायां संस्कृताध्यापकप्रथमपदा-
द्विरतिसुखमनुभवता।
श्वेतारण्यनारायणयज्वना रचिताः ।
सव्याख्या वृत्तालंकाररत्नावली रामस्तुतिः
लोकोक्तिसंग्रहः विष्णुनक्षत्रमालाच
श्रीकामकोटिपीठाधिपैः श्रीचन्द्रशेखरेन्द्रसरस्वतीजगद्गुरुभिः
वीक्षिताश्चानुमोदिताश्च ।
चेनपुरीविराजमान
कबीरभिधाने मुद्रायन्त्रे मुद्रिता विजयन्तेतरा.
१९३१.
२ श्रीमत्परमहंसपरिव्राजकाचार्यवयश्रीकामकोटिपीठाभिषि- तश्रीचन्द्रशेखरेन्द्रसरस्वतीजगद्गुरुवरैर्नारायणस्मरणपूर्वकं प्रिय- शिष्याय श्वेतारण्यनारायणयज्वने वितीर्णा महत्याशा । श्वेतारण्यनारायणयज्वना त्वया विरचिता जगद्गुरुस्तवसु- ब्रह्मण्यशतकत्रेताग्निस्तुतिप्रमुखा आर्यदेवताभक्तिप्रवर्धकाः नास्ति- क्यनिवर्तकाश्च ३० ग्रन्थाः सन्ध्यौपासनब्रह्मयज्ञसूर्यनमस्कारद- शतर्पणमन्त्रार्थाश्च सव्याख्या वृत्तालंकाररत्नावली रामस्तुतिः लोकोक्तिसंग्रहः विष्णुनक्षत्रमाला चतत्तदुचिताधिकारिलोकोप- काराय मुद्रयित्वा प्रचार्यन्तामिति ॥ By the greatest of Paramahamsa -parivrajaka-acharyas the world, teacher Sri Chandrasekharendra Sarasvati who adorns the Kamakotipitha, has been given, after invoking the blessings of Sri Narayana, to his dear disciple, Svetaranya Narayana Yajwa the following order :- "By you, Svetaranya Yajwa! should be printed and published, for the benefit of the respective worlds your many works which are as follows? :-30 works like Jagadgurus stava, Subrahmanya-sataka. Tretagni-stuti etc., which are calculated to infuse in the minds of the reader devotion to the Gods and an abhorrence for atheism, explanatory works on subjects like Sandhy, Aupasana, Brahmayajnya, Suryanamaskara, Darsa tarpana etc., a work on literary criticism, viz., Vrittalankararatnavali with commentary and Rama-stuti.” .
Trit Ketten Y SASTRI RESEARCH INSTITUTE, १. उपमालेका APOREN ७२.44मालकी4. ४. अनन्वयालंकारः ७४. समालंकार: ६. उपमेयोपमा ७५. विचित्रालं........ ७. प्रतीपालंकारः ७६. अधिका........ १०. रूपकालंकारः ७७. अल्पालं अन्योन्यालं.... १४. परिणामा....... ७८. विशेषालं. १५. उल्लेखा ७९. व्याघातालंकारः १८. स्मृतिमभ्रान्तिमद्सन्दे- ८१. कारणमाला १९. अपह्नव: हाः ८२. एकावली २४. उत्पेक्षा ८३. मालादीपकं २८. अतिशयोक्तिः ८४. सारालंकारः ३३. तुल्ययोगिता ८५. यथासंख्य पर्यायालं. ३६. दीपकालंकारः ८८. परिवृत्ति ३७. आवृत्तिदीपकं ८९. परिसंख्या ३८. प्रतिवस्तूपमा ९०.विकल्पा........ ३९. दृष्टान्तालंकारः ९१. समुच्चयः ४०. निदर्शना ९२. कारकदीपकं समाधिः ४३. व्यतिरेकः ९३. प्रत्यनीक [लिंग ४४. सहोक्तिः ९४. काव्यार्थापत्तिःकाव्य- ४५. विनोक्तिः ९५. अर्थान्तरन्यासः ४६. समासोक्तिः ९७. विकस्वरः ४७. परिकरः ९८. प्रौढोक्तिः ४९. परिकरांकुरः ९९. संभावना मिथ्याध्यबसि- ५०. श्लेषालंकारः तिः ललितालंकारः ५२. अप्रस्तुतप्रशंसा १०१. प्रहर्षण १०२. विषादनं उल्लासः ५९. पर्यायोक्तं १०४ अवज्ञा ६१. व्याजस्तुतिः १०५. अनुज्ञा ६४. व्याजनिन्दा १०६. लेशालंकारः ६५. आक्षेपः १०७. मुद्रालं. ६६. विरोधाभासः १०८. रत्नावली ६७. विभावना १०९. तद्गुणः पूर्वरूपं ७०. विशेषोक्तिः ११०. अतद्गुणः अनुगुणः तिं ७१. असंभवः असंगतिः १११. मीलनं सामान्य उन्मीलि- ५८. प्रस्तुतांकुरः ११२. विशेषकः ११३. उत्तरं ११४. सूक्ष्म पिहितं ११५. व्याजोक्ति: गूढोक्तिः ११७. विवृतोक्ति युक्तिः ११८. लोकोक्तिः छेकोक्तिः ११९. वक्रोक्तिः १२२. स्वभावोक्तिः भाविक १२३. उदात्तं १२४. अत्युक्तिः १२५. निरुक्तिःप्रतिषेधः १२६. विध्यलंकारः १२७. हेत्वलंकारः . अशुद्ध •ewww 99 न्ते. दी व चधा थि ते संदी तव जघा यधु ६० थि हा ७१ शुद्धाशुद्धसूचिका । पृष्ठं षडिक्तः शुद्ध ५७ तंत्रस तत्रस | ५८ २० १६ द्यु २१ राइ रामइ ६४ रत्त ६५ १० २० मा मो ७२ २ द्र ११ १२ ११ १३ तिकि तिकि ७९ २२ क. 'प्यरूपका ८१ १४ १२ २३ १३ १ २० रसिक द्र रैः ता ती म ट प्व८६ स्ना स्स्रो ९२ त्रा क्य च्या क्यं 好可可明前可向 वा ९८ ३ २४ २६ ३१ २३ तो १०६ स्सम् स्सन् २०९ ये १११ ससजा सजसा ११२ म to EEN त्म न्ये मलि मील वि २ १२ १९ १६ ११७ hor . MALIKAS.A वृत्तालङ्काररत्नावली रामस्तुतिः सव्याख्या KC पथ्यार्यावृत्तम् पूर्णोपमालङ्कारः श्रीराम त्वच्चरण भक्तिः परमा जगत्स्वशेषेषु । कल्पकवल्लीवार्यामाशां पथ्यां च पूरयते ॥ १ ॥ वल्लीकान्तं प्रणम्याहं व्याख्यास्यामि मया कृताम्। वृत्ता- लङ्काररत्नावल्याख्यां रामस्तुतिं मुदा ॥ चन्द्रालोककृदुक्तेन क्रमे- णालङ्कृतीश्शतम् । उपमादिमहेत्वन्ता धृत्वेयं स्तुतिरीरिता ॥ क्वचित्कुवलयानन्दकृदुक्ता रीतिराहता। वृत्तरत्नाकरोक्तेन क्रमेणैव धृतानि च ॥ वृत्तानि तेषां नामात्र विनिर्दिष्टं स्तुतौ सकृत् । त्यक्तमत्यन्तमश्राव्यं वृत्तं रसविभञ्जकम् । स्तुतेर्मगलरूपत्वान्न प्रोक्तं मङ्गलं पृथक् । चन्द्रालोककृदाख्यातं सर्वालङ्कृतिलक्षणम् । ईषत्कुवलयानन्दप्रोक्तां तद्विवृति तथा । धृत्वा संक्षेपतो रामस्तु- तिव्याख्या विरच्यते ॥ उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः। यत्रोपमानोपमे- ययोश्चारु सादृश्यं स्पष्ट प्रकाशते तत्रोपमालङ्कारः । तत्रोपमानो- पमेयसाधारणधर्मोपमावाचकानां चतुर्णामुपादाने पूोपमा ।
२ वृत्तालङ्काररत्नावली। । तामार्यावान्तरभेदेन पथ्यावृत्तेनोदाहरति । श्रीरामेति । आर्याल- क्षणं तु “ यस्याः पादे प्रथमे द्वादश मात्रास्तथा तृतीयेऽपि । अष्टा- दश द्वितीये चतुर्थके पञ्चदश साऽऽर्या" इति । पथ्यालक्षणं तु " त्रिष्वंशकेषु पादो दलयोरायेषु दृश्यते यस्याः । पथ्येति नाम तस्याश्छन्दोविद्भिः समाख्यातम् ।" इति । हे श्रीराम तव चरणे परमा श्रेष्ठा भक्तिः अशेषेषु समस्तेषु जगत्सु कल्पकवल्ली कल्प- लतेव आर्या पूज्यां पथ्यां हितां चाशां मनोरथं पूरयते पूर्णा निर्वर्तयते । अत्रकल्पकवल्ली भक्तिराशापूरणमिवशब्दश्चेत्येतेषा- मुपमानोपमेयसाधारणधर्मोपमावाचकानां चतुर्णामप्युपादानादियं पूर्णोपमा । आर्यां पथ्यामिति वृत्तनामनिर्देशान्मुद्रालङ्कारश्च । मुद्रालङ्कारः स्तुतौ सर्वत्र तत्तदलङ्कारैः सङ्कीर्णः ॥ १॥ विपुलार्या–चतस्रो लुप्तोपमा आद्याः मेघश्याम तामरससमानमुखं दृशोश्शाङ्कन्तम् । कान्त्या कन्दर्पायन्तं विपुलाक्षं श्रये रामम् ॥ २ ॥ वर्योपमानधर्माणामुपमावाचकस्य च । एकद्विन्यनुपादा- नाद्भिन्ना लुप्तोपमाऽष्टधा ॥ उपमेयादीनां चतुर्णा मध्ये एकस्य द्वयोस्त्रयाणां वा प्रतिपादकशब्दाभावे लुप्तोपमेत्युच्यते सा चाष्ट- धा । यथा-वाचकलुप्ता (१) धर्मलुप्ता (२) धर्मवाचकलुप्ता (३) वाचकोपमेयलुप्ता (४) उपमानलुप्ता (५) वाचकोपमान- लुप्ता (६) धर्मोपमानलुप्ता (७) धर्मोपमानवाचकलुप्ता (८) चेति । तत्रोपमानलोपरहितांश्चतुरो भेदान्विपुलावृत्तेनोदाहरति । मेघेति । तल्लक्षणं तु "उल्लध्य गणत्रयमादिमं शकलयोईयोर्भवति पादः। यस्यास्तां पिङ्गलनागो विपुलामभिसमाख्याति" इति । मेघवच्छ्- ३ रामस्तुतिः सव्याख्या। याम तामरससमानमुखं पद्मसदृशवदनं दृशोनयनयोश्शशाङ्कन्तं शशाङ्कचन्द्रमिवाचरन्तं विपुलाक्षं आयतनेत्रं रामं श्रये आश्रये। अत्र मेघश्याममित्यत्र वाचकलोपः। मेघइवश्यामइत्यर्थे उपमानानि सामान्यवचनैरिति समासविधायकशास्त्रकृतः। तामरससमान- मुखमित्यत्र धर्मलोपः सत्वैच्छिकः नशास्त्रकृतः। कान्न्याता- मरससमानमुखमित्यपि वक्तुं शक्यत्वात् । शशाङ्कन्तमित्यत्र धर्मवाचकलोपः । शशाङ्कमिवाचरन्तमित्यर्थे विहितस्य शशाङ्कव- दानन्दात्मकाचारार्थकस्य क्विप इवशब्देन सह लोपात् अत्र धर्म- लोपऐच्छिकः दृशोरानन्दात्मकतया शशाङ्कन्तमिति तदुपादान- स्थापि संभवात् । कान्त्याकन्दर्पायन्तमित्यत्र वाचकोपमेयलोपः। अत्र कान्त्येति विशेषणसामर्थ्यात् स्वात्मानं कन्दर्पमिवाचरन्तमि- त्यर्थस्य गम्यमानतया स्वान्मन उपमेयस्य सहोपमावाचकेनानुपा- दानात् । सत्वैच्छिकः स्वात्मानं कन्दर्पायन्तमिन्युपमेयोपादान- स्थापि संभवात् ॥२॥ चपलार्या-अवशिष्टा लुप्तोपमाः चपला मनोमधुकरी पदाम्बुजं राम यद्गता त्वत्कम् । तन्मधुमदोत्कटा च तदशङ्कितं काकतालीयम् ॥ ३ ॥ उपमानलोपसहितांश्चतुरो भेदान् चपलावृत्तेनोदाहरति चप- लेति। तल्लक्षणंतु “ उभयार्धयोर्जकारौ द्वितीयतुर्यो गमध्यगौ यस्याः। चपलेति नाम तस्याः प्रकीर्तितं नागराजेन" इति । हे राम चपला चञ्चला मम मनएव मधुकरी भृङ्गी त्वत्कं त्वदीयं पदा- म्बुजं गता प्राप्ता तस्य पदाम्बुजस्य मधुना मकरन्देन तत्पानेनेत्य- र्यः मदोत्कटा अधिकमदा च जातेति यत्तदशङ्कि अवितर्कितं वृत्तालकाररत्नावली। काकतालीयं काकतालशब्दौ समासविषये काकतालसमवेतक्रि- यावर्तिनौ तेन काकागमनमिव तालपतनमिव काकतालमितीवार्थे समासाच तद्विषयादिति शापकात्समासः [शापकादिति । इवार्थे समासाभावे तद्विषयादित्यनेनेवार्थविषयसमासानुवादोनुपपन्नस्त- दज्ञापक इत्यर्थः] काकागमनतालपतनयोरुपमेयं मनोमधुकर्याः क्वचिद्गमनं तत्रैव रामपादाम्बुजस्थावस्थानं च । तेन मनोमधुकर्याः रामपादाम्बुजस्य च समागमः काकतालसमागमसदृशइति फल. ति । ततः काकतालमिव काकतालीयमिति द्वितीयस्मिनिवार्थे समासाच्च तद्विषयादिति सूत्रेण इवे प्रतिकृतावित्यधिकारस्थेन छप्रत्ययः । तथाच तालफलरसो यथा काकेनोपभुक्तः एवं रामप- दाम्बुजमकरन्दो मनोमधुकर्योपभुक्तइति तदर्थः । ततश्च काका- गमनतालपतनसमागमरूपस्य काककृततालफलरसोपभोगरूपस्य चोपमानस्यानुपादानाच्छप्रत्ययार्थोपमायामुपमानलोपः । समा- सार्थोपमायां वाचकोपमानलोपः । सर्वोप्ययं लोपः छप्रत्ययविधा- यकशास्त्रकृतः इदं पुनरिति श्लोकं पूरयित्वा अशङ्कितमिति साधारणधर्मस्थानुपादाने छप्रत्ययार्थोपमायां धर्मोपमानलोपः । समासार्थोपमायां धर्मोपमानवाचकलोपः॥३॥ मुखचपलावृत्तं-अनन्वयालङ्कारः। सीते मुखं त्वदीयं त्वदीयमुखमिव मनोहरं तस्मात् । वन्मुखचपला सततं भवति हि राघवमनोभृङ्गी ॥ ४ ॥ एकस्यैव वस्तुन उपमानोपमेयत्वमनन्वयः । वर्ण्यमानमपि खस्य स्वेन साधर्म्य नान्वेतीति व्युत्पत्तेः । अनन्वयिनोप्यर्थस्याभि- धानं सदृशान्तरव्यवच्छेदेनानुपमत्वद्योतनाय । तमनन्वयं मुखच- ।
r । रामस्तुतिः सव्याख्या। पलावृत्तेनोदाहरति । सीतइति । तल्लक्षणं तु " आद्यं दलं समस्तं भजेत लक्ष्म चपलागतं यस्याः। शेषे पूर्वजलक्ष्मा मुखचपला सोदि- ता मुनिना" इति । हेसीते त्वदीयं मुखं त्वदीयमुखमिव मनोहरं तस्मात्कारणात् राघवस्य रामस्य मन एव भृङ्गी भ्रमरी सततं सदा तव मुखे चपला चञ्चला भवति हि त्वन्मुखं त्वन्मुखमिव मनोहर- मित्युक्ते मनोहरत्वे त्वन्मुखस्य नान्यत्सदृशमस्तीति सदृशान्तर- व्यवच्छेदो लभ्यते ततश्च स्वस्य स्खेनापि सादृश्यासंभवादनुपमत्वे पर्यवसानम् ॥४॥ जघनचपलावृत्तं-अनन्वयः। परयुवतिजघनचपला नाभून्न यतोऽस्ति नो भविष्यति च । राम तव चित्तवृत्तिविभाति ते चित्तवृत्तिरिख ॥ ५॥ पुनरपि तमनन्वयं जघनचपलावृत्तेनोदाहरति । परेति । तल्लक्षणंतु “प्राक्प्रतिपादितमधैं प्रथमेतरे तु चपलायाः। लक्ष्म श्रयेत सोक्ता विशुद्धधीभिर्जघनचपला” इति हेराम तव चित्तवृत्ति- स्ते तव चित्तवृत्तिरिव शुद्धा विभाति यतः सा परयुवतीनां जघनेषु कटिपुरीभागेषु चपला चञ्चला नाभूत् नास्ति नवर्तते नोभविष्य- ति नभविष्यतिच । ततस्सा सेव शुद्धेति भावः। अत्र समन्वयः पूर्ववत् । तत्र मनोहरत्वधर्मउक्तः अत्र शुद्धत्वधर्मो नोक्तः॥५॥ गीतिवृत्तं-अनन्वयः। राम त्वद्गुणनिकरास्त्वद्गुणनिकरा इवेति कविगीतिः । सत्या चापि च मिथ्या त्वदितरवस्तूपलंभराहित्यात् ॥ ६ ॥ पुनरपि तमनन्वयं गीतिवृत्तेनोदाहरति । रामेति । तल्लक्षणंतु "आर्याप्रथमदलोक्तं यदि कथमपि लक्षणं भवेदुभयोः । दलयोः ६ वृत्तालङ्काररत्नावली। कृतयतिशोभां तां गीति गीतवान्भुजंगेशः।” हेराम तव गुणानां शौर्यौदार्यादिगुणानां निकरास्समूहास्तव गुणनिकरा इवेति कवी- नां गीतिरुक्तिस्सत्या यथार्था कुतः त्वद्भवत इतरेषु वस्तुषु पदा- र्थेषु सुरनरादिष्वित्यर्थः उपलभस्य शौर्यादिगुणानां प्राप्तेः राहि- त्यादभावात् । अपिच तव गुणनिकराः त्वद्गुणनिकराइव त्वच्छ- ब्दोन्यपर्यायः त्वेषामन्येषां गुणनिकराइवेति कविगीतिमिथ्या अनू- ता कुतः त्वद्भवत इतरवस्तुषूपलंभस्य भवद्गुणसदृशगुणप्राप्तेः राहित्यात् । अत्रापि समन्वयः पूर्वपूर्ववत् । रम्यत्वधर्मो नोक्तः॥६॥ उपगीतिवृत्तं--उपमेयोपमालङ्कारः । चन्द्रसमं त्वद्वक्त्रं त्वद्वक्त्रंसमो विभो चन्द्रः । तिलकश्शशवच्छशकस्तिलकवदेषोपगीतिौ ॥ ७ ॥ पर्यायेण द्वयोस्तच्चेदुपमेयोपमा मता। पर्यायेण वाक्यभेदेन तञ्चेत् उपमानोपमेयत्वं विवक्ष्यते चेत् द्वयोः पर्यायेणोपमानोपमे- यत्वकल्पनं तृतीयसदृशव्यवच्छेदार्थम् । तामुपमेयोपमामुपगीति- वृत्तेनोदाहरति । चन्द्रेति । तलक्षणंतु “आर्याद्वितीयकेऽर्धे यत्कथितं लक्षणं तत्स्यात् । धुभयोरपि दलयोरुपगीति तां मुनिब्रूते” इति । हेविभो राम तव वक्त्रं मुखं चन्द्रसम आलादकरत्वेन चन्द्रतुल्यम् चन्द्रस्त्वद्वक्त्रसमः तिलकः : शशवत् त्वद्वक्त्रगतं नीलं कस्तूरीति- लकं चन्द्रमण्डलगतशशतुल्यं शशएवशशकस्तिलकवदित्येषा मे मम उपगीतिस्समीपोच्चारितोक्तिः। अत्र चन्द्रमुखयोश्शशतिल- कयो, कस्य चित्केन चित्सादृश्ये वणिते तस्याप्यन्येन सादृश्य- मर्थसिद्धमपि मुखतो वर्ण्यमानं तृतीयसदृशव्यवच्छेदकं भवति आह्लादकरत्वनैल्यधौं नोक्तौ ॥७॥ ..
रामस्तुतिः सव्याख्या।
उद्गीतिवृत्तं-उपमेयोपमा।
राम इव लक्ष्मणोऽपि श्यामो रामोऽपि लक्ष्मणवत् ।
उद्गीतिं जनकसुते शृणु मम सत्यां समीरपुत्रस्य ॥ ८ ॥
पुनरपि तामुद्गीतिवृत्तेनादाहरति । राम इति । तल्लक्षणंतु
"आर्याशकलद्वितयं व्यत्ययरचितं भवेद्यस्याः। सोद्गीतिः किल
गदिता तद्वद्यत्यंशभेदसंयुक्ता" इति । सीतया रामलक्ष्मणचिह्नानि
पृष्टस्य हनुमतो वचनमत्रोत्तरश्लोके च । हेजनकसुते सीते समीर-
पुत्रस्य वायुपुत्रस्य मम सत्यामुद्गीतिमुच्चैरुक्तिं शृणु लक्ष्मणोऽपि
रा इव श्यामः रामोऽपि लक्ष्मणवच्छ्याम इति ॥ ८॥
आर्यागीतिवृत्तं-उपमेयोपमा ।
रामाङ्गवत्सुमित्रातनयाङ्गं सुन्दरं विदेहसुते भोः ।
रामाङ्गं च सुमित्रातनयाङ्गमिवेयमार्यागीतिः ॥ ९ ॥
पुनरपि तामार्यागीतिवृत्तेनोदाहरति रामेति तल्लक्षणंतु "आर्या
पूर्वार्धं यदि गुरुणैकेनाधिकेन निधने युक्तम् । इतरत्नद्वनिखिलं यदी-
यमुदितेयमार्यागीतिः" इति भोः हे विदेहसुते सीते रामाङ्गवत्सु-
मित्रातनयस्य लक्ष्मणस्याङ्गं सुन्दरम् । रामाङ्गं च सुमित्रातनयाज-
मिव सुन्दरमितीयमार्या पूज्या गीतिरुक्तिः। अत्र पूर्वश्लोके व
समन्वयस्सुगमः॥९॥
श्लोकवृत्तं-प्रतीपालङ्कारे प्रथमभेदः ।
पुण्यश्लोक रघूत्तंस मृगाकं त्वन्मुखोपमम् ।
दृष्ट्वा रात्रिचरा दुष्टा हर्षवन्तोऽपि बिभ्यति ॥ १० ॥
वृत्तालकाररत्नावली।
प्रतीपमुपमानस्योपमेयत्वप्रकल्पनम् । प्रसिद्धोपमानोपमेय-
भावप्रातिलोम्यात्प्रतीपम् ॥ तच्छ्लोकवृत्तेनोदाहरति । पुण्येति ।
तल्लक्षणंतु “पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः । षष्ठं गुरु च
विज्ञेयमेतच्छलोकस्य लक्षणम्" इति ॥ पुण्यश्लोक पवित्रकीर्ते
हे रघूत्तंस राम दुष्टाः रात्रिचराः राक्षसाः त्वन्मुखोपमं भवद्वदन-
तुल्यं मृगाङ्गं चन्द्रं दृष्ट्वा रात्रौ यथेच्छसञ्चारानुकूल्येन हर्षवन्तो-
ऽपि विभ्यति त्वन्मुखोपममृगाङ्कदर्शनेन तन्मध्यस्थमृगसदृशमा-
यामृगरूपधारिमारीचचरितस्मृत्या भयं प्राप्नुवन्ति । अत्र उपमा-
नत्वेन प्रसिद्धस्य चन्द्रस्योपमेयत्वं कल्पितम् ॥ १० ॥
विद्युन्मालावृत्तम्-प्रतीपे द्वितीयभेदः
अङ्गं श्यामं पीनं वक्त्रं बिभ्रद्धास्वन्मे रामेति ।
गर्वेणालं विद्युन्मालावीतो मेघो भातीदृक्षः ॥ ११ ॥
अन्योपमेयलाभेन वर्ण्यस्यानादरश्च तत् । अन्यदवर्ण्यमुप-
मानं तद्रूपं यदुपमेयं तस्य लाभेन वर्णनीयस्य मुखादेरनादरो गर्व-
परिहारोऽपि तत्प्रतीपमित्यर्थः । अत्युत्कृष्टगुणतया वर्ण्यमानस्या-
न्यत्र स्वसादृश्यमसहमानस्योपमेयं किञ्चित्प्रदर्य तावता तस्य
तिरस्कारो द्वितीयं प्रतीपम् । तद्विद्युन्मालावृत्तेनोदाहरति ।
अङ्गमिति । तल्लक्षणंतु, “ मोमोगोगो विद्युन्माला ” इति ।
हेराम पीतं पीतवर्ण वस्त्रमम्बरं बिभ्रद्धरत् श्यामं मे अङ्गं भास्वत्प्र.
शस्तभायुक्तमिति गर्वणालं पर्याप्त गर्यो मास्त्वित्यर्थः विद्युत
तटितां मालया तत्या वीतः परिवृतः मेघः ईदृक्षः एतादृशः पीता.
म्बरधारिप्रशस्तभायुक्तश्यामलत्वदङ्गसदृशइत्यर्थः। भाति राजते
॥११॥
IT T.. रामस्तुतिः सव्याख्या। माणवकवृत्तं-प्रतीपे तृतीयमेदः। माणवकं दाशरथिं वीक्ष्य जनो वक्ति पुरे । मास्तु गुरो बुद्धिमदम्त्वत्सदृशोऽस्त्येष इति ॥ १२ ॥ वोपमेयलाभेन तथान्यस्याप्यनादरः । [अन्यस्यावर्ण्य- स्यानादरोऽपि तथा प्रतीपंमित्यर्थः] अत्युत्कृष्टगुणतया क्वचिद- प्युपमानभावमसहमानस्यावर्ण्यस्य वर्ण्यमुपमेयं परिकल्प्य तावता तस्य तिरस्कारः पूर्वप्रतीपवैपरीत्येन तृतीयं प्रतीपम् ॥ तन्माणव- कवृत्तेनोदाहरति माणवकमिति । तल्लक्षणंतु "माणवकं भात्तलगा" इति । पुरे अयोध्यानगरे स्थितो जनः माणवकं ब्रह्मचारिणं ब्रह्म- चर्यनियमपूर्वकं बुद्धिविशेषेण शीघ्रं गृहीतसर्ववेदशास्त्रादिकमि- त्यर्थः । दाशरथिं रामं वीक्ष्य इत्येवं वक्ति वदति कथमितिचेत् हेगुरो बृहस्पते एषः दाशरथिः तव सदृशः अस्ति । तस्मात्तव बुद्धिमदः मतिगर्वः मास्त्विति वक्तीति पूर्वेण संबन्धः । पूर्वश्लोके अवर्ण्यस्योपमानरूपोपमेयस्य विद्युन्मालावृतमेघस्य लाभेन वर्ण- नीयपीताम्बरधारिरामाङ्गस्यानादरः । अत्र वर्ण्यस्योपमेयस्य दाशरथेलाभेनावर्ण्यस्य बृहस्पतेरनादरः ॥ १२ ॥ नगस्वरूपिणीवृत्तम्-प्रतीपे चतुर्थो भेदः । त्वदीयदाससन्निभा शशिप्रभेति चक्षते । मुधा हि राम सर्वदा न सा नगस्वरूपिणी ॥ १३ ॥ वर्ण्यनान्यस्योपमाया अनिष्पत्तिवचश्च नत् । वयेनान्यस्यो- पमित्यनिष्पत्तिवचनं चतुर्थ प्रतीपम् तन्नगस्वरूपिणीवृत्तनो- दाहरति त्वदीयेति । तल्लक्षणं तु “द्वितुर्यषष्ठमष्टमं गुरु प्रयोजितं यदा । तदा निवेदयन्ति तांबुधा नगस्वरूपिणी"मिति हेराम शशि' वृत्तालङ्काररत्नावली। प्रभा चन्द्रकान्तिः त्वदीयहाससंनिभा तव स्मितेन सदृशीति चक्षते कवयो वदन्ति तन्मुधा मिथ्या हि यतः सा शशिप्रभा सर्वदा नगच्छतीति नगं स्थिरंचतत्स्वरूपंच नगस्वरूपं तदस्या- अस्तीति नगस्वरूपिणी स्थिररूपा न ततोमुधेति पूर्वेण संबन्धः । अत्र मुधाहीत्याद्युक्त्योपमित्यनिष्पत्तिः कथिता ॥ १३ ॥ मणिबन्धवृत्तं-प्रतीपे पञ्चमभेदः । राम महीक्षिन्मौलिलसत्सन्मणिबन्धादीप्रपद । राजति नित्यं तेजसि ते चण्डकरण स्यादिव किम् ॥ १४ ॥ प्रतीपमुपमानस्य कैमर्थ्यमपि मन्वते । उपमेयस्यैवोपमान- प्रयोजनधूर्वहत्वेनोपमानकैमर्थ्य पञ्चमं प्रतीपम् तन्मणिवन्ध- वृत्तेनोदाहरति रामेति । तल्लक्षणंतु "चम्पकमाला यत्र भवेदन्त्य- विहीना प्रेमनिधे । छन्दसि दक्षा ये कवयस्तं मणिबन्ध तेब्रुवते इति चम्पकमालालक्षणंतु "चम्पकमाला चेद्भमसागः" इति महीक्षितां राज्ञां मौलिषु मकुटेषु लसतां राजमानानां मणीनां रत्नानां बन्धेन संबन्धेन आसमन्ताहीने उज्वले पदे पादौ यस्य तस्य संबुद्धिः हेराम ते तव तेजसि प्रतापे नित्यं राजति सति चण्डकरेण सूर्येण किमिव स्यात् न किमपीत्यर्थः अत्र प्रतापका- यस्य रामतजसैवोपपत्तौ सूर्योनिरर्थकइति भावः ॥ १४ ॥ मत्तावृत्तम्-अनुभयाभेदरूपकम् । कामो हन्ति प्रसवभरैर्वा वनर्वाऽस्मान्किमिति विशेते । उन्मत्ता या विरहिजनालिस्स त्वं बाणान्वद भगवन्ते ॥ १५ ॥ विषय्यभेदताद्रूप्यरञ्जनं विषयस्य यत् । रूपक तत्त्रिधाधि- " रामस्तुतिः सव्याख्या। ११ क्यन्यूनत्वानुभयोक्तिभिः। विषयि उपमानभूतंपद्मादि विषयस्त- दुपमेयभूतं वर्णनीयं मुखादि विषयिणो रूपेण विषयस्य रञ्जनं रूपकम् । अन्यरूपेण रूपवत्वकरणात् तच्च क्वचित्प्रसिद्धविषय्य- भेदे पर्यवसितं क्वचिद्भेदे प्रतीयमानएव तदीयधर्मारोपमात्रे पर्य- वसितं ततश्च रूपकं तावत् द्विविधम् अभेदरूपकं ताद्- प्यरूपकं चेति द्विविधमपि प्रत्येकं त्रिविधं प्रसिद्धविषय्याधि- क्यवर्णनेन तन्यूनत्ववर्णनेनानुभयत्वोक्त्या च एवं रूपकं षड्वि- धम् । तत्रानुभयाभेदरूपकं मत्तावृत्तेनोदाहरति। काम इति । तल्ल- क्षणंतु “मत्ता ज्ञेया मभसगयुक्तेति” एतदादिषु त्रिषु श्लोकेषु राम- मुद्दिश्योक्तिः॥ हेभगवन् उन्मत्ता उन्मादेन चित्तविभ्रमेण युक्ता या विरहिजनानां वियोगिजनानां आलिस्सवः सा कामो मन्मथः अस्मान्मादृशान्विरहिजनान्प्रसवभरः पुष्पसमूहैर्वा वर्षोः पवि- भिर्वा हन्ति प्रहरतीति कि किमर्थ विशेते संशयं करोति । सः पुष्पैर्वा वड्रैर्वा विरहिनिहन्ता त्वं ते तव बाणान् पुष्टाणि वा वज्राणि वा वद कथय अत्र सत्वमित्यनेन वर्णनीये रामे कामा- भेदानुरञ्जनात्कामस्य कामावस्थातो वर्णनीयरामभावावस्थायां न्यूनत्वाधिक्ययोरवर्णनाच्चानुभयाभेदरूपकम् ॥ १५ ॥ चम्पकमाला [रुक्मवती] न्यूनाभेदरूपकम् । भूमिलुठन्ती योतुकपङ्की रुक्मवती स्संवीक्ष्य जनौधः । शंसति गौर्या शम्भुरवित्वा तद्रहितो हन्त्येष दशास्यम् ॥ १६॥ न्यूनाभेदरूपकं रुक्मवतीवृत्तेनोदाहरति । “तल्लक्षणंतु "मौ सगयुक्तौ रुक्मवतीयमिति” । तस्याएव चंपकमालेति नामा- १२ वृत्तालङ्काररत्नावली। न्तरं चम्पकमालाचेद्भमसागइति । भूमौ लुठन्तीः रुक्मवतीः स्वर्ण- मकुटवतीः यातुनः राक्षसस्य रावणस्य कानां शिरसां पङ्क्तीः संवीक्ष्य जनानामोघः समूहः शंसति वदति किमिति शम्भुरी- श्वरः गौर्या पार्वत्या सह दशास्यं रावणमवित्वा वरप्रदानादिना पूर्व रक्षित्वा इदानीं तया गौर्या रहितः एषः रामात्मकस्सन्द- शास्यं हन्तीति । अत्र शम्भुरेष इति रामस्य शिवाभेदमुपदर्य गौरीरहितइति न्यूनताप्रतिपादनान्न्यूनाभेदरूपकम् ॥ १६ ॥ इन्द्रवज्रावृत्तम्-अधिकाभेदरूपकम् । दृष्टा भवन्तं भगवन्नयोध्यानार्यः प्रजल्पन्ति मनोभवोऽयम् । देवेन्द्रवज्राहतिभिः कलम्बै स्साङ्गोऽद्य सन्तापयतेऽबला नः ॥ अधिकाभेदरूपकमिन्द्रवज्रावृत्तेनोदाहरति । दृष्टेति तल्लक्षणंतु स्यादिन्द्रवज्रा ततजास्ततोगौ” इति हेभगवन् अयोध्यायां स्थिताः नार्यः स्त्रियः भवन्तं दृष्ट्या प्रजल्पन्ति कथयन्ति किमिति मनोभवः कामः अयं रामात्मकः अतएव अद्य साङ्गः सावय- वस्सन् देवेन्द्रस्य वज्रस्येवाहतिः प्रहारो येषां तथाभूतैः कलम्बैः शरैः अबला दुर्वलाः स्त्रियः नः अस्मान् संतापयतइति । अत्र मनोभवोऽयमिति रामस्य कामाभेदमुपदर्य कामावस्थातस्साङ्ग इत्युत्कर्षविभावनादधिकाभेदरूपकम् ॥ १७ ॥ उपेन्द्रवज्रावृत्तं-अनुभयताद्रूप्यरूपकम् । उपेन्द्र वज्राङ्ककराब्ज राम भवन्मुखाब्जे नयनाभिरामे । विराजमाने किमनेन कार्य सुधांशुना वा सरसीरुहा वा ॥१८॥ अनुभयताद्रूकामुपेन्द्रवज्रावृत्तेनोदाहरति . उपेति “ रामस्तुतिः सव्याख्या। तल्लक्षणंतु "उपेन्द्रवज्रा जतजास्ततोगों" इति । उपेन्द्र वामनावतारे इन्द्रावरज वज्राङ्ककराज वज्ररेखाङ्कितहस्तपद्म हेराम नयने अभिरमयतीति नयनाभिरामं नेत्रानन्दकरं तस्मिन् भवतः तव मुखाब्जे अजः चन्द्रः तत्कार्यकारिणि वा अब्जं कमलं तत्कार्य- कारिणि वा मुखे विराजमाने सति अनेन सुधांशुना चन्द्रेण वा सरसीरुहा कमलेन वा किं कार्य किं प्रयोजनं नकिमपीत्यर्थः । अत्र मुखाब्जस्य किं कार्य सुधांशुना वा सरसीरुहा वेति प्रसि- द्धान्जा दमाविष्कृत्य तस्य च प्रसिद्धाजकार्यकारित्वमात्रप्रति- पादनेनोत्कर्षापकर्षयोरप्रदर्शनादनुभयताप्यरूपकम् ॥ १८ ।। उपजातिवृत्तं-न्यूनतादृप्यरूपकं । श्रीमन्न देवोपवनोद्भवोऽन्यस्त्वं कल्पवृक्षो रघुवंशकेतो। विरूपजातेरपि संश्रिताया मनोरथं पूरयसे समस्तम् ॥ १९ ॥ न्यूनताद्रूप्यरूपकमुपजातिवृत्तेनोदाहरति श्रीमन्निति इन्द्रवज्रोपेन्द्रवज्रयोः पादः पादौ पादावा परस्परं मिलिताश्चेद- सावुपजातिः । इतरवृत्तेष्टुप्येवमुपजातिरूह्या । अत्र स्तुताववसाने उपजातिभेदा बहवो लक्ष्यरूपेण प्रदर्शिताः । श्रीमन् सीतारूपल- क्ष्मीयुक्त रघुवंशस्य केतो ध्वजवदुन्नत हेराम त्वमन्यः अपरः कल्पवृक्षः यतः संश्रितायाः आत्मानमाश्रितायाः विरूपजातेः पक्षिरूपजातेरपि जटायुषोपि कुरूपमर्कटादेरपि समस्तं मनोरथं पूरयसे अतः कल्पवृक्षइति पूर्वेण संबन्धः। किन्तु देवानामुपवने उद्याने नन्दने उद्भव उत्पत्तिर्यस्य तथाविधो नासि अनान्यः कल्प- वृक्ष इति रामस्य प्रसिद्धकल्पवृक्षाद्भेदमाविष्कृत्य तस्य च कल्प- " वृत्तालङ्काररत्नावली। वृक्षकार्यकारित्वं देवोद्यानोत्पत्तिराहित्यञ्चोक्तमिति न्यूनताद्रूप्यरू- 'पकम् ॥ १९॥ सुमुखीवृत्तं-अधिकताद्रूप्यरूपकम् । रघुवर कान्त कलङ्कयुतं जडमय मिन्दु मुपेक्ष्य मृगः । श्रयितु मिहैति तवास्यविधुं जनकसुतेत्यवदत्सुमुखी ॥ २० ॥ अधिकताप्यरूपकं सुमुखीवृत्तेनोदाहरति रध्विति तल्लक्षणं- तु “नजजलगैर्गदिता सुमुखीति” मायामृगं मारीचमालोक्य राम प्रति सीतायावचनमिदम् । कान्त पते रघुवर राम अयं मृगः कलङ्कयुतं चिह्नयुतं दोषवन्तंच जडममृतमयं अविद्वांसंच इन्हें चन्द्रमुपेक्ष्य विमुच्य तव आस्यविधुं मुखचन्द्रं श्रयितुं आश्रयितुं इह अत्र एति आगच्छति इति सुमुखी सुन्दरवदना जनकसुता अवदत् । अत्र इन्दुमास्यविधुमिति पदद्वयकथनेन मुखचन्द्रस्य प्रसिद्धचन्द्राद्भेदः प्रदर्शितः कलङ्कादिराहित्यमार्थिकमानन- चन्द्रइत्यधिकताप्यरूपकम् । रूपकस्य सावयवत्वादिभेदप्रपञ्च- शिशवार्थालङ्कारस्तवे द्रष्टव्यः ॥ २० ॥ दोधकवृत्तं-परिणामालङ्कारः। दोधकसूद्यवनीतनुजायाः वृत्तनिवेदिकपि रघुवीरः । वीक्ष्य विकासिदृगंबुरुहाभ्यां श्लेषमयीं भृतिमार्पिपदस्मै ॥२१॥ परिणामः क्रियार्थश्चेद्विषयी विषयात्मना । यत्र आरोप्यमाणः विषयी किञ्चित्कार्योपयोगित्वेन निबध्यमानः खतस्तस्य तदुपयो. गित्वासंभवात्प्रकृतात्मतापरिणतिमपेक्षते तत्र परिणामालङ्कारः। तंदोधकवृत्तेनोदाहरति दोधकेति । तल्लक्षणंतु "दोधकवृत्तमिदं बम रामस्तुतिः सव्याख्या। १५ भागौ” इति दोधकसूदी खलविनाशकः रघुवीरः रामः अवनीतनु- जायाः भूपुत्र्यास्सीतायाः वृत्तनिवेदिनं वृत्तान्तावेदकं कपि वानरं हनुमन्तं विकासिभ्यां हर्षविकसिताभ्यां दृग्भ्यां नयनाभ्यामेवाम्बुरु हाभ्यांपद्माभ्यां वीक्ष्य विलोक्य अस्मै हनुमतेश्लेषमयीमालिङ्गनरूपां भृतिं पण्य दूत्यवेतनमार्पिपत् अदात् । अत्र अम्बुरुहयोः वीक्षणोप- योगित्वं निवध्यते नतु दृशोः । मयूरव्यंसकादिसमासेनोत्तरपदार्थ- प्राधान्यात् । नचोपमितसमासाश्रयणेन दृशावम्बुरुहे इवेति पूर्वप- दार्थप्राधान्यमस्त्विति वाच्यम् । विकासीति सामान्यधर्मप्रयो- गात्। उपमितं व्याघ्रादिभिस्सामान्याप्रयोगइति तदप्रयोगएवोप- मितसमासानुशासनात् । अम्बुरुहयोर्वीक्षणोपयोगित्वं न स्वात्मना सम्भवति । अतस्तयोः प्रकृतहगात्मतापरिणत्यपेक्षणात्परिणामाल- ङ्कारः । श्लेषमयीं भृतिमित्यत्राप्यारोप्यमाणा भृतिः श्लेषतापत्त्या हनुमदानलक्षणकार्योपयोगिनी न स्वात्मना हनुमतः रघुनाथप्रसा- दैकापेक्षित्वेन वेतनार्थित्वाभावादिति परिणामालङ्कारः ॥ २१ ॥ शालिनीवृत्तं-उल्लेखे प्रथमोभेदः । सीताकामिन्कानने सार्थवाहैील रत्नं कर्षकैः कालमेघः । सङ्घस्स्रोतश्शालिनी तापसानां कालिन्दीति प्रेक्ष्यसे त्वं यथेच्छम् ॥२२॥ बहुभिर्बहुधोल्लेखादेकस्योल्लेख इष्यते । यत्र नानाविधधर्म- योग्येकमेव वस्तु तत्तद्धर्मयोगरूपनिमित्तभेदादनेकेन ग्रहीत्राऽनेक- धोल्लिख्यते तत्रोल्लेखालङ्कारः । अनेकधोल्लेखने रुच्यर्थित्वभयादिकं यथार्ह प्रयोजकम् । रुचिरभिरतिरथित्वं लिप्सा । तमुल्लेखं शालि- नीवृत्तेनोदाहरति । सीतेति । तल्लक्षणं तु "शालिन्युक्ता म्तो तगौ गोऽब्धिलोकैरिति” । हे सीताकामिन् राम कानने वने त्वं इच्छाम- ।
वृत्तालङ्काररत्नावली।
नतिक्रम्य यथेच्छं तत्तदिच्छानुगुणं सार्थवाहैः सङ्घचारिभिः रत्न
वणिक्श्रेष्ठैः नीलं रत्नं इन्द्रनीलमणिरिति । कर्षकैः कृषीवलैः
कालमेघः नीलमेघइति तापसानां तपस्विनां सधैः स्रोतश्शालि--
नी प्रवाहयुक्ता कालिन्दी यमुनेति प्रेक्ष्यसे दृश्यसे । अत्रैकएव
रामो नैल्यतेजस्वित्वशाली सार्थवाहैर्महार्धरत्नलिप्सया नीलमणि-
रिति दृश्यते । नेल्याप्रार्थितवितरणशाली कर्षकैरुचितकाल-
वर्षलिप्सया कालमेघइति दृश्यते । नैल्यपवित्रत्वशाली तापसैः
स्नानपुण्यधनलिप्सया यमुनेतिच दृश्यते ॥ २२ ॥
वृक्षः कल्पस्तापसैः कौशिकायैः मारीचाथै राक्षसैर्दण्डधारी ।
दृष्टः स्रष्टाऽहल्यया रामचन्द्रो ह्रीशालिन्या सीतया पुष्पधन्वा ॥२३॥
पुनरपि तं शालिन्योदाहरति । वृक्षइति । रामचन्द्रः चन्द्र-
वदाह्लादको रामः सिद्धाश्रमे कौशिकाद्यैः विश्वामित्रप्रभृतिभिस्ता-
पसैः कल्पवृक्षो दृष्टः । तदाश्रममखसमयजातयुद्धे मारीचादिराक्ष-
सैर्दण्डधारी यमो दृष्टः । गौतमाश्रमे अहल्यया आत्मनः शिलात्व-
निवारणपूर्वकयथापूर्वस्त्रीभावसृष्टया स्रष्टा विधातेति दृष्टः । मि.
