Bharatiya Jnanpith Delhi
Vertkalankaaraha Prajnakarguptasya
Front matter
भारतीय ज्ञानपीठ काशी
शानपीठ-प्रन्यागार
"णाणं पयासयं"
(.) हायोले पुस्तकको सर्वन कीजिये । जिन्दपर कागज
१२)पचे समाकर इटिये धक्का प्रयोग न कीमिये ।
(३) निशानी किये पो न मोदिये, न कोई मोटी चीज़ रखिये।
काजका टुकड़ा काफी है।
(७)हाधियॉपर निघत न बनाइये, न लिखिये।
(५) ली पुस्तक उबटकर नरसिये, न दोहरी करके पहिये।
()पुलकको समवपर अवश्य कौद्य दीजिये।
"पुबशामजननी हनकी विनय कीजिये"
No text on this page.
No text on this page.
1-1-14
++++++
वार्तिकालंकारः
प्रज्ञाकरगुप्तस्य
त्रिपिटकाचार्येवल सांकृत्यायनेन सम्पादितः
No text on this page.
धर्मकीतः प्रमाणवार्तिकस्य भाष्यं
वार्तिकालंकारः
प्रज्ञाकरगुप्तस्य
त्रिपिटकाचार्यण राहुलसांकृत्यायनेन सम्पादितः
Edited by
Rev. TRIPIȚAKĀCHARYA RAHULA
SANKRITYAYANA
No text on this page.
वार्तिकालङ्कारः (प्रत्यक्षपरिच्छेदः) १३* विज्ञप्तिमात्रताविस्तरः (c. 14b 4-7) तद्रूपसाक्षात्करणादर्थ एव तथा न किं । तदाकारा यदा बुद्धिः साक्षात्क्रियते अर्थ एव तथेति व्यर्थार्थाकारा बुद्धिः बुद्धचकारो हे (?)कृते ततोऽदूरे देशस्य प्रतिपत्तिः व्यापित्त्वादात्मनोऽदूरदेशकमेव सकलं। न च दूरदेश इति प्रतिपत्तिः स्यात् । न च तदाकारबुद्धिव्यतिरेकेणार्थ इति च। अर्थमन्त'रेण तदाकारा बुद्धिः कुत इति चेत् । ननु बुद्धित एव तदाकारतार्थानामिष्यते तत्किमयं विपर्ययः । स्वमुखमिव नासङ- क्रान्तं प्रतिपत्तुं शक्यं । नायोग्यदेशत्वात् मुखस्य संक्रान्तिईर्पणादाविष्यते॥ नवमन्येषां दर्पणस्य चासंक्रान्तस्य (c. Iya) कथं प्रतिपत्तिः। तस्यापि बुद्धि- दर्पणे सङक्रान्तत्वादिति चेत्। बुद्धिरपितहि बुद्ध (:) दर्पणान्तरे चासंक्रान्तिरि- ष्यतां । बुद्धिरविदितवास्त्विति चेत् । आत्मापरोक्षेति व्यथं जगत् स्यात् । आत्मनो- ऽपक्ष (?) त्वे तेनार्थ एव वेद्यतां किमत्र धिया। करणमन्तरेण कथं पश्यतीति चेत् । चक्षुरादयः करणं। अन्तःकरणेन प्रयोजनमिति चेत्। अन्तरन्तःकरणे नापि प्रयोजनमित्यनवस्था। न चानुपकारकं करणं। तैरभिव्यज्यते। पुरुषश्चेन्नोदा- सीनस्यवाभिव्यक्तेरग्राहकत्वं। तस्मादर्थान्तरेणात्मना भवितव्यं । दर्पण इव तत्रापि विकारकारिणी तदाकारतेति चेत्। न दर्पणं प्रतीत्य तदाकारा बुद्धिरुपजायते। तेन विकारोन्यथा कः संक्रमार्थो यदि न विकारः। दर्पणेभिमुखाकारा भ्रान्ता बुद्धिरुदयवती । अत्रापि विषयाकारा बुद्धिन्तिव न परमार्थतो विषयप्रपञ्चः। प्रधानपुरुषमात्रात्मकत्त्वाज्जगतः। प्रधानात्मकत्त्व- मपि तहि भ्रान्तमेव जगतः घटाद्यात्मकवत् । तथा पुरुषात्मकत्त्वमपि। एतच्च पश्चात्प्रतिपादयिष्या मोऽन्यथा न सांख्य प्रस्थानेन । * खण्डितोयं परिच्छेदः ३३० तमकारिकात आरभ्यते ।
२ ] वातिकालंकारः (३३३३०) तस्मादस्य शुद्धस्यानुभवस्य भाव्यन्तेनात्मना, येन कर्मकर्मप्रतिविभागो नीलमिदं पीतमित्यादि कः। ननु श्रोत्रादिवृत्तिः (c. ITb) प्रत्यक्ष प्रमाणमित्युक्तं। उक्तमिदमयुक्तं तु। तथापि। अनात्मभूतो भेदोस्य विद्यमानोपि हेतुषु । भिन्ने कर्मण्यभिन्नस्य न भेदेन नि यामकः । अस्य पुरुषस्याभिन्नस्य सर्वत्र कर्मणि नीलादौ न भेदेन नियामक इन्द्रियादि- भेदः। स हि तस्य कारकत्वेन ज्ञापकत्त्वेन वा नियामकः स्यात् (1) कारकत्वेन नियामको न युक्तस्तस्य नित्यत्त्वात् । साकारताप्रसंगाच्च । अनाकारत्वे स एव दोषः स्वात्मन एव वेदनप्रसङगात्। अथ ज्ञापकत्त्वानियामकः।' अपरिज्ञातेथें कथं ज्ञापकः । ज्ञापकानियमज्ञानं नियमज्ञाने ज्ञापकमितीतरेतराश्रयदोषः। अ(1) लो- कवज्ञापक इति चेत्। न(1) तेषामपि ज्ञाप्यत्त्वेऽपरेण ज्ञापन प्रयोजनमित्य- नवस्था। न च सर्वत्रालोको ज्ञापकः। आलोकेन वा ज्ञापिते किं चक्षुरादिभिः । तत्र वालोकभूता शब्दादीनामिति चेत् । तथाप्यसौ स्वबोधरूपः कथं वेत्ति। स्वरूपेऽवस्थानामिति वक्ष्यामः। तस्माद्यतोस्यात्मभेदोऽस्यावगतिरित्ययं क्रियायाः कर्मनियमः सिद्धा सा तद्वेदना ॥ यतः स्वरूपहेतौ तस्य सम्वेदनस्य । रूपमस्य नीलस्य पीतस्य चाधिगतिरिति नियमः। सापि गतिस्तत्साधनासिद्धा। तन्मात्रका- देव नियमस्यास्य (c. I6a) भावात् । तथा चोक्तं । भावादेवास्य तद्भावो न चेयमर्थस्य घटनासारूप्याद"तः सम्वेदनस्य ( 1 )यतः(-) अर्थेन घटयत्येनां न हि स्वकावा [? न स्व भाषा] र्थरूपतां । अर्थस्वभावविज्ञानस्य [ ? विज्ञान ] भेदकोपि कथञ्चन । तस्मा (त्) प्रमेयाधिगते: साधनं मेयरूपता। साधनेन्यत्र तत्कर्म सदर्थो न प्रसिध्यति । तदाकारं हि सम्वेदनमर्थ व्यवस्थापयति। नीलमिति पीतञ्चेति । यथा चाकारयोगिता ज्ञानस्य तथोत्तरत्र प्रतिपादयिष्यामः । अन्यत्र तु साधने तेन कर्मणा 2a स्वार्थो न प्रसिध्यति सम्वित्तेः। तदाकारता चेत्परित्यज्यते कयन्तस्य सम्वेदन- मिति नियमः। साक्षात्करणादेव नियमो भविष्यतीति चेत् । किमिदं साक्षात्करण- मर्थस्वरूपमथ सम्वेदनं । अथान्यदेव किञ्चित् । अर्थस्य साक्षात्करणं यदि रूपं सदिष्यते । साक्षात्कारि हि स्थानं कथमर्थस्य सम्भवेत् । .
१३-विज्ञप्तिमात्रता [ ३ अथ सम्वेदनस्यैव रूपं साक्षात्क्रया मता। साक्षात्कृतः कथं सार्था [? सोऽर्थो] न ह्यन्यस्यान्यरूपता। अन्यत्त्वेप्येष दोषस्तत्तावदेव निवारितः । तथा हि यदि साक्षात्करणमर्थस्य स्वभावो नीलादिसाधारण इति सर्वस्य सम्वेदितः सोऽर्थो भवेत् । साक्षात्क्रिया चार्थस्य न युक्ता ज्ञानधर्मत्वात्। अथ ज्ञान(c. 16b)धर्मोसावर्थविषयः तेनार्थः सम्वेदित उच्यते। अर्थविषय इति को विषयोन्यः। अन्यसम्वेदनरूपत्त्वादिति चेत् । अर्थस्य सम्वेदनमिति किम्। अर्थ- रूपत्वात्सम्वेदनस्येति चेत्। (तस्यैवाकारता सम्वेदनस्य। अथार्थाज्ञातत्त्वा- दर्थसम्वेदनं, तथासति चक्षुषों? षा] विज्ञातत्त्वाच्चक्षुः सम्वेदनमिति प्राप्तम्। अर्थ पश्यति चक्षुरिति चेत् । अर्थ पश्यतीति कोर्थः। अर्थम्पश्यन्दृश्यते तेन पश्य- तीत्युच्यते। केन पश्यति स्वरूपेण। यथैव तहि स्वरूपं सम्वेदनरूपेण पश्यति । तथार्थमर्थरूपेणेत्यर्यरूपतान्यस्य सा विज्ञानसम्वेदनरूपता सम्वेदनस्येति। तदाका- रतव सबस्य साधिका। नार्थः स्वभावो भेदको विज्ञानस्यार्थन घटमिति । मा च तस्यात्मभूतैव तेन नार्थान्तरं फलम् । अर्थान्तरफलवादिनां हि सर्व दुर्घटमिति। आत्मभूतैव सम्बेदनस्यार्थकारता प्रमाणं, सम्वेदनन्तदात्मभूतमेव फलं प्रमाणस्य । अर्थाकारतानुभवव्यतिरेकेण नान्याधिगतिः । नहि सुखाद्याकारतार्थस्य सम्वेदनं, तद्विशेषादर्थविशेषानुभव- प्रसङगात्। अथ हेतुतयार्थस्यानुभव इति चेत् । यद्यर्थाकारता न (c. 171) स्यात्सुखमेव केवलमनुभूयेत । अर्थरूपसम्वेदनमिति चेत्। नीले पीतसम्वेदनं कस्मान्न भवति। परस्परस्य वैलक्षग्यादित्यपि स्वपक्षोपघातः। अथ नीलयोरपि तथेति अलम्पिष्टपेषणेन । स्वरूपमेव तत्तस्य न सम्वेदनव्यापार इति चेत् । अत्रोच्यते। दधानं तच्च तामात्मन्यर्थाधिगमनात्मना । सव्यापाग्मे[? मि]वाभानि व्यापारेण स्वकर्मणो (:।) तद्वगात्तद्वयवस्थानादकारकमपि स्वयम् । नहि परमार्थतः कस्यचित्कोपि व्यापारः । स्वरूपमेव पदार्थानान्तस्य तथा भवतु तत्त्ववेदिभिरव्यापारो यतो व्यापार उच्यते। न परमार्थतः । ज्ञानं च पुरुषस्य स्वार्थः । अर्थज्ञानवत् । ततः सुखज्ञानमुत्पन्नं स्वार्थो न तु सुखज्ञानेन किंचित्क्रियत इति। एवं रूपादिज्ञानमपि स्वरूपेणैव स्वार्थः । न तु तेन ज्ञायते। अर्थात्तु तदुत्पत्तिमदिति समाप्तो व्यवहारः। एतावता किमर्थे व्यापारेण । न तहि अर्थसम्वे- दनं फलम् । फलमपि । अर्थाकारं स[?र्थ म्वेदनमथ सम्वेदनमिति को विरोधः । कथन्तहि अर्थ सम्वेतीति भेदव्यवहारः। तामेव दधानमर्थाभावतां वेत्तीति व्यप- ।
४ ] वातिकालंकारः (३॥३३०) दिश्यते । तथाहि चक्षुविज्ञानं पीतमपहाय यदा नीलादौ वर्तते तदा परित्यागो- पादानलक्षणोन्यव्यापार इव लक्ष्यते। यदा नीलसम्वेदनं नीलरूपमेव पीते न पा(?) यात्रान्यस्य स्वरूपमन्यस्य भवतीति । तेन तत्पृथग्भूतं साक्षाद्वयवस्थाप्यते । तद्वयापारश्च सा चार्था'पत्तिरेव । परमार्थतश्च तदतदाकारमपरापरं विज्ञानमेव । न तत्र व्यापारव्यतिरेको (कः)। अन्वयव्यतिरेकाभ्यां भेदव्यापारकल्पना । अनादिवासनासङगान्न भावव्यक्तपूर्वको । स जातिपूर्वविज्ञानानुभवाहितवासना । व्यतिरेककल्पनाबीजं केवलान्धपरम्परा ।। (-) अन्तरश्लोको। ननु यदि तदाकारं ज्ञानं तेन जन्यते स एवार्थस्तत्र व्यापृतः स्यान्न तु ज्ञानमर्थे तत्कथं विज्ञानं गृहातीति निश्चयः। अत्र समाधिः। यथा फ (ल) स्य हेतूनां सदृशात्मतयोद्भवाद् । हेतुम्पग्रहो लोके क्रियावत्तवेपि कथ्यते ॥ तद्यथा पितु?तृसदृशः पुत्र उत्पत्तिमान् पित[?त्त] रूपं गृह्णातीति व्यपदिश्यते लोके विनापि ग्रहणव्यापारेण, तथा ज्ञानेपि व्यपदेश इति को विरोधः । तत्र तदाकारता दृष्टा इह तु कथं । इहापि दृष्टव कामलोकादिति । तदाकारा ज्ञानादेव सा तदाकारता' नार्थादिति चोद्यं । तदाकारा (c. Iga) तावत्तदाकारतोपलभ्यते भवन्ती। यदि वासनासामर्थ्यमस्ति दर्शने कारणमनुभवा- तदाकारता। अथादृष्टश्रुतपूर्वे प्रवर्तते तदा वासना सामर्थ्याभावादन्यतस्तदाका- रादिति वाक्यार्थः । तदाकारः करणम्। तथा हि(-) वासनातो यदुद्भूतं तदैकस्यैव विद्यते । तत्रार्थस्य स्थितत्त्वे तु सर्वसाधारणोदयः । तस्मादाकारतैव साधनं ।। आलोचनाक्षस"म्बन्धविशेषणधियामतः । नेष्टं प्रामाण्यमेतेषां व्यवधानाक्रियां प्रति । केचिदाहुरालोचनाज्ञानं प्रमाणं, ततः परं जात्यादिविशिष्टवस्तुनिश्च- यात्मकं फलं। ततोपि प्रवर्तनं ततः प्राप्तिस्ततः सुखमिति । पूर्वपूर्व प्रमाणमुत्त- रोत्तरं फलमिति क्रमः। आकारबलादेव हि प्रतिनियतार्थव्यवस्था नान्यतः। आलो- चनविज्ञानं हि यदि प्रतिनियतमाकारं नोपा"ददीत कथमस्येवमालोचनमिति १३-विज्ञप्तिमात्रता [ ५ स्यात् । अयापरमपि निश्चयादिविज्ञानमेव (?) मेव तत्वव्यपदेशलाभि पूर्वपूर्व तु कारणमुत्तरोत्तरोत्पत्तावेव कारणं न प्रतिनियतार्थव्यवस्थायाः तवाकारतव तु तत्र साधनं। सर्वेषामुपयोगेपि कारकाणां क्रियां प्रति । यदन्त्यं भेदकं तस्मात्तत्साधक(c. 18b)तमं मतम् । साध त क मं हि क र णं (पाणिनिः ११४१४२)तस्य च सर्वकारकोपयोगे"पि क्रियायां कथं प्रकर्षः । नहि क्रियानिवर्तनमेव । भावेपि तत्रानन्तयं यस्य क्रियां प्रति तदेव साधकतमं । तथा हि । सत्स्वपीन्द्रियाविष्वदूरदेशतादिना यदि प्रति- नियताकारता न प्रतिप्राप्यत न तदाकारार्थपरिच्छेदव्यवस्था । तदनन्तर- भासिनी सा क्रियेति तदेव करणं । नत्वदूरदेशव साधनं नेन्द्रियोपधातेऽदूर- देशतायामपि न नियतार्थव्यवस्था। अनुपघातस्तहि साधनं, नेदमप्यस्ति । यतः। अक्षस्यानुपघातो हि तदाकारविशेषतः । 2b सम्वेदनस्य विषयः ततः स व्यवधीयते ।। ननु स एवाकारो व्यवधीयत इति प्राप्तमेतेन ह्याकारेण निश्चितोऽनुपघातः प्रतिनियतार्थव्यवस्थाहेतुः। नेदं साधीयः । यतः। आकारनियमः सिद्धो यदि सार्थव्यवस्थितिः । अकारणं शरः सिद्धेः प्राप्त किमिति पोष्यते । नासिद्ध आकारनियमोऽक्षानुया'तं साधयति । स चेत्प्रसिद्धा सैवार्थव्यव- स्थितिः। व्यर्थ एवाक्षानुपघातः। न खलु सिद्धेऽर्थे प्राप्तः साधयति कश्चित्, सिद्धस्य साधनासम्भवात् । ततः (c. I9a) सिद्धोपस्थानहारी किमपेक्ष्यते। तदाकारतायामपि निश्चयोपरः प्रतिनियतव्यवस्थामपेक्ष्य तत् (इ)ति चेत् । न (1) प्रत्यक्षप्रामाण्य- प्रस्तावात्। अभ्याससम्भवे हि प्रत्यक्ष प्रमाणं तदाकारमात्रादेव च तवा प्रवर्तन- निश्चयमन्तरेणापि । यदा तु निश्चयापेक्षा तदानुमानं प्रमाणं । तस्याप्याकारमात्रादेव प्रवृत्तेः। नापरापेक्षा। तस्मादाकारान्नापरं करणं तथाऽसाधारणमिति। तत्र। सर्वसामान्यहेतुत्त्वादक्षाणामस्ति नेदृशं । तभेदेपि ह्यभिन्नस्य तस्येदमिति तत्क्रमः । सर्वस्य हि नीलपीतादिविषयस्य सामान्येन हेतुत्त्वादक्षं न भेदकं । ननु नील- पीततदुभयादिविषयमन्यान्यदक्ष भविष्यति, तदभिमुखता हि तत्रान्यव, ततो धर्मभेदेऽक्षाणामिति तद्भवावेव भेदप्रति (?) प्रतिपत्तिरिति किमुच्यते सर्वसामान्यहेतुत्वादिति। तबसदा(त् । अ)भिमुल्यस्य विशेषणाकारभेदमन्तरेण प्रतिपत्तुमशक्यत्वात् । तद्भदेप्याकाररहितस्य अस्येदमाभिमुख्यं नीलपीतादिविषय- मिति कुतः। नहि नीलादिविशेषप्रतिपत्तिमन्तरेणाभिमुख्यविशेषप्रतिपत्तिः, सा- वातिकालंकारः (३१३३०) (c. I9d) चेदस्ति किमिदानीमाभिमुख्यप्रख्यानेन । अथवा तद्भदेप्यभिन्नस्येति तस्य नीलपीतादिवेदन स्य भेदेपि अभिन्नस्यन्द्रियस्य अस्येदं करणमिति क्रमः। आभि- मुल्यविशेषाद्विशेषत्त्वं हि चेत्। नाभिमुख्यत्त्वस्याकारणविशेषप्रतिपत्तिमन्तरेण विशेषणं [? षेण] प्रतिपत्तुमशक्यत्वादित्युक्तं । तत आकारविशेष एव प्रार्थनीयः। स चेदस्ति किमपरेण । नन्वाकारोप्यन्यस्येव न ज्ञानस्य, तस्यार्थतया प्रतिपत्तेः। जडरूपतया हि स आकारः प्रतीयते वर्णसंस्थानात्मना। ज्ञानन्तु तद्विपर्ययेण बोधरूपतया। आकार- ध्यतिरेकेण बोधरूपतायाः प्रत्येकमगम (क) त्वात् । नीलादिमुखादिकमन्तरेणा- परस्य ज्ञानाकारस्यानुपलक्षणात्। परोक्षं तहि ज्ञानं । न चास्तीति प्राप्तं । तवसत् । तथा हि (--) परोक्षं यदि तज्ज्ञानं ज्ञानमित्येव तत्कुतः । परोक्षस्य स्वरूपे [?]कस्तस्य लक्षयितुं क्षमः ।। यतोऽपरोक्षतार्थस्य तज्ज्ञानमिति चेन्मतम् । अर्थापरोक्षताज्ञानमस्तु तत्र परेण किम् ।। स्थितेर्थे तु भवत्येषास्तित एव न भाविनी । ततोर्थो भवतीत्येतदनायासेन सिध्यति । एतेनाभावोपि प्रत्याख्यातः । न (c. 20a) चापरोक्षताव्यतिरेकेण नीलादिकोनुभवकालेनुभूयते। ततो नीलाद्याकारा सा॥ नीलन्तु तस्या उपधानमन्यदेव । दर्पणमुखप्रतिविम्बादि च मुख- मित्याकार एवासौ न स्वयमर्थः । न तु दर्पणप्रतिविम्बमुखयोईयोरपि प्रतिपत्तिरिह तदाकारमन्तरेण' नार्थस्य। एतदुत्तरत्र प्रतिपादयिष्यामः। आस्तां तावदेतत् । जडरूपता तु स्वयञ्चकाशतः(?) कथं शक्योपपादयितुं। प्रतिभार्थापरोक्ष- तायाः कश्चिदपरोस्ति यत इदमिति साध्यते । तदा वासना भविष्यति। वासनाबलायातोप [? य]माकारो विज्ञानस्य। न च वासनाबलादर्थः सम्भवति। तदभावप्रसङगात् । ननु वासनाबलायातोऽर्थशून्यो भवति स्वप्नाकारवत् । वासनाया विशेषस्य कस्यचित्तत्र सम्भवः । येनार्थशून्यो न भवत्याकार (1) जाग्रदीक्षितः ॥ वासना हि तावदाकारस्य जनिकोपलभ्यते स्वप्नादिषु । तत एषोपि जाग्रदुपलब्धिविषयभावं गतस्तत एव तज्जातीयत्वात् । नन्वाकारत्त्वमेव तस्यासिद्धमर्थ एवासाविति प्रतिपत्तेः। (c. 2ob) न (1) व्यभिचारात् । स्वप्नज्ञानाकारो हयर्थ इतिप्रतीयत एव । पर्यालोचनतोऽन्यथा प्रति- पत्तिरिति चेत् । अत्रापि पर्या लोचनन्न कार्भक्ष्यते। वासनाविशेषस्तु जाग्दवस्था- १३-विज्ञप्तिमात्रता [ ७ कारः सा[? सो]र्थ इति वरं कल्पितं । स्वप्नादिप्रत्ययोपि न साकारस्तत्राप्यन्यस्य सम्भवादिति चे(त्तदुत्तरत्र प्रतिपादयिष्यामः । अथाकारता नापरोक्षः, अर्थ एव नीलादिकोकारः। सा तु वस्तुष्वसामा (त्) तथा लक्ष्यते दर्पणप्रतिविम्बवत् । अर्थप्रत्यासत्या हि दर्पणमनाकारवदिव लक्ष्यते। प्रदीपादिप्रभा'"वद्वा। प्रदीप- प्रभा हचनाकारापि घटादिसंक्रान्ता घटाद्याकारेव लक्ष्यते। तदसत्यं। मुखादिव्यतिरेकेपि दर्पणादिनिरीक्ष्यते । न त्वाकारातिरेकेन [?ण] पिरोक्षत्त्वनिरीक्ष्यते । अपरोक्षता हि नीलाकारात्मभूतैव सर्वदा निरीक्ष्यते नान्यथा। तत्किमर्थ प्रत्यासत्त्यवं प्रतिभात्येवन्तु तैरेवेति किमत्र प्रमाणम्। भवतोपि किं प्रमाणमिति चेदभेदोपलब्धि"रेव। भ्रान्तिरेवेयमिति चेन्न बाधकाभावात्। अर्थप्राप्तिरिति चेत् । न (1) प्राप्तेरप्याकारलक्षणत्वात् । नहि तदाकारतामन्तरेण प्राप्तिरस्तीति (c. 21a) प्रतिपादयिष्यामः । यदि स तथाभूत आकारो न स्यान्न कश्चित्पति- नियतमर्थ व्यवस्थापयेत् । एतेन शेषं व्याख्यातं [1] विशेषणवि(ष)य (:) पुनः। अताद्रूप्ये न भेदोपि तद्वद म धियो पि वा ।। आलोचनार्थसन्निकर्षादिः शेषः । अर्थसन्निकर्षोपि नाका(र)मभिपत्य ज्ञायते। ततस्तेष (1)मपि क्रियां प्रत्यसाधकतमत्त्वं, व्यवधानात् । विशेषणविषां पुनस्तदा- कारता। भावे विशेषणबुद्धिरेव न सिध्यति। तद्विशेष्यादि बुद्धित्वमिति। न तेषामपि करणत्त्वं प्रतिभावत्पूर्वका नाविशेषणबुद्धिविशेषणमेतदिति कथं ज्ञातव्यं । न हि विशेष्योपारूढरूपमन्तरेण विशेषणत्वं नाम", नापि तदुपारूढत्त्व ग्रहणं विना विशेषणत्त्वग्रहणम् । तदाकारग्रहणे च विशेष्यमपि गृहीलमेवेति कथं ततो विशेष्यधीरपरासाध्या भवेत् । न हि तदैव गृहयमाणं तद्ग्राहकबुद्धि- जनितग्राहकग्राहयं तत्कालेपि विशेषणस्य' प्रतिभासमिति चेत्। पूर्वन्तद्- प्रहणं व्यर्थ पूर्वमपि विशेष्यं प्रतिभासत इति न युक्तं साधनत्वाभावप्रसंगादेव । किञ्च विशेषणबुद्धिविशेषणे विशेष्ये तबुद्धिरिति विषयभेदः क्रियासाधनयोः प्राप्तः। भवतु को दोष इति चेत् । नेष्टो विषयच्छेदोपि क्रियासाधनयोर्द्वयोः (c. 21b)। एकार्थत्वे द्वयं व्यर्थ न च स्यात्क्रमभाविता। न खलु पलाशे परश्वादिकरणप्रवर्तनम्। न्यग्रो "धेच्छेदानिर्वत्तंने एकार्थतायां 3a पूर्ववत्प्रसंगः। व्यर्थता च द्वयोः। क्रमभावश्च सर्वासां तदर्थहेतूनां धियाम्विरुद्धः । एकत्त्वे क्रमायोगात्। आवृत्ति- भेदात्क्रम इति चेत्। न (।) वृित्तिभेदस्य प्रत्यक्षेण प्रतिपत्तमशक्यत्वात् । यदि तदेव ज्ञानमावर्तत इति चे (चैता) बता २ ८ ] वातिकालंकारः (३३३३०) वृत्तिसांप्रत्ययः स्यात् । न तदभिन्नस्वरूपग्राहिणां परस्परं क्रियासाधनभावः क्रममावेपि' पूर्वेणोत्तरस्य जनिक्रियव क्रियते नाधिगतिः पूर्वाविशेषात् । जनि- क्रियापि नापरा तत्स्वरूपादिति प्रतिपादितमन्यत्र । नान्यसाधनभावः सन्तद्भावेवयव यङगयोः । तद्वयवस्थाश्रयत्वेन साध्यसाधनसंस्थितिः । इत्यन्तरश्लोकः। नापि सन्त्रिकर्षः प्रमाणं यतः। सर्वात्मनादिसम्बन्धं (:) कैश्चिदेवावगम्यते । धर्म: स नियमो न स्यात् सम्बन्धस्याविशेषतः । यदीन्द्रियार्थसन्निकर्षः प्रमाणं तस्य फलमर्थाधिगतिः स सन्निकर्षः संयोगः। संयुक्तसमवायः। संयुक्तसमवेतसमवायः। समवायः। समवेतसमवायः। संयुक्त- विशेषणविशेष्य(c.22a)भावश्चेति । इन्द्रियस्य घटादिना,संयोगः।घटसम्वेतेन गुणेन संयुक्तसमवायः। गुणत्वेन सितत्वाविना संयुक्तसम (वे)तसमवा यः। श्रोत्रस्या- काशात्मनः शब्देन समवायः। शब्दत्वेन समवेतसमवायः। प्रदेशे घटाभावेनेन्द्रि- यस्य संयुक्तविशेषणविशेष्यभावः । तत्र यदि नाम संयुक्तेन सम्बन्धः। तस्य ग्रहण- मिति कुतः । अन्यथा धूमसम्बन्ध[?]स्य वृक्षादेरपि प्रतिपत्तिः स्यात्। अथ समवाय- सम्बन्धात्प्रतिपत्तिः। एवहि एकार्यसमवायिनः स्पर्शादरपि चक्षुषा प्रतिपत्तिः स्यात्। समानदेशात्वमने प्रत्यक्षं । यथा सन्तानस्य एकार्थसमवायिनः प्रति- पत्तिस्तथा स्पर्शादरपि। अचाक्षुषत्वादप्रतिपत्तिरिति चेत् । तदेवेदम् एकार्थसमवायित्वान्न कमिति चेन्मते । तस्मान्न सत्मिनापि सम्बद्धः कैश्चिदेव धर्मः प्रतीयत इति न युक्तं । यदि हि चक्षुरादिपरमाणवो बहिनिर्गत्यान्यदेशसंक्रान्त्यार्थग्रहणनिमित्तं तत्संयोगे तथा सति सर्वात्मना सम्बन्धावशेषरूपे प्रतिपत्तिरिति चक्रको घटादयोपि धर्माः परिस्फुटप्रतिभासेरन् । वर्णशश्च न संस्थानमात्रस्य । तथा (c. 22b)शेषजात्या- अभिव्यक्तिः। दूरादौ करणस्यासामर्थ्यमिति चेत् । अर्थसामर्थ्यमग्रहणमेव सर्व- वास्तु। एवम्भूता सामग्री येनैवम्भूता प्रतिपत्तिरिति चेत् । न[1]भिन्नत्वात् । संस्थानस्य वर्णतः । न हि वर्णतः संस्थानं भेदेनावधार्यते । अवधार्यते वर्णव्यतिरेकेणापि समर्थ (7) कार इति चेत्। तत्रापि श्यामवर्णस्योपलभ्योपलब्धः। अन्धकारस्या- वस्तुत्वान्न वर्णस्योपलब्धिस् (1) तदप्ययुक्तं । उपलभ्यमानस्यावस्तुत्वायोगात् ॥ आलोकेपि निमीलितलोचनस्य प्रतिपत्तेरि (ति) चेत् । न (1) तस्य भ्रान्तत्वात् । न चैकस्य भ्रान्तत्त्वे सयंत्र भ्रान्तिरित्यतिप्रसङगात् । बाहयार्थाभावप्रसङगात् । ततः पुनरिवमेव वक्तव्यं । कश्चित्प्रत्ययो भ्रान्तः कश्चिन्नेति । तेनालोक एव १३-विज्ञप्तिमात्रता [ ९ संस्थानग्रहणं नान्धकारे । निकट एव न दूरे। तेन सर्वात्मना ग्रहणमग्रहणम्या युक्तं । तस्य चार्थस्याभेदेपि भेदो यो ज्ञानस्य सम्बश (?) नीलाद्याकारादेव । न बाहयाकारादिति। तस्मादाकार एव प्रमाणं। अथ संस्थानादनाकारमपि विज्ञानं प्रतिनियतार्थव्यवस्थाकारिता [ ? रीति ] चेत् । अत्राह । (c. 234) संस्काराच्चेदताद्रूप्ये न तस्याप्यव्यवस्थितिः । संस्कारो हि प्रतिनियतव्यवस्थापूर्वकः प्रतिनियतमर्थविषयं ज्ञानस्य कुर्यात् । स्वयं प्रतिनियतः। तद्यथा योऽर्थोनुभूतस्तथाभूता स्मृतिर्भवति न चार्थप्रतिनियतो- नुभवः। आकारं विना कुतः। तत्कथं ततः संस्कारप्रतिनियमो येन ततो नियतार्थ- व्यवस्था।" इतरेतराश्रयणतोथ प्रसङगात् । सति प्रतिनियमेनुभवस्य संस्कार- नियमः। संस्कारनियमे चानुमाननियम इति नैकोपि स्यात्। यदि साकारं ज्ञानं प्रमाणं तदेव फलमिति क्रियाकरणयोरक्यं प्रसक्तं । आकारस्याधिगमाव्यतिरेकात् । अत्राप्युच्यते। क्रियाकरणयोरैक्यविरोध इति चेदसत् । धर्मभेदाभ्युपगमावस्त्वभिन्नमितीप्यते ।। एवं प्रकारा सर्वैव क्रियाकारकसंस्थितिः । भावे ह्यभिन्नाभिमते स्वव्यारोपेण वृत्तितः । यदि परमार्थतः क्रियाकरणयोरक्यन युक्तमित्युच्यते तदयुक्तं । नहि कार- कात्मिका क्रिया कारकात्मतां विरुणद्धि। नहि व्यापारः पदार्थतो भिद्यते॥ नोत्प- तननिपतने पशुतो व्य (वि)भिद्यते। तस्यैवापरापरदेश(c. 23b) सांगत्यु त्पत्तेस्तथा व्यपदेशवती। न च सा स्वरूपादपरा। न च स्वरूपेण तदैक्यम्विरुध्यते। अथ व्यावहारिकी क्रिया विरोधिनी कारककत्त्वेन तदेतदिष्यत एव ॥ धर्मभेदाभ्यु पगमाद्विकल्पपरिनिष्ठितो हि धर्मभेदोऽभ्युपगम्यत एव । एवं प्रकारव तु कल्पित- भेदवती क्रियाकारकभेदव्यवस्था। तथा हि। अन्वयव्यतिरेकाभ्यामेकत्त्वानक्यकल्पने (।) क्रियाकारकभेदेन व्यवहारो व्यवस्थितः ।। देवदत्तस्तावदेका एव प्रत्यभिज्ञाबलाढयवस्थाप्यते। तस्य स्थानगमने प्रदेशवृत्तिनी। ततस्तत्र क्रिययोर्भेदः कल्प्यते। यो हि यस्मिन्नभिन्ने भिद्यते स तस्माद्वयतिरिच्यते। परमार्थतस्तु देवदत्त एव। अवस्थाभेदाद्वचतिरेकी भिद्यते । तेन भावेषु भिन्नाभिमतेष्वपि लोक एकत्त्वारोपेण प्रवर्तत इति। तदनुरोधा- क्रियाकारकव्यवस्था न परमार्थतः। एवमाकारोपि न फलाधि'गतिव्यापकः । अधिगतिस्तु सकलाकारव्यापिका । ततो भेदव्यवस्था प्रमितिप्रमाणयोः । पर- -13 १० ] वातिकालंकारः (३३३३०) तत् । मार्थतस्त्वाकार एव प्रकाशमानः प्रमितिः। तस्मादाकारः प्रमाणमथ [?] सम्वेदनं फलमव्यतिरिक्तमेव फलं प्रमाणात्ततो वा प्रमाणमिति। (c. 24a)तथा चोक्तं । सव्यापार प्रतीतत्त्वात्प्रमाणं फलमेव सत् । अथवा स्वसम्वित्तिः फलञ्चात्र । उभयाभासस्य विज्ञानस्य स्व संवेदनतैव 3b फलं । नन्वर्थसम्वेदनं फलमर्थार्थी लोक इति । अत्रोच्यते। लोकस्याथिताऽयुक्ता यदानर्थग्य वेदनं । न जातु चिददृष्टेर्थे लोकस्याथित्त्वसम्भवः । श्रुतोपित्रि[? : पितृ] परम्परया दृष्ट एव । ननु नीलादिरर्यः सम्वेद्यत एव । कथमसम्विदर्थस्य । अत्र पर्यनुयोगः । काथ सम्विद्यते चेदं प्रत्यक्षं प्रतिवेदनम् ।। तदर्थवेदनं केन ताद्रूप्याद्व्यभिचारि यदि प्रतिनि'यतम्वेदनं प्रतिविदितम्वा तदा साकारज्ञानमेवार्थवेदनमिति व्यपदेशमात्रमेव केवलं। नत्वर्थस्य वेदनं सिध्यति। अथ ताद्रूप्यादेवार्थस्य वेदनन्तथाभूतमर्थमन्तरेण ताद्रूप्यस्याभावात्। न। व्यभिचारात् केशमशकादिषु ॥ अथ सोनुभव (:) क्वास्य तदेवेदम्विचार्यते । यद्यर्थसम्बन्धो नास्ति तदा कोसावनुभवः अनुभूयमाननिष्ठत्वादनुभवस्य। कथं केशाद्यनुभवस्तमिरिकस्य। ननु कश्चिदर्थनिष्ठ एव दृश्यते (c. 24b) तदेवेदम्विचार्यते । दृश्यतामर्थ- स्येति च न दृश्यते । अर्थस्यादर्शनात् (।) यदि चोदयमात्रादर्थसम्वेदनं चक्षुषोपि वेदनं तदिति प्राप्तं तत उत्पत्तेर्यथैवानुमानात्कार्यदर्शनादनुमीयतेर्थस्तथा चक्षुरपि तद्वदनं तदेव तदाकारं कल्प्यतां । बहिर्देशाकारेण बहिरेव कल्प्यत इति चेत्। किन्दर्पणमुखाकारेण तद्देशस्य अर्थस्य कल्पना। ततः सकलमेवात्मस्थं अर्थवत्प्रतिविम्ब रूपेण प्रतिभातीति कल्पनीयं । सरूपयन्ति तत् केन स्थूलाभासञ्च तेणवः ।। अणव एव यदि विषयस्ततः स्थूलाभासविज्ञानमिति सारूप्याभावात्कम्विषयो विज्ञानस्य। वृक्षादिपिण्डग्रहणवद् भान्तमे (व) भवेत्। वर्णाकारतया सरूप- यन्तीति चेत्। न। वर्णव्यतिरेकेण संस्थानाभावात्। वर्णात्मकसंस्थानवत्त्वे स्थूलतैव प्राप्ता ॥ अथ स्थूलता ग्रहणधर्मः॥ वर्णस्तु ग्राहयधर्मः । चक्षुष्प गृहय'- माणेषु स्थूलमिति भवति (?) भवति व्यपदेशः । न स प्रत्येकं परमाणुषु । नीला- बिता तु प्रत्येकमतोऽसौ ग्राहयधर्मः। यद्येवन्तथा सान्तराणामनन्तरत्त्वग्रहणाद्- १३-विज्ञप्तिमात्रता (c. 25a) भ्रान्तिरेव । नाविषयतयान्तरस्यापि प्रतिभासनादिति चेत् । सत्येवं सव्वं सामोपाल्याविरहलक्षणं निरुपास्यमिति भाव एवान्तरस्य । ततो निरन्तर- मेव वस्तु परिकल्पनीयं । निरन्तरस्यायोगादिति चेत् । नहि वस्तु सा वयवं युक्तं । विज्ञानवत्। निरवयवमेव वस्त्विति परमाणुप्रसिद्धिः। न। प्रतिबन्धाभावात् । प्रत्यक्षबाधि(त)त्वाच्च प्रतिज्ञाया एतदयुक्तं । प्रत्यक्षमन्तरेण चानुमानाभावात् । स्थूलं सूक्ष्मोपचयरूपमेवेति चेत् । दत्तमत्रोत्तरं प्रागिति न पुनरुच्यते॥ तन्नार्थरूपता तस्य सत्यार्थाव्यभिचारिणा । तत्सम्वेदनभावस्य न समर्था प्रसाधने । अर्थरूपता सत्यपि व्यभिचारिणी ततो न भावनार्थसम्वेदनमिति सिध्यति । नहि व्यभिचरनेव साधयत्यव्यभिचारार्थत्वात्साधनार्थस्य । व्यभिचारिणोपि साधनत्वे सर्वः सर्वस्य साधनम्भवेत्। अस्तित्वेन व्यवस्थानं साधनं । व्यभि- चारस्तु कदाचिदसौ नास्त्यपीति नास्तित्वं पाक्षिकमाक्षिपति । तदिदमस्तित्त्व- मितरच्चैकमेकत्र विरुद्धं । तस्मानीलादिरूपतामात्रादेव विज्ञानस्या(c. 25b) र्थसाधनता नेत्ये कान्तः । अपि च सम्वेदनानामर्थानाञ्च सारूप्यन्न च तेषां परस्परसम्वे दनभावः। न हि सन्तानान्तरसम्वेदनसरूपमपि वेदकं वेद्यम्वा॥ तत्सारूप्यतदुत्पत्ती यदि सम्वेद्यलक्षणं । सम्वेद्यं स्यात्समानार्थं विज्ञानं समनन्तरं ॥ यदि यत उत्पद्यते सरूपं च तेन तस्य वेदनं तदा तर्हि अनन्तरविज्ञानं तुल्य- विषयं विषयः स्यात्। यदा पूर्वकमपि नीला कारमुत्तरमपि ततः समनन्तरा- दुदयवत्। तदा पूर्वकस्य सरूपकत्त्वादुदयकारणत्वाच्च विषयवत्त्वं प्रसक्तं । अथ यत उत्पत्तिमान्नीलादिक आकारः स तस्याकारवान् विषयः। समानविषय विज्ञाने तूपमाकारः स न समनन्तरादन्यथा नीलाकारसमनन्तरात्पीतविज्ञानं न स्यात् । ततो न स तेन भवति नीलाद्याकारः समनन्तरप्रत्यय ()यंत इति न तस्य विष"यत्वं। अपरे व्याचक्षते। नीलसमनन्तराद्यदा सविकल्पकं नीलाकार- मुदयमासादयति तस्य स पूर्वको विषयः स्यादाकारकारित्वात्तस्य। तदप्य- सदिष्यत एव स्मरणस्य सम्वेदनविषयत्त्वमेदा [? व विज्ञायते च । तथा हि सकलो लोक:* स्मरणादर्थवेदनं लक्ष्यते । अनुसरनास्मात्साक्षादानिरीक्षते। (c. 26a) सकलमेव स्मरणमर्थानुभवे प्रवर्तमानमुपलक्ष्यते" यदा न स्मृतिविप्रमोषः । ततश्चा नुभवविषयत्यमस्येष्यत एव। न चाभ्युपगम एव दोषाय । कि च। निविषयमेत- स्मरणमस्य किं विषयचिन्तया। अत्र क्रमः। यद्भावनाबलास्येष्टा तमुपजायते पूर्वकान्नीलानुभवात्तस्य स पूर्वको विषयः प्राप्तः। कथन्तस्य समनन्तरमिति । *इदं वाक्यं न भोटभाषान्तरे।
12 १२ ] वातिकालंकारः (३३३३०) चेत्। तादृशस्यापरस्य समानजातीयस्य सम्वेदनस्यान्तरालभा"विनोभावात् । कथन्तज्जनकमिति चेत्। दत्तमत्रोत्तरं। व्यवहितमपि जनकमिति प्रतिपादित- मेतत् । अथवा विकल्पाकार एव भावनातः स्पष्टाकार एव भावनातः स्पष्टाकार- जनको विषयः स्यात् । ततस्तत आकारानार्थस्य व्यवस्था। भावनाबलादेव समान- जातीयादयमकारो यज्जातीय इति न्यायादवतिष्ठत इति नार्थपरिकल्पनायां न्यायः तस्मात्समनन्त (र) विज्ञानमेव विषयः । एवन्तहि ॥ इदं दृष्टं श्रुतम्वेदमिति यत्रावसायधीः । स तस्यानुभवः सैव प्रत्यासत्तिविचार्यते ॥ दृश्यदर्शनयोन तस्य तत्साधनम्मतं । तयोः सम्बन्धमाश्रित्य (c. 26b) द्रष्टुरेष विनिश्चयः ।। यदि निश्चयादर्थव्यवस्था निश्चयः किल नार्थादन्यत्र । नहि समनन्तरप्रत्यया- दयमिति निश्च (यः)। अपि त्वविषयोऽयं ममानुभवो न समनन्तर"प्रत्यय- विषय इति। न हयर्थानुभवमन्तरेणार्थ इति निश्चयो युक्तः। अनुभवानुसारित्वा- निश्चयस्य। अत्रोच्यते। अनुभवान्नार्थव्यवस्था किन्तहि तदनुसारिणो निश्चयादिति । तदेतदायातमर्थ एकः पन्थानं न प्रतिपद्यते । तेनाकृष्यमाणो द्वितीय इति महदद्भुतं। तथा हि। साक्षादुत्पत्तिमानर्थात्प्रत्ययो यः स नेक्षते । तमर्थमपरस्तस्मान्न्यूनोपीत्यतिसाहसं" ।। 4a अनुभवानुसारी निश्चयस्ततो निश्चयादेवावगम्यतामर्थानुभवोसौ न स्वरूप- मात्रस्येति । अन्यथा तथैव निश्चयो भवेदिति चेत् । तदेतदसत्। अर्थानुभव एव न ज्ञायते कस्येति कथमनुभवानुसारित्त्वं प्रसि- ध्यति । कुतस्तहि निश्चय इति चेत् । अभ्यासादेवेति प्रतिपादितं । सोप्यभ्यासो- ऽनुभवादेवेति कुतो विपरीतनिश्चयः । अयमप्यपरिहारः । यत एवं सति न कस्यचिद्विपरीतनिश्चयः स्याद् दृश्यते च । तस्मादयुक्तमेतत् । नन्वालोचनमात्रमविवेककारि ततो (c. 27a) निश्चयादेवार्थानर्थविवेकः । यद्येवं निश्चयोपि न विवेककारी स्यात् । नहि द्विचन्द्रप्रत्यय एकचन्द्रनिश्चय- कारी । अथाभ्यासान्निश्चयो विवेकसाधनं। ना(न, अ)भ्यासस्याहेतुकत्वात् । प्रतिनियतानुभवे हि तन्नियतोऽभ्यासः सत्यतां पालात् (?)। अर्थ इत्यपि निश्चयोर्थक्रियाकारित्वाभिप्राय एव । सा चार्थक्रिया प्रतिभासान्तरमेव । न च प्रतिभासात्प्रतिभासान्तरस्यानुदयः। तस्मान निश्चयादर्थव्यवस्था।
१३-विज्ञप्तिमात्रता [ १३ परप्युक्तं । अथ सोऽनुभवः क्वास्येति । तत्राप्युच्यते । आत्मा स तस्यानुभवः स च नान्यस्य कस्य चित् । प्रत्यक्षप्रतिवेद्यत्त्वमपि तस्य तदात्मता ।। स्वरूपस्य हि पदार्थानां कारणमन्तरेण नोत्पत्तिरिति कारणप्रश्नो युक्ति- मान् । तत एतदिति । क्वायमिति तु कः प्रश्नार्थः । तथा हि। क्वायमनुभव इत्युक्ते यदा प्रत्युच्यते पुनः । अर्थे तदापि प्रश्नः स्यात् सोर्थः क्वेत्यनवस्थितिः । क्रीडनकप्रश्न एवम्विध इति चेत् । कस्मात्पर्यवसानस्य दर्शनात् । तथा हि सोर्थः क्व भूमौ । सा क्व एवमेव दृश्यते इति न पुनः पर्यनुयोगः। यद्येवमन्धस्यादर्श- नावनुभवोपि स्वरूपेवस्थित एवमेव दृश्यतामिति किमाधारकल्पन या। (c. 27b) अनेन षष्ठपर्थपर्यनुयोगोपि प्रत्युक्तः। तदाह । स च नान्यस्य कस्यचित् । कथं तहि प्रत्यक्षप्रतिवेद्योर्थो निराकतुं शक्यः। तथा हि। तथा हि। प्रत्यक्षेण नीलं पश्यन्ति तद्वन्तः । नार्थस्यादर्शनादित्युक्तं । तदाकारतव प्रत्यक्षवेद्या न व्यति- रिक्तोर्थः। तदाकार एवं नील इति व्यवहु [? हि.]यते नान्यः । तस्मानीलात्मकोऽ नुभवो नीलानुभवः स्प(?)र्शनापुत्रकस्यशरीरमिति यथा। न हि षष्ठ्यर्थ इत्ये व भेवः। यथा कथञ्चिदस्य भावात् । अथवा स कथं प्रत्यक्षोनुभवो यदि तस्यापरोनुभवो नास्ति। न स्वरूपगतेनैवानुभवेन सुतरां प्रत्यक्षता । पररूपे प्रत्यक्षताऽयोगात् । नहि तद्रूपमन्यस्य । तथा चेत् । अन्य एव भवेत् । अथवाऽपरोक्षं विज्ञानं यस्यानु- भवः । सोऽर्थों भविष्यति। यद्येवमात्मा स तस्यानुभवः। अन्यत्रावेद्यमानत्वात् । भवतु को दोष इति चेत्। स च नान्यस्य । यद्यात्माऽर्थस्य स्यादन्यस्यापि तथैव भवेदिति सर्वस्तद्दी भवेत् । न चा- न्यस्य तथा॥ ननु प्रत्यक्षेण वेद्यते नात्मना।नातदेव रूपं (c. 28a) पृथग्व्यवस्थाप्य कल्पनया तथा व्यपदेशः। तस्मादनन्यसम्वेद्यो नीलाद्यात्मवानुभवः । अथवा यद्यर्थो नान- भूयत किमिदं बहिर्वेशसम्बद्धतयाऽनुभवगोचरः। आत्मैवानुभूयते। चित्तमेवान- भूयते। कथं बहिर्वेशता । स च नार्थस्य । ततोसौ कुतो बहि भूतः । अथवाऽऽत्मा स आत्मवेदमर्थमिति भवतोप्यभ्युपगमात् । तस्य चानुभवः स च नार्थस्य अपि त्वात्मन एव तद्वयतिरिक्तस्याभावात् । अथवा तत्स इति चेत् । न । प्रत्यक्षप्रतिवेद्यत्वात् । यतस्तदात्मनव प्रत्यक्षप्रतिवेद्यत्वं नान्यथा ।
१४ ] वातिकालंकारः (३३३३०) नन्वात्मवादः प्रसक्तः । न चित्राकारसम्वेदनात्। अविद्यावशेनोत्पत्तिः सम्वेदनमेव तत् । नात्मवाद उपयोगी। निरात्मकत्त्वन्तु वा रागादिप्रशमानुकूलमिति न दोषः। एतदेवोत्तरेण दर्शयति ॥ नान्यानुभाव्यस्तेनास्ति तस्या नानुभवो परः । तस्यापि तुल्यचोद्यत्वात्स्वयं सैव प्रकाशते ॥ बुद्धचा योनुभूयते स नास्ति परः। यथान्योनुभाव्यो नास्ति तथा निवेदितं । (c. 28 b)तस्यास्तहिपरोऽनुभवोबुद्धरस्तु।न (1)तत्रापि ग्राहयग्राहकलक्षणाभावः। परं हि सम्वेदनस्वरूपेऽवस्थितं कथं परस्यानुभवः । साक्षात्करणादिकं प्रत्याख्यातं ॥ तत्सम्वेदनानुप्रवेशे च तयो रेकत्वमेव स्यात् । तथा च स्वयं सैव प्रकाशते न ततः पर इति स्थितं॥ कथन्तहि योगिनां परचित्तप्रतिपत्तिः। एतदुत्तरत्र प्रतिविधास्यते ॥ तस्मात्स्व- यमेव स्वरूपप्रकाशकत्वात्तथा भवति। एवन्तहि स्वरूपानुभव इत्यस्तु कथं नीलानुभव इति ख्यातिः। अत्राह॥ नीलादिरूपस्तस्यासौ स्वभावानुभवश्रमः । नीलायनुभवः ख्यात: स्वरूपानुभवोपि सन् ।। नीलरूपत्वान्नीलानुभव (:) न तु नीलस्यापरोनुभवः । शुद्ध स्यानुभवस्याभा- वात् । यो हि यदव्यतिरिक्तः स तद्रूपेणैव व्यवहारविषयः। तथा हि यदि शुद्धः स्यात्तथैवाध्यवसीयते । व्यतिरेकः स्वरूपेपि दृश्यते न ततस्तथा । नीलानुभव इति यथा ख्यातिस्तथैवासौ नीलस्वरूपतयाऽनुभवरूपतया भवतीति युक्तं। न च व्यतिरेकव्यपदेशमात्रकादेव भेदः। व्यतिरेकव्यपदेशो हि यथा कथञ्चिद्वा साधनादपि भवन्नुपलभ्यत इति प्राप्रतिपादितं।" ननुनीलंकथमात्मरूपं प्रकाशयति ।नहि प्रकाश्या घटादयः (c.29a)प्रदीपादिना स्वप्रकाशकाः। आत्मनि क्रिया विरुध्यते। न हि संवासिधारा तयैव च्छिद्यते॥ अत्र परिहारः। प्रकाशमानस्तादात्म्यात्स्वरूपस्य प्रकाशकः । यथा प्रकाशोभिमतस्तथा धीरात्मवेदिनी । स्वात्मविनि] क्रियाविरोध इति कुतःप्रमाणादवगतं । नहि दृष्टान्तमात्रादर्थस्य प्रसिद्धिः । समीहितस्य विपर्ययेपि दृष्टान्तस्य प्रदीपस्य" सम्भवात् । यदि घटः प्रदीपेन बाहयात्मना प्रकाश्यते । प्रदीपोपि तथाभूतेनापरेणेति न पर्यनुयोगः । न च घटोपि प्रदीपेन प्रकाश्यते । अपि तु तथाभूतस्यैव तत उत्पत्तिः। अथ प्रदीपो- प्यपरेण चक्षुरादिना प्रकाश्यते।न। चक्षुरादिः (देः)सकलघटादिसाधारणत्वेपि चक्षुषि १३-विज्ञप्तिमात्रता [ १५ " च (स)त्यपि प्रदीपमपेक्षते प्रकाशकं घटस्तथा प्रदीपोपि स्यात् । अथ घट उत्पद्यत एव तथा प्रकाशनन्तु तस्य' चक्षुरादिभिः॥ एवन्तहि । अप्रकाशेपि वाहयेर्थे यथा दीपात्प्रकाशनं । व्यपदेशस्य विषयश्चक्षुरादिरपीप्यतां (c. 29b)। यथा ततस्तथाभूतरूपोत्पत्तावपि प्रदीपात्प्रदीपाभिव्यक्तो घट इति व्यप- देशः। तथा चक्षुरादिकादपि तथोत्पत्त्यैव व्यपदेशः। अथ द्वयमपि प्रकाशकं घटादेः, प्रदीपादेस्त्वेकमेव । एवन्तहि। एकं कस्यचिदन्यस्य द्वयमेव प्रकाशकं । यथा सम्भवतोन्यस्य नैकमप्य"स्तु का क्षतिः ।। अत्यन्तमशक्तस्य द्वयमपरस्यकमन्यस्य नैकमपीति वस्तुस्वभाव एष इति का वात्र क्षतिः॥ अथ स्वात्मनि क्रियाविरोध इत्युच्यते। यदा स्वरूपन्तत्तस्य तदा कैव विरोधिता । स्वरूपेण विरोधे हि सर्वमेव प्रलीयते ।। नहि स्वेनैव रूपेण कस्यचिद्विरोधः, तथा चेत् न किञ्चिद् भवेत् स्वेन रूपेणेति सकलमस्तंगतं भवेत् ॥ छेदस्तु पुनविशिष्टोत्पादनं न च तेनैव तस्योत्पाद"नं। अयमेवार्थः स्वात्मनि क्रियाविरोध इति । अप्रकाशरूपन्तु तस्य स्वरूपं न तेनैव विरुध्यते। कुतस्तदिति वक्तव्यं स्वहेतोस्तथा भूतादिति । यदि स हेतु स्ति तदा युक्तम्भवेत्। नान्यथेति न्यायः । तत इदम्परेण वक्तव्यं स्वप्रकाशकत्त्वमेव न 4b दृश्यते। तत्र चोत्तरमुक्तमेव सर्वस्य स्वरूपेण प्रकाशनादिति। पुनरप्युच्यते॥ तस्याश्चार्थान्तरे वेद्य दुर्घटौ(c. 30a)वेद्यवेदको ।। अर्थान्तरभूता बुद्धिः" स्वप्रकाशाद् यथा वा भवेत् । यदि स्वप्रकाशा स्वरूपेण प्रकाशते ततोन्योर्थस्तया प्रकाश्यत इति । नाप्रकाशे तस्मिन् व्यपदेशस्तथा भवेत् । प्रकाशते चेत्सोपि तथैव प्रकाशते तदैवेति कथं तस्य परेण प्रकाशनं । नहि तदा विशेषः प्रकाश्यप्रकाशकयोः । क्रमेण तद्वयापारात्प्रतिपत्तिविशेषस्तस्येति चेत् । तथा हि। दृश्यमाने प्रदीपादौ विशेषस्तस्य गम्यते । ततस्तयोईयोस्तत्वं तथोत्पादो न किम्मतः ।। विशेषः प्रकाशत इति । स्वेनैव रूपेण तस्य प्रकाशनं ततः स्वरूपस्यैव तथा प्रकाशनं। ततः स्वप्रकाशनमेवान्तेपि। अथ स्वयं प्रकाशत इति न प्रतीयते। व्यवहार एवम्भूतो न भवति तत एव उच्यते। नन्वनुभवानुरूपो व्यवहारः प्रमाणयितव्यो न सर्वः। अथ सर्व एव व्यवहारः ३ १६ ] वातिकालंकारः (३३३३०) प्रमाणं तथा सति न किञ्चित्प्रतिवाविबोधनाय वक्तव्यं । तस्माद्यथा प्रतीयते तथाभ्युपगमः। ननु सम्वेदनन्नाम न परोक्ष युक्तं तथा सम्वेद्यं न सर्वदा तथेति न्यायः । सम्वेद्यस्य परोक्षतापि युक्ता। यदि तु सर्वदा सम्विदितमेव, ज्ञानार्थयोर्भेदो (c. 3ob) न गम्यते। तवयुक्त। सम्वेद्यतातिरेकेण न नीलादि प्रतीयते । असम्वेद्ये प्रतीतिश्चेत्तदभावे कथम्भवेत् ॥ असम्वेद्यमेव प्रतिपन्नमिति व्याहतं। तथा चायमर्थः स्यादप्रतीतं प्रतीतमिति । अथाप्रतीयमानं प्रत्यक्षेणानुमानेन प्रतीयते । तदप्यसत् । प्रतीयमानताव्यतिरे- केण नार्थः पर इति पक्षो न तु प्रत्यक्षप्रतो ततैवेति । अनुमानप्रतीतिरपि स्वरूपे प्रत्यक्षप्रतीतिरेव ग्राहये। ननु ततः परोपि तत्रार्थोस्ति परेण दृश्यमानोऽन्यथा वा। न । प्रतीत्यभावाद- प्रतीयमानमस्तीति कुत एतत् । अनुमानेनैव प्रतीयत इति चेत्। अनुमानतव तहि न स्यादर्थस्य साक्षात्करणात् । असाक्षात्करणेनेति चेत् । किमिदं तच्च नास्ति तच्चास्तीति युक्तं । असाक्षात्करणं प्रतीतिरिति कोर्थः। स्वरूपं चेत्प्रतिपन्नं तदेव साक्षात्करणं न चेवप्रति[? तीत] मेवेति न्यायः ।। स्वरूपेण प्रतीतञ्चेत्साक्षात्करणमेव तत् । स्वरूपेणाप्रतीतञ्चेत्सर्वथास्याप्रतीतता ।। स्वरूपेण प्रतीतेपि तदसाक्षात्कृतं यदि । (c. 31a) नीलरूपस्य सम्वित्ते दस्तहि कथम्भवेत् ॥ प्रतीतिभेदाद् भेदो हि नीलादेरेकरूपता । भिन्नन्यस्मिन्कथम्भेदस्तदन्यस्य प्रमान्वितः ॥ तत्संसर्गात्तथात्त्वञ्वेदपरोक्षः कुतो भवेत् । तदेकताप्रपन्नस्य ततो भेदः कुतो मतः ।। अन्वयव्यतिरेकाभ्यां भेदोत्पादादिको न सन् । न हि प्रत्यक्षसम्वित्तिरन्वयव्यतिरेकयोः ।। अनुमानात्प्रतीतिश्चेन्नानुमाध्यक्षपूविका । तदभावेनुमाभावे भवेदन्धपरम्परा ॥ व्याप्यस्यापि हि तद्भावो व्यापकेन विना कथं । अप्रतीतं कथन्नाम तदा व्यापकमुच्यते ॥
विज्ञप्तिमात्रता [ १७ यदि हि तदा प्रतीयते प्रतीत्य तद्गतमेव कथमर्थता ॥ अथ न प्रतीयते कवं व्यापकताप्रतीतिः । व्यापकत्वेन प्राक् प्रतीतमिति चेत् । किमिदानीमनुमानेन । एतत्कालता न प्रतिपन्ना ततोनुमानं न व्यर्थ । कथन्तहि व्यापकताप्रतीतिः। प्रागिदानीं प्रतीतिर्न कथं व्यापकतागतिः । प्रतीतिमात्रकन्तच्चेत्कथं व्याप्तन्तदुच्यते । धूमाकारा प्रतीतिहि न विना पावकं यदि । पावकप्रत्ययोप्येष विना पावकमिष्यते ।। पावककायो धूमः कथं प्रतीतिमात्र । तवसत् । तथा हि। सति पावककार्यत्त्वे धूमादेर्बाह्यरूपता । बाह्यत्त्वे च प्रसिद्ध स्यात्तस्य पावककार्यता । तदिदमितरेतराश्रयणमव्यवस्थितवस्तुकमनुपन्यसनीयमेव (c. 31b)। अनेन प्रत्यभिज्ञाज्ञानमवज्ञातं। य आह प्रत्य भि ज्ञा बलादेव विज्ञानमात्रता निरा- क्रियते। तथा हि। यदि सम्वेदनान्तस्थः प्रत्यभिज्ञा किर्थिका । अथासम्वेदनोर्थात्मा कथं विज्ञप्तिमात्रता । नहि मध्यसत्तार्थस्य प्रत्यभिज्ञया प्रतीयमाना सम्वेदनान्तद्गतापरोक्षतया प्रतीतेरिति । तदसत्। तथा हि। परोक्षतयापि प्रतीतिः प्रतीत्यन्तर्गतत्त्वमेव वस्तुनः प्रतीत्यनन्तर्गतस्याप्रतीतेरिति चैत् (त)त्प्रतिपादितं । अप्रतीत्य मध्यसत्तामन्तरेण कथं प्रत्यभिज्ञेति चेत् । पूर्वपरयोः समानजातीयत्वप्रतीतिमात्रकादेव दृष्टा, तथैव भविष्यति किमपरेण, लून पुनर्जातकेशनखप्रत्यभिज्ञावत् । अथ तत्र सत्यादि- विषयः प्रत्यभिज्ञाप्रत्ययः। जातिरेवकेति प्रतीयतां ततो व्यक्तरेकता न सिध्यति । न च जातिरपि मध्ये विद्यते। प्रमाणाभावात् । प्रत्यभिज्ञा प्रमाणमिति चेत् । न । स्वरूपमात्रमेव पूर्वापरंप्रत्यभिज्ञाया निबन्धनमिति तदेवालम्बनं प्रत्यभिज्ञायाः। न च तदेव प्रत्यभिज्ञाज्ञानं मध्यरूपालम्बनं, मध्यरूपस्यावेदनात् । न खलु परोक्ष- मदृष्टमालम्बते। दृष्टत्त्वे च तदपरोक्षत्त्वाद्विज्ञानमेव। ननु परोक्षं चेत्कथं विज्ञानं यस्यामवस्थाया(c. 32a)मस्ति तस्यामपरोक्षमेव। इदानीमतीततया परोक्षत्त्वेपि न विज्ञानत्वहानिः । यदि स्यादर्थस्याप्यर्थत्वहानिः स्यात् । अर्थस्याप्यतीतत्वेर्थत्व- हानिः स्यादिति चेत्। न तर्हि मध्यसत्तायामर्थत्वं तस्या अप्यतीतत्त्वात् । अतीतत्वेपि परोक्षताया"मप्यर्थत्वं नापति विरोधाभावात्। सम्वेदनत्वं त्वस- विदितस्य कथमिति चेत् । अर्थत्वमपि तहि कथमनर्थक्रियाकारिणः ।
१८ ] वातिकालंकारः (३३३३०) हचसम्बिदितमर्थक्रियाकरणसमर्थ । अनुमानेन तस्य वेदनं प्रत्याख्यातं । अन्येन मध्ये वेदने तदेव विज्ञातत्वं न चान्येन विदितत्वं प्रत्यभिज्ञायते। ततस्तेन सहकता नास्ति। प्रत्यभिज्ञात एकत्त्वाप्रसिद्धः। अनुमानाकारश्च वासनाबलादुत्पत्तरेक एव विज्ञानात्मना । ततो वासनात" एव सकल आकारः परिस्फुटप्रतिभासोपि ॥ ननु वासनाया एकरूपत्वादाकारभेदो विज्ञानानां कथं । वासनाभेवा भेद इति चेत्। यदि वासना नीलपीताद्यनन्तभेदा विज्ञानस्य जनिका तदाकारतया वाहचस्यास्याञ्च को भेदः। वासनेति हि नाममात्रमेव । तदसत्। वा स ना पूर्वविज्ञानकृतिका शक्तिरुच्यते । तस्या अमूर्तताभावात् कथमर्थसमानता ॥ वासनेति हि पूर्व(T. 32b)विज्ञानजनितां शक्तिमामन "न्ति वासनास्व- रूपविदः । अर्थस्तु पुनर्मूर्तरूपः सदोपद्रवदायी। नन्वर्थोपि सम्बिदितावस्थायामेवोपद्रुतिहेतुन सदा। ततो वासनाबलादु- बयभावी प्रतिभास उपद्रुतिहेतुरर्थो वेति कोनयोर्भेदः । तदसत्। अविशेषेपि बाह्यस्य स्पष्टत्वादेविशेषतः । भावनाया विशेषेण नार्थस्य प्रतिभासनं ॥ भावनाबलायातत्त्वे हि विपरीतवासनाविनिवृत्तौ स्व (1) भीष्टवासना- समागमसमयेऽनभी ष्टविनिवृत्तिरिष्टस्य च प्राप्तिरिति महानेष भेदः। ततो बुद्धिरूपवासनाकृत एव सकलो भेदावभासः । ननु वासनाया एकविज्ञानात्मभूतत्वात्प्रबोधके सति सकलवासनाप्रबोध्या [? धावनन्तप्रतिभासविज्ञानोदयः स्यादिति महदसमञ्जसं । बाहयाभ्युपगमे तु न दोषः । य एव सन्निहितोऽर्थः स एव दृश्यते। ना(न । अ)सन्निहितस्यापि दर्शनाभ्य- पगमात्। तथा हि। विप्रमोषः स्मृतेरिष्ट: कैश्चि" त्तु विपरीतचित् । असत्ख्यातिः परैरन्यः सर्वं सर्वत्र विद्यते ॥ येषान्तावत्सव्वं सर्वत्र विद्यते तेषां समान एव दोषः। असत्ख्यातावपि सकला- सत्प्रतिभासनप्रसङगः । यस्य तु स्मृतिविप्रमोषः (c. 33a I-6) तस्याप्यने- कदर्शनं पूर्व कस्मानानेकदर्शनं समानमेतद्वि ज्ञान वा दे पीति न दोषवान् । विज्ञानं वा पूर्ववृत्तं स्मर्ये-तार्थो वेति को भेदः ॥ विपरीतल्यातिरपि पूर्वदृष्टे 5a प्रवर्त्ततामन्यथा वा किन्न वा सर्वत्रेति समानः पर्यनुयोगः पुनरपि तत्र स एव वासनानियमो वक्तव्य इति समानं । न च समनन्तरविज्ञानात्मभूता वासनेष्यते । पदप्रकाशः पूर्वात्मप्रतिभासो हि वासना (1) १३-विज्ञप्तिमात्रता [ १९ तथाभूतात्मसम्वित्तिजनकत्वाद्विना कुतः । प्रबोधकस्य सद्भावे धियां जन्म यथायथं । नीलपीतादिनिर्भा (सं) सङगतानामितीक्ष्यते ॥ इदि[?]मेवात्रेक्ष्यते पूर्व विज्ञानमभिमतेतरप्रतिभासं पाटवाविप्रकाराविष्टितं ततस्तदनन्तरं कालान्तरे वा तथा भूतम्विज्ञानमुदयवत् । जाग्रदृष्टं स्वप्न प्रतिभासं जनयति यथा। व्यवहितात्कथमुत्पत्तिरिति चेत् । दृष्टाः स्मृतिः स्वप्नविज्ञानादयो व्यवहितावपीति न दृष्टे (c. 34 a 3-7)*ऽनिष्टन्नाम । ननु नासौ जन (य) त्यथ प्रणिधानादेस्तदेव प्रतिभाति । न । अतीतस्य प्रतिभासाभावात् । अतीतमपि प्रतिभासमानं दृष्टमिति चेत्। असत्प्रतिभासत इति कोर्थः । तदाकारा प्रतीतिरित्ययमेव । तस्मादनुभवात्स्मृतिरुदयमासादयन्ती तस्यैव शक्तिविशेषमावेदयति। स शक्तिविशेषो वा स नेति व्यपदेश्यः। अयञ्च कार्यकारणभाव एवम्भूत उपलब्ध एव। ततो न वासनास्तित्वे पूर्वविज्ञानभेदे च प्रमाणाभावोऽनादिवासनाभावस्य पदार्थानादितावदेव सिद्धः । कार्यकारणसन्तानो नादिर्वाह्यो यथोदितः तथाविज्ञानसन्तानो नादिः किमिति नेष्यते वासनाभेदे किनिमित्तमिति चेत् । (c. 34b) तदसत्। अस्येव वासनाभेदस्तन्निमित्तस्य सम्भवात् । ज्ञानभेदो निमित्तं हि तस्य भेदस्ततः पुनः ॥ पूर्वप्रवृत्तज्ञानभेद एव वासनाभेदनिबन्धनं, ज्ञानभेदोपि तत एव वासना- भेवादिति को दोषः। नन्वेवमितरेतराश्रयणदोषस्तवसद्यतः। न सैव वासना तेन जन्या तस्यैव कारणं । ज्ञानस्य येन दोषोयमितरेतरसंश्रयः ॥ अपि त्वन्या वासनान्यविज्ञानहेतुरन्यः प्रत्ययोन्यवासनाहेतुः पूर्ववासना- भेवजनितः। ततो नेतरेतराश्रयदोषः । अन्यथार्थवर्शनेपि समानमेतत् । तथा हि । अर्थभेदो निमित्तं चेत् तस्य भेदः कथं पुनः । ज्ञानभेदेन भेदे हि प्रापदन्योन्यसंश्रयः । न खल्वर्थभेदोप्यनिमित्त एव ज्ञानभेदनिबन्धनन्तस्या योगात् । ज्ञानभेदो निमित्तमितीतरेतराश्रयदोषः । अन्यभेद एवार्थभेदस्य निमित्तमिति सुतरामसङगतं। अथान्योन्यभेदोन्यस्यार्थ (भे)दस्य निबन्धनमिति सोप्यन्यस्येति वासनायामपि समानमेतत्। नन्वर्थभेदः प्रतिभासमानो भिन्न[?न]त्ति विज्ञानमिति युक्तमेतत्। वासना . *c. 33 a 6-34 a 3 पृष्ठयोः भोट ग्रन्थे प्रमादतो लब्धो भाग ४५-४६ पष्ठयोरत्रोपलभ्यते।
२० ] वातिकालंकारः (३३३३०) तु कयमिति कः परिहारः। यदि वासनापि प्रतिभासतेयंवदर्य एव सेति नाममात्र- कमेव भिद्यते। तत्र वासनामात्रग्राहके (c. 35a) व्याप्रियमाणा ग्राहकभेदमेव जनयेत् । न तु ग्राहयस्य। तथा हयनुभवादुत्पन्ना वासना स्मृतिमात्रमेव जनयन्ती दृश्यते । अत्र परिहारः। पूर्वविज्ञानमेवात्र वासनेत्युदितं पुरा । तत्तदाकारविज्ञानं जनयेद् भेदकं न किं । यथा हि गृह्यलाबन्ध: स्त्यनितां गतिमादवत् । अभावेप्यात्मनो दृष्टस्तद्रूपगतिकारणम् ॥ वासनाभेदतो भेदो' ग्राह्याकारोपि दृश्यते । अभावपि पदार्थानां कामशोकभयादिषु ॥ अथ तत्रापि देशकालान्यथात्मकं बाहयमेवालम्बनं सर्वविज्ञानानां साल- म्बनत्त्वात् । यद्यपि तदा तत्र न प्राप्यते तदैव तत्रैव माभूदन्यवान्यत्र तु नास्तीति किमत्र प्रमाणं। तथा हि घटो यत्र यदा नोपलभ्यते तदा तत्र नास्ति न तु सर्वत्र । अत्रोच्यते। इहोपलभ्यमानस्य कथं देशादिनान्यता । नीलादित्वेन दृश्यस्य किमन्याकारतास्ति वः । यद्यन्यदेशोप्यन्यदेशतयोपलभ्यते नीलाकारोपि तथेति समानमेतत् । अन्या- कारे प्रमाणाभावादन्यथा नेति परिहारेन्यदेशोतिसमानः परिहारः। आकारे नास्ति बाधनं देशे तु बाधा तेन स एव (c. 35b) देशयोगो नास्ति न त्वाकारः। तत्र तर्हि निरालम्बनं ततः सव्वं सालम्बनमित्यसिद्धं । ननु सालम्बनत्वं तत्रापि यतः। देशावेद्याति"रेकेण न योगः कश्चिदीक्ष्यते । तयोरालम्बनत्वे च ज्ञानानालम्बता कथं ॥ देशतदावेद्याकार एव तत्र प्रतिभाति तयोश्च स (1)ल(म्बन)त्वे किमना- लम्बनं रूपं । नहि योगोन्यथेऽपरस्तयोरिति सालम्बनमेव सकलम्विज्ञानमिति । यदि योपि (हि) सालम्बः कथं प्राप्तिस्तथैव न । अप्राप्तावपि सालम्बमिति स्यादसमञ्जसं ॥ यदि नास्ति प्राप्तिस्तथापि सालम्बनम्विपरीतख्यातिरपि तहि नास्त्येवे"ति. अभ्युपगमविरोषः । अपि च । यथा विपरीतल्यातिस्तथा सर्वमेव भवतु किमन्यथा कल्पनयेत्यादर्शितमेवैतदिति नोच्यते पुनः। बाधकप्रत्ययाभावान्नैवमिति चेत् । बाघकप्रत्ययाभावोपि विपरीतल्यातिरेवेति न सत्याबाधकता। यत्र च कालान्यता तत्र वासनाया एव व्यापारः प्रतीयते नार्थस्य, पूर्वानुभवादेव तदाकारता नावि- .
