Ramkrishna Mission Institute Of Culture, Golpark
Padma Puranam Vol. 2
Front matter
No text on this page.
No text on this page.
No text on this page.
KRISHNA MISSION RS.INE
WHI04.CUTI
A3801
*तत्सहमणे नमः।
महामुनिश्रीमद्यासप्रणीतं
पद्मपुराणम्।
तत्र तृतीयं ब्रह्मखण्डं चतुर्थं पातालखण्डं चेत्येतद्यरूपो द्वितीयो भागः)
एतत्पुस्तकं कै० श्री० रावसाहेब मण्डलीकेत्युपनामधारिभिः
विश्वनाथ नारायण इत्येतैः
महता परिश्रमेण बहुतराणि पुस्तकानि मेलयित्वा
सपाठान्तरनिर्देशं संशोधितम् ।
तच्च
महादेव चिमणाजी आपटे
इत्यनेन
पुण्याख्यपत्तने
आनन्दाश्रममुद्रणालये
मायूसाक्षरैर्मुद्रयित्वा
प्रकाशितम् ।
L'DIARY
शालिवाहनशकान्दा
खिस्ताब्दाः
अस्स सर्वेऽधिकारा रामशासनाकापरेण स्वायत्तीकृताः)
मूल्य समयअन्यस्य चतुर्विवतिः।
No text on this page.
अथ पद्मपुराणान्तर्गताध्यायविषयानुक्रमः । तत्र तृतीयं ब्रह्मखण्डम् । ". . , १ ... ... ... ११ ... ... ... प्रति शौनकस्य कलिकाललब्धजन्मजनोद्धरणो- पायनिरूपणप्रश्नः, सूतशौनकसंवादारम्भः, व्यासजै- मिनिसंवादारम्भः, हरिभक्तिवर्णनम्, विष्णुभक्त- महिमवर्णनम्, वैष्णवलक्षणनिरूपणम् समिनिसंवादे हरिमन्दिरलेपनमार्जननियममहिम- वर्णनप्रसङ्गेन दण्डकाख्यचौरचरित्रनिरूपणम् मिमिनिसंवादे-कार्तिकमाहात्म्यारम्भः, कासकव्रतविहितविविधनियमनिरूपणम् , दीपदा- भमाहात्म्यवर्णनप्रसङ्गेन वैकुण्ठाख्यविप्रचरितम्, बोधनोत्थपुण्येनाखोरुद्धरणम् संवादे-जयन्तीव्रतमहिमवर्णनारम्भः, नीषट्कनिरूपणम् , जयन्तीव्रतपुण्यफलवर्ण- जयन्तीव्रतकर्तृणां पूर्वेषां नामानि, जयन्ती- भोजननिषेधः, जयन्तीव्रतस्य व्रतकर्तृणां च म्यवर्णनम् ब्रह्माणं प्रति स्त्रीणामपुत्रात्ववन्ध्यात्वदु- स्त्वनपुंसकसंततित्वमृतवत्सात्वदोषप्राप्तिका- त: सुपुत्रप्राप्तिसाधनप्रश्नश्च, पूर्वजन्म- विधदुष्कर्मविपाककथनम्, तत्प्रसङ्गेनापुत्रस्य नाम्रो द्विजस्य चरितनिरूपणम् णयोर्मन्दिरदानमाहात्म्यवर्णनम्, हरिमन्दिर- पदानमाहात्म्यवर्णनप्रसङ्गेन वारनारीचरित- णम्... माष्टमीमहिमवर्णनम्, राधाष्टमीव्रतप्र- कलावतीनाम्न्या वारनार्याः समुद्धारः, सताष्टम्यां वृषभानुयज्ञभूमौ राधाजनननि- . ... ऐरावतादीनां जन्म, द्वादश्यां प्रातर्महालक्ष्मीप्रादुर्भावः, अलक्ष्म्युद्दालकविवाहानन्तरं विष्णुना महालक्ष्मीप- रिणयनम्, पीयूषोद्गमः, विष्णुना मोहिनीरूपधार- णम्, विष्णुना राहोश्चक्रेण शिरःकर्तनम् , चन्द्रसूर्यो- परागे नानदानादिपुण्यफलवर्णनम्, समुद्रमथन- २ कथासमाप्तिः शौनकं प्रति सतेन मार्गसितगुरुवासरे कर्तव्यलक्ष्मीप्राप्ति- कर गुरुवारव्रतनिरूपणम्, तत्प्रङ्गेन भद्रश्रवसो राज्ञस्तदुहितुः श्यामबालायाश्चरित्रनिरूपणम् ३ ब्राह्मणप्राणरक्षणजनितपुण्यमहिमवर्णनप्रसङ्गेन दीनना- थराज्ञश्चरितनिरूपणन्, दीननाथेन गालवं प्रति पुत्र. प्राप्तिसाधननिरूपणप्रश्नः, गालवेन दीननाथराज्ञो नरमेधयज्ञनिरूपणम् ... कृष्णजन्माष्टमीव्रतमाहात्म्यवर्णनम्, दिलीप- वसिष्ठसंवादे श्रीकृष्णजन्मकथनम्, संक्षेपतः श्रीक- णबाल्यचरितनिरूपणम्,जन्माष्टमीशास्त्रार्थः, चित्र- सेनराज्ञश्चरितनिरूपण, जन्माष्टमीव्रतप्रभावाचि- त्रसेनोद्धारः ब्राह्मणमहिमवर्णनम्, विप्रपादोदकमहिमवर्णनप्रसङ्गा- ५ भीमनाम्नः शूद्रस्य चरितवर्णनम् ... एकादशीमाहात्म्यवर्णनम्, एकादश्यामनभ- क्षणे महादोषवर्णनम् , एकादशीशास्त्रार्थः, एकाद. शीमाहात्म्यवर्णनप्रसङ्गेन वालभाख्यवैश्यस्य तत्पल्या. महारूपानाम्न्याश्च चरित्रनिरूपणम् पौर्णमास्यां विष्णुपूजनव्रतम्, आश्विनपौर्णमास्या कि ष्णवे लाजादिसमर्पणमहिमवर्णनम्, तत्प्रसोन काल. द्विजाख्यशूद्रचरितनिरूपणम् दे हरिचरणवारिमहिमवर्णनम्, तत्प्रस- ऊन सुदर्शननानो विप्रस्य चरितनिरूपणम् सूतशौनकसंवादेऽगम्यागमनजनितदुरितवारणप्रायश्चि- तवर्णनम् सतशौनकसंवादेऽभक्ष्यभक्षणप्रायश्चित्तनिरूपणम् कार्तिकमाहात्म्यारम्भः, कार्तिके विविधनिय- ... ... ... ... ... ... ६ ... ... ... ... ... ... .. संवादे-समुद्रमथनकथारम्भः, दुर्वाससः शापः, विष्ण्वाज्ञया देवानां समुद्रम- क्रमः हरिणा गिरेरुद्धरणम्, कालकूटविषोद्भवः, विषप्राशनम्, अलक्ष्म्या उत्पत्तिर्देवैस्तस्यै तिस्थानप्रदानं च ... .. ... ... ... ९ - .... .... २ २ पद्मपुराणान्तर्गताध्यायाना- मनिरूपणम् , कार्तिके राधादामोदरार्चनमहिमवर्ण- दण्डकराख्यचौरोद्धरणम्, कार्तिकमाहात्म्य- नम् , तत्प्रसङ्गेन शंकराख्यवृषलस्य तत्पन्याः कलि. समाप्तिः प्रियायाश्चरित्रनिरूपणम् ... २० सूतशीनकसंवादे नानाविधदाननिरूपणं तत्फलनिरूपणं च कार्तिकमासव्रतविधिनिरूपणं नानाविधनियमनिरूपणं च २१ सनत्कुमारनारदसंवादे हरिनाममहिमवर्णनं नामापराध- तुलसीधान्योमहिमनिरूपणम् , तुलस्यामुदकसेचनप्रस निरूपणं च, पुराणश्रवणफलनिरूपणम् न कस्यचिद्राह्मणस्योद्धारः २२ सतशौनकसंवादे प्रतिज्ञापालनपुण्यफलवर्णनं प्रतिज्ञाख- विष्णुपञ्चकाख्यकार्तिकान्त्यदिनपञ्चकमहिमवर्णनम् , त- ण्डनदोषवर्णनं च, तत्प्रसङ्गेन सुन्दराभिधचरितनि- द्विहितविविधनियमनिरूपणम् , विष्णुपश्चकप्रभावा रूपणम्, एतत्खण्डश्रवणफलम् ... अथ चतुर्थ पातालखण्डम् । ... १ सूतशौनकसंवादः, वात्स्यायनस्य शेषं प्रति गमचरित- निवेदनप्रश्नः, रामाश्वमेधचरित्रप्रारम्भः, रावणवधानन्तरं रामस्यायोध्यायां लडातः पराव. निम्, भरतस्थ तरणिं प्रति रामपरावर्तनविषयिका प्रार्थना, ससीतेन रामेण भरतावासनन्दिग्रामदर्शनम् स्वागमनवृत्तनिवेदनाय राघवप्रेषितस्य हनुमतो भरत- सकाशमागमनम् , श्रीरामभरतसमागमः, पुष्पका- रुढस्य सभरतस्य रामस्यायोध्यायामागमनम् रघुनाथस्यायोध्यायां प्रवेशनम् , मातृदर्शनम् , गमागम- परितुष्टपौरकृतमहोत्साहवर्णनं पौराङ्गनानां संवादश्च रामवियुक्तायाः कौसल्याया विलापवर्णनम् , पुरीप्रवे. शानन्तरं मातॄणां दर्शनम्, राममातृणां संवादः, सुमुहुर्ते रघुनाथराज्याभिषेकः देवकृतरामस्तुतिनिरूपणम् , रामेण देवेभ्यो वरप्रदानम, रामराज्यस्थितिवर्णनम्, रामेण सीतायास्त्यागः, रामसंसदि कुम्भजन्मनः समागमः रामकृतोऽगस्ति प्रति कुशलप्रश्नः, श्रीरामपृष्टेनाग- स्तिनातं प्रति रावणकुम्भकर्णविभीषणानां जन्मकथ- नम् , कुबेरजन्म, पुष्पकारूढं धनदं दृष्ट्वा रावण- मातू रावणादीनां निर्भर्त्सनम्, मातृसमीपे रावणा- दिप्रतिज्ञातनिरूपणम्, रावणादर्शनामुप्रतपःपरितुष्टस्य ब्रह्मणो वरप्रदानम् , ब्रह्मलोके रावणाक्रान्तविबुधगमनम् , तैः सह ब्रह्मणः कैलासगमनम् , विबुधसंघसहितयाब्रह्मशिवयोर्वेकु- ष्ठगमनं विष्णुस्तुतिश्च, स एव स्वं विष्णुरवतीर्ण इति राम प्रति कुम्भजन्मनो निरूपणम्... रावणादिविप्रहनमजनितब्रह्महत्यादोषभीतिपरिखिन राम प्रत्यगस्तिनाश्वमेधकरणाय प्रेरणम् , रामेणा- गस्ति प्रति हयमेधविधिनिरूपणप्रश्न: राम प्रत्यगस्तिनाऽश्वमेधयोग्याश्वलक्षणनिरूपणम् , अ- गस्तिना रामाश्रशालावलोकनमश्वमेधयोग्याश्वपरी- क्षणं च, हयमेधार्थमाकारितस्यर्षिवृन्दस्याऽऽगमः, समागतानृषीन्प्रति वर्णाश्रमधर्मनिरूपणविषये प्रश्नः, ऋषिभी रामं प्रति वर्णाश्रमधर्मनिरूपणम् सर्षिसंघस्य रामस्य यज्ञमण्डपागमनम् , रामेण यज्ञदी- क्षाग्रहणम् , दिग्विजयार्थ ससैन्यस्य यज्ञीययस्य सजीकरणम् , स्वर्णपत्नीसहितस्य रामस्य वसिष्ठा- दिभिः सह कुण्डमण्डपादिकरणम् , अश्वमस्तकस्यो. परि स्वमुद्राङ्कितहाटकपत्रबन्धनम् , हयरक्षणार्थ रामस्य शत्रुघ्नं प्रति गमनायाऽऽशा, प्रयाणसमये शत्रुघ्नं प्रति रामस्योपदेशः शत्रुघ्नसमागमे इयरक्षार्थ पुष्कलादीनां प्रेषणं हनूमन्तं प्रति मार्गे शत्रुघ्ररक्षार्थ रामस्योपदेशश्च, शत्रुघ्नेन प्रयाणाय मात्राज्ञाग्रहणम् , राम प्रति जानकीना. तुर्लक्ष्मीनिधेविनोदपरसंभाषणम्, प्रयाणसमये शत्रु- प्रस्य शुभशकुनदर्शनम् , प्रयाणसमये भार्यागृहे पुष्कलस्याऽऽगमनम् , पुष्कलस्य भार्यों प्रति सद- र्तनोपदेशः, पुरात्सपरिवारहयनिर्गमः पुष्कलपन्यास्तं प्रत्युपदेशः, पुष्कलस्य शत्रुघ्नकटका- गमनम्, ससैन्यस्थ सहयस्य शत्रुघ्नस्याहिच्छत्रा- पुर्यामागमनम्, अहिच्छत्रापुरीवर्णनम्, कामाक्षा- चरितारम्भः, सुमन्त्रेण शत्रुघ्नं प्रति कामाक्षा- चरितनिवेदनप्रसङ्गेन सुमदराजश्चरित्रनिवेद- नम् , मुमदतपश्चर्यावर्णनम् , सुमदतपोभङ्गार्थ श- केण कामं प्रति प्रेषणम् , कामस्येन्द्रं प्रति गर्वोक्तिः, कामस्य रम्भया सह सुमदतपोवनगमनम् , अप्स. रासुमदयोः संभाषण, रम्भाकामयोलहानिः, सुमदस्य कामाक्षादर स्तुतिश्च, कामाक्षावरदानम् , सुमदशत्रुघ्नसमागर शत्रुमस्याहियछत्रापुरीप्रवेशः, सुमदेन रामानुज ... ... ... ... ...
... ... .. १४ ... ... ... ... ... मागमः ... ... ... ... ... ... ... . ... विषयानुक्रमः । स्विसमर्पणम् १३ निधिसुकेत्वोयुद्धवर्णनं तयोर्गदायुद्धवर्णनं च, सुके- त्रुघ्नसंवादः, सुमदचरित्रसमाप्तिः, सहयस्य तर्विधः त्रुघ्नस्य च्यवनाश्रमागमनम्, च्यवनसुक- चित्राङ्गपुष्कलयोयुद्धवर्णनम्, चित्राङ्गवधः चित्राङ्गवधाद्राज्ञः पुत्रशोकवर्णनम्, सुबाहुहन्मयुद्धव- चरितनिरूपणम् , र्णनम्, मछितस्य सुबाहुराज्ञः स्वप्ने रामदर्शनम्, 'न स्वप्रियाप्रियपुरणाय विमाननिर्माणम् , विमा- शत्रुघ्नविजयः, सुबाहुशत्रुघ्नसमागमः २८-२९ वर्णनम् , सुकन्यासहितस्य च्यवनस्य तपोभोगव- सहयस्य शत्रुघ्नस्य तेजःपुरागमनम्, ऋतम्भरा- नम्, १५ ख्यभूपाख्याननिरूपणम्, जनकोपाख्यान- सुकन्यासंवादः, शर्यातियज्ञारम्भः, यज्ञे च्यव- निरूपणं तेन नरकस्थप्राणिमोचनर्णनं च श्विनीकुमाराभ्यां भागदानम् , च्यवनेन वज्र- जनकस्य नरकदर्शनकारणनिरूपणम् , जाबालिना ऋत- हारिणो मघवतो भुजस्तम्भनम् , शांतियज्ञस- म्भराय गोपूजाविधिनिवेदनम्, ऋतम्भरर्तुपर्ण- प्तिः, हयस्य च्यवनाश्रमागमनम् , हयावलोक- योः समागमः, रामनामस्मरणप्ताय राज्ञे धेन्वा नन्तरं च्यवनाश्रमगतमुनिन्दकृतरामप्रशंसावर्ण- वरप्रदानम् इ, शत्रुघ्नेन हनुमद्वारा रामदर्शनार्थ यज्ञमण्डपे सत्यवदाख्याननिरूपणम्, शत्रुघ्नसत्यवत्स- वनमुनिप्रेषणम्.. स्य वाजीपुरागमनम् , वाजीपुराधिपेन रावणमुहृदा विगुन्मालिनाऽश्वापहरणम्, विद्युन्मालीयु- मलराज्ञा शत्रुघ्नाय सर्वस्वार्पणम् , नीलपर्वतागम- द्धवर्णनम्, विगुन्मालिनो वधनिरूपणम् { , शत्रुघ्नस्य सुमतिमन्त्रिणं प्रति कोऽयं गिरि- हयस्याऽऽरण्यकर्षेराश्रमागमनम्, आरण्यकर्षेगख्यान- ते प्रश्नः, नीलगिरिमाहात्म्यनिरूपणम् , सुम- निरूपणम्... ना शत्रुघ्नं प्रति नीलपर्वतमहिमवर्णनप्रसङ्गाद्रत्न- लोमशेनाऽऽरण्यकाय तिथिवासरक्रमेण रामचरित्र. वराज्ञश्चरितनिरूपणम् , निरूपणम् ... वं प्रति केनापि विप्रेण नीलगिरिमाहात्म्यनि- आरण्यकमुनेः सायुज्यमुक्तिप्राप्तिकथानिरूपणम् रणम् , नीलगिरिवासपण्याच्चतुर्भुजत्वप्राप्तिकार नर्मदाह्रदेऽश्वनिमजनम्, यमुनाहदे शत्रुघ्नाय मोहनास्त्र. नेरूपणम् १० विद्याप्राप्तिः, यमुनाहदे वाहप्राप्तिः ... रियात्राविधिनिरूपणम् , नीलगिरियात्रायां स- वाहस्य देवपुराख्यवीरमणिनगरं प्रत्यागमनम् , वीरमणि- रस्य रत्नग्रीवस्य गमनम् १९ पुत्रेण हयग्रहणम्, शिववीरमणिसंवादः लग्रीवयोः संवाद गण्डकीमाहात्म्यवर्णनं शालि- शत्रुघ्नाय सुमतिना वीरमणिचरितनिरूपणम्, सैन्यद. मशिलामाहात्म्यनिरूपणं च, पुल्कसाख्यशबरच यस्य युद्धोपक्रमः तनिरूपणम् २० रुक्माङ्गदपुष्कलयोर्युद्धवर्णनम्, पुष्कलविजयः... ४१-४२ वेण नीलगिर्यवलोकनम्, रत्नप्रीवकृतं पुरुषोत्तम वीरभद्रपुष्कलयुद्धम्, पुष्कलवधः, वीरभद्रशत्रुघ्नयुद्धम्, त्रम्, केनापि संन्यासिना रत्नग्रीवं प्रति श्वो शत्रुघ्नपराजयः विष्यति पुरुषोत्तमदर्शनमिति निरूपणम्... २१ हनूमाच्छिवयोर्युद्धानरूपणम्, शिवेन हनुमन्तं प्रति विण पुरुषोत्तमावलोकनं पूजनं च, रत्नग्रीवकृता वरदानम्, हनूमता द्रोणाचलानयनम् , मार्गे हनूमद्दे. षोत्तमस्तुतिः, रत्नग्रीवाय चतुर्भुजत्वप्राप्तिर्वैकु. वयुद्धम्,मृतसंजीविन्यौषधीलाभस्तस्या रसेन सर्वे प्राप्तिश्च, नीलगिरिमाहात्म्यश्रवणपठनफलनिरू- जीवनं च, शत्रुघ्नस्य शिवात्पराजयः, शत्रुघ्नकृत- गम्, नीलपर्वतनिकटे हयगमनम् २२ शोकः, रणे श्रीरामागमनम् [सुबाहुराज्ञश्चकाङ्कनगरागमनम्, सु. श्रीरामशिवसमागमः, श्रीरामदर्शनात्सर्वेषामानन्दवर्णनं त्रण दमनाख्येन हयावलोकनं प्रतिबन्धनं च, हयप्रस्थानं च ४५-४६ तापाग्यदमनयोयुद्धवर्णनम्, दमनेन प्रतापा हयस्य हेमकूटं प्रति गमनम्, सत्र हयगात्रस्तम्भः, यवधः २३ शत्रुघ्नशौनकसमागमः शौनकमुनिना- हयस्तम्भ- कलयोयुद्धनिरूपणम्, पुष्कलविजयः... कारणनिवेदनम् सैन्यस्य सुवाहोयुद्धायाऽऽगमनम्, सुबाहुसेनाप- शत्रुघ्नं प्रति शौनकेन मुनिना विविधकर्मविपककथनम् ना क्रौश्चन्यूहकरणम् हयस्य स्तम्भनान्मक्तिः मन्त्रिणा शशुभं प्रति सुबाहुबलनिरूपणम्, लक्ष्मी- सुरयस्य कुण्डलाख्ये नगरे हयगमनस, ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... २४ ... ... ४९ ... .. ... ... ... ... ... ... ... ... ... ... ... ... ४ पद्मपुराणान्तर्गताध्यायाना- सुग्थेन हयग्रहणम्, सुरथराज्यस्थितिवर्णनम् , सुर सुमत्रिणा रामाय हयनिर्गमनात्परावर्तनपर्यन्तं संगा- थचरित्रनिवेदनम्... तस्य वृत्तस्य निरूपणम् ... शत्रुघ्नेन सुरथं प्रति दूतप्रेषणविचारः,अगदस्य प्रेषणम् रामवाल्मीकिसंवादः, सीतानयनाय लक्ष्मणप्रेषणम्, सुरथादसंवादः ... सीतालक्ष्मणसंवादः, सीतादेशालवकुशयोर्लक्ष्मणेन चम्पकपुष्कलयोर्युद्धवर्णनम्, पुष्कलबन्धनम्, चम्पकह सहायोध्यायामागमनम्, वाल्मीकाज्ञया कुशलवाभ्यां . नमयुद्धम्, चम्पकपराजयः, पुष्कलमोचनम्... ...५१ रामचरित्रगानम्, स्वपुत्रज्ञानाद्रामेण तयोः स्वाङ्का- सुरथहनूमत्संवादः, हनूमत्सुरथयोस्तुमुलयुद्धनिरूपणम्, रोपणम्, रामायणनिर्माणकारणनिरूपणप्रसङ्गाद्वा- सुरथेन हनूमन्तं प्रति श्रीरामास्त्रेण बन्धनम्, सुरथ. ल्मीकिपूर्वचरितनिवेदनम्, रामेण सीतास्मरणम्... पुष्कलयुद्धम्, सुरथशत्रुघ्नयुद्धवर्णनं शत्रुघ्नपराजयश्च सीतानयनाय वने पुनर्लक्ष्मणगमनम्, लक्ष्मणेन सह सुरथविजयः सीतागमनम्, रामसीतासमागमो यज्ञारम्भश्च, रामा- सुग्रीवसुरथयोस्तुमुलयुद्धनिरूपणम्, रामास्त्रेण सुप्रीवब श्वमेधयज्ञवर्णनम् न्धनम्, सुरथेन रामपक्षीयाणां सर्वेषां बन्धनं कृत्वा रामावभृथस्नानवर्णनम्, रामाश्वमेधसमाप्तिः, रामा. नगरे नयनम्, बन्धनतः स्वमुक्तये हनुमत्कृतराम श्वमेधचरितपठनश्रवणफलनिरूपणम् स्तवः,श्रीरघुनाथागमनम्, सुरथरामसमागमः, सर्वेषां मोचनम्, वाल्मीकेराश्रमं प्रति हयगमनम् ५३ श्रीकृष्णचरितारम्भः, वृन्दावनादिषोडशदलात्म- लवेनाश्वबन्धनम्, हयरक्षकभुजकृन्तनम् कश्रीकृष्णक्रीडाकिअल्कनिरूपणम्, वृन्दावनादि- ५४ श्रीकृष्णक्रीडास्थलवर्णनम्, श्रीकृष्णसौन्दर्यवर्ण- शेषप्रश्नाद्वात्स्यायनेन सीतात्यागचरितनिरूपणम्,राम- सीतासंवादे दोहदवर्णनम्, रात्री रामकीर्तिभवणार्थ नम्, वृन्दावनमाहात्म्यवर्णनम् श्रीकृष्णपार्षदगणनिरूपणम्, ऋषीणां गोपीत्वप्राप्ति नगरे चारगमनम्,... ५५ कारणनिरूपणम्, ऋषीणां जन्मान्तरीयपुण्यवर्णनम्, रामाय चारै रजकदुरुक्तिनिवेदनम्, रामस्य भावि- सीतावियोगजनितम वर्णनम्, रामभरतसंवादः राधामाहात्म्यनिरूपणम्, राधाकृष्णनिकटस्थानेक- गोपीवर्णनम्, गोपिकागणमध्यस्थपरब्रह्मश्रीकृष्ण. सीताया रामवियोगात्मकशापकारणनिरूपणम्, रजक- स्वरूपवर्णनम् पूर्वजन्मचरितनिरूपणम्,... वृन्दावनमथुरादिक्षेत्रमाहिमवर्णनम् , वेणुवृक्षोत्पत्तिकथ- भरतायाऽऽज्ञाकरणानन्तरं शत्रुघ्नाय सीतात्यागार्थमाज्ञा. नम् , गोपानामुत्पत्तिकथनम् करणम् , शत्रुघ्नरामसंवादः,लक्ष्मणाय सीतात्यागार्थ- प्रधानश्रीकृष्णवल्लभानां वर्णनम् माज्ञाकरणम् , दोहदपूर्तिमिषेण सीताया वनगमनम, मथुरावृन्दावनमहिमवर्णनम् .. वने जानक्या गङ्गादर्शनम् ५८ अर्जुनस्य राधालोकदर्शनं स्त्रीत्वप्राप्तिश्च सीतालक्ष्मणसंवादः, लक्ष्मणेन वने त्यागः सीतायाः, नारदस्य राधालोकदर्शन स्त्रीत्वप्राप्तिश्च सीताशोकनिरूपणम्, सीताया वाल्मीकैराश्रमं प्रति संक्षेपतः कृष्णचरितवर्णनम् ( असावध्यायोऽत्राप्रास- गमनम्, वाल्मीकिना सीतायाः सान्त्वनम्, कुशल- निकोऽस्त्यवलोकनमनीषा चेदवलोकनीयः ) वजन्मनिरूपणम् ... श्रीकृष्णतीर्थानां वर्णनम्, श्रीकृष्णरूपगुणवर्णनम् शत्रुघ्नसेनानिनः कालजिदाख्यस्य लवस्य च युद्धवर्ण- नम्, कालजित्सेनानिनो मरणनिरूपणम्... शालग्रामनिर्णयनिरूपणम् शालग्राममहिमवर्णनम्, वैष्णवानां तिलकविधि निरूण. लवपुष्कलयोर्युद्धवर्णनम्, हनुमन्यवयोः संग्रामः, मूछि- वैष्णवानां विविधनियमनिरूपणम् .. तस्य हनूमतो रणे पतनम् कलिसंतार कहरिनाममहिमनिरूपणम्, शत्रुघ्नलवयोस्तुमुलसंग्रामवर्णनम्, लवमर्छनम् हरिपूजाविधिः निरूपणम्... लवपतनात्सीताशोकः, कुशस्य वनादाश्रमागमनम्, शत्रुनकुशयोः संग्नामः, शत्रुघ्नमर्छनावृत्तनिरू- श्रीकृष्णमश्रदीक्षाविधानम्, मत्रशब्दार्थनिरूपणम् विस्तरेण मदीक्षाविधिकथनम् पणम् कुशस्य हनुमत्सुप्रीवाभ्यां सह संग्रामवर्णनं तयोर्बन्धन श्रीकृष्णस्य वृन्दावने दैनंदिनीयचर्यानिरूपणम्, तर प्रम च, कुशलवाभ्यां सीतायै युद्धवृत्तनिवेदन बद्धक- जेन राधाविलासादिवर्णनं श्रीकृष्णस्य राधामातेर पिप्रदर्शने च, सीताकृतमृतरामसैन्यसविनम, स्तनिर्मितानभोजननियमकारणवर्णन , बन्दा सीतादेशात्कुशलवाभ्यो शत्रुघ्पुरतो हयत्यागः वनमाहात्म्यसमाप्तिः श्रीकृच्नवरितस हयेन सह शत्रुघ्नादीनामयोध्यायां परावर्तनम्, सुमति. माप्तिश्च ... ५७ ... ... ... ... ... ... ५९ ... ... णम्, ... .. ... .. . ...
५ ... ... ... ... ... १०४ ... ... ... ... ... ... ... ... ८९ ... ९० ... ... ... १०७ ... ... ... ... विषयानुक्रमः। शाखमाहात्म्यारम्भः, वैष्णवधर्मकथनम्, र्णनप्रसङ्गेनाव्ययाचरितवर्णनम् १०२ विष्णुध्यानविवेचनम् ८४ श्यायुषेतिमात्रमहिमकथनं सोपाख्यानम् १०३ सम्बरीषनारदसंवादे-भक्तिलक्षणनिरूपणम्, माधव भस्मोत्पत्तिकथनम्, भस्मनिर्माणविधिकथनम्, भस्मा- मासमहिमवर्णनम् ... ८५] दानधारणपुण्यकथनम् विमासव्रतविधिनिरूपणम्, वैशाखस्नानमाहात्म्यव शिवलिङ्गार्चनमाहात्म्यवर्णनप्रसनेनेक्ष्वाक्काख्यविप्रचरि- मनम् ...८६-८७ त्रनिरूपणम्, शिवलिङ्गार्चननियमकथनम्. १०५ पिप्रशमनाख्यस्तोत्रमहिमवर्णनम्, तत्प्रसङ्गेन मुनिश अमिमुखाख्यशिवगणकथानकम्, अमिमुखवीरभद्रयोः ख्यिमुनिचरितनिरूपणम्, पापप्रणाशनस्तोत्रनि- संवादे कारादिकाख्यराज्ञः कस्याश्चिद्वेश्यायाश्च चरि- रूपणम् तनिरूपणम् सालमासे विविधव्रतनियमनिरूपणम् हरनाममाहात्म्यवर्णनप्रसङ्गेन विधृताख्यराज्ञश्चरितनि- ष्णुपूजाविधिकथनम् रूपणम् विमासे माधवपूजाजनितपुण्यमहिमवैभवनिरूपणम्, महेशनाममहिमवर्णनप्रसङ्गेन देवरातसुतायाः कलायाश्च- तत्प्रसनेन ब्राह्मणयमसंवादः रित्रकथनम्, गौरीकृतसोमवारव्रतनिरूपणम् , शिव- राह्मणश्मसंवादे नारकिणां पापनिरूपणं स्वर्गिणां पुण्य नाममाहात्म्यसमाप्तिः निरूपणं च, तीर्थमानपुण्यवर्णनं वैष्णवानां विवि पुराणश्रवणमहिमकथनं पौराणिकपूजाविधिकथनं च... १०९ धनियमवर्णनं च ...९२-९३ गौतमकृतशिवपूजावर्णनम्, गौतमगृहे वाणादिशिवभ- मणयमसंवादे वैशाखमासे विविधनियमव्रतनिरूप क्तानां समागमः, गौतममन्दिरे ब्रह्मविष्णुशिवादिदे.. णम्, माधवमासनानपुण्यमहिमवर्णनप्रसङ्गेन धन वानो समागमः, तत्र विष्णुशिवकृतजलक्रीडावर्ण- धर्माख्यविप्रचरितनिरूपणम् नम्, गौतममन्दिरे सर्वेषां देवानां भोजनम्, हनू- हरियराज्ञश्चरित्रकथनम् , महीधरकश्यपसंवादे वैशा मतः शिवभक्तिवर्णनम्, हनूमत्कृतशिवलिङ्गपूजा- सस्नानपुण्यवर्णनं विविधनियमकथनं च विधाननिरूपणम्, चतुर्युगधर्मनिरूपणम्, कलियुगे हधिरयमदूतसंवादे विविधपापपुण्यकथनम् दानमहिमवर्णनं हरिकीर्तनमहिमवर्णनं पुराणश्रवण- धरदत्तपुण्येन नारकिणां मुक्तिः . महिमविवरणं च, पुराणश्रवणपठनाधिकारिनिरूप- ध्याननिरूपणम्, वैशाखमाहात्म्यसमाप्तिः णम्, तत्प्रसङ्गेन गौतमाख्यविप्रचरितवर्णनम् पुरा- मेधयज्ञात्माग्जातरामचरितनिरूपणम- णश्रवणपठनकर्तृलक्षणानि, पुराणवाचनक्रमनिरूपणं विधिनिरूपणं च, पौराणिकसत्कारविवरणम्, भारत- मः, ब्राह्मणरूपिणः शिवस्य राममन्दिरागमनम्, श्रवणविधिकथनं माहात्म्यकथनं च, पुराणसंख्या- रामेण विभीषणबन्धनवार्ताश्रवणम्, पौराणिकलक्ष कथनं महापुराणोपपुराणनामकथनं च, ... ११०-११' निरूपणम्, अष्टादशपुराणनिवेदनम्, पुराणश्रोतृव श्रीरामजाम्बवत्संवादे पुराकल्पीयगमायणकथनम् तृनियमकथनम्, पुराणश्रवणविधिनिरूपणं च, पु. न्यायार्जितधनसंपादितदेवपूजादिधर्मपुण्यमहिमकथन- गावसरे शकुनदर्शनम्, रामेण विभीषनमोचनम्, प्रसङ्गेन मङ्कणसूनोराकथस्य चरित्रनिरूपणम्, श्री- पावज्ञाजनिताघजदुःखकथनम् रामकृतकोसस्यामासिकश्राद्धाविधिनिरूपणम् ,श्राद्धा. स्य पुष्पकेण श्रीरगनगरं प्रति गमनम्, रामस्व साविततिरामममम. मतिविना श्रीराम- ठं प्रति गमनम्, तत्र नारायणदत नारायन सीतामसनम्, अन्यावाणिताव्यवधारपूजाकि- संवादब, रामामीसंगार, सता रामस्व गीत विवजनितकुमानिरूपमप्रसोन कस्थाषिपकार टे भरद्वामागमागमन भारदिने भारकर्तृ राक्षसस्य चरित्रनिरूपणम्, रामशंभुसंवादे उपह- तृनियमाः, भासवः, श्रीशिवलिनस्था तद्रव्यपूजानिषेधकथनम्, तत्प्रसङ्गेन चेकितानिबा. जनविधिनियमका यहिनकपन च, भत्मम झणचरित्रनिरूपणम्, उपहतघण्टाकारणनिरूपणप्र- वर्णनम्, भस्ममाहात्म्यकथनप्रसङ्गेन धनंजया सन्न कस्यचिन्मन्दास्यस्य चरितकथनम्, पाता- वेप्रचरितनिरूपणम्, भस्मसानमहिमवर्णनम्... १०१ लखण्डश्रवणफलम्, शिवराघवसंवादश्रवणफलम्, पु. हेमप्रसङ्गात्कस्यचिच्छुनो मुक्तिकथनम्, शुनः पू. राणवक्तृसत्कारनिरूपणम् न्मचरितनिरूपणम्, सहगमनकर्तृत्रीमाहात्म्यव- ... ... ...
No text on this page.
॥ श्रीः॥ महामुनिश्रीव्यासप्रणीतं पद्मपुराणम्। तत्र तृतीयं ब्रह्मखण्डम् । अथ प्रथमोऽध्यायः । शौनक उवाच- - १ ३ ६ लौ समागते सूत प्राणिनां केन कर्मणा । उद्धारो वै भवेत्तस्मात्कथयस्व ममाग्रतः ॥ सूत उवाच- धु साधु मुनिश्रेष्ठ पुण्यात्मनां वरो भवान् । सर्वेषां च जनानां च शुभवाञ्छो निरन्तरम् ॥२ तव्यासः पुरा विमः सर्वज्ञः सर्वपूजितः । पृष्टो जैमिनिना तं स यदाह भृणु वैष्णव ॥ प्रवत्मणिपत्यासौ व्यासं सर्वार्थपारगम् । गुरुं सत्यवतीसूनुं पप्रच्छ मुनिपुङ्गवः ॥ जैमिनिरुवाच- लौ नृणां भवेत्केन मोक्षो वै कथयस्व मे । अल्पेनापि च पुण्येन मावाल्पायुषो यतः॥ ५ व्यास उवाच- धुसङ्गाद्भवेद्विप शास्त्राणां श्रवणं प्रभो । हरिभक्तिर्भवेत्तस्मात्ततो ज्ञानं ततो गतिः॥ । रोचते कथा भूमौ पापिष्ठाय जनाय वै । वैष्णवी स तु विज्ञेयः पापिष्ठप्रवरो द्विजः॥ कृष्णस्य कथां श्रुत्वाऽऽनन्दी भवति वैष्णवः। असत्यां तां तु यो भ्रूयाज्ञयः स पापिनां गुरुः स्मिन्यस्मिन्स्थले विप्र कृष्णस्य वर्तते कथा। तस्मात्तस्माजगनायो याति त्यक्त्वा न कहिचित् ष्णस्य यः कथारम्भे कुर्याद्विघ्नं नराधमः । नरकानिष्कृतिर्नास्ति मन्वन्तरशतावधि ॥ १० । पुराणकयां श्रुत्वा निन्दन्त्युपहसन्ति वै । तेषां करस्था नरका बहुक्लेशकराः सदा ॥ ११ न्मान्तरार्जितं पापं तत्क्षणादेव नश्यति । श्रीकृष्णचरितं यो वै श्रोतुमिच्छां करोत्यपि ॥ १२ स्त्यिा यो वै नरः कुर्याच्छ्रीकृष्णचरितं तथा । न जाने श्रवणे तस्य का गतिर्वा भविष्यति १३ महत्यादिकं पार्प परस्त्रीहरणं तथा । सुरापानं तथा स्वेयं सर्व नश्यति पापिनः ॥ १४ पं कृत्वा तु यो मर्त्यः पश्चात्पापं निवर्तयेत् । तस्य पापं व्रजेबाशममिना तूलराशिवत् ॥ १५ कृष्णचरितं विम तिष्ठेद्वै पुस्तकं गृहे । तस्य गृहसमीपं हि नाऽऽयान्ति यमकिंकराः॥ १६ जैमिनिरुवाच- दन्ति वैष्णवान्कांश्च वान्छा हि गुरो मम । इदानी तान्समाजातुं तेषां माहात्म्यमुत्तमम्॥१७ व्यास उवाच- ो नरो मस्तके भक्त्या वैष्णवाधिजलं द्विज । करोति सेचन पापी तीर्थस्नानेन तस्य किम् १८ १. पुण्यज्ञानव । २ ज. 'सद्वार्ता तु ३ स. पं पुराणं नाशयेत्तथा । ४ अ. पुस्तके । ५ ख. ज. स. सेवनं ।
२० ३८२ महामुनिश्रीव्यासप्रणीतं- [ ३ ब्रह्मखण्डे- साधुसङ्गं तु यः कुर्यात्क्षणं वार्धक्षणं द्विज । तस्य नश्यन्ति पापानि ब्रह्महत्यामुखानि च ॥ १९ यत्र यत्र कुले चैव एको भवति वैष्णवः । कुलं तस्य यदा पापैर्युक्तं तन्मोक्षगामि वै ॥ हिंसादम्भकामक्रोधैर्वर्जिताश्चैव ये नराः । लोभमोहपरित्यक्ता ज्ञेयास्ते वैष्णवा द्विज ॥ २१ पितृभक्ता दयायुक्ताः सर्वप्राणिहिते रताः ॥ अमत्सरा वैष्णवा ये विज्ञेयाः सत्यभाषिणः २२ विप्रभक्तिरता ये च परस्त्रीषु नपुंसकाः। [*एकादशीव्रतरता विज्ञेयास्ते च वैष्णवाः] ॥ २३ [गायन्ति हरिनामानि तुलसीमाल्यधारकाः]। हर्यधिसलिलैः सिक्ता विज्ञेयास्ते च वैष्णवाः २४ श्रोत्रयोर्मस्तके येषां तुलस्याः पर्णमुत्तमम् । कहिचिदृश्यते विम विज्ञेयास्ते च वैष्णवाः ॥ २५ पाखण्डसङ्गरहिता विप्रद्वेषविवर्जिताः । सियुस्तुलसीं ये च ज्ञातव्या वैष्णवा नराः ॥ २६ पूजयन्ति हरिं ये च तुलसी चार्चयन्ति ये । कन्यादानरता ये च ये वै ह्यतिथिपूजकाः ॥ २७ शृण्वन्ति विष्णुचरितं विज्ञेया वैष्णवा नराः। यस्य गृहे सुप्रतिष्ठेच्छालग्रामशिलाऽपि च ॥२८ मार्जयन्ति हरेः स्थानं पितृयज्ञप्रवर्तकाः । जने दीने दयायुक्ता विज्ञेयास्ते च वैष्णवाः ॥ २९ पर ब्राह्मणद्रव्यं पश्यन्ति विषवच्च ये । हरिनैवेद्यमश्नन्ति विज्ञेया वैष्णवा जनाः ॥ वेदशास्त्रानुरक्ता ये तुलसीवनपालकाः । राधाष्टमीव्रतरता विज्ञेयास्ते च वैष्णवाः ॥ ३१ श्रीकृष्णपुरतो ये च दीपं यच्छन्ति श्रद्धया । परनिन्दां न कुर्वन्ति विज्ञेयास्ते च वैष्णवाः॥३२ सूत उवाच- पृष्टो जैमिनिना व्यास इत्युक्तः स यथाक्रमम् । मयेदं कथ्यते ब्रह्मन्यत्प्रसङ्गाद्गुरुश्रुतम् ॥ ३३ अध्यायं श्रद्धया युक्ता ये शृण्वन्ति नरोत्तमाः। सर्वपापविनिमुक्ता यान्ति विष्णोः परं पदम् ३४ इति श्रीमहापुराणे पाद्मे ब्रह्मखण्डे व्यासजैमिनिसंवादे प्रथमोऽध्यायः ॥ १॥ आदितः श्लोकानां समष्ट्यङ्काः-९८३४ अथ द्वितीयोऽध्यायः । १ ३ सूत उवाच- शृणु शौनक वक्ष्यामि चान्यधर्म पुरातनम् । व्यासजैमिनिसंवादं श्रोतॄणां पापनाशनम् ॥ १ जैमिनिरुवाच- कर्मणा हि गुरो केन मन्दिरं जगतीपतेः । याति तत्कथयस्वाध नरः पापी च मे प्रभो ॥ २ व्यास उवाच- श्रीकृष्णमन्दिरे यो वै लेपनं कुरुते नरः । सर्वपापविनिर्मुक्तश्चान्ते याति हरेर्गृहम् ॥ यचीम्बुलेपनं कुर्यात्संझया गृणु जैमिने । तस्य पुण्यमहं वच्मि मन्दिरे जगतीपतेः ॥ तत्र यौवन्ति पश्यन्ति रजांसि च द्विजोत्तम । तावत्कल्पसहस्राणि स वसेद्विष्णुमन्दिरे ॥ पुराऽऽसीद्दण्डको नाम्ना चौरो लोकभयप्रदः । ब्रह्मस्वहारी मित्रघ्नो युगे द्वापरसंबके । असत्यभाषी क्रूरश्च परस्त्रीगमने रतः । गोमांसाशी सुरापश्च पाखण्डजनसभाक् ॥ * एतचिहान्तर्गतः पाठो ज. द. पुस्तकस्थः । । एतविद्वान्तर्गतः पाठः च. ज. द. पुस्तकस्थः । १८. मस्याबदाईजाज...'सानु । ३ ङ. ढ. यानि न प । ४। ५ ७ ८ २२ २ द्वितीयोऽध्यायः ] पद्मपुराणम् । ३८३ त्तिच्छेदी द्विजातीनां न्यासापहारकस्तथा । शरणागतहन्ता च वेश्याविभ्रमलोलुपः ॥ एकदा स द्विजश्रेष्ठ कस्यचिद्विष्णुमन्दिरम् । जगाम हरणार्थाय विष्णोर्द्रव्यं स मूढधीः ॥९ य द्वारि प्रविश्यासावधिकर्दमसंयुतम् । प्रोज्झयामास वै निम्ने भूमौ देवगृहस्य च ॥ १० व कर्मणा भूमिनिम्नरिक्ता बभूव ह । लोहस्य च शलाकाभ्यामुराव्य खररं मुदा ॥ ११ वेवेश हरेर्गेहं वितानवरशोभितम् । रत्नकाश्चनदीपालिपरिध्वस्तमहत्तमम् ॥ १२ नापुष्पसुगन्धाढ्यं नानापत्रसमाकुलम् । सुवासितस्य तैलस्य गन्धेन परिपूरितम् ॥ १३ नेन हारकेणाथ पर्यङ्के सुमनोहरे । शायितो राधया सार्ध दृष्टः पीताम्बरोऽच्युतः ॥ १४ गम्य राधिकानाथं निष्पापः सोऽभवत्तदा । नेष्याम्यथ न नेष्यामि अनेन किं भवेन्मम १५ वां कर्तुमशक्तोऽहं यतश्चोरोऽस्मि सर्वदा । द्रव्येण कार्यमस्तीति तन्नेतुं कृतवान्मनः ॥ १६ तयित्वाऽशुकं भूमौ कौशेयं कमलापतेः । बबन्ध वस्तुजातं च पाणौ कृत्वा स कम्पितः ॥१७ ष्णोर्मायापतेश्चाथ तानि सर्वाणि जैमिने । कृत्वा शब्दं सुघोरं च पतितान्यथ भूतले ॥ १८ रित्यज्य सुनिद्रां च धावन्त इति किमहो । आगता बहुशो लोकाश्वौरो द्रव्यं जवेन च ॥ १९ क्त्विा धनं च चौरोऽपि त्रस्तः किंचिजगाम ह। दंशितः कालसर्पण मृतोऽसौ गतकिल्बिषः२० माझया तस्य दूताः पाशमुद्रपाणयः । आगतास्तं समानेतुं दंष्ट्रिणश्चर्मवाससः॥ २१ बन्धुश्चर्मपाशेन निन्युर्दुर्गमवर्त्मना । दृष्ट्वा तं शमनः क्रुद्धः पप्रच्छ सचिवं प्रति ॥ यम उवाच- नेन किं कृतं कर्म पापं वा पुण्यमेव वा । समूलं वद हे प्राज्ञ चित्रगुप्त मंमाग्रतः ॥ २३ चित्रगुप्त उवाच- ष्टानि यानि पापानि विधात्रा पृथिवीतले । कृतान्यनेन मूढेन सत्यमेतन्मयोदितम् ॥ २४ त्वाकर्णय लोकेश सुकृतं चास्य वर्तते । मन्येऽहं यमुनाभ्रातः सर्वपापविलोपि तत् ॥ २५ धर्मराज उवाच- के पुण्यं वर्ततेऽमात्य वद सारं ममान्तिके । श्रुत्वैवं तद्विधास्यामि यत्र योग्यो भवेदसौ ॥ २६ मस्य वचनं श्रुत्वा संभयश्चित्रगुप्तकः । कृत्वा हस्ताञ्जलिं प्राह चाऽऽत्मनः स्वामिने द्विज॥२७ चित्रगुप्त उवाच-- रणार्थ हरेर्द्रव्यं गतोऽसौ पापिनां वरः । प्रोज्ज्ञितः कर्दमो राजन्पादयोरितो हरेः॥ भूव लिप्ता सा भूमिलिच्छिद्रविवर्जिता । तेन पुण्यप्रभावेन निर्गतं पातकं महत् ॥ कुण्ठं प्रति योग्योऽसौ निर्गतस्तव दण्डतः ॥ २९ व्यास उवाच- पुत्वा स वचनं तस्य पीठं कनकनिर्मितम् । ददौ तस्मै चोपविष्टस्तत्र पूज्यो यमेन सः॥ नाम शिरसा तं वै प्रोवाच विनयान्वितः ॥ यम उवाच- पवित्रं मन्दिर मेऽद्य पादयास्ताद रेणुभिः । कृतार्थोऽस्मि कृतार्थोऽस्मि कृतार्थोऽस्मि न संशयः * एतचिहान्तर्गतः पाठः च. ज. ढ. पुस्तकस्थः । १ क. च. कृतिच्छेदी । २ ङ. 'व्य स रहो मु। द. °व्य सोऽरर मु। ३ ज. ज्य तु नि । ४ द. बनं चापि । ५ स. सर्वे । ६. सभायां चित्र । २८ .
व्यास उवाच- ३८४ महामुनिश्रीव्यासमणीत- [ ३ ब्रह्मखण्डे- इदानी गच्छ भोः साधो हरेमन्दिरमुत्तमम् । नानाभोगसमायुक्तं जन्ममृत्युनिवारणम् ॥ इत्युक्त्वा धर्मराजोऽसौ स्यन्दने स्वर्णनिर्मिते । राजहंसयुते दिव्ये तमारोप्य गतैनसम् ॥. १३ समस्तसुखदं स्थानं प्रेषयामास चक्रिणः । एवं प्रविष्टो वैकुण्ठे तत्र तस्थौ सुखं चिरम् ॥ ३४ लेपनं ये प्रकुर्वन्ति भक्त्या तु हरिमन्दिरे । तेषां किं वा भविष्यति न जानेऽहं द्विजोत्तम ॥ ३५ य इदं शृणुयाद्भक्त्या पठेद्यो वा समाहितः । कोटिजन्मार्जितं पापं नश्यते न च संशयः॥ ३६ इति श्रीमहापुराणे पाये ब्रह्मखण्डे हरिमान्दरलपनमाहात्म्यवर्णनं नाम द्वितीयोऽध्यायः ॥ २ ॥ आदितः श्लोकानां समष्टयङ्काः--९८७० अथ तृतीयोऽध्यायः । - शौनक उवाच- कार्तिकस्य च माहात्म्यं ब्रूहि सूत ममाग्रतः । तद्वतस्य फलं किंवा दोषः किं तदकुर्वतः ॥१ सूत उवाच- पुरैकदा मुनिश्रेष्ठ व्यासं सत्यवतीसुतम् । जैमिनिः पृष्टवानेतदारम्भे कथितं मुनिः ॥ २ व्यास उवाच- ५ ६ . ८ ९ तिलतैलं मैथुनं यः शुभदे कार्तिके त्यजेत् । बहुजन्मकृतैः पापैर्मुक्तो याति हरेहम् ॥ मत्स्यं च मैथुनं यो वै कार्तिके न परित्यजेत् । प्रतिजन्मनि संमूढः शूकरश्च भवेध्रुवम् ॥ कार्तिके तुलसीपत्रैः पूजयेद्वै जनार्दनम् । पत्रे पत्रेऽश्वमेधस्य फलं प्रामोति मानवः ।। कार्तिके मुनिपुष्पैर्यः पूजयेन्मधुसूदनम् । देवानां दुर्लभं मोक्षं पामोति कृपया हरेः ॥ कार्तिके मुनिशाकं वै योऽश्नाति च नरोत्तमः । संवत्सरकृतं पापं शाकेनैकैन नश्यति ॥ फलं तस्य नरोऽश्नाति चोर्ने यो वै हरिप्रिये । मदाय तु हरेर्ब्रमन्वृजिनं कोटिजन्मजम् ।। सुरसं सर्पिषा युक्तं दद्यायो हरयेऽपि च । सर्वपापैर्विनिर्मुक्तः स गच्छेद्धरिमन्दिरम् ।। कार्तिके यो नरो दद्यादेकप हरावपि । अन्ते विष्णुपदं गच्छेत्सर्वपापविवर्जितः ॥ १० प्रातःस्नानं नरो यो वै कार्तिके श्रीहरिप्रिये । करोति सर्वतीर्थेषु यः स्नात्वा तत्फलं लभेत् ११ कार्तिके यो नरो दद्यात्मदीपं नभास द्विजः । विमहत्यादिभिः पापैर्मुक्तो गच्छेद्धरेदृहम् ॥ १२ मुहूर्तमपि यो दद्यात्कार्तिके प्रीतये हरेः। दीपं नभसि विप्रेन्द्र तस्मिंस्तुष्टः सदा हरिः॥ १३ यो दद्याश्च गृहे दीपं कृष्णस्य सघृतं द्विज । कार्तिके चाश्वमेधस्य फलं स्यादै दिने दिने ॥ १४ प्रदीपस्य च माहात्म्यं विशेषमुच्यते मया । निशामय द्विजश्रेष्ठ सेतिहासं समाहितः ॥ पूर्व त्रेतायुगे विमो वैकुण्ठो नामतः शुचिः । यस्य सङ्गमभावेन मुक्तो भवति पातकी ॥ १६ एकदा कार्तिके सोऽपि प्रदीपं पुरतो हरेः । दत्त्वा गृहं गतो विमो घृतपूर्ण द्विजर्षभ । १७ सर्पिस्तत्खादितुं चाऽऽखुरागतोऽपि मदीपतः । यावत्खादितुमारेभे बोधितोऽसौ प्रदीपकः ॥ मूषकोऽग्निभयात्तत्र वेगेनापि पलायितः॥ १८ आखोश्च सकलं पापं विनष्टं कृपया हरेः । सर्पण दंशितवाऽऽनुः पाणत्यागं चकार ह॥ १९ 04 AM २० २१ २२ - ४ चतुर्थोऽध्यायः ] पद्मपुराणम् । ३८५ ततो यमाजया दूताः पाशमुद्रपाणयः। आगतास्तं समानेतुं बबन्धुश्चर्मरज्जुभिः ।। पावनेतुं मनश्चक्रुः शङ्खचक्रगदाधराः । आगता गरुडारूढा विष्णुदूताश्चतुर्भुजाः ।। विमानं गगने चैव राजहंसयुतं शुभम् । निर्मितं कनकैः शुद्धैः कामगं कृपया हरेः ।। पार्श छित्त्वा ततो दूताः प्रोचुस्ते यमकिङ्करान् । विष्णुभक्तोऽप्यसौ मूढा व्यर्थ तु बन्धनं कृतम्।। गच्छध्वं शमनमेष्या यदि वाञ्छाऽस्ति जीवितुम् । श्रुत्वा प्रकम्पितास्ते वै पृच्छन्ति विनयान्विताः केन पुण्यप्रभावेन युष्माभिर्नीयते पुरम् । असौ विष्णोर्महापापी यूयं तद्वक्तुमर्हथ ॥ २५ विष्णुदूता ऊचुः- पुरतो वासुदेवस्य प्रदीपबोधनं कृतम् । तेनैव कर्मणा दूता नयामो विष्णुमन्दिरम् ।। २६ अनिच्छयाऽपि यः कुर्याद्विष्णोर्दीपस्य वोधनम् । कोटिजन्मार्जितं पापं त्यक्त्वा याति हरेहम्।। भक्त्या प्रदीपं यो दद्यात्कार्तिके तु हरेर्दिने । तस्य पुण्यं समाख्यातुं न शक्तो हरिणा विना२८ घृतपूर्णप्रदीपं यो भक्त्या दद्याद्धरेहे । अश्वमेधसहस्रेण तस्य किंवा प्रयोजनम् ।। अश्वमेधप्रकर्ता यः स्वर्ग याति हरेर्दिने । कार्तिके दीपदाता च स गछेद्धरिमन्दिरम् ॥ ३० व्यास उबाच- इति श्रुत्वा ततो दूता गतास्ते वै यथाऽऽगताः । विष्णुदूता रथे कृत्वा गतास्तं विष्णुमन्दिरम्।। विष्णुसांनिध्य एवास्य मन्वन्तरशतं गतम् । ततो मर्ये राजकन्या बभूव कृपया हरेः ।। पुत्रपौत्रसमायुक्ता चिरं भोग चकार सा । इतः पुनर्गता सा तु गोलोकं हरिसेवया ॥ सूत उवाच- भक्त्या शृणोति यो मर्यो दीपमाहात्म्यमुत्तमम् । सर्वपापविनिर्मुक्तः स याति विष्णुमन्दिरम् ।। इति श्रीमहापुराणे पाने ब्रह्मखण्डे दीपदानमाहात्म्यं नाम तृतीयोऽध्यायः ॥ ३ ॥ आदितः श्लोकानां समष्टयङ्काः-९९०४ अथ चतुर्थोऽध्यायः । -- २ शौनक उवाच- नयन्त्याः सूत माहात्म्यं कदा सा क्रियते जनैः। कथयस मम त्वं वै पोतः संसारसागरे ॥१ सूत उवाच---- शृणु विम प्रवक्ष्यामि यत्पृष्टो मुनिसत्तम । पुरा ब्रह्मा नारदेन पृष्ट एतत्सुरालये ॥ नारद उवाच- नयन्त्याश्चैव माहात्म्यं कथयस्व पितामह । यच्छ्रुत्वाऽहं गमिष्यामि तद्विष्णोः परमं पदम् ॥ ३ ब्रह्मोवाच- एणुष्वावहितो विष तवाग्रे कथयाम्यहम् । जयन्त्या उपवासेन विष्णुलोकं स गच्छति ॥ मरणात्कीर्तनात्पापं सप्तजन्मार्जितं मुने । जयन्ती दहते चैव किं पुनः सोपवासकृत् ।। न्माष्टमी च नवमी चैत्रे मासि सिता भुभा। कृष्णा चतुर्दशी कुम्भे मेषे शुक्ला चतुर्दशी ॥ ६ गर्गाष्टम्याचिने शुक्ला द्वादशी श्रवणान्विता । महापुण्या च शुभदा जयन्त्यः षट्प्रकीर्तिताः ।।७ १ ङ. अ. इतिस्मरा गता साध्वी गो । २ स. वै यतः संसारशोषणम् ।। ५ - ८ ९ ११. १६ २० ३८६ महामुनिश्रीव्यासप्रणीत- [३ ब्रह्मखण्डे. कृष्णजन्माष्टमी पूर्वा प्रसिद्धा पापनाशिनी । क्रतुकोटिसमा शेषा तीर्थानामयुतैः समौ ॥ कर्ता गवां सहस्रं तु यो ददाति दिने दिने । तत्फलं समवामोति जयन्त्यां समुपोषणे ।। हेमभारसहस्रं तु कुरुक्षेत्रे रविग्रहे । तत्फलं समवामोति जयन्त्यां समुपोषणे ॥ १० कृष्णाजिनसहस्राणि तिलधेनुशताति च । तत्फलं समवामोति जयन्त्यां समुपोषणे ।। ससागरामिमा पृथ्वीं दत्त्वा यल्लभते फलम् । तत्फलं समवामोति जयन्त्यां समुपोषणे ॥ १२ कन्याकोटिसहस्राणां दाने भवति यत्फलम् । तत्फलं समवामोति जयन्त्यां समुपोषणे ॥ १३ वापीकूपतडागादि कर्तव्यं देवतालये । तत्फलं समवामोति जयन्त्यां समुपोषणे॥ १४ मातापित्रोर्गुरूणां च भक्तियुक्तं करोति यः। तत्फलं समवामोति जयन्त्यां समुपोषणे ॥ १५ आपदाहरणार्थाय तीर्थसेवा कृतात्मनाम् । सत्यव्रतानां यत्पुण्यं जयन्त्यां समुपोषणे ॥ गङ्गायां नर्मदायां यत्पुण्ये सारस्वते जले । स्नात्वा पुण्यमवामोति जयन्त्यां समुपोषणे ॥ १७ यत्पुण्यं श्राद्धकर्तृणां पितृणामिन्दुसंक्षये । तत्फलं समवामोति जयन्त्यां समुपोपणे ॥ नारद उवाच- केन केन कृता पूर्व कथयस्व पितामह ।। १८ ब्रह्मोवाच- कार्तवीर्येण कर्णेन कुमारेण च धीमता । सगरेण दिलीपेन काकुत्स्येन कृता पुरा ।। १९ गोतमेन च गौर्येण जामदग्न्येन धीमता । वाल्मीकिना कृता पूर्व द्रौपदेयेन साधुना ॥ ददाति वाञ्छितान्कामान्भाद्रपै(क)स्य सिताऽष्टमी। [पानापत्यसंसंयुक्ता विशेषेण मताऽष्टमी पदम् वर्षे वर्षे प्रकर्तव्या प्रीत्यर्थे चक्रपाणिनः । कोटिजन्मार्जितं पापं मुहूर्तेन विलीयते ॥ २२, रात्री जागरणं कृत्वा निष्ठापूर्व जितेन्द्रियः । गन्धपुष्पादिनैवेद्यैः पूजनीयः पृथक्पृथक् ॥ एवं यः कुरुते विष जयन्तीसमुपोषणम् । कोटिजन्मार्जितं पापं शानतोऽज्ञानतः कृतम् ॥ प्रसादादेवकीसूनोर्यामार्थेन विलीयते ॥ जयन्तीतिथिसमाप्ते भुञ्जते ये नराधमाः। त्रैलोक्यसंभवं पापं भुञ्जते ते न संशयः॥ २५ सागराद्यानि पुण्यानि मुक्तिस्थानानि सर्वशः । गृहे तिष्ठन्ति सर्वाङ्गे जयन्तीव्रतकारिणः ॥ २६ तस्य सर्वाणि तीर्थानि देहे तिष्ठन्ति देवताः। करोति यो नरो भक्त्या जयन्ती कृष्णवल्लभाम् ॥ न वेदेन पुराणेन मया दृष्टं महामुने । तत्समं नाधिकं वाऽपि कृष्णराधाष्टमीव्रतम् ॥ न करोति नरो भक्त्या स भवेत्क्रूरराक्षसः ॥ २८ यो नरोऽश्नाति मूढात्मा जयन्तीवासरे द्विज । महानरकमश्नाति यथा च हरिवासरे ॥ २९ अतीतमागतं यस्तु(त्तु) कुलमेकोत्तरं शतम् । पतेत्तु नरके घोरे जयन्त्यां भोजनेन वै ॥ जयन्ती बुधवारे च रोहिण्या सहिता यदा । भवेच्च मुनिशार्दूल किं कृतैर्ब(त्यं व्रत)तकोटिभिः॥ कृते त्रेतायुगे चैव द्वापरे च कलौ युगे । कृता सम्यग्विधानेन जयन्ती पापनाशिनी ॥ ३२. जागरे पद्मनाभस्य पुराणं पाठयेत्तु यः । आजन्मोपार्जितं पापं दहते तूलराशिवत् ॥ यः शृणोति नरो भक्त्या पुराणं हरिवासरे। कोटिजन्मार्जितं तस्य पापं नश्यति तत्क्षणात् ॥३४ * एतचिहान्तर्गतः पाठः च. ज. उ. पुस्तकस्थः । १ उ.मा । अष्टापदसं। २ क. च. ज. स. गौतमेन । ३ म. गर्गेण । ४ च. 'पस्यासि । ५ च. षेणासिता ६. णसिता | अ. नोः क्षणार्थे । २३ २४ । पञ्चमोऽध्यायः] पमपुराणम् । सरे पमनाभस्य पूजयेद्वाचकं मुने। कुलकोटि समुदृत्य विष्णुलाके स पूज्यते ।। यन्त्यामुपवासे च यो नगेऽत्र पराङ्मुखः । सर्वधर्मविनिर्मुक्तो यात्यसौ नरकं भुवम् ॥ ३६ न्धपुष्पैश्च धूपैश्च घृतपूर्णमदीपकैः । पूजयेद्भक्तिभावैश्च दद्याद्विपाय दक्षिणाम् ॥ अधिनाऽनेन यो विप्र जयन्ती प्रकरोति च । नरो वै तारयेद्भक्त्या पुरुषानेकविंशतिम् ॥ ३८ दौर्भाग्यं न वैधव्यं न भवेत्कलहो गृहे । संततेन विरोधं च न पश्यति धनक्षयम् ॥ न्यांश्चिकीर्षते कामाञ्जयन्तीसमुपोषकः। तांस्तान्मामोति सकलान्विष्णुलोकं च गच्छति ॥ ४० वष्णुभक्तिपरा नित्यं जयन्तीव्रतमानसाः। ते धन्यास्ते कुलीनास्त ईश्वरास्ते च पण्डिताः॥४१ पनि कानि च तीर्थानि व्रतानि नियमानि च । जयन्तीवासरस्यैव कलां नाईन्ति षोडशीम् ।। द्रे वै चोभये पक्षे यः करोति सभार्यकः । राधाकृष्णाष्टमी वत्स पामोति हरिसंनिधिम् ॥४३ तं च पुण्यकारं च यः करोति सदा हरेः। स याति विष्णोर्वैकुण्ठं जयन्तीसमुपोषकः ॥ ४४ चारहीनं कुलभ्रष्टं कीर्तिहीनं कुयोनिजम् । नाशयत्याशु पापं च जयन्ती हरिवल्लभा ॥ ४५ इतुल्यानि पापानि ब्रह्महत्यादिकानि च । स निर्दहति सर्वाणि जयत्यां समुपोषकः ॥ ४६ पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् । मोक्षार्थी लभते मोक्षं जयन्त्यां समुपोषकः] ॥ ४७ नीकरणे चित्तं येषां भवति तत्परम् । यमोऽपि शकते नित्यं ते यान्ति परमां गतिम् ॥ ४८ सूत उवाच- त्वा नारदं तु ययौ स च यथाऽऽगतः । मयाऽपि कथितं ब्रह्मन्यत्पृष्टोऽहं त्वया मुने ॥४९ म्यं च जयन्त्या ये शृण्वन्ति भक्तिभावतः। तेऽपि यान्ति परं धाम विमुक्ताः सर्वपातकैः ५० वाचकं ब्रह्मजयन्तीव्रतिनं तथा । ये पश्यन्ति नराः पापास्ते यान्ति परमं पदम् ।। इति श्रीमहापुराणे पाये ब्रह्मखण्डे ब्रह्मनारदसंवादे जयन्तीव्रतमाहात्म्यं नाम चतुर्थोऽध्यायः ॥ ४ ॥ आदितः श्लोकानां समष्ट्यकाः-९९५५ अथ पञ्चमोऽध्यायः । शौनक उवाच- - १ - २ यस्व महापात्र पुत्रहीनो जनो भवेत् । कर्मणा केन वै सूत पुत्रो भवति केन च ।। सूत उवाच- त्पृष्टः पुरा ब्रह्मा नारदेन महात्मना । स यदाह तदा तं च शृणुष्व मुनिपुङ्गव ।। नारद उवाच- मह महामाज्ञ सर्वतत्त्वार्थपारग । अपुत्रो वै भवेन्मर्त्यः कर्मणा केन पद्मज ॥ ज्या स्त्री वा भवेत्केन जिनेन ममाग्रतः । कथय शृण्वतो वै मे सर्वप्राणिहिते रत ॥ ता जायते केन कर्मणा वा नपुंसकः । मृतवत्सो भवेत्केन मृतवत्साऽतिदुःखिता ॥ पुण्येन भो ब्रमन्पुनः पुत्रो भवेद ॥ ३ ५ * एतचिहान्तर्गतः पाठः च. ज. द. पुस्तकस्थः । १८. के विप्रं जय।
३८८ महामुनिश्रीव्यासमणी- [ ३ ब्रह्मखण्डे- ६ ९ ब्रह्मोवाच- कथयामि समासेन सावधानेन तच्छृणु । वृत्तान्तं पृच्छसि त्वं वै शृण्वता विस्मयप्रदम् ।। पूर्वजन्मनि [भ्यो मर्को वर्तनं ब्राह्मणस्य च । हरद्वा हारयेदत्र पुत्रहीनो भवेत्किल ॥ इह जन्मनि ] यो मर्त्यः पुराणश्रवणं हि च । भूमि ससस्यां दानं च दद्यादै श्रवणान्वितः ॥ ८ धेनुं बहुगुणां हैमी बहुदुग्धां सदक्षिणाम् । सुवर्णप्रतिमां चैव तस्य पुत्रो भवेद्धवम् ॥ पूर्वजन्मनि या नारी परवालकघातनम् । करोति कपटेनैव बालहीना भवेध्रुवम् ॥ १० सौवर्णपतिमादानं या नारी श्रद्धयान्विता । कुर्यात्पानं ब्राह्मणस्य भक्त्या वै चरणोदकम् ॥११ पुराणश्रवणे चैव दद्याद्वै बहुदक्षिणाम् । बहपत्या जीववत्सा भवेत्रास्त्यत्र संशयः ॥ १२ जले निमग्नं वालं यो दृष्ट्वा या न समुद्धरेत् । इह जन्मन्यपुत्रो वै साऽपुत्री च भवेद्धवम् ॥ १३ वृषभं चैव कूष्माण्डं ससुवर्ण सवस्त्रकम् । दद्यादानं ब्राह्मणस्य कुर्याद्वालव्रतं तथा ॥ १४ गौरी कन्यां तथा कुर्यात्पुराणश्रवणं हि यः। पुत्रो वै जायते तस्य सर्वपातकनाशनम् ॥ १५ पूर्वजन्मनि यो मर्यो निराशं चातिथि द्विज । कुर्यात्क्रोधेन दण्डं च पुत्रहीनो भवेद्धवम् ॥ १६ ब्राह्मणं चातिथिं चैव कुर्याद्भक्त्या प्रपूजनम् । अन्नदानं जलं चैव तथा देवालयं शुभम् ॥ १७ पूर्वजन्मनि या नारी भ्रूणहत्यां च यो नरः । कुर्यात्सा मृतवत्सा च मृतवत्सो भवेद्धवम्।। १८ या नारी स्वामिसहिता कुर्याच हरिवासरम् । सुपुत्रा भर्तृसुभगा भवेत्सा प्रतिजन्मनि ॥ १९ यो नरो गोदमं कुर्याच्छूद्रः कुर्याद्विमोहितः । ब्राह्मणीहरणं वाऽपि कर्मणा स नपुंसकः ॥ २० इदं तु वृजिनं कुर्यात्पश्चात्पुण्यं करोति यः । इह पुण्यप्रभावेन दुहिता जायते द्विज ॥ २१ आसीत्रेतायुगे राजा श्रीधरो नामतो द्विज । अपुत्रो धनवांस्तस्य जाया हेमप्रभावती ॥ २२ व्यासं सकलशास्त्रज्ञं सर्वलोकहितैषिणम् । आगतं चैव पप्रच्छ चापुत्रोऽहं कथं वद ॥ उवाच नृपतेः श्रुत्वा वचनं विनयान्वितम् । राज्ञा दत्ते च पीठे च निर्मिते कनकादिभिः ॥२४ राजा राजी तस्य पादौ धौतं कृत्वा तु हर्षितौ । पीत्वा पादोदकं द्वौ च सर्वपातकनाशनम् ॥२५ राजशृणुष्व यत्पृष्टमपुत्रो येन कर्मणा । तवेयं राज्ञी चापुत्री चैकपत्नीवतस्तथा। २६.. पूर्वजन्ममि चन्द्रस्त्वं नाम्ना वरतनुः स्मृतः। भार्या तवापि शुभ्राङ्गी नाम्ना वै शंकरी स्मृता २७ एकदा पथि यातौ च नीचपुत्र जलेऽपि च । मनं दृष्ट्वा हेलया च गतौ च (स) पञ्चतां गतः२८ बहुपुण्यप्रभावेन राज्ञी राजा च तौ युवाम् । तेन कर्मविपाकेन युवयोर्न भवेत्सुतः ॥ २९ राजोवाच- इदानीं केन पुण्येन सुतो वै जायते प्रभो । अपुत्रस्य मनुष्याणां जीवनं हि निरर्थकम् ॥ व्यास उवाच- सवस्त्रं चैव कूष्माण्डं वृषभं ससुवर्णकम् । देहि दानं ब्राह्मणस्य कुरु बालवतं तथा ॥ गौरी कन्यां तथा देहि पुराणश्रवणं कुरु । पुत्रो वै जायते तत्र सर्वपातकनाशनम् ॥ ३२ ब्रह्मोवाच- इति श्रुत्वा ततो राजा व्यासोक्तं दानमुत्तमम् । पुराणश्रवणं चैव चकार गतकिल्विषः ॥ ३३ * एतचिहातर्गतः पाठः च. ज. पुस्तकस्थः । १७. म. यः। कुर्यात्क्रोधेन इण्डस्य । २ ङ. म. गोधने । ३ ज. व्रतं तव । । २३ व्यास उवाच- - - ६ षष्ठोऽध्यायः ] पद्मपुराणम् ३८९ ततः पुत्रो वर्षमध्ये बभूव सर्वपूजितः । अभूद्राजा सार्वभौमः सुन्दरः कुलनायकः ॥ सूत उवाच- य इदं शृणुयाद्भक्त्या करोति दानमुत्तमम् । अपुत्रा लभते पुत्रं संक्षेपात्कथितं मया ॥ भक्त्या श्रुत्वा तु या नारी कुर्याद्राह्मणपूजनम् । सुपुत्रा सा भवेनित्यं शास्त्रोक्तविधिना द्विज३६ सुवर्ण रजतं वस्त्रं पुष्पमाल्यं च चन्दनम् । यो दद्यात्पुस्तके भक्त्या सर्वपापप्रणाशनम् ॥ ३७ पूर्वजन्मनि यो मूढो ब्रह्मबालकघातकः । तस्य क्रूरो भवेत्पुत्रः सप्तजन्मान्तजि ॥ इति श्रीमहापुराणे पाने ब्रह्मखण्डे ब्रह्मनारदसंवादे कर्मविपाककथनं नाम पञ्चमोऽध्यायः ॥ ५ ॥ आदितः श्लोकानां समष्ट्यङ्काः-९९९३ अथ षष्ठोऽध्यायः । शौनक उवाच- २ ४ ५ ८ केन पुण्येन भोः सूत वैकुण्ठं समवाप्यते । तद्वदस्य शृण्वतो मे पोतो हि भवसागरे । सूत उवाच- साधु साधु मुनिश्रेष्ठ सर्वमङ्गलकारक । कथयामि समासेन शृण्वतां पापनाशनम् ॥ विष्णवे ब्राह्मणायैव मृदा वेश्म विनिर्मितम् । यो वै दद्याविजश्रेष्ठ तस्य पुण्यं निशामय ॥ विष्णुलोके च स विप्रः सर्वपापविवर्जितः । सौधवासी भवेन्नित्यं विष्णुलोके प्रपूज्यते ॥ विष्णवे सौधगेहं यो दद्यादै ब्राह्मणाय च । हरेनिकेतनं प्राप्य स्वर्गवासी भवेद्ध्वम् ।। अन्ते विष्णुपुरं गत्वा युक्तः कोटिकुलर्द्विज । स्वर्णसौधे गृहे स्थित्वा कुर्याद्भोगं यथासुखम् ॥ ६ बामणस्थापने पुण्यं यद्वै भवति भो मुने । संख्यां कर्तुमशक्तस्तद्वे(स्य वे)धाः सर्वकारकः ॥ ७ गण्यन्ते रेणवथैव गण्यन्ते वृष्टिबिन्दवः । न गण्यते विधात्राऽपि ब्रह्मसंस्थापने फलम् ॥ नारदेन पुरा ब्रह्मा पृष्टः संसारसंभवः । वेधास्तं कथयामास तच्छृणुष्व महामुने । पुराऽऽसीद्वापरे ब्रह्मन्वारनारी सुशोभना । सुकेशी हरिणीनेत्रा सुमध्या चारुहासिनी ॥ १० नाना सा चञ्चलापानी ययौ देशान्तरं कदा । सर्वपापसमायुक्ता नरकेऽपातयत्तथा ॥ ११ सङ्गेन सा धनाकाङ्क्षी जनान्देवालयं गता । तत्र क्षणं सोपविष्टा ताम्बूलभक्षणं कृतम् ।। १२ शेषं चूर्ण सौधभित्तौ ददौ निम्ने कुतूहलात् । ततो गता जारकाङ्क्षी धनार्थ नगरं प्रति ॥ १३ नारेण केनचित्साध संकेतः सहसा कृतः । संकेतं तु गता वेश्या वनं रात्रौ विमोहिता ॥ संकेतं नाऽऽगतो वैश्यो व्यशशिष्ट विलोकिता। कथं कान्तो नाऽऽगतो मे सर्पव्याप्रैश्च भक्षितः॥ केतनं कथं हित्वा गतः किं कामविहलः । अन्यया ज्ञातया सार्धमभिलाषी भवेत्किम् ॥ १६ रामृश्यति हृयन्तः कोटपालभयाट्विज । नगरं नाऽऽगता सा हि रुद्ध लोकपथे तमैः ।। (तस्मिनन्तरे व्याघ्रः कामरूपी बलात्क्षुधी । प्रेषितः कालदेवेनाग्रसदागत्य तां द्विज ॥ १८ तस्तु यमुनाभ्रातुक्तास्ते भीमष्मिणः । [*आगता गिरिकूटाङ्गा नेतुं तां पापकर्मणा ॥ १९ क्रपादा वक्रमुखा उनासा बृहइंष्ट्रिणः] । चर्मरज्जु मुद्रांश्च गृहीत्वा पांशुलां द्विज ॥ न्धयामासुरुन्मत्ता गणिकां चर्मरज्जुभिः । शङ्खचक्रगदापप्रधारिणो वनमालिनः ॥ * एतचिहान्तर्गतः पाठः च. ज. द. पुस्तकस्थः । २७ २१ २२ ३९० महामुनिश्रीव्यासप्रणीतं- [३ ब्रह्मखण्डे- प्रेषिता देवदेवेन तद्भक्तवत्सलेन च । कृष्णजीमूतसंकाशाः स्फुरद्वदनपङ्कजाः ॥ श्रेणीधराचारुनासा दिव्यकुण्डलभूषिताः । ददृशुः पथि गच्छन्तो विष्णोक्ता महात्मनः ॥२३ विष्णुदूता ऊचुः- के यूयं विकृताकारा लक्ष्यध्वे कर्बुरा इव । इमां विष्णोः प्रियतमा नीत्वा क व्रजयोत्तमाम् ॥२४ इदं वचनमाकर्ण्य तेषां ते तु द्रुतं ययुः । अथ ते क्रोधसंपना विष्णोता महाबलाः ॥ २५ जप्नुस्ते संदेशहरान्यमस्य जगतः प्रभोः । चक्रादिशस्त्रसंधैश्च सूर्यकोटिसमप्रभैः ॥ २६ कृतान्तस्य भटाः सर्वे रुदन्तस्ते पलायिताः । यमं मोचुः सुभीताश्च वृत्तान्तं सकलं द्विज ॥ २७ यमोऽपि तत्कयां श्रुत्वा चित्रगुप्तमुवाच ह ॥ २८ धर्मराज उवाच- केन पुण्येन भो मत्रिन्वेश्या विमुक्तिमागता । एतन्मे पृच्छतः सर्व कथयस्व यथार्थतः ॥ २९ चित्रगुप्त उवाच- तया पापान्यजितानि जन्मतः सुबडून्यपि। किं त्वाकर्णय लोकेश यदस्याः पुण्यमस्ति तत् ॥३० गणिकैकदा धर्मराज सर्वालंकारभूषिता।कांचित्पुरी जगामाऽऽशु. जारकाक्षी धनार्थिनी॥३१ तत्र देवालये तस्मिन्स्थिता ताम्बूलभक्षणम्। कृत्वा तच्छेषचूर्ण तु ददौ भित्तौ तु कौतुकात्॥३२ तेन पुण्यप्रभावेन गणिका गतपातका । वैकुण्ठं प्रति सा याति निर्गता तव दण्डतः ।। सूत उवाच- इति श्रुत्वा ततो दूता यमोऽपि वचनं द्विज । व्यापारे चान्यतश्चितं ददुः सा गणिकाऽपि च ३४ आरूढा स्यन्दने दिव्ये राजहंसयुते तथा । विष्णुलोकं ययौ सा च वेष्टिता विष्णुकिकरैः ॥३५ श्रीविष्णोराज्ञया साऽथ कुलकोटियुताऽपि च । तस्थौ सौषगृहे विम नानाभोग चकार ह॥३६ भक्त्या यो वै हरे हे यापूर्ण प्रयत्नतः । पुण्यं किं वा भवेत्तस्य न जाने द्विजपुङ्गव ॥ ३७ भक्त्याऽध्यायं पठेयो वै शृणोति सादरं स च। सर्वपापविनिर्मुक्तो यात्यसो हरिमन्दिरम् ॥३८ इति श्रीमहापुराणे पाद्मे ब्रह्मखण्डे सूतशौनकसंवादे मन्दिरचूर्णलेपदानमाहात्म्यं नाम षष्ठोऽध्यायः ॥ ६ ॥ आदितः श्लोकानां समयकाः-१००३१ अथ सप्तमोऽध्यायः । - शौनक उवाच- कथयस्व महापात्र गोलोक याति कर्मणा । सुमते दुस्तरात्केन जनः संसारसागरात् ॥ राधायाश्चाष्टमी सूत तस्या माहात्म्यमुत्तमम् ॥ सूत उवाच- २ - ब्रह्माणं नारदोऽपृच्छत्पुरा चैतन्महामते । तच्छृणुष्व समासेन पृष्टयान्स इति द्विज ॥ नारद उवाच- पितामह महापात्र सर्वशास्त्रविदां वर । राधाजन्माष्टमी तात कथयस्व ममाग्रतः ॥ तस्याः पुण्यफलं किं वा कृतं केन पुरा विभो । अकुर्वतां जनानां हि किल्विषं किं भवेद्विज ॥४ केनैव तु विधानेन कर्तव्यं तद्वत कदा । कस्माजाता च सा राधा. तन्मे कथय मूलतः॥ ५ ६ ८ ९ ७ सप्तमोऽध्यायः ] पमपुराणम् । ब्रह्मोवाच- राधाजन्माष्टमी वत्स शृणुष्व सुसमाहितः । कथयामि समासेन समग्रं हरिणा विना ।। कयितुं तत्फलं पुण्यं न शक्रोत्यपि नारद ॥ कोटिजन्मार्जितं पापं ब्रह्महत्यादिकं महत् । कुर्वन्ति ये सकृद्भक्त्या तेषां नश्यति तत्क्षणात् ॥७ एकादश्याः सहस्रेण यत्फलं लभते नरः । राधाजन्माष्टमीपुण्यं तस्माच्छतगुणाधिकम् ॥ मेरुतुल्यसुवर्णानि दत्त्वा यत्फलमाप्यते । सकृद्रापाष्टमी कृत्वा तस्माच्छतगुणाधिकम् ।। कन्यादानसहस्रेण यत्पुण्यं प्राप्यते जनैः । वृषभानुसुताष्टम्या तत्फलं प्राप्यते जनैः ।। १० गङ्गादिषु च तीर्थेषु सात्वा तु यत्फलं लभेत् । कृष्णप्राणप्रियाष्टम्या फलं पामोति मानवः ११ एतद्वतं तु यः पापी हेलया श्रद्धयाऽपि वा । करोति विष्णुसदनं गच्छेत्कोटिकुलान्वितः १२ पुरा कृतयुगे वत्स वारनारी सुशोभना । सुमध्या हरिणीनेत्रा शुभानी चारुहासिनी ॥ १३ मुकेशी चारुकर्णी च नाना लीलावती स्मृता । तया बहूनि पापानि कृतानि सुदृढानि च १४ एकदा सा धनाकाङ्क्षी निःसृत्य पुरतः स्थिता । गताऽन्यनगरं तत्र ददर्श च जनान्वहून्॥१५ राधाष्टमीव्रतपरान्सुन्दरे देवतालये । गन्धपुष्पधूपदीपैर्वस्वैर्नानाविधैः फलैः ॥ १६ भक्तिभावैः पूजयतो राधाया मूर्तिमुत्तमाम् । केचिद्गायन्ति नृत्यन्ति पठन्ति स्तवमुत्तमम् ॥ १७ तालवेणुमृदांश्च वादयन्ति च के मुदा । तांस्तांस्तथाविधान्दृष्ट्वा कौतूहलसमन्विता ॥ जगाम तत्समीपं सा पप्रच्छ विनयान्विता ॥ १८ [*भो भोः पुण्यात्मानो यूयं किं कुर्वन्तो मुदान्विताः कथयध्वं पुण्यवन्तो मां चैव विनयान्विताम्] तस्यास्तु वचनं श्रुत्वा परकार्यहिते रताः। आरेभिरे तत्मवक्तुं वैष्णवा व्रततत्पराः ॥ राधावतिन ऊचुः- भाद्रे मासि सिताष्टम्यां जाता श्रीराधिका यतः । अष्टमी साऽद्य संप्राप्ता तां कुर्वा(या)म प्रयत्नतः गोधातजनितं पापं स्तेयज ब्रह्मघातजम् । परस्त्रीहरणाचैव तथा च गुरुतल्पजम् ॥ २२ विश्वासघातजं चैव स्त्रीहत्याजनितं तथा । एतानि नाशत्याशु कृता या चाष्टमी नृणाम् ॥ २३ तेषां च वचनं श्रुत्वा सर्वपातकनाशनम् । करिष्याम्यहमित्येवं परामृश्य पुनः पुनः ॥ तत्रैव व्रतिभिः सार्धं कृत्वा व्रतमनुत्तमम् । दैवात्सा पश्चता याता सर्पघातेन निर्मला ॥ २५ ततो यमाजया दूताः पाशमुद्गरपाणयः । आगतास्तां समानेतुं बबन्धुरतिकृच्छ्रतः ।। २६ यदा नेतुं मनश्चकुर्यमस्य सदनं प्रति । तदाऽऽगता विष्णुदूताः शङ्खचक्रगदाधराः ॥ हिरण्मयं विमानं च राजहंसयुतं शुभम् । छेदनं चक्रधाराभिः पाश(शे) कृत्वा त्वरान्विताः॥२८ रये चाऽऽरोपयामासुस्ता नारी गतकिल्विषाम् । निन्युर्विष्णुपुरं ते च गोलोकाख्यं मनोहरम् ॥ कृष्णेन राधया तत्र स्थिता व्रतप्रसादतः । राधाष्टमीव्रतं तात यो न कुर्याच्च मूढधीः ।। नरकानिष्कतिर्नास्ति कोटिकल्पशतैरपि । स्त्रियश्च या न कुर्वन्ति व्रतमेतच्छुभमदम् ॥ राधाविष्णोः प्रीतिकरं सर्वपापप्रणाशनम् । अन्ते यमपुरं गत्वा पतन्ति नरके चिरम् ॥ कदाचिजन्म चाऽऽसाच पृथिव्यां विधवा ध्रुवम् ॥ ३२ एकदा पृथिवी वत्स दुष्टसंधैश्च तांडिता । गौर्भूत्वा च भृशं दीनाऽत्राऽऽययौ सा ममान्तिकम् ॥ *एतचिहान्तर्गतः पाठः च. 7. पुस्तकस्थः । १८. बन्धुः शुद्धया पिया । य। २ ज. पीडिता । २० २४ २७ महामुनिश्रीव्यासपणीतं-- [ ३ ब्रह्मखण्डे- निवेदयामास दुःखं रुदन्ती च पुनः पुनः। तद्वाक्यं च समाकर्ण्य गतोऽहं विष्णुसंनिधिम् ॥ ३४ कृष्णे निवेदितं चाऽऽशु पृथिव्या दुःखसंचयः । तेनोक्तं गच्छ भो अमन्देवैः सार्धं च भूतलम् ३५ अहं तत्रापि गच्छामि पश्चान्मम गणैः सह । तच्छ्रुत्वा सहितो देवै रागतः पृथिवीतलम् ॥ ३६ [*ततः कृष्णः समाहूय राधां माणगरीयसीम् । उवाच वचनं देवि गच्छेऽहं पृथिवीतलम् ३७ पृथिवीभारनाशाय गच्छ त्वं मर्त्यमण्डलम् ] । इति श्रुत्वाऽपि सा राधाऽप्यागता पृथिवीं ततः भाद्रे मासि सिते पक्षे अष्टमीसंज्ञके तिथौ । वृषभानोर्यज्ञभूमौ जाता सा राधिका दिवा ॥ ३९ यज्ञार्थ शोधनं चक्रुर्यदा सा दिव्यरूपिणी। राजाऽऽनन्दमना भूत्वा तां पाप्य निजमन्दिरम् ।। दत्तवान्महिषी नीत्वा सा च तां पर्यपालयत् । इति ते कथितं वत्स त्वया पृष्टं च यद्वचः ॥ गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः ॥ सूत उवाच-- य इदं भृणुयाद्भक्त्या चतुर्वर्गफलप्रदम् । सर्वपापविनिर्मुक्तश्चान्ते याति हरेर्गृहम् ॥ ४२ इति श्रीमहापुराणे पाये ब्रह्मखण्डे ब्रह्मनारदसंवादे श्रीराधाष्टमीमाहात्म्यं नाम सप्तमोऽध्यायः ॥ ७ ॥ आदितः श्लोकानां समष्टयङ्काः-१००७३ अथाष्टमोऽध्यायः । २ ५ शौनक उवाच- समुद्रमथनं सूत पुरा कस्मात्कृतं गुरो । हृदये कौतुकं जातं श्रोतुं मे वद चामरैः॥ सूत उवाच- ब्रह्मन्वच्मि समासेन सिन्धोर्मथनकारणम् । दुर्वाससेन्द्रसंवादमितिहासं शृणुष्व तत् ॥ महातपा महातेजा दुर्वासा ईश्वरांशजः । ब्रह्मर्षिः प्रययौ स्वर्गमिन्द्रं द्रष्टुं स चैकदा ।। तस्मिन्ददर्श काले तं गजारूढं शचीपतिम् । दृष्ट्वा स्रनं पारिजातां ददौ तस्मै महामुनिः ॥ ४ गृहीत्वा तां सज चेन्द्रो विन्यस्य गजमूर्धनि । देवरामययौ ब्रह्मन्ससैन्यो नन्दनं प्रति ।। हस्ती चाऽऽदाय तो मालां छित्त्वा तु धरणीतले । चिक्षेप च महाकुद्धस्तमित्याह महामुनिः।।६ त्रैलोक्यैकश्रिया युक्तो यस्मात्त्वमवमन्यसे । तव त्रैलोक्यश्रीनष्टा भवत्येव न संशयः ॥ ततः शको जगामाऽऽशु शप्तश्च स्वपुरं पुनः । ददर्श जगतां माता चान्तर्धानं गता स्वयम् ॥ नष्टमन्तर्धानवत्यां तदा तस्यां जगत्रयम् । क्षुत्पिपासान्विताः सर्वे चुकुशुवै निरन्तरम् ।। न ववधुर्वारिवाहाः शुष्काश्चैव जलाशयाः । सर्वे ते शाखिनः शुष्काः फलपुष्पविवर्जिताः ॥१० क्षुत्पिपासार्दिताः सर्वे ब्रह्मणः संनिधिं ययुः । तं सर्वे कथयामासुः दुःखशोकं पितामहम् ॥११ देवानां वचनं श्रुत्वा धाता देवगणैः सह । भृग्वादिमुनिभिश्चैव प्रययौ क्षीरसागरम् ।। १२ विष्णुं समर्चयामास क्षीराब्धेरुत्तरे तटे । मन्त्रमष्टाक्षरं वे[+धा जपन्ध्यायञ्जगत्पतिम् ।। ततः प्रसनो भगवान्सर्वेषां च दिवौकसाम् । वैनतेयं समारुह्य चाऽऽगतः सदयः प्रभुः ॥ १४ पीतवस्त्रं चतुर्बाहुं शङ्खचक्रगदाधरम् । दृष्ट्वा तं जगतामीशं पुण्डरीकनिभेक्षणम् ॥] १५ एतचिहान्तर्गतः पाठः च. ढ. पुस्तकस्थः। एतचिहान्तर्गतः पाठः क. ख. च. ज. स. द. पुस्तकस्थः । १ ज. हस्ते । २ ज. सुरैः। ३ ज. सत्वरम् । ८ ९ - ९ नवमोऽध्यायः] पमपुराणम् । विष्णु भगोदधे पोते वनमालाविभूषितम् । श्रीवत्सकौस्तुभोरस्कमानन्दाश्रुपरिप्लुताः ।। तुपुबुर्जयशब्देन नमश्चकुनिरन्तरम् ॥ श्रीभमवानुवाच- [वरं वृणीध्वं भो देवाः कस्माथ्यं समामताः । वरदोऽस्मि तद्वदत वो ददामि च नान्यथा?७ देवा ऊचु:- कपालो ब्रह्मशापेन संपद्धीनं जगत्रयम् । क्षुत्पिपासादितं नाथ सदेवासुरमानुषम् ।। रक्ष सर्वानिमाल्लोकान्याताः स्म शरणं वव ।। श्रीभगवानुवाच-] इन्दिरा ब्रह्मशापेन चान्तर्धानं गता शुभा । यस्याः कटाक्षमात्रेण जगदैश्वर्यसंयुतम् ॥ १९ तदा यूयं सुराः सर्वे चोत्पाव्य स्वर्णपर्वतम् । मन्दरं घर्घरं कृत्वा सर्पराजेन वेष्टितम् ।। कुरुवं मन्थनं देवाः सदैत्याः क्षीरसागरम्(रे)। तस्मादुत्पत्स्यते लक्ष्मीर्जगन्माता च भोः सुराः तया दृष्टा महाभागा भविष्यथ न संशयः । धारयाम्यहमेवाद्रिं कर्मरूपेण सर्वतः ।। इत्युक्त्वा भगवान्विष्णुरन्तर्धानं जगाम सः । जग्मुः सुरासुराः सर्वे समुद्रमथनं द्विज ॥ इति श्रीमहापुराणे पाछे ब्रह्मखण्डे समुद्रमथनं नामाष्टमोऽध्यायः ॥ ८ ॥ आदितः श्लोकानां समष्टयङ्काः-१००९६ २० २२ अथ नवमोऽध्यायः । - २ ४ ५ w सूत उवाच- बतोऽमरगणास्ते तु सगन्धर्वाः सदानवाः । उत्पाव्य मन्दरे शैलं चिक्षिपुः पयसां निधौ ॥ १ ततः सनातनः श्रीमान्दयालुर्जगदीश्वरः । अधारयद्रेिर्मूलं कूर्मरूपेण पृष्ठतः ॥ अनन्तं तत्र संवेष्ट्य ममन्युर्दुग्धसागरम् । एकादश्यो मध्यमाने चोद्भूतं प्रथमं द्विज ॥ कालकूटविषं वे तु दृष्ट्वा सर्वे प्रबुद्रुवुः । ततस्तान्विद्रुतान्दृष्ट्वा शंकरश्वोक्तवानिदम् ॥ भो भोमरंगणा यूयं विषं कुरुते मे करे । वारयिष्याम्यहं तूर्ण कालकूटं महाविषम् ॥ इत्युक्त्वा पार्वतीनाथो ध्यायनारायणं हृदि । महामन्त्रं समुच्चार्य विषमादद्भयंकरम् ।। महामवमभावेण विषं जीर्ण गतं महत् । अच्युतानन्तगोविन्द इति नामत्रयं हरेः ।। यो जपेत्मयतो भक्त्या प्रणवायं नमोन्तिकम् । विषभोगामिजं तस्य नास्ति मृत्योर्भयं तथा ॥ वतो दृष्टा मुदा देवा ममन्युः क्षीरसागरम् ॥ ततोऽलक्ष्मीः समुत्पमा कालास्या रक्तलोचना । रुक्षपिङ्गलकेशा च जरन्ती बिभ्रती तनुम् ॥९ सा च ज्येष्ठाऽब्रवीदेवानिक कर्तव्यं मयेति वै । देवास्तथाऽब्रुवंस्तां च देवी दुःखस्य भाजनम् ॥ येषां नृणां रहे देवि कलहः संप्रवर्तते । तत्र स्थान प्रयच्छामो वस ज्येष्ठे शुभान्विता ॥ ११ निधुरं वचनं ये च वदन्ति येऽनृतं नराः । संध्यायां ये हि चाश्नन्ति दु:खदा तिष्ठ तद्गृहे १२ * एतचिहान्तर्गतः पाठः, प.ज. पुस्तकस्थः । सिंधिरापः । ८ १ज. उ. सुराः । ११. दृष्टा । ३ अ. अ. त मा दरम् । वा । ४ ज. रे । धार ।
२९४ महामुनिश्रीव्यासप्रणीत- [ ३ ब्रह्मखण्डे- कपालकेशभस्मास्थितुषागाराणि यत्र तु । स्थानं ज्येष्ठे तत्र तव भविष्यति न संशयः ।। अकृत्वा पादयोधौंतं ये चाश्नन्ति नराधमाः। तद्गृहे सर्वदा तिष्ठ [ दु:खदारियदायिनी ॥१४ वालुकालवणाकारैः कुर्वन्ति दन्तधावनम् । तेषां गृहे सदा तिष्ठ ] दुःखदा कलिना सह ॥ १५ छत्राकं श्रीफलं शिष्टं ये खादन्ति नराधमाः। गेहे तेषां तव स्थानं ज्येष्ठे कलुषदायिनि ॥ १६ तिलपिष्टमलाईं ये गृञ्जनं पोतिकादलम् । कलम्बुकं पलाण्डु ये चाश्नन्ति पापबुद्धयः ।। तेषां गृहे तव स्थानं भविष्यति न संशयः॥ १७ गुरुदेवातिथीनां च यजदानविवर्जितम् । यत्र वेदध्वनिर्नास्ति तत्र तिष्ठ सदा शुभे ॥ १८ ['दंपत्योः कलहो यत्र पितृदेवार्चनं न वै । दुरोदररता यत्र तत्र तिष्ठ सदा शुभे] ॥ १९ परदाररता यत्र परद्रव्यापहारिणः । विप्रसज्जनवृद्धानां यत्र पूजा न विद्यते ॥ तत्र स्थाने सदा तिष्ठ पापदारिधदायिनी ।। इत्यादिश्य सुरा ज्येष्ठां सर्वे तां कालवल्लभाम् । क्षीराब्धिमयनं चक्रुः पुनस्ते सुसमाहिताः॥२१ इति श्रीमहापुराणे पाने ब्रह्मखण्डे समुद्रमथनं नाम नवमोऽध्यायः ॥ ९ ॥ आदितः श्लोकानां समष्टयङ्काः-१०११७ २० अथ दशमोऽध्यायः । २ सूत उवाच- ऐरावतस्ततो जज्ञे तथैवोच्चैःश्रवा हयः । धन्वन्तरिः पारिजातः सुरभिश्वाप्सरोदयः ॥ ततः प्रभातसमये द्वादश्यामुदिते रवौ । उत्पन्ना श्रीमहालक्ष्मीः सर्वलक्षणशोभिता ॥ ददृशुस्तां महादेवीं मातरं धर्मदेवताः । प्रहृष्ट(ष्टाः)सर्वजन्तूनां श्रीकृष्णहृदयालयाम् ॥ लक्ष्मीभ्राता शीतरश्मिर्जातश्च सुधया ततः । उत्पना सा हरेर्जाया तुलसी लोकपावनी ।। तं शैलं पूर्ववत्स्थाप्य परिपूर्णमनोरथाः । समेत्य मातरं स्तुत्वा जेपुः श्रीसूक्तमुत्तमम् ॥ ततः प्रसन्ना सा देवी सर्वान्देवानुवाच ह । वरं वृणीध्वं भद्रं वो वरदाऽहं सुरोत्तमाः॥ ३ ४ ५ w देवा ऊचुः- - ७ ९ १० प्रसीद कमले देवि सर्वमातहरिप्रिये । त्वया विना जगच्छून्यं कुरु प्राणपरक्षणम् ॥ इत्युक्ता सा महालक्ष्मीः प्राह नारायणप्रिया । इदानीं सर्वजन्तूनां प्राणरक्षा करोम्यहम् ॥ ८ ततो मारायणः श्रीमाशङ्खचक्रगदाधरः । आविर्वभूव सहसा दयालुर्जगदीश्वरः ॥ ततस्ते तुष्टुवुर्देवाः प्रणम्य जगतां पतिम् । कृताञ्जलिपुटाः मोचुईर्षगद्दभाषिणः ॥ गृहाण मातरं विष्णो महिषीं वल्लभां तव । संसाररक्षणार्थाय लक्ष्मीमनपगामिनीम् ॥ यावत्पतिज्ञा नो चक्रे तावत्माहेन्दिरा हरिम् ॥ ११ लक्ष्मीरुवाच- अविवाह्य कथं ज्येष्ठामलक्ष्मी मधुसूदन । तस्याः कनिष्ठां मां नाथ विवाहं कर्तुमिच्छसि ।। ज्येष्ठायां च स्थितायां वै कनिष्ठा परिणीयते ॥ * एतचिहान्तर्गतः पाठः, च. ज. द. पुस्तकस्थः । । एतचिहान्तर्गतः पाठः, च. ज. पुस्तकस्यः । १च. ज. ढ. कलिवल्लभाम् । २ ज. 'महलमाला । हूँ। १२ ११ एकादशोऽध्यायः ] पद्मपुराणम् । सूत उवाच- इति श्रुत्वा ततो विष्णुर्ददौ चोहालकाय च । वेदवाक्यानुरूपेण ह्यलक्ष्मी निर्जरैः सह ॥ १३ ततो नारायणः श्रीमालक्ष्मीमङ्गीचकार ह । ततः सुरगणाः सर्वे नमश्चक्रुः पुनः पुनः॥ १४ अथ ते चासुरान्सञ्जिभुः सर्वे बलाधिकान् । सर्वे ते क्रन्दमानाश्च गताश्चैव दिशो दश ॥ १५ सुधां तत्खादितुं चक्रुर्देवाः पतिं यथाक्रमम् । श्रीविष्णोराज्ञया सर्वे चोचुश्चैव परस्परम् ॥ १६ त्वं च देहि त्वं च देहि त्वं च देहीति चाब्रुवन्। न शक्तोऽस्मिन शक्तोऽस्मिन शक्तोऽस्मीति चात्रुवन् ततो विष्णुः समुत्तस्थौ स्त्रीरूपं च दधार ह । चकार स्वर्णपात्रे च पीयूषपरिवेषणम् ॥ १८ पीयूषभक्षणं राहुर्यावत्कुर्याद्विजोत्तम । चन्द्रसूर्यो चोक्तवन्तौ राक्षसोऽसौ छलागतः ॥ १९ ततः क्रुद्धो जगनाथो जघान स्वर्णपात्रतः । शिरस्तस्य पपातोळ केतुर्नान्ना बभूव ह ॥ राहुकेतू ततस्तूर्ण गतौ तौ भयविहलौ । इदानीं तद्दिने प्राप्ते चन्द्रसूर्यौ स युध्यति ॥ कुर्याद्रास सैंहिकेयस्तत्क्षणं दुर्लभं भवेत् ॥ सर्व गङ्गासमं तोयं वेदव्याससमा द्विजाः । स्नानं वायसतीर्थे यो गङ्गास्नानफलं लभेत् ॥ २२ दानमक्षय्यपुण्यं स्यात्कोटिजन्मार्जितं तथा । पापं नश्येत्समूलं च किं पुनः क्रतुकोटिभिः ॥२३ विद्यार्थी लभते विद्यां पुत्रार्थी पुत्रमानुयात् । मोक्षार्थी लभते मोक्षं मत्रसिद्धिर्भवेध्रुवम् ।। इति ते कथितं विप्र समुद्रमथनं तु तत् ।। इति श्रीमहापुराणे पाने ब्रह्मखण्डे समुद्रमथनं नाम दशमोऽध्यायः ॥ १० ॥ आदितः श्लोकानां समष्ट्यङ्काः-१०१४१ २० २४ अथैकादशोऽध्यायः । - २ शौनक उवाच- इदानीं श्रोतुमिच्छामि कथयस्व यथार्थतः । हरिस्वरूपिणा साक्षाद्वेदव्यासेन शासित ॥ निरहंकार हे सूत लोकानुग्रहकारक । केन स्यात्सुभगा नारी पापिनी च सुदुर्भगा ॥ पतिप्रियाज केन स्यापिता चक्षुषोः सुधा । केन वा जायते लक्ष्मीस्तन्मे हि तपोधन ॥ ३ सूत उवाच- यदि पुण्यमिदं विप्र वृत्तं परमदुर्लभम् । शृणुष्व भोः समासेन कथयामि विधानतः ॥ आसीद्रश्रवा राजा युगे द्वापरसंझके । सौराष्ट्रदेशवासी च वेदवेदाङ्गपारगः ॥ ५ भार्या तस्य च संजाता नाना सुरतिचन्द्रिका । तस्यां बभूवुः श्रीराज्ञः सप्त पुत्रा मनोरमाः॥६ ततोऽपि जाता दुहिता सुन्दरी सत्यवादिनी । श्यामबाला च विमेन्द्र नाना पीतिकरी पितुः ७ अथैकदा श्यामबाला सुवर्णसिकतासु च । गूढैर्मनोहरै रत्नैः सखीभिः क्रीडितुं मुदा ॥ जगाम नीपवृक्षस्य तलं परमदुर्लभम् ॥ रतस्मिनन्तरे विप्र लक्ष्मीः संसारतारिणी। लोकानां नीतिदा साऽथ समायाता स्वयं पुरः॥९ वृत्वा च ब्रामणीरूपं पलिताङ्गी च भूसुर। अखिलानां च लोकानां शास्तू राज्ञः क्षयं विना१० तेषां मुद्रतराणां हि गृहं गच्छामि सांमतम् । इति संचिन्त्य मनसा गता राजनिकेतनम् ११ सुवर्णभित्तिभिर्युक्तं पताकाभिरलंकृतम् । सिंहद्वारमभिक्रम्य पाह दौवारिकी ततः ॥ १२ १ ज. °ता च तत्पुरीम् ।। ८ २२ महामुनिश्रीव्यासमणी- [३ ब्रह्मखण्डे- द्वार जहिहि भो द्वारनियुक्ते शुभलक्षणे । यामि वेगेन पश्यामि राही मुरतिचन्द्रिकाम् ॥ ११ तच्छ्रुत्वा वचनं तस्या रत्नदण्डकरा च सा । कोकिलावाक्यवन्मुक्तं परमं हर्षमाययौ ॥ ११ द्वारनियुक्तोवाच- किं नाम वहसे वृद्ध कः पतिस्तावकः पुनः । आगताऽसि कथं किं ते कार्य राश्याच दर्शने ॥ कस्मात्किं ब्रूहि विप्रे त्वं श्रोतुं कौतूहलं हि मे ॥ १५ वृद्धोवाच- शृणु पोष्ये महाराजपल्ल्या दण्डकरे यदा । श्रोतुं कौतूहलं तेऽस्ति मदागमनकारणम् ।। १६ प्रसिद्धा कमला नाना चाहं प्राणेश्वरो मम । भुवनेश इति ख्यातो नाना द्वारवती पुरी ॥१७ तस्यां वै वर्तते पोष्ये मम प्राणेश्वरस्तथा । आगताऽहं रत्नवेत्रकरे शृणु सकौतुकम् ॥ १८ ममाऽऽगमनकार्य हि वमीदानीं तवाग्रतः । पुराऽऽसीद्वैश्यकुलजा रानी तव च दु:खिनी ॥ १९ एकस्मिन्दिवसे पोष्ये पतिना कलहः कृतः । तया नार्या च दुःखिन्या ततो वै भर्तृपीडिता॥२० बहिर्भूय द्रुतं गेहाद्रुदन्ती च पुनः पुनः । तस्याश्च रोदनं श्रुत्वा चाऽऽगताऽहं समीपतः ॥ २१ पप्रच्छ सर्ववृत्तान्तं कथितो वै यथार्थतः । तया ततो व्रतवरमुपदेशं ददाम्यहम् ॥ ममोपदेशतः सा वै चके व्रतवरं मुदा । तस्य प्रसादाद्भो द्वाःस्थे संजाता सुलिता च सा ॥२३ कदाचिद्वैश्यकुलजा पत्या मृत्योर्वशं गता । समानेतुं ततस्तौ तु विहिताखिलपातको । किंकरान्प्रेषयामास चण्डाधान्धर्मरादप्रभुः । यमाज्ञया समायाता यमदूता भयेकराः ।। २५ बद्ध्वा तौ चर्मपाशेन लोहमुद्गरपाणयः । उद्यमं चक्रिरे गन्तुं यमस्य शरणं प्रति ।। २६ अत्रान्तरे च लक्ष्म्यास्तु दूता विष्णुपरौयणाः। समानेतुं समायाताः शङ्खचक्रगदाधराः॥ २७ दृष्ट्वा तथाविधांस्तांश्च यमदूताः पलायिताः । लक्ष्मीदता महात्मानः स्वप्रकाशादयस्तथा ॥ २८ पाशं छित्त्वा समारोप्य राजहंसयुते रथे । जग्मुर्लक्ष्मीपुरं सर्वे सहसा कीर्तिवर्मना ।। २९ यावद्वारं व्रतवरं वैश्या कृतवती च सा । तावत्कल्पसहस्राणि तस्थतुः कमलापुरे ॥ ३० पुण्यशेषस्य भोगार्थ जातौ राजान्वयेऽधुना । व्रतं च विस्मृतौ द्वाःस्थे राजसंपत्तिगर्वितौ ।। तस्माच्च तव तस्यापि चोपदेशार्थमागता ।। द्वाःस्थोवाच- केनैव तु विधानेन वृद्ध व्रतवरं कृतम् ॥ कस्मिन्मासे व्रतं श्रेष्ठं देवता का च पूज्यते । एतन्मे पृच्छतो(?)मातर्यथावद्वतुमर्हसि ॥ कमलोवाच- कार्तिके च व्यतिक्रान्ते मार्गशीर्ष समागते । तस्मिन्मासे च भोः पोष्ये वासरे गुरुसहके ॥ ३४ ततः पूर्वाहसमये सकलव्रतिभिर्वृता । नारायणेन सहिता लक्ष्मी संपूजयेत्ततः ॥ मिष्टः पायसयुक्तैश्च (तैश्च खण्डमिश्रितैः । लक्ष्मी संतोषयेत्भेष्ये ततः संप्रार्थयेदिदम् ।। ३६ त्रैलोक्यपूजिते देवि कमले विष्णुवल्लभे । यथा त्वमचला कृष्णे तथा भव मयि स्थिता ॥ ३७ ईश्वरि कमले देवि शरणं च भवानघे । नानोपहारद्रव्यैश्च लक्ष्मीमाशाप्य तोषयेत् ॥ शास्त्रश्च पूजयेद्देवी महोत्सवसमन्विताम् । ततो नैवेधशेषांव दवा ब्रामणसत्तमम् ।। - ३२ ३३ ३८ १. 'ते यो वै म । २ च. ज. तदा । ३ च. ज. 'राक्रमाः ।।..।
१२ - १९ ११ एकादशोऽध्यायः ] पनपुराणम् । ३९ आत्मानं स्वपति पुत्रान्पोष्येऽन्यानपि सेवकान् । द्वितीये तु गुरोर्वारे विशेष शृणु सुन्दरि ॥ ४० चित्रधूलीमशस्तैश्च भ्राष्ट्रैर्गोधूमनिर्मितैः । तोषणं कमलादेव्याः कुर्यादै भक्तिभावतः ।। तृतीये खण्डसंयुक्तं दध्योदननिवेदनम् । श्यामाकशालिकासारैश्चतुर्थे पूजयेन्मुदा ॥ लक्ष्मीदेवी प्रयत्नेन रत्नदण्डकरे ततः । लक्ष्मीदेवीप्रीतये तु ब्राह्मणान्पूजयेद्धनैः ।। वसालंकारभोज्यैश्च फलैर्नानाविधैस्तथा ॥ पोष्योवाच- अत्रैव तिष्ठ भो वृद्ध राही सुरतिचन्द्रिकाम् । विज्ञाप्य त्वां नयिष्यामि मा क्रोधं कुरु सत्तमे ४४ इत्युक्त्वा सा तु चाकी गता राजीसमीपतः । शिरस्यञ्जलिमाधाय पोष्या ब्रह्मन्समूलतः॥४५ आरभ्य साापर्यन्तं यदूचे कमलालया। तत्सर्वं कथयामास राही सुरतिचन्द्रिकाम् ।। द्वारपालीवचः श्रुत्वा राशी सुरतिचन्द्रिका । जगाम ब्रामणीपार्श्व सगर्वा प्राह सुन्दरी ॥ ४७ राश्युवाच वृदे प्रामाणि किं वृत्तं चोपदेशार्थमागता । कथयस्व चिरं मखं भयं त्यक्त्वा यथासुखम् ॥ ४८ ब्रामण्युवाच- तवानीतिमहं दृष्ट्वा गन्तुमिच्छामि चञ्चला । कथयिष्यामि किं दुष्टे व्रतं परमदुर्लभम् ॥ इन्दिरावासरे चाय चाण्डाले न करोषि यत् । तदृष्टं मयि का(म किं)दुष्टे त(त्व)हे गर्वितेऽधुना तच्छ्रुत्वा ब्राह्मणीवाक्यं क्रोधसंरक्तलोचना । जरन्ती ग्रामणीं चैव प्रहारं च चकार सा ॥५१ ततः सा कमला वृद्धा क्रन्दमाना पलायिता । क्रीडमाना ततः श्यामा ब्राह्मणीक्रन्दनध्वनिम् ।। आगताऽस्याः समीपं तु श्रुत्वा बाला तपोधना ॥ श्यामबालो वाच- बद्ध व्यथेशी केन दत्ता तुभ्यं वदस्व मे । तस्या वचनमाकर्ण्य शोकगद्गदया गिरा ।। कमलाकथितं सर्व मृत्तान्तं द्विजसत्तम । श्यामबाला ततः श्रुत्वा व्रतं परमदुर्लभम् । शास्त्रोक्तविधिना चक्रे सश्रद्धं च सुभक्तितः ॥ ५४ त्रिवारे परिपूर्णे तु तुर्यवारे समागते । विवाहकर्म संसिद्धं द्विज लक्ष्मीप्रसादतः ॥ श्रीसिद्धेश्वरदेवस्य नृपते पतेजसः । मालाधरो नाम सुतो गृहीत्वा तां गृहं गतः ॥ अथ तस्यां गतायां तु ब्रह्मशृणुष्व कौतुकम् । राजीगृहे च सर्वाणि स्थितानि च बहूनि च ५७ द्रव्याणि केन नीतानि न ज्ञातान्यपि भूसुर । निर्वित्ता बुद्धिहीना सा चानवस्वविवर्जिता ॥५८ उपविष्टा च केनापि गन्तुं च दुहितुर्ग्रहम् । प्रेषयामास भर्तारं किंचित्मार्थनहेतवे ।। तस्य मालाघरस्यापि ग्रामे च सरसीतटे । कालेन कियता विप्र प्रवेशं च चकार सः॥ तस्माजलं समानेतुं तस्या दास्यः समागताः । तं दृष्ट्वा दुःखिनां श्रेष्ठं प्रपच्छुः सानुकम्पिता:६१ दास्य ऊचु:--- कस्त्वं कुतः समायातो मांसरक्तविवर्जितः । रूक्षाको रूक्षकेशश्च तत्सर्व कथयस्व नः ।। दरिद्र उवाच- श्यामवालापिता चाहं सौराष्ट्रनगरागतः । कथयध्वं च भो दास्यः श्यामवालासमीपतः ॥ ६१ ज.त् । न बटे चमचे स्वगृहेऽभूना । २ च, ज. पुत्रहीना । ३ च, ज. परिवेश र कष्टतः । । ।
७२ ३९८ महामुनिश्रीव्यासमणी- [३ ब्रह्मखण्डे- तच्छ्रुत्वा वचनं तस्य कौतूहलसमन्विताः । परस्परमुखाः सर्वा जहसुः स्वपुरं गताः ॥ श्यामबाला च कथितं सर्व वृत्तं च भो द्विज । श्रुत्वा तद्वचनं तासां प्रेषयामास सेवकान् ॥६५ पुष्पतैलं द्विव्यवस्त्रं चन्दनं पर्णवीटिकाम् । घोटकं च तथा दत्त्वा पितरं प्रति सुन्दरी ॥ गत्वाऽय सर्वे ते भृत्याः कृत्वाऽऽशु वेशमुत्तमम् । श्यामबालागृहं निन्युर्देवराजहोपमम् ॥ ६७ श्यामबाला ततश्चैव पितरं दुःखिनां वरम् । शाल्यमं सघृतं चैव भोजयामास यत्नतः ॥ ६८ तुर्येषु समतीतेषु दिवसेषु तपोधन । प्रेषयामास तं दत्त्वा गुप्तपात्रस्थितं धनम् ॥ ६९ ततः प्रविश्य स्वगृहे धनं पात्रान्तरस्थितम् । ददर्शाङ्गारनिचयं रुरोद भृशदुःखितः ॥ दुहितुः सदनं यातुं निससार गृहागतः । तत्रैव सरसीकुले प्रविवेश च दु:खिनी ॥ तथैनां च समानीतां यथाऽस्याः प्राणवल्लभा । तथैव पूजयामास मातृस्नेहात्पतिव्रता । एतस्मिन्समये विष लक्ष्मीवासरमुत्तमम् । श्यामबाला कारयितुं मनश्चक्रे च मातरम् ॥ तस्या माता दरिद्राणि भुक्त्वा चैकान्तिकेऽपि च । [*शावकानां तु चोच्छिष्टं लक्ष्मीकोपसमन्विता इन्दिरायास्तृतीयानि (?) वासराणि गत्या(ता)न्यपि]। चतुर्थवासरे तां तत्कारयामास सा दृढम् ॥ आगता नगरं सा वै राझी सुरतिचन्द्रिको । दृष्ट्वा गृहं तथा दिव्यामन्दिरायाः प्रसादतः ॥७६ श्यामबाला च विप्रेन्द्र कदाचित्समये पुनः । मातुर्ग्रहं गता चाय ऐश्वर्यस्य दिक्षया ॥ श्यामबाला ततो दूरादृष्ट्वा संकुपिता च सा। न पश्यामि मुखं तस्या इत्युक्त्वाऽलक्षिता स्थिता ७८ गत्वा गृहान्तरालं च गृहीत्वा सैन्धवं च सा । आगता स्वगृहं किंचितूर्ण लक्ष्मीसमाश्रितम् ७९ ['राजा स्वामी च पप्रच्छ तां साध्वीं पतिदेवताम्। किमानीतं त्वया कान्ते कथयस्व ममाग्रतः॥] ८० कान्तोवाच- राज्यसारं समानीतं दर्शयिष्यामि भोजने । इत्युक्त्वा सा तदा पाकं कृत्वा च लवणं विना८१ अनादिकं ततो दत्त्वा मालाधराय भूभुजे । ततो मालाधरो राजा व्यञ्जनं लवणं विना ॥ ८२ भुक्त्वा वैगुण्यतां प्राप्तो राजसारं ददौ च सा । तदा हृष्टमना राजा भोजनं कृतवान्द्विज ॥ प्रशशंस च तां नारी धन्या धन्या इति ब्रुवन् । ८३ एतव्रतं च या नारी न करोति महादरात् । जन्मजन्मनि सा नारी दरिद्रा दुर्भगा भवेत् ८४ इदं या शृणुयाद्भक्त्या पठेद्यो वा समाहितः । सर्वपापैर्विनिमुक्तो लक्ष्मीलोकं लभेच्च सा ॥ ८५ इमां व्रतकयां या तु न श्रुत्वा कुरुते व्रतम् । तस्या व्रतफलं चैव नश्यत्येव न संशयः ॥ ८६ इति श्रीमहापुराणे पाने ब्रह्मखण्डे सूतशौनकसंवाद एकादशोऽध्यायः ॥११॥ आदितः श्लोकानां समष्टयङ्काः-१०२२७ ७७ अथ द्वादशोऽध्यायः । शौनक उवाच- केन पुण्येन भोः सूत चान्येन गतपातकः । नरो याति हरेः स्थानं तद्वदस्वानुकम्पया॥ * एतचिहान्तर्गतः पाठः, च.. पुस्तकस्थः । । एतचिहान्तर्गतः पाठः, च.ज. पुस्तकस्थः । . १३. म. ने दिव्यवाटि । २ ज. का । ददर्श च तथा व्यं ।।.'न सापळ , ३ ४ - ९ १२ द्वादशोऽध्यायः ] पद्मपुराणम् । सूत उवाच- बामणस्य धनैः 'प्राणान्माणैर्वाऽपि द्विजोतम । रक्षा करोति यो मा विष्णुलोकं स गच्छतिर पुरा राजा दीननाथो द्वापरसंबके युगे । आसीदपुत्रो बलवान्वैष्णवः स तु याजकः ॥ एकदा गालवं राजा पप्रच्छ विनयान्वितः । केन पुण्येन जायेत पुत्रो वै करुणार्णव ॥ वदख मुनिशार्दूल करिष्यामि तवाऽऽनया । येषां नृणां नास्ति सुतो जीवनं हि निरर्थकम् ॥५ गालव उवाच- राजशृणुष्वावहितो यत्पृष्टोऽस्मि तवाग्रतः । कथयामि समासेन पुत्रस्योद्भवकारणम् ॥ क्रतुं च नरमेधाख्यं कुरुष्व राजसत्तम । तदा ते संततिः स्याद्वै सर्वलक्षणसंयुता ॥ राजोवाच- नरमेधं महायज्ञं यज्ञानां प्रवरं द्विज । कीदृशं नरमानीय करिष्यामि गुरो वद ॥ गालव उवाच- सुन्दराङ्गः सुवदनः समस्तशास्त्रविद्भवेत् । सत्कुले यदि जातः स तदा यज्ञाय कल्पते ॥ आहीनः कृष्णवर्णो मूर्यो योग्यो भवेन हि । इत्युक्ते गालवे विष स राजा मनुजेश्वरः ॥ १० प्रेषयामास दूतांश्च कथयित्वा मुनेर्वचः । द्रविणं बहु दत्त्वा च गालवप्रमुखान्दिजान् ॥ ११ यज्ञार्थे वरयामास समस्तशास्त्रपारगान् । ततो राजाज्ञया दूता देशं देशं मुदा गताः॥ १२ ग्रामे ग्रामे द्विजश्रेष्ठ पत्तनेऽपि समाहिताः । कुत्रापि न प्राप्तवन्तो गता जनपदं ततः॥ नाम्ना दशपुरं विष कीर्ण गुणिभिर्द्विजैः । यत्र नारीः सुकेशीश्च मृगशावकचक्षुषः ॥ १४ दृष्ट्वा मुह्यन्ति पुरुषाश्चन्द्रमुख्यश्च ता यतः । तस्मिन्पुरे मनोरम्ये कृष्णदेव इति द्विजः ॥ १५ आसीत्पुत्रिभिः सार्ध भार्यया च मुशीलया । वैष्णवः पियवादी च विष्णुपूजारतः सदा॥१६ साग्निकः पितृभक्तश्च वैष्णवानां प्रियंकरः। प्रार्थनां चक्रुरय ते राहो दूता द्विजोत्तमम् ॥ १७ पुत्रं देहीति देहीति वद ब्राह्मणसत्तम । नास्ति राज्ञो द्विजश्रेष्ठ पुत्रः संतापनाशनः ॥ तदर्थ नरमेधाख्ये यज्ञे भव सदीक्षितः । नेष्यामि तव पुत्रं वै बलिं दातुं महाक्रती॥ सुवर्णानां चतुर्लक्षं ब्रह्ममय समाहितः । सुखेन यदि दातव्यो नो पुत्रः पुत्रलालसात् ॥ २० सदा बलेन नेष्यामो राजाज्ञाकारिणो वयम् । दूतानां वचनं श्रुत्वा ब्राह्मणौ शोकविहलौ ॥२१ अभूतां विगतमाणाविव संशयमानसौ । किं धनेन सुवर्णेन जीवनेनापि समना ॥ मोवाचेदं वचः [*सोऽपि ब्राह्मणो राजपूरुषान् । ब्राह्मण उवाच- यदि दूताः समानेतुं पुत्रं शोकतमोपहम् । आगता निश्चितं यूयं शृणुध्वं वचनं मम ॥ स्थित्वा पृथिव्यां को भ्रष्टां राजाज्ञां कर्तुमिच्छति । पुत्रं हित्वा किं तु यूयं वृद्धं मां नयथ द्विजम् इति तस्य वचः ] श्रुत्वा दूताः क्रोधसमन्विताः । बलात्कारेण तद्गहे सुवर्णानि च तत्यजुः॥२५ यदा नेतुं मनश्चकुस्तं पुत्रं किल ते कुधा । बद्धाञ्जलिपुटो भूत्वा रुदन्मोवाच स द्विजः ॥ २६ पुत्राणां ज्येष्ठपुत्रं मे हित्वाऽन्यं पुत्रमुत्तमम् । नयतेति वचो वक्तुं वक्त्रे नाऽऽयाति हे जनाः २७ + षष्ठप द्वितीयाऽ थी । * एतचिहान्तर्गतः पाठः, च. ज. द. पुस्तकस्थः । २२ १ज.स्तशन। २ ज. संकीर्ण ।
२८ महामुनिश्रीव्यासमणीत- [३ ब्रह्मखण्डे- द्विजस्य वचनं श्रुत्वा ब्रामणी रुदतीं तदा । पोचुक्ताः कनीयासं पुत्रं देहीति सत्तम । तेषामिति वचः श्रुत्वा ब्राह्मणी भूमितस्तदा । पपात वात्यया सार्ष रम्भेव भृशदुःखिनी ॥२९ मुद्रं सा समादाय मौलौ चाताडयदलात् । कनिष्ठं मत्सुतं दूता नापि दास्यामि सर्वथा ॥३० एतस्मिन्समये विश्व विप्रस्य मध्यमः सुतः । मोवाच विनयाविष्टः प्रणम्य पितरौ रुदन् ॥ १ माता यदि विर्ष दयात्पित्रा विक्रीयते सुतः । राजा हरति सर्वखं कस्तत्र पालको भवेत् ।।३२ इत्युक्त्वा तत्सुतो मूर्धा प्रणम्य पितरौ सह । दूतैर्जगाम त्वरितै राज्ञोऽस्य दीक्षितस्य च ॥३३ अथ तौ ब्राह्मणौ पुत्रविच्छेदक्लिष्टमानसौ । रुदित्वा च रुदित्वा च अन्धभावं प्रजग्मतुः ॥ ३४ अथ ते पथ्यगच्छन्त विश्वामित्रमुनेः किल । आश्रमं शिष्ययुक्तं च सेवितं मृगशावकैः ॥ २५ स मुनी राजपुरुषान्दृष्ट्वा पप्रच्छ सादरम् । के यूयं हो कुत्र गता यथा का वृत्तिरुच्यताम् ॥ ३६ राजदूता ऊचुः- शृणुष्वावहितो विप्र राज्ञः पुत्रो न जायते । तदर्थ नरमेधाख्ये यज्ञे राजो सुदीक्षितः ।। नयामस्वत्र बल्यर्थमिमं ब्रामणपुत्रकम् । इति तेषां वचः श्रुत्वा स विभः सदयोऽभवत् ।। ३८ पाणा मयापि गच्छन्तु सुखी भवतु बालकः । बालकार्ये द्विजार्थे च स्वाम्यर्थे ये जना इह ३९ त्यजन्ति तृणवत्माणांस्तेषां लोकाः सनातनाः। विमृश्येति मुनिः स्वान्ते स प्रोवाच द्विजर्षभः ४० यझे बलिं समादातुमिमं ब्रामगंमुत्तमम् । हित्वा मां नयथायाऽऽशु स्वयं बालक उत्तमः ॥ ४१ संसारे जन्म संप्राप्य न लब्धं सुखमत्र च ।। अनेन बालकेनापि मरिष्यति कयं त्वयम् । आगतेऽस्मिन्गृहाडूताः पितरावस्य दु:खितौ ॥ ४३ हतभाग्यौ गतौ नूनं यमस्यैव गृह प्रति । एवं तस्य वचः श्रुत्वा दूताः प्रोचुरथ द्विजम् ॥ ४४ भूपालस्य विनाऽऽज्ञां वै दीननाथस्य भूसुर । नेतुं त्वां पलिवं माझ नेष्यामो हि कयं वयम् ॥ एवमुक्त्वा च वे दूता जग्मू रामः पुरी तदा । मुनिः स दूतसंघेश्च गतवान्यज्ञमन्दिरम् ॥ ४६ राजानं कथयामासु¥ता विपस्य चोष्टितम् । तच्छ्रुत्वा शतितमनाः प्रोवाचेदं वचः स तम् ॥ ४७ मुने यद्यपि मे यज्ञे कृते पुत्रो भविष्यति । बलिं विनाऽपि भो ब्रह्मस्तदा विष सुतं नय ॥ ४८ मुनिरुवाच- यझे त्वयि (या) कृते राजन्महापुत्रो भविष्यति । अत्र ते संशयो मा भूदमोघमपि दर्शनम् ॥४९ इति तस्य वचः श्रुत्वा राजाऽत्यन्तसहर्षकः । चक्रे पूर्णाहुतिं यज्ञे समस्तैर्मुनिभिः सह ॥ ५० अथातः स मुनिः श्रेष्ठो बामणस्य सुतं च तम् । स दशपुरं नाम नगरं गतास्तदा ॥ ५१ भवनं तस्य गत्वा च उक्तवान्वचनं मुनिः । गृहे त्वं तिष्ठसे विप्र तिष्ठामि मृतवन्मुने । राजा बलेन मे पुत्रं नीतवान्कि करोम्यहम् । पुत्र गते च भो विप्र दंपत्योरावयोः पुनः ॥ ५३ गतानि चान्धभावं वै क्रन्दनैर्लोचनान्यपि । अथासौ मुनिशार्दूलः पुत्रं पश्य नयेति च ॥ ५४ उक्तवांस्तौ य(त)दा विप्र ब्राह्मणौ जातहर्षको। पुत्रायाऽऽकारणं कृत्वा गतायेतौ पहिः क्षणाद मुनेर्वचनसिद्धित्वात्तत्क्षणं लोचनं तयोः । आलोकं तु गतं तूर्ण पुत्रस्य दर्शनादपि ॥ पुत्रस्य मुखपत्रं तौ लोचनैरलिसंनिभैः । पत्विा मुनिं चिरं सं च नमस्कृत्य पुनः पुनः ।। मोचतुर्वचनं विप्र ब्रामणौ प्रियवादिनौ । अहो मुने जीवदानमावयोस्तु कृतं किल ॥ १ ज. जा त दी। २. पालकम् । ३ अ. ब. ति । बलिं विनाऽपि भो मनमा । १. प्र. गृहीत्वा पितृपु। ५ °इ. तो ततः क्षणे । मुं। ॥
१३ त्रयोदशोऽध्यायः ] पद्मपुराणम् । योरेवं वचः श्रुत्वा स मुनिः करुणार्णवः । दत्त्वाऽऽशिषं च तौ विप्र जगाम निजमाश्रमम्॥५९ निः करगतं चैव कृत्वा विष्णोः परं पदम् । तपस्तेपे महाभागो दैवतैरपि दुर्लभम् ॥ ६० कंचित्काले गते विप्र तस्य राज्ञोऽभवत्सुतः । सुन्दरो राजयोग्यश्च इन्दुः क्षीरनिधाविव ॥ ६१ त्रोत्सवे सोऽपि विप्र राजा दत्त्वा धनानि वै । बुभुने देववद्भूम्यां विशोको जातकौतुकः ॥६२ वेषान्पालयते यस्तु प्राणान्दत्त्वा धनान्यपि । स याति विष्णुभवनं पुनरावृत्तिदुर्लभम् ॥ ६३ ठन्ति ये च भक्त्या च शृण्वन्ति विप्रतः कयाम् । अर्ध वा श्लोकमेकं ते गच्छन्ति विष्णुमन्दिरम् इति श्रीमहापुराणे पाये ब्रह्मखण्डे सूतशौनकसंवादे ब्राह्मणप्रतिपालनफलकथनं नाम द्वादशोऽध्यायः ॥ १२ ॥ आदितः श्लोकानां समष्टयङ्काः-१०२९१ अथ त्रयोदशोऽध्यायः । ३ 2 ८ शौनक उवाच- कृष्णजन्माष्टमी सूत तस्या माहात्म्यमुत्तमम् । कथयस्व महामान चोद्धरस्त्र महार्णवात् ॥ सूत उवाच- कृष्णजन्माष्टमी ब्रह्मन्भक्त्या करोति यो नरः । अन्ते विष्णुपुरं याति कुलकोटियुतो द्विज ॥ २ अष्टमी बुधवारे च सोमे चैव द्विजोत्तम । रोहिणी ऋक्षसंयुक्ता कुलकोटिविमुक्तिदा । महापातकसंयुक्तः करोति व्रतमुत्तमम् । सर्वपापविनिर्मुक्तश्चान्ते याति हरेर्गृहम् ॥ कृष्णजन्माष्टमी ब्रह्मन करोति नराधमः । इह दुःखमवामोति स प्रेत्य नरकं व्रजेत् ॥ न करोति च या नारी कृष्णजन्माष्टमीव्रतम् । वर्षे वर्षे तु सा मूढा नरकं याति दारुणम् ॥ ६ जन्माष्टमीदिने यो वै नरोऽश्नाति विमूढधीः । महानरकमश्नाति सत्यं सत्यं वदाम्यहम् ।। दिलीपेन पुरा पृष्टो वसिष्ठो मुनिसत्तमः । तच्छृणुष्व महापान सर्वपातकनाशनम् ॥ दिलीप उवाच- भाद्रे मासेऽसिताष्टम्यों यस्यां जातो जनार्दनः । तदहं श्रोतुमिच्छामि कथयस्व महामुने ॥ ९ कयं वा भगवाजातः शङ्खचक्रगदाधरः । देवकीजठरे विष्णुः किं कर्तुं केन हेतुना ॥ १० वसिष्ठ उवाच- शृणु राजन्मवक्ष्यामि यस्माज्जातो जनार्दनः । पृथिव्यां त्रिदिवं त्यक्त्वा भते कथयाम्यहम् ११ पुरा वसुंधरा बासीत्कंसादिनृपपीडिता । स्वाधिकारप्रमत्तेन कंसदूतेन ताडिता॥ १२ कन्दन्ती केंन्दन्ती सा तु ययौ पूर्णितलोचना । यत्र तिष्ठति देवेश उमाकान्तो वृषध्वजः ॥ १३ सेन ताडिता नाथ इति तस्मै निवेदितुम् । बाष्पवारीणि वर्षन्ती विवर्णा साऽवमानिता ॥१४ कन्दन्तीं तो समालोक्य कोपेन स्फुरिताधरः । उमया सहितः सर्वैर्देवन्दैरनुतः ॥ १५ भाजगाम महादेवो विधातृभवनं रुषा । गत्वा चोवाच ब्रह्माणं कंसध्वंसनहेतवे । पायः सृज्यतां ब्रमन्भवता विष्णुना सह । ऐश्वरं तद्वचः श्रुत्वा गन्तुं माह कृतात्मभूः ॥ १७ गिरोदे यत्र वैकुण्ठः सुप्तोऽस्ति भुजगोपरि । ईसपृष्ठ समारुध हरेरन्तिकमाययौ । १८ ख. ज. ष्णुभुव । २ . म् । आख्यानं श्लो। ३. म. मासि सि । ४ ज. 'म्यो कस्नाग्जातो । ५ ज. तेऽहं यथातथम् । ६ ज. पीडिता । ७ ज. रुदती । ८ ज. त्वा देवान्दैईशादिभिः । क्षी' । THE RAMAKRISHNA "159130 INSTITUT ut VLTURE LIBRAND - २० २८ ४०२ महामुनिश्रीव्यासपणीतं- [ ३ ब्रह्मखण्डे- तत्र गत्वा च तं धाता देववृन्दैहरादिभिः। संयुक्तःपास्तवीद्वारग्मी कोमलं वाग्विदां वरः ॥ १९ नमः कमलनेत्राय हरये परमात्मने । जगतः पालयित्रे च लक्ष्मीकान्त नमोऽस्तु ते ॥ इति तेभ्यः स्तुतिं श्रुत्वा प्रत्युवाच जनार्दनः । देवान्लिष्टमुखान्सर्वान्भवद्भिरागतं कथम् ॥ २१ ब्रह्मोवाच-- शृणु देव जगन्नाथ यस्मादस्माकमागतम् । कथयामि सुरश्रेष्ठ तदहं लोकभावन ॥ २२ शूलिदत्तवरोन्मत्तः कंसो राजा दुरासदः । वसुधा ताडिता तेन करघातेन पीडिता ॥ २३ वरं दत्त्वा पुराऽप्यग्रे मायया तु प्रवश्चितः । भागिनेयं विना शंभो मरणं भविता न मे ॥ २४ तस्माद्गच्छ स्वयं देव कंसं हन्तुं दुरासदम् । देवकीजठरे जन्म लब्ध्वा गत्वा च गोकुलम् ॥ २५ ब्रह्मणा प्रेरितो देवः प्रत्युवाच च शूलिनम् । पार्वती देहि देवेश अब्दं स्थित्वा गमिष्यति ॥२६ उमया रक्षया सार्धं शङ्खचक्रगदाधरः । उद्दिश्य मथुरा चक्रे प्रयाणं कमलासनः ॥ २७ देवकीजठरे जन्म लेभे तत्र गदाधरः । यशोदाकुक्षिमध्यास्ते शर्वाणी मृगलोचना ॥ नवमासांश्च विश्रम्य कुक्षौ नवदिनान्तकान् । भाद्रे मास्यसिते पक्षे चाष्टमीसंज्ञका तिथिः ॥ २९ रोहिणीतारकायुक्ता रजनी घनघोषिता । तस्यां जातो जगन्नाथः कंसारिर्वसुदेवजः । वैराटी नन्दपत्नी च यशोदाऽजीजनत्सुताम् । पुत्रं पद्मकरं पद्मनाभं पद्मदलेक्षणम् ॥ तदा हर्षितुमारेभे दृष्ट्वा आनकदुन्दुभिः । कंसासुरभयत्रस्ता प्रोवाच देवकी तदा। ३२ वैराटी गच्छ भो नाथ सुतं प्रत्यर्पितुं किल । पुत्रं दत्त्वा यशोदायै मुतां तस्याः समानय ॥ ३३ तस्या वचः समाकर्ण्य वसुदेवोऽपि दुःखितः। अङ्के कुमारमादाय वैराव्यभिमुखं ययौ ॥ ३४ यमुना जलसंपूर्णा तत्पथे मध्यवर्तिनी । आसीद्वोरा महादीर्घा गम्भीरोदकपूरभाक् ॥ ३५ एवं दृष्ट्वा तटे स्थित्वा यमुनामवलोकयन् । वसुदेवोऽपि दुःखार्तो विललापातिचिन्तया ॥ ३६ किं करोमि क गच्छामि विधिनाऽपि हि वञ्चितः । कथमत्र गमिष्यामि वैराटी नन्दमन्दिरम् ३७ हरिणा तत्र सानन्दं मायया वश्चितः पिता । क्षणमात्रं तटे स्थित्वा यमुनामवलोकयन् ॥ ३८ तेन दृष्टा पुनः साऽपि क्षणाजानुवहाऽभवत् । [*तां दृष्ट्वा हृष्ट उत्तस्थौ प्रस्थानमकरोद्यथा ॥ मायां कृत्वा जगन्नाथः पितुरङ्काजलेऽपतत् ॥ ३९ तं पुत्रं पतितं दृष्ट्वा हाहा कृत्वा सुदुःखितः । महापापं पुनः कर्तुं विधिना तेन वञ्चितः॥ ४० त्राहि मां जगतां नाथ सुतं रक्ष मुरोत्तम । जनकनन्दितं दृष्ट्वा कंसारिः कृपया मुहुः ॥ ४१ जलक्रीडा समाचर्य पितुः क्रोडमगात्पुनः । यथा तेन यदुश्रेष्ठो जगाम नन्दमन्दिरम् ॥ सुतं दत्त्वा यशोदायै सुतां तस्याः समानयत् । निजागारं ततः पाप्य पत्न्यै प्रत्यर्पिता सुता ४३ देवकी च प्रसूतेति वार्ता श्रुत्वा सुरारिणा । आनेतुं प्रस्थिता दूताः सुतं दुहितरं तदा ॥ आगत्य कंसदूतास्ते सुतां नेतुं प्रचक्रमुः। बलादेनां समाकृष्य देवकीवसुदेवयोः ॥ ४५ कंसदूतैर्गृहीत्वा सा अर्पिता तु सुरारिणे(रये) । स धृत्वा तां महाराजः सभयोऽभूदुरासदः॥४६ शुद्धकाञ्चनवर्णाभां पूर्णेन्दुसदृशाननाम् । कंसो हसति तां दृष्ट्वा विद्युत्स्फुरितलोचनाम् ॥ ४७ आदिदेशासुरश्रेष्ठो जहि नीत्वा शिलोपरि । आज्ञा लब्ध्वाऽसुरास्ते वै निष्पेष्टुं तां प्रवर्तिताः॥ विधुच्छीघ्रतरा गौरी जगामे सहसाऽम्बरम् ॥ * एतचिहान्तर्गतः पाठः, च ज. द. पुस्तकस्थः । १ इ. म. महोपायं । २ ढ. म शंकरान्तिकम् । ४२ .. ४८ ३ - ५९ १३ त्रयोदशोऽध्यायः ] पद्मपुराणम् । ४०३ गौर्युवाच- शृणु राजन्प्रवक्ष्यामि यत्राऽऽस्ते शत्रुरुत्तमः । नन्दस्य निलये गुप्तस्तव हन्ताऽसुरोत्तम ॥ ४९ वसिष्ठ उवाच- एवमुक्त्वा तु सा देवी जगाम निजमन्दिरम्। [*श्रुत्वा वाक्यं ततो देव्याः कंसो राजा मुदुःखितः भगिनी पूतनामाह गच्छ त्वं नन्दमन्दिरम् ॥ छपना तत्सुतं हत्वाऽऽगच्छ ते वाञ्छितं बहु । दास्यामि शत्रु हन्तुं मे व्रज शीघ्रतरं शुभे ॥५१ आज्ञां प्राप्य राक्षसी सा गोकुलाभिमुखं गता। मायया सुन्दरीरूपा प्रविष्टा तत्र गोकुले ॥ ५२ पयोधरे गरं सा तु धृत्वा हन्तुमुपागता । पशुपानां गृहद्वारि प्रविष्टाऽलक्षितेति च ।। [गत्वाऽन्तरुत्थाप्य शिशुं स्तनं दत्त्वाऽऽप सद्गतिम् । ततस्तु शकटं क्षिप्त्वा तृणावर्तादिमर्दनम् ] कालीयमर्दनं कृत्वा गतो मधुपुरी ततः । गत्वा कंसो हतः क्रूरः कंसमल्लानजीजयत् ॥ ५५ एतत्ते कथितं राजन्विष्णोर्जन्मदिनव्रतम् । श्रुत्वा पापानि नश्यन्ति कुर्यात्कि वा भविष्यति ५६ य इदं कुरुते मर्यो या च नारी हरेव्रतम् । ऐश्वर्यमतुलं प्राप्य जन्मन्यत्र यथेप्सितम् ।। पूर्वविद्धा न कर्तव्या तृतीया षष्ठिरे(कै)व च । अष्टम्येकादशी भूता धर्मकामार्थवाञ्छिभिः ॥५८ वर्जयित्वा प्रयत्नेन सप्तमीसंयुताष्टमीम् । विना ऋक्षं प्रकर्तव्या नवमीसंयुताऽष्टमी ॥ उदये चाष्टमी किंचित्सकला नवमी यदि । मुहूर्तरोहिणीयुक्ता संपूर्णा चाष्टमी भवेत् ॥ अष्टमी बुधवारेण रोहिणीसहिता यदि । सोमेनैव भवेद्राजक कृतैव्रतकोटिभिः ॥ ६१ नवम्यामुदयात्किंचित्सोमे साऽपि बुधेऽपि च । अपि वर्षशतेनापि लभ्यते वा न लभ्यते ॥६२ विना ऋतं न कर्तव्या नवमीसंयुता न हि । [+कार्या विद्धाऽपि सप्तम्या रोहिणीसंयुताऽष्टमी ६३ कलाकाष्ठामुहूर्तेऽपि यदा कृष्णाष्टमी तिथिः । नवम्यां सैव या ग्राह्या सप्तमीसंयुता न हि॥]६४ किं पुनर्बुधवारेण सोमेनापि विशेषतः । किं पुनर्नवीयुक्ता कुलकोट्यास्तु मुक्तिदा ॥ ६५ पलवेधेन राजेन्द्र सप्तम्यामष्टमी त्यजेत् । सुराया बिन्दुना स्पृष्टं गङ्गाम्भाकलशं यथा ॥ ६६ दिलीप उवाच- केन चाऽऽदौ कृतं चेदं केन वा तत्प्रकाशितम् । किं पुण्यं किं फलं चैव कथयस्व महामुने ॥६७ वसिष्ठ उवाच- चित्रसेनो महाराजा महापापपरो महान् । अगम्यागमनं कृत्वा स्वर्णस्तेयं द्विजस्य च ।। मुरायां च सदा तृप्तो वृथामांसे सदा रतः ॥ एवं पापसमायुक्तो नित्यं प्राणिवधे रतः । चाण्डालैः पतितैः सार्धमालापं सर्वदाऽकरोत् ॥६९ रेतदे(कदै वविधो राजा मृगयायां मनो दधे । अरण्ये द्वीपिनं ज्ञात्वा वेष्टयित्वा च सर्वतैः।। ७० सावधानं भटान्सर्वान्वाक्यमेतदुवाच ह । [*अहमेव निहन्म्येनं योऽन्योऽस्मिन्महरिष्यति ॥७१ स वध्यो नात्र संदेहो व्याघो राज्ञः पथा ययौ । सलज्जोऽपि ततो राजा व्याघ्र पश्चाजगाम ह अनेकलेशदुःखेन व्याघ्र हन्तुं समाहितः । क्षुत्पिपासाकुलक्लेशः संध्यायां यमुनातटे ॥ * एतचिहान्तर्गतः पाठो ज. द. पुस्तकस्थः । । एतचिहान्तर्गतः पाठो ज. पुस्तकस्थः । + एतचिदान्तर्गतः पाठः च. ज. पुस्तकस्थः । * एतचिहान्तर्गतः पाठो ज. पुस्तकस्थः । t १८. 'ताऽष्टमी । किं । २ ज. एकदा मृगयां यातो दृष्ट्वा व्याघ्र वने नृपः । सा। ३ ज. 'तः । समीपस्थान्भटा।
महामुनिश्रीव्यासप्रणीतं- [ ३ ब्रह्मखण्डे- अष्टमी रोहिणीयुक्ता तदिनं जन्मवासरम् । वाकन्या यमुनायां वै व्रतं चकुर्नराधिप ।। नानोपहारैव्यैश्च धूपदीपैः सुशोभनैः । गन्धपुष्पं तथा द्रव्यं कामादि मनोहरम् ॥ अन्न बहुगुणं दृष्ट्वा भक्तं तन्मानसं कृतम् ।। राजोवाच- अभाभावान्ममाघाऽऽशु प्राणा यास्यन्ति निश्चयः॥ ७५ - स्त्रिय ऊचुः- ७७ जन्माष्टम्यां हरेरध न भोक्तव्यं त्वयाऽनघ । गृध्रमांसं खरं काकं गोमांसमत्रमेव च ॥ भुक्तवानात्र संदेहो यो भुङ्क्ते कृष्णजन्मनि । किं किं छिद्रं न संजातं संसारे वसतां नृणाम् ७८ येन देहे स्थिते प्राणे जयन्ती न कृता नृप । तत्राकृतोपवासस्य शासनं यममन्दिरम् ॥ यहत्तं पितरो नित्यं न गृहन्ति यथाविधि । पितरः पातिताः सर्वे जयन्त्यां भोजने कृते ॥८० इति श्रुत्वा ततो राजा व्रतं चक्रे नराधिप । किंचित्पुष्पं कियगन्धं वस्त्रं चाऽऽनीय हर्षितः॥८१ [ व्रतस्यास्य प्रभावेण चित्रसेनो हरेहम् । दिव्यं विमानमारुह्य गतवान्पितृभिः सह ॥ ८२ ['यत्फलं मथुरां गत्वा दृष्ट्वा कृष्णमुखाम्बुजम् । तत्फलं प्राप्यते पुंसा कृष्णजन्माष्टमीव्रतात् ॥ यत्फलं द्वारकां गत्वा दृष्टे विश्वेश्वरे हरौ । तत्फलं प्राप्यते दीनैः कृत्वा जन्माष्टमीव्रतम् ॥ ८४ इति श्रीमहापुराणे पाये ब्रह्मखण्डे हरिजन्माष्टमीव्रतमाहात्म्यं नाम प्रयोदशोऽध्यायः ॥ १३ ॥ आदितः श्लोकानां समष्ट्याः-१०३७५ अथ चतुर्दशोऽध्यायः । - २ शौनक उवाच- कथयस्व महाप्राज्ञ ब्राह्मणस्य कृपार्णव । माहात्म्यं सर्ववर्णानां श्रेष्ठस्य कृपया च मे ॥ सूत उवाच- ब्राह्मणः सर्ववर्णानां गुरुरेव द्विजोत्तम । सर्वामराश्रयो नेयः साक्षापारायणः प्रभुः ॥ कुर्यात्मणामं यो विष(मे) हरिबुद्ध्या तु भूसुर । भक्त्या तस्य द्विजश्रेष्ठ वर्धते संपदादिकम् ।। ३ न नमेद्रामणं दृष्ट्वा हेलयाऽपि च गर्वितः । छेदनं तस्य शिरसः कर्तुमिच्छेत्सदा हरिः॥ कृतापराधं विनं ये द्विषन्ति पापबुद्धयः । हरिद्विषो हि ते श्रेया निरयं यान्ति दारुणम् ।। यः कर्तुं प्रार्थनां विमं पश्येत्क्रोधेन चाऽऽगतम् । कृतान्तश्चक्षुषोस्तस्य तप्तसूची ददाति वै ॥ ६ कुरुते भूसुरं मूढो भर्त्सनं यो नराधमः । यमदूता मुखे तस्य तमलोहं ददति च ॥ येषां निकेतने भुक्के क्ष्मासुरो वै तपोधनः । सुपर्वाणैः(वभिः) स्वयं कृष्णो भुङ्क्ते तेषां निकेतने ८ नश्यन्ति सर्वपापानि द्विजहत्यादिकानि च । कणमात्रं लिहेद्यस्तु विमाधिसलिलं नरः॥ ९ यो नरश्चरणं धौतं कुर्याद्धस्तेन भक्तितः। द्विजातेर्वच्मि सत्यं ते स मुक्तः सर्वपातकैः ।। १० पुत्रहीना च या नारी मृतवत्सा च याजना। सपुत्रा जीववत्सा सा दिजपादाघिसेवनात् ११ ५ ७ * एतचिहान्तर्गतः पाठो ज. पुस्तकस्थः। +एतचिहान्तर्गतः पाठः, च. ज. स. पुस्तकस्थः । १ रु. ३. 'म् । स्वक' । २ ज. तपोधन । ३ इ. स. ' भवे(ज) तस्य वि।
१४ चतुर्दशोऽध्यायः ] पद्मपुराणम् । ४०५ ब्रह्माण्डे यानि तीर्थानि [*तानि तीर्थानि सागरे। उदधौ यानि तीर्थानि तिष्ठन्ति द्विजपादयोः द्विजाइघिसलिलैर्युक्तं सेचनं यस्य मस्तके । स स्नातः सर्वतीर्थेषु स मुक्तः सर्वपातकैः शृणु शौनक वक्ष्यामि माहात्म्यं पापनाशनम् । विप्रपादोदकस्याहमितिहासं तपोधन ॥ १४ आसीत्पुरा द्विजश्रेष्ठ वैश्यवृत्तिपरायणः । शूद्रो भीमो द्वापरे च ब्रह्महत्यासहस्रकृत् ॥ १५ निठुरः सर्वदाऽतुष्टः स महावैश्यया पुनः । शूद्राचारपरिभ्रष्टो भीमोऽसौ गुरुतल्पगः ॥ १६ प्रत्येकं वच्मि किं तस्य दस्योः संख्या न विद्यते। पापानां मुनिशार्दूल भीमस्य दुष्टचेतसः॥१७ एकदा स गतः कश्चिद्राह्मणस्य निवेशनम् । गत्वा तं तस्य गेहात्तु द्रव्यं नेतुं मनोदधे । १८ तत्रोवास प्रामणस्य बहिरसमीपतः । दैन्ययुक्तं वचः प्राह क्ष्मासुरं स तपोधनम् ॥ भोः स्वामिशृणु मे वाक्यं दयालुरिव मन्यते(से)।भुधार्तोऽहं देहि चानं माणा यास्यन्ति मे द्रुतम्।। ब्राह्मण उवाच- १ क्षुधात शृणु मे कश्चिद्वाक्यं कर्तुं न विद्यते । पार्क मे तण्डुलानित्यं नीत्वा भुक्ष्व यथासुखम् २१ नास्ति मे जनको माता नास्ति सूनुः सहोदरः। नास्ति जाया मातृबन्धुर्मृताः स विहाय माम् ॥ तिष्ठाम्यको गृहेऽकर्मा भाग्यहीनोऽतिथे हरिः। एको मे वसतश्चास्ति न जाने तद्विना किल ॥२३ भीम उवाच- मम कश्चिविजश्रेष्ठ नास्ति सेवां तवापि च । शूद्रोऽहं निलये जात्या कृत्वा स्थास्यामि ते सदा ॥ सूत उवाच- इति तस्य वचः श्रुत्वा सानन्दःक्ष्मासुरस्तदा । पाकं विधाय तूर्ण स ददावमं तपोधन ॥ २५ सोऽपि हर्षसमायुक्तस्तस्थौ तत्र द्विजालये । सेवां कुर्वन्नेहयुक्तां भूसुरस्य मनोहराम् ॥ २६ अद्य वो वा हरिष्यामि द्रव्यमस्य ममापि च । नेतुं यदा करिष्यामि नेष्यामि नात्र संशयः॥२७ परामृश्य च हृधन्तः कृत्वा तस्य क्रियां वदेत् । पादधौतादिकं चासौ शिरसा गतपातकः ॥ आचम्याइघ्रिजलं दधे छाना प्रत्यहं द्विज ॥ एकदा हारकः कश्चिद्रव्यं नेतुं समागतः । उद्घाव्य रात्रावररं गतोऽसौ तगृहान्तरम् ॥ २९ दृष्ट्वा भीमः प्रहारार्थ दण्डहस्तं समागतः । हारको मस्तकं तस्य छित्त्वा तूर्ण पलायितः ॥ ३० अथ तस्य भटा विष्णोः शङ्खचक्रगदाधराः। समायातास्तया नेतुं भीमं तं वीतकिल्बिषम् ॥ ३१ स्यन्दनं चाऽऽगतं दिव्यं राजहंसयुतं द्विज । तत्राऽऽरूढो ययौ विष्णोर्भवनं दुर्लभं किल ॥ ३२ माहात्म्यं भूमिदेवस्य मया ते तत्मकीर्तितम् । शृणुयायो नरो भक्त्या तस्य पातकनाशनम्॥३३ इति श्रीमहापुराणे पाये ब्रह्मखण्डे ब्राह्मणमाहात्म्यकथनं नाम चतुर्दशोऽध्यायः ॥ १४ ॥ आदितः श्लोकानां समष्टयङ्काः-१०४०८ २८ ॥ अथ पथदशोऽध्यायः । शौनक उवाच- कथयस्व महाभाग माहात्म्यं पापनाशनम् । एकादश्याः फलं किंवा किल्विषं स्यादपुर्वतः॥ १ * एतचिहान्तर्गतः पाठः, च. द. पुस्तकस्थः । ज. सेवको।
४०६ महामुनिश्रीव्यासप्रणीतं- [३ ब्रह्मखण्डे- २ ४ ५ ६ ८ ९ १५ सूत उवाच- एकादश्यास्तु माहात्म्यं किमहं वच्मि सांप्रतम् । श्रुत्वा चैकादशीनाम यमदूताच शकिताः ॥ भवन्ति नात्र संदेहः सर्वप्राणिभयंकराः॥ व्रतानां चैव सर्वेषां श्रेष्ठां चैकादशी शुभाम् । उपोष्य जागृयाद्विष्णोः कुर्याञ्च मण्डनं महत् ॥३ तुलसीदलैस्तु यो मर्यो हरिपूजां करोति वै । दलेनैकेन लभते कोटियज्ञफलं द्विज ॥ अगम्यागमने चैव यत्पापं समुदाहृतम् । तत्पापं याति विलयं चैकादश्यामुपोषणात् ।। घृतपूर्ण प्रदीपं यो दद्याद्विष्णुदिने द्विज । अन्ते विष्णुपरं याति तमो हत्वा स्वतेजसा । धन्या जनपदास्ते वै धन्यः स च महीपतिः । हरेर्दिने यस्य राज्ये चैकादश्यां महोत्सवः ॥ नारायणस्य शयने पार्श्वस्य परिवर्तने । विशेषेण प्रबोधिन्यां निराहारा भवन्ति ये ॥ मदन्तिकं नाऽऽनयध्वं प्राणिनः पुण्यभागिनः । अहर्निशं पितृपतिः समादिशति दूतकान् ॥ एकादशी जगन्नाथवल्लभा पुण्यवर्धिनी । विष्णुर्देहं दहत्येव तस्यामन्त्रस्य भक्षणे ॥ १० तेषां धिग्जीवनं पुंसां धिक्सौन्दर्य (च) वर्तिताम् । येऽअमश्नन्ति पापिष्ठाश्चैकादश्यां हि विभुजः एकादश्यां द्विजश्रेष्ठ भुक्तिमाश्रित्य केवलम् । बहूनि विविधान्येव तिष्ठन्ति दुरितानि च ॥ १२ अमावास्या(?) यथा स्त्रीणां संगमे कलुषं महत् । एकादश्यां तथैवान्नभक्षणे जिनं भवेत् ॥ १३ रोगिणश्च तथा खञ्जकाससोदरकुंष्ठकाः । भवन्ति माणिनस्ते वै तस्यामन्त्रस्य भक्षणे ।। १४ ग्रामशूकरतां यान्ति दारियं च प्रयान्ति वै। राजबद्धा द्विजश्रेष्ठ तस्यामन्नस्य भक्षणे ॥ संसारे यानि पापानि तानि विप्र हरेर्दिन । भुक्तिमाश्रित्य तिष्ठन्ति जलभक्षणमाज्ञया । १६ कुर्वतां सर्वपापानि नरकानिष्कृतिर्भवेत् । न निष्कृतिर्भवेन्नृणां भुञ्जतां च हरेर्दिने । [*नरा यावन्ति चान्नानि भुञ्जते च हरेर्दिने] । [+प्रत्यन्नं च ब्रह्महत्याकोटिजं वृजिनं भवेत् ॥ पुनर्वच्मि पुनर्वच्मि श्रूयतां श्रूयतां नराः। न भोक्तव्यं न भोक्तव्यं न भोक्तव्यं हरेर्दिने] ॥१९ गङ्गादिषु च तीर्थेषु स्नात्वा यत्फलमाप्यते । चन्द्रसूर्योपरागे च चैकादश्यामुपोषणात् ॥ अचित्वोत्पलमालाभिस्तस्यां च कमलापतिम् । विधिवत्पारणं कृत्वा न मातुर्गर्भभाजनम् ॥ २१ एकादश्यां हरे हे करोति मण्डनं द्विज । परमां गतिमासाद्य तिष्ठेद्विष्णुनिकेतने । २२ एकादशी समासाद्य निराहारा भवन्ति ये । तेषां विष्णुपुरे शश्वत्स्थानमेव न संशयः॥ २३ तुलसीभक्तिसंलीनं मनो येषां विराजते । तेषां विष्णुपुरे शश्वत्स्थानमेव न संशयः ॥ परद्रव्येष्वभिरुचिर्येषां चैव न विद्यते । संतुष्टमनसो येऽपि तेषां विष्णुपुरं ध्रुवम् ॥ २५ दुर्भिक्षकालमासाद्य पाणिभ्यो ये नरोत्तमाः। ददत्यनं हरेः समातेषां चैव न संशयः ॥ २६ गवां द्विजानां त्राणाय स्वामिनो योषितस्तथा । प्राणान्मुश्चन्ति ये मास्तेषां विष्णुपुरं ध्रुवम्॥ पाणिभिर्दशमीविद्धा न चोपोष्या कदाचन । परिहार्य विनश्रेष्ठ दुर्जनस्यान्तिकं यथा ॥ २८ अरुणोदयवेलायां दशमी संगता यदि । तत्रोपोष्या द्वादशी स्यात्रयोदश्यां तु पारणम् ॥२९ दशमीशेषसंयुक्तो यदि स्यादरुणोदयः । वैष्णवेन न कर्तव्यं] तदिनैकादशीव्रतम् ॥ चतस्रो घटिकाः पातररुणोदय उच्यते । यतीनां स्नानकालोऽयं गाम्भासदृशः स्मृतः ॥ ३१ * एतचिहान्तर्गतः पाठः, च. पुस्तकस्थ । + एतचिहान्तर्गतः पाठः, च. ज. उ. पुस्तकस्थः । * एतचिहान्तर्गतः पाठः, च. ज. द. पुस्तकस्थः । १ ८. रकूर्चकाः । २ रु. म. कुक्षिकाः । ३ ज. उ. 'ने । भक्तमा । १७ २० २४ ३० . .
४४ १५ पञ्चदशोऽध्यायः ] पद्मपुराणम् । अरुणोदयकाले तु दशमी यदि दृश्यते । न तत्रैकादशी कार्या धर्मकामार्थनाशिनी ॥ स्वल्पां च दशमीविद्धां त्यजेदेकादशी बुधः । सुराबिन्दुसुसंपर्काघृतकुम्भं त्यजेयथा ॥ संपूर्णैकादशी यत्र द्वादश्यां पुनरेव सा । उत्तरा यतिभिः कार्या पूर्वामुपवसेट्टही ॥ एकादशीकला यत्र द्वादशी परतो न चेत् । तत्र ऋतुशतं पुण्यं त्रयोदश्यां तु पारणा ॥ एकादशी विलुप्ता चेत्परतो द्वादशीयुता । उपोष्या द्वादशी पूर्णा यदीच्छेत्परमां गतिम् ॥ ३६ संपूर्णैकादशी यत्र प्रभाते पुनरेव सा । सर्वैरेवोत्तरा कार्या परतो द्वादशी यदि ॥ एकाशीव्रते येषां मनः संलीयते नृणाम् । तेषां स्वर्गो हि वासोऽथ यान्ति ते सदनं हरेः ३८ एकादश्याः परं नास्ति परलोकस्य साधनम् । बहुपापसमायुक्तः करोति हरिवासरम् ।। [सर्वपापविनिर्मुक्तः स याति हरिमन्दिरम् ।। पतिसहिता या योषित्करोति हरिवासरम् । ] सुपुत्रा स्वामिसुभगा याति प्रेत्य हरेर्गृहम् ॥ ४० पो यच्छति हरेरग्रे प्रदीपं भक्तिभावतः । हरेदिने द्विजश्रेष्ठ पुण्यसंख्या न विद्यते ॥ पाङ्गना भर्तृसहिता कुरुते जागरं हरेः । हरेनिकेतने तिष्ठेचिरं पत्या सह द्विज ॥ ४२ पत्किचिद्धरये वस्तु भक्त्या यच्छति यो द्विज । हरेदिने तस्य पुण्यमक्षयं चैव सर्वदा ॥ ४३ पुराऽऽसीदल्लभो नाम्ना नगरे काञ्चनाहये । धनेन पुष्कलेनापि राजते स धनेश्वरः ॥ तस्य प्रिया महारूपा नाम्ना हेमप्रभा द्विज । गरीयान्मुखरस्तत्र बाधते च कलेर्गुणः ॥ सा सदा कलहं कुर्यात्पत्या सह तपोधन । शश्वद्गुरुजनान्कामं भर्त्सनां नीचभाषया ॥ ४६ पाकपात्रे सदाऽश्नीयाद्गुप्ता सेकान्तिके मला । उच्छिष्टं गुरुजनेभ्यश्च दद्यादै प्रतिवासरम् ॥ ४७ जारे सदा स्थितं चित्तमहं साध्वीति सा वदेत् । स्वामिनः कलहैर्ब्रह्मन्मनोद्वेगकरा सदा ॥ ४८ एकदा चाऽऽगतां दृष्ट्वा चकार भर्त्सनां च ताम् । भर्ता तस्याः प्रहारं च सर्वपापयुतां द्विजः४९ सैव रोषसमायुक्ता गता शून्यगृहे तु वै । सुप्ताऽज्ञाता स्थिता कस्मिञ्जलानं न चखाद ह ॥५० दैवात्तत्र दिने विष्णोः पार्श्वस्य परिवर्तनम् । एकादशीव्रतं विप्र सर्वपापप्रणाशनम् ॥ ततः प्रभाते रजनी द्वादशी श्रवणान्विता । आगता तत्र सा नारी रोषनिर्भरमानसा ।। ५२ निराहारकृताद्वै च निर्मला सा बभूव ह । रात्रौ च पश्चतां याता जयन्तीवासरे द्विज ॥ यमाज्ञया ततो दूता आगतास्तां तथाविधाम् । नेतुं भयंकरास्ते च पाशमुद्रपाणयः ॥ बद्ध्वा नेतुं मनश्चक्रुः कृतान्तसदनं यदा । तदाऽऽगता विष्णुदूताः शङ्खचक्रगदाधराः॥ छित्त्वा पाशं ततो दिव्ये स्यन्दने तां गतैनसम् । ते वै चाऽऽरोहयामासुनिर्मला भवनं हरेः ॥५६ गता तैर्वेष्टिता साऽथ दुर्लभं निर्जरैः शुभम् । विष्णोदिवसमाहात्म्यं कथितं ते द्विजर्षभ ॥ ५७ अनिच्छयाऽपि यः कुर्यात्स याति हरिमन्दिरम् । एकादश्या दिने मो दीपं दातुं हरेहे ॥ ['गच्छेत्मतिपदं सोऽपि चाश्वमेधफलाधिकम् ।। शृण्वन्ति च पुराणादि पठन्ति च हरेदिने] । प्रत्यक्षरं लभन्ते ते कपिलादानजं फलम् ॥ ५९ इति श्रीमहापुराणे पाझे ब्रह्मखण्डे हरिवासरमाहात्म्यं नाम पञ्चदशोऽध्यायः ॥ १५ ॥ आदितः श्लोकानां समष्टपका-१०४६७ .. * एतचिहान्तर्गतः पाठः, च. द. पुस्तकस्थः । । एतचिहान्तर्गतः पाठः, च. ज. द. पुस्तकस्थः ।
महामुनिश्रीव्यासप्रणीत- [३ ब्रह्मखण्डे- अथ षोडशोऽध्यायः । ८ ९ शौनक उवाच- कर्मणा केन भोः सूत चैनसां संक्षयो भवेत् । श्रीहरेश्च कृपा भूयात्तदखानुकम्पया ॥ सूत उवाच- शृणु शौनक वक्ष्यामि शृण्वतां पापनाशनम् । येन विष्णोः कृपा स्याद्वै वृजिनक्षयकारिणी ॥२ पौर्णमास्यां तु यो विष भक्तिभावसमन्वितः । कुर्यानानाविधानेन सपर्या श्रीजगद्विभोः॥ ३ कलुषं तस्य नश्येत कोटिजन्मार्जितं मुने । तस्मिञ्श्रीरमणस्यास्य कृपो जाता भवेद्बुवम् ॥ ४ द्वादश्यामन्नदानं यो भक्त्या कुर्याद्विजातये । तस्य नश्यन्ति पापानि तमांसीवारुणोदये॥ ५ यो नरः श्रीहरेः कुर्यात्नपनं पयसा द्विज । तत्मीतिः श्रीहरेः सद्यो दादश्यां शर्करादिभिः॥६ मन्त्रं विना तु यो विष दद्याच्छ्रीहरये किल । पाषाणसदृशं पुष्पं [*दाता याति अधोगतिम् ॥७ क्ष्मासुराय च मूर्खाय पाषाणसदृशं तु यत् । दद्यादानं नरो यो वै ] तस्य पुण्यं न विद्यते ॥ विद्याहीनो द्विजो मोहादानं गृह्णाति मूढधीः । कालानलं यथा जीर्ण तेन स निरयं व्रजेत् ॥ यथा दारुमयो हस्ती मृगश्चित्रमयो यथा । विद्याहीनो द्विजो विष त्रयस्ते नामधारकाः॥ १० यथाऽध्वनि स्थितं वारि पवनार्केण शुध्यति । भक्त्या तु पार्षदं दृष्ट्वा तस्य नश्यति कल्मषम् ॥ यो नरश्वाऽऽश्विने मासि सघृतां पूर्णिमादिने। दद्याच्ड्रीहरये लाजां क्रीडार्थ तु वराटिकाम्।।१२ भक्त्या याति हरेः स्थानं पुनरावृत्तिवर्जितः । न दद्यायो नरो मोहात्तस्मिन्न तुष्टिदो हरिः॥१३ वराटिकां यावतीं यो हरये पूर्णिमादिने । तावद्दिनं हरेः स्थानं चाऽऽश्विने स वसेछुवम् ॥१४ करवीरपुरे शासीत्पुरा शूद्रोऽपि निर्दयः । कालद्विजो द्विजश्रेष्ठ नाना पापी भयंकरः ॥ १५ [+स्वकार्यनिरतः सोऽपि स्वामिकार्यप्रणाशकः । एकदा पञ्चतां यातो यमदूता भयंकराः]॥१६ आगतास्तं समानेतुं यमस्य तु निकेतनम् । बद्ध्वा निन्युश्च तं दृष्ट्वा पृष्टवान्सचिवं यमः ॥ १७ यम उवाच- अस्य किं विद्यतेऽमात्य कर्मापि च शुभाशुभम् । कथयस्व समूलं तु चित्रगुप्त विचक्षण । १८ चित्रगुप्त उवाच- असौ पापी दुराचारः स्वामिकार्यप्रणाशकः । नास्ति पुण्यं चाणुमात्रं नरके परिपच्यताम् ॥१९ शतमन्वन्तरं राजनागयोनौ च निष्ठुरः । पाषाणगृहमासाय गूढवास्तु निरन्तरम् ॥ सूत उवाच- तावत्कालं ततो विष निरये स पपात ह ॥ ततोऽप्यश्मगृहे नागयोनौ जातः सुदुःखितः ॥ २१ एकदा चाऽऽश्विने मासि पौर्णमासीदिने द्विज । लाजावराटिका नागो बिलात्माक्षेपयरहिः॥२२ पतिता सा हररग्रे पापमस्य स्वयं हरिः । तूर्ण तु नाशयामास दयालुवुःखनाशकः ।। कदाचित्माप्तकालस्तु पञ्चत्वं स जगाम ह । यमदूताः समानेतुमागता बहुशो द्विज ॥ बद्ध्वा नेतुं यदा चकुर्यमस्य सदनं प्रति । तदाऽऽगता विष्णुदताः शचक्रगदाधराः ॥ २५ पार्श छित्वा रये दिव्ये तमाशु गतकिल्विषम् । तत्र चाऽरोपयामासुर्यमदूताः पलायिताः ॥२६ * एतचिहान्सर्गतः पाठः, च. ज. 7. पुस्तकस्थः। + एतचिहान्तर्गतः पाठः, च ज.. पुस्तकस्थः १ ज. पादृष्टि । २ . षाणे जन्म वाऽऽसाय गृहे स्थातु नि । २० २४ :।
१७ सप्तदशोऽध्यायः ] पमपुराणम् । ततो निकेतनं विष्णोर्नागस्तैर्वेष्टितो ययौ । तत्र तस्थौ हरेरणे पुनरावृत्तिवर्जितः ।। २७ भक्त्या यो हरये दद्याल्लाजां च सघृतां द्विज । वराटिकां तस्य पुण्यं न जाने किं भवेद्धृवम् ।। य इमं शृणुयाद्विम चाध्यायं पापनाशनम् । तस्य नश्यन्ति पापानि श्रीहरेः कृपयाऽपि च ॥२९ इति श्रीमहापुराणे पाने ब्रह्मखण्डे सूतशीनकसंवादे षोडशोऽध्यायः ॥ १६ ॥ आदितः श्लोकानां समष्ट्यशाः-१०४९५ अथ सप्तदशोऽध्यायः । - - २ ६ शौनक उवाच- विष्णुपादोदकस्यापि माहात्म्य पापनाशनम् । कथयस्व महामाज्ञ समूलं मे कृपार्णय ॥ सूत उवाच- समस्तपातकध्वंसि विष्णुपादोदकं शुभम् । कणमात्रं वहेद्यस्तु सर्वतीर्थफलं लभेत् ॥ विष्णुपादोदकं पापी यः पिबेत्तस्य कल्मषम् । शरीरस्थं क्षयं याति कृतं ब्रह्मन्न संशयः॥ [*विष्णुपादोदकं ब्रह्मन्स्पर्शनात्पापनाशनम् । अकालमरणं नास्ति गङ्गास्नानफलं लभेत् ॥ ४ तुलसीपर्णसंयुक्तं विष्णुपादोदकं द्विज । यो वहेच्छिरसा भक्त्या चान्ते याति हरेर्गृहम् ।। मेरुतुल्यसुवर्णानि दत्त्वा यत्फलमाप्यते । हरिपादोदकं स्पृष्ट्वा प्राप्यते तत्फलं नरैः॥ धेनुकोटिसहस्राणि यत्फलं लभते नरैः । दत्वा पादोदकं स्पृष्ट्वा तत्फलं प्राप्यते ध्रुवम् ॥ यनकोटिसहस्राणि कृत्वा यत्फलमाप्यते । हरिपादोदकं स्पृष्ट्वा तस्मात्कोटिगुणं नरैः ।। कोटिकन्यामदानेन यत्फलं लभ्यते जनैः । विष्णुपादोदकं स्पृष्ट्वा फलं तस्माद्विजाधिकम् ॥ ९ दन्तिकोटिप्रदानेन सप्तकोटिप्रदानतः । यत्फलं लभते मर्त्यः स्पृष्ट्वा पादोदकं हरेः॥ १० दत्त्वा मर्त्यः सप्तद्वीपां ससस्यां यत्फलं लभेत् । विष्णुपादोदकं स्पृष्ट्वा तस्माद्विमाधिकं लभेत्॥११ शृणु विष प्रवक्ष्याम संक्षेपादधिकं किमु । विष्णुपादोदकं स्पृष्ट्वा पापी याति हरेहम् ॥ १२ शौनक उवाच- स्पृष्ट्वा पीत्वा पुरा केन माणिनाऽमापि वै गृहम् । कथयस्व हरेः सूत मम त्वं चानुकम्पया ॥ १३ सूत उवाच--- पुरा त्रेतायुगे पापी नाना विमः सुदर्शनः । जनार्दनदिने नित्यमश्नीयात्स द्विजोत्तम ॥ १४ शास्त्रनिन्दाकरो नित्यं व्रतनिन्दाकरः सदा । असावन्यन्न जानाति केवलं स्वोदरं विना ॥१५ एकदा प्राप्तकालस्तु निधनं प्राप्तवान्दिन । यमदूताः समायाता बद्ध्वा नीतो यमालयम् ॥ १६ तं दृष्ट्वा यमुनाभ्राता पप्रच्छ सचिवं रुषा । भोऽमात्य चास्य यत्पुण्यं पापं वद समूलतः ॥ असौ विमो महापापी फरकमेव दृश्यते ॥ चित्रगुप्त उवाच- आकर्णय चास्य पापं पुण्यं नास्त्यणुमात्रकम् । वासरेऽपि हरेनित्यमकरोद्भोजनं विभो ।। १८ बासरे कमलाभ धाश्नीयायो नराधमः । पुरीषं सोऽश्नीयाद्वाजभिरयं याति दारुणम् ॥ १९ मन्वन्तरशतं देहि स्थान तु निरयेऽप्यमुम् । ग्रामकोडस्य योनौ हि ततो जन्म भविष्यति ॥ २० * एतचिहान्तर्गतः पाठो द. पुस्तकस्थः । - . - .
महामुनिश्रीव्यासपणी- [ ३ ब्रह्मखण्डे- सूत उवाच- यमाझ्या ततो विप्र तस्य दूतैर्भयंकरैः । पातितस्तु पुरीषे वै मन्वतरशताधिकम् ॥ ततो मुक्तोऽभवच्चासौ पृथिव्यां ग्रामसूकरः। चिरं नरकभक्षोऽभूद्धरिवासरभोजनात् ॥ २२ ततो विप्र प्राप्तकालः पञ्चत्वं स जगाम ह । काकयोनौ पुनर्जन्म लेभेऽसौ विड्भुजः सदा ॥२३ एकस्मिन्दिवसे विप्र श्रीहरेश्वरणोदकम् । द्वारदेशे स्थितं पीत्वा सर्वपापविवर्जितः ॥ तस्मिन्नेव दिने काकः पतितः शबरस्य च ।काले मृत्युदशां प्राप्तो व्याधेन वायसोऽपि च ॥ २५ आगते स्यन्दने दिव्ये राजहंसयुते शुभे । आरुख बलिमुग्विा ययौ स हरिमन्दिरम् ।। २६ पादोदकस्य माहाम्यं कथितं पापनाशनम् । यः शृणोति नरः पापी तस्य पापं विनश्यति ॥२७ इति श्रीमहापुराणे पाझे ब्रह्मखण्डे सूतशौनकसंवादे विष्णुचरणोदकमाहाम्यं नाम सप्तदशोऽध्यायः ॥ १७ ॥ आदितः श्लोकानां समष्ट्यङ्काः-१०५२२ अथाष्टादशोऽध्यायः । १ ३ ८ ९ शौनक उवाच- अगम्यागमनं सूत कुर्यायो वै विमोहितः । तस्य शुद्धिर्भवेत्केन कथयस्त्र समूलतः ।। सूत उवाच- अभिगच्छति चाण्डाली श्वपाकी यो द्विजोत्तम । [*उपवासत्रयं कुर्यात्माजापत्यं चरेत्ततः ॥ २ सशिखं वपनं चैव दद्यागोद्वयमेव च । यथार्थदक्षिणां दत्त्वा शुद्धि प्रामोति स द्विजः ]॥ ३ क्षत्रियो वाऽपि चाण्डाली वैश्यो वा यदि गच्छति । प्राजापत्यं सकृच् च दद्यागोमिथुनद्वयम् ।। अनुगच्छति शूद्रो हि श्वपाकी च तपोधन । चतुर्गोमिथुनं दद्यात्माजापत्यव्रतं चरेत् ॥ मातरं यदि वा गच्छेद्भगिनी स्वसुतामपि । वधूं च मोहितो गच्छंत्रीणि कृच्छ्रान्यथाऽऽचरेत् ॥६ चान्द्रायणत्रयं कृत्वा दद्यागोमिथुनत्रयम् । सशिखं वपनं कृत्वा पञ्चगव्यं पिवेत्ततः ।। हुते ह्यग्नौ तथाऽप्यत्र शुध्यत्येवं तपोधन । पितृदारान्द्विजश्रेष्ठ मातुश्च भगिनीं तथा ॥ गुरुपत्नी मातुलानी भ्रातृर्भार्या स्वगोत्रनाम् । यदि गच्छति मोहेन प्राजापत्यद्वयं चरेत् ।। चान्द्रायणत्रयं ब्रह्मन्पश्च गोमिथुनानि च । विषेभ्यो दक्षिणां दद्याच्छुध्यते नात्र संशयः ।। १० [गां च गच्छति यो मूढ उपवासत्रयं चरेत् । धेनुं दद्यात्तथा चामं शुध्यत्येवं न संशयः ] ॥ ११ वेश्यां खरी शूकरी च वानरी महिषीं द्विज । आकण्ठतः समाक्षिप्य गोमयोदककर्दमे ।। तत्र तिष्ठेन्निराहारविरात्रेणैव शुध्यति । १२ सशिखं वपनं कृत्वा व्यहं चोपवसेत्पुनः । एकरात्रं जले स्थित्वा शुध्यत्येव न संशयः॥ १३ ब्राह्मणी तु यदा गच्छेद्यो नरः काममोहितः । प्राजापत्यत्रयं कुर्याचान्द्रायणत्रयं तथा ॥ १४ गोत्रयं तु तथा दद्याच्छुध्यते च तपोधन । ब्राह्मणी पञ्चगव्यं तु पञ्चरात्र पिवेडिज ॥ गोद्वयं दक्षिणां दद्याच्छुध्यत्यत्र न संशयः॥ १९ पराङ्गनां यदा गच्छेत्कृच्छ्रे सांतपनं चरेत् । येयाऽर्गला तथा योषित्तस्माता परिवर्जयेत् ॥ १६ * एतच्चिद्वान्तर्गतः पाठो ढ.पुस्तकस्थः । । एतचिहान्तर्गतः पाठः, च. ज. द. पुस्तकस्थः । १ ज. "तः । द्रुतं यमौ क्षिपेगात्रं तु । २ अ. हुतं । ३ . ब्राह्मणी । ४ अ. यथा गौबत। . यथा मलं त ।
१९ एकोनविंशतितमोऽध्यायः ] पपपुराणम् । वर्णवायां तथा नीचामनुगच्छेत्सवमरः । पाजापत्यं चरेत्कृच्छ्रे शुध्यत्येव न संशयः॥ १७ अङ्गारसदृशी योषित्सर्पिःकुम्भसमः पुमान् । तस्याः परिसरे ब्रह्मन्स्थातव्यं न कदाचन ॥ १८ जारेण जनयेदर्भ या च नारी कुलान्तका । त्याज्या सा सर्वथा ब्रह्मस्तत्र दोषो न विद्यते १९ या च नारी गृहागच्छेत्त्यक्त्वा बन्धून्खकानपि । नष्टा सा च कुलभ्रष्टा न तस्याः संगमः पुनः या तु नारी यदा गच्छेन्मोहिता परपूरुषम् । प्राजापत्यं चरेत्कृच्छं पञ्चगव्यं पिबेत्तथा ॥ गोद्वयं तु तदा दद्याच्छुध्यत्येव न संशयः ।। २१ बामणी बालिशा ब्रह्मन्मोहिता परपूरुषम् । यदा गच्छेत्तदा त्याज्या जनैर्दोषो न विद्यते २२ यो गच्छेहामणी विप्र भूमुरः काममोहितः । गोतिलांश्च तथा दद्याच्छुध्यत्यत्र न संशयः॥२३ इति श्रीमहापुराणे पाने ब्रह्मखण्डे स्तशौनकसंवादेऽष्टादशोऽध्यायः ॥ १८ ॥ आदितः श्लोकानां समष्ट्याः-१०५४५ अर्थ कोनविंशतितमोऽध्यायः । २ ३ w ९ सूत उवाच- [*अज्ञानात्माश्य विण्पूत्र सुरां संस्पृश्य वै पुनः । यथा शुद्धिर्भवेत्तेषां कथयामि शृणु द्विज]॥१ प्राजापत्यद्वयं कुर्यात्तीर्थाभिगमनं मुने । वृषैकादशदानं च सशिखं वपनं ततः॥ गत्वा चतुष्पयं सर्व प्राजापत्यव्रतं तथा । गोद्वयं तु ततो दद्यात्पञ्चगव्यं पिबेत्ततः ॥ ब्राह्मणान्भोजयित्वा तु शुध्यत्यत्र न संशयः । चाण्डालान्नं जलं चैव ज्ञानतोऽपि विपत्तिषु ॥४ यदि भुते नरः कश्चित्कृच्छ्रे चान्द्रायणं चरेत् । सशिखं वपनं कृत्वा पञ्चगव्यं ततः पिबेत् ॥ ५ एकद्वित्रिचतुर्गावो देया विप्रेष्वनुक्रमात् । वृषलानं सूतकानमभोज्यानं जलं च वै ॥ शूद्रोच्छिष्टं यदा भुत ज्ञानतो वा विपत्तिषु । प्राजापत्यद्वयं कुर्याचान्द्रायणत्रयं तथा ॥ गोद्वयं तु ततो दद्यात्पश्चगव्यं पिबेट्विज । ['हुत्वा वनौ बहून्विप्रान्भोज्य शुद्धो भवेद्धवम्॥ ८ आखुनकुलमार्जारैरनं चेद्भक्षितं द्विज ] | तिलदर्भोदकैः प्रोक्ष्य शुध्यते च न संशयः ॥ पलाण्डं लशुनं शिघुमलाचुं गृञ्जनं पलम् । भुते यो वै नरो ब्रह्मन्नतं चान्द्रायणं चरेत् ॥ मद्यमांसप्रियं शूद्रं नीचकर्मानुवर्तनैः । तं शूद्र वर्जयेद्विप वपाकमिव दूरतः ।। ११ द्विजसेवानुरक्ता ये मद्यमांसविवर्जिताः । दानस्वकर्मनिरतास्ते ज्ञेया वृषलोत्तमाः ॥ १२ अज्ञानागुञ्जते विभ सूतके मृतके यदि । गायत्री(त्र्या) दशभिर्विप्रः सहजैश्च शुचिर्भवेत् ॥ १३ सहः क्षत्रियश्चैव वैश्यः पञ्चसहस्रकैः । पञ्चगव्यैर्भवेच्छुद्धो वृषलोऽपि तपोधन ॥ १४ आज्यं तु तोयं नीचस्य भाण्डस्य दधि यः पिबेत् । अज्ञानतोऽपि यो वर्णः प्राजापत्यव्रतं चरेत् दानं बहुतरं दद्याच्छुद्धो बनौ यथाविधि । शूद्राणां नोपवासोऽपि दानेनैव विशुध्यति ॥ १६ सशिखं वपनं कुर्यादहोरात्रोपवासतः । नीचैर्दण्डादिभिश्चैव ताडितो यो नरो द्विज ॥ पाजापत्यं व्रतं कुर्याश्चान्द्रायणवतं तु वा । सशिखं वपनं चैव पश्चगव्यं पिवेत्ततः ॥ * एतचिहान्तर्गतः पाठश्च ज. . पुस्तकस्थः । । एतचिहान्तर्गतः पाठः, च. ज, पुस्तकस्थः । १ च. ज. द. व तपोधन । । २ च. ज, तदा । गौं । ३ च. ज. ढ, व महामुने । बा । ४ च. चैवाशा। -- एच. ज. पयः।
२४ महामुनिश्रीव्यासप्रणीतं- [३ ब्रमखण्डे- गोयं तु ततो दद्याख्यमौ चानादिकं हुतम् । मद्यपानं गृहे विमानतोऽपि यहच्छया ॥ १९ यदि भुङ्क्ते नरः कश्चित्पात्यः सोऽपि कुलाबरः। गोबीजहन्ता यो विष च्छेदकश्च दलस्य च ॥ स्वर्णस्तेयी भवेत्कृच्छ्रपाजापत्यत्रयं चरेत् । सशिखं वपनं कृत्वा पञ्चगव्यं तथा पिवेत् ॥ २१ यथाविधि हुतं चामो दद्यादेनुत्रयं तथा । तस्य भुक्तं जलं चैव प्रावं स्यादै तपोधन ॥ २२ प्रातस्यहं तु चाश्नीयाम्यहं सायमयाचितम् । व्यहं चैव तु नाभीयात्माजापत्यमिदं व्रतम् ॥२३ गोमूत्र गोमयं क्षीरं दधि सर्पिः कुशोदकम् । दिनद्वयं पिवेद्विप चैकरात्रमुपोषितः ॥ सर्वपापहरं कृच्छं मुने सांतपनं स्मृतम् ॥ प्रासं व्यहं तु चैकैकं प्रातः सायमयाचितम् । अधाभ्यहं चोपवसेदतिकृच्छ्रमिदं स्मृतम् ॥ २५ [प्रतिव्यहं पिबेदुष्णं जलक्षीरं घृतं द्विज ]। सकृत्स्नायी तप्तकच्छं स्मृतं पापहरं मुने ॥ २६ अभोजनं द्वादशाहं कृच्छोऽयं पापनाशनः । पराको नाम विज्ञेयः प्रसिद्धश्च तपोधन ॥ एकैकं वर्धयेत्पिण्डं शुक्ले कृष्णे च हासयेत् । इन्दुक्षये न भुञ्जीत चान्द्रायणव्रतं स्मृतम् ॥ २८ अश्नीयाच्चतुरः प्रातः पिण्डान्विम समाहितः । चतुरोऽस्तमिते चार्के शिशुचान्द्रायणं स्मृतम्।।२९ कूष्माण्डघातिनी नारी पञ्चगव्यं पिवेत्र्यहम् । कूष्माण्डपञ्चकं दद्यात्ससुवर्ण सवस्त्रकम् ॥ तस्या वारि तथा भक्तं स्यादै ग्रामं तपोधन ॥ इति श्रीमहापुराणे पाये ब्रह्मखण्डे सूतशौनकसंवाद एकोनविंशोऽध्यायः ॥ १९ ॥ आदितः श्लोकानां समष्यकाः-१०५७५ अथ विंशोऽध्यायः । - ५ शौनक उवाच- मुकृतं किं तथा पाह(हुः) कृत्वा संसारसागरात् । तरिष्यन्ति कलौ सूत तमोन्धकूपमण्डुकाः॥१ सूत उवाच- राधाकृष्णप्रिये चोर्ने प्रातः स्नानं समाचरेत् । राधादामोदरं भक्त्या कुर्यात्पूजां समाहिता २ त्यक्त्वाऽऽमिषादिकं ब्रह्मन्पतिसेवापरायणा। सा याति श्रीहरेः स्थानं गोलोकाख्यं सुदुर्लभम् ३ राधादामोदराभ्यां या धूपदीपं तु कार्तिक । दद्यात्सा भवनं विष्णोर्याति वै त्यक्तपातका ॥ ४ योषिद्या कार्तिके विप्र दद्यादखें निकेतने । राधादामोदराभ्यां तु वसेत्सा श्रीहरेश्विरम् ॥ राधादामोदराभ्यां या पुष्पं माल्यं सुवासितम् । कार्तिके मासि सा दद्याधाति वैकुण्ठमन्दिरम् ६ [+गन्धं या चापि नैवेद्यं दद्यादै शर्करादिकम् । राधादामोदराभ्यां सा गच्छेदै विष्णुमन्दिरम् ।।७ यत्किंचिद्यच्छति ब्रह्मन्कार्तिके च द्विजातये । राधादामोदरमीत्यै तस्याः पुण्याक्षयं भवेत् ॥ ८ या नारी कार्तिके भक्त्या राधादामोदरं द्विज । मातः सपर्या सा याति न कुर्याभिरयं चिरम् १ कदाचिजन्मभूमौ सा विधवा पतिजन्मनि । भवेचाऽऽसाध पूर्व वै चापिया स्वामिनोऽपि च १० पुरा त्रेतायुगे विम वृषलो नाम शंकरः । सौराष्ट्रदेशवासी च तस्य जाया कलिमिया ॥ ११ जाराकाङ्क्षी सदा नाम्ना तृणवन्मन्यते पतिम् । असौ पतिर्न मे योग्यो मे स्वामी परपूरुषः ॥ इति मत्वा सदा तस्मै चोच्छिष्टं तु ददाति वै । नीचसङ्गान्महामूढा मद्यमांसं चखाद ह ॥ १ * एतचिहान्तर्गतः पाठो . पुस्तकस्थः । + एतचिहान्तर्गतः, पाठः च. ज. पुस्तकस्थः । .
२१ एकविंशोऽध्यायः ] पद्मपुराणम् । स्वामिनो भर्त्सनां नित्यं कुर्यात्कामं तु निष्ठुरा । पादरज्जुर्भवेश्चासौ कस्माद्वै न मृतोऽपि च १४ मृते तस्मिन्नहं भोग करिष्यामि यदृच्छया । विचार्येति हृदा मूढा जारेणैकेन सा तदा ॥ १५ अन्यदेशं गमिष्यावः सङ्केतमकरोविज । सुप्तस्य स्वामिनो रात्रावसिना तु शिरो द्विज ॥ १६ छित्त्वा जारकते साऽपि सङ्केतस्य स्थलं गता। आगतं जारपुरुष दीपिना भक्षितं द्विज ॥ १७ दृष्ट्वा सा रोदनं कृत्वा मूछिता निपपात ह । चिरादावस्य सा मूढा करुणं विललाप ह ॥ १८ कलिपियोवाच- स्वकीयं स्वामिनं हत्वा चाऽऽगता परपूरुषम् । तं जारं स्वामिनं दैवाच्छार्दूलोऽभक्षयन्मम ॥ किं करोमि क गच्छामि विधात्री वञ्चिताऽस्म्यहम् ॥ सूत उवाच - ततः कलिप्रिया ब्रह्मभागता खगृहं मति । लपने स्वामिनो दवा मुखं च विललाप सा ॥ २० कलिमियोवाच- हा नाय किं कृतं कर्म मया हन्तातिदारुणम् । के लोकं वा गमिष्यामि वद स्वामिन्मनाग्गिरम् ॥ भर्सनां तु यथाकामं कुर्या चाहं सुनिन्दिता । किंचित्र वदसि स्वामिभेनो यन्मे न विद्यते ॥२२ सूत उवाच- ननाम चरणे तस्य गताऽन्यनगरं प्रति । तत्र प्रविष्टा सा योषिदृष्ट्वा पुण्यजनान्बहून् । २३ अर्जे स्नानपरान्मातर्नर्मदायां च वैष्णवान् । तत्र नद्या स्त्रियश्चापि राधादामोदरं द्विज ॥ सपर्या च कृतां चैव शकनादैर्महोत्सवैः । गन्धपुष्पैधूपदीपैर्वस्वैर्नानाविधैः फलैः ॥ मुखवासैर्भक्तियुक्ता दृष्ट्वा सा विनयान्विता । पप्रच्छ छूत यूयं मे किमेतत्क्रियते स्त्रियः ॥ २६ - २४ २५ स्त्रिय ऊचुः- २७ सर्वमासोत्तमे चोर्जे राधादामोदरौ शुभौ । पूजयामो वयं मातः सर्वपापहरौ शुभौ ॥ कोटिजन्मार्जितं पापं नष्टं प्राप्त निकेतनम् । सपर्यामामिषं त्यक्त्वा कृत्वा सा च हरेर्दिने ॥२८ निधनत्वं (नं च) पौर्णमास्यां गता सा निर्मला द्विज। किंकराचाऽऽगतास्तूर्ण यमस्य निलयं प्रति नेतुं तां क्रोधसंयुक्ता बबन्धुश्चर्मरज्जुभिः । तदाऽऽगता विष्णुदूता विमानं स्वर्णनिर्मितम् ॥ ३० शङ्खचक्रगदापप्रधारिणो वनमालिनः । निजानुक्रधाराभिर्यमदूताः पलायिताः ॥ राजहंसयुते विप्र विमाने स्वर्णनिर्मिते । आरूढा सा गता तैस्तु वेष्टिता विष्णुमन्दिरम् ॥ ३२ तत्र तस्थौ चिरं भोगं कृत्वा सा वै यथेप्सितम् । या कुर्यात्कार्तिके विम राधादामोदरार्चनम् ॥ याति पूजां त्यक्तपापा गोलोकाख्यं मनोहरम् ॥ य इदं शृणुयाद्भक्त्या या च नारी समाहिता । कोटिजन्मार्जितं पापं तस्य तस्या विनश्यति॥३४ इति श्रीमहापुराणे पाने ब्रह्मखण्डे स्तशौनकसंवादे राधादामोदरपूजनमाहात्म्यकथनं नाम विंशतितमोऽध्यायः ॥ २० ॥ आदितः श्लोकानां समयकाः-१०६०९ अधकविंशतितमोऽध्यायः । शौनक उवाच- कथयस्वाधुना सूत सर्वमासोत्तमस्य च ॥ कार्तिकस्य विधि सम्यनियमान्वक्तुमर्हसि ॥ ११.पाहा हताऽ।
४१४ - [ ३ ब्रह्मखण्डे- महामुनिश्रीव्यासप्रणीतं- ४ ९ सूत उवाच- आश्विनस्य द्विजश्रेष्ठ पौर्णमास्यां समाहितः । कार्तिकस्य व्रतं कुर्याद्यावदुबोधिनी भवेत् ॥ २ दिवा विप्र नरः कुर्यान्मलमूत्रमुदङ्मुखः । [*भवेन्मौनी च सर्वज्ञ रात्रौ चेहक्षिणामुखः ॥] ३ पथ्यम्भसि च गोष्ठेषु श्मशाने वल्मिके द्विज । कुर्यादुत्सर्जनं नैव व्रती मूत्रपुरीषयोः ॥ शुद्धा मृदं गृहीत्वाऽथ वामं प्रक्षालयेत्करम् ॥ अद्भिर्मदाऽपि शुद्ध्यर्थं पूर्व विंशतिसंख्यया। उभौ च दशसंख्याभिः पादौ चैव त्रिभित्रिभिः ५ मुखशुद्धिं ततः कुर्यात्संकल्पं स्नपनस्य च । हदि दामोदरं ध्यात्वा इमं मनं ततो वदेत् ।। कार्तिकेऽहं करिष्यामि प्रातःस्नानं जनार्दन । दामोदरस्य प्रीत्यर्थ 'राधायाः पापनाशनम् ॥ ७ नमः पङ्कजनाभाय कृष्णाय जलशायिने । नमस्ते राधया सार्ध] गृहाणार्घ(य) प्रसीद मे ॥८ स्नानं कुर्यात्ततो विप्र तिलकं तु यथाविधि । ऊर्ध्वपुण्ड्रविहीनस्तु किंचित्कर्म करोति यः ॥ निष्फलं कर्म तत्सर्व सत्यमेतन्मयोच्यते ॥ यच्छरीरं मनुष्याणामूर्ध्वपुण्ड्रविना कृतम् । तद्दर्शनं न कर्तव्यं दृष्ट्वा सूर्य निरीक्षयेत् ।। १० उर्ध्वपुण्डूं मृदा शुभ्रं ललाटे यस्य दृश्यते। चाण्डालोऽपि विशुद्धात्मा पूज्य एव न संशयः॥११ अच्छिद्रमूर्ध्वपुण्ड्रं तु ये कुर्वन्ति नराधमाः। तेषां ललाटे सततं शुनः पादो न संशयः ॥ १२ प्रातःकालोदितं कर्म समाप्य हरिवल्लभाम् । पूजयेद्भक्तितो विप्र तुलसी पापनाशिनीम् ॥ १३ पौराणी तु कयां श्रुत्वा श्रीहरेः स्थिरमानसः। ततो विमं व्रती भक्त्या पूजयेत्तं यथाविधि ॥१४ परासनं परानं च परशय्यां पराङ्गनाम् । सर्वदा वर्जयेद्विष कार्तिके च विशेषतः ॥ सौवीरक तथा माषानामि च तथा मधु । राजमाषादिकं नित्यं वर्जयेत्कार्तिके व्रती ॥ १६ जम्बीरमामिषं चूर्णमन्नं पर्युषितं द्विज । धान्ये मसूरिका प्रोक्ता गवां दुग्धमनामिषम् ॥ १७ लवणं भूमिजं विष पाण्यङ्गमामिषं खलु । द्विजक्रीता रसाः सर्वे जलं चाल्पसर स्थितम् ॥ १८ ब्रह्मचर्य तुर्यकाले पत्रावल्यां च भोजनम् । कुर्यादै द्विजशार्दूल तैलाभ्यङ्गं च वर्जयेत् ॥ १९ छत्राकं नालिक हिङ्गु पलाण्डं पूतिकादलम् । लशुनं मूलकं शिघु तथैव तुम्बिकाफलम् ॥ २० कपित्थं चैव वृन्ताकं कृष्माण्ड कांस्यभोजनम्। द्विपाचितं सूतकानं मत्स्यं शय्यां रजस्वलाम्२१ द्विस्त्रिश्चानं स्त्रियः सङ्ग वर्जयेद्वैष्णवव्रती । धात्रीफलं गृही विष रवी तत्सर्वदा त्यजेत् ॥ २२ कूष्माण्डे धनहानिः स्याबृहत्यां न स्मरेदरिम्। पटोले तु न वृद्धिः स्यालहानिश्च मूलके २३ कलङ्की जायते बिल्वे तिर्यग्योनिश्च निम्बुके । ताले शरीरनाशः स्यानारिकेले च मूर्खता ॥२४ तुम्बी गोमांसतुल्या स्याद्गोवर्ध(धः) स्यात्कलिन्दके। शिम्मी पापकरा मोक्ता पूतिका ब्रह्मघातिका॥ वृन्ताक्यां सुतनाशः स्याश्चिररोगी च माषके । मांसे च बहुपाएं स्यावर्जयेत्मतिपदादिषु ॥ २६ यत्किंचिद्वर्जयेद्रव्यं श्रीहरेः प्रीतये द्विज । तत्पुनर्भूसुरे दत्त्वा व्रतान्ते तस्य भोजनम् ।। कार्तिकवतिनं विप्र यथोक्तकारिणं नरम् । यमदूताः पलायन्ते सिंहं दृष्ट्वा यथा गजाः ॥ २८ श्रेष्ठं विष्णुव्रतं विप्र ततुल्या न शतं मखाः । कृत्वा क्रतुं व्रजेत्स्वर्ग वैकुण्ठं कार्तिकवती ॥ २९ यत्किंचिदुष्कृतं विम मनोवाकायकर्मजम् । दृष्ट्वा तु विलयं याति कार्तिकवतिनं क्षणात् ॥ ३० कार्तिकवतिनः पुण्यं ब्रह्मा चैव चतुर्मुखः । न समर्थो भवेद्वषु यथोक्तवतकारिणः ॥ ३१ * एतचिहान्तर्गतः पाठः, च. ज. पुस्तकस्थः । + एतचिहान्तर्गतः पाठः, ष, ज. पुस्तकस्थः । १८ प्र हरेभक्त्या । २ अ. 'ज्यर्धमा । ३८. घृतहीना । ४ . सूतिका । ५८, मार्यो । २७ ३ २२ द्वाविंशोऽध्यायः ] पद्मपुराणम् । यत्कृत्वा कलुषं सर्व बजेविम दिशो दश । क गच्छामि कतिष्ठामि कार्तिकवतिनो भयात् ॥१२ पौर्णमास्यां यथाशक्ति चामवस्त्रादिकं द्विज । दद्यादै श्रीहरेः प्रीत्यै ब्राह्मणानपि भोजयेत् ॥३३ रात्री जागरणं कुर्याभृत्यगीतादिभिर्वती। य इदं शृणुयाद्भक्त्या तस्य पापं प्रणश्यति ॥ इति श्रीमहापुराणे पाझे ब्रह्मखण्डे सूतशौनकसवादे कार्तिकमाहात्म्य एकविंशोऽध्यायः ॥ २१॥ आदितः श्लोकानां समष्ट्यङ्काः-१०६४३ अथ द्वाविंशोऽध्यायः । शौनक उवाच- १ ४ w ८ ९ माहात्म्यं ब्रूहि सर्वज्ञ शृण्वतां पापनाशनम् । सर्वप्राणिहितार्थाय दुलस्या अनुकम्पया ॥ सूत उवाच- तुलस्याः परिसरे यस्य काननं तिष्ठति द्विज । गृहस्य तीर्थरूपत्वामाऽऽयान्ति यमकिंकराः॥२ तुलस्याः काननं [*विप्र सर्वपापहरं शुभम् । रूपयन्ति नराः श्रेष्ठास्ते न पश्यन्ति भास्करिम् । रोपणं पालन सेवां दर्शनं] स्पर्शनं तु यः। कुर्यात्तस्य प्रनष्टं स्यात्सर्वपापं द्विजोत्तम ॥ कोमलैस्तुलसीपत्रैरर्चयन्ति हरिं तु ये । कालस्य सदनं विम ते न यान्ति महाशयाः ॥ गङ्गाद्याः सरितः सर्वा ब्रह्मविष्णुमहेश्वराः । देवैस्तीथैः पुष्कराचैस्तिष्ठन्ति तुलसीदले ॥ यो युक्तस्तुलसीपत्रैः पापी प्राणान्विमुञ्चति । विष्णोनिकेतनं याति सत्यमेतन्मयोदितम् ॥ तुलसीमृत्तिकालिप्तो युक्तः पापशतैरपि । विमुञ्चति नरः प्राणान्स याति हरिमन्दिरम् ॥ यो नरो धारयेद्विप तुलसीकाष्ठचन्दनम् । तस्याहं न स्पृशेत्पापं स याति परमं पदम् ।। तुलसीकाष्ठमालां तु कण्ठस्थां वहते तु यः । अप्यशौचोऽप्यनाचारो भक्त्या याति हरेहम् १० धात्रीफलकृता माला तुलसीकाष्ठसंभवा । दृश्यते यस्य देहे तु स वै भागवतो नरः॥ ११ तुलसीदलजां मालां कण्ठस्थां वहते तु यः । विष्णूच्छिष्टां विशेषेण स नमस्यो दिवौकसाम् १२ यः पुनस्तुलसीमालां कण्ठे कृत्वा जनार्दनम् । पूजयेत्पुण्यमामोति प्रतिपुष्पं गवायुतम् ।। धारयन्ति न ये मालां हैतुकाः पापबुद्धयः । नरकान निवर्तन्ते दग्धाः कोपाग्निना हरेः॥ १४ न जह्यात्तुलसीमालां धात्रीमाला विशेषतः । महापातकसंही धर्मकामार्थदायिनीम् ॥ १५ स्पृशेच यानि(घावन्ति)लोमानि धात्रीमाला कलौ नृणाम् । तावद्वर्षसहस्राणि वसते केशवालये। निवेद्य केशवे मालां तुलसीकाष्ठसंभवाम् । वहते यो नरो भक्त्या तस्य वै नास्ति पातकम् ॥१७ तुलसीकाष्ठमालां तु प्रेतराजस्य दूतकाः । दृष्ट्वा नश्यन्ति दूरेण वातोद्भूतं यथा दलम् ॥ १८ तुलस्या विपिने धान्याश्छायासु यो नरोत्तमः । पिण्डं ददाति पितरो मुक्तिं यान्ति द्विजोत्तम ॥ पाणौ मूभि गले चैव कर्णयोश्च मुखे द्विज । धात्रीफलं यस्तु धत्ते स विज्ञेयो हरिः स्वयम् ॥२० धात्रीपत्रैः फलैर्विम श्रीहरि चार्चयेविज । कोटिजन्मार्जितं पापं पूजया नश्यति सकृत् ॥ २१ यज्ञा देवाश्च मुनयस्तीर्थानि कार्तिके द्विज । धात्रीत्रतं समाश्रित्य तिष्ठन्ति कार्तिके सदा ॥ २२ धात्रीपत्रं कार्तिके च द्वादश्यां तुलसीदलम् । चिनोति यो नरो गच्छेभिरयं यातनामयम् ॥ २३ *एतचिहान्तर्गतः पाठः, च. ज. ढ. पुस्तकस्थः । १ज. ढ.'यं चातिदारुणम् ।
२७ महामुनिश्रीव्यासमणीत- [ ३ ब्रह्मखण्डे- धात्रीछायासु यो विप्र चामं भुनक्ति कार्तिके । अन्नसंसर्गजं पापमावर्षे तस्य नश्यति ॥ तुलसीवनमध्ये च धात्रीमूले च कार्तिक । कुर्याद्धर्यर्चनं विष वैकुण्ठं याति स ध्रुवम् ॥ २५ तुलसीमूलदेशेऽपि स्थितं वारि द्विजोत्तम । गृहाति मस्तके भक्त्या पापी याति हरेहम् ॥ २६ तुलसीपत्रगलितं यस्तोयं शिरसा वहेत् । सर्वतीर्थेषु स सातश्चान्ते याति हरेहम् ।। पुरा कश्चिद्विजश्रेष्ठो द्वापरेऽभून्महामुने । स्नात्वैकदा तुलस्यै स वनं दत्त्वा गृहं गतः ॥ २८ आदित्यो वर्चसा नाम्ना मार्तण्ड इव पुण्यतः । तृषार्तो भेषकः कश्चिदागतो बहुकल्मषः ॥ २९ तुलस्या मूलतस्तोयं पीत्वा चासौ हताहसः । त्वरयाऽप्यागतो व्याधो नानो यश्चासिमर्दनः३० उवाच मुक्तं चानं च भुक्त्वा भैग्नं गतः किमु । कृत्वा मे पाकमाण्डस्थं चाऽऽगतो हिंसकस्य ते३१ विव्याध तं गतप्राणं नेतुं वै शमनाज्ञया । आगताः किंकराः क्रुद्धाः पाशमुद्गरपाणयः ।। ३२ बद्ध्वा नेतुं मनश्चक्रुरागता विष्णुकिंकराः । तदा छित्त्वा चर्मपाशं स्यन्दने तं मनोहरे ॥ तूर्णमारोहयामासुः पप्रच्छविनयान्विताः । तेऽपि पुण्येन भोः सन्तः केन वै नीयतेऽप्यसौ॥३४ ऊचुस्तेऽसौ पुरा राजा पुण्यं बहुतरं कृतम् । अकरोद्धरणं कांचित्सुन्दरी चाङ्गनामयम् ॥ ३५ अनेन चहिसा राजा गतो वै शमनक्षयम् । तत्र क्लेशस्तु युष्माभिर्दत्तो वै शमनाया। ३६ ताम्रमय्या स्त्रिया साध क्रीडां सुप्त्वा चकार सः । तप्तायां लोहशय्यायां वैलव्यं कर्मणा नृप ॥ तप्तायोभीषणं तप्तं लोहस्तम्भं यमाज्ञया । ततः स्थितः समालिङ्गय भुक्त्वा दुःखं चिरं नृपः ३८ सिक्तः क्षाराम्बुधाराभिरन्यैः शमनालये । ततो नरकशेषे च पापयोनौ मुहुर्मुहुः ॥ जन्माऽऽसाद्य चिरं दुःखमनुभूतं स्वकर्मणा । तुलसीमूलक(ग) वारि पीत्वा याति हरेहम् ॥ ४० इदानीं तद्वचः श्रुत्वा गता दता यथाऽऽगताः । तेन सार्धं विष्णुदूता गता वैकुण्ठमन्दिरम् ॥४१ माहात्म्यं कथितं ब्रह्मस्तुलस्याः पापनाशनम् । कुर्वन्ति सेवां ये भक्त्या न जाने किं भवेन्मुने४२ इति श्रीमहापुराणे पाद्मे ब्रह्मखण्हे सूतशौनकसंवादे तुलस्या माहात्म्य नाम द्वाविंशोऽध्ययः ॥ २२ ॥ आदितः श्लोकानां समयकाः-१०६८५ अथ प्रयोविंशोऽध्यायः । शौनक उवाच- २ कथयस्व मुने सूत माहात्म्यं कलुषक्षयम् । शेषपञ्चदिनस्यापि कार्तिकस्यानुकम्पया ॥ सूत उवाच- शृणु शौनक यत्पृष्टं माहात्म्यं पापनाशनम् । वक्ष्याम्यहं वै चोर्जस्य शेषपञ्चदिनस्य च ॥ प्रतानां मुनिशार्दूल प्रवरं विष्णुपञ्चकम् । तस्मिन्यः पूजयेद्भक्त्या श्रीहरि राधया सह ॥ गन्धपुष्पैधूपदीपैर्वस्वैर्नानाविधैः फलैः । स याति विष्णुसदनं सर्वपापविवर्जितः ॥ ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथवा यतिः। न पामोति पर स्थानमकृत्वा विष्णुपञ्चकम् ॥५ सर्वपापहरं पुण्यं विख्यातं विष्णुपञ्चकम् । तत्र स्नानं तु यः कुर्यात्सर्वतीर्यफलं लभेत् ।। श्रीहरेः पुरतो विष तुलस्याश्च समीपतः । प्रदीपं सर्पिषा पूर्ण दयायो भक्तिभावतः ।। ४ ६ १६. "हाउने । २ ज. भिक्षुकः । . भक्षकः । ३ ज. भागे । ४ अ. स्यं तत्राऽऽगत्य ददर्श च । वि। ५ अ. 'नालये। ता।
२० - २३ प्रयोविंशोऽध्यायः] पद्मपुराणम् । नभसि श्रीहरेः प्रीत्यै याति स विष्णुमन्दिरम् । पापी याति हरेर्धाम सत्यमेतन्मयोदितम् ॥ ८ सापयेचाच्युतं भक्त्या मधुक्षीरघृतादिभिः। नो दद्यात्किं हरिः प्रीतस्तस्मै साधुजनाय वै ॥९ नैवेद्य देवदेवेश() पैरमाचं निवेदयेत् । तस्य पुण्यं प्रसंख्यातुं न शक्तो वै चतुर्मुखः ॥ १० अर्चयित्वा हृषीकेशमेकादश्यां समाहितः । निष्पाप्य गोमयं सम्यमत्रवत्समुपासते ॥ गोमूत्र मनवन्यो द्वादश्यां प्राशयेव्रती । क्षीरं तथा त्रयोदश्यां चतुर्दश्यां तथा दधि ॥ १२ समाप्य पापशुख्यर्य लययित्वा तुर्दिनम् । पश्चमे तु दिने स्नात्वा विधिवत्पूज्य केशवम् १३ भोजयेद्रामणान्भक्त्या तेभ्यो दद्याश्च दक्षिणाम् । ततो नक्तं समश्नीयात्पञ्चगव्यं सुमत्रितम् ।। एवं कर्तुमशक्तो यः फलमूलं च भोजनम् । कुर्याद्धविष्यं वा विप्र यथोक्तविधिना हे वै ।। १५ श्रीहरेः पञ्चकं विम कुर्यायस्तुलसीदलैः । पूजयेत्तं स विज्ञेयः स्वयं नारायणः प्रभुः ॥ १६ पुरा त्रेतायुगे शूद्रो दस्युवृत्चिपरायणः । नाम्ना दण्डकरो नित्यं धर्मनिन्दा करोति यः॥ असत्यभाषी मित्रघ्नो वेश्याविभ्रमलोलुपः । ब्रह्मस्वहारी क्रूरश्च परस्त्रीगमने रतः ॥ १८ शरणागतहन्ता च पाखण्डजनसाभाक् । गोमांसाशी सुरापश्च परनिन्दाकरः सदा ।। विश्वासपाती हातीनां वृत्तिच्छेदी द्विजोत्तम ।। १९ पुष्ट सर्वे समालोक्य तादृशं तगृहं द्विज । आगता ज्ञातयः मुद्धास्तस्य पापपरायणम् ॥ सातय ऊचुः- रे रे मूढ दूराचार विनाशं प्रति नीयते । या प्रतिष्ठाजिता पूर्वैरस्माकं निर्मलेऽन्वये ॥ इति कुद्धा द्विजश्रेष्ठ अपकीर्तिभयादपि । पापिना प्रवरं सर्वे तत्यजुस्तं कुलादरम् ॥ २२ ततो गतो महारण्यं विनष्टाखिलवैभवः । कुर्यात्स दस्युभिः सार्ध दस्युकर्म निरन्तरम् ॥ २३ पथि प्रगच्छतां तेषां भयादिम न खादितुम् । प्राप्तं किंचित्क्षु गर्तास्ते गताश्चान्यस्थलं प्रति २४ सत्र प्रविष्टास्ते सर्वे दृष्ट्वा पुण्यजनान्बहुन् । धात्रीमूले स्थितान्ब्रह्मन्वैष्णवान्दिजसत्तमान् ॥ २५ सर्वे ते दस्यवो विप्र गता दण्डकरोऽपि सः । तेषां परिसरं गत्वा प्रणामं वै चकार सः॥ २६ दण्डकर उवाच- क्षुधातॊऽहं द्विजश्रेष्ठाः प्राणा यास्यन्ति मे ध्रुवम् । ददध्वं खादितुं किंचिधुष्माकं शरणागतः ॥ आकर्ण्य वचनं तस्य मोचुस्ते धर्मतत्पराः । सर्वपापहरे त्वं च विख्याते विष्णुपञ्चके । कथमनं खादितुं ते वाञ्छा त्वद्य हरेदिने । विशेषं ते ब्रूहि संज्ञा का ते भवति सांमतम् । २९ स उवाच मुदा विमा नाम्ना दण्डकरोऽप्यहम् । सर्वपापसमायुक्तश्योद्धारो मे कथं भवेत् ॥ ३० अचुस्ते वै व्रतं श्रेष्ठं कुरुष्व विष्णुपञ्चकम् । विप्राणामाज्ञया विप्र चकार विष्णुपञ्चकम् ॥ ३१ स प्रेत्य च हरेः स्थानमारुख स्यन्दने वरे। आसाद्य श्रीहरे रूपं तस्थौ जन्मविवर्जितः॥ ३२ य इदं मृणुयाद्भक्त्या चाऽऽख्यानं पापनाशनम् । कोटिजन्मार्जितं पापं तस्य नश्यति तत्क्षणात् इति श्रीमहापुराणे पाने ब्रह्मखण्डे विष्णुपञ्चकमाहात्म्यं नाम त्रयोविंशोऽध्यायः ॥ २३ ॥ आदितः श्लोकानां समष्ठ्यकाः-१०७१८ २१ २८ १४. सै प्रयाते विष्णुपबके । पा । २ . यो ।३ ढ. परमान्त । ४ ज . च तदिन । ५ ज. हरेत् । श्री। ६६. ज्छा गर्वा ।
४१८ महामुनिश्रीव्यासप्रणीतं- [ ३ ब्रह्मखण्डे- अथ चतुर्विशोऽध्यायः । १ %3D ३ ५ ६ १४ शौनक उवाच- विदुषां वर तत्त्वज्ञ कथयस्व महामते । इदानीं मम दानानां माहात्म्यं क्रमतो मैंने ॥ सूत उवाच- क्षितिदानं मुनिश्रेष्ठ दानानामुत्तमं मतम् । येन चैतत्कृतं दानं सर्वदानफलं मतम् क्षितिं ससस्यां यो दद्याद्राह्मणाय द्विजोत्तम । विष्णुलोके सुखं भुते यावदिन्द्राचतुर्दश ॥ पृथिव्यां जन्म चाऽऽसाद्य सार्वभौमस्ततो नृप । महीं सा चिरं भुक्त्वा बजेट्टै श्रीहरेर्गृहम् ॥ ४ गोचर्ममात्रां भूमिं यः प्रयच्छति द्विजातये । स गच्छति हरेर्गेई सर्वपापविवर्जितः ॥ शतं गावो वृषश्चैको यत्र तिष्ठन्त्ययन्त्रिताः। गोचर्ममात्रां तां भूमि प्रवदन्ति महर्षयः ॥ भूमिनेता भूमिदाता द्वौ चापि स्वर्गगामिनी । ग्राह्या भूमिर्द्विजैः प्रा.स्त्यक्त्वा दानशतान्यपि ।।७ अज्ञानी भूसुरो यस्तु त्यजेमि विमोहितः । प्रतिजन्मन्यसौ विमो भवेश्चात्यन्तदुःखभाक् ॥ ८ अन्यतो यः समासाद्य दद्याद्भूमिं द्विजातये । तस्मै विप्र जगन्नायो ददाति परमं पदम् ।। स्वदत्तां परदत्तां च मेदिनी यो हरेविज । युक्तः कोटिकुलैर्याति नरकं चातिदारुणम् ॥ १० हरेद्यो वै महीं विप्र देवब्राह्मणयोरपि । न दृष्टा निष्कृतिस्तस्य कल्पकोटिशतैर्मुने ॥ ११ भूमि योऽपरदत्तां च रक्षति क्षमापतिजि । पुण्यं कोटिगुणं स्याद्वै तस्य दान(त)जनादपि ॥१२ सप्तद्वीपां महीं दत्त्वा यत्पुण्यं प्राप्यते द्विज । तत्पुण्यं प्रामुयान्मयों धेनुं यच्छन्द्रिजातये ॥ १३ ददाति वृषभं यस्तु दरिद्राय कुटुम्बिने । सर्वपापविनिर्मुक्तः शिवलोक स गच्छति ॥ तिलप्रमाणं स्वर्ण यो ब्राह्मणाय प्रयच्छति । [हरोनकेतनं याति युक्तः कोटिकुलैरपि ॥ १५ यो दद्याद्रजतं विप्र साधवे भूसुराय वै] | [+पामोति चन्द्रलोकं च पिबेत्तत्रामृतं सदा ॥ १६ प्रवालं मौक्तिकं चैव हीरकं च मणिं तथा । यो ददाति द्विजश्रेष्ठ स्वर्गलोकं स गच्छति ] १७ तुलापुरुषदानेन यत्पुण्यं लभते जनः । शालग्रामशिला दत्त्वा तस्मात्कोटिगुणं लभेत् ॥ १८ सप्तद्वीपां क्षितिं दत्त्वा सशैलवनकाननाम् । यत्पुण्यं लभते तद्वै शालग्रामशिलामदः ॥ शालग्रामशिला यो वै दद्याभूमिसुराय च । तेन विप्र प्रदत्तानि भुवनानि चतुर्दश ॥ तुलापुरुषदानं यः करोति द्विजपुङ्गव । जनन्यायोदरे तस्य पुनर्जन्म न विद्यते ॥ २१ [*सालंकारां द्विजश्रेष्ठ कन्यां यच्छति यो नरः । स गच्छेद्रमसदनं पुनर्जन्म न विद्यते ॥ २२ कन्याविक्रयिणो नास्ति नरकानिष्कृतिः पुनः । कन्यादानकृतो नास्ति स्वर्गादागमनं पुनः २३ उपानही चाऽऽतपत्रं यो ददाति द्विजातये । प्रेत्य चन्द्रपुरं गत्वा [+वसेस्कल्पचतुष्टयम् ॥ २४ वस्त्रं यच्छति यो दिव्यं] साधवे वै द्विजातये । स्वर्गे दिव्याम्बरधरश्चिरं तिष्ठेद्विजोत्तम ॥ २५ धेनुं पुरातनी यच्छेद्वस्त्रं च जरितं द्विजः । नूनं रजोव(जस्व)ती कन्यां स गच्छभिरयं तथा।।२६ कन्याविक्रयिणो ब्रह्मन्न पश्येद्वदनं बुधः । दृष्ट्वा चाज्ञानतो वाऽपि कुर्यान्मार्तण्डदर्शनम् ॥ २७ फलदाता नरो गच्छेत्रिदिवं च द्विजोत्तम । भुते कल्पसहस्राणि फलं तत्रामृतोपमम् ।। * एतच्चिद्वान्तर्गतः पाठः, च. पुस्तकस्थः । + एतचिहान्तर्गतः पाठः, च. ज. 6. पुस्तकस्थः । * एतचिहान्तर्गतः पाठः, च. ज. उ. पुस्तकस्थः । + एतचिहान्तर्गतः पाठः, च. ज. पुस्तकस्थः । १ ज. ममाप्रतः । । २ ज. नी सर्वदा' । ३ ज. बुध । ४ १. म. श्येत्पल्लव बु । द. 'शेलपन । १९ २० २८ ॥ २४ चतुर्विशोऽध्यायः ] पद्मपुराणम् । ४१९ शाकं यच्छति यो मर्त्यः शिवस्य भवनं द्विज । याति कल्पद्वयं भुङ्क्ते दुर्लभं पायसं सुरैः ॥ २९ घृतदो दधिदश्चैव तक्रदो दुग्धदस्तथा । विणोनिकेतनं गत्वा सुधापानं करोति सः॥ गन्धदः पुष्पदश्चैव मर्यो याति सुरालयम् । तिष्ठेयुगसहस्राणि गन्धपुष्पविभूषितः ।। शय्यादानं दानसारं ब्राह्मणाय ददाति यः। स याति ब्रह्मसदनै पर्यके शेर(ष्य)ते चिरम् ॥३२ पीठदाता दीपदाता सर्वदुष्कृतवर्जितः । स्वर्गे सिंहासने तिष्ठेज्ज्वलदीपावलीवृतः ॥ ताम्बूलं यो नरो दद्याभूमि भुङ्क्तेऽखिलां सुखम् । स्वर्गे देवाङ्गनाक्रोडे सुप्तस्ताम्बूलमत्ति वै ॥३४ विद्यादानं दानवरं करोति यो नरोत्तमः । प्रेत्य स संनिधि विष्णोस्तिष्ठेयुगशतत्रयम् ॥ प्राप्य ज्ञानं ततस्तत्र दुर्लभं वै द्विजर्षभ । दुर्लभं मोक्षमामोति श्रीहरेः कृपया द्विज ॥ अनाथं दुःखिनं विप्रं पाठयेदै नरोत्तमः । श्रीहरेभवनं याति पुनर्जन्मविवर्जितः ।। यो नरः पुस्तकं दद्याद्भक्तिश्रद्धासमन्वितः । प्रतिवर्ण लभेत्पुण्यं कपिलाकोटिदानजम् ॥ ३८ मधुदो गुडदश्चैव मो यातीक्षुसागरम् । लवणं प्रददद्याति वारुणं लोकमेव च ॥ सर्वेषामेव दानानामन्नं वारि द्विजोत्तम । तत्त्वज्ञैर्मुनिभिः सर्वैः प्रवरं वै प्रकीर्तितम् ।। अन्नं वारि द्विजश्रेष्ठ येन दत्तं महीतले । तेन दत्तानि दानानि सर्वाणि च द्विजर्षभ । अन्नदो यो नरो विम पाणदश्च प्रकीर्तितः । तस्मात्समस्तदानानामन्नदो लभते फलम् ४२ यथा चान्नं तथा वारि द्वे तुल्ये च प्रकीर्तिते। वारिणा च विना चान्नं सिद्धं न स्याद्विजोत्तम ॥ क्षुधा तृषा द्विजव्याघ्र द्वे च तुल्ये प्रकीर्तिते । अतश्चानं च तोयं च श्रेष्ठं प्रोक्तं बुधैरपि ॥ ४४ अन्नदानं क्षितौ ब्रह्मन्ये कुर्वन्ति नरोत्तमाः । सर्वपापविनिर्मुक्ता गच्छन्ति हरिमन्दिरम् ॥ ४५ यावन्त्यनानि भो विप्र यच्छति क्षितिमण्डले । ब्रह्महत्यानि तावन्ति नश्यन्त्येव तपोधन ॥ ४६ यच्छतां चानदानानि शरीराणि च पातकम् । गात्राणि गृङ्गतां त्यक्त्वा सहसा यान्ति शौनक ।। अतः पापिष्ठजानानि न गृहन्ति मनीषिणः । गृह्णन्ति मोहाद्ये मूढा भवन्ति पापभागिनः ॥ ४८ कुर्याभूमिष्ठमुदकं चैक भो द्विजसत्तम । सर्वपापैर्विनिर्मुक्तो व्रजेत्स हरिमन्दिरम् ॥ प्रयत्नेन द्विजश्रेष्ठ कर्तव्यो धनसंचयः । संचितं च धनं ब्रह्मन्दानकर्मणि निक्षिपेत् ॥ रक्षन्ति ये च कार्पण्यादनं ते चातिदुःखिनः । अन्ते सर्वधनं त्यक्त्वा निःस्वा गच्छन्ति भो मुने मानवा ये सदा दानं दत्त्वा दत्त्वा दरिद्रति । दरिद्रास्ते न विज्ञेया नरलोके महेश्वराः॥ ५२ परलोके द्विजव्याघ्र साधुसंयमजिते ॥ निर्दये बन्धुहीने च न दत्तं नोपतिष्ठते ॥ स्थिते धने नरो यो वै नाश्नाति न ददाति सः। दरिद्र इव विज्ञेयः प्रेत्य निश्वासमुत्सृजेत् ५४ तपसोऽपि परं दानं प्रोक्तं च तत्त्वदर्शिभिः । अतो यत्नाद्विजश्रेष्ठ दानकर्म समाचरेत् ॥ ५५ दाता दानं न दद्याद्वै समुत्सृज्य द्विजातये । स याति निरयं घोरं सर्वजन्तुभयावहम् ॥ दानं दाता प्रतिग्राही न स्मरेञ्च न याचते । निरये चोभयोर्वासो यावच्चन्द्रदिवाकरौ ॥ ब्रह्महत्यादिपापानि यानि वै द्विजसत्तम । तानि दानेन हन्यन्ते तस्मादानं समाचरेत् ॥ इति श्रीमहापुराणे पाये ब्रह्मखण्डे सूतशीनकसंवादे चतुर्विशतितमोऽध्यायः ॥ २४ ॥ आदितः श्लोकानां समयकाः-१०७७६ ५० १ म. भं प्रायशोऽमरैः । २ म. भये वासो ।
४२० महामुनिश्रीव्यासमणी- [३अमखण्डे- भय पञ्चविंशोऽध्यायः - ४ ५ ६ ८ शौनक उवाच- श्रीपदं विष्णुचरितं सर्वोपद्रवनाशनम् । सर्वपापक्षयकर दुष्टप्रहनिवारणम् ॥ विष्णुसांनिध्यदं चैव चतुर्वर्गफलमदम् । यः शृणोति नरो भक्त्या चान्ते याति हरेहम् [*नामोच्चारणमाहात्म्यं श्रूयते महदद्भुतम् । यदुच्चारणमात्रेण नरो यायात्परं पदम् ॥ तदस्वाधुना सूत विधानं नामकीर्तने ॥ सूत उवाच- भृणु शौनक वक्ष्यामि संवादं मोक्षसाधनम् । नारदः पृष्टवान्पूर्व कुमारं तददामि ते ॥ एकदा यमुनातीरे निविष्टं शान्तमानसम् । सनत्कुमारं पप्रच्छ नारदो रचिताञ्जलिः ।। श्रुत्वा नानाविधान्धर्मान्धर्मव्यतिकरांस्तथा ॥ श्रीनारद उवाच- योऽसौ भगवता प्रोक्तो धर्मव्यतिकरो नृणाम् । कथं तस्य विनाशः स्यादुच्यतां भगवत्भिय ॥७ श्रीसनत्कुमार उवाच- भृणु नारद गोविन्दप्रिय गोविन्दधर्मवित् । यत्पृष्टं लोकनिर्मुक्तिकारणं तमसः परम् ॥ सर्वाचारविजिताः शधियो व्रात्या जगद्वनका दम्भाहंकृतिपानपैशुनपराः पापा[श्च ये] निठुराः। ये चान्ये धनदारपुत्रनिरताः सर्वेऽधमास्तेऽपि हि श्रीगोविन्दपदारविन्दशरणाः शुद्धा भवन्ति द्विज ।। तमपि देवकरं करुणाकरस्थविरजङ्गममुक्तिकरं परम् अतिचरन्त्यपराधपरा जना य इह तान्वपति ध्रुवनाम हि(?)। सर्वापराधकृदपि मुच्यते हरिसंश्रयः । हरेरप्यपराधान्यः कुर्याद्विपदपासनः ।। नामाश्रयः कदाचित्स्यात्तरत्येव स नामतः । नानो हि सर्वसुहृदोऽयपराधात्पतत्यपः ॥ १२ श्रीनारद उवाच- के तेऽपराधा विभेन्द्र नाम्नो भगवतः कृताः। विनिघ्नन्ति नृणां कृत्यं प्राकृत बानयन्ति च ॥१३ श्रीसनत्कुमार उवाच- सतां निन्दा नाम्नः परममपराधं वितनुते यतः ख्याति यान्तं कथमु सहते तद्विगर्हाम्(?) शिवस्य श्रीविष्णोर्य इह गुणनामादि सकलं घिया भिमं पश्येत्स खलु हरिनामाहितकरः ।। गुरोरवज्ञा श्रुतिशास्त्रनिन्दनं तथाऽर्थवादो हरिनान्नि कल्पनम् । नाम्ना(मा) वला(परा)धस्य (?)हि पापबुद्धि(द)न विद्यते तस्य यमैहि शुद्धिः॥ धर्मव्रतत्यागहुतादिसर्वशुभक्रियासाम्यमपि प्रमादः । अश्रधानो विमुखोऽप्यभृण्वन्यचोपदेशः (श)शिवनामापराध::)| * एतचिहानतः पाठः, ज. पुस्तकस्थः । ९ १० ११ - १५ २० २५ पञ्चविंशोऽध्यायः ] पनपुराणम् । ४२१. श्रुत्वाऽपि नाममाहात्म्यं यः प्रीतिरहितोऽधमः । अहंममादिपरमो नानि सोऽप्यपराधकृत्॥१७ एवं नारद शंकरेण कृपया मयं मुनीनां पर मोक्तं नाम सुखावहं भगवतो वयं सदा यत्नतः ॥ ये ज्ञात्वाऽपि न वर्जयन्ति सहसा नाम्नोऽपराधान्दश कुदा मातरमप्यभोजनपराः खियन्ति ते पालवत् ।। १८ अपराधविमुक्तो हि नाम्नि जसं सदाऽऽचर । नाम्नैव तव देवर्षे सर्व सेत्स्यति नान्यतः ॥ १९ श्रीनारद उवाच- सनत्कुमार मियसाहसानां विवेकवैराग्यविवर्जितानाम् । देहमियार्थात्मपरायणानां मुक्तापराधाः प्रभवन्ति नो (नः) कथम् ॥ श्रीसनत्कुमार उवाच- जाते नामापराधे तु प्रमादे तु(दातु) कथंचन । सदा संकीर्तयमाम तदेकशरणो भवेत् ।। नामापराधयुक्तानि(ना)नामान्येव हरन्त्यघम् । अविश्रान्तिप्रयुक्तानि तान्येवार्थकराणि यत् ॥२२ नामैकं यस्य चिहं स्मरणपथगतं श्रोत्रमूलं गतं वा भुदं वाऽशुदवणे व्यवहितरहितं तारयत्येव सत्यम् । तोदेइद्रविणजनितालोभपाखण्डमध्ये निक्षिप्तं स्यान फलजनकं शीघ्रमेवात्र विप्र ।। इदं रास्यं परमं पुरा नारद शंकरात् । भुतं सर्वाशुभहरमपराधनिवारकम् ।। विदुर्विष्ण्वभिधानं ये अपराधिपरा] नराः। तेषामपि भवेन्मुक्तिः पठनादेव नारद ॥ नानो माहात्म्यमखिलं पुराणे परिगीयते । ततः पुराणमखिलं श्रोतुमईसि मानद ॥ २६ पुराणश्रवणे श्रद्धा यस्य स्यादातरवहम् । तस्य साक्षात्मसनः स्याच्छिवो विष्णुश्च सानुगः] यत्नात्वा पुष्करे तीर्थे प्रयागे सिन्धुसंगमे । तत्फलं द्विगुणं तस्य श्रदया वै शृणोति यः ॥२८ ये पठन्ति पुराणानि शृण्वन्ति च समाहिताः । प्रत्यक्षरं लभन्त्येते कपिलादानज फलम् ॥ २९ अपुत्रो लभते पुत्रं धनार्थी लभते धनम् । विद्यार्थी लभते विद्या मोक्षार्थी मोक्षमामुयात् ॥ ३० ये भृण्वन्ति पुराणानि कोटिजन्मार्जितं खलु । पापजालं तु ते हित्वा गच्छन्ति हरिमन्दिरम् ३१ पुराणवाचकं विमं पूजयेद्भक्तिभावतः । गोभूहिरण्यवस्खैश्च गन्धपुष्पादिभिर्मुने ॥ ३२ कांस्यैर्विनिर्मितं पात्रं जलपात्रं मुदान्वितः । कर्णकुण्डलकं चैव मुद्रिका वर्णनिर्मिताम् ॥ ३१ आसनं तु तथा दयात्पुष्प माल्यं तपोषन । वित्तशाव्यं न कुर्वीत दानं हीनफलं यतः ॥ पुराण वाचदिन सर्वकामार्थसिद्धये । सुवर्ण रजतं वस्त्रं पुष्पमाल्यं तु चन्दनम् ।। दयाया पुस्तकं भक्त्या स गच्छेदरिमन्दिरम् ॥ कुर्वन्ति विपिनाऽनेन संपूर्ण पुस्तकं च ये । तेषां नामानि लिम्पेत चित्रगुप्तोऽर्चनाद्विज ॥ ३६ २४ इति श्रीमहापुराणे पाने प्रमखन्हे सूतशौनकसंवादे पञ्चविंशतितमोऽध्यायः ॥ २५ ॥ आदितः श्लोकानां समबहार-१०८१२ [३ ब्रह्मखण्डे- ४२२ महामुनिश्रीव्यासप्रणीतं- अथ पविंशोऽध्यायः । ४ ५ ७ शौनक उवाच- श्रोतुमिच्छामि ते मात्र कथयस्व समूलकम् । प्रतिज्ञापालने पुण्यं खण्डने किंच किल्बिषम् ॥ १ अनृते शपये किंवा सत्ये किंचिद्भवेन्मुने । दक्षिणं किं करं दत्त्वा कृपां कृत्वा कृपार्णव ॥ २ सूत उवाच- शृणुष्व मुनिशार्दूल कथयामि समूलतः । वैष्णवानां त्वमयोऽसि सर्वलोकहिते रतः ।। धेनूनां तु शतं दत्त्वा यत्फलं लभते नरः । तस्मात्पुण्यं कोटिगुणं प्रतिज्ञापालने द्विज ॥ प्रतिज्ञाखण्डनान्मूढो निरयं याति दारुणम् । शतमन्वन्तरं यावत्पच्यते नात्र संशयः ।। ततोऽत्र जन्म चाऽऽसाद्य निर्धनस्य निकेतने । अन्नवस्वैविहीनः स्यात्लेशी चापि स्वकर्मणा ॥६ सत्येन शपथं कुर्यादेवाग्मिगुरुसंनिधौ । तावद्दहति वै गात्रं विष्णोई(4)शो न लुप्यते ॥ मिथ्यायां(तु) शपथे विप्र किमहं वच्मि सांप्रतम् । सत्ये चैवं भवेत्पापमन्ते शपथे किमु ॥ सत्येन श्रीहरेर्गात्रं स्पृष्ट्वा यात्यतिदारुणम् । शतमन्वन्तरं विप्र निरयं मिथ्यया किमु ॥ ९ निर्माल्यं श्रीहरेः स्पृष्ट्वा सत्येन मुनिपुङ्गव । गृहीत्वा पुरुषान्सप्त पच्यते निरये चिरम् ॥ १० कदाचिजन्म संप्राप्य कुष्ठी च प्रतिजन्मनि । सत्येनैवं भवेदिन अनृते वै किमुच्यते ॥ ११ यो मर्यो दक्षिणं दत्त्वा कर तत्प्रतिपालयेत् । तस्य प्राप्ति(सोभवेत्कृष्णः सत्यं सत्यं वदाम्यहम् १२ कर दत्त्वा तु यो मर्यो वचनस्य च पालनम् । यावत्र कुर्यात्पितरः प्रामुवन्ति च यातनाम् ।। १३ स्वयं तु मुनिशार्दूल निरयं याति दारुणम् । उद्धारं कोटिकल्पान्ते म॒तो याति न संशयः ॥ १४ शौनक उवाच- कृष्णप्राप्तिः पुरा कस्य करस्य प्रतिपालनात् । दक्षिणस्य मुने बेहि श्रोतुमिच्छामि सादरात् १५ सूत उवाच- पुरा कि(का)चिपुरे शूद्रो नाम्नाऽऽसीद्वीरविक्रमः । बहाशी पृथुलाश्च बहुवक्ताऽतिसुन्दरः १६ धनवान्पुत्रान्सभ्यो विद्वान्सर्वजनप्रियः । विमाणामतिथीनां च पूजकः सर्वदैव तु ॥ १७ पितृभक्तो द्विजश्रेष्ठ प्रतिज्ञापालकः सदा । वाचा गुरुजनानां च पालको हरिसेवकः ॥ १८ एकदा मुन्दरो गेई श्वपचस्तस्य च्छपना । प्राप्तो धृत्वा ब्राह्मणस्य रूपं वै तरुणः सुधीः ॥ १९ ब्राह्मण उवाच- शृणु मे वचनं धीर मम जाया मृता शुभा । किं करोमि क गच्छामि कथयायानुकम्पया ॥२० विवाह यो जनः कुर्याद्राह्मणस्य विशेषतः । किंच दानः किंच तीथैः किं य.व्रतकोटिभिः २१ इति श्रुत्वा त्वसौ विघं चोक्तवान्वीरविक्रमः । शृणु मे वचनं ब्रह्मन्बालाऽस्ति मम कन्यका ॥२२ यदीच्छा ते भवेदिम दास्यामि विधिपूर्वकम् । नय मे दक्षिणं हस्तं दास्यामि चान्यथा न हि२३ तस्यैतद्वचनं श्रुत्वा जग्राह दक्षिणं करम् । श्वपचो हर्ष युक्तो वै प्रोवाच वचनं त्विति ॥ २४ ब्राह्मण उवाच- कृत्वाऽऽनु भक्षणं मह्यं देहि कन्या शुभान्विताम् । विलम्बे बहुविनं स्यादिति शासेषु निश्चितम्॥ १ अ. गोत्रं । २ च. छ. वाति हरेर्णहम् । ३ स. अ. "टिपुरुषेमतो ४ ज. 'वान्वारग्मी वि।
- २९ २६ षड्विंशोऽध्यायः ] पद्मपुराणम् । वीरविक्रम उवाच- तुभ्यं श्वः कन्यकां ब्रह्मन्दास्यामि नास्ति चान्यथा। दक्षिणं स्वकरं दवा न कुर्यात्पुरुषाधमः।। सूत उवाच- बामणं कृष्णशर्माणं चाऽऽहूयाकथयन्मुने । पुरोहितमिदं सर्व प्रोवाच संविदं द्विज ॥ कथं मियाय ते कन्यां शूद्राय दातुमिच्छसि । अज्ञातायाकुलीनाय न ददस्य विशेषतः ॥ २८ ऊचुस्तजातयः सर्वे जनकाधास्तपोधन । अस्माकं वचनं तात शृणुष्व वीरविक्रम ।। न ज्ञायते कुलं यस्य देशगोत्रधनं तथा । शीलं वयस्तस्य कन्या स्वजनैनं च दीयते ॥ स उवाच द्विजश्रेष्ठ दत्तं मे दक्षिणं करम् । कदाचिदन्यथा कर्तुं न शक्रोमि च सर्वथा ॥ ११ इत्युक्त्वा तान्स विमाय कन्यां दातुं प्रचक्रमे । दृष्ट्वेति ज्ञातयः सर्वे विस्मयमद्भुतं ययुः ॥ १२ सत्यं तद्वचनं श्रुत्वा शङ्कचक्रगदाधरः। आविर्बभूव सहसा चाऽऽरुह्य गरुडं मुने । श्रीभगवानुवाच- धन्य ते च कुलं धर्मो धन्यस्ते जननी पिता । धन्यं ते वचनं सत्यं धन्यं ते दक्षिणं करम् ॥ ३४ धन्यं कर्म च ते जन्म त्रैलोक्ये नैव विद्यते । एवं ते कर्मणा साधो चोदारं कुरुषे कुलम् ॥ ३५ सूत उवाच- एवं युवति श्रीकृष्णे विमानं स्वर्णनिर्मितम् । आगतं हरिगणैर्युक्तं सर्वत्र गरुडध्वजम् ॥ सर्व तस्य कुलं ब्रह्मन्सश्वपाकपुरोहितम् । रये चाऽऽरोपयामास शङ्खपअधरः स्वयम् ।। गृहीत्वा तान्हरिः सर्वान्गतो वैकुण्ठमन्दिरम् । तत्र तस्थुश्विरं ते च कृत्वा भोग सुदुर्लभम् ।।३८ वचनं लक्षयेद्यस्तु यस्तु वा दक्षिणं करम् । सकुलो निरयं याति सत्यं सत्यं वदाम्यहम् ।। ३९ तस्या सलिलं ब्रह्मनग्राह्यं पितृदैवतैः । त्यक्त्वा धर्मो गृहं तस्य भीत्या याति द्विजोत्तम ॥४० दत्वाऽऽशा यो जनः कुर्यात्रैराश्यं चैव मूढधीः । स स्वकान्कोटिपुरुषान्गृहीत्वा नरकं व्रजेत्४१ चनं लक्षयेद्यस्तु धैर्मस्तेषा(स्तस्य) विलयति । नृपानितस्करैविप्र सत्यं सत्यं सुनिश्चितम्४२ [*स्वर्गोत्तरमिम सम्यक्श्रुत्वा स्वर्गोत्तरं व्रजेत् । जीवन्मुक्तस्त्विहामुत्र कृष्णाख्यं धाम चोत्तमम्।। इति श्रीमहापुराणे पाये ब्रह्मखण्डे सूतशौनकसंवादे षड्विंशतितमोऽध्यायः ॥ २६ ॥ इति श्रीमहामुनिव्यासपणीते महापुराणे पाये तृतीयं स्वर्गखण्डापरनामधेयं ब्रह्मखण्डं समाप्तम् । आदितः श्लोकानां समष्ट्यङ्काः-१०८५५ अध्यायानामादितः समष्टयङ्काः-१५१ * एतचिहान्तर्गतः, पाठः च. पुस्तकस्तः । १ म. विप्राय । १ दलंच वयसा हीने सजनेन न दी । ३ अ. भ्रातरं । ४ अ. धर्म तेषां ।
No text on this page.