थिलायां ह्रीशालिन्या सलज्जया सीतया पुष्पधन्वा कामो दृष्टः ।
अत्रमनोरथपूरणपराक्रमापूर्वसर्जनसामर्थ्यसौन्दर्यशाली रामः ता
पसैः राक्षसैः अहल्यया सीतया चार्थिन्वभयभक्तिरुचिभिः कल्प
वृक्षयमधातृकामरूपो दृष्टः ॥ २३ ॥
वातोर्मीवृत्तं-द्वितीयोल्लेखः ।
वक्त्रे चन्द्रं वचनेऽच्छे गुरुं भोः कीर्ती स्वामिन्महतामर्जुनं त्वाम्
अङ्गे श्रीमन्तमियान्मानसं मे वातोर्मीवच्चपलं रामचन्द्र ॥ २४ ॥
रामस्तुतिः सव्याख्या। एकेन बहुधोल्लेखेप्यसो विषयभेदतः । ग्रहीतृ भेदाभावेऽपि विषयभेदात् (विपयसप्तमीनिर्दिष्टो विषय इत्युच्यते) एकस्य वहु- धोल्लेखेप्यसाबुल्लेखालङ्कारः । तं वातार्मीवृत्तेनादाहरति । वक्त्र- इति । तल्लक्षणंतु “वतार्मीयं कथिता म्भी नगी गः” इति । महतां पूज्यानां स्वामिन्नीश्वर भोः हेरामचन्द्र वक्त्रे मुखे चन्द्रं आला- दकं सोमं च अच्छे निर्मले वचने वचसि गुरुं महान्तं पटुं वा बृह- स्पतिंच कीर्ती यशसि अर्जुनंशुद्धं कार्तवीर्याजुनं च । अङ्गे अवयवे श्रीमन्तं शोभायुक्तं लक्ष्मीपतिंच त्वां वातोमीवन् वातयुक्ततरङ्गव- ञ्चपलं चञ्चलं में मममानसं मनः इयात् प्राप्नोतु इदमुदाहरणं श्लेष- सङ्कीर्ण । वक्त्रविषयेआहलादक इत्यादिवत्सोमइत्याद्यर्थान्तरस्या- पि क्रोडीकरणात् ॥ २४॥ वातोर्मीवृत्तं श्लेपासङ्कीर्ण उल्लेखः । श्रीरामोक्तौ मृदुलं पाणिनेत्रे दीर्घ चित्ते सरसं श्याममङ्गे । कीर्ती शुद्धं स्मरतु त्वामजस्रं वातोमबिच्चपलं मेऽन्तरङ्गम् ॥२५|| श्लेषासङ्कीर्ण वातोर्मीवृत्तेनीदाहरति । श्रीति हेश्रीराम उक्तो वचने मृदुलं काटवरहितं पाणीचनेत्रेच पाणिनेत्रं तस्मिन्पाण्योर्ने- त्रयोश्च दीर्घ चित्ते मनसि सरसं भक्तेषु सप्रीतिकमङ्गे श्याम कीर्ती शुद्धंच त्वां वातार्माबच्चपलं मेऽन्तरङ्गं मनः अजस्रं सदा स्मरतु ॥ वातोर्मी-इलेषासङ्कीर्ण उल्लेखः । श्रीराम त्वां यशसीन्दं प्रतापे भानु कान्तौ मदनं चेष्टदाने । चिन्तारनं वचने गीष्पतिं मे वातोर्मीवच्चपलं चित्तमेतु ॥२६॥ पुनरपि तं तद्वत्तेनोदाहरति । श्रीति । चिन्तारत्नं चिन्तामणि शिष्टस्पष्टम् ॥ २६ ॥ । : २ वृत्तालङ्काररत्नावली। भ्रमरविलसितवृत्तं -स्मृतिमदलङ्कारः। रामो दृष्ट्वा भ्रमरविलसितं पद्मं मञ्जुद्विजरवभरितम् । क्रीडाभेदे जनकसुताया दध्यौ तस्या मुखमुपमणितम् ॥ २७॥ स्यात्स्मृतिभ्रान्तिसन्देहैस्तदकालङ्कृतित्रयम् । स्मृतिभ्रा- न्तिसन्देहस्सादृश्यान्निवध्यमानैः स्मृतिमान् भ्रान्तिमान् सन्देह- इति स्मृत्यादिपदाङ्कितमलङ्कारत्रयं भवति । तत्र स्मृतिमदलकारं भ्रमरविलासितवृत्तेनोदाहरति रामइति । तल्लक्षणंतु “म्भौन्लो- गस्स्याद्भमरविलसितमिति” । रामः भ्रमरैः विलसितं शोभितं मञ्जुना मधुरेण द्विजानां चक्रवाकादिपक्षिणां रवेण शब्देन भरित पूर्ण च पद्मं दृष्टा जनकसुतायाः सीतायाः क्रीडाभेदे पुरुषायिते उपमणितं रतिकूजितयुक्तं तस्याः सीतायामुखं दध्यौ सस्मार ॥ अत्र रामस्य भ्रमरव्याप्तपक्षिशब्दनिभृतपद्मदर्शनेन पुरुषायिताव- सरे केशव्याप्तमणितवत्सीतामुखस्मरणात्स्मृतिमदलङ्कारः ॥२७॥ रथोद्धतावृत्तं-भ्रान्तिमदलंकारः। तावकं दशरथात्मजाननं श्यामलाङ्ग विपिने चकोरकाः । नीलशैलसमुदश्चितेन्दुरित्याभ्रमन्त्यतिमनोरथोद्धताः ॥ २८ ॥ भ्रान्तिमदलङ्कारं रथोद्धतावृत्तेनोदाहरति । तावकमिति । तल्लक्षणंतु “रान्नराविह रथोद्धता लगाविति” । श्यामलाङ्गं दशर थात्मजं रामं विपिने चने चकोरकाः चकोरपक्षिणः नीलशैलात्समु दञ्चित उद्गत इन्दुश्चन्द्रइति अतिमनोरथेन अधिकाभिप्रायेणोद्धत उद्भटास्सन्तः आभ्रमन्ति अधिकभ्रमं कुर्वन्ति । समन्वयः स्पष्टः स्वागतावृत्तं-सन्देहालङ्कारः। तापसा रघुवृषाववलोक्य स्वागतादिकमनूच्य जिवृक्ष । .
रामस्तुतिः सव्याख्या। हव्यमिन्द्रशिखिनौ किमु साक्षादश्विनौ किमिति संशयमापुः ।। सन्देहालङ्कारं स्वागतावृत्तेनोदाहरति । तापसाइति तल्लक्षणं- तु “स्वागतेति रनमा गुरुयुग्ममिति"। तापसाविश्वामित्राश्रम- स्था मुनयः रघुवृषौ रामलक्ष्मणौ अवलोक्य स्वागतादिकं सुष्ट युवयोरागतमितिप्रभृतिप्रश्नजातं अनूच्य दर्शनानन्तरमुक्त्वा एती हव्यं अस्मिन्यज्ञे प्रदास्यमानं हविः जिघृक्ष ग्रहीतुमिच्छू साक्षादि- न्द्रशिखिनौ किमु इन्द्राग्नी किं अथवा अश्विनी अश्विदेवो किमिति संशयमापुः समन्वयः स्पष्टः ॥ २९ ॥ वृत्तावृत्तं-शुद्धापकुत्यलङ्कारः । दशरथनृपतनुभूर्नायं किमथ च खलशिविनिर्वापी घनजलमुगयि मतेवृत्ताविदमुपविलसितमस्माकम् ॥ ३० ॥ शुद्धापह्नुतिरन्यस्यारोपार्थो धर्मनिह्नवः । वर्णनीये वस्तुनि त- त्सदृशधर्मारोपफलकस्तदीयधर्मनिह्नवः। कविमतिविकासोत्प्रेक्षित- धर्मान्तरस्यापि वा निह्नवः शुद्धापहृतिः तां वृत्तावृत्तेनोदाहरति । दशेति । तल्लक्षणंतु “ननसगगुरुरचिता वृत्तेति” । अयि हेसखे अयं दशरथनृपस्य तनूभूः पुत्रो रामः न अथ किंतर्हि कइतिचेत् खला- दुष्टाएव शिखीअग्निः तंनिर्वापयति शमयतीतितथाभूतः घनः सा. न्द्रः जलमुड्मेघइति इदमस्माकं मतेः बुद्धवृत्तो व्यापारे उपविल- सितं भातं अत्र रामे मेघत्वारोपफलकस्तदीयधर्मस्य रामत्वस्याप- हवः। कविमतिविकासोत्प्रेक्षितधर्मान्तरनिह्नवस्योदाहरणंतु । मुखं नीदं किं तहि सुधांशुस्तव जानकि । अपिवा पद्ममथवा सौवर्णा- दर्शमण्डलमिति ॥३०॥ पृथ्वीवृत्तम्-हेत्वपहुतिः। :
२० वृत्तालङ्काररत्नावली। जनकनृपसुता नहि पृथ्वी नबहुपतिरथो नहि लक्ष्मीः । अचलमतिरसावसुनाडी रघुकुलतिलकस्य विचित्रा ॥ ३१ ॥ स एव युक्तिपूर्वश्वे दुच्यते हेत्वपढुतिः। (सएवशुद्धापह्नव- एव युक्तिपूर्वः हेतुपूर्वः) तां पृथ्वीवृत्तेनोदाहरति जनकेति । तल्ल- क्षणंतु " ननभगगुरुकैरथ पृथ्वीति” । जनकनृपसुता सीता हि यतो नबहुपतिः बहवः पतयः यस्याः सा बहुपतिः न बहुपतिः नब- हुपतिः अतः पृथ्वी भूमिः न अथ हि यतः असौ सीता चलाचच्च- लामतिः यस्याः साचलमतिः नचलमतिरचलमतिरथो लक्ष्मीन । किन्त्वसौ रघुकुलतिलकस्य रामस्य विचित्राऽऽश्चर्यचरित्रा असु. नाडी प्राणनाडी अत्र सीतायामेवाबहुपतित्वाचलमतित्वयुक्तिभ्यां पृथ्वीत्वलक्ष्मीत्वापह्नवो रामप्राणनाडीत्वारोपार्थः॥३१॥ मौक्तिकमालावृत्तं-पर्यस्तापहुतिः । शंसति रामस्सुतनुगकैक्षं मौक्तिकमाला न पुनरियं किम् । मौक्तिकमाला सुरतसमुत्था धर्मजलाली मुखमभितो या ॥३२॥ अन्यत्र तस्यारीपार्थः पर्यस्तापहृतिस्तु सः। यत्र क्वचिद्व- स्तुनि तदीयधर्मनिह्नवः अन्यत्र वर्णनीये वस्तुनि तस्य धर्मस्यारो पार्थः पर्यस्तापह्नुतिस्तां मौक्तिकमालावृत्तेनोदाहरति । शंसती- ति । तल्लक्षणंतु “मौक्तिकमाला यदि भतनागाविति"। राम सुतनोः स्त्रियाः सीतायाः गलैक्षंगलंकण्ठंईक्षित्वादृष्टा शंसतिवदति किमिति इयं सीताकण्ठस्थिता मौक्तिकमाला मौक्तिकमालान किं पुनौक्तिकमालेतिचेत् या मुखमभितः मुखेसमन्ततः सुरतसमु त्था रतिकालसमुद्भता धर्मजलस्य स्वेदजलस्याळी पङ्क्तिः सैव मौक्तिकमाला । अत्र मौक्तिकमालायां मौक्तिकमालात्वनिह्नवं । रामस्तुतिः सव्याख्या। वर्णनीयायां स्वेदपङ्क्तो तदारोपार्थः ॥ ३२ ॥ मौक्तिकमालाभेदः-भ्रान्तापहतिः । रघुवर वक्त्रे मौक्तिकमालां किमलमकामिथिलकन्ये । नहिनहि यद्वत्ते मम तद्वद्रतरणजाता म्वेदकणाली ॥ ३३ ॥ भ्रान्तापढुतिरन्यस्य शङ्कायां भ्रान्तिवारणे । (अन्यस्य अप्र- कृतस्य । भ्रान्तिवारणे तत्वाख्याने सति) तां मौक्तिकमालाभेदेनो- दाहरति । रध्विति । तल्लक्षणंतु “ नयभगगेस्स्यान्मौक्तिकमाले- ति"। क्रीडावसरे सीतारामयोविलासोक्तिरियम् । हे रघुवर राम वक्त्रे तवमुखे मौक्तिकमालां अलमकार्षीः त्वमलङ्कृतवान्किमिति सीतया पृष्टस्य रामस्योत्तरमिदं किमिति हेमैथिलकन्येसीते नहि- नहि आदरातिशये द्विरुक्तिः नाहं मममुखे मौक्तिकमालामलङ्क- तवान् किंपुनरियमितिचेत् यद्वद्यथा तेतव तद्वत्तथा मम रतरणे अतिशयितक्रीडायां जाता स्वेदकणाली स्वेदविन्दुसमूहः। अत्र राममुखे सुरतसञ्जातस्वेदकणावलिं विलोक्य मुक्तावलिसादृश्या. दृजुबुध्या सीतया राम तवमुखे मौक्तिकावलिंकित्वमलङ्कृतवा- निति पृष्ठेनरामेण मैथिलकन्येनहिनहिइत्यादिना तत्वोक्त्या भ्रान्ति- वारणं कृतम् । इदंसम्भवद्भान्तिपूर्विकायाभ्रान्तापढ़तेरुदाहरणम् । वंशस्थवृत्तम्-कल्पितभ्रान्तिपूर्वा भ्रान्तापह्नुतिः । जटा नहीयं कचक्लप्तवेणिका न भूतिरङ्गे विरहोत्थशुक्लिमा । विषं न कण्ठे मलराज्यनाप्लवाच्छिवभ्रमात्किं सुमबाण हंसि माम् ॥३४॥ कल्पितभ्रान्तिपूर्वा भ्रान्तापहुतिं वंशस्थवृत्तेनोदाहरति । जटेति । तल्लक्षणंतु “जतौ तु वंशस्थमुदीरितं जराविति” । विरहवा.
२२ वृत्तालङ्काररत्नावली। धितया सीतया कृतं मन्मथोपालम्भनमिदम् । हि यतः इयं जटा न किंतु कचैः केशैः क्लुप्ताजातावेणिका अङ्गे इयंभूतिः भस्मन किंतु विरहोत्थः प्रियवियोगजातः शुक्तिमा श्वैत्यम् इदंकण्ठेविषन किंतु अनाप्लवादस्नानात्संजाता मलराजी मलरेखा । ततः हेसुमवाण- मन्मथ शिवभ्रमादीश्वरभ्रान्त्या मांकि हंसिप्रहरसि । अत्र कल्पि- तभ्रान्तिर्जटानहीयमित्यादिनिषेधमात्रोन्नेया पूर्ववत्प्रश्नाभावात् ॥ श्रीवृत्तम्-अर्थसंयोजनया छेकापह्नुतिः ॥ आलि निकुञ्ज श्रुतिभुवि जल्पयाणिकुचोष्ठं मुहुरुपगृह्णन् । आपतदछौ जनकसुते किं श्रीरघुनाथो नहि सखि भृङ्गः ॥ ३५ ॥ छेकापह्नुतिरन्यस्य शङ्कातस्तथ्यनिह्नवे । कस्यचित् कञ्चित्प्रति रहस्योक्तावन्येन श्रुतायां स्वोक्तस्तात्पर्यान्तरवर्णनेन तथ्यन्निह्नवे छेकापहृतिस्तां श्रीवृत्तेनोदाहरति । आलीति । तल्लक्षणंतु “पञ्चरसैः श्रीभंतनगगैः स्यादिति” हे आलि नर्मसखि निकुञ्ज लतागृहे प्रणय- कलहतिरस्कृतः पतिः श्रुतिभुवि कर्णप्रदेशे जल्पन किमपि कथयन् क्वणंश्च । पाणीकुचावोष्ठौच मुहुरुपगृह्णन् स्पृशन्सन मसाझौ पादे आपतत् सम्यगपतदिति सीतयोक्तमाकान्या काचित्साधारण- सखी पृच्छतिस्म । किमिति हेजनकसुते सीते श्रीरघुनाथः किमप- तदिति । तस्योत्तरमाहसीता । किमिति हेसखि नहि रघुनाथः नापतत् किंतु भृङ्गः भ्रमरइति । अत्र सीतया नर्मसखी प्रति आ- लीत्यादिनाङ्घावित्यन्तेन स्वनायकवृत्तान्ते निवेद्यमाने तदाकर्ण्य श्रीरघुनाथः किमिति शङ्कितवतीमन्यां सामान्यसखी प्रति नहि.. सखिभृङ्गइति निह्नवः । इदमर्थयोजनया तथ्यनिह्नवे उदाहरणं ॥ वंशस्थंवृत्तम्-शब्दयोजनया छेकापडुतिः।
२३ रामस्तुतिः सव्याख्या। त्वयीनवंशस्थ शठे न मे कुटी किमङ्ग कुट्या तु तवेति जल्पितम् । निशम्य तत्स्वप्नजमर्थिता प्रिया रघूत्तमेनालिपरं तदब्रवीत् ॥ ३६॥ शब्दयोजनया छेकापद्धति वंशस्थवृत्तेनादाहरति । त्वयीति अङ्ग हे इनवंशस्थ सूर्यवंशस्थ राम शठे गूढविप्रियकृति त्वयि मे मम कुटी कौटिल्यं न । ममकुट्याकौटिल्येनतु तव किंस्यात् इति तत्स्वप्नजं तस्याः सीतायाःस्वप्नसम्भूतं जल्पितं उक्तिं निशम्य श्रुन्वा रघूत्तमेन रामेणार्थिता प्रार्थिता प्रियादयितासीना तजल्पितमालि- परं इनवंशस्थशठे सूर्यवंशस्थानांशठागूढविप्रियकारिणी तस्या- स्सम्बुद्धिः इनवंशस्थशठे त्वयि मेकुर्टीनेत्यादिना सखीपरमब्रवीत् । इदं पूर्वोक्तंच विषयान्तरयोजने उदाहरणम् ॥ ३६ ॥ इन्द्रवंशावृत्तम्-विषयैक्येप्यवस्थाभेदेनयोजनेछेकापहुतिः । प्रातस्सवीसम्मुखतो रघूत्तमक्रीडाभिमानादिकमालपन्त्यसौ । योगीन्द्रवंशामृतवल्लरी गूरून्दृष्ट्वाऽथ बुद्धाऽस्मि सखीत्यपूरयत् ।। विषयैक्येप्यवस्थाभेदेन योजने छेकापहुति इन्द्रवंशावृत्तेनो- दहरति । प्रातरिति । तल्लक्षणं तु "स्यादिन्द्रवंशा ततजैरसंयुतै- रिति” प्रातः सख्यास्सम्मुखतोऽने रघूत्तमेनरामेणसहक्रीडाभिमा- नादिकं रतिकलहादिकं आलपन्तीकथयन्ती असौ योगीन्द्रवंशस्य- जनकवंशस्यामृतवलॅरी अमृतलतासीता गुरून्श्वशुरादीन्दृष्ट्वा हेस- खि अथानन्तरं बुद्धा जागरणवत्यस्मि इत्यपूरयत् आलापशेषं पूर- यतिस्म । अत्र नासौ जाग्रदवस्थावृत्तान्तः किंतु स्वाप्निकइत्यव- स्थाभेदयोजनयाऽपह्नवः अथेत्यादिवाक्यशेषेण प्रकाश्यते ॥३८॥ तोटकवृत्तम्-कैतवापद्धतिः। मम रूपरिपो रघुराड्विरहिन्परितोऽट कमप्यय चेति वदन् ।
वृत्तालकाररत्नावली। , स्तनितच्छलतो जलवर्षमिषाच्छरवृष्टिकरस्त्वयि राम घनः ॥ कैतवापद्दतियक्तौ व्याजा_निहुतेः पदैः । तां तोटकवृत्तेनो- दाहरति । ममेति । तल्लक्षणंतु "इह तौटकमंबुधिसैः कथितमिति" वर्षाकालेऽपि सीताविरहाग्नितापमनुभवन्तं राम प्रति लक्ष्मणस्यो- क्तिरियम् । मम रूपस्य श्यामलरूपस्य रिपोशत्रो अपहर्तरित्यर्थः विरहिन् सीताविरहदुःखित हेरघुराट् राम परितस्समन्ततः अट चर कमपि सहायं अय प्राप्नुहिचेति, स्तनितच्छलतः गर्जनव्याजेन वदन्कथयन्धनः मेघः हेराम त्वयि जलवर्षस्य मिषात् व्याजात् शरवृष्टिकरः बाणवर्षकृदस्ति । अत्रासत्यत्वाभिधायिनाच्छलपदेनं- मिषपदेनच नेदं स्तनितं नेदं जलवर्षच किंतु ममेत्यादिपूर्वार्धनिर्दिष्ट कथितं शरवर्षचेत्पह्नवः प्रतीयते ॥ ३८॥ द्रुतविलम्बितवृत्तम्-उक्तविषया स्वरूपोत्प्रेक्षा। रघुपते भवदीयकलेबरं प्रसरदुज्वलकान्ति वितर्कये । तव पराक्रमशुष्मयशोविधुद्रुतविलम्बितमिन्द्रमहामणिम् ॥३९॥ संभावना स्यादुत्प्रेक्षा वस्तुहेतुफलात्मना । उक्तानुक्तास्पदा- द्यात्र सिद्धासिद्धास्पदे परे । अन्यधर्मसंबन्धनिमित्तेनान्यस्यान्य- तादात्म्यसंभावनमुत्प्रेक्षा । साच वस्तुहेतुफलात्मतागोचरत्वेन त्रिविधा । अत्र वस्तुनः कस्यचिद्वस्त्वन्तरतादात्म्यसंभावना प्रथमा स्वरूपोत्प्रेक्षेत्युच्यते । अहेतोर्हेतुभावेनाफलस्य फलत्वे- नोत्प्रेक्षाहेतूत्प्रेक्षा फलोत्प्रेक्षेत्युच्यते । अत्राद्या स्वरूपोत्प्रेक्षा उक्तविषयानुक्तविषया चेति द्विविधा । परे हेतुफलोत्प्रेक्षे सिद्ध- विषया असिद्धविषयाचेति प्रत्येक द्विविधे। तत्रोक्तविषयां स्वरूपो. स्प्रेक्षां द्रुतविलम्बितवृत्तेनोदाहरति रध्विति । तल्लक्षणंतु “द्रुतवि- रामस्तुतिः सव्याख्या। लम्बितमाह नभौभराविति" । हेरघुपते प्रसरन्ती समन्ततश्चरन्त्यु- ज्वला दीप्यमानाच कान्तिश्शोभायस्यतथाभूतं भवदीयं कलेबर- मङ्गं तव पराक्रमशुष्मणा प्रतापाग्निना यशोविधुना कीर्तिहिम- करेणच यथाक्रमं पूर्व द्रुतं द्रवीभूयधावन्तं पश्चाद्विलम्वितं स्थिरी- भूतं चेन्द्रमहामणिमिन्द्रनीलमहारत्नं वितर्कये शङ्के । अत्र रामाङ्ग- स्य सर्वतोविसारिदीप्यमानकान्तिमत्त्वधर्मसंवन्धेन निमित्तेनरामप्र- तापाग्निद्रुततद्यशोविधुविलम्बितेन्द्रनीलरत्नतादात्म्यसंभावना स्व- रूपोत्प्रेक्षा कलेवरस्य विषयस्योपादानादुक्तविषया। रघुपते भवदी- यकलेवरं प्रसरदुज्वलकान्ति वितर्कये। द्रुतविलम्बितमध्यगतौमतौ- वलनिषूदननीलमहामणिम् । इति पाठे रघुपते प्रसरदुज्वलकान्ति भवदीयकलेवरं द्रुतस्यशीघ्रगतेः विलम्बितस्यमन्दगतेश्च मध्यंगता अद्रुतविलम्बिता गतिः प्रसरोयस्यास्तथाभूतायां मतौबुद्धौ (वलेति) इन्द्रनीलमहारत्नं वितर्कये (अत्र रामाङ्गस्य सर्वतो' 'निमि- तेन इन्द्रनीलरत्नतादात्म्य 'क्षा॥३९॥ प्रमुदितवदनावृत्तम्-अनुक्तविषया स्वरूपोत्प्रेक्षा स्मितरुचिसितजालकेनामुना प्रमुदितवदनाम्बुजायाः स्त्रियाः । रघुकुलतिलकस्समाबध्य तौ नयनझषवराविवाकर्षति ॥ ४० ॥ अनुक्तविषयां स्वरूपोत्प्रेक्षां प्रमुदितवदनावृत्तेनोदाहरति स्मि- तेति । तल्लक्षणंतु “प्रमुदितवदना भवेन्नौरराविति" रघुकुलतिल- कः रामः अमुनास्वीयेन स्मितरुचिरेसकान्तिरेव सितंश्वेतं जाल- कमीनाकर्षणसाधनंरम्यजालंतेन प्रमुदितंविकसितं वदनाम्बुजंय- स्याः तथाभूतायाः स्त्रियास्सीतायाः तौ नयनेनेत्रेएवझषवरौमीनो. त्तमौ समाबध्यसम्यग्बध्वा आकर्षतीव । अत्रसीतानयनगोचरराम- २६ वृत्तालङ्काररत्नावली। हासव्याप्तेः स्वनिष्ठसीतानयनदृढासजनतदपाङ्गगोचरीकृतत्वरूप- निमित्तेन रामकर्तृकस्मितरुचिजालकरणकसीतानयनमीनाकर्षणता- दात्म्योत्प्रेक्षा अनुक्तविषया स्वरूपोत्प्रेक्षा विषयभूतसीतानयनगो- चररामहासव्याप्तेरनुपादानात् ॥ ४० ॥ कुसुमविचित्रावृत्तम्-सिद्धविषया हेतूत्प्रेक्षा। कुसुमविचित्रालकभरसङ्गाजनकसुताया दशरथसूनो । भवति शरीरं तव कमनीयं सुरभि च नूनं जलधरनीलम् ॥४१॥ सिद्धविषयां हेतूत्प्रेक्षां कुसुमविचित्रावृत्तेनोदाहरति । कुसु: मेति तल्लक्षणंतु “नयसहितौ न्यौ कुसुमविचित्रेति"। हेदशरथ- सूनोराम कमनीयंसुन्दरं तवशरीरं जनकसुतायास्सीतायाः कुसुमैः विचित्रस्यालङ्कृतस्य कचभरस्यकेशपाशस्य क्रीडावसरे सङ्गान्नू- नं उत्प्रेक्ष्यमाणात्संबन्धात् सुरभि परिमलयुक्तं जलधरवन्नीलंच भवति। रामशरीरस्य स्वतस्सिद्धयोस्सौरभ्यनैल्ययोर्वस्तुतो जा- नकीकुसुमालकृतकेशसङ्गो नहेतुरित्यहेतोस्तस्य हेतुत्वेन सम्भा- वना हेतूत्प्रेक्षा । तत्सङ्गस्य विषयस्य सत्वात्सिद्धविषया ॥४१॥ जलोद्धतगतिवृत्तम्-असिद्धविषया हेतूत्प्रेक्षा । जलोद्धतगतिस्स हंसनिकरः स्त्रिया विरहितं पयोदनिहतम् । रघूत्तमविभुं विलोकितुममुं किमप्रभुरुपैत्किलौत्तरसरः ॥ ४२ ॥ असिद्धविषयां हेतूत्प्रेक्षां जलोद्धतगतिवृत्तेनोदाहरति जलेति । तल्लक्षणंतु-" रसैर्जसजसाजलोद्धतिगतिरिति”। जले उद्धता उद्भटा गतिर्यस्यतथाभूतः सः हंसानांहंसपक्षिणांनिकरः समूहः स्त्रियाविरहितं पयोदेनमेघेननिहतंपीडितंच अमुरघूत्तमविभुरघुश्रे- छंप्रभुराम विलोकितुंद्रष्टुं अप्रभुः किं अशक्तत्वेनोत्प्रेक्ष्यमाणस्सम् .. रामस्तुतिः स्वव्याख्या । किलप्रसिद्धं औत्तरसरः उत्तरदिशिस्थितमानमसरः उपत्प्राप्नोत् । अत्रहंसानांवर्षाकालेस्वाभाविकमानससरोगमने विरहपीडितरामद- र्शनाशक्ति हेतुरिति तत्रतद्धेतुन्वसंभावनाहेतूप्रेक्षा वस्तुतस्तदश- केरभावादसिद्धविषया ॥ ४२॥ भुजङ्गप्रयातवृत्तम्-सिविषया फलोत्प्रेक्षा। भुजङ्गप्रयातं निहन्तुं कुमार्ग भुजङ्गापकारिन् रघूत्तम नूनं । अनङ्गायुताभा तव प्रत्नमूर्तिः विहङ्गाधिपस्योपरिष्टाद्विभाति ॥ ४३ ।। सिद्धविषयांफलोत्प्रेक्षांभु जङ्गप्रयातवृत्तेनोदाहरति भुजङ्गेति । तल्लक्षणंतु "भुजङ्गप्रयातं भवेद्यैश्चतुभिरिति” भुजङ्गानां कृष्णावतारे कालीयादिसर्पाणां अस्मिन्नवसरे रावणादिविटानांचापकारिन्शत्रो रघूत्तंसराम भुजङ्गैविटैरेव भुजङ्गैः सपैः प्रयातंगतं कुमार्गकुटिल- मार्ग निहन्तुंविनाशयितुंनूनं उत्प्रेक्ष्यमाणाय भुजङ्गप्रयातकुटिलमा- र्गनिवारणायेत्यर्थः। तव अनङ्गायुताभा अयुतकामकान्तिः प्रत्ना- पुरातनी मूर्तिः वैकुण्ठनिलयाविष्णुमूर्तिः विहङ्गाधिपस्य गरुडस्यो- परिष्टादुपरि विभातिराजति । अत्रविष्णुमूर्तिःस्वतएव भुजङ्गप्रयातं हन्ति । नतुगरुडोपरिनिवासबलादिति विष्णुमूर्तिकृतभुजङ्गप्रयात- हननस्य तत्फलत्वेनोत्प्रेक्षा सिद्धविषया फलोत्प्रेक्षा॥४३॥ स्रग्विणीवृत्तम्-असिद्धविषया फलोत्प्रेक्षा । मौक्तिकस्रग्विणी जानकीकन्धरां वीक्षते राघवो मौक्तिकविलेः । वक्त्रजैवातृकं निष्कलंक स्वकं दर्शयित्वां परं मोदनाय ध्रुवम् ॥ ४४ ॥ असिद्धविषयां फलोत्प्रेक्षां स्रग्विणीवृत्तेनोदाहरति । मौक्ति- केति तल्लक्षणंतु “रैश्चतुभिर्युता स्रग्विणी संमतेति”। राघवोरामः मौक्तिकस्रग्विणीमुक्ताहारवतीं जानक्याः"कन्धरां कण्ठं वीक्षते कि- २८ वृत्तालङ्काररत्नावली। मर्थमितिचेत् मौक्तिकानामेव कक्षाणांनक्षत्राणामावलेस्ततेः स्वकं- स्वीयं निष्कलवंकलङ्करहितं वक्त्रजैवातृकंमुखचन्द्रं दर्शयित्वा प्रद- W मोदनायध्रुवम्-उत्प्रेक्ष्यमाणायतन्मोदकरणाय वीक्षतइतिपूर्वेण- सम्बन्धः ॥ अत्ररामकर्तृकमुक्तामालायुक्तसीताकण्ठवीक्षणस्य मौ. क्तिकविलेरित्यादिनोक्तं नफलमिति तस्य तत्फलत्वेनोत्प्रेक्षणाद- सिद्धविषया फलोत्प्रेक्षा॥४४॥ प्रियंवदावृत्तम्-गम्योत्प्रेक्षा। रघुपते त्वयि रताः प्रियंवदाः कमपि बाह्यविषयं मुनीश्वराः । नहि विदन्त्यनुपमान्तराः कृपाजलनिधौ तव निमग्नमूर्तयः ॥ ॥ ४५ ॥ मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादिभिः । उत्प्रेक्षाव्यज्यते शब्दरिवशब्दोऽपि तादृशः। इत्युत्प्रेक्षाव्यञ्जकत्वेन परिगणितानां शब्दानां प्रयोगे वाच्योत्प्रेक्षा तेषामप्रयोगे गम्योत्प्रेक्षा । तां प्रियंव- दावृत्तेनोदाहरति रध्विति । तल्लक्षणंतु “भुवि भवेन्नभजरैः प्रियंवदे- ति” हेरघुपते त्वयि रताःप्रीतिमन्तः प्रियंवदाः प्रियवादिनः अनुप- मान्तराः असदृशमनसः मुनीश्वराः कमपि बाह्यत्वत्तः बहिर्भूतं वि. पयं भोग्यवस्तु नविदन्तिनजानन्तिहि कथंभूतास्सन्तइतिचेत् तव कृपाजलधौ करुणासमुद्रे निमग्नमूर्तयः नितरांमग्नशरीराइत्युत्प्रेक्ष्य- माणाः सन्तो नविदन्तीतिपूर्वेणसंवन्धः। अत्ररामभक्तमुनीनां स्वत- स्सिद्ध बाह्यविषयवेदनाभावे रामकृपाजलधिमग्नशरीरत्वं नहेतुरि- त्यहेतोस्तस्य हेतुत्वेन संभावना हेतूत्प्रेक्षा रामकृपाजलधिमग्नशरी- रत्वरूपविषयस्यासत्वादसिद्धविषयाच । व्यञ्जकशब्दाप्रयोगाद्ग- म्याच । इतरेतूत्प्रेक्षाभेदारिशवार्थालङ्कारे द्रष्टव्याः॥ ४५ ॥ ललितावृत्तम्-अभेदरूपकातिशयोक्तिः । ..
रामस्तुतिः सव्याख्या। सन्तप्तहाटकसमानवर्णया वल्या नितान्तललितात्मना युतः । श्रीमांस्तमालविटपी मनोहरम्तापन्निवारयति मूलमीयुपाम् ॥ १६ ॥ रूपकातिशयोक्तिस्स्यानिगीर्याध्यवसानतः । विषयस्य स्वश- ब्देनोल्लेखनं विना विषयिवाचनपशब्दनग्रहण विषयनिगरणम् । तत्पूर्वकं विषयस्य विषयिरूपतयाध्यवसानमाहार्यनिश्चयः तस्मिन्स- ति रूपकातिशयोक्तिः । अत्रातिशयोक्तीरूपकविशेषणं रूपके द- शितानां विधानामत्रापि संभवोऽस्तीत्यतिदेशेन प्रदर्शनार्थम् । ते. नात्राप्यभेदातिशयोक्तिस्ताप्यातिशयोक्तिरिति द्वैविध्यं द्रष्टव्यम् । तत्राप्याधिक्यन्यूनताविभागश्चेति सर्वमनुसन्धेयम् । तत्राभेदाति- शयोक्तिं ललितावृत्तेनोदाहरति । समिति । तल्लक्षणंतु "धीरैरभा- णि ललितातभौजराविति” । सन्ततेति द्रुतसुवर्णसदृशरूपया नि- तान्तंभृशं ललितात्मना सुकुमारदेहया वल्यालतया युतः युक्तः श्रीमान्कान्तिमान् अतएवमनोहरः रम्यः तमालविटपीतापिञ्छत- रुः मूलमन्तिकमीयुषां प्रातवतां तापंसन्तापं निवारयति । अत्र- वल्लीतमालपदाभ्यां सीतारामयोर्ग्रहणपूर्वकं तद्रूपताध्यवसानम् । (अत्रवल्लीतमालपदाभ्यां साध्यवसानलक्षणया शक्यलक्ष्योभयानु- गतकान्तिविशेषादिपुरस्कारेणोपस्थितयोस्सीतारामयोश्शक्त्युप- स्थितस्यवल्लीत्वविशिष्टस्य तमालत्वविशिष्टस्यचाभेदसंसर्गेणान्व- यः । एवंच वल्यभिन्नकान्तिविशेषवत्येतिबोधात् तमालाभिन्नका- न्तिविशेषवानिति बोधाच्चेयमभेदातिशयोक्तिः) ॥ ४६ ॥ प्रमिताक्षरावृत्तम्-ताद्रूप्यरूपकातिशयोक्तिः । सततं स्थिरत्वयुतया तटिता मिलितस्सदैव परिवृष्टिकरः । ननु कोऽयमम्बुदवरो वदत प्रमिताक्षरान्यवदना विबुधाः ॥ ॥ ४७ ।।
.. वृत्तालङ्काररत्नावली। ताद्रप्यरूपकातिशयोक्तिं प्रमिताक्षरावृत्तेनीदाहरति सतत- मिति । तल्लक्षणंतु “प्रमिताक्षरा सजससैरुदितेति"। सततंसदा स्थिरत्वयुतयास्थैर्ययुक्तया तटिताविद्यता मिलितः सहितः सदैव परितोवृष्टिकरः कोऽयमम्बुदवरोमेघश्रेष्ठः प्रमितमल्पमक्षरंयस्मिन्त- त्प्रमिताक्षरं तस्मादन्यद्वदनंमुखयेषांतेप्रमिताक्षरान्यवदनाः अप्र- मिताक्षरमुखाः ननु हे विबुधाः विद्वांसः वदत। अत्रतटिदम्बुदश- ब्दाभ्यां सीतारामयोर्ग्रहणपूर्वकं तद्रूपताध्यवसानम् । स्थिरत्वयुत- या तटितेत्युक्त्या कोऽयंसततंपरिदृष्टिकरइत्युक्त्याच प्रसिद्धतटितः प्रसिद्धमेघाच्च भेदः । ततआधिक्यंचगर्भितम् । पूर्वस्मिन्नुदाहरणे नन्यूनत्वं नाधिक्यं च । कोयंभूमिगतश्चन्द्रइत्यादावदिव्यत्वरूपन्यू- नताप्रकाशनमूहनीयम् । एवं प्रकारभेदोदाहरणान्यूहनीयानि ॥४७॥ ज्वालावृत्तम्-सापह्नवातिशयोक्तिः। रघुवर तव वीर भुजाज्ज्वालाधरकरनिकरो महितो लोके । दिनमणिमदितो विलसत्येनं भ्रमतः कथयन्त्यदितेर्जातम् ॥ ४८ ॥ यद्यपह्नुतिगर्भत्वं (पर्यस्तापगुतिगर्भत्वम्) सैव (रूपकाति- शयोक्तिरेव) सापह्नवा मता । तां ज्वालावृत्तेनोदाहरति । रवि- ति। तल्लक्षणंतु " ननभमसहिताभिहिता ज्वालेति" हेवीर रघु- वर तव भुजादुदितउत्पन्नः ज्वालाधरः अग्निरिवकरनिकरः किरण- समूहोयस्यतथाभूतः दिनमणिस्सूर्यः लोके महितः पूजितो विलसति भाति एनंदिनमणि भ्रमतः श्रान्त्या अदितेजातं कथयन्ति । अत्रप्रता- पः दिनमणित्वेननिगीर्णः। भुजप्रतापरवदिनमणिरिति अतिशयो- क्तिः अदितिजातीनदिनमणिरित्यपद्दतिगर्भा ॥४८॥ वैश्वदेवीवृत्तम्-भेदकातिशयोक्तिः। .
३१
३
रामस्तुतिः सव्याख्या।
श्रीराम त्यत्का रूपसम्पद्विभिन्ना वैलक्षण्येन त्वन्मतिर्जजयीति ।
भावत्कं वीर्य वा परं वैश्वदेवीप्वीक्ष यन्नाहं सृष्टिषु श्रेयसीषु ॥ ४९ ॥
भेदकातिशयोक्तिस्तु तस्यैवान्यत्ववर्णनम् । तां वैश्वदेवीवृत्ते-
नोदाहरति श्रीति । तल्लक्षणंतु “पञ्चाश्वैश्छिन्ना वैश्वदेवी ममौ-
याविति" । श्रीराम त्वत्कात्वदीया रूपसम्पन्सौन्दर्यसमृद्धिः वि-
भिन्नाअन्या तवमतिः वैलक्षण्येन विभिन्नतया जैजयीतिभृशंजयति
लोकोत्तरावर्तते भावत्कं त्वदीयं वीर्यवा शौर्यमपि परमन्यत् यत्-
यतः अहं वैश्वदेवीषु समस्तदेवसंबन्धनीषु श्रेयसीषु अत्यन्तप्रश-
स्तासु सृष्टिषुसृष्टवस्तुषु नेक्षे त्वद्पादिकंनविलोकये ततस्तदन्यदे-
वेति पूर्वेणसंबन्धः । अत्रलोकप्रसिद्धरूपाद्यभेदेऽपि भेदो वर्णितः ॥
जलधरमालावृत्तम्-संबन्धातिशयोक्तिः।
सीताकामिन्नवयवशोभाराजीसान्निध्ये ते जलधरमाला दाम्यम् ।
धत्ते स्तोमो वलरिपुनीलानां च छात्रायत्वं प्रभजति कारुण्याप्त्यै ॥५०॥
संबन्धातिशयोक्तिस्स्यादयोगे योगकल्पनम् । तां जलधरमा-
लावृत्तेनोदाहरति । सीतेति । तल्लक्षणंतु “अन्ध्यष्टाभिर्जलधर-
मालाम्भौस्माविति" । हेसीताकामिन् राम कारुण्यस्य दयायाः
आप्त्यैप्राप्त्यै । जलधराणां मेघानांमालापङ्क्तिः तेतव अवयवस्या-
ङ्गस्य शोभाराज्याः कान्तिततेः सान्निध्येसन्निधौ दास्यंदासकर्म
धत्तेदधाति । किञ्च बलरिएनीलानामिन्द्रनीलानांस्तोमोनिकरः छा-
त्राय्यत्वंशिष्यवर्यतां प्रभजतिप्रकर्षेणगच्छति । अत्रजलधरेन्द्रनी
लयोर्भगवदङ्गकान्तिसन्निधौ दासताशिष्यत्वासंबन्धेऽपि तत्संब.