१३-विज्ञप्तिमात्रता [ २१ यमानाकारप्रतिभासनम् । अथ क्षणिकम्विज्ञानं कथं वास्यवासकभावस्तत्र । अनुत्पन्नं न वास्येत अतीतोपि न वासकः ॥ सहितयोरपि परस्परमसम्बन्धान (c. 36a) वास्यवासकभावः। तदसत् । कार्यकारणभावविशेष एव वास्यवासकभाव इति प्रतिपावनात् । क्षणिकानामेव च स विद्यते न नित्यानामिति । क्षणिकत्त्वादिति विपरीतसाधनमेतत् । ततश्च । स्मृतौ ग्राहकभेदोन्यो न ग्राह्याकारजितः" । अर्थस्तत्र न सत्त्वेन तत्र सन्निहितः पुरः ।। क्षणिकेषु च चित्तेषु विनाशे च निरन्वये । वास्यवासकयोरर्थो न नित्यत्त्वे तु कल्प्यते ।। पूर्वक्षणोद्भवन्नेव विशिष्टो जायते क्षणः । ततः कालान्तरे तस्मादन्यत्कार्य विजायते । वास्यवासकभावोयं नापरं कार्यकारणात् ।। विनश्यता हि वास्येत पूवेणोत्तरमुद्भवत् । अवस्थिता न वास्यन्ते भावाभावैरवस्थितः । नित्य"स्य ह्यविकारत्त्वात्कार्यकारणताक्रमः । अवस्थितो न पूर्वस्माद्वासनासङगमर्हति ।। पूर्ववद्वासना तस्य न स्यादेवाविशेषतः । भङगुरे पूर्वसादृश्याभिन्नत्त्वाच्चास्ति वासना ।। तच्चानुरूप्यमस्त्येव क्षणिकत्त्वेपि चेतसां । पूर्वज्ञानात्तदोत्पन्नादुत्तरस्योदयो न किं । नेष्यते क्षण एवासौ कार्यमुत्पादयेत्परं । तेनोत्पद्य विनप्टत्वेप्यस्त्यारम्भः क्षणं स्थितेः ।। निरन्वविनाशित्त्वेप्यानुरू* प्यस्य का क्षतिः । न तदीयोस्ति कश्चिच्चेद्धर्म उत्तरबुद्धिषु । न समानपरामर्शप्रत्ययादेकरूपता । यदि (c. 36b) स्यादानुरूप्याच्च गोधियो वासना यदा । हस्तिबुद्धिर्भवेत्तत्र वैलक्षण्यान्न वासना । अन्यथा व्यवधानेपि वासना पूर्वदाढर्थतः ।। दृढमावर्जकं ज्ञानं व्यवधानेपि कार्यकृत् । गजज्ञानाद् गजज्ञानं पूर्वबीजात्प्रवर्तते । मध्ये विलक्षणं ज्ञानं जायते वासनान्तरात् । न चेकज्ञाननाशेन विनष्टाः सर्व्ववासनाः ।
२२ ] वातिकालंकारः (३३३३०) sb कुसुमस्य विनाशे हि राग उत्पद्यतां बीजाङकुरादि नालादेस्तद्धि (ढ) लक्षणतः कथं । तेपि तज्जनिता एव क्रमात्कार्यस्य कारकाः । महिष्यादिधियामेतत्कस्मादेव न विद्यते । तन्न सह्यभ्य एताभ्यः साकारं समुत्थितं । ज्ञानमेकक्षणेनैव विनाशं गन्तुमर्हति । तदाश्रयविनाशेपि शक्तेः स्यादाश्रयोपरः । न च क्षणिक ता हानिः शक्तेरव्यतिरेकतः । वासनानां प्रवाहस्तु नैव ज्ञानप्रवाहवत् ॥ इष्यते वासनाविद्भिः शक्तिरूपा हि वासना । वासनातश्च तज्ज्ञानं भवेत्तेभ्यश्च वासना । कुर्यातां तुल्यमेवतेऽन्योन्यन्तु (हि) कदाचन । विलक्षणोपि हेतुर्यदास्ति शक्त्यन्तरात्मकः । ततो विलक्षणाद्धेतोः फलमन्यद्विलक्षणं । तस्मात्सम्वृतिसत्येाव्यतिरेकेण कल्पिताः । न वस्तुत्वे न तस्याः कि कार्यमन्यदसम्भ'वि ।। यस्य त्ववस्थितो ज्ञाता ज्ञानाभ्यासश्च सम्मतः । न तस्य वासनाधारो नाप्यसौ वासना मता ।। कुसुमे बीजपूरादेः यल्लाक्षाद्युपसिध्यति । (c. 37a) तद्रूपस्यैव संक्रान्ति: फले तस्येति वासना । युक्त्योपपन्नां हि सती प्रकल्प्य यद्वासनामर्थनिराक्रियेयं । तथापि बाह्याभिनिवेश एष जगद्ग्रहग्रस्तमिदं समस्तं ।।।। तस्माद्विभक्त आकारः सकलो वासनाबलात् । बहिरर्थत्वरहितस्ततो ऽनालम्बना मतिः ॥ अत एव सर्वे प्रत्यया अनालम्बनाः प्रत्ययत्वात्स्वप्नप्रत्ययवदिति प्रमा- णस्य परिशुद्धिः। तथा हीदमेवानालम्बनत्वं यदात्माकारवेदनत्वं । ननु सकलप्रत्ययपक्षीकरणे न दृष्टान्त इति कथमनुमानं । ना(न । अर्थाप- रिज्ञानात् (1) प्रमाणफलमेतद्धि प्रमाणापेक्षसाधने । दृष्टान्तस्य हयतः सिद्धेः सर्व इत्यादियुक्तिमत् । विवादास्पदीभूतजाप्रत्प्रत्यया एव पक्षीकृताः । स्वप्नप्रत्ययानान्तु भावनान्वयव्यतिरेकानुविधानासिद्धमेव निरालम्बनत्वं दृष्टान्तीक्रियते। कथं १३-विज्ञप्तिमात्रता [ २३ व्याप्तिसिद्धिः। यज्जातीयो यतः सिद्धइति न्यायात्। अन्यथा सकलकार्यकारण- भावाभाव एव भवेत्प्रमाणाभावात्। अन्वयव्यतिरेकानुविषानमेव हेतुफलयोस्त- त्वमाचक्षते तद्भ[? विदः। आदराभ्याससंसर्गि जाग्रदृष्टं हि दृश्यते । स्वप्न ततो परं ज्ञान तथैवेति प्रतीय तां ॥ ननु न प्रत्ययत्वादनालम्बनत्वं स्वप्नप्रत्ययानाम, पि तु बाधकसद्भावात् (c. 37b)। तथा हि। स्वप्नदृष्टं पुनर्जाग्रद्दर्शनेन न दृश्यते । तेनान्यदा तदैवान्यैस्तदनालम्बनं ततः । बाधकप्रत्ययस्तस्यालम्बनश्चे (ञ्चे) ति वारयन् (1) अनालम्बनताज्ञानं करोत्यत्र सुनिश्चितं ।। न चैवं स्वप्नज्ञानवद्वाधको जाग्रत्प्रत्यये । तत्कथं तदृष्टान्तः । नेतदस्ति । बाधकप्रत्ययो हि कथन्तस्य विषयापहारक्षमः । नहि ज्ञानस्यार्था- पनयनं व्यापारोऽङकुरादीनामिव । कस्तहि। ज्ञापनव्यापार एव। तथा च नास्य विषयोस्तीति परेण ज्ञापयितव्यं । अभावञ्चानुपलब्धिरेव ज्ञापयति। एकः प्रति- षघहेतुरिति वचनात् । विरोधस्याप्यनुपलब्ध्यव साधनात्। ततस्तत्प्रमेयशून्य- तावबोध एव बाधकेन करणीयः। तदभावश्चान्यभाव एवेति तदन्यालम्बनतव बाधकत्वं । तच्च जाग्रत्प्रत्ययेपि सकलं स"म्भवि । ननु जाग्रत्प्रत्ययेनैव भवति नैतदेवमिति, तत्कथं स बाधितः। ननु नैतदेवमेतदेवमिति फलमसत्येद नि (?) तरयोः ततः कथं फलतो व्यवस्था न सम्वेदनात्। फलेन हि व्यवस्था प्रमाणाभावात्सम्वृतिसदेव । सम्वेदनमन्तरेण कथं फलमिति चेत् । असम्वेदने सम्वेदनात् । ततः फलमिवार्थसम्वेदनमपि स्वसम्वेदन- मात्रमेव । ततस्तत्रवार्थसम्वेदनमिति व्यवस्था। तथा हि। अर्थ' सम्वेदने ज्ञाते तदनन्तरतो भवत् । (c. 38a) फलन्तस्य भवेदेवं गमकन्नान्यथा तु तत् । तस्मादिदमेव तस्य बाधकं यवन्यरूपग्राहकत्त्वं तच्च सर्वप्रत्ययापेक्षया प्रत्ययान्तराणां। ननु जाग्रत्प्रत्ययार्थः सम्बादी तत्कथन्तस्यान्यनामहणं । स्वप्नप्रत्ययानामपि तदन्यस्वप्नप्रत्ययग्रहणादविसम्वादनमेव, तत्कथं बाध्यतां। जाग्रत्प्रत्ययेन बाध्य- तामिति चेत् । जाग्रत्प्रत्ययोपि तेनेति समानमेत त् । निद्रोपहते मनसि तस्य भाव इति न बाधकत्वं । यथोपहते चक्षुषि न केशाविवर्शनं तद्विपर्ययस्य बाधकमिति । तवसत्। ४ २४ ] वातिकालंकारः (३३३३०) सि (मि)द्धेनोपहतं चेतः केनेदं संप्रतीयतां । न तावत्तदवस्थायामिदमेवं प्रतीयते । स्वयं प्रत्येति व्यथितो वा। ननु स्वप्नेपि विद्यते सर्वमेतत् । तया हि (1) स्वयन्तमात्मानं प्रत्येति प्रबुद्धं पुनरेति चेत् । स्वप्नेपि तत्केन कृतो विभागो भवतोदितः । स्वप्नेपि प्रबोधादि व्यवहारो दृश्यते। ततोऽयमपि प्रबोधादिव्यवहारो ऽलक्षणत्वेनेक्षणात् कथं संप्रत्ययकृत (:) ॥ अथ संप्रत्ययसम्वेदनादेवं स्वप्नेप्येव- मिति समानमेतत् । अथ स्वप्नेपि स्वप्ने एष इति कदाचित्संप्रत्ययस्ततो नैवं । सत्यमेतदिति किं न संप्रत्ययोस्ति। ततः सत्यता (c. 38b)भवतु। अतएवा- नवस्थितः स्वप्न इति चेत् । अयमप्यनवस्थित एवैश्वर्यादीनामनवस्थानादेव । सहेतु- कमिहानव स्थानं'" अहेतुकं स्वप्न इति चेत् । तथा हि । सटित्येव स्वप्नवृष्टं नश्यति ॥ वासनादाढचमेतन्नत्वर्थ एवं साधयितुं शक्यः। तथा हि। प्रियादिदृष्टिरत्रापि झटित्येव विनश्यति । तत्स्वप्न पि भवत्येव दिनं संततदर्शनं ।। ननु स्वप्नास्वप्नप्रत्यययोविवेकसाधनं ज्ञानं प्रमाणमप्रमाणम्वेति द्वयी कल्पना। यदि प्रमाणं तदा सालम्बनं तदिति तेनानकान्तः। अथ न प्रमाणन्तवा न पक्षदृष्टान्तप्रसिद्धिरिति कथमनुमानावतारः। कथं निरालम्बनत्वप्रसिद्धिः। तदसत् । प्रमाणमेव तदिति न दोषः । न च सालम्बनं सकलं प्रमाणमनुमानस्य सालम्बनत्वाभावात्। अनालम्बनत्वेपीह व्यवहाराविसम्वादापेक्षया प्रमाणत्वात् । भेदश्च यस्या[?]पि तयोः सिद्धः स्वप्नेतरविज्ञानयोस्तथापि न तत्साधकं प्रमाणं सालम्बनमिति न सर्वसालम्बनत्वप्रसङ्गः । लौकिकप्रतिपत्त्यैव ततो भेदे प्रसाधिते ।। साध्यदृष्टान्तचिन्तेयं प्रतिभाससमाश्रयात् ॥ लोके ताववियं (दं) स्वप्नविज्ञानमिदं जाग्रत इति विभागः प्रतीयते।* ततस्त- दाश्रयेण साध्यसाधनव्यवहारः। ततः पश्चाधवि (c. 39a) परामशतो न किञ्चिदत्र विभागकरणमुपलक्ष्यत इति साधयत्यभेदं तथा सति कः परस्य दोषः। यदि दोष एवं स्यात् वेवप्रामाण्यसाधनेपि दोषो भवेत् । तथा हि। वेदो धर्मी कथन्तस्य लौकिकाद्वचनाद्विवेक' इति पर्यनुयुक्तेन किम्वक्तव्यं । * तत्स्वप्नदर्शना-इति बहिःपंक्ति पाठः ।
१३-विज्ञप्तिमात्रता [ २५ यद्यप्रमाणं लौकिकवचनसदृशमिति कथन्तस्य विवेकेन धर्मित्वं । अथ प्रमाणत्वं प्रसाध्य विवेकं कथयेत् तथा सति किं साधनोपन्यासस्य फलं। तत एव तच्चोखं कथं परिहर्तव्यं । नत्वन्यत एवम्विरचन्नानुपूर्वीविशेषाद्वेदस्य प्रबन्धभेदसिद्धिः। नान्येषामपि परस्परस्य तथा भेदसिद्धेः। अथास्ति तावदेष प्रबन्धः किमय"म्वेद तत् नेति विचार्यमाणो यदि प्रमाणं भविष्यति वेद एवान्यथा नानेन प्रयोजनमिति परित्यक्ष्यामः। एवं तहि समानमिदमिति परित्यक्ष्यामः। एवन्तहि समानमिव- मत्रापि प्रत्ययस्तावदीक्ष्यते। स्वप्नप्रसिद्धिरस्मात्किं भिन्ना नो वेति कल्पने । पा [? वा] धा भविष्यति परं तथा द्रक्ष्याम इत्यपि ।। यदि पश्चाद्विचार्यमाणं आप्तज्ञानमन्यद्वा परस्परं परमार्थतो भिन्नमभिन्नम्वेति भवेत्तथा ग्रहीष्यामः। तत्र यदि परामृष्यमाणेन भेदे प्रमाणं किमप्यस्तीत्यभेदं प्रतिपत्स्यामहे। ततः क इवात्र विरोधः । पूर्व भेदग्राहकमप्रमाणमिति चेत् । भवतु को दोषः। (c. 39b)पक्षादिप्रविभागो न भवेदिति चेत्। मा भूदिदानी 6a कि नो विघटितं। इदमेव यदप्रमाणत्त्वमभेदसाधनस्य। एवं तहि । यत्साधारणमित्वप्रतिपत्तिस्तथा सति । प्रमाणन्न भ"वेदन्यदप्येवं द्वारकं परं ।। वेदलक्षणप्रमाणाप्रमाणसाधारणमिप्रति (पत्रि) रप्रमाणमेव स्यात्पश्चात्प्रमाण- त्वसाधनेननिवर्तनात् । ततो धर्मिसाधनस्याप्रमाणत्वात्तद्वारेण प्रामाण्यसाधन- मप्यप्रमाणं भवेदिति न वेदप्रामाण्यप्रसिद्धिः । ततः सफल एव साध्यसाधनव्यवहारो विशीर्येत । अथ धर्मिणः साधारणस्य ग्रहणेपि न तद्ग्राहकमप्रमाणं प्रामाण्यस्या' धिकस्य तत्रैव साधनात् । यदि तत्प्रमेयोन्माननं परेण स्यात् स्यादप्रामाण्यं । तदप्यसत् । यतः। प्रमाणत्वं हि तस्यैव स्वरूपं धर्मिणो यदा। तस्य तत्परिहारेण ग्रहणेपि कथं प्रमा॥ प्रमाणस्वरूपं हि वेद वचनं तस्य तद्विपर्ययग्रहणे तद्विपर्ययप्रमेयोन्मूलने परेण कृते कथमप्रमाणता न भवेत् । नहि स्वरूपेणव कस्यचिदाधिक्यं । अगृहीते तदाधिक्य व्यवहार इति चेत्। अग्रहणे कथं प्रमाणता (1) कस्यचिद्रूपस्य ग्रहणादिति चेत्। न। भेदाभावात्। व्यतिरिक्तधर्माभ्युपगमानवञ्चेत्। न। अनवस्थाप्रसडागात्। व्यतिरिक्तो यदा धर्मस् (।) तेन योगः पुनस्तेनेत्यनन्तो धर्मविप्लवः ।।
२६ ] वार्तिकालंकारः (३३३३०) । तद्युक्तत्त्वं (c.40a)तयोरेव स्वरूपं यदि सम्मतं । प्रमाणत्वं तथा प्राप्तमस्माकं का विरोधिता ॥ भेदेनापि गृहीतस्य समारोपस्य भावतः । परामर्शादभेदस्य प्रतिपत्ति: किमप्रमा ।। अथापि स्याद् भवतोऽभेदं प्रतियतः कथं विवेकेन पक्षीकरणादिविभागेन साधनप्रवर्त्तनं। तदसत् । परप्रत्ययापेक्षयेदमनुवादमात्रकं स्वयमपि पूर्वाभ्यासेन साधन- प्रयोग इति न किञ्चिदवा। ममाप्य (ए) वमासीदिति परः प्रतिपाद्यते । स्वप्नादिबाधधीवच्चेत् सकल: प्रत्ययो' न कि । सालम्वनः प्रसाध्येत प्रत्ययत्वात्परैरपि । यथा निरालम्बनाः सर्वप्रत्ययाः प्रत्ययत्त्वात्स्वप्नप्रत्ययवदिति तथा साल- म्बनाः सर्वप्रत्ययाः स्वप्नबाधकप्रत्ययवदेव । अत्रोच्यते। प्रत्ययत्वविशेषेण स्वप्नप्रत्ययतः परः । प्रत्ययोन्यो निरालम्ब इति कि प्रतिसाधनं ।। यथा स्वप्नप्रत्ययत्त्वाविशेषाद्वाधकप्रमाणपरिनिश्चितनिरालम्बनत्वप्रतिबन्धा- दनालम्बनत्वसाधनं तथा यदि सालम्बनत्वमपि ततो विरुद्धाव्यभिचारीति नकस्यापि प्रसिद्धिरिति तदेव निरालम्बनत्वं ॥ न च सालम्बनत्वे साध्ये प्रतिबन्धः। अनुपलम्भात्त (द)द्वयोरपि निरालम्बनत्वं । तथा हि यथास्वरूपरिवन्मात्रादपरस्याप्रवेदनं (c. 4ob)। स्वप्नादिप्रत्यये जाग्रत्प्रत्ययेपि तथेष्यते ॥ नहि जाग्रत्प्रतिभाससम्विदितमपि परेण वेद्यते । प्रत्ययान्तरस्यव तथा वेदनादित्युक्तमेव तत् । तत्राप्यालम्बनमस्त्येवेति चेत् । तस्मादर्थक्रिया न भवति। यदि नामार्थक्रियाकारि न भवति प्रतीयमानं त्वस्त्येव । न हकस्याभावेऽपरं न भवति। नहि धूमाभावादग्निर्न भवति। सर्वदाऽभावात्किशुकराशिवन्न भवत्ये वेति चेत् । एवन्तर्हि तदर्थक्रियाकारि न भवति किंशुकराशिवत्। स्वेनरूपेणास्तु। किंशुकराशिः स्वेन रूपेणार्थक्रियाकारी भवतु न स्वप्नोपलब्धः । नहि स्वप्नभुक्तं पुष्टिकृत् । अथ रूपमेव तत्तथाविधं तेन नेति चेत् । न । स्वरूपसम्वेदनाद्विज्ञानमेव तदिति सूक्तं । अथ स्वरूपत्वे को विरोधः। वासनाबलभावितं स्वप्रतीतत्त्वञ्च । अन्य एव तादृशो भविष्यतीति चेत्। नामकरणमात्रकमेतत्। भवतोपि किन्नेति चेत् । ना(न । अनन्तरकारणाधीनस्य प्रतिपादनात् । तेन ज्ञानमेव तत् । तथा च । तस्याश्चार्थान्तरे वेद्ये दुर्घटौ वेद्यवेदको ॥
१३-विज्ञप्तिमात्रता [ २७ नहि तदर्थान्तरं तस्या एव भवति रूपं । ततोऽप्रवेशे न वेदनं । प्रवेशे नार्थान्तरं। ननु यदि बुद्धिस्वरूपमेव तत्तस्य स्वसम्विदितेन नीलादिना भवितव्यं । कथं परेणापि वेदनं (1) न। भान्तिरेषा तैमिरिकद्वयद्विचन्द्रदर्शनवत् । तत्राप्यन्यत्र वेति चेत् । तथा हि (-) अभान्तः प्रत्ययो यद्वदर्थानां वेदको मतः । (c. 41a) साधा"रणानां भान्तोपि तथार्थस्यैव वेदकः ।। यथा साधारणत्त्वेन प्रतीयमानो भ्रान्ताभिमतप्रत्ययार्थस्तथेतरोपि । तद- युक्तं। साधारणत्वमर्थस्य न प्रत्यक्षतयेक्ष्यते । प्रत्यक्षासम्भवादत्र नानुमानं न वेदनं ।। न तावत्प्रत्यक्षेण परवेदनसाधारणता प्रतीयते । अन्यथा लिङगमन्तरणव सकलपरप्रतीतिवेदनप्रसङगः । अथ परेणापि प्रतीयमानं तादृशमेव" तत् । ततः सैव तस्य साधारणतेति चेत्। यथा मयतत्प्रतीयते तथा परेणापरेणापि योग्यदेशस्थितेन प्रतीयत इति हि लोकप्रतीतिः । न। तैमिरिककेशादिषु स्वप्नदृष्टेषु चैवं प्रतीतेरभावात् । तत्रापि भवत्येवेति चेत् । इदमेव रूपं स्वप्नावस्थायामपि ततस्तत्समानत्वादसावपि बाहय एव। न। भावनादावात्मप्रतिभास एव तादृशो न तु यस्तत्रास्तीति लोकस्य प्रतीतिः' एवं एतदवस्थानीति समानं । परमार्थतस्तु स्वरूपप्रतिभासमात्रकमुभयत्रापीति न सालम्बनता । ननु स्वप्ने व्याकुलत्त्वमयत्ननिर्वयं सकलं तत् कथं समानता प्रत्ययानां । तदसत्। नीलादिप्रतिभासेभ्य: कान्या व्याकुलतेध्यते । साप्यभ्यासबलायाता ततः कथमियं स्थितिः ॥ नीलपीता(c. 41b) दिप्रतिभास एव केवलः कुतोऽपरा तत्र व्याकुलताऽय- लोपनतिश्च ॥ स्वप्ने प्रयत्नमन्तरेण भावो वृक्षादिस्था"ने झटित्येव तद्रागावेरिति चेत् । ननु प्रयत्नमन्तरेण भाव इति केन परिगृहीतं, कार्यभाविना प्रत्ययेन कार्य- मेव कारणभाविना तु कारणं । इदमतो भवतीति क्रमः। इदमन्तरेणेदमित्यपि क्रम इत्यध्यवसायः। न प्रत्यक्षमत्र नानुमानं । आकुलमेतदित्यपि न केनचिद्वेद्यते । भाव- नाविशेषाच्च निराकुलतादिभावः स्वप्नेपि। तथा जाग्रदवस्थायामपि। अरिष्टा" दावाकुलतावर्शनं । अरिष्टतो दोषादेव तदिति चेत् । न । अरिष्टानरिष्टयोन्वि- शेषाभावात् । तत्राप्यपरेण विवेककारिणा भवितव्यं । तत्राप्यपरेणेति नैवं भूतोस्ति यतो विवेकः। अयमेव विवेक इति चेत् । न । स्वरूपनिष्ठि(ष्ठ) तामात्रत्वादस्य।
२८ ] वातिकालंकारः (३॥३३०) नहि स्वरूपनिष्ठस्य परसम्वेदनं । स्वरूपमात्रवेदनं त्वाकुलानाकुलसमानं । दीर्घ कालानुबन्धि व्यभिचाररहितमनाकु लमिति चेत् । न । प्रत्यक्षेण दीर्घकालानु- बन्धाग्रहणात् । ततः परो विकल्प एवावशिष्यते । तेन च नार्थप्रतिपत्तिः । ततोपि न व्यवस्था तस्यापि स्वरूपे प्रत्यक्षत्वात्। वस्त्वनुभवेन जनितो विकल्पः संवा- दीति (c. 42a) चेत् । न । प्रतिबन्धाग्रहणात् । यदा वस्त्वनुभवो न तदा विकल्पः, स यदा न तदानुभव इति कुतोऽत्र सत्यार्थग्रहणं। विकल्पेनेति चेत् । अयमपि न प्रमाणम्। तस्यापि प्रतिबन्धसापेक्षत्त्वाद"परो विकल्प इत्यनवस्था। एवन्तर्हि वासन- यापि कथं सम्बन्धग्रहणं । न। परमार्थतस्तयापीति पक्ष एवायमिति प्रतिपावितं। 6b कार्यकारणभावाख्या वासनाभ्युपगम्यते (1) बाह्यार्थवादिभिर्बाह्यं न तु विज्ञानवादिभिः ।। वासनाजन्यतामन्तरेणापि विज्ञानमात्रकमेतदिति प्रतिपादितमेवेति न दोषः। ननु वासना भाविता न जाग्रद्विज्ञाने प्रतीयते । स्वप्नावस्थायां न स्वप्नप्रति (भा) सनमिति समानमेतत् । उत्थितस्य भवति । जाग्रदवस्था यां तु न तथेति चेत् । तदपि किञ्चित् । तथाहि । उक्तमेतत्प्रबोधो हि स्वप्नेपि प्रतिवेदितः । ततः प्रबोधावस्था या न स्वप्नाभिन्नलक्षणा ॥ प्रबुद्धोहमिति स्वप्नेपि भवत्येव । ततः कथं प्रबोधप्रतिभासतो व्यवस्था। अन्येन प्रबोधेन सापि स्वप्नत्त्वमापादितेति चेत् । इय(न्)तु न केनचिदपीति । अतएव पदार्थव्यवस्था यद्यपि न तथा तथापि तत्समानत्वान्न प्रत्ययस्थानं । अनु- मानकालभाविनो हि धूमस्य नाग्निपूर्वकत्त्वसि द्वेरनुमान कत्वमपि तु तल्लणक्ष- स्वेन । एवमस्या अपि जाग्रदवस्थाया (c. 42b)स्तल्लक्षणत्वादेव तद्रूपता ।। ननु न तत्र भावनाव्यापार उपलभ्यते जानववस्थायां कथं स्वप्नकल्पना॥ तबाह । भावनाव्यवधानो (ने)पि भवत्येवावभासनं । न [? पूर्व] दृष्टं यथा वृद्धावस्थाया उ(मु) पलभ्यते ॥ जन्मान्तरादिदृष्टस्य मरणस्वापसम्भवे । जन्मान्तरोदय: स्वप्न इति किं न प्रतीयते ॥ यथा रजनीस्वापः तथा मरणरजन्यामपि । दिने दिने दर्शनमत्र चित्रं ।' स्वापप्रबोधात् न तथा किमेतत् । पूर्वस्य यद्दर्शनमेष हेतुः । पदार्थदृष्टिरिति साम्यमेव ॥
१३-विज्ञप्तिमात्रता [ २९ पूर्वदिनदृष्टं यथा रजनीस्वप्नदर्शनस्य हेतुस्तथा पूर्वपूर्वदिनदृष्टमपररजनी- व्यवहितविनस्वप्नवर्शनमेवेति महतीयं स्वप्नपरंपरा ॥ अपूर्वस्यापि वर्शनमिति चेत्, स्वप्नाभिमतेप्येवमेवेति सव्वं समान। गमनागमनं स्वप्ने यथान्यान्योपलम्भकृत् । गमनागमनं जाग्रत्स्वप्नेपि न किमिष्यते ॥ व्यवहाराभावादिति चेत् अनेनैवानुमानेन विदुषां व्यवहार इति किन्न पर्याप्त । यथा कार्यकारणव्यवहार आनुमानिकः तथायमपीति समानं । क्षणिकत्त्वे च न व्यवहार इति किं तेन न भवितव्यं । तदपि नेति चेत्। एतत्प्रतिपादयिष्यामः। ननु निद्रोपघातात्स्वप्नदर्शनमलत्या (ग),त्वमिति युक्तं । ननु परिस्फुरन्नेवासी कथं स्वप्नः। प्रारम्भे तु (c. 43a) स्वप्नत्वं नोपपद्यते। तदेव तस्य प्रतिभासस्य कारणञ्चेत् । न । भावनाविशेषात्प्रतिभास विशेषदृष्टः। समानोपस्वापप्रारम्भ कश्चित्कथञ्चित् स्वप्नदर्शी भवति ॥ तदभावेऽभावादिति चेत् । भवतु निमित्तमात्रत्वं तथापि न तस्य प्रतिभासविशेषकारणत्त्वं । अयमपि स्वापानन्तरमेव प्रतिभासः ततः समानता स्वप्नेन। प्रबोधे () भवतीति चेत् । न । प्रतिभास- व्यतिरेकेण प्रबोधाभावात् । प्रबुद्ध इति प्रत्ययात् प्रबोध इति चेत् । न । स्वप्नेपि स प्रत्यय इत्युक्तं। तस्मात्स्वप्नेतरयोविशेषः । ततो यो विशेषदर्शनात् सालम्बननिरा- लम्बनत्वभेदमाह तस्य तद्विशिष्टत्त्वमसिद्धमिति दूषणं । नत्विदानीं सालम्बनत्त्व- सिद्धिः प्राप्ता जाग्रत्प्रत्ययाविशेषादिति विपर्ययसिद्धिः। न। विपरीतादिल्यातेर- भावप्रसङगात् जाग्रत्प्रत्ययवदेव तथा चाभ्युपगमबाधः । किञ्च । बाधकप्रत्ययो व्यक्तः प्रत्ययत्त्वादिहेतुना । विधातुं नान्यथा शक्यो नानुमा व्यक्तवाधिका ।। बाधकप्रत्ययो हयनुपलब्धिलक्षणो विपर्ययोपलब्धिरूपः प्रत्यक्षरूपो नानु- मानेन प्रत्य'यत्वादिना बाधितुं शक्यः । यदि धूमावग्न्यनुमाने पश्चाविपर्यये प्रत्यक्षवृत्तिः किमनुमानं प्रमाणं ॥ ननु प्रत्यक्षवृत्तावपि यदि (c. 43b) द्विचन्द्रविषयेनुमानं बाधक किन्तत्प्रत्यक्षमिति समानो न्यायः। न। तत्रापि प्रत्यक्षस्यैव बाधकत्वं । पूर्वमेकस्य दर्शनात् । अन्यथानुमानमेव न स्यात् । ननु प्रत्यक्षमनुमानपूर्वकं । यदि तु स्यात् । अनुमानमेव तत्रापि बाधकमिति भवेदनुमानबाधायां प्रत्यक्षमप्रमाणम् । तथा च परस्पर व्याघातान्न किञ्चित् भवेत् । ततः प्रत्यक्षमूलमनुमानं । न त्वनुमानमूलं प्रत्यक्ष । नन्वनुमानमूलमेव प्रत्यक्षमपि व्यवस्थितं । तथा ३० ] बातिकालंकारः (३३३३०) नानुमानं विना व्यक्तं प्रथमं संप्रवर्तकं । अनुमानेन सम्बन्धग्रहणेस्मात्प्रवर्तनात् ॥ अनुमानेन हि सम्बन्धग्रहणेऽर्थक्रियया प्रत्यक्षस्य प्रवर्तकत्त्वं ततोऽनुमाना- प्रत्यक्ष प्रमाणं प्रत्यक्षादनुमानमिति समानं परस्परबाधनं । यद्येवमितरेतरा- श्रयणदोष एव स्यान्न तु प्रामाण्यमेकस्यापि। उक्तमेतत्स्वरूपस्य स्वतो गतिः। प्रामाण्यव्यवहारेण व्यतिरिक्ते प्रवृत्तिविषयेथात्मनि । तच्चानादिव्यवहारानु- (मान) परम्परया। तच्च सम्बादात्प्रमाणं सम्बादश्च भाविनि। भाविनि चे (त्) सम्वेदनमेव । ततः कथमर्थविषयं प्रामाण्यं ॥ अनुमानमपि स्वरूपविषये प्रत्यक्ष- मन्तरेणव चेत्। न। न। तत्र तस्य (c. 44a) प्रत्यक्षतैवेति। ततोनुमानेन न प्रत्यक्षव्यतिरिक्ते बाध्यते। तस्यानुमानविषयत्वात् । परोक्षत्वा "त्तस्य। कथं परोक्षे प्रत्यक्ष प्रमाणमिति चेत्। प्रवर्तकत्त्वेन। ग्रहणेन। ग्रहणम् चेवप्रवर्तकमेव भवेत्। तथा हि। यद्यसावेव पूर्वस्मिन् प्रत्यक्ष प्रतिभासिनः । प्रवत्तेत किमर्थं स प्राप्त एव स्वरूपतः ॥ अर्थक्रियार्थिनो वृत्तिर्न सा तर्हि प्रकाशिता ॥ प्रकाशमानतायां हि पुनः स्यादप्रवर्तनम् ॥ प्रकाशितार्थक्रियापि प्राप्य(7)र्थं संप्रवर्तते । प्राप्तेरप्रतिभासत्वाद्वृत्तिरप्रतिभासिते ॥ तत्र चानुमाने च बा"ध्यते यदि सुतरामस्मत्समीहितसिद्धिः। तथा हि। व्यतिरिक्तेऽन्येऽनुमानेन प्रवत्यंते प्रत्यक्षं। स च परोक्षत्वादनुमानस्य विषय इति तत्रैवानुमानेन बाधा प्रत्यक्षस्य । तत्र चानुमानबाधायामनुमानमेवानुमानेन बाधितं भवेत् । तच्चान्धपरम्परायातमनुमानं । तस्यानुमानेन बाधने प्रत्यक्षेण वा न कदाचित्क्षतिः। प्रत्यक्षतत्समुत्थोपि नानुमानयोस्तेनानुमानेन बाधा न प्रत्यक्षेणे"ति न्याय एषः। ननु प्रत्यक्षमपि द्विचन्द्रविषयमेकचन्द्रावभासिना तदुत्तरकालभाविनान्येन वा बाध्यत एव । तस्या प्रत्यक्षत्वादिति चेत् । कस्माद्वाध्यमानत्वात्। परस्पर- परिहारेणावस्थितयोः कथं (c. 44b) बाध्यबाधकभावः। एवमेतदिति चेत् । द्वयोरपि बाध्यबाधकभाव इति। न । प्रापकत्वादेकस्य बाधकत्वमेव । तथा हक- त्राभिप्रेतप्रापकत्वं नापरस्य । एवन्तर्हि तदेव पारम्पर्येणानुमानस्य बाध्य"त्वमायातं । ततो निरालम्बनाः सर्व एव प्रत्ययाः स्वप्नप्रत्ययवदिति कोर्थः स्वरूपालम्बनाः । च प्रत्यक्षन्तत्समुत्थापितं चानुमानमनुपलब्धिरूपं । तच्च नानुमानेनान्ये- न वा बाषितुं शक्यम् । व्यतिरिक्तालम्बनसाधनं तु न प्रत्यक्ष नापि तदुत्यापित- तत्र १३-विज्ञप्तिमात्रता मनुमानमन्धपरस्परायातत्वात्। तत्र चानुमानं प्रत्यक्ष वा भवति बाषकमित्येकान्त एषः॥ ततः सर्वे सालम्बना जाग्रत्प्रत्ययवदिति'' न प्रतिप्रमाणममूलत्वात्। स्वप्नादीनां सालम्बनत्वबाधिका बुद्धिरनालम्बना। तथा सति तदृष्टान्तेन कथं सालम्बनत्वसिद्धिः॥ ननु च निरालम्बनत्वं प्रत्ययान्तरगतं तवन या बुद्धचासाध्यते । तच्च व्यति रिक्तं । ततोन्योपि प्रत्ययो व्यतिरिक्तसाध्यविषय एव प्रत्ययत्वादिति कय- मप्रतिप्रमाणम् । यदि नाम प्रत्यक्षपूर्वकत्त्वावस्याव्यतिरिक्तालम्बनत्वं । तद्विपर्ययबुद्धस्तु विपर्ययग्रस्तायाः किमायातम्" येन सापि तथेष्यते। न चासो 7a व्यतिरेकं साधयति, व्यवहारमात्रप्रसाधनात् । अपरं (c. 45a) व्यतिरिक्तेतरालम्बनं सम्वादयति। स च सम्वादस्तदनुभवाभिनिवेशी तत्काल एव । ततो नेदानीन्त- दत्र प्रतिभाति मयि। अहन्तु स्वाकारपर्यवसितैवेति तदात्मानमनालम्बनमेव प्रति- पादयति ततो नानया सालम्बनया परापि सालम्बना साध्यते॥ ननु यदि तद्रूपं न विषयीकरोति कथमनया त'त्साधितम् ॥ तत्र सम्बादा- दित्युक्तं । सम्वादाद्विषयीकृतमिति ज्ञायते। अत एवाह ॥ अवेद्यवेदकाकारा यथा भ्रान्तनिरोक्ष्यते । विभक्तलक्षणग्राह्यग्राहकाकारविसवा ॥ तथाकृतव्यवस्थेयं केशादिज्ञानभेदवत् । यदा तदा न संचोद्यग्राह्यग्राहकलक्षणा ॥ अवेद्य एव वस्तुनि वेदकाकारा केशादौ प्राप्ये, न हि तत्र केशादौ प्राप्ये बुद्धि- बेदिका तस्यासत्वात्। भ्रान्तस्तु प्राप्य वेदिके ति प्रतीयते ॥ अतश्च प्रतीयते यत्प्रवर्तन्ते। तत्रेदानी प्रवृत्तानां यत्र प्राप्तिास्ति तत्रानालम्बनत्वं स्फुटमेव । तेनापरमनालम्बनं साध्यते। समानरूपोपलक्षणाद्विलक्षणस्यानुपलक्षणात् ॥ सालम्बनत्वन्तु न किञ्चिदुपलक्षितं ततः कथं तत्समानत्वात्सर्वसालम्बनत्व- प्रसिद्धिः। नहि प्राप्य रूपप्रतिभासि तदुपलक्षितं प्रवृत्तेरेवान्यथा तस्य प्रतिभास- नादप्रवर्तनं स्यादित्युक्तं । प्रतिभासितेपि पुनः प्रतिभासनार्थ प्रवर्तत (c. 45b) इति चेत् । पुनः प्रतिभासमानत्त्वन्तहि न प्रतिभासितं । तस्यापि प्रतिभासमानत्वेन प्रवर्ततेत्यनवस्था। पुनः प्रतिभासनञ्च किमर्थ । अर्थार्थ ग्रहणार्थम्वेति चेत् । तदर्थ तहि प्रवर्तते । तच्चाप्रतिभासितमेव । तस्मादप्रतिभासमान एव सर्वत्र विषय- त्वमित्यनालम्बनं सकलं सम्वेदनमिति कथन्ततो विपर्ययसाधनं । कयन्तहर्ष- विषयीकृते प्रवर्तते॥ तबसत्। ५ ३२ ] वातिकालंकारः (३३३३०) विषयीकृतेपि हि(?) कथं प्रवर्तनमितीरितं । कार्यकारणभावोयमेवमेव व्यवस्थितः । स्वसम्वेदनप्रतिपत्तेः प्रतिपत्त्यनन्तरम्भवति स्वहेतुसामर्थ्यावहेतुतो यथा दृष्टं तथाभ्युपगम्यतामत एवोक्तं (-) नियापाराः सर्वधर्मा इति ॥ अथवा व्यतिरिक्तस्य पूर्वमप्रतिपत्तेः प्राप्यस्य पश्चाच्च भेदप्रमाणाभावात्कथं व्यतिरिक्तप्रतीतिः। एतेनार्थक्रिययापि सहकार्यकारणभावः प्रसक्तः। पूर्वा- परयो:वाप्रतीतेः समानकालस्य चाजन्यत्वात् स्वरूपमेवार्थक्रिया सा च स्वप्ने- प्यस्तीति समानं । ततो बुद्धिरवेद्यवेदकाकारव । विभक्तलक्षणौ ग्राहयग्राह- काकारौ विप्लव एव ततः। ततः स्वरूपमात्रसम्वेदनादपरो विकल्प एव केवलमदेति पूर्वानुबोधात् । ततस्तथा व्यवस्था न परमार्थतस्तत्र तथात्वं । तथा हि केशज्ञाने सति पूर्वानुस्मरणादेवंभूतप्रतिभासानन्तरं प्राप्तिरासीत् । ततो विकल्पो (c. 46a) ग्राहयग्राहकोल्लेखेनोत्पत्तिमान्। सोपि स्वरूप प्राहयग्राहकरूपरहित एवापरेण तथा व्यवस्थाप्यते। न तस्यापि स्वतो व्यवस्था। सम्वेदनेन बाह्यत्त्वमतीर्थस्य न सिध्यति । सम्वेदनाद्वहिर्भावे स एव न तु सिध्यति । यदि सम्वेद्यते नीलं कथं बाह्यं तदुच्यते । न चेत्सम्वेद्यते नीलं कथम्बाह्यं तदुच्यते ॥ अन्येन वेदने तेन कथम्बाह्यन्तदुच्यते । अन्येन वेदने तेन तेनेत्येषानव स्थितिः । अन्येन वेदनञ्चतत्कुतोऽवसितमात्मना । तत्कार्यदर्शनान्नैतत्कार्यत्वस्याप्रसिद्धितः । नहि कार्यकारणभावः प्रसिध्यतीति निवेदितमेतत्। अनुमानस्य सामान्य- विषयत्वस्य वर्णनात्। स एव दृश्यतेन्येनेत्येतदेव न सिध्यति । यथा च रोमहर्षादिकार्यदृष्टेस्तदेकता ॥ तथा सुखादेरेकत्वं तत एव प्रसिध्यति । अन्यदेव सुखन्तस्य ग्राह्यमप्यन्यदस्तु तत् । देशभेदात्सुखादीनामन्यत्त्वमिति चेन्मतिः ॥ एकत्वे देशभेदोपि कथं सिध्यति तत्वतः । तत एव सुखादन्यरोमहर्षादयो न किं ॥ अन्यत्वाद्रोमहर्षादे: सुखस्य यदि भिन्नता । अन्यत्वे ग्राह्यमप्यन्यदिति कस्मान्न गृह्यते ।
१३-विज्ञप्तिमात्रता [ ३३ रोमहर्षादयोप्यस्मत्सम्विदन्तर्गता यदि ॥ कथन्तेभ्योन्यसत्तादिप्रतिभासगतिः स्फुटा । अस्मात्सुखं विनाप्यस्य रोमहर्षादयो यदि । अस्मद्ग्राह्यम्विनाप्यस्य रोमहर्षादयो न कि । कालभेदेन तत्रापि यदि भेदः (c. 46b) समिष्यते ।" अभिन्नस्य स्वरूपेण कालभित्किङकरिष्यति । अभेदोप्यस्तु तत्रापि परोक्षो न भवेदसौ । सम्वित्तिपरिहारेण स्थितमेकं कथञ्च तत् ।। यदि तदेकमेवाथाप्यनुवर्तते कथमस्य परोक्षता। परस्परसम्वेदनपरिहारेण च व्यवस्थितं कथमेकमिति चिन्त्यमेवैतत् । यदि च साधारणार्थं प्रतिभाति त्वया दृष्टं न वेति किमिति प्रश्नः ॥ प्रमाणान्तरसम्वादार्थ ॥ यदि प्रत्यक्षान्न प्रत्येति वचनादपि नैव प्रत्येष्यति। तदपि स्वप्रतिभासमेव सूचयति त्वत्प्रतिभासितं मम प्रतिभातीति तेनापि वृथवं ज्ञातव्यं । तत इतरेतराश्रयदोषः । यच्च प्रत्यक्षण न प्रतिपन्नं तत् कथं वचनात्प्रत्येतव्यं । नहि प्रत्यक्षेर्थे परोपदेशो गरीयान् । किञ्च । प्रत्यक्षस्य प्रमाणत्वे वचनस्य प्रमाणता । वचनस्य प्रमाणत्वे प्रत्यक्षस्येत्यसम्विदः ॥ परस्परसहायत्वं न तैमिरिकयोर्द्वयोः । न प्रत्येकमसामर्थ्य' समुदायस्य तद्यतः । तस्माच्चक्षुरादिका[?करणाधीनस्वसम्वेदनत्वाद्विज्ञानमेव नीलादिकमित्य- वेद्यवेदकाकारा बुद्धिरूपा बुद्धिः । तथैव कृतव्यवस्थेयं बुद्धिः । तथैव वेद- नादिति परमार्थः। ततः स्वसम्वेदनमेव फलमर्थ इति च निश्चयस्तत्रैव । नार्थ- सम्वेदनन्नामास्तीति । ततो यदुक्तं न पाहयस्य स्वरूपग्राहकत्वे दृष्टान्तः कश्चि- दस्तीति। तत्र विपर्ययाभावेऽनुपलब्धिसाधिते कथमदृष्टान्तता (c. 47a) । शशविषाणादि" रनुपलभ्यमानो दृष्टान्तः प्रत्यक्षप्रसिद्ध वा किं दृष्टान्तेन । ततो यदि शक्ष्यामो विस्पष्टं स्वाङगग्राहचनिवारणम्।तदा शुद्ध एव ते पक्षो विशेषणरहित एव ग्राहपनिवारणो भवेत् । तस्य च पक्षस्य प्रत्यक्षेण बाधनं । यतः प्रत्यक्षादेः प्रत्ययवर्गस्य बाहयमेवालम्बनमवशिष्यते । स्वाङगग्राहयनिवारणात् इति यदुक्तं परेण, तवसङगतं । प्रत्यक्षस्य बाहयविषयत्वाभावस्य प्रतिपादनात् स्वनिश्चयेनैव तेषां जाग्रत्प्रत्ययानां बाधकरहितत्त्वेनावलम्बनत्त्वमिति चेत्। न। स्वनिश्चितत्त्वमेतेपां स्वाङग एव समीक्ष्यते । निश्चयो बहिरर्थे तु नासावनवभासिते ।। प्रतिभासस्मरणातिरेकेण न निश्चयो नाम। न तावत्प्रतिभासनमर्थस्य प्रति- ३४ ] वातिकालंकारः (३३३३०) भासाभावे च न स्मरणं । ततोऽपरस्य निश्चयस्याभावात निश्चयो बहिरर्य इति वचनमात्रकमेतदिति व्ययं । *दुष्टज्ञानगृहीतेथे प्रतिषेधो हि गृह्यते । अगृहीतग्रहग्राहनिषेध: किन्न युक्तिमान् ॥ गृहीतमात्रवाधे तु स्वपक्षस्या' स्त्यसिद्धता । अगृहीतस्य सत्वन्तु भवता कथमुच्यते । अग्राह्यत्वाच्च भेदेन विशेषणविशेष्ययोः । अप्रसिद्धोभयार्थस्यावाच्यमन्यतरस्य वा ॥ भेदेन पूर्वग्रहणात्पश्चात्तत्त्वनिरूपने [? पणे] । न भेदः परमार्थेन ततः किम्वा विरुध्यते ।। विशेषणविशेष्यत्त्वं व्यावृत्तिपरिकल्पितं । कार्यकृद्रौद्धराद्धान्ते न गतं श्रुतिगोचरं । चक्षुश्श्रोत्रोश्च यज्ञानं (c. 47b) विशेषणविशेष्ययोः । तन्निरालम्बनत्वेन स्ववाग्वाधो न कस्यचित् ।। सम्भवोस्ति प्रभेदस्य विशेषणविशेष्ययोः । ततो निरूपणा किन्न प्रतिज्ञातार्थस्य शोभना ।। -- अपि च । निरालम्वनता नाम न किञ्चिद्वस्तु गम्यते । तेनैतद्वयतिरेकादौ प्रश्नो नैवोपपत्तिमान् ॥ यद्यवस्तु कथन्त्वस्माँस्त्वंबोधयितुमिच्छसि । बुध्यसे वा स्वबुध्या त्वं कल्पयित्वाथ साध्यते । असतः कल्पना कीदृक् क्लिष्टौ वस्तु प्रस"ज्यते । कथमिष्टमभावे चेद्वस्तु सोपीति वक्ष्यते । उक्तमेतद्यावृत्तिभेदकल्पितेन रूपेण विशेषणविशेष्यभावो निरालम्बनत्व- कल्पितबाहवालम्बनभेवेन पृथगिव व्यवस्थाप्यते । तथाभूतस्वरूपबोधनाय न 7b * श्लोकवार्तिके एताः कारिकाः २२५ पृष्ठे । परं तत्र 'अगृहीतग्रहग्राह-', 'अगृहीतस्य सत्वं तु-'इत्यर्धद्वयं, ‘भेदन पूर्वग्रहणात्--''विशेषणविशेष्यत्वं-' इति श्लोकद्वयं च नास्ति । ५ श्लोकवार्तिके स्वपक्षोऽपि न सिद्धयतीति पाठः । अप्रसिद्धोभयत्वं वेतिपाठ: । वक्तृश्रोत्रोरिति पाठः। श्लोकवातिके २२६ पृ.। ३ १३-विज्ञप्तिमात्रता [ ३५ परमार्थतो भेदः प्रतिपाद्यतेऽभेवप्रतिपादनस्य वस्तुत्वात् । अवस्तुनि कल्पना कमिति चेत् । अत एव । अन्यथा वस्तुनः कल्पना कीदृक् तथाऽवस्तु' प्रसज्यते । अभावे कल्पनावृत्तिन च वस्तु म विद्यते ।। *अथ प्रत्यय इत्येष कर्मभावादि वा भवेत् । भावादिषु विरोधः स्यात्कर्म चेत्सिद्धसाधनं । कर्म न उच्यते प्रत्यय इत्येष धमिरूपोऽन्यः कर्मव्युत्पत्या वा स्यात् प्रत्याय्यत इति प्रत्ययः । अथवा प्रतीतिः प्रत्ययः । प्रत्याययति प्रत्याय्यतेऽनेनेति वा प्रत्यय इति । भावकर्तृकरणरूपता वा स्यात् सर्वमेतदनुपपन्नं । यदि प्रतीतिः प्रत्ययः (c. 48a) सा प्रत्याय्येन विना न भवति । एवं कादिकमपि। ततश्च प्रत्यय इति बाहयार्थापेक्षः। निरालम्बन इति तदभाव इति परस्परविरोधिता। तदसत् । यदि प्रतीतिः प्रत्ययः सा स्वात्मनिष्ठाऽन्येन विना न भवतीति कुत एतत् । अन्यस्य तस्यामदर्शनात् । स्वरूपमेव च तत्र प्रत्याय्यं भविष्यति किम- न्येन। तथा च प्रतिपादितं। प्रत्याययति प्रत्याय्यतेऽनेनात्मैवेति किम्विरोधगत- मत्र। कर्म चेत् कर्मत्वं नाम नावगम्यते। स्वरूपेण हि नीलादिकं प्रतिभासते न तु तस्यापरा कर्मता नाम । यद्यसावन्येन क; स्वव्यापारेणार्यमान उपलभ्येत तदेवालम्बनमन्यस्य तच्च निराक्रियते यदि कथं सिद्धसाधनम् । कित्वसावर्थ्यमान एव न सिध्यति। ततः कथं कर्मतया तस्यालम्बनभावः। स्वरूपेण तदा लभ्यते चेविदमिदानी सिद्धसाधनम् । नन्वालम्व्यमान आत्मना. अहं नीलं प्रत्येमीति प्रतीयते। तदसत् । अहमित्यपि यत् ज्ञा नन्तच्छरीरेन्द्रियात्मवित् । अहं काणः सुखी गौरः समानाधारवेदनात् । न हीन्द्रियादिभ्योऽपरमात्मानमहं प्रत्ययालम्बनत्वेननोपलभामहे। येन प्रेरणमेतेषां स आत्मा चेदनन्यवित् । स्वस्वभावोदयादेषां प्रमाणं नापरं क्वचित् । उदयश्च यतो दृष्टः स एव प्रेरको यदि । (c. 48b) अन्योन्यप्रत्ययत्वेन प्रेरकास्ते परस्परम् । समुदायात्तदन्यस्य समुदायस्य सम्भवे' (1) कार्यकारणभावेन व्यवहारः प्रवर्तते ॥ * श्लोकवातिके २२६ पृ. ।
३६ ] वातिकालंकारः (३॥३३०) बुद्धिरूपविवेकेन प्रेरकं नान्यदीप्स्यते । पूर्वपूर्वस्तथा भूताभ्यासो वा प्रेरक: क्वचित् ।। सुखेन्द्रियाकारबुद्धेर्यदि बुद्धयन्तरोदयः । नीलाद्याकारतां प्राप्तः तत्कुतः कर्मकर्तृता ॥ समानकालहेतौ वा व्यापारो न परस्परं । ततः कर्मादिभावानां न भाव उपपत्तिमान् । यदुक्तं प्रत्ययस्य हि रूपादेन्निरालम्बनतेष्यते । स्वविज्ञानात्मकत्त्वेन किञ्चिन्नालम्वते ह्यसौ ।।* तवत्यन्तमसत् । यतः। प्रत्ययस्य न रूपादेन्निरालम्बनतेष्यते । स्वबोधरूपव्यावृत्तः स्वाङगमालम्बते ह्यसौ ॥ व्यतिरिक्तालम्बनत्वेन तु निरालम्बनता विज्ञानात्मकत्वेनैव सुतरामिति प्रतिपादितम् । यत्पुनरस्य चापि। कर्तृत्वे करणत्त्वे वा पक्षत्त्वं शब्दयोरपि (1) तन्निरालम्बनत्वेन पक्षाभावः प्रसज्यत (।) इति ।* तदतिसुभाषितं । यतः।' ताभ्यामपि किल प्रत्याय्यते निरालम्बनप्रत्यय- शब्दाभ्यां ततः तयोरपि प्रत्ययत्वं। तदनालम्बनत्वेन कश्चित्प्रत्यक्षः शब्द- गतमात्रकमेव केवलं। अन्योन्यालम्बनं तत्र व्यावृत्तिः शब्दगोचरः । तस्य सम्वादितामात्रात् पक्षत्वं न विरुध्यते । नहि शब्दगोचर एव पक्षः। साधनविषयत्वात्तस्य । साधनञ्च प्रत्यक्ष- लक्षणोऽनुपलम्भः । तेन (c. 49a) स्वाकारालम्बनता साध्या सा पक्षः । कथं पक्षाभावः । प्रत्यय इति चात्र ज्ञानं प्रकरणादवगतं तत्कथं शब्दद्वारकदूषणा- वसरः। नहि यावद्वघुत्पत्त्या विषयीक्रियते स शब्दप्रतिपाद्योपि तु प्रकरणायात एवान्यथा न शब्दादर्थगतिः । सामान्यशब्दानामपि प्रकरणाद्विशेषवृत्तितोपलभ्यते, सैन्धवमानयेति यथा। भोजनबेलायां लवणस्यैव प्रतीतिः। इदमप्येकसवारेणैव गतं। यवाह। १ श्लोकवार्तिके प्रत्याय्यस्येति पाठः । * श्लोकवार्तिके २२७ पृष्ठे ।
१३-विज्ञप्तिमात्रता [ ३७ प्रत्याय्येन च वाक्येन विना कास्य सम्भवः । प्रत्यये तन्निमित्त वा बंधः स्ववचनेन ते ।* यदि न प्रत्यायप[य]ति किञ्चित्प्रत्याय्यते वा न तेन कथमसौ तथा, प्रत्ययविषयाभावे वा किम्विषया प्रतीतिरिति ॥ यतः। प्रत्याय्येन हि भिन्नेन विना क दिसम्भवः । प्रत्यये तन्निमित्ते च बाधः स्ववचनात्कथं । कल्पितः कर्मकादिः परमार्थो न विद्यते । आत्मानमात्मनैवात्मा निहन्तीति निरुच्यते ।। अबाहचनिमित्तौ च प्रत्ययशब्दार्थो न स्ववचनबाधः ॥ अथापि रूढिरूपेण प्रत्यय: स्यात्तथापितु । 'कादिकं वस्तुन: सिद्धं प्रत्ययोन्यस्य वस्तुनः ॥* रूढिरुत्पलादिप्रतीतिनिरपेक्षः प्रत्ययशब्दो व्यतिरिक्तस्यैव वस्तुनः सिद्धः प्रत्यय इति। ततः सिद्धमेव लोकप्रसिद्धया बाहविषयत्त्वं । नहि लोकप्रसिद्ध- मन्यथा शक्यविधानं। तबसत्। लोकप्रसिद्धिमात्रेण न वस्तूनां व्यवस्थितिः । (c. 49b) विचारकस्य लोक"म्य वस्तुसिद्धौ निमित्तता । सम्वेदनातिरेकेण लोकः को वार्थसिद्धये । सम्वेदनस्य लोकत्त्वे तदनालम्बनीकृतं ।। सम्वेदनं विना लोको यदि तत्त्वं विवेचयेत् । विवेचयेयुः सर्वेमी जनात्मानः शिलादयः ॥ यदप्युच्यते। तमभ्युपेत्य पक्षश्चेत् अभ्युपेतं विरुध्यते । विशेष्य (स्याऽ) प्रसिद्धिश्च तवास्माकमतादृशे ॥ तादृशे वस्त्वन्तरप्रत्यायके तवासिद्धिविशेष्ये प्रत्ययेऽस्माकमन्यथाभूते. । तथा। आत्मधर्मस्वतन्त्रत्वकल्पने पि तथा भवेत् (1) न च प्रत्ययमात्रत्त्वं किञ्चिदस्य (स्त्य) निरूपणादि ति । १ श्लोकवातिके वाक्येनेत्यत्र भिन्नेनेति, बन्ध इत्यत्र बाध इति पाठः । * श्लोकवातिके २२७ पृष्ठे । ' श्लोकवार्तिके ग्राहकं वस्तु सिद्धं नः इति पाठः । + श्लोकवातिके २२८ पृष्ठे ।
३८ ] वातिकालंकारः (३॥३३०) तथा हि। यदि व्यतिरिक्तसापनत्वमभ्युपगम्य प्रत्ययः पक्षीक्रियते स तथाभूतो धर्मी न भवतः सिन्दः। नहि बौद्ध स्यवमभ्युपगमः। अथ विपर्ययाभ्यु- पगमोऽव्यतिरिक्तसाधनत्वं तयासति प्रतिवादिनामस्माकमसिद्धः । न हप- व्यतिरिक्तसाधनः प्रत्ययोरस्माभिरभ्युपगतः", एबमात्मधर्मत्वं बौ द्धा ना - मसिद्धं। स्वतन्त्रत्त्वं च मी मांस का नां। न च प्रत्ययमात्रमस्ति। यस्य धमित्व- मुभयपभव्यतिरेकेण निस्पयितुमशक्यत्वादिति ॥ तद्यथाकथञ्चिन्मुखमस्ती- त्युक्तं । यतः उक्तमेतत् । विवादपदभूतम्यावश्यमेवाप्रसिद्धना । प्रद्धिग्नग्य चज्जाता माधनं कम्य माधनम् । य एव हि व्यतिरिक्तसाधनधर्मः प्रत्ययस्य धमिणो (c. 50) विशेषणत्त्वनासिद्ध इति तदसिद्धिद्वारेण विशेष्यासिद्धघुद्भावनार्थ भवता स एव विवादास्पदीभूतः भवता साध्यः, तेन च विशेषणेनासिद्धत्वमिष्यत एव धर्मिणः । साधनकाले यदि तु स एव सिद्धः किमिदानीं सिद्धोपस्थायिना साधनेन । नत्वसिद्धविशेषणः पक्षो दुष्ट एव यथा सां ख्यं प्रति विनाशी शब्द इति । तदसत् । यतः। सांख्यंप्रत्यपि पक्षम्य दृष्टत्त्वं विनिवारितम् । नहि दृष्टा"लसिद्धेऽर्थे पक्षे सिद्धविशंपणः । अप्रसिद्धोर्थदृष्टान्ते विनाशो हेतुदुष्टता । अनैकान्तिकता वा स्याद्धेतो; म्याद्विरुद्धता ।। यदि पक्षे न सिद्धो निरास इति दोषः। तदसत् । तत एव साध्यते । ततोऽप्र- सिद्धविशेषणत्वमेव पक्षस्यादोषः कथमसौ दोषः नहि स्वरूपमेव दोषः। अथ दृष्टान्तेऽसिद्धिस्तदा दृष्टान्तदोषो हेतुदोषो वेति न पक्षदोषता। न चात्मधर्मता सिद्धौ धर्मानप्रत्ययो भवेत् । न ह्याकाशगुणासिद्धौ' शब्दो धर्मी न सिद्धपति ।। श्रोत्रग्रहणमात्रेणव तस्य धमित्वं । अन्यथा न कश्चिदर्मी भवेत्प्रति बायुपक्षिप्तस्य धर्मस्य सर्वत्रासिद्धत्वात् । तस्मादयमदोष एवेति यत्किञ्चिदेतत् । तत एवापरमपि परोदितमयुक्तं । शब्दार्थमात्ररूपेण यथान्येषां निरूपणं । तथापि भवतो न स्याद्वाद्यभेदमनिच्छत इति ।।* 8a *इलोकवातिके २२८-२२९ पृष्ठे ।
१३-विज्ञप्तिमात्रता [ ३९ वाचकाद्यान्तरेभ्यश्च भेवानभ्युपगमा(c. job)धस्य च वादिनः शब्दार्थ- मात्रकरूपेणापि निरूपणमशक्यं सामान्यानभ्युपगमेन धर्मादिविकल्पने सति पर- वादिना तेन प्रत्यवस्थातुमशक्यमिति । तबसत् । प्रत्यय इत्यविशेषणं शब्वार्थमात्रं, विज्ञानमिति योऽर्थः प्रति- भासममिति यस्य पर्यायः तस्य सिद्धत्वात् । असवेतत् । द्विचन्द्राविप्रत्ययेन्यत्र च यत्प्रत्ययत्वं। तदेकाकारपरामर्षविषयसिद्धमेव। तस्य तु पुनः किन्तत्वमित्यपरं सकलं विचार्यत्वात्साध्यमध्यमध्यासीनमसिद्ध मिति किमयुक्तं । अत्रासिद्धता पश्चादाक्षिप्य निराकरिष्यते। अन्यदुच्यते तावत् । निरालम्बनता चेह सर्वथा यदि साध्यते । विशेषणप्रसिद्धिः स्याद् दृष्टान्तश्च न विद्यते ।* सर्च एव प्रत्ययो निरालम्बनः साध्यः। को दृष्टान्तस्तत्र । अथ जाग्रत्प्र- त्ययस्तथाप्यसिद्ध एव दृष्टान्तः। स्वप्नप्रत्ययस्यापि सालम्बनत्वात्कपञ्चि- तत्कालान्यकालवस्त्वालम्बनत्वात् । अथ तत्कालालम्बनाभावः। तदा केनचिच्चे प्रकारेण निरालम्बनतोच्यते' (।) रसज्ञानम्य रूपादिशुन्यत्वान्सिद्धसाधनम् ॥ यथा यस्य यदालम्बनन्तकालमन्यकालादि वा तथा तत्सालम्बनमभ्युप- गन्तव्यं । तथाप्यनालम्बनत्त्वे रसज्ञानमपि (c. 51a) रूपेणानालम्बनमिति प्राप्त तच्चेष्यत एवेति सिद्धसाधनं । अथ बुद्धिर्यदाकारा नदालम्बनवारणम् । स्वाकारस्याभ्युपेतत्वात्तदभावो विरुध्यते ॥ ग्राहकाङ्गो हि ज्ञानस्य नाकारता। किन्तहि ज्ञानाकारतैवेति भवताम- भ्युपगमः। तत्रेवानी ज्ञानस्य ग्राहयाभावः प्रसक्तोऽनिष्टश्च । तत्र पाहयात्म- नालम्ब्ये न भाव्यं अथ बाहयन्नालम्बनं । तदसत्। बाह्यानालम्बनत्त्वेपि बाह्य इत्यग्रहो यदि । स्तम्भादौ नैव नबुद्धिरित्येवं सिद्धसाधनम् ॥ यत्रापि बहिर्घट इति बुद्धिस्तत्रापि न घट एवालम्बनं। अपि तु बहिविषय एव । तत्सामानाधिकरण्यात्तु घटे तथा प्रत्ययः । अथ स्तम्भादिरूपेण निरालम्बनतोच्यते ।। सम्वेदनस्य दृष्टत्त्वात्तद्विरोधः प्रमज्यने । * श्लोकवातिक २२८-२२९ पृष्ठे। श्लिोकवातिके २२९-२३० पृष्ठयोः । ६ ४० ] वातिकालंकारः (३॥३३०) द्विचन्द्रादिपु तुल्यञ्चदिन्द्रियाप्राप्तितो हि सः ।। तत्रानालम्बनोक्तिः स्यानार्थसम्बित्त्यभावत: ।* इन्द्रियेण चक्षुरादिना प्राप्तं गृह्णाति बुद्धिरिति निरालम्बनतोच्यते। द्वि- चन्द्रादिबुद्धः। न तु तवालम्बनमेव । एकचन्द्रप्रतिपत्तिरासीवस्य प्रागिति तेन सम्प्रयोगेण इन्द्रियेण यस्येत्यनालम्बना। न तु सर्वदाऽर्थ एव नास्ति। एकचन्द्र- दर्शने सति तद्विपर्यये नालम्बनत्वमिति कारणमनालम्बनत्वप्रतिपत्तेः । एतदेव वर्शयति। सर्वत्रार्थन्द्रियाणां न: संयोगः सदमत्तया । (c. 51b) सम्वित्तो विद्यमानायां सदसद्ग्राह्यताम्थितिः । भव्य मिन्वन्द्रियादीनामभावाद् ग्रहणादुते । नाल'म्बनत्वहेतुः म्याग्निपेधो[? धः]तेन। युज्यते ।। निरालम्बनाः प्रत्यया इति। तदेतदलीककल्पनामलमलीमसञ्चेतः परेण साद (?) ज्ञानमाविष्कृतमिति महती मोहस्य महीयस्ता। तथा हि (-) निगलम्वनशब्दम्य स्वाङगालम्बाभिधेयता । प्रसिद्धा चेत्प्रमाणन दूषणं दूषणं कथम् ।। परकल्पितबाहयग्राहघालम्बननिषेधन स्वांगालम्बन एवायं शब्दः प्रयुक्त इति प्रकरणादितः प्रतीतिः। अन्यथा शब्दावन्यप्रतीत्यभावात् । तत्र शब्दावय- मर्थः प्रतीयते लोके कथमस्य निरूपणमशक्यं । ननु न तस्यापि वाचकाद्वाद्यान्तराच्च भेद इति कथं शब्दार्थमात्रस्य धर्मि- त्वमित्युक्तं । सत्यमुक्तमयुक्तन्तूक्तमिति किन्तेन । नेदमिदानीमेवाद्वतमायातंयतो भेदो न स्यादपि तु भिन्न एव प्रत्ययान्तरेभ्यः परस्परञ्च । तत्र घटशब्दावन्यः प्रत्ययो- ऽन्यश्च घटः शब्दादित्यादि । शब्दाश्च गृहीतमेवार्थ प्राक् स्मरणविषयतामुप- नयन्ति । तत्र ये ते प्रत्यया नीलाद्यालम्बनत्वेन भवतः " प्रतीतिगोचरास्ते निरा- लम्बना इति परमावबोधयतः किमयुक्तं । यदि कश्चिदनग्निकमेव धूमं प्रत्येति स किमेवं न वक्तव्यः, त्वयाऽनग्नित्वेन यः प्रतीयते धूमः स तथा न भवतीति । कुतो वा दोषसम्भावना वक्तुः (c. 52a)। अथ साग्नित्त्वेन पूर्वदृष्टेन स बोषयेतं शक्य इह इतु कथं। इहापि निरालम्बनं तमि (रि)कज्ञानं सिद्धमेव बाहपस्यासम्भवात्। तत्रापि गगनमालम्बनमिति चेत् । यथा तहि केशालम्बने *इलोकवातिके २२९-३० पृष्ठयोः । भिवत इति भोट भाषान्तरे । निषेधोतो न-इति हे. पुस्तके । .