॥ श्रीः॥ महामुनिश्रीव्यासप्रणीतं पद्मपुराणम्। तत्र चतुर्थ पातालखण्डम् । अथ प्रथमोऽध्यायः। [*नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवी सरस्वती व्यासं ततो जयमुदीरयेत् ] ॥ १ ऋषय ऊचुः- श्रुतं सर्व महाभाग स्वर्गखण्डं मनोहरम् । त्वत्तोऽधुना वदाऽऽयुष्म-श्रीरामचरितं हि नः॥ २ सूत उवाच- ३ ५ ६ ७ - अयैकदा धराधारं पृष्टवान्भुजगेश्वरम् । वात्स्यायनो मुनिवरः कयामेतां सुनिर्मलाम् ।। श्रीवात्स्यायन उवाच- शेषाशेषकथास्त्वत्तो जगत्सर्गलयादिकाः । भूगोलश्च खगोलश्च ज्योतिश्चक्रविनिर्णयः ।। महत्तत्त्वादिसृष्टीनां पृथक्तत्त्वविनिर्णयः । नानाराजचरित्राणि कथितानि त्वयाऽनघ । सूर्यवंशभवानां च राज्ञां चारित्रमझतम् । तत्रानेकमहापापहरा रामकथा कृता । तस्य वीरस्य रामस्य हयमेधकथा श्रृंता । संक्षेपतो मया त्वत्तस्तामिच्छामि सविस्तरम् ॥ या श्रुता संस्मृता चोक्ता महापातकहारिणी। चिन्तितार्थप्रदात्री च भक्तचित्तप्रैसादिका ॥ ८ शेष उवाच- धन्योऽसि द्विजवर्यस्त्वं यस्य ते मतिरीशी । रघुवीरपदद्वंद्वमकरन्दस्पृहावती ॥ वदन्ति मुनयः सर्वे साधूनां संगमं वरम् । यस्मात्पापक्षयकरी रघुनाथकथा भवेत् ।। १० त्वया मेऽनुग्रहः सृष्टो यद्रामः स्मारितः पुनः । सुरासुरकिरीटोघमणिनीराजिताधिकः ॥ ११ रावणारिकथावाचौं मशको मादृशः कियान् । यत्र ब्रह्मादयो देवा मोहिता न विदन्त्यपि॥ १२ तथाऽपि भो मया तुभ्यं वक्तव्यं स्वीयशक्तितः । पक्षिणः स्वगतिमायं खे गच्छन्ति सुविस्तरे।। चरितं रघुनाथस्य शतकोटिसुविस्तरम् । येषां वै यादृशी बुद्धिस्ते वदन्त्येव तादृशम् ॥ रघुनाथसतीकी(स्य सत्की)तिर्मबुद्धिं निर्मलीमसाम् । करिष्यतेऽमिसंपर्कात्कनकं त्वमलं यथा १५ सूत उवाच- एवमुक्त्वा मुनिवरं ध्यानस्तिमितलोचनः । ज्ञानेनाऽऽलोकयांचके कयां लोकोत्तरां शुभाम् १६ गद्गदस्वरसंयुक्तो महाहर्षारिताकः । कथयामास विशदां कयां दाशरथेः पुनः ॥ ९ * एतचिहान्तर्गतः पाठः क. ख. ग. छ. ज. ठ. उ. प. त. य. द. ध. पुस्तकस्थः । १ क. ख. ग. छ. ज. ठ. ग. त. य. द. ध. च-ततः परं ध। २ . शुभा। ३ क. प्रतोषिका। ब. ग. छ. 8. १. त. य. द. घ. 'प्रतोषदा। शेज. 'प्रहर्षदा । शे। ४ ग. छ. उ. को रोमहौं । ५४ ४२६ [ ४ पातालखण्डे- महामुनिश्रीव्यासप्रणीतं- २२ २७ ३० शेष उवाच- लङ्केश्वरे विनिहते देवदानवदुःखदे । अप्सरोगणवक्त्राजचन्द्रमाकान्तिहर्तरि ॥ १८ मुराः सर्वे सुखं प्रापुरिन्द्रप्रभृतयस्तदा । सुखं प्राप्ताः स्तुतिं चक्रुर्दासवत्मणतिं गताः ॥ १९ लङ्कायां च प्रतिष्ठाप्य धर्मयुक्तं विभीषणम् । सीतया सहितो रामः पुष्पकं समुपाश्चितः ॥ २० सुग्रीवहनुमत्सीतालक्ष्मणैः संयुतस्तदा । विभीषणोऽपि सचिवैरन्वगाद्विरहोत्सुकः ।। २१ लां स पश्यन्बहुधा भग्नप्राकारतोरणाम् । दृष्ट्वाऽशोकवनं तत्र सीतास्थानं मुमूर्छ ह ॥ शिशिपां तत्र वृक्षांश्च पुष्पितान्कारकैर्युतान् । राक्षसीभिः समाकीर्णान्मृताभिहनुमद्भयात् ॥ २३ इत्थं सर्वे विलोक्याऽऽशु रामः पायात्पुरीं प्रति । ब्रह्मादिदेवैः सहितः स्वीयस्वीयविमानगैः॥ देवदुन्दुभिनिर्घोषाऽमृण्वश्रोत्रसुखावहान् । तथैवाप्सरसां नृत्यैः पूज्यमानो रघूत्तमः ।। २५ सीतायै दर्शयन्मार्गे तीर्थान्याश्रमवन्ति च । मुनींश्च मुनिपुत्रांश्च मुनिपत्नीः पतिव्रताः ॥ २६ यत्र यत्र कृता वासाः पूर्व रामेण धीमता । तत्सर्व दर्शयामास लक्ष्मणेन समन्वितः ॥ इत्येवं दर्शयंस्तस्यै रामोऽद्राक्षीत्स्वकां पुरीम् । तस्याः पुनः समीपे तु नन्दिय़ामं ददर्श ह ॥२८ यत्र वै भरतो राजा पालयन्धर्ममास्थितः । भ्रातुर्वियोगजनितं दुःखचिहं वहन्बहु ॥ २९ गर्तशायी ब्रह्मचारी जटावल्कलसंयुतः । कुशात्यष्टिर्नुःखातः कुर्वनरामकयां मुहुः ॥ यवानमपि नो भुङ्क्ते जलं पिबति नो मुहुः । उद्यन्तं यः सवितारं नमस्कृत्य ब्रवीति च ॥ ३१ जगन्नेत्र सुरस्वामिन्हर मे दुष्कृतं महत् । मदर्थे रामचन्द्रोऽपि जगत्पूज्यो वनं ययौ ॥ ३२ सीतया सुकुमाराङ्गया सेव्यमानोऽटवीं गतः । या सीतापुष्पपर्यो वृन्तमासाद्य दुःखिता ॥३३ या सीता रविसंतापं कदापि पाप नो सती । मदर्थे जानकी सा च प्रत्यरण्यं भ्रमत्यहो ॥३४ या सीता राजवृन्दैश्च न दृष्टा नयनैः कदा । सा सीता दृश्यते नूनं किरातः कालरूपिभिः॥३५ या सीता मधुरं त्वन्नं भोजिता न बुभुक्षति । सा सीताऽध वनस्थानि फलानि मार्थयत्यहो ३६ इत्येवमन्वहं सूर्यमुपस्थाय वदत्यदः । प्रातः प्रातर्ममहाराजो भरतो रामवत्सलः ॥ यचोच्यमानः सचिवैः समदुःखसुखैर्बुधैः । नीतिझैः शास्त्रनिपुणैरिति प्रोवाच ताभृपः॥ ३८ अमात्या दुर्भगं मां किं प्रबूत पुरुषाधमम् । यदर्थमग्रजो रामो वनं प्राप्यावसीदति ॥ दुर्भगस्य मम प्राप्तं स्वाघमार्जनमादरात् । करोमि रामचन्द्राषिं स्मारं स्मारं सुमत्रिणः ॥ ४० धन्या सुमित्रा सुतरां वीरसूः स्वपतिप्रिया । यस्यास्तनूजो रामस्य चरणौ सेवतेऽन्वहम् ॥ ४१ यत्र ग्रामे स्थितो नूनं भरतो भ्रातृवत्सलः । विलापं प्रकरोत्युच्चैस्तं ग्राम स ददर्श ह ॥ ४२ इति श्रीमहापुराणे पाद्मे पातालखण्डे शेषवात्स्यायनसंवादे रघुनाथस्य भरतावासनन्दिप्रामदर्शन नाम प्रथमोऽध्यायः ॥ १॥ आदितः श्लोकानां समयकाः-१०८९७ .. अथ द्वितीयोऽध्यायः । - शेष उवाच- अथ तदर्शनोत्कण्ठाविहलीकृतचेतसा । पुनः पुनः स्मृतो भ्राता भरतो धार्मिकाग्रणीः ॥ १ क. ख. प. त. नद्रमः कान्तिधर्त । द. नमाः कान्तिवर्धनः । सु। २ क. घ. स. प. म. म. ट. उ.र्गे थांन्याश्रमाणि च । ३ ण. हातेजो । ४ द. वल्लभ । य। । ।
२ ३ ४ ५ तम् ॥ ८ ९ १० ११ १२ २ द्वितीयोऽध्यायः ] पअपुराणम् । ४२७ उवाच हनुमन्तं च बलवन्तं समीरजम् । प्रस्फुरदशनव्याजचन्द्रकान्तिहतान्धकः ॥ शृणु वीर हनूमंस्त्वं मदिरं भातृनोदिताम् । चिरंतनवियोगेन गद्गदीकृतविग्रहम्* ॥ गच्छ त्वं भ्रातरं वीर समीरणतनूद्भव । मद्वियोगकृशां यष्टिं वपुषो बिभ्रतं हठात् ।। यो वल्कलं परिधत्ते जटां धत्ते शिरोरुहे । फलानां भक्षणमपि न कुर्याद्विरहात्ततः ।। परस्त्री यस्य मातेव लोष्टवत्काञ्चनं पुनः । भैजाः पुत्रानिवेक्षेद्यो बान्धवो मम धर्मवित् ।। मद्वियोगजदुःखानिज्वालादग्धकलेवरम् । मदागमनसंदेशपयोवृष्ट्याऽऽशु सिञ्च सीतया सहितं राम लक्ष्मणेन समन्वितम् । सुग्रीवादिकपीन्दैश्व रक्षोभिः सबिभीषणैः ।। प्राप्त निवेदय सुखात्पुष्पकासनसंस्थितम् । येन मे सोऽनुजः शीघ्रं सुखमेति मदागमात् ॥ इति श्रुत्वा ततो वाक्यं रघुवीरस्य धीमतः । जगाम भरतावासं नन्दिग्रामं निदेशकृत् ॥ गत्वा स नन्दिग्रामं तं मत्रिवृदैः सुसंयुतम् । भरतं भ्रातृविरहाक्लिन्नं धीमान्ददर्श ह ।। कथयन्तं मत्रिवृद्धावामचन्द्रकथानकम् । तदीयपदपायोजमकरन्दसुनिर्भरम् ।। नमश्चकार भरतं धर्म मूर्तियुतं किल । विधात्रा सकलांशेन सत्त्वेनेव विनिर्मितम् ॥ १३ तं दृष्ट्वा भरतः शीघ्रं प्रत्युत्थाय कृताञ्जलिः । खागतं चेति होवाच रामस्य कुशलं वद ॥ १४ इत्येवं वदतस्तस्य भुजो दक्षिणतोऽस्फुरत् । हृदयाच गतः शोको हर्षासैः पूरिताननः ॥ १५ विलोक्य तादृशं भूतं प्रत्युवाच कपीश्वरः । निकटे हि पुरः प्राप्तं विद्धि रामं सलक्ष्मणम् ।। १६ रामागमनसंदेशास्तसिक्तकलेवरः । पाप यद्ध(यं हर्षपूरं हि (द्वि)सहस्राक्षो न वेम्यहम् ॥ १७ जगाद मम समास्ति यत्तुभ्यं दीयते मया । दासोऽस्मि जन्मपर्यन्तं रामसंदेशहारक ॥ १८ बसिष्ठोऽपि गृहीत्वाऽर्घ मत्रिवृद्धाः सुहर्षिताः । जग्मुस्ते रामवान हनुमदर्शितावना ॥ १९ दृष्ट्वा दूरात्समायान्तं रामचन्द्रं मनोरमम् । पुष्पकासनमध्यस्थं ससीतं सहलक्ष्मणम् ॥ रामोऽपि दृष्ट्वा भरतं पादचारेण संगतम् । जटावल्कलकौपीनपरिधानसमन्वितम् ।। अमात्यान्नात्वेशेन समवेषाञ्जटाधरान् । नित्यं तपःक्लिष्टतया कुशरूपान्ददर्श ह ॥ रामोऽपि चिन्तयामास दृष्ट्वा चैतादृशं नृपम् । अहो दशरथस्यायं राजराजस्य धीमतः॥ २३ पुत्रः पदातिरायाति जटावल्कलवेषधृक् । न दुःखं तादृशं मह्यं वनमध्यगतस्य भोः ॥ यादृशं मद्वियोगेन चैतस्य परिवर्तते । अहो पश्यत मे भ्राता प्राणालियतमः सुहृत् ॥ २५ श्रुत्वा मां निकटे प्राप्त मत्रिवृद्धैः सुहर्षितैः । द्रष्टुं मां भरतोऽभ्येति वसिष्ठेन समन्वितः ॥ २६ इति ब्रुवन्नरपतिः पुष्पकानभसोऽङ्गणात् । विभीषणहनूमद्भ्यां लक्ष्मणेन कृतादरः ॥ यानादवतताराऽऽशु विरहक्लिनमानसः । भ्रातर्घातः पुनर्धातर्धातभ्रातर्वदन्मुहुः ।। दृष्ट्वा समुत्तीर्णमिमं रामचन्द्रं स तैर्युतम् । हर्षाणि प्रमुञ्चंश्च दण्डवत्तणनाम ह ॥ रघुनायोऽपि तं दृष्ट्वा दण्डवझुवि संस्थितम् । उत्थाप्य जगृहे दो| हर्षालोकसमन्वितः ॥३० उत्थापितोऽपि च भृशं नोदतिष्ठछदन्मुहुः । रामचन्द्रपदाम्भोजग्रहणासक्तबाहुभृत् ॥ २० २२ २४ २८ २९ * . पुस्तकातिरिकपुस्तकेषु 'विगलाम्' इति पाठोऽस्ति । १. य. वीरे ।त. शीघ्र । २ क.स.ग.ज.ठ. ग. त. थ. द. ध. प्रजाः पुत्रानिवोद्रक्षेद्वान्ध । उ. प्रजाश्च पुत्रवद्रक्षे- द्वान्ध । ३२.य मुखा। ४ ख.ग.छ.ज.ठ.इ.त.थ.ध. कृतानतिः । ५ क. ख. ग. छ. ज. ठ. उ. प. त. थ. द. ध.न्द्र सुरैर्यु । ६ ग. छ. ज... हर्षशोक कच. छ. स. अ. द. ह. द. ग. 'णाशक्त ।
४२८ महामुनिश्रीव्यासप्रणीत- [४ पातालखण्डे- भरत उवाच- दुराचारस्य दुष्टस्य पापिनो मे कां कुरु । रामचन्द्र महाबाहो कारुण्यात्करुणानिधे ॥ ३२ यस्ते विदेहजापाणिस्पर्श क्रूरममन्यत । स एव चरणो राम वने बभ्राम मत्कृते ॥ इत्युक्त्वाऽश्रुमुखो दीनः परिरभ्य पुनः पुनः । प्राञ्जलिः पुरतस्तस्यौ हर्षविहलिताननः ॥ ३४ रघुनाथस्तमनुज परिष्वज्य कृपानिधिः। प्रणम्य च महामत्रिमुख्यान्पमच्छ सादरम् ॥ भरतेन समं भ्रात्रा पुष्पकासनमास्थितः । सीतां ददर्श भरतो भ्रातपत्नीमनिन्दिताम् ॥ अनसूयामिवाः किं लोपामुद्रां घटोमुवः। पतिव्रतां जनकजाममन्यत ननाम च ॥ । मातः क्षमस्व यदर्घ मया कृतमबुद्धिना । त्वत्सदृश्यः पतिपराः सर्वेषां साधुकारिकाः ॥ ३८ जानक्यपि महाभागा देवरं वीक्ष्य सादरम् । आशीभिरभियुज्याय पर्यपृच्छदनामयम् ॥ विमानवरमारूढास्ते सर्वे नमसोऽङ्गणे । क्षणादालोकयां चक्रे निकटे स्वपितुः पुरीम् ॥ इति श्रीमहापुराणे पाझे पातालखण्डे शेषवात्स्यायनसंवादे रामराजधानीदर्शनं नाम द्वितीयोऽध्यायः ॥ २॥ आदितः श्लोकानां समष्ट्यङ्काः-१०९३७ अथ तृतीयोऽध्यायः । २ ३ ४ ५ ८ शेष उवाच- दृष्ट्वा रामो राजधानी निजलोकनिवासिताम् । जहर्ष मतिमान्वीरश्विरादर्शनलालसः ।। भरतोऽपि स्वकं मित्रं सुमुर्ख नगरं प्रति । प्रेषयामास सचिव नगरोत्सवसिद्धये ।। भरत उवाच- कुर्वन्तु लोकास्त्वरितं रघुनाथागमोत्सवम् । मन्दिरे मन्दिरे रम्यं कृतकौतुकचित्रकम् ॥ विपांशुका राजमार्गाश्चन्दनद्रवसेचिताः । प्रसूनभरसंतृप्ता हृष्टपुष्ट जनावृताः ॥ विचित्रवर्णध्वजभाचित्रिताखिलस्वागणाः । मेघागमे धनुरिव पश्यन्त्येव वलीमुखाः ।। प्रतिगेहं च लोकानां कारयन्त्वगुरूक्षणम् । यमं वीक्ष्य शिखिनो नृत्यं कुर्वन्तु लीलया ॥ ६ हस्तिनो मम शैलाभानाधोरणसुयनितान् । विचित्रयन्तु बहुशो गैरिकादिकधातुभिः ॥ वाजिनश्च चित्रयन्तु शीलयन्तु मनोजवाः । यद्वेगवीक्षणादेव गर्व त्यजन्तु स्वर्हयाः ।। कन्याः सहस्रशो रम्याः सर्वाभरणभूषिताः । गजोपरि समारूढा मुक्ताभिविकिरन्तु च ॥ ब्राह्मण्यः पात्रहस्ताश्च दूर्वाहारिद्रसंयुताः । सुवासिन्यो महाराजं रामं नीराजयन्तु ताः॥ १० कौशल्या पुत्रसंयोगसंदेशविधुरा सती । हर्षे मामोतु मुकशा तदीक्षणसुलालसा ॥ ११ इत्येवमादिरचनां पुरशोभाविधायिकाम् । प्रकुर्वन्तु जना दृष्टा रामस्याऽऽगमनं मति ॥ शेष उवाच- इति श्रुत्वा ततो वाक्यं सुमुखो मत्रवित्तमः । प्रययौ नगरी कर्तुं बहुकौतुकतोरणाम् ॥ १३ गत्वाऽथ नगरी तां वै मत्री तु सुमुखाभिधः । ख्यापयामास लोकानां रामागममहोत्सवम् ॥१४ लोकाः श्रुत्वा पुरीं प्राप्तं रघुनाथ सुहर्षिताः। पूर्व तदीयविरहास्यक्तभोगसुखादयः॥ ब्राह्मणा वेदसंपनाः पवित्रा दर्भपाणयः । धौतोत्तरीयवलिता जग्मुः श्रीरघुनायकम् ॥ क्षत्रिया ये शूरतमा धनुर्वाणधरा वराः । संग्रामे बहुशो वीराओतारो ययुरप्यमुम् ॥ ९ १२ १५ ४ चतुर्थोऽध्यायः ] पत्रपुराणम् । ४२९ वैश्या धनसमृदाश्च मुद्राशोभितपाणयः । शुभवस्त्रपरीधाना अभिजग्मुर्नरेश्वरम् ॥ १८ शूद्रा द्विजेषु ये भक्ताः स्वीयाचारसुनिष्ठिताः । वेदाचाररता ये वै तेऽपि जग्मुः पुरीपतिम् १९ ये ये वृत्तिकरा लोकाः स्वे स्वे कर्मण्यधिष्ठिताः । स्वकं वस्तु समादाय ययुः श्रीरामभूपतिम्२० इत्थं भूपतिसंदेशात्ममोदाप्लवसंप्लुताः । नानाकौतुकसंयुक्ता आजग्मुर्मानवेश्वरम् ।। २१ रघुनायोऽपि सकलैर्दैवतैः स्वस्वयानगैः । परीतः प्रविवेशोच्चैः पुरीं रचितमोहनाम् ॥ प्लवंगाः प्लवनैर्युक्ता आकाशपथचारिणः । स्वस्वशोभापरीताङ्गाश्चानुजग्मुः पुरोत्तमम् ॥ पुष्पकादवरुह्याऽऽशु नरयानमुपारुहत् । सीतया सहितो रामः परिवारसमावृतः ॥ [*अयोध्यां प्रविवेशाय कृतकौतुकतोरणाम् । हृष्टपुष्टजनाकीर्णामुत्सवैः परिभूषिताम् ] ॥ २५ वीणापणवभेर्यादिवादित्रैराहतैर्भृशम् । शोभमानः स्तूयमानः सूतमागधबन्दिभिः॥ जय राघव रामेति जय सूर्यकुलाद । जय दाशरथे देव जयताल्लोकनायक ॥ इति शृण्वञ्चुभा वाचः पौराणां हर्षिताङ्गिनाम् । रामदर्शनसंजातपुलको दशोभिनाम् ॥ २८ प्रविवेश वरं मार्ग रथ्याचत्वरभूषितम् । चन्दनोदकसंसिक्तं पुष्पपल्लवसंयुतम् ॥ तदा पौरागनाः काश्चिद्गवाक्षवलमिश्रिताः । रघुनाथस्वरूपेक्षाजातकामा अथानुवन् ॥ २२ २३ २४ २७ २९ पौराङ्गना ऊचुः- - धन्या अभूवन्बत मिल्लकन्या वनेषु या राममुखारविन्दम् । स्वलोचनेन्दीवरकैरथापिबन्स्वभाग्यसंजातमहोदया इमाः॥ धन्या मुखं पश्यत वीरधाम्नः श्रीरामदेवस्य पयोजनेत्रम् । यदर्शनं धातृमुखाः सुरा अपि नाऽऽपुर्महाभाग्ययुता वयं त्वहो । ३२ एतन्मुखं पश्यत चारुहासं किरीटसंशोभिनिजोत्तमाङ्गम् । बन्धकधिक्कारलसच्छविपदं दन्तच्छदं बिभ्रतमुच्चनासम् ॥ इति गदितवतीस्ताः स्नेहभारेण रामा नलिनदलसर्नेत्रपातैः प्रसाद्य । निखिलगुरुरनूनप्रेमभारं नृलोकं जननिगृहमियेर्षे पोषितोऽथो निवेष्टुम् ॥ ३४ इति श्रीमहापुराणे पाने पातालखण्डे शेषवात्स्यायनसंवादे रघुनाथस्य पुरप्रवेशनं नाम तृतीयोऽध्यायः ॥ ३ ॥ आदितः श्लोकानां समष्ट्यङ्काः-१०९७१ अथ चतुर्थोऽध्यायः । वात्स्यायन उवाच- भुजगाधीश्वर गुरो धराभरधरक्षम । शृण्वकं संशयं मह्यं कृपया कथयस्व तम् ।। रघुनाथस्य गमनं वनं पति यदा बभूत् । तदाप्रभृति देहेन स्थिता शून्येन चेतसा ॥ तद्विमयोगविधुरा कशदेहाऽतिदुःखिता । सुमुखान्मत्रिणः श्रुत्वा रघुनायं समागतम् ॥ २ ३ * एतचिहान्तर्गतः पाठः क. स्व. ग. छ. ज. म. ट... ण. त. प. द. घ. पुस्तकस्थः । १ क. छ. म. र. ग. त. थ. पुरी प्रति । ये । २ उ. मोदोत्सवसंयुताः । ३ ग. घ. उ. च. स. ट. र, ढ. कवणे विलसच्छिवप्र । ४ क. स. ग. ज. म. उ. प. य. द. ध. 'ष प्रोषित न हृष्टः । ई। त. 'ष प्रेयरागेण हृष्टः ।।
४ ६ ९ महामुनिश्रीव्यासमणी- [४ पातालखण्डे- कथं जहर्ष किमभूत्कीरशं तत्र चिहितम् । रामचन्द्रस्य संदेशहर्तारं किमुवाच सा ।। एतं वै संशयं धीमन्नघुनाथगुणोदयम् । यथावतृण्वते मयं कथयस्व प्रसादतः ॥ शेष उवाच- साधु पृष्टं महाभाग द्विजवर्यपुरस्कृत । तन्मे निगदतः साक्षाच्वृणुष्वैकमनाः किल ॥ [ सा वै तद्वदनाम्भोजच्युतं रामागमामृतम् । पीत्वा पीत्वा बभूवाहो स्थगिताङ्गन विहला] ७ किं मे स्वमो विमूढायाः किं वा भ्रमकरं वचः । मम वै मन्दभाग्यायाः कथं रामेक्षणं पुनः॥ ८ बहुना तपसा कृत्वा प्राप्तोऽयं वै सुतः शिशुः । केनचिन्मम पापेन विप्रयोगं गतः पुनः ।। मुमबिन्कुशली रामः सीतालक्ष्मणसंयुतः । कथं मां स्मरते वीरो वनेचारी सुदुःखिताम् ॥ १० इति सा विललापो रघुनाथस्मृतिं गता। न विवेद निजं किंचित्परकीय विमोहिता ॥ ११ मुमुखोऽपि तदा दृष्ट्वा दु:खितां मातरं भृशम् । [+वीजयामास वासोः संज्ञामाप च सा पुनः।। उवाच जननी सौम्यं वचो हर्षकरं मुहुः । रघुनाथागमस्मारदृष्टां तां स व्यधात्पुनः ॥ १३ मातर्विद्धि गृहं प्राप्त रघुनायं सलक्ष्मणम् । सीतया सहितं पश्य चाऽऽशीभिरभियुव च ॥१४ इति तथ्यं वचः भुत्वा सुमुखेन प्रभाषितम् । यादृशं हर्षमापेदे तादृशं वेनि नो पहम् ।। १५ उत्थाय चाजिरे प्राप्ता रोमाश्चिततनूरुहा । हर्षविहलितान्यच मुञ्चन्ती राममैक्षत ॥ १६ तावत्स रामो राजेन्द्रो नरयानमधिश्रितः । प्राप्तः स्वमातुर्भवनं कैकेय्याः सुनयः पुरः ॥ कैकेय्यपि प्रपाभारनम्रा रामं पुरः स्थितम् । नोवाच किंचिन्महतीं चिन्तां भासवती मुहुः ॥१८ सूर्यवंशध्वजो रामो मातरं वीक्ष्य लज्जिताम् । उवाच सान्त्वयंस्तां च वाक्यैर्विनयमिश्रितैः १९ श्रीराम उवाच- मातर्मया वनं गत्वा सर्वमाचरितं तथा । अधुना करवै किं वा त्वदाज्ञातो जनन्यहो ॥ मया न्यूनं कृतं नास्ति कथं मां नेक्षसे पुनः । आशीभिरभिनन्यैनं भरतं मां च वीक्षय ॥ २१ इति श्रुत्वाऽपि तद्वाक्यं सा नम्रवदनाऽनघ । शनैः शनैः प्रत्युवाच राम गच्छ स्वमालयम् ॥२२ रामोऽप्याकर्ण्य वचनं जनन्याः पुरुषोत्तमः । नमस्कृत्य ययौ गेई सुमित्रायाः कृपानिधिः ॥२३ सुमित्रा पुत्रसहितं रामं दृष्ट्वा महामनाः । चिरं जीव चिरं जीव वाशीभिरिति चाभ्यधात् २४ मातुथ रामभद्रोऽपि चरणौ प्रणिपत्य च । परिष्वज्य मुदा युक्तो जगाद वचनं पुनः ॥ [रत्नगर्भे मम भ्रात्रों केनाऽपि न कृतं तथा । यथाऽयमकरीद्धीमान्मम दुःखापनोदनः ॥ २६ रावणेन हता सीता मया यत्माप्यते पुनः] । मातस्तत्सर्वमाविद्धि लक्ष्मणस्य विचेष्टितम् ॥ २७ दत्तामाशिषमागृह्य शिरसाऽयं सुमित्रया । मातुर्निजाया भवनं प्रययौ विबुधैर्युतः ।। मातरं वीक्ष्य हषितां निजदर्शनलालसाम् । स्वयानादवरुवाऽऽशु चरणावग्रहीदरिः॥ माता तदर्धनोत्कण्ठाविहलीकृतमानसा । परिष्वज्य परिष्वज्य रोम मुदमवाप सा ॥ ३० शरीरे रोमहर्षोऽभूगद्दा वागभूत्तदा । हर्षाभूणि तु सोणानि प्रवाहं मापुरापदम् ।। १७ २० २५ २८ २९ * एतचिहान्तर्गतः पाठः क. ख. ग. च. छ. ज. स. प. उ. ३. ग. त. थ. द. घ. पुस्तकस्थः । + एतचिहान्तर्गतः पाठः क. ख. ग. च. छ. ज. म. . र. ग. स. प. द. प. पुस्तकस्थ. । * एतचिहान्तर्गतः पाठः क. स. ग. च. छ. ज. म..... त. थ. द.ध. पुस्तकस्थः । १६. °य छिन्धि रघु। २५. सुदुःखिता। क. ख. ग. छ. ज. उ. प. त. य. प. 'त्रा लक्ष्मणेन । ४ ण, "रोच्छ्रीमा । ५ छ. २. द. पर।
३२ ५ पञ्चमोऽध्यायः] पअपुराणम् । जननीं वीक्ष्य विनयी ताटङ्गद्वयवर्जिताम् । कराकल्पपदाकल्परहितां विभ्रती तनुम् ॥ किंचित्स्वदर्शनावृष्टां कृशाङ्गीं तां स शोकभाक् । दुःखस्य समयो नायमिति मत्वा जगाद ताम् ११ श्रीराम उवाच- मातर्मया त्वचरणौ चिरकालं न सेवितौ । तत्क्षमस्वापराधं वै भाग्यहीनस्य मामकम् ॥ ये पुत्रा मातापित्रोहि न शुश्रूषासमुत्सुकाः । ते मन्तव्या नरा मातः कीटका रेतसो भवाः॥ ३५ किं कुर्वे जनकाज्ञातो गतो वै दण्डकं वनम् । तत्रापि त्वत्कृपापाजाहुःखं तीर्णोऽस्मि दुस्तरम् ॥३६ रावणेन हृता सीता लङ्कायां गमिता पुनः । त्वत्कृपातो मया लब्धा तं हत्वा राक्षसेश्वरम् ॥ ३७ सीतेयं त्वचरणयोः पतिता वै पतिव्रता । संभावयाऽऽशु चकितां त्वत्पादार्पितमानसाम् ॥ ३८ इति श्रुत्वा तु तद्वाक्यं पादयोः पतितां सुषाम् । आशीभिरभियुज्यना वभाषे तो पतिव्रताम् ॥ ३९ सीते स्वपतिना सार्धं चिरं विलस भामिनि । पुत्रौ प्रसूय च कुलं स्वकं पावय पावने ॥ त्वत्सदृश्यः पतिपराः पतिदुःखसुखानुगाः। भवन्ति दुःखभागिन्यो न हि सत्यं जगत्रये ॥ ४१ किं चित्रं यत्पुमांसस्तु वैरिकोटिमभञ्जनाः । येषां गेहे सती भार्या स्वपतिप्रियवाञ्छिका ॥ ४२ विदेहपुत्रि स्वकुलं त्वया पावितमात्मना । रामपादाजयुगलमनुयान्त्या महात्मनः ।। इत्युक्त्वा रघुनाथस्य भार्यामश्चितलोचनाम् । तूणीं बभूव हृष्टा सा समुद्गततनूरुहा ॥ अय भ्राताऽस्य भरतः पितृदत्तं निजं महत् । राज्यं निवेदयामास रामचन्द्राय धीमते ॥ ४५ मत्रिणस्ते प्रहृष्टाका दैवज्ञान्मत्रकोविदान् । आहूय मुहूर्त पप्रच्छुः पदस्य परमेष्ठिनः ॥ शुभे मुहूर्ते सुदिने शुभनक्षत्रसंयुते । अभिषेक मुदा राज्ञः कारयामासुरुवताः ॥ सप्तद्वीपवती पृथ्वी व्याघ्रचर्मणि सुन्दरे । लिखित्वोपरि राजेन्द्रो महाराजोऽधितस्थिवान् ॥४८ तदिनादेव साधूनां मनांसि प्रमुदं ययुः । दुष्टानां चेतसो ग्लानिरभवत्परितापिनाम् ।। स्त्रियस्तु पतिभक्त्या च पतिव्रतपरायणाः। मनसाऽपि कदा पापं नाऽऽचरन्ति जना मुने ॥५० दैत्या देवास्तथा नागा यक्षासुरमहोरगाः । सर्वे न्यायपथे स्थित्वा रामाज्ञा शिरसा दधुः ॥५१ परोपकारणे युक्ताः स्वधर्मसुखनिर्वृताः । विद्याविनोदगमिता दिनरात्रिशुभेक्षणाः ॥ ५२ वातोऽपि मार्गसंस्थानां चलाऽऽहरते महान् । वासांस्यपि तु सूक्ष्माणि तत्र चौरकया न हि५३ धनदो ह्यर्थिनां रामः करुणस्तु कृपानिधिः । भ्रातृभिः सहितो नित्यं गुरुदेवस्तुतिं व्यधात्॥५४ इति श्रीमहापुराणे पाझे पातालखण्डे शेषवात्स्यायनसंवादे रघुनाथराज्याभिषेको नाम चतुर्थोऽध्यायः ॥ ४ ॥ आदितः श्लोकानां समष्ट्यङ्काः-११०२५ ४६ अथ पञ्चमोऽध्यायः । शेष उवाच- अयाभिषिक्तं रामं तु तुवुः प्रणताः सुराः। रावणाभिधदैत्येन्द्रवधहर्षितमानसाः ॥ देवा ऊचुः- २ जय दाशरथे सुरार्तिहञ्जयताहानववंशदाहक । जय देववराङ्गनागणव्यपकर्षादिकरारिदारक ॥ १ ग. छ. उ. २. द. घ. महावनम् । २ क. ख. ग. छ. ज. 3. ह. . त. य. र. ध. के महाराज्ये का। ३त. 'गादिकदै।
- ४ ५ ८ ९ ॥ महामुनिश्रीव्यासप्रणीत- [४ पातालखण्डे- तव यहनुजेन्द्रनाशनं कवयस्तत्कथयन्तु चोत्सुकाः । प्रलये जगतां ततीः पुनर्प्रससे त्वं भुवनेश लीलया ॥ जय जन्मजरादिदुःखकैः परिमुक्त प्रबलोद्धरोद्धर। जय धर्मकरान्वयाम्बुधौ कृतजन्ममजरामराच्युत ॥ तव देववरस्य नामभिर्बहुपापाच गताः पवित्रताम् । किमु साधुद्विजवर्यपूर्वकाः सुतनुं मानुषतामुपागताः ॥ हरविरिश्चिनुतं तव पादयोर्युगलमीप्सितकामसमृद्धिदम् । हृदि पवित्रयवादिकचिहितैः सुरचितं मनसा स्पृहयाम ते ॥ यदि भवान दधात्यभयं भुवो मदनमूर्तितिरस्करकान्तिभृत् । सुरगणाश्च कयं सुखिनः पुनर्ननु भवन्ति घृणामय पावन । यदा यदाऽस्मान्दनुजा हि दुःखदास्तदा तदा त्वं भुवि जन्मभाग्भव । अजोऽव्ययोऽपि प्रवरोऽपि सन्विभो स्वभावमास्थाय निजं निजार्चितः॥ मृतसुधासहशैरघनाशनैः सुचरितैरवकीर्य महीतलम् । अमनुजैर्गुणशंसिभिरीडितस्त्वमत आशु पुनः प्रविशेः पदम् ॥ अनादिराघोऽजररूपधारी हारी किरीटी मकरध्वजाभः । जयं करोतु प्रसभं हतारिः स्मरारिसंसेवितपादपमः॥ इत्युक्त्वा ते सुराः सर्वे ब्रह्मेन्द्रप्रमुखा मुहुः । प्रणेमुररिनाशेन प्रणता रघुनायकम् ११ इति स्तुत्याऽतिसंहृष्टो रघुनाथो महायशाः । मोवाच तान्सुरान्वीक्ष्य प्रणतामतकन्धरान् ॥ १२ श्रीराम उवाच- सुरा वृणुत मे यूयं वर कंचित्सुदुर्लभम् । यं कोऽपि देवो दनुजो न यक्षः पाप सोदरः॥ १३ सुरा ऊचु:- स्वामिन्भगवतः सर्व प्राप्तमस्माभिरुत्तमम् । यदयं निहतः शत्रुरस्माकं तु दशाननः॥ यदा यदाऽसुरोऽस्माकं बाधां परिदधाति भोः । तदा तदैव कर्तव्यमेतावद्वैरिनाशनम् ॥ १५ तयेत्युक्त्वा पुनरिः प्रोवाच रघुनन्दनः । श्रीराम उवाच- सुराः शृणुत मद्वाक्यमादरेण समन्विताः॥ १६ भवत्कृतं मदीयैर्वे गुणैथितमद्भुतम् । स्तोत्रं पठिष्यति मुहुः पातनिशि समरः ॥ १७ तस्य वैरिपराभूतिर्न भविष्यति दारुणा । न च दारिद्यसंयोगो न च व्याधिपराभवः ॥ १८ मदीयचरणद्वंद्वे भक्तिस्तेषां तु भूयसी । भविष्यति मुदा युक्ते स्वान्ते पुंसां तु पाठतः॥ इत्युक्त्वा सोऽभवतूष्णीं नरदेवशिरोमणिः । सुराः सर्वे प्रहृष्टास्ते ययुर्लोक स्वकं स्वकम् ॥२० रघुनायोऽपिभ्रात॒स्तान्पालयस्तातवबुधान् । मजाः पुत्रानिव स्वीयाल्लालयल्लोकनायकः ॥ २१ यस्मिशासति लोकानां नाकालमरणं नृणाम् । न रोगादिपराभूतिर्गृहेषु च महीयसी ॥ २२ नेतिः कदापि दृश्येत वैरिज भयमेव च । वृक्षाः सदैव फलिनो मही भूयिष्ठधान्यका ॥ २३ पुत्रपौत्रपरीवारसनायीकृतजीविताः । कान्तसंयोगजसुखैनिरस्तंविरहलमाः ॥ १ क. स. ग. छ. ज. म. उ. द. ग. त. थ. द. घ. वयो वर्णयितुं समुत्सु । - २४ २८ ३० १ षष्ठोऽध्यायः ] पमपुराणम् । निलं श्रीरघुनाथस्य पादपकयोत्सुकाः । कदापि परनिन्दासु वाचस्तेषां भवन्ति न ॥ २५ कारवोऽपि कदा पापं नाऽऽचरन्ति मनस्यहो । रघुनायकरायावदुःखशकाभित्रंसिनः ॥ २६ सीतापतिमुखालोकनिश्चलीभूतलोचनाः । लोका बभूवुः सततं कारुण्यपरिपूरिताः ।। राज्य प्राप्तमसापत्नं समृदबलवाहनम् । ऋषिभिईष्टपुष्टैश्च रम्यहाटकभूषणैः ।। संपुष्टमिष्टापूर्तानां धर्माणां नित्यकर्तृभिः । सदा संपनसस्यं च सुचारक्षेत्रसंकुलम् ।। सुदेशं सुमन स्वस्थ मुतृणं बहुगोधनम् । देवतायतनानां च राजिभिः परिराजितम् ॥ मुपूर्णा यत्र वै ग्रामाः सुवित्तद्धिविराजिताः । सुपुष्पकृत्रिमोद्यानाः सुखादुफलपादपाः ।। ३१ सपमिनीककासारा यत्र राजन्ति भूमयः । सदम्मा निम्नगा यत्र न यत्र जनता कचित् ।। १२ कुलान्येव कुलीनानि वर्णानां न धनानि च। विभ्रमो यत्र नारीषु न विद्वत्सु च कहिचित् ३३ नयः कुटिलगामिन्यो न यत्र विषये प्रजाः । तमोयुक्ताः क्षपा यत्र बहुलेषु न मानवाः ॥ ३४ रजोयुजः खियो यत्र ना(न) धर्मबहुला नराः। धनैरनन्धो यत्रास्ति जनो नैव च भोजनम् ३५ अनयः स्यन्दनं यत्र न च वै राजपूरुषः । दण्डः परशुकुदालवालव्यजनराजिषु ॥ आतपत्रेषु नान्यत्र चित्क्रोधोपरोधजः । अन्यत्राऽऽक्षिकवृन्दभ्यः कचिन परिदेवनम् ॥ ३७ आक्षिका एव दृश्यन्ते यत्र पाशकपाणयः । जाड्यवार्ता जलेष्वेव स्त्रीमध्या एव दुर्बलाः ॥ ३८ कठोरहृदया यत्र सीमन्तिन्यो न मानवाः । ओषधीष्वेव यत्रास्ति कुष्ठयोगो न मानवे ।। ३९ वेधो यत्र सुरत्नेषु शूलं मूर्तिकरेषु वै । कम्पः सात्त्विकभावोत्थो न भयात्कापि कस्यचित् ॥४० संज्वरः कामजो यत्र दारियं कलुषस्य च । दुर्लभवं सदैवस्य सुकृते न च वस्तुनः ॥ इभा एव प्रमचा वै युद्धे वीच्यो जलाशये । दानहानिर्गजेष्वेव तीक्ष्णा एव हि कण्टकाः ॥ ४२ बाणेषु गुणविश्लेषो बन्धोक्तिः पुस्तके दृढा । स्नेहत्यागः खलेष्वेव न च वै स्वजने जने ॥ ४३ वं देशं पालयामास लालयल्ललिताः प्रजाः । धर्म संस्थापयन्देशे दुष्टे धण्डधरो यमः ॥ इत्थं पालयतस्तस्य धर्मेण धरणीवलम् । सहस्राणि व्यतीयुर्वं वर्षाग्यकादश प्रभोः ॥ वत्र नीचजनाच्छुत्ला सीताया अपमानताम् । सवनिता रजकोक्त्या तां तत्याज रघूदहः॥ पृथ्वी पालयमानस्य धर्मेण नृपतेस्तदा । सीताविरहितामेकां निदेशेन सुरक्षिताम् ।। कदाचित्संसदो मध्ये खासीनस्य महामतेः । आजगाम मुनिश्रेष्ठः कुम्भोत्पत्तिर्मुनिर्महान् ॥ ४८ u2mmy गृहीत्वाऽर्घ सपुचस्थौ वसिष्ठेन समन्वितः । जनताभिर्महाराजो वार्धिशोषकमद्भुतम् ॥ स्वागतेन स संभाव्य पप्रच्छ तमनामयम् । सुखोपविष्टं विश्रान्तं बभाषे रघुनन्दनः ॥ इति श्रीमहापुराणे पाये पातालखण्डे शेषवात्स्यायनसंवादे गमाश्वमेधेऽगस्तिसमागमो नाम पञ्चमोऽध्यायः ॥ ५॥ आदितः श्लोकानां समष्ट्याः-११०७५ ४१ ५० अथ षष्टोऽध्यायः । शेष उवाच- - इत्यं स्वागवसंतुष्टुं ब्रह्मचर्यतपोनिधिम् । उवाच मतिमान्वीरः सर्वलोकगुरुर्मुनिम् ।। छ. २. प्राप्याथ संप साद. प्राप्य सुसंपवं स । १ क. स. छ. ज. प. 8. स. प. मुगुणा । ग..... R. 2. र. ग. द. सुपवा । त. य. सप्रजा। ३ क. स. ग. छ. ज. म. ठ. उ. प. स. प. द. प. सुसदाफ । ४ प. ७.६.२.प. 'यतो देश धर्मेण धरणीपतेः । स । ५१. स्वो निन्दा रजकोक्त्या वै तो।
२ ३ ४ महामुनिश्रीव्यासप्रणीतं- [४ पातालखण्डे- स्वागतं ते महाभाग कुम्भभूते तपोनिधे । त्वदर्शनेन सर्वे वै पाविताः सकुटुम्बकाः ।। कचिन्मतिस्ते वेदेषु शास्त्रेषु परिवर्तते । त्वत्तपोविनकर्ता वै नास्ति भूमण्डले कचित् ॥ लोपामुद्रा महाभांग या च ते धर्मचारिणी । यस्याः पतिव्रताधर्मात्सर्वं भवति शोभनम् ॥ अपि शंस महाभाग धर्ममूर्ते कृपानिधे । अलोलुपस्य किं कार्य करवाणि मुनीश्वर ॥ त्वत्तपोयोगतः सर्व भवति स्वेच्छया बहु । तथाऽपि मयि कृत्वैव कृपां शंस महामुने ॥ शेष उवाच- इत्युक्तो लोकगुरुणा राजराजेन धीमता । उवाच रामं लोकेशं विनीततरभाषया ।। ५ ६ ७ अगस्त्य उवाच- ८ २० स्वामिस्तव सुदुर्दर्श दर्शनं दैवतैरपि । कृत्वा समागतं विद्धि राजराज कृपानिधे । हतस्त्वया रावणाख्यस्त्वसुरो लोककण्टकः । दिट्याऽय देवाः सुखिनो दिष्ट्या राजा विभीषणः राम त्वदर्शनान्मेऽध गतं वै दुष्कृतं किल । संपूर्णो मे मनःकोशो हतं सर्व मुदुष्कृतम् ।। १० इत्युक्त्वाऽपि बभूवाऽऽशु तूष्णीं कुम्भसमुद्भवः । रामसंदर्शनाडादविहलीकृतमानसः ।। ११ रामः पप्रच्छ तं भूयो मुनि ज्ञानविशारदम् । लोकातीतं भवद्भावि सर्व ज्ञातारमिङ्गितम् ॥ १२ मुने कथय मे सर्व पृच्छतो हि सविस्तरम् । कोऽसौ मया हतो यो हि रावणो विबुधार्दनः १३ कुम्भकर्णोऽपि कस्त्वेष का ज्ञाति दुरात्मनः । देवो दैत्यः पिशाचो वा मानवो वा महामुने ॥ सर्वमाख्याहि सर्वज्ञ सर्व जानासि विस्तरात् । तथा कुरु मदादेश कृपां कृत्वा ममोपरि ॥ १५ इति श्रुत्वा ततो वाक्यं कुम्भजन्मा तपोनिधिः। यत्पृष्टं रघुराजेन प्रवक्तुं तत्पचक्रमे ।। १६ राजन्सृष्टिकरो ब्रह्मा पुलस्त्यस्तत्सुतोऽभवत् । ततस्तु विश्रवा जज्ञे वेदविद्याविशारदः॥ १७ तस्य पत्नीद्वयं जातं पातिव्रत्यचरित्रभृत् । एका मन्दाकिनीनाम्नी द्वितीया कैकसी स्मृता॥१८ पूर्वस्यां धनदो जझे लोकपालविलासधृक् । योऽसौ शिवप्रसादेन लङ्कावासमचीकरत् ।। १९ विद्युन्मालीसुतायां तु पुत्रत्रयमभून्महत् । रावणः कुम्भकर्णश्च तथा पुण्यो विभीषणः । राक्षस्युदरजन्मत्वात्संध्यासमयसंभवात् । योरधर्मनिपुणा मतिरासीन्महामते ॥ एकदा तु विमानेन पुष्पकेण सुशोभिना । काश्चनीयोपभूषेण किङ्किणीजालमालिना ॥ २२ आरुह्य पितरौ द्रष्टुं ययौ शोभासमन्वितः । खगणैः संस्तुतो भूत्वा नानारत्नविभूषणैः ॥ २३ आगत्य पित्रोचरणे पतित्वा चिरमात्मजः । हर्षविहलितात्मा च रोमाश्चिततनूरुहः ॥ उवाच मेऽध सुदिनं महाभाग्यफलोदयम् । यन्मे युष्मत्पदौ दृष्टौ महापुण्यददर्शनी ॥ २५ इत्यादिभिः स्तुतिपदैः स्तुत्वाऽगात्स्वकमन्दिरम् । पितरावपि संहृष्टौ पुत्रस्नेहाबभूवतुः ॥ २६ दृष्ट्वा रावणो धीमाजगाद निजमातरम् । कोऽयं पुमान्सुरो वाऽय यक्षो वाऽय नरोत्तमः २७ योऽसौ मम पितुः पादौ संनिषेव्य गतः पुनः । महाभाग्यनिधिः स्वीयैर्गणैः सपरिवारितः २८ केनेदं तपसा लब्धं विमानं वायुवेगधृक् । उद्यानारामलीलादिविलासस्थानमुत्तमम् ।। शेष उवाच- इति वाक्यं समाकर्ण्य जननी रोषविलवा । उवाच पुत्रं विमना किंचित्रविकारिणी॥ ३० रे पुत्र शृणु मद्वाक्यं बहुशिक्षासमन्वितम् । एतस्य जन्मकर्मादि विचारचतुराधिकम् ॥ ३१ २ क. ख. ज. भ. प. भूमा । ग. छ. उ. प. भूमा बाना । इ. द. भूममाना । त. थ, भूमौ । ३ छ. ड. नेहवशं गतौ । तं । तं २९ - १क. स. ग. छ. ज. अ. ठ... त थ.ध. भागा या ।
७ सप्तमोऽध्यायः] पापुराणम् । ल्या मम कुक्षिस्थं निधानं समुपस्थितम् । येन स्वमातुर्विमलं कुलमुज्ज्वलितं महद ॥ ३१ व तु मत्कुलिगः कीटः स्वोदरस्य प्रपूरकः । यथा खरः स्वकं भारं जानाति न च तद्गुणम् ३३ था त्वं लक्ष्यसेनानी शयनाशनभोगवान् । सुप्तो गतः कचिद्दष्ट इत्येव तव संभवः ॥ ३४ अनेन तपसा लब्धं शिवसंतोषकारिणा । लङ्कावासो मनोवेगं विमानं राज्यसंपदः ।। ३५ सुधन्या जननी तस्य सुभाग्या सुमनोदया । यस्याः पुत्रो निजगुणैर्लब्धवान्महतां पदम् ॥ ३६ इति क्रुधा भाषितमार्तया तया मात्रा स्वयाऽऽकर्ण्य दुरात्मसत्तमः ॥ शेष विधायाऽऽत्मगतं पुनर्वचो जगाद तां निश्चयभृत्तपः प्रति ॥ रावण उवाच- जनन्याकर्णय वचो मम गर्वसमन्वितम् । रत्नगर्भा त्वमेवासि यस्याः पुत्रास्त्रयो वयम् ॥ ३८ कोऽसौ कीटः स धनदः क तपः स्वल्पकं पुनः । का लङ्का किं तु तद्राज्यं स्वल्पसेवकसंयुतम् ॥ मातः शृणु ममोत्साहात्मतिज्ञा करुणान्विते । न केनापि कृतां का महाभाग्ये हि कैकसि ॥४० यद्यहं भुवनं सर्व वशे न स्थापयामि वै । तपोभिर्दुष्करैः कृत्वा ब्रह्मसंतोषकारकैः ॥ अनोदके सदा त्यक्त्वा निद्रां क्रीडां तथा पुनः । चेत्तदा पितृलोकस्य घातात्पापं भवेन्मम ४२ कुम्भकर्णोऽपि कृतवान्विभीषणसमन्वितः । रावणोऽथ सह भ्रात्रेत्युक्त्वाऽगानिरिकाननम् ॥४३ इति श्रीमहापुराणे पाने पातालखण्डे शेषवात्स्यायनसंवादे रावणोत्पत्तिर्नाम षष्ठोऽध्यायः ॥ ६ ॥ आदितः श्लोकानां समष्टयङ्काः-११११८ अथ सप्तमोऽध्यायः। अगस्त्य उवाच- २ ४ अयोग्रं स तपो दैत्यो दशवर्षसहस्रकम् । चकार भानुमक्ष्णा च पश्यन्नूर्वं पदे स्थितः ॥ कुम्भकर्णोऽपि कृतवांस्तपः परमैदुश्चरम् । विभीषणस्तु धर्मात्मा चचार परमं तपः ॥ तदा प्रसनो भगवान्देवदेवः प्रजापतिः । देवदानवयक्षादिमुकुटैः परिसेवितः ।। ददौ राज्यं च सुमहवनत्रयभास्वरम् । वपुश्च कृतर्वोत्रम्यं देवदानवसेवितम् ।। तदा संतापितो भ्राता धनदो धर्मबुद्धिमान् । विमानं तु ततो नीतं लङ्का च नगरी हठात् ॥ ५ भुवनं तापितं सर्व देवाश्चैव दिवो गताः । हतवान्ब्राह्मणकुलं मुनीनां मूलकृन्तनः ॥ तदाऽतिदु:खिता देवाः सेन्द्रा ब्रह्माणमाययुः । स्तुतिं चक्रुर्महात्मानो दण्डवत्मणतिं गताः ॥ ७ ते तुष्टुवः सुराः सर्वे बाग्भिरिष्टाभिराहताः । ततः प्रसनो भगवान्कि करोमीति चाब्रवीत् ।। ८ ततो निवेदयांचकुब्रमणे विबुधाः पुरा । दशग्रीवाश्च संकष्टं तथा निजपराभवम् ।। क्षणं ध्यात्वा ययौ ब्रह्मा कैलासं त्रिदशैः सह । तस्य शैलस्य पार्षे तु वैकियेण समाकुलाः ॥ स्थिताः संतुष्टुवुर्देवाः शंभुं शक्रपुरोगमाः ।। १० नमो भवाय शवोय नीलग्रीवाय ते नमः । नमः स्थूलाय सूक्ष्माय बहुरूपाय ते नमः ॥ ११ इति सर्वमुखेनोक्तां वाणीमाकर्ण्य शंकरः । प्रोवाच नन्दिनं देवानानयेति ममान्तिकम् ॥ १२. एतस्मिनन्तरे देवा माहूता नन्दिना धुवम् । प्रविश्यान्तःपुरे देव द विस्मितेक्षणाः ॥ १६. द.कारमान्विताम् । २ छ... भात्रा विचार्यागाद्वनं प्रति ।। ३ छ... मदारुणम् । ४ छ. र 'वान्धाता । ५ ग. 'म्य यक्षदा । ६ १. लां च नगरी त्यगात् । ७ क. ग. ठ. ५. ५. गिभराभि' ।
- २० महामुनिश्रीव्यासप्रणीतं- [१ पातालखण्डे- प्रमाऽप्रात्य ददर्शाय शंकर लोकशंकरम् । गणकोटिसहस्रेस्तु सेवितं मोदशालिभिः ॥ नविरूपैः कुटिलै सरैविकटैस्तथा । मणिपत्याग्रतः स्थित्वा सह देवैः पितामहः ॥ १५ उवाच देवदेवेशं पश्यावस्था दिवौकसाम् । कृपां कुरु महादेव शरणागतवत्सल ॥ १६ दुष्टदैत्यवधार्थ च समुयोग्यं विधेखतः। सोऽपि तद्वचनं श्रुत्वा दैन्यशोकसमन्वितम् ॥ त्रिदः सहितः सर्वैराजगाम हरेः पदम् । तुष्टुवुर्मुनयः सर्वे समुरोरगकिंनराः॥ १८ जय माधव देवेश जय भक्तजनार्तिहन् । कृपां कुरु महादेव विलोकय स्वसेवकान् ॥ इत्युच्चैर्जगदुः सर्वे देवाः शर्वपुरोगमाः॥ १९ इत्युक्तमाकर्ण्य सुराधिनायो दुष्टां सुराति परिचिन्त्य विष्णुः ।। जगाद देवाञ्जलदोच्चया गिरा दुःखं तु तेषां प्रशम नयमिव ।। भो ब्रमशर्वेन्द्रपुरोगमामराः शृण्वन्तु वाचं भवतां हिते रताम् ।। जाने दशग्रीवभयं कृतं वस्तबाशयाम्यद्य कृतावतारः ।। पुरी त्वयोध्या रविवंशजातैर्नृपैर्महादानमखादिसत्क्रियैः।। प्रपालिता भूतलमण्डला(ना)लया विराजते राजतभूमिभागः ॥ २२ तस्यां दशरथो राजा निरपत्यः श्रियाऽन्वितः। पालयत्यधुना राज्यं दिक्कत जयवान्विमुः।।३२ स तु वन्द्यादृष्यशृङ्गात्मार्थितात्पुत्रकाम्यया। पुत्रष्ट्यां विधिना यज्वा महाबलसमन्वितः ॥ २४ ततोऽहं प्रार्थितः पूर्व तपसा तेन भोः सुराः। पवीषु भूत्वा तिसृषु चतुर्थाऽपि भवत्कृते ॥ २५ रामलक्ष्मणशत्रुघ्नभरताख्यासमन्वितः । कर्ताऽस्मि रावणोद्धारं समूलबलवाहनम् ॥ भवन्तोऽपि स्वकैरंशैरवतीर्य चरन्त्विह । ऋक्षवानररूपेण सर्वत्र पृथिवीतले ॥ इत्युक्त्वा विररामाऽऽशु नभसीरितवाङ्मुने । देवाः श्रुत्वा महद्वाक्यं सर्वे वैहृष्टमानसाः॥ २८ प्रचकुर्गदितं यादृग्देवदेवेन धीमता । स्वैः स्वैरंशेर्मही पूर्णा ऋक्षवानररूपिभिः॥ योऽसौ विष्णुमहादेवो देवानां दुःखनाशनः । स त्वमेव महाराज भगवान्कृतविग्रहः ।। भरतोऽयं लक्ष्मणश्च शत्रुघ्रश्च महामते । तावकांशो दशग्रीवो निहतश्च सुरार्तिदः॥ पूर्ववैरानुबन्धेन जानकर इतवान्पुनः । स त्वया निहतो दैत्यो ब्रह्मराक्षसजातिमान् ॥ ३२ ग्रामणानां सुखं तद्वन्मुनीनां तापसं बलम् । शिवानि सर्वतीर्थानि सर्वे यज्ञाः सुसंहिताः ॥३३ पुलस्त्यपुत्रो दैत्येन्द्रः सर्वलोकैककण्टकः । पातितः पृथिवी सर्वा सुखमाप महेश्वर ॥ त्वयि राशि जगत्सर्वं सदेवासुरमानुषम् । सुखं प्रपेदे विश्वात्मञ्जगद्योने नरोत्तम ॥ [*एतत्ते सर्वमाख्यातं यत्पृष्टोऽहं त्वयाऽनघ । उत्पत्तिश्च विपत्तिश्च मया मत्यनुसारतः] ॥ ३६ इत्यं निशम्य दितिजेन्द्रकुलानुकारिवार्ता महापुरुष ईश्वर ईशिता च ॥ संरुद्धबाष्पगलदश्रुमुखारविन्दो भूमौ पपात सदसि प्रथितप्रभावः ।। इति श्रीमहापुराणे पाने पातालखण्डे शेषवात्स्यायनसंवादे रावणोत्पत्तिविपत्तिकथनं नाम सप्तमोऽध्यायः ॥ ७ ॥ आदितः श्लोकानां समष्ट्यकाः-१११५५ २९ अथाष्टमोऽध्यायः । शेष उवाच वात्स्यायन मुनिश्रेष्ठ कथा पापमणाशिनी । ब्रमण्य देव देवस्य सर्वधर्मकरलितुः ।। * एतचिहान्तर्गतः पाठः क. स. ग. छ. अ. म.उ. २. ग. त. ५. द. घ. पुस्तकस्यः ।
२ Révana ८ १० १४ ८ अष्टमोऽध्यायः] पपुराणम् । राजानं मूर्छितं दृष्ट्वा कुम्भजन्मा तपोनिधिः । शनैः शनैः करेणाऽऽशु पस्पर्शाभु जगाद च ॥ २ भोरामाऽऽवसिहि क्षिप्रं किमर्थमवसीदसि । भवान्दैत्यकुलच्छेत्ता महाविष्णुः सनातनः ।। भूतं भव्यं भवचैव जगत्स्यानु चरिष्णु च । त्वहते नास्ति संचारि किमर्थमिह मूर्णितः ॥ श्रुत्वा वाक्यं महाराजः कुम्भजन्मसमीरितम् । उत्तस्थौ विगलक्षेत्रबाष्पपूरितसन्मुखः॥ उवाच दीनदीनं च विस्पष्टाक्षरविस्तरम् । अपाभरनमन्मूर्धा ब्रमद्रोहपराङ्मुखः ।। श्रीराम उवाच- अहो मे पश्यताज्ञानं विमूढस्य दुरात्मनः । यद्रामणकुले रूढं हतवान्कामलोलुपः ।। पहिलार्थे त्वहं विप्र वेदशास्त्रविवेकवान् । हतवान्वाडवकुलं बुद्धिहीनोऽतिदुर्मतिः ॥ इक्ष्वाकूणां कुले जातु ब्रामणो न दुरुक्तिभाव। ईदृशं कुर्वता कर्म मयैतत्सुकलङ्गितम् ॥ ये ब्रामणास्तु पूजार्हा दानसंमानभोजनैः । ते मया निहता विमाः शरसंघातसंहितैः ।। कांस्तु लोकान्गमिष्यामि कुम्भीपाकोऽपि दुःसहः। नेदृशं तीर्थमप्यस्ति यन्मां पावयितुं क्षमम् ११ न यज्ञो न तपो दानं न देवप्रतिमादिकम् । यत्तु वै ब्राह्मणद्रोग्धुर्मम पावनतारकम् ।। १२ यैः कोपितं ब्रह्मकुलं नरैर्निरयगामिभिः । ते नरा बहुशो दुःखं भोक्ष्यन्ति निरयं गताः ॥ १३ वेदा मूलं तु धर्माणां वर्णाश्रमविवेकिनाम् । तन्मूलं ब्राह्मणकुलं सर्ववेदैकशाखिनः ॥ मूलच्छेत्तुर्ममौदत्यात्को लोको नु भविष्यति । किं मया करणीयं वै येन मे हि शिवं भवेत् १५ शेष उवाच- विलपन्तं भृशं रामं राजेन्द्रं रघुपुंगवम् । मायामनुष्यवपुर्ष कुम्भजन्माऽब्रवीद्वचः ॥ १६ अगस्त्य उवाच- मा विषादं महाधीर कुरु राजन्महामते । न ते ब्राह्मणहत्या स्याहुष्टानां नाशमिच्छतः॥ त्वं पुमान्पुरुषः साक्षादीश्वरः प्रकृतेः परः।कर्ता हर्ताऽविता साक्षानिर्गुणः स्वेच्छया गुणी १८ सुरापो ब्रह्महत्याकृत्स्वर्णस्तेयी महाघकृत् । सर्वे त्वनामवादेन पूताः शीघ्रं भवन्ति हि ॥ १९ इयं देवी जनकजा महाविद्या महामते । यस्याः स्मरणमात्रेण मुक्ता यास्यन्ति सद्गतिम् ॥ २० रावणोऽपि न वा दैत्यो वैकुण्ठे तव सेवकः । ऋषीणां शापतोऽवाप्तं दैत्यत्वं दनुजान्तक ॥२१ तस्यानुग्रहकर्ता त्वं न तु हन्ता द्विजन्मनः । एवं संचिन्त्य मा भूयो निजं शोचितुमर्हसि ॥ २२ इति श्रुत्वा ततो वाक्यं रामः परपुरंजयः । उवाच परमं वाक्यं गद्दस्वरभाषितम् ॥ राम उवाच- पातकं द्विविधं मोक्तं ज्ञाताहातविभेदतः । ज्ञातं यद्बुद्धिपूर्व हि ज्ञातं तद्विवर्जितम् ।। बुद्धिपूर्व कृतं कर्म भोगेनैव विनश्यति । नश्येदनुशयादन्यदिदं शास्त्रविनिश्चितम् ॥ २५ [कुर्वतो बुद्धिपूर्व मे ब्रह्महत्यां मुनिन्दिताम् । न मे दुःखापनोदाय साधुवादः सुसंमतः]॥२६ महि तादृशं मां यादृशं पापदाहकम् । व्रतं दानं मखं किंचित्तीर्थमाराधनं महत् ॥ येन मे विमला कीतिर्लोकान्वै पावयिष्यति । पापाचाराप्तकालुष्यान्ब्रह्महत्याहतप्रभान् ॥ १७ २४ २७ २८ शेष उवाच- इत्युक्तवन्तं तं रामं जगाद स तपोनिधिः । सुरासुरनमन्मौलिमणिनीराजिताधिकम् ॥ २९ * एतचिहान्तर्गतः पाठः क. स. ग. छ. ज. प. ठ. र. ण. त. य. द. प. पुस्तकस्मः ।
| गङ्गाजलसमानेन वर्णेन वपुषा शुभः। कर्णे श्यामो मुखे रक्तः पीतः पुच्छे सुलक्षितः॥ महामुनिश्रीव्यासमणीत- [४ पातालखण्डे- शृणु राम महावीर लोकानुग्रहकारक । विमहत्यापनोदाय तब यहचनं मुवे ॥ सर्व स पापं तरति योऽश्वमेध यजेत बै । तस्मात्वं यज विधात्मन्वाजिमेधेन शोभिना॥ ३१ सततन्तुर्महीभ; त्वया साध्यो मनीषिणा । महासमृद्धियुक्तेन महाबलमुशालिना ॥ स वाजिमेषो विषाणां हत्यायाः पापनोदनः । कृतवान्य महाराजो दिलीपस्तव पूर्वजः ॥ १॥ शतक्रतुः शतं कृत्वा ऋतूनां पुरुषर्षभः । पदमापामरावत्यां देवदैत्यप्रसेवितम् ॥ ३४ मनुश्च सगरो राजा मरुत्तो नहुषात्मजः । एते ते पूर्वजाः सर्वे यहं कृत्वा पदं गताः ॥ तस्मात्त्वं कुरु राजेन्द्र समर्थोऽसि समन्ततः । भ्रातरो लोकपालामा वर्तते तव भावुकाः ॥३६ इत्युक्तमाकर्ण्य मुनेः स भाग्यवानघूत्तमो ब्राह्मणवाक्यभीतः। पप्रच्छ यागे सुमात चिकीर्षविधि पुरावित्परिगीयमानः ।। इति श्रीमहापुराणे पाये पातालखण्डे शेषवात्स्यायनसंवादे रघुनाथस्यागस्त्योपदेशो नामाष्टमोऽध्यायः ॥ ८ ॥ आदितः श्लोकानां समयकाः-१११९२ अथ नवमोऽध्यायः । श्रीराम उवाच- कीदृशोऽश्वस्तत्र भाव्यः को विधिस्तत्र पूजने । कथं वा शक्यते कर्तुं के जेयास्तत्र वैरिणः ॥१ अगस्त्य उवाच- २ ३ ५ ६ ८ ९ मनोवेगः सर्वगतिरुच्चैश्रवःसमप्रभः । वाजिमेधे हयः प्रोक्तः शुभलक्षणलक्षितः ॥ वैशाखपौर्णमास्यां तु पूजयित्वा यथाविधि । पत्र लिखित्वा भाले तु खनामबलचिहितम् ॥ ४ मोचनीयः प्रयत्नेन रक्षकैः परिरक्षितः । यत्र गच्छति यज्ञाश्वस्तत्र गच्छन्ति रक्षकाः ॥ यस्तं बलाधिबधाति स्ववीर्यबलदर्पितः । तस्मात्मसभमानेयः परिरक्षाकरैयः ॥ कळ तावत्सुविधिना स्थातव्यं नियमादिह । मृगशृङ्गधरो भूत्वा ब्रह्मचर्यसमन्वितः ॥ व्रतं पालयमानश्च यावर्ष व्यतिक्रमेत् । सावदीनान्धकृपणाः परितोष्या धनादिभिः । अयं तु बहुशो देयं धनं वा भूरि मारिष । यद्यत्मार्थयते धीमांस्तत्तदेव ददाति हि ॥ एवं प्रकुर्वतः कर्म यज्ञः संपूर्णतां गतः । करोति सर्वपापानां नाशनं रिपुनाशन ॥ १० तस्माद्भवान्समर्थोऽस्ति करणे पालनेऽर्चने । कृत्वा कीर्ति सुविपुला पावयान्याञ्जनाभृप ॥ ११ श्रीराम उवाच- विलोकय द्विजश्रेष्ठ वाजिशालां ममाधुना । तादृशाः सन्ति नो वाऽभाः शुभलक्षणलक्षिताः १२ इति श्रुत्वाऽपि तद्वाक्यमगस्त्यः करुणाकरः । उत्तस्थौ वीक्षमाणोऽयं यागान्विाजिनः शुभान्॥ गस्वाऽथ सत्र शालायां रामचन्द्रसमन्वितः । ददर्शाश्वान्विचित्राङ्गान्मनोवेगान्महाबलान् ॥ १४ अवनितलगताः किं वाजिराजस्य वंश्याः किमय रघुपतीनामेकतः कीर्तिपिण्डाः। किमिदममृतराशिर्वाहरूपेण सिन्धोमुनिरिति मनसोऽन्तर्विस्मयं भाप पश्यन् ॥ १५ एकतः शोणदेहानां वाजिनां पतिरुत्तमा । एकतः श्यामकर्णानां कस्तूरीकान्तिसप्रभाः॥ १६ १ग. छ... घ. त्यातापा। २ क. स. ग. ज. म. 8. २. ग. त. प. प. मानम् ।। ३ छ.. मुनि । ४ छ. . सिद्धो 'मवर्णा!
९ नवमोऽध्यायः ] पपुराणम् । एकतः कनकामाश्च स्वन्यतो नीलवर्णिनः । एकतः शबलैर्वविशिष्टै जिभिडताः ॥ एवं पश्यन्मुनिः सर्वान्कौतुकाविष्टमानसः । ययावन्यत्र तान्द्रष्टुं यागयोग्यान्हयान्मुनिः ॥ १८ ददर्श तत्र शतशो बदास्तादशवर्णकान् । [ *दृष्ट्वा विस्मयमापेदे विस्मयादर्षिताकः ॥ १९ एकतः श्यामवर्णाश्च सर्वानेषु पयःप्रमान् ]। पीतपुच्छान्मुखे रक्ताशुभलक्षणलक्षितान् ॥ २० निरीक्ष्य परितोऽनघान्विमलनीरधारानिभान् । प्रभञ्जनमनोजवान्विमलकीर्तिपुञ्जप्रभान् ।। पयोनिधिविशोषको मुनिरुवाच सीतापतिम् । विचित्रहयदर्शनावृषितनेत्रवक्त्रप्रभः ।। अगस्त्य उवाच- २२ २९ हयमेधक्रतोर्योग्यान्वाहांस्ते बहुशः शुभान् । पश्यतो नेत्रयोर्मेऽद्य तृप्तिास्ति रघूत्तम ।। रामचन्द्र महाभाग सुरासुरनमस्कृत । यहं कुरु महाराज हयमेधं सुविस्तरम् ।। सुरपतिरिव सर्वान्यज्ञसंघान्करिष्यं. स्तपन इव सुपर्वारातितोयं विशोष्यन् । हतरिपुगणमुख्यं सांपरायं विजित्य क्षितितलसुखभोगं कुर्विदं भूरिभोग ।। इत्येवं वाक्यनादेन परितुष्टाखिलेन्द्रियः । सर्वान्वै यज्ञसंभारानाजहार मनोहरान् ॥ २५ मुन्यन्वितो महारानः सरयूतीरमागतः । सुवर्णलालैर्भूमिं विचकर्ष महीयसीम् ।। २६ विलिख्य भूमिं बहुशश्चतुर्योजनसंमिताम् । मण्डपानचयामास यज्ञार्थं स नरोत्तमः ।। २७ कुण्डं तु विधिवत्कृत्वा योनिमेखलयाऽन्वितम् । अनेकरत्नरचितं सर्वशोभासमन्वितम् ॥ २८ मुनीश्वरो महाभागो वसिष्ठः सुमहातपाः । सर्वे तत्कारयामास वेदशास्त्रविधिश्रितम् ।। पेषितास्तेन मुनिना शिष्या मुनिवराश्रमान् । कथयामासुरुद्युक्तं हयमेधे रघूत्तमम् ॥ आकारितास्तदा सर्व ऋषयस्तपता वराः । आजग्मुः परमेशस्य दर्शने त्वतिलालसाः ।। ३१ नारदोऽसितनामा च पर्वतः कपिलो मुनिः । जातूकाऽगिरा व्यास आष्टिषेणोऽत्रिगौतमौ ३२ हारीतो याज्ञवल्क्यश्च संवर्तः शुकसंबकः । इत्येवमादयो रामहयमेधवरं ययुः ॥ तान्सर्वान्पूजयामास रघुराजो महामुदा । प्रत्युत्थानाभिवादाभ्यामविष्टरकासनैः ॥ गां हिरण्यं ददौ तेभ्यः मायशो दृष्टविक्रमः । महद्भाग्यं त्वद्य मेऽस्ति यधूयं दर्शनं गताः ॥३५ शेष उवाच- एवं समाकुले प्रसन्ऋषिवर्यसमागमे । धर्मवार्ता बभूवाहो वर्णाश्रमसुसंमता ॥ का धर्मवार्ता तथाऽऽसीतिक वा कथितमद्भुतम् । साधवः सर्वलोकानां कारुण्यात्किमुताब्रुवन् । शेष उवाच- तान्समेतान्मुनीन्ष्ट्वा रामो दाशरथिर्महान् । पप्रच्छ सर्वधर्माश्वसर्ववर्णाश्रमोचितान् । ३८ ३ बात्स्यायन उवाच-- * एतचिहान्तर्गतः पाठः क. ख. ग. च. छ. ज. म. ठ. ड. ण. त. थ. द. ध. पुस्तकस्यः । १ ख. "कतो धवल । २. "तो यह । ३ क.स. ग. च. छ. ज. अ. ठ. उ. प. त. थ. द. ध, महामनाः ४८ महामुनिश्रीव्यासप्रणीतं- [पातालखण्डे- ते तु पृष्टा हि रामेण धर्मान्योचुर्महागुणान् । तान्प्रवक्ष्यामि ते सर्वान्यथाविधि भृणुष्व तान् ३९ ऋषय ऊचुः- ब्रामणेन सदा कार्य यजनाध्यापनादिकम् । वेदान्पठित्वा विरजेको वा गाईस्थ्यमाविशेत ४० [ ब्राह्मणेन सदा त्याज्यं नीचसेवानुजीवनम् । आपद्गतोऽपि जीवेत न वस्या कदाचन] ४१ ऋतुकालाभिगमनं धर्मोऽयं गृहिणः परः। स्त्रीणां वरमनुस्मृत्यापत्यकामोऽथवा भवेत् ॥ दिवाभिगमनं पुंसामनायुष्यकर मतम् । श्राद्धाहः सर्वपळणि यतस्त्याज्यानि धीमता ॥ तत्र गच्छन्खियं मोहाद्धर्मात्मच्यवते परात् । ऋतुकालाभिगामी यः स्वदारनिरतश्च यः ॥ ४४ स सदा ब्रह्मचारीह विज्ञेयः सङ्ग्रहाश्रमी । ऋतुः षोडशयामिन्यश्चतस्रस्तासु गर्हिताः ।। ४५ पुत्रदास्तासु या युग्मा अयुग्माः कन्यकामदाः । त्यक्त्वा चन्द्रमसं दुष्टं मघां मूलं विहाय च ४६ शुचिः सनिर्विशेत्पत्नी पुनामः विशेषतः । शुचिं पुत्रं प्रसूयेत पुरुषार्थप्रसाधनम् ॥ आर्षे विवाहे गोळे यदुक्तं तत्पशस्यते । शुल्कमण्वपि कन्यायाः कन्याविक्रेत्पापकृत् ॥ वाणिज्यं नृपतेः सेवा वेदानध्ययनं तथा । कुविवाहः क्रियालोपः कुलपातनहेतवः ।। अबोदकपयोमूलफलैर्वाऽपि गृहाश्रमी । गोदानेन तु यत्पुण्यं पात्राय विधिपूर्वकम् ॥ अनचितोऽतिथिर्गेहाननाशो यस्य गच्छति । आजन्मसांचितात्पुण्यात्क्षणात्स हि बहिर्भवेत् ॥५१ पितृदेवमनुष्येभ्यो दत्त्वाऽनीतामृतं गृही। स्वार्थ परम भुक्ते केवलं स्वोदरंभरिः॥ ५२ षष्ठयष्टम्योर्विशेत्पापं तैले मासे सदैव हि । चतुर्दश्यां तथाऽमायां त्यजेत सुरमानाम् ।। रजस्वला न सेवेत नाश्नीयात्सह भार्यया । एकवासा न भुञ्जीत न भुञ्जीतोत्कटासने ॥ ५४ नाश्नती स्त्री समीक्षेत तेजःकामो नरोत्तमः । मुखेनोपधमेनामि नमो नेक्षेत योषितम् ।। नाऽऽचक्षीत धयन्ती गां नेन्द्रचापं प्रदर्शयेत् । न दिवोद्गतसारं च भक्षयेदधि नो निशि ॥ ५६ नावी प्रतापयेदनौ न वस्त्वशुचि निक्षिपेत् । माणिहिंसां न कुर्वीत नाश्नीयात्संध्ययोर्द्वयोः५७ स्त्रीधर्मिणी नाभिवादेवाधादातृप्ति रात्रिषु । तौर्यत्रिकमियो न स्यात्कांस्ये पादौ न धावयेत्५८ न धारयेदन्यभुक्तं वासचोपानहावपि । नभिन्नभाजनेऽश्नीयानाश्नीतान्यविदूषिते ॥ संविशेषाऽऽर्द्रचरणो नोच्छिष्टः कचिदावजेत् । शयानो वा न चाश्नीयानोच्छिष्टः संस्पृशेच्छिरः न मनुष्यस्तुतिं कुर्यात्राऽऽत्मानमवमानयेत् । अभ्युद्यन्तं न प्रणमेत्परमर्माणि नो वदेत् ॥ ६१ एवं गार्हस्थ्यमाश्रित्य वानप्रस्थाश्रमं व्रजेत् । सस्त्रीको विगतस्त्रीको विरजेत ततः परम् ॥ ६२ इत्येवमादयो धर्मा गदिता ऋषिभिस्तदा । श्रुता रामेण महता सर्वलोकहितैषिणा ॥ इति श्रीमहापुराणे पाये पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे सर्वधर्मनिरूपणं नाम नवमोऽध्यायः ॥१॥ आदितः श्लोकानां समष्टयकाः-११२५५ अथ दशमोऽध्यायः । - शेष उवाच- इत्यं संशृण्वतो धर्मान्वसदतः समुपस्थितः । यत्र याक्रियादीनां मारम्भः सुमहात्मनाम् ॥ * एतचिहान्तर्गतः पाठो ग. छ. .. ६. पुस्तकस्थः । १२.दाईस । २ क. स. ग. ज. म. त. प. हि । पथदश्यां चतुर्दश्यां तथैव च भगे क्षुरे। र। ५. हि । पथदश्यां चतुर्दश्यां तवैव पधुरक्रियाम् । र । ३ छ. उ. र. . य. जे त्कृष्टमानसः ।।
२ ३ ८ ९ १० १० दशमोऽध्यायः ] पथपुराणम् । ते समयं धीमान्वसिष्ठः कलशोद्भवः । रामं लोकमहाराज प्रत्युवाच यथोचितम् ॥ वसिष्ठ उवाच- रामचन्द्र महाबाहो समयः पर्यभूत्तव । हयो यत्र प्रमुच्येत यज्ञार्थ परिपूजितः ।। सामग्री क्रियतां तत्र आहूयन्तां द्विजोत्तमाः। करोतु पूजां भगवान्ब्राह्मणानां यथोचिताम् ४ दीनान्धकृपणानां च दानं स्वान्तसमुद्गतम् । ददातु विधिवत्तेषां प्रतिपूज्याधिवासनैः॥ भवान्कनकसत्पत्न्या दीक्षितोऽत्र व्रतं चर । भूमिशायी ब्रह्मचारी वसुभोगविवर्जितः ।। मृगशृङ्गधरः कव्यां मेखलाजिनदण्डभृत् । करोतु सर्वसंभारः सर्वद्रव्यसमन्वितः ॥ इति श्रुत्वा महद्वाक्यं वसिष्ठस्य यथार्थकम् । उवाच लक्ष्मणं धीमानानार्थपरिबृहितम् ।। श्रीराम उवाच- शृणु लक्ष्मण मद्वाक्यं श्रुत्वा तत्कुरु सत्वरम् । हयमानय यत्नेन वाजिमेधक्रियोचितम् ।। शेष उवाच- श्रुत्वा वाक्यं रघुपतेः शत्रुजिल्लक्ष्मणस्तदा । सेनापतिमुवाचेदं वचो विविधवर्णनम् ।। लक्ष्मण उवाच- वीराऽऽकर्णय मे वचः सुमधुरं श्रुत्वा त्वरातः पुनः कुर्वन्तु क्षितिपालमौलिमुकुटप्रेस हि रामाज्ञया । सेना कालबलपघातनबलमोद्यत्समर्थाङ्गिनी सज्जा सद्रयहस्तिपत्तिहयिनीमाराद्विधेह्यन्वितः ।। सज्जीकृता वायुजवास्तुरङ्गास्तरङ्गमालाललिताधिपाताः । सदश्वचारैर्बहुशस्त्रधारिभिः संरोहिता वैरिवलपहारिभिः ।। संलक्ष्यन्तां हस्तिनः पर्वतामा आधोरणैः प्रासकुन्ताग्रहस्तैः । भूरैः संसरिदानोपहाराः क्षीबाणास्ते सर्वशस्त्रास्त्रपूर्णाः ॥ विततबहुसमृद्धिभ्राजमाना रथा मे पवनजवनवेगै जिभिर्युक्तदेहाः विबुधरिपुविनाशस्मारकैरायुधास्त्र तवलभिविभागा नीयतां ( ? )सूतवृन्दैः ।। त्तियः शतशो मह्यमायान्त्वत्रास्त्रपाणयः । हयमेधाहवाहस्य रक्षणे विततोद्यमाः॥ त्याकर्ण्य वचस्तस्य लक्ष्मणस्य महात्मनः । सेनानीः कालजिनामा कारयामास सज्जितम् १६ दशधुवकमण्डितो लघुसुरोमशोभान्वितो विविक्तगलशुक्तिभृद्विततकण्ठकोशे मणिः । मुखे विशदकान्तिधृक्शितिसुहस्वकर्णद्वयो व्यराजत तदा यो धृतनराग्यरश्मिच्छटः ।। कवलाशोभितमुखः स्फुरद्रत्नविशोभितः। मुक्ताफलानां मालाभिः शोभितो निर्ययौ हयः॥१८ घेतातपप्ररचितः सितचामरशोभितः । बहुशोभापरीताको निर्ययौ हरिराट् ततः ।। १९ भग्रतो मध्यतौके पृष्ठतः सैनिकास्तथा । देवा हरिं यथापूर्व सेवन्ते सेवनोचितम् ।। अथ सैन्यं समाहूय सर्वमाज्ञापयत्तदा । हस्त्यश्वरथपत्तीनां वृन्दैः सुबहुसंकुलम् ।। २१ ततस्ततः समेताना सैन्यानां श्रूयते ध्वनिः । ततो दुन्दुभिनादोऽभूत्तस्मिन्पुरवरे तदा ॥ १४ १७ २० २२ २८ महामुनिश्रीव्यासमणीत- [ ४ पातालखण्डे- तबिनादेन शूराणां प्रियेण महता तदा । कम्पन्ते गिरयस्तुकाः मासादा विचलन्ति च ॥ २३ हेषारवो महानासीद्वाजिनां मुह्यतां नृप । स्थावातसंपुष्टा धरा संचलतीव सा ॥ २४ चलितैर्गजयूथैश्च पृथ्वी रुद्धा समन्ततः । रजस्तु प्रचलत्तत्र जनान्तर्धानमादधात् ।। २५ निर्जगाम महासैन्यं छत्रैः संछाद्य भास्करम् । सेनान्या कालजिनाम्ना प्रेरितं जनसंकुलम् ॥२६ गर्जन्तस्तत्र वीरायाः कुर्वन्तो रणसंभ्रमम् । रघुनाथस्य यागाय सज्जास्ते प्रययुर्मुदा ॥ मृगमदमयमङ्गेष्वङ्गरागं दधानाः कुसुमविमलमालाशोभिनश्चोत्तमाङ्गाः। मुकुटकटकभूषाभूषिताङ्गाः समस्ता ययुरवनिपतेस्ते त्वाज्ञया चापि सर्वे ॥ इत्येवं ते महाराज ययुः सेनाचरास्त्वराः। धनुर्धराः पाशधराः खड्गधराः स्फुटक्रमाः ॥ २९ एवं शनैः शनैः प्राप्तो मण्डपं यागचिह्नितम् । हयः खुरक्षततला भूमिं कुर्वनमः प्लवन् । ३० रामो दृष्ट्वा हरिं प्राप्तं बहुसंतुष्टमानसः । वसिष्ठं प्रेरयामास क्रियाकर्तव्यतां प्रति ॥ वसिष्ठो राममाय स्वर्णपत्नीसमन्वितम् । प्रयोगं कारयामास['ब्रह्महत्यापनोदनम् ॥ ३२ ब्रह्मचर्यव्रतधरो मृगशृङ्गपरिग्रहः । तत्कर्म कारयामास] रामः परपुरंजयः ॥ ३३ पारेभे यागकर्मार्थ कुण्डं मण्डपसंमितम् । तत्राऽऽचार्योऽभवद्धीमान्वेदशास्त्रविचारवित् ॥ ३४ वसिष्ठो रघुनाथस्य कुलपूर्वगुरुर्मुनिः । ब्रह्मस्तत्राऽऽचरबाइम्यं कर्मागस्त्यस्तपोनिधिः॥ ३५ वाल्मीकिर्मुनिरध्वर्युर्मुनिः कण्वस्तु द्वारपः । अष्टौ द्वाराणि तत्राऽऽसन्सतोरणभुभानि वै ॥ ३६ द्वारि द्वारि द्वयं विप्र ब्राह्मणस्याधिमत्रवित् । पूर्वद्वारे मुनिश्रेष्ठौ देवलासितसंहितौ ॥ दक्षिणद्वारि भूमानौ कश्यपात्री तपोनिधी । पश्चिमद्वारि ऋषभौ जातूकोऽय जाजलिः ॥ उत्तरद्वारि मुनी द्वौ द्वितीकैकवतापसौ ॥ ३८ एवं द्वारविधिं कृत्वा वसिष्ठः कुम्भसंभवः । हयवर्यस्य सत्पूजां कर्तुमारभत द्विज ॥ सुवासिन्यस्त्रियस्तत्र वासोलंकारशोभिताः । हरिद्राक्षतगन्धाधः पूजयामासुरचितम् ॥ नीराजनं ततः कृत्वों धूपयित्वाऽगरूक्षणैः । वर्धापनं जना वेश्याश्चकुस्ता वाडवाझया ॥ ४१ एवं संपूज्य विमले भाले चन्दनचर्चिते । कुड्डमादिकगन्धाढ्ये सर्वशोभासमन्विते ॥ घबन्ध भास्वरं पत्र तप्तहाटकनिर्मितम् । तत्रालिखद्दाशरथेः प्रतापबलमूर्जितम् ॥ सूर्यवंशध्वजो धन्वी धनुर्दीक्षागुरोर्गुरुः । यं देवाः सासुराः सर्वे नमन्ति मणिमौलिभिः ॥ ४४ । तस्याऽऽत्मजो वीरबलदर्पहारी रचूद्वहः । रामचन्द्रो महामागः सर्वशरशिरोमणिः ॥ तन्माता कोशलनृपपत्नीगर्भसमुद्भवा । तस्याः कुतिभवं रत्नं रामः शत्रुक्षयंकरः ॥ करोति हयमेधं वै ब्राह्मणेन सुशिक्षितः । रावणाभिधविन्द्रवधपापापनत्तये ॥ मोचितस्तेन वाहानां मुख्योऽसौ वाजिनां वरः । महाबलपरीवारपरिखाभिः सुरक्षितः॥ ४८ तद्रक्षकोऽस्ति तदाता शत्रुघ्नो लवणान्तकः । हस्त्यश्वरयपादातसंघसेनासमन्वितः ।। + एतचिहान्तर्गतः पाठः, ख. ग. छ. ज. ठ. उ. प. त. य. द. घ. पुस्तकस्थः । १ घ. उ. च. ठ. ढ. स्तुमा नागाद्या विं। २ क.ग. घ. उ. प. छ. ज. स. म. ट. ठ. उ. प. त. य. द. घ. जवात । ३ क. ख. ग. छ. ज. अ. ठ. इ. त. ५. ध. जावलिः । ण. जावालिः । ४ छ. अ. ड. 'रि सुतपो द्वौ । ५ छ. १. 'त्वा पूजयि' । ६ ग. येः सुनामव । ४० ४३ ४९ १० दशमोऽध्यायः] पद्मपुराणम् । स्य राज्ञ इति श्रेष्ठो मानः स्यात्स्वबलोन्मदात् । शूरा वयं धनुर्धारिश्रेष्ठा वयमिहोत्कटाः ॥५० । गृहन्तु बलाद्वाहं रत्नमालाविभूषितम् । मनोवेगं कामजवं सर्वगत्याऽधिभास्वरम् ।। तो मोचयिता भ्राता शत्रुघ्नो लीलया हठात् । शरासनविनिर्मुक्तवत्सदन्तैस्तु तत्परः ॥ ५२ इत्येवमादि च विलिख्य महामुनीन्द्रः श्रीरामचन्द्रभुजवीर्यलसत्पतापम् । शोभानिधानमनिलोत्तमवीर्यवेगं पातालभूतलविशेषगात मुमोच ॥ शत्रुघ्नमादिदेशाथ रामः शस्त्रभृतां वरः । याहि वाहस्य रक्षार्थ पृष्ठतः स्वेच्छया गतेः । ५४ शत्रुघ्न गच्छ वाहस्य मार्ग भद्रं भवेत्तव । भवेतां शत्रुविजयौ रिपुकर्षण ते भुजौ ॥ ये योदारः प्रतिरणगतास्ते त्वया वारणीया वाहं रक्ष स्वकगुणगणैः संयुतः सन्महोाम् ॥ सुप्तान्भ्रष्टान्विगतवसनान्भीतभीतान्प्रणम्रा- न्मा हन्यास्तान्सुकृतिकृतिनो ये न शंसन्ति कर्म ॥ ५६ विरथानयसंस्थस्त्वं ये वदन्ति वयं तव । ते त्वया न निहन्तव्याः शत्रुघ्न सुकृतैषिणा ॥ यो हन्याद्विमदं मत्तं सुप्तं भमभयातुरम् । तावकोऽहं ब्रुवाणं च स बजत्यधमां गतिम् ।। ५८ परस्वे चित्तवृत्ति त्वं मा कृथाः परदारके । नीचे रति मा विदव्याः सर्वसद्गुणपूरितः।। पूर्व प्रहारं वृद्धानां मा कुर्वीथा बरिंजय । पूज्यपूजाव्यतिक्रामं मा विधेहि दयान्वितः ॥ ६० गां विमं त्वं नमस्कुर्या वैष्णवं धर्मसंयुतम् । अभिवाद्य यतो गच्छेत्तत्र सिद्धिमवामुयात् ॥ ६१ विष्णुः सर्वेश्वरः साक्षी सर्वव्यापकदेहभृत् । ये तदीया महाबाहो तद्रूपा विचरन्ति हि ॥ ६२ ये स्मरन्ति महाविष्णुं सर्वभूतहदि स्थितम् । ते मन्तव्या महाविष्णुसमरूपा रघूत्तम ॥ ६३ यस्य स्वीयो न पारक्यो यस्य मित्रसमो रिपुः । ते वैष्णवाः क्षणादेव पापिनं पावयन्ति हि॥६४ येषां प्रियं भागवतं तेषां वै ब्राह्मणाः प्रियाः । वैकुण्ठात्मोषितास्तेऽत्र लोकपावनहेतवे ॥ ६५ येषां मुखे हरेनोंम हदि विष्णुः सनातनः । उदरे विष्णुनैवेद्यं स श्वपाकोऽपि वैष्णवः ॥ ६६ येषां वेदाः प्रियतमा न च संसारजं सुखम् । स्वधर्मनिरता येऽत्र तान्नमस्कुर्विहान्वितान् ॥ ६७ शिव विष्णौ न वा भेदो न च ब्रह्ममहेशयोः । तेषां पादरजः पूतं वहाम्यपविनाशनम् ॥ ६८ गौरी गङ्गा महालक्ष्मीर्यस्य नास्ति पृथक्तया । ते मन्तव्या नराः सर्वे स्वर्गलोकादिहामराः॥६९ शरणागतरक्षी च महादानपरायणः । यथाशक्ति हरेः प्रीत्यै स ज्ञेयो वैष्णवोत्तमः ।। यस्य नाम महापापराशिं दहति सत्वरम् । तदीयचरणद्वंद्वे भक्तिर्यस्य स वैष्णवः ॥ ७१ इन्द्रियाणि वशे येषां मनोऽपि हरिचिन्तकम् । तानमस्कृत्य पूयात्स आजन्ममरणान्तकम् ॥ ७२ परस्त्रियं त्वं करवालवत्त्यजन्भवेर्यशोभूषणभूतभूमिः ॥ एवं ममाऽऽदेशमयाऽऽचरंश्च लभेः परं धाम सुयोगमीड्यम् ॥ ७३ इति श्रीमहापुराणे पाने पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे शत्रुघ्नशिक्षाकथन नाम दशमोऽध्यायः ॥ १० ॥ आदितः श्लोकानां समथ्यकाः-११३२८ १स. धनंजय । द. रणंजय । २ झ. वा धर्मभेदो ब।३ ग. छ. ठ. ड. ण. त. दो न ब्राह्मणम।.४ ज. ठ. द. ५. हाऽऽगताः ।। ५ क. ख. ग. छ. ज. ज. ठ. इ. ग. थ. ध. सुयाग।
महामुनिश्रीव्यासप्रणीत- [ ४पातालखण्डे- अथैकादशोऽध्यायः । २ ४ ५ ६ ८ शेष उवाच- एवमाज्ञाप्य भगवानरामश्वामित्रकर्षणः । वीरानालोकयन्भूयो जगाद शुभया गिरा ।। शत्रुघ्नस्य मम भ्रातुर्वाजिरक्षाकरस्य वै । को गन्ता पृष्ठतो रक्षस्तनिदेशापालकः ।। यः सर्ववीरान्पति मुख्यमागतान्विनिर्जयेन्मर्मभिदखसंधैः । गृह्णात्वसौ मे करवीटक तझूमौ यशः संप्रथयन्सुविस्तरम् ॥ इत्युक्तवति रामे तु पुष्कलो भरतात्मजः । जग्राह वीटक) तस्माद्रघुराजकराम्बुजात् ।। स्वामिन्गच्छामि शत्रुघ्नपृष्ठरक्षा करोम्यहम् । संनद्धः सर्वतः शस्त्रचापवाणधरः प्रभो ॥ सर्वमद्य क्षितितलं त्वत्मतापो विजेष्यते । एते निमित्तभूता वै रामचन्द्र महामते ।। भवत्कृपातः सकलं ससुरासुरमानुषम् । उपस्थितं प्रयुद्धार्थ निवारणक्षमो सहम् ॥ सर्व स्वामी ज्ञास्यति यन्मम विक्रमदर्शनात् । एष गन्तास्मि शत्रुघ्नपृष्ठरक्षाप्रकारकः ॥ एवं ब्रुवन्तं भरतात्मजं स प्रस्तूय सावित्यनुमोदमानः । शशंस सर्वान्कपिवीरमुख्यान्मभञ्जनोद्भूतमुखान्हरिः प्रभुः ॥ भो हनूमन्महावीर शृणु मद्वाक्यमादृतः। त्वत्प्रसादान्मया प्राप्तमिदं राज्यमकण्टकम् ॥ १० सीताया मम संयोगो योऽभवजलधिर्नरैः । तारितस्तदलं वेवि सर्व तव कपीश्वर ।। ११ त्वं गच्छ मम सैन्यस्य पालकस्तन्ममाज्ञया । शत्रुघ्नः सोदरो मह्यं पालनीयस्त्वहं यथा ॥ १२ यत्र यत्र मतिभ्रंशः शत्रुघ्नस्य प्रजायते । तत्र तत्र प्रबोद्धव्यो भ्राता मम महामते ॥ इति श्रुत्वा महद्वाक्यं रामचन्द्रस्य धीमतः । शिरसा तत्समादाय प्रणाममकरोसदा ॥ अथाऽऽदिशन्महाराजो जाम्बवन्तं कपीश्वरम् । रघुनाथस्य सेवायै कपीश्वरमजः प्रभुः ॥ १५ आदो गवयो मैन्दस्तथा दधिमुखः कपिः । सुग्रीवः प्लवगाधीशः शतवल्यक्षिको कपी ॥ १६ नीलो नलो मनोवेगोऽधिगन्ता वानराङ्गजः । इत्येवमादयो यूयं सजीभूता भवन्तु भोः॥ १७ सर्वे रथैः सदश्वैश्व तप्तहाटकभूषणैः । कवचेन शिरस्त्राणैषिता यान्तु सत्वराः॥ १८ शेष उवाच- सुमवसाहूय सुमत्रिणं तदा जगाद रामो बलवीर्यशोभितः । अमात्यमोले वद केऽत्र योज्या नरा हयं पालयितुं समर्थाः ॥ १९ तदुक्तमेवमाकर्ण्य जगाद परवीरहा । हयस्य रक्षणे योग्यान्वलिनोऽत्र नराधिपान् ॥ रघुनाथ शृणुष्वेतांस्तव वीरान्सुसंहितान् । धनुर्धरान्महाविद्यान्सर्वशस्त्रास्त्रकोविदान् ॥ प्रतापारयं नीलरत्न तथा लक्ष्मीनिधि नृपम् । रिपुतापं चोग्रहयं तथा शस्त्रविदं नृपम् ॥ २२ राजन्योऽसौ नीलरत्नो महावीरो रयाग्रणीः । स एव लक्ष रक्षेत लक्ष युध्येत निर्भयः ॥ २३ अक्षौहिणीभिर्दशभिर्यातु वाइस्य रक्षणे । दंशितैः सशिरखाणैर्महाबाहुभिरुद्धतैः ॥ प्रतापायो यो हि निलं रिपुवर्गमशातयत् । सव्यापसव्यबाणानां मोक्ता सर्वास्त्रवित्तमः ॥२५ २० २१ २४ १ क. 'यदै रिपुमन । ह. अ. 'येद्वै मृशस्त्र । २ ग. छ. ड. "वंशस्त्रास्त्र' । ३ त. दयः शीघ्रं स । ४ द. सवैर्गजैः स। ५ च. या शास्त्र २८ १ एकादशोऽध्यायः ] पद्मपुराणम् । ४४५ एषोऽक्षौहिणीविंशत्या यातु यज्ञहयावने । संनद्धो रिपुनाशाय युक्तः कोदण्डदण्डभृत् ॥ २६ था लक्ष्मीनिधिस्त्वेष यातु राजन्यसत्तमः ।] यस्तपोभिः शतधृति प्रसाधास्त्राणि चाभ्यसत् ॥ मात्रं पशुपत्यत्रं गारुड नागसंज्ञितम् । मायूरं नाकुलं रौद्रं वैष्णवं मेघसंभवम् ।। जं पार्वतसई च तथा वायव्यसंनितम् । इत्यादिकानामस्त्राणां संप्रयोगविसर्गवित् ।। । एष निजसैन्यानामक्षौहिण्यैकया युतः । यातु भूराज्यमुकुटः सर्ववैरिप्रभञ्जनः ।। ३० (पुतापोऽयमेवाय गच्छत्वग्यो धनुर्धताम् । सर्वशस्त्रास्त्रकुशलो रिपुवंशदवानलः ॥ च्छतात्सेनया त्वद्य चतुरङ्गसमेतया। शत्रुघ्नाज्ञा शिरस्येते दधत्वद्य बलोत्कटाः ॥ ३२ ग्राश्वोऽपि महाराजस्तथा शस्त्रविदेष च । सर्वे यान्तु सुसंनद्धास्तव वाहस्य पालकाः ।। ३३ ति भाषितमाकर्ण्य मत्रिणः प्रजहर्ष च । आज्ञापयामास स तान्मुमत्रिकथितान्भटान् ॥ ३४ ।ऽनुझा रघुनाथस्य प्राप्य मोदं प्रपेदिरे । चिरकालं सांपरायं वाञ्छन्तो युद्धदुर्मदाः ॥ संनद्धाः कवचायैश्च तथा शस्त्रास्त्रवर्तनः । ययुः शत्रुघ्नसंवासं सीतापतिप्रणोदिताः ।। शेष उवाच- अयोक्त ऋषिणा रामो विधिनाऽपूजयत्स ह । आचार्यादीऋषीन्सर्वान्यथोक्तवरदक्षिणैः॥ ३७ आचार्याय ददौ रामो हस्तिनं षष्टिहायनम् । हयमेकं मनोवेगं रत्नमालाभिभूषितम् ।। पौरटं रथमेकं च मणिरत्नविभूषितम् । चतुभिर्वाजिभिर्युक्तं सर्वोपस्करसंयुतम् ॥ मणिलक्षं तु प्रत्यक्षं मुक्ताफलतुलाशतम् । विद्रुमस्य तुलानां तु सहस्रं स्फुटतेजसाम् ॥ राममेकं सुसंपनं नानाजनसमाकुलम् । विचित्रसस्यनिष्पन्नं विविधैर्मन्दिरैर्नृतम् ॥ ब्रह्मणोऽपि तथैवादादोत्रेऽप्यध्वर्यवे स्मृतम् । ऋत्विग्भ्यो भूरिशो दत्त्वा प्रणनाम रघूत्तमः॥४२ उर्वे तेऽवर्धयन्वाभिराशीभिरभिपूजिताः। चिरं जीव महाराज रामचन्द्र रघुबह ॥ न्यादानं भूमिदानं गजदानं तथैव च । अश्वदानं स्वर्णदानं तिलदानं समौक्तिकम् ॥ अमदानं पयोदानमभयदानमेव च । रनदानानि सर्वाणि विप्रेभ्यश्चादिशन्महान् ॥ ४५ हि देहि धनं देहि मा नेति ब्रूहि कस्यचित् । ददात्वनं ददात्वनं सर्वभोगसमन्वितम् ॥ ४६ त्यं पावर्तत मखो रघुनाथस्य धीमतः । सदक्षिणैर्द्विजवरैः पूर्णः सर्वशुभक्रियः ॥ अथ रामानुजो गत्वा मातरं प्रणनाम ह । आज्ञापयस्व रक्षार्थमेष गच्छामि शोभने । वत्कृपातो रिपुकुल जित्वा शोभासमन्वितः । आयास्यामि महाराजैईयवर्यसमन्वितः ॥ ३८ मातोवाच- पुत्र गच्छ महावीर शिवाः पन्थान एव ते । सर्वानिपुगणाञ्जित्वा पुनरागच्छ सन्मते ॥ ५० पुष्कलं पालय निजभ्रातृज धर्मवित्तमम् । महाबलिनमद्यापि बालकं लीलया युतम् ॥ ५१ पुत्राऽऽगच्छसि चेयुक्तः पुष्कलेन शुभान्वितः । तदा मम प्रमोदः स्यात्वन्यथा शोकभागिनी५२ इति संभाषमाणां खां मातरं प्रत्युवाच सः । पुष्कलं पालयित्वाऽहं निजागामिव शोभने ॥ ५३ स्वनामसदृशं कृत्वा पुनरेष्यामि मोदवान् । त्वदीयचरणद्वंद्वं स्मरन्माप्स्यामि शोभनम् ।। * एतचिहान्तर्गतः पाठः क. ख. ग. च. छ. ज. अ. ठ, ड, ण, त. य. द. ध पुस्तकस्थः । १ ग. छ. ठ. . . थ. द. ध. बस्यों । २ क. घ. ङ.स.म. द. द. सं सतां प । ३ ण. 'नं च गोदा। ४ छ. ह. स्थानान्यथा शोभनं भवेत् ।ई।
५९ ६४ ४४६ महामुनिश्रीव्यासप्रणीत- [४ पातालखण्डे- इत्युक्त्वा प्रययौ वीरो राम स मखमण्डपे । आसीनं मुनिवर्यायैर्मुनिवेषधरं वरम् ।। उवाच मतिमान्वीरः सर्वशोभासमन्वितः। रामाऽऽज्ञापय रक्षार्थ हयस्यानुज्ञया तव ॥ ५६ रघुनाथोऽपि तच्छ्रुत्वा भद्रमस्त्विति चाब्रवीत् । बालं स्त्रियं प्रमत्तं त्वं मा हन्याः शस्त्रवर्जितम्। तदा लक्ष्मीनिधि ता जानक्या जनकात्मजः । प्रहस्य किंचिभयने नर्तयन्राममब्रवीत् ॥ ५८ लक्ष्मीनिधिरुवाच- रामचन्द्र महाबाहो सर्वधर्मपरायण । शत्रुघ्नं शिक्षय तथा यथा लोकोत्तरो भवेत् ।। कुलोचितं कर्म कुर्वनग्रजाचरितं तथा । गच्छेत्स परमं धाम तेजोबलसमन्वितम् ।। ६० त्वया प्रोक्तं महाराज ब्राह्मणं नावमानयेत् । पित्रा तव हतो विषः पितृभक्तिपरायणः ॥ ६१ त्वयाऽपि सुमहत्कर्म श्रुतं लोके विगर्हितम् । अवध्यां महिला यस्त्वं हतवाभियतं ततः ॥ ६२ अग्रजोऽस्य महाराज कृतवान्यं पराक्रमम् । स न केन कृतः पूर्व राक्षस्याः कर्णकर्तनम् ॥ ६३ एवं करिष्यति नृप शत्रुघ्नः शिक्षया तव । यदि नायं तथा कुर्यात्कुलस्यासदृशं भवेत् ॥ इत्युक्तवन्तं तं रामः प्रत्युवाच हसन्निव । मेघगम्भीरया वाचा सर्ववाक्यविशारदः॥ ६५ यूयं तु योगिनः शान्ताः समदुःखसुखाः पुनः । जानन्त्यपारसंसारनिस्तारतरणादिकम् ॥ ६६ ये शूराः सुमहेष्वासाः सर्वशस्त्रास्त्रकोविदाः । ते जानन्ति नियुद्धस्य वार्ता न तु भवादृशाः॥६५ परोपतापिनो ये वै ये चोत्पथविसारिणः । ते हन्तव्या नृपैः सर्वैः सर्वलोकहितैषिभिः॥ ६८ इत्युक्तमाकर्ण्य सभासदस्ते सर्वे स्मितं चाररिंदमस्य । कुम्भोद्भवः पूजितमेनमश्वं विमोचयामास सुशोभितं हि ॥ इमं मत्रं समुच्चार्य वसिष्ठः कलशोद्भवः । करानेन स्पृशन्नग्धं मुमोच जयकाङ्क्षया । वाजिन्गच्छ यथालीलं सर्वत्र धरणीतले । यागार्थे मोचितो येन पुनरागच्छ सत्वरः॥ अश्वस्तु मोचितः सर्वैर्भटैः शस्त्रास्त्रकोविदैः । परितः प्रययौ प्राची दिशं वायुजवान्वितः ॥ ७२ प्रचचाल बलं सर्वे कम्पयद्धरणीतलम् । शेषोऽपि किंचिन्नतया फणया धृतवान्भुवम् ॥ दिशः प्रसेदुः परितःक्ष्मातलं शोभयाऽन्वितम् । वायवस्तं तु शत्रुघ्नं पृष्ठतो मन्दगामिनः ॥ ७४ शत्रुघ्नस्य प्रयाणायाभ्युद्यतस्य भुजोऽस्फुरत् । दक्षिणः शुभमाशंसी जयाय च बभूव ह ॥ ७५ पुष्कलः स्वगृहं रम्यं प्रविवेश समृद्धिमत् । वित्तदिभिर्वलामीभिः शोभितं रत्नवेदिकम् ॥ ७६ तत्रापश्यनिजां भार्यां पतिव्रतपरायणाम् । किंचित्स्वदर्शनावृष्टां भर्तृदर्शनलालसाम् ।। मुखारविन्देन च नागवल्लीदलं सक'रकमत्र चर्वती* । नासाफलं तोयभवं महाधन बाहोर्मणालीसदृशोः सुकाणे ॥ कुचौ तु मालूरफलोपमो वरौ नितम्बबिम्बं वरनीविशोभितम् । पादौ तुलाकोटिधरौ सुकोमलौ दधत्यहोऽवैक्षत सा पतिं स्वकम् ॥ ७९ परिरभ्य भियां धीरो गद्गदस्वरभाषिणीम् । तदुरोजपरीरम्भनिर्भरीकृतदेहकाम् ॥ उवाच भद्रे गच्छामि शत्रुघ्नपृष्ठरक्षकः । रामाजया यामश्वं पालयनयसंयुतः। ८१ त्वया मे मातरः पूज्याः पादसंवाहनादिभिः । तदुच्छिष्टं हि भुञ्जाना तत्कर्मकरणादरा ॥ ८२ *आर्षों १ क. स. ग. छ. ज. अ. ठ. ह. ण. त. थ. द. घ. 'भ्यर्यज्ञवें । ७८ ७३ ७८ ८० नुमभावः १२ द्वादशोऽध्यायः ] पद्मपुराणम् । ४४७ पूर्वाः पतिव्रता नार्यो लोपामुद्रादिकाः शुभाः।नावमान्यास्त्वया भीरु स्वतपोबलशोभिताः॥८३ इति श्रीमहापुराणे पाने पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे हयमोचनं नामैकादशोऽध्यायः ॥११॥ आदितः श्लोकानां समष्ट्यङ्काः-११४११ अथ द्वादशोऽध्यायः । २ ५ ८ ९ १२ शेष उवाच- इत्युक्तवन्तं स्वपतिं वीक्ष्य प्रेम्णा सुनिर्भरा । प्रत्युवाच हसन्तीव किंचिद्दभाषिणी ॥ नाय ते विजयो भूयात्सर्वत्र रणमण्डले । शत्रुघ्नाज्ञा प्रकर्तव्या हयरक्षा यथा भवेत् ॥ स्मरणीया हि सर्वत्र सेविका त्वत्पदानुगा । कदापि मानसं नाथ त्वतो नान्यत्र गच्छति ॥ ३ परमायोधने कान्त स्मर्तव्याऽहं न जातुचित् । सत्यां मयि तव स्वान्ते युद्धे विजयसंशयः॥ ४ पद्मनेत्र तथा कार्यमूर्मिलाया यथा मम । हास्यं नैव प्रकुर्वन्ति मामीक्ष्य करताडनैः ।। इयं पत्नी महाभीरोः संग्रामे प्रपलायितुः । कातरा यहि युध्यन्ति शूराणां समयः कुतः॥ ६ इत्येवं न हसन्त्युञ्चैर्यया मे देवराङ्गनाः । तथा कार्य महाबाहो रामस्य हयरक्षणे ॥ योद्धा त्वमादौ सर्वत्र परे ये तव पृष्ठतः । धनुष्टङ्कारबधिराः क्रियन्तां वलिनः परे ॥ तव प्रोद्यत्कराम्भोजकरवालभिया बलम् । परेषां भवताक्षिप्रमन्योन्यभयमाकुलम् ॥ कुलं महत्त्वलं कार्य परान्विजयता त्वया । गच्छ स्वामिन्महाबाहो तब श्रेयो भवत्विह ॥ १० इदं धनुर्ग्रहाणाऽऽशु महद्गुणविभूषितम् । यस्य गर्जितमाकर्ण्य वैरिवृन्दं भयातुरम् ।। इमौ ते त्विषुधी वीर अध्येतां शं यया भवेत् । वैरिकोटिविनिष्पेषवाणकोटिसुपूरितम् ॥ कवचं त्विदमाघेहि शरीरे कामसुन्दरे । वज्रप्रभामहादीप्तिहतसंतमसं दृढम् ।। १३ शिरस्त्राणं निजोसे कुरु कान्त मनोरमम् । इमे वतंसे विशदे मणिरत्नविभूषिते ॥ १४ इति सुविमलवाचं वीरपुत्रीं प्रपश्य- अयनकमलदृष्ट्या वीक्षमाणस्तदा ताम् । अधिगतपरिमोदो भारतिः शत्रुजेता रणकरणसमर्थस्तां जगादाधिवीरः ॥ पुष्कल उवाच- कान्ते यथा त्वं वदसि तथा सर्व चराम्यहम् । वीरपत्नि भवेत्कीर्तिस्तव कान्तिमतीप्सिता १६ इति कान्तिमतीदत्तं कवचं मुकुटं वरम् । धनुर्महेषुधी वीरः सर्व जग्राह वीर्यवान् ॥ १७ परिधाय च तत्सर्व बभौ शोभासमन्वितः । शुशुभेऽतीव सुभटः सर्वशस्त्रास्त्रकोविदः॥ १८ उमखशस्त्रशोभाब्य वीरमालाविभूषितम् । कुङ्कुमागरुकस्तूरीचन्दनादिकचर्चितम् ॥ गानाकुसुममालाभिराजानुपरिशोभितम् । नीराजयामास मुहुस्तत्र कान्तिमती सती ॥ नीराजयित्वा बहुशः किरन्ती मौक्तिकैर्मुहुः । गलदश्रुजला चैव परिरेभे पति निजम् ॥ २१ ढं स परिरभ्यैनां चिरमाश्वासयत्तदा । वीरपत्नि कान्तिमति विरहं मा कृथा मम ॥ रष गच्छामि सविधे तव भामे पतिव्रते । इत्युक्त्वा तां निजां पत्नी रथमारुरुहे वरम् ॥ २३ १ ग. छ. ह. तिं निजप्रेम्णा सुनिर्भरम् । प्र । २ छ. ड. द. खड्गं । ३ झ. 'रुह्य हे व। २० २२ ४४८ २४ २५ २७ २८ महामुनिश्रीव्यासमणीतं- [४ पातालखण्डे- तं प्रयान्तं पतिश्रेष्ठं नयनैनिमिषोज्झितैः । विलोकयामास तदा [*पतिव्रतपरायणा ॥ स ययौ जनकं द्रष्टुं जननीं प्रेमविहलाम् । गत्वा पितरमम्बा च ववन्दे शिरसा मुदा ॥ माता पुत्रं परिष्वज्य स्वाङ्के चाऽऽरोपयत्तदा । मुश्चन्ती बाष्पनिचयं स्वस्त्यस्तु निजगाद सा।। पितरं माह भरतं रामो यज्ञकरः परः। पालनीयो लक्ष्मणेन भवद्भिश्च महात्मभिः ॥ आजप्तोऽसौ जनन्या च पित्रा संहर्षिताङ्गकः । ययौ शत्रुघ्नकटकं महावीरविभूषितम् ॥ रथिभिः पत्तिभिः शरैः सदश्वैः सादिभिर्तृतम् । ययौ मुदा रघूत्तंसमहायज्ञहयाग्रणीः ॥ गच्छन्पाबालदेशांश्च कुरूंश्चैवोत्तरान्कुरून् । २९ दशार्णाश्रीविशालांश्च सर्वशोभासमन्वितः । तत्र तत्रोपशृण्वानो रघुवीरयशोऽखिलम् ॥ ३० रावणासुरघातेन भक्तरक्षाविधायकम् । पुनश्च हयमेधादिकार्यमारभ्य पावनम् ॥ ३१ यशो वितन्वन्भुवने लोकानामोऽविता भयात् । तेभ्यस्तुष्टो ददौ हारारत्नानि विविधानि च ॥ महाधनानि वासांसि शत्रुघ्नः प्रवरो महान् । सुमतिर्नाम तेजस्वी सर्व विद्याविशारदः ।। रघुनाथस्य सचिवः शत्रुघ्नानुचरो वरः । ययौ तेन महाधीरो ग्रामाञ्जनपदान्बहून् । रघुनाथपतापेन न कोऽपि हृतवान्हयम् । देशाधिपा ये बहवो महाबलविभूषिताः ॥ हस्त्यश्वरयपादातचतुरासमन्विताः । संपदो बहुशो नीत्वा मुक्ता माणिक्यसंयुताः॥ शत्रुघ्नं हयरक्षायामागतं प्रणता मुहुः । इदं राज्यं धनं सर्व सपुत्रपशुबान्धवम् ॥ रामचन्द्रस्य सर्वे हि न मदीयं रघुदह ।। एवं तदुक्तमाकर्ण्य शत्रुघ्नः परवीरहा । आज्ञा स्वां तत्र संज्ञाप्य ययौ तैः सहितः पथि ॥ ३८ एवं क्रमेण संप्राप्तः शत्रुघ्नो हयसंयुतः । अहिच्छत्रां पुरी ब्रह्मभानाजनसमाकुलाम् ॥ ब्रह्मद्विजसमाकीर्णा नानारत्नविभूषिताम् । सौवर्णैः स्फाटिकैर्हम्युगोपुरैः समलंकृताम् ।। यत्र रम्भाविरस्कारकारिण्यः कमलाननाः । दृश्यन्ते सर्वहर्येषु ललना लीलयाऽन्विताः ॥ ४१ यत्र स्वाचारललिताः सर्वभोगैकभोगिनः । धनदानुचरा यद्वत्तथा लीलासमन्विताः ॥ यत्र वीरा धनुर्हस्ताः शरसंधानकोविदाः । कुर्वन्ति तं सुराजानं सुहृष्टं सुमदाभिधम् ॥ एवंविषं ददर्शासौ नगरं दूरतः प्रभुः। पार्वे तस्य पुरश्रेष्ठमुद्यानं शोभयान्वितम् ।। पुंनागैर्नागचम्पैश्च तिलकैर्देवदारुभिः । अशोकैः पाटलैधूतैर्मन्दारैः कोविदारकैः ॥ आम्रजम्बूकदम्बैश्च प्रियालपनसैस्तथा । शालैस्तालैस्तमालैश्च मल्लिकाजातियूथिभिः ।। नीपैः कदम्बैर्वकुलैश्चम्पकैर्मदनाभिधैः । शोभितं स ददर्शाथ शत्रुघ्नः परवीरहा ॥ हयो गतस्तद्वनमध्यदेशे तमालतालादिसुशोभिते वै ॥ ययौ ततः पृष्ठत एवं वीरो धनुर्धरैः सेवितपादपद्मः ॥ ददर्श वा रचितं देवायतनमद्भुतम् । इन्द्रनीलैश्च वैडूर्यैस्तथा मारकतैरपि ॥ शोभितं मुरसेवाह कैलासप्रस्थसंनिभम् । जातरूपमयस्तम्भैः शोभितं सपनां वरम् ॥ [+दृष्ट्वा तद्रघुनायस्य भ्राता देवालयं वरम् । पप्रच्छ सुमतिं स्वीय मत्रिणं वदतां वरम् ॥] ५१ ४० ४२ ४४ ४६ ४८ * एतचिहान्तर्गतः पाठः क. ख. ग. च. छ. ज. अ. ठ. . ण. त थ. ६. घ. पुस्तकस्थः । + एतचिहान्तर्गतः पाठः क. ख. ग. छ. ज. स. ठ. टण. त. थ. द. ध.पुस्तकस्थः । म.न. महान् । १ ग. छ. द. ग. थ. "न्वितान् । त ।
१२ द्वादशोऽध्यायः ] पद्मपुराणम् । - शत्रुघ्न उवाच- बदामात्यवरेदं किं कस्य देवस्य केतनम् । का देवता पूज्यतेऽत्र कस्य हेतोः स्थिताऽनघ ॥ ५२ एवमाकर्ण्य सर्वज्ञो मन्त्रविधिजगाद ह । शृणुष्वैकमना वीर यथावदिह सर्वशः ॥ कामाक्षायाः परं स्थानं विद्धि विश्वैकशर्मदम् । यस्या दर्शनमात्रेण सर्वसिद्धिः प्रजायते ॥ ५४ देवासुराश्च यां स्तुत्वा नत्वा प्राप्ताखिलां श्रियम् । धर्मकामार्थमोक्षाणां दात्री भक्तानुकम्पिनी५५ पाचिता सुमदेनात्राहिच्छत्रापतिना पुरा । स्थिता करोति सकलं भक्तानां दुःखहारिणी ॥ ५६ तां नमस्कुरु शत्रुघ्न सर्ववीरशिरोमणे । नत्वा मुसिद्धिं पामोषि ससुरासुरदुर्लभाम् ॥ इति श्रुत्वाऽथ तद्वाक्यं शत्रुघ्नः शत्रुतापनः । पप्रच्छ सकलां वार्ता भवान्याः पुरुषर्षभः ॥ ५८ शत्रुघ्न उवाच- कोऽहिच्छत्रापती राजा सुमद्ः किं तपः कृतम् । येनेयं सर्वलोकानां माता तुष्टात्र संस्थिता५९ वद सर्व महामात्य नानार्थपरिबृंहितम् । यथावत्त्वं हि जानासि तस्माद्द महामते ॥ ६० सुमतिरुवाच- हेमकूटो गिरिः पूतः सर्वदेवोपशोभितः । तत्रास्ति तीर्थ विमलमृषिवृन्दसुसेवितम् ॥ सुमदो हि तपस्तेपे हतमातृपितृभजः । अरिभिः सर्वसामन्तैर्जगाम तपसे हितम् ॥ वर्षाणि त्रीणि स पदा त्वेकेन मनसा स्मरन् । जगतां मातरं दध्यौ नासाग्रस्तिमितेक्षणः ॥६३ वर्षाणि त्रीणि शुष्काणां पर्णानां भक्षणं चरन् । चकार परमुग्रं स तपः परमदुश्वरम् ॥ वर्षाणि त्रीणि सलिले शीतकाले ममज सः। ग्रीष्मे चचार पञ्चानीन्माट्सु जलदोन्मुखः॥६५ त्रीणि वर्षाणि पवनं संरुध्य स्वान्तगोचरम् । भवानी स स्मरन्धीरो न च किंचन पश्यति ॥६६ वर्षे तु द्वादशेऽतीते दृष्ट्वैतत्परमं तपः । विभाव्य मनसाऽतीव शक्रः पस्पर्ध तं भयात् ॥ आदिदेश स कामं तु परिवारसमावृतम् । अप्सरोभिः सुसंयुक्तं ब्रह्मेन्द्रविजयोग्रतम् ।। ६८ गच्छ काम सखे मह्यं प्रियमाचर मोहन । सुमदस्य तपोविघ्नं समाचर यया भवेत् ॥ इति श्रुत्वा महद्वाक्यं तुरासाहः स्वयं प्रभुः । उवाच विश्वविजये प्रौढगर्यो रघूद्वह ॥ काम उवाच- स्वामिन्कोऽसौ हि सुमदः किं तपः स्वल्पकं पुनः। ब्रह्मादीनां तपो भग्नं करोम्यस्य तु का कथा७१ मद्वाणवलनिभित्रश्चन्द्रस्तारां गतः पुरा । त्वमप्यहल्यां गतवान्विश्वामित्रस्तथोर्वशीम् ॥ चिन्तां मा कुरु देवेन्द्र सेवके मयि संस्थिते । एष गच्छामि सुमदं देवान्पालय मारिष ॥ ७३ एवमुक्त्वा कामदेवो हेमकूटं गिरिं ययौ । वसन्तेन युतः सख्या तथैवाप्सरसां गणैः ॥ वसन्तस्तत्र सकलान्वृक्षान्पुष्पफलैर्युतान् । कोकिलाषट्पदश्रेण्या घुष्टानाशु चकार सः ॥ वायुः सुशीतलो वाति दक्षिणां दिशमाश्रितः । कृतमालासरित्तीरे लवङ्गकुसुमान्धितः ।। ७६ एवं विधे वने वृत्ते रम्भा नामाप्सरोवरा । सखीभिः संवृता तत्र जगाम सुमदान्तिकम् ॥ तत्राऽऽरभत गानं सा किंनरस्वरशोभना । मृदङ्गपणवानेकवायभेदविशारदा ॥ तदानमाकर्ण्य नराधिपोऽसौ वसन्तमालोक्य मनोहरं च । तथाऽन्यपुष्टारटितं मनोरमं चकार चक्षुःपरिवर्तनं बुधः ॥ ७० ७२ ७४ ७७ ७८ ७९ • ग ठर. पर्व। २ ड. क्रः सुखसमद्धिमान् । आ ।
४५० महामुनिश्रीव्यासप्रणीतं- [ ३ पातालखण्डे- तं प्रबुद्ध नृपं वीक्ष्य कामः पुष्पायुधस्त्वरन् । चकार सज्ज स तदा धनुस्तत्पृष्ठतोऽनघ ॥ एकाऽप्सरा तत्र नृपस्य पादयोः संवाहनं नर्तितनेत्रपल्लवा । चकार चान्या तु कटाक्षमोक्षणं चकार काचिशमङ्गचेष्टितम् ॥ ८१ अप्सरोभिस्तथाऽऽकीर्णः कामविहलमानसः । चिन्तयामास मतिमाञ्जितेन्द्रियशिरोमणिः ॥८२ एता मे तपसो विघ्नकारिण्योऽप्सरसां वराः । शक्रेण प्रेषिताः सर्वाः करिष्यन्ति यथातथम् ८३ इति संचिन्त्य सुतपास्ता उवाच वराङ्गनाः। का यूयं कुत्र संस्थाः किं भवतीनां चिकीर्षितम्८४ अत्यद्भुतं जातमहो यद्भवत्योऽक्षिगोचराः । यास्तपोभिः सुदुष्पापास्ता मे तपस आगताः।।८५ इति श्रीमहापुराणे पाये पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे कामाक्षोपाख्यानं नाम द्वादशोऽध्यायः ॥१२॥ आदितः श्लोकानां समष्ट्यङ्काः-११४९६ त अथ त्रयोदशोऽध्यायः । शेष उवाच- इति वाक्यं समाकर्ण्य सुमदस्य तपोनिधेः । जगदुः कामसेनास्तं रम्भायप्सरसो मुदा ।। त्वत्तपोभिर्वयं कान्त प्राप्ताः सर्वा वराष्ट्नाः । तासां यौवनसर्वस्वं भुत्व त्यज तपःफलम् ।। इयं घृताची सुभगा चम्पकाभशरीभृत् । कर्पूरगन्धललिता भुनक्तु त्वन्मुखामृतम् ॥ एतां महाभाग सुशोभिविभ्रमां मनोहराङ्गी घनपीनसत्कुचाम् । कान्तोपभुङ्वाऽऽशु निजोग्रपुण्यतः प्राप्तां पुनस्त्वं त्यज दुःखसागरम् ॥ मामप्यनाभरणोपशोभितां मन्दारमालापरिशोभिवक्षसम् । नानारताख्यानविचारचचरां दृढं यथा स्यात्परिरम्भणं कुरु ॥ पिबामृतं मामकवक्त्रनिर्गतं विमानमारुह्य वरं मया सह । सुमेरुशृङ्ग बहुपुण्यसेवितं संपाप्य भोगं कुरु सत्तपःफलम् ।। तिलोत्तमा यौवनरूपशोभिता गृह्णातु ते मूर्धनि तापवारणे । सुचामरौ संततधारयाऽङ्कितौ गङ्गाभवाहाविव सुन्दरोत्तम ।। शृणुष्व भोः कामकथा मनोहराः पिबामृतं देवगणादिवाञ्छितम् । उद्यानमासाद्य च नन्दनाभिधं वराङ्गनाभिर्विहरं कुरु प्रभो ॥ इत्युक्तमाकर्ण्य महामतिर्नृपो विचारयामास कुतो छुपस्थितः । मया सुसृष्टात्तपसः सुराङ्गनामत्यूह एवात्र विधेयमेष किम् ॥ इतिचिन्तातुरो राजा स्वान्ते संचिन्त्य धीरधीः । अगाद मतिमान्वीरः सुमदो देवतागनाः॥१ यूयं तु मम चित्तस्था जगन्मातृखरूपकाः । मया संचिन्त्यते या हि साऽपि त्वपिणी मता १ इदं तुच्छं स्वर्गसुखं त्वयोक्तं सविकल्पकम् । मत्स्वामिनी मया भक्त्या सेविता दास्यते वरम् १ यत्कृपातो विधिः सत्यलोकं प्राप्तो महानभूत् । सा मे दास्यति सर्व हि भक्तदुःखान्तकारिणी। किं नन्दनं किं तु गिरिः कनकेन सुमाण्डितः । किं सुधा स्वल्पपुण्येन प्राप्या दानवदुःखिता १ इति वाक्यं समाकर्ण्य कामस्तु विविधैः शरैः । प्राहरभरदेवस्य कर्तु किंचिन वै प्रभुः ॥ १८ १ छ. ड. तूर्ण च ध । २ . वाम्बरा । ३ ग. छ. उ. प. स प्राप्तन्यं त्वत्र स्वल्प ।
२४ २७ ३० - ३१ १३ त्रयोदशोऽध्यायः ] पद्मपुराणम् । कटाक्षे पुरारावैः परिरम्भैविलोकितैः । न तस्य चित्तविभ्रान्ति कर्तुं शक्ता वराङ्गनाः ॥ गता यथागतं शक्रं जगदुर्धारधीनृपः । तच्छ्रुत्वा मघवा भीतो मोघमारम्भमात्मनः ॥ अय निश्चितमालोक्य स्वपदाब्जेऽस्य चाम्बिका । जितेन्द्रियं महाराज प्रत्यक्षाऽभूत्सुयोगिनी ॥ पञ्चास्यपृष्ठललिता पाशाङ्कुशधरा वरा । धनुर्बाणधरा माता जगत्पावनपावनी ।। १९ तां वीक्ष्य मातरं धीमान्सूर्यकोटिसमप्रभाम् । धनुर्बाणमृणीपाशान्दधानां हर्षमाप्तवान् । शिरसा बहुशो नत्वा मातरं भक्तिभाविताम् । हसन्तीं निजदेहे तु स्पृशन्ती पाणिना मुहुः॥२१ तुष्टाव भक्त्युत्कलितचित्तवृत्तिर्महामतिः । गद्दस्वरसंयुक्तः कण्टकाङ्गोपशोभितः ॥ २२ जय देवि महादेवि भक्तवृन्दैकसेविते । ब्रह्मरुद्रादिदेवेन्द्रसेविताघ्रियुगेऽनघे ॥ मातस्तव कलाविद्धमेतद्भाति चराचरम् । त्वदृते नास्ति सर्व तन्मातर्भद्रे नमोऽस्तु ते ॥ मही त्वयाऽऽधारशक्त्या स्थापिता चलतीह न । सपर्वतवनोद्यानदिग्गजैरुपशोभिता ।। २५ सूर्यस्तपति खे तीक्ष्णैरंशुभिः प्रतपन्महीम् । खच्छक्त्या वसुधासंस्थं रसं गृह्णन्विमुञ्चति ॥ २६ अन्तर्बहिःस्थितो वह्निर्लोकानां प्रकरोति शम् । त्वत्प्रतापान्महादेवि सुरासुरनमस्कृते ॥ त्वं विद्या त्वं महामाया विष्णोर्लोकैकपोवनी । त्वं शक्त्या सृजसीदं त्वं पालयस्यपि मोहिनी॥ त्वत्तः सर्वे सुराः प्राप्य सिद्धिं सुखमयन्ति वै । मां पालय कृपानाथे वन्दिते भक्तवल्लभे॥ २९ रक्ष मां सेवकं मातस्त्वदीयचरणाम्बुजे । कुरु मे वाा उतां सिद्धिं महापुरुषपूर्वजे ॥ सुमतिरुवाच- एवं तुष्टा जगन्माता वृणीष्व वरमुत्तमम् । उवाच भक्तं सुमदं तपसा कृशदेहिनम् ।। इत्येतद्वाक्यमाकर्ण्य प्रहृष्टः सुमदो नृपः । वत्रे निजं हृतं राज्यं हतदुर्जनकण्टकम् ॥ ३२ महेशीचरणद्वंद्वे भक्तिमव्यभिचारिणीम् । प्रान्ते मुक्तिं तु संसारवारिधेस्तरणी पुनः ॥ कामाक्षोवाच- राज्यं प्रामुहि सुमद सर्वत्र हतकण्टकम् । महिलारत्नसंजुष्टपादपद्मद्वयो भव ॥ तव वैरिपराभूतिर्मा भूयात्सुमदाभिध । यदा तु रावणं हत्वा रघुनाथो महायशाः ॥ करिष्यत्यश्वयमं हि सर्वभारोपशोभितम् । तस्य भ्राता महावीरः शत्रुघ्नः परवीरहा ॥ गलयन्हयमायास्यत्यत्र वीरादिभिर्वृतः । तस्मै सर्व समर्प्य त्वं राज्यमृद्धिधनादिकम् ॥ पालयिष्यसि योधैः स्वैर्धनुर्धारिभिरुद्भटैः । ततः पृथिव्यां सर्वत्र भ्रमिष्यसि महामते ॥ ३८ ततो रामं नमस्कृत्य ब्रह्मेन्द्रशादिसेवितम् । मुक्ति प्राप्स्यसि दुष्पापां योगिभिर्यमसाधनैः॥ ३९ तावत्कालमिह स्थाता यावद्रामहयागमः । पश्चात्त्वां तु समुद्धृत्य गन्ताऽस्मि परमं पदम् ॥ ४० इत्युक्त्वाऽन्तर्दधे देवी सुरासुरनमस्कृता । सुमदोऽप्यहिच्छत्रायां शत्रून्हत्वा नृपोऽभवत् ॥ ४१ एष राजा समर्थोऽपि बलवाहनसंयुतः । न ग्रहीष्यति ते वाई महामायासुशिक्षितः ॥ श्रुत्वा प्राप्तं पुरापाचे हयमेधहयोत्तमम् । त्वां च सर्वमहाराजैः सेविताइघि महामतिः॥ ४३ सर्व दास्यति सर्वज्ञ राजा सुमदनामधृक् । अधुना तन्महाराज रामचन्द्रप्रतापतः ॥ इति वृत्तं समाकर्ण्य सुमदस्य महायशाः । साधु साध्विति चोवाच जहर्ष मतिमावली ॥ ४५ १ क. स. ग. छ. ज. म. र. ज. त. थ. द.त्सुतोषिता । प २ क. ख. त्र. ट. ग. पालिनः। त्वं। म... ज. र. त. य. द. पालिनी । त्वं । ३ क. ख. ग. घ. इ. च. ज. स. म. ट. ड. ण. त. थ. ‘णारणम् ।। ३७ शेष उवाच- ४७ ५६ महामुनिश्रीव्यासप्रणीतं- [४ पातालखण्डे- अहिच्छत्रापतिः सर्वैः स्वगणैः परिवारितः । सभायां सुखमास्ते यो बहुराजन्यसेवितः ॥ ४६ ब्राह्मणा वेदविदुषो वैश्या धनसमृद्धयः । राजानं पर्युपासन्ते सुमदं शोभयान्वितम् ।। वेदविद्याविनोदेन न्यायिनो ब्राह्मणा वरीः। वदन्ति चाऽऽशिर्ष भूपं सर्वलोकैकरक्षकम् ॥ ४८ एतस्मिन्समये कश्चिदागत्य नृपति जगौ । स्वामिन्न जाने कस्यास्ति हयः पत्रधरोऽन्तिके ॥४९ तच्छ्रुत्वा सेवकं श्रेष्ठं प्रेषयामास सत्वरः । जानीहि कस्य राज्ञोऽयमश्वो मम पुरान्तिके ॥ ५० गत्वाऽथ सेवकस्तत्र ज्ञात्वा वृत्तान्तमादितः । निवेदयामास नृपं महाराजन्यसेवितम् ॥ ५१ स श्रुत्वा रघुनाथस्य हयं चिरमनुस्मरन् । आज्ञापयामास जनं सर्व राजा विशारदः ॥ लोका मदीयाः सर्वे ये धनधान्यसमाकुलाः । तोरणादीनि गेहेषु मालानि मुजन्त्विह ॥ ५३ कन्याः सहस्रशो रम्या रम्याभरणभूषिताः । गजोपरि समारूढा यान्तु शत्रुघ्नसंमुखम् ॥ ५४ इत्यादि सर्वमाज्ञाप्य ययौ राजा स्वयं ततः । पुत्रपौत्रमहिष्यादिपरिवारसमावृतः ॥ शत्रुघ्नः सुमहामात्यैः सुभटैः पुष्कलादिकैः । संयुतो भूपतिं वीरं ददर्श सुमदाभिधम् ।। हस्तिभिः सादिसंयुक्तैः पत्तिभिः परतापनः । वाजिभिभूषितैर्वीरैः संयुतं वीरशोभितम् ॥ ५५ अथाऽऽगत्य महाराजं शत्रुघ्नं नतवान्मुदा । धन्योऽस्मि कृतकृत्योऽस्मि सत्कृतं च कृतं वपुः ५८ इदं राज्यं गृहाणाऽऽशु महाराजोपशोभितम् । महामाणिक्यमुक्तादिमहाधनसुपूरितम् ॥ स्वामिश्चिरं प्रतीक्षेऽहं हयस्याऽऽगमनं प्रति । कामाक्षाकथितं पूर्व जातं संप्रति तन्महत् ॥ ६ विलोकय पुरीं मह्यं कृतार्थीकुरु मानवान् । पावयास्मत्कुलं सर्व रामानुज महीपते ।। ६१ इत्युक्त्वाऽऽरोपयामास कुञ्जरं चन्द्रसुप्रभम् । पुष्कलं च महावीरं तथा स्वयमथाऽऽरुहत् ॥ ६२ भेरीपणवतूर्याणां वीणादीनां स्वनस्तदा । व्यामोति स्म महाराज सुमदेन प्रणोदितः ॥ ६३ कन्याः समागत्य महानरेन्द्रं शत्रुघ्नमिन्द्रादिकसेविताघ्रिम् । करिस्थिता मौक्तिकवृन्दसंधैर्वर्धापयामासुरिनप्रयुक्ताः॥ ६४ शनैः शनैः समागत्य पुरीमध्ये जनैर्मुदा । वर्धापितो गृहं प्राप तोरणादिकभूषितम् ।। हयरत्नेन संयुक्तस्तथा वीरैः सुशोभितः । राज्ञा पुरस्कृतो राजा शत्रुघ्नः पाप मन्दिरम् ॥ ६६ अादिभिः पूजयित्वा रघुनाथानुजं मुदा । सर्व समर्पयामास रामचन्द्राय धीमते ॥ इति श्रीमहापुराणे पाने पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे शत्रुनाहिच्छत्रापुरीप्रवेशो नाम त्रयोदशोऽध्यायः॥ १३॥ आदितः श्लोकानां समयकाः-११५६३ ६५ ६७ अथ चतुर्दशोऽध्यायः । - शेष उवाच--- अथ स्वागतसंतुष्टुं शत्रुघ्नं पाह भूमिपः । रघुनाथका श्रेष्ठां शुश्रूषुः पुरुषर्षभः ।। सुमद उवाच- कञ्चिदास्ते सुखं रामः सर्वलोकशिरोमणिः । भक्तरक्षावतारोऽयं ममानुग्रहकारकः ॥ धन्या लोका इमे पुर्या रघुनाथमुखाम्बुजम् । येऽनिशं पपुरेवाक्ष्णां पुटकैः परिमोदिताः ॥ १ ख. ग. छ. ठ. . ण थ. द. घ.सुभटैः । २ क. ख. ग. घ. ङ. च. ज. स. स. स. उ. इ. द. ग. त. य. द. घ, 'राः । आशीर्वदन्ति ते भू । ३ क. अ. र स तथाऽनम' । ४ त. 'रीमृदातू । २ ४ ५ ६ ८ ९ १४ चतुर्दशोऽध्यायः ] पमपुराणम् । अथ जातं मदीयं च नितरां पुरुषर्षभ । कृतार्थ कुलभूम्यादिवस्तुजातं महामते ॥ कामाक्षया प्रसादो मे कृतः पूर्व दयार्द्रया । रघुनाथमुखाम्भोज द्रक्ष्येऽद्य सकुटुम्बकः ॥ इत्युक्तवति वीरे तु सुमदे पार्थिवोत्तमे । सर्व तत्कथयामास रघुनाथगुणोदयम् ॥ त्रिरात्र तत्र वै स्थित्वा रघुनाथानुजः परम् । गन्तुं चकार धिषणां राज्ञा सह महामतिः तज्ज्ञात्वा सुमदः शीघं पुत्रं राज्येऽभ्यषेचयत् । शत्रुघ्नन महाराज्ञा पुष्कलेनानुमोदितः ॥ वासांसि बहुरत्नानि धनानि विविधानि च । शत्रुघ्नसेवकेभ्योऽसौ प्रादात्तत्र महामतिः ॥ ततो गमनमारेभे मन्त्रिभिर्बहुवित्तमैः । पत्तिभिर्वा जिभि गैः सदश्वै रथकोटिभिः॥ १० शत्रुघ्नः सहितस्तेन सुमदेन धनुर्भूता । जगाम मार्गे विहसरघुनाथप्रतापभृत् ।। ११ पयोष्णीतीरमासाद्य जगाम सहसोत्तमः । पृष्ठतोऽनुययुः सर्वे योधा वैरिप्रहारिणः ॥ १२ आश्रमान्विविधान्पश्यनृषीणां सुतपोभृताम् । तत्र तत्र विशृण्वानो रघुनाथगुणोदयम् ॥ एष धीमान्हरिर्याति हरिणा परिरक्षितः । हरिभिर्हरिभक्तैश्च हरिवर्यानुगैर्मुहुः ॥ १४ इति शृण्वशुभा वाचो मुनीनां परितः प्रभुः । तुतोष भक्त्युत्कलितचित्तवृत्तिभृतां महान्।। १५ ददर्श चाऽऽश्रमं शुद्धं द्विजजन्तुसमाकुलम् । वेदध्वनिहताशेषामङ्गलं शृण्वतां नृणाम् ॥ १६ अग्निहोत्रहविधूमपवित्रितनभोखिलम् । मुनिवर्यकृतानेकयागयूपसुशोभितम् ॥ यत्र गावस्तु हरिणा पाल्यन्ते पालनोचिताः। मूषका न खनन्त्यस्मिन्बिडालस्याभयाद्विलम् १८ मयूरैर्नकुलैः सार्धे कीडन्ति फणिनोऽनिशम् । गजैः सिंहैनित्यमत्र स्थीयते मित्रता गतैः ॥ १९ एणास्तत्रत्यनीवारभक्षणेषु कृतादराः । न भयं कुर्वते कालाद्रक्षिता मुनिन्दकैः ॥ गावः कुम्भसमोधस्का नन्दिनीसमविग्रहाः । कुर्वन्ति चरणोत्थेन रजसेलां पवित्रिताम् ॥ २१ मुनिवर्यैः समित्पाणिपर्धर्मक्रियोचिताम् । दृष्ट्वा पप्रच्छ सुमतिं सर्वहं राममन्त्रिणम् ॥ शत्रुघ्न उवाच- सुमते कस्य संस्थानं मुनेर्भाति पुरोगतम् । निर्वैरजन्तुसंसेव्यं मुनिवृन्दसमाकुलम् ।। २३ श्रोष्यामि मुनिवार्ता च विदधामि पवित्रितम् । निजं वपुस्तदीयाभिर्वार्ताभिर्वर्णनादिभिः॥ २४ इति श्रुत्वा महद्वाक्यं शत्रुघ्नस्य महात्मनः । कथयामास सचिवो रघुनाथस्य धीमतः ॥ २५ सुमतिरुवाच- च्यवनस्साऽऽश्रमं विद्धि महातापसशोभितम् । निर्वैरजन्तुसंकीर्ण मुनिपत्नीभिरावृतम् ।। २६ • योऽसौ महामुनिः स्वर्गवैद्ययोर्भागमादधात् । स्वायंभुवमहायज्ञे शक्रमानविभेदनः ॥ महामुनेः प्रभावोऽयं न केनापि समाप्यते । तपोबलसमृद्धस्य वेदमूर्तिधरस्य तु ।। २८ श्रुत्वा रामानुजो वार्ता च्यवनस्य महात्मनः । सर्व पप्रच्छ सुमतिं शक्रमानादिभञ्जनम् ॥ २९ शत्रुघ्न उवाच- कदाऽसौ दस्रयोर्भागं चकार सुरपङ्क्तिषु । किं कृतं देवराजेन स्वायंभुवमहामखे ॥ ३० सुमतिरुवाच- ब्रह्मवंशेऽतिविख्यातो मुनि गुरिति श्रुतः । कदाचिद्गतवान्सायं समिदाहरणं प्रति ॥ १ ज. द. अर्थजा । २ क. ख. ग. छ. ज. अ. ड. ण त थ.ध. विचक्षाणो। ३ क. स्व. ग. छ. ज. अ. ठ. प. प. रिहर्मु । ४ ग. छ. ठ. उ. ध. दर्शाऽऽश्रममुद्धर्ष जनज । ख. ज. प. दर्शाऽऽश्रमं शुद्धार्षजनज'। ५ ख. ग. छ. ज. ट. . त. थ.ध. °भिमानना। २० . . ४५४ महामुनिश्रीव्यासप्रणीतं- [४. पातालखण्ड- तदा मखविनाशाय दमनो राक्षसो बली । आगत्योचैर्जगादेदं महाभयकर बचः ॥ ३२ कुत्रास्ति मुनिबन्धुः स कुत्र तन्महिलाऽनघा । पुनः पुनरुवाचेदं वचो रोषसमाकुलः ॥ तदा हुतवहो ज्ञात्वा राक्षसाद्भयमागतम् । दर्शयामास तज्जायामन्तर्वत्नीमनिन्दिताम् ॥ जग्राह राक्षसस्तां तु रुदती कुररीमिव । भृगो रक्ष पते रक्ष रक्ष नाथ तपोनिधे ॥ एवं वदन्तीमाः स गृहीत्वा निरगादहिः । दुष्टवाक्यवादेन धर्षयन्स भृगोः सतीम् ॥ ३६ ततो महाभयत्रस्तो गर्भश्चोदरमध्यतः । पपात प्रज्वलनेत्रो वैश्वानर इवाङ्गजः ।। तेनोक्तं मा व्रजस्वाऽऽशु त्वं भस्मीभव दुर्मते। न हि साध्वीपरामर्श कृत्वा श्रेयोऽभियास्यसि ३८ इत्युक्तः स पपाताऽऽशु भस्मीभूतकलेवरः। माता तदाऽर्भकं नीत्वा जगामाऽऽश्रममुन्मनाः ॥ ३९ भूगर्वह्निकृतं सर्व ज्ञात्वा कोपसमाकुलः । शशाप सर्वभक्षस्त्वं भव दुष्टारिसूचक ॥ तदा शप्तोऽतिदुःखा? जग्राहाळया शुक्षणिः। कुरु मेऽनुग्रहं स्वामिन्कृपार्णव महामते ॥ ४१ मयाऽनृतवचोभीत्या कथितं न गुरुगुहा । तस्मान्ममोपरि कृपां कुरु मिशिरोमणे ॥ तदाऽनुग्रहमायत्त सर्वभक्ष्यो भवाञ्शुचिः । इत्युक्तवान्हुतभु दयाो मुनितापसः ।। ४३ गर्भाच्युतस्य पुत्रस्य जातकर्मादिकं शुचिः । चकार विधिवद्विमो दर्भपाणिः सुमङ्गलः ।। च्यवनाच्यवनं पाहुः सर्वे तत्र तपस्विनः । शनैः शनैः स वधे शुक्लपतिपदिन्दुवत् ॥ स जगाम तपः कर्तुं रेवां लोकैकपावनीम् । शिष्यैः परिवृतः सर्वैस्तपोबलसमन्वितैः । गत्वा तत्र तपस्तेपे वर्षाणामयुतं महान् । अंसयोः किंशुको जातौ वल्मीकोपरि शोभितौ ॥ ४७ मृगा आगत्य तस्याङ्गे कण्डूं विदधुरुत्सुकाः । न किंचित्स ह जानाति दुर्निवारतया दृढः॥ १८ कदाचिन्मनुरुधुक्तस्तीर्थयात्रां प्रति प्रभुः । सकुटुम्बो ययौ रेवां महाबलसमावृतः ॥ तत्र स्नात्वा महानद्या संतर्य पितृदेवताः । दानानि वाडवेभ्यश्च पादाद्विष्णुप्रतुष्टये ।। तत्कन्या विचरन्ती सा वनमध्य इतस्ततः । सखिभिः सहिता रम्या तप्तहाटकभूषणा । तत्र दृष्ट्वाऽथ वल्मीकं महा तरुसुशोभितम् । निमेषोन्मेषरहितं तेजः किंतु ददर्श सा ।। ५२ गत्वा तत्र शलाकाभिरतुदद्रुधिरं स्रवत् । दृष्ट्वा राज्ञोऽाजा खेदं प्राप्तवत्यथ दुःखिता ॥ न जनन्यै तथा पित्रे शशंसाधेन विप्लुता । स्वयमेवाऽऽत्मनाऽऽत्मानं शुशोच सा भयातुरा ५४ तदा भूचलिता राजन्दिवश्वोल्का पपात ह । धूम्रा दिशोऽभवन्सर्वाः सूर्यश्च परिवेषितः ॥ ५५ तदा राज्ञो हया नष्टा हस्तिनो बहवो मृताः। धनं रत्नयुतं नष्टं कलहोऽभून्मियस्तदा ॥ ५६ तदालोक्य नृपो भीतः किंचिदुद्विग्नमानसः । जनानपृच्छत्केनापि मुनये त्वपराधितम् ॥ ५७ पारंपर्येण तज्ज्ञात्वा स्वपुत्र्याः परिचेष्टितम् । ययौ स दुःखितस्तत्र समृद्धबलवाहनः ॥ ५८ तं वै तपोनिधि वीक्ष्य महता तपसा युतम् । स्तुत्वा प्रसादयामास मुनिवर्य दयां कुरु ॥ तस्मै तुष्टो जगादायं मुनिवर्यो महातपाः । तवाऽऽत्मजाकृतं सर्वमुत्पाताधमवेहि तत् ।। तव पुत्र्या महाराज चक्षुर्विस्फोटनं कृतम् । बहु सुस्राव रुधिरं जानती त्वामुवाच न । तस्मादियं महाभूप मयं देया यथाविधि । ततश्चोत्पातशमनं भविष्यति सुरार्चित ॥ ६२ तच्छ्रुत्वा दुःखितो राजा प्रज्ञाचक्षुष आत्मजाम् । ददौ कुलवयोरूपशीललक्षणसंयुताम् ॥ ६३ * संधिरार्षः। १ ख. ग. छ. उ. इ. स. प. द. प. प्रहारेण ध। १ क. ख. ग. छ. ज. ठ. . . स. प. प. योऽधिगच्छति। है। म. द. योऽधिगच्छसि । ३ ग. ह. महत् । ४९ १५ पञ्चदशोऽध्यायः ] पद्मपुराणम् । दत्ता यदा नृपेणैवं कन्या कमललोचना । तदोत्पाताः शमं याताः सर्वे मुनिरुषोद्गताः ॥ ६४ राजा दत्त्वाऽऽत्मजा तस्मै मुनये तपसां निधे । पाप स्वां नगरी भूयो दुःखितो दयया पुनः ६५ इति श्रीमहापुराणे पाने पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेथे च्यवनोपाख्यानं नाम चतुर्दशोऽध्यायः ॥ १४ ॥ आदितः श्लोकानां समष्ट्यङ्काः-११६२८ अथ पश्चदशोऽध्यायः । २ ३ ४ ५ w ८ ९ मुमतिरुवाच- अर्षिः स्वाश्रमगतो मानव्या सह भार्यया । मुदं पाप हताशेषपातको योगयुक्तया ।। सा मानवी तं परमात्मनः पति नेत्रेण हीनं जरसा गतौजसम् । सिषेव एनं हरिमेधसोत्तमं निजेष्टदात्री कुलदेवतां यथा ॥ *शुश्रूषती तं पतिमिङ्गितज्ञा महानुभावं तपसां निधिं प्रियम् । परां मुदं पाप सती मनोहरा शची यथा शक्रनिषेवणोद्यता ॥ चरणौ सेवते तन्वी सर्वलक्षणलक्षिता । राजपुत्री सुन्दराङ्गी फलमूलोदकाशना ॥ नित्यं तद्वाक्यकरणे तत्परा पूजने रता। कालक्षेपं च कुरुते सर्वभूतहिते रता ॥ विसृज्य कामदम्भं च द्वेष लोभं भयं मदम् । अप्रमत्तोद्यता नित्यं च्यवनं समतोषयत् ॥ एवं तस्य प्रकुर्वाणा सेवां वाकायकर्मभिः । सहस्राब्दं महाराज सा च कामं मनस्यधात् ॥ ७ कदाचिद्देवभिषजावागतावाश्रमे मुनेः । स्वागतेन सुसंभाव्य तयोः पूजां चकार सा ।। शर्यातिकन्याकृतपूजनार्यपाद्यादिना तोषितचित्तवृत्ती । ताबूचतुः स्नेहवशेन सुन्दरौ वरं वृणीष्वेति मनोहराङ्गीम् ।। तुष्टौ तौ वीक्ष्य भिषजौ देवानां वरयाचने । मतिं चकार नृपतेः पुत्री मतिमतां वरा ॥ पत्यभिमायमालक्ष्य तावुवाच नृपात्मजा । दत्तं मे चक्षुषी पत्युर्यदि तुष्टौ युवां सुरौ ॥ इत्येतद्वचनं श्रुत्वा सुकन्याया मनोहरम् । सतीत्वं च विलोक्येदमूचतुभिषजां वरौ॥ १२ त्वत्पतिर्यदि देवानां भागं यज्ञे दधात्यसौ । आवयोरधुना कुर्वश्चक्षुषोः स्फुटदर्शनम् ॥ च्यवनोऽप्योमिति माह भागदाने वरौजसोः । तदा दृष्टावश्विनौ तमूचतुस्तपतां वरम् ॥ १४ निमज्जतां भवानस्मिन्हदे सिद्धविनिर्मिते । इत्युक्तो जरया ग्रस्तदेहो धमनिसंततः ॥ १५ इदं प्रवेशितोऽश्विभ्यां स्वयं चामजतां इदे । पुरुषास्त्रय उत्तस्थुरपीच्या वनिताप्रियाः ॥ १६ रुक्मस्रजः कुण्डलिनस्तुल्यरूपाः सुवाससः । ताभिरीक्ष्य वरारोहा सुरूपान्सूर्यवर्चसः॥ १७ अजानती पतिं साध्वी बश्विनौ शरणं ययौ । दर्शयित्वा पति तस्यै पातिव्रत्येन तोषितौ ॥१८ ऋषिमामन्त्र्य ययतुर्विमानेन त्रिविष्टपम् । यक्ष्यमाणे कतौ स्वीयभागकार्याशया युतौ ।। कालेन भूयसा क्षामा कर्शितां व्रतचर्यया । प्रेमगद्गदया वाचा पीडितः कृपयाऽब्रवीत् ।। तुष्टोऽहमद्य तव मानिनि मानदायाः शुश्रूषया परमया हृदि चैकभक्त्या । यो देहिनामयमतीव सुहृत्सुदेहो नाऽऽवेक्षितः समुचितः क्षपितुं मदर्थे । २१ * शुश्रूषमाणेति तु युतम् । १० ११ २० १. मेधितौजसं नि'। २ क. ख. ग. छ. ज. म. ट. ह. ण. त. य. ध. निजं पतिं मालदेवता य ।
२२ २४ २५ २८ महामुनिश्रीव्यासप्रणीतं- [४ पातालखण्डे- ये मे स्वधर्मनिरतस्य तपासमाधिविद्यात्मयोगविजिता भगवत्मसादाः। तानेव ते मदनुसेवनयाऽविरुद्धान्दृष्टिं प्रपश्य वितराम्यभयानशोकान् ।। अन्ये पुनर्भगवतो ध्रुव उद्विजृम्भविश्रंसितार्थरचिताः किमुरुक्रमस्य । सिद्धाऽसि भुइक्ष्व विभवानिजधर्मदोहान्दिव्यानरानधिगमानुपविक्रियाभिः २३ एवं ब्रुवाणमबलाऽखिलयोगमाया विद्याविचक्षणमवेक्ष्य गताधिरासीत् । संप्रश्रयप्रणयविहलया गिरेषज्रीडाविलोकविलसद्धसिता तमाह ॥ मुकन्योवाच- राद्धं बत्त द्विजवृषेतदमोघयोगमायाधिपे खयि विभो तदवमि भर्तः । यस्तेऽभ्यधायि समयः सकृदङ्गसङ्गो भूयाद्वरीयसि गुणप्रसवः सतीनाम् ।। तत्रेति कृत्यमुपशिक्ष्य यथोपदेशं येनैष कर्शिततमोऽतिरिरंसयाऽऽत्मा । सिध्येत ते कृतमनोभवर्षिताया दीनस्तदीश भवनं सदृशं विचक्ष्व ।। सुमतिवाच- प्रियायाः प्रियमन्विच्छंश्च्यवनो योगमास्थितः । विमानं कामदं राजस्तद्देवाऽऽविरचीकरत् ।।२७ सर्वकामदुर्घ दिव्यं सर्वरत्नसमन्वितम् । सर्वर्युपचयोदकं मणिस्तम्भैरुपस्कृतम् ॥ दिव्योपस्तरणोपेतं सर्वकालसुखावहम् । पट्टिकाभिः पताकाभिर्विचित्राभिरलंकृतम् ॥ २९ स्रग्भिर्विचित्रमालाभिर्म सिञ्जत्पडद्धिभिः । दुकूलक्षोमकौशेयैर्नानावविराजितम् ।। [उपर्युपरि विन्यस्तनिलयेषु पृथक्पृथक् । कृप्तैः कशिपुभिः क्रान्तं पर्यव्यजनादिभिः] ॥ ३१ तत्र तत्र विनिक्षिप्तनानाशिल्पोपशोभितम् । महामरकतस्थल्या जुष्टं विद्रुमवेदिभिः ॥ द्वाःसु विद्रुमदेहल्या भातं वज्रकपाटिकम् । शिखरेष्विन्द्रनीलेषु हेमकुम्भैरधिश्रितम् ॥ चक्षुष्मत्पनरागाध्यैर्वजभित्तिषु निर्मितैः । जुष्टं विचित्रवैतानैर्मुक्ताहारावलम्वितैः ।। हंसपारावतवातैस्तत्र तत्र विकूजितम् । कृत्रिमान्मन्यमानस्तानविरुह्यावरुह्य च ॥ ३५ विहारस्थानविश्रामसंवेशपाङ्गणाजिरैः । यथोपजोषं रचितैर्विस्मापनमिवाऽऽत्मनः ॥ ईदृग्गृहं प्रपश्यन्ती नातिप्रीतेन चेतसा । सर्वभूताशयाभिज्ञः प्रोवाच वचनं स्वयम् ॥ निमज्ज्यास्मिन्द्रदे भीरु विमानमिदमारुह । ['सा तु भर्तुः समादाय वचः कुवलयेक्षणा ॥ ३८ सरजो विभ्रती वासो वेणीभूतांश्च मूर्धजान् । ] अङ्गं च मलपङ्केन संछन्नं शबलस्तनम् ॥ आविवेश सरस्तत्र मुदा शिवजलाशयम् । साऽन्तःसरसि वेश्मस्थाः शतानि दश कन्यकाः ४० सर्वाः किशोरवयसो ददर्शोत्पलगन्धयः । ता दृष्ट्वा सहसोत्थाय प्रोचुः प्राञ्जलयः स्त्रियः ॥ ४१ वयं कर्मकरास्तुभ्यं शाधि नः करवाम किम् । स्नानेन तां महार्हेण स्नापयित्वा मनस्विनीम् ॥४२ दुकूले निर्मले नूत्ने ददुरस्यै च मानद । भूषणानि पराानि वरीयांसि घुमन्ति च ॥ अनं सर्वगुणोपेतं पानं चैवामृतासवम् । अथाऽऽदर्श स्वमात्मानं स्रग्विणं विरजोम्बरम् ॥ ४४ ताभिः कृतस्वस्त्ययनं कन्याभिर्बहुमानितम् । हारेण च महाईण रुचकेन विभूषितम् ।। ४५ निष्कग्रीवं वलयिनं कूजत्काञ्चननूपुरम् । श्रोण्योरध्यस्तया काध्या काश्चन्या बहुरत्नया ॥ ४६ * एतचिहान्तर्गतः पाठः क. ख. ग. छ. ज. म. ठ. उ. प. त. थ. द. घ. पुस्तकस्थः । + एतचिहान्तर्गतः पाठः क. ख ग. छ. ज. प. उ. प. न. थ. द. ध. पुस्तकस्थः । १४. त.न्ती नीति । २ ग. द. पराया॑णि । ३२ ३४ २६ षोडशोऽध्यायः] पद्मपुराणम् । सुध्रुवा मुदता शुक्लस्निग्धापाङ्गेन चक्षुषा । पद्मकोशस्पृधा(हाः)लीनैरलकैश्च लसन्मुखम् ॥ यदा सस्मार दयितमृषीणां वल्लभं पतिम् । तत्र चाऽऽस्ते सह स्त्रीभिर्यत्राऽऽस्ते स मुनीश्वरः ४८ भर्तुः पुरस्तादात्मानं स्त्रीसहस्रवृतं तदा । निशम्य तयोगगतिं संशयं प्रत्यपद्यत ॥ स तां कृतमलस्नानां विभ्राजन्तीमपूर्ववत् । आत्मनो विभ्रती रूपं संवीतरुचिरस्तनीम् ॥ ५० विद्याधरीसहस्रेण सेव्यमानां सुवाससम् । जातभावो विमानं तदारोपयदमित्रहन् । तस्मिन्नलुप्तमहिमा प्रिययाऽऽनुषक्तो विद्याधरीभिरुपचीर्णवपुर्विमाने । बभ्राज उत्कंचकुमुद्गणवानपीच्यस्ताराभिरावृत इवोडपतिर्नभस्थः ।। तेनाष्टलोकपविहारकुलाचलेन्द्रद्रोणीष्वनङ्गसखमारुतसौभगासु । सिद्धै तो द्युधुनिपातशिवस्वनासु रेमे चिरं धनदवल्ललनावरुथी ॥ वैश्रम्भके सुरवने नन्दने पुष्पभद्रके । मानसे चैत्ररथ्ये च स रेमे रामया रतः ॥ ५४ इति श्रीमहापुराणे पाझे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे च्यवनस्य तपोभोगवर्णनं नाम पश्चदशोऽध्यायः॥१५॥ आदितः श्लोकानां समष्ट्यङ्काः-११६८२ अथ षोडशोऽध्यायः । - or o mo so v w IN सुमतिरुवाच- एवं तया क्रीडमानः सर्वत्र धरणीतले । नावुध्यत गतानब्दाशतसंख्यापरिमितान् ।। ततो ज्ञात्वाऽथ तद्विपः स्वकालपरिवर्तिनीम् । मनोरथेन पूर्णा च स्वस्य प्रियतमा वराम् ।। न्यवर्तताऽऽश्रमं श्रेष्ठं पयोष्ण्यास्तीरसंस्थितम् । निर्वैरजन्तुजनतासंकुलं मृगसेवितम् ।। तत्रावसत्स सुतपाः शिष्यैर्वेदसमन्वितैः । सेविताघ्रियुगो नित्यं तताप परमं तपः ॥ कदाचिदथ शर्यातियष्टुमैच्छत देवताः । तदा च्यवनमानेतुं प्रेपयामास सेवकान् ।। तैराहूतो द्विजवरस्तदाऽगच्छन्महातपाः । सुकन्यया धर्मपत्न्या स्वाचारपरिनिष्ठया ॥ आगतं तं मुनिवरं पत्न्या सह महायशाः । ददर्श दुहितुः पार्वे पुरुपं सूर्यवर्चसम् ॥ राजा दुहितरं प्राह कृतपादाभिवन्दनाम् । आशिषो न प्रयुञ्जानो नातिप्रीतमना इव ।। चिकीर्षितं ते किमिदं पतिस्त्वया प्रलम्भितो लोकनमस्कृतो मुनिः। या त्वं जराग्रस्तमसंमतं पतिं विहाय जारं भजसेऽमुमध्वगम् कथं मतिस्तेऽवगताऽन्यथा सतां कुलप्रसूतेः कुलदूपणं त्विदम् । विभार्षि जारं यदपत्रपा कुलं पितुः स्वभर्तुश्च नयस्यधस्तमाम् ।। एवं ब्रुवाणं पितरं स्मयमाना शुचिस्मिता । उवाच तात जामाता तवैप भृगुनन्दनः ॥ शशंस पित्रे तत्सर्व वयोरूपाभिलम्भनम् । विस्मितः परमप्रीतस्तनयां परिषस्वजे ॥ १२ सोमेनायाजयद्वीरं ग्रहं सोमस्य चाग्रहीत् । असोमपोरप्यश्विनोश्च्यवनः स्वेन तेजसा । १३ मुहं तु ग्राहयामास तपोबलसमन्वितः । वज्रं गृहीत्वा शक्रस्तु हन्तुं ब्राह्मणसत्तमम् ॥ अपङ्क्तिपावनौ देवौ कुर्वाणं पङ्क्तिगोचरौ । शक्रं वज्रधरं दृष्ट्वा मुनिः स्वहननोद्यतम् ॥ १५ हुंकारमकरोद्धीमास्तम्भयामास तद्भुजम् । इन्द्रस्तब्धभुजस्तत्र दृष्टः सर्वैश्व मानवैः ॥ १६ १ क. ख. ग. छ. ज. ठ. ड. त. थ. ध. कटकु। २ क. ख. ज. अ. प. त. थ. द. शेष उवाच । ३ ज. पुत्र्या। ९ १० ११ ८.
४५८ २० २२ - २७ महामुनिश्रीव्यासमणी- [ ४ पातालखण्डे- कोपेन श्वसमानोऽहिर्यथा मन्त्रनियन्त्रितः। तुष्टाव स मुनि शक्रः स्तब्धबाहुस्तपोनिधिम् ॥ १७ अश्विभ्यां भागमादानं कुर्वन्तं निर्भयान्तरम् । कथयामास भोः स्वामिन्दीयतामश्विनीलिः ॥ मया न वार्यते तात क्षमस्वायं मया कृतम् । इत्युक्तः स मुनिः कोपं जहौ तूर्ण कृपानिधिः॥१९ इन्द्रो मुक्तभुजस्त्वासीत्तदानीं पुरुषर्षभ । एतद्वीक्ष्य जनाः सर्वे कौतुकाविष्टमानसाः ॥ शशंसुर्ब्राह्मणानां तु बलं देवादिदुर्लभम् । ततो राजा बहुधनं ब्राह्मणेभ्यो ददन्महान् ॥ २१ चक्रे चावभृथस्नानं यागान्ते शत्रुतापनः । त्वया पृष्टं यदाचक्ष्व च्यवनस्य महोदयम् ॥ स मया कथितः सर्वस्तपोयोगसमन्वितः । नमस्कृत्वा तपोमूर्तिमेनं प्राप्य जयाशिषः ॥ प्रेषय त्वं सपत्नीकं रामयज्ञे मनोरमे ॥ २४ शेष उवाच- एवं तु कुर्वतो वार्ता हयः मापाऽऽश्रमं प्रति । विदधद्वायुवेगेन पृथ्वी खुरविलक्षिताम् ॥ २५ दूर्वाकुरान्मुखाग्रेण चरंस्तत्र महाश्रमे । मुनयो यावदादाय दर्भान्सा गता नदीम् ॥ २६ शत्रुघ्नः शत्रुसेनायास्तापनः शूरसंमतः । तावत्माप मुनेर्वासं च्यवनस्याधिशोभितम् ।। गत्वा तदाश्रमे वीरो ददर्श च्यवनं मुनिम् । सुकन्यायाः समीपस्थं तपोमूर्तिमिव स्थिम् ॥ २८ ववन्दे चरणौ तस्य स्वाभियां समुदाहरन् । शत्रुघ्नोऽहं रघुपतेर्धाता वाहस्य पालकः ।। नमस्करोमि युष्मभ्यं महापापोपशान्तये । इति वाक्यं समाकर्ण्य जगाद मुनिसत्तमः ।। शत्रुघ्न तव कल्याणं भूयान्नरवरर्षभ । यज्ञं पालयमानस्य कीर्तिस्ते विपुला भवेत् ॥ ३१ चित्रं पश्यत भो विमा रामोऽपि मखकारकः । यन्नामस्मरणादीनि कुर्वन्ति पापनाशनम् ॥ ३२ महापातकसंयुक्ताः परदाररता नराः। यत्रामस्मरणे युक्ता मुदा यान्ति परां गतिम् ॥ ३३ पादपद्मसमुत्थेन रेणुना ग्रावमूर्तिभृत् । तत्क्षणाद्गौतमार्धाङ्गी जाता मोहनरूपधृत् ॥ मामकी यस्य रूपस्य ध्यानेन प्रेमनिर्भरा । सर्वपातकराशिं सा दग्ध्वा प्राप्ता खरूपताम् ॥ ३५ दैत्या यस्य मनोहारि रूपं प्रधनमण्डले । पश्यन्तः प्रापुरेतस्य रूपं विकृतिवर्जितम् ॥ योगिनो ध्याननिष्ठासु यं ध्यात्वा योगमास्थिताः । संसारभयनिर्मुक्ताः प्रयाताः परमं पदम् ३७ धन्योऽहमय रामस्य मुखं द्रक्ष्यामि शोभनम् । पयोदजलनेत्रान्तं सुनासं सुभ्र संनतम् ॥ ३८ सा जिता रघुनाथस्य नामकीर्तनमादरात् । करोति विपरीता या फणिनो रसनासमा । अद्य प्राप्तं तपःपुण्यमद्य पूर्णा मनोरथाः। यद्रक्ष्ये रामचन्द्रस्य मुखं ब्रह्मादिदुर्लभम् ॥ तत्पादरेणुना स्वाङ्गं पवित्रं विदधाम्यहम् । विचित्रतरवार्ताभिः पावये रसनां स्वकाम् ॥ इत्यादि रामचरणस्मरणप्रबुद्धप्रेमवजप्रसृतगद्गदवागुदश्रु । श्रीरामचन्द्र रघुपुंगव धर्ममूर्ते भक्तानुकम्पक समुद्धर संमृतेर्माम् ।। जल्पनश्रुकलापूर्णो मुनीनां पुरतस्तदा । नाऽऽज्ञासीत्तत्र पारक्यं निजध्यानेन संस्थितः ॥ ४३ शत्रुघ्नस्तं मुनि प्राह खामिन्नो मखसत्तमः । क्रियतां भवता पादरजसा सुपवित्रितः ॥ महद्भाग्यं रघुपतेर्ययुष्मन्मानसान्तरे । तिष्ठत्यसौ महाबाहुः सर्वलोकैकपूजितः ।। ४५ इत्युक्तः सपरीवारः सर्वामिपरिसंवृतः । जगाम च्यवनस्तत्र प्रमोदप्लवसंप्लुतः ॥ ४६ हनूमांस्तं पदा यान्तं रामभक्तमवेक्ष्य च । शत्रुघ्नं निजगादासौ वचो विनयसंयुतः ॥ १ द. नोर्महः । म । २ क. ख. ग. छ. ज. म. ठ. ड. ण. त. थ. ध. रवैरिणाम् । ता । ३ क. ख. ग. च. छ. ज. अ. ठ. ह. ढ. ण त. थ. द. ध. रणोयुक्ता। ३४ ४१ ४४ ४७ -- ४८ १७ सप्तदशोऽध्यायः पद्मपुराणम् । स्वामिन्कथयसि त्वं चेन्महापुरुषसुन्दरम् । रामभक्तं मुनिवरं नयामि स्वपुरीमहम् ।। इति श्रुत्वा महद्वाक्यं कपिवीरस्य शत्रुहा । आदिदेश हनूमन्तं गच्छ प्रापय तं मुनिम् ॥ हनूमांस्तं मुनि स्वीये पृष्ठ आरोप्य वेगवान् । सकुटुम्ब निनायाऽऽशु वायुः ख इव सर्वगः ॥५० आगतं तं मुनिं दृष्ट्वा रामो मतिमतां वरः । अर्घ्यपाद्यादिकं चक्रे प्रीतः प्रणयविह्वलः ॥ धन्योऽस्मि मुनिवर्यस्य दर्शनेन तवाधुना । पवित्रितो मखो मह्यं सर्वसंभारसंवृतः ॥ ५२ इति वाक्यं समाकर्ण्य च्यवनो मुनिसत्तमः । उवाच प्रेमनिर्भिन्नपुलकाङ्गोऽतिनिर्वृतः ॥ स्वामिन्ब्रह्मण्यदेवस्य तव वाडवपूजनम् । युक्तमेव महाराज धर्ममार्गप्ररक्षितुः ॥ इति श्रीमहापुराणे पाझे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे च्यवनस्याऽऽश्रमे हयागमनं नाम षोडशोऽध्यायः॥१६॥ आदितः श्लोकानां समष्ट्यङ्काः-११७३६ अथ सप्तदशोऽध्यायः । १ २ ३ ४ ८ शेष उवाच- शत्रुघ्नश्च्यवनस्याथ दृष्ट्वाऽचिन्त्यं तपोबलम् । प्रशशंस तपो ब्राझं सर्वलोकैकवन्दितम् ॥ अहो पश्यत योगस्य सिद्धिाह्मणसत्तमे । यः क्षणादेव दुष्पापं सुविमानमचीकरत् ।। क भोगसिद्धिमहती मुनीनाममलात्मनाम् । क तपोवलहीनानां भोगेच्छा मनुजात्मनाम् ।। इति स्वगतमाशंसशत्रुघ्नश्च्यवनाश्रमे। क्षणं स्थित्वा जलं पीत्वा सुखसंभोगमाप्तवान् ।। हयस्तस्याः पयोष्ण्याख्यनद्याः पुण्यजलात्मनः । पयः पीत्वा ययौ मार्गे वायुवेगं पदं दधत् ॥५ योधास्तनिर्गमं दृष्ट्वा पृष्ठतोऽनुययुस्तदा । हस्तिभिः पत्तिभिः केचिद्रथैः केचन वाजिभिः॥ ६ शत्रुघ्नोऽमात्यवर्येण सुमत्याहेन संयुतः। पृष्ठतोऽनुजगामाऽऽशु रथेन हयशोभिना ॥ गच्छन्वाजी परं [माप्तो विमलाख्यस्य भूपतेः । रत्नातदाख्यं जनताहृष्टपुष्टसमाकुलम् ॥ स सेवकादुपश्रुत्य रघुनाथहयोत्तमम् । पुरान्तिके हि सं]प्राप्तं सर्वयोधसमन्वितम् ।। तदा गजानां सप्तत्या चन्द्रवर्णसमानया । अश्वानामयुतैः सार्धं स्थानां काञ्चनत्विषाम् ॥ १० सहस्रेण च संयुक्तः शत्रुघ्नं प्रति जग्मिवान् । शत्रुघ्नं स नमस्कृत्य सर्व पादान्महानृपः ॥ ११ वसुकोशं धनं सर्व राज्यं तस्मै निवेद्य च । किं करोमीति राजानं जगाद पुरतः स्थितः ॥ १२ राजाऽपि तं स्वीयपदे प्रणनं दोभ्या दृढं तं परिषस्वजे महान् । जगाम साकं तनये स्वराज्यं निक्षिप्य सर्व बहुधन्विभिर्वृतः ॥ १३ रामचन्द्राभिधां श्रुत्वा सर्वश्रुतिमनोहराम् । सर्वे प्रणम्य तं वाहं ददुर्वसु महाधनम् ।। १४ एवं स गच्छंस्तन्मार्गे पर्वताम्यं ददर्श ह । स्फाटिकैः कानकै रोप्यै राजितं प्रस्थराजिभिः॥१५ जलनिरसंहादनानाधातुकभूतलम् । गैरिकादिकसद्धानुराशिरकविराजितम् ॥ १६ वीणारणद्धंसशुककणसुन्दरशोभितम् । यत्र सिद्धाङ्गनाः सिद्धैः क्रीडन्त्यप्यकुतोभयाः॥ मन्धर्वाप्सरसो नागा यत्र क्रीडन्ति लीलया । गङ्गातरङ्गसंस्पर्शशीतवायुनिषेवितम् ।। पर्वतं वीक्ष्य शत्रुघ्न उवाच सुमतिं त्विदम् । तदर्शनसमुद्भूतविस्मयाविष्टमानसः ॥ १९ * एतचिहान्तर्गतः पाठः क. ख. ग. च. छ. ज. अ. ठ. इ. प. य. द. ध. पुस्तकस्थः । १ ग. ठ. ध. "रोऽस्मीति । २ द. तुलाधार'। १७ - २८ ४६० महामुनिश्रीव्यासप्रणीतं- [ ४ पातालखण्डे- कोऽयं गिरिर्महामत्रिन्विस्माययति मे मनः । महारजतप्रस्थाढ्यो मार्गे राजति मेऽद्भुतः ॥ २० अत्र किं देवतावासो देवानां क्रीडनस्थलम् । यदेतन्मनसः क्षोभं करोति श्रीसमुच्चयैः ॥ २१ इति वाक्यं समाकर्ण्य जगाद सुमतिस्तदा । वक्ष्यमाणगुणागाररामचन्द्रपदाजधीः ॥ २२ नीलोऽयं पर्वतो राजन्पुरतो भाति भूमिप । महाशृङ्गैर्मनोहारैः स्फाटिकाद्यैः समन्ततः॥ २३ एनं पश्यन्ति नो पापाः परदाररता नराः । विष्णोर्गुणगणान्ये वै न मन्यन्ते नराधमाः ॥ २४ श्रुतिस्मृतिसमुत्थं ये धर्म सद्भिः सुसाधितम् । न मन्यन्ते स्वबुद्धिस्थहेतुवादविचारिणः ॥ २५ नीलीविक्रयकर्तारो लाक्षाविक्रयकारकाः । यो ब्राह्मणो घृतादीनि विक्रीणाति सुरापकः ॥२६ कन्यां रूपेण संपन्नां न दद्यात्कुलशालिने । विक्रीणाति द्रव्यलोभात्पिता पापविमोहितः ॥२७ सतीं दूषयते यस्तु कुलशीलवती नरः । स्वयमेवात्ति मधुरं बन्धुभ्यो न ददाति यः ॥ मायावी ब्राह्मणार्थे च पाकभेदं करोति यः। कृशरां पायसं वाऽपि निजार्थे पाचयेत्कुधीः॥२९ अतिथीनवमन्यन्ते सूर्योहान्मुक्षुधादितान् । अन्तरिक्षभुजो ये च ये च विश्वासघातकाः ॥ ३० न पश्यन्ति महाराज रघुनाथपराङ्मुखाः । असौ पुण्यो गिरिवरः पुरुषोत्तमशोभितः ॥ ३१ पवित्रयति सर्वानो दर्शनेन मनोहरः । अत्र तिष्ठति देवानां मुकुटैरचिताधिकः ।। ३२ पुण्यवद्भिः सुदर्शार्हः पुण्यदः पुरुषोत्तमः । श्रुतयो नेति नेतीति ब्रुवाणा न विदन्ति यम् ॥ ३३ यत्पादरज इन्द्रादिदेवैर्मृग्यं सुदुर्लभम् । वेदान्तादिभिरन्यूनैर्वाक्यैर्विदन्ति यं बुधाः ।। सोऽत्र श्रीमान्महाशैले वसते पुरुषोत्तमः । आरुह्य तं नमस्कृत्य संपूज्य सुकृतादिना ॥ नैवेद्यं भक्षयित्वा वै भूप भूयाच्चतुर्भुजः । अत्राप्युदाहरन्तीममितिहासं पुरातनम् ॥ तं शृणुष्व महाराज सर्वाश्चर्यसमन्वितम् । रत्नग्रीवस्य नृपतेर्यद्वृत्तं सकुटुम्बिनः ॥ ३७ चतुर्भुजादिकं प्राप्तं देवदानवदुर्लभम् । आसीत्काची महाराज पुरी लोकेषु विश्रुता ॥ ३८ महाजनपरीवारसमृद्धबलवाहना । यस्यां वसन्ति विप्रायाः पदकर्मनिरता भृशम् सर्वभूतहिते युक्ता रामभक्तिषु लालसाः। क्षत्रिया रणकर्तारः संग्रामेऽप्यपलायिनः ॥ परदारपरद्रव्यपरद्रोहपराङ्मुखाः । वैश्याः कुसीदकृष्यादिवाणिज्यशुभवृत्तयः ।। कुर्वन्ति रघुनाथस्य पादाम्भोजे रतिं सदा । शूद्रा ब्राह्मणसेवाभिर्गतरात्रिदिना नराः॥ ४२ कुर्वन्ति कथनं रामरामेति रसनाग्रतः । प्राकृताः केऽपि नो पापं कुर्वन्ति मनसाऽत्र वै ।। दानं दया दमः सत्यं तत्र तिष्ठति नित्यशः । वदते न पराबाधं वाक्यं कोऽपि नरोऽनघ ॥४४ न पारक्ये धने लोभं कुर्वन्ति न हि पातकम् । एवं प्रजा महाराज रत्नग्रीवेण पाल्यते ॥ ४५ पष्ठांशं तत्र गृह्णाति नान्यं लोभविवर्जितः । एवं पालयमानस्य प्रजा धर्मेण भूपतेः ।। गतानि बहुवर्षाणि सर्वभोगविलासिनः । विशालाक्षी महाराज एकदा घुचिवानिदम् ॥ पतिव्रतां धर्मपत्नी पतिव्रतपरायणाम् । पुत्रा जाता विशालाक्षि प्रजारमाधुरंधराः ॥ ४८ परिवारो महान्मा [*वर्तते विगतज्वरः । हस्तिनो मम शैलाभा वाजिनः पवनोपमाः ॥ रथाश्च सुहयैर्युक्ता वर्तन्ते मम नित्यशः । महाविष्णुप्रसादेन किंचिन्यून ममास्ति न ॥ * एतचिह्नान्तर्गतः पाठः ख. ग. छ. ज अ. ठ. ड. ण. त. थ. द. ध. पुस्तकस्थः । १ ग. छ. ठ. ड. ध. अमायां । द. भोजने । २ द. 'पि नार्थिनं दापये। ३ ग. छ. ड. विदितमद्भुतम् । सो । ४ क. ख. ग. छ. ज. अ. ठ. ण. त. थ. ध. "हाराजो व। ५ ग. छ. ठ. ड. ध. ते जीवता देव । ६ ८. ध. हाराजन्परी'। द. °हाराजपं । ७ क. ग. च. ज. अ. ठ. ण. त. थ. द. घ. नघः । न । ८ ग. एता: । द. एषा । ९ ग. पालिताः । ॥
१७ सप्तदशोऽध्यायः ] पद्मपुराणम् । परं मनोरथस्त्वेकस्तिष्ठते मानसे मम । परं तीर्थ मया नाद्य ] कृतं परमशोभनम् ।। गर्भवासविरामाय क्षमं गोविन्दशोभितम् । वृद्धो जातोऽस्म्यहं तावदलीपलितदेहवान् ॥ करिष्यामि मनोहारितीर्थसेवनमादृतः । यो नरो जन्मपर्यन्तं स्वोदरस्य प्रपूरकः ॥ न करोति हरेः पूजां स नरो गोषः स्मृतः । तस्माद्गच्छामि भो भद्रे तीर्थयात्रां प्रति प्रिये ५४ सकुटुम्बः सुते न्यस्य धुरं राज्यस्य निर्भृताम् । इति व्यवस्य संध्यायां हरिं ध्यायन्निशान्तरे ५५ अद्राक्षीत्स्वममप्येकं ब्राह्मणं तापसं वरम् । प्रातरुत्थाय राजाऽसौ कृत्वा संध्यादिकाः क्रियाः। सभा मत्रिजनैः सार्धं सुखमासेदिवान्महान् । तावद्विषं ददर्शाथ तापसं कशदेहिनम् ॥ जटावल्कलकोपीनधारिणं दण्डपाणिनम् । अनेकतीर्थसेवाभिः कृतपुण्यकलेवरम् ।। ५८ राजा तं वीक्ष्य शिरसा प्रणनाम महाभुजः । अर्घ्यपाद्यादिकं चक्रे प्रहृष्टात्मा महीपतिः॥ ५९ मुखोपविष्टं विश्रान्तं पप्रच्छ विदितं द्विजम् । स्वामिंस्त्वदर्शनान्मेऽयं गतं देहस्य पातकम् ॥६० महान्तः कृपणान्पातुं यान्ति तद्नेहमादरात् । तस्मात्कथय भो विप्र वृद्धस्य मम संप्रति ॥ ६१ को देवो गर्भवाराय किं तीर्थ वा क्षमं भवेत् । यूयं सर्वगतिश्रेष्ठाः समाधिध्यानतत्पराः ॥ ६२ सर्वतीर्थावगाहेन कृतपुण्यात्मानोऽमलाः । यथावच्छृण्वते मह्यं श्रद्दधानाय विस्तरात् ॥ कथयस्व प्रसादेन सर्वतीर्थविचक्षण ॥ ब्राह्मण उवाच- शृणु राजेन्द्र वक्ष्यामि यत्पृष्टं तीर्थसेवनम् । कस्य देवस्य कृपया गर्भस्य वारणं भवेत् ॥ ६४ सेव्यः श्रीरामचन्द्रोऽसौ संसारज्वरनाशकः । पूज्यः स एव भगवान्पुरुषोत्तमसंज्ञितः ॥ ६५ पुर्यो नाना मया दृष्टाः सर्वपापक्षयावहाः । अयोध्या सरयूस्तापी तथा द्वारं हरेः परम् ॥ ६६ | अवन्ती विमला काञ्ची रेवा सागरगामिनी । गोकर्ण हाटकाख्यं च हत्याकोटिविनाशनम्॥६७ मल्लिकाख्यो महाशैलो मोक्षदः पश्यतां नृणाम् । यत्राङ्गेषु नृणां तोयं श्यामं वा निर्मलं भवेत् ॥ पातकस्यापहारीदं मया दृष्टं तु तीर्थकम् । मया द्वारवती दृष्टा सुरासुरनिषेविता ॥ गोमती यत्र वहति साक्षाह्मजला शुभा । यत्र स्वापो लयः प्रोक्तो मृतिर्मोक्ष इति श्रुतिः ॥७० यस्यां संवसतां नृणां न कलिः प्रभवेत्कचित् । चक्राङ्का यत्र पाषाणा मानवा अपि चक्रिणः ॥ पशवः कीटपक्ष्यायाः सर्वे चक्रशरीरिणः । त्रिविक्रमो वसेद्यस्यां सर्वलोकैकपालकः ॥ सा पुरी तु महापुण्यैर्मया दृग्गोचरीकृता । कुरुक्षेत्रं मया दृष्टं सर्वहत्यापनोदनम् ॥ स्यमन्तपञ्चकं यत्र महापातकनाशनम् । वाराणसी मया दृष्टा विश्वनाथकृतालया ।। यत्रोपदिशते मन्त्रं तारकं ब्रह्मसंज्ञितम् । यस्यां मृताः कीटपतङ्गभृङ्गाः पश्चादयो वाऽसुरयोनयो वा । स्वकर्मसंभोगसुखं विहाय गच्छन्ति कैलासमतीतदुःखाः ॥ मणिकर्णी यत्र तीर्थ यस्यामुत्तरवाहिनी । करोति संसृतेर्बन्धच्छेदं पापकृतामपि ॥ ७६ कपर्दिनः कुण्डलिनः सर्पभूषाधरा वराः । गजचर्मपरीधाना वसन्ति गतदुःखकाः ॥ कालभैरवनामाऽत्र करोति यमशासनम् । न करोति नृणां वार्ता यमो दण्डधरः प्रभुः॥ एतादृशी मया दृष्टा काशी विश्वेश्वराङ्किता । अनेकान्यपि तीर्थानि मया दृष्टानि भूमिप ॥ ७९ १ छ. द. महामतिः। २ क. ख. छ. ज. ठ. ड. प. त. थ. ध. °द्य कृतं देहस्य पावनम् । ३ क, ख. छ. अ. ७२ ७४. ७७ ७८ ठ. इ. त. थ. द. ध. कान्ती।
- - ४६२ महामुनिश्रीव्यासपणीत- [४ पातालखण्डे- परमकं महचित्रं यदृष्ट नीलपर्वते । पुरुषोत्तमसांनिध्ये तन काप्यक्षिगोचरम् ॥ ८० इति श्रीमहापुराणे पाने पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे ब्राह्मणसमागमनं नाम सप्तदशोऽध्यायः ॥ १७ ॥ आदितः श्लोकानां समष्ट्यङ्काः-११८१६ अथाष्टादशोऽध्यायः । ब्राह्मण उवाच- २ ३ राजस्त्वं शृणु यवृत्तं नीले पर्वतसत्तमे । यच्छ्रद्दधानाः पुरुषा यान्ति ब्रह्म सनातनम् ॥ मया पर्यटता तत्र गतं नीलाभिधे गिरौ । गङ्गासागरतोयेन क्षालितमाङ्गणे मुहुः॥ तत्र भिल्ला मया दृष्टाः पर्वताग्रे धनुर्धतः । चतुर्भुजा मूलफलैर्भक्ष्यनिर्वाहितलमाः॥ तदा में मनसि क्षिप्रं संशयः सुमहानभूत् । चतुर्भुजाः किमेते वै धनुर्बाणधरा नराः॥ वैकुण्ठवासिनां रूपं दृश्यते विजितात्मनाम् । कथमेतैरुपालब्धं ब्रह्माद्यैरपि दुर्लभम् ॥ शङ्खचक्रगदाशार्जपोल्लसितपाणयः । वनमालापरीताका विष्णुभक्ता इवान्तिके ॥ संशयाविष्टचित्तेन मया पृष्टं तदा नृप । यूयं के बत युष्माभिर्लब्धं चातुर्भुजं कथम् ॥ तदा तैर्बहु हास्यं तु कृत्वा मां प्रति भाषितम् । ब्राह्मणोऽयं न जानाति पिण्डमाहात्म्यमद्भुतम्। इति श्रुत्वाऽवदं चाहं कः पिण्डः कस्य दीयते । तन्मम ब्रूत धर्मिष्ठाश्चतुर्भुजशरीरिणः ।। तदा मद्वाक्यमाकर्ण्य कथितं तैर्महात्मभिः। सर्व तत्र तु यदृत्तं चतुर्भुजभवादिकम् ॥ १० w ९ किराता ऊचुः- शृणु ब्राह्मण वृत्तान्तमस्माकं पृथुकः शिशुः । नित्यं जम्बूफलादीनि भक्षयन्क्रीडया चरन् ॥११ एकदा रममाणस्तु गिरिशृङ्गं मनोरमम् । समारुरोह शिशुभिः समन्तात्परिवारितः ॥ १२ तदा तत्र ददर्शाथ देवायतनमद्भुतम् । गारुत्मतादिमणिभिः खचितं स्वर्णभित्तिकम् ।। १३ मुकात्या तिमिरश्रेणी दारयदविवशम् । दृष्ट्वा विस्मयमापेदे किमिदं कस्य वै गृहम् ॥ १४ गत्वा विलोकयामीति किमिदं महतां पदम् । इति संचिन्त्य गेहान्तर्जगाम बहुभाग्यतः ॥ १५ ददर्श तत्र देवेश सुरासुरनमस्कृतम् । किरीटहारकेयूरङ्गवेयायैर्विराजितम् ॥ १६ अवतंसे मनोज्ञे तु धारयन्तं सुनिर्मले । पादपद्म तुलसिकागन्धमत्तषडद्धिके । १७ शङ्खचक्रगदाशापद्माधैमूर्तिसंयुतैः । उपासिताधि श्रीमूर्ति नारदायैः सुसेवितम् ॥ १८ केचिद्गायन्ति नृत्यन्ति हसन्ति परमाद्भुतम् । पीणयन्ति महाराज सर्वलोकैकवन्दितम् ।। हरिं वीक्ष्य मदीयोऽस्तत्र संजग्मिवान्मुने । देवास्तत्र विधायोचैः पूजां धूपादिकं पुनः॥ २० नैवेद्यं श्रीप्रियस्यार्थे कृत्वा नीराजनं ततः । जग्मुः स्वं स्वं महाराज कृपां पश्यन्त आदरात् ॥ २१ महाभाग्यवशात्तेन प्राप्त नैवेद्यसिक्थकम् । पतितं तत्र देवादिदुर्लभं त्वतिमानुषम् ॥ तक्षणं च कृत्वाऽयो श्रीमूर्तिमवलोक्य च । चतुर्भुजत्वमाप्तं वै पृथुकेन सुशोभिना । वदाऽस्माभिहं प्राप्तो बालको वीक्षितो मुहुः। चतुर्भुजादिकं प्राप्तः शङ्खचक्रादिधारकः ॥ अस्माभिः पृष्टमेतस्य किमेतज्जातमद्भुतम् । तदा प्रोवाच नः सर्वान्बालकः परमाद्भुतम् ॥ [*शिखराग्रे गतः पूर्व तत्र दृष्टः सुरेश्वरः । तत्र नैवेद्यसिक्थं तु मया प्राप्तं मनोहरम् ॥ २२ २४ २५ २६ * एतचिहान्तर्गतः पाठः, क. ख. ग. च. छ. ज. प. ठ. इ. ग. त. थ. द. घ. पुस्तकस्थः ।
२७ २८ १९ एकोनविंशोऽध्यायः ] पद्मपुराणम् । तस्य भक्षणमात्रेण कारणेन तु सांपतम् ] । चतुर्भुजत्वं संपातो विस्मयेन समन्वितः ॥ तच्छ्रुत्वा तु वचस्तस्यै सद्यः संप्राप्तविस्मयैः। अस्माभिरप्यसौ दृष्टो देवः परमदुर्लभः ॥ अनादिकं तत्र भुक्तं सर्वस्वादसमन्वितम् । वयं चतुर्भुजा जाता देवस्य कृपया पुनः ॥ गत्वा त्वमपि देवस्य दर्शनं कुरु सत्तम । भुक्त्वा तत्रानसिक्थं तु भव विप्र चतुर्भुजः ॥ त्वया पृष्टं यदाचक्ष्व तदुक्तं वाडवर्षभ । इति श्रीमहापुराणे पाझे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे ब्राह्मणोपदेशकथनं नामाष्टादशोऽध्यायः ॥ १८ ॥ आदितः श्लोकानां समष्टयङ्काः-१९८४६ २९ अथैकोनविंशोऽध्यायः। १ २ ६ ८ ९ ब्राह्मण उवाच- इति श्रुत्वा तु तद्वाक्यं भिल्लानामहमद्भुतम् । अत्याश्चर्यमिदं मत्वा प्रहृष्टोऽभवमित्युत ॥ गङ्गासागरसंयोगे स्नात्वा पुण्यकलेवरः । शृङ्गमारुरुहे तत्र मणिमाणिक्यचित्रितम् ॥ तत्रापश्य महाराज देवं देवादिवन्दितम् । नमस्कृत्वा कृतार्थोऽहं जातोऽनप्राशनेन च ॥ चतुर्भुजत्वं संप्राप्तः शङ्खचक्रादिचिह्नितम् । पुरुषोत्तमदर्शनेन न पुनर्गर्भमाविशम् ॥ राजस्त्वमेव तत्राऽऽशु गच्छ नीलाभिधं गिरिम् । कृतार्थ कुरु चाऽऽत्मानं गर्भदुःखविवर्जितम् ५ इत्याकर्ण्य वचस्तस्य वाडवाव्यस्य धीमतः । पप्रच्छ हृष्टगात्रस्तु तीर्थयात्राविधि मुनिम् ॥ राजोवाच- साधु विप्राय हे साधो त्वया मोक्तं ममानघ। पुरुषोत्तममाहात्म्यं शृण्वतां पापनाशनम् ।। ब्रूहि तत्तीर्थयात्रायां विधि श्रुतिसमन्वितम् । विधिना केन संपूर्णफलप्राप्तिनृणां भवेत् ।। ब्राह्मण उवाच- शृणु राजन्मवक्ष्यामि तीर्थयात्राविधिं शुभम् । येन संपाप्यते देवः सुरासुरनमस्कृतः ।। वलीपलितदेहो वा यौवनेनान्वितोऽपि वा । ज्ञात्वा मृत्युमनिस्तीर्य हरिं शरणमाव्रजेत् ।। १० तत्कीर्तने तच्छ्रवणे वन्दने तस्य पूजने । मतिरेव प्रकर्तव्या नान्यत्र वनितांदिषु ॥ ११ - सर्व नश्वरमालोक्य क्षणस्थायि सुदुःखदम् । जन्मदुःखजरातीतं भक्तिवल्लभमच्युतम् ॥ १२ क्रोधात्कामाद्भयाद्वेषाल्लोभाइम्भानरः पुनः । यथाकथंचिद्विभजन स दुःखं समश्नुते ॥ स हरियिते साधुसंगमात्पापवर्जितात् । येषां कृपातः पुरुषा भवन्त्यसुखवार्जिताः ॥ साधवः शान्तरागाः कामलोभविवर्जिताः । ब्रुवन्ति यन्महाराज तत्संसारनिवर्तकम् ॥ १५ तीर्थेषु लभ्यते साधू रामचन्द्रपरायणः । यदर्शनं नृणां पापराशिदाहाशुशुक्षणिः ॥ १६ तस्मात्तीर्थेषु गन्तव्यं नरैः संसारभीरुभिः । पुण्योदकेषु सततं साधुश्रेणिविराजिषु ॥ तानि तीर्थानि विधिना दृष्टानि प्रहरन्त्यघम् । तं विधिं नृपशार्दूल कुरुष्वं श्रुतिगोचरम् ॥ १८ विरागं जनयेत्पूर्व कलत्रादिकुटुम्बके । असत्यभूतं तज्ज्ञात्वा हरिं तु मनसा स्मरेत् ॥ * एतदने छ. उ. पुस्तकयोः 'जन्मदुःख जरादुःखं नित्यदुःखं नरोऽश्नुते' इत्यर्धमधिकं दृश्यते । १ ग. छ. र. 'स्मयप्रापकं महत् । त । २ ड. °स्य तत्र प्राप्ता वयं वहो। अ। ३ ग. छ. ड. सुमतिरुवाच । ४ ६. 'स्त्वमपि त । ५ ग. ततः । छ. ड. नृप। ६ द. 'न्ममृत्युज । ७ ज. ण. त. थ. भक्तव। ८ झ. व नृप गों ते २२ २४ २८ २९ ३४ महामुनिश्रीव्यासप्रणीतं- [ ४ पातालखण्डे- क्रोशमात्रं ततो गत्वा राम रामेति च ध्रुवन् । तत्र तीर्थादिषु स्नात्वा क्षौरं कुर्याद्विधानवित्॥२० मनुष्याणां च पापानि तीर्थानि प्रतिगच्छताम् । केशमाश्रित्य तिष्ठन्ति तस्मात्तद्वपनं चरेत् ॥२१ ततो दण्डं तु निर्ग्रन्थि कमण्डलुमथाजिनम् । विभृयाल्लोभनिर्मुक्तस्तीर्थवेषधरो नरः ॥ विधिना गच्छतां नृणां फलावाप्तिर्विशेषतः । तस्मात्सर्वप्रयत्नेन तीर्थयात्राविधि चरेत् ॥ २३ यस्य हस्तौ च पादौ च मनश्चैव सुसंहितम् । विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥ हरे कृष्ण हरे कृष्ण भक्तवत्सल गोपते । शरण्य भगवन्विष्णो मां पाहि बहुसंसृतेः ॥ इति ब्रुवव्रसनया मनसा च हरिं स्मरन् । पादचारी गतिं कुर्यात्तीर्थ प्रति महोदयम् ॥ २६ यानेन गच्छन्पुरुषः समभागफलं लभेत् । उपानद्भयां चतुर्थाशं गोयाने गोवधादिकम् ॥ २७ [*व्यवहारात्तृतीयांश सेवयाऽष्टमभागभाक् । अनिच्छया ब्रजस्तत्र तीर्थमर्धफलं भवेत् ॥ यथायथं प्रकर्तव्या तीर्थानामभियात्रिका] । पापक्षयो भवत्येव विधिदृष्ट्या विशेपतः ।। तत्र साधूनमस्कुर्यात्पादवन्दनसेवनैः । तद्वारा हरिभक्तिर्हि प्राप्यते पुरुषोत्तमे ।। इति तीर्थविधिः प्रोक्तः समासेन न विस्तरात् । एवं विधि समाश्रित्य गच्छ त्वं पुरुषोत्तमम्॥३१ तुभ्यं तुष्टो महाराज दास्यते भक्तिमच्युतः । यथा संसारनिर्वाहः क्षणादेव भविष्यति ॥ ३२ तीर्थयात्राविधिं श्रुत्वा सर्वपातकनाशनम् । मुच्यते सर्वपापेभ्य उग्रेभ्यः पुरुषर्षभ । सुमतिरुवाच-- इति वाचं समाकर्ण्य ववन्दे चरणौ महान् । तत्तीर्थदर्शनौत्सुक्यविह्वलीकृतमानसः ॥ आदिदेश निजामात्यं मत्रवित्तममुत्तमम् । तीर्थयात्रेच्छया सर्वान्सह नेतुं मनो दधत् ॥ मत्रिन्पौरजनान्सर्वानादिश त्वं ममाऽऽज्ञया । पुरुषोत्तमपादाजदर्शनप्रतिहेतवे । ये मदीये पुरे लोका ये च मद्वाक्यकारकाः । सर्वे निर्यान्तु मे पुर्या मया सह नरोत्तमाः ॥ ३७ तु मद्वाक्यमुल्लय स्थास्यन्ति पुरुषा गृहे । ते दण्ड्या यमदण्डेन पापिनोऽधर्महेतवः ।। किं तेन सुतवृन्देन बान्धवैः किं सुदुर्नयैः । यैनं दृष्टोऽत्र चक्षुभ्यां पुण्यदः पुरुषोत्तमः ॥ शूकरीयूथवत्तेषां प्रसूतिर्विदप्रभक्षिका । येषां पुत्राश्च पौत्रा वा हरिं न शरणं गताः ॥ यो देवो नाममात्रेण सर्वान्पावयितुं क्षमः । तं नमस्कुरुत क्षिप्रं मदीयप्रकृतित्रजाः ॥ इति वाक्यं मनोहारि भगवद्गुणगुम्फितम् । प्रजहर्ष महामात्य उत्तमः सत्यनामकृत् ॥ हस्तिनं वरमारुह्य पटहेन व्यघोषयत् । यदादिष्टं नृपेणेह तीर्थयात्रां समिच्छता ॥ ४३ गच्छन्तु त्वरिता लोका राज्ञा सह महागिरिम् । दृश्यतां पापसंहारी पुरुषोत्तमनामधृत् ॥ क्रियतां सर्वसंसारसागरो गोष्पदं पुनः । भूष्यतां शङ्खचक्रादिचिह्नः स्वस्वतनुर्नरैः ॥ ४५ इत्यादि घोषयामास राज्ञाऽऽदिष्टं यदद्भुतम् । सचिवो रघुनाथाङ्घ्रिध्याननिर्वारितश्रमः ॥ ४६ तच्छ्रुत्वा ताः प्रजाः सर्वा आनन्दरससंछुताः । मनो दधुः स्वनिस्तारे पुरुषोत्तमदर्शनात् ॥ ४७ निर्ययुाह्मणास्तत्र शिष्यैः सह सुवेषिणः । आशिषो वरदानाढ्या ददतो भूपतिं प्रति ॥ ४८ क्षत्रिया धन्विनो वीरा वैश्या वस्तुक्रियाञ्चिताः । शूद्राः संसारनिस्तारहर्षितस्वीयविग्रहाः॥४९ * एतचिहान्तर्गतः पाठः क. ख. ग. च. छ. ज. अ. ठ. . ण. त. थ. द. ध.पुस्तकस्थः । १ क. ख. ग. छ. ज. म. ठ. ण. त. थ. द. ध. महोदयः । २ द. वहर्ता तृती। ३ क. ज. अ. ठ. ण. त. थ. ध. 'नरोचनैः । ४ ख. ग. ज. ठ. ण. ध. यया । ५ क.ख. छ. ज. द. ठ. त. थ. ध. 'नं नरमारोह्य प'। ण. द. 'नं नरमा- ३६ ४२ ४४ रोप्य प।
२० विंशोऽध्यायः] पद्मपुराणम् । रजकाचर्मकाः क्षौद्राः किग्रता भित्तिकारकाः। सूचीवृत्त्या च जीवन्तस्ताम्बूलक्रमकारकाः॥५० तालबाबपरा ये च ये च रनोपजीविनः । तैलविवायिणश्चैव वस्त्रविक्रयिणस्तथा । सूता) वदन्तः पौराणां वार्ता हर्षसमन्विताः । मामधा)चन्दिनस्तत्र निर्मता भूमिपाजया ॥ ५२ भिषग्वृत्त्या च जीवन्तस्तथा पाशककोविदाः । पाकस्वादुरसाभिज्ञा हास्यवाक्यानुरक्षकाः ॥ ऐन्द्रजालिकविद्याधास्तथा वार्तासु कोविदाः । प्रशंसन्तो महाराज निर्ययुः पुरमध्यतः ॥ ५४ राजाऽपि तत्र नित्य प्रातःसंध्यादिकाः क्रियाः। ब्राह्मणं तापसश्रेष्ठमानिनाय सुनिर्मलम् ॥५५ तदाज्ञया महाराजो निर्जगाम पुराबहिः। लोकैरनुगतो राजा बभौ चन्द्र इबोडुभिः । कोशमात्र स गत्वाऽथ क्षौरं कृत्वा विधानतः । दण्डं कमण्डलुं बिभ्रन्यगचर्म तथा शुभम् ।।५७ शुभवेषेण संयुक्तो इरिध्यानपरायणः । कामक्रोधादिरहितं मनो विभ्रन्महायशाः ॥ ५८ वदा दुन्दुभयो भेर्य आनकाः पेणवास्तथा । शाचीणादिकाश्चैवाऽऽध्मातास्तद्वादकैर्मुहुः॥ ५९ जय देवेश दुःखन पुरुषोत्तमसंजित । दर्शयस्व तनुं मह्यं वदन्तो निर्ययुर्जनाः ॥ इति श्रीमहापुराणे पाने पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे रत्नप्रीवस्य तीर्थप्रयाणं नामैकोनविंशोऽध्यायः ॥१७॥ आदितः श्लोकानां समष्ट्यङ्का:-११९०६ अथ विंशोऽध्यायः । - ४ ६ ८ मुमतिरुवाच- अथ प्रयाते भूपाले सर्वलोकसमन्विते । महाभाग्यैर्वैष्णवैश्व गायद्भिः कृष्णकीर्तनम् ।। शुश्रावासौ महाराज मार्गे गोविन्दकीर्तनम् । जय माधव भक्तानां शरण्य पुरुषोत्तम ।। २ पथि तीर्यान्यनेकानि कुर्वन्पश्यन्महोदयम् । तापसब्राह्मणात्तेषां महिमानमथाशृणोत् ॥ विचित्रविष्णुवार्ताभिविनोदितमना नृपः । मार्गे मार्गे महाविष्णु गोपयामास गायकैः ।। दीनान्धकृपणानां च पशूनी वासनोचितम् । दानं ददौ महाराजो बुद्धिमान्विजितेन्द्रियः॥ ५ अनेकतीविरजमात्मानं भव्यतां गतम् । कुर्वन्ययौ स्वोकैर्हरिध्यानपरायणः ।। नृपो गच्छन्ददर्शाने नदी पापप्रणाशिनीम् । चक्रातिनावयतां मुनिमानसनिर्मलाम् ।। अनेकमुनिन्दानां बहुश्रेणिविराजिताम् । सारसादिपतत्रीणां कूजितैरुपशोभिताम् ।। दृष्ट्वा पप्रच्छ विमाश्यं तापस धर्मकोविदम् । अनेकतीर्थमाहात्म्यविशेषज्ञानजृम्भितम् ।। स्वामिन्केयं नदी पुण्या मुनिवृन्दनिषेविता । करोति मम चित्तस्य प्रमोदभरनिर्भरम् ।। इति श्रुत्वा वचस्तस्य राजराजस्य धीमतः । वक्तुं प्रचक्रमे विद्वांस्तीर्थमाहात्म्यमद्भुतम् ॥ ११ ब्राह्मण उवाच- गण्डकीयं नदी राजन्सुरासुरनिषेविता । पुण्योदकपरीवाहहतपातकसंचया ॥ १२ दर्शनान्मानसं पापं स्पर्शनात्कर्मजं दहेत् । वाचिकं स्वीयतोयस्य पानतः पापसंचयम् ।। १३ पुरा दृष्ट्वा मनानाथः प्रजाः सर्वा विपापिनीः । स्वगण्डविभुषोऽनेकपापत्री सृष्टवानिमाम् ॥१४ एतां नदी ये पुण्योदा स्पृशन्ति सुतरङ्गिणीम् । ते गर्भभाजो नैव स्युरपि पापकृतो नराः ॥ १५ १ स. ग. ज. प. द.प. पौराणी । २ त. पटहास्त । ३ क. ख. ग. छ. ज. म. ठ. . त. थ. ध. भाग्य. वशात्तव । ४ ग. 'नां वासरोचि । इ. 'नां चाशनों । ५ घ. इ. च. झ. ट. द. °सं ब्रह्मको । ६ ख. 'दप्रेमनि'। ९ २४ महामुनिश्रीव्यासप्रणीतं- [ ४ पातालखण्डे- अस्यां भवा ये चाश्मानश्चचिरलंकृताः। ते साक्षाद्भगवन्तो हि स्वस्वरूपधराः पराः ॥ १६ शिला संपूजयेद्यस्तु नित्यं चक्रयुतां नरः । न जातु स जनन्या वै जठरं समुपाविशेत् ।। पूजयेद्यो नरो धीमाशालग्रामशिलां वराम् । तेनाऽऽचारवता भाज्यं दम्भलोभवियोगिना॥१८ परदारपरद्रव्यविमुखेन नरेण च । पूजनीयः प्रयत्नेन शालग्रामः सचक्रकः ॥ द्वारवत्यां भवं चक्रं शिला वै गण्डकी भवा । पुंसां क्षणाद्धरत्येव पापं जन्मशतार्जितम् ।। २० भपि पापसहस्राणां कर्ता तावन्नरो भवेत् । शालग्रामशिलापाथः पीत्वा पूर्यत तत्क्षणात् ॥ २१ [ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वेदपाथ स्थितः । शालग्राम पूजयित्वा गृहस्थो मोक्षमामुयात् ॥ न जातु वै स्त्रिया कार्य शालग्रामस्य पूजनम् । भर्तृहीनाऽथ सुभगा स्वर्गलोकहितैषिणी ॥ २३ मोहात्स्पृष्ट्वाऽथ महिला जन्मशीलगुणान्विता । हित्वा पुण्यसमूह तु सत्वरं नरकं व्रजेत् ॥ स्त्रीपाणिमुक्तपुष्पाणि शालग्रामशिलोपरि । सर्वाभ्यधिकपापानि वदन्ति ब्राह्मणोत्तमाः ॥ २५ चन्दनं विषपङ्कामं कुङ्कुमं वज्रसंनिभम् । नैवेद्यं कालकूटाभं भवेद्भगवतः कृतम् ।। २६ तस्मात्सर्वात्मना त्याज्यः स्त्रिया स्पर्शः शिलोपरि। कुर्वती याति नरकं यावदिन्द्राश्चतुर्दश ॥ २७ अपि पापसमाचारो ब्रह्महत्यायुतोऽपि वा । शालग्रामशिलातोयं पीत्वा याति परां गतिम् ॥२८ तुलसी चन्दनं वारि शखो घण्टाऽथ चक्रकम् । शिला ताम्रस्य पात्रं तु विष्णोर्नाम पदामृतम् ॥ पदामृत तु नवभिः पापराशिमदाहकम् । वदन्ति मुनयः शान्ताः सर्वशास्त्रार्थकोविदाः ॥ सर्वतीर्थपरिस्नानात्सर्वक्रतुसमर्चनात् । पुण्यं भवति यद्राजन्विन्दौ बिन्दौ तदद्भुतम् ॥ शालग्रामशिला यत्र पूज्यते पुरुषोत्तमैः। तत्र योजनमात्रं तु तीर्थकोटिसमन्वितम् ॥ ३२ शालग्रामाः समाः पूज्याः समेषु द्वितयं न हि । विषमा एव पूज्यन्ते विषमेषु त्रयं न हि ॥ ३३ द्वारावतीभवं चक्रं तथा वै गण्डकीभवम् । उभयोः संगमो यत्र तत्र गङ्गा समुद्गा ॥ रूक्षाः कुर्वन्ति पुरुषानायुःश्रीकीर्तिवर्जितान् । तस्मात्स्निग्धा मनोहारिरूपिणो ददति श्रियम् ३५ आयुष्कामो नरो यस्तु धनकामोऽपि यः पुमान् । पूजयन्सर्वमामोति पारलौकिकमैहिकम् ॥ ३६ प्राणान्तकाले पुंसस्तु भवेद्भाग्यवतो नृप । वाचि नाम हरेः पुण्यं शिला हृदि तदन्तिके ॥ ३५ गच्छत्सु प्राणमार्गेषु यस्य विस्रम्भतोऽपि चेत् । शालग्रामशिलास्फूर्तिस्तस्य मुक्तिन संशयः॥३८ पुरा भगवता प्रोक्तमम्बरीषाय धीमते । ब्राह्मणा न्यासिनः स्निग्धाः शालग्रामशिलास्तथा ३६ स्वरूपत्रितयं मह्यमेतद्धि क्षितिमण्डले । पापिनां पापनिर्णाशं कर्तुं धृतमुदश्चता ॥ निन्दन्ति पापिनो ये वा शालग्रामशिलां संकृत् । कुम्भीपाके प्रपाच्यास्ते यावदाभतसंप्लवम् ४ पूजां समुद्यतं कर्तुं यो वारयति मूढधीः । तस्य माता पिता बन्धुवर्गा नरकभागिनः ।। यो वै कथयति श्रेष्ठं शालग्रामार्चनं कुरु । स कृतार्थो नयत्याशु वैकुण्ठं स्वीयपूर्वजान् ॥ अत्रैवोदाहरन्तीममितिहासं पुरातनम् । मुनयो वीतरागाश्च कामक्रोधविवर्जिताः॥ पुरा कीकटसंज्ञे धै देशे धर्मविवर्जिते । आसीत्पुरकसजातीयो नरः शबरसंशितः ॥ नित्यं जन्नुवधीयुक्तः शरासनधरो मुहुः । तीर्थ प्रति बियासूनां बलाद्धति जीवितम् ॥ ४६ अनेकमाणिहत्याकृत्परस्वनिरतः सदा । सदा-रागादिसंयुक्तः कामक्रोधादिसंयुतः ।। * एतचिहान्तर्गतः पाटः ख. ग. घ. छ. ज ठ. ण. त. य. द, ध. पुस्तकस्थः । १ द. °रि । पवेरधिकपातानि । ठ. ध. "रि । अपरेऽधि । २ ग. छ. उ. द. कुसुमं । ३ य. टिफलप्रदम् । ४ ज. विजृम्भ। ४१ ४५ ४८ २० विंशोऽध्यायः ] पद्मपुराणम् । ४६७ वेचरत्यनिशं भीमे वने प्राणिवर्धकरः । विषसंसक्तबाणाग्ररूढचापगणोद्धरः॥ कदा पर्यटन्व्याधः प्राणिमात्रभयंकरः । कालं प्राप्तं न जानाति समीपे मुग्धमानसः ॥ यमदूतास्तु संप्राप्ताः पाशमुद्गरपाणयः । ताम्रकेशा दीर्घनखा लम्बदंष्ट्रा भयानकाः ॥ इयामा लोहस्य निगडान्बिभ्रतो मोहकारकाः । बधन्तु पापिनं ह्येनं माणिमात्रभयंकरम् ॥ ५१ एतस्य जिहां बृहतीमहं निष्कासयाम्यतः । एको वदति चैतस्य चक्षुरुत्पाटयाम्यहम् ॥ ५२ एको वदति चैतस्य करौ कृन्तामि पापिनः । अन्यो वदत्यहं कौँ कर्तयामि दुरात्मनः ॥ ५३ कदाचिन्मनसा नायं प्राणिमात्रोपकारकः । परदारपरद्रव्यपरद्रोहपरायणः ॥ एवं वदन्तः सुभृशं दन्तैर्दतनिपीडकाः। आगत्य तं दुरात्मानं सायुधास्तस्थुरुन्मदाः ॥ एको दूतस्तदा सर्परूपं धृत्वाऽदशत्पदे । स दष्टमात्रः सहसा गतासुः पर्यजायत । तदा तं लोहपाशेन बद्ध्वा शमनकिकराः । कशाभिस्ताडयामासुर्मुद्गरैः प्राहरंस्तथा ॥ अहो दुष्ट दुरात्मंस्त्वं कदाचिन्नाऽऽचरः शुभम् । मनसाऽपि यतस्त्वां वै क्षेप्स्यामो रौरवेषु च५८ त्वन्मांसं वायसा रौद्रा भैक्षयिष्यन्ति वै क्रुधा । आ जन्मतस्तु भवता न कृतं हरिसेपनम् ॥५९ त्वया पुत्रकलत्राद्या द्रोहं कृत्वा सुपोषिताः। न कदाचित्स्मृतो देवः पापहारी जनार्दनः ॥ ६० तस्माचां लोहशङ्कौ वा कुम्भीपाकेऽतिरोरवे । धर्मराजाज्ञया सर्वे नेष्यामो बहुताडनैः॥ ६१ एवमुक्त्वा यदा नेतुं समैच्छन्यमकिंकराः । तावत्माप्तो महाविष्णुचरणाजपरायणः ।। यमदूतास्तदा दृष्टा वैष्णवेन महात्मना । पाशमुद्गरदण्डादिदुष्टायुधधरा गणाः ॥ पुल्कसं लोहनिगडैर्बद्ध्वा गन्तुं समुद्यताः । बन्ध बन्ध ग्रस च्छिन्धि भिन्धि भिन्धीति वादिनः॥ तदा कृपालुस्तं प्रेक्ष्य पमनाभपरायणः । अत्यन्तकृपया युक्तं चेतस्तत्र तदाऽकरोत् ॥ ६५ असौ महादुष्टपीडां मा यातु मम संनिधौ । मोचयाम्यहमद्यैव यमदूतेभ्य एव च ॥ इति कृत्वा मतिं तस्मै कृपायुक्तो मुनीश्वरः । शालग्रामशिला हस्ते गृहीत्वाऽस्य गतोऽन्तिके ६७ तस्य पादोदकं पुण्यं तुलसीदलमिश्रितम् । मुखे विनिक्षिपन्कर्णे रामनाम जजाप ह ॥ ६८ तुलसी मस्तके तस्य धारयामास वैष्णवः । शिलां हृदि महाविष्णोधृत्वा माह स वैष्णवः ६९ च्छिन्तु यमदूता वै यातनासु परायणाः। शालग्रामशिलास्पर्शो दहतात्पातकं महत् ॥ इत्युक्तवति तस्मिन्वै गणा विष्णोर्महाद्भुताः। आययुस्तस्य सैविधे शिलास्पर्शहतांहसः॥ ७१ पीतवस्त्राः शङ्खचक्रगदापविराजिताः । आगत्य मोचयामासुर्लोहपाशादुरासदात् ॥ पोचयित्वा महापापकारकं पुष्क(ल्क)सं नरम् । ऊचुः किमर्थं बद्धोऽयं वैष्णवः पूज्यदेहभृत्७१ कस्याऽऽज्ञाकारका यूयं यदधर्मप्रकारकाः । इति वाक्यं समाकर्ण्य जगदुर्यमकिंकराः ॥ धर्मराजाज्ञया प्राप्ता नेतुं पापिनमुद्यताः । नासौ कदाचिन्मनसा प्राणिमात्रोपकारकः ॥ प्राणिहत्यामहापापकारी दुष्टशरीरभृत् । बहुशस्तीर्थयात्रायां गच्छतोऽसौ व्यलुण्ठयत् ॥ परदाररतो नित्यं सर्वपापाधिकारकः । तस्मानेतुं वयं प्राप्ताः पापिनं पुष्क(ल्क)सं नरम् ॥ ७७ भवद्भिर्मोचितः कस्मादकस्मादागतैरिह । * एतदने 'उचुस्ते वैष्णवा याम्यान्किमर्थ विधुतो ह्ययम्' इत्यर्धमधिकं र. पुस्तके। १६. पेऽप्युग्रमा । २ द. था । नारे दुष्ट दुरात्मा त्वं कदाचिद्धर्ममाचरः । म । ३ छ. ङ. भक्षिष्यन्ति क्षुष । न्विताः । आ। ४ थ. 'तु यमस । ५ द. गण्डक्याः । ७२ ७८ .
- ८० ४६८ महामुनिश्रीव्यासपणीत- [४ पातालखण्डे- विष्णुदूता ऊचुः- ब्रह्महत्यादिकं पापं माणिकोटिवोद्भवम् । शालग्रामशिलास्पर्शः सर्व दहति तत्क्षणात् ॥ २ रामेति नाम यच्छ्रोत्रे विश्रम्भादागतं यदि । करोति पापसंदाहं तूलं वहिकणो यथा ॥ तुलसी मस्तके यस्य शिला हदि मनोहरा । मुखे कर्णेऽथवा रामनाम मुक्तस्तदैव सः॥ तस्मादनेन तुलसी मस्तके विधृता पुरा । श्रावितं रामनामाऽऽशु शिला दि सुधारिता ॥ ८२ मस्मात्पापसमूहोऽस्य दग्धः पुण्यकलेवरः । यास्यते परमं स्थानं पापिनां यत्सुदुर्लभम् ।। ८३ वक्तं तत्र भुक्त्वा भोगान्सर्वमनोहरान् । काश्यां जन्म समासाद्याऽऽराध्य तं च जगद्गुरुम् ॥ माप्स्यते परमं स्थानं सुरासुरमुदुर्लभम् । न जातो महिमा सम्यक्शिलायाः परमेष्ठिनः ।। ८५ दृष्टा स्पृष्टाऽचिंता वाऽपि सर्वपापहरा क्षणात् । इत्युक्त्वा विरताः सर्वे महाविष्णोर्गणा मुदा ॥ माम्यास्ते किंकरा राजे कथयामासुरद्भुतम् । वैष्णवो हर्षमापेदे रघुनाथपरायणः ॥ युक्तोसौ यमपाशाच्च गमिष्यति परं पदम् । तदाऽऽजगाम विमलं किङ्किणीजालमण्डितम् ॥८८ विमानं देवलोकातु मनोहारि महाछुतम् । तत्राऽऽरुह्य गतः स्वर्ग महापुण्यनिषेवितम् ।। भोगान्भुक्त्वा सुविपुलानाजगाम महीतलम् । काश्यां जन्म समासाद्य शुचिवाडवसत्कुले ॥ ९० आराध्य जगतामीशं गतवान्परम पदम् स पापी साधुसंगत्या शालग्रामशिला सन् ॥ ९१ महापीडाविनिर्मुक्तो गतवान्परमं पदम् । मया तेऽभिहितं राजशालग्रामशिलानम् ॥ भुत्वा विमुच्यते पापैर्भुक्तिं मुक्तिं च विन्दति ॥ इति श्रीमहापुराणे पाने पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे गण्डकीमाहात्म्यं नाम विंशोऽध्यायः ॥ २०॥ आदितः श्लोकानां समष्पहा:-११९९८ ८७ ८९ ९२ अर्थकविंशतितमोऽध्यायः । १ २ ३ ४ ५ ६ सुमतिस्वाच- एतन्माहात्म्यमतुलं गण्डक्याः कर्णगोचरम् । कृत्वा कृतार्थमात्मानममन्यत नृपोत्तमः॥ सात्वा ती पितॄन्सर्वान्सतर्फा जहषे महान् । शालग्रामशिलापूजां कुर्वन्वाडववाक्यतः ॥ चतुर्विशच्छिलास्तत्र गृहीत्वा स नृपोत्तमः । पूजयामास च प्रेम्णा चन्दनायुपचारकैः॥ तत्र दानानि दत्त्वा च दीनान्धेभ्यो विशेषतः । गन्तुं प्रचक्रमे राजा पुरुषोत्तममन्दिरम् ॥ एवं क्रमेण संप्राप्तो गङ्गासागरसंगमम् । कृत्वाऽक्षिगोचरं तं च ब्राह्मणं पृष्टवान्मुदा ॥ स्वामिन्वद कियङ्करे नीलाख्यः पर्वतो महान् । पुरुषोत्तमसंवासः सुरासुरनमस्कृतः ॥ तदा श्रुत्वा महद्वाक्यं रत्नग्रीवस्य भूपतेः । उवाच विस्मयाविष्टो राजानं प्रति सादरम् ॥ राजनेतत्स्थलं नीलपर्वतस्य नमस्कृतम् । किमर्थं दृश्यते नैव महापुण्यफलप्रदम् ॥ पुनः पुनस्वाचेदं स्थलं नीलस्य भूभृतः। कथं न दृश्यते राजन्पुरुषोत्तमवासभृत् ॥ अत्र स्नातं मया सम्यगत्र +भिल्लाक्षिगोचराः। अनेनैव पथा राजमारूढः पर्वतोपरि ॥ * एतविहान्तर्गतः पाठः क. स. ग. प्र. ज. अ. 3. र. . त. य. इ. प. पुस्तकस्थः। + संधिराः । .द.न् । भारते जन्मसंप्राप्याऽऽरा'। २ ग. ज. ठ.प.त.क.प. जनगण्डकी चरितं महत् । श्रृं। छ.. 'जनामकीचरितं महत् । श्रृं। ७ ८ ९ १० २० २२ ११ एकविंशोऽध्यायः] परपुराणम् । १६९ इति वाक्यं समाकर्ण्य विव्यथे मानसे नृपः । नीलभूधरदर्शय कुर्वक्षुत्कण्ठितं मनः ॥ ११ उवाच च कयं विम दृश्येत पुरुषोत्तमः । कथं वा दृश्यते नीलस्तमुपायं वदस्व नः ॥ १२ तदा वाक्यं समाकर्ण्य रत्नग्रीवस्य भूपतेः । तापसबामणो वाक्यमुवाच नृप विस्मितः॥ १२ गासागरसंगोगे स्नात्वाऽस्माभिर्महीपते । स्थातव्यं तावदेवात्र यावनीलो न दृश्यते ।। १४ गीयते पापहा देवः पुरुषोत्तमसंज्ञितः। करिष्यते कृपामाशु भक्तवत्सलनामधृत् ॥ १५ त्यजत्यसौ न वा भक्तान्देवदेवशिरोमणिः । अनेके रक्षिता भक्तास्तद्गायस्व महामते ॥ १५ इति वाक्यं समाकर्ण्य राजा व्ययितचेतसा । स्नात्वा गङ्गान्धिसंयोगे ततोऽनशनमादधात् ॥१७ करिष्यति कृपां यईि दर्शने पुरुषोत्तमः । पूजां कृत्वाऽशनं कुर्यामन्यथाऽनशनं व्रतम् ।। १८ इति कृत्वा स नियमं गङ्गासागररोधसि । गायन्हरिगुणग्राममुपवासमथाऽऽचरत् ।। १९ राजोवाच- जय दीन दयाकर प्रभो जय दुःखापह मालाहय । 'जय भक्तजनातिनाशककृतवर्घञ्जय दुष्टघातक । अम्बरीषमय वीक्ष्य दुःखितं विभशापहतसर्वमङ्गलम् ॥ धारयनिजकरे सुदर्शनं स्वं ररक्ष जठराधिवासतः॥ २१ दैत्यराजपितृकारितव्यथः शूलपाशजलवहिपातनैः ।। श्रीनृसिंहतनुधारिणा त्वया रक्षितः सपदि पश्यतः पितुः॥ ग्राहवक्त्रपतिताघ्रिमुटं वारणेन्द्रमतिदुःखपीडितम् । वीक्ष्य साधु करुणाईमानसस्त्वं गरुत्मति कृतारुहक्रियः ॥ त्यक्तपक्षिपतिरात्तचक्रको वेगकम्पयुतमालिकाम्बरः । गीयसेऽसुभिरमुष्य नक्रतो मोचकः सपदि तद्विनाशकः ॥ यत्र यत्र तब सेवकार्दनं तत्र तत्र बत देहधारिणा। पाल्यतेऽत्र भवता त्वया निजः पापहारिचरितैर्मनोहरैः ॥ २५ दीननाथ सुरमौलिहीरकोवृष्टपादतल भक्तवल्लभ । पापकोटिपरदाहक प्रभो दर्शयस्वे मम पादपङ्कजम् ॥ पापकृयदि जनोऽहमागतो मानसे तव तथा हि दर्शय । सावका वयमघौघनाशन विस्मृतं न हि सुरासुरार्चित ॥ ये वदन्ति तव नाम निर्मलं ते तरन्ति सकलाघसागरम् । सच्छुतिर्यदि कृता तदा मया प्राप्यतां सकलदुःखहारक ॥ सुमतिरुवाच- एवं गायन्गुणावात्रौ दिवाऽपि च महीपतिः । क्षणमात्रं न विश्रान्तो निद्रामाप न वै सुखम् २९ पयनगच्छन्गृणस्तिष्ठन्वदत्येतदहर्निशम् । दर्शयस्व कृपानाथ स्वतनुं पुरुषोत्तम ॥ एवं रामः पञ्चदिनं गतं गाब्धिसंगमे । तदा कपाब्धिः कृपया चिन्तयामास गोपतिः॥ ११ भसौ राजा मदीयेन गानेन विगताधकः । पश्यतान्मामकी श्रेष्ठां सुरासुरनमस्कृताम् ॥ ३२ ११. य. महामते। २ स. ग. छ. ज. ठ. ण. त. घ. सत्प्रभम् । ३ अ. सनः । ३।४ इ. 'ते स्वपदसेवा स्त्विया पा। ५स. स्व निजदर्शनं मम । पा। २७ २८ २८ महामुनिश्रीव्यासप्रणीत- [पातालखण्डे- इति संचिन्त्य भगवान्कृपापूरितमानसः । संन्यासिवेषमास्थाय ययौ रामोऽन्तिकं विभुः ॥३॥ वत्र गत्वा महाराज त्रिदण्डी यतिवेषधृक् । भक्तानुकम्पया प्राप्तो वीक्षितस्तापसेन हि ॥ ३॥ ओं नमो विणवेत्युक्त्वा नमश्चक्रे नृपोत्तमः । अध्यः पाद्यासनैः पूजां चकार हरिमानसः ॥ ३५ उवाच भाग्यमतुलं यद्भवानसिगोचरः। अतः परं दास्यते मे गोविन्दो निजदर्शनम् ।। ३६ इति श्रुत्वा तु तद्वाक्यं संन्यासी निजगाद तम् । राजशृणुष्व कथितं मम वाक्यं विनिःसृतम्।। अहे ज्ञानेन जानामि भूतं भव्यं भवञ्च यत् । तस्मादहं वे किंचिच्छृणुष्वैकाग्रमानसः ॥ यो मध्याहे हरिीता दर्शनं ब्रह्मदुर्लभम् । पञ्चभिः स्वजनैः साकं यास्यसे परमं पदम् ॥ ३९ त्वममात्यश्च महिला तव तापसवाडवः । पुरे तब करम्बाख्यः साधुश्च तन्तुवायकः ।। ४० एतस्त्वं पञ्चभिस्तस्मिन्त्रीले पर्वतसत्तमे । यास्यसे ब्रह्मदेवेन्द्रवन्दिते सुरपूजिते । ४१ इत्युक्त्वाऽदृश्यतां प्राप्तो यतिः कापि न दृश्यते । तदाकर्ण्य नृपो हर्ष पाप चाऽऽशु सविस्मयम् राजोवाच- स्वामिन्कोऽसौ समागत्य संन्यासी मां यदूचिवान् । न दृश्यते पुनः कुत्र गतोऽसौ चित्तहर्षदः॥ तापस उवाच- राजस्तव महाप्रेम्णाऽऽकृष्टचित्तः समभ्यगात् । पुरुषोत्तमनामाऽयं सर्वपापप्रणाशनः ॥ श्वो मध्याह्ने पुरो भावी भविष्यति महागिरिः। तमारुख हरिं दृष्ट्वा कृतार्थस्त्वं भविष्यसि ॥४५ इति वाक्यसुर्धापूरनाशितस्वान्तसंज्वरः । हर्ष यमाप स नृपो ब्रह्मापि न हि वेत्ति तम् ॥ ४६ तदा दुन्दुभयो नेदुर्वीणापणवगोमुखाः। महानन्दस्तदा बासीद्राजराजस्य चेतसि ॥ गायन्हार क्षणं तिष्ठनृत्यञ्जल्पन्हसन्ब्रुवन् । आनन्द प्राप सुघनं सर्वसंतापनाशनम् ॥ इति श्रीमहापुराणे पाने पाताल वण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे संन्यासिदर्शनं नामकविंशोऽध्यायः ॥ २१ ॥ आदितः श्लोकानां समष्टयङ्काः-१२०४६ ४७ ४८ अब द्वाविंशोऽध्यायः । १ २ सुमतिरुवाच- अथ सर्वदिनं नीत्वा हरिस्मरणकीर्तनः । रात्री सुष्वाप गङ्गाया रोधस्युरुफलपदे ॥ ददर्श स्वममध्ये तु स स्वात्मानं चतुर्भुजम् । शङ्खचक्रगदापयशाकोदण्डधारिणम् ॥ नृत्यन्तं पुरुषोत्तमस्य पुरतः शर्वादिदेवैः सह श्रीमद्भिः स्वतनूगुतैररिगदाम्बूत्थाजहेत्यादिभिः । विष्वक्सेनवरैर्गणैः स्वतनुभिः श्रीशं सदोपासितं दृष्ट्वा विस्मयमाप लोकविषयं हर्ष तथाऽत्यद्भुतम् ।। इदत मनसोऽभीष्टं पुरुषोत्तमसंज्ञितम् । आत्मानं च कृपापात्रममन्यत महामतिः ॥ त्येवं स्वमविषये ददर्श नृपसत्तमः । प्रातः प्रबुद्धो विप्राय जगाद स्वममीक्षितम् ॥ ४ ५ * संधिरार्षः। क. स. ग. छ. ज. म. ठ. . प. त. य. ध. धासिन्धुना । २क. ख. ज. म. प. मिः । गोप्तादिप्रव । ग. 1. ठ.ध. 'भिः । मोदादिप्रव।
९ २० ११ द्वाविंशोऽध्यायः ] पद्मपुराणम् । तच्छुत्वा बारवो धीमान्कथयामास विस्मितः । राजस्त्वयाऽसौ दृष्टो यः पुरुषोत्तमसंक्षितः ॥ दास्यते शकचक्रादिचिह्निता स्वतनुं हरिः । इति श्रुत्वा तु तद्वाक्यं रत्नग्रीवो महामनाः ॥ ७ दापयामास दानानि दीनानां मानसोचितम् । स्नात्वा गङ्गान्धिसंयोगे तर्पयित्वा पितॄन्सुरान् गायनहरिगुणग्राम प्रत्यक्षत च दर्शनम् । ततो मध्याह्नसमये दिवि दुन्दुभयो मुहुः ॥ जधुः सुरकराघातबहुशब्दसुशब्दिताः। अकस्मात्पुष्पदृष्टिश्च बभूव नृपमस्तके । धन्योऽसि नृपवर्यस्त्वं नीलं पश्यासिगोचरम् । शृणोतीति यदा वाक्यं नृपो देवपणोदितम् ११ तदा स सूर्यकोटीनामधिकान्तिधरोऽद्भुतः । राज्ञोऽक्षिगोचरो जातो नीलनामा महागिरिः १२ राजतैः काञ्चनैः शृङ्गः समन्तात्परिराजितः । किमग्निः प्रज्वलत्येष द्वितीयः किमु भास्करः १३ किमयं वैद्युतः पुञ्जो अकस्मात्स्थिरकान्तिधृत् । तापसब्राह्मणो दृष्ट्वा नीलमस्थं सुशोभितम् १४ राजे निवेदयामास एष पुण्यो महागिरिः । तच्छ्रुत्वा नृपतिश्रेष्ठः शिरसा प्रणनाम ह ॥ १५ धन्योऽस्मि कृतकृत्योऽस्मि नीलो मे दृष्टिगोचरः । अमात्यो राजपत्नी च करम्बस्तन्तुवायकः।। नीलदर्शनसंहृष्टा बभूवुः पुरुषर्षभ । पञ्चैते विजय काले नीलपर्वतमारुहन् । १७ महादुन्दुभिनिर्घोषाञ्शृण्वन्तो ह्यमरैः कृतान् । तस्योपरितने शृङ्गे चित्रपादपराजिते ॥ १८ ददर्श हाटकाबद्धं देवालयमनुत्तमम् । ब्रह्माऽऽगत्य सदा पूजां करोति परमेष्ठिनः ॥ १२ नैवेद्यं कुरुते यत्र हरिसंतोषकारकम् । दृष्ट्वाऽथ तत्र विमलं देवायतनमद्भुतम् ।। प्रविवेश परीवारैः पञ्चभिः सह संवृतः । तत्र दृष्ट्वा जातरूपे महामणिविचित्रिते ॥ सिंहासने विराजन्तं चतुर्भुजमनोहरम् । चण्डप्रचण्डविजयजयादिभिरुपासितम् ।। प्रणनाम सपत्नीको राजा सेवकसंयुतः । प्रणम्य परमात्मानं महाराज नृपोत्तमः ॥ स्नापयामास विधिववेदोक्तैः स्नानमत्रकैः । अर्घ्यपाद्यादिकं चक्रे पीतेन मनसा नृपः चन्दनेन विलिप्यैनं वस्त्रे च विनिवेद्य च । [ *धूपमारार्तिकं कृत्वा सर्वस्वादुमनोहरम् ॥ २५ नैवेद्यं भगवन्मूत्यै न्यवेदयदयो नृपः । प्रणम्य च स्तुतिं चक्रे तापसब्राह्मणेन च ॥ २६ यथामति गुणग्रामगुम्फितस्तोत्रसंचयैः ॥ राजोवाच- एकस्त्वं पुरुषः साक्षाद्भगवान्प्रकृतेः परः । कार्यकारणतो भिन्नो महत्तत्त्वादिपूजितः ॥ त्वनाभिकमलाजज्ञे [ + ब्रह्मा सृष्टिविचक्षणः । तथा संहारकर्ता च ] रुद्रस्त्वनेत्रसंभवः ॥ त्वयाऽऽज्ञप्तः करोत्यस्य विश्वस्य परिचेष्टितम् ।। त्वत्तो जातं पुराणायं जगत्स्थानु चरिष्णु च । चेतनाशक्तिमाविश्य त्वमेनं चेतयस्यहो ॥ ३० तव जन्म तु नास्त्येव नान्तस्तव जगत्पते । वृद्धिक्षयपरीणामास्त्वयि सन्त्येव नो विभो ॥ ३१ तथाऽपि भक्तरक्षार्थ धर्मस्थापनहेतवे । करोषि जन्मकर्माणि ह्यनुरूपगुणानि च ॥ ३२ त्वया मात्स्यं वपुर्धत्वा शसस्तु निहतोऽसुरः । वेदाः सुरक्षिता ब्रह्मन्महापुरुष पूर्वज ॥ शेषो न वेत्ति मह ते भारत्यपि महेश्वरी । किमुतान्ये महाविष्णो मादृशास्तु कुबुद्धयः ।। मनसा त्वां न चाऽऽप्नोति वागियं परमेश्वरी । तस्मादहं कथं त्वां वै स्तोतुं स्यामीश्वरःप्रभो३५ इति स्तुत्वा स शिरसा प्रणाममकरोन्मुहुः । गद्गदस्वरसंयुक्तो रोमहर्षाकिताङ्गकः ॥ * एतचिहान्तर्गतः पाठः क. ख.ग.च.छ.म.ठ.ड.ण.त.थ.द.ध. पुस्तकस्थः । + एतचिहान्तर्गतः पाठो द. पुस्तकस्थः। १ द. नमुत्तमम् । २२ ॥ २४ २७ २८ ४२ ४४ १८ महामुनिश्रीव्यासप्रणीत- [४ पातालखण्डे- इति स्तुत्या प्रहृष्टात्मा भगवान्पुरुषोत्तमः । उवाच वचनं सत्यं राजानं प्रति सार्थकम् ॥ श्रीभगवानुवाच- सब स्तुत्याऽतिहर्षोऽभून्मम राजन्महामते । जानीहि त्वं महाराज मां च प्रकृतितः परम् ॥ १८ नेवैद्यभक्षणं त्वं हि शीघ्रं कुरु मनोहरम् । चतुर्भुजत्वं प्राप्त समगन्तासि परमं पदम् ।। स्वत्कृतस्तुतिरत्नेन यो मां स्तोष्यति मानवः । तस्यापि दर्शनं दास्ये भुक्तिमुक्तिप्रदं परम् ४० इत्येवं वचनं राजा श्रुत्वा भगवतोदितम् । नैवेद्यभक्षणं चक्रे चतुर्भिः सह सेवकैः॥ ४१ ततो विमानं समाप्त किङ्किणीजालमण्डितम् । अप्सरोहन्दसंसेव्यं सर्वभोगसमन्वितम् ।। पुरुषोत्तमसंबं च पश्यवाजा स धार्मिकः । ववन्दे चरणौ तस्य कृपापात्रकृतात्मकः ।। तदाबया विमाने स आरूष महिलायुतः । जगाम पश्यतस्तस्य दिवि वैकुण्ठमनुतम् ।। मनी धर्मपरो राज्ञः सर्वधर्मविदुत्तमः । ययौ साकं विमानेन ललनाबन्दसेवितः ।। तापसबामणस्तत्र सर्वतीर्थावगाहकः । चतुर्भुजत्वं संप्राप्तो ययौ देवैर्विमानिभिः ॥ ४६ करम्बोऽपि महाराज गानपुण्येन दर्शनम् । प्राप्तो ययौ सुरावासं सर्वदेवादिदुर्लभम् ।। सर्वे प्रचलिता विष्णुलोकं परममद्भुतम् । चतुर्भुजाः शङ्खचक्रगदापायोजधारिणः ॥ सर्वे मेघश्रियः शुदा लसदम्भोजपाणयः । हारकेयूरकटकैर्भूषिताका ययुर्दिवम् ।। तद्विमानावलीदृष्ट्वा लोकैः प्रकृतिभिस्तदा । दुन्दुभीनां तु निर्घोषस्तैः कृतः कर्णगोचरः ॥ ५० तदैको ब्राह्मणो खासीद्विष्णुपादाजवल्लभः । गतस्तद्विरहाकृष्टचेता जातश्चतुर्भुजः ॥ सञ्चित्रं वीक्ष्य ते लोकाः प्रशंसन्तो महोदयम् । गङ्गासागरसंयोगे स्नात्वाऽगुस्तं पुरं प्रति ॥ ५२ अहो भाग्यं भूमिपते रत्नग्रीवस्य सन्मतेः । जगामानेन देहेन तद्विष्णोः परमं पदम् ॥ राजनसौ नीलगिरिः पुरुषोत्तमसत्कृतः । यं वीक्ष्यैव वजन्त्यद्धा वैकुण्ठं परमायनम् ।। एतनीलस्य माहात्म्यं यः शृणोति सुभाग्यवान् । यः श्रावयति लोकान्वै तौ गच्छेतां परं पदम्५५ एतच्छ्रुत्वा तु दुःस्वमो नश्यति स्मृतिमात्रतः। प्रान्ते संसारनिस्तारं ददाति पुरुषोत्तमः ॥ ५६ योऽसौ नीलाधिवासी च स रामः पुरुषोत्तमः । सीता साक्षान्महालक्ष्मी सर्वकारणकारणम्५७ इयमध चरित्वा स लोकान्वै पावयिष्यति । यत्राम ब्रह्महत्यायाः प्रायश्चित्ते पदिश्यते ॥ ५८ इदानीं त्वद्धयः प्राप्तो नीले पर्वतसत्तमे । पुरुषोत्तमदेवं त्वं नमस्कुरु महामते ॥ तत्र निष्पापिनो भूत्वा यास्यामः परमं पदम् । यस्य प्रसादाबहवो निस्तीर्णा भवसागरात् ६० एवं प्रवदतस्तस्य प्राप्तोऽश्वो नीलपर्वतम् । वायुवेगेन पृथिवीं कुर्वन्संक्षुण्णमण्डलाम् ।। तदा राजाऽपि तत्पृष्ठचारी नीलाभिधं गिरिम् । प्राप्तो गान्धिसंयोगे स्नात्वाऽगात्पुरुषोत्तमम्।। स्तुत्वा नत्वा च तं देवं सुरासुरनमस्कृतम् । जातं कृतार्थमात्मानममन्यत स शत्रुहा ॥ इति श्रीमहापुराणे पाने पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे नीलगिरिमहिमवर्णन नाम द्वाविंशोऽध्यायः ॥२२॥ आदितः श्लोकानां समष्ट्यङ्काः-१२१०९ ५९ अथ त्रयोविंशीऽध्यायः । शेष उवाच- क्षणं स्थित्वा तृणान्यत्वा ययौ वाजी मनोजवः । वीरश्रेणीवृतः पत्र भाले धृत्वा सचामरः १ द. वाऽत्र लो। २ स. 'गे पुण्यस्थाने शुभप्रदे । स्तु!