न्धोवर्णितः॥५०॥
३ ३२ वृत्तालङ्काररत्नावली। प्रभावृत्तम्- -असंबन्धातिशयोक्तिः :। रघुवर भवतो मुखेन्दौ प्रभामहति विलसति क्षपानायकम् । नहि खलु विहगाश्चकोराह्वयाः अमृतरसभुजः प्रतीच्छन्त्यपि ॥ ५१ ।। योगेप्ययोगोऽसंबन्धातिशयोक्तिरितीर्यते । तां प्रभावृत्तेनोदाह- रति । रध्विति तल्लक्षणंतु । “स्वरशरविरतिर्ननौरी प्रभेति"। हेर- घुवरराम प्रभयात्विषामहितेअधिके भवतस्तव मुखेन्दौवदनचन्द्रे विलसतिसति चकोराह्वयाचकोरनामानः विहगाः पक्षिणः अमृत- रसभुजोऽपि क्षपानायकंचन्द्रं नप्रतीच्छन्तिनापेक्षन्ते । अत्रचको- राणांचन्द्रापेक्षासंबन्धेऽपि तदसंबन्धो वर्णितः॥५१॥ अभिनवतामरसवृत्तम्-अक्रमातिशयोक्तिः । अभिनवतामरसप्रसवाद्यान्विसृजति पञ्चशरान्स्मरवीरे विसृजति मानवती रघुवीर जनकसुताप्यभिमानमशेषम् ॥५२॥ अक्रमातिशयोक्तिःस्यात्सहत्वे हेतुकार्ययोः । तामभिनवता- मरसवृत्तेनोदाहरति । अभीति । तल्लक्षणंतु । “अभिनवतामरसं नजजायइति” । स्मरएववीर-तस्मिन् । अभीति। नूतनपद्मकुसुमादी- न्पञ्चशरान्विसृजतिसति रघुवीरेरामे मानवतीप्रणयकलहजनिता- भिमानवती जनकसुता सीताप्यशेषं समस्तं अभिमानं विसृजति- त्यजति । अत्रस्मरशरप्रक्षेपकालएव सीतामानत्यागः कथितइति हेतुकार्ययोस्सहत्वं वर्णितम् ॥ ५२ ॥ ललनावृत्तम्-चपलातिशयोक्तिः। वाञ्छति लङ्कां रघुकुलतिलके गन्तुममुञ्चन्सुरपुरललनाः । बन्दिनिबन्धं वृषमुखविबुधाः पङ्क्तिनिबन्धं क्रतुषु च दधिरे ।।
। रामस्तुतिः सव्याख्या। ३३ चपलातिशयोक्तिस्स्यात्कार्ये हेतुप्रसक्तिजे (प्रसक्तिः शानम्) ताललनावृत्तेनोदाहरति । वाञ्छतीति । तल्लक्षणंतु " भनौ नसयु तौ भवति हि ललनेति"। रघुकुलतिलकेरामे लङ्कांगन्तुं वाञ्छ- तीच्छतिसति सुरपुरललनाः रावणेन बन्दी नीताः देवलोकस्त्रियः बन्द्यां कारागृहे निवन्धं नितरांबन्धनममुञ्चन् । वृषमुखाः इन्द्रप्रमु- खाः विवुधाश्च क्रतुषुयागेषु पन्तयामालयानिवन्धंस्थितिं दधिरधृ- तवन्तः अबरामस्य लङ्काजिगमिषाप्रसक्तिमात्रण देवस्त्रीणां कारा- गृहवासत्यागोदर्शितः इन्द्रादीनां क्रतुषु सान्निध्यंच दर्शितम् । चन्द्रिकावृत्तम्-अत्यन्तातिशयोक्तिः । जगदिदमखिलं पूर्वतम्स्वच्छतामनितरसुलभां तावदापादितम् । रघुकुलतिलक त्वद्यशश्चन्द्रिका तदुपरि विमला सर्वतोव्यापृता ॥५४॥ अत्यन्तातिशयक्ति.स्स्यात् सहत्वे (पौर्वापर्यव्यतिक्रम) हेतु- कार्ययोः तां चन्द्रिकावृत्तेनोदाहरति । जगदिति । तल्लक्षणंतु "ननत- तगुरुभिश्चन्द्रिकाश्चर्तुभिरिति” । हेरघुकुलतिलकराम पूर्वतः त्व- द्यशश्चन्द्रिकाव्याप्तेः पूर्वमेव इदमखिलं जगदनितरसुलभां अन्यदु- प्रापांस्वच्छतांशुद्धप्रकाशं तावत्सामस्त्येन आपादितंप्रापितम् । तदुपरि ततस्स्वच्छतापादनात्परं विमला तव यशएवचन्द्रिका सर्वतस्सर्वत्रव्यापृताव्याप्तिंगता। समन्वयः स्पष्टः । अव्यवहितोक्ता- स्तिस्रोप्यतिशयोक्तयः कार्यशैध्यप्रत्यायनार्थाः ॥५४॥ प्रहर्षणीवृत्तम्-प्रस्तुततुल्ययोगिता। श्रीराम त्वयि जगदीश जातमात्रे कौसल्यादशरथबाहुजासुनाडी । पृथ्वीच त्रिदिवसदावलीच वाचावल्यासीच्च कवयतां प्रहर्षणीयम् ।।५५ वानामितरेषां वा धमक्यं तुल्ययोगिता । प्रस्तुतानामप्र- । ३ वृत्तालङ्काररत्नावली। स्तुतानांवा गुणक्रियारूपैकधर्मान्वयस्तुल्ययोगिता । तत्रप्रस्तुततु- त्ययोगितां प्रहर्षणीवृत्तेनोदाहरति । श्रीति । तल्लक्षणंतु नौज्रौग- स्त्रिदशयतिःप्रहर्षणीयमिति । जगतामोशश्रीराम त्वयि जातएव- जातमात्रेसति कौसल्यायाः दशरथबाहुजस्थदशरथनृपस्यचासु- नाडी प्राणनाडी पृथ्वीभूमिश्च त्रिदिवसदांदेवानामावलीततिश्च क- वयतांकवीनां इयं वाचावल्ली लतासहशीवाक्च प्रहर्षणी विकास- वत्यासीत् । अत्ररामजननसमये तदीयत्वेन प्रस्तुतानां कौसल्याद- शरथप्राणनाडीपृथिवीदेवततिकविवाचा विकासरूपैक क्रियान्वयः। मत्तमयूरवृत्तम्-अप्रस्तुततुल्ययोगिता। राम श्रीमन्सर्वमनोज्ञ भवदंगच्छायापुञ्जे श्रोत्रमुपेते भुवनेऽस्मिन् । कोवा ब्रूयान्मत्तमयूरे जलधारे नीलेचैन्द्रे किञ्च तमाले रुचिरत्वम् ॥५६॥ अप्रस्तुततुल्ययोगितां मत्तमयूरवृत्तेनोदाहरति । रामेति । त- ल्लक्षणंतु “वेदैरन्धैम्तौ यसगा मत्तमयूरमिति” । श्रीमन्राम अस्मिन्भुवने सर्वेषांमनाक्षेरम्ये भवतत्तवाङ्गच्छायायाअवयवकान्तेः पुओबन्दे श्रोत्रमुपेतेप्राप्तेलति कोवा मत्तेमवतिमयूर जलधारजल- दे ऐन्द्रेनीले इन्द्रनीलेच किञ्च तमाले तापिन्छेच लचिरत्वं सौन्दर्य ब्रूयात्वदेत् । अत्रभगवदङ्गकान्तिवर्णनेप्रस्तुते अग्रस्तुनानांमयूरा- दीनांरुचिरत्वरूपैकगुणान्वयः ॥ ५६ ॥ मत्तमयूरवृत्तम्-अप्रस्तुततुल्ययोगिता। सीताकान्त त्वन्मुखसाम्यत्रुटिबाह्यं चान्द्रं विम्बं पफ्युतत्वात्किल मध्ये । सत्सन्तोषिद्वेषितयाऽजस्रममूनि प्रह्लादिलं सारसजातान्यपि धृत्वा ॥५७ पुनरप्यप्रस्तुततुल्ययोगितां मत्तमयूरवृत्तेनोदाहरति सीते- ति । हेसीताकान्त प्रह्लादित्वं आनन्दकरत्वं धृत्वाप्राप्यापि चान्द्रं- । रामस्तुतिः सव्याख्या। बिम्वंचन्द्रमण्डलं मध्ये पङ्कयुतत्वाजलधिकर्दमयुक्तन्यात्किल त्व- न्मुखसाम्यस्यभवन्मुखसादृश्यस्य त्र्युट्याः लेशाद्वाह्य बहिर्भूतं ले- शरहितमित्यर्थः । अमूनि सारसजातानि कमलवृन्दानि अजस्रंस- दासतांनक्षत्राणांसन्तोषिणितोषयितरिचन्द्रे साधुजनसन्तापिषुच द्वेषितयाद्वेषवत्तयाच त्वन्मुखसाम्यत्रुटिवाह्यानि । अत्रभगवन्मुख- वर्णने अप्रस्तुतानां चन्द्रसरोजानां साम्यलेशवाह्यत्वरूपैकगुणान्व- यः। आह्लादप्राप्तिरूपैकक्रियान्वयश्च ॥ ५७ ॥ रुचिरावृत्तम्-हिताहिततुल्यवृत्तिरूपा तुल्ययोगिता महीमिमां दशरथभूमिपश्च यम्समापयगुणरुचिरादिदेव ने । अपाहरद्रवुवर याच केकयी तयोभवानकुटिलवृत्तिरीक्ष्यमे ॥ ५८ ॥ हिताहिते वृत्तितौल्यमपर तुल्ययोगिता। नांगचिरावृत्तेनोदा- हरति । महीमिति । तल्लक्षणंतु " चतुग्रहेरिह रुचिरा जभस्जगा- इति"। आदिदेव रघुवरराम गुगरुचिः त्वद्गुणप्रीतिमान् यश्च द- शरथभूमिपः दशरथनृपः ते तुभ्यमिमां महाभूमि समार्पयन्सम- पितवान् याच केकयी कैकेयी तेतब महीमपाहरदपहृतवती । तयोः तस्यांकैकेय्यांतस्मिन्दशरथेच भवानकुटिलवृत्तिरवक्रस्वभाव ईक्ष्य सेदृश्यसे अत्रहितेदशरथे अहितायांकैकेय्यांचरामस्यवृत्तितौल्यम् ॥ रुचिरावृत्तम्-हिताहिततुल्यवृत्तिरूपा तुल्ययोगिता । प्रतापजश्शुचिरिह ते विदेहजाविलोचनभ्रमरमरन्द सुन्दर । रघूत्तम त्रिजगति मित्रमण्डले महापदं जनयति चारिमण्डले ।। ५९ ।। पुनरपि तां रुचिरावृत्तेनोदाहरति । प्रतापेति । सुन्दर रम्य विदेहजायास्सीताया विलोचनेनेत्रेएवभ्रमरौतयोमरन्दमकरन्द हे- रघूत्तमराम तेतव प्रतापजः प्रतापाजातः शुचिः अग्निः त्रिजग- वृत्तालकाररत्नावली। तिजगत्रये मित्रमण्डले सुहृत्समूहे महापदं महत्पदं स्थानमरीणां मण्डले महापदं महतीमापदंच जनयति । अत्रहिताहितयोः मित्रा.. रिमण्डलयोर्महास्थानजनयितृत्वस्य महापजनयितृत्वस्यच श्लेषे- णाभेदाध्यवसायावृत्तितौल्यम् ॥ ५९॥ मजुभाषिणीवृत्तम्-गुणोत्कृष्टसमवचनरूपा तुल्ययोगिता । रघुराजसन्ततिसमुद्रसन्मणे रमणीयरावसरसा सती जनैः । परिवादिनी परभृताच शस्यते प्रियकामिनी च तव मञ्जुभाषिणी ॥६०॥ सततं महोभिरमितैस्समन्विताः सरसीजबान्धवमहागभस्तयः । बडबामुखानलशिखा रघूत्तम प्रथितप्रतापनिकराश्च तावकाः ॥ ६१ ॥ गुणोत्कृष्टैस्लमीकृत्य वचोऽन्या तुल्ययोगिता । तांमजुभा- षिणीवृत्तपद्याभ्यामुदाहरति । रध्विति । सततमितिच । तल्लक्षणं- "ससजाजगौ भवति मजुभाषिणीति” । रघुराजस्य सन्त- तु तिरन्वयएव समुद्रस्तत्रोत्पन्नसन्मणेश्रेष्ठरत्न राम परिवादिनीवीणा परभृताकोकिलस्त्रीच मजुरमणीयं यथातथाभाषिणी भाषणशीला तव प्रियकामिनीटनायिकासीताच रमणीयेन रावेण ध्वनिना सर- सा रुचिरासती जनैश्शस्यतेश्लाध्यते। अत्रवर्णनीया सीता वी- णया कोकिलयाच जनश्लाघ्यत्वेन समीकृता ॥ ६०॥ हेरघूत्तम सरसीजबान्धवस्य सूर्यस्य महान्तः गभस्तयः कि- रणाः बडबामुखानलस्य बाडबाग्नेः शिखाज्वालाः तावकाः त्वदी- याः प्रथिताः प्रख्याताः प्रतापनिकराश्च सततममितैरसङ्ख्यातैर्म- होभिस्तेजोभिस्समन्विताः । अत्र वर्णनीया रामप्रतापसमूहाः रवि- किरणैर्बडवाग्निशिखाभिश्च सततामितमहोविशिष्टत्वेन समीकृताः॥. सरसावृत्तम्-दीपकालङ्कारः।
रामस्तुतिः सव्याख्या। त्रयमेतदर्ककुलवीर तवेदं तिलकाभिरामतममाननबिम्बम् । भ्रमरान्वितं च कमलं विधुबिम्ब समृग मुदं वितनुते सरसानाम् ॥ वदन्ति वर्ध्यावानां धर्मेक्यं दीपकं वुधाः । प्रस्तुताप्रस्तु- सानामेकधर्मान्वयो दीपकम् । तत्सरसावृत्तेनोदाहरतित्रयमिति । तल्लक्षणं तु "सजसागुरुश्च कथिता सरसैषति । हे अर्ककुलवीर सूर्यवंशशूरराम इदं तिलकेनकस्तृरीविशेषकेणाभिरामतममत्य- न्तसुन्दरं तवाननविम्बं मुखमण्डलं भ्रमरणान्वितं कमलं समृगं विधोश्चन्द्रस्य विम्बंच एतत्त्रयं सरसानां रसिकानां मुदं वितनुते । अत्रप्रस्तुतस्य सतिलकराममुखस्याग्रस्तुतयोर्धमरान्वितकमलमृ- गान्वितचन्द्रयोश्च रसिकालादकरत्व क्रियान्वयः ॥ १२ ॥ प्रभद्रकवृत्तं-पदावृत्तिदीपकं । धरति धनुः खलु भवान्प्रभद्रकं रखुकुलनीरधिमणे महारणे । धरति पुलम्त्यकुलजो भयाकुलः प्रविगलिताखिलविचेष्टितोऽपि सः ।। त्रिविधं दीपकावृत्तौ भवेदावृत्तिदीपकं । दीपकस्यानेकोपका- रक्षमतया दीपस्थानीयस्य पदस्यार्थस्योभयोर्वाऽऽवृत्तौ त्रिविध- मावृत्तिदीपकं । तत्र पदावृत्तिदीपकं प्रभद्रकवृत्तेनोदाहरतिधर- तीति । तल्लक्षणन्तु "भवति नजौ च सजगाः प्रभद्रकमिति"। रघु- कुलमेव नीरधिः समुद्रस्तत्रोत्पन्नमणेरत्नराम भवान् महतिरणे प्रकृष्टंभद्रंयस्मात्तत्प्रभद्रकम् लोकमगळजनकम् । धनुः धरतिगृह्मा- तिखलु सम्प्रसिद्धः पुलस्त्यकुलजः रावणोऽपि भयेनाकुल व्याकुलः प्रविगलितंविनष्टमखिलंविचेष्टितंप्रयत्नः यस्यतथाभूतस्सन् धरति धरःपर्वतइवाचरतिस्तब्धोभवतिअत्रधरतिधरतीतिशब्दावृत्तिः ॥ अपराजितावृत्तम्-अर्थावृत्तिदीपकम् ।
वृत्तालङ्काररत्नावली। सति रघुवृषभे धनुर्भूति वानरी विसृजति विपदं चमूरपराजिता । स्थितिमपि विजहाति राक्षसवाहिनी भियमपि भुवनं विमुञ्चतिरावणात् ।। अर्थावृत्तिदीपकमपराजितावृत्तेनोदाहरति । सतीति । तल्ल- क्षणंतु " ननरसलघुगैस्वरैरपराजितेति” रघुवृषभेरामे धनुर्भूति धनुर्धरतिसति अपराजिताकेनाप्यनभिभूता वानरीवानराणामिय चमूस्सेना विपदमापदंविसृजतित्यजति । राक्षसानां वाहिनीसेना-. स्थितिमपि रिजहातित्यजति । भुवनमपिरावणाद्भियभयविमुञ्च- तित्यजति । अत्रत्यागरूपाथावृत्तिः॥६४ ॥ वसन्ततिलकवृत्तम्-उभयावृत्तिदीपकम् । सिंहोद्धतो रघुपतिः किरते शराली रुद्धर्षिणी ररिचमू: प्रति युद्धरङ्गे । अभ्राद्वसन्ततिलकप्रभमन्दहासा शोभावती सुरततिः किरते सुमालीः ।। उभयावृत्तिदीपकं वसन्ततिलकवृत्तेनोदाहरति सिंहेति । तल्लक्षणंतु "उक्तवसन्ततिलकं तभजाजगौगः सिंहोद्धतेयमुदिता मुनिकाश्यपेन । उर्षिणीति कथिता मुनिसैन्धवेन शोभावतीतु कथिताभुजगाधिपेन" इति सिंहवदुद्धतउद्भटः रघुपतिः युद्धरङ्गे- रणभूमौ उर्षिणीरधिकहर्षवतीररीणांचमूस्सेनाः प्रति शराणा- मालीस्ततीः किरतेविकिरति । वसन्तेजातंतिलकं तिलकपुष्पंत- स्येवप्रभाकान्तिर्यस्यतथाभूतोमन्दहासोयस्यास्तथाभूता । शोभाव- तीकान्तियुक्ता सुराणांतति रभ्रादाकाशात्सुमानांपुष्पाणामाली- स्ततीः किरतेविकिरति अत्रोभयावृत्तिः। आवृत्तीनां प्रस्तुताप्रस्तु- तोभयविषयत्वाभावेऽपि दीपकच्छायापत्तिमात्रेण दीपकव्यपदेशः॥ प्रहरणतिलकवृत्तम्-प्रतिवस्तूपमा साधर्येण । युतिजितकुसुमप्रहरणतिलकं रघुवर मुखभां प्रगुणयति तव ।
३९ रामस्तुतिः सव्याख्या। मधुकरवटुक स्सलिलम्हगतां प्रबलयति रुचि नहि किमु नितराम् ॥ वाक्ययोरेकसामान्येप्रतिवस्तूपमामता । यत्रोपमानोपमेय- परवाक्ययोरेकस्समानोधर्मः पृथनिर्दिश्यते सा प्रतिवस्तूपमा। प्रतिवस्तु प्रतिवाक्यार्थमुपमा समानधर्मोस्यामितिव्युत्पत्तेः साध- म्य॑ण प्रतिवस्तूपमा प्रहरणतिलकवृत्तेनोदाहरति । द्युतीति तल्ल- क्षणं तु " ननभनलघुगाः प्रहरणतिलकमिति" द्युत्याकान्त्याजितः कुसुमप्रहरणः कामोयेन तस्य सम्वुद्धिः द्युति...रण हेरघुवर तय मुखगतंकस्तुरीतिलकं तकमुखस्यमांकान्ति प्रगुणयतिवर्धयति । मधुकरवटुकः कमलगतः भ्रमरशिशुः सलिलरुहं कमलं गतां- श्रितांरुचिंशोभां नितरांभृशं नहिप्रबलयतिकिमु नवर्धयतिकिम्- वर्धयत्येव । अत्रगुणयतिप्रबलयतीत्येकएवधर्म उपमानोपमेयवा- क्ययोः पृथन्भिन्नपदाभ्यां निर्दिष्टः ॥ ६६ ॥ इन्दुवदनावृत्तम्-प्रतिवस्तूपमा वैधाण । इन्दुवदनाम्बुरहबन्धुकुल सूनो देद तव सर्वगुणमेव निगमान्तः । विष्णुपदमध्यतलराजदमृतांशो वेत्ति नहि कुत्रचन बिम्बरचिमन्धः ।। वैधग्येण प्रतिवस्तूपमामिन्दुवदनावृत्तेनोदाहरति इन्द्विति । तल्लक्षणंतु “इन्दुवदना भजसनैस्सगुरुयुग्मैरिति” इन्दुवदनचन्द्र- मुख अम्बु....सूनो सूर्यवंशपुत्रराम निगमान्तः वेदान्तएव तवसर्व- गुणंअपहतपाप्मत्यादिकं वेदजानाति विष्णुपदस्याकाशस्यमध्यतले- राजतः प्रकाशमानस्य अमृतांशन्द्रस्य बिम्वरुचिमण्डलशोभा- मन्धः कुत्रचनकापि नहिवेत्तिनजानाति । अत्रद नवेत्तीतिवैधये- णधमोनिर्दिष्टः ॥ ६७॥ कुटिलवृत्तं दृष्टान्तालंकारस्साधर्म्यण ।
४० वृत्तालङ्काररत्नावली। तिष्ठन्त्वन्ये त्रिदिवपरमभारा देवा रामैकस्त्वं विपदपनयनादेवेशः । पक्षिप्वन्येष्वमितगणयुतेष्वेवैकः सौपर्णेयः कुटिलगदलनात्पक्षीशः ॥ चेद्विवप्रतिबिंबत्वं दृष्टान्तस्तदलंकृतिः। यत्रोपमानोपमेयवा- क्ययोभिन्नाव धबिबप्रतिबिंबभावेन निर्दिष्टीतत्रदृष्टान्तालंका रः। साधर्म्यणदृष्टान्तकुटिल वृत्तेनोदाहरति तिष्ठन्त्विति तल्लक्षण- न्तु “संप्रोक्तम्भौकुटिलमिहहिनोयोगोग” इति हेराम त्वदन्येदे- वास्त्रिदिवस्यस्वर्गस्यपरमभाराअत्यन्तभारभूतास्तिष्ठन्तु त्वमेकएव विपदपनयनादापन्निवारणाद्देवेशोदेवानामीश्वरोति । अन्येष्यमितैर- संख्यातैर्गणैस्संधैर्युतेषुयुक्तेषुपक्षिषु सत्स्वपि सौपर्णेयोगरुडएकएव कुटिलगानांसर्पाणांदलनान्नाशनात्पक्षीशः पक्षिराजः। अत्रापन्निवा- रणसर्पदलनयोवेशत्वपक्षीशत्वयोश्च विवप्रतिबिंबभावः ॥ ६८॥ ललितावृत्तं दृष्टान्तालंकारो वैधम्र्येण । पदमटवीतलेषु भवता निहितं रघुवर तत्क्षणं निशिचरा निहताः । न भजति यावदेष ललितांबुधरो गगनमवग्रहा विदधते वसतिम् ॥ वैधयेणदृष्टान्तललितावृत्तेनोदाहरति पदमिति तल्लक्षणन्तु नजभजलागुरुश्चललिता कथितेति” हेरघुवरभवता अटवी- तलेपुवनप्रदेशेषु पदंचरणनिहितंनिक्षिप्तं तत्क्षगंतस्मिन्नेवक्षणेनिशि- चराराक्षसानिहताविनाशिताः एषः ललितोरम्यः अंबुधरोमेघः गगनंनभोयावनमजतिनप्राप्नोति तावदेवावग्रहाः वर्षप्रतिवन्धाः वसतिवासंविदधतेकुर्वन्ति । अत्रारण्याधिकरणकरामपदनिधान- राक्षसहननयोर्मेधगगनानागमनावग्रहवसत्योश्च यथाक्रमवैधयेण बिंबप्रतिबिंबभावः ॥ ६९ ॥ कलभाषिणी-वाक्यार्थक्यारोपरूपा निदर्शना । " रामस्तुतिः सव्याख्या। कलभाषिणीषु जनकात्मजाया जगत्यपरासु कान्त रघुनाथ या ते रतिः । मधुमासि चूतलतिकामतल्लीतरव्रततीषु कोकिलवरस्य सेयं स्थितिः।।७०॥ वाक्यार्थयोस्सदृशयोरैक्यारोपोनिदर्शना । तांकलभाषिणी- वृत्तेनोदाहरति कलेति तल्लक्षणन्तु “सजसा यलौच कलभाषिणी स्याद्गुरु"रिति कान्तसुन्दरहेरघुनाथ जगतिजनकात्मजायास्सी- तायाः अपराखन्यासु कलभाषिणीषुमधुरवादिनीषुस्त्रीषु तेतवया- रतिरासक्तिस्सेय कोकिलवरस्यपरभृतश्रेष्ठस्यमधुमासिचैत्रमासे चूतलतिकामतल्लिकायाः प्रशस्तचूतलतायाइतरासुव्रततीषुलतासु स्थितिर्वसतिः। अत्ररामनिष्ठसीतेतरस्त्रीरतिरूपोपमेयवाक्यार्थस्य कोकिलनिष्ठचूतलतेतरलतास्थितिरूपोपमानवाक्यार्थस्यच यत्त- च्छब्दाभ्यामैक्यारोपः॥ ७० ॥ अलोलावृत्तं-पदार्थैक्यारोपरूपा निदर्शना । आदित्यान्वयसूनो सीतास्यांबुजभानो स्वामित्राघव वक्त्रे भावत्के रमणीये। यायास्तावदलोलाश्छायासंहतयस्ताः शारद्यां सितरात्र्यां राजन्ते शशिबिंबे पदार्थवृत्तिमप्येके वदन्त्यन्यां निदर्शनाम् । तामलोलावृत्ते- नोदाहरति आदित्येति तल्लक्षणन्तु “द्विस्लप्तच्छिदलोला म्सौ- म्भौगौचरणे चे"दिति आदित्यान्वयनोसूर्यवंशपुत्र सीतायाआ- स्यमुखमेवांबुजंतस्यभानोरवे स्वामिन्प्रभो राघवराम रमणीयेसुन्दरे- भावत्केत्वदीयेवक्त्रेमुखे यावास्तावत् छायासंहतयः कान्तिततय- स्ताश्शारद्यांसितराव्यांशरत्कालशुक्लपक्षरात्रौ शशिबिंबेराजन्ते- भान्ति । अत्रशारदचन्द्रे राममुखगतकान्तिपदार्थारोपो निदर्शना ॥ कुमारीवृत्तं-असदर्थनिदर्शना । रघुवर मैथिलस्य नृपतेः कुमारी तव वनितां प्रकाम्य परमास्पदस्थः ।
वृत्तालझाररत्नावली। व्रजति दशाननो मृतिमितीरयन्यः पररमणीच्छुराशु स जनः प्रणश्येत् ॥ अपरां बोधनं प्राहुः क्रिययाऽसत्सदर्थयोः। कस्यचित्किंचि- क्रियाविशिष्टस्य स्वक्रियया परान्प्रत्यसतस्सतोवाऽर्थस्य बोधनं- यन्निबध्यतेतदपरांनिदर्शनामाहुः । तत्रासदर्थनिदर्शनां कुमारीवृत्ते- नोदाहरति रध्विति तल्लक्षणन्तु "नजभजगैर्गुरुश्च वसुषट्कुमारी" ति । हेरघुवर तव वनितांभायाँ मैथिलस्यनृपतेर्जनकराजस्यकुमा- रीपुत्रींसीतां प्रकाम्यकामयित्वा परमास्पदस्थः परमेश्रेष्ठेआस्पदे- स्थानेस्थितोपि दशननोरावणः यः जनः परस्यान्यस्यरमणांवनिता- मिच्छुस्सआशुशीघ्रप्रणश्येद्विनष्टोभवेदितीरयन्कथयन्मृतिनिधनंत्र- जतिगच्छति । अत्ररामभार्याप्रकाम्यस्वयंमृतिविशिष्टोरायणः स्व- विनाशक्रिययादृष्टान्तभूतयान्योप्येवंपररमणीच्छुश्चेत्प्रणाश्रोदित्य- निष्टपर्यवसायिनमर्थकथयन्नेवमृतिगच्छतीत्यर्थनिवन्धनादसदर्थनि- दर्शना ॥७२॥ मजुभाषिणी-सदर्थनिदर्शना । सततं प्रिया भवति मञ्जुभाषिणी च त्रिजटा निशाचरवधूषु रामपल्याम् निगदन्त्यसाविति हि यस्य सुष्ठु भावः सुहृदुद्भवेद्रिपुगणेषु कोपि तस्य । सदर्थनिदर्शनां मजुभाषिणीवृत्तेनोदाहरति सततमिति तल्ल- क्षणन्तु “सजसाजगौगितिचम भाषिणीस्यादिति । यस्यजन- स्यभावः अभिप्रायः सुष्टसमीचीनः तस्यरिपूणांगणेष्वपि कोपिसुहृ- मित्रं उद्भवेजायेतेतिनिगदन्तीबोधयन्त्यसौ निशाचरवधूपुराक्ष- सस्त्रीषु त्रिजटातदाख्याकाचिद्राक्षसीरामस्यपन्यांसीतायांसततं- प्रियाप्रीतिमतीमञ्जुभाषिण्यनुकूलवादिनीचभवति अत्रत्रिजटा टराक्षसीमध्येसीताप्रीतिमादधाना स्वयासीताप्रीत्याधानक्रियया रामस्तुतिः सव्याख्या। परान्प्रतिसाधुभावश्शत्रुमध्येपिसुहृदंसंपादयेदितिश्रेयस्करमर्थबो - धयन्तीनिबद्धतिसदर्थनिदर्शना ॥७३॥ सुकेसरवृत्तं–उपमेयाधिक्यपर्यवसायी व्यतिरेकः। दशरथात्मजाननमिदं तव प्रभो हसितकौमुदीरुचिसुकेसरं तथा । विमलमण्डलं कुवलयप्रियं सदा शशिवदेधते ह्यपि तु मित्रदर्शने ॥७॥ व्यतिरेकोविशेषश्चेदुपमानोपमेययोः । उपमेयाधिक्यपर्यव- सायिनंव्यतिरेकंसुकेसरवृत्तेनोदाहरति दशेति तल्लक्षणन्तु “नरन- रैलंगौचललितंसुकेसर” मिति । प्रभोदशरथात्मजराम तवेदमा- ननंशशिवञ्चन्द्रवत् हसितंहासएवहसितवञ्चकौमुदीचन्द्रिकातस्या- रुच्याकान्त्यासुकेसरंशोभनसटावत् तथाविमलमण्डलं स्वच्छविंबं कुवलयस्यभूमण्डलस्यकुवलयानामिन्दीवराणांचप्रियं अपितुमित्र- स्यसुहृदःखेश्चदर्शनेएधतेवर्धते। अत्रमित्रदर्शनेवृद्धिरहितादुपमा-- नभूतचन्द्रात्तत्रवृद्धिमतोराममुखस्योपमेयस्याधिक्यम् ॥ ७४ ॥ मदनाावृत्तं उपमेयन्यूनत्वपर्यवसायी व्यतिरेकः । चक्राह्वय सम्यङ्मदनार्तान्तरसीमा कामं वनमध्याटनकर्मा शशिरोषी । रामः प्रियभार्याप्रवियुक्तस्त्वमिवाहं वर्तेऽपितु पक्षि नविपक्षी न वनेऽस्मिन् उपमेयन्यूनत्यापर्यवसायिनंव्यतिरेकंमदनातावृत्तेनोदाहरति चक्रेति तल्लक्षणन्तु " अन्तेगुरुयुग्मंत्यसभाश्चेन्मदनातेति" हेचक्रा- ह्रयचकवाकपक्षिन् त्वमिवरामोहंप्रिययेष्टयाभार्ययाप्रवियुक्तोविर- हितः सम्यक् मदनेनकामेनार्तापीडिताअन्तरसीमामनोदेशोयस्यत- थाभूतः कासंभृशं वनस्यकाननस्यजलस्यचमध्येअटनकर्मसंचरण- क्रियायस्यतथाभूतः शशिनेचन्द्रायरोषीकोपवांश्च । अपितु अस्मि- न्वनेहेपक्षिन् विगतौपक्षौविपक्षौअस्यस्तइतिविपक्षी विपक्षश्शत्रुर- वृत्तालङ्काररत्नावली। स्यास्तीतिविपक्षीच नवर्तइतिन किन्तुविपक्षीवर्ते । अत्रोपमेयस्य- पक्षरहितत्वेनापकर्षः ॥ ७५॥ रजनीवृत्तं-अनुभयपर्यवसायी व्यतिरेकः । रूपधेयपरिशोभिकलेबरसुन्दरो लोकमोहनगुणो रजनीशलसन्मुखः । राम एष स च मार इहापितु वर्णयोर्व्यत्ययः किल विभेदधियं कुरुते तयोः अनुभयपर्यवसायिनं व्यतिरेकंरजनीवृत्तेनोदाहरति रूपेति त- ल्लक्षणन्तु “रोनभौच रजनीविबुधैःकथिता भरा" विति इहलोके- एषरामः सः मारः कामश्च जपमेवरूपधेयंतेनपरिशोभिनाकलेबरे- णदेहेनसुन्दरोरम्यः लोकमोहनाजगन्मोहकागुणायस्यतथाभूतः र. जनीशवच्चन्द्रवल्लसद्राजन्मुखंयस्यतथाभूतश्चास्ति । अपितु तयोः राममारयोः वर्णयोर्वाचकशब्दाक्षरयोः रेफमकारयोर्व्यत्ययः किल- व्यतिक्रमएव विभेदधियंवैलक्षण्यवुद्धिं कुरुतेजनयतीत्यर्थः उपमा- नोपमेययोर्वाचकशब्दाक्षरविपर्यासंविना प्रकारान्तरेणसाम्यमेवेति- यावत् । तथाचानुभयपर्यवसायीउपमेयस्योत्कर्यापकर्षान्यतरपर्य- वसानरहितोव्यतिरेकः ॥७६ ॥ शशिकलावृत्तं-सहोत्यलंकारः। दशरथनृपवरतनय शशिकला तव मुखसविधत इव भयनिभृता । सह भवदरितमिचरवरनिकरैः प्रविशति चरमशिखरिविपिनतटम् ॥७७॥ सहाकिस्सहभावः [साहित्यं चेद्भासते जनरञ्जनः । तांश- शिकलावृत्तेनोदाहरति दशेति तल्लक्षणन्तु "द्विहतहयलघुरथगिति- शशिकलेति" चन्द्रास्तमयनवर्णनं दश‘नय हेरामशशिकलाच- न्द्रकला तवमुखस्यसविधतः निकटाद्भयेननिभृताव्याप्तेव भवतः अरीणांतमिचरवराणांराक्षसश्रेष्ठानांनिकरैस्लह चरमशिखरिणःअ-
रामस्तुतिः सव्याख्या।
स्ताचलस्यविपिनतटवनतलंप्रविशति । अत्र समन्वयः स्पष्टः ॥७॥
स्रग्वृत्तं-विनोक्तिः प्रथमा विनाशब्दमन्तरेण ।
रघुकुलसुत बृहदपि च पटुतरं श्रुतियुगमपि नवकनकपरिकरम् ।
प्रपिबति तव न यदमलगुणगुमस्रगुदितमुरुमधु तदिह हि बधिरम् ॥
विनोक्तिश्च विना किंचित्प्रस्तुतं हीनमुच्यते । तांस्त्रग्वृत्तेनोदा-
ति रध्विति तल्लक्षणन्तु “स्रगितिभवतिरसनवकयतिरियमिति
हेरघुकुलसुतराम बृहन्महदपि पटुतरंचअतिशयेनशब्दग्रहणसमर्थ-
मपि नवकनकपरिकरंनूतनसुवर्णभूषणपरिवृतमपि यत्श्रुतियुगंक-
र्णद्वयं तवअमलागुणाएवसुमानिपुष्पाणितेषांनङ्मालातस्याउदि-
तमुद्गतमुरुअधिकंमधुमकरन्दं नप्रपिवति तत् श्रुतियुगमिहलोकेब-
धिरंबाधिर्ययुतहि । अत्रप्रकृतस्यश्रुतियुगस्यरामगुणश्रवणंविनावा-
धिर्यदुष्टत्वविनाशब्दमन्तरादर्शितम् ॥ ७८ ॥
मणिगुणनिकरवृत्तं-विनाक्तिद्वितीया विनाशब्देनसह ।
जलमुगवृत इव शशिकरनिकरो रघुकुलवर तव गुणमणिनिचयः ।
कुकविजनमनसि गमनमिह विना जगति परिलसति नवनवललितः ॥
तञ्चेत्किचिद्विना रम्यविनोक्तिस्सापि कथ्यते । तत्प्रकृतं]
तांमणिगुणनिकरवृत्तेनोदाहरति जलेति
तल्लक्षणन्तु “वसुहययति-
रिहगुणमणिनिकर"इति हेरघुकुलवरराम जलमुचामेघेनअवृतः अ-
नाच्छादितः शशिनश्चन्द्रस्यकरनिकरःकिरणसमूहइव तवगुणम-
णीनारत्नसदृशगुणानांनिचयोनिकरः कुकविजनानांकुत्सितकवीनां
मनसिगमनंप्रवेशविना इहजगतिनवनवः अतिशयेननूतनः ललित-
स्सुन्दरश्च परिलसतिराजति । अत्ररामगुणानांकुकविमनःप्रवेश
विना रम्यत्वं विनाशब्देनसहदर्शितम् ॥ ७९ ॥
वृत्तालङ्काररत्नावली। । मालिनीवृत्तं-समासोक्तिविशेषणसाम्यात् । रघुवर भवदंत्रिं कान्तमत्यन्तरक्तं चिरविरहितमूर्मीमालिनीड्यप्रयाणम् । गुहमुखसखिराजश्रीकिरीटालिराप्तं निकटतटमकुस्यद्वज्रमुक्तातिपाण्डुः ।। समासोक्तिः परिस्फूर्तिः प्रस्तुतेऽप्रस्तुतस्यचेत् । यत्रप्रस्तु- तवृत्तान्तेवर्ण्यमाने विशेषणसाम्यबलादप्रस्तुतवृत्तान्तस्यापि परि- स्फूर्तिस्तत्रसमासोक्तिरलंकारः । समासेनसंक्षेपेणप्रस्तुताप्रस्तुत- वृत्तान्तयोर्वचनात् । तामालिनीवृत्तेनोदाहरति रध्विति तल्लक्षणन्तु "ननमयययुतेयंमालिनीभोगिलोकै" रिति । हेरघुवरराम कान्तंकम- नीयंनायकंच अत्यन्तंरक्तरक्तवर्णमनुरक्तंच चिरंविरहितंवियुक्तंच ऊर्मीमालिनिसमुद्रे ईज्यप्रयाणप्रशस्ययात्रं निकटतटंसमीपप्रदेश- माप्तप्राप्तं भवतः अप्रिंचरणंवबेहोरेर्मुक्ताभिमौक्तिकैश्चवज्रवन्मुक्ता- वच्चातिपाण्डुरत्यन्तश्वेता गुह मुखाशुहप्रमुखास्लखिराजामित्रश्रेष्ठा- स्तेषांश्रीकिरीटानांशोभायुतकोटीराणामालिस्ततिः अकुस्यत्सज- तिमश्लिष्यतिस्मच । अत्रराज्याधिकारस्थितरामस्यकमनीयत्वरक्त- त्वादिविशिष्टपादयोगुहादिप्रणामावसरे वज्रमुक्ताधवलतत्किरीटा- सञ्चनेप्रकृतेवर्ण्यमानेश्लिष्टविशेषणसाम्यादंधिशब्दगतपुंलिंगद्योति- तं कान्तत्वानुरक्तत्वादिविशिष्टमात्मनायकमाप्तं किरीटालिश- ब्दगतस्त्रीलिंगद्योतिता विरहपाण्डुराकृतिः काचित्लतीश्लिष्यति- स्मेत्यप्रस्तुतवृत्तान्तः प्रतीयते ॥ ८० ॥ चन्द्रलेखावृत्तं--सारूप्यादपि समासोक्तिः । यत्स्फूर्ती रात्रिरासीत्पीयूषपाथोधिपूरः साधायात्क्षीणरूपा व्यत्यस्ततामुत्पलेषु ।
रामस्तुतिः सव्याख्या। हासाहासौ प्रयातौ चण्डांशुपर्केण राम प्राणेश प्रापतत्खासिन्धावयं शीतभानुः ॥ ८१ ॥ प्रस्तुताप्रस्तुतसाधारणविशेषणवलादिव सारूप्यबलादपि समासोक्तिर्भवति तांचन्द्रलेखावृत्तेनोदाहरति यदिति तल्ल- क्षणन्तु "म्रौम्यौयाढ्यौ भवेतांसप्ताष्टभिश्चन्द्रलेखेति" प्रभातकाले- रामंप्रतिसीताक्तिरियं हेप्राणेशगम यस्यशीतभानोःस्फूर्तीप्रकाशे यारात्रिःपीयूषपाथोधेरमृतसमुद्रस्यपूरःप्रवाहआसीत्सारात्रिरद्यप्र- भाते क्षीणरूपा विनष्टस्वरूपा अयागतवती किंचाद्य चण्डांशोःरवेः पर्केणसंगेन उत्पलेषुकुमुदेषुपद्मे पुच हासाहासौविकाससंकोचौ व्य- त्यस्ततांविपर्यासंप्रयातोगतो सोयंशीतभानुश्चन्द्रः खादाकाशत्सि- न्धौसमुद्रेवापतत्पततिस्म । अत्रप्रभातवर्णनेप्रस्तुते तत्सारूप्यादनु- अराजकालेवृद्धिमतीराज्यस्थितिस्तद्विनाशेक्षीणस्थितिर्भवेदुग्रराज- कालेसंपदसंपदोपूर्वविपर्यस्ताश्रयेचेत्य प्रस्तुतवृत्तान्त प्रतीयते ॥ ऋषभगतिविलसितवृत्तं परिकरः पदार्थरूपसाभिप्रायैकविशेषणः । त्वत्ककृपादृशः पुमृषभ गतिविलसितं प्राप्य रघूत्तमाहमपि वनमृगचपलः । प्राज्यबलामपीन्द्रमुखसुरगणजयिनो यातुपतेः पुरीं तु सप्ततनवमनलसात् ॥ ८२ ॥ अलंकारः परिकरस्लाभिप्रायेविशेषणे। तमृषभगतिविलसि- तवृत्तेनोदाहरति त्वत्केति तल्लक्षणन्तु "भौत्रिनगाः स्वराः खमृष- भगतिविलसित"मिति रामंप्रतिहजुमतउक्तिरियं पुमृषभपुरुषश्रेष्ठ- रघूत्तम वनमृगेषुकपिषु चपल चंचलोन्यहं त्वत्कायास्त्वदीयायाः कृपादृशः करुणादृष्टेगतिविलसितंदशाविलासंप्राप्य इन्द्रेति इन्द्रा- वृत्तालकाररत्नावली। " दिदेवगणजितोपि यातुपते रावणस्यप्राज्यबलामधिकसेनामपि पुरी अनलसात्कात्स्न्येनानलमग्निमतनवमकरवं अत्रहनुमद्विशेषणंराव- णविशेषणंपुरीविशेषणंच दुर्बलत्वप्रबलत्वदुष्प्रधर्षत्वाभिप्रायगर्भम् ॥ वाणिनीवृत्तं परिकरः पदार्थरूपसाभिप्रायानेकविशेषणः । रघुवृषभ गुणाकरमुदारतासमुद्र सकलजगत्पतिं सरसमौज्य सन्नता त्वम् । नरमलिनं सुदुर्गुणमुदीडितुं प्रलुब्धं कतिपयमर्त्यप भवसि वाणि नीरसं हा ॥ ८३ ॥ पदार्थरूपसाभिप्रायानेकविशेषणं परिकरंवाणिनीवृत्तेनोदाहर- ति रध्विति तल्लक्षणन्तु “नजभजरैस्सदाभवतिवाणिनीगयुक्तैरिति हेवाणि गीः त्वंगुणाकरंसुद्गुणास्पदंउदारतासमुद्रंऔदार्यजलधिं सकलजगतांपतिसरसमाश्रितेषुसप्रीतिरघुवृषभरघुवंशश्रेष्ठंरामंऔ- ज्झ्यविहाय सुष्टुदुर्गुणंअसद्गुणास्पदं प्रकर्षणलुब्धंलोभवन्तं कतिप- यमर्त्यपति नीरसमाश्रितेषुनिष्प्रीतिनरमलिननरेप्वशुद्धं उदीडितुं. स्तोतुं सन्नतासन्नद्धाभवसिहाकष्टम् । अत्ररघुवृषभनरमलिनगत- बहुविशेषणानितयोरीडनार्हत्वानहत्वाभिप्रायगर्भाणि ॥ ८३ ॥ अश्वगतिवृत्तम्-परिकर वाक्यार्थरूपसाभिप्रायविशेषणः ॥ आसमहं नहि कैटभमर्दनतल्पवरः वक्तुलुमलं तव रम्यगुणात्रघुवीर कथम् । नाकरवं शतमश्वगतिप्रथमांश्च मखा- नीक्षितुमीश कथं प्रभवामि भवत्तनुभाम् ॥ ८४ ॥ वाक्यार्थरूपसाभिप्रायविशेषणंपरिकरमश्वगतिवृत्तेनोदाहर-- ति । आसमिति । तल्लणंतु । “पञ्चभकारकृताश्वगतिर्यदि चान्त- रामस्तुतिः सव्याख्या। गुरुरिति"। हेरघुवीर हियतः अहंकैटभमर्दनस्यविष्णोः तल्पवरः। ष्ठशय्यायितश्शेषः नासनाभवम् तत-तवरम्यान्गुणान्वक्तुंकथंअलं- समर्थः अस्मि हेईशअश्वस्यगतिः संवत्सरसञ्चारः प्रथमापूर्वायेषांता- नशतमखानश्वमेधऋतूनाकरवंनानुष्ठितवानासं ततोभवतस्तनोदेह- स्यमांकान्तिईक्षितुं आलोकितुकथंप्रभवामिसमर्थोभवामि । अत्रना- हमासंविष्णुशय्या नाकरवंशतमश्वमेधानितिवावयार्थरूपेविशेषणे स्वस्मिन्छेषेन्द्रासाधारणकार्यकर्तृत्वप्रतिषेधमुखेन नाहंशेषइन्द्रश्चे- स्यभिप्रायगर्ने ॥ ८४॥ पञ्चचामरवृत्तम्-परिकराङ्कुरः । रघूत्तमाप्रमेयसद्णप्रपञ्चचामराः अपि त्वदीयसद्विभूतिमीशते महीयसा । अनेहसा न बोधितुं कथञ्चनाथ मयंक- स्तनीयसाऽऽयुषा हि तामवैतुमीश्वरः किमु ॥ ८५ ॥ साभिप्रायेविशेष्येतुभवेत्परिकराकरः। तंपञ्चचामरवृत्तेनोदा- हरति । रध्विति । तल्लक्षणंतु " लघुर्गुरुनरिन्तरंभवेद्धिपञ्चचामर- मिति” । अप्रमेयः प्रमातुमशक्यस्सगुणानां प्रपञ्चोविस्तारोयस्य- तस्यसम्बुद्धिरप्रमेयसद्गुणप्रपञ्च हेरघूत्तम अमरामरणरहितादेवाश्च महीयसाअतिमहता अनेहसाकालेनापि कथंचन कथमपित्वदीयां- सती श्रेष्टांविभूतिमहिमानवोधितुज्ञातुं नेशतेसमर्थानभवन्ति । अथम्रियतइतिमर्त्यःमरणयुक्तःअल्पःमयोमर्त्यकः तनीयसाअत्य ल्पेनायुषावयसा तांत्वदीयसद्विभूतिमवतुंज्ञातुमीश्वरः किमुसमर्थः किं । अत्रमर्त्यकइतिअमराइतिविशेष्यद्वयं भगवद्विभूतिबोधनप्रति- बन्धकमरणतदभावविशिष्टत्वाभिप्रायगर्भम् ॥ ८५ ॥ ४ ५० वृत्तालङ्काररत्नावली। शैलशिखावृत्तम्-प्रकृतानेकविषयश्लेषः वीक्ष्य रघूत्तमं विजयिनं विबुधा विविधाः नन्दनवन्यतिप्रियहृदस्समरुद्भवकाः । भास्करजातकान्तिभरिताश्च सुवर्णलस- च्छैलशिखाकरा मुमुदिरे हरिमुख्यतमाः ॥ ८६ ॥ नानार्थसंश्रयःश्लेषोवावोभयाश्रितः । अनेकार्थशब्द- विन्यालाश्लेषः । सचत्रिविधः। प्रकृतानेकविषयः अप्रकृतानेक- विषयः, प्रकृताप्रकृतानेकविषयश्च । तत्रप्रकृतानेकविषयश्लेषशैल- शिखावृत्तेनोदाहरति । वीक्ष्येति । तल्लक्षणंतु "शैलशिखाभरौनभ- भगाः कथितामुनिनेति” । विजयिनंविजयवन्तरघूत्तमंवीक्ष्य विशे- षेणबुध्यन्तइतिविबुधाविशेषज्ञानवन्त देवाश्च विविधाम्नानाविधाः नन्दयतीतिनन्दन्यानन्दजननी या वनीवनंतत्रातिप्रियंहन्मनायेषांत- थाभूताः नन्दनाख्यदेवोद्यानातिप्रियमानसाश्च समरुद्भवका वायुपु- त्रसहिताम्मरुद्भिःभवेनरुद्रेण केनब्रह्मणाचसहिताश्च । भास्करजा- तेसुग्रीवेकान्त्येच्छयाभरिता पूर्णा:भास्करजातस्यसूर्यबृन्दस्येवका- न्त्याभासाभरिताश्च । सुवर्णकनकमिवलसन्तःप्रकाशमानाःशैला- नांशिखा अग्रमाकरआस्पदयेषांतथाभूताः सुवर्णेनलसनशैलोमेरुः- तच्छिखरवासाश्चहरियुवानरेषुमुख्यतमाःअतिमुख्याः हरिरिन्द्रोमु- ख्यतमोयेषांतथाभूतादेवाश्चमुमुदिरेमोदन्तेस्म । अत्रसन्तोषविशिष्ट- त्वेनप्रकृतानांवानराणांदेवानांचकीर्तनंप्रकृतश्लेषः ॥ ८६ ॥ शिखरिणीवृत्तम्-अप्रकृतानेकविषयश्लेषः । रघूत्तंस श्रीमन्त्वदुपमितिकक्ष्यां जगति कः विशेत्स्याचेन्नोमाजनिरुपनतानन्तसुमनाः ।