१३-विज्ञप्तिमात्रता [ ४१ गगनमालम्बन तथा गगनालम्बनपि अन्यदेव । प्रतिभासमानस्यालम्बनत्त्वा- भावात्। प्रतिभासमानमेव गगनप्रत्यये आलम्बनमिति चेत्। इहाप्यस्त [?स्तु] केशप्रत्यये सर्वत्र विपरीतख्यातिस्मृतिसंप्रमोषः । लौकिकत्वादिकल्पना न वा क्वचिदिति एकान्त एषः ॥ अथ सालम्बनमेकचन्द्रज्ञानमुपलब्धवतो द्विचन्द्रविज्ञानं निरालम्बनमिति युक्तं । एकचन्द्रविज्ञानन्तु कथं। तदपि तज्जातीयत्वादिति प्रतिपादितं । बाधि''तत्वा- दिति चेत् । तत्रापि बाधितत्वमिति प्रतिपादितम्। न चाप्रतिभासमानमालम्बन- मिति प्रतिपादयिष्यामः। ज्ञानत्वञ्च नीलादेः प्रतिपादयिष्यते। यथा च केशादि- ज्ञानमाकाशादीनामालम्बनं तथा नीलरूपं ज्ञानं पीतमधुरादिना सालम्बनमिति प्राप्त। कथं रसाधनालम्बनत्वेन सिद्धसाधनं रूपज्ञानस्य। अथ रश्मितप्तोषर- मन्तरेण न भवति जलज्ञानं रसादिकमन्तरेणापि किम्भवति ह"पविज्ञानं । भवति च सत्यजले तप्तोषरमन्तरेणापि जलज्ञानं । विशेषस्तत्रेति चेत् । (c. 52b) परस्परस्य विशेषाद् द्वयमप्यनालम्बनमन्यथा चेति प्राप्त। भवतु द्वयमपि सालम्ब- नमिति चेत् । यदि प्रतिभासमानेन रश्मितप्तोषरमित्यादि न वक्तव्यम्। अप्रति- भासमानमालम्बनं कारणत्त्वेनेति चेत् । वासना भविष्यतीति सिद्धमस्मत्समीहितं । प्रतिभासमानमेव तहि भवतु किमन्येनेति चेत्। प्रत्यक्षानुमानयोर्भेदाभावप्र- सङ्गात् । प्रतिभासमाने सकलं प्रत्यक्षमेव । भ्रान्ताभ्रान्तविभागश्च न स्याल्लोकप्रसिद्धिभाक् । स्वरूपे सर्वमभ्रान्तं पररूपे विपर्ययः । प्राप्ते: सालम्बनत्वञ्चेत् प्राप्ति स्तीति साधितं । मरीचिकाजलभ्रान्तेः प्राप्तिः स्यादपि तद् भवेत् । सर्वदा नास्ति मर्वत्र सर्वदा नेति दृश्यते ।। अविनप्टेषु भवेदेव विनागी स कथम्भवेत् । प्रत्यभिज्ञानिरम्नव तत": मवं समंजसम् । तत्मात्प्रत्यक्षानुमानाभ्यां प्रतीते सकलमनालम्बनं । उक्तः शेषः ।। एवं परपरिकल्पितं विशेषणमनूद्य. यदि तन्निराक्रियते क इवात्र दोषः । अनेने- वमपि निराकृतं। यदाह । बहिर्भावाप्रमिद्धत्वातंनानालम्बना मतिः । कथञ्च माध्यते नैप पक्षो हि ज्ञायते यदा ॥* तथा हि (-) * श्लोकवानिक २३०-२३१ पृ.
४२ ] वातिकालंकारः (३॥३३०) यथार्थ (न्य)बोधनाशक्ने प्रसिद्ध विशेषणे ॥ पक्षसिद्धिस्तथैव स्याद्विशेषणविशेष"णे ॥ नाप्रमिद्धे पदार्थे हि वाक्यार्थ: संप्रतीयते । तत्पूर्वकत्वात्पक्षर पक्षश्च वाक्यार्थः स्थापयिष्यते ॥* मत्वर्थस्य साध्यत्वमिति स्थापयिष्यत इति । तदेतवसदेव। (c. 53a) येनैव बाहयमालम्बनमसिद्धं परमार्थतः। परेण केवलमभ्युप गतं । तत एव निषिध्यते। भान्तिनिरासाय साधनप्रवृत्तेरित्येतत्पर- चात्प्रतिपादयिष्यते। प्रमाणप्रसिद्धस्य तु कथमभावः साध्यः स्यात् । प्रमाणस्य बाधनद्वारेणे"ति चेत्। न। प्रमाणस्य प्रमाणेन बाधनायामनाश्वासेन प्रमाणतो- च्छेवप्रसङगात् । न विरुद्वाव्यभिचारी नाम सम्भवतीति प्रतिपादयिष्यामः। 8b देशकालादी दृष्टस्यान्यत्र निषेध इति चेत् । न प्रागभावात् । नहि देशान्तरादौ यदृष्टमन्यत्र कल्प्यते । भ्रान्त्यभावेन तत्रास्य वृक्षभावस्य साधनं । अथ कुतश्चिच्छास्त्रादन्यतो वा प्रमाणाभावादन्यत्र कल्पना। नहि भ्रान्तयो न दृश्यन्ते। एवन्तहि प्रमाणदृष्टे या भ्रान्ति'र्देशादी क्वचिदेव सा । निवर्त्यते प्रमाणेन भ्रान्तावेव तु काऽक्षमा ॥ या हि कदाचिभ्रान्तिः सा निवर्त्यते। या तु पुनरसन्ती सा किनिवर्तयितव्या। तनिवर्त्तने महान् पुरुषकारः। ननु साऽन्यत्र बाधकप्रमाणोपदर्शनेन निवर्त्यते। यवा तु सदा भ्रान्तिरेव सा कथनिवर्तयितव्या। बाधकाभावाच्च कथं सा भ्रान्तिरित्युच्यते । तवप्यसत् । यतो बाधको नाम नास्त्येव । तथा हि बाधक: किन्तदुच्छेदी किम्वा ग्राह्यस्य हानिकृत् । ग्राह्याभावे ज्ञापको वा त्रयः पक्षाः परः कुतः ।। यदि बाधको बाध्य (c. 53b)प्रत्ययाभावं करोति तवालम्बस्य वा। तवा तज्जातमजातं वा। अजातस्य कथन्तेन तस्याभावो विधीयतां । न जातु खरशृङगस्य ध्वंस: केनचिदाहिनः ।। जातस्यापि न भावस्य तथाभावो विधीयते । तदस्तिहेतोः तन्नास्ति बाधकादिति साहसम् । *इलोकवातिके २३०-२३१ प.
१३-विज्ञप्तिमात्रता [ ४३ यय [?दि] जातोसो भावः केन तस्याभावः क्रियते। देवरक्ताः किंशुकाः ।। क एनानघुना रञ्जयति। अथ जातः कारणात्तथा सति यथा जातः तथास्ति कथं विनाशावेशः। तथा सति तदेव नष्टं तदेव सदिति महदसमञ्जसं । अथ यथा न जातस्तथा विनाश्यते। तथा सति। अन्यरूपेण जातस्य यद्यन्येन विनाश्यता । नीलादेरन्यपीतादिरूपेणास्तु विनाश्यता ।। न च तस्य तद्रूपमिति त एव देवरक्ताः । तेन च स्वरूपेणासो पश्चाद्धि (वि)नाश्यतेऽथ सर्वदा । यदि पश्चाद्विनाश्यत पूर्व तद्रूपता भवेत् । तेन रूपेण जातस्य कथं पश्चाद्वि नाशनं । तदैव तेन रूपेण जातं पश्चाद्विनाश्यते । पश्चात्तद्रूपनास्तित्वे देवरक्तः स किशुकः । पूर्वमेवास्यनाश(श्च) कारणादेव तत्तथा । नाशकेन परं कार्य किमस्येति निरूप्यताम् । एतवालम्बनविनाशेपि समानं । तथा हि। यथा स जातस्तेनास्य रूपेण न विनाशनं । यथा न जातस्तेनापि न रूपेण विनाशनं । व्यर्थकत्वादशक्यत्वात्प्रमाणेनाप्रतीतितः । अस्यार्थस्य कथन स्यात्कल्पनापि सचेतसाम् । अथालम्बमाभावं ज्ञापयति बाधकः। तदप्यसत् (c. 54a)* यदा न दृश्यते भावोऽदर्शनन्तस्य बाधकं । तदा भावाप्रसिद्धौ च नाभावः सविशेषणः । विशेषणाप्रसिद्धौ च बोधशक्तिः कथम्भव[? वेत् । विशेषणमथान्यः (म्यात्) सिद्धमत्रानुवादवत् । भावरूपं हि तनत्र नाभावस्य विशेषणम् । तदेवान्यत्र नास्तीति यद्यवं प्रतिपाद्यते । *गड-छे होम्दे मथोङयुर्व । दे-छे मेद्-पर तोंग्स् म-यिन् ॥ (यदा स दृश्यते भावो नाभाव प्रत्ययस्तदा।)-इत्यधिकः पाठो भोटभाषांतरे ।
४४ ] वातिकालंकारः (३३३३०) तथैव प्रतिपन्नस्य निषेधोस्य किमर्थक: । अन्यथा प्रतिपन्नस्य तथा पि न निषेधनं । प्रागुक्तमेतदेवेति न पुनः पुनरुच्यते । न दृश्यते यदा भावः तदा न स्यानिषेधनं । स्मृत्याव्याकृत्य तत्रास्य क्रियते चेन्निपेधनं । स्मृत्यानुरूपग्रहणे न कथञ्चिनिषेधनं । स्मृत्या स्वरूपग्रहणे नाभावम्य विशेषणम् । अथ स्मृतो विकल्पे वा यदेव प्रतिभासते । तनावन्मात्रमेवास्ति बाह्यरूपं न विद्यते । एवं तहि लोकप्रतीतावन्यत्र यद्वामिति भासते । तत्तावन्मात्रमेवास्ति' न तु तत्तत्त्वमीक्ष्यते । प्रतीनिमात्रमालम्बो न तु तद्वाह्यमीक्ष्यते । स्वप्नादिप्रत्ययभ्योस्य विशेषग्रहणन्नहि । प्रतीनिमात्रकादस्य वामना च न निमितान् (1) न विशेषपरिच्छेद इत्यनालम्बना मतिः । कथन्तहि बाध्यबाधकभावप्रतीतिः। प्रतीयमानस्यकत्वं भाविनारोप्य तत्र च । बाधकप्रत्ययापाते तन्मध्ये बाधकस्थितिः । बाधको यदि नायं स्यादेवमेव भवेदयम् । अविच्छिन्न(c. 54b)स्ततश्छेदकारणम्बाधको मतः । तथा हि कालान्तरस्थायिता सकलस्य भावस्य। तत्कालमध्य एव यवा- ऽपरस्वरूपनिरूपणापरः प्रत्ययो भवति । तदा तेन विच्छिन्नं पूर्वकमालम्बनं प्रत्ययो वाऽध्यवसायविषयः। तेन स बाधको व्यवस्थाप्यते। तथा हि य(त् ) स्वयं न स्यात्तदाऽविच्छिन्नमेव पूर्वकविज्ञानालम्बनं भवेदन्यकालवत् । ततो ऽन्वयव्यतिरेकाभ्यां बाधकेन विच्छिन्नमिति गम्यते। एवं विनाश्यविनाशकभाव आलम्ब्या (म्ब्या)लम्बनभावश्च । तथा हि परोक्षे भाविनामर्थे विनिश्चित्य घटादिके । तदाकारोदयज्ञानन्तदालम्बनतास्थितिः । स्वच्छं स्फटिकवज्ज्ञानं यो यस्तत्रापचीयते । तं तमाकारमासाद्य तच्चकास्ति तथा तथा ।
१३-विज्ञप्तिमात्रता [ ४५ s(अ)परोलस्तावदस्तीति (कु)तश्चिदागमादनुमानतो वावसितः स्वच्छञ्च विज्ञानं । यदि न स्यादयमर्थः परिप्लवेनैव केवलं किमस्ति किमत्र नास्तीति । परिदृष्टे चार्थात्मनि प्लवमान इव तोरमासाद्य स्थिरीभवति तेन तबालम्बनमिति व्यवस्थाप्यते । तथा हि। चिन्ताव्यापृतचेतस्क: प्लवमानेन चेतसा । इदं तदा दृष्टमिति पूर्वदृष्टे स्थिरीभवेत् । वृष्टश्रुतविस्मृतं हि विकल्पयन् किं किं दृष्टं तत्र प्रपञ्चकथायां श्रुतम्वेति पर्यन्वेषणपरो यदा यथाश्रुतादिकमभिमुखीकरोति तदाभिमुखीकृते स्थिरत्वेन तत्र प्लवमानतापरित्यागनिमित्तमालम्बनतया(c.55a)व्यवस्थापयतीति लोकव्यवहारः। तत्त्वमेव किमेवं चेत्" न भवत्यस्य वस्तुनः । न प्रत्यक्षानुमानाभ्यामप्रतीतेरवस्तुता। न तावत्परोक्षस्य सत्ता प्रत्यक्षेण प्रतीयते। तदभावादनुमानमपि नेति नमः । सति परोक्षप्रतीतौ सद्भावे तदालम्बनता प्रत्यक्षस्य सिध्येत् । नालम्बनतायाञ्च प्रत्यक्षस्य वस्तुसम्बई सिध्यति। ततोऽनुमानं तत्प्रतिबद्धवस्तुलिङगोदयावस्तु गमति ततोऽनुमानप्रसिद्धवस्तुविषयत्वात्सालम्बनं प्रत्यक्षं ततो वस्तुसम्ब". न्धोऽनुमानस्य. ततो वस्तुगतिरिति चकमव्यवस्थापि भवेदिति न वस्तुप्रति- पत्तिसम्भवः॥ एवमप्रतिपन्ने हि वस्तुन्युपगमः परं । प्रमाणरूपाविज्ञानात्पूर्वसम्वित्ति वस्तु (?) सम्भवात् । तत्प्रतीत्यनुसारेण विशेषणविशेष्यता । मया प्राक् प्रत्यपादीदं तद्रूपामर्थवर्णनात् । त्वया वा पुनगमशे(?)कथमसस्त्वस्य वेदनं । एवं निरूपणायाञ्चेत् स तथा नास्ति तत्त्वतः । नाम्त्येव नत्र को दो पो यतः पर्यनुयुज्यते ।। बाध्यबाधकभावश्चेत् प्रतीत्योः परपूर्वयोः । स्वप्रतीतो कस्य दोपो येन पर्यनुयुज्यते (1) आत्मानमेव कि कश्चिदनुयुञ्जन् प्रवेद्यते ।। भ्रान्तिरेव क्रमम्नस्मानात्मोपमात्वयोगभाक् । भ्रान्तित्वे वासिते (c. 55b) त्वत्र कारणान्वेषणेन किं ।। परोपि प्रतिपाद्येत यदैव स्वपरिस्फुटं । तदा मोपि नवक्त्येव कुतो मे भ्रान्तिरीदृशी ।
वातिकालंकारः (३३३३०) पवा हि भ्रान्तिसम्भवे स्वयं परामर्शवतः पुन"रसौ निवर्तते नेदं रजत- मिति तदा किमात्मनः पर्यनुयोगं कश्चित्करोति (-) कथमहमप्रतिपन्ने रजते तविशेषणमभावं प्रतिपाद्ये विशेषणे चाप्रसिद्ध कथन्तद्विशेषणे चाप्रसिद्ध कय- न्तविशेषणं परोक्ष जानीयां। येन मम पक्षदोषो न भवेत्। परप्रतिपादनेप्येव- मेव॥ भ्रान्तिनं तु ननु तत्र सत्यरजतदर्शने सम्भवति भ्रान्तिरिह पुनर्न किञ्चिद् दृष्टमिति कुतो भ्रान्तिः एतदुत्तरत्र प्रतिपादयिष्यामः । अपि च। भ्रान्तिश्चेत्परमार्थेन कपश्चिदवगता किमिवानी भ्रान्तिकारणान्वेषणप्रयासेन । यदि कारणं नास्ति मान्तिरेव न भवेत् । नेतदस्ति। कारणे सति न भ्रान्तिः परमार्थेपि कारणम् । सकारणत्वाद् भ्रान्तिश्चेत्तदापीप्टं विहन्यते ।। न कारणमस्तीत्येव भ्रान्तिः। अन्यथा सर्वा भवेद् भवतो भ्रान्तिः। अभ्रा- तावपि पर्यनुयोगेन भवितव्य "मेव कुत इव भ्रान्तिः। तथाप्रतीतेरिति चेत्। भ्रान्तावपि *[न (c. 32a6,7) मानमेतत् । अभ्रान्तिपून्विका भ्रान्तिश्चेत् । यदि 9a कथञ्चिभ्रान्तिीम नास्त्येव कारणाभावात्किन्न भ्रान्त्या भवितव्यम् । भवतु कथं प्रत्येतव्या।अभ्रान्तिविपर्ययेन (ण) हि भ्रान्तिरिति व्यवस्थाप्यते । समानमितरत्रापि भ्रान्तिविपर्ययेणाप्यभ्रान्तिरिति। (c. 33b) अथ विधिरूपेण भ्रान्तिविपर्ययेण ॥ भ्रान्तिस्तु बाधके सति । ततो विपर्ययादेवाभ्रान्तिरिति । तवप्यसत्। विधि रू' पेण यद् दृष्टं तदेव हि तथेयते (।) न बाह्यविधिरस्तीति भ्रान्तिस्तत्रेति निश्चयः ॥ अथ यत्र कारणं सा भ्रान्तिरिति नोच्यते। या भ्रान्तिः सा कारणम्बिना न भवतीति । एवन्तहि सविशेषणो हेतुः । भ्रान्तिकारणसद्भावाद् भ्रान्तिर्भवति नान्यथा । ज्ञाते च भ्रान्तरूपत्त्वे तत्कारविनिश्चयः । सविशेषणे हि हेतौ भ्रान्तिः प्रथमं ज्ञातव्या. पुनः सापि भ्रान्तिः कारणा- दिति. अनवस्था। तस्मायेन रूपेण सा भ्रान्तिस्तद्रूपविज्ञानादेव व्यवस्था कारणं भवतु मा वाभूत् । स्वरूपेण हि भावो भवति न कारणरूपेण । तत्स्वरूपं कुत इति * इतोऽग्रे बन्धनीस्थः पाठः (c.33a6-34a3) पृष्ठयोः स्थापितः प्रमादेन । ।
१३-विज्ञप्तिमात्रता [ ४७ चेत् । किमनेन। इयमपि भ्रान्तिस्वरूपप्रतिपत्तिर्धान्तिन्नं भवतीति कुतः। यथेयं प्रतिपन्ना तथा यदीयमपि भवतु को दोषः। पूविका न भ्रान्तिरिति चेत् । तदप्य- सत्। रजतप्रतिपत्तिः स्यात् शुक्तिकाप्रत्ययक्षये । शुक्तिकाप्रत्ययस्यापि यद्यन्यः क्षयकारकः ।। ततः किं सत्यता तस्य प्रत्ययस्य भवेत्पुनः । रजतग्राहिणः किम्वा द्वयं नास्तीति नेक्ष्यते । अथापि (c. 34a1-3) सत्यता क्वापि प्रतीता यदि तद्भवेत् । तत्रावष्टम्भसद्भावादितरत्र विपर्ययः । बाधकप्रत्यये हि स्यादितरत्र विपर्ययः । बाधको यदि नास्त्येव तद्विपर्ययप्रत्त्यये ।। विपर्ययस्यासद्भावं कस्तदा प्रतिपादयेत् । अत्रोच्यते। यदि विपर्ययवित्तिरथान्यथा कथमिवाभवनम्य विनिश्चयः । अनुपलब्धिकृतोथ विनिश्चयः किमपरेण विनिश्चयकारिणा । विपर्ययोपलब्धि'श्चेत्तम्यासिद्धिन्निकच्यते । स्वसम्विन्मात्रमेवास्तु वाह्यस्याम्विदा ततः । ] तस्मादनुपलब्धिरेव बाधकं प्रमाणं नापरमिति न्यायः । सा चात्राप्यस्तीति. कथं सालम्बनम्विज्ञानमिति । ततोऽवेद्यवेदकानाबुद्धिः। यत्पुनरुक्तं मत्वर्थनिरासः साध्यत इति तदप्यत्यन्तमयुक्तं । (c. 56a) मत्वर्थाभाव एवात्र माध्यतं परमार्थतः । निगलम्बन (त्व) साध्यमन्यथा न भवेनदा । निरालम्बनं विज्ञानमिति। आलम्बनत्वस्याभाव': साधयितुं प्रस्तुतो येन कथन्तस्य स एव साध्य इत्युपरि निक्षिप्यते। इच्छया हि विषयीकृतः पक्षः स कथमन्यथा क्रियेत। यो यः साधयितुमिष्टः स एव पक्षः । अथ स तथाभूतः साध- यितुमशक्यः। तथा सति हेतुदोष एवासौ न पक्षदोषः। अभाववत्त्वेन साधने मत्वर्थ एव। ननु पारमार्थिकमत्वर्थसाध्यतायां प्रमाणमस्ति। कल्पितस्य धर्मिधर्मभावस्या- श्रयणात् । अन्यव्यावृत्तिद्वारेण स्वभावभूत' एव धर्मों व्यतिरेकेण व्यवस्थाप्यो- ऽर्थवत्तया कल्प्यते तत्र यद्यपि नामायं संवृत्या व्यवहारः तथापि न तावता मतिः।
४८ ] वातिकालंकारः (३३३३०) गज नि मी ल ने न तावदयं व्यवहारः प्रवर्त्यतां । पुनरयमपि निरूप्यमाणो विशी- यंत एव। ननु केयं सम्वृतिः। यदि वस्तु तदेव वक्तव्यम्। किन्तत्र नामान्तरेण । अथ नास्ति किञ्चित्तदा सम्वृतिरिति किन्नामान्तरेण । सत्याभासः परन्तत्र न तत्त्वं परमार्थतः । विचार्यमा' णशून्यत्वे स म्वृ तिः सेति गीयते ॥ तत्त्वसम्बरणात्सम्वृतिः । प्रतिभासमानं हि रूपमसदिति न तावता युक्तं । विचार्यमाणतायां पुनरसत्वादभावनिश्चयः। ततः परमार्थापेक्षया संवृतिरुच्यते । संवृत्यास्तीति (c. 56b) भ्रान्तजनापेक्षयास्तीति । न च भ्रान्तस्य बाधकोदय इति सत्यतयाऽभिमानात्संवृतिसत्यन्तदुच्यते। तत इदमपि वक्तुमेव । अभावे भ्रान्तता केयं भावश्चेद् भ्रान्तता कथम् । अतत्त्वभासो' भ्रान्तिश्चंदतत्वे सम्वृतिन्नं किम् ॥ अतत्त्वे सत्यता नो चेत्सत्याभामो भवेन्न कि । ततः संवृतिसत्यत्वं मत्याभासत्वमित्यपि ॥ वञ्चनोक्तिः कथन्तरयान्तालावक्रामवादिवत् ।। यस्य सत्यावभासित्वमसत्येप्यसमञ्जसं । तस्यावभासित्त्वकथने (भवेत्) कैव वञ्चना । तस्मात्पगशयाज्ञाने स्वात्मोत्कर्षाभिधित्सया । प्रलाप: केवलन्तस्मादन्या नाम्त्येववञ्चना ।। तदास्तान्तावदेतत्। अन्यदुच्यते। यदव परेणोक्तं . पर्युदासे निषेधे वा व्यतिरिक्तस्य वस्तुनः । प्रमेयत्वाद्यभेदेन जगतः सिद्धसाधनम् ।* प्रमेयत्वेन व्यतिरिक्ततव नास्ति सम्वेदनात्सर्वस्य जगतः । व्यतिरिक्त- स्यालम्बनस्याभावात्। सिद्धमेव साधनं । यदि चात्यन्तभिन्नेन निरालम्बनतोच्यते । कथञ्चिच्चेत् विरुध्येत प्राक्पक्षः कल्पितेन ते ।* वस्त्वाद्याकारभेदेन धीनिरालम्बनेष्यते ।। ग्राहकाच्चेदभिन्नत्वं शक्तिभेदो विरुध्यते । निरालम्बनबुद्धेश्च यद्युत्पत्तिः प्रसाध्यते । दृष्टत्वात्सेष्यतेऽस्माभिर्बाहयग्राह्यविवजिता । * श्लोकवातिके २३१-३२ पृ० ।
१३-विज्ञप्तिमात्रता [ ४९ सम्यक्त्वं पुनरेतरवास्त्वं नेच्छसि कथञ्चन । आत्मांशेऽवसिता ह्येषा मृगतृष्णाम्बुबुद्धिवत् । चैत्यादिप्रत्ययानाञ्च निरालम्बनता यदि । धर्मभूता न गृह्येत साधनोत्थितया धिया । ततो विषयनानात्वात्प्रतियोग्यनिराकृतेः । रूपात्तत्राल (म्ब)नप्राप्तिः सती (c. S71) केन निवार्यते । यदि प्रत्ययशब्दोपि प्रत्ययत्वेन गृह्यते । सम्वित्त्यालम्बनत्वञ्च वार्यते सिद्धसाधनम् । बुद्धयुत्पादनशक्तिश्चेद्वार्या साध्यन्न सिध्यति । साधनस्य प्रयोगे हि बोधकत्वाद्विना न ते । न चाभिधास्त्यसम्बद्धादते भेदाच्च नास्त्यमौ । न चासौ तद्गतम्भेदं बोधयन्त्या धिया विना । प्राश्निकै गृहीते च वाक्ये मावयवे पृथक् । पक्षे हेतौ सदृष्टान्ने वादिनि प्रनिवादिनि । साधनस्य प्रयोगः स्यातदुत्पत्त्येप्यते यदि । पूर्वाभ्युपगमेनैव प्रतिज्ञां वाध्यने 12 इति सकलं यत्किञ्चिदेतत् ॥ यतः (--) विज्ञानाद्वयतिरिक्तेन निगलम्बनमुच्यते । न च नीलादिको बोधात्तद्धर्मापि ततोऽपृथक् । यद्यपि ज्ञेयवादिनाऽस्य धर्मेण तद्धर्मत्त्वमभे (?द)स्तथापि ज्ञानत्वस्याभावा- द्वपतिरक्त एवासौ। नहि मनुष्यत्वयोगेपि ब्राह्मणादव्यतिरिक्तो भवति चण्डालः । ततो विज्ञानमप्यत्र व्यतिरेकिणालम्बनंन न सालम्बनमिति ज्ञानत्वरहितेनेति गतिः।" प्रमेयत्वञ्च याव्यतिरिक्तं प्रमेयात्ततो विज्ञानादस्य भेव 9b इति कुतः सिद्धसाधनं । प्रमेयत्वादभेदश्चेत् मम्वेदनतदन्ययोः । सम्वेदनात्तदन्यत्त्वं नास्त्येव ज्ञानमेव नन् । अत्यन्तभिन्नापेक्षायामनालम्बनमाधने । सिद्धसाधनता कस्मादबोधत्वेऽतिभिन्नता ।। यदि केनचिदप्याकारेण भेवः सर्वदा भेद एव भिन्नाभिन्नस्य (c. 57b) बष्टुमशक्यत्त्वात्ततो भिन्नस्यात्यन्तं भेव एव तदालम्बनत्वं स्वांगालम्बनत्वमेव' तदा ।* प्रकरणाद् गतिः।" * श्लोकवातिक प० २३२-३८ क्वचितपाठभदोपि ।
५० ] वातिकालंकारः (३३३३०) " केवलन्ततः कथं सिद्धसाधनता। ज्ञानाकारतया चाभेदे ग्राहघस्य भवत्ववान्तरभेदः, तथापि तद्व्यतिरिक्तालम्बनमेव । वोधरूपग्य मद्भावे हयो: मालम्बनं कथं । द्वयोरपि न बोधन्वे नदग्नि मुखदुःग्ययोः ।। ग्राह्यग्राहकोंदटचेन् कथम्बोधादभिन्नयोः । मितनीलादिभेदश्च न कम्याभेदनास्तिता ।। मुखदुःग्वादिभेदीयं यथा बोधान्मनोगपि । सितनीलादिभेदोपि न न ग्राह्यतरात्मवित् । यथा सुखदुःखयोः तत्व दो बोधत्त्वादभेदेपि तथा सितसातात्मतयापि भेदे को विरोधः। ग्राहयग्राहकाकारात्मता तु न प्रतिभात्येव। नहि सितसातादि- व्यतिरेकेण ग्राहकादिता प्रतिभासमानोपलभ्यते॥ तस्माद् ग्राहकादिव्यपदेशो दुरात्मभिः स्वमनीषिकाविप्रणष्टरुपाक्षिप्तः । निरालम्बनबुद्धश्च यद्युत्पत्तिः प्रसाध्यते । स एव पक्षः प्राक्पक्षात्कथम्भेदेन दर्शितः । सर्वा बुद्धिन्निरालम्वा सर्वोत्पत्तिमती तथा । नानयो: साधने भेद: कथन्धर्मो न साध्यते । धर्मभूतैव साध्येयं साधनोत्थितया धिया । बुद्धौ सालम्बनत्त्वं स्यानिगलम्बतया क्षतम् । यदाहि यदा निरालम्बना सर्वा बुद्धिरुदयवती साध्यते। तदार्थतो निरा- लम्बनतैव धर्मभूता साध्यते । (c. 58a) तथा सति सालम्बनता भ्रान्तिवशाद- भ्युपगम्यमाना निराक्रियत एव। कथं साधनोपन्यासो व्यर्थः । प्रत्ययशब्बे तु प्रत्ययशब्दो न वर्तत एव प्रकरणादितिप्रतिपादितं । ततः सिद्धसाधनता कय- मसम्वेदनात्मत्त्वाच्छम्बस्येति। बुद्धपुत्पादनशक्ति निषेधस्तु नाभिप्रेत एव । येन साधनव्यर्थता भवेत् । नहि बुद्धिरेव नोत्पत्तिमती। निरालम्बनवावस्यायमर्थः । ननु यदि बुद्धिरुदयवत्यपि निरालम्बना किन्तयोत्पन्नयापि । अथ साल- म्बना तदा तयवानकान्तिकत्त्वं (1) तदप्यसत्। अन्यापोहस्य साध्यत्वात् व्यावृत्तिः परवञ्चिते । क्रियते साधनेनेति व्यर्थकं साधनं कथम् । निरालम्बना सकला बुद्धिरिति प्रमाणेन केनचित्प्रतिपत्तव्य एषोऽर्थः। कथमन्यथा साधनोपन्यासः। ततश्च साधनानिरालम्बनबुवेरपि निरालम्बन- १३-विज्ञप्तिमात्रता [ ५१ तैव साध्यते। तस्या निरालम्बनत्वे कथं निरालम्बनत्वसिद्धिः । नानुमानस्य सम्बादेन प्रामाण्यात् न सालम्बनत्वेन। सालम्बनता नास्तीति कथं सम्वादः । आलम्बनस्यानुपलब्धः । नास्तीति बुद्धः कथं सम्वादो यदि दृश्यानुपलब्ध्या पश्चात्तदासौ पदार्थो नोपलभ्यते॥ एवञ्चेदनालम्बनापि बुद्धिस्तत्त्वनिश्चय- निबन्धनम्। ततोन्यापोहबोधक एव साधनप्रयोगो नाबोधकः । (c. 58b) ततोन्यापोहेपि शब्दार्थे सम्बन्धोस्त्येव पदार्थानां । भेदोपि काल्पनिकः। पश्चाच्च सावयवः संवृत्त्या भवत्येव भेदग्रहणविषयः । वाविप्रतिवादिनोर्मेंदग्रहणं किं प्रथम- मेव विशीर्यते। तदपि च पश्चात्स्वप्नवदेव निरालम्बनन्तदा च निवृत्ते कार्ये किमिदानीमसिद्धतादिचोद ना करिष्यति। अपि च। प्रतिपादितमेव तत्पुरस्ता- दिति किमनेन चोदितेन । स्त्रीशूद्रविस्मापनमेव दुष्टैस्तत्वानभिजर्गदितम्बगकर (:) न तत्त्वबोधस्य पुनः पुरस्तादयुक्तियोगि प्रलयं प्रयाति ॥ तस्मादभ्युपगम्यापि भेदप्रपञ्चपक्षादिकं गज नि मी ल ने न पुनः परामर्श प्रक्रमेण तवभावसाधनेन दोषः। नन्वहं स्वप्रतिभासमेव केवलं प्रतिपद्ये. इति प्रतिपादयन्परप्रतिपत्ता बाध्यते परेण तदा प्रतीयत एव । ततः कथं स्वांगालम्बना सिध्यति बुद्धिः । तवसत्। परेण प्रतीयते इति नात्र प्रमाणमिति प्रतिपादितं। प्रा श्नि का- नामपि स्वांगमात्रकादपरत्र नास्ति प्रतीतिः। इति निरालम्बनवचनावस्यैव प्रतीतिस्ततः कुतः प्रमाणादेषा तव प्रतीतिर्भेदग्रहणमन्तरेण प्रा श्नि का नां न साधनवृत्तिरिति । अथ ये भेदप्रतीतिमन्तो न भवन्ति ते न प्राश्निका इति ॥ तदसत्। ये तत्वं प्रतियन्त्यत्र तेषां प्राश्निकता" न चेत् । अतत्त्ववेदिनां नैव प्राश्निकत्त्वेधिकारिता ।। अथकपक्षपातेन प्राश्निकत्वं न विद्यते । पक्षपातविनिर्मुक्तः कुत एव भविष्यति ।। परस्परविरुद्धं हि द्वयम्बोद्धममांप्रतम् । एकैकबोधादेकत्र पक्षपातस्य मम्भवः ।। (c. 59a) तनः प्राश्निकयोरेव परम्परविरुद्धयोः । विवादे प्राश्निकरन्यर्भाव्यमित्यनस्थितिः ।। वादिनः प्राश्निकत्त्वञ्चेदितरेतग्मंश्रयः । तयोरपि यतो ननं पक्षपातः स्वपक्षिणि ।।
५२ ] वार्तिकालंकारः (३॥३३०) तस्मात्प्रमाणपातत्वे नियताभ्युपगम्यता । यत्तु प्रागभ्युपगतं तद्विरोधि तदस्य ते । प्राश्निकानां यदा पक्षवादिप्रतिवादिष भेदबुद्धिः । तथापि यद्यसौ वादिवचनाद्विपति प्रमाणबलायातान्न तत्र तबिरोद्धव्यम् । स्वबुद्धचा निरूपयतां तेषां यदि तत्परिशुद्धं भवति कस्तत्रानभ्युपगमे हेतुः। ततः पूर्वाभ्युपगमेन यथा कथञ्चिदस्य वाचा। नन्बनेन प्रमाणब'लेनापि पूर्वस्येति किमिदमनलसमप्युच्चरच्यते ॥ यत्र सत्याभिमानोस्ति सा निरालम्बना मतिः । इति पक्षे विरोध: किन्तत्मत्यत्त्वमनिच्छतः । अथापि स्यात् । "धर्मा*धर्मादिबोधे च नासिद्ध परमार्थतः । शिष्यात्मनोश्च धर्मादरुपदेशोऽवकल्पते । तदनुष्ठानतो बुद्धरिप्टो भेदः स्फुटञ्च तैः । सूत्रान्तरेभ्युपेतत्वाद् भवेदागमवाधनम् । सर्वलोकप्रसिध्या च भवेत्पक्ष' रय बाधनम् । कृत्स्नसाधन" बुद्धिश्च यदि मिथ्येष्यते ततः । साभावो यथेष्टम्वा न्यूनता द्यभिधीयते । तेषां सालम्बनत्वे वा तैरनेकान्तिको भवेत् ।। तदन्यस्य प्रतिज्ञा चेत् तदन्यप्रत्ययो मृषा । (c. 59b) पक्षा द्य नन्तगमनात्तस्य पक्षादिता नहि । तन्मिथ्यात्वप्रसङगेन मर्च पूर्व न सिध्यति । साध्य साधनविज्ञानभेदो नहि तदा भवेत् । यावद्यावत्प्रतिजैव तदनस्येतिभास्य[?ष्य]ते । तावतावत्परेषां स्थान्मिथ्यात्वा दाद्यबाधनम् ।। १ * श्लोकवार्तिके पृ. २३४-। tibid मुद्रिते ग्रंथे-न्यूनत्त्व । tibid मुद्रिते ग्रंथे-नन्तगमना । श्लोकवातिके पक्षवाधोत्रते ध्रुवमिति पाठः । श्लोकवातिके पक्षाद्यत्ययमोनास्ति । श्लोकवातिके स्तम्भादि साधनज्ञानेति पाठः । "श्लोकवातिके यावद्यावत्प्रतिज्ञेयं नदन्यस्य प्रतीयते इति पाठः । श्लोकवातिके दन्य बाधनमिति पाठः ।
Ioa १३-विज्ञप्तिमात्रता [ ५३ विरुद्धाव्यभिचारित्वं बाधो नाप्यनुमानतः । इत्थं सर्वेषु पक्षेषु वक्तव्यं प्रतिसाधनं । बाह्यार्थालम्बना बुद्धिरिति सम्यक्त्वधीरियम् । बाधकापेतबुद्धित्वाद्यथा स्वप्नादिवाधधीः । सापि मिथ्येति चेढ्यात्स्वप्नादीनामबाधने । न स्या*त्साधर्म्यदृष्टान्तो भवतः साधनेधुना ।। विज्ञानास्तित्त्वभिन्नत्त्वक्षणिकत्वादिधीस्तथा । सत्या' चेदभ्युपेयेत तदानकान्तिको भवेत् ।। तन्मिथ्याप्रतिपत्तौ वा पक्षवाधः प्रसज्यते । तथा" च बद्धमुक्तादिव्यवस्था न प्रकल्पते। ततश्च मोक्षयत्नस्य वैफल्यं व: प्रसज्यते ।।" तदेतवसत् । यतः। अथत्वं [? तत्वं] यद्यभिप्रेत्य संसारिप्रत्ययः स्थितः । धर्माधर्मादिचिन्तयन्तदेतन्न समञ्जसम् ।। अतत्वेपीष्टतादित्वं बालक्रीडावदिष्यते । तत इप्टप्रसिध्यथं धर्मो नैवोपदिश्यते॥ इष्टसाधनस्य धर्मत्वमिति भेवमसौ संसारी निश्चिनोत्येव तस्य भेववासना- नपगमात् । यदा च तस्य मुक्तता तदा न केनचिवपि तस्य प्रयोजनम् । नहि बा'ल- क्रीडाविषयेष्टसिध्यर्थ परमार्थवित्प्रवर्तते (1) यतः। प्रवर्तते जनः सर्वस्तत्र यत्रास्ति तत्त्ववाः [? धी:] । रागाच्छोभन (c. 6oa) बुद्ध्या कि विरूपायां न वर्तनं । तस्मादतत्त्वेपि नृणां तत्त्वबुद्धया प्रवर्तनं । तस्य तस्योपदेशः किं न (?) कृत्वा गनिमीलनं । अनेन तत्रानुष्ठानमविरोधीति साधितम् । तदभिप्रायसूत्रान्तकथितः का विरोधिता । अतत्त्ववित्प्रतीत्या च बाधने मिद्धसाधनम् । सानालम्बनत्वस्य तं प्रत्यनुपदेशनम् । * ibid मुद्रिते ग्रंथे-तस्मात्मा । १ इलोकवानिक सम्यक् चेति पाठः । श्लोकवानिकेभ्युपपत्तो चेति पाठः । श्लोकवातिके २३६ पृष्ठ।
५४ ] वातिकालंकारः (३॥३३०) कृत्स्नसाधनबुद्धिश्च तस्यानालम्बनाद्विना । यदा तु बोध्यते तत्त्वं साभावेप्यदुष्टता । इष्ट एव तदाऽभावः सर्वस्यालम्बनात्मनः । तत्साधनमनालम्बं ततस्तच्चेन सिध्यति । अविसम्वादिता तेन साध्यानालम्बनास्तिता। तस्य साधर्म्यदृष्टत्वात्तेनानेकान्तता कुतः । तदन्यस्य प्रतिज्ञानं सत्येव सूपगम्यते । तदन्यप्रत्ययस्यापि न मिथ्यात्वञ्च नेष्यते । तन्मिथ्यापूर्वको दोषः कथमिष्टाप्रसिद्धितः । तदन्यस्य प्रतिज्ञायामनवस्था न विद्यते । यत्र सत्या भिमानोस्ति तदनालम्बनं मतं (।) निरालम्बनतान्यत्वसम्वादेपि निरूपिता। प्रतिसाधनमित्थञ्च कथं शक्यनिदर्शनम् । बाधकापेतबुद्धित्त्वमसिद्धमिति साधितम् । स्वप्नादिबाधधीः सत्यानुपलम्भेन साधिता । तदुत्थितानुमानस्य बाधकत्त्वादसिद्धता । बाधकापेतबुद्धिश्च हेतोः सालम्बसाधने । क्षणिकत्त्वादिबुद्धयायदनकान्तिकचोदनम् । तदयुक्तं यतो ज्ञानं क्षणिकं बाह्यवजितं । (c. 6ob) विज्ञानरूपक्षणिकत्त्वसिध्या साल(म्ब)नासौ क्षणिकत्त्वबुद्धिः ।' ततोऽनिरालम्बनता सबाह्या न सिध्यतीत्यर्थतया हि पक्षः । बाह्यालम्बनाः प्रत्यया न भवन्ति स्वप्नबुद्धिवत् । इति विशिष्य पक्षः कृतः । आणिकत्वादिबुद्धघा नेकान्त इति चेत् । न, क्षणिकत्त्वं यो गा चा र दर्शने विज्ञानात्मभूतमेव साध्यं ततो विज्ञानात्मसालम्बनता वृष्टान्तेन तथा भूत सा- लम्बनतव भेववत् । अथ व्यतिरिक्तमालम्बनं तावत्सिद्धं । न व्यतिरिक्तालम्बना भणिकत्त्व बुद्धिः । तथा हि । प्रत्यक्षमनुमानम्वा क्षणिकत्त्वादिवेदनं (।) नानुमानं तदन्येन सालम्बनतया स्थितं । अविसम्वादिता मात्रान्न सालम्बनता विदाम् ।। अविसम्बादो हि योनुमानेन स प्रत्ययान्तरेण व्यवहितः। ततः प्रत्ययान्तरं तयाभूतमुत्पादयदनुमानं प्रमाणम्। न स्वाकारमात्रग्रहणात् । प्रत्ययान्तरञ्च १३-विज्ञप्तिमात्रता [ ५५ गम्यते। . प्रत्यक्षमेव । साक्षात्करणे हि वस्तुग्रहणाभिमानः। तच्च साक्षात्करणं ज्ञान- रूपस्य क्षणिकस्य स्वरूपं सम्वेदनेनैव न तदात्मभूतं तदन्यसम्वेदनेन ग्रहीतुं. शक्यम् । अथ स एव स्वसम्वेदनप"क्षो न सिध्यति प्रतिप्रमाणे सति । तद्रूपे वेद्यमाने हि यदान्यन्न प्रवेद्यते । तदा स्वरूपसबित्ति को वारयितुमर्हति । अवेदनेन वित्तिश्चेत्किं न सर्वेण वेदनं । तथा न दृष्टमितिचेदन्यथापि किमीक्ष्यते । अर्थापत्तेः (c. 61a) क्षयादेवं यथा दृष्टन्तथेष्यतां । आत्मानुभविता दृष्टस्तस्य दृष्टिः कुतो मता। स्ववेदनेन चेदेतन्नीलादावपि नाधिकम् । आत्मनो द्रव्यता नैव साधिष्ठा यदि मीयते । नीलादेरपि नीलत्ववृतिवेदनतो न किम् । यथैवात्मनों' द्रव्यरूपतान्या सम्वित्या वेद्यते तथा नीलादेरपि किन्नाभ्युप- नीलस्यापि स्वबोधरूपताऽन्या द्रव्यरूपतान्या भविष्यति। आत्मवत्स्व- बोधरूपा नीलादयोपि। अथोभयरूपता. बौ द्ध स्यासिद्धा (0) सा मी मां स क- स्याप्यसिद्धेः समानव । न हकमुभयरूपं नाममात्रकेण शक्यम् । एकरूपम्भवेदकमिति मानं प्रवर्त्तते । अनेकरूपमेकञ्चेत्सर्वमेकं प्रसज्यते । वेद्यवेदकमेकञ्चेन्नीलादि न किमिप्यते । आत्मनी ले भवेतां हि तदैक वेद्यवेदकं । भिन्नदेशतया नो चेत् भिन्नरूपतया न कि । रूपभेदेन भेदो हि प्रसिद्धः मावलौकिक: । देशभेदन भेदो हि रूपाभेदे कथं भवेत् । तथा च सति देशादिभेदः स्याद्वयापिभेदकः । तस्मात्स्वसम्वेदनमन्तरेण वेदनमेव न सिध्यतीति सकलमनालम्बनमेव वेदनम् । बद्धमुक्तादिभेदोपि नवास्ति परमार्थतः । भेदो हि नावभान्यव सर्वत्र समदगिनां । मोक्षादि यत्नोपि न पारमाथिकी स्थिनिन्दधानः क्वचिदम्ति लोके । वैयर्थ्यचिन्ता यदि तत्र युक्तिभाक् गगस्य शृंगेपि न किम्विधया ।। यथा स पारमाथिको न भवति यत्नस्तथा भेदोपि (c. 61b) बदमुक्ता- विष्विति समानमेतत् । किञ्च । ८ ५६ ] वातिकालंकारः (३३३३०) विकल्प्योत्पद्यमाना च बाह्यास्तित्वादिधीपा । बहिरादिविवेकन्तु नाविकल्पकमाधनः ।। विकल्पयन्नेव बाहघमान्तरं साधारणमवासनानिमित्ताविकं व्यवस्थापयति । अविकल्पकेन तु साक्षात्करण"रूपेण स्वरूपमेव प्रतीयते, न परस्पमिति पुरः प्रतिपादितमेतत् तत एतन्निराकृतम् ॥ * विकल्पयोत्पद्यमाना च ज्ञानास्तित्वादिधीर्यदि । मृपेप्टा न च दृष्टात्र प्रमाणान्तरतो गतिः । प्रमाणाभावतस्तेन ज्ञानास्तित्वादि दुर्लभम्।। निम्विकल्पकं किल बहिरर्थरूपमेव। बोधोर्थापत्तिगम्यः। सा चार्थापत्ति- व्यिकल्परूपा बौद्ध स्य च न विकल्पकं प्रमाणमिति ज्ञानाद्यस्तिता प्रमाणा- भावादवशीर्यंत (1) तदसदेतत्॥" यतः। अन्याभावे विकल्पस्य प्रामाण्यं यदि युक्तिमत् ।। विकल्पम्य प्रमाणत्त्वन्न युक्तमिति युक्तिमत् ।। यदा तु न विकल्पस्य न चान्यस्य प्रमाणता । तदा विशीर्यमाणपि सर्वस्मिन्कोपराध्यतु ।। व्यवहारी न चेदेवं सम्वृत्या केन वार्यते । नन्वविकल्प एव सम्वृतिः सा चेद्वयवहारनिमितं ततः स एव परमार्थः, व्यवहाराविसम्बादात्। तदप्ययुक्तम्। अविभावितम्पस्य प्रतिभासस्य सम्भवे । अविसम्वादिताख्यातिवामनासङगभाविना । कलधौतादिमानेन यदि कामलिनिद्वये । परस्पराविसम्वादः का तत्र परमार्थता । एतत्तु वक्ष्यामः। सर्वञ्चाप्यस्मदादीनां मिथ्याज्ञानं विकल्पनात् । (c. 629) सान्निध्यविप्रकृष्टत्त्वे सत्वादि न च दुर्लभम् ।। इदं सन्निधानम्भगवतः। ततो देशनाधर्मस्य विपर्ययश्चंतयोः। इदं सविदमसदिति * श्लोकवातिके। + श्लोकवार्तिके सत्वा सत्वे च दुर्लभे इति पाठः । श्लोकवार्तिके पृष्ठ २३७ ।
१३-विज्ञप्तिमात्रता [ ५७ किल दुर्लभमसत्यत्त्वादेतत्साधकस्यविकल्पात्मनः । तदेतद्वासनाबलनियमावसदपि परमार्थतः सदेव. बौद्धदर्शन* एकस्मिन्" पक्षपातोपि युज्यते । मृषात्वे च (हि) बुद्धीनां बाधो नैवोपलभ्यते ।। वासनायास्तथा भावाद्वाधके सैव कारणम् । भ्रान्तत्त्वस्य कथम्वित्तिरसति प्रतिवक्तरि । प्रतिपादितमेतत्प्राक् न पुनः पुनरुच्यते। यदि वासनाबलादेव परवशस्य प्राणिनो भवतः सत्यासत्यावभासौ । तौ च बाधितुमशक्यौ किमिदानीम्विवादेन वादिबोधनेन वा। यदि तस्य वासना प्रबो- धाभिमुखी स्वयमे (व) प्रतिपत्स्यते। अथ न वच"नशतादपि। तवसत्। वासनायाः प्रबोधोयं यथानेनाभवन्मम । तथास्यापीति विज्ञाय वचनं वर्नयत्परः ।। ततो यदुक्तं। मृषात्त्वं यदि बुद्धेश्च वाध: किन्नोपलभ्यते । बाधाद्विनापि तच्चेत्स्यायवग्था न प्रकल्पते । प्रतियोगिनि दृष्टे च जाग्रज्जाने मृपा भवेत् । स्वप्नादिबुद्धिरस्माकं तत्र भेदोपि किकृतः । न चान्यः प्रतियोग्यम्ति जाग्रज्ज्ञानम्य गोभन. । यद्दर्शनेन मिथ्यात्त्वं स्तम्भादिप्रत्ययो ब्रजेत् । स्वप्नादिप्रतियोगित्वं मर्चलोकप्रमिद्धितः । (c. 62b) तदीयधर्मवैधाद्वाधकप्रत्ययो यथा । तदपि पराकृतम् । यद्यपि वासनाप्रबोध एव सर्वस्य भवन्नवबोधो व्यामोहो वा तथापि परावबोधाय वचनं प्रवर्तयितव्यमेव । तथा हि स एव वासनाप्रबो. धोऽनेन प्रकारेण मम जात आसीदन्यस्याप्येवमेव भविष्यतीत्यवबोधाय वचन Iob प्रवृत्तिः । प्रतिनियतवासनाप्रबोधार्थ । तथाभूतवासनाप्र"बोधाथितामवधार्य. ततो न व्यर्थता। ततो यदि बुद्धेम॒षात्वं किन्न बाधोपलब्धिः । तथाभूतवासना- * श्लोकवानिक बौद्ध-दर्शन. एकम्मिन्पक्षपातो न युज्यते इन्युक्तस्य खंडन- मिदम्। + श्लोकवानिके पृ. २३७--वाधः, म्याचवम्था, प्रन्ययो-इति पाठान्तरेण ।
५८ ] वातिकालंकारः (३३३३०) प्रबोधाभावात् । कथन्तहि मृषात्वपरिज्ञानं वासनाप्रतिबद्धत्त्वज्ञानादेव । द्विविधं हि मृषार्थत्त्वमसदर्थत्वं विसम्वादित्वञ्च । विसम्बादित्त्वं विपरीतवासना- प्रबोधतो विपर्यासवासनाप्रबोधतश्च सम्दादित्त्वमिति । ननु सम्वादश्चेदस्ति कथमसदर्थत्त्वं । अविसम्वादाकारस्यापि वासनाप्रति- बद्धत्वात्। न विसम्वाविप्रतिभासे'प्यान्वयव्यतिरेकानुविधानमस्ति। एतदेवास- दर्थत्वं (1) ततः स्वप्नादिप्रत्ययसमानत्वादसम[?सद]र्थता। नहिबाधकप्रत्य- यात्स्वप्नादिप्रत्ययानामसदर्थता, येन तदभावात् जाग्रत्प्रत्ययसमत्त्वं भवेत् । वासनाप्रतिबद्धन्वे कथमेतद्विभज्यते । इदं सम्वादि न परं नैकत्रास्ति विरुद्धता । तदसत्। वासनाप्रतिबंधेपि यथा नीलादिर्भदिता । स्वप्नादिध्वंसयोगश्च मम्वादादि तथा न किम् ।। यत्समानं कथञ्चित्किं सर्वथा तत्समानता । (c. 63a) मनुष्यत्त्वे समानो (ने) *पि ब्राह्मणेतरता कथम् । यथार्थप्रतिबद्धत्त्वे मासम्वादभाकन वित् । तथा विपर्ययप्येतत्किमकस्मादसम्भवि ।। वासना प्रतिवद्धार्थविदां नास्त्येव सर्वथा । अर्थप्रतिविवेशो हि सर्वामामेव दृश्यते ।। तदसत् । यथासौ दृश्यतेर्थार्थी तथैव यदि विद्यते । प्राप्तिरस्तु सदार्थानां बाधक: प्रत्ययः कथम् ।। अलौकिकत्त्वादुभयात्मयोगात्स्मृतिप्रमोदा (पा) हिपरीतवित्तेः । सबाधकत्त्वं न तथार्थसत्त्वं ततः स सम्वादतया न योगः ।। अलौकिकोसावर्थसत्यादप्रत्ययाद्यगोचरत्वात् । अथवा तस्य सत्त्वस्यास- त्वञ्च। ततो दृश्यतेपि बाध्यतैपि । अथवा स्मर्यमाणोऽसमर्थो देशान्तरस्थः प्रत्यक्षतया प्रतिभाति न तत्रस्थ एव । ततोऽप्राप्तिस्तत्र (1) एवं विपरीतल्याता- वपि योजनीयम् । तदेतदप्रमाणवृत्तम् । नादृष्टपूर्वसर्पस्य रज्वां सर्पमतिः क्वचित् । पूर्वदृष्टयनुसारित्वान्न हेतुर्वासना कथम् ।। पूर्वदर्शनमन्तरेण हि न भवति रज्ज्वां सर्पबुद्धिः । पूर्वदर्शनादिदम्बेद- नमत्रार्थो नास्तीति सकललोकनिश्चयः। अन्यथा सकलकार्यकारणभावोच्छेद * श्लोकवातिक पृ० २३८।
१३-विज्ञप्तिमात्रता [ ५९ एव । प्रतिभासमात्रेणास [? शक्यग्रहणात् । प्रतिभासमात्रे हि स्वसम्वेदनमेव केवलं हेतुरहितमिति प्रतिपादितं। तस्मात्तनिश्चयादेव कार्यकारणभावः। नात्र विपरीतादिल्यातियोगप्रतीतिः। (c.63b) अथापि स्यादेषापि विपरीताविख्यातिरेव नात्रार्थो विद्यत इति । विपरीतादिवित्तिश्चेत्पूर्वविद्धतुता भवेत् । प्रतीतिरथापि ततस्तथैवेति प्रतीयताम् । अर्थस्य प्राप्तिरन्यत्र ततो नालौकिकादिता । सर्वत्रार्थस्य न प्राप्तिरिति पूवं प्रसाधितम् । निश्चयादर्थ इत्येवं नेति चेत्तन्न सङगतम् । निश्चयोऽलौकिकाद्यपि बाह्योर्थ इति किन्न सः । अर्थेप्यनर्थ इति तु निश्चयस्याप्रवृत्तितः । अनर्थनिश्चयस्यास्य तेनानैकान्तितास्ति न । वासनामूलताज्ञानमर्थता स न बाधनम् । तेन जाग्रद्धियो नास्ति प्रतियोगित्त्वसम्भवः । पूर्वदर्शनतो ज्ञानं तदप्यस्तु तदन्यतः । अनादिवासनासङगजनितं सर्व्ववेदनम् । निरालम्बनवादोयमत एव विराजते । अत एवेवमपि निरस्तम् । (योगिपत्यक्षम्-) "योगिनां जायते बुद्धिः बाधिका प्रतियोगिनी। जाग्रत्स्तम्भादिबुद्धीनां ततः स्वप्नादिकल्पना ॥ प्राप्तानान्तामवस्थाञ्च सर्वप्राणभृतामपि । बाधोयम्भविता तेन मिद्धा सप्रतियोगिता" अवश्यं हि प्रमाणपरिशुद्धार्थभावनाबलात् योगिनां प्रमाणभूतप्रत्यक्ष ज्ञान- मुवेति. विपर्ययबाधकम् । तेन (-) "इह जन्मनि केषाञ्चिन्न तावदुपलभ्यते ।। तामवस्थां गतानान्तु न विद्यः किम्भविष्यती" + (1) । * श्लोकवातिके पृ० २३८ । fibid तव । १ श्लोकवानिक स्वप्नादि तुत्यतेति पाठः । . इलोकवातिक योग्यवस्थामिति पाठः ।
६० ] वातिकालंकारः (३॥३३०) (-)ति निरस्तम्। यतो विदितमेव भावनायाः सामर्थ्यम् । ततोऽवश्यमेव स प्रत्ययो भावीति कस्मान्न विद्यः। तत इदमत्यन्तासम्बद्धमेव । यदुच्यते- "योगिनां चास्मदीयानां त्वदुक्नप्रतियोगिनी । (c. 64a) त्वदुक्न विपरीता वा बाधबुद्धिर्भविष्यती + (1)" (-)ति ॥ यतः। अप्रमाणबलायानभावनाबलभाविनी। येषां ते योगिनो बुद्धिः किन्न शोकादिविप्लुताः । ईदृक् ' त्वे योगिबुद्धीनां दृष्टान्तोस्तीति साधितम् । दृष्टान्तो युष्मदीयानां न कश्चिदपिविद्यते । नत (:) स्तम्भादिवुद्धीनां भवेत्सप्रतियोगिता । बाध्यत्वं वापि बुद्धित्त्वान्मृगतृष्णादिवुद्धिवत् । उक्त इष्टं मप्रतियोगित्वं मृगतृष्णादिवुद्धिभि:-- तदात्मना च बाध्यत्वं ग्राहयान्नरतयापि चेत् ॥ जात्युन रमिदं प्राह नैवं बाधकता स्थितिः । वाधकत्त्वविवक्षा हि निर्मलोच्छेदकारिणी । यथाकञ्चिद्वदतस्तदेतज्जाड्यजृम्भितं । नहि प्रतियोगित्त्वमात्रं विवक्षितमपि तु बाधकप्रतियोगित्वं । तेन प्रतियो- गित्त्वमात्रं साधनमसम्बद्धत्त्वं । बाध कैश्चाप्यनैकान्तस्तदन्यत्वञ्च पूर्ववत । बुद्धादिप्रत्ययान्यत्वसाधकप्रत्ययो मृषा । अत्राप्यन्तर? प्युत्तर]मस्माभिः पूर्वमेव निरूपितं । बुद्धादिप्रत्ययः सर्वः स्वाङ्गमात्रावलम्ब"नः ।। व्यवहारप्रसिद्धिस्तु यथा तदभिधास्यते । मिथ्याधीप्रतियोगित्त्वं स्वप्नादाविव ते भवेत् । इति पूर्वमेव विहितं नोत्तरं पुनरुच्यते । तथाहि। + श्लोकवातिके पृ० २३८ । ईदृक्त्वे इत्यादि ग्राह्यन्तर तयापि चेत्यन्तं श्लोकवार्तिको (पृष्ठ २४० श्लोक ९५-९८) आनुवादेन सह निराकरणपरम् । २ वाधकश्चापीति, मिथ्याधीप्रतियोगित्वमित्यर्थद्वयं श्लोकवार्तिको (पृ. २४० श्लो० ९९) क्त अनूभेद खाण्डेतम् ।
१३-विज्ञप्तिमात्रता [ ६१ मिथ्यात्त्वे सर्वबुद्धीनां तारतम्यादिभावतः । : बाध्यबाधकभावोयं वासनातारतम्यतः । यथा मिथ्यात्त्वभावेपि वाह्यभावानुरोधतः । बाध्यबाधकभावोयं भवतामविगानतः । तत्र (T. 64b) विपरीताविख्यातित्वावसौ। इहापि वासनावाढर्घभावाभावा- भ्यां बाध्यबाधकभाव इति न दोषः । ननु बुद्ध स्य भगवतो बुद्धिर्योगित्त्वरागादिक्षयनिमित्तवती तस्य च विशेष्य- बाधनाविरुद्धः । तथा हि। रागादिक्षययोनित्त्वनिमित्तादिगतस्तथा । यावान्विशेषदृष्टःस्यात्सर्वबाधाद्विरुद्धता ॥* स्तम्भाविप्रत्ययबाधके बुद्धादिज्ञाने यावन्तो विशेषा रागाविक्षनिमि- तत्त्वादयस्तेषां बाधनाद्विरुद्धतापि हेतोर्भवेत्। तथा हि मिथ्याधीप्रतियोगित्त्वं यदेव स्वप्नादिज्ञानानां साधितं । तदा ताथागतमपि ज्ञानं प्रतियोगित्त्वान्मिथ्या- प्रसक्तम्। स्वप्नबाधकस्तम्भाविज्ञानवदेव । अत्रोच्यते। यदि विशेषविरुद्धतया क्षतिर्ननु न हेतुरिहास्ति तदुत्थितः । निखिलहेतुपराक्रमरोधिनी न हि न सा सकलेन विरुद्धता । यथा स्वप्नबुद्धिमिथ्यास्तम्भादिबुद्धिप्रतियोगिनीति साध्यते। तथा प्रति- योगिबुद्धिप्रतियोगित्त्वमपि बुद्धित्वात्स्वप्नबुद्विवदेव। एवं यथा धूमो "ग्नि साधयति । तथा इहेदानीमग्न्यसम्भवमपि साधयतीति न हेतुरेव कश्चित्साध्य- साधनः स्यात् (1) किं च। बुद्धित्वात्प्रतियोगित्वमात्रमेव साधयति। न विशेष- प्रतियोगित्वं (c. 65a)। तथा यथा कृतकत्त्वमनित्यत्त्वं साधयति शब्दस्य तथाकाशगुणत्त्वविपर्ययमपि साधयतीति प्राप्तं । न चाकाशगुणत्त्वमपि शास्त्राङगी- करणात्साध्यम्। इप्टः सा ध्य इति वक्ष्यते। तस्मान्न विशेषविरुद्धता हेतुदूषणम् । Ila ननु (-) महा जनस्य चावाधादिदानीन्तनबुद्धिवत् । वाच्योऽनुमानबाधो वा यदि वा प्रतिमाधनम् । महाजनबाध्यबुद्धधभावादिदानीन्तनबाधकबुद्धिवत् स्तम्भादिबुद्धिः सत्या * श्लोकवानिक (पृ० २४०) क्षययोगित्व-निमिनाधिगति-विशेप इप्टश्चेत्- सर्वाभावात् इति पाठभेदेन् । + श्लोकवार्तिकं (पृष्ठ २४०) दिदानी वाध बुद्धि वदिति पाठान्तरेण ।
६२ ] वातिकालंकारः (३३३३०) विवादास्पीभूतस्तम्भादिबुद्धिरवाध्या. तद्विषयत्वेन महाजनस्य बाधकबुद्धा(ध्य)- नुत्पादात्स्वप्नाविबाधकबुद्धिवत् । तवप्रतिरूपं । तथाहि। प्रतिबन्धविनाभूता दृष्टिमात्रप्रसाधनात् । इष्टा स्यात्साध्यसिद्धिश्चेत् तदे दं [व] युक्तमुत्तरम् । न च स्वप्न"बाधबुद्धिरबाध्या परमार्थतः। प्रत्यक्षस्यैव बाधकस्य वर्श- मात्संवृत्या त्वबाध्यत्त्वं स्तम्भादिबुद्धरपि न काचिन्नः क्षतिः। असत्यया तर्हि कथम्बाध: स्वप्नादिवद्धिया । तारतम्यस्य सद्भावादिति पूर्वनिवेदितम् । किञ्च। जाग्रबुद्धिर्न सत्यत्त्वादाधते स्वप्नदर्शनं । तत् ज्ञेयानुपलब्धित्वात्तच्चासत्यस्य नास्ति किम् । प्रतिपादितमेतन् (-)न बाधको नाम स्वाननसत्यतया बायकोऽपि तु तदन- पलब्धितः (c. 65b)। सा चानुपलब्धि रूपता विपर्ययोपलब्धिरूपतयैव । सा च स्वांगसम्वेदनत्वेपि न परिहीयते। तथाहि । मेयान्तरं स्वरूपं वा लब्धो सौ तद्वियर्ययः । ततो जाग्रद्धिया बाध्या स्वांगेपि स्थितया परा। नन्वियमपि यदि भ्रान्तिः तदा किमवष्टम्भावसौ बाध्या स्वप्नबुद्धिः। तदप्यसत्। (-) निर्वृत्ते साधनार्थे स्यात्स्वप्नदृष्टिसमानता । बाध्यबाघकभावेन तदा किन्नः प्रयोजनं । नन्वपरमुच्यते। पूर्वसाधनदोषाश्च सन्धेयास्तस्य चाधुना । साध्यभेदादबाध्यात्वाद्धेतोन्नॊभयसिद्धता ।।* बोधनं बुध्यति बुध्यते वानेनेति विकल्पाः। तत्र च पूर्ववद्दोषाः साध्याभेवेन प्रतिज्ञापैकदेशत्त्वेनाबाध्यत्वात्प्रत्ययत्त्वस्य हेतो भयसिद्धता ॥ ननु प्रत्ययविशेषो धर्मी सामान्यं साधनमिति न प्रतिज्ञार्थकवेशता। तवाह। सामान्यं प्रत्ययत्त्वञ्च भिन्नाभिन्नन्न विद्यते । * श्लोकवार्तिके (पृ० २४१) साध्याभेदाद वाच्यत्वादिति पाठान्तरेण ।