। २ ३ ४ w ८ १३ २३ त्रयोविंशोऽध्यायः ] पअपुराणम् । शत्रुघ्नेन सुवीरेण लक्ष्मीनिधिनृपेण च । पुष्कलेनोग्रवाहेण प्रतापाग्येण रक्षितः ।। ययौ पुरी स चक्राकां मुबाहुपरिरक्षिताम् । अनेकवीरकोटीभी रक्षितोऽनुगतः प्रभो ॥ तदा पुत्रोऽस्य दमनो मृगयामास्थितो महान् । ददर्शाश्वं भालपत्रं चन्दनादिकचर्चितम् ॥ विलोक्य सेवकं प्राह कस्यायो मेऽक्षिगोचरः । भाले पत्रं धृतं किं नु चामरं किं तु शोभनम् ॥५ इति राज्ञो वचः श्रुत्वा सेवकः प्रययौ ततः । यत्रासौ वर्तते वाजी भालपत्रमुशोभनः ।। गृहीत्वा तं केशसंघे रत्नमालाविभूषितम् । निनाय पार्श्व भूपस्य सुबाहुकुलधारिणः ।। स पत्रं वाचयामास सुन्दराक्षरशोभनम् । अयोध्याधिपतिवाऽऽसीदाजा दशरथो बली ॥ तस्याऽऽत्मजो रामभद्रः सर्वशूरशिरोमणिः । नान्योऽस्ति तत्समः पृथ्व्यां धनुर्धरणविक्रमः॥९ तेनासौ मोचितो वाजी चन्दनादिकचर्चितः । तं पालयति धर्मात्मा शत्रुघ्नः सर्ववीरहा ॥ १० यस्य शूरा वयं वीरा धनुर्हस्ता वयं स्विति । ते गृह्णन्तु बलाद्वाहं रत्नमालाविभूषितम् ॥ मोचयिष्यति शत्रुघ्नः सर्ववीरशिरोमणिः । अन्यथा पादयोस्तस्य प्रणतिं यान्तु धन्विनः ॥ १२ इत्यभिप्रायमालोक्य जगाद नृपनन्दनः । राम एव धनुर्धारी न वयं क्षत्रियाः स्मृताः ॥ ताते मम स्थिते पृथ्व्यां कोऽयं गर्वो महान्भुवि । प्रामोतु गर्वस्य फलं मम निर्मुक्तसायकैः ॥१४ अद्य मे निशिता बाणाः शत्रुघ्नं किंशुकं यथा । पुष्पितं विदधत्वद्धा क्षतावृतशरीरकम् ।। १५ दारयन्तु कपोलांश्च सायका मम दन्तिनाम् । अश्वान्पश्यन्तु शतशो रुधिरौघपरिप्लुतान् ॥ १६ पिबन्तु योगिनीसंघा रुधिराणि नृमस्तकैः । शिवा भवन्तु संतुष्टा मद्वैरिक्रव्यभक्षणैः ॥ १७ पश्यन्तु सुभटास्तस्य मम बाहुबलं महत् । कोदण्डदण्डनिर्मुक्ताः शरकोटीर्विमुञ्चतः ।। इत्यमुक्त्वा महीपस्य तनुजो दमनाभिधः । स्वपुरं प्रेषयित्वा तं प्रहृष्टोऽभवदुद्भटः।। सेनापतिमुवाचेदं सजीकुरु महामते । सेना परिमितां मह्यं वैरिन्दनिवारणे ॥ सजा सेनां विधायाऽऽशु संमुखो रणमण्ड ले । स्थितवान्यावदत्युग्रस्तावत्प्राप्ता हयानुगाः ॥२१ कासौ यो महाराज्ञो भालपत्रेण चिह्नितः । पप्रच्छुस्ते तु चान्योन्यमतिव्याकुलिता मुहुः ॥२२ तावद्ददर्श पुरतः प्रतापाय्यः परंतपः । सज्जीभूतं तु कटकं वीरशब्दनिनादितम् ॥ तत्रावदन्भटाः केचिनीतोऽश्वोऽनेन भूपते । अन्यथा संमुखस्तिष्ठत्कथं वीरो बलानुगः ॥ इत्याकर्ण्य प्रतापाय्यः प्रेषयामास सेवकम् । स गत्वा तत्र पप्रच्छ कुत्राश्वो रामभूपतेः ।। २५ केन नीतः कुतो नीतो रामं जानाति नो कुधीः । यं शक्रप्रमुखा देवा बलिमादाय संनताः॥२६ तस्य वै धर्मराजस्य कुपितं तु बलं महत् । सर्वथा हि ग्रसिष्येत प्रणति चेन्न यास्यति ॥ इत्थमुक्तं समाकर्ण्य तदा राजसुतो बली । तं वै धिक्कारयामास वाचां जालेन दुर्मनाः ॥ २८ मया नीतो यज्ञहयः पत्रचिहाचलंकृतः । ये शूरास्ते तु मां जित्वा मोचयन्तु बलादिह ॥ सेवकस्तद्वचः श्रुत्वा रोषपूर्णो हसन्ययौ । राज्ञे निवेदयामास यथावदुपर्णितम् ॥ तच्छ्रुत्वा रोषताम्राक्षः प्रतापाग्यो महाबलः । ययौ योद्धं राजपुत्रं महावीरपुरस्कृतम् ॥ रथेन कनकाङ्गेन चतुर्वाजिसुशोभिना । सुकबरेण सर्वास्त्रपूरितेन ययौ बली ॥ ३२ धनुष्टकारयामास महाबलसमन्वितः । पुनः पुनर्जहासोचैः कोपादुद्गमिताश्रुकः ॥ ३३ अश्वचारा गजारूढाः खड़ोल्लसितपाणयः । अन्वयुस्ते प्रतापाग्यं रोषपूर्णाकुलेक्षणम् ।। : १८ २० २४ २९ १ ख. ग. छ. ज. ट. ड. ण. त. थ. द. थ.नः परवी ।
४७४ ४२ महामुनिश्रीव्यासप्रणीतं- [४पातालखण्डे- हस्तिनः पत्तयश्चैव कोटिशः प्रधनोधताः । चिरकालमभीप्सन्तो रणं वीरेण कारितम् ॥ तदोद्यतं समाज्ञाय रिपुसैन्यं नृपात्मजः । प्रत्युजगाम वीराग्यो महाबलपरिवृतः ॥ संनद्धः कवची खड्गी शरासनधरो युवा । लीलयैव ययौ योढुं मृगराङ्गजयूथकम् ॥ तदा योधाः प्रकुपिताः परस्परवधैषिणः । छिन्धि भिन्धीति भाषन्तो रणकार्यविशारदाः ॥ ३८ पत्तयः पत्तिसंघेन गजारूढाश्च सादिभिः । रथारूढा रथस्यैश्च वाहारूढावसंस्थितैः॥ गजा भिन्ना द्विधा जाता हयाश्च द्विदलीकृताः । अनेकैरक्तधाराभिर्मेदिनी पूरिता ह्यभूत् ॥ ४० तदा प्रकुपितो राजा प्रतापायो महाबलः । स्वसैन्यकदनोद्युक्तं राजपुत्रं समीक्ष्य च ॥ उवाच सारथिं तत्र प्रापयाश्वान्यतो मम । सैन्यस्य कदनासक्तो राजपुत्रो महाबलेः ॥ अथ वीरशिरोरत्ननमिताधि पात्मजः । ययौ संमुखमेवास्य प्रतापाग्यस्य वीर्यवान् ॥ ४३ सारथिः प्रापयामास प्रतापाग्न्यस्य वाजिनः । यत्रासौ दमनो वीरः सर्वशूरशिरोमणिः ॥ ४४ गत्वा तमाढयामास राजपुत्र रणोद्यतम् । रथे पुरटनिर्णिक्ते तिष्ठन्कोदण्डदण्डभृत् ।। राजपुत्रक शिशो त्वया बद्धोऽश्वसत्तमः । न ज्ञातोऽस्ति महाराजः सर्ववीरेन्द्रसेवितः ॥ ४६ यस्य प्रतापं दैत्येन्द्रो न शक्तः सोढुमद्भुतम् । तस्य त्वं वाजिनं नीत्वाऽगमयः पुटभेदनम् ॥ ४७ मां जानीहि पुरः प्राप्तं कालरूपं तु वैरिणम् । मुश्चाश्चम गच्छाऽऽशु बालक्रीडनकं कुरु।। ४८ कस्याऽऽत्मजस्त्वं कुत्रत्यः कथं नोऽदीर्घदर्शिना। धृतोऽश्वस्त्वथ संजाता घृणा मम शिशो त्वयि॥ इत्थमाकर्ण्य दमनः स्मितं चक्रे महामनाः । उवाच च प्रतापाग्यं तृणीकुर्वश्च तद्बलम् ।। दमन उवाच--- मया बद्धो बलादश्वो नीतश्च पुटभेदनम् । नार्पयिष्येऽद्य सप्राणः कुरु युद्धं महाबल ॥ त्वया यदुक्तं वालस्त्वं गत्वा क्रीडनकं कुरु । तन्मे पश्य महाराज क्रीडनं रणमूर्धनि । ५२ शेष उवाच- इत्युक्त्वा सगुणं चापं विधाय सुभुजाङ्गजः । शराणां शतमाधत्त प्रतापाग्यस्य वक्षसि ॥ ५३ संधाय वाणशतकं शङ्ख दध्मौ प्रतापवान् । तेन शङ्खनिनादेन कातराणां भयं त्वभूत् ॥ ५४ ताडयामास हृदये बाणानां शतकेन सः । प्रतापाग्यः पचिच्छेद लघुहस्तः सुपर्वणः । स बाणच्छेदनं दृष्ट्वा कुपितो व्यसृजच्छरान् । कङ्कपक्षान्वितांस्तीक्ष्णान्भल्लावाजात्मजो बली॥ आकाशे भुवि मध्ये च बाणा ददृशिरेऽश्चिाः । स्वनामचिह्नितास्तीक्ष्णा धारापातसुशोभिताः॥ शरास्ते बाहुँहृदये लग्ना वह्निकणान्वहून् । सृजन्तः कुर्वते सैन्यदाहनं तदभून्महत् ।। ५८ प्रतापाग्यः प्रकुपितस्तिष्ठ तिष्ठेति च ध्रुवन् । शरेण दशसंख्येन ताडयामास मूर्धनि ॥ ते बाणा राजपुत्रस्य ललाटे परिनिष्ठिताः । विराजन्ते स्म च मुने दश शाखास्तरोरिव ॥ ६० तेन बाणप्रहारेण विव्यथे न महामनाः । यष्टिकामहतो यद्वत्कुञ्जरः सप्तवर्षकः ॥ ६१ बाणान्धनुषि संधाय मुमोच त्रिशताशुभान् । सुवर्णपुरचितान्महाकालानलोपमान् ॥ ६२ ते बाणास्तु प्रतापाग्यवक्षो भित्त्वा गता वधः । शोणिताक्ता यथा रामचन्द्रभक्तिपराङ्मुखाः। + संधिरार्षः । १ द. कनरमस्तिष्कैौ । २ क. ख. ग. छ. ज. अ. ठ. इ. ण. त. य. ध. 'ल: । महाबलो वीरशिरोमणिभूतो नृपा । ३ त. रणोद्यतः । ४ म. छ ४. स. थ. ध. वैरिणाम् । ५ क. ख. ग. छ. ज. अ. ठ. . ण. त. थ. ध. 'गां मनोऽ. पत्नत् । ६ घ. ङ. झ. ट. ढ. °ताः । सुना । ७२. राशत' । ८ इ. हुजठरे ल ।
धनुः करे ७४ २३ त्रयोविंशोऽध्यायः ] पद्मपुराणम् । ४७५ प्रतापाग्यः प्रकुपितः शरान्मुञ्चन्सहस्रशः । [*अकरोद्विरयं सूनुं सुबाहोस्तत्क्षणाद्रुतम् ॥ ६४ चतुर्भिश्चतुरो वाहान्दाभ्यां ध्वजमशातयत् ] । एकेन सारथेः कायाच्छिरो मद्यामपातयत् ॥६५ चतुर्भिस्ताडयामास तं सूनुं नृपतेः पुनः । तत्क्षणाचापमेकेन गुणयुक्तं समच्छिनत् ॥ सोऽन्यं रथं समारुह्य हयरत्नसुशोभितम् । समादाय सज्ज चक्रे महामनाः॥ प्रतापाग्यं प्रत्युवाच बया विक्रान्तमद्भुतम् । पश्येदानी पराक्रान्तं धनुषो मम सद्भट ॥ ६८ एवमुक्त्वा स दमनो बाणान्दश समाददे । चतुर्भिश्चतुरो वाहानिनाय यमसादनम् ॥ चतुर्भिस्तिलशः कृत्तो रथश्चक्रसमन्वितः । एकेन हृदि विव्याध बाणेनैकेन सारथिम् ॥ जगर्न शङ्खमापूर्य शङ्खशब्दसमन्वितः । तत्कर्म पूजयामास साधु वीर महाबल ॥ ७१ इति विक्रान्तमालोक्य प्रतापाग्यो रुषाऽन्वितः। अन्यं रयं समास्याय ययौ योढुं नृपात्मजम्७२ उवाच वीर पश्य त्वं मम विक्रान्तमद्भुतम् । इत्युक्त्वाऽऽशु मुमोचौघाञ्शराणां शितपर्वणाम् ७३ शराः सर्वत्र दृश्यन्ते कुञ्जरेषु हयेषु च । परब्रह्मेव सर्वत्र व्याप्ताश्चान्तरगोचराः ॥ तं राजपुत्रं शितबाणकोटिभिर्व्याप्तं विधायाऽऽशु जगजे विक्रमी ।। संहर्षयन्स्वीयगणान्परान्महान्कुर्वन्हदा शून्यतमान्गतासुकान् ॥ स राजपुत्रः शितसायकवजैः संपूर्णमात्मानमवेक्ष्य रोषितः ॥ जग्राह शस्त्राणि दुरन्तविक्रमो धनुश्च धुन्वन्भुजदण्डयोर्महान् ॥ ७६ चकर्त सर्वाण्यत्राणि शस्त्राणि च महाबलः । एष ताम्रेक्षणो मुश्चञ्शरान्वैरिविदारिणः ॥ तच्छत्रजालं निर्धूय राजपुत्रो जगाद तम् । क्षमस्वैक प्रहारं मे यदि शूरोऽसि मारिष ॥ यद्यनेन भवन्तं वै रथाच पातयामि न । प्रतिज्ञां शृणु मे वीर मम गर्वेण निर्मिताम् ॥ वेदं निन्दन्ति ये मत्ता हेतुवादविचक्षणाः । तेषां पापं ममैवास्तु नरकार्णवमज्जकम् ॥ इत्युक्त्वा बाणमाधत्त कोदण्डे कालसंनिभम् । ज्वालामालाकुलं तीक्ष्णं निषङ्गादुद्धृतं वरम्।।८१ स मुक्तो नृपवर्येण हृदि लक्षीकृतः(ते) शरः । जगाम तरसा तं वै कालानलसमप्रभः ॥ प्रतापाग्यः शरं दृष्ट्वा स्वपातनसमुद्यतम् । बाणान्धनुष्यथाऽऽधत्त शरच्छेदाय वै शितान् ॥८३ स बाणः सर्ववाणांस्तांश्छिन्दन्मध्यत एव हि । जगामैव प्रतापाग्यहृदयं धैर्यसंयुतम् ।। स लग्नो हृदि नालीको विवेश तदनन्तरम् । राजा कृतपहारस्तु पपात पृथिवीतले ॥ ८५ मूर्छितं चेतनाहीनं रथोपस्थाद्गतं भुवि । सारथिस्तं समादायापोवाह रणमण्डलात् ॥ ८६ हाहाकारो महानासीद्धलं भग्नं गतं ततः । यत्र शत्रुघ्ननामाऽसौ वीरकोटिपरिवृतः ।। राजात्मजो जयं प्राप्य प्रतापाग्यं विजित्य सः । प्रतीक्षां तु चकारास्य शत्रुघ्नस्य चे भूपतेः ८८ इति श्रीमहापुराणे पाने पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे राजपुत्रयुद्धकथनं नाम त्रयोविंशोऽध्यायः ॥ २३ ॥ आदितः श्लोकानां समष्ट्यङ्काः-१२१९७ ७७ ७८ ७९ ८० ८२ ८७ + एतचिहान्तर्गतः पाठः क. ख. ग. च. छ. ज. अ. ठ. . ण. त. थ. द. घ. पुस्तकस्थ. । १२. क्त्वा स मु । २ ग. ठ. ड. ध. महत् । च । ३ ग. छ. ड. गाम र्तृणमेवास्य हैं। ४ च. म. ण. द. - चमूप।
४७६ महामुनिश्रीव्यासप्रणीतं- [४ पातालखण्डे- अथ चतुर्विशोऽध्यायः । २ ३ ८ ९ १४ शेष उवाच -- शत्रुघ्नस्तु क्रुधाऽऽविष्टो दन्तान्दतैर्विनिष्पिषन् । हस्तौ धुन्वल्लिहानोऽयमधरं जिहयाऽसकृत् ॥१ पुनः पुनस्तान्पप्रच्छ केनाश्वो नीयते मम । प्रतापाग्यः केन जितः सर्वशूरशिरोमणिः ॥ सेवकास्ते तदा मोचुर्दमनो नाम शत्रुहन् । सुबाहुजः प्रतापाग्यं जितवान्हयमाहरत् ।। इति श्रुत्वा हयं नीतं दमनेन स्ववैरिणा । आजगाम स वेगेन यत्राभूद्रणमण्डलम् ॥ तत्रापश्यत्स शत्रुघ्नो गजान्दीर्णकपोलकान् । पर्वतानिव रक्तोदे मज्जमानान्मदोद्धतान् ॥ हयास्तत्र निजारोहकर्तृभिः सहिताः क्षताः। मृता वीरेण ददृशिरे शत्रुघ्नेन सुकोपिना ॥ नरावथान्गजान्भग्नान्वीक्षमाणः स शत्रुहा । अतीव चुक्रुधे यद्वत्पलये प्रलयार्णवः ।। पुरतो दमनं वीक्ष्य हयनेतारमुद्भटम् । प्रतापाग्यस्य जेतारं तृणीकृत्य निजं बलम् ।। तदा राजा प्रत्युवाच योधान्कोपाकुलेक्षणः । कोऽसौ दमनजेताऽत्र सर्वशस्त्रास्त्रधारकः ॥ यो वै राजसुतं वीरं रणकर्मविशारदम् । जेष्यत्यस्त्रेण निर्भीतिः सज्जीभूतो भवत्वयम् ॥ १० इति वाक्यं समाकर्ण्य पुष्कलः परवीरहा । दमनं जेतुमुधुक्तो जगाद वचनं त्विदम् ॥ ११ स्वामिन्कायं दमनकः क तेऽपरिमितं बलम् । जेष्येऽहं त्वत्मतापेन गच्छाम्येष महामते ॥ १२ सेवके मयि युद्धाय स्थिते कैर्नीयते हयः । रघुनाथप्रतापोऽयं सर्व कृत्यं करिष्यति ॥ स्वामिशृणु प्रतिज्ञां मे तव मोदप्रदायिनीम् । विजेष्ये दमनं युद्ध रणकर्मविचक्षणम् ॥ रामचन्द्रपदाम्भोजमध्वास्वादवियोगिनाम् । यदधं तु भवेत्तन्मे दमनं न जये यदि ॥ १५ पुत्रो यो मातृपादान्यत्तीर्थ मत्वा तया सह । विरुध्येत्तत्तमो मह्यं न जये दमनं यदि ॥ १६ अब मद्वाणनिर्मिनमहोरस्को नृपाङ्गजः । अलंकरोतु प्रधने भूतलं शयनेन हि ॥ १७ शेष उवाच- इति प्रतिज्ञामाकर्ण्य पुष्कलस्य रचूद्वहः । जहर्ष चित्ते तेजस्वी निदिदेश रणं प्रति ॥ १८ आज्ञप्तोऽसौ ययौ सैन्यैर्बहुभिः परिवारितः । यत्राऽऽस्ते दमनो राजपुत्रः शूरकुलोद्भवः ॥ १९ दमनोऽपि तमाज्ञाय ह्यागतं रणमण्डले । प्रत्युजगाम वीराग्यः स्वसैन्यपरिवारितः ॥ अन्योन्यं तौ संमिलितौ रथस्थौ रथशोभिनौ । समरे शक्रदैत्यौ किं युद्धार्थ रणमागतौ ॥ २१ उवाच पुष्कलस्तं वै राजपुत्रं महाबलम् । राजपुत्र दमनक मां जानीहि समागतम् ॥ समतिझं तु युद्धाय भरतात्मजमुद्भटम् । पुष्कलेन स्वनाम्ना च लक्षितं विद्धि सत्तम । २३ रघुनाथपदाम्भोजनित्यसेवामधुव्रतम् । त्वां जेष्ये शस्त्रसंघेन सज्जीभव महामते ॥ इति वाक्यं समाकर्ण्य दमनः परवीरहा । प्रत्युवाच हसन्वाग्ग्मी निर्भयो दृष्टविक्रमः ॥ २५ मुबाहुपुत्रं दमनं पितृभक्तिहृताधकम् । विद्धि मामश्वनेतारं शत्रुघ्नस्य महीपतेः ॥ जयो दैवविसृष्टोऽयं यस्य चालंकरिष्यति । स मामोति निरीक्षस्व बलं मे रणमूर्धनि ।। इत्युक्त्वा सशरं चापं विधायाऽऽकर्णपूरितम् । सुमोच बाणानिशितान्वैरिमाणापहारिणः ॥ २८ ते बाणास्त्वावलीभूताश्छादयामासुरम्बरम् । सूर्यभानुमभा यत्र बाणच्छायानिवारिता ॥ २९ १ स. द. क्षितौ । २ . यानलः । ।३ क. ख. ग. छ. ज. म. ठ. र. ग. त. थ. द. म्।सैनिकैः सह स्थाता। ४. 'किपरायणः । ५ स. ग. छ. ज. ठ. र. . घ. "णास्तु खिली' २० २२ २४ २६ २७ ४७७ .. २४ चतुर्विशोऽध्यायः] पद्मपुराणम् । गजानां कटभित्तिषु लग्ना सायकसंततिः । अलंकरोति धातूनां रागा इच विचित्रिताः ॥ ३० पतितास्तत्र दृश्यन्ते नरा वाहा गजा रथाः। शरत्रातेन नृपतेः सुतेन परिताडिताः ॥ ३१ तद्विक्रान्तं समालोक्य पुष्कलः परवीरहा । शराणां छायया व्याप्तं रणमण्डलमीक्ष्य च ॥ ३२ शरासने समाधत्त बाणं वन्यभिमत्रितम् । आचम्य सम्यग्विधिवन्मोचयामास सायकम् ॥३३ ततोऽग्निः प्रादुरभवत्तत्र संग्राममूर्धनि । ज्वालाभिर्विलिहन्व्योम प्रलयाचिरिवोत्थितः ॥ ततोऽस्य सैन्यं निर्दग्धं त्रासं प्राप्तं रणाङ्गणे । पलायनपरं जातं वह्निज्वालाभिपीडितम् ॥ ३५ छत्राणि संप्रदग्धानि चन्द्राकाराणि भूभृताम् । दृश्यन्ते जातरूपस्य कान्तिधारीणि तत्र ह॥३६ हया दग्धाः पलायन्ते केसरेषु तु वैरिणाम् । रथा अपि गदा(ता)दाहं सुकूबरसमन्विताः ॥ ३७ मणिमाणिक्यरत्नानि वहन्तः करभास्ततः । पलायन्ते च दहनज्वालामालाभिपीडिताः ॥ ३८ कुत्रचिदन्तिनो नष्टाः कुत्रचिद्धयसादिनः । कुत्रचित्पत्तयो नष्टा वह्निदग्धकलेवराः॥ शराः सर्वे नृपसुतप्रमुक्ताः प्रलयं गताः । आशुशुक्षणिकीलाभिर्भस्मीभूताः समन्ततः ॥ तदा स्वसैन्ये दग्धे च दमनो रोषपूरितः । तच्छान्त्यर्थं च सर्वास्त्रविद्वारुणमयाऽऽददे ॥ ४१ वारुणं वह्निशान्त्यर्थ मुक्तं तेन महीभृता । आप्लावयद्धलं तस्य रथवाजिसमाकुलम् ।। ४२ रथा पिप्लाविता येन दृश्यन्ते परिपन्थिनाम् । गजाश्चापि परिप्लुष्टाः स्वीयाः शान्तिमुपागताः४३ वविश्व शान्तिमगमदग्न्यस्त्रपरिमोचितः । शान्तिमाप बलं स्वीयं वह्निज्वालाभिपीडितम् ॥ ४४ कम्पिताः शीततोयेन शीत्कुर्वन्ति च वैरिणः । करकादृष्टिभिः क्षिप्ता वायुना च पपीडिताः॥४५ तदा स्वबलमालोक्य तोयपूरपपीडितम् । कम्पितं क्षुभितं नष्टमग्न्यस्त्रं वारुणाहतम् ॥ ४६ तदाऽतिकोपताम्राक्षः पुष्कलो भरतात्मजः । वायव्यास्त्रं समाधत्त धनुष्येकं महाशरम् ॥ ४७ ततो वायुर्महानासीद्वायव्यास्त्रप्रचोदितः । नाशयामास वेगेन घनानीकमुपस्थितम् ।। [ *वायुनाऽऽस्फालिता नागाः परस्परसमाहताः । अश्वाश्च संहतान्योन्यं स्वस्वारोहसमन्विताः। नराः प्रभञ्जनोद्ता मुक्तकेशा निरौजसः । पतन्तोऽत्र समीक्ष्यन्ते वेताला इव भूगताः ॥ ५० वायुना स्वबलं सर्व परिभूतं विलोक्य सः । राजपुत्रः पर्वतास्त्रं धनुष्युच्चैः समादधे ॥ न्दा तु पर्वताः पेतुर्मस्तकोपरि युध्यताम् । वायुः संछादितस्तैस्तु न प्रचक्राम कुत्रचित् ॥ ५२ कलो वज्रसंशं तु समाधत्त शरासने । वज्रेण कृत्तास्ते सर्वे जाताच तिलशः क्षणात् ॥ ५३ जं नगारजःशेषान्कृत्वा बाणेऽभिमत्रितम् । राजपुत्रोरसि प्रोचैः पपात विनदशम् ॥ ५४ त्वाकुलितचेतस्को हृदि विद्धः क्षतो भृशम् । विव्यथे बलवान्वीरः कश्मलं परमाप सः॥५५ वै कश्मलितं दृष्ट्वा सारथिनयकोविदः । अपोवाह रणात्तस्मात्क्रोशमात्रं नरेन्द्रजम् ॥ तो योधा राजसूनोः प्रनष्टाः प्रपलायिताः । गत्वा पुरी समाचख्युः कश्मलस्थं नृपात्मजम्५७ ष्कलो जयमाप्यैवं रणमूर्धनि धर्मवित् । न प्रहर्तुं पुनः शक्तो रघुनाथवचः स्मरन् । ५८ तो दुन्दुभिनिर्घोषो जयशब्दो महानभूत् । साधु साध्विति वाचश्च पावर्तन्त मनोहराः ॥ ५९ पाप स शत्रुघ्नो जयिनं वीक्ष्य पुष्कलम् । प्रशशंस सुमत्यादिमत्रिभिः परिवारितः॥ ६० इति श्रीमहापुराणे पाने पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे पुष्कलविजयो नाम चतुर्विशोऽध्यायः ॥ २४ ॥ आदितः श्लोकानां समष्टयङ्काः-१२२५७ * एतचिहातर्गतः पाठः क ख. ग. च. छ ज. अ. ठ. उ. . द. घ. पुस्तकस्थः । + आर्षत्वात्साधु । १ छ. 3. °रिवारिताः । २ क, ख. ग. छ. ज. अ. ठ. . . ध. त नगव।
A ४७८ महामुनिश्रीव्यासप्रणीतं. [४ पातालखण्डे- अथ पञ्चविंशोऽध्यायः । २ ३ wr ८ ९ शेष उवाच- अथ वीक्ष्य भटानिजानृपो रुधिरौधेन परिप्लुताङ्गकान् । शमयन्निव तच्छुचोऽथ तान्परिपप्रच्छ सुतस्य चेष्टितम् ॥ गदताखिलकर्म तस्य वै स कथं चाहरदश्ववर्यकम् । कथयन्तु पुनः कियद्धलं बत वीराः कति युद्धलालसाः ।। अथ शत्रुबलोन्मुखः कथं मम वीरो दमनो रणं व्यधात् । विजयं च विधाय दुर्जयं किल वीरं बत कोऽप्यशातयत् ॥ इत्याकर्ण्य वचो राज्ञः प्रत्यूचुस्तेऽस्य सेवकाः । क्षतजेन परिक्लिनगात्रवस्त्रादिधारिणः ॥ राजन्नश्वं समालोक्य पत्रचिह्नायलंकृतम् । ग्राहयामास गर्वेण तृणीकृत्य रघूद्वहम् ॥ ततो हयानुगः प्राप्तः स्वल्पसैन्यसमावृतः । तेन साकमभूयुद्धं सुमहल्लोमहर्षणम् ॥ तं मूर्छितं ततः कृत्वा तव पुत्रः स्वसायकैः । यावत्तिष्ठत्यथाऽऽयातः शत्रुघ्नः स्वबलैर्वृतः ॥ ७ ततो युद्धं महदभूच्छस्त्रास्त्रपरिबृंहितम् । बहुशो जयमापेदे तव पुत्रो महाबलः ॥ इर्दानी मुक्तमस्त्रं तु शत्रुघ्नभ्रातृसुनूना । मूर्छितः प्रधने राजन्कृतो वीर सुतस्तव ॥ इति वाक्यं समाकर्ण्य रोषशोकपरिष्ठुतः । स्थगिताङ्ग इवाऽऽसीत्स समुद्र इव पर्वणि ॥ १० उवाच सेनाधिपति रोषप्रस्फुरिताधरः । दन्तैर्दन्ताल्लिहनोष्ठं जिह्वया शोककर्शितः॥ ११ सेनापते कुरुष्वाऽऽरान्मम सेनां तु सजिताम् । योत्स्ये रामस्य सुभैटर्मम पुत्रोपघातकैः ॥ १२ अद्याहं मम पुत्रस्य दुःखदं निशितैः शरैः। भेदयामि यदि ह्येनं रक्षिताऽपि महेश्वरः ॥ १३ सेनापतिरिदं वाक्यं प्रोक्तं सुभुजभूपतेः । निशम्य च तथा कृत्वा सज्जीभूतोऽभवत्स्वयम् ॥१४ राज्ञे निवेदयामास सज्जा स चतुरङ्गिणीम् । सेनां कालबलप्रख्यां हतदुर्जनकोटिकाम् ॥ १५ श्रुत्वा सेनापतेर्वाक्यं सुबाहुः परवीरहा । निर्जगाम ततो यत्र शत्रुघ्नः स्वसुतार्दनः ॥ १६ कुञ्जरैश्च मदोन्मत्तैर्हयैश्चापि मनोजवैः । नरैश्च सर्वशस्त्रास्त्रपूरितै रिपुजेतृभिः । भूश्चकम्पे तदा तत्र सैन्यभारेण पीडिता । संमर्दः सुमहानासीत्तत्र सैन्ये विसर्पति ॥ राजानं निर्गतं दृष्ट्वा रथेन कनकाङ्गिना । शत्रुघ्नसैन्यमुद्युक्तं सर्ववैरिमहारकम् ॥ सुकेतुस्तस्य वै भ्राता गदायुद्धविशारदः । रथेनाऽऽशु जगामायं सर्वशस्त्रास्त्रपूरितः ॥ चित्राङ्गस्तु सुतो रानः सर्वयुद्धविचक्षणः । जगाम स्वरथेनाऽऽशु शत्रुघ्नबलमुन्मदम् ॥ तस्यानुजो विचित्राख्यो विचित्ररणकोविदः । ययौ रथेन हैमेन भ्रातुर्दुःखेन पीडितः ॥ अन्ये शूरा महेष्वासाः सर्वशस्त्रास्त्रकोविदाः । ययुपसमादिष्टाः प्रधनं वीरपूरितम् ॥ राजा सुबाहुः सरोषादागतः प्रधनाङ्गणे । विलोकयामास सुतं मूर्छितं शरपीडितम् ॥ १८ १९ २१ २२ २३ २४ । १ ख. ग. ज. उ. प. त. य. द. ध. "न् । सुखमाप न वै शुशोच ता । २ ख. द. ति यो मागताः । । ३६. 'त्रुघ्नभातृपुत्रकः । त। ४ ग. छ. ठ. ध. °दानी तेन मुक्कानक्षतहनृपतेः सुतः । अलं करोति प्रधनं सर्ववीरैः सुसेवि तम् । ई। क. ख. अ. ड. ण. त. थ. 'दानीं तेन मुक्कानक्षतहनृपते सुतः । अकरोत्प्रधनं राजन्सर्ववीरैः सुसेवितम् । । ५. ने लेन कृतो। ६ छ. स. ण. 'वाद्य मम । ७. नकण्टका । ८ द. रथैश्च । ९ छ. . ता महायु'।
२८ २६ षड्विंशोऽध्यायः] पपुराणम् । स्थोपस्थस्थितं मूढं स्वसुतं दमनाभिधम् । वीक्ष्य दुःखं मुहुः प्राप वीजयामास पल्लवैः॥ २५ जलेन सिक्तः संस्पृष्टो राज्ञा कोमलपाणिना । संज्ञामाप शनैर्वीरो दमनः परमास्त्रवित् ।। उत्थितः क धनुर्मेऽस्ति क पुष्कल इतो गतः । संसज्य समरं त्यक्त्वा मदाणत्रैणपीडितः ॥२७ इति वाक्यं समाकर्ण्य सुबाहुः पुत्रभाषितम् । परमं हर्षमापेदे परिरभ्य सुतं स्वकम् ॥ दमनो वीक्ष्य जनकं त्रपानम्रशिरोधरः । पपात पादयोर्भक्त्या क्षतदेहोऽस्त्रराजिभिः ।। स्वसुतं रथसंस्थं तु विधाय नृपतिः पुनः । जगाद सेनाधिपतिं रणकर्मविशारदः ॥ व्यूह रचय संग्रामे क्रौञ्चाख्यं रिपुदुर्जयम् । यमाविश्य जये सैन्यं शत्रुघ्नस्य महीपतेः ।। तद्वाक्यमाकर्ण्य सुबाहुभूपतेः क्रौञ्चाख्यसुव्यूहविशेषमादधात् ।। यं नो विशन्ते सहसा रिपोर्गणा महाबलाः शस्त्रसमूहधारिणः ।। ३२ मुखे सुकेतुस्तस्याऽऽसीद्गले चित्राङ्गसंज्ञकः । पक्षयो राजपुत्रौ द्वौ पुच्छे राजा प्रतिष्ठितः ॥ ३३ मध्ये सैन्यं महत्तस्य चतुरङ्गसुशोभितम् । कृत्वा न्यवेदयद्राज्ञे कौश्चव्यूहं विचित्रितम् ।। दृष्ट्वा राजा सुसंनद्धं क्रौश्चव्यूहं विनिर्मितम् । रणाय स्वमतिं चक्रे शत्रुघ्नकटके स्थितैः ।। इति श्रीमहापुराणे पाझे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधै सुबाहुसैन्यसमागमो नाम पश्चविंशोऽध्यायः ॥२५॥ आदितः श्लोकानां समष्ट्यङ्काः-१२२९२ ३५ अथ षड्विंशोऽध्यायः । १ २ c or शेष उवाच- शत्रुघ्नस्तदलं दृष्ट्वा भीषणाकृति मेघवत् । हस्त्यश्वरथपादातैर्वहुभिः परिवारितम् ॥ सुमतिं प्रत्युवाचेदं वचो गम्भीरशब्दयुक् । नानावाक्यविचारज्ञैः पण्डितैः परिसेवितः ॥ शत्रुघ्न उवाच- सुमते कस्य नगरं प्राप्तो मे हयसत्तमः । बलमेतनिरीक्ष्येत पयोदधितरङ्गवत् ।। कस्यैतद लमुद्धर्ष चतुरङ्गसमन्वितम् । पुरतो भाति युद्धाय समुपस्थितमादरात् ॥ एतत्सर्व समाचक्ष्व यथावत्पृच्छतो मम । यज्ज्ञात्वा युद्धसंस्थायै निर्दिशामि स्वकान्भटान् ॥५ इति वाक्यं समाकर्ण्य सुमतिः शुभबुद्धिमान् । उवाच वचनं प्रीतः शत्रुघ्नं वैरितापनम् ॥ सुमतिरुवाच- चक्राङ्का नगरी राजवर्तते सविधे शुभा । यस्यां सन्ति नराः पापरहिता विष्णुभक्तितः ॥ तस्याः पुर्याः पतिरयं सुबाहुर्धर्मवित्तमः । तवार्य पुरतो भाति पुत्रपौत्रसमावृतः ।। स्वदारनिरतो नित्यं परदारपराङ्मुखः । विष्णोः कथाऽस्य कर्णस्था न चान्यार्थप्रकाशिनी ॥९ परस्वं न समादत्ते षष्ठांशादधिकं नृपः । ब्राह्मणा विष्णुभक्त्यैव पूज्यन्ते तेन धर्मिणा ॥ १० नित्यं सेवारतो विष्णुपादपद्ममधुव्रतः । एष स्वधर्मनिरतः परधर्मपराङ्मुखः ॥ ११ एतस्य बलतुल्यं हि न वीराणां बलं कचित् । पुत्रस्य पतनं श्रुत्वा रोषशोकसमाकुलः ।। १२ १ क. ख. ग. छ. ज. अ. ठ. ड. ण. त. थ. इतः स्मृतः । २ . ख. ग. छ. ज. अ. ठ. ड. ण. त. थ. ध. तः। क गतः स । ३ ख. ग. छ. ण. त. थ. द. व्रजपी । ४ ज. त. थ. रदम् । व्यू'। ५क. ख. ज. अ. केऽमितैः । ग. छ. ठ. ड. ण. ध.केऽमिते ।। ८ ४८० १५ १८ २४ २७ महामुनिश्रीव्यासप्रणीतं- [४ पातालखण्डे- चतुरासमेतोऽयं युद्धाय समुपस्थितः । तवापि वीरा बहवो लक्ष्मीनिधिमुखा अमून् । १३ जेष्यन्ति शस्त्रसंघेन निर्दिशाऽऽशु परं हितान् । शत्रुघ्नस्तद्वचः श्रुत्वा प्रोवाच सुभटान्वरान्॥१६ रणप्राप्तिभवोद्धर्षपूरपूरितमानसान् । क्रौञ्चव्यूहोऽद्य रचितः सुबाहुपरिसैनिकैः ।। मुखपक्षस्थिता योधास्तान्को भेत्स्यति शस्त्रवित् । यस्य भेदे निजा शक्तिों वीरविजयोधतः॥१६ स गृह्णातु मदीयाद्धि पाणिपमाच वीटकम)। तदा लक्ष्मीनिधिर्वीरो जग्राह क्रोश्चभेदने ॥ १५ [*सर्वशस्त्रास्त्रविद्वीरैर्बहुभिः परिवारितः । उवाच वचनं राजन्यास्येऽहं क्रौञ्चभेदने ॥ भार्गवः पूर्वमेवाऽऽसीत्क्रौञ्चभेत्ता तथा ह्यहम् । तथाऽन्यवीरमावोचत्कोऽस्य साधं गमिष्यति १९ पुष्कला पृष्ठता यस्य गन्तुं चक्रे मतिं ततः। रिपुतापो नीलरत्न उग्रास्यो वीरमर्दनः ॥ सर्वे शत्रुघ्ननिदेशाद्ययुस्ते कौश्चभेदने । शत्रुघ्नोऽपि रथे संस्थः सर्वायुधधरः परः ॥ २१ पृष्ठतोऽस्य परीयाय बहुभिः सैनिकैर्वृतः । तदा प्रचलितौ दृष्टावन्योन्यबलवारिधी ॥ २२ प्रलयं कर्तुमुद्युक्तौ जगतः सुतरङ्गिणौ । तदा भेर्यः समाजघ्नुरुभयोः सेनयोढाः ॥ २३ रणभेर्यः शङ्खनादाः श्रूयन्ते तत्र तत्र ह । हेषन्ते वाजिनस्तत्र गर्जन्ति द्विरदा भृशम् ॥ हुँहुं कुर्वन्ति वीराग्र्या नदन्ति रथनेमयः । तत्र वीराः प्रकुपिताः सुबाहुबलदर्पिताः ।। छिन्धि भिन्धीति भाषन्तो दृश्यन्ते बहवो रणे । एवंभूते रणोयुक्त सैन्ये शत्रुघ्नवैरिणोः॥ २६ मुखसंस्थं सुकेतुं तं लक्ष्मीनिधिरुवाच ह । लक्ष्मीनिधिरुवाच- जनकस्य सुतं विद्धि लक्ष्मीनिधिरिति स्मृतम् । सर्वशस्त्रास्त्रकुशलं सर्वयुद्धविशारदम् ॥ मुश्चाश्वं रामचन्द्रस्य सर्वदानवदंशितुः । नो चेन्मद्वाणनिर्भिन्नो यास्यसे यमसादनम् ॥ इति ब्रुवन्तं वीराग्यं सुकेतुस्तरसा बली । सज्जं चापं विधायाऽऽशु बाणान्मुञ्चत्रणेऽभवत् ॥३० बाणाः शितपर्वाणः स्वर्णपुजाः समन्ततः। दृश्यन्ते व्यापिनस्तत्र रणमध्ये सुदुर्भराः ॥ तद्वाणजालं तरसा निहत्य लक्ष्मीनिधिश्चापमथाऽऽततज्यम् ॥ विधाय तस्योरसि बाणषटुं मुमोच तीक्ष्णं शितपर्वशोभितम् ॥ ते बाणाः सुभुजभ्रातुर्हदयं संविदार्य च । गतास्तु भुवि दृश्यन्ते रुधिराक्तमलीमसाः ॥ ३३ तद्भाणभिन्नहृदयः सुकेतुः कोपपूरितः । जघान शरविंशत्या तीक्ष्णया नतपर्वया ॥ ३४ उभौ बाणविभिन्नाङ्गावुभौ क्षतजविठुतौ । सैनिकैः परिदृश्यन्ते किंशुकाविव पुष्पितौ ॥ ३५ मुश्चन्तौ बाणकोटीश्च दधतौ तरसा शरान् । केनापि न विलक्ष्येते लघुहस्तौ महाबलौ ॥ कुण्डलीकृतसच्चापौ वर्षन्तौ बाणधारया । नवाम्बुदाविव दिवि शक्रनिर्देशकारिणौ ॥ तयोर्बाणा गजान्वाहानराशूरान्विमस्तकान् । कुर्वन्तः केवलं दृष्टा न च संधानमोक्षणे ॥ ३८ पृथिवी सुभटैः पूर्णा सकिरीटैः सकुण्ड लैः । धनुर्बाणकरै रोषसंदष्टाधरयुग्मकैः ।। ३९ तयोः प्रयुध्यतोदात्सर्वशस्त्रास्त्रवेदिनोः । युद्धं समभवद्धोरं देवविस्मापनं महत् ॥ संमर्दोऽभवदत्यन्तं वीरकोटिविघातनः । न केनचित्कचिदृष्टं शरजालान्तरेऽम्बरम् ।। ४१ तस्मिंस्तु समये लक्ष्मीनिधिर्वीरोऽरिमर्दनः । बाणांश्चापे समाधत्त वसुसंख्यान्हढाशितान् ॥ ४२ चतुर्भिस्तुरगान्वीरः सुकेतोरनयत्क्षयम् । एकेन ध्वजमत्युग्रं चिच्छेद तरसा हसन् ॥ २८ २९ ३२ ३७ ॥ * एतचिहान्तर्गतः पाठः, ग. छ. इ. द. पुस्तकस्थः ।
४८१ ४८ २७ सप्तविंशोऽध्यायः ] पद्मपुराणम् । एकेन सारथः कायाच्छिरो भूमावपातयत् । एकेन चापं सगुणमच्छिनद्रोषपूरितः ॥ एकेन हदि विव्याध सुकेतोर्वेगवानृपः । तत्कर्माद्भुतमुद्रीक्ष्य वीरा विस्मयमाययुः ।। सच्छिमधन्वा विरयो हताश्वो हतसारथिः। महतीं स गदां नीत्वा योबुकामोऽभ्युपेयिवान्।। ४६ तमायान्तं समालक्ष्य गदायुद्धविशारदम् । महत्या गदया युक्तं रथादवततार सः॥ गदामादाय महतीं सर्वायसविनिर्मिताम् । जातरूपविचित्राङ्गी सर्वशोभापुरस्कृताम् ।। लक्ष्मीनिधिर्भृशं क्रुद्धः सुकेतोर्वक्षसि त्वरन् । ताडयामास सुदृढं गदां वांनिसंनिभाम् ॥ ४९ गदया ताडितो वीरो नाकम्पत महामुने । मदोन्मत्तो यथा दन्ती बालेनैव सजा हतः ॥ कथयामास वीराग्यो नृपं लक्ष्मीनिधिं तदा । सहस्वैकं प्रहारं मे यदि शूरः परंतपः ॥ इत्युक्त्वा ताडयामास ललाटे गदया भृशम् । गदया ताडितो भालेऽमृग्वमन्कुपितो भृशम्।।५२ मूधि तं ताडयामास गदया कालरूपया । सुकेतुरपि तं स्कन्धे ताडयामास धर्मवित् ।। एवं भृशं मुकुपितौ गदायुद्धविशारदौ । गदायुद्धं प्रकुर्वाते परस्परजयैषिणौ ॥ अन्योन्यघातविमतौ परस्परवधोद्यतौ । न कोऽपि तत्र हीयेत न को जीयेत संयुगे । मूनि भाले तथा स्कन्धे हृदि गात्रेषु सर्वतः । रुधिरौघपरिक्लिन्नौ महावलपराक्रमौ ॥ तदा लक्ष्मीनिधिः क्रुद्धो गदामुद्यम्य वेगवान् । जगाम प्रबलं हन्तुं हृदि राजानुज बली ॥ ५७ तमायान्तमथाऽऽलोक्य स्वगदां महतीं दधत् । ययौ तं तरसा हन्तुं राजभ्राता बलादलम् ॥५८ गदां तेन विनिक्षिप्तां स्वकरे धृतवानयम् । तयैव गदया तस्य हृदि जघ्ने महाबलः ।। स्वगदां तेन वै नीतां दृष्ट्वा लक्ष्मीनिधिर्नृपः । बाहुयुद्धेन तं योबुमियेष बलवत्तरम् ॥ ६० तदा राजानुजः क्रुद्धो बाहुभ्यामुपगृह्य तम् । युयुधे सर्वयुद्धस्य ज्ञाता वीरेषु सत्तमः ।। तदा लक्ष्मीनिधिस्तस्य हृदि जन्ने स्वमुष्टिना । तदा सोऽपि शिरस्येनं मुष्टिमुद्यम्य चाहनत् ॥६२ मुष्टिभिर्वज्रसंकाशैस्तलस्फोटैश्च दारुणैः । अन्योन्यं जन्नतुः क्रुद्धौ संदष्टाधरपल्लवौ ।। मुष्टीमुष्टि दन्तादन्ति कचाकचि नखानखि । उभयोरभवद्युद्धं तुमुलं रोमहर्षणम् ।। तदा प्रकुपितो भ्राता नृपतेश्वरणे नृपम् । गृहीत्वा भ्रामयित्वाऽथ पातयामास भूतले ॥ लक्ष्मीनिधिः करे गृह्य तं नृपानुजमुच्चकैः । भ्रामयित्वा शतगुणं गजोपस्थे जघान तम् ।। ६६ स तदा पतितो भूमौ संज्ञां प्राप्य क्षणादनु । तथैव भ्रामयामास व्योम्नि वेगेन विक्रमी ॥ ६७ एवं प्रयुध्यमानौ तौ बाहुयुद्धं गतौ पुनः । पादे पादं करे पाणिं हृदि हृदं(च) मुखे मुखम् ॥६८ एवं परस्परं श्लिष्टौ परस्परवधैषिणौ । उभावपि बलाक्रान्तावुभौ मूर्छामपीयतुः ॥ तदृष्ट्वा विस्मयं प्राप्ताः प्रशशंसुः सहस्रशः । धन्यो लक्ष्मीनिधि पो धन्यो राजानुजो बली ॥७० इति श्रीमहापुराणे पाझे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे गदायुद्धं नाम षविंशोऽध्यायः ॥ २६ ॥ आदितः श्लोकानां समष्ट्यकाः-१२३६२ अथ सप्तविंशोऽध्यायः । शेष उवाच- चित्रातः क्रौञ्चकण्ठस्थो रथस्थो वीरशोभितः । गाहयामास तत्सैन्यं वाराह इव वारिधिम् ॥१ १ अ. 'जाप्रसं। २ ड. प्रहारतः । ३ अ. स्येकं मु' ।
२ ३ ५ ७ ८ - ४८२ महामुनिश्रीव्यासमणीतं- [ ४ पातालखण्डे- धनुर्विस्फार्य सुदृढं मेघनादनिनादि तत् । मुमोच बाणामिशितान्वैरिकोटिविदाहकान् ।। तद्वाणभिन्नसर्वाङ्गाः शेरते सुभटा भृशम् । सकिरीटतनुत्राणाः संदष्टदशनच्छदाः ॥ एवं प्रवृत्ते संग्रामे ययौ योद्धं तु पुष्कलः । मणिचित्रितमादाय चापं वैरिप्रतापनम् ।। तयोः संगतयो रूपं दृश्यतेऽतिमनोहरम् । पुरा तारकसंयोगे स्कन्दतारकयोर्यया ॥ विस्फारयन्धनुः शीघ्र सव्यसाची तु पुष्कलः । ताडयामास तं सिमं शरैः संनतपर्वभिः॥ ६ चित्राङ्गोऽपि रुषा क्रान्तः शरासन इशितान् । दधयमुश्चद्भहुशो रणमण्डलमूर्धनि ॥ नाऽऽदानं न च संधानं न मोचनमथापि वा । दृष्टं तावेव संदृष्टौ कुण्डलीकृतचापिनौ ॥ तदाऽसौ पुष्कलः क्रुद्धः शराणां शतकेन तम् । विव्याध वक्षःस्थलके महायोद्धारमुद्भटम् ॥ ९ चित्राङ्गस्ताञ्शरान्सश्चिच्छेद तिलशः क्षणात् । ताडयामास चाङ्गेषु पुष्कलं शितसायकैः।।१० पुष्कलस्तद्रथं दिव्यं भ्रामकास्त्रेण शोभिना । नभसि भ्रामयामास तदद्भुतमिवाभवत् ।। ११ भ्रान्त्वा मुहूर्तमात्रं तु तद्रयो हयसंयुतः । स्थिति लेभेऽतिकष्टेन संधृतो रणमण्डले ॥ १२ स चास्य विक्रमं दृष्ट्वा चित्राः कुपितो भृशम् । उवाच पुष्कलं धीमान्सर्वास्त्रेषु विशारदः॥ १३ चित्राा उवाच- त्वया साधु कृतं कर्म सुभटैर्युघि संमतम् । मद्रयो वाजिसंयुक्तो भ्रामितो नभसि क्षणम् ॥ १४ पराक्रम समीक्षस्व ममापि सुभटेडितम् । आकाशचारी तु भवान्भवत्वमरपूजितः ॥ १५ इत्युक्त्वा स मुमोचास्त्रं रणे परमदारुणम् । धनुषा परमास्त्रज्ञः सर्वधर्मविदुत्तमः ॥ १६ तेन बाणेने संबद्धः खे बभ्राम पतङ्गवत् । सरथः सहयः संख्ये सध्वजश्च ससारथिः ॥ १७ भ्रान्तः स स्थवर्यस्तु नभसि त्वरयान्वितः । यावत्स्थिति नै लभते तावन्मुक्तोऽपरः शरः॥१८ पुनश्च परिबभ्राम रथः सूतसमन्वितः । तत्कर्म वीक्ष्य पुत्रस्य राज्ञो विस्मयमाप सः॥ १९ कथंचित्स्थितिमप्याप पुष्कलः परवीरहा । रथं जघान बाणैश्च ससूतहयमस्य च ॥ स भग्नः स्यन्दनो वीरः पुनरन्यं समाश्रितः । सोऽपि भग्नः शरैराशु पुष्कलेन रणागणे ॥ २१ पुनरन्यं समास्थाय यावदायाति संमुखम् । तावद्धभञ्ज निशितैः सायकैस्तद्रथं पुनः ।। २२ एवं दश रथा भग्ना नृपतेरात्मजस्य हि । पुष्कलेन तु वीरेण महासंयुगशालिना ॥ २३ तदा चित्राङ्गका संख्ये रथे स्थित्वा विचित्रिते । आजगाम ह वेगेन योद्धं पुष्कलकेन तु ॥ २४ पुष्कलं पञ्चभिर्वाणैस्ताडयामास संयुगे । तै|गेनिहतोऽत्यन्तं विव्यथे भरतात्मजः ।। स क्रुद्धश्चापमुद्यम्य बाणान्दश शितान्महान् । मुमोच हृदये तस्य स्वर्णपुलसुशोभितान् ॥ २६ ते बाणाः पपुरेतस्य रुधिरं बहुदारुणाः । पीत्वा पेतुः क्षितौ कूटसाक्षिणः पूर्वजा इव ॥ तदा चित्राङ्गकः कुद्धो भल्लान्पश्च समाददे । मुमोच भाले पुत्रस्य भरतस्य महौजसः ॥ तैभल्लैंराहतः क्रुद्धः शरासनवरे शरम् । दधत्पतिज्ञामकरोच्चित्राङ्गनिधनं प्रति ॥ शृणु वीर मम क्षिप्रं प्रतिज्ञा त्वद्वधाश्रिताम् । तज्ज्ञात्वा सावधानेन योद्धव्यं च त्वयाऽत्र हि ३० बाणेनानेन चेत्त्वां वै न कुर्या प्राणवर्जितम् । सती संदूष्य वनितां शीलाचारसुशोभिताम् ॥३१ लोको यः पाप्यते लोकैर्यमस्य वशवर्तिभिः । स लोको मम वै भूयात्सत्यं मम प्रतिश्रुतम् ॥ ३२ इति श्रेष्ठं वचः श्रुत्वा जहास परवीरहा । उवाच मतिमान्वीरः पुष्कलं वचनं शुभम् ।। १ क, ख. ग. छ. ज. अ. उ. प. त. थ. रीटा विचित्राहाः सं। २ क. ख. ग. छ. ज. अ. ह. ण. त. थ. न स रथः खे । ३ क. ख. ग. छ. ज. अ. ठ... गं. त. थ. द. घ. स । २० २७ २८ २९ ४८३ तदा ॥ २८ अष्टाविंशोऽध्यायः ] पअपुराणम् । मृत्यु प्राणिनां भाष्यः सर्वत्रैव च सर्वदा । तस्मान्मे निधने दुखं नास्ति शूरशिरोमणे ॥ ३४ प्रतिज्ञा या कृता वीर त्वया वीरेण शोभिना । सा सत्यैव पुनर्मेऽद्य श्रूयतां व्याहृतं महत् ॥३५ तव वाणं वधोयुक्तं मम न च्छेमि चेदहम् । तदा प्रतिज्ञां शृणु मे सर्ववीराभिमानिनः ॥ ३६ तीर्थ जिगमिषोर्यो वै कुर्यात्स्वान्तविखण्डनम् । एकादशीव्रतादन्यज्जानाति व्रतमुच्चकैः ॥ तस्य पापं ममैवास्तु प्रतिज्ञापरिघातिनः । इति वाक्यमुदीर्यैव तूष्णीभूतो धनुर्दधे ।। तेन निषङ्गात्स्वादुद्धृत्य सायकं वरम् । कथितं तत्र विशदं वाक्यं शत्रुवधावहम् ३९ पुष्कल उवाच-- यदि रामाधियुगलं निष्कापव्येन चेतसा । उपासितं मया तर्हि मम वाक्यं भवत्वृतम् ॥ ४० यदि स्वमहिला भुक्त्वा नान्यां जानामि चेतसा । तेन सत्येन मे वाक्यं सत्यं भवतु संगरे ४१ इति वाक्यमुदीर्याऽऽशु बाणं धनुषि संधितम् । कालानलोपमं वीरशिरश्छेदनमाक्षिपत् ॥ ४२. तं बाणं मुक्तमालोक्य स तु राजसुतो बली । बाणं शरासनेऽधत्त तीक्ष्णं कालानलोपमम् ॥४३ तेन बाणेन संछिनो बाणः स्ववध उद्यतः। हाहाकारो महानासीच्छिन्ने तस्मिञ्शरे तदा ॥ ४४ परार्धं पतितं भूमौ पूर्वार्ध फलसंयुतम् । शिरोधरां चकर्ताऽऽशु पद्मनालमिव क्षणात् ।। ४५ तदा भूमौ पतन्तं तु ददृशुः सर्वसैनिकाः । हाहा कृत्वा भृशं सर्वे पलायनपरा गताः । पृथिव्यां मस्तकं श्रेष्ठं सकिरीटं सकुण्डलम् । शुशुभेऽतीव पतितं चन्द्रबिम्बं दिवो यथा ॥ ४७ तं वीक्ष्य पतितं वीरः पुष्कलो भरतात्मजः । व्यगाहत व्यूहमिमं सर्ववीरैकशोभितम् ॥ इति श्रीमहापुराणे पाने पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे चित्राङ्गवनिरूपणं नाम सप्तविंशोऽध्यायः ॥ २७ ॥ आदितः श्लोकानां समश्यङ्काः-१२४१० ४८ अथाष्टाविंशोऽध्यायः । ३ शेष उवाच- अथ पुत्रं समालोक्य पतितं व्यसुमुद्धतम् । विललाप भृशं राजा सुतदुःखेन दुःखितः ॥ मूर्वि संताडयामास पाणिभ्यामतिदुःखितः । कम्पमानो भृशं चाश्रूण्यमुश्चन्नयनाब्जयोः ।। गृहीत्वा पतितं वक्त्रं चन्द्रबिम्बमनोरमम् । पुष्कलेषुक्षताटैग्भिश्छन्नं कुण्डलशोभितम् ।। कुटिलभूयुगश्रेष्ठं संदष्टाधरपल्लवम् । संचुम्ब्य मुखपमेन विलपनिदमब्रवीत् ।। हा पुत्र वीर कथमुत्सुकचेतसं मां किं नेक्षसे विशदनेत्रयुगेन शूर । किं मद्विनोदकैतया रहितस्त्वमेव रोषोदधिप्लुतमनाः किल लक्ष्यसे च ॥ वद पुत्र कथं मां त्वं प्रचूषे न हसन्पुनः । अमृतैर्मधुरास्वादैविनोदयसि पुत्रक ॥ शत्रुनाश्वं गृहाण त्वं सितचामरशोभितम् । सुवर्णपत्रशोभाढ्यं त्यक्त्वा निद्रां महामते ।। एष प्रतापविशदः प्रतापाग्यः परंतपः । धनुर्बिभ्रत्पुरो भाति पुष्कलः परवीरहा ॥ एनं वारय सत्तीक्ष्णैर्वाणैः कोदण्डनिर्गतैः । कथं त्वं रणमध्ये वै शेषे वीर विमोहितः ॥ हस्तिनः पत्तयश्चैव रथारूढा भयार्दिताः। शेरणं त्वां समायान्ति तानीलस्व महामते ।। १० १. त् । त्वद्वाण मधोयुकं न च्छिन्द्यां यदि चे । २ ग. छ. ठ. इ. द. घ. परिमः क्लिन । ३ ख. ग. छ. . २. ६. ध कथया । ४ ग. ये शरवि । ५क. ख. ग. छ. ज. अ. द. १. ण. त. द.प. भरण्य । ६ ८ ४८४ २४ महामुनिश्रीव्यासप्रणीत- [४ पातालखण्जे- पुत्र त्वया विना सोढुं कथं शक्तो रणागणे । शत्रुघ्नसायकांस्तीक्ष्णांश्चण्डकोदण्डनिर्गतान् ॥ ११ अतो मां तु त्वया हीनं को वा पालयितुं क्षमः। यदि त्यक्ष्यसि निद्रां त्वं जयायाई क्षमस्तदा ॥ इत्थं विलप्य सुभृशं तताड हृदयं स्वकम् । बहुशः पाणिना राजा पुत्रदुःखेन दुःखितः ॥ १३ तदा विचित्रदमनौ स्वस्वस्यन्दनसंस्थितौ । पितुश्चरणयोर्नत्वा ऊचतुः समयोचितम् ॥ १४ राजन्नस्मत्सु जीवत्सु किं दुःखं हृदि तेऽनघ । वीराणां प्रधने मृत्युाञ्छितो जायते महान् १५ धन्योऽयं बत चित्राको यो वीरभुवि शोभते । सकिरीटस्तु संदष्टदन्तच्छदयुगः प्रभुः ॥ १६ कथयाऽऽशु किमद्यैव कुर्वस्ते कार्यमीप्सितम् । शत्रुघ्नवाहिनीं सर्वामावां हन्वः प्रमाथिनीम् ॥१७ अद्यैव पुष्कलं भ्रातुर्वधकारिणमाहवे । पातयावो रैथाच्छित्त्वा शिरो मुकुटमण्डितम् ॥ १८ त्यज शोकं सुदुःखातः कथं भासि महामते । आज्ञापयाँऽऽवां मानाई कुरु युद्ध मति तथा॥१९ इति वाक्यं समाकर्ण्य पुत्रयोर्वीरमानिनोः । शोकं त्यक्त्वा महाराजो युद्धाय मतिमादधात् २० तावपि प्रतियोद्धारं वाञ्छन्तौ रणदुर्मदौ । जग्मतुः कटके शत्रोरनन्तभटपूरिते ॥ २१ रिपुतापेन दमनो नीलरवेन चेतरः । युयुधाते रणे वीरौ प्रादृषीव बलाहको ॥ राजा कनकसंनद्धे रथे मणिविचित्रिते । रत्नकूबरशोभाब्ये तिष्ठंचापधरो बली ॥ ययौ योद्धं तु शत्रुघ्नं वीरकोटीभिरावृतम् । तृणीकुर्वन्महावीरान्धनुर्विद्याविशारदान् ॥ सं योद्धमागतं दृष्ट्वा सुबाहुं रोषपूरितम् । पुत्रनाशेन कुर्वन्तं सर्वसैन्यवधादिकम् ॥ २५ शत्रुघ्नपार्थसंचारी हनूमांस्तमुपाद्रवत् । नखायुधो महानादं कुर्वन्मेघ इवाऽऽहवे ॥ २६ सुबाहुस्तं हनूमन्तमागच्छन्तं महारवम् । उवाच प्रहसन्वाक्यं रोषपूरितलोचनः ॥ क गतः पुष्कलो हत्वा मत्पुत्रं रणमण्डले । पातयाम्यद्य तस्याऽऽशु शिरो ज्वलितकुण्डलम्॥२८ क शत्रुघ्नो वाहपालः क च रामः कुतो भटाः । पाणहन्तारमायान्तं पश्यन्तु प्रधने तु माम् ॥२९ इति तद्वाक्यमाकर्ण्य हनूमानिजगाद तम् । शत्रुघ्नो लवणच्छेत्ता वर्तते सैन्यपालकः ॥ स कथं प्रधने युटयेत्से ग्रस्थिते नृप । मां विजित्य रणे तं च त्वं गन्तासि नरर्षभ । इत्युक्तवन्तं तरसा विव्याध दशसायकैः । हृदि तं वीरमत्युग्रं पर्वताग्यमिव स्थितम् ॥ ३२ ते बाणा आगतास्तेन गृहीताः करकुड्मले । चूर्णयामास तिलशः शितान्वैरिविदारणान् ॥ ३३ चूर्णयित्वा शरांस्तांस्तांन्विनदन्धनजितैः । पुच्छेनाऽऽवेष्टय वेगेन रथं निन्ये महाबलः ॥ ३४ तं यान्तं नृपवर्योऽसावाकाशे स्थित एव सः । लाङ्ग्लं ताडयामास शिताः सायकैर्मुहुः।। ३५ स ताडितस्तु पुच्छाग्रे शरैः संनतपर्वभिः । मुमोच तद्रथं दिव्यं कनकेन विचित्रितम् ॥ स मुक्तस्तेन तरसा शरैस्तीक्ष्णैर्जघान तम् । हनूमन्तं कपिवरं रोषसंपूरितेक्षणः ॥ हनूमान्बाणसंछिन्नः सर्वत्र रुधिराप्लुतः । महारोष समाधत्त नृपोपरि कपीश्वरः ॥ गृहीत्वा तस्य दंष्ट्राभी रथं हयसमन्वितम् । चूर्णयामास वेगेन तदद्भुतमिवाभवत् ॥ स्वरथं भज्यमानं तु दृष्ट्वा राजा स्वरन्बली । अन्यं रथं समास्थाय युयुधे तं महाबलम् ॥ पुच्छे मुखेऽय हृदये बाहोश्चरणयोर्नृपः । जघान शरसंधानकोविदः परमाखवित् ।। ४१ १ क. स. ग. ज. प. ठ. ग. त. द. ध. श ताडयन्स्वकरण हृत् ।। २ क. स. ग. ज. प. उ.प. त. य. द.प. हुनो विललापायं पु। ३ क. स. ग. छ. ज. अ. ठ. ण. त. य. ध. 'मादरात् । पा । ४ क. ख. ग. छ. ज. न. स. १. म. त. य. प. रणे तस्य शि' । ५ क. ख. ग. ज. प. उ. प. उ. प. य. यास्मानाशाहन्कुिरु । ६ क. ख. ग. छ. ज.अ. 8. ण त. य. ध. रथी । ७ क. स. ग. छ. ज. प. उ. र. ग. त. ५. घ. नेद्भुतम् । ८ र. के सुस्थि । २७ ३८ ४८ ५१ २८ अष्टाविंशोऽध्यायः] पपपुराणम् । ४८५ पदा कुदः कपिवरस्ताडयामास वक्षसि । पादेनोत्लुत्य वेगेन राशः सुभटशोभिनः॥ पपदा महतो भूमौ पपात किल मूर्छितः । मुखाद्वमन्त्रकोष्णं वासपूरमवेपितः ।। तदा प्रकुपितोऽत्यन्तं हनूमान्प्रधनाणे । अचान्गजाब्रयान्वीरांपूर्णयामास वेगतः ॥ दा सुकेतुस्तदाता तथा लक्ष्मीनिधिर्नृपः । उभावपि सुसंनद्धौ युद्धाय समुपस्थितौ ॥ राजानं मूर्छितं दृष्ट्वा प्रपलाय्य गता नराः । इतस्ततो बाणसंधैः क्षताः पुष्कलेवर्षितैः ॥ तद्भज्यमानं स्वबलं वीक्ष्य राजात्मजो बली । दमनः स्तम्भयामास सेतुर्वाधिमिवोच्चलम् ॥ ४७ तदा तु मूछितो राजा स्वममेकं ददर्श ह । रणमध्ये कपिवरमपदाघातपीडितः ।। रामचन्द्रस्त्वयोध्यार्यों शरयूतीरमण्डले । ब्राह्मणैर्याज्ञिकश्रेष्ठेर्बहुभिः परिवारितः ॥ ४९ सत्र ब्रह्मादयो देवास्तत्र ब्रह्माण्डकोटयः । कृतमाञ्जलयस्तं वै स्तुवन्ति स्तुतिभिर्मुहुः । रामं श्याम सुनयनं मगशृङ्गपरिग्रहम् । गायन्ति नारदाद्याश्च वीणोल्लसितपाणयः ।। नृत्यन्त्यप्सरसस्तत्र घृताचीमेनकादयः । वेदा मूर्तिधरा भूत्वा छुपतिष्ठन्ति राघवम् ।। ५२ पञ्च किंचिद्वस्तुजातं सर्वशोभासमन्वितम् । तस्य दातारमखिलं भक्तानां भोगॅदायकम् ॥ ५३ इत्येवमादि संपश्यञ्जाग्रत्संज्ञामवाप्य सः । ब्रह्मशापहतज्ञानः किं दृष्टमिति वै वदन् ।। गन्तुं प्रवृत्तोऽसौ पद्भ्यां शत्रुघ्नचरणं प्रति । भृत्यकोटिपरीवारो रथकोटिसमावृतः ॥ ५५ मुकेतुं स समाहूय विचित्रं दमनं तथा । युद्धं कर्तुं समुद्युक्तान्वारयामास धर्मवित् ॥ उवाच तान्महाराजो धर्मात्मा धर्मसंयुतः । भ्रातः पुत्रौ शृणुत मे वाक्यं धर्मसमन्वितम् ॥ ५७ पा युद्धं कुरुत क्षिप्रमनयस्तु महानभूत् । यद्रामचन्द्रवाहं त्वमगृहा दमनोर्जितम् ।। ५८ एष रामः परं ब्रह्म कार्यकारगतः परम् । चराचरजगत्स्वामी न मानुषवपुर्धरः ।। एतद्धि ब्रह्मविज्ञानमधुना ज्ञातवानहम् । पुराऽसिताङ्गशापेन हृतज्ञानधनोऽनघाः ।। अहं पुरा तीर्थयात्रां गतस्तत्त्वविवित्सया । तत्रानेके मया दृष्टा मुनयो धर्मवित्तमाः॥ असिताझं मुनिमहं गतवाज्ञातुमिच्छया । तदा प्रोवाच मां विप्रः कृपां कृत्वा ममोपरि ॥ ६२ पोऽसावयोध्याधिपतिःस परं (र)ब्रह्मशब्दितः। तस्य या जानकी देवी सा साक्षाचिन्मयी स्मृता एनं तु योगिनः साक्षादुपासते यमादिभिः । दुस्तरापारसंसारवारिधि संतितीर्षवः ।। ६४ स्मृतमात्रो महापापहारी स गरुडध्वजः । य एनं सेवते विद्वान्स संसारं तरिष्यति ॥ तदाऽहमहसं विमं कोऽयं रामस्तु मानुषः । केयं सा जानकी देवी हर्षशोकसमाकुला ॥ ६६ अजन्मनः कथं जन्म अकर्तुः कृत्यमत्र किम् । जन्मदुःखजरातीतं कथय त्वं मुने मम ।। इत्युक्तवन्तं मां पोशः शशाप स मुनीश्वरः । अज्ञात्वा तत्स्वरूपं त्वं प्रतिभूषे ममाधम ॥ एनं निन्दसि रामं त्वं मानुषोऽयमिदं हसन् । तस्मात्त्वं तत्त्वसंमूढो भविष्यस्युदरंभरिः॥ ६९ तदाऽहं तस्य चरणौ गृहीत्वा दयया युतम् । कृतवान्स पुर्नमां तु प्रोवाच करुणानिधिः ॥ ७० त्वं रामस्य मखे विघ्नं करिष्यसि यदा नृप । पदा तदा हनुमास्त्वां ताडयिष्यति वेगतः ॥ ७१ तदा त ज्ञास्यसे राजमान्यथा स्वमनीषया । पुराऽहमुक्तस्तेनैव तदृष्टमधुना मया ॥ यदा मां हनुमान्क्रुद्धस्ताडयामास वक्षसि । तदाऽदर्श रमानाथं पूर्णब्रह्मस्वरूपिणम् ॥ तस्मादश्वं तु शोभाब्यमानयन्तु महाबलाः । धनानि चैव वासांसि राज्यं चेदं समर्पये ॥ ७४ क. ख. ग. छ. म. म. ठ. ण. त. ५. ध. लवैरिणा । त' । २ ग. र्मुदा। रा' । ३ ग. मृगाजिनप । ४ क. स. ग. छ. ज. प. . ग. त. थ. घ. गसंयुतम् । ५ ग. छ ठ. ड. द. प. क्रुद्धः । ६७ ७२ ४८६ महामुनिश्रीव्यासमणीत- [ ४ पातालखण्डे- रामं दृष्ट्वा कृतार्थः स्यामहं यज्ञेऽतिपुण्यदे । इति वै सहयं मह्यं रोचते तु तदर्पणम् ॥ इति श्रीमहापुराणे पाने शेषवात्स्यायनसंवादे रामाश्वमेधे शत्रुघ्नविजयो नामाष्टाविंशोऽध्यायः ॥ २८ ॥ आदितः श्लोकानां समष्टयकाः-१२४८५ भथै कोनत्रिंशोऽध्यायः । २ ३ w ८ ९ शेष उवाच- ते तु तातवचः श्रुत्वा हर्षिताः सत्यहारिणः । तथेत्यूचुमहाराज रामदर्शनलालसम् ।। पुत्रावूचतु:- राजन्भवत्पदादन्यन्न जानीम परंतप । तस्मात्वदृदि यज्जातं तद्भवत्वद्य वेगतः ।। अश्वोऽयं नीयतां तत्र सितचामरभूषितः । रत्नमालादिशोभाव्यश्चन्दनादिकचर्चितः ॥ राज्यमाजाफलं स्वामिन्कोशा बहुसमृद्धयः । [*चन्दनं चन्द्रकं चैव वाजिनः सुमनोहराः॥ ४ हस्तिनस्तु मदोता रथाः काञ्चनकबराः। ] वासांसि सुमहार्हाणि सूक्ष्माणि सुगुणानि च॥५ विचित्रतरवर्णानि नानाभरणभूषिताः। दास्यः शतसहस्त्रं च दासाश्च सुमनोरमाः ।। मणयः सूर्यसंकाशा रत्नानि विविधानि च । मुक्ताफलानि शुभ्राणि गजकुम्भभवानि च ॥ ७ विद्रुमाः शतसाहस्रा यद्यद्वस्तु महोदयम् । तत्सर्वं रामचन्द्राय देहि राजन्महामते ॥ सुतानमानिककरानः सर्वानर्पय भूपते । कथं न कुरुषे राजस्वदधीनं नृपासनम् ।। शेष उवाच- इति पुत्रवचः श्रुत्वा हर्षितोऽभून्महीपतिः । उवाच स्वसुतान्वीरान्स्ववाक्यकरणोधतान् ॥ १० राजोवाच- आनयन्तु इयं सर्वे संनद्धाः शस्त्रपाणयः । नानारथपरीवारास्ततो यास्ये नृपं प्रति ॥ ११ शेष उवाच- इति राज्ञो वचः श्रुत्वा विचित्रो दमनस्तथा । सुकेतुश्चापरे शूरा जग्मुस्तस्याऽऽज्ञयोद्यताः॥ १२ ते गत्वाऽथ पुरीं शूरा वाजिनं सुमनोहरम् । सितचामरसंयुक्तं स्वर्णपत्राद्यलंकृतम् ।। १३ रत्नमालाविभूषाढ्यं चित्रपत्रेण शोभितम् । विचित्रमणिभूषाव्यं मुक्ताजालस्वलंकृतम् ।। रज्ज्वा धृतं महावीरैः पूर्वतः पृष्ठतो भटैः । महाशस्त्रास्त्रसंयुक्तैः सर्वशोभासमन्वितैः ।। सितातपत्रमस्योच्चै ति मूर्धनि वाजिनः । चामरद्वयके तस्य धियेते पुरतो मुहुः॥ १६ कृणागर्वादिधूपैश्च धूपितं वायुवेगिनम् । राज्ञः पुगे निनायाश्वं हयमेधस्य सत्क्रतोः ॥ १७ तमानीतं हयं दृष्ट्वा रत्नमालाविभूषितम् । मनोजवं कामरूपं जहर्ष मतिमाभृपः ।। १८ जगाम पद्भ्यां शत्रुघ्नं राजचिह्नाद्यलंकृतम् । स्वपुत्रपौत्रैः संयुक्तो राजा परम धार्मिकम् ॥ १९ ययौ कर्तुं धनानां च सद्ययं चलगामिनाम् । एतद्धि नैश्वरं मत्वा दुःखदं सक्तचेतसाम् ॥ २० शत्रुघ्नं स ददर्शाथ सितच्छत्रेण शोभितम् । चामरैर्वीज्यमानं च सेवकैः पुरतः स्थितैः॥ २१ सुमतिं परिपृच्छन्तं रामचन्द्रकथानकम् । भयवार्ता विनिर्मुक्तं वीरशोभाखलंकृतम् ॥ * एतचिहान्तर्गतः पाठः ख. ग. छ.. ज. . . ण. त.प. द. ध. पुस्तकस्थः । १ म. ताराणि । २ स. ग. ज. उ. प. त. द. ध. कृतः । स्व।३६. नर। १५ २२ २४ २८ २९ २९ एकोनत्रिंशोऽध्यायः ] पद्मपुराणम् । ४८७ वीरकोटिभिराकीर्ण नेत्रपाताभिकासकैः । वानराणां सहस्रैश्च समन्तात्परिवारितम् ॥ दृष्ट्वा शत्रुघ्नचरणौ पणनाम सपुत्रकः । धन्योऽहमिति संहृष्टो वदनरामैकमानसः ।। शत्रुघ्नस्तं प्रणयिनं दृष्ट्वा राजानमुद्भटम् । उत्थायाऽऽसनतः सर्वैर्दोभ्यां च परिषस्वजे ॥ २५ दृढं संपूज्य राजा तं शत्रुघ्नं परवीरहा । उवाच हर्षमापनो गद्गदस्वरभूषितः ॥ सुबाहुरुवाच- अद्य धन्योऽस्मि ससुतः सकुटुम्बः सवाहनः । यद्युष्मचरणौ द्रक्ष्ये नृपकोटिभिरीडितौ ॥ २७ अज्ञानिना सुतेनायं गृहीतो वाजिनां वरः । दमनेनाऽऽनयं त्वस्य क्षमस्व करुणानिधे ॥ न जानाति रघूत्तंस सर्वदेवाधिदैवतम् । लीलया विश्वस्रष्टारं हन्तारमपि पालकम् ॥ इदं राज्यं समृद्धा समृद्धबलवाहनम् । इमे कोशा धनैः पूर्णा इमे पुत्रा इमे वयम् ।। सर्वे वयं रामनाथास्त्वदाजाप्रतिपालकाः । गृहाण सर्व सफलं न मेऽस्ति कचिदुन्मतम् ॥ ३१ कासौ हनूमान्रामस्य चरणाम्भोजषट्पदः । यत्मसादादहं प्राप्स्ये राजराजस्य दर्शनम् ।। ३२ साधूनां संगमे किं किं प्राप्यते न महीतले । यत्प्रसादादहं मूढो ब्रह्मशापमतीतरम् ॥ दृष्ट्वा त्वद्य महाराज पनपत्रनिभेक्षणम् । प्राप्स्यामि जन्मनः सर्व फलं दुर्लभमत्र च ॥ मम तावद्गतं चाऽऽयुर्बहु रामवियोगिनः । स्वल्पमुर्वरितं तत्र कथं द्रक्ष्ये रघूत्तमम् ।। मह्यं दर्शय तं रामं यज्ञकर्मविचक्षणम् । यदधिरजसा पूता शिला भूता मुनिप्रिया । काकः परं पदं प्राप्तो यद्वाणस्पर्शनात्खगः । अनेके यस्य वक्त्राजं वीक्ष्य संख्ये पदं गताः ।। ये त्वस्य रघुनाथस्य नाम गृह्णन्ति सादराः। ते यान्ति परमं स्थानं योगिभिर्यद्विचिन्त्यते ॥ ३८ धन्योऽयोध्याभवा लोका ये राममुखपङ्कजम् । स्वलोचनपुटैः पीत्वा सुखं यान्ति महोदयम् ॥३९ [*इति संभाष्य नृपतिं वाहं राज्यं धनानि च । सर्व समर्प्य चावोचकिकरोऽस्मि महीपते]॥४० इति वाक्यं समाकर्ण्य राज्ञः परपुरंजयः। प्रत्यूचे विनतं भूपं वाग्मी वाक्यविशारदः ॥ शत्रुघ्न उवाच- कथं राजमिदं षे त्वं वृद्धो मम पूजितः । सर्व त्वदीयं त्वद्राज्यं दमनो विदधात्वयम् ।। क्षत्रियाणामिदं कृत्यं यत्संग्रामविधायकम् । सर्व राज्यं धनं चेदं प्रतियातु ममाऽऽशया ॥ ४३ यथा मे रघुनाथस्तु पूज्यो वामनसा सदा । तथा त्वमपि मत्पूज्यो भविष्यसि महीपते । भवान्सज्जो भवत्वस्य हयस्यानुगमं प्रति । संनद्धः कवची खड़ी रथयूथपसंयुतः ।। इति वाक्यं समाकर्ण्य शत्रुघ्नस्य महामतेः । पुत्र राज्येऽभिषिच्यैव शत्रुघ्नेन सुपूजितः ॥ महारथैः परिवृतो निजं पुत्रं रणागणे । पुष्कलेन हतं भूयः संस्कृत्य विधिपूर्वकम् ॥ क्षणं शुशोच तत्त्वज्ञो लोकदृष्ट्या महारथः । ज्ञानेनाशमयच्छोकं रघुनाथमनुस्मरन् । सज्जीभूतो रथे तिष्ठन्महासैन्यसमावृतः । आजगाम स शत्रुघ्नं महारथिपुरस्कृतः ॥ राजा तमागतं दृष्ट्वा सर्वसैन्यसमन्वितम् । गन्तुं चकार धिषणां हयवर्यस्य पालने । सोऽश्वो विमोचितस्तेन भाले पत्रेण चिह्नितः । वामावर्त भ्रमन्पायात्पौर्वाञ्जनपदान्बहून् ॥ ५१ + संधिरार्षः । * एतचिहान्तर्गतः पाठो ग. छ. ज. ड. ण. द. ध. पुस्तकस्थः । १६. रया गिरा । सु। २ क. ख. ग. छ. ज. अ. ठ. इ. ण. . ण. त. य. द. ध °रः । बालिशेनानयं सृष्टं क्ष । ३ ग. ला जाता गताधिनी । का। छ. ह. 'ला जाता विपापिनी । का। ४ द. त्वद्य ह। ५ द. "गी गजाश्वरथसं । ६ ग. छ. ठ. उ. प. महामतिः । द. महीपतिः । ७ छ. र. न्प्राप्य ययौ जन । ४२ ४८ ४९ ४८८ ५ महामुनिश्रीव्यासप्रणीतं- [ ४ पातालखण्डे तत्र तत्र च भूपालैर्महाभूराभिपूजितैः । प्रणतिः क्रियते तस्य न कोऽपि तमगृह्णत ॥ केचिद्वासांसि चित्राणि केचिद्राज्यं स्वकं महत् । केचिद्धनानि वा किंचिदानीय प्रणमन्ति तम् इति श्रीमहापुराणे पाये पातालखणे शेषवात्स्यायनसंवादे रामाश्वमेधे शत्रुनसुबाहुभूपयोः परस्परसंयोगो नामकोनत्रिंशोऽध्यायः ॥ २९ ॥ आदितः श्लोकानां समष्टयकाः-१२५१८ अथ त्रिंशोऽध्यायः । शेष उवाच- अथ तिजापुर प्राप्तस्तुरगः परशोभितः । यस्यां पालयते राजा प्रजाः सत्येन सत्यवान) । अथ कोटिपरीवारो रघुनाथानुजस्ततः । हयानुगो ययौ तस्य पुरतः पुरधर्षणः ।। तदृष्ट्वा नगरं रम्यं चित्रपाकारशोभितम् । काञ्चनैः कलशैस्तत्र परितः प्रतिभासितम् ।। देवायतनसाहौः सर्वतश्च विराजितम् । यतीनां तु मठास्तत्र शोभन्ते यतिपूरिताः ।। वहत्यत्र महादेवी शिखिलोचनमूर्धगा । हंसकारण्डवाकीर्णा मुनिन्दनिषेविता । ब्राह्मणानां प्रत्यगारमग्निहोत्रभवः पुनः । धूमस्तत्र पुनात्यङ्ग पातकालुतमानसान् ॥ उवाच सुमतिं राजा शत्रुघ्नः शत्रुतापनः । तत्पुरप्रेक्षणोतहर्षविस्मितमानसः ।। शत्रुघ्न उवाच- मधिन्कथय कस्येदं पुरं मे दृष्टिगोचरम् । करोति मानसाहलादं धर्मेण प्रतिपालितम् ॥ शेष उवाच- इति वाक्यं समाकर्ण्य शत्रुघ्नस्य महीपतेः । उवाच सुमतिः सर्वं यथातथमनुद्धतम् ।। सुमतिरुवाच- शृणुष्वावहितः स्वामिन्वैष्णवस्य कथाः शुभाः । याः श्रुत्वा मुच्यते पापाइह्महत्यासमादपि १९ जीवन्मुक्तो वरीवर्ति रामाज़्यम्बुजषदादः। सत्यवान्यज्ञयज्ञामाता कर्ताऽविता महान् ॥ ११ धेनुं प्रसाध बहुभिर्वतैर्य पाप तत्पिता । ऋतंभराख्यो जगति ख्यातः परमधार्मिकः ॥ गौः प्रसन्ना ददौ पुत्रमनेकगुणसंस्कृतम् । सत्यवानाम शोभाढ्यं तं जानीहि नृपोत्तमम् ॥ १३ शत्रुघ्न उवाच- को वा ऋतंभरो राजा किमर्थं धेनुपूजनम् । कथं प्राप्तः सुतस्तेन वैष्णवो विष्णुसेवकः ॥ १४ सर्वमेतत्समाचक्ष्व वैष्णवस्य कथानकम् । श्रुतं हरति जन्तूनां महापातकपर्वतम् ।। १५ शेष उवाच- इति वाक्यं समाकर्ण्य शत्रुघ्नस्य महार्थकम् । कथयामास विशदं तदुत्पत्तिकथानकम् ॥ १६ ऋतंभरोऽत्र नृपतिरनपत्यः पुराऽभवत् । कलत्राणि बहून्यस्य न पुत्र प्राप तेषु वै ।। तदा जाबालिनामानं मुनि दैवादुपागतम् । पप्रच्छ कुशलोयुक्तः स पुत्रोत्पत्तिकारणम् ॥ १॥ ऋतंभर उवाच- स्वामिन्वन्ध्यस्य मे भूहि पुत्रोत्पत्तिकरं वचः । यत्कृत्वा जायतेऽपत्यं मम वंशधरं वरम् ॥ १ १२ - १ छ. र. पुरचारिणः । २ स. 'त्यव्रतं सुशों ।
३२ ३३ ३० त्रिंशोऽध्यायः] पद्मपुराणम् । ४८९ वज्ञात्वा भवतो भव्य प्रकुर्या निश्चितं वचः । दानं व्रतं वा तीर्थ वा मखं वा मुनिसत्तम ॥२० इति राज्ञो वचः भुत्वा जगाद मुनिसत्तमः । सुतात्पत्तिकरं वाक्यं प्रणतस्य सुतार्थिनः ॥ २१ अपत्यप्राप्तिकामस्य सन्त्युपायास्त्रयः प्रभो। विष्णोः प्रसादो गोश्चापि शिवस्याप्यथवा पुनः २२ तस्मात्त्वं कुरु वै पूजां धेनोर्देवतनोर्नृप । यस्याः पुच्छे मुखे शृङ्गे पृष्ठे देवाः प्रतिष्ठिताः ॥ २३ सा तुष्टा दास्यति क्षिप्रं वाञ्छितं धर्मसंयुतम् । एवं विदित्वा गोपूजां विधेहि त्वमृतम्भर ॥२४ वै नित्यं पूजयति गां गेहे यवसादिभिः । तस्य देवाश्च पितरों नित्यं तृप्ता भवन्ति हि २५ यो वै गवाहिकं दद्यानियमेन शुभवतः । तेन सत्येन तस्य स्युः सर्वे पूर्णा मनोरथाः ॥ २६ तृषिता गौहे बद्धा गेहे कन्या रजस्वला । देवताश्च सनिर्माल्या हन्ति पुण्यं पुराकृतम् ॥ २७ यो वै गां प्रतिषिध्येत चरन्तीं स्वं तृणं नरः । तस्य पूर्वे च पितरः कम्पन्ते पतनोन्मुखाः॥२८ यो वै ताडयते यष्ट्या धेनुं मयो विमूढधीः । धर्मराजस्य नगरे स याति करवर्जितः ॥ २९ यो वै दंशान्वारयति तस्य पूर्वे कृतार्थकाः । नृत्यन्त्यत्युत्सवादस्मांस्तारयिष्यति भाग्यवान् ३० अत्रैवोदाहरन्तीममितिहासं पुरातनम् । जनकस्य पुरावृत्तं धर्मराजपुरेऽद्भुतम् ॥ एकदा जनको राजा योगेन तनुमत्यजत् । तदा विमान संप्राप्तं किङ्किणीजालभूषितम् ॥ तदारुह्य गतो राजा सेवकैरूढदेहवान् । मार्गे जगाम धर्मस्य संयमिन्याः पुरोऽन्तिके ॥ तदा नरककोटीषु पीड्यन्ते पापकारिणः । जनकस्याङ्गपवनं प्राप्य सौख्यं प्रपेदिरे ॥ निरये दाहजा पीडा जातैषां सुखकारिणी । महहुःखं तदा नष्टं जनकस्याङ्गवायुना ॥ ३५ तदा तं निर्गतं दृष्ट्वा जन्तवः पापपीडिताः । अत्यन्तं चुक्रुशुर्मीतास्तद्वियोगमनिच्छवः ॥ उचुस्ते करुणां वाचं मा गच्छ सुकृतिन्नतः । त्वदङ्गवायुसंस्पर्शात्सुखिनः स्याम पीडिताः ॥ ३७ इति वाक्यं समाकर्ण्य राजा परमधार्मिकः । मानसे चिन्तयामास करुणापूरपूरिते ।। ३८ चेन्मत्तः प्राणिनां सौख्यं भवेदिह तदा पुनः । अत्रैव च पुरे स्थास्ये स्वर्ग ऍष मनोरमः ॥ ३९ एवं कृत्वा नृपस्तस्थौ तत्रैव निरयाग्रतः । विदधत्पाणिनां सौख्यमनुकम्पितमानसः ।। तत्र धर्मस्तु संप्राप्तो निरैयद्वारि दुःखदे । कारयन्यातनास्तीत्रा नानापातककारिणाम् ।। स तं ददर्श राजानं जनकं द्वारसंस्थितम् । विमानेन महापुण्यकारिणं दयया युतम् ।। तमुवाच प्रेतपतिर्जनकं स इसनिगरा । राजन्कुतस्त्वं संप्राप्तः सर्वधर्मशिरोमणिः ।। एतत्स्थानं त्वघवतां दुष्टानां प्राणघातिनाम् । नाऽऽयान्ति पुरुषा भूप त्वादृशाः पुण्यकारिणः॥ अत्राऽऽयान्ति नरास्ते वै ये परद्रोहतत्पराः । परापवादनिरताः परद्रव्यपरायणाः ॥ यो वै कलत्रं धर्मिष्ठं निजसेवापरायणम् । अपराधाहते जह्यात्स नरोऽत्र समाव्रजेत् ॥ ४६ मित्रं वञ्चयते यस्तु धनलोभेन लोभितः । आगत्यात्र नरः पीडां मत्तः पामोति दारुणाम् ॥४७ यो रामं मनसा वाचा कर्मणा दम्भतोऽपि वा । द्वेषाद्वा चोपहासाद्वा न स्मरत्येव मूढधीः ॥४८ तं वदामि पुनस्त्वेषु निक्षिप्य अपयामि च । यैः स्मृतो वै रमानाथो नरकक्लेशवारकः ॥ ४२ . १ अ. वा कथयाऽऽशु त्वं यत्कुर्यो । २ अ. प्रेष्ठं । ३ ग. छ. ड. ण. पद्भ्यां । ४ द. वे बधोगताः । । ५ क. ख. ज. अ. 8. ण. त. थ. ध. गतार्थका । ६ क. ख. ग. छ. ज. अ. ठ. ड. ण. त. थ. ध. जाता शीतलका । ७ क. ख. घ. अ. प. म. स. म. ट... द. ग. थ. एव । ८ क. ख. घ. उ. च. ज. स. अ. द. १. द. त. य. द. रये पापिनुः । द. रथे पापिदुःखदः । का। ९ स. ग. छ. अ. ड. ण. त. थ. द. क्षिपामि प्रसामि । ६२ महामुनिश्रीव्यासपणीतं- [ ४ पातालखण्डे- [*ते मत्स्थानं विहायाऽऽशु वैकुण्ठाख्यं प्रयान्त्यहो ] । तावत्पापं मनुष्याणामङ्गेषु नृप तिष्ठति यावद्रामं रसनया न गृह्णाति सुदुर्मतिः । महापापकरा राजन्ये भवन्ति महामते ॥ ५१ तानानयन्ति मभृत्यास्त्वादृशान्द्रष्टुमक्षमाः। तस्माद्गच्छ महाराज भुक्ष्व भोगाननेकशः॥५२ विमानवरमारुह्य भुङ्व पुण्यमुपार्जितम् । इति वाक्यं समाकर्ण्य धर्मराजस्य तत्पतेः ॥ उवाच धर्मराजानं करुणापूरपूरितः ॥ जनक उवाच- अहं गच्छामि नो नाथ जीवानामनुकम्पकः । मदङ्गवायुना ह्येते सुखं प्राप्ताः स्म संस्थिताः॥५४ एतान्मुञ्चसि चेद्राजन्सर्वान्वै निरयस्थितान् । ततो गच्छामि सुखितः स्वर्ग पुण्यजनाश्रितम् ५५ जाबालिरुवाच- इति वाक्यमथाऽऽश्रुत्य जनकं प्रत्युवाच सः । प्रत्येकं निर्दिशञ्जीवानिरयस्थाननेकशः ॥ ५६ धर्मराज उवाच- अयं मित्रकलत्रं वै विश्वस्तमनुजग्मिवान् । तस्मादेनं लोहशङ्को वर्षायुतमपीपचम् ।। पश्चादेनं शूकराणां योनौ निक्षिप्य दोषिणम् । मानुषेष्ववतार्योऽयं षण्डचिह्नन चिह्नितः ॥ ५८ अनेन परदाराश्च बलादालिङ्गिता मुहुः । तस्मादयं पच्यतेऽत्र रौरवे शतहायनम् ॥ अयं तु परकीयं स्वं मुषित्वा बुभुजे कुधीः । तस्मादस्य करौ छित्त्वा पचेयं पूयशोणिते ॥ ६० अयं सायंतनं प्राप्तमतिथिं क्षुधयादितम् । वाण्याऽपि नाकरोत्तस्य पूजनं स्वागतं न च ॥ ६१ तस्मादयं पातनीयस्तामिस्रेऽन्धेन पूरिते । भ्रमरैः पीडितो यातु यातनां शतहायनाम् ॥ ६२ अयं तावत्परस्योचेनिन्दा कुर्वन्न लज्जितः । अयमप्यशृणोत्कर्णी प्रेरयन्बहुशस्तु ताम् ।। तस्मादिमावन्धकूप पतितौ दुःखदुःखितौ । अयं मित्रभ्रगुद्विग्नः पच्यते रौरवे भृशम् ।। तस्मादेतान्पापभोगान्कारयित्वा विमोचये । त्वं गच्छ नरशार्दूल पुण्यराशिविधायकः ॥ ६५ जाबालिरुवाच- एवं स निर्दिशञ्जीवांस्तूष्णीमासाधकारिणः । प्रोवाच रामभक्तोऽसौ करुणापूरितेक्षणः ॥ ६६ M जनक उवाच- कथं निरयनिर्मुक्तिर्जीवानां दुःखिनां भवेत् । तेदत्र कथय त्वं वै यत्कृत्वा सुखमानुयुः ॥ ६७ धर्मराज उवाच- नैभिराराधितो विष्णु३भिस्तस्य कथा श्रुता । कथं निरयनिर्मुक्तिर्भवेद्वै पापकारिणाम् ॥ ६८ यदि त्वं मोचयस्येतान्महापापकरानपि । तदर्पय महाराज पुण्यं तत्कथयाम्यतः ॥ एकदा पातरुत्थाय शुद्धभावेन चेतसा । [+ध्यातः श्रीरघुनाथोऽसौ महापापहराभिधः ] ॥ ७० राम रामेति वै प्रोक्तं खयाँऽकस्मानरोत्तम । तत्पुण्यमर्पयेतेभ्यो येन स्यानिरयाच्च्युतिः ॥ ७१ * एतचिहान्तर्गतः पाठो ड. पुस्तकस्थः । + एतचिहान्तर्गतः पाठो ग. छ. ठ. र. द. ध. पुस्तकस्थः । १ क. ख. ग. छ. ज. अ. ठ. उ. प. त. थ. द. घ. शेष उवाच । २ द. यं खर्चि' । ३ . °पि नो सचकार प्रान्स्वागतं वचः । त। ४ क. ख. ग. छ. ज. स. उ. प. त य. ध शेष उवाच । ५ ख. ग. छ. ज. ठ. उ. प.त. म. द. भ. तदा । ६ क. स. ग. छ. ज. स. ठ. २. ण. त. थ. इ. ५. 'या शुद्धेन चेतसा । त ।
७२ ३१ एकत्रिंशोऽध्यायः ] पमपुराणम् । जाबालि रुवाच-- एतच्छ्रुत्वा वचस्तस्य धर्मराजस्य धीमतः । पुण्यं ददौ महाराज आजन्मसमुपार्जितम् ।। [*मदाजन्मकृतैः पुण्यै रघुनाथार्चनोद्भवैः । एतेषां निरयान्मुक्तिर्भवत्वत्र मनोरमा] ॥ एवं कथयतस्तस्य जीवा निरयसंस्थिताः । तत्क्षणाभिरयान्मुक्ता जाता दिव्यवपुर्धराः॥ ७४ ऊचुस्ते जनक राजंस्त्वत्प्रसादाद्वयं क्षणात् । दुःखदाग्निरयान्मुक्ता यामो वै परमं पदम् ।। ७५ तान्दृष्ट्वा सूर्यसंकाशानरान्निरयनिःसृतान् । तुतोष चित्ते सुभृशं सर्वभूतदयारतः ॥ ते सर्वे प्रययुर्लोकं दिव्यं देवैरलंकृतम् । जनकं तु प्रशंसन्तो महाराज दयानिधिम् ॥ इति श्रीमहापुराणे पाझे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे सत्यवदाख्यानं नाम त्रिंशोऽध्यायः ॥ ३० ॥ आदितः श्लोकानां समष्टयङ्काः-१२५९५ + ७६ ७७ अथैकत्रिंशोऽध्यायः । - ॥ २ ४ ६ जोबालिरुवाच- अथ तेषु प्रयातेषु नरकस्थेषु वै नृषु । राजा पप्रच्छ कीनाशं सर्वधर्मविदां वरम् ।। राजोवाच- धर्मराज त्वया प्रोक्तं यत्पातककरा नराः । आयान्ति तव संस्थानं न च धर्मकथारताः ।। मदागमनमत्राभूत्केन पापेन धार्मिक । तद्वै कथय सर्व मे पापारणमादितः ॥ इति श्रुत्वा तु तद्वाक्यं धर्मराजः परंतपः । कथयामास तस्यैवं यमपुर्यागमं तदा ।। धर्मराज उवाच- राजस्तव महत्पुण्यं नैताहकस्य भूतले । रघुनाथपदद्वंद्वमकरन्दमधुव्रत ॥ त्वत्कीर्तिस्वर्धनी सर्वान्पापिनो मलसंयुतान् । पुनाति परमाहादकारिणी दुष्टतारिणी ॥ तथाऽपि पापलेशस्ते वर्तते नृपसत्तम । येन संयमिनीपाश्रमागतः पुण्यपूरितः ॥ एकदा तु चरन्ती गां वारयामास वै भवान् । तेन पापविपाकेन निरयद्वारदर्शनम् ॥ इदानी पापनिर्मुक्तो बहुपुण्यसमन्वितः । भुव भोगान्सुविपुलानिजपुण्यार्जितान्बहून् । एतेषां करुणावार्थी रघुनाथोऽसुखं हरन् । संयमिन्या महामार्गे प्रेरयामास वैष्णवम् ।। १० नाऽऽगमिष्यो यदि त्वं वै मार्गेणानेन सुव्रत । अभविष्यत्कथं त्वेषां निरयात्परिमोचनम् ॥ ११ त्वादृशाः परदुःखेन दुःखिताः करुणालयाः। प्राणिनां दुःखविच्छेदं कुर्वन्त्येव महामते ॥ १२ जाबालिरुवाच- एवं वदन्तं शमनं प्रणम्य स दिवं गतः । दिव्येन सुविमानेन अप्सरोगणशोभिना । तस्माद्गावोऽनिशं पूज्या मनसाऽपि न गर्हयेत् । गर्हयन्निरयं याति यावदिन्द्राश्चतुर्दश ॥ १४ तस्मात्त्वं नृपतिश्रेष्ठ गोपूजां वै समाचर । सा तुष्टा दास्यति क्षिप्रं पुत्रं धर्मपरायणम् ॥ १५ सुमतिरुवाच- ८ ९ * एतचिहान्तर्गतः पाठः क. ख. ग. छ. ज. अ. ठ. ह. ण. त. थ. द. घ.पुस्तकस्थः। क. ख. ग. छ. भ. ट. ठ. ग. त. थ. ध. शेष उवाच । २ऊ. प्रभो। ३ क. ख. ज. प. उ. प. थ. :शेष उवाच । ४ ख. ग. ज. उ. प. त. थ.कार्य यथातथम् । इ'। ५ क. ख. छ. ज. अ. स. प. स. प. प. कथयामास ।
२२ २४ -- ४९२ महामुनिश्रीव्यासप्रणीतं- [४ पातालखण्डे- तच्छ्रुत्वा धेनुपूजां स पमच्छ कथमादरात् । पूजनीया प्रयत्नेन कीदर्श कुरुते नरम् ।। १६ नाबालिः कथयामास धेनुपूजां यथाविधि । प्रत्यहं विपिनं गच्छेच्चारणाय व्रती तु गोः ।। १७ गवे यवांस्तु संभोज्य गोमयस्थान्समाहरेत् । भक्षणीया यवास्ते तु पुत्रकामेन भूपते ॥ १८ सा यदा पिवते तोयं तदा पेयं जलं शुचि । सोचस्थाने यदा तिष्ठेत्तदा नीचासनस्थितः ॥ १९ दंशानिवारयेन्नित्यं यवसं स्वयमाहरेत् । एवं प्रकुर्वतः पुत्रं दास्यते धर्मतत्परम् ॥ सुमतिरुवाच- इति वाक्यं समाकर्ण्य पुत्रकाम ऋतम्भरः । व्रतं चकार धर्मात्मा धेनुपूजा समाचरन् । २१ प्रत्यहं कुरुते गां च यवसायेन तोषिताम् । दंशाच्यवारयद्धीमान्यवभक्षकृतादरः ॥ एवं धेनुं पूजयतो गतास्तु दिवसा घनाः । वनमध्ये तृणादींश्च चरन्तीमकुतोभयाम् ॥ २३ एकदा नृपतिस्तस्य वनस्य श्रीनिरीक्षणे । न्यस्तदृष्टिः स परितो बभ्राम सुकुतूहली ।। तदाऽऽगत्याहनगां वै पश्चास्य) काननान्तरात् । क्रोशन्ती बहुधा दीनां हम्भारावेण दुःखिताम्।। तदा नृपः समागत्य विलोक्य निजेमातरम् । सिंहेन निहतां पश्यन्रोदातीव विहलः ॥ २६ स दुःखितः समागत्य जावालि मुनिसत्तमम् । निष्कृति तस्य पप्रच्छ गोवधस्य प्रमादतः ॥ २७ [*ऋतम्भर उवाच-- स्वामिस्त्वदाज्ञया धेनुं पालयन्वनमास्थितः । कुतोऽप्यागत्य तां सिंहो जघानादृष्टिगोचरः॥२८ तस्य पापस्य निष्कृत्यै किं करोमि त्वदाज्ञया । कथं वा व्रतसंपूतिर्मम पुत्रप्रदायिनी ॥ इत्युक्तवन्तं तं भूपं जगाद मुनिसत्तमः । सन्त्युपाया महीपाल पापराश्यपनुत्तये ॥ , ब्रह्मघ्नस्य कृतनस्य सुरापस्य महामते । प्रायश्चित्तानि वर्तन्ते सर्वपापहराणि च ।। ३१ कृच्छ्रश्चान्द्रायणैर्दानैर्ऋतैः सनियमैर्महत् । पापं तु प्रलयं याति नियमादनुतिष्ठतः ।। ३२ द्वयोः निष्कृतिर्नास्ति पापपुञ्जकृतोस्तयोः । मत्या गोवधकर्तुश्च नारायणविनिन्दितुः ।। गवां यो मनसा दुखं वाञ्छत्यधमसत्तमः । स याति निरयस्थानं यावदिन्द्राश्चतुर्दश ॥ योऽपि देवं हरिं निन्देत्सकदुर्भाग्यवान्नरः । स चापि नरकं गच्छेत्पुत्रपौत्रपरिवृतः ।। ३५ तस्माज्ञात्वा हरिं निन्दनगोषु दुःखं समाचरन् । कदापि नरकान्मुक्तिं न पामोति नरेश्वर ३६ अज्ञानप्राप्तगोहत्याप्रायश्चित्तं तु विद्यते । रामभक्तं तु धीमन्तं याहि त्वमृतुपर्णकम् ॥ स वै समदृशा सर्वाशन्मित्रान्समं चरन् । तुभ्यं वदिष्यति क्षिपं गोवधस्यास्य निष्कृतिम् ३८ तस्य देशांस्त्वमाक्रामस्तेन निर्वासितः पुरा । वैरिभावं परित्यज्य गच्छ त्वमृतुपर्णकम् ॥ ३९ स यद्वदिष्यति क्षिप्रं तत्कुरुष्व समाहितः । यथा त्वत्कृतपापस्य निष्कृतिहि भविष्यति ॥ ४० स तु तद्वचनं श्रुत्वा जगाम ऋतुपर्णकम् । रामभक्तं रिपो मित्रे समदृष्ट्या समञ्जसम् ॥ स तस्मै कथयामास यज्जातं गोवधादिकम् । तस्य पापस्य निष्कृत्यै ह्यायातं स्वान्तमुक्तवान् ४२ तदा प्रोवाच तं राजा ऋतुपर्णः प्रतापवान् । उवाच च हसन्वाक्यं बुद्धिमान्धर्मकोविदः॥ ४३ कोऽहं स्वामिन्मुनीनां वै पुरतः शास्त्रवेदिनाम् । तान्हित्वा किंतु मां प्राप्तो मूर्ख पण्डितमानिनम् * एतचिहान्तर्गतः पाठः क. ख. ग. च. छ. अ. अ. ठ, ड. ण. त. थ. द. घ. पुस्तकस्थः । १ अ. 'सायनाः । २ . °जधेनुकाम् । ३ म. ऋतुम्नस्य । ४ द 'मैर्यमैः । पा” । ५ च. ड. द त्यै छुपायं सोऽप्य- चिन्तयत् । क्षणं ध्यात्वाऽथ तं राजा ऋतुपर्ण ऋतम्भरम् । त । ६ च. . दः । कथं स्वं स्वरिपुं राजन्संप्राप्तः शास्त्रवे- दिनः । हित्वा मां स्वहितं प्रष्टुं हैं।
४८ ४९ २ द्वात्रिंशोऽध्यायः ] पद्मपुराणम् । यि ते ह्यस्ति चेच्छ्रद्धा तदा किंचिह्नवीम्यहम् । शृणुष्व नरशार्दूल गदितं मम सादरः ॥ ४५ ज श्रीरघुनाथं त्वं कर्मणा मनसा गिरा । नै(निः)ष्कापटयेन लोकेशं तोषयस्व महामते ॥४६ तुष्टो दास्यते सर्व तव हृत्स्थं मनोरथम् । अज्ञानकृतगोहत्यापापनाशं करिष्यति ॥ मिस्मरणपूतात्मा धेनुं ब्राह्मणसत्तमे । दत्त्वा यथोक्तं कनकं पापनिष्कृतिमाप्स्यसि ॥ सुमति रुवाच- एतच्छ्रुत्वा तु तद्वाक्यमृतम्भरनृपस्तथा । विधाय रामस्मरणं पूतात्मा व्रतमाचरत् ॥ पूर्ववत्पालयन्धेनुं जगाम विपिनं महत् । रामनाम स्मरनित्यं सर्वभूतहिते रतः ॥ स्मै तुष्टा तु सुरभिः प्रोवाच परितोषिता । राजन्वरय पत्तो वै वरं हृत्स्थं मनोरमम् ॥ दा प्रोवाच वै राजा पुत्रं देहि मनोरमम् । रामभक्तं पितुर्भक्तं स्वधर्मप्रतिपालकम् ।। तुष्टा दत्त्वा वरं साऽपि तस्मै राज्ञे सुतार्थिने । जगामादर्शनं देवी कामधेनुः कृपावती ॥ ५३ स काले प्राप्तवान्पुत्रं वैष्णवं रामसेवकम् । सत्यवत्संज्ञया युक्तमकरोनाम तत्पिता ॥ सत्यवन्तं सुतं लब्ध्वा पितृभक्तमृतम्भरः । परमं हर्षमापेदे शक्रतुल्यपराक्रमम् ।। स राजा धार्मिकं पुत्रं दृष्ट्वा हर्षेण निर्वृतः । राज्यं तस्मिन्महन्यस्य जगाम तपसे वनम् ॥ ५६ तत्राऽऽराध्य हृषीकेशं भक्तियुक्तेन चेतसा । निधूतपापैः सतनुरगादरिपदं नृपः॥ इति श्रीमहापुराणे पाझे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे सत्यवदाख्यानं नामैकत्रिंशोऽध्यायः ॥ ३१ ॥ आदितः श्लोकानां समष्ट्यङ्काः-१२६५२ अथ द्वात्रिंशोऽध्यायः । ३ ४ सुमति रुखाच- असावपि नृपः सौम्य सत्यवानाम विश्रुतः । निजधर्मेण लोकेशं रघुनाथमतोषयत् ॥ अस्मै तुष्टो रमानाथो ददौ भक्तिमचश्चलाम् । निजाङ्घ्रिपद्मे यजतां दुर्लभा पुण्यकोटिभिः ॥२ नित्यं श्रीरघुनाथस्य कथानकमनातुरः । कुरुते सर्वलोकानां पावनं कृपया युतः ॥ यो न पूजयते देवं रघुनाथं रमापतिम् । स तेन ताड्यते दण्डैर्यमस्यापि भयावहैः ।। अष्टमाद्वत्सरादूर्ध्वमशीतिवत्सरो भवेत् । तावदेकादशी सर्वैर्मानुषः कारिताऽमुना ॥ तुलसी वल्लभा यस्य कदाच्चिद्यच्छिरोधराम् । न मुञ्चति रमानाथपादपद्मस्रगुत्तमा ॥ ऋषीणामपि पूज्योऽयमितरेषां कथं न हि । रघुनाथस्मृतिप्रीतिधूतपापो इताशुभः ॥ ज्ञात्वाऽयं रामचन्द्रस्य वाजिनं परमाद्भुतम् । आगत्य तुभ्यं संदास्यत्येतद्राज्यमकण्टकम् ॥ यत्त्वयाऽभिहितं राजंस्तत्ते कथितमुत्तमम् । पुनः किं पृच्छसे स्वामिनाज्ञापय करोमि तत् ॥ ९ ५ ८ . १च. द. रामं स्मरंस्त्वं धर्मात्मन्धेनुं पालय सत्तम । दत्वा द्विजाय क । २ ड. नुं पालय सत्तम । दत्वा विप्राय- क। ३ क. स्व. ग. छ. ज. अ. ण. त. थ पः स्वजनैर । ४ क. ख. ण. ज अ. ठ. ण. त. य. ध. शेष उवाच । ५ अ. च-एतद्राष्ट्राधिपः । ६ छ. इ.भक्ति सुनिर्मनाम् । ७ क. ख. ग. छ. ज अ. ठ. ण. त. थ. 'रामसेवकः । तु। ८ . 'ताऽऽदरात् । तु। ९ थ. स्य रामस्याऽऽनन्दमूर्तिनः । तस्यास्तु स्पर्शनादेव मुक्तिभागी भवेन्नरः । *। .
४९४ महामुनिश्रीव्यासमणीतं- [४ पातालखण्डे- - शेष उवाच- गतोऽश्वस्तत्पुरान्तस्तु नानाश्चर्यसमन्वितः । तं दृष्ट्वा जनताः सर्वा राज्ञे गत्वा न्यवेदयन् ॥ १० जनता ऊचु:- कोऽप्यश्वः सितवर्णेन गङ्गाजलसमेन वै । भाले सौवर्णपत्रेण राजमानः समागतः ॥ ११ तच्छ्रुत्वा वचनं रम्यं जनानां हृद्यमीरितम् । ताश्च प्रत्याह वै भूपो ज्ञायता कस्य वै हयः ॥ १२ ताश्चैत कथयामासुः शत्रुघ्नेन प्रपालितः । आयात्यश्वो महीभर्तृ रामस्य पुरमध्यतः ॥ १३ रामस्य नाम स श्रुत्वा व्यक्षरं सुमनोरमम् । जहर्ष चित्ते च भृशं गद्गदस्वरचिह्नितः ॥ १४ मया यो धार्यते नित्यं यो रामश्चिन्त्यते हृदि । तस्याश्वः सहशत्रुघ्नः समायातः पुरे मम ॥ १५ हनूमस्तित्र रामाइघिसेवाकर्ता भविष्यति । कदाचिदपि यो रामं न विस्मरति मानसे ॥ १६ गच्छामि यत्र शत्रुघ्नो यत्र मारुतनन्दनः । अन्येऽपि यत्र पुरुषा रामपादाजसेवकाः ॥ १७ अमात्यमादिदेशाथ सर्वराज्यं धनं महत् । गृहीत्वा तु मया सार्धमागच्छ त्वरया युतः ॥ १८ यास्येऽहं रघुनाथस्य हयं पालयितुं वरम् । कर्तुं वा रामपादाजपरिचर्या सुदुर्लभाम् ॥ १९ इत्युक्त्वा निर्जगामाथ शत्रुघ्नं प्रति सैनिकैः । तावत्पुरीमथ प्राप्तो रामभ्राता ससैनिकः ॥ २० वीरा गर्जन्ति प्रबला रथाः सुनिनदन्ति च । जयशङ्खस्य नादाचे वीणानादाश्च सर्वतः ॥ २१ आगत्य सत्यवानाजा मत्रिभिः सुसमन्वितः । चरणे प्रणिपत्यास्मै राज्यं पादान्महाधनम्॥२२ शत्रुघ्नस्तं तु राजानं ज्ञात्वा राममनुव्रतम् । तद्राज्यं तस्य पुत्राय रुक्मनाम्ने ददौ महत् ॥ २३ हनूमन्तं परिरभ्य सुबाहुं रामसेवकम् । अन्यान्वै रामभक्तांच परिरभ्य मैहानृपः। कृतार्थमेवमात्मानं मेने सत्यसमन्वितः । ननन्द चेतसि तदा शत्रुघ्नेन समन्वितः ॥ हयस्तावद्गतो दूरं वीरैः सुपरिरक्षितः । शत्रुघ्नस्तेन भूपेन ययौ वीरसमन्वितः ॥ २६ इति श्रीमहापुराणे पाझे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे सत्यवत्समागमो नाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥ आदितः श्लोकानां समष्ट्यङ्काः-१२६७८ २४ २५ अथ त्रयस्त्रिशोऽध्यायः । ४ शेष उवाच- गच्छत्सु रथिवर्येषु शत्रुघ्नादिषु भूरिषु । महाराजेषु सर्वेषु रथकोटियुतेषु च ॥ अकस्मादभवन्मार्गे तमः परमदारुणम् । यस्मिन्स्वीयो न पारक्यो लक्ष्यते ज्ञानिभिर्नरैः॥ २ रजसा व्यापितं व्योम विद्युत्स्तनितसंकुलम् । एतादृशे तु संमर्दै महाभयकरे ततः ॥ मेघा वर्षन्ति रुधिरं पूयामेध्यादिकं बहु । अत्याकुला बभूवुस्ते वीराः परमवैरिणः ॥ आकुलीकृतलोके तु किमिदं किमिति स्थितम् । तमोव्याप्तानि लोकानां चक्षूषि प्रथितौजसाम्५ जहारावं रावणस्य मुहृत्पातालसंस्थितः । विद्युन्मालीति विख्यातो राक्षसश्रेणिसंवृतः॥ कामगे सुविमाने तु सर्वायसनिषावणि । आरुढोऽश्व तु वीराणां भयं कुर्वञ्जहार ह ॥ मुहूर्तात्तत्तमो नष्टमाकाशं विमलं बभौ । वीराः शत्रुघ्नमुख्यास्तु प्रोचुः कुत्र हयोऽस्ति सः॥ 6 ते सर्वे हयराज तु लोकयन्तः परस्परम् । ददृशुर्न यदा वाहं हाहाकारस्तदाऽभवत् ॥ ६ ७ ९ १. म. ट. यो मां तु म । २ ६. श्च वेणुना' । ३ ग. छ. ज. ठ. १. ण. त. थ. प. महाममाः । द. महाय सः ।
२२ ३३ प्रयस्त्रिंशोऽध्यायः पद्मपुराणम् । ४९५ कुत्राश्वो हयमेधस्य केन नीतः कुबुद्धिना । इति वाचमवोचुस्ते तावत्स दनुजेश्वरः ।। १० ददृशे सुभटैः सर्वै रथस्थैः शौर्यशोभितैः । विमानवरमारूढो राक्षसाव्यैः समादृतः ॥ ११ दुर्मुखा विकरालास्या लम्बदंष्ट्रा भयानकाः । राक्षसास्तत्र दृश्यन्ते सैन्यग्रासाय चोद्यताः॥१२ तदा तं वेदयामासुः शत्रुघ्नं नृवरोत्तमम् । हयो नीतो न जानीमः खे विमानविलासिना ॥ १३ तमसा व्याकुलान्कृत्वा वीरानस्मान्स मायया । जग्राह नृपशार्दूल हयं कुरु यथोचितम् ॥ १४ शत्रुघ्नस्तद्वचः श्रुत्वा महारोषसमावृतः । कोऽस्त्येष राक्षसो यो मे हयं जग्राह वीर्यवान् ॥ १५ विमानं तत्पतत्वद्य मदाणव्रजनिथुतम् । पतत्वद्य शिरस्तस्य क्षुरप्रैर्मम वैरिणः ॥ १६ सज्जीयन्तां रथाः सर्वे महाशस्त्रास्त्रपूरिताः । यान्तु तं प्रति संहर्तुं योद्धारो वाजिहारिणम् ॥१७ इत्युक्त्वा रोषताम्राक्ष उवाच निजमत्रिणम् । नयानयविदं शूरं युद्धकार्यविशारदम् ॥ १८ शत्रुघ्न उवाच- मत्रिन्कथय के योज्या राक्षसस्य वधोद्यताः । महाशूरा महाशस्त्राः परमास्त्रविदुत्तमाः ॥ १९ कथयाऽऽशु विचार्यैवं तत्करोमि भवद्वचः । वीरान्कथय तस्यैवं योग्यान्सर्वास्त्रकोविदान् ॥ २० एतच्छ्रुत्वाऽथ सचिवः प्राह वाक्यं यथोचितम् । रणे वीरवरान्योग्यानिर्दिशंस्तरसाऽन्वितान् २१ सुमतिवाच- जेतुं गच्छतु तद्रक्षः समरे विजयोद्यतः । महाशस्त्रास्त्रसंयुक्तः पुष्कलः परतापनः ।। तथा लक्ष्मीनिधिर्यातु शस्त्रसंघसमन्वितः । करोतु तस्य यानस्य भङ्ग तीक्ष्णैः स्वसायकैः ॥ २३ हनूमोन्दृष्टकर्माऽत्र राक्षसायोधनक्षमः । करोतु मुखपुच्छाभ्यां ताडनं रक्षसां प्रभो ॥ वानरा अपि ये वीरा रणकर्मविशारदाः । गच्छन्तु तेऽखिला योढुं तव वाक्यप्रणोदिताः ॥२५ सुमदश्च सुबाहुश्च प्रतापाग्यश्च सत्तमाः । गच्छन्तु सायकैस्तीक्ष्णैस्तान्योढुं राक्षसाधमान् ॥ २६ भवानपि महाशस्त्रपरीवारो रथे स्थितः । करोतु विजयं युद्धे राक्षसं हन्तुमुद्यतः ॥ एतन्मम मतं राजन्ये योधास्तत्पमर्दनाः । ते गच्छन्तु रणे शूराः किमन्यैर्बहुभिर्भटैः ॥ इत्युक्तवति वीराग्येऽमात्ये सुमतिसंज्ञके । शत्रुघ्नः कथयामास वीरान्संग्रामकोविदान् ॥ ये वीराः पुष्कलाबास्तु सर्वशस्त्रास्त्रकोविदाः । ते वदन्तु प्रतिज्ञां वै मत्पुरो राक्षसादने ॥ ३० कृत्वा प्रतिज्ञां विपुलां स्वपराक्रमशोभिनीम् । गच्छन्तु रणमध्ये हि यूयं बलसमन्विताः ॥ ३१ इति वाक्यं समाकर्ण्य शत्रुघ्नस्य महाबलाः । स्वां स्वां प्रतिज्ञां महतीं चक्रुस्तेजःसमन्विताः ३२ तत्राऽऽदौ पुष्कलो वीरः श्रुत्वा वाक्यं महीपतेः । परमोत्साहसंपन्नः प्रतिज्ञामूचिवानिमाम् ३३. पुष्कल उवाच- शृणुष्व नृपशार्दूल मत्पतिज्ञा पराक्रमात् । विहितां सर्वलोकानां शृण्वतां परमाद्भताम् ॥ ३४ चेन्न कुर्या क्षुरमाग्प्यैस्तीक्ष्णैः कोदण्डनिर्गतैः । दैत्यं मूर्छासमाक्रान्तं कीर्णकेशाकुलाननम् ॥ ३५ कन्यास्वभोक्तुर्यत्पापं यत्पापं देवनिन्दने । तत्पापं मम वै भूयाचेत्कुर्या स्ववचोऽनृतम् ।। यदि मद्धाणनिर्भिन्नाः सैनिकाः सुमहाबलाः । न पतन्ति महाराज प्रतिज्ञा तत्र मे शृणु ॥ ३७ 'विष्ण्वीशयोविभदं यः शिवशक्त्योः करोत्यपि । तत्पापं मम वै भूयाचेन्न कुर्यामृतं वचः ॥ ३८ १ क. ख. ग. छ. ज. अ . ग. त. थ. ते हयग्राहकरोद्यौं । २ क. ख. ग. छ. र ठ. ह. ..तद. घ. निहत” । ३ क. ख. ग. छ. ज. अ. ण त. य. 'श्रौ महीतले । स' ४ अ. शस्त्रास्त्रीघ ।। ५ द. मान्धृष्ट । ६ अं. में राक्षसाशनम् । वा । ७ क. ख. ग.छ. प. उ. ड. ण. त. थ. ध. चिवस्तिदा । पु। ८ 'म संभयाद्यदि कुर्वेऽनृतं वचः । य: २८ २९ ४८ महामुनिश्रीव्यासमणी- [ ४ पातालखण्डे- सर्व मद्वाक्यमित्युक्तं रघुनाथपदाम्बुजे । भक्तिर्मे निश्चलो याऽस्ति सैन सत्यं करिष्यति ॥ ३९ पुष्कलस्य प्रतिज्ञां तां श्रुत्वा लक्ष्मीनिधिपः । प्रतिज्ञा व्यदधात्सत्यां स्वपराक्रमशोभिताम् ४० लक्ष्मीनिधिरुवाच- वेदानां निन्दनं श्रुत्वा आस्ते यो मौनिवन्नरः । मानसे रोचयेद्यस्तु सर्वधर्मबहिष्कृतः ।। ४१ ब्राह्मणो यो दुराचारो रसलाक्षादिविक्रयी । विक्रीणाति च गां मूढो धनलोभेन मोहितः॥४२ म्लेच्छकूपोदकं पीत्वा प्रायश्चित्तं तु नाऽऽचरेत् । तत्पापं मम वै भूयाद्विमुखश्चेद्भवाम्यहम् ॥ ४३ तस्पतिज्ञामथाऽऽश्रुत्य हनूमात्रणकोविदः । रामाविस्मरणं कृत्वा प्रोवाच वचनं शुभम् ॥ ४४ मत्स्वामी हृदये नित्यं ध्येयो वै योगिभिर्मुहुः । यं देवाः सासुराः सर्वे नमन्ति मणिमौलिभिः॥ रामः श्रीमानयोध्यायाः पतिर्लोकेशपूजितः । तं स्मृत्वा यब्रुवे वाक्यं तदै सत्यं भविष्यति॥४६ राजन्कोऽयं लघुर्दैत्यो दुर्बलः कामगे स्थितः । कथयाऽऽशु मया कार्यमेकेनै विनिपातनम् ॥ ४७ मेरु देवेन्द्रसहितं लागलाण तोलये । जलधि शोषये सर्व सांवर्त वा पिबाम्यहम् ।। राज्ञः श्रीरघुनाथस्य जानक्याः कृपया मम । तन्नास्ति भूतले राजन्यदसाध्यं कदा भवेत् ॥ ४९ एतद्वाक्यं मया प्रोक्तमनृतं स्याद्यदि प्रभो । तदैव रघुनाथस्य भक्तिदरो भवाम्यहम् ॥ ५० /यः शूद्रः कपिलां गां वै पयोबुद्ध्याऽनुपालयेत् । तस्य पापं ममैवास्तु चेत्कुर्यामनृतं वचः॥५१ ब्राह्मणी गच्छते मोहाच्छूद्रः कामविमोहितः । तस्य पापं ममैवास्तु चेत्कुर्यामनृतं वचः ॥५२ यद्घाणामरकं गच्छेत्स्पर्शनाच्चापि रौरवम् । तां पिबन्मदिरां यो वा जिहास्वादेन लोलुपः ५३ तस्य यज्जायते पापं तन्ममैवास्तु निश्चितम् । न्न कुर्या प्रतिज्ञां स्वां सत्यां रामकृपाबलात्॥५४ एवमुक्ते महावीरा योद्धारस्तरसा युताः । चक्रुः प्रतिज्ञां महतीं स्वपराक्रमशालिनीम् ॥ शत्रुघ्नोऽपि व्यधात्तत्र प्रतिज्ञां पश्यतां नृणाम् । साधु साधु प्रशंसंश्च तान्वीरान्युद्धकोविदान् ॥ कथयामि पुरो वः स्वां प्रतिज्ञां सत्त्वशोभिताम् । तच्छृण्वन्तु महाभागा युद्धोत्साहसमन्विताः॥ चेत्तस्य शिर आहृत्य पातयामि न सायकैः । विमानाच कवन्धाच्च भिन्नं छिन्नं च भूतले ॥ ५८ यत्पापं कूटसाक्ष्येण यत्पापं स्वर्णचौर्यतः । यत्पापं ब्रह्मनिन्दायां तन्ममास्त्वद्य निश्चयात् ॥५९ इति शत्रुघ्नसद्वाक्यं श्रुत्वा ते वीरपूजिताः । धन्योऽसि राघवभ्रातः कस्त्वदन्योऽपरो भवेत्॥६० त्वया विनिहतो दैत्यो देवदानवदुःखदः । लवणो नाम लोकेश मधुपुत्रो महाबलः ।। ६१ कोऽयं वै राक्षसो दुष्टः क चास्य बलमल्पकम् । करिष्यसि क्षणादेव तस्यापायं महामते ॥ ६२ इत्युक्त्वा ते महावीराः सज्जीभता रणाङ्गणे । प्रतिज्ञां स्वामृतां कर्तुं ययुस्ते राक्षसं मुदा ॥ ६३ इति श्रीमहापुराणे पाने पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे वीराणां प्रतिज्ञाकथनं नाम त्रयस्त्रिंशोऽध्यायः ॥३३॥ आदितः श्लोकानां समष्ट्यङ्काः--१२७४१ अथ चतुत्रिंशोऽध्यायः । शेष उवाच- रथैः सदश्वैः शोभाढ्यैः सर्वशस्त्रास्त्रपूरितैः । मानारत्नसमायुक्तैर्ययुस्ते राक्षसाधमम् ॥ * एतचिहान्तर्गतः पाठः, क. ख. ग. छ. ज. अ. ण. त. थ. पुस्तकस्थः । १ क. ख. ग. छ. ज. प्र. ड. ण. त. थ. °ला कार्ये करिष्यति मनीषितम् । पु। २ . ति तिलान्मूो। ३ क. ख. घ. ङ. च. स. अ. ट. ठ. द. म. द. घ. न किमसाहाकम् ।
'- ८ ३४. चतुस्त्रिंशोऽध्यायः ] पद्मपुराणम् । ४९७ तान्दृष्ट्वा कामगे याने स्थितः प्रोवाच राक्षसः। मेघगम्भीरया वाचा तर्जयन्निव भूरिशः ॥ २ मा यान्तु सुभटा योद्धं गच्छन्तु निजमन्दिरम् । मा त्यजन्तु स्वकात्माणान मोक्ष्ये वाजिनं वरम् विद्युन्मालीति विख्यातो रावणस्य सुहृत्सखा । मत्सख्युः प्रतभूतस्य निष्कृति कर्तुमेयिवान् ॥४ कासो रामो ममाऽऽहत्य सखायं रावणं गतः। तस्य भ्राताऽपि कुत्राऽऽस्ते सर्वशूरशिरोमणिः। तं हत्वा निष्कृति तस्य प्राप्स्ये रामस्य चानुजम् । पिबन्रुधिरमुद्भूतं कण्ठनालस्य बुबुदैः ॥ ६ इति वाक्यं समाकर्ण्य योधानां प्रवरो महान् । पुष्कलो निजगादैनं वीर्यशौर्यसमन्वितम् ॥ पुष्कल उवाच- विकत्थनं न कुर्वन्ति संग्रामे सुभटा नराः । पराक्रमं दर्शयन्ति निजशस्त्रास्त्रवर्षणैः ।। रावणो निहतो येन ससुहवलवाहनः । तस्य वाजिनमाहृत्य कुत्र गन्तासि दुर्मते ॥ पतिष्यसि त्वं शत्रुघ्नबाणैः कोदण्डनिर्गतैः । त्वामत्स्यन्ति शिवा भूमौ पतितं प्राणवर्जितम्॥१० मा गर्न दुष्ट रामस्य सेवके मयि सुस्थिते । गर्जन्ति सुभटा युद्धे शवञ्जित्वा महोदयात् ।। ११ शेष उवाच- एवं श्रुवन्तं वं वीरं पुष्कलं रणदुर्मदम् । जघान शक्त्या सुभृशं हृदि राक्षससत्तमः ॥ १२ आयान्ती वां महाशक्तिमायसी काञ्चनाश्रिताम् । चिच्छेद त्रिभिरत्युग्रैः शितैर्बाणैः स पुष्कलः ॥ सा त्रिधा झपतद्भूमौ विशिखैर्निष्पभीकृता । पतन्ती विरराजासौ विणोः शक्तित्रयीव किम् १४ तो छिनां शक्तिकां दृष्ट्वा राक्षसः परतापनः । शुलं जग्राह तरसा त्रिशिखं लोहनिर्मितम् ॥ १५ तीक्ष्णाग्रं ज्वलनप्रख्यं राक्षसेन्द्रो व्यमोचयत् । आयान्तं तिलशचक्रे बाणैः पुष्कलसंशितः॥१६ छित्त्वा त्रिशूलं तरसा राघवस्य हि सेवकः। पुष्कलचाप आवत्त वाणांस्तीक्ष्णान्मनोजवान १७ ते बाणा हृदि तस्याऽऽशु लग्ना रागं बतासृजन्। वैष्णवस्य यथा स्वान्ते गुणा विष्णोर्मनोहरा:१८ तद्वाणवेधदुःखार्तो विद्युन्माली सुमर्दनः । जग्राह मुद्गरं घोरं पुष्कलं हन्तुमुद्यतः ॥ १९ मुद्गरः प्रहितस्तेन विद्युन्माल्यभिधेन हि । हृदि लग्नोऽसृज(भव)च्छीघ्रं कश्मलं तदकारयत् ॥२० मुद्गरमहतो वीरः कम्पमानः सवेपथुः । पपात स्यन्दनोपस्थे पुष्कलः शत्रुतापनः ॥ २१ उग्रदंष्ट्रोऽथ तदाता लक्ष्मीनिधिमयोधयत् । शस्त्रास्त्रैर्बहुधा मुक्तैर्वीरमाणाहृतिकरैः ॥ पुष्कलस्तत्क्षणात्माप्य संज्ञां राक्षसमब्रवीत् । धन्योऽसि राक्षसश्रेष्ठ महीयांस्ते पराक्रमः ॥ २३ पश्येदानी ममाप्युञ्चैः प्रतिज्ञा शूरमानिताम् । विमानात्पातयाम्यद्य भूमौ त्वां शितसायकैः।।२४ इत्युक्त्वा निशितं बाणं समगृहादुरासदम् । ज्वलन्तमग्नितेजस्कं महौदार्यसमन्वितम् ॥ २५ स यावत्तं प्रतीकर्तुं विधत्ते स्वपराक्रमम् । तावबृदि ततो लग्नस्तीक्ष्णवक्त्रः स सायकः ॥ २६ तेन बाणेन विभ्रान्तो भ्रमच्चित्तः स राक्षसः । पपात कामगोपस्थाद्भूमौ विगतचेतनः ॥ उपदंष्ट्रेण वै दृष्टः पतमानो निजाग्रजः । गृहीत्वा तं विर्मोनान्तर्निनाय रिपुशङ्कितः ॥ पाह चारिं महारोषात्पुष्कलं बलिनां वरम् । मद्भातरं पातयित्वा कुत्र यास्यसि दुर्मते ॥ २९ मां वै युधि विनिर्जित्य गन्तासि जयमुत्तमम् । स्थिते मयि तव स्वान्ते जयाशा विनिवर्तताम् ३ एवं अवन्त तरसा जघान दशभिः शरैः । हृदये तस्य दुष्टस्य रोषपूरितलोचनः ॥ स ताडितो दशशरैः पुष्कलेन महात्मना । चुक्रोध हदि दुर्बुद्धिस्तं हन्तुं तु प्रचक्रमे ॥ ३२ १ क. ख. ग. छ. ज. अ. उ. प. त. थ. द. ध. हृत्स्वजनैर्वृतः । त। २ ग. छ. ठ. उ. प. द.प सुदुर्मदः । ३ ६. तोऽत्युप्रस्तीक्ष्णधारः स । ४ अ. 'मानं तु निना । २२ 3 २७ २८ ४९८ - ४४ ४६ ४८ महामुनिश्रीव्यासप्रणीतं- [ ४ पातालखण्डे- दन्तानिष्पीड्य सक्रोधं मुष्टियुद्यम्य चोरसि । व्यहनद्वजनिर्घातपातशङ्का सृजन्हृदि ।। मुष्टिनाऽभिहतो वीरः पुष्कलः परमास्त्रवित् । नाकम्पत विनिष्पेषं वान्छस्तस्य दुरात्मनः ॥३४ वत्सदन्तान्महातीक्ष्णान्मुमोच हृदये ततः । तैर्वाणैर्व्यथितो दैत्यस्त्रिशूलं तु समाददे ॥ ३५ जाज्वल्यमानं त्रिशिखं ज्वालामालातिभीषणम् । लग्न हृदि महावीरपुष्कलस्य सुदारुणम् ॥ ३६ मूर्छितस्तेन भूलेन निहतो धन्विसत्तमः । कश्मलं परमं प्राप्तः पपात स्यन्दनोपरि ॥ मूर्जाप्राप्तं समाज्ञाय हनुमान्पवनात्मजः । कोपव्याकुलितः स्वान्ते बभाषे तं तु राक्षसम् ॥ ३८ कुत्र गच्छसि दुर्बुद्धे मयि योद्धरि सुस्थिते । त्वां हन्मि चरणाघातैर्वाजिहारमागतम् ।। ३९ एवमुक्त्वा महादैत्याञ्जघान परसैनिकान् । विमानस्थानखाग्रेण दारयन्नमसि स्थितः ॥ लाङ्घलेनाऽऽहताः केचित्केचित्पादतलाहताः । बाहुभ्यां दारिताः केचित्पवनस्य तनूभुवा।।४१ नश्यन्ति केचिनिहताः केचिन्मूर्छन्ति संहताः । पलायन्ते तदाघातभयपीडोहतास्ततः ॥ अनेके निहतास्तत्र राक्षसाश्चातिदारुणाः । छिन्ना भिन्ना द्विधा जाताः पवनस्य सुतेन वै ॥ ४३ कामगं तु विमानं तद्भिन्नपाकारतोरणम् । हाहाकुर्वद्भिरसुरैः समन्तात्परिवारितम् ।। हनूमति महाशूरे क्षणं भूमौ क्षणं दिवि । इतस्ततः प्रदृश्येत कामयानं दुरासदम् ॥ यत्र यत्र विमानं तत्तत्र तत्र समीरजः। प्रहरन्नेव दृश्येत कामरूपधरः कपिः ।। एवं तदाऽऽकुलीभूते विमानस्थे महाजने । उग्रदंष्ट्रस्तु दैत्येन्द्रो हनूमन्तमुपेयिवान् ॥ कपे त्वया महत्कृत्यं कृतं यद्भटपातनम् । क्षणं तिष्ठसि चेत्कुर्वे तव माणवियोजनम् ॥ एवमुक्त्वा हनूमन्तं प्रजहार स दुर्मतिः । त्रिशूलेन सुतीक्ष्णेन ज्वलत्पावककान्तिना ॥ तदाऽऽगतं त्रिशूलं च मुखे जग्राह वीर्यवान् । चूर्णयामास सकलं सर्वलोहविनिर्मितम् ।। ५० चूर्णयित्वा त्रिशूलं तदायसं दैत्यमोचितम् । जघान तं चपेटाभिर्बहीभिर्हनुमान्बली ॥ ५१ स आहतः कपीन्द्रेण चपेटाभिरितस्ततः । व्यथितो व्यसृजन्मायां सर्वलोकभयंकरीम् ॥ सदा तमोऽभवत्तीनं यत्र को वा न लक्ष्यते । यत्र स्वीयो न पारक्यो विदामास जनान्बहून् ५३ शिलाः पर्वतशृङ्गाभाः पतन्ति सुभटोपरि । ताभिर्हतास्तु ते सर्वे व्याकुला अथ जज्ञिरे ॥ ५४ विद्युतो विलसन्त्यत्र गर्नन्ति जलदा घनम् । वर्षन्ति पूयरुधिरं मुञ्चन्ति समलं जलम् ।। आकाशात्पतमानानि कबन्धानि बहूनि च । दृश्यन्ते छिन्नशीर्षाणि सकुण्डलयुगानि च ॥ ५६ नमा विरूपाः सुभृशं कीर्णकेशाः सुदुर्मुखाः । दृश्यन्ते सर्वतो दैत्या दारणा भयकारिणः ॥५७ तदा व्याकुलितो लोकः परस्परभयाकुलः । पलायनपरो जातो महोत्पातममन्यत ।। ५८ तदा शत्रुघ्न आयातो रथे स्थित्वा महायशाः। श्रीरामस्मरणं कृत्वा चापे संधाय सायकान् ५९ तो मायां स विधूयाथ मोहनास्त्रेण वीर्यवान् । शरधाराः किरन्न्योनि ववर्ष समरेऽसुरम् ६० तदा दिशः प्रसेदुःस्ता रविस्त्वपरिवेषवान् । मेघा यथागतं याता विद्युतः शान्तिमागताः ॥६१ तदा विमानं पुरतो दृश्यते राक्षसैर्युतम् । छिन्धि भिन्धीतिभाषाभिर्व्याकुलं सुतरां महत् ॥ ६२ बाणाश्च शतसाहस्राः स्वर्णपुरैः सुशोभिताः । पेतुर्विमाने नभसि स्थिते कामगमे मुहुः ॥ ६३ तदा भन विमानं हि दृश्यतेऽपतदुच्चकैः । स्वपुरीखण्डमेकत्र भनाङ्गमिव भूतले ॥ तदा प्रकुपितो दैत्यो बाणान्धनुषि संदधे । तैर्बाणैर्विकिरन्रामभ्रातारमभिगतिः ॥ ६५ १ अ.लितस्वान्तो व। २ ग. छ. र. ण द दैत्यं जघा । ३ छ. . रायुता । ४ छ. र रुणाः पापका' । ५ क. स. घ, ङ, च. छ. ज. स. म. ट. ठ. र. र. त. थ. प. रे पुर। ४९ ४९९ ७१ ७२ ३५ पञ्चत्रिंशोऽध्यायः ] पमपुराणम् । ते बाणाः शतशस्तस्य लग्ना वपुषि भूरिशः । शोभामापुः शोणितौघान्वहन्तस्तीक्ष्णवक्त्रिणः६६ शत्रुघ्नः परया शक्त्या संयुक्तो वायुदैवतम् । अखं धनुषि चाऽऽधत्त राक्षसानां प्रकम्पनम् ॥ ६७ तेनास्त्रेण विमानात्खात्पतन्तो मुक्तमूर्धजाः । दृश्यन्ते भूतवेतालसंघा इव नभश्चराः॥ ६८ तदत्रं रघुनाथस्य भ्रातृमुक्तं विलोक्य सः । अस्त्रं वै पाशुपत्यं स्वचापेऽधाहनुजात्मजः॥ ६९ ततः प्रवृत्ता वेताला भूतप्रेतनिशाचराः । कपालकर्तरीयुक्ताः पिबन्तः शोणितं बहु ॥ ते वै शत्रुघ्नवीराणां रुधिराणि पपुर्मुदा । जीवतामपि दुर्वाराः कर्तरीपाणिशोभिताः । तदत्रं व्यामुवदृष्ट्वा सर्ववीरप्रभञ्जनम् । मुमोच तनिवाराय नारायणमथास्त्रकम् ॥ नारायणास्त्रं तान्सर्वान्वारयामास तत्क्षणात् । ते सर्वे विलयं पापुर्निशाचरप्रणोदिताः ॥ ७१ तदा क्रुद्धो निशाचारी विद्युन्माली समाददे । त्रिशूलं निशितं घोरं शत्रुघ्नं हन्तुमुल्वणम् ॥ ७४ शूलहस्तं समायान्तं विद्युन्मालिनमाहवे । सायकैः प्राहरत्तस्य भुजे त्वर्धशशिभभैः ।। तैर्वाणैश्छिमहस्तः स शिरसा हन्तुमुद्यतः । हतोऽसि याहि शत्रुघ्न कस्त्वां त्राता भविष्यति ७६ इति ब्रुवागं तरसा चिच्छेद शितसायकैः । मस्तकं तस्य बलिनः शूरस्य सहकुण्डलम् ॥ तं छिन्नशिरसं दृष्ट्वा उग्रदंष्ट्रः प्रतापवान् । मुष्टिना हन्तुमारेभे शत्रुघ्नं शूरसेवितम् ।। शत्रुघ्नस्तं(स्तु) भुरप्रेण सायकेनाच्छिनच्छिरः। प्रधावतो रणे वीरान्सर्वशस्त्रास्त्रकोविदान् ॥ ७९ इतशेषा ययुः सर्वे राक्षसा नायवर्जिताः । शत्रुघ्नं प्रणिपत्याथ ददुर्वाजिनमाहतम् ॥ ततो वीणानिनादाश्च शङ्खनादाः समन्ततः । श्रूयन्ते शूरवीराणां जयनादा मनोहराः ॥ इति श्रीमहापुराणे पाने पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे विद्युन्मालिराक्षसपराजयकथनं नाम चतुस्त्रि- शोऽध्यायः ॥ ३४॥ आदितः श्लोकानां समष्टयङ्काः--१२८२२ ७७ ७८ अथ पश्चत्रिंशोऽध्यायः । वीरा ऊचुः- शेष उवाच- पाप्य तं वाजिनं राजा शत्रुघ्नो राक्षसह॒तम् । अत्यन्त हर्षमापेदे पुष्कलेन समन्वितः ।। रुधिरैः सिक्तगात्रास्ते योधा लक्ष्मीनिधिस्तथा । रणोत्साहेन संयुक्ताः प्रशसंसुर्महानृपम् ॥ २ हते तस्मिन्महादैत्ये विद्युन्मालिनि दुर्जये । सुराः सर्वे भयं त्यक्त्वा मुखमापुर्मुने महत् ॥ नवस्तु विमला जाता रविस्तु विमलोऽभवत् । वाता ववुः सुगन्धोदसिक्ता विमलशुष्मिणः ॥४ संनदास्ते महावीरा रथस्था विमलाकाः । राजानमूचुस्ते सर्वे जयलक्ष्म्या समन्विताः॥ ५ [*दिया हतस्त्वया दैत्यो विद्युन्माली महाबलः। यद्भयात्रासमापनाः सुराः स्वर्गानिराकृताः] दिष्ट्या प्राप्तो महावाजी रघुनाथस्य शोभनः । दिष्ट्या गन्तासि सर्वत्र जयं तु क्षितिमण्डले ॥ ७ खामी मुश्च विमं वाहं मनोवेगं मनोरमम् । समयस्य विलम्बो मा भवत्वत्र महामते । शेष उवाच- * एतचिहान्तर्गतः पाठः ख. ग. छ. ज. ठ. स. प. त. थ. द.ध. पुस्तकस्थः । १७.प. तपिशाचकाः ।। २ . म. मुगर । ३१. शबहस्तं । ४.तोऽसीत्याह शमः । ५..म- स्तर । द. महामते। ८ - ९ १६ महामुनिश्रीव्यासप्रणीत- [४ पातालखण्डे- इति श्रुत्वा तु तद्वाक्यं वीराणां समयोचितम् । साधु साधु प्रशस्यैतन्मुमोच हयपुत्तमम् ।। स मुक्तश्चोत्तरामाशां बभ्राम रथिरक्षितः। स्थपत्तिहयश्रेष्ठैः सर्वशस्त्रास्त्रकोविदैः ।। १० तत्र यवृत्तमेतस्य शत्रुघ्नस्य मनोहरम् । वात्स्यायन शृणुष्वैतत्पापराशिनदाहकम् ॥ ११ रेवातीरमय प्राप्तो मुनिन्दनिषेवितम् । नीलरत्नसमूहस्य रसः किंतु(नु) पयोमिषात् ।। १२ तांस्तान्मुभिवरान्सर्वान्मणमञ्शूरसेवितः । जगाम हयरत्नस्य पृष्ठतः कामगामिनः॥ १३ गच्छंस्तत्राऽऽश्रमं जीर्ण पलाशपर्णनिर्मितम् । वाया जलकल्लोलैः सिक्तं पापहराश्रयम् ॥ १४ तं दृष्ट्वा सुमति प्राह सर्वज्ञ नयकोविदम् । शत्रुघ्नः सर्वधर्मार्थकर्मकर्तव्यकोविदः ।। १५ राजोवाच- मविन्कथय कस्यायमाश्रमः पुण्यदर्शनः । विचारचतुरश्रेष्ठ वदैतन्मम पृच्छतः ॥ शेष उवाच- इति वाक्यं समाकर्ण्य सुमतिः प्राह तं नृपम् । विशदस्मेरगा वाचा दर्शयनात्मसौहृदम् ॥ १७ सुमतिरुवाच-~- एनं दृष्ट्वा महाराज धूतपापा वयं महत् । भविष्यामो मुनिश्रेष्ठं सर्वशास्त्रपरायणम् ।। १८ तस्मानत्वा तमापृच्छ सर्व ते कथयिष्यति । रघुनाथपदाम्भोजमरन्दास्वादलोलुपः ।। १९ नाम्ना त्वारण्यक ख्यातं रघुनाथाइघिसेवकम् । अत्युग्रतपसा पूर्ण सर्वशास्त्रार्थकोक्दिम् ॥ २० इति श्रुत्वाऽथ तद्वाक्यं धर्मार्थपरिबृंहितम् । जगाम तमथो द्रष्टुं स्वल्पसेवकसंयुतः। २१ हनूमान्पुष्कलो वीरः सुमतिर्मत्रिसत्तमः । लक्ष्मीनिधिः प्रतापाग्यः सुबाहुसुमदौ तथा ॥ २२ एतैः परिवृतो राजा शत्रुनः प्रापदाश्रमम् । नमस्कर्तुं द्विजवरमारण्यकमुदारधीः ॥ गत्वा तं तापसश्रेष्ठं नमस्कारमथाकरोत् । सर्वैस्तैः सहितो वीरैर्विनयानतकंधरैः॥ तान्दृष्ट्वा संनतान्सर्वाञ्शत्रुघ्नप्रमुखानृपान् । अर्घ्यपाधादिकं चक्रे फलमूलादिभिस्तदा ॥ उवाच तानृपान्सर्वान्भवन्तः कुत्र संगताः । कथमत्र समायातास्तत्सर्वं वदतानघाः ॥ २६ तच्छ्रुत्वा वाक्यमेतस्य मुनिवर्यस्य वाडव । सुमतिः कथयामास वाक्यवादविचक्षणः ॥ मुमतिरुवाच- रघुवंशनृपस्यायमश्वो वै पाल्यतेऽखिलैः । यागं करिष्यते वीरः सर्वसंभारसंभृतम् ॥ तच्छ्रुत्वा वचनं तेषां जगाद मुनिसत्तमः । दन्तकान्त्याऽखिलं घोरं तमो निर्वारयाभिव ।। आरण्यक उवाच- किं यागैर्विविधै रम्यैः सर्वसंभारसंभृतैः । स्वल्पपुण्यप्रदैनं क्षयिष्णुपददातृकैः ।। मूढो लोको हरि त्यक्त्वा करोत्यन्यसमर्चनम् । रघुवीरं रमानाथं स्थिरैश्वर्यपदपदम् ॥ यो नरैः स्मृतमात्रोऽसौ हरते पापपर्वतम् । तं मुक्त्वा क्लिश्यते मूढो योगयागवतादिभिः ॥ ३२ अहो पश्यत मूढत्वं लोकानामतिवञ्चितम् । सुलभं रामभजनं मुक्त्वा दुर्लभमाचरेत् ॥ ३३ सकामैर्योगिभिर्वाऽपि चिन्त्यते कामवर्जितैः । अपवर्गमदं नृणां स्मृतमात्राखिलाघहम् ॥ पुराऽहं तत्त्ववित्सायां ज्ञानिनं सुविचारयन् । अगमं बहुतीर्थानि न कोऽपि मम तत्त्वदः ॥ ३५ तदैकदो हि मद्भाग्यात्माप्तं वै लोमशं मुनिम् । स्वर्गलोकात्समायान्तं तीर्थयात्राचिकीर्षया ॥३६ १ग. पश्चिराश्रयम् । २ ग. 'टु सप्तसे' । ३ ग. "देोरैः क्ष। ४ स. 'विन्मायां । ५ ग. द. 'दा महद्भा। २३ २४ २५ २७ २८ २९ ३० ४ ३५ पञ्चत्रिंशोऽध्यायः ] पद्मपुराणम् । तमहं प्रणिपत्याय पर्यपृच्छं महामुनिम् । महायुषं महायोगिसंसेवितपदद्वयम् ॥ स्वामिन्मयाऽद्य मानुष्यं प्राप्य दुर्लभमद्रुतम् । संसारघोरजलधि किं कर्तव्यं तितीर्पणा ॥ ३८ विचार्य कथय त्वं तद्वतं दानं जपं मखम् । देवो वा विद्यते यो वै संसृताम्भोधितारकः ॥ ३९ यज्ज्ञात्वा संमृति घोर तरामि त्वत्कृपोन्धितः । तन्मे कथय योगेश सर्वशास्त्रार्थपारग ॥ ४० इति मद्वाक्यमाकर्ण्य जगाद मुनिसत्तमः । शृणुष्वैकमना विप्र श्रद्धया परया वृतः ॥ ४१ सन्ति दानानि तीर्थानि व्रतानि नियमा यमाः। योगयज्ञास्तथाऽनेके वर्तन्ते स्वर्गदायकाः ४२ परं गुह्यं प्रवक्ष्यामि सर्वपापप्रणाशनम् । तच्छृणुष्व महाभाग संसाराम्भोधितारकम् ॥ नास्तिकाय न वक्तव्यं न चाश्रद्धालवे पुनः । निन्दकाय शठायापि न देयं भक्तिवैरिणे ॥४४ रामभक्ताय शान्ताय कामक्रोधवियोगिने । वक्तव्यं सर्वदुःखस्य नाशकारकमुत्तमम् ।। ४५ रामानास्ति परो देवो रामानास्ति परं व्रतम् । न हि रामात्परो योगो न हि रामात्परो मखः ।। तं स्मृत्वा चैव जप्त्वा च पूजयित्वा नरः परम् । पामोति परमामृद्धिमैहिकामुष्मिकी तथा ४७ संस्मृतो मनसा ध्यातः सर्वकामफलपदः । ददाति परमां भक्तिं संसाराम्भोधितारिणीम् ॥ ४८ श्वपाकोऽपि हि संस्मृत्य रामं याति परां गतिम् । ये वेदशास्त्रनिरतास्त्वादृशास्तत्र किं पुनः ४९ सर्वेषां वेदशास्त्राणां रहस्यं ते प्रकाशितम् । समाचर तथा वं वै प्रथा स्यात्ते मनीषितम् ॥५० एको देवो रामचन्द्रो व्रतमेकं तदर्चनम् । मत्रोऽप्येकश्च तनाम शास्त्रं तद्ध्येव तत्स्तुतिः ॥ ५१ तस्मात्सर्वात्मना रामचन्द्रं भज मनोहरम् । यथा गोष्पदवत्तुच्छो भवेत्संसारसागरः ॥ श्रुत्वा मया तु तद्वाक्यं पुनः प्रश्नमकारिषम् । कथं वा ध्यायते देवः कथं वा पूज्यते नरैः ॥५३ कथयस्व महाबुद्धे सर्वज्ञ मम विस्तरात् । यज्ज्ञात्वाऽहं कृतार्थः स्यां त्रिलोक्यां मुनिसत्तम ५४ एतच्छ्रुत्वा तु मद्वायं मुनिवर्यः स लोमशः । कथयामास मे सर्व रामध्यानपुरःसरम् ॥ शृणु विमेन्द्र वक्ष्यामि यत्पृष्टं तु त्वयाऽनघ । यथा तुष्येद्रमानाथः संसारज्वरदारकः ॥ ५६ अयोध्यानगरे रम्ये चित्रमण्डपशोभिते । ध्यायेत्कल्पतरोर्मूले सर्वकामसमृद्धिदम् ।। महामरकतवर्णनीलरत्नादिशोभितम् ॥ सिंहासनं चित्तहरं कान्त्या तामिस्रनाशन । तत्रोपरि समासीनं रघुराज मनोरमम् ॥ दूर्वादलश्यामतनुं देवं देवेन्द्रपूजितम् । राकायां पूर्ण सीतांशुकान्तिधिकारिववित्रणम् ॥ अष्टमीचन्द्रशकलसमभालाधिधारिणम् । नीलकुन्तलशोभाढ्यं किरीटमणिरञ्जितम् ।। ६० मकराकारसौन्दर्यकुण्डलाभ्यां विराजितम् । विद्रुमप्रभसत्कान्तिरदच्छदविराजितम् ।। ६१ तारापतिकराकारद्विजराजिसुशोभितम् । जपापुष्पाभयामाध्व्या जिह्वया शोभिताननम् ॥ ६२ यस्यां वसन्ति निगमा ऋगाद्याः शास्त्रसंयुताः । कम्बुकान्तिधरग्रीवाशोभया समलंकृतम् ॥ ६३ सिंहवदुच्चको स्कन्धौ मांसलौ बिभ्रतं वरम् । बाहू दधानं दीर्घाको केयूरकटकाङ्कितौ ॥ ६४ मुद्रिकाहीरशोभाभिभूषितौ जानुलम्बिनौ । वक्षो दधानं विपुलं लक्ष्मीवासेन शोभितम् ॥ ६५ श्रीवत्सादिविचित्रारङ्कितं सुमनोहरम् । महोदरं महानाभिं शुभकट्या विराजितम् ॥ काळच्या वै मणिमय्या च विशेषेण श्रियान्वितम्।ऊरुभ्यां विमलाभ्यां च जानुभ्यां शोभितं श्रिया चरणाभ्यां वज्ररेखायवाङ्कुशसुरेखया । युताभ्यां योगिध्येयाभ्यां कामलाभ्यां विराजितम् ६८ १ ग. छ. ड. त. थ पान्वितः। २ ख. ग. छ. ज. ठ. ड. ग. थ. द. घ. योगा य' । ३ ग. छ. ह. तत्स्मृतिः । ४ द. 'क्य विचार्य स तु लो । ५ ण. मृद्धये म । ५८ ५०२ महामुनिश्रीव्यासप्रणीत- [ ४ पातालखण्डे- ध्यात्वा स्मृत्वा च संसारसागरं त्वं तरिष्यसि । तमेव पूजयनित्यं चन्दनादिभिरिच्छया ॥६९ पामोति परमामृद्धिमैहिकामुष्मिकी पराम् । त्वया पृष्टं महाराज रामस्य ध्यानमुत्तमम् ।। तत्ते कथितमेतद्वै संसारजलधि तर ॥ इति श्रीमहापुराणे पाने पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेध आरण्यकोपाख्यानं नाम पचत्रिंशोऽध्यायः ॥ ३५ ॥ आदितः श्लोकानां समष्यकाः-१२८९२ ७० अथ षट्त्रिंशोऽध्यायः । शेष उवाच- - एतच्छ्रुत्वा तु विगेन्द्रो लोमशात्परमं महत् । पुनः प्रपच्छ तमूर्षि सर्वज्ञं योगिनां वरम् ।। १ आरण्यक उवाच- २ 00 ५ ६ ८ मुनिश्रेष्ठ वदैतन्मे पृच्छामि त्वां महामते । गुरवः कृपया युक्ता भाषन्ते सेवकेऽखिलम् ।। कोऽसौ रामो महाभाग यो नित्यं ध्यायते त्वया । तस्य कानि चरित्राणि वदस्व त्वं द्विजर्षभ । किमर्थमवतीर्णोऽसौ कस्मान्मानुषतां गतः । तत्सर्वं कथयाऽऽशु त्वं मम संशयनुत्तये ॥ शेष उवाच- इति वाक्यं समाकर्ण्य मुनेः परमशोभनम् । लोमशः कथयामास रामचारित्रमद्भुतम् ॥ लोकाभिरयसंमनाज्ञात्वा योगेश्वरेश्वरः । कीर्ति प्रथयितुं लोके यया घोरं तरिष्यति ॥ एवं ज्ञात्वा दयावाधिः परमेशो मनोहरः । अवतारं चकारात्र चतुर्धा स श्रियान्वितः ।। "पुरा त्रेतायुगे माप्ते पूर्णाशो रघुनन्दनः । सूर्यवंशसमुत्पनो रामो राजीवलोचनः ।। स रामो लक्ष्मणसखः काकपक्षधरो युवा । तातस्य वचनात्तौ तु विश्वामित्रमनुव्रतौ ।। यज्ञसंरक्षणार्थाय राज्ञा दत्तौ कुमारको । दान्तौ धनुर्धरौ वीरौ विश्वामित्रमनुव्रतौ ॥ १० पयि प्रव्रजतोस्तावत्ताडका नाम राक्षसी । संगता च वने घोरे तयोः विघ्नकारणात् ॥ ११ ऋषेरनुज्ञया रामस्ताडका यमयातनाम् । प्रावेशयद्धनुर्वेद विद्याभ्यासेन राघवः ॥ १२ यस्य पादतलस्पर्शाच्छिला वासवयोगजा । अहल्या गौतमवधः पुनर्जाता स्वरूपिणी ॥ १३ विश्वामित्रस्य यज्ञे तु सुप्रवृत्ते रघूत्तमः । मारीचं च सुबाहुं च जघान परमेषुभिः ॥ १४ ईश्वरस्य धनुर्भनं जनकस्य गृहे स्थितम् । रामः पञ्चदशे वर्षे षड्वर्षामथ मैथिलीम् ॥ १५ उपयेमे विवाहेन रम्यां सीतामयोनिजाम् । कृतकृत्यस्तदा जातः सीतां संप्राप्य रायवः ॥ १६ ततो द्वादशवर्षाणि रेमे रामस्तया सह । सप्तविंशतिमे वर्षे यौवराज्यमकल्पयत् ।। राजानमय कैकेयी वरद्वयमयाचत । तयोरेकेन रामस्तु ससीतः सहलक्ष्मणः ॥ जटाधरः प्रव्रजता [श्वर्षाणीह चतुर्दश । भरतस्तु द्वितीयेन यौवराज्याधिपोऽस्तु मे ॥ जानकीलक्ष्मणसखं रामं प्रावाजयभृपः । त्रिरात्रमुदकाहारश्चतुर्थे] हि फलाशनः ॥ पश्चमे चित्रकूटे तु रामः स्थानमकल्पयत् । अथ प्रयोदशे वर्षे पञ्चवव्या महामुने ॥ रामो विरुपयामास शूर्पणखां निशाचरीम् । वने विचरतस्तस्य जानक्या सहितस्य च ॥ १७ १८ १९ २१ * एतचिहान्तर्गत पाट: ख. क. ग. छ. म. ठ. स. ण त थ द ध. पुस्तकस्थः ।
२७ २९ ३४ । ३६ षट्त्रिंशोऽध्यायः ] पमपुराणम् । आगतो राक्षसस्तां वै हर्तुं पापविपाकतः । ततो माषासिताष्टम्यां मुहूर्ते न्दसंज्ञके ॥ २३ राघवाभ्यां विना सीतां जहार दशकंधरः । तेनैवं हियमाणा सा चक्रन्द कुररी यथा ॥ २४ राम रामेति मां रक्ष रक्ष मां रक्षसा हृताम् । यथा श्येनः क्षुधा कान्तः क्रन्दन्ती वर्तिकां नयेत् तथा कामवशं प्राप्तो रावणो जनकात्मजाम् । नयत्येवं जनकजा जटायुः पक्षिराद् तदा ॥ २६ युयुधे राक्षसेन्द्रेण स रावणहतोऽपतत् । मार्गशुक्लनवम्यां तु वसन्ती रावणालये ॥ संपातिर्दशमे मास आचख्यौ वानरेषु ताम् । एकादश्यां महेन्द्रादेः पुष्ठवे शतयोजनम् ॥ २८ हनूमानिशि तस्यां तु लङ्कायां पैर्यकालयत् । तद्रात्रिशेषे सीताया दर्शनं हि हनूमतः ॥ द्वादश्यां शिंशपाक्षे हनूमान्पर्यवस्थितः । तस्यां निशायां जानक्या विश्वासाय च संकथा॥३० अक्षादिभित्रयोदश्यां ततो युद्धमवर्तत । ब्रह्मास्त्रेण चतुर्दश्यां बद्धः शक्रजिता कपिः ॥ वह्निना पुच्छयुक्तेन लङ्काया दहनं कृतम् । पौर्णमास्यां महेन्द्राद्रौ पुनरागमनं कपः ॥ ३२ मार्गासितप्रतिपदः पञ्चभिः पथि वासरैः । पुनरागत्य षष्ठेऽनि ध्वस्तं मधुवनं किल ॥ सप्तम्यां प्रत्यभिज्ञानदानं सर्वनिवेदनम् । अष्टम्युत्तरफल्गुन्या मुहूर्ते विजयाभिधे ॥ मध्यं प्राप्ते सहस्रांशी प्रस्थानं राघवस्य च । रामः कृत्वा प्रतिज्ञा तु प्रयातो दक्षिणां दिशम् ३५ तीर्वाऽहं सागरमपि हनिष्ये राक्षसेश्वरम् । दक्षिणाशां प्रयातस्य सुग्रीवोऽप्यभवत्सखा ॥ ३६ वासरैः सप्तभिः सिन्धोः स्कन्धावारनिवेशनम् । पौषशुक्ल प्रतिपदस्तृतीया यावदम्बुधेः ॥ ३७ उपस्थानं ससैन्यस्य राघवस्य बभूव ह । बिभीषणश्चतुझं तु रामेण सह संगतः ॥ ३८ समुद्रतरणार्थाय पञ्चम्यां मन्त्र उद्यतः । प्रायोपवेशनं चक्रे रामो दिनचतुष्टयम् ॥ समुद्रौदरलाभश्च सहोपायर्मदर्शनम् । ततो दशम्यामारम्भस्त्रयोदश्यां समापनम् ॥ चतुर्दश्यां सुवेलाद्रौ रामः सैन्यं न्यवेशयत् । पौर्णमास्या द्वितीयान्तं त्रिदिनैः सैन्यतारणम् ४१ तीळ तोयनिधि रामो वानरेश्वरसैन्यवान् । रुरोध च पुरी लङ्कां सीतार्थ सहलक्ष्मणः ॥ ४२ तृतीयादिदशम्यन्तं निवेशश्च दिनाष्टकम् । शुकसारणयोस्तत्र प्राप्तिरेकादशीदिने ॥ पौषासिताख्यद्वादश्यां सैन्यसंख्यानमेव च । शार्दूलेन कपीन्द्राणां सह सारोपवर्णनम् ॥ त्रयोदश्या अमावास्यां लङ्कायां दिवसैत्रिभिः। रावणः सैन्यसंख्यानां रणोत्साहं तदाऽकरोत्४५ प्रययावदो दौत्ये माघशुक्लाधवासरे । सीतायाश्च ततो भर्तुर्मायामूर्धादिदर्शनम् ॥ ४६ माघद्वितीयादिदिनैः सप्तभिर्यावदष्टमी । रक्षसां वानराणां च युद्धमासीच संकुलम् ॥ माघशुक्लनवम्यां तु रात्राविन्द्रजिता रणे । रामलक्ष्मणयोर्नागपाशबन्धः कृतः किल ॥ आकुलेषु कपीन्द्रेषु निरुत्साहेषु सर्वशः । नागपाशविनाशार्थ दशम्यां पवनोऽजपत् ।। कर्णे स्वरूपं रामस्य गरुडागमनं ततः । एकादश्यां च द्वादश्यां धूम्राक्षस्य वधः कृतः॥ ५० त्रयोदश्यां तु तेनैव निहतः कम्पनो रणे । माघशुक्लचतुर्दश्यां यावत्कृष्णादिवासरम् ॥ त्रिदिने तु प्रहस्तस्य नीलेन विहितो वधः। माघकृष्णद्वितीयायाश्चतुर्थ्यन्तं त्रिभिर्दिनैः ॥ रामेण तुमुले युद्ध रावणो द्रावितो रणात् । पञ्चम्या अष्टमी यावद्रावणेन प्रबोधितः ॥ कुम्भकर्णस्तदा चक्रेऽभ्यवहारं चतुर्दिने । कुम्भकर्णो दिनैः षभिनवम्यास्तु चतुर्दशीम् ॥ ५४ रामेण निहतो युद्धे बहुवानरभक्षकः । अमावास्यादिने शोकादवहारो बभूव ह ॥ ५५ १ ग. छ. न. ठ. उ. द ध. वेदसंहिते। २ ण. पर्यकाशयत् । ३ छ. १. दादलला । ४ क. घ. इ. च. स. न. ४४ ४८ द. २. त. द. प्रतर्दन ।५ ग. रोषव।
५०४ महामुनिश्रीव्यासप्रणीतं- [ ४ पातालखण्डे- फाल्गुनादिप्रतिपदश्चतुर्थ्यन्तचतुर्दिनैः । *बिसतन्तुप्रभृतयो निहताः पञ्च राक्षसाः ॥ पञ्चम्याः सप्तमी यावदतिकायवधस्तथा । अष्टम्या द्वादशी यावनिहती दिनपञ्चकात् ॥ निकुम्भकुम्भावू तु मकराक्षस्तिभिर्दिनैः। फाल्गुनासितद्वितीयायां दिने शक्रजिता जितम् ५८ तृतीयादिसप्तम्यन्तं दिनपञ्चकमेव च । ओषध्यानयनव्यग्रादवहारो बभूव ह ॥ ततस्त्रयोदशी यावदिनैः पञ्चभिरिन्द्रजित् । लक्ष्मणेन हतो युद्धे प्रख्यातबलपौरुषः ॥ ६० चतुर्दश्यां दशग्रीवो दीक्षा प्रोपावहारतः। अमावास्यादिने प्रायायुद्धाय दशकंधरः ॥ ६१ चैत्रशुक्लप्रतिपदः पञ्चमी दिनपञ्चकैः । रावणे युध्यमाने तु प्रचुरो रक्षसां वधः ।। ६२ चैत्रषष्ठया अष्टमी यावन्महापादिमारणम् । चैत्रशुक्लनवम्यां तु सौमित्रेः शक्तिभेदनम् ॥ ६३ कोपाविष्टेन रामेण द्रावितो दशकंधरः। द्रोणादिराञ्जनेयेन लक्ष्मणार्थमुपाहृतः ॥ ६१ दशम्यामवहारोऽभूद्रामयुद्धे तु रक्षसाम् । एकादश्यां तु रामाय रथं मातलिसारथिः॥ ६५ प्रेरितो वासवेनाऽऽजार्पयामास भक्तितः । कोपवानथ द्वादश्या यावत्कृष्णचतुर्दशी ॥ अष्टादशदिने रामो रावणं द्वैरयेऽवधीत् । सङ्घामे तुमुले जाते रामो जयमवाप्तवान् । ६७ माघशुक्लद्वितीयायाश्चैत्रकृष्णचतुर्दशी । सप्ताशीतिदिनान्येव मध्य पञ्चदशाहकम् ॥ ६८ युद्धावहारः संग्रामो द्वासप्ततिदिनान्यभूत् । संस्कारो रावणादीनाममावास्यादिनेऽभवत् ॥ ६९ वैशाखादितिथौ राम उवास रणभूमिषु । अभिषिक्तो द्वितीयायां लङ्काराज्ये विभीषणः ॥ ७० सीताशुद्धिस्तृतीयायां देवेभ्यो वरलम्भनम् । हत्वाऽचिरेण लङ्केशं लक्ष्मणाग्रज एव सः ॥ ७१ गृहीत्वा जानकी पुण्या दु:खितां राक्षसेन तु । आदाय परया प्रीत्या जानकी स न्यवर्तत ॥ ७२ वैशाखस्य चतुझं तु रामः पुष्पकमाश्रितः। विहायसा निवृत्तस्तु भूयोऽयोध्या पुरी प्रति ॥ ७३ पूर्णे चतुर्दशे वर्षे पञ्चम्यां माधवस्य तु । भारद्वाजाश्रमे रामः सगणः समुपाविशत् ॥ नन्दिग्रामे तु षष्ठयां स भरतेन समागतः । सप्तम्यामभिषिक्तोऽसौभूयोऽयोध्यां रघूद्वहः ॥ दशैकाधिकमासांश्चतुर्दशाहानि मैथिली । उवास रामरहिता रावणस्य निवेशने ॥ द्विचत्वारिंशवर्षे तु रामो राज्यमकारयत् । सीतायाश्च त्रयस्त्रिंशद्वत्सराणि तदाऽभवन् । स चतुर्दशवर्षान्ते प्रविश्य स्वां पुरीं प्रभुः । अयोध्यायां समुदितो रामो रावणहारणः ।। भ्रातृभिः सहितस्तत्र रामो राज्यमथाकरोत् । राज्यं प्रकुर्वतस्तस्य पुरोधा वदतां वरः॥ अगस्त्यः कुम्भसंभूतिस्तमागन्ता रघोः पतिम् । तद्वाक्याद्रघुनाथोऽसौ करिष्यति हयक्रतुम् ॥ ८० तस्याऽऽगमिष्यति हय आश्रमे तव सुव्रत । तस्य योधाः प्रमुदिता आयास्यन्ति तवाऽऽश्रमे।।८१ तेषामग्रे रामकथाः करिष्यसि मनोहराः। तैः साकं त्वमयोध्यायां गन्तासि त्वं द्विजर्षभ ॥ ८२ दृष्ट्वा राममयोध्यायां पद्मपत्रनिभेक्षणम् । तत्क्षणादेव संसारवार्षिनिस्तारवान्भव ॥ इत्युक्त्वा मां मुनिवरो लोमशः सर्वबुद्धिमान् । उवाच ते किं प्रष्टव्यं तदहमवदं हितम् ॥ ज्ञातं त्वत्कृपया सर्व रामचारित्रमद्भुतम् । त्वत्प्रसादादवाप्स्येऽहं रामस्य चरणाम्बुजम् ॥ ८५ मया नमस्कृतः पश्चाजगाम स मुनीश्वरः । तत्मसादान्मया प्राप्तं रामस्य चरणार्चनम् ।। * क. स. प. ज. म. ठ ग. त. य. द. ध. पुस्तकेषु “विसतन्तुप्रभृतयः" इत्यत्र 'इन्द्रजित्प्रभृतिस्तत्र' इति पाठो वर्तते। १ थ. प्राप बधः स्थितः । २. य. वर्चया। ३ क. स्व. ग. प. स. प. 3. ज म. म. ट. ठ. ४. द. ण. त. ५. ध शुक्ललती। ७४ ७६ ७७ ७८ ७९ ८४ ८६ पद्मपुराणम् । ८७ ३७ सप्तत्रिंशोऽध्यायः ] सोऽहं स्मरामि रामस्य चरणावन्वहं मुहुः । गायामि तस्य चारित्रं मुहुर्मुहुरतन्द्रितः ॥ पावयामि जनानन्यान्गानेन स्वान्तहारिणा । हृष्यामि तन्मुनेर्वाक्यं स्मारं स्मारं तदीक्षया ॥ ८८ धन्योऽहं कृतकृत्योऽहं सभाग्योऽहं महीतले । रामचन्द्रपदाम्भोजदिक्षा मे भविष्यति । तस्मात्सर्वात्मना रामो भजनीयो मनोहरः । वन्दनीयो हि सर्वेषां संसाराब्धितितीर्षया ॥ ९० तस्माद्यूयं किमर्थं वै प्राप्ताः को वा नराधिपः । यागं करोति धर्मात्मा हयमेधं महाक्रतुम् ॥ ९१ तत्सर्व कथयन्त्वत्र यान्तु वाहस्य पालने । स्मरन्तु रघुनाथाघ्रिं स्मृत्वा स्मृत्वा पुनः पुनः॥९२ इति वाक्यं समाकर्ण्य मुनेविस्मयमागताः । रघुनाथं स्मरन्तस्ते प्रोचुरारण्यकं मुनिम् ।। इति श्रीमहापुराणे पाने पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे श्रीरामचरित्रकथनं नाम षट्त्रिंशोऽध्यायः ॥३६॥ आदितः श्लोकानां समष्टयङ्काः-१२९८५ अथ सप्तत्रिंशोऽध्यायः । २ ४ ५ शेष उवाच- ते पृष्टा मुनिवर्येण रामचारित्रमुत्तमम् । धन्यं सभाग्यं मन्वानाः मोचुरात्मानमादरात् ॥ जना ऊचुः-- पवित्रिता वयं सर्वे दर्शनेन तवाधुना । यद्रामकथयाऽस्मान्वै पावयस्यधुना जनान् ॥ शृणुष्व वचनं तथ्यं भवन्ब्रह्मर्षिसत्तम । त्वया पृष्टं यदस्मभ्यं सर्व तत्कथयाम वै ॥ अगस्त्यवाक्याच्छ्रीरामो विमहत्यापनुत्तये । यागं करोति सुमहान्सर्वसंभारसंभृतम् ॥ तं पालयानाः सर्वे वै त्वदाश्रममुपागताः । अश्वेन सहिता विप्र तज्जानीहि महामते ॥ इति वाक्यं समाकर्ण्य मनोहारि रसायनम् । अत्यन्तं हर्षमापेदे ब्राह्मणो रामभक्तिमान् ॥ अद्य मे फलितो वृक्षो मनोरथश्रियाऽन्वितः । अद्य मे जननी मां यत्सुषुवे तदभूदृतम् ।। अद्य राज्यं मया प्राप्त कण्टकैश्च विवर्जितम् । अद्य कोशाः सुसंपन्ना अद्य देवाः सुतोषिताः।। ८ अग्निहोत्रफलं त्वद्य प्राप्तं मे हविषा हुतम् । यद्रक्ष्ये रामचन्द्रस्य चरणाम्भोरुहोर्युगम् ।। यो नित्यं ध्यायते स्वान्ते अयोध्यायाः पतिः प्रभुः । स मे दृग्गोचरो नूनं भविष्यति मनोहरः।। हनूमान्मां समालिङ्ग्य प्रक्ष्यते कुशलं मम । भक्ति मे महतीं दृष्ट्वा तोषं प्राप्स्यति सत्तमः ॥ ११ इति वाक्यं समाकर्ण्य हनूमान्कपिसत्तमः । जग्राह पादयुगलं मुनेरारण्यकस्य ह ॥ १२ स्वामिहनूमान्विप्रर्षे सेवकोऽहं पुरः स्थितः । जानीहि रामदासस्य रेणुकल्पं मुनीश्वर ॥ १३ इत्युक्तवति तस्मिन्वै मुनिः परमहर्षितः । आलिलिङ्ग हनूमन्तं रामभक्त्या सुशोभितम् ॥ १४ उभौ प्रेमविनिर्भिन्नावुभावपि सुधाप्लुतौ । स्थगिती चित्रलिखिताविव तत्र बभूवतुः ॥ उपविष्टौ कथास्तस्य चक्रतुः सुमनोहराः । रघुनाथपदाम्भोजप्रीतिनिर्भरमानसौ ॥ १६ हनूमांस्तमुवाचेदं वचो विविधशोभनम् । आरण्यकं मुनिवरं रामाघिध्याननि तम् ॥ स्वामिन्नयं दशरथकुलैहीराकुरो महान् । रामभ्राता महाशूरः शत्रुघ्नः प्रणमत्यसौ ॥ १८ लवणो येन निहतः सर्वलोकभयंकरः । कृताश्च सुखिनः सर्वे मुनयः सुतपोधनाः॥ एष पुष्कलनामा त्वां नमत्युद्भटसेवितः । येनाधुना महावीरा जिताः समरमण्डले ॥ २० १ स. म. वेदाः । २ ग. छ. ठ. र. द. प. 'स्तत्र च । ३ द. "लदीपाम्कु ।
ते महामुनिश्रीव्यासप्रणीतं- [४ पातालखण्डे- जानीयेतं बहुगुणं रामामात्यं महाबलम् । प्राणप्रियं रघुपतेः सर्व धर्मकोविदम् ॥ मुवाहुरयमत्युग्रो वैरिवंशदवानलः । रामपादाजरोलम्बो नमति त्वां महायशाः ॥ २२ मुमदोऽप्येष पार्वत्या दत्तरामाघिसेवया । प्राप्तोऽधुना स्वसंसारवाधिनिस्तरणं महान् ॥ २३ सत्यवान्राममश्वं यः प्राप्तमाश्रुत्य सेवकात् । राज्यं निवेदयामास स त्वां प्रणमति क्षितौ ॥२४ इति वाक्यं समाकर्ण्य समालिङ्गनमादारत् । चकाराऽऽरण्यक ऋषिः स्वागतं फलकादिना २५ हृष्टास्तत्र वसतिं चक्रुर्मुनिवराश्रमे । प्रातर्नित्याक्रियां कृत्वा रवायां ते महोद्यमाः ॥ नरयानमथाऽऽरोप्य सेवकैः सहितं मुनिम् । शत्रुघ्नः प्रापयामासायोध्या रामकतालयाम् ॥ २७ स दूरां नगरी दृष्ट्वा सूर्यवंशनृपोषिताम् । पदातिरभवद्वेगाद्रघुनाथदिदृक्षया ॥ २८ संप्राप्य नगरी रम्यामयोध्यां जनशोभिताम् । मनोरथसहस्रेण संरूढो रामदर्शने ॥ २९ ददर्श तत्र सरयूतीरे मण्डपशोभिते । रामं दूर्वादलश्यामं कञ्जकान्तिविलोचनम् ।। मृगशृङ्गं कटौ रम्यं धारयन्तं श्रियाऽन्वितम् । ऋषिवृन्दैासमुख्यैर्वृतं शूरैः सुसेवितम् ॥ ११ भरतेन सुमित्रायास्तनुजेन परिवृतम् । ददतं दीनसंघेभ्यो दानानि माथितानि तम् ।। विलोक्याऽऽरण्यकाहोऽसौ कृतार्थ इत्यमन्यत । मल्लोचने पद्मदलसमाने रामलोकके ॥ अद्य मे सर्वशास्त्रस्य ज्ञातृत्वं बहु सार्थकम् । येन श्रीराममाज्ञाय प्राप्तोऽयोध्यां पुरीमिमाम् ॥३४ इत्येवमादिवचनानि बहूनि हृष्टो रामाघ्रिदर्शनमुहर्षितगात्रशोभी ॥ पायाद्रमेश्वरसमीपमगम्यमन्यैर्योगेश्वरैरपि विचारपरैः सुदूरम् ॥ धन्योऽहमद्य रामस्य चरणावक्षिगोचरौ । करिष्यामि वचो रम्यं वदव्राममवेक्षयन् ॥ रामोऽपि वाडवश्रेष्ठ ज्वलन्तं स्वेन तेजसा । तपोमूर्तिधरं वीक्ष्य प्रत्युत्थानमथाकरोत् ।। ३७ रामचन्द्रस्तस्य पादौ सुचिरं नतवान्महान् । ब्रह्मण्यदेव पावित्र्यं कृतमद्य तनोर्मम ॥ इति वाक्यं वदंस्तस्य पादयोः पतितः प्रभुः । सुरासुरनमन्मौलिमणिनीराजिताधिकः॥ ३९ प्रणतं तं नृपश्रेष्ठं वाडवेन्द्रो महातपाः । गृहीत्वा भुजयोर्मध्यमालिलिङ्ग प्रियं प्रभुम् ॥ कौशल्यातनयस्तं वा उच्चैर्मणिमयासने । संस्थाप्य च पदोर्युग्मं जलेनाक्षालयत्मभुः ॥ ४१ पादावनेजनोदं तु मस्तकेऽधाद्धरिः स्वयम् । पवित्रितोऽद्य सगणः सकुटुम्ब इति ब्रुवन् ॥ ४२ चन्दनेन विलिप्याथ गां च प्रादात्पयस्विनीम् । उवाच च वचो रम्यं देवदेवेन्द्रसेवितः ॥ ४३ स्वामिन्मखो मया वाजिमेधसंज्ञः क्रियेत ह । सोऽयं त्वच्चरणायानादद्य पूर्णो भविष्यति ॥ ४४ अद्य मे ब्रह्महत्योत्थपापहानि करिष्यति । अश्वमेधकतुर्युष्मचरणेन पवित्रितः ॥ ४५ इति वाक्यं ब्रुवाणं तं राजराजेन्द्रसेवितम् । आरण्यक उवाचेदं हसन्माध्व्या गिरा मुनिः ॥ ४६ स्वामिस्तव तु युक्तं हि वचो ब्रह्मण्य भूमिप । त्वन्मूर्तयो महाराज ब्राह्मणा वेदपारगाः ॥ ४७ त्वं चेद्राह्मणपूजादिकर्मकार्य करिष्यसि । ततोऽखिला नृपा विप्रान्पूजयिष्यन्ति भूमिप ॥ ४८ खयोक्तं यन्महाराज विप्रहत्यापनुत्तये । यागं करोमि विमलं तत्तु हास्यकरं वचः ॥ ४९ त्वनामस्मरणान्मूढः सर्वशास्त्रविवर्जितः । सर्वपापाब्धिमुत्तीर्य स गच्छेत्परमं पदम् ॥ सर्ववेदेतिहासानां सारार्थोऽयमिति स्फुटम् । यद्रामनामस्मरणं क्रियते पापतारकम् ॥ तावद्गर्जन्ति पापानि ब्रह्महत्यासमानि च । न यावत्योच्यते नाम रामचन्द्र तव स्फुटम् ॥ ५२ [त्वनामगर्जनं श्रुत्वा महापातककुञ्जराः] । पलायन्ते महाराज कुत्रचित्स्थानलिप्सया ॥५३ * एतचिहान्तर्गतः पाठः क. ख. ग. च. ज. अ. ठ. स. . त. थ. द. ध. पुस्तकस्थः । ३८ ५०७ - ३८ अष्टत्रिंशोऽध्यायः] पद्मपुराणम् । तस्मासव कथं हत्या महापुण्यददर्शन । राम त्वत्सुकथां श्रुत्वा पूतः सर्वो भविष्यति ॥ ५४ मया पूर्व कृतयुगे गङ्गायास्तीरवासिनाम् । ऋषीणां मुखतो वाक्यं श्रुतमस्ति पुराविदाम् ॥ ५५ तावत्पापभियः पुंसां कातराणां सुपापिनाम् । यावन्न वदते वाचा रामनाम मनोहरम् ॥ ५६ तस्मादन्योऽहमधुना मम संसृतिनाशनम् । सांपतं सुलभं रामचन्द्र त्वदर्शनादभूत् ॥ ५७ इत्युक्तवन्तं स मुनि पूजयामास तत्र वै । सर्वे मुनिजनाः साधु साधु वाक्यमिति अब्रुवन् ॥५८ शेष उवाच- अंबाऽऽश्वर्यमभूयत्तु तन्मे निगदतः शृणु । वात्स्यायन मुनिश्रेष्ठ रामभक्तिपरायणः ॥ रामं दृष्ट्वा महाराज यादृशं ध्यानगोचरम् । अत्यन्तं हर्षमापनो जगाद स मुनी धरान् ॥ ६० मुनीश्वराः शृणुत भो मद्वाक्यं सुमनोरमम् । मादृशः को नु भूलोके भविष्यति सुभाग्यवान्॥६१ नास्ति मम समः कोऽपि न जातो न भविष्यति। यद्रामभद्रो नत्वा मां स्वागतं परिपृष्टवान् ६२ यत्पादपङ्कजरजः श्रुतिमृग्यं सदैव हि । सोऽद्य मत्पादयोः पाथः पीला पूतममन्यत ॥ एवं प्रवदतस्तस्य ब्रह्मस्फोटोऽभवत्तदा । ['निर्गतं तद्भवत्तेजो विवेश रघुनन्दने । पश्यतां सर्वलोकानां सरयूतीरमण्डपे] । सायुज्यमुक्तिं संपाप दुर्लभां योगिभिर्जनैः ।। ६५ दिवि तूर्यनिनादोऽभूद्वीणानादोऽभवत्तदा । पुष्पवृष्टिः पपाताग्रे पश्यतां चित्रमद्भुतम् ।। मुनयोऽप्येतदीक्षित्वा प्रशंसन्तो मुनीश्वरम् । कृतार्थोऽयं मुनिश्रेष्ठो यद्रामवपुषीक्षितः ।। ६७ इति श्रीमहापुराणे पाने पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेध आरण्यकमुनेः सायुज्यमुक्तिकथन नाम सप्तत्रिंशोऽध्यायः ॥ ३७॥ आदितः श्लोकानां समष्टयङ्काः-१३०५२ + अथात्रिंशोऽध्यायः । २ ३ व्यास उवाच- एतदाख्यानकं श्रुत्वा वात्स्यायन उदारधीः । परमं हर्षमापेदे जगाद च फणीश्वरम् ।। वात्स्यायन उवाच- कयां संशृण्वतो मह्यं तृप्तिास्ति फणीश्वर । रघुनाथस्य भक्तातिहारिकीर्तिकरस्य वै ॥ धन्य आरण्यको नाम मुनिर्वेदधरः परः। रघुनाथं समालोक्य देहं तत्याज नश्वरम् ॥ ततो राज्ञो हयः कुत्र गतः केन नियत्रितः । कथं तत्र रमानाथकीर्तिर्जाता फणीश्वर ॥ सर्व कथय मे तथ्यं सर्वज्ञोऽस्ति यतो भवान् । धराधरवपुर्धारी साक्षात्तस्य स्वरूपधत् ॥ व्यास उवाच- इति वाक्यं समाकर्ण्य प्रहृष्टेनान्तरात्मना । उवाच रामचारित्रं तत्तद्गुणकथोदयम् ॥ ४ ६. शेष उवाच- - ॥ ८ साधु पृच्छसि विप्रर्षे रघुनाथगुणान्मुहुः । श्रुतानश्रुतवत्कृत्वा तेषु लोलुपता दधत् ततो निरगमदाहः सैनिकैबहुभिर्वृतः । रेवातीरे मनोहारे मुनिन्दनिषेविते ॥ * अडभाव आर्षः । + एतचिहान्तर्गतः पाठो ग. छ. ह. द. पुस्तकस्थः । १६. अत्याश्च।
९ 3 २० ५०८ महामुनिश्रीव्यासप्रणीतं- [४ पातालखण्डे- सेनाचरास्ततः सर्वे यत्र वाहस्ततस्ततः । प्रसर्पन्ति निरीक्षन्तस्तन्मार्ग रणकोविदाः ॥ वाजी गतोऽथ रेवाया इदेगाधजलान्विते । भाले स्वर्णभवं पत्रं धारयन्पूजिताकः ।। १० ततो जले ममज्जासा रामचन्द्रहयो वरः। तदा सर्वे महाशूरास्तत्र विस्मयमागताः । ११ तः परस्परमेवीच कथं हयसमागमः । कोऽत्र गन्ता जले वाहमानेतुं तं महोदयम् ॥ १२ इति यावत्समुद्विमा मत्रयन्ते परस्परम् । तावद्वीरशतैः सार्धमाजगाम रघोः पतिः ॥ १३ तान्सर्वान्विमनस्कान्स दृष्ट्वा शत्रुघ्नसंज्ञितः । पप्रच्छ मेघगम्भीरवाचा वीरशिरोमणिः ॥ किं स्थितं निखिलैरेत्र युष्माभिः संघशो जले । कुत्राश्वो रघुनाथस्य स्वर्णपत्रेण शोभितः॥ १५ जले किं निममज्जासौ हृतो वा केन मानिना । तन्मे कथयत क्षिप्रं कथं यूयं विमोहिताः ॥ १६ शेष उवाच- इति वाक्यं समाकर्ण्य राज्ञो रघुवरस्य ते । कथयामासुस्तं सर्वे वीराः शूरशिरोमणिम् ।। १७ जना ऊचु:- स्वामिन्वयं न जानीमो मुहूर्तमभवज्जले । निममज ततो नाऽऽयाद्धयस्तव मनोहरः॥ १८ त्वमेव तत्र गत्वेमं वाहमानय वेगतः। अस्माभिस्तत्र गन्तव्यं त्वया सार्ध महामते ॥ १९ इति श्रुत्वा वचस्तेषां सैनिकानां रचूद्वहः । खेदं प्राप्य जनान्पश्यञ्जलसंतरणोधतान् । उवाच मत्रिमुख्यं स किं कर्तव्यमतः परम् । कथं वाहस्य संमाप्तिर्भविष्यति तथा वद ॥ २१ के तत्र शूराः संयोज्या जलेऽन्वेषयितुं हयम् । को वाऽऽनयिष्यते वाहं केनोपायेन तद्वद ॥२२ इति राज्ञो वचः श्रुत्वा सुमतिर्मत्रिसत्तमः । उवाच समये योग्यं शत्रुघ्नं हर्षयन्निव ॥ २३ सुमतिरुवाच- स्वामिन्नस्ति तव श्रीमशक्तिरद्भुतकर्मणः । पातालगुमने शक्तिर्जलमध्यादिह स्फुटम् ॥ अन्यच्च पुष्कलस्यापि शक्तिरस्ति महात्मनः । हनूमतोऽपि रामस्य पादसेवापरस्य च ॥ २५ तस्माघूयं तत्र गत्वा हयमानयत ध्रुवम् । यतो भवेद्वाहमेधो रघुनाथस्य धीमतः॥ २६ शेष उवाच- इति वाक्यं समाश्रुत्य शत्रुघ्नः परवीरहा । स्वयं विवेश तोयान्तहनूमत्पुष्कलान्वितः ॥ यावजलं विवेशासौ तावत्पुरमदृश्यत । अनेकोद्यानशोभाब्यममेयं पुटभेदनम् ॥ तत्र माणिक्यखचिते स्तम्भे स्वर्णमये हयम् । बद्धं ददर्श रामस्य स्वर्णपत्रसुशोभितम् ।। स्त्रियस्तत्र मनोहारिरूपधारिण्य उत्तमाः । सेवन्ते सुन्दरीमेकां पर्यके सुखमास्थिताम् ।। ३० तान्दृष्ट्वा ताः स्त्रियः सर्वाः प्रावोचस्वामिनी प्रति। [*एते पीवरवाणो मांसपुष्टकलेवराः ३१ भविष्यन्ति तव श्रेष्ठमाहारस्य फलं महत् । ] एतेषां शोणितं स्वादु पुरुषाणां गतायुषाम् ॥ ३२ एतद्वचः समाकर्ण्य सेवकीनां वराऽङ्गना । जहास किंचिद्वदनं नर्तयन्ती भ्रुवाऽनघा ।। तावत्रयस्ते संप्राप्ताः संनाहश्रीविशोभिताः । शिरस्त्राणानि दधतः शौर्यवीर्यसमन्विताः॥ ३४ ता दृष्ट्वा महिलास्तत्र सौन्दर्यश्रीसमन्विताः। प्रोचुस्ते विस्मयं विष किमिदं दृश्यते महत् ॥ ३५ नमश्चकुर्महात्मानः सर्वे देववराङ्गनाः। किरीटमणिविद्योतद्योतिताधियुतास्ततः ॥ ३६ * एतचिहान्तर्गतः पाठः क. ग. छ. ज. ठ. ह. ण त. थ. द. ध. पुस्तकस्यः । १ स. म. जलान्तर्वै वाहं ने। २ द. "रय यु। ३ झ. शीघ्रं । ४ क. ख. घ. इ. च. छ. म. ट. ठ. र. उ. प. त. थ. ध. मणिमये । ग, भर्ममये । ५ द. "तेऽस्पवर्मवयसो मां। २४ २८ ४१ ४२ ३८ अत्रिंशोऽध्यायः] पपपुराणम् । सा तान्पप्रच्छ पुरुषान्सर्वश्रेष्ठा सुभामिनी । के यूयमत्र संप्राप्ताः कथं चापधरा नराः ॥ मत्स्थलं सर्वदेवानामगम्यं मोहनं महत् । अत्र प्राप्तस्य तु कापि निवृत्तिर्न भवेत्पुनः ॥ ३८ अश्वोऽयं कस्य राज्ञो वै कथं चामरवीजनः । स्वर्णपत्रेण शोभाढ्यः कथयन्तु ममाग्रतः ॥ ३९ शेष उवाच- इति तस्या वचः श्रुत्वा मोहनाक्षरसंयुतम् । हनूमांस्तां प्रत्युवाच गतभीः प्रहसन्निव ।। वयं वै किंकरा राज्ञस्त्रैलोक्यस्य शिखामणेः । त्रिलोकी यं प्रणमते सर्वदेवशिरोमणिम् ।। रामभद्रस्य जानीवं हयमेधप्रवर्तितुः । मुञ्चन्तु वाहमस्माकं कथं बद्धो वराङ्गने । वयं सर्वास्त्रकुशलाः सर्वशस्त्रास्त्रकोविदाः । नयिष्यामो बलाद्वाह [*हत्वा तत्प्रतिरोधकान्॥ ४३ इति वाक्यं समाकर्ण्य प्लवङ्गस्य वराङ्गना । ] विवरस्था प्रत्युवाच हसन्ती वाक्यकोविदा ॥ ४४ मयाऽऽनीतमिमं वाहं न को मोचयितुं क्षमः । वर्षायुतेन निशितैर्बाणैः कोटिभिरुच्छिखैः ॥ ४५ परं रामस्य पादाब्जसेवकीकर्मकारिणी । न ग्रहीष्यामि सदाहं राजराजस्य धीमतः ।। महानविनयो जातो मम नेव्याः सुवाजिनः । क्षमताद्रामचन्द्रस्तच्छरण्यो भक्तवत्सलः ॥ यूयं क्लिष्टास्तत्पुरुषा हयार्थ तस्य रक्षितुः । याचध्वं वरमप्राप्यं देवानामपि सत्तमाः ।। यथा मेऽमीवमत्युग्रं क्षमेत पुरुषोत्तमः । ब्रीडां त्यक्त्वाऽखिलां सर्वे वृण्वन्तु वरमुत्तमम् ॥ ४९ तस्या वचः परं श्रुत्वा हनूमाबिजगाद ताम् । रघुनाथप्रसादेन सर्वमस्माकमूर्जितम् ॥ तथाऽपि याचे वरमेकमुत्तमं विधेहि तन्मे मनसः समीहितम् । भवे भवे नो रघुनाथकः पतिर्वयं च तत्कर्मकराश्च किंकराः ॥ ५१ एतद्वचः समाकर्ण्य प्लवङ्गस्य तदाऽङ्गना । उवाच वाक्यं मधुरं प्रहस्य गुणपूजितम् ।। ५२ भवद्भिः प्रार्थितं यत्तु दुर्लभं सर्वदैवतैः । तद्भविष्यत्यसंदेहः सेवकास्तद्रयोः पतेः ॥ अथापि वरमेकं वै दास्यामि कृतहेलना । रघुनाथस्य तुष्ट्यर्थ तहतं मे भविष्यति ॥ अग्रे वीरमणिभूपो महाबलसमन्वितः । ग्रहीष्यति भवद्वाहं शिवेन परिरक्षितः ॥ ५५ तज्जयार्थ महास्त्रं मे गृहीत सुमहाबलाः । द्वैरथे स तु योद्धव्यः शत्रुघ्नेन त्वया महान् ॥ इदमस्त्रं यदा त्वं तु क्षेपयिष्यास संगरे । अनेन पूतो रामस्य स्वरूपं ज्ञास्यते पुनः ॥ ज्ञात्वा तं वाजिनं दत्त्वा चरणे प्रपतिष्यति । तस्मादृह्नीत चास्त्रं तन्मम वैरिविदारणम् ॥ ५८ तच्छुत्वा रघुनाथस्य भ्राता जग्राह चास्त्रकम् । उदङ्मुखः पवित्राको योगिन्या दत्तमद्भुतम्॥५९ तत्माप्यास्त्रं महातेजा बभूव रिपुकर्शनः । दुष्पधृष्यो दुराराध्यो वैरिवारणसच्छृणिः ॥ ६० तां नत्वा राघवश्रेष्ठः शत्रुघ्नो हयसत्तमम् । गृहीत्वाऽगाजलात्तस्माद्रेवातीरे सुखोचिते ॥ ६१ तं दृष्ट्वा सैनिकाः सर्वे प्रहृष्टाङ्गा मुदाऽन्विताः । साधु साधु प्रशंसन्तः पप्रच्छुईयनिर्गमम् ॥ ६२ हनूमान्कथयामास हयस्याऽऽगमनं महत् । वरप्राप्तिं च तेभ्यो वै तेऽपि श्रुत्वा मुदं गताः ॥ ६३ इति श्रीमहापुराणे पाने पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधै जलमध्याद्वाहप्राप्ति माष्टत्रिंशोऽध्यायः॥ ३८ ॥ आदितः श्लोकानां समष्ट्यङ्का:-१३११५ तं *एतचिहान्तर्गतः पाठः क. ख. ग. छ. ज. न. ठ. ड. त. थ. द. ध. पुस्तकस्थः । १द. "हावीरस।
. महामुनिश्रीव्यासमणीत- [४ पातालखण्डे भथैकोनचत्वारिंशोऽध्यायः । १ शेष उवाच- निनदत्सु मृदङ्गेषु वीणानादेन सर्वतः । मुक्तो वाहस्ततो देवपुर देवविनिर्मितम् ।। यत्र स्फाटिककुड्यानां रचनाभिहा नृणाम् । हसन्ति विन्ध्यं विमलं पर्वतं नागसेवितम् ॥ २ राजतानि गृहाण्यत्र दृश्यन्ते प्रकृतेरपि । विचित्रमणिसंनदा नानामाणिक्यगोपुराः ॥ पअिन्यो यत्र लोकानां गेहे गेहे मनोहराः। हरन्ति चित्तानि नृणां मुखपनकलक्षिताः ॥ पनरागमणियंत्र गेहे गेहे सुभूमिषु । बद्धः संलक्ष्यते विप्र तदोष्ठस्पर्धया नु किम् ।। क्रीडाशैलाः प्रत्यगारं नीलरत्नविनिर्मिताः । कुर्वन्ति शङ्का मेघस्य मयूराणां कलापिनाम् ॥ ६ हंसा यत्र नृणां गेहे स्फाटिकेषु नियन्त्रिताः । कुर्वन्ति मेघानो भीति मानसं न स्मरन्ति च ॥७ निरन्तरं शिवस्थाने ध्वस्तं चन्द्रिकया तमः । शुक्लकृष्णविभेदो न पक्षयोस्तत्र वै नृणाम् ॥ ४ तत्र वीरमणी राजा धार्मिकेष्वग्रणीमहान् । राज्यं करोति विपुलं सर्वभोगसमन्वितम् ।। तस्य पुत्रो महाशूरो नाम्ना रुक्माङदो बली । वनिताभिर्गतो रम्यदेहाभिः क्रीडितुं वनम् ॥१० तासां मञ्जीरसंरावः केवणानां रवस्तथा । मनो हरति कामस्य किमन्यस्य कथा प्रभो ॥ ११ वनं जगाम सुमहत्सुपुष्पनगसंयुतम् । सदाशिवकृतावासमतुषविराजितम् ॥ १२ चम्पका यत्र बहुशः फुल्लकोरकशोभिताः । कुर्वन्ति कामिनां तत्र दृच्छयाति विलोकिताः॥१३ चूताः फलादिभिर्नम्रा मञ्जरीकोटिसंयुताः । नागाः पुनागक्षाश्च शालास्तालास्तमालकाः १४ कोकिलानां समारावा यत्र च श्रुतिगोचराः । सदा मधुपझङ्कारगतनिद्राः मुमल्लिकाः ॥ दाडिमानां समूहाश्च कर्णिकारैः समन्विताः । केतकीकानकीवन्यवृक्षराजिविराजिताः ॥ १६ तस्मिन्वने प्रमदसंयुतचित्तवृत्ति- यन्कलं मधुरवाग्विचिकीर्मयोचैः। उद्यत्कुचाभिरभितो वनिताभिरागा. च्छोभानिधानवपुरुज्झितभीविशेषः । काश्चित्तं नृत्यविद्याभिस्तोषयन्ति स्म शोभनम् । काश्विद्गानकलाभिश्च काश्विद्वाक्चतुरोचितैः ॥ भूसंज्ञयाऽपराः काश्चित्तोषयामासुरुन्मदाः। परिरम्भणचातुर्यैस्तं दृष्टं विदधुः स्त्रियः ॥ ताभिः पुष्पोच्चयं कृत्वा भूषयामास ताः स्त्रियः । वाण्या कोमलया शंसनेमे कामवपुर्धरः ॥२०॥ एवं प्रहत्ते समये राजराजस्य धीमतः। प्रायात्तद्वनदेर्श स हयः परमशोभनः ।। तं स्वर्णपत्ररचितैकललाटदेश गङ्गासमं घुसूणकुङ्कमपिञ्जराङ्गम् । गत्वा(त्या) समं पवनवेगतिरस्करिण्या दृष्ट्वा स्त्रियः परमकौतुकधामदेहम् ॥ १५ १७ १९ २. २० * आर्ष इडागमः । ११. मधुर । २ थ. कोकिलानां । ३ त. 'कीचम्प । द. कीकल्प।
- २९ ३० ३२ ३९ एकोनचत्वारिंशोऽध्यायः ] पमपुराणम् । ऊचुः पति कमलमध्यपिशङ्गवर्णा- स्ताम्राधरप्रतिभयाहतविद्रुमामाः। दन्तव्रजमितहास्यसुशोभिवक्त्राः कामस्य वाणनयनादिविमोहनाभाः॥ स्त्रिय ऊचु:- कान्त कोऽयं महानर्वा स्वर्णपत्रैकशोभितः । कस्प वा भाति शोभाढ्यो गृहाण स्वबलादिमम् ॥ शेष उवाच- तदुक्तं वच आकर्ण्य लीलाललितलोचनः । जग्राह हयमेकेन करपद्मेन लीलया ॥ २५ वाचयित्वा भालपत्र स्पष्टवर्णसमन्वितम् । जहास महिलामध्ये जगाद वचनं पुनः ॥ २६ रुक्माङ्गद उवाच- पृथिव्यां नास्ति मे पित्रा समः शौर्येण च श्रिया । तस्मिन्राज्ञि कथं धत्त उत्सेकं रामभूमिपः२७ यस्य रक्षां प्रकुरुते सदा रुद्रः पिनाकधूत् । यं देवा दानवा यक्षा नमन्ति मणिमौलिमिः॥ २८ कुरुताद्वाजिमेधं वै जनको मे महाबलः । यात्वेष वाजिशालायां बभन्तु मम उद्भटाः ॥ इति वाक्यं समाकर्ण्य महिलास्ता मनोहराः । महर्षवदना जाताः कान्तं तु परिरेभिरे ॥ गृहीत्वा तं हयं पुत्रो राज्ञो वीरमणेर्महान् । पुरं पत्नीसमायुक्तो महोत्साहमवीविशत् ॥ मृदङ्गध्वनिषु पोचैराहतेषु समन्ततः । बन्दिभिः संस्तुतः प्रागात्स्वपितुर्मन्दिरं महत् ॥ तस्मै स कथयामास हयं नीतं रघोः पतेः । वाजिमेधाय निर्मुक्तं स्वच्छन्दगतिमद्भुतम् ॥ रक्षितं शत्रुसूदेन महाबलसमेतिना । तच्छ्रुत्वा वचनं तस्य नृपो वीरमणिर्महान् ॥ नातिप्रशंसयामास तत्कर्म सुमहामतिः। नीत्वा पुनः समायातं चौरस्येव विचेष्टितम् ।। कथयामास जामात्रे शिवायागुतकर्मणे । रुक्माङ्गदधरायाभूषाय चन्द्रशोभिने ॥ तेन संमत्रयामास नृपो वीरमणिर्महान् । पुत्रसृष्टं महत्कर्म विनिन्धं महतां मतम् ॥ शिव उवाच- राजन्पुत्रेण भवतः कृतं कर्म महाद्भुतम् । योऽजीहरन्महावाहं रामचन्द्रस्य धीमतः ॥ अद्य युद्धं महद्भाति सुरासुरविमोहनम् । शत्रुघ्नेन महाराज्ञा वीरकोव्येकरक्षितुः ॥ धीयते स्वान्ते जिहया प्रोच्यते हि यः । तस्य रामस्य यज्ञाझं जहार तव पुत्रकः ॥४० परमत्र महालाभो भविष्यति रणागणे । यद्रामचरणाम्भोजं द्रक्ष्यामः स्वीयसेवितम् ॥ अत्र यत्नो महान्कार्यो हयस्य परिरक्षणे । नयिष्यन्ते बलाद्वाई मया रक्षितमप्यमुम् ॥ तस्मादिम महाराज राज्येन सह संनतः । वाजिनं शोभनं दत्त्वा प्रेक्षस्वाघ्रियुगं ततः॥ ४३ इति वाक्यं समाकर्ण्य शिवस्य स नृपोत्तमः । उवाच तं सुरेन्द्रादिवन्धपादाम्बुजद्वयम् ॥ वीरमणिरुवाच- क्षत्रियाणामयं धर्मो यत्मतापस्य रक्षणम् । तदसौ क्रान्तुमुद्युक्तः क्रतुना हयसंझिना ॥ तस्माद्रक्ष्यः स्वप्रतापो येन केनापि मानिना । यावच्छक्यं कर्म कृत्वा शरीरव्ययकारकम् ॥ ४६ सर्व कृतं सुतेनेदं गृहीतोऽश्वः पुनर्यतः । कोपितं रामभूपालं समयाई कुरु प्रभो ॥ क्षत्रियाणामिदं कर्म कर्तव्याई भवेन हि । यदकस्माद्रिपोः पादौ प्रणमेद्भयविहलः ॥ १ ग. छ. उ. प्रमित । २ ग. °णे । अगनार्धध। द. °णे । अर्धाङ्गनाथ । ३ छ. र. 'नर्महान् । को। ३४ ३५ ३८ मया ४२ ४४ ४८ ४९ ५१२ महामुनिश्रीव्यासप्रणीतं- [४पातालखण्डे- रिपवो विहसन्त्येनं कातरोऽयं नृपाधमः । क्षुद्रः प्राकृतवन्नीचो नतवान्भयविहलः ॥ तस्माद्भवान्यथायोग्यं योद्धव्ये समुपस्थिते । यद्विधेयं विचावं कर्तव्यं भक्तरक्षणम् ॥ शेष उवाच- [*इति वाक्यं समाकर्ण्य चन्द्रचूडोऽवदद्वचः । प्रहसन्मेघगम्भीरवाण्या संमोहयन्मनः ॥ यदि देवास्त्रयस्त्रिंशत्कोटयः समुपस्थिताः । तथाऽपि त्वत्तः केनाश्वो गृह्यते मम रक्षितुः॥ ५२ यदि रामः समागत्य स्वात्मानं दर्शयिष्यति । तदाऽहं चरणौ तस्य प्रणमामि सुकोमलौ ॥ ५३ स्वामिना सह योद्धव्यं महाननय उच्यते । अन्ये वीरास्तृणप्रायाः किंचित्कर्तुं न वै क्षमाः॥५४ तस्माद्युध्यस्व राजेन्द्र रक्षके मयि संस्थिते । को गृह्णाति बलाद्वाहं त्रिलोकी यदि संगता]॥ ५५ शेष उवाच- एतद्वचः परं श्रुत्वा चन्द्रचूडस्य भूमिपः । जहर्ष मानसेऽत्यन्तं युद्धकर्मणि कौतुकी ॥ इति श्रीमहापुराणे पाने पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे हयग्रहणं नामैकोनचत्वारिंशोऽध्यायः ॥ ३९ ॥ आदितः श्लोकानां समष्ट्यङ्काः १३१७१ अथ चत्वारिंशोऽध्यायः । ५ ८ शेष उवाच- सेनाचरा महाराज्ञो महाबलसमेतिनः । समागतं तं पश्यन्तो हयं रामस्य भूपतेः ॥ कोऽसावश्वः केन नीतः कथं वा दृश्यते न सः।को गन्ता यमपुर्या वाहं हृत्वा सुमन्दधीः ॥२ विलोकयन्तस्तन्मार्ग यावत्सेनाचरा रघोः । तावत्माप्तो महाराजो महासैन्यपरिवृतः ॥ पप्रच्छ सेवकान्सर्वान्कुत्राश्वो मम सांप्रतम् । न दृश्यते कथं वाहः स्वर्णपत्रसुशोभितः ॥ इति तद्वचनं श्रुत्वा सेवकास्ते हयानुगाः। प्रोचुर्नाथ मनोवेगो वाहः केनापि कानने ॥ हृतो न लक्ष्यते तस्मादस्माभिर्मार्गकोविदः । तदत्र यत्नः कर्तव्यो हयप्राप्तिं प्रति प्रभो ॥ तेषां वचनमाकर्ण्य पप्रच्छ सुमतिं नृपः । शत्रुघ्नः शत्रुसंहारकारी मोहनरूपधृत् ॥ शत्रुघ्न उवाच- कोऽत्र राजा निवसति कथं वाहस्य संगमः । कियदलं भूमिपतेर्येन मेऽद्य हृतो हयः ॥ सुमतिरुवाच- राजन्देवपुरं ह्येतद्देवेनैव विनिर्मितम् । कैलासमिव दुर्गम्यं वैरिसंधैः सुसंहतैः ॥ अस्मिन्वीरमणी राजा महाशूरः प्रतापवान् । राज्यं करोति धर्मेण शिवेन परिरक्षितः ॥ १० योऽसौ प्रलयकारी स आस्ते भक्त्या वशीकृतः । चन्द्रचूडस्य(डः स्व) भक्तस्य पक्षपातं सृजन्सदा तस्मात्तत्र महयुद्धं गृहीतश्चेद्भविष्यति । यत्ताः सन्तः प्रकुर्वन्तु रक्षणं कटकस्य हि ॥ १२ एवं श्रुत्वा स शत्रुघ्नः सर्वभूपशिरोमणिः । सैन्यव्यूह रचित्वाऽसौ तिष्ठति स्म महायशाः ॥ १३ अथ तं सुखमासीनं मन्त्रयन्तं सुमत्रिणा । आजगाम स देवर्षियुद्धकौतुकसंयुतः ।। १४ तमागतं मुनिं दृष्ट्वा शत्रुघ्नस्तपसां निधिम् । अभ्युत्थायाऽऽसने स्थाप्य मधुपर्कमयाऽऽचरत् १५ स्वागतेन च संतुष्टं नारदं मुनिसत्तमम् । उवाच प्रीणयन्वाचा वाक्यवादविशारदः ॥ ९ * एतचिहान्तर्गतः पाठः क. स. ग. छ. ज. ठ. र. ण. त. थ. द. घ. पुस्तकस्थः ।
२० २२ २४ ४० चत्वारिंशोऽध्यायः] पद्मपुराणम् । शत्रुघ्न उवाच- मदीयोऽश्वः कुत्र विष कथयस्व महामते । न लक्ष्यते गतिस्तस्य सेवकर्मम कोविदः॥ शंस तं येन वा नीतं क्षत्रियेण च मानिना । कथं तत्र हयप्राप्तिर्भविष्यति तपोधन ॥ १८ इति वाक्यं समाकर्ण्य शत्रुघ्नस्य स नारदः । उवाच वीणां रणयन्गायत्रामकथां मुहुः ॥ नारद उवाच- एतद्देवपुरे राजन्भूपो वीरमणिर्महान् । तत्पुत्रेण वनस्थेन गृहीतस्तव वाजिराट् ।। तत्र युद्ध महत्तेऽद्य भविष्यति सुदारुणम् । अत्र वीराः पतिष्यन्ति बलशौर्यसमन्विताः ॥ २१ तस्मादत्र महायत्नात्स्थातव्यं ते महाबल । रचय व्यूहरचनां दुर्गमां परसैनिकैः ॥ जयस्ते भविता राजन्कृच्छ्रेण तु नृपोत्तमात् । रामं को नु पराजीयाद्भुवने सकले ह्यपि ॥ २३ इत्युक्त्वाऽन्तर्दधे विभो नभसि स्थितवांस्ततः । युद्धं सुदारुणं द्रक्ष्यन्देवदानवयोरिव ॥ शेष उवाच- अथ राजा वीरमणिः सर्वशूरशिरोमाणः । पटहं घोषितुं स्वीये पुरमध्ये महारवम् । आह्वयामास सेनान्यं रिपुवारं महोन्मदम् । कथयामास च क्षिप्रं मेघगम्भीरया गिरा ॥ २६ वीरमणिरुवाच- [*सेनानीः पटहस्याऽऽज्ञां देहि मे शोभने पुरे । यच्छ्रुत्वा मे सुसंनद्धाः शत्रुघ्नं प्रति यान्ति ते] २७ इति वाक्यं समाकर्ण्य राज्ञो वीरमणेस्तदा।['कारयामास पटहं महारवनिनादितम् ] ॥ गेहे गेहे च रथ्यायां श्रूयते पटहध्वनिः । शत्रुघ्नं यान्तु ये सर्वे वीरा राजपुरे स्थिताः । यो(ये) वै राज्ञः समुल्लङ्घ्य शासनं वीरमानिनः। पुत्रा वा भ्रातरो वाऽपि ते वधार्हा नृपाज्ञया३० शृण्वन्तु वीराः पुनरप्याहते पटहे रवम् । श्रुत्वा विधीयतामाशु कर्तव्यं मा विलम्बितम् ॥ ३१ शेष उवाच- इति पटहरवं स्वकर्णगोचरं नरवरवीरवरा ययुर्नृपोत्तमम् ॥ ते च कवचपरिभूषितस्वदेहाः समरमहोत्सवहृष्टचित्तकोशाः ॥ केचिद्ययुः शिरस्त्राणं धृत्वा शिरसि शोभने । कवचेन सुशोभाढ्याः शतकोटिसुशोभनाः ॥ ३३ रथेन हययुग्मेन मणिकाञ्चनशोभिना । [*ययुस्ते राजसंदेशाद्भपाला युद्धदुर्मदाः॥ केचिन्मतङ्गजैर्मत्तैः केचिद्वाहैः सुशोभितैः । ययुपगृहं सर्वे राजसंदेशहारकाः ॥ विविक्तस्वर्णकवचाः शिरस्त्राणेन शोभिताः] । रुक्माङ्गदोऽपि च निजे रथे तिष्ठन्मनोजवे ॥३६ शुभाङ्गदोऽनुजस्तस्य महारत्नमयं दधत् । कवचं वपुपि श्रेष्ठे निजं प्रागाद्रणोत्सवे ॥ राजभ्राता वीरसिंहः सर्वशस्त्रास्त्रकोविदः । ययौ नृपाज्ञया तत्र शासनं भूमिपस्य हि ॥ ३८ जामेयस्तस्य राज्ञोऽपि बलमित्र इति स्मृतः। संनद्धः कवची खड्गी जगाम नृपमन्दिरम् ॥ ३९ सेनानी रिपुवारोऽपि सेनां तां चतुरङ्गिणीम् । सन्जां विधाय भूपाय न्यवेदयदयो महान् ॥४० २८ २९ ३२ * एतचिहान्तर्गतः पाठः क. स. ग. छ. ज. अ. ठ ड. ण. त. थ. द. ध. पुस्तकस्थः । । एतचिहान्तर्गतः पाठः क. स. ग. च. छ. ज. प. उ. इ. ण. त. थ. द. ध.पुस्तकस्थः । * एतचिहान्तर्गतः पाठः क. ख. ग. छ. ज. प. उ. र. . ण. थ. द. घ. पुस्तकस्थः । १ छ. ह. राजपथे । २ ण. द. शोभनम् । ३ ड. 'शानृपाज्ञाकारिणो नृपाः । के।
- ४१ ४२ ४४ ४८ महामुनिश्रीव्यासप्रणीतं- [४ पातालखण्डे- अथ राजा वीरमणिः सर्वशस्त्रास्त्रपूरितम् । मणिसृष्टोच्चचक्रोच्चमारोहत्स्यन्दनोत्तमम् ॥ ततो वीरारवः शङ्कनिनादश्च समन्ततः । श्रूयते कातरान्वीरान्प्रेरयनिव संगरे । भेर्यः समन्ततो जनुः शुभवादकवादिताः । अनीकान्यत्र तस्याऽऽसन्संग्रामाय प्रतस्थुषः ॥ ४३ सर्वे कृतस्वस्त्ययनाः सर्वाभरणभूषिताः । सर्वशस्त्रास्त्रसंपूर्णा ययुः समरमण्डलम् ॥ भेरीशङ्खनिनादेन पूरिताश्च नगा गुहाः । आकारितुं गतः किंतु तद्रवः स्वर्गसंस्थितान् । ४५ तस्मिन्कोलाहले वृत्ते राजा वीरमणिमहान् । रणोत्साहेन संयुक्तो ययौ प्रधनमण्डलम् ॥ ४६ आगत्य संस्थितं तावद्रथपत्तिसमाकुलम् । समुद्र इव तस्थानात्प्लावितुं पुरुषानयात् ।। तदागतं बलं दृष्ट्वा रथिभिः शस्त्रकोविदैः । कोलाहलीकृतं सर्वमुवाच सुमतिं नृपः॥ शत्रुघ्न उवाच- समागतो वीरमणिर्मम वाजिधरो वली । योढुं मां महता भूपः सैन्येन चतुरङ्गिणा ॥ कथं युद्धं प्रकर्तव्यं के योत्स्यन्ति बलोत्कटाः। तान्सर्वादिश मे वीरान्यथा स्याजय ईप्सितः ५० सुमतिरुवाच- स्वामिन्नसौ महाराजो महासैन्यपरिवृतः । समागतः स युद्धार्थे शिवभक्तिसमन्वितः ॥ सांपतं युध्यतां वीरः पुष्कलः परमास्त्रवित् । अन्येऽपि नीलरत्नाद्या योद्धारो युद्धकोविदाः ५२ शिवेन सह योद्धव्यं राज्ञा वा भवताऽनघ । द्वंद्वयुद्धेन जेतव्यो महाबलपराक्रमः ॥ अनेन विधिना राजञ्जयस्तेऽत्र भविष्यति । पश्चाबद्रोचते स्वामिंस्तत्कुरुष्व महामते ॥ शेष उवाच- इति वाक्यं समाकर्ण्य शत्रुघ्नः परवीरहा । सुभटानादिदेशाथ युद्धाय कृतनिश्चयः ।। ५५ सर्वैः ससैन्यैर्युद्धार्थ राजभिः शस्त्रकोविदः । यथा स्यान्मे जयः क्षिप्रं यतितव्यं तथा पुनः ५६ रेणार्थ राघवस्यैवं श्रुत्वा ते रणकोविदाः । महोत्साहेन संयुक्ता ययुर्योढुं तु सैनिकैः ॥ इति श्रीमहापुराणे पाझे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे युद्धनिश्चयो नाम चत्वारिंशोऽध्यायः ॥ ४० ॥ आदितः श्लोकानां समष्ट्यङ्का:-१३२२८ अथैकचत्वारिंशोऽध्यायः । १ शेष उवाच- युद्धाय ते सुसंनद्धाः शत्रुघ्नस्य महाबलाः । ययुर्वीरमणे: सैन्यमध्ये शौर्यसमन्विताः ॥ वारान्विमुश्चमानास्ते भिन्दन्तः सैनिकान्बहून् । व्यदृश्यन्त रणान्तस्ते शरासनधरा नराः॥ २ अनेके निहतास्तत्र गजा मणिमया रथाः। भग्ना वाहसमेताश्च दृश्यन्ते रणमण्डले ॥ विहितं कदनं तेषां श्रुत्वा रुक्माङ्गदो बली । रथे मणिमये तिष्ठन्ययौ योर्बु तु सैनिकान् ॥ ४ शरासने शरान्धास्यनिषुधी अक्षयौ दधत् । शोणनेत्रान्तरो भीमो महाकोपसमन्वितः ॥ अनेकवाणसंविनान्कुर्वन्वीरान्सहस्रशः । हाहाकारं कारयंस्तद्ययौ रुक्माङ्गदो बली ॥ राजपुत्रः स्वसदृशं बलेन यशसा श्रिया । आहृयामास शत्रुघ्नं भारतं पुष्कलं बली ॥ ५ ७ १६. जयार्थ।
११ द्विचत्वारिंशोऽध्यायः ] पमपुराणम् । रुक्माङ्गद उवाच- आगच्छ वीरकमणे महाबलपराक्रम । मया योढुं तु बलिना राजपुत्रेण भास्वता ॥ किमन्यत्रासितैर्वीर निहतैः कोटिभिर्नरैः । मया समं महायुद्धं विधाय जयमामुहि ॥ ९ इत्युक्तवन्तं तरसा प्रहसन्पुष्कलो बली । जघान विपुले मध्ये वक्षसस्तीक्ष्णपर्वभिः ।। १० तदमृष्यराजपुत्रो महाचापे दधच्छरान् । जघान दशभिर्वीरं पुष्कलं वक्षसोऽन्तरे ॥ ११ उभौ समरसंरब्धावुभावपि जयैषिणौ । रेजाते संगरे तौ हि कुमारस्तारको यथा ॥ १२ पाणान्धनुषि संधाय दशसंख्यान्महाशितान् । अकरोत्पुष्कलो वीरो विरथं राजपुत्रकम् ॥ ११ चतुर्भिश्चतुरो वाहान्द्वाभ्यां सूतमपातयत् । एकेन ध्वजमेतस्य द्वाभ्यां स्यन्दनरक्षकौ ॥ १४ एकेन हृदि विव्याध राजपुत्रस्य वेगवान् । तदद्भुतं कर्म सर्वे दृष्ट्वा वीराः प्रतोषिताः ॥ १५ स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः । अत्यन्तकोपमापन्नः स्यन्दनं परमाविशत् ।। १६ स स्थित्वा स्यन्दनवरे हयरत्नेन भूषिते । शरासनं महद्धृत्वा सुदृढं गुणपूरितम् ॥ १७ उवाच पुष्कलं वीरं रुक्माङ्गद इदं वचः। महापराक्रमं कृत्वा क यास्यसि परंतप ॥ १८ पश्य मेऽद्य पराक्रान्ति यबलेन विनिर्मिताम् । यत्नात्तिष्ठस्व भो वीर नयामि त्वद्रथं नमः॥१९ इत्युक्त्वा शरमत्युग्रं दधार स्वशरासने । मत्रयित्वा मुमोचास्त्रं भ्रामकं पौष्कले रथे ॥ मुमोच निशितं वाणं स्वर्णपुखैकशोभितम् । तेन बाणेन नीतोऽस्य रथो योजनमात्रकम् ॥ २१ धृतः कृच्छ्रेण सूतेन रथो बभ्राम भूतले । कृच्छ्रेण प्राप्य तत्स्थानं पुष्कलः परमास्त्रवित् ॥ २२ जगाद वचनं तं वै बाणं विभ्रच्छरासने । स्वर्ग प्रामुहि वीराय सर्वदेवैकशोभितम् ॥ २३ त्वादृशाः पृथिवीयोग्या न भवन्ति नृपोत्तम । शतक्रतुसभायोग्यास्तद्गच्छस्व सुरालयम् ॥ २४ इत्युक्त्वा स मुमोचास्त्रमाकाशमापकं महत् । तेन वाणेन स रथो ययौ खमनुलोमतः ॥ सर्वाल्लोकानतिक्रम्य ययौ सूर्यस्य मण्डलम् । तज्ज्वालया रथो दग्धो हयसूतसमन्वितः ॥ २६ तत्करैर्दग्धभूयिष्ठकलेवरः सुदुःखितः । पपात चन्द्रचूडं स धृत्वा हृद्यसुखार्दनम् ॥ २७ भूमौ निपतितस्तत्र करदग्धकलेवरः । अत्यन्तदुःखमापनो मुमूर्छ रणमण्डले ॥ तस्मिनिपतिते भूमौ मूर्छिते राजपुत्रके । हाहाकारो महानासीत्तत्र संग्राममूर्धनि । वैरिणो जयलक्ष्मी ते संप्राप्ताः पुष्कलोन्मुखाः । पलायनपरा जाता वैरिणो हयरक्षकाः ॥ ३० तदा पुत्रस्य वै मूर्छा दृष्ट्वा वीरमणिपः । मायात्समरमध्यस्थं पुष्कलं कोपपूरितः ॥ तदा भूमिश्चचालेयं सपर्वतवनोत्तमा । शूरा वै हर्पमापन्नाः कातरा भयपीडिताः ॥ ३२ चापं महद्दधानः स इषुधी अक्षयावपि । रोपानिश्वासमामुश्चन्नाहयामास वैरिणम् ।। इति श्रीमहापुराणे पाछे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे पुष्कलविजयो नामैकचत्वारिंशोऽध्यायः ॥४॥ आदितः श्लोकानां समष्टयङ्काः-१३२६१ २० २८ भय द्विचत्वारिंशोऽध्यायः । शेष उवाच- आइयन्तं महासैन्यवारिधौ पुष्कलं नृपम् । समालक्ष्य कपीन्द्रोऽपि हनूमांस्तमधावत ॥ ख. ग. छ. ज. ड. ग. त. ध. कसेवित । २ द. स रथम।
२ ४ ५ ६ - महामुनिश्रीव्यासप्रणीत- [ ४ पातालखण्डे- लाङ्गलमुयम्य विशालदेहं संरावमातत्य पयोदघोषम् । रणस्थितान्वीरवरान्कपीन्द्रो जगाम तं वीरमणिं नरेन्द्रम् ॥ आयान्तं च हनून्मतं वीक्ष्य पुष्कल उद्भटः । विलोकयामास दृशा वैरक्रोधसुशोणया ।। जगाद तं हनूमन्तं पुष्कलः परमास्त्रवित् । मेघगम्भीरया वाचा नादयन्रणमण्डलम् ॥ पुष्कल उवाच- कथं त्वं समरे योद्धमागतोऽसि महाकपे । कियलं स्वल्पमेतद्राज्ञो वीरमणेर्महत्(न)। यत्र त्रिजगती सर्वा संमुखं समुपागता । तत्र त्वं लीलया योद्धं यातुमिच्छास वा न वा ॥ कोऽयं राजा वीरमणिः कियदलमथाल्पकम् । अत्राऽऽगमनमत्युग्रं तव वीर न भाव्यते ॥ रघुनाथकृपापाङ्गादहं निस्तीर्य दुस्तरम् । क्षणाभिर्यामि कीशेन्द्र मा चिन्तां कुरु संगरे(रम्) ॥८ त्वया राक्षसपाथोधिस्तीर्णो रामपाव्रजात् । तथाऽहं रामं संस्मृत्य निस्तरिष्यामि दुस्तरम् ॥९ ये केचिदुस्तरं प्राप्य रघुनाथं स्मरन्ति च । तेषां दुःखोदधिः शुष्को भविष्यति न संशयः॥१० तस्मात्रज महावीर शत्रुघ्नसविधे वलिन् । एप आयामि निर्जित्य भूपं वीरमणि क्षणात् ॥ ११ शेष उवाच- इति धीरां समाकर्ण्य वाणी पुष्कलभाषिताम् । जगाद वचनं भूयः पुष्कलं परवीरहा ॥ १२ हनूमानुवाच पुत्र मा साहस कार्षीभूपं वीरमणि प्रति । एष दाता शरण्यश्च बलशौर्यसुशोभितः ॥ १३ वं बालः स्थविरो भूपोऽखिलशस्त्रास्त्रवित्तमः । अनेके विजिताः संख्ये वीराः शौर्यसुशोभिताः जानीहि पार्थ एतस्य रक्षितारं सदाशिवम् । भक्त्या वशीकृतं स्थाणुं सोमं चैतत्पुरीस्थितम् १५ [*तस्मादहमनेनैव योत्स्ये भूपेन पुष्कल । अन्यान्वीरान्विजित्याऽऽशु कीर्तिमामुहि पुष्कलाम्] पुष्कल उवाच- शिवो भक्त्या वशीकृत्य स्वपुरे स्थापितोऽमुना । परमस्याऽऽशु हृदये न तिष्ठति महेश्वरः ॥१७ सदाशिवो यमाराध्य परमं स्थानमागतः । स रामो मन्मनस्त्यक्त्वा न कापि परिगच्छति ॥१८ यत्र रामस्तत्र विश्वं सर्व स्थास्नु चरिष्णु च । तस्मादहं जयिष्यामि रणे वीरमणिं नृपम्॥ १९ व्रज त्वं समरे योद्धमन्यान्मानिवरानृपान् । वीरसिंहमुखान्कीश मच्चिन्तां मा कुरु प्रभो ॥ २० वाचमित्थं समाकर्ण्य हनूमान्धीरतरिताम् । जगाम संगरे योढुं वीरसिंहं नृपानुजम् ।। लक्ष्मीनिधिः सुतेनास्य शुभाङ्गदसुसंज्ञिमा । द्वैरथेन प्रयुयुधे महाशस्त्रास्त्रवेदिना ॥ बलपु(मि)त्रेण सुमदः स्वप्रतापवलोजितः । योर्बु शस्त्रास्त्रसंग्रामविचारचतुरो नृपः ॥ आहयन्तं नृपं दृष्ट्वा द्वैरथे युद्धकोविदः । पुष्कलो भर्मखचिते रथे तिष्ठन्ययौ हि तम् ॥ राजा तमागतं दृष्ट्वा पुष्कलं युद्धकोविदम् । उवाच निर्भिया वाण्या रणमध्ये सुभाषितः ॥ २५ वीरमणिरुवाच- बाल मा याहि मां क्रुद्धं संग्रामे चण्डकोपनम् । गच्छ प्राणपरीप्सायै मा युद्धं कुरु मे सह ॥२६ त्वादृशान्बालकान्भूपा मादृशाः कृपयन्ति वै । प्रहरन्ति न चैतान्दै तस्माद्गच्छ रणादहिः॥ २७ * एतचिहान्तर्गतः पाठः ग. छ. उ. . र. ध. पुस्तकस्थः। + आर्ष इडागमः । २२ २४ - १ अ. सुदमः।
- -- ४० ४२ ४२ द्विचत्वारिंशोऽध्यायः] पमपुराणम् । ५१७ यावत्वं न मया दृष्टश्चक्षुर्ध्या तावदुन्मनाः । सांप्रतं त्वां प्रहर्तुं न मनः समभिकाङ्क्षति ॥ २८ [ श्यत्त्वया मत्सुतो बाणैर्भिन्नो मूर्छाकृतः पुनः । सर्व मया क्षान्तमद्य तव बालधियो महत् ॥ इति वाक्यं समाकर्ण्य पुष्कलो निजगाद तम् ।। पुष्कल उवाच- बालोऽहं त्वं महावृद्धः सर्वशस्त्रास्त्रकोविदः । क्षत्रियाणां मते ये तु बलाधिक्येन संयुताः ३१ त एव वृद्धा भूपाय न वयोवृद्धतां गताः । मया ते मूर्छितः पुत्रः स्वशौर्यवलदर्पितः ॥ ३२ इदानीं त्वामहं शस्त्रैः पातयिष्यामि संगरे । तस्मात्त्वं यत्नतस्तिष्ठ राजन्संग्राममूर्धनि ॥ ३३ रामभक्तं न मां कश्चिज्जयतीन्द्रपदे स्थितः । इत्थं भापितमाश्रुत्य पुष्कलस्य नृपाग्रणीः॥ ३४ जहास बालं संवीक्ष्य कोपं च व्यदधात्पुनः । तं वै कोपितमालक्ष्य भरतात्मज उन्मदः ॥ ३५ जघान शरविंशत्या राजानं हृदि तीक्ष्णया । राजा तानागतान्दृष्ट्वा बाणांस्तेन विमोचितान् ३६ चिच्छेद परमक्रुद्धः शरैस्तीक्ष्णैरनेकधा । तद्धाणच्छेदनं दृष्ट्वा भारतिः परवीरहा ॥ चुकोप हृदयेऽत्यन्तं राजानं च त्रिभिः शरैः । विव्याध भाले भूपालपुत्रः पुष्कलसंज्ञितः ३८ तत्र लग्ना विरेजुस्ते त्रिकूटाशखराणि किम् । तैर्वाणैर्व्यथितो राजा जघान नवभिः शरैः ॥ ३९ हृदये पुष्कलं वीरं महाकोपसमन्वितः । तैर्वत्सदन्तैर्वहस्रं पीतं रामानुजाङ्गजम् ॥ सर्पा आशीविषा यद्वत्क्रुद्धास्तद्वषुपि स्थिताः । परमं कोपमापन्नः पुष्कलो भूमिपं पुनः ॥ ४१ वाणानां शतकेनाऽऽशु विभेद शितपर्वणा । तैर्वाणैः कवचं भिन्न किरीटः सशिरखकः ॥ रथो धनुर्महत्सज्यं छिन्नं कोपपरिप्लवात् । क्षतनेन परिप्लुटो वाणभिन्नकलेवरः ॥ अन्यं स्यन्दनमारुह्य जगाम भरतात्मजम् । धन्योऽसि वीर रामस्य चरणाब्जमधुव्रत ॥ महत्कृतं कर्म तेऽद्य यदहं विरथीकृतः। प्राणाबक्षस्व भो वीर सांप्रतं मयि युध्यति ॥ ४५ सुलभा न तव माणाः कालरूपे मयि स्थिते । इत्युक्त्वा व्यहनदाणैरसंख्यैरखकोविदः ॥ ४६ भूमौ दिशि च तद्वाणान्नान्यदृश्येत तत्र ह । अनेके गजसाहस्रा भिन्ना अश्वाः समन्ततः ॥ ४७ रथा रथियुतास्तेन च्छिन्ना भिन्ना द्विधाकृताः । शोणितौघा सरित्तत्र प्रसुस्राव रणाङ्गणे ॥ ४८ यत्रोन्मदा हि मातङ्गा दृश्यन्ते शैलशृङ्गवत् । केशाः शैवालवल्लक्ष्या मुहुः प्राणिशिरस्थिताः ४९ अनेके पाणयश्छिन्ना वीराणां मुद्रिकाश्रयाः। दृश्यन्ते अहिवत्तत्र चन्दनादिकरूपिताः ॥ शिरांसि च भटाग्याणां कच्छपाभां वहन्ति वै । मांसानि पका यत्राऽऽसन्वीराणां महतां ततः एवं व्यतिकरे वृत्ते योगिन्यः शतशो रणे । पपुः पात्रेण रुधिरं प्राणिनां रणपातिनाम् ॥ ५२ मांसानि बुभुजुस्ता वै हर्पकौतुकसंयुताः । पीत्वा तु शोणितं तत्र भक्षित्वा मांसँकं मुदा ॥ ५३ ननृतुर्जहसुः प्रोचैरुज्जगुः प्रधनाङ्गणे । पिशाचास्तत्र समरे प्राणिनां मस्तकानि वै ॥ धृत्वा कराभ्यां मत्तानास्तालबद्वादनोद्यताः । शिवास्तत्र महामांसं पतितानां रणागणे ॥ ५५ भक्षित्वा व्यनदन्मत्ताः कातराणां भयमदम् । कातरास्तत्र संत्रस्ता गताः कुञ्जरकोटरे ॥ ५६ भक्षिता योगिनीभिस्ते पापिनां कापि न स्थितिः । एतत्कदनमालक्ष्य स्वसैन्यस्य रथाग्रणी:५७ पुष्कलोऽपि चकारात्र कदनं रणमण्डले । भियन्ते गजशीर्षाणि पतन्ति मौक्तिकानि तु ॥ ५८ * एतचिहान्तर्गतः पाठः ख. ग. छ. ज. ठ. ण. त. थ. द. ध पुस्तकस्थः । १. अ. तीक्ष्णैः । २ झ. म. बलेन । ३ नतपर्वणा । ४ द. संख्यैः शास्त्र । ५ ग. लब्धा । झ. म. उष्ट्राः । ६. काश्रियः ।। ७ क. ख. ग. छ. म. ज. त. थ द 'समुन्मदाः । न । ४४ ५१८ महामुनिश्रीव्यासपणीत- [४ पातालखण्डे- दृश्यन्ते लोमभिः पूर्णास्ताम्रपर्णीव तन(ते न)दी । पुष्कलपहिता बाणा नृणामङ्गेषु संगताः॥५९ कुर्वन्ति प्राणविच्छेदं वीराणामपि सर्वतः । सर्वे रुधिरसिक्ताङ्गाः सर्वे छिन्ननिजागकाः ॥ ६० दृश्यन्ते किंशुका यद्वत्सुभटाः प्रधनाङ्गणे । एतस्मिन्समये क्रुद्धः समाभाष्य महीपतिम् ॥ ६१ जघान दशवाणैस्तं रोषपूरपरिप्लुतः । तद्भाणवेधभिन्नाङ्गो विशीर्णकवचो नृपः॥ महावलं तं मन्वानः प्राहरच्छरकोटिभिः । तैर्बाणैः कवचान्मुक्तं स्रवबहुसुशोणितम् ॥ वपुर्वभूव रुचिरं शरपञ्जरगोचरम् । शरपञ्जरमध्यस्थो विवलीकृतमानसः ॥ ६४ शरान्नेतुं च संघातुं न चक्षाम स भारतिः। रामं स्मृत्वा धनुर्धृत्वा करे सज्यं महद्भटः ॥ ६५ मुमोच बाणानिशितान्वैरिवृन्दनिवारणान् । तैर्वाणैः शरजालं तद्विधूय द्विजपुंगव ॥ शङ्ख प्रध्माय समरे जगाद गतभीपम् ।। पुष्कल उवाच- त्वया कृतं महत्कर्म यन्मां बाणस्य पञ्जरे । गोचरं कृतवान्वीर वीरतापनमुद्भटम् ॥ ६७ वृद्धत्वान्मम मान्योऽसि सांप्रतं रणमण्डले । पश्य मेऽद्य पराक्रान्तं राजन्वीरमणे महत् ॥ ६८ बाणत्रयेण भो वीर मूछितं करवै न हि । तार्ह प्रतिज्ञां शृणु मे सर्ववीरविमोहिनीम् ॥ ६९ गङ्गां प्राप्यापि यो वै तां निन्दित्वा पापहारिणीम् । न मजति महापापो महामूढविचेष्टितम् ७० तस्य पापं ममैवास्तु चेन त्वां रणमण्डले । पतितं मूर्छया [*नैव करिष्ये तीक्ष्णसायकैः ॥ ७१ सांपतं वीरबुद्ध्या त्वं ] संनद्धो भव भूपते । इति वाक्यं समाकर्ण्य पुष्कलस्य नृपोत्तमः ।। चुकोप भृशमुद्विग्नः संदधे निशिताशरान् ॥ ते शरा हृदयं भित्त्वा गतास्ते भारतेर्महत् । पेतुः क्षितावधो यद्वद्रामभक्तिपराङ्मुखाः ॥ ततः शरं मुमोचास्मै निशितं वह्निसप्रभम् । लक्षीकृत्य महद्वक्षः कपाटतटविस्तृतम् ।। स बाणो भूमिपतनाविधा छिन्नः शरेण हि । पपात रथमध्येऽपि भूमण्डलमिव ज्वलन् ॥ ७६ अपरं वाणमाधत्त मातृभक्तिभवं ततः । निधाय पुण्यं सोऽप्येष चिच्छेद महता पुनः ॥ तदा खिन्नः स हृदये किं कर्तव्यमिति स्मरन् । रामं दृदि निजार्तिघ्नं मुमोच परमास्त्रवित् ॥७८ स बाणस्तस्य त्दृदये लग्न आशीविषोपमः । मूर्छामप्रापयत्तं वै ज्वलन्सूर्यसमप्रभः ॥ ततो हाहाकृतं सर्व पलायनपरायणम् । राज्ञि संमूर्छिते जाते पुष्कलो जयमाप्तवान् । इति श्रीमहापुराणे पाझे पातालखण्हे शेषवात्स्यायनसंवादे रामाश्वमेधे पुष्कलविजयो नाम द्विचत्वारिंशोऽध्यायः ॥४२॥ आदितः श्लोकानां समष्टयङ्काः-१३३४१ ७५ उ ७७ ७९ भय त्रिचत्वारिंशोऽध्यायः । २ शेष उवाच- हनूमान्वीरसिंहं तु समागत्याब्रवीद्वचः । तिष्ठ यासि कुतो वीर जेष्यामि त्वां क्षणादिह ॥ १ एवमुक्तं समाकर्ण्य प्लवङ्गस्य वयो महत् । कोपपूरपरिप्लुष्टः कार्मुकं जलदस्वनम् ।। विनद्य घोरामिशितान्बाणान्मुश्चन्बभौ रणे । आषाढे जलदस्येव धारासारो मनोहरः ।। * एतचिहान्तर्गतः पाठो ड. पुस्तकस्थः । १ ग. ह. द हदृढम् । मुं। २ र. विदित्वा । ३ द. 'पि रविमण्डलवज्ज्वल।
५ ८ ९ to fight १३ त्रिचत्वारिंशोऽध्यायः ] पअपुराणम् । तान्दृष्ट्वा निशितान्बाणान्स्ववपुष्के विलग्नकान् । चुकोप हृदयेऽत्यन्तं तं हन्तुं मन आदधे ॥ ४ मुष्टिना ताडया मास हृदये वज्रसारिणा । स मुष्टिना हतो वीरः पपात धरणीतले ॥ छितं तं समालोक्य पितृव्यं स शुभाङ्गदः । रुक्माङ्गदोऽपि संमूर्छा त्यक्त्वाऽगाद्रणमण्डलम् ॥६ बाणान्समभिवर्षन्तौ मेघाविव महास्वनौ । कुर्वन्तौ कदनं घोरं प्लवङ्गं प्रति जन्मतुः ॥ तौ दृष्ट्वा समरे वीरौ समायातौ कपीश्वरः । लाङ्गलेन च संवेष्टय सरथौ चापधारकौ ॥ स्फोटयामास भूदेशे तत्क्षणान्मूर्छितावुभौ । निश्चेष्टौ समभूतां तौ रुधिराक्रान्तदेहको ॥ बलमित्रश्चिरं युद्धं विधाय सुमदेन हि । मूर्छामपापयत्तं वै वाणैः सुशितपर्वभिः ॥ पुष्कलेन क्षणानीतो मूर्छा चैतन्यवर्जिताम् । जयमाप्तं तु कटकं शत्रुघ्नस्य भटार्दनम् ॥ ११ एतस्मिन्समये शर्वः स्यन्दनं वरमास्थितः । विस्फारयन्धनुर्दिव्यमुपाधावद्भटानिमान् ॥ १२ जटाजूटान्तरगतां चन्द्रलेखां वहन्महान् । सर्पाभूषां मनःस्पृश्यां दधदाजगवं धनुः ॥ १३ संमूर्छिताञ्जनान्दृष्ट्वा भक्तार्तिघ्नो महेश्वरः । योद्धं पायान्महत्सैन्ये शत्रुघ्नस्य भटानिमान् ॥ १४ sinche सगणः सपरीवारः कम्पयन्पृथिवीतलम् । भक्तरक्षार्थमागच्छंत्रिपुरं च यथा पुरा॥ १५ कोपाच्छोणतरे नेत्रे वहन्प्रलयकारकः । पश्यन्वीरान्बहुमतीन्पिनाकी देववन्दितः ॥ १६ तमागतं मेहशानं वीक्ष्य रामानुजो वली । जगाम समरे योद्धं सर्वदेवशिरोमणिम् ॥ अथाऽऽगतं तु शत्रुघ्नं रुद्रो वीक्ष्य पिनाकभृत् । उवाच परमापन्नः कोपं सगुणचापभृत् ॥ १८ पुष्कलेन महत्कर्म कृतं रामाघिसेविना । मद्भक्तं यो रणे हत्वा गतः समरमण्डलम् ॥ अद्य कास्ति परो वीरः पुष्कलः परमास्त्रवित् । तं हत्वा सुखमाप्स्यामि समरे भक्तपीडनम् २० शेष उवाच- इत्युक्त्वा वीरभद्रं स प्रेषयामास पुष्कलम् । याहि त्वं समरे योढुं पुष्कलं सेवकार्दनम् ॥ २१print नन्दिनं प्रेषयामास हनूमन्तं महाबलम् । कुशध्वजं प्रचण्डं तु भृङ्गिणं च सुबाहुकम् ॥ सुमदं चण्डनामानं गणं स्वीयं समादिशत् । पुष्कलस्तु समायान्तं वीरभद्रं महागणम् ॥ २३ महारुद्रस्य संवीक्ष्य योद्धं प्रायान्महामनाः । पुष्कलः पञ्चभिर्वाणैस्ताडयामास संयुगे ॥ तैर्वाणैः क्षतगावस्तु त्रिशूलं स समाददे । स त्रिशूल क्षणाच्छित्त्वा व्यगर्जत महाबलः ॥ २५ छिन्नं स्वीयं त्रिशूलं वै वीक्ष्य रुद्रानुगो बली । खट्वाङ्गेन जघानाऽऽशु मस्तके भारतिं द्विज।।२६ खट्वाङ्गाभिहतः सोऽथ मुमूर्छ क्षणमुद्भटः । विहाय मूर्छा सद्वीरः पुष्कलः परमास्त्रवित् ॥ २७ चिच्छेद खट्वाङ्गमपि करस्थं तस्य तत्क्षणात् । वीरभद्रः स्वके छिन्ने खवाङ्गे करसंस्थिते।। २८ परमां क्रुधमापनो बभञ्ज रथिनो रथम् । भत्वा रथं तु वीरस्य पदातिं च विधाय सः ॥ २९ बाढुयुद्धेन युयुधे पुष्कलेन महात्मना । स पुष्कलो रथं त्यक्त्वा चूणितं तेन वेगतः ॥ मुष्टिना ताडयामास वीरभद्रं महाबलः । अन्योन्यं मुष्टिभिर्द्वान्तावूरुभिर्जानुभिस्तथा ।। परस्परवधोयुक्तौ परस्परजयैषिणौ । एवं चतुर्दिनमभूद्रात्रिंदिवमपीशयोः ॥ ३२ न कोऽपि तत्र हीयेत न जीयेत महाबलः । पञ्चमे तु दिने वृत्ते वीरभद्रो महाबलः ॥ ३३ गृहीत्वा नभ उड्डीनो महावीरं तु पुष्कलम् । तत्र युद्धं तयोरासीद्देवासुरविमोहनम् ॥ ३४ मुष्टिना चरणाघातै हुभिः सुखुरैर्महत् । तदाऽत्यन्तं प्रकुपितः पुष्कलो वीरभद्रकम् ॥ Puskala & 27 vizatharta २४ १ इ. प्रैन्तौ बाहुभि ।
४८ ५२० महामुनिश्रीव्यासप्रणीत- [४ पातालखण्डे- गृहीत्वा कण्ठदेशे तु ताडयामास भूतले । तत्पहारेण व्यथितो वीरभद्रो महाबलः ॥ गृहीत्वा पुष्कलं पादे जधानाऽऽस्फालयन्मुहुः । ताडयित्वा महीदेशे पुष्कलं सुमहाबलम् ॥ ३७ [*त्रिशूलेन चकर्ताऽऽशु शिरो ज्वलितकुण्डलम् । जगर्न पुष्कलं हत्वा वीरभद्रो महाबलः।।३८ गर्जता तेन शार्वेण प्रापितास्त्रासमुद्भटाः । हाहाकारो महानासीत्पुष्कले पतिते रणे ॥ त्रासं प्रापुर्जनाः सर्वे रणमध्ये सुकोविदाः । ते शशंसुश्च शत्रुघ्नं पुष्कलं पातितं रणे ॥ वीरभद्रेण वीरेण महेश्वरगणेन वै । इत्याश्रुत्य महावीरः पुष्कलस्य वधं तदा ॥ दुःखं प्राप्तो रणेऽत्यन्तं कम्पमानः शुचा महान् । तं दुःखितं च शत्रुघ्नं ज्ञात्वा रुद्रोऽब्रवीद्वचः ॥ शत्रुघ्नं समरे वीरं शोचन्तं पुष्कले हते । रे शत्रुघ्न रणे शोकं मा कृथाः सुमहाबल ॥ वीराणां रणमध्ये तु पातनं कीर्तये स्मृतम् । धन्यो वीरः पुष्कलाख्यो यश्च वै दिनपश्चकम्॥४४ युयुधे वीरभद्रेण महाप्रलयकारिणा । येन क्षणाद्विनिहतो दक्षो मदपमानकृत् ॥ क्षणाद्विनिहता येन दैत्यात्रिपुरसैनिकाः । तस्मायुध्यस्व राजेन्द्र शोकं त्यक्त्वा महाबल ॥ ४६ यत्नात्तिष्ठाद्य वीराग्य मयि योद्धरि संस्थिते । शोकं तत्याज शत्रुघ्नो वीरचक्रोध शंकरम्॥४७ आत्तसज्यधनुर्बाणैः प्राहरत्स महेश्वरम् । ते वाणाः सुरशीर्षण्यवपुषं क्षतविक्षतम् ॥ अकुर्वस्तन्महच्चित्रं भक्तरक्षार्थमागतम् । ते बाणाः शंकरस्यापि बाणा नभास संस्थिताः ॥ ४९ व्याप्यैतत्सकलं विश्वं चित्रकारि मुनेरपि । तद्वाणयोयुद्धबलं वीक्ष्य सर्वत्र मेनिरे ॥ प्रलयं लोकसंहारकारकं सर्वमोहकम् । आकाशे तु विमानानि संश्रित्य स्वपुरस्थिताः । ५१ विलोकयितुमागत्य प्रशंसन्ति तयोर्भृशम् । अयं लोकत्रयस्यापि प्रलयोत्पत्तिकारकः ।। असावपि महाराजरामचन्द्रस्य चानुजः । किमिदं भविता को वा जेष्यति क्षितिमण्डले ॥ ५३ पराजयं वा को वीरः प्राप्स्यते रणमूर्धनि । एवमेकादशाहानि वृत्तं युद्धं परस्परम् ॥ द्वादशे दिवसे प्राप्ते मुमोचास्त्रं नराधिपः । ब्रह्मसंझं महादेवं हन्तुं क्रोधसमन्वितः ॥ स विज्ञाय महास्त्रं तन्मुक्तं शत्रुघ्नवैरिणा । हसनप्यपिवत्तेन मुक्तं ब्रह्मशिरो महत् ॥ ५६ अत्यन्तं विस्मयं प्राप्य किं कर्तव्यमतः परम् । एवं विचारयुक्तस्य हृदये ज्वलनोपमम् ॥ ५७ शरं वै निचखानाऽऽशु देवदेवशिरोमणिः । तेन बाणेन शत्रुघ्नो मूर्छितो रणमण्डले ॥ हाहाभूतमभूत्सर्व कटकं भटसेवितम् । सर्वे रुद्रगणैर्वीराः पातिताः पृथिवीतले ।। सुबाहुसुमदमुख्याः स्वबाहुबलदर्पिताः। पतितं मूर्छया वीक्ष्य शत्रुघ्नं शरपीडितम् ॥ ६० पुष्कलं तु रथे स्थाप्य सेवकैः परिरक्षितम् । हनूमानागतो योढुं शिवं संहारकारम् ॥ ६१ श्रीरामस्मरणाद्योधास्वीयानपि प्रहर्षितान् । प्रकुर्वत्रोपतस्तीनं लाङ्गलं च प्रकम्पयन् ॥ ६२ इति श्रीमहापुराणे पाझे पातालखण्डे शेषवात्स्यायमसंबादे रामाश्वमेधे शत्रुघ्नपराजयो नाम त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥ आदितः श्लोकानां समष्टयङ्काः-११४०३ + अथ चतुश्चत्वारिंशोऽध्यायः । ५५ ५८ शेष उवाच- आगत्य सविधे रुद्रं समराङ्गणमूर्धनि । जगाद हनुमान्वीरः संजिहीर्घः सुराधिपम् ।। * एतचिहान्तर्गतः पाठः क. ख. ग. छ. ज. अ. 8. ण. द. घ. पुस्तकस्थः ।
- २ ३ w ४४ चतुश्चत्वारिंशोऽध्यायः] पद्मपुराणम् । ५२१ हनूमानुवाच - त्वं यदाचरसे रुद्र धर्मस्य प्रतिकूलनम् । तस्मात्त्वां शास्तुमिच्छामि रामभक्तवधोद्यतम् ।। मया श्रुतं पुरा वेदऋषिभिर्वहुधोदितम् । रघुनाथपदस्मारी नित्यं रुद्रः पिनाकभृत् ॥ तत्सर्व तु मृषा जातं शत्रुघ्नं प्रति युध्यता । पुष्कलो मे हतः शूरः शत्रुघ्नोऽपि विमूर्छितः ॥ ४ तस्मात्त्वां पातयाम्यद्य त्रैलोक्यालयोद्यतम् । यत्नमातिष्ठ भोः शर्व रामभक्तिपराङ्मुख ॥ शेष उवाच- इत्युक्तवन्तं प्लवगं प्रोवाच स महेश्वरः । धन्योऽसि वीरवर्यस्त्वं भवान्वदति नो मृषा ॥ पत्स्वामी रामचन्द्रोऽयं सुरासुरनमस्कृतः । तदश्वमानयामास शत्रुघ्नः परवीरहा ॥ तदक्षार्थ समायातस्तद्भक्त्या तु वशीकृतः । यथाकथंचिद्भक्तोऽसौ रक्ष्यः स्वात्मा इति स्थितिः रघुनाथः कृपां कृत्वा विलोकयतु निखपम् । मां स्वभक्तं सुदुःखेन किंचित्कोपं दधन्महान् ॥ ९ शेष उवाच- एवं वदति चण्डीशे हनूमान्कुपितो भृशम् । शिलामादाय महती ताडयामास तद्रयम् ॥ शिलया ताडितस्तस्य रथः शकलतां गतः । ससूतः सहयः केतुपताकाभिः समन्वितः ॥ ११ नभस्था देवताः सर्वाः प्रशशंसुः कपीश्वरम् । धन्योऽसि प्लवगाधीश महत्कर्म त्वया कृतम्॥१२ श्रीशिवं विरथं दृष्ट्वा नन्दी तं समुपाद्रवत् । उवाच श्रीमहादेवं मे पृष्ठं गम्यतामिति ॥ वृषस्थितं तु भूतेशं हनूमान्कुपितो भृशम् । शालमुत्पाट्य तरसा पाहनधृदये तदा ॥ १४ तदाहतो भूतपतिः शूलं तीक्ष्णं समाददे । जाज्वल्यमानं त्रिशिखं वह्निज्वालासमप्रभम् ॥ १५ आयान्तं तन्महदृष्ट्वा शूलं प्रज्वलनप्रभम् । हस्ते गृहीत्वा तरसा बभञ्ज तिलशः क्षणात् ॥ १६ भग्ने त्रिशूले तरसा कपीन्द्रेण क्षणाद्भवः । शक्तिं करे समाधत्त सर्वलोहविनिर्मिताम् ।। सा शक्तिः शिवनिर्मुक्ता हृदये तस्य धीमतः । लग्ना क्षणादभूत्तत्र विक्लवः प्लवगाधिपः ॥ १८ क्षणाच्च तयां नीत्वा गृहीत्वा वृक्षमुल्बणम् । ताडयामास हृदये महाव्यालविभूषिते ॥ १९ ताडितास्तेन वीरेण फणीन्द्रास्त्रासमागताः । इतस्ततस्ते तं मुक्त्वा गताः पातालमुजवाः ॥२० शिवस्तस्मिन्नागमुक्ते वक्षसि स्व निरीक्ष्य ह । कुपितोऽदधाद्धोरं स्वे मुशलं करयुग्मके ॥ इतोऽसि गच्छ संग्रामात्पलाय प्लवगाधम । एष ते प्राणहन्ताऽहं मुशलेन क्षणादिह ॥ २२ मुंशलं वीक्ष्य निर्मुक्तं शिवेन कुपितेन वै । कोशस्तद्वश्चयामास महावेगो हरिं स्मरन् । मुशलं वत्पपाताधः शिवमुक्तं महायसम् । विदार्य पृथिवीं सर्वा जगाम च रसातलम् ॥ तदा प्रकुपितोऽत्यन्तं हनूमात्रामसेवकः । गृहीत्वा पर्वतं हस्ते ताडयामास पक्षसि ।। २५ स यावत्पर्वतं छेत्तुं मतिं चक्रे सतीपतिः । तावद्धतः कपीद्रेण शालेन बहुशाखिना ॥ २६ तमपि च्छेत्तुमुद्युक्तो यावचावच्छिलाहतः । शिलास्ता भेदितं स्वान्तं चकार मृद उद्यतः ॥२७ ताववृष्टिं चकारायं शिलाभिर्नगपर्वतैः । लाङ्गलेन च संवेष्ट्य ताडयत्येष भूतपम् ।। शिलाभिः पर्वतैर्वृक्षैः पुच्छास्फोटेन भूरिशः । नन्दी प्राप्तो महात्रास चन्द्रोऽपि शकलीकृतः २९ अत्यन्तं विहलो जातो महेशानः प्रकोपनः । क्षणे क्षणे प्रहारेण विहलं कुर्वन्तं भृशम् ॥ ३० जगाद प्लवगाधीश धन्योऽसि रघुपानुग । महत्कर्म कृतं तेऽद्य यत्तेऽहं सुप्रतोषितः ।। २४ २८ १०.डणार्धात्तद्यरथ, 'पि विकली।
५२२ महामुनिश्रीव्यासप्रणीतं- [ ४ पातालखण्डे- न दानेन न यज्ञेन नाल्पेन सपसा ह्यहम् । सुलभोऽस्मि महावेग तस्मात्मार्थय मे वरम् ॥ ३२ शेष उवाच- एवं ब्रुवन्तं तं दृष्ट्वा हनूमाभिजगाद तम् । प्रहसनिर्भिया वाचा महेशानं तु तोषितम् ।। हनूमानुवाच- रघुनाथप्रसादेन सर्व मेऽस्ति महेश्वर । तथाऽपि याचे हि वरं त्वत्तः समरतोषितात् ॥ एष पुष्कलसंज्ञो नः समरे पतितो हतः । तथा च रामावरजः शत्रुघ्नो मूर्छितो रणे ॥ अन्ये च वीरा बहवः पतिताः शरविक्षताः । मूर्छिताः पतिताः केचित्तान्क्षस्व गणैः सह ॥३६ यथा चैतान्महाभूता वेतालाश्च पिशाचकाः । न हरन्ति न खादन्ति च सृगालादयस्तथा ॥ ३७ एतेषां वपुषो भेदो न भवेत्त्वं तथाऽऽचर । यावदिन्द्रं रणे जित्वाऽऽनयामि द्रोणपर्वतम् ॥ ३८ तत्रस्था औषधीर्वाऽपि नीत्वा संस्थापितान्भटान् । जीवयामि बलात्सर्वास्तावत्वं रक्ष सर्वशः३९ एष गच्छामि तं नेतुं द्रोणं पर्वतसत्तमम् । यस्मिन्वसन्त्यौपधयः पाणिसंजीवनकराः ॥ एतद्वचः समाकर्ण्य तथति निजगाद तम् । [*याहि शीघ्रं नगं नेतुं रक्षामि त्वद्भटान्मृतान् ४१ तच्छ्रुत्वा वाक्यमीशस्य जगाम द्रोणपर्वतम्] । द्वीपान्सर्वानतिक्रामञ्जगाम क्षीरसागरम् ॥ ४२ अत्र तु स्वगणैः साकं रक्षति स्म शिवो महान् । श्मशानं तद्गणैः स्वीयैर्महाबलपराक्रमैः ॥ ४३ हनूमान्द्रोणमासाद्य द्रोणं नाम महागिरिम् । लाङ्कले तं निधायाऽऽशु प्रतस्थे रणमण्डलम् ४४ नेतुमुद्यते विप्र चकम्पे स च पर्वतः । कम्पमानं तु तं दृष्ट्वा तत्पाला देवतागणाः ॥ हाहेति कृत्वा पोचुस्ते किमिदं भविता गिरौ । को ह्येनं नयते वीरो महाबलपराक्रमः ॥ एवं कृत्वा सुराः सर्वे संहता ददृशुः कपिम् । मुञ्चैनमिति ते पोच्य जन्नुः शस्त्रास्त्रकोटिभिः।।४७ तान्सान्निघ्नतो दृष्ट्वा हनूमान्कुपितो भृशम् । जघान तान्क्षणाद्वीरः शक्रः सर्वासुरान्यथा ॥ ४८ केचित्पादाहतास्तत्र केचित्करविमर्दिताः। लाशूलनिहताः केचित्केचिच्छृङ्गेण चाऽऽहताः ४९ सर्वे ते नाशमापन्नाः क्षणात्कीशेशताडिताः । केचिनिपतिता भूमौ रुधिरेण परिप्लुताः ॥ ५० केचित्कीशभयात्रस्ता जग्मुः शक्रं सुराधिपम् । क्षतेन च परिप्लुटा रुधिरक्षतदेहिनः ।। तान्दृष्ट्वा भयसंविग्नान्रुधिरेण परिप्लुतान् । सुराजगाद विमनाः शक्रः सर्वसुरोत्तमः ॥ कथं यूयं भयत्रस्ताः कथं रुधिरविप्लुताः । केन देत्येन निहता राक्षसेनाधमेन वा ॥ सर्व शंसत मे तथ्यं यथा ज्ञात्वा व्रजामि तम् । निहत्य बद्ध्वा चाऽऽयामि युष्मद्धातकमुन्मदम इति वाक्यं समाकर्ण्य तुरासाहं सुरोत्तमाः । जगदुर्दीनया वाचा सुरासुरनमस्कृतम् ॥ ४५ ४६ देवा ऊचुः इहाऽऽगत्य न जानीमः कश्चिद्वानररूपधृत् । नेतुं द्रोणं समुद्युक्तो लाङ्गुलावेष्टितं गिरिम् ॥ ५६ गन्तुं कृतमतिस्तावद्वयं सर्वे सुसंहताः । युद्धं चक्रुः सु(कम) संनद्धाः सर्वशस्त्रास्त्रवर्षिणः ॥ ५५ सेन सर्वे वयं युद्धे निर्जिता बलशालिना । अनेके निहतास्तत्र भूमौ पेतुः सुरोत्तमाः ॥ वयं तु वहुभिः पुण्यैर्जीविता इह चाऽऽगताः । शोणितेन सुषिक्ताङ्गाः क्षतपीडासमन्विताः ५९ एतद्वाक्यं समाकर्ण्य सुराणां स पुरंदरः । आदिदेश सुरान्सर्वान्महाबलसमन्वितान् । ६० यात महाद्रोणगिरि कपि बढुं महाबलम् । बद्ध्वाऽऽनयत यूयं वै सुराणां रणपातकम् ॥ ६१ + एतचिहान्तर्गतः पाठः क. ख. ग. च. छ. ज. अ. ठ. . ण. त. थ. द. ध. पुस्तकस्थः ।
*...- ६२ ६८ ४५ पञ्चचत्वारिंशोऽध्यायः] पद्मपुराणम् । इत्याज्ञप्ता ययुस्ते वै द्रोणं पर्वतमुत्तमम् । यत्राऽऽस्ते बलवान्वीरो हनूमान्कपिसत्तमः ॥ गत्वा ते प्राहरन्सर्वे हनूमन्तं महाबलम् । हनूमता ते निहता मुष्टिभिः खरताडनैः ॥ पतितास्ते क्षणात्तत्र रुधिरक्षतविग्रहाः । अन्ये पलायनपरा जग्मुस्तं त्रिदिवेश्वरम् ॥ ६४ तच्छ्रुत्वा कुपितः शक्रः सर्वानमरसत्तमान् । आदिदेश महावीरं वानरेन्द्र सुरोत्तमः ॥ ६५ तदाज्ञप्ता ययुस्ते वै यत्र कीशेश्वरो बली । तान्सर्वानागतान्दृष्ट्वा जगाद कपिसत्तम ॥ माऽऽयान्तु वीराः समरे संहन्तारं हि मां बलात्। नेष्यामि युष्मानधुना संयमिन्याः पुरोऽन्तिके इत्युक्ता अपि ते सर्वे संनद्धाः माहरन्कपिम् । शस्त्रास्त्रैर्वहुधा मुक्तैर्महाबलसमन्विताः ॥ केचिच्छूलैः परशुभिः केचित्खरैश्च पट्टिशैः । मुशलैः शक्तिभिः केचित्क्रोधेन कलुषीकृताः॥६९ स आहतोऽमरवरैविविधरायुधैर्बली । शिलाभिस्ताञ्जघानाऽऽशु सर्वानमरसत्तमान् ॥ केचित्पलाय्य आहुस्ते गताः शक्रसमीपकम् । तदुक्तं वाक्यमाकर्ण्य भयं प्राप सुराधिपः॥ ७१ बृहस्पतिं सुराध्यक्ष मन्त्रिणं स्वर्गवासिनाम् । पप्रच्छ सविधे गत्वा नत्वा सुरगुरुं तैदा ॥ ७२ इन्द्र उवाच- कोऽसौ यो वानरो द्रोणं नेतुं स्वामिन्समागतः । येन मे निहता वीरा अमराः शस्त्रधारिणः ७३ शेष उवाच- एतच्छुत्वा तु तद्वाक्यमुक्तमाङ्गिरसो महान् । जगाद भयसंविनं तुरासाहं सुराधिपम् ॥ बृहस्पतिरुवाच- यो रावणमहत्सं(हासं)ख्ये कुम्भकर्णमदीदहत् । येन ते वैरिणः सर्वे हतास्तस्य हि सेवकः॥७५ येन लङ्का सत्रिकूटा निर्दग्धा पुच्छवह्निना । अक्षश्च निहतो येन हनूमन्तमवेहि तम् ॥ ७६ तेन सर्वे विनिहता द्रोणार्थमयमुद्यतः । हयमेध महाराज करोति बलिसत्तमः ॥ तस्याश्वं शिवभक्तस्तु नृपो वीरमणिर्महान् । जहार तत्र समभद्रणं सुरविमोहनम् ॥ शिवेन निहताः संख्ये वीरा रामस्य भूरिशः । तान्दै जीवयितुं द्रोणं नेष्यत्येव महाबलः ॥ ७९ नायं वर्षशतैर्नेयो भवता बलसंयुतः । तस्मात्प्रसादय कपिं देहि तत्रत्यमौषधम् ॥ इति श्रीमहापुराणे पाझे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे देवयुद्धं नाम चतुश्चत्वारिंशोऽध्यायः ॥ ४४॥ आदितः श्लोकानां समष्ट्यङ्काः-१३४८३ ने ७४ ७७ अथ पञ्चचत्वारिंशोऽध्यायः । शेष उवाच- २ - गुरुभाषितमाकर्ण्य वृषपर्वरिपुः स्वराद । ज्ञात्वा रामस्य कार्यार्थमागतं पवनात्मजम् ।। भयं तत्याज मनसि वानरात्समुपस्थितम् । जहर्ष चित्ते स भृशं वाचस्पतिमुवाच ह ॥ इन्द्र उवाच- कथं कार्य सुराधीश द्रोणोऽयं नेष्यते यदि । देवानां जीवितं भूयः कथं स्यादिति मे वद ॥ ३ इदानीं पवनोद्भूतं प्रसादय यथाकथम् । रामः प्रीतिं परां याति देवानां च सुखं भवेत् ।। १ थ. पादताडनैः । द. करताडनैः । २ ग. छ. ठ. ड. ध. भटाः । ३ इ. ड. द वरम् । ४ ज. ण. त.थ. द. ४ महाराजः ।
- ९ महामुनिश्रीव्यासप्रणीत-- [४ पातालखण्डे- देवाधिपस्य वचनं श्रुत्वा वाचस्पतिस्तदा । शक्रं तु पुरतः कृत्वा सर्वदेवैः परिवृतम् ॥ जगाम तत्र यत्राऽऽस्ते हनूमानिर्भयः कपिः । गर्जति प्रसभं जित्वा सुरान्सर्वान्मुखासनः ॥ ६ ते गत्वा सविधे तस्य बृहस्पतिपुरोगमाः। पेतुस्ते चरणौ नत्वा समीरतनुजस्य हि ।। बृहस्पतिस्तु तं वीरं जगाद प्रेरितो मुदा । सुराधीशेन लोकस्य गुरुणा वदतां वरः ।। बृहस्पतिरुवाच- अजानद्भिः कृतं कर्म देवैस्तव पराक्रमम् । रामस्य चरणयोस्त्वं सेवकोऽसि महामते ॥ किमर्थमयमारम्भः कथमत्र समागमः । तत्करिष्यामहे सर्वे संनतास्तव भाषितम् ।। १० रोषं त्यक्त्वा कृपां कृत्वा देवाधीशं विलोकय । पवनात्मज दैत्यानां भयंकरवपुर्दधत् ॥ ११ शेष उवाच- इत्थं भापितमाकर्ण्य देवानां स गुरोर्वचः । उवाच देवान्सकलान्गुरुं चैव महायशाः ॥ १२ राज्ञो वीरमणेः संख्ये हताः शर्वेण भूरिशः । भटास्तान्दै जीवयितुं द्रोणं नेष्यामि पर्वतम् ॥१३ [*तं ये निवारयिष्यन्ति स्ववीर्यबलदर्पिताः। तान्नेष्यामि क्षणादेव यमस्य सदनं प्रति] ॥ १४ तस्माद्ददतु मे यूयं द्रोणं वाऽथ तदौषधम् । येन संजीवयिष्यामि मृतान्वीरान्रणाङ्गणे ॥ १५ शेष उवाच- इति वाक्यं समाकर्ण्य पवनस्य सुतस्य ह । ते सर्वे प्रणति गत्वा ददुः संजीवनौषधम् ।। १६ ते प्रहृष्टा भयं त्यक्त्वा सुराः स्वौकसः समम् । ययुः सुरपतिं कृत्वा पुरः सौख्यसमन्विताः ।। हनूमान्भेषजं तत्तु समादाय गतो रणम् । स्तुतः सर्वैः सुरगणैर्महाकर्मसमुत्सुकैः ॥ तमागतं हनूमन्तं वीक्ष्य सर्वेऽपि वैरिणः । साधुसाधुप्रशंसन्तो अद्भुतं मेनिरे कपिम् ॥ कपिः समागत्य महामुदा युतः पुरो भटं पुष्कलमागतं मृतम् । शिवेन संरक्षितमुग्रमण्डले श्रीरामचित्तं सविधे जगाम ह ॥ सुमतिं च समाहूय मत्रिणं महतां मतम् । उवाच जीवयाम्यद्य सर्वान्वीरारणे मृतान् ॥ २१ एव मुक्त्वा भेषजं तत्पुष्कलस्य महोरसि । शिरः कायेन संधाय जगाद वचनं शुभम् ।। यग्रहं मनसा वाचा कर्मणा राघवं पतिम् । जानामि तर्हि ह्येतेन भेषजेनाऽऽशु जीवतु ॥ इति वाक्यं यदा वक्ति तावत्पुष्कल उत्थितः । रणागणेऽदशद्रोषाहन्तान्बीरशिरोमणिः ॥ २४ कगतो वीरभद्रोऽसौ मां संमूर्य रणागणे । सद्योऽहं पातयाम्येनं कास्ति मे धनुरुत्तमम् ॥ २५ इति तं भाषमाणं वै प्राह वीर कपीन्द्रकः । धन्योऽसि वीर यद्भूयो वदस्येनं रणाङ्गणे ॥ २६ त्वं हतो वीरभद्रेण रघुनाथप्रसादतः । पुनः संजीवितोऽस्येहि शत्रुघ्नं याम मूर्छितम् ।। इत्युक्त्वा प्रययौ तत्र संग्रामवरमूर्धनि । श्वसनास्ते स शत्रुघ्नः शिवबाणपपीडितः ॥ तत्र गत्वा समीपं तच्छत्रुघ्नस्य महात्मनः । निधाय भेषजं तस्य वक्षसि श्वासमागते ॥ उवाच हनुमांस्तं वै जीव शत्रुघ्न सत्तम । मूर्छितोऽसि रणे कस्मान्महावलपराक्रमः ॥ यद्यहं ब्रह्मचर्य च जन्मपर्यन्तमुद्यतः । पालयामि तदा वीरः शत्रुघ्नो जीवतात्क्षणात् ॥ ३१ उक्तमात्रेण तेनेदं जीवितः क्षणमात्रतः । क शिवः क शिवो यातो विहाय रणमण्डलम् ॥ ३२ अनेके निहताः संख्ये श्रीरुद्रेण पिनाकिना । ते सर्वे जीविता वीरोः कपीन्द्रेण महात्मना ॥ ३३ * एतचिहान्तर्गतः पाठः ख. ग. छ. ज. ट. उ. प. स. प. द. घ. पुस्तकस्थः। १ क. ख. ग. च. छ. ज. म. ठ. ड. प. त. य. द. घ. तोऽमुना । मुं। २ स; ज. त, ५. 'राः साङ्गोपाका महाबलाः । त । ३. 'राः पुनः सड्प्राममूर्धनि । त। १८ १९ २० २२ २३ २८ २९ ३० ४४ ४५ पञ्चचत्वारिंशोऽध्यायः] पद्मपुराणम् । ५२५ तदा सर्वे सुसंनद्धा रोषपूरितमानसाः। स्वे स्वे रथे स्थिताः शत्रून्प्रययुः क्षतविग्रहाः ॥ पुष्कलो वीरभद्रं तु चण्डं चैव कुशध्वजः । नन्दिनं हनुमान्वीरः शत्रुघ्नः संगरे शिवम् ॥ धनुर्विस्फारयन्तं तं शत्रुघ्नं बलिनां वरम् । संग्रामे शिवमाय तिष्ठन्तं प्रययौ नृपः ॥ राजा वीरमणिवीरः शत्रुघ्नः समरे बली । अन्योन्यं चक्रतुयुद्धं मुनिविस्मयकारकम् ।। राज्ञा वै वीरमणिना रथा भग्नाः शताधिकाः । शत्रुघ्नस्य नरेन्द्रस्य तिलशः क्षणतो द्विज ॥ ३८ तदा प्रकुपितोऽत्यन्तं शत्रुघ्नो रणमण्डले । आग्नेयास्त्रं मुमोचास्मै दग्धं सैन्यं समन्वितम् ॥ ३९ दाहकं तन्महदृष्ट्वा महास्त्रं शत्रुमोचितम् । अत्यन्तं कुपितो राजा वारुणास्त्रमथाऽऽददे ॥ वारुणास्त्रेण शीतात वीक्ष्य रामानुजो बली । वायव्यास्त्रं मुमोचास्मै तेन वायुर्महानभूत् ॥ ४१ वायुना संहता मेघा ययुस्ते सर्वतोदिशम् । इतस्ततो गताः सर्वे सैन्यं तत्सुखितं बभौ ।। सैन्ये पवनपीडार्ते नृपो वीरमणिर्महान् । पर्वतास्त्रं रिपूद्धारि जग्राह च शरासने ॥ पर्वतैः स्तम्भितो वायुर्न प्रसर्पति सङ्गरे । तद्वीक्ष्य रामावरजो वज्रास्त्रं तु समाददे । वज्रास्त्रेण हताः सर्वे नगास्तु तिलशः कृताः । चूर्णतां प्रापुरतस्मिन्त्रणे वीरवरार्चिते ॥ वज्रास्त्रेण विदीर्णाङ्गा वीराः शोणितशोभिताः । बभूवुः समरप्रान्ते चित्रं समभवद्रणम् ॥ ४६ तदा प्रकुपितोऽत्यन्तं राजा वीरमणिर्महान् । ब्रह्मास्त्रं चाप आधत्त वैरिदाहकमद्भुतम् ।। ब्रह्मास्त्रे संधि(हि)ते सोऽपि सस्मार सुमनोहरम् । शरं तद्योगिनीदत्तं सर्ववैरिविमोहनम् ॥ ४८ ब्रह्मास्त्रं तत्करभ्रष्टमागतं वैरिणं प्रति । तावच्छत्रुघ्ननाम्ना तु मुक्तं तन्मोहनास्त्रकम् ॥ मोहनास्त्रेण तद्रामं द्विधा छिन्नं क्षणादिह । लग्नं राज्ञो हदि क्षिप्रं मूर्छामप्रापयन्नृपम् ॥ ते बाणाः शतशो मुक्ताः शत्रुघ्नेन महीभृता । सर्वेऽपि मूर्छिता वीरा गणा रुद्रस्य ये पुनः ॥ ५१ शिवस्य चरणोपस्थे मूढाः पेतुर्महीतले । तदा शिवः प्रकुपितो रथे तिष्ठन्ययौ नृपम् ॥ ५२ शिवेन सहसा योद्धं समायातो रणाङ्गणे । शत्रुघ्नः सज्यमात्तज्यं धनुः कृत्वा व्ययुध्यत ॥ ५३ तयोः समभवद्धोरं रणं वैरिविदारणम् । शस्त्रास्त्रैर्वहुधामुक्तैरादीपितदिगन्तरम् ॥ अस्त्रप्रत्यस्त्रसंघातैस्ताडनप्रतिताडनैः । देवानामपि यदन्यं तदभूद्रणमण्डले ॥ तदा व्याकुलितोऽत्यन्तं शत्रुघ्नः शिवसंगरे । सस्मार स्वामिनं तत्र पार्वनेरुपदेशतः ॥ हा नाथ भ्रातरत्युनः शिवः प्राणापहारणम् । करोति धनुरुत्रम्य त्रायस्व रणमण्डले ॥ ५७ [*अनेके दुःखपाथोधि तीर्णा राम तवाँऽऽख्यया। मामप्युद्धर दुःखस्थं राम राम कृपानिधे५८ इत्यं वक्ति यदा तावद्दीक्षितो रणमण्डले ] । नीलोत्पलदलश्यामो रामो राजीवलोचनः ॥ ५९ मृगशृङ्ग करे धृत्वा दीक्षितं वपुरुद्वहन् । तं दृष्ट्वा विस्मयं प्राप शत्रुघ्नः समराङ्गणे ॥ ६० इति श्रीमहापुराणे पाने पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे श्रीरामसमागमो नाम पञ्चचत्वारिंशोऽध्यायः ॥ ४५ ॥ आदितः श्लोकानां समष्ट्यङ्काः-१३५४२ + * एतचिहान्तर्गतः पाठः क. ख. ग. च. छ. ज. म. ठ. ह. ण त. थ. द. घ. पुस्तकस्थः । ५४ । १ द. शीताति । २ द. 'म् । शत्रुघ्नः शरमादाय स। ३ छ. ३. वीरवि । ४ ग. छ. . शिवं विना र । ५ द. 'पि दैत्यानां नैतादृप्रण। ६क, ख. ड. च. छ. झ. म. ट. इ. द. त. वनं रूप । ७ प. य. वाऽऽज्ञया। ८ ग. छ.ठ..द. ध. कटौ ५२६ [४ पातालखण्डे- महामुनिश्रीव्यासप्रणीतं- अथ षट्चत्वारिंशोऽध्यायः । वरिश - २ ३ ८ ९ शेष उवाच- आगतं वीक्ष्य श्रीरामं शत्रुघ्नः प्रणतातिहम् । भ्रातरं सकलाहुःखान्मुक्तोऽभूविजसत्तम । हनूमान्वीक्ष्य विभ्रान्तो रामस्य चरणौ मुदा । ववन्दे भक्तरक्षार्थमागतं निजगाद ह ।। स्वामिंस्तवैतधुक्तं तु स्वभक्तपरिपालनम् । यत्सङ्ग्रामे जितं शर्वपाशबन्धममोचयः ॥ वयं धन्या इदानीं वै यद्रक्ष्यामो भवत्पदे । जेष्यामोऽरीक्षणादेव त्वत्कृपातो रघूदह ॥ शेष उवाच- स्थाणुस्तदाऽऽगतं रामं योगिनां ध्यानगोचरम् । पतित्वा पादयोर्विप्र जगाद प्रणताभयम् ॥ ५ एकस्त्वं पुरुषः साक्षात्मकृतेः पर ईर्यसे । यः स्वांशकलया विश्व सृजत्यवति हन्ति च ॥ ६ अरूपस्त्वमशेषस्य जगतः कारणं परम् । एक एव त्रिधा रूपं गृह्णासि कुहकान्वितः ॥ सृष्टौ विधातरूपस्त्वं पालने स्वप्रभामयः । प्रलये जगतः साक्षादहं शख्यितां गतः ।। तव यत्परमेशस्य हयमेधक्रतुक्रिया । ब्रह्महत्यापनोदाय तद्विडम्बनमद्भुतम् ॥ यत्पादशौचममलं गङ्गाख्यं शिरसोऽन्तरा । वहामि पापशान्त्यर्थं तस्य ते पातकं कुतः ॥ १० मया वत्सोपकाराय कृतं कर्म तव स्फुटम् । क्षम्यतां तत्कृपालो हि भवतो व्यवधायकम् ॥ ११ किं करोमि मया सत्यपालनार्थमिदं कृतम् । जानन्मभावं भवतो भक्तरक्षार्थमागतः॥ १२ असौ पुरा उज्जयिन्यां महाकालानिकेतने । स्नात्वा क्षिपाख्यसरिति तपस्तेपे महाद्भुतम् ॥ १३ ततः प्रसन्नोऽहमहो जगाद भूमिपं प्रति । याचयस्व महाराज स वने राज्यमद्भुतम् ।। मया प्रोक्तं देवपुरे तव राज्यं भविष्यति । यावद्रामहयः पुर्यामागमिष्यति याज्ञिकः ॥ १५ तावत्प्रभृत्यहं स्थाने तव रक्षार्थमुद्यतः । एतद्दत्तवरो राम किं करोमि च सत्यतः ॥ १६ घृणितोऽस्म्यधुना राजा सपुत्रपशुबान्धवः । हयं समर्प्य भवते पादसेवां विधास्यति ॥ १७ शेष उवाच- इति वाक्यं समाकर्ण्य महेशस्य रघूत्तमः । उवाच धीरया वाण्या ऊपया पूर्णलोचनः॥ श्रीराम उवाच- देवानामयमेवास्ति धर्मो भक्तस्य पालनम् । त्वया साधु कृतं कर्म यद्भक्तो रक्षितोऽधुना ॥ १९ ममास्ति हृदये शर्यो भवतो हृदये त्वहम् । आवयोरन्तरं नास्ति मूढाः पश्यन्ति दुर्धियः ॥ २० ये भेदं विदधत्यद्धा आवयोरेकरूपयोः । कुम्भीपाकेषु पच्यन्ते नराः कल्पसस्रकम् ॥ २१ ये त्वद्भक्ताः सदाऽऽसंस्ते मद्भक्ता धर्मसंयुताः । मद्भक्ता अपि भूयस्या भक्त्या तव नतिंकराः शेष उवाच- इत्यं भाषितमाकर्ण्य शर्वो वीरमणि नृपम् । मूर्छितं जीवयामास करस्पर्शादिना प्रभुः ॥ २३ अन्यानपि सुतानस्य मूर्छिताञ्शरपीडितान् । जीवयामास स मृडः समर्थः प्रभुरीश्वरः॥ २४ सज्जं विधाय तं भूपं श्रीरामपदयोर्नतम् । कारयामास भूतेशः पुत्रपौत्रपरिवृतम् ।। धन्यो राजा वीरमणिर्यो ददर्श रघूत्तमम् । योगिभिर्योगनिष्ठाभिर्दुष्पाप्यमयुतायुतैः ॥ २६ ११. से । यस्त्वं स क । २ स. म. स्वयमास च ।। ३ क. ख. न. भक्तोपकाराय । ग. छ. ज. ठ. इ. त. थ. ध. पदोपकाराय। द. बहुपकाराय। ४ ग. छ. ठ. र. द. घ.तोऽप्यविधा। ५ग. द. स्थास्ये। ६ म. म. १८ २५ कृपाकचुरलो। .