IT.. रामस्तुतिः सव्याख्या। अरिष्टान्तर्भावः करधृतमहामेरुशिवरि- ण्यशेषव्यामोहाचरणपटुशक्त्यायुधधरः ॥ ८७ ॥ अप्रकृतानेकविषयश्लेषंशिखरिणीवृत्तेनोदाहरति । रध्विति । तल्लक्षणंतु " रसैरुद्वैश्छिन्ना यमनसभलागश्शिखरिणीति"। हे- श्रीमत्रघूत्तंस उपनताविनताः ननिताश्चअनन्ताअसंख्यास्सुमनसः देवाः पुष्पाणिचयस्मिन्येनचतथाभूतः । करधृतः महामेरुरितिशि- खरीपर्वतोयेनतस्मिच्छिवे अरिष्टश्शुभः अशुभश्चान्तर्भावः मनवे- भिप्रायोयस्यतथाभूतश्च अशेषाणांसमस्तानांव्यामोहाचरणेविशेष- मोहकरणेपटुसमर्थशक्त्याख्यमायुधंतस्यधरः अशेषव्यामोहाचर- णपटुश्शक्तिर्वीर्ययस्यतथाभूतस्यपुष्पायुधस्यधरश्च । उमाजनिर्गु- होनस्याञ्चेत् माजनिःप्रद्युम्नोनोस्याञ्चेत् जगतिकः तवउपमितिक- क्ष्यांउपमानवस्तुमध्यविशेत्प्रविशेत् । अपमानत्वेनाप्रकृतयोर्मार- कुमारयोः कीर्तनमप्रकृतश्लेषः ॥ ८७ ॥ पृथ्वीवृत्तम्-उभयानेकविषयश्लेषः । सदालिषु सदावसन्कुवलयं समुन्मीलयन् जडात्मकमिदं भृशं समुदयेन संवर्धयन् । खपादसरणोल्लसच्छिखरसर्वपृथ्वीधरः करोति मृदु ताररावयुतञ्च सीतान्तरम् ।। ८८ ॥ उभयानेकविषयश्लेषपृथ्वीवृत्तेनोदाहरति । सदिति । तल्लक्ष- गंतु “जसौजसयलावसुग्रहयतिश्चपृथ्वीगुरुरिति” सतांसाधू- नांनक्षत्राणांचआलिपुततिधुसदावसन् कुवलयंभूमण्डलंउत्पलंच- सम्यगुन्मीलयन्विकासयन्भृशंकामंसम्यगुदयेनदीप्त्याअभ्युदयेन- वाउद्गत्याचजडात्मकंप्रायेणाशप्रकृतिकंइदंजगदिदंजडात्मकंजल- वृत्तालङ्काररत्नावली। स्वरूपंच जडात्मशीतस्वभावकंजलंचवा वर्धयन्स्वपादयोस्स्वचर- जयोस्सरणंशरणागतिस्स्वपादानांनिजकिरणानांसरणंप्रचारश्चतेनो- ल्लसन्तिशोभमानानिशिखराणिशिरांसिकूटानिचयेषांतथाभूताः स- पृथ्वीधराः राजानः पर्वताश्चयस्यतथाभूतस्तारराट्तारेऽभिधा- नभूतेप्रतीकभूतेवाप्रणवेअभिधेयत्वेनराजतइतितारराट्तारमन्त्रार्थः श्रीरामानक्षत्रराजश्चन्द्रश्च सीतायाजानक्या लागलपद्धतेश्चान्तरं- मनः मध्यंच मृदुकोमलंमार्दवर क्तंच द्रवेणशृङ्गाररसेननर्मणावा- जलद्रवेणचयुतंकरोति । अत्र गमवर्णनप्रकृतंचन्द्रवर्णनमप्रकृतमि- तिप्रकृताप्रकृतश्लेषः ॥ ८८॥ अतिशायिनीवृत्तम्-सारून्यनिवन्धनाअप्रस्तुत (स्तुति) प्रशंसा । नवमालतिके मनोहरान्वयवतोऽप्ययि लं सहकारतरोईढोपगृहनसुखातिदूरा। विषवल्लिवृताऽपि कण्टकव्यथितमूर्तियुक्ता न जगत्यतिशायिनी जहासि सुषमामहत्ताम् ।। ८९ ॥ अप्रस्तुतप्रशंसास्यात्सायत्रप्रस्तुताश्रया । यत्राप्रस्तुतवृत्तान्त- वर्णनंप्रस्तुतवृत्तान्तावगतिपर्यवसायितत्राप्रस्तुतप्रशंसालङ्कारः। अ- प्रस्तुतवृत्तान्तवर्णनेनप्रस्तुतावगतिश्चप्रस्तुताप्रस्तुतयोसंवन्धेसति- भवति । संवन्धश्चसारूप्यंसामान्यविशेषभावः कार्यकारणभावोवा- संभवति । तत्रसामान्यविशेषभावेसामान्याद्विशेषस्यविशेषाद्वासा- मान्यस्यावगतोद्वविध्यं । कार्यकारणभावेऽपिकार्यात्कारणस्यकार- णाद्वाकार्यस्यावगतौद्वैविध्यम् । सारूप्येत्वेकोभेदइत्यस्याःपञ्चप्र- काराः। तत्रसारूप्यनिवन्धनां अप्रस्तुत (स्तुति) प्रशंसामतिशायि. नीवृत्तेनोदाहरति । नवेति । तल्लक्षणंतु "ससजाअतिशायिनीभः जौगुरुयुगीसमेताविति” । मालतीब्याजेनसीतांप्रतिहनूमदुक्तिः
रामस्तुतिः सव्याख्या।
अयिहेनवमालतिकेनूतनजातिलतेत्वं मनोहरान्वयवतोरम्यवंशवतः
सहकारतरोश्चुतवृक्षस्यदृढोपगृहनसुखाद्गाढालिङ्गनजातमुखाद-
तिदूरा विप्रकृष्टाऽपि विषवल्लिभिविषलताभित्र्तापरिवृताऽपि क-
ण्टकैर्व्यथितयापीडितयामू.देहेनयुक्ताऽपि जगत्यतिशायिनीम-
तिशयितां सुषमामहत्तांकान्तिमहत्वं नजहासिनत्यजसि । अत्राप्र-
स्तुतमालतीप्रशंसा प्रशंसनीयत्वेनप्रस्तुतायांवत्सरूपायांप्रकृष्टवंश-
जरामालिङ्गनदूरायांराक्षसीवृतायांरावणस्पर्शपीडितदहायामप्य-
तिशयितकान्तिमत्यजत्यांसीतायांपर्यवस्यति ॥ ८९ ॥
वंशपत्रपतितवृत्तम्-सारूप्यनिवन्धनाप्रस्तुतः (निन्दा) प्रशंसा।
कण्टकवंश पत्रपतितद्विजनिकरयुतोऽ-
प्यकुरशाखिकाभिरतुलां विततिमपि गतः ।
त्वं बहुपाद्यथा प्रभवसि प्रकटरविकर-
स्तोमसुतप्ततापहरणे जगति खलु किमु ॥ ९० ॥
सारूप्यनिबन्धनाप्रस्तुत (निन्दा) प्रशंसांवंशपत्रपतितवृत्तेनो-
दाहरति । कण्टकेति । तल्लक्षणंतु “दिङ्मुनिवंशपत्रपतितं भ-
रनभनलगैरिति । कण्टकवृक्षव्याजेनरावणंप्रतिहनुमदुक्तिः । हेक-
ण्टकवंश कण्टकनिविडवेणुवृक्ष पत्रेषुपर्णेषुपतितैद्विजनिकरैःप-
क्षिसमूहर्युतोऽपि अङ्कुरैरभिनवोद्भिद्भिःपल्लवैवाशाखिकाभिः-
शाखाभिश्चअतुलामसमांविततिव्याप्तिंगतोऽपि त्वं बहुपाद्यथा-
वटवृक्षइव जगति प्रकटेनोग्रेणरविकरस्तोमेनसूर्यकिरणजालेनसु-
तप्तानांतापहरणे प्रभवसिखलुकिमुसमर्थोभवसिकिम् । अत्रक-
ण्टकवृक्षनिन्दा निन्दनीयत्वेनप्रस्तुतेतत्सरूपेसहाययुतेऽपिपुत्रपौ-
त्रादिसन्ततिनिबिडेऽपिरामवदाश्रिततापमपहर्तुमक्षमेरावणेपर्यव-
स्थति
॥९० ॥
वृत्तालङ्काररत्नावली।
तल्लक्षणंतु "
सारूप्यनिबन्धना स्वरूपाख्यानमात्रपराप्रस्तुतप्रशंसा।
सारङ्गयेषा स्वगणगलिता कृष्णसारेण हीना
दूरादरं किल पलभुजा सारमेयेण नीता ।
वृक्या बया भृशपरिवृता तत्कथं नो बिभीया-
न्मन्दाक्रान्ताऽप्यधिकतरला या पुरा तद्रवेण ॥९१।।
अप्रस्तुतप्रशंसेत्यत्रप्रशंसाशब्दःस्तुतिनिन्दास्वरूपाख्यानसा-
धारणकीर्तनमात्रपरः। पूर्वोदाहरणयोः स्तुतिनिन्दारूपाप्रस्तुतकी-
तनम् । इदानीं (स्तुतिनिन्दोदासीन) स्वरूपाख्यानमात्रपरांसारूप्य-
निबन्धनामप्रस्तुतप्रशंसांमन्द्राक्रान्तावृत्तेनोदाहरति । सारङ्गीति ।
मन्द्राक्रान्ता जलधिषडगैम्भीनतौतोगुरूचेदिति”।
सारङ्गीव्याजेनसीतामुद्दिश्यहनुमदुक्तिः एषासारङ्गीमृगीस्वगणात्
स्वयूथाद्गलिताभ्रष्टा कृष्णसारेणपत्यामृगेणहीनारहिता पलभुजा-
मांसाशिनासारमेयेणशुनाकिलदुरादृरविप्रकृष्टदेशाद्विप्रकृष्टदेश-
नीताप्रापिता बयाअनेकयावृक्यावृकाख्यश्वभेदस्त्रियाभृशंकामंप-
रिवृताचास्ति तत्तस्मात्कारणात्कथनोविभीयाद्भीतिनगच्छेत् या-
सारङ्गीपुरातस्याःवृक्यारवेणशब्देन मन्दकिञ्चिदाक्रान्ताव्याप्ताs-
प्यधिकंयथाभवतितथातरलाभयकम्पिताऽभूत् । अत्रसारङ्गीवृत्ता-
न्तकीर्तनंतत्सरूपायांस्वराज्यभ्रष्टायांरामविरहितायांरावणेनाशो-
कवननीतायांराक्षसीतायांभीतिमत्यांसीतायां पर्यवस्यति ॥९॥
हरिवृत्तम् (हरिणीवृत्तम्)-सामान्यनिवन्धनाप्रस्तुतप्रशंसा।
भुवनमहितात्संजातोऽपि स्वयं खलु वंशतो
गुणमणिगणैरन्यानाप्यैः पुनः परिशोभितः ।
हरिसमवल: श्रीमांश्चापि प्रतीपतरे विधौ
विपदममितां प्राप्नोत्येव प्रजल्पितुमक्षमाम् ॥ ९२ ॥
रामस्तुतिः सव्याख्या। सामान्यनिबन्धनामप्रस्तुतप्रशंसाहरिवृत्तेनोदाहरति भुवने- ति। तल्लक्षणंतु "रसयुगहयैर्साम्रोस्लौगोयदाकथितोहरिरिति” । स्वयंखलुभुवनमहिताल्लोकपूजिताद्वंशतःकुलात्सञ्जातोऽपि पुनःअ- न्यैरितरैरनाप्यैरप्राप्यैः गुणमणीनांगुणरत्नानांगणैःपरिशोभितोऽपि हरिणाविष्णुनेन्द्रेणवासमवलोऽपि श्रीमांश्चापिसम्पयुक्तोऽपिजनः विधौदेवेप्रतीपतरेअतिप्रतिकूलेसति प्रजल्पितुकथयितुमक्षमामश- काममितामसंख्यातांविपदमापदंप्राप्नोत्येव अत्ररविकुलजातस्यगु- णरत्नाकरस्यमहाबलसम्पदोऽपिदैवप्रातिकृल्येनवनवासादिकष्टमनु- भवतोरामस्यवृत्तेप्रस्तुतेतत्प्रत्यायनार्थसामान्यमभिहितम् ॥ ९२ ॥ नत्कुटकवृत्तम्-विशेषनिवन्धनाप्रस्तुतप्रशंसा। रघुकुलसन्मणे परिगतस्तव दृष्टिपथं मुमुख विभीषणो दशमुखोऽयमपीश तयोः । निशिचरपत्तनं सदनरत्नकनत्कुटकं तदगमदेककः किल परस्तु विनाशितवान् ॥ ९३ ॥ विशेषनिवन्धनामप्रस्तुतप्रशंसांनत्कुटकवृत्तनोदाहरति । र- ध्विति । तल्लक्षणंतु "हयदशभिनजीभजजलागिति नत्कुटकमिति"। हेसुमुखशोभनवदनरघुकुलसन्मणेराम अयंविभीषणस्तबदृष्टिपथंद- यादृष्टिसरणिपरिगतः । अयंदशमुखोऽपितन्त्रक्रूरदृष्टिपथंपरिगतः प्राप्तः । तयोविभीषणदशमुखयोरेकएवैककः विभीषणः सदनेषुगृहे- पुरत्नैर्वज्रमुक्तादिभिःकनन्तोदीप्यमानाः कुटाः कलशास्मिस्तथा- भूतंनिशिचरपत्तनलङ्काराज्यमगमत्प्राप्तवान् । अपरः अन्यः दशमुख स्तु तन्निशिचरपत्तनविनाशितवान्किल । अत्र रामसदृश सत्पु- रुषदयादृष्टिगोचरस्सम्पदमृच्छति तत्क्रूरदृष्टिगोचरोविपदमृच्छती-
वृत्तालङ्काररत्नावली।
तिसामान्येवक्तव्ये तत्प्रत्यायनार्थअप्रस्तुतोविशेषोऽभिहितः॥९३॥
कोकिलकवृत्तम्-कार्यनिवन्धनाप्रस्तुतप्रशंसा ।
जनकसुता प्रिया रघुपतेर्मम कोकिलक
क वदसि तां न चेच्छरगगैननु हन्मि तदा ।
इति मयि कुप्यति ध्वनिमसौ किल पञ्चमगं
मधुरतरं ततस्सुपठितं परिकूजितवान् ॥ ९४ ॥
कार्यनिबन्धनामप्रस्तुतप्रशंसांकोकिलकवृत्तेनोदाहरति । ज-
नकेति । तल्लक्षणंतु "मुनिगुहकार्णवैः कृतयति वद कोकिलक-
मिति” । नत्कुटकस्यैवयतिनियमेनकोकिलकमितिनामान्तरम् ।
सीतामन्वेषमाणस्यरामस्यलक्ष्मप्रत्युक्तिरियम् । ननुहेकोकिलक-
रम्यपरभृत रघुपतेः रामस्यममप्रियादयिताजनकसुतासीताक्वकुत्र
तांनवदसिचेत्तदात्यां शराणांवाणानां गणैःहन्मि इतिमयिकुप्यति-
सति असोकोकिलकः ततः जनकसुतायाः सुष्ट्रपठितंकिलाभ्यस्त-
मिवेत्युत्प्रेक्ष्यमाणं अतिशयेनमधुरंमधुरतरं पञ्चमगंपञ्चमस्वरगतं-
ध्वनिशब्दं परिकृजितवान् शब्दितवान्। अत्राप्राकरणिकेनसीता-
कण्ठादभ्यस्तत्वेनोत्प्रेक्ष्यमाणेनकोकिलमधुरतरपञ्चमध्वनिरूपकार्ये-
ण प्राकरणिकस्थकारणभूतस्यसीताकण्ठध्वनेलोकोत्तरमाधुर्यवि-
शेषः प्रतीयते ॥ ९४॥
हरिणप्लुतवृत्तम्--कार्यनिबन्धनाप्रस्तुतप्रशंसा।
मेनके द्रुतमीक्ष्यतां प्रभुवंशि क्षणमास्यतां
किंन्विदं हरिणप्लुतं सखि नूतनान्वरितुं वरान् ।
इत्थमीश रिपोः पुरे तव बन्धनात्त्रिदिवाङ्गना-
मोचिता रघुनायक स्फुटसंगता दधते मुदम् ॥९५॥
रामस्तुतिः सव्याख्या। पुनरपिकार्यनिवन्धनामप्रस्तुतप्रशंसाहरिणप्लुतवृत्तेनोदाहर- ति । मेनकइति । तल्लक्षणंतु “ रस्सजौहरिणप्लुतंजभराश्च नागप- कीर्तितमिति” । हेसखिमेनकेद्रुतंशीघ्रप्रभुरिन्द्रोरामोकल्वया ईक्ष्य- तां दृश्यतां । सख्युर्वशित्वयाक्षणमास्यतांस्थीयतां नूतनान्नवान्ध- रान्रणहतान्वीरपुरुषवरान्वरितुंग्रहीतुं किन्विदं हरिणस्यमृगस्येव- प्लुतंप्लवनं । इत्थमेवंजल्पन्त्यः हेईशप्रभोरघुनायकराम तवरिपो- श्शत्रोरावणस्यपुरे बन्धनात्कारागृहवन्धान्मोचितारावणवधानन्त- रंविभीषणेनविमोचिताःत्रिदिवाङ्गनाःपूर्वरावणेनबन्दोबद्धाःअप्सर- सः स्फुटस्पष्टंसंगताःपरस्परंमिलितास्सत्यः सुदमानन्दंदधतेधर- न्ति । अत्राप्रस्तुस्तेन देवाङ्गनानांवन्धनमोचनादिमोदविशिष्टतान्त- कार्येण हेरामत्वयालोककण्टकोरावणसंहत इतिकारणस्यप्रतीतिः। शार्दू.... "तं-कारणनिवन्धनाप्रस्तुतप्रशंसा । किं मन्दोदरि तावकीनबदनाम्भोजं न्यमीलभृशं राजत्यम्बुजबान्धवे सति कथं सत्कजलात्तावकात् । कालिन्दी नयनोत्पलद्वितयतो वेगेन निर्गच्छति क्रुद्धस्सख्यभवजगत्त्रयविभु बैदेहजावल्लभः ॥ ९६ ॥ कारणनिबन्धनामप्रस्तुतप्रशंसांशार्दूलविक्रीडितवृत्तेनोदाहर- ति । किमिति । पतिमृतिदुःखितां मुखविकासरहितामश्रुविमुच्च- न्तींचरावणवनितामविदिततद्वत्तान्ताकाचनतत्सखीपृच्छतिकिमि- त्यादिनानिर्गच्छतीत्यन्तेन हेमन्दोदरि अम्बुजबान्धवेसूर्येभृशंस- म्यविराजतिप्रकाशमानेसतितावकीनंत्वदीयंवदनमुखमेवाम्भोज- पद्मकिंकुतन्यमीलत्संकुचितं कथंसविद्यमानंकजलमञ्जनंयस्मि- म्तस्मात्तावकात्त्वदीयान्नयनेएवोत्पलेतयोद्वितयतोद्वन्द्वात् कालि- वृत्तालङ्काररत्नावली। न्दीयमुनावेगेननिर्गच्छतिनिस्सरतीति सख्यापृष्टामन्दोदरीप्रतिव्रते- क्रुद्धइत्यादिना हेसखिजगत्रयस्यविभुःप्रभु वैदेहजायाः सीतयाव- ल्लभापतिः ऋद्धोऽभवत् । अत्रसख्यामन्दोदर्यामुखविकासाभाव- स्यसाञ्जननेत्रतः कालिन्दीजलवन्नीलरूपस्यस्रवतोऽश्रुणश्चनिमि- तेपृष्टेस्वप्रियमरणरूपनिमित्तंरामकोपकार्यमनाख्याय क्रुद्धस्सीता- पतिरितितत्कारणमभिहितमितिकारणनिबन्धनाप्रस्तुतप्रशंसा ॥ निशावृत्तं –प्रस्तुतांकुरालंकारः । शलभपरिबृढं निशायां प्रदीपद्युतावाशया जिगमिषुमघलोक्य मारीचनामाऽऽशरो वक्त्ययम् । शलभतिलक साहसं माकुरु स्वीकुरुप्वोदितं मम बहुशलभास्तदाशावशान्मृत्युमेवामुवन् ॥ ९७ ॥ प्रस्तुतेन प्रस्तुतस्य द्योतने प्रस्तुतांकुरः। यत्र प्रस्तुतेन वर्ण्य- मानेनाभिमतमन्यत्प्रस्तुतं द्योत्यतेतत्र प्रस्तुतांकुरालंकारस्तं निशा- वृत्तेनोदाहरति । शलभेति । तल्लक्षणन्तु 'नगणयुगलतोधिरेफाय- दास्युर्निशासाभवेदिति । सीतापहरणेस्वंसहायंप्रार्थितवन्तंरावण- मीषन्निद्रमालक्ष्यरात्रौमारीचश्शलभव्याजेनबोधयतितमित्थं। अयं- मारीचनामा आशरोराक्षसोनिशायांप्रदीपद्युतौ दीपशिखायामाश- याभक्षणाशया जिगमिपुंतांप्रतिगन्तुमिच्छंशलभपरिबृढ़पतंगश्रेष्ठं- अवलोक्यदृष्ट्रावतिब्रवीति किमिति-हेशलभतिलकपतंगपते साह- दीपशिखामक्षणायहठात्कारपूर्वकगमनकार्य माकुरु ममोदितंवा- क्यंस्वीकुरुप्वांगीकुरु बहवःशलभास्तस्यां दीपशिखायामाशाव- शान्मृत्युंमृतिमेवाप्नुवन् । अत्रशलभपरिबृढमेवंवक्तीतिवाच्यार्थ- स्यप्रस्तुतत्वं एवंचप्रस्तुतेनवाच्यार्थेनशलभहितोपदेशरूपेणदीप-
रामस्तुतिः सव्याख्या।
शिखासदृशसीताकामुकंरावणंप्रतिमारीचस्यहितोपदेशरूपंप्रधान-
भूतंप्रस्तुतान्तरमभिव्यज्यते ॥९८॥
करिणीवृत्तं-पर्यायोक्तालंकारः।
न यदीयपदपि पश्यति सकलं नतु भुवनं
रघुपुंगव तमसा वृतनिलयामधिविपिनम् ।
भवदीयपदरुणांबुजरजसा धुतदुरितां
स शिलामपि करिणोगतिमकरोन्निजरमणीम् ।। ९८ ॥
पर्यायोक्तं तुगम्यस्यवचोभंग्यन्तराश्रयम् । यदेवगम्यविवक्षि-
तंतस्यैवभंग्यन्तरेणविवक्षितरूपादपिचास्तरणकेनचिद्रूपांतरेणाभि-
धानंपर्यायोक्तं [विवक्षितस्वप्रकारातिरिक्तेनचारुतरणरूपेणव्यंग्य-
स्याभिधानंपर्यायारू करिणीवृत्तेनोदाहरति । नेति। तल्लक्षणन्तु 'स-
नजाअपिनभसा शरयतिभिर्यदिकरिणीति । यस्य (गौतमस्य) अयं-
यदीय पत्पादोपि सकलंसमस्तंभुवलंलोकं नतुपश्यतीतिन अपितु-
पश्यति गौतमस्याक्षपादत्वादितिभावः समुनिःअधिविपिनंवनेतम-
साअन्धकारेण वृतनिलयांसंवृतास्पदांशिलामपिरघुपुंगवभवदीय-
स्यपदरुणांबुजस्यचरणकोकनदस्यरजसारेणुनाधुतदुरितांविगतक-
ल्मषांकरिण्याःगतिसदृशगतिनिजरमणीस्वभार्यामकरोत् । अत्रगौ-
तमःस्वासाधारणरूपेणगम्यःसकलभुवनद्रष्ट्रपदत्वेनाभिहितः ॥
शार्दूलविक्रीडितवृत्तं-पर्यायोक्तभेदः ।
हे सीते परिधानमध्यपिहितं देवात्मनः कन्दुकं
क्रीडन्येन चिकीर्षुरस्मि विविधं शार्दूलविक्रीडितम् ।
किं याच्नावचसा स्वयं विचिनुयामित्यादरेण ब्रुवन्
नीवीस्रसनकृत्स्त्रियाः सुरुचिरं दद्यात्सुखं राघवः ॥ ९९ ॥
वृत्तालङ्काररत्नावली। पर्यायोक्तंतदप्याहुर्ययाजेनेष्टसाधनम् । (रमणीयेनव्याजेन- स्वस्यपरस्यवेष्टस्यसंपादनमपिपर्यायोक्तं) सूर्याश्वैर्मसजस्तताः- सगुरवःशार्दूलविक्रीडितम् । तेनवृत्तेनतत्पर्यायोक्तमुदाहरति हेसी तइतिहसीतेपरिधानस्याधोवस्त्रस्यमध्येपिहितंनिगूहितं आत्मनस्त- वममवा कन्दुकंगेन्दुकंदेहि । येनकन्दुकेनक्रीडन्विहर विविधंना- नाप्रकारं शार्दूलस्यव्याघ्रस्येवविक्रीडितंविशिष्टखेलनंचिकीर्षुः कर्तु- मिच्छरस्मि । अथवायान्नावचसाप्रार्थनोक्याकि नकिमपिप्रयोजन- मित्यर्थः । स्वयमहमेव पिहितंकन्दुकंविचिनुयांमार्गयेयमित्यादरेण- प्रीत्याब्रुवन्कथयन् सुरुचिरंसविलासंयथातथा स्त्रियाः रमण्याः सीतायाः नीव्याअधोवस्त्रग्रन्थः स्प्रेसनकृत्वियंसनंकुर्वन् राघवः सुखंदद्यात् दिशेत् । अत्रकन्दुकसद्भावशोधनाय नीवीवित्रंसन- व्याजेन स्वेष्टसाधनं पर्यायोक्तम् ॥ ९९ ॥ पानीयस्थलरामणीयकयुते गोदास्रवन्तीतटे क्रीडासाधनवस्तुभिः कवचितं शय्यागृहं निर्मितम् । पश्य त्वं प्रियया समं रघुपते शार्दूलविक्रीडितं कृत्वाऽऽनेतुमना बनान्तरमियां भोज्यं फलाद्युत्तमम् ॥ पुनरपिपर्यायोक्तंपूर्वोक्तवृत्तेनोदाहरति पानीयेति पानीयस्यो- दकस्यस्थलस्यदेशस्यच रामणीयकेनरमणीयतयायुतेयुक्ते गोदा- स्रवन्त्याः गोदावरीनद्यास्तटेतीरे क्रीडासाधनविहारयोग्यैर्वस्तु- भिः पदार्थैः कवचितंव्याप्तं भवदाशारशंवदेनमयानिर्मितंकृतंशय्या- गृहंशयनसदनं हेरघुपते विश्यियादयितयासीतया समंसाकंपश्यवी- क्षस्व । अहन्तुशार्दूलस्येवविक्रीडितंशीघ्रधावनादिखेलनं कृत्वाउ- त्तमंमेध्यंफलादिफलमूलकन्दपिशितादिकं भोज्यंअदनीयवस्तुजातं रामस्तुतिः सध्याख्या। आनेतुमाहर्तुं मनोयस्यतथाभूतः वनान्तरंवनमध्यंअन्यद्वनंवा इयां- गच्छेयं अत्रसीतारामयोविहारानुगुणंशय्यागृहनिर्मायभोज्यवस्त्वा- नयनव्याजेनबहिर्गच्छतालक्ष्मणेनतयोःस्वच्छन्दतासंपादनरूपंपरेष्ट साधनंपर्यायोक्तम् ॥ १००॥ वाणीवृत्तं व्याजस्तुत्यलंकारः। हे रामाख्ये विपिनचरा मणिमयभूषादि हरामो रम्या रामा नगरगता वशयितुमाभिर्विचरामः । इत्यायुक्तीनधिमनुजान् श्रुतिमयवाणीनिव विज्ञान् बुद्धेर्लेगो न भवति ने सुरवनभूमि गमयन्त्याः ।। उक्तिव्याजस्तुतिनिन्दास्तुतिभ्यां स्तुतिनिन्दयोः। निन्दया- स्तुतेः स्तुत्याचनिन्दायाः स्तुत्यास्तुतेश्चोक्तिरभिव्यक्तिर्व्याजस्तु- तिः । आद्यप्रकार द्वये स्ततिनिन्द्रयोः समानविषयत्वभिन्न विषय- त्वाभ्यांप्रत्येकंदैविध्यमिति चत्वारोभेदाः। अन्त्यस्तु भिन्नविषय- स्तुतिक एकएवेति पञ्चभेदाः । व्याजस्तुतौनिन्दयास्तुतेस्स मानविषयायाउदाहरणं वाणीवृत्तेनाह । हेरामेति । तल्लक्षणंतु मभसनयसगणा गुरुश्च नवसु यतिश्चेद्वाणीवृत्तम् । हे रामाख्ये- रामनामन् वयंविपिनचराः काननचारिणस्सन्तःवनप्रयाणिनांवणि- जांमणिमयभूषादि रत्नखचिताभरणादिकं वस्तुजातं हरामः तान्प्र- हृत्यतद्वस्त्वपहरामः । किंच नगरगताः पौरजनाइवरमणीयवेषा- स्सन्तः रम्यास्सुन्दरीः रामाः परवनिताः। वशयितुंमणिमन्त्रौष- धादिभिस्स्वाधीनीकर्तुं आभिस्सहविचरामः सञ्चरामः इत्याद्यक्ती- न्इतिएवमादयः उक्तयः 'नदीस्तरामोनभयंस्मरामोयनेचरामोवसु- चाहरामः' इत्यादिवाक्यानि येषांतान् अधिनःपापिनोमनुजान्नरा- वृत्तालङ्काररत्नावली। नपि श्रुतिमयीवेदप्रचुरावाणीवाग्येषान्ते श्रुतिमयवाणयस्तान्श्रु- तिमयवाणीन् । समासान्तविधेरनित्यत्वान्नकम् । गास्त्रियोरितिह- स्वः । विज्ञानिव तत्वज्ञानिव सुरवनभूमिदेवलोकस्थितनन्दनादि- प्रदेशं गमयन्त्याः आनुषङ्गिकरामनामकथनेनप्रापयन्त्याः ते हेरा- माख्यभवत्याः बुद्धेर्धियः लेशःलवोऽपि नभवति । अत्रबुद्धिर्नास्ती- तिनिन्दाव्याजेन रामनाम वेदवादिनइवपरस्वपरवनितापहारिपा- पिनोऽपिस्वर्गनयतीतिव्याजनिन्दयारामनामप्रभावातिशयस्तुतिः॥ राक्षसि त्वया क्व वा सुवृत्तया गिरौ कृतं महस्तपस्तु यन्महापराक्रमं तमालकोमलच्छवि विना श्रमेण । राघवं पतिं विधाय तद्विहारकुङ्कुनैस्सुचर्चितेन वक्त्रनासिकादिना प्रतीकतल्लजेन साम्प्रतं विभासि ॥ व्याजस्तुतौ स्तुत्या निन्दायास्तमानविषयायाउदाहरणं त्रिःरजौगणौअन्तेगुरुलघूचवृत्तनामवृत्तं” इति लक्षणवता वृत्त- वृत्तनाह । राक्षसीति । वृद्धामपिरामसौन्दर्यमुदीक्ष्यतद्भोगकाम्यया तरुणीरूपंधृत्वा रामसविधमुपेत्य स्वमनोरथमलब्ध्वापि प्रत्युत ल- क्ष्मणेन निकृत्तनासां सर्वतश्शोणितमेदुरागी स्वनिलयंगच्छन्ती- शूर्पणखामालोक्य तद्दौर्जन्यमसहमानायाः कस्याश्चिदुक्तिरियम्। हेराक्षसिशूर्पणखे सुवृत्तयासचरित्रयात्वया कवा गिरौ सुमहत्तप- स्तुकृतं यद्यस्मात्कारणान्महापराक्रमं तमालवत्तापिञ्छवत्कोमल- च्छविरम्यकान्तिराघवंरामंश्रमेणविनाअक्लेशेनपतिविधाय तद्विहा- रेतेनसहक्रीडावसरे तद्विकीर्णैः कुंकुमपरागैस्सुचितेनसुष्टुविलि- तेन मुखनासादिनाप्रतीकतल्लजेन श्रेष्ठावयवजातेन सांप्रतमधुना- विभासिविराजसे । अत्रमहत्तपस्त्वयाकृतंतत्फलभूतंरामप्राप्त्यादि-
३
It468
रामस्तुतिः सव्याख्या।
६३
कमनुभूतमितिस्तुत्याअप्रार्थनीयपरपुरुषसङ्गमेच्छुतदुरितफलभू-
तनासिकाकर्तनसर्वाङ्गरक्तमेदुरतायुक्तांवृद्धविधवाननुगुणकारिणी-
त्वांधिगितिनिन्दा निगीर्याध्यवसानद्वारागम्यते ॥ १०२॥
हेमाद्रौ वा हिमाद्रौ रजतशिखरिणि क्ष्माधरे मन्द्ररे वा
कुत्रायं चञ्चरीकश्शुकशकुनिरयं चापि कालं कियन्तम् ।
तप्त्वा वैदेहि लीटे कमलमधु भवद्वक्त्रपीयूषतुल्यं
बिम्बं दन्दंष्टि दन्तच्छदसहसमिदं माधवीस्रग्धरे ते ॥
व्याजस्तुतौस्तुत्यास्तुतेभिन्नविषयायाउदाहरणम् "म्रभ्नैर्या-
नान्त्रयेणत्रिमुनियतियुतास्रग्धराकीर्तितेयम्” इतिलक्षणवतात्र-
ग्धरावृत्तेनाह । हेमेति । उद्यानेसीतयासहविहरतोरामस्योक्तिरियम्।
माधवीस्रग्धरेवासन्तीपुष्पमालाधारिणिवैदेहिजानकि हेमाद्रौमे-
रोवा हिमाद्रौहिमदिरोवा रजतशिखरिणिकैलासेवा मन्दरेतदा-
ख्येक्ष्माधरेगिरौवा अन्यत्रकुत्रवा कियन्तंकालंतप्त्वातपः कृत्वा अ-
यंचञ्चरीकः दीर्घिकाविहारीमधुकरः भवत्यास्तववक्त्रपीयूषस्यमु-
खामृतस्यतुल्यंसदृशंकमलमधुपद्ममकरन्दलीटेपियति । अपिचत-
थैवायंशुकशकुनि वनविहारीकीरपक्षीच हेमाद्रौ...तपःकृत्वा-
तेतवदन्तच्छदसदृशंअधरतुल्यंइदंबिम्वविम्बफलं दन्दंष्टिपुनःपुनर्द-
शति । अत्रमधुकरस्तुत्यासीतावदनामृतसौभाग्यातिशयस्तुतिः ।
शुकस्तुत्यासीताऽधरसौभाग्यातिशयस्तुतिश्चव्यज्यते । व्याजस्तु-
तौनिन्दयास्तुतेभिन्नविषयायाउदाहरणंस्तुत्यानिन्दायाभिन्न विषया-
याउदाहरणंच “कस्त्वंवानर 'नज्ञायते । यद्वक्त्रंमुहुरीक्षसे
.....तपः” इत्यादिकंज्ञेयम् ॥ १०३ ॥
६४ वृत्तालङ्काररत्नावली। शम्भुनटनवृत्तम्-व्याजनिन्दा । अये सखि सएव बहु निन्दनपदं रघुपतिः कुशिकसम्भवमखे सुबाहुमिव यः कनककायकमलं न हतवान्कलितशम्भुनटनः । खरास्रपमुखं पललभोजिनिकरं भृशदुरापनरकामयुतया निदर्शितनिजाश्रमभुवा रणगतं न च घान सह शूर्पणखया । निन्दायानिन्दयाव्यक्तिाजनिन्देतिगीयते । अन्यनिन्दयाअ- न्यस्यनिन्दायाअभिव्यक्तिर्व्याजनिन्दा, तां “जसनभजसनभगणाः लघुगुरूएतैर्यस्यपादःषविंशत्यक्षरोभवतितच्छम्भुनटनवृत्तं अत्रच- तुर्दशेषडिशेचवर्णेयतिः” इतिलक्षणवताशम्भुनटनवृत्तेनोदाहर- ति । अयेसखीति शूर्पणखासन्धुक्षणेनमायामृगमारीचसाहाय- कमाश्रित्यसीतामपहृत्यसर्वविनाश्यमृतंदशाननंपरिदेवयन्त्यास्तत्प- न्यास्सखीमवलोक्येयमुक्तिः। अयेहेसखि सरघुपति रामएव बहू- नांविविधानांनिन्दनानांनिन्दावचनानांपदंविषयः बहुधानिन्द्यइत्य- र्थः यारघुपतिःकुशिकसम्भवस्यविश्वामित्रस्यमयशेमखसम्भूते- युद्धे कलितंकृतंशम्भोरिवनटनं (लक्षणया) व्यायामोयेनतथाविध- स्सन् । सुबाहुंतदाख्यराक्षसमिव कनककायस्वर्णमयशरीरंकमलंमृ- गंमारीचंनहतवान्नावधीत् चकिंचयःरणगतंयुद्धभूमिमागतं खरः तदाख्यः अस्रपः राक्षसः मुखंप्रमुखोयस्यतथाभूतं पललभोजि- नांपलाशानां निकरंसधंभृशंदुरापेदुर्लभेनरेपुरुषरामेकामयुतया: सकामयानिदर्शिताप्रदर्शितानिजाश्रमभूःरामाश्रमभूमिर्ययातथाभू- तयाशूर्पणखयासहनजघाननहतवान् किंतुतांविहायतन्निकरगेवहत- वानित्यर्थः सएवबहुनिन्दनपदमितिपूर्वेणसंबन्धः । अत्ररामनिन्दया- लङ्कानाशकारणस्यमारीचस्यशूर्पणखायाश्चनिन्दाऽभिव्यज्यते ॥
रामस्तुतिः सव्याख्या। ६५ द्रुतमध्यावृत्तम्-आक्षेपालङ्कारः। किञ्चिदुदञ्चय पञ्चमगीतिं परभृत कर्णमधु द्रुतमध्याम् । अस्त्यथवा ननु मे दयिताया जनकभुवः कलकण्ठनिनादः ॥ आक्षेपस्स्वयमुक्तस्यप्रतिषेधोविचारणात् । स्वयमुक्तस्यार्थ- स्यकिञ्चिनिमित्तमभिसन्धायप्रतिषेधआक्षेपः । तं “भत्त्रयमोजग- तंगुरुणीचेत्युजिचनजौज्ययुतौद्रुतमध्या" इतिलक्षणवताद्रुतम- ध्यावृत्तेनोदाहरति किञ्चिदिति । हेपरभृतकोकिल कर्णयोर्मधुवन्मर- न्दवदानन्दकरंद्रुतंगीतिगतशीघ्रगतिःमध्यविलम्बितद्रुतगत्योर्मध्य- गतिश्चयस्यास्तथाभूतां पञ्चमगीतिपञ्चमस्वरं किञ्चिदीषदुदञ्चयो- च्चारय । अथवा ननुहेपरभृत मेरामस्यममदयितायाः प्रियायाः ज- नकभुवः जानक्याः कलः मधुरः कण्ठनिनादः कण्ठस्वरोऽस्ति । अत्रप्राथितस्यपरभृतपञ्चमस्वरोच्चारणस्यसीताकण्ठस्वरसत्वेनान- र्थक्यंविचार्याथवेत्यादिसूचितः प्रतिषेधआक्षेपः॥ १०५ ॥ उपचित्रवृत्तम्-आक्षपभेदः। शृणु मे वचनं विरूपचित्रं राघव मारुतिरस्मि न दूतः । हरिणीव शिखावृताऽस्ति राक्षस्यालिवृता जनकस्य तनूजा ॥ निषेधाभासमाक्षेपबुधाः केचनमन्वते । ननिषेधमात्रमाक्षेपः किन्तु योनिषेधोबाधितस्सन्नर्थान्तरपर्यवसितःकिञ्चिद्ययार्थविशे- षमाक्षिपतिसआक्षेपः । तमाक्षेपं “ विषमेयदिसौपुनर्जगोगा भौयु- जिभाद्गुरुकावुपचित्रम्” इतिलक्षणवतोपचित्रवृत्तेनोदाहरति । श्रृण्विति । हेराघव विरूपंजगदेकवीरस्यतवपुरतोनिवेदयितुमननु- गुणं अतएवचित्रमद्भुतंमेममवचनंशृणु मारुतिःहनुमान्नामाऽहं- तवदूतः दूत्यकर्मप्रवृत्तोनास्मि । शिखयादावाग्निज्वालयावृतासं- वृत्तालङ्काररत्नावली। वृताहरिणीमृगीव जनकस्यतनूजाजानकी राक्षस्यालिवृता अशोक- वनेराक्षसीनांमांसादिनीनामाल्यासङ्घनपरिवृताऽस्ति । अत्रसीता- सन्देशमखिलमुक्तवतोदूतस्यहनुमतउक्तौ नदूतोऽस्मीतिनिषेधोबा- धितत्वादाभासरूपःराघववीर्यसन्धुक्षणसमयोचितमिथ्यावचनप- रिहारेणयथार्थवादित्वेपर्यवस्यन् कालहरणमुत्सृज्येदानीमेवलंकांग- त्वानिहत्यशत्रुन्सीतासमुज्जीवनीयेतिव्यङ्यार्थविशेषमाक्षिपति ॥ वेगवतीवृत्तं-आक्षेपभेदः। अवलम्ब्य पते पितुराज्ञां गच्छसि वेगवतीं यदि गच्छेः । दयितामिह मां विसृजन्नो चिरतापकरं तव यानम् ॥ आक्षेपोऽन्योविधौव्यक्तेनिषेधेचतिरोहिते । तमाक्षेपं “सयुगा- त्सगुरूविषमेचेद्भाविहवेगवतीयुजिभाद्गौ” इतिलक्षणवतावेगवती त्तेनोदाहरति । अवेति । आत्मनोवनयात्रांप्रतिषेधन्तंराघवंप्रतिसीतो- क्तिरियम् हेपतेत्वंवेगवतींशीध्रुवनंगन्तव्यमित्येवंरूपां पितुराज्ञामव- लम्ब्यगृहीत्वादयितांप्रियांमामिहविसृजन्त्यजन्सन्गच्छसियदिवनं- यासिद्गच्छे यायाः तवयानंयात्रामेममचिरतापकरंनो चिरकालं- सन्तापकारिनभवेत् । अत्रगच्छेरितिविधिय॑क्त मागाइतिनिषेध- स्तिरोहितः । नोचिरतापकरमितिस्वमरणसंसूचनेनगमननिषेधोग- ीकृतः॥ १०७॥ विरोधाभासः पित्राज्ञां निर्वोढुं क्षमोऽपि वहसि त्वमक्षमताम् । ईशोऽप्यनीश एव श्रीरघुपुङ्गव महादरोऽप्यदरः ।। विरोधस्याभासत्वेआपाततोभासमानत्वेविरोधाभासस्तमार्य- योदाहरति पित्रिति। हेश्रीरघुपुङ्गवत्वपितुराज्ञांवनगमनाशां निवौंदु ६७ । । रामस्तुतिः सव्याख्या। कर्तुक्षमश्शक्तोऽपि अक्षमतांअशक्तत्वंराज्यराहित्यंचवहसिप्राप्नोषि ईशःप्रभुरप्यनीशःअप्रभुः नविद्यतेईशन्यस्यसइत्यपि महान्दर भयं- यस्यसम्महादरोऽपि अदरोभयरहितः। महानादरःभक्तेषुप्रीतिर्यस्य- सइत्यपि । अत्रसमन्वयस्स्पष्टः॥ १०८॥ गच्छेति वनं विभो क्षमम्त्वं पित्राज्ञामपि वोडमक्षमोऽसि । सर्वम्य विराट्च नो विराट्त्वं निर्भीकोऽपि महादरोऽसि लोके ॥ विषमे तजरगणागुरुश्च समे मसजगणागुरुद्वयंचेद्विराडिति लक्षणवताविरावृत्तेन विरोधाभासमुदाहरति । गच्छेति । पित्राज्ञां- वोढुं क्षमाशक्तोप्यक्षम अशक्त राज्यरहितश्चासि । सर्वस्यजगता- विराट्चविशिष्टोराट्चराजापित्वं विराविशिष्टोराजा नो नासिवि- राट्वीनांपक्षिणांराट्राजागरुडोनासीत्यपि । लोकेनिर्भीकोभयरहि- तोपिमहान्दरोभयंयस्यसम्महादरोसि महान्आदरोयस्यसइत्यपि । अत्रापिसमन्वयस्स्पष्टः ॥ १०९ ॥ वियोगिनीवृत्तं-विभावनालंकारः। जनकस्य सुतां वियोगिनी त्रिजटा प्राह भवत्पदौ सखि । न हि यावकलेशचर्चितावयि वर्वति तथापि पाटलः ।। विभावना विनापि स्यात्कारणं कार्यजन्म चेत् । प्रसिद्धकार- 'णाभावेपि कार्योत्पत्तिविभावना । तां “विषमेससजागुरुस्समे स- भरालोऽथगुरुर्वियोगिनी"ति लक्षणवता वियोगिनीवृत्तेनोदाहरति जनकस्येति त्रिजटातदाख्याकाचनराक्षसीसीतासखी वियोगिनी- रामविरहितांजनकस्यसुतामेवंप्राहा किमितिअयिहेसखिभवत्या पदौ यावकस्थलाक्षारसस्यलेशेनलवेनापिचितौसिक्तौनहि नस्तः तथा- पिपाटल रक्त वर्वतिभृशंवर्तते । अत्रयावकरसचर्चनरूपकारणाभा- ६८ वृत्तालकाररत्नावली। .. वेपिपाटलिमाकथितः स्वाभाविकत्वेनविरोधपरिहारः॥ ११०॥ आख्यानिकावृत्तं-विभावनाभेदः । आख्यानिकायामिदमद्भुतं ते निगद्यते राधव यं त्वमास्यः । विद्राव्य काकं त्रिजगत्स्वतीक्ष्णो मृदुस्स दर्भोऽस्य जहार नेत्रम् ॥ हेतूनामसमग्रत्वे कार्येत्पत्तिश्च सा (विभावना) मता। इति- विभावनाभेदं "प्रथमतृतीयपादाविन्द्रवज्रायाः द्वितीयचतुर्थावु- पेन्द्रवज्रायायदिस्यातांतदाख्यानिकावृत्तं” इति लक्षणवतातेन- त्तेनोदाहरति आख्यानिकायामिति हेराघवतेतवाख्यानिकायामि- तिहासेरामायणेइदमद्भुतमाश्चर्यनिगद्यतेकथ्यते । किमिति त्वंयंद- भआस्यः काकासुरोपर्यक्षिपः सःअतीक्ष्णस्तैक्ष्ण्यरहितःमृदुःकोम- लोदर्भस्त्रिषुजगत्सुतंकाकं विद्राव्यविद्रुतंकृत्वा अस्यकाकस्यनेत्रंद- क्षिणाक्षिजहारअहरत् । अत्रकाकनेत्रापहरणेसाध्येहेतोर्दर्भस्यासम- प्रत्वंतीक्ष्णत्वादिगुणवैकल्यम् । ॥ १११ ॥ विपरीताख्यानिकावृत्तं-विभावनाभेदः । रघूत्तमोक्ता मुनिना न मिथ्या नाख्यानिका ते विपरीतपूर्वा । तथापि मुक्तिं दिशति त्वयीमे बद्धास्सकामा न सितास्त्वकामाः ।। कार्योत्पत्तिस्तृतीया स्यात्सत्यपि प्रतिबन्धके । इतिविभाव- नाभेदं “प्रथमतृतीयपादावुपेन्द्रवज्रायाः द्वितीयचतुर्थपादाविन्द्र- वज्रायायदिस्यातांतद्विपरीताख्या निकावृत्तमिति" लक्षणबतातेन- वृत्तेनोदाहरतिरध्विति हेरघूत्तममुनिनावाल्मीकिव्यासप्रभृतिनोक्ता तेतवाख्यानिका रामभक्तःसंसृतिबन्धान्मुच्यतेतदभक्तःसंसृतिब- न्धवान्भवतीतिसुहृदिवव्यंग्यमर्यादयाप्रवक्तारामायणादीतिहासः रामस्तुतिः सव्याख्या। मिथ्यान सत्यैव तथा विपरीतपूर्वा पूर्वशब्दउपलक्षणविधयोत्तर- स्यापिबोधकाविरुद्धपूर्वोत्तरभागापिन त्वदाख्यानकथितंसत्यमवि- रुद्धपूर्वोत्तरमित्यर्थः । तथापिमुक्तिंभक्तानांमोक्षंदिशतिवितरतित्व- यिसकामास्तभक्तयःइमे बद्धाःसंमृतिवन्धवन्तोभवन्ति । अकामाः भक्तिरहितास्तु सितासंसृतिबद्धा न नभवन्ति । त्वयिमुक्तिंदिश- तिसति सकामाः त्वामनासेव्यकामक्रोधादियुक्ताबद्धाभवन्ति । अकामाःकामक्रोधादिराहित्येनत्वामासेवमाना:सिताःवद्धानभव- न्तीतिविरोधपरिहारः । अत्रसकामाःभक्ताःसंसृतिबन्धप्रतिबन्धक- भक्तिशालिनःश्लेषेणगृहीताः । अकामाअभक्ताःसंमृतिबन्धाभाव. प्रतिवन्धकभक्त्यभाववन्तश्चश्लेषेणगृहीताइति सत्येवप्रतिबन्धके. कार्योत्पत्तिः॥११२॥ उपजातिभेदः-विभावनाभेदः । सीताकुचौ वीक्ष्य पतिः स्थिरायाः जाता तटित्तोऽद्रियुगीति चष्ट । पत्युमुखं वक्ति विलोक्य नीलाचलादुदीतश्च शशीति सीता ॥ अकारणात्कार्यजन्मचतुर्थीस्याद्विभावना। इतिविभावनाभे- दमुपजातिभेदेनोदाहरति सीतेति पति रामःसीताकुचौवीक्ष्यचष्टे । किमिति स्थिरायाश्चंचलतांविहायस्थिरभावंगतायास्तटित्तोविद्युतः अद्रियुगीशैलद्वयीजातेति । सीताचपत्युर्मुखंविलोक्यवक्ति किमि- ति नीलाचलादिन्द्रनीलपर्वतात्शशीचन्द्रःउदीतःजातइति । अत्र- तटित्त्वेनसीताशैलयुगत्वेनतत्कुचद्वयंचाध्यवसीयते । तथानीला- चलत्वेनरामःचन्द्रत्वेनतन्मुखंचाध्यवसीयतइत्यकारणात्कार्यजन्म ॥ विलोक्य रामश्शशिनं ब्रवीति तरोस्तलं याम्ययि लक्ष्मणैते । कराः शशांकस्य मदीयकायं सन्तापयन्त्यर्ककरोपमानाः ।।
वृत्तालङ्काररत्नावली। विरुद्धात्कार्यसंपत्तिदृष्टा काचिद्विभावना । इतिविभावनामे-- दमुपजातिभेदेनोदाहरति विलोक्येति सीताविरहवेदनामनुभवन्- रामःशशिनमुदितंचन्द्रविलोक्यब्रवीति किमिति अयिहेलक्ष्मणतरो- स्तलंयामि अर्ककरोपमाना रविकिरणसदृशाःएतेशशांकस्यकराः किरणाः मदीयंकायंशरीरंसंतापयन्ति । अत्रतापनिवर्तकतयाताप- विरुद्धैःशशिकिरणैस्तापजनिरुक्ता ॥ ११४ ॥ तवाननेन्दोः स्मितदुग्धराशि रुदेति वैदेहि पते पुरस्तात् । जातस्त्वदीयात्करकल्पवृक्षात् कीर्तिच्छटाक्षीरनिधिप्रवाहः ॥ कार्यात्कारणजन्मापि दृष्टा काचिद्विभावना । तामुपजातिभे- देनौदाहरतितवेति सीतारामयोर्नर्मोक्तिरिय हेवैदेहितवाननेन्दोर्मुख- चन्द्रात् स्मितहासएवदुग्धराशिक्षीरसमुद्रःउदेत्याविर्भवति । स्मि- तस्यमन्दत्वात्तत्सादृश्यानुगुण्यायदुग्धराशेः किंचिदुदञ्चनवार्तमान- कालिकमालोच्यसीताप्राह पतेरामत्वदीयात् करएवदातृत्वात्कल्प- वृक्षस्तस्मात्कीर्तिच्छटायशोराशिरेवक्षीरनिधिस्तस्यप्रवाहः पुरस्ता- त्पूर्वमेवजातः । अत्रक्षीरांबुधिजन्यादिन्दोःकल्पवृक्षाञ्चकारणस्यक्षी- रांबुधेरुत्पत्तिरुक्ता ॥ ११५॥ उपजातिभेदः-विशेषोक्ति अलंकारः। कृष्टोऽपि रक्षोविषकण्डकैरप्याशागुणो मैथिलपुत्रिकायाः । न च्छिद्यते राघव लंबमानत्वदीयविश्लेषरुजाधरोऽपि ॥ कार्याजनिर्विशेषोक्तिः सतिपुष्कलकारणे। तामुपजातिभेदे- नोदाहरति कृष्टइति हनुमदुक्तिरियं हेराघवमैथिलपुत्रिकायाःअशो- कवनान्तरेराक्षसीवृतायाःसीतायाः आशागुणस्नेहसूत्रं रक्षोभिरेव- विषकण्टकै कष्टोपि लंबमानः त्वदीयाविश्लेषोवियोगस्तेनजातारु- । ..