- १३-विज्ञप्तिमात्रता [ ६३ भवतोत्यन्तभिन्नञ्च प्रत्यक्षेपि न किञ्चन । सारूप्या'द्यनिवृत्तौ च नेत्येतद् गमयिष्यते । तस्मान्न हेतुः सामान्यमस्ति सिद्धं द्वयोरपि ॥* न युक्तमेतद्यतः।(--) सामान्यं प्रत्ययत्त्वञ्च भिन्नाभिन्नं मतं हि नः । व्यावृत्त्या समभावस्तु तया नेतीति वेद्यते । तत एव परा सवंगयोगात्प्रत्ययः प्रत्यय इत्यर्थस्य हेतुता पारम्पर्येण वस्तु सम्बन्धात्॥ प्रत्यय (c. 66a) इति कोर्थः' सम्वेदनमात्मरूपसम्वित्तिमात्र । ततोऽसिद्धमेतद् (-) विशेषयोश्च हेतुत्त्वं पक्षतत्तुल्यसंस्थयोः । तस्या [? नस्या]दन्वयहीनत्वादतद्धर्मतयापि चे (1) * -दिति था (वा,) न च(-) न चार्थहीना तद्बुद्धिर्हेतुत्त्वेन भविष्यति । आश्रयासिद्धता चोक्ता विशेष्यस्याप्रसिद्धितः । तथा हेतोविरुद्धत्त्वं दृष्टान्ते माध्यहीनता । विशेषणाप्रसिद्धयर्थविकल्पनैव बोधिता ।* सर्वमेतत्प्रागेव परिकृतं। तस्मादसदेतत् । तत एतवनवद्यं सर्च प्रत्यया निराल (म्ब)नाः प्रत्ययत्त्वात्स्वप्नप्रत्यवत् । तेन निरालम्बनत्त्वं सर्वप्रत्ययानां। तदन्यसम्विदा(s)भावात्स्वसम्वित्फलमिष्यते ॥ (३३०) स्वसम्बेदनमेव फलं। विज्ञानं स्वमुदयत्स्वरूपमेवावभासयति नार्थम् । अर्थ- प्रतिपादने तस्य सामर्थ्याभावात्। अदर्शनाच्चार्थप्रतिपादनस्य । अत्रोच्यते । यदि बाह्योनुभूयत को दोपो नैव कश्चन । इदमेव किमुक्तं स्यात्स बाह्यार्थोनुभूयने ।। (३३१) किमनया सूक्ष्मैक्षिकया बाहयन्नानुभूयत एव । अस्य प्रयासस्य कि फलं । यथा लोकव्यवहारतया [? रस्तथास्तु. न चानालम्बनत्त्वप्रतिपादनेऽन्यथा १ श्लोकवार्तिके मन्यक्षे पीति पाठः । २ श्लोकवातिक साधुप्यान्यनिवृति च नेत्यंतत्साधयिष्यते इति पाठान्तरेण । * इलोकवातिक पृष्ठ २४१-२४२ ।
६४ ] वातिकालंकारः (३३३३३) व्यवहारो न च व्यवहारावपरमिह फलमस्ति । तवप्यसवेव। यदि व्यवहृतिः साध्या व्यवहारो यथा तथा । वेदस्यापौरुषेयत्त्वे प्रयासः किफलस्तव । न खलु' यदनादिव्यवहारोर्थकृतः। पौरुषेयत्त्वेतरतया सिद्धो येन (c. 66 b) तदभावेन तद् भवेत् । अथ स एव विचार्य क्रियमाणः सवर्थः । तथा सति विचार्यतामपरमपि । अथ पौरुषेयत्त्वे प्रामाण्यमेव न स्यादेतवपरस्यापि समानम् । अपौरुषेयत्त्वेपि प्रामाण्याभावात् । किञ्च । यदा बाह्यग्रहाभावस्तदा रागादि हीयते । भावनाबलतो वृनेस्तदभावे विपर्ययात् ( 1 ) तत्त्वनिरूपणे हि रागादिदोषक्षयः। स च परः पुरुषार्थ इति प्रतिपादितं । ततस्तत्त्वं निरूप्यते। बाहयार्थस्यानुभवो नास्ति। तथा हि। बाहचाऽर्थोनुभूयत इति कोर्थः। किमनुभूतिप्रवेशसभावादनुभूयत इति व्यपदेशोप्रवेशनादेव । तत इदमाह। यदि बुद्धिस्तदाकारा सास्त्याकारनिवशिनी । सा बाह्यादयन्तो वति विचारमिदमर्हति ॥ (३३२) तदाकारा बुद्धिरिति कोर्थः । नीलाद्याकारा । नन्विवमिदानीम्विचार्यते । तवाकारेति कुतः। ततस्तदाकारा बुद्धिरिति परिज्ञानार्थ स पुनद्रष्टव्यः । तत्रापि वर्शने तदाकारतवेत्यनवस्था। अथ निराकारेण दृश्यते । तदा तदेव दर्शनं किमा- कारपरिकल्पनेन। अथ तदाकारेति तनिरूपणाकारात्तद्दर्शनाकारेति । तदा तदेवोच्यते। तनिरूपणन्तद्दर्शनमिति कोर्थ":। अथ द्वयमपि दृश्यते । तथा सति स्वरूपेण द्वयं दृश्यते । ततः परस्परं ग्रहणं न वा कस्यचिदिति स्वसम्वेदनमेव द्वयमिति प्रतिपावितं । (c.67a) अथ बाहचं विनाऽयमेव न भवति । एवन्तहि बुद्धि विना परोक्षता न भवतीति प्राप्तम् । अथ दृश्यत एवापरोक्षता (1) तथा सति परं परिकल्पनीयं (-)तदाकारा बुद्धिरपि दृश्यत एव किमपरपरिकल्पः। यतः । दर्शनोपाधिरहितस्याग्रहणात्तग्रहे ग्रहान्। दर्शनं नोलनिर्भासं नार्थों बाह्योस्ति केवल (:)॥ (३३३) यदेव दृश्यते तदेवाभ्युपगम्यते। तथा हि प्रतिभासात्तद्गतमेव नीलमवभासते नापरं । ततः प्रतिभासव्यतिरेकेण न प्रमाणं। ततो नाभ्युपगमः । अथ प्रतिभासा- तद्गतन्तन प्रतिभासते प्रतिभासस्यान्तरत्वान्नीलावश्च बहिरवभासनात्। न व्यति- रिक्तस्य भावे तस्य प्रतिभासनं स्वरूपेणापरोक्षेण तस्य प्रतिभासनात् । तथा हि ।
१३-विज्ञप्तिमात्रता [ ६५ व्यतिरिक्तस्य सद्भावे न नीलस्यापरोक्षता । स्वरूपेणापरोक्षत्त्वान्न तस्यान्याऽपरोक्षता ॥ यर्थव हि प्राहकाकारः स्वरूपेणापरोक्षो न ग्राहकान्तरभावात्तथा तेन समना- कालोपि नीलादिकः। यथा च चक्षुरादिकाद् ग्राहकाकारः'' तथा तत्समाना- कारोपि, तदन्वयव्यतिरेकलक्षणत्वात्कार्यकारणभावस्य । न पूर्वापरसद्भावो ऽन्धस्य प्रमाणतोऽवसीयते। प्रत्यक्षस्य पूर्वापरयोरप्रवृत्तेः। अथ पूर्वमप्यसौ नास्तीति कथं प्रतीयते। पश्चाद्वा प्राहकाकारोपि कस्मान्न पूर्व परिकल्प्यते बुद्धिा सुखादयो वा । अथ (c. 67b) नित्यत्त्वादात्मन एवमेवेति चेत् ।" अपरोक्षतापि तहि प्रागेवास्तीति किं न परिकल्प्यते । विरोधादिति चेत् । न हयप्रतीयमानाऽपरोक्षता युक्ता। अर्थस्तद्वयतिरिक्तोऽप्रतीयमानोपि युक्तः । व्यतिरिक्त इति केन प्रतिपन्नं । अत एव कदाचिद् भवेदिति सन्देहचोदना । अपरोक्षतापि कस्मानवमिति चेत् । अपरोक्षत्वप्रसङगात् । नान्यस्याप'"रोक्ष- त्वात् (इ)यमपरोक्षेति कल्पना स्यात् । शुक्लतादिवत् । शुक्लता यद्यपि एकस्य IIb घटादेनं भवति द्रव्यान्तरस्य भवत्येव । ततोऽपरोक्षताव्यतिरेकेण नापरो नीलाविः । ननु यदा पदार्थस्य शुक्लतापति किमसावन्यत्र गच्छति । ना(न। अ)परोक्षतापि नापरगतान्यत्र गन्त्री। एवन्तहि तवव्यतिरेकादर्थस्यापि तदभावादभावः। अ- व्यतिरेक एव न निश्चित इति चेत् । अग्नेरपि तहर्घभावेऽग्निरूपाभावो न सिद्ध तद्वतिरेकेणाग्नेरभावादिति चेत् । नाव्यतिरेकस्यासिद्धत्वात् । तद्वतिरेकेणादर्शनादिति समानं सव्वं । तस्मादसदेवापरोक्षताव्यतिरिक्तम्। अनुमानमपि नापरोक्षताव्यतिरेकं साधयति। यदा परोक्षावस्थायामपि साधयति ततो नीलमास्त एव यत्पश्चात्प्रतिपत्स्ये। न तत्र पूर्वरूपानुसारेण प्रतिपत्तिभा- वात्। स्मरणन्तदनुभवानुसारि स चानुभवोऽपरोक्षरूपस्यैव । न च पृथग- (c. 68a) परोक्षरूपतामवस्थाप्य नीलादिःस्मरणविषयः । इह कथ प्रतिपत्तिरिति चेत् । नेहापि तथा भूतमेवाध्यारोप्यते । यदि पूविकामपरोक्षरूपतां परित्यजति । नीलरूपतामपि तदव्यतिरेकात्परित्यजेदेव नहि विभागेन स्मरणम्। स्मरणम- नुमानं न भवत्यधिकस्य प्रतिपत्तेरिति चेत् । नाधिकस्य प्रतिपत्तो कारणाभावात् । कथन्तदधिकस्य प्रतिपत्तिरिति चेत्। नाभावात् । कथं प्रमाणम् ।प्रथम- मेव व्याप्तिसिद्धेः। यदा धूममग्नेरुदयमासादयन्तं पश्यति परापरदेशाग्निसम्ब- न्धेन। तदेवमस्य प्रतिपत्तिः । यत्र यत्रायमुपनीयते तत्र धूमं जनयति। नैकदेशो- ऽन्यदेशसम्बद्ध । ततो यद्यन्यत्रापि भवत्यग्निस्तत्रापि जनयत्येव । तेन धूम- देशोऽग्नेः प्रतिपन्न एव । स च भावी धूमोऽग्नेर्वा तद्रूप एवाध्यारोप्यते नान्यथा शक्यत्वात्। ततोऽधिकधूमदर्शनादधिकपावकप्रति पत्तिः । तहि एव । यस्य वार्तिकालंकारः (३३३३४) पूर्वकं पावकविषयमध्यारोपं विनव स[?]टिति धूमदर्शनात्प्रतिपत्तिस्तस्य कथम्। तस्यापि सामान्यप्रतिबन्धमन्तरेणाप्रतिपत्तेः । तथा हि(-)यदि नाम झटिति प्रतिपत्तिस्तथापि यदानुयुज्यते । यदि नामोत धूमः कस्मादग्निः । एवमेव दृष्टत्वादिति । तेन वक्तव्यं (-)तच्च दर्शनं न परमार्थतोऽपि तु (c. 68b) दर्शनाध्यारोपयोरेकत्वाचवसायात् । न च दृश्यमानादिनाव्यतिरेकेण विकल्पेत वर्शनादर्थी न प्रवर्तत। दर्शनार्थिनो नोपदिशेत् । नहि दृश्यमानतामप्रतियन वर्शनार्थी भवति । योस्ति स प्रतीयत इति चेत्। यदि वर्शनेन सम्बन्धो न गृहीतः कथमस्तित्वमात्रप्रतिपत्तेः प्रवर्तकः। तस्माद् दृश्यमानतामेव प्रतिपद्यमानः तदर्थी नान्यथा । नहि नीलादितामनवगच्छंस्तदर्थी दृष्टः। तस्मादनुमानमन्यद्वा विकल्पकं विज्ञानं दृश्यमानताव्यतिरेकेण" न नीलादितामवगच्छति । कथन्तर्हि परोक्ष- विषयमनुमानं । पूर्वस्यापरोक्षत्वस्याध्यारोपात् । कथमतस्तत्राग्निरिति प्रतिपत्तिः । अध्यारोपस्य तथाभावात्पूर्वदृष्टमरीचिकाविषयजलक्त् । यत्राध्यारोप्यते स परो वर्नेरिति चेत् । न (1) तस्य स्वरूपेणाप्रतिपत्तेः। तदेव तस्य रूपमिति चेत् । अपरोक्षमेव तदिति कथम्परोक्षता। स्वरूपप्रतिपत्तिरेव हि परोक्षता परेण प्रतिपत्ति रिति चेत् । संवापरोक्षतेत्यपरिहारः । परेण प्रतिपत्तिरिति च प्रतिबन्धबलादध्यारोप एव । ततः परप्रतिपत्तिरिति मिथ्या । बाह्यस्य परोक्षस्य प्रतिपत्तियुक्तापि तस्य स्वयमपि पश्चाद्दर्शनादेकत्त्वाध्यारोपादिदन्तत्परोक्षमासीदिति परप्रतिपत्ती चेत्तदपि नास्ति. इयं सा परप्रतिपत्तिः। प्रागासीत्परोक्षेति । (c. 69a) तस्माद- सत्परोक्षं नाम। तस्माद्दर्शनो गा(?) विरहितस्याग्रहणमेव । कथं व्यतिरेक- गतिरर्थस्य। यदि नार्थोस्ति सम्वेदनव्यतिरिक्तः कुतो नीलपीताविप्रतिभास- भेवः। चक्षुरादिकादेव केशप्रतिभासवत् । ननूपघातबलात्केशादिप्रतिभासनं । उपघात इति कुतः। केशाविप्रतिभासनादिति चेत् । नीलाविप्रतिभासनादिति प्रकल्प्यताम् । नन्वेकरूपता स्यात्केशादिवदेव नानादे शेपि न नानानीलादिता यथा भमति चक्षुषि भमति तथा किम् नीलादिकं। यदि च चक्षुर्विज्ञानकारण- मिष्यते। बाहचं ततः किन्न नीलादिकम् । यथा रूपग्रहणे चक्षुः कारणम् । तथा:- वान्तरग्रहणे ततः परं । ततो बाहवार्थसिद्धिः। सम्वित्प्रतिनियमादिति। अत्रोच्यते।(-) कस्यचित्किञ्चिदेवान्तर्वासनायाः प्रबोधकं । ततो वियाम्विनियमो न बाह्यार्थव्यपेक्षया ॥ (३३४) उक्तमे (व)न्न सिध्यति कार्यव्यतिरिक्तं (त)कल्प्यते । कार्यव्यतिरेके च वरं चक्षुरेव कल्पितं । अर्थान्तरकल्पनातो वरं दृष्टमेव । बाहया"र्थः प्रत्यक्षतः ।
१३-विज्ञप्तिमात्रता [ ६७ . चक्षुरादिकं तद्विशिष्टमिति कल्पना। तदपि परोपरोधादुच्यते। वरं समनन्तर- प्रत्ययस्यैव विशेषकल्पना। शरीरमपि कारणञ्चेत्। न। शरीरप्रतिभासव्यति- रेकेण तस्याभावात्। तत्प्रतिभासे सतीति चेत् । तथापि विज्ञानादेव (c. 69b) विज्ञानं समानकालता च शरीरप्रतिभासेन इत्यादि शरीरप्रतिभासेन इत्यादि प्रतिभासस्येति न कारणता। तथा हि यथा रो(रा)गादिकल्पानां कालादिनियमः स्फुटः । प्रबोधकस्य नियमाद्विना वा तत्प्रवोधकैः । तथा नीलादिनियतप्रतिभाससमागमः । रागावयो हि प्रतिनियतदेशकालावस्थाभाविनः प्रबोधकप्रत्ययवशात् । न तु तेषामालम्बननियमो व्यभिचारात् । कथमनादिचिन्ताप्रतिभासानाञ्च नियमः प्रबोध के सत्यन्यथा च ।नच बाह्यस्यैव प्रबोधकत्त्वं चिन्ताप्रतिभासेनापि चिन्तान्तरवासना प्रबोधात्। असामर्थ्येन यथाभोगसम्भवे। न ह्याभोगस्य क्वचि- त्पक्षपातः। आभोगसमानत्त्वेपि कस्यचित् पटरूपस्य प्रतिभासादभ्यासादितो वा स्वप्नादिप्रत्ययानां च कः प्रतिनियमहेतुः। तदा जन्मान्तरादिदृष्टं बाह्यमेव नियम- हेतुरिति चेत् । न । सर्वस्य दृष्टत्वात्तत्काले चाभावा" तत्कालनियमे को हेतुः । देशादिनियतं बाह्यं प्रतिभामनियामकं । यदि नद्देशबाह्यम्याभावे न नियमः कुः । यदि तत्र बाह्योऽर्थो न स्यात् तदा वा तत्कालदेशनियतप्रतिभासः कुतः अथ तत्कालतादिकमन्तरेणापि नियमः पूर्वार्थदर्शनात्। किमिदानीमर्थेन पूर्व- प्रतिभासादेव नियमसम्भवात्। तथा हि। अर्थशून्योऽवभामो हि माभूदित्यर्थकल्पना । पूर्वार्थादेव नि "यमे प्रतिभासेन किं कृतम् ।। इदानीमत्रार्थमन्तरेण न प्रतिभासनन्तस्य युक्तम्। प्रतिभासनस्य पूव्वमेव विरुद्धत्त्वात् न तत्प्रतिभासः (c. 70a)। न ह्यविद्यमान इहेवानी प्रतिभासत इति बाह्यार्थः कल्प्यते। यदि त्वविद्यमानोप्यर्थः पूर्वदेशकालदृष्ट इह प्रतिभाति। प्रतिभास एव पूर्वकालादिः प्रतिभासतां किमर्थकल्पनया। बाह्यार्थवादिभिरपि प्रतिभासस्याभ्युपगमात् । तथा तत्र बा"ह्यार्थ एव प्रतिभातीह त्वयोगान्न प्रतिभास इति चेत् । तत्र योग इति कुतः। सम्बादादिति चेत् । ननु सम्बादोप्यपरसम्वादाकिन्न युक्तः। ततः सम्बादादपरः सम्बाद इति सम्बावप्रतिभासपरम्परव युक्ता। नन यो हि जनित्वा प्रध्वंसते स मिथ्याप्रत्ययो यथा ने रजतमिति। अयन्तु म्तम्भाविः स्वपरिनिश्चितः कथम्बिपर्यस्तः।
६८ ] वातिकालंकारः (३३३३७) 12a तवसत्। वासनाया दृढत्वेन प्रध्वंसो नास्त्य "नन्तरम् । यथा रागादिकल्पानां वासनाबलभाविनाम् ।। वासनाबलाबलार्थेन एव रागादिविकल्पः। तथा बाह्यरहितः। तथाप्यसौ न नष्टलोचनेपिझटिति विघटते।तथा स्वप्नव्याख्याप्रबन्धः कथं चिदपि न विघटते। वासना वाद्यंतः । तथाहि (-) स एव पूर्वपाठक उत्यायोत्थाय पुनः पुनः स्वप्ने व्याख्यायते। तस्मान्न बाह्यार्थव्यपेक्षो नियमः। तथाहि । स्वप्नदृष्टन्त्वयं किञ्चिज्जाग्रतो नानुवर्तते । अवस्था तादृशी तस्य' बालकम्येव मूत्रणम् ।। मूत्रावस्था स्वप्नदृष्टा जानदवस्थायामप्यनुत्तिनी न तरुणाध- वस्थायां । प्रतिपादितश्चार्थक्रियाव्यभिचारः (c. 76b)प्रागिति न पुनः प्रपञ्चः॥ तस्माद्विरूपमस्यंकं यदेवमनुभूयते । स्मर्यते चाभयाकारस्यास्य सम्बंदनं फलं ॥ (३३५) द्विरूपमिति बोधाकारं नीलाकारञ्च व्यतिरेकस्यावेदनादेकं । अपोद्धा (?). रपरिकल्पनया द्विरूपं । कुत एतत् । यस्मादेवमनु (भू) यते स्मयंते च । तत उभया- कारादपरस्य सम्वेदनस्याभावादर्थस्य सम्वेदनं । फलमित्युपसंहारः । नन्वर्थ- सम्वेदनतया प्रतीयते कथं स्वसम्वेदनं। अत्रोच्यते। यदा निष्पन्नतद्भाव इष्टानिष्टापि वापरः । विज्ञप्तिहेतुविषयस्तस्याश्चानुभवस्तथा ॥ (३३६) तदा हेतोनिष्पन्नतद्भावस्याऽभावादनुभवस्यैव सम्वेदनं नीलात्मत्त्वाद्य- तस्तस्यास्तथैव' नीलादित्त्वेनैवानुभव इति स्वसम्वेदनमेतत्परमार्थतो नार्थसम्वेद- नम्। अर्थत्वेनानुभवेपि स्वप्नसम्वेदनवत्। यदि वाऽर्थसम्वेदनमेव फलम् । यतः॥ यदा सविषयं ज्ञानं ज्ञानाशेर्थव्यवस्थितः । तदा य आत्मानुभवः स एवार्थविनिश्चयः ॥ (३३७) यः पुनरपरं बाह्यं न कल्पयति ज्ञानाङग एव बाह्यतया तेनावसीयते । तदा य एवात्मनो ज्ञानाकारस्यानुभवः तथैव वासनानियमादर्थ इति निश्चयस्तदा निश्चयबलावर्षसम्वेदनं फलमिति व्यवस्थाप्यते। तदा विज्ञानवादेप्यर्थसम्वेदनं १३-विज्ञप्तिमात्रता [ ६९ फलं। तवा ग्राह्याकारः प्रमेयं । ग्राहकाकारः प्रमाणं तत्सम्वेदन(c. 7ra)फलं। अथवा स एवार्थ इति प्रतीयते । तस्य च सम्वेदनत्वात्सम्वेदनमेव फलम् । अपि च । बाह्यमर्थमभ्युपगच्छतामपि स्वसम्वेदनमेव फलं। यतः॥ यदीष्टाकार आत्मा "स्यादन्यथा वानुभूयते । इष्टोऽनिष्टोपि वा तेन भवत्यर्थः प्रवेदितः ॥ (३३८) नहि सम्वेदनस्यान्यथात्वे वस्त्वन्यथेति (वक्तुं) शक्यम् । तस्मात्सम्वेदनानुसा- रेणैवार्थव्यवस्थितेः तदभिन्नयोगक्षेमत्वाद्वाह्यवेदनं स्वसम्वेदनमेव। तेनोपचारात् बाह्यवेदनमुच्यते । अतः ॥ यदीष्टाकार आत्मास्य ज्ञानस्य अन्यथा चानुभूतेथः । इष्टोनिष्टो वा । इष्टाकारेणानिष्टाकारेणापीष्टस्तदा तेन भवत्यर्थः' प्रवेवितो मुल्यवृत्याऽन्यथानुपचार एव । तस्मात्स्ववेदनमेव फलं बाह्येप्यर्थ इति वर्शयति । नन्वसत्यत्त्वेर्थसम्वेदनमेव युक्तम् । तस्य भावावसति त्वगत्या स्वसम्वेदन युक्तं । तवसत् । (-) विद्यमाने पि बाह्यर्थे यथानुभवएव सः । निश्चितात्मा म्वरूपेण नानेकात्मत्त्वदोषतः ॥ (३३९) नहि विज्ञानवादेपि स्वसम्वेदनं मण[? नसाभ्युपगम्यतेऽपि तु तस्यैव सम्वित्तेः। अगत्यात्वङगीकरणे बाह्य एवार्थः किमनरंगीकृतः। यतः। यदि वाह्यं न विद्युत कम्य मम्वेदनम्भवेत् । अर्थगन्या म्वरूपम्य बाह्यं यम्य न: किम्मतं ।। (३८०) सावृश्यगतिः। तत्स्मास्वरूपसम्वेदनमेव वृश्यत इति वक्तव्यं (c. 71b) नागतिः । तत्र यदि बाह्येप्यर्थे स्वसम्वेदनमेव वृश्यते तदेव भवतु । अर्थसंवेदनन्तु न युक्तमिति परित्यज्यते । स्वरूपेण हि वित्तीनां भिन्नत्त्वात्प्रतिपुरुषं नानाकार- वेदनं युक्तं । नत्वर्थस्य नानाका रवेदनं स्वरूपेणानेकात्मताप्रसङगात् । नानाप्रति- पत्त्यसम्वेद्यमानोप्येक एवार्य इति बाह्यदशिमतम् । तत एकस्य नानारूपसम्वेदन- मयुक्तम् । मानारूप एवार्थ इति चेत् । न । अभ्युपायपि भेदन न स्यादनुभवी द्वयोः ।। एकस्मिन्नेवार्थे द्वयोरनुभव इति न स्यात् । स्वाकारपरिसमाप्तत्त्वात् । यस्याकारान्तरमपि तत्रवानुप्रविश्य प्रतिभासेत तदा स्यादेकत्त्वगतिः' (1) अथवा न स्यादनुभवो द्वयोरिति वस्त्वर्थः । अथवा भेदेनककपर्यवसानेन न स्याबनुभवः सर्वस्यानेकाकारानुभवप्रसगात् ॥ - ७० ] वातिकालंकारः (३३३४४) अदृष्टावरणानो चेन्न नामार्थवशा गतिः ।। (३४१) यद्यवृष्टमावरणमिति न यदर्शनं दृष्टेनैव तहि एकत्त्वप्रतिपत्तिर्वारितेति कुत एकत्त्वे प्रमाणं तिमिरवच्चादृष्टम्भवेत्। चन्द्रद्वयमेव तत्रकदर्शनं द्वितीयदर्श- नस्यादृष्टेन वारणादे"षापि कल्पना भवेत् । ततस्तिमिरसमानत्वाबदृष्टस्य नार्यवशा गतिः । अदृष्टस्तेनैव बाह्यार्थशून्यं विज्ञानं जन्यत इति किन्नाभ्युप गम्यते । अथावृष्टमर्थयोग्यवेशावस्थितार्थप्रतिपत्तिवारणे कथं समर्थमिति वक्तव्यं ॥ (c. 72a) तमनकात्मकं भावमेकात्मत्त्वेन दर्शयत् । तददृष्टं कथनाम भवंदर्थस्स्य वेदकम (1) (३४२) -इति संग्रहः ॥ अपि च। अभ्यासबलभावित्त्वमिष्टानिष्टार्थसम्बिदः । दृश्यते दृष्टसाध्यत्त्वं कथमत्रावगम्यते । तदेवादृष्टमितिचेत्सिद्धमेव समीहितं ।। वासनाबलसम्भूतं सर्वमेवेति सिद्धितः । ननु नार्थ इष्टानिष्टतयावभासते। अर्थाकार एव कल्पना एव तथा भवन्ति । भत्रोच्यते। इष्टानिष्टावभासिन्यः कल्पना नाक्षधीर्यदि। अरिष्टादावसत्त्वानां' 'ष्टन्तत्रापि चतसां। (३४३) अरिष्टेन गृहीतानामक्षबुद्धिरप्यन्यथा दृष्टा। तस्माद" सदेतत् । तस्मात्प्रत्य(मे)ये' बाह्यपि युक्त म्वानुभवःफलं । यत: स्वभावोस्य यथा तथैवार्थविनिश्चयः ॥ (३४४) अतो बाहोप्यर्थे स्वसम्वेदनमेव फलम् । नार्थसम्वेदनं तस्य स्वसम्वेदनार्थ- प्रवेशात् । अत्रापि फले विषयाकारतव प्रमाणम् । यवाहाचार्यः । (-) "यदा तु बाह्य एवार्थः प्रमेयस्तदा विषयाकारतवास्य प्रमाणम्। तथाहि । झानं स्वसम्वेद्यमपि स्वरूपमनपेक्ष्यार्थाभासतवास्य प्रमाणम्। यस्मात्सोर्थस्तेन मीयते। यथाह्यर्थस्याकारः शुभादित्वेन प्रतिभाति निविशते तद्रूपः स विषयः प्रतीयते। यावदाकारभेदेन प्रमाणप्रमेयत्त्वमुपचर्यते।" 'इष्ट-इति हे. पुस्तके १ अनिष्टादावसन्धानं-इति हे. पुस्तके । । तस्मात्प्रमेयबाह्येपि-इति हे. पुस्तके ।
१३-विज्ञप्तिमात्रता [ ७१ नन्वव्यतिरेकाद् प्राहकाकागेपि कस्मान प्रमाणं । अत्रोच्यते। तदार्थाभासतैवास्य (c. 72b) प्रमाणन्न तु सन्नपि । ग्राहकात्माऽपरार्थत्त्वाबाह्येष्वर्थेष्वपेक्ष्य ने ॥ (३४५) नहि तदन्यरूपा बाह्यार्थस्थितिः । अप"रार्थत्वात् । नहि स्वसम्वेदनं परार्थ व्यवस्थापयति। आकारव्यतिरे(के)ण सर्वत्र समानत्वात् । 12b यस्माद्यथा निविष्टो सावर्थात्मा प्रत्यये तथा। निश्चीयते निविष्टासाववमिति आकारवशेन हि। अर्थ एवं नीलादिकः स्वाकारेण निविष्ट इति प्रत्ययः । ते (? नार्थाकार एवार्थकल्पनानिमित्तं ततः स एव प्रमाणम् । एवन्तहि अर्थवेदनमेव फलं किमिदानीं स्वसम्वेदनेन । असदेतद्यतः (-) तदर्थकल्पनमात्मसम्वेदनानुरूपमेव ।' तदेवाहाऽत्म- सम्विदः। यतः आत्मसम्विदः (1) (३४६) इत्यर्थसम्वित्सैवष्टा यतार्थात्मा न दृश्यते । यतो ऽ(द)श्यमानन्न प्रत्यक्षस्य प्रमेयं । कथं हि परोऽर्थे प्रत्यक्षस्य प्रवृत्तिः प्रत्यक्षस्य च फलव्यवस्था प्रस्तुता तस्मात्स्वरूपप्रत्यक्षत्वावर्थस्यासम्वेदनात्स्व- सम्वेदनं फलम्। तस्या बुद्धिनिवेश्यार्थः+ साधनन्तस्य सा क्रिया । (३४७) तेन हि सा क्रियतेऽतस्तस्य सा फलं तत्क्रमेण तस्याः प्रथ नात्। एवन्तहि बाह्यर्थे प्रमाणमाकारः सम्वेदनन्तु स्वरूपे फलं प्रवृत्तमिति विषयभेदः । तत्सत् । यतः। [ यथा निविशने सो ऽर्थः तथा हि स प्रकाशते । ] (अर्थस्थितेस्तदात्मत्वात) म्वविदप्यर्थविन्मता (1) (३४८) स्वविदे (वे)यं परमार्थतः । व्यवहारतोऽर्थवित् । ततो व्यवहारापेक्षयाऽर्थ एव फलं। (c. 73a)अर्थ एव प्रमाणमिति कुतो विषयभेदः परमार्थापेक्षयापि स्वरूपे यमपि । तथापि कुतः । एतदेवाह । तस्माद्विपयभंदापि न * प्वपेक्षते-इति हे. पुस्तके । + एवेत्यधिकः पाठः म. पुस्तके । पादव्यत्यासोऽत्र स. पुस्तके । १० ७२ ] वातिकालंकारः (३३३५१) स्वसम्वेदनं तर्हि बाह्येऽर्थे फलं' (1) प्रमेये कस्मानोक्तमित्याह । म्वसम्वदनं फलम (1) उक्त म्वभावचिन्तायां तादात्म्यादर्थसम्बिदः । (३४९) परमार्थापेक्षया स्वसम्वेदनमेतदर्थसम्वेदनपि। यदि नाम तदर्थसम्वेदनमनि- रूपितसम्वेदनस्वरूपस्य निरूपणायान्तु स्वसम्वेदनमेव । ननु यदि स्वरूपेणार्थस्यानवभासनं ज्ञानमेव स्वेन रूपेण प्रतिभाति कथमर्यस्य प्रमेयता। तादृशत्त्वादर्थस्येति चेत्। तादृश इति' कथं ज्ञायते। नानाकारा हि विज्ञप्तय इति चोक्तं । अत्रोच्यते। तथावभासमानस्य तादृशोन्यादृशापि वा। ज्ञानम्य हेतुरर्थोपोत्यर्थस्येष्टा प्रमेयता । (३५०) यत्त्वपि जलावभासि विज्ञानमुपजायते जलमन्तरेणव तथापि मरीचिकाः समाश्रित्योदयवतः कथञ्चिवर्षहेतुतामाश्रित्यार्थालम्बनमुच्यते। ननु यदि हेतुत्वादेवालम्बनता वासनाहेतुकमेवमुक्तं । न हि सा न हेतुः दृष्टशक्तिश्च वासना तदाकारजनने। तथा च प्रतिपादितं भवतव । यदि कारता तथा भूतार्थमन्तरेण न भवेत् । युक्तमर्थसम्वेदनं । अन्यथा तु। यथाकश्चित्तस्यार्थरूपं युक्तयावभासिनः । अर्थग्रहःकथं सत्यं न जानहमपीदृशम् ॥ (३५१) सन्निहितमर्थमन्तरेणापि यद्यतदाकारता तदा तस्य तावदर्थस्य न ग्रहणम् । अन्यदेशदृष्टस्य (c. 73b) ग्रहणमिति चेत् । अन्यदेशेपि यदि तदा नास्ति कथं प्रतिभासः। यत्रास्ति तत्र प्रतिभास इति चेत् । यदि क्वापि नास्ति क उपायः। प्रतिभासादेव ज्ञायते । अवश्यं क्वापीति प्रतिभासोऽर्थमन्तरेण न दृष्ट इति प्रतिबन्धा- देवं गतिः । एवं तहि स न दृष्टः कथं प्रतिभाति । सोपि जन्मान्तरादौ दृष्ट एवेति चेत् । न। नियमाभावात् । अदृष्टोपि प्रतिभास इष्यते। एवन्तहि । अदृष्टोपि हि देशादावर्थोऽन्यत्रावभासते । यदि सर्वन्तदा सर्वः सर्वदर्शी प्रसक्तिमान् । अदृष्टस्यापि देशान्तरादौ व्यवस्थितस्य प्रतिभासने सर्वः सर्वदर्शी प्रसक्तः। अवस्थाविशेषमन्तरेण न प्रतिभाति । तिमिरादौ प्रतिभातीति चेत् । न । तिमि- - * पादव्यत्यासोऽत्र स. पुस्तके ।
१३-विज्ञप्तिमात्रता [ ७३ रस्य सर्वसाधारणत्वात्सर्वप्रतिभासनप्रसङगः। किञ्च । तिमिर (रं) दर्शनविघात- कृत्. तदेव किन्दर्शनहेतुः। दर्शनहेतुत्त्वे सकलदर्शनप्रसङगः । यदेव दृश्यते' यदेव दृश्यते तस्यैव जनयतीति चेत्। अविद्यमानस्यैव तहि दृश्यते। तदेवाविद्यमान- दर्शनं जनयतु. अर्थमन्तरेण दर्शनन्न दृष्टमिति चेत्। अर्थयोग्यदेशावस्थानमन्तरे- णापि न दृष्टं । अनेनैव व्यभिचार इति चेत् । समानमुभयस्यापि । स एवार्थ इति चेत् । नार्थत्त्वस्याभावात् । एवंभूत एवार्थ इति चेत् । सर्वत्र चैवं भूतः । अलो- कत्त्वे सर्वमलौकिकं । नहि दर्शनव्यतिरेकेणापरो विशेष इति प्रतिपादितम् (1)' प्राप्तिरिति चेत् । तदपि दर्शनमेव । अनेन दर्शनादि व्याख्यातम् । यथैव प्रथमं ज्ञान तस्य प्राप्तिमपेक्षते । तत्प्राप्त्यापि पुनः प्राप्तिरपेक्ष्यत्यनस्थितिः । (c. 74a) कस्यचित्तु यदीष्येत स्वत एवाप्तिरूपता। प्रथमस्यापि तद्भाव इति सर्वममानता ॥ प्राप्तेरथापि पूर्वेण प्राप्तिरूपेण सत्यता । अन्योन्याश्रय (मि)त्येका सत्यर्थे नोभयम्य तत् ।। अर्थकारणशुद्धत्वात्तु ज्ञान" म्यास्ति मत्यता । तज्ज्ञानम्यापि सत्यत्वं तत्कारणविशुद्धितः । एवं परंपरापेक्षादनवस्था प्रमज्यते । वासनाबलभावित्वं मृगतृष्णाजलेस्ति तम् (न्) । ततःसकलमेवन्नदिति कल्प्यमनाकुलं । अनादिवामनामङ्गप्रतिबद्धप्रवृनयः । यस्य नीलादयम्नम्य न दोपो नाम दृश्यते । ननु वासनाप्रतिबन्धोपि स्वसम्वेदनज्ञानात्मनि कथं । स्वरूपात्प्रतिबद्धश्चेदपर: केन' गृह्यते । स्वरूपमेव म यदि नाममात्रं कृतम्भवेत् । यदि स्वरूपव्यतिरिच्यमानात्मा प्रतिबन्धो यत्र च स तदा पृथग्भूतग्रहणेन स्वसम्वेदनं । न चेत्पृथग्भावः सम्बन्धसम्बन्धिनावेव तहि न स्त इति न सम्बन्धग्रहण- सम्भवः। तदप्यसत् । यतः। वासनाप्रतिबन्धोयं मुखेनैव प्रतीयते । स्मरणं पूर्व विज्ञानप्रतिबद्धं प्रतीयते । स्मरणमुपजायमानमेवात्मनोऽनुभवप्रतिबन्धं प्रतिपादयति तबव्यवसायवशादेव- मुच्यते । अस्मरणे तहि कथं वासनाप्रतिबद्धत्त्वप्रतीतिः । तथाहि । I3a ७४ ] वार्तिकालंकारः (३३३५१) दृष्टमेतन्मयेत्येवं म्मरणं वेदने सति । न त्वस्मरणमात्मानं निवेदयति कस्यचित् ।। (c. 74b) स्मरनेव दृष्टमेतदिति निरूपयत्यन्यथा दृष्टत्त्वस्य निरूपयितुमशक्य- त्वात् । अस्मरणसम्वेदने तु न दर्शनानुसारित्वप्रतीतिः ततस्तद्वासनाप्रति'"बद्धमिति कथं प्रतीतिः तत्रापि दृष्टमिति प्रतीतेः । स्मरणेन सहकीकृत्य तस्यापि प्रतीतेरन्यथा व्यवहारायोगात् । स्मर्यमाणदृश्यमानयोरेकतया प्रतीतिः। ततः सकलं वासनाप्रति- बद्धमेव । अथ स्मर्यमाणदृश्यमानयोरेकताप्रतिपत्तिन्तिा। न । बाधकाभावात् । एतदेव स्मगमीति पूर्वदर्शनमत्र मे । न (हि) बाधकमत्रास्ति तत्र स्मृत्या महकता। अथ स्मरणाकारेण पूर्वरूपन्न गृह्यते। तथा सति पूर्वपरयोः कथम्भेदप्रती- तिरतोऽद्वतमेव । तथासति सुतरां सम्वेदनात्मता। अपिच। बाह्ये वस्तुनि कार्यकारणभावनियमस्य कर्तुमशक्यत्त्वात्। तथाहि । बाह्यस्यादर्शनात्पूर्वं कथम्विज्ञानकार्यता (।) विज्ञानस्य तु दृष्टत्वाद्युक्ता विज्ञानकार्यता । तथा (-) देशकाला द्यवस्थातस्तत्कार्यस्यान्यथोदयात् । कार्यकारणभावस्य नियमो नोपपत्तिमान् । सम्वेदनपक्षे तु सम्वेदनं पूर्वसम्वेदनादेवोपजायते । यद्यपि नामाग्निमन्तरेण भवति धूमस्तथापि धूमवासनातो भाव इति नाहेतुको जनप्रतिभासश्च। मशक- बत्तिमृगतृष्णिकाधूमजलवत् । बाह्यमेव वासनाबलाद् भवति चेत् । इष्यत एवैत- हायवासनाबलायातत्त्वान्नाममात्रमेव कृतं स्यात्तच्च लोकेनव (c. 7sa) कस्तवात्र पुरुषकारः। ननु वासनाकार्यत्त्वेन न प्रतिभाति कथम्वासनाकार्यता । अकस्मामादग्नि प्रतियतः किं बाधककार्यत्त्वं प्रतिभाति । पर्यालोचयतो भवतीति चेत्। वासना- कार्यत्त्वेपि समानं । जन्मान्तरादिवासनाप्रबोधस्यापि सम्भवात् । बृद्धस्य बालक्री'- डास्वप्नसम्भववत् । ततश्च (-) जन्मान्तरादिदृष्टस्य प्रतिभास इतीरितं । वासनाबलभाव्ये वावभास इति निर्णयः । ततश्च पूर्वपूर्वस्य विज्ञानस्यावभासनं । सर्वत्र बाह्यं विज्ञानाद्वाह्यमेवोपपादितम् ।
१३-विज्ञप्तिमात्रता [ ७५ अनादिवासनासङगविधेयीकृतचेतसाम् । विविध (:) प्रतिभासोयमेकत्र स्वप्नदर्शिनाम् । कार्यत्वात्सकलं कार्यं वासनाबलसम्भवं ।' कुम्भकारादिकार्यम्वा स्वप्नदर्शनकार्यवत् । प्रधानमीश्वरः कर्म यदन्यदपि कल्प्यते । वासनासङगसम्मूढचेतः प्रस्यन्द एव सः । प्रधानानां प्रधानं तत ईश्वराणां तथेश्वरं । सर्वस्य जगतः कर्वी देवता वासना परा । असमञ्जसवृत्तस्य सहोद्वेगप्रवर्तनं । अन्यथा जगतः कर्ता प्रेक्षापूर्वक्रियः कथम् । स्वातन्त्र्ये वर्तमानस्य शक्तस्य परिजानतः । असमञ्जसवृत्तित्त्वं यदि क: केन शिक्ष्यताम् । उपदेशस्य दाता चेत्स एव स्वान्यजन्मनः । स्वयं कर्ता विरूपं यः तस्य का न्यायवादिता। असमञ्जसभावाय विधाता चेत्समञ्जसं । प्रख्या[? क्षा] लनादमध्यस्य दूरमस्पर्शनम्वरम् । अशक्यमन्यथाकर्तुमत्र (c. 75b)शक्तिः कथम्मना । वामनाबलतः मोपि तस्मा'देवं प्रवर्तते । इति प्रधानेश्वरकतृ वादनद्यः मदा शीघ्रवहाः प्रवृत्ता ( :। ) विशन्त्य एवाद्वयतां प्रयांनि नहामनामेयममुद्रमेव । वासनव वरं मूढाः मदुपायेन मेध्यतां (1) तत एव समस्तस्य वांछितस्य प्रमिद्धयः । तस्मादर्थग्रहः कयमिति नाहं प्रष्टव्यस्तदभिप्रायपर्यन्तनयनाथमेतवहन्तु पुनरीदृशन्न भवतः सर्वथा समर्थयितुं शक्तः। अतिदुर्मत्रितं यानु क: समर्थयितु क्षमः । अत्यन्तभूमिबीजस्य कर्षक: किं करिष्यति । ननु यदि ग्राह्यग्राहकाकारता नास्ति कथन्तथाव्यवहारः। अयमपि भवतो व्यामोह एव (1) नहि ग्राह्यादिव्यवहारोपि सम्विदितः। सम्विवितस्वरूपे निम- ज्जनात् । तदात्मक एव व्यवहार इत्यर्थः । तथा हि । अविभागोपि वुद्धधात्मा विपर्यासि तदशनैः। ग्राह्यग्राहकसम्वित्तिभेदवानिव लक्ष्यते । (३५२) ७६] ] वातिकालंकारः (३३३५३) - मन्त्राद्युपप्लुताक्षाणां यथा मृत्शकलादयः । अन्यथैवावभासन्ते तद्रूपरहिता अपि । (३५३) अविभागो बुद्धधात्मेति स्वसम्वेदनप्रसिद्धमेतत्। तथा च प्रतिपादितम्। विप (य)स्तदर्शनस्तु ग्राह्यादिरूपेण गृह्यते। न। अपि तु लक्ष्यते। परेण सब भावेपि वृश्यत इति विपर्यासमारोप्य तथा व्यवहारः। दर्शनमेतदिदानी मम, बाह्यं तु परेण दृष्टमासीदेव । एतत्पुनरसौ न विचारयति (--) परेण यदृष्टं तन्मया दृष्टमिति कथम् । (c. 76a) नहि परोप्येवं जानाति । तस्यापि तव- स्मत्सम्वेदनवदेवासाधारणम् । अथ सोपि मया दृष्टमित्यनुमानादेव जानाति । तथा सतीतरेतराश्रय'दोषः । कार्यवर्शनभावादिति चेत् । नैकत्त्वप्रतिपत्त्यप्रसहगात् । नहि धूमादग्निर्जायमानो महानसस्थ एव ज्ञायते। अन्यत्वाद् धूमस्येति चेत् । रोमाञ्चादिकार्यस्यान्यत्त्वादपरः परस्य ग्राह्याकारः। किञ्च । सम्वेदनाद्रो. माञ्चादयो नात्। दर्शनयोश्च न दर्शनेन मिश्रीभावप्रतिपत्तिरन्यथा नान- मान"मपेक्ष्येत । नहि प्रत्यक्षेऽनुमानं प्रवर्तते। ननु रूपमेव प्रत्यक्ष परवृश्यता तु तत्राप्रत्यक्षादतोऽनुमानमिति चेत्। ननु परदृश्यता तत्रास्तीत्यत्रापि नैव प्रमाणम्। अत्र एव संदेह इति चेत् । एवन्तहि पीतरूपतापि नीलरूपतया दृश्यमाने किन्न सन्देहविषयः । पश्चादुपलप्स्यमानेग्नौ वह्निरूप"तास्तीति कुतः। पश्चादुपलम्भादेव । अत्र तु परदृश्यतायां पश्चादपि नोपलम्भः (1) ननु परदृश्यमानताऽनवगमे व्यवहार एव नास्ति (।) न (1) सावृश्यमात्रेण व्यवहारप्रसिद्धेः । एकत्वमन्तरेण तु व्यवहारो नेत्येतत्कुतः। नन यद्यनुमानं प्रवर्तते परोक्षे. एकत्त्वेपि (c. 76b) प्रवर्तते न चेत्सदृशेपि कथम् । सत्य'मेतत्सदृशेपि कुतोऽनुमानं। केवलं दृश्यविकल्प्याकीकरणमात्रेण व्यवहारमात्रमेतत् । परमार्थतस्तु स्वरूपमात्रालम्बनमेवानुमानम् । परोक्षविषयता b13 कमिति चेत् । न। ज्ञानं परोक्षविषयं कथमस्तु युक्तं, तत्रावभाति यदि कैव परोक्षता या । मुग्धा वभासनमथापि परोक्षतार्थस्तेन प्रतीतिरिति वाग्विधिरेष शुद्धः । ततः सम्वादनात्तस्य प्रतीतिरिति चेन्मतम् । प्राप्तिरस्तीति तत्तत्र प्राप्तिकाले सदुच्यताम् ।। पूर्वन्तु तस्य सद्भावः केन मानेन गम्यताम् । तद्भावेन विना सैव प्रतिपन्नम्भवेत्तदा ।। भाविवस्त्वनुमाभावे कथमस्ति प्रतीतता । सर्वत्र भाविरूपस्य प्रतीतिरिति निश्चयः ।
१३-विज्ञप्तिमात्रता द्वयोरपि प्रतीतिश्चेद्वर्तमानभविष्यतोः । एकरूपप्रतीतत्वं कथम्भाविभविष्यतो: तस्मानापरमार्थेन प्रतीतिरनुमानतः । परोक्षश्चेद् घटो नास्ति कथं पश्चात्प्रतीयते । तदेवोदययोगश्चेत्कथं स्यात्कारणम्विना । दृष्टत्त्वादेवमेवेति कोत्र पर्यनुयोगभाक् । दृष्टत्त्वात्पूर्वसद्भावः कस्मादस्य न कल्प्यते । न तथा दृश्यते तेन न तथा परिकल्प्यते । तथापि परिदृश्यस्य नानुमानन्तथैव तत् । अस्तीति ज्ञायतां केन परेणेत्यसदुत्तरं । यतः (1) परोपि परविज्ञानमिति नैवावगच्छति (।) अनुमानेन तस्यापि ज्ञातावन्योन्यसंश्रयः । परसाधारणास्तित्त्वे ज्ञातम्नीति तदुच्यते । तदस्तित्त्वे (c. 77a)नुमानम्य प्रतिबन्धात्प्रमाणता ।। तस्मात्प्रत्यक्षतोम्तित्वे ज्ञातं तत्रानुमा भवेत । अनुमानेन चाम्तित्वे ज्ञाने व्यक्तस्य तद्ग्रहः अन्योन्यसंश्रयादेवमेकस्यापि न सम्भवः । अन्योन्यमंश्रयं किञ्चिदन्यत्रापि न दृश्यते । -तस्मादनादि तथाभूतानुमानपरम्पराप्रवृत्तमनुमानमाश्रित्य बहिरर्थ- कल्पनायां ग्राहयग्राहकसम्वेदनकल्पनाप्रवृत्तेः ग्राहयादिकल्पना. पर मार्थतः सम्वेदनमेवाविभागमिति स्थितं । कुत एष भवतः प्रबोध इति चेत् । मन्त्राशुपकृत- दर्शनानां मृच्छकलादीनां तद्रूपरहितानामपि सादिरूपेण प्रतिभासनात्। ते हि पररदृश्यमपि दृश्यतया व्यवहरन्ति। याववेषामव्युत्पत्तिः। यदि तु यत्स्वरूपं यत्त- थैव तत्प्रत्यक्षतो वेद्यते। नहयुत्पत्तिमत्पद्येरन् । प्रत्यक्षमपि व्युत्पत्तिमपेक्ष्य तथेति चेत् । नानुमानस्य सामर्थ्यदर्शनात्। प्रत्यक्षस्यैव सामर्थ्यमिति चेत् । नानुमानस्य प्रामाण्याप्रसङगात्। भवतु प्रत्यक्षमेव तदिति चेत् । तदेव तहि वासनाबलायात- मव्यक्तस्यापीति न प (र)मार्थः । अपि च विपर्ययेप्यनुमानमस्त्येव तत्कथमनु- मानद्वयम्भवेत्। उभयपक्षे भवत्विति चेत्। न (1) प्रतिपुरुषं भावव्यवस्था- (c. 77b) प्रसङगात्। भवतु को दोष इति चेत्। तदेव स्वसम्वेदनमायातं। परस्परामिश्रणेनासाधारणत्वात् (।) तस्मात्परस्तथा न प्रतिपद्यते तथापि ७८ ] वार्तिकालंकारः (३३३५५) साधारणत्त्वेन प्रतीतिः। अर्थतदेव कुतः। परो न प्रतिपत्तिमानिति। अनुमाने- नेति चेत्। विपर्ययेपि तहि प्रवर्ततामनुमान। विपर्ययेनुमानमसदिति चेत् । कथं। एकत्त्वेन प्रतिबन्धाग्रहणात्। सादृश्येप्यनुमानं कृतार्थमेव। इह तु पुनर- दर्शनानुरूपा क्रिया दृश्यमाना नियमेनादर्शनमनुमापयति । एतच्च पर एवाभ्यु- पगच्छति। तथैवादर्शनातंषामनुपप्लुतचेतसाम * । दूरं यथा वा मरुषु महानल्पोपि दृश्यते । (३५४) यवसावर्थः परेणापि दृश्यत इति। एवं परस्याप्यभ्युपगमः। तथा महा- नेवायमिति प्रतिपत्त्या तथितयोपसर्पणं साधारणमिति कृत्त्वा तस्मादन्यथा- नुमाने परित्यजत्येव तां दृष्टमित्यनुमानं सकलं सकलजनप्रसिद्ध । पराभ्य- पगमेन तु तत्त्ववशिनां । अथवा यदेव प्रतीयते यथा तादृशादर्थकल्पने कोऽवसरः। अनुमानमपि स्वाकारमात्रपर्यवसाने सति प्रत्यक्षमेव ।। ननु बाहचोप्यत्र दृश्यमानोऽदृश्यमानो वास्तीति व्यवहारिणाम्भवत्येव प्रतीतिः। भवतु सापि स्वात्मन्येव निमग्ना यावत्प्रत्यक्षाभिमता । स्वात्मनिमग्नेति नापरं प्रतीतिबहिर्भूतं वस्त्विति विन्नयः। (c.78a) किञ्च साधारणप्रतीतिरपि भावना बलादेव यथा स्वप्ने। कथन्तहि" मेयमानफलस्थितिः । अत्रोच्यते। यथानुदर्शनं चेयं मेयमानफलस्थितिः । क्रियते विद्यमानापि ग्राह्यग्राहकग्विदां ।। (३५५) सदेव प्रतीयमानं वस्तु तत्रास्तीति प्रतीतिविषयतया ग्राहघं। स्वसम्वेदन- रूपं परानपेक्षमिति । ग्राहकं स्वयमेव तथाभावात्प्रतीतिरूपं सम्बिदिति । विकल्पनानुभवादुपजायमानेन व्यवस्थाप्यते व्यवहारतः। अनुवर्शनं वर्शनानुरूपो विकल्पः।" अविद्यमानापि। अविद्यमानाप्तिके विषयें ग्राहयग्राहकसम्विदा । अथवाऽविध (म)निग्रहणेन साधारणादौ पाहचादीनामिति । शेष उक्त एवान्यः । तस्मात्सम्विदेव परमार्थतो न त्रयम् । नन्वात्मपरिणाम एवं सकल इति कस्मादविद्यमानता। यदि नाम तस्य तत्त्वावप्रच्यतस्य ते भेवपरिणामाः । * चक्षुषाम् इति हे. पुस्तके । + यथार्थ- इति हे. पुस्तके ।
१३-विज्ञप्तिमात्रता [ ७९ अन्यथैकस्य भावस्य नानारूपावभासिनः । सत्यं कथं स्युराका"(रा)स्तदेकत्त्वस्य हानितः। (३५६) -योकः कथनाना प्रकाशते। नाना चेत्प्रकाशते तदेकता हीयते। यतः। * अन्यस्यान्यत्त्वहानेश्च नाभेदोऽरु ?रू] पदर्शनात् । | रूपात् भेदे हि पश्यन्ती धीरभेदं व्यवस्यति ।। (३५७) अन्यस्याप्येतदेव तत्त्वं । यदभेदप्रतिभासनं नाम । (c.78b) अन्यस्याप्यन्य- थात्वं नास्त्येव । नेष्यत एवेति चेत् । एवन्तहि रूपभेदप्रतिभासने सति कथमभे- दाभ्युपगमः। यदि नाम भवता नेष्यते भेदः स तु पुनरप्रतिभासमानेपि कथ- मभ्युपगन्तव्यः। रूपाभेददर्शने हि सत्यभ्युपगमः साधुः। यदि सर्व एव ते भेदाः प्रकाशरूपाः सर्वेषां सत्यता। अथाप्रकाशरूपाः कथमप्रकाशाः प्रकाशावभिन्नाः । प्रकाशत्त्वे[?त्व आत्मवत्सर्व एव सत्या भवेयुः। आत्मवदेव। प्रकाशरूपतव चात्मनो रूपं ततः सर्व एवात्मानः स्युः। तत: परिणामपक्षक्षयः। अथ बहुत्वं भांतिः । तथा सति न किञ्चिदिति प्राप्तं सकलमेव शून्यम्भवेत् । भ्रान्तिरपि नामात्मव्यति- रेकेण नवास्ति । किम्वा भ्रान्तिरिति नामकरणेन । अभावे प्रान्तः सर्वमेतत्र भविष्यतीति न तत्त्वं [? त्वतः] भेदः । ततोऽतत्त्वाभासनिमितत्त्वादभ्रान्तिरिति व्यवस्थाप्यते। नास्यास्ति भ्रान्तिता यावनिवर्त्यत्त्वं नमिध्यति (1) निवर्त्यत्त्वे च विज्ञाते भ्रान्तिरेवेति गम्यते । भ्रान्तिनिश्चयमासाद्य प्रवर्तेत निवृनये । ततो निवृत्तिरित्येच्चककं केन गा [? ग] म्यते । तस्मात्। भावा यन निरूप्यन्तं तद्रपन्नास्ति तत्त्वतः । यस्मादकमनेकञ्च रूपं तपान विद्यनं ।। (३५८) एकं न विद्यतेऽनेकत्त्वेन प्रतिभासनात् । असम्वेदनञ्च न प्रतिभातीति सम्वेदनात्मना तेन भाव्यम् । स्वसम्वेदने चानेकत्त्वाप्रतीतेः । अथ तत्रान्तर्गतत्त्वा(त्) अन्यस्या इति हे. पुस्तके। + रूपाभेदेपि पश्यन्ती धीरभेदव्यवस्थितिः ।हे. पुम्नके । 1 एकं वा इति हे. पुस्तके । १ ८० ] वातिकालंकारः( ३२३६२) प्रतीयन्ते तदन्तर्गतत्त्वं (c.79a)न प्रतीयत इति तदपि न शक्यम्बक्तुमित्युक्तं । अथवा यस्मादेकं चित्राकारमनेकञ्च न विद्यत एव । कथन्तहि भेवप्रतिभासः॥न भेवः प्रतिभातीति प्रतिपादितं प्रतिपादयिष्यते च । अथवा सकलमेव भेवरूपमन्यया च भावनाबलादवभासत इत्यसत्यं स (?)शक्यन्ते हि भावयतो विपरीतभावनया निवर्तयितुस्यिशक्यनिवर्तनता नास्तीति निश्चयाव" सत्यम्। 4la ननु। - साधर्म्यदर्शनाल्लोक भ्रान्ति मापजायत । अतदात्मनि तादात्म्यव्यवसायन नेह तन ।। (३५९) प्रदर्शनाजगत्यम्मिन्नकस्यापि तदात्मनः ।। अत्रोच्यते। न साधर्म्यदर्शनादेान्तिः । अस्तीयमपि यात्वन्तरुपलवसमुद्भवा । (३६०) दोपाद्भवा प्रकृत्या सा विततप्रतिभासिनो। अनपेक्षितसाधर्म्यगादिस्तैमिरादिवत् ।। (३६१) न खलु तिमिरतिरस्कृतवर्शनानां मशकमक्षिकावयो वर्शनान्तरबला'- बुपजायन्तेऽपित्वान्तरादेव तिमिरकारणात्। ननु तिमिरावप्युपजायमानं वस्तु बलादेव न भावनाबलात् । आन्तरकार- णत्त्वमात्रन्तु विवक्षितं। सर्वस्यापि त्वान्तरं कारणं वासनव। स्वप्नादिप्रत्यय- पत् (1) सा वासना यथा कथञ्चित्प्रबोधवती स्वानुरूपप्रत्ययप्रसवहेतुः । तत्र च पूर्वपूर्वमेव दर्शनं साधर्म्यदर्शनं। आदौ किं दृष्टं येनेयं भ्रान्तिः । दर्शने कथं तस्य दर्शनमिति वक्तव्यम् । ततस्तु समानत्वादभ्रान्तिरेव सका[?सकला । (c.79b) अथान्यथा वर्शनं कथं सकला भान्तिः । साधर्म्यदर्शनादिति । न । भ्रान्तिपरम्परयेयं । नानादिरस्तीति प्रतिपादितं (1) तस्मादनादिरयमसद्वा- सनापरिक (1) ल्प (त): संसारः। कथं प्रमाणाविव्यवस्था स्वात्मनीति चेत् । अत्रोच्यते। तत्र बुद्धःपरिच्छेदो ग्राहकाकारसम्मतः । तादात्म्यादात्मवित्तस्य स तस्याः साधनं मतं* । (३६२) तदेव साध्यं तदेव साधनं सैव सिद्धिः । * तत:-इति हे. पुस्तके ।
१३-विज्ञप्तिमात्रता । ८१ तत्रात्मविषये माने यथा रागादिवेदनम् । इयं सर्वत्र संयोज्या मेयमानफलस्थितिः ॥ (३६३) अर्थादयो हि भावनावशादुपजायमानाः स्वसम्वेदनरूपा इति प्रतिपादितं ( अर्थाविसम्वेदनञ्च प्रत्यक्ष प्रमाणं (1) तत्राव्यतिरिक्त (1) एव प्रमाणप्रमेय- प्रमितिव्यवस्था। यदुच्यते। "चतसृषु चैवम्विधासु तत्त्वं परिसमाप्यते (-) प्रमाता प्रमेयं प्रमाणं प्रमितिरिति" * (1) तवसत् एक त्रैव सर्वपरिसमाप्तेः । ननु सुखादौ यदि नामाव्यतिरेकः । पीतादौ व्यतिरेक इति चेत्। न। इयमेव सर्वत्र योज्या मेयमानफलस्थितिः॥ यथा अर्थादिसम्वेदने तथा नीलादिसम्वेदनपि । नीलाकारं अर्थाकामिति वा भवतु कोऽनयोविशेषः । द्वयोरपि स्वरूपेण वेदनात् । ततो नीलमुखशरीर- वेदनं स्वरूपेणव सकलं न पररूपेण । स्वरूपेण चेत् । सर्वं सुसम्वेदनमेव । ननु (c. 8oa) नीलाविसम्वेदनेनात्मभूतो ग्राहकाकारः सुखादिवत्तत्कथं ते दृष्टान्तः । सुखावीनां कथं. स्वप्रकाशात्मकत्त्वात् आत्मवत् । केयं प्रकाशात्मता नाम । अपरोक्ष- रूपता. यथैवं। तत्राप्यनुभवात्मत्वात्त योग्या स्वात्मसम्विदि । इति सा योग्यता मानमात्मा मेयः फलं ववित ॥ (३६४) [ग्राहकाकारसंख्याता परिच्छेदात्मनात्मनि । सा योग्यतेति च प्रोक्तं प्रमाणं स्वात्मवंदनं ॥३६॥ ] तेपि नीलादयोऽपरोक्षरूपत्वादनुभवात्मकाः । ततः सुखादिव"देव स्वसम्बिदि योज्याः। नहि तेपि नीलादयः पररूपेणापरोक्षाः । ननु चक्षुरादिबलान्नीलादीनामपरोक्षता। न (1) स्वरूपेणैवापरोक्षत्त्वात् । नहि यतः चक्षुः प्रसृतं ततोऽपरोक्षं नीलं चक्षुः प्रसृतमपि कदाचिन्नापरोक्षयति । अप्र- सृतत्त्वेप्यपरोक्षत्त्वसम्भवात् । तथा हि । रागादिसम्भवे रूपमन्यथवावभासते । चक्षुपः प्रमृतत्त्वेपि स्वरूपानवभा(म)नात् ।। * वात्स्यायनीय न्यायभाष्ये १२१११ (पृष्ठे १) स्वल्पभेदेन । + अयं पाठो हे. पुस्तके विद्यते परमत्र मूलं व्याख्या च न दृश्यते। चिन्त्यमतत् ।