२८ २९ ४७ सप्तचत्वारिंशोऽध्यायः] पमपुराणम् । ५२७ ते नत्वा रघुनाथं तं कृतार्थीकृतविग्रहाः । ब्रह्मादिभिः पूज्यतमा अभूवन्द्विजसत्तम । शत्रुघ्नहनुमद्भ्यां च पुष्कलादिभिरुद्भटैः । परिष्टुताय रामाय ददौ राजा इयोत्तमम् ॥ राज्येन सहितं सर्व सपुत्रपशुबान्धवम् । शर्वेण प्रेरितः पादापो वीरमणिस्तदा ।। ततो रामो नुतः सर्वैरिभिर्निजसेवकैः । शत्रुघ्नादिभिरत्यन्तमुत्सुकैश्च विशेषतः ॥ रथे मणिमये तिष्ठन्बभूव स तिरोहितः । अन्तर्हिते रामभद्रे सर्वे पापुः सुविस्मयम् ॥ मा जानीहि मनुष्यं त्वं रामं लोकैकवन्दितम् । जले स्थले च सर्वत्र वर्ततेऽन्तस्थितः सदा ॥३२ ततो वीरा अलं हृष्टा अन्योन्य परिरेभिरे । तूर्यमङ्गलवादित्रैर्बहुरुत्सवकोऽभवत् ।। ततो मुक्तो हयः सर्वैर्वीरैः शस्त्रास्त्रकोविदः । सर्वैरनुगतः प्रीतैर्विस्मयेन समन्वितैः ॥ शर्वः सत्यप्रतिज्ञश्च तमनुज्ञाप्य सेवकम् । प्रोच्य श्रीरामशरणं याहि लोकसुदुर्लभम् ।। स्वयमन्तर्हितस्तत्र प्रलयोत्पत्तिकारकः । कैलासमगमत्सर्वैः सेवकैः परिशोभितः ॥ ३६ भूपो वीरमणिया॑यश्रीरामचरणोदजम् । जगाम साकं शत्रुघ्नवलिना बलसंयुतः। एतद्रामस्य चरितं ये शृण्वन्ति नरोत्तमाः । तेषां संसारजं दुःखं न भविष्यति कहिचित् ॥ ३८ इति श्रीमहापुराणे पाझे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे हयप्रस्थानं नाम षट्चत्वारिंशोऽध्यायः ॥४६॥ आदितः श्लोकानां समष्ट्यङ्काः-१३५८० Sc W अथ सप्तचत्वारिंशोऽध्यायः । ३ ६ ८ शेष उवाच- हयो गतो हेमकूट) भारतान्ते द्विजोत्तम । अनेकभटसाह रक्षितो बद्धचामरः ।। यो वै विस्तारतो दैर्ध्यायोजनानां समन्ततः । [*अयुतेन सुशृङ्गश्च राजतैः काञ्चनादिभिः ॥ २ तत्रोद्यानं महच्छ्रेष्ठं पादपैः परिशोभितम् । शालैस्तालैस्तमालैश्च कर्णिकारैः समन्ततः ] ॥ हिन्तालैर्नागपुन्नागैः कोविदारैः सबिल्वकैः । चम्पकैर्बकुलैर्मेधैर्मदनैः कुटजादिभिः ॥ जातिकाभिएथिकाभिर्नवमालिकया तथा । आनर्माधर्वेदश्च दाडिमैः शोभितं वरम् ॥ अनेकपक्षिसंघुष्टं भ्रमरैर्निनदीकृतम् । मयूरकेकारवितं सर्वर्तुसुखदं हयः॥ प्रविवेश सशत्रुघ्नो मनोवेगसमन्वितः । स्वर्णपत्रं विशाले स्वे भाले विभ्रन्मनोरमम् ।। गच्छतस्तस्य वाहस्य हयमेधक्रतोस्तदा । अकस्मादभवच्चित्रं तच्छृणुष्व द्विजोत्तम ॥ गात्रस्तम्भोऽभवत्तस्य न चचाल पथि स्थितः । हेमकूट इवाचाल्यो बभूव हयसत्तमः ॥ [+ तदा तद्रक्षकाः सर्वे कशाघातान्वितेनिरे । तदा हतोऽपि न ययौ स्तब्धगात्रो हयोत्तमः]॥१० शत्रुघ्नसविधे गत्वा चुकुशुर्वाहरक्षकाः । स्वामिन्वयं न जानीमः किमभूद्धयसत्तमे ॥ ११ गच्छतो वाहवर्यस्य मनोवेगस्य भूपते । आकस्मिकोऽभवत्तस्य गात्रस्तम्भो महामते ॥ १२ कशाभिस्ताडितोऽस्माभिः परं तत्र चचाल न । एवं विचार्य यत्कार्य तत्कुरुष्व नृपोत्तम ॥ १३ * एतचिह्नान्तर्गतः पाठः क. ख. ग. छ. ज. स. ठ. इ. ण- त. थ. द. ध. पुस्तकस्थः । + एतचिहान्तर्गतः पाठः ख. ग. छ. ज. ठ. उ. ण. त. थ. द. ध. पुस्तकस्थः । १ . ह. रिश्च नि । २ क. ख. ग. छ. ज. अ. ठ. ड. ण. त. थ. द. ध. लोकैकदुः। ३ ख. कुरजादिभिः । ठ. ध. कुण्डलादिभिः । ४ द वद्राक्षाभाडि । ९ २१ ५२८ महामुनिश्रीव्यासप्रणीतं- [४ पातालखण्डे- तदा विस्मयमापनो भूपतिः सह सैनिकैः । जगाम सहितः सर्वैर्दयस्य महतोऽन्तिके ॥ १४ पुष्कलो बाहुना धृत्वा चरणौ तस्य भूतलात् । उत्पाटयामास तदा परं नो चेलतुस्ततः ॥ १५ बलेन बलिनाऽऽक्रान्तो नाकम्पत हयस्तदा । हनूमांस्तं समुद्धर्तु मतिं चक्रे महामनाः ।। लाङ्गुलेन समावेष्ट्य बलेन बलिनां वरः । आचकर्ष बलाद्वाई न चचाल तथाऽपि सः ॥ १७ तदोवाच कपिश्रेष्ठो हनूमान्विस्मयावृतः । [*शत्रुघ्नं बलिनां श्रेष्ठं वीराणां परिशृण्वताम् ॥ १८ मया द्रोणो लाशलेन लीलयोत्पाटितोऽधुना । परमत्र महाश्चर्य कम्पते न हयोऽल्पकः ॥ १९ दिष्टमत्र निदानं हि वीरैर्बलिभिरुद्धतैः । आकृष्टोऽपि न च स्थानाचचाल तिलमात्रतः ॥ २० कपिभाषितमाकर्ण्य शत्रुघ्नो विस्मयान्वितः ] । सुमतिं मत्रिणां श्रेष्ठमुवाच वदतां वरः ॥ शत्रुघ्न उवाच- मप्रिन्किमभवद्वाहे स्तम्भनं वपुषोऽनघ । कोऽत्रोपायो विधेयः स्यायेन वाहगतिर्भवेत् ॥ २२ सुमतिरुवाच- स्वामिन्कश्चिन्मुनिर्मग्योऽखिलज्ञानविचक्षणः । देशोद्भवमहं जाने प्रत्यक्षं न परोक्षजम् ॥ २३ शेष उवाच- इति वाक्यं समाकर्ण्य सुमतेधर्मकोविदः । अन्वेषयामास मुनि सेवकैः सह शोभितम्(तः) ॥२४ ते सर्वे सर्वतो गत्वा मुनि धर्मविदं भटाः । विलोकयन्तः सर्वत्र न चापश्यनृषीश्वरम् ॥ २५ एकस्त्वनुचरो विप्र गतो योजनमात्रतः । पूर्वस्यां दिशि चोयुक्तः पश्यति स्म महाश्रमम् ॥ २६ यत्र निर्वैरिणः सर्वे पशवो जनतास्तथा । गङ्गास्नानहताशेषकिल्बिषाः सुमनोहराः॥ यत्र केचित्तपः श्रेष्ठं कुर्वन्ति मुहुताशनैः । धूमैरधोमुखाः केचिद्वायुभिः स्वोदरंभराः ॥ यत्राग्निहोत्रजो धूमः पवित्रयति सर्वदा । अनेकमुनिसंजुष्टो मुक्तपत्रलतोत्तमः ॥ २९ तमाश्रमं मुने त्वा शौनकस्य मनोहरम् । न्यवेदयन्नृपायासौ विस्मयाविष्टचेतसा ॥ ३० तच्छ्रुत्वा हर्षितोऽत्यन्तं शत्रुघ्नः सह सेवकैः । हनूमत्पुष्कलायैश्च संयुतोऽगात्तदाश्रमम् ॥ ३१ तत्र वीक्ष्य मुनिश्रेष्ठं सम्यग्युतहुताशनम् । प्रणम्य दण्डवत्तस्य चरणौ पापहारिणौ ॥ ३२ तमायान्तं नृपं ज्ञात्वा शत्रुघ्नं बलिनां वरम् । अयंपाचादिकं चक्रे प्रीतस्तदर्शनादभूत् ॥ ३३ सुखोपविष्टं विश्रान्तं नृपं प्राह मुनीश्वरः। किमर्थमटनं तेऽत्र महत्पर्यटनं तव ॥ ३४ त्वादृशाः पृथिवीं सर्वा नृपा वै न भ्रमन्ति चेत् । तदा दुष्टा जनाः साधून्बाधन्ते विगतज्वरान् कथयस्व महीपाल शत्रुघ्न बलिनां वर । सर्व शुभाय नो भूयात्तव पर्यटनादिकम् ॥ ३६ शेष उवाच- इत्युक्तवन्तं भूदेवं प्रत्युवाच महीश्वरः । गद्गदस्वरया वाचा हर्षितस्वीयविग्रहः ॥ शत्रुघ्न उवाच- अकस्मादभवच्चित्रं रामाश्वस्य मनोहृतः । नातिदूरे त्वदावासात्तच्छृणुष विदां वर ॥ ३८ उद्याने पुष्पशोभाब्ये यदृच्छातो हयो गतः । तत्मान्ते तस्य वाहस्य गात्रस्तम्भोऽभवत्क्षणात् ३९ तदा मे बलिनो वीराः पुष्कलाया महोत्कटाः । बलादाचकृषुर्वाहं न चचाल तथाऽप्यसौ ४० २७ २८ ३७ * एतचिहान्तर्गतः पाठः क. ख. ग. च छ. ज. म. ठ. र. ग. त. प. द. घ. पुस्तकस्थः । १ ग. छ. . . ध. श्रेष्ठो । २ ग. छ. ठ. इ. द. ध. 'खाः पत्रैर्वायु । ३ ग. छ. ठ. द. ध. 'नं देव म ।
तु ४७ ४८ अष्टचत्वारिंशोऽध्यायः] पद्मपुराणम् । ५२९ अस्मानपारदुःखाब्धौ मन्नान्प्रति तरिः स्मृतः। दैवादृष्टः सुभाग्यैस्त्वं कथयस्व निदानकम् ॥४१ शेष उवाच- एवं पृष्टो मुनिवरः क्षणं दध्यौ महामतिः । ततः कारणसंयुक्तं विचारेण दधद्धयम् ॥ क्षणात्तज्ज्ञानतां प्राप्य विस्मयोत्फुल्ललोचनः । जगाद स महीपालं दुःखितं संशयान्वितम् ॥४३ शौनक उवाच- शृणु राजन्प्रवक्ष्यामि हयस्तम्भस्य कारणम् । यच्छ्रुत्वा मुच्यते दुःखादतिचित्रं कथानकम् ॥४४ गौडदेशे महारम्ये कावेरीतीरभूपिते । वाडवः सात्विको नाम्ना चचार परमं तपः ॥ एकाह पयसः प्राशी दिनैकं वायुभक्षकः । दिनैकं तु निराहार एवं त्रिदिनमुन्नयेत् ॥ ४६ एवं व्रते प्रवृत्तस्य कालः सर्वक्षयंकरः । जग्राह स्वकदंष्ट्रायां मृति प्राप महाव्रती ॥ विमाने सर्वशोभाढ्ये सर्वरत्नविभूपिते। वाडवः सात्विको नाम्ना ययौ मेरोः शिखास्थितः ४८ जम्बू नाम महावृक्षस्तत्र सेव्यस्ततोऽभवत् । नदी जाम्बुवतीसंज्ञा स्वर्णद्रवसमन्विता ॥ [*तस्यां मुनयोऽप्सरोभिः क्रीडन्ते कुतुकान्विताः। अनेकतपसा पुण्याः सर्वसौख्यसमन्विताः५० तत्रासौ स्वेच्छया क्रीडन्नप्सरोभिर्मुदाऽन्वितः।] प्रतीपमाचरत्तेषां स्वाभिमानमदोद्धतः ॥ ५? ततस्तु शप्तो मुनिभी राक्षसो भव दुर्मुखः । ततोऽतिदुःखितः प्राह मुनीन्विद्यातपोधनान् ॥ ५२ अनुगृह्णन्तु मां सर्वे विप्रा यूयं कृपालवः । तदा तैरनुगृहीतो यदा रामहयं भवान् ।। स्तम्भयिष्यति वेगेन ततो रामकथाश्रुतिः । पश्चान्मुक्तिर्भवित्री वे शापादस्मात्सुदारुणात् ॥ ५४ स प्रोक्तो मुनिभिर्देवो राक्षसत्वमितः प्रभो । स्तम्भयामास रामाश्वं मोचयानघ कीर्तनः ॥ ५५ इति श्रीमहापुराणे पाद्मे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्रमेधे शापकीर्तनं नाम सप्तचत्वारिंशोऽध्यायः ॥ ४७ ॥ आदितः श्लोकानां समष्टयङ्काः-- १३६३५ अथाष्टचत्वारिंशोऽध्यायः । चाऽध्य १ ३ शेष उवाच- इति प्रोक्तं तु मुनिना संश्रुत्य परवीरहा । विस्मय मानयामास हृदि शौनकमब्रवीत् ॥ शत्रुघ्न उवाच- कर्मणो गहना वार्ता यया सात्त्विकनामधृत् । दिवं प्राप्तोऽपि महता कर्मणा राक्षसीकृतः ॥ स्वामिन्वद महर्षे त्वं कर्मणां स्वगतिर्यथा । येन कर्मविपाकेन यादृशं नरकं भवेत् ॥ शौनक उवाच- धन्योऽसि राघवश्रेष्ठ यत्ते मतिरियं सदा । जाननपि हितार्थाय लोकानां त्वं ब्रवीषि भोः ४ कथयामि विचित्राणां कर्मणां विविधां गतिम् । तां शृणुष्व महाराज यच्छ्रुत्वा मोक्षमाप्नुयात् ५ ,परवित्तं परापत्यं कलत्रं पारकं च यः । बलात्कारेण गृह्णाति भोगबुद्ध्या तु दुर्मतिः ॥ + एतचिहान्तर्गतः पाठः, ट. पुस्तकस्थः । १ ड. मानुद्धर त्वं प्रभो । दै । २ क. ख. ग. च. छ. ज. ल. ठ. ड. ण. थ. द. ध. ते । अप्सरोभिः सह क्रीड- न्ययौ । ३ थ. स्यां तु मुनयः सर्वे तपोध्यानसमन्वि । ४ ग. छ. द. 'नय इच्छाभिः । ५ क, ख, ग, च. छ. ज. प. ठ. ड. ण. त. थ. द. ध. शुभा । . .
७ ८ ९ ११ १६ २० महामुनिश्रीव्यासप्रणीत- [ ४ पातालखण्डे- कालपाशेन संबद्धो यमदूतैर्महाबलैः । तामिस्र पात्यते तावद्यावद्वर्षसहस्रकम् ॥ तत्र ताडनमुद्धताः कुर्वन्ति यमकिंकराः । पापभोगेन संतप्तस्ततो योनि तु शौकरीम् ॥ तत्र भुक्त्वा महादुःवं मानुषत्वं गमिष्यति । रोगादिचिह्नितं तत्र दुर्यशोज्ञापकं स्वकम् ॥ भूतद्रोहं विधायैव केवलं स्वकुटुम्बकम् । पुष्णाति पापनिरतः सोऽन्धतामिस्रके पतेत् ॥ ये नरा इह जन्तूनां वधं कुर्वन्ति वै मृषा । ते रौरवे निपात्यन्त भिद्यन्ते रुरुभी रुषा । यः स्वोदरार्थं भूतानां वधमाचरति स्फुटम् । महारौरवसंज्ञे तु पात्यते च यमाज्ञया । १२ यो वै निजं तु जनकं ब्राह्मणं द्वेष्टि पापकृत् । कालसूत्रे महादुः वे योजनायुतविस्तृते । यावन्ति पशुरोमाणि गवां द्वेषं करोति यः । तावदर्षसहस्राणि पच्यते यमकिंकरैः ।। १४ यो भूमौ भूपतिर्भूत्वा दण्डायोग्यं तु दण्डयेत् । करोति ब्राह्मणस्यापि देहदण्डं च लोलुपः॥१५ स शूकरमुखैर्दुष्टैः पीड्यते यमकिंकरैः । पश्चाद्दष्टासु योनीषु जायते पापमुक्तये ॥ ब्राह्मणानां गवां ये तु द्रव्यं दे॒त्तं तथाऽल्पकम् । वृत्तिं वा गृह्णते मोहा म्पन्ति स्वबलानराः ॥ ते परत्रान्धकूपे च पात्यन्ते च महार्दिताः। योऽन्नं स्वयमुपाहृत्य मधुरं चात्ति लोलुपः ।। १८ न देवाय न सुहृदे ददाति रसनातुरः । स पतत्येव नरके कृमिभोजनसंज्ञक ॥ १९ अनापदि नरो यस्तु हिरण्यादीन्यपाहरेत् । ब्रह्मस्वं वा महादुष्टे सदंशे नरके पतेत् ।। यः स्वदेहं प्रपुष्णाति नान्यं जानाति मूढधीः। स पात्यते तैलतप्ते कुम्भीपाकेऽतिदारुणे ॥ २१ यो नाऽगम्यां स्त्रियं मोहाद्योपिद्भावाच कामयेत् । तं तया किंकराः सूा परिरम्भं च कुर्वते २२ ये बलाद्वेदमर्यादां लुम्पन्ति स्वबलोद्धताः । ते वैतरिण्यां पतिता मांसशोणितभक्षकाः ॥ २३ वृषली यः स्त्रियं कृत्वा तया गार्हस्थ्यमाचरेत् । पूयोदे निपतत्येव महादुःखसमन्वितः ।। ये दम्भानाश्रयन्ते वै धूर्ता लोकस्य वश्चने । वैशसे नरके मूढाः पतन्ति यमताडिताः ॥ २५ ये सवर्णा स्त्रियं मूढाः पातयन्ति स्वरेतसः । रेतःकुल्यासु ते पात्या रेतःपानेषु तत्पराः ॥ २६ ये चौरा वह्निदा दुष्टा गरदा ग्रामलुण्ठकाः । सारमेयादने ते वै पात्यन्ते पातकान्विताः ॥ २७ कुटसाक्ष्यं वदत्यद्धा पुरुषः पापसंभृतः । परकीयं तु द्रव्यं यो हरति प्रसभं बली ॥ सोऽवीचिनरके पापी ह्यवाग्वक्त्रः पतत्यधः । तत्र दुःखं महद्भुक्त्वा पापिष्ठां योनिमात्रजेत्॥२९ यो नरो रसनावादात्सुरां पिबति मूढधीः । तं पाययन्ति लोहस्य रसं धर्मस्य किंकराः ॥ ३० यो गुरूनवमन्येत स्वविद्याचारदर्पितः । स मृतः पात्यते क्षारनरंकेऽधोमुखः पुमान् ॥ विश्वासघातं कुर्वन्ति ये नरा धर्मनिष्कृताः। शूलपोते तु नरके पात्यन्ते बहुयातने ॥ ३२ पिशुनो यो नरान्सर्वानुद्वेजयति वाक्यतः । दन्दशूके च पतितो दन्दशूकैः स दश्यते ॥ एवं राजन्ननेके वै नरकाः पापकारिणाम् । पापं कृत्वा प्रयान्त्येते पीडां यान्ति सुदारुणाम् ॥ ३४ यैर्न श्रुता रामकथा न परोपकृतिः कृता । तेषां सर्वाणि दुःखानि भवन्ति नरकान्तरे ॥ ३५ अत्र यस्य सुखं भूयस्तस्य स्वर्ग इतीर्यते । ये दुःखिनो रोगयुता नरकस्था महीपते ।। ३६ शेष उवाच- एतच्छ्रुत्वा महीपालः कम्पमानः क्षणे क्षणे । पप्रच्छ भूयस्तं विप्रं सर्वसंशयनुत्तये ।। १ थ. संयुक्तस्त । २ ४. शोजनकं । ३ द. न्ते यमदूतैर्भयकरैः। यः । ४ क. ख. ग. च. छ. ज. स. ठ. इण. त. थ. ६. ध, हादुष्टे यो। ५ क. स. ग. च. छ. ज. म. 8. ण. त. द. वित्तं । ६ द. मूढा रेतः स्वं पाययन्ति च । ७२. द. पापा । ८ क, ख, ग. घ. इ. च. छ. ज. म. म. ट. . १. द. ण. त. थ. घ. रक्षति । १६. 'रकर्दमेऽधों । २४ २८ ३१ ३७ रे - ४२ ४७ ४८ अष्टचत्वारिंशोऽध्यायः ] पद्मपुराणम् । तत्तत्पापस्य चिह्नानि कथय त्वं महामुने । केन पापेन किं चिह्न भूर्लोक उपजायते ॥ ३८ इति श्रुत्वा तु तद्वाक्यं मुनिः प्रोवाच भूमिपम् । शृणु राजन्मवक्ष्यामि चिह्नानि पापकारिणाम् । शौनक उवाच- सुरापः श्यामदन्तः स्यानरकान्ते प्रजायते । अभक्षभक्षकारी तु जायते गुल्मकोदरः ॥ उदक्या वीक्षितं भुक्त्वा जायते क्रमिलोदरः। श्वमार्जारादिसंस्पृष्टं भुक्त्वा दुर्गन्धवान्भवेत्॥४१ अनिवेद्य सुरादिभ्यो भुञ्जानो जायते नरः। उदरे रोगवान्दुःखी महारोगप्रपीडितः ॥ परानविघ्नकरणादजीर्णमभिजायते । मन्दोदराग्निर्भवति सति द्रव्ये कदन्नदः ॥ विषदश्छदिरोगी स्यान्मार्गहा पादरोगवान् । पिशुनो नरकस्यान्ते जायते कासश्वासवान् ॥ ४४ धूर्तोऽपस्माररोगी स्याच्छूली च परतापकृत् । दावामिदायकश्चैव रक्तातिसारवान्भवेत् ॥ सुरालयं जलं वाऽपि शकुहुष्टं करोति यः । गुदरोगो भवेत्तस्य पापरूपः सुदारुणः ॥ गर्भपातनजा रोगा यकृत्प्लीहजलोदराः । प्रतिमाभकारी च अप्रतिष्ठश्च जायते ॥ दुष्टवादी खण्डितः स्यात्खल्वाटः परनिन्दकः । सभायां पक्षपाती च जायते पक्षघातवान् ॥४८ परोक्तहास्यकृत्काणः कुनखी विप्रहेमहृत् । तुन्दी वरीताम्रचौरः कांस्यहृत्पुण्डरीकिकः ॥ ४९ . त्रपुहारी च पुरुषो जायते पिङ्गमूर्धजः । शीसहारी च पुरुषो [*जायते शीर्षरोगवान् ।। घृतहारी च पुरुषो जायते नेत्ररोगवान् । त्वचहारी च पुरुषो जायते मेदसा वृतः ॥ मधुचौरस्तु पुरुषो] जायते बस्तिगन्धवान् । लोहहारी च पुरुषो बर्बराङ्गः प्रजायते ॥ तैलचौर्येण भवति नरः कण्डाऽतिपीडितः । आमानहरणाश्चैव दन्तहीनः प्रजायते ।। पकानहरणाचैव जिहारोगयुतो भवेत् । मातृगामी च पुरुषो जायते लिङ्गवर्जितः ॥ गुरुजायाभिगमनान्मूत्रकृच्छ्रः प्रजायते । स्वसुतागमने चैव रक्तकुष्ठः प्रजायते ॥ भगिनीगमने चैव पीतकुष्ठः प्रजायते । भ्रातृभार्याभिगमने गुल्मकुष्ठः प्रजायते ।। खामिगम्यादिगमने जायते दद्रुमण्डलम् । विश्वस्तभार्यागमने गजवर्मा प्रजायते ॥ पितृष्वस्रभिगमने दक्षिणा) व्रणी भवेत् । मातुलान्यास्तु गमने वामाङ्गे व्रणवान्भवेत् ॥ पितृव्यपत्नीगमने कटौ कुष्ठः प्रजायते । मित्रभार्याभिगमने मृतभार्यः प्रजायते ॥ स्वगोत्रस्त्रीप्रसङ्गेन जायते च भगंदरः। तपस्विनीप्रसङ्गेन प्रमेहो जायते नरे । ६० श्रोत्रियस्त्रीप्रसङ्गेन जायते नासिकात्रणी । दीक्षितस्त्रीप्रसङ्गेन जायते दुष्टरक्तसृक् ॥ स्वजातिजायागमने जायते हृदयव्रणी । जात्युन्नतस्त्रीगमने जायते मस्तकत्रणी ॥ ६२ पशुयोनौ च गमनान्मूत्रघातः प्रजायते । एते दोषा नराणां स्युनरकान्ते न संशयः ।। स्त्रीणामपि भवन्त्येते तत्तत्पुरुषसंगमात् । एवं राजह्नि चिह्नानि कीर्तितानि सुपापिनाम् ॥ ६४ दानपुण्यप्रसङ्गेन तीर्थादिक्रियया तथा । रामचारित्रसंश्रुत्या तपसा वा क्षयं व्रजेत् ॥ सर्वेषामप्युपायानां हरिकीतिधुनी नृणाम् । क्षालयेत्पापिनां पङ्क नात्र कार्या विचारणा ॥ ६६ यश्वावमन्येत हरिं तं गङ्गा न पुनाति हि । तीर्थान्यपि सुपुण्यानि पवितुं न क्षमाणि तम् ॥ ६७ * एतचिहान्तर्गतः पाठः क. ख. ग. च. छ. म. उ. . त. थ. द पुस्तकस्थः । १६. रोगाः क्षयमेह । २ ग. पस्तिगन्धवान् । ३ ग. "न् । जलहा। ४ ग. नेत्ररोगवान् । ५ द. 'ते गण्डम । ६ क. घ. उ. प. म. म. द. १. तु. "तिध्वनिर्गुणा ।
- महामुनिश्रीव्यासप्रणीतं- [ ४ पातालखण्डे- हसते कीर्त्यमानं यश्चरित्रं ज्ञानदुर्बलः । न तस्य नरकान्मुक्तिः कल्पान्तेऽपि भविष्यति ॥ ६८ याहि राजन्विमोक्षार्थ हयस्यानुचरैः सह । श्रावय श्रीशचरितं यतो वाहगतिर्भवेत् ॥ शेष उवाच- इति श्रुत्वा प्रहृष्टोऽभूच्छत्रुघ्नः परवीरहा । प्रणम्य ते परिक्रम्य ययौ सेवकसंयुतः ।। तत्र गत्वा स हनुमान्हयवर्यस्य पार्वतः । उवाच रामचरितं महादुर्गतिनाशनम् ।। ७१ याहि देव विमानं स्वं रामकीर्तनपुण्यतः । स्वैरं चर स्वलोके त्वं मुक्तो भव कुयोनितः ॥ ७२ इति वाक्यं समाकर्ण्य शत्रुघ्नो यावदास्थितः । तावद्ददर्श विमलं देवं वैमानिक वरम् ॥ ७३ स उवाच ह पूतोऽहं रामकीर्तनसंश्रुतेः । यामि स्वं भवनं राजन्नाज्ञापय महामते ॥ इत्युक्त्वा प्रययौ देवो विमाने स्वे परिस्थितः । तदा विस्मयमापुस्ते शत्रुघ्नेन सहानुगाः ॥ ७५ ततो वाहो विनिर्मुक्तो भूतलाद्गात्रस्तम्भनात् । ययौ तद्विपिनं सर्वे भ्रमन्पक्षिसमाकुलम् ॥ ७६ इति श्रीमहापुराणे पाझे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे हयमुक्ति माटचत्वारिंशोऽध्यायः ॥ ४८ ॥ आदितः श्लोकानां समष्टयकाः-१३७११ ७४ अर्थकोनपश्चाशत्तमोऽध्यायः । . २ ४ ७ ८ ९ शेष उवाच- मासाः सप्ताभवंस्तस्य हयवर्यस्य हेलया । चरतो भारतं वषमेनकनृपपूरितम् ॥ स पूजितो भूपवरैः परीत्य वरभारतम् । परिवृतो वीरवरैः शत्रुघ्नादिभिरुद्भटैः ॥ स बभ्राम बहून्देशान्हिमालयसमीपतः । न कोऽपि तं निजग्राह हयं रामबलं स्मरन् ।। अगवाकलिङ्गानां राजभिः संस्तुतो हयः । जगाम नगरे राज्ञः सुरथस्य मनोहरे ॥ कुण्डलं नाम नगरमदितेर्यत्र कुण्डलम् । कर्णयोः पतितं भूमौ हर्षभयसुकम्पयोः ॥ यत्र धर्मव्यतिक्रान्ति न करोति कदापि ना । श्रीरामस्मरणं प्रेम्णा करोति जनताऽन्वहम् ॥६ अश्वत्थानां तु यत्रार्चा तुलस्याः प्रत्यहं नृभिः । क्रियते रघुनाथस्य सेवकैः पापवर्जितैः ॥ यत्र देवालया रम्या राघवप्रतिमायुताः। पूज्यन्ते प्रत्यहं शुद्धचित्तैः कपटवर्जितैः ॥ वाचि नाम हरेर्यत्र न वै कलहसंकथा । हदि ध्यानं तु तस्यैव न च कामफलस्मृतिः॥ देवनं यत्र रामस्य वार्ताभिः पूतदेहिनाम् । न जातुचिन्नृणामस्ति सप्तव्यसनमोचिनाम् ॥ १० यस्मिन्वसति धर्मात्मा सुरथः सत्यवान्बली । रघुनाथपदस्मारहृष्टचित्तः परोन्मदः॥ ११ किं वर्णयामि रामस्य सेवकं सुरथं नरम् । यस्याशेषगुणा भूमौ विस्तृताः पावयन्त्यघम् ॥ १२ सेवकास्तस्य भूपस्य पर्यटन्तः कदाचन । अपश्यन्हयमेधस्य हयं चन्दनचर्चितम् ।। ते दृष्ट्वा विस्मयं प्राप्ता हयपत्रमलोकयन् । स्पष्टाक्षरसमायुक्तं चन्दनादिकचार्चतम् ॥ ज्ञात्वा रामेण संमुक्तं हयं नेत्रमनोहरम् । हृष्टा राज्ञे सभास्थाय कथयामासुरुत्सुकाः ॥ १५ स्वामिन्नयोध्या नगरी पतिस्तस्यास्तु राघवः । हयमेधकतौ योग्यो हयो मुक्तः परिभ्रमन् ॥ १६ स ते पुरस्य निकटे प्राप्त सेवकसंयुतः । गृहाण त्वं महाराज इयं तं सुमनोहरम् ॥ शेष उवाच- इति श्रुत्वा निजप्रोक्तं वाक्यं हर्षपरिप्लुतः । उवाचं नृपतिर्वीरान्मेघगम्भीरया गिरा ॥ १८ १ ग. ज. त. थ. परावृत्तो । २ ग. छ. ठ. उ. थ. च वीरान्बलिनो मेघ । १४ १७ - १९ २८ २९ ४९ एकोनपञ्चाशत्तमोऽध्यायः ] पत्रपुराणम् । सुरथ उवाच- पन्या वयं राममुखं पश्यामः सहसेवकाः । ग्रहीष्यामि हयं तस्य भटकोटिपरिवृतम् ॥ तदा मोक्ष्यामि वाहं तं यदा रामः समात्रजेत् । कृपार्थ मम भक्तस्य चिरं ध्यानरतस्य वै ॥२० शेष उवाच- इत्थमुक्त्वा महीपालः सेवकान्स्वयमादिशत् । गृह्णन्तु वाहं प्रसभं न मोच्योऽश्वोऽक्षिगोचरः ॥ अनेन सुमहालाभो भविष्यति तु मे मतम् । यद्रामचरणौ प्रेक्षे(ये) ब्रह्मशक्रादिदुर्लभौ ॥ २२ स एव धन्यः स्वजनः पुत्रो वा बान्धवोऽथ वा। पशुर्वा वाहनं वाऽपि रामाप्तिर्येन संभवेत् २३ तस्माबृहीत्वा क्रत्वश्वं स्वर्णपत्रेण शोभितम् । बभन्तु वाजिशालायां कामवेगं मनोरमम् ॥ २४ इत्युक्तास्ते ततो गत्वा वाहं रामस्य शोभिनम् । गृहीत्वा तरसा राज्ञे ददुः सर्वशुभाङ्गिनम् २५ राजा प्राप्ये महानश्वं रामस्य दनुजार्दिनः । सेवकान्माह बलिनो धर्मकृत्यविचक्षणः ॥ २६ वात्स्यायन महाबुद्धे शृणुष्वैकाग्रमानसः । न तस्य विषये कश्चित्परदाररतो नरः ॥ न परद्रव्यनिरतो न कामेषु च लम्पटः । न जिहाभिरनुन्मार्ग कीर्तयेद्रामकीर्तनात् ॥ यः सेवकानृपो वक्ति यूयं सेवार्थमागताः । [*कथयन्तु भवच्चेष्टां धर्मकर्मविशारदाः॥ एकपत्नीव्रतधरा न परद्रव्यलोलुपाः । परापवादनिरता न च वेदोत्पथं गताः] ॥ श्रीरामस्मरणादीनि कुर्वन्ति प्रत्यहं भटाः । तानहं मम सेवार्थ रक्षाम्यन्तिकशोभनान् ॥ एतद्विरुद्धधर्माणो ये नराः पापसंयुताः । तानहं विषये मह्यं वासयामि न दुर्मतीन् ॥ तस्य देशे न पापिष्ठाः पापं कुर्वन्ति मानसे । हरिध्यानहताशेषपातका मोदसंयुताः॥ ३२ यदैवमभवदेशे राजा धर्मेण संयुतः । तदा तत्स्था नराः सर्वे मृता गच्छन्ति निर्दृतिम् ।। यमानुचरनिर्वेशो नाभवत्सौरथे पुरे । तदा यमो मुने रूपं धृत्वा प्रागान्महीश्वरम् ॥ वल्कलाम्बरधारी च जटाशोभितशीर्षकः । सुरयं च सदो मध्ये ददर्श हरिसेवकम् ॥ तुलसी मस्तके यस्य वाचि नाम हरेः परम् । धर्मकर्मरता वार्ता श्रावयन्तं निजान्भटान् ॥ ३६ तदा मुनिं नृपो दृष्ट्वा तपोमूर्तिमिव स्थितम् । ववन्दे चरणौ तस्य पाद्यादिकमथाकरोत् ॥ ३७ सुखोपविष्टं विश्रान्तं मुनि प्राह नृपाग्रणीः । धन्यमद्य जनुर्मह्यं धन्यमद्य गृहं मम ॥ ३८ कथाः कथयतान्मह्यं रामस्य विविधा वराः। याः शृण्वतां पापहानिर्भविष्यति पदे पदे ॥ ३९ इत्थमुक्तं समाकर्ण्य जहास स मुनि शम् । दन्तान्प्रदर्शयन्सर्वांस्तालस्फालितपाणिकः । हसन्तं तं मुनिं प्राह हसने कारणं किमु । कथयस्व प्रसादेन यथा स्यान्मनसः सुखम् ।। ततो मुनिपं प्राह शृणु राजन्धिया युतः । यदहं तेऽभिधास्यामि स्मिते कारणमुत्तमम् ॥ ४२ स्वया प्रोक्तं हरेः कीर्ति कथयस्व ममाग्रतः । को हरिः कस्य का कीर्तिः सर्वे कर्मवशा नराः४३ कर्मणा प्राप्यते स्वर्गः कर्मणा नरकं व्रजेत् । कर्मणेह भवेत्सर्व पुत्रपौत्रादिकं बहु । शक्रः शतं ऋतूनां तु कृत्वाऽगात्परमं पदम् । ब्रह्माऽपि कर्मणा लोकं पाप सत्याख्यमद्भुतम्॥४५ अनेके कर्मणा सिद्धा मरुदादय ईशिनः । कुर्वन्ति भोगसौख्यं च अप्सरोगणसेविताः॥ ४६ ३४ ३५ ४४ - * एतचिहान्तर्गतः पाठः क. ख. ग. च. छ. ज. अ. ठ. द. ण त. थ. द. ध. पुस्तकस्थः । १ द. क्ष्ये शिवब्रह्मादि २ द. 'प्य मुदा चाश्वं । ३ ग. छ. ठ. ध. क्षणान् । वा।
४८ महामुनिश्रीव्यासप्रणीतं- [४ पातालखण्डे- तस्मात्कुरुष्व यज्ञादीन्यजस्व किल देवताः । यथा ते विमला कीर्तिर्भविष्यति महीतले ॥ ४७ इति श्रुत्वा तु तद्वाक्यं कोपक्षुभितमानसः । उवाच रामैकमना विमं कर्मविशारदम् ॥ मा ब्रूहि कर्मणो वार्ता क्षयिष्णुफलदायिनीम् । गच्छ मनगरप्रान्तादहिर्लोकविर्हितः॥ ४९ इन्द्रः पतिष्याते क्षिप्रं पतिष्यत्यपि पद्मजः । न पतिष्यन्ति मनुजा रामस्य निजसेवकाः ॥ ५० पश्य ध्रुवं च प्रहादं बिभीषणमथाद्भुतम् । ये चान्ये रामभक्ता वै कदाऽपि न पतन्ति ते॥ ५१ ये रामनिन्दका दुष्टास्तानिमे यमकिंकराः। ताडयिष्यन्ति लोहस्य मुद्गरैः पाशबन्धनैः ॥ ५२ ब्राह्मणत्वादेहदण्डं न कुर्या ते द्विजाधम । गच्छ गच्छ मदालोकात्ताडयिष्यामि चान्यथा ॥५३ इत्थमुक्तवति श्रेष्ठे भूपे सुरथसंझिते । सेवका बाहुना धृत्वा निष्कासयितुमुद्यताः॥ तदा यमो निजं रूपं धृत्वा लोकैकवन्दितम् । प्राह भूपं प्रतुष्टोऽस्मि याचस्व हरिसेवक ॥ ५५ मया प्रलोभितो वाग्भिवही भिरपि सुव्रत । चलितोऽसि न रामस्य सेवायाः साधुसेवकः ॥५६ तदा प्रोवाच भूमीशो यमं दृष्ट्वा मुतोषितम् । उवाच यदि तुष्टोऽसि देहि मे वरमुत्तमम् ॥ ५७ तावन्मम न वै मृत्युर्यावद्रामसमागमः । न भयं मे भवत्तो हि कदाचन हि धर्मराद ।। तदोवाच यमो भूपमिदं तव भविष्यति । सर्व त्वदीप्सितं तथ्यं करिष्यति रघोः पतिः ॥ ५९ इत्युक्त्वाऽन्तर्हितो धर्मो जगाम स्वपुरं प्रति । प्रशस्य तस्य चरितं हरिभक्तिपरात्मनः ॥ ६० स राजा धार्मिको रामसेवकः परया मुदा । [*गृहीत्वाऽश्वं प्रत्युवाच सेवकाहरिसेवकान् ॥६१ मया गृहीतो वाहोऽसौ राघवस्य महीपतेः । सज्जीभवन्तु सर्वत्र यूयं रणविशारदाः ] ॥ ६२ इति प्रोक्तास्तु ते सर्वे भटा राज्ञो महाबलाः । सज्जीभूताः क्षणादेव सभायां जग्मुरुजवाः॥६३ राज्ञो वीरा दश सुताश्चम्पको मोहकस्तथा । रिपुंजयस्तु दुर्वारः प्रतापी बलमोदकः ।। हर्यक्षः सहदेवश्च भूरिदेवोऽमुतापनः । इति राज्ञो दश सुताः सज्जीभूता रणाङ्गणे ॥ ६५ यातुमिच्छामकुस्ते महोत्साहसमन्विताः । राजाऽपि स्वरथं चित्रं हेमशोभाविनिर्मितम् ॥ ६६ आहयामास सुजवैर्वाजिभिः समलंकृतम् । रणोत्साहेन संयुक्तः सर्वसैन्यपरिवृतः॥ सभायां सेवकान्सर्वान्दिशनास्ते महीपतिः ॥ ६७ इति श्रीमहापुराणे पाझे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे हयग्रहणं नामैकोनपश्चाशत्तमोऽध्यायः ॥ ४९ ॥ आदितः श्लोकानां समष्टयङ्काः-१३७१९ + अथ पश्चाशत्तमोऽध्यायः । ६४ ३ शेष उवाच- अथ रामानुजो वेगात्समागत्य खसेवकान् । पप्रच्छ कुत्र वाहोऽसौ याज्ञिकः सुमनोहरः ॥ १ तदा ते वचनं मोचुः शत्रुघ्नं सुमहाबलम् । न जानीमो भटाः केचिद्धयं नीत्वा गताः पुरे ॥ २ वयं च धिकृताः सर्वे बलिभी राजसेवकैः । अत्र प्रमाणं भगवानितिकर्तव्यता प्रति ॥ तच्छ्रुत्वा वचनं तेषां शत्रुघ्नः कोपितो भृशम् । दशबोषात्स्वदशनाजिया लेलिहन्मुहुः ॥ ४ उवाच वीरो मद्वाहं हत्वा कुत्र गमिष्यति । इदानीं पातये बाणैः पुरं जनसमन्वितम् ॥ इत्युक्त्वा सुमति माह कस्येदं पुटभेदनम् । को वर्ततेऽस्याधिपतियों मे वाहमजीहरत् ॥ * एतचिहान्तर्गतः पाठः क. ख. ग. च. छ. ज. म. ठ. ड. ण. त. थ. द. घ. पुस्तकस्थः । १ क. ख. ग. च. छ. ज. म. ठ. उ. प. त. थ. द. ध. °सेवितः । त । २६. रुत्सुकाः । रा। ५ ६ ] २ AK3. ५०पञ्चाशत्तमोऽध्यायः ] पद्मपुराणम् । शेष उवाच- इति वाक्यं समाकण्य [*भूपतेः कोपसंयुतम् । जगाद मत्री सगिरा स्फुटाक्षरसमन्वितम् ॥ ७ विद्धीदं कुण्डलं नाम नगरं सुमनोहरम् । अस्मिन्वसति धर्मात्मा ] सुरथः क्षत्रियो बली ॥ ८ नित्यं धर्मपरो रामचरणद्वंद्वसेवकः । मनसा कर्मणा वाचा हनूमानिव सेवकः ।। चरितान्यस्य शतशो वर्तन्ते धर्मकारिणः । महाबलपरीवारः सुरथः सर्वशोभनः ॥ १० महाद्धं भवेत्तत्र हृतश्चेद्वाहसत्तमः । अनेके प्रयतिष्यन्ति वीरा रणविशारदाः ॥ ११ एवमुक्तं समाश्रुत्य शत्रुघ्नः सचिवं प्रति । उवाच पुनरप्येवं वचनं वदतां वरः ॥ १२ शत्रुघ्न उवाच-- कथमत्र प्रकर्तव्यं रामाश्वोऽनेन चेद्धृतः । नाऽऽयाति योद्धं प्रबलं कटकं वीरसेवितम् ॥ १३ सुमतिरुवाच- दूतः प्रेष्यो महाराज राजानं प्रति वाग्ग्मिकः । यद्वाक्येन समायाति बलेन बलिनां वरः ॥ १४ न चेदज्ञानतो वाहो धृतः केनापि मानिना । अर्पयिष्यति नैः साधुमश्वं क्रतुवरं शुभम् ॥ १५ इति श्रुत्वा तु तद्वाक्यं शत्रुघ्नो बलिनां बली । अगदं प्रत्युवाचेदं वचनं विनयान्वितम् ॥ १६ Akhabar शत्रुघ्न उवाच- याहि त्वं निकटस्थे वै सुरथस्य महापुरे । दूत वेन ततो गत्वा प्रब्रूहि नृपतिं प्रति ॥ त्वया धृतो रामवाहो ज्ञानतोऽज्ञानतोऽपि वा । अर्पयतु न वाऽऽयातु प्रधनं वीरसंयुतम् ॥ १८ रामस्य दौत्यं लङ्कायां रावणं प्रति यत्कृतम् । तथैव कुरु भूयिष्ठवलसंयुत बुद्धिमान् ॥ शेष उवाच- एतच्छ्रुत्वाऽङ्गदा वीर ओमिति पोच्य भूमिपम् । जगाम संसदो मध्ये वीरश्रेणिसमन्वितम्।।२० ददर्श सुरथं भूपं तुलसीमञ्जरीधरम् । रामभद्रं रसनया ब्रुवन्तं सेवकान्निजान् ॥ २१ राजाऽपि दृष्ट्वा प्लवगै मनोहरवपुर्धरम् । शत्रुघ्नदूतं मत्वाऽपि वालिजं प्रत्यभाष्यत ॥ सुरथ उवाच- प्लवङ्गाधिपं कस्मात्त्वमागतोऽत्र कथं भवान् । ब्रूहि मे कारणं सर्व यथा ज्ञात्वा करोमि तत् ॥२३ शेष उवाच- इति संभाषमाणं तं प्रत्युवाच कपीश्वरः । विस्मयंश्चेतसि भृशं रामसेवाकरं नृपम् ॥ जानीहि मां नृपश्रेष्ठ वालिपुत्र हरीश्वरम् । शत्रुघ्नेन च दूतत्वे प्रेषितो भवतोऽन्तिके ॥ सेवकैः कैश्चिदागत्य धृतोऽश्वो मम सांप्रतम् । अज्ञानतो महान्यायं कुर्वद्भिः सहसा नृप ॥ २६ तमश्वं सह राज्येन सह पुत्रैर्मुदाऽन्वितः । शत्रुघ्नं याहि चरणे पतित्वाऽऽशु प्रदेहि च ॥ नो चेच्छत्रुघ्ननिर्मुक्तनाराचैः क्षतविग्रहः । पृथ्वीतलमलंकुर्वञ्शायष्यसि विशीर्षकः ॥ येन लङ्कापति शं प्रापितो लीलया क्षणात् । तस्याश्च यागयोग्यं तु हृत्वा कुत्र गमिष्यसि २९ शेष उवाच- इत्यादि भाषमाणं तं प्रत्युवाच महीश्वरः । सर्व तथ्यं ब्रवीषि त्वं नानृतं तव भाषितम् ॥ ३० * एतचिहान्तर्गत: पाठः क. ख. ग. च. छ. ज. अ: ठ. ह. ण. त. थ. द. ध. पुस्तकस्थः । १ ख. नः शीघ्रम। २ क. ख. ग. च. छ. ज. अ. ठ. 1. ग. त. य. द. ध. 'नो बुद्धिमान्बली। ३ स. अ. २२ २४ २५ २८ प कुत्र त्वमा।
- ३७ महामुनिश्रीव्यासमणीतं- [४ पातालखण्डे- परं शृणुष्व मद्वाक्यं शत्रुघ्नपदसेवक । मया धृतो महानधो रामभद्रस्य धीमतः ॥ ३१ न मोक्ष्ये सर्वथा वाहं शत्रुघ्नादिभयादहम् । चेद्रामः स्वयमागत्य दर्शनं दास्यते मम ॥ ३२ तदाऽहं चरणौ नत्वा दास्यामि सुतसंयुतः । सर्व राज्यं कुटुम्बं च धनं धान्यं बलं बहु ॥ ३३ क्षत्रियाणामयं धर्मः स्वामिनाऽपि विरुध्यते । धर्मेण युद्धं तत्रापि रामदर्शनमिच्छता ।। शत्रुघ्नादिमवीरांस्तानधुनाऽहं क्षणादपि । जित्वा बध्नामि मद्गहे नो चेद्रामः समाव्रजेत् ॥ ३५ शेष उवाच- इति श्रुत्वाऽङ्गदो धीमाञ्जहास नृपतिं तदा । उवाच च महावाक्यं महाधैर्यसमन्वितम् ॥ ३६ अङ्गद उवाच- बुद्धिहीनः प्रवदसि वृद्धत्वात्सा गता तव । यत्त्वं शत्रुघ्ननृपति धिक्करोषि धिया बली ॥ यो मांधातृरिपुं दैत्यं लवणं लीलयाऽवधीत् । येनानेन जिताः संख्ये वैरिणः प्रबलोबुराः॥ ३८ विद्युन्माली हतो येन राक्षसः कामगे स्थितः । तं त्वं बनासि वीरेन्द्र मतिहीनः प्रभासि मे ३९ भ्रातृजो यस्य सुबली पुष्कलः परमास्त्रवित् । येन रुद्रगणः संख्ये वीरभद्रः सुतोषितः ॥ ४० वर्णयामि किमेतस्य पराक्रान्ति बलोजिताम् । येन नास्ति समः पृथ्व्यां चलेन यशसा श्रिया४१ हनूमानस्य निकटे रघुनाथपदाजधीः । यस्यानेकानि कर्माणि भविष्यन्ति श्रुतानि ते ॥ सत्रिकूटा राक्षसपूर्दग्धा येनक्षणादलात् । अक्षो येन हतः पुत्रो राक्षसेन्द्रस्य दुतेः ।। द्रोणो नाम गिरिर्येन पुच्छाग्रेण सदैवतः । आनीतो जीवनाथ तु सैनिकानां मुहुर्मुहुः ।। जानाति रामैश्चारित्रं नान्यो जानाति मूढधीः । यं कपीद्रं मनाक्स्वान्तान विस्मरति सेवकम् ।। सुग्रीवाद्याः कपीन्द्रा ये पृथ्वी सर्वां ग्रसन्ति ये। ते शत्रुघ्नं नृपं सर्वे सेवन्ते प्रेक्षणोत्सुकाः ॥ ४६ कुशध्वजो नीलरत्नो रिपुतापो महास्ववित् । प्रतापाग्यः सुवाहुश्च विमलः सुमदस्तथा ॥ ४७ राजा वीरमणिः सत्ययुतो रामस्य सेवकः । एतेऽन्येऽपि नृपा भूमेः पतयः पर्युपासते ॥ ४८ तत्र त्वं वीरजलधौ मशकः को भवानिति । तज्ज्ञात्वाऽऽगच्छ शत्रुघ्नं कृपालुं पुत्रकैर्युतः ॥ ४९ वाहं समर्प्य गन्तासि रामं राजीवलोचनम् । दृष्ट्वा कृतार्थी कुरुषे स्वाङ्गानि जनुषा सह ॥ ५० शेष उवाच- राजा प्रोवाच तं दूतं प्रब्रुवन्तमनेकधा । एतान्दर्शयसि क्षिप्रं सर्वे न मम गोचराः ॥ यादृशं मद्धलं दूत तादृशं न हनूमतः । यो रामं पृष्ठतः कृत्वा प्रागाद्यागस्य पालने ॥ यद्यहं मनसा वाचा कर्मणा कुतुकान्वितः । भजामि रामं तयशु दर्शयिष्यति स्वां तनुम् ॥ ५३ अन्यथा हनुमन्मुख्या वीरा बधन्तु मां बलात् । गृह्णतु वाहं तरसा रामभक्तिसमन्विताः ॥ ५४ गच्छ त्वं नृपशत्रुघ्नं कथयस्व ममोदितम् । सज्जीभवन्तु सुभटा एष यामि रणे वली ॥ स विचार्य यथायुक्तं करिष्यति रणाङ्गणे। मोचयन्तु महावाहं न वा मामाददन्तु ते ॥ शेष उवाच- इति श्रुत्वा स्मितं कृत्वा ययौ वीरो यतो नृपः । गत्वा निवेदयामास यथोक्तं मुरथेन वै॥५७ इति श्रीमहापुराणे पाने पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधेऽङ्गददूतत्वं नाम पञ्चाशत्तमोऽध्यायः ॥ ५० ॥ आदितः श्लोकानां समष्टयङ्काः-१३७७६ १ द. °लोद्धताः । वि। २ क. ख. ज. ठ. ण. द. घ. दुर्मते। ३ ग. ड. थ. °मचारि । ४ क. ख. ग. छ. ज. अ. ठ . ण. त. थ. द. ध.वं क्षीर । ५१ ५६ ६१ एकपञ्चाशत्तमोऽध्यायः ] पद्मपुराणम् अथकपञ्चाशत्तमोऽध्यायः । १ २ ३ ५ ६ ८ शेष उवाच- तच्छ्रुत्वा भाषितं तस्य सुरथस्याङ्गदाननात् । सज्जीभूता रणे सर्वे रथस्था रणकोविदाः ॥ पटहानां निनादोऽभूनॆरीनादस्तथैव च । वीराणां गर्जनानादाः प्रादुर्भूता रणागणे ॥ रथचीत्कारशब्देन गजानां बंहितेन च । व्याप्तं तत्सकलं विश्वं दिवं यातो महारवः ॥ रणोत्साहेन संयुक्ता वीरा रणविशारदाः । कुर्वन्ति विविधान्नादान्कातरस्य भयंकरान् । एवं कोलाहले वृत्ते सुरथो नाम भूमिपः । स्वसुतैः सैनिकैश्चाथ वृतः पायाद्रणाङ्गणम् ॥ गजै स्थैर्हयैः पत्तिवजैः पूर्णा तु मेदिनीम् । कुर्वन्समुद्र इव तां प्लावयन्ददृशे भटैः ॥ शङ्खनादेन संपुष्टं जयनादैस्तथैव च । वीक्ष्य तं प्रधनोयुक्तं सुमतिं प्राह भूमिपः ॥ शत्रुघ्न उवाच- एष राजा समायातो महासैन्यपरिवृतः । अत्र यत्कृत्यमस्माकं तद्वदस्व महामते ॥ सुमतिरुवाच- योद्धव्यमत्र बहुभिर्वीरै रणविशारदैः । पुष्कलादिभिरत्युग्रैः सर्व शस्त्रास्त्रकोविदैः ॥ राज्ञा सह समीरस्य पुत्रः परमशौर्यवान् । युद्धं करोतु मुबलः परयुद्धविशारदः ।। शेष उवाच- इति ब्रूते महामात्यो यावत्तावन्नृपात्मजाः । रणाङ्गणे धनूंष्यद्धा स्फारयामासुरुद्धताः ।। ११ तान्वीक्ष्य योधाः सुवलाः पुष्कलाद्या वलोत्कटाः । अभिजग्मुः स्यन्दनैः स्वैर्धनूंषि दधतो मताः चम्पकेन समं वीरः पुष्कलः परमास्त्रवित् । द्वैरथेनैव युयुधे महावीरेण पालितः ॥ १३ मोहक योधयामास जानकिः सकुशध्वजः । रिपुंजयेन विमलो दुर्वारेण सुबाहुकः ॥ १४ प्रतापिना प्रतापाग्यो बलमोदेन चाङ्गदः । हर्यक्षेण नीलरत्नः सहदेवेन सत्यवान् । १५ राजा वीरमणिभूरिदेवेन युयुधे बली । असुतापेन चोग्राश्वो युयुधे बलसंयुतः ।। द्वैरथेन महद्युद्धमकुर्वन्युद्धकोविदाः । सर्वशस्त्रास्त्रकुशलाः सर्वे बुद्धिविशारदाः ।। १७ एवं प्रवृत्ते संग्रामे सुरथस्य सुतैस्तदा । अत्यन्तं कदनं तत्र बभूव मुनिसत्तम ।। १८ पुष्कलश्चम्पकं प्राह किंनामाऽसि नृपात्मज । धन्योऽसि यो मया साध रणमध्यमुपेयिवान् ॥१९ इदानीं तिष्ठ किं यासि कथं ते जीवितं भवेत् । एहि युद्धं मया सार्धं सर्वशस्त्रास्त्रकोविद ॥ २० इत्यभिव्याहृतं तस्य श्रुत्वा राजात्मजो बली। जगाद पुष्कलं वीरो मेघगम्भीरया गिरा ॥ २१ चम्पक उवाच- न च नाम्ना कुलेनेदं युद्धमत्र भविष्यति । तथाऽपि तव वक्ष्येऽहं स्वनाम बलपूर्वकम् ॥ मम माता रघोर्नाथो मत्पिता राघवः स्मृतः । मम बन्धू रामभद्रः स्वजनो मम राघवः ।। मन्नाम रामदासोऽस्मि सदा रामस्य सेवकः । तारयिष्यति मां युद्ध रामो भक्तकृपाकरः ॥ २४ लोकानां मतमास्थाय प्रब्रवीमि तवाधुना । सुरथस्य राज्ञः सुतो माता वीरवती मम ।। २५ मन्नामा यो मधौ सर्वाञ्शोभनान्विदधाति यः । मधुपा यं र(यद्र)सावासं त्यजन्ति मधुमोहिताः। वर्णेन स्वर्णसदृशो मध्ये लिङ्गवपुर्धरः । तदाख्ययाऽभिधां वीर जानीहि मम मोहिनीम् ॥ २७ १ क. ख. च. छ. ज. अ. ठ. . ण. त. थ. द. ध. शालिना । २ त. थ. द. वे युद्धवि ।
३९ ५३८ महामुनिश्रीव्यासप्रणीत-- [४ पातालखण्डे- युध्यस्व बाणैः प्रधने न को जेतुं हि मां क्षमः । इदानी दर्शयिष्यामि स्वपराक्रममद्भुतम् ॥ २८ शेष उवाच- इति श्रुत्वा महद्वाक्यं पुष्कलो हृदि तोषितः । तं दुर्जयं मन्यमानः शरान्मुञ्चत्रणेऽभवत् ॥ २९ शरसंघ प्रमुञ्चस्तं कोटिधा पुष्कलो बैली । चम्पकः कोपसंयुक्तो धनुः सज्जमथाकरोत् ।। ३० मुमोच निशितान्बाणान्वैरिवृन्दविदारणान् । स्वनामचिह्नितान्स्वर्णपुङ्खभागसमन्वितान् ।। ३१ तांश्चिच्छेद महावीरः पुष्कलः प्रधनाङ्गणे । शरान्धकारं सर्वत्र मुश्चन्वाणाशिलाशितान् ॥ ३२ स्ववाणच्छेदनं दृष्ट्वा कृतं वीरेण चम्पकः । आह्वयामास बलिनं पुष्कलं कोपपूरितः ॥ मा प्रयाहि रणं त्यक्त्वेति ब्रुवन्स पुनः पुनः । पुष्कलं हृदये बाणैर्विव्याध दशभिस्त्वरन् ॥ ३४ ते वाणाः पुष्कलस्याहो हृदये तीव्रगामिनः । आगत्य हृदये लग्नाः शोणितं पपुर्जितम् ॥ ३५ तैर्बाणैर्व्यथितो वीरः शरान्पश्च समाददे । सुतीक्ष्णाग्रान्महाकोपाद्धारयन्पर्वतानिव ।। ३६ ते बाणास्तस्य बाणाश्च परस्परमथोर्जिताः । आकाशे रचिताश्छिन्नाः शतधा राजसूनुना ॥ ३७ छित्त्वा बाणान्सुतीक्ष्णाग्रान्सुरथाङ्गोद्भवो बली । बाणाञ्शतं समाधत्त पुष्कलं ताडितुं हृदि॥३८ ते वाणाः शतधा छिन्नाः पुष्कलेन महात्मना । अपतन्समरोपान्ते शरबाधाप्रपीडिताः ॥ तदा तत्सुमहत्कर्म दृष्ट्वा राज्ञः सुतो बली । सहस्रेण शराणां च(चा) ताडयन्व(द)क्षसि स्फुटम्॥ तानप्याशु प्रचिच्छेद पुष्कलः परमास्त्रवित् । [*पुनरप्याशु स्वे चापे समाधत्तायुतं शरान् ॥४१ तानप्याशु प्रचिच्छेद पुष्कलः परमास्त्रवित् ] । ततोऽत्यन्तं प्रकुपितः शरवृष्टिमथाकरोत् ॥ ४२ शरदृष्टिं समायान्तीं मत्वा चम्पकवीरहा । साधुसाधुप्रशंसंस्तं पुष्कलं समताडयत् ॥ ४३ पुष्कलश्चम्पकं दृष्ट्वा महावीर्यसमन्वितम् । ब्रह्मणोऽस्त्रं समाधत्त स्वचापे सर्वशास्त्रवित् ॥ तेन मुक्तं महास्त्रं तत्पजज्वाल दिशो दश । खं रोदसी व्याप्य विश्वं प्रलयं कर्तुमुद्यतम् ॥ ४५ चम्पको मुक्तमस्त्रं तदृष्ट्वा सर्वास्त्रकोविदः । तत्संहर्तुं तदेवावं मुमोच रिपुमुद्यतम् ॥ ४६ द्वयोरेकतमं तेजः प्रलयं मेनिरे जनाः । संजहार तदाऽस्त्रास्त्रमेकीभूतं परास्त्रकम् ॥ तत्कर्म चाद्भुतं दृष्ट्वा पुष्कलस्तिष्ठ तिष्ठ च । ब्रुवशरानमेयांस्तु चम्पकं स क्रुधाऽहनत् ॥ ४८ चम्पकस्ताशरान्मुक्तानगणय्य' महामनाः । रामास्त्रं प्रमुमोचाथ पुष्कलं प्रति दारुणम् ॥ ४९ तन्मुक्तमस्त्रमालोक्य चम्पकेन महात्मना । [*छेत्तुं यावन्मनश्चक्रे तावद्रस्तः शरेण सः॥ ५० बद्धश्चम्पकवीरेण रथे स्वे स्थापितः पुनः । पुरं प्रेषयितुं तावन्मनश्चक्रे महामनाः] ॥ हाहाकारो महानासीद्वद्धे पुष्कलसंज्ञके । शत्रुघ्नं प्रययुर्योधाः पलायनपरायणाः ॥ भनांस्तान्वीक्ष्य शत्रुघ्नो हनूमन्तमुवाच ह । केन वीरेण मे भग्नं बलं वीरैरलंकृतम् ॥ तदोवाच महीनाथः पुष्कलं परवीरहा । बद्ध्वा नयति वीरोऽसौ चम्पकः स्वपदोद्धरः॥ ५४ तस्येदृग्वाक्यमाकर्ण्य शत्रुघ्नः कोपसंयुतः । उवाच पवनोद्भूतं मोचयाऽऽशु नृपात्मजात् ॥ ५५ महाबलः सुतश्चास्य बद्ध्वा यः पुष्कलं भटम्। तस्मान्मोचय वीराय्य कथं तिष्ठसि चाऽऽहवे॥ एतद्वाक्यं समाकर्ण्य हनूमानोमिति ब्रुवन् । जगाम तं मोचयितुं पुष्कलं चम्पकाद्भटात् ॥ ५७ इनूमन्तमथाऽऽलोक्य तं मोचयितुमागतम् । बाणैः शनैश्च साहौजपान परकोपनः ॥ * एतचिहान्तर्गतः पाठो ग. ठ. उ. द. ध. पुस्तकस्थः। + आर्षो ल्यप् । + आर्षो ल्यप् । * एतचिहान्तर्गतः पाठः क. ख. ग. ४७ ५२ ५८ छ. ज. प. ठ. र. ण. त. थ. द.ध. पुस्तकस्थः । १ क. ख. ग. च. छ. ज. अ. ठ. 8. ण. त. थ. द. घ. रथी ।
५२ द्विपञ्चाशत्तमोऽध्यायः ] पद्मपुराणम् । बाणांस्तान्स बभञ्जाऽऽशु मुक्तांस्तेन महाबलः । पुनरप्येवमेवाऽऽशु बाणान्मुञ्चन्महानभूत् ५९ तान्सर्वाचूर्णयामास नाराचान्वैरिमोचितान् । शालं करे समाधृत्य जघान नृपनन्दनम् ॥ ६० शालं तेन विनिर्मुक्तं तिलशः कृतवान्बली । गजो हनूमता मुक्तो नृपनन्दनमस्तके । सोऽ(योऽ)प्याहतश्चम्पकेन मृतो भूमौ पपात सः । शिलाः स मोचयामास हनूमान्परमात्रवित् ।। चम्पकस्ताः शिलाः सर्वाः क्षणाचूर्णितवान्भृशम् । वाणयन्त्रिकया ब्रह्मन्महच्चित्रमभूदिदम्॥६३ स्वमुक्तास्ताः शिलाः सर्वाश्चूर्णिता वीक्ष्य मारुतिः । चुकोप दृदयेऽत्यन्तं बहुवीर्यमिति स्मरन् ।। आगत्य च करे धृत्वा नभस्युत्पतितः कपिः । तावद्ययौ नेत्रपथादुपरि क्षिप्रवेगवान् । ६५ चम्पकस्तं हनूमन्तं युयुधे नभसि स्थितः । बाहुयुद्धेन महता ताडितः कपिपुंगवः ।। ६६ चुकोप मानसे वीरो गर्वपर्वतदारुगः । पदा धृत्वा चम्पकं तं ताडयामास भूतले ॥ ६७ ताडितोऽसौ कपीन्द्रेण क्षणादुत्थाय वेगवान् । हनूमन्तं तु लाङ्गले धृत्वा बभ्राम सर्वतः ॥ ६८ कपीन्द्रस्तद्धलं वीक्ष्य हसन्पादेऽग्रहीत्पुनः । भ्रामयित्वा शतगुणं गजोपस्थे ह्यपातयत् ॥ ६९ पपात भूमौ सुबलो राजसूनुः स चम्पकः । मूर्छितो वीरभूषाढ्यमलंकुर्वत्रणाङ्गणम् ॥ तदा हाहेति वै लोकाश्चक्रुशुश्चम्पकानुगाः । पुष्कलं मोचयामास बद्धं चम्पकपाशतः ॥ इति श्रीमहापुराणे पाने पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे पुष्फलमोचनं नामैकपश्चाशत्तमोऽध्यायः ॥ ५१ ॥ आदितः श्लोकानां समथ्यङ्काः-१३८४७ ४ अथ द्विपञ्चाशतमोऽध्यायः । + शेष उवाच- चम्पकं पतितं दृष्ट्वा सुरथः क्षत्रियो बली । पुत्रदुःखपरीताङ्गो जगाम स्यन्दनस्थितः ॥ कपीन्द्रमाजुहापाथ सुरथः कोपसंयुतः । निश्वासांश्च बहून्मुश्चन्महाबलसमन्वितः ॥ .२ आहयानं नृपं दृष्ट्वा निजं वीरः कपीश्वरः । जगाम तं महावीरो महावेगसमन्वितः ॥ तमागतं हनूमन्तं तृणीकुर्वन्तमुद्भटान् । उवाच सुरथो राजा मेघगम्भीरसुस्वरः ।। सुरथ उवाच- धन्योऽसि कपिवर्य त्वं महाबलपराक्रम । येन राममहत्कृ(हाकृ)त्यं कृतं राक्षसके पुरे ॥ त्वं रामचरणस्यासि सेवको भक्तिसंयुतः । त्वया वीरेण मत्पुत्रः पातितश्चम्पको बली ॥ ६ इदानीं त्वां तु संबध्य गन्तास्मि नगरे मम । यत्नात्तिष्ठ कपीश त्वं सत्यमुक्तं मया स्मृतम् ॥७ इति भाषितमाकर्ण्य सुरथस्य कपीश्वरः । उवाच धीरया वाण्या रणे वीरैकभूषिते ॥ हनूमानुवाच- त्वं रामचरणस्मारी वयं रामस्य सेवकाः । बध्नासि चेन्मां प्रसभं मोचयिष्यति मत्प्रभुः ॥ कुरु वीर भवत्स्वान्तस्थितं सत्यं प्रतिश्रुतम् । रामं स्मरन वै दुःखं याति वेदा वदन्त्यदः ॥ १० ८ शेष उवाच इति ध्रुवन्तं सुरथः प्रशस्य पवनात्मजम् । विव्याध बाणैर्बहुभिः शितैः शाणेन दारुणैः ॥ ११ तान्मुरक्तानगणय्याथ बाणाञ्शोणितपातिनः । करे जग्राह कोदण्ड सजं शरसमन्वितम् ॥ १२ कर द ध महात्मना।
१५ २० २७ २८ महामुनिश्रीव्यासप्रणीतं- [ ४ पातालखण्डे- गृहीत्वा करयोश्चापं बभञ्ज कुपितः कपिः । चीत्कुर्वस्वासयन्वीरानझीर्णान्सजन्मटान् ॥ १३ तेन भग्नं धनुर्दृष्ट्वा स्वकीयं गुणसंयुतम् । अपरं धनुरादत्त महद्गुणविभूषितम् ।। १४ तच्चापि जगृहे रोषात्कपिश्चापं बभञ्ज तत् । अन्यच्चापं समादत्त तद्वभञ्ज महाबलः ॥ तस्मिंश्चापे प्रभग्नेऽपि सोऽन्यद्धनुरुपाददत् । सोऽपि चापं बभञ्जाऽऽशु महावेगसमन्वितः ॥ १६ एवं राज्ञस्तु चापानामशीतिदिलीकृता । क्षणे क्षणे महारोषात्कुर्वन्नादाननेकशः ॥ १७ तदाऽत्यन्तं प्रकुपितः शक्तिमुग्रामथाऽऽददे । शक्त्या स ताडितो वीरः पपात क्षणमुत्सुकः॥१८ उत्थाय स्यन्दनं राज्ञो जग्राह कुपितो भृशम् ।। उड्डीनस्तं गृहीत्वा तु समुद्रमतिवेगतः ।। १९ तमुड्डीनं समालक्ष्य सुरथः परवीरहा । ताडयामास परिषैर्हदि मारुतमुद्यतम् ।। मुक्तस्तेन रथो दूराचूर्णीभूतोऽभवत्क्षणात् । सोऽन्यं रथं समारुह्य ययौ वेगात्समीरजम् ॥ २१ [*हनूमांस्तद्रथं पुच्छे संवेष्ट्य प्रधनाङ्गणे । हयसारथिसंयुक्तं वभञ्ज स पताकिनम् ॥ २२ अन्यं रथं समास्थाय ययौ राजा महावलः ] । बभञ्ज तं रथं वेगान्मारुतिः कुपिताङ्गकः ॥२३ भग्नं तं स्यदनं वीक्ष्य सुरथोऽन्यं समाश्रितः । भग्नः स तेन सहसा हयसारथिसंयुतः ॥ एवमेकोनपश्चाशद्रथा भग्ना हनूमता । तत्कर्म वीक्ष्य राजाऽपि विसिष्मिये ससैनिकः ॥ २५ कुपितः प्राह कीशेन्द्रं धन्योऽसि पवनात्मज । पराक्रमन्निदं कर्म न कर्ता न करिष्यति ॥ २६ क्षणमेकं प्रतीक्षस्व यावत्सजं धनुस्त्वहम् । करोमि पवनोद्भुत रामपादाजषट्पद ॥ इत्युक्त्वा चापमासजं कृत्वा रोपपरिष्कृतः । अस्त्रं पाशुपतं नाम संदधे शर उल्बणे ॥ ततो भूताश्च वैतालाः पिशाचा योगिनीमुखाः । प्रादुर्वभूवुः सहसा भीषयन्तः समीरजम् ॥२९ कपिः पाशुपतैरत्रैर्बद्धो लोकैरभीक्षितः । हाहेति च वदन्त्येते यावत्तावत्समीरजः ॥ ३० स्मृत्वा रामं स मनसा त्रोटयामास तत्क्षणात् । स मुक्तगात्रः सहसा युयुधे सुरथं नृपम् ।। ३१ स मुक्तगात्रं तं वीक्ष्य सुरथः परमास्त्रवित् । महाबलं मन्यमानो ब्राह्ममस्त्रं समाददे ।। ३२ मारुतिर्ब्राह्ममस्त्रं तु निजगाल हसन्वली । तन्निगीर्ण नृपो दृष्ट्वा रामं सस्मार भूमिपः ॥ ३३ स्मृत्वा दाशरथिं रामं रामास्वं स्वशरासने । संधाय तं जगादेदं बद्धोऽसि कपिपुंगव ॥ श्रुत्वा तत्प्रक्रमेयावत्तावबद्धो रणाङ्गणे । राज्ञा रामास्त्रतो वीरो हनूमात्रामसेवकः ।। उवाच भूपं हनुमान्किं करोमि महीभुज । मत्स्वाम्यस्त्रेण संबद्धो नान्येन प्राकृतेन वै ॥ तन्मानयामि भूपाल नयस्व स्वपुरं प्रति । मोचयिष्यति मत्स्वामी ह्यागत्य स दयानिधिः ॥३७ बद्ध समीरजे क्रुद्धः पुष्कलो भूमिपं ययौ । तं पुष्कलं समायान्तं विव्याध वसुभिः शरैः ॥ ३८ अनेकवाणसाहस्रनिजघान नृपं बली । राज्ञाऽनेके शरास्तस्य च्छिन्नाः प्रधनमण्डले ॥ ३९ एवं समरसंक्रुद्ध सुरथे पुष्कले तथा । बाणैाप्तं जगत्सर्वं स्थान भूयश्चरिष्णु च ॥ तेषां रणोद्यम वीक्ष्य मुमुहुः सुरसैनिकाः । मानवानां तु का वार्ता क्षणात्रासं समीयुषाम् ॥४१ अस्त्रप्रत्यत्राविगममहामन्त्रपरिष्टुतैः । बभूव तुमुलं युद्धं वीराणां रोमहर्षणम् ।। तदा प्रकुपितो राजा नाराचं तु समाददे । 'छिन्नः स तु क्रुधा मुक्तैर्वत्सदन्तः स भारतेः ४३ छिन्ने तस्मिञ्शरे राजा कोपादन्यं समाददे ] । छिनत्ति यावत्स शरं तावल्लग्नो हृदि क्षतः॥४४ * एतचिहान्तर्गतः पाठः क. ख. ग. च. छ. ज. अ. ठ. ड. ण. त. थ. द. ध. पुस्तकस्थः । + एतच्चिदान्तर्गतः पाठः ख. ग. छ. ज. ठ. ड. ण. त. थ. ध. पुस्तकस्थः । १ ग. छ. ठ. र. ध. 'मुदत । २ थ. बहुभिः । ३ छ. ट. ड. ध. 'रिष्कृतैः । ३५ ३६ ४२ । ६३ त्रिपञ्चाशत्तमोऽध्यायः] पद्मपुराणम् । ५४१ मूर्छा पाप महातेजाः पुष्कलो महदद्भुतम् । युद्धं विधाय सुमहात्राज्ञा सह महामतिः ॥ ४५ पुष्कले पतिते राजा शत्रुघ्नः शत्रुतापनः । सुरथं प्रति संक्रुद्धो जगाम स्यन्दनस्थितः ।। उवाच सुरथं भूपं रामभ्राता महाबलः । त्वया महत्कृतं कर्म यद्बद्धः पवनात्मजः ॥ पुष्कलोऽपि महावीरस्तथाऽन्ये मम सैनिकाः । पातिताः प्रधने घोरे महावलपराक्रमाः ॥ ४८ इदानीं तिष्ठ मद्वीरान्पातयित्वा रणाङ्गणे । कुत्र यास्यसि भूमीश सहस्व मम सायकान् ॥ ४९ इत्थमाश्रुत्य वीरस्य भाषितं सुरथो बली । जगाद रामपादाजं दधचेतसि शोभनम् ॥ मया ते पातिताः संख्ये वीरा मारुतजोन्मुखाः । इदानीं पातयिप्यामि त्वामपि प्रधनाङ्गणे॥५१ स्मरस्व रामं यो वीरस्त्वामागत्य प्ररक्षति । अन्यथा जीवितं नास्ति मत्पुरः शत्रुतापन ॥ ५२ इत्युक्त्वा बाणसाहस्रेस्तं जघान महीपतिः । शत्रुघ्नं शरसंघातपञ्जरे न्यदधात्परम् ।। शत्रुघ्नः शरसंघातं मुश्चन्तं वह्निदैवतम् । अस्त्रं मुमोच दाहार्थ शराणां नतपर्वणाम् ।। तदत्रं मुक्तमालोक्य राजा वै सुरथो महान् । वारुणास्त्रेण शमयन्विव्याध शरकोटिभिः ॥ ५५ तदा तद्योगिनीदत्तमस्त्रं [*धनुपि संदधे । मोहनं सर्ववीराणां निद्राप्रापकमद्भतम् ।। तन्मोहनं महास्त्रं स] वीक्ष्य राजा हरिं स्मरन् । जगाद शत्रुमभयं सर्वशस्त्रास्त्रकोविदः ॥ ५७ मोहितस्य मम श्रीमद्रामस्य स्मरणेन ह । नान्यन्मोहनमाभाति मायाऽपि भयमाप मे ॥ इत्युक्तवति वीरेऽपि मुमोच स महास्त्रकम् । तेन वाणेन संछिन्नं पपात रणमण्डले ॥ तन्मोहनं महास्त्रं तु निष्फलं वीक्ष्य भूमिये । अत्यन्तं विस्मयं प्राप बाणं धनुपि संदधे । लवणो येन निहतो महासुरविमर्दनः । तं वाणं चाप आधत्त घोरकालानलप्रभम् ॥ ६१ तं वीक्ष्य राजा पोवाच बाणोऽयमसतां हृदि । लगते रामभक्तस्य संमुखोऽपि न भात्यसो ॥६२ इत्येवं भाषमाणं तु बाणेनानेन शत्रुहा । विव्याध हृदये क्षिप्रं वह्निज्वालासमप्रभम् ।। तेन वाणेन दुःखातों महापीडासमन्वितः । रथोपस्थे क्षणं मूर्छामवाप परतापनः । ६४ स क्षणात्तां व्यथां नीत्वा जगाद रिपुमग्रतः । सहस्वैकं प्रहारं मे कुत्र यासि ममाग्रतः ।। एवमुक्त्वा महासंख्ये बाणमाधत्त साय(चाप)के । ज्वालामालापरीताङ्गं स्वर्णपुत्रसमन्वितम्॥६६ स बाणो धनुषो मुक्तः शत्रुघ्नेन पथि स्थितः। छिन्नोऽप्यग्रफलेनाऽऽशु हृदये समपद्यत ॥ ६७ तेन बाणेन संमूर्य पपात स्यन्दनोपरि । ततो हाहाकृतं सर्व सैन्यं भग्नं पराद्रवत् ॥ ६८ मुरथो जयमापेदे संग्रामे रामसेवकः । दश वीरा दशसुतैमूर्छिताः पतिताः कचित् ॥ इति श्रीमहापुराणे पाने पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे सुरथविजयो नाम द्विप नाशत्तमोऽध्यायः ॥ ५२ ॥ आदितः श्लोकानां समथ्यङ्काः--१३९१६ t अथ त्रिपजाशत्तमोऽध्यायः । ५८ शेष उवाच- सुग्रीवस्तञ्च कटकं नष्ट वीक्ष्य रणाङ्गणे । स्वामिनं मूर्छितं चापि ययौ योद्धे नृपं प्रति ॥ आगच्छ भूप सर्वान्नो मूर्छयित्वा कुतो भवान् । गच्छति क्षिप्रं मां देहि युद्धं रणविशारद ॥ २ * एतचिहान्तर्गतः पाठः, छ. ड. द. पुस्तकस्थः । १ ख. ग. छ. ज. ठ. ण. त. थ. ध. "हदुद्भटः । यु । २ द. नि ममापि भयतापदम् । ई। ३ थ. 'दं रणागणे । आ ।
३ ४ ५ ६ ९ १२ महामुनिश्रीव्यासप्रणीतं- [४ पातालखण्डे- एवमुक्त्वा नगं कंचिद्विशालं शाखया युतम् । उत्पाव्य पाहरत्तस्य मस्तके बलसंयुतः ॥ तेन प्रहारेण महाबलो नृपः संवीक्ष्य सुग्रीवमथो स्वचापे । बाणान्समाधाय शितान्स रोषाजघान वक्षस्यतिपौरुषो बली ॥ तान्बाणान्व्यधमत्सर्वान्सुग्रीवः सहसा हसन् । ताडयामास हृदये सुरथं सुमहाबलः ॥ पर्वतैः शिखरैश्चैव नगैद्विरदवर्षिभिः । वेगात्स ताडयामास दारयन्सुरथं नखैः ।। तमप्याशु बबन्धास्वादामसंज्ञात्सुदारुणात् । बद्धः कपिवरो मेने सुरथं रामसेवकम् ॥ गजो यथाऽऽयसमयीं शृङ्खलां पादलम्बिताम् । प्राप्य किंचिन्न वै कर्तुं शक्नोति स तथा ह्यभूत् ॥८ जितं तेन महाराज्ञा सुरथेन सुपत्रिणा । सर्वान्वीराजथे स्थाप्य ययौ स्वनगरं प्रति ॥ गत्वा सभायां सुमहान्बद्धं मारुतिमब्रवीत् । स्मर श्रीरघुनाथं त्वं दयालु भक्तपालकम् ॥ १० यथा त्वां बन्धनात्सद्यो मोचयिष्यति तुष्टधीः। अन्यथाऽयुतवर्षेण मोचयिष्यामि बन्धनात् ॥११ इत्युक्तमाकर्ण्य समीरजस्तदा सुबद्धमात्मानमवेक्ष्य वीरान् । संमूर्छिताञ्शत्रुशराविघातपीडायुतान्बन्धनमुक्तयेऽस्मरत् ॥ श्रीरामचन्द्रं रघुवंशजातं सीतापतिं पङ्कजपत्रनेत्रम् । स्वमुक्तये बन्धनतः कृपालुं सस्मार सर्वैः करणैर्विशोकैः ।। १३ हनूमानुवाच- हा नाथ हा नरवरोत्तम हा दयालो सीतापते रुचिरकुण्डलशोभिवक्त्र । भक्तार्तिदाहक मनोहररूपधारिन्मां बन्धनात्सपदि मोचय माविलम्बम् ॥ १४ संमोचितास्तु भवता गजपुङ्गवाद्या देवाश्च दानवकुलामिसुदह्यमानाः। तत्सुन्दरीशिरसि संस्थितकेशबन्धसंमोचिताऽसि करुणालय मां स्मरस्व ॥ १५ त्वं यागकर्मनिरतोऽसि मुनीश्वरेन्द्रधर्म विचारयसि भूमिपतीड्यपाद । अत्राहमद्य सुरथेन विगाढपाशबद्धोऽस्मि मोचय महापुरुषाऽऽशु देव ॥ नो मोचयस्यथ यदि स्मरणातिरेकात्वं सर्वदेववरपूजितपादपद्म । लोको भवन्तमिद(प्र)मुल्लसितोऽहसिष्य(?)त्तस्माद्विलम्बमिह माऽऽचर मोचयाऽऽशु १७ इति श्रुत्वा जगन्नाथो रघुवीरः कृपानिधिः । भक्तं मोचयितुं प्रागात्पुष्पकेणाऽऽशु वेगिना ॥१८ लक्ष्मणेनानुगेनाथ भरतेन सुशोभितम् । मुनि वृन्दासमुख्यैः समेतं ददृशे कपिः ॥ तमागतं निजं नाथं वीक्ष्य भूपं समब्रवीत् । पश्य राजनिजं मोक्तुमायातं कृपया हरिम् ॥ २० अनेके मोचिताः पूर्व स्मरणात्सेवका निजाः । तथा मां पाशतो बद्धं संमोचयितुमागतः ॥ २१ श्रीरामभद्रमायातं वीक्ष्यासौ सुरथः क्षणात् । नतयः(तीस्तु) शतशश्चक्रे भक्तिपूरपरिप्लुतः ॥ २२ श्रीरामस्तं निजैर्दोभिः परिरेभे चतुर्भुजः । मूभि सिञ्चन्नश्रुजलैहर्षाद्भक्तं स्वकं पुनः ।। २३ उवाच धन्यदेहोऽसि महत्कर्म कृतं त्वया । कपीश्वरस्त्वया बद्धो हनूमान्सर्वतोबलः ॥ श्रीरामः कपिवयं तं मोचयामास बन्धनात् । मूर्छितांस्तान्भटान्सर्वान्वीक्ष्य दृष्ट्या स्वजीवयत् २५ ते मूर्छा तत्यजुष्टा रामेणासुरघातिना । उत्थिता ददृशुः श्रीमद्रामचन्द्रं मनोहरम् ॥ ते प्रणम्रा रघुपतिं तेन पृष्टा अनामयम् । मुखीभूता नृपं प्रोचुः सर्व स्वकुशलं नृपाः ॥ सुरथो वीक्ष्य श्रीरामं कृपार्थ सेवकात्मनः । आगतं सकलं राज्यं सहयं सुमुदाऽऽर्पयत् ।। २८ १ झ. म. कुन्तल । २ इ. “था श्रुत्वा च मां ब। १९ २४ २६ ५४ चतुष्पञ्चाशत्तमोऽध्यायः ] पद्मपुराणम् । भनेकवरिवस्याभिः श्रीरामं समतोषयत् । कथयामास मेऽन्याय्यं कृतं ते क्षम राघव ॥ २९ श्रीराम उवाच- क्षत्रियाणामयं धर्मः स्वामिना सह युध्यते । त्वया साधु कृतं कर्म रणे वीराः प्रतोषिताः ॥३० इत्युक्तवन्तं नृहरि पूजयन्ससुतोऽभवत् । श्रीरामस्त्रिदिनं स्थित्वा ययौ तमनुमन्त्र्य च ॥ कामगेन विमानेन मुनिभिः सहितो महान् । तं दृष्ट्वा विस्मितास्तस्य कथाश्चक्रुर्मनोहराः॥ ३२ चम्पकं स्वपुरे स्थाप्य सुरथः क्षत्रियो बली । शत्रुघ्नेन समं यातुं मनश्चक्रे महाबलः ॥ ३३ शत्रुघ्नः स्वयं प्राप्य भेरीनादानकारयत् । शङ्खनादान्बहुविधान्सर्वत्र समवादयत् ।। मुरथेन समं वीरो यज्ञवाहममूमुचत् । स बभ्राम परान्देशा[*न्न कैश्चिजगृहे बली ॥ यत्र यत्र गतो वोहः पुरदेशान्परिभ्रमन । तत्र शत्रुघ्न आयातः ] सुरथेन महाबलः ।। कदाचिज्जाह्नवीतीरे वाल्मीकेराश्रमं वरम् । गतो मुनिवरैर्जुष्टं प्रातधूमेन चिह्नितम् ।। इति श्रीमहापुराणे पाझे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे रघुनाथसमागमो नाम त्रिपश्चाशत्तमोऽध्यायः ॥ ५३॥ आदितः श्लोकानां समष्ट्यङ्काः-१३९५३ अथ चतुष्पश्चाशत्तमोऽध्यायः । २ ३ w ८ ९ शेष उवाच- गतः प्रातः क्रियां कर्तुं समिधस्तत्क्रियाईकाः। आनेतुं जानकीसुनुर्द्रतो मुनिसुतैर्लव ।। ददर्श तत्र यज्ञाश्वं स्वर्णपत्रेण चिह्नितम् । कुश्मागरुकस्तूरी दिव्यगन्धेन वासितम् ॥ विलोक्य जातकुतुको मुनिपुत्रानुवाच सः । अर्वा कस्य मनोवेगः प्राप्तो दैवान्मदाश्रमम् ॥ आगच्छन्तु मया साध प्रेक्षन्तां मा भयं कृथाः। इत्युक्त्वा स लवस्तूर्ण वाहस्य निकटे गतः॥४ स रराज समीपस्थो वाहस्य रघुवंशजः । धनुर्बाणधरः स्कन्धे जयन्त इव दुर्जयः ॥ गत्वा मुनिसुतैः सार्धं वाचयामास पत्रकम् । भालस्थितं स्पष्टवर्णराजिराजितमुत्तमम् ।। विवस्वतो महान्वंशः सर्वलोकेषु विश्रुतः । यत्र कोऽपि परावाधी न परद्रव्यलम्पटः ॥ सूर्यवंशध्वजो धन्वी धनुर्दीक्षागुरुर्गुरुः । यं देवाः सासुराः सर्वे नमन्ति मणिमौलिभिः ॥ तस्याऽऽत्मजो वीरबलदर्पहारी रघूद्वहः । रामचन्द्रो महाभागः सर्वशूरशिरोमणिः ॥ तन्माता कोशलनृपपुत्रीरत्नसमुद्भवा । तस्याः कुक्षिभवं रत्नं रामः शत्रुक्षयंकरः ॥ करोति इयमेधं स ब्राह्मणैश्च सुशिक्षितः । रावणाभिधविप्रेन्द्रवधपापापनुत्तये ।। ११ मोचितस्तेन वाहानां मुख्योऽसौ यज्ञमुक्तिमान् । महावलपरीवारंपरिखाभिः सुरक्षितः ॥ १२ सद्रक्षकोऽस्ति मद्धाता शत्रुघ्नो लवणान्तकः । हस्त्यश्वरथपादातसंघसेनासमन्वितः ॥ यस्य राज्ञ इति श्रेष्ठो मानो जायेत स्वान्मदात् । शूरा वयं धनुर्धारिश्रेष्ठा वयमिहोत्कटाः ॥१४ गृह्णन्तु बलाद्वाहं रत्नमालाविभूषितम् । मनोवेगं कामजवं सर्वगत्याऽधिभास्करम् ।। १५ ततो मोचयिता भ्राता शत्रुघ्नो लीलया हठात् । शरासनविनिर्मुक्तवत्सदन्तगतव्यथात् ॥ १६ * एतचिहान्तर्गतः, पाठः छ. इ. द. पुस्तकस्थः । १ . वस्तुजातीभिः । २ द. वाहस्तत्र तत्र परि'। ३ द. 'न् । सैन्येन महता या' । ४ इ. रिपार्षद्भिश्च सु। द. वारो महाबलसु। १० १३ ते ॥ २२ महामुनिश्रीव्यासप्रणीतं- [ ४ पातालखण्डे- ये क्षत्रियाः क्षत्रियकन्यकासु जाताश्च सत्क्षेत्रकुलेषु सत्सु । गृह्णन्तु ते तद्विपरीतदेहा नमन्तु राज्यं रघवे निवेद्य ॥ इति संवाच्य कुपितो लवः शस्त्रधनुर्धरः । उवाच मुनिपुत्रांस्तान्रोषगद्गदभाषितः ॥ १८ पश्यत क्षिप्रमेतस्य धृष्टत्वं क्षत्रियस्य वै । लिलेख यो भालपत्रे स्वप्रतापबलं नृपः ।। १९ कोऽसौ रामः कः शत्रुघ्नः कीटाः स्वल्पवलाश्रिताः । क्षत्रियाणां कुले जाता एते न वयमुत्तमाः एतस्य वीरसूर्माता जानकी न(कुशप्रेसः । या रत्नं कुशसंज्ञं तु दधाराग्निमिवारणिः ॥ २१ इदानी क्षत्रियत्वादि दर्शयिष्यामि सर्वतः । यदि क्षत्रियभूरेष भविष्यति च शत्रुहा ॥ ग्रहीष्यति मया बद्धं वाहं यज्ञक्रियोचितम् । नो चेदुत्सेकमुन्मुच्य कुशस्य चरणार्चकः ॥ २३ अधुना मे धनुर्मुक्तशरैः सुप्तो भविष्यति । अन्येऽपि ये महावीरा रणमण्डलभूषणाः ॥ इत्यादि वाक्यमुच्चार्य लवो जग्राह तं हयम् । तृणीकृत्य नृपान्सर्वाश्चापबाणधरो वरः॥ तदा मुनिसुताः प्रोचुर्लवं हयजिहीर्षकम् । अयोध्यानृपती रामो महावलपराक्रमः ॥ तस्य वाहं न गृह्णाति शक्रोऽपि स्वबलोद्धरः । मा गृहाण शृणुष्वेदं मद्वाक्यं हितसंयुतम् ॥ २७ इत्युक्तं स श्रुतौ धृत्वा जगाद स द्विजात्मजान् । यूयं बलं न जानीथ क्षत्रियाणां द्विजात्मजाः।। क्षत्रिया वीर्यशौण्डीर्या द्विजा भोजनशालिनः । तस्मायूयं गृहे गत्वा भुञ्जन्तु जननीहृतम् ॥२९ इत्युक्तास्तेऽभवंस्तूष्णीं प्रेक्षिष्यन्तः पराक्रमम् । लवस्य मुनिपुत्रास्ते संतस्थुईरतो बहिः ॥ ३० एवं व्यतिकरे वृत्ते सेवकास्तस्य भूपतेः । आयातास्तं हयं बद्धं दृष्ट्वा प्रोचुस्तदा लवम्॥ ३१ ववन्ध को हयमहो रुष्टः कस्य च धर्मराट् । को बाणव्रजमध्यस्थः प्राप्स्यते परमां व्यथाम्॥३२ तदा लवो जगादाऽऽशु मया बद्धोऽश्व उत्तमः। यो मोचयति तस्याऽऽशु रुष्टो भ्राता कुशो महान्। यमः करिष्यति कथमागतोऽपि स्वयं प्रभुः । नत्वा गमिष्यति क्षिप्रं शरदृष्ट्या सुतोषितः ॥ ३४ शेष उवाच-- एतद्वाक्यं समाकर्ण्य वालोऽयमिति तेऽब्रुवन् । समागता मोचयितुं हयं बद्धं तु ये हरेः॥ ३५ तान्दै मोचयितुं याताञ्शत्रुघ्नस्य च सेवकान् । कोदण्डं करयोधृत्वा क्षुरप्रान्सममूमुचत् ॥ ३६ ते छिन्नवाहवः शोकाच्छत्रुघ्नं प्रति संगताः । पृष्टास्ते जगदुः सर्वे लवात्स्वभुजकृन्तनम् ॥ ३७ इति श्रीमहापुराणे पाझे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे लवेन हयबन्धनं नाम चतुष्प श्वाशत्तमोऽध्यायः ॥५४॥ आदितः श्लोकानां समष्टयङ्काः-१३९९० अथ पञ्चपञ्चाशत्तमोऽध्यायः । व्यास उवाच- एतां श्रुत्वा कथां रम्या लवस्य बलिनो मुनिः । संशयानः पर्यपृच्छन्नागं दशशताननम् ॥ १ वात्स्यायन उवाच- त्वयोक्तं तु पुरा रामः सीतामेकाकिनी बने । रजकस्य दुरुक्त्याऽसौ तत्याज महिलोलुपः ॥ २ जानक्यां क सुतौ जातौ क धनुर्धरतां गतौ । कथं वा शिक्षिता विद्या यो रामहयमाहरत् ॥ ३ ११. नः के ये स्व । २ द. चेत्क्षत्रुत्वमु” । ३ ड. नीकरः । ई । ४ ग. छ. ठ. ध. हयं मत्तो रु।
५५ पञ्चपञ्चाशत्तमोऽध्यायः ] पद्मपुराणम् । w ८ व्यास उवाच- इति श्रुत्वा मुनेर्वाक्यं शेषनागो महामतिः । प्रशस्य विषं जगदे रामचारित्रमद्भुतम् ॥ शेष उवाच- रामो राज्यमयोध्यायां भ्रातृभिः सहितोऽन्वभूत् । धर्मेण पालयन्स क्षितिखण्डं स्वया स्त्रिया ॥ सीता दधार तद्वीर्य मासाः पश्चाभवंस्तदा । अत्यन्तं शुशुभे देवी त्रयीव पुरुषंधरा ॥ कदाचित्समये रामः पपच्छ च विदेहजाम् । कीदृशो दोहदः सावि मया ते साध्यते हि सः॥ रहस्येव तु सा पृष्टा त्रपमाणां रघोः पतिम् । लज्जागद्गदवाग्रामं निजगाद वचोमृतम् ॥ सीतोवाच- स्वत्कृपातो मया सर्व भुक्तं भोक्ष्यामि शोभनम् । न कश्चिन्मानसे कान्त विषयो ह्यतिरिच्यते ९ यस्या भवादृशः स्वामी देवसंस्तुतसत्पदः । तस्याः सर्व वरीवर्ति न किंचिदपि शिष्यते ॥ १० त्वमाग्रहात्पृच्छसि मां दोहदं मनसि स्थितम् । प्रवीमि पुरः सत्यं तव स्वामिन्मनोरमम् ॥११ चिरं जातं मया सत्यो लोपामुद्रादिकाः स्त्रियः। दृष्टाः स्वामिन्मनो द्रष्टुं ता उत्सुकति सुन्दरीः राज्यं प्राप्ता त्वया सार्धमनेकसुखमास्थिता । कृतघ्नाऽहं (न) कदापीह ता नमस्कर्तुमानसा।।१३ तत्र गत्वा तपःकोशान्वस्त्राद्यैः परिपूजये । रत्नानि चैव भास्वन्ति भूषा अपि समर्पये ।। यथा मे तोषिताः सत्यो ददत्याशीर्मनोहराः । एष मे दोहदः कान्त परिपूरय मानसे ॥ १५ इत्थमाकर्ण्य वचनं सीतायाः सुमनोहरम् । जगाद परमप्रीतो रामचन्द्रः प्रियां प्रति ॥ १६ धन्याऽसि जानकी प्रातर्गमिष्यसि तपोधनाः। प्रेक्ष्य तास्तु कृतार्था त्वमागमिष्यसि मेऽन्तिकम् इति रामवचः श्रुत्वा परमां प्रीतिमाप सा । प्रातर्मम भवत्यद्धा तापसीनां समीक्षणम् ॥ अथ तनिशि रामस्य चराः कीर्ति निजां श्रुताम् । प्रेक्षितुं प्रेषितास्ते तु[*निशीथे व्यगमञ्शनैः ते प्रत्यहं रामकथाः शृण्वन्तः सुमनोहराः । तदिने गतवन्तस्तु धनाढ्यस्य गृह महत् ।। दीपं वीक्ष्य प्रज्वलन्तं] वचनं वीक्ष्य मानुषम् । स्थितास्तत्र क्षणं चाराः समशृण्वन्यशो भृशम् २१ तत्र काचन वामाक्षी बालकं प्रति हर्षिता । स्तनं धयन्तं निजगी वाक्यं तु सुमनोहरम् ॥ २२ पिब पुत्र यथेष्टं त्वं स्तन्यं मम मनोहरम् । पश्चात्तव सुदुष्पाप्यं भविष्यति ममाऽऽत्मज ।। २३ एतत्पुर्याः पती रामो नीलोत्पलदलप्रभः । तत्पुरीस्थजनानां तु न भविष्यति वै जनुः ॥ २४ जन्माभावात्कथं पानं स्तन्यस्य भुवि जायते । तस्मात्सिव मुहुः स्तन्यं दुर्लभं मम पुत्रक ॥ २५ ये श्रीरामं स्मरिष्यन्ति ध्यास्यन्ति च वदन्ति ये। तेषामपि पयःपानं न भविष्यति जातुचित्र२६ इत्यादि वाक्यं संश्रुत्य श्रीरामयशसोऽमृतम् । हर्षितः प्रययौ गेहमन्यद्भाग्यवतो महत् ।। तावदन्यश्वरस्तत्र मनोरममिदं गृहम् । मत्वा तिष्ठन्हि रामस्य क्षणं शुश्रूषया यशः ॥ तत्र कान्ता निजं कान्तं पर्यकोपरि सुस्थितम् । ताम्बूलं चर्वती दत्तं भ; स्नेहेन सुन्दरी॥ २९ कङ्कणस्वर्णशोभाब्या कर्पूरागरुधूपिता । कान्तं वीक्ष्य लसन्नेत्रा कामरूपमवोचत । नाथ त्वं तादृशो मह्यं भासि याअघोः पतिः । अत्यन्तसुन्दरतरं वपुर्बिभ्रत्सुकोमलम् ॥ मद्यपान्तं नेत्रयुग्मं वक्षो मोहनविस्तृतम् । भुजौ च सादौ बिभ्रत्साक्षादाम इवासि मे ॥ ३२ इति वाक्यं समाकर्ण्य कान्तायाः सुमनोहरम् । उवाच नेत्रयोः प्रान्तं नर्तयन्कामसुन्दरः ॥ ३३ * एतचिहान्तर्गतः पाठः क. ख. ग. च. छ. ज. अ. ठ. इ. ण. त. थ. द. घ. पुस्तकस्थः । १८ २० २८ १६. °णा पति सती। ल ।
३९ ४३ ४७ ४८ महामुनिश्रीव्यासप्रणीतं- [ ४ पातालखण्डे- । शृणु कान्ते त्वया प्रोक्तं साध्व्या तु सुमनोहरम् । पतिव्रतानां तद्योग्यं स्वकान्तो राम एव हि ३४ । परं काहं मन्दभाग्यः क रामो भाग्यवान्महान् । काहं कीटकवत्तुच्छः क ब्रह्मादिसुरार्चितः ३५ खद्योतः क नभोरत्नं शलभः क नु पामरः। गजारिः क मृगेन्द्रोऽसौ शशकः क नु मन्दधी:३६ क च सा जाह्नवी देवी क रथ्याजलमुत्पथम् । क मेरुः सुरसंवासः क गुञ्जापुञ्जकोऽल्पकः ३७ लथाऽहं क क रामोऽसौ यत्पादरजसाऽङ्गना । शिलीभूता क्षणाजाता ब्रह्ममोहनरूपधृत् ॥ ३८ इति वाक्यं प्रब्रुवाणं परिरेभे निजं पतिम् । जाता कामाहतप्रेम्णा नर्तितभ्रूधनुर्धरा ॥ इत्यादि वाक्यं संश्रुत्य गतश्वारोऽन्यवेशनम् । तावदन्यश्वरो वाक्यं शुश्राव यशसाऽर्चितम् ।।४० काचित्पुष्पमयीं शय्यां चन्दनं सहचन्द्रकम् । सर्व विधाय कामाई जगाद वचनं पतिम् ॥ ४१ ऐहि कुरुष्व भोगाई शयनं पुष्पशायके । चन्दनादिकलेपं च तथा भोगमनेकधा ॥ स्वादृशा एव भोगार्हा न च रामपराङ्मुखाः । सर्व रामकृपाप्राप्तमुपभुक्ष्व यथातथम् ॥ मत्सदृशी कामिनी ते चन्दनं तापहारकम् । पर्यः पुष्परचितः सर्व रामकृपाभवम् ॥ ये रामं न भजिष्यन्ति ते नरा जठरं स्वकम् । न भर्तुं शक्नुवन्त्येते वस्त्रभोगादिवर्जिताः ॥ ४५ इति ध्रुवती महिला हर्पितः पतिरब्रवीत् । सर्वे तथ्यं ब्रवीपि त्वं मम रामकृपाभवम् ।। ४६ इत्येवं रामभद्रस्य यशः श्रुत्वा गतश्वरः । तावदन्यस्य वेश्मस्थं चरोऽन्यः शुश्रुवे वचः ॥ काचित्कान्तेन पर्यके वीणावादनतत्परा । कान्तेन रामसत्कीर्ति गायमाना पतिं जगौ ॥ स्वामिन्वयं धन्यतमा येषां पुर्याः पतिः प्रभुः। श्रीरामः स्वप्रजाः पुत्रान्यद्वत्पाति च रक्षकः ४९ यो महत्कर्म दुःसाध्यं कृतवान्सुलभं न तत् । समुद्रं यो निजग्राह सेतुं तत्र बबन्ध च ॥ ५० रावणं यो रिपुं हत्वा लङ्कां संभज्य वानरैः । जानकीमाजहारात्र महदाचारमाचरत् ॥ ५१ इति प्रोक्तं समाकर्ण्य वचः सुमधुराक्षरम् । पतिः स्मितं चकारेमा वाक्यं पुनरथाब्रवीत् ॥ ५२ मुग्धे नेदं महत्कर्म रामचन्द्रस्य भामिनि । दशाननवधादीनि समुद्रदमनानि च ॥ कीलया योऽवनि प्राप्तो ब्रह्मादिप्रार्थितो महान् । करोति सच्चरित्राणि महापापहराणि च ॥५४ मा जानीहि नरं रामं कौशल्यानन्दवर्धनम् । सृजत्यवति हन्त्येतद्विश्व लीलात्तमानुपः ।। ५५ धन्या वयं ये रामस्य पश्यामो मुखपङ्कजम् । ब्रह्मादिसुरदुदेश महत्पुण्यकृतो वयम् ।। इत्यादि वाक्यं शुश्राव चारो द्वारि स्थितो मुहुः । अशृणोद्रामचन्द्रस्य चरित्रं श्रुतिसौख्यदम् ५७ अन्यो ह्यन्यगृहं गत्वा तस्थौ श्रोतुं हरेर्यशः । तत्रापि रामभद्रस्य यशः शुश्राव शोभनम् ॥ ५८ खेलन्ती स्वामिना साकं घूतेन सुमनोहरा । उवाच वाक्यं मधुरं कङ्कणे नृत्यतीव च ।। जितं मया कान्त जवेन सर्व धनं त्वदीयं ग्लहरूपितं यत् । [*इत्यादि वाक्यं परिहासपूर्वकं कृत्वा स्वकान्तं परिषस्वजे मुदा ॥] ६० उवाच कान्तश्चार्वङ्गि जितमेव सुशोभने । रामं मे स्मरतो नित्यं न कुत्रापि पराजयः ॥ ६१ इदानीं त्वां तु जेष्यामि रामं स्मृत्वा मनोहरम् । देवा यथा पुरा स्मृत्वा दितिजानजयन्क्षणात्॥६२ एवमुक्त्वा पाशकानां परिवर्तनमाकरोत् । तावज्जयं प्रपेदे स हर्षितो वाक्यमब्रवीत् ॥ * एतञ्चितान्तर्गतः पाटो ग. छ. . द. पुस्तकस्थः । ११. अगोलकः । २ ग. छ. ठ. ह. द. प. पते । ३ द. वे करिष्यसि त्वं किमु हारिमानसः । ई। भवानिदानी वदतात्पुनमें ग्लहं करिष्यत्यथ किं नु का[म]म् । उ' ज. त. थ. 'त् । श्रिया यथा क्षत्रधनं विवाहे करिष्यसि त्वं मम किं नु मानात् । उ' । ण. त् । जितोऽसि त्वं चापि ममानुवृत्तिं करिष्यमाणस्तमुदारमानसः । उ । ५६ ५९ ६२ ४ ख.त्।
*- ७१ ५६ षट्पञ्चाशत्तमोऽध्यायः] पद्मपुराणम् । ५४७ मम प्रोक्तमृतं जातं जिता त्वं नवयौवना । रामस्मारी कदाऽप्येव न भवेद्रिपुतो भयी ॥ इत्येवं तौ वदन्तौ च परस्परमथोत्सुकौ । परिरभ्य दृढं प्रेम्णा ततश्वारो गतो गृहम् ॥ ६५ एवं पञ्च महाचारा राज्ञः संश्रुत्य वै यशः । परस्परं प्रशंसन्तो गेहं स्वं स्वं ययुर्मुदा ॥ एकः षष्ठश्वरः कारुगेहमालोक्य तत्र ह । जगाम श्रोतुकामोऽसौ यशो राज्ञो महीपतेः ॥ ६७ रजकः) क्रोधसंजुष्टो भार्यामन्यगृहोपिताम् । पदा संताडयामास धिक्कुर्वशोणनेत्रवान् ॥ ६८ गच्छ त्वं मगृहात्तस्य गेहं यत्रोपिता दिनम् । नाहं गृह्णामि भवती दुष्टां वचनलङ्घिनीम् ॥ ६९ तदाऽस्य माता प्रोवाच मा त्यजैनां गृहागताम् । अपराधेन रहितां दुष्टकर्मविवर्जिताम् ।। मातरं प्रत्युवाचाथ रजकः क्रोधसंयुतः । नाहं राम इव प्रेष्ठां गृह्णाम्यन्यगृहोपिताम् ॥ स राजा यत्करोत्येव तत्सर्व नीतिमद्भवेत् । अहं गृह्णामि नो भार्यों परवेश्मनि संस्थिताम् ॥७२ पुनः पुनरुवाचेदं रामो नाहं महीश्वरः । यः परस्य गृहे संस्था जानकी वै ररक्ष सः ॥ इति वाक्यं समाश्रुत्य चारः कोपपरिप्लुतः । खडं गृहीत्वा स्वकरे तं हन्तुं विदधे मनः ॥ स रामोक्तं च सस्मार न वध्यः कोऽपि मे जनः। इति ज्ञात्वा स्वरोपं तु संजहार महामनाः ॥७५ तदा श्रुत्वा सुदुःखार्तः पञ्च चारा यतः स्थिताः। ततो गतः प्रकुपितो निश्वसन्मुहुरुच्छसन् ॥ ७६ ते वै परस्परं तत्र मिलिताः सममब्रुवन् । स्वश्रुतं रामचरितं सर्वलोकैकपूजितम् ।। ते तद्भाषितमाकर्ण्य परस्परममन्त्रयन् । न वाच्यं रघुनाथाय वचो दुष्टजनोदितम् ।। इति संमश्य ते गेहं गत्वा सुषुपुरुत्सुकाः । प्राता राज्ञे प्रशंसाम इतिवुद्धया व्यवस्थिताः ॥ ७९ इति श्रीमहापुराणे पाझे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे चारनिरीक्षणं नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥ ५५ ॥ आदितः श्लोकानां समष्ट्यङ्काः-१४०६९ ७४ ७७ ७८ अथ षट्पश्चाशत्तमोऽध्यायः । ६ शेष उवाच- प्रातर्नित्यं विधायासौ ब्राह्मणान्वेदवित्तमान् । हिरण्यदानः संतमे विधिवत्संसदं ययौ ॥ लोकाः सर्वे नमस्कर्तुं रघुनाथं महीपतिम् । पुत्रवत्स्वप्रजाः सर्वाः पालयन्तं ययुः सभाम् ॥ २ लक्ष्मणेनाऽऽतपत्रं तु धृतं मूर्धनि भूपतेः । तदा भरतशत्रुघ्नौ चामरधारिणौ ॥ वसिष्ठप्रमुखास्तत्र मुनयः पर्युपासते । सुमत्रप्रमुखास्तत्र मत्रिणो न्यायकर्तृकाः ॥ एवं प्रवृत्ते समये पदचारास्ते स्वलंकृताः । समाजग्मुर्नरपतिं नमस्कर्तुं सभास्थितम् ॥ तान्वक्तुकामान्संवीक्ष्य चारान्नृपतिसत्तमः । सभायामन्तरावेश्म रहः प्राविशदुत्सुकः ॥ एकान्ते तांश्वरान्सर्वान्पप्रच्छ सुमतिनृपः । कथयन्तु चरा मह्यं यथातथ्यमरिंदमाः ।। लोका बुवन्ति मां कीदृग्भार्याया मम कीदृशम् । मत्रिणां कीदृशं लोका वदन्ति चरितं कथम्॥८ इति वाक्यं समाकर्ण्य चरा राममथाब्रुवन् । मेघगम्भीरया वाण्या पृच्छन्तं रघुनायकम् ॥ चारा ऊचु:- नाथ कीर्तिर्जनान्सर्वान्पावयत्यधुना भुवि । गृहे गृहे श्रुताऽस्माभिः पुरुषस्त्रीभिरीडिता ॥ विवस्वतो महावंशं भवता परमेष्ठिना । अलंकर्तुं गतं भूमौ कीर्तिविस्तारिता बहुः ॥ १ झ. 'वेद्रीयुतो । २ क. ख. ग. च. छ. ज. अ. ठ. इ. ण. स. थ. द. थ, भुवि । ९ १० ११ ५४८ महामुनिश्रीव्यासप्रणीत- [ ४ पातालखण्डे- अनेके सगरायाश्च कृतार्थाः पूर्वजा नृप । अभवस्तादृशी कीर्तिस्तेषां नाभूयथेशी ॥ १२ त्वया नाथेन सकलाः कृतार्थ्यन्ते प्रजा नृप । यासां नाकालमरणं न च रोगाद्युपद्रुतिः ॥ १३ पादृशश्चन्द्रमा लोके यादृशी जाह्नवी सरित् । तादृशी तव सत्कीर्तिः प्रकाशयति भूतलम् ॥१४ ब्रह्मादिका भवत्कीर्तिमाकर्ण्य त्रपिता भृशम् । नाथ सर्वत्र ते कीर्तिः पावयत्यधुना जनान्॥१५ वयं धन्यतमाः सर्वे ये चारास्तव भूपते । क्षणे क्षणे तव मुखं लोकयामो मनोहरम् ॥ १६ इत्यादि वाक्यं चाराणां पञ्चानां वीक्ष्य राघवः । षष्ठं पप्रच्छ चारं तं विलक्षणमुखाङ्कितम्॥१७ राम उवाच- १८ २० २५ २६ सत्यं वद महाबुद्धे यच्छ्रुतं लोकसंकरे । तादृशं शंस मह्यं त्वमन्यथा पातकादिकृत् ॥ पुनः पुनश्वरं रामः पप्रच्छ श्रुतिविश्रुतम् । तदाऽपि न ब्रवीत्येव रामं लोकैकभाषि(वि)तम्॥१९ तदा रामः प्रत्यवोचच्चरं मुखविलक्षितम् । शपामि त्वां तु सत्येन शंस सर्वं यथातथम् ॥ तदा रामं प्रत्युवाच चरो वाक्यं शनैः शनैः । अकथ्यमपि ते वाच्यं वाक्यं कारुजनोदितम् २१ चर उवाच- स्वामिन्सर्वत्र ते कीर्तिर्दशाननवधादिका । अन्यत्र राक्षसगृहे स्थितायास्ते स्त्रिया अहो ॥ २२ कारुरेकस्तु रजको निशीथे महिला स्वकाम् । अन्यगेहोषितां दुष्टो धिक्कुर्वन्समताडयत् ॥ २३ तन्माता प्रत्युवाचेमां कथं ताडयसेऽनघाम् । गृहाण मा कृथा निन्दां स्त्रियं मद्वाक्यमाचर ॥२४ तद्वाऽवाचत्स रजको नाहं रामो महीपतिः । यद्राक्षसगृहेऽध्युष्टां सीतामङ्गीचकार सः । सर्व राज्ञः कृतं कर्म नीतिमद्भवति प्रभोः । अन्येषां पुण्यकर्तृणामपि कृत्यमनीतिमत् ॥ पुनः पुनरुषाचासौ नाहं रामो महीपतिः । चुकुधे समये राजन्मया वाक्यं तव स्मृतम् ॥ २७ तदानीं शिर आच्छिद्य पातयामि महीतले । पुनर्विचारयामास रामः क रजकः क नु॥ २८ अयं दुष्टोऽनृतं वक्ति न हीदं तथ्यमुच्यते । आज्ञापयसि चेद्राम सांप्रतं पातयामि तम् ॥ २९ अवाच्यमपि ते प्रोक्तं त्वदाग्रहत उन्नयम् । राजा प्रमाणमत्रेदं विचारयतु संगतम् ॥ ३० शेष उवाच- इति वाक्यं समाकर्ण्य महावज्रनिभाक्षरम् । निश्वसन्मुहुरुच्छ्वासमाचरन्मूर्छितोऽपतत् ॥ ३१ तं मूर्छितं नृपं दृष्ट्वा चारा दुःखसमन्विताः। वीजयामासुर्वासोग्रैर्दुःखापनयहेतवे ॥ स लब्धसंज्ञो नृपतिर्मुहूर्तेन जगाद तान् । गच्छन्तु भरतं गेहे प्रेषयन्तु च मां प्रति ॥ ते दुःखिताश्चरास्तूर्ण भरतस्य गृहं गताः । कथयामासू रामस्य संदेशं नृपहा(चा)रकाः ॥ ३४० भरतो रामसंदेशं श्रुत्वा धीमान्ययौ सदः। रामं प्रति रहःसंस्थं श्रुत्वा तं त्वरया युतः ॥ ३५" आगत्य तं प्रतीहारं प्रत्युवाच महामनाः । कुत्राऽऽस्ते रामभद्रोऽसौ मम भ्राता कृपानिधिः ३६ तनिर्दिष्टं गृहं वीरो ययौ रत्नमनोहरम् । रामं विलोक्य विक्लान्तं भयमाप स मानसे ॥ किं वाऽसौ कुपितो रामः किं वा दुःखमिदं विभोः। तदा प्रोवाच नृपति निश्वसन्तं मुहुर्मुहुः ३८ खामिन्सुखसमाराध्यं वक्त्रं ते कथमानतम् । अश्रुभिर्लक्ष्यते राहुग्रस्तदेहः शशीव ते ॥ सर्व मे कारणं तथ्यं ब्रूहि मां किं करोमि ते । त्यज दुःखं महाराज कथं दुःखस्य भाजनम् ४० एवं भ्रात्रा प्रोच्यमानो गद्गदस्वरया गिरा। प्रोवाच भ्रातरं वीरो रामचन्द्रः स धार्मिकः ॥४१ १ छ. ह. श्च भरतप्रमुखा नृपाः । । द. श्व कीर्तिमन्तो महाबलाः । अ। २ क. ख. ग. ज म. ठ. ण. ध. 'प्रच्छ श्रुतविस्तरम् । द. प्रच्छाऽऽशु सविस्तरम् । ३ ६. दृष्ट्वा । ४ द. शीघ्रं । ३२ ३७ ३९ शृणु १७ सप्तपञ्चाशत्तमोऽध्यायः] पमपुराणम् । ५४९ भ्रातर्वचो मयं मम दुःखस्य कारणम् । तन्मार्जनं कुरुष्वाघ भ्रातर्घातर्महामते ॥ ४२ वंशे वैवस्वते राजा न कश्चिदयशःक्षतः । मत्कीतिरद्य कलुषा गङ्गा यमुनया गता ॥ ४३ येषां यशो नृणां भूमौ तेषामेव सुजीवितम् । अपकीर्तिक्षतानां तु जीवितं मृतकैः समम् ॥ ४४ येषां यशो भवेद्भूमौ तेषां लोकाः सनातनाः । अपकीयुरगीदष्टास्तेषां भूयादधोगतिः ॥ ४५ अद्य मे कलुषा कीर्तिस्वधुनी लोकविस्तृता । तच्छृणुष्व वचो मेऽद्य रजकस्य यथोदितम् ॥४६ अस्मिन्पुरेऽद्य रजक उक्तवाञ्जानकीभवम् । किंचिद्वाच्यं ततो भ्रातः किं करिष्यामि भूतले ४७ किमात्मानं जहाम्यद्य किमेतां जानकी स्त्रियम्। उभयोः किं मया कार्य तत्तथ्यं ब्रूहि त्वं मम४८ इत्युक्त्वा निर्गलद्वाष्पो वेपथुक्षुभिताङ्गकः । पपात भूमौ विरजो धार्मिकाणां शिरोमणिः ॥ ४९ भ्रातरं पतितं दृष्ट्वा भरतो दुःखसंयुतः। संवीक्ष्य शनकै रामं संज्ञामाप्तं चकार सः॥ ५० संज्ञां प्राप्तं तु संवीक्ष्य रामचन्द्रं सुदुःखितम् । उवाच दुःखनाशाय स वाक्यं सुमनोहरम् ॥५१ भरत उवाच- कोऽयं वै रजकः किं तु वाच्यं वाक्यकथायुतः । जिहाछेदं करिष्यामि जानकीवाच्यकारिणः५२ तदा रामोऽब्रवीद्वाक्यं रजकस्य मुखोद्गतम् । श्रुतं चारेण तत्सर्वं भरताय महात्मने ॥ तच्छ्रुत्वा भरतः प्राह भ्रातरं दुःखशोकिनम् । जानकी वद्विशुद्धाऽभूल्लङ्कायां वीरपूजिता ॥५४ ब्रह्माऽब्रवीदियं शुद्धा पिता दशरथस्तव । कथं सा रजकोक्तित्वाद्धातव्या लोकपूजिता ॥ ५५ ब्रह्मादिसंस्तुता कीर्तिस्तव लोकान्पुनाति हि । सा कथं रजकोक्त्या वै कलुगाऽद्य भविष्यति ॥ तस्मात्यज महादुःखं सीतावाच्यसमुद्भवम् । कुरु राज्यं तया सार्धमन्तर्वन्या सुभाग्यया॥ ५७ त्वं कथं स्वशरीरं तु हातुमिच्छसि शोभनम् । वयं हताः स्म सर्वेऽद्य त्वां विना दुःखनाशकम् क्षणं सीता न जीवेत त्वां विना सुमहोदया । तस्मात्पतिव्रता साकं भुनक्तु विपुलां श्रियम् ॥ इति वाक्यं समाकर्ण्य भरतस्य सुधार्मिकः । पुनरेव जगादेमं वाक्यं वाक्यविदां वरः ॥ ६० यत्त्वं कथयसि भ्रातस्तव धर्मसमं युतम् । परं यद्वच्म्यहं वाक्यं तत्कुरुष्व ममाऽऽज्ञया ॥ ६१ जानाम्येनां वद्विशुद्धां पवित्रां लोकपूजिताम् । लोकापवादाद्भीतोऽहं त्यजामि स्वां तु जानकीम् तस्मात्करे शितं धृत्वा करवालं सुदारुणम् । शिरश्छिन्थ्यथवा जायां जानकी मुश्च वै वने॥६३ इति वाक्यं समाकर्ण्य रामस्य भरतोऽपतत् । मूर्छितः सन्क्षितौ देहे कम्पयुक्तः संवाष्पकः॥ ६४ इति श्रीमहापुराणे पाने पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे भरतवाक्यं नाम षट्पञ्चाशत्तमोऽध्यायः ॥ ५६ ॥ आदितः श्लोकानां समष्ट्यकाः-१४१३३ 1 भथ सप्लपञ्चाशत्तमोऽध्यायः । १ वात्स्यायन उवाच- जगत्पवित्रसत्कीर्तिजानक्या वाच्यवाचनम् । कथं समकरोत्स्वामिस्तन्मे कथय सुव्रत ॥ यथा मे मनसः सौख्यं भविष्यति सुशोभनम् । तथा कुरुष्व शेषाध त्वन्मुखानिस्तामृतम् २ पिवतस्तृप्तिरेव स्याद्यया संसृतिकृन्तनम् ॥ १८. द. घ. लोकविश्रुता । २ ८. स वाक्यतः ।। ३ अ. तिर्जान ।
- ५ ७ ८ ९ महामुनिश्रीव्यासप्रणीतं- [४ पातालखण्डे- शेष उवाच- मिथिलायां महापुर्या जनको नाम भूपतिः। तस्यां करोति सद्राज्यं धर्मेणाऽऽराधयन्मजाः॥४ तस्य संकर्षतो भूमि सीतया दीर्घमुख्यया । सीरध्वजस्य निरगात्कुमारी रतिसुन्दरी ॥ तदाऽत्यन्तं मुदं प्राप्तः सीरकेतुर्महीपतिः । सीतानामाकरोत्तस्या मोहिन्या जगतः श्रियाः ॥ ६ सैकदोद्यानविपिने खेलन्ती सुमनोहरा । अपश्यत्स्वमनःकान्तं शुकशुक्योर्युगं वदत् ॥ अत्यन्तं हर्षमापन्नमत्यन्तं कामलोलुपम् । परस्परं भाषमाणं स्नेहेन शुभया गिरा ॥ रममाणं तदा युग्मं नभसि क्षिप्रवेगतः । समुत्पतन्नगोपस्थे स्थितं शब्दं चकार तत् ।। रामो महीपतिर्भूमौ भविष्यति मनोहरः । तस्य सीतेति नाम्ना तु भविष्यति महेलिका ॥ १० म तया सह वर्षाणां सहस्राण्येकयुग्दश । राज्यं करिष्यते धीमान्कर्षन्भूमिपतीन्बली ॥ ११ धन्या सा जानकी देवी धन्योऽसौ रामसंज्ञितः । यौ परस्परमापन्नौ पृथिव्यां रमतो मुदा॥१२ इति संभाषमाणं तु शुकयुग्मं तु मैथिली । ज्ञात्वेदं देवतायुग्मं वाणीं तस्य विलोक्य च ॥ १३ मदीयास्तु कथा रम्याः कुरुते शुकयोर्युगम् । एतगृहीत्वा पृच्छामि सर्व वाक्यं गतार्थकम् ॥१४ एवं विचार्य सा स्वीयाः सखीः प्रति जगाद सा(च) । गृह्णन्तु शनकैरेतत्पक्षियुग्मं मनोहरम् १५ सख्यस्तास्तगिरिं गत्वाऽगृह्णन्पक्षियुगं वरम् । निवेदयामासुरिदं स्वसख्याः प्रियकाम्यया।। १६ बहुधा विविधाञ्शब्दान्कुर्वद्वीक्ष्य मनोहरम् । आश्वासयामास तदा पप्रच्छ तदिदं वचः ॥ १७ सीतोवाच- मा भैषाता(थां) युवांरम्यौ को वा कुत्र समागतौ । को रामः का च सा सीता तज्ज्ञानं तु कुतः स्मृतम् तत्सर्व शंसतं क्षिप्रं मत्तावाव्येतु यद्भ(त्तो नो भवतोभ)यम् । इति पृष्टं तया पक्षियुगं सर्वमशंसत पक्षियुग्ममुवाच- वाल्मीकिरास्ते सुमहाऋषिर्धर्मविदुत्तमः । आवां तदाश्रमस्थानौ सर्वदासुमनोहरम् ॥ स शिष्यान्गापयामास भावि रामायणं मुनिः । प्रत्यहं तत्पदस्मारी सर्वभूतहिते रतः ॥ तदावाभ्यां श्रुतं सर्व भावि रामायणं महत् । मुहुर्मुहुर्गीयमानमायातं परिपाठतः ॥ शृण्वावां तेऽभिधास्यावो यो रामो या च जानकी । यद्यद्भविप्यते तस्या रामेण क्रीडितात्मनः ऋष्यशृङ्गकृतेष्टया च चतुर्धात्वं गतो हरिः । प्रादुर्भविष्यति श्रीमान्सुरस्त्रीगीतसत्कथः ॥ २४ स कौशिकेन मिथिलां प्राप्स्यते भ्रातृसंयुतः । धनुष्पाणिस्तदा दृष्ट्वा दुर्ग्राह्यमन्यभूभुजाम् ॥ २५ धनुर्भङ्क्त्वा जनकजां प्राप्स्यते सुमनोहराम् । तया सह महद्राज्यं करिष्यति श्रुतं वरे ॥ २६ एतदन्यच्च तत्रस्थैः श्रुतमस्माभिरुद्गतैः । कथितं तव चार्वङ्गि मुञ्चाऽऽवां गन्तुकामुकौ ॥ इति वाक्यं तयोधृत्वा श्रोत्रयोः सुमनोहरम् । पुनरेव जगादेदं वाक्यं पक्षियुगं प्रति ॥ स रामः कुत्र वर्तेत कस्य पुत्रः कथं तु ताम् । परिग्रहीष्यति वरः कीदृग्रूपधरो नरः॥ मया पृष्टमिदं सर्व कथयन्तु(तं)यथातथम् । पश्चात्सर्वं करिष्यामि प्रियं युष्मन्मनोहरम् ।। तच्छ्रुत्वा तां तु कामेन पीडितां वीक्ष्य सा शुकी । जानकी हृदि ज्ञात्वा च पपात पुरतस्ततः३१ सूर्यवंशध्वजो नाम राजा पतिरथो बली । यं देवाः श्रित्य सर्वारीविजेष्यन्ते च सर्वतः॥ ३२ तस्य भार्यात्रयं भावि शक्रमोहनरूपधृत् । तस्या(तासा)मपत्यचातुष्कं भविष्यति बलोन्नतम्॥३३ सर्वेषामग्रजो रामो भरतस्तदनु स्मृतः । लक्ष्मणस्तदनु श्रीमाशत्रुघ्नः सर्वतोबलः ॥ १ झ. ऋषिशृङ्ग । २ क अ. ज. तोवरः । र । २० २२ २७ २८ २९ ३४ ३ +r ३ ३८ ४२ ४८ ५७ सप्तपञ्चाशत्तमोऽध्यायः] पद्मपुराणम् । रघुनाथ इति वाक्यं गमिष्यति महाममाः। तेषामनन्तनामानि रामस्य बलिनः सखि ॥ ३५ पनकोश इव शोभनं मुखं पङ्कजाभनयने सुदीर्घके । उन्नतापृथुमनोहरानसं वल्गुसंगतमनोहरे ध्रुवौ ॥ जानुलम्बितमनोहरौ भुजौ कम्बुशोभिगलक्रोडहस्वकः । सत्कपाटतलविस(स्तु)तश्रिकं वक्ष एतदमलं सलक्ष्मकम् ॥ शोभनोरुकटिशोभया युतं जानुयुग्मममलं स्वसेवितम् । पादपद्ममखिलैनिमैः सदा सेवितं रघुपतेः सुशोभनम् ।। एतद्रूपधरो रामो मया किं तु स वर्ण्यते । शताननोऽपि नो याति पक्षिणः किमु मादृशाः ॥३९ यद्रूपं वीक्ष्य ललिता मनोहरवपुर्धरा । लक्ष्मीर्मुमोह भुवि का वर्तते या न मोहति ॥ महाबलो महावीर्यो महामोहनरूपधृत् । किं वर्णयामि श्रीरामं सर्वैश्वर्यगुणान्वितम् ॥ ४१ धन्या सा जानकी देवी महामोहनरूपधृत् । रंस्यते येन सहिता वर्षाणामयुतं मुदा ॥ त्वं का सा किं तु नामासि(स्ति)तव सुन्दरि यत्तु माम् । परिपृच्छसि वैदग्ध्याद्रामकीर्तनमादरात् ।। एतद्वाक्यं समाकर्ण्य जानकी पक्षिणायुगम् । उवाच जन्म ललितं शंसन्ती स्वस्य मोहनम्॥ ४४ या त्वया जानकी प्रोक्ता साऽहं जनकपुत्रिका । स रामो मां यदाऽऽगत्य प्राप्स्यते सुमनोहरः।। तदा वां मोचयाम्यद्धा नान्यथा वाक्यलोभितां । लीलया च सुखेनाऽऽस्तां मगृहे मधुरादकौ।। इत्युक्तं तत्समाकर्ण्य पक्षिणी भयतां गतौ । परस्परं प्रक्षुभितौ जानकी प्रत्यवोचताम् ॥ वयं वै पक्षिणः साध्वि वनस्था वृक्षगोचराः । परिभ्रमामः सर्वत्र नो सुखं नो भवेतृहे ॥ अन्तर्वत्नी स्वके स्थाने गत्वा संसूय पुत्रकान् । त्वत्स्थानमागमिष्यामि सत्यं मे ह्युदितं वचः ॥ एवं प्रोक्ता तया सा तु न मुमोच शिशुः स्वयम् । तदा पतिस्तां प्रोवाच विनीतवदनोत्सुकः५० सीते मुश्च कथं भार्या रक्षसे मे मनोहराम् । आवां गच्छाव विपिने विचरावः सुखं वने ॥ ५१ अन्तर्वत्नी तु वर्तेत भार्या मम मनोगमा । तस्याः प्रसूतिं कृत्वा त्वामागमिष्यामि शोभने ॥ ५२ इत्युक्ता निजगादेमं सुखं गच्छ महामते । एतां रक्षामि सुखितां मत्पार्वे प्रियकारिणीम् ॥५३ इत्युक्तो दुःखितः पक्षी तासूचे करुणान्वितः । योगिभिः प्रोच्यते यद्वै तद्वचस्तथ्यमेव हि ॥५४ न वक्तव्यं न वक्तव्यं मौनमाश्रित्य तिष्ठतु । नो चेत्स वाक्यदोपेण प्रामोत्यालानमुन्मदः ॥५५ वयं चेदत्र वाक्यं नाकरिष्याम नगोपरि । बन्धनं कथमावां(त) स्यात्तस्मान्मौनं समाचरेत् ॥५६ इत्युक्त्वा तां प्रत्युवाच नाहं जीवामि सुन्दरि । एतया भार्यया सीते तस्मान्मुश्च मनोहरे ॥५७ अनेकविधवाक्यैः सा बोधिता नामुचत्तदा । कुपिता दुःखिता भार्या शशाप जनकात्मजाम् ५८ यथा त्वं पतिना सार्धं वियोजयसि मामितः । तथा त्वमपि रामेण विमुक्ता भव गर्भिणी ॥५९ इत्युक्तवत्यां तस्यां तु दुःखितायां पुनः पुनः । प्राणा निरगमन्दुःखात्पतिदुःखेन पूरितात् ॥६० रामरामस्मरन्त्याश्च वदन्त्याश्च पुनः पुनः । विमानमागतं सुष्ठु पक्षिणी स्वर्गता बभौ ॥ तस्यां मृतायां दुःखार्तो भर्ता तस्याः स पक्षिराट् । परमं क्रोधमापनो जाह्नव्यां दुःखितोऽपतत् तथा भवामि रामस्य नगरे जनपूरिते । मद्वाक्यादियमुद्विग्ना वियोगेन सुदुःखिता ॥ इत्युक्त्वा स पपातोदे जाह्नव्या भ्रमशोभिते । दुःखितः कुपितो भीतस्तद्वियोगेन कम्पितः॥६४ कुद्धत्वाहुःखितत्वाच्च सीताया अपमाननात् । अन्त्यजत्वं परं प्राप्तो रजकः क्रोधनाभिधः ॥६५ १ ख. ग. छ. ड. द. ख्याति । २ छ. इ. द. ता । लालयामि सु। ३ स. अ. ये वेपतुर्भय' । 7 ६३ ५५२ महामुनिश्रीव्यासप्रणीत [ ४ पातालखण्डे- यः क्रोधाच्च स्वकान्माणान्महतां दुष्टमाचरन् । संत्यजेत्स मृतो याति अन्त्यजत्वं द्विजोत्तमः॥६६ तज्जातं रजकोक्त्याऽसौ निन्दिता च वियोगिता। रजकस्य च शापेन वियुक्ता सा वनं गता॥६७ एतत्ते कथितं विप्र यत्ते पृष्टं विदेहजाम् । पुनरत्र परं वृत्तं शृणुष्व निगदामि तत् ॥ ६८ इति श्रीमहापुराणे पाझे शेषवात्स्यायनसंवादे रामाश्वमेधे रजकप्रारजन्मकथनं नाम सप्तपञ्चाशत्तमोऽध्यायः ॥५५॥ आदितः श्लोकानां समष्टयङ्काः-१४२०१ अथाष्टपश्चाशत्तमोऽध्यायः । २ %D ८ - ९ शेष उवाच- भरतं मूर्छितं दृष्ट्वा रघुनाथः सुदुःखितः । प्रतीहारमुवाचेदं शत्रुघ्नं पापयाऽऽशु माम् ॥ तद्वाक्यं प्रोक्तमाकर्ण्य क्षणाच्छत्रुघ्नमानयत् । यत्र रामो निजभ्राता भरतेन सह स्थितः ॥ भरतं मूर्छितं दृष्ट्वा रघुनाथं च दुःखितम् । प्रणम्य दुःखितोऽवोचत्किमिदं दारुणं महत् तदा रामोऽन्त्यजप्रोक्तं वाक्यं लोकविगर्हितम् । तं प्रत्युवाच रामोऽसौ शत्रुघ्नं पदसेवकम् ॥ ४ अधोमुखो दीनरवो गद्गदस्वरवेपथुः । शृणु भ्रातर्वचो मेऽद्य कुरु तत्क्षिप्रमादरात् ।। यथा स्याद्विमला कीर्तिर्गशव पृथिवीं गता । सीताया वाच्यमतुलं लोके श्रुत्वाऽन्त्यजोदितम् ॥६ हातुमिच्छामि देहं स्वमेनां वा किल जानकीम्। इति वाक्यं समाकर्ण्य रामस्य किल शत्रुहा ॥७ सवेपथुः पपातोल् दुःखितः परदारणः । संज्ञां प्राप्य मुहूर्तेन रघुनाथमवोचत । शत्रुघ्न उवाच- किमेतदुच्यते स्वामिजानकी प्रति दारुणम् । पाखण्डैर्दुष्टचित्तैश्च सर्वधर्मबहिष्कृतैः ।। निन्दिता श्रुतिरग्राह्या भवति त्वायजन्मना । जाह्नवी सर्वलोकानां पापन्नी दुरितापहा ॥ १० निस्पृष्टा पापिभिः पुम्भिः सा स्पर्शे नाहिता सताम् । सूर्यो जगत्प्रकाशाय समुदेति जगत्यहो। उलूकानां रुचिकरो न भवेत्तत्र का क्षतिः । तस्मात्त्वमेनां गृह्णीष्व मा त्यजानिन्दितां स्त्रियम् १२ श्रीरामभद्र कृपया कुरुष्व वचनं मम । एतच्छ्रुत्वा वचस्तस्य शत्रुघ्नस्य महात्मनः ॥ १३ पुनः पुनर्जगादेमं यदुक्तं भरतं प्रति । तन्निशम्य वचो भ्रातुर्दुःखपूरपरिप्ठतः॥ पपात मूर्छितो भूमौ छिन्नमूल इव द्रुमः । भ्रातरं पतितं वीक्ष्य शत्रुघ्नं दुःखितो भृशम् ॥ १५ प्रतिहारमुवाचेदं लक्ष्मणं त्वानयान्तिकम् । स लक्ष्मणगृहे गत्वा न्यवेदयदिदं वचः॥ १६ प्रतिहार उवाच- स्वामिन्रामो भवन्तं तु समाहयति वेगतः । स तच्छ्रुत्वा समाहानं रामचन्द्रेण वेगतः ॥ जगाम तरसा तत्र यत्र सभ्रातृकोऽनघः । भरतं मूर्छितं दृष्ट्वा शत्रुघ्नमपि मूछितम् ।। श्रीरामचन्द्रं दुःखात दुःखितो वाक्यमब्रवीत् । किमेतदारुणं राजन्दृश्यते मूर्छनादिकम् ॥ १९ तदाशु शंस सर्व मे कारणं मुख्यतोऽनघ । एवं वदन्तं नृपतिर्दृत्तान्तं सर्वमादितः ॥ शशंस लक्ष्मणं शिमं दुःखपूरपरिष्ठुतम् । लक्ष्मणस्तद्वचः श्रुत्वा सीतायास्त्यागसंभवम् ॥ २१ निश्वसन्मुहुरुच्वसंस्तब्धगात्र इवाभवत् । भ्रातरं स्तब्धगात्रं च कम्पमानं मुहुर्मुहुः ।। न किंचन वदन्तं तं वीक्ष्य शोकार्दितोऽब्रवीत् । किं करिष्याम्यहं भूमौ स्थित्वा दुर्यशसाऽङ्कितः १७. ज. स. पुतः । ल । १४ - १७ १८ २० २२ २७ १८ अष्टपञ्चाशत्तमोऽध्यायः] पपपुराणम् । यजामि स्वं वपुः श्रीमल्लोकभीत्या च शोकवान् । सर्वदा भ्रातरो मह्यं वाक्यंकरा विचक्षणाः॥ दानी तेऽपि दैवेन प्रतिकूलवचःकराः । कुत्र गच्छामि किं यामि हसिष्यन्ति नृपा भुवि ॥ २५ दुर्यशोलाञ्छितं वै मां कुष्ठिनं रूपवनराः । मनोर्वशे पुरा भूपा जाता जाता गुणाधिकाः ॥ २६ दानीं मयि जाते तु विपरीतं बभूव तत् । इति संभाषमाणं ते रामभद्रं समीक्ष्य सः॥ संस्तभ्याणि विपुलान्युवाच विकलस्वरः । स्वामिन्विषादं मा कार्षीः कथं तव मतिर्हता ॥२८ सीतामनिन्दितां को नु त्यजति श्रुतवान्भवान् । आकारयामि रजकं परिपृच्छामि तं प्रति ॥२९ तथं त्वया निन्दिता सा जानकी योषितां वरा । तव देशे बलात्कश्चिद्वाध्यते न जनोऽल्पकः।। स्मात्तस्य यथा स्वान्ते प्रतीतिः स्यात्तथाऽऽचर । किमर्थं त्यज्यते भीरुः पतिव्रतपरायणा ॥३१ नसा वचसा नान्यं जानाति जनकात्मजा। तस्मादेनां गृहाण त्वमेतां मा त्यज जानकीम्॥३२ पमोपरि कृपां कृत्वा मदुक्तं संश्रयाऽऽशु तत् । एवं वदन्तं प्रत्यूचे रामः शोकेन कर्षितः ॥ लक्ष्मणं धर्मवाक्येन बोधयंस्त्यजनोद्यमः ॥ श्रीराम उवाच- कथं तु मां ब्रवीषि त्वं मा त्यजैनामनिन्दिताम् । लोकापवादात्त्यक्ष्येऽहं जाननपि विपापिनीम् ३४ खयशःकारणेऽहं स्वं देहं त्यक्ष्यामि शोभनम् । त्वामपि भ्रातरं त्यक्ष्ये लोकवादाद्विगर्हितम् ३५ केमुतान्ये गृहाः पुत्रा मित्राणि वसु शोभनम् । स्वयशःकारणे सर्व त्यजामि किमु मैथिलीम् ३६ न तथा मे प्रियो भ्राता न कलत्रं न बान्धवाः । यथा मे विमला कीर्तिर्वल्लभा लोकविश्रुता ३७ दानी रजको नाद्य प्रष्टव्यो भवति ध्रुवम् । कालेन सर्व भविता लोकचित्तस्य रञ्जनम् ॥ ३८ आमयो यद्वदामस्तु न चिकित्स्यो भवेक्षितौ । स कालेन परीपाकाद्भेषजादेव नश्यति ॥ ३९ तथा कालेन संभावि सांप्रतं मा विलमय । त्यजैनां विपिने साध्वी मां वा खड़ेन घातय॥४० त्युक्तं वाक्यमाकर्ण्य दुःखितोऽभूत्क्षणं तदा । चिन्तयामास च स्वान्ते लक्ष्मणः शोककर्षितः॥ पेत्राज्ञातो जामदग्न्यो मातरं घातयन्नभूत् । गुरोराज्ञा न वै लठ्या युक्ताऽयुक्ताऽपि सर्वथा४२ स्मादेनां त्यजाम्येव रामस्य पियकाम्यया । इति संचिन्त्य मनसि भ्रातरं प्रत्युवाच सः॥ ४३ लक्ष्मण उवाच- प्रकृत्यमपि कार्य वै गुर्वाज्ञां नैव लषयेत् । तस्मात्कुर्वे भवद्वाक्यं यत्त्वं वदसि सुव्रत ॥ त्येवं भाषमाणं च लक्ष्मणं प्रत्युवाच सः। साधु साधु महामाज्ञ खया मे तोषितं मनः ॥ ४५ अद्यैव रात्रौ जानक्या दोहदस्तापसीक्षणे । तन्मिषेण रथे स्थाप्य मोचयैनां महामते ॥ ४६ त्थं भाषितमाकर्ण्य विशुष्यद्वदनोऽभितः । रुदन्बाष्पकला मुश्चञ्जगाम स्वनिवेशनम् ॥ पुमत्रं तु समाढूय वचनं तमथाब्रवीत् । रथं मे सजं वै सदश्वाम्बरभूषितम् ॥ न तद्वाक्यं समाकर्ण्य रथमानीतवांस्तदा । आनीतं तं रथं दृष्ट्वा लक्ष्मणः शोककर्पितः ॥ रिमं दुःखमापन्नः संरुह्य स्यन्दनं वरम् । निश्वसञ्जानकीगेहं प्रतस्थे भ्रातृसेवकः॥ रत्वा चान्तःपुरे भ्राता रामस्य मिथिलात्मजाम् । प्रत्यूचे निश्वसन्वाक्यं दुःखपूरपरिप्लुतः ५१ लक्ष्मण उवाच- तर्जानकि रामेण प्रेषितो भवनं तव । तापसीः प्रति याहि त्वं दोहदमाप्तिहेतवे । १२. 'न् । शोकवन्तो भ्रातरो मे कर्तव्ये मूढचेतसः । ई । २ स.अ. न्युभूतवि'। ३ रू. "णि सुहृदस्तथा । स्व। ख. ग. छ. म. ठ. इ. ण. त.प. द. ध. विलम्बय । ५३, - ४४ ४७ ४८ कुरु ४९ l शुष्यद्वदनपङ्कजः । । .