रामस्तुतिः सव्याख्या। जारोगएवधरःपर्वतोयस्मिंस्तथाभूतोपि नच्छिद्यतेछिन्नोनभवति । अत्रसूत्रविच्छेदकारणपौष्कल्येपिविच्छेदरूपकार्यानुत्पत्तिरुक्ता ॥ उपजातिभेदः-असंभवालंकारः। को वेद सप्तैष शरेण सालानेकेन भिन्द्यादश योजनानि । क्षिपेत्पदो दुन्दुभिदानवस्य शरीरमंगुष्ठमुग्वेन चेति ॥ कस्यचित्पदार्थस्यनिष्पत्तेरसंभावनीयत्ववर्णनमसंभवालंकार- स्तमुदाहरति कइति सप्तसालभेदनदुन्दुभिशरीरक्षेपणकृतंराघवं- श्लाघमानस्यसुग्रीवस्योक्तिरिय एषराधवएकेनशरेणसप्तसालान्सा- लवृक्षाभिन्द्यात् किंचदुन्दुभिदानवस्यशरीरं पदःपादस्यांगुष्ठस्य- मुखेनाणे दशयोजनानिक्षिपेदस्येदितिकोवेदवेत्ति नकोपीत्यर्थः अ- त्रसमन्वयः स्पष्टः॥११७ ॥ उपजातिभेदः-असंगत्यलंकारः। रघूत्तमेनाहवकर्म सम्यगनुष्ठितं श्रेष्ठतमं वनान्ते । प्राप्तं फलं स्वर्गसुखं समस्तै रक्षोभिरुङ्गः खरदूषणाद्यैः ।। ययोःकार्यहेत्वोभिन्नदेशत्वंविरुद्धंतयोस्तन्निबध्यमानमसंगत्य- लंकारस्तमुदाहरति रध्विति आहवकर्मयज्ञकर्मयुद्धकर्मच स्वर्गसु- खयज्ञकर्मशूरप्राप्यंयुद्धांगणहतवीरप्राप्यंच शिष्टस्पष्टं । अत्रयशकर्म- स्वर्गफलयोभिन्नदेशत्वंनिबद्धम् ॥ ११८ ॥ उपजातिभेदः-असंगतिभेदः। धार्य किरीटं भरतः स्वमूर्धा रघूत्तमस्यांघ्रियुगे न्यधत्त । स्वपादुके पादयुगेन धार्ये व्यधत्त रामो भरतस्य मूर्ध्नि । अन्यत्रकरणीयस्यततोन्यत्रकृतिवसा (असंगतिः) तामुदाहर- ति धार्यमिति भरतोमातृवरेणखमूर्धाधार्यकिरीटंरामस्यांघ्रियुगेन्य- ७२ वृत्तालङ्काररत्नावली। धत्तनिहितवान् । रामोपिपादयुगेनधार्येस्वपादुकेभरतस्यमूभिव्यध- त्तविहितवान् । अत्रशिरसिरसिकरणीयंपादयोःकृतंपादयोःकरणी- यंचशिरसिकृतमित्यसंगतिः॥ ११९ ॥ उपजातिभेदः-असंगतिमेदः । रघूत्तमो गाधितनूभवस्य यज्ञे सुमित्रातनयेन साकम् । पलाशिनः पालयितुं प्रवृत्तः पलाशिनां दण्डनमेव चक्रे ॥ अन्यत्कर्तुप्रवृत्तस्यतद्विरुद्धकृतिस्तथा (असंगतिः) तामुदाह- रति रध्विति रघूत्तमोरामःगाधितनूभवस्यविश्वामित्रस्ययज्ञे सु- मित्रातनयेनलक्ष्मणेनसाकंसह पलाशिनःपलाशसमिदादिहरान्प- लाशदण्डधरान्वारक्षोभीतान्विश्वामित्रशिष्यान् पालयितुंरक्षितुंप्र- वृत्तस्सन् पलाशिनांपलाशदण्डधराणांविश्वामित्रशिष्याणांमांसा- शिनांराक्षसानांच दण्डनंशिक्षणमेवचक्रे । अत्रपलाशिनांरक्षणप्र- वृत्तेनतद्विरुद्धंपलाशिनांदण्डनंकृतमितिश्लेषोत्थापितेयमसंगतिः ॥ उपजातिभेदः विषमालंकारः । स्नुहिद्रुवत्तीव्रविहिंसकस्त्वं मल्लीव रम्या मृदुला च सीता । एनां वहन्न त्रपसे दशास्य क मल्लिका क स्नुहिकण्टकद्रुः ।। विषमंवर्ण्यते यत्र घटनाननुरूपयोः। परस्परमानुरूप्यरहित- योः पदार्थयोर्यत्रघटनासंबन्धस्संयोगादिरुत्पाद्योत्पादकभावश्चव- येतेतत्रविषमालंकारस्तमुदाहरति स्नुहीति सीतामपहृत्यगच्छ- न्तंरावणमालोक्यजटायुषउक्तिरियं । हेदशास्यरावण त्वंस्नुहिद्रुव- त्कण्टकवृक्षभेदवत्तीवः कण्टकैस्तीक्ष्णैरुग्रः अतएवविशेषतोहिंस- कश्च । सीतातु मल्लीलतेवरम्यासुन्दरीमृदुलामृद्वंगीच अतःएनांसी- तांवहन्नयन्त्वंनत्रपसेलजावान्नभवसि । परस्पराननुरूपत्वमाह रामस्तुतिः सव्याख्या। ७३ क्वेति मल्लिकासदृशीसीताक । स्नुहिकण्टकद्रुःस्नुहिनामककण्ट कवृक्षसदृशोभवांश्चक्व । अत्ररम्यत्वमृदुत्वादिनातीव्रत्वहिंसकत्वा- दिनाचाननुरूपयोस्सीतारावणयोर्घटनाकृता ॥ १२१ ॥ उपजातिभेदः-विषमालंकारभेदः । पुष्पायुधारातिशिरोधरेव कलिन्दकन्याजलवेणिकेव । नीला रघूत्तंस भुजालता ते कीर्तिं प्रसूने शरदिन्दुशुभ्राम् ॥ विरूपकार्यस्योत्पत्तिरपरंविषमंमतम् । कार्यकारणयोनिवर्त्य- निवर्तकत्वेपञ्चमीविभावना विलक्षणगुणशालित्वेत्वयंविषमइतिभे- दः। [विरूपकार्यस्यकारणविलक्षणस्वरूपस्येत्यर्थः तंविषमभेद- मुदाहरति पुष्पेति हेरघूत्तंसराम पुष्पायुधारातेशिवस्यशिरोधरे- वकण्ठवत् कलिन्दकन्यायायमुनायाः जलवेणिकेवकचसदृशजलप्र- वाहवच्चनीलाश्यामातेतवभुजालतालतासदृशभुजः शरदिन्दुवत्- शुभ्रांधवलांकीर्तिप्रसूतेजनयति । अत्रकारणगुणपरिपाट्या स्वस- जातीयकार्यगुणोत्पादकत्वरूपया विरुद्धान्नीलाद्धवलोत्पत्तिः उपजातिभेदः-विषमालंकारभेदः । रतीच्छया सुन्दरसुन्दरांगं रामानुजं शूर्पणखा समेत्य । अप्राप्य तत्संगसुख बभूव तस्यासिना प्रत्युत कृत्तनासा ॥ अनिष्टस्याप्यवाप्तिश्चतदिष्टार्थसमुद्यमात् । इष्टार्थमुद्दिश्यकि- चित्कारब्धवतोनकेवलमिष्टस्यानवाप्तिः किन्तुततोनिष्टस्यापिप्र- तिलंभश्चेत्तदपिविषमं तदुदाहरति रतीति शूर्पणखारतीच्छयाल- क्ष्मणेनसहरतिमनुभवितुमाशयासुन्दराणामपिसुन्दराण्यंगानिय- स्यतं रामस्यानुजंलक्ष्मणसमेत्योपेत्य तेनसहसंगस्संगमस्तेनजातं- सुखमप्राप्य प्रत्युतकिन्तु तस्यलक्ष्मणस्यासिनाखड्गेनकृत्तनासा
।
वृत्तालङ्काररत्नावली।
छिन्ननासिकाबभूव। अत्ररत्याशयालक्ष्मणमुपगतायाश्शूर्पणखायाः-
नकेवलंरत्यलाभःकिन्तुनासिकाच्छेदोपि ॥ १२३ ॥
उपजातिभेदःसमालंकारः।
मल्लीलता मैथिलराजकन्या चूतद्रुमः पङ्क्तिरथस्य पुत्रः ।
तयोस्तु संगः प्रियकृन्न कस्य मल्लीरसालद्रुमसंगतुल्यः ।
समस्यावर्णनंयत्र द्वयोरप्यनुरूपयोः। प्रथमविषमप्रतिद्वंद्वीद-
समं तदुदाहरति मल्लीति मैथिलराजकन्यासीता मल्लीलतामल्लील-
तासदृशी पङ्क्तिरथस्यदशरथस्यपुत्रोरामस्तुचूतद्रमारसालवृक्ष-
सदृशः मल्ल्याःरसालद्रुमस्यचसंगेनसंवन्धेनतुल्यस्सदृशस्तयो-
स्सीतारामयोस्संगः कस्यप्रियकृन्नभवेत् सर्वस्यापिप्रियकृदितिभा
वः समन्वयःस्पष्टः॥१२४॥
उपजातिभेदः-समालंकारभेदः।
योगीश्वरोऽसौ जनकाधिराजः पिता क्षमेयं जननी भवत्याः ।
अतो दशास्यस्य च राक्षसीनां सर्व कुकृत्यं सहसे सखि त्वम् ॥
सारूप्यमपिकार्यस्थकारणेनसमविदुः । इदंद्वितीयविषमप्रति-
द्वंद्विसमं तदुदाहरति योगीति रावणराससीतर्जनादिकंसहमानां
सीतामासाद्यतत्सख्यास्त्रिजटायाउक्तिरियं । अयिसखिसीतेभवत्या-
स्तव योगिनांशमदमादिमतामीश्वरःअसौप्रसिद्धःजनकाधिराजः
जनकराजापिता इयंक्षमासर्वसहाजननीमाता अतःकारणात्सर्व द-
शास्यस्यरावणस्यकुकृत्यंअपहरणादिकुत्सितकार्य राक्षसीनां कु-
कृत्यंभर्त्सनादिकुचरितंच त्वंसहसेक्षमसे । अत्रकार्यभूतायास्सीता-
याः कारणभूतशमदमादिमजनकस्वभावानुरूप्यं कारणभूतसर्व-
सहनादिमजननीस्वभावानुरूप्यंचदर्शितम् ॥ १२५ ॥
रामस्तुतिः सव्याख्या। उपजातिभेदः-समालंकारभेदः। उच्चेषु कूटेष्वटनं रताय सौमित्रिणा शूर्पणखाऽर्थयन्ती । उपेत्य तं प्राप जवेन तस्मा दुच्चाटनं न ह्यफला सदर्चा ॥ विनानिष्टंचतत्सिद्धिर्यदर्थकर्तुमुद्यमः। अनिष्टंविना यमर्थकर्तु मुद्यमस्तत्सिद्धिरपिसम इदंतृतीयविषमप्रतिद्वंद्वि तदुदाहरति उच्च- विति सौमित्रिणालक्ष्मणेनसह रतायक्रीडामनुभवितुं उच्चेषुउन्न- तेषुश्रेष्ठेषुवाकूटेषुगिरिभंगेषुअटनंतेनसहसंचारमर्थयन्तीप्रार्थयमा- नाशूर्पणखा तलक्ष्मणमुपेत्यजवेनशीघ्रतस्मालक्ष्मणादुच्चाटनमुच्चे- पुस्थानेष्वटनंदूरनिर्वासनंचप्राप हियतःसद,महत्सेवाअफलानि- ष्फलानभवति । अत्रोच्चाटनार्थितयालक्ष्मणमुपसर्पन्न्याःशूर्पण- खायाःअन्ततस्समुपसर्पणेनासिकाच्छेदरूपोत्कटानिष्टप्राप्तावपि प्र- थमद्वितीयसमुपसर्पणयोस्तादृशानिष्टाभावादिदंतृतीयसमोदाहर- ण इष्टावाप्तिस्तुश्लेषकल्पिताबोध्या ॥ १२६ ॥ आख्यानिकावृत्तं-विचित्रालंकारः। निश्चिन्तितस्संभवितुं सदोघः सचिन्तितो राम भवत्यजस्रम् । औन्नत्यमध्याप्तुमना जगत्सु नतिं करोत्येतदतीव चित्रम् ।। विचित्रतत्प्रयत्नश्चेद्विपरीतः फलेच्छया । फलेच्छयाविपरीतः प्रयत्नोविचित्रालकारस्तमाख्यानिकावृत्तेनोदाहरति निरिति हेराम- सतांसजनानामोघस्समूहः निश्चिन्तितःविषयादिचिन्तारहितःसंभ- वितुंसम्यग्भवितुमजस्रंसदा सचिन्तितःविषयादिचिन्तासहितः भ- वति । हेरामभवतित्वयिसचिन्तितःसभक्तिरस्तीतिविरोधपरिहा- रः । अपिकिंचजगत्सुलोकेषु औन्नत्यमुञ्चतामाप्तुं प्राप्तुंमनोयस्यत- थाभूतस्सन्सदोघम्नतिंकरोतिनम्रीभवति एतदतीवचित्रमद्भुतं उ- . ।
वृत्तालङ्काररत्नावली। त्कर्षप्राप्तुंविनयादिगुणयुक्तोभवतीतिवा त्वयिप्रणामादिसेवांकरोती तिवाविरोधपरिहारः॥१२७ ॥ उपजातिभेदः-अधिकालंकारः। कार्यप्रपञ्च प्रकृतिविलाप्य यत्रास्ति रामस्य तनौ युगान्ते । ममौ न तस्यां दयितेक्षितेति हनूमदावेदनजः प्रमोदः ॥ अधिकंपृथुलाधारादाधेयाधिक्यवर्णनम् । तदुदाहरति कार्य- ति युगस्यान्तेअवसाने प्रकृतिःजगदुपादानभूतामाया कार्यप्रपञ्चं- स्वकार्यभूतमखिलंप्रपंचं विलाप्यघटादिकंमृदादाविवस्वस्यांविली- नंकारयित्वा रामस्य “ रमन्तेयोगिनोऽनन्तेसत्यानन्देचिदात्मनि । इतिरामपदेनासौपरंब्रह्माभिधीयते” इतिश्रुत्यारामपदाभिधेयस्य. परब्रह्मणः यत्रयस्यांतनौशरीरेस्वरूपेअस्तिलीनवर्तते । तस्यांराम- स्यतनौ दयिताप्रियासीताईक्षितादृष्टेतिहनूमतआवेदनंउक्तिस्तजः- प्रमोदआनन्दः नममौनमातिस्म । अत्रयत्ररामतनौकार्यप्रपंचेनसह- प्रकृतिरस्तीत्याधारस्यातिविशालत्वंप्रदर्श्यतत्रनममावित्याधेयस्या- नन्दस्याधिक्यंवर्णितम् ॥ १२८ ॥ उपजातिभेदः-अधिकालंकारभेदः॥ कियद्विशालं कवितल्लजानां वाग्ब्रह्म वल्मीकजनुर्मुवानाम् । सीतापते संहतयोऽपि यत्र विश्रान्तिमृच्छन्ति भवद्गुणानाम् ॥ विशालादाधेयाद्यदाधारस्याधिक्यंतदप्यधिकंतदुदाहरति । कियदिति । वल्मीकजनुर्मुखानांवाल्मीकिप्रभृतीनांकवितल्लजानां- कविश्रेष्ठानां विशालंविस्तृतवाक्शब्दएवब्रह्मपरवस्तुकियत्अपरि- मितमित्यर्थः । यत्रसीतापतेभवतःगुणानांसंहतयस्ततयोऽपिवि- श्रान्तिमसंकुचितावस्थानमृच्छन्तिप्राप्नुवन्ति । गुणसंहतीनामाधे- रामस्तुतिः सव्याख्या। यानांविधान्तिमृच्छन्तीत्यसंकटावस्थानोक्त्या वाग्ब्रह्मणआधि- क्यंवणितम् । यद्यपिकियद्वान्ब्रह्मेत्याधारस्यप्रशंसाक्रियते तथापि तनुत्वेनसिद्धवत्कृतस्यशब्दब्रह्मणोगुणसंहत्यधिकत्वेनाधिकरणत्वंप- रिकल्प्यैव प्रशंसाक्रियतइतितत्प्रशंसा प्रस्तुतगुणसंहतिप्रशंसाया- मेवपर्यवस्यति ॥ १२९॥ उपजातिभेदः-अल्पालङ्कारः। राम त्वदाख्याङ्कितमगुळीयं सीताकरे कङ्कणवद्विधाय । एकत्र पाणौ वलयं परत्र विधातुकामेव विराजते स्म ॥ अल्पंतुसूक्ष्मादाधेयाद्यदाधारस्यसूक्ष्मता । स्वापेक्षयासूक्ष्मा- दाधेयादाधारस्यसूक्ष्मतायत्तदल्पनामालङ्कारः तमुदाहरति । रामे- ति । रामवियोगकृशाङ्गीसीतामालोक्यराममासाद्यसीतावृत्तान्तं- निवेदयतोहनूमतउक्तिरियम् । हेरामतवाख्ययानाम्नाङ्कितमङ्गुळी- यंप्रत्यभिज्ञानायमयादत्तांतवमुद्रिकां सीताविरहकृशाङ्गुलौधर्तु- मानुगुण्याभावंमन्वाना कङ्कणवद्वलयवदेकत्रकरेविधायलम्बितक- त्वा करद्वयवलयधारणसम्प्रदायमनुसृत्य परत्रपाणावितरकरेऽपि- वलयविधातुकामेवधर्तुकामेवविराजतेस्म । अत्रागुलीयंतावद- गुलिमात्रपरिमितत्वात्सूक्ष्मं तदपिविरहिण्या करेकङ्कणवल्लम्बि तंप्रवेशितमित्युक्त्या ततोऽपिकरस्यविरहकायादतिसौक्ष्म्यदर्शि- तम् ॥३०॥ विपरीताख्यानिकावृत्तम्-अन्योन्यालङ्कारः । रसालवृक्षण विभाति मल्ली मल्या यथा भाति रसालवृक्षः । तथैव रामेण विभाति सीता रामो दुहित्रा जनकस्य भाति । अन्योन्यनामयत्रस्यादुपकारःपरस्परम् । यत्रपरस्परमुपका- वृत्तालङ्काररत्नावली। रः तत्रान्योन्यालङ्कारस्तमुदाहरति । रसालेति । रसालश्चतःजनक- स्यदुहित्रासीतया । समन्वयस्स्पष्टः ॥ १३१॥ उपजातिभेदः-विशेषालङ्कारः । राकाशशाङ्केऽद्य तिरोहितेऽपि पयोमुचा राहुमुखं गतेऽपि । ज्योत्स्ना तदीया वदनं प्रविष्टा वैदेहि ते ह्रादयतेतरां माम् ॥ विशेषःख्यातं प्रसिद्ध आधारंविनाऽप्याधेयवर्णनं । तमुदा- हरति । राकेति । मेघावरणोपरागयुक्तराकायांसोल्लासंसीतांदृष्ट्वारा- मोक्तिरियम् । हेवैदेहि अद्यास्मिन्नहनिराकाशशाङ्केपूर्णिमाचन्द्रेप- योमुचामेघेनतिरोहितेऽन्तहितेऽपिराहोर्मुखंगतेप्रविष्टेऽपि तस्यरा- काशशाङ्कस्येयंतदीया ज्योत्स्नाचन्द्रिकातेतववदनंमुखप्रविष्टासती- रामंमांहलादयतेतरामतिशयेनसन्तोषयति । अत्रप्रसिद्धाधारस्यच- न्द्रस्याभावेऽपितञ्चन्द्रिकायास्सीतावदनस्थितिरुक्ता ॥ १३२ ॥ उपजातिभेदः-विशेषभेदः। मल्लीप्रसूनद्युतिदन्तपङ्क्तिर्विभाति सीता पुरतश्च पश्चात् । अन्तश्च पार्श्वद्वितये किमर्थमन्वेषणीया भवता मया वा ॥ विशेषस्सोऽपियोकंवस्त्वनेकत्रवर्ण्यते । तमुदाहरति मल्ली- ति । भावनामयसीतांसर्वत्रपश्यतोरामस्यलक्ष्मणमालोक्येयमुक्तिः अत्रार्थस्समन्वयश्चस्पष्टः ॥ १३३ ॥ उपजातिभेदः-विशेषभेदः । मदाश्रमे कोसलजाकुमार निर्विघ्नलेशं मखकर्म कर्तुम् । त्वां साम्प्रतं लब्धवता मया यः प्रह्लादमावीद्भगवान्स लब्धः॥ किञ्चित्पदार्थारम्भेणाशक्यस्यवस्त्वन्तरस्यकृतिरपिविशेषा- लङ्कारस्तमुदाहरति मदिति । दशरथसकाशादाममात्मयज्ञरक्षणा- . ७ ९ रामस्तुतिः सव्यास्या। यस्वाश्रममानयतोमध्येमार्गविश्वामित्रस्यराममालोक्येयमुक्तिः । कोसलजायाः कौसल्यायाःकुमारराम ममाश्रमेनिर्विघ्नलेशंईषदपि- प्रत्यूहविना मखकर्मयज्ञकर्मकर्तुं सांप्रतमद्यत्वांलब्धवताप्राप्तवताम- या याहिरण्यकशिपुंहत्वाप्रह्लादमावीद्रक्षितवान्सभगवान्नरहरि- विष्णुरेवलब्धः। अत्ररामलाभारम्भेणनरहरिविष्णुलाभरूपाशक्य- वस्त्वन्तरकृतिः ॥ १३४॥ उपजातिभेदः-व्याघातालङ्कारः। लोके प्रियं यत्स्सर तत्सुमन्ते शरत्वमाप्याप्रियतामुपैति । शीतं हिमं यद्भुवने तदिन्दोः रश्मित्वमाप्तं भजते महौष्ण्यम् ॥ यत् यत्साधनत्वेनलोकेऽवगतंतत्केनचित्तद्विरुद्धसाधनंक्रिये- तचेत्सव्याघातः । यद्वा यत्साधनतयाकेनचिदुपातंतदन्येनतत्प्रति- द्वंदिनातद्विरुद्धसाधनंक्रियेतचेत्सोऽपिव्याघातस्तत्रप्रथममुदाहर- तिलोकइति । सीताविरहाग्नितप्तस्यरामस्यमन्मथचन्द्रोपालम्भरूपं- वचनमिदम् । हेमरकाम लोकेयत्सुमंपुष्पंप्रियंप्रीतिकरं तत्तेतव- शरत्वंबाणतामाप्यआसमन्तादाप्त्वा अप्रियतांअप्रीतिकरतामुपैति- प्राप्नोति भुवनेजगतियद्धिमंतुहिनंशीतंशैत्यगुणयुक्तंतदिन्दोश्चन्द्रस्य- रश्मित्वकिरणतांआप्तप्राप्तंसत्महत्औषण्यंउष्णतांभजतेलभते । अत्रप्रीतिकरणसाधनत्वेनलोकेऽवगतंपुष्पंमन्मथेनाप्रीतिकरणसाध- नंक्रियते शैत्यकरणसाधनत्वेनलोकेऽवगतंहिमंचन्द्रेणोष्ण्यकरणसा- धनंक्रियतइतिप्रथमोव्याघातः॥ १३५ ॥ उपजातिभेदः-द्वितीयव्याघातः। एका सतो व्युदयं निरास्थयं भर्तृजीवस्थितये गिरैव । इयं समस्तस्थितयेऽनसूया प्रावर्तयज्जानकि तं तयैव ।।
वृत्तालङ्काररत्नावली। । र तत्रान्योन्यालङ्कारस्तमुदाहरति । रसालेति । रसालश्चूतःजनक- स्यदुहित्रासीतया। समन्वयस्स्पष्टः ॥ १३१॥ उपजातिभेदः-विशेषालङ्कारः। राकाशशाङ्केऽद्य तिरोहितेऽपि पयोमुचा राहुमुखं गतेऽपि । ज्योत्स्ना तदीया वदनं प्रविष्टा वैदेहि ते ह्रादयतेतरां माम् ॥ विशेषःख्यातं प्रसिद्ध आधारंविनाऽप्याधेयवर्णनं । तमुदा- हरति । राकेति । मेघावरणोपरागयुक्तराकायांसोल्लासंसीतादृष्ट्रारा- मोक्तिरियम् । हेवैदेहि अद्यास्मिन्नहनिराकाशशाङ्केपूर्णिमाचन्द्रेप- योमुचामेघेनतिरोहितेऽन्तर्हितेऽपिराहोर्मुखंगतेप्रविष्टेऽपि तस्यरा- काशशाङ्कस्येयंतदीया ज्योत्स्नाचन्द्रिकातेतववदनंमुखंप्रविष्टासती- रामंमांलादयतेतरामतिशयेनसन्तोषयति । अत्रप्रसिद्धाधारस्यच- न्द्रस्याभावेऽपितञ्चन्द्रिकायास्सीतावदनस्थितिरुक्ता ॥ १३२॥ उपजातिभेदः-विशेषभेदः। मल्लीप्रसूनद्युतिदन्तपङ्क्तिर्विभाति सीता पुरतश्च पश्वात् । अन्तश्च पार्श्वद्वितये किमर्थमन्वेषणीया भवता मया वा ॥ विशेषस्सोऽपियोकंवस्त्वनेकत्रवर्ण्यते । तमुदाहरति मल्ली- ति । भावनामयसीतांसर्वत्रपश्यतोरामस्यलक्ष्मणमालोक्येयमुक्तिः अत्रार्थस्समन्वयश्चस्पष्टः ॥ १३३ ॥ उपजातिभेदः-विशेषभेदः। मदाश्रमे कोसलजाकुमार निर्विघ्नलेशं मखकर्म कर्तुम् । त्वां साम्प्रतं लब्धवता मया यः प्रह्लादमावीद्भगवान्स लब्धः ॥ किञ्चित्पदार्थारम्भेणाशक्यस्यवस्त्वन्तरस्यकृतिरपिविशेषा- -लङ्कारस्तमुदाहरति मदिति । दशरथसकाशाद्राममात्मयज्ञरक्षणा- . ७९ रामस्तुतिः सव्यास्यो। यस्वाश्रममानयतोमध्येमार्गविश्वामित्रस्यराममालोक्येयमुक्तिः । कोसलजायाः कौसल्याया कुमारराम ममाश्रमेनिर्विघ्नलेशंईषदपि- प्रत्यूहविना मखकर्मयज्ञकर्मकर्तुं सांप्रतमद्यत्वांलब्धवताप्राप्तवताम- या याहिरण्यकशिपुंहत्वाप्रह्लादमावीद्रक्षितवान्सभगवान्नरहरि- विष्णुरेवलब्धः । अत्ररामलाभारम्भेणनरहरिविष्णुलाभरूपाशक्य- वस्त्वन्तरकृतिः ॥ १३४॥ उपजातिभेदः-व्याघातालङ्कारः। लोके प्रियं यत्स्मर तत्सुमन्ते शरत्वमाप्याप्रियतामुपैति । शीतं हिमं यद्भुवने तदिन्दोः रश्मित्वमाप्तं भजते महौष्ण्यम् ॥ यत् यत्साधनत्वेनलोकेऽवगतंतत्केनचित्तद्विरुद्धसाधनंक्रिये- तचेत्सव्याघातः। यद्वा यत्साधनतयाकेनचिदुपात्तदन्येनतत्प्रति. द्वंदिनातद्विरुद्धसाधनंक्रियेतचेत्सोऽपिव्याघातस्तत्रप्रथममुदाहर- तिलोकइति । सीताविरहाग्नितप्तस्यरामस्यमन्मथचन्द्रोपालम्भरूपं. वचनमिदम् । हेस्मरकाम लोकेयत्सुमंपुष्पंप्रियंप्रीतिकरं तत्तेतव- शरत्वंबाणतामाप्यआसमन्तादाप्त्वा अप्रियतांअप्रीतिकरतामुपैति- प्राप्नोति भुवनेजगतियद्धिमंतुहिनशीशैत्यगुणयुक्तंतदिन्दोश्चन्द्रस्य- रश्मित्वंकिरणतांआप्तप्राप्तंसत्महत्औषण्यंउष्णतांभजतेलभते । अत्रप्रीतिकरणसाधनत्वेनलोकेऽवगतंपुष्पंमन्मथेनाप्रीतिकरणसाध- नंक्रियते शैत्यकरणसाधनत्वेनलोकेऽवगतंहिमंचन्द्रणोष्ण्यकरणसा- धनंक्रियतइतिप्रथमोव्याघातः ॥ १३५ ॥ उपजातिभेदः--द्वितीयव्याघातः । एका सतो व्युदयं निरास्था भर्तृजीवस्थितये गिरैव । इयं समस्तस्थितयेऽनसूया प्रावर्तयन्जानकि तं तयैव ॥
८० वृत्तालकाररत्नावली। द्वितीयव्याघातमुदाहरतिएकेति । अत्रिमहर्षेराश्रमप्रविष्टस्य- रामस्यसीतामालोक्यपतिव्रतारत्नानसूयामहिमनिरूपणपरमिदं व- चनम् । हेजानकिसीते एकासतीकौशिकीनामपतिव्रता भर्तुःपत्यु. र्जीवस्यप्राणस्यस्थितयेरक्षणाय गिरैववाचैवरवेरुदयंनिरास्थनिराक- रोत् । इयमनसूयातुसमस्तस्य प्राणिसङ्घस्यस्थितयेतयैवगिरैवतं- रवेरुदयंप्रावर्तयत्प्रवर्तितवती । अत्रैवंपुराणकथा-कोशिकीनामप- तिव्रताभर्तारमंसमारोप्यरात्रौगाढान्धकारेवेश्यागृहनयन्ती मध्येमा गेशूलारोपितस्य माण्डव्यमुनेस्स्वभर्तृपादसंघट्टनेनचालितस्यस- जातवेदनस्य कुपितस्य "अयितवभर्तारवेरुदयेमरिष्यति" इतिशापं- श्रुत्वारवेरुदयोमाभूदितिगिरमुवाच । ततोबहून्दिवसानवेरुदयाभा- वाल्लोकस्थितिविनष्टाभूत् । तदनुसर्वेदेवाः "उष्णमुष्णेनशाम्यती- ति" न्यायमनुसृत्यरवेरुदयायानसूयांप्रार्थयामासुः । साऽपिकौशि- कीप्रतिद्वन्द्वितयाखेरुदयोभूयात्कौशिकीपतिरपिनम्रियतामितिच- गिरमुवाच । तदनुयथापूर्वरवेरुदयोऽभूदिति । अत्रसूर्योदयाभाव- साधनत्वेनकौशिक्यारवेरुदयोमाभूदितिगीरुपात्ता, तद्विरुद्धसूर्यो- दयसाधनत्वेनतत्प्रतिद्वन्द्वितयाऽनसूययाऽपिरवेरुदयोभूयादितिगी- रेवोपात्ततिलक्षणसमन्वयः॥ १३६॥ -- उपजातिभेदः-व्याघातभेदः। पित्राज्ञया त्वं विपिन यियासुर्यमब्रवीमिबलेत्यनेतुम् । सहात्मना हेतुमबाधनीयं सएव नेतुं रघुनाथ हेतुः ॥ ३७॥ कार्यविशेषनिष्पादकतयाकेनचित्संभाव्यमानादर्थादन्येनकार्य- विरोधिक्रिया सौकर्येण [कारणस्यानुगुण्याधिक्येन समर्थ्यतेचे- त्सोऽपि व्याघातस्तमुदाहरति पित्रिति । अबलात्वेनहेतुनात्मानंव- रामस्तुतिः सव्याख्या। नमनेतुकामंप्रियतेनैवहेतुनाऽत्मानंवननेतुंप्रार्थयन्त्यास्सीतायाउक्ति- रियम् । हेरघुनाथरामपितुराशयाविपिनंवनं यातुमिच्छुयियासुस्त्वं- आत्मनास्वेनत्वयासहमांविपिनमनेतुमप्रापयितुमबलेति बलंशरी- रदाय॑तद्रहिता शीतोष्णादिसहनराक्षसादिभीतिकरप्राणिसङ्कु- लवननिवासक्षमशक्तिरहितेतियावत् तस्मादत्रैवनगरसुखेनस्था- तुमर्हतियं अबाधनीयमप्रतिषेध्यहेतुमब्रवीरवदः । मामात्मनासह- विपिननेतुं सएवहेतुः । अवलेत्येतदेवकारणं बलंसहायस्तद्रहिता- सर्वसुखास्पदश्रेष्ठसहायभूतभवदहितेत्यर्थः। तस्मादत्रनगरेसुखेन- कथंवर्तेय ततस्त्वयासहैवनेतव्येत्यर्थः । अत्रवनप्रयाणोन्मुखेनरा- मेणसीतायानगरएवस्थापनेयत्कारणत्वेनसंभावितमबलात्वं तत्य- त्युततद्विरुद्धस्यसहनयनस्यैवकारणतयासीतयापरित्यागस्यायुक्त- त्वंदर्शयन्त्यासमर्थ्यते ॥ १३७ ॥ उपजातिभेदः-कारणमालालङ्कारःप्रथमः। आस्तिक्यबुद्धिमखकार्यहेतुर्मुखक्रिया चित्तविशुद्धिहेतुः । चित्तस्य शुद्ध्या श्रवणादिवृत्तिः राम त्वमाप्यः श्रवणादिवृत्या । उत्तरोत्तरकारणभूतपूर्वपूर्वैः पूर्वपूर्वकारणभूतोत्तरोत्तरैर्वा- वस्तुभिः कृतोगुम्भः (रचना) कारणमाला। तत्राद्यांकारणमाला- मुदाहरति । आस्तिक्येति । अस्तिपरलोकसुखादिकमितिमतिरस्ये- त्यास्तिकस्तस्यभावआस्तिक्यं तद्युक्ताबुद्धिरास्तिक्यबुद्धिःश्रद्धेत्य- र्थः मखकार्यहेतुःयशानुष्ठानकारणं मखक्रियायज्ञानुष्ठानचित्तस्य- मनसश्शुद्धेर्हेतुः चित्तस्यशुद्भयाश्रवणादोश्रवणमनननिदिध्यासना- दौवृत्तिःप्रवृत्तिर्जायतइतिशेषः । श्रवणादिवृत्याहेरामवंआप्यःप्रा- प्तुंयोग्योभवसि । समन्वयस्स्पष्टः । १३९ ॥ । ६ वृत्तालङ्काररत्नावली। गीतिवृत्तम्-कारणमालालङ्कारो द्वितीयः । पापादुपैति नरकं पापं कामादिसंभवं तेऽपि । असतां भवन्ति सङ्गादाम त्वदभक्तिसम्भव स्सोऽपि ॥ साऽपि च मनसोऽशुद्धया मनसोऽशुद्धिर्मस्खक्रियाऽभावात् । सोऽपि श्रद्वाऽभावात्तस्माच्छुद्धान्वितो भवेल्लोकः ॥ द्वितीयांकारणमालांगीतिभ्यामुदाहरति । पापादिति । सापी- तिच । लोकोजनःपापानरकमुपैति पापंकामादिजन्यं तेऽपिकामा- दयोऽपिअसतांसङ्गाद्भवन्ति सोप्यसत्सङ्गोऽपिहेरामत्वदभक्तिसंभ- वस्तवभक्त्यभावजन्यः । साऽपिचत्वभक्तिश्चमनस अशुध्याजाय- ते मनसःअशुद्धिःमखक्रियाया यज्ञानुष्ठानस्याभावाजायते सोऽपि- यशानुष्ठनाभावोऽपिश्रद्धायाआस्तिक्यबुद्धेरभावाजायते तस्माल्लो- काश्रद्धयाअन्वितोयुक्तोभवेत् । अत्रापिसमन्वय स्पष्टः ॥ १४१॥ उपजातिभेदः-एकावल्यलङ्कारः। कर्णान्तयाते नयने भुजाप्तौ कर्णौ भुजौ जानुविलम्बमानौ । जानुद्वयं सन्मणिदर्पणाकृत्यथो न रामस्य समो न कोऽपि ।। सभा हि सा यत्र वसन्ति वृद्धा वृद्धास्तु ते ये प्रवदन्ति धर्मम् । धर्मस्स यः कोसलजाकुमारसन्नामसङ्कीर्तनपुण्यरूपः ॥ न सा सभा यत्र न सन्ति वृद्धाः वृद्धा न ते ये न वदन्ति धर्मम् । धर्मस्स नो यस्तु रघूत्तमस्य न नामसङ्कीर्तनपुण्यरूपः ॥ गृहीतमुक्तरीत्यार्थश्रेणिरेकावलिर्मता । उत्तरोत्तरस्यपूर्वपूर्व- विशेषणभावः पूर्वपूर्वस्योत्तरोत्तरविशेषणभावोवा गृहीतमुक्तरीति- स्तयानिबद्धार्थपक्तिरेकावलिरलङ्कार द्विविधः तत्रप्रथममुदाहरति कर्णेत्यादिभिस्त्रिभिश्श्लोकैः । रामस्यनयनेनेत्रे कर्णयोरन्तयाते- :- ८३ रामस्तुतिः सव्याख्या। प्राप्त करें भुजौआप्तौभुजाप्तौ भुजौ जानुनोःविशेषेणलम्बमानौ जानुनोईयं सतोःश्रेष्ठयोर्मणिदर्पणयोःरत्नादर्शयोराकृतिरिवाकृति- राकारोयस्यतथाभूतं अतःएतादृशविशिष्टावयववत्वस्यान्यत्रास- म्भवाल्लोके रामस्थसमस्तुल्यःकोऽपिनास्ति ॥ १४२ ॥ सभेति । साहिसभापरिपत् यत्रयस्यांसभायां वृद्धा विद्यावृद्धा धनवृद्धाव- योवृद्धाश्चवसन्तिसासभेतिपूर्वेणसंवन्धः । वृद्धास्तुते येधर्मप्रवद- न्ति धर्मःसः यः कोसलजाकुमारस्यरामस्यसत्श्रेष्टनामरामनामत- स्यसङ्कीर्तनमुच्चारणमेवपुण्यपावनंरूपंयस्यतथाभूतस्सएवोत्तमोध- मइत्यर्थः । अस्मिन्श्लोकेपूर्वश्लोकेचएकावळिगतगृहीतमुक्तरीते- राद्यप्रकारोविधिमुखेनप्रोक्तः :॥१४३ ॥नसेति । स्पष्टोऽर्थस्समन्वय- श्व अत्रएकावळिगतगृहीतमुक्तरीतेराद्यप्रकारोनिषेधमुखेनोक्तः ॥ हवींषि यत्र हूयन्ते यत्कान्तादेप जायते । यस्तेन वर्धते युक्तस्ताश्शङ्करदृशस्स्तुवे ॥ हवींपीति यत्राग्नौहवींषिचरुपुरोडाशादीनिहूयन्ते । एषःअ- निर्यकान्तात्यस्यसूर्यस्यकान्तात्दृषदःसूर्यकान्ताजायते।यश्चन्द्र- स्तेनसूर्येणयुक्तोवर्धते । ताएता पूवोक्ताग्निसूर्यचन्द्ररूपाः शङ्करस्य दृशोनेत्राणि स्तुवेस्तौमि । अत्रएकावलिगतगृहीतमुक्तरीतेद्वितीयः प्रकार प्रोक्तः । रामस्तुतौशङ्करस्तुतेःप्रसक्तिरभेदाभिप्रायेणनेतव्या यद्वा शेषधर्मरामस्यशिवावतारत्वेनप्रोक्तत्वाच्छिवस्तुतिरपिराम- स्तुतिरेव ॥ १४५॥ उपजातिभेदः-मालादीपकालङ्कारः। आप्तं शुचा पङ्क्तिरथस्य चित्तं रघूत्तमस्तेन रघूत्तमेन । कान्तारमध्यस्थतपस्विसङ्घो निभीति वेदोदितकर्म तेन ।
८४ वृत्तालङ्काररत्नावली। आसादितं रामकरण चापं चापेन बाणा रजनीचराणाम् । शिरांसि बाणैर्धरणीतलं तैरक्षय्यसौख्यं धरणीतलेन । दीपकैकावलीयोगान्मालादीपकमिष्यते । तदुदाहरतिआप्त- मिति । शुचा (विश्वामित्रेणनीयमानस्यवालस्यरामस्यविरहंकथं- सहेयेतिचिन्तासातेन) दुःखेन पङ्क्तिरथस्यदशरथस्यचित्तमा- तमासादितं । तेनचित्तेनरघूत्तमआप्तः रघूत्तमेनकान्तारस्यवनस्य- मध्यस्थानांतपस्विनांविश्वामित्राश्रमगतमुनीनांसङ्घआतः । तेन- कान्तार..."सङ्घन निीतिनिर्भयंवेदोदितकर्मआप्तम् ॥ १४६ ॥ पुनरपितदेवोदाहरति । आसादितमिति रामस्यकरेणचापंधनुरासा- दितंप्राप्तं चापेनवाणाश्शराआसादिताः बाणैरजनीचराणांराक्षसा- नांशिरांस्यासादितानि । तैरजनीचरशिरोभिर्धरणीतलंभूतलमासा- दितं धरणीतलेनाक्षय्यक्षेतमशक्यंराक्षसाधुपद्रवाभावादभङ्गुरंसौ- ख्यमासादितम् । पूर्वश्लोकेआप्तमित्येकंपदं शुचापङ्क्तिरथस्यचित्त- मित्यादिषुचतुर्युवाक्येषुतत्तदुचितलिङ्गविपरिणामेनान्वेतीतिदीप- कम् । चित्तादीनामुत्तरोत्तरविशेषणभावरूपगृहीतमुक्तरीतिसद्भा- वादेकावलीचेतिदीपकैकावलियोगः । अस्मिन्श्लोकेआसादितमित्ये- कंपदं रामकरणचापमित्यादिषुपञ्चसुवाक्येपु तत्तदुचितलिङ्गवचन- विपरिणामेनान्वेतीतिदीपकम् । चापादीनांउत्तरोत्तर वसन्ततिलकवृत्तम् गीतिवृत्तंच सारालङ्कारः। द्राक्षारसालपनसादिफलानि यानि लोकेषु तानि मधुराणि ततोऽपि रुच्ये दुग्धं सिता मधु ततो मधुरं ततोऽपि पीयूषवत्सुमधुरं तव नाम राम ।। पायसपानकमोदकलड्डुकमाध्वीकदधिफलाज्यानि । रुचिराणि ततो रुचिरा सुधा ततो नाम राम ते रुचिरम् ।। योगः ॥