८२ ] वातिकालंकारः (३॥३६५) । यदि चक्षुरादिकस्याभिमुखीकरणेपि स्वरूपेण विषयस्यानवभासनं कथमसावपरोक्षः। स्वरूपावभासन[न्तु वासनामन्तरेण चक्षुरादिप्रतिबद्धं न परस्परापेक्षया मेवापरोक्षता । अथ भावनावशादयं दोषश्चक्षुषः (1) तदाह । यदिभावनया चक्षुरादिकम्यान्यथा गतिः । भावनावलतःसवं नीलादेवभासनं । भावना हि वासनाऽपरनामिका चक्षुराद्यायातप्रतिभासस्य हेतुः। (c. 8ob) तदा वासनाबलभाविनः एका?वनीलादिप्रतिभासाः। नन्वन्यथा प्रतिभासनं वासनाहेतुः। स्वरूपप्रतिभासनन्तु वासनामन्तरेणेति चक्षुरादिप्रतिबद्धं न परस्परापेक्षया। सर्वेषामन्यत्त्वात् । ततो नेकप्रतिभासेन ज्ञायते कि स्वरूपमिति प्रतिभासः प्रमाणं । न चेयभिचारी कुत आश्वासः। तस्मात् । प्रतिभासः समस्तोपि भावनाभावनिर्मितः । रवरूपाभिमतादन्यप्रतिभासश्च रू"पवत् । बाध्यबाधकभावस्तु प्रत्युक्त एव। तस्मात्स्वसम्वेदनमेव फलं बाहयेप्यर्थे, तदाकारः प्रमाणम्। ननु साकारं विज्ञानमिति न युक्तं । तथा हि । यदि दर्पणवत्स्वच्छमुपधानोपरागतः । तदावभासनं प्राप्तं चक्षुरादिर्न चेष्यते ।। यावत्सन्निहितं सर्वं दर्पणे त(त्)प्रकाशने ततःसर्वस्य रूपादेवभास: प्रमज्यते ।। अथ दर्पणवच्चक्षुरवभासस्य कारणम् । तत्संक्रा'"न्तस्य दृष्टिःस्यादनृते दर्पणादिवत् ।। ततो न ज्ञायते रूपं कीदृक्किं परिमाणकम् । वर्णस्यापि विपर्यासः काचाभ्रपटलादिवत् ।। गोलकादथ निष्क्रम्य रूपादिष्वनिपातिनः । ज्ञायन्ते निजरूपेषु ग्राहका महदादिषु ।। विशिष्टं जायते रूपं प्रदीपालोकसङगमात् । यदि स्वरूपसम्वित्तिः प्रदीपालोकसङगवत् । न स्यात्तत्रापि चान्यस्य व्यापारादनवस्थितिः । अथ स्वरूपसम्वित्तिः तदा ते रश्मयःकथम् । तस्मादर्थे स्थिते ज्ञानं (c. 81a) तदाकारं प्रवर्तते तस्मादुत्पादमात्राच्चेत्सर्वाकारं प्रसज्यते ॥
१३-विज्ञप्तिमात्रता [ ८३ यत एव तदुत्पत्तिः तदाकारं भवेद्यदि । चक्षुराकारतापि स्याज्जायते चित्ततोपि यत् ।। अत्रोच्यते। सर्वमेव तु विज्ञानं विषयेभ्यः समुद्भवत् । तदर्थस्यापि हेतुत्त्वे कथंविद्विषयाकृतिः ॥ (३६६) नहि यत्र एवोत्पद्यते तदाकारमेव भवति। तथा हि। यथैवाहारकालादेर्हेतुत्त्वेऽपत्यजन्मनि । पित्रोस्तदेकस्याकारं धत्ते नान्यस्य क (स्य) चिन ।। (३६७) नहि पित्रोद्धयोरपि समानाकारतां धत्ते। तत उत्पद्यमानः स्वतः। अपि तु कस्यचिदेव । तस्मादर्थादेवार्थाकारमिति । तथाहि । दूरदेशस्थितादृक्षात्तदाकारं हि जायते । विज्ञानं नेन्द्रियाकारमिति दृष्टमिदं सदा ।। तद्धतुत्वेन तुल्ये"पि तदन्विपय मतम । विषयत्त्वं तदन्येन तदभाव न तद्भवेत ।। (३६८) न हेतुतया विषयोऽपि तु तदाकारविज्ञानहेतुतया । हेतुतया विष- पत्त्वे चक्षुरादीनामपि विषयत्त्वं । तदाकारतया मरीचिकादिजलज्ञानस्यान्यदेश जलमपि भवेत् विषयः। नहयाकारमन्तरेण बोधरूप विज्ञानं सम्वेद्यमानमन्यथा वा तदाकारविषयव्यवस्थापने समर्थं प्रतीतेतरावस्थयोरयो' 'गादिति प्रति- पादितम् । यदि तत्प्रतीयते (c. 81b) किमपरेण व्यर्थकत्त्वात् । अथ न प्रतीयते तदापि अशक्तरिति। न हयप्रतीयमानं प्रतीतिविषयः । प्रतीयमानञ्चेत्सव तस्य तद्रूपताप्रतीतिः । व्यतिरिक्ता च क्रिया न युक्तेति शतशः प्रतिपादितम् । ननु चाकारः प्रमाणं स्वसम्वेदनं फलमिति साकारसिहौ स्यात् (1) तदेव तु कयं सिध्यति । उक्तमत्र । अपि च । विषयज्ञानतज्ज्ञानविशेषाद् बुद्धिरूपता । -विषये रूपादौ यज्जानन्तदर्यस्वाभासं, विषयज्ञाने तु यज्ञानं तदर्यानुरूप- ज्ञानाभासं । स्वाभासञ्च । अन्यथा यदि विषयज्ञानमर्थाकारमेव स्यात् । स्वाकारमेव 14b वा विषयज्ञानज्ञानमपि तदविशिष्टं स्यात् । विषये यत् तानं तदर्थस्वाभासमिति साध्यं । उत्तरो हेतुः । अन्यथेत्यादिवाषकं प्रमाणम्। कीदृशं मम जानमासीदिति यदा पर्यालोचयति तदाऽर्थप्रतिभासमेव स्मरणेन व्यवहरति नान्यथा। यश्च ययाषिमोक्षेण विषयीकृते तथा भवति यथा गौरित्यविमोक्षण विषयोक्रियमाणः शावलेयः। तथाहि।
८४ ] वार्तिकालंकारः (३॥३७०) एवम्भूतोऽवभासो न.. ज्ञानेऽर्थस्तु कीदृशः । इत्यर्थस्य परित्यागाज्ञानस्यार्थाविनिश्चयः । यदि केनचिनियुज्यते कथमसावर्थ इति भवता ज्ञातं तदाऽर्थप्रतिभासस्तादृशो- ऽर्थस्तत्रास्ति न वा, तादृशोऽन्यथा वेति न निश्चय इति प्रत्युत्तरयति । ततोर्य- परित्यागी प्रतिभास एव ज्ञानं । (c. 82a) एकत्त्वे त्वर्थस्य तत्रैव निश्चयःतत्रवा निश्चय इति कथं । निश्चयानिश्चययोविरोधात् । अर्थस्तु न प्रतिभासे निश्चयः। नार्यान्तरभेद इति तत एवं ततः प्रतिभास इत्येतावत्तत्र प्रतिभाति । तदपरन्तु नेत्यर्थ एव स निश्चयश्च । भागद्वयभावादिति। तदेतदुत्तरत्र वक्ष्यते। अपि च । अ(न)र्था*कारशंका स्यादप्यर्थवनि चेतसि । अनीतार्थग्रह सिद्धे द्विरूप(1)र्थात्म वेदनं ।। (३६९) यदाह। न ज्ञानं प्रतिभासते स्वसम्वेदनाभावात् । नापि स्मयतेऽर्थस्यैव सर्वत्र स्मरणात् । तत्र यथार्थोपपत्या ज्ञानेऽर्थस्य[? :] परिकल्प्यते (1) ज्ञानं तथा स्मरणानुपपत्त्यापि न सम्विदितं ज्ञानमस्ति न च तस्याकारता ततो द्विरूपं ज्ञानमिति प्रत्यक्षबाधः प्रतिज्ञायाः। सन्दिग्धे हेतुवचनाद्वयस्तो हेतोरनाथयः । दृष्टान्ते च प्रतिबन्धग्रहणे हेतुवृत्तितः । न चैतदस्ति । सर्वत्राकारस्य विवादास्पदत्वात् इति चेत् । अयुक्तं (1) यतो यत्रार्थोस्ति तत्र नासौ ज्ञानस्याकार इति स्यादपि शंका । अनर्थवति तु चेतसि केशादौ पीताद्यवभासे च सिद्धमेव वृघाकारत्त्वं सम्वेदनञ्च । तत्र परोक्षं विज्ञान- मित्येतदेव प्रत्यक्षबाधितं। ततस्तदृष्टान्तदृष्टया प्रतिबन्धग्रहणम् । ततश्च तस्य तथाभूतः प्रतिभास इति तद्वारायातो निश्चयः कथमर्थे भवेत् । सर्वत्र च विज्ञाने एवमेव निश्चय इति साकारत्त्वसिद्धिः। स एव प्रतिभासत्त्वनिश्चयस्वभावो विषयज्ञाने (c. 82b)त (ज)ज्ञानस्य स्वभावः। अथ कदाचित्तत्राप्यर्थ एवास्ति यदि न व्यक्तिर्जातिरेव भविष्यति । -- अत्रोच्यते। नीलाद्याभासभेदित्त्वामार्थो जातिरतद्वती। सा चानित्या न जातिः स्यानित्या वा जनिका कथम ॥ (३७०) * हे. पुस्तके अनर्थाकार-इति । +द्विरूपत्वात्म-इति हे. पुस्तके ।
१३-विज्ञप्तिमात्रता [ ८५ नहि नीलादिरूपा जातिवाद्याकारशून्यत्वात्। हेतुत्त्वेनानित्यत्वाच्च न सा जातिः।। अथ नित्या न जनिका नित्यस्य जन"कत्त्वाभावादिति प्रतिपादितं ॥ नामादिकं निषिद्धं प्राक् नायमर्थवतां क्रमः । इच्छामात्रानुबन्धित्त्वादर्थशक्तिर्म सिध्यति ॥ (३७१) सकलमप्येतत्प्रागेव प्रतिपादितमिति न प्रपञ्च्यते। स्मृतिश्चेद्दग्विधं ज्ञानं तस्याश्चानुभवाद्भवः । स चार्थाकाररहितः सेदानीन्तद्वती कथम ॥ (३७२) अनुभवावुत्पद्यमाना स्मृतिरर्थमन्तरेण भवन्ती कथं नीलाद्याकारा। अथा- पदेिव स्मृतिस्तदाकारा। तदाह । नार्थाद्भावस्तदाऽभावात स्यादर्थानुभवेपि सः ।। यद्यर्थात्साक्षात्स्मृतिस्तदा तथैवार्थेन भवितव्यं । न च तदस्ति। अथाविधव- हितादपि भवति तदाकारा स्मृतिः अनुभवोपि तथैव चेदिति । यथा च तथा प्रतिपादितमेव । इहापि प्रतिपाद्यते। आकार: स च नार्थम्य स्पष्टाकारविवकतः । (३७३) स्पष्टाकारश्चार्थस्तदनुभवेन गृहीतः । स च यद्यर्थस्याकारस्तथाभूतेनैव तेन भाव्यम् । अथ स्मृत्या प्रतीयमान (1) र्थात्तथा प्रतिभा ति (1) एवं तहि. अनुभवेन प्रतीयमानत्त्वात्स्पष्टतेति नार्थस्यासावाकारता (1) (c. 83a) व्यतिरिक्तन्तमाकारं प्रतीयादपरम्तथा। नित्यमात्मनि सम्बन्धे प्रतीयाकथितं न च* ।। (३७४) यद्यसावर्थः परोपि प्रतीयात् । अथात्मसम्बद्ध एवासी न परस्य प्रतिभासते। आत्मसम्बद्ध इति कोर्थः । किमात्मकार्योऽथ तदात्मा। यदि कार्यस्तवा परस्य प्रतिभात्येव । नहि कार्यत्वे साधारणत्वमपैति । अथ तदात्मा (1) तथा सति सम्वेदनात्मकत्त्वमेव । तादात्म्ये च नित्यमात्मनि सम्बद्ध एव नान्यथा। तथा च कथितमपि न प्रतीयात् । अथ प्रत्येति तदाऽन्यथापि प्रतीयात् । तथा हि(-) बाहचं रूपादिकं कथितमपि प्रतीयते परेणाकथितमपि। अथ कथितं यत्प्रतीयते तदन्यदेव । एवन्तहि। एकैकनापि सम्बन्धे प्रतिसन्धिः। न युज्यते । 'हे. पुस्तके नित्यमान्मनीत्यर्द्ध दृश्यते, व्याख्यानमप्यस्यास्ति । वार्तिकालंकार भोटभाषान्नरेऽपि न दृश्यते । अनुसन्धानं-इत्यधिक: पाठः ।
वातिकाकारः (३३३७७) कीदृशः प्रतिसन्धिरित्याह। एकार्थाभिनिवेशात्मा एकमिदमिति न प्रतीतिर्भवेत्। तस्य पृषकत्वात् । कयोः प्रतिसन्धिरित्याह । प्रवक्तृश्रोतृचेतसोः । (३७५) नानाभूतार्थग्रहणप्रवृत्तत्त्वात्तच्चेतसोः । तदेकव्यवहारश्चेत् सादृश्यादतदाभयोः। भिन्नात्मार्थः कथं ग्राह्यस्तदा स्याद्वोरनर्थिका ॥ (३७६) सादृश्येन हि य एकव्यवहारः स दृष्टयोरेव नान्यथा (1) न च परदृश्यदर्शनं कदाचिदपि तत्यं (? तत्कथं) व्यवहार एकत्त्वेन । अत्र हि परस्परविविक्तार्थप्रतिभा- सनमेव । अथ सादृश्यम्वस्तु (c.83b) भूतं ततस्तदनुसारेणकमेतदिति प्रतीयात् । एव- न्तहि। अकथि "तेपि स्वप्रतीत्यनुसारेण परस्यापि प्रतीयात् । यदापि परो न कथयति। मयाप्येवं प्रतिपन्नमिति। तदात्वसत्त्यं कथयति। तदा कथं प्रतिपत्तिरर्थमन्तरेणव । एवमेव दृश्यत इति चेत् । तदा तहि स्यादनथिका बुद्धिः । यथा परप्रतिभासमन्त- रेणव परप्रतिभासावसायिनी धीस्तथार्थप्रतिभासनमन्तरेणाकारान्याविति सिद्ध- माकारवत्त्वं ज्ञानस्य। यदि नाम पर्यालोचनया बाधकप्रमाणबलाढा कस्य चित्साकारता ज्ञानस्य स्मृत्यादिकस्य। सर्वस्य तु कुतो भवतीत्याह । तच्चानुभवविज्ञानमुभयाङ्गावलम्बिना । एकाकारविशेषेण तत् ज्ञानेनानुबध्यते ।। (३७७) अनुभवविज्ञानमस्मृतिरूपं नीलादिविषयं द्वितीयेन तद्विषयेण स्मरणरूपे- णानुबध्यते अनुमीयते परामश्यते। किम्भूतेनोभयाङगावलम्बिना। नीलप्रति- भासं ज्ञानं ममासीदिति । न तु यथाभूतं । तदर्थापत्त्या निश्चीयते परैः । केवलं तथा भूतमनुसरति कश्चित् । न चापत्तिलौकिकस्य कस्यचिदुदयवती। नहि लोक एवं प्रत्येति (--)येनार्थो दृष्टस्तेन मम बुद्धिरपरास्तीति । नहि बुद्धेः स्वरूपस्य सार्थापत्तिनिरूपिता । सुनिर्भीर्य हि तद्रूपं न निर्धारयितुं क्षमम् । न रूपाद्य (c. 84a) वभासनव्यतिरेकेणापराकारां बुद्धिमर्थापत्याऽन्येन वा कश्चिन्नि रूपयितुं क्षमः। बोधरूपतया निरूपणमिति चेत् । ननु तदेव बोधरूपं न ज्ञायते। नहि प्रत्ययभेवाद्धात्वर्थभेवः । न च प्रत्ययार्थस्य भेदः केनोपज्ञ (?)श्च नार्थस्य भेदो नामोपगम्यते । अर्थाभेदे कयन्तेन तस्य व्याख्या प्रवर्तताम् ।।
१३-विज्ञप्तिमात्रता [ ८७ तस्मानीलादिव्यतिरेकेण बोधो बुद्धिरिति न निरूप्यते । तस्यैव तु नीलादेः स्वभावभूतधर्मभेदो नैव सूच्यते । नीलस्य नीलविषया वा बुद्धिरिति (।) तेन नीलविषया बुद्धिर्ममासी''दित्यनुसरणे तदाकारतानुसरणमेव । तथा हि । नोलान्न व्यतिरेकेण विषयि ज्ञानमीप्स्यते। ज्ञानपृष्ठेन भेदस्तु कल्पनाशिल्पिनिमितः । यदि तहि नीलादेरेव स्वभावो भेदेन बुद्धिरिति निद्दिश्यते । नीलादिकमेव तहि केवलं न बुद्धिर्नाम । यथा न परव्यतिरेकेण शुक्लत्त्वादिकं तनो बुद्धिरेव न परमार्थ इत्यायातं । इष्यते बाह्योऽर्थः पारमार्थिक इति । तदेत (द)सत् ।' तथा हि । ISA क्वचित्किञ्चित्समाश्रित्य कस्य चित्स्यान्निराक्रिया । यत्प्रमाणप्रसिद्धं स्यात्तवागन्यनिरक्रिया । यदि प्रमाणप्रसिदोर्थस्तदा तद्वयतिरेकेणापरा बुद्धिास्तीति बुद्धिः परि- त्यज्यते। अथ बुद्धिः प्रमाणप्रसिदा तदार्थः । तत्र तावदुद्धघाऽर्थस्य व्यवस्था- पनमिति न बुद्धिरर्थवता परित्यक्तुं शक्या। बुद्धिमता तु (c. 84b) स्वसम्वे- दनसिद्धत्वान्न बुद्धिरर्थोपायसाध्या। ततोऽर्थमन्तरेणापि शक्याभ्युपगमना' । ततो बुद्धिमङगीकृत्यतद्वचतिरिक्तार्थपरित्यागः । अथार्थोपि स्वसम्वेदनसाध्यः (1) तथा सति सम्वेदनमेव तद्वचतिरिक्तार्थः । अर्थश्चापरिदृष्टोप्यस्तीति तस्यानुपलम्भात् परित्यागः । बुद्विस्तु न तथेत्यपरित्याज्या। किञ्च । न शुक्लाद्यतिरेकेण द्रव्यमित्यध्यगीपनि । न बद्धगतिरेकेण नथार्थ इति मीयताम ।। तथा हि । क्षणिकत्त्वं न नीलादिव्यानरेकि कथञ्चन । तथापि क्षणिक वस्य नाभाव: पग्दिीपितः ।। तस्मान्नीलाद्याकारंव बुद्धिस्तथावसीयमानत्वात्प्रत्ययान्तरेण तेन चोभयाग- परित्यागानालम्ब्यत एव बुद्धिः तत्कथं न याकारा। अथवा बुदिरेकाकारविशेषणा- वलम्ब्यते द्वितीयेन ज्ञानेन। एकेनाकारेणावलम्ब्यत इत्यर्थः । किंभूतेनैकेनाकारणेति. तबाह। उभयाडगावलम्बिना। उभयाङगव्यापिना। तत एवोभया हुगकल्पना । परमार्थतस्तु तावाकारी तवे- काकारानुप्रविष्टावेवेति । तेन व्याप्ती भवतः। तो पुनराकारी बोधरूपता नीला- कारता च । पूर्वद [] व्याख्याने । १२ ८८ ] वातिकालंकारः (३॥३८०) एकाकारविशेषेण एकाकाराधिकेनेति ज्ञातव्यं । यदि नाम दुचाकारतया व्यवस्थाप्यते तथापि कथं याकारं। अत्रोच्यते। अन्यथा ह्यतदाकारं कथं ज्ञानंधिरोहति । यदि तदाकारमात्मानं' स्वसम्वेदनेन नानुभवेत् । (c. 85a) कथन्तदाकारतया ज्ञानं स्मरणेधिरोहेत् । अधिरोहणन्तदाकारताजननं [? नकं] । तदधिरोहतीति कुतः। तथैव प्रतिपत्तेः। एकाकारोत्तरं ज्ञानं तथाानरमुत्तरं । (३७८) अवश्यमेतदुपगन्तव्यं । तथा हि. उत्तरमुत्तरं । एककेनाकारेणाधिक- मधिकं भवति नान्यथा। तथा हि। पूर्वकेण नीलं गृहीतं तदुत्तरेण नीलज्ञानं तदुत्तरेण नीलज्ञानज्ञानं । तदुत्तरेणापि तदधिकमिति निश्चिनोति। तदेतदन्यथा न स्यात्। एतदेवोदाहरणेन प्रतिपादयति ॥ तम्यार्थरूपेणाकारावात्माकारच कश्चन ।* द्वितीयम्य तृतीयन ज्ञानेन हि विभाव्यते । (३७९) द्वितीयं ज्ञानं पूर्वविज्ञानद्वयाकारं स्वाकारञ्च विभाव्यते। तृतीयेन चतुर्थेन तदेवोभयमेकाकाराधिकमिति यावद् गणयितुं स्मर्तुम्वा शक्नोति । अथ ज्ञानं केवलमेव द्वितीये क्षणे ज्ञायते । तत्तु ज्ञानमर्थेव्याप्रि(?)तत्त्वात्तत्सम्बद्धमत- स्तत्र स्मरणे सति तस्याप्यर्थस्य नान्तरीयकत्त्वात्स्मरणमित्यतोऽन्यथा ज्ञानं स्मर्तुमशक्यमिति तथा स्मर्यते। ततस्तद्वचापतत्वेन तदाकारमिति संकलनं भ्रान्त्या तदाकारताप्रतीतिः। अत्रोच्यते। अर्थकार्यतया ज्ञानस्मृतावर्थस्मृतेर्यदि । भ्रान्त्या संकलनं ज्योतिर्मनस्कापि सा भवेत ॥ (३८०) भान्तिरिति सम्बन्धः । यद्यर्थस्य कार्यम्विज्ञानमथाप्यर्थे कार्य व्यापारो यस्येति ज्ञानस्मृतौ नियमेनार्थस्मरणं । अतस्तदेव (c. 85b) मृढमतिसन्तानस्य तथा भवति प्रतिपत्तिः। एवन्तहि ज्योतिर्मनस्कारपि तथा प्रतीतिः स्यात् । यथा विषयका- यंता विज्ञानस्य तथालोककार्यतापि मनस्कारकार्यतापि तेन द्वयसंकलनेनापि प्रतीयेत। नहि कार्यत्त्वे कश्चिद्विशेषः। अथ विषये व्यापृतत्त्वात्तत्संकलनं - हे. पुस्तके-"तस्यानुरूपेणाकारो वान्याकारश्च कश्चन ।' + विविच्यते-इति हे. पुस्तके ।
१३-विज्ञप्तिमात्रता [ ८९ मनस्कारे तत्राव्याप्रि[?]तत्वात्तदा तहर्षालोकपि समान एव व्यापारो न हघा- लोकमपहाय रूपे व्याप्रियते। तदसदेतत् । तस्माद्यथाऽऽलोकप्रतिभासमिति न भवति. तथा रूपप्रतिभास- मिति न स्यात्। अथालोको विषय एवान्तर्गतत्त्वाद्रूपप्रतिभासनिश्चयेनैव गतः। ना(न। आ)लोकस्य प्रकाशकत्वेन विषयत्त्वाभावात्कथं तत्र व्यापारः । अथ प्रकाश- कोप्यालोको रूप"निपतितत्त्वाद्रूपमेव सम्पद्यत इति विषयः । तथा सति ज्ञानमपि प्रकाशकं रूपनिपतितत्त्वाद्रूपमेवेति साकारालोकवत् विज्ञानपि साकारं । यथा न रूपेण विनाऽऽलोको प्रहीतुं शक्यः. तथा विज्ञानमपि । नहि रूपादिकं प्रकाश्यम्विना विज्ञानम्ममास्तीति कश्चिज्जानाति। तस्माद्रपाद्याकारमेव विज्ञानं कार्यतया तु तथा प्रतिपत्तौ। सर्वेषामपि कार्याणां कारणैः स्यात्तथा ग्रहः ।" कुलालादिविवेकन न स्मर्येत घटस्ततः ॥ (३८१) तेनापि कार्योपि घटादिः स्वकारणविवेकेन न स्मर्यंत । (c. 861) अथार्थकृतः कश्चिदतिशयो ज्ञाने विद्यते येन ज्ञानस्मरणेऽर्थो वि (पि)स्मर्यते । ज्ञानग्रहणे चार्थग्रहः । केवलस्य ज्ञानस्य न ग्रहणस्मरणे । घटादिस्तु केवलोपि गृहयते तेनानाविकञ्च । तदपि स्वपक्षबाधनाय । तथा हि। यस्मादतिशयाज्ञानमर्थसंसर्गभाजनं । सारूप्यात्तत्किमन्यत्म्याद् दृप्रश्चयमलादिपु ।। (३८२) यदि तस्य विज्ञानस्य नाकारता तदार्थग्रहणेनैव सह विज्ञानं गृहयते स्मयते चेति कोयं नियमः। तदर्थान्तर्गतन्तु नियमेन तद्ग्रहणेनैव गृहयत इति भवति नियमः। तस्मादर्थस्वरूपमेव विज्ञानमर्थग्रहणनान्तरीयकग्रहणं तत्स्मरणनान्तरीयकस्मरणञ्च। यमलकयोरेकग्रहणेन तदन्यप्रतिभासः सोमिति' स्मरणञ्च । श्यामवृक्षाकारतया च वृक्षग्रहणाभिमानः। यदि त्वाद्यं विज्ञानमनुभूय रूपं प्राहकाकारमेव. तथा द्वितीयमपि। तदाह। आद्यानुभयरूपत्वं ह्यकरूप व्यवस्थितं । द्वितीयं व्यनिरिच्यत न परामर्शचनमा ।। (३८३) परामर्शचेतसा हि द्वितीयं प्रथम (द) व्यतिरेकेण न व्यवस्थाप्येत द्वितीय- परामर्शचेतसा यतः तदपि तदाद्यानुभयरूपत्त्वे सति एकरूप (c. 86b) एव व्यवस्थितं भवेद् ग्राहकाकार एवेति यावत् । ततः कुतो विवेकावसायः । तस्माद्विषयाकारमेव विज्ञानं. तत एव । अर्थसंकलनाश्लपा धोद्वितीयावलम्बने । नीलादिरूपेण धियं भासमानां पुरस्ततः ।। (३८४) न्यायः । ९० ] वातिकालंकारः (३॥३८५) ततोकारत्त्वात् द्वितीया धीः पुरः पूविकार्येयमवलम्बतेऽर्थसंकलनमा- शिलष्यतीति अर्थसंकलनाश्लेषा। आश्लिष्यतीत्याश्लेषा। अर्थसंकलनेन चाश्लेषो यस्याः सा धीः द्वितीयावलम्बत इत्यर्थः । यदि तु तदाकारता न स्यात्केवलाना- मप्यालम्बिता। ननु केवलामप्यवलम्बत एव तथा हि। न जाने को मया दृष्टस्तदेति प्राहकमेव स्मरन्ति । तदप्यसत् । ग्राह्ये शंम [? संग] यतस्तत्र ग्राहकेप्यम्ति संशयः । मामान्येन ग्रहे तत्राद्येप्येप नयः समः । सामान्येन प्राहकस्य स्मरणे ग्राह्यस्यापि समान एव तथाहि. कोपि मया दृष्ट"इति वृश्यमानसामान्याकारेणैव स्मरणं। यदि च Ib ग्राहकस्य स्वरूपमेव स्मर्यते प्रायव्यापाररहितम् । तदा तदेव तस्य रूपं न ग्राह्य- समिधानेऽन्यदासीत् । ततस्तु स्मर्यमाणस्यान्येन रूपेणाग्राहकेण कथं पश्चात्तथाभूतस्यव ग्राहकता। अथ तत्त्वेन स्मरणे ग्राह्यसन्निविष्टमेव रूपं तदा कथं केवलस्य स्मरणं । तस्मात्तदाढमेवास्य रूपं न शक्यविवेचनमिति । एकमेव रूपाधात्मना, यदि च न द्विरूपता विज्ञानस्य तदा नीलाकारमाद्यमेव (c. 87a) स्यानोत्तरोत्तराणि । तदाहा चा यः' न चोत्तरोत्तराणि ज्ञानानि पूर्वपूर्वज्ञानवि- षयाभासानि स्युस्तस्याविषयत्त्वात् । यस्मात् । अन्यथा ह्याद्यमेवैकं संयोज्येतार्थसम्भवान । ज्ञानेनादृष्टसम्बन्धं पूर्वार्थेनोत्तरात्तरं ।। (३८५) नहि उत्तरोत्तरस्य ज्ञानात्मनः पूर्द्धज्ञानविषयता। अंविषयश्च कथमा- लम्व्यते। यदात्वाकारता प्रथमस्य तवा द्वितीयस्यापि । तत उत्पन्नस्य तदर्थाकार- सम्बेदनाकारता। तथा हि । तदर्थाकारविज्ञानाज्ञानज्ञानोदयसति । तदाकारतया योगो दूरवृक्षाद्यथोदिते ।। अथ ज्ञानमन्यथा स्मर्तुमशक्यं । अर्थसहितमेव स्मर्यते। तदारुढतंव तद्वचा- पृततालक्षणा तस्य स्वभाव इति । ततः सार्थकस्य स्मरणं । घटादीनान्तु पुनः केवलोपि स्वभावो न तेनानादिसहित एव। विषयस्तु विज्ञानसहित एबोपलभ्यते । तेन तथाभूतस्यैव स्मरणं । न तु घटादीनां (1) तदप्यसत। यतः।
१३-विज्ञप्तिमात्रता [ ९१ द्वयोविवेकग्रहणे साहित्यमिति युक्तिमत् । नीलाकारातिरेकेण न च ज्ञाननिरूपणं ।। अथादिरूपत्त्वेनेति न सिद्धमिदमेव वः ।। नहि सुखादि रूपं विज्ञानमिति प्रसिद्धिर्भवतां । सुखादीनाम्विषयत्वात्। यथा च न सुखादिव्यतिरेकेणापरं विज्ञानं तथा नीलादिव्यतिरेकेणापि। (c. 87b) बहिर्वेशत्त्वात्प्रमेयतव नीलादीनामिति चेत् । न । बहिरपि सुखादीनां प्रमेयत्त्वाभ्युप- गमात् । न च तयोः सम्वेदने बहिरन्तरिति परमार्थतो युक्तं । न ग्राहकता सुखादीनां नीलादिषु । तदभावेपि तथैव प्रतिभासनात् । यच्च यवन्तरेणापि भवति न तत्तत्कृतं. भवति च नीलादि ग्रहणमन्तरेण सुखादिकमिति। ततः स्वरूपविशेषकृतमेव नीलादिग्रहणं तदभावेपि भावादिति प्रतिपादितं । तस्मान्न नीलाद्यपरोक्षता- मन्तरेण नीलादिग्राहकनिरूपणमिति सिद्धमाकारद्वितयं । अनुभवनीलाद्याकारतया। अपि च. भवतु ग्राहकाकारो परस्तथापि। सकृत्सम्वद्यमानस्य नियमेन धिया सह । विषयस्य ततोऽन्यत्त्वं केनाकारेण सिति ॥ (३८६) विषयस्य हि नीलादेधिया सह सकृदेव सम्वेदनं । धिया सह न पृथक् । ततः सम्वेदनादपरो विषय इति कथं । तथाभूतमेव सम्वेदनमिति स्यात् विवेचयितु- मशक्यमिति प्रतिपादितं । भेदावभासनं भवतीति चेत् । भेदश्व भ्रान्तिविज्ञानै श्येने ता [? न्दा विवाद्वयं ॥ तद्यथा चन्द्रद्वयदर्शनमेकमे (ए)व चन्द्रमसि भेददर्शनमेवमात्मन्यपि विज्ञानस्य । न'तु विषय एकत्रापि भेददर्शनं युक्तं विज्ञानाकारस्य भेदात् । तदात्मनि तु कथं । नहि तदेवान्यथा । कथं हि स्वरूपं तेनैव (c. 88a) पररूपेण गम्यते तस्याप्रति- पत्तिप्रसङगात्। न सदेतत् । यतः । यदि म्वरूपं प्रन्यनुमन्यथा नैव शक्यते । पररूपन्तु मुनगं नथापि हि न शक्यते ।। यदि स्वरूपमन्यथा प्रत्येतुं न शक्यं पररूपन्तु स्वरूपेणापि प्रत्येतुं न शक्य- मिति स्वरूपवत्पररूपमपि न शक्यमेवेति प्राप्त । तस्मादयमर्थः । स्वसम्वेदने सति न भेदः प्रत्येतुं शक्यः स्वरूपस्य । यदि तु पुनरेकमेव चित्राकारं विज्ञानं स्याच्छ- क्यं स्वसम्वेदनेन प्रत्येकमन्यथा योगात् । ततो द्विचन्द्रदर्शनस्यापि ययकता न स्यान तत्प्रत्येतुं शक्यं स्वपराभ्यामशक्यत्त्वादिति प्रतिपादितं । तस्मादुत्तरकाल- भाविना विकल्पेनान्वयव्यतिरेकाभ्यामिति द्वयभेदकल्पना न प्रत्यक्षा प्रतीतिः । ।
९२ ] वातिकालंकारः (३।३८८) अयमेवार्थो भेवश्च भ्रान्तविज्ञान रित्यादिना दशितः। चन्द्रद्वयाभिमतमेवाद्वयमेक- विज्ञानान्तर्गतत्त्वात् । एवन्तहि नीलपीताद्योरपि सहदृश्यमानयोरेकचित्राकारता स्यभ्युपगन्तव्या। एवमेतत्सम्वेदनरूपस्य चित्राकारस्य तत्राप्येकत्त्वात् । यदि तु भेवो दृश्यते तदैवमभ्युपगन्तव्यं । सम्वित्तिनियमां नास्ति भिन्नया"!लपीतयोः । (३८७) अयमेव भेवहेतुर्यदुत भिन्नयोगक्षेमता। चन्द्रद्वयप्रतिभासस्य तु (c. 88b) भिन्नयोगक्षेमस्वाभावादेकतैव । ननु विरुद्वधर्माध्यासात्कथमेकत्त्वं । अयमेव हि भेदो विरुद्धधर्माध्यासो नाम यः परस्परपरिहारस्थितिलक्षणश्चात्र विरोधः। नेतदस्ति। नित्यत्त्वेतरयोरेव विरोध: स तथाविधः । प्रतीत्यनुप्रवेशेन द्वयोर्नास्ति विरोधिता। एकप्रतीत्यनुप्रवेशादेव न तयोविरोधः । एतदेव तस्य रूपं यदविप्रयुक्तं नाम। न च तेनैव तद्विरुध्यते। तस्मादेकमेव तस्याकारमिति कल्पनयोचते। अन्वयव्यतिरेकाभ्यां। तमेवान्वयव्यतिरेकाभावं परमार्थतो नास्तीति दर्शयति । नार्थोऽसम्बदनः कश्चिदनर्थस्यापि वेदनं । दृष्टं सम्बंद्यमानन्तत्तयोर्नास्ति विरोधिता ॥ (३८८) अन्वयव्यतिरेकित्त्वादेकमेव नीलसम्वेदनमन्योन्यव्यतिरेकेणादर्शनात् । तथा हि। नार्थोऽसम्वेदनो दृष्टोऽनर्थं न च वेदनं । सदाऽवियोगादेकन्तदर्थसम्वेदनं ततः ।। भेदेन विनियोगार्थ भेदविद् भेदमिच्छति । स चेन्नास्ति ततो भेदाभेदयो:कैव भिन्नता ।। तस्मादत्र भेद इति नाममात्रमेव परेण विधातव्यं । न परस्य काचित्क्षतिः। हेयोपादे "यविभागश्चेत्तत्र नास्ति किमीदृशा भेदेन । कथन्तहि नीलमानयेति पीतस्यानयनं न क्रियते। तदा तस्य पीतस्याप्रतिभा- सनमेव तेन नानीयते। यत्तु पुनरवियुक्तं नीलं तत्तु चोदितमेव। ज्ञाननिवेशि च वियुक्तं । न तदन्यथा (c. 89a)नेतुं शक्यं। भेदव्यवहार स्त्वन्वयव्यतिरका- भ्यामतात्विक एवेति प्रतिपादितं ।
5 16а १३-विज्ञप्तिमात्रता [ ९३ तस्मादयस्य दुर्वारं ज्ञानकालाव''भासिनः । ज्ञानाव्यतिरेकित्वं अभिन्नयोगक्षेमत्वादेकत्त्वमर्थस्य ज्ञानेन दुरिं नहि वारयितुं शक्यमिति साकारं ज्ञानं सिद्धं । एवन्तहि ज्ञानमेव केवलं दृश्यते नार्थः । तस्यापि दर्शने नीलाद्याकारद्वयसम्वेदनं तस्यापि ज्ञानकालावभासने पुनरर्थस्यादर्शनमित्याकारा- न्तराक्षेपेऽनवस्थानादसमञ्जसम्भवेत् ॥ अत्र परिहारः । हतुभेदानुमा भवेत् । (३८९) नीलाकारं ज्ञानं दृष्टवतः केनचिदत्र हेतुना भवितव्यमिति तदनुरूपो हेतु- रनुमीयते न तु साक्षादसौ प्रतीतिविषयः। पूर्वोक्तविरोधदोषात्। कथमत्यन्ता- परिदृष्टस्यानुमानमपीति चेत् । तदाह । अभावादक्षबुद्धीनां सत्स्वप्यन्येपु हेतुषु । सामान्यतोदृष्टमनुमानंव्यतिरेकमात्रप्रवर्तित। तथाहि । चक्षुरालोकमनस्कारेषु' सत्स्वपि न भवति। स्तम्भशून्याभिमते स्तम्भाकारमक्षविज्ञानमन्यत्र झटित्येव भवति ततो ज्ञायतेऽन्येन केन चिदत्रवस्तुना भवितव्यं । यदभावादन्यत्राभावः । स तथा भूतोर्यः प्रमेयो बायो वर्शनोपाधिरहित एव ज्ञायमानः । स तहि कथं प्रत्यक्षस्य विषयः । (c. 89b) तदाकारस्यप्रत्यक्षविषयत्वादन्या गति स्तीत्यु- पचाराद्विषयता। एवं तहि बाह्य एवार्थः प्रमेयः। न सम्वेदनमात्र मिति । नात्र स्थितपक्षतेति दर्शयति । नियमं यदि न यात्प्रत्ययात्समनन्तरात् । (३९०) किमाकारभेदजनकोऽन्योर्थः परिकल्पनीयोऽथ समनन्तरप्रत्ययविशेष एव कश्चित् । तत्रात्यन्तापरिदृष्टार्थकल्पना न साध्वी गत्यन्तराभावादेवं परिकल्पना। यदा तु परिदृष्टपूर्वदर्शनसामर्थ्यादेवायमाकार उपपन्नस्तदार्थकल्पनायथ्यं । दृष्टानुसारेण च कल्पना भवति नान्यथा। न ह्यदृष्टं कल्पयितुं शक्यं । दर्शनानु- सारिण्यो हि कल्पना दृष्टा इत्यन्यथाकल्पनमशक्यं । ननु च बायोप्यर्थो दृष्ट एवाकारजनकः । यथा पिण्डाकारता वृक्षमन्तरेण न भवति । न तत्रापि वृक्ष एव जनक इति केन दृश्यते। न । तेनव तस्याज्ञानाकार- स्वात्। अन्येन नरेण दृश्यत इत्यत्र विचारितः तेनैव । पश्चादृश्यत इति चेत् । यदि नाम तेन पश्चादृश्यते पूर्वमस्तीति कुतः। पश्चाद्दर्शनादेवेति चेत् । यदि वार्तिकालंकारः (३३३९०) नाम पश्चादुपलभ्यते पश्चादेव भवतु । नहि सोपलब्धिः पूर्वत्र व्याप्रियते। सा [पलब्धिआनाकारस्यैव नार्थस्य. ततस्तत्राप्यर्थोस्तीति पश्चादुपलब्ध्या निश्चयः । तत्रापि पश्चादित्यपर्यवसानादप्रतिपत्तिरेव । तस्मादर्थस्यादर्शना (c. 9oa) द्वासनाप्रतिबद्धत्त्वस्य च प्रागेव साधितत्वात्समनन्तरप्रत्ययशक्तिरेव कल्पनीया नियमहेतुः सूक्ष्मेक्षिकाक्रमेण । यदि तु कश्चिदेवं न व्युत्पन्नस्तस्य हेतुभेदानुमानाद् बाह्यप्रमेयत्त्वं ॥ ननु बाह्यार्थमन्तरेण कार्यकारणभावः कथं ज्ञाप्यज्ञापकभावश्च । तथाहि । बाह्यार्थमन्तरेण स्यात्कार्यकारणता विदाम् । तासाञ्च नियमाभावान्न कार्यन्न च कारणम् । तथाहि। नीलावभामात्पीताभं ततो नीलावभामवत् । एवमन्योन्यहेतुत्त्वं कार्यकारणयोः कथं । नीलावभासविज्ञानानन्तरं पीतावभासं यदा भवति विज्ञानं तवा पीताव- भासव्यतिरेकेण पीतस्याभावान्नीलावभासमेव तस्य कारणन पीतं । न च तत्र नियमः । ततः पीतावभासादपि नीलावभासः । अन्योन्यहेतुर्भ युक्तिविरुद्धा[? छः स्यात् । कथं हि कार्यकारणयोरन्योन्यहेतुता । बाह्यार्थत्वे तु नीलमेव तत्र कारणं । पीतप्रतिभासस्तु समनन्तरप्रत्यय एव । समनन्तरप्रत्ययश्चार्थसहकारिभेदा. भिधमानो नैकतामाप्नोति । येनानियमो भवेत् । अथवा बोधरूपतायां समनन्तर- प्रत्ययस्य व्यापारः। आकारे तु नीलादेरेव तत्र च नियमान्न दोषः यदि बोधरूपा- बन्यतोपि बोधरूपता नीलावन्यतोपि तदाकारता भवेदनियमः। ननु शुक्लादपि शडखादेः पीताकारतोपलभ्यते सूक्ष्मादपि (c. 9ob) महाकारता. ततोऽत्राप्यनियम एव । नेतदस्ति । यतः। भ्रान्तसन्ततिभावित्वात्तत्रेदमसमञ्जसं । अभ्रान्तप्रतिषेधे तु नियमानापरा गतिः । भ्रान्तेर्यवसमञ्जसदर्शनं तवप्रामाणिकमेवेति न तेन व्यभिचारः। तथा बीजा- दंकुरस्य जन्मेष्यते न विपर्ययेण (1) विज्ञानवादिनान्तु न बीजाविप्रतिभासावपरं बीजादिकं ततो बीजप्रतिभासा- बकुरस्य ततोपि बीजप्रतिभासस्येति न नियमः। तथा च व्यवहारोच्छेदः । ज्ञाप्य- सापकभावश्च दूरोत्सारित एव । धूमादग्निरस्तीति साध्यते। परोक्षश्चानुमेयः।
१३-विज्ञप्तिमात्रता [ ९५ न च बाह्योग्निरग्निप्रतिभासश्च ज्ञानात्मकत्वादपरोक्ष एव। न च परप्रतिभासः साध्यते तत्र व्यभिचारात् । भाविनः स्वप्रतिभासस्यवानुमानमिति चेत् । न (1) नियमाभावात् । तस्माद्वाह्यार्थवाद एव साधीयान् । अत्रोच्यते। बीजादङ्कुरजन्माग्नेधूमात्सिद्धिरितीदृशी । बाह्यार्थाश्रयणीयापि कारकज्ञापस्थितिः ॥ (३९१) सापि तद्रपनि सास्तथानियतसङ्गमाः । बुद्धीराश्रित्य कल्पेत यदि किं वा विरुध्यने ॥ (३९२) प्रतिभासेनैवात्र प्रयोजनं नार्थेन । अप्रतिभासमानस्य सतोप्यसदविशेषात् । तथाहि । उपलम्भः सत्तोच्यते। तथाहि । अन्तरेणापि बाह्यत्त्वं प्रतिभासो न दुष्यति । विना तु प्रतिभासेन बाह्यं बाह्यं "सदा (c. 91a) भवेत् । प्रतिभासो हि बाह्यमन्तरेण भवतीति प्रतिपादितं । प्रतिभासमन्तरेण बाह्यमसदेवानुपलब्धः। ततो बीजप्रतिभासादअकुरप्रतिभास इति कार्यकारण- भावे को विरोधः। केवलेन तहि नाङकुरप्रतिभासेन भवितव्यं । केवलप्रतिभासे हि बीजप्रतिभासा- भावे (s)भावादहेतुका स्यात् । बाह्यार्थवादिनान्तु नाहेतुकता। सुप्रतिभासमा- नस्यापि बीजस्य भावात् । तथा हि। बाह्यस्याप्रतिभासेपि बाह्यता नाव हीयते । विजानता तु नाम्न्येव यदा न प्रतिभासनं। अथ परप्रतिभासस्तत्रास्ति ततो नाहेतुकता। न. नियमाभावात्। न च पर- प्रतिभासात्स्वप्नप्रतिभासोदयः। तदपि समानं (1)यतः। यदि कस्यचिदप्येप नैवान्यः प्रतिभामने । तदस्तित्त्वे प्रमाणं कि येन तद्धतुकोऽङकुरः । सर्व सामोपाख्यालक्षणं हि नि रुपा म्यं । पश्चाद्दर्शनावस्तीति चेत् । उक्त- मुत्तरं । कार्यतो ज्ञायतेऽस्तीति चेत् । कार्यकारणभावे हि सिद्धे सत्तास्य गम्यते । सिद्धायान्तस्य सत्तायां कार्यकारणता भवेत् । तत इतरेतराश्रयदोषादसिद्विरेव। अर्यकत्त्वारोपावसावपि दृष्ट एव ।
९६ ] वातिकालंकारः (३॥३९२) 15- 16b ननु विज्ञानेप्यारोपः केन वार्यते। विज्ञानस्याभावात् कयमारोपो बाह्येपि समानमेतत्। बाह्यमप्यारोपादेवास्तीति व्यवहियते। तथा च । प्रतिभासोपि सम्वृत्यास्त्येव । न ह्यनुमानकालभाविनो बाह्यस्यारोपादपरमस्तित्वं । (c. 91b) एवञ्चासा वारोपो यदि कश्चिदत्र भवेत् भवेदग्निर्दश्यमानः । एवञ्च यदि कश्चि- बत्र भवेत् भवेदेव प्रतिभासः। अर्थः सप्रतिभास इति चेत् । अन्योऽर्थ इति समान- मेतत् । तत्राप्येकत्वं न परमार्थतः। विज्ञा न वा दे पि तैमिरिकद्वयद्विचन्द्रदर्शन- बदेव च व्यवहारोऽन्यत्र च। तस्माद्विज्ञानवादेपि तद्रूपनियतप्रतिभाससङगमाद् बुद्धीराश्रित्य यदि कार्यकारणभावः को विरोधः। बाह्यार्थवादे" तु विरोध इति प्रतिपादितं प्रमाणाभावात् । किञ्च । यदि बाह्यं भवेन्नित्यं पश्चादेव प्रतीयतां । पूर्व प्रतीतो सर्वस्य साकारप्रतीतता। यदि बाह्यमग्न्यादिकं नित्यं तस्यकाकारा प्रतीतिः प्रागेवेति किमर्थमनुमाना- प्रवर्तते । अथानुमानेन स्वरूपं न प्रतिपन्नमेव तथा सति कथमस्य सत्त्वप्रतीतिः । पररूपेण प्रतीतिविज्ञानस्वरूपस्यापि समानव । अर्थकल्पना वृश्यविकल्पार्थं कोकरणेन प्रवृत्ता तदध्यारोपयति । किन्तेनाध्यारोपितेन । अन्यथा तदभावे पश्चा- बर्यो विच्छिन्नोदयो भवेत् । कथन्तमन्तरेण विच्छिन्नस्य भावः । यद्यविच्छेदकल्प- नया प्रयोजनं वासना मध्ये भविष्यति । तथापि विच्छेद एव वासनायाः। तद्रूपता- ऽभावादिति चेत् । अर्थेप्येवमभ्युपगम्यमानेन तद्रूपता (1) नहि दृष्टमवृष्टेन समानं शक्यं प्रत्येतुं । (c. 921) आरोपमात्रमेव तु केवलं । तद्विज्ञानवादिनामपि समानम्। ननु विजातीयविज्ञानात्मिका वासना मध्यवर्तिनी कथन्तया तदविच्छिन्न । यथा लाक्षावसेकस्य विजातीयान्तरोदये (1) लाक्षाफलेनाविच्छेदो लोकस्याभिमतं तथा ।। अन्तराले विजातीयविज्ञानचयसम्भवो (1) तद्वा (वा) सनानुगमादेव न विच्छेदो भविष्यति ॥ तथा लाक्षारसावसेकोऽन्तरालपातिषु बीजाकुरपत्रनाडाविषु शक्तिविशेष फलानुमेयमावधानो न विच्छिन्नं जनय तीति लोके व्यपदिश्यते। तथा पूर्व- कोपि पावकप्रतिभासः परं पावकप्रतिभासमन्तरालपातिषु विजातीयप्रतिभा- सेषु स्वशक्तिमप्ययस्तदारूढ इवाविच्छिन्नमेव फलं जनयतीति व्यपदिश्यतां अध्यवसीयतां वा । तेन स एव पूर्वकः प्रतिभासो जनयति पावकप्रतिभासं न धूम- प्रतिभासः। तत्र यथा बाह्यार्थवादिनोऽग्निप्रतिभासात्पाश्चात्यात् कल्पयन्ति पूर्वमग्निरासीदिति। तथा विज्ञानवादिनो वासनासीविति नानयोविशेषः ।
१३-विज्ञप्तिमात्रता [ ९७ धूमप्रतिभासादपि धूमवासना परिकल्प्यते वासनायाश्च कारणत्वं प्रसाधितं तत्तु बाह्यस्य कारणतावदुपपत्तिमान् । प्रतिपादितञ्चतत् । अनग्निजन्यो धूमः स्यात्तत्कार्यात्कारणे गतिः । तस्य कारणतायाम्वा कुत एकान्ततो गतिः ।। (३९३) यदि धूमवासनात एव प्रतिभासः स एव धूमः स एककार्यकारणभावाभावः। (c. 92b) न ह्यग्ने धूमस्तदा भवेत् । स्ववासनाप्रतिबद्धत्त्वात् । अथाग्निप्रतिभा- सोपि तद्वासनाप्रबोधानुगुणत्त्वेन धूमप्रतिभासकारणत्त्वात्कारणं । तथाति धूमोपि कारणमग्नेः। कारणतायाञ्च कुत एकान्ततो गतिळभिचारात्। अत्रोच्यते। तत्रापि धूमाभासा धोः प्रबोधपटुवासनां। गमयेदग्निनिर्भासां धियमेव न पावकं । (३९४) धूमाभासा हि बुद्धिरग्निवासनाप्रतिबहा ततः सा वासनानुमीयते सा वासना प्रबोधाभिमुखत्त्वादग्निप्रतिभासं जनयतीति पावकप्रतिभासप्राप्त्या प्रमाणम् । तद्यथा बाह्यार्थवादिनामग्निरनुमितोऽग्निप्रतिभासमग्न्यन्तरम्बा तत एव सामग्यधीनाग्निप्राप्तिः । एवं वासनाधीनो धूमभाव्यग्निप्रतिभासः । परोक्षेतरयोः पावकयोरेकत्वमेवेति चेत् । न (1) प्रमाणाभावात् । वासनाबला- देव एकत्त्वमिति । वासनंव परमार्थत"एका. न वस्त्विति प्रतिपादितं। अपि च. बाह्येप्यर्षे नाग्निरनुमीयते। अपि तु भावी प्रतिभास एव । तदर्थत्वात्प्राणिनां । न ह्यप्रतिभासमानेनाग्निना कस्यचित्प्रयोजनं । प्रतिभासान्वितायाञ्च भावी प्रतिभासो भवत्वनुमीयमानः किमग्न्यनुमानेन। कथम्भाविन्यनुमानमिति चेत् । एवमेव दृष्टत्त्वात्। दृष्टत्त्वादिदमेवेति (c. 93a) नायुक्तमिदमीक्ष्यते । बाहये त्वर्थे न सम्वादो' न च दर्शनसम्भवः । प्रतिभासेनैव भाविनाऽनुमीयमानेन सकलं समञ्जसं ॥ बाहचे तु स्वप्नस्यापि न सम्भवः। तथा हि। तथा भाव्यर्थसम्वितिरनुमानात्सुनिश्चिता। वर्तमानार्थवित्तिस्तु नाम्नीति प्रतिपादितं । अन्यथा भाव्यर्यापेक्षया न कश्चित्प्रवर्त्तत । अथ वर्तमानभाविनोरेकतामव- साय प्रवर्तते । तथा सति भाव्यर्थवित्तिरेवासो न प्रवर्तमानवित्तिः । प्राप्त्या हि वेदनस त्यतानुमीयते। ततो वर्तमानरूपस्याप्राप्त विनश्च विपर्ययादावि(व) ।
९८ ] वार्तिकालंकारः (३३३९४) विषयमेव प्रमाणं। वर्तमानभावस्तु सन्नपि तत्रासत्यः । प्रत्यक्षमपि भाविन्येव प्रमाणं। तथा च प्रतिपादितं। ततो यदुक्तं भविष्यञ्चषोऽर्थः न ज्ञानकालेस्तीति तन्निराकृतं । भविष्यता विना न भवतीति तत्संप्रयोगजं प्रत्यक्ष प्रमाणं (1) तत इदमपि प्रत्यक्षमनिमित्तं विद्यमानों पलम्भनत्त्वादिति तस्मात्प्रत्यक्षानुमानयो विविषयत्त्वात्तदन्वयव्यति- रेकानुविधानभावात्प्रमाणता। परमार्थतः सकलं स्वरूपविषयमेव । व्यवहारतो. ऽर्थविषयता । स भाव्यर्थः प्राप्तिविषय इति तस्यवार्थकि (या)कारित्वावर्थत्त्वं । यदि व्यवहारोऽडगीक्रियतेऽर्थविषयत्व प्राप्ता । स च (c. 93b) वर्तमान एवार्थ इति किम्भाविविषयता प्रतिपाद्यते । अत्रोच्यते। त्रिविधो व्यवहारोयमव्युत्पन्नादिभेदतः । तदाश्रयेण सकलमिदं युक्तमिवेक्ष्यते ॥ अव्युत्पन्नानां व्यवहारो वर्तमानार्थविषयं प्रत्यक्षं । व्युत्पन्ना (नां) भावि- विषयं। अतिव्युत्पन्नानां प्रतिभासमात्रविषयमेव। तद्यद्यव्युत्पन्नजनापेक्षयाऽर्थ- विषयता वर्तमाने चार्थे सिळू साध्यते। एवमेव वयमप्यास्म। तस्माद्धमप्रति- भासं विज्ञानमग्निवासनामेव गमयति । सा च वासना भाविप्रतिभासकतया प्रतीयमाना तद्रूपप्रतिभासे प्रवत्तितेति स एव भाविप्रतिभासो गम्यते भाव्या- ग्निव द्वा हया र्थ वा दि मते। ततः परमार्थतः प्रतिभास एव विषयः। ननु यदि पश्चादपि भ्रान्तः प्रतिभासो भवति न तत्रार्थत्त्वं । अर्थ एवाथिता लोके प्रतिभासे'' त्वथिता । नहि स्वप्नसुखाद्यर्थो लौकिकः कश्चिदीप्स्यते ॥ तदसत् । यतः. वासनादाढर्यमासाद्य यदि नाप्रतिसन्धिमत् । तत्स्वप्नसुखं स्याद्वा तत्र काक्षतिरस्ति वः ।। यत्र वासनाविशेषत एव विघटनं तत्स्वप्नसुखमेव न भवति। वि ज्ञा न वा दि- नामपि स्वप्नेतरविभागोस्त्येव वासनाविशेषात्। यथा स्वप्न एव प्रबुद्धतर- विभागः । स्वप्नविशेष एव (c. 94a)वा भवतु । तत्राप्यथिता भविष्यति. अवि- दर्थानां कात्र वः क्षतिः । परमार्थतो विदश्च चूडोत्तमरत्नालंकाराणां तु मोक्षकामानां बालक्रीडावत्. अनभिमतमेव सकलं सुखमिति प्रवर्तनाभावासक्तिः सिद्धसाध्यतैव। तथा हि। ।
१३-विज्ञप्तिमात्रता । ९९ मोक्षकामाः क्षमावन्तो न संसारसुखार्थिनः । वृत्तिर्द्धर्मे ततस्तेषां तद्यावृत्तिप्रसिद्धये" । 17 बालक्रीडामिव सकलमेव संसारसुखार्थ धर्मसाधनमुत्पश्यतां मोक्षालिप्त प्रेक्षावतां संसारव्यवहारविडम्वनाव्यावर्तनाय धर्मे प्रवर्तनं । ततः सांव्यवहारिक प्रतिभासविषयमेव प्रमाणं। यदि तहि वासनाप्रतिबद्ध एव पावकादिप्रतिभासः स च सजातीयवासनाप्रतिबद्ध एव ततो धूमप्रतिभासात्तद्वासनैव गम्यतां। कथ- मग्निवासनागतिः। यतः। वासनाः खलु यद्रूप'प्रतिभासप्रवर्तिताः । तद्रूपप्रतिभासस्य हेतुर्नान्यावभासने । नाग्निवासना धूमप्रतिभासं जनयति । धूमवासनयैव तस्य जन्यत्वात्। ततो नान्यजन्यमन्यङगमयत्यजनक। अत्रोच्यते। तद्योग्यवासनागर्भ एव धूमावभासिनीं। व्यनक्ति चित्तसन्तानो धियं धूमोग्नितस्ततः ॥ (३९५) चित्तादेव सकलसंसारप्रपञ्चोदयः । ततोग्निप्रतिभासजननयोग्यवासना- सनाथचित्तसन्तानादग्नि प्रतिभासः। स च सन्तानो धूमप्रतिभासं जनयति धूमवासना प्रबोधकचित्तान्तरो c. 94b)पस्कारतः । ततो धूमवासना धूमाभासस्योपादान- कारणमस्ति वासनासहकारिणी। अग्निप्रतिभासस्यापि भाविनः पावकवासनो- पादानकारणं धूमप्रतिभासः। प्रबोधकत्वात्सहकारिकारणं धूमवासना च। तत एकसामग्रयधीनत्वाद् गम्यगमकभावः पावकतत्कार्यधूमयोरिति समञ्जसं । नन्वेकसामग्रपधीनत्वेन गमकत्त्वे समानकालयोरेव गम्यगमकभावोनागतस्य न गतिव्यभिचारादिति। सदितरदेतत् । यतः। अनागतस्य गम्यत्त्वं सर्वत्रव (प्र)साधितं । धूमादग्निरपि प्राप्यो गम्यते लक्षणेन कि । भाविन एव प्रमाणविषयता। यदि हि धूमावग्निस्तदेवास्तीति गम्यते। न तु पश्चाद् भविष्यति तदा प्रमाणं न किञ्चिद् भवेत्' (1) नहि तत्कालभाविना तस्य वह्निना प्रयोजनं। भाविनः सचेह एवेति चेत् । कथं प्रमाणं (1) अर्थदर्श- नात्प्रमाणम् (1) नहि प्रमाणेन प्रति (प)त्तुरेव कालान्तरेर्यो दर्शनीयः ।
१०० ] वार्तिकालंकारः (३३३९६) ननु तेन दृष्टेनाप्यर्थक्रिया न क्रियत इत्यनर्थ एवासो। भाविनोऽयक्रिया- सम्भवात् असावप्युपचारादर्थक्रियाकारी। कारणे कार्योपचारात् । यद्येवं विज्ञा- नवादिनामपि तत्काले वासनागम्यतास्त्येव। अर्थक्रियाकारित्वाभावात् (1) किन्तयेति चेत् । अर्थेपि समानमेतत् । भाव्यर्थद्वारार्थक्रियाकारित्वा (c. 95a) तस्याप्यर्यकारितेति वासनायामपि समानमेतत् । अर्थोपि तत्काले वासनामात्रगम्य एव । अर्थेन गम्यते चेत् । वासनाप्यर्थेन गम्यत एव । नहि वासनायामपि परस्य व्यवहारतो न गतिः। तस्मात्समानमनुमानं बाहचार्यविज्ञप्तिमात्रवादिनोः। तस्माद्विज्ञप्तिमात्रमेव युक्तं ॥०॥ कथन्तर्हि बाहचेप्यर्थे आचार्येण द्विरूपता विज्ञानस्योक्ता विज्ञान वा द एव युक्तः। अत्रोच्यते। अस्त्येष विदुषाम्वादो बाह्यं त्वाश्रित्य वर्ण्यते । द्वैरूप्यं सह सम्वित्तिर्नियमात्तच्च(स्य)सिति ॥ (३९६) बाहयार्थाभ्युपगमेन परापेक्षया द्विरूपता (भ)वन्मते, विदुषान्तु विज्ञा न वा द एव । सम्विनियमो हि भिन्नयोन युक्त इति प्रतिपादितं। यदि च निराकारं भवेद्विज्ञान तदाकारोऽन्य एव तदा ग्राहकाकारः पृथगेव गृहघेत कदाचित् । गृहीत एव नीलव्यतिरेकेण पीते स एवाकारः। तदेव नीलं सुखाकारेण तदेव दुःखाकारणेति चेत् । न. स एव ग्राहकाकारः पीताद्योपि स एव यः । पूर्व दृष्ट इदं ज्ञानं प्रत्यक्षमनुमाथ कि । तदा प्रत्यक्ष, पूर्वापरभावे प्रत्यक्षस्यावृत्तेः । तदभावेनानुमानमिति न प्रमाणवि षयः पौर्वापर्य। कथन्तहि। अन्वयव्यतिरेकग्रहणासमर्थत्वात् प्रत्यक्षस्य अन्य- त्राप्यग्न्यादावनुमा नं।(c.95b)न सामान्यविषयत्वादनुमानस्य एकपरामर्शविषय- मेकमभिप्रेत्यानुमानं यथाव्यक्त्यन्तरेण सह महानसेतरप्रदेशत्तिनी । एकत्त्वमारोप्य स एवाग्निरिति साध्यते। न. परमार्थत एकत्त्वमेव । एवमत्रापि स एव ग्राहका- कारस्तदेव च नीलमद्यापि तद्वतिरेकेणास्त इति सन्तानभेदमभ्युपगम्य पाहच- प्राहकयो:वः साध्यते बोधरूपनी लाकारयोर्वा । ततो वस्तुनि न भेदोऽपि तु प्राप्तिसति सामान्येन सन्ताने. परमार्यसत्त्यन्तु स्वलक्षणमपेक्ष्य सहोपलम्भ- नियम एव । ततोऽभेद एव परमार्थः । यदि च निराकारं विज्ञानं तदा तदेव शुद्ध सर्बदा भवेत् न पटुमन्दाविलादिरूपं । अन्यथापि च भवति। तथा हि.