५५४ महामुनिश्रीव्यासप्रणीत- [४ पातालखण्डे-- इति वाक्यं समाकर्ण्य लक्ष्मणस्य विदेहजा । परमं हर्षमापना लक्ष्मणं प्रत्यभाषत । जानक्युवाच- धन्याऽहं मैथिली राज्ञी रामस्य चरणस्मरा । यस्या दोहदपूर्त्यर्थं प्रेषयामास लक्ष्मणम् ॥ ५४ अद्याहं ता वनचरीस्तापसीः पतिदेवताः । नमस्कुर्या च वासोभिः पूजयामि मनोहराः ॥ ५५ इत्युक्त्वा रम्यवस्त्राणि महार्हाभरणानि च । मणीन्विमलमुक्ताश्च कर्पूरादि सुगन्धवत् ॥ ५६ चन्दनादिकवस्तूनि विचित्राणि सहस्रधा । जग्राह रघुनाथस्य पत्नी प्रियकरी वरा ॥ सीता गृहीत्वा सर्वाणि दासीनां करयोर्मुहुः । लक्ष्मणं प्रतिगच्छन्ती देहल्यां चास्खलत्तदा॥५८ अविचार्य तदौत्सुक्यालक्ष्मणं प्रियकारिणम् । उवाच कुत्र स रथो येन मां प्रापयिष्यसि॥५९ स निश्वसन्स्थं[*हैमं जानक्या सह निर्विशन् । सुमन्त्रं प्रत्युवाचासौ चालयाश्वान्मनोहरान् ६० स तु युक्तं रथं] वाक्याल्लक्ष्मणस्य सुचालयन् । अश्रुपूर्णमुखं वीरं लक्ष्मणं समलोकयत् ॥ ६१ आहतास्तेन कशया वाहास्तस्यापतन्पथि । न चलन्ति यदा वाहास्तदा लक्ष्मणमब्रवीत् ॥ ६२ सुमन्त्र उवाच- स्वामिश्वलन्ति नो वाहा यत्नेन परिचालिताः। किं करोमि न जानेऽत्र कारणं वाहपातने ६३ एवं ब्रुवन्तं प्रत्यूचे लक्ष्मणो गद्गदस्वरः । सारथिं धैर्यमास्थाय ताडयैतान्कशादिभिः॥ ६४ एतच्छ्रुत्वोदितं यन्ता कथंचिच्चालयमभूत् । तदाऽस्फुरदक्षनेत्रं जानक्या दुःखशंसकम् ॥ ६५ तदैव हृदये शोकः समभूदुःखशंसकः । तदैव पक्षिणः पुण्याः कुर्वन्ति परिवर्तनम् ।। ६६ एवं वीक्ष्यैव वैदेही प्रत्युवाचाथ देवरम् । कथं मे तापसीक्षा वै यातुमिच्छोरघंकरम् ॥ ६७ रामे भूयादि कल्याणं भरते वा तवानुजे । तत्मजासु च सर्वत्र मा भवन्तु विपर्ययाः ॥ एवं ब्रुवती संवीक्ष्य जानकी स तु लक्ष्मणः। न किंचिदुक्तवान्रुद्धकण्ठो बाष्पप्रपूरितः ॥ ६९ सा गच्छन्ती मृगान्वामपरिवर्तनकारकान् । अपश्यदुःखसंघातकारकान्समभाषत । जानक्युवाच-- अद्य यन्मे मृगा वामं वर्तयन्ति तैदीप्यते । श्रीरामचरणौ मुक्त्वा गच्छन्त्या युक्तमेव तत् ॥७१ महिलानां परो धर्मः स्वभर्तृचरणार्चनम् । तन्मुक्त्वाऽन्यत्र यान्त्या मे यद्भवेयुक्तमेव तत् ॥ ७२ एवं पथि विचारं तु कुर्वत्या परमार्थतः । जाह्नवी ददृशे देव्या मुनिवृन्दैकसेविता ।। यस्यां जलस्य कल्लोला दृश्यन्ते दुग्धसंनिभाः। तरङ्गो दृश्यते यत्र स्वर्गसोपानमूर्तिभृत् ॥ ७४ यस्या वारिकणस्पर्शान्महापातकसंचयः । पलायते न कुत्रापि स्थानमीक्षन्समन्ततः ॥ गङ्गां प्राप्याथसौमित्रिर्जानकी स्यन्दनस्थिताम्।उवाच निर्गलद्वाष्पएहिसीतेतरोमिलाम्(रथाङ्गुवि सीता तद्वाक्यमाकी क्षणादवततार सा । लक्ष्मणेन धृता बाहौ स्खलन्ती पथि कण्टकैः ॥ ७५ इति श्रीमहापुराणे पाझे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे जानक्या गङ्गादर्शनं नामाष्टपञ्चाशत्तमोऽध्यायः ॥५८ आदितः श्लोकानां समष्ट्यङ्काः-१४२७८ ७० ७३ ७५ * एतचिहान्तर्गतः पाठः ख. ग. छ. ज. ठ. इ. ण. त. थ. द. ध. पुस्तकस्थः । १६. म. "त्नी स्वप्रियकाम्यया । सी। २ म. सदिष्य।
५९ एकोनषष्टितमोऽध्यायः] पद्मपुराणम् । अथैकोनषष्टितमोऽध्यायः । २ ८ ९ शेष उवाच- अय नावा समुत्तीर्य जाहवीं लक्ष्मणस्तदा । जानकी परतस्तीरे हस्ते धृत्वा ययौ वनम् ॥ ता चलन्ती पथि तदा शुष्यद्वदनलक्षिता । कण्टकक्षतसत्पादा स्खलन्ती च पदे पदे ॥ लक्ष्मणस्ता महाघोरे विपिने दुःखदायिनि । प्रवेशयामास तदा राघवाज्ञाविशारदः ॥ पत्र वृक्षा महाघोरा बु—राः खदिरा धैवाः । श्लेष्मातकाश्चिणीकाथ शुष्का दावेन वहिना ॥ ४ कोटरस्था महासर्पाः फूत्कुर्वन्ति सुकोपिताः । [*धूका घूत्कुर्वते यत्र लोकचित्तभयंकराः ॥ ५ व्याघ्राः सिंहाः शृगालाश्च द्वीपिनोऽतिभयंकराः । दृश्यन्ते यंत्रासहना मनुष्यादाः सुकोपनाः ] महिषाः शूकरा दुष्टा दंष्ट्राद्वयविलक्षिताः । कुर्वन्ति प्राणिनां तापं मानसस्य मदोजुराः ॥ हिग्वनं प्रपश्यन्ती भयेनोपगतज्वरा । कण्टकादष्टचरणा लक्ष्मणं वाक्यमब्रवीत् ॥ जानक्युवाच- वरर्षिमुनिसंसेव्यानाश्रमान्नेत्रसौख्यदान् । नाहं पश्यामि नो तेषां पत्नीश्च सुतपोधनाः॥ 'पश्यामि केवलं घोरान्पक्षिणः शुष्कवृक्षकान् । दावानलेन सर्वत्र दह्यमानमिदं वनम् ॥] १० स्वां च पश्यामि दुःखार्तमश्रुपूर्णाकुलेक्षणम् । शकुनेतरसाहस्रं भवेन्मम पदे पदे ॥ ११ जन्मे कथय वीराय कथं मुक्ता महात्मना । रामेण दुष्टहृदया क्षिप्रं कथय मे हि तत् ॥ १२ इति वाक्यं समाकर्ण्य लक्ष्मणः शोककर्शितः। संरुद्धबाष्पनयनो न किंचित्मोक्तवांस्तदा ॥ १३ दैवं विपिनं घोरं गच्छन्ती लक्ष्मणान्विता । पुनरप्याह तं वीरं दुःखात पश्यती मुंखम् ॥ १४ दापि स न तां वक्ति किमपि प्रेक्षयन्स्थितः । तदाऽसावतिनिर्बन्धं चकार परिपृच्छती ॥१५ भाग्रहेण यदा पृष्टो लक्ष्मणः सीतया तदा । रुद्धकण्ठो मुहुः शोचनवदत्त्यागसंभवम् ।। नद्वाक्यं पविना तुल्यं निशम्य मुनिसत्तम । सुलता कृत्तमूलेव बभूवाऽऽकल्पवर्जिता ॥ १७ दैव पृथिवी तां न जग्राह तनयामिमाम् । रामो विपापिनी सीतां न जह्यादितिशङ्किनी ॥ १८ तितां तां तु वैदेही दृष्ट्वा सौमित्रिरुत्सुकः । पल्लवाग्रसमीरेण संहितां तु चकार सः॥ १९ संज्ञा माप्ता प्रत्युवाच मो हास्यं कुरु देवर । कथं मां पापरहितां त्यजते स रचूद्वहः ।। रवं बहु विलप्याथ लक्ष्मणं दुःखसंयुतम् । संवीक्ष्य मूर्छिता भूमौ पपात परिदुःखिता ।। २१ मुहूर्तेनापि संज्ञा सा प्राप्य दुःखपरिप्लुता । जगाद रामचरणौ स्मरन्ती शोकविक्षता ॥ २२ जानक्युवाच- घुनाथो महाबुद्धिस्त्यजते मां कथं महान् । यो मदर्थे पयोराशिं बद्धवान्वानरैर्युतः ॥ २३ त कथं मां महावीरो निष्पापां रजकोक्तितः । त्यजिष्यति ममैवात्र दैवं तु प्रतिकूलिप्तम् ॥ २४ एवं वदन्ती पुनरपि मूर्छा प्राप्ता विदेहजा । मूर्छितां तां समीक्ष्यायं रुरोद विकृतस्वरः ॥ २५ * एतचिहान्तर्गतः पाठः क. ख. ग. च. छ. ज. अ. ठ. इ. ण. त.व. द. ध. न. पुस्तकस्थः । । एतचिहान्तर्गतः ठः ख. ग. छ. ज. ठ. . ग. त. थ. द. ध. न. पुस्तकस्थः । + नुमभाव आर्षः । १६. न. विधायकः । य । २ द. न. धनाः। ३ क. ख. ग. ज. अ. ठ. त. य. द.प. न. "श्चिश्चिणीकाः शु। स. म. यत्र सरला म । ५ क. ख. ग. च. ज. अ. ठ. ण. त. द. ध. न. "त् । वीरर्षि । . त् । वीरात्र मुस. 1. दुःखार्ता । ७ झ. अ. महत् । ८ न रिमूर्छिता । आ । ९ म. ‘हात्म्यं कुं। २० ३० ३२ ३४ ५५६ महामुनिश्रीव्यासमणीतं- [४ पातालखण्डे- पुनः संज्ञामवाप्यैवं सौमित्रि निजगाद सा । दुःखातुरं वीक्षमाणा रुद्धकण्ठं सुदुःखिता ॥ २६ सौमित्रे गच्छ रामं त्वं धर्ममूर्ति यशोनिधिम् । मद्वाक्यमेकमायूयाः समक्षं तपसां निधेः ॥ २७ मां तत्याज भवान्यदै जाननपि विपापिनीम् । कुलस्य सदृशं किंवा शास्त्रज्ञानस्य तत्फलम् २८ नित्यं तव पदे रक्तां त्वदुच्छिष्टभुजं हि माम् । भवस्तित्याज तत्सर्वं मम दैवं तु कारणम् ॥ २९ कल्याणं तव सर्वत्र भूयाद्वीरवरोत्तम । अहं तावदने त्वां हि स्मरन्ती प्राणधारिका ॥ मनसा कर्मणा वाचा भवानेव ममोत्तमः । अन्ये तुच्छीकृताः सर्वे मनसा रघुवंशज ।। ३१ भवे भवे भवानेव पतिर्भूयान्महेश्वर । त्वत्पादस्मरणानेकहतपापा सतीश्वरी ॥ [*श्वश्रूजनं वदेः सर्व मत्संदेशं रघूत्तम । त्यक्ता वने महाघोरे रामेण निरघा सती] ॥ ३३ स्मरामि चरणौ युष्मद्वने मृगगणैर्युते । अन्तर्वत्नी वने त्यक्ता रामेण सुमहात्मना । सौमित्रे शृणु मद्वाक्यं भद्रं भूयाद्रघूत्तमे । इदानीं संत्यजे प्राणावामवीर्य सुरक्षती ।। ३५ त्वं रामवचनं तथ्यं यत्करोषि शुभं तव । परतत्रेण तत्कार्य रामपादाजसेविना ॥ ३६ गच्छ त्वं रामसविधे शिवाः पन्थान एव ते । ममोपरि कृपा कार्या स्मर्तव्याऽहं कदा कदा ३७ इत्युक्त्वा मूर्छिता भूमौ पपात पुरतस्ततः । लक्ष्मणो दुःखमापेदे वीक्ष्य मूर्छितजानकीम् ॥ ३८ वीजयामास वासोग्रैः संज्ञां प्राप्तां अंकृत्य च । सौमित्रिः सान्त्वयामास वचनैर्मधुरैर्मुहुः ॥ ३९ लक्ष्मण उवाच- एष गच्छामि रामं वै गत्वा शंसामि सर्वशः । समीपे ते मुनेरस्ति वाल्मीकेराश्रमो महान् ॥४० इत्युक्त्वा तां परिक्रम्य दुःखितो बाष्पपूरितः । मुश्चनचकला दुःखाद्ययौ रामं महीपतिम् ॥४१ जानकी देवरं यातं वीक्ष्य विस्मितलोचना । हसत्ययं महाभागो लक्ष्मणो देवरो मम ॥ कथं मां माणतः मेष्ठां विपापां राघवस्त्यजेत् । इति संचिन्तयन्ती सा तमैक्षदनिमेषणा॥ ४३ जाह्नवीं सर्वथोत्तीर्णा ज्ञात्वा सत्यं स्वहापनम् । पतिता प्राणसंदेहं प्राप्ता मूर्छाऽपि तां तदा॥४४ तदा हंसाः स्वपक्षाभ्यां जलमानीय सर्वतः । सिषिचुर्मधुरो वायुर्ववौ पुष्पसुगन्धवान् ॥ ४५ करिणः पुष्करैः स्वीयैलपूर्णैः समन्ततः । व्याप्तं शरीरं रजसा क्षालयन्त इवाऽऽगताः ॥ ४६ मृगास्तदन्तिकं प्राप्य संतस्थुर्विस्मितेक्षणाः । नगाः पुष्पयुता आसंस्तत्कालं मधुना विना ४७ एतस्मिन्समये वृत्ते संज्ञां प्राप्य तदा सती । विललाप मुहुर्दुःखादाम रामेति जल्पती ।। हा नाथ दीनबन्धो हे करुणापयसां निधे । अपराधाहते मां त्वं कथं त्यजसि वै वने ॥ इत्येवमादि भाषन्ती विलपन्ती मुहुर्मुहुः । इतस्ततः प्रपश्यन्ती संमूर्छन्ती पुनः पुनः॥ तदा स्वशिष्यभगवान्वाल्मीकिः संगतो वनम् । शुश्राव रुदितं तत्र करुणास्वरभाषितम् ॥ ५१ शिष्यान्पति जगादाथ पश्यन्तु वनमध्यतः । को रोदिति महाघोरे विपिने दुःखितस्वरः ॥ ५६ प्रयुक्तास्तु मुनिना संजग्मुर्यत्र जानकी । राम रामेति भाषन्ती बाष्पपूरपरिप्लुता ॥ तां दृष्ट्वा स्त्रियमौत्सुक्याद्वाल्मीकि प्रत्यगुर्मुनिम् । श्रुत्वा तदीरितं वाक्यं जगामासौ ततो मुनिर दृष्ट्वाऽऽसौ तपसा राशिं जानकी पतिदेवता । नमोऽस्तु मुनये वेदमूर्तये व्रतवार्धये ॥ इत्युक्तवती वै सीतामाशीभिरभ्यनन्दयत् । भ; सह चिरं जीव पुत्रौ प्रामुहि शोभनौ ॥ ५६ काऽसि त्वं किं वने घोरे संगताऽसि किमीशी।सर्व मे शंस जानीयां तव दुःखस्य कारणम् * एतचिहान्तर्गतः पाठः, छ. उ. द. न. पुस्तकस्थः । १ क. ख. ग. च. छ. अ. ठ. इ. ण, द. प. 'न्महीश्व । २ द. न. प्रणम्य । ४२ १८ ४२ ५० ५९ एकोनषष्टितमोऽध्यायः] पमपुराणम् । तदा सा प्रत्युवाचे रामस्य महिला मुनिम् । निश्वसती करुणया गिरा संजातवेपथुः॥ ५८ शृणु मे वाक्यमर्थोक्तं सर्वदुःखस्य कारणम् । जानीहि मां भूमिपते रघुनाथस्य सेविकाम् ५९ अपराधं विना त्यक्तां न जाने तत्र कारणम् । लक्ष्मणो मां विमुच्यात्र गतवानाघवाज्ञया ॥६० इत्युक्त्वाऽश्रुकलापूर्ण विभ्रती मुखपङ्कजम् । वाल्मीकिः सान्त्वयन्माह जानकी कमलेक्षणाम्६१ वाल्मीकिरुवाच- वाल्मीकि मां विजानीहि पितुस्तव गुरुं मुनिम् । दुःखं मा कुरु वैदेहि ह्यागच्छ मम चाऽऽश्रमम् भिन्नस्थाने पितुर्गेई जानीहि पतिदेवते । ईदृशे कर्मणि मम रोषोऽस्त्येव महीपतेः ॥ एवं वचनमाकर्ण्य जानकी पतिदेवता । दुःखपूर्णाश्रुवदना किंचित्सुखमवाप सा ॥ शेष उवाच- वाल्मीकिः सान्त्वयित्वना दुःखपूर्णाकुलेक्षणाम् । निनाय चाऽऽश्रमं पुण्यं तापसीन्दपूरितम् ६५ सा गच्छन्ती पृष्ठतोऽस्य वाल्मीकेस्तपसां निधेः । रराजेन्दोः पृष्ठतो वै तारेव सुमनोहरा ॥६६ वाल्मीकिः प्राप्य च स्वीयमाश्रमं मुनिपूरितम् । तापसीः प्रति संचख्यौ जानकी स्वाश्रमं गताम् वैदेही तापसीः सर्वा नमश्चके महामनाः । परस्परं प्रहृष्य ताः परिरम्भं समाचरन् । वाल्मीकिर्निजशिष्यांस्तु प्रत्युवाच तपोनिधिः । रच्यतां बत जानक्याः पर्णशाला मनोरमा ॥६९ इत्युक्तं वाक्यमाकर्ण्य वाल्मीकेः सुमनोरमम् । व्यरचन्पत्रकैः शाला दारुभिः सुमनोरमाम्॥७० तत्रावसद्विदेहोद्भूः पतिव्रतपरायणा । वाल्मीके परिचर्या च कुर्वती फलभक्षिका ॥ ७१ रामरामजपन्त्याशु मनसा वचसा स्वयम् । निनाय दिवसांस्तत्र जानकी पतिदेवता ॥ काले साऽसूत पुत्रौ द्वौ मनोहरवपुर्धरौ । रामचन्द्रप्रतिनिधी ह्यश्विनाविव जानकी ॥ ७३ तच्छ्रुत्वा तु मुनिहष्यञ्जानक्याः पुत्रसंभवम् । षकार जातकर्मादिसंस्कारान्मत्रवित्तमः ॥ ७४ कुशैहवैश्च वाल्मीकिमुनिः कर्माणि चाऽऽचरत् । तन्नाम्ना पुत्रयोराख्या कुशो लव इति स्फुटा। वाल्मीकिर्यत्र विरजा मङ्गलं तदथाऽऽचरत् । अत्यन्तहृष्टचेतस्का बभूव सुमुखेक्षणा ॥ तदिने लवणं हत्वा शत्रुघ्नः स्वल्पसैनिकः। आगमच्चाऽऽश्रमे चास्य वाल्मीकेनिशि शोभने॥७७ तदा वाल्मीकिना शिष्टः शत्रुघ्नो रघुनायकम् । मा शंस जानकीपुत्रौ कथयिष्याम्यहं पुरः ॥७८ जानकीपुत्रको तत्र वधाते मनोरमौ । कन्दमूलफलैः पुष्टौ व्यदधादुन्मन्दौ वरौ ॥ शुक्लपतिपदायाश्च शशीव सुमनोहरौ । कालेन संस्कृतौ जातावुपैनीती मनोहरौ ॥ उपनीय मुनिर्वेदै साङ्गमध्यापयत्सुतौ । सरहस्य धनुर्वेद रामायणमपाठयत् ॥ ८१ वाल्मीकिना च धनुषी दत्ते स्वर्णसुभूषिते । अभेद्ये मुगुणे श्रेष्ठे वैरिबन्दसुदारुणे ॥ इषुधी बाणसंपूर्णे अक्षये करवालके । चाण्यभेद्यानि ददौ जानक्यात्मजयोस्तदा ॥ धनुर्धरौ धनुर्वेदपारगावाश्रमे मुदा । चरन्तो तत्र रेजाते ह्यश्विनाविव शोभनौ ॥ जानकी वीक्ष्य पुत्रौ द्वौ खगचर्मधरौ वरौ । परमं हर्षमापना विरहोद्भवमत्यजत् ॥ ८५ एष ते कथितो विप्र जानक्याः पुत्रसंभवः । अतः शृणुष्व यवृत्तं वीरबाहुविकृन्तनात् ॥ ८६ इति श्रीमहापुराणे पाये पातालखण्डे शेषवात्स्यायमसंवादे रामाश्वमेधे कुशलवोत्पात्तिनामैकोनषष्टित्तमोऽध्यायः ॥ ५९ ॥ आदितः श्लोकानां समष्टयङ्काः-१४३६४ ७२ ७९ ८४ १ ण. मित्रस्थाने । २ स. म. पवीतादिना मुने । उ । ३ छ. ह. °ठे वीर।
५५८ महामुनिश्रीव्यासप्रणीतं- - [४. पातालखण्डे. अथ षष्टितमोऽध्यायः । २ ४ or ८ शेष उवाच- शत्रुघ्नो निजवीराणां भुजाः कृत्तानिरीक्षयन् । उवाच तान्सुकुपितो रोषसंदंशिताधरः ॥ केन वीरेण वो बाहुकृन्तनं समकारि भोः । तस्याहं बाहू कृन्तामि देवगुप्तस्य वै भटाः ॥ न जानाति महामूढो रामचन्द्रबलं महत् । इदानी दर्शयिष्यामि पराक्रान्त्या बलं स्वकम् ॥ १ स कुत्र वर्तते वीरो हयः कुत्र मनोरमः । को वाऽगृह्णात्सुप्तसन्मूिढोऽज्ञात्वा पराक्रमम् ॥ इति ते कथिता वीरा विस्मिता दुःखिता भृशम् । रामचन्द्रप्रतिनिधि बालकं समशंसत ॥ ५ स श्रुत्वा रोषताम्राक्षो बालकेन हयं हृतम् । सेनान्यं वै कालजितमाज्ञापययुयुत्सुकः॥ शत्रुघ्न उवाच- सेनानीः सकलां सेनां व्यूहयस्व ममाऽऽज्ञया । रिपुः संप्रति गन्तव्यो महाबलपराक्रमः ॥ ७ नायं बालो हरिनं भविष्यति हयंधरः । अथवा त्रिपुरारिः स्यान्नान्यथा मद्धयापहृत् ॥ अवश्यं कदनं भावि सैन्यस्य बलिनो महत् । स्वच्छन्दचरितैः खेलनास्ते निर्भयधीः शिशुः॥? तत्र गन्तव्यमस्माभिः संनद्धै रिपुदुर्जयः। एतनिशम्य वचनं शत्रुघ्नस्य स सैन्यपः ॥ १० सज्जीचकार सेनां तां दुयूढां चतुरङ्गिणीम् । सज्जां च शत्रुजिदृष्ट्वा चतुरङ्गयुतां वराम् ॥ ११ आज्ञापयत्ततो गन्तुं यत्र बालो हयंधरः। सा चचाल तदा सेना चतुरङ्गसमन्विता ॥ १२ कम्पयन्ती महीभागं त्रासयन्ती रिपून्बलात् । सेनानीस्तं ददर्शाथ बालकं रामरूपिणम् ॥ ११ विचार्य रामप्रतिममब्रवीद्वचनं हितम् । बाल मुश्च हयं श्रेष्ठं रामस्य बलशालिनः ॥ सेनानीः कालजिन्नाम तस्य भूपस्य दुर्मदः । त्वां रामप्रतिमं दृष्ट्वा कृपा मे जायते हृदि ॥ १५ अन्यथा तव मे दौस्थ्याज्जीवितं न भविष्यति । एतद्वाक्यं समाकर्ण्य शत्रुघ्नस्य भटस्य हि ॥१६ जहास किंचिदाकोपादुवाच च वचोऽद्भुतम् । गच्छ मुक्तोऽसि तं रामं कथयस्व हयग्रहम् ॥१७ त्वत्तो विभेमि नो शूर वाक्येन नयशालिना । ममात्र गणना नास्ति त्वादृशाः कोटयो यदि १८ मातृपादप्रसादेन तूलीभूता न संशयः । कालजित्तव यन्नाम मात्राऽकारि मनोज्ञया(कम्)। १९ पकबिम्बफलस्येव वर्णतो न च वीर्यतः । दर्शयस्वाधुना वीर्य स्वनामबलचिह्नितः ॥ मां कालं तव संजित्य सत्यनामा भविष्यास ॥ शेष उवाच- स वाक्यैः पविना तुल्यैभिन्नः सुभटशेखरः । चुकोप हृदयेऽत्यन्तं जगाद वचनं पुनः ॥ २१ कालजिदुवाच- कस्मिन्कुले समुत्पत्तिः किनामाऽसि च बालक । त्वन्नाम नाभिजानामि कुलं शीलं वयस्तथा २२ पादचारं रथस्थोऽहमधर्मेण कथं जये । तदाऽत्यन्तं प्रकुपितो जगाद वचनं पुनः॥ २० २३ लव उवाच- - कुलेन किं च शीलेन नाम्ना चे वयसा भट । लवोऽहं लवतः सर्वाओष्यामि रिपुसैन्यकान्॥२४ इदानीं त्वामपि भटं करिष्ये पादचारिणम् । इत्थमुक्त्वा धनुः सज्जं चकार स लवो बली।।२५ १ क. ख. घ.. च. छ. स. अ. ट. ठ. ड ढ त. थ. द. प. म. महीपालं । ग. ण. महीतलं । ज. क्षितितलं । २ स. म. च सुमनोहदा । ल । न. ब किं विधीयताम् । ल ।
२८ २९ ६० षष्टितमोऽध्यायः] पद्मपुराणम् । ५५९ रवारयामास तदा वीरानाकम्पयन्हृदि । वाल्मीकिं प्रथम स्मृत्वा जानकी मातरं लवः ॥ २६ मुमोच बाणानिशितान्सयामाणापहारिणः । कालजित्स्वधनुः कृत्वा सज्जं कोपसमन्वितः॥ २७ ताडयामास जवनो लवं रणविशारदः । तद्वाणाञ्शतधा छित्त्वा क्षणाद्वेगात्कुशानुगः ॥ सेनान्यं विरथं चक्रे वसुभिर्वाणसंचयैः । विरथो गजमानीतमारुरोह भटैनिजैः॥ मदोन्मत्तं महावेग सप्तधाप्रस्रवान्वितम् । गजारूढं तु तं दृष्ट्वा दशभिर्धनुषो गतैः ॥ बाणैर्विव्याध विहसन्सर्वान्रिपुगणाञ्जयी । कालजित्तस्य वीर्य तु दृष्ट्वा विस्मितमानसः ॥ ३१ गदा मुमोच महतीं महायसविनिर्मिताम् । आपतन्ती गदां वेगाद्भारायुतविनिर्मिताम् ॥ त्रिधा चिच्छेद तरसा क्षुरप्रैः स कुशानुजः । परिघं निशितं घोरं वैरिमाणहरोदितम् ॥ मुक्तं पुनस्तेन लवश्चिच्छेद तरसाऽन्वितः । छित्त्वा तत्परिघं घोरं कोपादारक्तलोचनः । गजोपस्थे समारूढं मन्यमानश्चकोप ह । तत्क्षणादच्छिनत्तस्य शुण्डां खड़ेन दन्तिनः ॥ ३५ दन्तयोश्चरणौ धृत्वाऽऽरुरोह गजमस्तके । मुकुटं शतधा कृत्वा कवचं तु सहस्रधा ॥ केशेष्वाकृष्य सेनान्यं पातयामास भूतले । पातितः स गजोपस्थात्सेनानीः कुपितः पुनः॥३७ हृदये ताडयामास मुष्टिना वज्रमुष्टिना । स आहतो मुष्टिभिस्तु क्षुरपानिशिताशरान् ॥ मुमोच हृदये क्षिप्रं कुण्डलीकृतधन्ववान् । स रराज रणोपान्ते कुण्डलीकृतचापवान् । शिरस्त्रं कवचं बिभ्रदभेद्यं शरकोटिभिः । स विद्धः सायकैस्तीक्ष्णैस्तं हन्तुं खड़माददे ॥ दशबोषात्स्वदशनान्निश्वसनुच्छ्रसन्मुहुः । खड्गहस्तं समायान्तं शूरं सेनापति लवः॥ चिच्छेद भुजमध्यं च सखगः पाणिरापतत् । छिन्नं खड्गधरं हस्तं वीक्ष्य कोपाचमूपतिः॥ ४२ वामेन गदया हन्तुं प्रचक्राम भुजेन तम् । सोऽपि च्छिन्नो भुजस्तस्य साङ्गदस्तीक्ष्णसायकैः ४३ तदा प्रकुपितो वीरः पादाभ्यामहनल्लवम् । लवः पादाहतस्तस्य न चचाल रणाङ्गणे ॥ सजा हतो द्विप इव चरणच्छेदनं व्यधात् । तदाऽपि तं मौलिनाऽसौ प्रहर्तुं तु प्रचक्रमे ॥ ४५ तदा लवश्वमूनाथं मन्यमानोऽधिपौरुषम् । करवालं समादाय करे कालानलोपमम् ॥ ४६ अच्छिनच्छिर एतस्य महामुकुटशोभितम् । हाहाकारो महानासीचमूनाथे निपातिते ॥ सैनिकाः परमं क्रुद्धा लवं हन्तुमगुः क्षणात् । [*लवस्तान्स्वशराघातैः पलायनपरान्व्यधात् ४८ छिन्ना भिन्नाङ्गकाः केचिद्गताः केचिद्रणाङ्गणात् ] स निवार्याखिलान्योधान्विजगाह चमुं मुदा४९ वाराह इव निश्वस्य प्रलयेषु महार्णवम् । गजा भिन्ना द्विधा जाता मौक्तिकैः पूरिता मही॥५० दुर्गमाऽभूद्भटाग्र्याणां पर्वतैया॑पृता यथा । अश्वाः कनकपल्याणा रुचिरा रत्नराजिताः ॥५१ अपतन्रुधिरप्लुष्टे हदे बलसुशोभिताः। रथिनः करमध्यस्थधनुर्दण्डसुशोभिताः ॥ ५२ रथोपस्थे निपतिताः स्वर्गगा इव वै सुराः । संदष्टौष्ठपुटा वक्त्रभ्रमल्लक्ष्मीविलक्षिताः ॥ पतितास्तत्र दृश्यन्ते वीरा रणविशारदाः । सुस्राव शोणितसरिद्धयमस्तककच्छपा ॥ ५४ महाप्रवाहलसिता वैरिणां भयकारिका । केषांचिद्धाहवश्छिन्नाः केषां पादा विकार्तिताः॥ ५५ केषां कर्णश्च नासाश्च केषां कवचकुण्डले । एवं तु कदनं जातं सेनान्यां पतिते रणे ॥ ५६ सर्वेऽपि पतिता वीरा न केचिजीवितास्ततः । लवो रणे जयं प्राप्य वैरिन्दं विजित्य च॥ ५७ ४४ ४७ * एतचिहान्तर्गतः पाठः क. ख. ग. छ. म. ठ. ड. ण. त. थ. द. ध. न. पुस्तकस्थः । १ य. के बहुभि । २ द. न. °सुभिः स्वशरोत्तमैः । वि । ३ स. बद्धः ।
५८ ५६० महामुनिश्रीव्यासमणीत- [४ पातालखण्डे- अन्यागमनशजायां मनः कुर्वनवैतत । केचिदुर्वरिता युद्धाद्भाग्येन न रणे मृताः ॥ शत्रुघ्नसंनिधौ जग्मुः शंसितुं वृत्तमद्भुतम् । गत्वा ते कथयामासुर्यथा वृत्तं रणागणे ॥ कालजिनिधनं बालोच्चित्रकारिरणोधमम् । तच्छ्रुत्वा विस्मयं प्राप्तः शत्रुघ्नस्तानुवाच ह ॥ ६० हसन्रोषाद्दशन्दन्तान्बालग्राहहयं स्मरन् । रे वीराः किं मदोन्मत्ता यूयं किंवा छलग्रहाः ॥ ६१ किं वा वैकल्यमायातं कालजिन्मरणं कथम् । यः संख्ये वैरिन्दानां दारुणः सम(मि)तिजयः६२ तं कथं बालको जीयाद्यमस्यापि दुरासदम् । शत्रुघ्नवाक्यं संश्रुत्य वीराः प्रोचुरसृकप्लुताः ॥ ६३ नास्माकं मदमत्तादि न च्छलो न च देवनम् । कालजिन्मरणं सत्यं लवाजानीहि भूपते ॥ ६४ बलं च कृत्स्नं मथितं बालेनातुलशौण्डिना । अतः परं तु यत्कार्य ये प्रेष्या नृवरोत्तमाः ॥ ६५ वालं ज्ञात्वा भवान्नात्र करोतु बलसाहसम् । इति श्रुत्वा वचस्तेषां वीराणां शत्रुहा तदा ॥ सुमतिं च मतिश्रेष्ठमुवाच रणकारणे ॥ ६६ इति श्रीमहापुराणे पाछे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे शत्रुघ्नस्य कालजित्सेनानीमरणं नाम षष्टितमोऽध्यायः ॥ ६॥ आदितः श्लोकानां समष्टयङ्काः-१४४३० अथैकषष्टितमोऽध्यायः । २ ३ ८ शत्रुघ्न उवाच- जानासि किं महामत्रिन्को बालो हयमाहरत् । येन मे क्षपितं सर्वं बलं वारिधिसंनिभम् ॥ सुमतिरुवाच- स्वामिन्नयं मुनिश्रेष्ठवाल्मीकेराश्रमो महान् । क्षत्रियाणामत्र वासो नास्त्येव परतापन । इन्द्रो भविष्यति परमहर्षी हयमाहरत् । पुरारिर्वाऽन्यथा वाहं तव कः समुपाहरेत् ॥ कालजियेन नाशं वै प्राप्तः परमदारुणः । तं प्रति श्रीमहाराज गन्ता कः पुष्कलौन्यतः ॥ त्वं च वीरै टैः सर्वै राजिभिः परिवारितः । तत्र गच्छ स्वसैन्येन महता शत्रुकृन्तनः ॥ गत्वा सजीवितं वीरं बद्ध्वा तु कुतुकाथिने । दर्शयिष्यामि रामाय मतं मे त्विदमादृतम् ॥ ६ इति वाक्यं समाकर्ण्य वीरान्सर्वान्समादिशत् । सैन्येन महता यात यूयमायामि पृष्ठतः ॥ निर्दिष्टास्ते क्षणाद्वीरा जग्मुर्यत्र लवो बली । धनुविस्फारयंस्तत्र सुदृढं गुणपूरितम् ॥ आयातं तं महदृष्ट्वा बलं वीरप्रपूरितम् । न किंचिन्मनसा विभ्ये लवेन बलशालिना ॥ लवः सिंह इवोत्तस्थौ मृगान्मत्वाऽखिलान्भटान् । धनुर्विस्फारयन्रोषाच्छरान्मुञ्चन्सहस्रशः १० ते शरैः पीड्यमानास्तु महारोषप्रपूरिताः । वीरं बालं मन्यमानाः संमुखं पाद्रवंस्तदा ॥ वीरान्सहस्रशो दृष्ट्वा भ्रमिभिः पर्यवस्थितान् । लवो जवेन संधाय शरान्रोषप्रपूरितः ॥ भ्रमिराया सहस्रेण द्वितीयाऽयुतसंख्यया । तृतीयाऽयुतयुग्मेन तुरीयाऽयुतपञ्चभिः ॥ १३ पञ्चमी लक्षयोधानां षष्ठी योधायुताधिकैः । सप्तमी लक्षयुग्मेन सप्तभिर्धमिभिर्युतः ॥ १४ मध्ये लवो भ्रमिव्याप्तः संचरन्वद्विवत्तदा । दाहयामास सर्वान्वै सैनिकान्भ्रमिकारकान् ॥ १५ १ न. 'लात्प्राप्तो रणविशारदः ।। २ क. ब. म. छ. ज.म.उ. इ. ण. त. य. द. ध. न. दारणः । ३ स. लान्वितः । ४. द. न. तैः। ५ न. भ्रमन्संख्ये संजयन्व। ९ १२ नष्टा ६१ एकषष्टितमोऽध्यायः ] पद्मपुराणम् । केचित्खड्गैः शरैः केचित्केचित्यासैश्च कुन्तकैः । पटिशैः परिषैः सर्वा भ्रमिर्भग्ना महात्मना १६ सप्तभिर्भमिभिर्युक्तो रराज स कुशानुगः । मेघवृन्दविनिर्मुक्तः शशीव भरदागमे ।। १७ पाहरत्सर्वथा योधान्भिन्दनगजकरान्बहून् । छिन्दशिरांसि वीराणां चक्रेणातिमहान्ति च ॥१८ अनेके पतिता वीरा लवबाणप्रपीडिताः। मुमुहुः समरेऽथान्ये अन्ये सुकातराः ॥ १९ पलायनपरं सैन्यं लवबाणपपीडितम् । वीक्ष्य वीरो रणे योद्धं प्रायात्पुष्कलसंज्ञकः ॥ तिष्ठ तिष्ठेति च वदन्रोषपूरितलोचनः । रथे सुहृयशोभाट्ये तिष्ठन्मायाल्लवं बली ॥ २१ लवं प्रति प्रत्युवाच पुष्कलः परमास्त्रवित् । तिष्ठ दत्ते मया संख्ये रये सुहयशोभने । २२ पदातिना त्वया युद्धं करोमि कथमाहवे । तस्मात्तिष्ठ रथे पचायुध्यामि भवता सह ॥ एतद्वाक्यं निशम्यासौ लवः पुष्कलमब्रवीत् । त्वया दत्ते रथे स्थित्वा युद्धं कुर्यामहं रणे ॥ २४ तदा मे पापमेव स्याजयः संदिग्ध एव हि । न वयं ब्राह्मणा वीर प्रतिग्रहपरायणाः ॥ वयं तु क्षत्रिया नित्यं दानकर्मक्रियारताः । इदानीं त्वद्रथं कोपाद्भनज्मि प्रत्यहं भवान् ॥ २६ पादचारी भवत्येव पश्चायुद्धं करिष्यति । पुष्कलो वाक्यमाकर्ण्य धर्मधैर्यसमन्वितम् ।। विसिष्मिये चिरं चित्ते धनुः सज्यमथाकरोत् । तमात्तधनुषं दृष्ट्वा लवः कोपसमन्वितः ।। चापं चिच्छेद पाणिस्थं शरसंधानमाचरन् । स यावत्सगुणं चापं कुरुते तावदुद्धतः ॥ रथभङ्गं चकारास्य समरे प्रहसन्बली । भग्नं रथं स्वकं वीक्ष्य धनुश्छिन्नं महात्मना । महावीरं मन्यमानः पदातिः पाद्रवद्रणे । उभौ धनुर्धरौ वीरावुभावपि शरोद्धतौ ॥ उभौ क्षतजविठुष्टौ छिन्नसंनाहितावुभौ । परस्परं बाणघातविशीर्णवपुलक्षितौ ।। ३२ जयाकाङ्क्षां विकुर्वाणौ परस्परवधैषिणौ । जयन्तकार्तिकेयो वा पुरारिः पुरभिद्यथा । एवं परस्परं युद्धं प्रकुर्वाणौ रणाङ्गणे । पुष्कलः प्रत्युवाचाथ लव शूरशिरोमणे ॥ त्वादृशो न मया दृष्टः कश्चिद्वीरशिरोमणिः । शिरस्ते पातयाम्यद्य बाणैः शितसुपर्वभिः ॥ ३५ मा पलायस्व समरे प्राणान्रक्षस्व संयतः । एवमुक्त्वा लवं वीरं चकार शरपञ्जरे ॥ पुष्कलस्य शरा भूमौ नभसि व्याप्य संस्थिताः । शरपञ्जरमध्यस्थो लवः पुष्कलमब्रवीत् ॥ ३७ २८ लव उवाच- महत्कर्म कृतं वीर यन्मां बाणैरपीडयत् (यः) । इत्युक्त्वा बाणसंघात प्रच्छिद्य वचनं पुनः ३८ जगाद पुष्कलं वीरं शरसंधानकोविदः । पालयाऽऽत्मानमाजिस्थं मच्छराघातपीडितः ।। ३९ पतिष्यसि महीपृष्ठे रुधिरेण परिप्लुतः । एवमुक्तं समाकर्ण्य पुष्कलः कोपसंयुतः ॥ रणे संयोधयामास लवं वारं महाबलम् । लवः प्रकुपितो बाणं तीक्ष्णं वैरिविदारणम् ॥ जग्राह लवतः कोशादाशीविषमिव क्रुधा । जाज्वल्यमानश्च शरश्चापमुक्तो लवस्य च ॥ हृदयं भेत्तुमुद्युक्तश्छिलो भारतिनाऽऽशु सः । छिन्नो(ने) भारतिना संख्ये शरेण प्राणहारिणा।। अत्यन्तं कुपितो घोरं शरमन्यं समाददे । आकर्णकृष्टचापेन स मुक्तो निशितः शरः ॥ विभेद हृदयं तस्य पुष्कलस्य महारणे । भिन्ने वक्षसि वीरेण सायकेनाऽऽशुगामिना ॥ ४५ पपात धरणीपृष्ठे महाशूरशिरोमणिः । पतितं तु समालोक्य पुष्कलं पवनात्मजः ॥ पृहीत्वा राघवभ्रात्रे ददौ मूर्छासमन्वितम् । मूर्छितं तं समालक्ष्य शोकविहलमानसः ।। ४२ ४७ १ ग. ज. ठ. ण. त. थ. संहतः । २ न. 'वं शरविचक्षणम् ।
४९ ५६२ महामुनिश्रीव्यासप्रणीतं- [४पातालखण्डे- हनुमन्तं लवं हन्तुं निदिदेश क्रुधाऽन्वितः । हनूमान्कोपसंदृष्टो लवं संख्ये महाबलम् ।। विजेतुं तरसा चागावृक्षमुद्यम्य शाल्मलम् । वृक्षेण हतवान्मूर्ध्नि लवस्य हनुमान्बली ॥ तमापतन्तं तरसा चिच्छेद शतधा लवः । छिन्ने नगे पुनः कोपावृक्षानुत्पाटय मूलतः ।। ताडयामास हृदये मस्तके च महाबलः । यान्यान्वृक्षान्समादत्ते ताडनाय समीरजः ॥ तास्तांश्चिच्छेद तरसा बलवाशितपर्वभिः । तदा शिलाः समुत्पाट्य गण्डशैलोपमाः कपिः ५२ पातयामास शिरसि क्षिप्रं वेगेन मारुतिः । स आहतः शिलासंधैः संख्ये कोदडमुन्नयन् ॥ ५३ बाणैस्ता णयामास सुयत्रिभिर्यथा कणाः । तदाऽत्यन्तं प्रकुपितो मारुतिः पुच्छवेष्टनम् ।। ५४ चकार समरोपान्ते लवस्य बलिनः कृती। स पुच्छेन समाविद्धं वीक्ष्य स्वाम्बां हृदि स्मरन् ५९ मुष्टिना ताडयामास लाङ्गलं मारुतेर्बली । तन्मुष्टिघातव्यथितो मारुतिस्तममूमुचत् ॥ ५६ स मुक्तः पुच्छतो युद्धे शरान्मुञ्चत्रभूदली । स शराघातदुर्बाधसंपीडिततनुः कपिः ॥ बाणवर्ष मन्यमानो दुःसहं समरे बहु । किं कर्तव्यमितोऽस्माभिः पलाय्य यदि गम्यते ॥ ५८ तदा मे स्वामिनो लज्जा ताडयेद्भालेकोऽत्र माम् । ब्रह्मदत्तवरत्वात्तु मूर्छा न मरणं न हि॥ ५९ दुःसहा बाणपीडाऽत्र किं कर्तव्यं मयाऽधुना । शत्रुघ्नः समरे गत्वा जयं प्राप्नोतु बालकात् ॥६० अहं तावज्जयाकाङ्क्षी शये कपटमूर्छया । इत्येवं मानसे कृत्वा प्रापतद्रणमण्डले ॥ पश्यतां सर्ववीराणां कपटेन विमूर्छितैः । तमाज्ञाय हनूमन्तं महाबलपराक्रमम् ॥ जघान सर्वानृपतीशरमोक्षविचक्षणः ॥ ६२ इति श्रीमहापुराणे पाझे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेवे हनूमत्पतनं नामैकषष्टितमोऽध्यायः ।। ६१ ॥ आदितः श्लोकानां समष्ट्यङ्काः-१४४९२ १ ५७ अथ द्विषष्टितमोऽध्यायः । २ ३ ४ शेष उवाच- मारुति मूर्छितं श्रुत्वा शत्रुघ्नः शोकमाप वै । किं कर्तव्यं मया संख्ये बालकोऽयं महाबलः ॥ ? स्वयं रथे हेममये तिष्टन्वीरवरैः सह । योढुं प्रागाल्लवो यत्र विचित्ररणकोविदः ॥ लवं ददर्श शिशुतां प्राप्तं राममिव क्षितौ । धनुर्वाणकरं वीरान्क्षिपन्तं रणमूर्धनि ॥ विचारयामास तदा कोऽयं रामस्वरूपधृत् । नीलोत्पलदलश्यामं वपुर्विभ्रन्मनोरमम् ॥ एष विदेहतनुजासुतो भवति नान्यथा । अस्मान्विजित्य समरे यास्यते मृगराडिव ।। अस्माकं न जयो भव्यः शक्त्या विरहितात्मनाम् । अशक्ताः किं करिष्यामः समरे रणकोविदाः इत्येवं स विचार्यान्तर्वालकं तु वचोऽब्रवीत् । रणे कुतुककर्तारं वीरकोटिनिपातकम् ॥ शत्रुघ्न उवाच--- कस्त्वं बाल रणेऽस्माकं वीरान्पातयसि क्षितौ । न जानीषे बलं राज्ञो रामस्य दनुजादिनः॥८ का ते माता पिता कस्ते सभाग्यो जयमाप्तवान् । नाम किं विश्रुतं लोके जानीयां ते महाबल ९ 'मुश्च वाहं कथं बद्धः शिशुत्वात्तत्क्षमामि ते । आयाहि रामं वीक्षस्व दास्यते बहुलं तव ॥ १० १ ली । दुर्वारशरघातेन सं° । २ द. न. °लकोत्तमः । । ३ थ. न. "तः । तं मूछितं समाशाय हनूमन्तं महा. बलम् । ४ द. दृश्यते ।
२७ १२ द्विषष्टितमोऽध्यायः ] पमपुराणम् । इत्युक्तो बालको वीरो वचः शत्रुन्नमावदत् । किं ते नाम्नाऽथ पित्रा वा कुलेन वयसा तथा।।११ युध्यस्व समरे वीर चेत्त्वं बलयुतो भवेः । कुशं वीरं नमस्कृत्य पादयोर्याहि नान्यथा ॥ १२ भ्राता रामस्य वीरोऽभूर्नाऽऽवयोर्वलिनां वरः । वाहं विमोचय बलाच्छक्तिस्ते विद्यते यदि॥१३ इत्युक्त्वा शरसंघातं कृत्वा पाहरदुद्भटः । हृदये मस्तके चैव भुजयो रणमण्डले ॥ तदा प्रकुपितो राजा धनुः सज्जमथाकरोत् । नादयन्मेघगम्भीरं त्रासयनिय बालकम् ॥ बाणानपरिसंख्याकान्मुमोच बलिनां वरः । बालो बलेन चिच्छेद सर्वांस्तान्सायकवजान् ॥१६ लवस्य कोटिधा मुक्तैर्वाणैर्याप्तं महीतलम् । व्यतीपाते प्रदत्तस्य दानस्येवाक्षयं गताः ।। १७ ते बाणा व्योम सकलं व्यामुवल्लँवसंधिताः । सूर्यमण्डलमासाद्य प्रवर्तन्ते समन्ततः ॥ १८ मारुतो नाविशयत्र बाणपञ्जरगोचरे । मनुष्याणां तु का वार्ता क्षणजीवितशंसिनाम् ॥ तद्वाणान्व्यापृतान्दृष्ट्वा शत्रुघ्नो विस्मयं गतः। अच्छिनच्छतसाहस्रं बाणमोचनकोविदः ॥ २० तांश्छिन्नान्सायकान्सास्वीयान्दृष्ट्वा कुशानुगः । धनुश्चिच्छेद तरसा शत्रुघ्नस्य महीपतेः ॥ २१ सोऽन्यद्धनुरुपादाय यावन्मुश्चति सायकान् । तावद्धभञ्ज स रथं सायकैः शितपर्वभिः॥ २२ करस्थमच्छिनच्चापं सुदृढं गुणपूरितम् । तत्कर्मापूजयन्वीरा रणमण्डलवर्तिनः ॥ २३ स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः । अन्यं रथं समास्थाय ययौ योर्बु लवं बलात् २४ अनेकबाणनिभिन्नस्रवद्रक्तकलेवरः । शुशुभे रणमध्यस्थः किंशुकश्चैव पुष्पितः ।। २५ शत्रुघ्नबाणाहतः परं कोपमुपागमत् । बाणसंधानचतुरः कुण्डलीकृतचापवान् ।। २६ विशीर्णकवचं देहं शिरोमुकुटवर्जितम् । स्रवद्रक्तपरिप्लुष्टं शत्रुघ्नस्य चकार सः ॥ तदा रामानुजः क्रुद्धो दश वाणाशिताग्रकान् । मुमोच प्राणसंहारकारकान्कुपितो भृशम् ॥ २८ स तांस्तांस्तिलशः कृत्वा बाणैनिशितपर्वभिः । ताडयामास हृदये शत्रुघ्नस्य शराष्टभिः ॥ २९ अत्यन्तवाणपीडा? लवं बलमनुस्मरन् । दुःसहं मन्यमानस्तं शरान्मुश्चन्नभूत्तदा ॥ तदा लवेन तीक्ष्णेन हृदि भिन्नो विशालके । अर्धचन्द्रसमानेन तीक्ष्णपर्वसुशोभिना ।। स विद्धो हृदि बाणेन पीडां प्राप्तः सुदारुणाम् । पपात स्यन्दनोपस्थे धनुष्पाणिः सुशोभितः३२ शत्रुघ्नं मूछितं दृष्ट्वा नृपाः सुरथसंमुखाः । दुद्रुवुर्लवमुटुक्ता जयप्राप्त्यै रणे तदा ॥ सुरथो विमलो वीरो राजा वीरमणिस्तदा । सुमदो रिपुतापायाः परिवत्रुश्च संयुगे॥ केचित्क्षुरप्रैर्मुसलैः केचिद्घाणैः सुदारुणैः । प्रासैः कुन्तैः परशुभिः सर्वतः प्राहरनृपाः ॥ तानधर्मेण युद्धोक्तान्दृष्ट्वा वीरशिरोमणिः । दशभिर्दशभिर्वाणेस्ताडयामास संयुगे । ३६ ते बाणवर्षविहता रणमध्ये सुकोपनाः । केचित्पलायिताः केचिन्मुमुहुर्युद्धमण्डले ॥ तावत्स राजा शत्रुघ्नो मूर्छा संत्यज्य सङ्गरे । लवं प्रायान्महावीरं योद्धं बलसमन्वितः ॥ ३८ आगत्य तं लवं प्राह धन्योऽसि शिशुसंनिभः । न बालस्त्वं सुरः कश्चिच्छलितुं मां समागतः३९ केनापि न हि वीरेण पातितो रणमण्डले । त्वयाऽहं पातितो मूर्छा समक्ष मम पश्यतः ॥ इदानीं पश्य मे वीर्य त्वां संख्ये पातयाम्यहम् । सहस्व बाणमेकं त्वं मा पलायस्व बालक ४१ इत्युक्त्वा समरे बालं शरमेकं समाददे । यमवक्त्रसमं घोरं लवणो येन घातितः ॥ संधाय बाणं निशितं हृदि भेत्तुं मनो दधत् । लवं वीरं (वाद्वीर)सहस्राणां वह्निवत्सर्वदाहकम् ।। तं नाणं प्रज्वलन्तं स द्योतयन्तं दिशो दश । दृष्ट्वा सस्मार बलिनं कुशं वैरिनिपातिनम् ॥ ४४ १न, र्ता दीनानां क्षणजीविना । ३४ ४२ महामुनिश्रीव्यासप्रणीतं- [ ४ पातालखण्डे- यद्यस्मिन्समये वीरो भ्राता स्याबलवान्मम । तदा शत्रुघ्नवशता न मे स्याद्भयमुल्बणम् ॥ ४५ एवं विचार्यमाण(णेऽ)स्य लवस्य च महात्मनः । हृदि लग्नो महाबाणो घोरः कालानलोपमः४६ मी पाप तदा वीरो भूपसायकसंहतः। संगरे सर्ववीराणां शिरोभिः समलंकृते ।। इति श्रीमहापुराणे पाने पातालखण्हे शेषवात्स्यायनसंवादे रामाश्वमेधे लवमर्छनं नाम द्विषष्टितमोऽध्यायः ॥ ६२ ॥ आदितः श्लोकानां समष्टयङ्काः--१४५३९ अथ त्रिषष्टितमोऽध्यायः । २ ४ ५ ६ ९ शेष उवाच- लवं विमूर्छितं दृष्ट्वा बलिवैरिविदारणम् । शत्रुघ्नो जयमापेदे रणमूर्ध्नि महाबलः ॥ लवं बालं रथे स्थाप्य शिरस्त्राणायलंकृतम् । रामप्रतिनिधि मूर्त्या ततो गन्तुमियेष सः॥ स्वमित्रं शत्रुणा ग्रस्तमिति दुःखसमन्विताः । वाला मात्रेऽस्य सीतायै त्वरिताः संन्यवेदयन् ३ बाला ऊचुः- मातर्जानकि ते पुत्रो बलाद्वाहमपाहरत् । कस्यचिद्रूपवर्यस्य बलयुक्तस्य मानिनः ।। ततो युद्धमभूद्धोरं तस्य सैन्येन जानकि । तदा वीरेण पुत्रेण तव सर्व निपातितम् ।। पश्चादपि जयं प्राप्तः सुतस्तव मनोहरः । तं भूपं मूर्छितं कृत्वा जयमाप रणाङ्गणे ॥ ततो मूर्छा विहायैष राजा परमदारुणः । संकुप्य पातयामास तव पुत्रं रणाङ्गणे ।। अस्माभिर्वारितः पूर्व मा गृहाण हयोत्तमम् । अस्मान्सर्वाश्च धिकृत्य ब्राह्मणान्वेदपारगान् ॥ ८ इति वाक्यं शिशूनां सा समाकर्ण्य सुदारुणम् । पपात भूतलोपस्थे दुःखयुक्ता रुरोद ह ॥ सीतोवाच- कथं नृपो दयाहीनो बालेन सह युध्यति । अधर्मकृतदुर्बुद्धि)र्यो मद्धालं न्यपातयत् ।। लव वीर भवान्कुत्र वर्ततेऽतिबलान्वितुः । कथं त्वं निष्कृपस्याहो राज्ञोऽहार्षीहयोत्तमम् ॥ ११ त्वं बालस्ते दुराकान्ताः सर्वशस्त्रविशारदाः । रथस्था विरथस्त्वं वै कथं युद्ध समं भवेत् ॥ १२ नाताहं तु त्वया साध रामत्यागासुखं जहौ । इदानी रहिता युष्मत्कथं जीवामि कानने ॥ १३ एहि मां मुश्च यज्ञावं गच्छत्वेष महीपतिः । मदुःखं नाभिजानासि मम दुःखाश्रुमार्जकः ॥ १४ कुशो यद्यभविष्यत्स रणे वीरशिरोमणिः । अमोचयिष्यदधुना भवन्तं भूपपार्श्वतः ॥ १५ सोऽपि मदैवतो नास्ति समीपे किं करोम्यतः । दैवमेव ममाप्यत्र कारणं दुःखसंभवे ॥ एवमादि बहु श्रीमत्येषा वै विललाप ह । पादाङ्गठेन लिखती भूमि नेत्रद्वयाश्रुतिः(भिः) ॥ १७ बालान्पति जगादासौ पृथुकाः स चम्पतिः । कथं मत्सुतभापात्य रणे कुत्र गमिष्यति ॥ १८ इति वाक्यं वदत्येमा जानकी पतिदेवता । तावत्कुशस्तू संप्राप्त उज्जयिन्यां महर्षिभिः ॥ १९ माघासितचतुर्दश्यां महाकालं समर्थ्य च । प्राप्य भूरिवरांस्तस्मादागमन्मातृसंनिधौ ॥ जानकी विहलां दृष्ट्वा नेत्रोछूताश्रुविहलाम् । शोकविहलदीनाङ्गीं बभाषे यावदुत्सुकः ॥ तदा स्वबाहुरवदत्स्फुरन्युद्धाभिशंसनः । हृदये न रणोत्साहो बभूवातिरथस्य हि ॥ स प्रत्युवाच जननीं दीनगद्गदभाषिणीम् । मातस्तव कथं दुःखं मयि पुत्र उपस्थिते ॥ माय जीवति ते नेत्रादश्रूणि भुवि नोऽपतन् । प्रसूमुवाचाश्रुखिनो दीनगद्गदभाषिणीम् ॥ २४ १६ २० २१ २२ २३ ३७ ३८ १३ त्रिषष्टितमोऽध्यायः ] पद्मपुराणम् । ५६५ कुशो दुःखमितः सद्यो दु:खितां धीरमानसः । मम भ्राता लवः कुत्र वर्तते वैरिमर्दनः ॥ २५ सदा मामागतं ज्ञात्वा प्रहर्षन्संनिधावियात् । न दृश्यते कथं वीरः कुत्र रन्तुं गतो बली ॥ २६ केन वा सह बालत्वाद्गतो मां वै निरीक्षितुम् । किं त्वं रोदिषि मे मातर्लवः कुत्र स वर्तते ॥२७ तन्मे कथय सर्व तत्तव दुःखस्य कारणम् । तच्छ्रुत्वा दुःखवाक्यं सा दुःखिता कुशमब्रवीत् ॥२८ जानक्युवाच- लवो धृतो नृपेणात्र केनचिद्धयरक्षिणा । बबन्ध बालको मेऽत्र हयं यागक्रियोचितम् ।। २९ तद्रक्षकान्बहूञ्जिग्य एकोऽनेकान्रिपून्बली । राजा तं मूर्छितं कृत्वा बबन्ध रणमूर्धनि ।। ३० बालका इति मामूचुः सह गन्तार एव हि । ततोऽहं दुःखिता जाता निशम्य लवमाधृतम् ॥३१ त्वं मोचय बलात्तस्मात्काले प्राप्तो नृपोत्तमात् । निशम्य मातुर्वचनं कुशः कोपसमन्वितः ॥ ३२ जगाद तां दशन्नोष्ठं दन्तान्दन्तैर्विनिष्पिपन् । कुश उवाच-- मातर्जानीहि तं मुक्तं लवं पाशस्य बन्धनात् । इदानीं हन्मि तं वाणैः समग्रवलवाहनम् ।। ३४ यदि देवोऽमरो वाऽपि यदि शर्वः समागतः । तथाऽपि मोचये तस्माद्वार्निशितपर्वभिः ॥ ३५ मा रोदिषि मातरिह वीराणां रणमूर्छितम् । कीर्तयेऽत्र भवत्येव पलायनमकीर्तये ॥ देहि मे कवचं दिव्यं धनुर्गुणसमन्वितम् । मम मातः करवा शिरस्त्राणं तथा शितम् ।। इदानीं यामि समरे पातयामि बलं महत् । मोचयामि भ्रातरं स्वं रणमध्याद्विमूछितम् ॥ न मोचयाम्यद्य पुत्रं तव मातर्महारणात् । तदा मम भवत्पादौ संरुष्टौ भवतां क्षितौ ॥ शेष उवाच- इतिवाक्येन संतुष्टा जानकी शुभलक्षणा । सर्व प्रादादसान्दं जयाशीभिनियुज्य च ।। प्रयाहि पुत्र संग्रामं लवं मोचय मूर्छितम् । इत्याज्ञप्तः कुशः संख्ये कवची कुण्डली बली ॥ ४१ मुकुटी करवाली च चर्मधारी धनुर्धरः । अक्षयाविषुधी धृत्वा स्कन्धयोः सिंहवीर्ययोः ॥ जगाम तरसा नत्वा मातृपादौ रथाग्रणीः । वेगेन यावद्युद्धाय गच्छति क्षिप्रमाहवे ॥ तावद्ददर्श स लवं वैरिन्दनिपातितम् । आयान्तं तं कुशं वीरा ददृशुः समरोद्भटाः ॥ कृतान्तमिव संहर्तुं सर्व विश्वमुपस्थितम् । लवो महावलं दृष्ट्वा कुशं भ्रातरमागतम् ॥ ४५ अत्यन्तं वह्निवयुद्धे दिदीपे वायुना समम् । रथादुन्मुच्य चाऽऽत्मानं युद्धाय स विनिर्गतः॥ ४६ कुशः सर्वान्रणस्थान्दै वीरान्पूर्वदिशि क्षिपन् । पश्चिमस्यां दिशि लवः कोपात्सर्वान्समैरयत् ४७ कुशबाणव्यथाव्यासा लवसायकपीडिताः । सैन्ये जना मुने सर्व उत्कल्लोलाम्बुधिभ्रमाः॥ ४८ कुशेन च लवेनाथ शरवातैः प्रपीडितम् । न शर्म लेभे सकलं सैन्यं वीरेण पूरितम् ।। इतस्ततः प्रभग्नं तद्वलं त्रस्तं पुनः पुनः । न कुत्रचिद्रणे स्थित्वा युद्धमैच्छद्धलान्वितः ।। एतस्मिन्समये राजा शत्रुघ्नः परतापनः । कुशं वीरं ययौ योर्बु तादृशं लवसंनिभम् ।। ५१ कुशं दृष्ट्वा बलाक्रान्तं राममूर्तिसमप्रभम् । रथे तिष्ठन्हेममये जगाद परवीरहा ॥ शत्रुन्न उवाच- कोऽसि त्वं संनिभो भ्रात्रा लवेन मुमहाबलः । किनामाऽसि महावीर कस्ते तातः क ते प्रसूः॥५३ १ क. ख. ग. च छ. अ. अ. ठ. ड. ण. त. थ. द. ध. न. पुत्रवाक्यं । २ थ. पूरणे । रा। ३ क ख. ग. च. छ. ज. न. ट. इ. ण. त. थ. द, ध. न 'निपातकम् । ४० ४९ ५२ ५६६ महामुनिश्रीव्यासप्रणीतं- [ ४ पातालखण्डे- कथं वने द्विजैर्जुष्टे तिष्ठसि त्वं नरर्षभ । सर्व शंस यथा युध्ये वया सह महाबल ॥ इति वाक्यं समाकर्ण्य कुशः प्रोवाच भूमिपम् । मेघगम्भीरया वाचा नादयन्रणमण्डलम् ॥ ५५ कुश उवाच केवलं सुषवे सीता पतिव्रतपरायणा । वने वसावो वाल्मीकेश्चरणाचनतत्परौ ॥ ५६ मातृसेवासमुद्युक्तौ सर्वविद्याविशारदौ । कुशो लव इति प्रख्यामागतौ भूपतेऽनघ । कस्त्वं वीरो रणश्लाघी किमर्थ हयसत्तमः । मुक्तोऽस्ति समरे त्वद्य जेताऽसि बलसंयुतः ॥५.. युध्यस्व त्वं मया साधू यदि वीरोऽसि भूमिप । इदानीं घांतयिष्यामि भवन्तं रणमूर्धनि ॥ ५९ शत्रुघ्नस्तं सुतं ज्ञात्वा सीताया रामसंभवम् । विसिष्मिये स्वयं चित्ते कोपाद्धनुरुपाददत् ॥ ६० तमात्तधनुषं दृष्ट्वा कुशः कोपसमन्वितः। विस्फारयामास धनुः स्वीयं सुदृढमुत्तमम्॥ ६१ मुमोच बाणानिशिताञ्शत्रुघ्नः सर्वशस्त्रवित् । तांश्चिच्छेद कुशः सर्वाल्लीलया प्रहसरणे ॥ ६२ बाणाश्च शतसाहस्त्राः कुशस्य च नृपस्य च । भुवनं व्यामुवन्सर्व तच्चित्रमभवन्मुने । अग्न्यस्त्रेण कुशः सर्वान्ददाह तरसा बली । [ *शमयामास तं भूपः पर्जन्यास्त्रेण वीर्यवान् ॥ ] शमयामास तं भूपो वायव्येनातिविक्रमः । [+ तदा वायुरभूत्तीवः सर्वतो रणमण्डले ] ॥ ६५ पर्वतास्त्रेण वायुं तं क्षोभयन्तं समावृणोत् । वज्रास्त्रेण नृपः संख्ये चिच्छेद स नगोपलान् ॥६६ तदा नारायणास्त्रं स मुमोच कुश उद्भटः । नारायणं तदा भूपं नाशकत्परिबाधितुम् ॥ ६७ तदा प्रकुपितोऽत्यन्तं कुशः कोपपरायणः । उवाच भूपं शत्रुघ्नं महाबलपराक्रमम् ॥ ६८ जानामि त्वां महावीर संग्रामे जयकारकम् । यत्वां नारायणं मेऽस्त्रं न बबाधे भयानकम् ॥ ६९ इदानीं पातयाम्यद्य भूमौ त्वां नृपते शरैः । त्रिभिश्चेन्न करोम्येतत्प्रतिज्ञा तर्हि मे शृणु ॥ यो मनुष्यवपुः प्राप्य दुर्लभं पुण्यकोटिभिः । तन्नाऽऽद्रियेत संमोहात्तस्य मेऽस्त्वत्र पातकम् ॥७१ सावधानो भवानत्र भवतु प्रधनाङ्गणे । पातयामि क्षितौ सद्य इत्युक्त्वा स्वशरासने ॥ शरं संरोपयामास घोरं कालानलोपमम् । लक्षीकृत्य रिपोर्वक्षो विपुलं कठिनं महत् ।। ७३ तं संधितं शरं दृष्ट्वा शत्रुघ्नः कोपपूरितः । मुमोच बाणानिशितान्कुशत्वग्भेदकारकान् ॥ स बाणो हृदयं तस्य भेत्तुं तत्पचचाल वै । घोररूपो वह्निसम आशीविषवदुच्छ्रसन् । ७५ स बाणो नृपवर्येण रामं स्मृत्वाऽऽशु लक्षितः । चिच्छेद कुशमुक्तं च सायकं शितपर्वकम् ।। ७६ तदाऽत्यन्तं प्रकुपितः कुशो बाणस्य कृन्तनात् । अपरं सायकं चापे दधार शितपर्वकम् ॥ ७७ स यावत्तदुरो भेतुं करोति च बलोदुरः। स तावदच्छिनत्तस्य शरं कालानलप्रभम् ॥ तदा कुशो मातृपादौ स्मृत्वा रोषसमन्वितः । तृतीय चापके स्वीये दधार शरंमुत्तमम् ॥ शत्रुघ्नस्तमपि क्षिप्रं क्षेप्तुं बाणं समाददे । तावद्विद्धः शरेणासौ पपात धरणीतले ॥ हाहाकारो महानासीच्छत्रुघ्ने विनिपातिते । जयमाप कुशस्तत्र स्वबाहुबलदर्पितः ॥ ८१ इति श्रीमहापुराणे पाझे पातालखण्हे शेषवात्स्यायनसंवादे रामाश्वमेधे शत्रुघ्नमूर्छनावृत्तं नाम त्रिषष्टितमोऽध्यायः ॥ ६३ ॥ आदितः श्लोकानां समथ्यङ्काः-१४६२० ७२ ७८ ७९ ८० * एतचिहान्तर्गतः पाठो द. न. पुस्तकस्थः । + एतचिहान्तर्गतः पाठो उ. पुस्तकस्थः । १ ग. ज. ठ. ण. त. थ. द. पातयिष्यामि २ ख. छ . परमास्त्रावित् । ३ द. न रमद्भुतम्।
६४ चतुःषष्टितमोऽध्यायः ] पद्मपुराणम् । ५६७ अथ चतुःषष्टितमोऽध्यायः । - १ २ ३ ४ ५ ७ ८ १० शेष उवाच शत्रुघ्नं पतितं वीक्ष्य सुरथः प्रवरो नृपः । प्रययौ मणिना सृष्टे रथे तिष्ठन्महाद्भुते ॥ पुष्कलस्तु रणे पूर्व पातितः स विचारयन् । लवं ययौ तदा योद्धं महावीरबलोबतम् ॥ सुरथः कुशमाप्राप्य बाणान्मुञ्चन्ननेकधा । व्यथयामास समरे महावीरशिरोमणिः ।। सुरथं विरथं चक्रे बाणैर्दशभिरुच्छिखैः । धनुश्चिच्छेद तरसा सुदृढं गुणपूरितम् ।। अखप्रत्यस्त्रसंहारैः क्षेपणैः प्रतिक्षेपणैः । अभवत्तुमुलं युद्धं वीराणां रोमहर्षणम् ॥ अत्यन्तं समरोद्युक्ते सुरथे दुर्जये नृपे । कुशः संचिन्तयामास किं कर्तव्यं रणे मया ॥ विचार्य निशितं घोरं सायकं समुपाददे । हननाय नृपस्यास्य महावलसमन्वितः ॥ तमागतं शरं दृष्ट्वा कालानलसमप्रभम् । भेत्तुं मतिं चकाराऽऽशु तावल्लग्नो महाशरः॥ मुमूर्छ समरे वीरो महावीरबलस्ततः । पपात स्यन्दनोपस्थे सारथिस्तमुपाहरत् ॥ सुरथे पतिते दृष्ट्वा कुशं जयसमन्वितम् । त्रासयन्तं वीरगणानियाय पवनात्मजः ।। समीरसूनुं प्रबलमायान्तं वीक्ष्य वानरम् । जहास दर्शयन्दन्तान्कोपयन्निव तं क्रुधा । ११ उवाच च हनूमन्तमेहि त्वं मम संमुखम् । भेत्स्ये वाणसहस्रेण मृतो यास्यसि यामिनीम् ॥ १२ इत्युक्तो हनुमाञात्वा रामसूनुं महाबलम् । स्वामिकार्य प्रकर्तव्यमिति कृत्वा प्रधावितः ॥ १३ शालमुत्पाटय तरसा विशालं शतशाखिनम् । कुशं वक्षसि संलक्ष्य ययौ योद्धं महाबलः ॥ १४ शालहस्तं समायान्तं हनुमन्तं महाबलम् । त्रिभिः क्षुरविव्याध सोऽर्धचन्द्रोपमैबली ॥ स वाणविद्धस्तरसा कुशेन बलशालिना । शालेन हृदि संजन्ने दन्तानिष्पिष्य मारुतिः॥ १६ शालाहतस्तदा बालः किंचिन्नाकम्मत स्मयात् । तदा वीराः प्रशंसां तु पचक्रुस्तस्य बाल्यतः॥१७ स शालेन हतो वीरः संहारास्त्रं समाददे । संहर्तु वैरिणं कोपात्कुशः परममत्रवित् ॥ १८ संहारास्त्रं समालोक्य दुर्जयं कुशमोचितम् । दध्यौ रामं स्वमनसा भक्तविघ्नविनाशकम् ॥ १९ तदा मुक्तं कुशेनाऽऽशु तदस्त्रं हृदि मारुतेः । लग्नं महाव्यथाकारि तेन मूर्छामितः पुनः ।। मूर्छा प्राप्तं तु तं दृष्ट्वा प्लवगं बलसंयुतः । विव्याध सायकैस्तीक्ष्णैः सैन्यं तत्सकलं महत् ॥ २१ तस्य बाणायुतैर्भग्नं बलं सर्व रणागणे । पलायनपरं जातं चतुरङ्गसमन्वितम् ।। तदा कपिपतिः कोपात्सुग्रीवो रक्षको महान् । अभ्यधावन्नगान्नैकानुत्पाटय कुशमुद्भटम् ॥ २३ कुशः सर्वान्मचिच्छेद लीलया प्रहसन्नगान् । पुनरप्यागतान्क्षांश्चिच्छेद तरसा बली ॥ अनेकवाणव्यथितः सुग्रीवः समराङ्गणे । जग्राह पर्वतं घोरं कुशमस्तकमध्यतः ।। कुशस्तं नगमायान्तं वीक्ष्य बाणैरनेकथा । निप्पिपेष चकाराऽऽशु महारुद्राङ्गयोग्यताम् ॥ २६ सुग्रीवस्तन्महत्कर्म दृष्ट्वा बालेन निर्मितम् । जयाशां प्रति निवृत्तो बभूव समराङ्गणे ॥ रणमध्ये दुराकान्तं कुशं लागूलताडकम् । अत्यमर्षी रुषाऽऽक्रान्तस्तं हन्तुं नगमाददे ॥ २८ आत्मानं हन्तुमुद्युक्तं वीक्ष्य सुग्रीवमादरात् । ताडयामास बहुभिः सायकैः सर्वतः शितैः ॥२९ स ताडितो बहुविधैः शरैः पीडासमन्वितः । कुशं हन्तुं समारब्धो ययौ शालं समाददे ॥ ३० तदाऽपि च कुशो वीरो वारुणास्त्रं समाददे । बबन्ध तं च पाशेन दृढेन स लवाग्रजः ॥ ३१ २२ २४ २५ २७ १२. ध कुशो वनोप'। २ ६. न शः स परमास्त्रवि । ३ झ. निवृतो । अ. निवृत्तो ।
३२ ४२ महामुनिश्रीव्यासप्रणीतं- [४ पातालखण्डे- स बद्धः पाशकैः स्निग्धैः कुशेन बलशालिना । पपात रणमध्ये वै महावीरैरलंकृते ॥ मुग्रीवं पतितं दृष्ट्वा वीराः सर्वत्र दुद्रुवुः । जयमाप लवभ्राता महावीरशिरोमणिः ॥ तावल्लवो भटाञ्जित्वा पुष्कलं चागदं तथा । प्रतापाग्यं वीरमाणं तथाऽन्यानपि भूभुजः ॥ ३४ जयं प्राप्य रणे वीरो लयो भ्रातरमागमत् । संग्रामे जयकर्तारं वैरिकोटिनिपातकम् ॥ ३५ परस्परं प्रहृपितौ परिरम्भं प्रकुर्वतः । जयं प्राप्तौ मुने तत्र वार्ता चक्रतुरुन्मदौ ॥ लव उवाच- भ्रातस्तव प्रसादेन निस्तीर्णो रणतोयधिः । इदानीं वीर रणकं शोधयावः सुशोभितम् ॥ ३७ इत्युक्त्वा राजसविधे जगाम स लवः कुशः । राज्ञो मौलिमणिं चित्रं जग्राह कनकान्वितम्॥३८ पुष्कलस्य लवो वीरो जग्राह मुकुटं शुभम् । अङ्गदे च महानर्थे शत्रुघ्नस्यापरस्य च ।। गृहीत्वा शस्त्रसंघातं हनूमन्तं कपीश्वरम् । सुग्रीवं सविधे गत्वा उभावपि बबन्धतुः ॥ पुच्छं वायुसुतस्यायं गृहीत्वा तु कुशानुजः । भ्रातरं प्रति प्रोवाच नेष्यामि स्वकमन्दिरम् ॥ ४१ आवयोर्जननीप्रीत्यै गृहीत्वा पुच्छके त्वहम् । क्रीडार्थ मुनिपुत्राणां कौतुकार्थ ममैव च ।। एतच्छ्रुत्वा ततो वाक्यमुवाच च लवं कुशः । अहमेनं ग्रहीष्यामि वानरं बलिनं दृढम् ॥ इत्येवं भाषमाणौ तौ बद्ध्या तो बलिनां वरौ । पुच्छयोबलिनौ धृत्वा जग्मतुः स्वाश्रमं प्रति ॥ "स्वाश्रमाय प्रगच्छन्तौ वीक्ष्य तौ कपिसत्तमौ । कम्पमानौ जगदतुरन्योन्यं भीतया गिरा ॥ ४५ हनुमान्कपिराजानं प्रत्युवाच भयाधीः । एतौ रामसुतावस्मान्नेष्यतः स्वाश्रमं प्रति ॥ ४६ मया पूर्व कृतं कर्म जानकी प्रति गच्छता । तत्र मे जानकी देवी संमुखाऽभून्मनोहरा ॥ सा मां द्रक्ष्यति वैदेही बद्धं पाशेन वैरिणा । तदा हसिष्यति वरा त्रपा मेऽत्र भविष्यति ॥ ४८ मया किमत्र कर्तव्यं प्राणत्यागो भविष्यति । महदुःखं चाऽऽपतितं स रामः किं करिष्यति ४९ सुग्रीवस्तद्वचः श्रुत्वा ममाप्येवं महाकपे । नेष्यते यदि मामेवं निधनं तु भविष्यति ।। एवं कथयतोरेव ह्यन्योन्यं भयभीतयोः । कुशो लवश्च भवनं मातुः प्राप मनोहरौ । ५१ तावायातौ समीक्ष्यैव जहर्ष जननी तयोः । अन्योन्यं परमप्रीत्या परिरभे निजौ सुतौ ॥ ५२ ताभ्यां पुच्छगृहीतौ तौ वानरौ वीक्ष्य जानकी । हनूमन्तं च सुग्रीवं सर्ववीरकपीश्वरम् ॥ ५३ जहास पाशबद्धौ तौ वीक्षमाणा वराङ्गना । उवाच च विमोक्षार्थं वदन्ती वचनं वरम् ।। जानक्युवाच- पुत्रौ कपी मुञ्चतं तौ महावीरौ महाबलौ । द्रक्ष्यतो मां यदि स्फीतौ प्राणत्यागं करिष्यतः॥ ५५ अयं वै हनुमान्वीरो यो ददाह दनोः पुरीमु । अयमप्यृक्षराजो हि सर्ववानरभूमिपः ।। ५६ किमर्थ विधृतौ कुत्र किं वा कृतमनादरात् । गृहीती येन वां पुच्छे तच्छंसास्मान्मनःस्थितम् ५७ इति मातुर्वचः श्लक्ष्णं वीक्ष्य तां पुत्रको तदा । ऊचतुर्विनयश्रेष्ठौ महाबलसमन्वितौ ।। ५८ पुत्रावचतुः मातः कश्चन भूपालो रामो दाशरथिर्बली । तेन मुक्तो हयः स्वर्णभालपत्रः सुशोभितः ॥ ५९ तत्रैवं लिखितं मातरेकवीरा प्रसूर्मम । ये क्षत्रियास्ते गृह्णन्तु नो चेत्पादतलार्चकाः ।। तदा मया विचारो वै कृतः स्वान्ते पतिव्रते । भवती क्षत्रिया किं न वीरसूः किं न वा भवेत् ॥ ५० ६० १ घ. ङ. स. ट. ढह मु। २ द. न. "त् । पुच्छे युवाभ्यां विधृतौ स महान्विस्मयोऽस्ति मे ।।
६४ चतुःषष्टितमोऽध्यायः] पद्मपुराणम् । धाष्टर्य तद्वीक्ष्य भूपस्य गृहीतोऽश्वो मया महान् । जितं कुशेन वीरेण सैन्यं तत्पातितं रणे॥६२ मुकुटोऽयं भूमिपतेर्जानीहि पतिदेवते । अयमप्यन्यवीरस्य पुष्कलस्य महात्मनः ॥ जानीहि मुकुटं त्वन्यं मणिमुक्ताविराजितम् । अश्वोऽयं मे मनोहारी कामयानो हि भूपतेः॥६४ आरोहणाय मदातुर्जानीहि बलिनो वरे । इमो कीशौ मया रन्तुमानीतौ बलिनां वरौ ॥ ६५ कौतुकार्य तवैवैतौ संग्रामे युद्धकारको । इति वाक्यं समाकर्ण्य जानकी पतिदेवता ।। जगाद पुत्रौ तौ वीरौ मोचयन्ती(तं) पुनः पुनः ॥ ६७ सीतोवाच- युवाभ्यामनयः सृष्टो हतो रामहयो महान् । अनेके पातिता वीरा इमौ बद्धो कपीश्वरौ ॥ ६८ पितुस्तव हयो वीरौ यागार्थ मोचितोऽमुना । तस्यापि हृतवन्तौ किं वाजिनं मखसत्तमे ॥ ६९ मुञ्चतं प्लवगावेतौ मुश्चतं वाजिनां वरम् । क्षाम्यतां भूपतेर्धाता शत्रुघ्नः परकोपनः ।। जनन्यास्तद्वचः श्रुत्वा धूचतुस्तां बलान्वितौ । क्षात्रधर्मेण तं भूपं जितवन्तौ बलान्वितम् ।। ७१ नास्माकमनयो भावी क्षात्रधर्मेण युध्यताम् । वाल्मीकिना पुरा प्रोक्तमस्माकं पठतां पुरः ॥ ७२ दुष्यन्तेन समं युद्धं भरतेन कृतं पुरा । कण्वस्य चाऽऽश्रमें वाह धृत्वा यागक्रियोचितम् ॥ ७३ तस्मात्सुतः स्वपित्राऽपि युध्येद्धात्राऽपि चानुजः । गुरुणा शिष्य एवापि तस्मानो पापसंभवः ॥ त्वदाज्ञातोऽधुना चाऽऽवां दास्यावो हयमुत्तमम् । मोक्ष्यावः कीशावेतौ हि वा सर्व तत्कृतं वचः इत्युक्त्वा मातरं वीरौ गतौ रणे कपीश्वरौ । अमुञ्चतां हयं वाऽपि हयमेधक्रियोचितम् ॥ सीतादेवी स्वपुत्राभ्यां श्रुत्वा सैन्यनिपातनम् । श्रीरामं मनसा ध्यात्वा भानुमैक्षत साक्षिणम् ॥ यद्यहं मनसा वाचा कर्मणा रघुनायकम् । भजामि नान्यं मनसा तर्हि जीवेदयं नृपः ॥ ७८। सैन्यं चापि महत्सर्व यन्नाशितमिदं बलात् । पुत्राभ्यां तत्तु जीवेत मत्सत्याज्जगतां पतेः ॥ ७९ इति यावद्वचो ब्रूते जानकी पतिदेवता । तावत्सर्व बलं नष्टं जीवितं रणमूर्धनि ।। इति श्रीमहापुराणे पाने पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे सैन्यजीवनं नाम चतुःषष्टितमोऽध्यायः ॥ ६४ ॥ आदितः श्लोकानां समष्टयङ्काः-१४७०० ७० ८० अथ पञ्चषष्टितमोऽध्यायः । ४ शेष उवाच- क्षणान्मूर्छा जहौ वीरः शत्रुघ्नः समराङ्गणे । अन्येऽपि वीरा बलिनो मूर्छा प्राप्ताः सुजीविताः॥? शत्रुघ्नो वाजिनां श्रेष्ठं ददर्श पुरतः स्थितम् । आत्मानं च शिरस्त्राणरहित सैन्यजीवितम् ॥ २ वीक्ष्य चित्रमिदं स्वान्ते चकार च जगाद च । सुमति मंतिमच्छ्रेष्ठं मूर्छाविरहितं तदा ॥ कृपां कृत्वा हयं पादादालो यज्ञस्य पूर्तये । गच्छाम रामं तरसा हयागमनकासकम् ॥ इत्युक्त्वा स्वरथे स्थित्वा हयमादाय वेगतः । ययौ तदाश्रमाहूरं भेरीशङ्कविवर्जितः ॥ तत्पृष्ठतो महासैन्यं चतुरासमन्वितम् । चचाल कुर्वत्संभग्नं स्वभारेण फणीश्वरम् ॥ जवेन जाहवीं तीर्खा कल्लोलजलमालिनीम् । जगाम विषये स्वीये स्वकीयजनंशोभिते ।। पुष्कलेन युतो राजा सुरथेन समन्वितः । रथे मणिमये तिष्ठन्महाकोदण्डधारकः ॥ १६. न. मश्रिणां श्रेष्ठ । २ थ. नसेविते । ५ ६ ८ ९ १० ११ २० 1 महामुनिश्रीव्यासमणीत- [४ पातालखण्डे. इयं तं पुरतः कृत्वा रत्नमालाविभूषितम् । श्वेतातपत्रं तस्यैव मूनि चामरभूषितः ॥ अनेकरथसाहः परितो बलिभिपैः । उद्यत्कोदण्डललितैरिनादविभूषितैः ॥ क्रमेण नगरी प्राप सूर्यवंशविभूषिताम् । अनेकैः केतुभिः श्रेष्ठैर्भूषितां दुर्गराजिताम् ।। रामः श्रुत्वा हयं प्राप्तं शत्रुघ्नेन महात्मना । पुष्कलेन च धीरेण ययौ हर्षमनेकधा । १२ कटकं निर्दिदेशासौ चतुरङ्गं महाबलम् । लक्ष्मणं प्रेषयामास भ्रातरं बलिनां वरम् ॥ १३ लक्ष्मणः सैन्यसहितो गत्वा भ्रातरमागतम् । परिरेभे मुदा क्रान्तः क्षतशोभितगात्रकम् ॥ १४ कुशलं पृष्टवांस्तत्र वार्ता चात्र चकार सः । परमं हर्षमापनः शत्रुघ्नः संगतो मुदा ॥ १५ सौमित्रिः स्वरथे स्थित्वा भ्रात्रा सह महामनाः । सैन्येन महता वीरो ययौ स्वनगरी प्रति॥१६ शरयूः पुण्यसलिला पवित्रितजगत्रया । रामपादरजःपूता शरच्चन्द्रनिभप्रभा ॥ हंसकारण्डवाकीर्णा चक्रवाकोपशोभिता । विचित्रतरवर्णेश्च पक्षिभिर्नादिता भृशम् ।। १८ मण्डपास्तत्र बहुशो रामचन्द्रेण कारिताः । ब्राह्मणानां वेदविदा पृथक्पाठनिनादकाः ॥ १९ क्षत्रियास्तत्र बहवो धनुष्पाणिसुशोभिताः । ज्याटङ्कारेण बहुना नादयन्तो महीतलम् ॥ भुञ्जते ब्राह्मणा यत्र विचित्रानैर्मनोहरैः । परस्परं प्रपश्यन्तो वार्ता चक्रुर्मनोहराम् ॥ २१ पयसाऽनानि सर्वाणि चन्द्रकान्तिसमानि च । क्षीराज्यमधुयुक्तानि शर्करामिश्रितानि च ॥२२ अपूपास्तत्र बहुलाश्चन्द्रबिम्बसमाः श्रिया । कर्पूरादिसुगन्धेन वासिताः सुमनोहराः ॥ २३ फेनिका वटकाः स्निग्धाः शतच्छिद्रा विरन्ध्रकाः । मण्डकाः शष्कुलीमृष्टा मधुरान्नसमन्विताः ॥ भक्ताः कुमुदसंकाशा मुद्दालीविमिश्रिताः । सुगन्धेन समायुक्ता ह्यत्यन्तप्रीतिदायकाः ॥ २५ भोदनो *दधिना युक्तः कर्पूरेण समन्वितः । स्वादुपाककरैः सृष्टः पात्रे मुक्तः प्रवेशकैः ॥ २६ तत्र केचिद्विजाः पात्रे पतितं वीक्ष्य पायसम् । परस्परं ते प्रत्यूचुः किमिदं दृश्यते दृशा ॥ २७ किं चन्द्रबिम्ब नभसः पतितं तमसो भयात् । अमृतं सुभवत्यत्र मृत्युनाशकमद्भुतम् ॥ तच्छ्रुत्वा रोपताम्राक्षः प्रोवाचान्यो द्विजोत्तमः । न भवत्येव चन्द्रस्य बिम्बं त्वमृतविष्लुतम् ॥२९ एकमिन्दोर्वयुस्त्वेतदृश्यते सदृशं कथम् । ब्राह्मणानां सहस्रस्य पात्रे पात्रे पृथक्पृथक् ।। ३० ततो जानीहि कुमुद कपूरं वा भविष्यति । मा जानीहि मृगाङ्कस्य बिम्ब शुभ्रश्रियान्वितम् ॥ तावदन्यो रुषाऽऽक्रान्तो विधुन्वन्मस्तकं तदा । न जानन्ति द्विजा मूढाः स्वादुज्ञानविचक्षणाः।। इदं तु क्षीरकन्दस्य रसेन परिपाचितम् । जानीहि शतपत्रस्य पुष्पाणि मधुराणि च ॥ एवं परस्परं विप्राः कन्दमूलफलाशिनः । तर्कयन्ति मुने प्रीता रसज्ञानेऽतिलोलुपाः ॥ तावदन्यो द्विजः प्राह क्षत्रियाणां वरं जनुः । भोक्ष्यन्ते तादृशं त्वन्नं महापुण्यैरुपस्कृतम् ॥ ३५ तदा तं प्राब्रवीद्विषो दत्तस्य फलमीदृशम् । ये ददत्यग्रजन्मभ्यः प्रामुवन्ति त ईप्सितम् ॥ ३६ यैरर्चितो नैव हरिनैवेद्यैर्विविधैर्मुहुः । तेषामेतादृशं भोज्यं न भवेदक्षिगोचरम् ॥ ३७ यैनरैरग्रजन्मानो भोजिता विविधै रसैः । भुञ्जते ते स्वादुरसं पापिनां चक्षुरुझितम् ॥ एवंविधै रसैमष्टेभौजिता द्विजसत्तमाः। मण्डपे विपठन्त्येते शब्दब्रह्मविचक्षणाः ॥ ३९ नृत्यन्त्येके हसन्त्येके ददत्येके महार्थिनाम् । उत्सवो बहुरुद्भाति तत्र शत्रुघ्न आगमत् ॥ * आर्षत्वादनकभावः । १२. द. न. °षितम् । अ । २ द. न. महाबलः । ३ ग. ठ. ध. न. महामतिः। ४ क. ख. ग. च. छ. ज. अ. ठ.इ.प.त.य.द.ध.न. शुभ्राणि । ५ घ.इ.स.ट.ड. ताः । सुधापा । ६ न. युक्तो भीमपाकस । ७ द.न. "तेऽद्भुतम् । किं। ८ न. 'सं कयं पापाः क्षुधाऽदिताः । एं। ९ द. के नदन्त्येके प्रहर्षिताः । उ । न. के ददत्येके प्रहर्षिताः । । २८ ३३ ३४ ३८ ९ ४२ ४७ ४९ ६५ पञ्चषष्टितमोऽध्यायः ] पद्मपुराणम् । ५७१ रामः शत्रुघ्नमायान्तं पुष्कलेन समन्वितम् । निरीक्ष्य मुदमुद्भूतां रक्षितुं नाशकत्तदा ॥ यावदुत्तिष्ठते रामो भ्रातरं हेयपालकम् । तावदामपदे लग्नः शत्रुघ्नो भ्रातृवत्सलः ॥ पदे प्रपतितं वीक्ष्य भ्रातरं विनयान्वितम् । परिरभे दृढं प्रीतः क्षतसंशोभिताङ्गकम् ॥ अभूणि बहुधा मुश्चन्हर्षाच्छिरसि राघवः । अत्यन्तं(वाप) परमानन्दं मुदं वचनदूरगाम् ॥ ४४ पुष्कलं स्वीयपदयोर्ननं विनयविहलम् । सुदृढं भुजयोर्मध्ये विनीयापीडयदृशम् ।। ४५ हनुमन्तं तथा वीरं सुग्रीवं चागदं तथा । लक्ष्मीनिाधं जनकजं प्रतापाय्यं रिपुंतपम् ॥ सुबाहुं सुमदं वीरं विमलं नीलरत्नकम् । सत्यवन्तं वीरमणिं सुरथं रामसेवकम् ॥ अन्यानपि महाभागारघुनाथः स्वयं ततः । परिरेभे दृढं स्निग्धान्पादयोः प्रणतानृपान् ॥ ४८ मुमतिः श्रीरघोर्नाथं भक्तानुग्रहकारकम् । परिरभ्य दृढं प्रीतः संमुखेऽतिष्ठदुन्नतः ।। तदा रामो निजामात्यं वीक्ष्य संनिधिमागतम् । उवाच परमप्रीत्या मत्रिणं वदतां वरः ॥ ५० श्रीराम उवाच- मुमते मत्रिणां श्रेष्ठ शंस मे वाग्मिनां वर । क एते भूमिपाः सर्वे कथमत्र समागताः ॥ कुत्र कुत्र हयः प्राप्तः केन केन नियत्रितः । कथं वै मोचितो भ्रात्रा महाबलमुशालिना ॥ ५२ शेष उवाच- इत्युक्तो मत्रिणां श्रेष्ठः सुमतिः प्राह राघवम् । [*मेघगम्भीरया वाण्या नादयंस्तन्महावलम्]५३ सुमतिरुवाच- सर्वज्ञस्य पुरस्तेऽद्य मया कथमुदीर्यते । मां लोकरीत्या पृच्छास सर्व त्वं वेत्सि सर्वक् ॥ ५४ तथाऽपि तव निर्देश शिरस्याधाय सर्वदा । ब्रवीमि तच्छृणुष्वाद्य सर्वराजशिरोमणे ॥ ५५ त्वत्प्रसादादहो स्वामिन्सर्वत्र जगतीतले । परिवभ्राम ते वाहो भालपत्रसुशोभितः ॥ न कश्चित्तं निजग्राह स्वमानबलदर्पितः । स्वं स्त्रं राज्यं समाथ प्रणेमुस्ते पदाम्बुजम् ॥ ५७ को वा रावणदैत्येन्द्रनिहन्तुर्वाजिसत्तमम् । गृह्णाति विजयाकाक्षी जरामरणेवर्जितः ॥ अहिच्छत्रां गतस्तावत्तव वाजी मनोहरः । तद्राजा सुमदः श्रुत्वा हयं प्राप्तं तव प्रभो ॥ सपुत्रः सबलः सर्वसैन्येन बलिना वृतः। सर्व समर्पयामास राज्यं निहतकण्टकम् ।। यो राजा जगतां नेत्री मातरं जगदम्बिकाम् । प्रसाद्य चिरमायुष्माँल्लेभे राज्यमकण्टकम् ॥ ६१ एष त्वा तु प्रणमति सुमदः प्रभुसेवितम् । तं गृहाण कृपादृष्ट्या चिरादर्शनकाङ्क्षकम् ॥ ६२ ततः सुबाहुभूपस्य नगरे बलपूरिते । दमनस्तस्य वै पुत्रः प्रजग्राह हयोत्तमम् ॥ तेन सार्क महाद्धं बभूव दमनेन च । पुष्कलो जयमापेदे संमूर्य सुभुजात्मजम् ॥ ततः सुबाहुः संक्रुद्धो रणे पवनजं बलात् । युयुधे तव पादाजसेवकं बलिनां वरम् ॥ तस्य पादाहतो ज्ञानं प्राप्य शापतिरस्कृतम् । तुभ्यं समर्प्य सकलं वाजिनः पालकोऽभवत् ॥६६ एष त्वां सुभुजो राजा प्रणमत्युग्नताङ्गकः । कृपादृष्ट्याऽभिषिञ्च त्वं सुबाहुं रणकोविदम् ॥ ६७ ततो मुक्तो हयो वाहूदे स निममज्ज ह । तत्र प्राप्तं मोहनास्त्रं शत्रुघ्नेन बलीयसा ।। ६८ ततो देवपुरे मागाच्छिववासविभूषिते । तत्रत्यं तु विजानासि यतस्त्वं तत्र चाऽऽगतः ॥ * एतचिहान्तर्गतः पाठः क. ख. ग. च. छ. ज. स. ठ. इ. ण त. थ. द. ध. पुस्तकस्थः । १ न. परिरम्भितुम् । २ घ. उ. झ. ट. ढ. 'रं वि । ३ द. न °म् । प्रहसन्मेघगम्भीरनादेन च सुबुद्धिमान् । सु । ४६. स्वनामव' । ५ घ. ड. झ. ट. द. णकाङ्क्षितः । ६ ग. ठ. द. ध. न. "हुं नयको ५८ ६० ७१ महामुनिश्रीव्यासमणीतं- [४ पातालखण्डे- विद्युन्माली हतो दैत्यः सत्यवान्संगतस्ततः । सुरथेन समं युद्धं जानासि त्वं महामते ॥ ततः कुण्डलकान्मुक्तो यो बभ्राम सर्वतः । न कश्चितं निजग्राह स्ववीर्यबलदर्पितः ।। वाल्मीकेराश्रमे रम्ये हयः प्राप्तो मनोरमः । तत्र यत्कौतुकं जातं तच्छृणुष्व नरोत्तम ॥ ७२ तत्रार्भस्तव सारूप्यं बिभ्रत्षोडशवार्षिकः । जग्राह वीक्ष्य पत्राई वाजिनं बलिसत्तमः ॥ ७३ तत्र कालजिता युद्धं महज्जातं नरोत्तम । निहतस्तेन वीरण खड़ेन शितधारिणा ॥ अनेके निहताः संख्ये पुष्कलाद्या महाबलाः । मूछितं चापि शत्रुघ्नं चक्रे वीरशिरोमणिः ॥ ७५ तदा राजा महदुःखं विचार्य हृदि संयुगे । कोपेन मूर्छितं चक्रे वीरो हि बलिनां वरम् ॥ ७६ स यावन्मूर्छितो राज्ञा तावदन्यः समागतः । तेनैतेन चे संजीव्य नाशित कटकं तव ।। सर्वेषां मूर्छितानां तु शस्त्राण्याभरणानि च । गृहीत्वा वानरौ बद्धौ जग्मतुः स्वाश्रमं प्रति ॥ ७८ कृपां कृत्वा पुनस्तेन दत्तोऽश्वो यझियो महान् । जीवनं प्रापितं सर्व कटकं नष्टजीवितम् ॥ ७९ वयं नीत्वा ततो वाहं प्राप्तास्तव समीपके । एतदेव मया ज्ञातं तदुक्तं ते पुरो वचः॥ इति श्रीमहापुराणे पाने पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे सुमतिनिवेदनं नाम पञ्चषष्टितमोऽध्यायः ॥ ६५ ॥ आदितः श्लोकानां समष्टयङ्का:~१४७८० ७७ ८० अथ षट्षष्टितमोऽध्यायः । २ ३ ५ - शेष उवाच- कथितौ वै सुमतिना वाल्मीकेराश्रमे शिशू । पुत्रौ स्वीयाविति मात्वा वाल्मीकि प्रति संजगौ १ श्रीराम उवाच- को शिशू मम सारूप्यधारको बलिना वरौ । किमर्थं तिष्ठतस्तत्र धनुर्विद्याविशारदौ ॥ अमात्यकथितौ श्रुत्वा विस्मयो मम जायते । यौ शत्रुघ्नं हनूमन्तं लीलया बबन्धतुः ॥ [*तस्माच्छंस मुने सर्व बालयोश्च विचेष्टितम् । यथा मे परमा प्रीतिर्भवत्येवमभीप्सिता ॥ ४ इति तत्कथितं श्रुत्वा राजराजस्य धीमतः] । उवाच परमं पाक्यं स्पष्टाक्षरसमन्वितम् ।। वाल्मीकिरुवाच- तवान्तर्यामिणो नृणां कथं ज्ञानं हि नो भवेत् । तथाऽपि कथयाम्यत्र तव संतोषहेतवे ॥ राजन्यौ बालकौ मह्यमाश्रमे बलिनां वरौ । त्वत्सारूप्यधरौ स्वागमनोहरवपुर्धरौ ॥ त्वया यदा वने त्यक्ता जानकी वै निरागसी । अन्तर्वत्नी वने घोरे विलपन्ती मुहुर्मुहुः॥ ८ कुररीमिव दुःखार्ता वीक्ष्याहं तव मोहलाम् । जनकस्य मुतां पुण्यामाश्रमे त्वानयं तदा ।। तस्याः पर्णकुटी रम्या रचिता मुनिपुत्रकैः । तस्यामभूतां पुत्रौ द्वौ भासयन्तौ दिशो दश ॥१० तयोरकरवं नाम कुशो लव इति स्फुटम् । वधातेऽनिशं तत्र शुक्लपक्षशशी यथा ॥ ११ कालेनोपनयाधानि कर्माणि कृतवानहम् । वेदान्साङ्गानहं सर्वान्याहयामास भूपते ॥ सर्वाणि स(च)रहस्यानि शृणुष्व मुखतो मम । आयुर्वेदं धनुर्वियों शस्त्रविद्यां तथैव च ॥ १३ ६ ९ १२ * एतचिहान्तर्गतः पाठः क. ख. ग. च छ. ज. म. ठ. ह. ग. त. प. द. घ. न. पुस्तकस्थः । १ न. ध सर्व वै ना । २ न. 'रौ तौ च वालौ शूरवरी प्रभो । त्व। ३ न. या सरहस्यां त ।
२२ २४ २७ २८ २९ १६ षट्षष्टितमोऽध्यायः] पमपुराणम् । ५७३ विद्यां जालंधरी चाथ संगीतकुशलौ कृतौ । [गडाकूले गायमानौ लताकुञ्जवनेषु च ॥ १४ चञ्चलौ चलचित्तौ च सर्वविद्याविशारदौ । तदाऽहमतिसंतोषं प्राप्तः परमबालयोः] ॥ १५ दत्त्वा सर्वाणि शस्त्राणि मस्तके निहितः करः। अतीव गानकुशलौ दृष्ट्वा लोका 'विसिमिरे ॥ पंड्जमध्यमगान्धारस्वरविद्याविशारदौ । तथाविधौ विलोक्याई गापयामि मनोहरम् ।। १७ भविष्यज्ञानयोगाश्च कृतं रामायणं शुभम् । मृदङ्गपणवाचं च (धैश्चः) यत्रवीणाविशारदौ ॥ १८ वने वने च गायन्तौ मृगपक्षिविमोहको । अद्भुतं गीतमाधुर्य तदा राम कुमारयोः ॥ १९ श्रोतुं तौ वरुणो बालावानिनाय विभावरीम् । मनोहारिवयोरूपी गानविद्याब्धिपारगौ ॥ २० कुमारौ जगतस्तत्र लोकेशादेशतः केलम् । परमं मधुरं रम्यं पवित्रं चरितं तव ।। २१ शुश्राव वरुणः सार्धं कुटुम्बेन च गायकैः । शृण्वन्नैव गतस्तृप्ति मित्रेण वरुणः सह ॥ सुधातोऽपि रसस्वादु चरितं रघुनन्दन । गानानन्दमहालोभहृतपाणेन्द्रियक्रियः ॥ प्रत्यागन्तुं दिदेशासौ कुमारौ न हि तावको । रमणीयमहाभोगैर्लोभितावपि बालकौ ॥ चालितौ न गुरोश्चाऽऽत्ममातुः पादाम्बुजस्मृतेः । अहं चापि गतः पश्चादरुणालयमुत्तमम् ॥२५ वरुणः प्रेमगलितः पूजां चक्रे मम प्रभो । पृच्छते जन्मकर्मादि सर्वज्ञायापि बालयोः ॥ २६ वरुणायात्रुवं सर्वं जन्मविद्याधुपागमम् । श्रुत्वा सीतासुतौ देवः स चक्रेऽम्बरभूषणैः ॥ देवेदत्तमिति ग्राह्यमिति मद्वाक्यगौरवात् । आदत्तं राजपुत्राभ्यां यद्दत्तं वरुणेन तत् ॥ प्रसभेन तयोर्वाद्यगानविद्यावयोगुणैः । ततो मामब्रवीत्सीतामुद्दिश्य वरुणः कृती ॥ सीता पतिव्रताधुर्या शीलरूपवयोन्विता । वीरपुत्रा महाभागा त्यागं नाईति कहिचित् ॥ ३० महती हानिरेतस्यास्त्यागे हि रघुनन्दन । सिद्धीनां परमा सिद्धिरेषा ते घनपायिनी ।। ३१ पामरैर्महिमा नास्या ज्ञायते यदि दूषितैः । का हानिस्तावता राम पुण्यश्रवणकीर्तन ॥ अस्मत्साक्षिकमेवास्याः पावनं चरितं सदा । सद्यस्ते सिद्धिमायान्ति ये सीतापदचिन्तकाः ३३ यस्याः संकल्पमात्रेण जन्मस्थितिलयादिकाः। भवन्ति जगतां नित्यं व्यापारा ऐश्वरा अमी३४ सीता मृत्युः सुधा चेयं तपत्येषा च वर्षति । स्वर्गो मोक्षस्तपो योगो दानं च तव जानकी ३५ ब्रह्माणं शिवमन्यांश्च लोकपालान्मदादिकान् । करोत्येषा करोत्येवं न च सीता तव पिया।।३६ त्वं पिता सर्वलोकानां सीता च जननीत्यतः । कुदृष्टिरत्र तु क्षेमयोग्या न तव कर्हिचित् ॥ ३७ वेत्ति सीतां सदाशुद्धा सर्वज्ञो भगवान्स्वयम् । भवानपि सुतां भूमे माणादपि गरीयसीम् ॥३८ आदर्तव्या त्वया तस्मात्मिया शुद्धति जानकी । न च शापपराभूतिः सीतायां त्वयि वा विभो इमानि मम वाक्यानि वाच्यानि जगतीपतिम् । रामं प्रति त्वया साक्षाद्वाल्मीके मुनिसत्तम।।४० इत्युक्तो वरुणेनाहं सीतासंग्रहकारणात् । एवमेव हि सर्वेश्च लोकपालैरपि प्रभो ॥ श्रुतं रामायणोद्गानं पुत्राभ्यां ते सुरासुरैः । गन्धर्वैरपि सर्वैश्च कौतुकाविष्टमानसैः ॥ प्रसन्ना एव सर्वेऽपि प्रशशंसुः सुतौ च ते । त्रैलोक्यं मोहितं ताभ्यां रूपगानवयोगुणैः ॥ ४३ दत्तं यल्लोकपालैस्ते सुताभ्यां स्वीकृतं हि तत् । ऋषिभिश्च वरा आभ्यामन्येभ्यः कीर्तिरेव च ४४ एकरामं जगत्सर्व पूर्व मुनिविलोकितम् । त्रिराममधुना जातं सुताभ्यां तेऽखिलेक्षितम् ॥ ४५ * एतधिकान्तर्गतः पाठः क. स. च. छ. ज. अ. ठ. ड. ण. त. य. द.ध. न. पुस्तकस्थः । रे आदेश आर्षः । १.स. छ. ज. स. ग. त. य. द. न. 'रभेदवि । २ न. किल । ३ द. न. पि परं स्वा । ४ न, ववन्महती पूर्णा तयोर्मद्वा'। ५ न. "त्य तथा लोकेश्व द.न. व नान्या सी। ३२ .
- ४८ - ५७४ महामुनिभीव्यासप्रणीतं- [४ पातालखण्डे एककामपराभूतिलोंके पूर्वमवेक्षिता । कामैश्चतुर्भिरद्यायं जीयते च यतस्ततः ॥ ४६ सर्वत्रान्यत्र राजेन्द्र रामपुत्रौ कुशीलचौ । गीय(ये)ते अत्र संकोचः किंकृतो विदुषि त्वयि ॥ ४७ कृतेषु तव सर्वेषु श्रूयते महती स्तुतिः । त्यागादन्यत्र सीतायाः पुण्यश्लोकशिरोमणे ॥ त्वया त्रैलोक्यनाथेन गार्हस्थ्यमनुकुर्वता । अङ्गीकार्यो सुतौ राम विद्याशीलगुणान्वितौ ॥ ४९ न तौ स्वां मातरं हित्वा स्थास्यतो भवदन्तिके। जनन्या सहितौ तस्मादाकारों भवता सुतौ ५० दत्त एव तया प्राणः सेनासंजीवनात्पुनः । प्रत्ययः सर्वलोकानां [पावनः पततामपि ॥ ५१ नाज्ञातं ते न चास्माकं नामराणां च मानद । शुद्धौ तस्यास्तु लोकानां] यन्नष्टं तदिह ध्रुवम् ॥ शेष उवाच- इति वाल्मीकिना रामः सर्वज्ञोऽप्यवबोधितः। स्तुत्वा नत्वा च वाल्मीकिं प्रत्युवाच स लक्ष्मणम्५३ गच्छ ताताधुना सीतामानेतुं धर्मचारिणीम् । सपुत्रो रथमास्थाय सुमित्रसहितः सखे ॥ ५४ श्रावयित्वा ममेमानि मुनेश्च वचनान्यपि । संबोध्य च पुरीमेतां सीतां प्रत्यानयाऽऽशु ताम् ॥ लक्ष्मण उवाच- यास्यामि तव संदेशात्सर्वेषां वः प्रियाद्विभो । देव्यायास्यति चेदेव यात्रा मे सफला ततः॥५६ मयि सामा(सा)भ्यसूर्यव पूर्वदोषवशात्सती। अनागता देव तस्याः क्षमस्वाऽऽगन्तुकं तु माम्५७ इत्युक्त्वा लक्ष्मणो रामं रथे स्थित्वा नृपाज्ञया । सुमित्रमुनिशिष्याभ्यां युतोऽगाद्वनिताश्रमम् ॥ कथं प्रसादनीया स्यात्सीता भगवती मया । पूर्वदोषं विजानाति रामाधीनस्य मे सदा ॥ ५९ एवं संचिन्तयन्नन्तहर्षसंकोचमध्यगः । लक्ष्मणः पाप सीताया आश्रमं श्रमनाशनम् ।। रथात्सोऽथावरुह्याऽऽरादश्रुरुद्धविलोचनः । आर्ये पूज्ये भगवति शुभे इति वदन्मुहुः ॥ ६१ पपात पादयोस्तस्या वेपमानाखिलाङ्गकः । उत्थापितस्तया देव्या प्रीतिविहलया स च ॥ ६२ सीतोवाच- किमर्थमागतः सौम्य वनं मुनिजनप्रियम् । आस्ते स कुशली देवः कौशल्याशुक्तिमौक्तिकः॥६३ अरोषो मयि कश्चित्स की केवलया हतः । कीर्त्यते सर्वलोकैश्च कल्याणगुणसागरः॥ ६४ अकीर्तिभीतिमापनो हन्तुं मां त्वां नियुक्तवान् । यदि ततोऽपि लोकेषु कीर्तिस्तस्यामला भवेत् ६५ मृत्वाऽपि पतिसत्कीर्ति कुर्वत्या मे हि सुस्थिराम् । पतिसामीप्यमेवाऽऽशु भूयादेव हि देवर॥६६ त्यक्तयाऽपि मया तेन नासौ त्यक्तो मनागपि । फलं हि साधनायत्तं हेतुः फलवशो न तु॥६७ कौसल्या शल्यशून्याऽसौ कृपापूर्णा सदा मयि। आस्ते कुशलिनी यस्याः पुत्रस्त्रैलोक्यपालकः ६८ सर्वे कुशलिनः सन्ति भरताद्याश्च बान्धवाः। सुमित्रा च महाभागा यस्याः प्राणादहं प्रिया॥६९ मद्वत्किं त्वमपि त्यक्तः सर्वलोकेषु कीर्तये। राज्ञः किं दुस्त्यजं तस्य स्वात्माऽपि यस्य न प्रियः। इत्येवं बहुधा पृष्टस्तया रामानुजः स ताम् । उवाच कुशली देवः कुशलं खयि पृच्छति ॥ ७? कौसल्या च सुमित्रा च याश्चान्या राजयोषितः। पप्रच्छु: कुशलं देवि प्रीत्या त्वामाशिषा सह ७२ कुशलप्रश्नपूर्व हि तव पादाभिवन्दनम् । निवेदयामि शत्रुघ्नभरताभ्यां कृतं शुभे ॥ गुरुभिर्गुरुपत्नीभिः सर्वाभिरपि ते शुभे । दत्ताऽऽशीः कुशलप्रश्नः कृतश्च त्वयि जानकि ॥ ७४ ६० * एतञ्चिहान्तर्गतः पाठः क. ख. ग. छ. ज. म. ठ. २. ण. त. थ. द. ध. पुस्तकस्थः । .. १ तः । सामात्ये मय्यासूयां च ।। २ द. न. अशेषो । ३ द. म. परस्त्यक्तुं मा त्वां ।
७९ ८७ ८९ ६६ षट्षष्टितमोऽध्यायः ] पमपुराणम् । ५७५ आकारयति देवस्त्वां निळलीकः कृतात्मवान्। अलब्धात्मरतिस्त्वत्तोऽन्यत्र सर्वत्र भामिनि ७५ शून्या एव दिशः सर्वास्त्वां विना जनकात्मजे। पश्यन्रोदिति नाथो नो रोदयनितरानपि ७६ यत्र देवि स्थिताऽसि त्वं नित्यं स्मरति राघवः । अशून्यं तु तमेवासौ मन्यमानो विदेहजे ॥७७ धन्योऽयमाश्रमो जातो वाल्मीकेर्यत्र जानकी । कालं क्षपति वार्ताभिर्मदीयाभिर्वदभिति ॥ ७८ उक्तवान्य[दन्किचित्स्वामी नस्त्वयि तच्छृणु । व्यक्तीभवति वक्तुर्यबृद्गतं तदसंशयम् । लोको वदति मामेव सर्वेषामीश्वरेश्वरम् । अहं त्वदृष्टमेवैषां स्वतत्रं कारणं श्रृंवे ॥ अदृष्टमेव कार्येषु सर्वेशोऽप्यनुगच्छति । ईशनीयाः कुतो नैतदन्वीयुः सुखदुःखयोः । धनुर्भङ्गे मतेभ्रंशे कैकेय्या मरणे पितुः । अरण्यगमने तत्र हरणे तव वारिधेः ॥ ८२ तरणे रक्षसां भर्तुर्मारणेऽपि रणे रणे । सहायीभवने मह्यमृक्षवानररक्षसाम् ॥ लाभे तव प्रतिज्ञायाः सत्यत्वे च सतीमणे । पुनः स्वबन्धुसंबन्धे राज्यप्राप्तौ च भामिनि ॥ ८४ पुनः प्रियावियोगे च कारणं यदवारणम् । प्रसीदति तदेवाय संयोगे पुनरावयोः ॥ ८५ वेदोऽन्यथा कृतो येन लोकोत्पत्तिलयो यतः। लोकाननुगतस्तस्मात्कारणं प्रथमं त्वहम् ॥ ८६ अदृष्टमनुवर्तन्ते लोकाः संप्रतिबोधकाः । भोगेन जीर्यतेऽदृष्टं तत्तु भुक्तं त्वया वने ॥ स्नेहोऽकारणकः सीते वर्धमानो मम त्वयि । लोकादृष्टे तिरस्कृत्य त्वामाहयत आदरात् ॥ ८८ शङ्कितेनापि दोषेण स्नेहनैर्मल्यमजनम् । भवतीति स वै शुद्ध आस्वाद्यो विबुधैः सदा ॥ स्नेहशुद्धिरियं भद्रे कृता मे त्वयि नान्यथा । मन्तव्यं रक्षितोऽप्येष लोकः शिष्टानुवर्तिना ॥९० आवयोनिन्दया देवि सर्वावस्थासु शुद्धये । लोको नश्येद्धि समूढश्चरितैर्महतामयम् ॥ आवयोरुज्ज्वला कीर्तिरावयोरुज्ज्वलो रसः। आवयोरुज्ज्वलौ वंशावावयोरुज्ज्वलाः क्रियाः ९२ भवेयुरावयोः कीर्तिगायका उज्ज्वला भुवि । आवयोर्भक्तिमन्तो ये ते यान्त्यन्तं भवाम्बुधेः॥ ९१ इत्युक्ता भवती तेन प्रीयमाणेन ते गुणैः । पत्युः पादाम्बुज द्रष्टुं करोतु सदयं मनः ।। वासांसि रमणीयानि भूषणानि महान्ति च। अङ्गरागस्तथा गन्धा मनोज्ञास्त्वयि योजिताः ९५ रथो दास्यश्च रामेण प्रेषिता उत्सवाय ते । छत्रं च चामरे शुभ्र गजा अश्वाश्व शोभने ॥ ९६ स्तूयमाना द्विजश्रेष्ठैः सूतमागधवन्दिभिः । वन्द्यमाना पुरस्त्रीभिः सेव्यमाना च योद्धभिः ॥ ९७ [*पुष्पैः संछाद्यमाना च देवदेवाङ्गनादिभिः। धनादि ददती तेभ्यो द्विजादिभ्यो यथोचितम्॥९८ गजारूढौ कुमारौ च पुरस्कृत्य जनेश्वरि । मयाऽनुगम्यमाना च गच्छायोध्या निजां पुरीम् ॥ ९९ त्वयि सत्र गतायां तु संगतायां प्रियेण ते । सर्वासां राजनारीणामागतानां च सर्वतः ॥ १०० सर्वमहर्षिपत्नीनां कौशल्यानां तथा मखे । मङ्गलैवोद्यगीतायैर्भवत्वद्य महोत्सवः ॥ १०१ शेष उवाच- इति विज्ञापनां देवी श्रुत्वा सीता तमाह च। नाहं कीर्तिकरी राज्ञो नापि कीर्तिः स्वयं त्वहम् ।। मया तस्य साध्यं स्याद्धर्मकामार्थशून्यया। सत्येवं भवतां भूपे को विश्वासो निरङ्कुशे ॥१०३ प्रत्यक्षा वा परोक्षा वा भर्तुर्दोषा मनःस्थिताः । न वाच्या जातु मादृश्या कल्याणकुलजातया ॥ पाणिग्रहणकाले मे यद्रूपो हृदये स्थितः । तद्रूपो हृदयानासौ कदाचिदपसर्पति ॥ १०५ लक्ष्मणेपौ कुमारौ मे तत्तेजोंशसमुद्भवौ । वंशाङ्कुरौ महावीरौ धनुर्विद्याविशारदौ॥ १०६ * एतचिन्हान्तर्गतः पाठः क. ख. च. छ. अ. अ. 3. ण. त. थ. द. न. पुस्तकस्थः । १ ख. छ. उ. त. न. ध्रुवम् । २ द. न. हो स्वपी । ३ स. लवाकुशौ। ९४ - किं - १२० - ५७६ महामुनिश्रीव्यासमणीत- [४ पातालखण्डे- नीत्वा पितुः समीपं तु लालनीयौ प्रयत्नतः । तपसाऽऽराधयिष्यामि रामं काममिह स्थिता१०७ वाच्यं त्वया महाभाग पूज्यपादाभिवन्दनम् । सर्वेभ्यः कुशलं चापि गत्वेतो मदपेक्षया ॥१०८ पुत्रौ समादिशत्सीता गच्छतं पितुरन्तिकम् । शुश्रूषणीय एवासौ भवद्भ्यां स्वपदप्रदः॥ १०९ आजप्तावप्यनिच्छन्तौ तौ कुमारौ कुशीलवौ । वाल्मीकिवचनात्तत्र जग्मतुश्च सलक्ष्मणौ ॥ ११० वाल्मीकरेव पादाब्जसमीपं तत्सुतौ गतौ । लक्ष्मणोऽपि ववन्दे तं गत्वा बालकसंयुतः ॥ १११ वाल्मीकिर्लक्ष्मणस्तौ च कुमारी मिलिता अमी । सभायां संस्थितं रामं ज्ञात्वा च जग्मुरुत्सुकाः लक्ष्मणः पणिपत्याथ सीतावाक्यादि सर्वशः। कथयामास रामाय हर्षशोकयुतः सुधीः ॥ ११३ सीतासंदेशवाक्येभ्यो रामो मूर्छा समन्वभूत् । संज्ञामवाप्य चोवाच लक्ष्मणं नयकोविदम् ॥११४ श्रीराम उवाच- गच्छ मित्र पुनस्तत्र यत्नेन महता च ताम् । शीघ्रमानय भद्रं ते मद्वाक्यानि निवेद्य च ॥ ११५ अरण्ये किं तपस्यन्त्या गतिरन्या विचिन्तिता । श्रुता दृष्टाऽथवा मत्तो यनाऽऽगच्छसि जानकि।। ? पत्त्वदिच्छया त्वमेवेतो गताऽरण्यं मुनिप्रियम् । पूजिता मुनिपत्न्यस्ता दृष्टा मुनिगणास्त्वया ॥ पूर्णो मनोरथस्तेऽद्य किं नाऽऽगच्छसि भामिनि। नदोष मयि पश्येस्त्वं स्वात्मेच्छाया विलोकनात् ॥ गत्वा गत्वाऽथ वामोरु पतिरेव गतिः स्त्रियाः । निर्गुणोऽपि गुणाम्भोधिः किं पुनर्मनसेप्सितः ॥ या या क्रिया कुलस्त्रीणां सा सा पत्युः प्रतुष्टये। पूर्वमेव प्रतुष्टोऽहमद्य तु सुतरां त्वयि ॥ यागो जपस्तपो दानं व्रतं तीर्थ द(ग)यादिकम् । देवाश्च मयि संतुष्टे तुष्टमेतदसंशयम् ॥ १२१ शेष उवाच- इति संदेशमापीय सीता प्रति जगत्पतेः । आह लक्ष्मण आत्मेशमानतः प्रणयाद्धरौ ॥ १२२ लक्ष्मण उवाच- सीतानयनमुद्दिश्य प्रसन्नस्त्वं यदूचिवान् । कथयिष्यामि त्वद्वाक्यं विनयेन समन्वितम् ॥ १२३ इत्युक्त्वा पादयोर्नत्वा रघुनाथस्य लक्ष्मणः । जगाम त्वरितः सीता रथे तिष्ठन्महाजवे ॥ १२४ वाल्मीकिः श्रीयुतौ वीक्ष्य रामपुत्रौ महौजसौ । उवाच स्मितमाधाय मुखं कृत्वा मनोहरम्॥१२५ वाल्मीकिरुवाच- युवां प्रगायतां पुत्रौ रामचारित्रमद्भुतम् । वीणां वै वादयन्तौ वां कलगानेन शोभितम् ॥ १२६ इत्युक्तौ तौ सुतौ रामचरित्रं बहुपुण्यदम् । अगायतां महाभागौ सुवाक्यपदचित्रितम् ॥ १२७ यस्मिन्धर्मविधिः साक्षात्पातिव्रत्यं तु यत्स्थितम् । भ्रातृस्नेहो महान्यत्र गुरुभक्तिस्तथैव च १२८ स्वामिसेवकयोर्यत्र नीतिमूर्तिमती किल । अधर्मकरशास्ति यत्र साक्षाद्रदहात् ॥ १२९ तद्गानेन जगद्व्याप्तं दिवि देवा अपि स्मिताः। किंनरा अपि यद्गानं श्रुत्वा मूर्छामिताः क्षणात् ॥ वीणाया रणितं श्रुत्वा तालमानेन शोभितम् । निखिला परिषत्तत्र शालभञ्जीव चित्रिता ॥१३१ हर्षादभूणि मुञ्चन्ति रामाद्या भूमिपास्तदा । तद्द्वानपञ्चमालापमोहिताश्चित्रितोपमाः ॥ १३२ तत्र रामः सुतौ दृष्ट्वा महागानविमोहको । अदात्ताभ्यां सुवर्णस्य लक्षं लक्षं पृथक्पृथक् ॥ १३३ तदा दानपरं दृष्ट्वा वाल्मीकि मुनिसत्तमम् । अबूतां प्रहसन्तौ तौ किंचिद्वक्रभुवोधरौ ॥ १३४ कुशलवावूचतु:- मुने महानयोऽनेन क्रियते भूमिपेन वै । यदावाभ्यां सुवर्णानि दातुमिच्छति लोभयन् ॥ १३५ १न.ल्मीकिं। २ क.स.च. छ. ज. म. त.थ. द. न. स्थिताः । ॥ .
६६ षट्षष्टितमोऽध्यायः ] पापुराणम् । प्रतिग्रहो ब्राह्मणानां शस्यते नेतरेषु वै । प्रतिग्रहपरो राजा नरकायैव कल्पते । आवयोः कृपया मुक्तं राज्यं भुङ्क्ते महीपतिः। कथं दातुं सुवर्णानि वाञ्छति श्रेयसाचितः॥१३७ इत्युक्तवन्तौ तौ दृष्ट्वा वाल्मीकिः कृपया युतः। अशंसयुष्मत्पितरं जानीथा नीतिवित्तमौ ॥१३८ इति श्रुत्वा मुनेर्वाक्यं बालको पितृपादयोः । लग्नौ विनयसंयुक्तौ मातृभक्त्याऽविनिर्मलौ।।१३९ रामो बालो दृढं स्वाङ्गे परिरभ्य मुदाऽन्वितः। मेने स्वीयौ तदा धौं मूर्तिमन्तावुपस्थितौ १४० सभाऽपि रामसुतयोक्ष्यि वक्त्रे मनोरमे । जानकीपतिभक्तित्वं सत्यं मेने मुनीश्वर ।। १४१ व्यास उवाच- इति शेषमुखमोक्तं श्रुत्वा वात्स्यायनोऽब्रवीत् । रामायणं श्रोतुमनाः सर्वधर्मसमन्वितम् ॥ १४२ वात्स्यायन उवाच- कस्मिन्काले कृतं स्वामिन्रामायणमिदं महत् । कस्माञ्चकार किं तत्र वर्णनं किं वदस्व तत् ॥१४१ शेष उवाच- एकदा गतवान्विप्रो वाल्मीकिर्विपिनं महत् । यत्र तालास्तमालाश्च किंशुका यत्र पुष्पिताः॥१४४ केतकी यत्र रजसा कुर्वती सौरभं वनम् । शशिप्रभेव महती दृश्यते शुभ्रवर्णभृत् ॥ १४५ चम्पको धकुलश्चापि कोविदारः कुरण्टकः । अनेके पुष्पिता यत्र पादपाः शोभने वने ॥ १४६ कोकिलानां विरावेण षट्पदानां च शब्दितैः । संघुष्टं सर्वतो रम्यं मनोहरवयोन्वितम् ।। १४७ तत्र क्रौञ्चयुगं रम्यं कामबाणप्रपीडितम् । परस्परं प्रेहषितं रेमे स्निग्धतया स्थितम् ।। १४८ तदा व्याधः समागत्य तयोरेकं मनोहरम् । अवधीनिर्दयः कश्चिन्मांसास्वादनलोलुपः ॥ १४९ तदा क्रौञ्ची व्याधहतं स्वपतिं वीक्ष्य दुःखिता । विललाप भृशं दुःखान्मुञ्चती रावमुच्चकैः १५० तदा मुनिः प्रकुपितो निषादं क्रौञ्चघातकम् । शशापै वायुपस्पृश्य सरितः पावनं शुभम् ॥ १५१ मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः। यत्क्रौश्वपक्षिणोरेकमवधीः काममोहितम्॥१५२ तदा प्रबन्धं श्लोकस्य जातं मत्वा ह्यनु द्विजाः । ऊचुर्मुनि प्रहृष्टास्ते शंसन्तः साधु साध्विति ।। स्वामिञ्शापोदिने वाक्ये भारती श्लोकमातनोत् । अत्यन्तं मोहनो जातः श्लोकोऽयं मुनिसत्तम तदा मुनिः प्रहृष्टात्मा बभूव वाडवर्षभः । तस्मिन्काले समागत्य ब्रह्मा पुत्रैः समन्वितः ॥ १५५ वचो जगाद वाल्मीकिं धन्योऽसि त्वं मुनीश्वर। भारती त्वन्मुखे स्थित्वा [*श्लोकत्वं समपद्यत तस्माद्रामायणं रम्यं कुरुष्व मधुराक्षरम् । येन ते विमला कीर्तिराकल्पान्तं भविष्यति ॥ १५७ धन्या सैव मुखे वाणी] रामनाम्ना समन्विता । अन्या कामकथा नृणां जनयत्येव सूतकम् १५८ तस्मात्कुरुष्व रामस्य चरितं लोकविभुतम् । येन स्यात्पापिनां पापहानिरेव पदे पदे । १५९ इत्युक्त्वाऽन्तर्दधे स्रष्टा सर्वदेवैः समन्वितः । ततः स चिन्तयामास कथं रामायणं भवेत् ॥ १६० तदा ध्यानपरो जातो नद्यास्तीरे मनोरमे । तस्य चेतस्यसौ रामः प्रादुर्भूतो मनोहरः ॥ १६१ नीलोत्पलदलश्यामं रामं राजीवलोचनम् । निरीक्ष्य तस्य चरितं भूतं भावि भवञ्च यत् ॥१६२ तदाऽत्यन्तं मुदं प्राप्तो रामायणमथासृजत् । मनोरमपदैर्युक्तं वृत्तैर्बहुविधैरपि ॥ * एतचिहान्तर्गतः पाठः क. ख. च. छ. ज. अ. ड. ण. त. थ. द. न. पुस्तकस्थः । क. च. ज. म. ग. त. कुरम्बकः । ख. छ. कुरणकः । २ ज. प. प्रदृषितं । ३ न. प चाप्युप । ४ क. ख. घ. स. प. छ. ज. स. म. ट. ठ. र. द. ग. त. थ. ध.तः पुण्यपापहम् । ५ ग. घ. इ. स. ट. उ. ढ. ध. 'हितः । त' । एस. ज. . त. य. थ. द. न. वारवर्षभ ।
१६५ ५७८ महामुनिश्रीव्यासप्रणीत- [४ पातालखण्डे- षदकाण्डानि सुरम्याणि यत्र रामायणेऽनघ । बालमारण्यकं चान्यत्किष्किन्धा सुन्दरं तथा१६१ युद्धमुत्तरमन्यच्च *पडेवानि महामते । शृणुयायो नरः पुण्यात्सर्वपापैः प्रमुच्यते ॥ 'तत्र बाले तु संतुष्टः पुत्रष्ट्या चतुरः सुतान् । माप पतिरथः साक्षाद्धरिं ब्रह्म सनातनम् ॥१६६ 'स कौशिकमखं गत्वा सीतामुद्वाह्य भार्गवम् । आगत्य पुरमुत्कृष्टो यौवराज्यप्रकल्पनम् ॥ १६५ मातृवाक्यावनं पागाद्गङ्गामुत्तीर्य पर्वतम् । चित्रकूट महिलया लक्ष्मणेन समन्वितः ।। १६८ भरतस्तं वने श्रुत्वा जगाम भ्रातरं नयी । तमप्राप्य स्वयं नन्दिग्रामे वासमचीकरत् ॥ १६९ बालमेतच्छृणुष्वान्यदारण्यकेसमुद्भवम् । मुनीनामाश्रमे वासस्तत्र तत्रोपवर्णनम् ॥ १७० शूर्पणख्या नसश्छेदः खरदूषणनाशनम् । मायामारीचहननं दैत्याद्रामापहारणम् ॥ वने विरहिणा भ्रान्तं मनुष्यचरितं धृतम् । कबन्धप्रेक्षणं तत्र पम्पायां गमनं तथा । १७२ हनूमता संगमनमित्येतद्वनसंज्ञितम् । अपरं च शृणु मुने संक्षिप्य कथयाम्यहम् ॥ १७३ सप्ततालप्रभेदश्च वालेारणमद्भुतम् । सुग्रीवराज्यदानं च नगवर्णनमित्युत ।। १७४ लक्ष्मणाकर्मसंदेशः सुग्रीवस्य विवासनम् । तथा सैन्यसमुद्देशः सीतान्वेषणमप्युत ॥ १७६ संपातिप्रेक्षणं तत्र वारिधेर्लयनं तथा । परतीरे कपिप्राप्तिः कैष्किन्धं काण्डमद्भुतम् ।। १७६ सुन्दरं शृणु काण्डं वै यत्र रामकथाऽद्भुता । प्रतिगेहं परिभ्रान्तिः कश्चित्रस्य दर्शनम् ॥ १७७ सीतासंदर्शनं तत्र जानक्या भाषणं तथा । वनभङ्गः प्रकुपितैर्बन्धनं वानरस्य वै ॥ लङ्काप्रज्वलनं तत्र वानरैः संगतिस्ततः। रामाभिज्ञानददनं सैन्यप्रस्थानमेव च ॥ १७९ समुद्रे सेतुकरणं शुकसारणसंगतिः । इति सुन्दरमाख्यातं युद्धे सीतासमागमः ॥ १८० उत्तरें त्दृषिसंवादो यज्ञप्रारम्भ एव च । तत्रानेका रामकथाः शृण्वतां पापनाशकाः ॥ इति पदकाण्डमाख्यातं ब्रह्महत्यापनोदनम् । संक्षेपतो मया तुभ्यमाख्यातं सुमनोहरम् ॥ १८२ चतुर्विशतिसाहस्रं षद्काण्डपरिचिह्नितम् । तदै रामायणं प्रोक्तं महापातकनाशनम् ॥ १८३ तच्छ्रुत्वा राघवः प्रीतः पुत्रावाधाय चाऽऽसने। दृढं तौ परिरभ्याथ सीतां सस्मार वल्लभाम् १८४ इति श्रीमहापुराणे पाझे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे रामायणगानं नाम षट्षष्टितमोऽध्यायः ॥ ६६ ॥ आदितः श्लोकानां समष्टयङ्काः-१४९६४ १७८ अथ सप्तषष्टितमोऽध्यायः । २ शेष उवाच- अथ सौमित्रिरागत्य जानकी नतवान्मुहुः । प्रेमगद्गदया शंसन्वाचं रामप्रणोदिताम् ॥ सीता समागतं दृष्ट्वा लक्ष्मणं विनयान्वितम् । तन्मुखाद्रामसंदेशं श्रुत्वोवाच विलज्जिता ॥ सीतोवाच- सौमित्रे कथमागच्छे रामत्यक्ता महावने । तिष्ठामि रामं स्मरन्ती वाल्मीकेराश्रमे त्वहम् ॥ तस्या मुखोदितं वाक्यं श्रुत्वा सौमित्रिरब्रवीत् । मातः पतिव्रते रामस्त्वामाकारयते मुहुः ॥ ४ * वाल्मीकिरामायणे सप्त काण्डानि वर्तन्तेऽत्र त्वयोध्याकाण्डं विहाय षट्काण्डानीति परिगणनं कृतम् । १ न. °ले मुनिकृतपु। २ न. प्रगल्भकः । मा।
९ १७ १८ २० ६७ सप्तषष्टितमोऽध्यायः ] पमपुराणम् । ५७९ पतिव्रता पतिकृतं दोषं नाऽऽनयते हृदि । तस्मादागच्छ हि मया स्थित्वा स्पन्दन उत्तमे ॥ ५ इत्यादि वचनं श्रुत्वा जानकी पतिदेवता । मनोरोपं परित्यज्य तस्थौ सौमित्रिणा रये ॥ ६ तापसीः सकला नत्वा मुनीश्च निगमोदुरान् । रामं स्मरन्ती मनसा रथे स्थित्वाऽगमत्पुरीम् ७ क्रमेण नगरी प्राप्ता महार्हाभरणान्विता । [*शरयूं सरितं पाप यत्र रामः स्वयं स्थितः ॥ स्थादुत्तीर्य ललिता लक्ष्मणेन समन्विता । ] रामस्य पादयोलग्ना पतिव्रतपरायणा ॥ रामस्तामागतां दृष्ट्वा जानकी प्रेमविहलाम् । साध्वि त्वया सहेदानी कुर्वे यज्ञसमापनम् ॥ १०. वाल्मीकि सा नमस्कृत्य तथाऽन्यान्विप्रसत्तमान् । जगाम मातृपदयोः संनतिं कर्तुमुत्सुका ॥११ कौसल्या तामथाऽऽयान्ती बीरसूं जानकी प्रियाम् । आशीभिरभिसंयुज्य ययौ हर्षमनेकधा।।१२ कैकेयी पादयोर्नम्रा वीक्ष्य वैदेहपुत्रिकाम् । भ; सह चिरं जीव 'सपुत्राऽऽशीरिति व्यधात् ॥ सुमित्रा स्वपदे नम्रां जानकी वीक्ष्य पुत्रिणीम् । आशिषं व्यदधात्तस्याः पुत्रपौत्रप्रदायिनीम् १४ जानकी सर्वशो नत्वा रामभद्रप्रिया सती । परमं हर्षमापन्ना बभूव किल वाडव ॥ समागतां वीक्ष्य पत्नी रामचन्द्रस्य कुम्भजः । सुवर्णपत्नी धिकृत्वा तामधाद्धर्मचारिणीम् ॥१६ रामस्तदा यज्ञमध्ये शुशुभे सीतया सह । तारयाऽनुगतो यद्वच्छशीव स रघूत्तमः॥ प्रयोगमकरोत्तत्र काले प्राप्ते मनोरमे । वैदेह्या धर्मचारिण्या सर्वपापापनादनम् ॥ सीतया सहितं रामं प्रसक्तं यज्ञकर्मणि । निरीक्ष्य जहषुस्तत्र कौतुकेन समन्विताः ॥ वसिष्ठं प्राह सुमतिं रामस्तत्र क्रतौ वरे । किं कर्तव्यं मया खामिन्नतः परमवश्यकम् ।। रामस्य वचनं श्रुत्वा गुरुः प्राह महामतिः । ब्राह्मणानां प्रकर्तव्या पूजा संतोषकारिका ॥ २१ मरुत्तेन क्रतुः सृष्टः पूर्व संभारसंभृतः । ब्राह्मणास्तत्र वित्तायैस्तोषिता ह्यभवंस्तदा। अत्यन्तं वित्तसंभारं नेतुं विमा[तम] शकन्न हि । प्राक्षिपह्निमवद्देशे वित्तभारासहा द्विजाः ॥ २३ तस्मात्त्वमपि राजाग्यो लक्ष्मीवानृपसत्तम । देहि दानादि विप्रेभ्यो यथा स्यात्मीतिरुत्तमा॥२४ एतच्छ्रुत्वा स राजाय्यः पूज्यं मत्वा घटोद्भवम् । प्रथमं पूजयामास ब्रह्मपुत्रं तपोनिधिम् ॥ २५ अनेकरत्नसंभारैः स्वर्णभारैरनेकधा । देशैर्जनैः परिपूर्णैरत्यन्तं प्रीतिदायकैः ।। २६ अगस्त्यं पूजयामास सपत्नीकं मनोरमम् । तथैव रत्नैः स्वर्गश्च देशैश्च विविधैरपि । व्यासं सत्यवतीपुत्रं तथैव समपूजयत् । च्यवनं भार्यया साकं सुरत्नैः समपूजयत् ॥ अन्यानपि मुनीन्सर्वाऋत्विजस्तपसा निधीन् । पूजयामास रत्नाद्यैः स्वर्णभारैरनेकधा ॥ २९ अदात्तदा क्रतौ रामो विप्रेभ्यो भूरिदक्षिणाम् । ['लक्षं लक्षं सुवर्णस्य प्रत्येकं त्वग्रजन्मने] ३० दीनान्धकृपणेभ्यश्च ददौ दानमनेकधा । यथासंतोषविहितैवित्तै रत्नैर्मनोहरैः ॥ वासांसि च विचित्राणि भोजनानि मृदूनि च । तत्र प्रादाद्याशास्त्रं सर्वेषां प्रीतिकारकम् ॥३२ हृष्टपुष्टजनाकीर्ण सर्वसत्त्वोपबृंहितम् । अत्यन्तमभवैदृष्टं पुरं पुत्रीसमावृतम् ॥ दानं ददतं सर्वेषां वीक्ष्य कुम्भोद्भवो मुनिः । अत्यन्तं परमप्रीतिं ययौ ऋतुवरे द्विजः ॥ तदा क्षालनतोयार्थ पानीयममृतोपमम् । आनेतुं च चतुःषष्टिनृपान्सस्त्रीन्समोहयत् ।। ३५ * एतचिहान्तर्गतः पाठः क. ख. ग. छ. ज. अ. ठ. ड. ण त. थ. ध. पुस्तकस्थः । + सपुत्रेत्याशिषमिति तु युक्तम् । । एतचिहान्तर्गतः पाठः क. ख. ग. च. छ. ज. अ. ठ. इ. त. द. ध. न. पुस्तकस्थः । १६. न. म् । सीता ताः स। २ ख. ग. छ. ज. प. उ. त. थ. घ. न. °था स्वान्तं स । ३ ख. घ. उ. स. ट. उ. . वाच । ४ न. 'मादिशत् । २२ २७ २८ ४२ ४८ Amein दव उवाच- ५८० महामुनिश्रीव्यासप्रणीतं- [४ पातालखण्डे- रामस्तु सीतया साकमानेतुमुदकं ययौ । घटेन स्वर्णवर्णेन सर्वालंकारशोभया ॥ सौमित्रिमिलया च माण्डव्या भरतो नृपः । [*शत्रुघ्नः श्रुतकीर्त्या च कान्तिमत्या च पुष्कलः मुबाहुः सत्यवत्या च सत्यवान्वीरभूषया । सुमदस्तत्र सत्कीर्त्या राड्या च विमलो नृपः]॥३८ राजा वीरमणिस्तत्र भ्रुतवत्या मनोज्ञया । लक्ष्मीनिधिः कोमलया रिपुतापोऽगसेनया ॥ ३९ विभीषणो महामूर्त्या प्रतापायः प्रतीतया । उग्रायः कामगमया नीलरत्नोऽधिरम्यया ॥ ४० मुरथः सुमनोहार्या तथा मोहनया कपिः । इत्यादिनृपतीन्विमो वसिष्ठः प्राहिणोन्मुनिः॥ ४१ वसिष्ठः शरयूं गत्वा शिवपुण्यजलाप्लुताम् । उदकं मन्त्रयामास वेदमत्रेण मववित् ।। पयः पुनीम, वाहमुदकेन मनोहता । यज्ञार्थ रामचन्द्रस्य सर्वलोकैकरक्षितुः ।। उदकं तन्मुनिस्पृष्टं सर्वे रामादयो नृपाः। आजहमण्डपतले विप्रवर्यैरुपस्कृते ॥ पयोभिनिर्मलैः साप्य वाजिनं क्षीरसंनिभम् । मत्रेण मत्रयामास रामहस्तेन कुम्भजः॥ ४५ पुनीहि मां महावाह अस्मिन्ब्रह्मसमाकुले । त्वन्मेधेनाखिला देवाः प्रीणन्तु परितोषिताः ॥ ४६ इत्युक्त्वा स नृपो रामः सीतया सममस्पृशत् । तदा सर्वे द्विजाश्चित्रममन्यन्त कुतूहलात् ॥ ४७ परस्परमवोचस्ते यनामस्मरणानराः। महापापात्प्रमुच्यन्ते स रामः किं वदत्यहो । इत्युक्तवति भूमीशे रामे कुम्भोद्भवो मुनिः। करवालं चाभिमन्य ददौ रामकरे मुनिः॥ ४९ करवाले धृते स्पृष्टे रामेण स इयः क्रतौ । पशुत्वं तु विहायाऽऽनु दिव्यरूपमपद्यत । विमानवरमारूढश्वाप्सरोभिः समन्वितः । चामरैर्वीज्यमानश्च वैजयन्त्या विभूषितः । तदा तं वाजितां त्यक्त्वा दिव्यरूपधरं नरम् । वीक्ष्य लोकाः क्रतौ सर्वे विस्मयं प्रामुवंस्तदा ५२ तदा रामः स्वयं जानकापयन्सर्वतो नरान् । पप्रच्छ दिव्यरूपस्थं सुरं परमधार्मिकः ।। श्रीराम उवाच- कस्त्वं दिव्यवपुः प्राप्तः कस्मात्त्वं वाजितां गतः । कथं सुरस्त्रीसहितः किं चिकीर्षसि तद्वद ५४ रामस्य वचनं श्रुत्वा देवः प्रोवाच भूमिपम् । हसन्मघरवां वाणीमवदत्सुमनोहराम् ॥ तिवासात न सर्वत्र बाह्याभ्यन्तरचारिणः । तथाऽपि पृच्छते तुभ्यं कथयामि यथातथम् ।। ५६ अहं पुराभवे राम द्विजः परमधार्मिकः । चचार प्रतिकूलं तु देवस्य रिपुतापन ॥ कदाचिबुतपापायास्तीरेऽहं गतवान्पुरा । अनेकदृक्षललिते सर्वत्र सुमनोरमे ॥ तत्र स्नात्वा पितृस्तृप्त्वा दानं दत्त्वा यथाविधि । ध्यानं तवं महोबाहो कृतवान्वेदसंमितम् ।।५९ ['तदा जनाः समायाता बहवस्तत्र भूपते । तेषां प्रवचनार्थाय दम्भमेनमारिषम् ॥ अनेकक्रतुसंभारैः पूर्णमजिरमुत्तमम् । वासोभिश्छादितं रम्यं चषालादियुतं महत् ।। ६१ अमिहोत्रोद्भवो धूमः सर्वतो नभसोऽङ्गणम् । चकार रम्यमतुलं चित्रकारिवपुर्धरः ॥ अनेकतिलकश्रीभिः शोभिताको महातपाः । दर्भशोभी समित्पाणिर्दम्भो मूर्तिधरः किमु ॥ ६३ दुर्वासास्तत्र स्वच्छदं पर्यटञ्जगतीतलम् । पाप तत्र महातेजा धूतपापः सरितटे ॥ ददर्श मां दम्भकरं मौनधारणमग्रतः । अनर्थ्यकरमुन्मत्तमस्वागतवचाकरम् ॥ * एतचिहान्तर्गतः पाठः क. ख. ग. च. छ. ज. प. उ. . . त. य. द. घ. पुस्तकस्थः। । एतचिहान्तर्गत पाठः क. ख. ग. च. छ. ज. म. . . . त. थ. द. घ. न. पुस्तकस्थः । + आषत्वात्साधु । १ ज. व अहमहों । ध. 'व महोत्साहंक। २ न. हावादान्वेदवादसमन्वितान् । त। ५० ५५ ५८ ६० ६२ ६४ ६५ ७० ६८ अष्टषष्टितमोऽध्यायः] पद्मपुराणम् । ५८१ दृष्ट्वा तीवकुधाऽऽक्रान्तः समुद्र इव पर्वणि । शशापासौ मुनिस्तीवो दम्भिनं मां महामतिः ६६ दुर्वासा उवाच- यदि त्वं शरयुतीरे करोषि दम्भमुग्रकम् । तस्मात्मामुहि निर्वाच्यं पशुत्वं तापसाधम ॥ ६७ शापं प्रदत्त संश्रुत्य दुःखितोऽहं तदाऽभवम् । अग्रहीषं पदे तस्य मुनेर्दुर्वाससः किल ॥ ६८ तदा मे कृतवान्राम द्विजोऽनुग्रहमुत्तमम् । वाजिता मामुहि मखे राजराजस्य तापस ॥ पश्चात्तद्धस्तसंपर्काद्याहि तत्परमं पदम् । दिव्यं वपुर्मनोहारि धृत्वा दम्भविवर्जितम् ॥ तेन शापोऽपि संदिष्टो ममानुग्रहतां गतः । यदहं तव हस्तस्य स्पर्श प्राप्तो मनोरमम् ।। ७१ यदे(य ए)व राम देवादिदुर्लभं बहुजन्मभिः। तत्तेऽ(तं तेऽ)ह करजस्पर्श प्राप्तवानतिदुर्लभम्।।७२ आज्ञापय महाराज त्वत्प्रसादादहं महत् । गच्छामि शाश्वतं स्थानं तव दुःखादिवर्जितम् ॥ ७३ न यत्र शोको न जरा न मृत्युः कालविभ्रमः । तत्स्थानं देव गच्छामि त्वत्प्रसादाभराधिप ७४ इत्युक्त्वा तं परिक्रम्य विमानवरमारुहत् । अनेकरत्नरचितं सर्वदेवाधिवन्दितम् ।। गतोऽसौ शाश्वतं स्थानं रामपादप्रसादतः । पुनरावृत्तिरहितं शोकमोहविवर्जितम् ।। ७६ तेन तत्कथितं श्रुत्वा रामं ज्ञात्वेतरे जनाः । विस्मयं प्रापिरे सर्वे परस्परमुदुन्मदाः ॥ शृणु द्विज महाबुद्ध दम्भेनापि स्मृतो हरिः । ददाति मोक्षं सुतरां किं पुनर्दम्भवर्जनात् ॥ ७८ यथाकथंचिद्रामस्य कर्तव्यं स्मरणं परम् । येन पामोति परमं पदं देवादिदुर्लभम् ॥ तच्चित्रं वीक्ष्य मुनयः कृतार्थ मेनिरे निजम् । यद्रामचरणप्रेक्षाकरस्पर्शपवित्रितम् ।। गते तस्मिन्सुरे स्वर्ग हयरूपधरे पुरा । उवाच रामस्तपसा निधीन्वेदविदुत्तमान् ॥ ८१ श्रीराम उवाच- किं कर्तव्यं मया ब्रह्मन्हयो नष्टो गतः सुखम् । होमः कथं पुरो भावी सर्वदैवततर्पकः ॥ यथा स्यात्सुरसंतृप्तिर्यथा मे मख उत्तमः । तथा कुर्वन्तु मुनयो यथा मे स्याद्विधिश्रुतम् ॥ ८३ इति वाक्यं समाश्रुत्य जगाद मुनिसत्तमः । वसिष्ठः सर्वदेवानां चित्ताभिज्ञानकोविदः ॥ कर्पूरमाहर शिमं येन देवाः स्वयं पुरः । प्राप्य हव्यं ग्रहीष्यन्ति मद्वाक्यप्रेरिताधुना* ॥ ८५ इति वाक्यं समाकर्ण्य रामः क्षिप्रमुपाहरत् । कर्पूरं बहु देवानां प्रीत्यर्थ बहुशोभनम् ॥ तदा मुनिः प्रहृष्टात्मा देवानाहयदद्भुतान् । ते सर्वे तत्क्षणात्माप्ताः स्वपरीवारसंवृताः ॥ इति श्रीमहापुराणे पाने पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे यज्ञप्रारम्भवर्णनं नाम सप्तषष्टितमोऽध्यायः ॥ ६ ॥ आदितः श्लोकानां समष्टयङ्काः-१५०५१ ८० ८२ ८४ ८७ अथाष्टषष्टितमोऽध्यायः । शेष उवाच- २ इन्द्रस्तत्र हविर्मुष्टं रामचन्द्रेण वीक्षितम् । परिखादन्क्रतो तृप्तिं न प्राप सुरसंयुतः ॥ नारायणो महादेवो ब्रह्मा तत्र चतुर्मुखः । वरुणश्च कुबेरश्च तथाऽन्ये लोकपालकाः ॥ * संधिरार्षः । १६. न. 'ट्वा तीव कु। २ क. ख. ग. च. ए. म. ठ. उ. प. त. य. द. घ. न. वानिह दु । ३ म क्षापुरुषं कर्मयभितम् । ४ च.ज. प. उ. प. ध रिखाद ।
७ ८ ९ १९ ५८२ महामुनिश्रीव्यासपणीतं- [ ४ पातालखण्डे- तत्राऽऽस्वाध हविः स्निग्धं वसिष्ठेन परिष्कृतम् । तत्र पुनहि विप्रेन्द्राः क्षुधार्ता इव भोजनात् ३ सर्वान्देवांश्च संतमे हविषा करुणानिधिः । वसिष्ठप्रेरितः सर्वमितिकर्तव्यमाचरत् ॥ ब्राह्मणा दानसंतुष्टा हविस्तुष्टाः सुरा वराः । वृप्ताः सर्वे स्वकं भागं गृहीत्वा निलयं ययुः ॥५ ऋषिभ्यो हातमुख्येभ्यः पादाद्राज्यं चतुर्दिशम् । संतुष्टास्ते द्विजा राममाशीभिरददुः शुभम् ॥६ पूर्णाहुतिं ततः कृत्वा वसिष्ठः माह सुस्त्रियः । वर्षापयन्तु भूमीशं यज्ञपूर्तिकरं परम् तद्वाक्यं ताः स्त्रियः श्रुत्वा लाजैरवाकिरन्मुदा । लावण्यजितकन्दर्प महाभूमीशपूजितम् ॥ ततोऽवभृथस्नानार्थ प्रेरयामास भूमिपम् । ययौ रामः सह स्वीयैः शरयूतीरमुत्तमम् ॥ अनेकराजकोटीभिः परितः पादचारिभिः । जगाम स सरिच्छ्रेष्ठां पक्षिवन्दसमाकुलाम् ॥ १० तारापतिरिव स्वाभिर्भार्याभित उत्पभः । विरोचते यथा तद्वद्रामो राजगणैर्वृतः ॥ ११ तदुत्सवं समाज्ञाय ययुर्लोकास्त्वरायुताः । सीतापतिमुखालोकनिश्चलीभूतलोचनाः ॥ १२ राजेन्द्रं सीतया साकं गच्छन्तं सरितं प्रति । विलोक्य मुदिता लोकाश्चिरं दर्शनलालसाः १३ अनेकनटगन्धर्वा गायन्तो यश उज्ज्वलम् । अनुजग्मुर्महीशानं सर्वलोकनमस्कृतम् ॥ १४ नर्तक्यस्तत्र नृत्यन्त्यः क्षोभयन्त्यः पतेर्मनः । जलयन्त्रैश्च सिञ्चन्त्यो ययुः श्रीरामसेवनम् ॥ १५ महाराजं विलिम्पत्यो हरिद्राकुमादिभिः । परस्परं विलिम्पत्यो मुदं पापुमेहत्तराम् ॥ १६ कुचयुग्मोपरिन्यस्तमुक्ताहारसुशोभिताः । श्रवणद्वंद्वसंमृष्टस्वर्णकुण्डललक्षिताः ॥ १७ अनेकनरनारीभिः संकीर्ण मार्गमाचरत् । यथावत्सरितं पाप शिवपुण्यजलाप्लुताम् ।। १८ तत्र गत्वा स वैदेह्या रामः कमललोचनः । प्रविवेश जलं पुण्यं वसिष्ठादिभिरन्वितः ॥ अनुमविविशुः सर्वे राजानो जनतास्तथा । तत्पादरजसा पूतं जलं लोकैकवन्दितम् ।। परस्परं प्रसिञ्चन्तो जलयन्त्रैमनोरमैः । सुशोणनयनाः सर्वे हर्ष प्रापुर्मनोधिकम् ।। स रामः सीतया सार्धं चिरं पुण्यजलप्लवे । क्रीडित्वा जलकल्लोलैर्निरगाद्धर्मसंयुतः ॥ दुकूलवासाः सकिरीटकुण्डलः केयूरशोभावरकङ्कणान्वितः । कंदर्पकोटिश्रियमुद्वहनृपो राजाग्र्यवर्यैरुपसंस्तुतो बभौ ॥ २३ स यागयूपं वरवर्णशोभितं कृत्वा सरित्तीरवरे महामनाः । त्रैलोक्यलोकश्रियमाप ह्यद्भुतामन्यैर्दुरापां नृपतिर्भुजैर्वरैः ।। एवं जनकपुत्र्याऽसौ हयमेधत्रयं चरन् । त्रैलोक्ये कीर्तिमतुलां प्रपेदे वै सुदुर्लभाम् ॥ एवं ते वर्णितं तात यत्पृष्टो रामसत्कथाम् । विस्तृतः कथितो मेघो भूयः किं पृच्छसि द्विज ॥ यः शृणोति हरेर्भक्त्या रामचन्द्रस्य सन्मखम् । ब्रह्महत्या क्षणात्तीर्खा ब्रह्मशाश्वतमामुयात् २७ अपुत्रो लभते पुत्रान्निर्धनो धनमामुयात् । रोगा” मुच्यते रोगाबद्धो मुच्येत बन्धनात् ॥ २८ यत्कथाश्रवणाहुष्टः श्वपचोऽपि परं पदम् । पामोति किमु विप्रायो रामभक्तिपरायणः ॥ २९ रामं स्मृत्वा महाभागं पापिनोऽपि परं पदम् । मामुयुः परमं स्वर्ग शक्रदेवादिदुर्लभम् ॥ ३ ते धन्या मानवा लोके ये स्मरन्ति रघूद्वहम् । ते क्षणात्संमृति तीर्खा गच्छन्ति सुखमव्ययम् ३१ प्रत्येकमक्षरं ब्रह्महत्यावंशदवानलः । तं यः श्रावयते धीमांस्तं गुरुं संप्रपूजयेत् ॥ श्रुत्वा कथा वाचकाय गवां द्वंद्व प्रदापयेत् । सपत्नीकाय संपूज्य वस्त्रालंकारभोजनैः ॥ १ द. न. “हामणिविभूषित । २ म. 'रकुकुमान्वि' । ३ क. ख. च. छ. म. उ. ण. त. प. द. न. 'जैनिजैः । ए । २१ २२ ३ २४ २५ ३२ ६९ एकोनसप्ततितमोऽध्यायः] पद्मपुराणम् । ५८३ कुण्डलाभ्यां विराजन्त्यौ मुद्रिकाभिरलंकृते । रामसीते स्वर्णमय्यौ प्रतिमे शोभने वरे ॥ कृत्वा तु वाचकायैव दीयेते हि द्विजोत्तम । तस्य देवाश्च पितरो वैकुण्ठं प्रामुयुस्तदा ॥ ३५ त्वया पृष्टा रामकथा मया ते कथिता पुरा । किमन्यत्कथ्यतां ब्रह्मन्पुरतस्तव धीमतः ॥ शृण्वन्ति ये कथामेतां ब्रह्महत्यौघनाशिनीम् । ते यान्ति परमं स्थानं सर्वदेवैः सुदुर्लभम् ॥ ३७ गोनश्च तु सुतघ्नश्च सुरापो गुरुतल्पगः । क्षणात्पूतो भवत्येवमचिरेण द्विजर्षभ । ३८ इति श्रीमहापुराणे पाये पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधवर्णनं नामाष्टषष्टितमोऽध्यायः ॥ ६८ ॥ आदितः श्लोकानां समष्ट्यकाः-१५०८९ . अथैकोनसप्ततितमोऽध्यायः । ऋषय ऊचु:- सम्यक्श्रुतो महाराज त्वत्तो रामाश्वमेधकः । इदानीं वद माहात्म्यं श्रीकृष्णस्य महात्मनः ॥ १ सूत उवाच- २ ३ ४ ६ ९ शृण्वन्तु मुनिशार्दूलाः श्रीकृष्णचरितामृतम् । शिवा पप्रच्छ भूतेशं यत्तद्वः कीर्तयाम्यहम् ॥ एकदा पार्वती देवी शिवसंस्निग्धमानसा । प्रणयेन नमस्कृत्य प्रोवाच वचनं त्विदम् ॥ पार्वत्युवाच- अनन्तकोटिब्रह्माण्डे तद्वाह्याभ्यन्तरस्थिते । विष्णोः स्थानं परं तेषां प्रधानं वरमुत्तमम् ॥ यत्परं नास्ति कृष्णस्य प्रियं स्थानं मनोरमम् । तत्सर्व श्रोतुमिच्छामि कथयस्व महाप्रभो ॥ ५ ईश्वर उवाच- गुह्याद्रुह्यतरं पुण्यं परमानन्दकारकम् । अत्यद्भुतं रहःस्थानं रहस्यं परमं पदम् ॥ दुर्लभानां च परमं दुर्लभं मोहनं परम् । सर्वशक्तमिदं देवि सर्वस्थानेषु गोपितम् ॥ सात्वतां स्थानमूर्धन्यं विष्णोरत्यन्तदुर्लभम् । नित्यं वृन्दावनं नाम ब्रह्माण्डोपरि संस्थितम् ॥८ पूर्णब्रह्मसुखैश्वर्य नित्यमानन्दमव्ययम् । वैकुण्ठादि तर्देशांशं स्वयं वृन्दावनं भुवि ॥ गोलोकैश्वर्य यत्किंचिद्रोकुलं तत्पतिष्ठति । वैकुण्ठवैभवं यदै द्वारकायां प्रकाशितम् ॥ यद्ब्रह्मपरमैश्वर्य नित्यं वृन्दावनाश्रयम् । कृष्णधाम परं तेषां वनमध्ये विशेषतः ॥ ११ तस्मात्रैलोक्यमध्ये तु पृथ्वी धन्यति विश्रुता । यस्मान्माथुरकं नाम विष्णोरेकान्तवल्लभम् ॥१२ स्वस्थानमधिकं नाम ध्येयं माथुरमण्डलम् । निगूढं विविध स्थानं पुर्यभ्यन्तरसंस्थितम् ॥ १३ सहस्रपत्रकमलाकारं माथुरमण्डलम् । विष्णुचक्रपरिमाणं धाम वैष्णवमद्भुतम् ॥ कर्णिकोपर्णविस्तारं रहस्यं द्रुममीरितम् । प्रधानं द्वादशारण्यं माहात्म्यं कथितं क्रमात् ॥ १५ भद्रश्रीलोहमाण्डीरमहातालखदीरखाः (?) । बकुलं कुमुदं काम्यं मधु वृन्दावनं तथा ॥ १६ *द्वादशैतावती संख्या कालिन्याः सप्त पश्चिमे । पूर्वे पञ्चवनं प्रोक्तं तत्रास्ति गुह्यमुत्तमम् ॥१७ महारण्यं गोकुलाख्यं मधु वृन्दावनं तथा ] । अन्यच्चोपवनं प्रोक्तं कृष्णक्रीडारसस्थलम् ॥ १८ एतचिहान्तर्गतः पाठः ख. ड. पुस्तकस्थः । १६. न. व नात्र संशयितुं क्षमम् ।। २ . 'कुण्ठादिभवं यद्वद्वा । ३ म. नं पूर्य । न. °न पुर्याभ्य । ४. म. रिभ्रामादाम । ५ स. कापूरवि' । म. कापूर्ण । ६ स. अ. 'लकी ।
२० २२ २८ ३२ ३३ महामुनिश्रीव्यासमणीत- [ ४ पातालखण्डे. कदम्बखण्डकं नन्दं वनं नदी(न्दी)श्वरं तथा । नन्दनं वनखण्डं च पलाशाशोककेतकी ॥ १९ सुगन्धमानकंकैलममृतं भोजनस्थलम् । सुखप्रसाधनं वत्सहरणं शेषशायिकम् ॥ श्यामपुर्योदधिग्रामश्चक्रमानुपुरं तया । श(सं)केतं द्विपदं चैव पालक्रीडनधूसरम् ॥ २१ केलिद्रुमं सुललितमुत्सुकं चापि काननम् । नानाविधरसक्रीडानानालीलारसस्थलम् ॥ नगविस्तारविष्टम्भं रहस्यं द्रुममीरितम् । सहस्रपत्रकमलं गोकुलाख्यं महत्पदम् ॥ कर्णिका तन्महद्धाम गोविन्दस्थानमुत्तमम् । तत्रोपरि स्वर्णपीठे मणिमण्डपमण्डितम् ॥ कर्णिकायां क्रमादि विदिक्षु दलमीरितम् । यद्दलं दक्षिणे प्रोक्तं परं गुह्योत्तमोत्तमम् ॥ २५ तस्मिन्दले महापीठं निगमागमदुर्गमम् । योगीन्द्ररपि दुष्पाप्यं सर्वात्मा यच्च गोकुलम् ॥ २६ द्वितीयं दलमाग्नेय्यां तद्रहस्यं दलं तौँ । संकेतं द्विपदं चैव कुटी द्वौ तहले स्थितौ() । पूर्व दलं तृतीयं यत्प्रधानस्थानमुत्तमम् । गङ्गादिसर्वतीर्थेभ्यः स्पर्शाच्छतगुणं स्मृतम् ।। चतुर्थ दलमैशान्यां सिद्धिपीठे तु तत्पदम् । कात्यायन्यर्चनाद्गोपी सत्र कृष्णं पतिं लभेत् ॥ २९ वस्त्रालंकारहरणं तद्दले समुदाहृतम् । उत्तरे पञ्चमं प्रोक्तं दलं सर्वदलोत्तमम् ॥ ३० द्वादशादित्यमत्रैव दलं च कर्णिकासमम् । वायव्यां तु दलं षष्ठं तत्र कालीह्रदः स्मृतः॥ ३१ दलोत्तमोत्तमं चैव प्रधानं स्थानमुच्यते । सर्वोत्तमदलं चैव पश्चिमे सप्तमं स्मृतम् ॥ यज्ञपत्नीगणानां च तदीप्सितवरमदम् । अत्रासुरोऽपि निर्वाणं पाप त्रिदशदुर्लभम् ॥ ब्रह्ममोहनमत्रैव दलं ब्रह्महदाभिधम् । नैर्ऋत्यां तु दलं प्रोक्तमष्टमं व्योमघातनम् ।। शाचूडवधस्तत्र नानाकेलिरसस्थलम् । श्रुतमष्टदलं प्रोक्तं वृन्दारण्यान्तरस्थितम् ॥ श्रीमवृन्दावनं रम्यं यमुनायाः प्रदक्षिणम् । शिवलिङ्गमधिष्ठानं दृष्टं गोपीश्वराभिधम् ॥ तबाह्ये षोडशदलं श्रिया पूर्ण तमीश्वरम् । सर्वासु दिक्षु यत्मोक्तं पादक्षिण्याद्यथाक्रमम् ॥ ३७ महत्पदं महदाम स्वधामाधावसंज्ञकम् । प्रथमैकदलं श्रेष्ठं माहात्म्य कणिकासमम्() ॥ तत्र गोवर्धनगिरौ रम्ये नित्यरसाश्रये । कर्णिकायां महालीलातल्लीलारसगहरौ ॥ यत्र कृष्णो नित्यवृन्दाकाननस्य पतिर्भवेत् । कृष्णो गोविन्दतां प्राप्तः किमन्यैर्बहुभाषितैः॥ ४० दलं तृतीयमाख्यातं सर्वश्रेष्ठोत्तमोत्तमम् । चतुर्थ दलमाख्यातं महाद्भुतरसस्थलम् ॥ नन्दीश्वरवनं रम्यं तत्र नन्दालयः स्मृतः । कर्णिकादलमाहात्म्यं पञ्चमं दलमुच्यते ॥ अधिष्ठाताऽत्र गोपालो धेनुपालनतत्परः । दलं षष्ठं यदाख्यातं तत्र नन्दवनं स्मृतम् ॥ सप्तमं बकुलारण्यं दलं रम्यं प्रकीर्तितम् । तत्राष्टमं तालवनं तत्र धेनुवधः स्मृतः ।। नवमं कुमुदारण्यं दलं रम्यं प्रकीर्तितम् । कामारण्यं च दशमं प्रधानं सर्वकारणम् ॥ ब्रह्मप्रसादनं तत्र विष्णुच्छमप्रदर्शनम् । [*कृष्णक्रीडारसस्थानं प्रधानं दलमुच्यते ॥ दलमेकादर्श प्रोक्तं भक्तानुग्रहकारकम् । निर्माणं सेतुबन्धस्य नानावनमयस्थलम् ] ॥ भाण्डीरं द्वादशदलं वनं रम्यं मनोहरम् । कृष्णः क्रीडारतस्तत्र श्रीदामादिभिरावृतः ॥ त्रयोदशं दलं श्रेष्ठं तत्र भद्रवनं स्मृतम् । चतुर्दशदलं प्रोक्तं सर्वसिद्धिपदस्थलम् ॥ * एतचिहान्तर्गतः पाठः क. ख. र. च. म. १. पुस्तकस्थः । १ ख. प्रामो वृषभा । २ ख. कलिद्रुमं । ३ क. क्षु सुवर्ण । ४ ख. या । निकुञ्जककुटीवीरकु । ङ. च. 'या। निकुञ्जकटुकी वीरकु । ५ स. स्वाध्यायाधा । म. स्वाधयाधा' । ६ झम. काश्रम । ७ ख. र. तिर्वसेत् । ८ स. ३८ ४२ ४५ ४६ ४८ तत्रान ।
१९ एकोनसप्ततितमोऽध्यायः ] पद्मपुराणम् । ५८५ श्रीवनं तत्र रुचिरं सर्वैश्वर्यस्य कारणम् । कृष्णक्रीडामयदलं श्रीकान्तिकीर्तिवर्धनम् ॥ पञ्चदशं दलं श्रेष्ठं तत्र लोहवनं स्मृतम् । कथितं पोडशदलं माहात्म्यं कणिकासमम् ।। महावनं तंत्र गीतं तत्रास्ति गुह्यमुत्तमम् । बालक्रीडारतस्तत्र वत्सपालैः समावृतः ।। पूतनादिवधस्तत्र यमलार्जुनभञ्जनम् । अधिष्ठाता तु बालस्य गोपालः पश्चमाब्दिकः ॥ नाम्ना दामोदरः प्रोक्तः प्रेमानन्दरसार्णवः । दलं प्रसिद्धमाख्यातं सर्वश्रेष्ठदलोत्तमम् ॥ कृष्णक्रीडा च किञ्जल्कीविहारदलमुच्यते । सिद्धपधानकिञ्जल्कं दलं च समुदाहृतम् ।। पार्वत्युवाच- वृन्दारण्यस्य माहात्म्यं रहस्यं वा किमद्भुतम् । तदहं श्रोतुमिच्छामि कथयस्व महाप्रभो ॥ ५६ ईश्वर उवाच- कथितं ते प्रियतमं गुह्याद्गुह्योत्तमोत्तमम् । रहस्यानां रहस्यं यहुर्लभानां च दुर्लभम् ॥ त्रैलोक्यगोपितं देवि देवेश्वरसुपूजितम् । ब्रह्मादिवाञ्छितं स्थानं सुरसिद्धादिसेवितम् ॥ ५८ योगीन्द्रादिमुनीन्द्रादि सदा तद्ध्यानतत्परम् । अप्सरोभिश्च गन्धर्वैर्नृत्यगीतनिरन्तरम् ।। श्रीमदृन्दावनं रम्यं पूर्णानन्दरसाश्रयम् । भूरिचिन्तामणिस्तोयममृतरसपूरितम् (?) ॥ वृक्षं गुरुद्रुमं तत्र सुरभीवृन्दसेवितम् । स्त्री लक्ष्मी पुरुषं विष्णुं तद्दशांशसमुद्भवम् ।। तत्र कैशोरवयसं नित्यमानन्दविग्रहम् । गतिनाव्यकथालापं स्मितवक्त्रं निरन्तरम् ।। ६२ शुद्धसत्वैः प्रेमपूर्वेष्णवैस्तद्वनाश्रयम् । पूर्णब्रह्मसुखे मग्नं स्फुरत्तन्मूर्तितन्मयम् ॥ मत्तकोकिलभृङ्गायैः कूजत्कलमनोहरम् । कपोतशुकसंगीतमुन्मत्तालिसहस्रकम् ॥ भुजंगशत्रुनृत्याढ्यं सकलामोदविभ्रमम् । नानावणैश्च कुसुमैस्तद्रेणुपरिपूरितम् ॥ ६५ पूर्णेन्दुनित्याभ्युदयं सूर्यमन्दांशुसेवितम् । अदुःखं दुःखविच्छेदं जरामरणवर्जितम् ।। अक्रोधं गतमात्सर्यमभिन्नमनहंकृतम् । पूर्णानन्दामृतरसं पूर्णप्रेमसुखार्णवम् ॥ ६७ गुणातीतं महद्धाम पूर्णप्रेमस्वरूपकम् । यत्र वृक्षादिपुलकैः प्रेमानन्दाश्रु वर्षितम् ।। ६८ किं पुनश्चेतनायुक्तैर्विष्णुभक्तैः किमुच्यते । गोविन्दाधिरजःस्पर्शान्नित्यवृन्दावनं भुवि॥ ६९ सहस्रदलपत्रस्य वृन्दारण्यं वराटकम् । यस्य स्पर्शनमात्रेण पृथ्वी धन्या जगत्रये ॥ गुह्याद्गुह्यतमं रम्यं मध्यं वृन्दावनं भुवि । अक्षरं परमानन्दं गोविन्दस्थानमव्ययम् ।। गोविन्ददेहतोऽभिन्नं पूर्णब्रह्मसुखाश्रयम् । मुक्तिस्तत्र रजःस्पर्शात्तन्माहात्म्यं किमुच्यते ॥ ७२ तस्मात्सर्वात्मना देवि हृदिस्थं तद्वनं कुरु । वृन्दावनविहारेषु कृष्णं कैशोरविग्रहम् ।। ७३ कालिन्दी चाकरोद्यस्य कर्णिकायाः प्रदक्षिणम् । लीलानिर्वाणगम्भीरं जलं सौरभमोहनम् ७४ आनन्दामृततन्मि(समि)श्रमकरन्दघनालयम् । पद्मोत्पलाद्यैः कुसुमैर्नानावर्णसमुज्ज्वलम् ॥ ७५ चक्रवाकादिविहगैर्मचुनानाकलस्वनैः । शोभमानं जलं रम्यं तरङ्गातिमनोहरम् ।। ৩৪ तस्योभयतटी रैम्मा शुद्धकाश्चननिर्मिता । गङ्गाकोटिगुणः प्रोक्तो यत्र स्पर्शवराटकः ॥ कर्णिकायां कोटिगुणो यत्र क्रीडारतो हरिः । कालिन्दीकणिकां कृष्णमभिन्नमेकविग्रहम् ॥ ७८ पार्वत्युवाच- गोविन्दस्य किमाचर्य सौन्दर्याकृतिविग्रह । तदहं श्रोतुमिच्छामि कथयस्व दयानिधे । ६४ । ७७ १म. मणिस्तो । २ ख. अपरं । क. अक्षय्यं । ३ न. रम्यां । ४ झ. म. मिताम् । ग। ५ स. तिकटूयः। त, ८७ ८८ ८९ ९२ ५८६ महामुनिश्रीव्यासप्रणीतं- [ ४ पातालखप्डे- ईश्वर उवाच- मध्ये वृन्दावने रम्ये मअमञ्जीरशोभिते । योजनाश्रिततवृक्षे शाखापल्लवमण्डिते ॥ तन्मध्ये मञ्जभवने योगपीठं समुज्ज्वलम् । तदष्टकोणनिर्माणं नानादीप्तिमनोहरम् ॥ ८१ तस्योपरि च माणिक्यरत्नसिंहासनं शुभम् । तस्मिन्नष्टदलं पनं कणिकायां सुखाश्रयम् ॥ ८२ गोविन्दस्य परं स्थानं किमस्य महिमोच्यते । श्रीमद्गोविन्दमैत्रस्थं वैष्णववृन्दसेवितम् ॥ ८३ दिव्यत्रजवयोरूपं कृष्णं वृन्दावनेश्वरम् । व्रजेन्द्रं संततैश्वर्यं व्रजबालैकवल्लभम् ।। यौवनोद्भिन्नकैशोरं वयसाऽद्भुतविग्रहम् । अनादिमादिं सर्वेषां नन्दगोपप्रियात्मजम् ।। ८५ श्रुतिमृग्यमजं नित्यं गोपीजनमनोहरम् । [*परं धाम परं रूपं द्विभुजं गोकुलेश्वरम् ।। ८६ बल्लवीनन्दनं ध्यायेभिर्गुणस्यैककारणम् । सुश्रीमन्तं नवं स्वच्छ श्यांमधाममनोहरम् ।। नवीननीरदश्रेणीसुस्निग्धमञ्जुकुण्डलम् । फुल्लेन्दीवरसत्कान्तिसुखस्पर्श सुखावहम् ॥ दलिताञ्जनकुञ्जाभचिक्कणं श्याममोहनम् । सुस्निग्धनीलकुटिलाशेषसौरभकुन्तलम् ॥ तदूर्ध्व दक्षिणे भाले श्यामचूडामनोहरम् ] । नानावर्णोज्ज्वलं राजच्छिखण्डिदलमण्डितम् ॥९० मन्दारम गोपुच्छचुडं चारुविभूषितम् । कचिदर्हदलश्रेणिमुकुटेनाभिमण्डितम् ।। ९१ अनेकगिमाणिक्यकिरीटभूषणं कचित् । लोलालकवृतं राजरकोटीन्दुसदृशाननम् ॥ कस्तुरीतिलकं भ्राजन्मञ्जुगोरोचनान्वितम् । नीलेन्दीवरसुस्निग्धं सुदीर्घदललोचनम् ॥ आनृत्यद्भूलताश्लेषस्मितं साचिनिरीक्षणम् । सुचारुभूतसौन्दर्यनासाग्रातिमनोहरम् ॥ नासाग्रगजमुक्तांशमुग्धीकृतजगत्रयम् । सिन्दूरारुणसुस्निग्धाधरौष्ठसुमनोहरम् ॥ नानावर्णोल्लसत्स्वर्णमकराकृतिकुण्डलम् । तद्रश्मिम सद्गण्डमुकुराभसमद्युतिम् ॥ कर्गोत्पैलसुमन्दारमकरोत्तंसभूषितम् । श्रीवत्सकौस्तुभोरस्कं मुक्ताहारस्फुरद्गलम् ॥ विलसदिव्यमाणिक्यमझुकाञ्चनमिश्रितम् । कैरकङ्कणकेयूरकिङ्किणीकटशोभितम् ॥ मञ्जमञ्जीरसौन्दर्यश्रीमदधिविराजितम् । कर्पूरागरुकस्तूरीविलसञ्चन्दनादिकम् ॥ गोरोचनादिसंमिश्रदिव्याङ्गरागचित्रितम् । स्निग्धपीतपटीराजत्पपदान्दोलिताञ्जनम् ॥ १०० गम्भीरनाभिकमलं रोमराजीनतस्रजम् । सुवृत्तजानुयुगलं पादपममनोहरम् ॥ १०१ ध्वजवज्राङ्कुशाम्भोजकराघितलशोभितम् । नखेन्दुकिरणश्रेणीपूर्ण ब्रह्मैककारणम् । १०२ केचिद्वदन्ति तस्यांशं ब्रह्म चिद्रूपमव्ययम् । तद्दशांशं महाविष्णुं प्रवदन्ति मनीषिणः ॥ १०३ योगीन्द्रः सनकाद्यैश्च तदेव हृदि चिन्त्यते । त्रिभङ्ग ललिताशेषनिर्माणसारनिर्मितम् ।। १०४ तिर्यग्ग्रीवजितानन्तकोटिकंदर्पसुन्दरम् । वामांसार्पितसद्गण्डं स्फुरत्काञ्चनकुण्डलम् ।। १०५ सापा क्षणसस्मेरकोटिमन्मथसुन्दरम् । कुश्चिताधरविन्यस्तवंशीम कलस्वनैः ।। जगत्रयं मोहयन्तं मनं प्रेमसुधार्णवे ।। पार्वत्युवाच- परमं कारणं कृष्णं गोविन्दाख्यं [*महत्पदम् । वृन्दावनेश्वरं नित्यं निर्गुणस्यैककारणम् ॥ १०८ * एतचिहान्तर्गतः पाठः ख. रु. च. ड. पुस्तकस्थः। ख. इ. व्यतिरिक्तपुस्तकेषु धटीति पाठो दृश्यते । + एत- चिहान्तर्गतः पाठः क. ख. रु. च. स. १. पुस्तकस्थः । १ म. मन्त्रस्थं । २ म. प्र. पुणधी । ३ क. ख. ङ. च प्र. ह. 'चारून्नत । ४ झ. अ. 'त्पलं मु। ५ झ. का क। ६ म. भाल। ९९ १०७ - ७० सप्ततितमोऽध्यायः ] पद्मपुराणम् । तत्तद्रहस्यमाहात्म्यं किमैश्वर्यं च सुन्दरम् । तद्रूहि देवदेवेश श्रोतुमिच्छाम्य है प्रभो ॥ १०९ ईश्वर उवाच- यदछिनखचन्द्रांशुमहिमान्तो न विद्यते । तन्माहात्म्यं कियद्देवि प्रोच्यते त्वं मुदा शृणु ॥ ११० अनन्तकोटिब्रह्माण्डे अनन्तत्रिगुणोच्छ्रये । तत्कलाकोटिकोट्यंशा ब्रह्मविष्णुमहेश्वराः ॥ १११ सृष्टिस्थित्यादिना युक्तास्तिष्ठन्ति तस्य वैभवाः । तद्रूपकोटिकोट्यंशाः कलाः कंदर्पविग्रहाः११२ जगन्मोहं प्रकुर्वन्ति तदण्डान्तरसंस्थिताः । तदेहविलसत्कान्तिकोटिकोट्यंशको 'विभुः॥ ११३ तत्प्रकाशस्य कोव्यंशरश्मयो रविविग्रहाः । तस्य स्वदेहकिरणैः परानन्दरसामृतैः ।। परमामोदचिद्रूपैनिर्गुणस्यैककारणैः । तदंशकोटिकोट्यंशा जीवन्ति किरणात्मकाः ।। तदध्रिपङ्कजद्वंद्वनखचन्द्रमणिप्रभाः। आहुः पूर्णब्रह्मणोऽपि कारणं वेददुर्गमम् ।। तदंशसौरभानन्तकोव्यंशो विश्वमोहनः । तत्स्पर्शपुष्पगन्धादिनानासौरभसंभवः ॥ तत्प्रिया प्रकृतिस्त्वाद्या राधिका कृष्णवल्लभा । तत्कलाकोटिकोट्यंशा दुर्गाद्यात्रिगुणात्मिकाः ।। तस्या अधिरजःस्पर्शात्कोटिविष्णुः प्रजायते ॥ इति श्रीमहापुराणे पाझे पातालखण्डे श्रीकृष्णचरिते वृन्दावनमाहात्म्य एकोनसप्ततितमोऽध्यायः ॥ ६९॥ आदितः श्लोकानां समष्टयङ्काः-१५२०७ ११८ अथ सप्ततितमोऽध्यायः । २ ३ ४ पार्वत्युवाच- यदाकारणमेतस्य ये वा पारिषदाः प्रभोः। तदहं श्रोतुमिच्छामि कथयस्व दयानिधे । ईश्वर उवाच- राधया सह गोविन्दं स्वर्णसिंहासने स्थितम् । पूर्वोक्तरूपलावण्यं दिव्यभूपाम्बरस्रजम् ॥ त्रिभङ्गमञ्जुसुस्निग्धं गोपीलोचनतारकम् । तद्बाह्ये योगपीठे च स्वर्णसिंहासनादृते ॥ पत्यगरभसावेशाः प्रधानाः कृष्णवल्लभाः । ललिताद्याः प्रकृत्यंशा मूलप्रकृती राधिका ॥ संमुखे ललिता देवी श्यामला वायुकोणके । उत्तरे श्रीमती धन्या ऐशान्यां श्रीहरिप्रिया ॥ ५ वेशाखा च तथा पूर्वे शैव्या चानौ ततः परम् । पद्मा च दक्षिणे पश्चानैर्ऋते क्रमशः स्थिताः ।। रोगपीठे केशराग्रे चारुचन्द्रावती प्रिया । अष्टौ प्रकृतयः पुण्याः प्रधानाः कृष्णवल्लभाः ॥ *पधानप्रकृतिस्त्वाचा राधा चन्द्रावती समा । चन्द्रावली चित्ररेखा चन्द्रा मदनसुन्दरी ॥ ८ प्रेया च श्रीमधुमती चन्द्ररेखा हरिप्रिया । षोडशाऽऽद्याः प्रकृतयः प्रधानाः कृष्णवल्लभाः] ॥९ न्दावनेश्वरी राधा तथा चन्द्रावली प्रिया । अभिन्नगुणलावण्यसौन्दर्याश्चर्यलोचनाः ॥ १० नोहरा मुग्धवेषाः किशोरीवयसोज्ज्वलाः। अग्रे ['सरास्तथा चान्या गोपकन्याः सहस्रशः ।। दिकाश्चनपुञ्जाभाः सुप्रसन्नाः सुलोचनाः। तद्रूपहृदयारूढास्तदाश्लेषसमुत्सुकाः ॥ यामामृतरसे मनाः]स्फुरत्तद्भावमानसाः। नेत्रोत्पलाचिते कृष्णपादाब्जेऽपितचेतसः ॥ * एतचिहान्तर्गतः पाठः ख. ह. च. ह. पुस्तकस्थः । । एतचिहान्तर्गतः पाठः क. स. ङ. च छ. म. .. ७ स्तकस्थः । १२. प्र. विदुः । २ झ. दाकर' । ३ अ. भुजसु । ४ झ. केसरा । ५. स. वलिपि । ६ क. 'श्चिारुलो' ।
५८८ २० २८ ३० महामुनिश्रीव्यासप्रणीतं- [ ४ पातालखण्डे- श्रुतिकन्यास्ततो दक्षे सहस्रायुतसंयुताः। जगन्मुग्धीकृताकारा हद्वार्तिकृष्णलालसाः ॥ नानासत्त्वस्वरालापमुग्धीकृतजगत्रयाः। तन्निगूढरहस्यानि गायन्त्यः प्रेमविद्वलाः॥ १५ देवकन्यास्ततः सव्ये दिव्यवेषा रसोज्ज्वलाः । नानावैदग्ध्यनिपुणा दिव्यभावभरान्विताः ॥ सौन्दर्यातिशयाढ्याश्च कटाक्षातिमनोहराः । निर्लज्जास्तत्र गोविन्दे तदङ्गस्पर्शनोत्सुकाः ॥ १७ तद्भावमममनसः स्मितसाचिनिरीक्षणाः । मन्दिरस्य ततो बाधे प्रियया विशदाते(?) । १८ समानवेषवयसः समानवलपौरुषाः । समानगुणकर्माणः समानाभरणाः मियाः ॥ १९ समानस्वरसंगीतवेणुवादनतत्पराः । श्रीदामा पश्चिमद्वारे वसुदामा तथोत्तरे । सुदामा च तथा पूर्वे किङ्किणी चापि दक्षिणे । तद्बाह्ये स्वर्णपीठे च सुवर्णमन्दिराहते ॥ २१ स्वर्णवेयन्तरस्थे तु स्वर्णाभरणभूषिते । स्तोककृष्णांशुभद्राधैर्गोपालैरयुतायुतैः ॥ २२ शृङ्गवीणावेणुवेत्रवयोवेषाकृतिस्वरैः । तद्गुणध्यानसंयुक्तैर्गायद्भी रसविहलैः ॥ चित्रार्पितैश्चित्ररूपैः सदाऽऽनन्दांशु(न्दाश्रु)वर्षिभिः । पुलकाकुलसर्वाङ्गैयोगीन्द्ररिव विस्मितैः२४ क्षरत्पयोभिर्गोइन्दरसंख्यातैरुपातम् । तद्बाह्ये स्वर्णमाचीरे कोटिसूर्यसमुज्ज्वले ॥ २५ चतुर्दिक्षु महोद्यानमञ्जुसौरभमोहिते । पश्चिमे संमुखे श्रीमत्पारिजातदुमाश्रये ॥ २६ तत्राधस्तु स्वर्णपीठे स्वर्णमन्दिरमण्डिते । तन्मध्ये मणिमाणिक्यदिव्यसिंहासनोज्ज्वले ॥ २७ तत्रोपरि पैरानन्दं वासुदेवं जगत्प्रभुम् । त्रिगुणातीतचिद्रूपं सर्वकारणकारणम् ॥ इन्द्रनीलघनश्याम नीलकुश्चितकुन्तलम् । पद्यपत्रविशालाक्षं मकराकृतिकुण्डलम् ।। २९ चतुर्भुजं तु चक्रासिगदाशङ्खाम्बुनायुधम् । आद्यन्तरहितं नित्यं प्रधानं पुरुषोत्तमम् ॥ ज्योतीरूपं महद्धाम पुराणं वनमालिनम् । पीताम्बरधरं स्निग्धं दिव्यभूषणभूषितम् ।। दिव्यानुलेपनं राजचित्रिताङ्गमनोहरम् । रुक्मिणी सत्यभामा च नानजिती सुलक्षणा ॥ मित्रविन्दाऽनुविन्दा सुनन्दा जाम्बवती प्रिया । सुशीला चाष्ट महिला वासुदेवप्रियास्ततः॥३३ उँजित्योः पारिषदावृत्तयोर्भक्तितत्पराः(?)। उत्तरे सुमहोद्याने हरिचन्दनसंश्रये ॥ सत्रावस्तु स्वर्णपीठे मणिमण्डपमण्डिते । तन्मध्ये हेमनिर्माणदले सिंहासनोज्ज्वले ॥ तत्रैव सह रेवत्या संकर्षणहलायुधम् । ईश्वरस्य प्रियानन्तमभिन्नगुणरूपिणम् ।। ३६ शुद्धस्फटिकसंकाशं रक्ताम्बुजदलेक्षणम् । नीलपट्टधरं स्निग्धं दिव्यभूषास्रगम्बरम् ॥ मधुपाने सदाऽऽसक्तं मधुपूर्णितलोचनम् । प्रवीरदक्षिणे भागे मञ्जनाभ्यन्तरस्थिते ॥ ३८ संतानवृक्षमूले तु मणिमन्दिरमण्डितम् । तन्मध्ये मणिमाणिक्यदिव्यसिंहासनोज्ज्वले ॥ प्रद्युम्नं च रतीदेवं तत्रोपरि सुखस्थितम् । जगन्मोहनसौन्दर्यसारश्रेणीरसात्मकम् ॥ असिताम्भोजपुञ्जाभमरविन्ददलेक्षणम् । दिव्यालंकारभूषाभिर्दिगव्यन्धानुलेपनम् ॥ ४१ जगन्मुग्धीकृताशेषसौन्दर्याश्चर्यविग्रहम् । पूर्वोद्याने महारम्ये सुरद्रुमसमाश्रये ॥ तत्राधस्त स्वर्णपीठे हेममण्डपमण्डिते । तस्य मध्यस्थिते राजदिव्यासिंहासनोज्ज्वले ॥ दिव्योषया समं श्रीमदनिरुद्धं जगत्पतिम् । सान्द्रानन्दघनश्यामं मुस्निग्धं नीलकुन्तलम् ॥ ४४ सुधूनतलताभकं मुकपोलं सुनासिकम् । सुग्रीवं सुन्दरं वक्षोमनोहरमनोहरम् ।। किरीटिनं कुण्डलिनं कण्ठभूषाविभूषितम् । मञ्जमञ्जीरमाधुर्याश्चर्यसौन्दर्यविग्रहम् ॥ १ ख. सेव्यो । २ अ. मासुभ' । ३ ख. नन्दपुत्रं । ४ झ. उद्धृवत्योः । अ. उद्भवत्योः । ५ म. 'वृतयो । ६ अ. म् । पवी । ७ ख. 'धुर्यसौन्दर्य श्यामवि । ३२ ३५ ३७ ४० ४५ ४९ ७१ एकसप्ततितमोऽध्यायः] पद्मपुराणम् । ५८९ प्रियभृत्य गणाराध्यं यत्र संगीतकप्रियम् । पूर्णब्रह्म सदानन्दं शुद्धसत्त्वस्वरूपिणम् ॥ तस्योर्ध्व चान्तरिक्षे च विष्णुं सर्वेश्वरेश्वरम् । अनादिमायं चिद्रूपं चिदानन्दं परं विभुम् ॥४८ त्रिगुणातीतमव्यक्तं नित्यमक्षयमव्ययम् । समेघपुञ्जमाधुर्यसौन्दर्यश्यामविग्रहम् ।। नीलकुश्चितसुस्निग्धकेशपाशातिसुन्दरम् । अरविन्ददलस्निग्धसुदीर्घचारुलोचनम् ॥ किरीटकुण्डलोद्गण्डं शुद्धसत्त्वात्मभितम् । आत्मारामैश्च चिद्रूपैस्तन्मूर्तिध्यानतत्परैः ॥ हृदयारूढतद्ध्यानैर्नासाग्रन्यस्तलोचनैः । क्रियते हैतुकी मूर्तिहर्तिकायभाषितैः(?) ॥ तत्सव्ये यक्षगन्धर्वसिद्धविद्याधरादिभिः । सुकान्तैरप्सरःसंधैर्नृत्यसंगीततत्परैः ।। [*तदङ्गभजनं कामं वाञ्छद्भिः कृष्णलालसैः । तदने वैष्णवैः सर्वैश्वान्तरिक्ष सुखासने] ॥ ५४ प्रहादनारदाद्यैश्च कुमारशुकवैष्णवैः । जनकाधैर्लसद्भावैर्हद्वाह्यस्फूर्तितत्परैः ॥ पुलकाकुलसर्वाङ्गः स्फुरत्मेमसमाकुलैः । रहस्यामृतसंसिक्तैरर्धयुग्माक्षरो मनुः ॥ मत्रचूडामणिः प्रोक्तः सर्वमत्रैककारणम् । सर्वदेवस्य मत्राणां कैशोरमहेतुकम्(?) । सर्वकैशोरमत्राणां हेतुथूडामणिर्मनुः । जपं कुर्वन्ति मनसा पूर्णप्रेमसुखाश्रयाः ॥ वाञ्छन्ति तत्पदाम्भोजे निश्चलं प्रेमसाधनम् । तद्बाह्य स्फटकाधुश्चमाचीरे सुमनोहरे ॥ कुङ्कुमैः सितरक्तायैश्चतुर्दिक्षु समुज्ज्वलैः। शुक्लं चतुर्भुजं विष्णुं पश्चिमे द्वारपालकम् ॥ शङ्खचक्रगदापकिरीटादिविभूषितम् । रक्तं चतुर्भुजं पद्मशङ्खचक्रगदायुधम् ॥ किरीटकुण्डलोद्दीप्तं द्वारपालकमुत्तरे । गौरं चतुर्भुजं विष्णुं शङ्खचक्रगदायुधम् ॥ किरीटकुण्डलाद्यैश्च शोभितं वनमालिनम् । पूर्वद्वारे द्वारपालं गौर विष्णु प्रकीर्तितम् ।। कृष्णवर्ण चतुर्बाहुं शङ्खचक्रादिभूषणम् । दक्षिणद्वारपालं तु श्रीविष्णुं कृष्णवर्णकम् ।। श्रीकृष्णचरितं ह्येतद्यः पठेत्पयतः शुचिः। शृणुयाद्वाऽपि यो भक्त्या गोविन्दे लभते गतिम् ६५ इति श्रीमहापुराणे पाझे पातालखण्डे श्री कृष्णचरिते सप्ततितमोऽध्यायः ॥ ७० ॥ आदितः श्लोकानां समष्टयङ्काः-१५२७२ ५८ ६२ अथैकसप्ततितमोऽध्यायः । ३ ४ श्रीदेव्युवाच- भगवन्सर्वभूतेश सर्वात्मन्सर्वसंभव । देवदेव महादेव सर्वज्ञ करुणाकर ॥ त्वयाऽनुकम्पितैवाहं भूयोऽप्याहानुकम्पया । त्रैलोक्यमोहना मन्त्रास्त्वया मे कथिताः प्रभो २ तेन देवेन गोपीभिर्महामोहनरूपिणा । केन केन विशेषेण चिक्रीडे तद्वदस्व मे ।। महादेव उवाच-- एकदा वादयन्वीणां नारदो मुनिपुंगवः । कृष्णावतारमाज्ञाय प्रययौ नन्दगोकुलम् ।। गत्वा तत्र महायोगमायेशं विभुमच्युतम् । बालनाट्यधरं देवं ददृशे नन्दवेश्मनि ॥ सुकोमलपटास्तीर्णहेमपर्यकोपरि । शयानं गोपकन्याभिः प्रेक्ष्यमाणं सदा मुदा ॥ * एतचिहान्तर्गतः पाठः क.ख. ङ. छ. ज. म इ. पुस्तकस्थः । + पुरुषव्यत्यय आर्षः । १ क. म. 'कुन्तलसु । २ क. ख. उ. च. छ. ह. 'की भक्ति । ३ ख. म् । देवस्य सर्वम । ४ स. अहेतु । ५ स. म. ये स्फुट । ६ स्व. इ. च. छ. ड. रतिम् । ६ ८ ९ १७ महामुनिश्रीव्यासप्रणीतं- [ ४ पातालखण्डे- अतीव सुकुमारा मुग्धं मुग्धविलोकनम् । विस्रस्तनीलकुटिलकुन्तलावलिमण्डलम् ॥ किंचिस्मिताकुरव्यञ्जदेकद्वरदकुड्मलम् । स्वप्रभाभिर्भासयन्तं समस्तभवनोदरम् ।। दिग्वाससं समालोक्य सोऽतिहर्षमवाप ह । संभाष्य गोपति नन्दमाह सर्व प्रभुमियः ॥ नारायणपराणां तु जीवनाद्यतिदुर्लभम् । अस्य प्रभावमतुलं न जानन्तीह केचन ॥ १० भवब्रह्मादयोऽप्यस्मिन्रतिं वाञ्छन्ति शाश्वतीम् । चरितं चास्य बालस्य सर्वेषामेव हर्षणम् ११ मुदा गायन्ति शृण्वन्ति त्वभिनन्दन्ति तादृशाः । अस्मिंस्तव सुतेऽचिन्त्यप्रभावे स्निग्धमानसाः।। तरिष्यन्ति न तेषां वै भवबाधा.भविष्यति । मुश्चेहपरलोकाशाः सर्वा बल्लवसत्तम । १३ एकान्तेनैकभावेन बालेऽस्मिन्मीतिमाचर । इत्युक्त्वा नन्दभवनानिष्क्रान्तो मुनिपुङ्गवः॥ १४ तेनाचितो विष्णुबुद्ध्या प्रणम्य च विसर्जितः। अथासौ चिन्तयामास महाभागवतो मुनिः॥१५ अस्य कान्ता भगवती लक्ष्मीनारायणे हरौ । विधाय गोपिकारूपं क्रीडार्थ शार्ङ्गधन्वनः ॥ १६ अवश्यमवतीर्णा सा भविष्यति न संशयः । तामहं विचिनोम्यद्य गेहे गेहे व्रजौकसाम् ॥ विमृश्यैवं मुनिवरो गेहानि व्रजवासिनाम् । प्रविवेशातिथिर्भूत्वा विष्णुबुद्ध्या सुपूजितः ॥ १८ सर्वेषां बल्लवादीनां रतिं नन्दसुते पराम् । दृष्ट्वा मुनिवरः सर्वान्मनसा प्रणनाम ह ॥ १९ गोपानां च गृहे बालां ददर्श श्वेतरूपिणीम् । स दृष्ट्वा तर्कयामास रमा एषा न संशयः ॥ २० प्रविवेश ततो धीमानन्दसख्युर्महात्मनः । कस्यचिद्रोपवर्यस्य भानुनाम्नो गृहं महत् ।। आर्चितो विधिवत्तेन सोऽप्यपृच्छन्महामनाः। साधो त्वमसि विख्यातो धर्मनिष्ठतया भुवि ॥२२ तवाहं धनधान्यादिसमृद्धिं संविभावये । कश्चित्ते योग्य पुत्रोऽस्ति कन्या वा शुभलक्षणा ॥ २३ यतस्ते कीर्तिरखिलं लोक व्याप्य भविष्यति । इत्युक्तो मुनिवर्येण भानुरानीय पुत्रकम् ॥ २४ महातेजस्विनं दृप्तं नारदायाभ्यवादयत् । दृष्ट्वा मुनिवरस्तं तु रूपेणाप्रतिमं भुवि ॥ पद्मपत्रविशालाक्षं सुग्रीवं सुन्दरभुवम् । चारुदन्तं चारुकर्ण सर्वावयवसुन्दरम् ॥ २६ तं समाश्लिष्य बाहुभ्यां स्नेहाश्रूणि विमुच्य च । ततः सगद्गदं माह प्रणयेन महामुनिः॥ २७ नारद उवाच- अयं शिशुस्ते भविता मुसखा रामकृष्णयोः। विहरिष्यति ताभ्यां च रात्रिंदिन(व)मतन्द्रितः॥२८ तत आभाष्य तं गोपप्रवरं मुनिपुंगवः । यदा गन्तुं मनश्चके तत्रैवं भानुरब्रवीत् ।। भानुरुवाच- एकाऽस्ति पुत्रिका देव देवपत्न्युपमा मम । कनीयसी शिशोरस्य जडान्धवधिराकृतिः ॥ ३० उत्साहावृद्धये याचे त्वां वरं भगवत्तम । प्रसबदृष्टिमात्रेण सुस्थिरां कुरु बालिकाम् ॥ श्रुत्वैवं नारदो वाक्यं कौतुकाकृष्टमानसः । अथ प्रविश्य भवनं लुठन्ती भूतले मुताम् ॥ उत्थाप्याङ्के वि(नि)धायातिस्नेहविहलमानसः। [*भानुरप्याययौ भक्तिनम्रो मुनिवरान्तिकम् ३३ अथ भागवतश्रेष्ठः कृष्णस्यातिषियो मुनिः । दृष्ट्वा तस्याः परं रूपमदृष्टाश्रुतमद्धतम् ] ॥ अभूत्पूर्वसमं मुग्धो हरिप्रेमा महामुनिः । विगाह्य परमानन्दसिन्धुमेकरसायनम् ॥ मुहूर्तद्वितयं तत्र मुनिरासीच्छिलोपमः । मुनीन्द्रः प्रतिबुद्धस्तु शनैरुन्मील्य लोचने ॥ २५ २९ ३२ ३४ * एतचिहान्तर्गतः पाठः क. ख. इ. च. छ. अ. ह. पुस्तकस्थः । १२. 'म् । सुप्र । २ स. स्तभुव ।
४६ ४७ ४८ ७१ एकसप्ततितमोऽध्यायः] पद्मपुराणम् । ५९१ महाविस्मयमापनस्तूष्णीमेव स्थितोऽभवत् । अन्तर्हृदि महाबुद्धिरेवमेवं व्यचिन्तयत् ॥ भ्रान्तं सर्वेषु लोकेषु मया स्वच्छन्दचारिणा । अस्या रूपेण सदृशी दृष्टा नैव च कुत्रचित् ॥३८ ब्रह्मलोके रुद्रलोक इन्द्रलोके च मे गतिः । न कोऽपि शोभाकोट्यंशः कुत्राप्यस्या विलोकितः॥ महामाया भगवती दृष्टा शैलेन्द्रनन्दिनी । यस्या रूपेण सकलं मुह्यते सचराचरम् । साऽप्यस्याः सुकुमारानी लक्ष्मी नाऽऽमोति कर्हिचित्ालक्ष्मीः सरस्वती कान्तिर्विद्याद्याश्च वरस्त्रियः छायामपि स्पृशन्त्यश्च कदाचिन्नैव(नेति) दृश्यते । विष्णोर्यन्मोहनं रूपं हरो येन विमोहितः॥४२ मया दृष्टं च तदपि कुतोऽस्याः सदृशं भवेत् । ततोऽस्यास्तत्त्वमाज्ञातुं न मे शक्तिः कथंचन ४३ अन्ये चापि न जानन्ति प्रायेणैनां हरेः प्रियाम् । अस्याः संदर्शनादेव गोविन्दचरणाम्बुजे ॥४४ या प्रेमद्धिरभूत्सा मे भूतपूर्वा न कर्हिचित् । एकान्ते नौमि भवती दर्शयित्वोऽतिवैभवम् ॥ ४५ कृष्णस्य संभवत्यस्या रूपं परमतुष्टये । विमृश्यैवं मुनिर्गोपप्रवरं प्रेष्य कुत्रचित् ॥ निभृते परितुष्टाव बालिका दिव्यरूपिणीम् । अपि देवि महायोगे मायेश्वरि महामभे ॥ महामोहनदिव्याङ्गि महामाधुर्यवर्षिणि । महाद्भुतरसानन्दशिथिलीकृतमानसे ॥ महाभाग्येन केनापि गताऽसि मम दृक्पथम् । नित्यमन्तःमुखा दृष्टिस्तव देवि विभाव्यते ॥ ४९ अन्तरेव महानन्दपरितृप्तैव लक्ष्यसे । प्रसन्नं मधुरं सौम्यमिदं ते मुखमण्डलम् ॥ व्यनक्ति परमोश्चर्य कमप्यन्तःसुखोदयम् । रजःसंबन्धिकलिकाशक्तिस्तु त्वाऽतिशोभने(?) ॥५१ सृष्टिस्थितिसमाहारांपणी त्वमधिष्ठिता । तत्त्वं विशुद्धसत्वा मुशक्तिर्विद्यात्मिका परा ॥ ५२ परमानन्दसंदोहं दधती वैष्णवं परमें । कलयाऽऽश्चर्यविभवे ब्रह्मरुद्रादिदुर्गमे ॥ योगीन्द्राणां ध्यानपथं न त्वं स्पृशसि कर्हिचित् । इच्छाशक्तिर्ज्ञानशक्तिः क्रियाशक्तिस्तवेशितुः५४ तवांशमात्रमित्येवं मनीषा मे प्रवर्तते । मायाविभूतयोऽचिन्त्यास्तन्मायार्भकमायिनः ॥ परेशस्य महाविष्णोस्ताः सर्वास्ते केलाः कलाः। आनन्दरूपिणी शक्तिस्त्वमीश्वरी न संशयः॥ त्वया च क्रीडते कृष्णो नूनं वृन्दावने वने । कौमारेणैव रूपेण त्वं विश्वस्य च मोहिनी ॥ ५७ तारुण्यवयसा स्पृष्टं कीहक्ते रूपमद्भुतम् । कीदृशं तव लावण्यं लीलाहासेक्षणान्वितम् ।। ५८ हरिमानुषलोभेन पराश्चर्यमयं भवेत् । द्रष्टुं तदहमिच्छामि रूपं ते हरिवल्लभम् ॥ येन नन्दसुतः कृष्णो मोहं समुपयास्यति । इदानीं मम कारुण्यान्निजरूपं महेश्वरि ॥ ६० पणताय प्रपन्नाय प्रकाशयिदुमर्हसि । इत्युक्त्वा मुनिवर्येण तदनुव्रतचेतसा ॥ महामायेश्वरीं नत्वा महानन्दमयी पराम् । महामतरोत्कण्ठाव्याकुलाङ्गी शुभेक्षणाम् ॥ ६२ ईक्षमाणेन गोविन्दमेवं वर्णयता स्थितम् । जय कृष्ण मनोहारिज(अ)य वृन्दावनप्रिय ॥ ६३ जय भ्रूभङ्गललित जय वेणुरवाकुल । जय बहकृतोत्तंस जय गोपीविमोहन । जयकुङ्कुमलिप्ताङ्ग जय रत्नविभूषण । कदाऽहं त्वत्प्रसादेन त्वनया दिव्यरूपया ॥ सहितं नवतारुण्यमनोहरवपुःश्रिया । विलोकयिष्ये कैशोरमोहन त्वां जगत्पते ॥ ६६ एवं कीर्तयतस्तस्य तत्क्षणादेव सा पुनः । बभूव दधती दिव्यं रूपमत्यन्तमोहनम् ॥ ६७ चतुर्दशाब्दवयसा ललित लँलितं परम् । समानवयसश्चान्यास्तदैव ब्रजबालिकाः ॥ ६८ आगत्य वेष्टयामासुर्दिव्यभूषाम्बरप्रेजः । मुनीन्द्रः स्तुतिनिश्चेष्टो बभूवाऽऽश्चर्यमोहितः ॥ ६९ १ अ. त्वा तु वै । २ क. म. मानन्द क। ३ ख. म् । का त्वयाऽऽ । अ. म् । कां त्व। ४ क. म. कशायि। ५२, म. कलाक' । ६ क. ख. ड. च. छ. भ. . हरिवल्लभे । ७ अ. मकरों। ८ . चलितं । ९ स. अ. स्रजम् । मुं।
- - ७१ ७२ ७४ ७८ ८१ ८२ ८४ ५९२ महामुनिश्रीव्यासप्रणीतं- [ ४ पातालखण्डे- बालास्तास्तु वयस्यायाश्चरणाम्बुकणैर्मुनिम् । निषिच्य बोधयामासुरूचुश्च कृपयाऽन्विताः ॥७० बाला ऊचुः- मुनिवर्य महाभाग महायोगेश्वरेश्वर । त्वयैव परया भक्त्या भगवान्हरिरीश्वरः ।। नूनमाराधितो देवो भक्तानां कामपूरकः । यदियं ब्रह्मरुद्राधैर्देवैः सिद्धमुनीश्वरैः ॥ महाभागवतैश्वान्यैर्दुर्दर्शा दुर्गमाऽपि च । अत्यद्भुतवयोरूपमोहिनी हरिवल्लभा ॥ ७३ केनाप्यचिन्त्यभाग्येन तव दृष्टिपथं गता । उत्तिष्ठोत्तिष्ठ विप्रर्षे धैर्यमालम्ब्य सत्वरम् ॥ एनां प्रदक्षिणीकृत्य नमस्कुरु पुनः पुनः । किं न पश्यसि चार्वङ्गीमत्यन्तव्याकुलामिव ॥ ७५ अस्मिन्नेव क्षणे नूनमन्तर्धानं गमिष्यति । नानया सह संलापः कथंचित्ते भविष्यति ॥ ७६ दर्शनं च पुनर्नास्याः प्राप्स्यसि ब्रह्मवित्तम । किंतु वृन्दावने वाऽपि भात्यशोकलता शुभा ७७ सर्वकालेऽपि पुष्पाढ्या सर्वदिग्व्यापिसौरभा । गोवर्धनाददूरेण कुमुमाख्यसरस्तटे ॥ तन्मूले ह्यर्धरात्रे तु द्रक्ष्यस्यस्मानशेषतः । श्रुत्वैवं वचनं तासां स्नेहविक्लवयेतसाम् ॥ ७९ यावत्मदक्षिणीकृत्य प्रणमेद्दण्डवन्मुनिः । मुहूर्तद्वितयं बालां नानानिर्माणशोभनाम् ॥ आहूर्य भानु प्रोवाच नारदः सर्वशोभनाम् । एवंस्वभावा बालेयं न साध्या दैवतैरपि ॥ किं तु यगृहमेतस्याः पदचिह्नविभूषितम् । तत्र नारायणो देवः सर्वदेवगणैः सह ॥ लक्ष्मीश्च वसते नित्यं सर्वाभिश्चैव सिद्धिभिः। अद्य एनां वरारोहां सर्वभूषणभूषणाम् ॥ ८३ देवीमिव परां गेहे रक्ष यत्नेन सत्तम । इत्युक्त्वा मनसैवैनां महाभागवतोत्तमः ।। तद्रूपमेव संस्मृत्य प्रविष्टो गहनं वनम् । अशोकलतिकामूलमासाद्य मुनिपुङ्गवः ॥ प्रतीक्षमाणो देवीं तां तत्रैवाऽऽगमैनेन हि । स्थितोऽत्र प्रेमविकलश्चिन्तयन्कृष्णवल्लभाम् ॥ ८६ अथ मध्यनिशाभागे युवत्यः परमाद्भुताः । पूर्वदृष्टास्तथाऽन्याश्च विचित्राभरणस्रजः॥ दृष्ट्वा मनसि संभ्रान्तो दण्डवत्पतितो भुवि । परिवार्य मुनिं सर्वास्तास्ताः प्रविविशुः शुभाः ८८ प्रष्टुकामोऽपि स मुनिः किंचित्स्वाभिमतं प्रियम् । नाशकत्प्रेमलावण्यप्रियभाषाप्रर्षितः ॥ ८९ अथाऽऽगता मुनिश्रेष्ठं कृताञ्जलिमिव स्थितम् । भक्तिभारानतग्रीवं सविस्मयं ससंभ्रमम् ॥ ९० सुविनीततमं प्राह तत्रैव करुणान्विता । अशोकमालिनी नाम्ना अशोकवनदेवता ॥ ९१ अशोकमालिन्युवाच- अशोककलिकायां तु वसाम्यस्यां महामुने । रक्ताम्बरधरा नित्यं रक्तमाल्यानुलेपना ॥ १२ रक्तसिन्दूरकलिका रक्तोत्पलवतंसिनी । रक्तमाणिक्यकेयूरमुकुटादिविभूषिता ।। एकदा प्रियया सार्ध विहरन्त्यो मधूत्सवे । तत्रैव मिलिता गोपबालिकाश्चित्रवाससः॥ अहं चाशोकमालाभिर्गोपवेषधरं हरिम् । रमारूपाश्च ताः सर्वा भक्त्या सम्यगपूजयम् ॥ ९५ ततः प्रभृति चैतासां मध्ये तिष्ठामि सर्वदौ । भूषाभिर्विविधाभिश्च तोषयित्वा रमापतिम् ॥ ९६ परापरमहं सर्व विजानामीह सर्वतः । गोगोपगोपिकादीनां रहस्यं चापि वेम्यहम् ॥ तव जिज्ञासितं चापि हदि प्रतिविभाषितम् । तां देवीमद्भुताकारामद्भुतानन्ददायिनीम् ॥ ९८ हरेः प्रियां हिरण्यामां हीरकोज्ज्वलमुद्रिकाम् । कथं पश्यामि लोलाक्षी कथं वा तत्पदाम्बुजम् ॥ आराध्यतेऽतिभक्त्येति त्वया ब्रह्मन्विर्शितम् । तत्र ते कथयिष्यामि वृत्तान्तं सुमहात्मनाम् १०० १ क. ख. रु. च. छ. अ. द. विलचे। २ झ. अ. "यमानं प्रो। ३ स. अ. मन निशि । रिथ। ४ ख. छ... 'त्रैका क। ५ क. म. दा । भक्तिभिः । ८५ ८७ ९७ ७२ द्विसप्ततितमोऽध्यायः पद्मपुराणम् । मानसे सरसि स्थित्वा तपस्तीवमुपेयुषाम् । जपतां सिद्धिमन्त्रांश्च ध्यायतां हरिमीश्वरम् ॥१०१ मुनीनां काङ्गतां नित्यं तस्या एव पदाम्बुजम् । एकसप्ततिसाहस्रसंख्यातानां महौजसाम् ॥ तत्तेऽहं कथयाम्यद्य तद्रहस्यं परं वने ॥ १०२ इति श्रीमहापुराणे पाझे पातालखण्डे श्रीराधाकृष्णमाहात्म्यकथनं नामैकसप्ततितमोऽध्यायः॥ १॥ आदितः श्लोकानां समष्ट्यङ्काः-१५३७४ अथ द्विसप्ततितमोऽध्यायः । १ २ ४ ५ ८ १० ईश्वर उवाच- तदेकाग्रमना भूत्वा शृणु देवि वरानने । आसीदुग्रतपा नाम मुनिरेको दृढव्रतः ।। सानिको ह्यग्निभक्षश्च चचारात्यद्भुतं तपः । जजाप परमं जाप्यं मत्रं पञ्चदशाक्षरम् ॥ काममत्रेण पुटितं कामं कामवरपदात् । कृष्णायेति पदं स्वाहासहितं सिद्धिदं परम् ॥ दध्यौ च श्यामलं कृष्णं रासोन्मत्तं वरोत्सुकम् । पीतपट्टधरं वेणुं करेणाधरमर्पितम् ॥ नवयौवनसंपन्न कर्षन्तं पाणिना प्रियाम् । एवं ध्यानपरः कल्पशतान्ते देहमुत्सृजन् । सुनन्दनामगोपस्य कन्याऽभूत्स महामुनिः। सुनन्देति समाख्याता या वीणां बिभ्रति करे ॥६ मुनिरन्यः सत्यतपा इति ख्यातो महाव्रतः । स शुष्कपत्रभुक्तोये प्रजजाप परं मनुम् ।। रत्यन्तं कामबीजेन पुटितं च दशाक्षरम् । स प्रदध्यौ मुनिवरश्चित्रवेषधरं हरिम् ।। धृत्वा रमाया दोर्वल्लीद्वितयं कङ्कणोज्ज्वलम् । नृत्यन्तं तन्मुदं तं च संश्लिष्यन्तं मुहुर्मुहुः ॥ ९ हसन्तमुच्चैरानन्दतरङ्गं जठराम्बरे । दधतं वेणुमाजानुवैजयन्त्या विराजितम् ॥ स्वेदाम्भःकणसंसिक्तललाटवनिताननम् । त्यक्त्वा त्यक्त्वा स वै देहं तपसा च महामुनिः।।११ दशकल्पान्तरे चायं जातो नन्दवनादिह । सुभद्रनाम्नो गोपस्य कन्या भद्रेति विश्रुता ॥ १२ यस्याः पृष्ठतले दिव्यं व्यजनं परिदृश्यते । हरिधामाभिधानस्तु कश्चिदासीन्महामुनिः ॥ सोऽतप्यत तपः कृच्छं नित्यं त्यक्त्वैव भोजनम् । आशुसिद्धिकरं मत्रं विंशत्यर्ण प्रजप्तवान्॥१४ अनन्तरं कामबीजादध्यारूढं तु दैवतम् । माया तत्पुरतो व्योमहंसामग्द्युतिचन्द्रकम् ॥ १५ ततो दशाक्षरं पश्चान्नमोयुक्तं स्मरादिकम् । दध्यौ वृन्दावने रम्ये माधवीमण्डपे प्रभुम् । उत्तानशायिनं चारुपल्लवास्तरणोपरि । कदाचिदतिकामार्तबल्लव्या रक्तनेत्रया ॥ १७ वक्षोजयुगमाच्छाद्य विपुलोरःस्थलं मुहुः । संचुम्बमानं गण्डान्तस्तप्यमानवदच्छदम् ॥ १८ कलयन्तं प्रियां दोा सहासं समुदाऽद्भुतम् । स मुनिश्च वहन्देहांस्त्यक्त्वा कल्पत्रयान्तरे।।१९ सारङ्गनाम्नो गोपस्य कन्याऽभूच्छुभलक्षणा । रङ्गवेणीति विख्याता निपुणा चित्रकर्मणि ॥ २० पस्या दन्तेषु दृश्यन्ते चित्रिताः शोणबिन्दवः । ब्रह्मवादी मुनिः कश्चिज्जापालिरिति विश्रुतः॥ म तपःसु रतो योगी विचरन्पृथिवीमिमाम् । स एकस्मिन्महारण्ये योजनायतविस्तृते । पहच्छया गतोऽपश्यदेका वापी सुशोभनाम् । सर्वतः स्फटिकावन्धतटा स्वादुजलान्विताम्॥२३ वेकासिकमलामोदवायुना परिशीलिताम् । तस्याः पश्चिमदिग्भागे मूले वटमहीरुहे ॥ २४ अपश्यत्तापसी कांचित्कुर्वती दारुणं तपः । तारुण्यवयसा युक्तां रूपेणातिमनोहराम् ॥ २५ १ स. सिद्धम । २ म. म. तटे। ३ स. 'तदैव तु । मा । अ. 'ढं तदेव तु । मा । ४ अ. 'न्तस्तृप्य । २२ - ३० महामुनिश्रीव्यासप्रणीतं- [४ पातालखण्डे- चन्द्रांशुसदृशाभासा सर्वावयवशोभनाम् । कत्वा कटितटे वामपाणिं दक्षिणहस्ततः ॥ २६ ज्ञानमुद्रां च विभ्राणामनिमेषितलोचनाम् । त्यक्त्वाऽऽहार विहारं च सुनिश्चलतया स्थिताम् ॥ जिज्ञासुस्ता मुनिवरस्तस्थौ तत्र शतं समाः। तदन्ते तो समुत्थाप्य चलितां विनयान्मुनिः।।२८ अपृच्छत्का त्वमाश्चर्यरूपे किं वाऽऽचरिष्यसि । यदि योग्यं भवेत्तहि कृपया वक्तुमर्हसि ॥ २९ अथाब्रवीच्छनैर्वाला तपसाऽतीव कर्शिता । ब्रह्मविद्याऽहमतुला योगीन्द्रर्या च मृग्यते ।। साऽहं हरिपदाम्भोजकाम्यया सुचिरं तपः । चराम्यस्मिन्वने घोरे ध्यायन्ती पुरुषोत्तमम् ॥३१ ब्रह्मानन्देन पूर्णाऽहं तेनाऽऽनन्देन तृप्तधीः । तथाऽपि शून्यमात्मानं मन्ये कृष्णरति विना ॥३२ इदानीमतिनिविण्णा देहस्यास्य विसर्जनम् । कर्तुमिच्छामि पुण्यायां वापिकायामिहैव तु ॥ ३३ तच्छ्रुत्वा वचनं तस्या मुनिरत्यन्तविस्मितः। पतित्वा चरणे तस्याः कृष्णोपासाविधिं शुभम् ॥ पप्रच्छ परमप्रीतस्त्यक्त्वाऽध्यात्मविरोचनम् । तयोक्तमन्त्रमाज्ञाय जगाम मानसं सरः ॥ ३५ ततोऽतिदुश्चरं चक्रे तपो विस्मयकारकम् । एकपादस्थितः सूर्य निनिमेषं विलोकयन् ॥ ३६ मनं जजाप परमं पञ्चविंशतिवर्णकम् । दध्यौ परमभावेन कृष्णमानन्दरूपिणम् ॥ ३७ चरन्तं व्रजवीथीषु विचित्रगतिलीलया । [*ललितैः पादविन्यासैः कणयन्तं च नूपुरम् ॥ ३८ चित्रकन्दर्पचेष्टाभिः सस्मितापाङ्गवीक्षितैः। संमोहिन्याख्यया वंश्या पञ्चम्याऽरुणचित्रया(?)]३९ बिम्बोष्ठपुटचुम्विन्या कलालापैर्मनोज्ञया । हरन्तं व्रजरामाणां मनांसि च वपूंषि च ॥ श्लथनीविभिरागत्य सहसाऽऽलिङ्गिताङ्गकम् । दिव्यमालाम्बरधरं दिव्यगन्धानुलेपनम् ॥ ४१ श्यामलाङ्गं प्रभापूर्ण मोहयन्तं जगत्रयम् । स एवं बहुदेहेन समुपास्य जगत्पतिम् ॥ नवकल्पान्तरे जाता गोकुले दिव्यरूपिणी । कन्या प्रचण्डनाम्नस्तु गोपस्यातियशस्विनी ॥ ४३ [+चित्रगन्धेति विख्याता सुकुमारी शुभानना । निजाङ्गगन्धैर्विविधैर्मोदयन्ती दिशो दश ॥ १४ तामेनां पश्य कल्याणी वृन्दशो मधुपायिनीम्] । अङ्गेषु स्वपतिं कृत्वा रसावेशसमाकुलाम् ॥४५ अस्याः स्तनपरिष्वङ्गहारैः सर्वैविहन्यते । वक्षस्थलात्मच्यवद्भिश्चित्रगन्धादिसौरभैः ।। ४६ अपरे मुनिवर्यास्तु सततं पूतमानसाः । वायुभक्षास्तपस्तेपुर्जपन्तः परमं मनुम् ॥ स्मरः कृष्णाय कामार्तिकलादिवतशालिने । अ(आ)नेयीसहितं कृत्वा मत्रं पञ्चदशाक्षरम् ॥४८ दध्युर्मुनिवराः कृष्णमूर्ति दिव्यविभूषणाम् । दिव्यचित्रदुकूलेन पूर्णपीनकटिस्थलाम् ॥ मयूरपिच्छकैः कृप्तचूडामुज्ज्वलकुण्डलाम् । सव्यजङ्घान्त आदाय दक्षिणं चरणाम्बुजम् ॥ ५० भ्रमन्ती संपुटीकृत्य चारुहस्ताम्बुजद्वयम् । कक्षादेशविनिक्षिप्तवेणुं परिचलत्पुटीम् ॥ ५१ आनन्दयन्ती गोपीनां नयनानि मनांसि च । परमाश्चर्यरूपेण प्रविष्टां रङ्गमण्डपे ॥ प्रसूनवर्षेर्गोपीभिः पूर्यमाणां च सर्वतः। अथ कल्पान्तरे देहं त्यक्त्वा जाता इहाधुना ॥ यासां कर्णेषु दृश्यन्ते ताटङ्का रत्ननिर्मिताः । रत्नमाल्यानि कण्ठेषु रत्नपुष्पाणि वेणिषु ॥ ५४ मुनिः शुचिश्रवा नाम सुवर्णो नाम चापरः । कुशध्वजस्य ब्रह्मः पुत्रौ तौ वेदपारगौ ॥ ५५ ऊर्ध्वपादौ तपो घोरं तेपतुस्त्र्यक्षरं मनु । ही हमें इति कृत्वैव जपन्तौ यतमानसौ ॥ * एतचिह्नान्तर्गतः पाठः क, ख, म. च. छ, आ. ह. पुस्तकस्थः । + एतचिहान्सर्गतः पाठः क. ख. ङ. च. छ. पुस्तकस्थः १ ख. छ. ह. चण्डांशु। २ स. उ. च. छ. उ. 'स्विनः । चि। ३ म. कृष्णस्य । ४ स. ड. च. 7. दिवृत्तिशा। ५ अ. 'मेवास । ६ क. म. मुविश्रवा । ७ अ. म् । हं हं । ८ स. "समिति । ४७ ५२ ज.म.ह. - ५७ ५८ ७० ७२ द्विसप्ततितमोऽध्यायः ] पमपुराणम् । ध्यायन्तौ गोकुले कृष्णं बालकं दशवार्षिकम् । कंदर्पसमरूपेण तारुण्यललितेन च ॥ पश्यन्तीर्बजबिम्बोष्ठीर्मोहयन्तमनारतम् । तौ कल्पान्ते तनुं त्यक्त्वा लब्धवन्तौ जनुर्बजे ॥ सुवीरनामगोपस्य सुते परमशोभने । ययोर्हस्ते प्रदृश्यते सारिके शुभराविणी ॥ जटिलो जङ्घपूतश्च घृताशी कर्बुरेव च । चत्वारो मुनयो धन्या इहामुत्र च निःस्पृहाः ॥ ६० केवलेनैकभावेन प्रपना पल्लवपितिम् । तेपुस्ते सलिले मना जपन्तो मनुमुत्तमम् ॥ रमात्रयेण पुटितं स्मराधन्तदशाक्षरम् । दध्युश्च गाढभावेन बल्लवीभिर्वने वने ॥ भ्रमन्तं नृत्यगीताद्यैर्मानयन्तं मनोहरम् । चन्दनालिप्तसर्वाङ्गं जपापुष्पावतंसकम् ॥ कडारमालयाऽऽवीतं नीलपीतपटावृतम् । कल्पत्रयान्ते जातास्ते गोकुले शुभलक्षणाः॥ इमास्ताः पुरतो रम्या उपविष्टा नतभ्रवः । यासां भर्मकृतान्येव वलयानि प्रकोष्टके ।। ६५ विचित्राणि च रत्नायैर्दिव्यमुक्ताफलादिभिः । मुनिर्दीर्घतपा नाम व्यासोऽभूत्पूर्वकल्पके ॥ ६६ तत्पुत्रः शुक इत्येव ख्यातो मुनिवरः सुधीः । सोऽपि बालो महामाज्ञः सदैवानुस्मरन्पदम् ॥६७ विहाय पितृमात्रादि कृष्णं ध्यात्वा वनं गतः । स तत्र मानसैदिव्यैरुपचारैरहर्निशम् ।। ६८ अनाहारोऽर्चयद्विष्णुं गोपरूपिणमीश्वरम् । रमया पुटितं मन्त्र जपन्नष्टादशाक्षरम् ॥ ६९ दध्यौ परमभावेन हरि हैमतरोरधः । हैममण्डपिकायां च हेमसिंहासनोपरि ॥ आसीनं हेमहस्तात्रैर्दधान हैमवंशिकाम् । दक्षिणेन भ्रामयन्तं पाणिना हेमपङ्कजम् ।। ७१ हेमद्रवेण प्रियया परिकृप्ताङ्गचित्रकम् । हसन्तमतिहर्षेण पश्यन्तं च निजाश्रमम् ॥ हर्षाश्रुपूर्णः पुलकान्विताङ्गः प्रसीद नाथेति वदन्नथोच्चैः । दण्डप्रणामाय पपात भूमौ संवेपमानस्विजगद्विधातुः ।। तं भक्तिकामं पतितं धरण्यां मायासुतोऽस्मीति वदस्तमुच्चैः । उत्थापयामास भुजौ गृहीत्वा पस्पर्श हर्षोपचितेक्षणेन ॥ उवाच च पियारूपं लब्धवन्तं शुकं हरिः । त्वं मे प्रियतमा भद्रे सदा तिष्ठ ममान्तिके । ७५ मद्रूपं चिन्तयन्ती च प्रेमास्पदमुपागता । द्वे च मुख्यतमे गोप्यौ समानवयसी शुभे ॥ एकवते एकनिष्ठे एकनक्षत्रनामनी । तप्तजाम्बूनदप्रख्या तत्रैकाऽन्या तडित्मभा ॥ एका निद्रायमाणाक्षी परा सौम्यायतेक्षणा । सोऽर्चयत्परया भक्त्या ते हरेः सव्यदक्षिणे ॥७८ स कल्पान्ते तनुं त्यक्त्वा गोकुलेऽभून्महात्मनः । उपनन्दस्य दुहिता नीलोत्पलदलच्छविः॥७९ सेयं श्रीकृष्णवनिता पीतशाटीपरिच्छदा । रक्तचोलकया पूर्णशातकुम्भघटस्तनी ॥ दधार रक्तसिन्दूरं सर्वाङ्गस्यावगुण्ठिनी । स्वर्णकुण्डलविभ्राजद्गण्डदशा सुशोभना ॥ ८१ स्वर्णपङ्कजमालाढ्या कुङ्कमालिप्तसुस्तनी । यस्या हस्ते चर्वणीयं दृश्यते हरिणाऽर्पितम् ॥ ८२ वेणुवाद्यातिनिपुणा केशवस्यातितोषिणी । कृष्णेन परितुष्टेन कदाचिद्गानकर्मणि ॥ ८३ विन्यस्ता कम्बुकण्ठेऽस्या भाति गुञ्जावलिः शुभा। परोक्षे चापि कृष्णस्य कृष्णकान्ता स्मरार्दिता सखीभिर्वादयन्तीभिर्गायन्ती सुस्वरं परम् । नर्तयेत्प्रियवेषेण वेषयित्वा वधूमिमाम् ॥ ८५ वारं वारं च गोविन्दभावेनाऽऽलिङ्गय चुम्बति । प्रियाऽसौ सर्वगोपीनां कृष्णस्याप्यतिवल्लभा॥ श्वेतकेतोः सुतः कश्चिद्वेदवेदाङ्गपारगः । सर्वमेव परित्यज्य प्रचण्डस्त(त)प आस्थितः ॥ पुरारिसेवितपदा सुधामधुरवादिनीम् । गोविन्दस्य प्रियां शक्तिं ब्रह्मरुद्रादिदुर्गमाम् ।। १. मामिनी। २ क. छ. म. र. 'रनादि। ७४ ७६ ७७ ८० ८७ ८८ ८९ ९९ महामुनिश्रीव्यासप्रणीतं- [ ४ पातालखण्डे- भजन्तीमेकभावेन श्रियमेव मनोहराम् । ध्यायञ्जजाप सततं मत्रमेकादशाक्षरम् ॥ हसितं सकलं कृत्वा बतमायेषु(?) योजयेत् । कान्त्यादिभिर्हसन्तीभिर्वासयत्यविभा(?)जगत् ॥ वसन्तेऽवमतेत्येवं मन्त्रार्थ चिन्तयेत्सदा । सोऽपि कल्पद्येनैव सिद्धोऽत्र जनिमाप्तवान् ॥ सेयं बालाऽवनेः पुत्री कृशाङ्गी कुड्मलस्तनी । मुक्तावलिलसत्कण्ठी शुद्धकौशेयवासिनी ॥ ९२ मुक्ताच्छुरितमञ्जीरकङ्कणाङ्गदमुद्रिकाम् । विभ्रती कुण्डले दिव्ये अमृतस्राविणी शुभे ॥ वृतकस्तूरिकावेणिमध्ये सिन्दूरबिन्दुवत् (कम्) । दधाना चित्रकं भाले सार्ध चन्दनचित्रकैः ॥९४ याऽसौ च दृश्यते शान्ता जपन्ती परमं पदम् । आसीचन्द्रप्रभो नाम राजार्षः प्रियदर्शनः॥ ९५ तस्य कृष्णप्रसादेन पुत्रोऽभून्मधुराकृतिः । चित्रध्वज इति ख्यातः कौमारावधिवैष्णवः ॥ ९६ स राजा स्वसुतं सौम्यं सुस्थिरं द्वादशाब्दिकम् । अदीक्षयविजान्मत्रं परमष्टादशाक्षरम् ॥ ९७ अभिपिच्यमानः शिशुमंत्रामृतमयैर्जलैः । तत्क्षणे भूपतिं प्रेम्णा नत्वोदश्रु प्रकल्पितः । ९८ तस्मिन्दिने स वै बालः शुचिवस्त्रधरः शुचिः । हारनपुरसूत्राद्यैरॅवेयाङ्गदकङ्कणैः ॥ विभूपितो हरेभक्तिमुपस्पृश्यामलाशयः । विष्णोरायतनं गत्वा स्थित्वैकाकी व्यचिन्तयत्॥१०० कथं भजामि तं कृष्णं मोहनं गोपयोषिताम् । विक्रीडन्तं सदा ताभिः कालिन्दीपुलिने वने १०१ इत्थमत्याकुलमतिश्चिन्तयन्नेव बालकः । अवाप परमां विद्या स्वमं च समपश्यत ॥ १०२ तस्मिन्नायतने आसीत्कृष्णप्रतिकृतिः शुभा । शिलामयी स्वर्णपीठे सर्वलक्षणलक्षिता ॥ १०३ साऽभूदिन्दीवरश्यामा स्निग्धा लावण्यशालिनी । त्रिभङ्गललिताकारा शिखण्डिपिच्छभूषणा । कूजयन्ती मुदा वेणुं काञ्चनीमधरेऽपिताम् । दक्षसव्यगताभ्यां च सुन्दरीभ्यां निषेविता ॥१०५ वर्धयन्ती तयोः कामं चुम्बनाश्लेषणादिभिः । दृष्ट्वा चित्रध्वजः कृष्णं तादृग्वेपविलासिनम् १०६ अवनम्य शिरस्तस्मै पुरो लजितमानसः । अथोवाच हरिदक्षपार्श्वगां प्रेयसी हसन् ॥ १०७ सलज्जां परमं चैनं स्वशरीरांशतां गतम् । निर्मायाऽऽत्मसमं दिव्यं युवतीरूपमद्भुतम् ॥ १०८ चिन्तयस्व शरीरेण ह्यभेदं मृगलोचने । अथो त्वदङ्गतेजोभिः स्पृष्टस्त्वदूपमाप्स्यति । १०९ ततः सा पद्मपत्राक्षी गत्वा चित्रध्वजान्तिकम् । मिजाङ्गकैस्तदङ्गानामभेदं ध्यायती(न्ती) स्थिता। अथास्यास्त्वङ्गतेजांसि तदङ्ग पर्यपूरयन् । स्तनयोर्कोतिषा जातौ पीनी चारुपयोधरौ ॥ १११ नितम्बज्योतिषा जातं श्रोणिबिम्ब मनोहरम् । कुन्तलज्योतिषा केशपाशोऽभूत्करयोः करौ११२ सर्वमेवं सुसंपन्नं भूपावासःस्रगादिकम् । कलासु कुशला जाता सौरभेनान्तरात्मनि ॥ ११३ दीपादीपमिवाऽऽलोक्य सुभगां भुवि कन्यकाम् । चित्रध्वजां त्रपाभङ्गी स्मितशोभा मनोहराम्॥ प्रेम्णा गृहीत्वा करयोः सा तामपहरन्मुदा । गोविन्दवामपार्श्वस्थां प्रेयसी परिरभ्य च ॥११५ उवाच तव दासीयं नाम चास्याश्च कारय । सेवां चास्यै वद प्रीत्या यथाभिरुचितां मियाम्११६ अथ चित्रकलेत्येतत्तन्नामाऽऽत्ममतेन सा । चकार चाऽऽह सेवार्थ धृत्वा चापि विपश्चिकाम् ११७ सदा त्वं निकटे तिष्ठ गायस्व विविधैः स्वरैः । गुणान्मत्पाणनाथस्य तवायं विहितो विधिः११८ अथ चित्रकला त्वाज्ञां गृहीत्वाऽऽनम्य माधवम् । तत्प्रेयस्याश्च चरणं गृहीत्वा पादयो रजः ॥ जगौ सुमधुरं गीतं तयोरानन्दकारणम् । अथ प्रीत्योपगूढा सा कृष्णेनाऽऽनन्दमूर्तिना ॥ १२० यावत्सुखाम्बुधौ पूर्णा तावदेवाप्रबुध्यत । चित्रध्वजो महाप्रेमविकलः संस्मरन्परम् ॥ १ अ. वसते । २ स. भे । वनकस्तूरिकापत्रम । ३. निषेव्यताम् ।
५९७ १२४ ७२ द्विसप्ततितमोऽध्यायः ] पद्मपुराणम् । तमेव परमानन्दं मुक्तकण्ठो रुरोद ह । तदारभ्य रुदन्नेव मुक्ताहारविहारकम् ॥ १२२ आभाषितोऽपि पित्राद्यैर्नैव वक्त्युत्तरं कचित् । मासमात्र गृहे स्थित्वा निशीथे कृष्णसंश्रयः१२३ निर्गत्यारण्यमचरत्तपो वै मुनिदुष्करम् । कल्पान्ते देहमुत्सृज्य तपसैव महामुनिः ॥ वीरगुप्ताभिधानस्य गोपस्य दुहिता शुभा । जाता चित्रकलेत्येव यस्याः स्कन्धे मनोहरा ॥१२५ विपञ्ची दृश्यते नित्यं सप्तस्वरविभूषिता । उपतिष्ठति वै वामे रत्नभृङ्गारमुत्तमम् ॥ १२६ दधाना दक्षिणे हस्ते सा वै रत्नपतगहम् । अयमासीत्पुरा सर्वतापसैरभिवन्दितः ॥ १२७ मुनिः पुण्यश्रवा नाम कश्यपः सर्वधर्मवित् । पिता तस्याभवच्छैवः शतरुद्रीयमन्वहम्(कैः)१२८ प्रस्तुवन्देवदेवेशं विश्वेशं भक्तवत्सलम् । तस्मै प्रसन्नो भगवान्पार्वत्या सह शंकरः ॥ १२९ चतुर्दश्यामधरात्रे प्रत्यक्षः प्रददौ वरम् । त्वत्पुत्रो भविता कृष्ण भक्तिमान्बाल एव हि ॥ १३० उपनीयाष्टमे वर्षे तस्मै सिद्धमनुस्त्वयम् । उपदिष्टै(शै)कविंशत्या यो मया ते निगद्यते ॥ १३१ विद्यागोपालनामाऽयं मत्रो वाक्सिद्धिदायकः । एतत्साधकजिहाग्रे लीलाचरितमद्भुताम्(ता) ॥ अनन्तमूर्तिरायाति स्वयमेव वरप्रदः(दा) । काममायारमाकण्ठसेन्द्रादामोदरोज्ज्वलाः ॥ १३३ मध्ये दशाक्षरं प्रोच्य पुनस्ता एव निर्दिशेत् । दशाक्षरोक्तऋष्यादिध्यानं चास्य ब्रवीम्यहम् ।।१३४ पूर्णामृतनिधर्मध्ये द्वीपं ज्योतिर्मयं स्मरेत् । कालिन्द्या वेष्टितं तत्र ध्याये वृ(ट्ट)न्दावनं वनम् १३५ सर्वतुकुसुमस्राविद्रुमवल्लीभिरावृतम् । नृत्यन्मत्तशिखिस्वानं गायत्कोकिलषट्पदम् ॥ तस्य मध्ये वसत्येकः पारिजाततरुर्महान् । शाखोपशाखाविस्तारैः शतयोजनमुच्छ्रितः ॥ १३७ तले तस्याथ विमले परितो धेनुमण्डलम् । तदन्तर्मण्डलं गोपबालानां वेणुशृङ्गिणाम् ॥ १३८ तदन्तरे तु रुचिरं मण्डलं व्रजमुभ्रुवाम् । नानोपायनपाणीनां मदविह्वलचेतसाम् ।। कृताञ्जलिपुटानां च मण्डलं शुक्लवाससाम् । शुक्लाभरणभूषाणां प्रेमविहलितात्मनाम् ॥ चिन्तयेच्छृतिकन्यानां गृह्नतीनां वचः प्रियम् । रत्नवेद्यां ततो ध्याये दु(हु)कूलावरणं हरिम् १४१ ऊरौ शयानं राधायाः कदलीकाण्डकोपरि । तद्वक्त्रं चन्द्रसुस्मेरं वीक्षमाणं मनोहरम् ॥ १४२ किंचित्कुचितवामाज्रिवेणुयुक्तेन पाणिना । वामेनाऽऽलिङ्ग्य दयितां दक्षिणं चिबुकं स्पृशन् । महामारकताभास मौक्तिकच्छायमेव च । पुण्डरीकविशालाक्षं पीतनिर्मलवाससम् ॥ १४४ बहभारलसच्छीर्ष मुक्ताहारमनोहरम् । गण्डमान्तलसच्चारुमकराकृतिकुण्डलम् ॥ आपादतुलसीमालं कङ्कणाङ्गदभूषणम् । नूपुरैर्मुर्दिकाभिश्च काच्या च परिमण्डितम् ॥ १४६ सुकुमारतनुं ध्यायेत्किशोरवयसान्वितम् । पूजा दशाक्षरोक्तैव वेदलक्ष पुरस्क्रिया ॥ १४७ इत्युक्त्वाऽन्तर्दधे देवो देवी च गिरिजा सती । मुनिरागत्य पुत्राय तथैवोपदिदेश ह ॥ १४८ पुण्यश्रवास्तु तन्मत्रग्रहणादेव केशवम् । वर्णयामास विविधैर्जित्वा सर्वान्मुनीन्स्वयम् ॥ १४९ रूपलावण्यवैदग्ध्यसौन्दर्याश्चर्यलक्षणम् । तदा हृष्टमना बालो निर्गत्य स्वगृहात्ततः ॥ १५० वायुभक्षस्तपस्तेपे कल्पानामयुतत्रयम् । तदन्ते गोकुले जाता नन्दभ्रातुहे स्वयम् ।। १५१ लवङ्गा इति तन्नाम कृष्णेगितनिरीक्षणा । यस्या हस्ते प्रदृश्येत मुखमार्जनयत्रकम् ।। इति ते कथिताः काश्चित्प्रधानाः कृष्णवल्लभाः॥ १५२ १४० १ स. 'कः । ज्ञात्वा साध । २ ख. 'म् । मुक्ताभ' । ३ अ. 'याम् ।।४ झ. °णे गीतिनि।
महामुनिश्रीव्यासमणीतं- [४ पातालखण्डे- हरिविविधरसाधैर्युक्तमध्यायमेत- ब(तं व्र) जवरतनयाभिश्चारुहासेक्षणाभिः । पठति य इह भक्त्या पाठयेद्वा मनुष्यो व्रजति भगवतः श्रीवासुदेवस्य धाम ।। १५३ ।। इति श्रीमहापुराणे पाने पातालखण्डे श्रीकृष्णमाहात्म्ये द्विसप्ततितमोऽध्यायः ॥ ४२ ॥ आदितः श्लोकानां समष्ट्यङ्काः-१५५२७ अथ त्रिसप्ततितमोऽध्यायः । ३ ६ ८ ९ ईश्वर उवाच- यत्त्वया पृष्टमाश्चर्य तन्मया भाषितं क्रमात् । यत्र मुह्यन्ति ब्रह्मायास्तत्र को वा न मुह्यति ॥ १ तथाऽपि ते प्रवक्ष्यामि यदुक्तं परमर्षिणा । महाराझेऽम्बरीषाय विष्णुभक्त्याऽन्विताय च ॥ २ बदर्याश्रममासाद्य समासीनं जितेन्द्रियम् । राजा प्रणम्य तुष्टाव विष्णुधर्मविवित्सया ॥ वेदव्यासं महाभागं सर्वज्ञं पुरुषोत्तमम् । मां त्वं संसारदुष्पारे परित्रातुमिहाहसि ॥ विषयेभ्यो विविक्तोऽस्मि नमस्तेभ्यो नमोऽखिलम् । यत्तत्पदमनुद्विग्नं सच्चिदानन्दविग्रहम् ॥ ५ परं ब्रह्मपराकाशमनाकाशमनामयम् । यत्साक्षात्कृत्य मुनयो भवाम्भोधि तरन्ति हि ॥ तत्राहं मनसो नित्यं कथं गतिमवामुयाम् ।। वेदव्यास उवाच- अतिगोप्यं त्वया पृष्टं यन्मया न शुकं प्रति । गदितं स्वसुखं किंतु त्वां वक्ष्यामि हरिप्रिय ॥ ७ आसीदिदं परं विश्वं यद्रूपं यत्मतिष्ठितम् । अव्याकृतमव्ययितं तदीश्वरमयं शृणु ॥ मया कृतं तपः पूर्व बहुवर्षसहस्रकम् । फलमूलपलाशाम्बुवाय्वाहारनिषेविणा ॥ ततो मामाह भगवान्स्वध्याननिरतं हरिः। कस्मिन्नर्थे चिकीर्षा ते विवित्सा वा महामते ॥ १० प्रसन्नोऽस्मि वृणुष्व त्वं वरं च वरदर्षभात् । मदर्शनान्तः संसार इति सत्यं ब्रवीमि ते ॥ ११ ततोऽहमब्रवं कृष्णं पुलकोत्फुल्लविग्रहः । त्वामहं द्रष्टुमिच्छामि चक्षु| मधुसूदन ॥ १२ यत्तत्सत्यं परं ब्रह्म जगज्ज्योतिर्जगत्पतिः । वदन्ति वेदशिरसश्चक्षुषं नाथ मेऽद्भुतम् ॥ १३ श्रीभगवानुवाच- ब्रह्मणैवं पुरा पृष्टः प्रार्थितश्च यथा पुरा । यदवोचमहं तस्मै तत्तुभ्यमपि कथ्यते ॥ १४ मामेके प्रकृति माहुः पुरुषं च तथेश्वरम् । धर्ममेके धनं चैके मोक्षमेकेऽकुतोभयम् ।। १५ शून्यमेके भावमेके शिवमेके सदाशिवम् । अपरे वेदशिरसि स्थितमेकं सनातनम् ॥ १६ सद्भावं विक्रियाहीनं सच्चिदानन्दविग्रहम् । पश्याध दर्शयिष्यामि स्वरूपं वेदगोपितम् ॥ १७ ततोऽपश्यमहं भूप बालं कालाम्बुदप्रभम् । गोपकन्यावृतं गोपं हसन्तं गोपबालकैः ॥ १८ कदम्बमूल आसीनं पीतवाससमद्भुतम् । वनं वृन्दावनं नाम नवपल्लवमण्डितम् ॥ कोकिलभ्रमरारावं मनोभवमनोहरम् । नदीमपश्यं कालिन्दीमिन्दीवरधरप्रभाम् ॥ गोवर्धनं तथाऽपश्यं कृष्णरामकरोवृतम् । महेन्द्रदर्पनाशाय गोगोपालसुखावहम् ॥ १स. 'के भव। १९ २० २१ २९ ७३ त्रिसप्ततितमोऽध्यायः ] पमपुराणम् । गोपालमबलासङ्गमुदितं वेणुवादिनम् । दृष्ट्वाऽतित्दृष्टो ह्यभवं सर्वभूषणभूषणम् ॥ २२ सतो मामाह भगवान्वृन्दावनचरः स्वयम् । यदिदं मे त्वया दृष्टं रूपं दिव्यं सनातनम् ॥ २३ निष्कलं निष्क्रिय शान्तं सच्चिदानन्दविग्रहम् । पूर्ण पद्मपलाशाक्षं नातः परतरं मम ।। २४ इदमेव वदन्त्येते वेदाः कारणकारणम् । सत्यं चापि परानन्दं चिद्धनं शाश्वतं शिवम् ।। नित्यं मे मथुरां विदि वनं वृन्दावनं तथा । यमुनां गोपकन्याश्च तथा गोपालबालकाः ॥ २६ ममावतारो नित्योऽयमत्र मा संशयं कृथाः । ममेष्टा हि सदा राधा सर्वज्ञोऽहं परात्परः ॥ २७ सर्वकामश्च सर्वेशः सर्वानन्दः परात्परः । मयि सर्वमिदं विश्व भाति मायाविजृम्भितम् ॥ २८ ततोऽहमब्रवं देवं जगत्कारणकारणे । काश्च गोप्यस्तु के गोपा वृक्षोऽयंकीदृशो मतः॥ वनं किं कोकिलाद्याश्च नदी केयं गिरिश्च कः । कोऽसौ वेणुर्महाभागो लोकानन्दैकभाजनम् ३० भगवानाह मां प्रीतः प्रसन्नवदनाम्बुजः । गोप्यस्तु श्रुतयो ज्ञेया ऋचो वै गोपकन्यकाः ॥ ३१ देवकन्याश्च राजेन्द्र तपोयुक्ता मुमुक्षवः । गोपाला मुनयः सर्वे वैकुण्ठानन्दमूर्तयः ॥ ३२ कल्पवृक्षः कदम्बोऽयं परानन्दैकभाजनम् । वन नन्दनकाख्यं हि महापातकनाशनम् ॥ सिद्धाश्च साध्या गन्धर्वाः कोकिलाद्या न संशयः । केचिदानन्दहृदयं(?)साक्षाद्यमुनया तनुम्(?) अनादिर्हरिदासोऽयं भूधरो नात्र संशयः । वेणुर्यः शृणु तं विप्रं तवापि विदितं तथा ॥ द्विज आसीच्छान्तमनास्तपःसत्यपरायणः । नाम्ना देवव्रतो दान्तः कर्मकाण्डविशारदः ॥ ३६ स वैष्णवजनत्रातमध्यवर्ती क्रियापरः । स कदाचन शुश्राव यज्ञे सोऽस्तीति भूपते ॥ ३७ तस्य गेहमथाभ्यागाविजो मद्तनिश्चयः । स मद्भक्तः कचित्पूजां तुलसीदलवारिणा ॥ कृतवांस्तगृहे किंचित्फलमूलं न्यवेदयत् । स्नानवारिफलं किंचित्तस्मै प्रीत्या ददौ सुधीः ॥ ३९ अश्रद्धया स्मितं कृत्वा सोऽप्यगृह्णाविजन्मनः । तेन पापेन संजातं वेणुत्वमतिदारुणम् ॥ ४० तेन पुण्येन तस्याथ मदीयप्रियतां गतः । अमुना सोऽपि राजेन्द्र केतुमानिव राजते । युगान्ते तद्विष्णुपरो भूत्वा ब्रह्मसमाप्स्यसि ।। अहो न जानन्ति नरा दुराशयाः पुरीं मदीयां परमां सनातनीम् । सुरेन्द्रनागेन्द्रमुनीन्द्रसंस्तुतां मनोरमां तां मथुरां सनातनीम् ।। काश्यादयो यद्यपि सन्ति पुर्यस्तासां तु मध्ये मथुरैव धन्या । यजन्ममौञ्जीव्रतमृत्युदाहेर्नृणां चतुर्धा विदधाति मुक्तिम् ।। यदा विशुद्धास्तपआदिना जनाः शुभाशया ध्यानधना निरन्तरम् । तदैव पश्यन्ति ममोत्तमा पुरी न चान्यथा कल्पशर्द्विजोत्तमाः ।। मथुरावासिनो धन्या मान्या अपि दिवौकसाम् । अगण्यमहिमानस्ते सर्व एव चतुर्भुजाः ॥ ४६ मथुरावासिनां ये तु दोषा नश्यन्ति मानवाः । सेषु दोषं न पश्यन्ति जन्ममृत्युसहस्रजम् ॥ ४७ अंधना अपि ते धन्या मथुरां ये स्मरन्ति ताम् । यत्र भूतेश्वरो देवो मोक्षदः पापिनामपि ॥४८ मम प्रियतमो नित्यं देवो भूतेश्वरः परः । यः कदापि मम प्रीत्यै न संत्यजति तां पुरीम् ॥४९ भूतेश्वरं यो न नमेन पूजयेन वा स्मरेद्दुश्चरितो मनुष्यः। नैनां स पश्येन्मथुरां मदीयां स्वयंप्रकाशां परदेवताख्याम् ॥ ४४ . १ अ. णम् । का। २ क. स. इ. च. छ. ड शेशोऽस्ती । ३ ज्ञ. 'न्ति धुर्य । ४ क. अधुना ।