रामस्तुतिः सव्याख्या। उत्तरोत्तरमुत्कर्षस्सारइत्यभिधीयते । तंवसन्ततिलकवृत्तेनो- दाहरति द्राक्षेति लोकेषुजगत्सु रसालंचूतविशेषफलं] द्राक्षा फलानियानिसन्तितानिमधुराणि ततोपिद्राक्षादिभ्योपिदुग्धंक्षीरं- सिताशर्कराचोभेरुच्येमधुरे ततोदुग्धसिताभ्यांमधुमाध्वीकंमधुरं ततोमधुनोपिपीयूषवदमृतवत्हेरामतवनामसुष्ठमधुरं ॥१४८॥ पुनर- पितमेवगीत्योदाहरति पायसेति माध्वीकंमधु सुधाअमृतं शिष्टस्पष्टं श्लोकद्वयेचश्लाघ्यगुणोत्कर्षः । अश्लाघ्यगुणोत्कर्षस्योदाहरणं । तृ- णाल्लघुतरस्तूलस्तूलादपिचयाचकः। वायुनाकिननीतोसौमामयं- प्रार्थयेदिति । श्लाघ्याश्लाघ्यगुणोत्कर्षस्योदाहरणं । गिरिमहान्गि- रेरब्धिर्महानन्धेर्नभोमहत् । नभसोपिमहब्रह्मततोप्याशागरीयसी। इति । अत्रब्रह्मपर्यन्तेषुमहत्त्वंश्लाघ्यगुणः आशायामश्लाघ्यगुणः ॥ हरिणप्लुतावृत्तं यथासंख्यालंकारः। रघुवंशभुवा श्रयता त्वया वर सता मटवीं हरिणप्लुताम् । निहताः प्रणता दलिताः श्रितः निशिचरा मुनय स्तरवो हरिः ।। क्रमेणोक्तानांपदार्थानांतेनैवक्रमेणान्वयो यथासंख्यालंकारस्तं 'सयुगंसलघूविषमेगुरुर्युजिनभौचभरौहरिणप्लुता' इतिलक्षण- वतातेनवृत्तेनोदाहरति रध्विति सतांसत्पुरुषाणांवरश्रेष्टराम रघुवं- शभुवारघुकुलजातेन हरिणप्लुतांमृगसंचारवतीमटवींवनंश्रयता- आश्रयतात्वयानिशिचराराक्षसानिहता संहृताः मुनयःअगस्त्याद- यःप्रणताः नमस्कृताः तरवःसप्तसालाइलिता पाटिताः सुग्रीवःधि- तआश्रितः । समन्वयःस्पष्टः ॥ १५० ।। अपरवक्त्रवृत्तं-पर्यायालंकारः । त्रिशिरसमिदमाह राघवस्त्वदपरवक्तामुपैति गर्जितम् । मुखयुगमपहाय खण्डितं मम विशिखरवशिष्टमद्य ते ॥
८६ वृत्तालङ्काररत्नावली। क्रमेणानेकाश्रितत्वंपर्यायालंकारस्तं "अयुजितुननरालगौस- मेंतदपरवक्त्रमिदंनजोजरौ” इतिलक्षणवताअपरवक्त्रवृत्तेनोदाह- रति नीति राघवः त्रीणिशिरांसियस्यतंत्रिशिरसंतदाख्यराक्षसंक्र- मेणस्वशरकृत्तमुखद्वयमवशिष्टतृतीयमुखेनगर्जन्तमिदंवक्ष्यमाणमाह किमिति तेराक्षसस्यतव गजितंवीरवादो रामस्यममविशिखैश्शरैः खण्डितंकृत्तं तेतवमुखयुगंवदनद्वयं कर्म अपहायक्रमेणाहित्वा अ- द्यसंप्रति अवशिष्टं त्वदपरवक्त्रंतवापरंकृत्तप्रथमद्वितीयमुखतः अन्यत्तृतीयंवक्त्रंमुखमुपैतिश्चयति । अबैकस्यजितस्यक्रमेणप्र- थमद्वितीयमुखरूपानेकाधारसंश्रयणपर्यायः यद्यपिप्रथमद्वितीयमु- खसंश्रयणंकण्ठतोनोक्तंतथापि मुखयुगमपहायेतितत्परित्यागो- स्याप्राकूतत्संश्रयाक्षेपेणपर्यायनिर्वाहः एवंचास्मिन्नुदाहरणेपूर्वाधा- रद्वयसमाश्रयणंगम्यं उत्तराधारसमाश्रयणशाब्दम् ॥ १५१ ॥ गीतिवृत्तं-सर्वत्रशाब्दपर्यायः। द्राक्षामुख्यफलेषु प्रागथ दुग्ध ततः सितायेषु । मधुनि ततोऽथ सुधायां मधुर निवासोऽद्य रामनाम्नि तव ।। सर्वत्र (सर्वाधारसमाश्रयणांशे) शाब्दंपर्यायंगीयोदाहरति द्राक्षेति हेमधुर मधुरगुण तवाक्प्रथमत द्राक्षामुख्येषुद्राक्षाप्रभृति- फलेषु निवासास्थितिरासीदितिशेषः अथदुग्धेपयसि ततःसिता- द्येषुशर्करारसखण्डादिषुततोमधुनिमकरन्दे अथसुधायाममृते अद्य- संप्रति रामनाम्निनिवासोस्तीतिशेषः॥ १५२ ॥ उपजातिभेदः-संकोचपर्यायः । खलावलिप्तिबहुदेशचारं कृत्वा ततो दण्डककाननादौ । विश्रम्य शत्रुघ्न तटेऽर्कपुत्राः कुत्रापि कोणेऽद्य तटिद्वदस्ति ।
रामस्तुतिः सव्याख्या। संकोचपर्यायमुदाहरति खलेति यमुनातटस्थमधुवनवासिमु- निहिंसकंलवणासुरंहन्तुंशत्रुघ्नंप्रेषयतोरामस्योक्तिरियं । हेशत्रुघ्न ख- लानांदुष्टानांसुवाहुराक्षसादीनामवलिप्तिर्मुनिहिंसनरूपगर्वकृत्यं सिद्धाश्रमादिषुबहुषुदेशेषुचारंभचारंकृत्वा ततोदण्डककाननादौद- ण्डकारण्यलंकादौविश्रम्यविश्रान्तिप्राप्य अद्यसंप्रति अर्कपुत्र्यायमु- नायास्तटेतीरकुत्रापिक्वचित्कोणेभागेमधुवनेतद्विद्विद्युदिवदृश्याह- श्यरूपास्ति । पूर्वयोःश्लोकयोरुक्तंपर्यायद्वयंशुद्ध अत्रखलावलिप्तेरु- त्तरोत्तरमाधेयसंकोचा संकोचपर्यायः॥१५३॥ उपजातिभेदः-विकासपर्यायः । वृत्तिं व्यतानीदयि चित्तमात्रे रक्ताकरः शूर्पणखे भवत्याः । वक्त्रोरुवक्षोरुहपाणिपाइमुखाखिलांगेप्वपि वर्ततेऽद्य ।। विकासपर्यायमुदाहरति वृत्तिमिति कृत्तनासांसर्वांगसान्दर- क्तांशूर्पणखामालोक्यकस्यचिदुक्तिरियं । अयिशूर्पणखेरक्तस्यशो- णितस्यानुरागस्यचआकरःखनिस्समुद्रोबारक्तभूमेत्यर्थः भवत्यास्त- वचित्तमाकेवलेमनस्येववृत्तिस्थितिव्यतानीद्वितनोतिस्म । अद्या- धुनावक्त्रादिसर्वावयवेष्वपि वर्तते । अपिशब्दाञ्चित्तपीत्यर्थः। अत्ररक्ताकरस्यपूर्वाधारापरित्यागेनाधारान्तरस्थितिरिति विकास- पर्यायः॥ १५४॥ उपजातिभेदः-पर्यायभेदः। यत्राभवत्प्राग्वसु नास्ति भिक्षो गच्छेति वाक्तत्र मुखेऽद्य भिक्षो । आगच्छ भुक्ष्वार्थितमर्पयेयमितीरणं रामकटाक्ष एषः । एकस्मिन्नाधार क्रमेणयधनेकंभवतिसोपिपर्यायस्तमुदाहरति- योति प्राक्पुरा रामकटाक्षाभावाद्दारिद्रयमनुभवतोयस्यजनस्यय- ८८ वृत्तालङ्काररत्नावली। त्रयस्मिन्मुखेहेभिक्षोयाचक वसु तुभ्यंदातुंमयिकिमपिधनं नास्तित- तोगच्छेतिवाग्वचन मभवत् । अद्यसंप्रति रामकटाक्षावाप्तधनस्य- वदान्यस्यतस्यैवतत्रतस्मिन्नेवमुखे हेभिक्षोआगच्छ भुक्ष्वभोजनम- कुरु अथितंयाचितंधनादिकमर्पयेयंदद्यामितीरणमुक्तिर्भवतीतिय- देषःरामस्यकटाक्षोदयादृष्टिविशेषः अत्रसमन्वयः स्पष्टः ॥ १५५ ॥ उपजातिभेदः परिवृत्त्यलंकारः । प्रसूनमेकं बहुभक्तिपूर्वं समर्प्य तुभ्यं रघुवंशकेतो । विना प्रयासं भवतः सकाशदादत्त भक्तश्चतुरः पुमर्थान् ॥ भूयिष्ठभक्त्या फलपल्पमेकं भक्तेन दत्तं रघुवंशकेतुः । प्रीत्या गृहीत्वा चतुरः पुमर्थान्तयैव विश्राणितवाननल्पान् ॥ राम त्वदाराधनतत्परेभ्यः स्वदेशिकेभ्यः कतिचिद्धनानि । बहूनि भक्ताः प्रतिपाद्य तेभ्यश्शुभाक्षतानाददिरे जगत्याम् ॥ न्यूनाधिकयोःपरस्परंविनिमयःपरिवृत्यलङ्कारस्तमुदाहरतिप्र- सूनमिति। भूयिष्ठेति। रामेति । प्रसूनंपुष्पं आदत्तगृहीतवान्। चतुरः चतुस्सङ्ख्यान्पुमर्थान्धर्मार्थकाममोक्षरूपपुरुषार्थान् । भूयिष्ठभत्त्या अधिकतमभक्त्याअल्पमणुअनन्पान्महत-विश्वामितवान्दत्तवान्। प्र- सूनमितिश्लोकेसमर्पितवस्तुनः प्रसूनस्यस्वरूपगतमल्पत्वंगम्यंस-- यागतमल्पत्वमुक्तम्।गृतीतवस्तूनांपुमर्थानांस्वरूपगतमहत्वंगम्यं- सङ्खयागतंमहत्वमुक्तम्। भूयिष्ठेतिश्लोकेगृहीतवस्तुनःफलस्याल्पमे- कमितिपदाभ्यांवरूपगतंसङ्खयागतंचाल्पत्वंकण्ठतउक्तम् ।तथास- मर्पितवस्तूनामपिपुमर्थानामनल्पान् चतुरइतिपदाभ्यांस्वरूपगतसं- ख्यागतमहत्वेकण्ठतउक्ते ॥ १५६–१५७ ॥ रामेति । जगत्यांभुवि- कतिचिद्भक्ताः हेरामत्वदाराधनेतवपूजनादौतत्परेभ्यआसक्तेभ्य-- रामस्तुतिः सव्याख्या। स्स्वदेशिकेभ्यस्स्वगुरुभ्योबहनिधनानिप्रतिपाद्यदत्वा तेभ्यस्तत्त- द्गुरुसकाशाच्छुभाक्षतान्आददिरेगृहीतवन्तः। अत्रसमर्पितवस्तूनां धनानांस्वरूपगतंमहत्वंगृहीतवस्तूनामक्षतानांस्वरूपगतमल्पत्वंच- प्रसिद्धम् । एवं । जीर्णकन्यांप्रदायैतेनरानगरवासिनः । वनवासिपु- ळिन्देभ्यःकस्तूरीजगृहुःपराम् । (कन्यांशीतनिवारिणींपुलिन्दाश्श- वराः) इतिश्लोकेसमर्पितकन्थारूपवस्तुस्वरूपगतमल्पत्वंगृहीतक- स्तूरीरूपवस्तुस्वरूपगतंमहत्वंचज्ञेयम् ॥ १५८ ॥ पुष्पिताग्रावृत्तम्-परिसङ्ख्यालङ्कारः। त्वयि जनिमति राम खं सदोषाकरमयि भूमितलं न पुष्पिताग्रान् । श्रयति मधुपसंहतिस्तरून्नो द्विजवरमण्डलमण्डिताग्रहारान् ।। परिसंख्यानिषिध्यैकमेकस्मिन्वस्तुयंत्रणम् । एकंवस्तुप्रतिषि- द्धयापरस्मिन्वस्तुनोनियमनंपरिसङ्ख्यालङ्कारः। तं "अयुजिनयुगरे- फतोयकारोयुजिचनजौजरगाश्चपुष्पिताग्रा” इतिलक्षणवतापुष्पि- ताग्रावृत्तेनोदाहरति त्वयीति । अयि हे रामत्वयिजनिमतिउत्पत्ति- मतिसति खंगगनभेवसदोषाकरंदोषाकरैः पापिभिदोषाकरेणरज- नीकरणचन्द्रेणचसहितं भूमितलंभूमण्डलंसदोषाकरंपापिसहितंन । किंचमधुपानांभ्रमराणांमद्यपायिनांचसंहतिस्सवः पुष्पितानिसं- जातपुष्पाण्यग्राणियेषांतथाभूतान्तरून्धयत्याश्रयति । द्विजवराणां- त्रैवर्णिकश्रेष्ठानांमण्डलेनवृन्देनमण्डितान्भूषितानग्रहारान्ब्राह्मणा- धिवासानश्रयति । अत्रनिषेधश्शाब्दः॥ १५९ ॥ उपजातिभेदः-परिसङ्ख्यायामार्थोनिषेधः । त्वयि क्षितिं शासति रामचन्द्र खलस्थितिनूतनधान्यराशेः । कुशासनं मन्त्रजपप्रयोगे चाञ्चल्यमासीच्च तटिल्लतायाम् ।।
वृत्तालङ्काररत्नावली।
परिसंख्यायामार्थनिषेधमुदाहरति त्वयोति । हेरामचन्द्रत्व-
यिक्षितिभुवंशासतिपालयतिसति खलस्थितिःखलेधान्योत्पवनस्थ-
लेस्थितिवृत्तिःखलैर्दुर्जनस्सहस्थितिर्वासश्च नूतनानांनवानांउत्पव-
नार्हाणांधान्यानांराशेःसंचयस्यैव नान्यस्याधिकारिकादेरितिनिषे-
धआर्थः । कुशासनं कुत्सितनिन्दितंशासनमाज्ञाकुशनिर्मितासन-
च मन्त्रजपप्रयोगेब्रह्मयज्ञादिमन्त्रजपानुष्टानएव नान्यत्रराजामा-
त्यादावितिनिषेधआर्थः ["दर्भाणांमहदुपस्तीर्योपस्थंकृत्वाप्राङासी-
नस्वाध्यायमधीयीतेति" श्रुतेः ब्रह्मयज्ञजपादौकुशदर्भाद्यासनंवि-
हितम् ] चाञ्चल्यंचञ्चलत्वंचपलमनस्त्वंचतटिल्लतायांलतासदृशवि-
द्युत्येव नतुस्त्रीजातावितिनिषेधआर्थः ॥ १६० ॥
उपजातिभेदः-विकल्पालङ्कारः ।
सीतामुख वा रजनीकरंवा पङ्केरुहंवाद्य विधे महत्या ।
सन्दर्शय त्वं दयया नचेत्स्याः मदीयवाणैर्दलिताखिलाङ्गः ।।
विरोधेतुल्यबलयोबिकल्पालङ्कृतिर्मता । तामुदाहरति । सी-
तेति । सीताविरहावस्थामनुभवतोवर्षास्सुमेधैर्जलपूरैश्चान्तर्हितत्वा-
त्तन्मुखसदृशंचन्द्रंकमलंचापश्यतोरामस्योन्मत्तप्रलपितमिदम् “हे-
विधेनियते सीतायामुखंवारजनीकरंचन्द्रंबापङ्केरुहंकमलंवाद्य संप्र-
तिमहत्यादययासंदर्शयदृष्टिगोचरंकुरु नचेदृष्टिगोचरंनकुर्यायदि
तदात्वंमदीयवाणैर्दलितानिभिन्नानिअखिलान्यङ्गानियस्यतथाभूत -
स्स्याः । अत्रदयाकारितत्वेनप्राप्तानामाह्लादकारिसीतामुखचन्द्र-
कमलसन्दर्शयितृत्वानांयुगपदुपस्थितानां युगपत्कर्तुमशक्यानांवि-
कल्पः ॥ सीतामुखस्य अहनिरात्रौ च सन्दर्शयितृत्वसंभवेऽपि-
चन्द्रस्याहनिकमलस्य रात्रौसन्दर्शयितृत्वासंभवाद्युगपत्त्रयाणाम-
शक्यत्वमिति भावः ॥१६१॥
रामस्तुतिः सव्याख्या। ९१. वसन्तमालिकावृत्तम्-समुच्चयालङ्कारः । रघुनाथ तवारिराक्षसा ये रहितास्तेऽद्य वसन्तमालिकाभिः विनमन्ति पतन्ति निश्वसन्ति प्रलपन्त्यात्तभया गुहां द्रवन्ति । बहूनांयुगपद्भावभाजांगुम्भस्समुच्चयः युगपद्भावोभवनं त- द्भाजांबहूनांगुम्भोनिवन्धोवर्णनंसमुच्चयालङ्कारस्तं “विपमेससजा- गुरूसमेचेत्सभरायश्चवसन्तमालिकास्यादिति" लक्षणवतावसन्त- मालिकावृत्तनोदाहरति । रध्विति । रामेणसिद्धाश्रमेनिहतशेषान्धा- वतोराक्षसानालोक्य विश्वामित्रशिष्याणामुक्तिरियं । हेरघुनाथराम येतवारयोरिपवोराक्षसावसन्तपुष्पमालाधारिणस्सन्तस्त्वयासह- यो मागतास्तेऽद्यआत्तभया भीतिमाता वसन्तमालिकाभिःपूर्व- धृताभिर्वसन्तकालसंभूतवकुलादिपुष्पमालाभीरहितास्सन्तो विन- मन्तिविनतिकुर्वन्ति पतन्ति निश्वसन्तिनिश्वासंकुर्वन्ति प्रलपन्त्या- प्रिलापान्कुर्वन्ति गुहांप्रतिद्रवन्ति धावन्ति ॥ अत्राविरोधेनसंभा- वितयोगपद्यानांविनत्यादीनांगुम्भनंसमुच्चयः॥ १६२ ॥ वसन्ततिलकावृत्तम्-समुच्चयभेदः । अप्रार्थितप्रियकरत्वमनात्मशंसा श्रद्धा मखादिषु विनीतिरचञ्चलत्वम् । आसक्तिरात्मदमने श्रुतवत्सलत्वं रामं वदत्यनुपमं परमाभिजातम् ॥ अहंप्रथमिकामाजामेककार्यान्वयेऽपिसः। यत्रैक कार्यसिद्धि- हेतुत्वेनप्रक्रान्तस्तत्रान्येऽपियद्यहमहमिकयाखलेकपोतन्यायेनतत्सि- द्धिं कुर्वन्तिसोऽपिसमुच्चयस्तमुदाहरति।अप्रार्थितेति। अप्रार्थितम- याचितंयथातथाप्रियकरत्वं अनात्मशंसाआत्मप्रशंसाभावः मखादि- षुयज्ञादिषुश्रद्धा आस्तिक्यबुद्धिः विनीतिविनयः अचञ्चलत्वंचाप- ल्याभावः आत्मदमनेमनोनिग्रहेआसक्तिः श्रुतेवेदशास्त्रश्रवणादौव- ९२ वृत्तालङ्काररत्नावली। त्सलत्वंप्रीतिः राममनुपममसदृशं परमाभिजातंश्रेष्ठकुलसम्भवं वदति । सर्वप्रथमान्तानांराममनुपमपरमाभिजातंवदतीत्यनेनान्वयः अत्राभिजातत्वेऽप्रार्थितप्रियकरत्वमेकंपुष्कलंकारणं ताहगेवानात्म- शंसादिकमपि तत्साधनत्वेनावतरति ॥ १६३ ॥ स्रग्धरावृत्तम्-कारकदीपकालङ्कारः। अन्तश्चर्यतेऽयं प्रभुरयि पथिक क्रूरदृष्टेयक्षते त्वां ब्रूते किञ्चित्स्वभृत्यं नुदति तव बहिर्दूरनिष्कासनाय । गच्छ द्राग्भारमूढ्वा शिरसि परगृहद्वारेवेद्यां जपेति श्रीरामाङ्ग क्वचित्प्राग्धनिगृहतलपूर्दासिकाऽभीषयन्माम् ॥ क्रमेणैककारकगतानां क्रियाणांगुम्भः कारकदीपकालङ्कार- स्तंस्त्रग्धरयोदाहरति । अन्तरिति । अयिहेपथिकपान्थायंप्रभुरेत- गृहस्वामी अन्तःगृहमध्ये चञ्चूर्यतेआभीक्ष्ण्येनचरति त्वांवरया- तीव्रयादृष्टयादृशाईक्षतेपश्यति किञ्चित्किमप्याक्रोशवाक्यतेव- दति तवबहिहाद्वहिर्दूरेनिष्कासनायनिस्सारणायस्वस्यभृत्यंकि- ङ्करंनुदतिप्रेरयति तस्मात्कारणात्द्राक्छीघ्रभारंभूतंशिरस्यूढूवा- धृत्वागच्छ परस्यान्यस्यगृहस्यद्वारेद्वारसमीपेस्थितायांवेद्यांवेदि- कायांजपादिकंकुर्विति अङ्गहेश्रीरामप्राक्पुराक्कचित्कुत्रचित्प्रदेशे धनिनःकस्यचिद्धनिकस्यगृहस्थतलंपुनातीतितलपूः अङ्गणसंमा- जयित्री दासिकाअल्पादासी मामभीषयद्भीषितवती । अत्रप्रभोः कर्तृकारकस्यैकस्याभीक्ष्ण्यचरणादिष्वन्वयः ॥ १६४ ॥ उपजातिभेदः-समाध्यलङ्कारः। मानातिगं मैथिलराजपुत्र्याः मानं विनेतुं रघुवंशकेतोः । पतिष्यतः पादयुगे तदीये महोपकृत्यै जलदो जगजै ॥
रामस्तुतिः सव्याख्या। केनचिदारिप्सितस्यकार्यस्यकारणान्तरसंनिधानाद्यत्सौकर्य- तत्समाधिः। द्वितीयसमुच्चयप्रतिद्वन्द्वीसमाधिरयम् । तत्रहिबहू- नांप्रत्येकंसमर्थानांखलेकपोतन्यायेनयुगपत्कार्यसाधनार्थमवतारः । अत्रत्वेकेनकार्यसमारिप्सितेऽन्यस्यकाकतालीयन्यायेनापतितस्यत- सौकर्याधायकत्वमात्रम् । तंसमाध्यलंकारमुदाहरति । मानेति । मैथिलराजपुत्र्यास्सीतायाः मानातिगंअमितमानप्रणयकलहजनित- मभिमानचित्तसमुन्नतिविनेतुनिवारयितुं तस्याइदंतदीयंतस्मिन्तदी- येपादयोर्युगेद्वयेपतिष्यतःप्रणामंकरिष्यतः रघुवंशकेतोःरामस्यमहो- पकृत्यैमहोपकाराय जलदोमेघोजगजैगर्जतिस्म । अत्रप्रणिपातएवा- भिमानभानेपुष्कलंकारणंनजलदगर्जनमपेक्षते । दैवादापतताजल- दगर्जनेनतत्सौकर्यमात्रंकृतम् ॥ १६५ ॥ शार्दूलविक्रीडितवृत्तम्-प्रत्यनीकालङ्कारः । राम त्वन्मुखतश्शशी भयमितस्त्वद्गात्रकान्त्या जितं मेघं प्राप्य तदन्तरेव समयं कृत्वा कियन्तं स्थितिम् । धैर्यादेष विनिर्गतस्तव वधूकैश्येन तुल्यं तमो दूराद्दरतरं जवेन महता निर्वासयन्वाधते ॥ प्रत्यनीकंबलवतश्शत्रोःपक्षेपराक्रमः । बलवतश्शत्रोः पक्षेप- क्षान्तःपातिनितदीये यःपराक्रमस्तत्प्रत्यनीकं तदुदाहरति रामेति । हेरामतवमुखतोमुखाद्भयंइतःप्राप्तएषशशीचन्द्रस्तव गात्रस्याङ्गस्य- कान्त्याजितंमेधंसहायंप्राप्य तस्यमेघस्यान्तरेवमध्यएवकियन्तंसम- यंकञ्चित्कालंस्थितिवासंकृत्वा तत्रैवधैर्याद्धैर्यप्राप्य ल्यब्लोपेपञ्चमी] विनिर्गतस्तववध्वास्सीताया कैश्येनकेशसमूहेनतुल्यंसमानतत्प-- क्षीयंतमोऽन्धकारं महताजवेनवेगेनदूराद्दरतरमतिशयेनदूरंदेशनि- वृत्तालङ्काररत्नावली। सियन्विद्रावयन्बाधतेहिनस्ति । अत्रप्रतिपक्षेरामस्यमुखेप्रति- कर्तुमशक्तस्यचन्द्रस्यरामवधूकेशसदृशत्वेनतदीयान्धकारबाधनंप्र- त्यनीकम् । एवंवलवतिप्रतिपक्षेप्रतिकर्तुमशक्तस्यतदीयवाधलं प्रत्य- नीकमितिस्थितेसाक्षात्प्रतिपक्षेपराक्रमःप्रत्यनीकमितिकैमुतिकन्या- येनफलति तद्यथा । मायामृगंपुरस्कृत्यसीतांजढेदशाननः । शाखामृ. गंपुरस्कृत्यरामोहन्तिस्मतत्कुलम् । मायेति । मायामृगंमारीचंपुर- स्कृत्यप्रथमंरामाश्रमंचारयित्वाशाखामृगंहनूमन्तंपुरस्कृत्यदूत्यव्या- जेनप्रथमंलकांचारयित्वा ।शिष्टस्पष्टम् ॥ १६६ ॥ उपजातिभेदः-काव्र्थापत्तिरलङ्कारः। इतो भरद्वाजमुनेर्निवासात्प्राप्तुं पुरस्थं भरतं हनूमन् । पथि स्थितानां तरणं नदीनां कियत्तवोत्तीर्णकबन्धराशेः ॥ कैमुत्येनाथसंसिद्धिः काक्र्थापत्तिरिष्यते । दण्डापूपिका- न्यायेनार्थस्यसंसिद्धिःकाव्यार्थापत्तिः । तामुदाहरति । इतइति भर- द्वाजाश्रमात्स्वप्रवृत्तिभरतायातिशीघ्रंनिवेदयितुंमारुतिप्रेषयतो मार्ग- मध्यस्थमहानदीतरणमतिशीघ्र निवेदनप्रतिबन्धकमाशङ्कयमनसिस- माहितवतोरामस्योक्तिरियम् । हेहनुमनितोऽस्माद्भरद्वाजमुनेनिवा- सादाश्रमात्पुरस्थमयोध्यासमीपगतनन्दिग्रामस्थितभरतंप्राप्तुं पथि- स्थितानांगङ्गायमुनागोमतीप्रभृतीनांनदीनांतरणमतिक्रमणमुत्तीर्णः कबन्धराशिःसमुद्रोयेनतथाभूतस्यतवकियत्कियन्मात्रमित्यर्थः । अ- त्रसमुद्रतीर्णवतःकिमुवक्तव्यंनद्यस्सन्तार्याइतिदण्डापूपिकान्यायेन- नदीतरणरूपस्यार्थस्यसंसिद्धिः काव्यार्थापत्तिः॥ १६७ ॥ उपजातिभेदः-काव्यलिङ्गालङ्कारः। मंस्यते मतिरियं मम यत्तत्सेत्स्यति त्वरितमत्र न शङ्का । ग्रावकङ्ककरटप्रियकृन्मे वस्तु तिष्ठति परं ह्यधिचित्तम् ॥
रामस्तुतिः सव्याख्या। समर्थनीयस्यार्थस्यकाव्यलिङ्गमलङ्कृतिः। समर्थनापेक्षस्या- र्थस्यसमर्थनकाव्यलिङ्गंतदुदाहरति । मस्यतइति । इदंमत्कृतापदुद्ध- रणस्तवगतंपद्यम्।ममेयंमतिर्यन्मंस्यतेचिन्तयिष्यतेतत्त्वरितंशीघ्रंसे- त्स्यतिसिद्धिमेष्यतीत्यत्रविषयेशंकासन्देहोनास्ति । हियतः मेममा- धिचित्तचित्ते ग्राव्णःशिलायास्त पाहल्यायाइत्यर्थःकंकस्यगृध्रस्य- जटायुषःकरटस्यकाकरूपजयन्तस्यचप्रियकृत्परमुत्कृष्टवस्तुरामा- ख्यंब्रह्मतिष्ठत्यस्ति । अत्रचिन्तितशीघ्रसिद्धिर्दुर्लभत्वान्समर्थनसापे- क्षातस्याअधिचित्तंग्रावादिप्रियकृत्परंरामाख्यंवस्तुतिष्ठतीतिस्वमन- सिरामसंनिधानप्रदर्शनेनसमर्थन इदंवाक्यार्थहेतुकंकायलिंगम् । पदार्थहेतुकंकायलिंगंयथा-रुच्येतृप्तिकरेरामत्वदाख्याभिख्यसार- घे । मन्मनश्चञ्चरीकोयंलीयतेऽत्यन्ततृष्णया । रुच्यइति हेरामरुच्ये- मधुरेतृप्तिकरेच त्वदाख्यातवनामेतिअभिख्यानामयस्यतथाभूतेसा- रघेमधुनि अयंमममनएवचञ्चरीकोभ्रमरःअत्यन्तंभृशंतृष्णयाआश- यालीयतेलीनोभवति । अत्रनाम्नोमधुत्वमप्रसिद्धमितितत्समर्थनेरु- च्येतृप्तिकरेइतिपदार्थद्वयंहेतुः ॥ १६८ ॥ उपजातिभेदः-अर्थान्तरन्यासालंकारः । रामस्समुत्पाटितराक्षसाद्रिः पृथ्व्यां प्रतिष्ठापितमित्रकल्पकः । भुजेन भूमिं धरतेऽङ्गदोपमं कोनाम भारोऽद्भुतवीर्यशालिनाम् ।। उक्तिरर्थान्तरन्यासःस्यात्सामान्यविशेषयोः। सामान्यविशेष- योद्वयोरप्युक्तिरर्थान्तरन्यासः। तयोश्चैकंप्रस्तुतमन्यप्रदस्तुतंभवति। ततश्चविशेषेप्रस्तुतेतेनसहाप्रस्तुतसामान्यरूपस्यसामान्येप्रस्तुते ते- नसहाप्रस्तुतविशेषरूपस्यवार्थान्तरस्यन्यसनमर्थान्तरन्यासइत्युक्तं- भवति । तत्राद्यमुदाहरति रामइति रामःपृथ्व्यांभुविउत्पाटिता:वि- नाशिताः विराधखरदशाननादिराक्षसाएवअद्रय पर्वतायेनतथा- ९६ वृत्तालङ्काररत्नावली। भूतः प्रतिष्ठापिता:मित्राणिसुग्रीवविभीषणादिसुहृदएवकल्पकाःक- ल्पवृक्षाःयेनतथाभूतश्चसन् भुजेनबाहुनाभूमिअङ्गदोपमंअङ्गदतुल्यं- यथातथाधरते। अद्भुतेनाश्चर्यकरेणवीर्येणशौर्येणशालन्तेप्रकाशन्ते- ताच्छील्येनेत्यगतवीर्यशालिनस्तेषामघटितघटनायामपिकोनाम- भारः । नकोपीत्यर्थः। अत्राद्भुतवीर्यशालिनांसर्वदुर्भरत्वाभावेना- प्रकृतेनसामान्येनशत्रुपाटनमित्रस्थापनपूर्वकरामभुजमहीधरणस्य- प्रकृतविशेषस्यसमर्थनम् ॥ १६९ ॥ अप्रकृतेन विशेषेण प्रकृतसामान्यसमर्थनं । सुमित्रापुत्र पश्य त्वं दुःखं दुःखानुगाम्यहो । तत्रैवाधौ पुनर्घातो यत्र घातः पुराऽजनि ॥ १७० ॥ सुमित्रेति । सीताविरहदुःखितस्ययोजनवाहुनाऽकृष्टस्यराम- स्योक्तिरियम् । अहोहेसुमित्रापुत्रलक्ष्मणत्वंपश्य आगन्तुकंदुःखंदुः- खानुगामिपूर्वदुःखानुसरणशीलंभवति । इदंप्रकृतसामान्यमप्रकृत- विशेषणसमर्थयते । तत्रेति । यत्राशौचरणेपुराधातःशिलादिसंघ- ट्टनमजनिअभूत् तत्रैवाङ्ग्रौपुनघोतोभवति । अत्राप्रकृतेनपूर्वचरण- घातानुसार्युत्तरचरणघातरूपविशेषेणदुःखानुसारिदुःखरूपसामा- न्यस्यसमर्थनम् ॥ १७० ॥ प्रकृतेन विशेषेणाप्रकृतसामान्यसमर्थनं यथा । नीचोऽपि किञ्चिदुपकृत्य यदृच्छयैव श्रेष्ठात्मनां जगति याति महोन्नतत्वम् । काचिद्वने शबरजातिवधूः फलानि दत्वा रघूत्तमसुताय विमुक्तिमागात् ॥ नीचइति । जगतिनीचोऽल्पोऽपिश्रेष्ठात्मनांमहात्मनांयदृच्छ- यैवाकस्मिकतयैवकिञ्चिदुपकृत्योपकारंकृत्वा महदुन्नतत्वमौनत्यं- रामस्तुतिः सव्याख्या। याति । वनेकाचिच्छबरजातोपुलिन्दजातौसंभूतावधूःस्त्री रघूत्तम- स्यदशरथस्यसुतायरामायफलानिदत्वाविमुक्तिमोक्षमागात्प्राप्नोति- म। वसन्ततिलकावृत्तम् । अत्रशबरीवृत्तान्तेनप्रकृतेनविशेषेणाप्रकृ. तस्यमहात्मोपकृतिप्रयुक्तमहोन्नतत्वरूपसामान्यस्यसमर्थनम् ॥१७१ गीतिवृत्तम्-विकस्वरालङ्कारः। गुरुवचसा स्त्रीहननं गुणिनस्तव राम नापकीर्तिकरम् । सुकृतचयेह्यघमेकं मज्जति विषनैल्यमिव शिवाङ्गरुचौ ॥ यत्रकस्यचिद्विशेषस्यसमर्थनार्थसामान्यविन्यस्यतत्प्रसिद्धा- वप्यपरितुष्यताकविना तत्समर्थनायपुनर्विशेषान्तरमुपमानरीत्या- ऽर्थान्तरन्यासविधयावाविन्यस्यतेतत्रविकस्वरालङ्कारः । तत्राद्य- मुदाहरति । गुविति । हेरामगुणिनःप्रशस्तगुणगणशालिनस्तव गु- रोविश्वामित्रस्यवचसाऽऽज्ञावाक्येन स्त्रीहननंताटकामारणमपकी- तिकरमयशस्करंनभवति । हियतःसुकृतचयेपुण्यसोएकमपंपापं. शिवस्याङ्गानामवयवानांरुचौकान्तिपुओषुविषनैल्यमिवकालकूटनी- लिमेवमजतिमग्नंभवति । अत्रस्त्रीहननमयशस्करंनभवतीतिविशेष- स्सुकृतचयेएकमघमजतीतिसामान्येनसमर्थितः तदपिसामान्यं सुकृ- तचयेपापस्यैकस्यानाकलनमनतिप्रसिद्धतयासमर्थनापेक्षविषनल्य- मिवेत्यादिविशेषेणोपमानरीत्यासमर्थितम् ॥ २७२ ॥ मन्दाक्रान्तावृत्तम्-विकस्वरभेदः । धर्मज्ञत्वं तव रघुपते सत्यवाक्यं तथेदं कार्तज्ञ च प्रियमसुमतां जायते नात्र शंका । सर्वे लोकसदृशतमश्श्लाघ्यते सद्गुणौधः क्षीरं मोचा मधु च जनयेदप्रियं कस्य लोके ।।
वृत्तालङ्काररत्नावली।
।
ऽसहशतमः
.
विकस्वरेद्वितीयमुदाहरति । धर्मेति । हेरघुपतेराम तवेदधर्म-
सत्वंधर्मवित्वंसत्यवाक्यंयथार्थभाषणंतथाकार्तशंकृतज्ञत्वंचासुमतां-
प्राणिनांप्रियंप्रीतिदायिजायतेभवति । अत्रविषयेशङ्कासन्देहोनास्ती-
त्युक्तंविशेषसामान्येनसमर्थयते । सर्वैरिति हियतोऽत्यन्तमसदृशो-
सद्गुणौघाश्रेष्ठगुणसमूहःसर्वैःलोकैर्जनैःश्लाघ्यते-
प्रशस्यते । अस्मिन्सामान्येऽपिसमर्थनाकाङ्क्षायांविशेषरूपमर्था-
न्तरंन्यस्यति । क्षीरमिति । क्षीरंमोचा लक्षणया कदलीफलं-
मधुमाध्वीकंचेत्येतत्त्रयं लोकेकस्याप्रियमरुचिंजनयेदुत्पादयेत्।अत्र
पूर्वार्धोक्तोविशेषस्तृतीयपादार्धेनसामान्येनसमर्थितस्तदपिसामा-
न्यंचतुर्थपादोक्तेनविशेषेणसमर्थितम् ॥ १७३ ॥
द्रुतविलम्बितंवृत्तम्-प्रौढोक्तिरलंकारः।
जनकजेऽङ्गलता कनकाचलोद्गततटिल्लतिकासदृशद्युतिः ।
तव कचाश्च खरांशुसुतातटद्वयविरूढतमालचयासिताः ॥
प्रौढोक्तिरुत्कर्षाहेतौतद्धेतुत्वप्रकल्पनम् । कार्यातिशयाहेतौ-
तद्धेतुत्वकल्पनंप्रौढोक्तिस्तामुदाहरति । जनकेति । रामस्यसीता-
मालोक्यसोल्लासोक्तिरियम् । हेजनकजेसीतेतवअङ्गलतिकालतास-
दृशोमनोज्ञसवीवयवःकनकाचलेहेमाद्रौउगतोद्भूता यातटिल्लति-
काविद्युल्लता तत्सदृशीद्युतिःकान्तिर्यस्यास्तथाभूताऽस्ति । किंच-
तवकचाकेशा खरांशोस्सूर्यस्यसुतायायमुनायास्तटद्वये विरूढा--
नांउत्पन्नानांतमालानांतापिञ्छवृक्षाणांचयास्समूहाइवासिताश्श्या-
मास्सन्ति । अत्रतटिगतकान्त्यतिशयाहेतौकनकाचलोद्गतत्वेतद्धेतु-
त्वकल्पनं तमालगतनैल्यातिशयाहेतीयमुनातटविरूढत्वेतद्धेतुत्वक-
ल्पनंच ॥ १७४॥
CREAM रामस्तुतिः सव्याख्यान3.4 उपजातिभेदः-संभावनालङ्कारः। वक्ता यदि स्यात्फणिराट् तव स्युः प्रोक्ता गुणाः स्याद्यदि वीक्षितेन्द्रः । पूर्णाङ्गशोभा तव वीक्षिता स्यात्तदा कदाचिद्रघुवंशकेतो ॥ १७५ ॥ संभावनायदीत्थंस्यादित्यूहोऽन्यस्यसिद्धये । तामुदाहरति । वक्तेति । हेरघुवंशकेतोराम फणिराट्सर्पराजासहस्रद्वयजिह्वश्शेषो वक्तातवगुणानांवदितास्याद्यदितदाकदाचित्तवगुणाः प्रोक्तास्स्युः । इन्द्रस्सहस्राक्षोवीक्षितातवाङ्गशोभायाद्रष्टास्याद्यदि तदाकदाचि- त्तवपूर्णासमस्ताङ्गशोभावीक्षितादृष्टास्यात् । अत्रसमन्वयस्स्पष्टः ।। गीतिवृत्तम्-मिथ्याध्यवसित्यलङ्कारः। खकुसुमधरण बधिरश्राव्या ध्यासुतेन गीयन्ते । स्वरमष्टममाश्रयता रावणसद्गुणगणा रघूत्तंस ।। १७६ ।। कस्यचिदर्थस्यमिथ्यात्वसिध्यर्थमिथ्याभूतार्थान्तरकल्पनंमि- थ्याध्यवसितिः । तामुदाहरति । खेति । रामनिकटेरावणसद्गुणा- भावंवर्णयतोविभीषणस्योक्तिरियम् । हेरघूत्तंसराम रावणस्यसद्- गुणगणाःअविद्यमानान्धर्मज्ञत्वादिश्रेष्ठगुणनिकराः वधिरैरविद्यमा- नकर्णेन्द्रियपाटवैन्श्राव्या श्रोतुमर्हास्सन्तःखकुसुमधरेणअविद्यमा- नगगनपुष्पधारिणाऽष्टमस्वरंनिषाधादिसप्तस्वरेभ्योऽतिरिक्तमविद्य- मानस्वरमाश्रयतागृह्णतावंध्यायास्सुतेनाविद्यमानेनगीयन्ते । अ- त्ररावणेधर्मशत्वादिसद्गुणानामविद्यमानत्वात्तद्गानस्यमिथ्याभूत . स्यात्यन्तासंभावितत्वसिद्धयेखपुष्षधारणादिरूपमिथ्यार्थान्तरक ल्पनंमिथ्याध्यवसितिः॥ १७६ ॥ श्लोकवृत्तमुपजातिभेदोच ललितालङ्कारः। सत्यभामे गते शीते वसनं क्रेतुमिच्छसि । .