१३-विज्ञप्तिमात्रता [ १०१ ज्ञानमिन्द्रियभेदेन पटुमन्दाविलादिकम् । प्रतिभासभिदामर्थे विभ्रदेकत्र"दृश्यते ॥ (३९७) कथमेकत्रैवार्थे नानाकारता। यतः। अर्थस्याभिन्नरूपत्त्वादेकरूपं भवेन्मनः । सर्व तदर्थमर्थाच्चेत्तस्य नास्ति तदा भ[?त्मता ॥ (३९८) यदि निराकारम्विज्ञानं तदार्थ एव ग्राहयः प्रतिभाति चैकाकार एव ततः प्रतिभाति स चैकाकार एव ततः प्रतिभासस्य भेदो न स्यात् । नार्थस्य नानाकार- तेति प्रतिपादितं। नन्वकारतायामपि (c. 96a)नानाकारता कथन्तदैकाकारेणैव ज्ञानाकारे- णापि वाच्यं । ततो नानाकारता दोषस्तववस्थ एव । न दोषो यतः । अर्थाश्रयेणोद्भवतस्तद्रूपमनुकुव॑तः । तस्य केनचिदङ्गेन* परतोपि भिदा भवेत् ।। (३९९) तदाकारतोदयप्रसङगेऽर्थादन्यतोपि तदाकारता यथा चन्द्राकारतायां तिमि- रादिबलात् द्वघाकारता॥ तथा ह्याश्रित्य पितरं तद्रूपोपि सु"तः पितुः । भेदं केनचिदङ्गेन कुतश्चिदवलम्बते ॥ (४००) नहि सुतः पितुः सहग उत्पद्यमानो मातुः परमप्याकारं न धत्ते। इन्द्रिय- भदेन भेदमेव दर्शयति । मयूरचन्द्रकाकारं नीललोहितभास्वरं । संपश्यन्ति प्रदीपादेः मण्डलं मन्दचक्षुपः ।। (४०१) नीलाद्याकारभेदभिन्नं भास्वरं सपरिवेषं प्रदीपं पश्यन्ति तिमिरमन्दीकृत- नयनशक्तयः। अथ तथाभूतमेव सत्यतः प्रदीपरूपं तदा। तस्य तद्वाह्यरूपत्त्वे का प्रसन्नक्षणऽक्षमा । प्रसनेक्षणोपि पश्येत्। यदि वा सोपि प्रसन्ने क्षण एव नोपहतेन्द्रियः। यतः । भूतञ्च पश्य॑स्तदर्शी कथञ्चापहतेन्द्रियः । (४०२) असत्यदर्शनाद्दर्शनमुपहतमुच्यते । सत्यदर्शनेप्युपघातकल्पनायां सकलस्त- म्भा“विदर्शनेप्युपहतलोचनाः कल्पनीयाः। तथा हि. न तावत्स्वरूपेण दर्शन- * दर्शन-इति हे. पुस्तके।
१०२ वार्तिकालंकारः (३।४०४) शक्तरुपघातः प्रत्यक्षतः प्रतीयते ततोऽनुमाना(c. 96b)त्कल्पनीयः । शक्तिश्च यथा कार्यदर्शनेन कल्प्यते। यथा कार्योपघातेनोपघातकल्पना तस्याः। कायं च दर्शनं । तच्च सत्यदर्शनमन्यद्वा। सत्यदर्शनेपि कल्पनेनानुपघातो वा नाम. प्रथमं 17b तमप्यन्यादृशं पश्यतीत्युपहतेन्द्रियः। तथा सति ॥ शोधितं तिमिरेणास्य व्यक्तं चक्षुरतीन्द्रियं । पश्यतोव्या[?बाह्यदृश्यर्थे तदव्यक्तं कथं पुनः । (४०३) यो हि अन्यादृश्यमपि पश्यति स कथमन्यदृश्यमस्पष्टं पश्येत् । नहयेवं दृश्यते। यो हि सूक्ष्ममन्यदृश्यं परिस्फुटतरं पश्यतीति दृष्टं न चैवमतो न भूतदर्शीति युक्तं । नन्वभूतं दृश्यते चेति' व्याहतं। दृश्यमानमभूतञ्चेत्कथम्भूतस्य भू(त)ता। न दृष्टिं विरहय्यान्यद् भूताभूतनिवन्धनं । दृष्टमभूतमिति व्यवस्थायां भूतमेव नाम नास्तीति प्राप्तम्विशेषाभावात् । न दृष्टऽनुपपन्नं नाम। तदसत्। येन रूपेण यदृश्यन्ततेनैवोपगम्यते । अन्यथा दृश्यमा (न)न्तु गम्येत कथमन्यथा । इन्द्रियविकारतिमिराद्यन्वयव्यतिरेकानुविधायितयोपलभ्यमानं तदपरका रणोप- पादितजन्मकं सम्वेदनस्वभावाननुस्यूतमिति न युक्तं। तिमिरादिविकारानुविधानमेव च साध्यम् । तथापि बाहयत्वाभ्युपगमे वचनमात्रकं । तथा हि । आलोकाक्षमनस्कारादन्यस्यैकस्य (c. 97a) गम्यते । शक्तिहेतुस्ततो नान्योऽहेतुश्च विषयः कथं ॥ (४०४) आलोकादिव्यतिरिक्तस्य प्रदीपस्यव परमुपलभ्यते शक्तिन मण्डलस्य ततो नापरस्य हेतुताभावाद्विषयता। नाहेतुविषय इति प्रतिपादितं। प्रति- भासनादेव विषय इति न युक्तं । प्रतिभासस्य भान्तस्यापि सम्भवात्। स्वरू- पेण प्रतिभासमानं कथं भ्रान्तमिति चेत् । स्वरूपेण प्रतिभासमानं स्वसम्वेदनन्न विषयः स्यात् । अन्यत्र प्रतिभासमानेन स्वसम्वेदनमिति चेत्। स्वेन रूपेण प्रति- भासमानं कथमन्यत्र प्रतिभातीति युक्तं। यत्र हि प्रतिभासते तस्यापि प्रति- भासनेऽन्यत्रानवस्था । स्वप्रतिभासने तदेवान्यस्यापि स्वरूपप्रतिभासनात स्वसम्वेदनमेव । परस्परप्रतिभासने नीलादीनामपि परस्परप्रतिभासनात्सम्वेदनतव । नोलादीनामपि सम्वेदननिवेशिनां सम्वेदन (1)र्थभावनैवेति तद्रूपो हेतुरन्वयव्य- तथा । १३-विज्ञप्तिमात्रता [ १०३ तिरेकावधृतसामर्यो विषयः। चान्वयव्यतिरेकाभ्यां सामर्थ्यावधारणं मयूरचन्द्रकस्य. ततो नास्य विषयता । सम्वेदनासीनरूपव्यतिरेकेण व्यवस्थापनास- म्भवात् । स्तम्भादीनान्तु जाग्रदुपलब्धानामन्येन ज्ञानान्तरेण वर्शनाव्यतिरेकव्यवस्था तत्कार्यभूदाहदर्शनाच्च । अत्रापि समानतिमिरोप पूर्वैरुपलम्भ इति चेत् । न. तेषामपि समानत्वात् । नहि भ्रान्त्युपलब्धस्याग्नेभूमिभेददाहः कार्यमुपलभ्यते । ततो द्वयस्यापि भ्रान्तता। अथ सोग्निरदाहक एव। न. तथा प्रतीत्यभावात् । अतथाभूतस्य प्रतीति न्तिरेव। लोकव्यवहारा (c. 975) पेक्षया भ्रान्ततेति चेत् । अर्थत्वमपि लोकव्यवहारापेक्षमेव । स्वरूपप्रतिभास- नात्सर्व्व एव तथेति न विवेको युक्तः। तस्मादर्थक्रियाकार्यर्थोऽन्यो नेति न्यायः । सर्व एवार्थः किन्नेति चेत् । सर्वमेव सम्वेदनमिति किन्नेष्यते। सम्वेदनता व (?) च स्वसम्वेदनमेव सकलमिति कथमर्थता। परोक्षं सम्वेदनमिति चेत् । न. प्रमाणाभावात् । असम्वेदनं कथमिति चेत् । न. दृष्टत्त्वात् । अर्थेनापि सम्वेद्यमानं दृश्यत इति चेत् । किमत्रप्रमाणं । भवतोपि किमिति चेत् । असम्वेदनमेवापरस्य। नन् प्रकाशकाभावे कथमप्रकाशकस्य घटस्येव प्रकाशनमिति चेत्। न. प्रकाशतायाः सिद्धत्त्वाभावात् । प्रदीपवदेव। घटस्य कमिति चेत् । समर्थ- कारेवस्थानात्। तत्र रूपमस्तीति कुतः। एकसामग्रयधीनस्पर्शादिवर्शनावन्येन च निशाचरादिना। परमार्थतस्तु नैवमिति. अस्मत्समीहितमेतत् । तस्मात्प्रदीप- वत्स्वसम्वेदनमेव सकलं। तैमिरिकदृष्टाकारः। अपि च। यदि तस्य सामर्थ्य चन्द्रकस्य चित्रपटवदेकदेशस्य प्रदीपरहितस्यापि दर्शनप्रसङगः। तथा हि।' स एव यदि वा हेतुः कि प्रदीपमपत्नत । विततरूपस्य तदेकदेशो विनाप्येकदेशान्तरेण गृहयते। तथैव हेतुरिति चेत् । न. रूपान्तरापेक्षयव नीलादि गृहपते। एवमुभयस्य हेतुत्वं कल्प्यते। दीपमात्रेण सद्भावादुभयत्रापि कारणं । (४०५) तद्देशपिधानेपि दीपमात्रसद्भावाद् भवतीति नोभयकारणा तवृष्टिः । (c. 98a) अथ तत्पिधातुमेवाशक्यमन्योदयादिति चेत् । तदेव तहि तस्योदय इति नाप्रकाशरूपता । दृष्टिस्तत्र व्याप्रियते तेनास्वसम्वेदनमित्यसङगतं । दृष्टः समानकालतया तत्र व्यापाराभावात्। अन्वयव्यतिरेकाभ्यान्तु तद्रूपव्यापार तदेव जनितं प्रदीपेन प्रभावदिति स्यात् । यथा वा प्रदीपो निजहेतुतः सप्रभः तथा चल- रपि पुरः परिस्फुरदूपसमन्वितमिति न दोषः। प्रदीपाद्वयतिरिक्तव। प्रभेति चेत् । अस्तु व्यतिरेकः. किन्तु न प्रदीपप्रकाश्या प्रभा प्रदीपवदेवेति प्राप्त । तस्माच्चलरूपव्यतिरिक्तमपरमिह विज्ञानं प्रमाणाभावादसत् । तदेव तु द्वयं १४ १०४ ] वार्तिकालंकारः (३।४०७) स्वरूपसम्बेदनाधिष्ठितम् (1) सम्वेदनमिति तयाभूतसम्वेवनकारणमपरं परि- कल्प्यतामिति सिद्धिरूपा बुद्धिः। यदि चार्थ एव पुरोवर्ती साकार एव विज्ञानग्राहपः तवार्थः स्वरूपेण गृहपत इति ॥ दूरासन्नादिभेदेन व्यक्ताव्यक्तं न युज्यते । तत्स्यादालोकभेदाच्च तत्पिधानापिधानयोः । (४०६) तुल्या दृष्टिरदृष्टिा अर्थः खलु वर्शनविषयसीमानमतिक्रम्य वर्तमानः स्वकारणपरम्परोपपादिता- न्यस्वभावपरित्यागानियतस्वभावसङगमात्स्वरूपत एवावभासते। कथमस्य दूरा- सन्नादिदेशतायामपि प्रतिभासनभेदो येन व्यक्तेतरस्वभावताप्रसङगः। दृश्यते चासावतो न (c. 98b) बाहयमेवाकारवता स्वभावपरिग्रहेणावभासि । नहि नियताविफलरूपावभासने भेदभासनं तद्रूपभेदप्रसङगात् । प्रतिभासमानं हि पुरो रूपमर्थ एव तल्लक्षणत्वावर्थस्य । ततस्तद्भदेऽर्थभेद एवाविफलः । न च भेवे ऽर्थस्य व्यक्तादिव्यपदेशः। नार्थान्तरप्रतिभासनेऽन्यदव्यक्तं नाम । तस्य च तवेव रूपं तच्च व्यक्तमेव । स्तयैव तत्स्वरूपञ्चेत्पररूपं कथन्तथा । ताद्रप्ये "ण प्रतीतेश्चेद्र पभेदे कथं न सा अभेदेन प्रतीतौ हि प्रतीतेरस्तुभिन्नता । अभेदे ग्राह्यरूपस्य पुनर्भेदः कथं मतः ।। तस्मादेव हि दूरासन्नाविभेदादालोकस्यालोकनस्य वा भेदाद्वयक्ततरभेद इति न सङगतम्। स्वरूपप्रतिभासनेतरविकल्पानतिवृत्तिः । आलोकभेदेपि यदि स्वरूपेणावभासते कथमव्यक्तं नावभासते तथापि कमिति न किञ्चिदेतत्।" आलोकभेदे हि सोपरस्तत्र गृहयतामर्थस्तु कथमव्यक्तादिरूपः । अथ दूरदेश- 18a व्यवधानान्मन्दवर्शनं। यदि दूरदेशव्यवहितन्तदापि हि तत्त्वान्न दृश्यत एव. तथा पिहितं ततः परिस्फुटमेव दृश्यतामिति कुतो भेदः । सूक्ष्मेहांश[? सूक्ष्मांशस्तस्य कश्चन । आलोकेन न मन्देन दृश्यतेऽतो भिदा यदि । (४०७) दूरवेशतया हि सूक्ष्मांश एव व्यवधीयते न स्थवीयानाकारः। सूक्ष्मस्तु व्यवहितो दूरदेशतया न दृश्यत एव । (c. 99a) नन्वसाववयव्येक एव' महिम्ना- वस्थितः । ततः सकल एव परिदृष्ट इति कथमस्पष्टप्रहः । अथ न भवत्येकस्तदा सकल-सूक्ष्मतेति प्रतीतिरेव न भवेत्। भवन्ती वा परिस्फुटपरमाणुरूपप्राहिणी स्यात् । तदेव बर्शयति ।
१३-विज्ञप्तिमात्रता [ १०५ एकत्त्वे त्वस्य* बाह्यस्य दृश्यादृश्यभिदा कुतः । अनेकत्त्वेऽणुशो भिन्ने दृश्यादृश्यभिदा कुतः । (४०८) नन्वेकस्याप्यवयविनः सूक्ष्मावयवयोगात्तवहितग्रहणेऽपरिष्कृताकारता(, अ). न्यथान्यथाभावः। तवसत् । यतः (1) नीलं पीतं विना ग्राह्यं किं तदस्फुटमुच्यते । अन्यस्याग्रहणेन्यस्य स्वरूपग्रहणं स्फुटम् ।। नन्वनेकत्त्वे तदन्यग्रहणं तदन्यस्याग्रहणमित्यपरिस्फुटता । तदप्ययुक्तं। तत्रापि समानत्वात् । यदन्यग्रहणे परिस्फुटं तत्किमन्यरूपमथ- सम्वेदनस्य । यद्यर्थस्य तदन्याग्रहणेपि तदेवेति कथमपरिस्फुटता। अय ततः सोत्प- तिमती तदा तहि नार्थस्यासाविति कथमर्थग्रहः । तदापि सा तथा भवन्ती वस्तुन एव रूपमिति चेत्। वस्तुरूपतायां परेणापि तथैव दृश्येत । अदर्शने परेण प्रति- पत्तिरेव साऽसाधारणत्त्वादिति प्रतिपादितम् । तथा हि । प्रतीतिरेव मम व्यामलिन- रूपोदितेति जनः प्रतिपत्तिमानथोपचारादेवं प्रतीतिः ।। व्यालिनार्थदर्शनात्प्रतीति- रपि तथाभूता व्यपदिश्यते यथा दण्डसङगात्पुरुष एव दण्डव्यपदेशभाक् । (c. 99b) तदप्यसत्। यतः. मम व्यामलिनं चक्षुस्तद्वद्दर्शनमंगमात् । तत्कार्यदर्शनादे'व व्यपदेगस्तथास्तु मः ॥ दृष्टस्तु कार्यन्नान्त्यन्यत् न हयर्थः तम्यकार्यनाम्नि (1) तथा समागमादेव यदि नीलादिमोच्यतां । कथं कमेयं दृष्टिहि न कदाचित्त्वयेप्यते । तस्मादस्पष्टता दृष्टे मज़लोकप्रतीनितः ।। निश्चयो हि न सर्वेपामकस्माद् भ्रान्त उच्यते । नहि व्यवहारमस्खलितमादधानो व्यवसायोऽन्यथा संभाव्यते। ततः स्वय- मर्थप्रतिभासेन बुद्धिभेदो युक्तः। मान्द्यपाटवभेदन भासो बुद्धिभिदा यदि । मिनेन्यस्मिन्नभिन्नस्य कुतो भेदेन भासनं । (४०९) अपरः प्राह। आलोकस्य बाहयस्यव मान्द्यपाटवभेदानुद्धिभेद एकस्मिन्नर्थे न तु बुद्धिस्वभावभेदः, स्वत इति नासावाकारश्चेतसः । तदनुपपन्नं । यतः। . हे. पुस्तके-एकत्त्वर्थस्य १०६ ] वातिकालंकारः (३।४११) तथावभा- अर्थस्य प्रतिभासः स्याद्यदि भासा समन्वितः । अन्येन सहिताभासे न स्यान्मन्दावभासिता ।। परस्परव्यावृत्तालोकरूपप्रतिभासे हि तयोरेव तथावभासनमिति नास्पष्ट- रूपप्रति भासः। न खल्वन्यस्मिन् स्वरूपावभासवति तदपरः तथा भवति । भवत्येव कुमुम्भरागवस्त्रान्तरितवस्तुप्रतिभासवदिति चेत्। न। तत्रापि समा- नत्वात् । स्वरूपेण प्रतिभासनेन रक्ततावभासः। तदेव तस्य रूपमिति तथाव- भासनाभ्युपगमे तस्याप्यालोकमन्दतया तदेव रूपमिति सकलस्य सनात्कुतो बुद्धिभेदः। तस्मादालोकभेदेपि न भेदावभासः। अपि च। मन्दन्तदपि नेजः किमावृत्तेरिह सा न किं । तनुत्त्वात्तंजसोप्यतद(c. Ioon)न्यत्राप्यस्य तानवं ।। (४१०) यदि तेजो दवीयसि देशे रजसाऽवृतमिति मन्दं तदाकाराद्देशमपि मन्दमेव तत्रापि रजसा तिरस्करणसम्भवात् । न खलु व्यापि नभस्वदुद्धूयमानमिह नास्ति (1) तदस्तित्त्वेपि तनुत्त्वाद्रजसोऽनावरणकारणता। दवीयसि तुदेशे तदन्तरालायतत्त्वे न रजसो भूयस्त्वं । स एव गोधा श श क न्या यः। तेजसोपि तत्र भयस्त्वमेव । निकटे तु यथा रजसस्तानवन्तथा तेजसोपीति किमेवमुक्तेन । अत्यासन्ने च मुव्यक्तन्तेजस्तत्स्यात्परिस्फुटम् । यदि रजसस्तनुत्वेनालोकस्यामन्दतायां स्फुटप्रतिभासस्तदात्यासन्नतायां रजसस्तनुतमत्त्वादतिपरिस्फुटम्भवेत् । तत्र शक्त्यभावादिन्द्रियस्येति चेत् । सर्वथाऽवर्शनमेव प्रसक्तमित्युक्तं । तत्राप्यदृष्टमाश्रित्य भवेद्रूपान्तरं यदि । (४११) अन्योन्यावरणन्तेषां स्यात्तेजोविहतिस्ततः॥ अवृष्टसगितमचेतनं पदार्थमा श्रित्य रूपान्तरमेव तत्रोत्पन्नं तेन तत्तेज आवृतं विहितमिति न तदपरस्य दर्शनं । एवं सति सर्वेण तदेकमेव दृश्येत नापरं. तस्या- वृतत्त्वादालोकस्य। द्वयमपि च दृश्यते निकटे तदावरणं नास्त्येव तस्य पृष्ठतस्स्था- नात्। नैकदेशस्यैव दर्शनात् । नहि दूरदेशत्तिन (1) निकटदेशावस्थितस्य पृष्ठ- तस्तदुपलभ्यते रूपमपरिस्फुटाभिमतं । भ्रान्तिरसाविति चेत् । पदार्थतत्त्वदर्शनदशिनां कुतो" भ्रान्तिसम्भवः । देशभ्रान्तिरस्त्येवादित्यस्य वृक्षशिरःसंसृष्टतादर्शनवत् । (c. Ioob) तत्र देशेप्यसत्तत्र दृश्येत यदि वस्तु तत् । तत्र कालेप्यसत्तत्र किन्न दर्शनसङगतम् ।। * हे. पुस्तके-त्स्यादतिस्फुटम् ।
१३-विज्ञप्तिमात्रता [ १०७ - तत्काले ऽविद्यमानस्य यदि स्यात् दृष्टिरागतं । सर्थिदर्शिनः सर्व इति तच्च न दृश्यते ।। अदृष्टसङगमादेतद्यदि सर्च समर्थ्यते । परेणापि ततः सर्बो दृष्टतो दर्शनोदयः ।। यदाहि परदर्शनदूषणाय भवता किञ्चिदुच्यते। तदा परोपि सकलमेत' 'द् भ- बतो दूषणं प्रतिभाति न समर्थनं । तथाभूतादृष्टसामर्थ्यादेवेति भवत एवायं दोष इति शक्त एव वक्तुं । यथा च विद्यमानवारणमदृष्टतः तथा ऽविद्यमानोपदर्शन- मपि । ततोऽविद्यमानमेव भवतो दूषणं प्रतिभाति । विद्यमानमपि न समर्थनं तथा प्राश्निकप्रपञ्चस्यापीति न कश्चित्तस्य वादी भवेत् । दृश्यते यद्यथा वस्तु तत्तथैवानुगम्यताम् । अस्फुटावरणन्तस्य पृष्ठतो नेति गम्यताम् । कस्यचिदपि पृष्ठतस्तदावरणमिति पुरोत्तिनावरणेनाविहितत्त्वादेकमेव स्फुटरूपमावरणं सर्वः पश्येत्तस्या वा वरणे तु सकृदेव दूरदेशव्यवस्थितोपि स्फु- टेतरलक्षणं द्वयमपि पश्येदिति प्राप्त सकृदेवेत्याह। तत्रैकमेव दृश्यत तस्यानावरंग सकृत् । (४१२) पश्येत्स्फुटास्फुटं रूपम् अथाप्युच्येत। एक एव दृश्यते परवर्शनस्यादृष्टेन वारणे सतीति चेत् । अत्रो- च्यते। यदि तत। एको दृष्टनावरगन* (।) न दृश्य त इति वाक्यशेषः । तदयुक्तं । अर्थानौँ न येन (c. Iora) स्तम्नदहाष्टं कगति किं । (४१३) अदृष्टं हि नामेदं धर्माधर्मलक्षणं । अकस्मादर्थानर्थोपनिपातेन तस्य तेन प्रत्य- क्षतः। तत्कथमनर्थेतरत्वाभावेपि दूरादर्शनस्यास्पष्टदर्शनस्य वा दृष्टकृतत्त्वं । एतदपि करोतीति चेत् । दत्तमत्रोत्तरं । सर्वमेव दूषणमसमर्थनं न तत्त्वतो भवे- दिति । साधूक्तमपि न भवताऽवगम्यते ऽदृष्टबलादिति । तस्मात्सम्वि द्यथाहेतुजायमा(ना)ऽर्थसंश्रयान । प्रतिभासभिदां धत्ते शेषाः क्र(कु)मतिदुर्नयाः ॥ (४१४) किञ्च। । * हे. पुस्तके-दृष्टेन वारणे ।
१०८ ] वार्तिकालंकारः (३।४१६) ज्ञानशब्दप्रदीपानां प्रत्यक्षस्येतरस्य व (1) । जनकत्त्वे न पूर्वेषां क्षणिकानां विनाशतः ।। (४१५) व्यक्तिः कुतोऽसतां ज्ञानात नाविद्यमानस्य स्वरूपेण दर्शनं । हेतुत्त्वेन च ज्ञानात्पूर्वत्त्वं । पूर्वत्त्वे च क्षणिक- तया न ज्ञानकालेस्तिता। अथ यदैवास्ति तदेव ग्रहणं हेतुभावमन्तरेणापि। समान- कालतयव वा हेतुतापि तदसत् । ज्ञानस्य य उपकारको न भवति तस्य । अन्यस्यानुपकारिणा। व्यक्तो व्यज्येत सर्वार्थः न समानकालस्य हेतुता तथा प्रतीतेः। असम्बद्धग्रहणे च सर्वमेव गृह्येत। तद्धनोनियमो याद ।। (४१६) न सर्वग्रहणन्त देतुनियतत्वाद् ग्राह्यग्राहकयोः। ईदृशो ग्राहकश्चक्षुषा निय- मितो येन प्रतिनियतमेव गृह्णाति । (c. IOIb) ग्राह्यम्वा येन तेनैव गृह्यते। अथवोभयम"पीति परः । तदयुक्तं । यतः। नेपापि कल्पना ज्ञाने न प्रतिनियतग्रहणमनया कल्पनया। हेतुनियमो हि पदार्थानां स्वरूपे कार्य- कारणे च। न तावत्स्वरूपे. स्वरूपप्रतिनियमे हि कारणतः स्वरूपमेव तयोस्तथा भूतं यदवभासते। ततः स्वरूपावभासनमेव प्रसक्तं तत्पूर्वकारणाधीनं न परस्परा- धीनमिति न परस्परं ग्राह्यग्राहकभावः। समानकालोदयात् । यदधीना हि त". योाह्यग्राहकता तस्यैव तौ ग्राह्यग्राहकाविति युक्तं ।* न च संविदितस्वस्व- रूपादपरा ग्राह्यग्राहकता। कथन्तहि (-) ग्राहकोहं ग्राह्यं ममेदमिति प्रतीतिः। न। तदपरस्य सम्बन्धस्याप्रतिभासनात्कल्पनामात्रमेवानादिवासनाधीनमेतत् । तथा चोक्तं । "सव्यापारमिवाभातीति"। तस्मात्तस्य रूपस्य स्वहेतुनियमान ग्राह्यग्रा- हकभावः । अथ कार्यकरणे स्वहेतुनियमः । तदापि यदि ताभ्यां प्रतिनियमस्य कार्यात्मनो जननं कथमिव ग्राह्यग्राहकभावः । सहकारिभाव एव भवेत्। न च तावता ग्राह्यग्राहकभावः। तस्मान हेतुतो ग्राह्यग्राहकभावः। अथवा. नैषापि कल्पना ज्ञाने ।। यदा ज्ञानं ग्राह्यं ज्ञानान्तरस्य प्रत्यक्षस्यार्थस्य वा तदा कि द्वयोर्ता- स्फुटमस्फुटम्वा दूरासन्नवर्तिना च सर्वेण-इति पंक्ती त्रुटितोंशो बहिःपंक्ति लभ्यते ।
- १३-विज्ञप्तिमात्रता [ १०९ नयोः समानकालता। हेतोश्च ग्राह्यग्राहकतोदयः । न च द्वयोः समानकालतेष्यते। समानकालतायाम्वा तदन्येनापि समानकालेन तदन्येनापीति.अपर्यन्ततव ज्ञाना- नाम्भवेत् । अर्थस्यापि तदा ग्रहणम्भवेत् । न चेष्यते। (c. I02a) न च प्रथम प्राह्यमसत्पश्चाद् ग्राह्यं भवति तद्रूपस्याप्रतिपत्तिप्रसङगात् । ग्राह्यरूपमेव प्रागपीति चेत् । प्रागपि ग्रहणप्रसङगः । भवतु को दोष इति चेत् । न । प्रागपि ग्राहक- प्रसङगात् । यदि च चक्षुरादिसामग्रीवसा [? शा] दुवयस्तस्य ज्ञानमेव पाह्या- कारः स्यात् नार्थता। तथाप्यर्थत्त्वे ग्राहकाकारोपि भवेत् । अथार्यस्य प्रागभावा- द् प्राहकस्य चान्यथाभावान्नैवं । न प्रागभाव': परिगृह्यत इत्युक्तं। कल्पनायां सर्वकल्पनाप्रसङग इति च। कथन्तह्यर्थकल्पना। अर्थदर्शनापेक्षयेति प्रति- पादितं । अत एवाह। ज्ञानन्त्वर्थावभासतः। तं व्यनक्तीति कथ्येत तदभावपि तत्कृतं ॥ (४१७) तदाकारावभासनात्। अविद्यमानोप्यर्थः प्रतिभातीति भवेद्वधपदेशः । अर्थेन दृश्यमानोर्थः स्वयञ्चानुमानतः प्रतीतोस्तीति व्यवस्थितावर्थस्य ततस्तदाकार- ज्ञानोत्पत्तौ स गृहीत इति युक्तं। तदभा वेतूत्पन्नं भ्रान्तिज्ञानमिति मिति (?) व्यवस्था। न तु पुनः परमार्थतो ऽनुमानमस्ति। प्रत्यक्षपूर्वकं सर्वमनुमानं प्रवर्तते। प्रत्यक्षस्यानुमानापेक्षा यद्यन्योन्यसमा- श्रयः। न यावदनुमानं प्रमाणं तावन्न प्रत्यक्ष प्रमाणीभवति बाह्येऽर्थे । न च प्रत्यक्ष- प्रामाण्यासम्भवेऽनुमानन्तत्पूर्वकत्त्वादन्यथार्थपरम्परा भवेत् । (c. I02b) तस्मा- त्परमार्थतः स्वरूपमेव सम्वेदनस्य सम्विदितं नार्थः । तथाप्यभ्युपगम्योच्यते। नहि सर्व तत्वत एव व्यवस्थाप्यते। ततः पूर्वमर्थे सति यदाकारं विज्ञानं जायते ग प्रायः। नाकारयति चान्यार्थाऽनुपकारात्सहादितः । सहोवितोर्थात्मा स्वहेतोः तथवोत्पन्न इति तदुपकाराभावात् ज्ञानस्य नासो प्रापस्तदाकारज्ञानाजननात्। ततः. व्यक्तोऽनाकारयन् ज्ञानं स्वाकारंण कथम्भवत् । (४१८) परोक्षार्यात्मा तदाकारज्ञानजनकतया वस्तुतः स्वरूपेणाविवितस्वभाव इति तदाका"रज्ञानसम्वेदनादेव तस्य वेदनमिति युक्तं । तेन व्यक्तत्त्वं। स्वरूपेण प्रतिभासने तु स्वहेतुसामर्थ्यान्न समानकालता विना परेण तस्य किञ्चिदिति तद्वे- वनं। यदि परन्तदुपरोधमात्रादेव । भवतु ज्ञानादीनामसतां ज्ञानकाले स्वरूपेणा- - ११० ] वार्तिकालंकारः (१४२०) वेदने ततस्तत्र सामर्थ्यात्तदाकारज्ञानकल्पनापि । यः पुनः स्थिरो वज्रोपलाबिको- र्थस्तस्य स्वरूपवेदनं कथमनुपपन्न । तबपि यत्किञ्चिदेतत् । यतः। वनोपलादिरप्यर्थः स्थिरो योनपेक्षणान् । सकृत्सर्वस्य जनयंत ज्ञानानि जगतः स्वयम् ॥ (४१९) कालकलावता न व्यापी हि नित्यः स्थिर इति चोक्तः। यदि च तस्य एव स्वभाव- स्तदा तदाकारसर्वस्वस्वीकारसम्वेदने न सपर्यवसानः स परिगृहीत इति (1) एकज्ञानकाल एव परिसमाप्त (c. 103a) इति न नित्यता भवेत् । न. तदेव परिसमाप्तं नित्यं नाम । सकलकालकलावलोकने च न का लबध्यं । युगपच्च ग्रीष्माविकः कालः स्यात् । ज्ञानकत्त्वेप्ययमेव दोषः। ननु क्रमभाविकालकला- नामक्रमेण कथं ग्रहणम् । अग्रहणे तहि न कालव्याप्तिरस्येति कथं नित्यता। तस्माद्यद्यसावेकस्तथैव सकृत् गृह्येत। अथापरकारणापेक्षया परापरसम्वेदनजनने ऋम इति। तबप्ययुक्तमनपेक्षत्वात्। न ह्येकरूपं स्वकारणादुत्पन्नं तद्भावे परम- पेक्यते। अथ पश्चादपरा वृश्य मानता भवति। या. पश्चादेव विषयः। तदा तहि न नित्यत्त्वमित्याह। क्रमाद्भवन्ति तान्यस्य सहकार्युपकारतः । आहुः प्रतिक्षणं भेदं स दोषोत्रापि पूर्ववत ॥ (४२०) यदि सहकारिचक्षुराद्युपकारक्रमेण तानि विज्ञानानि क्रमभावीनि । सति ज्ञानानां क्रमभावे तदृश्यतापि क्रमभाविनी। नहि दृश्यता ज्ञानमन्तरेण, वस्तुनः स्वसम्वेदनप्रसङगात् । ज्ञानसमानकालभाविनी च दृश्यता न पूर्वापररूपात्" ज्ञानस्य तथाभावात्। ततो ज्ञानवदेव प्रतिक्षणं भेद इति । पूर्वपूर्वस्वसन्तान- भाविकारणाधीनाऽन्यथा वा । ततः पूर्ववदत्रापि दोषः । अथ चक्षुराविकारणोप- निपातमविच्छिन्नमेकमेव । ततस्तवविच्छेदादविच्छेदसम्भविनी (c. I03b) पाह्यतैकव ततो नित्यता वज्रोपलादेः। नैतबस्ति । वज्रोपलादी विच्छेदमन्तरेण प्रमादयः । सर्वथा नेति केनायमविच्छेदः प्रतीयतां । यदाप्यविच्छेवस्तवापि पर्यवसानावधिप्रतीतिप्रसङग इत्युक्तं । तस्मा- दम्रोपलादावपि समानमेव । तस्मादविद्यमानानां शब्दावीनां कारणभूतानां तथा [ १११ आ चा येणापि प्रतिपावितं । १४-आत्मसंवेदनम् सम्वेवनासङगतेविषयाकारं विज्ञानमिति सिद्धं । स्मृतेरुत्तरकालश्च नह्यसावविभाविते । तदाह (-) स्मृतेश्च द्विरूपसिद्धेति । १४. आत्मसंवेदनप्रत्यक्षम् 1 अथापि स्यात्। सम्वेद्यसम्बेदकरूपतया द्विरूपतया न विषयाकारतेति प्रन्थार्थः। तदयुक्त। विषयज्ञानतज्ज्ञानवि' शेषाद् बुद्धिरूपतेनि प्रकृतं । तत्र च विषयाकारता प्रकृता साधयितुं । कथं पुनर्जायते द्विरूपम्विज्ञानमिति प्रक्रमात् । तत्रापि द्वयाभासं हि विज्ञानं स्वाभासं विषयाभासञ्च। तत्र विषयतायामेव महत्यास्था। यतः। सम्वेदनम्य तादात्म्ये न विवादास्ति काचत । तस्यार्थरूपताऽसिद्धा सापि सिध्यति संम्मृतेः ।। (४२१) ननु च स्वसम्वेदनपि विवाद एव । नेतदस्ति। सम्वेदनमात्राभिप्रायादेवमुच्यते। स्वसंवेदनन्तु साध्यमिति "क्तमेवैतत् । तथा च। स्वसम्वेद्यता चति पश्चात्सा साधयिष्यते । ततः स्वसम्बेदनव्यतिरिक्तसम्वेदनात्मत्त्वेन विवाद इत्ययमत्रार्थः । (c. 1041) तस्यत्वाकारतायां विवादस्तदसिद्धः। सापि तदाकारता सम्यकस्मतेविभागेन स्मृतेः सिध्यति। ननु निराकारतायामपि स्मृतिविभागवत्युपपन्नव । तत्कथमनंकान्तिकाढे- तोरर्यस्य सिद्धिः। नेतदस्ति । यतः। परस्परस्य भेदेन स्मृतिरत्र विवक्षिता । स्पष्टभेदेपि नाना सा चेति हेतुत्वमुच्यने ।। भेदनाननुभूनेस्मिनविभक्ते म्वगोचरैः। एवमेतन खल्वमिति सा स्यान्न भेदिनी । (४२२) १५ ११२ ] वातिकालंकारः (३।४२४) न चानुभवमात्रेण कश्चिद् भेदो विवेचकः । विकिनी न चास्पष्टे भेदे धीर्यमलादिवत ॥ (४२३) यदि तत्सम्वेदनं न प्रतिनियतस्पष्टनीलाकारो रागवशात् विभक्तमुप- जायते। तवा न विवेकेन स्मात। अथ कश्चित्सामग्रीविशेषाद् भेदोऽवश्यम्भावी तत एव भेदवती स्मृतिः। तदयुक्तं" (1) यतो नानुभवमात्राद्विशेषः सामग्री प्रभावोनीयमा (ना)त्मा स्मृतेग्निबन्धनं स्पष्टभेदाभावात् । न चास्पष्टभेदादेव विवे- किनी यमलकादिषु स्मृतिः। अथ विषयोपि तत्रानुभूत इति स्मर्यते। तवव्यभिचारा- बतः स्वयमभिन्नमपि तदभेदादेव भेदेन स्मृतेविषयः । यमलकयोरपि यदा विलक्षण- बण्डावियोगस्तवा भवत्येव विशेषोपलक्षणम् । यथैवं विषयबलात्कल्प्यते ऽनुभव- स्तथा (c. 104b) स्मयमाणावपीति ततो विज्ञानस्मरणमिति व्यवहारः । तबसत् । विषयाकारता'भावे विषयस्मरणं कथं । अतीतस्य हि नार्थस्य स आकार: परीयते ।। प्रत्युत्पन्ने हि तस्मिंस्तत्कथं स्मरणमुच्यते । स्मरणस्य स आकारो यदि कि सम्विदा न वा । अनुभवादाकारवतः स्मृतिरुदयमासादयन्ती तवाकारेति युक्तं। तथाहि । स्मृतिराद्यदि भवेत् सर्वत्राप्यविशेषतः । दूरादित्त्वेपि वस्तूनां स्मृतेरुदयन्नेक्षते ॥ अनुभूतिमथाश्रित्य हेतुरस्ति स एव नः । अर्थाभावेप्यनुभवात् स्मृतेरु दयसम्मवात् ।। यदि साकारता ज्ञानस्य न भवेत् । कथन्तदाकारता स्मृतेः । तथाहि । विज्ञानं स्मरणप्रत्ययेनालभ्य (म्ब्य)मानन्नाकारव्यतिरिक्तमालम्ब्यते अतियोगयोगिनापि। यस्य यथाधिमुक्त्या विषयीकरणं तथैव तदिति मन्तव्यं। तस्मात्स्मृतेरूपमरूपता प्रसिध्यतीति युक्तं स्वसम्वेदनञ्च । तथा चा चा यः । स्वसम्वेद्यता च वा। आह च (-) द्वैरुप्यसाधनेनापि प्रायः सिद्धं स्ववेदनं । स्वरूपभूताभासस्य तदा सम्वेदने क्षणात् ॥ (४२४) नन सर्वेणैव रूप्यसाधने न स्वसम्वेदनं प्रसिद्धं । किमुच्यते प्राय इति। नैतवस्ति। मुख्यतो रूप्यसाधने द्वरूप्यप्रसिद्धिरानुषडगिकी पुनः स्वसम्बे- बनतापि । यतः. स्वरूपभूत आभासस्तदा प्रतीयते। न च स्वसम्वेदनादन्यतःप्रतीतिः।
१४-आत्मसंवेदनम् । ११३ नन स्वसंवेदनमित्यात्मनो ग्राहकं ततश्च तदेव ग्राह्यं प्राहकञ्चेति। न (c. 105a) चैवमात्मकतायां दृष्टान्तः कश्चिदस्ति। येन ततः सिद्धिः । प्रदी'- पादिवत्प्रकाश्यप्रकाशकभाव इति चेत् । न. प्रदीपादीनामपरप्रकाशकनिरपेक्षत्वा- प्रकाश्यरूपता नास्त्येव । कुतः प्रकाश्यप्रकाशकतया दृष्टान्तता। ग्राम्यता तु यदा तेषां तदाप्यग्राहकं भवेत् । बुद्धयक्षयोनं च म्वात्मवेदन निश्चितं द्वयोः । तस्मात्स्वसम्वेवनन्नाम नास्त्येव । ननु चात्मा ग्राहकरूपो ग्राह्यश्चेतीष्यते भवद्भिः तदप्यसत्। यतः। धर्मभेदेन तत्रापि शक्या [ ? ग्राह्य ग्राहकरूपता । ग्राह्यत्त्व द्रव्यरूपेण ग्राहकन्वं तनोन्यथा । द्रव्यान्तरासाधारणेनात्मत्त्वेन ग्राहकता. द्रव्यत्वेन तु साधारणेन ग्राह्येति युक्तं। भवतस्तु सर्वमेतदसमञ्जसं । न च परप्रसिन्द्रिमात्रादेव दृष्टान्तः । स्व- प्रतिपत्तावुपायत्त्वाभावात् । तदेतदसत्। ग्राह्यग्राहकभावो हि नवास्ति परमार्थतः । अपरप्रन्ययं रूपमतद्वयावृत्तितम्नथा । यत्र हि परस्य प्रकाशकत्त्वं न प्रतीयते तदेवात्मानं प्रकाशयतीति व्यपति- श्यते। परप्रकाश्यव्यावृतत्त्वात् । तथा च प्रतिभासमाने रू[? वी]पादौ न परस्य प्रकाशकता तथा प्रतिपादितमत एव प्रदीपस्य दृष्टान्तता। चक्षुपि व्यापनेप्यर्थम्नामिने न प्रतीयते । प्रदीपसन्निधम्नस्य (c. 105b) प्रत्ययानन्प्रकाश्यना। दीपादयो नैमिति तत: म्वात्मप्रकाशकाः । न चाक्षं ग्राहकं नत्र म्वरूपेण प्रकाशनात् । सुखादयोपि नवामी परम'म्वदनादयाः । आत्मना तु सुग्वादीनां ग्राह्यत्वे वाह्यता भवत् । ममवायसमावेगानदेव स्यात्स्ववेदनं । ममवाये प्रमाणञ्च नेत्यंत प्रतिपादितं । ननु ग्राह्यतयाभिमतानां रूपादीनां स्वसम्बेदनाभ्युपगमे रूपाविकमहमिति प्रत्ययो भवेत् आत्मनीव । तथाहं सुखमिति भवेत् । नेतदस्ति। यस्मात् ।
११४ ] वातिकालंकारः (३।४२४) गौरः श्यामोहमित्येवं प्रत्ययो दृश्यते न किं । तथापि ग्राह्यतास्त्येव रूपादीनां शरीरिणां ।। रूपादयो हि शरीरसमवायिनोहमिति प्रत्ययेन गृह्यन्ते। न च ते भवन्मते स्वसम्बेवनाः। ननु रूपमहमिति न दृश्यते तेन ग्राह्यता न तु स्वसम्वेद्यता। तवप्यसत्। तद्भावेपि न दृष्टस्य न तद्रूपनिबद्धता । गौरादयो न रूपत्त्वव्यतिरेकव्यवस्थिताः । यद्ययमहं प्रत्ययो न ग्राह्ये भवेत् रूपे गौरादो न भवेत् । न च रूपमहमिति भवति। तस्मान्न ग्राह्यतानिबन्धनो हंप्रत्ययो नापि प्राह्यताविरोधी। अथा- स्मसम्बन्धादुपचारादहं गौर इति प्रत्ययः। मम रूपमिति व्यतिरेकदर्शनात् । ननु भेदाभावान्मम (c. I06a) गौर इति न भवति । मम रूपमिति तु भवति किमत्र निबन्धनं (1) तस्मादयं प्रत्ययो निनिबन्धन एव । ततोऽहमिति व्यावृत्तत्रं रूपादीनामस्वसम्वेदनताप्रसिद्धिः। न चाहं गौर इत्युपचरितवृत्ति परस्परं मुल्यस्याभावात् । न च मम मुखाविकं ममेति "प्रत्ययस्य किञ्चिदालम्बनं । भेदरूपमुपलब्धिगोचरः शिलापुत्रकस्य शरीरमिति यथा। तथा हि. शिलापुत्रकशब्दस्य दृश्यते ग्राववाच्यता। शरीरशब्दवाच्यत्त्वं तस्यैव पुनरीक्ष्यते । तथा ममेति शब्दस्य शरीरं वाच्यतां गतं । पुनः (ना) रूपादिशब्दस्य नापरं संप्रतीयते । सुतरामपि निरूप्यमाणमहमिति प्रत्ययस्यापरमालम्बनं शरीरगतरूपा- वेरपरं नोपलभ्यते । तेन मम मुख"मिति शरीरसम्बन्ध एवानादिवासनापरि- कल्पविशेषतो वा प्रत्ययः । यथा तहि शरीररूपादिषु भवत्यहंप्रत्ययः स्वसम्वेद- नात् । य[? त]था कुड्यादिष्वपि भवेदहं कुड्यामिति । यथा पुरोवत्तित्त्वं कुडघस्य शरीरापेक्षया तथा कुडघापेक्षया शरीरस्यापि स्यात् । न भवति । तस्मान्न स्वसम्वेदनता कुडचादीनां । अत्रोच्यते। यथाऽस्ववेदनत्त्वेपि न कुड्यादावहंकृतिः । तथा स्ववेदनत्त्वेपि न कुड्यादावहंकृतिः । 12 (c. 1o6b) यथा वा वासनासङगात् कुड्यादेरशरीरता । नियतादेव संस्कारात्तथाहंकारवजनं ।
आत्मसंवेदनम् [ ११५ यथा कुडघशरीरयोः प्रतिनियतवासनासामर्थ्यात्परस्परं भेदस्तथाहंकार- विषयतेतरभावोपि । तस्मादर्थग्राहकव्यापारविषयत्त्वायोगादेव स्वसम्वेदनता । अस्ति चात्र दृष्टान्तः । यस्यापरोधिष्ठाता नास्ति तस्य स्वतंत्रतया प्रतीतिः । नास्ति च सम्वेदने कुडचादीनां कश्चिदधिष्ठाता" ततः स्वतन्त्रं सम्वेदनमिति सिनः स्वसम्वेदनभावः। चक्षुषस्तु ग्राहकत्वं न रूपादितया ग्राह्यत्वात्। न खलु कारका द्वपञ्जकस्य कश्चिद्विशेष इति । प्रतिपादयिष्यते च । तस्मात् व्यतिरिक्तापेक्षया- प्रकाशाऽभावः कारकभाव एव। प्रकाश्यता तु स्वत एवेति युक्तं । तथैव वर्शना- तथैव स्मरणादिति न्याय एषः । अपि च । अनित्यसङगमात् कुड्ये नाहकारस्य सम्भवः । नित्यमेवानुबन्धन'' शरीरे तम्य संयतिः । तस्मादहंकारस्य नित्यानुबन्धः कारणमिति न कुड्यादौ भवत्यहंकार इति विभागः । न चाहडकारात्स्वसम्वेदनं । परानपेक्षवेदनस्य तथा स्थितेः । अथ ग्राहका- कारेण तस्य वेदनं । तदप्यसत्। यतः। चक्षुरातिरेकेण तदाकागप्रवेदनात् । ग्राह्यरूपाश्च ते मवें दृश्यन्ने (c. 107A) बाह्यवादिभिः । न च तद्व्यतिरकण सुग्वादरुपलम्भनं । तेना नपेक्षमम्विन्वात्मवमेव म्ववेदनम् । न खलु गरीरेतरभूतरूपादिव्यतिरेकेणापरमुपलभ्यते यस्य ग्राहकना भवेत्। सुखावयोपि शरीरव्यतिरेकेण न विभाव्यन्ते। न च ते विभाव्यमाना अपि ग्राहकाः स्वरूपमात्रपर्यवसानात्। सुखादिके च ग्राह्यताया अपि भेदो भवेत् । भवत्येवा- भिलासा [? पा]दिभेदेपि रूपादित्त्वेन भासनादिति चेत् । न (-)विस्पा'"- दिभेदेन प्रतिभासनेऽर्थरूपताभावात्। नहि परस्परविरोधि रूपमेकस्य युक्तं । ग्राहकापेक्षया न विरोध इत्यपि न वाच्यं । अपेक्षाया अयोगात् । नहि ग्राहकान्तरा- पेक्षया तदन्यद् भवति. ग्राहकस्य कारणत्त्वप्रसङगात् । तेन विरूपादिरूपता विद्य- मानव प्रकाश्यते चेत् । यदि तहि विद्यमानव प्रकाश्यते कथम्पश्चाबाध्यते पर्या- लोचनेनेति यत्किञ्चिदेतत्। अर्थ सर्वमप्येतदुपन्यस्तं प्राह्यमेव। ग्राहिका तु 19b बुद्धिरपराऽपत्त्या तदेव वेद्यते । तपेक्षमस्य सम्बेदनं । ततः स्मरणादप्युत्तर- कालन्तयाभूतवाऽसौ प्रतीयते। तवप्ययक्तं।
११६ ] वार्तिकालंकारः (३।४२४) तथा नेवालोको विजानाति ग्राह्यरूपान्तरं विदं । अर्थापत्त्या तदाकारम्पष्टता वा (c. 107b) प्रतीतितः । न खलु रूपसुखादिव्यतिरिक्ताकारवती बुद्धिरापत्त्या लोकेन व्यवहारवता प्रतीयते बुद्धिर्ममास्तीति । विभावित ग्राहयाकारातिरेके प्रतिनियताकारबुद्धि- रूपं विकल्प्य जालमेव केवलमुपरि वंभ्रमीति लोकस्य । अथ मूर्तस्यैव पदार्थात्मनो देशादिनियमेन व्यवस्थितस्य प्रतिनियतरूपविभावनं। नतु बुद्धिरेवं रूपात्प्र- मेयप्रकाशनमात्रमेव तस्यारूपमिति। न रूपादिवत्प्रतिनिय (त) रूपविभावनं । तवप्यसत् । अविभावितरूपाणामपि ग्राहकता यदि । विषाणस्य शशादीनामपि ग्राहकता न कि । तेषान्तथा प्रतीतेश्चेद्बुद्धेरप्यप्रतीतता। बुद्धिर्ममास्तीति पुनर्नरूपादेः परात्मवित् । रूपादिविशेष एव प्रकाशकान्तःप्रदेशी स्वभावभूतधर्मभेदमादाय व्यपविश्यते। रूपादिकं हि परोक्षापरोक्षसाधारणं, प्रकाशमानरूपता तु रूप- विशेषतया सजातीयादपि रूपाद्वयावृत्ता। ततो व्यावृत्तिभेदाद्धर्मभेदः। तेन रूपादेर्बुद्धिरिति व्यपदेशाध्य वसायवृत्तिः । तस्मात्सम्वेदनकाले स्मरणकाले च नापरा बुद्धिविभाव्यत इति सिद्धं स्ववेदनं रूपाद्याकारतयेति सिद्धान्तः। तेनेवमपि निराकृतं भवति । ग्राह्यग्राहकयोरैक्ये तदेकस्य प्रतीतितः । नियमेनापरस्यापि प्रतीतिरथवान्यथा । (c. I08a) एकप्रतीत्या परस्यापि पराप्रतीत्या चापरस्यापीति प्राप्तम् । प्रतीयत एव हि रूपादिरूपता प्रकाशरूपता च कस्मान्न सन्देहः । यदप्युक्तं । ग्राहकमेव स्मरन्ति कोपि मया दृष्ट आसीत् इति स्मरणात् । तबसद्यतः। तत्र विशेष ग्राहके सन्देह एव । सामान्य तु ग्राहयेपि न सन्देहः । ममेति च देहसम्बन्धित्त्वदर्शयति लोकः । तस्यापि देहस्य स्वप्रकाशत्त्वमेव नापर- प्रकार इति। एतच्चोक्तमेव । अथापि परस्याभिप्रायः । सत्यमेतन्न रूपादिव्यतिरेकात्परापि धीः । तथापि न स्वसम्वित्तिस्तस्या ग्रहणमन्यतः । तदसत् । यतः।
१४-आत्मसंवेदनम् [ ११७ धियाऽतद्रूपया ज्ञाने निरुद्धेनुभवः कुतः । स्वञ्च रूपं न साधन्ती*त्युत्सनोनुभवार्थिनः।। (४२५) यदि तदुत्तरकालभाविन्याऽपरया बुद्धधास्तवाकारयाऽर्थापत्त्याविरूपया ज्ञानमिष्यते तदा तत्पूर्वकं वेदनं निरुद्धं। भणिका हि सा न बुद्धचन्तरकालमास्त इत्यभ्युपगमात् । ततो निरुद्वेऽपरसम्वेदनकाले पूर्व केऽनुभवे कुतो भवः । स्व. रूपस्यासम्वेदनाद् ग्राहयस्य चभूरूपाभावात् सकल एवोत्सीदेदनुभवः । न हय. स्वरूपं शक्यमनुभवितुं । स्वरूपानुभवस्य सर्वत्रानुभवत्वात्। स्वरूपञ्चाविद्यमानस्य पूर्वानुभवस्य नास्तीति नानुभवः। पूर्वस्योत्तरानुभवेन । स्वरूपस्य चानुभव (c. 108b) नेष्यते। न चेक्ष्यते । तस्य विषयाकाररहितत्त्वात्। विषयाकाररहित त्वे वा स्वसम्वेदनानुपगमात् । अनवस्थाप्रसङगादिति प्रतिपादयिष्यते । अपि च । बुद्धिरन्येनानुभूयत इति न सदेतत् । यतः । वहिर्मुखश्च तज्ज्ञानं भात्यर्थप्रतिभासवन । बुद्धेश्च पाहिका बुद्धिनित्यमन्तर्मुखात्मनि ।। (४२६) यदि बुद्धर्माहिका बुद्रिरपरा तदा बहिर्मुखावभासिनी भवेत्पादिबुद्धिवत् । न हयन्येनान्यद् गृहघमाणमबहिर्भावेन प्रत्येतुं शक्यं । बुद्धिपि सर्ववान्तरत्वे. नाभास ते। अथवात्मीयतया। बुद्धेरन्तर्भावावसानं । स्मरणेनापि बुद्धेः म्याद् ग्रहणन्तञ्चकासनं । स्मरणेनापि यदात्मीया बुद्धिरालम्ब्यते तदपि बहिरवभासिनी स्यात् । अथ सा कालभेदादेवमवभासतेऽत्रापि स्वरूपभेदादेवमिति कि नेष्यते। न च व्यतिरिक्ताकारतयाऽनवभासमानं ग्राहकावन्यविति । शक्यमवसातुं । तस्मादान्तरत्त्वे वानुभवेनुभूयमाना बुद्धिः स्वसम्वेदन" रूपैवेति युक्तं । समानदेशतया तथानुभव इति चेत् । न । समानदेशमपि स्वरूपभेदेनैव गृहयते। संसर्गाविभागस्तु प्रत्या. ख्यात एव। तस्माद्यस्य बुद्धचन्तरेण बुद्धिाहयते तस्य सा बहिष्टेनेति न्यायः । अपि च । यो यस्य विषयाभासस्तं वनि न तदित्यपि" (1) प्राप्त यस्य हि विषयस्य योवभासः ज्ञानसन्निविष्टस्तम्विषयाभासि ज्ञानमयं न स्वरूपभू"तार्थाभासासम्वेदनात्। स्वसम्वेदनेन हि विषया (का)रान वेति। * हे. पुस्तके—सा वेनी।
११८ ] बार्तिकालंकारः (३२४२७) भवे तत्त्वतः सोप्यर्थोनभूतो भवेत्. अयमेवार्थावग्रहः । पादपादेरिव (c. I09a) पिण्डाकारग्रहः। अस्वसम्वेदने तु सर्वमसमञ्जसं संपन्न । कः सम्वेदनान्यस्तादृप्यादिति चेन्मतं ।। (४२७) नद्रूपोत्पद्यते धीश्चेतदेवार्थस्य वेदनं । तद्रूपवेदनाभावे न भवेदर्थवेदनं । स्वसम्वेदनन्ताममाभूदपरं। न हि तदभावे तन्न' भवति । नहि स्वसम्वेदना- भावे नीलमनीलं तथा न बुद्धिरबुद्धिः । अन्यवेदने बुद्धिर्भ स्वसम्वेदने । अर्थरूपता च स्ववेदनलक्षणं न स्वसम्वेदनं। आत्मनोपि बुद्धित्त्वप्रसङगात्। तस्मादात्मनि स्थिता तदाकारा स्वसम्वेदनमन्तरेणापि बुद्धिरेव। यदि तहि स्वसम्वेदनमन्त- रेणापि पूर्वार्थाकारमात्रादन्यथा वा तदा प्राप्तं सम्बंदनं सर्वसदृशानां परस्परं । अस्वसम्वेदने हि तदाकार"तामात्रमवशिष्यते। तदा चार्थबुद्धघोरविशेष एव तदाकारमात्रेण बुद्धित्त्वे तस्यापि तत्प्राप्तमतोऽर्थोप्यर्थान्तररूपो बुद्धिरेव बुद्धिलक्षणात्। अर्थत्वान्नेति चेत्। किमिदमर्थत्वं। अबुद्वित्त्वञ्चेत्। अबुद्धि- त्वमर्थे सतीति. एकस्याप्यप्रसिद्धिः। तस्मात्स्वसम्वेदनतव। यदि परं बुद्धित्त्व- मिति न्यायः । अर्थात्मव्यवस्थितत्वं समवायसम्बन्धनान्यथा वा। 15 तदप्यसत् आत्म'' स्वत्त्वेपि बुद्धित्त्वे प्रयत्नादेः परस्परं । सारूप्यानुद्धिता प्राप्ता आत्मस्थत्वस्य वित्कथम् । प्रयत्नादीनामपि परस्परं सरूपस्य (c. I09b) सम्वेदनत्त्वप्रसङ्गः। केन वात्मस्थितत्त्वमवधार्यते, बुद्धचन्तरेण । ननु बुद्धित्त्वमेव नावधार्यते। तत्कथं बुद्धचन्तरेणेत्युच्यते। आत्मस्थितत्त्वे द्वयोर्बुद्धयोः कथं परस्परेण ग्रहणं समानवेशतया भेदाभावात्। अथ भेदः प्रतीयते। तदात्मनोपि भेदप्रतीतिरिति त्रयमेतत्परं विभिन्नं । न हयात्मनोऽप्रतीतो तत्रस्थता प्रतीयते। अप्रतीयमानश्चात्मा कथम्बुद्धघाकारतया बुद्धचा प्रतीयते (1) नहि बुद्धया प्रतीयमाना रूपादयोपि. आत्मस्थतया प्रतीविषयाः। अनात्म- स्थत्वात्तेषामिति चेत्। ननु व्याप्यात्मा कथमतत्स्थत्त्वमिति । तत्रासमवायादिति चेत् । कथमसमवायः । तत्राप्रतिपत्तेरिति चेत् । बुद्धिरपि तहि नैवात्मनि प्रतीयते तद्वपति रेकेणात्मनः प्रतीतेरभावात् । ननु प्रतीतिस्ताववियं क्रियारूपा विद्यते (1) तस्याः कर्ता वश्यमेव भवितव्यं नाकर्तका क्रियास्ति ।
१४-आत्मसंवेदनम् [ ११९ ननु यतोसावुपजायते चक्षुरादेः स एव कर्ता तेषां करणत्वादिति चेत् । किम- फैन कर्ता परिकल्पितेन तेषामेव कर्तृत्त्वन्न चान्येन क; विनाऽकारणत्वमेषां । यदिवं शरीरमेव कर्तृ किमन्येन। शरीरान्तर्गता तहि बुद्धिरन्तर्मुखावभासिनी प्रती"यते। अत एव परबुद्धिरन्यथा न प्रतीयते। शरीरकदेशभतानामपि तहि केषाञ्चिद्धित्त्वं ततोऽस्वसम्वेदनरूपादिभिः समानता। ततः प्राप्त सम्वेदनं सर्वसदृशानां परस्परमिति। (c. IIoa) तस्मात्स्ववेदनावेर्वार्यरूपव्यावृत्तिः । बुद्धिस्वरूपा तद्विच्चेत न सव्वं स्वरूपमर्थवेदनं। अपितु बुद्वित्त्वे सति बुद्धिगतं सारूप्यमर्थवेदनं । न वेदनमात्रं। नापि सारूप्यमात्रं । वेदनामात्रे वेदनमेव भवेन्नार्थवेदनं। सारूप्यमात्रेऽर्थानामपि परस्परं वेवनप्रसङग इति। तदेतवसत् । यतः। नेदानी वित्सरूपिका । (४२८) सरूपता यदि सम्वेदनलक्षणं तदार्थोपि सरूपः सम्वेवनं प्राप्त इत्यत्रोत्तरं बुद्धिरिति। तत्रोक्तमेव । परस्परवेदने तेषामपि बुद्धिता प्रसक्ता। सम्वेदनं प्रसक्तमिति येनोक्तं बुद्धित्त्वमपि तेषामिति तेनोक्तमेव।' तत्र तदनं कथमुत्तरं विशेषाभावात् । यतः। सम्वेदनं बुद्धिरिति नानयोभिन्नवाच्यता । ततः परो विशेष एवाभिधातव्यः। स च सारूप्यावपरः । ननु सरूपाणामर्थानां परस्परमग्राहकता दृश्यते (1) ग्राहकञ्च रूपं बुद्धिः। यद्येवं प्राहकरूपं नादृश्यं बुद्धिः। प्राहकरूपतायाः सादृश्यमात्रेण रूपादीनामपि ग्राहकत्वावुद्धित्त्वप्रसङगः । अग्राहकत्त्वाच्चेत्। ननु ग्राहकत्त्वे व्यवस्थिते कस्य- चिवग्राहकत्त्वमपरस्य तद्विपर्ययादवस्थाप्यते तदेव तु नावस्थितं। अथ रूपाविष्यतिरिक्तं प्राहकं। ननु रूपादिसरूपमस्वसम्वेदनं कथं रूपावि (c. IIob) व्यतिरिक्तं । न च तत्कल्प (न)यां प्रमाणं । प्राहघतान्यथार्थस्य नेति चेत्। यथा दृश्यते तथवास्तीति किमपरेण । तस्मात्स्वरूपसम्वेवनमेव विशेषः। तथा च सति यतो विशेषाद्रूपाविकावयवधावृत्तता तदेव बुद्वित्व'- मिति न सारूप्यादृद्धित्वं । बुद्धित्त्वे स्वसम्वेवनलक्षणे यत्सारूप्यन्तद्वेदनमिति वे द न लक्षणमेव बुद्वित्वं न सारूप्यलक्षणं। किमर्थन्तहि सारूप्यमिष्यते प्रामाण्यं । तत्कृतनियतसम्वेदनहेतुरिति सारूप्यं तविष्यते। ततः सारूप्यन्नाम बुद्धित्त्वे सतीति बुद्धित्वस्य स्वसम्वेदनलक्षणस्य विशेष एव । न तदपरं सारूप्यं ॥ बुद्धित्त्वमपि तहि सारूप्यविशेष एव न ततः परमिति प्राप्तम् । सत्यमेतत् तथापि स्वसम्वेदन- १२० ] वार्तिकालंकारः (३१४३१) मात्रानुबद्धं सारूप्यं न सारूप्यमात्रभावि स्वसम्वेदनम्बाहवार्यवादिनः। अपि च. म्वयं सोनुभवस्तस्या न स सारूप्यकारणं । नहि स्वसम्वेदनस्य सारूप्यं कारणं । स्वरूपञ्चेदपरप्रत्ययं साक्षादवगम्यते किमत्र सारूप्येण। यद्यपरेणास्य सारूप्यं तदेवं [? तदिदं] विदितमन्यदा नेति । नेदमेवं विकल्प्यते। गतोदके कः खलु सेतुबन्ध इति हि न्यायः । किमिदानी सारूप्येणेत्यपि न वाच्यं । यतः। क्रियाकर्मव्यवस्थायास्तल्लोकं स्यानिवन्धनं । (४२९) व्यतिरिक्तविषयसम्वेदनरूपतानेन व्यवस्थाप्यते । व्यवस्थाप्यते । सारूप्यतोऽन्यथा भवतीति । (c. IIHa)नीलस्य कर्मणः सम्बित्तिः पीतस्येवेति क्रियाकर्मप्रतिनियमार्थ- मिष्यते । न तावद्वाहपार्थवादिनां नीलादिकं बाहयं स्वसम्वेदनमतः सारूप्यभावा- इयवस्थाप्यते। अन्यथा लोके न बाहयार्थनीलादिताव्यवस्था । यतः । म्व भावभूततपसम्बिदागेपविलवान । नीलादेरनुभूताख्या नानुभूतेः परात्मनः ॥ (४३०) स्वभावभूतं स्वसम्वेदनस्य यन्नीलादिरूपन्तस्य सम्विदं बाहये नीलादिके विप्लवेनानादिवासनाप्रवाहवाहिनाऽपरोप्य नीलादिकस्यानुभूताल्या. न तु ततः परात्मा नीलादिकः कथञ्चिदनुभवगोचरः। स्वसम्वेदनरूपानुभव एव तु तस्या- नुभव उपचारात् । यतः। परसम्वेदनेप्यर्थस्तद्रूपा'ऽन्यो यदेक्ष्यते । मया विज्ञात एवायं व्यवहार: प्रवर्तते ।। तल्लक्षणापरवेदने हि विदितमेवायमस्माकमिति हि लोके व्यवहारोऽत एव लोक इत्याह । परमार्थतस्तु स्वसम्वेदनमेव केवलं । धिया नोलादिरूपत्वे बाझोर्थः किंप्रमाणकः। धियो नोलादिरूपत्वे स तस्यानुभवः कथं ॥ (४३१) यदि सम्बेदनमेव नीलाकारमात्मप्रकाशकं बाहघोर्थः किं प्रमाणमादाय विदितो भवेत्। नहि तत्र प्रत्यक्षं तस्य स्वसम्बेदनमात्र एव पर्यवसानात् । न च ततः परं नीलमाभासते नीलाकारद्वयाप्रवेदनात् । अथ तदर्थस्य (c. IIIb) रूपं तदा सम्बे. बनमन्येन रूपेण विवितमविदितम्बा भवेत् ॥ यद्यविदितं स तस्यानुभवः कथं । स्वरूपेणाज्ञातमस्य सम्बेदनमिति कथं संगच्छते। विदितञ्चेत् । तथापि समान- कालमन्यथा वा वेद्यमानं कथम्बेदनमन्यस्य तदेवात्मीयं रूपमावेदितमाभ्यामिति । कयं परस्परं सम्वेद्यसम्बेदकभायः । परोक्षत्त्वे तु नीलादेस्तद्रूपवेदनात्तत्प्रज्ञप्ति- १४-आत्मसंवेदनम् [ १२१ । रिति भवेद्वयवहारोनेनेवमज्ञायोति । साक्षात्तु वेदने नेद(श)योः परस्परप्रति- बद्धं सम्बेदनमिति। न प्रमाणं किञ्चित् । तस्मादसम्विवितं स्वयमन्येन सम्बि- दितन ज्ञाप्यत इति वरमेतदेव । ननु न सम्वेदनात्मत्त्वं स्वसम्वेवनमात्रकमपि तु सारूप्ये सतीति युक्तं । न । सारूप्यमा"त्रात्सम्वेदनत्त्वासिद्धेः । स्वसम्वेदनत्त्वे सति चेत् । यद्येवं स्व- सम्वेदनात्मत्त्वमेवास्तु किं सारूप्येण । यदि सारूप्यन्न स्यात्किन सम्वेदनं । भवत्येवेति चेत् । किमिवानी सारूप्येण। यदि सारूप्यमन्तरेणापि भवति। भवेदेव किन्तु तदप्यस्तीत्युच्यते सारूप्यावेदनमिति । नेतदस्ति। यतः । यदा सम्वेदनात्मत्त्वं न सारूप्यनिबन्धनं । सिद्धन्तत्स्वत एवास्य किमर्थेनोपनीयते ॥ (४३२) स्वरूपमेव तत्तस्य येन सम्वेदनात्मता । अपरमपि तत्स्वरूपं स्वत एव । ततः सारूप्यात्सम्वेदनमिति कः सम्बन्धी यदि तत्स्वरूपं न भवेत् (1) कि स्वसम्वेदनात्मता (c. I 129) जाता सत्यप्यथ गच्छेत् । तस्मात्सिद्धन्तत्स्वत एव रूपं किमपरेण । तदर्थसम्वेदनन्न भवेदिति चेत् । नेदमपि युक्तं । यदि नामात्मीयं रूपमन्यसरूपम्वेत्ति तदेव वेत्तु । कथमर्थस्तेन सम्वेदितो भवेत् । इति किमर्थेन सङगतम पनीयते। अर्थस्य सम्वेदनमिति मीयते । नहयर्थः स्वसम्वेदनेऽनुप्रवेशी येन सम्विदितो भवेदिति नार्थवेदनन्नाम । अपि च । यदि सारूप्यनिबन्धनं तदा महाननर्थः। यतः। सर्वात्मना हि सारूप्ये ज्ञानमज्ञानतां ब्रजेन । साम्ये कनचिदगेन स्यात्सर्व सबवेदनं (४३३) सर्वात्मना हि सारूप्यं सकलभेदापगमे स्यात् । तदा चार्य एवासावपरार्थव्यक्ति- वत् । कयन्त (ज्) ज्ञानं । ज्ञानत्त्वेनाधिकत्वेन सर्वात्म''ना साम्यम्भवेत्। अथ केनचिदङगेन भेदोपि तदा सव्वं सर्ववेदनं भवेत् सकलस्य केनचिदङगेन समान- त्वानपगमात् । बोधाकारतां परित्यज्यान्ये सर्वेण समानतया सम्बेदनमिति चेत् । सकलज्ञानसम्वेदनत्त्वप्रसङगः। यत उत्पद्यते तदेव सम्वेद्यमिति चेत् । यदि नाम तत उत्पद्यते तथाप्यसम्वेद्यमितिच कुत एतत् । तद्रूपसम्वेदनात्स्वयं न तु तत उत्पत्तेः। न च यमलकयोः परस्परमुत्पाद्योत्पादकभावः। अथ चकवेदने परस्यापि वेदनव्यवहारः। यदि च यत उत्पत्तिः सरूपता च तस्य वेदनं (c. 112b) तदा ॥ तथा नीलादिरूपत्वान्नीलाद्यनुभवो मतः । तथाऽनुभवरूपत्त्वात्तुल्याप्यनुभवो भवेन ।। (४३४) 1.