- ६०० महामुनिश्रीव्यासपणीत- [४ पातालखण्डे- न कथं मयि भक्तिं स लभते पापपूरुषः । यो मदीयं परं भक्तं शिवं संपूजयेन हि ॥ ५१ मन्मायामोहितधियः प्रायस्ते मानवाधमाः । भूतेश्वरं न नमन्ति न स्मरन्ति स्तुवन्ति ये ॥ ५२ बालकोऽपि ध्रुवो यत्र ममाऽऽराधनतत्परः । पाप स्थानं परं शुद्धं यन युक्तं पितामहैः ॥ ५३ तां पुरीं प्राप्य मथुरा मदीयां सुरदुर्लभाम् । खञ्जो भूत्वाऽन्धको वाऽपि प्राणानेव परित्यजेत् ॥ वेदव्यास महाभाग मा कृथाः संशयं कचित् । रहस्यं वेदशिरसां यन्मया ते प्रकाशितम् ॥ ५५ इमं भगवता प्रोक्तमध्यायं यः पठेच्छुचिः । शृणुयाद्वाऽपि यो भक्त्या मुक्तिस्तस्यापि शाश्वती॥ इति श्रीमहापुराणे पाझे पातालखण्डे मथुरामाहात्म्यकथनं नाम त्रिसप्ततितमोऽध्यायः ॥ ७३ ॥ आदितः श्लोकानां समष्ट्यकाः-१५५८३ अथ चतुःसप्ततितमोऽध्यायः । ३ - ४ ये ५ ६ ईश्वर उवाच- एकदा रहसि श्रीमानुद्धवो भगवत्प्रियः । सनत्कुमारमेकान्ते ह्यपृच्छत्पार्षदः प्रभोः॥ यत्र क्रीडति गोविन्दो नित्यं नित्यसुरास्पदे । गोपाङ्गनाभिस्तत्स्थानं कुत्र वा कीदृशं परम् ॥२ तत्तत्क्रीडनवृत्तान्तमन्यद्यद्यत्तदद्भुतम् । ज्ञातं चेत्तव तत्कथ्यं स्नेहो मे यदि वर्तते ॥ सनत्कुमार उवाच- कदाचिद्यमुनाकूले कस्यापि च तरोस्तले । सुव्रतेनोपविष्टेन भगवत्पार्षदेन वै ।। इहानुभवस्तस्य पार्थेनापि महात्मना । दृष्टं कृतं च यद्यत्तत्प्रसङ्गात्कथितं मयि ॥ तत्तेऽहं कथयाम्येतच्छृणुष्वावहितः परम् । किं त्वेतद्यत्र कुत्रापि न प्रकाश्यं कदाचन ॥ अर्जुन उवाच- शंकरायैर्विरिश्च्याधैरदृष्टमश्रुतं च यत् । सर्वमेतत्कृपाम्भोधे कृपया कथय प्रभो ॥ किं त्वया कथितं पूर्वमाभीर्यस्तव वल्लभाः। तास्ताः कतिविधा देव कति वा संख्यया पुनः ८ नामानि कति वा तासां का वा कुत्र व्यवस्थिताः । तासां वा कति कर्माणि वयो वेषश्च कः प्रभो काभिः सार्धे क वा देव विहरिष्यसि भो रहः । नित्ये नित्यसुखे नित्यविभवे च वने वने १० तत्स्थानं कीदृशं कुत्र शाश्वतं परमं महत् । कृपा चेतादृशी तन्मे सर्व वक्तुामहाहसि ।। ११ यदपृष्टं मयाऽप्येवमज्ञातं यद्रहस्तव । आार्तिघ्न महाभाग तत्सर्व कथयिष्यास ॥ १२ श्रीभगवानुवाच- तत्स्थानं वल्लभास्ता मे विहारस्तादृशो मम । अपि पाणसमानानां सत्यं पुंसामगोचरम्(रः)॥१३ कथिते द्रष्टुमुत्कण्ठा तव वत्स भविष्यति । ब्रह्मादीनामदृश्यं यत्किं तदन्यजनस्य वै ॥ १४ तस्माद्विरम वत्सैत(त्सास्मा)कि नु तेन विना तव । एवं भगवतस्तस्य श्रुत्वा वाक्यं सुदारुणम्।। दीनः पादाम्बुजद्वंद्वे दण्डवत्पतितोऽर्जुनः । ततो विहस्य भगवान्दोामुत्थाप्य तं विभुः ।। १६ उवाच परमप्रेम्णा भक्ताय भक्तवत्सलः । तत्किं तत्कथनेनात्र द्रष्टव्यं चेत्त्वया हि यत् ॥ १७ यस्यां सर्व समुत्पन्नं यस्यामद्यापि तिष्ठति । लयमेष्यति तां देवीं श्रीमत्रिपुरसुन्दरीम् । १८ आराध्य परया भक्त्या तस्यै स्वं च निवेदय । तां विनैतत्पदं दातुं न शक्नोमि कदाचन ॥१९ श्रुत्वैतद्भगवद्वाक्यं पार्थो हर्षाकुलेक्षणः । श्रीमत्यान्त्रिपुरादेव्या ययौ श्रीपादुकातलम् ।। १ क, ङ. छ. . सुवृत्तेनों । २ स. य द्रहोऽनु । ३ रु. 'त्र तत्रा। २० २२ २३ २८ ७४ चतुःसप्तितमोऽध्यायः ] पद्मपुराणम् । तत्र गत्वा ददर्शनां श्रीचिन्तामणिवेदिकाम् । नानारत्नविरचितैः सोपानरतिशोभिताम् ॥ २१ तत्र कल्पतरु नानापुष्पैः फलभवैर्नतम् । सर्वर्तुकोमलदलैः स्रवन्माध्वीकशीकरैः ॥ वर्षद्भिर्वायुना लोलैः पल्लवैरुज्ज्वलीकृतम् । शुकैश्च कोकिलैश्चैव सारिकाभिः कपोतकैः ॥ लीलाचकोरकै रम्यैः पक्षिभिश्च निनादितम् । [ *यत्र गुञ्जन्ममृङ्गकोलाहलसमाकुलम् ॥ २४ मणिभिर्भास्वरैरुद्यद्दीप्यमानं मनोहरम् । श्रीरत्नमन्दिरं दिव्यं तले तस्य महाद्भुतम् ] ॥ रत्नसिंहासनं तत्र महाहैमाभिमोहनम् । तत्र बालार्कसंकाशां नानालंकारभूषिताम् ।। नवयौवनसंपन्ना सृणिपाशधनुःशरैः । राजच्चतुर्भुजलतां सुप्रसन्ना मनोहराम् ॥ ब्रह्मविष्णुमहेशादिकिरीटमणिरश्मिभिः । विराजितपदाम्भोजामणिमादिभिरावृताम् ॥ प्रसन्नवदनां देवीं वरदां भक्तवत्सलाम् । अर्जुनोऽहमिति ख्यातः प्रणम्य च पुनः पुनः ॥ २९ विहिताञ्जलिरेकान्ते स्थितो भक्तिभरान्वितः। सा तस्योपासितं ज्ञात्वा प्रसादं च कृपानिधेः ॥ उवाच कृपया देवी तत्तत्स्मरणविहला ॥ ३१ भगवत्युवाच- किं वा दानं त्वया वत्स कृतं पात्राय दुर्लभम् । इष्ट यज्ञेन केनात्र तपो वा किमनुष्ठितम् ॥ ३२ भगवत्यमला भक्तिः का वा पाक्समुपार्जिता। किं वाऽस्मिन्दुर्लभा लोके किंवा कर्म शुभं महत् ३३ प्रसादस्त्वयि येनायं प्रपन्ने च मुदा किल । गूढातिगूढश्वानन्यलभ्यो भगवता कृतः ॥ नैताहमर्त्यलोकानां न च भूतलवासिनाम् । स्वर्गिणां देवतादीनां तपस्वीश्वरयोगिनाम् ॥ ३५ भक्तानां नैव सर्वेषां नैव नैव च नैव च । प्रसादस्तु कृतो वत्स तव विश्वात्मना यथा ॥ ३६ तदेहि भज बुद्ध्वैव कुलकुण्डं सरो मम । सर्वकामप्रदा देवी त्वनया सह गम्यताम् ॥ तत्रैव विधिवत्स्नात्वा द्रुतमागम्यतामिह । तदैव तत्र गत्वाऽसौ स्नात्वा पार्थस्तथाऽऽगतः॥ ३८ आगतं तं कृतस्नानं न्यासमुद्रार्पणादिकम् । कारयित्वा ततो देव्या तस्य वै दक्षिणश्रुतौ ॥ ३९ सद्यःसिद्धिकरी बाला विद्या निगदिता परा । हकारार्धपरा/याऽद्वितीया विश्वभूपिता ॥ ४० अनुष्ठानं च पूजां च जपं च लक्षसंख्यकम् । कोरकैः करवीराणां प्रयोगं च यथातथम् ॥ ४१ निवर्त्य तमुवाचेदं कृपया परमेश्वरी । अनेनैव विधानेन क्रियता मदुपासनम् ॥ ततो मयि प्रसन्नायां तवानुग्रहकारणात् । सद्यस्तु कृष्णलीलायामधिकारो भविष्यति ॥ इत्ययं नियमः पूर्व स्वयं भगवता कृतः । श्रुत्वैवमर्जुनस्तेन वर्त्मना तो समर्चयत् ॥ ततः पूजा जपं चैव कृत्वा देवी प्रसादिता । कृत्वा ततः शुभं होमं स्नानं च विधिना ततः ४५ कृतकृत्यमिवाऽऽत्मानं प्राप्तपायमनोरथम् । करस्था सर्वसिद्धिं च स पार्थः सममन्यत ॥ अस्मिन्नवसरे देवी तमागत्य स्मितानना । उवाच गच्छ वत्स त्वमधुना तगृहान्तरे ॥ ततः ससंभ्रमः पार्थः समुत्थाय मुदाऽन्वितः । असंख्यहर्षपूर्णात्मा दण्डवत्तां ननाम ह ॥ ४८ आज्ञप्तस्तु तया सार्धं देवी (देव्या) वयस्ययाऽर्जुनः। गतो राधापतिस्थानं यत्सिद्धैरप्यगोचरम् ॥ ततश्च सदुपादिष्टो गोलोकादुपरिस्थितम् । स्थिरं वायुधृतं नित्यं सत्यं सर्वसुखास्पदम् ॥ ६० नित्यं वृन्दावनं नाम नित्यरासमहोत्सवम् । अपश्यत्परमं गुह्यं पूर्णप्रेमरसात्मकम् ॥ * एतचिहान्तर्गतः पाठः क, ख. च. छ. ज. स. स. प. त. थ. द. न. पुस्तकस्थः । १ झ. येराधियादती । ४२ ४७ ७६ ५७ ५८ ५९ महामुनिश्रीव्यासप्रणीतं- [४पातालखण्डे-- तस्या हि वचनादिव्यलोचनैर्वीक्ष्य तद्रहः । विवशः पतितस्तत्र विवृद्धः प्रेमविहलः ॥ ततः कृच्छ्राल्लब्धसंज्ञो दोभ्या॑मुत्थापितस्तया । सान्त्वनैर्वचनैस्तस्याः कथंचित्स्थैर्यमागतः ५३ ततस्ततः किमन्यन्मे कर्तव्यं विद्यते वद । इति तद्दर्शनोत्कण्ठाभरेण तरलोऽभवत् ।। ततस्तया करे तस्य धृत्वा तत्पददक्षिणे । प्रतिपेदे सुदेशेन गत्वा चोक्तमिदं वचः ।। स्नानायैतच्छुभं पार्थ विश त्वं जलविस्तरम् । सहस्रदलपग्रस्य संस्थानं मध्यकोरकम् ॥ ५६ चतुःसरश्चतुरमाश्चर्यकुलसंकुलम् । अस्यान्तरे प्रविश्याथ विशेषमिह पश्यसि ॥ एतस्य दक्षिणे देश एष चात्र सरोवरः । मधुमाध्वीकपानं यनान्ना मलयनिर्झरः ॥ एतच्च फुल्लमुद्यानं वसन्ते मदनोत्सवम् । कुरुते यत्र गोविन्दो वसन्तकुसुमोचितम् ॥ यत्रावतारं कृष्णस्य स्तुवन्ते(न्त्ये)व दिवानिशम् । भवेद्यस्मरणादेव मुनेः स्वान्ते स्मराङ्कुरः॥ ततोऽस्मिन्सरसि स्नात्वा गत्वा पूर्वसरस्तटम् । उपस्पृश्य जलं तस्य साधयस्व मनोरथम् ।। ६१ ततस्तद्वचनं श्रुत्वा तस्मिन्सरसि तज्जले । कडारकुमुदाम्भोजरक्तनीलोत्पलच्युतैः ।। ६२ परागै रञ्जिते मझुवासिते मधुबिन्दुभिः । तुन्दिले कलहंसादिनादैरान्दोलिते ततः ।। रत्नाबद्धचतुस्तीरे मन्दानिलतरङ्गिते । मने जलान्त(न्तः) पार्थे तु तत्रैवान्तर्दधेऽथ सा॥ ६४ उत्थाय परितो वीक्ष्य संभ्रान्तां चासहायिनीम् । सद्यः शुद्धस्वर्णरश्मिगौरकान्ततनूलताम् ६५ स्फुरकिशोरवर्षीयां शारदेन्दुनिभाननाम् । सुनीलकुटिलस्निग्धविलसद्रत्नकुण्डलाम् ॥ ६६ सिन्दूरविन्दुकिरणपोज्ज्वलालकपट्टिकाम् । उन्मीलझूलताभङ्गीजितस्मरशरासनाम् ॥ ६७ घनश्यामलसल्लोलखेलल्लोचनखञ्जनाम् । मणिकुण्डलतेजोशुविस्फुरद्गण्डमण्डलाम् ।। ६८ मृणालकोमलभ्राजदाश्चर्यभुजवल्लरीम् । शरदम्बुरुहां सर्वश्रीचौरपाणिपल्लवाम् ।। ६९ विदग्धरचितस्वर्णकटिसूत्रकृतान्तराम् । कूजत्काञ्चीकलापातिविभ्राजजघनस्थलाम् ॥ भ्राजहुकूलसंवीतनितम्बोरुसुमण्डलाम् । शिञ्जानम मञ्जीरसुचारुपदपङ्कजाम् ॥ स्फुरद्विविधकंदर्पकलाकौशलशालिनीम् । सर्वलक्षणसंपन्नां सर्वाभरणभूषिताम् ।। आश्चर्यललनाश्रेष्ठामात्मानं च व्यलोकयत् । विसस्मार च यत्किंचित्पूर्वदेहिकमेव च ॥ मायया गोपिकाप्राणनाथस्य तदनन्तरम् । इतिकर्तव्यतामूढा तस्थौ तत्र सुविस्मिता ॥ अत्रान्तरेऽम्बरे धीरो ध्वनिराकस्मिकोऽभवत् । अनेनैव पथा सुभ्र गच्छ पूर्वसरोवरम् ॥ उपस्पृश्य जलं तस्य साधयस्व मनोरथम् । तत्र सन्ति हि सख्यस्ते मा सीद वरवणिनि ॥ ७६ ता हि संपादयिष्यन्ति तत्रैव वरमीप्सितम् । इति दैवीं गिरं श्रुत्वा गत्वा पूर्वसरोऽथ सा ॥७७ नानापूर्वप्रवाहं च नानापक्षिसमाकुलम् । स्फुरत्कैरवकहलारकमलेन्दीवरादिभिः ॥ भ्राजितं पद्मरागैश्च पद्मसोपानसत्तटम् । विविधैः कुसुमोदाममञ्जुकुञ्जलतानुमैः ॥ विराजितचतुस्तीरमुपस्पृश्य स्थिता क्षणम् । तत्रान्तरे कणकाश्चिम मञ्जीररञ्जितम् ।। कङ्कणानां झणत्कारं शुश्रावोत्कर्णसंपुटे । ततश्च प्रमदान्दमाश्चर्ययुतयौवनम् ॥ आश्चर्यालंकृतिन्यासमाश्चर्याकृतिभाषितम् । अमृताङ्गमपूर्व सा पृथगाश्चर्यविभ्रमम् ॥ चित्रसंभाषणं चित्रहसितालोकनादिकम् । मधुराद्भुतलावण्यं सर्वमाधुर्यसेवितम् ॥ चित्रलास्यगतानन्तमाश्चर्यकुलसुन्दरम् । आश्चर्यस्निग्धसौन्दर्यमाश्चर्यानुग्रहादिकम् ॥ सर्वाश्चर्यसमुदयमाश्चर्यालोकनादिकम् । दृष्ट्वा तत्परमाश्चर्य चिन्तयन्ती हृदा कियत् ॥ ११. स्मरणार्कु । २ अ. भङ्गिजि । ३ स. 'मन्दुराम् । अ. 'मन्दिराम् । ७१ ७२ ७४ ७५ ७८ ८० ८१ ८२ ८३ ८४ ८८ ९८ ७४ चतुःसप्ततितमोऽध्यायः ] पद्मपुराणम् । पादाङ्गुष्ठेनाऽऽलिखन्ती भुवं नम्रानना स्थिता । ततस्तासां संभ्रमोऽभूदृष्टीनां च परस्परम् ८६ केयं मदीयजातीया चिरेण न्यस्तकौतुका । इति सर्वाः समालोक्य ज्ञातव्येयमिति क्षणम् ॥ ८७ आमच्य मन्त्रणाभिज्ञाः कौतुकाद्रष्टुमागताः । आगत्य तासामेकाऽथ नाना मियमुदा मता ॥ गिरा मधुरया प्रीत्या तामुवाच मनस्विनी ॥ प्रियमुदोवाच- कासि त्वं कस्य कन्याऽसि कस्य त्वं प्राणवल्लभा।जाता कुत्रासि केनास्मिन्नानीता वाऽऽगता स्वयम् एतञ्च सर्वमस्माकं कथ्यतां चिन्तया किमु । स्थानेऽस्मिन्परमानन्दे कस्यापि दुःखमस्ति किम् ९० इति पृष्टा तया सा तु विनयावनतिं गता। उवाच सुस्वरं तासां मोहयन्नी मनांसि च ॥ ९१ अर्जुन उवाच- का वाऽस्मि कस्य वा कन्या प्रजाता कस्य वल्लभा। आनीता केन वा चात्र किंवाऽथ स्वयमागता एतत्किचिन्न जानामि देवी जानाति तत्पुनः । कथितं श्रूयतां तन्मे मद्वाक्ये प्रत्ययो यदि ।।९१ अस्यैव दक्षिणे पार्वे एकमस्ति सरोवरम् । तत्राहं स्नातुमायाता जाता तत्रैव संस्थिता ॥ ९४ विषमोत्कण्ठिता पश्चात्पश्यन्ती परितो दिशम् । एकमाकाशसंभूतं ध्वनिमश्रौपमद्भुतम् ।। अनेनैव पथा सुभ्र गच्छ पूर्वसरोवरम् । उपस्पृश्य जलं तस्य साधयस्व मनोरथम् ॥ तत्र सन्ति हि सख्यस्ते मा सीद वरवणिनि । ता हि संपादयिष्यन्ति तत्र ते वरमीप्सितम्॥९७ इत्याकर्ण्य वचस्तस्य तस्मादत्र समागता । विषादहर्षपूर्णात्मा चिन्ताकुलसमाकुला ॥ आगताऽस्य जलं स्पृष्ट्वा नानाविधशुभध्वनिम् । अौषं च ततः पश्चादपश्यं भवतीः पराः ९९ एतन्मात्रं विजानामि कायेन मनसा गिरा। एतदेव मया देव्यः कथितं यदि रोचते ॥ का यूयं तनुजाः केषांक जाताः कस्य वल्लभाः। तच्छुत्वा वचनं तस्याः सा वै प्रियमुदाऽब्रवीत् १०१ प्रियमुदोवाच- अस्त्वेवं माणसंख्यः स्म तस्यैव च वयं शुभे । वृन्दावनकलानाथविहारदारिकाः शुभम् १०२ ता आत्ममुदितास्तेन ब्रजबाला इहाऽऽगताः। एताः भुतिगणाः ख्याता एताश्व मुनयस्तथा १०३ वयं बल्लवबाला हि कथितास्ते स्वरूपतः । अत्र राधापतेरणात्पूर्वा याः प्रेयसीतमाः ।। १०४ नित्या नित्यविहारिण्यो नित्यकेलिभुवश्वराः । एषा पूर्णरसा देवी एषा च रसमन्थरा ॥ १०५ एषा रसालया नाम एपा च रसवल्लरी । रसपीयूषधारेयमेषा रसतरङ्गिणी ॥ रसकल्लोलिनी चैषा इयं च रसवापिका । अनङ्गसेना एषैव इयं चानङ्गमालिनी ॥ १०७ मदयन्ती हीयं बाला चैषा च रसविहला । इयं च ललिता नाम इयं ललितयौवना ॥ १०८ अनङ्गकुसुमा चैषा इयं मदनमञ्जरी । एषा कलावती नाम इयं रतिकला स्मृता ॥ इयं कामकला नाम त्वियं हि कामदायिनी। रतलोला त्वियं बाला चेयं बाला रतोत्सुका ११० एषा च रतिसर्वस्वा रतिचिन्तामणिस्वसौ । नित्यानन्दा काचिदेषा नित्यप्रेमरसपदा ॥ १११ अतः परं श्रुतिगणास्तासां काश्चिदिमाः शृणु। उद्गीतैषा सुगीतेयं [*कलगीता त्वियं प्रिया ११२ ११३ एषा कलसुराख्याता बालेयं कलकण्ठिका । विपश्चीयं क्रमपदा ह्येषा बहुहुता मता ॥ * एतचिहान्तर्गतः पाठः क. ख. उ. च. छ. अ. र. पुस्तकस्थः । १ झ. सख्यस्य त" । २ क. ख. ङ. च. छ. अ. द. सुखम् । ३ ख. लापहारतः । ए।
महामुनिश्रीव्यासप्रणीतं- [४ पातालखण्डे एषा बहुप्रयोगेयं ] ख्याता बहुकलाऽबला । इयं कलावती ख्याता मता चैषा क्रियावती ११४ अतः परं मुनिगणास्तासां कतिपया इह । इयमुग्रतपा नाम एषा बहुगुणा स्मृता । १२५ एषा प्रियव्रता नाम सुव्रता च इयं मता । सुरेखेयं मता बाला सुपर्वेयं बहुपदा ।। ११६ रत्नरेखा त्वियं ख्याता मणिग्रीवा ह्यसौ मता । सुपर्णा चेयमाकल्पा सुकल्पा रत्नमालिका ११७ इयं सौदामिनी सुभ्र इयं च कामदायिनी । एषा च भोगदा ख्याता इयं विश्वमता सती११८ एषा च धारिणी धात्री सुमेधा कान्तिरप्यसौ । अपर्णैषा सुपर्णेयं मतैषा च सुलक्षणा ॥ ११९ सुदतीयं गुणवती चैषा सौकलिनी मता। एषा सुलोचना ख्याता त्वियं च सुमनाः स्मृता १२० अश्रुता च सुशीला च रतिसुखपदायिनी । अतः परं गोपवाला वयमत्राऽऽगतास्तु याः॥१२१ तासां च परिचीयन्तां काश्चिदम्बुरुहानने । असौ चन्द्रावली चन्द्रिकेयं चैषा शुभा मता॥१२२ एषा चन्द्रावली चन्द्ररेखेयं चन्द्रिकाऽप्यसौ । एषा ख्याता चन्द्रमाला मता चन्द्रावली त्वियम्॥ एषा चन्द्रप्रभा चन्द्रकलेयमैबला स्मृता । एषा वर्णावली वर्णमालेयं मणिमालिका ॥ १२४ मैत्रीय नवमत्रीयमसौ सेफालिका शुभा । वर्णप्रभा समाख्याता सुप्रभेयं मणिप्रभा ॥ १२५ इयं हारावली तारामालिनीयं शुभा मता । मालतीयमियं यूथी वासन्ती नवमल्लिका ॥ १२६ सौगन्धिकेयं कस्तूरी पद्मिनीयं कुमुदती । एषैव हि रसोल्लासा चित्रवृन्दासमा त्वियम् ॥ १२७ रम्भेयमुर्वशी चैपा सुरेखा स्वर्णरेखिका । एषा काश्चरमालेयं सतसंततिका परा ॥ १२८ एताः परिकृताः सर्वाः परिचेयाः परा अपि । सहिताऽस्माभिरेताभिर्विहरिष्यसि भामिनि ॥ एहि पूर्वसरस्तीरे तत्र त्वां विधिवत्सखि । नापयित्वाऽथ दास्यामि मनं सिद्धिप्रदायकम् १३० इति तां सहसा नीत्वा स्नापयित्वा विधानतः । वृन्दावनकलानाथप्रेयस्या मनमुत्तमम् ॥ १११ प्राहयामास संक्षेपाहीक्षाविधिपुरःसरम् । परं वरुणबीजस्य वह्निवीजपुरस्कृतम् ।। चतुर्थस्वरसंयुक्तं नादविन्दुविभूषितम् । पुटितं प्रणवाभ्यां च त्रैलोक्ये चातिदुर्लभम् ॥ १३३ मत्रग्रहणमात्रेण सर्वसिद्धिः प्रजायते । पुरश्चर्याविधिर्ध्यानं होमं संख्या जपस्य च ॥ १३४ तप्तकाञ्चनगौराणी नानालंकारभूषिताम् । आश्चर्यरूपलावण्यां सुप्रसन्नां वरप्रदाम् ।। १३५ कहलारैः करवीराद्यैश्चम्पकैः सरसीरुहैः । सुगन्धिकुसुमैरन्यैः सौगन्धिकसमन्वितैः ।। पाद्यार्थ्याचमनीयैश्च धूपदीपैर्मनोहरैः । नैवेविविधैर्दिव्यैः सखिन्दाहृतैर्मुदा ॥ १२७ संपूज्य विधिवद्देवीं जप्त्वा लक्षमिदं ततः। हुत्वा च विधिना स्तुत्वा प्रणम्य दण्डवद्भुवि १३८ ततः सा संस्तुता देवी निमेषरहितान्तरा । परिकल्प्य निजां छायां मायया तत्समीहया ॥१३९ पार्वेऽथ प्रेयसी तत्र स्थापयित्वा बलादिव । सखीभिरावृता दृष्टा शुद्धैः पूजाजपादिभिः १४० स्तवैभक्त्या प्रणामैश्च कृपयाऽऽविरभूत्तदा । हेमचम्पकवर्णाभा विचित्राभरणोज्ज्वला ॥ १४१ अङ्गप्रत्यङ्गलावण्यलालित्यमधुराकृतिः । निष्कलङ्कशरत्पूर्णकलानाथशुभानना ॥ १४२ स्निग्धमुग्धस्मितालोकजगत्रयमनोहरा । निजया प्रभयाऽत्यन्तं द्योतयन्ती दिशो दश ॥ अब्रवीदपि सा देवी वरदा भक्तवत्सला ॥ देव्युवाच- मत्सखीनां वचः सत्यं तेन त्वं मे प्रिया सखि । समुत्तिष्ठ समागच्छ कामं ते साधयाम्यहम्१४४ .. १३. मचला । २ क. स. उ. प. छ. अ... मल्लीयं नवमलीय ।
७४ चतुःसप्ततितमोऽध्यायः] पपपुराणम् । ६०५ अर्जुनी सा वचो देव्याः श्रुत्वा चाऽऽत्ममनीषितम् । पुलकोकुलमुग्धाङ्गी बाष्पाकुलविलोचना ।। पपात चरणे देव्याः पुनश्च प्रेमविहला । ततः प्रियंवदां देवीं (वी) समुवाच सखीमिमाम् १४६ देव्युवाच- पाणी गृहीत्वा मत्सरे समाश्वास्य समानय । ततः प्रियंवदा देव्या आज्ञया जातसंभ्रमा।।१४७ तां तथैव समादाय सङ्गे देव्या जगाम ह । गत्वोत्तरसरस्तीरे नापयित्वा विधानतः ॥ १४८ संकल्पादिकपूर्व तु पूजयित्वा यथाविधि । श्रीगोकुलकलानाथं मनं तच्च सुसिद्धिदम् ॥ १४९ ग्राहयामास तां देवी कृपया हरिवल्लभा । व्रतं गोकुलनाथाख्यं पूर्व मोहनभूषितम् ।। १५० सर्वसिद्धिप्रदं मन्त्रं सर्वतश्रेषु गोपितम् । गोविन्दगीतविज्ञाऽसौ ददौ भक्तिमचञ्चलाम् ॥ १५१ ध्यानं च कथितं तस्यै मत्रराजं च मोहनम् । उक्तं च मोहने तत्रे स्मृतिरप्यस्य सिद्धिदा १५२ नीलोत्पलदलश्यामं नानालंकारभूषितम् । कोटिकंदर्पलावण्यं ध्यायेद्रासरसाकुलम् ॥ प्रियंवदामुवाचेदं रहःसंपादनेच्छया । १५३ राधिकोवाच- अस्या यावद्भवेत्पूर्ण पुरश्चरणमुत्तमम् । तावदि पालयैना त्वं सावधाना सहालिभिः ॥ इत्युक्त्वा सा ययौ कृष्णपादाम्बुरुहसंनिधिम् ॥ छायामात्मभवामात्मप्रेयसीनां निधाय च । तस्थौ तत्र यथापूर्व राधिका कृष्णवल्लभा ॥ १५५ अन प्रियंवदादेशात्पद्ममष्टदलं शुभम् । गोरोचनाभिनिर्माय कुड्कमेनापि चन्दनैः ॥ एभिर्नानाविधैर्द्रव्यैः संमित्रैः सिद्धिदायकम् । लिखित्वा यत्रराजं च शुद्धं मनं तमद्भुतम् ॥ कृत्वा न्यासादिकं चायं पायं चापि यथाविधि । नानतुसंभवैः पुष्पैः कुङ्कुमैरपि चन्दनैः १५८ धूपदीपैश्च नैवेद्यैस्ताम्बूलैर्मुखवासनैः । वासोलंकारमाल्यैश्च संपूज्य नन्दनन्दनम् ॥ १५९ परिवारैः समं सर्वैः सायुधं च सवाहनम् । स्तुत्वा प्रणम्य विधिवच्चेतसा स्मरणं ययौ ॥ १६० ततो भक्तिवशो देवो यशोदानन्दनः प्रभुः । स्मिताबलोकितापाङ्गतरङ्गिततरङ्गितम् ॥ उवाच राधिका देवी तामानय इहाऽऽशु च । आज्ञप्ता चैव सा देवी प्रस्थाप्य शारदा सखीम्॥ तामानिनाय सहसा पुरो वा सरसात्मनः । श्रीकृष्णस्य पुरस्तात्सा समेत्य प्रेमविवला ॥ १६३ पपात काश्चनी भूत्वा पश्यन्ती सर्वमद्भुतम् । कृच्छात्कथंचिदुत्थाय शनैरुन्मील्य लोचने १६४ स्वेदाश्रुपुलकोत्कम्पभावभाराकुला सती । ददर्श प्रथमं तत्र स्थलं चित्रं मनोरमम् ।। ततः कल्पतरुस्तत्र लसन्मरकतच्छदः । प्रवालपल्लवैर्युक्तः कोमलो हेमदण्डकः ॥ १६६ स्फटिकमवालमूलश्च कामदः कोमसंपदाम् । प्रार्थकाभीष्टफलदस्तस्यायो रत्नमन्दिरम् ॥ १६७ रत्नसिंहासनं तत्र तत्राष्टदलपद्मकम् । शापद्मनिधी तत्र सव्यापसव्यसंस्थितौ ॥ १६८ चतुर्दिक्षु यथास्थानं सहिता(संस्थिताः) कामधेनवः । परितो नन्दनोद्यानं मलयानिलसेवितम् ।। ऋतूनां चैव सर्वेषां कुसुमानां मनोहरैः। आमोदैर्वासितं सर्व कालागुरुपराजितम् ॥ मकरन्दकणादृष्टिशीतलं सुमनोहरम् । मकरन्दरसास्वादमत्तानां भृङ्गयोषिताम् ॥ वृन्दशो झंकृतैः शश्वचैवं मुखरितान्तरम् । कलकण्ठीकपोतानां सारिकाशुकयोषिताम् ॥ १७२ १ . छ. उ. काङ्कुरमु। २ म. नाथम। ३ क. अ, 'यकैः । लि । ४ ख. र. च. छ. र. भूमौ । ५. स. काम- संभवः ।
१७७ ॥ महामुनिश्रीव्यासप्रणीत- [४ पातालखण्डे- अन्यासा पत्रिकान्तानां कलनादैनिनादितम् । नृत्यैर्मसमयूराणामाकुलं स्मरवर्धनम् ॥ १७३ रसाम्बुसेकसंसृष्टतमाञ्जनतनुश्रुतिम् । सुस्निग्धनीलकुटिलकषायवासिकुन्तलम् ।। १७४ मदमत्तमयूरायशिखण्डाबद्धचूडकम् । भृङ्गसेवितसव्योपक्रमपुष्पावतंसकम् ॥ १७२ लोलालकालिविलसत्कपोलादर्शकाशिनम् । विचित्रतिलकोदामभालशोभाविराजितम् ॥ १७६ तिलपुष्पपतङ्गेशचञ्चमञ्जुलनासिकम् । चारुबिम्बाधरं मन्दस्मितदीपितमन्मथम् ॥ वन्यप्रसूनसंकाशं ग्रैवेयकमनोहरम् । मदोन्मत्तभ्रमभृङ्गीसहस्रकृतसेवया ॥ १७८ मुरद्रुमस्रजा राजन्मुग्धपीनांसकद्वयम् । मुक्ताहारस्फुरद्वक्षःस्थलकौस्तुभभूषितम् ॥ १७९ श्रीवत्सलक्षणं जानुलम्बिबाहुमनोहरम् । गम्भीरनाभिपश्चास्यमध्यमध्यातिसुन्दरम् ॥ १८० सुजातद्रुमसवृत्तमदूरजानुमैजुलम् । कङ्कणाङ्गदमञ्जीरभूषितं भूषणैः परैः ।। १८१ पीतांशुकलयाऽऽविष्टनितम्बथ(त)टनायकम् । लावण्यैरपि सौन्दर्यजितकोटिमनोभवम् ॥ १८२ वेणुप्रवर्तितैर्गीतरागैरपि मनोहरैः । मोहयन्तं सुखाम्भोधौ मज्जयन्तं जगत्रयम् ।। १८३ प्रत्यङ्गमदनावेशधरं रासरसालसम् । चामरं व्यजनं माल्यं गन्धं चन्दनमेव च ॥ १८४ ताम्बूलं दर्पणं पानपात्रं चार्चितपात्रकम् । अन्यत्क्रीडाभवं यच्च तत्सर्वं च पृथक्पृथक् ॥ १८५ रसालं विविधं यत्रं कलयन्तीभिरादरात् । यथास्थाननियुक्ताभिः पश्यन्तीभिस्तदिङ्गितम् १८६ तन्मुखाम्भोजदत्ताक्षिचञ्चलाभिरनुक्रमात् । श्रीमत्या राधिकादेव्या वामभागे ससंभ्रमम् ॥१८७ आराधयन्त्या ताम्बूलमर्पयन्त्या शुचिस्मितम् । समालोक्यार्जुनी याऽसौ मदनावेशविहला १८८ ततस्तां च तथा ज्ञात्वा हृषीकेशोऽपि सर्ववित् । तस्याः पाणिं गृहीत्वैव सर्वक्रीडावनान्तरे१८९ यथाकामरुहो रेमे महायोगेश्वरो विभुः । ततस्तस्याः स्कन्धदेशे प्रदत्तभुजपल्लवः ॥ १९० आगत्य शारदां प्राह पश्चिमेऽस्मिन्सरोवरे । शीघ्र स्नापय तन्वनी क्रीडाश्रान्तां मृदुस्मिताम् ॥ ततस्तां शारदादेवी तस्मिन्क्रीडासरोवरे । स्नानं कुर्वित्युवाचैनां सा च श्रान्ता तथाऽकरोत् ॥ जलाभ्यन्तरमाप्ताऽसौ पुनरर्जुनतां गतः । उत्तस्थौ यत्र देवेशः श्रीमद्वैकुण्ठनायकः ॥ दृष्ट्वा तमर्जुनं कृष्णो विषण्णं भग्नमा सम् । मायया पाणिना स्पृष्ट्वा प्रकृतं विदधे पुनः ॥ १९४ श्रीकृष्ण उवाच- धनंजय त्वामाशंसे भवान्प्रियसखो मम । त्वत्समो नास्ति मे कोऽपि रहोवित्तु जगत्रये १९५ यद्रहस्यं त्वयों पृष्टमनुभूतं च यत्पुनः । कथ्यते यदि तत्कस्मै शपसे मां तदाऽर्जुन ॥ १९६ सनत्कुमार उवाच- इति प्रसादमासाद्य शपथैर्जातनिर्णयः । ययौ हृष्टमनास्तस्मात्स्वधामाद्भुतसंस्मृतिः ॥ १९७ इति ते कथितं सर्व रहो यगोचरं मम । गोविन्दस्य तथा चा(न्य)स्मै कथने शपथस्तव ॥ १९८ ईश्वर उवाच- इति श्रुत्वा वचस्तस्य सिद्धिमौपगविर्गतः । नरनारायणावासे वृन्दारण्यमुपावजत् ॥ तत्राऽऽस्तेऽद्यापि कृष्णस्य नित्यलीलाविहारवित् । नारदेनापि पृष्टोऽहं नाब्रवं तद्रहस्यकम्२०० प्राप्तं तथाऽपि तेनेदं प्रकृतित्वमुपेत्य च । तुभ्यं यत्तु मया प्रोक्तं रहस्यं स्नेहकारणात् ॥ २०१ १९९ १ म. कानप्रै । २ म. मण्डल। ३ अ. चर्वितपा'। ४ स. नसः । मा” । ५ ख. र. च. छ. ड. 'य रष्ट ।
७५ पञ्चसप्ततितमोऽध्यायः ] पद्मपुराणम् । ६०७ तम कस्मैचिदाख्येयं त्वया भद्रे स्वयोनिवत् । इति श्रीभगवद्भक्तमहिमाध्यायमद्भुतम् ॥ यः पठेच्छृणुयाद्वाऽपि स रतिं विन्दते हरौ । इति श्रीमहापुराणे पाझे पातालखण्डेऽर्जुन्यनुनयो नाम चतुःसप्ततितमोऽध्यायः ॥ ४ ॥ आदितः श्लोकानां समष्टयङ्काः-१५७८५ २०२ अथ पञ्चसप्ततितमोऽध्यायः । - ५ ६ ८ पार्वत्युवाच- वृन्दावनरहस्यं च बहुधा कथितं प्रभो । केन पुण्यविशेषेण नारदः प्रकृतिं गतः ॥ ईश्वर उवाच- एकदाऽऽश्चर्यवृत्तान्तं मया जिज्ञासितं पुरा । ब्रह्मणा कथितं गुह्यं श्रुतं कृष्णमुखाम्बुजात् ॥ २ नारदः पृष्टवान्मह्यं तदाऽहं प्रोक्तवानिदम् । अहं वक्तुं न शक्नोमि तन्माहात्म्यं कथंचन॥ किं कुर्वे शपनं तस्य स्मृत्वा सीदामि मानसे । इति श्रुत्वा वचो मां दुर्मनाः सोऽभवद्यदा ॥ ४ तदा ब्रह्माणमाहूय ह्यहमादिष्टवान्प्रिये । त्वया यत्कथितं मह्यं नारदाय वदस्व तत् ।। ब्रह्मा तदा मम वचो निशम्य सहनारदः । जगाम कृष्णसविधं नत्वाऽपृच्छत्तदेव तु ॥ ब्रह्मोवाच- किमिदं द्वात्रिंशद्वनं वृन्दारण्यं विशां पते । श्रोतुमिच्छामि भगवन्यदि योग्योऽस्मि मे वद ॥ ७ श्रीभगवानुवाच- इदं वृन्दावनं रम्यं मम धामैककेवलम् । यत्र मे पशवः साक्षावृक्षाः कीटा नरामराः ॥ ये वसन्ति ममान्ते ते मृता यान्ति ममान्तिकम् । [*अत्र या गोपपत्न्यश्च निवसन्ति ममाऽऽलये योगिन्यस्तास्तु एवं हि मम देवाः परायणाः । पञ्चयोजनमेवं हि वनं मे देवरूपकम् ॥ कालिन्दीयं सुषुम्ना या परमामृतवाहिनी । यत्र देवाश्च भूतानि वर्तन्ते सूक्ष्मरूपतः ।। ११ सर्वतो व्यापकश्चाहं न त्यक्ष्यामि वनं कचित् । आविर्भावस्तिरोभावो भवेदत्र युगे युगे ॥ १२ तेजोमयमिदं स्थानमदृश्यं चर्मचक्षुषाम् । रहस्यं मे प्रभावस्य वृन्दावन(नं) युगे युगे । ब्रह्मादीनां सुराणां च न दृश्यं तत्कथंचन ॥ ईश्वर उवाच- तच्छ्रुत्वा नारदो नत्वा कृष्णं ब्रह्माणमेव च । आजगाम ह भूलॊके मिश्रकं नैमिषं वनम् ॥ १५ तत्रासौ सत्कृतश्चापि शौनकाद्यैर्मुनीश्वरैः । पृष्टश्चाप्यागतो ब्रह्मन्कुतस्त्वमधुना वद ॥ १६ तच्छ्रुत्वा नारदः प्राह गोलोकादागतो यहम् । श्रुत्वा कृष्णमुखाम्भोजादृन्दावनरहस्यकम् ॥१७ नारद उवाच- तत्र नानाविधाः प्रश्नाः कृताश्चैव पुनः पुनः । समस्ता मनवस्तत्र यागाश्चैव श्रुता मया ॥ १८ तानेव कथयिष्यामि यथामश्नं च तत्त्वतः ।। * एतचिहान्तर्गतः पाठः क. ख. ङ. च. छ. म. ड. पुस्तकस्थः । १ ङ, त्तदेव।
२० ६०८ महामुनिश्रीव्यासप्रणीतं- [४ पातालखण्डे- शौनक उवाच- वृन्दारण्यरहस्यं हि यदुक्तं ब्रह्मणा त्वयि । तदस्माकं समाचक्ष्व यद्यस्मासु कृपा तव ॥ नारद उवाच- कदाचिच्छरयूतीरे दृष्टोऽस्माभिश्च गौतमः । मनस्वी च महादुःखी चिन्ताकुलितचेतनः ॥ २१ मां दृष्ट्वा गौतमो देवः पपात धरणीतले । उत्तिष्ठ वत्स वत्सेति तमुवाचाहमेव हि ॥ कथं भवान्मनस्वीति प्रोच्यता यदि रोचते ॥ २२ गौतम उवाच- श्रुतं तव मुखादेव कृष्णतत्त्वं च तादृशम् । द्वारकाख्यं मथुराख्यं रहस्यं बहुशो मया ॥ वृन्दावनरहस्यं तु न श्रुतं त्वन्मुखाम्बुजात् । यतो मे मनसः स्थैर्य भविष्यति च सद्गुरो ॥ २४ नारद उवाच- इदं तु परमं गुह्यं रहस्यातिरहस्यकम् । पुरा मे ब्रह्मणा मोक्तं तादृग्वृन्दावनोद्भवम् ॥ २५ रहस्यं वद देवेश वृन्दारण्यस्य मे पितः । इति जिज्ञासितं श्रुत्वा क्षणं मौनी स चाभवत् २६ ततो माऽऽह महाविष्णुं गच्छ वत्स प्रभुं मम । मयाऽपि तत्र गन्तव्यं त्वया सह न संशयः २७ इत्युक्त्वा मां गृहीत्वा च गतो विष्णोश्च धामनि । महाविष्णौ च कथितं मयोक्तं यत्तदेव हि ॥ तच्छ्रुत्वा च महाविष्णुः वयंभुवमथाऽऽदिशत् । त्वमेवाऽऽदेशतो मह्यं नीत्वा वै नारदं मुनिम्। खानायैव नियुक्ष्वस्व सरस्यमृतसंज्ञके । महाविष्णुसमादिष्टः स्वयंभूर्मा तथाऽकरोत् ।। ३० तत्रामृतसरचाई प्रविश्य स्नानमाचरम् । तत्क्षणात्तत्सरःपारे योषितां सविधेऽभवम् ।। ३१ सर्वलक्षणसंपन्ना योषिपाऽतिविस्मिता । मां दृष्ट्वा ताः समायान्तीमपृच्छंश्च मुहुर्मुहुः ।। ३२ स्त्रिय ऊचुः- का त्वं कुतः समायाता कथयाऽऽत्मविचेष्टितम् । तासां प्रियकथाः श्रुत्वा मयोक्तं तन्निशामय३३ कुतः कोऽयं समायातः कथं वा योषिदाकृतिः। स्वमवदृश्यते सर्व किं वा मुग्धोऽस्मि भूतले ३४ तच्छ्रुत्वा मद्वचो देवी प्रोवाच मधुरस्वनैः । वृन्दानाम्नी पुरी चेयं कृष्णचन्द्रप्रिया सदा ॥ ३५ अहं सुललिता देवी तुर्यातीता च निष्कला । इत्युक्त्वा च महादेवी करुणासान्द्रमानसा ॥ ३६ मां प्रत्याह पुनर्देवी समागच्छ मया सह । अन्याश्च योषितः सर्वाः कृष्णपादपरायणाः ॥ ३७ ताश्च मां प्रवदन्त्येवं समागच्छानया सह । ततोऽनु कृष्णचन्द्रस्य चतुर्दशाक्षरो मनुः ॥ ३८ कृपया कथितस्तस्या देव्याश्चापि महात्मनः । तत्क्षणादेव तत्साम्यमलभं विविधोपमा ॥ ३९ ताभिः सह गतास्तत्र यत्र कृष्णः सनातनः । केवलं सच्चिदानन्दः स्वयं योषिन्मयः प्रभुः॥४० योषिदानन्दहृदयो दृष्ट्वा मामब्रवीन्मुहुः । समागच्छ प्रिये कान्ते भक्त्या मां परिरम्भय ॥ ४१ रेमे वर्षप्रमाणेन तत्र चैव द्विजोत्तम । तदोक्तरमणे शेषे देवीं तां राधिका प्रति ।। श्रीकृष्ण उवाच- इयं मे प्रकृतिस्तत्र चाऽऽसीमारदरूपधृक् । नीत्वाऽमृतसरो रम्यं स्नानार्थं संनियोजय ॥ ४३ तैया मे रमणस्यान्ते गदितं प्रियभाषितम् । अहं च ललिता देवी राधिका या च गीयते ॥४४ अहं च वासुदेवाख्यो नित्यं कामकलात्मकः । सत्यं योषित्स्वरूपोऽहं योषिच्चाहं सनातनी॥४५ अहं च ललिता देवी पुंरूपा कृष्णविग्रहा। आवयोरन्तरं नास्ति सत्यं सत्यं हि नारद ॥ ४६ १ छ. उ. शौनकादय ऊचुः । २ ख. भवन्मनोदुःखी प्रो' । ३ ख. सद्गुरौ । ४ झ. त्वया । ५ झ. °षित्वाहं ।
४७ ७६ षट्सप्ततितमोऽध्यायः] पद्मपुराणम् । एवं यो वेत्ति मे तत्त्वं समयं च तथा मनुम् । ससमाचारसंकेत ललितावत्स मे प्रियः ॥ इदं वृन्दावनं नाम रहस्यं मम वै गृहम् । न प्रकाश्यं कदा कुत्र न वक्तव्यं पशौ कचित् ॥ ततोऽनु राधिकादेवी मां नीत्वा तत्सरोवरे । स्थित्वा सा कृष्णचन्द्रस्य चरणान्ते गता पुनः४९ ततो निमज्जनादेव नारदोऽहमुपागतः । वीणाहस्तो गानपरस्तद्रहस्यं मुहुर्मुदा ॥ स्वयंभुवं नमस्कृत्य तत्रागां विष्णुपार्षदम् । स्वयंभुवा तथा दृष्टं नोक्तं किंचित्तदा पुनः ॥ ५१ इति ते कथितं वत्स सुगोप्यं च मया त्वयि । त्वयाऽपि कृष्णचन्द्रस्य केवलं धाम चित्कलम् ।। गोपनीयं प्रयत्नेन मातुर्जार इव प्रियः । यथा प्रोक्तं मया शिष्ये गौतमे सरहस्यकम् ॥ तथा भवत्सु कात्स्न्येन कथितं चापि गोपितम् । यदि कुत्र कदाचित्तु प्रकाश्यं मुनिपुंगवाः ५४ तदा शापो भवेद्विपाः कृष्णचन्द्रस्य निश्चितम् । इमं कृष्णस्य लीलाभिर्युतमध्यायमुत्तमम् ।। यः पठेच्छृणुयाद्वाऽपि स याति परमं पदम् ।। इति श्रीमहापुराणे पाझे पातालखण्डे नारदीयानुनये पञ्चसप्ततितमोऽध्यायः ॥ ७५ ॥ आदितः श्लोकानां समष्टयङ्काः-१५८४० अथ षट्सप्ततितमोऽध्यायः । - २ ईश्वर उवाच- अत्र शिशुपालं निहतं श्रुत्वा दन्तवक्त्रः कृष्णेन योद्धु मथुरामाजगाम ॥ कृष्णस्तु तच्छ्रुत्वा रथमारुह्य तेन सह मथुरामाययौ । अथ तं हत्वा यमुनामुत्तीर्य नन्दवजं गत्वा पितराव भिवाद्याऽऽश्वास्य ताभ्यामालिक्तिः सकल- गोपवृद्धान्परिष्वज्य तानाश्वास्य बहुवस्त्राभरणादिभिस्तत्रस्थान्सर्वान्सतर्पयामास ॥ कालिन्द्याः पुलिने रम्ये पुण्यवृक्षसमाकीर्णे गोपस्त्रीभिरहर्निशं क्रीडासुखेन त्रिरात्रं वत्र समुवास तत्र स्थले नन्दगोपादयः सर्वे जनाः पुत्रदारसहिताः पशुपक्षिमृगादयोऽपि वासुदे- वप्रसादेन दिव्यरूपधरा विमानसमारूढाः परमं वैकुण्ठलोकमवापुः ॥ श्रीकृष्णस्तु नन्दगोपव्रजौकसां सर्वेषां निरामयं स्वपदं दत्त्वा देवीदेवगणैः स्तूयमानः श्रीमती द्वारवती विवेश ॥ वत्र वसुदेवोग्रसेनसंकर्षणप्रद्युम्नानिरुद्धारादिभिः प्रत्यहं संपूजितः पोडशसहस्राष्टाधिकमहि- पीभिश्च विश्वरूपधरो दिव्यरत्नमयलतागृहान्तरेषु सुरतरुकुसुमाचितश्लक्ष्णतरपर्यङ्केषु रमया- मास॥ एवं हितार्थाय सर्वदेवानां समस्तभूभारविनाशाय यदुवंशेऽवतीर्य सकलराक्षसविनाश कृत्वा महान्तमुर्विभारं नाशयित्वा नन्दबजद्वारकावासिनः स्थावरजङ्गमान्भवबन्धनान्मोचयित्वा परमे शाश्वते योगिध्येये रम्ये धाम्नि संस्थाप्य नित्यं दिव्यमहिष्यादिभिः संसेव्यमानो वासुदेवोऽखि- ५ ६ लेषवाच ॥ आसीदन्याकृतं ब्रह्म करकाघृतयोरिव । प्रकृतिस्थो गुणान्भुक्त्वा द्रवीभूत्वा दिवं गतः॥ ८ पति श्रीमहापुराणे पाने पातालखण्डे पार्वतीशिवसंवादे षट्सप्ततितमोऽध्यायः ॥ ६ ॥ आदितः श्लोकानां समयङ्काः-१५८४८ १. क्तव्यमसौ क। २ ख. च. र्मुहुः । स्व' । ३ म. प्रोकं । स. दीसानुनयं प ।
महामुनिश्रीव्यासपणीतं- [४ पातालखण्डे- भथ सप्तसप्ततितमोऽध्यायः । . ४ wr ८ ९ पार्वत्युवाच- विस्तरेण समाचक्ष्व मन्त्रार्थपदगौरवम् । ईश्वरस्य स्वरूपं च तत्स्थानानां विभूतयः ॥ तद्विष्णोः परमं धाम व्यूहभेदास्तथा हरेः । निर्वाणाख्या हि तत्त्वेन मम सर्व सुरेश्वरम् ॥ २ ईश्वर उवाच- सारे वृन्दावने कृष्णं गोपीकोटिभिरावृतम् । तत्र गङ्गा परा शक्तिस्तत्स्थमानन्दैकाननम् ॥ ३ नानासुकुसुमामोदसमीरसुरभीकृतम् । कलिन्दतनयादिव्यतरङ्गसङ्गशीतलम् ।। सनकाधैर्भागवतैः संसृष्टं मुनिपुंगवैः । आह्लादिमधुरारावैर्गोवृन्दैरभिमण्डितम् ॥ रम्यग्भूषणोपेतैर्नृत्यद्भिर्खालकैदृतम् । तत्र श्रीमान्कल्पतरुर्जाम्बूनदपरिच्छदः ।। नानारत्नप्रवालाढ्यो नानामणिफलोज्ज्वलः । तस्य मूले रत्नवेदी रत्नदीधितिदीपिता ॥ तत्र त्रयीमयं रत्नसिंहासनमनुत्तमम् । तत्राऽऽसीनं जगन्नाथं त्रिगुणातीतमव्ययम् ॥ कोटिचन्द्रप्रतीकाशं कोटिभास्करभास्वरम् । कोटिकंदर्पलावण्यं भासयन्तं दिशो दश ॥ त्रिनेत्रं द्विभुनं गौरं तप्तजाम्बूनदप्रभम् । श्लिष्यमाणं चाङ्गनाभिः सुदामानं च सर्वशः ॥ ब्रह्मायैः सनकायैश्च ध्येयं भक्तवशीकृतम् । मुदा पूर्णितनेत्राभिर्नृत्यन्तीभिर्महोत्सवैः ॥ ११ चुम्बन्तीभिर्हसन्तीभिः श्लिष्यन्तीभिर्मुहुर्मुहुः। अवाप्तगोपीदेहाभिः श्रुतिभिः कोटिकोटिभिः १२ तत्पादाम्बुजमाध्वीकचिन्ताभिः परितो वृतम् । तासां तु मध्ये या देवी तप्तचामीकरप्रभा ॥ १३ घोतमाना दिशः सर्वाः कुर्वती विद्युदुज्ज्वलाः । प्रधानं या भगवती यया सर्वमिदं ततम् ॥ १४ सृष्टिस्थित्यन्तरूपा या विद्या विद्या त्रयी परा। स्वरूपा शक्तिरूपा च मायारूपा च चिन्मयी ॥ ब्रह्मविष्णुशिवादीनां देहकारणकारणम् । चराचरं जगत्सर्वं यन्मायापरिरम्भितम् ॥ १६ वृन्दावनेश्वरी नाम्ना राधा धात्राऽनुकारणात् । तामालिङ्गय वसन्तं तं मुदा वृन्दावनेश्वरम् ॥ १७ अन्योन्यचुम्बनाश्लेषमदावेशविघूर्णितम् । ध्यायेदतद्विधं देवं स च सिद्धिमवामुयात् ।। १८ मत्रराजमिमं गुह्यं तस्य मत्रं च मत्रवित् । यो जपेच्छृणुयाञ्चैव स महात्मा सुदुर्लभः ॥ १९ राधिका चित्ररेखा च चन्द्रा मदनसुन्दरी । प्रिया च श्रीमधुमती शशिरेखा हरिप्रिया ॥ सुवर्णशोभा संमोहा प्रेमरोर्मोश्चरञ्जिता । वैवर्ण्यस्वेदसंयुक्ता भावाशेक्ता प्रियंवदा ॥ २१ सुवर्णमालिनी शान्ता सुरासरसिका तथा । सर्वस्त्रीजीवना दीनवत्सला विमलाशया ॥ निपीतनामपीयूषा सा राधा परिकीर्तिता । सुदीर्घस्मितसंयुक्ता तप्तचामीकरप्रभा । मूर्छत्प्रेमनदी राधा चरणालोचनाञ्जना । मायामात्सर्यसंयुक्ता दानसाम्राज्यजीवना ।। मुरतोत्सवसंग्रामा चित्ररेखा प्रकीर्तिता । गौरागी नातिदीर्घा च सदा वादनतत्परा ।। दैन्यानुरागनटना मूर्छारोमाञ्चविहला । हरेर्दक्षिणपार्श्वस्था सर्वमन्त्रप्रिया तथा ॥ अनङ्गलोभमाधुर्या चन्द्रा सा परिकीर्तिता । सलीलमन्थरगतिम मुद्रितलोचना ॥ प्रेमधारोज्ज्वलाकीर्णा दलिताञ्जनशोभना । कृष्णानुरागरसिका रासध्वनिसमुत्सुका । अहंकारसमायुक्ता [*मुखनिन्दितचन्द्रमाः । मधुरालापचतुरा जितेन्द्रियशिरोमणिः ॥ * एतचिहान्तर्गतः पाठः, म. पुस्तकस्थः । १. म. व नाम्नाऽर्थ । २ क. भ. गोपकों । ३ म. दविग्रहम् । ४ स. मा च ॥५. शक्त्या प्रि। २० २२ २३ २४ २५ २६ २७ २८ २९ ४४ ७७ सप्तसप्ततितमोऽध्यायः ] पमपुराणम् । ६११ सुन्दरस्मितसंयुक्ता ] सा वै मदनसुन्दरी। विविक्तरासरसिका श्यामा श्याममनोहरा ॥ प्रेम्णा प्रेमकटाक्षेण हरेश्चित्तविमोहिनी। जितेन्द्रिया जितक्रोधा सा प्रिया परिकीर्तिता ॥ सुतप्तस्वर्णगौरागी लीलागमनमुन्दरी । स्मारं च (रसु) प्रेमरोमाञ्चवैचित्र्यमधुराकृतिः ॥ सुन्दरस्मितसंयुक्ता मुखनिन्दितचद्रमाः। मधुरालापचतुरा जितेन्द्रियशिरोमणिः ॥ कीर्तिता सा मधुमती प्रेमरोदनतत्परा । संमोहज्वररोमाञ्चप्रेमधारासमन्विता ॥ दानधूलिविनोदा च रासध्वनिमहानटी । शशिरेखा च विज्ञेया गोपालप्रेयसी सदा ॥ कृष्णात्मा सोत्तमा श्यामा मधुपिङ्गललोचना । तत्पादप्रेमसंमोहात्कचित्पुलकंचुम्बिता । शिवकुण्डे शिवानन्दा नन्दिनी देहिकातटे । रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने ॥ ३७ देवकी मथुरायां तु जाता मे परमेश्वरी । चन्द्रकूटे तथा सीता विन्ध्ये विन्ध्यनिवासिनी ॥ ३८ वाराणस्यां विशालाक्षी विमला पुरुषोत्तमे । वृन्दावनाधिपत्यं च दत्तं तस्मै प्रसीदता ॥ कृष्णेनान्यत्र देवी तु राधा वृन्दावने वने । नित्यानन्दतनुः शौरियोऽशरीरीति भाष्यते ॥ ४० वाय्वग्निनाकभूमीनामङ्गाधिष्ठितदेवता । निरूप्यते ब्रह्मणोऽपि तथा गोविन्दविग्रहः ॥ सेन्द्रियोऽपि यथा सूर्यस्तेजसा नोपलक्ष्यते । तथा कान्तियुतः कृष्णः कालं मोहयति ध्रुवम् ४२ न तस्य प्राकृती मूर्तिर्मेदोमांसास्थिसंभवा । योगी चैवेश्वरश्चान्यः सर्वात्मा नित्यविग्रहः ॥ ४३ काठिन्यं दैवयोगेन करकाघृतयोरिव । कृष्णस्यामिततत्त्वस्य पादपृष्ठं न देवता ॥ वृन्दावनरजो वन्दे तत्र स्युर्विष्णुकोटयः । आनन्दकिरणवृन्दव्याप्तविश्वकळानिधिः ॥ गुणामृतात्मनि यथा जीवास्तत्किरणागकाः । भुजद्वयवृतः कृष्णो न कदाचिच्चतुर्भुजः ॥ ४६ गोप्यैकया तृतस्तत्र परिक्रीडति सर्वदा । गोविन्द एव पुरुषो ब्रह्मा(याः) स्त्रिय एव च ॥ ४७ वत एवं स्वभावोऽयं प्रकृतेर्भाव ईश्वरः । पुरुषप्रकृती चाऽऽद्यौ राधान्दावनेश्वरौ ॥ प्रकृतेर्विकृतं सर्व विना वृन्दावनेश्वरम् । सपुद्भवेनैव समुद्भवेदिदं भेदं गतं तस्य विनाशने हि । स्वर्णस्य नाशो न हि विद्यते तथा मत्स्यादिनाशेऽपि न कृष्णविच्युतिः॥ ४९ त्रिगुणादिषपश्चोऽयं वृन्दावनविहारिणः । ऊर्मीवाब्धेस्तरङ्गस्य यथाऽब्धि व जायते ॥ न राधिकासमा नारी न कृष्णसदृशः पुमान् । वयः परं न कैशोरात्स्वभावः प्रकृतेः परः॥५१ ध्येयं कैशोरकं ध्येयं वनं वृन्दावनं वनम् । श्याममेव परं रूपमादिदैवं परो रसः॥ ५२ बाल्यं तु पञ्चमाब्दान्तं पौगण्ड दशमावधि । अष्टपञ्चककैशोरं सीमा पञ्चदशावधि ।। ५२ यौवनोद्भिनकैशोरं नवयौवनमुच्यते । तद्वयस्तस्य सर्वस्वं प्रपञ्चमितरद्वयः ॥ बाल्यपोगण्डकैशोरं वयो वन्दे मनोहरम् । बालगोपालगोपाल स्मरंगोपालरूपिणम् ॥ ५५ वन्दे मदनगोपालं कैशोराकारमद्भुतम् । यमाङयौवनोद्भिन्नश्रीमन्मदनमोहनम् ॥ ५६ अखण्डातुलपीयूपरसानन्दमहार्णवम् । जयति श्रीपतेगुंद वयः कैशोररूपिणः ।। एकमप्यव्ययं पूर्व बल्लवीवृन्दमध्यगम् । ध्यानगम्यं प्रपश्यन्ति रूचिभेदात्पृथग्धियः ।। यन्नखेन्दुरुचिर्बम ध्येयं ब्रह्मादिभिः सुरैः । गुणत्रयमतीतं तं वन्दे वृन्दावनेश्वरम् ॥ वृन्दावनपरित्यागो गोविन्दस्य न विद्यते । अन्यत्र यद्वपुस्तत्तु कृत्रिमं तन्त्र संशयः ।। १ क. अ. कसंयुता । २ ख. देविका । ३ झ. अ. प्रभुर्मता। ४ झ. अ. मोदयति । ५ अ. "जो रन्दे । ६R । ७ ख. व सुभा । ८ म. रन्गोपा । ९ अ. रूपं । १० ख. 4 पल्ल । ११ ख, इ. दे। ४८ ५८ "स्तत्कीर - ६१२ महामुनिश्रीव्यासप्रणीत- [४ पातालखण्डे- मुलभ ब्रजनारीणां दुर्लभं तन्मुमुक्षुणाम् । तं भजेभन्दसूनुं यमखतेजः परं मनुः ॥ पार्वत्युवाच- भुक्तिमुक्तिस्पृहा यावत्पिशाची हृदि वर्तते । [*तावत्प्रेमसुखस्यात्र कथमभ्युदयो भवेत् ॥ ६२ ईश्वर उवाच- साधु पृष्टं त्वया भद्रे यन्मे मनसि वर्तते । ] तत्सर्वं कथयिष्यामि सावधाना निशामय ॥ ६३ स्मृत्वा गुणान्स्मरनाम गानं वा मैनरञ्जनम् । बोधयत्यात्मनाऽऽत्मानं सततं प्रेम्णि लीयते॥६४ इति श्रीमहापुराणे पाझे पातालखण्डे शिवपार्वतीसंवादे श्रीकृष्णरूपगुणवर्णनं नाम सप्तसप्ततितमोऽध्यायः ॥ ७७ ॥ आदितः श्लोकानां समथ्यङ्काः-१५९१२ अथाष्टासप्ततितमोऽध्यायः । ४ ८ पार्वत्युवाच- वैष्णवानां च यद्धर्म सर्व तथ्यं च मे वद । यत्कृत्वा मानवाः सर्वे भवाम्भोधि तरन्ति हि॥१ ईश्वर उवाच- अथ द्वादशशुद्धिं च वैष्णवा नामिहोच्यते । गृहोपलेपनं चैव तथाऽनुगमनं हरेः ॥ भक्त्या प्रदक्षिणं चैव पादयोः शोधनं पुनः । पूजार्थ पत्रपुष्पाणां भक्त्यैवोच्चयनं हरेः॥ करयोः सर्वशुद्धीनामियं शुद्धिर्विशिष्यते । तन्नामकीर्तनं चैव गुणानामपि कीर्तनम् ।। भक्त्या श्रीकृष्णदेवस्य वचसः शुद्धिरिष्यते । तत्कथाश्रवणं चैव तस्योत्सवनिरीक्षणम् ।। श्रोत्रयोर्नेत्रयोश्चैव शुद्धिः सम्यगिहोच्यते । पादोदकं च निर्माल्यं मालानामपि धारणम् ॥ ६ उच्यते शिरसः शुद्धिः प्रणतस्य हरेः पुरः । आघ्राणं तस्य पुष्पादेनिर्माल्यस्य तथा प्रिये ॥ विशुद्धिः स्यादन्तरस्य प्राणस्यापि विधीयते । पत्रपुष्पादिकं यच्च कृष्णपादयुगार्पितम् ॥ तदेकं पावनं लोके तद्धि सर्व विशोधयेत् । पूजा च पञ्चधा प्रोक्ता तासां भेदाञ्शृणुष्व मे ॥ ९ अभिगमनमुपादानं योगः स्वाध्याय एव च । इज्या पश्चप्रकाराऽर्चा क्रमेण कथयामि ते ॥ १० तत्त्वाभिगमनं नाम देवतास्थानमार्जनम् । उपलेपं च निर्माल्यदूरीकरणमेव च ॥ ११ उपादानं नाम गन्धपुष्पादिचयनं तथा । योगो नाम स्वदेवस्य स्वात्मनैवाऽऽत्मभावना ॥ १२ स्वाध्यायो नाम मन्त्रार्थसंधानपूर्वको जपः। सूक्तस्तोत्रादिपाठश्च हरेः संकीर्तन तथा ॥ १३ तत्त्वादिशास्त्राभ्यासश्च खाध्यायः परिकीर्तितः । इज्या नाम स्वदेवस्य पूजनं च यथार्थतः।।१४ इति पञ्चप्रकाराऽर्चा कथिता तव सुव्रते । साष्टिसामीप्यसालोक्यसायुज्यसारूप्यदा क्रमात् १५ प्रसङ्गात्कथयिष्यामि शालग्रामशिलार्चकम् । [केशवादेश्चतुर्बाहोर्दक्षिणोर्ध्वकरक्रमात् ॥] १६ शङ्खचक्रगदापनी केशवाख्यो गदाधरः। [+नारायणः पागदाचक्रशकायुधः क्रमात् ॥ १७ माधवश्चक्रशङ्खाभ्यां पमेन गदया भवेत् ] । गदानशकी चक्री वा गोविन्दाख्यो गदाधरः।। १८ पद्मशजारिगदिने विष्णुरूपाय वै नमः । सशङ्खाजगदाचक्रमधुपदन मूर्तये ।। * एतचिहान्तर्गतः पाठः क. ख. इ. च. छ. ग. ह. पुस्तकस्थः । । एतचिहान्तर्गतः पाठश्चपुस्तकस्थः । + एत- चिहान्तर्गतः पाठश्चपुस्तकस्थः । १९ १ ख. जनरअनम् । र, मनराजिता।
७९ एकोनाशीतितमोऽध्यायः ] पद्मपुराणम् । नमो गदारिशङ्खाजयुक्तत्रिविक्रमाय च । सारिकौमोदकीपद्मशङ्खवामनमूर्तये ।। २० चक्राजशजगदिने नमः श्रीधरमूर्तये । हृषीकेश सारिगदाशङ्खपमिनमोऽस्तु ते ।। २१ साब्जशङ्कगदाचक्रपद्मनाभस्वमूर्तये । दामोदर शङ्खगदाचक्रपमिनमोऽस्तु ते ॥ २२ शङ्खालचक्रगदिने नमः संकर्षणाय च । सारिशङ्खगदाजाय वासुदेव नमोऽस्तु ते ॥ २३ शङ्खचक्रगदाजादिधृतप्रद्युम्नमूर्तये । नमोऽनिरुद्धाय गदाशजाजारिविधारिणे ॥ २४ साजशजगदाचक्रपुरुषोत्तममूर्तये । नमोऽधोक्षजरूपाय गदाशङ्खारिपनिने ॥ २५ नृसिंहमूर्तये पागदाशङ्खारिधारिणे । पद्मारिशङ्खगदिने नमोऽस्त्वच्युतमूर्तये ॥ २६ गदाजारिसशङ्खाय नमः श्रीकृष्णमूर्तये । शालग्रामशिलाद्वारगतलग्नाद्विचक्रधृत् ॥ २७ शुक्लाभरेखः शोभादयः स देवः श्रीगदाधरः । लग्नद्विचक्रो रक्ताभः पूर्वभागस्तु पुष्कलः ॥ २८ संकर्षणोऽथ प्रद्युम्नः सूक्ष्मचक्रस्तु पीतकः । सदीर्घसुपिरच्छिद्रो ह्यनिरुद्धस्तु वर्तुलः ॥ २९ नीलो द्वारे त्रिरेखश्च ह्यथ नारायणोऽसितः । मध्ये गदाकृती रेखा नाभिपद्मं महोन्नतम् ॥ ३० पृथुचक्रो नृसिंहो यः कपिलोऽव्यात्रिबिन्दुकः । अथवा पञ्चबिन्दोस्तु पूजनं ब्रह्मचारिणः ३१ वाराहः सत्रिलिङ्गोऽव्याद्विषमद्वयचक्रकः । नालस्त्रिरेखः स्थूलोऽथ कूर्ममूर्तिः सबिन्दुकः ॥ ३२ कृष्णः सवर्तुलावर्तः पाण्डुरो धृतपृष्ठकः । श्रीधरः पञ्चरेखश्च वनमाली गदाङ्कितः ॥ वामनो वर्तुलो नाम मध्यचक्रः सनीलकः । नानावर्णानेकमूर्तिनागभोगी त्वनन्तकः ॥ स्थूलो दामादरो नीलो मध्येचक्रः सनीलकः । संकर्षणद्वारकोऽव्यादथ ब्रह्मा सुलोहितः॥ ३५ सदीर्घरेखासुषिर एकचक्राम्बुजः पृथुः । पृथुच्छिद्रः स्थूलचक्रः कृष्णोऽबिन्दुश्च बिन्दुमान् ॥३६ हयग्रीवोऽङ्कुशाकारः पञ्चरेखस्तु कौस्तुभः । वैकुण्ठोऽमलवद्भाति ह्येकचक्रमयोऽसितः ॥ मत्स्यो दीर्घाम्बुजाकारो हाररेखश्च पाण्डुरः । रामचन्द्रो दक्षरेखः श्यामोऽव्यात्तु त्रिविक्रमः ३८ शालग्रामद्वारकायां (?)स्थिताय गदिने नमः । एकेन लक्षतो योऽव्यागदाधारी सुदर्शनः ॥ ३९ लक्ष्मीनारायणो द्वाभ्यां त्रिभिश्चैव त्रिविक्रमः । चतुर्भिश्च चतुर्दूहो वासुदेवश्च पञ्चभिः ॥ ४० प्रद्युम्नः षभिरेवाव्यात्संकर्षणश्च सप्तभिः। पुरुषोत्तमोऽष्टभिश्चास्या(व्या)नवव्यूहो नवो हितः ॥ दशावतारो दशभिरनिरुद्धोऽवतादथ । द्वादशात्मा द्वादशभिरत ऊर्ध्व त्वनन्तकः ॥ ब्रह्मा चतुर्मुखो दण्डी कमण्डलुलगुन्नतः । महेश्वरः पञ्चवक्त्रो दशवाहुर्वृषध्वजः ॥ यथायुधस्तथा गौरी चण्डिका च सरस्वती । महालक्ष्मीर्मातरश्च पद्महस्तो दिवाकरः ॥ गजास्यश्च गजस्कन्धः षण्मुखोऽनेकधा गणाः। एते स्थिताः स्थापिताः स्युः प्रासादे वाऽथ पूजिताः। धर्मार्थकाममोक्षायाः प्राप्यन्ते पुरुषेण च ।। इति श्रीमहापुराणे पाझे पातालखण्डे शालग्रामनिर्णयो नामाष्टसप्ततितमोऽध्यायः ॥ ७८ ॥ आदितः श्लोकानां समष्ट्यङ्काः-१५९५७ अथैकोनाशीतितमोऽध्यायः । ईश्वर उवाच- शालग्रामे मणौ यन्त्रे मण्डले प्रतिमासु च । नित्य तु श्रीहरेः पूजा केवले भवने न तु ॥ * मूर्तिवर्णनानुक्रमेणात्र सार्धः श्लोको भ्रष्ट इति भाति । १ ख. मनोगतम् । २ अ. पनरे' । ३ क. अ. कुण्ठे बल । ४ झ. 'देवोश्च । ५ क. म. थाशुद्धस्त ।
२ ४ ८ ९ १२ १६ ६१४ महामुनिश्रीव्यासप्रणीतं- [४ पातालखण्डे- गण्डक्यामेकदेशे तु शालग्रामस्थलं महत् । पाषाणं तद्भवं यत्तु शालग्राम इति स्थितम् ॥ शालग्रामशिलास्पर्शात्कोटिजन्माघनाशनम् । किं पुनः पूजनं तत्र हरेः सांनिध्यकारणम् ॥ ३ शालग्रामैकयजनाच्छतलिङ्गफलं लभेत् । बहुभिर्जन्मभिः पुण्यैर्यदि कृष्णशिलां लभेत् ॥ गोष्पदेन च चिह्नेन तेन समाप्यते जनुः । आदौ शिला परीक्षेत स्निग्धां श्रेष्ठां च मेचकाम् ५ आकृष्णा मध्यमा प्रोक्ता मिश्रा मिश्रफलप्रदा । सदा काष्ठस्थितो वह्निर्मथनेन प्रकाशयेत् ॥ ६ यथा तथा हरिर्व्यापी शालग्रामे प्रकाशते । प्रत्यहं द्वादश शिलाः शालग्रामस्य योऽर्चयेत् ॥ ७ द्वारवत्याः शिला युक्ताः स वैकुण्ठे महीयते । शालग्रामशिलायां तु गहरं लक्षते नरः॥ पितरस्तस्य तिष्ठन्ति तृप्ताः कल्पान्तकं दिवि । वैकुण्ठभवनं तत्र यत्र द्वारावतीशिला ॥ मृतो विष्णुपुरं याति तत्तीर्थ योजनत्रयम् । जपः पूजा च होमश्च सर्व कोटिगुणं भवेत् ॥ १० मनस्कामसमाभीष्टं क्रोशमात्रं न संशयः। कीटकोऽपि मृतं (तो) याति वैकुण्ठभवनं यतः ॥११ शालग्रामशिलायां यो मूल्यमुद्घाटयेन्नरः । विक्रेता चानुमन्ता च यः परीक्षानुमोदकः ॥ सर्वे ते नरकं यान्ति यावत्सूर्यश्च संप्लवः । अतस्तद्वर्जयेद्देवि चक्रक्रयणविक्रयम् ॥ शालग्रामोद्भवो देवो यो देवो द्वारकोद्भवः । उभयोः संगमो यत्र मुक्तिस्तत्र न संशयः॥ १४ द्वारकोद्भवचक्राढ्यो बहुचक्रेण चिह्नितः । चक्रासनशिलाकारश्चित्स्वरूपो निरञ्जनः ॥ नमोऽस्त्वोंकाररूपाय सदानन्दस्वरूपिणे । शालग्राम महाभाग भक्तस्यानुग्रहं कुरु ॥ तवानुग्रहकामस्य ऋणग्रस्तस्य मे प्रभो । अतः परं प्रवक्ष्यामि तिलकस्य विधि मुदा ॥ यच्छ्रुत्वा मानवाः सर्वे विष्णुसारूप्यमामुयुः । ललाटे केशवं विद्यात्कण्ठे श्रीपुरुषोत्तमम् ॥ १८ नाभौ नारायणं देवं वैकुण्ठं हृदये तथा । दामोदरं वामपार्श्वे दक्षिणे च त्रिविक्रमम् ॥ मूनि चैव हृषीकेशं पद्मनाभं च पृष्ठतः । कर्णयोर्यमुनां गङ्गां बाहोः कृष्णं हरिं तथा ॥ यथास्थानेषु तुष्यन्ति देवता द्वादश स्मृताः। द्वादशैतानि नामानि कर्तव्ये तिलके पठेत् ॥ २१ सर्वपापविशुद्धात्मा विष्णुलोकं स गच्छति । ऊर्ध्वपुण्ड्रमूर्ध्वरेखं ललाटे यस्य दृश्यते ॥ चण्डालोऽपि स शुद्धात्मा पूज्य एव न संशयः । यस्योर्ध्वपुण्ड्रं दृश्येत ललाटे न नरस्य हि २३ तदर्शनं न कर्तव्यं दृष्ट्वा सूर्य निरीक्षयेत् । त्रिपुण्ड्रं यस्य विप्रस्य ऊर्ध्वपुण्ड्रं न दृश्यते ॥ तं दृष्ट्वाऽप्यथवा स्पृष्ट्वा सचैल स्नानमाचरेत् । सान्तरालं प्रकर्तव्यं पुण्ई हरिपदाकृति ॥ निरन्तरालं यः कुर्यादूर्ध्वपुण्ड्रं विनाधमः । ललाटस्तस्य सततं शुनः पादौ न संशयः ॥ २६ नासादिकेशपर्यन्तमूर्ध्वपुण्डू सुशोभनम् । मध्ये छिद्रसमायुक्तं तं विद्याद्धरिमन्दिरम् ॥ वामभागे स्थितो ब्रह्मा दक्षिणे तु सदाशिवः। मध्ये विष्णुं विजानीयात्तस्मान्मध्यं न लेपयेत् २८ वीक्ष्याऽऽदर्श जले वाऽपि यो विदध्यात्मयत्नतः। ऊर्ध्वपुण्ड्रं महाभाग(:) स याति परमां गतिम् अग्निरापश्च वेदाश्च चन्द्रादित्यौ तथाऽनिलः । विप्राणां नित्यमेते हि कर्णे तिष्ठन्ति दक्षिणे॥३० गङ्गा च दक्षिणे श्रोत्रे नासिकायां हुताशनः । उभयोरपि संस्पर्शात्तत्क्षणादेव शुध्यति ॥ ३१ कृत्वा वै चोदकं शङ्ख वैष्णवानां महात्मनाम् । तुलसीमिश्रितं दद्यात्पिबेन्मूर्धाऽभिवन्दयेत् ३२ पाश्नीयात्मोक्षयेदे पुत्रमित्रपरिग्रहम् । विष्णोः पादोदकं पीतं कोटिजन्माघनाशनम् ॥ तदेवाष्टगुणं पापं भूमौ बिन्दुनिपातनात् । जलशङ्ख करे कृत्वा स्तुत्वा नत्वा प्रदक्षिणम् ॥ ३४ सततं धार्यते वारि तेनाऽऽप्तं जन्मनः फलम् । शङ्को यस्य गृहे नास्ति घण्टा वा गरुडान्विता ३५ १ ख. छ.. त्रं समन्ततः । की। १९ २० २२ २४ २५ २७ ३ ३७ ३८ ४४ ७९ नवसप्ततितमोऽध्यायः] पद्मपुराणम् । पुरतो वासुदेवस्य न स भागवतः कलौ । यानैर्वा पादुकाभिर्वा यानं भगवतो गृहे ॥ देवोत्सवेष्वसेवा च त्वप्रणामस्तदग्रतः । उच्छिष्टे चैव चाशीचे भगवद्वन्दनादिकम् ॥ एकहस्तपणामश्च तत्पुरस्तात्मदक्षिणम् । पादप्रसारणं चाग्रे तथा पर्यङ्कसेवनम् ॥ शयनं भक्षणं चापि मिथ्याभाषणमेव च । उच्चैर्भाषा मिथोजल्पो रोदनानि च विग्रहः ॥ ३९ निग्रहानुग्रहौ चैव स्त्रीषु च क्रूरभाषणम् । कम्बलावरणं चैव परनिन्दा परस्तुतिः ॥ अश्लीलभाषणं चैव ह्यधोवायुविमोक्षणम् । शक्तौ गौणोपचारचाप्यनिवेदितभक्षणम् ॥ ४१ तत्तत्कालोद्भवानां च फलादीनामनर्पणम् । विनियुक्तावशिष्टस्य प्रदानं व्यञ्जनस्य यत् ॥ ४२ स्पष्टीकृत्याशनं चैव परनिन्दा परस्तुतिः । गुरौ मौनं निजस्तोत्रं देवतानिन्दनं तथा ॥ [*अपराधास्तथा विष्णोत्रिंशत्परिकीर्तिताः ॥ अपराधसहस्राणि क्रियन्तेऽहनिशं मया । तवाहमिति मां मत्वा क्षमस्व मधुसूदन ॥ इति मन्त्रं समुच्चार्य प्रणमेदण्डवगुवि । अपराधसहस्राणि क्षमते सर्वदा हरिः॥ सायंप्रातर्द्विजातीनां श्रुत्युक्तमशनं तथा] । विष्णुभक्तावशिष्टस्य दिनपापात्प्रमुच्यते॥ ४६ अन्नं ब्रह्मरसो विष्णुः खादयन्मां समुच्चरन् । एवं ज्ञात्वा तु यो भुङ्क्ते सोऽन्नदोषैर्न लिप्यते॥ अलावू वर्तुलाकारं लशुनं च सवल्कलम् । तालं शुक्लं च वृन्ताकं न खादेद्वैष्णवो नरः ॥ ४८ वटाश्वत्थार्कपत्रेषु कुम्भीतिन्दुकपत्रयोः । कोविदारे कदम्बे च न खादेद्वैष्णवो नरः ॥ श्रावणे वर्जयेच्छाकं दधि भाद्रपदे त्यजेत् । दुग्धं तु चाऽऽश्विने मासि कार्तिके चाऽऽमिषं त्यजेत् दग्धमत्रं तु जम्बीरं यद्विष्णोरनिवेदितम् । बीजपूरं च शाकं च प्रत्यक्षलवणं तथा ॥ यदि दैवाच्च भुञ्जीत तदा तन्नाम संस्मरेत् । हैमन्तिकं सिताखिनं धान्यं गुन्द्रास्तिला यवाः ॥ कलायकङ्गुनीवाराः शाकं च हिलमोचिका । कालशाकं च वास्तूकं मूलकं केमुकेतरम् ॥ लवणे सैन्धवसामुद्रे गव्ये च दधिसर्पिषी । पयोऽनुदृतसारं च पनसाम्रहरीतकी ॥ पिप्पली जीरकं चैव नागरङ्गकतिन्तिडी । कदलीलवलीधात्रीफलान्यगुडमैक्षवम् ॥ ५५ अतैलपकं मुनयो हविष्यानं चक्षते । तुलसीपत्रपुष्पाद्यैर्माल्यं वहति यो नरः ॥ सोऽपि विष्णुर्विजानीयात्सत्यं सत्यं न संशयः । धात्रीवृक्षं समारोप्य विष्णुतुल्यो भवेन्नरः ५७ कुरुक्षेत्रं विजानीयात्सार्धहस्तशतत्रयम् । तुलसीकाष्ठघटितै रुद्राक्षाकारकारितैः ॥ निर्मिता मालिकां कण्ठे निधायार्चनमारभेत् ।। तथाऽऽमलकमालां च सम्यक्पुष्करमालिकाम् । कण्ठे मालां च यत्नेन धारयेद्विष्णुपूजकः ॥५९ निर्माल्यं तुलसीमालां शिरस्यपि च धारयेत् । निर्माल्यचन्दनेनाङ्गमयेत्तस्य नामभिः ॥ ६० ललाटे च गदा धार्या मूर्ति चापं शरस्तथा । नन्दकं चैव हृन्मध्ये शङ्ख चक्रं भुजद्वये ॥ शङ्खचक्रान्वितो विप्रः श्मशाने म्रियते यदि । प्रयागे या गतिः प्रोक्ता सा गतिस्तस्य निश्चिता यो धृत्वा तुलसीपत्रं शिरसा विष्णुतत्परः । करोति सर्वकार्याणि फलमानोति चाक्षयम् ॥ ६३ तुलसीकाष्ठमालाभिर्भूषितः कर्म ह्याचरेत् । पितॄणां देवतानां च कृतं कोटिगुणं भवेत् ॥ ६४ निवेद्य केशवे मालां तुलसीकाष्ठनिर्मिताम् । वहते यो नरो भक्त्या तस्य नश्यति पातकम् ॥ पायादिभिस्तथाऽऽपूज्य में मत्रमुदीरयेत् ।। ६५ * एतचिहान्तर्गतः पाठः स. छ. उ. पुस्तकस्थः । १ छ. उ. दातव्यं जन । २ क. स. इ. च. छ. अ. स. मसुरं । ३ क. शुष्कं । प्र. शुक्तं । ४ स. म. प्रचक्ष्यते । ५८ ॥
महामुनिश्रीव्यासप्रणीत- [४ पातालखण्डे- या दृष्टा निखिलाघसंघशमनी स्पृष्टा वपुष्पावनी रोगाणामभिवन्दिता निरसनी सिक्ताऽन्तकत्रासिनी ॥ प्रत्यासत्तिविधायिनी भगवतः कृष्णस्य संरोपिता न्यस्ता तच्चरणे विमुक्तिफलदा तस्यै तुलस्यै नमः। ६६ इति श्रीमहापुराणे पाझे पातालखण्डे देवीश्वरसंवादे तिलकादिनियमो नाम नवसप्ततितमोऽध्यायः ॥ ७९ ॥ . आदितः श्लोकानां समष्ट्यङ्काः-१६०२३ अथाशीतितमोऽध्यायः । २ ५ ८ ९ पार्वत्युवाच- घोरे कलियुगे प्राप्ते विषयग्राहसंकुले । पुत्रदारधनाद्या स्तत्कथं धार्यते विभो । तदुपायं महादेव कथयस्व कृपानिधे ॥ ईश्वर उवाच- हरेर्नाम हरेर्नाम हरेर्नामैव केवलम् । हरे राम हरे कृष्ण कृष्ण कृष्णेति मङ्गलम् ॥ एवं वदन्ति ये नित्यं न हि तान्बाधते कलिः। अत आन्तरकर्माणि कृत्वा नामानि च स्मरेत् ।। कृष्ण कृष्णेति कृष्णेति कृष्णेत्याह पुनः पुनः । मन्नाम चैव त्वन्नाम यो जपित्वा व्यतिक्रमात् ।। सोऽपि पापाद्विमुच्येत तूलराशेरिवानलः । जयायेतत्त्वयो वाऽप्यथवा श्रीशब्दपूर्वकम् ॥ तच्च मे माल नाम जपापापात्प्रमुच्यते । दिवा निशि च संध्यायां सर्वकालेषु संस्मरेत् ॥ ६ अहर्निशं स्मरनाम कृष्णं पश्यति चक्षुषा । अशुचिर्वा शुचिर्वाऽपि सर्वकालेषु सर्वदा ॥ नामसंस्मरणादेव संसारान्मुच्यते क्षणात् । नानापराधयुक्तस्य नामापि च हरत्यघम् ॥ यत्रततपोदानं साङ्गं नैव कलौ युगे । गङ्गास्नानं हरेर्नाम निरपायमिदं द्वयम् ।। हत्यायुतं पापसहस्रमुग्रं गुर्वङ्गनाकोटिनिषेवणं च । स्वेयान्यथान्यानि हरेः प्रियेण गोविन्दनाना न च सन्ति भद्रे ।। अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा । यः स्मरेत्पुण्डरीकाक्षं सबाह्याभ्यन्तरः शुचिः११ नामसंस्मरणादेव तथा तत्पादचिन्तनात् । सौवर्णी राजती वाऽपि तथा पैष्टीं सजाकृतिम् ॥१२ पादयोश्चिह्नितां कृत्वा पूजां चैव समारभेत् । दक्षिणस्य पदाङ्गुष्ठमूले चक्रं बिभर्ति यः॥ १३ चत्र नम्रजनस्यापि संसारच्छेदनाय च । मध्यमाङ्गुलिमूले तु धत्ते कमलमच्युतः ॥ ध्यातुश्चित्तद्विरेफाणां लोभनायाविशोभनम् । पद्मस्याधो ध्वज धत्ते सर्वानर्थजयध्वजम् ॥ १५ कनिष्ठामूलतो वजं भक्तपापौघभेदनम् । पार्चमध्येऽङ्कुशं भक्तचित्तेभदमकारणम् ।। १६ भोगसंपन्न(न्म)यं धचे यवमङ्गुष्ठपर्वणि । मूले गदां च पापाद्रिभेदिनी सर्वदेहिनाम् ॥ सर्वविद्याप्रकाशाय धत्ते स भगवानजः । पयादीन्यपि चिह्नानि तत्र दक्षेण यत्पुनः ।। वामपादे बसेत्सोऽय विभर्ति करुणानिधिः । तस्मादोविन्दमाहात्म्यमानन्दरससुन्दरम् ॥ १९ शृणुयात्कीर्तयेन्नित्यं स निर्मुक्तो न संशयः । मासकृत्यं प्रवक्ष्यामि विष्णोः प्रीतिकरं पुनः॥२० ज्येष्ठे तु स्नापनं कुर्याच्छ्रीविष्णोर्यत्नतः शुचिः । दैनंदिनं तु दुरितं पक्षमासर्तुवर्षजम् ।। १४ १८ 14. यायेवाय । २ . 'च्युतम् । ध्या ।
२२ २४ २७ ३० ८० अशीतितमोऽध्यायः ] पद्मपुराणम् । ब्रह्महत्यासहस्राणि ज्ञाताज्ञातकृतानि च । स्वर्गस्तेयं सुरापानगुरुतल्पायुतानि च ॥ कोटिकोटिसहस्राणि युपपापानि यानि च । सर्वाण्यपि प्रणश्यन्ति पौर्णमास्यां तु वासरे ॥ २३ आसिञ्चेदच्युतं मूर्ध्नि तदा तत्कलशोदकम् । पुरुषसूक्तेन मन्त्रेण पावमानीभिरेव च ।। नारिकेलोदकेनाथ तथा तालफलाम्बुना । रत्नोदकेन गन्धेन तथा पुष्पोदकेन च ।। २५ पञ्चोपचारैराराध्य यथाविभवविस्तरैः । घं घण्टायै नम इति घण्टावायं निवेदयेत् ।। २६ पतितस्य महाध्वानन्यस्तपातकसंचये । पाहि मां पापिनं घोरं संसारार्णवपातिनम् ॥ य एवं कुरुते विद्वान्ब्राह्मणः श्रोत्रियः शुचिः । सर्वपापैः प्रमुच्येत विष्णुलोकं स गच्छति ॥२८ आषाढशुक्लैकादश्यां कुर्यात्स्वापमहोत्सवम् । आषाढे च रथं कुर्याच्छ्रावणे श्रवणाविधिः ॥ २९ भाद्रे च जन्मदिवस उपवासपरो भवेत् । प्रसुप्तस्य परीवर्तमाधिने मासि कारयेत् ॥ उत्थानं श्रीहरेः कुर्यादन्यथा विष्णुद्रोहकृत् । शुभे चैवाऽऽश्विने मासि महामायां च पूजयेत् ॥ सौवर्णी राजती वाऽपि विष्णुरूपां बाल विना । हिंसाद्देषो न कर्तव्यौ धर्मात्मा विष्णुपूजकः ॥ कार्तिके पुण्यमासे च कामतः पुण्यमाचरेत् । दामोदराय दीपं च प्रांशुस्थाने प्रदापयेत् ॥ सप्तवा प्रमाणेन दीपः स्याच्चतुरङ्गुलः । पक्षान्ते च प्रकर्तव्या दीपमालावलिः शुभा ॥ मार्गशीर्षे सिते पक्षे षष्ठयां च सितवस्त्रकैः । पूजयेज्जगदीशं च ब्रह्माणं च विशेषतः ।। पौषे पुष्पाभिषेकं च वर्जयेच्चन्दनं श्लथम् । संक्रान्त्यां माघमासे च साधिवासिततण्डुलान् ॥३६ नैवेद्यं विष्णवे दद्यादिमं मत्रमुदीरयेत् । ब्राह्मणान्भोजयेद्भक्त्या देवदेवपुरस्थितान् ॥ अभ्यर्च्य भगवद्भक्तान्विनांश्च भगवद्धिया । एकस्मिन्भोजिते भक्त कोटिर्भवाते भोजिता ॥ ३८ विप्रभोजनमात्रेण व्यङ्ग साङ्गं भवेद्धवम् । पञ्चम्यां शुक्लपक्षे तु स्नापयित्वा च केशवम् ॥ ३९ पूजयित्वा विधानेन चूतपल्लवसंयुतैः । फल्गुचूर्णैश्च विविधैर्वासितैः पदुसाधितैः ।। काननं रमणीयं च प्रदीप्तदीपदीपितम् । द्राक्षेक्षुरम्माजम्बीरनागरङ्गं च पूगकम् ॥ नारिकेलं च धात्री च पनसं च हरीतकी । अन्यैश्च वृक्षखण्डैश्च सर्वतकुसुमान्वितैः ।। ४२ अन्यैश्च विविधैश्चैव फलपुष्पसमन्वितैः । वितानः कुसुमोदामैर्वारिपूर्णै टैस्तथा । चूतशाखोपशाखाभिः शोभित छत्रचामरैः । जय कृष्णति संस्मृत्य प्रदक्षिणपुरःसरम् ।। विशेषतः कलियुगे दोलोत्सवो विधीयते । फाल्गुने च चतुर्दश्यामष्टमे यामसंज्ञके ॥ ४५ अथवा पूर्णमास्यां तु प्रतिपत्संधिसंज्ञके । पूजयेद्विधिवद्भक्त्या फल्गुचुर्गेश्चतुर्विधैः ।। ४६ सितरक्तैर्गौरपीतैः कर्पूरादिविमिश्रितैः । हरिद्रारागयोगाच्च रङ्गरूमनोहरैः ।। अन्यैर्वा रङ्गरूपैश्च प्राणयेत्परमेश्वरम् । एकादश्यां समारभ्य पञ्चम्यन्तं समापयेत् ॥ पञ्चाहानि व्यहानि वा दोलोत्सवो विधीयते । दक्षिणाभिमुखं कृष्णं दोलमार्न सकुन्नराः।। ४९ दृष्ट्वाऽपराधनिचयैर्मुक्तास्ते नात्र संशयः । निक्षिप्य जलपात्रे च मासे माधवसंज्ञके ।। सौवर्णपात्रे रौप्ये वा ताने वा मृन्मयेऽपि वा । तोयस्थं योऽर्चयेद्देवं शालग्रामसमुद्भवम् ॥ ५१ मतिमां वा महाभागे तस्य पुण्यं न गण्यते । दमनारोपणं कृत्वा श्रीविष्णौ च समर्पयेत् ॥ ५२ वैशाखे श्रावणे भाद्रे कर्तव्यं वा तदर्पणम् । पूर्वे पूर्वे तु वातस्थे(?)दमनादिषु कर्मम् ॥ मकर्तव्यं विधानेन त्वन्यथा निष्फलं भवेत् । वैशाखे च तृतीयायां जलमध्ये विशेषतः ॥ ५४ ४१ ४४ ४८ तु १३. च । २ क. म. 'तपत्रकः । ३ झ. त्वाऽभिधा। ४ स. 'मर्चये । ५ स. वलिया।
६१८ महामुनिश्रीव्यासमणीतं- [४ पातालखण्डे- अथवा मण्डले कुर्यान्मण्डपे वा बृहद्वने । सुगन्धचन्दनेनाङ्गं सुपुष्टं च दिने दिने । यथाप्रयत्नतः कुर्यात्कृशाङ्गस्यैव पुष्टितम् । चन्दनागरुहीवेरं कृष्णं कुङ्कुमरोचना ॥ जटामांसी मुरा चैव विष्णोर्गन्धाष्टकं विदुः । तैश्च गन्धयुतश्चापि विष्णोरङ्गानि लेपयेत् ॥ ५७ घृष्टं च तुलसीकाष्ठं कर्पूरागरुयोगतः । अथवा केशरैर्योज्यं हरिचन्दनमच्युते ।। ५८ यात्राकाले तु ये कृष्णं भक्त्या पश्यन्ति मानवाः । न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ॥५९ सुगन्धमिश्रितैस्तोयैर्देवदेवं गलन्ति ये । अथवा पुष्पमध्ये तु स्थापयेज्जगदीश्वरम् ॥ ६० वृन्दावनं तत्र गत्वा ह्युपस्कृत्य फलानि च । विष्णुभक्तेन योग्येन भोजयेत्तदशेषतः ॥ नारीकेलफलं बीजं कोशं चोद्धृत्य दापयेत् । घोण्टाफलं च पनसं कोशमुद्धृत्य दापयेत् ॥ ६२ दना विमिश्रितं चानं घृतेनाऽऽप्लुत्य दापयेत् । [*पाचितं पिष्टकं पूपमष्टादशघृतेन च ॥ ६३ तिलैश्च तिलसंमिश्रः फलं पकं प्रदापयेत् । यद्यदेवाऽऽत्मनः प्रीतं तत्तदीशाय दापयेत् ॥ ६४ दत्त्वा नैवेद्यवस्त्रादि नाऽऽददीत कथंचन । त्यक्तं च विष्णुमुद्दिश्य तद्भक्तेभ्यो विशेषतः॥ ६५ इति ते कथितं किंचित्समासेन महेश्वरि । गोप्तव्यं च प्रयत्नेन स्वयोनिरिव पार्वति ॥ श्रीकृष्णरूपगुणवर्णनशास्त्रवर्ग- बोधाधिकार इह चेदलमन्यपाठः। तत्प्रेमभावरसभक्तिविलासनाम- हारेषु चेत्खलु मनः किमु कामिनीभिः ॥ ६७ तं चेतसा प्रभजतां ब्रजबालकेन्द्र वृन्दावनं क्षितितलं यमुनाजलं च । तल्लोकनाथपदपङ्कजधूलिमिटे लिप्तं वपुः किल वृथाऽगरुचन्दनायैः ॥ ६८ इति श्रीमहापुराणे पाझे पातालखण्ड उमामहेश्वरसंवादे वृन्दावनमाहात्म्येऽशीतितमोऽध्यायः ॥ ८ ॥ आदितः श्लोकानां समष्टयङ्काः-१६०९१ अथैकाशीतितमोऽध्यायः । ऋषय ऊचुः- सूत जीव चिरं साधो श्रीकृष्णचरितामृतम् । त्वया प्रकाशितं सर्व भक्तानां भवतारणम् ॥ १ श्रीकृष्णलीलां निखिलां ब्रूहि दैनंदिनी विभो । ययाऽऽकर्णितया साधो कृष्णे भक्तिर्विवर्धते २ गुरोः शिष्यस्य मन्त्रस्य विधानं लक्षणं पृथक् । वदास्माकं महाभाग त्वं हि नः परमः सुहृत् ३ सूत उवाच- एकदा यमुनातीरे समासीनं जगद्गुरुम् । नारदः प्रणिपत्याऽऽह देवदेवं सदाशिवम् ॥ नारद उवाच- देवदेव महादेव सर्वज्ञ जगदीश्वर । भगवद्धर्मतत्त्वज्ञ कृष्णमत्रविदां वर ॥ कृष्णमत्रा मया लब्धास्त्वत्तो ये च पितुः परे । ते सर्वे साधिता यत्नान्मत्रराजादयो मया ॥६ * एतचिहान्तर्गतः पाठः ख. इ. च. छ. प. उ. पुस्तकस्थः । ५ ७ १० १२ १९ ८१ एकाशीतितमोऽध्यायः] पअपुराणम् । बहुवर्षसहस्रेस्तु शाकमूलफलाशिना । शुष्कपर्णाम्बुवाँधादिभोजिना च निराशिना ॥ स्त्रीणां संदर्शनालापवर्जिना भूमिशायिना । कामादिषड्गणं जित्वा बाह्येन्द्रियं नियम्य च ॥ ८ एवं कृतेऽपि नैवाऽऽत्मा संतुष्टो मम शंकर । तद्रूहि यत्मसिध्येत संस्काराविना प्रभो ॥ ९ सकच्चारणाघृणां ददाति फलमुत्तमम् । यदि योग्योऽस्मि देवेश तदा मे कृपया वद ॥ शिव उवाच- साधु पृष्टं महाभाग त्वया लोकहितैषिणा । सुगोप्यमपि वक्ष्यामि मन्त्रचिन्तामणिं तव ।। ११ रहस्यानां रहस्यं याह्यानां गुह्यमुत्तमम् । न मया कथितं देव्यै नाग्रजेभ्यः पुरा तव ॥ वक्ष्यामि युगलं तुभ्यं कृष्णमन्त्रमनुत्तमम् । मन्त्रचिन्तामणि म युगल(लं) द्वयमेव च ॥ पर्याया अस्य मन्त्रस्य तथा पञ्चपदीति च । गोपीजनपदं वल्लभोन्तं तु चरणानिति ॥ शरणं च प्रपा चेत्येष पञ्चपदात्मकः । मन्त्रचिन्तामणिः प्रोक्तः षोडशो! महामनुः ॥ नमो गोपीजनेत्युक्त्वा वल्लभाभ्यां वदेत्ततः । पदद्वयात्मको मन्त्रो दशार्णः खलु कथ्यते ॥ १६ एतां पञ्चपदी जप्त्वा श्रदयाऽश्रद्धया सकृत् । कृष्णप्रियोणां सांनिध्यं गच्छत्येव न संशयः१७ न पुरश्चरणप्रेक्षा नास्य न्यासविधिक्रमः । न देशकालनियमो नारिमित्रादिशोधनम् ॥ १८ सर्वेऽधिकारिणश्चात्र चाण्डालान्ता मुनीश्वर । स्त्रियः शूद्रादयश्चापि जडमूकार्यपुङ्गवाः ॥ अन्ये हूणाः किराताश्च पुलिन्दाः पुष्क(क)सास्तथा। आभीरा यवनाः कङ्काः खशायाः पापयोनयः दम्भाहकारपरमाः पापाः पैशुन्यतत्पराः । गोब्राह्मणादिहन्तारो महोपपातकान्विताः ॥ २१ ज्ञानवैराग्यरहिताः श्रवणादिविवर्जिताः । एते चान्ये च सर्वे स्युमनोरस्याधिकारिणः ॥ यदि भक्तिर्भवेदेषां कृष्णे सर्वेश्वरेश्वरे । तदाऽधिकारिणः सर्वे नान्यथा मुनिसत्तम । २३ याझिको दाननिरतः सर्वतन्त्रोपसेवकः । सत्यवादी यतिर्वाऽपि वेदवेदाङ्गपारगः ॥ ब्रह्मनिष्ठः कुलीनो वा तपस्वी व्रततत्परः । अत्राधिकारी न भवेत्कृष्णभक्तिविवर्जितः ॥ २५ तस्माद्धरावभक्ताय [कृतघ्नाय न मानिने । न च श्रद्धाविहीनाय वक्तव्यं नास्तिकाय च २६ नाशुश्रूर्षु प्रति झूयान्नासंवत्सरसेविनम् । श्रीकृष्णेऽनन्यभक्ताय] दम्भलोभविवजिते । कामक्रोधविमुक्ताय देयमेतत्प्रयत्नतः । ऋषिश्चैवाहमेवास्य गायत्री छन्द उच्यते ॥ देवता बल्लवीकान्तो मन्त्रस्य परिकीर्तितः । सप्रियस्य हरेर्दास्ये विनियोग उदाहृतः ॥ आचक्रायैस्तथा मन्त्रैः पञ्चाङ्गानि प्रकल्पयेत् । अथवाऽपि स्वबीजेन कराङ्गन्यासको चरेत् ३० मन्त्रस्य प्रथमो वर्णो बिन्दुना मूर्ति भूषितः । गमित्येवं भवेदीजं नमः शक्तिरिहोदिता ॥ ३१ अन्तिमाणैर्दशाङ्गानि तैरेव च तयाऽ(थाड)र्चनम् । गन्धपुष्पादिभिस्तच्च जलैरेवाप्यसंभवे ॥ ३२ न्यासपूर्व विधानेन कर्तव्यं हरितुष्टये । अत एवास्य मन्त्रस्य न्यासाद्यन्ये वदन्ति च ।। सकृञ्चारणाश्चैव कृतकृत्यत्वदायिनः । तथाऽपि दशधा नित्यं जपाद्यर्थ प्रविन्यसेत् ।। अथ ध्यानं प्रवक्ष्यामि मवस्यास्य द्विजोत्तम । पीताम्बरं घनश्यामं द्विभुजं वनमालिनम् ॥ ३५ बहिबईकृतापीडं शशिकोटिनिभाननम् । घूर्णायमाननयनं कर्णिकारावर्तसिनम् ॥ २२ २४ २७ * वायवादीति भाति । + एतचिहान्तर्गतः पाठः क. ख. ग. च. छ. म. १. पुस्तकस्थः । क. ख. च. म. 'षड्गुण १२ म. प्र. भान्ते तु । ३ अ. घेतेत्यें। ४ ख. अ. शार्ण उदाहृतः ।। ५. इ. 'यावृन्दमध्य ग । ६. अपवाः । ।
- ६२० महामुनिश्रीव्यासप्रणीतं- [४ पातालखण्डे- अभितश्चन्दननाथ मध्ये कुङ्कुमबिन्दुना । रचितं तिलकं भाले विभ्रतं मण्डलाकृतिम् ॥ तरुणादित्यसंकाशं कुण्डलाभ्यां विराजितम् । घर्माम्बुकर्ण(णि)काराजहर्पणाभकपोलकम् ।। ३८ प्रियास्यन्यस्तनयनं नी(ली)लया चोन्नतध्रुवम् । अग्रभागन्यस्तमुक्ताविस्फरत्मोचनासिकम्॥३९ दशनज्योत्स्नया राजत्पकविम्बफलाधरम् । केयूराङ्गदसद्रत्नमुद्रिकाभिर्लसत्करम् ।। विभ्रतं मुरली वामे पाणौ पमं तथैव च । काञ्चीदामस्फुरन्मध्यं नूपुराभ्यां लसत्पदम् ॥ ४१ रतिकेलिरसावेशचपलं चपलेक्षणम् । हसन्तं प्रियया सार्धं हासयन्तं च तां मुहुः ।। ४२ इत्थं कल्पतरोर्मूले रत्नसिंहासनोपरि । वृन्दारण्ये स्मरेत्कृष्णं संस्थितं प्रियया सह ॥ ४३ वामपार्ने स्थिता तस्य राधिकां च स्मरेत्ततः । नीलचोलकसंवीतां तप्तहेमसमप्रभाम् ॥ पट्टाञ्चलेनाऽऽवृधिसुस्मेराननपङ्कजाम् । कान्तवक्त्रे यस्तनेत्रां कोरीव च(च)लेक्षणाम् ॥ ४५ अङ्गुष्ठतर्जनीभ्यां च निजप्रियमुखाम्बुजे । अर्पयन्ती पूगफली पर्णचूर्णसमन्विताम् ॥ ४६ मुक्ताहारस्फुरच्चारुपीनोन्नतपयोधराम् । क्षीणमध्यां पृथुश्रोणी किङ्किणीजालमण्डिताम् ॥ रत्नताटङ्ककेयरमुद्रावलयभ.रिणीम् । लसत्कटकमञ्जीररत्नपादाङ्गुलीयकाम् ।। लावण्यसारमुग्धाङ्गी सर्वावयवसुन्दरीम् । आनन्दरससंमनां प्रसन्नां नवयौवनाम् ॥ सख्यश्च तस्या विप्रेन्द्र तत्समानवयोगुणाः । त सेवनपरा भ.व्याश्चामरव्यञ्ज(ज)नादिभिः॥५० [*अथ तुभ्यं प्रवक्ष्यामि मत्रार्थ शृणु नारद । बहिरङ्गः प्रपञ्चस्य स्वांशैर्मायादिशक्तिभिः]॥५१ अन्तरङ्गैस्तथा नित्यं विभूतैस्तैश्विदादिभिः । गोपन.दुच्यते गोपी राधिका कृष्णवल्लभा ॥ ५२ देवी कृष्णमयी प्रोक्ता राधिका परदेवता । सर्वलक्ष्मीस्वरूपा सा कृष्णाह्लादखरूपिणी ॥ ५३ ततः सा मोच्यते विप्र हादिनीति मनीषिभिः । तत्कलाकोटिकोय्यंशा दुर्गाद्यास्त्रिगुणात्मिकाः॥ सा तु साक्षान्महालक्ष्मीः कृष्णो नारायणः प्रभुः । नैतयोविद्यते भेदः स्वल्पोऽपि मुनिसत्तम ॥ इयं दुर्गा हरी रुद्रः कृष्णः शक्र इयं शची। सावित्रीयं हरिब्रह्मा धूमोर्णाऽसौ यमो हरिः॥५६ बहुना किं मुनिश्रेष्ठ विना ताभ्यां न किंचन । चिदचिल्लक्षणं सर्व राधाकृष्णमयं जगत् ॥ ५७ इत्थं सर्व तयोरेव विभूतिं विद्धि नारद । न शक्यते मया वक्तुं वर्षकोटिशतैरपि ॥ त्रैलोक्ये पृथिवी मान्या जम्बूद्वीपं ततो वरम् । तत्रापि भारतं वर्ष तत्रापि मथुरा पुरी ॥ ५९ तत्र वृन्दावनं नाम तत्र गोपीकदम्बकम् । तत्र राधासखीवर्गस्तत्रापि राधिका वरा ॥ सांनिध्याधिक्यतस्तस्या ह्याधिक्यं स्याद्यथोत्तरम् । पृथिवीप्रभृतीनां तु नान्यत्किचिदिहोदितम्।। सैषा हि राधिका गोपी जनस्तस्याः सखीगणः । तस्याः सखीसमूहस्य वल्लभौ प्राणनायकौ ६२ राधाकृष्णौ तयोः पादाः शरणं स्यादिहाऽऽश्रयम् । प्रपद्ये गतवानस्मि जीवोऽहं भृशदुःखितः।। सोऽहं यः शरणं प्राप्तो मम तस्य यदस्ति च । सर्व ताभ्यां तदर्थ हि तद्भोग्यं न बहं मम।। ६४ इत्यसौ कथितो विप्र मन्त्रस्यार्थः समासतः । युगलार्थस्तथा न्यासः मपत्तिः शरणागतिः ॥६५ आत्मार्पणमिमे पञ्च पर्यायास्ते मयोदिताः । अयमेव चिन्तनीयो दिवानक्तमतन्द्रितैः ।। ६६ इति श्रीमहापुराणे पाने पातालखण्डे वृन्दावनमाहात्म्यकथनं नामैकाशीतितमोऽध्यायः ॥ ८ ॥ आदितः श्लोकानां समष्ट्यशाः-१६१५७ * धनुश्चिहान्तर्गतः पाठः ख. पुस्तकस्थः । १ क. ख. ङ. च. छ. अ. र. म् । रणत्क' । २ म. धूमौर्णाऽ । ५८ ६० ८२ यशीतितमोऽध्यायः ] पद्मपुराणम् । ६२१ अथ इयशीतितमोऽध्यायः । २ ८ ९ शिव उवाच- अथ दीक्षाविधि वक्ष्ये शृणु नारद तत्त्वतः । श्रवणादेव मुच्यन्ते विना तस्य विधानतः ॥ आविरश्चाजगत्सर्वं विज्ञाय नश्वरं बुधः। आध्यात्मिकादित्रिविधदुःखमेवानुभूय च ॥ अनित्यत्वाच सर्वेषां सुखानां मुनिसत्तम । दुःखपक्षे विनिक्षिप्य तानि तेभ्यो विवर्जितैः (तः)। विरज्य संमृतेर्हानौ साधनानि विचिन्तयेत् । अनुत्तमसुखस्यापि संप्राप्तौ भृशनिवृतः ॥ *सैराणां दुष्करत्वं हि विज्ञाय च महामतिः । भृशमार्तस्ततो विप्रः श्रीगुरुं शरणं व्रजेत् ॥ ५ शान्तो विमत्सरः कृष्णे भक्तोऽनन्यप्रयोजनः । अनन्यसाधनः श्रीमान्क्रोधलोभविवर्जितः ॥ ६ श्रीकृष्णरसतत्त्वज्ञः कृष्णमत्रविदां वरः। कृष्णमत्राश्रयो नित्यं मत्रभक्तः सदा शुचिः॥ सद्धर्मशासको नित्यं सदाचारनियोजकः । संप्रदायी कृपापूर्णो विरागी गुरुरुच्यते ॥ एवमादिगुणः प्रायः शुश्रूषुर्गुरुपादयोः । ['गुरौ नितान्तभक्तश्च मुमुक्षुः शिष्य उच्यते ॥ यत्साक्षात्सेवनं तस्य प्रेम्णा भगवतो भवेत् । स मोक्षः प्रोच्यते पार्वेदवेदाङ्गवेदिभिः॥ १० आश्रित्य च गुरोः पादौ निजवृत्तं निवेदयेत् । स संदेहानपाकृत्य बोधयित्वा पुनः पुनः ॥ ११ स्वपादपणतं शान्तं शुश्रूषु निजपादयोः] । अतिहृष्टमनाः शिष्यं गुरुरध्यापयेन्मनुम् ॥ १२ चन्दनेन मृदा वाऽपि विलिखेद्धाहुमूलयोः । वामदक्षिणयोर्विप शङ्खचक्रे यथाक्रमम् ॥ ऊर्ध्वपुण्डूं ततः कुर्याद्भालादिषु विधानतः । ततो मत्रद्वयं तस्य दक्षकर्णे विनिर्दिशेत् ॥ १४ मत्रार्थ च वदेत्तस्मै यथावदनुपूर्वशः । दासशब्दयुतं नाम धार्य तस्य प्रयत्नतः ।। १५ ततोऽतिभक्त्या सस्नेहं वैष्णवान्भोजयेद्बुधः । श्रीगुरुं पूजयेच्चापि वस्त्रालंकरणादिभिः॥ १६ सर्वस्वं गुरवे दद्यात्तदर्ध वा महामुने । स्वदेहमपि निक्षिप्य गुरौ स्थेयमकिंचनैः ।। य एतैः पञ्चभिर्विद्वान्संस्कारैः संस्कृतो भवेत् । दास्यभागी स कृष्णस्य नान्यथा कल्पकोटिभिः [+अङ्कनं तूर्ध्वपुण्डूश्च मत्रो नामविधारणम् । पञ्चमो याग इत्युक्ताः संस्काराः पूर्वसूरिभिः] १९ अङ्कनं शङ्खचक्रोद्यैः सच्छिद्रः पुण्ड्र उच्यते । दासशब्दयुतं नाम मत्रो युगलसंज्ञकः ॥ गुरुवैष्णवयोः पूजा याग इत्यभिधीयते । एते परमसंस्कारा मया ते परिकीर्तिताः ॥ २१ आ तुभ्यं प्रपन्नानां धर्मान्वक्ष्यामि नारद । यानास्थाय गमिष्यन्ति हरिधाम नराः कलौ २२ इत्थं गुरोर्लब्धमत्रो गुरुभक्तिपरायणः । सेवमानो गुरुं नित्यं [*तत्कृपां भावयेत्सुधीः ॥ २३ सतां धर्मास्ततः शिक्षेत्मपन्नानां विशेषतः । स्वेष्टदेवधिया नित्यं] वैष्णवान्परितोषयेत् ॥ २४ ताडनं भर्त्सनं कामी भोग्यत्वेन यथा स्त्रियः(याः) । गृह्णाति वैष्णवानां च तत्तद्वाह्यं तथा बुधैः ऐहिकामुष्मिकी चिन्ता नैव कार्या कदाचन । ऐहिकं तु सदा भाव्यं पूर्वाचरितकर्मणा ॥ २६ आमुष्मिकं तथा कृष्णः स्वयमेव करिष्यति । अतो हि तत्कृते त्याज्यः प्रयत्नः सर्वथा नरैः२७ सर्वोपायपरित्यागः कृष्णीयात्मतयार्चनम् । मुचिरं प्रोषिते कान्ते यथा पतिपरायणा ॥ २८ मियानुरागिणी दीना तस्य सङ्गैककाक्षिणी । तद्गुणान्भावयेन्नित्यं गायत्यभिशृणोति च ॥२९ * अत्र कर्मणामिति पाठोऽपेक्षित इति भाति । + धनुश्चिान्तर्गतः पाठः क. ख. ङ. च. छ. अ. इ. पुस्तकस्थः । + धनुचिहान्तर्गतः पाठः ख. ङ. च. छ. इ. पुस्तकस्थः । * धनुश्चिहान्तर्गतः पाठः क. ख. ङ.च. छ.प्र.ड. पुस्तकस्थः। २० . १ अ. सरणां २ स. कादि स।
६२२ महामुनिश्रीव्यासप्रणीतं- [१ पातालखण्डे- श्रीकृष्णगुणलीलादेः स्मरणादि तथाऽऽचरेत् । न पुनः साधनत्वेन कार्य तत्तु कदाचन ॥ ३० चिरं पोष्याऽऽगतं कान्तं प्राप्य कान्ता धिया यथा।चुम्बन्ती चाऽऽश्लिष्यन्तीचनेत्रान्तेन पिबन्त्यपि ब्रह्मानन्दे गते वाऽमुं सेवते परया मुदा । श्रीमदर्चावतारेण तथा परिचरेद्धरिम् ॥ ३२ अनन्यशरणो नित्यं तथैवानन्यसाधनः । अनन्यसाधनार्थी च स्यादनन्यप्रयोजनः ॥ नान्यं च पूजयेद्देवं न नमेत्तं स्मरेन च । न च पश्येन गायेञ्च न च निन्देत्कदाचन ॥ नान्योच्छिष्टं च भुञ्जीत नान्यशेषं च धारयेत् । अवैष्णवानां संभाषावन्दनादि विवर्जयेत् ॥३५ ईशवैष्णवयोनिन्दा शृणुयान कदाचन । कर्णौ पिधाय गन्तव्यं शक्तो दण्डं समाचरेत् ॥ ३६ आश्रित्य चातकी वृत्तिं देहपातावधि द्विज । द्वयस्यायें भावयित्वा स्थैयमित्येव मे मतिः ॥ ३७ सरःसमुद्रनद्यादीन्विहाय चातको यथा । दृषितो म्रियते चापि याचते वा पयोधरम् ॥ ३८ एवमेव प्रयत्नेन साधनानि विचिन्तयेत् । स्वेष्टदेवौ सदा याच्यौ गतिस्तौ मे भवेदिति ॥ ३९ स्वेष्टदेवतदीयानां गुरोरपि विशेषतः । आनुकूल्ये सदा स्थेयं प्रातिकूल्यं विवर्जयेत् ॥ सकृत्मपनो वक्ष्यामि कल्याणगुणतां तयोः । विचिन्त्य विश्वसेदेतौ मामिमावुद्धरिष्यतः ॥ ४१ संसारसागरानायौ पुत्रमित्रगृहाकुलात् । गोप्तारौ मे युवामेव प्रपन्नभयभञ्जनौ ।। ४२ योऽहं ममास्ति यत्किचिदिह लोके परत्र च । तत्सर्वं भवतोरय चरणेषु समर्पितम् ।। अहमस्म्यपराधानामालयस्त्यक्तसाधनः । अगतिश्च ततो नाथौ भवन्तावेव मे गतिः ॥ तवास्मि राधिकाकान्त कर्मणा मनसा गिरा । कृष्णकान्ते तवैवास्मि युवामेव गतिर्मम ॥ शरणं वां प्रपनोऽस्मि करुणानिकराकरौ । प्रसादं कुरुतं दास्यं मयि दुष्टेऽपराधिनि ॥ ४६ इत्येवं जपता नित्यं स्थातव्यं पध(द)पङ्कजम् । अचिरादेव तदास्यमिच्छता मुनिसत्तम ॥ ४७ बाबधर्मा मया ह्येते संक्षेपेणोपवर्णिताः । आन्तरः परमो धर्मः अपमानामथोच्यते ॥ कृष्णप्रियासखीभाव समाश्रित्य प्रयत्नतः । तयोः सेवां प्रकुर्वीत दिवानक्तमन्तन्द्रितः॥ उक्तो मत्रस्तदङ्गानि तथा तस्याधिकारिणः । तद्धर्माश्च तथा तेभ्यः फलं मत्रस्य नारद ।। ५० अनुतिष्ठ त्वमप्येतत्तयोर्दास्यमवाप्स्यसि । स्वाधिकारक्षये विष संदेहो नाश कश्चन ॥ ५१ सकृन्मात्रप्रपन्नाय तवास्मीत्यभियाचते । निजदास्यं हरिदद्यान मेऽत्रास्ति विचारणा ॥ ५२ अत्र ते वर्णयिष्यामि रहस्य परमाद्भुतम् । श्रुतं पूर्व मया कृष्णात्साक्षाद्भगवतः किल ॥ एष ते कथितो धर्मो बान्तरो मुनिसत्तम । गुह्याद्रुह्यतमो ह्येष गोपनीयः प्रयत्नतः ॥ मवरत्नमहं पूर्व जपन्कैलासमूर्धनि । ध्यायनारायणं देवमवसं गहने वने ॥ ५५ ततस्तु भगवांस्तुष्टः प्रादुरासीन्ममाग्रतः। त्रियतां वर इत्युक्ते मयाऽप्युद्धाटय लोचने ॥ ५६ दृष्टो देवः प्रियासाध संस्थितो गरुडोपरि । प्रणिपत्य मुहुश्चैवमवदं च श्रियः पतिम् ॥ यद्धपं ते कृपासिन्धो परमानन्ददायकम् । सर्वानन्दाश्रयं नित्यं मूर्तिमत्सर्वतोऽधिकम् ॥ ५८ निर्गुणं निष्क्रिय शान्तं तद्ब्रह्मेति विदुर्बुधाः । तदहं द्रष्टुमिच्छामि चक्षुा परमेश्वर ।। ततो मामाह भगवान्प्रपनं कमलापतिः । तदद्य द्रक्ष्यसे रूपं यत्ते मनसि काक्षितम् ॥ यमुनापश्चिमे कूले गच्छ वृन्दावनं मम । इत्युक्त्वाऽन्तर्दधे देवः मियासार्थ जगत्पतिः॥ ६१ अहमप्यागतस्तार्ह यमुनायास्तटं शुभम् । तत्र कृष्णमपश्यं च सर्वदेवेश्वरेश्वरम् ॥ गोपवेषधरं कान्तं किशोरवयसाऽन्वितम् । प्रियास्कन्ये सुविन्यस्तवामहस्तमनोहरम् ॥ १. म. वसते। ४८ ५७ ६० ७८ ८२ अशीतितमोऽध्यायः ] पद्मपुराणम् । ६२३ हसन्तं तां हासयन्तं मध्ये गोपीकदम्बके । स्निग्धमेघसमाभासं कल्याणगुणमन्दिरम् ॥ प्रहस्य च ततः कृष्णो मामाहामृतभाषणः । अहं ते दर्शनं यातो ज्ञात्वा रुद्र तवेप्सितम् ॥ ६५ यदद्य मे त्वया दृष्टमिदं रूपमलौकिकम् । घनीभूतामलप्रेम सच्चिदानन्दविग्रहम् ॥ नीरूपं निर्गुणं व्यापि क्रियाहीनं परात्परम् । वदन्त्युपनिषत्संघा इदमेव ममानघ । प्रकृत्युत्थगुणाभावादनन्तत्वात्तथेश्वरम् । असिद्धत्वान्मद्गुणानां निर्गुणं मां वदन्ति हि ॥ ६८ अदृश्यत्वान्ममैतस्य रूपस्य चर्मचक्षुषा । अरूपं मां वदन्त्येते वेदाः सर्वे महेश्वर ॥ व्यापकत्वाच्चिदंशेन ब्रह्मति च विदु धाः । अकर्तृत्वात्मपञ्चस्य निष्क्रियं मां वदन्ति हि ॥ ७० मायागुणैर्यतो मेंऽशाः कुर्वन्ति सर्जनादिकम् । न करोमि स्वयं किंचित्सृष्ट्यादिकमहं शिव ॥७१ अहमासां महादेव गोपीनां प्रेमविहलः । क्रियान्तरं न जानामि नाऽऽत्मानमपि नारद ॥ ७२ विहराम्यनया नित्यमस्याः प्रेमवशीकृतः । इमां तु मत्मियां विद्धि राधिका परदेवताम् ॥ ७३ अस्याश्च परितः पश्चात्सख्यः शतसहस्रशः । नित्याः सर्वा इमा रुद्र यथाऽहं नित्यविग्रहः ॥ ७४ सखायः पितरो गोपा गावो वृन्दावनं मम । सर्वमेतंन्नित्यमेव चिदानन्दरसात्मकम् ॥ इदमानन्दकन्दाख्यं विद्धि वृन्दावनं मम । यस्मिन्प्रवेशमात्रेण न पुनः संमृति विशेत् ॥ ७६ मद्वनं प्राप्य यो मूढः पुनरन्यत्र गच्छति । स आत्महा महादेव सत्यं सत्यं मयोदितम् ॥ ७७ वृन्दावनं परित्यज्य नैव गच्छाम्यहं कचित् । निवसाम्यनया सार्धमहमत्रैव सर्वदा ॥ इत्येवं सर्वमाख्यातं यत्ते रुद्र हदि स्थितम् । कथयस्व ममेदानी किमन्यच्छ्रोतुमिच्छसि ॥ ७९ ततस्तमब्रवं देवमहं च मुनिसत्तम । ईदृशस्त्वं कथं लभ्यस्तमुपायं वदस्व मे ।। ततो मामाह भगवान्साधु रुद्र तवोदितम् । अतिगुह्यतमं ह्येतद्गोपनीयं प्रयत्नतः॥ ८१ सकृदावां प्रपनो यस्त्यक्तोपाय *उपासते । गोपीभावेन देवेश स मामेति न चेतरः ।। सकृदावां प्रपनो वा मत्मियामोकिका सुत । सेवतेऽनन्यभावेन स मामेति न संशयः॥ यो मामेव प्रपत्रश्च मत्मियां न महेश्वर । न कदापि स चाऽऽप्नोति मामेवं ते मयोदितम् ॥ ८४ सकृदेव प्रपन्नो यस्तवास्मीति वदेदपि । साधनेन विनाऽप्येवमामामोति न संशयः॥ तस्मात्सर्वप्रयत्नेन मत्मियां शरणं व्रजेत् । आश्रित्य मत्प्रियां रुद्र मां वशीकर्तुमर्हसि ॥ ८६ इदं रहस्यं परमं मया ते परिकीर्तितम् । त्वयाऽप्येतन्महादेव गोपनीयं प्रयत्नतः ॥ त्वमप्येतां समाश्रित्य राधिका मम वल्लभाम् । जपन्मे युगुलं मत्रं सदा तिष्ठ मदालये॥ शिव उवाच- इत्युक्त्वा दक्षिणे कर्णे मम कृष्णो दयानिधिः। उपदिश्य द्वयं ह्येतत्संस्कारांश्च विधाय हि॥८९ सगणोऽन्तर्दधे विम तत्रैव मम पश्यतः । अहमप्यत्र तिष्ठामि तदारभ्य निरन्तरम् ॥ सर्वमेतन्मया तुभ्यं साङ्गमेव प्रकीर्तितम् । अधुना वद विभेन्द्र किं भूयः श्रोतुमिच्छसि ॥ ९१ इति श्रीमहापुराणे पाये पातालखण्डे वृन्दावनमाहात्म्ये व्यशीतितमोऽध्यायः ॥ २ ॥ आदितः श्लोकानां समष्ट्यङ्काः-१६२४० ८० ८२ ८३ ८७ ८८ ९० * गणकार्यस्यानित्यतया शब्लुकोऽभावः । १ ख. र. च. छ. ड. पश्य सख्यः । २ ख. सर्वथा नात्र संशयः । ।
६२४ महामुनिश्रीव्यासप्रणीतं- [ ४ पातालखण्डे- अथ श्यशीतितमोऽध्यायः । - - २ १० नारद उवाच- भगवन्सर्वमाख्यातं यद्यत्पृष्टं मया गुरो । अधुना श्रोतुमिच्छामि भव मार्गमनुत्तमम् ॥ सदाशिव उवाच- साधु पृष्टं त्वया विम सर्वलोकहितैषिणा । रहस्यमपि वक्ष्यामि तन्मे निगदतः शृणु। दासाः सखायः पितरौ प्रेयस्यश्च हरेरिह । सर्वे नित्या मुनिश्रेष्ठ तत्तुल्या गुणशालिनः ॥ यथा प्रकटलीलायां पुराणेषु प्रकीर्तिताः । तथा ते नित्यलीलायां सन्ति वृन्दावने भुवि ॥ गमनागमने नित्यं करोति वनगोष्ठयोः । गोचारणं वयस्यैश्च विनाऽसुरविघातनम् ।। ५ परकीयाभिमानिन्यस्तथा तस्य प्रिया जनाः। प्रच्छन्नेनैव भावेन रमयन्ति निजभियम् ।। ६. आत्मानं चिन्तयेत्तत्र तासां मध्ये मनोरमाम् । रूपयौवनसंपन्नां किशोरी प्रमदाकृतिम् ।। नानाशिल्पकलाभिज्ञां कृष्णभोगानुरूपिणीम् । प्रार्थितामपि कृष्णेन तत्र भोगपराङ्मुखीम् ॥ ८ राधिकानुचरी नित्यं तत्सेवनपरायगाम् । कृष्णादप्यधिक प्रेम राधिकायां प्रकुर्वतीम् ।। प्रीत्याऽनुदिवसं यत्नात्तयोः संगमकारिणीम् । तत्सेवनसुखाडादभावेनातिसुनिर्वृताम् ॥ इत्यात्मानं विचिन्त्यैव तत्र सेवा समाचरेत् । ब्राह्म मुहूर्तमारभ्य यावत्स्यात्तु महानिशा ।। ११ नारद उवाच- हरेर्दैनंदिनी लीला श्रोतुमिच्छामि तत्त्वतः । लीलामजानता सेव्यो मनसा तु कथं हरिः ॥ १२ श्रीसदाशिव उवाच- नाहं जानामि तो लीलां हरेर्नारद तत्त्वतः । वृन्दादेवीमितो गच्छ सा ते लीलां प्रवक्ष्यति॥१३ अविदूर इतः स्थानोत्केशी(शि?)तीर्थसमीपतः । सखीसंघवृता साऽऽस्ते गोविन्दपरिचारिका ॥ सूत उवाच- इत्युक्तस्तं परिक्रम्य हृष्टो नत्वा पुनः पुनः । वृन्दाश्रमं जगामाथ नारदो मुनिसत्तमः ।। वृन्दाऽपि नारदं दृष्ट्वा प्रणम्य च पुनः पुनः । उवाच च मुनिश्रेष्ठ कथमत्राऽऽगतिस्तव ॥ १६ नारद उवाच- त्वत्तो वेदितुमिच्छामि नैत्यकं चरितं हरेः। तदादितो मम धूहि यदि योग्योऽस्मि शोभने ॥ १७ वृन्दोवाच- रहस्यमपि वक्ष्यामि कृष्णभक्तोस नारद । न प्रकाश्यं त्वया ह्येतद् यात्रुह्यतरं महत् ।। १८ मध्यवृन्दावने रम्ये पञ्चाशत्कुञ्जमण्डिते । कल्पवृक्षनिकुञ्ज तु दिव्यरत्नमये गृहे ॥ १९ निद्रितौ तिष्ठतस्तल्पे निबिडालिङ्गिती मिथः । मदाज्ञाकारिभिः पश्चात्पक्षिभिर्वाधितावपि ॥२० गाढालिङ्गनजानन्दमाप्तौ तद्भङ्गकातरौ । नो मनः कुर्व(रु)तस्तल्पात्समुत्थातुं मनागपि ॥ २१ ततश्च सारिकासङ्गैः शुकाधैरपि तौ मुहुः । बोधितौ विविधैर्वाक्यैः स्वतल्पाद्दतिष्ठताम् ॥ २२ उपविष्टौ ततो दृष्ट्वा सख्यस्तल्पे मुदाऽन्वितौ । प्रविश्य सेवां कुर्वन्ति तत्काले युचितां तयोः२३ पुनश्च सारिकावाक्यैः स्वतल्पाद्दतिष्ठताम् । गच्छतः स्वस्वभवनं भीत्युत्कण्ठाकुलौ ततः ॥ २४ पातश्च बोधितो मात्रा तल्पादुत्थाय सत्वरः । कृत्वा कृष्णो दन्तकाष्ठं बलदेवसमन्वितः ॥ २५ १५ १. म. नात्कीशी।
२८ ३० ३२ १३ ज्यशीतितमोऽध्यायः ] पद्मपुराणम् । ६२५ मात्राऽनुमोदितो याति गोशाला सखिभिर्वृतः । राधाऽपि बोधिता विप्र वयस्याभिः स्वतल्पतः उत्थाय दन्तकाष्ठादि कृत्वाऽभ्यङ्गं समाचरेत् । स्नानवेदिं ततो गत्वा नापिता सा निजालिभिः भूषागृहं व्रजेत्तत्र वयस्या भूषयन्त्यपि । भूपर्विविधैर्दिव्यैर्गन्धमाल्यानुलेपनैः ॥ ततः सखीजनैस्तस्याः श्वश्रू संपार्थ्य यत्नतः । पक्तुमाहूयते स्वनं ससखी सा यशोदया ॥२९ नारद उवाच- कथमाहूयते देवी पाकार्थं तु यशोदया। सतीषु पाककीषु रोहिणीप्रमुखास्वपि ॥ वृन्दोवाच पूर्व दुर्वाससा दत्तो वरस्तस्यै महामुने । इति कात्यायनीवक्त्राच्छ्रुतमासीन्मया पुरा ॥ ३१ त्वया यत्पच्यते देवि तदनं मदनुग्रहात् । मिष्टं स्यादमृतस्पर्षि भोक्तुरायुष्करं तथा । इत्याहयति तां नित्यं यशोदा पुत्रवत्सला । आयुष्मान्मे भवेत्पुत्रः स्वादुलोभात्तथा सती ॥३३ श्वश्र्वाऽनुमोदिता साऽपि हृष्टा नन्दालयं व्रजेत् । ससखीप्रकरा तत्र गत्वा पाकं करोति च ३४ कृष्णोऽपि दुग्ध्वा गाः काश्चिद्दोहयित्वा जनैः पराः।आगच्छति पितुर्वाक्यात्स्वगृहं सखिभिर्वृतः अभ्यङ्गमर्दनं कृत्वा दासैः संस्नापितो मुदा । धौतवस्त्रधरः स्रग्वी चन्दनाक्तकलेवरः ॥ [*द्विकालबद्धचिकुरैीवाभालोपरि स्फुरन् । चन्द्राकारस्फुरद्भालतिलकालकरञ्जितः ॥ कङ्कणागदकेयूररत्नमुद्रालसत्करः। ] मुक्ताहारस्फुरद्वक्षा मकराकृतिकुण्डलः ॥ ३८ मुहुराकारितो मात्रा प्रविशेद्भोजनालयम् । अवलम्ब्य करं सख्युर्बलदेवमनुव्रतः ॥ भुलेऽथ विविधान्नानि भ्रात्रा च सखिभिर्वृतः । हासयन्विविधैर्हास्यैः सखीस्तैईसति स्वयम् ४० इत्थं भुक्त्वा तथाऽऽचम्य दिव्यखट्वोपरि क्षणम् । विश्रम्य सेवकैर्दत्तं ताम्मूल विभजनदन।।४१ गोपवेषधरः कृष्णो धेनुवृन्दपुरःसरः । व्रजवासिजनैः प्रीत्या सर्वैरनुगतः पथि ।। पितरं मातरं नत्वा नेत्रान्तेनापि तं गणम् । यथायोग्यं तथा चान्यान्विनिवर्त्य वनं व्रजेत् ॥४३ वनं प्रविश्य सखिभिः क्रीडयित्वा क्षणं ततः । विहारौविविधैस्तत्र वने विक्रीडतो मुदा ॥ ४४ वश्चयित्वा तु तान्सर्वान्वित्रैः प्रियसखैर्वृतः । संकेतकं ब्रजेद्धर्षात्प्रियासंदर्शनोत्सुकः ॥ साऽपि कृष्णं च संयान्तं दृष्ट्वा स्वं गृहमागता । सूर्यादिपूजाव्याजेन कुसुमाहतये तथा ॥ ४६ वश्चयित्वा गुरून्याति प्रियसङ्गेच्छया वनम् । इत्थं तो बहुयत्नेन मिलित्वा स्वगणैस्ततः ॥ ४७ वश्वयित्वा च तान्सर्वान्वने विक्रीडतो मुदा । दोलां चैव समारूढौ सखिभिर्दोलितौ कचित् ४८ कचिद्वेणुं करसस्तं प्रिययाऽपहेनुतं हरिः । अन्वेषयनुपालब्धो विपलब्धः प्रियागणैः ।। हसितैबहुधा ताभिर्हासितस्तत्र तिष्ठति । वसन्तवायुना जुष्टं वनखण्डं कचिन्मुदा ॥ प्रविश्य चन्दनाम्भोभिः कुङ्कुमादिजलैरपि । निषिश्चतो यत्रमुक्तैस्तत्पङ्कलिम्पतो मिथः ॥ ५१ सख्योऽप्येवं निषिञ्चन्ति ताश्च तो सिञ्चतः पुर्नः। वसन्तवायुजुष्टेषु वनखण्डेषु सर्वतः ॥ तत्तत्कालोचितैर्नानाविहारैः सगणौ द्विज । श्रान्तो कचिवृक्षमूलमासाद्य मुनिसत्तम । ४२ ४५ * एतचिहान्तर्गतः पाठः स. ङ. च छ. भ. ड. पुस्तकस्थः । १ स. विबुधा । २ ख. रु. च. छ. स. "ष्णं वनं या । ३ ख ड. घ. छ. ४.तः । विहारैर्विविधस्तत्र बने । ४. प्रियाय कुरुते हरिः । अ । ५ झ. नुते हैं। इस. नः । मन्दन वायुना जुष्टौ क्रीडतो वनराजिषु । त । ७ क. अ. 'गणैर्युतः । श्रा।
६२६ महामुनिश्रीव्यासप्रणीतं- [४ पातालखण्टे- उपविश्याऽऽसने दिव्ये मधुपानं प्रचक्रतुः । ततो मधुमदोन्मत्तौ निद्रया मीलितेक्षणौ ॥ ५४ मिथः पाणी समालम्ब्य कामबाणवशं गतौ । रिरंसू विशतः कुञ्ज स्खलद्वाङ्मनसौ पथि ॥५५ क्रीडतश्च ततस्तत्र करिणीयूथपौ यथा । सख्योऽपि मधुभिर्मत्ता निद्रया पीडितेक्षणाः ॥ अभितो मञ्जुकुलेषु सर्वा एवापि शिश्यिरे । पृथगेकेन वपुषा कृष्णोऽपि युगपद्विभुः ॥ सर्वासां संनिधिं गच्छेत्प्रियया प्रेरितो मुहुः । रमयित्वा च ताः सर्वाः करिणीर्गजराडिव।। ५८ प्रियया च तथा ताभिः क्रीडार्थ च सरो व्रजेत् । जलसेकैमिथस्तत्र क्रीडतः सगणौ ततः॥ ५९ वासःस्रक्चन्दनैर्दिव्यैर्भूषणैरपि भूषितौ । तत्रैव सरसस्तीरे दिव्यरत्नमये गृहे ॥ ६० प्रोगेव फलमूलानि कल्पितानि मया मुने । हरिस्तु प्रथमं भुक्त्वा कान्तया परिवेष्टितः ॥ ६१ विवाभिः सेवितो गच्छेच्छय्यां पुष्पविनिर्मिताम् । ताम्बूलैव्यंजनैस्तत्र पादसंवाहनादिभिः ६२ सेव्यमानो हसंस्ताभिर्मोदते प्रेयसी स्मरन् । राधिकाऽपि हरौ सुप्ते सगणा मुदितान्तरा ॥ ६३ अपि तत्र गतप्राणा तच्छिष्टं भुनक्ति चें। किंचिदेव ततो भुक्त्वा ब्रजेच्छय्यानिकेतने ॥ ६४ द्रष्टुं कान्तमुखाम्भोजं चकोरीव निशाकरम् । ताम्बूलचर्वितं तस्य तत्रत्याभिनिवेदितम् ॥ ६५ ताम्बूलान्यपि चाश्नाति विभजन्ती प्रियालिषु।कृष्णोऽपि तासांशुश्रूषुः स्वच्छन्दं भाषितं मिथः प्राप्तनिद्र इवाऽऽभाति विनिद्रोऽपि पटावृतः। ताश्च क्ष्वेलां क्षणं कृत्वा कुतश्चिदनुमानतः ॥ ६७ व्युदस्य रसनां दद्भिः पश्यन्त्योऽन्योन्यमाननम् । लीना इव लजया स्युः क्षणमूचुन किंचन६८ क्षणादेव ततो वस्त्रं दूरीकृत्य तदङ्गतः । साधु निद्रां गतोऽसीति हासयन्त्यो हसन्ति च ॥ ६९ एवं तौ विविधैर्हास्यै रममाणौ गणैः सह । अनुभूय क्षणं निद्रामुखं च मुनिसत्तम । उपविश्याऽऽसने दिव्ये सगणौ विस्तृते मुदा । पणीकृत्य मिथो हारचुम्बाश्लेषपरिच्छदान्॥७१ अक्षैविक्रीडतः प्रेम्णा नालापपुरःसरम् । पराजितोऽपि प्रियया जितोऽहमिति वै ब्रुवन् ।। ७२ हारादिग्रहणे तस्याः प्रवृत्तस्ताड्यते तया । तयैवं ताडितः कृष्णः करेणाऽऽस्यसरोरुहे ॥ ७३ विषण्णमानसो भूत्वा गन्तुं च कुरुते मतिम् । जितोऽस्मि त्वया देवि गृह्यतां यत्पणीकृतम् ७४ चुम्बनादि मया दत्तमित्युक्त्वा सा तथाऽऽचरेत् । कौटिल्यं तभ्रुवोर्द्रष्टुं श्रोतुं तद्भर्त्सनं वचः॥ ततः सारिशुकानां च श्रुत्वा वागावं मिथः । निर्गच्छतस्ततः स्थानाद्गन्तुकामौ गृहं प्रति ७६ कृष्णः कान्तामनुज्ञाप्य गवामभिमुखं व्रजेत् । सा तु सूर्यगृहं गच्छेत्सखीमण्डलसंयुता ॥ कियडूरं ततो गत्वा परावृत्य हरिः पुनः । विप्रवेषं समास्थाय याति सूर्यगृहं प्रति ॥ सूर्य प्रपूजयेत्तत्र प्रार्थितस्तत्सखीजनैः । तदैव कल्पितेर्वेदैः परिहासँविभिः ।। ततस्ता ज्ञापितं कान्तं परिज्ञाय विचक्षणाः । आनन्दसागरे लीना न विदुः स्वं न चापरम् ।।८० विहारैर्विविधैरेवं सार्धयामद्वयं मुने । नीत्वा गृहान्त्रजेयुस्ताः स च कृष्णो गवां व्रजेत् ॥ ८१ संगम्य स्वसखीकृष्णो गृहीला गाः समन्ततः । आगच्छति व्रज हर्षाद्वादयन्मुरली मुने ॥ ८२ ततो नन्दादयः सर्वे श्रुत्वा वेणुरवं हरेः । गोधूलिपटलव्याप्तं दृष्ट्वा चापि नभस्तलम् ।। विसृज्य सर्वकर्माणि स्त्रियो बालादयोऽपि च । कृष्णस्याभिमुखं यान्ति तदर्शनसमुत्सुकाः॥८४ राजमार्गे व्रजद्वारि यत्र सर्वे व्रजौकसः । कृष्णोऽपि तान्समागम्य यथावदनुपूर्वशः ।। दर्शनस्पर्शनैर्वाचा स्मितपूर्वावलोकनैः । गोपवृद्धान्नमस्कारैः कायिकैर्वाचिकैरपि । ८६ १ ख. ताभिर्तीगभिश्च स । २ ख. अप्रतः । ३ स. म. य॑अनैं। ४ ख. यत् । ५ क. समितैः शुभैः । त। ६. गर्वितैः । म. 'गहितैः । ७७ ७८ ८५ ८८ ८३ न्यशीतितमोऽध्यायः ] पअपुराणम् । ६२७ अष्टाङ्गपातैः पितरौ रोहिणीमपि नारद । नेत्रान्तसूचितेनैव विनयेन प्रियां तथा ॥ एवं तैस्तद्यथायोग्यं व्रजोकोभिः प्रपूजितः । गवालये तथा गाश्च संभवेश्य समन्ततः ॥ पितृभ्यामर्थितो याति भ्रात्रा सह निजालयम् । स्नात्वा पीत्वा तत्र किंचिद्भुक्त्वा मात्राऽनुमोदितः गवालयं पुनर्याति दोग्धुकामो गवां पयः । ताश्च दुग्ध्वा दोहयित्वा पाययित्वा च काश्चन ९० पित्रा सार्धं गृहं याति तत्र भावशतानुगः । तत्र पित्रा पितृव्यैश्च तत्पुत्रैश्च बलेन च ॥ भुनक्ति विविधान्नानि चर्काचोष्यादिकानि च । तन्मतिः प्रार्थनात्पूर्व राधिकाऽपि तदैव हि ९२ प्रस्थापयेत्सखीद्वारा पकान्नानि तदालयम् । श्लाघयंश्च हरिस्तानि भुक्त्वा पित्रादिभिः सह॥९३ सभागृहं व्रजेत्तैश्च जुष्टं बन्दिजनादिभिः । पकानानि गृहीत्वा याः सख्यस्तत्र पुराऽऽगताः॥९४ बहूनि च पुनस्तानि प्रदत्तानि यशोदया। सख्यस्तत्र तैया दत्तं कृष्णोच्छिष्टं नयन्ति च ॥९ सर्व ताभिः समानीय राधिकायै निवेद्यते । साऽपि भुक्त्वा सखीवर्गयुता तदनुपूर्वशः ॥ ९६ सखीभिर्मण्डिता तिष्ठेदभिसर्तुं समुद्यता । प्रस्थाप्यते मया काचिदित एव ततः सखी ॥ तयाऽभिसारिवा साऽथ यमुनायाः समीपतः । कल्पवृक्षनिकुञ्जेऽस्मिन्दिव्यरत्नमये गृहे ॥ ९८ सितकृष्णनिशायोग्यवेषा याति सखीयुता । कृष्णोऽपि विविधं तत्र दृष्ट्वा कौतूहलं ततः ॥ ९९ कात्यायन्या मनोज्ञानि श्रुत्वा च गीतकान्यपि । धनधान्यादिभिस्ताश्च प्रीणयित्वा विधानतः॥ जनैराराधितो मात्रा याति सख्या निकेतनम् । मातरि प्रस्थितायां च भोजयित्वा ततो गृहम्॥ संकेतकं कान्तयाऽत्र समागच्छेदलक्षितः । मिलित्वा तावुभावत्र क्रीडतो वनराजिषु ॥ विहारैर्विविधैरेप लीलागीतपुरःसरैः। सार्धयामद्वयं नीत्वा रात्रेरेवं विहारतः ॥ सुषुप्सू विशतः कुञ्ज पक्षीशाभिरलक्षितौ । एकान्ते कुसुमैः क्लृप्ते केलितल्पे मनोहरे । १०४ सुप्तावातिष्ठतस्तत्र सेव्यमानौ निजालिभिः । इति ते सर्वमाख्यातं नैत्यकं चरितं हरेः ।। पापिनोऽपि विमुच्यन्ते श्रवणादस्य नारद ॥ नारद उवाच- धन्योऽस्म्यनुगृहीतोऽस्मि त्वया देवि न संशयः । हरेर्दैनंदिनी लीला यतो मेऽद्य प्रकाशिता ॥ सूत उवाच- इत्युक्त्वा तां परिक्रम्य तया चापि प्रपूजितः । अन्तर्धानं गतो ब्रह्मन्नारदो मुनिसत्तमः ॥१०७ मयाऽप्येतच्चाऽऽनुपूर्व्यात्सर्व ते परिकीर्तितम् । जपेन्नित्यं प्रयत्नेन मत्रयुग्ममनुत्तमम् ॥ १०८ कृष्णवक्त्रादिदं लब्धं पुरा रुद्रेण यत्नतः । तेनोक्तं नारदायापि नारदेन ममोदितम् ॥ १०९ संस्कारांश्च विधायैव मयाऽप्येतत्तवोदितम् । त्वयाऽप्येतद्गोपनीयं रहस्यं परमाद्भुतम् ॥ ११० शौनक उवाच- कृतकृत्योऽभवं साक्षात्वत्प्रसादादहं गुरो । रहस्यानां रहस्यं यत्त्वया मह्यं प्रकाशितम् ॥ १११ सूत उवाच- धर्मानेतानुपातिष्ठ जल्पन्मन्त्रमहर्निशम् । अचिरादेव तद्दास्यमवाप्स्यसि न संशयः ॥ ११२ मयाऽपि गम्यते ब्रह्मेन्नित्यमायतनं विभोः । गुरोर्गुरोर्भानुजायाः कूले गोपीश्वरस्य च ॥ ११३ ॥ १म. 'नि प्रदत्तानि यशोदया।स। २ अ. "नि भुक्त्वा पित्रादिभिः सह । सं। ३ क. अ. मया । ४ ख. र. च. छ..'थै रातलास्यगी । ५ ख. मन्गुरोरायतनं मम । गु। ६ ख. भोः । वृन्दारण्ये यत्र नित्यं गुरुर्मेऽस्ति सदाशिवः । । ।
६२८ महामुनिश्रीव्यासप्रणीत- [४ पातालखण्डे- इदं चरित्रं परमं पवित्रं प्रोक्तं महेशेन महानुभावम् ।। शृण्वन्ति ये भक्तियुता मनुष्यास्ते यान्ति नूनं पदमच्युतस्य ॥ ११४ धन्यं यशस्यमायुष्यमारोग्याभीष्टसिद्धिदम् । स्वर्गापवर्गसंपत्तिकारणं पापनाशनम् ।। ११५ भक्त्या पठन्ति ये नित्यं मानवा विष्णुतत्पराः। न तेषां पुनरावृत्तिर्विष्णुलोकात्कथं चन ११६ इति श्रीमहापुराणे पाने पातालखण्डे श्रीवृन्दावनमाहात्म्ये श्यशीतितमोऽध्यायः ॥ ३ ॥ समाप्तमिदं वृन्दावममाहात्म्यम् । आदितः श्लोकानां समष्ट्यङ्काः-१६३६४ अथ चतुरशीतितमोऽध्यायः । - २ ८ ९ ऋषय ऊचुः- सूत सूत महाभाग लोमहर्षणनन्दन । कथा रम्या त्वया प्रोक्ता लोकस्याऽऽनन्ददायिनी ॥ ? श्रीकृष्णस्य महाभाग चरितं महदद्भुतम् । श्रुतं सर्वं त्वया प्रोक्तं निर्वृतिस्तेनै चाभवत् ॥ अहो श्रीकृष्णमाहात्म्यं भक्तानां गतिदायकम् । यतस्तेन महाभाग निवृत्ति को न्ववामुयात्॥३ अतः पुनरपि श्रीमत्कृष्णस्य चरितं महत् । श्रोतुमिच्छामहे चान्यव्रतदानाहणादिकरें ।। नानं वाऽपि महाभाग यथा येन कृतं पुरा । तत्सर्वं विस्तराब्रूहि यथा नो निर्दृतिर्भवेत् ॥ ५ सूत उवाच- साधु पृष्टं द्विजश्रेष्ठा लोकानां तारणं परम् । यूयं कृतार्थाः कृष्णस्य भक्तानां पूर्णमानसाः॥ ६ कृष्णस्य चरितं पुण्यं साधूनां हर्षदं परम् । प्रवक्ष्यामि द्विजश्रेष्ठा महदाख्यानमद्भुतम् ॥ एकदा नारदो लोकान्पर्यटन्भगवत्प्रियः । मथुरायामम्बरीषं कृष्णाराधनमानसम् ॥ महाभागं व्रतपरं ददर्श मुनिसत्तमः । स आगतं मुनिवरं सत्कृत्य नृपसत्तमः ॥ भवन्त इव पप्रच्छ श्रद्धया हृष्टमानसः ।। अम्बरीष उवाच- यन्मुने परमं ब्रह्म वेदवादिभिरुच्यते । स देवः पुण्डरीकाक्षः स्वयं नारायणः परः ॥ यो मूर्ती मूर्तिमानीशो व्यक्ताव्यक्तः सनातनः । सर्वभूतमयोऽचिन्त्यो ध्यातव्यः स कथं हरिः॥ यस्मिन्सर्वमिदं विश्वमोतपोतं प्रतिष्ठितम् । अव्यक्तमेकं परमं परमात्मेति विश्रुतम् ॥ यतो जन्मादि जगतो यो निर्माय स्वयंभुवम् । ददौ तस्मै च निगमानात्मन्येव व्यवस्थितान्॥१३ कथमाराध्यते सोऽयं समस्तपुरुषार्थदः । योगिनामपि दुर्गम्यस्तदेतत्कृपया वद ॥ अनाराधितगोविन्दो न विन्दति यतोऽभयम् । न तपोयज्ञदानानां लभते फलमुत्तमम् ॥ १५ अनास्वादितगोविन्दपादाम्बुजरसो नरः । मनोरथकथानीतं कथमाकलयेत्फलम् ॥ १६ हरेराराधनं हित्वा दुरितौघनिवारणम् । नान्यत्पश्यामि जन्तूनां प्रायश्चित्तं परं मुने। १७ यड्नर्तनवर्तिन्यः श्रूयन्ते सिद्धयोऽखिलाः । कथमाराध्यते सोऽयं केशवः क्लेशनाशनः ॥ १८ उपास्यते स भगवान्सर्वैराराध्यते कथम् । स्त्रीभिश्च सर्वमेतन्मे हिताय जगतो वद ॥ १९ १२. "तं को न्ववाप्नुयात् । श्रु। २ झ. अ. निवृत्तिस्ते । ३ ख. न नाम । ४ क. अ. 'म् । यतस्तेन म। ५ ख. इति । ६ ख. यदेतत्पर । ७ ख. 'ति हितोदय । ८ ख. कु. च. छ. ह. वान्कथं नारायणो नरैः । स्त्री । १० १२ १४ २८ ३२ ८४ चतुरशीतितमोऽध्यायः] पद्मपुराणम् । ६२९ भक्तप्रियोऽसौ भगवान्कया भक्त्या प्रसीदति । कथं भक्तिर्भवेदस्मिन्सर्वैराराध्यते कथम् ॥ २० वैष्णवोऽसि हरेस्तस्य प्रियोऽसि परमार्थवित् । तेन त्वामेव पृच्छामि ब्रह्मन्ब्रह्मविदुत्तम ॥ २१ श्रोतारमथ वक्तारं प्रष्टारं पुरुषं हरेः । प्रश्नः पुनाति कृष्णस्य तद िसलिलं यथा ॥ २२ दुर्लभो मानुषो देहो देहिनां क्षणभङ्गुरः । तत्रापि दुर्लभं मन्ये वैकुण्ठप्रियदर्शनम् ॥ संसारेऽस्मिन्क्षणार्थोऽपि सत्सङ्गः शेवधिर्नृणाम् । यस्मादवाप्यते सर्व पुरुषार्थचतुष्टयम् ॥ २४ भगवन्भवतो यात्रा स्वस्तये सर्वदेहिनाम् । बालानां च यथा पित्रोरुत्तमश्लोकवर्त्मनाम् ॥ २५ [*भूतानां देवचरितं दुःखाय च सुखाय च । सुखायैव हि साधूनां त्वादृशामच्युतात्मनाम् ॥२६ भजन्ति ये यथा देवान्देवा अपि तथैव तान् । छायेव कर्मसचिवाः साधवो दीनवत्सलाः॥२७ तस्मात्त्वं भगवन्मह्यं वैष्णवं धर्ममादिश । यस्योपदेशदानेन लभते वेदजं फलम् ॥ नारद उवाच- साधु पृष्टं महीपाल विष्णुभक्तिमता त्वया । जानता परमं धर्ममेकं माधवसेवनम् ॥ २९ यस्मिन्नाराधिते विष्णौ विश्वमाराधितं भवेत् । तुष्टं च सकलं तुष्टे सर्वदेवमये हरौ । यस्य स्मरणमात्रेण महापातकसंहतिः । तत्क्षोत्रासमायाति स सेव्यो रविरेव हि ॥ ['को नु राजनिन्द्रियवान्मुकुन्दचरणाम्बुजम् । न भजेत्सर्वतोमृत्युरुपास्यमृषिदेवतैः ॥ श्रुतोऽनुपठितो ध्यात आदृतश्वानुमोदितः । सद्यः पुनाति सद्धर्मो वीरविश्वद्रुहोऽपि हि ] ॥३३ योऽयं कारणकार्यादिकारणस्यापि कारणम् । अनेन्यकारणं योगी जगज्जीवो जगन्मयः ॥ ३४ अणुबृहत्कृशः स्थूलो निर्गुणो गुणभृन्महान् । अजो जन्मलयातीतो ध्यातव्यः स हरिः सदा ॥ सम्यगेतव्यवसितं भवता पुरुषर्षभ । यत्पृच्छसे भागवतान्धर्मास्त्वं विश्वभावनान् ॥ प्रसङ्गेन सतामात्ममनःकर्णरसायनाः । भवन्ति कीर्तनीयस्य कथाः कृष्णस्य निर्मलाः॥ भावसाध्यः स्वयं देवः स्वयं जानाति तद्भवान् । तथाऽपि वक्ष्ये जगतां हिताय तव गौरवात् ।। यदाहुः परमं ब्रह्म प्रधानं पुरुषात्परम् । यन्मायया सर्वमिदं विश्वमस्तीति सोऽच्युतः ॥ पुत्रान्कलत्रं दीर्घायू राज्यं स्वर्गापवर्गकम् । स ददातीप्सितं सर्व भक्त्या संपूजितोऽच्युतः ४० कर्मणा मनसा वाचा तत्परा ये हि मानवाः । तेषां व्रतानि वक्ष्यामि प्रीतये तव भूपते ॥ अहिंसा सत्यमस्तेयं ब्रह्मचर्यमकल्कता । एतानि मानसान्याहुव॑तानि हरितुष्टये ॥ एकभुक्तं तथा नक्तमुपवासमयाचितम् । इत्येवं कायिकं पुंसां व्रतमुक्तं नरेश्वर ॥ वेदस्याध्ययनं विष्णोः कीर्तनं सत्यभाषणम् । अपैशुन्यमिदं राजन्वाचिकं व्रतमुच्यते ॥ चक्रायुधस्य नामानि सदा सर्वत्र कीर्तयेत् । नाऽऽशौचं कीर्तने तस्य सदाशुद्धिविधायिनः ४५ वर्णाश्रमाचारवता पुरुषेण परः पुमान् । विष्णुराराध्यते पन्थाः सोऽयं तत्तोषकारणम् ॥ ४६ पतिरूपो हिताचारैर्मनोवाकायसंयमैः । व्रतैराराध्यते स्त्रीभिर्वासुदेवो दयानिधिः ॥ स्वागमोक्तेन मार्गेण स्त्रीशूद्रैरपि पूजनम् । *कर्तव्यं कृष्णचन्द्रस्य द्विजातिवररूपिणः ॥ * एतच्चिहान्तर्गतः पाठः ख. पुस्तकस्थः । + धनुश्चिह्नान्तर्गतः पाठः ख. पुस्तकस्थः । * एतदनन्तरं ख. पुस्तके वेदोक्तेन च मार्गेण द्विजातीनां च पूजनम् । कर्तव्यं मद्धिया विष्णोश्चिन्तयैकः पतिर्हृदि ” इतिश्लोकोऽधिको दृश्यते । १ स्व. ङ. च. छ. ड. भक्तिप्रि' । २ ख. संततिः । ३ ख. °तिः । परमान्तमवाप्नोति स एको हरिरुच्यते । को । ४ ख. इ. च. छ. इ. णानाशमा । ५ ख. नन्तका । ६ ख. कोमलाः । ७ ख. विश्वं यच्छति । ८ ख. व्रतं भवति नान्यथा । वे'। ९ख. पन्था नान्यत्तत्तो। १० ङ. च. छ. ड. 'वदरू। ४२ ४३ ४४ ।
५० ५४ महामुनिश्रीव्यासप्रणीतं- [४ पातालखण्डे- त्रयो वर्णास्तु वेदोक्तमार्गाराधनतत्पराः । स्त्रीशूद्रादय एव स्युर्नाम्नाऽऽराधनतत्पराः ॥ न पूजनैर्न यजनैर्न व्रतैरपि माधवः । तुष्यते केवलं भक्तिपियोऽसौ समुदाहृतः ॥ [स्त्रीणां पतिव्रतानां तु पतिरेव हि दैवतम् । स तु पूज्यो विष्णुभक्त्या मनोवाकायकर्मभिः५१ स्त्रीणामथाधिकतया विष्णोराराधनादिकम् । पतिपियरतानां च श्रुतिरेषा सनातनी ॥ ५२ शूद्राणां चैव भवति नाम्ना वै देवतार्चनम् । सर्वे चाऽऽगममार्गेण कुर्युर्वेदानुसारिणः ॥ पिण्डग्रहणधर्मेण यद्यस्य विहितं व्रतम् । तत्तदेवाऽऽचरेद्यस्तु तेन तुष्यति केशवः] । हविषाऽनौ जले पुष्पर्ध्यानेन हृदये हरिम् । यजन्ति सूरयो नित्यं जपेन रविमण्डले ॥ अहिंसा प्रथमं पुष्पं द्वितीयं करणग्रहः । तृतीयकं भूतदया चतुर्थ शान्तिरेव च ॥ ५६ शमस्तु पञ्चमं पुष्पं ध्यान 'चैव तु सप्तमम् । सत्यं चैवाष्टमं पुष्पमेतैस्तुष्यति केशवः ॥ [+एतैरेवाष्टभिः पुष्पैस्तुष्यते चार्चितो हरिः ] । पुष्पान्तराणि सन्त्येव बाबानि नृपससमे।। ५८ एतैरेव तु तुष्येत यतो भक्तिपियोऽच्युतः । वारुणं सलिलं पुष्पं सौम्यं घृतपयोदधि ॥ पाजापत्यं तथाऽनादि त्वाग्नेयं धूपदीपकम् । फलपुष्पादिकं चैव वानस्पत्यं तु पञ्चमम् ॥ ६० पार्थिवं कुशमूलाग्रं वायव्यं गन्धचन्दनम् । श्रद्धाख्यं विष्णुपुष्पं च वाद्यं विष्णुपदं स्मृतम्॥६१ एभिस्तु पूजितः पुष्पैः सद्यो विष्णुः प्रसीदति । सूर्योऽग्निर्ब्राह्मणों गावो वैष्णवः खं मरुज्जलम् भूरात्मा सर्वभूतानि पूजास्थानानि वै हरेः । वर्षे तु विद्यया त्रय्या हविषाऽनौ जपेत्तु तम् ॥६३ आतिथ्येन तु विप्राय्ये गोषु ग्रासरसादिना । वैष्णवे बन्धुसत्कृत्या हृदि खे ध्याननिष्ठया॥६४ वायौ मुख्यधिया तोये द्रव्यस्तोयपुरःसरैः । स्थण्डिले मत्रहृदयैर्भोगैरात्मानमात्मना(नि)॥ ६५ क्षेत्रमं सर्वभूतेषु समत्वेनार्चयेद्विभुम् । धिष्ण्येष्वेतेषु तद्रूपं शङ्खचक्रगदाम्बुजैः ॥ ६६ युक्तं चतुर्भुजं शान्तं ध्यायनर्चेत्समाहितः । ब्राह्मणैः पूजितैरेव हरिः संपूजितो भवेत् ।। नित्सितैस्तु तैर्भूप भवेनिर्भसितो विभुः । निगमो धर्मशास्त्रं च यदाधारेण वर्तते ॥ स द्विजो वैष्णवी मूर्ति कीर्तितः पावनो नृणाम् ॥ सर्व शुभं जगति धर्मत एव लभ्यं धर्मो गतिर्निगमतो नृप धर्मशास्त्रात् ॥ नूनं तपोरपि गतिर्भुवि भूमिदेवास्तैरचितैरिह जगत्पतिरर्चितः स्यात् ।। न यज्ञदानैर्न तपोभिरुन योगयुक्त्या न समर्चनेन ॥ तथा हरिस्तुष्यति देवदेवो यथा महीदैवततोषणेन ॥ ब्रह्मण्यो ब्रह्मविद्ब्रह्मा ब्रह्मदैवप्रवर्तकः । ब्राह्मणैरेव तुष्येत तोषितैर्ब्रह्मदैवतम् ।। नरकेऽपि चिरं मनाः पूर्वजा ये कुलद्वये । तदैव यान्ति ते स्वर्ग यदार्चति सुतो हरिम् ॥ ७२ किं तेषां जीवितेनेह पशुवच्चेष्टितेन किम् । येषां न प्रवणं चित्तं वासुदेवे जगन्मये ॥ ध्यानं तस्य प्रवक्ष्यामि यन्न दृष्टं हि केनचित् । श्रूयतां भूप कैवल्यं नित्यं मलविवर्जितम् ।। ७४ यथा दीपो निवातस्थो निश्चलो वह्निरूपधृक् । प्रज्वलनाशयेत्सर्वमन्धकार नेपोत्तम ॥ ६७ ॥ ७२ ७५ * धनुचिहान्तर्गतः पाठः ख.ह. पुस्तकस्थः । । अत्र चकारेणानुक्तं षष्ठं दमादिरूपं पुष्पं प्राह्यमिति भाति । + धनु- विहान्तर्गतः पाठः ख. पुस्तकस्थः । । १ ङ. च. छ. इ. नैनैव जपैन । २ ख. °म । भक्त्याऽऽहतानि पैर्विष्णुः पूजितः परितुष्यति । वा । ३ ख. तिः पावनी परमा मता। सं। ४ ख. महामतः ।
७७ ८० ८४ चतुरशीतितमोऽध्यायः ] पद्मपुराणम् । तद्वदोषविहीनात्मा भवत्येव निरामयः । निराशो निश्चलो भूप वैरमैत्रीविवर्जितः ॥ ७६ शोकदुःखभयद्वेषलोभमोहभ्रमादिभिः । विषयैरिन्द्रियाणां च कृष्णध्यायी विमुच्यते ॥ यथा ज्वालाप्रसङ्गेन दीपस्तैलं प्रशोषयेत् । तथा ध्यानप्रसङ्गेन कर्मणोऽपि क्षयो भवेत् ।। ७८ तड्यानं द्विविधं तस्य प्रोक्तं शंकरपूर्वकैः । निर्गुणं सगुणं वाऽपि तत्राऽऽयं शृणु मानद ॥ ७९ केवलं ज्ञानदृष्टयाऽसौ दृश्यते योगयुक्तिभिः । परमात्मपरै राजन्सततं ध्यानतत्परैः ॥ हस्तपादविहीनश्च सर्व गृह्णाति गच्छति । मुखनासाविहीनश्च भुङ्क्ते जिघ्रति भूपते ॥ ८१ अकर्णः शृणुते सर्व सर्वसाक्षी जगत्पतिः । अरूपो रूपसंबद्धः पञ्चवर्गवशं गतः ॥ ८२ सर्वलोकस्य यः प्राणः पूज्यते सचराचरैः । अजिहो वदते सर्व वेदशास्त्रानुगं तथा । ८३ त्वग्विहीनः स्पृशेत्सर्वं शीतोष्णादि नराधिप । सदानन्दो विविक्ताक्ष एकरूपो निराश्रयः।। ८४ निर्गुणो निर्ममो व्यापी सगुणो निर्मलौजसः । अवश्यः सर्ववश्यात्मा सर्वदः सर्ववित्तमः ॥ ८५ तस्य माता च नैवास्ति स वै सर्वमयो विभुः । एवं सर्वमयं ध्यानं यश्च पश्यत्यनन्यधीः ॥ ८६ स याति परमं स्थानममूर्तममृतोपमम् । द्वितीयं तु प्रवक्ष्यामि तच्छृणुष्व महामते ।। ८७ मूर्ताकारं तु साकारं निरालम्ब निरामयम् । यस्य वासनया सर्व ब्रह्माण्ड वासितं नृप ॥ ८८ स तस्माद्वासुदेवेति प्रोच्यते विधिपूर्वकैः । स्निग्धप्राड्यनश्यामं सूर्यतेजःसमप्रभम् ।। ८९ दक्षिणे शोभते शङ्खो महामणिविचित्रितः । कौमोदकी गदा चापि महासुरविमर्दिनी ॥ वामे च शोभते वीर पद्मं चक्रं जगत्पतेः । चतुर्बाहुँ सुरेशानं शाङ्गिणं कमलापतिम् ।। कम्बुग्रीवं सुवृत्तास्यं पद्मपत्रनिभेक्षणम् । राजमानं हृषीकेशं दशनैः कुन्दसंनिभैः ।। ९२ गुडाकेशस्य नृपतेयधरो विद्रुमाकृतिः । शोभते पद्मनाभाख्यः किरीटेनातिभास्वता ॥ विलासी लक्ष्मलक्ष्मी च केशवः कौस्तुभाङ्कितः । जनार्दनः सूर्यतेजःकुण्डलाभ्यां विराजितः९४ केयूरहारकटककटिसूत्राङ्गुलीयकैः । विराजते भ्राजमानो वपुषाऽलंकृतेन च ॥ वाससा हेमवर्णेन पाहतो गरुडासनः । ध्यातव्यः सगुणो राजन्भक्ताघौघहरो हरिः॥ * संधिरार्षः । १ ख. लो वीर न मित्रं न रिपुस्तथा । शोको हर्षो विस्मयो वा न लोभो मत्सरो भ्रमः । संभ्रमैर्लोभमोहैश्च सुखदुःखै- विमुच्यते । विषयैश्च च सर्वैश्च इन्द्रियाणां यदा नरः । तदा स केवलो ज्ञानी वैजल्पत्वं प्रपद्यते । ज्वालाकर्मप्रसङ्गेन दीप- स्तैलं प्रशोषयेत् । वाधारेण राजेन्द्र निदो वायुवर्जितः । कजलं वमते पश्चात्तैलस्यापि महामते । स्वयमाकृष्य तत्तैलं तेजसा निर्मलो भवेत् । काये चान्तःस्थितस्तद्वत्कर्मतैलं प्रशोषयेत् । विषयान्कज्जलं कृत्वा प्रत्यक्षात्संप्रदर्शयेत् । ज्वा- लाया निर्मलो स्वयमेव प्रकाशते । क्रोधलोभादिसंज्ञैस्तैर्वायुभिः परिवर्जितः । निस्पृहो निश्चलो भूत्वा तेजो वीर्य भूत्वा स्वयं ज्वलेत् । त्रैलोक्यं पश्यते सर्व स्वस्थाने स्वस्वतेजसा । केवलज्ञानरूपोऽयं मया ते परिकीर्तितः । ध्यानं तस्य प्रव- क्ष्यामि द्विविधं तस्य चक्रिणः । केवलज्ञानरूपेण दृश्यते परचक्षुषा । योगयुक्ता महात्मानं परमार्थपरायणाः । यं पश्यन्ति मुनीन्द्रास्तु सर्वज्ञं सर्वदर्शकम् । हस्तपादविहीनश्च सर्वत्र परिगच्छति । सर्व गृह्णाति त्रैलोक्यं स्थावरं जङ्गमं पुनः । मुख । २ झ. अ. 'मलोजसः । अ । ३ ख. नृपनन्दन । ४ कैः । वर्षमाणस्य मेघस्य यद्भासा तस्य तद्भवेत् । द । कैः । सूर्य- तेजःप्रकाशश्च चतुर्बाहुश्चरेश्वरः । द । ५ ख. सो हेमरत्नविभूषितः । ६ ख. विशालेनापि रूपेण केशवस्तु सुवक्षसा । कौस्तुभेनाङ्कितेनैव राजमानो जनार्दनः । सूर्यतेजःप्रतीकाशकुण्डलाभ्यां विभाति च । श्रीवत्साङ्केन पुण्येन सर्वदा राजते हरिः । के । ७ ख. 'यूरकङ्कणैर्हार्मोक्तिकैःक्षसंनिभैः । वपुषा भ्राजमानस्तु विजयो जयतां वरः । भ्राजते सोऽपि गोविन्दो हेमवर्णेन वाससा । मुद्रिकाभिश्च युक्ताभिरगुलीभिर्विराजते । सर्वायुधैश्च संपूर्णदिव्यराभरणैर्हरिः । वैनतेयसमारूढो लोककर्ता जगत्पतिः । एवं यो ध्यायते नित्यमनन्यमनसा हरिम् । मुच्यते सर्वपा- । पेभ्यो विष्णुलोकं ।
महामुनिश्रीव्यासप्रणीतं- [४ पातालखण्डे एवं ते ध्यानमुद्दिष्टं द्विविधं नृपसत्तम । यत्कृत्वा मुच्यते पापैर्मनोवाकायसंभवैः ॥ यं यं चाभिलषेत्कामं तं तं प्रामोति निश्चितम् । पूज्यते देववगैश्च विष्णुलोकं स गच्छति ॥९८ इति श्रीमहापुराणे पाने पातालखण्डे नारदाम्बरीषसंवादे वैशाखमाहात्म्ये (वैष्णवधर्मकथने) चतुरशीतितमोऽध्यायः ॥४४॥ आदितः श्लोकानां समष्ट्यङ्काः-१६४६२ अथ पश्चाशीतितमोऽध्यायः । २ ६ ७ ८ अम्बरीप उवाच- साधु साधु मुनिश्रेष्ठ लोकानुग्रहकारक । विष्णोर्ध्यानं त्वया प्रोक्तं सगुणं निर्गुणं च यत् ॥ १ अधुना लक्षणं ब्रूहि भक्तेः साधुकृपाकर । यादृशी क्रियते येन यथा यत्र यदा तथा ॥ सूत उवाच- इत्युक्तमाकर्ण्य नृपोत्तमस्य मुनिः प्रहृष्टो निजगाद भूपम् । शृणुष्व राजनखिलाघहारिणी भक्ति हरेस्ते प्रददामि सम्यक् ॥ विविधा भक्तिरुद्दिष्टा मनोवाकायसंभवा । लौकिकी वैदिकी चापि भवेदाध्यात्मिकी तथा ॥४ ध्यानधारणया बुद्ध्या वेदानां स्मरणेन च । विष्णुप्रीतिकरी चैषा मानसी भक्तिरुच्यते ॥ ५ वेदमन्त्रसमुच्चारैरविश्रान्तं दिवानिशम् । जपैश्वाऽऽरण्यकैश्चैव वाचिकी भक्तिरिष्यते ॥ व्रतोपवासनियमैः पञ्चेन्द्रियजयेन च । कायिकी भक्तिरुद्दिष्टा सर्वसिद्धिविधायिनी ॥ पाद्यााद्युपचारैश्च नृत्यवादित्रगीतकैः । वलिभिर्जागरार्चाभिलौकिकी भक्तिरीरिता ॥ ऋग्यजुःसामजप्यैश्च संहिताध्ययनादिभिः । हवि:मक्रियाभिश्च या भक्तिः सा तु वैदिकी ॥९ दर्शश्च पौर्णमासश्च विषुवादिषु यः पुनः । यागः संकीर्तितो विज्ञवैदिकीभक्तिसाधकः ॥ १० चतुर्विंशतित(स्तत्त्वानि प्रधानादीनि संख्यया । अचेतनानि राजेन्द्र पुरुषः पञ्चविंशकः ॥ ११ चेतनः स समुद्दिष्टः कर्ता भोक्ता च कर्मणाम् । आत्मा नित्यो ह्यसक्तश्च ह्यधिष्ठाता प्रयोजकैः१२ व्यक्तिस्थश्चेतनो नित्यः कारणानां च कारणम् । तत्वसर्गो भावसर्गो भूतसर्गश्च तत्त्वतः ॥ १३ संख्यायाच प्रसंख्यानं प्रधानं च गुणात्मकम् । ज्ञात्वा साधर्म्यवैध प्रधानस्य गुणात्मनः १४ कारणत्वं ब्रह्मणश्च साधर्म्यमिदमुच्यते । नानात्वं चात्र वैधयं प्रधानस्य विदुर्बुधाः ॥ १५ तत्त्वान्तरं च तत्त्वानां कार्यकारणमेव च । प्रयोजनं प्रयोज्यत्वं ज्ञात्वा तत्वप्रसंख्यया ॥ १६ संख्यानां प्रोच्यते प्राज्ञैः सर्वतत्त्वार्थचिन्तकैः । इति मत्वाऽस्य सद्भावं तत्त्वसंख्यां च तत्त्वतः१७ ब्रह्मतत्त्वाधिकं चापि ज्ञात्वा तत्त्वं विदुर्बुधाः । सांख्यैः कृता भक्तिरेषा प्रोच्यतेऽध्यात्मिकी नृप १ ख नारद उवाच --एतत्ते सर्वमाख्यातं ध्यानभेदं जगत्पतेः । अथ भक्तिं प्रवक्ष्यामि विविधां पापनाशिनीम् । विवि । २ ख. "नी । भूषणैर्हेमरत्नाडैश्चित्राभिर्वाग्भिरेव च । वासः प्रतिसरैः सूत्रः पविकव्यजनोत्थितैः । नृत्यवादित्रगीतैश्च सर्व- वल्युपहारकः । भक्ष्यभोज्यानपानश्च या पूजा क्रियते नरैः । नारायणं समुद्दिश्य सा भक्तिलौकिकी मता । ऋग्यजुःसामजा- प्यानि संहिताध्ययनानि च । क्रियते विष्णुमुद्दिश्य सा भक्तिर्वैदिकोच्यते ॥ वेदमन्त्रहवियोंगर्या क्रिया वैदिकी स्मृता। दर्श च पौर्णमास्यां च कर्तव्यं वाऽग्निहोत्रकम् ॥ प्राशनं दक्षिणादानं पुरोडाशं चरुक्रिया । इष्टिधृतिः सोमपानं याज्ञिकं कर्म सर्वशः ।। अग्निभूम्यनिलाकाशजलशंकरभास्करम् । तमुद्दिश्य कृतं कर्म तत्सर्व विश्वदैवतम् ॥ आध्यात्मिकीति विविधा ब्रह्मभक्तिः स्थिता नृप । सांख्याख्यां योगसंजातां शृणु भूप यथोदिताम् ॥ चतु। ३ स. 'कः । पुरुषोऽव्यक्तनित्यः स्यात्कार। ४ ख. 'ख्यायाः परिसंख्यायाः प्र'। ५ ख. धानं च विधर्मि च । का।
२ २७ २८ २९ ८५ पञ्चाशीतितमोऽध्यायः] पद्मपुराणम् । योगजामपि वक्ष्यामि भक्तिमाध्यात्मिकी शृणु । प्राणायामपरो नित्यं ध्यानवानियतेन्द्रियः १९ भैक्ष्यभक्ष्यव्रती चापि विषयेभ्यो निवृत्तिमान् । पश्यन्नुयोतितमुखं ब्रह्मसूत्रं कटीतटे । श्वेतवर्ण चतुर्बाहुं वरदाभयहस्तकम् । ध्यायमानः स्वहृदये योगयुक्तो महेश्वरम् ॥ २१ हेष्ट स्वचेतसा राजन्पीतवस्त्रं सुलोचनम् । [श्योगजा मानसी सिद्धिर्विष्णुभक्तिः परा स्मृता ।। ययैवं भक्तिमान्देव विष्णुभक्तः स उच्यते । एवं भक्तिः समुद्दिष्टा विविधा नृपनन्दन ॥ २३ सात्त्विकी राजसी चैव तामसी भेदतस्त्विमाः। भक्तयो विविधा ज्ञेया विष्णोरमिततेजसः॥२४ यथाऽग्निः सुसमिद्धाचिः करोत्येषांसि भस्मसात् । पापानि भगवद्भक्तिस्तथा दहति तत्क्षणात् २५ यावज्जनो न शृणुते भुवि विष्णुभक्तिं साक्षात्सुधारसमशेषरसैकसारम् । तावजरामरणजन्मशताभिघातदुःखानि तानि लभते बहुदेहजानि ॥ २६ संचिन्तितः कीर्तित एव नित्यं महानुभावो भगवाननन्तः । समन्ततोऽधं विनिहन्ति मेघ वायुर्यथा भानुरिवान्धकारम् ॥ न भूप देवार्चनयज्ञतीर्थस्नानव्रताचारतपःक्रियाभिः । तथा विशुद्धिं लभतेऽन्तरात्मा यथा हृदिस्थे भगवत्यनन्ते ॥ कथा विशुद्धा नरनाथ तथ्यास्ता एव पथ्या हरिभक्तकथ्याः। संकीर्त्यते यासु पवित्रकीतिविशुद्धमूर्तिनिजदत्तभक्तिः ॥ धन्योऽसि धीर धरणीधर धर्मधुर्य ध्यानैकतानहृदयः पुरुषोत्तमस्य । यनैष्ठिकी मतिरसौ तव सौभग श्रीः श्रीकृष्णचन्द्रसुकृतश्रवणे प्रवृत्ता ॥ अनाराध्य हरिं भक्त्या वरदं विष्णुमव्ययम् । कुतः श्रेयो भवेद्भुप पुरुषस्याऽऽत्ममानिनः ॥३१ मायाजनिरमायोऽसौ भक्त्या राजन्य मायया।साध्यते साधुपुरुषैः स्वयं जानाति तद्भवान्॥३२ न विद्यते ते नृप धर्मतत्त्वमज्ञातमेतद्विपुलं पुनर्माम् । यत्पृच्छसे तीर्थपदप्रसङ्गात्कथारसं वैष्णवगौरवेण ॥ नातः परं परमतोषविशेषपोषं पश्यामि पुण्यमुचितं च परस्परेण ॥ सन्तः प्रसज्य यदनन्तगुणाननन्तश्रेयोनिधीनधिकभावजुषो भजन्ति ॥ ३४ ब्राह्मणाः सुरभी सत्यं श्रद्धायागतपांसि च । श्रुतिस्मृतिदयादीक्षासंतोषास्तनवो हरेः ॥३५ आदित्यश्चन्द्रमा वायुभूमिरापोऽम्बरं दिशः । ब्रह्मा विष्णुश्च रुद्रश्च सर्वभूतमयो विभुः ॥ ३६ विश्वरूपः स्वयं शेक्तो जगदेतच्चराचरम् । स्वयं ब्रह्माणमाविश्य सदैवान्नं भुनक्ति च ॥ ततस्तु तीर्थास्पदपादरेणून्धराधरात्मालयभूमिरेखान् । सभाज्य संपूजय पुण्यलक्ष्मीसर्वस्वभूतानखिलात्मभूतान् ।। ३८ बामणं विष्णुबुद्ध्या यो विद्वांसं साधु पश्यति । स एव वैष्णवो यश्च स्वस्य धर्मे समास्थितः ३९ एतत्ते सर्वमाख्यातं भक्तिलक्षणमर्थितम् । स्नातुं गच्छामि गङ्गायां न कथावसरोऽधिकः ॥ ४० माप्तोऽयं माधवो मासो [माधवस्यातिवल्लभः । तस्यापि सप्तमी शुक्ला गङ्गायामतिदुर्लभा ॥४१ वैशाखशुक्लसप्तम्यां जाह्नवी जहुना पुरा । क्रोधात्पीता पुनस्त्यक्ता कर्णरन्ध्रात्तु दक्षिणात् ॥ ४२ * एतचिहान्तर्गतः पाठः, ठ. पुस्तकस्थः । । एतचिहान्तमतः पाठः ख. ङ. च. छ. ड. पुस्तकस्थः । १ ख. हृत्पद्यकर्णिकासीनपीत । २ ख. श्रुतानुभावो । ३ ख. यो लभेत्तावत्पुरुषः सुकृत विना । मा । ४ झ. म. । ५ ङ. च. ड. शको। 'पतोष ४८ महामुनिश्रीव्यासप्रणीत- [ ४ पातालखण्डे- तस्यां समर्चयेद्देवीं गङ्गां गगनमेखलाम् । स्नात्वा सम्यग्विधानेन स धन्यः सुकृती नरः ॥ ४३ तस्यां यस्तर्पयेद्देवान्पितॄन्मो यथाविधि । साक्षात्पश्यति तं गङ्गा स्नातक गतपातकम् ॥ ४४ न माधवसमो मासो न गङ्गासदृशी नदी । दुर्लभः खलु योगोऽयं हरिभक्त्यैव लभ्यते ॥ ४५ विष्णुपादसमुन्ता ब्रह्मलोकादुपागता । श्रीमहेशजटाजूटवासिनी दुःखनाशिनी ॥ ४६ त्रिभिः स्रोतोभिरश्रान्तं या पुनाति जगत्रयम् । स्वर्गारोहणनिश्रेणी सततानन्दकारिणी ॥ ४७ अनेकदुरितोद्गारहारिणी दुर्गतारिणी । भजमानजनस्यान्तःकान्तिकेलिविलासिनी ॥ सगरान्वयनिर्वाणकारिणी धर्मचारिणी । त्रिमार्गचारिणी देवी लोकालंकृतिकारिणी ॥ दर्शनस्पर्शनस्नानकीर्तनध्यानसेवनैः । (अ)पुण्यान्पुण्यपुरुषान्पावयन्ती सहस्रशः ॥ गङ्गा गङ्गेति गङ्गेति पैत्रिसंध्यं त्रिरीरितम् । सुदूरस्थैश्च तत्पापं हन्ति जन्मत्रयार्जितम् ॥ योजनानां सहस्रेषु गङ्गां यः स्मरते नरः । अपि दुष्कृतकर्माऽसौ लभते परमां गतिम् ॥ ५२ वैशाखशुक्लसप्तम्यां दुर्लभा सा विशेषतः । प्राप्यते जगतीपाल हरिविप्रप्रसादतः ॥ न माधवसमो मासो न माधवसमो विभुः । पोतो हि दुरिताम्भोधौ मज्जमानजनस्य यः॥ ५४ दत्तं जप्तं हुतं स्नातं यद्भक्त्या मासि माधवे । तदक्षयं भवेद्भप पुण्यं कोटिशताधिकम् ॥ ५५ यथा देवेषु विश्वात्मा देवो नारायणो विभुः । यथा जप्येषु गायत्री सरितां जाह्नवी तथा॥५६ यथोमा सर्वनारीणां तपता भास्करो यथा। आरोग्यलाभो लाभानां द्विपदानां द्विजो यथा॥५७ परोपकारः पुण्यानां विद्यानां निगमो यथा । मत्राणां प्रणवो यद्वद्ध्यानानामात्मचिन्तनम्॥५८ सत्य स्वधर्मवर्तित्वं तपसां च यथा वरम् । शौचानामात्मशुद्धिश्च दानानामभयं यथा ॥ गुणानां च यथा लोभक्षोभो मुख्यो गुणः स्मृतः । मासानां प्रवरो मासस्तथाऽसौ माधवो मतः॥ तत्र यक्रियते दानं यज्ञः स्नानमुपोषणम् । तपोऽध्ययनपूजादि तदक्षयफलं स्मृतम् ॥ वैशाखान्तानि पापानि सूर्यान्तानि तमांसि च ॥ परोपकारपैशुन्यप्रान्तानि सुकृतानि च ।। ६२ कार्तिक मासि यत्किचित्तुलासंस्थे दिवाकरे । स्नानदानादिकं राजंस्तत्परार्धगुणं भवेत् ॥ ६३ तस्मात्सहस्रगुणतो माघे मकरगे रवौ । ततोऽपि शतसंख्याकं वैशाखे मेषगे रखौ ॥ ६४ ते धन्यास्ते सुकृतिनो नरा वैशाखमासि ये । प्रातः स्नात्वा विधानेन पूजयन्ति च माधवम् ६५ प्रातःस्नानं च वैशाखे यज्ञदानमुपोषणम् । हविष्यं ब्रह्मचर्य च महापातकनाशनम् ।। ६६ पुनः कलियुगे राजन्न तद्गोप्यं भविष्यति । अश्वमेधाधिकं यस्मान्माहात्म्यं माधवस्य यत् ॥६७ अश्वमेधमखः पुण्यः कलौ नैव प्रवर्तते । ऎष माधवमासस्य हयमेधसमो विधिः ॥ ६८ अश्वमेधस्य यत्पुण्यं स्वर्गमोक्षफलप्रदम् । न वेत्स्यन्ति कलौ पापा जना दुरितबुद्धयः ॥ ६९ तस्मिन्भवैनरैः पापैर्गन्तव्यं नरकार्णवे । अतस्तु विरलस्तस्य प्रचारो येन निर्मितः ॥ इति श्रीमहापुराणे पाने पातालखण्डे वैशाखमाहात्म्ये पश्चाशीतितमोऽध्यायः ॥ ८५ ॥ आदितः श्लोकानां समष्टयङ्काः-१६५३२ अथ षडशीतितमोऽध्यायः । सूत उवाच- इति तस्य वचः श्रुत्वा नारदस्य महात्मनः । अम्बरीषस्तु राजर्षिविस्मितो वाक्यमब्रवीत् ॥ १ १ ख. ति गङ्गायो स्नातको ग । २ ख. माधवमासतः। ३ ख. ते श्राद्धं यज्ञदान । ४ झ. भ. एकमा।
४ ५ ९ ८६ षडशीतितमोऽध्यायः ] पद्मपुराणम् । अम्बरीष उवाच- मार्गशीर्षादिकान्मासान्हित्वा पुण्यान्महामुने । सर्वमासाधिकं मासं वैशाख किं प्रशंससि ॥ २ सर्वेभ्योऽप्यधिको यस्मान्माधवो माधवप्रियः।को विधिस्तत्र किं दानं किं तपः का च देवता॥३ त(त्वत्पदाम्भोजरजसा पावितस्य च मे मुने । उपदेशप्रदानेन प्रसादं कर्तुमर्हसि ॥ धर्मज्ञो धर्ममार्गाणामुपदेष्टाऽसि वै मुने । त्वमेकोऽखिलतत्त्वार्थ जानासि मुनिसत्तम । कर्तोपदेष्टा धर्माणामनुमन्ता प्रयोजकः । शास्त्रविद्भिर्मुनिवर स्मर्यन्ते समभागिनः ॥ व्रतसत्रतपोदानैर्यत्फलं समवाप्यते । धर्मोपदेशदानेन तत्सर्वमुपलभ्यते ॥ तीर्थस्नानं तपो यज्ञकर्म यत्कुरुते शुभम् । अपि तत्फलभागी स्यायः प्रवर्तयिता भवेत् ॥ तदर्हसि भवान्पुण्यमुपदेष्टुं कृपानिधे । दुर्लभो गुरुसंबोधो देशकालोपपत्तयः ।। न केचन तथा भावाश्चेतः शीतलयन्ति नः । राज्यलाभादयोऽप्येते यथा तव समागमः ॥ १० सूत उवाच- अथ मन्दमृदुस्मेरस्फुरदन्तप्रभानुगः । अम्बरीषं प्रत्युवाच नारदो मुनिसत्तमः ॥ ११ नारद उवाच- शृणु राजन्मवक्ष्यामि हिताय जगतस्तव । विधि माधवमासस्य यः प्रोक्तो ब्रह्मणा पुरा ॥ १२ दुर्लभं भारते वर्षे जन्म तस्मान्मनुष्यता । मानुपे दुर्लभं चापि स्वस्वधर्मे प्रति(त)नम् ॥ १३ ततोऽपि भक्तिर्भूपाल वासुदेवे सुदुर्लभा । तत्रापि दुर्लभो मासो माधवो माधवप्रियः ।। तमवाप्य ततो मासं स्नानदानजपादिकम् । कुर्वन्ति विधिना ये तु धन्यास्ते कृतिनो नराः॥१५ तेषां दर्शनमात्रेण पापिनोऽपि विकल्मषाः । भवन्ति भगवद्भावभाविता धर्मकाक्षिणः ॥ १६ माधवे मासि यैः स्नातं प्रातर्नियमसंयुतैः । ते कोटिवर्षपर्यन्तं क्रीडन्ते नन्दने वने ॥ १७ यथा न वारिधिसमो लोके कोऽपि जलाशयः। तथा मासो न वैशाखसदृशो माधवप्रियः॥ १८ तावत्पापानि तिष्ठन्ति मनुष्याणां कलेवरे । यावत्किल मलध्वंसी मासो नाऽऽयाति माधवः।।१९ अवशिष्टदिनान्येव पञ्च मासस्य तस्य वै । एकादशी समारभ्य सर्वमाससमानि वै ॥ वैशाखे पूजितो देवो माधवो मधुहा तु यैः । नानोपचोरै राजेन्द्र तैः प्राप्त जन्मनः फलम् ॥२१ किं किं न दुर्लभतरं प्राप्यते मासि माधवे । स्नानेन परमेशस्य पूजनेन यथाविधि ॥ न दत्तं न हुतं जप्तं न तीर्थे मरणं कृतम् । यहि नारायणो नैव ध्यातो निखिलपापहा ॥ २३ तेषां जन्म नृणां लोके ज्ञातव्यं निष्फलं नृप । द्रव्येषु विद्यमानेषु कृपणो यो भवेन्नरः ॥ २४ अदत्त्वा म्रियते यो हि तस्य द्रव्यं निरर्थकम् । तीर्थस्नानादितपसा सत्कुले जन्म लभ्यते २५ न दानेन विना भूप किंचिदप्युपतिष्ठति । वैशाखस्तानमाहात्म्यादपि पश्चदिनात्मकात् ॥ २६ सत्कुले प्राप्यते जन्म वैभवं विविधं तथा । सुपुत्रः सुकुलं भूप धनधान्यं वरस्त्रियः ॥ सुजन्म मरणं चापि सुभोगाः सुखमेव च । सदा दानेऽधिका प्रीतिरौदार्य धैर्यमुत्तमम् ॥ २८ प्रसादात्तस्य देवस्य विष्णोश्चैव महात्मनः । नारायणस्य जायन्ते सिद्धयो भूप वाञ्छिताः॥२९ ऊर्जे मासि तपोमासि माधव माधवप्रिये । स्नात्वा दामोदरं भक्त्या माधवं मधुसूदनम् ॥ ३० विशेषेण समभ्यर्च्य दत्त्वा दानानि शक्तितः । ऐहिक सुखमासाद्य नरो हरिपदं व्रजेत् ॥ ३१ १४ २२ २७ १. स्मर्यते। २ ङ. च.छ. ह. संबन्धो दें।
- महामुनिश्रीव्यासमणीत- [४ पातालखण्डे- अनेकजन्मार्जितपातकावली विलीयते माधवमज्जनेन । सूर्योदये भूप यथा तमिस्रं वचः स्वयंभूरिदमादिशन्मे ॥ ३२ चकार विष्णुर्विपुलपचारं मासस्य वै माधवसंज्ञकस्य । यमस्य गुप्तं वचसा विचिन्त्य मनुष्यलोकं गमितं चकार । तस्मादस्मिन्समायाते माधवे मासि वैष्णवैः । सात्वा पुण्यजले तीर्थे गङ्गायाः पावने नृणाम् ॥ रेवाया वा महाराज यामुने सारदेऽथवा । प्रातस्त्वनुदिते भानौ विधानेन नृपोत्तम ॥ ३५ पूजयित्वा च देवेशं मुकुन्द मधुसूदनम् । पुत्रपौत्रधनश्रेयोवाञ्छितानि मुखानि च ॥ अनुभूय तपस्त्वन्ते स्वर्गमक्षयमानुयात् । एवं ज्ञात्वा महाभाग मधुसूदनमर्चय ॥ स्नात्वा सम्यग्विधानेन वैशाखे तु विशेषतः । देवमाराध्य गोविन्दं नारायणमनामयम् ॥ ३८ प्राप्स्यसि त्वं मुखं पुत्रं धनानि च हरेः पदम् । देवदेवं नमस्कृत्य माधवं पापनाशनम् ॥ ३९ प्रारभेत व्रतमिदं पौर्णमास्यां मधोप । यमैश्च नियमैर्युक्तः शक्त्या किंचित्प्रदाय च ॥ हविष्यभुरभूमिशायी ब्रह्मचर्यव्रते स्थितः । कृच्छ्रादितपसा क्षामो ध्यायनारायणं हृदि ॥ ४१ एवं प्राप्य च वैशाखी दद्यान्मधुतिलादिकम् । भोजनं द्विजमुख्येभ्यो भक्त्या धेनुं सदक्षिणाम् अच्छिद्रं प्रार्थयेच्चापि तस्य स्नानस्य भूसुरान् । यथा लक्ष्मीः प्रिया भूप माधवस्य जगत्पतेः ४३ तथैव माधवो मासो मधुसूदनवल्लभः । एवंविधियुतो मर्त्यः स्नात्वा द्वादशवत्सरम् ॥ उद्यापनं चरेच्छक्त्या मधुसूदनतुष्टये । इदं माधवमासस्य माहात्म्यं कथितं तव ॥ यत्पुरा ब्रह्मणो वक्त्राच्छ्रुतमासीन्मया नृप ।। ४५ इति श्रीमहापुराणे पाझे पातालखण्डे वैशाखमासमाहात्म्ये षडशीतितमोऽध्यायः ॥ ८६ ॥ आदितः श्लोकानां समष्ट्यङ्काः-१६५७६ अथ सप्ताशीतितमोऽध्यायः । २ सूत उवाच- इति तस्य वचः श्रुत्वा नारदस्य स भूपतिः। प्रणम्य विस्मितः प्राह चिन्तयन्मनसा हरिम् ।।१ अम्बरीष उवाच- कथमेतद्विमुह्यामः स्वल्पायासेन यन्मुने । प्राप्यते स्नानमात्रेण फलं चैवातिदुर्लभम् ॥ नारद उवाच- सत्यमुक्तं त्वया राजन्नल्पायासेन यन्महत् । फलं संपाप्यते तत्र श्रद्धत्स्व विधिभाषितम् ॥ ३ धर्मस्य गतयः सूक्ष्मा दुज्ञेया हीवरैरपि । मुद्यन्ते चात्र विद्वांसोऽचिन्त्यशक्तिहरेः कृतौ ॥ विश्वामित्रादयो राजन्धर्माधिक्येन बाहुजाः। ब्राह्मण्यं समुपायाताः सूक्ष्मा धर्मगतिस्त्वतः ॥५ अजामिलोऽपि भूपाल दासीपतिरिति श्रुतः। धर्मपत्नीपरित्यागी नित्यं पापपथि स्थितः ॥ ६ म्रियमाणः सुतस्नेहात्माच्य नारायणेति च । तख्याननामग्रहणात्पदं लेभे सुदुर्लभम् ॥ अनिच्छयाऽपि दहति स्पृष्टो हुतवहो यथा । तथा दहति गोविन्दनाम व्याजादपीरितम् ॥ ८ कानीनस्य मुनेः पौत्रा भ्रातृजायाभिगामिनः। गोलकस्य च वै पण्डोः पुत्राः कुण्डाः स्वयं तथा १च. रस्वतेऽथ' । २ स. म. दुर्गेया । ४ १७ सप्ताशीतितमोऽध्यायः ] पद्मपुराणम् । ते पश्चापि च भूपाल पाण्डवा द्रौपदीरताः । तेषां च पुण्यश्लोकत्वं सूक्ष्मा धर्मगतिस्त्वतः १० विचित्राणि च कर्माणि विचित्रा भूतभावनाः । विचित्राणि च भूतानि विचित्राः कर्मशक्तयः॥ कदाचित्सुकृतं कर्म कूटस्थं यदवस्थितम् । केनचित्कर्मणा भूप शुभेन परिवर्धते ॥ १२ फलं ददाति सुमहत्कस्मिन्नपि च जन्मनि । सूक्ष्मो धर्मोऽतिगहनो मीयते न यथा तथा ॥ १३ नैतस्य फलदानस्य श्रूयते भूप निश्चयः । यत्किंचित्सुकृतं कर्म च्छन्नं पापान्तरैरपि । १४ तदागत्य कुतः कापि स्वं फलं च प्रयच्छति । कृतस्य स्ने(ने)ह नाशोऽस्ति पुण्यस्य दुरितस्य च तथाऽपि बहुभिः पुण्यैर्दुरितं याति दारुणम् । यदुक्तं भवता राजन्नायासाधिक्यतो भवेत् ॥१६ महत्पुण्यं च तत्रापि कारणं मे निशामय । स्वल्पायासमहायासौ यद्यल्पत्वमहत्त्वयोः॥ महापुण्यास्ततस्ते स्युः सततं कर्षकादयः। मत्रोच्चार च(राच्च) सिंहादेरायासं(स) बहुल(ल) त्वतः पञ्चगव्यं प्रशस्तं वै व्रताङ्गत्वेन नो भवेत् । इतिकर्तव्यबाहुल्यं महत्त्वं च तदल्पता ॥ जलाग्न्यादिप्रवेशस्य प्रसज्येत व्रतान्तरात् । इदमल्पं महाचैतदिति नैव नियामकम् ॥ फलं यच्चोदितं शास्त्रे तदेव स्यान्महन्नृप । यथाऽल्पनाशो महता महाशस्तथाऽल्पतः॥ किं त्वल्पविस्फुलिङ्गन तृणराशिः प्रदह्यते ॥ २१ हत्यायुतं पापसहस्रमुग्रं गुर्वङ्गनाकोटिनिषेवणं च । स्तेयादिपापानि च कृष्णभक्तैरज्ञानजातानि लयं हियन्ते । २२ विष्णुभक्तिमता वीर यत्किचिस्क्रियतेऽल्पकम् । सुकृतं साधु विदुषा तदक्षयफलं भवेत् ॥ २३ संदेहो नात्र कर्तव्यो माधवे मासि माधवम् । समाराध्य नरो भक्त्या तत्तद्वान्छितमामुयात् ॥२४ अपत्यं द्रविणं रत्नं दारा हर्म्य हवा गजाः । सुखानि स्वर्गमोक्षौ च न दूरे हरिभक्तितः॥ २५ एवं शास्त्रोक्तविधिना स्वल्पेनापि न संशयः। पापस्य महतोऽपि स्यात्क्षयो वृद्धिः सुकर्मणः २६ फलाधिक्यं भवेद्भूप त्वाधिक्याभोवकर्मणोः । सूक्ष्मा धर्मस्य विज्ञेया गतिस्तु विविधैरपि ॥२७ प्रियो माधवमासोऽयं माधवस्य महात्मनः । एकोऽप्यनुष्ठितो लोकैः समग्रेप्सितदायकः ॥ २८ पुण्येन गाङ्गेन जलेन काले देशे च यः स्नानपरोऽपि भूप । आजन्मतो भावहतोऽपि दाता न शुद्धिमतीति मतं ममैतत् ।। २९ गङ्गादितीर्थेषु वसन्ति जीवा देवालये पक्षिगणाश्च नित्यम् । विनाशमायान्ति कृतोपवासा भावोज्झिता नैव गतिं लभन्ते ॥ भावं ततो हृत्कमले निधाय श्रीमाधवं माधवमासि भक्त्या । यजेत यः स्नानपरो विशुद्धः पुण्यं न शक्ता वयमस्य वक्तुम् ॥ ३१ मज्वाल्य वाहिं घृततैलसिक्तं प्रदक्षिणावर्तशिखं स्वकाले । भविश्य दग्धः किल भौवदुष्टो न स्वर्गमामोति फलं न चान्यत् ॥ ३२ श्रद्धत्स्व भूप तस्मात्त्वं माधवस्य फलं प्रति । स्वल्पं चापि शुभं कर्म विकर्मशतनाशनम् ॥ ३३ यथा हरेर्नामभयेन भूप नश्यन्ति सर्वे दुरितस्य वृन्दाः। नूनं रवी मेषगते विभाते स्नानेन तीर्थे च हरिस्तवेन ॥ तेजसा वैनतेयस्य पाप्मानः पन्नगा इव । विद्रवन्ति च वैशाखस्नानेनोषसि निश्चितम् ॥ ३५ १ . अ. हमासोऽयं पु । २ झ. अ. यः । वचः पापस्य महतः क्षयो । ३ घ. अ. द्राविक । ४ ङ. च. छ. ड. लोके । ५ झ. म. भावयुक्तो।
३६ महामुनिश्रीव्यासमणीतं- [४ पातालखण्डे- गङ्गायां नर्मदायां वा स्नात्वा मेषगते रवौ । पापप्रशमनं स्तोत्रं यः पठेद्भक्तिभावतः ॥ एककालं द्विकालं वा त्रिसंध्यमपि भूपते । स याति परमं स्थानं सर्वपापविवर्जितः ॥ ३७ एतत्ते सर्वमाख्यातमम्बरीष समासतः । वैशाखस्नानमाहात्म्यं किमन्यच्छ्रोतुमिच्छसि ॥ ३८ इति श्रीमहापुराणे पाझे पातालखण्डे वैशाखमाहात्म्ये सप्ताशीतितमोऽध्यायः ॥ ८ ॥ आदितः श्लोकानां समष्टयङ्काः-१६६१५ अथाष्टाशीतितमोऽध्यायः । १ 2 ५ ६ अम्बरीष उवाच- पापप्रशमनं स्तोत्रं श्रोतुमिच्छामि ते मुने । यस्य स्मरणमात्रेण पापराशिविलीयते ॥ धन्योऽस्म्यनुगृहीतोऽस्मि श्रावितोऽस्मि शुभं विधिम् । विकर्मोत्पतितं यस्य श्रवणादेव हीयते।।२ चित्रं किमत्र मधुसूदन दैवतस्य स्नानस्य पुण्यसवनैरिह माधवस्य ।। स्नानैरवश्यविहितैरघराशिनाशः स्यादस्य नामपठनादपि तस्य लोकः ॥ तदेव पुण्यं परमं पवित्रं हृद्यं च लोके मुकृतकलभ्यम् । यदुच्यते केशवनामधेयं मन्ये मुने माधवमासि भव्यम् ॥ धन्यास्तु ते माधवमासि नाम स्मरन्ति येऽहो मधुसूदनस्य । तस्यैव मे किंचिदतश्चरित्रं पुनः पवित्रं वद मन्यसे चेत् ॥ सूत उवाच-- वचः समाकर्ण्य हरिप्रियस्य प्रीतो मुनिस्तस्य नृपोत्तमस्य । तन्माधवस्त्रानसमुत्सुकोऽपि कथा रसेनाऽऽह स माधवस्य । नारद उवाच- मन्ये महीपाल मियो मुकुन्दकथारसालापविधिर्विशुद्धः ॥ त्वया समो(म) माधवमासधर्मस्नानाधिकोऽयं हरिदैवतस्य ।। जीवितं यस्य धर्मार्थे धर्मो हर्यर्थमेव च । अहोरात्राणि पुण्यार्थं तं मन्ये वैष्णवं भुवि ॥ किंचिद्वक्ष्यामि ते राजन्वैशाखस्त्रानजं फलम् । अस्मत्पिताऽपि नो वक्तुमलं विस्तरतोऽखिलम्।। यत्र मन्जनमात्रेण पापा मुक्तिमुपागताः । पुरा तीर्थप्रसङ्गेन भ्रमन्कोऽपि मुनीश्वरः ॥ मुनिशर्मेति विख्यातो धर्मात्मा सत्यवाक् शुचिः। युक्तः शमदमाभ्यां च शान्तिधर्मेण संयुतः ११ युक्तश्च पितृकार्येषु श्रुतिस्मृतिविधानवित् । युक्तो मधुरवाक्येषु संयुक्तो हरिपूजने ॥ १२ युक्तो वैष्णवसंसर्गे त्रिकालज्ञानवान्मुनिः । दयालुरतितेजस्वी तत्त्वविद्ब्राह्मणप्रियः॥ माधवे मासि रेवायां स्नानार्थ प्रतिसंचरन् । अग्रतः पश्च पुरुषान्ददर्शातीव दुर्गतान् ॥ १४ परस्परस्य संसर्गकारिणः कृष्णविग्रहान् । वटच्छायामुपाश्रित्य समासीनान्महीपते ।। १५ ईक्षतो दिक्षु सर्वासु दुरितोद्विग्नचेतसः । तानालोक्य द्विजश्रेष्ठश्चिन्तयामास विस्मितः ।। कुतो ह्येते नरा भीमे विपिने दीनचेष्टिताः। चौरा वा विकृताकारा दृश्यन्ते पापभागिनः ॥ १७ ८ १० १३ १६ क. च क्षान्तिरार्जवसं । ङ. च. छ. उ. पक्षान्तिसंतोषस ।
२० २२ २८ १८ अष्टाशीतितमोऽध्यायः] पद्मपुराणम् । परस्परं च भाषन्तो भिन्नाञ्जनचयोपमाः। यावदेवं स विप्राग्यो विचारयति धीरधीः॥ १८ तावदागम्य ते पोचुर्बद्धाञ्जलिपुटा मुनिम् ।। पुरुषा ऊचुः- भव्यं भवन्तं पुरुषोत्तमं वै मन्यामहे विप्रवर प्रसीद ॥ यदात्मदुःखं च वयं विचार्य विज्ञापयामः शृणु तविजेन्द्र ।। सन्तः प्रतिष्ठा दीनानां दैवादुद्भूतपाप्मनाम् । आर्तानामातिहन्तारो दर्शनादेव साधवः ॥ २१ अहं पश्चालदेशीयः क्षत्रियो नरवाहनः । ब्राह्मणं हतवान्मोहाच्छरेणाध्वनि पापकृत् ।। शिखासूत्रविहीनश्च तिलकेन विवर्जितः । अटामि जगतीमेतां ब्रह्मनोऽहमिति ध्रुवन् । २३ ब्रह्मनायातिपापाय भिक्षामन्नं (घ) प्रदीयताम् । एवं सर्वेषु तीर्थेषु भ्रमन्नत्रास्मि चाऽऽगतः २४ ब्रह्महत्या न मेऽद्यापि प्रयाति मुनिसत्तम । एवं मे वर्षमेकं हि व्यतीतं कुर्वतोऽनघ । २५ दह्यमानस्य पापेन शोकाकुलितचेतसः । चन्द्रशर्माऽपरो विप्रो योऽयं संलक्ष्यते द्विज ॥ गुरुघाती स तु ब्रह्मन्मोहाकुलितमानसः । निवसन्मागधे देशे सत्यक्तः स्वजनैस्ततः ॥ दैवादसावपि मुने भ्रमनिह समागतः। शिखासूत्रविहीनश्च विप्रलिङ्गविजितः ॥ पृष्टो मया तु वृत्तान्तं सत्यमेवावदविज । वसता यद्गुरोर्गेहे क्रोधाकुलितचेतसा ॥ २९ महामोहगतेनापि यथा वै घातितो गुरुः । तेन पापेन दग्धोऽसौ वर्तते शोकपीडितः ॥ तृतीयोऽयं पुनः स्वामिन्देवशर्मा श्रमादितः । सुरापो ब्राह्मणो जातो मोहाद्वेश्याप्रसङ्गतः॥ ३१ पृष्टो मयाऽयमपि मे यथावृत्तं न्यवेदयत् । आत्मनश्चेष्टितं पूर्वमन्तस्तापेन पीडितः ।। ३२ निरस्तः सर्वलोकैश्च भार्यावन्धुजनैरपि । तेन पापेन संयुक्तो भ्रमन्नत्रायमागतः ॥ चतुर्थो विधरो नाम वैश्योऽयं गुरुतल्पगः । मोहान्मासत्रयं यावद्वेश्याभूतां च मातरम् ॥ बुभुजे स विदेहस्थां ज्ञाततत्त्वस्ततश्चरन् । दुःखितोऽभ्यागतश्चात्र भ्रममाणो महीं मुने । पञ्चमोऽयं महापापी पापिसंसर्गकारकः । प्रत्यहं धनलोभेन चौर्यादि कृतवान्बहु ॥ वैश्योऽसौ पातकैः क्रान्तस्ततस्त्यक्तो जनैः स्वयम् । निर्विण्णमानसो दैवानन्दनामेह संगतः॥३७ एवं पश्चापि पापिष्ठाः स्थानमेकमुपागताः । कः कस्यापि न संपर्क भोजनाच्छादनादपि ॥ ३८ करोति च महाभाग विना वार्ता द्विजोत्तम । विशन्त्येकासने नैव न स्वपन्त्येकसंस्तरे ॥ ३९ एवं दुःखसमाक्रान्ता नानातीर्थेषु वै गताः । नास्माकं पातकं घोरं प्रयाति मुनिसत्तम ॥ दृष्ट्वा भवन्तं दीप्यन्तं प्रसन्नानि मनांसि नः । वदन्ति दुरितमान्तं साधोस्ते पुण्यदर्शनात् ॥ ४१ उपायं वद नः स्वामिन्यथा पापक्षयो भवेत् । ज्ञायसे करुणोऽस्माभिस्त्वं तु वेदार्थवित्मभो॥४२ आर्तानां मार्गमाणानां दुःखंच्छेदमुपागतः । मोहादवाप्तपापानां त्वमुद्धर्ताऽसि निश्चितम् ॥ ४३ नारद उवाच- तेषामेवं वचः श्रुत्वा मुनिशर्मा द्विजोत्तमः । इदमाह विचार्यैतान्करुणावरुणालयः ॥ मुनिशर्मोवाच- ४५ यूयमज्ञानतः प्राप्ताः पापानि सत्यभाषिणः । अनुतापयुता यस्मादनुग्राह्या मया ततः॥ ४६ शृणुध्वं मद्वचः सत्यमूर्ध्वबाहुर्वदाम्यहम् । [श्यन्मयाऽङ्गिरसः पूर्व श्रुतं मुनिसमागमे ॥ * धनुश्चिहान्तर्गतं झ. अ. पुस्तकयो स्ति । १ ड. च. छ. ड. विधुरो। २ झ. अ. खच्छिद्रमु । ४० ४८ महामुनिश्रीव्यासप्रणीतं- [ ४ पातालखण्डे- तदृष्टं वेदशास्त्रेषु सर्वेषां प्रत्ययावहम्] । विष्णुनाऽऽराधितेनाऽऽदौ स्वयमुक्तं च तत्त्वतः ॥ ४७ न तृप्तिरशनादन्या न गुरुर्जनकात्परः । न पात्रमन्यद्विपेभ्यो न देवः केशवात्परः ।। न गङ्गया समं तीर्थ न दानं सुरभीसमम् । न गायत्र्या समं जाप्यं नैकादश्या समं व्रतम् ॥ ४९ न भार्यया समं मित्रं न च धर्मो दयासमः । न स्वातन्त्र्यसमं सौख्यं गार्हस्थ्यामाऽऽश्रमः परः न सत्यात्पर आचारो न संतोषसमं सुखम् । न माधवसमो मासो महापापहरः परः ॥ विधिनाऽनुष्ठितो भक्त्या मधुसूदनवल्लभः । गङ्गादिषु च तीर्थेषु विशेषेण सुदुर्लभः ।। प्रायश्चित्तानि सर्वाणि वाजिमेधमुखान्यपि । तावगर्जन्ति पापिष्ठा यावन्नाऽऽयाति माधवः ॥५३ वैशाखे हलखे(खले) मासि यः सायादरितत्परः । हरिपादसमुद्भूते सलिले विमलाशयः ॥५४ स एव सर्वपापैस्तु मुक्तो यायात्परां गतिम् ॥ ५५ मासे तु वै माधवसंज्ञकेऽस्मिन्यः स्नाति पापैः स विमुच्यते हि । मेषस्थिते भास्वति नर्मदायाः शर्मप्रदे वारिणि वारिताघे ।। ५६ दुर्लभा हि महानद्यो माधवे मासि सर्वतः । ततोऽपि दुर्लभा गङ्गा यमुना चापि नर्मदा ॥ पापास्त्वेतासु तिसृषु प्राप्यैकामपि सादरम् । यः नाति माधवे मासि विपापः स हरिं व्रजेत्५८ तस्मादहो सह मया सुकृतैकसारे वैशाखमासि च भवन्त उपेत्य रेवाम् ।। मज्जन्तु पातककृतो मुनिवृन्दजुष्टे रेवाजले निखिलपापभयापहत्यै ॥ ५९ एवमुक्तास्ततः सर्वे मुदिता मुनिना सह । जग्मुस्ते पापिनो रेवां शंसन्तोऽद्भुतकारिणीम् ॥ ६० द्विजस्तु नर्मदातीरं संप्राप्य हृष्टमानसः । सत्रौ वेदोक्तविधिना प्रातःकाले नराधिप । ६१ ते पापिनः पञ्च यदैव रेवाजले निममा वचसैव तस्य । श्रीमाधवे मासि विवर्णदेहाः सद्यः सुवर्णेकरुचो बभूवुः ॥ ६२ पापप्रशमनं स्तोत्रं श्राविता मुनिशर्मणा । समक्षं सर्वलोकानां जातास्ते वरकान्तयः ॥ ६३ तवस्था मानवास्तांस्तु विरजान्नानमात्रतः। न स्पृशन्ति च राजेन्द्र पापिसंसर्गशङ्कया ॥ ६४ मुनिशर्मानुरोधेन ततो धर्मप्रमाणतः । सद्यो दिव्याऽभवद्वाणी यदैते विगतैनसः ॥ स्नातानां माधवे मासि [*मुकुन्दहृदयात्मनाम् । पापप्रशमनं स्तोत्रं शृण्वतामिह सादरम् ॥ ६६ सर्वेषामेव पापानां प्रायश्चित्तमिदं परम् । यत्मातर्माधवे मासि] भक्त्या तीर्थावगाहनम् ॥ ६७ इत्येवमाकर्ण्य गिरं नभस्थामत्यद्भुतामाशु ततो मनुष्याः । शशंसुरेतानपि पञ्च पुण्यान्वैशाखमासं च मुनि च रेवाम् ।। ६८ अथाऽऽकर्णय भूपाल स्तवं दुरितनाशनम् । यमाकर्ण्य नरो भक्त्या मुच्यते पापराशिभिः ६९ यस्य स्मरणमात्रेण पापिनः शुद्धिमागताः । अन्येऽपि बहवो मुक्ताः पापादज्ञानसंभवात् ॥ ७० परदारपरद्रव्यजीवहिंसादिके यदा । प्रवर्तते नृणां चित्तं प्रायश्चित्तं स्तुतिस्तदा ॥ ७१ विष्णवे विष्णवे नित्यं विष्णवे विष्णवे नमः । नमामि विष्णुं चित्तस्थमहंकारगतं हरिम् ॥ ७२ चित्तस्थमीशमव्यक्तमनन्तमपराजितम् । विष्णुमीड्यमशेषाणामनादिनिधनं हरिम् ॥ विष्णुश्चित्तगतो यन्मे विष्णुर्बुद्धिगतश्च यत् । योऽहंकारगतो विष्णुर्यो विष्णुमयि संस्थितः॥ ७४ * धनुचिहान्तर्गतः पाठो ङ. च. छ. ह. पुस्तकस्थः । १२. च. छ. उ. "स्य श्रवण।
७६ ७७ ७८ ७९ ८० ८२ ८४ ८९ एकोननवतितमोऽध्यायः ] पद्मपुराणम् । करोति कर्तृभूतोऽसौ स्थावरस्य चरस्य च। तत्पापं नाशमायाति तस्मिन्विष्णौ विचिन्तिते ७५ ध्यातो हरति यः पापं स्वमे दृष्टश्च पापिनाम् । तमुवेन्द्रमहं विष्णुं नमामि प्रणतप्रियम् ॥ जगत्यस्मिन्निरालम्बे हजमक्षरमव्ययम् । हस्तावलम्बनं स्तोत्रं विष्णुं वन्दे सनातनम् ॥ सर्वेश्वरेश्वर विभो परमात्मन्नधोक्षज । हृषीकेश हृषीकेश हृषीकेश नमोऽस्तु ते ॥ नृसिंहानन्त गोविन्द भूतभावन केशव । दुरुक्तं दुष्कृतं ध्यातं शमयाऽऽशु जनार्दन । यन्मया चिन्तितं दुष्टं स्वचित्तवशवर्तिना । आकर्णय महाबाहो तच्छमं नय केशव ॥ ब्रह्मण्य देव गोविन्द परमार्थपरायण । जगन्नाथ जगद्धातः पापं शमय मेऽच्युत ॥ ८१ यच्चापराह्ने सायाह्ने मध्याह्ने च तथा निशि । कायेन मनसा वाचा कृतं पापमजानता ॥ जानता च हृषीकेश पुण्डरीकाक्ष माधव । [*नामत्रयोच्चारणतः सर्वं यातु मम क्षयम् ।। शारीरं मे हृषीकेश पुण्डरीकाक्ष मानसम् । पापं प्रशममायातु वाकृतं मम माधव ॥ यद्भुञ्जानः पिबस्तिष्ठन्स्वपञ्जाग्रन्यदा स्थितः । अकार्ष पापमर्थार्थ कायेम मनसा गिरा ॥ ८५ महदल्पं च यत्पापं दुर्योनिनरकावहम् । तत्सर्वं विलयं यातु वासुदेवस्य कीर्तनात् ॥ परं ब्रह्म परं धाम पवित्रं परमं च यत् । अस्मिन्संकीर्तिते विष्णौ यत्पापं तत्प्रणश्यतु । यत्प्राप्य न निवर्तन्ते गन्धस्पर्शविवर्जितम् । सूरयस्तत्पदं विष्णोस्तत्सर्व मे भवत्वलम् ॥ पापप्रशमनं स्तोत्रं यः पठेच्छृणुयानरः । शारीरैर्मानसैर्वाचा कृतैः पापैः प्रमुच्यते ॥ मुक्तः पापग्रहादिभ्यो याति विष्णोः परं पदम् । तस्मात्सर्वप्रयत्नेन स्तोत्रं सर्वाघनाशनम् ॥९० प्रायश्चित्तमघौघानां पठितव्यं नरोत्तमैः । प्रायश्चित्तैः स्तोत्रजपैतैर्नश्यति पातकम् ॥ ततः कार्याणि संसिद्ध्यै तानि वै भुक्तिमुक्तये । पूर्वजन्मार्जितं पापमैहिकं च नरेश्वर ॥ स्तोत्रस्य श्रवणादस्य सद्य एव विलीयते । पापद्रुमकुठारोऽयं पापेन्धनदवानलः ॥ पापराशितमस्तोमभानुरेष स्तवो नृप । मया प्रकाशितस्तुभ्यं तथा लोकानुकम्पया ॥ स्तवोऽयं यो मया प्राप्तो रहस्यं पितुरादरात् । इति ते यन्मया प्रोकं स्तोत्रं पापप्रणाशनम् ९५ अस्यापि पुण्यमाहात्म्यं वक्तुं शक्तः स्वयं हरिः । स्वस्ति तेऽस्तु गमिष्यामि गङ्गायामथ सत्त्वरम् स्वातुं मासः समायातो मासानां माधवो महान् ॥ इति श्रीमहापुराणे पाने पातालखण्डे वैशाखमाहात्म्येऽष्टाशीतितमोऽध्यायः॥ ८८ ।। आदितः श्लोकानां समष्टयङ्काः-१६७११ ८८ ८९ ९२ अर्थकोननवतितमोऽध्यायः । सूत उवाच- गन्तुं समुद्यतं ज्ञात्वा मुनि राजा ततो मुदा। विधि पप्रच्छ संक्षिप्तं स्नानदानकथोचितम् ॥ अम्बरीष उवाच- मुने वैशाखमासेऽस्मिन्को विधिः किं तपोऽधिकम् । किंच दानं कथं स्नानं कथं केशवपूजनम् ।। कृपया वद विमर्षे सर्वज्ञस्त्वं हरिमियः । विशेषतोऽपि पूजाया विधि तीर्थपदो वद ॥ * धनुश्विकान्तर्गतः पाठो ङ. च. छ. ड. पुस्तकस्थः । १. स्य भाव।
- ४ or ८ १ ६४२ महामुनिश्रीव्यासमणीतं- [४पातालखण्डे- नारद उवाच- मेषसंक्रमणे भानोर्माधवे मासि सत्तम । महानद्यां नदीतीर्थे नदे सरसि निझरे । देवखाते तथा स्नायाद्यथाप्राप्ते जलाशये । दीर्घिकासु च कूपादौ नियमेन हरि स्मरन् । मधुमासस्य शुक्लायामेकादश्यामुपोषयेत् । पञ्चदश्यां ततो धीरो मेषसंक्रमणेऽपि वा ॥ वैशाखस्नाननियमं ब्राह्मणानामनुज्ञया । मधुसूदनमभ्यर्च्य कुर्यात्सुनानपूर्वकम् ॥ वैशाखमखिलं मास मेषसंक्रमणे रवेः। प्रातः सनियमस्नानात्मीयतां मधुसूदनः ॥ [*मधुहन्तुः प्रसादेन ब्राह्मणानामनुग्रहात् । निर्विघ्नमस्तु मे पुण्यं वैशाखस्नानमन्वहम् ।। माधवे मेषगे भानौ मुरारे मधुसूदन । ] प्रातःस्नानेन मे नाथ यथोक्तफलदो भव ॥ १० यथा ते माधवो मासो वल्लभो मधुसूदन । प्रातःस्नानेन मे तस्मिन्फलदः पापहा भव ॥ ११ एवमुच्चार्य तत्तीर्थे पादौ प्रक्षाल्य वाग्यतः । स्मरनारायणं देवं स्नानं कुर्याद्विधानतः ॥ १२ तीर्थ प्रकल्पयेद्विद्वान्मूलमत्रमिमं पठन् । ॐनमो नारायणाय मूलमत्र उदाहृतः ॥ १३ दर्भपाणिस्तु विधिवदाचान्तः प्रणतो भुवि । चतुर्हस्तसमायुक्तं चतुरखं समन्ततः ॥ १४ प्रकल्प्याऽऽवाहयेद्गङ्गां मत्रेणानेन वै नरः । विष्णुपादप्रसूताऽसि वैष्णवी विष्णुदेवता ।। १५ त्राहि नस्त्वेनसस्तस्मादाजन्ममरणान्तिकात् । तिस्रः कोव्योऽर्धकोटी च तीर्थानां वायुरब्रवीत् ।। दिवि भुव्यन्तरिक्षे च तानि ते सन्ति जाहवि । नन्दिनीति च ते नाम वेदेषु नलिनीति च।।१७ दक्षा पृथ्वी वियद्गगा विश्वकाया शिवाऽमृता । विद्याधरी महादेवी तथा लोकप्रसादिनी ॥१८ क्षेमकरी जाह्नवी च शान्ता शान्तिप्रदायिनी । एतानि पुण्यनामानि स्नानकाले प्रकीर्तयेत् ॥१९ भवेत्संनिहिता तेन गङ्गा त्रिपथगामिनी । सप्तवाराभिजप्तेन करसंपुटयोजिता ॥ मूनि बद्धाञ्जलिर्भूत्वा चतुर्वा पदच सप्त वा । स्नानं कृत्वा मृदा तद्वदामन्त्र्य तु विधानतः॥२१ अश्वक्रान्ते रथक्रान्ते विष्णुकान्ते वसुंधरे । मृत्तिके हर मे पापं यन्मया पूर्वसंचितम् ।। उद्धृताऽसि वराहेण विष्णुना शतवाहुना । नमस्ते सर्वलोकानां प्रभवारणि सुव्रते ॥ एवं स्नात्वा ततः पवादाचम्य तु विधानतः । उत्थाय वाससी शुक्ले शुद्धे तु परिधापयेत् ॥२४ ततस्तु तर्पणं कुर्यात्रैलोक्याप्यायनाय वै । ब्रह्माणं तर्पयेत्पूर्व विष्णुं रुद्र प्रजापतिम् ॥ देवान्यक्षांस्तथा नागान्गन्धर्वाप्सरसोऽसुरान् । क्रूरान्सर्पान्सुपर्णाश्च तरून्वै जन्तुकान्खगान् २६ विद्याधराञ्जलधरांस्तथैवाऽऽकाशगामिनः । निराधाराश्च ये जीवाः पापकर्मरताश्च ये ॥ तेषामाप्यायनार्थाय दीयते सलिलं मया । कृत्वोपवीती(तं) देवेषु निवीती च भवेन्नरः ॥ २८ मनुष्यास्तर्पयेद्भक्त्या ऋषिपुत्राऋषींस्तथा । सनकः सनन्दनश्चैव तृतीयश्च सनातनः ॥ सनत्कुमारश्च तथा कपिलश्चाऽऽसुरिश्च वै । वोदुः पञ्चशिखस्तद्वन्मुख्या ऋषिसुता इमे ॥ सर्वेऽपि तृप्तिमायान्तु मया दत्तेन वारिणा । मरीच्य(चिम)व्यङ्गिरसौ पुलस्त्यं पुलह क्रतुम्॥३१ प्रचेतसं वसिष्ठं च भृगु नारदमेव च । देवब्रह्मऋषीन्सस्तिर्पयेदक्षतोदकैः ॥ ३२ अपसव्यं ततः कुर्यात्सव्यं जान्वाच्य भूतले । अग्निष्वात्तास्तथा सौम्या हविष्मन्तस्ततोष्मपाः॥ कव्यानलान्बर्हिषदस्तथा मातामहानपि । संतमे विधिवत्सर्वानिमं मन्त्रमुदीरयेत् ॥ ३४ येऽबान्धवा बान्धवा येऽप्यन्यजन्मनि बान्धवाःगते हप्तिमखिला यान्तु येऽस्मत्तस्तोयकाक्षिणः * धनुश्विद्वान्तर्गतः पाठो अ. च. छ. उ. पुस्तकस्थः । १ स. सप्त षडया । अ. वो सप्तषट्पदा । मा। २ श. म. खिला या । २० २२ २५ २७ २९ ३० ३७ ३८ ४० ४७ ९० नवतितमोऽध्यायः ] पद्मपुराणम् । आचम्य विधिवत्पश्चादालिखेत्पद्ममग्रतः । साक्षतैश्च सपुष्पैश्च सलिलारुणचन्दनैः ।। अर्घ्य दद्यात्मयत्नेन सूर्यनामानुकीर्तनैः । नमस्ते विष्णुरूपाय नमस्ते ब्रह्मरूपिणे ॥ सहस्ररश्मये नित्यं नमस्ते सर्वतेजसे । नमस्ते रुद्रवपुषे नमस्ते भक्तवत्सल ॥ पद्मनाभ नमस्तेऽस्तु कुण्डलाङ्गदभूषित । नमस्ते सर्वलोकानां मुप्तानामुपबोधन ॥ मुकृतं दुष्कृतं चैव सर्व पश्यसि सर्वदा । सत्यदेव नमस्तेऽस्तु प्रसीद मम भास्कर ॥ दिवाकर नमस्तेऽस्तु प्रभाकर नमोऽस्तु ते । एवं सूर्य नमस्कृत्य सप्तधा तु प्रदक्षिणम् ॥ द्विजं गां काञ्चनं स्पृष्ट्वा पश्चाच स्वगृहं व्रजेत् । आश्रमस्थांश्च संपूज्य प्रतिमां चापि पूजयेत्॥४२ पूर्व भक्त्या च गोविन्दं गृहे च नियतात्मवान् । पूजयेद्भक्तितो राजन्नुभयत्र यथाविधि ॥ ४३ विशेषादपि वैशाखे योऽर्चयेन्मधुसूदनम् । सर्वसंवत्सरं यावदर्चितस्तेन माधवः ॥ माधवे मासि संप्राप्ते मेषस्थे कर्मसाक्षिणि । केशवप्रीतये कुर्यात्केशवव्रतसंचयम् ।। दद्यादनेकदानानि तिलाज्यप्रभृतीनि च । जन्मकोटिसमुद्भूतपातकान्तकराणि च । ४६ जलानशर्कराधेनुतिलधेनुमुखानि च । वित्तशाठयविवानि दानानीप्सितसिद्धये ॥ वैशाख सकलं मासं नित्यस्नायी जितेन्द्रियः । जपन्हविष्यं भुञ्जानः सर्वपापैः प्रमुच्यते ॥ ४८ एकभुक्तमथो नक्तमयाचितमतन्द्रितः । माधवे मासि यः कुर्यात्स लभेत्सर्वमीप्सितम् ॥ वैशाखे विधिवत्स्नानद्वयं नधुदके बहिः । हविष्यं ब्रह्मचर्य च भूशय्या नियमस्थितिः ॥ व्रतं दानं जपो होमो मधुसूदनपूजनम् । अपि जन्मसहस्रोत्थं पापं हरति दारुणम् ॥ यथैव माधवो ध्यातो विनाशयति किल्विषम् । तथैव माधवे स्नानं नियमेन विनिर्मितम् ॥ ५२ तीर्थे चानुदिनं स्नानं तिलैश्च पितृतर्पणम् । दानं धर्मघटादीनां मधुसूदनपूजनम् ।। माधवे मासि कुर्वीत मधुसूदनाष्टिदम् । तिलोदकसुवर्णानशर्कराम्बररोहिणीः ।। पादत्राणातपत्राब्जं कुम्भान्दद्याविजातिषु । त्रिसंध्यं पूजयेदीशं भक्त्या च मधुसूदनम् ॥ ५५ साक्षाद्विमलया लक्ष्म्या समुपेतं समाहितः। सुवर्णतिलपात्रैश्च ब्राह्मणाशक्तितो बहून् । तर्पयेहुग्धपात्रैर्यो ब्रह्महत्यां व्यपोहति । वैशाखे मासि यः स्नात्वा प्रातर्नयां समाहितः ॥ ५७ पूजयित्वा हरि भक्त्या पुष्पैः कालोद्भवैः फलैः। पूजयेद्राह्मणाशक्त्या पाषण्डालापवर्जितः ५८ तर्पयेद्वस्त्रगोदानै रत्नाद्यैर्धनसंचयैः । यचापि निःस्वपुरुषो माधवे मासि माधवम् ॥ पुष्पार्चन विधानेन पूजयेन्मधुसूदनम् । सर्वपापविनिर्मुक्तो याति सोऽपि परं पदम् ॥ आज्यं वित्तं यथाशक्त्या स्तोकं स्तोकं समाचरेत् । स जन्मशतसाहस्रं न शोकफलभाग्भवेत् ? न च व्याधिभयं तस्य न दारिद्यं न बन्धनम् । स विष्णुभक्तो जायेत धन्यो जन्मनि जन्मनि । यावयुगसहस्राणि शतमष्टोत्तरं भवेत् । तावत्स्वर्गे वसेद्धीरो भूपतिश्च पुनर्भवेत् ॥ भूपतिर्विविधान्भोगान्भुक्त्वा चैव यथासुखम् । माधवस्य प्रसादेन माधवे लीयते ततः ॥ ६४ इति श्रीमहापुराणे पाने पातालखण्डे वैशाखमाहात्म्य एकोननवतितमोऽध्यायः ॥ ८९ ॥ आदितः श्लोकानां समष्ट्यङ्काः-१६७७५ अथ नवतितमोऽध्यायः । - नारद उवाच- शृणु राजेन्द्र वक्ष्यामि समासान्माधवार्चनम् । वैदिकं तात्रिकं चापि मिश्रकं पापनाशनम् ॥ १ १ ख. दृ. च. छ. उ. तोऽन्वहम् । त।
६४४ २ ८ ९ महामुनिश्रीव्यासपणीतं- [ ४ पातालखण्डे- अनन्तानन्तपारस्य नान्तः पूजाविधेर्नृप । अथ संक्षिप्य चोच्येत यथावदनुपूर्वशः ॥ वैदिकस्तात्रिको मिश्रः श्रीविष्णोत्रिविधो मखः । त्रयाणामुदितेनैव विधिना हरिमर्चयेत् ॥ ३ वैदिको मिश्रको वाऽपि विषादीनामुदाहृतः । तात्रिको विष्णुभक्तस्य शूद्रस्यापि प्रकीर्तितः॥ ४ यथास्वनिगमेनोक्तं विधित्वं प्राप्य पूरुषः । यजेच्च विधिवद्विष्णुं ब्रह्मचारी समाहितः ।। ५ अर्चयेत्स्थाण्डिले वाऽग्नौ सूर्ये स्वहृदि वा द्विजे । द्रव्येण भक्तियुक्तोऽर्चेत्स्वगुरुं तदनुज्ञया ॥ ६ पूर्व स्नानं प्रकुर्वीत धौतदन्तोऽङ्गशुद्धये । उभयो(2)रपि च स्नानं मत्रैर्मद्रहणादिना ॥ संध्योपासनकर्माणि वेदतवोदितानि च । पूजान्ते कल्पयेत्सम्यक्संकल्पं कर्मपावनम् ॥ [*शैली धातुमयी लौही लेप्या लेख्या च सैकती । मनोमयी मणिमयी प्रतिमाऽष्टविधा मता ॥ चराऽचरेति द्विविधा प्रतिष्ठा जीवमन्दिरम् ॥ उद्वासावाहने न स्तः स्थिरायां केशवार्चने । अस्थिरायां विकल्पः स्यात्स्थण्डिले तु भवेवयम् १० स्नापनं त्वविलेख्यायामन्यत्र परिमार्जनम् । द्रव्यैः प्रसिद्धैर्देवार्चा प्रतिमादिष्वमायया ॥ ११ भक्तस्य च यथालब्धैर्भक्तिभावेन चैव हि । स्नानालंकरणं चेष्टमायामेव भूपते ॥ १२ श्रद्धयोपहृतं श्रेष्ठं कृष्णभक्तेन वार्यपि । गन्धो धूपं(पः) सुमनसो दीपोऽन्नाद्यं च किं पुनः ॥१३ शुचिः संभृतसंभारः प्राग्दभैः कल्पितासनः । आसीनश्च युदग्वक्त्री ह्यायामय संमुखः ॥ १४ कृतन्यासः कृतन्यासां हर्यों पाणिना स्पृशेत् । कलशं प्रोक्षणीयं च यथावदुपसादयेत् ॥ १५ तदद्भिर्देवयजनं द्रव्याण्यात्मानमेव च । प्रोक्ष्य पात्राणि त्रीण्यद्भिस्तैस्तैर्द्रव्यैश्च सादयेत् ॥ १६ पाद्यार्थ्याचमनीयार्थे त्रीणि पात्राणि दापयेत् । हृतशीर्णा च शिखया गायत्र्या चाभिमत्रयेत् १७ पिण्डे वाय्वग्निसंशुद्ध हृत्पद्मस्थां परां विभो। अण्वी जीवकलां ध्यायनादान्ते सिद्धभाविताम् ॥१८ तयाऽऽत्मभूतया पिण्डव्याप्ते संपूज्य तन्मयः।आवाह्या_दिषु स्थाप्य न्यस्ताङ्गां तां प्रपूजयेत् ॥१९ पाद्यार्घस्नानार्हणादीनुपचारान्मकल्पयेत् । धर्मादिभिश्च नवभिः कल्पयित्वाऽऽसनं हरेः ॥ पद्ममष्टदलं तत्र कर्णिकाकेसरोज्ज्वलम् । उभाभ्यां वेदतत्राभ्यां हरेरुभयसिद्धये ॥ २१ सुदर्शनं पाश्चजन्यं गदासीषुधनुहलान् । मुसलं कौस्तुभं मालां श्रीवत्सं चापि पूजयेत् ॥ नन्दोपनन्दं गरुडं प्रचण्डं चण्डमेव हि । वलं महाबलं चैव मुकुन्दं कुमुदेक्षणम् ॥ २३ दुर्गा विनायकं व्यासं विष्वक्सेनं गुरून्सुरान् । स्वस्वस्थानेष्वभिमुखान्पूजयेत्प्रोक्षणादिभिः॥२४ चन्दनोशीरकर्पूरकुङ्कमागरुवासितैः । सलिलैः स्नापयेन्मन्नैनित्यदा विभवे सति ॥ स्वर्णधर्मानुवाकेन महापुरुषविद्यया । पौरुषेणापि सूक्तेन सामनीराजनादिभिः ॥ वस्त्रोपवीताभरणस्रग्गन्धाधनुलेपनैः । अलं कुर्वीत सप्रेमविष्णुभक्तो यथोचितम् ॥ पाद्यमाचमनीयं च गन्धं सुमनसोऽक्षतान् । गन्धधूपोपहारांश्च दद्यादै श्रद्धयाऽर्चकः ॥ गुडपायससपीषि शष्कुल्यपूपमोदकान् । नैवेद्यं दधिदुग्धानि नैकसंज्ञानि कल्पयेत् ॥ अभ्यङ्गोन्मर्दनादर्शदन्तधावाभिषेचनम् । अन्नाधं नृत्यगीतादि पर्वण्यप्यन्वहं नृप । विधिना विहिते कुण्डे मेखलावर्तवेदिभिः। अग्निमाधाय परितः समूहेत्पाणिनोदकम् ॥ परिस्तीर्याथ पर्युक्ष्य दत्त्वेध्मं च यथाविधि। प्रोक्षण्याऽऽसाय द्रव्याणि प्रोक्ष्यानावाज्यसेचनम् ३२ तप्तजाम्बूनदप्रख्यं शङ्खचक्रगदाम्बुजैः । लसच्चतुर्भुज शान्तं पद्मकिञ्जल्कवाससम् ॥ * धनुश्चिहान्तर्गतः पाठो ङ. च. इ. इ. पुस्तकस्थः । १ ङ. च. छ. इ. अतः । २ म. नार्दन्ते । ३ झ. म. तपिण्डा ये व्या । ४ इ. च. छ. ह. कुमुदं । २० २२ २६ २७ २८ २९ ३० ४४ ९१ एकनवतितमोऽध्यायः ] पद्मपुराणम् । स्फुरकिरीटकटककण्ठसूत्राङ्गुलीयकम् । श्रीवत्सवक्षसं भ्राजत्कौस्तुभं वनमालिनम् ।। ध्यायनभ्यर्च्य दारूणि हविषा सघृतानि च। प्रास्याऽऽज्यभागावाघारौ दत्त्वा चाऽऽज्यप्लुतं हविः अभ्याथ नमस्कृत्य पार्षदेभ्यो बलिं हरेत् । मुखवासं च सुरभिं ताम्बूलं च उपाहरेत् ॥ ३६ उपयोगं गृणन्नित्यं कर्माण्यभिरवाक्षरैः । सत्कथां श्रावयञ्शृण्वन्मुहूर्त क्षणिको भवेत् ॥ स्तवैरुच्चावचैः स्तोत्रैः पौराणैः प्राकृतैरपि । स्तुत्वा प्रसीद भगवन्नित्यं वन्देत दण्डवत् ॥ शिरस्तत्पादयोः कृत्वा बाहुभ्यां च परस्परम् । प्रपन्नं पाहि मामीश भीतं मृत्युग्रहार्णवात् ॥३९ इति शेषां हरेर्दत्तां शिरस्याधाय सादरम् । उद्वासयेच्चेदुद्वास्यं ज्योतिज्योतिषि चाऽऽत्मनः ४० अर्चादिषु पदं यत्र श्रद्धावांस्तत्र चार्चयेत् । सर्वभूतेष्वात्मनि च सर्वात्मानमवस्थितम् ॥ ४१ एवं क्रियायोगपथैः पुमान्वैदिकतान्त्रिकैः । सर्वतस्तु यतः सिद्धि हरविन्दत्यभीप्सिताम् ॥ ४२ विष्ण्वी संप्रतिष्ठाप्य मन्दिरं कारयेदृढम् । पुष्पोद्यानानि रम्याणि पूजाकर्मोपसिद्धये ॥ ४३ पूजादीनां प्रवाहाथ महापर्वस्वथान्वहम् । क्षेत्रापणपुरग्रामान्दत्त्वा सायुज्यतामियात् ॥ प्रतिष्ठया सार्वभौमं सद्मना भुवनत्रयम् । पूजादिना ब्रह्मलोक त्रिभिस्तत्साम्यतामियात् ॥ ४५ नाश्वमेधेन यज्ञेन भक्तियोगं तु विन्दति । भक्तियोगं स लभत एवं यः पूजयेद्धरिम् ॥ ४६ यत्कृष्णमणिपातधूलिधवलं तद्वह्म तद्वच्छुभं नेत्रे चेत्तपसोजिते सुरुचिरे याभ्यां हरिदृश्यते । सा बुद्धिविमलेन्दुशङ्खधवला या माधवव्यापिनी सा जिहां मृदुभाषिणी नृप मुहुर्या स्तौति नारायणम् ॥ मूलमत्रेण कर्तव्यं स्त्रीशूरैरपि पूजनम् । श्रद्धया गुरुमार्गेण तथाऽन्यैरपि वैष्णवैः ॥ एतत्ते सर्वमाख्यातं पावनं माधवार्चनम् । विशेषान्माधवे मासि त्वमेतत्कुरु भूपते ।। सूत उवाच- इत्येवमादिश्य मुनिर्नरेन्द्रमामन्त्र्य तं मत्रविदं सभार्यम् । स्नातुं ययौ माधवमासि गङ्गामभ्यर्चितस्तेन नृपेण विभः ॥ ५० विधि स राजाऽपि तथा चकार वैशाखमासस्य मुनिप्रणीतम् । पल्या सर्व पुण्यधिया तमेव स चिन्तयल्लोकपवित्रकीर्तिः ।। इति श्रीमहापुराणे पाझे पातालखण्डे वैशाखमाहात्म्ये नवतितमोऽध्यायः ॥ ९ ॥ आदितः श्लोकानां समष्टयङ्काः-१६८२६ ४७ ४८ ५१ अथैकनवतितमोऽध्यायः । ऋषय ऊचुः २ सूत सूत महामाज्ञ समाः संजीव शाश्वतीः । यद्वयं पुण्यसमयं श्राविता जगतो हितम् ।। वद भूयोऽपि भूयिष्ठं पिबामस्तावकं वचः। पायं पायं न तृप्यामो वयं सूत तदुत्तमम् ।। सूत उवाच- अत्राप्युदाहरन्तीममितिहासं पुरातनम् । संवादमादिलोकस्य जगतां जगदीशितुः ॥ १ क. ङ. च. छ. ड. कटिसू। २ क. अ. हा मधुभा।
६ १० ६४६ महामुनिश्रीव्यासमणीत- [४ पातालखण्डे- षट्सहस्राणि चोच्छ्राये विस्तारे व पुनस्वयम् । एवं युगसहस्राणि योजनानां विधाय च ॥ ४ वामया दंष्ट्रयोबृह्य चोवृताऽसौ वसुंधरा । दिव्यं वर्षसहस्रं वै दंष्ट्रया धारिता महीं ॥ धर्माख्यानप्रसङ्गेन सोवाच विनयाद्विभुम् ॥ धरोवाच- एते द्वादश मासा वै षष्टिर्दिनशतत्रयम् । तेषां किमुत्तमं पुण्यं प्रियं च तव केशव ॥ पवित्रः कार्तिको मासस्तुलासंस्थे दिवाकरे । मेषस्थे माधवो मासो भास्करे पठ्यते बुधैः ॥ ७ मार्गशीर्षोऽपि मासानां पावनः परिकीर्तितः । एवं मासाः पवित्रास्ते वासराः केऽपि कीर्तिताः युगादयो युगान्ताश्च तथा कल्पादयः परे । सर्वेभ्योऽप्यधिकं मासं मे तेभ्यो देव पावनम् ॥ ९ सर्वयज्ञमयं श्रीमन्मेकं निश्चित्य मे वद ।। श्रीवाराह उवाच- विधिनाऽविधिना चैव ये यजन्ति नरा धरे । माधवे मासि मां भक्त्या तैस्तु पूज्योऽस्म्यहं सदा हिरण्याक्षवरारोहे माधवे तु मधुर्हतः । आदिदैत्यावुभावेतौ हत्वा त्वं तु समुद्धृता ॥ १२ त्रेतायुगे त्रयीधर्मो ज्ञानवर्णव्यवस्थितिः । माधवे मासि संभूता तस्मान्मे माधवः मियः ॥ १३ तृतीयायां माधवे तु युगं त्रेताभिधं सिते । प्रवृत्तं च त्रयीधर्मः पवित्रस्तेन कीर्तितः ॥ अक्षय्या सोच्यते लोके तृतीया हरिवल्लभा । स्नाने दानेऽर्चने श्राद्धे जपे पूर्वजतर्पणे ॥ १५ येऽर्चयन्ति च वै विष्णुं श्राद्धं कुर्वन्ति यत्नतः । तेषां ददाम्यहं सर्व यन्ममोभीष्टमुत्तमम् ॥ १६ ये ददत्यपि दानानि धन्यास्ते धार्मिका नराः । ये यजन्ति हरि नित्यमध्वरैर्विविधैरपि ॥ १७ माधवे यजते यो मां तेभ्यस्तस्याधिकं फलम् । स्नानं दानं जपो होमस्तपो यज्ञादिकं व्रतम् १८ वैशाखे यत्कृतं देवि तस्य पुण्यफलं शृणु । मन्वन्तराणां कोटीस्तु दश पश्च च सप्त च ॥ १९ मत्सांनिध्यगतास्तेऽपि तिष्ठन्ति भयवजिताः । यद्यपि स्युर्ग्रहाः सर्वे क्रूरा जन्मव्ययाष्टकाः २० प्रातःस्नानेन वैशाखे सर्वे सौम्या भवन्ति वै । वैशाखे मासि यो विप्रान्भोजयेद्भक्तितत्परः ॥ सिक्थे सिक्थे भवेत्तृप्तिः पितॄणां युगसंख्यया ॥ २१ यच्छन्ति तत्र मधुराधिकभोजनानि विप्रेषु वै यवतिलोकभोजनाश्च । छत्राम्बराणि पदरक्षणभूषणानि धन्यास्त एव परितोषकरा हि विष्णोः॥ विशेषादिह दातव्यास्तिला मधुसमन्विताः । धर्माय बृहते दीर्घदुरितक्षयहेतवे । २३ एवं कृतेन यत्पुण्यं प्राप्यते मनुजैश्च तैः । तत्कैर्गणयितुं शक्यं वर्षकोटिशतैरपि ॥ पुत्रपौत्रादिसंपत्तिं दीर्घायुश्च यथेप्सितम् । इहाऽऽमोति परत्रापि मामेव प्रतिपद्यते ॥ यः परित्यज्य वैशाखव्रतमन्यदुपाचरेत् । स करस्थं महारत्नं हित्वा लोष्टं हि याचते ॥ २६ सूत उवाच- एवं स भगवान्पूर्वमादिदेवोऽवदद्विभुः । माधवं मासमुद्दिश्य जगत्यां जगतीधरः ॥ किमत्र बहुनोक्तेन न तदस्ति महीसुराः । यदमाप्यं भवेन्मासि माधवे माधवाचनात् ।। शृणु विप्र पुरावृत्तमिहार्थे परमाद्भुतम् । बामणस्य च संवादं यमस्य च महात्मनः ।। पुनः पुनः । ए। २ स. म. 'भ्यो बद पावन । स । ३ रु. च. छ. हस्ते वै ति। २२ २४ २५ २७ २८ भ.