वृत्तालङ्काररत्नावली। अतीते यौवने किंच परिणतुं त्वमिच्छसि ॥ १७७ ॥ क ते गुणा वर्णयितुं नशक्याः क्व स्वल्पबुद्धिश्च रघूत्तमाहम् । चर्मेव संवेष्टयितुं कराभ्यामाकाशमत्यन्तसमुत्सुकोऽस्मि ।। स्थितिं प्रदेशः कतमस्त्वयाद्य महेन्द्रमुक्तत्रिदिवस्य नीतः । प्राप्स्यत्युदारान्वय कश्च देशः कुबेरयुक्तालकया समत्वम् ॥ . प्रस्तुतेवर्ण्यवाक्यार्थप्रतिबिम्बस्यवर्णनं । प्रस्तुतेधर्मिणियोव- र्णनीयोवाक्यार्थस्तमवर्णयित्वातत्रैवतत्प्रतिबिम्बरूपस्यकस्यचिद- प्रस्तुतवाक्यार्थस्यवर्णनंललितंतदुदाहरति । सत्येत्यादिश्लोकत्रये- ण । हेसत्यभामेशीतेगतेसतित्वंवसनवस्त्रंकेतुंक्रयेणलब्धुमिच्छसि। किंचयौवनेऽतीतेगतेसति परिणेतुविवाहंकर्तुमिच्छसि। अत्रयथाक- थञ्चिद्दाक्षिण्यसमागततत्कालोपेक्षितप्रतिनिवृत्तनायिकान्तरासक्त- नायककृष्णानयनार्थसखींप्रेषयितुकामांसत्यभामामुद्दिश्यसख्यावच नेनतयापारप्रतिबिम्बरूपस्यशीतनिवृत्त्यनन्तरवस्त्रक्रयस्ययौवननि- वृत्यनन्तरपरिणयस्यचवर्णनंललितम् । एकपत्नीव्रतस्थितेरामेएता- दृशवृत्तान्तस्यासंभवात्तदभिन्नकृष्णवृत्तानुसरणमिदम् ॥ १७७ ॥ क्वेति । हे रघूत्तमवर्णयितुंनशक्याअशक्यास्तेतवगुणाःक्व स्वल्पबु- द्धिरत्यल्पविषयगोचरमतियुक्तोऽहंचक्क तथापिकराभ्यांचौवाजि-- नमिवाकाशंसम्यग्वेष्टयितुसङ्कोचयितुमत्यन्तंभृशंसमुत्सुकउत्क- ण्ठितोऽस्मि । अत्राल्पविषयगोचरमतिविशिष्टोप्यहंरामगुणान्वर्ण- यितुमिच्छुरस्मीतिप्रस्तुतवृत्तान्तानुपन्यासात्तत्प्रतिबिम्बभूतस्य-- कराभ्यांचर्मवदाकाशंवेष्टयितुमुत्सुकोऽस्मीत्यप्रस्तुतवृत्तान्तस्यवर्ण- नललितम् ॥ १७८ ॥ स्थितिमिति । हनुमदानीतरामंदृष्ट्वा प्रथमतः- सुग्रीवस्याक्तिरियम् । हेउदारान्वयमहाकुलप्रसूत त्वयाद्यसंप्रति क- - 1748 रामस्तुतिः सव्याख्या। तम प्रदेश महेन्द्रेणमुक्तस्यत्यक्तस्यत्रिदिवस्यस्वर्गस्यस्थितिरीति- नीतः। किंचकोदेशःकुबेरेणयुक्तयासहितयाऽळकयाऽळकापुर्यासम त्वंसाम्यंप्राप्स्यतिगमिष्यति । अत्रकतमोदेशस्त्वयापरित्यक्तः कं- देशंगमिष्यसिचेतिप्रस्तुतार्थद्वयमनुपन्यस्यमहेन्द्रमुक्तत्रिदिवस्थि- तिनीतइति कुबेरयुक्ताळकासाम्यंगमिष्यतिचेतितत्प्रतिबिम्बभूता- र्थद्वयमात्रोपन्यासाल्ललितद्वयम् ॥ १७९ ॥ गीतिवृत्तम्-प्रहर्षणालङ्कारः। राधामेव निरन्तरमत्यौत्सुक्येन मनसि चिन्तयतः । कृष्णस्यान्तिकमेनां दूतीं का चन जिघाय गोपवधूः ॥ उत्कण्ठितार्थसंसिद्धिविनायत्नं प्रहर्षणम् । उत्कण्ठाविषय- स्यार्थस्यतदुपायसंपादनयत्नविनासिद्धिःप्रहर्षणं तदुदाहरति । रा. धामिति । काचनगोपवधू-गोपिका निरन्तरं सदात्यौत्सुक्येनात्यु- कण्ठयाराधांतदाख्यांकांचनगोपिकामेवमनसिचिन्तयतःकृष्णस्या- न्तिकंसमीपमेनांराधामेवदूतींजिघायप्रहितवती । अत्रकृष्णस्योत्क- ण्ठाविषयराधालाभोयत्नविनाऽजनीतिप्रहर्षणम् ॥ १८०॥ रथोद्धतावृत्तम्-प्रहर्षणभेदः । कानने मुनिगणा रघूत्तमं राक्षसान्कतिचिदेव निहन्तुम् । प्रार्थयन्सतु निशाचरवंशं भूमिगं निखिलमुद्धरति स्म ॥ वाञ्छितादधिकार्थस्यसंसिद्धिश्चप्रहर्षणं । तदुदाहरति कानन- इति । उद्धरतिस्मविनाशयतिस्म । समन्वयः स्पष्टः ॥ १८१ ॥ उपजातिभेदः-प्रहर्षणभेदः । सीताऽऽसवं वक्त्रगमन्तिकस्थमशोकमारुह्य विमुञ्चति स्म । सुमेच्छया दूरगवञ्जुळे तद्रुमद्वयं पुष्पचितं बभूव ।।
१०२ वृत्तालझाररत्नावली। यत्नादुपायसिध्यात्साक्षाल्लाभःफलस्यच । फलोपायसिध्य- र्थाद्यत्नान्मध्ये उपायसिद्धिमनवेक्ष्यापिसाक्षात्फलस्यैवलाभोऽपिप्र- हर्षणं तदुदाहरति । सीतेति । सीतासुमेच्छयावकुलपुष्पेच्छया अ- न्तिकस्थंसमीपस्थितंवन्ध्यमविज्ञातंचाशोकवृक्षमारुह्य वक्त्रगंमु. खगतमासवंमादूरगवञ्जुले वन्ध्येविज्ञातेचदूरस्थितवकुले विमु. ञ्चतिस्मन्यषेचयत् तदानीमेवतद्रुमयुग्मंतयोर्दुमयोरशोकवजुल- योर्युग्मं पुष्पचितं "अशोकश्चरणाहत्यावकुलोमुखशीधुनेति" दोह- दद्वयलाभेनकुसुमव्याप्तंबभूव । पुष्पप्रादुर्भावायज्ञातवन्ध्यवकुलदो- हदमाचरितुंअविज्ञातंवन्ध्यंअशोकमारूढवत्यास्तत्रैवपुष्पलाभः ॥ बसन्ततिलकावृत्तम्-विषादनालङ्कारः । सीतां विमोक्ष्यति भविष्यति राघवो मे कान्तोऽटनं च सह तेन सुखं च मे स्यात् । इत्याशयेन रघुनाथमुपेत्य वाञ्छा- मप्राप्य शूर्पणखयाऽतिशुगन्वभावि। इष्यमाणविरुद्धार्थसंप्राप्तिस्तुविषादनं । तदुदाहरतिसीतेति राघवस्सीतांविमोक्ष्यतित्यक्ष्यति मेममकान्तःपतिर्भविष्यति तेनस- हाटनंसञ्चारश्च मेममसुखंक्रीडासुखंचस्यादित्याशयेनेच्छयारघुना- थमुपेत्यप्राप्यवाञ्छांपूर्वोक्तामिच्छामप्राप्य शूर्पणखयाअतिशुक्ना- सिकाकर्तनजन्यमतिदुःखमन्वभाव्यनुभूतम् । समन्वयःस्पष्टः॥ उपजातिभेदौ-उल्लासालङ्कारः । पतिव्रता पावयतादियं मां सर्वाशनत्वादिकलङ्कयुक्तम् । इतीव मत्वाऽऽदरतः प्रविष्टां विभावसुमैथिलजामगृह्णात् ।। स्नात्वा जले मे जनकस्य साध्वी सुता समं धार्मिकपुङ्गवेण ।
रामस्तुतिः सव्याख्या। १०३ रामेण मां पावयतात्सदेति गोदावरी प्रार्थयतेऽनुवेलम् ।। एकस्यगुणदोषाभ्यामुल्लासोऽन्यस्यतौयदि । यत्रकस्यचिद्गु- णेनान्यस्यगुणोदोषेणदोषोगुणेनदोषोदोषेणगुणोवावर्ण्यतेसउल्लास- स्तत्राद्यमुदाहरति । पतीति । स्नात्वेतिच । पतिव्रतासतीयंमैथिल- जासर्वाशनत्वादिभिस्सर्वभक्षकत्वादिभिःकलकैदोषैर्युक्तंमांपावये- त्पूतंकुर्यादितिमत्वेवचिन्तयित्वेव विभावसुरग्निरादरतःप्रीत्यास्व- स्मिन्प्रविष्टांमैथिलजांसीतामगृह्णाद्गृहीतवान् । अत्रपतिव्रताया- स्सीतायामहिमगुणेनतदीयप्रवेशादग्ने पावनत्वगुणोवर्णितः॥१८४॥ स्नात्वेति । साध्वीसतीजनकस्यसुतासीता धार्मिकपुंगवेणधार्मिक- श्रेष्ठेनरामेणसमंसहमेममजलेस्नात्वासदामांपावयतादिति गोदावरी अनुवेलंसदाप्रार्थयते । अत्रपतिव्रतायास्सीतायाधार्मिकश्रेष्ठस्यरा- मस्यमहिमगुणेन तयोःस्नानाद्गादावर्या पावनत्वगुणोवर्णितः॥ विपरीताख्यानिकावृत्तम्-उल्लासेदोषेणदोषः । न तिष्ठ रामात्र बने सदुष्टे सीता सुरूपा तदिमामवाप्तुम् । मिथस्सवैरा नहि केवलं स्वं दुष्टाः कुलं वन्यकुलानि हन्युः ॥ उल्लासेदोषेणदोषमुदाहरति । नेति । वनेवसन्तराममालोक्य- कस्यचिदृषेरुक्तिरियम् । हेरामसदुष्टेदुष्टराक्षससहितेऽत्रवनेनतिष्ठ हियतःसीतासुरूपासुन्दराङ्गी तत्तस्मात्कारणादिमामवाप्तुंदुष्टाःसु- न्दोपसुन्दन्यायेनमिथ परस्परंसवैरा शत्रुत्वसहिताःसन्तः स्वंतीयं- कुलंकेवलंवंशमेवनहन्युः किंतुवन्यानांवनस्थितानामस्मदादीनामपि- कुलानिहन्युःहिंस्युः। अत्रराक्षसानांसीताकामनाजनितपरस्परवै- रदोषेणस्वपरकुलविनाशरूपदोषोवर्णितः॥ १८६ ॥ उपजातिभेदः-उल्लासेगुणेनदोषः ।
१०४ वृत्तालङ्काररत्नावली। मम प्रियाया जनकात्मजाया विहाय पूज्यास्पदमुत्तमाङ्गम् । समागतं त्वामभिजातरूपं चूडामणे नैव भृशं वदामि ॥ उल्लासेगुणेनदोषमुदाहरति ममेति । सीताचूडामणिगृहीत्वा- रामस्योक्तिरियम् । हेचूडामणेममप्रियायादयितायाजनकात्मजाया- स्सीतायाःपूज्यमय॑मास्पदंस्थानमुत्तमाङ्गशिरोविहायसमागतं- त्वां भृशमत्यन्तमभिजातरूपंकुलीनस्वरूपनैववदामि । अत्रसीताशि- रस्थानगुणेनचूडामणेस्तत्परित्यागोदोषत्वेनवर्णितः ॥ १८७ ॥ गीतिवृत्तम्-उल्लासेदोषेणगुणः । अप्राप्य वधमिदानीं राघवतस्ताटकादिसंहतुः । राक्षसि विनैव नासां तदाश्रमात्ते बहिर्गतिः श्लाघ्या ॥ उल्लासेदोषेणगुणमुदाहरति। अप्राप्येति । रामाश्रमान्निकृत्तना- सिकांबहिर्धावमानांशूर्पणखामुद्दिश्यकस्यचिदुक्तिरियम् । हेराक्ष- सिशूर्पणखे ताटकादीनांसंहर्तुर्नाशयितुःराघवतोरामादिदानी वध- मप्राप्य नासांनासिकांविनैव तस्यराघवस्याश्रमात्तेतवबहिर्गतिःला घ्या। अत्रराघवस्यताटकादिसंहर्तृत्वदोषेणशूर्पणखायावधाभावो- गुणत्वेनवर्णितः ॥ १८८॥ उपजातिभेदः-अवज्ञालङ्कारः। रामत्वदर्चाऽखिलमैहिकं चाप्यामुष्मिकं सौख्यमलं प्रदातुम् । तथापि मे फाललिपिप्रभावादीषत्सुखाप्तिः फलमेव तस्याः ॥ ताभ्यांतौयदिनस्यातांअवशालंकृतिस्तुसा। ताभ्यांगुणदोषा- भ्यांतोगुणदोषौ] कस्यचिद्गुणेनान्यस्यगुणालाभः दोषेणदोषस्या- प्राप्तिर्वाऽवशालङ्कारः । तत्राद्यमुपजातिभेदेनोदाहरति । रामेति । हेरामतवा_पूजा अखिलंसर्वमैहिकमेतल्लोकभवंपशुपुत्रादिकंच रामस्तुतिः सव्याख्या। १०५ आमुष्मिकंअमुष्मिन्लोकेभवंस्वर्गादिकमपिसौख्यं प्रदातुंअलंपर्याप्त तथापिमेममफाललिपेःब्रह्मलिखितललाटाक्षरस्यप्रभावात् तस्याः- त्वदर्चायाःईषत्किञ्चित्सुखस्याप्तिःप्राप्तिरेवफलंभवति । अत्रसर्व- सुखप्रदरामार्चागुणेनमयिपूर्णसुखप्राप्तिरूपगुणाभावोवर्णितः ॥ मन्दा..."तं अवज्ञायांद्वितीयम् । नाम श्रीमत्रघुतिलक ते कीर्तयेयं नचेकिं नश्येत्तस्य प्रथिततरचरी सौख्यदातृत्वसम्पत् । न श्रोत्राभ्यां चरितमधु ते चेत्पिबेयं तदा का हानी रामायणमुखमहाग्रन्थराशेरुदीयात् ।। अवशालङ्कारेद्वितीयंमन्दाक्रान्तावृत्तेनोदाहरति । नामेति । श्रीमन् सीतारूपश्रीयुक्त रघुतिलकहेराम तेतवनामआख्यानकीर्त- येयंचेत्नोच्चारयेयंयदि तदातस्यनाम्नःपूर्वमतिशयेनप्रथिताप्रसिद्धा- प्रथिततरचरीसौख्यदातृत्वसम्पत्सर्वसुखप्रदातृत्वमहिमानश्येत्कि- विनष्टाभवेत्किं तेतव चरितंचरित्रमेवमधुमाध्वीकं श्रोत्राभ्यांनपि- बेयंचेत्तदारामायणमुखानांरामायणप्रभृतीनांमहतांग्रन्थानांराशेस्स- मूहस्य काहानि लोपउदीयादुद्भवेत् । अत्रमदनङ्गीकरणदोषेणराम- नामरामायणादेस्सौख्यदातृत्वाभाववैयर्थरूपदोषाभावोवर्णितः॥ स्नग्धरा-अनुज्ञालङ्कारः। जीर्णा मय्येव सन्तु त्वदुपकृतिचया वायुसूनो भवेयं दोषाणामास्पदं प्रत्युपकृतिविरहात्ते तदङ्गीकरोमि । कर्तुं प्राज्योपकारं तव खलु लषता स्यान्मया प्रार्थनीया व्यापत्तिस्ते तदङ्गीकरणमसुकरं मादृशैस्सत्यमेतत् ॥ दोषस्याभ्यर्थनानुशातत्रैवगुणदर्शनात् । तांस्रग्धरयोदाहरति।
१०६ वृत्तालङ्काररत्नावली। जीणेति । हनुमन्तंप्रतिराघवोक्तिरियम् । हेवायुसूनोहनुमन् त्वयाक- ताःउपकृतीनामुपकाराणांचयास्समूहाःमय्येवजीर्णाःप्रत्युपकाराक्ष- मास्सन्तु तेतवप्रत्युपकृतेःप्रत्युपकारस्यविरहादभावात् दोषाणांप्र- त्युपकाराभावजन्यपापानामास्पदमाश्रयोभवेयमितियत्तदङ्गीकरोमि प्रत्युपकृतिकुर्वितिचेत्तत्राह तवखलु पुनः प्राज्यमधिकमुपकारकर्तु- लषतेच्छतामयातेतवव्यापत्तिविशेषापत्प्रार्थनीयास्यात्। तस्यावि- पत्प्रार्थनायाअङ्गीकरणं मादृशैमद्विधैःपुरुषैरसुकरंदुष्करमित्येतत्स- त्यमेव । अत्रप्रत्युपकाराभावोदोषस्तदभ्युपगमेहेतुर्गुणोविपत्प्रार्थना- याअप्रसक्तिः॥ १९१॥ मालिनीवृत्तं शार्दू... "तंच लेशालङ्कारः। भरतगतमखण्डं राज्यमक्लेशलेशं भवति फलममुष्या मन्थरायाः कटूक्तेः । रघुवर वनवासस्ते फलं राक्षसोप- द्रवमुखमतिकष्टं तातवाक्यक्रियायाः ॥ रामासत्पुरुषा यथेच्छचरिता नियन्त्रणास्सत्कृतौ कृत्याकृत्यविचारणास्वचकिता धन्यास्सुखेनासते । सन्तस्त्वत्सदृशाः परोपकृतिषु व्याक्षिप्तचित्ता स्सिताः गुर्वायुक्तिकृतौ खलोक्तिचकिता जीवन्ति दुःख सदा॥ लेशःस्याहोपगुणयोर्गुणदोषत्वकल्पनं । दोषस्यगुणत्वकल्पनं गुणस्यदोषत्वकल्पनंचलेशालङ्कारः । तं मालिन्याशार्दूलविक्रीडि- तेनचोदाहरति । भरतेति । रामेतिच । सीताविरहक्लिष्टंरामंप्रतिल- क्ष्मणस्योक्तिरिय हेरघुवरराम भरतंगतंप्राप्तमखण्डंपूर्णमक्लेशलेशं कष्टलवेनापिरहितंराज्यममुष्यामन्थराया कैकीयीसख्या:कटूकेक- रामस्तुतिः सव्याख्या। टुवाक्यस्यफलंभवति तेतववनवासोराक्षसोपद्रवप्रमुखमत्यन्तकष्ट- च तातस्यपितुर्वाक्यक्रियायाःवनंगच्छेतिवचननिर्वहणस्यफलम् । अत्रप्रथमार्धेमन्थराकट्टक्तिदोषस्यभरतराज्यप्राप्त्यनुकूलतयागुण- त्वंकल्पितम्। द्वितीयाधुपितृवाक्यकरणस्यगुणस्यवनवासादिकष्ट- हेतुतया दोषत्वंकल्पितम् ॥ १९२॥ रामेति हेराम असत्पुरुषाअसज- नाःइच्छामनतिक्रम्ययथेच्छंचरितमाचरणंयेषांतथाभूतास्सत्कृतौस- कार्यनियन्त्रणाबन्धनरहिताः इदंकृत्यमिदमकृत्यमित्यादिषुविचार- णासुविवेकेष्वचकितानिर्भयाअतएवधन्याभाग्यवन्तश्चसन्तस्सुखे- नासतेवर्तन्ते । त्वत्सदृशास्त्वत्तुल्यास्सन्तस्तु परेषामुपकृतिषूप- कारेषुव्याक्षिप्तचित्ताव्याकुलमनसोगुर्वादीनांपित्राचार्यादीनामुक्ती- नांवाक्यानांकृतौकरणे सिताम्बद्धाः खलानांदुष्टानामुक्तेरपवादवा- क्याञ्चकिताभीताश्चसन्तस्सदादुःखंयथातथाजीवन्ति । अत्रासज- नकृत्यदोषस्यसुखजीवनहेतुतयागुणत्वं सजनकृत्यगुणस्यदुःखजीव- नहेतुतयादोषत्वंचकल्पितम् ॥ १९३ ॥ वियोगिनी (चम्पकमालिका) मुद्रालङ्कारः । अपि चम्पकमालिकास्पृहावशतश्चम्पकवाटिकां व्रजेत् । सुतरामिदमप्यसाम्प्रतं न चिरं लक्ष्मण सा वियोगिनी ॥ सूच्यार्थसूचनंमुद्राप्रकृतार्थपरैःपदैः । तां "विषमेससजा- गुरु समेसभराश्चम्पकमालिकालगौ । विषमेससजागुरुःसमेसभरा- लोथगुरुर्वियोगिनी" इतिलक्षणवताचम्पकमालिकावृत्तेन वियो- गिनीवृत्तेनवोदाहरति अपीति । पञ्चवट्यांसीतान्वेषणेलक्ष्मणं- प्रतिरामस्योक्तिरियम् । हेलक्ष्मणसासीताचम्पकपुष्पमालाशावशा- अम्पकवृक्षवाटीमपिव्रजेद्गच्छेत्कञ्चिदितियदिदमपितत्रचिरकालव- वृत्तालङ्काररत्नावली। तनमपिसुतरांभृशमसांप्रतमयुक्तम् । यतःसाचिरंवियोगिनीमद्विर- हवतीनभवेत् । अत्रसीताविरहवृत्तान्तपराभ्यांचम्पकमालिकावि- योगिनीपदाभ्यां तवृत्तनामत्वरूपसूच्यार्थसूचनमुद्रा ॥ १९४ ॥ रत्नावल्यलङ्कारः। लोकबन्धुं कुवलयानन्दं राम क्षमाभुवम् । सौम्यं त्वां गीष्पतिं मन्ये कविं छायासुनन्दनम् ॥ सद्योजातोऽस्यन्तस्सीतायोगेन वामदेवोऽसि । राघव सतामघोरस्तत्पुरुषश्चास्यसीशानः ॥ क्रमिकंप्रकृतार्थानांन्यासंरत्नावलींविदुः । तामुदाहरति । लो- केति। सद्यइतिच हेरामत्वालोकवन्धुंजगतांबन्धुवद्धितकरंसूर्यच कुवलयानन्दःभूमण्डलानन्दकर कैरवाहलादकरश्चन्द्रश्वतं क्षमाभु- वंक्षमागुणस्यास्पदमङ्गारकंच । सौम्यमबुधञ्च । गीष्पतिवाचां- पोषकंबृहस्पतिञ्च । कविसर्वशंशुक्रंच । छायासुनन्दनंछाययाका- न्त्यासुष्ठुनन्दयतीतितथाभूतस्तंछायादेव्यास्सत्पुत्रंशनिचमन्ये । अत्रलोकबध्वादिपदैवर्णनीयस्यरामस्यसूर्याद्यास्मताप्रतीयतइतिवा- राधीशानांसूर्यादीनांक्रमेणनिवेशनरत्नावली ॥ १९५॥ सद्यइति । हेराघवरामत्वंअन्तर्भक्तमनसि सद्यश्चिन्तनक्षणएवजातआविर्भूतो- ऽसि । सद्योजाताख्यपञ्चब्रह्मान्यतमश्चासि। सीतायायोगेनसा- हित्येन वामास्त्री अस्यास्तीतिवामः [अर्शआद्यच्] दीव्यति- प्रकाशतइतिदैव वामश्चासौदेवश्चवामदेवोऽसि वामदेवाख्यपञ्च- ब्रह्मान्यतमश्चाऽसि । सतांसाधूनांअघोरःअक्रूरःअसि अघोरा- ख्यपञ्चब्रह्मान्यतमश्वासि । तत्पुरुषः “ओतत्सदितिनिर्देशोब्रह्मण- त्रिविधस्स्मृतः" इतिवचनात्तच्छब्दाभिधेयःपरमात्माऽसि॥सहस्त्र- रामस्तुतिः सव्याख्या। शीर्षापुरुषइतिवचनात्पुरुषशब्दवाच्यविराड्रपश्चासि तत्पुरुषाख्य- पञ्चब्रह्मान्यतमश्चासि । ईशानःजगत्पतिरीशानाख्पपञ्चब्रह्मान्यतम- चासि । अत्रसद्योजातादिपदैवर्णनीयस्यरामस्यसद्योजाताद्यात्मता- प्रतीयतइतिपञ्चब्रह्मदेवानांसद्योजातादीनांक्रमेणनिवेशनरत्नावली । उपजातिभेदः तद्गुणालङ्कारः। राम त्वदङ्गे नवनीरदाभे भक्तैर्जनैर्यानि समर्पितानि । सितानि पद्मानि तदीयभासा नीलोत्पलान्यव विभान्ति तानि। तद्गुणःस्वगुणत्यागादन्यदीयगुणग्रहः । स्वगुणत्यागादन- न्तरमन्यदीयगुणग्रहणंतद्गुणालङ्कारस्तमुदाहरति । रामेति । हे- रामनवनीरदाभेनूतननीलमेघसदृशशोभेतवाङ्गे यानिसितानिश्वे. तानिपद्मानिसमर्पितानितानितस्यत्वदङ्गस्येयंतीया याभाकान्ति- स्तयात्वदङ्गनीलकान्त्येत्यर्थः नीलोत्पलान्येवविभान्तिप्रकाशन्ते ॥ आर्यावृत्तं-पूर्वरूपालङ्कारः। तव नासिकावलम्बितमौक्तिकमधरत्विषाऽरुणं सीते । मन्दस्मितकौमुद्या पुनरपि धावल्यमानोति ॥ पुनःस्वगुणसंप्राप्तिःपूर्वरूपमुदाहृतं । तदुदाहरति । तवेति अस्यामार्यायामुत्तरासुगीतिषुचसीतांप्रतिराघवस्यसोल्लासमुक्तिः। हेसीतेतवनासिकायामवलम्बितमौक्तिकं तवाधरस्यत्विषाकां- त्याऽरुणंसत्पुनरपि तवमन्दस्मितकौमुद्याचन्द्रिकाधवलमन्दहासेन- धावल्यंपाण्डरतामाप्नोति । समन्वयः स्पष्टः ॥ १९८॥ गीतिवृत्तं-पूर्वरूपभेदः। निर्वापितेऽपि दीपे मन्दाक्षेण त्वयाऽद्य जनकसुते । वज्राद्याभरणानां त्वदङ्गगानां प्रभा कथं वार्या ॥
वृत्तालाररत्नावली। राम त्वद्यशसा सिते त्रिभुवने नीहारशैलं विदुः शीतेनैव तपस्विनस्सुरगणाः कैलासमत्युद्धतैः । जानन्ति प्रमथैः कृतैः कलकलैर्वीणामुनिस्सेवितुं विष्णुं तत्पददुग्धसागरमवैत्यातञ्चनात्तक्रतः ॥ मीलनालंकारन्यायेनभेदानध्यवसायेप्राप्तेकुतोऽपिहेतोर्भेदस्फूर्ती मीलितप्रतिद्वंद्विउन्मीलितं तदुदाहरति रामेति हेरामत्रिभुवनेजग- त्रयेतवयशसासितेधवलितेसति तपस्विनोहिमालयेविशेषतपस्त- प्तुंगच्छन्तोमहर्षयोनीहारशैलंहिमादिशीतेनशीतगुणेनैवविदुर्जान- नन्ति । शिवसेवायैकैलासंगच्छन्तस्सुरगणादेवगणाप्रमथैश्शिव- पारिषदैःकृतैरत्युद्धतैरतिमहद्भिःकलकलै कोलाहलध्वनिभिःकैला. संजानन्ति । वीणामुनिर्विष्णुभक्तोनारदोविष्णुंसेवितुं तस्यविष्णोः पदमास्पदंदुग्धसागरंक्षीरसमुद्रं तक्रतस्तकरूपादातंचनात्दध्यात्म- नापरिणमयितृवस्तुनः अवैतिजानाति । अत्ररामयशस्सितत्रिजग- तिहिमालयादीनांभेदानध्यवसायेप्राप्तेशीतादिकारणेभ्योभेदस्फूतिः आर्यावृत्तं-विशेषकालंकारः मुकुरगतानां परितः प्रतिबिंबानां च तव च बिबस्य । व्यक्तौ राघव हेतु: स्पर्शाक्षमता च तत्क्षमता ॥ सामान्यालंकारन्यायेनविशेषास्पुरणेप्राप्ते कुतश्चित्कारणाद्वि- शेषस्फूर्ती तत्प्रतिद्वंद्वी विशेषकालंकारस्तमुदाहरति मुकुरति है- राघवरामपरितस्समन्ततःस्थितान्मुकुरानादर्शान्गतानांप्राप्तानांत • धप्रतिबिंबानांचतवबिंबस्यचव्यक्तौविशेषस्फूर्ती यथाक्रमस्पर्शाक्ष- मताप्रतिबिंबानांस्पर्शायोग्यताहेतुः तत्क्षमताचबिंबस्यस्पर्शयोग्य- ताहेतुः। अत्रसमन्वयःस्पष्टः ॥ २०५॥ ।
रामस्तुतिः सव्याख्या। विपरीताख्यानिकावृत्तं उत्तरालंकारः। पयोधरस्त्वं न बहिः प्रयाहि बाधा भवेत्तत्र पयोधरेण । सुखं भवेदत्र पयोधराभ्यामित्यागतं कृष्णमुवाच कुब्जा । किंचिदाकूतसहितस्याद्ढोत्तरमुत्तरम् । किंचिदभिप्रायसहि- तंगूढमुत्तरमुत्तरालंकारस्तमुदाहरति पयइति स्वगृहमागत्यस्वस्याः कुब्जात्वंनिवार्य कार्यातिशयावहिःप्रयाणाय वृष्टिर्भवेद्वानवेतिपृ- च्छन्तंकृष्णंकामयमानायाःकुब्जायास्तंप्रत्युत्तरमिदं । पयोधरश- ब्दस्यस्तनोमेघश्वार्थस्तदर्थद्वयमिहाश्रितं । क्वचित्कस्यचित्वजा- त्यावैरंसुखंचभवतितदपीहोक्तं । कुब्जागडुःकाचनमधुरापुरस्थिता- नारी स्वगृहमागतं कार्यवशेनबहिर्जिगमिषुकृष्णमित्युवाच किमि- तिहेकृष्णत्वंपयोधरोमेघः । अत्रतत्तुल्यइत्यर्थः मद्गृहविसृज्यबहिर्न- प्रयाहिमागच्छ कुतइतिचेत्तत्रबहिःपयोधरेणमेघेनबाधावृष्टिबाधाभ- वेत् । अत्रमद्हेतुस्थिताभ्यांपयोधराभ्यांमेघाभ्यांमदीयस्तनाभ्यामि- तिगूढाभिप्रायः सुखंभवेत् । अत्रैकस्यपयोधरस्यतवबहिर्गमने अ- न्येनस्वजातिपयोधरेणबाधास्यात् । अत्रस्थित्यांस्वजातिपयोधरद्ध- येनसौख्यंस्यादित्यर्थः। नीलमेघश्यामलकोमलांगत्वांकामयमाना- याममकुचग्रहणादिपूर्वकरतिसुखमनुभव वृष्टिवाधामनुभवितुंब- हिर्मागच्छेतिगूढमुत्तरम् ॥ २०६ ॥ उद्गीतिवृत्तं-उत्तरभेदः। कंबलवन्तं शीतं न बाधते कोपकारी किम् । सुखकृत्किं रामकथाकथकं रामायणं हि भुवनेषु ।। प्रश्नोत्तरान्तराभिन्नमुत्तरंचित्रमुच्यते। तदुदाहरति कमिति कं बलवन्तंबलिनंशीतनबाधतइतिप्रश्नस्य कम्बलवन्तंमेषादिलोम- वृत्तालङ्काररत्नावली। रचितकंबलाच्छादनंजनंशीतनबाधतइतितदभिन्नमुत्तरं कःअपका- रीअपकारकृदितिप्रश्नस्यकोपकारीकोपकृदितितदभिन्नमुत्तरं । भुव- नेषुजगत्सुकिंसुखकृविषयसौख्यकरमितिप्रश्नस्य किंरामकथायाः रामचरितस्यकथकंनिवेदकमितिप्रश्नान्तरस्यच यथाक्रमं रामायणं- रामाया स्त्रिया अयनंसंगमःरामायणाख्यग्रन्थइत्येकमुत्तरम् ॥ गीतिवृत्तं-सूक्ष्मालंकारः। काचन गोपी कृष्णं पश्यन्तं वीक्ष्य सस्पृहातिशयम् । कर्णगतकुमुदकलिकां विकासयामास पाणिपद्माभ्याम् ॥ सूक्ष्मंपराशयाभिशेतरसाकृतचेष्टितम् । पराशयाभिज्ञस्यपर- विषयेसाभिप्रायंचेष्टितंसूक्ष्म तदुदाहरति केति काचनगोपी सस्पृ- हातिशयमत्यन्तरत्यौत्सुक्येनसहितंयथातथापश्यन्तंकृष्णवीक्ष्यपा- णिपद्माभ्यांकमलसदृशकराभ्यांकर्णगतांश्रोत्रस्थितांकुमुदस्यकैरव- स्यकलिकाकोरकविकासयामास । अत्रकामुकस्यकृष्णस्यावलोक- नेनसंकेतकालप्रश्नभावंज्ञातवत्याःगोप्याश्चेष्टेयं । कुमुदविकासकेश- शिन्युदितेसति संकेतकालइत्याकूतम् ॥ २०८ ॥ पृथ्वीवृत्तं-पिहितालंकारः। कचावृतमुखीं गलसुमचयां च शय्यागृहात् सखी सविधमागतां जनकजां विलोक्योपरि । उदाननरघूत्तमप्रतिकृतेस्तदीयामधो- मुखं प्रतिकृति व्यधात्तदितपुंस्त्वसन्दर्शिका ॥ पिहितंपरवृत्तान्तज्ञातुस्साकृतचेष्टितम् । तदुदाहरति कचेति शय्यागृहात्शयनमन्दिरात्सविधंस्वसमीपमागतां कचैः पुरुषायि- तदशायामाननाच्छादकैः केशैरावृतंमुखंयस्यास्तथाभूतां गलन्तः- .. रामस्तुतिः सव्याख्या। ११५ पतन्तःसुमचया कचग्रथितपुष्पसमूहायस्यास्तथाभूतांच जनकजां सीतांविलोक्य । तदितेति तांजनकजांइतंप्राप्तंपुंस्त्वंपुरुषायितं तस्य- सन्दर्शिकाबोधिकासखी । उदाननायाउत्तानमुख्याः रघूत्तमस्यरा मस्यप्रतिकृतश्चित्रपटस्योपरि तस्यास्सीतायाइमांतदीयांप्रतिकृति अधोमुखंयथातथाव्यधाकृतवती । अत्रगलत्सुमकचावृतमुखेनानु- मितंपुरुषायितंप्रतिकृतिविन्यासभेदेनप्रकाशीकृतम् ॥ २०९ ॥ उपजातिभेदः व्याजोक्तिरलंकारः। पुष्पाणि चेतुं सखि गोपि पुप्पवाटीं गताया मम कैतकानाम् । परागसान्द्रो भवति स्म देहस्तत्कण्टकैश्च व्रणितोऽधरोऽपि ॥ व्याजोक्तिरन्यहेतूक्त्यायदाकारस्यगोपनम् । तामुदाहरति पु- पाणीति हेसखिगोपिपुष्पाणिचेतुमुच्चेतुंपुष्पवाटींकुसुमारामंगता- याममदेह कैतकानांकेतकीपुष्पाणांपरागैरजोभिःसान्द्रोव्याप्तोभव- तिमकिंचतेषांकैतकानांकण्टकैरधरोपिव्रणितस्संजातव्रणोऽभूत्। अत्रकयाचिद्गोप्यासख्या:कस्याश्चिद्गोप्यास्सविधेकृष्णेनसहचौर्यर तिकृतसंकेतभूलुंठनधूलिजालस्य तत्कृताधरक्षतस्यचगोपनंकृतम्॥ सीता पतिमायान्तं दृष्ट्राऽऽनन्दाश्रुपुलककंपाद्यैः । भावैज्ञेयं रागं सख्याः पुरतो नमन्त्यगृहत्तम् ॥ पुनरपितामेवगीत्योदाहरति । सीतेति सीता आयान्तमाग- च्छन्तंपतिरामंदृष्ट्वा तदनुरागातैरानन्दवाष्परोमाञ्चवेपथुप्रभृतिभि र्भावस्सात्विकभावैज्ञेयमनुमेयंरागमनुरागं सख्या:पुरतस्तंपतिनम- न्तीप्रणमन्तीसतीअगृहत्प्रच्छादयतिस्म । अत्रानुरागकृतस्यानन्द- बाष्पाद्याकारस्यभक्तिरूपहेत्वन्तरप्रत्यायकेनप्रणामेन गोपनंकृतम् ॥ गीतिवृत्तं-गूढोक्तिरलंकारः।
वृत्तालङ्काररत्नावली। वृतिरहितानि परस्य क्षेत्राणि विमुच्य कृतियुतं क्षेत्रम् । चरसि वृषेन्द्रायाति क्षेत्रपतिस्तत्ततः पलायख ॥ गूढोक्तिरन्योद्देश्यंचेद्यदन्यंप्रतिकथ्यते। यंप्रतिकिंचिद्वऋत्यंत- तटस्थैर्माज्ञायीतितदेवतदन्यंकंचित्प्रतिश्लेषेणोच्यतेचेत्सागूढोक्ति-- स्तांगीत्योदाहरति वृतीति नियन्त्रणाबह्वीःपरगोपीरुत्सृज्यसयन्त्र- णांपरगोपीमेकामुपभुंजानंजारंकृष्णप्रतिवक्तव्यं निर्वृतिकानिपरक्षे- त्राणिविसृज्य सवृतिकपरक्षेत्रेसस्यानिभक्षयन्तंकञ्चिदुक्षाणंसमीपे- चरन्तंनिर्दिश्यतन्मित्रेणकेनचिद्गोपेनकथ्यते । हेवृषेन्द्रवृषभश्रेष्ठ प- रस्यान्यस्यवृतिरहितानिकण्टकाद्यावरणरहितानिनियन्त्रणानिच-- क्षेत्राणिकेदारान्कलबाणिचविमुच्यविहाय वृतियुतंपरस्यक्षेत्रकेदार- स्थितसस्यकलत्रंचचरसिअनुभवसि । क्षेत्रपतिरायातितत्तस्मात्का- रणात्ततःपरक्षेत्रात्पलायस्वदूरंगच्छ ॥२१२ ॥ शिखरिणीवृत्तम्-गूढोक्तिः। नयन्धेनू थो मम वनमगान्मां तु सदने विहायैकां श्वश्रूश्वशुरमुखगेहस्थितजनः । शुभायायाद्वन्धोः रजनिमशितां गाढतमसाऽऽ गमप्रार्थ्य श्रीश त्वमव भगवन्मामविरतम् ।। पुनरपितांउदाहरति ।नयन्निति ।कस्याश्चित्कृष्णंजारंप्रार्थयमा- नायागोप्याउक्तिरियम् । ममनाथ पतिर्गोपोधेनूनवप्रसूता गाम्नय- न्सन्वनमगात् । सदनेगृहेमामेकांविहाय श्वश्रूश्वशुरप्रमुखोगृहस्थि- तःजनः कस्यचिद्वन्धोश्शुभायतद्गृहमयात् अगच्छत् गाढतमसा- महान्धकारेणाशितांव्याप्तांरजनिरात्रिंव्याप्येत्यत्यन्तसंयोगेद्वितीया। आगमप्रार्थ्यआगमैवैदैःश्लाघनीय आगमनेनलालनीय भगवन्षड्गु- रामस्तुतिः सव्याख्या। पूर्णमयिकामयुक्त श्रीशश्रीपतेलक्षितलक्षणयाकृष्णाख्यजार त्वं. मामविरतंसततमवरक्ष । अत्रश्रीशनानोजारस्यागमनंप्रार्थयमाना- यास्तटस्थवंचनायभगवन्तंप्रत्याक्रोशस्यप्रत्यायनम् ॥ गीतिवृत्तं-विवृतोक्तिरलङ्कारः। वृतिरहितानि परस्य क्षेत्राणि विमुच्य वृतियुतं क्षेत्रम् । चरसि वृषेह्यायाति क्षेत्रपतिरिति ब्रवीति साकूतम् ॥ विषमेषुपीडितानामबलासूनां गतिर्भवात्राम इति सह सूचनयोक्तः प्रिययाऽवतु तां रघूत्तमः श्लिप्यन् ॥ विवृतोक्तिःश्लिष्टगुप्तंकबिनाविष्कृतंयदि । श्लिष्टगुप्तंवस्तुयथा- कथंचित्कविनाऽविष्कृतंचेद्विवृतोक्तिस्तामुदाहरति ॥ वृतीति । वि- षमेष्वितिच । वृषवृषभ इहिगच्छ साकृतंसाभिप्रायंससूचनमित्य- र्थः ॥ २१४॥ विषमेष्विति । विषमेषुसंकटेषुपीडितानांसंजातपीडा- नां विषमेषुणामन्मथेनपीडितानांच नविद्यतेबलंशक्तिर्येषांतेऽबलाः अबलाअसवःप्राणायेषांतेषांअबलासूनांदुर्बलप्राणिनां अबलायाः- स्त्रियाममासूनांच हेरामभवान्गतीरक्षकः इतिसूचनयाआकृतेनस- हप्रिययासीतयोक्तःतांश्लिष्यन्नालिङ्गज्रघूत्तमोऽवतुरक्षतु । पूर्वोदाह- रणेपूर्ववद्गुप्तं वस्तुसाकूतमितिकविनाविष्कृतमस्मिन्नुदाहरणेरा- मंकामयमानाया सीतायावचनेसंकटत्राणसंप्रार्थनारूपेणशीघ्रप्रती- यमानेनार्थेनगुप्तविवक्षितमर्थान्तरं सहसूचनयेत्यनेनाविष्कृतम् ॥ गीतिवृत्तं-युक्तंयलंकारः। स्वस्याः पत्युश्च गिरः श्रुता निशायां शुकस्य गुरुनिकटे । प्रातर्गदतस्सीता कयापि विधया ततान वाग्बन्धम् ।। युक्तिःपरातिसन्धानक्रिययामर्मगुप्तये । तामुदाहरति । स्व- ११८ वृत्तालङ्काररत्नावली। स्याइति। सीतानिशायांश्रुताःक्रीडागृहेआकर्णिताःस्वस्याआत्मनः- पत्युश्चगिरवचनानिप्रातर्गुरूणांश्वशुरादीनांनिकटेगदतोवदतःशु-- कस्य कयापिविधयाकेनापिप्रकारेण श्रुतवचनविस्मृतिकारिफलौ- षधादिदानेनेत्यर्थः । वाग्बन्धंवाङ्मुद्रणांततानचकार । अत्रसीत- याशुकबाग्बन्धेनात्मनःपत्युश्चक्रीडासमयप्रवृत्तवचनरूपमर्मगोपना- यशुकमुखेनतच्छुश्रूषुश्वशुरादिजनवञ्चनंकृतम् ॥ उपजातिभेदः-लोकोक्तिरलङ्कारः। भ्रातुरेष निरितो विभीषणम्त्वत्पदं शरणमाप शरण्यम् । राम सांप्रतमिदं गलितं यत्तत्फलं पयसि निप्पतति स्म ॥ लोकप्रवादानुकृतिलोकोक्तिरिति भण्यते । तारथोद्धतास्वा- गतामेलनोपजातिभेदेनोदाहरति । भ्रातुरिति । शरणापन्नंविभीष- णमङ्गीकृतवन्तंराममालोक्यसुग्रीवस्योक्तिरियम् हेरामभ्रातुःराव- णात्तंविसृज्येत्यर्थः। निरितोनिर्गतएषविभीषणः शरण्यंशरणरक्ष- साधुसमर्थतवपदंचरणंशरणमापेतियत्तदिदंसांप्रतंयुज्यते । यत्फ- लंद्राक्षादिगलितंकण्टकान्वितस्वाश्रयात्स्रस्तं तत्पयसिक्षीरेनिष्प- ततिस्म । अत्रगलितंफलंपयस्यपतदितिलोकप्रवादानुकृतिः ॥२१॥ स्रग्धरावृत्तम्-छेकोक्तिः सीते कोऽसौ कपिस्ते सविधमुपगतः कः कृतस्तेन साकं संवादो राक्षसानामपि पिशितभुजः कामरूपित्ववित्तौ । का शक्तिर्वेद्मि कीशं दशवदनममुं मायया भिक्षुरूपं धृत्वा प्राङ्मामुपेतं द्विरसनचरणं वेत्त्यथैव द्विजिह्वः ।। छेकोक्तिर्यत्रलोकोक्तस्स्यादर्थान्तरगर्भिता (अर्थान्तरव्यञ्जक- ता) तामुदाहरति सीतइति । हेसीतेतेतवसविधंसमीपमुपगतोऽसौ- रामस्तुतिः सव्याख्या। ११९ कपिः (हनूमान्) कः तेनसाकंकःसंवादःसंभाषणम् त्वयाकृतः इति राक्षसीभिपृष्टासीताप्राहराक्षसानामिति । अपिहेपिशितभुजोमां- सादिन्योराक्षस्योराक्षसानांकामरूपित्वस्येच्छागृहीततत्तत्समयो- चितस्वरूपस्यवित्तौज्ञानेममकाशक्तिः कीशंयुष्मत्पृष्टकपिमपिप्राक्- पुरामाययाकपटेनभिक्षुरूपयतिवेषंधृत्वामामुपेतममुंदशवदनंवेद्मि- जानामि । कुतश्शक्तिर्नेतिचेद्विजिह्वस्सर्पएवसूचकश्च अथका- त्स्न्येन द्विरसनानांसर्पाणांसूचकानांचचरणपादमाचरणंचवेत्तिजा- नाति । अत्रराक्षसीभिःकपिवृत्तान्तंपृष्टायाःयूयमेवकपिरूपेणागत- स्यरावणस्यवृत्तान्तंजानीथेत्युक्तवत्यास्सीतायाः अयमहेःपादानहि- रेववेत्तीतिलोकवादानुकारः । किंचयूयंचयतिकपिवेषेणागतोराव- णश्च कामरूपधारणेनवप्रयोजनादिसाधनव्यापारेसहचारिणइति- विदितविषयतयालोकोक्त्यनुवादस्यप्रयोजनेस्थिते रहसिपिशुनत्वा- दिकृत्येऽपिपरस्परंसहचराइतिमोद्घाटनमपिगीकृतम् ॥ २१८ ॥ स्रग्धरावृत्तम्-वक्रोक्तिः श्लेषेण । अगुल्या कः कवाट प्रहरति दयिते राघवः किं झषेशो नो कोदण्डी विधिर्वा पितृपतिरपि नो श्रीपतिश्श्रोनिकेतम् । याहि त्वं साम्प्रतं श्रीरसि जनकसुते सेति पत्युर्यथार्थी श्रुत्वोक्तिं मुक्तमाना कृतसमयविधिश्वाभवत्सुष्ठु सीता ॥ वक्रोक्तिःश्लेषकाकुभ्यांअपरार्थप्रकल्पनम् । श्लेषेणवक्रोक्तिमु- दाहरति । अगुल्येति । मानवत्याअतएवरात्रौकवाटंपिहितवत्याः सीतायास्तत्प्रसादनायागतवत:कवाटमगुल्याताडयतश्चरामस्य- चोक्तिप्रत्युक्तिरूपंपादत्रयम् । कः अङ्गुल्याकवाटमररंग्रहरतिता- डयतीतिसीतोक्तिः हेदयितेप्रियेसीतेराघवोरामइतिरामस्यप्रत्युक्तिः १२० वृत्तालङ्काररसावली। राघवशब्दस्यतिमिगिलयूथाधिपतिरूपार्थाभिप्रायेणझषाणांमत्स्या- नामीशाकिमितिपुनस्सीतोक्तिः । नो मीनपतिर्न । किंतुकोद- ण्डीधनुष्मान्कोटण्डपाणिरितिप्रसिद्धोरामइलिरामोक्तिः। कोदण्डी- त्यस्य कोब्रह्मा दण्डीदण्डपाणिर्यमइतिपदद्वयार्थाभिप्रायेण विधिः पितृपतिरपिवाब्रह्मायमोऽपिकिमितिसीतोक्तिः। नो विधिर्यमश्चन । अपितुश्रीपति सीतारूपाया:श्रियस्तवपतीरामोऽहमितिरामोक्तिः। श्रीपतिशब्दस्यसाक्षाल्लक्ष्मीपत्याभिप्रायेणश्रीनिकेतश्रिया लक्ष्म्या निकेतस्थानयाहिगच्छेतिसीतोक्तिः। हेजनकसुतेसाम्प्रतंसम्प्रति (रा- मावतारे) त्वंसाश्रीलक्ष्मीरसि "राघवत्वेऽभवत्सीतेति" वचना- त् । इतिपत्युर्यथार्थासत्यांउक्तिवाक्यंश्रुत्वा सीतामुक्तमानात्यक्ता- भिमाना सुष्टुसम्यक्कृतःसमयेतत्कालेऽनुष्ठेयोविधिःकवाटोद्घाटना- दिसंगमान्तकर्मययातथाभूताचाभवत् । अत्रराघवादिपदानांरामा- भप्रायेणोक्तानांमीनपतित्वाद्यर्थान्तरंश्लेषणपरिकल्पितम् इदं अ- विकृतश्लेषवक्रोक्तेरुदाहरणम् ॥ २१९ ॥ मालिनीवृत्तम्-विकृतश्लेषवक्रोक्तिः। न जयति तव सीते देवरो मत्कुमारं नपदमधिगमिष्यत्येष मे मत्कनिष्ठः । अबलमधिगतस्स्यात्त्वत्पतिवर्णमायं पठ दशमुख पादत्रय्यवस्थं विहाय ।। विकृतश्लेषवक्रोक्तिमुदाहरति नेति । युद्धमध्येसीतांविमोह्यव- शयितुमशोकवनस्थांतामुपेत्यतयासहरावणस्यसंवादावसरेप्रवृत्त -- मिदंतयोरुक्तिप्रत्युक्तिरूपंवचनं । हेसीतेतवदेवरःपतिभ्रांतालक्ष्म- णो ममकुमारमिन्द्रजितंनजयति । एषममकनिष्ठोऽनुजोविभीष- रामस्तुतिः सव्याख्या। १२१ जोगेममपदलङ्काराज्यंनाधिगमिष्यतिनप्राप्स्यति । तवपतीरामः अ- बलंघलस्यशक्तेर्बलानांसैन्यानांवाअभावमधिगतःप्राप्तस्स्यादितिरा- वणेनोक्तेसतिसीताप्राहवर्णमिति ।हेदशमुख पादत्रय्यांपूर्वोक्तपादत्र- येअवस्थास्थितिर्यस्यतंपादत्रयस्थितमित्यर्थः । आद्यप्रथमवर्णमक्षरं- विहायत्यत्त्वापठोच्चारय । तथाच । जयतीत्यारब्धप्रथमपादेआ- धनकारहीनेसति लक्ष्मणइन्द्रजितंजयतीत्यर्थोजायते । नपदमित्या- रब्धद्वितीयपादेआद्यनकारहीनेसति विभीषणोलङ्काराज्यंप्राप्स्यती- त्यर्थोजायते । अबलमित्यारब्धतृतीयपादेआद्यकारहीनेसतिरामो- बलमधिगतःस्यादित्यर्थोजायते ॥ अर्थश्लेषमूला वक्रोक्तिः। क सर्पसक्तः शेषाङ्गे व कपाली बलेहे । वृद्धः क्व गौर्वेत्ति गोप श्रीगौर्योरिति वागभूत् ।। पूर्वोक्तंपद्यद्वयंशब्दश्लेषमूलायान्वक्रोक्तेरुदाहरणम् । अर्थश्ले- षमूलायाःवक्रोक्तेरुदाहरणमाह । क्वेति । सर्पआभरणभूतसर्पसक्त- आसक्तशिवाक्वेति श्रियाशिवाभिप्रायेणपृष्टेसति शेषस्यतल्पभूत- स्यादिशेषस्याङ्गेसर्पसक्तोविष्णुश्शेतइतिगौर्याविष्ण्वभिप्रायेणोत्तरं . दत्तमेवमुत्तरत्रापिज्ञेयम् । कपालीभिक्षुःशिवक्वेतिपृष्ठे बलेर्महाब- लेगुहे कपालीभिक्षुमिनोऽस्तीत्युत्तरं । वृद्धोजरठोगौश्शिवस्यवृ- पभाक्वेतिपृष्टे गोपोगोपालःकृष्णएववेत्तिजानातिइति श्रीगौर्योर्वा- परिहासवाक्यंप्रश्नोत्तररूपमभूत् ॥ २२१ ॥ द्रुतविलम्बितवृत्तम्-कावावक्रोक्तिः। निरपराधलवे जनकात्मजे मयि सति प्रसभात्किमु खिद्यसे । निरपराधलवस्त्वमभूरिति प्रहरति प्रसवेन पति स्म सा ॥
१२२ वृत्तालङ्काररत्नावली। काक्वावक्रोक्तिमुदाहरति । निरिति । हेजनकात्मजेसीतेमयि- निरपराधलवेसतिअपराधलेशमप्यकुर्वतिसतीत्यर्थः। किमुकिमर्थ- प्रसभावलात्कारेण खिद्यसेखेदंप्राप्नोषिइत्युक्तवन्तंपति सासीतात्वं. निरपराधलवःअभूःइतिकाकुखरविकारेण निरपराधलवोनाभूरित्य- र्थान्तरंप्रदर्य प्रसवेनकुसुमेनाहरतिस्मताडयतिस्म ॥२२२ ॥ गीतिवृत्तं-स्वभावोक्तिरलङ्कारः। अत्यायतचकिताक्षाः स्तब्धश्रवसो विदेहजां विपिने । अरुणाधरकरचरणां मन्दस्मितगतिमलोकिषत हरिणाः ॥ स्वभावोक्तिस्स्वभावस्यजात्यादिस्थस्यवर्णनं । [आदिपदेनगु. णक्रियापरिग्रहः] तामुदाहरति । अतीति । विपिनेवनेहरिणामृगाः अत्यायतान्यतिदीर्घाणिचकितानिभयचंचलानिचाक्षीणिनेत्राणिये- षांतथाभूताः स्तब्धश्रवसोनिश्चलकर्णाश्चसन्तः अरुणं (अधरःओ- ष्ठश्चकरौचचरणौच) अधरकरचरणंयस्याःतथाभूतां मन्दस्मितं म- न्दागतिश्चयस्याःतथाभूतां विदेहजांसीतामलोकिषताद्राक्षुः । अत्र- कुरङ्गजातिस्वभावस्य सीतागतस्मितगतिरूपक्रियाखभावस्यतदध- रादिगतारुण्यगुणस्वभावस्यचवर्णनम् ॥ २२३ ॥ वसन्ततिलकावृत्ते-भाविकालङ्कारः। पुष्पस्रजं जनकजाकुचसीम्नि कुर्वन् तस्पर्शजैः पुलकवेपथुधर्मतोयैः । सान्द्रोऽभवं सपदि मामवलोक्य तादृक्- सा यस्मितं व्यतनुताद्य पुरोऽस्ति तन्मे ॥ लब्धा प्रिया मम विलासवचोमृतानि पीत्वा श्रवोञ्जलियुगेन समन्दहासम् ।
THEHAN RESEARCHASEE रामस्तुतिः सव्याख्या-AS. १२३ यां दर्शयिष्यति विधां मिथिलेशपुत्री सा मेऽद्य तिष्ठति पुरः स्थिरभावपुष्टा ।। भाविकंभूतभाव्यर्थसाक्षात्कारस्यवर्णनम् । तत्रभूतार्थसाक्षा- कारंप्रथमेनभविष्यदर्थसाक्षात्कारंद्वितीयेनचवसन्ततिलकावृत्तेनो- दाहरति । पुष्पेति । सीतान्वेषणकालसंभूतंरामवाक्यमिदम् । पुष्प- स्रजंकुसुममालांजनकात्मजायास्सीतायाःकुचसीनिस्तनप्रदेशेकुर्व- न्घटयनहं तत्स्पर्शजस्तयोस्तनयोस्स्पर्शजातैःपुलक' यैःरोमा- ञ्चकप्पस्वेदरूपसात्विकभावस्सान्द्रोव्याप्तोऽभवम् । सपदितदैव तादृक्तथाविधामत्करस्पर्शजातरोमाञ्चादिसात्विकभावासासीता- मामवलोक्ययस्मितंहासंव्यतनुताकरोत् तस्मितमधमेममपुरःपुर- तोऽस्ति ॥ २२४ ॥ लब्धेति । प्रियादयितामिथिलेशपुत्रीसीतालब्धा- प्राप्तासती ममविलासवचोमृतानिक्रीडावाक्यामृतानि श्रवोञ्जलियु- गेनकर्णाञ्जलिद्वयेन समन्दहासंमन्दस्मितसहितंयथातथापीत्वानि- पीय स्थिरभावेनविभावादिभिस्स्वादुतामानीयमानेनरत्याख्यस्था- यिभावेनपुष्टाव्याप्तासती यांयादृशींविधांरीतिकालातिवाहनाक्षम- संभोगसूचिकांस्थितिमित्यर्थःदर्शयिष्यति साविधाऽद्यमेममपुर- स्तिष्ठति । उभयत्रसमन्वयःस्पष्टः ॥ २२५ ॥ वसन्ततिलकावृत्तं-उदात्तालङ्कारः। त्वत्संश्रिताः कनकसौधतले शयानाः सच्चन्द्रकान्तकृतकुट्टिमरत्नमञ्चे । पश्यन्ति राम न तमः क्व चन क्षपायां ग्रीष्मेऽपि चण्डकरजं न विदन्ति तापम् ।। ऋद्धेश्चरितमुदात्तालङ्कारस्तमुदाहरति । त्वदिति । हेरामत्वत्सं.