१२२ ] वार्तिकालंकारः (३।४३६) बोधकरूपतया सम्बेदनेन समानता नीलादिरूपतयापि नीलाविता ततो नीलादिवेदनवदनुभववेदनमपि । अथ नीलाविकमप्युपबाधकमस्तीति नीलाद्य* नुभवः । अनुभवेनाप्यपबाधकेन न भवितव्यमित्यपि कल्प्यते । तदप्यसत् । यतः। केशादिप्रतिभासानानोपधानस्य कल्पना । व्यतिरिक्तोपधानस्य कल्पनन्न च युक्तिमत् ।। नहि तमिरिकोपलव्धे केशावभासे केशोपधानकल्पनायामावरः । तत्र पूर्व दृष्टं केशादीति चेत् सर्वत्रायमेव प्रकारः परिकल्प्यताम् । यथा नीलाकारदर्श- नानीलकल्पना तज्जातीयतया तयो "पधानमन्तरेणापीति स्यात् । न च विरुद्धा- व्यभिचारितार्थकल्पनायां प्रतिबन्धग्रहणाभावाप्नित्यानुमेयत्वादर्थस्य। पूर्वदर्शनस्य च जनकत्त्वदर्शनान्न च क्वचिदर्थदर्शनं सर्वत्र विवादसम्भवात् । समनन्तरस्यार्था- कारतायां क। उपधायकः। न । व्यवहितस्यापि लाक्षारसादेरुपधानस्य दर्शनादिति प्रतिपादितमसकृत् । अथापि स्यात् । नानुभूतोनुभव इत्यर्थवत्तद्विनिश्चयः । तस्माददोष इति चेत्' नार्थेप्यस्त्येष सर्वदा ॥ (४३५) (c. 113a) यदि नानुभवोऽनुभूत इति निश्चयो यथार्थोऽनुभूत इति लोकस्य । ततो निश्चयस्य वर्शनकारणस्य वर्शनादर्थानुभवोयं नानुभवस्येति गम्यतां । यदात्वनुभवस्यापि स्यात्स्यादेव तथा निश्चयः । अत्रोच्यते। नहि कारणमित्येव कार्यस्य जनकं सदा । सहकारिणमासाद्य कारणं कारकं भवेत् । तदेव दर्शयति। नार्थेप्यस्त्येष सर्वदा । नहयपि निश्चयो भवति क्वचिद् भवति दर्शनात् । अथवा सर्वदार्थे ना- स्त्येवायं निश्चयोऽनुभवात्मभूतस्यैवाकारस्य निश्चयविषयत्वात्। उपचारात्तथैति चेत् । न (1) उपचारकल्पनायोगात् ॥ न क्वचिद् दृश्यतेऽर्थात्मा केनचिन्मुख्यवृत्तितः । तदभावे कुतो जातमुपचारस्य कल्पनम् ।। तस्मादयमर्थ इति निश्चयोऽनादिवासनाबलावलम्बी नानुभवमात्रजनितः। स्वप्ने च नास्ति दर्शनमर्थस्य तथापि भवत्यर्थ इति निश्चयः। तस्मादनर्यानभवेपि १४-आत्मसंवेदनम् [ १२३ निश्चयाभावस्तदभावेपि भाव इति न निश्चयस्यैकान्तिकता। ततः कयन्तत्त्वव्यवस्था। कस्माद्वानुभवे नास्ति सति सत्तानिबन्धने ॥ अनुभवे हि सर्वमनुभवनिबन्धनमस्ति। तथापि न निश्चय इति कथमेतत् । कथञ्चिन्न भवति सहकारीवकल्यादिति चेत् । न तहि निश्चयादनुभवव्यवस्था। अनुभूतेप्यभावादिति यत्किञ्चिदेतत् । अनुभवव्यवस्था तु तदाकारतयेति न बाधितोनुभवोनुभवस्य (c. II3b)। नहि कारणान्तराभावनिबन्धो निश्चया- भावोनुभवाभावं व्यवस्थापयितुं नमः॥ कारणान्तरमेव नास्तीति तथा गम्येत नत्वनुभवाभावः। अपि चेदं यदाभाति दृश्यमाने सितादिके । (४३६) (s)प्यन्यत् सिताद्यभिब्यक्तिरूपं सम्वेदनं स्फुटम् ॥ तत्किं सिताद्यभिव्यक्तेः पररूपमथात्मनः ॥ (४३७) नहचर्यसभावमात्रकमेवार्थदर्शनमवश्यमर्थदर्शनेनार्थमात्रकादधिकेन भवित- व्यम् । यदि तदधिकं प्रतिभासमानाद्वहिस्तदप्यर्थरूपमेव कथमर्थदर्शनं । तस्मादवभासमानेन तेन भवितव्यं । यच्च तवा भाति दृश्यमाने सिताविके । परिस्फुटं सम्वेदनं । तत्सिताभिव्यक्तेः परं वा भवेदपरावाऽभिकल्पने [? ल्प्यते] यासौ सिताद्यभिव्यक्तिर्भवतोभिमता । पररूपेऽप्रकाशायां व्यक्तौ व्यक्तं कथं सितं । नहधनभिव्यक्तेन कश्चिदभिव्यज्यते यदेव तदभिव्यक्तिरूपं कृतं सम्बिदितं' सैवाभिव्यक्तिरन्या तु परोक्षा चक्षुरादिसंस्थानीया (1) भवतु न साभिव्यक्तिर्न च चक्षुरादिव्यतिरिक्तासौ प्रमाणेन प्रतीयते । चक्षुरादिमात्रत एव समीहितसिद्धेः। संवाभिव्यक्तिरप्रत्यक्षा नापरेति चेत्। यदि नामाप्रत्यक्षा व्यक्तिरुत्पन्ना सवोत्पन्ना तु कयमर्थः प्रकाशितः। नहयस्योत्पत्तावर्थस्य किञ्चित्। (c. II4a) अर्थसाविति चेत् । अर्थ इति कः सम्बन्धः । अयं पश्यतीति चेत् । ननु दर्शनन्न प्रतीयते कथं पश्यतीति । अर्थस्य कर्मभावश्चेत् । केयं कर्मता नाम। यद्यर्थमात्रादधिका सा प्रतीयते । तस्यामप्यपरा प्रतीतिः । ततः कर्मता। सापि प्रतीयते। ततः पुनः कर्म- तेति नानवस्थातो मुक्तिः। तस्मात् ज्ञानं व्यक्तिर्न सा व्यक्त्यव्यक्तमखिलं जगत् ॥ (४३८) १ रङ-शिन् रिग्-प-ग्सल्-व नि । स्क्यस्-पडि स्नङ-व ऽदि गड-यिन् ।- (स्वभाववेदनद्योतं किमिदमुत्पत्तिभासकं ।) इत्यधिक: भोट पु० ।
१२४ ] वार्तिकालंकारः (३।४४१) नहपर्थस्य प्रवीपाविव प्रभास्वररूपमात्रोत्पत्तिरपि तु ज्ञानरूपा व्यक्तिः सा च यद्यप्रत्यक्षा तत्कथमर्थो व्यक्तः। स्वरूपेण व्यक्तश्चेत् । सर्वस्य व्यक्तताप्रसङगः । स्वविशेषादिति चेत् व्यर्थमन्यत् ज्ञानं । तयव व्यक्तता चेत् । केनेदं प्रतीयते। यक्त्यन्तरेणेति चेत्। न. यतः। व्यक्ते व्यक्त्यन्तरव्यक्तावपि दोषप्रसङ्गतः। येन तदपि व्यक्त्यन्तरन्न प्रतीयत इति स्वरूपमेव पूर्वव्यक्तेय॑क्तं । तस्याप्यन्येन व्यक्तिन प्रतीयत इति व्यक्त्यन्तरानुगमादनवस्था। तस्मात्स्वरूपमेव प्रतीयमानमभि- व्यक्तिमुक्तमेव प्रतीयते । अन्यथाभिव्यक्तमेतदिति न स्यात्प्रतीतिः । यतः। दृष्टया चाज्ञातसम्बन्धम्विशिनष्टि तया कथम । (४३९) दृष्टोऽर्थ इति दृष्टिविशेषणता प्रतीयते। न च विशेषणाग्रहणे (c. II4b) विशेषणविशिष्टविशेष्यग्रहः। ननु गौरिति विशेषणग्रहणादेव किं गोत्वमपरं दृश्यते। न. गोत्वस्यागोव्यावृत्तिरूपत्वात् । न च प्रतीतिरप्रतीतिव्यावृत्तिरूपा भवतेष्यते । तथा सत्यर्थस्य स्वसम्वेदनत्वप्रसङगः। व्यतिरिक्ता च भवता प्रतीतिरिष्यते । सा चाप्रतिपन्ना कथं प्रती (1)त (:) इति व्यवहारनिबन्धनं । कथं तहि व्यतिरिक्तप्रतीत्यप्रतीतो प्रतीत इति भवतोपि व्यवहारः। नहि भवतापि प्रतीतिरर्थश्च तद्वयतिरिक्तः प्रतीयते इत्यभ्युपगम्यते। यथोपचारादेतद् भवति तथा प्रतिपादितमिति न दोषः। तस्माद् द्वयोरवर्शनान विशिष्टप्रतीतिः । अत्र च। यस्माद् द्वयारेकगतौ न द्वितीयस्य दर्शनम् ॥ नार्थप्रतीतिकाले दर्शनप्रतीतिर्न प्रतीतिः प्रतीतिकालेऽर्थस्येति कथं विशिष्टता- प्रतीतिः। ततः कथमेतदिति युक्तमेतत् ॥ द्वयोः संसृष्ट"यो दशौ स्याद् मिति निश्चयः ।। (४४०) दृष्टमिति हि निश्चयोपि संसृष्टनिश्चय एव ततस्तथाभूतानुभवादेवानेन भवितव्यं । भवन्मत्येति न भवतो न्यायः अस्माकन्तु प्रबलवासनापवनप्रेर्यमाणा- मनोन्यत्रार्थपावपप्रतिच्छायाऽन्यतो निश्चयपाण्डपत्रपात इति निश्चयमात्रकादेव तत्त्वव्यवस्थितयः । तेनार्थप्रत्ययो नास्ति। न च नायमर्थ (c. IIja) इति । निश्चयप्रसवः तस्मादसन्मतं भवत इति न्यायः । अथ। सरूपं दर्शनं यस्य दृश्यतेन्येन चेतसा। दृष्टाख्या तत्र चेत्सिद्धं सारूप्यं स्यात्स्ववेदनम् ॥ (४४१) १४-आत्मसंवेदनम् [ १२५ स्यादेतत् (1) नार्थस्वरूपात्मवेदनादृष्टोऽर्थ इति व्यवसायोपि तु तथाभूत- स्यैव सम्वेदनान्तरेण वेदनात् । यथा दण्डीति दण्डयुक्तस्य पुरुषस्य तद्वचतिरिक्ते- न तथाभूतस्य सम्वेदनेन परिप्रहे व्यवसायः । न विशेषणविशेष्यभूतार्थग्रहणं स्वसम्वेदनेन क्वचिदुपलब्धमित्यभिप्रायः। तदयम्भवतां स्वपक्षस्यवोपघातः। तथा हि। विशेषणविशेष्यत्त्वं द्वयोर्न परमार्थतः । कदाचित्कस्यचित्कश्चिद्विशेष्यादितया मतः ॥ न खल पारमार्थिको विशेषणविशेष्यभावः। कदाचिद्विशेष्यस्यापि विशष. गत्वेन प्रतीतेः । ततो बुद्धिरेव सा तथाभूता प्रतीयते । सा च स्वसम्वेदनरूपवेति सिद्धं स्वसम्वेदनं । यतः। सिद्धं सारूप्येऽस्य स्वरूपस्य वेदनं । अर्थस्तथाभूतो ना- स्त्येव। बुद्धिरपि यदि न स्वसम्बिदिता तदार्थश्चाविशेषणविशेष्यभूतः प्रती- यते इति प्राप्तं॥ यद्यात्मरूपन्नो वेत्ति पररूपस्य वित्कथम ॥ यथात्मरूपं न वेत्ति पररूपमेव तहि वेत्ति। तस्य च न विशेषणविशेष्यभाव इति कथन्तद्विशिष्टताप्रतीतिः। अथ तद्रूपन्दर्शनमुत्पन्नं न तु स्वरूपसम्वेदनं. परेण- पुनस्तत्र पण (?) तस्य (c. II5b) दर्शने सति दृष्टाख्या न तु दृष्टिविशेषणस्य प्रथमं ग्रहणे पुनरन्येन तद्विशेषणत्त्वस्य कथं प्रतीतिः। अथ पश्चात्प्रतीयते तेनायमदोष इति। तबसम्यक् (1) यतः (1) तद्रूपवेदने तस्य पश्चादन्येन चेतसा । तद्रूपतवतस्यास्त नन्तमेव(?)विशिष्टता ।। मेयो हि दृष्टयविशिष्ट एव स्वप्रतीतिकाले विदितः। तदुत्तरकाले तद्रूपवेदने तद्रूपतवास्तु न तु तया तस्य स्वविशिष्टवेदनं । अन्यथा विदितं पूर्वमन्यथा वेद्यतेन्यदा। यदि कस्यात्र सत्यत्त्व"मिति नेदं प्रतीयते ।। अथापि स्याद्यद्यपि प्रयममदर्शनं विशेषणस्य तथापि पश्चाद्दर्शने को विरोधः । तदप्यसत् । यतः। यद्यसंसृष्टयोदृष्टिविशेषणविशेष्ययोः । विशेषणविशेष्यत्त्वं तदा नैव प्रतीयते ॥
१२६ ] वातिकालंकारः (३।४४६) नहि सदा केचन(?)केवलयोर्दर्शनमात्राद्विशेषणविशेष्यता शक्या प्रत्येतं । अपि च। सारूप्याद्वेदनाख्या च प्रागेव प्रतिपादिता । (४४२) नहि सारूप्यमात्रोदये' तद्वदनं । सरूपमेतदिति परेण वेदनमसम्भवि । तथा हि। दृष्टयोरेव सारूप्यग्रहोर्थश्च न दृष्टवान् । प्राक् कथन्दर्शनेनास्य सारूप्यं सो व्य(ध्य)वस्यति ॥ (४४३) सारूप्यमपि नेच्छेद्यः तस्य नोभयदर्शनं । तदार्था ज्ञानमिति च ज्ञानं चंति गता कथा (४४४) नहि केवलदर्शने सारूप्यप्रतीतिः । अनेन सवृशमिति प्रतीतेः । अतीताना- गतयोश्चार्थदर्शनयोरसहप्रतीतेः (c. II6a)।' नवं प्रतीतिः। तदध्याहारेपि ज्ञानमेव नार्थप्रतीतिः । पुनस्तथाप्यस्वसम्वेदनेऽनवस्थादोष उक्त एव । यस्तु सारूप्यमपि नेच्छति तस्यार्थो न प्रतीयेत । तदारोपस्यासम्भवात् । पश्चा(द्) दर्शनमर्थविलक्षणेन रूपेण प्रतीयमानं न तद्रूपतया तदित्यारोप्यते । तद्रूपतान- भ्युपगमात्। स्वरूपेण च प्रतीयमानं पदार्थान्तरमेव ततः कोर्थः किम्विज्ञातं केने ति गता कथेयमति तूष्णीमासितव्यं । वृश्यते चेत् । ननु चार्थतया समुपलभ्यन्ते स्तम्भादयः। नहि दृष्टेऽनुपपन्नन्नाम । वत्तमत्रोत्तरं। यदि दृष्टं स्वरूपेण दृष्टमिति तस्मात्पररूपं दृश्यमाने सिताविके यदाभाति तद्यवि स्यात् तदा व्यक्तं सितादिकं न स्यात् । अथ स्वरूपं न तर्हि स्वयमेव प्रकाशते (।) यत्तस्यामप्रकाशायामर्थः स्यादप्रकाशितः । (४४५) स्वरूपमेव यदि तवभिव्यक्तनिरूपायास्तदा स्वयमेव तत्प्रकाशते परस्य प्रकाशकस्याभावात् । अथ न स्वरूपेण प्रकाशते तदा तद्रूपाप्रकाशनेऽर्थः स्याद- प्रकाशितः। प्रतिभासमानरूपाप्रकाशने नार्थः प्रकाशते नाम । अत्र हि परोक्षस्यार्थः । यदेतद् प्राह्यस्पष्टाकारप्रतिभासमेतत् बुद्धः परोसतायां प्रतिभासमानस्य परोक्षता ततः (c. II6b) प्रतिभासमान स्पष्टरूपाप्रकाशनमेव । तया सति । अनुमा- नज्ञानवदर्थः परोल एव भवेत् । अनुमानेपि स्पष्टप्रतिभासपरोक्षतयैव परोक्षता। तस्याप्यनुमानज्ञानस्य यद्यस्पष्ट आकारो न प्रकाशते तदापि नार्यप्रतिपत्तिर्भवेत् । तस्मावनात्मवेदने सर्वार्थावर्शनमेवेति स्थितमेतत्सम्वेदनम्विज्ञानमिति ॥ एतेनात्मवित्पते सर्वार्थादर्शनेन ये । अप्रत्यक्षां धियं प्राहुस्तेपि निवरिणतोत्तरा इति (1४४६) - १४-आत्मसंवेदनम् [ १२७ न्यायः पूर्वक एवात्र यदि स्वाङगाप्रवंदनम् । अवेदिका भवेद्बुद्धिरर्थस्य स्वस्य चात्मनः ।। नार्यस्य वेदिका प्रतिभासस्य परोक्षत्वात्, नात्मनोऽनभ्युपगमात् । किञ्च । सुखदुःखरागदोषादयः स्वसम्बिविता एवोपजायन्ते ते च बोधस्वभावा एव ततो बुद्धरप्रत्यक्षा प्रत्यक्षवाषिता कथमभ्युपगमगोचरः। अथ न बुद्धिस्वभा'बा. स्तक्सत्। आश्रयालम्बनाभ्यासभेदाद् भिन्नप्रवृत्तयः । सुखतुष्टय'भिलाषादिभेदा बुद्धय एव ताः ॥ (४४७) चक्षुरादिजनितं परस्पर विभिन्नमेव सुखं रूपादिविषयञ्च । तथाभ्यासात्स- मानचक्षुरादिविषयत्त्वे. पटुतरोदिता । आलम्बनादिजनितं च विज्ञानमेव न विषयादिकं । यदि (c. II7a) विषयोपि विज्ञानसामग्रीत एवोदयमासावयेद्दत्त एतस्मै जलाञ्जलिः । ततोमीषां परोक्षताभ्युपगमे ऽध्यक्षबाधनं । यतः। प्रत्यक्षात(त्त)द्विविक्तश्च नान्यत्किञ्चिद्विभाव्यते । यत्त (ज)ज्ञानं प्राहकस्याविभाव्यतायां प्रत्यक्षत्त्वेनेव स्वसम्वेदनमुच्यत इत्यसकृदुक्तमेतत् । अथान्येन विज्ञानेन वेदनमेषामभ्युपगम्यते । तथा च सति । तथासति पराप्यनां भुञ्जीतान्येन विद्याद ॥ (४४८) अन्येन हि विज्ञानेन परसन्तानवतिनोपि सुखादयो वे"द्यन्ते । ततः परसुखादि- वेदनेपि सुखितादिकं भवेत् । नहि ग्राह्यतयाऽन्येन वेदने सम्वेदने स्वपरसुखयोः कश्चिद्विशेषः। आत्मीयसुखवेदने सुखितेति चेत् । न (1) परकीयस्याप्याल्हा वात्मकत्त्वात् । न परकीयो वह्निरवाहकञ्चन्दनम्बा परकीयमनआल्हा- बकं। अथ । मनस्विनो यथात्मीयमालादयति चन्दनं । परकीयस्य किन्तत्त्वं दहनात्मकमेव तत् । अमनस्विनि का वार्ता तस्यात्मीय: मुखोदयः । पर (स्य) मुखसम्वित्तावेवमेव प्रकल्प्यतां । यदात्मीयमनुत्पन्नं तदास्य सुखिता न कि । स्वसुखेन सुखित्वञ्चेन्न स्वरूपाविभेदतः । दूरत्त्वात्तस्य रूपस्य वेदने कैव दूरना । असंस्पर्शादनेवञ्चेत् संस्पर्श स्यात्त्ववेदनं । ब्दे-मदुग्-ऽदोद्-प (=सुख-दुःखाभिलापादि)-इति भोटभाषान्तरे ।
१२८ ] वार्तिकालंकारः (३।४५१) सर्वात्मना हि मंस्पर्शः स्वसम्वेदनलक्षणः । एकदेशेन संस्पर्श न तत्स्यादन्यवेदनं ॥ (c. II7b)यदि सर्वात्मनात्मनि शरीरे चानुप्रवेशः सुखादेः स्वसम्बेदना- स्मशरीरं वा प्राप्तं । सम्विदिते साक्षादन्यथा वानुप्रवेशः। सर्वात्मना वेदकस्य स्वसम्बेदनमेव प्राप्त । सम्वेदनस्यैवं लक्षणत्वात् । परसुखमपि यद्यनुप्रविशेत् भवेदेव स्वसंवेदनं अन्यथा तद्वदनायोगात् । अथाननुप्रवेशेपि सुखवेदनमविभागान्न भवति । विभागस्य सम्भवात् । को विभागः । तज्जा तत्प्रतिभासा सुखबुद्धि प्रयथा कञ्चित् । परसुखवेदने तु न ततः परसुखानुत्पन्ना साक्षाल्लिङगत एवोत्पन्ना न विषयादसावनुमानेन परसुखसम्वेदनात् । तद्रूपप्रतिभासप्रत्यक्षतश्च आत्मसम्वेदन- मिति विभागः । अत्राह। तज्जा तत्प्रतिभासा वा यदि धीर्वेत्ति नापरा । स्वालम्बना न सान्यस्याप्यस्त्यवश्यमिदं द्वयम । (४४९) अन्योपि परसुखमालम्बमानस्तत्स्वरूपमेव गृह्णाति ततस्तत्प्रतिभाति- भासिताऽभ्युपगमादेव प्रसिद्धा। ततो लिङगदर्शनं चक्षुरादिसमानमिति तज्जत्व- मेवापतितमर्थत इति द्वयमिति न विशेषः। अथ नोत्पद्यते तस्मान्न च तत्पतिभासिनी । सा धोनिविषया प्राप्ता सामान्यञ्च तदग्रह ।। (४५०) न गृह्यत इति प्रोक्तं न च तद्वस्त किञ्चन । अभ्युपगमः प्रमाणबलावलम्बी न भवति । तेनायमेव परमार्थः । (c. 118a) लिङगादुत्पत्तिमासादयन्त्युपलभ्यते बुद्धिन्नी? प्तिापि त प्रतिभासिनी । एवन्तहि विषयलक्षणस्याभावान्न परसुखादिकं विषय इति न विषयाकारोसो परसुखसम्वेदनावभासी सामान्यमवभासते। तत्रानुमानस्य सामान्यविषयत्वादिति चेत् । न । सामान्यस्य व्यक्त्यग्रहे ग्रहणाभावादिति प्रतिपादितम् । सामान्यस्य व्यक्त्यन्यवाकारशून्यत्त्वादिति च । बुद्धिरपि तहि तदाकारशून्यव । ततो द्रव्याकारोसौ न स्यादिति चेत । तदसत्। उपधानानुरागो हि धियां नासम्भधी (वी) मतः । भावनाबलतो बुद्धिस्तदाकारेति लोकवित् । अत एवाह॥ तस्मादर्थावभासोसौ नान्यस्तस्या घियस्ततः । (४५१) सिद्धे प्रत्यक्षभावात्मविदो १४-आत्मसंवेदनम् । १२९ बुद्धिस्वाभावता यामाकारस्य प्रत्यक्षतात्मवेदनञ्च प्रसिद्ध । यवि नामानु- मानं परसुखस्वभावे। तबन्यथाकारे तु स्वसम्वेदनमेव। तदपि परसुखस्यैव रूपमिति चेत् । न. परेणावेदनात् । परप्रत्य"येन बाध्यमानं कथन्तस्य रूपं. नहि तस्य व्यवधानादिसम्भवः । व्यवहितञ्च कथमात्मीयं सुखम् । तेन तत्सम्बन्धितया वेदनादिति चेत् । न. परस्य सम्बन्धिता प्रतीत्यभावात् । परेणाविदितं रूपं तवास्तीति वदन्नसौ। राजशासनसोपानप्रक्रमेणोपरिस्थितः ।। न परोपि विचारयस्तव सम्वेदनमेवम्भूतमस्तीति निश्चिनोति। (c. 118b) ममैव प्रतीतिरेषा नास्य प्रतीतिरियमिति प्रतीतेः। अथ परोपि तदेव रूपमवग- च्छति । तथापि न सुखभोगी, प्रत्यक्षेण हि सुखोपभोगात् नानुमानेन । अत्रोच्यते । गृह्णाति तत्पुनर नात्त्यक्षमिति चेत एष कुतो भेदः समर्थयाः ॥ (४५२) प्रत्यक्ष हि स्वरूपसाक्षात्करणमेवेति प्रतिपादितं ॥ ततः समानाकारयोरेष एव भेदो न युक्तः (१) कारणभेदादभेद इति चेत् । स्वरूपगत एव तहि भेदो यदि नाम कारणमन्तरेणोपपत्तिरिति कारणभेदोऽभ्युपगम्यते। भेदस्तु स्वरूपगत एव युक्तः । साक्षात्करणन्तु स्वरूपं द्वयोरपीति न कारणभेदो युक्तः। दृश्यते चेत् । स्वरूप- भेदोप्यभ्युपगम्यतां । ततः समानाकारता न युक्ता। अथ कारणभेदाद् बोधरूपता विशेषेपि प्रत्यक्षत्त्वात् । अदृप्टैकार्थयोगादेः सम्बिदो नियमी यदि । सर्वथान्यो न गृहणीयात्सम्विद्भेदीप्यपादिनः ॥ (४५३) अथापि स्याददृष्टवशादाकाराभेदेपि प्रत्यक्षतरत्त्वनियमः । तथाह्ययोगादे- फार्थसमवायतश्च । तथाहि । आत्मीयं सुखमात्मीयान्नसमर्थितं समवेतं परकीयन्तु न तथा। तेन परसुखवेदनेन सुखित्वं । यद्याकारभेदमन्तरेण साक्षात्करणसम्भवादपि प्रत्यक्षाप्रत्यक्षतालक्षणे नियमः। तदा प्रत्यक्षतायामपि प्रत्यक्षता प्रत्यक्षतानियम (c. II9a) इति प्राप्तम् ॥ तथा च सति किमन्यभेदादिपरिकल्पनया। अदृष्टयोगा देकमेव वस्तु तथान्यथा च भविष्यति । सुखमेव दुःखादिकमिश्रितं । ततो न भेदो युक्तः। एतदप्यदृष्टभेदावेवेति चेत् । भवतु स्वसम्वेदनमाकारभेदोपि तथास्तु । तत एव सर्वथाऽन्यो न गृहणीयात्। समानार्थतायामपि सम्बिद्भवोऽपोदित एव । चक्षुराविकमपि स्पष्टभेदादेव परिकल्प्यते । तयाहि ।
१३० ] वातिकालंकारः (३।४५४) - प्रथमं स्पष्टतादृष्टिरतः प्रत्यक्षतास्थितिः । न प्रत्यक्षान्मया दृष्टमस्पष्टमिदमीक्षितम् । स्पष्टतामेव लोकः प्रथमं प्रति पत्या विषयीकुवाणः प्रत्यक्षतामवगच्छति । पताः । सत्यपि चक्षुरादिकारणत्वे यदि वैशघप्रतिभासिताया नावगच्छति । किमपि मयाऽस्पप्टमेव दृष्टन्न न प्रत्यक्षेयं प्रतिपत्तिरिति लोकस्येयमेकवाक्यता । अथेद्रियजत्वे प्रत्यक्षता स्पष्टतायामिति वदेत् ॥ तथाहि । स्पष्टत्वाद् ग्रहणं मम्यक् इन्द्रियात्सन्निधानवित् । तस्य द्वयम्यासद्भावाद् द्वयस्याप्तिः कथञ्चन । यदेव खलु सन्निहितत्त्वेन स्पष्टतया प्रतीतेः" विषयः स एव प्रत्यक्षसम्मतो लोकस्य, न चेन्द्रियात् विना सन्निधानप्रतीतिः। तदङगविकलत्त्वादप्रत्यक्षता भवेत् । तदेतवसत् । यतः। न मन्निधानेतग्ने प्रत्यक्षेतग्कारणम् । अन्यथा दूरदृष्टस्य (c. II9b) गृधे त्यक्षता भवेत् ।। तथाहि । कश्चिदूरदर्शी पुरुषः। कश्चिदन्यथा। ततः किन्तयोः सम्वेदनस्य प्रत्यक्षतरते। अथापि स्यात्तदेव तस्य विस्पष्टमदूरमिति गीयते । दृष्टिशक्तिमपेक्ष्यव दूगद्रव्य वस्थितिः । यो हि यत्स्पष्टतया द्रष्टुमलम्। तदेव तस्यादूरमिति चेत् । यद्येवं स्पष्टदृष्टस्य सर्वस्य यद्यदूरत्त्वमुच्यते। तदभावेस्य दूरत्त्वमिन्द्रियन्नान्यकारणम् ।। तस्मात्समानस्पष्टावभासयोरिन्द्रियमनोविज्ञानयो प्रत्यक्षतरताव्यवस्थिति- रिति न्यायोपेतमेतत्। सर्वथा परसुखवेदनैपि साक्षात्करणेन सुखितो भवेत् । असाक्षात्करणे च साकारतया स्वसम्वेदनमेव । येषाञ्च योगिनोन्यस्य प्रत्यक्षेण सुखादिकं । विदन्ति तुल्यानुभवास्तद्वत्तेपि स्युरातुराः ॥ (४५४) पेषां लो का य त मीमांस का नां योगिनः सन्ति कणादादीनां ते निय- मेन प्रत्यक्षेण परसुखाविकं विदन्तीति (1) तेपि योगिनो रागादियोगिनो भवेयुः । (स)वस्तु प्रपञ्चः कृत एव न पुनः क्रियते । अथ विषयेन्द्रियसम्पाताभावात्तेषां तदुद्भवः । नोदेति तयोरिति चेत् अप यस्येन्द्रियविषयसषिपाते सुखादिकमदेति स एव सुखीत्यादिव्यपदेश- १४-आत्मसंवेदनम् [ १३१ महति । न च योगिन (:) स्त्र्यादिविषयसत्रिकर्षात्सुखाद्युदयः ततस्तस्य न तथात्वं । तस्य हि तत्सुखादिकं यदिन्द्रियविषयजनितं (c. 120a) । तदप्यसत् । यतः। न वै दुःखसमुद्भवौ ॥ (४५५) दुःखासम्वेदनं किन्तु दुःखज्ञानससुद्भवः । [दुःखोपकारयोर्हेतुर्नहि दुःखाद्यवेदने ॥४५६॥' तथाहि । परस्परस्पर्शनेन्द्रियसङगमादुपजातं सुखं स्त्रीपुंसयोः किन्न साधारणं रोमाञ्चाविकमुपजनयति। तथा चे"त्साधारणप्रतीततैव भवेत्। तस्मात्सम्वे- बने सति सुखिता नान्यथा। न चोदयमानं चक्षुरादिसंयोगो वा नास्तीति समान- सुखता द्वयोरपि भवेदस्वसम्वेदने। तस्य तत्र भावना नास्तीति चेत् । न। भाव- नायाः सुखोदयमात्रे व्यापारस्तच्चोत्पन्नं सुखमिति तुल्यानुभवौ स्यातां॥ तव कथमयम्बिभाग इति चेत् । आह । भासमानं स्वरूपेण पीडा दुःखं स्वयं यदा । न तदालम्बनं ज्ञानं' तत्तदेव प्रसज्यते ॥ (४५७) यस्य स्वसम्वेदनं सुखं स सुखी। यस्य तु सम्वेदनान्तरेण योगिनः परसुखा- बालम्बनमात्रकं तस्य योगिनो न रागादियोगिता। तेन ते योगिनः तद्दुःखादिना मातुराः । अग्न्यादावनुभवे कथमातुरादितेति चेत् । योगिनान्तु तवभावात् । अन्येषां कम्भवतीति चेत् । न। बाह्यादीनां तथैव सम्वेद्यत्त्वात् । सुखादिकन्तु यत्स्व सम्वेदनेन करोति न तदन्येनेति न तुल्यानुभवाः भवन्ति तद्विदः॥ भिन्ने ज्ञानस्य सर्वम्य तेनालम्वनवेदने । अर्थसारूप्यमालम्ब आत्मवित्तिः स्वयं म्फुटः ॥ (४५८) तदाकाराधानसमर्थ (c. 12ob)सम्वेदनस्यालम्बनम् । आत्मरूपन्तु स्वप्रकाशं वेदनं अतः अर्थस्य स्वसम्वेदनमातुरीकरोति न तदाकारोपधानमात्रात् । को विशेष- स्तयोरिति चेत् । न कश्चित्परमार्थतः। न हि सुखस्य तदाकारस्य च कश्चि- द्विशेषः। केवलमात्मा न वपुः (?) तेन मन्यमानो दुःस्यहमिति व्यवस्यति (1) योगी तु न तथेति न तथास्य सुखिता। तस्माद्विज्ञानं स्वसम्वेदनमेवान्यथा सुखा- विविभागासम्भवः॥ ननु च प्रज्ञादयोपि भावनाविशेषादेव. न च तेषां विलक्षणत्वं प्रतिभासमाना- स्दुग्-ब्स्ङ-ल-ल-मोगस् म्योङ् मिन् पर् । गदुङ् दङ् फन्-दोग् [-म- यिन् । इति भोटभाषान्तरे ऽधिकः ।
१३२ ] वार्तिकालंकारः (३।४६०) पर्यात् । न चासावर्षः प्रज्ञाविस्वभावः। तत्र भावनाया अप्रवृत्तेः । नहि तत्रार्थ स्य भावनाभिसंस्कारिका। तस्मादर्थव्यतिरिक्ता परा प्रज्ञा न सा साकारा॥ 22a ननु प्रज्ञादयो न विज्ञानस्वभावास्ततस्तदनाकारतायामपि न विज्ञानमनाकारं। तदसत् । तत्त्वप्रविचयः प्रज्ञा कथन्तत्त्वाग्रहेपि सा। अर्थग्रहेप्यनाकारा सा चेदज्ञानमप्यतः । यदि तदर्थविशेषग्राहिण्यपि प्रज्ञा निराकारा विज्ञान (म)प्यर्थग्राहि किन्न निराकारं। निराकारमस्तु तदपीति चेत् ॥ (c. 121a) [अपि चेन्नास्ति प्रत्यक्षं धीहि लिंगाद् व्यवस्यति । तेपोन्द्रियार्था धीरथ मानसं प्राक प्रसज्यताम ॥४५७॥ ]' कार्यकारणसामग्रथामस्यां सम्बन्धिनापरं ।" सामर्था[ ?.]दर्शनात्तत्र नेन्द्रियं व्यभिचारतः ॥ (४६०) तच्च लिगमक्षादिकमेव मनस्कारपर्यन्तं । अन्यस्य सम्बन्धिताभावात् । अर्थापत्तिरपि सम्बन्धिदर्शनादेवान्यथा नोपपद्यत इति तस्यावृत्तेः । तत्र तावन्नेद्रियं व्यभिचारतः। अव्यभिचारि हि लिङगन्न चेन्द्रियमन्यथा नो घटते कारणत्त्वेनाभ्यु- पगमात् । समर्थता चा दृष्टकार्यस्य न निश्चीयते। तथार्थः। तस्यापीन्द्रियवदेव व्यभिचारः। (अर्थोपि )* धीमनस्कारौ ज्ञानं तौ च न सिध्यतः । धियोसिद्धत्त्वादलिङगता। साध्या हि सा। मनस्कारस्तु संव पूर्वा धीः । सा चोदयकाले न सिद्धाऽन्यदा कथं सिध्येत् । यतः ॥ नाप्रसिद्धस्य लिगत्त्वं प्रसिद्धेन हिलिगेन भवितव्यमन्यथा लिङगत्त्वे सर्वमेव लिङगमिति सर्व सर्वस्य सिध्येत् ॥ अथापि स्यादर्थस्तावद्वयक्तः प्रत्यक्षप्रसिद्ध एव । अन्यथा यो' नामास्तीति व्यवहारोपि न स्यादित्यर्थमूकं जगत्स्यात् । न च व्यक्तोऽर्थोऽर्थ- सत्तामात्रादन्यथा सर्वव्यक्तिप्रसङगेन सर्व सर्वदर्शित्वप्रसङगः । (c. I21b) गशन्-यङ् म्डीन्-सुम्-मेद्-पस्-न। ब्लो नि तंग्स्-लस् तोंग्स्-पर् ऽग्युर् । दे-यङ् द्वङ्-पो दोन्-नम् ब्लो। यङ्-न यिद्-ब्येद् सङ-मर् ऽग्युर् ।। * भोटभाषान्तरतः । १ १४-आत्मसंवेदनम् [ १३३ तस्मात्स्वतो व्यक्तत्त्वमर्थस्य सा बुद्धिः। अत एवाह । नयज्ञातेऽर्थे कश्चिद् बुद्धिमुपलभते । नाते त्वनुमानाववगच्छतीति । अत्रोत्तरं। व्यक्तिरर्थस्य चेन्मता । (४६१) लिङ्गं तदेव न ज्ञानं व्यक्तोर्थोनेन वरिणतः । व्यक्तावननुभूतायां तद्वयक्तत्त्वाविनिश्चयात् ॥ (४६२) यदि व्यक्त लिङगमथापि व्यक्तोऽर्थः सर्वथा व्यक्तयनुभवे न प्रयोजनं। व्यक्त्यनुभवपुरस्सरत्त्वाद्वपक्तानुभवस्य एकदा स्वतन्त्रा व्यक्तिरनुमीयतेऽन्यदा विशेषणभूता। सर्वथानुभवेन भवितव्यं प्रत्यक्षतः। अनुमानेनानुभवेऽनवस्था । सा चार्थस्य व्यक्तिः प्रत्यक्षा. बुद्धिरपि प्रत्यक्षव । तस्मात्परोक्षतया व्यक्तेरर्थः परोक्षएव भवेत्। ततो न लिङगम् । अथ कर्मतया प्रतिभासमानोऽर्थो ग्राहयतापर- नामिकलिङग' (1) नहि कर्मता क्रियामन्तरेण भवति। बुद्धिश्च क्रिया। तदाह सा बहिर्देशसम्बद्धः (?T) प्रत्यक्षमुपलक्ष्यते । तत्रोच्यते। क्रियाकृते विशेषे हि कर्मता नान्यथा क्वचित् । क्रियाकृतो विशेषश्चेत् क्रियामात्रेनुमाभवेत् ।। यदि कर्मता नाम क्रियाकृतो विशेषः क्रियामात्रमेवानुमीयताम् । न बुद्धि- क्रियानुमानं । न चान्या काचित्क्रिया पदार्थरूपात्। तथा हि । कर्मस्था वा क्रियोच्यत कर्तृस्था वा (c. I 229) परा न हि ।। कर्तस्था कर्तृतो नान्या कर्मस्था नास्ति कर्मतः । ततो न दर्शनं दृश्यमानादन्यतो वा परं । अथ ग्राहयतयाऽर्थ एव वेद्यते बुद्धिस्तु प्राहकतयव । एवं हि प्रतीतिर्मया बुद्धधानुगृहीतोऽर्थ इति । तदप्यसत् । कारणत्त्वं तदा बुद्धेः ग्रहणन्तु ततः परं । तदेवास्तु परा बुद्धिः किमर्थमुपकल्प्यते ।। दर्शनं परमार्थाच्चत् गृह्येन द्वयरूपता । अथार्थस्यैव कश्चित्स विशेषी व्यक्तिरिष्यते ।। क्रिया कुतः तदा। नानुत्पादव्ययवतो विशेषोऽर्थस्य कश्चन ॥ (४६३) नहि बुद्धघा गृहयमाणोऽयं उत्पत्तिमान् तवागीक्रियते । सिद्धोपस्थायी हि १३४ ] वातिकालंकारः (३।४६५) पाहकप्रत्ययः । पचास्तीति ग्रहणमात्रमेव बुद्धचा क्रियते । न च गृहपमाण एवं विशिष्टो भवति। अन्यरूपाहणे प्रान्तता भवेत् । तपाहणे व पूपिरस्पता- प्रहणप्रसङ्गः। दीपादयो घटादीनां स्वकालासगतौ यथा । व्यञ्जकाज्ञानमप्येवं तुल्यन्तत्रापि चोदनं । यदि यथाविषोर्थः' तथाभूत एव प्रदीपेनाभिव्यज्यते तेनापि सकलकला- व्यापकस्वभावव्यञ्जकेन भाव्यमन्यथा भ्रान्तिमात्रकं । अब ग्रहणकालेऽन्यथाऽर्थ उत्पद्यते। तवा। तदिप्टौ वा प्रतिज्ञानं क्षणभङ्गः प्रसज्यते । यद्यसाववबोधरूपव्यावृत्त एवोत्पत्तिमान स्वसम्वेदनमेव ज्ञानसमान- कालतया मणिकमिति (c. 122b) किमपरार्थपरिकल्पनया। ननु ग्राहकत्त्वेन बुद्धिः प्रतीयते. प्राहयतयाऽर्थ' इति प्रतिपादितं। सत्यं प्रतिपादितं यद्यर्थो विचलितरूपो भवेत् । यवा तु तथाभूत एवोदयवान् तदा स एव तथा भूतउत्पत्ति मानिति वन्नेव कथमर्थस्य ग्राहयतां परां ब्रूयात् । मया बुद्धघा गृहीत इति च व्यपदेशो न किञ्चित्प्रतीत्योत्पाबमात्रावपरं प्रतिपादयति। तदाह । सर्व एव वस्तुसम्बन्धो जनस्यवोपयोगविशेषवशात् । कार्यकारणभावलेशविशेषतोन्यत"या व्यवस्थाप्यन्तेऽवस्थाविशेषल्यापनार्थ। न तु व्यपदेशादेव बस्तुसिद्विरम्पयापि तस्योपपत्तः । तथा हि। अर्थोयं पूर्वमप्यासीनिजकारणभावितः । ततोस्य दृष्टिर्जातेयमिदानीन्तत्र वस्तुनि । न प्रत्यक्षानुमानाभ्यामस्यार्थस्य प्रतीतता । तल्लोकव्यवहारोयं परमर्थपरंपरा । अपि चार्यस्य विशेष एव यदि कश्चिद् प्राहयता तदा। स च ज्ञातोऽथवाज्ञातो भवेज्ज्ञात'"स्य लिङ्गता । (४६४) यदि ज्ञाने परिच्छिन्ने ज्ञातो साविति तत्कुतः ॥ ज्ञातत्वेन परिच्छित्तिर्यदि तद्रूपमेव तत् । अपार्थक्यपरा बुद्धिस्तद्विशेषस्तयोच्यताम् । ज्ञातत्वेन परिच्छिन्नमपि तद्गमकं कथम् ॥ (४६५) ज्ञातोर्थ इतिजानानो ज्ञानमित्यवगच्छति । अर्थ इत्येव जानानस्तवर्षस्वस्य वेदिता ॥
१४-आत्मसंवेदनम् [ १३५ तद्रूपवेदनानां ताप्यस्य व्यवस्थितिः । शुक्ल (त्व) वेदनेऽर्थस्य किं शौक्ल्यम'परं ततः ॥ (c. I23a) इत्युक्तमेवैतत्। अथ वृष्टिरपरैव तदा दृष्ट इति न परिच्छेदः। तदाह। अदृष्टयोन्येन दृष्टाहा न हि कचित् । यदि दृष्टादपरा दृष्टिरदृष्टा कथं दृष्टरूपपरिच्छेदः । अन्यथान्यवृष्टेपि दृष्टव्यवहारोऽन्येनायं दृष्ट इति यथा मया दृष्ट इत्यर्थदर्शनमात्रावर्थविशेषस्य वृष्टिस्तस्य दर्शनात्। तथा स विशेषोऽन्यदृष्टावपि नियतभावीति भवेदन्यवृष्ट- मेतदिति । अथैष एवासौ न भवति विशेषस्तेन परदृष्टविशेषादर्शनावात्म दृष्टदर्शनाच्च. स्वदृष्ट इत्येव प्रतीतिः । तदप्यसत् । यतः। विशेषः सान्यावप्यस्तोति म्यात्म्वधीतिः ।। (४६६) यद्यपि विशेषा बहवस्तथापि तेषां स्वसम्वेदनत्वाभावात्तैरपि दृष्टरेव भवितव्यम् । ततः स्वपरधीगतिः स्यात् । तस्मात्स्वसम्वेदनेन भवितव्यम् । दृष्टत्त्वेन । अथ सोप्यन्येन दृश्यते सम्वेदनेन तथा सति तत्रापि दृ"ष्टतेत्यनवस्था। अर्थकमेव दृष्टत्त्वन्तथा सति स विशेषोन्यवृष्टावपि स एव स्वधोगतिरेव स्यात् । यदा भावात्परस्य वृष्टत्त्वं परेण प्रतीयते तदात्मवृश्यत्त्वाभावेपि परवृष्टत्त्व- (c. 123b) वर्शनात् स्वधोगतिर्भवेत्। नहि तस्य दृष्टत्वस्य स्वपरापेक्षया विशेषः । अथ स्वयमपि दृष्टत्त्वमस्त्येव ततः स्वधीगतिः । न। स्वदृष्टपरदृष्टयो- विशेषाभावात् । स्वदृष्टत्त्वं स्वदृष्टिसम्बन्धप्रतीतो ज्ञायते। तदप्रतीतो सु" स्वदृष्टमित्येव कुतः। तस्मात्स्वयमदृष्टेपि परेण दृष्टताप्रतीतो स्वधीगतिर्भवेत् । अथ य एव दृष्टत्त्वं प्रतिपद्यते तस्य स्वधोगतिसम्भवेपि न दोषः । नहपत्र काचित् क्षतिः। मा भूत् क्षतिस्तथापि वस्तुतत्त्वमेवं न भवतीति अतिरेव । तथा हि। प्रतीयते(ट्य) दृष्टत्त्वं ममान्यस्येति वा कुतः । न (हि)तत्र परापेक्षा केनचिद्विनिवार्यते । स्वसम्वेदनभावेतु विनिवार्या भवेदियं । स्वसम्वेदनमन्यम्य सम्वेद्य मिति साहसं ।। एतदेव स्वम म्वेदनं यदन्यागोचरत्त्वे सति प्रकाशनन्नाम ।" नस्मादनुभितिबुद्धेः स्वधमनिरपेक्षिणः । १८ । १३६ ] वातिकालंकारः (३।४७०) केवलानार्थधर्मात्कः स्वधर्मः स्वध्यिो परः । (४६७) यः प्रत्यक्षो धियो हेतुः बुढचाश्रितेन हि केन चित् स्वबुद्धेरनुमानं । साधारणस्य हि विषयादि- धर्मस्य साधारणानुमेयस्य प्रतिपादनमेव । तस्मादात्मधर्मेणात्मबुद्धेरनुमापकेन भवितव्यम् । स्वधर्मश्च नापरो बुद्धिरस्ति । बुद्धिरेव यदि परं स्वधर्मः । सा चा- प्रत्यक्षा कथमनुमापिका भवेत् । अथ सुखादयो (c. 124a) बुद्धिसमानसामग्री- जन्मानः तेर्बुद्रधनुमानमात्मधर्मत्वात्तेषां । अत्राह । तुल्यकारणजन्मनः (1) तस्य भेदः कुतो बुद्धेय॑भिचार्यन्यजश्च सः ॥ (४६८) यदि विषयक्रियादिसामग्रीजनितं सुखादि सम्वेदनस्वभावमेव सकलमिति प्रतिपादितं। अथ दृष्टे विषये सुखमुत्पत्तिमदतः स्वबुद्धधनुमानं तदपि सुखं परस्य न भवतीति कुतः। परस्य सुखं परेण कथं प्रत्ये तुं शक्यं । अस्वसम्वेदनत्त्वे हि विभागोयं कथम्भवेत् । भयादेरपि रोमाञ्च उपजायत एव हि ।। यदि सुखादयः स्वसम्वेदनत्वेनावस्थिताः परसम्बन्धिनः तवा न प्रतीयन्त इति युक्तम् । अन्यथा तु परसम्बन्धितां को निवारयेत् । मम रोमाञ्चजनकास्ततो ममवेति चेत् । एतदपि कुतः। न हि परयोषिन्न जनयति सुखं । सम्वेद्यमानो हि सुखाद्यात्मा जनयति रोमाञ्चादिकं स्वसम्बन्धा (ब)न्यथा वेति क्वेदमुपयोगि। स्वेन सुखेन रोमाञ्चादिजनने प्रसिद्ध स्वसम्बन्धिताप्रतीतिः। स्वसम्बन्धिता- प्रतीतो तेन जननमितीतरेतराश्रयदोषः। अपि च । बुद्धधन्वयव्यतिरेकानुवि- धायी तत्कारणानुविधायी वा बुद्धेरनुमापको भवेत् ॥ तत्र । रूपादोन पञ्च विषयानिन्द्रियाण्युपलक्षणम ॥ मुक्त्वा न कार्यमपरं तस्याः समुपलम्बते ॥ (४६९) बुद्धिसमानसामग्रीजन्मान इन्द्रियादयो बुद्धिर्वोत्तरा॥ तत्रात्यक्ष द्वयं पंचस्वर्थेष्वकोपि नेक्ष्यते । (c. 124b) रूपदर्शनतो जातो यो न्यथाव्यम्तसम्भवः ।। (४७०) वयमत्यक्षमितीन्द्रियमुपलम्भनञ्च पञ्चस्वर्थेष्वेकोपि रूपाविषु तथाभूतो नेक्ष्यते। यो रूपदर्शनादुपजातः। नहि रूपादयो रूपदर्शनतो जायन्ते कारणान्त- रादुपजातत्वात् । रूपदर्शनजातत्त्वे तु तत्त्वमेव तथानुभवेत् । तथा हि.