९२ द्विनवतितमोऽध्यायः ] पद्मपुराणम् । मध्यदेशे महद्रामो ब्राह्मणानां बभूव ह । गङ्गायमुनयोर्मध्ये यामुनस्य गिरेरधः ॥ विद्वांसस्तत्र भूयिष्ठा विद्वांसश्चावसंस्तदा । अथ प्राह यमः कंचित्पुरुषं कृष्णपिङ्गलम् ॥ रक्ताक्षमूर्ध्वचिकुरं काकजङ्घाल्पनासिकम् । गच्छ त्वं भो महद्भामं ततो ब्राह्मणमानय ॥ ३२ वसिष्ठगोत्रसंभूतं नामतो यज्ञदत्तकम् । शमे निविष्टं विद्वांसं यज्ञकर्मविशारदम् ॥ न चान्यमानयेथास्त्वं सगोत्रं तस्य पार्श्वतः । संहितादिगुणस्तेन तुल्योऽध्ययनजन्मना ॥ ३४ आकृत्या च तथा चिह्नः समस्तैरेव सत्तमः । तमानय यथोदिष्टा [*पूजा कार्या हि तस्य मे ३५ स गत्वा प्रतिकूलं तु चकार यमशासनम् । तमेव चाऽऽनयामास प्रतिषिद्धो यमेन यः॥ ३६ तस्मै यमः समुत्थाय] पूजां कृत्वा च धर्मवित् । प्रोवाच नीयतामेष सोऽन्यत्राऽऽनीयतामिति ।। सूत उवाच- एवमुक्ते तु वचने धर्मराजेन स द्विजः । उवाच धर्मराजं तं निर्विण्णो गमनेन वै ॥ ३८ ब्राह्मण उवाच-- कस्मादहमिहाऽऽनीतः कस्मात्प्रेषयसे पुनः । गन्तुं नैवोत्सहे तत्र मर्त्यलोके पुनः प्रभो ॥ ३९ यय उवाच- इह क्षीणायुषां पुंसां वासः पुण्यवतां भवेत् । अयं मे धर्मराजस्य लोके धर्मः प्रकीर्तितः॥ ४० सौख्यभूपिरियं स्वर्गे धर्मराजो महीश्वरः । पुण्यापुण्यानुसारेण जन्तूनां सुखदुःखतः॥ पापिनां यमरूपोऽस्मि नृणां निरयदायकः । तथा पुण्यवतां सौख्यस्वर्गदो धर्ममूर्तिमान् ॥ ४२ गच्छ विप्र त्वमद्यैव निलयं खं यथाऽऽगतः। अद्यास्ति दश वर्षाणि ह्यायुस्ते परिकीर्तितम् ४३ क्षये तवाऽऽयुषः प्राप्तिर्लोकस्यास्य भविष्यति । प्रष्टव्यं चेत्त्वया ह्यन्यत्पृच्छस्व प्रब्रवीमि ते ॥ इति श्रीमहापुराणे पाझे पातालखण्डे वैशाखमाहात्म्य एकनवतितमोऽध्यायः ॥ ९१ ॥ आदितः श्लोकानां समष्ट्यङ्काः-१६८७० -- अथ द्विनवतितमोऽध्यायः । ब्राह्मण उवाच- - १ २ ३ यत्कृत्वा सुमहत्पुण्यं स्वर्गः स्याब्रूहि तन्मम । सर्वस्य त्वं प्रमाणं च धर्माधर्मविनिश्चये ॥ यदि देव मया सम्यग्गन्तव्यं निजमन्दिरम् । तद्रूहि कर्मणा केन पतन्ति नरके नराः ॥ ब्रजन्ति केन च स्वर्ग तत्सर्व कृपया वद ॥ यम उवाच- कर्मणा मनसा वाचा ये धर्मविमुखा नराः। विष्णुभक्तिविहीना ये ते वै निरयगामिनः ॥ पश्यन्ति भेदबुद्ध्या ये ब्रह्माणं शंकरं हरिम् । विरक्ता विष्णुविद्यासु नरा निरयगामिनः ॥ ४ क्षेत्रवृत्तिगृहच्छेदं प्रीतिच्छेदं च ये नराः। आशाछेदं च कुर्वन्ति ते नरा नरकौकसः ॥ आगतान्भोजनार्थ वै ब्राह्मणान्वृत्तिकर्षितान् । यः परीक्षेत मूढात्मा स ज्ञेयो नरकातिथिः ।। ६ अनाथं वैष्णवं दीनं रोगात वृद्धमेव च । नानुकम्पयते मूढः स ज्ञेयो नरकातिथिः ॥ नियमांस्तु समादाय यः पश्चादजितेन्द्रियः । विलोपयति मूढात्मा स वै निरयभाजनम् ॥ धनुश्विहान्तर्गतः पाठो ड. च. छ. उ. पुस्तकस्थः । ८ १३ ६४८ महामुनिश्रीव्यासपणीतं- [४ पालालखण्डे. शृणु विष यथा यान्ति नराः स्वर्ग दयालवः । समासेनैव वक्ष्यामि किंचित्ते गौरवादहम् ॥ . येऽर्चयन्ति हरिं देवं विष्णुं जिष्णुं सनातनम् । नारायणमजं देवं विष्णुरूपं चतुर्भुजम् ॥ १॥ ध्यायन्ति पुरुषं दिव्यमच्युतं ये स्मरन्ति च । लभन्ते ते हरिस्थानं श्रुतिरेषा सनातनी ॥ १ इदमेव हि माङ्गल्यमिदमेव धनार्जनम् । जीवितस्य फलं चैतद्यद्दामोदरकीर्तनम् ॥ १. कीर्तनाद्देवदेवस्य विष्णोरमिततेजसः । दुरितानि विलीयन्ते तमांसीव दिनोदये ॥ १६ गाथां गायन्ति ये नित्यं वैष्णवीं श्रद्धयाऽन्विताः। स्वाध्यायनिरता नित्यं ते नराः स्वर्गगामिनः ११ वासुदेवजपासक्तानपि पापकृतो जनान् । नोपसर्पन्ति तान्विष यमदूताः सुदारुणाः ॥ १८ नान्यत्पश्यामि जन्तूनां विहाय हैरिकीर्तनम् । सर्वपापप्रशमनं प्रायश्चित्तं द्विजोत्तम ॥ ये याचिताः प्रहष्यन्ति प्रियं दत्त्वा वदन्ति च । त्यक्तदानफला ये तु ते नराः स्वर्गगामिनः । वर्जयन्ति दिवास्वापं नराः सर्वसहाश्च ये । पर्वण्याश्रयभूता ये ते माः स्वर्गगामिनः ॥ १८ द्विषतामपि ये द्वषान्न वदन्त्यहितं कदा । कीर्तयन्ति गुणांश्चैव ते नराः स्वर्गगामिनः ॥ १९ ये शान्ताः परदारेषु कर्मणा मनसा गिरा । रमयन्ति न सत्त्वस्थास्ते नराः स्वर्गगामिनः ॥ २० यस्मिन्कस्मिन्कुले जाता दयावन्तो यशस्विनः । सानुक्रोशाः सदाचारास्ते नराः स्वर्गगामिनः २१ व्रतं रक्षन्ति ये कोपाच्छ्रियं रक्षन्ति मत्सरात् । विद्यां मानापमानाभ्यां ह्यात्मानं तु प्रमादतः२२ मतिं रक्षन्ति ये लोभान्मनो रक्षन्ति कामतः । धर्म रक्षन्ति दुःसङ्गात्ते नराः स्वर्गगामिनः ॥ २३ एकादश्यां च विधिवदुपवासपरायणाः । शुक्ले कृष्णे च ये विप्र ते नराः स्वर्गगामिनः ॥ २४ मातेव सर्वबालानामौषधं रोगिणामिव । रक्षार्थ सर्वलोकानां निर्मितैकादशी तिथिः ।। २५ एकादशीसमं किंचित्पापत्राणं न विद्यते । तामुपोष्य विधानेन ते नराः स्वर्गगामिनः ॥ २६ ये भक्तिमन्तो मधुसूदनस्य नारायणस्याखिलनायकस्य । सत्येन हीना रजसाऽपि युक्ता गच्छन्ति ते नाकमनन्तपुण्याः ॥ वतसीं यमुना सीतां पुण्यां गोदावरीनदीम् । सेवन्ते ये शुभाचाराः स्नानदानपरायणाः ॥ २८ न ते पश्यन्ति पन्थानं नरकस्य कदाचन ।। २९ ये नर्मदायामिह शर्मदायां मज्जन्ति तुष्यन्त्यपि दर्शनेन । विधूतपापाश्च महेशलोकं गच्छन्ति ते तत्र चिरं रमन्ते ।। ३० स्नाताचर्मण्वतीतीरे त्रिरात्रं नियता नराः । व्यासाश्रमे विशेषेण ते नरा नाकिनः स्मृताः॥ ३१ गङ्गाजले प्रयागे च केदारे पुष्करेऽपि वा । व्यासाश्रमे प्रभासे च मृतास्ते विष्णुगामिनः ॥ ३२ द्वारावत्यां कुरुक्षेत्रे योगाभ्यासेन वा मृताः । हरिरित्यर्णयुगलं वक्त्रे येषां हरिप्रियाः ॥ ३३ त्रिरात्रमपि यो विप्र द्वारवत्यां पुरि स्थितः । एकादशेन्द्रियैः पापं यत्कृतं भवति द्विज ॥ ३४ नरो निधूय तत्सर्वं व्रजेत्स्वर्गमिति स्थितिः । अश्वमेधसहस्राणि राजसूयशतानि च ।। ३५ एकादश्युपवासस्य कलां नाईन्ति षोडशीम् । एकतः क्रतवः सर्वे सर्वतीर्थतपांसि च ॥ महादानानि च ब्रह्मन्त्रतं वैष्णवमेकर्तः। वैष्णवव्रतजो धर्मो धर्मो यज्ञादिसंभवः ।। एकत्र तुलितौ धात्रा तत्र पूर्वोऽभवद्गुरुः । हरिवासरभक्तानामच्युताच्युतभाषिणाम् ।। नाहं शास्ता विशेषेण तेभ्यो विप्र विभेम्यहम् । येषां पुत्रश्च पौत्रश्च एकादश्यामुपोषितः ॥ ३९ १ ख. परिकीर्तनम् । २ स. अ. 'दा फलदा ये । ३ स. अ. दुरास्वापं ।४ अ. ण्या सहधर्मा ये । म. ज्या सह । ५ ख. चेतसीं । ६ क. अ. "तः । अश्वमेधसहस्राणि ध। २७ ३६ ३८ ४४ ४८ ४९ ९३ द्विनवतितमोऽध्यायः ] पद्मपुराणम् । सहाऽऽत्मना स पुरुषाशतमुद्धरते बलात् । उपोषणं ततः कुर्यात्पक्षयोरुभयोरपि ॥ एकादश्यां स पुरुषो भुक्तिमुक्त्येकसाधनम् । जया च विजया चैव जयन्ती पापनाशिनी ॥४१ त्रिस्पृश्या वञ्जली चान्या पक्षसंवर्धिनी परा । तिलदग्धाऽपरा ज्ञेयाऽप्यखण्डद्वादशी तथा ४२ मनोरथाख्या च परा भीमद्वादशिका परा । इत्येवमादयो भेदा द्वादश्यां सन्ति केशवे ॥ ४३ व्रतेष्वेतेषु ये शक्त्या(क्ता) ज्ञेयास्ते ब्रह्मणि स्थिताः । श्रोतारो धर्मशास्त्राणां धर्मप्रत्ययसंगताः। प्रियंकराश्च बालानां स्वर्गलोके व्रजन्ति ते ॥ मासि मास्येकदिवसे दर्शे श्राद्धव्रता नराः । तृप्यन्ति पितरो येषां ते धन्याः स्वर्गगामिनः॥४५ भोजनेषूपपनेषु भोज्यं यच्छन्ति सादरम् । अभिन्नमुखरागेण शिष्टास्ते स्वर्गगामिनः ।। ४६ नरनारायणावासे त्रिरात्रं ये समाश्रिताः । मर्त्यलोके च नन्दायां धन्यास्ते केशवप्रियाः ॥ ४७ षण्मासमुषिता विप्र पुरुषोत्तमसंनिधौ । एते स्युरच्युतात्मानो दृष्टा अप्यघहारिणः । अनेकजन्मार्जितपुण्यतो ये मजन्ति तोये मणिकर्णिकायाः॥ नमन्ति विश्वेशमवाप्य काशी ते वै मयाऽपीह भवन्ति वन्याः॥ पूजयित्वा हरिं ये तु भूमौ दर्भतिलैः सह । तिलान्विकीर्य लोहं च दत्त्वा धेनुं पयस्विनीम् ॥ ये मृता विधिवद्विा ते नराः स्वर्गगामिनः ॥ [*उत्पाद्य पुत्रान्संस्थाप्य पितृपैतामहे पदे । निर्ममा निरहंकारा ये मृतास्तेऽपि नाकिनः ॥५१ स्तैन्यानिवृत्ताः सततं संतुष्टाः स्वधनेन वा । स्वभाग्येनोपजीवन्ति ते नराः स्वर्गगामिनः॥]५२ श्लक्ष्णां वाणी निराबाधां मधुरां पापवर्जिताम् । स्वागतेनाभिभाषन्ते ते नराः स्वर्गगामिनः ।। शुभानामशुभानां च कर्मणां फलसंचये । विपाकज्ञाथ ये केचित्ते नराः स्वर्गगामिनः ॥ दानधर्मप्रवृत्तानां धर्ममार्गानुयायिनाम् । प्रोत्साहं वर्धयन्ते ये ते मोदन्ते चिरं दिवि ॥ हेमन्ते दारुदो यश्च तथा ग्रीष्मे जलपदः । वर्षाखाश्रमदाता च स्वर्गलोके महीयते ॥ पुण्यकालेषु सर्वेषु नित्यनैमित्तिकादिषु । भक्त्या यः कुरुते श्राद्धं स नूनं सुरलोकभाक् ॥ ५७ दानं दरिद्रस्य विभोः क्षमित्वं यूनां तपोज्ञानवतां च मौनम् ।। इच्छानिवृत्तिश्च सुखोचितानां दया च भूतेषु दिवं नयन्ति ॥ विविधः कर्मसंबन्धः पापपुण्यसमुद्भवः । सत्यमेव समाश्रित्य क्रियते यत्र निर्णयः॥ तपो ध्यानसमायुक्तं तारणाय भवाम्बुधेः । पापं तु पतनायोक्तं सत्यमेव न संशयः ॥ बलेन परिवारेण शौर्येणाभियुतस्य च । पुण्यहीनस्य वै पुंसः पात एव विधीयते ।। उन्नता गिरिदुर्गेषु वृक्षाश्चापि सुपुष्टकाः । पतन्ति वायुवेगेन समूलास्तु घना अपि ॥ ६२ सामान्यं सर्वजन्तूनां बलं धर्मस्तु केवलः । येन संतरते जन्तुरिह लोके परत्र च । मया सर्वमिदं सम्यक्स्वर्गमार्गमदायकम् । समासेन समाख्यातं किं भूयः श्रोतुमिच्छसि ॥ ६४ इति श्रीमहापुराणे पाछे पातालखण्डे वैशाखमाहात्म्ये द्विनवतितमोऽध्यायः ॥ ९२ ॥ आदितः श्लोकानां समष्ट्यङ्काः-१६९३४ -- धनुचिहान्तर्गतः पाठः, छ. ड. पुस्तकस्थः । १ म. त्रिस्पृशा। २ ख. ड. च. छ. ह. प्रदान महामुनिश्रीव्यासमणीत- [ ४ पातालखण्डे- अथ त्रिनवतितमोऽध्यायः । ब्राह्मण उवाच- २ ४ ५ ६ एतन्मूर्योऽपि जानाति शुभकर्मकरः पुमान् । न याति नरकं स्वर्ग तथा पापक्रियारतः ।। ऋतुभिर्विविधैरिष्टैर्ऋतदानजपादिभिः । सत्येनाऽऽचारकुशलैः स्वर्गसौख्यमवाप्यते ॥ विद्याचारधनोपेतैर्ऋषिभिर्वेदपारगैः । प्राप्यते पुण्ययोगेन यज्ञैर्नाकस्ततः कचित् ।। वित्तेन च विना दानं बहु दातुं न शक्यते । विद्यमानधनेनापि कुटुम्बासक्तचेतसा ॥ अग्निहोत्रादयो धर्मा विशेषेण कलौ युगे । दुष्करा दानधर्मोऽपि दुष्करो भगवन्मतः ॥ अल्पायासेन धर्मेण लभ्यते धर्मसंचयः । तन्मे विशेषतो धूहि धर्माधर्मप्रदर्शक ।। तदेकं कथ्यतां धर्म सर्वधर्मोत्तमोत्तमम् । कृतेनैकेन येनेह सर्वपापक्षयो भवेत् ॥ धनं धान्यं यशो धर्ममायुर्येनाभिवर्धते । मर्त्यलोकेऽपि सौख्यं स्यात्स्वर्गो येनाक्षयो भवेत् ॥ ८ साक्षान्नारायणो येन भक्तानामभयमदः । तुष्येदस्य प्रसादेन कामः करतले स्थितः ॥ सर्वयज्ञतपोदानतीर्थसेवाधिक फलम् । लभ्यते येन यद्यस्ति वैवस्वत तदादिश ।। अनुग्राह्यो वह देव यदि धर्मोपदेशतः । सर्वधर्मक्रियासारं तदे कृपया वद ॥ पापानामनुरूपाणि प्रायश्चित्तानि यद्यथा । तथा तथैव संस्मृत्य कथितानि मनीषिभिः । १२ कर्तुं तानि न शक्यन्ते देव प्रत्येकशो नरैः । सर्वपापहरं पुण्यमेकं चेदस्ति तद्वद ॥ १३ सूत उवाच- इत्युक्त्वा ब्राह्मणश्रेष्ठो यमं धर्मस्वरूपिणम् । तुष्टाव प्रयतो भूत्वा सूक्ष्मधर्माभिकामुकः ॥ १४ ९ १० ब्राह्मण उवाच- नमस्ते सर्वशमन नमस्ते जगतां पते । नमोऽस्तु देवरूपाय स्वर्गमार्गपदायिने ॥ १५ धर्मशास्त्रस्वरूपाय धर्मराज नमोऽस्तु ते । त्वया भूः पाल्यते देवाप्यन्तरिक्षं च धौर्महः॥ १६ जनस्तपस्तथा सत्यं सर्वस्वं पाल्यते त्वया । न त्वया रहितं किंचिज्जगत्स्थावरजङ्गमम् ॥ १७ विद्यते त्वगृहीतं तु सद्यो नश्यति वै जगत् । त्वमात्मा सर्वभूतानां सतां सत्त्वस्वरूपवान् ॥ १८ राजसानां रजस्त्वं च तामसानां तमस्तथा । चतुष्पदा भवान्देव चतुःशृङ्गस्त्रिलोचनः ॥ १९ सप्तहस्तस्त्रिधाबद्धो वृषरूप नमोऽस्तु ते । सर्वयज्ञमयो धर्मस्त्वयि विग्रहविग्रहः ॥ साक्षादृष्टोऽसि लोकेश देव तुभ्यं नमो नमः । हृदिस्थः सर्वभूतानां पुण्यपापेक्षिता भवान् २१ तेन शास्ता च भूतानां दाता देव प्रशासिता । प्रवर्तको हि धर्मस्य देव दण्डधरो भुवि ॥ सर्वधर्ममयं सारमेकं वद सुनिश्चितम् ॥ २० २२ यम उवाच- २४ २५ परितुष्टोऽस्मि ते विप्र स्तोत्रेण च विशेषतः । तथाऽप्यागमधर्मेण मान्योऽसि मम सत्तम ॥ २३ यन्त्र कस्यचिदाख्यातं यद्गोप्यं परमं मम । सारमुदृत्य सर्वेषां यदेकं निश्चितं मया ।। महानिरयसंघातानिर्वासनकरं परम् । अनाख्येयमपि ब्रह्मन्वक्ष्ये विनयतोषितः ॥ स्युर्मोहाय चराचरस्य जगतस्ते ते पुराणागमा । स्तां तामेव हि देवता परमिकां जल्पन्तु कल्पे विधौ । सिद्धान्ते पुनरेक एव भगवान्विष्णुः समस्तागम- व्यापारेषु विवेकिनां व्यतिकरं नीतेषु निश्चीयते ॥
९३ त्रिनवतितमोऽध्यायः ] पद्मपुराणम् । भवो ब्रह्मा च विष्णुश्च त्रयमेव त्रयी मता । दीपोऽमिवर्तिस्नेहैस्तु यथा विप्र तथा हरिः ॥ २७ अनाराध्य हरिं भक्त्या गोलोकान्मामुयाच्छुभान् । आराधिते हरौ कामाः सर्वे करतले स्थिताः२८ अनाराध्य हरिं लोकः सर्वदं सर्वदेहिनाम् । कोऽपि कापि किमप्यत्र न लभेतेति निश्चितम्।।२९ अपत्यं दूषणं दारान्ससर्ज परमेश्वरः । रजस्तमोभ्यां युक्तोऽभूद्रजः सत्वाधिकं विभुः ॥ ३० ससर्ज नाभिकमले ब्रह्माणं कमलासनम् । रजसा तमसा जुष्टं स रुद्रमसृजत्प्रभुः ॥ सत्त्वं रजस्तमश्चैव त्रितयं चैतदुच्यते । सत्त्वेन मुच्यते जन्तुः सत्त्वं नारायणात्मकम् ॥ ३२ रजसा सत्त्वयुक्तेन भवेच्छ्रीमान्यशोधिकः । यद्वेदवाक्यं धर्मस्य तमुद्दिश्योपसेव्यते ॥ तबुद्रमिति विख्यात कनिष्ठं गदितं नृणाम् । तेन राजा भवेल्लोके रजसा तमसा युतः ॥ यद्धीनं रजसा कर्म केवलं तामसं च यत् । तच्च दुर्गतिदं नृणामिह लोके परत्र च ॥ यो विष्णुः स स्वयं ब्रह्मा यो ब्रह्मा स स्वयं हरः।देवास्त्रयोऽपि यझेऽस्मिभिज्या देवेषु नित्यशः यो भेदं कुरुते तेषां त्रयाणां द्विजसत्तम । स पापकारी पापात्मा घनिष्टां गतिमामुयात् ॥ ३७ विष्णुरेव परं ब्रह्म विष्णुरेव जगद्विज । तस्यायं माधवो मासः प्रियः सर्वेषु कर्मसु ॥ ३८ कीयते ह्यश्वमेधादिमहाऋतुफलप्रदः। तीर्थस्नानतपोदानजपयज्ञफलाधिकः ।। स्नानं प्रभाते नियमन नद्यामनार मेषगते रवी ये । कुर्वन्ति येऽस्मिन्नपि विप्र पूजा मद्दण्डभाजो हि न ते भवन्ति ॥ हत्वा हत्वा किंकरौघं पुरो मे पृष्ट्वा पृष्ट्वा चित्रगुप्तस्य लेख्यम् । स्नात्वा स्नात्वा माधवे मासि तीर्थे पूर्वान्पूर्वानुदरन्तीह पापात् ।। ४१ इदं भवच्छेदकरं न तस्मात्प्रकाशनीयं परमं रहस्यम् । निर्वासहेतुर्नरकालयस्य ममाधिकारक्षयकारणं तत् ॥ भागीरथी नर्मदा च यमुना च सरस्वती। विशोका च वितस्ता च विन्ध्यस्योत्तरतः स्थिताः४३ गोदावरी भीमरथी तुङ्गभद्रा च वेदिका । तापी पयोष्णी विन्ध्यस्य दक्षिणे तु प्रकीर्तिताः ॥४४ द्वादशैता महानद्यो नित्यं तेनावगाहिताः। वैशाखे विधिना स्नानं नद्यां यः प्रातराचरेत् ॥४५ सर्वाः समुद्रगाः पुण्याः सर्वे पुण्या जलाशयाः । सर्वमायतनं पुण्यं सर्वे पुण्या वराश्रमाः ॥ ४६ तेनावगाहिता दृष्टाः प्रणता बहुसेविताः । स्नानमोदिते सूर्ये वैशाखे नियतश्चरेत् ॥ तस्य पुण्यं मैहीदेव किंचिद्वक्तुं न शक्यते । यदि वक्रसहस्राणां सहस्राणि भवन्ति च ॥ आयुश्च ब्रह्मणा तुल्यं यदि स्याविजसत्तम । तदा माधवमासस्य फलं कथयितुं भवेत् ॥ ४९ महानिरयकर्षाग्निर्माधवो माधवो यथा । ब्रह्महत्यादिकं पापमगम्यागमनादिकम् ॥ कामाकामकृतं पापमतिपातकमेव च । उपपापं रहस्यं च संकरीकरणं परम् ॥ जातिभ्रंशकरं घोरं यचित्रीकरणं तथा । मलावहं प्रकीर्ण च वामनःकायसंभवम् ॥ ५२ माधवो निर्दहेन्मासो विधिना समुपासितः। कल्पकोटिसहस्राणि कल्पकोटिशतानि च । वसेद्विष्णुपुरे श्रीमान्माधवे योऽर्चयेद्धरिम् ।। इति श्रीमहापुराणे पाने पातालखण्डे वैशाखमाहात्म्ये त्रिनवतितमोऽध्यायः ॥ १३ ॥ आदितः श्लोकानां समष्ट्यङ्काः-१६९८७ ४२ ४८ . -- ११. निश्चितः । २ ख च. छ. ड. शिलोचयाः । ३ क. ख. ङ. च. छ. इ. महादेव । ४ इ. च. टिश्च भूसुराः ।।
[४ पातालखण्डे- महामुनिश्रीव्यासमणीत- अथ चतुर्नवतितमोऽध्यायः। - २ ३ ५ ८ ९ ११ सूत उवाच- एतच्छ्रुत्वा वचस्तस्य धर्मराजस्य भूसुरः। पुनः पप्रच्छ मासस्य माधवस्य विधि शुभम् ।।. १ ब्राह्मण उवाच- धर्मराज महाभाग सम्यग्गुह्यं प्रकाशितम् । माधवस्त्रानजं पुण्यं नराणां मुक्तिदं परम् ॥ माधवं माधवे मासि सात्वा प्रातः समाहितः । कथं संपूजयेदेवं कैः पुष्पैस्तद्विधि वद ॥ धर्मराज उवाच- सर्वेषां पत्रजातीनां तुलसी केशवप्रिया । पुष्कराद्यानि तीर्थानि गङ्गायाः सरितस्तथा । वासुदेवादयो देवा वसन्ति तुलसीदले । सर्वदा सर्वकालेषु तुलसी विष्णुवल्लभा । त्यक्त्वा तु मालतीपुष्पं त्यक्त्वा चैव सरोरुहम् । गृहीत्वा तुलसीपत्रं भक्त्या माधवमर्चयेत् ॥६ तस्य पुण्यफलं वक्तुमलं शेषोऽपि नो भवेत् । अस्नात्वा तुलसीं छित्वा देवार्य पितृकर्मणि ॥ ७ तत्सर्व निष्फलं याति पञ्चगव्येन शुध्यति । दारिधदुःखभोगादिपापानि सुबहून्यपि ॥ तुलसी हरते क्षिप्रं रोगानिव हरीतकी । तुलसी कृष्णगौराख्या तयाऽभ्यर्च्य मधुद्विषम् ॥ विशेषेण हरेभक्तो नरो नारायणो भवेत् । माधवं सकलं मासं तुलस्या योऽर्चयेद्धरिम् ॥ १० त्रिसंध्यं मधुहन्तारं नास्ति तस्य पुनर्भवः । अलाभे पुष्पपत्राणामनायेनापि पूजयेत् ।। शालिगोधूमतण्डूलयवैर्वाऽपि हारं सदा । कुर्यात्मदक्षिणं तं तु सर्वदेवमयं ततः॥ १२ पितृदेवमनुष्यांश्च तर्पयेत्सचराचरम् । योऽश्वत्थमर्चयेद्देवमुदकेन समन्ततः॥ १३ कुलानामयुतं तेन तारितं स्यान संशयः । अलक्ष्मीः कालकर्णी च दुःस्वमं दुर्विचिन्तितम्॥१४ अश्वत्थतर्पणात्तात सर्वदुःखं विनश्यति । तर्पिताः पितरस्तेन तेन विष्णुः समार्चतः ॥ योऽश्वत्थमर्चयेद्धीमान्ग्रहास्तेनैव पूजिताः॥ १५ श्वेताचपुष्पाणि तथाऽक्षतांश्च हुताशनं चन्दनमर्कबिम्बम् ॥ अश्वत्थक्षं च समालभेत ततश्च कुर्यानिजजातिधर्मान् ।। कृत्वाऽप्यष्टाझ्योगं तु स्नात्वा पिप्पलतर्पणम् । कृत्वा गोविन्दमभ्यर्च्य न स दुर्गतिमामुयात् १७ त्रयोदश्यां चतुर्दश्यां वैशाख्यां च दिनत्रयम् । सर्वाशक्तोऽपि विधिना नारी वा पुरुषोऽपि वा पूर्वोक्तनियमैर्युक्तः प्रातः स्नात्वा स भैक्तितः । विमुक्तः पातकैः सर्वैः स्वर्गमक्षयमश्नुते ॥ १९ वैशाखमासे यो भक्त्या भोजयेद्राह्मणान्मुदा। त्रिरात्रमुषसि स्नात्वा सकृच्च प्रयतः शुचिः॥२० गौरावा यदि वा कृष्णांस्तिलक्षौ(लान्क्षौ)द्रेण संयुतान्। दत्त्वा द्वादशविमेभ्यस्तैरेव स्वस्ति वाचयेत् प्रीयतां धर्मराजो मे पितृदेवांश्च तर्पयेत् । यावज्जीवकृतं पापं तत्क्षणादेव नश्यति ॥ अयुतायुतं च तिष्ठेत्स स्वर्गलोके यथासुखम् । मामेव न तु पश्येत्स पूजितः सर्वदे(दै)वताः(तैः॥ पकानमुदेकं तानि पितृदेवततुष्टये । त्रयोदश्यां चतुर्दश्यां पूर्णिमायां दिनत्रयम् ॥ यो दद्याद्भक्तितो विष सर्वपापैः प्रमुच्यते । सुवर्णतिलपात्रैस्तु ब्रामणं शक्तितोऽन्वहम् ॥ २५ तर्पयेद्दपात्रैस्तु ब्रह्महत्यां व्यपोहति । वैशाखपूर्णिमायां च सृष्टाः कमलयोनिना ।। १. म. 'म्यङ्मयं ! २ म. म. लकानी च । ३ स. वीसक्कों। ४ ख.. घ. छ. र. शक्तितः । ५ अ. .. २२ २४ 'दकान्तानि।
२७ २८ ३० ९४ चतुर्नवतितमोऽध्यायः ] पद्मपुराणम् । तिला देयाश्च भक्ष्याश्च श्रेयःसंततिहेतवे । इहार्थे च पुरावृत्तं तदाकर्णय सुव्रत ॥ फलं माधवमासस्य पूर्णायां परमाद्भुतम् । मेषसंक्रममारभ्य तिथयस्त्रिंशदुत्तमाः ॥ सर्वयज्ञाधिकाः पुण्याः पुराणेषु प्रकीर्तिताः । विशेषतोऽपि तास्तिस्रः पवित्राः पितृदुर्लभाः॥२९ ततोऽपि पूर्णिमा पुण्या माधवी माधवप्रिया । एवं वराहकल्पस्य तिथिराया महाफला ॥ पुरा नारायणेनास्यां दितिजौ द्वाविमौ हतौ । हिरण्याक्षमधू विप्र पृथिवी च समुद्धृता ॥ त्रयोदश्यां चतुर्दश्यां पूर्णिमायामयं विभुः । क्रमादेव त्रयं चक्रे शुक्लेऽस्मिन्मासि माधवे ॥ ३२ ततःप्रभृति विप्रेन्द्र विशेषादेव पूर्णिमा । कल्पादिपावनी ख्याता कर्मणः कल्पसाक्षिणी ॥ ३३ [*येन स्नातं न वैशाखे प्रातर्नियमशालिना । किं तस्य जन्मना विप्र नूनमात्मापहारिणा ॥३४ त्रयोदश्यां चतुर्दश्यां पौर्णमास्यां विशेषतः ।] अपि सम्यग्विधानेन नारी वा पुरुषोऽपि वा ३५ प्रातःस्नानं सनियमं सर्वपापैः प्रमुच्यते । स्नानदानार्चनश्राद्धक्रिया पुण्यविवर्जिता ॥ यस्यातीता च वैशाखी स नूनं निरयालयः । न वेदेन समं शास्त्रं न तीर्थ गङ्गया समम् ॥ ३७ न दानं जलगोतुल्यं न वैशाखीसमा तिथिः । जलधेनुं च यो दद्यादैशाख्यां विष्णुतत्परः ॥३८ त्रयाणामपि देवानां चतुर्थोऽयं विशेषतः । मातृहा पितृहा चैव भ्रूणहा गुरुतल्पगः ॥ जलधेनुं समालोक्य मुच्यते सर्वपातकैः । दश पूर्वान्परान्वंश्यान्नरकात्तारयन्ति ते ॥ जलधेनुं प्रयच्छन्ति वैशाख्यां विधिना दश । शर्कराफलताम्बूलमुपानत्करपत्रिकाः ॥ ४१ प्रयच्छन्ति द्विजायेभ्यो धन्यास्ते चात्र कीर्तिताः । मणिकोदककुम्भांश्च पकानं हेम दक्षिणाम्।। यः प्रयच्छति वैशाख्यां सोऽश्वमेधफलं लभेत् । अत्राप्युदाहरन्तीममितिहासं पुरातनम् ॥ ४३ ब्राह्मणस्य च संवादं प्रेतैः सह महावने । ब्राह्मणो धनधर्माऽऽसीन्मध्यदेशेषु चानघः ॥ कुशाद्यर्थे वनं यातो ददर्शदमथाद्भुतम् । भीतोऽपश्यन्महापेनान्दुष्टांस्त्रीणे(न्स)तु दारुणान् ॥ ४५ ऊर्ध्वकेशान्सरक्ताक्षान्कृष्णदन्तान्कृशोदरान् । कुर्वतो विविधारावान्धावतोऽपि इतस्ततः ॥ ४६ तान्दृष्ट्वा भयवित्रस्तो ब्राह्मणो निर्गतो जवात् । क्रन्दमानास्ततस्तेऽपि तमेवानुययुस्तदा ॥ स गम्यमानस्तैः प्रेतैरुवाच मधुरं वचः । धनधर्मोवाच- के यूयं च कुतोऽवस्था जातेति निरयोचिता । भयार्तमनुकम्प्यं मां दुःखितं त्रातुमर्हथ ॥ वैष्णवं बहुभृत्यं च निःस्वं विषं वनागतम् ॥ तत्र ता(युष्माक)मपि स श्रेयो नूनं दास्यति केशवः । ब्रह्मण्यो भगवान्विष्णुस्तुष्टो मय्यनुकम्पया अतसीपुष्पसंकाशो विष्णुः पीताम्बरो हरिः । यस्य श्रवणमात्रेण सर्वपापक्षयो भवेत् ॥ अनादिनिधनो देवः शङ्खचक्रगदाधरः। अव्ययः पुण्डरीकाक्षः प्रेतमोक्षप्रदायकः ॥ यम उवाच- नामश्रवणमात्रेण विष्णोस्ते परितोषिताः। पिशाचाः पुण्यभावस्था दयादाक्षिण्ययन्त्रिताः ॥५२ पीणितास्तस्य वचसा तदादिष्टेन चोदिताः । इदमूचुर्द्विजं प्रेताः क्षुत्तृष्णापरिपीडिताः ॥ ५३ दर्शनेनैव ते विष नामश्रवणतो हरेः। भावमन्यमनुपाप्ता वयं जाता दयालवः ॥ * धनुचिहान्तर्गतः पाठः क. ख. ङ. च. छ. प्र. र. पुस्तकस्थः । + अत्र छ. ह. संज्ञकपुस्तकयोरध्यायसमाप्तिः । १ ख. वैशाख्या। ४४ ४८ ५१ - १ प्रेता ऊचुः- महामुनिश्रीव्यासमणीतं- [४ पातालखण्डे- अपाकरोति दुरितं श्रेयः संयोजयत्यपि । यशो विस्तारयत्याशु नूनं वैणवसंगमः ॥ ५५ रसायनोपमा शान्ता परमानन्ददायिनी । नाऽऽनन्दयति किं नाम वैष्णवी वास्तुचन्द्रिका ॥५६ अयं कृतघ्ननामाऽस्ति द्वितीयोऽयं विदैवतः । अवैशाखस्तृतीयोऽयं त्रयाणामपि पापकृत् ॥ ५७ सदैवानुष्ठिताऽनेन पापेनापि कृतघ्नता । तेनास्य कर्मजं नाम कृतघ्नाख्यं व्यवस्थितम् ॥ सुदास इति नाम्नाऽयं द्रोहोऽभूत्पूर्वजन्मनि । कृतघ्नस्तेन पापेन प्राप्तोऽवस्थामिमां द्विज ॥ ५९ अतिपापा(पि)नि धूर्ते च गुरुस्वाम्यहितेऽपि वा। निष्कृतिविद्यते विम कृतघ्ने नास्ति निष्कृतिः ॥ नानानिरयसंघातं शरीरैर्यातनाक्षमैः । अनुभूय तदा(याऽऽगतोऽ)वस्थामन्त्यामेतां द्विजोत्तम।।६१ अनेनान्नं सदा भुक्तमकृत्वा देवतार्चनम् । अदत्तं गुरुविभ्यस्तेनैवायं विदैवतः ॥ अयं दशसहस्राणां ग्रामाणामीश्वरो नृपः । हरिवीर इति ख्यातः स चाऽऽसीत्पूर्वजन्मनि ॥६३ रोषाहंकारनास्तिक्यैर्गुर्वाज्ञालयनोद्यतः । अकृत्वैव महायज्ञान्मुक्तवान्विनिन्दकः ॥ कर्मणा तेन पापेन महानरकसंकरम् । अनुभूय गतः प्रेतो जातो नाना विदैवतः ॥ ६५ अवैशाखस्तृतीयोऽहं त्रयाणामपि पापकृत् । तेन मे कर्मणा नाम ब्राह्मणोऽहं व्यवस्थितः ॥६६ मध्यदेशे भवेनाम्ना गौतमो गोत्रतोऽप्यहम् । विप्रो वासपुरावासी यथाऽऽसं पूर्वजन्मनि ॥ ६७ मया केवलमेवैकश्रौतमार्गानुसारिणा । उद्दिश्य माधवं देवं न स्नातं मासि माधवे ॥ ६८ न दत्तं न हुतं किंचिद्वैशौखस्य विशेषतः। नाचितो मधुहा तत्र तोषिता न मनीषिणः ॥ ६९ मणिकोदककुम्भैश्च न दानैर्नापि देवताः । तर्पिता न तिला दत्ताः सक्षौद्राः श्रोत्रियेषु च ॥७० न पुष्पफलताम्बूलचन्दनं व्यञ्जनाम्बरैः । विद्वांसो नाचिंतास्तत्र पितृदेवततृप्तये ॥ ७१ मया नैकाऽपि वैशाखी पूर्णा पूर्णफलप्रदा । स्नानदानक्रियापूजासुकृतैरपि पालिता ॥ तेन मे वैदिकं कर्म जातं सर्वं च निष्फलम् । ततोऽवैशाखनामाऽहं प्रेतो जातोऽस्मि सर्वतः ७३ एतत्ते सर्वमाख्यातं त्रयाणामपि कारणम् । त्वं नो भव समुद्धर्ता पापाद्विषोऽसि वै यतः॥ ७४ अधिका विप्र तीर्थेभ्यो द्विजाः सुकृतसाधवः । तारयन्ति महापापानिरयेभ्योऽपि संश्रितान् ७५ गङ्गादिसर्वतीर्थेषु यो नरः नाति सर्वदा । यः करोति सतां सङ्गं तयोः सत्संगमो वरः ॥ ७६ अथवा मम पुत्रोऽस्ति धनशर्मेति विश्रुतः । तं गत्वा बोधय स्वामिनस्मदर्थे कृतोद्यमः ॥ कार्ये समुद्यमं कृत्वा परेषां समुपस्थिते । पुष्कलं फलमामोति यज्ञदानक्रियाधिकम् ॥ यम उवाच- प्रेतवाक्यं समाकर्ण्य धनशर्माऽतिदुःखितः । स तं जनकमज्ञासीत्पतितं निरये निजम् ॥ आत्मानमभितो निन्दन्निदं वचनमब्रवीत् ॥ धनशर्मोवाच- अहं तव सुतः स्वामिन्गौतमस्य निरर्थकः । यस्तु पुत्रो न निस्तारं पितुः कुर्यादतन्द्रितः ॥ आत्मानं पावयेनासौ पुमान द्रव्यवानिव ॥ धर्मो हि गहनो ज्ञेयः प्रयत्नेनापि धीमता । यथा मम पिता च त्वमिमां प्राप्तोऽसि दुर्गतिम् ८१ यदा च सुखसंतानं न मत्तः प्राप्तवानसि। लोकयोः सुखसंतानस्तथा स(न) तनयो मतः ॥ ८२ द्वौ गुरू पुरुषस्येह पिता माता च धर्मतः । तयोरपि पिता श्रेयान्वीजप्राधान्यदर्शनात् ॥ १ ख. "नातिक । २ स. अ. नि निर्धते गु" । ३ म. 'शाखं च वि । ४ झ. 'तानो नर्निमतं महानसि । अ. 'तानो न निर्मतं महानसि । ७२ ७७ ७८ ७९ ८० ॥ ८८ ९८ ९४ चतुर्नवतितमोऽध्यायः ] पद्मपुराणम् । ६५५ किं करोमिक गच्छामि कथं तात गतिस्तव । धर्मतत्त्वं न जानामि संश्रयामि भवद्वचः ॥ ८४ प्रेत-उवाच- शृणु पुत्र प्रवक्ष्यामि भाविनोऽर्थस्य मे बलात् । अथ पुण्येन केनापि भवित्री सुगतिर्मम ॥ ८५ मया श्रौतानि कर्माणि कुर्वता किल गैर्वतः । नैवाऽऽदृतं गुरुवचो गुरुस्तत्राप्यमानितः ॥ ८६ गुरूणामपमानेन महर्षक्रोधविस्मयैः । पौराणिकविधानेन कर्म श्रौताविरोधि यत् ॥ वैदिकं केवलं कर्म कृतमज्ञानतो मया । पापेन्धनदवज्वालापापद्रुमकुठारिका ॥ कृता नैकाऽपि वैशाखी विधिना वत्स पूर्णिमा । अवता यस्य वैशाखी सोऽवैशाखो भवेन्नरः॥ दश जन्मानि च ततस्तिर्यग्योनिषु जायते । चिरं भुक्त्वा दुःखमन्ते प्रेतः पर्यायतो भवेत् ॥९० ततः कथंचिल्लभते मानुष्यमतिदुर्लभम् । उपायं तेऽभिधास्यामि प्रेतमोक्षकरं परम् ॥ श्रुतवान्यदहं पूर्वजन्मनि स्वगुरोर्मुखात् । गच्छ पुत्र गृह स्नात्वा यमुनायां विधानतः ॥ अद्यतः सर्वगतिदा कल्पाद्या साऽप्युपागता । पञ्चमेऽहनि वैशाखी पितृदेवार्चने हिता ॥ पानीयमप्यत्र तिलैर्विमिश्रं सहोदकुम्भानफलानि भक्त्या । दद्यापितृभ्यो भवतीह दत्तं श्राद्धं मुदे तेन समाः सहस्रम् ॥ वैशाख्यां पौर्णमास्यां यो भोजयेमिदैवतान् । सिक्थे सिक्थे भवेत्पीतिः पितॄणां युगसंख्यया ॥ वैशाख्यां विधिवत्स्नात्वा भोजयन्ब्राह्मणान्दश । पायसं सर्वपापेभ्यो मुच्यते नात्र संशयः ९६ यस्तिलैर्यवसंमिश्रः स्नाति सर्वाङ्गतस्तदा । तस्य ब्रह्मा च धर्मश्च ददाति वरमीप्सितम् ॥ ९७ प्रीतये धर्मराजस्य यो दद्यादुदकुम्भकान् । सप्त सप्त कुलं तेन तारितं स्यान्न संशयः ॥ चयोदश्यां चतुर्दश्यां पूर्णायां भक्तितत्परः। स्नात्वा जप्त्वा तथा दत्त्वा हुत्वा संपूज्य माधवम्।। यत्फलं जायते पुत्र तदस्माकं समर्पय । नैतौ परिचितौ प्रेतौ हित्वा स्वर्गतिमाश्रये ॥ एतयोरपि पापस्य प्रान्तोऽयं समुपस्थितः ॥ यम उवाच- तथेत्युक्त्वा स विप्राग्यो गृहं गत्वा तथाऽकरोत् । प्रीतः परमया भक्त्या वैशाखस्नानदानकृत् ॥ स्नात्वा स मुदितो भक्त्या पाप्य माधवपूर्णिमाम् । दत्त्वा बहूनि दानानि तेभ्यः पुण्यं ददौ पृथक तत्क्षणादेव ते सर्वे विमानस्था दिवं ययुः । तत्पुण्यदानयोगेन मुदिता द्विजसत्तम ॥ १०३ धनशर्माऽपि विप्रेन्द्रः श्रुतिस्मृतिपुराणवित् । भुक्त्वा भोगांश्चिरं कालं ब्रह्मलोकमवाप्तवान्॥१०४ एषा पुण्यतमा तस्माद्वैशाखी विश्वपावनी । कथ्यते तु मया विप्र समासेनातिगौरवात् ॥ १०५ धन्यास्त एव कृतिनश्च त एव जाता लोके त एव पुरुषाः पुरुषार्थभाजः। ये माधवे मधुनिषूदनमर्चयन्ति प्रातर्निमज्ज्य नियमेन विशुद्धचित्ताः॥ १०६ यो माधवे मासि नरः प्रभाते स्नात्वा समाराधयते रमेशम् । यमैरुपेतो नियमैरशेषैर्वृतोऽपि नूनं स निहन्ति पापम् ॥ १०७ तैरेव कालो विहितस्त एव नरेषु धन्या विगतैनसस्ते । १०८ प्रातः समुत्थाय निमज्ज्यते यैर्गाङ्गे मधुद्वेषिसमर्चनाय ।। १ झ.स. पूर्वतः । २ क.अ. खी पितृदेवार्चने हिता । । ३ झ.ज. अता । ४ अ. शाखीना। ५ कः अ.तिविधानवि । - ..
-- महामुनिश्रीव्यासप्रणीत- [४ पातालखण्डे- * अहोऽतिधन्यः सुकृतकसारः सर्वाधिको माधवमास एषः । यस्मिन्कृतं विम कथंचिदल्पं पुण्यं पुनः स्यादिह कल्पतुल्यम् ॥ मजतो हि मनुजस्य माधवे माधवार्चनकृते दिनोदये । तामसोऽपि जलबिन्दुसंगमादामावहति पावनं यतः॥ ११० तानि देहमधिरुख देहिनस्तावदेव विचरन्त्यघानि च । यावदेति न च माधवाहयः श्रीरमारमणवल्लभो विराद् ॥ १११ स्नातुं पदानि मनुजो गमने विभाते तीर्थे ददाति मधुसूदनमासि युक्तः। भूयो भवन्ति हयमेधसमानि तानि श्रीमाधवस्मरणतो गदतोऽस्य नाम ॥ ११२ मेरुमन्दरतुल्यानि पापान्युग्राण्यनेकपा । दहते माधवो मासोऽनुष्ठितो हरिवल्लभः ॥ ११३ इदं संक्षेपतः प्रोक्तं मया तेऽनुग्रहाद्विज । वैशाखस्तानमाहात्म्य शृणु पापक्षयं परम् ॥ ११४ यस्तु श्रोष्यति भक्त्येममितिहासं मयोदितम् । सोऽपि पापविनिर्मुक्तो ने मम लोकमेष्यति॥११५ ब्रह्महत्यादिपापानि बहुशोऽपि कृतान्यपि । वैशाखस्य विधानेन तानि नश्यन्ति निश्चितम् ११६ त्रिंशत्पूर्वान्परांविंशत्पितॄन्संतारयेबरः। यतो भगवतस्तस्य हरेरक्लिष्टकर्मणः ॥ ११७ प्रियोऽसौ माधवो मासः स मासः प्रवरो यतः । संशयं मा विधेहीह महीदेव कथंचन ॥ ११८ वैशाख प्रति मासं हि समासाद्यन्मयोदितम् । इहार्थे यत्पुरावृत्तं तदप्याकर्णयाद्भुतम् ॥ अनाख्येयमपीदं ते कथयिष्ये कथानकम् ॥ इति श्रीमहापुराणे पाझे पातालखण्डे वैशाखमाहात्म्ये चतुर्नवतितमोऽध्यायः ॥ ९४ ॥ आदितः श्लोकानां समष्टयङ्काः-१७१०६ अथ पश्चनवतितमोऽध्यायः । २ ३ w यम उवाच- बभूव भूपतिः पूर्व ख्यातो नाना महीरथः। पूर्वपुण्यफलावाप्तप्रभूतैश्वर्यसंपदः ॥ बभूव भूपतिः सर्वललनाललितस्थितः । तदेकव्यसनासक्तिन धर्मार्थव्यवस्थितः ।। मत्रिविन्यस्तराज्यश्रीव॒भुजे विषयानृपः । स कामिनीसहचरो राज्यकार्यपराङ्मुखः ॥ न प्रजा न धनं धर्म नार्थकार्य स पश्यति । केवलं कामिनीकेलिकलनोचितवामनाः॥ अथ कालेन महता पुरोधास्तस्य कश्यपः । वचः प्रोवाच तं धर्म्यमिति चेतसि चिन्तयन् ॥ ५ निवारयति नो मोहादधर्मानृपतिं गुरुः । सोऽपि तत्पापभाग्यस्माद्बोधनीयः पुरोधसा ।। [बोधितोऽप्यवजानाति स चेद्वाक्यं पुरोधसः]। पुरोधास्तत्र निर्दोषो राजा स्यात्सर्वदोषभाक् ॥ कश्यप उवाच- शृणु राजन्मम गुरोर्वचो धर्मार्थसहितम् । अभिन्नार्थमुपेतार्थमिच्छारागादिवर्जितम् ॥ अयमेव परो धर्मो यनुरोर्वचसि स्थितः । गुर्वाज्ञाया लवो राज्ञामायुःश्रीसौख्यवर्धनः ॥ * संधिरार्षः । + इत उत्तरं कपुस्तके 'केवलं कामनाः सर्वा मनोवाञ्छितमा यात्' इत्यर्धमधिकम् । । धनुचिहान्त. र्गतः पाठः ख. अ. च. छ. २. पुस्तकस्थः । A ८ १ क. त्म्य श्रुतं पा । ख. उ. च. छ. त्म्यं श्रोतुः पा'। २ ख. ङ. च. छ. उ. न मामालोकयिष्य ।
२१ २२ २५ ९५ पञ्चनवतितमोऽध्यायः] पद्मपुराणम् । ६५७ न विपास्तर्पिता दानैर्विष्णुर्नाऽऽराधितस्त्वया । न व्रतं न तपः किंचिन्न तीर्थ हि त्वया कृतम् हरिनाम त्वया कामवशगेन न चिन्तितम् । [*हा त्वया भीरुसंगत्या न विद्वत्संगतिः कृता ११ स्मरावसरवाहिन्यो वल्लभाः कस्य न प्रियाः । किंतु ताः पवनाल्लोलकदलीदलसंनिभाः] ॥ १२ तरङ्गतरलैरथैर्भोगैर्भूभङ्गभङ्गुरैः । मुहूर्तपेयैस्तारुण्यैर्न नृत्यन्ते महाशयाः ॥ किं विद्यया किं तपसा किं त्यागेन नयेन वा । किं विविक्तेन मनसा स्त्रीभिर्यस्य मनो हृतम् ।। एको मुख्यो महाधर्मो निधनेष्वनुयाति यः । सर्वमन्यच्छरीरोपभोग्यं नाशं प्रयाति च ॥ १५ धर्म शनैः संचिनुयाद्वल्मीकमिव पुत्तिकाः । धर्मेण हि सहायेन नरस्तरति दुर्गतिम् ॥ १६ अनित्योल्लसितोत्तारजलकल्लोलचञ्चलम् । किं न जानासि राजेन्द्र नृणां जीवितविभ्रमम् ॥१७ विनयोष्णीषमुकुटः सत्यधर्मों च कुण्डले । त्यागश्च कङ्कणे येषां किं तेषां जडमण्डनैः ॥ १८ मृतं शरीरमुत्सृज्य लोष्टकाष्ठसमं भुवि । विमुखा बान्धवा यान्ति धर्मस्तमनुगच्छति ॥ १९ गम्यमानेषु सर्वेषु क्षीयमाणे तथाऽऽयुषि । जीविते लुप्यमाने च किमुत्थाय न धावसि ॥ २० कुटुम्बं पुत्रदारादि शरीरं द्रव्यसंचयः । पारक्यमध्रुवं किं तु स्वीये सुकृतदुष्कृते ॥ यदा सर्व परित्यज्य गन्तव्यमवशेन ते। अनर्थे कि प्रसक्तस्त्वं स्वधर्म नानुतिष्ठसि ॥ अविश्राममभक्ष्याम्बुमपाथेयमदेशिकम् । मृतः कान्तारमध्वानं कथमेको गमिष्यसि ॥ २३ न हि त्वां प्रस्थितं किंचित्पृष्ठतोऽनुगमिष्यति । दुष्कृतं सुकृतं च त्वां यास्यन्तमनुयास्यति॥२४ श्रुतिस्मृत्युदितं कर्म कुलदेशोचितं हितम् । धर्ममूलं निषेवस्त्र सदाचारमतन्द्रितः ॥ परित्यजेदर्थकामौ स्यातां चेद्धर्मवर्जितौ । धर्मेण प्राप्यते सर्वमर्थकामादिकं सुखम् ॥ २६ इन्द्रियाणां जयं योगं समातिष्ठेद्दिवानिशम् । जितेन्द्रियो हि शक्नोति पथि स्थापयितुं प्रजाः२७ अतिप्रगल्भललनाकटाक्षचपलाः श्रियः । विनयप्रणिधानेन चिरं तिष्ठन्ति भूभुजाम् ॥ कामदातिशीलानामविचारितकर्मणाम् । सहाऽऽयुपा प्रणश्यन्ति संपदो मूढचेतसाम् ॥ विभूतिनष्टदृग्भिस्तु नृत्यन्ते न महायशाः(शयाः)। नागताभिर्न याताभिर्नदीभिश्चीयतेऽम्बुधिः३० व्यसनस्य च मृत्योश्च व्यसनं कष्टमुच्यते । व्यसन्यधोऽधो व्रजति खर्यात्यव्यसनी नृपः ॥३१ व्यसनानि च दुःखानि कामजानि विशेषतः । त्यज स्मर महाराज कामं धर्मविरोधनम् ॥ ३२ जडानामविवेकाय सुराणां च दुरात्मनाम् । भाग्यभोग्यानि राजेन्द्र सन्ति नीतिमतामपि ॥३३ नैव स्थिराणि तानीह दुरितैरनुसवितैः । विलीयन्ते यथा वह्निसंसर्गेणेन्धनानि च ॥ गच्छतस्तिष्ठतो वाऽपि जाग्रतः स्वपतोऽपि वा । न विचारपरं चेतो यस्यासौ मृत एव सः॥३५ उपदेष्टा शतवतां गुरुरित्युच्यते यतः । किं तु त्वासनविपदामुपदेशाः शिरोरुहाः ।। ३६ विषयज्वरमुत्सृज्य समया स्वस्थयामया । युक्त्या च व्यवहारिण्या स्वार्थः प्राज्ञेन साध्यते ३७ ३८ अशुभाचरितं याति शुभं तस्मादपीतरत् । जन्तोश्चित्तं च शिशुवत्तस्मात्तच्चालयदलात् ॥ उपधार्य मतिं राजन्वृद्धानां धर्मदर्शिनाम् । नियच्छेत्परया बुद्ध्या चित्तमुत्पथगामि यत् ॥ ३९ न धर्माण्युपकुर्वन्ति न मित्राणि न बान्धवाः । न हस्तपादचलनं न देशान्तरसंगतम् ॥ ४१ न कायक्लेशवैधुर्य न तीर्थायतनादयः । केवलं तन्मनस्कस्य जपेनाऽऽसाधते पदम् ॥ विषये वर्तमानस्य तस्माञ्चित्तस्य संयमे । यत्नं कुर्याबुधो राज[+न्ध्रुवं यत्नेन वा जितम् ॥ ४२ * धनुचिहान्तर्गतः पाठः, छ. ड. पुस्तकस्थः । + धनुचिहान्तर्गतः पाठः ख. ङ. च. छ. इ. पुस्तकस्थः । --- २८ २९ 44 . १ झ. अ. महायशाः । २ ख. दार्तिशी।
४८ ४९ ६५८ महामुनिश्रीव्यासप्रणीतं- [४ पातालखण्डे- तत्तत्कर्मकृतो राज]न्भवताये(पे)न वञ्चितः । मुनिभिश्च फलैस्तैस्तैरतोऽप्याकर्णयाधुना ॥ ४३ मुह्यताऽपि मनुष्येण प्रष्टव्याः सुहृदो बुधाः । ते च पृष्टा वदन्ति स्म तत्कर्तव्यं यथोचितम् ४४ सर्वोपायेन कर्तव्यो निग्रहः कामकोपयोः । श्रेयार्थिना यतस्तौ हि श्रेयोघातार्थमुद्यतौ ॥ कामो हि बलवानराजशरीरस्थो रिपुर्महान् ॥ न तस्य वशगो भूयाज्जनः श्रेयोभिलाष(षु)क:४६ यः कामो देवदेवेन पुरा तेनैव शूलिना । ललाटवाहिना दग्धः कृतोऽनङ्ग इति स्थितिः ।। धर्म एव ततः श्रेयान्विधिना समनुष्ठितः । धैर्यमालम्ब्य च ततो धर्ममेव समाचर ॥ श्वास एष चपलः क्षणमध्ये यो गतागतशतानि विधत्ते । जीवितेऽपि तदधीनचेतसा कः समाचरति धर्मविलम्बम् ।। दशमीमपि यातस्य चेतो नाद्यापि भूपते । विषयेभ्यो निषिद्धेभ्यो हा हा न विरमदलम् ॥ ५० तस्मात्सर्व निष्फलत्वं प्रयातं कामकश्मलात् । वयस्तेऽप्यधुना भूप समाचर हितं निजम् ॥ ५१ वदाम्यहं तव नृप हितं सर्वोत्तमोत्तमम् । पुरोहितो यतस्तेऽहं सदसत्कर्मभागपि ॥ एकतः सर्वपुण्यानि पापनाशाय पापिनाम् । एकतो माधवो मासो माधवस्य प्रियः सदा ॥ ५३ ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः । महान्ति पापकान्येव कीर्तितानि मुनीश्वरैः ॥ तत्र यन्मनसा वाचा कायेनापि कृतं नरैः । नाशयेन्माधवो मासः सर्व पापतमो महत् ॥ ५५ दिवाकर इव ध्वान्तं नाशयेनृप सर्वशः। तथा श्रीमाधवो मासस्तस्माचर विधानतः ।। ५६ आ जन्मतोऽपि विहितानि महान्ति राज- न्योराणि तानि दुरितानि विहाय मर्त्यः । वैशाखमासविहिताचरणप्रभाव- पुण्येन तेन हरिमन्दिरमेति चान्ते ॥ ५७ यद्यकमपि वैशाखमाचरन्ति विधानतः । भावतः पापिनोऽप्यन्ते प्रयान्ति हरिमन्दिरम् ॥ ५८ तस्मात्त्वमपि राजेन्द्र मासेऽस्मिन्माधवेऽधुना । प्रातः स्नात्वा विधानेन समर्चय मधुद्विषम् ॥५९ तण्डुलस्य यथा चर्म यथा ताम्रस्य कालिमा। नश्येत क्रियया राजंस्तथा पुंसो मलं महत् ॥ ६० जीवस्य तण्डुलस्येव सहजोऽपि मलो महान् । नश्यते न च संदेहस्तस्मात्कर्मोदितं कुरु ॥ ६१ इति श्रीमहापुराणे पाने पातालखण्हे वैशाखमाहात्म्ये पश्चनवतितमोऽध्यायः ॥ ९५ ॥ आदितः श्लोकानां समष्ट्यकाः-१७१६७ अथ षण्णवतितमोऽध्यायः । २ राजोवाच- क्षीरोदभवतुल्याभिः शीतलामलवृष्टिभिः । कथाभिश्च विचित्राभिस्त्वयाऽहं तोषितो द्विज ॥ १ असागरोत्थं पीयूषमद्रव्यं व्यसनौषधम् । त्वयाऽहं पायितः सौम्य भवरोगनिवारणम् ॥ हर्षप्रदो नृणां पापहानिकृजीवनौषधम् । जरामृत्युहरो विप्र सद्भिः सह समागमः ॥ यानि यानि दुरापानि वाञ्छितानि महीतले । प्राप्यन्ते तानि तान्येव साधुनाऽपीह संगमात् ४ यः स्नातः पापहरया साधुसंगमगङ्गया। किं तस्य दानैः किं तीथैः किं तपोभिः किमध्वरैः ॥ ५ यो यो भावः पुरा शासीत्कामैकसुखलोलुपः। दर्शनादचनात्तेऽद्य विपरीतोऽभवद्विभो ।
८ २० ९६ षण्णवतितमोऽध्यायः] पमपुराणम् । एकजन्मसुखस्यार्थे सहस्राणि विलोपयेत् । प्राज्ञो जन्मसहस्राणि संचिनोत्येकजन्मतः ॥ हा हा कामरसास्वादसुखलालसचेतसो । मया मूढेन न कृतं किंचिदात्महितं द्विज ॥ अहो मे मनसो मोहो यदात्मा योषितां कृते । पातितो व्यसने घोरे दुःखोदकें दुरत्यये ॥ ९ भगवन्परितुष्टेन बोधितो वचसा त्वया । उपदेशप्रदानेन त्वं मामुद्धर्तुमर्हसि ॥ १० पुरा चरितपुण्योऽहं भवता बोधितोऽस्मि यत् । त्वत्पादरजसा वाऽपि विशेषादपि पावितः ११ विधि माधवमासस्य भूहि मे वदतां वर । सर्वपापक्षयकरो यस्त्वया परिकीर्तितः ॥ १२ कथं स्नानं च किं दानं को देवो नियमश्च कः। एतदाचक्ष्व विप्रर्षे दुरितोत्तारणाय मे ॥ १३ यम उवाच- इत्येवमुक्तो भगवान्कश्यपः स दयानिधिः। प्रोवाच वचनं विप्र धर्य विश्वहितं हि यत् ॥ १४ कश्यप उवाच- पूर्वापरसमाधानक्षयबुद्ध्या च तन्द्रिते । पृष्टज्ञाने न वक्तव्यं वाऽधमे पातकाशये ॥ १५ पापवृत्तस्य तु तथा दत्त्वा भूप शुभां मतिम् । विद्यादानफलं सम्यक्प्राप्यते नात्र संशयः ॥ १६ नापृष्टः कस्य चियान चान्यायेन पृच्छतः । जाननपि हि मेधावी जडवल्लोक आचरेत् ॥ १७ विदुषामथ शिष्याणां पुत्राणां च कृपावता । अपृष्टमपि वक्तव्यं श्रेयः श्रद्धावतां हितम् ॥ १८ सांमतं शुद्धहृदयो जातस्त्वं वचनान्मम । पुराचरितपुण्येन केनापि च महीपते ॥ १९ पापावस्थां शरीरं तद्गतं तव ममाऽऽश्रयात् । श्रवणाद्धर्मशास्त्रस्य धर्मावस्थं तु तेऽभवत् ॥ पापावस्थमधर्माख्यं धर्मज्ञानविवर्जितम् । अपरं सव्रतं यद्धि विज्ञेयं तद्धि धार्मिकम् ॥ धर्माधर्मोपभोगाय तत्तृतीयमतीन्द्रियम् । तस्मात्रिभेदं देहं हि वेदविद्भिरिहोच्यते । यावन्न धर्मभोगश्च मुक्तिश्चैतत्रिभेदकम् । पापावस्थं शरीरं तत्पापसंझं तदुच्यते ॥ इदानीं गुरुभक्तिं च कुर्वतो वचनं मम । शृण्वतो धर्मरूपं तु शरीरं ते व्यवस्थितम् ।। तेनैव शुद्धिरमला जाता धर्मक्रियोचिता । दैवेन देहिनां नामचेतांसि चरितानि च ॥ २५ शरीराणि च पुष्यन्ते काले काले विपर्ययम् । सांप्रतं भवतो राजन्मनो धर्मे समास्थितम् ॥ २६ तेन त्वां कारयिष्यामि माधवस्नानमुत्तमम् ॥ यम उवाच- ततस्तु कारितस्तेन कश्यपेन पुरोधसा । स नृपो माधवे मासि स्नानं दानं च पूजनम् ॥ यथादृष्ट पुरा शास्त्रे वैशाखस्नानज विधिम् । स मुनिः प्रत्युवाचास्मै भूपाय च यथोदितम् २९ शृण्वतः स्तोत्रसारं च कथनं हरिमेधसः । श्रुते यस्मिन्नधीते च स सम्यक्फलमामुयात् स कारितस्तेन विधानभावो राजाऽपि चक्रे विधिवत्तदानीम् । श्रीमाधवे मासि विधानमीड्यं ततो यथाणितमादरेण ॥ प्रातःस्नानं च पाद्यं च बर्षं च हरिपूजनम् । नैवेद्यं भक्तिभावेन चकार स नृपोत्तमः ॥ दानं यथानियमपालनमादरेण वैशाखमासि विदधाति विधानमेवम् । यो भक्तितोऽन्वहमसौ प्रतिवर्षमेवं कृत्वा प्रयाति हरिधाम महीसुरायः॥ १ स. सा । माया । क. पशमन । ३ अ. मतन्द्रितम् । ४ क. म. फलम् । ५ क. "नमित्यं त। २२ --- २४ । २८ ६६० महामुनिश्रीव्यासप्रणीतं- [४ पातालखण्डे- अथेतरेषु मासेषु कामिनीकुचकेलिवान् । भोगैकलालसो भूयो भवत्येव यथारूचि ॥ न धर्मनियमं राजकार्येषु न विचारणाम् । करोति कामवशगो हित्वा मासं च माधवम् ॥ ३५ महतामपि विप्राय दुनिवार्यो मनोभवः । शरीरसहजो नूनमनादिर्वासनाक्रमः ॥ ३६ केशकज्जलशालिन्यो दुःस्पर्शा लोचनप्रियाः । यस्मादग्निशिखा नार्यों दहन्ति तृणवन्नरम् ॥३७ घोरः शत्रुः शरीरस्थः पुंसां कामो यथोचितः । मोहधूममयः पापो न केषामन्धकारकः ॥ ३८ इति श्रीमहापुराणे पाझे पातालखण्डे वैशाखमाहात्म्ये षण्णवतितमोऽध्यायः ॥ ९६ ॥ आदितः श्लोकानां समष्टयङ्काः-१७२०५ अथ सप्तनवतितमोऽध्यायः । २ ४ ५ ८ यम उवाच- अथ कालकटाक्षेण लक्षितो नृपतिस्तदा । मृतोऽतिरतिसेवोत्थक्षयक्षीणकलेवरः ॥ नीयमानो मम गणैस्ताड्यमानो मुहुर्मुहुः । क्रन्दमानो महारावान्संस्मरनिजपातकम् ॥ विष्णुदूतैस्तदाऽऽगत्य तानधिक्षिप्य मेऽनुगान् । धर्मवानयमित्युक्त्वा ह्यारोप्य व्योमवाहनम् ३ नीतो हरिपुरं विप्र स्तूयमानोऽप्सरोगणैः । प्रातःस्नानेन वैशाखमासस्य क्षीणपातकः ॥ अथ धर्मविहीनोऽयमिति मत्वा च तैः पुनः । देवदूतैरदूरेण नरकस्य च वर्त्मनः ॥ आनीतो नृपतिर्विष्णोनिदेशेऽतिविशारदैः । स गच्छन्नपि शुश्राव जीवानां क्रन्दतां पुनः ॥ ६ निरये पच्यमानानामारावं विविधं तदा । पापिनां कथ्यमानानामाक्रन्दमतिदारुणम् ।। श्रुत्वा विस्मयवान्विा राजाऽभूदतिदुःखितः । प्रोवाच दूतान्किमयमाक्रन्दो दारुणः श्रुतः। किमत्र कारणं तन्मे सर्व वक्तुमिहार्हथ ॥ दूता ऊचुः-- जन्तवस्त्यक्तमर्यादाः पापाः पुण्यविवर्जिताः । निरयेषु सुघारेषु तामिस्रादिषु पातिताः ॥ कृतपातकिनस्त्वत्र प्राणत्यागादनन्तरम् । याम्यं पन्थानमाश्रित्य दुःखमश्नन्ति दारुणम् ॥ १० यमस्य पुरुषैरैः कृष्यमाणा इतस्ततः । अन्धकारे निपतिता भक्ष्यन्ते ह्यतिदारुणैः ॥ ११ श्वभिः शृगालैः क्रव्यादैः काकककबकादिभिः । अग्नितुण्डैकव्याप्रैर्भुजगैदृश्चिकादिभिः ॥ १२ अग्निना दह्यमानाश्च तुद्यमानाश्च कण्टकैः । क्रकचैः पाट्यमानाश्च पीड्यमानाश्च तृष्णया ॥ १३ क्षुधया बाध्यमानाश्च घोरैर्व्याधिगणैस्तथा । पूयशोणितगन्धेन मूर्छमानाः पुनः पुनः॥ १४ कथ्यन्ते कथिते तैले ताड्यन्ते मुशलैः कचित् । आयसीषु प्रपच्यन्ते शिलासु कचिदेव च ॥ १५ कचिद्वान्तमथाश्नन्ति कचित्पूयमसक्कचित् । केशशोणितमांसासृग्वसास्थिनिकरेषु च ॥ आस्थिताः कुणपाः पश्चात्कीर्णासु भूमिषु कचित् । शावदुर्गन्धनीरन्ध्रसंघद्रस(घाद्रिश)तकोटिषु।। करपत्रशिलापातविनिष्टौतलेषु च । लोहतैलवसास्तम्भकूटशाल्मलिसद्मसु ।। क्षुरकण्टककीलोग्रज्वालाक्षुब्धविभीतिघु(?) । तप्तवैतरणीपूयपूरितेपु पृथक्पृथक् ॥ १९ असिपत्रवनोत्कृत्तनरनारीतनूषु च । घोरान्धकारदहनदारुणेषु मुहुर्मुहुः ।। १८ २० १ क. °पि संप्राप्तो दु । २ स. अ. °मयैः पा । ङ. मयः पश्यो न । ३ स. प्तकले । अ. प्तकुले । ४ झ. अ. 'म्भकुटिशा।
२४ २९ ३२ ९७ सप्तनवतितमोऽध्यायः] पद्मपुराणम् । पच्यमाना रुदन्तश्च दारुणं विविधैः स्वरैः । कण्ठेषु बद्धपाशाश्च भुजगावेष्टिताः कचित् ॥ २१ कूटागारे भ्राम्यमाणाः शरीरैर्यातनोचितैः । पीड्यन्ते पापिनो राजन्क्रन्दन्तोऽमी विकर्मिणः ॥ सहितं विषयावादैः क्रन्दनं तैविधीयते । भुज्यते च कृतं पूर्वमेतत्सर्वैश्व जन्तुभिः ॥ परस्त्रीषु कृतः सङ्गः प्रीतये दुःखदो हि सः । मुहूर्तविषयास्वादोऽनेककल्पान्तदुःखदः ॥ वपुषस्तव राजेन्द्र प्रातःस्नातस्य माधवे । विधिना पावनस्यैते प्राप्य स्पर्श च मा(भा)सता(ना) लब्धसौख्याः क्षणं जाता महसाऽऽप्यायितास्तव । आक्रन्दरहिता जातास्तेनैते निरयं गताः ॥ नामापि पुण्यशीलानां श्रुतं सौख्याय कीर्तितम् । जायते तद्वपुःस्पर्शवायुः स्पर्शसुखावहः ॥२७ यम उवाच- इति दूतवचः श्रुत्वा स राजा करुणानिधिः । प्रत्युवाच ह तान्दूतान्विष्णोरद्भुतकर्मणः ॥ २८ कोमलं हृदयं नूनं साधूनां नवनीतवत् । वह्निसंतापसंतप्तं तद्यथा द्रवति स्फुटम् ॥ राजोवाच- नाऽऽर्तजन्तूनहं हित्वा पीडितो गन्तुमुत्सहे । स पापिष्ठो हि आर्तानां शोक नापहरेत्क्षमः ॥३० मदङ्गसंगमोत्सृष्टवायुस्पर्शेन ते यदि । जन्तवः सुखिनो जातास्तस्मात्तत्र नयन्तु माम् ॥ परतापच्छिदो ये तु चन्दना इव चन्दनाः । परोपकृतये ये तु पीड्यन्ते कृतिनो हि ते ॥ सन्तस्त एव ये लोके परदुःखविदारणाः । आर्तानामार्तिनाशार्थ प्राणा येषां तृणोपमाः॥ ३३ तैरियं धार्यते भूमिर्नरैः परहितोद्यतैः । मनसो यत्सुखं नित्यं स स्वर्गो नरकोपमः ॥ तस्मात्परसुखेनैव साधवः सुखिनः सदा । वरं निरयपातोऽत्र वरं प्राणवियोजनम् ॥ न पुनः क्षणमार्तानामातिनाशमृते सुखम् ॥ दूता ऊचु:- [*जन्तवो निरये घोरे पच्यन्ते तत्र पापिनः । स्वकर्मवोपभुञ्जाना मोहस्थानं न विद्यते ॥ ३६ यैर्न दत्तं हुतं तीर्थे पुण्ये स्नानं न वा कृतम् । पुनर्नोपकृतं नृणां सुकृतं न कृतं परम् ॥ ३७ नेष्टं न तप्तं नो जप्तं यैर्न हृष्टतया नृप । परस्मिन्निह घोरेषु पच्यन्ते निरयेषु ते ॥ ३८ दुःशीला ये दुराचारा व्यवहारेषु निन्दिताः । परापकारिणः पापकारिणो दुर्विहारिणः ॥ ३९ एहि भूप महाभाग गच्छामो हरिमन्दिरम् । न ते पुण्यवतो युक्तमिह स्थातुमतः परम् ॥ ४० विदारिणो हि मर्मोक्त्या पापाः परहृदां हि ये । निरयेष्वपि पच्यन्ते ये परस्त्रीविहारिणः ॥४१ राजोवाच- यद्यहं सुकृती दूताः कस्मादस्मिन्महाभये । यातनामार्ग आनीतः किं मयाऽसुकृतं कृतम् ॥ ४२ मया न सुकृतं तादृकृतं वै कामशालिना । कथं हरिपुरं गन्ता संशयं छेत्तुमर्हथ ।। दूता ऊचुः]- सुकृतं न कृतं सत्यं त्वया कामवशात्मना । नेष्टं यज्ञैर्न वा यज्ञावशिष्टं भवताऽशितम् ॥ किं तु माधवमासे यद्विधिना वत्सरत्रयम् । प्रातः स्नातं गुरुवचःप्रेरितेन त्वया पुरा । भक्त्या संपूजितो विष्णुर्विश्वेशो मधुसूदनः । महापापातिपापौघनिहन्ता भक्तवत्सलः ॥ ४६ स(कसारेण पुनस्तेनैकेन नरेश्वर । नीयसे विष्णुभवनं पूज्यमानो मरुद्गणैः ॥ * धनुश्चिान्तर्गतः पाठः ख. इ. च. छ. ड. पुस्तकस्थः । १ ख. ङ. यमैः । म । २ झ. म 'स्मात्पूर्वसु । • - ४४ 4 . ४५ १६२ महामुनिश्रीव्यासप्रणीत- [४ पातालखण्डे- ययैव विस्फुलिङ्गन ज्वाल्यते तृणसंचयः। प्रातःस्नानेन वैशाखे तथाऽघौघो नरेश्वर ॥ ४८ तावदपुषि पापानि प्रभवन्ति नरेश्वर । यावत्र माधवे मासे तीर्थे मज्जति चोषसि ।। वैशाखे मासि यो युक्तो यथोक्तनियमैर्नरः । हरिभक्तोऽतिपापौधैर्मुक्तोऽच्युतपदं व्रजेत् ॥ ५० आ जन्मतो न सुकृतं यत्त्वयाऽन्यत्पुरा कृतम् । तेन त्वं निरयस्थानमार्ग नीतो नरेश्वर ॥ ५१ अथ भूमिपते तूर्णमस्माभिश्च मरुद्गणैः । स्तूयमानो विमानेन गच्छ गोविन्दमन्दिरम् ॥ इति श्रीमहापुराणे पाझे पातालखण्डे वैशाखमाहात्म्ये सप्तनवतितमोऽध्यायः ॥ ९७ ॥ आदितः श्लोकानां समष्टयङ्काः-१७२५७ अथाऽष्टनवतितमोऽध्यायः । - ४ ५ ६ ८ ९ १० यम उवाच- ततस्तु करुणावाधिस्तेषां शोकेन पीडितः । भूपतिः श्रीहरेर्दूतान्विनयेनाऽऽह वाडव ।। ऐश्वर्यस्याभिजातस्य गुणानां सुकृतस्य च । सन्तः फलं हि मन्यन्ते ह्यार्तानां परिरक्षणम् ॥ २ यद्यस्ति सुकृतं किंचिन्मम तेनैव जन्तवः । स्वर्ग गच्छन्तु मुक्तागाः स्थाने चैषां वसाम्यहम् ॥ ३ एवं भूपवचः श्रुत्वा दूता विष्णोर्मनोहराः । औदार्य सत्यमेतस्य ध्यायन्तो जगदुर्नुपम् ॥ दूता ऊचु:- अनेन तव कारुण्यधर्मेण वचसा नृप । बभूव वृद्धिर्धर्मस्य संचितस्य विशेषतः ॥ स्नानं दानं जपो होमस्तपो देवार्चनादिकम् । कृतं यन्माधवे मासि तदनन्तफलं ह्यभूत् ॥ स्वर्गे यज्वा च दाता च क्रीडते त्रिदशैः सह । वापीषु हेमपद्मासु कल्पवृक्षयुतासु च ॥ गीयमानो मुदं याति गीर्वाणरमणीगणैः । जलानदानतो लोकं लभते वारुणं शुभम् ॥ कुलानि हेलया सप्त संतारयति गोपदः । हयं दत्त्वा रवेर्लोक याति विद्यामदो नरः॥ ब्रह्मलोकं तथा हेमदानाद्याति सुरालयम् । याति देही दयाकन्यादानाद्यैर्देवलोकताम् ॥ माधवे मासि यः स्नात्वा दत्त्वा संपूज्य माधवम् । अवाप्य सकलान्कामान्प्रयाति हरिमन्दिरम् ११ एकतोऽपि तपोदानक्रतुसुत्यादिकाः क्रियाः। एकतो विधिवन्मासो माधवश्वरितो महान् ॥ १२ तस्य माधवमासस्य दिनैकस्यापि भूपते । कृतं यत्सुकृतं तत्ते सर्वदानाधिकं परम् ।। १३ कारुण्येन दिनैकस्य पुण्यं देहि धरापते । निरये पच्यमानेभ्यो दुःखितेभ्यो दयानिधे ॥ १४ न दयासदृशो धर्मो न दयासदृशं तपः । न दयासदृशं दानं न दयासदृशः सखा । १५ पुण्यदः पुण्यमामोति नरो लक्षगुणं सदा । कारुण्येन विशेषात्ते धर्मदृद्धिस्ततोऽभवत् ॥ दु:खितानां हि भूतानां दुःखोद्धा हि यो नरः। स एव सुकृती लोके ज्ञेयो नारायणांशजः१७ माधवे मासि पूर्णायां स्नानदानादिकं त्वया । यत्तीर्थे विहितं वीर सर्वाधविनिषूदनम् ॥ १८ तदेभ्यो देहि विधिवत्कृत्वा साक्ष्ये हरिं प्रभुम् । त्रिवाचिकं च निरयायेनामी स्वर्गमामुयुः १९ कपोतार्य स्वांसानि कारुण्येन पुरा शिविः । दत्त्वा दयानिधिः स्वर्गे सजातः कीर्तिवारिधिः२० दधीचिरपि राजर्षिर्दवाऽस्थिचयमात्मनः । त्रैलोक्यकौमुदी कीर्ति लब्धवान्स्वर्गमक्षयम् ॥ २१ सहस्रजिच राजर्षिः प्राणानिष्टान्महायशाः। ब्राह्मणार्थे परित्यज्य गतो लोकाननुत्तमान ॥ २२ क. सि वाञ्छितं तत्फलं ।
२४ ९९ नवनवतितमोऽध्यायः] पमपुराणम् । न स्वर्गे नापवर्गेऽपि तत्सुखं लभते नरः । यदातजन्तुनिर्वाणदानोत्थमिति नो मतिः ॥ २३ सर्वेषु दानजातेषु पुराजातेषु भूपते । कर्मणा तेन संख्यासु(तुं) धुरि धैर्य नियोज्य च ॥ दृष्ट्वा तव धियं सौम्य दयादानसुनिश्चलाम् । अस्माभिरपि तूत्साहः क्रियते वेदवादिभिः ॥२५ यदि ते रोचते राजनविलम्बतया ततः । तदेभ्यो देहि तत्पुण्यं यातनादुःखदाहकम् ॥ २६ इत्युक्तः स तदा देवं कृत्वा साक्ष्ये गदाधरम् । तेभ्यस्त्रिवाचिकं पुण्यं दयावान्विधिना ददौ २७ दत्ते माधवमासस्य तस्मिन्नेकदिनोद्भवे । सुकृते जन्तवो याम्ययातनादुःखवर्जिताः ॥ २८ विमानवरमारूढास्ते सर्वे त्रिदिवं ययुः। प्रणमन्तस्तुवन्तस्तं पश्यन्तः संप्रहर्षिताः ॥ नृपेण दत्तं तदवाप्य पुण्यं वैशाखमासस्य दिनाभिजातम् । सर्वे ययुस्ते नरकाद्विमुक्ता दिवं विमानाधिगता विचित्रम् ॥ संस्तूयमानो मुनिदेवसंधैर्यत्तद्विशेषेण च लब्धपुण्यः । परं पदं योगिवरैरलभ्यं ययौ जगन्नाथगणाभिवन्धः॥ इति श्रीमहापुराणे पाझे पातालखण्डे वैशाखमाहात्म्येऽष्टनवतितमोऽध्यायः ॥ ९८ ॥ आदितः श्लोकानां समष्ट्यङ्काः-१७२८८ २९ ३० अथ नवनवतितमोऽध्यायः । २ ४ ५ . यम उवाच- एतन्माधवमासस्य समासात्किचिदीरितम् । माहात्म्यं पूर्णिमायाश्च विशेषाद्विजसत्तम । वैशाखमासे मधुसूदनस्य प्रियं य एतत्पठतीतिहासम्। स याति कृष्णालयमाशु पूतः कल्पाननेकानिह मोदते च ॥ धन्यं यशस्यमायुष्यमिदं स्वस्त्ययनं महत् । स्वयं श्रीदं सौमनस्यं प्रशस्यमघमर्षणम् ॥ इदं माधवमासस्य माहात्म्यं माधवप्रियम् । चरितं भूपतेस्तस्य संवादं चाऽऽवयोzप ॥ श्रुत्वा पठित्वा विधिवदनुमोद्य मनःप्रियम् । लभेद्भक्तिं भगवति यया स्यात्क्लेशसंक्षयः ॥ अथ गच्छ महाभाग देवलोकादितो भवान् । निपात्य भुवि ते देहं रुदन्त्यद्यापि बान्धवाः ॥ ६ विलप्यमानैरपि बन्धुभिस्ते न यावदनौ तव यच्छरीरम् । प्रक्षिप्यते हन्त जवेन तावद्याहि स्वयं सुप्त इव प्रबुद्धः ॥ मम प्रसादादिह पुण्ययोगः श्रुतो यथावत्तमिमं विधेहि ॥ विधानतो वै समये समं ते समागमोऽन्ते भविता सुरैश्च ॥ सूत उवाच- इति देववचः श्रुत्वा नत्वा धर्माधिपं ततः । पुनः पपात स इह परितुष्टमना द्विजः ॥ धर्मराजप्रसादेन ततस्तत्र महीतले । संसुप्त इव चोत्तस्थौ बन्धुवर्गसमन्वितः ॥ १० विधिमेनं द्विजो भूमौ वर्षे वर्षे च स स्वयम् । चकार कारयामास माधवस्नपनं परात्(?)॥ ११ यमब्राह्मणसंवादो मयाऽयं बोधितो हि वः । तस्य माधवमासस्य पुण्यस्नानप्रसङ्गतः ॥ १२ ८ - ९ . १ क. योरपि । श्रु । ख. रु. च. छ. ड. योर्नरः । श्रु। २ स. म. यथा ।
६६४ महामुनिश्रीव्यासप्रणीत- [ ४ पातालखण्डे- वैशाखमासे सततं हरिप्रिये स्नानं विदव्याच ददाति भक्त्या । दानं च होमं सुकृतं तथा बुधो हरेः पदं तस्य न दुर्लभं कदा ॥ यः शृणोत्येकचित्तेन माहात्म्यं मेषसूर्यजम् । सर्वपापविनिर्मुक्तो याति विष्णोः परं पदम् ॥ १४ ऋषय ऊचुः- सूत सूत महाप्राज्ञ त्वयाऽतिकरुणात्मना । वैशाखमासमाहात्म्यं कीर्तितं पापनाशनम् ॥ १५ नियमा मधुहन्तुर्ये माधवे कथितास्त्वया । पूजनं स्नानदानाद्यं श्रौतस्मातविधानतः ॥ १६ यथा च माधवो देवः प्रीयते पापनाशनः । अधुना श्रोतुमिच्छामो ध्यानं तस्य महात्मनः ॥१७ कृष्णस्य भक्तवृन्दानां प्रियस्य भवतारणम् ॥ १८ सूत उवाच- शृणुध्वं मुनयः सर्वे कृष्णस्य जगदात्मनः । गोगोपगोपीप्राणस्य वृन्दावनचरस्य च ॥ १९ एकदा नारदः पृष्टो गौतमेन द्विजोत्तमाः । स तस्मै प्राह यद्ध्यानं तद्वक्ष्ये पापनाशनम् ॥ २० नारद उवाच- सुमप्रकरसौरभोद्गलितमाध्विकाद्युल्लस- सुशाखिनवपल्लवप्रकरनम्रशोभायुतम् । प्रफुल्लनवमञ्जरीललितवल्लरीवेष्टितं स्मरेत सततं शिवं शितमतिः सुवृन्दावनम् ॥ विकाशिसुमनोरसास्वदनमञ्जुलैः संचर- च्छिलीमुखमुखोद्गतैर्मुखरितान्तरं झंकृतैः । कपोतशुकसारिकापरभृतादिभिः पत्रिभि- विराणितमितस्ततो भुजगशत्रुनृत्याकुलम् ॥ कलिन्ददुहितुश्चलल्लहरिविष्ठुषां वाहिभि- विनिद्रसरसीरुहोदररजश्चयोदूसरैः। प्रदीपितमनोभवनजविलासिनीवाससां विलोलनपरैनिषेवितमनारतं मारुतैः ।। २३ प्रवालनवपल्लवं मरकतच्छदं मौक्तिक- प्रभाप्रकरकोरकं कमलरागनानाफलम् । स्थाविष्ठमखिलर्तुभिः सततसेवितं कामदं तदन्तरपि कल्पकाधिपमुदश्चितं चिन्तयेत् ॥ सुहेमशिखराचले उदितभानुवद्भासुरा- मधोऽस्य कनकस्थलीममृतशीकरासारिणः । प्रदीप्तमणिकुट्टिमां कुसुमरेणुपुञ्जोज्ज्वला स्मरेत्पुनरतन्द्रितो विगतैषद्तरङ्गां बुधः । २५ तद्रत्नकुट्टिमनिविष्टमहिष्ठयोगपीठेऽष्टपत्रमरुणं कमलं विचिन्त्य । उद्यद्विरोचनसरोचिरमुष्य मध्ये संचिन्तये सुखनिविष्टमयो मुकुन्दम् ॥ २६ ॥ १ क. खस्नानमा । २ स. अ. हुंकृतैः । ३ ख. 'तयगर । झ. अ. तयदुर । इ. तयज्मर । २२ २४ २७ ३० ९९ नवनवतितमोऽध्यायः ] पद्मपुराणम् । सुत्रामहेतिदलिताञ्जनमेघपुञ्जप्रत्यग्रनीलजलजन्मसमानभासम् । सुस्निग्धनीलघनकुञ्चितकेशजालं राजन्मनोज्ञशितिकण्ठशिखण्डचूडम् ॥ रोलम्बलालितसुरद्रुमसूनुसंपद्युक्तं समुत्कचनवोत्पलकर्णपूरम् । लोलालिभिः स्फुरितभालतलप्रदीप्तगोरोचनातिलकमुज्ज्वलचिल्लिचापम् ॥ २८ आपूर्णशारदगताङ्कशशाङ्कविम्बकान्ताननं कमलपत्रविशालनेत्रम् । रत्नस्फुरन्मकरकुण्डलरश्मिदीप्तगण्डस्थलीमुकुरमुन्नतचारुनासम् ॥ २९ सिन्दूरसुन्दरतराधरमिन्दुकुन्दमन्दारमन्दहसितद्युतिदीपिताशम् । वन्यप्रवालकुसुमप्रचयावतृप्तप्रैवेयकोज्ज्वलमनोहरकम्बुकण्ठम् ॥ मत्तभ्रमद्भमरघुष्टविलम्बमानं संतानकपसरदामपरिष्कृतांसम् । हारावलीभगणराजितपीवरोरो व्योमस्थलीलसितकौस्तुभभानुमन्तम् । श्रीवत्सलक्षणसुलक्षितमुन्नतांसमाजानुपीनपरिवृत्तसुजातवाहुम् । ओबन्धुरोदरमुदारगभीरनाभिं भृङ्गागनानिकरमञ्जुलरोमराजिम् ॥ नानामणिप्रघटिताङ्गदकङ्कणोमिग्रैवेयसारसननूपुरतुन्दबन्धम् । दिव्याङ्गरागपरिपिञ्जरिताझ्यष्टिमापीतवस्त्रपरिवीतनितम्बबिम्बम् ।। चारूरुजानुमनुत्तमनोज्ञजचं कान्तोन्नतप्रपदनिन्दितकूर्मकान्तिम् । माणिक्यदर्पणलसन्नखराजराजद्रक्ताङ्गुलिच्छदनसुन्दरपादपद्मम् ।। मत्स्याङ्कुशारिदरकेतुयवाजवजैः संलक्षितारुणकराघितलाभिरामम् । लावण्यसारसमुदायविनिर्मिताङ्गं सौन्दर्यनिन्दितमनोभवदेहकान्तिम् ॥ ३५ आस्यारविन्दपरिपूरितवेणुरन्ध्रलोलत्कराङ्गुलिसमीरितदिव्यरागैः । शश्वद्भवैः कृतनिविष्टसमस्तजन्तुसंतानसंनतिमनन्तसुखाम्बुराशिम् ॥ गोभिर्मुखाम्बुजविलीनविलोचनाभिरूषोभरस्खलितमन्थरमन्दगाभिः। दन्ताग्रदष्टपरिशिष्टतृणाङ्कुराभिरालम्बिवालधिलताभिरथाभिवीतम् ।। संपस्नुतस्तनविभूषणपूर्णनिश्चलास्यादृढक्षरितफेनिलदुग्धमुग्धैः । वेणुप्रवर्तितमनोहरमन्दगीतदत्तोच्चकर्णयुगलैरपि तर्णकैश्च ॥ प्रत्यग्रशृङ्गमृदुमस्तकसंग्रहारसंरम्भभावनविलोलखुराप्रपातैः । आमेदुरैर्बहुलसास्नगलैरुदग्रपुच्छैश्च वत्सतरवत्सतरीनिकायैः ॥ हम्भारवक्षुभितदिग्वलयैर्महद्भिरध्युक्षभिः पृथुककुद्भरभारखिन्नैः। उत्तम्भितश्रुतिपुटीपरिपीतवंशध्वानामृतोद्धतविकासिविशालघोणैः ॥ गोपैः समानगुणशीलवयोविलासवेशैश्च मूर्छितकलस्वनवेणुवीणैः । मन्दोचतारपटुगानपरैर्विलोलदोवल्लरीललितलास्यविधानदक्षैः ॥ ४१ जयान्तपीवरकटीरतटीनिबद्धव्यालोलकिङ्किणिघटारणितैरटद्भिः। मुग्धैस्तरक्षुनखकल्पितकान्तभूपैरव्यक्तमजुवचनैः पृथुकैः परीतम् ।। अथ सुललितगोपसुन्दरीणां पृथुकबरीष(ट)नितम्बमन्थराणाम् । गुरुकुचभरभङ्गुरावलग्नत्रिवलिविजृम्भितरोमराजिभाजाम् ॥ १ स. अ. आवन्दरों । २ अ. अ. श्वद्रवीकृतविनिष्ट । ३ क. वीतैः । म। ३८ ४२ ४४ महामुनिश्रीव्यासप्रणीत- [४ पातालखण्डे- तदतिरुचिरचारवेणुवाद्यामृतरसपल्लविताङ्गजाधिपस्य । मुकुलविमलरम्यरूढरोमोद्गमसमलंकृतगात्रवल्लरीणाम् ॥ तदतिरुचिरमन्दहासचन्द्रातपपरिजृम्भितरागवारिराशेः । तरलतरतरङ्गभङ्गविगुदप्रकरघनश्रमविन्दुसंततानाम् ।। तदतिललितमन्दचिल्लिचापच्युतनिशितेक्षणमारबाणदृष्ट्या । दलितसकलमर्मविह्वलाङ्गमविस्तदुःसहवेपथुव्यथानाम् ॥ ४६ तदतिरुचिरवेषरूपशोभामृतरसपानविधानलालसानाम् । प्रणयसलिलपूरवाहिनीनामलसविलोलविलोचनाम्बुजाभ्याम् ।। विस्रसत्कबरीकलापविगलत्फुल्लत्प्रसूनास्रव- न्माध्वीलम्पटचश्चरीकघटया संसेवितानां मुहुः। मारोन्मादमदस्खलन्मृदुगिरामालोलकाञ्च्युल्लस- बीवीविश्लथमानचीनसिचयान्ताचिनितम्बत्विषाम् ।। स्खलितललितपादाम्भोजमन्दाभिघात- च्छुरितमणितुलाकोठ्याकुलाशामुखानाम् । चलदधरदलानां कुड्मल(?)पक्ष्मलाक्षि- यसरसिरहाणामुल्लसत्कुण्डलानाम् ।। द्राषिष्ठश्वसनसमीरणाभिताप- अम्लानीभवदरुणौष्ठपल्लवानाम् । नानोपायनविलसत्कराम्बुजाना- मालीभिः सततनिषेवितं समन्तात् ॥ तासामायतलोलनीलनयनव्याकोशलीनाम्बुज- स्रग्भिः संपरिपूजिताखिलतनुं नानाविलासास्पदम् । सन्मुग्धाननपङ्कजमविगलन्माध्वीरसास्वादिनी बिभ्राणं प्रणयोन्मदाक्षिमधुहृन्मालां मनोहारिणीम् ॥ *गोपीगोपपशूनां बहिःस्मरेदग्रतोऽस्य गीर्वाणघटां वित्तार्थिनीं विरिश्चित्रिनयनशतमन्युपूर्विकां स्तोत्रपराम् ॥ तद्ववक्षिणतो मुनिनिकरं दृढधर्मवाञ्छया समानायपरम् ॥ योगीन्द्रानथ पृष्ठे मुमुक्षमाणान्समाधिना तु सनकाद्यान् ॥ सव्ये सकान्तानथ यक्षसिद्धगन्धर्वविद्याधरचारणांश्च । सकिन्नरानप्सरसश्च मुख्याः कामार्थिनीनर्तनगीतवाद्यैः॥ शङ्खन्दुकुन्दधवलं सकलागमङ्गं सौदामिनीततिपिशङ्गजटाकलापम् । तत्पादपङ्कजगताममलां च भक्तिं वाञ्छन्तमुज्झिततरान्यसमस्तसङ्गम् ॥ ५० ५२ ५६ * सर्वपुस्तकेष्वेतादृशोऽशुद्ध एव ।
१०० शततमोऽध्यायः] पमपुराणम् । नानाविधश्रुतिगुणान्वितसप्तरागग्रामत्रयीगतमनोहरमूर्छनाभिः । संमीणयन्तमुदिताभिरपि प्रभक्त्या संचिन्तयेन्नभसि *मां द्रुहिणप्रसूतम् ॥ इति ध्यात्वाऽऽत्मानं पटविशदधीनन्दतनयं नरो बुद्ध्यै(बौद्ध)र्वार्धप्रभृतिभिरनिन्द्योपहृतिभिः । यजेन्यो भक्त्या स्ववपुषि बहिष्ठैश्च विभवै- रिति प्रोक्तं सर्व यदभिलषितं भूसुरवराः॥ इति श्रीमहापुराणे पाझे पातालखण्डे वैशाखमाहात्म्य एकोनशततमोऽध्यायः ॥ ९९ ॥ आदितः श्लोकानां समष्टयङ्काः-१७३४६ ५८ अथ शततमोऽध्यायः । २ ३ ४ ६ ८ ऋषय ऊचुः- भूयो वद महाभाग रामचारित्रमद्भुतम् । राममाहात्म्यसर्वस्वं भक्तानां प्रीतिदायकम् ।। अश्वमेधक्रतुवरं कृत्वा दाशरथिर्यथा । प्रत्तो लोककृत्येषु शास्त्रकृत्येषु कोविदः ॥ सूत उवाच- अयोध्यां गन्तुकामेन शंकरेण महात्मना । पार्वत्या सह देवेन उषितं शरयूतटे ॥ मुनयस्तं समभ्येत्य शंकर विश्वरूपिणम् । कश्यपाद्या महात्मानः पप्रच्छुरमितौजसम् ॥ स्वागतं ते मुनिश्रेष्ठ सभार्यः कुत आगतः । किमागमनकृत्यं ते के देशं गन्तुमुद्यतः ।। शंकर उवाच----- आं शंभुरिति ख्यातो विप्रो हिमगिरिस्थितः । द्रष्टुं च राघवं गच्छे मम कार्य महत्ततः ॥ मामाहयति राजाऽसौ पुराणश्रवणे रतः। आगच्छन्तु भवन्तोऽपि राघवः परितुष्यति ॥ ततः शिवस्ते मुनयो ययू रामदिक्षया । तानागतान्वसिष्ठस्तु ज्ञात्वा रामाय चोक्तवान् । ['ततः सत्वरमुत्थाय निर्ययौ सपुरोहितः । अर्घ्यपाद्यादिना सर्वान्पूजयामास तानृषीन्] ॥ ९ गृहराजं ततः सर्वान्मावेशयदरिंदमः । प्रत्येकमासनं दत्त्वा स्वागतोक्त्याऽऽसनस्थितान् ॥ १० क्रमेण रघुशार्दूलः पूजयामास तान्ऋषीन् । वाचा मधुरया प्रीणन्निदमाहाऽऽसनस्थितान् ॥ ११ श्रीराम उवाच- अध मे सफलं जन्म प्राप्तमद्य तपःफलम् । अद्याभ्यासस्य विद्यानां फलकालोऽयमागतः ॥ १२ अद्य मे पितरस्तुष्टा राज्यं च सफलं मम । अद्य मे सफल वृत्तमद्य मे सफलं श्रुतम् ॥ एवं वदन्तं राजानं ब्राह्मणाः कश्यपादयः । ऊचुः प्रियतरं वाक्यं रामं राजीवलोचनम् ॥ १४ ऋषय ऊचुः- १५ अयं शंभुजिः प्राप्तः सर्वशास्त्रविशारदः । वेदवेदाङ्गतत्त्वज्ञः सर्वभूतहिते रतः ॥ कैलासवासी सततं तपसे कृतनिश्चयः । ब्रह्मणा ब्रह्मवर्चस्के तुल्यो ब्रह्मविदां वरः ॥ १६ * मां नारदं प्रतीत्यर्थः । । धनुश्चिद्रान्तर्गतः पाठः क. ख. ङ. च. छ. अ. ड. पुस्तकस्थः १ क. ख. ङ. छ. ड. तिगगा । २: ख. महात्मानं । ३ अ. 'प्रो हेम' ।
२२ ६६८ महामुनिश्रीव्यासमणीत- [४ पातालखण्डे- हरिणा ब्रह्मवात्सल्ये प्रसादे शंकरोपमः। एवंविधो महातेजाः शंभुर्ब्राह्मणपुंगवः ॥ १७ अष्टादशपुराणज्ञो मीमांसान्यायकोविदः। त्वद्वाक्यगौरवादेव प्राप्तोऽयं मुनिपुंगवः ॥ १८ त्वयाऽऽहूतो मुनिवरः कैलासादागतः प्रभो। अतः पृच्छ महाभाग पुराणाख्यानमुत्तमम् ॥ १९ श्रोतुकामा वयं प्राप्तास्त्वामद्य रघुनन्दन । अन्तं गतस्य वेदानां सर्वशास्त्रार्थवेदिनः ॥. पुंसोऽश्रुतपुराणस्य न सम्यग्गतिदर्शनम् ।। सूत उवाच- एवमुक्तो रघुश्रेष्ठो मुनिभिस्तत्त्वदर्शिभिः । प्रहर्षमतुलं लेभे पुराणश्रवणोत्सुकः ॥ श्रीराम उवाच- लिङ्गार्चनप्रकारं च लिङ्गमाहात्म्यमेव च । [*महेशनाममाहात्म्यं पूजामाहात्म्यमेव च ।। नमस्कारस्य माहात्म्यं दृष्टिमाहात्म्यमेव च । जलदानस्य माहात्म्यं धूपदानस्य सत्तम । दीपगन्धादिदानस्य पुष्पमाहात्म्यमेव च । नानाख्यानेतिहासानां कां पापप्रणाशिनीम्॥२५ धर्मार्थकाममोक्षांश्च तदुपायांश्च सुत्रत । तत्सर्व श्रोतुमिच्छामि त्वत्तो मुनिवरोत्तम ॥ २६ श्रीशंभुरुवाच- राम राम महाबाहो पुण्यवानसि राघव । राज्यासक्तस्य ते जाता पुराणश्रवणे रतिः ॥ स्यान्महत्सेवया राम पुण्यतीर्थनिषेवणात् । सा जिह्वा या शिवं गायेत्तच्चित्तं यत्तदर्पितम् ॥ २८ तावेव केवलौ श्लाघ्यौ यो तत्पूजाकरौ करौ । सुजन्मदेहमत्यर्थं तदेवाशेषजन्मसु । २९ यदेव पुलकोद्भाति(सि) हरनामानुकीर्तनात् । कृतार्थोऽसि महाराज तत्पश्नानुगता मतिः ॥ ३० अनन्तरं समाजग्मुर्जाधिकाः सत्वरश्रमाः। तत्करात्पत्रिकां गृह्य+ पपाठ रघुसत्तमः ॥ मनसाऽचिन्तयद्रामः कथमेतदभूदिति । रामं शंभुस्तदा प्राह देव्या ब्राह्मणवेषवान् ।। ३२ शंभुरुवाच- किं चिन्तयसि काकुत्स्थ मुनिष्वग्रे वसत्स्वपि । तद्वाक्यं राघवः श्रुत्वा पप्रच्छ मुनिपुंगवान् ३३ श्रीराम उवाच- विभीषणः कथमसौ बद्धः शृङ्खलया नृभिः । मत्स्थापितं शिवं लिङ्गं दृष्ट्वा रामेश्वरं त्वहो ॥ ३४ द्राविडैः कुटिलैर्दुष्टैरात्मना तद्विचार्यताम् । विचार्य मुनिवर्यास्ते नेशास्तज्ज्ञातुमल्पतः ॥ ३५ न जानीम इति प्राडू रामं रामस्तदाऽब्रवीत् । पुराणं वीक्ष्य विधिना तत्सर्व ब्रूत सत्तमाः॥३६ भवदज्ञानहेतुश्च विचार्यस्तदनन्तरम् । किं किं पुराणं प्रेक्ष्यं स्यादर्जनीयं तथैव किम् ॥ प्रशस्तः कीदृशः श्लोकस्तदन्यः कीदृशो भवेत् । कीदृशेषु च कार्येषु कीदृशः पूजकस्तथा ॥३८ पूजा च कीदृशैर्भक्तैः कार्या निर्णयदर्शने । इति रामस्य वचनं श्रुत्वा ते द्विजसत्तमाः ॥ प्रत्यूचुस्तं रघुश्रेष्ठं चिन्ताव्याकुलमानसम् । न वक्तारो वयं राम वीक्ष्यतां तु पुराणवित् ॥ ४० तच्छ्रुत्वा राघवः शंभु पप्रच्छ विनयान्वितः । सोऽपि तद्वाक्यमाकर्ण्य प्रत्युवाच महामतिः॥४१ शंभुरुवाच- पुराणजीवी पूजाईः स्वशाखाध्ययनः शुचिः । मीमांसातत्त्वविज्ञानः श्रोत्रियोऽनृतदूषकः ॥ ४२ ३९ - * धनुचिहान्तर्गतः पाठः, छ. ट. . पुस्तकस्थः । +आर्षो ल्यप्समासाभावेऽपि । १ क. सादः क्रियतेऽधुना । ए। २ . म. हरिमा ।
४८ ५० E १०० शततमोऽध्यायः] पद्मपुराणम् । देवेषु च समस्तेषु समदृष्टिः शिवे रतः । शतरुद्रीयजापी च साग्निकश्वातिवाचकः ॥ यजुर्वेदी विशेषेण पूजयेत्पुस्तकं सुधीः । श्रीतालपत्रलिखितं देवलिप्यन्वितं शुभम् ॥ बन्धाधतिप्रचंपैट्टयुगलात्मणवाक्षरम् । प्रागू रेखयोः प्रान्ते प्रणवस्याग्रयोजिका ॥ रेखेका तु भवेदेव मकारस्तस्य पार्श्वतः । शिरोभागमुपक्रम्य सकोणाधामलम्बिनी ॥ ४५ ४६ आकारः स हि विज्ञेयः पैट्टिकादक्षरेखया । वामे घेडक्रबिन्दू द्वाविकार इति कीर्तितः ॥ तस्य वामशिरोरेखालम्बिन्याई उदाहृतः । सर्वाक्षरे शिरोरेखा अवका प्रणवं विना ॥ तस्यां तु लम्बरेखा स्यात्तदन्ते च लवित्रवि(व)त् । उकारः स हि विख्यातो लवित्रद्वयतस्तदू ४९ एवमन्यानि सर्वाणि ह्यक्षराण्याह भारती । लिप्याऽनयैव लिखितं पुराणं तु प्रशस्यते ॥ ब्राह्म पानं वैष्णवं च मार्तण्डं नारदेरितम् । मार्कण्डेयमथाऽऽग्नेयं कौम वामनमेव च ॥ गारुडं लैङ्गमाख्यातं स्कान्द मात्स्यं नृसिंहकम् । तथैव गदितं राम पुराणं कापिलं तथा ॥ ५२ वाराहं ब्रह्मवैवर्त शकुनेषु प्रशस्यते । शैव भागवतं दौर्ग भविष्योत्तरमेव च ॥ भविष्य चोपसंज्ञानि त्वन्यानि च विवर्जयेत् । विमुच्य पुस्तके रज्जु पीठे निक्षिप्य संस्कृतम्५४ धौतवस्त्रधरः स्नात्वा शुचिरक्रोधनोऽत्वरः । आदावात्मानमभ्यर्च्य कृत्वा संकल्पमेव च ॥ ५५ अङ्कुशं चाक्षसूत्रं च पाशं पुस्तकमेव च । धारयन्ती सितां ध्यायेत्प्रसन्नास्यां सरस्वतीम् ॥ ५६ गोक्षीरसदृशाकारं त्रिनेत्रं वृषवाहनम् । सहासवदनं शान्तं शुक्लाम्बरधरं शिवम् ॥ हरिणं चाभयं चोर्ध्ववाहुयुग्मे किरीटिनम् । व्याख्यामुद्रा च दक्षेऽधो वामहस्ते(स्त) वरप्रदम् ॥ नानारत्नविभूषाढ्यं गिरिजार्धाम्बुजासनम् । बहुभिर्मुनिमुख्यैस्तु ध्यायमानपदाम्बुजम् ॥ ५९ मूर्तिमद्भिस्तथा वेदैः स्तूयमानं पुराणकैः । अन्यैः समस्तलोकैश्च संसेवितपदाम्बुजम् ।। ६० ध्यात्वैवं पूजकः सम्यगादौ पूजा समाचरेत् । आपो वा इदमित्येतत्कलशस्याभिमत्रणम् ॥ ६१ तज्जलं तु गृहीत्वाऽथ पात्रस्थमभिमत्रयेत् । तत्सब्रह्मति मत्रेण प्रशस्य प्रणवेन तु ॥ ६२ आत्मानं सर्वपात्राणि तत आवाहयेदिति । यद्वागितिव्यूचेनैव भारतीषोडशार्चनम् ॥ पुरुषसूक्तेन वा कुर्याद्गायत्र्या वा समर्चयेत् । ॐनमो भगवतेऽमुकपुराणायेति पुराणमर्चयेत् ६४ काण्डादिति हि मत्रेण दूर्वामानीय पूजयेत् । अनमो भगवत्यै दूर्वाय, इति ॥ सलोकपालपूजा स्यादय कन्यार्चनं भवेत् ।। ६५ वत्सरात्पञ्चकादूर्ध्वं दशवर्षादधः शुभा । अनुत्पन्नऋतुर्वाऽपि तां प्रयत्नेन पूजयेत् ॥ ६६ गन्धपुष्पाक्षतेधूपदीपताम्बूलभूषणैः । पाठयेदप्यमुं मत्रं पूजकः कन्यकामिमाम् ॥ ६७ सत्यं ब्रूहि मियं ब्रूहि भगवति सरस्वति नमस्ते नमस्त इतिागायत्रीयानुक्रमार्थार्तुं दूर्वायुग्मं तु कामयेत् ६९ संनिधौ पुस्तकस्याधः सहस्रपरमेयूचा । दूर्वायुग्मत्रयं दद्यात्तस्या हस्ते विचक्षणः ॥ साऽपि क्षिपेत्पुस्तसंधौ शैलाकात्रयमन्वनु । विसृज्य ती पुनर्दद्याच्छिवाभ्यां नम इत्यथ ॥ ७० पत्रयोर्मध्यमः श्लोकः कार्यसिद्धार्ह सूचकः । पूर्वपत्रे समाप्तिः स्यालोकस्य यदि राघव ७१ पत्रेऽपरे पठेच्छ्लोकं विविच्यार्थमुदीरयेत् । शनैः शनैः पठेत्प्राज्ञो व्याख्यास्येच्च शनैः शनैः ७२ त्वरेह न हि कर्तव्या कुप्यति त्वरया तु गीः। घटिकायास्तु पादं स्यादत्वरा स्यात्ततोऽधिका।। स्वरयेन च वक्तारं ज्ञातव्यांशमनु द्विजम् । विविच्य पाठ श्लोकस्य निश्चित्यार्थ च मानसे ॥७४ १ अ. 'यं च प्रपंचन्द्रयु । २ स. "पद्रयु। ३ झ. पद्रिकारक्ष । ४ म. षट्चक्र'। ५ म. 'नोऽज्वरः । ६ क. शिवं । ७ ख. भिर्मनुमु । स. 'तु पूर्वायु । ९. शलका । १० अ. ताः ।
७७ ७९ ८० ८६ ८७ ८८ ६७० महामुनिश्रीव्यासपणीतं- [४ पातालखण्डे- प्रतीपं तं न(तन्त्र)वक्तव्यं विविच्य रघुनन्दन । यदि युक्तमयुक्तं वा श्लोकमन्यं पठेदसौ ॥ .७५ पुस्तकस्थं च हित्वैव पूजकः स द्विजो यदि । तत्तथैव हि विज्ञेयं विसंवादो न शस्यते ॥ ७६ दैवागतो हि स श्लोको दैवं हि बलवत्तरम् । उपश्रुतिषु यद्वच्च नापराधो द्विजस्य तु ॥ विस्मयो न च कर्तव्यो दैवस्य कुटिला गतिः । यत्तत्पदविपर्यासे पत्रे चोत्पन्नवारिणि ॥ ७८ तमादेशं तिरस्कृत्य द्वितीयं तु पठेदतः । ततस्तृतीयं पाठ्यं स्यात्ततः कार्यविवेचनम् ।। अविसर्गान्तपूर्वास्ते (वस्तु) पवर्गेतरपञ्चमः । स्तुतिलिर्जितः श्लोकः शकुनेषु प्रशस्यते ॥ अध्यायादिः समाप्तिश्च वृथा पत्रं वृथा लिपिः । उक्तानुवचनं चैव ह्युपस्तुतमथैव च ॥ ८१ दग्धपत्रं नष्टलिपिः संद(दि)ग्धाक्षरमेव च । एतानि शकुने नित्यं वर्जनीयानि पण्डितैः॥ ८२ प्रश्नो हि द्विविधो ज्ञेयो दीप्तशान्तप्रभेदतः । शान्तं च द्विविधं ज्ञेयमुत्पत्तिस्थितिद्धितः ॥ ८३ तत्र शान्तं प्रशस्यं स्याल्लक्षितं पूर्वलक्षणैः । कार्यभेदास्तु वर्ण्यन्ते केचिन्मयोपयोगिनः॥ ८४ कस्यचित्कार्यमादाय कश्चित्मष्टा भवत्यपि । स करोति तदा प्रश्न समेत्य स्मरतेऽत्र किम् ॥ ८५ स पुनर्धार्य पत्रं तत्तस्मिन्पत्रं प्रशस्यते । अथवा तत्समोपेतं वैराग्यं परमेव च ॥ यतः कुतश्च दृष्टश्च स्तुतिपादकमेव(?) च । परिहृत्य परं चापि तस्मिन्नर्थे शुभप्रदः ।। मृतो गृह्णाति वागर्थमिति प्रश्नः शुभप्रदः । विवादे विजयप्रश्ने जयद्योतकमिष्यते । सृष्टिरप्यत्र शस्ता स्यात्क्रूरायां क्लेशतो जयः। प्रशान्तायामुपायैस्तु मिश्रायां विड्रो भवेत् ८९ पुरादिवर्णनं यत्तु मध्यमं यदि चोत्तमम् । कलिसंभावनायास्तु शृङ्गारस्योपवर्णने । राज्यनिर्वाहचिन्तायां राज्यलिङ्गं शुभावहम् । यस्यापि यादृशं योग्यं विचार्य तादृशं बुधैः ॥९१ स्तुतिवैराग्ययोः कार्यविलयः परिकीर्तितः । कार्याल्पसिद्धिः स्खलिते न च निर्वाहमृच्छति ९२ तस्यान्यार्थस्यान्यभावो राम शान्तविचारणे । विसर्गान्तश्च पूर्वार्धविपर्यासौ भविष्यतः॥ संकल्पितान्यथाभावो ह्यध्यायस्य समापने । काण्डादेस्तु समाप्तौ तु स्यात्तत्कार्यविनाशनम् ९४ तस्मादेतादृशे दोषे शकुनस्य विपर्ययः । क्षुते पुस्तकपाते च त्वाहते मस्तकादिषु ॥ ९५ वक्ता वैमाननं याति ततः शकुननाशनम् । तस्मादेतादृशे दोषे शकुनै परिवर्जयेत् ॥ ९६ उपमायां भवेद्राम कार्याभासो न वस्तुतः । संतानाम्भोन्यत्र चोक्ता सृष्टिर्मध्यफलप्रदा॥ स्तुतिः प्रशस्ता कुत्रापि गुणवक्ताऽपि निर्णये । विवाहे चौषधे दौने व्यवहारे कृषौ तथा ॥९॥ यथार्था च स्तुती राम निर्वाहेऽपि न दूषणम्। अयथार्था स्तुतिय हि तत्र कार्य न सिध्यति ९९ अबुद्धार्थे तथा पद्ये पुराणादिहदाढते(?) । पलायने देशभावे व्याधिसंभव एव च ।। चौरायभिभवे तस्मिन्घोरं कार्यविनाशनम् । शान्तः स्यायदि चेत्पश्न इति माहुः पुराविदः॥ श्रीरामचन्द्र उवाच- अबुद्धार्थ कथं पद्यं पुराणज्ञो वदिष्यति । अनुक्तो न श्रुतः सम्यक्श्रोतृणामिति निश्चयः॥ १०२ तदुदाह्रियतां मह्यमर्थश्चापि विचार्यताम् । भागाबोधकमप्यत्र वक्तुमर्हसि पण्डित ॥ शंभुरुवाच- मधूनि च मधून्यत्र मधुर्मधुभुज मधुः । मधुनामधुनादर्थविषाणि च विषाणि च ॥ १०४ १. तद्वयवि । २ झ. 'रिणी । त। ३ झ. स्थितविद्धतः । ४ क. प्रश्नल । ५. गर्थे किमि । ६ झ. प्रश्नोऽशु । ७ ८. कार्य । ८ अ. स्यानुभा । ९ झ. पूर्वोधिवि । १० झ. अ. तानं भो। ११ झ. स्तुतिः । १२ ट. देव । १३ झ. 'विहिदा । म. दिहिताह । १४ झ. वेद्यस्मि । १५ ञ, निश्चितः । १७ १०० शततमोऽध्यायः ] पद्मपुराणम् । ६७१ अबुद्धार्थस्त्वयं श्लोकः शकुने न हि शस्यते । रुते रुते रुते रोरौ रीरीरारंररीररम् ॥ १०५ एवं करोति शुद्धात्मा ब्राह्मणो ब्रह्मतोऽतिथिः। भागाबुद्धस्त्वयं श्लोकः शकुने न प्रशस्यते १०६ एवमादीनि पद्यानि पुराणेषु रघूत्तम । सन्ति तेषां न च व्याख्या तत्पाठस्तु परं भवेत् ॥१०७ वक्तुः श्रोतुरवैगुण्यं व्रतेषु नियमेषु च । वेदवच्च पुराणानि न चिन्त्यानि कथं त्विति ॥ १०८ त्रिरुक्तादिवशादर्थधीरप्यस्तु विचारतः । श्लोकार्थ प्रक्रियाश्चैव विचार्य पैरमार्थतः ॥ बलवांस्तत्र हि श्लोकः प्रक्रियौ तु ततो लघुः । वृथापत्रे वृथायासो दग्धपत्रे विनाशनम् ॥११० स्यादन्तरितनिर्वाहपत्रे कार्यविसूत्रता । शीर्णपत्रे व्यय(यः) प्रोक्तः प्रनष्टलिपिके तु वा ॥ १११ वृथाक्षरे वृथायासः पुनरुक्ते विसंविदे । उपमाने तु कार्य तत्सिध्यति वा न सिध्यति ॥ ११२ विलम्बेनाथवा सिद्धिरस्पष्टे चाक्षरे पुनः । कार्य संशयमामोति निर्दिष्टदिवसेष्वपि । ११३ न प्रत्यहं निरीक्षेत पुराणशकुनं नृप । भुक्त्वोत्तिष्ठंस्तथा नैव निरीक्षेत पुराणकम् ।। ११४ पूर्वस्य दिवसस्याथ रात्रौ पूजां विधाय च । प्रातःकाले परेयुश्च शकुने रघुनन्दन ॥ ११५ पश्चानिरीक्षणं कार्य सद्यःकालमथापि वा । प्रक्रियादिविशेषेण विशेषं शकुनं वदेत् ॥ ११६ शुभकार्येषु सर्वेषु प्रेतश्राद्धादिवर्जनम् । दण्डप्रणयनं शापो देशानां च विपर्ययः॥ ११७ रक्षसां दुष्टसत्त्वानां शुद्ध प्राणि(ण)विहिंसनम् । दहनादेव निर्माणं वमनं करुणं हृदि ॥ ११८ हासो बीभत्सता दुःखदुःस्वमभ्रमपापकाः । पटादिपूर्णनं पीडा कलहो मरणं तथा ॥ ११९ राणामागमश्चापि महतां भयमेव च । एवमाद्यास्तथा चान्याः प्रक्रियास्तु विवर्जयेत् ॥ १२० श्रियः प्राप्तिविचारे तु राजसृष्टिः सुखावहा । ग्रहाणामुदयो रोगशान्तिरप्यत्र शस्यते ॥ १२१ किमत्र बहुनोक्तेन तत्तद्योगं विचारयेत् । सर्वेषु च पुराणेषु स्कान्दमत्र प्रशस्यते ॥ १२२ वैष्णवं केचिदिच्छन्ति रामायणमथापरे । सत्यादिसर्वदोषाणां वैष्णवे नैव दोषता ॥ स्कान्दे रामायणे चैव दोषत्वमपि चाल्पता । किं तु पूजयितुं शक्यं वैष्णवं नैव केनचित् १२४ सदाचारविहीनेन पूजितं यदि चेद्भवेत् । तदाऽशुभमिवाऽऽयाति शकुनं नैव सिध्यति ॥ १२५ सर्वाचारसमोपेते शाखाबन्धे यथा वृषः ॥ १२६ सूत उवाच- इत्थं शंभुद्विजेनाथ बोधितो राघवस्तदा । विभीषणपरीक्षायां शकुनायोपचक्रमे ॥ १२७ वसिष्ठं सर्वतत्त्वहं पुराणेषु विशारदम् । बभाषे राघवो वाक्यं पुराणं वीक्ष्यतामिति ॥ १२८ वसिष्ठोऽप्याह रामं तं मुनेश्चामुष्य संनिधौ । वक्तुं निरीक्षितुं राम न शक्तिर्मम विद्यते ॥ १२९ शंभुं माह ततो रामो मुनिसंप्रेक्षिताननम् । भवन्तोऽपि हि तत्त्वज्ञाः पुराणेषु विशारदाः ॥१३० तदन्तु पुराणस्थं शकुनं मम कार्यतः। तथेति शंभुरुक्त्वा तु शुचिर्भूत्वाऽर्चकोऽभवत् ॥ १३१ स्कान्दमभ्यर्च्य विधिवत्मश्नं कृत्वेति तत्त्वतः । स किं शृङ्खलया बद्धो मम भक्तो विभीषणः ॥ अमी दृष्टास्तदा श्लोकास्त्रय आदेशकास्त्रिधा॥ १३२ बद्ध्वा समुद्रं स तु राघवेन्द्रो रुरोध गुप्तां क्षणदाचरेन्द्रान् । योढुं समागत्य समाययुस्ते लङ्कापुरस्थास्त्वतिकायमुख्याः ॥ १ क. म. 'ते रौरीरीरीरीरं रिरीरिरम् । २ अ. परमार्थवित् । ३ झ. 'यात्तु ल । ४ अ. के तथा । । ५ ट. 'नं रुदितस्तव । हा । ख. ड. 'न वपनं हृदि । हा । ६ अ. भमवाप्नोति । ७ ८. पुर्या । ८ झ. अ. 'रश्चाप्यति ।
- ६७२ महामुनिश्रीव्यासमणीतं- [४ पातालखण्डे- अदृशूला जनपदाः शिवशूला द्विजास्तथा । प्रमदाः केशशूलिन्यो भविष्यन्ति कलौ युगे ॥१३४ एवं स्तुतो महेशस्तु देवताः माह वै शिवः । मोचयिष्ये भवत्पत्नीर्मल्लासुरनिरोधिताः ॥ १३५ श्लोकत्रयं निरीक्ष्याथ बन्धनिश्चयमुक्तवान् । मोचनं त्वरया राम भविष्यति न संशयः ॥ १३६ इति श्रुत्वा मुनेर्वाक्यं रामः समुनिवानरः । कर्तुं विनिर्ययौ शीघ्रं विभीषणगवेषणम् ।। १३७ श्रीरङ्गनामनगरं त्वरया प्रविवेश ह । रामं ते पूजयामासुः पार्थिवास्तत्र ये स्थिताः ॥ १३८ पूजितस्तानुवाचाथ क स्थितोऽसौ विभीषणः । देव श्रीराम न वयं जानीमस्तु कथामिमाम् ॥ प्रेषयामास काकुत्स्थो वानरान्सर्वतोदिशम् । ततो गत्वा कपिवरा दृष्टवन्तो न वै बत ॥ १४० अथ रामो मुनिं पाह शंभुं पश्चाद्वदख मे । तथेति रामसहितो मुनिः शंभुर्द्विजान्वितः॥ १४१ दर्शयेति तथैवेति विप्रघोषं जगाम सः । पृष्टास्तत्र द्विजास्तेऽपि दर्शयामासुरर्चिताः ॥ १४२ अन्तर्भूमिगृहे बद्धं राक्षसं बहुशृङ्खलैः । अथाऽऽह राघवो विप्राः किमनेन कृतं त्विति ॥ १४३ तैरुक्तं ब्रह्महत्येति वृद्धब्राह्मणसंशितः। द्विजोऽतिधार्मिकः कश्चिदेकान्ते प्रवयाः कृशः ॥ १४४ ध्यानायोपवने तस्थौ तत्र गत्वा विभीषणः । पादेनाधर्षयद्विपं स विप्रोऽप्यतिचूर्णितः ॥ १४५ पदमेकमतो गन्तुं न शशाक विभीषणः । अस्माभिस्ताडितो दुष्टो न ममार वधैरपि । अतो राम वधित्वैनं पापात्मानं वृषीभव । रामः संशयमापनो विप्रानिदमुवाच ह ॥ १४७ श्रीराम उवाच- वरं ममैव मरणं मद्भक्तो हन्यते कथम् । राज्यमायुर्मया दत्तं तथैव स भविष्यति ॥ १४८ भृत्यापराधे सर्वत्र स्वामिनो दण्ड इष्यते । रामवाक्यं द्विजाः श्रुत्वा विस्मयादिदमब्रुवन् ॥१४९ द्विजा ऊचुः- न *पट्ट(द)बद्धमरणं भो राम मुनिसंमतम् । वसिष्ठादिमुनीन्द्रैस्तैर्विचारं कुरु यद्धितम् ॥ १५० रामपृष्टा मुनिवराः प्रायश्चित्तमथोचिरे । अज्ञानब्रह्महत्या तु प्रायश्चित्तैरपोद्यते ॥ १५१ इयमज्ञानतो हत्या प्रायश्चित्तमपेक्षते । गवां च त्रिशतं षष्टिं ददातु स विभीषणः ॥ १५२ बन्धकाश्चापि ते विप्रास्तथेत्यूचुः परस्परम् । मोचयिष्याम त(स्त)द्रक्षःप्रायश्चित्तं करोतु सः१५३ विमुच्य राक्षसं विप्रा राघवाय न्यवेदयन् । रामोऽपि नाभिभाषेत्तं प्रासङ्गिकमभाषत ॥ १५४ स्नात्वा पृष्ट्वा मुनीन्क्रुद्धान्पायश्चित्तमतः परम् । द्विजानुमतितः पापी मामुपैष्यतु राक्षसः ॥१५५ श्रुत्वेति राघववचो राक्षसः पापसंयुतः । प्रायश्चित्तमृषिमोक्तं कृत्वा राममथाभ्यगात् ॥ १५६ प्रायश्चित्तविशुद्धात्मा ननाम रघुनन्दनम् । रामस्तं प्रहसन्वाक्यमिदमाह सभान्तरे ॥ १५७ श्रीराम उवाच- अद्यप्रभृति पौलस्त्य विमृश्य कुरु यद्धितम् । अस्माकं त्वत्कृते रक्षः प्रयासोऽयमभूद्यतः॥ १५८ कृपालुर्भव सर्वत्र भृत्यो मम यतो भवान् । अथ ते मुनयः सर्वे निश्चितार्थे रघूत्तमे ॥ ऊचुरस्माकमज्ञानं कथं शीघ्रमुपागतम् ॥ १५९ श्रीशंभुरुवाच- विप्रावज्ञानतो विप्रा अज्ञानं 'ना समेष्यति । १६० * पदमिति कचित्पाठः ।। नाशमेष्यतीति कचिरपाठः ।
- १.१ एकाधिकशततमोऽध्यायः ] पद्मपुराणम् । ऋषय ऊचुः- बेतायुगेऽभिरामोऽसौ पुराणानि च कृत्स्नशः । द्वापरान्ते भारतं च कथमेतद्धि युज्यते ॥ १६१ सूत उवाच- पुराणानि तथाऽप्येवं सन्ति तन्नामकानि तु । व्यासेरितानि त्वथैव पुराणानि च नान्यथा ॥ अद्यापि च विधानं तत्पुराणश्रवणे फलम् । महाभारतमप्यत्र शकुनाय विशिष्यते ॥ आदिपर्वैकमभ्यर्च्य निरीक्षेत विनिश्चयम् । अथवा सर्वपर्वाणि प्रशस्तान्यर्थनिर्णये ॥ १६४ श्लोकादिलक्षणं सर्व पूर्वोक्तं तदिहापि तु । श्लोकानामन्वयादेकस्तात्पर्यादथवाऽपरः ॥ १६५ अर्थः संपतिपद्येत तात्पर्य तत्र गृह्यते । अर्थादेव हि सर्वत्र वस्त्वादेस्तु निरूपणम् ॥ १६६ यत्रार्थो दृश्यते तत्र स धातुः समुदाहृतः । अत्रार्थादेव शब्दानां *न मिथ्यैव निरूपणम् ।। सस्मात्सर्वत्र तात्पर्य ग्रहीतव्यं मनीषिभिः ।। १६७ इति श्रीमहापुराणे पाझे पातालखण्डे शिवराघवसंवादे शततमोऽध्यायः ॥ १० ॥ आदितः श्लोकानां समष्ट्यङ्काः-१७५१३ अथैकाधिकशततमोऽध्यायः । २ ३ ४ ५ ८ मुनय ऊचु:- अतः परं महाभाग किं चकार स राघवः । मुनयस्ते महात्मानः किमकुर्वस्ततः परम् ॥ सूत उवाच- रामचन्द्रे सुखासीने विभीषणकपीश्वरे । शंभुमूचुर्मुनिवराः कथा पुण्यां वदस्व नः ॥ तेषामाकर्ण्य तद्वाक्यं पार्वतीमाह शंकरः । इदं कस्यापि विप्रस्य गृहं परमशोभनम् ।। रम्योपवनवापीभिर्वीरुद्भिपशोभितम् । कूजन्मधुकरश्रेण्या ह्याहूतकुसुमायुधम् ॥ मध्याह्नसंध्यामारोदुमिव सूर्यः प्रवर्तते । गच्छ वापीजलस्नातौ परिधाय सुवाससी ।। मृगनाभिसमुघृष्टयनसारसुचन्दनम् । आलिप्य सल्लकीदामगूढधम्मिल्लसंयुतौ ॥ अनल्पघनसारं तु ताम्बूलं प्रतिखादितम् । आस्वाद्य माद्यन्मुदितौ यत्र धारागृहे शुभे ॥ मयूरनादबहुले बहिर्मधुरगीतकैः । शय्यायामास्तृतायां च परस्परमु(सु)खस्थितौ ॥ विशालस्मितरक्तौष्ठमाननं चुम्बितं यदि । संसारफलमाघ्रातमावयोस्तु भविष्यति ॥ इतीरितमथ श्रुत्वा कुपिता मुनयस्तु तम् । उक्तं वा सुशुभं वाक्यमस्मासु किमिदं त्वया ॥ १० 'पबलायःप्रियाशक्तिः कृतो(?) नो मद्वचः कृतम् । अथ कोपपराच्छंभोराननात्परमाइता ११ ज्वाला विनिर्गता साऽपि करालवदनाऽभवत् । कस्यचित्तु मुनेर्भार्यामाससादाथ सत्वरम् ॥१२ पलायनपरा चाऽऽसीद्रामं दृष्ट्वा च बिभ्यती । रामोऽपि ब्राह्मणी शुद्धां मोचयामीत्यभाषत।।१३ जगाम पुष्पकेणैव ब्रुवन्मुक्तिं पुनः पुनः । वाणं च धनुषा योक्तुं न च सस्मार राघवः ॥ शंभुरप्पतिपुण्यानि बनान्यायतनानि च । पुराणि च विचित्राणि दृष्ट्वा रामं न चास्मरत् ॥ १५ क्षणेन च तदा प्राप्तो लोकालोकं महागिरिम् । दृष्ट्वाऽथ राघवः शैलं गृहमार्गसमाकुलम् ॥ १६ * निर्मथ्येति कचित्पाठः । + प्रवला यत्र या शक्तिरिति कचित्पाठः । ९ १ म. पूज्यते । २ म. श्रुत्वा । ८५ ६७४ महामुनिश्रीव्यासप्रणीतं- [४ पातालखण्डे- विप्रयोषिन्महाभागाः क गता वदत द्विजाः । इतो गतेति ते पोचुस्तमोभागं गिरेरिति ।। १७ रामो विवर्णवदनः कष्टमित्यभिचिन्तयन् । अथ शंभुमहातेजाः प्रकाशमतुलं ददौ ।। १८ तत्प्रकाशप्रभावेन रामः कृत्यां ययावनु । तमोमयी महाभूमिः सर्वजन्तुविवर्जिता ॥ १९ आब्रह्माण्डकटाहान्ता शतयोजनकोटितः । महारजतभूमिश्च तमोमध्ये व्यवस्थिता । २० तत्र नारायणपुरं सूर्यकोटिसमप्रभम् । सराममुनिवर्यास्तु तं दृष्ट्वा विस्मयं ययुः ।। किमेतदिति चाऽऽचिन्त्य नः प्रवेशः कथं भवेत् । किमेष प्रलयामिः स्यान्मायया परमात्मनः२२ किंवा नो मरणं त्वद्य उत श्रेयो भविष्यति । इति चिन्ताकुलेष्वेव सराभेषु मुनिष्वथ ॥ २३ शंभुराह शृणुष्वाध राघवैतद्वदामि ते । प्रकल्पिता मया माया न कृत्या चैतदद्भुतम् ।। २४ नारायणीयमेतत्तु परमं धाम भास्वतम् । उष्णशीताधविच्छेद्यं ज्ञानगम्यं न चाक्षुषम् ॥ २५ तत्तु पूजयतचोर्ध्वं पश्य ब्रह्मपुरोगमान् । दिक्षु सर्वासु च मुनीन्पश्य पूजयतोऽमलान् ।। २६ चतुरः पश्य वेदांस्तु स्तुवतः परमं पदम् । योगिनः सनकाद्यास्तु योगमास्थाय यत्नतः ॥ २७ ध्यायन्ति परमं तेजस्तदिदं पश्य राघव । अमु च रोमशं पश्य प्रदक्षिणनमस्क्रियाः॥ २८ कुर्वाणं कोटिकोटीश्च वालखिल्यान्मुनीश्वरान् । लक्ष्म्यादिसर्ववनितापूज्यमानं परं पदम् ॥ २९ साकारं च निराकारं ब्रह्म यत्परिकीर्तितम् । अज्ञानिनो न पश्यन्ति पश्यन्ति ज्ञानचक्षुषः॥३० शंभुवाक्यादतः सर्वे पूजयामासुरच्युतम् । गिरिकर्णी च तुलसी शल्लक मारुतं तथा ॥ ३१ नीलोत्पलैरम्बुजैश्च कृष्णास्फुटजलैरपि । पूजयन्तो महात्मानो महात्मानं जनार्दनम् ।। ३२ नारदं खेऽथ ददृशुर्जटिलं सविपश्चिकम् । नारायणपदाघोषं लम्बकू!पवीतिनम् ॥ ३३ स चापि मनसा दध्यौ क एष इति नारदः । संपद्यातः प्रभोः पादे शंभोरानन्दनिर्भरे ॥ ३४ शैवीं पञ्चाक्षरी विद्यां जजाप मनसा मुनिः। धन्योऽस्म्यनुगृहीतोऽस्मि जन्माध सफलं मम ॥३५ ब्रह्मादिवन्धं चागम्यं ज्ञातवानस्मि ते पदम् । नारदं तमथ माह शंभुमैवं वदेति हि ॥ यथा च मां न जानन्ति तथा मे कुरु वर्तनम् । गच्छ शीघ्रं हरिं धूहि ममाऽऽगमनमल्पतः ।।३७ अथ स त्वरया गत्वा सर्व वाऽऽज्ञापयद्धरिम् । अथ स त्वरया विष्णुरादाया|दकं शुभम् ३८ कमलासहितो योगी(गि)कोटिकोटिसमावृतः । निर्ययौ नारदं हस्ते गृहीत्वा गरुडध्वजः ॥ ३९ नमो नमो नमोऽस्त्वस्मै शंकरायेत्युदीरयन् । अर्घपायादिना सर्वान्पूजयामास केशवः ॥ मावेशयदमेयात्मा नारायणपुरं शुभम् । गृहराजे ततः स्थित्वा नारायण उवाच ह ॥ नारायण उवाच- कथमेते समायाताः कोऽयं राजा महायशाः । अमानुषप्रवे(दे)शोऽयं ब्रह्मादेरप्यगोचरः॥ ४२ शंभुरुवाच- मुनिवेगा यथा प्राप्ता वयमेते नृपस्तथा । तवांशो नृपतिश्चायं रामचन्द्रः प्रतापवान् ॥ ४३ ऐना संवीक्षितुं पत्नी तव केशव का क्षतिः । नारायणस्तथेत्युक्त्वा प्रविशेत्याह राघवम् ॥ ४४ अथ प्रविश्य भवनं लक्ष्मी वीक्ष्य नमस्य च । विनयावनतो भूत्वा वाक्यमाह सुचारिणीम् ४५ श्रीराम उवाच- कृतार्थोऽस्मि न संदेहो वद त्वं तु मन्यसे । १ क. शीघ्रतरं पूं। २ २. लक्ष्मी । ३ म. क्ष्य सनातनीम् । वि।
५२ ५४ ६० १०१ एकाधिकशततमोऽध्यायः ] पद्मपुराणम् । श्रीदेव्युवाच- त्वं युवा कामकृष्टश्च रूपवानसि राघव । सीता सा चारुसर्वाङ्गी तव पत्नी तया भवान् ॥ ४७ वियुक्तोऽसि पुरा वाऽऽसीदतीव विरहाकुलः । ममापि वद सर्व तदथवा न च लप्स्यसि ॥४८ सहासान्यथ वाक्यानि यूनां चित्तहराणि च ।श्रुत्वा तु तानि सर्वाणि रामभद्रो यतात्मवान् ४९ निर्गन्तुं काङ्गते तत्र त्वानम्य तन्मुखाम्बुजम् । स्मरबाणेन पोन संपीड्य रघुशेखरम् ॥ ५० अम्बेव निर्ययौ देवी पैया पनवनप्रिया । एकपत्नीव्रतं ज्ञात्वा रामं ते समुपागमन् ॥ अथ वेपितसर्वाङ्ग स्खलत्पदगात नृपम् । शिवनारायणौ दृष्ट्वा विस्मयं परमं गतौ ॥ अहोऽस्य द्रढिमा चित्ते मायिनोऽप्यवशात्मनः । धैर्य पश्येह नियतं तेन रामः सुकीर्तिमान्॥५३ सर्वतः शिवमेवास्य नाशिवं विद्यते कचित् । अथ रामो वचः प्राह गच्छेऽहं भगवन्मभो ॥ अनुज्ञातोऽथ हरिणा पुष्पकेण स राघवः । समुनिः सहशंभुश्च सहनारायणी ययौ ॥ लोकालोकं गतः शीघ्रं ततः स्वादूदधिं गतः । ततो द्वीपसमुद्रांश्च जम्बूद्वीपं पुनर्गतः ॥ भरद्वाजाश्रमपदे तस्थिवान्गौतमीतटे । अथ स्नात्वा महानद्यां भरद्वाजो मुनीश्वरः ॥ शिष्यैः परिवृतः श्रीमान्पुष्पकं दृष्टवान्मुनिः । तत्र रामं महाबाहुं शिवनारायणावृषीन् । ५८ यथावत्पूजयित्वा तु तानुवाच महामुनिः । ममाऽऽश्रमपदे यूयं भोक्तुमर्हथ सत्तमाः॥ रामस्तु मुनिवाक्येन तथेत्याह कथंचन । अथ स्नात्वा महानयों कृत्वा देवादितर्पणम् ।। भोक्तुकाम तथा रामं वसिष्ठो वाक्यमुक्तवान् । धर्मत्यागो भवेद्राम न श्रादं क्रियते यदि ॥ ६१ राम उवाच- अमायां ग्रहणे तीर्थे व्यतीपाते च संक्रमे । व्यतीतं यदि चेच्च्याद्धं भगवन्क्रियते पुनः ॥ ६२ नित्यश्राद्धं पुनर्नैव कुर्यादिति वचस्तव । यथा ममैव मातॄणां मरणे समुपस्थिते । ६३ आशौचे च समायाते नित्यश्राद्धं न कृतम् । व्यतीपातादिकालेषु कृतं तु वचनात्तव ॥ ६४ बसिष्ठ उवाच- एते हि मुनयः सर्वे तथा शंभुरयं द्विजः । एतन्मुखादशेषेण निर्णयस्तु भषिष्यति ॥ ६५ सह सर्वे विनिश्चित्य मुनयः शंभुमब्रुवन् । वदामाकमशेषं त्वं द्विजवर्य महानसि ॥ शंभुरुवाच- त्यक्तव्यं यच्च वै श्राद्धं पुनः कार्यमथैव च । मूतके समनुप्राप्ते विघ्नेषु च बदाम्यहम् ॥ मासिकान्युदकुम्भानि श्राद्धानि प्रसवेषु च । प्रतिसंवत्सरं श्राद्धं सूतकानन्तरं विदुः ।। त्यक्तान्यन्यानि यावन्ति सूतके विघ्नसंभवे । अनन्तरं हि कार्याणि सर्वाणि च न संशयः ॥ ६९ मासिकानि समस्तानि श्राद्धं प्रत्याब्दिकं तथा । सूतकानन्तरं कार्य विनेऽन्यस्मिन्यतोऽन्यथा ७० एकादश्यां कृष्णपक्षे कर्तव्यं शुभमिच्छता । तत्र व्यतिक्रमे हेतावमायां क्रियते तु तत् ॥ यथोत्तरदिनेष्वेव कर्तव्यं यद्यविघ्नतः । कृष्णपक्षे त्वमायां तु कर्तव्यं राम नो कृतम् ॥ मृताहस्य यदा मासो न ज्ञायेत कथंचन । मार्गशीर्षेऽथवा माघे श्राद्ध तदिवसे स्मृतम् ॥ ७३ यदा तु वासराजानं माँसज्ञानमथैव च । अमायामेव तन्मासे श्राद सांवत्सरं भवेत् ।। - म. लिप्यसि । २ . सि । साहसा । ३ ट. सदा । ४ उ. णोऽन्ययः । लौ । ५ स. म. यो भरद्वाजो मुनी- श्वरः । भो । ६ म. प्र. यदि वि। ७ स. मासाशा।
८२ ८४ ६७६ महामुनिश्रीव्यासप्रणीत- [ ४ पातालखण्डे- दिनमासापरिनाने मोषितस्य मृतस्य च । तत्तिथ्यां तदिनं ग्राह्यं [*तत्राज्ञानं यदा भवेत् ।। ७५ आश्विनामा च मार्गामा माघामा च दिनत्रयम् । तत्र वाऽन्यतमं ग्राह्यं] दिनमासाप्रतीतितः॥७६ वृद्धीय+ सेवैस्यमंत(?)प्रेतश्राद्धानुमासिकम् । नित्योदकुम्भश्राद्धं च मासे स्युरधिकेऽपि च ॥७७ ग्रहणे पुत्रजन्मादौ कर्मण्यपि च शान्तिके । संकल्पिते च सर्वस्मिन्नधिमासे(सो) न दुष्यति ७८ रोगी यदा मनुष्यः स्याच्छ्राद्धकर्मण्युपस्थिते। भार्या वा भ्रातरं वाऽपि शिष्यं चापि नियोजयेत् ॥ तेस्य भावे न हानिः स्यात्कर्मणः श्राद्धसंज्ञिनः । नित्यश्राद्धे यथाशक्ति भोक्तारं तु नियोजयेत्॥ अमावास्यामासिकं च मृताहव्यतिरेकतः । स्वयं कर्मण्यशक्तश्चेत्सुतं विप्रं नियोजयेत् ॥ ८१ राजकार्येण युक्तस्य दास(स्य)ग्रहणवर्तिनः । व्यसनेषु समस्तेषु श्राद्धं विप्रेण कारयेत् ॥ प्रातःकाले तु न श्राद्धं प्रकुर्वन्ति द्विजोत्तमाः । नैमित्तिकेषु श्राद्धेषु न कालनियमः स्मृतः ८३ गृहादिव्यतिरिक्तस्य प्रक्रमः कुतपः स्मृतः । कुतपादथवाऽप्यर्वागासन्नकुतपो भवेत् ॥ मासे मासे यथा श्राद्धेऽपराहस्पृग्विधीयते । अपराह्णव्यापिनी स्यादुभयत्र यदा त्वमा ॥ ८५ क्षये पूर्वा तु कर्तव्या वृद्धौ साम्ये परा स्मृता । अमावास्या तु या हि स्यादपराह्नद्रये समा॥८६ क्षये पूर्वा परा वृद्ध साम्येऽपि च परा भवेत् । क्षीणस्तु चन्द्रमा यत्र तत्र श्राद्धं तु पार्वणम् ॥८७ अमाष्टभागे सूक्ष्मोऽसौ भूताष्टांशे स नास्ति चेत् । मध्याह्नव्यापिनी या स्यादेकोद्दिष्टे तिथिर्भवेत् सायाह्नव्यापिनी या स्यात्पावणे सा तिथिर्भवेत् । अल्पापराह्नगा याऽमा ग्राह्या श्राद्धादिके भवेत् मृताहे त्रिमुहूर्ता च सायंकाले तिथिर्भवेत् । परे ह्यस्तं गता यत्र त्रिमुहूर्त तु पूर्ववत् ॥ तत्रापरेयुः श्राद्धं स्याज्ज्येष्ठपुत्रस्य नाशनम् । अमाश्राद्धं यथा कुर्यान्मृताहे समुपस्थिते ॥ मध्याह्नव्यापिनी तत्र ह्यद्विजस्य विधीयते ॥ श्रीराम उवाच- श्रादक्रममशेषेण मर्त्यकर्मक्रमं तथा । प्रासङ्गिकानां धर्माणां निर्णय वक्तुमर्हसि ॥ शंभुरुवाच- श्राद्धस्य दिवसे प्राप्ते पूर्वेद्यनियमान्वितः । न्य(नि)मन्त्रयीत विप्रेन्द्रान्विप्रलक्षणसंयुतान् ॥ ९३ एकभुक्तं ब्रह्मचर्यमन्त्यजाद्यैरभाषणम् । दन्तधावनमभ्यङ्गनखकेशनिकृन्तनम् ॥ कर्ता कुर्वीत पूर्वेद्युस्त्यक्त्वा चैव परेऽहनि । गृह्णीत नियमानुक्तान्सर्वमेतत्परित्यजेत् ॥ त्रिकालं चैव पूजा चेत्मातर्देवं यजेत्स्वकम् । अरुणोदयवेलायां करोति यदि पूजनम् ॥ ९६ अधाशायी तथाभूतः प्रातरुत्थाय कर्मवित् । प्रातस्त्यमपि यत्कर्म तत्कृत्वा स्नानपूर्वकम् । ९७ ऋणत्रयविनिर्मुक्तो यास्यति ब्रह्म तत्परम् । सूर्यस्योदयवेलायी शिवपूजां करोति यः ॥ सूर्येण समतेजस्वी शिवलोके महीयते । उदिते भास्करे पश्चाबटिकान्तरपूजनम् ॥ रुद्रेण समतेजस्वी शिवलोके महीयते । द्वितीयघटिकायां तु यदि पूजनमीशितुः ॥ वायुना समतेजस्वी शिवलोके महीयते । तृतीयघटिकायां तु शिवपूजां समाचरेत् ।। १०१ कुबेरसमतेजस्वी शिवलोके महीयते । चतुर्थीपञ्चमीषष्ठीसप्तमीघटिकासु यः॥ १०२. * धनुचिहान्तर्गतः पाठः ख. ड. च. छ. अ. ट. ड. पुस्तकस्थः । + सवश्यं मन्तेति क्वचित्पाठः । १ झ. त्तिथिर्वा दिनं । अ. 'त्तिथी त । २ अ. सव्यसंम। ३ घ. वस्य मं°। ४ झ. अ. सर्वेऽस्मि । ५ अ. तस्यामा । ६ अ. रोकि यत् । स्व । ७ झ. दार्थप्र। ८ क. ले यदा भवें । ९झ म. एकभक्तं । १० अ. 'यां करोति यदि पूजनम् । सू। ११ ट. कुमार । ९२ ९८ ९९ १०१ एकाधिकशततमोऽध्यायः ] पद्मपुराणम् । शिवं पूजयते भक्त्या शिवलोके मरुत्समः । तत्काल एव क्रियते पूजा यत्कालचोदिता ॥१०३ यथाप्रतिज्ञमथ वा गृहीतनियमो यजेत् । उपचारेषु शक्त्या वै नियम परिपालयेत् ॥ नियमातिक्रमे वाऽपि योगश्च स्याद्विभो यदि ॥ १०४ राम उवाच- क पूजा देवदेवस्य शंकरस्यामितौजसः । स्मरणात्पापनाशस्य स्मरणान्मोक्षदस्य च ॥ शिवस्य शिवरूपस्य शिवतत्त्वार्थवेदिनः । सोमस्य सोमभूषस्य सोमनेत्रस्य राजिसु(तुः)॥१०६ वेदमूर्तेरमूर्तेश्च वेदसारस्य वेदिनः । वेदवेदाङ्गविज्ञस्य वेद्यावेद्यस्य योगिनः॥ १०७ गोक्षीरसमदेहस्य गोक्षीरस्नानमोदिनः । गोपत्रिणस्त्रिनेत्रस्य त्रयीनेत्रस्य मायिनः ।। १०८ प्रश्नमध्ये तथा रामं शिवज्ञानमथाऽऽविशत् । स्थाणुभूत इवाऽऽसीनो नासाग्रन्यस्तलोचनः१०९ आनन्दनिष्यन्दविलोचनाश्रुपवाहसंस्पृष्टकपोलदेशः । दधार देवं गिरिशं हृदम्बुजे गोक्षीरसुस्निग्धसुचारुगात्रम् ॥ प्रतिबिम्बमथो गात्रे रामस्य समदृश्यत । दृष्ट्वैव बिम्बितं शंभुं चतुर्बाहुं त्रिलोचनम् ॥ १११ विस्मयं परमं याताः सर्वे मुनिहरीश्वराः । शंभीर्वक्षःस्थितं रामं दृष्ट्वा दीप्ताकृति शुभम् ॥ ११२ तूष्णीं बभूवुर्यामार्धमथ राम उदैवत । स्वप्रश्नमनुसंधाय प्राह सर्व वदेति च ।। शंभुरुवाच- अचले या सदा पूजा चले वाऽपि यथेच्छया । लिङ्गे संपूजनं मुख्यमलाभे प्रतिमादिषु ॥ ११४ अधिकारविशेषेण तत्र तत्रापि पूजनम् । विगुणं सगुणं वाऽपि सफलं लिङ्गपूजनम् ।। ११५ प्रतिमादिकृता पूजा विगुणा सफला न हि । अचले वा चले वाऽपि पूजा लिङ्ग प्रशस्यते ११६ चलस्य पूजनं वक्ष्ये स्थापनोद्वासने तथा । ते उभे न विजानाति कश्चिन्मुनिरपि कचित् ॥ ११७ स्थापयन्ति हृदब्जे वै गोपयन्ति यजन्ति च । उदासयन्ति देवेशं शंकरं योगिनः सदा ॥ ११८ क्रिया चातीव होतॄणां वह्नौ देवं त्रियम्बकम् । पूजकानामशेषाणां शिवलिङ्गे महेश्वरम् ॥ ११९ लिङ्गस्य स्थापनं पूजाऽप्युद्वासनमथैव च । धारणं शंकरस्यैव लिङ्गमेव महेश्वरम् ॥ १२० संजिक परमोत्कृष्टं स्वर्ण चैव विनिर्मितम् । राजतैर्वा दलैः कार्य राजतेर्वैणवैस्तु या(तया)१२१ लतासूत्रैरयो वाऽपि रचितं दारुणाऽथवा । वस्त्रेण वाऽथ रचितं मृदा विरचितं भवेत् ॥ १२२ तत्र संवेष्ट्य वस्त्रेण सुगन्धेन समन्विते । धौतवस्त्रयुगे शुद्ध मद्वासनसमन्विते ॥ शीतोष्णरहिते पादचतुष्टयसमन्विते । प्रावृत्तिच्छेदनोपेते क्रिमिकीटविवर्जिते ॥ १२४ धौतेन मृदुवस्त्रेण सर्वतो वेष्ट्य तं शिवम् । विन्यस्य सज्जिकामध्ये प्रवृत्य च पुनर्विभुम् ॥ १२५ एषा हि सज्जिका राम देवस्याग्रेऽति कीर्तिता । तस्य च स्थापनं पाठो रहस्ये च महेशितुः॥१२६ अथवा भित्तिमूले स्यादेववेद्यामथापि वा । सुरक्षिते तथा देशे रक्षकं च नियोजयेत् ॥ १२८ माणादेवाविनाभावं कुर्वीत नियमैः सह । एतद्धि राजसं प्रोक्तं स्थापनं परमात्मनः ॥ १२९ सात्त्विकं स्वसमीपस्थं धारणं तामसं पुनः । धारणं गात्रसंस्पर्शमैथवा देहगोपनम् ॥ मस्तके धारणं मुख्यं ब्रह्मणा च तथा कृतम् । विन्यस्य मुकुटस्यान्ते धारणं शुभमुच्यते ॥ १३० ललाटे धारणं शस्तं यथा लक्ष्म्या धृतं शुभम् । बाणेन च धृतं मूर्ति दक्षिणोरसि वा पुनः॥१३१ १ ट. महीयते । २ ख. पवासेषु । ३ अ. योगश्च । ४ ट. 'स्य शुद्धने । ५ अ. योगिनं। ६ अ. संज्ञिकं । ७ म. 'द्धे मृद्वा । ८. नर्भवम् । ९ अ.मर्थक दें।
१३६ ॥ ६७८ महामुनिश्रीव्यासपणीत- [४ पातालखण्डे- कर्णे च हरिकर्णेन मुनिना परमर्षिणा । विनिर्भिद्य तथा गात्रं लोहस्थानं प्रकल्प्य च ॥ १३२ धारयन्ति तथा लिङ्गं राक्षसाः केचिदुत्तमाः।अनिकेतनमानामशक्तानां शिरोदति(धृतिः)१३३ अधमाधममाख्यातं नीवीबन्धादिधारणम् । तेषु तूच्छिष्टसंप्राप्तौ मस्तके धारणं भवेत् ॥ अधमाधमवृत्तीनां सदा वै लिङ्गधारणम् । पापिनामपि चाऽऽश्चर्य यमलोको न विद्यते ॥ १३५ श्रीराम उवाच- चित्रगुप्तेन लिखिता ललाटे या लिपिढा । तया लिप्या तु नियतं नरकं कथमन्यथा ॥ करोति पूजन शंभोः पापं नाशयते कथम् ।। १३७ शंभुरुवाच- पापं नाशयते कृत्स्नमपि जन्मशतार्जितम् । भर्त्सनात्सर्वपापानां स्मरणाच्च महेशितुः ।। १३८ भस्मेतीदृशमाख्यातं तस्य धारणमुत्तमे । यथाविधि ललाटे वै वह्निवीर्यप्रधारणात् ॥ १३९ नाशयेल्लिखितां यामी पटस्थामिव हव्यभुक् । कर्णोपरि कृतं पापं नष्टं स्यान्मुखधारणात् ॥ १४० कण्ठे च धारणात्कण्ठभोगादिकृतपातकम् । बाहोर्बाहुकृतं पापं वक्षास मनसा कृतम् १४१ नाभ्यां शिश्नकृतं पापं पृष्ठे गुदकृतं तथा । पार्श्वयोर्धारणाद्राम परस्त्र्यालिङ्गनादिजम् ॥ १४२ तद्भस्मधारणं शस्तं सर्वत्रैव त्रिपुण्ड्रकम् । ब्रह्मविष्णुमहेशानां त्रय्यग्नीनां च धारणम् ॥ १४३ गुप्त्यै लोकत्रयाणां च धारणं तेन वै कृतम् । धृतं पञ्चदशस्थाने शुद्धं भस्माभिमत्रितम् ॥ १४४ कोष्ठयुग्मे बाहुयुग्मे कोष्ठोपरि युगे तथा । धारणं सर्वदेहानां पूजायै धर्मसंमतम् ॥ १४५ भस्माशना भस्मशय्या भस्मोद्धूलितविग्रहाः। भस्मस्नानाः सदा पापैर्मुच्यन्ते नात्र संशयः ॥१४६ आदौ ब्राह्मणदीक्षायां त्रियायुषमिति स्मृतम् । प्रसवे च मनुष्याणां भूतावेशेऽपि रक्षकम् ॥ १४७ सादिविषहान्यर्थं सर्वेषां साधनं त्विदम् । अपि वा वैष्णवो मर्त्य अपि वाऽपीतरो जनः॥१४८ भस्मस्नायी भस्मयुक्तः कर्मस्वधिकरोति वै ॥ राम उवाच- भस्ममाहात्म्यमादौ मे भस्माऽऽयुष्यं हि कस्य वै । कथं हि रक्षते ह्येतत्सर्वमेतद्वदस्व मे ॥ शंभुरुवाच- आयुष्यवर्धने हेतुस्विविधस्यापि देहिनः । पापघ्नं शीतमुष्णं च स्पर्शाच्छिवपदमदम् ॥ १५१ तत्र ते कीर्तयिष्यामि चेतिहासं पुरातनम् । आसीद्वासिष्ठवंश्यस्तु धनंजय इति द्विजः ॥ १५२ तस्य भार्याशतं चाऽऽसीद्रूपलावण्यसंयुतम् । तासामेका तु सुषुवे शाभाका करुणं मुनिम् १५३ भार्याणां संख्यया राम सुताश्चाऽऽसंस्तपस्विनः। तेषां विभागः पित्रा च विषयः परिकल्पितः ।। भ्रातॄणां च तथा ह्येव वैरबन्धो महानभूत् । ज्ञातित्वे चैकनाशित्वे वैरं नियतमेव तु ।। १५५ अथासौ करुणो गत्वा भवनाशिनिकातटे । नानामुनिगणैः सार्ध नरसिंहदिक्षया । १५६ नृसिंहदर्शनार्थ तु ब्राह्मणेन च केनचित् । उत्कृष्टफलजम्बीरमानीतं गन्धरूपवत् ॥ १५७ करुणस्तु तदादाय आजिघ्रत्फलमुत्तमम् । तत्र स्थिता द्विजगणाः शापेन तमयोजयन् ॥ १५८ मक्षिका भव पापात्मन्वर्षाणां शतमप्यतः । शापावसानं भविता दधीचेन महात्मना । अथ मक्षिकता प्राप्तो भार्यामिदमभाषत । मक्षिकात्वमहं प्राप्तो मां शुभे पालयस्व भोः ॥ १६० इत्युक्त्वा स तथाभूतो बभ्राम च ततस्ततः । अथैवं विधमानाय ज्ञातयः पापनिश्चयाः ॥ १६१ १ म. रोदिति । २ छ. ड. शलाका । म. द. शामाका । १४९ - १५९ १०१ एकाधिकशततमोऽध्यायः ] पद्मपुराणम् । तद्वधे यत्नमास्थाय तैलमध्ये ह्यपातयन् । मृतं पतिमथाऽऽदाय दुःखिता सा कृशोदरी ॥ १६२ तहुःखशमनार्थाय प्राह देवी त्वरुन्धती । अमुं संजीवयाम्यद्य भस्मनैव शुचिस्मिते ॥ अथानिहोत्र भस्म अरुन्धत्यै न्यवेदयत् । मृत्युंजयेन मत्रेण मृतजन्तौ तथाऽक्षिपत् ॥ १६४ मन्दवायुस्तदा जज्ञे व्यजनेन शुचिस्मिता । [*उदतिष्ठत्ततो जन्तुर्भस्मनोऽस्य प्रभावतः ॥ १६५ ततो वर्षशते पूर्णे ज्ञातिरेको ह्यमारयत् । मृते भर्तरि सा साध्वी दुःखिता च शुचिस्मिता] १६६ दधीच नाम विप्रेन्द्रं महामाहेश्वरं मुनिम् । जगाम शरणं साध्वी मुनिः स ह तपोधनः ॥ १६७ त्रियायुषा विहीनं तु जमदग्निं तपोनिधिम् । भस्मैच जीवयामास कश्यपं च तथाविधम् ॥ १६८ देवानपि तथाभूतान्मामप्येतादृशं पुरा । तस्मात्तु भस्मना जन्तुं जीवयामि तवानघे ॥ इत्येवमुक्त्वा भगवान्दधीचो महेश्वरं वै शरणं जगाम । भस्माभिमन्याथ करे गृहीत्वा संजीवयामास धवं सुसाव्याः ॥ माहेशस्य करस्पर्शाद्विशापः करुणोऽभवत् । स्वरूप च ततो गत्वा स्वमाश्रमपदं ययौ ॥ १७१ दधीचमपि सा साध्वी गृहमानीय भोजने । प्रार्थयामास विप्रर्षिमुक्तवानथ स द्विजः ॥ १७२ भुक्तवत्यथ विपेन्द्र कोटिशिष्याः समागताः । अथ देवाः समायाता भस्मोद्धूलितविग्रहाः नमस्कृत्वा दधीचं तु पप्रच्छुः शिवकाङ्क्षया । १७३ देवा ऊचुः- अस्माकं तु पुराज्ञानं नष्टमासीन्महामते । गौतमस्य च भार्या वै दृष्ट्वा कामातुरा वयम् ॥ १७४ तथा च धर्षिता देवी विवाहकृतमङ्गला । तां वै कामयमानानां नष्टं ज्ञानमभूच नः ॥ १७५ ततः सर्वे वयं भीता गता दुर्वाससं मुनिम् । स उवाचाधुना सर्वमपनेष्यामि वो मलम् ॥ १७६ शतरुद्रीयमत्रेण मत्रितं शंभुना स्वयम् । ममापि दत्तं तेनैव ब्रह्महत्यादिशान्तये ॥ इत्येवमुक्त्वा दुर्वासा दत्तवान्भस्म चोत्तमम् । अथ तद्वचनात्सर्वे वयं वैकृतचेतनाः ॥ शतरुद्रीयमत्रेण भस्मोद्धूलितविग्रहाः ॥ १७८ निधूतपातकाः सर्वे तत्क्षणाच्चैव हे मुने । आश्चर्यमेतज्जानीमो भस्मसामर्थ्यमीदृशम् ॥ १७९ दधीच उवाच- शैवस्य भस्मनः शक्तिं संक्षेपेण वदामि वः । विस्तरेण न शक्यं वै वक्तुं वर्षशतैरपि ॥ १८० अत्र वः कीर्तयिष्यामि पुरावृत्तं तु देवयोः । हरिशंकरयोः सर्वे ब्रह्महत्यादिनाशनम् ॥ १८१ पुरा चैकार्णवे घोरे ब्रह्मणः प्रलये सति । महाविष्णुस्तु भगवाञ्शयितो वै महाम्भसि ॥ १८२ तस्य पार्श्वयं प्राप्य(प्त) ब्रह्माण्डानां शतद्वयम् । विंशतिः पादयोः पार्थे विंशतिर्मस्तकान्तरे ॥ नासामौक्तिकभावेन ब्रह्माण्डमदधात्प्रभुः । तन्नाभिमण्डले केचिल्लोमशाद्या मुनीश्वराः॥ १८४ तपस्तपन्तः सुमहदीश्वरं पर्युपासते । अथ विष्णुमहातेजाश्चिन्तामाप सिसृक्षया । १८५ ध्यानयोगपरो भूत्वा न किंचित्पर्यपश्यत । अथ दुःखेन महता रुरोदोच्चैः पुनः पुनः॥ १८६ एतस्मिन्नन्तरे दीप्तिः काचिल्लोकविलक्षणा । दृष्ट्वा च हरिणा भीत्या लोचने च निमीलिते १८७ १८८ आगम्यमानो गोक्षीरसमतेजाः सुगात्रवान् । संग्रथ्य कोटिब्रह्माण्डदामयुग्मं करद्वये ॥ * धनुश्चिान्तर्गतः पाठः ख ड. च. अ. ट. ड. पुस्तकस्थः । । अ. पुस्तकातिरिक्तपुस्तकेषु तथा नेति पाठः । १ अ. मुनिराह । २ म. वमम्बिकाम् ।
महामुनिश्रीव्यासप्रणीतं- [४ पातालखण्डे- दधानमुरसा धाम कोटिब्रह्माण्डकल्पितम् । ब्रह्माण्डमेकं न्यपतदुत्पतञ्च करद्वये ॥ १८९ सर्वाभरणसंयुक्तं तथाभूतं तमव्ययम् । विष्णुस्तुष्टाव चादृष्ट्वा दर्शनाय च तस्य वै ॥ विष्णुरुवाच- नमस्ते देवदेवेश नमस्ते शाश्वताव्यय । न जानेऽहं भवन्तं भोस्त्वं च वेत्सि नमो नमः ॥१९१ जानामि न च ते भावं दुनिरीक्ष्या च ते द्युतिः । माणिक्यकुण्डलं हेमदामजालविभूषितम्१९२ रत्नाङ्गुलीयं सुभगं बाहुकोष्ठसुभूषणम् । तनुरक्तोत्त(ष्ट)माकर्णदीर्घायतविलोचनम् ॥ बाणलोचनसंकाशं भाललोचनमव्ययम् । कंदर्पकार्मुकभ्रान्तिजनकध्रुवमीश्वरम् ।। स्निग्धोन्नतसुर्चावङ्गनासमच्छकपोलकम् । मन्दस्मितं प्रसन्नास्यं बालेन्दुदर्शनं विभुम् ॥ विज्ञानरक्तवसनं वेदकल्पितंभूषणम् । शरणं त्वां प्रपन्नोऽस्मि चक्षुर्मे दीयतां विभो । १९६ दीनान्धकृपणाज्ञाननष्टस्य शरणं भव । अथ दिव्यं ददौ चक्षुः स्वात्मदर्शनशक्तिमत् ॥ १९७ अथ दृष्ट्वा हरिः शंभु त्रिनेत्रं पुरतः स्थितम् । को भवानित्युवाचाथ न जाने त्वां महायशाः ॥ प्रणामं केवलं कर्तुं शक्तोऽस्मि न हि वेदितुम् ॥ सदाशिव उवाच- तव ज्ञानं प्रदास्यामि कुरु स्नानं च वारुणम् । भस्मस्नानं ततः पश्चात्ततो ज्ञानं ददामि ते २०० भगवानुवाच- मत्स्नानयोग्यं सलिलं न च तिष्ठति कुत्रचित् । इत्युक्तोऽथ निषण्णस्तु ब्रह्माण्डासक्तविग्रहः ॥ ऊरुदनजले स्नानं न योग्यमभवद्धरेः । शंभुर्जहास स्नानाय जलमत्यधिकं बहो । दधीच उवाच- अथ देवः शिवो विष्णुं भालाक्षेण व्यलोकयत् । विलीनसूक्ष्मावयवं वामाक्षेण व्यलोकय०३ ततः सूक्ष्मतनुर्विष्णुः शीतदेहश्च शंभुना । उक्तश्च नाहि भो विष्णो इद एष विकल्पितः २०४ ततो इदे हरिः स्नातुं हराङ्के कल्पिते तथा । प्रवेष्टुं न शशाकाथ गम्भीरे तद्धदेऽस्य तु॥२०५ हरिराह च नो पन्था इदस्यास्य प्रवेशने । मार्गो मे दीयतां देव ह्यथ शंभुस्तमब्रवीत् ॥ २०६ शंभुरुवाच- कोटियोजनगम्भीरं जलमेतन्महत्पुरा । निविष्टस्यैव भवत ऊरुदघ्नं जलं विभो ॥ इदानीं तिष्ठतश्चापि न प्रवेशो हृदे कथम् । अष्टाङ्गुलप्रमाणोऽयमूरुस्तस्मिन्हदे च मे ॥ पश्यामि प्रविश त्वं च पादस्पर्श ददामि ते । वाक्यमेकं तु सोपानं वेदं मद्वाक्यनिःसृतम्॥२०९ हरिरुवाच- शब्दारोहणसामर्थ्य कस्यापीह न विद्यते । मूर्तस्याऽऽरोहणं शक्यं ग्रहणं वा कथं श्रुतेः ॥२१० २०२ २०७ २०८ शंभुरुवाच - पुंसः शक्तिर्न वस्तूनां धारणारोहणादिषु । गृहाणेमं महावेदं जग्राह हरिरेप्यथ ।। २११ नम्रकरश्वाशक्तेहिं पतन्निव जनार्दनः । न च शक्यं मया धर्तुमिति माह शिवं हरिः ॥ शिवः प्रहस्य 'निपतीपात्यतीव(?) महाहदे । तत्सोपानमथाऽऽरुह्य स्नातुमर्हसि केशव ॥ २१३ २१२ * निपत्तीपासतीवेति क्वचित्पाठः । १ छ. ट. . तनपुरम् । २ ख. रव्ययः । न । ड. रव्ययम् । न ।
२२० २२१ - १०१ एकाधिकशततमोऽध्यायः ] पद्मपुराणम् । ६८१ दधीच उवाच- वेदे सोपानभूते हि ऊरुदघ्नोपलब्धिनि । तत्र स्नात्वा स विधिना बहिरुत्तीर्य चोक्तवान् ।।२१४ स्नातोऽस्मि किमतः कार्य शंभुराह हरिं ततः । ध्यायसे हृदये किं त्वं न च किंचिद्वदस्व मे ॥ हरिन किंचिदित्याह खथ शंभुरुवाच ह । भस्मस्नानेन संशुद्धो वेत्स्यसे परमं शुभम् ।। दीक्षितस्य हि तच्छस्तं तद्रक्षां करवाण्यहम् ॥ दधीच उवाच- स्ववक्षःस्थितभस्मैक नखेनाऽऽदाय शंकरः । प्रणवेनाभिमन्व्याथ गायत्र्या ब्रह्मभूतया ॥ २१७ अङ्गुलीभ्यामथो गृह्य शिवः पश्चाक्षरेण वै । हरिमस्तकगात्रेषु सर्वेष्वपि समाक्षिपत् ॥ २१८ शान्तदृष्टया निरीक्ष्याथ जीवेत्याह हरि हरः । ध्यायस्व किं ते हृदये स च ध्यानपरोऽभवत् ।। अपश्यबृदये दीपं दीर्घाकारमतिप्रभम् । हरिराह शिवं साक्षादीपो दृष्टो मयेति च ॥ शिवः प्राह न ते ज्ञानं परिपकमथो हरे । भस्म भक्षय ते ज्ञानं समग्रं संभविष्यति ॥ हरिरुवाच- भक्षयिष्ये शुभं भस्म स्नातोऽहं भस्मना पुरा । दृष्ट्वेश्वरं भक्तिगम्यं भस्माभक्षयदच्युतः॥ २२२ तत्राऽऽश्चर्यमतीवाऽऽसीत्पकविम्बसमद्युतिः । वासुदेवः शुद्धमुक्ताफलवर्णोऽभवत्क्षणात् ।। २२३ तदाप्रभृति शुक्लोऽसौ वासुदेवः प्रसन्नवान् । पुनानपरो भूत्वा दीपमध्ये च पूरुपम् ॥ २२४ शुद्धस्फटिकसंकाशं त्रिनेत्रं द्विभुजं शिवम् । वरदं दक्षिणे हस्ते वामे चाभयदं विभुम् ॥ २२५ पञ्चवर्षीयवपुष शरचन्द्रायुतद्युतिम् । माणिक्यकुण्डलं हेमदामजालविभूषितम् ।। २२६ रत्नाङ्गुलीयसुभगं बाह्रकोष्ठसुभूषणम् । तनुरक्तौष्ठमाकर्णदीर्घायतविलोचनम् ।। बाणलोचनसंकाशं भाललोचनमव्ययम् । कंदर्पकार्मुकभ्रान्तिजनकध्रुवमीश्वरम् ॥ स्निग्धोन्नतसुचाङ्गनासमच्छकपोलकम् । मन्दस्मितं प्रसन्नास्यं बालेन्दुदर्शनं विभुम् ॥ २२९ विज्ञानरक्तवसनं वेदकल्पितनूपुरम् । वामाङ्गुलीयमध्यस्थमणिप्रणवमव्ययम् ॥ दृष्टवानथ तं विष्णुः कृतकृत्योऽभवत्तदा । अथाऽऽह शंभुर्भो विष्णो हृदि दृष्टं हि किं त्वया ॥ हरिराह पुरा दृष्टः पुरुषः शान्तविग्रहः । इत्युदीर्य महाविष्णुः शिवपादे पपात ह ॥ २३२ हरिरुवाच- न शक्तिं भस्मनो जाने प्रभावं ते कुतो विभो । नमस्तेऽस्तु नमस्तेऽस्तु त्वामेव शरणं गतः२३३ सदाशिव उवाच- २३४ वरं वृणु महाभाग मनसा यं त्वमिच्छसि । शिवेरितमथाऽऽकर्ण्य हरिर्वत्रे वरोत्तमम् ॥ हरिरुवाच- त्वत्पादयुगले शंभो भक्तिरस्तु सदा मम । अथ दत्त्वा वरं शंभुरिदमाह वचो हरिम् ॥ २३५ शंभुरुवाच- २३६ भस्मधारणसंपन्नो मम भक्तो भविष्यसि ॥ दधीच उवाच- इत्थमुक्तं महाज्ञानं भस्मसंभवमादितः । तस्माधूयं मुराः सर्वे धारयध्वं तदादरात् ॥ २२७ २२८ महामुनिश्रीव्यासप्रणीत- [४ पातासखण्डे-- विस्मयोत्फुल्लनयना देवाचाऽऽसंस्तदस्त्विति । य इदं शृणुयाभित्यं पुण्याख्यानमनुत्तमम् ॥ विमुक्तः सर्वपापेभ्यो यात्यसौ शांकरं पदम् ॥ २३८ इति श्रीमहापुराणे पाने पातालखण्डे शिवराघवसंवादे भस्ममाहात्म्य एकाधिकशततमोऽध्यायः ॥१०॥ आदितः श्लोकानां समष्टयङ्काः-१७७५१ अथ पधिकशततमोऽध्यायः । - २ ३ शुचिस्मितोवाच- आयुष्यवर्धनं भस्माशनं दृष्ट महामुने । परलोकगतिं दातुं शक्तमेतं भवान्वद ।। दधीच उवाच- अत्र ते कथयिष्यामि इतिहासं पुरातनम् । चित्रगुप्तयमाभ्यां च ख्यातं च यद्बभूव च ॥ मिथिलायां पुरा कश्चिच्छुनः पर्यटते क्षुधा । पुरा जन्मशतात्पूर्व ब्राह्मणः पापनिश्चयः ॥ पूर्वे वयसि वेदाढ्यः शास्त्राढ्यश्च सुबुद्धिमान् । स स्नातुं जाह्नवीं गत्वा स्नानं कृत्वा पितॄनपि ४ देवान्ऋषीन्समभ्यर्च्य ययौ प्रात्तलिकापुरम् । प्रतिश्रायमथो चक्रे ब्राह्मणस्य निवेशने ॥ तत्रैका क्षत्रियसुता यौवनस्था हतमिया । प्रभ्रष्टराज्या षट्कोटिनिष्कद्रव्येण संयुता ॥ ६ भुक्त्वाऽथ शयितं विषं सर्वावयवसुन्दरम् । रात्रौ चन्द्रोदये शुद्ध ज्योत्स्साहसितदिङ्मुखे ॥ ७ ब्राह्मणाभ्याशमागत्य मुवीक्ष्येदमथाब्रवीत् । कुतस्त्वमागतो विप्र के वा देशं गमिष्यसि ॥ ५ ८ ब्राह्मण उवाच- ९ १० - अकालचर्या सर्वेषां शङ्कामुत्पादयेद्धवम् । वयःस्थयोमियो वादो रहस्ये हास्यमन्दिरम् ॥ क्षत्रियोवाच- कथाप्रसङ्गे यात्रायां तीर्थे देशादिविप्लवे । भिक्षग्रामदहने रहोवादो न दूषितः ।। प्रतिश्रयस्तु मद्गहे भवतैव कृतः पुरा । मद्नेहवासिनी चाहं न शङ्का त्विह कस्यचित् ॥ ११ ब्राह्मण उवाच- तूणीभावो मया कार्यो गच्छ त्वं सम चाऽऽत्मनः । इत्युक्ता ब्राह्मणेनासौ मनसाऽचिन्तयत्त्विदम्।। अनेन संगमो मह्यं यथा तत्त्वं तथाऽप्यहम् । रोदनं तु करिष्यामि तथा चाऽऽयाति सान्त्वितुम्।। मां च सान्त्वयितुं प्राप्तो मां समुत्थापयिष्यति । अहमुत्तिष्ठमानैव दोर्लताकण्ठसङ्गिनी ॥ १४ कुचयुग्मं हि तद्गात्रं स्पर्शयन्निव मूर्छिता । गतभानां हि मां दृष्ट्वा निषण्णः स्वयमेव सः ॥ १५ अङ्कयोर्मामकं देहं निधास्यति द्विजाग्रणीः । अचेतनेव वसनमपास्य रुदतीव च ।। १६ मुस्निग्धं रोमरहितं पकाश्वत्थदलाकृति । दर्शयिष्यामि तत्स्थानं कामगेहं सुगन्धि च ॥ मयैव विलुठन्त्याऽङ्ग तस्य वस्त्रमपास्यते । लोलुप्य चित्तं तस्येत्थमात्माधीनं करोमि तम् ॥ १८ अदृष्टौ यादृशं चित्तं दृष्टौ नैतादृशं भवेत् । दर्शने यादृशं चित्तं संलापे नैव तादृशम् ॥ १९ संलापे यादृशं चितं हास्योक्तो नैव तादृशम् । हास्योक्तौ यादृशं चित्तं स्पर्शने नैव तादृशम् ॥ स्पर्शने यादृशं चित्तं योनिदृष्टौ न तादृशम् । तदृष्टौ यादृशं चित्तं योनिस्पर्शे न तादृशम् ॥ २१ बाहुमूलकुचद्वंद्वस्वयोनिस्पर्शदर्शनात् । कस्य न स्खलते चित्तं रेतः स्कनं च नो भवेत् ॥ २२ १म. बी मातलिका । २२- म. देवं । १७ २८ १०१ यधिकशततमोऽध्यायः] पद्मपुराणम् । ६८३ दधीच उवाच- इति संचिन्त्य मनसा क्षत्रिया गृहमभ्यगात् । स्वगृहद्वारमासाथ मन्दपूर्व रुरोद ह॥ चिरं कालं च रुदिते ब्राह्मणः करुणानिधिः ॥ स्त्रीबालवृद्धातुरराजयोगिनीविषामितोयादिनिपातनानाम् ।। दुःखस्य चैवोद्धरणं प्रशस्यते कूपस्य खातेन समं वदन्ति । इत्यं विचार्य विनोऽसौ शुचिभूतः प्रसन्नधीः । तस्याः समीपमगमत्तामुवाच ततो द्विजः ॥ २५ अलं शोकेन महता इहामुत्रविरोधिना । शरीरशोषणं ह्येतच्चित्तविध्वंसन तथा ।। त्यज शोकमिमं वाले न चार्थः शोचितेन वै । शोकस्य कारणं किं वा येनेत्थं रुद्यते त्वया २७ दधीच उवाच- एवमुक्ता द्विजेनाथ न च किंचिदुवाच ह । मूछितेवापतभूमौ तमदृष्ट्वेव* वीक्षती ॥ तामथोत्थापयामास ['ब्राह्मणः परमार्थवित् । उत्थापिताऽपि तेनासौ निपपात पुनः पुनः २९ पतितां पतितां विप्रो निषिध्योत्थाप्य तां पुनः । अङ्कमारोपयामास] प्रममा विलोचने ॥३० अथ सा मूर्छितेवाऽऽशु वसनं परिमुच्य तम् । दर्शयन्ती स्तनौ गुवं बाहुमूले विलोचने ॥ ३१ आलम्ब्य कण्ठे बाहुभ्यां स्तनाभ्यामस्पृशविजम् । चन्द्रातपश्च विशदो मन्दमारुतसंभवः ॥३२ अथ चिन्तापरो विप्रो न च कार्यमिदं मम । पितुर्वा मातुरुचितं पत्युर्वाऽथ गुरोस्तथा ॥ ३३ असंबुद्धस्य मे सर्व विपरीतं विभाति वै । अथ कामः समायातो रहस्ये स्थितयोस्तयोः ॥ ३४ विव्याध निशितैर्बाणैर्द्विजं कामो दुरात्मवान् । स्मरबाणातुरो विपश्चिन्तयामास कामुकः ॥ ३५ इयं सुचारुसर्वाङ्गी कामिनीव प्रदृश्यते । नो योनिमुखे खस्या ध्रुवं नाऽऽपांसुनिर्गमः ॥ ३६ तदेतस्याः कुचस्पर्शात्सर्व व्यक्तं भविष्यति । इति संचिन्त्य मनसा कुचौ योनिमथास्पृशत्॥ ३७ सापि मूर्छितरूपैव मन्दस्मितमुखाऽभवत् । आलिलिङ्गे द्विजं गाहमाननं च चुचुम्ब ह ॥ ३८ तयोरय समायोगो वर्षाणां शतमप्यभूत् । गते वर्षशते पश्चादेकस्मिन्दिवसे द्विजः॥ स्नातुं ययौ नदी पातःस्नायिविप्रप्रसङ्गतः । स्नानं तत्र तथा चक्रे पुराणं श्रुतवानथ ॥ कौर्म समस्तपापानां नाशनं शिवभाक्तिदम् । इदं पधं च शुश्राव पुराणझेन भाषितम् ॥ ब्रह्महा मद्यपः स्तेनस्तथैव गुरुतल्पगः । कौम पुराणं श्रुत्वैव मुच्यते पातकासतः ॥ श्रुत्वैतद्वचन विप्रः पौराणिकमभाषत । मया कृतानां पापानां न च संख्याऽस्ति काचन ॥ ४३ अशेषपापसंदोहनाशनं तदिहोच्यताम् ॥ पौराणिक उवाच- ४५ आराधयस्व देवेश शंकरं त्रिदशेश्वरम् । तस्य संपूजनादिन सर्व पापं विनश्यति ॥ पापमेव तमः प्रोक्तं ज्ञानदीपेन नश्यति । अथवा पूजया विप्र समस्तापविनाशनम् ॥ ज्ञानपूजाविहीनानां नरके पतनं ध्रुवम् ॥ दधीच उवाच- अथ द्विजो अभ्यगमच्छिवालयमनुत्तमम् । द्रोगपुष्पसहस्रेण पूजयामास शंकरम् ॥ गृह जगाम च ततो भोजनं कृतवानथ । विहाय क्षत्रियां विमो जगामष्टां भुवं ततः ॥ * आर्षत्वात्साधु । + धनुचिहान्तर्गतः पाठः ख. इ. च. उ. प्र. ट. इ. पुस्तकस्थः ।
६८४ महामुनिश्रीव्यासप्रणीतं- [ ४ पातालखण्डे- हविष्यमन्त्रमादाय भुक्त्यशक्तेः शिवालयम् । गत्वा दीपस्थिताज्येन भोजनं कृतवान्बहिः ॥५० अथ मृत्युवशं प्राप्तो यमलोकं जगाम वै ॥ यम उवाच - । त्वया कृतानां पापानां फलं नरकपातनम् । वर्षकोटिद्वयं विप्र श्वानजन्मशतं पुनः ।। शिवदीपाज्यहरणात्फलं नरकसेवनम् । नरके च स्थितिस्तस्य शतवर्ष सुभीषणम् ॥ कुम्भीपाके च काष्ठत्वं भस्म भूत्वा पुनः पुनः । वर्षाणां दशकं त्वेवं क्रिमिभुक्तिः परं दश॥५४ पुनश्च दीपतित्वं वर्षाणां च तथा दश । श्लेष्मामध्यपुरीषेषु मूत्ररेतोहदेषु च ॥ ५५ उन्मज्ज्य च निमज्ज्याथ श्लेष्मविण्मलभोजनम् । ततो नरकशेषेण श्वानजन्मशतं परम् ॥ ५६ यमवाक्यमिति श्रुत्वा ब्राह्मणो निपपात च । अथ तस्य प्रिया भार्या पतिचिन्तापराऽभवत् ५७ एतस्मिन्नन्तरे तस्याः समीपं नारदोऽभ्यगात् । नारदस्य पपातासौ पादयोरतिदुःखिता ॥ ५८ तामुत्थाप्य मुनिः शुद्धां गतायुषमभाषत । अयि मुग्धे विशालाक्षि भर्तारं गन्तुमर्हसि ॥ भर्ता ते हि विशालाक्षी मृतो बन्धुविवर्जितः । न रोदितव्यं ते भद्रे ज्वलनं प्रविशाव्यये ॥६० ब्राह्मण्युवाच- अशक्यं यदि वा शक्यं मया गन्तुं मुने वद । अग्निप्रवेशकालो वै व्यतीतो न भवेत्तथा ॥ ६१ नारद उवाच- योजनानां शतं त्वेकमितः स्थानात्पुरं हि तत् । श्वो दाहः किल विप्रस्य भविता गन्तुमर्हसि ।। अव्ययोवाच- दूरस्थितं कायनाथं गन्तुमर्हामि हे मुने । तद्वचस्तु समाकर्ण्य नारदस्तामथाब्रवीत् ।। नारद उवाच- विपश्चीनालसंस्था त्वं भव गच्छाम्यहं क्षणात् । इत्युदीर्य ततो गत्वा त्वरां चक्रे गतं च तम् ।। देशं नष्टद्विजस्थानं तामुवाचाव्ययां मुनिः। रोदनं नेह कर्तव्यं यदि तत्राग्निमेष्यसि ॥ ६५ पापं यदि कृतं भद्रे परपुरुषसेवनम् । एतद्विशुद्धये पुत्रि प्रायश्चितं समाचर ॥ तवोपपातकवातनाशो वहिप्रवेशनात् । नान्यत्पश्यामि नारीणां सर्वपापोपशान्तये ॥ ६७ अमिप्रवेशं मुक्त्वैकं प्रायश्चित्तं जगत्रये ॥ ६८ दधीच उवाच- अथ नारदवाक्येन चोदितोवाच सा त्विदम् । आग्रिप्रवेशे नारीणां किं कर्तव्यं महामुने ॥ ६९ नारद उवाच- स्नानं मङ्गलसंस्कारो भूषणाञ्जनधारणम् । गन्धपुष्पं तथा धूपं हरिद्राक्षतधारणम् ।। मङ्गलं च तथा सूत्रं पादालतकमेव च । शक्त्या दानं प्रियोक्तिश्च प्रसन्नास्यत्वमेव च ॥ ७१ नानामङ्गलवाद्यानां श्रवणं गीतकस्य च । व्यभिचारकृते पापे तत्पापस्य प्रशान्तये ॥ अतीतं पातकं पृष्ट्वा प्रायश्चित्तं तदीरितम् । कुर्यादथ स्वका भूषां विप्राय प्रतिपादयेत् ॥ ७३ भूषाभावे स्वकीयेन प्रायश्चित्तं तु कारयेत् । नान्यथा तस्य पापस्य नाशनं वेति कुत्रचित् ॥ ७४ अव्ययोवाच- सर्वमेतत्करिष्यामि हरिद्रा मे न विद्यते । भूषणं किमु तब्रह्मन्सर्वमेतत्सदीयताम् ॥ १. ज्यमानस्य फलं। ७५ ७७ ७८ ७९ ८१ ८२ १०२ व्यधिकशततमोऽध्यायः ] पद्मपुराणम् । ६८५ नारद उवाच- नेहास्ति किंचित्सौभाग्यद्रव्यमन्यत्त्वपेक्षया(?) । दधीच उवाच- अथ क्षणेनाभ्यगमत्कैलासं शिवमन्दिरम् । गिरिजामथ दृष्ट्वाऽसौ प्रणिपत्येदमब्रवीत् ॥ हरिद्रा दीयतां मातर्भूषणानि च सूत्रकम् ॥ पार्वत्युवाच- विधवायै मया किंचिद्रूषणं दीयते कथम् । मया दत्ते हि तस्मिंस्तु वैधव्यं नोपपद्यते ॥ नारद उवाच- मात! विधवा तावद्धवाङ्गं यावदस्ति । आ दाहात्सूतकं नास्ति तिष्ठेत्सौभाग्यमुत्तमम् ॥८० पार्वत्युवाच- न चान्यदेहो मयूषां हरिद्रां धर्तुमहति । भूषणादौ मया दत्ते चिरं जीवितमिष्यते ॥ दीयते हि जयन्त्यैव सर्वमेतत्त्वयेरितम् । जयन्ती स जगामाथ तया दत्तमथाऽऽहरत् ॥ नापन्त्या (?)अव्ययायास्तु हरिद्रां दत्तवान्मुनिः। ततः सुसूक्ष्मवत्रं च भूषणं च ददौ मुनिः ॥ आह चैनां तवान्तष्टिं कः करोति नियुक्ष्व तम् ॥ ८३ अव्ययोवाच- त्वयै(मे)व मे समस्तानां क्रियाणां कारणं मुने । पिताऽसि सर्व कुर्वद्य(न्य)नमस्ते मुनिपुङ्गव।। ८४ दधीच उवाच- अथ तं ब्राह्मणं दग्ध्वा नारदस्तामुवाच ह । अव्यये गच्छ दहनं प्रविश त्वं यदिच्छसि ॥ ८५ अथ सा भूषिता साध्वी त्रिः प्रदक्षिणपूर्वकम् । नारदं तु नमस्कृत्यै गौराङ्गीमर्पयन्मनः ॥ ८६ सुसूक्ष्मं मङ्गलं सूत्रं हरिद्रामक्षतांस्तथा । कुसुमानि च वासांसि कस्तूरी चन्दनं तथा ॥ सौवर्णकङ्कतिकां च फलानि विविधानि च । स्वदक्षिणादिवस्त्रान्तं स्पर्शयित्वा पृथक्पृथक् ॥ ८८ पार्वतीपीतिकामा सा पुरन्ध्रीभ्योऽखिलं ददौ । ज्वालामालाभिराकाशं दहन्तमिव चानलम् ८९ त्रिः प्रदक्षिणमागत्य स्थित्वाऽग्नेः पुरतः सती । इदं त्वाह तदा वाक्यं प्राञ्जलिः प्रहसन्मुखी ९० अव्ययोवाच- इन्द्रादयो दिशां पाला मातर्मेदिनि भास्कर । धर्मादयः सुराः सर्वे शृणुध्वं मम भाषितम् ॥ ९१ पाणिपीडनमारभ्य चैतदन्तमहर्निशम् । वामनःकर्मभिर्भर्ता सेवितो यदि भक्तितः ॥ ९२ व्यभिचारो यथा न स्यादवस्थात्रितये मम । तेन सत्येन मे पत्या साधू यानं प्रयच्छत ॥ ९३ इत्युक्त्वा तु स्वहस्ताग्रपुष्पकं द्रुतमाक्षिपत् । प्रविष्टा ज्वलनं दीप्तमथापश्यद्विमानकम् ॥ सूर्येण सममुत्कृष्टमप्सरोगीतशोभितम् । आरुरोह विमानं सा भर्ना साकं दिवं ययौ ॥ यमः माहाथ संपूज्य वनितां तां पतिव्रताम् । अक्षयः स्वर्ग एवेह न च पापं तवास्ति वै ॥ ९६ कोटिद्वयसमास्तत्र नरके हन्त पातकम् । मृष्टमेव न संदेहः किं तु पातकमेव तु ॥ एकं शिवस्य दीपाज्यभक्षणेन नै भर्जितम् । न चापि नरके पातः श्वानजन्मशतं भवेत् ॥ ९८ अव्ययोवाच- अग्निप्रवेशशुद्धानां पुनश्च नरकः कथम् । अग्निप्रवेशात्सर्वेषां पापानां नाशनं भवेत् ॥ १ अ. 'त्य सा गौरीम। २ . च । ८७ - महामुनिश्रीव्यासपणीतं- [४ पातालखण्डे- यम उवाच- शिवद्रव्यापहारस्य पातकं नैव नश्यति । इत्थमाह पुरा शंभुरन्येषां नाशनं भवेत् ॥ अथ स श्वानतामाप्य शताब्दं स्यात्ततः परम् । दधीचमन्दिरं माप्तो मृत्योरास्यगतो हि सः॥ १०१ तस्य भित्तिसमीपे तु भस्माऽऽस्ते ह्यभिमत्रितम् । भस्मनि श्वा पपातास्मिन्ममार च गतो यमम् ॥ यमः संपूज्यावनतो भवान्पुण्यतमो मुनिः । मद्गहे भवतः स्थानं न योग्यं गम्यतां बहिः ॥ १०३ अथ गत्वा बहिस्तस्थौ सारमेयो यमोदितः। संतापावस्थितं तं च नारदो दृष्टवानमुम् ॥ १०४ पप्रच्छ च किमर्थं त्वमिह तिष्ठसि दीप्तिमान् । शिवभस्मस्थितमृतं शैवं जाने महामते ॥ १०५ शैवानां पापिनां चापि साहसेन तनुत्यजाम्। यमलोको न चास्तीति शिवाज्ञा शिवचोदिता १०६ दधीच उवाच- इत्यमाभाष्य तं श्वानं कैलासमगमन्मुनिः । दण्डवत्मणिपत्येशं व्यज्ञापयदयो हरम् ॥ १०७ देव कश्चिद्यमपुरादाहिरास्ते सुकुक्कुरः । भस्मन्येव मृतस्तस्माद्भवलोकं स चाईति ।। १०८ अथो मुख्यगणाविष्टो वीरभद्रः शिवेरितः। आनयामास तं श्वानं दिव्यरूपधरं तदा ॥ १०९ महेशपादपणतं देवायाथ व्यजिज्ञपत् । आह माहेश्वरी देवं कुरुष्वैनं गणं स्थितम् ॥ तथेति च शिवः प्राह गणः श्वानमुखोऽभवत् ॥ ११० दधीच उवाच- अतुलं भस्ममाहात्म्यं मयोक्तं ते शुचिस्मिते । इतः परं हि किं भूयः श्रोतुमिच्छसि सुव्रते १११ इति श्रीमहापुराणे पाने पातालखण्डे शिवराघवसंवादे विभूतिमाहात्म्ये व्यधिकशततमोऽध्यायः ॥ १०२ ॥ आदितः श्लोकानां समष्टपङ्काः-१७८६२ अथ व्यधिकशततमोऽध्यायः । oc शुचिस्मितोवाच- कश्यपं जमदग्निं च देवानां च पुरा कथम् । भस्म रक्षति च ब्रह्मस्तन्ममाऽऽचक्ष्व भो मुने ॥ १ दधीच उवाच- कश्यपादियुता देवाः पूर्वमभ्यगमन्गिरिम् । शौकरं नाम विख्यातमदि(दि)मध्ये सुशोभनम् ॥ २ नानाविहंगसंकीर्ण नानामुनिगणाश्रयम् । वासुदेवाश्रेयं रम्यमप्सरोगणसेवितम् ॥ विचित्रक्षसंपन्नं सर्वतुकुसूमोज्ज्वलम् । तथाविधं प्रविश्यैते वयं गिरिमथापरे । स्तुवन्तः केशवं तत्र गताः स्म गिरिशेश्वरम् । दृष्ट्वा तत्र महाज्वालां प्रविष्टाश्च वयं च ताम् ॥५ मामेकं तु तिरस्कृत्य बदहद्देवतामुनीन् । मां ददाह ततः पश्चाद्भस्मभूता वयं शुभे ॥ अस्मानेतादृशान्दृष्ट्वा वीरभद्रः प्रतापवान् । केनापि कारणेनासौ गतवान्पर्वतं त्वमुम् ॥ भस्मोडूलितसर्वाङ्गो मस्तकस्थशिवः शुचिः । एकाकी निस्पृहः शान्तो हाहाशब्दमयाशृणोत् ।।८ अथ चिन्तापरवाऽऽसीम्रियमाणशवध्वनिः । शवानामिव गन्धश्च दृश्यते तनिरीक्षणे॥ इति निश्चित्य मनसा जगामानिमतिप्रभम् । स वहिर्वीरभद्रं तु दग्धुमारब्धवानथ ॥ तृणागिरिव शान्तोऽभूजलमासाद्य तं च सः। ततोऽपरा महाज्वाला वीरभद्रस्तु दृष्टवान् ॥ ११ १ ख. र. च. छ. ट. र. शौकट। २ ख. र. 'श्रम र। ६ ९ १०३ व्यधिकशततमोऽध्यायः ] पमपुराणम् । ६८७ खं गच्छन्ती महाकालो ज्वालां निपतितामपि। मनसाऽचिन्तयचापि वीरभद्रः प्रतापवान् ॥१२ सर्वेषां नाशिनी ज्वाला प्राणिनां शतकोटिशः । तत्सर्वरक्षणार्थ हि पिपासुश्चाप्यहं त्विमाम् १३ प्राश्नामि महती ज्वाला जलं तु तृषितो यथा । एतसिवन्तरे वीरं वागाह चाशरीरिणी ॥ १४ भारत्युवाच- वीर मा साहसं कार्षीक तृषा काऽऽशुशुक्षणिः । तृषितानां जलेनार्थो विपरीतेन नामिना॥१५ निकामं योजनशिराः प्रनष्टो राक्षसेश्वरः । शतयोजनवक्त्रश्च शतबाहुस्तथाऽपरः ॥ १६ अगस्त्यश्च महाभागो निःशेषं पीतसागरः। एतानन्यानसंख्याताज्वालेयं तानमारयत् ॥ १७ वीरभद्र उवाच- भीषिकेयं महाज्वाला त्वदुक्ता न हि जायते । सरस्वति भवत्यां च मम रोषश्च जायते । सर्वदेवार्चितपदं वीरभद्रमवेहि माम् ॥ १८ भारत्युवाच- मयोक्तं हितभावेन न दोषामान्यतो मुने । कोपमुत्सृज्य वीर त्वमात्मनो हितमाचर ॥ १९ इत्युक्त्वाऽन्तर्दधे देवी भारती वीरभीतितः । अथ वीरो महाज्वालामपासील्लीलयैव तु ॥ २० क्षणेन महती ज्वाला शतयोजनविस्तृता । एकेन वीरभद्रेण पीता परमदुःसहा ॥ २१ अथ चेन्द्रमुखानां च मुनीनां भस्मराशयः । दृष्ट्वा वै वीरभद्रेण आहूताश्च महात्मना । २२ न चानुवन्मतिवचो मृतत्वादृषिदेवताः । वीरभद्रस्तु तं ज्ञात्वा नाशं मुनिदिवौकसाम् ।। २३ दध्यावमून्कथं सर्वाञ्जीवयाम्यद्य कोविदः । ध्यानेन दृष्टवांश्चापि जीवनं भस्म देहिनाम् ॥ २४ अथाऽऽचम्य मृतानां तु भस्मान्यथ च भस्मना । मृत्युंजयेन मन्त्रेण मन्त्रितेन ह्यमन्त्रयत् ॥ २५ अथोत्थिता मुनिवराः स्वं स्त्र रूपमुपाश्रिताः । अथ ते गतवन्तश्च गिरेः पार्श्व महाप्रभम् ॥२६ तत्रापि भक्षिताः सर्वे सर्पणातिशरीरिणा । अथ वीरो महासर्पसमीपमगमत्मभुः ॥ वीरमागतमालोक्य भुजगो यो मारभत् । युयुधे वर्षमेकं तु नानारूपधरः फणी ॥ अथ वीरः प्रगृह्योष्टयुग्मं करयुगेन तु । द्विधा चक्रे समस्ताङ्गं देवांस्तत्र गतायुषः ॥ २९ दृष्ट्वाऽथ भस्मनैवैताञ्जीवयामास शंकरः । अथ देवाः समुनयो वीरभद्रं प्रणम्य तु ॥ गतवन्तो यथामार्ग ददृशू रक्ष आगतम् । पञ्चमेद् महाकायं दोभिश्च दशभिर्युतम् ।। पश्चपादसमोपेतं शिरोभिश्वाष्टभिर्युतम् । काङ्क्षमाणं महाहार युध्यमानो हि वालिना ॥ ३२ महावराहवपुषो वासुदेवस्य यदलम् । तादृशं द्विगुणीभूतं कपौ वालिनि निश्चितम् ॥ तादृशं वानरश्रेष्ठं ससुग्रीवं स राक्षसः । मुष्टियुद्धे पञ्चपादैः सहसाऽऽहत्य वालिनम् ॥ सुग्रीवं च कराभ्यां स हन्तुमेवं प्रचक्रमे । आस्ये निक्षिप्य सुग्रीवमग्रसीत्कवलं यथा ॥ वाली सुग्रीवगमनं दृष्ट्वा चिन्तामवाप ह । कथमेनं हनिष्यामि रक्षयिष्ये कथं कपिम् ।। एवं हि चिन्तयानं तं वानरं राक्षसेश्वरः । अग्रसीदेकयत्नेन तथाभूतं च राक्षसम् ॥ दृष्ट्वा देवर्षयः सर्वे पलायनपरास्तथा । पलायमानांस्तान्दृष्ट्वा पञ्चमेदस्तु राक्षसः॥ ३८ हस्तैः समस्तैस्तान्सर्वानादायाभक्षयत्तदा । वीरभद्रस्ततो दृष्ट्वा वानरर्षिसुरादनम् ॥ पश्चाशयोजनशिलां करेणाऽऽदाय तं रुषा । निजघान शिरोमध्ये पतितं मध्यमं शिरः॥ तत आदाय शैलस्य शृङ्गं तच्छतयोजनम् । स्थापयित्वा दृढतरं राक्षसेन्द्र तथाऽहरत् ॥ १८. ड. महाकालीं। २७ २८ ३९ ४१ - ४२ ४७ ४८ ५२ ६८८ महामुनिश्रीव्यासमणीतं- [४ पातालखण्डे- राक्षसोऽथ बभाषेदं वीरभद्रं त्रिलोचनम् । मम बाहुबलं पश्य वीक्षितं त्वबलं मया ॥ असिद्वयमिदं धौतं पश्चाशयोजनोमतम् । एकयोजनविस्तारं सुदृढं लक्षणान्वितम् ।। एकं गृहाणाभिमतं *वशिष्टं तन्मम प्रियम् । वीरभद्रस्तथेत्युक्त्वा गृहीत्वाऽसिं महाबलः ॥ ४४ करेणाचालयत्तीक्ष्णं क्ष्वेलां चक्रे ततः क्रुधा । गृहीतासिस्तथा श्वेलां चक्रे राक्षसपुंगवः ॥ ४५ वीरभद्रं समभ्येत्य कण्ठं प्रति समर्पयत् । तद्गात्रं भिन्नमभवच्छोणितं निर्गतं बहु ॥ ४६ राक्षसस्त्वेकहस्तेन पपौ तच्छोणितं ततः। वीरभद्रः कण्ठदेशे राक्षसं प्राहरदुषा । शिरोद्वयं तथा छिन्नं पतमानं ततोऽग्रहीत् । न्यभक्षयदमेयात्मा सिंहनादं चकार ह ॥ तेन नादेन महता क्षुब्धमासीजगत्रयम् । अन्योन्यमसिघातेन भिन्नगात्रौ विकस्वरम् (रौ) ॥ ४९ किंशुकाविव दृश्येते पुष्पितौ रुधिरोक्षितौ । वर्षमेकं तु संयुध्य सासी देवासुरौ तदा ॥ अतश्च वर्षमेकं तु गदायुद्धमभूत्तदा । असिपुत्रिकया पश्चाद्वर्षमेकं ततः परम् ॥ पुनर्ग्रहीत्वाऽसियुगं युयुधाते परस्परम् । शं युवाणो महाखडं(ज)दंष्ट्राकारो गणेवरः ।। सरोपरक्तनयनचालयित्वाऽसिमग्रतः । तस्य कण्ठवनं सर्व विच्छेद कदलीयथा ॥ शिरांसि सर्वाण्यादाय बमक्ष भगनेत्रहा । तस्य गात्रं कररुहैविदार्याऽऽहत्य देवताः ॥ कपीन्द्रौ च तथा चान्या अ(न)द्राक्षीत्परमेश्वरीम् । एतादं महाघोरं नारदो वीक्ष्य चाभ्यगात्।। ब्रह्मणे वासुदेवाय शंकराय व्यजिज्ञपत् । मुनयो रक्षिता देवा वालिसुग्रीववानरौ ॥ एतौ संजीवयामास ब्रह्मविष्णुशिवात्मकः । रक्षसे शंभुना दत्तो वरः परमदारुणः ॥ हिरण्यकशिपो राज्ये बलवानेकराक्षसः। देवैः सार्धं तु युयुधे वर्षाणां शतमद्भुतम् ॥ पलायिताश्च बहुधा मृताश्च शतशोऽसुराः । शुक्रेण रक्षितः सोऽथ गुरुणाऽचिन्तयत्त्विदम् ॥५९ मृतोऽस्मि शतशः शुक्र जीवितोऽस्मि त्वयैव हि । अमृत्यवे त्वमेतस्मादुदरस्थमृताय च ॥ ६० अन्यथा मरणं मह्यं भविष्यति न संशयः । गुरो यमेन सार्क मे युद्धमासीत्सुदारुणम् ॥ मयाऽसौ ग्रसितो युद्धे यमराजः प्रतापवान् । ममोदरं प्रविश्यासौ बिभेद च ननाद च ॥ ६२ अहं मृतस्तदा चाऽऽसं त्वया संजीवितः पुनः । तस्मादुदरसंस्थानां मरणाय तपे तपः ॥ ६३ शुक्र उवाच- एवमेतन्न संदेहो यथावत्वं समाचर । स्यमन्तपञ्चकं तीर्थ तत्र त्वं तप्तुमर्हसि ॥ राक्षस उवाच- तपे महत्तपो घोरं यन्न चीर्ण सुरासुरैः । गुल्फमदेशे पादान्ते त्वयःपाशैः प्रबध्य च ॥ अयस्तम्भयुगं कृत्वा ह्ययापट्टिकयाऽन्वितम् । पट्टिकायां पादबन्धं कृत्वाऽधःशीर्षता तथा ६६ विकृतास्यं तथा कल्पं कृत्वाऽधो मुखमुच्चकैः । स्तम्भोत्तरेण ज्वालाया(यां) वक्रिकायामितस्ततः अधःशिरास्तथा तिष्ठभुन्मील्यैव विलोचने । एवं तपश्चरिष्यामि वरदः कोऽपि मे भवेत् ॥ ६८ ब्रह्मा वा वरदः सोऽस्तु शंकरो विष्णुरेव च । वरदेन तु मे भाव्यं यो वा को वा वरमदः॥६९ इत्थमाभाष्य मुनिना गुरुणा भार्गवेण सः। तथाऽतपञ्च षण्मासं पुनरन्यचकार ह ॥ नखाभ्यां स्वशिरश्छित्त्वा जुहावामौ समवकम् । नमो भद्रायमन्त्रेण चत्वारि च शिरांसि सः७१ ५८ ६४ ४ ६५ ७० * अवाकारस्य भागुरिमतेन लोपः । १ छ .. अथ स्त।
७४ ७५ ७७ ८४ १०३ व्यधिकशततमोऽध्यायः ] पद्मपुराणम् । ६८९ पञ्चमं च शिरो होतुं यतमाने च राक्षसे । वह्निमध्ये समुत्तस्थौ भगवानम्बिकापतिः ॥ ७२ शुद्धस्फटिकसंकाशो भालचन्द्रविभूषणः । अधःशिरस्कं तद्रक्ष इदमाह महेश्वरः ॥ मा साहसं कृथा रक्षो वरदोऽस्मि वरं वृणु ॥ राक्षस उवाच- बहूनां च वराणां तु दाता नूनं महेश्वरः । हतशीर्षसमुत्पत्तिं ग्रस्तजीवमृतिस्तथा ॥ वराहवपुषो विष्णोरस्तु शक्तिश्चतुर्गुणा । मयि ते न हि रोषः स्यात्संनिधिस्तु सदा मम ॥ ७६ त्वजटोत्पाटनेनैकपुरुषः संभविष्यति । तेनैव मरणं नान्यरिदं मेऽस्तु वृतं शिव ।। भविष्यत्येवमेवैतदित्युक्त्वाऽन्तरधीयत । एवं लब्धवरः पापी राक्षसो निहतस्त्वया ।। अथाऽऽलिङ्ग्य हरिवीरं शंकरश्च पितामहः । यथागतमथो जग्मुरथ देवादियोषितः ॥ निपत्य दण्डवमौ वीरभद्रमथाब्रुवन् । नमस्ते देवदेवेश नमस्ते करुणाकर । नमस्ते शाश्वतानन्त नमस्ते वरदो भव ।। ८० वीरभद्र उवाच- भस्मना जीवयिष्यामि सुरान्समुनिवानरान् । भवतीभिः प्रतोष्टव्यं शोकः कार्यो न चाधुना ८१ इत्युक्त्वा वीरभद्रस्तु भस्मनाऽजीवयत्स तान् । उत्थिता मुनिदेवाश्च वानरौ प्रभवत्युत ॥ ८२ इदमूचुर्वचो हृष्टाः शिरस्थाञ्जलयोऽनमन् । त्वयाऽत्र जीवितास्तात पिता त्वं धर्मतो हि नः ८३ अस्माकं शरणं नित्यं भव शंकरसंभव । शिशूनां दुष्टचरितं दृष्ट्वा शिक्षेत्तथा च तान् ॥ रक्षेत्परकृतावाधाव्याधिभि(भ्य)श्च यथौरसान्। दक्षाध्वरे कृतागस्काः शिक्षिता भवताऽनघ ८५ इदानीं रक्षितास्तात वयं शिशुवदेव ते ॥ ८६ वीरभद्र उवाच- सत्यमेतन्न संदेहो यत्र बाधा भवेत्तु वः। तत्र मां स्मरत क्षिप्रं बाधा नाशं गमिष्यति ॥ वीरभद्रपदं येऽपि पठन्त्यष्टशतं ततः। प्रणवादि नमोन्तं च चतुर्थीसहितं तथा ॥ तेषां राक्षसपीडाया नाशनं च भविष्यति । ब्रह्मराक्षसपीडासु पिशाचादिभयेषु च ॥ नामानुस्मरणात्सर्वबाधानां तु विनाशनम् ॥ विद्युत्मभालोचनमुग्रमीशं बालेन्दुदंष्ट्रारुणशोभिताधरम् ।। सुनीलगात्रं च जटाकृतस्रजं पञ्चावशाङ्गे भसितं(?)त्रिपुण्डूकम् ॥ ब्रह्मराक्षसमुक्त्यर्थं स्मरणं विदमीरितम् । मत्रे च वीरभद्रस्य सर्वमेतदुदीरितम् ॥ दधीच उवाच- अथैवं विदधे वीरो मुनिदेवास्तथा गताः । एतत्रियायुषं प्रोक्तं भस्ममाहात्म्यमुत्तमम् ॥ पठतः शृण्वतो वाऽपि स्मरतोऽयविनाशनम् । शिवभक्तिपदं पुण्यमायुरारोग्यवर्धनम् ।। शुचिस्मितोवाच- [*अहं कृतार्था धन्या च नारीणामुत्तमाऽस्म्यहम् । हतपापा तथा चास्मि नमस्ते मुनिपुङ्गव]९४ इति श्रीमहापुराणे पाने पातालखण्डे शिवराघवसंवादे व्यधिकशततमोऽध्यायः ॥ १०३ ॥ आदितः श्लोकानां समष्ट्यकाः-१७९५५ ८७ ८८ ८९ ९१ - ९२ - * धनुचिहान्तर्गतः पाठः ख. ङ. च. छ. अ. ट. इ. पुस्तकस्थः।
६९० - महामुनिश्रीव्यासप्रणीत- [४ पातालखण्ड- अथ चतुरुधिकशततमोऽध्यायः । २ ६ ८ ९ श्रीराम उवाच- भस्मोत्पत्तिं महाभाग भस्ममाहात्म्यमेव च । भस्मसंधारणे पुण्यं भस्मादाने च तद्वद ।। शंभुरुवाच- भस्मोत्पत्तिं प्रवक्ष्यामि सर्वपापप्रणाशिनीम् । स्मरणात्कीर्तनादाम तां शृणुष्व नराधिप । य एकः शाश्वतो देवो ब्रह्मवन्धः सदाशिवः । त्रिलोचनो गुणाधारो गुणातीतोऽक्षरोऽव्ययः३ सिसृक्षा तस्य जाताऽथ वीक्ष्याऽऽत्मस्थं गुणत्रयम् । वेदत्रयमिदं 'ज्ञेयं गुणत्रयमिदं हि यत् ।।४ पृथकृत्वाऽऽत्मनस्तात तत्र स्थानं विभज्य च । दक्षिणाऽसृजत्पुत्रं ब्रह्माणं वामतो हरिम् ॥५ पृष्ठदेशे महेशानं त्रीन्पुत्रानसृजद्विभुः । जातमात्रास्तु ते पुत्रा ब्रह्मविष्णुमहेश्वराः॥ इदमूचुर्वचः स्पष्टं को भवान्के वयं त्विति । तानाह च शिवः पुत्रान्यूयं पुत्रा अहं पिता ॥ इदं गुणत्रयं पुत्रा भजध्वं कर्महेतुकम् ॥ पुत्रा ऊचु:- के वा गुणं को भजते कियन्तं कालमीश्वर । कथं गुणनिवृत्तिश्च भवेदेतद्वदस्व नः॥ शिव उवाच- यावज्ज्ञानं हि भवतां यावदायुरथापि वा । धारणं तावदेव स्यादेकैकस्य गुणस्य च ॥ १० सत्त्वं ब्रह्मा रजो विष्णुर्भजेन्माहेश्वरस्तमः । इत्युक्तमात्रे देवेशे ब्रह्मा सत्त्वमथाग्रहीत् ।। ११ न च चालयितुं शक्तो धारणे किमु शक्तिमान् । तं गुणं तु तिरस्कृत्य रजोगुणमयाग्रहीत् ॥ १२ न च चालयितुं शक्तो जग्राहाथ तमोगुणम् । न च चालयितुं शक्तो निपपात रुरोद च ॥ १३ विष्णुश्च वामहस्तेन रजोगुणमधारयत् । अङ्गुलीभ्यां महेशोऽपि तमोगुणमधारयत् ।। सत्त्वमेकोऽङ्गुलीभ्यां च सत्त्वं विष्णुमथादधात् । ब्रह्माणं पादपीठे च दधार च ननर्त च ॥१५ नृत्यन्तमत्यन्तविलासरूपं गोक्षीररूपं तरुणं त्रिनेत्रम् । सर्व दधानं कृतकौतुकं शिवं समीक्ष्य पुत्रान्व(त्र वोरदो वभाषे ॥ शिव उवाच- प्रीतोऽस्मि तव पुत्राहं वरं वृणु यथेच्छि(प्सि)तम् । अथाऽऽह पितरं पुत्रो वरमेतं ददख मे १७ मामुद्दिश्य कृता पूजा तव पूजा भवेच्छिष । तिष्ठेमयि सदा त्वं च त्वमेवाहं च वाऽव्यय ॥१८ शिव उवाच- एवमेव महाभाग भविष्यति न संशयः। रक्तगौराविमौ पुत्रौ ब्रह्मविष्णू ममैव तु ॥ १९ बाहुमूलस्थरोम्यौ च ममाकारौ तथाऽनघ । अथ ब्रह्माणमाहेदं भजत्वकें गुणं भवान् ॥ ब्रह्मोवाच- त्वनिर्दिष्टं गुणमहं धर्तुं शक्तो न हीश्वर । धारयिष्ये रजो देव सत्त्वं भजतु वै हरिः॥ २१ अवशिष्टं गुणं चायमीश्वरो धारयिष्यति ॥ शंभुरुवाच- गुणानादाय ते देवा न शेकुनित्यधारणम् । कर्तु भरणशक्त्यर्थं शिवमित्यवदन्युताः ॥ १. म. गेहं । २ अ.नस्तत्र तत्र । ३ क. लस्थिरी रम्यौ म । - २० २२ २४ २८ १०४ चतुरधिकशततमोऽध्यायः ] परपुराणम् । ६९१ गुणत्रयं सर्वकालं न च धारयितुं क्षमाः । दीयतां भगवशक्तिं यदि भोस्त्वं वरमदः ॥ अथ तद्वचनं श्रुत्वा शिवो वाक्यमभाषत । विद्याशक्तिः समस्तानां शक्तिरित्यभिधीयते ॥ २५ गुणत्रयाश्रया विद्या विद्या च तदाश्रया । गुणत्रयं च दग्ध्वैव तत्सारं धर्तुमर्हथ ।। २६ यच्च किंचिद्भवेत्तत्र भवद्भिर्धियतां हि तत् । अथाऽऽहुस्तत्सुता वाक्यं न दाहो ज्वलनं विना॥ शिवः प्राह महेशस्य लोचने वहिरस्ति वै । गुणत्रयमिदं धेनुर्विद्या स्याद्गोमयं शुभम् ॥ मूत्रं चोपनिषत्मोक्तं कुर्यानस्म ततः परम् । वत्सास्तु स्मृतयो यस्यास्तत्संभूतं सुगोमयम् ॥२९ आ गाव इति मत्रेण धेनुं तत्राभिमत्रयेत् । गावो भगो गाव इति प्राशयेत्तु तृणं जलम् ॥ ३० उपोष्य च चतुर्दश्यां शुक्ले कृष्णेऽथवा प्रती । परेयुः प्रातरुत्थाय शुचिर्भूत्वा समाहितः ॥ ३१ कृतस्त्रानो धौतवस्त्रो गोमयार्थं व्रजेत्तु गाम् । उत्थाप्य तां प्रयत्नेन गायत्र्या मूत्रमाहरेत् ॥ ३२ सौवर्णे राजते ताने धारयेन्मृन्मये घटे । पौष्करे वा पलाशे वा पात्रे गोरा एव वा ॥ ३३ आदधीत हि गोमूत्रं गन्धद्वारोहि(ति) गोमयम् । अभूमिपातं गृह्णीयात्पात्रे पूर्वोदितेऽधिके ॥ ३४ गोमयं शोधयेद्विद्वाश्रीर्मे भजतु मत्रतः । अलक्ष्मीर्मयीति मत्रेण गोमयस्यापमार्जनम् ।। सं त्वा सिञ्चामिमत्रेण गोमूत्रं गोमये क्षिपेत् । पश्चानां त्वेति मत्रेण पिडांश्चैव चतुर्दश ॥ ३६ कुर्यात्संशोष्य किरणैस्तरणेराहरेत्तु तान् । निदध्यादथ पूर्वोक्तपात्रे गोमयपिण्डकान् ॥ स्वगृह्योक्तविधानेन प्रतिष्ठाप्यामिमिन्धयेत् । पिण्डान्विनिक्षिपेत्तत्तदर्णदेवाय पिण्डकान् ॥ ३८ आधारावाज्यभागौ च प्रक्षिप्य द्वौ हुनेत्सुधीः । ततो निधनपतये त्रयोदश जयादः(दयः) ३९ होतव्याः पञ्च ब्रेमाणि नमो हिरण्यवाहवे । इति सर्वाहुतीर्तुत्वा चतुर्थ्यन्तैस्तु मनकैः ॥ ४० रुतसर्वः कबुद्राय यस्य चैकंकतीति च । एतैस्तु जुहुयाद्विद्वाननाज्ञातत्रयं तथा ॥ व्याहृतीरथ हुत्वा तु ततः स्विष्टकृतं हुनेत् । इध्मशेषं तु नित्य पूर्णपात्रोदकं ततः ॥ पूर्णमासान्तयजुषा जलेनान्येन बृंहयेत् । ब्राह्मणेष्वमृतमिति तज्जलं शिरसि क्षिपेत् ।। ४३ पाच्यामिति दिशां लिर्दिक्षु तोयं विनिक्षिपेत् । ब्रह्मगे दक्षिणां दत्त्वा शान्ते पुलकमाहरेत्४४ आहरिष्यामि देवानां सर्वेषां कर्मगुप्तये । जातवेदसमेने(न) त्वां पुलकछा (कैश्छा)धपाद्यमे (कै- श्छादयाम्यहम्॥ मन्त्रेणानेन तं वहिं पुलके छा(कैश्छा)दयेदतः। त्रिदिनं ज्वलमा(ना)स्थित्यै छादनं पुलकैः स्मृतम् ब्रामणान्मोजयेद्भक्त्या स्वयं भुञ्जीय(त) वाग्यतः । भस्माधिकमधीप्संस्तु अधिकं गोमयं हरेत्।। दिनत्रयेण यदि वा एकस्मिन्दिवसे बहु । तृतीये वा चतुर्थे वा प्रातः स्नात्वा सिताम्बरः।। ४८ शुक्लयज्ञोपवीती च शुक्लमाल्यानुलेपनः । शुक्लदन्तो भस्मदिग्धो मत्रेणानेन मत्रवित् ॥ तब्रेतिचोचार्षयित्वा कंभस्मसत्यं न संत्यजेत् (?) । तत आवाहनमुखा उपचारास्तु षोडश॥५० कर्तव्याहुतिदानेन ततोऽग्निमुपसंहरेत् । अग्नेर्भस्मेतिमत्रेण गृह्णीयाद्भस्म चोद्भवम् ॥ अग्निरस्मीतिमन्त्रेण प्रमृज्य च ततः परम् । संयोज्य गङ्गासलिलैः कपिलांपयसाऽथवा ॥ चन्द्रकुमकाश्मीरमुशीरं चन्दनं तथा । अगुरुद्वितयं चैव चूर्णयित्वा तु सूक्ष्मतः ॥ सिपेनस्मनि तपूर्णमोमिति ब्रह्ममत्रतः । ततः पयःसेचने च गदितः कपिलामनुः ।। ब.स.च. छ. ट. इ. तं तु गो। २ अ. ष्णे तथा व । ३ ख. ड. च छ. ट. ह. श्रीर्मा भ। ४ म. 'बदे। हुत । ५ म. दिव्यानि । ६ क. बैंकाक्षाति द्विजः । ए। म. प्र. पूर्वपा । ८ म. म. पुलाक । ९ म. प्र. 'मे भस्में। १.ट. 'लामत्रेणाथ। ४२ ४५ ६० ६९२ महामुनिश्रीव्यासप्रणीत- [४ पातालखण्डे- अमृतं देवि ते क्षीरं पवित्रमिह बुद्धिदम् । तव प्रसादान्मुच्यन्ते मनुजाः सर्वपाप्मनः॥ प्रणवेनाऽऽवहेद्विद्वान्बहवो वटनाकथ(भस्मनो वटकानथ) (?)। अणोरणीयानिति हि मत्रेण तु विचक्षणः॥ श्रीशिव उवाच- इत्थं तु भस्म संपाध शुष्कमादाय मबवित् । प्रणवेन विमृज्याथ सप्तपणवमत्रितम् ।। ईशानेन शिरोदेशं मुखं तत्पुरुषेण च । उरोदेशमघोरेण गुह्यं वामेन मत्रयेत् ।। सद्योजातेन वै पादौ सर्वाङ्ग प्रणवेन तु । तत उचूल्य सर्वाङ्गमापादतलमस्तकम् ।। तत आचम्य वसनं धौतं श्वेतं प्रधारयेत् । पुनराचम्य कर्म स्वं कर्तुमर्हति सर्वतः ॥ ततो भस्म समादाय प्रमृज्य प्रणवेन तु । त्रिनेत्रं त्रिगुणाधारं त्रयाणां जनकं विभुम् ॥ स्मरनमः शिवायेति ललाटे तु त्रिपुण्डूकम् । नमः शिवाभ्यामित्युक्त्वा बाहोर्वाऽपि त्रिपुण्डूकम् अघोराय नम इति उभाभ्यां च प्रकोष्ठयोः । भीमायति ततः पृष्ठे शिरोधिपश्चिमे तथा ॥ ६३ नीलकण्ठाय शिरसि क्षिपेत्सर्वात्मने नमः । प्रक्षाल्याथ ततो हस्तौ कर्मानुष्ठानमाचरेत् ॥ ६४ शिव उवाच- यूयमेवंप्रकारेण भस्म कृत्वा प्रघृष्य च । गुणान्धारयितुं शक्तास्ततः स्रक्ष्यथ वै प्रजाः ॥ ६५ शंभुरुवाच- इत्यं शिवोदिता देवा ब्रह्मविष्णुमहेश्वराः। तथा कृत्वा च विधिनाऽहमहमिकया तदा ॥ ६६ अन्योन्यबोधनार(श)क्ताः प्रणम्य शिवमूचिरे ।कं गुणं धारयेत्को वा शिवः प्राह सुतानथ।।६७ कर्मशक्तिं (?) तथा ज्ञान मुखरेण्वैव नश्यति । अल्पायुदृश्यते ब्रह्मा मनुभिश्चास्य जीवितम् ॥६८ योऽहं ब्रह्माण्डमालाभिर्भूषितो ब्रह्मगोपनम् । रजोगुणमवष्टभ्य न च जानासि मां तदा ॥ ६९ ब्रह्माधिकबलो विष्णुरायुषि ब्रह्मणोऽधिकः । ब्रह्माण्डमालाभरणे महेशस्य ममैव तु ॥ चतुर्निश्वासमात्रेण विष्णोरायुरुदाहृतम् । ब्रह्मा त्व(ह्मणोऽ)धिकसत्त्वत्वात्सत्त्वमालम्बती(ते) हरिः जानाति सर्वकालं मां कचिदेव न विस्मरेत् । सात्त्विकैकैव पूजाऽस्य राजसी तामसी न तु॥७२ शान्तं शिवं सत्त्वगुणं रजवत्ताऽनुमानतः । तमो नीलं तथा चैव गुणं शंभुस्तथाऽभजत् ॥ ७३ सत्त्वं रजस्तमश्चापि दधार च पुरा किल । अतश्च त्रिविधा पूजा शंकरस्य विधीयते ॥ रजश्च तमसा युक्तं दारुणं परिकीर्तितम् । दारुणाऽपि ततः पूजा शंकरे गतिदा मता ॥ रजश्व तमसा युक्तमलं शास्त्रप्रवर्तकम् । विच्छिन्नाऽपि ततः पूजा शंकरे फलदा मता ॥ तमश्च सत्त्वसंयुक्तं मिश्रकं च प्रवर्तकम् । मिश्रपूजा वि(जाऽपि)फलदा शंकरे लोकशंकरे ॥ ७७ यादृशं तादृशं वाऽपि नियमेनार्चनं विभोः । शंकरस्याऽऽशुफलदं यादृशस्यापि देहिनः ॥ ७८ ७४ शंभुरुवाच एतत्संक्षेपतः प्रोक्तं विधानं भस्मनोऽनघ । वकृश्रोतजनानां च समस्तापविनाशनम् ॥ ७९ इति श्रीमहापुराणे पाने पातालखण्डे शिवराघवसंबादे भस्मोत्पत्तिविधानं नाम चतुरधिकशततमोऽध्यायः॥ १०४ ॥ आदितः श्लोकानां समष्ट्यङ्काः-१८०३४ ख. हु.च.छ.ट.. सदा।
१०१ पञ्चाधिकशततमोऽध्यायः ] पद्मपुराणम् । अथ पञ्चाधिकशततमोऽध्यायः । २ ६ ८ शंभुरुवाच अत्र ते कीर्तयिष्यामि कथां पापप्रणाशिनीम् । श्रुत्वा यामाप धर्मात्मा शिवभक्तिमनुत्तमाम् १ इक्ष्वाकुर्नाम विप्रेन्द्रो महाविद्यो महामतिः । बहुशास्त्रप्रवीणश्व नीतिशास्त्रविशारदः ॥ न यष्टा न च दाता च न देवानां च पूजकः । न चाध्यापयिता वेदं न चाऽऽख्याता श्रुतस्य च न पुराणेतिहासानां श्रुतीनामागमस्य वा । यत्नाद्भोक्ता तथा देहसंस्कारैकप्रवर्तकः ॥ तादृशस्य द्विजस्याथ समालक्ष्या(क्षा)युरत्यगात् । लक्षान्तरे तथैकस्मिन्वत्सरे मासि पश्चमे ॥ ५ तृतीयदिवसे राज्यां पुराणं श्रुतवानिदम् । स्वसंपादितवित्तस्य येन दानं न वै कृतम् ।। दिने दिने भुज्यमानं निःसारं स्यात्क्रमेण हि । वर्षाण्येव च तावन्ति नरके पच्यते ध्रुवम् ॥ ७ कृमियोनिसहस्रं च ह्यनुभूय ततः परम् । दरिद्रो व्याधितोऽवन्धुर्दृष्टभार्यो बहुप्रजः॥ दिने दिने भाक्षितेन याचितेन च जीवनम् । यन्न कापि च बीजानां मनानामथ मार्गणात् ॥ ९ लब्धे जीनाचनं कर्म(?) भृत्यानामथ जीवनम् । मध्ये श्रोत्रविहीनश्च नेत्रहीनः स्खलन्मलः १० एवं पुराणं श्रुत्वाऽसाविक्ष्वाकुर्भृशदुःखितः । मनसाऽचिन्तयच्चेदं स्मारं स्मारं द्विजाधमः ॥ ११ रूपपुष्पर्माहिष्मयी(?) दुर्गाऽपि फलवर्जिता । तथा पुराणरहिता विद्या नो गतिदर्शिनी ॥ १२ बहुशास्त्रं समभ्यस्य बहून्वेदान्सविस्तरान् । पुंसोऽश्रुतपुराणस्य न सम्यग्याति दर्शनम् ॥ १३ शंभुरुवाच- एवं चिन्तयतस्तस्य ह्यकालमरणं त्वभूत् । यमलोकं गतश्चायं यमेन परिभाषितः । यम उवाच- अनेकपापयुक्तोऽसि पुण्यं नैव महत्तव । नवेदाध्यापनात्याप्तं पापं च विदितं तव ॥ १५ कोटिवर्षाणि नरके तव स्थितिरिति द्विज । आयुरस्ति तवात्यल्पं गम्यतां पौर्विकी तनुः ॥ १६ कुरु पुण्यं हितं दान देवतापूजनं जपम् । साङ्गमध्यापनं विप्रभोजनं भस्मधारणम् ॥ भज विश्वेश्वरं देवं देवदेवमुमापतिम् । तस्य प्रयत्नमात्रेण मम लोकं न गच्छसि ॥ यत्किचित्मत्यहं पापिन्पुराणं शृणु सादरम् । ततस्तच्छ्रवणादेव नेक्षसे मम यातनाः ॥ यमस्य वचनं श्रुत्वा ब्राह्मणः स्वां ययौ तनुम् । अथेशपूजनकृते यत्नमास्थाय स द्विजः ॥ २० आगमम्मुनिवर्य तु जाबालिं शिवपूजकम् । तपःस्वाध्यायसंपन्नं श्रुतिस्मृतिविवेचकम् ॥ २१ पुराणतत्त्ववेत्तारं लक्षशिष्यसमावृतम् । जराशिथिलसर्वाङ्गं वेदवेदाङ्गपारगम् ॥ द्रष्टुकामो ययौ शैलं मन्दरं चारुकन्दरम् । नानाविहंगसंपूर्ण नानापुष्पलतावृतम् ॥ २३ सर्वतुकुसुमोपेतं नानागन्धोपशोभितम् । किंनराणां च मिथुनीतपूर्णमहागुहम् ।। अनेकरूपलावण्यवैनितोषितपादपम् । लम्बमानविचित्राभिः स्रग्भिः शोभितपादपम् ॥ २५ रतिश्रमप्रसुप्तानां बोधनादितषट्पदम् । कूजन्ति च पिकाः कामं वियुक्तानां युजे किल ॥ २६ नानामुनिगणाकीर्ण प्रशान्तमृमचारिणम् । अप्सरोगणसंकीर्ण गन्धर्वगणसेवितम् ।। नानासिद्धमुखोद्भूतगीतपूर्णवनान्तरम् । विचित्रफलसंपूर्ण नानादेवालयान्वितम् ॥ १४ १८ २२ २४ २७ २८ १ ख. ड. च. छ. ट. नावनं । २ क, 'कामम । ३ झ. अ. 'वनतो।
- ३१ ३५ ३९ ६९४ महामुनिश्रीव्यासमणीतं- [ ४ पातालखण्डे- मासादशतसंबाधं नानागृहसमन्वितम् । सिंहान गजमुखैरुलूकवदनैरथ ॥ अमुखैर्विमुखैरुप्रैरर्धवक्त्रैर्मुगीमुखैः॥ रुरुजम्बुकगोधाहिवानरःमुखैरपि । व्याघ्रवृश्चिकभल्लूष्ट्रवानगर्दभतुण्डकैः ।। समस्तजीववदनैः सदृशास्यैर्गणेश्वरैः । वल्लीमुखैर्वृक्षमुखैः शिलावक्त्रैरयोमुखैः ।। शामुक्तादिजलजवदनैरुपशोभितम् । अधिकारिनङ्गश्च जटिलैः शिखिमुण्डितैः ॥ ३२ पत्रिवक्त्रविषवक्रैस्तिमिग्राहमुखैरपि । घटास्यैः शूर्पवदनैः कर्णपादमुखैरपि ॥ घण्टामुखैर्वेणुमुखैः किङ्किणीवदनैरपि । यादृग्वस्तु जगत्यस्मिंस्तादृशास्यैरधोमुखैः ॥ कैश्चिभिभृतकंदर्परूपलावण्यकोमलैः । कोटिसूर्यप्रतीकाशैश्चन्द्रकोटिसमप्रभैः ॥ नानावर्गविश्वमुखैविश्वरूपैश्चतुर्मुखैः। द्विमुखैः पञ्चवक्त्रैश्च त्रिमुखैः षण्मुखैरपि । एकानेकमुखैः शान्तैः सर्वदा सुखिभिर्युतम् । नानाभोगसमृद्धैश्च रतिकामसमैरपि । लक्ष्मीनारायणप्रख्यैरुमेशसमविग्रहैः । नानारूपधरैश्वान्यैः सेवितं मन्दराचलम् ॥ धेनवो यत्र वेदाश्च मीमांसावत्ससंयुताः। धर्मादयः सवणिः पुराणानि च कर्मणा ॥ स्मृतीतिहासजातानि आगमाश्च शरीरिणः । स्थिताश्च मन्दरे यत्र स शैल: पापनाशनः ॥ ४० तस्य मध्ये महापुण्यं पुरं परमशोभितम् । वापीतडागोपवनप्रासादशतशोभितम् ॥ सप्तमाकारपरिखं रत्नाहालकसंयुतम् । गोपुरैर्नवभिर्युक्तं विचित्रगृहसंयुतम् ॥ यस्य चापतिमं तेज उष्णशीतादिवर्जितम् । तन्मध्ये नगरी पुण्या तन्मध्ये च सभा शुभा ॥४३ तस्यां भद्रासनं मध्ये वेदपादं विचित्रितम् । सर्वोपनिषदातृप्तं पादपीठं सुशोभनम् ॥ पुराणान्यागमास्तस्य स्वस्तीति शिवपादयोः। तत्राऽऽसीनो महायोगी गोक्षीरसहशाकृतिः॥४५ मन्दस्मितसुचार्वास्यो घष्टवर्षवयाः प्रभुः । दधार उरसा माला मणिरुद्राक्षकल्पिताम् ॥ विभ्राण उपवीतं च कर्णिकारसमद्युतिः । सुरत्नकुण्डलो देवः किरीटकनकाम्बरः ॥ नानाभूषणसंयुक्तो नानागन्धविलेपनः । वामाकारूढगिरिजो वीक्षमाणस्तदाननम् ।। मुग्धां नम्रमुखी बाला नवयौवनशोभितां । भूषितां चारुसर्वाङ्गी बिभ्रती कनकाम्बुजम् ॥ ४९ आलिङ्गय वामेन करेण देवी दक्षेण तस्या मुखमुन्नमय्य । स्पृष्ट्वा शिरो वामकरण तस्या दक्षेण कुर्वस्तिलकं च देवः ॥ भक्तिर्वीजयते देवं प्रणवन्यजनेन च । पूजा कान्ताऽपि कुसुमैर्माला देवाय विभ्रती ॥ शाप्तिर्विरक्तिर्वनिते बिभ्रत्यौ योगचामरे । समाधिः कार्यकर्ताऽस्य धारणा योषिदस्य च ॥ ५२ यमाश्च नियमाश्चैव किंकरास्तस्य कीर्तिताः । प्राणायामः पुरोधास्तु प्रत्याहारः सुवर्णकृत् ॥ ५३ ध्यानं च द्रविणाध्यक्षः सत्यं सेनापतिस्तथा । ब्रह्ममभृतिकीटान्ताः पशवस्तत्पतिः शिवः ॥५४ पशूनां पालको धर्मः स्यादधर्मश्च तस्करः । मायापाशेन ते बद्धा मोचनी काशिकामृतिः ॥ ५५ नानाविधाश्च प्रमदा देवदेवमुमापतिम् । एतादृशमुमानार्थ कोटिजन्तुरनुस्मरेत् ॥ ५६ इष्टान्भोगानवाप्याथ शिवलोके महीयते । ब्रह्मविष्णुमहेन्द्राधास्तत्पुरद्वारपालकाः॥ लक्ष्मीसरखतीदेव्यौ देहल्यर्चन उक्षितौ । नियुक्ते देवदेवस्य देवाश्च सुरयोषितः॥ ५८ दास्यो देवाः समस्ताश्च दासा यस्य महात्मनः । एतादृशं महाशैलमिक्ष्वाकुः संददर्श ह ॥ ५९ मुनिं प्रणम्य जाबालिमिदमाह वचस्तदा । गन्तुकामो महाशैलं न शक्तोऽस्मि न वा मुने ॥६० ४७ १. प्र. मन्दिरे । २ क.हशोभित ।
१०५ पञ्चाधिकशततमोऽध्यायः] पद्मपुराणम् । ममाऽऽयुरल्पं कथितं यमेन ज्ञानिना पुरा । नरकश्च बहुः प्रोक्तः कथं श्रेयो भविष्यति ॥ ६१ जाबालिरुवाच- मयाऽपि सर्वमेतत्ते ज्ञातं दिव्येन चक्षुषा । आयुर्दशदिन ब्रह्मन्विद्वानपि न धर्मकृत् ॥ न तपस्ते बनभ्यासान च योगोऽल्पकालतः । न दानं द्रविणाभावादसामर्थ्यात्तथाहणा॥ ६१ न यज्ञो न व्रतं पूर्त न च पुण्यमनायषः । न चाध्यापनतीर्थादिसेवा कालविरोधतः ।। तस्मात्त्वत्पापनाशाय प्रायश्चित्तं न विद्यते । गतिप्रदं तथा धर्म गच्छ वा तिष्ठ वा मुने ॥ ६५ इक्ष्वाकुरुवाच- यावज्जीवं प्रतिज्ञाय क्रियते यो वृषो द्विज । तेन पापपरीहारो भविष्यति सुनिश्चितम् ॥ ६६ तयेन धर्मचर्येण मम पापं प्रणश्यति । केन वा पुण्ययोगेन स्वर्गतिश्च भविष्यति ॥ ६७ शरणं भव विपर्षे नरकादिति विभ्यतः । सर्वधर्मफलं पाहुः शरणागतपालनम् ।। जाबालिरुवाच- सत्यं स्वल्पेन कालेन न तादृग्लभ्यते वृषः । अमृते त्वनृते शक्यं वक्तुं स्वमान्तरेष्वपि ॥ रहस्यमेकं किंचितु यस्य कस्यापि नोच्यते ।। इक्ष्वाकुरुवाच- शरणं पालय मुने कालो मे निर्गमिष्यति ॥ जाबालिरुवाच- मम प्राणाधिकं विप्र रहस्यं श्रुतिचोदितम् । शिवलिङ्गार्चनं नाम ब्रह्मादिभिरनुष्ठितम् ॥ ७१ समस्तपापशमनं सर्वोपद्रवनाशनम् । भुक्तिमुक्तिप्रदं तस्माच्छिवपूजा समाचर ॥ नातिकामेयदि मुने शिवलिङ्गार्चनं शुभम् । यः शंभुपूजां विच्छिन्द्यात्तेन च्छिमं हि मे शिरः ७३ वरं शूलविनिक्षेपो वरं शाल्मलिकर्षणम् । वरं प्राणपरित्यागो नैव पूजाव्यतिक्रमः ॥ वरं वहिमपतनं वरं चाधः शिरः कृतम् । वरं स्वमलभुक्तिर्वा नेशपूजाव्यतिक्रमः ॥ अपूजयित्वा चेशानं यो हि भुले नराधमः । पापानामन्त्ररूपाणां तस्य भोजनमुच्यते ॥ अनुच्चार्य पदं शंभोर्मुक्ते यदि च खादति । शिवेति मङ्गलं नाम यस्य वाचि प्रवर्तते ।। भस्मी भवन्ति तस्याऽऽशु महापातककोटयः । शिवं प्रदक्षिणीकृत्य यो नमस्यति मानवः ॥ ७८ भूमेः प्रदक्षिणं कृत्वा यत्तत्पुण्यमवामुयात् । प्रदक्षिणत्रयं कृत्वा नमस्कारं च पञ्चधा ॥ पुनः प्रदक्षिणं कृत्वा नत्वा मुच्येत पातकैः । सर्ववाद्यानि यः कुर्यात्कारयेद्वा शिवालये ॥ ८० बलेन महता युक्तो वेदसेव्यत्र जायते । श्रावयेद्यः पुराणानि देवदेवं त्रिलोचनम् ॥ ८१ सर्वपापविनिर्मुक्तो वसेच्छिवशे कृती । तं नित्यमादरेणेशो वक्ति वाक्यं प्रियं सदा ॥ [*जाबालिरुवाच एतत्संक्षेपतः प्रोक्तमीशपूजनमुत्तमम् । अल्पायुश्च भवान्विष शिवपूजनमाचर ॥ त्रिकालं वा द्विकालं वा एककालमथापि वा । याम यामार्धमथवा शिवपूजनमाचर ॥ ८५ वानप्रस्थाश्रमो भूत्वा वानप्रस्थकृताश्रयः । वानप्रस्थप्रसूनैश्च प्रातः पूजय शंकरम् ॥ श्रीफलैः शतपत्रैश्च पदसौगन्धिकैरपि । नीपैर्जपाभिः पुत्रागैः करवीरैश्च पाटलैः ।। * इदमधिकम् । ७२ ७५ ७७ ७९ ८२ ८४ ८६ 0 - नागगन।ट वपोक।
८८ ९० ६९६ महामुनिश्रीच्यासमणीत- [४ पातालखण्डे- तुलस्या च रविदलैरपराजितया तथा । अपामार्गदलै रुद्रजटाधमनकेन च ॥ सर्वैरेभिः समफलैबिल्वपत्रैश्च धूर्तकैः । द्रोणैः शिरीषैः शेक्तै(कै)श्च दूर्वया कोरकैरपि ॥ नन्द्यावतरक्षतैश्च तिलमित्रैश्च केवलैः । अन्यैरपि यथाशक्ति प्रातः संपूजयेच्छिवम् । ८९ कर्णिकारैश्च सौवर्णैर्वयाऽपि शिवार्चनम् । मुकुलैर्चियेद्देवं चम्पकैर्जलजं विना ॥ जलजानां च सर्वेषां पत्राणामक्षतस्य च । कुशपुष्पस्य रजतसुवर्णकृतयोरपि ॥ अन्यत्कृत्वा यथा यत्तु तैलपकं भवेनृप । न तत्पर्युषितं प्रोक्तमपूपादि गमिष्यति ॥ ९२ उक्षितं यत्फलायुक्तं तैलक्षाराम्लजीरकैः । जलेतत्सो(न मो)क्षितं मूलफलशाकादिक नृप ॥ ९३ न च पर्युषितं प्रोक्तं गङ्गातोयं च सागरम् । महानदीजलं सर्व केदारजलमेव च ॥ हदरूपेण यत्तीर्थ कूपतीर्थेन राघव । तडागवापीसरसां कूपेनापां च यद्भवेत् ॥ तत्तीर्थतोयं सर्व च न च पर्युषितं भवेत् । न रात्री जलमाहार्य दिवा संपादयेज्जलम् ॥ शस्तैकतं तथा धार्य न च पर्युषितं हि सत् । एवं विदित्वा पूजां त्वं शिवलिङ्गे समाचर ॥ ९७ शंभुरुवाच- एवमुक्तोऽथ मुनिना इक्ष्वाकुर्ब्राह्मणप्रियः । शिवपूजापरो भूत्वा दिनाष्टकमतिष्ठत ॥ ९८ नवमेऽथ दिने प्राप्ते प्रातः काले कृतार्चनः । मरणावसरे प्राप्ते शिवपूजां विधाय सः॥ स्वान्माणानुपहाराय तत्याजैव महेशितुः । मृतं तमथ विज्ञाय यमदूताः समागताः ॥ यमलोकमापका ये यत्नमास्थाय तस्थिरे । शैवाश्चापि समायाता दूता वह्निमुखादयः ॥ १०१ तेषामन्योन्यवादोऽभून्मामको मामकस्त्विति । अथवा मोक्षपाणिं च शिवदूतमथार्दयन् ॥ १०२ अथ वह्निमुखः क्रुद्धो यमदूतशतं तमः । महाकायस्तथा भूत्वा गृहीत्वा च करेण तत् ॥ १०३ शिरांसि च तथैकेनाऽऽपीड्य चिच्छेद शष्पवत् । मारयित्वा ततो दूतानादायेक्ष्वाकुमभ्यगात् ॥ निवेदयामास च तं वीरभद्राय धीमते । स चापि शंकरायाथ तं प्राह च महेश्वरः ॥ १०५ त्वयाऽष्टदिनपूजैव कृता कृष्णा दिने दिने । त्वमनिन्दः पुरा मां च लिङ्गं शिश्नाग्रमित्युत १०६ तेनैव पापयोगेन शिश्नचक्रो भविष्यास । शिश्नाग्रे विवरं चक्रं जिहानासादिवर्जितः॥ १०७ पूर्व मन्नामवकृत्वाद्वक्ता चापि भविष्यसि । अथेशवचनात्सोऽपि तथाभूतोऽभवत्क्षणात् ॥ १०८ शंभुरुवाच- य इदं शृणुयान्नित्यं पुराणाख्यानमुत्तमम् । विमुक्तपापबन्धश्च शिवभक्तो भविष्यति ॥ १०९ स याति च शिवस्थाने वक्ता चापि तथा भवेत् । यश्च वक्ति कथामेनां हरेण सदृशो भुवि११० उक्त्वा कथामिमां पूर्वमधीरो नाम भूमिपः । स्वर्ग स गतवावाजा कृतपापोऽथ भार्यया १११ इति श्रीमहापुराणे पाद्मे पातालखण्डे शिवराघवसंवादे विभूतिमाहात्म्ये पश्चाधिकशततमोऽध्यायः ॥ १०५॥ आदितः श्लोकानां समष्ट्यङ्काः-१८१४५ अथ षडधिकशततमोऽध्यायः । श्रीराम उवाच- अयमग्निशिखो नाम वह्निः शिवगणः शुचिः । स कथं तादृशो भूतस्तन्मे वद नमस्तव ॥ क. छ. अ. ट. ड. टादम । २ . अ. शक्तश्च । ३ ट. ससैकतं । ४ छ. . नवक्त्रोभ। ५ म. जितम् ।।
२ ५ ८ on १०६ षडधिकशततमोऽध्यायः । पत्रपुराणम् । ६९७ शंभुरुवाच- अयमासीत्पुरा कश्चित्क्षत्रियः क्रोधनः सदा । नष्टभार्यो नष्टसेनो नष्टराष्ट्रोऽतिदुःखितः ॥ लब्ध्वा लुलायद्वितयं कृषि चक्रे सहाऽऽत्मजैः । ऋणेन महता युक्तः पुनश्चातीव दुःखितः ॥ ३ पुनश्च दुःखितो राजा सर्पण सुतनाशनात् । तथाभूतो महीपालस्तत्याज कृषिमप्युत ॥ परित्यज्य सुतौ चापि त्यक्ताहारो रुरोद ह । सुतावथ समागम्य पाहतुः पितरं त्विदम् ॥ पुत्रावूचतु: किमर्थ रुद्यते तात नष्टो नाऽऽयाति रोदनात् । शरीरशोषणायाथ शोकस्तेऽद्य भविष्यति ॥ ६ शोकेन चक्षुषी नष्टे कण्ठो नष्टस्तथा तव । अनुष्ठानं तथा नष्टं किमर्थं परितप्यसे । एको नष्टो न चाऽऽयाति रक्ष पञ्च स्थितानमून् । बहूनां रक्षणं पुण्यमाश्रितानां विशेषतः ॥ अन्याश्रितममुं शत्रु कथं शोचितुमर्हसि ॥ पितोवाच- पुत्रः शत्रुः कथं पुत्रौ युवां शत्रू तथा च मे । अत्यन्तसुखिनं पुत्रं कथं शत्रुमभाषतम् ॥ सुतावूचतु:- जायमानो हरेद्भार्या वर्धमानो हरेद्धनम् । म्रियमाणस्तथा प्राणाञ्शत्रुत्वं किमतः परम् ॥ १० यत्सुखं च त्वया प्रोक्तं स्पर्शनालिङ्गनादिभिः। दुःखोदकमिदं राजन्सर्वमेतद्वदामि ते ॥ ११ प्रसूतिकाले पुत्रस्य भार्यानाशविचारणा । जीवितायामथो पत्न्यामात्मनः सुखनाशनम् ॥ १२ योन्यशुद्धौ तु जातायां संयोगो नोपपद्यते । आलिङ्गनपरे गाढं स्तन्येनाङ्गं *परिप्लुते ।। तथाऽपि यदि संयोगः शिशुरोदनता स्त्रियाः। दृढं शिशुगतं चित्तं ततो वैरस्यमेव च ॥ १४ अथ चेत्पतितो डिम्भो मध्येमैथुनमुद्रगतिः । रतिमध्ये तु विच्छेदे दुःखं किंचिदसंनिभम् ॥ १५ सर्वकाले परिमिते कदाचिद्रतिसंभवः । तत्काले भोजनं नास्ति स्वापो नास्ति च भार्यया ॥१६ शिशूनां रक्षणे दुःखं व्याधिसर्पग्रहादिभिः । तन्मतं यत्सुखं चित्रं यथाऽङ्कारोहणं पितुः ॥ १७ आलिङ्गनकृतं तात चुम्बनादिकृतं तथा । अव्यक्तमधुरोक्त्यादि यत्सुखानि नरेश्वर ।। रतिमध्ये विरामस्य कलां नार्हन्ति षोडशीम् । अन्यान्यपि च दुःखानि सन्ति पुत्रे सहस्रशः॥१९ अनेन किं त्वं क्रियसे इहामुत्र विरोधिना । त्यज शोकमिमं तस्मादावां पुत्रौ स्थिताविह ॥२० राजोवाच- त्यजामि शोकं दुर्वारं सर्वकार्यविरोधिनम् । आत्मनश्च हितं कार्यमिहामुत्र सुतौ मम ॥ २१ पुरोधसं तु गच्छामि मम पूर्व महागुरुम् । वसिष्ठं मुनिवर्यं च स दास्यति गतिं मम ।। एवमुक्त्वा गतो विमं वाराणस्यां स्थित गुरुम् । दण्डवत्प्रणनामाथ मुनिना परिपूजितः ॥ २३ आलिङ्गितः शिरोघातो दत्तासनपरिग्रहः । उक्तश्चाऽऽगमनं किं ते किं कार्य करवाणि वै ॥२४ राजोवाच- गतिं प्रयच्छ मे विप्र संसारतारणाय हि । खिन्नोऽहं कर्मणा शश्वद्भवन्तं शरणं गतः ॥ २५ वसिष्ठ उवाच- पतिं पश्य महालिङ्ग विश्वेश्वरमिति स्थितम् । एनं पूजय राजेन्द्र देवदेवं पिनाकिनम् ॥ २६ * विकरणाभाव आर्षः । १८ - २२ - १८. प्रमूहि मे ब्रह्मन्परलोकभयप्रदम् । इह राज्यप्रदं पश्चादेतन्मनसि वर्तते । वसि । २ . इदं । ३ ८. श्रुतम् ।
४२ ६९८ महामुनिश्रीव्यासप्रणीत- [४ पातालखण्डे- यमाराध्य पुरा शक्तिररुन्धत्याः सुतो मुनिः। रक्षसा भक्षितश्चापि यमलोकं गतो न सः॥ २७ किंचित्कालं गतः स्वर्ग ब्रह्मलोकमगादतः । ब्रह्मलोकाद्विष्णुलोके क्रीडास्ते सुतो मम ॥ २८ अमुं पश्य महाराज लुब्धकं वनचारिणम् । पूजयन्तं हि विश्वेशं पत्रमात्रैः स्वसंभृतैः ॥ २९ शमीवृक्षस्य संभूतैस्तथा पूगप्रसूनकैः । कदम्बकुसुमैरर्ककुसुमैथिकाभवैः॥ एतैरन्यैर्महेशानं पूजयन्तं विलोकय । इतोऽर्धयाममात्रेण मरिष्यति तदद्भुतम् ।। अन्तकाले समायाते लुब्धकोऽपि शिवाय वै । उपहारप्रदानाय दृष्टवान्पार्श्वतो घटम् ॥ ३२ तं चूतफलसंपूर्ण शुना स्पृष्टं पिगर्हितम् । संकल्पितोपहारस्य स्वभावाल्लुब्धकस्तथा ॥ इदं जगौ शुभं वाक्यं लोकानां भक्तिसूचकम् । पुष्पाभावे हरिनॆत्रं फलाभावेऽङ्गुलं रविः ॥ ३४ लिङ्गविलंसने के च जमदग्निऋषिस्तथा । लिङ्गपीठं भवेदेव गात्रं निर्भिय दत्तवान् ।। ३५ अन्यैर्माहेश्वरैरन्यत्साहसं परमं कृतम् । ममापि तत्तथा कार्यमन्यथा दोषभागहम् ॥ एतस्मिन्नन्तरे कश्चिदुम्मत्तः शिवमभ्यगात् । अथ लुब्धकृतां पूजामाहृत्याभक्षयत्क्षणात् ॥ ३७ चमनं च तदा चक्रे शिवपीठेऽथ लुब्धकः । शिवापकारिणं चैनं हन्मि नो वेत्यचिन्तयत् ।। ३८ अथ स्वात्मवधायैव यत्नमास्थाय शंकरः । उन्मत्तेन यथोद्भुक्ता शिवपूजा मया कृता ।। लिङ्गमावरणे ह्येषा तदहं मम देहिनः । प्रावृतिस्त्वमियां त्वद्य निर्मोक्तव्या मया द्रुतम् ॥ ४० पूजाविमोचनायैतत्फलहानेर्गलं त्यजेत् । इत्थं संकल्प्य स तदा तीक्ष्णस्वधितिनाऽब्रुसम् ॥ ४१ चक्रे त्वचं दक्षपादं त्वचं छित्त्वा कटेरधः । वामपादं तथा चक्रे कटिपर्यन्तमाशु च ॥ दृष्टश्चावेपितश्चैव तत ऊर्ध्वमथाच्छिनत् । करांसोदरहत्कण्ठत्वचं निर्भिद्य लुब्धकः ।। मस्तकस्य त्वचं चापि निविभेद प्रहृष्टवान् । तयोरन्तरतस्तस्माद्गात्रं निर्भिद्य वर्तुलम् ॥ छित्त्वाऽङ्गुली समादाय देवायार्पितवांस्त्वचम् । आरादेव तथा दिव्यरूपः स्वक्षश्चतुर्भुजः ॥४५ नानाभूषणसंयुक्तः स्थितो वियति शांकरः । अथ शैवाः समायाता दूताः शतसहस्रशः ॥ ४६ विचित्रमुकुटाकाराः सर्वाभरणभूषिताः । त्रिशूलपाणयः सर्वे शुद्धस्फटिकसंनिभाः ॥ चतुर्भुजाः सुरूपाश्च विमानवरसंस्थिताः । सर्वे सूर्यसमाः शान्ता रम्भावत्मियया युताः ॥ ४८ सुनुपत्नीबलोत्साहविलासस्त्रीशतान्विताः । तेजसा सूर्यसदृशाः पुष्पवृष्टिमवाकिरन् । तैराहतो लुब्धकश्च नागच्छदवदच्च तान् । भार्यावन्धुजनोपेतो गच्छेऽहमथवा न वा ।। शैवास्तद्वचनं भुत्वा वाक्यमेतदथोचिरे । येन पुण्यं कृतं पापं तेन भोग्यं हि तत्फलम् ।। ५१ लुब्धक उवाच- अशैवानां च सर्वेषां धर्माणामेककर्तृकम् । माहेश्वराणां धर्माणां फलं च द्विबहुष्वपि ॥ एतस्मिन्नन्तरे प्राप्तो वीरभद्रः शतार्कभः । नानाकोटिगणोपेत एहि लुब्धक बन्धुयुक् ॥ सर्व त्वयोक्तं च तथा सभार्यो ज्ञातिबन्धुयुक् । आरुह्येदं विमानं च शिवं गच्छ शिवं तु वः ॥ अथ तद्वचनात्माप्तः शिवलोकं विमानगः ॥ वसिष्ठ उवाच- दृष्टवानसि सर्व त्वमीशपूजा समाचर । विमुक्तपापबन्धस्त्वं शिवलोकं गमिष्यसि ॥ ५५ यदि राज्यं त्वया प्रार्थ्य मार्जयेशाङ्गणं नृप । गोमयोदकलेपं च नित्यमेव समाचर ॥ एतावता भूमिराज्यं ध्रुवं तव भविष्यति । यावदायुश्च ते राज्यमन्ते शिवपदं भवेत् ॥ नैतस्मिंस्तु भवे राज्यसंसिद्धिरनुमृत्युतः । अतो देहान्तरं प्राप्य शिवसेवाप्रभावतः ॥ ५२ ५४ ५८ - ७. १०६ षडपिशततमोऽध्यायः] पद्मपुराणम् । भविष्यति च ते राज्यं शिवभक्तिः स्थिरा तथा । शंभुरुवाच- ५९ अथ कृत्वा तथा पूजां मृतः स्वर्ग गतस्ततः । राजजन्म पुनः प्राप्य राज्यं चक्रे शिवे रतः ६० कदाचिदय देवस्य गृहमभ्यगमन्नृपः । नानादीपसमोपेतं मणिभिर्नागराडिव ॥ भटानामथ संमर्द एको दीपोऽपतभूपे । तदाऽसौ कुपितो राजा दीपमादाय सत्वरम् ॥ ६२ देवालयपुरे वीर न्यक्षिपत्कोपसंयुतः । दग्धं देवगृहं तेन एनश्च समपद्यत । अथ देवपुरस्तत्र दग्धवेश्मादिकं गृहम् । निर्मापयामास नृपो महेशानमाजपत् ।। अथ मृत्युदिने प्राप्ते राजाऽऽराधितशंकरः । भस्मस्नायी भस्मशायी जपन्रुद्रं ममार ह ॥ शिवलोकं गतः सोऽयं वीरभद्रेण भाषितः । भव त्वं गणशार्दूलो मम वै परिचारकः ॥ शांकरान्ममनिर्देशादानयस्व ममान्तिकम् । शिरोहीनो भवांश्चापि ज्वालावक्त्रो भविष्यति ॥६७ स उवाच महात्मानं वीरभद्रं गणेश्वरम् । चक्षुः श्रोत्रं तथा जिहा नासिकाऽऽस्यं शिरो गणः॥ एतैर्विना व्यवहृतिः कथं मे संभविष्यति । अभावे शिरसः किं वा मया पापं कृतं विभो ६९ वीरभद्र उवाच- त्वयैव स्वीकृता पूर्व देवी परमसुन्दरी । महेशभवने नित्यं चातुर्वर्णकरणकैः ॥ स्वस्तिकं सर्वतोभद्रं नन्द्यावर्तादिकं शुभम् ।। पद्ममुत्पलमान्दोलपादौ व्यजनचामरे । त्रिशूलं शङ्खचक्रे च गदा धनुरथैव च ॥ त्रिशूलं डमरूं खडं वृषं भृङ्गीरिटें शिवम् । तथाऽष्टपत्रं कमलमन्यद्यत्रादिकं तथा ॥ कल्पयन्ती प्रतिदिनं सेवते वृषभध्वजम् । कदाचिदथ सा वेश्या देवसमन्युपस्थिता ॥ राजा काराङ्किकः कश्चिदेववेश्म समाविशत् । अथ तां दृष्टवांस्तत्र स इदं वाक्यमुक्तवान् ॥ ७४ काराङ्किक उवाच- एकान्तसंस्थिता वेश्या युवाऽहं स्थविरो न च । स्थविरं व्याधितं पण्डमशक्तं धनवर्जितम् ७५ अदीर्घमेहनं दीनं पुरुषं योषिदुत्सृजेत् । अश्मशूलं मलच्छिन्नं जडं दुर्गन्धदूषितम् ॥ स्वल्पमव्यसनं नारी दूरतः परिवर्जयेत् । तस्मान्मे दीयतां वेश्ये मैथुनं जीवयाऽऽशु माम् ॥७७ वेश्योवाच- नियतः सर्वजातीनामिहामुत्र सुखपदः । पातिव्रत्यं परो धर्मः स्त्रीणामिति हि शुश्रुम ।। यदधीना यदा वेश्या तदा नान्येन संगता । पतिव्रतेति विख्याता तस्मात्तं परिपालये ॥ ७९ काराङ्किक उवाच- यदि चैवं मृतिः शीघ्र भविष्यति न संशयः । अथ राजान्तिकं गत्वा राजानमिदमुक्तवान् ८० वेश्या वेश्यैव नो भार्या नेति वक्तुं च नोचितम् । इत्थं राजानमुक्त्वाऽथ मण्डं चैवाऽऽरनालजम्।। ८२ किंचिदादाय तस्यास्तु मन्दिरं गतवानयम् । निद्रावसरमालोक्य प्रसृज्य च करं ततः ॥ ८३ वस्त्रस्य विवरे तत्र मण्डं चिक्षेप दुष्टधीः । एवं कृत्वा ततो गत्वा राजानमिदमुक्तवान् । राजनिर्गत्य गत्वाऽय वेश्याम्यां तव योषितम् । उत्थापयित्वा वेश्यां तां सर्वाङ्गं द्रष्टुमईसि ८४ ८५ उन्मुक्तबन्धमथवा वसनं पश्य यत्नतः । वेश्यावेश्माथ गतवानराजा काराङ्किकं वचः ॥ ८६ दमाह सनिद्रेयं पश्येमां यामि पश्यसि । स उवाच नृपं तत्र न मे युक्तमिदं नृप । १ अ. भिर्गजरा' । २ ख. ऊ. छ. इ. थायजत् । ३ क. 'मुलसमा । : झ. अ. नच्छि । ७२ ७८ - ८७ ८८ महामुनिश्रीव्यासप्रणीतं- [ ४ पातालखण्डे- तन्मातरं वा पितरं दर्शनाय नियोजय । तदृष्टौ सर्वमेवेदं व्यक्तमाशु भविष्यति ॥ आनीता ह्यथ राज्ञा तु माता वीक्षितुमुद्यता । वचनात्तु नृपस्यैव वस्त्रं शोधयतीव सा ॥ तत्र स्थितं मण्डमथ विज्ञायाम्बा ह्यमर्दयत् । मर्दनाद्वसनं क्लिनं किं तदित्याह पार्थिवः । ८९ न किंचिद्देव नो किंचिदिति वेश्यामसरपि । बहुवाक्येन राजाऽथ वसनं वीक्ष्य शङ्कया ॥ ९० शुक्रक्लिन्नमिदं वासः पाहैतत्पश्यतामिति । अथ दृष्ट्वी समीपस्थास्तथेत्यूचुर्वचो नृपम् ॥ राजाऽथ स्वगृहं गत्वा दण्डाध्यक्षमभाषत । इदानीमेव वेश्यायाः शिरश्छिन्थ्यविचारयन् ॥९२ दर्शनीयं शिरस्तस्या घटिकाभ्यन्तरे मम । दण्डकश्च नृपोक्त्याऽस्यास्तथा कृत्वा ह्यदर्शयत् ।।९३ वीरभद्र उवाच- एवं कृतं त्वया पूर्व प्राप्तं च फलमद्य ते । ज्वालयैव हि वक्ता त्वं श्रोता द्रष्टा च जिघ्रसि ।। रसं जानासि मतिमानतिक्रोधी भविष्यसि । शंभुरुवाच- एवं ज्वालामुखो जातो राजा माहेश्वरोऽक्षमी। तस्मात्तु क्षमया(मिणा) भाव्यं परत्रेह सुखेप्सुना य इदं शृणुयान्नित्यं पुण्याख्यानमनुत्तमम् । विमुक्तपापबनाच शिवलोके भविष्यति ॥ ९६ इति श्रीमहापुराणे पाझे पातालखण्डे शिवराघवसंवादे पूजा नाह त्म्यकथनं नाम षडधिकशततमोऽध्यायः ॥ १०६ ॥ आदितः श्लोकानां समष्टयङ्काः-१०२४१ ९४ - भथ सप्ताधिकशततमोऽध्यायः । २ शंभुरुवाच ५ ६ श्रीराम उवाच- महेशनाममाहात्म्यं पूजामाहात्म्यमेव च । नमस्कारस्य माहात्म्यं दृष्टमाहात्म्यमेव च ॥ जलदानस्य माहात्म्यं धूपदानस्य सत्तम । दीपगन्धादिदानस्य माहात्म्यं वद मे गुरो ॥ एकैकानाम(नां तु) माहात्म्यं विस्तरान्न हि शक्यते । संक्षेपेण च ते वच्मि शृणु राघव सादरम् पुरा । युगे राजा विधृतो नाम वीर्यवान् । मृते पितरि बालोऽसौ भूमिराज्येऽभिषेचितः ॥ ४ समानवयसः सर्वान्समीपस्थांश्चकार सः । ये वृद्धा ये च विद्वांसस्ते च तस्य न संमताः॥ युवानः संमता दुष्टा अकार्यकरणास्तथा । सुस्त्यानयनदक्षाश्च चोरकर्मविशारदाः ॥ भाण्डवार्तारता लास्यनिपुणास्तस्य संमताः । वशीकरणमन्त्रज्ञा वस्त्रौषधविदस्तथा ॥ गीतनर्तनशीलाश्च धूर्ता द्यूनविदः प्रियाः। पितृसंमतकर्तृणां त्यागं चक्रे स पार्थिवः ॥ विचार्य स च तैः सार्धं दुष्टैः कार्यमकारयत् । एतादृशांस्तथा चान्यान्दुष्टान्स ह युयोज ह ॥९ एतदुक्तमथाऽऽलम्ब्य शिष्टं सुहृदमत्यजत् । उरोमुष्टिं च फेत्कारं ये कुर्युस्तस्य ते प्रियोः ॥ १० भगलक्षणतत्त्वज्ञा रतितन्त्रविशारदाः। राजनीतिविहीनं तद्राज्यं समभवत्तदा । ११ गजाश्वरथमुष्ट्राजं गोमहिष्यादिकं च यत् । तत्सर्वं नाशमाफ्भमपहारा यतस्ततः ॥ १२ रत्नानि वसु धान्यानि न दृश्यन्ते पुरे तदा । अथ भूपान्तरेणासौ निर्जितः प्रपलायितः ॥ १३ १ क. 'ट्वा महाभागस्त । २ क. °श्छिन्धि ममाऽऽज्ञया। द। ३ म. दृष्ट्वा मा । ४ स. म. न्यान्पुष्ठा । ५२. म. 'याः । भ्रमल'। ६ क. 'तिमन्त्र। ८ .