वृत्तालकाररत्नावली। श्रितास्तवभक्ताः कनकसौधतलेसुवर्णहर्म्यप्रदेशे सद्भिश्श्रेष्ठैश्चन्द्र- कान्तैः कृतेकुट्टिमेनिबद्धभुविविरचितेरत्नमञ्चेवघ्रादिनवरत्नमयमच्चे विनिवेशितहंसतूलिकातल्पेशयानास्सन्तः क्वचनकस्यांचिदपिक्षपा- यांरात्रौ सर्वदाकनकरत्नप्रभामेदुरितत्वात्तमोऽन्धकारनपश्यन्ति । सदाकुट्टिमचन्द्रकान्तशैत्यनिभृतत्वाद्गीष्मेऽपिचण्डकरजंरविसमु-- द्भूतंतापनविदन्तिनजानन्ति । अत्रकनकसौधचन्द्रकान्तकृट्टिमर- नमञ्चानुभूतिमहतींसमृद्धिदर्शयति ॥ २२६ ॥ मन्दाक्रान्तावृतं-उदात्तभेदः । यस्यास्तीरे रघुकुलपतिस्स व्यहार्षीन्महात्मा साकं भ्रात्रा विजितकरणेनापि साध्या स्त्रिया च । गोदा सा मे नयनपदवीं प्रागुपागात्रयस्ते यत्रावात्सुर्भुवि गतिरभूत्तत्र मे पञ्चवट्याः ॥ उदात्तमृद्धेश्चरितंश्लाघ्यंचान्योपलक्षणम् । श्लाघ्यंचरितम- न्यस्याङ्गंचेत्तदप्युदात्तंतदुदाहरति । यस्याइति यस्यागोदायास्तीरे महात्मोदारस्वभावस्सप्रसिद्धोरघुकुलपतीरामो विजितकरणेनजि-- तेन्द्रियेणभ्रात्रापिलक्ष्मणेनच साळ्यासत्यास्त्रियासीतयाचसाकं- सह व्यहार्षीद्विहरतिस्म सा गोदागोदावरी प्राक्पुराकाशीयात्रा- समये मेममनयनपदीनेत्रपथमुपागात्प्राप्तवती । यत्रयस्यां पञ्च- वट्याम्पञ्चवट्याख्यस्थानस्यभुविप्रदेशे तेत्रयःसीतारामलक्ष्मणाः अवात्सुर्वसन्तिस्म तत्रमेममगति रामदर्शनायप्रवेशोऽभूत् । इदंरा- मादिविहरणनिवासचरितवर्णनंगोदावरीपञ्चवटीप्रशस्त्यङ्गम् ॥ गीतिवृत्तं--अत्युक्तिरलङ्कारः। राम तव याचितारः कुर्वन्त्यमरद्रुवच्छ्रितानिभ्यान् ।
रामस्तुतिः सव्याख्या। अपिच प्रतापवह्निः कुम्भजवच्छुष्कमातनोत्यब्धिम् ॥ अत्युक्तिरद्भुतातथ्यशौर्यौदार्यादिवर्णनम् । तामुदाहरति । रामेति । हेरामतवयाचितारोयाचका अमरवत्कल्पकादिदेवतरु- वनितान्स्वाश्रितान्इभ्यानधनिकान्कुर्वन्ति । अपिचतवप्रतापप- ह्निः कुम्भजवदगस्त्यवदब्धिसमुद्रंशुष्कंनिर्जलमातनोतिकरोति । अत्रपूर्वार्धेऔदायीत्युक्तिरुत्तरार्धेशौर्यात्युक्तिश्चकथिता ॥ २२८ ॥ आर्यावृत्तं-निरुक्तिरलङ्कारः। असि सुमनसामशोकाद्यस्त्रस्सौम्यः कलानिधि खान् । हेराघव चतुरास्यः श्रीमांश्च त्वं प्रचेताश्च ।। निरुक्तियोगतोनाम्नामन्यार्थत्वप्रकल्पनम् । तामुदाहरत्यसी- ति । हेराघवत्वंसुमनसादेवानांवापुष्पाणांवामध्ये अशोकादयःअ- शोकपुष्पादयोऽस्त्राणियस्यसःअशोकाद्यस्त्रःकामः । नविद्यन्तेशो- कादयःसतांदुखादयोयेभ्यस्तानिअशोकादीन्यस्त्राणियस्यतथाभूत- श्च । सौम्यः बुधःअऋरश्च । कलानिधिश्चन्द्रोविद्यास्पदंच । भा- स्वान्सूर्य प्रतापवांश्च । चतुरास्योब्रह्माप्रवक्ताच ॥ श्रीमान् लक्ष्मी- पतिःकान्तिमांश्च । प्रचेता वरुण प्रकृष्टमनाश्चासि । समन्वयःस्पष्टः मन्दाक्रान्तावृत्तम्-प्रतिषेधालंकारः। नेदं मायिञ्जनकतनयामात्रयुक्तं वनान्तं जन्यस्थानं रघुवरहरीशादिवीरैस्तु भीष्मम् । न स्त्रीचौर्य कपटयतिना यत्त्वयेदं कृतं प्रा- गस्त्रैः किंतु प्रतिभयकरैः क्रीडनं पङ्क्तिवक्त्र ॥ प्रतिषेधःप्रसिद्धस्यनिषेधस्यानुकीर्तनम् । निर्मातोनिषेधस्स्व- तोऽनुपयुक्तत्वादर्थान्तरंगीकरोति । तेनचारुत्वान्वितोऽयंप्रति १२६ वृत्तालङ्काररत्नावली। धनामालङ्कारस्तमुदाहरति । नेति। हेमायिन्मायाविन्चौर्यादिकपट- कार्यकारिनित्यर्थः । पतिवक्त्रदशमुखेदं जनकेति केवलसीता- युक्तंवनान्तवनमध्यंन किंतु रध्विति तामलक्ष्मणसुग्रीवादिमहावी- रैर्भीष्मंभयानकंजन्यस्थानंयुद्धरङ्गं । इदंप्राक्पुराकपटयतिनामा- याभिक्षुणात्वयायत्स्त्रीचौर्यकृतंतन्न । किंतुप्रतिभयकरैःमहाभयकृ- द्भिरस्त्रैःक्रीडनविहरणम् । इदंयुद्धरङ्गेप्रत्यवतिष्ठमानंरावणंप्रति- कस्यचिद्विदग्धस्यवचनं । तत्रयुद्धस्थानस्ययुद्धस्यचकेवलसीतायु- क्तपञ्चवटीवनमध्यत्वाभावःस्त्रीचौर्यत्वाभावश्चनितिएवकीर्त्यमा- नस्तत्रैवतवचोरवत्प्रवेशे स्त्रीचौर्यकरणेचप्रागल्भ्यं नयुद्धभूमिप्रवे- शेनापियुद्धइत्युपहासंगर्भीकरोति । तच्चमायिन्नित्यनेनकपटयतिने- त्यनेनचआविष्कृतम् ॥ २३० ॥ वसन्ततिलकावृत्तम्-विध्यलङ्कारः । हे शस्त्र सर्वजगतां कुशलाय मूर्ध्नः शीघ्रं दशास्य विलुनीहि दशाननस्य । रामस्य बाहुगमसि प्रथितप्रभाव रक्षःकुलं हतवतस्तव काऽस्ति तन्द्रा ॥ सिद्धस्यैवविधानंयत्तामाहुर्विध्यलकृतिम् । नितिविधान- मनुपयुक्तिवाधितंसदर्थान्तरगर्भीकरणेनचारुतरमितितंविध्यलङ्का- रमाहुः । तमुदाहरति । हेशस्त्रेति । रावणंसंहर्तुब्रह्मास्त्रप्रयोगंकुर्व- तोरामस्यशस्त्रं प्रत्युक्तिरियम् । हेशस्त्रसर्वजगतांकुशलायक्षेमाया- स्यदशाननस्यरावणस्यदशमूर्ध्नश्शिरांसिशीघ्रविलुनीहिछिन्धि प्र- थितप्रभावप्रसिद्धशौर्ययुक्तंरक्षःकुलंखरविराधादिराक्षसगणंहतव- तस्संहृतवतोरामस्यवाहुगहस्तगतमसि तस्मात्तवकातन्द्राशीघ्रंद- रामस्तुतिः सव्याख्या। १२७ शमुखदशशिरोलवनेकिमालस्यमस्ति । अत्ररामस्यस्वबाहुगतश- स्त्रप्रतिरामस्यबाहुगमसीतिवचनमनुपयुक्तंसत् रामस्येत्यनेनस्व- स्यात्यन्तनिस्तन्द्ररक्षःकुलहननपटुत्वंगीकरोति । तच्चप्रथितप्रभा- वमित्यादिनाविष्कृतम् ॥ २३१॥ गीतिःउपजातिश्च हेत्वलङ्कारः। रघुकुलवतंस तावकचरितामृतपूरमाश्रितेष्वेकः । कर्णाञ्जलिद्वयेन प्रपिबन्नमितामुपैम्यहं तृप्तिम् ॥ मायामशुद्धामसितुं तदीये कार्येऽनृते सत्यधियं विहन्तुम् । ज्ञातुं च तत्वं परसौख्यमाप्तुमलं नृणां राघवभक्तिरेका ।। हेतोर्हेतमता (कार्येण) सार्धवर्णनंहेतुरुच्यते । तदुदाहरति । रध्विति मायामितिच । हेरघुकुलवंतसरघुवंशभूषणराम आश्रितेषु- त्वद्भक्तेष्वेकोऽहं तावकत्वदीयंचरितमेवामृतंतस्यपूरंप्रवाहं कर्णावे- वाञ्जलीप्रसृतौकरौ तयोर्चयेन प्रकर्षणपिबन्सन् अमितामसख्याता- तृप्तिमुपैमिप्राप्नोमि ॥ २३२ ॥ मायामिति । इदंमदीयापदुद्धारराम- स्तुतिगतपद्यं । अशुद्धामनृतजडदुःखात्मत्वेनापूतांमायांसत्वरज- स्तमोमयींमूलप्रकृतिमसितुनिवारयितुं तस्यामायायाइदंतदीयंतदी- येमायासंबन्धिनिअनृतेअसत्येकार्यकार्यप्रपञ्चेसत्यधियंसत्यबुद्धिवि- हन्तुंव्यपोहितुं तत्वंपरमात्मयाथार्थ्यज्ञातुंबो परंपरमंसौख्यंमोक्ष- सुखमाप्तुंच नृणांमानवानामेकाराघवेरामेभक्तिरलंपर्याप्तकारणंभ- वति। उभयत्रसमन्वयः स्पष्टः॥२३३॥ शार्दूलतं स्रग्धराच हेत्वलङ्कारभेदः । हव्यं हव्यभुजां हृषीकजयिनां हृद्यः प्रमोदाम्बुधिः सीताया रमणीयचित्तवसतिवंशस्य मुक्ता रघोः ।
१२८ वृत्तालझाररत्नावली। दौाम्य रिपुसंहनेर्मुनिदृशां सौभाग्यसिद्धाञ्जनं धर्मस्याक्षयमास्पदं शुभखनिश्श्रीरामचन्द्रस्सताम् ।। मूकश्चष्टे गुणांस्ते मधुरतरवचोभङ्गिभिः श्रोत्रपुट्या त्वच्चारित्रामृतानि प्रपिबति बधिरः पश्यति त्वां दृशाऽन्धः । पगुस्त्वत्क्षेत्रवीथीष्वटति कुणिरपि त्वां सुमैरर्चतीति श्रीसीताकान्त यत्सा तव पदयुगलीभक्तिसाम्राज्यलक्ष्मीः ॥ हेतुहेतुमतोरैक्यहेतुंकेचित्प्रचक्षते । अत्रचकार्यावश्यंभावत- च्छैघ्रयादिप्रत्यायनार्थ कार्यकारणामेदव्यपदेशः । रूपकेसादृश्या- दभेदव्यपदेशः । इहकार्यकारणभावादितिभेदः। तमुदाहरति । ह- व्यमिति । मूकइतिच । श्रीरामचन्द्रो हव्यभुजांहविर्भुजांदेवानांह- व्यंचरुपुरोडाशादिहविः राक्षसाद्युपद्रवनिवर्तकत्वेनदेवानांहविरा- प्तिहेतुरित्यर्थः।हृषीकजयिनांविषयेन्द्रियजयशीलानांयोगिनांहृद्योर- म्यःप्रमोदाम्बुधिरानन्दसागरः। सीतायारमणीयचित्तस्यवसतिर्वा- सस्थानं । यद्वारमणीयस्यचित्तस्यवसतिः । रघोर्वशःकुलमेववंशा- वेणुस्तस्यमुक्तामौक्तिकं रिपूणांसंहतेःसंघस्यदौर्भाग्यदुष्टदैवं । मु- नीनांदृशांनयनानांसौभाग्यमाङ्गल्यंतजनकंसिद्धाञ्जनंसिद्धपुरुषक-- ताञ्जनविशेषः । धर्मस्यधर्माख्यपुरुषार्थस्यअक्षयमनश्वरमास्पदं- स्थानम् । सतांसत्पुरुषाणांभक्तानांशुभखनिर्मङ्गळनिधिरस्ति । अ- त्रहव्यभुगादीनांहव्यकरत्वादिनाध्यवसितेश्रीरामचन्द्रेतद्धव्यत्वा-- दिव्यपदेशः ॥ २३४ ॥ मूकइति । निरतिशयितरामभक्तिमहिम्ना- ऽतित्वरितंमूकत्वादिनिवृत्तिंब्रुवन्कविःस्वस्यशीघ्रंबाधिर्यनिवृत्ति--- मभिप्रेति । हेसीताकान्तमूकःअवागिन्द्रियोऽपित्वद्भक्तिमहिम्ना- प्राप्तवागिन्द्रियवैदुष्यः। एवमुत्तरत्रापि । मधुरतराणामत्यन्तरुचि राणांवचसामुक्तीनांभङ्गिभिःपरंपराभिस्तेतवगुणांश्चष्टेवक्ति । बधि- रस्कर्णेन्द्रियपाटवरहितः श्रोत्रपुट्याकर्णाञ्जलिनेत्यर्थः तवचारित्रा णिचरितान्येवामृतानिप्रकर्षणपिबति । अन्धस्त्वांदृशानेत्रेणपश्य- 'ति । पङ्गुम्पादहीनस्तवक्षेत्रवीथीष्वटतिचरति । कुणि करहीनोऽपि- त्वांसुमै पुष्पैरर्चतिपूजयतीतियत्सा तवपदयुगल्यांपादद्वये या भ- क्तिः तस्या साम्राज्यस्यसार्वभौमत्वस्य लक्ष्मीस्सम्पम् अत्रमूका- दिप्रवक्तृत्वकरत्वादिनाऽध्यवसितायांरामभक्तौमूकादिप्रवकृत्वादि- व्यपदेशः। मत्तेभवृत्तं हेत्वलंकारः। द्वारं गृहस्य बहुमत्तेभगण्डतलनिर्यातदानसुरभि श्रीराजराजमणिकोटीरधार्यतममाज्ञाणुपत्रमनिशम् । पीयूषपूररुचिधिकारिणी वचनमाधुर्यपीति यदियं सा मैथिलीशपदपाथोरुहद्वितयसद्भक्तिसंपदमिता ॥ पुनरपिद्वितीयंहेत्वलंकारंस्मृतिपथगतेनमत्तेभवृत्तेनोदाहरति । द्वारमिति । तल्लक्षणन्तु “तोभोयजौसरनगा:पङ्क्तिसूर्ययति मत्ते- भमत्रकथित" मिति । गृहस्यद्वारं बहूनांमत्तानामिभानांगजानां- गण्डतलेभ्याकपोलस्थलेभ्योनिर्यातनिर्गतैर्दानैर्मदजलैस्सुरभिसुग- न्धयुक्तभवति । आशाणुपत्रंशासननिवेदकाल्पपत्रिका अनिशंसदा श्रीमतांराजराजानांमणिकोटीरैरत्नकिरीटैर्धार्यतमंभृशंधार्यभवति । वचनानांवचसांमाधुरीमधुरतापि पीयूषपूरस्यामृतप्रवाहस्यरुचि- धिक्कारिणीमाधुर्यतिरस्कारिणीभवतिचेतियत् सेयममिताऽसंख्या- ता मैथिलीशस्यरामस्यपदपाथोरुहयोपादांबुजयो द्वितयेद्वयेसत्याः श्रेष्ठाया भक्तेस्संपल्लक्ष्मीः। अत्रमत्तगजमदगन्धमेदुरगृहद्वारकर- १३० .. स्वादिनाऽध्यवसितायांरामभक्तौतादृशगृहद्वारत्वादिव्यपदेशः इात- सर्वशिवम् ॥ २३५॥ त्रिंशत्संख्योपस्कृतपंचसहस्रेषु तिष्यवर्षेषु । यातेषु कृता वृत्तालंकृतिरामस्तुतिश्च तद्व्याख्या ।। इतिश्रीश्वेतारण्यनारायणयज्वनः कृतिषु वृत्तालंकार- रत्नावली रामस्तुतिः सव्याख्या संपूर्णा लोकोक्तिसंग्रहः । १. अनिक्षुयन्त्रके ग्रामे मधुपुष्पं हि शर्करा । २ प्रकुंच्यापि पथा गम्यम् । ३ सन्दग्धा अपि चिकुराः संजायेरन्किमिङ्गालाः । ४. एकग्रामे द्वावुन्मत्तौ। . हिंगुपात्रमपश्यः किं विप्र भिक्षार्थ- मागत । ६. आत्मशेषे धर्मकृत्यम् । ७. विनायकं प्रकुर्वाणो रच- यामास वानरम् । ८. काक्याश्चापि स्वशिशुः स्वर्णम् । ९. नहि- वंध्या विजानाति गुरू प्रसववेदनाम् । १०. बलिनस्तृणमायुधम् । १२. स्वयं तरितुमक्षमः किमु परानसौ तारयेत् । १२. पक्षियोग्यो रामशरः । १३. विरतायामपि वृष्टौ नहि शाखानां पृषन्ति विरता नि। १४. सर्व कार्य तिष्ठतु वृद्धं कारय सांप्रतमकारूढम् । १५.. ज्येष्ठागमनपर्यन्तममा किं हि विलंबते । १६. भिक्षुकपिठरं शनि- राविशति । १७. गुणाः पूजास्थानं गुणिषु नच लिंगं नच वयः । १८. पुरुषाधिक्ये पाकाधिक्यम् । १९. प्रणिपातप्रतीकारः संरंभो हि महात्मनाम् । २०. स्यादुष्णीषं शिरसो योग्यम् । २१. हेनस्सं- लक्ष्यते ह्यग्नौ विशुद्धिश्श्यामिकाऽपि वा । २२. लक्ष्म्यागमने ब- ध्वागमनम् । २३. किमिवहि मधुराणां मण्डनं नाकृतीनाम् । २४.
१३. एको मुष्टिग्राहो मूर्खे । २५. कोपर्नटनसंपत्तु कर्कटप्राणहानिकृत् । २६. श्रेयांसि बहुविघ्नानि । २७. आलयस्थायिमार्जारो देवताया बिभेति किम् । २८. अनिर्वेदस्सिद्धिमूलम् । २९. क्षीरं सर्पाय दद्याश्चेत्स सों विषमुद्रेित् । ३०. सर्वस्सर्वं न जानाति । ३१. विनायकालयं मृज्यान्न तत्रोच्चारमाचरेत् । ३२. उष्णमुष्णेन शाम्य- ति । ३३. तीक्ष्णत्वापादके वृक्षे तीक्ष्णत्वस्य परीक्षणम् । ३४. अ- हिपादानहित्ति । ३५. एकैकशः शतं किंवा योगपद्येन किं शतम् । ३६. रत्नहारी तु पार्थिवः। ३७. उत्सृज्य नगरं ग्रामे रत्नानां हि परीक्षणम् । ३८. कामी स्वतां पश्यति । २९. पतेदाम्रशलाटुः किं मन्त्रे प्रोञ्चारिते सति । ४०. सति कुड्ये चित्रकर्म । ४१. शुष्के पिचण्डे भुञ्जीत तुरंगोऽपि पलालकम् । ४२. कोऽतिभारस्समर्था- नाम् । ४३. उभयोरजयोस्स्तन्यं पीतवानयमभकः। ४४. किंदूर व्यवसायिनाम् । ४५. तपस्स्थितानां सुलभं हि सर्वम् । ४६. को विदेशः सविद्यानाम् । ४७. सत्स्वर्दनं फलमदोहृदमेव सूते । ४८. कः परः प्रियवादिनाम् । ४९. क्षुधितश्चापि शार्दूलो न कुर्यात्तृण- भक्षणम् । ५०. यत्राकृतिस्तत्र गुणाः । ५५. प्रवाहो नूतनः प्रत्नं प्रवाहच्याप्यनाशयत् । ५२. दुष्करं किं महात्मनाम् । ५३. स्वसुः पुत्रः स्वपुत्रश्चेत्किमर्थं तपसि श्रमः। ५४. भीताः बिभ्यति सर्वतः। ५५. अश्वः पादेन खंजोऽपि कुलुथगिरणे पटुः । ५६. साध्वी ज्येष्ठाऽऽचार्यपत्नी । ५७. पुरश्चूडस्य विप्रस्य शिखा कंपेत किं वृथा । ५८. ज्येष्ठापि भार्या कालोपयोगा। ५९. विश्वप्रसिद्धविप्रस्य किं केशब्रह्मसूत्रकम् । ६०. कूपः खातो भूतो जातः । ६१. द्रष्टुं वणं करगतं मुकुरः किमर्थः । ६२. गतयो भिन्नपथा हि देहिनाम् । ६३. अग्निहोत्रस्य च कृषेरपि नास्त्यनुरूपता। ६४. अर्चकदत्तं यत्ततीर्थम् । ६५. वटकानां तु गणनं न रन्ध्राणामुदीरितम् । ६६. ..
१३२ . बृद्धा नारी पतिव्रता । ६७. श्रेष्ठा भुक्तिश्च सेवा च भेषजस्य व्यह स्मृता । ६८. म्लेच्छवीथ्यां भिक्षुभिक्षा । ६९. ज्ञातुं स्वकं पृष्ठदेशं पाटवं नास्ति कस्यचित् । ७०. अंगुलियोग्यः श्वयथुः । ७१. आ. कण्ठमपि बन्धुत्वे हस्तं वक्षसि मा क्षिप । ७२. भिक्षा भिक्षोर्नचा- लाब्वाः । ७३. रासभस्य पुरीषं हि जायते होमसाधनम् ।७४. हिं- सितं हिंस्यते पदम् । ७५. मोदके छेदमाप्तेऽपि तद्रुचिर्नैव यास्यति । ७६. नाशितं नाश्यते कुलम् । ७७. भाण्डे वक्रत्वमाप्तेऽपि किंन पच्येत मोदकम् । ७८. विप्राः पश्चिमबुद्धयः । ७९. सर्षपे सत्यपि स्वल्पे तत्कटुत्वं न गच्छति । ८०. सम्मार्जन्याः पदरज्जुः । ८१.. प्रक्षालनाद्धि पंकस्य दूरादस्पर्शनं वरम् । ८२. बाल्ये रम्यो गर्द- भोऽपि। ८३. गृहीत्वा तण्डुलान् ज्येष्ठभगिनीबन्धुता तु का ॥ ८४. एको भेको घटसर्पाणाम् । ८५. विष्णुशाकः पादपणो भरभृत्या त्रिपात्पणा । ८६. उष्ट्रस्यांगं सर्वं वक्रम् । ८७. कूपस्थितस्य भेक- स्य का राष्ट्रस्य विचारणा । ८८. कार्पासो वस्त्रमफलत् । ८९. ग्रामं गते कर्षणयोग्यभद्रे तत्रापि तं कर्षणमेव कारयेत् ।९०. नदीप्रवाहे पूर्णेऽपि लीढ्वा पानक्रिया शुनः । ९१. दिनेदिने कि सू. पान्नम् । ९२. पितामही शयीत चेद्गृहस्य रक्षिका भवेत् । ९३. खापराधं नवेत्ति स्वः । ९४. ताम्रचूडं ताडयितुं महायष्टिः किमि- ष्यते । ९५. संशयात्मा विनश्यति । ९६. स्थित्वोच्चरच्चेदाचार्यों- धावित्वा शिष्य उच्चरेत् । ९७. संग्रही नावसीदति । ९८. बालैः कृ- तायास्तु कृषेःफलं किं गृहमाव्रजेत् ९९. दुष्टं चेतः साशंकं स्यात् । १००. यदि वह्निरिति ब्रूयादास्यं पच्येत किन्तदा । १ पुनरायान्म- हाकपिः।२. किं वार्षिकान्धकारेऽपि कीशः शाखां नलक्षयेत् । ३. मूखैजल्पो वाचः श्रान्त्यै। ४. नर्तकतनूजंशिक्षयसिनृत्तं । ५. अभ्यं- नयातिहिविभूतिरपत्यभाजाम् । ६. आर्षोगर्भोनोविलंबेतरात्रौ।
१३३ ७. मधुग्राही कूपरं किंनलिह्यात् । ८. उष्णोदकस्य सेकेन किंदो- त निकेतनं । ९. कुक्कुरपुच्छं सम्यङ्ननमेत् । १०. ज्येष्ठाजितं क- निष्टस्य कटिसूत्राय नाप्यलं । ११. पटाटोपोभयंकरः । १२. बध्वा- रुदन्शुभे किंनु तूष्णींस्यान्मृतवेश्मनि । १३. गानं मूढश्रोत्रे बाणः । १४. स्वानार्जितस्य स्वर्णस्य शुद्धिर्नच मितिनच । १५. किंदुर्मर्षति- तिथूणाम् । १६. माधुर्यदर्शी मार्जारः प्रतिशिक्यमभिव्रजेत् । १७. किमकार्यमसाधुभिः । रजक्यां रजकस्याशा तस्याआशातुरासमे। १८. विश्वस्याच्चौर्यवन्तं वा न विश्वस्यात्तु वामनम्। १९. किमदेयं वदान्यानाम् । २०. उत्तराभिमुखसौधनिकेतनाद्दक्षिणाभिमुखपर्ण- कुटी वरा । २१. अप्यतिक्षुल्लकं सर्प महादण्डेन ताडय । २२. कः परः समदर्शिनाम् । २३. पिपीलिकानां स्पृष्टयापि शिलाप्या- घर्षिता भवेत् । २४. नहि वाचो दरिद्रता । २५. नदीमीक्षेतचेद्वि- प्रउत्क्रुश्योत्क्रुश्य वै पतेत् २६. आखुःप्राप्तःखात्वा शैलम् २७. एका- शीतितमालस्य कोटिभंगाय कल्पते । २८. गतानुगतिको लोकः। २९. नोलंघयति सीमानं तिल्लकाननकन्यका । ३०. रसनायास्सि- रा कुतः । ३१. पिटकानां सहस्रस्य हन्ता च्छेत्ता भिषक्स्मृतः। ३२. गुलभाण्डं सजेइंशः। ३३. कुडवोऽपि नशिष्येत कर्षको गण- येद्यदि । ३४. सवाते धूनयेत्काले। ३५. पानक्रिया यवाग्वातु गण्डू- षो हिमनीरतः। ३६. नरदृश्वा पयोनिधिः । ३७. मौक्तिकं कन्य. कापि स्यात्शुल्कं चापि भवेल्लघु । ३८. प्रत्यापणं पुमानेव । ३९. चित्रेप्यनहश्चोलीयः । ४०. उत्पादकस्य कुंभानामनेकान्दिवसान्क्रि- या। ४१. उद्भेदकस्य कुंभानामेकमेव क्षणं क्रिया । ४२. कृकला- सो वृतेःसाक्षी । ४३. पत्रतुंबी निषिद्धाचेद्गृहतुंब्याः किमागतम् । ४४. बन्धुभावो रणे कुतः। ४५. सिद्धमन्नं परित्यज्य भिक्षामटति दुर्मतिः।४६. यतियात्रा बहिर्वेद्याम् । ४७. हस्तस्थं पायसं मुक्त्वा । कूर्परं लेढि दुर्मतिः। ४८. कंकस्य नासा खिद्येत ४९. ऋणं गृही- त्वाप्युपबास एव । ५०. निष्कुटौषधिरगौरवास्पदम् । ५१. बि- च्छिन्द्यात्कि कण्ठसूत्रं दुःखप्रश्नार्थमागता । ५२. वाग्मी तनूभवो जीवेत् । ५३. यत्र भुङ्क्ते गृहे तत्र द्वैतमिष्येत किंस्वयम् । ५४. नि द्रालुवत्सः पुंवत्सः । ५५. केन बन्धयितुं शक्यं कुञ्जरस्यालमल्ल- कम् । ५६. निःस्पृहस्य तृणंजगत् । ५७. तण्डुलाश्चेद्विकीर्येरन् स- हस्रं वायसास्तदा । ५८. अपूर्णः कलशो नृत्येत् । ५९. प्रवेश्य वा मनं तोये परिपश्यत्यगाधताम् । ६०. पंचसु द्वे अबल्बजे। ६१. अनिष्टायास्तु भार्यायाःकरस्पर्शेपि दुष्टता । ६२. ज्ञानं भारः क्रियां विना । ६३. लेखिनी कथयेत्खंजामजानन् लेखनं पुमान् । ६४. गुरोर- तिक्रमी शिष्यः। ६५. पाकायैवाभवत्काल कालो नास्त्यौष्ण्यशान्त- ये । ६६. वादभ्रष्टो वैद्यश्रेष्ठः । ६७. व्याजभूतं हि खंजस्य वाजि- नःस्खलितं स्थलम् । ६८. स्कंधादृर्ध्व सखा भवेत् । ६९. महिष्यां- प्रसवार्तायां महिषो मदनातुरः । ७०. भुक्तिश्रमो दृढस्यापि । ७१. पंचवक्त्रे वने दृष्टे किं चरेयुः परे मृगाः । ७२. चौर्यमभ्यस्य वि- स्मर । ७३. भित्तिशाकं मेलयित्वा दुर्वेश्ये निपातय । ७४. भि- क्षापात्रं बृहत्पात्रम् । ७५. दह्यमाने गृहे वह्नि धूमपत्राय याचते ७६. युद्धकार्याय गोग्रहः । ७७. चटकाकिं भवेत्कंको डयमानोप्यु. पर्यलं । ७८. बालवत्सो न भीतिज्ञः । ७९. आगतावागतौ श्वश्रूर- भवद्गर्दभी यथा । ८०. गजस्य भाण्डस्य च साम्यमात्तम् । ८१. यावनालसमुत्पन्ना लाजाः किंकुञ्जरक्षुधः। ८२. मृत्तिकाधनजा- मातुर्भक्षणं शुष्कगोशकृत् । ८३. प्रतिवादिपदे पातो वरं साक्ष्यंधि- पाततः । ८४. प्राप्येऽपि कुट्टने श्लाघ्यं कुदृनं सोमिकै करैः। ८५. विश्राणनीयं भिषजे द्रविणं देहि चक्रिणे । ८६. भोजने पुरतस्तिष्ठ पश्चात्तिष्ठ निषेवणे । ८७. जातस्यापि गिरौ धान्यस्यावघात उलू- खले । ८८. निरस्तमानवे ग्रामे हयमेधं करोत्ययम् । ८९. विद्वानेव विजानाति विद्वज्जनपरिश्रमम् । ९०. यएव गवां निवर्तने प्रभवति सएव धनञ्जयः । ९१. अयोधनं गिरेदाखुः काकश्चेच्छिशुमुद्धरेत् । ९२. शिलागजाननं दशेत्सदन्तभंगमाप्नुयात् । ९३. न कतकं पं- कप्रसादनाय । ९४. पृथुकं स्मृत्वा धुलूखलमवहन्ति ९५. मागिता लता पादयोः प्रोता । ९६. अखण्डं कूश्माण्डमन्नमध्ये छादयसि ९७. प्राचीने काणे कवाटमपावृणु । ९८. अयमपरो गण्डस्योपरि पिटको दः । ९९. दिगंबरदेशे कौपीनवानुन्मत्तः १००. अन्यदु- पक्रान्तमन्यदापतितम् । १. न शणसूत्रवानाभ्यासे त्रसरसूत्रवैचि- ज्यलाभः २. रत्नाकरेपि क्षारभावः। ३. गिरि निगीर्णवतो महादे- वस्य कवाटमेकं पर्पटम् ४. फलं गलितं पयसि एपात ५, लूतात- न्तुना गन्धगजालानसन्दानं ६. सूचीतुण्डेन वज्रमणिभेदः ७. वह्निरेव वह्वेर्भषजं ८. नहि तरणिकरम्पर्शादन्यो व्याधिरिन्दीवरव- नस्य ९. प्रयोगपरतन्त्रा हि कार्यसिद्धिः १८. अलवितुःकट्यामष्ट- पंचाशल्लवित्राणि ११. गर्दास्पदं हि ग्रामस्य गणेशालयभिक्षुकः १२. पुष्पेण सह सूत्रमपि सुरभि १३. पुरुषविशेषपरिषंगोत्कर्षि- ण्य एव पुरंध्यो भवन्ति १४. ईर्ष्यायितं हि सुन्दरीणां प्रकाशकं प्रेमसर्वस्वस्य १५. न कालहरणक्षमाः प्रियसमागममहोत्सवाः १६. भवितव्यानां द्वाराणि भवन्ति सर्वत्र १७. इक्षु भक्षयितुमपि भृतिः किं १८. कैतकसंपर्कात्सियमपि किमप्यामोदते १९. लोकोभिन्न- रुचिः २०. नौरपि शकटमारोहेत् शकटमपि नावमारोहेत् २१. मूकाजल्यकश्चण्डप्रचण्डः २२. फलिष्यत्सस्यमंकुरोदये दृश्यम् २३. ष्टष्ठताडनेन दन्तभंगो जातः २४, आम्रान्पृष्टः कोविदारानाच- हे २५. अधः पततोऽपि श्मश्रुणि रणुन मतः। २६. मेयशून्ये हस्ते किं किष्कुमान २७. तव गृहमागच्छेयं चेकिं ददासिमे २८. .
१३६ मम गृहमागच्छेश्चेत्किमानयसि मे २९. यवाग्वामप्याशा श्मश्रु- ण्यप्याशा ३०. काशीं गतमपि कर्म न मुञ्चेत् ३१. अभिसारिकेति गजमारुह्य गच्छेत् ३२. चौर्यवतीति वीथ्यां गन्तुं शक्नुयाकि ३३. समुद्रे क्षिप्तमपि कलशं पूरणीयमेव जलं पूरयेत् ३४. नौका- वाणिज्यतो जातमृणं किं निवर्तेत कार्पासतन्तुकरणेन ३५. शिव- मितवित्तनरस्य भार्या भूत्वा किं द्रोणमितवित्ताशां कर्तुमर्हेत् ३६. अत्यल्पमपि तृणं दन्तनिर्घर्षणाहम् ३७. गर्दभोपदेशः कर्णमूलमा- त्रगः ३८. मशक्रस्य पिटके जाते छेदो दाहो वा कियान ३९. निम्ने स्थले तिष्ठते जलं ४०. कूपनीरं प्रवाहो नापहरेत् ४१. गोपुरं पाञ्चा- लिका वा धारयति । ४२. यदि श्वश्रूभिन्द्यात्तदा मृद्भाण्डं यदि स्नुषा भिन्द्यात्तदा कांस्यभाण्डं ४३. सतस्ततस्त्रयो मार्गाः द्वौ मा वसतस्सतः एकोऽसतोऽसतो मार्गः। ४४. धावन्तं ग्राममनु- धावेत् ४५. निर्मितस्य सदनस्य सम्यकार्यत्वोक्तिः ४६. जीर्णपर्णरा- शिमध्यक्षिप्तस्यापि गुञ्जाफलस्य शोभा नापगच्छेत् ४७. जनन्य- ष्टपदानि क्राम्यञ्चेद्वत्सः षोडश पदानि क्राम्येत् ४८. जामात्रे पा- चितमन्नं पुत्राय परिवेष्य कुक्षितापमुपागमत् ४९. वृषभ इति भाषमाणमपि पृच्छति वत्साय कुडवमितं क्षीरम् ५०. नद्या योज- नदूरेप्यलमल्लकमस्रंसयत् ५१. भिक्षित्वापि भिक्षवे देहि ५२. भि- श्रुरपवरके तिष्ठेत् भिक्षुभस्रिका रथ्यायां तिष्ठेत् ५३. इक्षवे कृष्टा मृत्तिका किं तप्तस्य क्षीरस्य शर्करा भवेत् ५४. अश्वत्थं प्रदक्षिणीकु- वणैिव कुक्षिमूलमामृशति । ५५. यवाग्वै स्थितान् तण्डुलान् दत्वा कक्षरोमाण्यवापयत् ५६. आरे आरे विति वदन्नरोऽग्नौ किं पति- प्यति ५७. रोगिवागभ्रमारोहेत्किम् ५८. तत्कालकार्यस्य बुद्धियूंना ५९. जवेन रंगवल्यर्थ पिष्टमादाय विकिर ६०. कोच्यां शिवमरी- चिश्चेदत्र किं ६१. तृणानि किमु बध्येरन्गोश्चरन्त्याः विषाणयोः६२.
। आषाढवाते शिलायां डयमानायां शाल्मलीकासःकियान् ६३. उक्त्वा दत्ता वाचा बध्वा दत्तं चान्न कति दिनानि तिष्ठेताम् ६४. दृष्टारनालं स्थलमदिरैशः दृष्टौदन स्थानममर्त्यपत्तनम् । ६५. भुक्तये समागता देवता ग्रामदेवतां निरकासयत् । ६६. एह्येहीति वनं वक्ति गच्छगच्छेति मन्दिरम् । ६७. बालसिंहोऽपि बध्वा किं चार्येत । ६८. शिलायां वल्कसूत्रमुत्पादयेत् सिकताः रज्जुमापाद- येत् खं शरासं मण्डलीकुर्यात् । ६९, बहिन्वहिन्नित्युक्ते बहीं बह दद्याकिं । ७०. भिक्षुमताडयत डयते स कन्था । ७१. भर्ता ता- डयति स्म नेत्रमलं नश्यति स्म । ७२. मृतेऽपि पुत्र स्नुषादौष्टयं व्यरमत् । ७३. तिलास्तैलार्थमातपे शोष्यन्ते किमर्थमाखुकरीषा. णि । ७४. मातरं दृष्टा दुहितरं निश्चिनु । ७५. अस्मात्तीराददस्तीरं हरितम् । ७६. अजाश्चेत्पारमुत्तरेयुः किमेकमप्यजावत्सलोम वित- रेयम् ७७. कर्मारवीथ्यां सूचीविक्रयो वा ७८. कर्मारचुल्यां मक्षि- काः किं सजेयुः ७९. सजलव्ययः कूपः सजलोद्गमः ८०. अवष्टस- दने रोम्णां न्यूनता किम् ८१. विहाय लाभं किं श्रेष्ठी सरिता सह यास्यति ८२. काकाद्भीतिमती कंकाद्धैर्यवती ८३. इक्षुर्मधुरइत्या- मूलं खन्येत वा ८४. मर्तुं यास्यतो महोदधिरूरुमात्रः ८५. सांकामिकः पिटकः स्पर्शमात्रेण संक्रामेत् ८६. चिकोडः शाखायां कूर्मः कूपे ८७. कण्ठरज्जु विमुच्य वालमधारयः ८८. हस्ते नवनीतं निधाय घृताय चरति ८९. जलावतारे यदि दृश्येत माता तदा सुता सदने किन्नु दृश्या ९०. वृक्षं स्थापितान् जलं सिञ्चेत् ९१. वालमाकंपयेद्हे मार्जारोऽपि कृताशने ९२. स्थितं यात्रे दत्वा देवरे भिक्षार्थमरोदीत् । ९३. अग्नौ मन्दाग्निमहानिर्वा ९४. नद्यां पातयन्नपि मित्वा पातयेत् १५. चलत्सु दन्तेषु निवर्तते क्षुत् ९६. निरस्तपादपे देशे धेरण्डोऽपि गुमायते ९७. पितुर्भुक्ति- पात्रं महानसे न्युजम् ९८. सहस्रश्राद्धनाशी सामिग्रामयाजी ९९. जामातेति कथितं तृणमुन्नमेत् १००. कुबेरसदनेऽपि मृन्म- य्येव चुल्ली न कनकमयी १. कन्याऽपि स्यात्कमनीया किंचिदपि स्यात्तच्छुल्कम् २. सहस्ररूप्यमूल्यको गजः स्थितो मृतोऽपि वा ३. गौरपि तनीयसी स्यात्पलालमप्यल्पं चरेत् प्रभूतं पयश्च प्रदद्यात् ४. वृश्चिके वालेऽपि तद्विषमबालम् ५. श्मशानवासी सं- न्यासी किं वेतालादियाद्भयम् ६. प्रातिवेशिके वृद्धिमुपगते पञ्च दिनानि निराहारो भवेत् ७. तालीवनसृगालः किं बिभीयाञ्चल- चलध्वनेः ८, आगतं शिरसे यातं शिरस्त्राणेन वै सह ९. मूल्य- मपि स्वल्पं स्यान्मौक्तिकानि स्युरनल्पानि १०. अनधीते [अधी- तेपि] महाभाष्ये व्यर्था सा पदमञ्जरी। इति खेतारण्यनारायणयज्वनः कृतिषु लोकोक्तिसंग्रहः पूर्णः विष्णुनक्षत्रमाला। वन्दे नन्दितजिष्णुं घनरोचिष्णुं घनाघमभिभूण्णुम्।निरय नि- राकरिष्णुं हृदि वर्तिष्णुं हृतामयं विष्णुम् ॥१॥ वन्दे मन्दिततृष्णं नन्दितकृष्णं नमजनानुष्णम् । सततमसाधुमहोष्णं साधुसतृष्णं सकौस्तुभं कृष्णम् ॥२॥ भुवनविमोहनरूपं यदुकुलदीपं यमीशसु- प्रापम् । माधवमपास्ततापं मधुरालापं नमामि नतगोपम् ॥३॥उ- त्पादितसुमबाणं जितमुरबाणं कृताखिलत्राणम् । ददतं निष्परिमाणं स्थिरनिर्वाणं भजे रमाप्राणम् ॥४॥विदलितविविधसुरारि विजि- तवलारिं नमामि नरकारिम् । धृतनन्दकतरवारिं पदसृतवारिं- परात्परं शौरिम् ॥५॥ दीनजनावनदक्षं दीर्णविपक्षं दयाभृतावेक्षम्। दितिभवगजहर्यक्षं देवाध्यक्षं भजे सरोजाक्षम् ॥ ६॥ जीर्ण तुलसी- १३९ पर्ण तूर्ण स्वीकृत्य वेश्म विस्तीर्णम् । पूर्ण धान्यमजीर्ण स्वर्ण कृष्णेन किन्नु न वितीर्णम् ॥ ७॥ श्रुतियुवतिचिकुररत्नं कौस्तुभरत्रं ज- गञ्च निर्यनम् । दधतं नमतां प्रत्नं चिन्तारत्नं भजामि यदुरत्नम् ॥ ८॥द्वारं कृत्वा पार्थ यस्तत्वार्थ जगौतमत्यर्थम् । कृष्णमबुध्वा व्यर्थ कालं स्वार्थ नयामि वाऽन्यार्थम् ॥ ९॥ सुन्दरपदारविन्दं समनु- तिनिन्दं समर्पितानन्दम् । नन्दककरं मुकुन्द नन्दितनन्दं नमामि गो- दिन्दम् ॥ १०॥ कमलां वक्षसि कलयन्कंबुं रचयन् करे शुचं दलय- न् । अचलं कुशलं जनयन् अभयं कथयन् पुरोऽस्तु हरिरुदयन्॥११॥ प्रभुमवनतजनमोदं प्रकटितवेदं प्रभाजितांभोदम्। करिगिरिशिखर- विनोदं कमलाढ्लादं कदापि नावेदम् ॥ १३ ॥ अच्युतमधिगतरंग- रमणीयांग रमाकृतालिंगम्। तल्पितशेषभुजंगं तायशतांगं भजामि धृतशाङ्गम् ॥ १३ ॥ वेंकटशैलावासं वेदश्वासं विपाटितायासम् । नन्दितवेदव्यासं नीरदभास हरि भजन्नासम् ॥ १४ ॥ सद्गुणरत्ननि- शान्तं सततं भान्तं सतामधिस्वान्तम् । भवगदवैद्यमनन्तं भवुको- दन्तं भजे रमाकान्तम् ॥ १५ ॥ बृन्दावनसंचारी कंसविदारी किरी- टिहितकारी । यमुनातीरविहारी कौस्तुभधारी पुरोऽस्तु मधुवैरी ॥ १६ ॥ सुखयतु जगतां कर्ता नमतां भर्ता मुरस्य संहर्ता । चक्रग- दादरधर्ता विपदपहर्ता रमाधराभर्ता ॥ १७ ॥ सकलचराचरनेता- संपदाता समस्तरिपुजेता । सुखयतु भद्रभ्राता सुखसंधाता सुमा- युधाधाता॥१८॥चंपकवनवास्तव्यं संततभव्यं सुरालिसंभाव्यम् । देवीदक्षिणसव्यं गोपंदिव्यं विहाय किं सेव्यम् ॥ १९ ॥ नरनारायण- नामा नवधनधामा निरस्तभवदामा । सुखयतु बदरीधामा सुखित- सुदामा सुरेषु सप्रेमा ॥ २०॥ अवने प्रतिभावन्तं हृदि मणिमन्तं श्रिते दयावन्तम् । भुवने विभूतिमन्तं श्रियि रतिमन्तं भजामि भग- वन्तम् ॥ २१ ॥ द्वाराट्टध्वजवत्यां द्वारावत्यां स्थितं प्रभावत्या- १४० -- म्। मधुयदुवृष्णिमहत्यां मंगलवत्यां हरिं दधे मत्याम् ॥ २२ ॥ सन्तं द्वारावत्यां सुकृतवसत्यां जितामरावत्याम् । प्रासादजालवत्यामु- त्सववत्यां हरिं दधे मत्याम् ॥ २३ ॥ कंबुसहोदरकण्ठं नतभयकुण्ठं नमामि वैकुण्ठम् । सजनलसदुपकण्ठं श्रीवैकुण्ठं श्रितं रमोत्कण्ठ- म् ॥२४॥ पदरुचिजिताजशोमं पद्मालोभं परास्तविक्षोभम् । पा- टितविमतमहेभं पंकजनाभं प्रणौमि जलदाभम् ॥ २५॥ विमलगु- णप्राग्भारं विश्वाधारं विधेर्विधातारम् । विनुतं विबुधै /रं वीर- मुदारं विनौमि यदुशूरम् ॥ २६॥ प्रतिपादितपुरुषार्थ प्रमुदितपार्थ प्रकृष्टगुणसार्थम् । प्रभुमच्युतमत्यर्थ प्रास्तानर्थ प्रणौमि तत्वार्थम् ॥ २७ ॥ विष्णोस्ताराभालां पठितुरबालां श्रियंच धारालाम् । स्वस्मि- - भक्तिमलोलां वचसां विमलां हरिदिशेन्मालाम् ॥ २८ ॥ इति श्वेतारण्यनारायणयज्वकृता विष्णुनक्षत्र- माला संपूर्णा ॥
No text on this page.