१४-आत्मसंवेदनम् [ १३७ रूपदर्शनमर्थानां सर्वेषामेव सम्भवेत् । प्रतिप्राणि विभिन्नं स्यात्तथार्थोपि तदुद्भवात् ।। यथा रूपदर्शनं प्रतिप्राणि भिद्यते तथा रूपादयोपि। तयोर्यदि(--) सर्व एवोपलभ्येरन् तद्विशेषावधारणे । नानावभासितज्ञानं प्रतिप्राणि प्रसक्तिमत् । प्रतिघ (?) मुपलम्भे तु ज्ञानतैव स्ववेदने ।। यदि सर्व एव प्रतिप्राणि विभिन्नस्वभावा रूपादयः सर्वैरुपलभ्येरननेक- रूपाभ्युपलम्भो युगपद् भवेत्। न चास्ति तथा. तदयन्तावदपक्ष ए"व। अथ स्व- दर्शनजनितमेव रूपादिकमुपलभ्यते तथा सति परेणासम्वेदनादर्थतैव हीयेत स्वसम्वेदनाभ्युपगमे ॥ अथ परेणोपलभ्यते तथा सति तजनितेन तस्यापरेण विशेषेण भवितव्यम् । सोपि परेणोपलभ्यते तस्याप्यपरेणेत्यनवस्था।तस्मात्स्ववेदनेना स्वसम्वेदनेन च यदेवमप्रतीतं तल्लिङगमित्यतिसाहसम् । न खल्वप्रतीतस्य लिङगता । ततश्च लिङग लक्षणाभावादनुमानेन (c. 125a) प्रतीयतेबुद्धिरि- त्यसदेतत् । भवतु नामार्थस्यान्यस्य वा प्रतीतिस्तथा सति । [ तथैव यदविज्ञातं लिंगमित्यतिसाहसम ।' विद्यमानेपि लिफ़तत्तेन सार्द्धमपश्यतः । (४७१) कथं प्रनीतिलिङ्गं हि नादृष्टस्य प्रकाशकम ॥ दृष्टस्यवाग्नेः स्वप्रसवेन धूमादिनानुमाननान्यथा। न खलु दृष्टस्य प्राक पावकस्य धूमोनुमापको दृष्टो दृष्टः॥ तत एवास्य लिङ्गात्प्राक प्रसिद्धरुपवर्णन । (४७२) दृष्टान्तान्तरसाध्यत्त्वं तम्यापोत्यनवस्थितिः । न हयनुमानं दृष्टान्तं प्रत्याचष्टे। तथा सत्यनुमानमेव न स्यात्प्रत्यक्षवत् । प्रत्यक्षस्य लक्षणान्तरमस्तीत्यनुमानत्त्वेऽस्यापि समानं। तस्मात्तदपि दृष्टान्त- साधकमनुमानं दृष्टान्तान्तरात्तदपि तदन्तरादित्यनवस्था नाम प्रतिपत्तिः। अथा- पित्त्या तत्साधनं न कस्यचिदेवं प्रतीतिः। नहचर्य एव न घटते यदि प्रतीतिर्न स्यादिति कस्य चित्प्रतीतिः । प्रतीतोर्थो" नोपपद्यते यदि प्रतीतिर्न स्यादिति चेत् । केयं प्रतीतता नाम। प्रतीत्या विषयीकृतत्त्वञ्चेत् । ननु प्रतीतेरप्रतीतो तदेव प्रतीत्या विषयीकृतत्वं चिन्त्यम्। पुरोत्तिता चेत् । न। पुरोवत्तितापि कथम- प्रतीता प्रतीति साधयेत् । प्रतीता चेत् तत्राप्यपरा पुरोत्तितेति तत्रानवस्थोक्तव। तस्मात्पुरोवर्तितान्यो बाधकः प्रकारः प्रतीतिसिद्वी न लिङ्गम् । १दे-लतर शेम्-मेद् गङ यिन्ने । नंगम-शेम-व्य-व बब-छोल यिन् ।
१३८ ] वार्तिकालंकारः (३।४७५) इत्यर्थस्य धि"यः सिद्धिः नार्थात्तस्याः कथञ्चन । (४७३) (c. 125b) तदप्रसिद्धावर्थस्य स्वयमेवाप्रसिद्धितः । बुद्धरर्थसिद्धिरबुद्धिकार्यसिद्धौ सर्वः सर्वदर्शी भवेत् । यदि बुद्धिरात्मानं वस्तुनि सव्यापारं पश्यति तदार्थः प्रतीत इति भवेदन्यथा न किञ्चित्प्रतिपन्नमिति स्यात् । स्वयमेव वा सव्वं प्रतीयते। तस्मानार्थाबुद्धिप्रसिद्धिः । पूर्वोक्तदोषप्रसङगात् ॥ प्रत्यक्षाञ्च धियं दृष्ट्वा तस्याश्चेष्टाभिवादिकं । (४७४) पर"चित्तानुमानश्च न स्यादात्मन्यदर्शनात् ॥ सम्बन्धस्य ॥ यदि प्रत्यक्षेणात्मनि बुद्धितत्सम्बन्धिनोः कथञ्चित्प्रतीतिस्तदा तत्सम्बद्धलिङगदर्शनात्परत्रापि बुद्धेरनुमानम्भवेत् अन्यथा न युक्तं । परेण दृष्टोथ इत्यनुमानञ्चेत् । स्वदृष्टस्य कुतः प्रतीतिः। अनुमानत एवेति चेत् (1) तदाप्यपरो दृष्टान्त इत्यनवस्था। प्रत्यक्षेणव प्रतीयत इति चेत् । ननु प्रत्यक्षमथ नीलादिकं प्रत्येति कथं दृष्ट' त्वं । स्वसम्बन्धितामपि प्रत्येतीति चेत्। स्वसम्बन्धिता तर्हि दृष्टत्त्वं तच्चत्प्रतीयते (1) आत्मनि तेन स्वसम्वेदनप्रतिपन्नः स्यात् । तस्य परेण प्रतिपत्तावनवस्था। तत्रापि दृष्टता तथव प्रतीतिविषय इति। ततोर्थो दृष्टः । प्रतीतिदृष्टा प्रतीतिप्रतीतिरीतिरित्यादि. यदा च प्रतीति प्रत्येति तदा न दृष्टता, प्रतीतिरेव दृश्या तदा भवेत् । तस्माद्विषयमात्रमेव प्रतीयते न दृष्टता नामेति नार्थापत्तित्त्वं । अर्था पत्ते रुत्थानं । अपि च। (c. 126a) मनोबुद्धावर्थोपि नास्ति कस्य लिङ्गता* (1) (४७५) नहि तस्य प्रत्यक्षता येन तत्रार्थस्य लिङगता (1) नहि स्मरणमेथ प्रत्यक्षं। ततो मनो बुद्धावर्थलिङगप्रसिद्धितः कथमनुमानमित्युपस्कारः । वअ तत्राप्यर्थ एव जात्यादिकः प्रतिभाति ततोनुमान (1) दतमत्रोत्तरम्। न च प्रमाणन्तदिति कथमर्थः प्रतिभासते। प्रतिभासमानो दृश्यते सत्यो सत्यो वेति यदि परं विवाद इति चेत् । केयमसत्यता नाम। या विसम्वादिता। न. तद्रूपे विसम्बादाभावात् । तेन रूपेणावश्यमेव सत्येन भाव्यं । असत्यव्यवहारादसत्यमिति चेत् । कोयं व्यवहारः। प्रमाणं चेत् । प्रमाणेन प्रतिपन्नं कथमसत्यं। असत्यतयव प्रतिपन्नञ्चेत् । न. असत्यतायान्तद्रूपव्यतिरेकेणाप्रतीतेः । स्वरूपमात्रकमेव प्रतीयते न परार्थक्रियेत्यपि न सङगतं । तथा सति स्वसम्वेदनप्रसङ्गात् । परेण वेद्यते चेत् । न । स्मरणस्य दृष्टतायामभिनिवेशात् । पूर्वरूपता च नास्येति न प्रतीतिरस्य। *यिद्-क्यि ब्लो-ल दोन्-ग्यि र्तग्स् । रब्-तु-ब-प योद्-मिन्-फ्यिर् (=मनसो धियामलिंगप्रसिद्धरभावतः ।)-इति भोटभाषान्तरे पाठः ।
१४-आत्मसंवेदनम् [ १३९ । 1 अर्थतदपि विषयीकरोति । न तहि स्मरणं । स्वसम्वेदनन्तु प्रत्यक्षमत्रेति युक्तं । तथा हि प्रतीतिर [?] ममेयमेवमिति व्यवहारः । प्रमेयरहिता प्रतीतिरेवासत्यता (c. 126b)। नालौकिकादित्त्वं, तथा व्यवहाराभावात् । अपि च बुद्धयन्तरेणार्था- पत्त्यान वा। प्रकाशिता कथम्वा स्यात् बुद्धिर्बुद्ध-यन्तरेण वः । बुद्धयो हि परस्परं प्रकाशिकाः कथं । यतः ।। अप्रकाशात्मनोः सा स्याद व्यङ्ग्यव्यजकताकुतः ॥ (४७६) न यप्रकाशात्मनोः परस्परेणान्यथा वा व्यङग्यव्यञ्जकताभावो युक्तः । प्रकाशेन हि प्रदीपात्मना पटादयोऽप्रकाशाः प्रकाश्यन्ते नान्यथा ।। विषयस्य कथं व्यक्तिः प्रकाशेरूपसंक्रमान। प्रकाशे हि स्वयन्तदर्थस्य संक्रमात्प्रकाशनं तद्यथा प्रदीपप्रभादौ संक्रान्तस्य घटादेः प्रकाशनम् ॥ स च प्रकाशम्तद्रूप: म्वयमेव प्रकाशने ॥ (४७७) यथा तर्हि घटस्यान्यद्रूपमन्यत्प्रभायास्तथान्यविज्ञानस्य रूपमन्यद्रूपादीनां । तदेतवसत्। भवत्येवन्तथाप्यस्य मम्विद्वाट्यप्रदीपवत् । नहि सम्वेदनाभावे द्योत्यद्योतकतागतिः ।। यद्यपि नामान्यता विज्ञानविषयोस्तथापि प्रदीपवदेव स्वप्रकाशेन विज्ञानात्मना भवितव्यम् । अथ तद्वदेव विज्ञानान्तरबाहयता। तदसत्। यदि स्वस्माद्विभिन्न विज्ञाननाम्यवदनम् । नत्मधर्मनयवाम्या बाह्यत्वमपि मम्बिदः ।। अथाम्य नाम्ति बाह्यत्वं म्वमम्बंदनता न किम् । व्यतिरिक्तन (c. 1271) नम्यापि नालोकन प्रकाशनं । अत एवाह ॥ तथाभ्युपगम बुद्धः बुद्धौ बुद्धिः म्वदिका । सिद्धान्यथा तुल्यधर्मो विषयोपि धिया सह ॥ (४७८) यदि प्रकाशायां स्वयं बुद्धौ बुद्धः संक्रमात् प्रकाशा बुद्धिर्बुदधा स्ववेदिका तहि बुद्धिरन्यथा । बुद्धेरन्यप्रकाशतायो तुल्यधर्मत्त्वात्तत्सरूपतया विषयो'पि प्रकाशको बुद्धेः स्यात्॥
१४० ] वार्तिकालंकारः (३।४८३) इति प्रकाशरूपा नः स्वयं धीः संप्रकाशते । अन्योम्यां रूपसंक्रान्त्यां प्रकाशः सन्प्रकाशने । (४७९) एवमेव प्रकाश्यप्रकाशकभावो रूपबुद्धयोः । यदुतकं स्वप्रकाशमन्यस्य तद्रूपतयोत्पत्तिः । ननु भवतु स्वप्रकाशा बुद्धिरकान्या तु प्रकाश्या सादृश्यसम्भवात् । यथा पितृ- रूपं गृह्णातीति । तदाह । सादृश्योप हि धारन्या प्रकाश्या न तया मता। स्वयं प्रकाशनादर्थस्तू पेण प्रकाशने ॥ (४८०) अप्रकाशस्य हि प्रकाशनमन्येन प्रकाशस्यैव । साधर्म्यमात्रात् । अप्रकाशस्यापि न परमार्थतः प्रकाशः। कथमर्थः प्रकाशते। अर्थस्तद्रूपेण प्रकाश (क) रूपेण प्रकाशते नत्वन्येन प्रकाश्यते । बुद्धया च स्वप्रकाशत्त्वं द्वयोरपि समानमतो न प्रकाश्य- प्रकाशकभावो। यथा प्रदोपयोर्दीपघटयोश्च तदाश्रयः । व्वयव्यञ्जकभावेन व्यवहार: (c. 127b) प्रतन्यते । (४८१) नहि प्रदीपयोः सारूप्योत्पत्तिसम्भवेपि परस्परं प्रकाश्यप्रकाशकभावः। बीपघटयोस्तहि कथम् । प्रदीपसामग्रीतो घटस्तद्रूप उत्पद्यतेऽतः सोपि स्व- एव प्रकाश्यते नान्यथा। तथान्वयव्यतिरेकपरिकल्पितापोद्धारतस्तथा व्यवहारो न परमार्थत इत्यलं प्रसङगेन। विषयेन्द्रियमात्रेण न दृष्टमिति निश्चयः । तस्माद्यतोयं तस्यापि वाच्यमन्यस्य दर्शनम ॥ (४८२) यदि विषयेन्द्रियमात्रत एव दृष्ट इति' निश्चयो भवेत् । सकलमेव दृष्टमिति निश्चीयेत । दृष्टमेव दृष्टमिति निश्चीयत इति चेत् । किमिदं दृष्टम्नाम। यत्र बर्शनमुत्पन्नं । किमिदं दर्शनमिति । तदेव पर्यनुयुक्तं। यत्राभिमुखं चक्षुरादिकं । चक्षुरभिमुखमिति कथं प्रतीयते। तत्रापि दृष्टत्त्वेन व्यवहारः कथमित्यनवस्था । अथ दर्शनोत्पत्तिमात्रतो निश्चयः । नानुभूतत्त्वेन निश्चयात् । न चानुभवमात्रा- दननु भूत इति निश्चयः । नहि शुक्लताननुभवे शुक्ल इति निश्चयः । तस्मा- अनुभवानुसारी निश्चयस्तथाभूतेनैवानुभवेन भवितव्यमिति निश्चयो युक्तः॥ स्मृतेरप्यात्मवित्सिद्धा ज्ञानस्यान्येन वेदने । दोर्पादिग्रहणन्न स्याबहुत्त्वानवस्थितेः (c. 128a) ॥ (४८३) प्रकाश १५-शब्दनित्यत्त्वनिरासः [ १४१ नात्। - न केवलं विषयज्ञानत (ज)ज्ञानविशेषात् स्वसम्वेदनं। स्मृतेरपि तत्सिष्यति । ननु स्मृतेरनुभवमानं सिध्यति न स्वसम्वेदनम्। अन्येनापि सम्वेदने स्मृति- युक्तव। तदनुत्तरं । अन्येन वेदने ज्ञानस्य दीर्घादिग्रहणन्न स्यात्। बहुमात्रानवस्था- यथा हरस्वद्वयनिरन्तरप्रयोगे तदनवस्थाने नानवस्थितमवस्थितेन सह- कत्त्वेन प्रतीयत इति प्राक् प्रतिपादितम्। दीर्घप्लुतमात्रादेग्रहणन्न स्यादेव। एकक- मात्राग्रहणे न दीर्घादिग्रहणं । नापि समुदायः प्रतीयते। पूर्वापरसडकलनेन प्रतीति- रिति चेत् । न । तस्यापि प्रतीतविषयत्त्वात् । ननु प्रतीत एव दीर्घादिलक्षणोर्थः प्रतीतः किन्तु दीर्घादिलक्षणोर्थो न प्रतीतः। ततः क्रमद्वयमिव मात्राद्वये तदिति प्रतीयते। नापरो दीर्घः । ननु यस्यापि स्वसम्बिदिता बुद्धिस्तस्यापि कथन्दीर्घादिग्रहणं । तदाकारक- बुद्धिसम्वेदने दीर्घवेदनव्यवस्था। अस्वसम्वेदनवादिनोपि तहि तदाकारकबुद्धि- वेदनमस्त्येव । केवलमन्यया बुद्धया । न चानयोरवस्थयोठिवशेष' 'स्तथाहि । अन्यन वेद्यत वेद्यं वेद्यत्त्वाद्वद्यबाहय वत् । ततो बुद्धिपि प्राप्ता वेद्यत्त्वादन्यवेदिका।" तदसत् । यत (c. 128b) एवमपि स्यात् । अन्येन व्यज्यते व्यङग्यं व्यङ्ग्यत्त्वाद्घटवस्तुवत् । ततान्यद्योन्यता प्राप्ता प्रदीपम्यापि सांप्रतं । उक्तञ्चात्र किञ्चित् । यद्यन्यया बुद्रया पूर्विका बुद्धिवेद्येत। तदान्यतवा- कारबुद्धघवेदनाद्विषयस्य च तदाभावादवेदनमेवेति. उत्सन्नोनुभवोथिन इति प्रतिपादितं। अथापि स्यादनवस्थानमेव नास्ति मात्राणां। ततो न दीर्घाय- प्रहणम्। १५. शनित्यत्त्वनिराम: तदप्यसत् । यत (:)। अवस्थितावक्रमायां सकृदाभासनान्मतौ । वरणः स्यादक्रमा (5) दीर्घः न हचवस्थितम'"क्रमेण प्रतीयमानं दीर्घम्भवति। कालक्रमेण प्रतीयमाने दीर्घमिति व्यवस्थानात्। क्रमोपि मात्राणामस्त्येव नान्त्यावस्थायां दीर्घ इत्यादि- प्रतिपत्तिः। तदा च क्रमः प्रतीयमानो नान्यथवासौ पूविकाया बुद्धः । अकवाऽसौ पूर्वापरभागग्राहिणी।
१४२ ] वार्तिकालंकारः (३।४८७) तदप्यसत्। तथा हि। क्रमवानक्रमं कथं । (४८४) उपकुर्यादसंश्लिप्यन्वण्णभागः परम्परं () पूपिरो हि वर्णभागः परस्परमनवस्थायित्त्वेनासागतः । कथमेकां बुद्धिमुपकुर्वीत। विषयाग्रहणं हि बुद्धिविषयभेदे च बुद्धिभेदोपीति नैका बुद्धि- रिति कथं क्रमप्रतीतिः। तथा चाह । नहि। अक्रमण ग्रहादन्त्यक्रमवद्धीश्च नो भवेत । (४८५) तज्ज्ञातेर्थे बुद्धिमुपलभते। ज्ञातेत्वनुमानादवगच्छति । यथा चासावर्थ ज्ञानानुसारेण कल्प्यते तथा तभेदवत्यपि (c. 129a)। तथाहि । लोको व्यप- दिशतीदानीं मम बुद्धिरुत्पन्ना। अर्थक एवासावर्थात्मा दीर्घादिकः प्र"तीयते । दीर्घादिहक एव प्रथममुत्पद्यते। ततो दीर्घस्यकस्यैव प्रतिपत्तौ वीर्घा बुद्धिरप्येकव। तदप्यसत् । यतः। अान्त्यपूर्वस्थितादूर्ध्व वर्तमानी ध्वनिवन । कश्चि (द)यद्येक एवासौ वर्णात्मा तदा प्रथमबुधैव प्रतिपन्न इति काल- क्षेपो न स्यात् । पूर्वभागवणे चांत्यबुद्धचापि प्रतीयेत दीर्घादिः । अथापरापर- भागप्रतीत्या वीर्घादिप्रतिपत्तिः । तदा एको दीर्घ इति न स्यात् । अथ पू";- 23b प्यनुवर्ततेऽपरस्यापि च प्रतिपत्तिः। तथा सति वर्धमानता ध्वनेः स्यात् । पूर्वस्या- न्वयादपरस्य च सम्भवात् । अन्त्यावस्थायाञ्चासौ दीर्घ इति प्रत्येयः। तदा चाक्रमं ग्रहणमिति क्रमवदिति न स्यात् । पूर्वापेक्षया क्रम इति चेन्न । पूर्वा- परबुद्धघोरन्यत्वात् । अथ प्रथममुत्पन्ना बुद्धिरेकैवास्ते। तवप्ययुक्तम् ॥ धियः स्वयश्च न स्थानं तदूर्ध्वविषयास्थितेः ॥ (४८६) न हघनुपचितध्वनिरुपचितध्वनिकालमास्ते। तथा चेदपरः पुनरुपचय इति संवानवस्था। अथ विषयानवस्थानपि स्वयमेवावतिष्ठते तदापि । स्थानं स्वयन नश्येत्सा पश्चादप्यविशेषतः ।। (c. 129b) यदि विषयग्रहणमन्तरेणापि तद्ग्रहणल्पा बुद्धिरवतिष्ठेत न कदाचिन्नश्येत। इत्यतिदीर्घता भवेत् ॥ अथ विषयग्रहणाभावो विषयाभावे तदा न दीर्घग्राहिका भवेत्। भागमात्रस्य प्रहणात् । अर्थक एव वर्णात्माऽक्रम उत्पन्नः कालान्तरस्थायी। तवयुक्तं ॥ दोषोयं सकृदुत्पन्नाक्रमवर्णस्थितावपि । (४८७) १५-शब्दनित्त्यत्त्वनिरासः [ १४३ यदि सकृदुत्पन्नः कियन्तमपि कालमास्ते सर्वदा तिष्ठेत् । पश्चावप्यविशेषा- दिति । किञ्च ॥ सकृद्यनोद्भवाद्वयर्थः स्याद्यत्नश्चोत्तरोत्तरः । येनव प्रयत्नेन प्रथमं रूपं नित्तितं तेनैव परोपि भागस्तवव्यतिरेकादिति तस्मादपरस्य व्यर्थतव ॥ व्यक्तावप्येप वर्णानां दोषः समनुषज्यते । (४८८) सकृयत्नेन सर्वस्य व्यक्तत्त्वाद्यत्नान्तरमनर्थकं ॥ तस्मान्नेकबुद्धा वीर्घा- वयवानां ग्रहणम्। अनेकबुद्धिग्रहणमुपगन्तव्यम् । तदा च। अनेकया तद्ग्रहणे या(s)न्त्या धीः सानुभूयते । न दीर्घग्राहिका सा च तन्न स्याद्दीर्घधीस्मृतिः । (४८९) यदा नैकया बुद्धचा दीर्घावयवानां ग्रहणं तदान्त्या बुद्धिर्बुद्धयन्तरेणानुभू- यते। सा च दीर्घनाहिका ततः। कथं दीर्धधीस्मरणं। नाननुभूतस्मरणम् । अन्त्या च' बुद्धिर्बुद्धयन्तरेणानुभूयते । पूर्वबुद्धीनान्तद्व्यवहितत्त्वान्नानुभवः । अन्त्या च वीर्घग्रहणव्यापृता. ततो दीर्घादिधीस्मरणमपि न भवेत् अथापि स्यात् (c. 130a) पृथक् पृथक् बुद्धीनां बुद्धघन्तरग्रहणं ततः सर्वाः स्मर्यन्त इति दीर्घधीस्मृतिः । तदप्ययुक्तं । यतः। पृथक् पृथक च बुद्धीनां सम्वित्तौ तु ध्वनिः श्रुताः । अविच्छिन्नाभना न स्याद् घटनश्च निराकृतम । (४९०) बुद्धिप्राहिकाभिर्बुद्धिभिः शब्दभागबुद्धीनां व्यवधानादविच्छेदप्रतीतिर्न स्यात् । न हि विच्छिन्नमविच्छिन्नं प्रत्येतुं शक्यं । संघटनेन प्रतीतिरिति चेत् । अत्राह । घटनञ्च निराकृतम् । अन्यत्रापि समानन्तद्वर्णयोर्वा सकृच्छ्रति रित्यादिना। अपि च। विच्छिन्नं शृण्वतोप्यस्य यद्यविच्छिन्नविभ्रमः । हम्वद्वयोचारगापि स्यादविच्छिन्नविभ्रमः । (४९१) ह्रस्वद्वयस्य निरन्तरमुच्चारणन्नास्तीति । विच्छेदादेकबुद्धेरभावः । मात्राणामपि स एव विच्छेदस्तथाप्यविच्छेदाभिमानः । स इह हरस्वद्वयोच्चारणेपि समानोन्यस्य इति कस्मान दृष्टः । यदि तु १४४ ] वातिकालंकारः (३१४९८) न चात्र विच्छेदप्रतीतित्वेपि विच्छेद एव । न तु विभ्रमः इत्ययमेव पक्षः समः। किञ्च॥ विच्छिन्ने दर्शने चाक्षादविच्छिन्नाधिरोपणं । न स्यात्सर्वाक्षबुद्धीनां वितथत्त्वप्रसङ्गतः । (४९२) यद्ययमविच्छेदप्रत्यययोविभ्रम एव तदाक्षजो वा भवेन्मानसो वा । यदीन्द्रियजः सालबुद्धीनां वितथत्त्वम्भवेत् । तथा हि। सन्तिया हि वरात्मा निमेषतुलितस्थितिः । स च क्रमादनेकाश्च (c. I30b) सम्बन्धेन न तिष्ठति । (४९३) एकाण्वत्ययकालश्च कालोल्पीयान क्षणो मतः । बुद्धिश्च क्षणिका तस्मात्क्रमाद्वएर्णान्पवर्तते । (४९४) इति वर्णेषु रूपादावविच्छिन्नावभासिनी । विच्छिन्नाप्यन्यया बुद्धिः सर्वा स्याद्वितथार्थिका । (४९५) क्रमेण हि सकलवर्णप्रति पत्तिः (1) क्षणिका बुद्धिरपरापरप्रबन्धवद्रूपेण वर्णग्रहणात् । रूपावयोपि जन्मभाजः क्रमादेव । ततः तत्रापि यदीन्द्रिय- मलातचक्रवद् भ्रान्तं प्रत्ययं जनयेत् । न क्वचिद्भ्रान्तता भवेत् । अथ मानसो विभ्रमः। तदान्यो दोषः। तथा हि। घटनं यञ्च भावानामन्यत्रेन्द्रियविभ्रमात् । भेदालक्षणविभ्रान्तं स्मरणन्तद्विकल्पकं । (४९६) तस्य स्पष्टावभासित्वं जल्पसंसर्गिणः कुतः । मानसो हि विप्लवः स्पष्टतामतिक्रम्य वर्तमान एव स्पष्टो भवतीत्यसत्य- मेवैतत्। स्पष्टाकारञ्च वर्णाद्याकारं विज्ञानमिष्यते (1) तत्कथमसो मानसी भान्ति- रिति युक्तं । जन्य संसगिणो हि न स्पष्टतासम्भवो न विकल्पानुबद्धस्य स्पष्टा- विभासितेत्युक्तं । तथा। नाक्षग्रहस्ति शब्दानां योजनेति विवेचितम् । (४९७) अप (-) विच्छिन्नं पश्यतोप्यर्घटये "यदि कल्पना ॥ अर्थस्य तत्सम्वित्तेश्च सततं भासमानयोः । (४९८) बाधकेऽसति सन्न्याये विच्छिन्न इति तत्कुतः ।
१६-प्रत्यभिज्ञानिरासः [ १४५ नाविच्छिन्नं प्रतिभासमानं विच्छिन्नमिति कल्पनीयं । न खल प्रत्यक्षामन्यथा कल्पनामहति (c. 131a)। कल्पनाया एवासत्त्वकल्पनं युक्तं प्रत्यक्षवा धितत्त्वात् । तस्मादसदेतत् । अथ स्वसम्वेवनं नास्तीति बुद्धधन्तरसम्वेदनाभ्युपगमे न च युगपद् बुद्धिसम्भवः । तेन बुद्धायन्तरेण व्यवधानाद्विच्छिन्नं वर्शनमिति । अत्राह। बुद्धीनां शक्तिनियमादिति चेत्स कुतो मतः (४९९) युगपबुद्धथदृष्टञ्चेत तदेवेदं विचार्यते । शक्तिनियमे हि बुद्धीनी युगपदसम्भवः । स एव तु शक्तिनियमः कुतोवसा- तव्यः । अथ युगपबुद्धचदर्शनाच्छक्तिनियमः । विच्छिन्नं तहि वर्शनं नास्त्यदर्शनस्य तत्रापि सम्भवात् । अथ दर्शनं तत्र न प्रमाणं । युगपदवर्शनं अपि तहि कथं प्रमाणम् । विच्छिन्नबुद्धयुत्पाद'' स्य योऽभावस्याप्रसाधकः । स एवानुपलम्भः किं योगपद्यस्य साधकः । तत्र किमविच्छिन्नवर्शनाद्युगपदूपोत्पादः प्रत्ययानामथायोगपद्यवर्शनाद्विच्छिन्न वर्शनं कल्प्यतामिति विचार्यमेतत् । नन युगपद् बुद्धधदर्शनमस्त्येव । नहि नित्येप्यवर्शने [ ? व्यर्थे ] भावि- भूतरूपदर्शनमुपलभ्यते युगपत् क्रमेणव दर्शनात् । आगमोप्यस्ति भवतः। तथापक्तं (-) “अस्थानमनवकाशो यदपूर्वाचर' मे वे चित्ते समुत्पद्येयातां ।" तदसत् । तासां समानजातीये सामर्थ्यनियमो भवन । (५००) तथाहि । तथाहि सम्यक् लक्ष्यन्ते विकल्पाः क्रमभाविनः । बुद्धीनां हि शक्तिनियमः समानजातीयविज्ञानोत्पादनापेक्षया न सामयेन । चक्षुरादिविज्ञानानि समानजातीयं चक्षुरादिविज्ञानमेव चाराविविज्ञानमेव (c. 131b) नोत्पादयन्ति न पुनः सकलमेव । तत्र यदि प्राह्यग्राहकरूपं द्वयमुत्पावयेदसमा- नजातीये को बिरोधः । १६. प्रत्यभिज्ञानिरासः ननु विकल्पोपि स्पष्टावभासी प्रत्यभिज्ञानाल्यप्रत्यक्षप्रत्ययः पररिष्यते । इष्यतां न तु तथा। तयाहि ।
१४६ ] वातिकालंकारः (३१५०४) स्पष्टाव- एतेन यः समर्थ प्रत्यभिज्ञानकल्पनां । (५०१) स्पष्टावभासां प्रत्यक्षां कल्पयंत सोपि वारितः ॥ इन्द्रियविज्ञानस्य पूर्वापररूपग्रहणसमर्थस्याभावात्कल्पने च भासवती प्रत्यक्षमिति यो मन्यते प्रत्यक्षतया सोपि वारितः। तथाहि । न कल्पना स्पष्टावभासा तस्याः कुतः प्रत्यक्षता । न स्पष्टावभासित्त्वेपि प्रमाणता व्यभि- चारात् । तथा हि ॥ कंशगोलकदीपादावपि स्पष्टावभासनान । (५०२) प्रतीतभेद प्रत्यक्षा धी: कथन्तादृशी भवेत ॥ अध्यक्षस्य तत्र बाधितत्त्वादनध्यक्षता। केन वाध्यतेऽन्तरा विच्छेदेन । इहापि पूर्वापररूपाप्रतिभास'नलक्षणो विच्छे (दो)स्त्येव । तस्मान्न प्रत्यभिज्ञानाद्वएर्णायकत्त्वनिश्चयः । (५०३) प्रमाणत्त्वाभावादतो य आह। मात्राभेदेपि वर्णानामेकत्त्वं प्रत्यभिज्ञया । प्रतीयते ततः केन दीर्घादेरग्रहो भवेत् । तस्यापि वचनमात्रकमेतन्न प्रमाणं प्रत्यभिज्ञेति प्रतिपादनात्। अपि च । न प्रत्यक्षमक्ष प्रत्य (भि)ज्ञा। तथाहि । पूर्वानुभूतस्मरणात्तद्धर्मारोपणाद्विना । स एवायमिति ज्ञानं नास्ति तच्चाक्षजे कुतः ॥ (५०४) न पूर्वानुभवमन्तरेण (c. I32a) स्मरणं न स्मरणमन्तरेण स एवायमित्येवं रूपं प्रत्यभिज्ञानं। पूर्वानुभूतकत्त्वग्रहणरूपा हि प्रत्य भि ज्ञे दानीमनुभूयमानस्य । न च स्मरणमन्तरेण पूर्वरूपतामहः। न च स्मरणविषयोर्यः प्रत्यक्षगोचरोऽन्यथा सकलमेव पूर्वानुभूतं प्रत्यक्षमिति किमिवमक्षव्यापारेण। अथ कदाचित्पूर्वदृष्टं मृतनष्टमपि स्यादत इदानीमभव्यापारोपेक्ष्यते। यद्येवमक्षव्यापा रस्त–वास्तु किन्तद्देशगमनेन। योग्यदेशतां विना नाक्षं समर्थमिति चेत्। यद्येवं देशान्तरदृष्टे प्रत्यभिज्ञानाभावश्च । नहि देशान्तरसम्बन्धि रूपं योग्यदेशावस्थापि। उभय- देशसम्बन्ध्येकमेव तेन स एव योग्यदेशस्ततोयमदोषः। एवं तर्हि स्मरणमन्तरे. णव कस्मान्न तया[? तथा] प्रतीयते । तत्सम्बन्धस्यापगमान प्रतीतिः । स्मरणेपि तहि कथं स एवायमिति स्यात्।' व्यपगतस्यापि स्मरणमित्यदोषः। न प्रमाण- म्प्रत्यभिज्ञा। सम्बन्धोपगतो न सम्बन्धीति चेत् । तस्य तहि पूर्वदेशकालसम्बन्धा- भावे. इदानीन्तनमेव रूपमिति भेद एव पूर्वापरयोः। अतः स एवायमिति १७-बुद्धघुत्पादः [ १४७ प्रतीतिन भेदः। ननु सैव केन प्रतीतिरिति विचार्यमिदमेव। नहि प्रतीतिमात्रं प्रमाणमन्यथा कि प्रत्यक्षत्त्वसाधननिर्बन्धेन । पूर्वकालाविसम्बन्धे चाप्रतीय- माने यदि नित्त्यत्त्वमुच्यते सर्वपदार्थानामेव नित्यता भवेत् तदोत्पत्ति- मतामपि । इदानीन्तनरूपेण प्रतीतावपि (c. 192b) नित्यता । यदि तत्क्षणसम्भूते कस्मादिव न नित्यता । यद्यपि तस्य पूर्वता नोत्पन्ना तथाप्यस्त्येव । अनुत्पन्ना कथमस्ति विनष्टा कथमस्ती ति समानं चोद्यम्। न च प्रागभावप्रध्वंसाभावयविशेषः। प्रध्वस्तं स्मर्यते । प्रागभूतमपि सम्भवानुमाने प्रतीयते। भावितया प्रतीयते न पूर्वतया । ननु भावित (य) प्रतीयत इति भाविप्रत्यक्ष भविष्यतीत्यर्थः । तेन तदा नास्ति पश्चाद् भविष्यतीति। इहापि भूततया प्रतीयते प्रत्यक्षमभूदिति नेदानीमस्तीति (1) भवतु कथमिदानीमप्यस्ति । इदानीमपि प्रतीतेरिदानीमस्तीति । मध्ये- तीस्तीति कथं । इदानीमेव दर्शनात्। नहि पूर्वमसदिदानीमुपलभ्यते। न तहि प्रत्यक्षमेतत् । न चानुमान मपि तस्य पूर्वास्तितया सम्बन्धाग्रहणात् । निरन्तर- दर्शने सम्बन्धे ग्रहणमिति चेत् । न. निरन्तरदर्शने प्रमाणाभावात् । नहि (-) निरन्तरं मम दर्शनमिति स्मरणादपरं प्रमाणं । इयमेव प्रत्यभिज्ञेति चेत् । न. प्रमा- णत्त्वस्य चिन्त्यत्त्वात् । अविसम्वादात्प्रमाणमिति चेत् । न. नित्यतायामविसम्बादा- भावात् । तस्मादयमविसम्बादोर्थक्रियामात्रे ताशा च पदार्थेन तादृशो क्रिय- तेर्यकि'या। न तेनंव। प्रमाणाभावात्। अन्यथा सर्वदार्थक्रियासम्बद्ध इति तदैवार्थक्रियानुभूयेत। अभावावर्थक्रियाया इति चेत् । कामदानीमर्थक्रिया- सम्बद्धतरयोर्न (c. I33a) भेदः । पश्चात्तत्रैवार्थक्रियानुभूयत इति न सङगतम् । अनवस्थाप्रसङगात् । यतः। तत्रापि परोऽयक्रियाविसम्वादोऽभ्युपगन्तव्यस्तत्राप्यपर इति न व्यवतिष्ठेत । तस्मादप्रमाणमेव प्रत्यभिज्ञेति स्थि"तमेतत् । तस्माद्वयवहितत्त्वान्मात्राग्रहणस्य नैरन्तर्याभावान्न दीर्घाविग्रहणं । १७. स्वमते बुद्धयुत्पादः अथ युगपद्विज्ञानसम्भव इष्यते तदप्ययुक्त। यतः। न चार्थज्ञानसम्वित्त्यायुगपत्सम्भवा मतः । लक्ष्यने प्रतिभासा वा नार्थार्थज्ञानयोः पृथक ॥ (५०५) युग पज्जा ना नुत्पत्ति मन सो लिङग मिति (न्या० सू० १११११६) वचनात । न चावभासि ज्ञानमर्थश्च केवलः प्रतिभासमान उपलभ्यते । .
१४८ ] वातिकालंकारः (३१५१०) स्वसम्बिदितरूपतया बाह्य एव नीलाविप्रतिभास उपलभ्यते । नापरमपि तत्र । अर्थकाकारतया तयोरनुपलक्षणं । यथा सुखतासम्वित्त्योः (१) तदप्यसत् (0) यतः। न ह्यर्थाभासि विज्ञानमर्थो बाह्यश्च केवलः । एकाकारमतिग्राह्ये भेदाभावप्रसङ्गतः ॥ (५०६) यदि सुखादीनान्तन्मतेश्चकाकारता तदा तत्राप्यभेद एव । न भेदावभास- मन्तरेण भेदः। अर्थसम्वेदनमेव केवलमिति युक्तं तथा नीलादिकमिति च । तस्मात्सुखादिनीलादिष्यतिरिक्तमपरमिह जगति सम्वेदनं नास्तीति (c. 133b) सुखादिवत्स्वसम्वेदनं नीलादिकमपीति युक्त एव निर्णयः । अथ यदि नाम सम्वेदनमपरमिह न लक्ष्यते परिस्फुटन भेदेन । तथापि तद- स्त्येव । यथाहि रूपादौ नियत आलोकः । तदप्यसत् । तथाहि । सूपलक्ष्येण भेदेन यो सम्वित्तौ न लक्षितौ । अथार्थप्रत्ययौ पश्चात् स्मर्येते तौ पृथक् कथम् ॥ (५०७) आलोकोपि यदि किमपि भेदग्राहकमस्य नास्ति प्रमाणं नास्त्येव पृथक् । भेदोपलक्षणे हि सम्वेदनेन चिन्त्येत भेवः । न च तथा तस्मान्न पृथक् सम्वेदनं नीलात्। आलोकस्तु कदाचित्केवल उपलभ्यते । रूपं वा कैश्चित् । ततश्च यथा केवलं रूपं केवल आलोक: सालोकं रूपं तया केवलं विज्ञानं केवलोऽर्थः समं वेदनोर्थ इति स्यात् । प्रतिभासद्वयं भवेत् ।। क्रमेणानुभवोत्पादेप्यर्थार्थमनसोरयं । प्रतिभासस्य नानात्वचोद्यदोषो दुरुद्धरः ॥ (५०८) यथा युगपत्सम्वेदनाभ्युपगमे अर्थार्थप्रतिभासदयप्रसङग इति दुरुन्दरो दोषः । तथा क्रमेणापि । तथाहि (-) अर्थसम्वेदनं तावत्ततोर्थाभासवेदनं (1) नहि सम्वेदन शुद्धं भवेदर्थस्य वेदनं ॥ (५०९) अर्थवे 'दनं हि वेदनान्तरेण वेधमानमर्यस्य वेदनरूपतयेव वेदितव्यम् । तथा द्विरावभासनप्रसगः । अन्यथा तदर्थस्य वेदनमिति कथं वेदनान्तरं वेदयेत् । तस्मा- दुत्तरकालमप्यर्थावभासेन भाव्यं । न चैवं । तयाहि । (c. 134a)(एवं हि) नीलाद्याकार एक एकं च वेदनं । लक्ष्यते न तु नीलामे वेदने वेदनं परं ॥ (५१०) १७-मुडपुत्पादः [ १४९ अत्र विचार्यते । किं युगपज्ज्ञानपक्ष एव दोषः किम्बा क्रमज्ञानपक्षे । यदि युगपत् । तदसत् । युगपन्न दयं सम्वेद्यते नीलाकारः सम्वेदनञ्च । तथा च प्रतिपादितं । अथ क्रमेण (1) तदापि न सम्वेदनमात्रं पश्चाल्लक्ष्यते। स्मरणेन सनीलस्यवोपलक्षणात् । तदयमदोषः । न दोषः। अयमस्यार्थः । नीलाधाकार एकः सम्बेदनेन। एकञ्च सम्वेदनं नीलाकारेण। न तु नीलाभे सम्वेदने । सम्वेदनमपरमर्थव्यतिरिक्तं लक्षयामः। अथवा नीलाधाकार एक एकञ्च सम्वेदनं सुखादिरूपं सम्वेदयामो नापरं सुखादिसम्बेबने ग्राहकं। तत्रा- प्यपरमित्यनन्ताकारसम्वेदनानुभवः । इदानीं प्रकृतमेवानुबध्नाति । ज्ञानान्तरेणानुभवो भवेत्तत्रापि च स्मृतिः । दृष्टा तद्वदनं केन तस्याप्यन्येन चेदिमां ॥ (५११) मालां ज्ञानविदां कोयं जनयत्यनुबन्धिनीम । यदि ज्ञानस्य ज्ञानान्तरेणानुभवः । स कथं ज्ञातव्यः । तत्रापि"स्मृतिवृष्टेति । सम्वेदनन्तहि ज्ञानान्तरेणेति तत्रापि स्मृतिरेव प्रमाणम् । तदा चेमा माला ज्ञान- तदनानां को हेतुरनुबन्धवती जनयेत्। पूर्वा धीः सैव चेन स्यात्संचारी विषयान्तरे । (५१२) (c. 134b)पूर्वपूर्वा बुद्धिरेवोत्तरोत्तरया ग्राह्या न नीलादिका विषय इति तद्ग्रहणन्न स्यादेव । यतः । तां ग्राह्यलक्षणप्रामामासनां जनिकां धियं । अगृहोत्वोत्तरं ज्ञानं गृह्णीयादपरं कथम् । (५१३) यदि बुद्धिः स्वसम्वेदनरूपासत्यर्थ गृहणीयात्ततो यथा सन्निहितस्यार्थस्य ग्रहणमिति विषयसंचारो भवेत् ॥ यदा तु बुद्धिर्बुदयन्तरेण गृह्यते तदा तां प्राह्य- लक्षणप्राप्तां सतीमगृहीत्वोत्तरं ज्ञानं पूविकां बुद्धि कथनीलादिकं गृह्णीयात् । नहि प्रत्यासन्नमात्मसम्बद्धत्त्वेन ग्राह्यं मुक्त्वा परग्रहणे सामर्थ्ययोगः ॥ बायोर्यः सन्निहितः सविबन्धक इति विषयान्तरसञ्चारः । तवसत् । यतः। आत्मनि ज्ञानजानने स्वभावे नियताश्च तां । को नामान्यो विबध्नीयाद्वहिरङ्गेऽन्तरङ्गिकाम । (५१४) १५० ] वातिकालंकारः (३१५१८) बाह्यः सन्निहितोप्यर्थः तां विबन्धुं हि न प्रभुः । धियं नानुभव कश्चिदन्यथार्थस्य सन्निधौ । (५१५) तथा च स्मरणन्न स्यात् । अथ विबन्धकाभावे भवेत् । तदसत्यं । यतः । न च सन्निहितार्थास्ति दशा काचिदतो धियः । उत्सन्नमूला स्मृतिरप्युत्सन्नेत्युज्वलं मतम । (५१६) अर्थ इत्येव स्मर्यंत नानुभूत इति । अथार्थापत्यानुभूतोऽर्थः स्वानुभवं कल्पयेत् । तदप्यसत् । अर्था'नुभव एव यदा सन्ततो जातस्तदा नापत्तिरपि। अर्था- पत्तियंदा स्मर्यते तदापरार्थापत्तिरिति संवानवस्था । तस्मादनुभूतोऽनुभवः स्मर्यते नान्यथा। ततोऽर्थकृतव्याघातान्नानुभवो न च स्मरणं। न च सत्तामात्रकावर्यानुभवः । इन्द्रियसम्बन्धात् सोपि कुतो ज्ञातव्यः। अपरेन्द्रियसम्बन्धादित्यनवस्था। अतीतादिविकल्प (1) नां येषां नार्थस्य सनिधिः । सञ्चारकारणाभावादुत्सीदेदर्थचिन्तनं (c. 135a) ॥ (५१७) अतीतादिविकल्पाना नेन्द्रियसम्बन्धोऽतः कथम'नुभूतत्त्वनिश्चयः । ततोर्य- चिन्ता न स्यात्। चिन्ताचिन्तानवस्था भवेत् । अब तत्राप्यर्थ एव देशकालान्यथा- स्मको भवेत् । तवा तहि तेन सर्वदा व्याघातकृता भवितव्यं । तथा च संचारो न भवेदेव । तेनैवापकृतत्त्वात् । इन्द्रियविज्ञाने हि सन्निहित एवार्थों व्याघातकारी। ततः कदाचित् बुद्धितāबनानां प्रबन्धविच्छेदो भवेत्कदाचिदन्यवा। चिन्तासन्ताने तु व्यवहितोप्यर्थो विषयत्वात्सर्वदा व्याघातकारीति तत्रार्थ एव वेद्येत । न सम्वेदनं ममेति सम्वेदनस्मरणम स्यात् । अब म व्याघातकारी तथा सति चिन्ता- चिन्ताविसन्तानवेदनमेवार्थचित्तमुत्सीवेदेव । अथापि स्यात् । शक्तिरस्ति का चिद्ययात्मविज्ञानं जनयति (1)तस्याः भये क्रमेणोपजाते विषयान्तरे भवेत्स- ञ्चार इति। तदप्ययुक्तं । यतः । आत्मविज्ञान'जनने शक्तिसंक्षयतः शनैः । विषयान्तरसंचारो यदि सैवार्थधीः कुतः । (५१८) यदि शक्तिविकलापूर्वबुद्धिबुद्धिग्रहणं प्रति शक्तिविरहे साप्ययंधीविषया- न्तरसञ्चारवतीत्वेनाभिमता न भवेत।
१७-बुद्धघुत्पादः [ १५१ *शक्तं हि जनकं नाशक्तं तस्माच्छक्तिक्षये पूर्व धियो नार्थान्तरसञ्चारः। यतः। नहि धीः प्राग्धिया विना। कि कारणं। अन्यार्थासक्तिविगुणे ज्ञाने ज्ञानोदयागतेः । (५१९) यदि तु पूर्वबुद्धेः कारणत्त्वं न स्यादर्थान्तराशक्तिवैगुण्येप्युदयो भवेत् बुद्धच- न्तरस्य । नयकारणस्य वैगुण्यमवैगुण्यम्वा वाच्यायातमितरद्वा विदधीत । तस्मात्पूर्वबुद्धिः कारणमेव। तदशक्तत्त्वादर्थधीरपि न स्यादेवेति सुतरां विषया- न्तरसञ्चाराभावः। यस्य तहि. आ ल य विज्ञानं सकलप्रवृत्तिविज्ञानजनकम् (1) तस्य पूर्वविज्ञानकारणत्वं नास्ति (1) तत एव सकृदालयविज्ञानात्प्रवृत्तिविज्ञानो- दयात् । ततोस्माकमपि न तत्कारणं (1) पूर्वप्रवृत्तिविज्ञानकारणत्त्वे तु तदन्वय- व्यतिरेकानुविधायिकार्यमिति न स्यादालयविज्ञानस्य कारणत्वं। अत्रोच्यते। सकृद्विजातीयजातावप्यकंन पटीयसा । चित्तनाहितवैगुण्यादालयान्नान्यसम्भवः । (५२०) यस्या प्यालयविज्ञानं कारणन्तस्यापि । यतः । कदाचित् सकृद्विजातीय- विज्ञानोदयेपि (c. 136a) पुनरालयान्नान्यसम्भव एकेन पटीयसा पूर्वकप्रवृ- त्तिज्ञानेनार्थान्तराशक्तिविगुणाहितवैगुण्यादतः (1) अत (:) स एव तत्रापि स मन्त र प्रन्य यः । तत एव तहि विगुणाद्विज्ञानोदयानुदयौ किमालयविज्ञानेन । आस्ता- मियमालय" विज्ञानचिन्ता । वासनाधारतया वा परिकल्पितन्तदिति न दोषः । यदि तु पूर्वविज्ञानस्य कारणता नेष्यते तदा । नापेक्षितान्यथा माम्यं मनावृत्तर्मनान्तरं । पूविकाया हि मनोवृत्तेर्मनोन्तरं साम्यमपेक्षेत यदि सा कारणमकारणस्या- पेक्षणीयतायोगात्। तस्मादपेक्ष्यत्वात्कारणमेवासाविति युक्ति'मानव निर्णयः । अपि च। मनाज्ञानक्रमान्पत्तिरप्यपंक्षाप्रसाधनं ।। (५२१) मनोविज्ञानस्य हि समनन्तरप्रत्ययमात्रमेव हेतुः। तस्या हेतुतायामहेतुकत्वात् युगपदुदयो भवेत्। तस्मात्पूर्वविज्ञानकारणमेवोत्तरं विज्ञानमिति पृविज्ञान- शक्त्यभावे न किञ्चिद् भवेत् । म्ङर-ग्यि ब्लो नि नुम् मद्-न । दोन्-ल फो-व मि-ग्यु-र्ने । (-पूर्व धीशक्तिनागे हि नार्थे संक्रमणं भवेत् ।)-इति भोटभाषान्तरे पाठः । २० १५२ ] वातिकालंकारः (३३५२५) एकत्वान्मनसोन्यम्मिन्सक्तम्यान्या(5)गतेदि । ज्ञानान्तरस्यानुदयो न कदाचित्सहोदयात ॥ (५२२) योकत्त्वं मनसस्तस्य चैकत्र गतावन्यत्रागतिरिति पूर्वकं विज्ञानमकारणमेव । तदप्ययुक्त। यतस्तदपि मनःपूर्वकं विज्ञानमेव न तदपरं प्रमाणप्रसिद्धं । (c. 136b) युगपद्विज्ञानानुदयेन हि तत्साध्यते स च पूर्व विज्ञानान्याशक्ति- विगुणत्त्वादेव' सहोदयश्च कदाचिदुपलब्धः । समवृत्तौ न तुल्यत्त्वात्सर्वदान्यागनिभवन । यस्य तु मनस एकत्त्वकृतो विज्ञानान्तरानुदयस्तस्य समवृत्तौ चान्यदा च सव्वंदानुदयः स्यात् । अस्माकन्तु समवृत्तावुदयोऽन्यदा चानुदय इति नहि किञ्चिद्वचाहतं । नन्वन्तरेण मनः कथं क्रमः । विज्ञानवैगुण्यादिति प्रतिपादितं । जन्म चात्ममनायागमात्रजानां सकृद् भवेत् ॥ (५२३) न हि तत्र विषयान्तरगतिरस्ति। यतः । क्रमो भवेत् । सुखादिबुद्धीनामात्मन संयोगमात्रत्वात् इति प्रतिपादितं । अर्थेकत्त्वान्मनस एकव बुद्धिक्रिया भवेत् । तरसत् । यतः। एकैव चक्रियैकः स्यात्किन्दीपोनकदर्शनः । यर्थव प्रदीप एकोप्यनेकदर्शनजनकः । तथा मनोपि । तपानेकद्रष्टवशाद 25a चाप्यनेकपाह्यवशादिति समानम्। न च मनसः कारणत्वं विज्ञानस्यैव वासना- नियमात् । तथात्वं मनसस्तु नित्यत्त्वात्। क्रमेणापि न शक्तं स्यात्पश्चादयविशेषतः ॥' (५२४) महि नित्यस्य विशेषाधानं ॥ कुतश्चिद्विशेषस्य तत्त्वान्यथाभ्यासयोगात् । यतस् (1) तदात्मा न विशेषः स्यादन्यश्चेत्तस्य किम्भवेत् । तत्सम्बन्धेपि तस्यासो नैव स्यादेकरूपता ।। [ तदुक्तौ देह पुरुषावध संस्कारतो यदि । नियमः सकुतः पश्चाबुद्धेश्चेदस्तु सम्मतं ॥५२५॥ ] 'ऽदि-लुस् स्क्येस्-बु बुशद्-प यिन् । गल्-ते ऽदु-व्येद्-लस् ङ म्-न । दे-फ्यिस् गङ-लस् ब्लो-जिद्-लस् । शे-न यिन् मोद् ऽदोद्-प जिद् ।।
१७-बुद्धघुत्पादः [ १५३ (c. 137a) अनेन देहपुरुषावुक्तौ। योपि मन्यते देहपुरुषयोरेकत्त्वादेव किया। तदप्यनेनव गतं। कि दीपोनेकदर्शनः कमेणापि न शक्तिरविशेषादिति। अथ विशेषः। तवा विज्ञानमेव शक्त्यति- शयसमन्वितं तत्क्रमकारणमिति वृथा देहपुरुषयोः कारणत्त्वोपगमः । “संस्कारतो यदि (1) नियमः स कुतः पश्चात् बुढेश्चेदस्तु सम्मतं ।" संस्कारोपि स्थित एव । ततो न नियमः । अथ पश्चादुत्पत्तिमान् स कुतः। ज्ञानजो ज्ञानहेतुश्च संस्कार इति बुद्धेरेव संस्कारः। यद्येवं सम्मतमेवैतदस्माकं बुद्धिजनितः संस्कारो वासनापर- नामा ततो नियमः पूर्वबुद्धरेवान्यत्र प्रमाणाभावात्। नहि बुद्विमन्तरेणान्या वासना नाम। अथापि स्यात (--) ज्ञानान्तरजननमेव केवलं न ग्राह्यता तेन जनिकापि बुद्धिपूट्विका बुद्धिरणा"ह्यतो विषयान्तरसञ्चारः । तदसत्यं । यतो (-) न ग्राह्यताया जननाजननं ग्राह्यलक्षणं । ग्राह्ये हि पदार्थे ज्ञानजननमेव ग्राह्यलक्षणम् । यतो अग्राह्यं नहि तेजास्ति न च सौ (क्ष्म्या) दानङ्गका ।। (१२६) नालोकः कथञ्चिद्विज्ञानं जनयत्यग्राह्यतया। प्रारं हि सकलमेव दृष्टं (c. 137b)। अथालोकः सावयवत्त्वात्परभागादिना जनकोपि न ग्राह्यः । नानगस्य विज्ञानस्याङगाभावात् । आलोको हि साङग इति तथा' युक्तः । ग्राह्यताशक्ति हानिः म्यामान्यम्य जननात्मनः । तदयुक्तं । यतः ग्राह्यताया न खल्वन्यजननं ग्राह्यलक्षण । (...) माक्षानह्यन्यथा बुद्धं रूपादिरुपकारकः ।। पारम्पर्येण हि ग्राह्यमप्यग्राह्यतया भवेदुपकारकं बुद्धः। साक्षात्तु नान्य- थेति जनिका ग्राह्यव बुद्धिः । ग्राह्यतालक्षणादन्यस्तावनियमास्य कः । (५२८) बुद्धपि तदम्नीनि मापि तत्त्वं व्यवस्थितर (1) (-) अनन्तरश्लोकः। *अयं दुर्दश्यः पाठो है. पुस्तकादुपलभ्यते । द्यनंगके-इति हे. पुस्तके ।
१५४ ] वातिकालंकारः (३१५३०) तस्मानाबाह्या बुद्धिः । यस्मात् । ग्राह्युपादानमम्विनी चेनसा ग्राह्यलक्षणम । (५२९) चेतसो हि पाहिणि विज्ञाने तदुपादानभावः । सम्वेदनता च ग्राह्यता नापर- मत्र सूक्ष्मतादिकमिति नाग्राह्यता । यद्यपादानभाव एव ग्राह्यता स चोपादानभावः स्वबुद्धेरेव । अन्यथा परबुद्धरपि सम्वेदनप्रसङगः । परचित्ताग्रहणन्त्वनुपादान- भावात् । रूपस्य चाग्रहणं दूरसूक्ष्मादिभावादिन्द्रियस्य प्राहिविज्ञानानुपादानादिति विषयविभागः। (c. 138a) यदि तु बुद्धेरप्यग्राह्यता सापि चक्षुरादिवदेव । पाह्या न भवेत्। अथार्थापत्त्या प्रतीयते बुद्विस्तेन स्मरणम् । तदयुक्तं । सर्वदात्त्वापत्तरसम्भवात् ॥ यदा म्तम्भघटादीनां सत्त्वरं गणयेदयं । प्रपञ्चमतिबाहुल्यं नार्थापत्युदयस्ततः । नहि त्वरितं गणयतोस्यार्थापत्तरुदयः । अथार्थापत्तिरपि तत्र व्यापारवती न. व्यापाराप्रतीतेः । न'चार्थापत्तिसद्भावो वेद्यते व्यवहारिभिः । अर्थादर्थविदोवेयं जायेतोभयतोथवा ।। न तावदर्थादर्थाद्धि सर्वधीप्रतिपद्भवेत् । अर्थवित्तरपि ममेत्येवं नैवार्थधीति ( : ) ॥ उभयस्मादपि गति त एव प्रसिध्यति । स्ववेदनादेव तस्मादात्मसम्वेदनस्थितिः ।। अर्थादेव यदि सम्वेदनं गम्यते सम्वेदनमात्रं गम्यत नात्मसम्वेदनम् ॥ अथा सम्वेदनात् । ननु तदेवार्थसम्वेदनमर्थापत्त्यावगम्यते । एव कथमपत्तिरित- रेतराश्रयदोषात् । यतो दृष्टोऽर्थोऽन्यथा नोपपद्यते इत्यदृष्टार्थपरिकल्पनमापत्तिः। न चार्थसम्वेदनं दृष्टमिति कुतोपत्तिः । न चोभयस्य दर्शनमत एव । न हकस्य दर्शनमुभयदर्शनं तस्मात्स्वसम्वेदनमेव वेदनमन्यथाऽसिद्धः । (c. 138b) अतः परेण बुद्धन्तरेण प्रत्यक्षात्मना वेद्यत इत्युपगतं । तत्र सकलपूर्वबुद्धिग्रहणेन न विषयान्तरसंचारः। यद्यपादानतया बुद्धबेदनमसूक्ष्मादितया च रूपादेः। तदा योगिनां परबुद्धिसूक्ष्मादिरूपादिवेदनं कथं । न दोष एव । यतः ॥ रूपादेः च मनश्चैवमविशुद्धधियं प्रति । ग्राह्यलक्षणचिन्तेयमचिन्त्या योगिनाङ्गतिः ॥ (५३०) बुद्धघुत्पादः [ १५५ । दूरसूक्मादिपरचित्तवेदनं हि कथं योगिनामिति न चिन्त्यत एवेदानीमेतत् । अर्ध्वा "ग्दर्शनापेक्षया ग्राहयलक्षणमिदमुक्तमस्माभिः। परिशुद्धबुद्धिसन्ततयस्तु योगीश्वराः कथमिति किमनन चिन्तितेनेत्यास्तामेतत् । यथा चेदन्तथा चिन्तितमेव लेशतः । नन्वात्मीया बुद्धिर्यदि गृह्यते सर्व गृहतेति कुत एतत् । न गृहयत इति तु विषयान्तरसञ्चारादेव गम्यते । तदपि न युक्तिमत् । यतः। नत्र सूक्ष्मादिभावन ग्राह्यमग्राह्यतां ब्रजेत् रूपादिबुद्धेः किं''जातं पश्चाद्यन प्राङ् न विद्यते ॥ (५३१) न खलु तस्याः सूक्ष्मदूरादिभावो यः प्राड नासीत् । असम्भवेपि विशेषस्य यदि ग्रहणविभागस्य तहि न सहेतुक इति न विभागवान्भवेत् । सति स्वधीग्रह तस्मात् सैवानन्तरहेतुतः । चेतसो ग्राह्यता सैव ततो नार्थान्तरे गतिः । (५३२) (-)अनन्तरश्लोकः॥ ननु हेतुतंव ग्राहयतेति (c. 139a) न युक्तमेतत् अनेकशक्तित्त्वाद् भावानां । ततोन्या ग्राहयश"क्तिर्यापगता विषयान्तरसंचारकारणेऽन्या च जननमात्रशक्तियत्प्रभावादुत्तरज्ञानोदयोर्थविषयः । अनेकशक्तिता च भावानाम- नेककार्यजननादेवावधार्यते। अन्यथा नानेककार्यप्रसवस्तदपि यत् किञ्चिचतः। नानकशक्त्यभावपि भावो नानैककार्यकृत् । प्रकृत्यैवति गदितं प्रकृतिरेषा भावानां कारणपराधीनजन्मनां पर्यनुयोगमह"ति (1) कथ- मेतदिति। स्वकारणादुदयमासादयतां प्रतिनियमेन कस्तस्य निषेद्वा । अन्यथा सापि शक्तिरीदृशी कुतः (1) इति न पर्यनुयोगान्मुक्तिः। स्वकारणाच्चेत् तत्कि- मिदानीमनया प्रकृत्यैव परिसमाप्तिरस्तु किमर्थान्तरकल्पनया। ननु स्वकारणा- धीना शक्तिरियमिति लोकस्य प्रतीतिः। अस्तीयं प्रतीतिनंव्यतिरिक्तशक्तिप्र- तीतिः। स्वभावभूतधर्मभेदारोप'मात्रेण प्रतीतेः । कथमेतदिति चेत् । शक्ता.. वप्यपरशक्तिप्रत्ययदर्शनात् । तथा हि । शक्नियोगान्पदार्थश्चेत् कारणं कार्यजन्मनि । शक्तो [ कनावपि कुतः शक्तिरिति किन्न विकल्प्यते ।। तस्मात्कल्पनामात्रमेव शक्तिरन्यापोहेन व्यवस्थाप्यमानत्वात् । ननु शक्तिमन्तरेण नानाभूता भावा एकतः कथम्भवन्ति । (c. 139b) शक्तिभेदे सति भवन्तीति युक्तं । अत्राह ।
१५६ ] वातिकालंकारः (३३५३६) नानकस्मा"न चेद्भवेत् । (५३३) न किश्चिदकमेकम्मात्सामग्रथाः कार्यसम्भवः । एकं स्यादपि सामग्र्यारित्युक्तं तदनेककृत । (०३५) सामग्रीसम्भवे हि प्रायशः कार्याणां सम्भवः किञ्चिदेकमेकस्मादुत्पत्तिम तथानकमनेकस्मादनकञ्चकस्मात्। यादृश्येव यस्य सामग्री तत एव तदेक नेकम्वा भवेत् । एष प्रायशः प्रपञ्चः । तथाहि । स्वकारणादेवम्भू"तमने मेकम्वा भवति। येनकमनेकम्वा कार्य जनयति। न शक्तिभेदतः क्वचिदुपयुज्यर शक्तयोपि तत उपकारभागिन्यः तस्य ता इति व्यपदेशवत्त्यः। न हयन्यथा शक्तय पदार्थान्तरभूता हि तदाभाः स्युः । पदार्थान्तरत्वे च तथा दर्शनप्रसङगः । अथ न किञ्चिदस्ति यदेकमेकस्मात्साग्रया नेककार्योदयः । कथन्तहयंनेकमेकस वित्युच्यते । सामग्रीद्वयान्तर्भूतमेकमने के कार्य जनयतीति तथा व्यपदेशः । य प्रदीप एक एवानेकस्य दर्शनस्य जनकः। अनेकपुरुषानेकसमनन्तरसामग्रीसङ तत्वात् । यथा चैकस्यानेकशक्तियोगस्तथानककार्ययोगोपि तस्मादनकका स्वमनेकशक्तिताम्विनापि । एवन्तहि यथैकमनेककार्य तथकापि बुद्धिः स्वविषा च बुद्धि परार्थविषयाञ्च जनयिष्यति (1) तत्र (c. 140) कदाचिद्धिविष बुद्धिः कदाचिदर्थविषयेति विषयान्तरसंचारः । न। विशेषाभावादुभयं सर्वद जनयेत् । जन (य)त्येवेति चेत् । तन्न यतः । तदा । अर्थ पूव्वश्च विज्ञानं गृह्णीयादि धीः परा। पूर्वापराथभासित्वाच्चिन्तादायकचेतसि । (५३५) अभिलापद्वयं नेष्टं स्याद्(ह) क्रममक्रमं । द्विढिरकञ्च भासेत भासनादात्मद्विदोः । (५३६) यदि वा द्वयं पूर्वबुद्धिप्राहि रूपाद्यर्थग्राहि चोत्पत्तिमत्तदा पूर्वबुदृयर्थ परस्य चार्थस्य प्रतिभासनादभिलापद्वयं यत्क्रमवदुपलभ्यते तदक्रमं प्रतिभासेत् नहि बुद्धिरर्थग्रहणरूपतां विना प्रतिभासते । तद्रूपत्त्वात्तस्याः । अर्थग्रहणप्रतिभारं चार्य एवं प्रतिभासित इति। पूर्वापराभिलापद्वयं प्रतिभासेत्। तथैकमेव द्विद्धि रवभासेत् । अर्थस्यात्मनस्तबुद्धश्च प्रतिभासनात् । पूर्वन्तावत्स्वयं प्रतिभाति पश्चात्तवृद्धिप्रतिभासने ततो द्विप्र'तिभासनं । अथार्थप्रतिभासानन्तरं बुद्धि गृहयते । न बुद्धिः प्रत्यक्षेण स्वेन परेण वा गृहयते । अर्थापत्त्यापि तहि यदि प्रति भासते। तदापि भासनमात्मतद्विदोरिति स एव प्रसङगः । अथ कालान्तरपत्ति हि तत्सन्ततानेकार्थग्रहणक्रमकाले कश्चिदर्थापत्तिमनुभवति । नैतबस्ति।
१७-युद्धपुत्पावः [ १५७ तदान सामर्थ्यात्प्रतिपत्तिश्चेत्सर्वदा स्यान वान्यदा । ततोर्थापत्तिसम्वित्तौ शतकृत्त्वो हि भासनं । अथ यदा स्वबुद्धीः संगणयति तदा कालान्तरेऽर्थापत्त्युदयः (c. 140b)। तदापि न तदा किञ्चित् दृष्टमस्ति यतो भवेत् । अर्थापत्तिरतीतत्त्वादापत्तिकृतस्तदा । अतीतमर्थदर्शनं कथं ततोऽर्थापत्तिसम्भवः। कालान्तरेपि स्मर्यमाणादर्था- पत्तिरिति चेत् । स्मरणस्यवार्थापत्त्यावगमो नानुभवस्य । तत्रापि स्यादभिलापद्वयम् द्विरवभासनञ्च । अथाननुभूतं न स्म"यते (1) ततोनुभवगतिरिति चेत् । तन्न । अनुभूतं मयेत्येव म्मरणस्य प्रवर्त्तने । बुद्धिरासीन्ममेत्येवमर्थापत्तेरसम्भवः । यद् स्मरामि पूर्वसम्वेवनस्येति स्मरणमेव प्रथमम्बुद्धौ प्रवर्तते । पूर्वमर्थापत्तिमपि पश्चादिति कुतः स्मरणसम्भवः । यदाप्यर्थस्य स्मरणं तदापि स्मरणस्यानुभवस्य चानुमानमिति स्मरणानुभवाकारयोर्युगपत्प्रति भास- प्रसङगः । तथा च स्मरणकापि स्पष्टाकारवेदनप्रसडागः । अथास्पष्टाकार- द्वयवेदनं तदपि न दृष्टमेवेत्यपरिहारः। अथ यस्य यदेष्यते तदा तस्यार्थापत्तिर्यतः स्मरामि ततोनुभूतं यतः यतः स्मरणं ततोनुभव इति वा। एवन्तहि यतोनुभवस्त- तोनुभव इति स्यात् वाचो युक्तिः। तथा यतः स्मरणन्ततः स्मरणमिति मह- प्रमाणकौशलं । इच्छा चानुभूते जायते । न चानुभवः कदाचिवननुभूत इति कथ- मिच्छयापत्तिवियात्। तस्मावसदेव बुद्धघन्तरेण बुद्धिवेदनम् ॥ अथ(-) विषयान्तरसञ्चारे यद्यन्त्यं नानुभूयते । पगनुभूतिवत्सर्वाननुभूतिः प्रसज्यते ।। (५३७) विषयान्तरसञ्चरणकाले हि (c. I41a) यचन्यं विषयान्तरसंचारकाला- त्पूर्व विज्ञानं विज्ञानप्रबन्धस्य । तदा सर्वाननुभूतिः परानुभूतवद् भवेत् । अननुभूतानुभवस्यानुभूतत्त्वाभावात्परानुभूतवत्। ततोऽन्त्याननुभवात्तत्पूर्वकाननु- भूतिविवादिभूतस्या. पि यथा परानुभवेपि तदनुभूत एव स्यायेनानुभूतत्वा- बन्येनाननुभवः। तथा स्वयमनुभूतपि तत्तु पुनरर्थस्य स्वरूपं परापेक्षयापि तयेति कयमनुभवः। नन परानुभवे स्वयमनुभवे स्वयमननुभवात्परस्यानुभवो यथा व्यवस्थाप्यते तथा परेणाननुभवे स्वस्यानुभव इति व्यवस्थाप्यतां ।
१५८ ] वार्तिकालंकारः (३३५३९) तवसत् । व्यवस्थाप्यतां यदि प्रमाणमस्ति । यथा तु परेणानुभूतं नात्मप्रत्या न च परस्येति व्यवस्थापयितुं शक्यम् । तथात्मप्रत्यक्षाभिमतमपि नात्मनः परस्यों वा व्यवस्थापनामर्हति । नन्वर्थः स्वरूपेण प्रतीयते तत्कथमप्रत्यक्षता। नहयन्यस्मिन्नप्रतीयमा ऽन्यवप्रतीतं नाम। सत्यं प्रतीयते । स्वयमेव प्रतीयतां । आत्मना प्रतीयते सोपि स्वयमेव प्रतीयता ततः स्वसम्वेदनमेव । अथात्मा कर्तृतया प्रतीयते (1) न (1) शरीरव्यतिरेकेणात्म भावात् । शरीरस्य कर्तृता (c. 141b) चेत् । न. शरीरस्यापि कर्मत्त्वात् यस्मावसत्स्वसम्बेदनं शरीरादीनां । स्वसम्वेदनत्त्वे वाऽविवाद एव । रसम्वेदनमिति चेत् । आत्मनः स्वसम्वेदने तेनार्यानुभवे तावता पर्याप्तमि यथिका बुद्धिः । तत एवाह। आत्मानुभूतं प्रत्यक्षं नानुभूतं परैर्यदि । आत्मानुभूतिःसा सिद्धा कुता येनैवमुच्यते । (५३८) आत्मनोनुभूतिरस्तीति कुतः। अन्येनानुभूतौ परात्मासौ न भवतीति कुत स्वसम्वेदनेनानुभवे स्वसम्वेदनसिद्धिरेवेत्यविवाद एव । तस्माद स्वसम्बन सर्वाननुभूतिप्रसङ्गः। मनु चक्षुरादिकेनाननुभूतेपि चक्षुरादिनानुभूतमिति भवति व्यवहार तयात्मसम्वेदनाननुभवेपि किन्नेष्यते। अत्रोच्यते। व्यक्तित्वप्रसिद्धिःस्यान व्यक्तंव्यक्तिमिच्छतः । व्यत्तथसिद्धावपि व्यक्तं यदि व्यक्तमिदं जगत् ।। (५३९) व्यक्तिहेतवो हि चक्षुरादयस्तेषामसिद्धावपि नाव्यक्ततार्थस्य व्यपि व्यक्तत्वात् । अस्मच्चक्षुर्व्यक्तमिति कथमस्मत्सम्बेबनजनकत्वादस्मच्चारि व्यपदेशः। सम्वेदनस्य तु स्वसम्वेदनादेवास्मत्त्वं। तस्यापि सम्वेदनस्यास्वसर बनेनात्मसम्बन्धित्वेन किञ्चित्प्रतिपत्रमिति स्वरूपमात्रेण व्यक्तत्वे सकलं व्य जगज्जायतेत्यतिसमप्रसगः। ननु यत्र व्यक्तित्त्पन्ना तयक्तमिति कय मतिप्रसङ्गः (c. 142a)। व्यक्तेरुदयमात्रेण व्यक्तं यदि तदाश्रितं (1) अस्य व्यक्तेरितीदन्तु न सम्बन्धविनाकृतं ।। तस्मात्स्वरूपमात्रेण सर्वस्य व्यक्तता भवेत् । अथ तद्रूप एवार्थः स्वसम्वेदनमुच्यतां । प्रमाणबार्तिकानकारे प्रत्यक्षपरिच्छेदो द्वितीयः ॥ *प्रमाणवातिककारिकाया अयमेव तृतीयः परिच्छेदः ।
No text on this page.
भारतीय ज्ञानपीठ प्रन्यागार काशी
पहाताहित विधिको पुकापसे की गई थी।
१५दिनके अन्दर वापस भाजानी चाहिये।
भारतीयशनपीड प्रन्यामार, काशी।