२० २२ २८ १०७ सप्ताधिकशततमोऽध्यायः ] पद्मपुराणम् । ७०१ महारण्यमयो गत्वा गिरिदुर्गमकल्पयत् । तत्र चाल्पपरीवारश्चोररत्तिं समाश्रितः ॥ १४ सुवर्णवस्त्रधान्यादि रत्नगन्यादिकं तथा। तत्र तत्र विनिर्दिश्य चोरानायान(नीय) वश्चकान्॥१५ बन्धाधकारयत्तैस्तु द्रव्याहरणकर्मणि । यदाहारो न विद्यत तदाऽऽहारमकल्पयत् ॥ १६ गोमहिष्यादिमांसेन यद्यन्नं नोपलभ्यते । अश्वीयनरमांसेन भोजनं पर्यकल्पयत् ॥ १७ एतादृशमभूवृत्तं संध्योपास्यादिवर्जितम् । एकस्तु सचिवस्तस्य सुरापो नाम राक्षसः ॥ १८ नियुङ्क्ते सर्वकालं तमाहर पहरेति च । एवं रक्षोमते स्थित्वा नानादेशगतानरान् ॥ १९ नृसहस्रपरीवारो ह्यादद्या(दा)दकृपालयः । स्वस्याभिमतयोषास्तु तत्र तत्र समाहरत् ॥ किंचित्कालं च ता भुक्त्वा ताश्चापि समभक्षयत् । एवं हत्वा नरान्नारी राज्यं चक्रे सुदुःसहम् एवं वर्षसहस्रं तु राज्यं कृत्वा नराधमः । जराशिथिलसर्वाङ्गो वलीपलितदूषितः ॥ निर्जीवमभवत्स्थानं समन्ताद्दशयोजनम् । अथ मृत्युदिनं प्राप्तं राज्ञस्तस्य(स्या) महात्मनः ॥२३ मृत्युकालेऽथ संप्राप्ते नातं मेगतं नृपम् । तस्य चानुचराः सर्वे परिवार्योपतस्थिरे । २४ सुरापः सचिवः प्राह किं कार्य मम चाऽऽदिश । अथ राजा तथाऽशक्तो निर्गतायुस्तदाऽतितः।। नाभेरधस्तु क्षीणामुः कथंचिद्वाक्यमुक्तवान् । त्वं सर्वकालं दैत्येन्द्र पाहर प्रहराऽऽहर ।। २६ इत्यथोक्त्वा ममारासौ यमदूताः समाययुः । विचित्रं बन्धने यत्नं चस्ताडनतत्पराः ॥ चूर्णिता बन्धपाशाश्च हेतिदण्डाश्च चूर्णिताः । तद्गात्रस्पर्शमात्रेण तदद्भुतमिवाभवत् ॥ अथाऽऽयामः स्वयं मृत्युः पाशेनैनमयोजयत् । मृत्युपाशपि च्छिन्नं वीक्ष्य मृत्युरचिन्तयत् २९ सर्वमर्त्यमृतिर्दृष्टा दृष्टा नैतादृशी कचित् । इतिचिन्तापरे मृत्यौ ज्वालवक्त्रः प्रतापवान् । वीरभद्रेण निर्दिष्टः सहसाऽऽयाच शूलभृत् । ज्वालावक्त्रमथाऽऽलोक्य मृत्युस्तूर्ण पलाययौ ३१ पलायमानं तं दृष्ट्वा मृत्यु वह्निमुखस्तदा । अरे रे चोर चोर त्वं तिष्ठ तिष्ठ क यास्यसि ॥ ३२ एनसो मुच्यसे चोर अलारोपणमात्रतः । एवमाभाष्य मृत्यु तं शूलपोतमकल्पयत् ॥ शूलस्कन्धगतं कृत्वा दतान्संग्रथ्य रज्जुना । पादशृङ्खलविन्यस्तानादाय नृपमध्यगात् ॥ विमानबरमारोप्य गीतवाद्यसुशोभितम् । वीरान्तिकमथो गत्वा सर्वमस्मै न्यवेदयत् ॥ वीरभद्रोऽपि तत्सर्व शंकरायामितात्मने । नानामुनि गैर्देवैर्महाविष्णुपुरःसरैः ।। सेव्यमानाय देवाय पार्वतीसहिताय च । प्रणिपत्य निवेधाथ शूलस्थं मृत्युमेव च ॥ पूष्णीं बभूव विश्वात्मा वीरभद्रः प्रतापवान् ॥ अग्न्याननं वीक्ष्य शिवो विगर्हयन्कथं त्वयेतबण साहसं कृतम् । बिभेषि मृत्योर्न कथं यमाधिकादिस्व सर्व परमार्थतो मे ॥ ३८ प्रणम्य तं वह्निमुखातिरोषान्मृत्युं समालोक्य ननर्त हर्षात् । उवाच चौर्य कृतमेव मृत्युना तदेष शूलेऽपि मया परोहितः ।। विमोचयामास शिवोऽपि मृत्युं दूतानशेषानिरुजश्वकार । मृत्युं समालोक्य शिवो बभाषे मन्नाम येषां मरणे समास्ते ॥ मञ्चेतसामन्यधियां च नाम हीनाक्षरं वाऽधिकवर्णयुक्तम् । ममैव लाकं प्रददामि सत्यं ह्यनेन नाम पहरेति भाषितम् ॥ ४१ ३० ४० १ ख. तःसितः।
४२ ४५ महामुनिश्रीव्यासप्रणीतं- ४ पातालखण्डे- प्रशब्दमात्र त्वधिकं हरोति पदमदं च पदमीरयन्ति । आरादमस्त्वं जपतो नमस्व मदीयवाक्यं च यमं वदस्व ॥ नतिं पर्जि कीर्तिमुपास्तिमाश्रिता दास्यं च कैंकर्यमय श्रुतिवदाः । पश्चाक्षरोक्तिं शतरुद्रियोक्तिं शिवस्य कुर्वन्ति न ते विचार्याः ॥ मनामरुद्राक्षविभूतिधारणो ममाग्रतो यस्तु पुराणवक्ता । सर्वेषु पापेष्वपि तेषु सत्सु प्रशास्म्यहं नैव यमाधिकारः॥ ४४ वे चापि पापान्वितमायिनो नराः पराभवस्त्रादिवधूभुजश्च । वाराणसीमृत्युपराश्च ये वै श्रीशैलमाश्च न ते विचाः ॥ यूकाश्च दंशा अपि मत्कुणाश्च मृगादयः कीटपिपीलिकाश्च । सरीसृपा वृश्चिकशूकराश्च काशीमृताः शंकरमामुवन्ति ।। इदं नाम गृणन्ध्यायेद्यो वै हृत्पअमन्दिरे । त्रियम्बकं विरूपाक्षं सोमसोमार्धभूषणम् ॥ त्रिनेवकं प्रयीनेत्रं सोमसूर्याग्निलोचनम् । तं नमस्कृत्य दूरस्थो भव मृत्यो ममाऽऽज्ञया ॥ ४८ अथाऽऽकर्ण्य शिवप्रोक्तं मृत्युस्तुष्टाव शंकरम् । नमस्ते देवतानाथ नमस्ते देवमूर्तये ॥ सर्वज्ञाय नमस्तुभ्यं पशूनां पतये नमः । अथ देवो महादेवो मृत्यु प्राह वरं वृणु ॥ स्तोत्रेणानेन तुष्टोऽस्मि मृत्युवरमयाचत । त्वदीयं पालय विभो मां च शंकर पापिनम् ॥ ५१ तथेत्युक्त्वा मृत्युमीशो गच्छ वत्सेति चाब्रवीत् । यमलोकं गतः सोऽथ यमायाशेषमुक्तवान् ५२ शंभुरुवाच- य इदं शृणुयानित्यं पुण्याख्यानमनुत्तमम् । विमुक्तः सर्वपापेभ्यो याति शंकरसंनिधिम् ॥ ५३ इति श्रीमहापुराणे पाने पातालखणे शिवराघवसंवादे सप्ताधिकशततमोऽध्यायः ॥ १० ॥ आदितः श्लोकानां समष्ट्यङ्काः-१८२९४ ४७ ४९ अथाष्टाधिकशततमोऽध्यायः । २ शंभुरुवाच- अथान्यदपि निर्वच्मि प्रमदाख्यानमुत्तमम् । सुतया देवरातस्य यत्माप्तं नामकीर्तनात् ॥ देवरातमुता बाला कला नामातिरूपिणी । धनंजयमुतस्याऽऽसीद्भार्या शोणस्य धीमतः ॥ तावुभौ नियतौ नित्यं धर्मैकमवणौ शुभौ । लब्धवन्तौ निधिमथो गङ्गास्नानाय तौ गतौ ॥ प्रवाहपतिते कूले मृत्तिकानयनाय तौ । कूलादादाय मृल्लोष्टं दृष्टवन्तौ महाघटम् ।। राजतं चोर्ध्वपाषाणमथ शोणः प्रियां वचः । इदमाह कथं कार्य किं कर्तव्यं हि नो हितम् ॥ भार्योपाच- न नारीमतमालम्प किंचित्कार्य समाचरेत् । न च नार्या वदेगुह्यमप्रियं वा कथंचन ॥ यदि नारीसमक्षं तु द्रविणं दृष्टिमापतेत् । वश्चयीत तथा नारीमीदृशैर्वाक्यसंचयैः ॥ अस्माभिर्न हि संप्रेक्ष्यं किंवा तत्र हि तिष्ठति । द्रविणं चेन संप्रेक्ष्यं बाघोदकं भविष्यति ॥ 6 अन्याजातं तु यदि चेत्कुतो ज्ञानविनिश्चयः । अमदृष्टस्त्विदानी चेभिभृतः कोऽपि तिष्ठति ॥ ९ तिरोधानं न किंचिचेन्मायया कोऽपि तिष्ठति । न चेन्माया मनुष्याणां क्षेत्रपालस्तु तिष्ठति॥१० ६ १०८ अष्टाधिकशततमोऽध्यायः ] पद्मपुराणम् । ७०३ न हि चेद्भरवश्वेह तिष्ठति ब्रह्मराक्षसः । न सोऽपि चेन्महाबाधा राज्ञां तत्र भविष्यति ॥ ११ न च जानाति चेद्राजा व्यवहारादिसंभवः । स चेटूढप्रकारेण चोरबाधा भविष्यति ॥ १२ अप्रमत्तस्य भवतो महानर्थो भविष्यति । प्रायेणार्थवतां नृणां भोगलिप्सोपजायते ॥ भोगाद्भोगान्तरेच्छा च सर्वानुष्ठाननाशिनी । जानाति यदि नारी स्वं भावयोगगतं तथा ॥१४ नारी स्वतन्त्रतामेति रोषाल्लब्धप्रकाशिनी । रोषेऽविश्वासता याति तदा दोषः पुरोदितः ॥ १५ विश्वासिनि च विश्रम्भः प्रवासे चान्यचित्तता । विश्रम्भाज्जायते स्त्रीणां नानाविधविचेष्टता१६ यं कंचित्पुरुषं दृष्ट्वा युवानं प्रीतिरापतेत् । प्रीत्या संजायते योगो योगान्मैथुनसंगतिः ।। सततं मैथुने जाते विश्रम्भान्तरमापतेत् । भवता वा तथा पूर्व भुक्तेदानीं च भुज्यते ॥ १८ को प्रतीच्छा तवेदानी प्रीतिः कस्यामथापि वा।का विदग्धा सुसंस्निग्धा पुरुषादन्यतश्चरेत् १९ योऽब्रवीदय वाक्यं तां यदि ब्रूयात्त्वमध्यसे(ध मे)। सर्वमेव तथा वच्मि नान्यथा वाक्यमुच्यते॥ इत्यं प्रहृष्टतां याता तथा रूपान्तरेण च । द्रव्यमादाय यत्किंचिदनुवर्तेत्स्वतन्त्रतः॥ २१ स मारयित्वा तो द्रव्यं गृहीत्वा पातयिष्यति । अथ पूर्वपतिमृतौ प्रविशेन्नाऽऽशुशुक्षणिम् ॥ २२ वैधव्ये द्रविणं सर्व भुक्तेदानी च भुज्यते । इति निश्चित्य मनसा वैधव्ये समुपस्थिते ॥ पोमिकण्डूं समासाद्य दिवा वा यदि वा निशि । एकान्तस्थानमभ्येत्य विवृत्य वसनं भगम् २४ इदमूचे वचो दुःखादुपस्थस्थकरा सती । किं त्वया वै कृतं योने किं वा पापमुपाश्रिता ॥ २५ शेश्नस्य वाऽथवा पापं यत्त्वदन्तरवेशनात् । यचे कर्तृकृतं पापं मादृक्सेवाविवर्जनात् ॥ २६ अतोऽपि कण्डूसंभूतौ प्रवेशयेदथाङ्गुलीम् । विचित्रचेष्टां कृत्वा तु कण्ड्रबुद्धेरतः परम् ॥ पर्दयित्वा कराभ्यां तत्संताड्य च विकृत्य च । असकृद्धन्वती पादौ विकृतास्याऽतिदुःखिता २८ वद्वाकाष्ठमथाऽऽलिङ्गय स्तनपीडं यथामियम् । अथो विचित्रचित्तत्वं ततः प्रेयुष्टता(?)भवेत् ॥२९ भय वाऽह्नि पुरे स्थित्वा शाकं व्यवहृतं च यत् । आलम्ब्य वेश्मनि निशि संध्यावां विशिखासु च कृत्वाऽन्यवेशमात्मानं यैः कैरप्युपभुज्यते । यथावाच्यमभावेन शङ्किता योग्यमाहरेत् ॥ अज्ञातं च गृहं गत्वा रमयेदेव निश्चितम् । नारी समक्षं लब्धे तु द्रविणे होतदिष्यते ॥ स्मान्ममापि भवतो न विचारप्रयोजनम् ।। शोषक उवाच- एवमेतन संदेहो गच्छ त्वं तिष्ठ दूरतः । मलमूत्रविसर्गार्थ स्थित्वा गच्छाम्यतः परम् ॥ स्यां गतायां शोणोऽपि वस्त्रखण्डं त्वकल्पयत् । एकैकस्मिंस्तथा खण्डे त्वग्रहीद्रविणं बहु ॥ ३४ कते त्ववर(ट) जानुदन्नं कृत्वा ततस्ततः । क्षिप्त्वा धनं पूरयित्वा विष्ठां चक्रे बतोपरि* ॥३५ स्वाधारं घटं तं च प्रतिचिक्षेप कुत्रचित् । सर्वमज्ञातवत्कृत्वा स्नानाय प्रययौ मुमिः ॥ स्य भार्या ततः स्नानं कृत्वा संपूज्य पार्वतीम् । गच्छेति भ; सा प्रोक्ता स्ववेश्माभ्यगमत्सती ॥ २८ रतामेकाकिनी ज्ञात्वा मारीचो नाम राक्षसः। भर्तरूपमथाऽऽस्थाय कलामेतदुवाच ह॥ मारीच उवाच- सप्तगोदावरीतीरे पवित्रं पापनाशनम् । द्राक्षाराममिति प्रोक्तं यत्र भीमः स्वयं स्थितः ॥ * संधिरार्षः। १ म योग ग । २ ख. उ. च. छ. ट. ड. वै धर्मार्थ मे भविष्यति । ।३ ख. अ. 'निकुण्डं स । ४ ट. नर्त । ५ भ. प्रशुष्ठती । ६ क. च. छ. ड. साकं । ७ म. ते । अथा । ८ च. °नुरन्ध्र क। - ७०४ - - महामुनिश्रीव्यासप्रणीत- [ ४ पातालखण्डे- भुक्तिमुक्तिमदो नृणां स्मरणात्पापनाशनः । तत्र गच्छावहे शीघ्रं त्वं तु निर्गच्छ सुन्दरि ॥ ४० कलोवाच- इदानीमभिषेकाय प्रवृत्तो नाभिषिक्तवान् । कथमेताह स्वं हि पूर्वानुक्तं वदिष्यसि ॥ ४१ प्रकृतेरन्यथाभावमुत्पातं विदुरुत्तमाः ॥ ४२ मारीष उवाच- भर्तुरमतिकूलत्वं नारीणां धर्म उच्यते । प्रतिकूलाऽनुकूला वा मम शीघ्रं वदख तत् ॥ तूष्णी भूत्वाऽथ सा साध्वी भर्तेत्येव विचार्य तम् । निर्ययौ तेन सा बाला वनमध्ये गता सती॥ अथ मध्याह्नकालोऽसौ क्रियतामाह्निकक्रिया । राक्षसोऽथ वचः श्रुत्वा नानुष्ठानस्थलं त्विह ४५ यत्र तत्रास्ति गन्तव्यमितो गच्छावहे ततः । किंचित्पदेशं गत्वा तु गुहां वीक्ष्य सरस्तथा ॥ ४६ इह स्थानं हि मे स्थातुं कार्य स्नानमावदे(द)त् । इत्युक्ता सरसि स्नात्वा फलाहारं प्रकल्प्य च भोजनावसरे प्राप्ते कला दध्यावुमा शिवम् । अयं धवो मम न वा इतिध्यानपराऽभवत् ॥ ४८ अथ ध्यानेन तं चोरं निश्चित्य च पतिव्रता । भीताऽतिनम्रवदना त्वश्रुपूर्णमुखी तदा ।। कष्टमापतितं पापमित्युक्त्वा निपपात च । रुदती तामथो दृष्ट्वा राक्षसः पापनिश्चयः ।। ५० धर्षितुं तामथाऽऽरेभे न चैतेद्धर्षणं प्रति । बलात्कारमथो कर्तुं पतमाने तु राक्षसे ॥ आजानुनाभिपर्यन्तं शैलं स्थानमकल्पयत् । शिलात्वमभ(गम)दत्रं राक्षसो वीक्ष्य तामथ ॥ ५२ इत्येवं तां हनिष्यामि खादयिष्याम्यतः परम् । इत्युक्त्वा भ्रामयित्वाऽसिं शिरश्छेत्तुं प्रचक्रमे ।। कलाऽहं मत्पतिर्ज्ञात्वा शापं दास्यति मा हर। इत्युक्तमात्रे वचसि शिरश्चिच्छेद राक्षसः॥ ५४ प्राप्तायां दुर्मतिं तस्यामथ शैवाः समागताः । दूता विचित्राभरणाः सर्वायुधधराः शुभाः ॥५५ एनां विमानमारोप्य शिवलोकमुपागमन् । तामागतां गिरिसुता हर्षेण [*प्रतिपूज्य च ॥ ५६ खपादप्रणतां शुद्धामुमा वाक्यमभाषत । पातिव्रत्येन ते तुष्टा त्वभीष्टं प्रददामि ते ॥ कलोवाच- दासीभावं प्रयच्छ त्वं त्वत्पादाब्ज] मम प्रियम्।प्रायः किमन्यैर्बहुभिस्तथाऽस्त्विति शिवाऽब्रवीत् [+इन्द्रादिवनिताभिः सा पूजिताऽथ कलानिधिः । एतस्मिन्नन्तरे प्राप्तः शोणो मुनिरथो गृहम् न तत्र दृष्ट्वा तां भार्या ध्यानयोगपरोऽभवत् । ] रक्षोहतां मृतां प्राप्तां शिवालोकमुमा प्रति ॥६० उमादत्तवरा चापि दृष्टवाअज्ञानचक्षुषा । किंचिदुःखमुखश्चित्तं परावृत्य मुनिस्तदा ॥ श्वशुरं गतवान्सोऽथ देवरातं मुँनीश्वरः। निवेद्य सर्व सहितो विश्वामित्रमगान्मुनिम् ॥ ६२ निवेद्य तद्वसिष्ठस्य वसिष्ठोऽप्याह तान्मुनीन् । गत्वा कैलासमादौ तु दृष्ट्वा देवं महेश्वरम् ॥ ६३ अनुज्ञां शिवतो लब्ध्वा पार्वतीमन्दिरं गतः । देव्यै विज्ञाप्य तत्सर्वं यथार्थ प्रवदामि तत् ॥६४ तथेत्युक्त्वा मुनिवराः कैलासं शंकरालयम् । गत्वा प्रणम्य देवेशं वीरभद्रेण पूजिताः ॥ विज्ञापयामासुरिदं शोणभार्या हृतेति च । शिवः प्राह मुनीन्द्रास्ताज्ञातमेव मया त्विदम् ।। ६६ अकालमरणं तस्या आयुर्वर्षशतं स्थितम् । अकालमृत्युयुक्तानां पुनर्जीवनमस्ति च ॥ दशपुत्रप्रसविनी रूपसौभाग्यवत्यपि । भवद्भिरिति निश्चित्य समागतमिह द्विजाः॥ ६८ * धनुश्विहान्तर्गतः पाठः ख. ह. च. छ. ट. ड पुस्तकस्थः । + धनुचिहान्तर्गतः पाठः ख. र. च छ. ट. ड पुस्तकस्थः १ स. म. °थादये । । २ अ. 'तद्वर्ष । ३ अ. 'ममभद। ४ ख. ङ. च. छ. ट. इ. मुनीश्वरम् । ५ °म् । निवेद्य सर्व सहितो। - ६७ ७०५ ७२ ७७ १०८ अष्टाधिकशततमोऽध्यायः ] पद्मपुराणम् । यमलोकगतानां तु सर्वमेतद्विनिश्चितम् । मम लोकगतानां च गतिरन्या न विद्यते ॥ अनया कीर्तितं नाम प्राणनिर्गमने पुरा । निष्ठा (नष्टा) यमलिपिः स्पष्टा कथमायुष्यनिर्णयः ७० अथवा गिरिजायै च निवेदयत कृत्स्नशः । अथ ते पार्वतीपाददर्शनाय गता द्विजाः ॥ प्रणम्य मातरं सर्वे विश्वामित्रोऽब्रवीदिदम् । दीनानाथकुशाभार्यप्रनष्टपितृकाशिशून् ।। रक्षयित्वा पुरा मातरिष्टदा त्वं सदा ह्यभूः । कला पौत्री ममैवेयं त्वामाराध्य पतिं त्वमुम् ।।७३ शोणं लब्धवती मातस्त्वत्पूजायाः फलं त्विदम् । तपसा लभ्यतेऽपणे दानेन यदि वाऽपि च ।। व्रतोपवासैरथवा कला सा लभ्यते मया । एतया परिविष्टान्न भोक्तुमिच्छामि तत्कथम् ॥ ७५ पार्वत्युवाच- याशी चैव ते भार्या तादृशी दीयते मया । नैनां त्यक्तुमहं शक्ता किंवा त्वं मन्यसे मुने॥७६ विश्वामित्र उवाच- माता त्वमित्येच मया ह्यविशङ्कितमीरितम् । शोणो मुनिरयं मातस्तव विज्ञापयिष्यति ॥ शोण उवाच- तामेव भार्या प्रति मे प्रीतिरत्युत्कटा सति । सैव मे दीयतां भार्या चान्यथा मरणं भवेत् ॥७८ पार्वत्युवाच- भार्यापती समावेव विषमौ तु विहितौ । तव चासदृशी चेयं सदृशी प्रवदाम्यहम् ।। न च मन्मन्दिरं माता त्यक्ष्ये देहविवर्जिताम् ॥ शोण उवाच- यदि नो दीयते चेयं भार्यामन्यां मम प्रियाम् । राज्यं महेश्वरे भक्तिं प्रयच्छ वरमुत्तमम् ॥ ८० भविष्यत्येवमेवैतदित्युक्त्वा चाब्रवीन्मुनीन् । भोक्तव्यमिह युष्माभिर्ममास्मिन्दिवसत्रयम् ॥ ८१ प्रतीन्दुवारे देवस्य महेशस्यैव तुष्टये । भोजनीयाः सदाकालमष्टौ विप्रा मुनीश्वर ।। इच्छया यत्र कुत्रापि व्रतमेतदुपक्रमेत् । वत्सरे परिपूर्णे तु महाराजतमीश्वरम् ॥ चतुनिष्कप्रमाणेन तदर्धेनैव कारयेत् । [*श्वेतवस्त्रयुगं सूक्ष्मं चामरे व्यजने तथा ॥ पादुकोपानहं छत्रं सर्व विभे नियोजयेत् । स्वशक्त्या दक्षिणां दत्त्वा ब्राह्मणांश्च विसर्जयेत् ८५ एतदुद्यापने कुर्यादादौ मध्ये तथा सुधीः । दिने दिने तथा पूजा सोमस्य परमात्मनः ॥ ८६ तत्पुरुषस्य विद्महे महादेवस्य धीमहि । तन्नो रुद्रः प्रचोदयात् ।। इति पूजामत्रः । स्थण्डिले पूजयेद्देवं प्रतिमायामथापि वा । एकभक्तं स्वयं कुर्याद्रह्मचर्यसमन्वितम् ।। एतत्सोमव्रतं प्रोक्तं शिवतुष्टिप्रदं शुभम् । य एवं कुरुते भक्त्या नारी वा पुरुषोऽपि वा ।। ८९ छायेव शंकरस्यासौ नित्यमेवानुवर्तते । अद्य सोमदिनं प्राप्तं मध्याह्नात्परतो भुजिः ॥ यूयं च सर्वे मुनयः कृतपौतिकक्रियाः । माध्याह्निकी क्रियां कृत्वा भोक्तुमहर्थ सत्तमाः॥९१ मातुर्वचनमाकर्ण्य तथेत्युक्त्वा नमस्य च । अनुष्ठानाय ते सर्वे गता भागीरथी नदीम् ॥ ९२ संगमे मध्यतो वृत्चे कृत्वा माध्यानिकी क्रियाम् । विश्वेशपूजां कृत्वा च षोडशैरुपचारकैः ॥९३ अथ ते पार्वतीगेहं गत्वा देवी प्रणम्य च । लोकमातुनियोगेन शालङ्कायनकात्मजः ॥ तत्पुरुषाय " इति चतुर्थ्यन्तः प्रसिद्धः पाठ- * धनुचिहान्तर्गतः पाठः ख. ङ. च. छ. ट. ड., स्तथाऽपि सर्वपुस्तेषु षष्ठ्यन्तः पाठो वर्तते । चतुर्दान्तपाठस्तु युक्ततरः । ८२ ८३ + ८७ ८८ पुस्तकस्थः 11 १ ट. ते चेदं दा।
९८ १०७ ७०६ महामुनिश्रीव्यासप्रणीत- [४ पातालखण्डे- पादप्रक्षालनमुखानुपचारानकल्पयत् । पश्चगन्धकमादाय तान्मुनीनभ्यलेपयत् ॥ राज्यं च महदामोति यो दद्यात्पश्चगन्धकम् । पञ्चवाणसमो भूत्वा स्त्रीणां वल्लभतामियात्॥९६ विष्णवे यो हि दद्यात्तु सोऽपि मारसतो(मो) भवेत् । कामी त्वकामी यः कुर्यात्कैलासे पञ्च वत्सरान् सर्वगन्धसमोपेतो भोगी चेष्टार्थसंयुतः। यथेष्टवर्तनो भूत्वा ततो जायेत भूमिपः ॥ कस्तूरी चन्दनं चन्द्रमगरुद्वितयं तथा । पश्चगन्धकमाख्यातं सर्वकार्येषु शोभनम् ॥ विलिप्तपञ्चगन्धेषु ब्राह्मणेषु महात्मसु । आसीनेषु तदा पायाद्राह्मणः स्थविरः कृशः ॥ १०० उन्मत्तवेषो दिग्वासा जराजर्जरितस्त्वरी । खल्वाटः श्वासकासी च बहुहिकी क्षुधाऽन्वितः ।। लालाप्लुतः श्मश्रुकूर्चश्लेष्मा नम्रः स्खलत्पदः । व्यष्टवर्षा तदा नारी सर्वाभरणभूषिता ॥ १०२ रूपलावण्यसंयुक्ता लोकोत्कृष्टवरूपिणी । पुरुषाचूपसंयुक्तान्वीक्षन्ती च ततस्ततः ॥ गायन्ती त्वथ नृत्यन्ती तं दृष्ट्वा हसती पतिम् । प्रबाधते वृद्धधव शीघ्रमेहि क्षुधा मम ॥ १०४ आलम्ब्य त्वत्करं वृद्ध दुःखिता नित्यमस्म्यहम् । भूषणं वसनं घोणं स्रग्विलेपनमेव च ॥१०५ हासो गीतिस्तथा पानं मण्डनं शोभनं गृहम् । सर्वमृतुसमृद्धिश्च कामस्यैवाभिवृद्धये ॥ १०६ सर्वेषामेव कामानां रतिरेका प्रयोजनम् । सुखानि सर्वाण्येकत्र रतिरेकत्र च स्थिता ।। तुलया तुलितं सर्व रतिः शतगुणाधिका । तन्मादृशी समासाद्य भवन्तं किं करिष्यति ॥ १०८ इति चान्यानि वाक्यानि ब्रुवाणाऽऽगृह्य वै करे । तदुत्तरमुवाचेदं किं कुर्मो भाग्यमीदृशम् १०९ म(न) मारय दुरुक्त्या त्वं मां विज्ञायाथ चेदृशम् । एतादृशो द्विजः पायापार्वतीमन्दिरं तदा ॥ अविज्ञायैव गिरिजामिदं वचनमब्रवीत् ॥ ११० द्विज उवाच- अन्नार्थिनमिह प्राप्तं विद्धि मामतिथिं मुने । भोजनावसरे प्राप्तं ब्राह्मणानं हि भोजय ॥ १११ तद्भार्या वचनं माह क मुनिर्योषिदत्र हि । अन्धस्य वचनं सर्वमेवमेतादृशं दृढम् ॥ ११२ पार्वत्युवाच- प्रक्षाल्य चरणावेतमासने उपवेशय । जाम्बूनदकृतेऽतीव भोजनातर्पय द्विजम् ।। सुरत्नचषकोपेतममृतं ब्रह्मवादिनीम् । अरुन्धतीमथाऽऽहूय पर्यवेषयदम्बिका ।। ११४ कला चारुन्धती चैव त्वनसूया पतिव्रता । परिवेष पदार्थानां स्रग्गन्धाक्षतभूषणाः ॥ ११५ अकुर्वन्नम्बिकावाक्यात्षसाना पृथक्पृथक् । भुञ्जानेषु तु विप्रेषु दिग्वासा ब्राह्मणाकृतिः ११६ क्षणेन बुभुजे सर्व दातुं नो शेकुरानाः । अथ सा गिरिजा देवी स्वयं दातुं प्रचक्रमे ॥ ११७ यथादत्तमशेषं च क्षणेनानाति स द्विजः । भाण्डस्थितमशेषं च भोक्तुमैच्छलियासह ॥ ११८ तथाऽम्बिका समादाय प्रादादक्षय्यमस्त्विति । अथ वामकरणासौ भोक्तुमैच्छत्ततः सती॥११९ तत्राप्यक्षय्यमेवास्तु तवानमिति चार्पयत् । करान्तरमथोत्पाद्य भोक्तुमैच्छद्विजोत्तमः एवं करसहस्रं च कृत्वैच्छद्भोजनं द्विजः । दत्त्वा दत्त्वा पुनर्देवी संतुष्टा न च कोपना ॥ १२१ न चित्तमन्यथा कर्तुं शक्यमस्या इति द्विजः । प्रक्षाल्य हस्तौ चरणौ हस्तापितसुगन्धवान् ॥ पार्वती वाक्यमाहेदं तोषितोऽहं वरं वृणु ॥ १२२ १२० १ स. अ. च देहमानो' । २ ट. चान्न । ३ ख. र. च. छ. ट. ड वस्तुस । ४ ख. इ. च. छ. ट. स. पूर्व । ५ स. म. °णानां हि । ६ क. °नं श्रुत्वा एवं ।
७०७ १०८ भष्टाधिकशततमोऽध्यायः] पमपुराणम् । पार्वत्युवाच- मम दातुं वरं शक्तो यदि त्वं ब्राह्मणोत्तम । वरेण मम किं कार्य शंकरो मे यतः पतिः ॥ १२३ तदाऽऽह ब्रामणो देवीं शंकरः कीदृशस्त्विति । सदृशोऽसौ त्वया नो वा त्वद्योग्यो नान्यथा भवेत् स्त्रीवल्लभत्वं मय्येवं रूपदाक्ष्यं शुभाङ्गता । नो चेदेतादृशी भार्या मदधीना कथं भवेत् ॥ १२५ पार्वत्युवाच- त्वद्भार्यावचनं श्रुत्वा तव वाक्यं तथा द्विज । अपलापस्त्वयं ब्रह्मश्रुतं किं वा तथा वि(मि)षम् ब्राह्मण उवाच- धम्मिलं ते करिष्यामि ममाकं त्वं समारुह । प्रचलेद्यदि ते चित्तं पातिव्रत्यं कुतस्तव ॥ १२७ पार्वत्युवाच- मम व्रतं द्विजश्रेष्ठ शंकराबैकरोहणम् । अथ तचित्तमाज्ञाय भवान्याः परमेश्वरः ॥ १२८ अष्टवर्षवया भूत्वा सुस्निग्धकचबन्धनः । सुस्निग्धचारुनयनो गोक्षीरसमविग्रहः ॥ १२९ कोटिकंदलावण्यः सर्वाभरणभूषितः । स्वपार्थस्थितनार्य से प्रसारितभुजद्वयम् ॥ गायन्मन्दं तया साकमुमया पटया(?) यथा । अथ तां पार्वती शंभुः करणाऽऽकृष्य च स्मयन्॥ विन्यस्य हस्तौ वनिताद्वयांसे गायन्समस्ताभरणः प्रसन्नदृक् । ननर्त चाऽऽनन्दसमृद्धगात्रो मुनीन्द्रगीतश्च सकालवेलम् ॥ १३२ एतादृशं शिवं ध्यात्वा जन्मकोटिशतेष्वपि । न दुःखं जायते तस्य सदा हर्षश्च जायते ॥ १३३ अथ स्तुतो मुनिवरैर्नारी कृत्वा हरिं ततः । अथ सा पार्वती हृष्टा देवं प्राह पिनाकिनम् ॥१३४ पार्वत्युवाच- किमित्येतादृशं भावमास्थाय त्वमिहाऽऽगतः। नारी कृत्वा तथा विष्णुं किं प्रकृत्या न चाऽऽगतौ ॥ शिवः माह व्रते चात्र ह्यतिर्भोजनं शुभम् । जाने सिद्धिमयो येषां विषादो नाभिजायते ॥१३६ जाते विषादे तु व्रतमसम्यगिति निश्चयः । सोमवाराः समायान्ति यावन्तोऽब्दशतानि तु॥१३७ तावन्ति मत्पुरे देवि सर्वभोगसमन्वितः । सभार्यापुत्रबन्धुश्च वेदोक्तायुष्यजीवनः ।। १३८ पश्चाद्वाराणसीं गत्वा मृतो मुक्तिमवाप्स्यसि(ति)॥ शंभुरुवाच- अथ देवे स्थिते तत्र मुनयस्त्रिः प्रदक्षिणम् । कृत्वा पञ्च नमस्कारान्पुनः कृत्वा प्रदक्षिणम् १४० पुनश्च दण्डवत्वा विसृष्टा निर्ययुस्ततः । अथ शोणः स्वाभिमता भार्यामाप ह्यनिन्दिताम्१४१ राज्यं च भारते वर्षे धर्मेणापालयविजः । मानुषानखिलान्भोगानवाप शिवभक्तिमान् ॥ १४२ नित्यं देवार्चनपरो नित्यं ब्राह्मणपूजकः । नित्यदाता नित्ययाजी नित्यश्रोता पुराणकम् ॥ मृतः स गतवाल्लोकं शंकरस्य विभोः शुभम् ॥ १४३ शंभुरुवाच- नामकीर्तनमाहात्म्यं प्रसङ्गात्परिकीर्तितम् । शृण्वतां सर्वपापघ्नं भक्तानां च तथा नृप । १४४ सर्वकल्याणदं नित्यं सुभार्याराज्यदं शिवम् । शिवभक्तिप्रदं गोप्यं यस्य कस्यापि नेरयेत्।।१४५ इति श्रीमहापुराणे पाने पातालखण्डे शिवराघवसंवादे नाममाहात्म्यकथन नामाष्टोत्तरशततमोऽध्यायः ॥ १०८ ॥ आदितः श्लोकानां समष्टयङ्काः-१८४३९ १ झ. म. ब्रह्मस्त्वयं किं । २ छ. ३. श्रुतम् ।
७०८ महामुनिश्रीव्यासपणीत- [४ पातालखण्डे- - अथ नवाधिकशततमोऽध्यायः । - २ ३ ४ ५ ६ ८ श्रीराम उवाच- खे दृश्यन्ते विमानस्था नानारूपधराः शुभाः । सर्वकामफलोपेताः सुभार्याः शतयोषितः ॥ १ सहस्रनरनारीभिः पूज्यमानाः पदे पदे । गायन्ति विंशतिर्योषा रूपलावण्यकोमलाः ॥ - करङ्कवाहिनी चैका चामरासक्तबाहवः । तालवृन्तद्वयं नार्यो वीजयन्ति प्रगृह्य वै ॥ स चक्रे चाङ्कमध्येऽस्या उपधानं तथाऽपरः । एकस्याः करयोहस्तं स्तावकानेकसंयुतः ॥ नानाविधपरीहासकृतोत्फुल्लमुखाम्बुजः । एकैकत्र विमाने तु दृश्यते चन्द्रदीधितिः॥ स्त्रीशतेषु विमानेषु दृश्यते ईश्वरः शुभः । एते किं पुण्यकर्तारो विष्णुमायाऽथवा मुने ॥ शंभुरुवाच -- एते हि ब्राह्मणाः पुण्या गृहस्थाश्रमवासिनः । एषामेव च स ग्रामो दत्तो दशरथेन ते ॥ तेषां तु ममचित्तानां कदाचिदभवन्मतिः । यथेह सुखिनः सर्वे वयं चान्योपजीविनः॥ अस्मानेवानु जीवन्ति शतशो मनुजा इह । येन पुण्येन च वयं सर्वे कामानुमोदिनः ॥ मुस्त्रीकृतोपचाराश्च सर्वे राज्यसुखान्विताः । जरामरणहीनाश्च युवानः सर्वदैव हि ॥ १० विचार्यैवं द्विजाः सर्वे वसिष्ठस्याऽऽश्रमं ययुः। आगतानथ संपूज्य वसिष्ठो वाक्यमुक्तवान् ॥ किमर्थमागता यूयं शीघ्रं ब्रूत द्विजोत्तमाः ॥ ११ द्विजा ऊचुः- वयमिच्छामहे सर्वे सर्वसंपत्समन्विते । विमाने कामगे रोढुं तत्संपादय नो गुरो ॥ १२ तत्तेषां चिन्तितं श्रुत्वा वसिष्ठो वाक्यमब्रवीत् । पुराणं सर्वदा विभाः श्रोतव्यं पापनाशनम्॥१३ धर्मश्चार्थश्च कामश्च मोक्षस्तत्रैव दृश्यते । तथेत्युक्त्वाऽथ मुनयः पुराणकुशलं मुनिम् ॥ १४ जग्मुरङ्गिरसं श्रेष्ठं सर्वशास्त्रविशारदम् । सर्वागमपुराणशं सदासत्कर्मचारिणम् ॥ १५ इदमूचुनमस्कृत्य वयं सफलजीविनः । कृतकृत्या वयं ब्रह्मन्साक्षादृष्टोऽसि यन्मुने । १६ अङ्गिरा उवाच- यत्कार्यमागता यूयं तत्कार्य करवाण्यहम् । पुराणं श्रोतुकामास्तु यूयमत्र समागताः ॥ कीर्तयिष्ये विधानं वः समस्तापविनाशनम् । सर्वज्ञानपदं देवं तत्त्वविज्ञानसंभवम् । १८ शिवभक्तिप्रदं हृद्यं विष्णुभक्तिप्रदं शुभम् । विचित्रस्य गतिप्राप्तिज्ञानदं रमणीपदम् ॥ नानाविधशुभज्ञानरतितत्रप्रकाशकम् । भुक्तिमुक्तिधानं च विधिदर्शनदीपकम् ॥ विचित्रभक्तिकथनं भक्तिसाहस्रकीर्तनम् । व्रतप्रतिष्ठादानादिभस्मपूजाविधिप्रदम् ॥ २१ पुराणं पाप्रमुदितं ब्रह्मपद्मोपनिर्वृतम् । महेश्वरेण कथितं प्रमथाकृतिवर्णनम् ।। एतदन्यत्र कथितं पुराणे पाम एव तु । दिलीपेन पुरा पृष्टो वसिष्ठः प्रोक्तवानिदम् ॥ २३ तच्मृणुध्वं मुनिवरा ज्ञानं सर्व भविष्यति । अथ तद्वचनाद्विमाः पुराणश्रवणे रतः॥ कथं श्रोतव्यमधुना किं कृत्वेत्यव्रव(ब्रवी)न्मुनिम् । सोऽपि सर्व समाचष्टे शृणु धर्म सनातनम् ॥ नमस्कृत्य पुराणज्ञं दद्याचार्यासनं ततः । निषीद तत्र चेत्युक्त्वा गन्धपुष्पैः समर्चयेत् ॥ २६ १२. त्रिशतेषु । २ अ. च संग्रा । ३ छ. इ. शोऽथ सहस्रशः । ये । ४ ख. इ. इ. प्रदानं । ५ अ. भक्तसाह सकी।६ क. ख. ङ. च. छ. ट. ड. निर्मित । ७ अ. रताः । २० २२ २४ ७०९ २८ २९ ० १०९ नवाधिकशततमोऽध्यायः ] पद्मपुराणम् । आत्मयोग्यं च ताम्बूलमधिकं वा समर्चयेत् । ब्रूहि पुण्यकथां ब्रह्मन्पौराणिकीमितीरयेत् ॥ २७ न खवासनमारुह्य नोच्चासनमथापि वा । नीचासनो वै शृणुयाद्धर्मकामार्थसिद्धये ॥ शृण्वित्युक्त्वा पुराणज्ञ इमं मत्रमुदीरयेत् । नमो हरि हरमथो गणेशं भारतीमतः ॥ इष्टदेवं नमस्कृत्वा पुराणं वक्तुमर्हति । अर्धयामं प्रतिदिनं यदि वाऽपीच्छया भवेत् ।। एवं दिनसमाप्तिं च श्रुत्वा कृत्यं समाचरेत् । श्रोतुश्च तूष्णीं मननं तूष्णीं श्रवणमेव वा ॥ अन्यथा भारती क्रुध्येत्तत्क्रोधान्मूकता भवेत् । तस्मात्पुराणश्रोता(त्रा) च ताम्बूलादिसमर्पणम् वक्तुश्च जीविका कार्या स्वसामर्थ्यानुसौरतः। पुराणप्रक्रमे देयं सचेलोद्गमनीयकम् ।। ३३ सूक्ष्माम्बरमथो वाऽपि वस्त्राद्वितयमर्पयेत् । आसनं तु महच्चित्रं रम्यमूर्जस्वलं मृदु ।। सुवर्ण वा तथा दद्याद्गोभूगेहादिकं तथा । एतत्समस्तं विप्रेन्द्रा दक्षिणामूर्तिना पुरा ।। शंकरण मुनीनां हि भाषितं च दिवौकसाम् । अथ ते मुनयः सर्वे तं प्रणम्याऽऽसनस्थितम् ३६ पृथक्पृथक्च ताम्बूलं दत्त्वा शुश्रूषवः स्थिताः । तेनापि कथितं सर्व पुराणं सर्वसंपदम् ॥ ३७ उपान्ताध्यायपर्यन्तं श्रुतवन्तो द्विजोत्तमाः ॥ दिलीप उवाच- कामगेन विमानेन सर्वसंपत्समृद्धिना । सर्वतःसुखयुक्तेन पुण्यस्थानमुपस्थितम् ।। वसिष्ठ उवाच- नालं पृष्टं त्वया राजनितोऽप्यतिशयान्तरैः । क्रीडमाना भविष्यन्ति येन तत्पुण्यमुच्यते ॥ ४० सुधाधवलितं कृत्वा शिववेश्म समन्ततः । स्त्रियो रूपविलासाढ्याः सर्वालंकारभूषिताः ॥ ४१ नानासुगीतकुशला नानानृत्यविशारदाः । चतस्रोऽष्टौ षडथवा मर्दलध्वनिकाः स्त्रियः ॥ वासिन्यौ द्वे आवजिक्यौ कोणिकाधमने उभे । लासिक्यस्तु चतस्रः स्युः संतृष्टैकाऽथ गायिका एका द्वे वा सुगीतज्ञे मुखरे हि प्रकीर्तिते । कोणवाद्यकृते द्वे तु तूष्णीभूताः षडष्ट वा ।। सर्वा रूपविलासिन्यः सर्वाश्चापतितस्तनाः । रतितत्राब्धिकुशलास्तत एव विशङ्किताः ॥ सुसूक्ष्मवस्त्रवेषाश्च विद्युच्चञ्चलदृष्टयः । एतादृशीभिर्योषाभिर्येन नृत्यं हि कारितम् ॥ ४६ एकस्मिन्दिवसे राजन्वत्सरात्स विमानगः । शतस्त्रीवीक्षितमुखो युवा बहुभिरर्चितः ॥ आनन्द एष संपूर्णः क्रोधेादिविवर्जितः । पञ्चगन्धविलिप्ताङ्गः सचन्द्राहिदलाननः ।। सूर्यो यमस्तु योषाश्च सर्वास्तादृशभान्विताः । सद्योविकसितामोदिपारिजातकृतस्रजः॥ सर्वा विकसितारोहिरक्तसंध्याकृतस्रजः । धम्मिल्लं वक्षसि तथा बिभ्रत्यः सुस्मिताधराः ॥ ५० चरत्येतादृशीभिस्तु नृत्यगीतानुमोदितः । एवं विमानगो भूत्वा उषित्वा कालमक्षयम् ॥ ५१ पश्चाज्जायेत नृपतिरेवं कृत्वा पुनस्तथा । राज्यं स्वर्गफलं भुक्त्वा शिवभक्तो भविष्यति ॥ ५२ शंभुरुवाच- दिलीपाय वसिष्ठोक्तं मुनीनामगिरोऽब्रवीत् । ते तथा कृतवन्तश्च तौर्यत्रिकमुमापतेः ॥ श्रुत्वा पुराणं पचं च समग्रं सुखिनोऽभवन् । त एते ब्राह्मणा राम विमानवरमास्थिताः॥ ५४ ४४ ४९ * आर्षोऽयं संधिः। १ अ. त् । एवं दिनसमाश्रो । २ क. ज. सादरः । पु । ३ ख ड. सूक्ष्मं नर । ४ अ. जनतो यान्ति शतैरपि।
७१० महामुनिश्रीव्यासप्रणीतं- [४ पातालखण्डे- दृश्यन्ते खे च सुखिनः सदा मुदितमानसाः। एतत्ते सर्वमाख्यातं पुराणेषु विनिश्चितम् ।। इतः परं च किं भूयः श्रोतुमिच्छसि राघव ॥ इति श्रीमहापुराणे पाने पातालखण्डे नवाधिकशततमोऽध्यायः ॥ १०९ ॥ आदितः श्लोकानां समष्ट्यङ्काः-१८४९४ अथ दशाधिकशततमोऽध्यायः । राम उवाच- क एष दृश्यते व्योनि सर्वाभरणभूषितः । विमानस्थो महादीप्तमध्याह्नार्क इवापरः ।। दुष्प्रेक्ष्यः सर्वमानां तस्याङ्के चारुहासिनी । अपरा श्रीरिव ब्रह्मस्तथा पश्च सुयोषितः॥ २ गायन्ति मधुरां गीति सभ्रूभङ्गनिरीक्षणैः । मन्दस्मितैः करतलशब्दास्फोटिकया तथा ॥ कचिद्गलकृतैर्गीतैरन्योन्यकरताडनैः । अन्योन्यमुखमालोक्य प्रलोभैगीतपूर्वकैः ।। क्रीडन्नास्ते महायोगी पाकिञ्जल्कसंनिभः । एवं चरितपुण्येन केन वा तद्वदस्व मे ॥ ३ ४ ५ शंभुरुवाच ८ ९ एष विषः पुरा राम सर्वसंपत्समन्वितः । नानाविधमुखोपेतो भार्यापोषणतत्परः ॥ ६ अपुत्रो दानहीनश्च देवतार्चनवर्जितः । पञ्चयज्ञविहीनश्च स्वाध्यायपरिवर्जितः ॥ प्रातमध्याह्नसायाभोजनप्रवणोऽशुचिः । कदाचिदगमद्नेहं गौतमस्य महात्मनः ॥ त्र्यम्बकस्य गिरौ पुण्ये नानामुनिगणाश्रिते । तत्रातिशोभितगृहं स्फटिकस्तम्भकल्पितम् ॥ अगुरुद्रवकस्तूरीचन्द्रकुङ्कुमचर्चिता । भित्तिर्यस्य च संतानकुसुमामोदसौष्ठवम् ॥ कस्तूरिकापुष्परससमुत्सेचितभूतलम् । सूक्ष्मसुश्वेतविविधवितानोपरिशोभितम् ॥ ११ [*अङ्गणं शोभितमहाकदलीपूगशोभितम् ] । समीपसरसीजातमञ्जुकुञ्जन्मधुव्रतम् ॥ १२ पटीरतरुसंभूतगन्धपूरितदिङ्मुखम् । शिक्षागतकृताहादगीतपूरितदिङ्मुखम् ॥ १३ निदाघजनितातापनाशनाय विनिर्मितम् । कदलीदलसंछादि पावकाकल्पितच्छदम् ॥ १४ पटीरतरुसुस्निग्धसान्द्रद्वारकपाटकम् । सौगन्धिकमहामोदिकल्पितान्तरभित्तिकम् ॥ १५ ईशानभोगसुभगरतिकल्पितवेदिकम् । हाटकाकल्पितपदं विचित्रवनिकायुतम् ॥ १६ सुस्निग्धनिबिडच्छायवटमूलोपकल्पितम् । प्रसूनकदलीखण्डसरोभिपान्तशोभितम् ॥ महावटाप्रसंलग्नतुषारितपयोधरम् । नाकोपवनसंपन्नविचित्रारामशोभितम् ।। १८ वापीकूपतडागाब्यमनेकगृहशोभितम् । मन्दं मन्द ववौ वायुर्यत्र गेहे सुखप्रदः ॥ १९ वादिन्यश्चारुसर्वाङ्गयो वाद्यानि स्मरसंपदः। वीणावेणुत्रिवेणुं च वादयन्ति वराङ्गनाः ॥ २० तौर्यत्रिककृतो नार्यश्चतुर्दिक्षु तथोर्ध्वतः । सुवर्णादिकपात्रेषु वटका भस्मनः शुभाः ॥ २१ वासिताः सर्वगन्धैश्च सुधूपैरपि धूपिताः । कुशग्रथितसंघाश्च त्वक्षमालाश्च कोटिशः ॥ २२ कृष्णाजिनसहस्राणि बहिष्पान्ते स्थितानि च । एतादृशे गृहवरे देववन्धो मुनीश्वरः ॥ कर्पूरादींश्च संस्थाप्य चतुर्दिा मुनीश्वरः । पटीरपीठे कर्पूरसिंहासनमकल्पयत् ॥ धनुचिहान्तर्गतः पाठः, छ. ट. इ. पुस्तकस्थः । १. चिद्रनकृतैःपैर । २४ ३७ ३८ . ११. दशाधिकशततमोऽध्यायः ] पद्मपुराणम् । ७११ सूक्ष्म श्वेतं च मुस्निग्धमावृतं घनसारकैः । सुगन्धिवासितजलैः नाप्य क्षीरेण शंकरम् ॥ २५ अन्यैश्च वैदिकर्मत्रैः स्नापयित्वा सदाशिवम् । दारुचन्द्रोपपीठे तु वस्त्रपीठं निधाय ॥ २६ पात्रिकामग्रतः स्थाप्य स्थापयित्वा दलेष्वमून् । एकस्मिनक्षताः पात्रे ह्यन्यस्मिन्सलिलाक्षताः २७ पञ्चगन्धकमेकस्मिन्नेकस्मिन्नष्टगन्धकम् । काश्मीरं मृगनाभी तु कर्पूरं चन्दनं तया ।। पात्रेष्वन्येषु विन्यस्य पूजास्थाने प्रकल्प्य च । नानावरणमार्गेण पूजा तत्र विधीयते ॥ लिङ्गमध्ये स्थितो देवः पञ्चवक्त्रः सदाशिवः । तस्य प्रावरणं लिङ्गशक्तिस्तस्य विधीयते ॥ ३० शक्तरावरणं विष्णुर्विष्णोरावरणं विधिः । ब्रह्ममावरणं चन्द्रस्तस्य सूर्यस्ततः श्रुतिः॥ ३१ दिग्देवतास्तु तनुप्तिस्तासामावरणं दिशः । दिशामावरणं शंभुस्तस्य चाऽऽवरणं गुणाः ॥ १२ दशमावरणं ह्येतच्छिवलिङ्गार्चनं शुभम् । केषांचिन्मतमेतत्स्यादथ प्रावरणान्तरम् ।। विद्यावरणमाख्यातं तदुमावरणं स्मृतम् । विष्णुरावरणं तस्या विष्णोश्वाऽवरणं विधिः ॥ ३४ ब्रह्ममावरणं चन्द्रस्तस्य भानुरथाऽऽवृतिः । भानोरावरणं चेश इति षोढाऽऽवृतिः स्मृता ॥ ३५ विधि विना समाख्यातं पश्चावरणमुत्तमम् । शशाङ्कविष्णुशक्तीनामेतदावरणत्रयम् ॥ अम्बिकावरणं प्रोक्तमेकावरणमुत्तमम् । अथवा लोकपालाः स्युरातिः सोमपूजने ॥ अनावरणमथवा पूजनं शस्यते शिवे । पत्रिकाष्टदलेष्वेव स्थितद्रव्यैर्यजेच्छिवम् ।। पत्रिकालक्षणं वक्ष्ये सर्वकर्मोपयोगितम् । स्वर्णेन राजतेनाथ तानेणाथ प्रकल्पितम् ॥ मुक्ताशुक्तिनिभं कुर्यात्पत्रिकाष्टदलं शुभम् । पद्मपत्रसमानेन(?) पत्राकारं प्रकल्पयेत् ॥ पलमा ततः शस्तं निस्तं विस्तृतं पदम् । अस्थूलमध्यमुपरि पाकृतिदलाष्टकम् ॥ अथवा शक्तिमार्गेण पञ्चपत्रं प्रकल्पयेत् । त्रिपत्रमथवा कुर्याच्छक्तिभावेन तेन च ॥ यथा स्याच्छोभनं पत्र तथा कुर्याद्विचक्षणः । शक्त्याऽन्तरितरुद्राक्षैः कल्पिताष्टशतैः शुभा ॥४३ मालोपवीतं त्रिंशत्या त्वष्टकेन प्रकल्पिता(?)। प्रगण्डयोरथैकैकं बद्ध्वा तु द्वे प्रकोष्ठयोः ॥ ४४ शिरस्यका ट()ता तेन कण्ठे च परमर्षिणा । रुद्राक्षैः स्फटिकै रत्नैः कल्पिता ह्यक्षमालिका ४५ व्याघ्रचर्मासनं कृत्वा पयासनगतो मुनिः । आवाहं चाऽऽसनं चायं पाद्यं चाऽऽचमनीयकम् ॥ निवर्त्य गङ्गासलिलैः स्नापयामास शंकरम् । अष्टगन्धकसंयुक्तैर्युक्तैर्बकुलपाटलैः ।। स्वर्णभाण्डस्थितैर्वस्त्रशोधितर्वासितैदृढम् । द्वारे ताम्रकटाहश्च प्रबन्धद्रोणिना शुभम् ॥ गोशृङ्गेण विषाणेन गवयस्य तथा कचित् । दक्षिणावर्तशङ्खन रत्नपात्ररथापि वा ॥ खणैर्वा राजतैर्वाऽपि ताम्रः कांस्यैरथापि वा । स्वर्गेश्च सूक्ष्मकलशैः स्नापयामास चेच्छया॥५० अथवा मृन्मयैः कुर्यात्पद्मपत्रैरथापि वा । पलाशैभूतजम्बाद्यैः पात्रैः संस्नापयेद्विभुम् ।। स्नानानामथ सर्वेषां धारास्नानं विशिष्यते । नमस्तेत्यादिमन्त्रेण शतरुद्रीयसंझिना ।। ५२ शं चेत्यायनुवाकेन शान्तिरूपेण चेश्वरम् । आवृत्य च यथाशक्ति पश्चाद्गन्धादि विन्यसेत् ॥५३ ततश्च शोभनैः पुष्पैः पल्वैिः समर्चयेत् । तुलसीमारुवदलैः कहारैश्च महोत्पलैः ॥ नीलोत्पलैरुत्पलैश्च शेषैश्च करवीरकैः । कर्णिकारैः सिताम्भोजैरपराजितया तथा ॥ तिलाशतैरक्षतैश्च श्रीपौस्तिलमिश्रकैः । एवं महेशमीशानं पूजयामास गौतमः ॥ ५६ कर्पूरागरुकस्तूरीसर्जागरुकचन्दनः । अन्यैश्च धूपयामास षोडशाथ प्रदीपिकाः ॥ १. रगैः । सु। २ . च । पत्रि । ३ अ. 'त्वा जलें । ४ ख. गणाः । ५ म. ल्पिताम् । ६ म. पात्रं । ७ क. त्रिशमस्या अष्ट'। ४८ ७१२ - ६८ ७० ७१ महामुनिश्रीव्यासपणीतं- [४ पातालखण्डे- कर्पूरवर्तिसंयुक्ता दीपयत्रोपरि स्थिताः । निवेदित(ता) महेशाय ह्यथ नैवेद्यमुत्तमम् ॥ ५८ सुपकशालिपिष्टानं भक्ष्यं लेखं च चोषकम् । मधुरादिसमोपेतं पञ्चभक्ष्यसमन्वितम् ॥ अनेकपकशाकाव्यमनेकपकमिश्रितम् । पानं विंशतिसंयुक्तं द्राक्षारम्भाफलान्वितम् ॥ ६० सहकारफलैश्वान्यैर्नागरफलाक्षतैः । शर्करागुडसंयुक्तैराज्यपात्रसमन्वितम् ॥ सूपाष्टकादिसंयुक्तं युक्तं मूलफलादिना । यथासंभवसंयुक्तैरन्यैरप्युपकल्पितम् ॥ ६२ अग्रपुष्पसमोपेतं नैवेद्यं प्रददौ मुनिः । सौवर्णपात्रिकान्यस्तनीराजनसहस्रकम् ॥ सोपहाराय देवाय दत्त्वा चैव नमस्य च । पूगखण्डानथो घृष्टान्पत्राणि क्षालितानि च ॥ ६४ अपृष्ठाग्राणि सुश्वेतच्छदप्रावृत्तिकानि च । घनसारकचूर्ण च न्यस्तपत्रत्रयं शुभम् ॥ ६५ सौवर्णपात्रविन्यस्तमिदं ताम्बूलमीश्वरे । अथ प्रदक्षिणं कृत्वा नमस्काराननन्तरम् ॥ अष्ट योषास्ततः प्राप्तास्तन्त्रीवेण्वादिधारिताः । विचित्रवाद्यवादिन्यः संप्राप्ता मुनिसंनिधिम्।।६७ क्षुद्रतालयुगं गृह्य स्वयं गातुं प्रचक्रमे । गौतमे गातुमुद्युक्ते तानं कुर्युरथाङ्गनाः ॥ मन्दं मन्दं च वाद्यानि वादयन्ति तथाऽपराः । मधुरं गायति मुनौ स्वरा मूर्तिभृतस्तथा ॥ ६९ मनृत्यन्तं महेशाग्रे तदद्भुतमिवाभवत् । एतस्मिन्नन्तरे प्राप्तो भगवानारदो मुनिः ॥ तमागतं गौतमोऽपि संपूज्य प्रणिपत्य च । आह चैनं कृतार्थोऽस्मि न च कश्चिन्मया समः ॥ तवाऽऽगमनकृत्यं किं कुत आगमनं तथा ॥ नारद उवाच- पातालादागतोऽस्मीह भुक्त्वा वै बाणमन्दिरे । आयास्यन्ति महात्मानो बाणशुक्रादयो गृहम् ॥ अथ क्षणादभ्यगमद्धाणः परपुरंजयः । विंशत्यक्षौहिणीयुक्तो गजमारुह्य सोऽसुरः । अपरं हि गजं शुक्रः प्रहादो रथमुत्तमम् । वृषपर्वा रथवरं बलिस्तुरगमुत्तमम् ॥ आगतानथ तान्सर्वानाज्ञाय स तु गौतमः । सशिष्यो निर्जगामार्थ ह्यादायाादिकं तथा ॥७५ गौतमं चापि ते वीक्ष्य ह्यवरुह्य गजादिकात् । नमश्चक्रुरथो दैत्यास्तं नमस्कृत्य भार्गवम् ॥ ७६ आलिङ्गन्य राक्षसान्सर्वान्पूजयित्वा यथाविधि । सेनायाः संनिवेशं च चकार मुनिपुङ्गवः ॥ ७७ पादौ प्रक्षाल्य शुक्रस्य तोयं मूर्ध्नि धृतं यथा । विचित्रफलसंयुक्तं दत्तवानहणं मुनिः ॥ वापीतडागसरसि स्नानपूर्वकृतक्रियाः । संगमे वर्तमाने तु गौतमस्याऽऽश्रमे शुभे ॥ तद्नेहं तु प्रविश्याथ राक्षसाः सपुरोहिताः । देवपूजाप्रयत्नं च चक्रुः सर्वे द्विजालये ॥ सद्यः प्रकल्पितायां च वेद्यां शुक्रोऽयजच्छिवम् । तस्यैव वामभागे तु प्रहादोऽयजदच्युतम् ८१ सोमं च बलिरप्येवमन्ये चासुरपुङ्गवाः । अथ बाणोऽयजद्देवमेकमेव त्रियम्बकम् ॥ शुक्रोऽपि भगवन्तं तमुमानाथमपूजयत् । गौतमोऽप्यथ मध्याह्ने पूजयामास शंकरम् ॥ सर्वे शुक्लाम्बरधरा भस्मोद्धूलितविग्रहाः । सितेन भस्मना कृत्वा सर्वस्थाने त्रिपुण्डूकम् ॥ ८४ नत्वा तु भार्गवं सर्वे भूतशुद्धिं प्रचक्रमुः । हृत्पद्ममध्ये सुषिरं तत्रैव भूतपञ्चकम् ॥ तेषां मध्ये महाकाशमाकाशे निर्मलोसनम् । तन्मध्ये च महेशानं ध्यायेद्दीप्तिमयं शुभम् ॥ अज्ञानसंयुतं भूतं शमले सर्वसंगतम् । तदेहमाकाशदीपे प्रदहेज्ज्ञानवह्निना ॥ आकाशस्याऽऽवृतिं चाहं दग्ध्वाऽऽकाशमयो दहेत् । दग्ध्वाऽऽकाशमथो वायुमग्निभूतं तथा दहेत्।। ७३ ७४ ७८ ८० ८५ ८६ ८७ १ क. 'थ महाव्रतधरो मुनिः । गौ । २ ख. च. छ. ट. ड. °लानलम् । ३ स्व. अ. च. छ. ट. उ. 'लं कर्मसं ।
९२ ९४ ९८ ११० दशाधिकशततमोऽध्यायः ] पद्मपुराणम् । अब्भूतं च ततो दरवा पृथिवीभूतमेव च । तदाश्रितान्गुणान्दग्ध्वा ततो देहं प्रदाहयेत् ॥ ८९ एवं दहित्वा भूतादि देहे तज्ज्ञानवह्निना । शिखामध्यस्थितं विष्णुमानन्दरसनिर्भरम् ॥ निष्पमचन्द्रकिरणसंकाशकिरणं शिवम् । शिवानोत्पन्नकिरणैरमृतद्रवसंयुतैः ।। सुशीतला ततो ज्वाला प्रशान्ता चन्द्ररश्मिवत् । प्रसारितसुधा रुग्भिः सान्द्रीभूतश्च संप्लवः क्रमेण प्लावितं भूतग्राम संचिन्तयेत्परम् ॥ इत्थं कृत्वा भूतशुद्धिं क्रिया) मर्त्यः शुद्धो जायते एव शुद्धः ॥ पूजां कर्तुं जाप्यकर्मापि पश्चाद्देवे ध्यानं ब्रह्महत्यादिहानिः ।। एवं ध्यात्वा चन्द्रदीप्तिप्रकाशं ध्यानेनाऽऽरोप्याऽऽशु लिङ्गे शिवस्य । सदाशिवं दीपमध्ये विचिन्त्य पश्चाक्षरेणार्चनमव्ययं तु ॥ आवाहनादीनुपचारांस्तथाऽपि कृत्वा स्नानं पूर्ववच्छंकरस्य । उदुम्बरं राजतं स्वर्णपीठं वस्त्रादिच्छन्नं सर्वमेवेह पीठम् ॥ अन्ते कृत्वा बुद्बुदानां च वृष्टिं पीठे पीठे नागमेकं पुरस्तात् । कुर्यात्पीठे चोर्ध्वके नागयुग्मं देवाभ्याशे दक्षिणे वामतश्च ॥ जपापुष्पं नागमध्ये निधाय मध्येवस्त्रं द्वादशप्रातिगुण्ये । सुश्वेतेन तस्य मध्ये महेशं लिङ्गाकारं पीठयुक्तं प्रपूज्यम् ।। एवं कृत्वा बाणमुख्या दितीशा दत्त्वा दत्त्वा पञ्चगन्धाष्टगन्धम् । पुष्पैः पत्रैः श्रीतिलैरक्षतैश्च तिलोन्मित्रैः केवलैश्च प्रपूज्य ॥ धूपं दत्त्वा विधिवत्संप्रयुक्तं दीपं दत्त्वा चोक्तमेवोपहारम् । पूजाशेषं ते समाप्याथ सर्वे गीतं नृत्यं तत्र तत्रापि चक्रुः ।। अथास्मिन्नन्तरे गौतमस्य प्राप्तः शिष्यः शंकरात्मेति नाम्ना ॥ उन्मत्तवेषो दिग्वासा अनेकां वृत्तिमाश्रितः । कचिद्द्विजातिप्रवरः कचिचण्डालसंनिभः ॥ १०० कचिच्छूद्रसमो योगी तापसः कचिदप्युत । गर्जत्युत्पतते चैव नृत्यति स्तौति गायति ॥ १०? रोदिति शृणुते व्यक्तं पतत्युत्तिष्ठति कचित् । शिवज्ञानकसंपन्नः परमानन्दनिर्भरः ॥ १०२ संपाप्तो भोज्यवेलायां गौतमस्यान्तिकं ययौ । बुभुजे गुरुणा साकं कचिदुच्छिष्टमेव च ॥ १०३ कचिल्लेहति तत्पात्रं तूष्णीमेवाभ्यगात्कचित् । हस्तं गृहीत्वैव गुरोः स्वयमेवाभुनक्कचित् ॥१०४ कचिहान्तरे मूत्रं कचित्कर्दमलेपनम् । सर्वदा तं गुरुर्दृष्ट्वा करमालम्ब्य मन्दिरम् ॥ पविश्य स्वीयपीठे तमुपवेश्याभ्यभोजयत् । स्वयं तदस्य पात्रेण बुभुजे गौतमो मुनिः ॥ १०६ तस्य चित्तं परिज्ञातुं कदाचिदथ सुन्दरी । अहल्या शिष्यमाहूय भुवेत्युक्त्वाऽथ सा शुभा॥ सौवर्णे भाजने चानं निधाय चषकान्तरे । पानादिकमथो दत्त्वा एकस्मिन्यावकं पुनः ॥ १०८ निधायाङ्गारनिचयं कण्टकानां चयं परे । निधाय भुक्ष्व भवेति स चापि बुभुजे मुनिः१०९ यथा पपौ हि पानीयं तथा वह्निमपि द्विजः । कण्टकानं तु तद्भुक्त्वा यथापूर्वमतिष्ठत ।। पुरा हि मुनिकन्याभिराहूतो भोजनाय च । दिने दिने तत्प्रदत्तं लोष्टमम्बु च गोमयम् ।। १११ कर्दमे काष्ठदण्डं च भुक्त्वा प्रीत्याऽथ हर्षितः । एतादृशो मुनिरसौ चण्डालसदृशाकृतिः ११२ सुजीर्णोपानही हस्ते गृहीत्वा तु तथा करे । अन्त्यजोचितभाषाभिषपर्वाणमभ्यगात् ॥ ११३ १८. दिं देहान्तर्ज्ञानव । २ ख. च कथान्त । झ. त्र च कषान्त । ९९ ११० - महामुनिश्रीव्यासमणीत- [४ पातालखण्ड- दृषपर्वेशयोर्मध्ये दिग्वासाः समतिष्ठत । वृषपर्वा तमज्ञात्वा पीडयित्वा शिरोऽच्छिनत् ।। ११४ हते तस्मिन्दिजश्रेष्ठे जगदेतच्चराचरम् । अतीव कलुषमभवत्तत्रस्था मुनयस्तथा ॥ ११५ गौतमस्य महाशोकः संजातः सुमहात्मनः । निर्ययौ चक्षुषो वारि शोक संदर्शयभिव ॥ ११६ गौतमः सर्वदैत्यानां संनिधौ वाक्यमुक्तवान् । किमनेन कृतं पापं येन च्छिमामिदं शिरः॥११७ मम प्राणाधिकस्येह सर्वदा शिवयोगिनः । ममापि मरणं सत्यं शिष्यच्छमा यतो गुरुः ॥ ११८ शैवानां धर्मयुक्तानां सर्वदा शिववर्तिनाम् । मरणं यत्र दृष्टं स्यात्तत्र नो मरणं ध्रुवम् ॥ शुक्र उवाच- एनं संजीवयिष्यामि मम गोत्रं शिवप्रियम् । किमर्थ म्रियते ब्रह्मन्पश्य मे तपसो बलम् ॥ १२० इति वादिनि विप्रेन्द्र गौतमोऽपि ममार ह । तस्मिन्मृतेऽथ शुक्रोऽपि प्राणांस्तत्याज योगतः१२१ तस्यापि हतमाशाय प्रहादाद्या दितीश्वराः । सर्वे मृताः क्षणेनैव तदद्भुतमिवाभवत् ॥ १२२ मृतमासीदथ बलं तस्य वाणस्य धीमतः । अहल्या शोकसंतप्ता रुरोदोच्चैः पुनः पुनः ॥ गौतमेन महेशस्य पूजया पूजितो विभुः । वीरभद्रो महायोगी सर्व दृष्ट्वा चुकोप ह ॥ १२४ अहो कष्टमहो कष्टं माहेशा बहवो पताः। शिवं विज्ञापयिष्यामि तेनोक्तं करवाण्यहम् ॥ १२५ इति निश्चित्य गतवान्मन्दराचलमव्ययम् । नमस्कृत्वा विरूपाक्षमिदं सर्वमथोक्तवान् ॥ १२६ ब्रह्मा हरिः स्थितौ तत्र दृष्ट्वा प्राह शिवो वचः । मद्भक्तैः साहसं कर्म कृतं दृष्ट्वा वरप्रदः १२७ गत्वा पश्यामहे विष्णो युवामप्यागमिष्यथ । अथेशो दृषमारुह्य वायुना धूतचामरः ।। १२८ नन्दिकेन सुवेषेण धृते छत्रेऽतिशोभने । सुखेते हेमदण्डे च नान्ययोग्ये धृते विभोः॥ १२९ महेशानुमति लब्ध्वा हरि गान्तके स्थितः । आरक्तनीलच्छत्राभ्यां शुशुभे लक्ष्मकौस्तुभः १३० शिवानुमत्या ब्रह्माऽपि हंसारूढोऽभवत्तदा । इन्द्रगोपप्रभाकारच्छत्राभ्यां शुशुभे विधिः ॥ १३१ इन्द्रादिसर्वदेवाश्च स्वस्ववाहनसंयुताः । अथ ते निर्ययुः सर्वे नानांवाद्यानुमोदिताः ॥ कोटिकोटिगणाकीर्णा गौतमस्याऽऽश्रमं गताः । ब्रह्मविष्णुमहेशाना दृष्ट्वा तत्परमाद्भुतम् ॥ १३३ स्वभक्तं जीवयामास वामकोणनिरीक्षणात् । शंकरो गौतम माह तुष्टोऽहं ते वरं वृणु ॥ १३४ गौतम उवाच- यदि प्रसन्नो देवेश यदि देयो वरो मम । त्वल्लिङ्गार्चनसामर्थ्य नित्यमस्तु महेश्वर ॥ वृतमेतन्मया देव शृणुष्वैतत्रिलोचन । मम शिष्यो महाभागो हेयाहेयादिवर्जितः ।। प्रेक्षणीयं ममत्वेन न च पश्यति चक्षुषा । न घ्राणेन च घातव्यं न दातव्यं न चेतरत् ॥ १३७ इति बुद्ध्वा तथा कुर्वन्स हि योगी महायशाः। उन्मत्तविकृताकारः शंकरात्मेति कीर्तितः १३८ न कश्चित्तं प्रति द्विष्यान च तं हिंसयेदिति । एतन्मे दीयतां देव एतेषाममृतिस्तथा । श्रीभगवानुवाच- आकल्पमेते जीवन्तु ततो मुक्तिं भजन्तु च । स्वया कृतमिदं वेश्म विस्तृत विकृतं शुभम् ॥ तिष्ठामः क्षणमात्रं तु ततो यास्यामि मन्दिरम् ।। १४० गौतम उवाच- अयोग्यं प्रार्थयामीश ह्यर्थी दोषं न पश्यति । ब्रह्मायलभ्यं देवेश दीयतां यदि रोचते ॥ १४१ अथेशो विष्णुमालोक्य गृहीत्वा तु कर हरेः। प्रहसनम्बुजाभाक्षमित्युवाच सदाशिवः ॥ १४२ १४. म. नन्दकेन । २ स. अ. मुनिः । ३ क. नाविया । - - ११० द|कशततमाऽध्यायः ] पचपुराणम् । ७१५ श्रीशिव उवाच- म्लानोदरोऽसि गोविन्द देयं ते भोजनं किमु । स्वयं प्रविश्य यदि वा स्वयं भुक्ष्व स्वगेहवत् गच्छ वा पार्वतीगेहं या कुक्षि पूरयिष्यति । इत्युक्त्वा तत्करालम्बो एकान्तमगमद्विभुः ॥१४४ आदिश्य नन्दिनं देवो द्वाराध्यक्षं यथोक्तवत् । गौतमं च उवाचाथ उत्तरं विष्णुभाषणम् १४५ श्रीशिव उवाच-- संपादयानं सर्वेषां भोक्तुकामा वयं मुने । इत्युक्त्वकान्तमगमद्वासुदेवेन शंकरः ॥ १४६ मृदुशय्यां समारुह्य शयितौ देवतोत्तमौ । अन्योन्य भाषणं कृत्वा प्रोत्तस्थतुरुभावपि ॥ १४७ गत्वा तटाकं गम्भीरं स्नास्यन्तौ देवसत्तमौ । कराम्बुपातमन्योन्यं पृथकृत्वोभयत्र च ८ १४८ मुनयो राक्षसाश्चैव जलक्रीडा प्रचक्रिरे । अथ विष्णुमहेशश्च जलपातानि शीघ्रतः ॥ १४९ चक्रतुः शंकरः पअकिञ्जल्काञ्जलिना हरेः । अवाकिरन्मुखे तस्य पोत्फुल्लविलोचने ॥ १५० नेत्रे केशरसंपाताभ्यमीलयत केशवः । अत्रान्तरे हरेः स्कन्धमारोह महेश्वरः ॥ हयुत्तमा बाहुभ्यां गृहीत्वा स न्यमज्जयत् । उन्मज्जयित्वा च पुनः पुनश्चापि पुनः पुनः १५२ पीडितः स हरिः सूक्ष्मं पातयामास शंकरम् । अथ पादौ गृहीत्वा तमाचकर्ष चाभ्रामयत् ॥ अताडयरेक्षः पातयामास चाच्युतम् ॥ अथोत्थितो हरिस्तोयमादायाञ्जलिना ततः । अवाकिरदयो शंभुरथ विष्णुरथो हरिः(रः)॥१५४ जलक्रीडैवमभवदथ चर्षिगणान्तरे । जलक्रीडासंभ्रमेण विस्रस्तजटबन्धनाः ॥ १५५ अथ संभ्रमतस्ते(तां तेषामन्योन्यं जटबन्धनम् । इतरेतरबद्धासु जटासु च मुनीश्वराः ॥ १५६ शक्तिमन्तोऽशक्तिमत आकर्षन्ति च सव्यथम् । पातयन्तोऽन्यतश्चापि क्रोशन्तो रुदतस्तथा१५७ एवं प्रवृत्ते तुमुले संभूते तोयकर्मणि । आकाशे नारदो दृष्टो ननर्त च ननाद च ॥ १५८ विपञ्ची नादयन्वाचं ललिता गीतिमुज्जगौ । सुगीत्या ललितायास्तु ह्यगायत विधा दश ॥१५९ शुश्राव गीतिं मधुरा शंकरो लोकभावनः । स्वयं गातुं हि ललितं मन्द मन्द प्रचक्रमे ॥ १६० स्वयं गायति देवेशे मिश्रा मङ्गलकैशिकी । नारदे नृत्यमाने तु गोयति स्वरभेदिनि ॥ १६१ १६२ स्वरं ध्रुवं समादाय सर्वलक्षणसंयुतम् । स्वधारामृतसंयुक्तं गानेनैवमयोजयत् ।। वासुदेवो मर्दलं च कराभ्यामृतमाहनत् । आवेगाहंश्चतुर्वक्त्रस्तुम्बुरुर्भुखरो बभौ ॥ १६३ तानका गौतमायास्तु तूष्णी गातुं च वायुजः । गायके मधुरं गीतं हनूमति कपीश्वरे ॥ १६४ म्लानमम्लानमभवत्कृशाः पुष्टास्तदाऽभवन् । स्वां स्वां गीतिमतः सर्वे तिरस्कृत्यैव मूर्छिताः ।। तूष्णी भूतं समभवदेवर्षिगणदानवम् । एकः स हनुमानगाता श्रोतारः सर्व एव ते ।। १६६ मध्याहकाले वितत भोजनावसरे सति । दुकूलयुग्ममाधत्त शृण्वन्गीतिं महेश्वरः ॥ १६७ पीतवस्त्रद्वयं विष्णुरारक्तं चतुराननः । स्वस्वाहा॑ण्यथ सर्वेऽपि कृत्यं कृत्वाऽपि कालिकम्।। १६८ १६९ स्वं स्वं वाहनमारुख निर्गताः सर्वदेवताः । गानप्रियो महेशस्तु जगाद प्लवगेश्वरम् ।। श्रीशिव उवाच- प्लवग त्वं मयाऽऽज्ञप्तो निःशङ्ख वृषमारुह । मम चाभिमुखो भूत्वा गायस्वाशेषगायनम् ॥ १७० १. प्र. लकौशि । २ स. अ. गायन्ति । ३ म. म. ध्रुवं । ४ ख. उ. च. छ. ट. उ. भ्यामिदमा' । ५ ख... च....वजाइश्च ।
७१६ महामुनिश्रीव्यासप्रणीतं- [ ४ पातालखण्डे- अथाऽऽह कपिशार्दूलो भगवन्तं महेश्वरम् । वृषभारोहसामर्थ्य तव नान्यस्य विद्यते ॥ १७१ तव वाहनमारुह्य पातकी स्यामहं प्रभो। मामेवाऽऽरुह देवेश विहंगः शिवधारणः ॥ सव चाभिमुखं गानं करिष्यामि विलोकय । अथेश्वरो हनूमन्तमारुरोह वृषं यथा ॥ १७३ आरूढे शंकर देवे हनूमान्कंधराशिरः । छित्त्वा त्वचं परावृत्य मुखं गायति पूर्ववत् ॥ १७४ शृण्वन्गीतिसुधां शंभुगौतमस्य गृहं ततः । सर्वे चाप्यागतास्तत्र देवर्षिगणदानवाः ॥ १७५ पूजिता गौतमेनाथ भोजनावसरे सति । यच्छुष्कदारुसंभूतं गृहोपस्करणादिकम् ॥ १७६ प्ररूढमभवत्सर्व गायमाने हनूमति । तस्मिन्गाने समस्तानां चित्रदृष्टिरतिष्ठत ॥ १७७ द्विबाहुरीशस्य पदाभिवन्दनः समस्तगात्राभरणोपपन्नः । प्रसम्ममूर्तिस्तरुणः सुमध्ये विन्यस्तमूर्धाञ्जलिभिः सुरेभिः(?) । १७८ शिरः कराभ्यां परिगृह्य शंकरो हनूमतः पूर्वमुखं चकार । पद्मासनासीनहनूमतोऽञ्जलौ निधाय पादं त्वपरं मुखे च ॥ १७९ पादाङ्गुलीभ्यामथ नासिकां विभुः स्नेहेन जग्राह च मन्दमन्दम् । स्कन्धे मुखे त्वंसतले च कण्ठे वक्षःस्थले च स्तनमध्यमे हृदि । १८० ततश्च कुक्षावथ नाभिमण्डले ततो द्वितीयं न्यदधात्तु चाञ्जली । शिरो गृहीत्वाऽवनमप्यशंकरः(?)पस्पर्श पृष्ठं चुबुकेन सध्वनिः ॥ हारं च मुक्तापरिकल्पितं शिवो हनूमतः कण्ठगतं चकार ॥ १८१ अथ विष्णुमहेशानमिदं वचनमुक्तवान् । हनूमता समो नास्ति कृत्स्नब्रह्माण्डमण्डले ॥ १८२ श्रुतिदेवाद्यगम्यं हि पदं तव कपिस्थितम् । सर्वोपनिषदव्यक्तं त्वत्पदं कपिसर्वयुक् ।। १८३ यमादिसाधनैर्योगैर्न क्षणं ते पदं स्थितम् । महायोगिहृदम्भोजे बलं स्वच्छं हनूमति ॥ १८४ वर्षकोटिसहस्रेषु तपः कृत्वा तु दुष्करम् । त्वद्रूपं नाभिजानन्ति कुतः पादं मुनीश्वराः ॥ १८५ अहो भाग्यं विचित्रं हि चपलो वानरो मृगः । धत्ते पादयुगं चाङ्गे योगिहृयपि न क्षमम् १८६ मया वर्षसहस्रं तु सहस्राजैस्तथाऽन्वहम् । भक्त्या संपूजितोऽपीश पादो नो दर्शितस्त्वया १८७ लोके वादो हि सुमहाशंभुर्नारायणप्रियः । हरिः प्रियस्तथा शंभोर्न तादृग्भाग्यमस्ति मे १८८ सदाशिव उवाच---- न त्वया सदृशो मा प्रियोऽस्ति भगवन्हरे । पार्वती वा त्वया तुल्या न चान्यो विद्यते मम १८९ अथ देवाय महते गौतमः प्रणिपत्य च । व्यज्ञापयदमेयात्मन्देवेहि करुणानिधे ।। १९० मध्याह्नोऽयं व्यतिक्रान्तो भुक्तिवेलाऽखिलस्य च । अथाऽऽचम्य महादेवो विष्णुना सहितो विभुः॥ भविश्य गौतमगृहं भोजनायोपचक्रमे ॥ रत्नाङ्गुलीयैरथ नूपुराभ्यां दुकूलबन्धेन तडित्सुकाध्या। हारैरनेकैरथ कण्ठनिष्कयज्ञोपवीतोत्तरवाससी च ॥ विलम्बिचञ्चन्मणिकुण्डलेन सुपुष्पधम्मिल्लवरेण देवः । पश्चाङ्गगन्धस्य विलेपनेन बाहादैः कङ्कणकाङ्गुलीयैः ॥ १९२ १ छ. ट. ड. गतः । २ ख. स्वरेभिः । ३ स. म. त्वा मन ।
११० दशाधिकशततमोऽध्यायः ] पमपुराणम् । इत्थं विभूषितः शिवो निविष्ट उत्तमासने स्वसंमुखं हरिं तथा न्यवेशयद्वरासने ॥ अन्योन्यसंमुखस्थितौ हरीशी देवसत्तमौ सुवर्णभाजनान्यथो ददौ स चापि गौतमः ॥ १९४ त्रिंशत्मभेदभक्षकान्सुपायसं चतुर्विधं सुपकपाकजातकं शतद्वयं प्रकल्पितम् ॥ अपकमिश्रकं तथा शतत्रयं प्रकल्पितं शतं शतं तथा सुकन्दशाककं तथा मुनिः ।। १९५ शाकादि सर्षपान्वितं ददौ च पश्चविंशति सुशर्करादिकं तथा सुचूतदाडिमादिकम् ॥ मोचाफलं तु गोस्तनी सुखर्जुनागरगकं जम्बूफलं प्रियालुकं विकङ्कतं फलं तथा ॥ १९६ एवमादीनि चान्यानि द्रव्याण्यमे यथाविधि । दत्त्वाऽऽपोशनं च विप्रो अँजध्वमिति चाब्रवीत् १९७ भुञ्जानेषु च सर्वेषु व्यजनं सूक्ष्मविस्तृतम् । गौतमः स्वयमादाय शिवविष्णू ह्मवीनयत् ॥ १९८ परिहासमथो कर्तुमियेष परमेश्वरः । पश्य विष्णो हनूमन्तं कथं भुङ्क्ते स वानरः ॥ १९९ वानरं पश्यति हरौ मण्डकं विष्णुभाजने । चिक्षेप मुनिसंघेषु पश्यत्स्वपि महेश्वरः ॥ हनूमते दत्तवांश्च स्वोच्छिष्टं पायसादिकम् । त्वदुच्छिष्टमभोज्यं तु तवैव वचनाद्विभो । अनर्ह मम नैवेद्यं पत्रं पुष्पं फलं तथा । मह्यं निवेद्य सकलं कूप एव विनिक्षिपेत् । अभुक्ते त्वद्वचो नूनं भुक्ते चापि कृपा तव ॥ २०२ सदाशिव उवाच- बाणलिङ्गे स्वयंभूते चन्द्रकान्ते हदि स्थिते । चान्द्रायणसमं ज्ञेयं शंभो वेधभक्षणम् ॥ २०३ भुक्तिवेलेयमधुना तद्वैरस्यं कथान्तरात् । भुक्त्वा तु कथयिष्यामि निर्विशडं विभुङ्क्षय तत् । अथासौ जलसंस्कारं कृतवान्गौतमो मुनिः ॥ आरक्तसुस्निग्धसुसूक्ष्मगात्राननेकधा धौतसुशोषिताङ्गान् । तडागतोयैः कतबीजर्षितैर्विशोधितैस्तैः करकानपूरयत् ।। २०५ नद्याः सैकतवेदिकां नवतरां संछाद्य सूक्ष्माम्बरैः शुद्धैः श्वेततरैरथोपरि घटांस्तोयेन पूर्णान्क्षिपेत् । क्षिप्त्वा नालकजातिमास्तपुटकं तत्कौलकस्तूरिका- चूर्ण चन्दनचन्द्ररश्मिविशदां माला पुटान्तां क्षिपेत् ॥ २०६ यामस्यापि पुनश्च वारि वसनेनाऽऽशोध्य कुम्भे क्षिपे- चन्द्रग्रन्थिमथो निधाय बकुलं क्षिप्त्वा तथा पाटलम् ॥ शेफालिस्तबकमथो जलं च तत्र विन्यस्य प्रथमत एव तोयशुद्धिम् । २०८ कृत्वाऽथो मृदुतरसूक्ष्मवस्त्रखण्डेनाऽऽवेष्टेत्सृणिकमुखं च सूक्ष्मचन्द्रम् ॥ भनातपपदेशे तु निधाय करकानथ । मन्दवातसमोपेते सूक्ष्मव्यजनवीजिते । १ अ. भुमध्व। - २०४ २०७ २१४ २१८ २१९ ७१८ महामुनिश्रीव्यासप्रणीतं- [४ पातालखण्डे- अथ उशिर्वी सु)सलिलैः सिञ्चयेत्सृणिकामपि । संस्कृताः स्वायतास्तत्र नरा नार्योऽथवा नृप तत्कन्या वा क्षालिताना धौतमन्दाश्च वाससः (१)। मधुपिङ्गमनिर्यासमसान्द्रमगरुद्रवम् ॥ २११ बाहुमूले च कण्ठे च विलिप्य सान्द्रमेव च 1 मस्तके जोपकं न्यस्य पश्चगन्धविलेपनम् ॥ २१२ पुष्पनद्धसुकेशास्तु ताः शुभाः स्युः सुनिर्मलाः । एवमेवाचिंता नार्य आत्तकुङ्कुमविग्रहाः ॥२१३ युवत्यश्वारुसर्वाङ्गयो नितरां भूषणैरपि । एताहग्वनिताभिर्वा नरैर्वा दापयेजलम् ॥ तेऽपि प्रदानसमये सूक्ष्मवस्खाल्पवेष्टनम् । अथ वामकरे न्यस्य करकं पश्य तत्र हि ॥ २१५ दारिकान्यस्तमुन्मुच्य ततस्तोयं प्रदापयेत् । एवं सत्कारयामास गौतमो भगवान्मुनिः ॥ २१६ महेशादिषु सर्वेषु भुक्तवत्सु महात्मसु । प्रक्षालिताङ्ग्रिहस्तेषु गन्धोदर्तितपाणिषु ॥ २१७ तदाऽऽसनसमासीने देवदेवे महेश्वरे । अथ नीचसमासीना देवाः सर्षिगणास्तथा ॥ मणिपात्रेषु संवेष्ट्य पूगखण्डान्सुधूपितान् । अकोणवर्तुलान्स्थूलानसूक्ष्मानकृशानपि ॥ श्वेतपात्राणि संशोध्य क्षिप्त्वा कर्पूरखण्डकम् । चूर्ण च शंकरायाथ निवेदयति गौतमे ॥ २२० गृहाण देव ताम्बूलमित्युक्तवचने मुनौ । कपे गृहाण ताम्बूलं प्रयच्छ मम खण्डकान् ॥ २२१ उवाच वानरो नास्ति मम शुद्धिर्महेश्वर । अनेकफलभक्तत्वाद्वानरस्तु शुचिः कथम् ॥ सदाशिव उवाच- मद्वाक्यादखिलं शुध्येन्मद्वाक्यादमृतं विषम् । मद्वाक्यादखिला वेदा मद्वाक्यादेवतादयः ॥ २२३ मद्वाक्याद्धर्मविज्ञानं मद्वाक्यान्मोक्ष उच्यते । पुराणान्यागमाश्चैव स्मृतयो मम वाक्यतः ॥ २२४ अतो गृहाण ताम्बूलं मम दद्याः सुखण्डकान् । हरिमिकरेणादात्ताम्बूलं पूगखण्डकम् ॥ २२५ ततः पत्राणि संगृह्य ततः खण्डान्समार्पयत् । कर्पूरमग्रतो दत्तं गृहीत्वाऽभक्षयच्छिवः ॥ २२६ देवे तु कृतताम्बूले पार्वती मन्दि(न्द)राचलात् । जयाविजययोर्हस्तं गृहीत्वाऽयान्मुनेहम् २२७ देवपादौ ततो नत्वा विनम्रम(व)दनाऽभवत् । उनमय्य मुखं तस्या इदमाह त्रिलोचनः ॥२२८ त्वदर्थ देवदेवेशि छपराधः कृतो मया । यत्त्वां विहाय भुक्तं हि तथाऽन्यच्छृणु सुन्दरि ॥२२९ अथ स्वमन्दिरे स्थाप्य देवदेवविवजिते । सर्वन्धविमुक्ते च महदेनो मया कृतम् ॥ २३० क्षन्तुमर्हसि देवेशि त्यक्तकोपा विलोकय । नवभाषैवमुक्ता सा अरुन्धत्या हि निर्ययौ ॥ २३१ निर्गच्छन्ती मुनि त्वा दण्डवत्पणनाम च । तदारभ्य महेशाय दण्डमणतिसंस्तुतिम् ॥ कुर्वनुवाच च शिवा गौतम त्वं किमिच्छसि ॥ २३२ गौतम उवाच- कृतकृत्योऽस्मि देवेशि यदि देयो वरो मम । मन्मन्दिरे महाभागे भोक्तुमर्हसि सांगतम् ॥ २३३ देव्युवाच- भोक्ष्यामि तव गेहेऽहं शंकरानुमता मुने । गत्वेशं गौतमो विप्रो लग्धानुनः पुनर्गतिः ॥ भोजयामास गिरिजा देवी चारुन्धती तथा। भुक्त्वाऽथ पार्वती सर्व गन्धपुष्पसुभूषणा ॥ २३५ सहानुचरकन्याभिः सहस्राभिर्हरं ययौ । अथाऽऽह शंकरो देवी गच्छ गौतममन्दिरम् ॥ २३६ संध्योपास्तिमहं कृत्वा बागच्छामि पुनर्ग्रहम् । इत्युका प्रययौ देवी गौतमस्यैव मन्दिरम् ॥२३७ संध्यावन्दनकामाच सर्व एव विनिर्गताः । कृतसंध्यास्वटाके तु महेशाधास्तु कृत्स्नशः॥ २३८ अयोत्तरमुखः शंभुयासं कृत्वा जजापह। अथ विष्णुर्महातेजा महेशमिदमब्रवीत् ॥ म. जयकं । २ म. अनेकव । ३ म. 'न्मोद उ । ४७. र. बन्धुवि । - २३९ ७१९ - २४० - २४४ २४७ २४८ - ११० दशाधिकशततमोऽध्यायः ] पमपुराणम् । विष्णुरुवाच- सर्वैनमस्यते यस्तु सर्वैरेव समय॑ते । हूयते सर्वयज्ञेषु स भवान्कि जपिष्यति ॥ रचिताञ्जलयः सर्वे त्वामेवैकमुपासते । स भवान्देवदेवेश कस्मै वा रचिताञ्जलिः ॥ २४१ नमस्कारादिपुण्यानां फलदस्त्वं महेश्वरः। तव कः फलदो वन्द्यः को वा त्वत्तोऽधिको वद २४२ शंकर उवाच- ध्याये न किंचिद्गोविन्द न नमस्ये ह किंचन । नोपास्ये कंचन हरे न जपिष्ये ह किंचन ॥ २४३ किंतु नास्तिकजन्तूनां प्रवृत्त्यर्थमिदं मया । दर्शनीयं हरे ते स्युरन्यथा पापकारिणः ॥ तस्माल्लोकोपकारार्थमिदं सर्व कृतं मया । ओमित्युक्त्वा हरिरथ तं नत्वा समतिष्ठत ॥ २४५ अथ ते गौतमगृहं प्राप्ता देवगणर्षयः । सर्वे पूजामथो चक्रुर्देवाय शूलिने सदा ॥ २४६ देवो हनूमता साधं गायनास्ते रघूत्तम । पञ्चाक्षरी महाविद्या सर्व एव तदाऽजपन् । हनूमत्करमालम्ब्य देव्यभ्याशं गतो हरः । एकशय्यासमासीनौ तावुभौ देवदंपती॥ गायनास्ते स हनुमास्तुम्बरु रदस्तथा । नानाविधविलासांश्च चकार परमेश्वरः ॥ आहूय पार्वतीमीश इदं वाक्यमुवाच ह ।। श्रीशिव उवाच- चयिष्यामि धम्मिल्लमेहि मत्पुरतः शुभे ।। २५० देव्याह न च युक्तं तद्भर्ना शुश्रूषणं स्त्रियाः। केशप्रसाधनकृतावनान्तरमापतेत् ॥ २५१ केशमसाधने देवे(व) तत्त्वं सर्व न चेप्सितम् । अथ बन्धे कृते पश्चादंसपान्तप्रमार्जनम् ॥ २५२ नोश्वरमसंलग्नं केशपुष्पादिमार्जनम् । एतस्मिन्वर्तमाने तु महात्मानो यथाऽऽगमन् ॥ दा किमुत्तरं वाच्यं तव देवादिवन्दिनः। नाऽऽयान्ति चेदय विभो भीति शमुपैष्यति ॥२५५ एवं हि भाषमाणां तां करेणाऽऽकृष्य शंकरः । स्वोर्वोस्तां स्थापयित्वैव विस्रस्य कचबन्धनम् ।। वेभज्य च कराभ्यां स प्रससार नखैरपि। विष्णुदत्ता पारिजातस्रज कचगतामपि ॥ कृत्वा धम्मिल्लमकरोदय मालां करागताम् । मल्लिकासजमादाय बबन्ध कचबन्धने ।। २५७ कल्पप्रसूनमालां च ब्रह्मदत्ता महेश्वरः । पार्वतीवसने गूढगन्धाढ्ये च समाददात् ॥ २५८ भयांसपृष्ठसंलग्नमार्जनं कृतवान्विभुः । श्लथनीवेरधो देव्या वस्त्रवेष्टेरधो गतः ॥ २५९ वः किमिदमित्युक्त्वा नीवीबन्धं चकार ह । नासाभूषणमेतत्ते पश्यामि समदा ततः ॥ २६० त्युक्त्वा स्वयमादाय विच्छायं मौक्तिकं सति । हरिद्रायाः समायोगे मुक्ताफलमदीप्तिमत् ।। दं न ध्रियतां मुक्ताफलं मम तव प्रियम् ।। २६१ पार्वत्युवाच-- महो त्वमन्दिरे शंभो सर्ववस्तु समृद्धिमत् । पूर्वमेव मया सर्व वस्तु ज्ञातं विभूषणैः ॥ २६२ महो द्रविणसंपत्तिभूषणैरवगम्यते । शिरो विभूषितं देव ब्रह्मशीर्षस्य मालया ॥ रिकस्य तथा मौला वक्षःस्थलविभूषणम् । शेषश्च वासुकिश्चैव सविषौ तव कङ्कणे ॥ २६४ देशोऽम्बरे जटा केशा भसितं चागरागकम् । महोक्षो वाहनं गोत्रं कुलं चाज्ञातमेव च ॥ २६५ येते पितरौ नैव विरूपाक्षं तथा वपुः । एवं वदन्तीं गिरिजां विष्णुः प्राहातिकोपनः ॥२६६ १५ दत्ता महेश्वर । न । २ ख. नरस्य । ३ म. प्र. पाला ।
७२० महामुनिश्रीव्यासप्रणीतं- [ ४ पातालखण्डे विष्णुरुवाच २७२ किमर्थ निन्दसे देवि देवदेवं जगत्पतिम् । दुष्पाणा न प्रिया भद्रे तव नूनमसंयमम् ॥ २६७ यत्रेशनिन्दनं भद्रे तत्र नो मरणं व्रतम् । इत्युक्त्वाऽथ नखाभ्यां हि हरिश्छेत्तुं शिरो गतः२६८ महेशस्तत्करं गृह्य माह मा साहसं कृथाः । पार्वतीवचनं सर्व प्रियं मम न चामियम् ॥ २६९ ममाप्रियं हृषीकेश कर्तुं यत्किंचिदिष्यते । ओमित्युक्त्वाऽथ भगवास्तूणीभूतोऽभवद्धरिः २७० हनूमानथ देवाय व्यज्ञापयदिदं वचः। अर्थयामि विनिष्कामं मम पूजाव्रतं तथा ॥ २७१ पूजार्थमप्यहं गच्छे ममानुज्ञातुमर्हसि ॥ शंकर उवाच- कस्य पूजा क वा पूजा किं पुष्पं किं दलं वद । को गुरुः कश्च मन्त्रस्ते कीदृशं पूजनं तथा २७३ एवं वदति देवेशे हनूमान्भीतिकम्पितः । वेपमानसमस्ताङ्गः स्तोतुमेव प्रचक्रमे ॥ २७४ हनूमानुवाच- नमो देवाय महते शंकरायामितात्मने । योगिने योगधात्रे च योगिनां गुरवे नमः॥ २७५ योगिगम्याय देवाय ज्ञानिनां पतये नमः । वेदानां पतये तुभ्यं देवानां पतये नमः ॥ २७६ ध्यानाय ध्यानगम्याय ध्यातॄणां गुरवे नमः । शिष्टाय शिष्टगम्याय भूम्यादिपतये नमः ॥२७७ अम्भस्येत्यादीनां वेदवाक्यानां पतये नमः । आतनुष्वेतिवाक्यैश्च प्रतिपाद्याय ते नमः॥ २७८ अष्टमूर्ते नमस्तुभ्यं पशूनां पतये नमः । त्र्यम्बकाय त्रिनेत्राय सोमसूर्याग्निलोचन ॥ २७९ सुभृङ्गराजधत्तूरद्रोणपुष्पप्रियस्य ते । बृहतीपूगपुन्नागचम्पकादिप्रियाय च ।। २८० नमस्तेऽस्तु नमस्तेऽस्तु भूय एव नमो नमः । शिवो हरिमथ प्राह मा भैषीर्वद मेऽखिलम् ॥२८१ हनूमानुवाच- शिवलिङ्गार्चनं कार्य भस्मोद्धूलितदेहिना । दिवासंपादितैस्तोयैः पुष्पाद्यैरपि तादृशैः ॥ २८२ देव विज्ञापयिष्यामि शिवपूजाविधि शुभम् । सायंकाले तु समाप्ते ह्यशिरःस्नानमाचरेत् ॥ २८३ क्षालितं वसनं शुष्कं ध्या(ध)त्वाऽऽचम्य द्विरग्रधीः । अथ भस्म समादाय त्वाग्नेयं स्नानमाचरेत् प्रणवेन समामच्याप्यष्टवारमथापि वा । पञ्चाक्षरेण मत्रेण नाम्ना वा येन केनचित् ॥ २८५ सप्ताभिमत्रितं भस्म दर्भपाणिः समाहरेत् । ईशानः सर्वविद्यानामुक्त्वा शिरसि पातयेत्।।२८६ तत्पुरुषाय विद्महे मुखे भस्म प्रसेचयेत् । अघोरेभ्योऽथ घोरेभ्यो भस्म वक्षसि निक्षिपेत् २८७ वामदेवाय नम इति गुह्यस्थाने विनिक्षिपेत् । सद्योजातं प्रपद्यामि निक्षिपदथ पादयोः ॥ २८८ उलयेत्समस्ताङ्गं प्रणवेन विचक्षणः । त्रैवर्णिकानामुदितः स्नानादिविधिरुत्तमः ॥ २८९ शूद्रादीनां प्रवक्ष्यामि यदुक्तं [*गुरुणा तथा । शिवेति पदमुच्चार्य भस्म संमत्रयेत्सुधीः ॥ २९० सप्तवारमथाऽऽदाय शिवायेति शिरः क्षिपेत् । शंकराय मुखे प्रोक्तं] सर्वज्ञाय हृदि क्षिपेत् २९१ स्थाणवे नम इत्युक्त्वा गुह्ये चापि स्वयंभुवे । उच्चार्य पादयोः क्षिप्त्वा भस्म शुद्धमतः परम् ॥ नमः शिवायेत्युच्चार्य सर्वाङ्गोखूलनं स्मृतम् । प्रक्षाल्य हस्तावाचम्य दर्भपाणिः समाहितः २९३ दर्भाभावे सुवर्ण स्यात्तदभावे गवालकः । तद्भा(दमा)वे न (तु) दूर्वाः स्युस्तदभावे तु राजतम् * धनुचिहान्तर्गतः पाठः क. ख. ङ. च. छ. अ. ट. ड. पुस्तकस्थः । १ ख. इ. च. छ. ट. ड. योगग । २ अ. वे ततद् । .
३०८ ११० दशाधिकशततमोऽध्यायः ] पद्मपुराणम् । संध्योपास्ति जपं देव्याः कृत्वा देवगृहं व्रजेत् । देववेदिमथो वाऽपि कल्पितं स्थण्डिलं तु वा ॥ मृन्मयं कलितं शुद्धं पद्मादिरचनायुतम् । चातुर्वर्णकरङ्गैश्च श्वेतेनैकेन वा पुनः ॥ २९६ विचित्राणि च पानि स्वस्तिकादि तथैव च । उत्पलादिगदाशङ्खत्रिशूलडमरूं त(रूस्त)या२९७ सरोक्त(?)पश्चप्रासादं शिवलिङ्गमथैव च । सर्वकामफलं वृक्ष कुलकं कोलकं तथा ॥ २९८ षट्रोणं चित्रकोणं च नवकोणमथापि वा । कोणद्वादशकां दोलां पादुकाव्यजनानि च ॥ २९९ चामरच्छत्रयुगलं विष्णुब्रह्मादिकं तथा । चूविरचयेद्वेद्यां धीमान्देवालयेऽपि वा ॥ यत्रापि देवपूजा स्यात्तत्रैवं कल्पयेद्बुधः । स्वहस्तरचितं मुख्यं क्रीतं चैव तु मध्यमम् ॥ ३०१ याचितं तु कनिष्ठं स्यादलात्कारमथाधमम् । अhषु यत्नर्हेषु बलात्कारात्तु निष्फलम् ॥ ३०२ रक्तशालिजपास्था(?)ग(णु)कलमासितरक्तकैः । तण्डुलैबीहिमात्रोत्थैः कणैश्चैव यथाक्रमम् २०३ उत्तमैर्मध्यमैश्चैव कथितैरधमैस्तथा । पद्मादिस्थापनैरेव तत्सम्यग्यागमाचरेत् ॥ ३०४ प्रागुत्तरमुखो वाऽपि यदि वा प्राङ्मुखो भवेत् । आसनं च प्रवक्ष्यामि यथादृष्टं यथाश्रुतम् ३०५ कौशं चार्म चैलतल्पे दारवं तालपत्रकम् । काम्बलं काञ्चनं चैव राजतं ताम्रमेव च ॥ गोकरीपार्कजैर्वाऽपि त्वासनं परिकल्पयेत् । वैयाघ्रं रौरवं चैव हारिणं मार्गमेव च ॥ चार्म चतुर्विधं ज्ञेयमथ बन्धुकमेव च । यथासंभवमेतेषु ह्यासनं परिकल्पयेत् ॥ कृतपद्मासनो वाऽपि स्वस्तिकासन एव च । दर्भभस्मसमासीनः प्राणानायम्य वाग्यतः॥३०९ तावत्स देवतारूपो ध्यानं चान्तः समाचरेत्। शिखान्ते द्वादशाङ्गुल्ये स्थितं सूक्ष्मां तनूं(क्ष्मतनूं) शिवम् अन्तश्चरन्तं भूतेषु गुहायां विश्वमूर्तिषु । सर्वाभरणसंयुक्तमणिमादिगुणान्वितम् ॥ ध्यात्वा तं धारयेचित्ते तव्याप्त्या पूरयेत्तनुम् । तया दीप्त्या शरीरस्थं पापं नाशमुपागतम् ३१२ [*स्वर्णपारदसंपर्काद्रक्तं श्वेतं यथा भवेत् । तद्वादशदलावृत्तमष्ट पश्च त्रिरेव वा ॥ परिकल्प्याऽऽसनं शुद्धं तत्र लिङ्गं निधाय च । गुहास्थितं] महेशानं लिङ्गे संचिन्तयेत्तथा।।३१४ शोधिते कलशे तोयं शोधितं गन्धवासितम् । सुगन्धपुष्पं निक्षिप्य प्रणवेनाभिमत्रितम् ॥ ३१५ प्राणायामश्च प्रणवः शूद्रेषु न विधीयते । प्राणायामपदे ध्यानं शिवेत्योंकारमत्रणम् ॥ गन्धपुष्पाक्षतादीनि पूजाद्रव्याणि यानि च । तानि स्थाप्य समीपे तु ततः संकल्प इष्यते ३१७ शिवपूजां करिष्यामि शिवतुष्ट्यर्थमेव च । इति संकल्पयित्वा तु तत आवाहनादिकम् ॥ ३१८ कृत्वा तु स्नानपर्यन्तं ततः स्नानं प्रकल्पयेत् । नमस्तेत्यादिमत्रेण शतरुद्रियविधानतः ॥ ३१९ अविच्छिन्ना तु या धारा मुक्तिधारेति कीर्तिता । तया यः स्नापयेन्मासं जपत्रुद्रमुपांशु वा ३२० एकवारं त्रिवारं च पञ्च सप्त नवापि वा । एकादशमथो वारमथैकादश चा(थ त्रयोदशा)न्वितम् मुक्तिस्नानमिदं ज्ञेयं मासं मोक्षप्रदायकम् । शैवया विद्यया स्नानं केवलप्रणवेन वा ॥ ३२२ मृन्मयैर्नालिकेरस्य शकलैचोमिभिस्तथा । कांस्येन मुक्ताशुक्त्या च पुष्पादिकसरेण वा ॥ ३२३ सापयेद्देवदेवेशं यथासंभवमीरितैः । शृङ्गस्य च विधिं वक्ष्ये स्नानयोग्यं यथा भवेत् ॥ पूर्वमन्तस्तु संशोध्य बहिरन्तस्तु शोधयेत् । सुस्निग्धं लघु कृत्वाऽथ नागं छिन्द्यात्कथंचन।।३२५ नाचैकदेशविन्यस्तद्वारद्रोण्या सुवृत्तयोः(या)। कुशानुयुतया स्नानं देवाय परिकल्पयेत् ॥ ३२६ एवं गवयगस्य जलपूर्तिरथोच्यते । द्वारे निषिद्धलोहाध संधिद्वारासमन्विते(?) । * धनुश्चिहान्तर्गतः पाठः ख. ङ, च. छ. ट. ड. पुस्तकस्थः । १ अ. कैशं । २ झ. अ. म् । महे । ३२४ ७२२ महामुनिश्रीव्यासप्रणीत- [४ पातालखण्डे- योगवनं नागदण्डं नागाकारं प्रकल्पयेत् । फलस्थाने तु चषकं दण्डेन समरन्ध्रकम् ।। ३२८ तत्रैव पातयेत्तोयं मूर्धयत्रघटे स्थितम् । पातयेदय चान्येन वामेनैव करेण वा ।। मुक्तिधारा कृता तेन पवित्रं पापनाशनम् । एवं संस्थाप्य देवेशं पञ्चगव्यैस्तथैव च ॥ ३३० पञ्चामृतैरय स्नाप्य मधुरत्रितयेन च । विभूष्य भूषकैर्देवं पुनः नाप्य महेश्वरम् ॥ शीतोपचारं कृत्वाऽथ तत आचमनादिकम् । वस्त्रं तथोपवीतं च पञ्चगन्धकमेव च ॥ कर्पूरमरुवं चापि पटीरमथवा भवेत् । उभयं मिश्रित वाऽपि शिवलिङ्गं प्रपूजयेत् ॥ कृत्स्नं पीठं गन्धपूर्ण यद्वा विभवसारतः । तूष्णीमयोपचारं वा कालियं पुष्पमर्पयेत् ॥ श्रीपत्रं मरुचित्याज(?) यथाशक्त्याऽखिलं यथा । अनेकधूपद्रव्यं च गुग्गुलु केवलं तथा ॥३३५ कपिलाघृतसंयुक्तं शर्वधूपाय शस्यते । धूपं दत्त्वा यथाशक्ति कपिलाघृतदीपकान् ॥ अथवा पू(आ)ज्यमात्रेण दीपान्दत्त्वोपहारकम् । यथाशक्त्युपपन्नं च दत्वा पुष्पसमन्वितम् ३३७ मुखशुद्धिं ततो गत्वा दत्त्वा ताम्बूलमादरात् । प्रदक्षिणनमस्कारौ पूजैवं हि समाप्यते ॥ ३३८ गीत्यङ्गपञ्चकं पश्चात्तानि विज्ञापयामि ते । गीतिर्वाधं पुराणं च नृत्यं हासोक्तिरेव च ॥ ३३९ नीराजनं च पुष्पाणामञ्जलिश्वाखिलार्पणम् । क्षमा चोद्वासनं चैव कीर्तिपञ्चोपचारकम् ॥ ३४० भूषणं च तथा छत्रं चामरं व्यजनं तथा । शिवोपवीतं कैंकर्य षडीशानोपचारकम् ।। द्वात्रिंशदुपचारैस्तु यः समाराधयेच्छिवम् । एकेनाहा समस्तानां पापानां नाशनं ध्रुवम् ॥ द्वात्रिंशदुपचारं स्यात्पूजनं तूत्तमोत्तमम् ॥ ३४२ सदाशिव उवाच- एवमेतत्कपिश्रेष्ठ तव पूजां वदाम्यहम् । मत्पादयुगुलं पूज्य सर्वपूजाकरो भव ॥ ३४३ आराध्येत्यं यथा लिङ्गे तन्ममाऽऽराधनं कुरु ॥ ३४४ हनूमानुवाच गुरुणा लिङ्गपूजैव नियता परिकल्पिता । तां करोमि पुरा देव पश्चात्त्वत्पादपूजनम् ॥ इत्युक्त्वैव नमस्येशं शिवलिङ्गार्चनेऽभवत् । सरस्तीरमथो गत्वा कृत्वा सैकतवेदिकाम् ॥ ३४६ तालपत्रैविरचितमासनं पर्यकल्पयत् । प्रक्षाल्य पादहस्तौ तु समाचम्य समाहितः ३४७ भस्मस्नानमथो चक्रे पुनराचम्य वाग्यतः । देववेद्यामथो चक्रे पद्मानि सुमनोहरम् ॥ ३४८ अनन्तरं तालपत्रं पद्मासनगतः कपिः। प्राणानायम्य सन्यासं शुक्लध्यानसमन्वितः ।। ३४९ प्रणम्य गुरुमीशानं जपनासीदतः परम् । अथ देवार्चनं कर्तुं यत्नमास्थितवानपि ॥ पलाशपत्रपुटकद्वयानीतजलं शुचि । शिरःकमण्डलुगतं निधायामित्रिमनितम् ॥ आवाहनादि कृत्वाऽथ स्नानपर्यन्तमेव च । अथ स्नापयितुं देवमादाय करसंपुटे । कृत्वा निरीक्षणं देवं(व)पीठं नो दृष्टवान्कपिः । लिङ्गमात्रं करगतं दृष्ट्वा भीतिसमन्वितः ॥ ३५३ इदमाह महायोगी किं वा पापं मया कृतम् । यदेतत्पीठरहितं शिवलिङ्गं करस्थितम् ॥ ३५४ ममाघ मरणं सिद्धं न पीठं चाऽऽगमिष्यति । अथ रुद्रं जपिष्यामि तदाऽऽयाति महेश्वरः ३५५ इति निश्चित्य मनसा जजाप शतरुद्रियम् । अथापि न समायातो महेशोऽथ कपीश्वरः ॥ ३५६ रुद्रं न्यपातयम्यां वीरभद्रः समागतः । किमर्थ रुद्यते भक्त रुदिहेतुं वदस्व मे ॥ पीठहीनमिदं लिङ्गं पश्य मे पापसंचयम् ॥ १ स. म. न्यचूर्ण । -. ३५२ ११० दशाधिकशततमोऽध्यायः ] पमपुराणम् । वीरभद्र उवाच- यदि नाऽऽयाति पीठं ते लिङ्ग मा साहसं कृथाः।दाहयिष्याम्यहं लोकं यदि नाऽऽयाति पीठकम् पश्य दर्शय मे लिङ्ग पाठं यद्यागतं न वा । अथ दृष्ट्वा वीरभद्रो लिङ्गं पीठमनागतम् ॥ दग्धुकामोऽखिलाल्लोकान्वीरभद्रः प्रतापवान् । अनलं भुवि चिक्षेप क्षणादग्धा मही तदा॥ ३६० अथ सप्त तलान्दग्ध्वा पुनरूद्धमवर्तत । पञ्चोर्ध्वलोकानदहज्जनलोकनिवासिनः ॥ ललाटनेत्रसंभूतं नखेनाऽऽदाय चानलम् । जम्बीरफलसंकाशं कृत्वा करतले विभुः ॥ यदि नाऽऽयाति पीठं ते दग्धा लोका न संशयः। अनायातमथो दृष्ट्वा वीरभद्रः प्रतापवान्३६३ सनकादयो महात्मानो ज्ञात्वा योगेन चाऽऽगतान् । गौतमस्याऽऽश्रमवरं समागम्य महेश्वरम् ॥ न दृष्टवन्तो देवादिसेव्यमानमपि द्विजाः । अस्तुवनथ च स्तोत्रैः सर्ववेदसमुद्भवः ॥ ॐनमो देवदेवाय तस्मै शुद्धप्रभाचिन्त्यरूपाय तस्मै । नमः सुराणामधीशाय तस्मै नमो नमो वेदगुह्याय तस्मै ।। नमः शिवायाऽऽदिदेवाय तस्मै नमो व्यालयज्ञोपवीताय तस्मै । नमः सुराबिन्दुसंदोहवर्षत्रयीबिन्दुविश्वंभराय तस्मै । ३६७ पृथिव्यथो वायुराकाशतोयं पुनः शशी वह्निसूर्यौ तथाऽऽत्मा । यस्याष्ट्रता मूर्तयः शंकरस्य तस्मै नमो ज्ञानगम्याय शश्वत् ।। एतां स्तुतिमथाऽऽकर्ण्य भगनेत्रप्रदः शिवः । विष्णुमाह च गच्छ त्वं समानय च तान्द्विजान् ३६९ आनीतास्तेन हरिणा देवाय प्रणतास्तु ते । तानाह शंकरो वाक्यं किमर्थं यूयमागताः ॥ ३७० मुनय ऊचुः- देव द्वादशलोकानां दृश्यन्ते भस्मराशयः । स्थितमेकं वनमिदं पश्य तल्लोकसंक्षयम् ॥ ३७१ सदाशिव उवाच- ऊर्ध्वस्थपञ्चलोकानां दाहे संदेह एव नः । कथमङ्गारदृष्टिश्च कथं नो वा महाध्वनिः ॥ ३७२ मुनय ऊचु:- भीतिरस्माकमधुना वर्तते वीरभद्रतः । स एवाङ्गारदृष्टिं च पिपासुरिव तामपात् देवोऽय वीरमाहूय किं वीरेत्यब्रवीद्भवः। वीरो हनूमतो लिङ्गपीठाभावादिदं कृतम् ॥ कपेश्चित्तं परिज्ञातुं मया कृतमिदं बृहत् । कृपानिधिरयो देवो यथापूर्वमकल्पयत् ॥ ३७५ दग्धानप्यखिलालोकान्पूर्वतः शोभनान्विभुः । कल्पयामास विश्वात्मा वीरभद्रमथाब्रवीत् ॥३७६ आलियाऽऽघाय शिरसि ताम्बूलं दत्तवान्हरः। अथासौ हनुमानीशपूजनं कृतवानथ ॥ ३७७ एकं वनचरं तत्र गन्धर्व सविपश्चिकम् । इदमाह महावीणा मम वै दीयतामिति ।। गन्धर्वो न मया त्याज्या वीणा प्राणसमा मम । ममापि प्राणसदृशी वीणेत्याह कपीश्वरः ॥ ३७९ ३८० अथ मुष्टिनिपातेन गन्धर्वे पतिते कपिः । आदाय वीणां महतीं स्वरतन्तुसमान्विताम् ॥ अलाबुसंयुतां कृत्वा राजवृक्षफलाकृतिम् । तस्योरसि विनिक्षिप्य गायनागाच्छिवान्तिकम्।।३८१ बृहतीकुसुमैः शुद्धैर्देवपादावपूजयत् । तस्मै वरमय प्रादादाकल्पं जीवितं पुनः ॥ ३८२ समुद्रलयने शक्तिं वरं पादादथापरम् ।। ३ १ छ. ड. परिज्ञातं ।
- ३८५ - महामुनिश्रीव्यासप्रणीतं- [ ४ पातालखण्डे- समस्तभूषासुविभूषिताः स्वदीप्तिमन्दीकृतदेवदीप्तिः । प्रसत्रमूर्तिस्तरुणः शिवाङ्गकः संभावयामास समस्तदेवान् ।। ३८३ पीतमुद्गमनीयं च समादाय महेश्वरः । पीतवस्त्रमिदं देव त्वं गृहाण हरे शुभम् ।। ३८४ ब्रह्मणे रक्तवसनं सर्वेषां वस्त्रदस्तथा । देवर्षिदानवादीनां दत्तवान्वस्त्रयुग्मकम् ॥ रामोऽपि चैतदाकर्ण्य शंभवे युग्मम(मा)र्पयत् । सुसूक्ष्मं बहुमूल्यं च स्वर्णभूषणमेव च ॥ ३८६ अथ भुक्त्वा सुखासीनः सामात्यः सपुरोहितः । नानामुनिगणैर्भूपैर्वानरैर्गौतमीतटे ॥ ३८७ शंभुं पुराणतत्त्वज्ञं राघवो वाक्यमब्रवीत् । त्वमेव सर्व जानीषे सर्वधर्मगुहाशतम् ॥ ३८८ कस्मिन्कस्मिन्युगे ब्रह्मन्कि विशिष्टं वदस्व मे ॥ शंभुरुवाच- ध्यानमेव कृते श्रेष्ठं त्रेतायां यज्ञमे(ए)व च । द्वापरे चार्चनं तिष्ये दानं च हरिकीर्तनम् ॥ ३९० सर्व च शस्तं सर्वत्र ध्यानं नैव कलौ युगे । नराणां मुग्धचित्तत्वात्कलिस्थानां विशां पते ॥३९१ न धर्मे नियता बुद्धिर्न वेदे नैव च स्मृतौ । न तौ न स्वधाकारे पुराणानां च न श्रुतौ ॥ ३९२ न जपे न च तीर्थेषु न च शुश्रूषणे सताम् । नेज्यायां देवतानां च न स्वजातीयकर्मणि ॥ ३९३ न देवस्मरणे चापि न च कापि वृषे नृप । अतश्व दीर्घकालानां पुण्यानामक्षमा नराः ॥ दानं तु स्वल्पकालत्वात्कर्तुं शक्नोति मानवः । अतश्च कलिदुष्टानां प्रायश्चित्तं न विद्यते ॥ केषांचित्पापनाशः स्यात्मायश्चित्तैस्तु नान्यथा। ब्रह्मज्ञो न गयाश्राद्धं काशीगन्ता श्रुतौ रतः(?)॥ पुराणज्ञावमाश्चैते श्रोता तस्य न वाचकः(?) । युगानामनुसारेण तथाऽर्थस्य विवेचनात् ॥३९७ स्वपरप्रत्ययोत्पादात्परब्रह्मप्रकाशनात् । पुराणवक्ता सर्वस्माद्राह्मणस्तु विशिष्यते ॥ ३९८ तेनापि च कृतं पापं न सज्येत्किमुतान्यतः । अन्येषामपि केषांचित्पुराणं पापनाशनम् ॥ ३९९ यः पुराणेषु विश्वासी वक्तारं मन्यते गुरुम्। ब्रह्मविद्यापदातारं विशेष ज्ञातिबन्धुतः ।। तस्य पापानि सर्वाणि विलयं यान्त्यसंशयम् । अथ श्रीशैलगमनं पूजकस्य महेशितुः ।। ४०१ अतः कलौ मनुष्याणां पुराणं पापनाशनम् । पुरा कलियुगे राम वृत्तं संकीर्तये शृणु ॥ ४०२ आसीत्तु गौतमो नाम ब्राह्मणो वेदवर्जितः। तस्य पुष्टिः पशुश्वाऽऽस्तां भ्रातरौ वेदवर्जितौ॥४०३ ताभ्यां सह कृषि चक्रे तत्र वृद्धिमवाप च । धनधान्यादिकं किंचिद्राजानं दत्तवानथ ।। उवाच वचनं किंचिदधिकारं निरूपय । अर्थ न गमयिष्यामि तौ शक्तौ भ्रातरौ मम ॥ ४०५ राजोवाच- ब्राह्मणस्याधिकारो हि वैदिके धर्मकर्मणि । तदन्यत्र नियुक्तस्य ब्राह्मण्यं विप्रणश्यति ॥ ४०६ गौतम उवाच- युगेष्वन्येषु धर्मोऽयं कलिधर्मो न तादृशः । भूपतित्वं हि भूपाल नृपाणां धर्म उच्यते ॥ ब्राह्मणश्च परिक्षीणस्तं कुर्वनैव दुष्यति । शूद्राणां च कृषिर्धर्मो नाऽऽपद्यप्यग्रजन्मनः ॥ तस्मात्क्षत्रेण वतिष्ये ग्रामान्मम समादिश । अन्यत्र चात्र क्षत्रेण वर्तनं मम रोचते ॥ अन्यन्न तु तथेत्युक्तो ददौ ग्रामान्द्विजस्य तु । ग्रामाधिकारदुष्टस्य वर्तनं त्वन्यथाऽभवत् ॥ ४१० अभक्षि मांस चापायि सुरा चाभापि दुर्वचः । परयोषा तथाऽगामि परस्वं प्रत्यहारि च ४११ अक्रीडि द्यूतमसकृत्कलझं चाऽऽदि दुर्भुना । नापूजि जगतामीशः शिवो वा विष्णुरेव वा४१२ १ झ. अ. तस्यानुवा । २ क. 'गे नामव्रतं सं । । ४०० ॥ - ४०७ ४०८ ४२२ ११० दशाधिकशततमोऽध्यायः ] पद्मपुराणम् । ७२५ एवं कालेन दुर्वृत्तं राजा वाक्यमभाषत । विप्र विश्त्वमुत्सृज्य शूद्रत्वं प्राप्तवानसि ॥ तस्मानियोगधर्मेण भवन्तं भ्रंशयामि च । माऽस्तु विप्रत्वमद्यैव शूद्रतैव वरं मम ॥ तहते यदि विप्रास्ते न भोक्ष्यन्ति वरं मम । न हि सर्वमिदं युक्तं शक्तोऽहं पृथिवीपते ॥ ४१५ शंभुरुवाच- एवं वदति दुर्विप्रे राजा तूष्णीमतिष्ठत । स तु वै शूद्रतुल्यश्च बुभुजेऽन्नं सहामिषम् ॥ कदाचिदय दुर्वृत्तः प्रतोलीमण्डपास्थितः। द्विजेन पठयमानं तु पद्यं तु श्रुतवानिदम् ॥ ४१७ हृदये पद्यमेतत्तु द्विजेरितमतिष्ठत । परात्परतरं यान्ति नारायणपरायणाः ॥ न ते तत्र गमिष्यन्ति ये द्विषन्ति महेश्वरम् ॥ ४१८ व्याख्यानमपि च श्रुत्वा पौराणिकमभाषत । कीदृइनारायणः प्रोक्तः कीदृशोऽपि महेश्वरः४१९ किं परं त्वयनं प्रोक्तं द्वेषः कीदृगुदाहृतः । किं तत्परमिति ख्यातं ततः परतरं च किम् ॥ ४२० पौराणिक उवाच- परं तद्ब्रह्मणः स्थानं सुखव्यक्तैकलक्षणम् । ततः परतरं विष्णोर्धाम तद्ब्रह्मणोऽधिकम् ॥ ४२१ अविनाशितया तत्तु कीर्तितं परमं पदम् । तन्मध्ये पुरुषो विष्णुस्तदङ्गपरमं +विभुः ॥ आपो हि नरजन्मत्वान्नाराः प्रोक्ता मनीषिभिः। नाराश्चास्यायनं यस्मात्तेन नारायणः स्मृतः॥ तत्परं वर्तनं येषां ते प्रोक्तास्तत्परायणाः । महदादीनि तत्त्वानि यानि तेषां य ईश्वरः ॥ ४२४ पूर्याग्निशशिनेत्रोऽसौ महेशः स्यादुमापतिः । द्वेषो हि वैरं विज्ञेयमीश्वरे परमात्मनि ।। शंभुरुवाच- एवं पुराणभेदेन समीरितमिदं वचः । चिन्तयन्पुनरप्याह मादृशस्य कथं गतिः ॥ राणिकोऽथ तं प्राह शृणु वक्ष्यामि ते गतिम् । कुरु सर्वेण यत्नेन प्रायश्चित्तं यथाविधि ४२७ धर्म चापि यथाशक्ति यथाकालं यथाविधि । विमुक्तपापः पश्चात्त्वमुत्तमां गतिमेष्यसि ॥ ४२८ पुराणमथवा नित्यं शृणुष्वावहितश्च सन् । निराशो वा महेशानं पूजयस्व पिनाकिनम् ॥ ४२९ देवं वा पुण्डरीकाक्षं केशवं क्लेशनाशनम् । संन्यासमथवा नित्यं ब्रह्मज्ञानपरो भव ॥ अथवा गच्छ काशीशं मुक्त्यैवामृतिमामुहि । गयां वा गच्छ तत्र त्वं श्राद्धं कर्तुं प्रयत्नतः ४३१ अथवा सर्वदेवानां सारं पातकनाशनम् । रुद्रं रुद्रप्रियकरं जपन्प्रत्यहमादरात् ॥ ४३२ श्रीशैलमथवा गच्छ केदारमथ चेच्छया। अथवा प्रतिवर्ष तु माघस्नानं प्रवर्तय ।। केमत्र बहुनोक्तेन धर्मभक्तः सदा भव । नैवं नरकवासस्ते भविता तु द्विजाधम ॥ गौतम उवाच- श्रुत्वा सर्व करिष्यामि पुराणं भवतो मुखात् । शास्त्रं विश्वासहेतुं च वयं चापि वदस्व मे१३५ पौराणिक उवाच- ज्यॆ मांस सुराऽन्यस्त्रीभोगो द्यूतं विकत्थनम् । पारुष्यमनृतं माया देवदेवविनिन्दनम् ॥ ४३६ पुरूणां पितृवृद्धानां पुराणस्मृतिभाषिणाम् । निन्दितं श्वेतवृन्ताकं कतकालावुवर्तनम् ॥ ४३७ ४३८ पीजपूरं कुसुम्भं च लोहितं शृङ्गमेव च । अररुं नालिकेरं च कूष्माण्डकं तथैव च ॥ कोविदारफलं तैलपकं मानवजं पयः । वाघी(धी)णसखरीदुग्धं सूतकाक्षीरमाविकम् ॥ ४३९ ४२५ +विभ्विति क्वचित्पाठः ।
४४२ ४४४ ७२६ महामुनिश्रीव्यासपणीतं- ४ पातालखण्डे- औष्ट्रमेकशफक्षीरं मार्गमाज नृसंभवम् । विवत्सासंधिनीक्षीरं लवणं चैव योगि यत् ॥ नोलिकेररसं कांस्ये ताने मधु च सीसके । काचे तक्र करम्भांच घृतात्तात्रैव कारयेत् ॥ ४४१ होमं तु मृन्मये पात्रे पुरोडाशं तु राजते । न सेवेत परे लोके शुभार्थी तु विचक्षणः ॥ पात्रान्तचूर्णलेपोऽपि तत्र भक्षणमेव च । क्रमुकस्य तथा भक्षश्चूर्णपत्रस्य चैव हि ॥ क्रमुकस्यापि पकस्य भक्षणं क्रमियोगिनः । पायसे लवणं चैव केवलं च करार्पितम् ॥ सिन्धुसौराष्ट्रकाम्बोजमागधेषु च सिंहले । न दोषाय भवेत्तत्र क्षीरं च लवणान्वितम् ॥ ४४५ क्षीराणि च समस्तानि लवणानि च योगि(ग)तः । देशेष्वन्येषु दोषाय पतेनैवेह संशयः ॥ किमत्र बहुनोक्तेन सद्भिनिन्धं विवर्जयेत् ॥ ४४६ शंभुरुवाच- एवं तस्य वचः श्रुत्वा ब्राह्मणस्य महात्मनः । स्वमेव भवनं गत्वा चिन्तयामास दुःखितः ४४७ रात्रौ मृत्युर्दिवा वेति न जानाति महानपि । परलोके सुखं दुःखमिह भोगविबोधितम् ॥ ४४८ क्रिमिकीटमनुष्यायैः सुखदुःखैः पृथक्पृथक् । प्रतिजीवं तु हेतूनां भेदो हि सुविनिश्चयः ॥४४९ एकस्यापि हि जीवस्य नास्ति चैकविधा स्थितिः । जन्मकाले महज्ज्ञानं शैशवेऽत्यल्पबोधनम् ।। स्खलत्पदेऽल्पविज्ञानं बाल्ये चाल्पं तथैव च । कौमारे क्रीडनासक्तं यौवने विषयोषितम् ॥४५१ यौवने विनिवृत्ते तु द्रव्यसंपादनेषणा । वार्धके भोगलिप्सा च न च भोक्तुं क्षमोऽपि च ॥४५२ दूषिकाश्लेष्मलालाभिर्वलीपलितकम्पनैः । श्वासकासवि(सानि)लाक्षिप्तो हृषीकैविकलैर्युतः ४५३ किंचिद्धेर्तुं न शक्नोति न च जानाति किंचन । तिष्ठन्तीषु परस्त्रीषु गुह्यस्थानं प्रदर्शयन् ॥ ४५४ कोशकण्डूयनपरः क्रूरो जीवितलक्षणैः । कण्डूयते स्फिचौ वस्त्रमुद्धत्य च विचालयन् ॥ ४५५ भुञ्जानः श्लेष्मणा ग्रास ग्रसितुं न च शकुयात् । यदा कासस्तदा जज्ञे पायुवायुश्च शब्दवान् ॥ निःसृतिश्च मलस्यापि श्लेष्मनिर्गम एव च । स्नुपादिभर्त्सनं बालतालहास्यनिदर्शनम् ॥ ४५७ गुरुनिर्गमनादीनि संचिन्त्य च पुनः पुनः । आहूतो भोजनाद्यर्थ भोज्यानादि विनिन्दयन् ।। चिरमुष्णं च निर्भय॑ पुनश्चिन्तामवाप्य सः । अतिदुष्कृतकर्माऽहं कथं भोक्ष्ये कथं स्वपे ४५९ कथं तिष्ठे कथं गच्छे परलोकः कथं भवेत् । इतिचिन्ताकुलो नित्यं न नमत्यपरान्वितः ॥ ४६० द्विजस्य सदनं गत्वा पुराणज्ञस्य राघव । लज्जावाकृतवक्त्रश्च किं करोमीत्यभाषत । ४६१ न किंचिदप्युवाचासौ द्विजः पौराणिकस्तदा । पापोऽयमिति विज्ञाय शिष्येण +निरगामयत् ।। गौतमोऽपि विनिर्गत्य द्वार्येव च बहिः स्थितः । भुव्यासीनं तु विज्ञाय पुराणार्थविचारकम् ॥ कथं कथमपि प्राप्य पीठं दत्तं च नाभजत् । निषण्णो भूतले राम पुराणज्ञमभाषत । मायश्चित्तं करिष्यामि तदत्रैव विधीयताम् ।। ४६५ ब्राह्मण उवाच- पापानि कीर्तयस्व त्वं सर्वथैव कृतानि तु । स चापि नाकृतं किंचिन्मया पापमितीरयन् ॥ ४६६ रुदन्पपात भूम्यां च कथं तातेति पीडितः । ब्राह्मणस्तमथ माह प्रायश्चित्तं न विद्यते ॥ महापापे त्रिरावृत्ते पुनश्च यदि चेत्कृतम् ॥ ४६७ ४६४ + आर्षत्वाद्रस्वाभावः। १ स. म. र्गमाञ्जनसं। २ क. नालिकेरोदकं । ३ रु. च. छ. ट. इ. द्वन्तुं न । ४ म. जीवति ।
१११ एकादशाधिकशततमोऽध्यायः ] पमपुराणम् । ७२७ गौतम उवाच- पौराणिक महाभाग पाप्यापि त्वामहं कथम् । पापयुक्तो द्विजश्रेष्ठ संगतिविफला भवेत् ॥४६८ पौराणिक उवाच- शास्त्रं प्रमाणं सर्वेषां प्रायश्चित्तविनिर्णये । तद्विना यो हि तव्यात्मायश्चित्तं न तद्भवेत् ॥४६९ सकृस्कृते सकृत्लोक्तं द्वितीये द्विगुणं भवेत् । तृतीये त्रिगुणं प्रोक्तं चतुर्थे नास्ति निष्कृतिः ४७० त्वया कृतं तु बहुधा चतुर्विधमपीच्छया । कथं वक्तुमहं शक्तः प्रायश्चित्तं भवाशे ॥ ४७१ गौतमोऽपि पुनः प्राह क गन्तव्यं मयेति च । पौराणिको द्विजो राम तूष्णीमेव बभूव ह ॥४७२ गौतमोऽपि महाशैलं श्रिया एव जगाम ह । अथ तत्र नदी स्नात्वा दृष्टेशं मल्लिकार्जुनम् ॥४७३ उपवासत्रयं कृत्वा शिवरात्रिमविन्दत । चतुर्थमुपवासं च चकारातीव दुःखितः ।। पारणं चाप्यमायां स कृतवान्फलवल्कलैः। अथ प्रदक्षिणं चक्रे श्रीशैलस्य च स द्विजः॥४७५ गतवान्मन्दिरं पश्चाचिन्तयाऽतिकृशः श्वसन्। कथं पापनिवृत्तिर्मे तूष्णीभूतस्य सेत्स्यति ॥ ४७६ अनन्तमविचार्य किं मत्पापं सुमहत्तरम् । श्रुत्वा न कोऽपि मे ब्रूयात्प्रायश्चित्तं विधीयताम् ॥ किं तु कस्मिन्पुराणे तु श्रुते ज्ञातं भविष्यति । इति कृत्वा मतिं सोऽथ पुराणज्ञमभाषत ॥ ४७८ पुराणमेकं मे तात व्याख्यातु भगवानिति । जातकर्मादिसंस्कारान्कारयस्व ममाऽऽशु वै॥ ४७९ द्विजो भूत्वा शृणोम्यद्य प्रायश्चित्तं करोम्यतः । विधाय किं पुराणं मे भविष्यति चिकीर्षितम् ॥ अतः शक्यं करिष्यामि पुराणार्थ विनिश्चयन् ॥ १८० पौराणिक उवाच- यथा तत्कीर्तयिष्यामि पुराणं पापनाशनम् । यथाज्ञानं यथाशक्ति यथाशुद्धं यथाविधि ॥ किंवा रुचिपुराणं ते कीर्तयिष्ये तदेव तु ।। १८१ गौतम उवाच- सर्व रुचिपुराणं मे वक्तव्यं किं हितं वद । श्रुते यस्मिन्भिदा नैव जायते तु हरीशयोः ॥ ४८२ पौराणिक उवाच- कौर्मोक्तं यत्पुराणं तद्देवयोरभिदाभिधम् । शृणोति यस्तत्प्रथमं तस्य पापं विनश्यति ॥ ४८३ तस्य वक्ता तु यो विप्रस्तस्य विघ्नान्तरं भवेत् । श्रोतव्यं मन्यते पायो यदि भार्या विनश्यति४८४ किं चैकं दुष्करं वक्ष्ये श्रोतुर्वक्तुरनिन्दकम् । व्याख्यातरि यदि प्रीतिर्धर्मदेवप्रकाशिनी ॥ ४८५ आचारदर्शक पुण्ये कर्ममोक्षादिदर्शके । तदा तुष्टो महेशः स्याद्विष्णुरिष्टफलपदः । पितरस्तारितास्तेन यान्ति ते परमां गतिम् ॥ ४८६ इति श्रीमहापुराणे पाझे पातालखण्डे शिवराघवसंवादे दशाधिकशततमोऽध्यायः ॥ ११० ॥ आदितः श्लोकानां समष्ट्यङ्काः-१८९८० अथैकादशाधिकशततमोऽध्यायः । - श्रीराम उवाच- कथं पातकसंघातसंक्रमे ब्राह्मणाधमे । पुराणनः कथं व्याख्यां चकार द्विजसत्तम । १स ज्ञानं । २ स. अ. विधाविधम् ।
७२८ २ ३ w ८ ९ महामुनिश्रीव्यासप्रणीत- [४ पातालखण्डे- शंभुरुवाच अध्यापने चाध्ययने जायते चाथ संगमः । संगतौ वत्सरं राम याति पातकिपातकम् ॥ पुराणजे तु काकुत्स्थ सर्वतस्वार्थवेदिनि । अपि पातकसंदोहचीर्णपापं प्रणश्यति ॥ प्रभूतवह्निनाशो(शे) हि ठुमराशिर्यथैव हि । शलभो दीपनाशाय वह्निनाशाय न प्रभुः ॥ कृत्तुं (तं ?) पापं तथाऽन्येषां नाशनाय *पुराणिकः । भूतादिग्रस्तमानां भूतादिभयमोचकः५ समन्त्रवानपनयेद्यथा न स्वयमातुरः । पौराणिकस्तथा पापं न किंचित्माप्तुमर्हति ॥ आत्मना च कृतं पापमन्यैरपि च यत्कृतम् । पुराणज्ञो नाशयति त्वतिदुष्टं स्वकर्म वा ।। भवानीशे हृषीकेशे समवृत्तिविवेकवान् । लोकवेदक्रियावेत्ता रुद्रजाप्यनतिस्पृहः ॥ तुष्टः शान्तः क्रियादक्षः प्रभूतोद्योगकद्वशी । यथैव ते पुराणज्ञो वसिष्ठो भगवानृषिः ॥ नियोगात्तव भूपाल ह्ययोध्यायामधिष्ठितः । अपालयद्भुवं कृत्स्नां त्वां च रक्षः समापतत् ॥ १० स च शुक्रोपदेशेन राक्षसस्त्वामथाभ्यगात् । मृगासक्तं हनिष्यामि नान्यथाऽवसरस्त्विति ॥११ अथ विप्रो विदित्वैतद्वसिष्ठस्त्वद्धितप्रियः । सुप्तं प्रमत्तं काकुत्स्थं रक्षो हन्ति न संशयः॥ १२ ब्रह्मावाप्तवरं तद्धि मया कार्य निवारणम् । इति संचिन्त्य विप्रर्षिः सेनामादाय निर्गतः ॥ १३ रक्षो हन्तुमशक्तस्तु मृत्युहीनं ततो मुनिः । स्वयं च राक्षसो भूत्वा वाक्यमाह महामुनिः ॥ १४ किमर्थमागतोऽसीह वनं मुनिनिषेवितम् । स आह राजा रक्षोनस्तमहं हन्तुमागतः ॥ १५ मुनिरप्याह किं तेन जीवितेन मृतेन वा । भुक्त्वाऽऽमिषं मदीयं तु युद्धं कृत्वा जयं वन ॥१६ राक्षस उवाच- कथं त्वं राक्षसो मह्यं भक्षणाय भविष्यसि । वसिष्ठोऽप्यथ मानुष्यमास्थाय वियति स्थितः १७ निष्ठीव्य मस्तके तस्य मुष्टिना तमताडयत् । ताडितो राक्षसस्तेन व्यद्रावयदृषिश्च तम् ॥ १८ पलायमानावन्योन्यं जलधिं तु गतावुभौ । तत्रस्थेन ग्रहेणासौ गृहीतो राक्षसस्तदा ॥ मुनिः पुनरयोध्यायां पूर्ववत्समतिष्ठत ॥ +शंभुरुवाच- तस्मात्स्वाभिमतं कुर्यात्पुराणज्ञो विमत्सरः । श्रवणस्य विधानं च कथयामि शुभं शृणु ॥ २१ शुक्लपक्षे दिने शुद्ध वारनक्षत्रयोगतः । करणे चापि लग्ने च ग्रहताराबलान्विते । अमूढे न ग्रहे वाले न च वृद्धौ गुरौ स्थिते । न कृष्णपक्षे ग्रहणे न च नास्तिकसंनिधौ ॥ २३ पूर्वोक्तलक्षणोपेतं पुराणं शृणुयादिति । शुद्धगेहेऽथवा शुद्धवेदिकायां मठेऽथवा ॥ नदीतीरे देवगृहे सभामण्डप एव च । रथ्यामठेऽथवा रम्ये पुण्यशालासु राघव ।। स्वयं नमस्य विभेन्द्रान्पुराणमं विशेषतः । आसनं कल्पितं कुर्यादृर्व सर्वविशेषितम् ॥ २६ एहि धर्मासनमिति वक्तव्यं स्यादनिष्ठुरम् । पुराणप्रक्रमदिने यत्कार्य तदुदीरये ॥ व्याख्यातारं पुराणस्य वस्त्रायैः परिपूज्य च । शुभानि दत्त्वा वस्त्राणि सूक्ष्माणि च नवानि च करकण्ठविभूषादि पात्रमासनमेव च । गन्धपुष्पासतैः पूज्य ताम्बूलं विनिवेद्य च ॥ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ॥ सभासदश्च संपूज्य गणेशं प्रार्थयेत्ततः । ॐ नम इत्यादिमत्रेणे पूजनं भारतीनुतिः ॥ * संज्ञापूर्वकत्वेनानित्यत्वान्न वृद्धिः । + इदमधिकमिति भाति । १ अ. पुराणकः । २ स. शुक्लोप' । ३ स. हरिष्या । ४ ट. पण पठनं भारतीमुनिः। प्रा । १९ २० २२ २४ २५ २९ ३० ७२९ ४५ १११ एकादशाधिकशततमोऽध्यायः ] पअपुराणम् । प्रातःकाले पुराणस्य प्रक्रम मारभेदिति । उपक्रमदिने राम त्रिपश्चदश वा शुभाः॥ ३२ लोका द्वितीये दिवसे ततो द्विगुणतः शुभाः । तृतीयदिवसे राम ततश्चाधिकमिष्यते ॥ ३३ दिनानामव्यवच्छेदाब्याख्यानं श्रवणं तथा । व्यवस्थितिर्यदा जाता तदा पौराणिकं गुरुम् ॥३४ ताम्बूलादि प्रदायाय परेघुः शृणुयादपि । पुराणमेवं श्रोतव्यं दैनंदिनमिति श्रुतिः ॥ प्रतरूपेण यः कश्चित्पुराणं शृणुयानरः । येदैवं तत्पुराणं तु तत्र याति न संशयः ॥ पुराणं श्रोतुकामेन श्लोकश्चैकोऽपि चेच्छुतः । तदिने तु कृतं पापं नाशयेत्तु न संशयः ॥ एवं पुराणं शृणुयाच्च यस्तु स ब्रह्महत्याकृतपापबन्धात् । मुरापीतिः स्वर्णहरश्च राम गुर्वङ्गनागश्च विमुक्तिमेति ॥ ३८ पापानि चान्यानि कृतानि पुंभिः सर्वाणि नश्यन्ति पुराकृतानि । इहापि यान्यन्दशतार्जितानि श्रोतुर्विनश्यन्ति तथा च वक्तुः ॥ कलौ समस्तविप्राणां सर्वज्ञत्वं न विद्यते । विगुणाऽपि ततो व्याख्या फलदा दानकर्मवत् ॥ ४० पुराणानामभिमायं व्यासो वेद न चापरः । अहं वेनि विशेषेण व्यासादपि विधेरपि । न स्वाध्यायस्तपो वाऽपि न मत्रो न जुहोतयः । फलन्ति न तथा तिष्ये पुराणश्रवणं यथा॥४२ एकैकश्रवणादेव पातकं महदेव तु । नाशमामोत्यसंदेहः श्रीशैलवर्तनादिव ॥ अतो गुरुः पुराणः श्रोतृवन्द्योऽघनाशनः । न तस्मादधिकः कश्चिद्गुरुरस्ति गतिप्रदः ॥ ४४ मवेषु गुरवो ये च वेदशास्त्रेषु ये मताः। नेशते सर्वविज्ञानं दातुं तस्मान बोधकाः ॥ पिशाचाः प्रायशो राम ब्रह्मराक्षसनामिनः । वेदमत्रस्य वेत्तारो दृश्यन्ते न पुराणवित् ॥ ४६ पुराणविमुखो नैव सर्वः सर्व हि पश्यति । पुराणज्ञो हि तत्तस्मात्पापनाशकरः प्रभुः ॥ तत्पूजा सर्वपूजा स्यात्सर्वद्रोहोऽस्य पीडनम् । यथा समस्तदानानां विद्यादानं प्रशस्यते ॥ ४८ पौराणिकस्तथा राम तत्र दान महत्फलम् ॥ श्रीराम उवाच- किंवा पौराणिके देयं कियत्कीदृशमेव च । पुराणं कीदृशं वर्ण्य वर्व्यः कीदृक्पुराणवित् ॥ ५० श्रीशंभुरुवाच- षड्साननपानानि स्नेहद्रव्याणि यानि च । गृह सोपस्करं राम पुराणज्ञाय दापयेत् ॥ ६१ पर्याप्तान्येव सर्वाणि त्वधिकानि फलाधिकान्(कम्) ।। दद्याद्रव्यमतो भूयः सचैलं शोभितं मृदु । भूषणानि यथार्हाणि स्वशक्त्या प्रतिपादयेत् ॥ ५३ गन्धपुष्पं प्रतिदिनं केवलं गन्धमेव वा । केवलं वा तथा पुष्पं फलकाले फलान्यपि ॥ ताम्बूलं च तथा दद्यान्नमस्कुर्याच भक्तितः । पुराणस्य समाप्तौ तु दघादानादिकं तथा ॥ ५५ अधिकं तु तथा देयं भूहिरण्यादिकं नृप । न च तूष्णीमुपक्रम्य श्रोतुमर्हति कश्चन ॥ ५६ सभासद्भिः कृता चैव या पूजैकेन वा कृता । देवस्थाने यथाशक्ति सर्वैः पूजनमिष्यते ॥ ५७ तीर्थेऽपि च यथा राम पुण्येष्वायतनेषु च । स्वशक्त्या पूजनं कुर्यात्पुराणज्ञाय राघव ॥ श्रोतुस्तु लक्षणं पूर्व मयोक्तं भवते नृप । पौराणिकस्य सर्वस्य लक्षणं कथयामि ते ॥ कुलहीनो महान्याधिर्महापापी तिरस्कृतः । शौचाचारविहीनश्च वेदस्मृतिविवर्जितः ॥ अन्यदेवः पूतिवचो व्यथाप्यधिकागवान् । परभार्यापतिः स्तेनः प्राणिहन्ता निराकृतिः ॥६१ १ अ. प्रकृतं । २. स. यौवं । ३ ट, प. शून्यदेवः । ४९ - ६० ॥ ७० ७१ महामुनिश्रीग्यासप्रणीत- [" पातालखण्टे- भय वर्मः पुराण ते कथयामि नृपोत्तम । पूर्वजैरुच्यमानं च ममोक्तं मुनिभिः परैः ॥ ६२ ज्यासादयो मुनिवरा यत्प्रोचुस्तदुदीरयेत् । पुराणस्थं पठेद्न्यं व्याख्यास्येच(?)विचारयन्॥६१ पया कयापि वा राम भाषया देशभेदतः । न देशभाषारचित ग्रन्थं श्रुत्वा फलं लभेत् ॥ ६४ व्याख्या या काऽपि काकुत्स्यपुराणस्य हिता हिसा।तस्मात्वं देवयाचस्व व्याख्यास्ये यत्पुराणकम् *शंभुरुषाच- एवं पौराणिकेनोक्तं श्रुतवानपि गौतमः । [स्वयं वस्त्रत्रयं मादाबामणाय महात्मने ॥ कौर्म पुराणं प्रथम श्रुतवानिति नः श्रुतम् । दत्तवान्स्वर्णमधिकं वस्त्राणि च शुभानि च ॥ ६७ भय लैङ्ग च शुश्राव वैष्णवं वामनं तथा । पाचं च गारुडं चैव सौर वाममयैव च ॥ एवमष्ट स शुश्राव पुराणानि स गौतमः । ] अथ रामायणं चैव कौर्ममेव पुनश्च सः ।। ६९ शिव नारायणेत्येवं जपं चक्रे सदैव हि । अवाप निधनं चापि स गतो ब्रह्मणः पदम् ब्रह्मा(म) संपूजितं(तो) विष(पो) विष्णुलोकमयागमत् । विष्णुना पूजितः सोऽथ जगाम शिव- मन्दिरम् ॥ सर्वेषामेव वन्योऽसौ गौतमो मुनिसत्तमः । भारतश्रवणे चापि नियमा ये मयेरिताः ॥ पुरा व्यासेन मुनिना त्रिवर्षायत्कृतं शुभम् । श्रवणात्तस्य कृत्स्नस्य व्याकर्ता भारतस्य यः ७३ न किंचित्मणमेद्विमं मुक्त्वा योगिनमुत्तमम् । सर्वेषामेव वन्योऽसौ भारतं व्याकरोति यः ॥७४ यो महाभारतं नित्यं व्याख्यास्यति पठेच्च वा । स सर्वेभ्योऽधिको विस्तारयेञ्चैव मानवान् ॥ ध्याकरोति च पर्वैकं सर्वाणि कतिचित्तु वा । सर्वपापविनिर्मुक्तो हव्ये कव्ये विशिष्यते ॥ ७६ तमेव प्रणमेद्विमं तमेवाई च पूजयेत् । तमेव भोजयेभित्यं सर्व तस्मै निवेदयेत् ॥ तस्य पूजाविधिः प्रोक्तो व्याख्यानसमये द्विज । प्रतिपूज्योऽथ वस्त्रायैः पूजयेद्विधिमार्गतः॥७८ आदिपर्वसमाप्तौ तु सूक्ष्मवस्त्रत्रयं ददेत् । सुवर्ण च यथाशक्ति सभापर्वणि वाससी ॥ अनुशासनिकारण्यस्वर्गारोहेषु पर्वसु । आदिपर्वणि या पूजा सा पूजा नृपपुंगव ॥ कर्णाश्वमेधवैराटशल्यद्रोणेषु पर्वसु । सूक्ष्मवस्त्रत्रयं शुद्धं निष्कद्वयमथापि वा ॥ भुद्रपर्वस्वथान्येषु निष्कावय समानयेत् । हरिवंशे सनिष्कं तु वस्त्रत्रितयमेव तु ॥ भारतस्याखिलस्यैव समाप्ती क्षेत्रदो भवेत् । रामायणस्य श्रवणे काण्डे काण्डे प्रपूजयेत् ॥ ८३ क्षेत्र पर्याप्तमथवा सुवर्णमपि दापयेत् । व्याख्याता गुरुवाक्यस्य सर्वकल्मषनाशनः ॥ अर्थो धर्मश्च कामश्च मोक्षश्च नृपसत्तम । व्याख्याश्रवणतः सर्वे सिध्यन्ति च सुबुद्धयः॥ ८५ ब्रह्महत्यादिपापानां सर्वेषामपि नाशनम् । एकेन श्रवणेनास्य किं नरैर्न श्रुतं भुवि ।। ८६ यानवस्त्रसुवर्णायौनित्यमेनं प्रपूजयेत् । व्याख्यातारं यतः पापसंदोहस्य विनाशनम् ।। अन्यान्यपि पुराणानि मुनिपोक्तानि तान्यपि । श्रोतृणां पापनाशाय वक्तुश्चापि विशेषतः ॥८८ यश्च सर्वपुराणानि पदिशत्तु (2)अकीर्तयेत् । शृणोति वा न तस्यास्ति वित्तच्छेदः कदाचन।।८९ ब्रामं पुराणं प्रथमं द्वितीयं पाप्रमुच्यते । तृतीयं वैष्णवं चैव चतुर्थ शैवमुच्यते ॥ भय भागवतं प्रोक्तं पञ्चमं षष्ठमुच्यते । भविष्यं नारदीयं च सप्तमं परिकीर्तितम् ॥ * इदमधिकमिति भाति । धनुचिहान्तर्गतः पाठः स. स. च.ट. र. प. पुस्तकस्थः । + इतः परम् ‘एव शंभोः कथां श्रुत्वा राघवस्तोषमाप्तवान् । श्रीशंभुरुवाच' । इत्यधिकं ट. प. पुस्तकयोः । १८. प. मुनिपुंगव । .. ट. प मुनिसत्तम । ७७ ८० ८१ ८२ ८४ ८७ ९२ ११२ द्वादशाधिकशततमोऽध्यायः ] पमपुराणम् । मार्कण्डेयमिति प्रोक्तमष्टमं नवमं तथा । आमेयं ब्रह्मवैवर्त दशमं परिकीर्तितम् ।। लैवं च वामन चैव स्कान्दं मात्स्यमथैव च । कौम वाराहमुदितं गारुडं चाय कीर्तितम् ॥ ९१ ब्रह्माण्डमित्यष्टादश पुराणानि विदुर्बुधाः । तथा चोपपुराणानि कथयिष्याम्यतः परम् ॥ ९४ आर्य सनत्कुमाराख्यं नारसिंहमतः परम् । [*तृतीयमाण्डमुद्दिष्टं दुर्वाससमथैव च ॥ नारदीयमयान्य च(न्यच्च) कापिलं मानवं तथा । तद्वदौशनसमोक्तं ब्रह्माण्डं च तथाऽपरम्]९६ वारुणं कालिकाहानं माहेश साम्बमेव च । सौरं पाराशरं चैव मारीचं भार्गवाहयम् ।। कौमारं च पुराणानि कीर्तितान्यष्ट वै दश । अष्टादशपुराणानां व्याकर्ता तु भवेन्मनुः ।। इति श्रीमहापुराणे पाने पातालखण्डे शिवराघवसंवादे पुराणमाहात्म्यकथनं नामैकादशाधिकशततमोऽध्यायः ॥ ११॥ आदितः श्लोकानां समष्टयङ्काः-१९०७८ ९८ अप द्वादशाधिकशततमोऽध्यायः । ४ सूत उवाच- संध्यावन्दनकर्म क्रियतामिति रामो मुनिमाचष्टायम् । उष्णधुतिरप्यस्तमुपैति द्विजकुलमेतभीडमुपैति ॥ स्वयमपि संध्यावन्दनकामोऽव्रजदुत्तरदिशमुज्झितयानः । हाहाहूहूकृतसंगीतिबन्दीप्रमुखप्रस्तुतकीर्तिः ।। गौतमीतटमुपेत्य राघवो वायुनन्दनसुधौतपद्युगः । जाम्बवत्कृतकरावलम्बनः मापदुत्पथनदीं तु गौतमीम् । करद्वये धृतकुशः स राघवः पागमद्वरुणदिशामथोत्तमाम् ।। दत्त्वा ततोऽर्घत्रितयं तथाविधः प्रहृष्टरोमाऽय जजाप सोऽन्तरे । + संप्रार्थयित्वा वरुणं यथाक्रमं शंभुं वसिष्ठं प्रणनाम राघवः ॥ ताभ्यां कृताशीरगमन्मनःपदं हनूमता क्षालितपादपङ्कजः । जुहाव वहीनय बन्दिमागधैः संस्तूयमानोऽथ च निर्ययौ बहिः ॥ पासचन्द्रकिरणैः सुधालिप्तमिवाम्बरम् । प्रसक्तताराकुसुमं वितानमिव सर्वतः ।। अयागच्छत्सौषतलं वृदामात्येन कल्पितम् । नानासनसमोपेतं सभास्थानं ययौ नृपः ।। अथ मुनि धुपवेश्य स राघवः स्वयमपि प्रथमासनमाभजत् । कपिगणाः परितः पृथुविग्रहा रचनया स्थितिमापतिपेदिरे ॥ मुखस्थितं नृपमभिवीक्ष्य स द्विजो वचस्तदा समुचितमाह शंभुः । इहस्थितो भवति समस्तपूजितः कथं कथा नृपवर वर्तते गुहायाम् ॥ आकाथ रघदहो द्विजवचः शुश्रूषुरासीत्कयां वत्रस्थो निपुणं निवार्य वचनं सर्वैः श्रुतं तत्क्षणात् ॥ सुश्रावाथ कथा महाद्भुततया स्वात्माश्रयामन्यथा * धनुचिहान्तर्गतः पाठः, इ. प. पुस्तकस्थः । + ल्यवभाव आर्षः । 569 ८ १. प. श्रीराम ।
६ ४ ७३२ महामुनिश्रीव्यासप्रणीतं- [ " पातालखण्डे- रक्षोबाधनवादिनीमथ नृपः किं त्वेतदित्याह च ॥ कुम्भश्रोत्रवधः पुरा समजनि प्राप्तो दशास्यो वधं पश्चादित्ययमन्यथा विरचित रामायणं भाषते ॥ कोऽयं विप्रवरः समस्तजनतानास्तित्वसंपादको राज्ञां स्थानमुपेत्य वक्ति स मया दण्ड्योऽथ पूज्योऽथ वा ॥ ११ अथाऽऽह जाम्बवान, रघूत्तमं कयां प्रति रामायणं न तावकं त्विदं हि कल्पितं मतम् ।। समस्तमत्र विस्तराद्वदामि देव तच्छृणु पकेरुहस्य सूनुतो मया श्रुतं पुरा बभूत् ॥ १२ जाम्बवन्तं विज्ञाप्य रामचन्द्रो वचनमाह । श्रीराम उवाच- कीर्तय पुराणं मे शुश्रूषुः कुतूहलादहं प्रणीतं तत्केन च विज्ञातम् ॥ जाम्बवानथ बभाषे हि ॥ विधात्रे नमस्तथैव विधुभूषणकेशवाभ्याम् ॥ अथ पुरातनरामायणं कथयामि यस्य श्रवणेनाखिलजन्मसंपादितपापक्षयो जायते ॥ ५ अथ तथाऽपि दशरथो दशरथसमानरथी महीयसा बलेन सुमनसं नाम नगरं जिगमिषया पङ्केरुहसुतमुतं वसिष्ठमाडूय नमस्कृत्वा मुनिदत्तानुनः शताक्षौहिणीसेनया सहाऽऽरुप तुरग- मुख्यं चन्द्रसमानशरीरमि(म)तिरोषसमाविष्ट विष्टरश्रवसमाराध्य दण्डयात्रा चकार । साध्यो नाम स्वीयया सेनया वृतो दशरथाभिमुखमाययौ योचु युद्धं चान्योन्यमभूत् ॥ मासमेकं युद्धं कृत्वा दशरथस्तं साध्यं जग्राह ॥ अथ साध्यसूनुर्भूषणो नामाल्पपरिवारो युयुधे दशरयेन ॥ दशरथोऽपि साध्यसूनुं भुवो भूषणमवलोक्य योद्धमेव नैच्छत् ॥ १० कथमेतादृशं इन्मि चास्मिन्हतेऽस्य कथं पिता भविष्यति कथं तन्माता कथमप्रौढयौवना प्रिया भार्याऽमुष्य हि देहे समालिङ्गनचुम्बनपरिवर्तिनवीनतरदलारविन्दपदानि कुसुमानीव दृश्यन्ते ११ एतत्समानवर्णवया एतादृशसुभगः परमप्रीतिवर्धनो नाम पुत्रो भल्लूकभक्षितो मृतः स्मृतिमयं पाप्यापि मां रक्षयितुमिच्छतीव मम हृदयमन्यया करोतीति मनसा वितातिबालकं ग्रहीतुमा- रमत॥ १२ स च साध्योऽपि पराधीनो बभूव ॥ स च कुमारेण सह पराजयखेदममत्वा मुखमध्युवास च ।। १४ स दशरथोऽपि तत्र मासं स्थित्वा तत्पुत्रसंदर्शनसुखमवलोक्याचिन्तयत् ॥ १५ अहो सर्वदुःखापनोदनक्षममेतन्मुखावलोकनं पुत्रसंवर्धनं नाम । १६ सर्वराष्ट्रिकोऽपि मम जयः पुत्रवियोगमनुस्मरतो दुःखाय केवलं भवति तदस्य पृच्छां करोमि कथमीहशो जायते पुत्र इति वितळ तमपृच्छत् ॥ साध्योऽपि सकलमोक्षमार्ग क्षितीशायाऽऽदिशत् ॥ १८ क. 'तिन राम तावक विदं कदापि कल्पितं मतं । to ८ १७ २१ २२ ११२ द्वादशाधिकशततमोऽध्यायः] पद्मपुराणम् । हरीशानौ सहाऽऽराध्य सबैकादशीरुपोष्य द्वादशीषु ब्राह्मणानाराध्य तत्कालभवं फलपू- मनाचं व्यञ्जनं पुष्पं वा न्यायेन संपाय कपिलाघृतेन केशवं नापयित्वा मुद्रचूर्णेन संलिप्य बाबूदकेन स्नापयित्वा सुरभिपटीरं स्वयमुद्दष्टं मृगनाभ्याऽगरुसारेण वा समेतं देवाने सर्व पलिप्य तुलसीदलैथिकाकरवीरनीलोत्पलकमलकोकनदद्रोणकुसुममरुषकदमनकगिरिकर्णिका- तकीदलपूर्वैर्यथासंभवमभ्यर्च्य द्वादशाक्षरेण पुरुषसूक्तेन वा नाना वा षोडशोपचारेण वाऽऽ. ध्य प्रणम्य नृत्यं कृत्वा देवं क्षमापयेत् ॥ १९ था व्रतानि च विचित्राणि नारायणमणिनाय कुर्यात् ।। २० समो भगवान्मुनिरीप्सितं पुत्रं यच्छति तदमुमाराधयस्वेति दशरथमुक्तवान् ॥ स चापि साध्यं ततः स्थाप्य गत्वाऽयोध्यां तथा सर्व कृतवान् । अथ पुत्रकामेष्टौ समाप्तायामाहवनीयाद्यज्ञो मूर्तिमान्भूतः शङ्खचक्रगदापाणिरुदतिष्ठत् ॥ २३ राजानं वरं वृणीष्वेत्युक्तवान् ॥ स च राजा बने पुत्रानतिधार्मिकान्दीर्घायुषश्चतुरो लोकोपकारकान्देहीति ॥ अथ राजमहिष्यश्चतस्रः कौशल्या सुमित्रा सुरूपा सुवेषा चेति राजानम वन्देव प्रतियोषमे- केन पुत्रेण भवितव्यम् ॥ २६ अथ कौशल्योवाच- एष यदि प्रसनो देवस्तदयमुत्पद्यतां मम ॥ राजोवाच- मम दिष्टं तदयं प्रार्थ्यते हरिः॥ विष्णो प्रसीद देवेश कमलापते शनचक्रगदाधर विभीषणसृष्टिसमस्तलोकपालादिपूजितपाद- युगुल शाश्वत हरे नमस्ते नमस्त एवं स्तुतो भगवानथ राजानमाह ।। २४ २७ २८ २९ माधव उवाच- ३० तव पुत्रो भविष्यामि कौशल्यायामय चरुं प्रविवेश हरिस्तं चरुं हि चतुर्धा विभज्य भार्याभ्यो दत्तवान् ॥ अथ कौशल्यायो रामो लक्ष्मणः सुमित्रायां सुरूपायां भरतः सुवेषायां शत्रुघ्नो जज्ञे ॥ ३१ खात्पुष्पवृष्टिश्च पपात ॥ ३२ अथ चतुराननः स्वयमुपेत्य जातकर्मादिकाः क्रियाश्चक्रे ॥ त्रिभुवनाभिरामत [*या राम इति नाम चके रूपशौर्यादिलक्ष्मीयोग्यतया लक्ष्मण इत्यपरस्य भुवं भारात्तारयतीति भरतः] शत्रून्हन्तीति शत्रुघ्न इति नामानि कृत्वा ब्रह्मा स्वभवनं जगाम ३४ अथ पादसंचारिणं पालचन्द्रसंकाशदर्श बिम्बाधरमुन्नततिलप्रसूननासं पुरधूलिकालम्बमान- रत्नपत्रकं श्रवणलोल[+लम्बमानकुण्डलं वक्षस्थलविचलितस्थूलमुक्ताहारं विलसत्कार्तस्वरबाहुव- शिशवश्च वृद्धिमेव ॥ * धनुविहान्तर्गतः पाठः, स. स. ब. छ. ट... प. पुस्तकस्थः । + धनुचिहान्तर्गतः पाठः स. उ. प. उ. 2. 1. प. पुस्तकस्थः। १८. प. तत्र - ३९ नपथुपयोधरासमकण्ठाः स्थूलसूक्ष्मकलाटविम्बदशनच्छदमुखपहजाः कुटिसकुन्तलदीर्घकेशव- महामुनिश्रीव्यासमणीत- [४ पातालखणे- लयं सिञ्जन्मणिकङ्कणरत्नाङ्गुलीय] हेममणिरचितश्रोणीसूत्र सिञ्जनपुरोपशोभितपादमङ्गुलीयोपः शोभितपादमध्याङ्गुलिकं वज्राडशसरोजलाञ्छनशोभितोरुपादतलं तूणीरसदृशजल्य करिकरस- शोरं विस्तृतजघनं सूक्ष्ममध्यं वर्तुलावर्तकं गम्भीरनाभिमिन्द्रनीलशिलाविशालवक्षःस्थल कम्बु ग्रीवं चन्द्रबिम्बसहशवदनमर्धचन्द्रसहशललाटं नीलकुटिलकुन्तलं क्रीडासक्तं धूलिभिरापाण्डर फुल्लपबदलारक्तविलोललोचनं महेश्वरमिवोलितभूतिं महेश्वरमिव दिगम्बरं राम कुमार राजा दशरयो दृष्ट्वा हर्षपरिपूर्णहृदयः पुत्रमालिल्य चुम्बित्वा वक्षस्यालिलिङ्ग दृढम् ।। अथ कुमारोऽपि पाइँनाङ्गमारोप्य कलकलितलोचनो यत्किचिदुवाच याचमानमितस्ततो वीक्षमाणस्तात गच्छे शये तात क्रीडामि तातेत्यादि पुत्रसुखमनुभयानुभूय निवृतिं ययौ ३६ अथ कदाचिद्भोक्तुमागते राजनिरामचन्द्रोबालक्रीडासक्तहदयो बहुक्रीडनककरकमल उत्प्लुत- धावमानो नरपतिपुरःस्थितमणिखचितसुवर्णभाजनस्थमनं वामकरण गृहीत्वा राजनि चिक्षेप३७ इदमपि राजा सुखाय मेन एतादृशान्यन्यानि चकार रामचन्द्रः ॥ ३८ भय कदाचित्क्रीडमाने रामे वात्या राममपातयद्रामश्च रुदभपतत् ।। एतस्मिनन्तरे ब्रह्मराक्षसो राममगृहादामश्च मूर्छामाप ह ॥ अथ सहचरो बाल इतस्ततो रोख्यमाणो रामं तथाविधं राञ व्यापयत् ।। अथ राजा राममादाय वसिष्ठमाह- किमिदं रामस्यति पप्रच्छ ॥ अथ वसिष्ठो भस्माऽऽदायाभिमन्न्य ब्रह्मराक्षसं मोचयामास पप्रच्छ को भवानिति ॥ स चाऽऽहाहं वेदगर्वितो ब्रामणो बहुशः परधनमपहृत्य ब्रह्मराक्षसो जातो मे निष्कति विचा- वसिष्ठ उवाच- इदमितःपरमेकवर्षशतोपभोग्यं राक्षसत्वं नरकं भागीरथीनानमेकं शिवाय बिल्वपत्रशतं समर्प्य ततः स्नात्वा पापाद्विमुक्तो भवसीति ॥ ४५ कदाचित्तादृशं कृतपुण्यं तव पदं प्रयच्छामि तदुपरि शिष्टगतिं भजेति वसिष्ठवाक्यमाकर्ण्य ब्रह्मराक्षसो वसिष्ठोपदिष्टपुण्यवशादिव्यशरीरो भूत्वा नमस्कृत्वा स्वर्ग जगाम ॥ अथ रामं प्राप्ते काल उपनीय वसिष्ठो वेदानध्यापयामास पानि मीमांसाद्वयं नीतिशास्त्रं चाध्यापयामास ॥ भय धनुर्वेदमायुर्वेदं भरतगान्धर्ववास्तुशाकुनविविधयुद्धशास्त्राणि च ॥ अथ विवाहं कर्तुकामेन राजा दशरथेन नानादेशजनपतीन्मति दूताः प्रेरिताः ॥ अथ कश्चिच्छीघ्रमागत्य राजानमिदमब्रवीद्राजन्विदर्भदेशाधिपतिर्विदेहो नाम राजा तस्य पुत्री वैदेही होमलब्धा रूपेण लक्ष्मीसमा सर्वलक्षणसंपमा रामयोग्या वियते स च तां दातुं राजा रामायोधुक्तस्वदम्यतां शीघ्रमिति ।। अथ वसिष्ठादीन्मेषयामास ते च तत्र गत्वा तां च निरीक्ष्य लमं निचित्यायोध्यायामेत्य रा जानमुक्त्वा रामसहिताः पृथ्वीपतिसमेताः शीघ्र विविधकरितुरगशकटशिषिकान्दोलिकाभिरति- सुभगरूपभोगविलासक्रियानिपुणा हि(?) विदितविविधचेष्टा गन्धर्वकामशास्त्रकुशला मृदुकठि ४२ श्य ॥ ४४ १८ ४९ ५० ११२ द्वादशाधिकशततमोऽध्यायः ] पमपुराणम् । मिल्लाः कनकपत्रकर्णाः स्नानचेष्टयोत्थितरोमशोभिता जपारक्तदशना विशदविस्फुरच्छफरीलो. चनाः शुक्तिकासदृशश्रवणा नक्षत्रसदृशस्थूलमुक्ताफलोपशोभितनासापुटा मुकुरसदृशकपोलास्तिल- प्रसूननासिका आनम्रमध्यप्रदेशचूचुका इन्द्रगोपप्रतीकाशाधरपुटदशनक्षताः समदीर्घकाङ्गमदर्शना- स्थितसर्वप्रदेशवर्तुलानतिमांसलाः पिण्डकाग्रन्थिनीव्यो वलितबाहुमूला अनतिचिरकालोत्थितरो- मतयाहरिद्रावर्णतया च कणिकारदलसदृशवाहुमूला मृदुस्निग्धवर्तुलसूक्ष्ममध्यप्रदेशाः कठिनस्थू- लवर्तुलाममचूचुकपरस्परस्थानाक्रमणस्पर्धिपयोधरमध्यलब्धपदकपयोधरोपरिचञ्चलविविधमणिम- यहारोपशोभितवक्षस्थलाः पयोधरपरितो लब्धपदतया तरुणदृष्टि[*परस्प(रंप)रयाऽसमानया नाभिकूपोपरित(न)रोमराज्योपशोभितोदरप्रदेशा भज्यमानमध्यस्थलीकरण एव वली]त्रयोपशो- भिता मुष्टिप्रायमध्याः करिकरोपमजघनप्रदेशा आरोमशमृदुस्निग्धा [मिलासमजान्व्यः कदली- स्तम्भसंनिभोरुयुगुला आमनजानुकशकुंश(?)वर्तुलपिण्डिकारहितजङ्या आममगुल्फा आसूक्ष्म- स्निग्धा]दीर्घदीर्घाङ्गुलिपादा नूपुररवाह(हू)यमानमदना हंसमतंगजगमना दक्षिणाङ्गुष्ठस्पर्शिक- च्छाग्रा उपरिकच्छं नीविं कृत्वा करद्वययुता वस्त्रप्रदेशकण्ठमप्रावृत्यापरवसनपरिभागा वृत्तस्त- नवसनापरभागे वामांस एव दक्षिणपाश्र्वागतेन दशाभागेन नाभिप्रान्तेन प्रबोशनोपशोभितगा- प्रयष्टयो योषितो विवाहमालकर्मकरणायानेकश आगच्छन् । बालिकाश्च विद्युल्लतांशुशोभितगात्रयष्टय उद्भिन्नकुचकमलकुञ्जलविविधहारोपशोभितवक्षसो यत्किंचिद्भाषिण्योऽतिचपलमृदुगतयो वृद्धवनिताश्चाऽऽगच्छन् । अथ विदेहपुरतः कोशमात्रे चूतवनिकायां विविधविटपविस्तारमदेशविविध[+विहङ्गकूजिताकर्ण- नदत्तकर्णवनहरिणशाववत्यां महारजतनिर्मितीच्चनीचप्रासादोपशोभितप्रदेशविविध] विहङ्गायां हेमवल्कलसंवीतभसितोचूलितशरीरजटिलमुनिगणध्यानोपासनोपशोभितक्षमालायां विविधवि- याधरवधूपयोधरभाराभिभूतविचरिततरङ्गसरसीयुतायां सरस्तीरमिलितसैरधीयुवतिभिराहूयमा- नतरुणजनायो नानावर्णकुसुमसौरभवासिताशेषभदेशायामितस्ततो रिरंसया प्रदर्शितस्फारशफरी- विलोचनतरलचक्षुषा प्रभाविलसितशरीरवेश्याजनायां विविधाश्चर्ययुतायां दशरथः सामात्यपुरो- हिताभिरामरामादिपुत्रसहितः सुखमुवास ॥ अथ वैदेहोऽपि मिथिलां नानापताकोपशोभितां विविधमासादगोपुरां देवतायतनोपशोभिता- मन्योन्यकेलिचतुरयुवतिजनानुकीर्णामुशीरविरचितमहाप्रपां सुकेलिजनोपशोभितविशिखां विवि- धपण्योपशोभितरथ्यां तत्र ब्रह्मघोषशोभितमठां प्रतिमन्दिरं मीमांसादिव्याख्यानसंपादसी- माध्ययनां सुपुण्यहविर्गन्धसामादिस्वरपदक्रमश्रुतिब्राह्मणवाटिकामनेकपरिवढमन्दिरप्रवेशनिष्क्री- तागुरुकुसुमामध्वर्युवेषां मृदुलवसनताम्बूलरक्तदन्तच्छदकामिनी मृदुवचनकठिनवचनकरसंज्ञानि- धा(वा)रितपतिवचनविविधोपायनाहरणकरजनोपशोभितां मृदुधवलजघनपरिवीतवस्त्रोपरिभागेन स्निग्धवर्तुलपरस्परसंघर्षपयोधरमध्यमदेशोपशोभितवामांसकण्ठोपशोभितवनितां विविधमुक्ताहा- रजपासंकाशदशनच्छदमन्दहासमालाकारसहस्रोपशोभितां पुण्यासवसाधनमन्दिरां तत्र तत्र *धनुचिहान्तर्गतः पाठः ख. र. च. छ. ट र. प. पुस्तकस्थः । धिनुचिहान्तर्गतः पाठः ख. छ ट. ड.प. पुस्तकस्थः । + धनुचिहान्तर्गतः पाठः स.. च छ. म. ट. १. प. पुस्तकस्थः । १झ. 'रिदद।
६० ६४ महामुनिश्रीव्यासप्रणीतं- [ ४ पातालखण्डे- विचित्रतोरणां विशुद्धवीथिकां तत्र तत्र स्थापितकल्पपादपां रम्भाविभूषितद्वारा पुरी शोभितां शोभयामास ॥ ५४ अयाभिकलनार्थ विलासिन्यो निशादूर्वाक्षतमन्त्रमालकजलितकैशिकधम्मिल्लते(?)लग्रन्थि- तजटोपशोभितसीमन्तशीर्षशोभितनासामुखविचित्राभरणा हेमपात्रावस्थिताज्यगुग्गलुफलादिसौ- भाग्यद्रव्यमुदहन्तीभिः स्त्रीभिरन्यैरपि शोभितजनैः स राजा निर्जगाम ॥ तदानीं माल(ल)तूर्यघोषा देवदुन्दुभिभेरीनिःसाणमर्दलशादिनादाः मादुर्बभूवुः ॥ ५६ गायकाश्च मालानि जगुः ॥ मालवेदवाक्यानुपाठन वैदिका ब्राह्मणाः कुलपाठका भेरीघोषेण कृत्स्नमाकाशमपूरयन् ५८ अथान्योन्याक्षताः पूर्वमङ्गीकुर्वन्तः सूतबन्दिजनादिभिः स्तूयमानाः पुरं प्रविविशुः ॥ विदेहनगरात्पश्चिमभागे निर्मितं मन्दिरं दशरथः प्रविवेश ।। अवशिष्टाश्च यथायोग्यं विभवनं विविशुः ॥ ६१ अथ नारदो मिथिलां तदानीमेवागच्छत् ॥ ६२ विदेहोऽपि देवर्षिमभिपूज्य स्वागतं पृष्ट्वा भोजनं च कारयित्वा सुखासीनाय मुनये सघन- सारताम्बूलं दत्त्वा व्यज्ञापयत् ॥ वो विवाहे भवानिह स्थातुमर्हति कारयते(ता) विवाहम् ।। नारद उवाच. श्वो हि नक्षत्र सूर्यनक्षत्रदर्शनं तत्र विवाहो न कर्तव्य इति ॥ अथ मौर्तिकं वृद्धगार्यमाहूय राजा पप्रच्छ क विवाहमुहूर्तः । ६६ श्व इति गार्य उवाच ॥ राजा च नारदं गाये चोदीक्ष्य भो इदमित्यमिति पप्रच्छ । ६८ अथ नारदो गार्यमुवाच कथमुक्तलमं दास्यसि ।। ६९ अथ गाग्र्यो विषघटिकाश्च विहाय लमं दास्यामीत्युवाच ॥ नारदोऽपि ब्रह्मवचनानि किं न जानासीत्युक्तवान्गार्ग्यम् ॥ गाग्र्येण पृष्टस्तान्दोषानपठत् ॥ उल्का च ब्रह्मदण्डश्व मोघः कम्पस्तथैव च । सर्वकार्यविनाशाय दृष्टा वै ब्रह्मणा पुरा ॥ प्रतिष्ठासु विवाहेषु मौञ्जीबन्धाभिषेकतः । अन्येषु सर्वकार्येषु विषनाडीविवर्जयेत् ॥ अतः परं तु कार्याणां करणे न च दोषभाक् । विवाहादिषु कार्येषु दोषमेव वदाम्यतः ॥ १५ उस्का दहेत्कुलं सर्व ब्रह्मदण्डो विनाशयेत् । मोघस्तु मरणाय स्यात्कम्पः कम्पाय कर्मणः।। १६ इति नारदोक्तमाकर्ण्य गाग्र्यो मुनिमौनपरोऽभवत् ।। दध्यौ रविं ग्रहपति विहाय विषनाडीविवाहः क्रियतामिति ॥ नारद उवाच- कथं ब्रह्मवचनम् ॥ सूर्य उवाच- देशभेदेन व्यवस्थोदिता तदस्सिन्देशे विवाह विषघटिका विहाय कर्तव्य एव ॥ नारदोऽप्यनुमेने ॥ ६७ ७० ७१ ७२ १३ १४ ७३ ७४ ७५ ७६ ७७ ७९ ८० ८१ ८२ ८३ ८४ ११२ द्वादशाधिकशततमोऽध्यायः ] पद्मपुराणम् । उवाच श्वः परहे(राहे) च क्षत्रविवाहश्च भवेदतः स्वयंवरार्थ नृपा आगच्छन्तु तभृपवूतान्मेषय । अथ राजा विदेहो दशरथानुमतेन सर्वानेव नृपानागमय्याचिन्तयत्कथं सर्वानेव तिरस्कृत्य वैदेही रामाय देयेति ॥ अथ रात्रौ मुहुर्मुहुनिश्वस्य निद्रालुरपि न निद्रामाप ॥ अथ मध्येनिशं राजा शुचिर्भूत्वा त्र्यम्बकं साम्बिकं मङ्गलदुकूलधारिणा कमलभवपुरुषोत्त- मशक्रप्रमुखनिखिलदेवैर्भृगुप्रमुखमुनिवरैर्हाहाप्रमुखगन्धर्वैस्तुम्बुरुममुखैश्च श्रुतिस्मृतीतिहासपुरा- णैर्मूर्तिमद्भिश्च सिद्धविद्याधरादिमातृकागणैनन्दीप्रमुखगणैश्च सेव्यमानपादकमलं सर्वामङ्गलप- रिमोचकमतिपुण्यसलिलया गङ्गया निष्कलङ्केन चन्द्रमसा सेव्यमानशिरोभागं वामावारूढया गिरिजया प्रदीयमानवीटिं सहासं सकामं सहावेक्षणमाददानं गोक्षीरसदृशं प्रतिकूलकस्तूरिका- सदृशकण्ठं मृदुसूक्ष्मस्निग्धजटाभिर्विरचितकपर्दै विशुद्ध कार्तस्वरकुण्डलोपशोभितगण्डभाग द्विरष्ट- वर्षवयसं गोक्षीरसदृशस्थूलमुक्ताफलकौसुम्भवर्णाश्चलेनाऽऽवेष्टितशिरोभाग विविधरनविरचित- कार्तस्वरभूषितवक्षःस्थलमतिधवलोपवीतेनोपशोभितशरीरमम्बिकानुलग्नकुङ्कुमारुणसुगन्धिशरमी- क्षमाणं तय॑मानमार्गणकोटिकंदर्पसदृशं मनसाऽचिन्तयत् ॥ जजाप शतरुद्रियं जुहाव च तेनैव कामाहुतिं प्रास्तुवच्च पुरुषसूक्तेन ॥ अथ तादृश एव महेश्वरस्तत्र प्रादुरभूत् ॥ अथ राजा नमस्कृत्यास्तुवीत ॥ राजोवाच- क्षितिसलिलगगनपवनदहनरविशशियजमानमूर्तिभिरष्टमूर्ते विश्वमूर्ते लोकमूर्ते त्रिभुवनमूर्ते वेद- पुराणमूर्ते यज्ञमूर्त स्तोत्रमूर्ते शास्त्रमूर्ते स्वधामूर्ते नारायणमूर्ते सर्वदेवतामूर्ते त्रयीमय त्रयीप्रमाण त्रयीनेत्र सामप्रिय वसुधाराप्रिय भक्तिप्रिय भक्तसुलभाभक्तविदूर स्तुतिप्रिय धूपप्रिय दीपमिय घृतक्षीरप्रिय द्रोणकरवीरप्रिय श्रीपत्रप्रिय कमलकहारमिय नन्द्यावर्तप्रिय बकुलप्रिय यूथिकाप्रिय कोकनदप्रिय ग्रीष्मजलावासप्रिय यमनियमप्रिय नियतेन्द्रियप्रिय जपप्रिय श्राद्धप्रिय गानमिय गायत्रीप्रिय पञ्चब्रह्मप्रिय सदाचारप्रिय गोत्रोत्सादिकमलभवहरिहरनयनसर्चितपादकमल जयपद हरिमार्थितजलोत्पाटितचक्रप्रदर्शकृत्स्मृतियुक्तिपद स्मृतिमङ्गलपद मह्यां जय नमस्ते नमस्ते ॥ ८५ इति स्तोत्रमाकर्ण्य भगवान्भवो राजानमुवाच वरदोऽहं वरं वृणु ।। राजोवाच- मम कन्या वैदेही रामाय दित्सिता स्वयंवरे कुलरूपबलोत्साहसंपन्नानेकभूपराक्षसविमादि- सर्वप्राणिसमागमे रामाधिकबलो यदि ताम'ग्रहीत्तदा वचनमनृतं मम पापं च भविष्यति प्रत्युत दशरथोऽपि सर्वानेवाऽऽगतान्विजेतुमलं क्षत्रकदनश्च रामो यद्यायास्यति तर्हि मम सुतां किं करिष्यति वा किं किं वा प्रेषयिष्यति कीदृशं कारयिष्यति मम किंवा करिष्यति सर्वथा हि भभूतबलवाहनो नरपतिरशेषमपि त्रिभुवनं हन्यात्किमुत मामल्पसत्त्वं किमुत बहुना भवाना शरणं ममोपायं वद यथा विवाहे श्रेयो भविष्यति रामश्च जामाता भविष्यति ॥ ८७ ॥ + आर्षोऽत्र लकारव्यत्ययः ।। १ ट. प. द मृत्युंज। ८६ - ८८ - ९४ महामुनिश्रीग्यासमणीतं- [ ४ पातालखण्डे- शंभुरपि तथा करांमीत्युवाच राम एव नाथः सीताया भविष्यति रामं च कृत्वा स्वस्त्यर करिष्यामि गृहाणाजगवं धनुरिदम् ॥ राजोवाच- किमनेनाजगवेन धनुषा स्वयंवरे सीतां रामं प्रापय ।। शंभुरुवाच- इदं धनुरसज्यं मे यस्तु सज्यं करिष्यति । तस्मै देया मया सीता प्रतिज्ञामेवमाचर ।। इत्येवमुक्त्वा भगवान्गणैरन्तर्दधे हरः । अथाऽऽदातुं धनू राजा न शशाकातियत्नतः ॥ १८ अथोल्वलं शतसहस्रगजबलं समाहूय गृहाणेत्युवाच ॥ स चापि मातुलं नत्वाऽट्टहासं कृत्वोत्लुत्य धनुाभ्यां कराभ्यामुद्दधार जानुपर्यन्तम् ॥ ९१ मातुलो मारीचः श्रुत्वैकाकी विप्रवेषं कृत्वा विदेहमयाचत वैश्वदेवान्ते प्राप्तमतिथिमामवेहि राजोवाच- स्वागतं भो इदं ब्रह्मनासनं निषीदेति ॥ स चातिथिस्तथेत्युक्त्वा निषसाद ।। -अथ राजा जलमादाय पादौ प्रक्षाल्य गन्धपुष्पाक्षतैरभ्यर्च्य महाजं तस्मै निवेध भोजनाय प्रार्थयामास || स चापि तदन्नं षड्रसोपेतं सौवर्णभाजनगतमीक्षमाण इतस्ततो विलोकयामास ॥ तस्मिन्नेवावसरे सीता पद्मकिञ्जल्कमभेषदा रुणवसनं बिभ्रती नीलकुटिलकुन्तलैश्चलद्भिनां मनांस्याकर्षयद्भिरिदं प्रेक्ष्यमाणदृष्टिभग्नकलैरिव स्त्रीणां चित्तमीहशमिति दर्शयद्भिावापेशाभि- तललाटानगचापसुभ्रूः पद्मपत्रारुणविलोचना तिलप्रसूननासा मृदुस्निग्ध(ग्धा)रोमशकपालाऽन- न्तरारक्तोष्ठा रक्तासनमणिकणिकानिभदाडिमीदशना जपा[*रुणाघराऽतिशोभितचुबुका शुक्ति- वर्णा समदीर्घकण्ठाऽतिमांसलवक्षःपीनोद्भिमकुचकुड्मलाऽनेकहारो]पशोभिता सुभगाकाराऽन- तिमांसलबाहुलता मुग्धायतसमानाङ्गुलिशिखा पारुणपल्लवा विविधबहुरत्नाङ्गुलिभूषणा मुष्टि- ग्राह्यमध्या सुरोमराजिगम्भीरनाभिः पृथुजघना करिकरोरुस्तूणीरजया सुपादकमला नूपुरादि- पादविभूषणा पादाङ्गुलिभूषिता विकसितसौगन्धिकं विदधती भुञ्जानमारीचस्य पुरतश्चाऽऽ- गता॥ वीक्ष्यासावचिन्तयदेनां कथमपहरामि कथमालिङ्गामि कथमन्यद्यत्किंचित्करोमीत्येवमवसर- मलभमानस्तूष्णीमेव विनिर्गतः ॥ अथ देवधनुःसज्जीकरणाय यतमानाऽहंपूर्विकया विद्यमाना(?) अन्योन्यतिरस्कारेण महेन्द्रः पाप धनुरुत्तमं प्रान्तद्वयापारं नावनमायितुं शशाक ।। अथ सूर्यो धनुरादाय नमयन्नेव निपपात ॥ १०० वायुर्बलषतां श्रेष्ठो जग्राहाजगवमथ स्वेनैव करेणोत्कर्षयमधः पपात ॥ १०१ धनुश्च वायोरुपरि पपात ॥ अहसंस्तदा सर्वे ॥ * धनुचिहान्तर्गतः पाठः ख. र. च. छ. ट. उ. प. पुस्तकस्थः । १म. दिरन्तं प्रेम. 'द्विरितं । ९८ ९९ ११२ द्वादशाधिकशततमोऽध्यायः ] पद्मपुराणम् । ७३९ एतस्मिन्नन्तरे तुरगवरमारुह्य बाणासुरः सहस्रबाहुरेकानेकशिरोभिदैत्यैः परिवृतः प्रहादस- मेतो विदेहपुरीमाजगाम ॥ १०४ अथ स्वविभूषणोद्भासितां दिशां कुर्वन्स्वतेजसाऽपयशसो देवताः कुर्वमानाविधगीति भृण्वन्व्यङ्गुलमात्रेण शक्तो विरराम ॥ १०५ प्रडादो बलिश्चैव(द)धावाते अथ विरेमतुः ॥ अथ राक्षसेषु तूष्णीभूतेषु राजानोऽतिबलिनः समागता ज्याबन्धाशक्ता अपमृत्य तस्युः१०७ अथ ब्राह्मणा: समागताः॥ १०८ अथ विश्वामित्रो धनुरादायकाङ्गुलपर्यन्तं सज्जं कृत्वा विरराम निवृत्ताश्चापरे ॥ अथ दिनमात्रे धनुषि तूष्णीभूते राघवः सहानुजैरागत्य धनिरीक्ष्योपास्पृशत् ॥ ११० अथ राजकुमाराः शतशः समागताः सर्वाभरणभूषिता धनुर्दृष्ट्वा पस्पृशुर्न च चालन- क्षमाः॥ १११ अथ दाशरथिप्रमुखाः कुमाराः समागताः ॥ ११२ अथ वेत्रझर्झरपाणयः समागमन्सर्वानेवापसारयामासुः ॥ अथ रामो लक्ष्मणहस्तं गृहीत्वा सर्वाभरणभूषितो धनुरासाद्य स्पृष्ट्वा नत्वा प्रदक्षिणीकृत्य धनुरादायोद्दधार ॥ ११४ तदादानसमये सर्व एवैत्य सहासमूचुरत्र भग्ना महारथा इति ॥ ११५ अथ रामो धनुास्थानमवनमय्य धनुषि जानुं कृत्वा सज्यमेककरणोत्पादयन्कोव्या त्वदापयत् ॥ ११६ अथ सजीकृतं दृष्ट्वा सर्व एव नासाग्रन्यस्ताङ्गुलयोऽभवन् ।। ११७ रामोऽपि ज्यामनुनादयंस्तेन नादेन सर्वेषां मनांसि क्षुभितान्यासन् (न्यकरोत्) । ११८ रामेण सज्जितं धनुरिति सर्वत्र वादः संजातो जनकोऽपि सीतां रामाय ददौ ॥ ११९ राजभिश्च युद्धं कृखा निर्जित्य स्वपुरीमगात् ॥ १२० अथ दशरथो रामं यौवराज्येऽभिषिच्य सुखी बभूव ॥ १२१ सर्वपजारञ्जनाच्च रामो राजाऽनुमत इति सर्वप्रजावादोऽभूत् ॥ १२२ अथ केकयदेशाधिपतितनया सुवेषा रामं राजानमसहमाना राजानमुवाच मम वरदानावसर इति ॥ १२३. राजाऽचिन्तयत्किं देयमिति ॥ १२४ देव्युवाच- चतुर्दश वर्षाणि रामो वनं विशतु पालयतु राज्यं भरतः॥ १२५ १२६ राजा चानृतवचनदोषभयात्कथं कथमपि स्वीचकार ॥ अथ वसिष्ठं भावितयाऽवोचत रामो वनाय निर्गच्छत्यस्य किं वा भवेदिति विचार्य शुभाशुभं हे॥ १२७ वसिष्ठो विचार्य सहर्ष राजानमुवाच ॥ १२८ गत्वा वनं निखिलदानववीरहन्ता शंभोरनेकविधपूजनमातनोति । सीतावियोगरूषितः कपिसेनया च तीवोदधि दशमुखं च निहन्ति रामः ॥ ॥ - ७४० महामुनिश्रीव्यासप्रणीतं- [४ पातालखण्डे- आगम्य राज्यं रघुनन्दनोऽपि बहूनि वर्षाणि समातनोति । प्रशस्तकीर्तिनिखिलेऽपि लोके शर्वेण देवेन चिरं न्यवात्सीत् । सुपुत्रयुक्तो बहुयजयाजी परिवृढः सर्वगुणाधिकश्च ।। इति वसिष्ठवचनं श्रुत्वा दशरयो रामगुणाननुस्मरन्नित्युवाच श्रेयो मे मरणं रामस्य निर्गमनेति ॥ अथ रामो मातरं पितरं गुरुं च वसिष्ठं पितृपत्नीनमस्कृत्य वनाय जगाम ॥ अथोपवने दिनमेकं स्थित्वा जटाः कारयित्वा वल्कलं वाससं धृत्वकोपवीती कृतदन्तशुद्धि- रेकेनोपवीतेन जटा बद्ध्वा भस्मोद्धूलितसर्वाङ्गो भसितनिष्ठुरकायो मुक्ताफलदामा मणिव्यत्यस्त- रुद्राक्षमालामुरसि दधानोऽल्पभूषणाधिभूषितसीतासहायो लक्ष्मणानुचरो विवेश वनान्तरम् १३१ अथानेकराक्षसांस्तस्मिनिजघान भवानिव निखिलं चकार । १३२ सीतापहरणादि निखिलमपि भवन्तो(तो) यथा तथाऽस्याथ सुग्रीवाश्रममृष्यमूकपर्वतं रामो जगाम ॥ निबिडच्छायाचूतवृक्षमासाद्य लक्ष्मणसहायः परिश्रयमकल्पयत् ॥ वृक्षे तु धनुषी आरोग्याऽऽसीनलक्ष्मणाङ्के शिरः कृत्वा हरिचर्मशय्याशयनो लक्षितां गीति शृण्वन्वृक्षफलं निरीक्षमाणो वानरमेकं मणिकुण्डलं हेमपिङ्गलं सुदृढबद्धमौञ्जीकौपीनमच्छोपवी- तिनमतिचञ्चलफलमादायाऽऽत्मनि विक्षिपन्तं पुष्पमञ्जरीश्च किरन्तं गानमनुकुर्वन्तं व्यजनेन राम वीजयन्तमारुह्य शाखामपि तथा वीजयन्तमाबद्धचूतफलमा रामो वीक्ष्य लक्ष्मणमभाषत लक्ष्मण कोऽयं कपिरिति ॥ लक्ष्मणोऽपि न जान इत्युवाच ॥ अथ रामः समाहूय कस्य त्वं किं नामेत्यपृच्छत् ॥ स च सुग्रीवस्य हनुमानित्युवाच रामं नत्वा सुग्रीवमेत्य नत्वा देव नारायण इवापरः पुरुषो युवा मेघश्यामो जव्याजानुबाहुरतीव यशस्वी सूर्यसंकाशेन सहापरेण त(क)रेणेवाऽऽस्तेऽध्व- रचूतच्छायाधःसंस्थितौ सर्वलक्षणसंपन्नौ राजपुत्रौ दृष्टावुक्तश्च ताभ्यां सुग्रीवाय निवेदयति तत्त्वयि निवेदितम् ॥ १३८ अथ सुग्रीवः सत्वरमुत्थाय पादसलिलार्चनादिद्रव्यमादाय पादप्रक्षालनादिकं कृत्वा फलानि समर्प्य व्यज्ञापयत्कौ युवा किमर्थमागतौ राजपुत्रौ तपस्विनाविति ।। १३९ सुग्रीववचनमाकर्ण्य लक्ष्मणेनाभाषयद्रामः । दशरथतनयावावां रामलक्ष्मणौ दुष्टनिग्रहशिष्ट- परिपालनाय वनं गताविति ॥ अथ सुग्रीवो युवयोरुपकारमपका(रपोरं कार्यमस्तीति लक्ष्यते । अन्यथा सेनासमेतावागमिष्यतः लक्ष्मणोऽस्ति कार्यान्तरम् । अमुष्य भार्या केनापहृता न ज्ञाता तामन्वेष्टुमागतौ तदेवाऽऽवयोः कार्यमन्यदानुषङ्गिक तदर्थमपि जलधि तरावः। अपि पाताल प्रविशावः । अपि नाकं साधयाः। अपि महेन्द्रं पातयाकः। अपि वलिनं हनाव । किमपि कुर्वहे ।। १४२ सुग्रीव उवाच- (वो) रावणेनापहृतया कदाचिद्रियमाणागतया विभूषणानि कानिचित्परित्यक्तानि गतानि मया संगृहीतानि तानि दर्शयामीत्याभाष्य राम मन्दिरमागमय्य दर्शयामास ॥ १८. प. 'चिद्विमानमत । १४० पद्मपुराणम् ११२ द्वादशाधिकशततमोऽध्यायः ] रामोऽपि निरीक्ष्य निश्चित्य पुरुष क गतोऽसौ रावण इति पप्रच्छ । १४४ स च दक्षिणामाशां गत इति बभाषे ॥ १४५ अथ रामस्तेन सख्यमकरोदपृच्छच्च किमर्थमिह भार्याहीनः स्थित इति ॥ १४६ कपिरुवाच- मम भ्राता वाली महाबलो मम भार्या राज्यं चापहृत्य किष्किन्धायामास्ते युद्धेन चाई परा- जितः । तद्धाय सर्वथा मम चिन्ता यथाऽसौ त्वया निहन्यते तथा मयाऽपि सागरं बद्ध्वा परतटे लङ्कायां स्थितां सीतां रावणेनापहृतां तव समर्पयामीत्याभाष्य शपथं कृत्वा सुग्रीवो वालिनाऽतिबलिना युद्धायाऽऽहूतेन युयुधे ॥ १४७ रामोऽप्यनन्तरमनिश्चयाद्वालिनं नाहरत् ॥ १४८ अथ सुग्रीवः पलायितो राममिदमभाषत तव चित्तमव(वि)ज्ञाय प्रवृत्तो मरणाय ॥ १४९ रामोऽपि युवयोर्विशेषाज्ञानान्मया तूष्णीभूतं चिह्नित त्वां निरीक्ष्य त हन्मि ॥ १५० अथ सुग्रीवश्चिरं कृत्वा वालिनं युद्धायाऽऽहूय समतिष्ठत ॥ १५१ तारा बभाषे वालिनं सहायवानिव लक्ष्यते सुग्रीवो नो चेदेवं नाह्वयति ज्ञातं मया रामलक्ष्मणौ दशरथतनयौ नारायणांशी भूभारावताराय समागतौ तावस्य सहायभूतौ ॥ १५२ वाल्युवाच- नीतिमाराम इति मया श्रुतो न हि बलवन्तं विहाय दुर्बलं भजते तादृशः समायातु वा रामः प्रतिवलमधिकं कृत्वा बिभेति वीर(रो) यदि रामः स्वयं युद्धाय यातस्तदा युद्ध कर्तव्यमित्याभाष्य तारां संभाव्य सुग्रीवयुद्धाय निर्यातः ॥ १५३ अथ मुष्टियुद्धमन्योन्यमभूत् ॥ १५४ रामोऽपि वालिनं जघान पपात च वाल्याह चाशस्त्रयुद्धे बाणघातोऽथ शोणितसर्वाङ्गो बभूव ।। अथ तारा चादश्च समागत्य व्यथितौ बभूवतुः ।। १५६ आ राघवं वानराः समायाता वाल्युपान्ते निपेतू रुरुतुश्च ।। १५७ अथ तारा राममावभाषे शास्त्रकुशलाः शूरा धार्मिका राघवाः पुरा चापि राम कयं पापम- कार्षीः। न क्षत्रधर्म जानीषे राजगणसेवितम् ॥ १५८ अन्योन्यं युध्यतायुद्धे जयो वा मरणं भवेत् । अन्यो यदि तयोर्हन्याब्रह्महा स निगद्यते ॥ २१ किं वैरेण वालिनमाहनः किं वैरम् । यदि मांसार्थ्यभोज्यं वानरमांसम् । यद्यात्मनोऽप्रिया- मुखाभावादपरेषामपि तथाभावं मन्यसेऽहो विमोहाद्यदि मामादातुमिदं कृतमेकपत्नीव्रतं तव । यदि रावणहृतां सीतामानेतुं सुग्रीवसहायाय कृतमेवमतो महदन्तरं बलवृद्धन महाबलेन वालिना सद्भावेन दिनकरावर्तितान्तरे सीतामानेतुं समर्थेन स्म(श)रणागतरावणदानसमर्थेन वानरराजेन पञ्चाशत्परार्धवानरभलूकसेनावताऽऽत्मकार्येण सिध्यत इति किं सुग्रीवेणाल्पवीर्येण सप्तपरार्ध- सेनापतिना कपिना किं सिध्यति कार्य वचनवतः । अहो(अ)ज्ञानं सर्व देव भद्रं यदुक्तोऽसि ॥ वक्ति च रामः पृथिवीपतिना मया दुष्टनिग्रहणं कार्य शिष्टपरिपालनं च वालिना सुग्रीवम- हिषीरुमाऽपहृता राज्यं च । अतश्च न ताहग्वधे दोषः ॥ तारोवाच- सुग्रीवोऽपि तर्हि वध्यो दुन्दुभिना युध्यता वालिना बिलं प्रविष्टेन वत्सरं तत्रोषितं तदन्तरे ७४२ - महामुनिश्रीव्यासप्रणीतं- [१ पातालखण्डे- च मामपहृत्य राज्यं च कृतं सुग्रीवेण तं पूर्वमपि पश्चात्तं हन्तुम् ॥ १६१ राम उवाच- कियत्कालपूर्वमिदं च वद ॥ १६२ तारोवाच- पष्टिवर्षसहस्रादर्वागशीतितमे वर्षे रक्षोयुद्धे सुग्रीवेण राज्यमपहृतं पुनश्च वर्षान्तरे प्राप्तेन वा- लिना सुग्रीवः पलायितोऽपहृता तस्य भार्या राज्यं चापहृतं तस्मिन्नेव दिने भवतः पितुर्दशरथ- स्याभिषेकः॥ १६३ राम उवाच-- २२ मया पितुरनुशासनाद्राज्यगतदुष्टनिग्रहणं कृतं गुरुवचनस्यालङ्घनीयत्वात्तदपहरणवेलायां यो राजा स नाऽऽचरत् ॥ १६४ अथवा स्वतत्रौ मृगौ मृगयोहतश्च वाली मृगाणामन्योन्यदारणाघजुगुप्सा च सतो मम मृगयावत् अथ विमृगाणाम्- चलितस्थितबद्धानां चलवान्तपरायिणाम् । अथावसृजता सङ्गमुज्झिता मृगया तथा ॥ मृगयाशास्त्रविधितो मृगयेयं मया कृता । दर्शनादर्शनाभ्यां च धावनाधावनात्तथा ॥ २३ अवरोहात्परं स्थानं सान्वयानां प्रभिद्यते । राज्ञां च मृगया धर्मो विना आमिषभोजनम् २४ अथ रामवचनमाकर्ण्य सर्व एव प्राकम्पयशिरांसि ॥ १६५ वाली बभाषे राममञ्जलिं मस्तके निधाय नमस्ते राम शृणु वचनं मम ॥ १६६ शङ्खचक्रगदापाणिः पीतवासा जगद्गुरुः । नारायणः स्वयं साक्षाद्भवानिति मया श्रुतम् ॥ २५ त्वां योगिनश्चिन्तयन्ति त्वां यजन्ति च यज्विनः। हव्यकव्यभुगेकस्त्वं पितृदेवस्वरूपधृत् ॥ २६ मरणे चिन्तयानस्य त्वां विमुक्तिरदूरतः । स त्वं मे दशर्न प्राप्तो राम मे पापसंक्षयः॥ गृहाण बाणं काकुत्स्थ व्यथितो भृशमस्म्यहम् ॥ अथ रामस्तथेति बाणमादाय वालिनमुवाच किमिष्टं दीयतां वद ॥ १६७ कपिरुवाच- यदि प्रसनो भगवान्मम सद्गतिं देवयं सुग्रीवस्तथा रक्षणीयोजदोऽथ तारा च मया पापि- नाऽपराधः कृतस्तत्फलमनुभूतम् ॥ १६८ अथ रामं पश्यमेव वाली ममार स्वर्ग च गतः ॥ १६९ अथ सुग्रीवं राज्येऽभिषिच्य स्वयं वनं विवेश । १७० अथ तेन सहायेन जलधिसमीपं गत्वा क लङ्का क सीता क चारातिः सुग्रीवमाह रामः ॥ १७१ अथ हनूमानाह पविश्य लङ्गां विचित्य सीतां सर्व तत्त्वमवगत्य युद्ध संधिर्वा कर्तव्यस्तदुद- घिलङ्यनाय किंचित्समादिशतु भगवान् ॥ १७२ अथ सुग्रीवमाह रामः कयमेतद्धटत इति । १७३ कपिरुखाच- मम वानरा भल्लप्रमुखाः कोटिशः सन्त्येकं नियुज्य सर्वमाकलय्य यथा युक्तं तथा करणी २७ यम् ॥ १७४ ११२ द्वादशाधिकशततमोऽध्यायः । पद्मपुराणम् । अथ जाम्बवानाह हनुमानेष गच्छतु बुध्यतु लङ्काम् ॥ १७५ अयं हनुमानगमल्लको पुरं विचित्य सीतामशोकवनिकायामासीनां तथा च संभाष्य विश्वास कृत्वा वनं बभञ्ज वनरक्षकांश्च ।। १७६ बद्धो रक्षसा लङ्कां दग्ध्वोत्तरकूलं गत्वा रामं दृष्ट्वा वृत्तान्तं कथयित्वा तूष्णीमतिष्ठत् ॥ १७७ अथ रामः सर्वैर्विचारयामास ।। १७८ जाम्बवानुवाच रामेण लङ्का कपिभिविनश्यतीति नारदेन ममोक्तमथ सागरोत्तरणे यत्नतया स्थेयम् ॥ १७९ अथ रामः शंकरमाराध्य सर्व निवेद्य तदुक्तं करोमीति वचनमुक्त्वा शिवमभ्यर्च्य प्रणतो भूत्वा व्यजिज्ञपत् ॥ १८० देव महादेव महाभूतग्रास महाप्रलयकारण महाहिभूषण महारुद्र शंकर परमेश्वर विरूपाक्ष नागयज्ञोपवीत करिकृत्तिवसन ब्रह्मशिरःकपालमालाभरण नरकास्थिभूषण भसितपर नाराय- णप्रिय शुभचरित पञ्चब्रह्माऽऽदिदेव पश्चानन चतुर्वदन वेदवेद्य भक्तसुलभाभक्तदुर्लभ परमा- नन्दविज्ञानपर पूषदन्तपातन दक्षशिरश्छेदन ब्रह्मपश्चमशिरोहरण पार्वतीवल्लभ नारदोपगीयमान शुभचरित शर्व त्रिनेत्र त्रिशूलधर पिनाकपाणे कपर्दिन्ननेकरूप वृषवाहन शुद्धस्फटिकसंकाश चतुर्भुज नानायुध दक्षिणामूर्त ईश्वर देवपते गङ्गाधर त्रिपुरहर श्रीशैलनिवास काशीनाथ केदा- रेश्वर भूषणसिद्धेश्वर पटहकर्णेश्वर कनखलेश्वर पर्वतेश्वर चक्रपद बाणचिन्तापादक मुरहरपू- जितचरणकमल सोम सोमभूषण सर्वज्ञ ज्योतिर्मय जगन्मय नमस्ते नमस्ते ॥ १८१ एवं स्तुवतो रामस्य पुरतो लिङ्गमध्यकोपेतस्तेजोमयमूर्तिराविबभूव ॥ १८२ अभयवानय पुनः पद्मासनासीनमुमाधिष्ठिताङ्कमीशमायुक्तसर्वाभरणं सुकान्तिकिरीटिनं हैम- वतीकटीस्पर्श करद्वयेनाभयवरपदं तरङ्गितानेकदिशाभिः पूर्ण तेजस्विनं हासमुखं प्रसन्नवदनं ददर्श रामः परमेशितारं नैनाम बद्धाञ्जलि: पुनश्च दण्डवत्पपात ॥ १८३ अथ रामं परमेश्वरोऽपि वरं वृणु त्वं वरदोऽहमित्युक्तवान् । १८४ लङ्कां गमिष्यामि समुद्रतरण उपायमेकं मम देहि शंभो ॥ १८५ शंभुरुवाच- ममाजगवं धनुरस्ति तत्कालरूपमविकल्पं वा भवति तदारुह्य समुद्रं तीर्खा लङ्कामामुहि १८६ रामोऽपि तथेति निश्चित्य स सस्माराजगवम् ।। १८७ आगतं धनुस्ततश्च रामोऽपूजयत् ।। १८८ अथ हरो धनुरादाय रामाय दत्तवान् ॥ १८९ रामोऽपि जलधावपातयत् ॥ १९० आरुरुहुः सर्वे वानरा रामलक्ष्मणौ च षष्टिपरार्धं तेषाम[ध्व] संख्येषु वानरेषु धनुरारूढेषु निकामं ययौ धनुस्तटं वानराश्च ततस्ततो गत्वा निरीक्षयामासुः ।। १९१ अथातिकायो नाम रक्षः कपिबलमालोक्य रावणायोक्तवत् ॥ १९२ राषणोऽपि किं कपिभिः शाखामृगैः किं वा मानुषाभ्यां रामलक्ष्मणाभ्यां किमायातं दैवा. गतमस्माकं भोजनमित्युवाच ॥ १ स. ङ. प. छ. ट. इ. प. °नेको ग । २ स. नमामि ७४४ महामुनिश्रीव्यासमणीत- [४ पातालखण्डे- अथ सुग्रीवः पश्चिमावलम्बिनि भास्वति हनुमज्जाम्बवदादिमहाबलैश्वातिकायैरसंख्यातैर्ला- पार्श्व गत्वोपवनं प्रविश्य नानाफलानि खादित्वा पयः पीत्वोपवनरक्षिराक्षसान्विद्राव्य सर्ववि- पिनमेकैकशो गृहीत्वा प्राद्रवल्लां गोपुरं च गत्वा समारुह्य प्रासादं च विशीकैकशः केचित्स्त- म्भमादाय रक्षोभियुयुधुः॥ १९४ एके च शालां बभक्षुहाणि चूर्णयामासुर्बालवृद्धस्त्रीजनादिकं सर्वमेव निजमुः ॥ १९५ अथैकं प्राकारं निर्जितमाज्ञाय रावण इन्द्रजित संदिदेश । १९६ इन्द्रजिता च युद्ध वानराः कृत्वा भीताः पलायिताश्च ॥ १९७ अथ हनुमानरिवलं निर्गतमाज्ञाय रावणं ज्ञात्वा वानरानाहूय निर्भर्त्य सेनां महती कार- यित्वा दशमुखं कल्पयित्वा मोदयामास ॥ १९८ अथ स्वस्थ एवेन्द्रजिघुयुधे न च वानरास्तं दृष्टवन्तः ॥ १९९ अथ हनुमज्जाम्बवन्तौ खमुत्लुत्य पर्वतशिखराभ्यामिन्द्रजितं निजघ्नतुः ॥ २०० अथ भुवि पपात तं लक्ष्मणश्च यमलोकगामिनं चकार ।। २०१ अथातिकायमहाकायौ वानरसैन्यं बहुशो हत्वा लक्ष्मणं पीडयित्वा रामेण संयुध्य सुग्रीवं कृत्त्वा हनुमज्जाम्बवद्भया युयुधाते पराजितौ गृहीत्वा तौ च योद्धारावादाय रामसमीपं गत्वा रामाय न्यवेदयताम् ॥ २०२ अतिकायमभाषत रामो रावणस्य मम ब्रूहि सचिवानामन्येषां महाभयानां च ॥ २०३ अतिकाय उवाच- निश्चितमिदं पुराऽस्माभिः कार्य सेनाविभागशः कृत्वा विद्युन्माली नाम राक्षसो महाबलो विचित्रयोधी दर्शनादर्शनयोधी वानरैः सर्वैरेक एव युध्यतेऽपरे च बलिनो महान्तः शिक्षितावा- थाऽऽवा युवाभ्यां युध्यावो रावणः पुष्पकमारुह्यापरभागेण [*त्वामेव निहमिष्यत्यन्ये च राक्षसाः कुम्भकर्णमुखाथात्मा(नु)रूपं कृत्वा त्वां परिवार्य गृहीत्वा सीतायै दर्शयित्वा तत्संनिधावेव इनिष्यन्ति ॥ २०४ रामः पाहाहो बलवता किमसाध्यमेवं भवति वो दैवगतिः कुटिला ॥ २०५ सुग्रीवोऽतिकोपनः सक्रोधं दृष्ट्वा राममुवाच वध्यावेतौ न मोचनीयौ ॥ २०६ रामः पाहावध्यौ मोचनीयावेतौ वसनानि भूषणान्यानयेत्युक्तमात्रे हनुमता तान्यानीतानि रामस्वाभ्यां दत्तवान् ॥ नत्वा यदेतलकाद्वारे दृश्यते दारु पश्चवक्रं शुक्रेणोक्तमेतेन च्छिमेन रावणो हन्यतेऽथ च दारुच्छे- दनसमनन्तरं पातालं गन्तव्यमिति भार्गवभाषितं शासनं लिखितं तस्मात्त्वमिदं दार्वेकप्रयत्ने- नैकवाणनिपातेन पश्चधा छिन्धि ततस्तव शक्ति ज्ञात्वा युद्धमतिदृढं कुर्वहे ।। २०८ अथ भार्गववचो विज्ञाय रामः पूर्वकोव्यां स्पर्शमाने(त्रेण) सज्यं कृत्ला धनुषि बाणं संयोज्य रक्षोभ्यां हनुमता श्रावयमेव वाण मुमोच ॥ बाणं धनुषश्चलितं तौ राक्षसौ बाणमार्गे निरीक्षमाणौ दारु बाणेन पश्चधा छिर्न निरीक्ष्य रामं व्यज्ञापयतामावयोः शिशवो रक्षणीयास्त्वयेति ॥ २१० * धनुचिहान्तर्गतः पाठः ख. र. छ. ट. स. प. पुस्तकस्थः । - २०७ २०९ १स.चारु।
११२द्वादशाधिकशततमोऽध्यायः ] पद्मपुराणम् । तथेत्याह रामः॥ २११ राक्षसौ लङ्कां प्रविष्टावथ प्राकारयुद्धं कर्तुं वानरा गत्वा सर्वतो वरणमात्रं पाणिभिः पादैर्जानुभिः करैः पृष्ठैश्च तलसमं कृत्वा द्वितीयमाकारं गतास्तदा च रावणः समागत्य सर्वानेवेषुभिर्द्रावयित्वा तदनु गच्छन्राममगात् ।। २१२ अथ राममपि पञ्चभिर्बाणैर्विव्याध ॥ २१३ अथ रामो दशभिर्बाणै रावणं सवणं चकार ।। २१४ अनयोरतिदारुणमन्योन्यं युद्धं बभूव ॥ २१५ रावणो दशभिर्बाणैर्विव्याध ॥ २१६ अथ रामबाणैश्च क्षतजशरीरो राक्षसः पलायनपरोऽभवत् ।। २१७ वानरा लक्ष्मणश्च कोटिकोटिराक्षसानघ्नन् । २१८ अथ परस्मिन्नहनि विभीषणो रावणं विवार्येदमुवाच ॥ तृतीयोपायकालोऽयं चतुर्थं न विचारय । चतुर्थो विपरीतो न शस्तः शस्तापि(?)कारिणः ॥२८ परस्य चाऽऽत्मनः शक्तिं विदित्वा चाऽऽत्मनोऽधिकम् । तदा युद्धं प्रशस्तं स्याद्विपरीतं विनाशकम् रामेण बलिना नैव युद्धं ते दुर्बलस्य च । एकेषुवालिहन्ताऽसौ वालितिस्त्वया पुरा ॥ मारीचमे(ए)कबाणेन भवानपि पलायितः। निहता राक्षसाः शूरा इन्द्रजिच्च सुतो हतः ॥ ३१ वरेण्यत्रितयं भग्नं तेन युद्धं च नैव ते । दासभावमयो वाऽपि दत्त्वा सीतामथाऽऽनुहि ॥ गोपुरस्थं तथा दारु पश्चवक्त्रमथेषुणा । चिच्छेद पश्चधा तेन रामस्त्वां मारयिष्यति ॥ त्वदर्थ बहवो नष्टा नाशमेष्यन्ति चापरे । एको न्यायः सुखाय न च मौढ्यं सहोदर ॥ ३४ मानुषीं मृत्युसंयुक्तामनिच्छन्तीं पतिव्रताम् । पत्नी बलवतश्चापि पूजयित्वा विसर्जय ॥ ३५ अनिच्छन्त्याः समायोगे भवेहुःखपरंपरा । दुर्गन्धमलसंयुक्तो नारीसङ्गो जुगुप्सितः॥ विरक्तिरथ चेज्जाता दुःखायाकार्यवर्तनम् । अनुरागो यदि भवेन्मरणं नरकं ततः ॥ आत्मनो मरणं व्यर्थ तस्याश्चाद्य समागमे । त्यागो वा मरणं तात धर्मपत्न्यास्तथा भवेत् ॥३८ एवमादि तथाऽन्यच्च कश्मलं संभविष्यति । अन्यदाख्यामि ते वाक्यं सर्वेषां च प्रियं हितम् ३९ गत्वा रामान्तिकं नत्वा स्तुत्वा विज्ञाप्य राघवम् । क्षम राम महावीर शरणागतवत्सल ॥ ४० तामसा राक्षसाः सर्वे वयमेते सुपापिनः । सीतापहारजं दोषं त्यक्त्वा पुत्रानवेहि नः ॥ ४१ त्वदधीना वयं राम रक्ष वा मारयेच्छया । इत्युदीर्य पुरस्तस्य राघवस्य स्थिता वयम् ॥ ४२ स्थिरायुषो भविष्यामः स्थिरराज्या दशानन । अथाऽऽह रावणो वाक्यमहो नो राक्षसो भवान् न शूरो राज्यधर्म च न च जानासि शाश्वतम् । परनारीपरद्रव्यपरराज्यनिषेवया ॥ शूराणामुत्तमो धर्मो न पण्डानां भवादृशाम् । शत्रुपक्षं समालिङ्ग्य निर्गच्छेच्छा हि चेनृपः(पम्) अथ विभीषणो मन्दिरं गत्वा रामान्तिकं गत्वा तं शरणमभजत् ॥ अथ रावणः पुराभिर्गत्य रामेण लक्ष्मणवानरै राक्षसा अपि युयुधे । २२१ अथ रावणं महाबलं हन्तुमशक्तो रामो विभीषणमुखमवलोक्य तदुक्तचिह्नपदं बाणेन निर्मि- २२२ यामारयत् ॥ ४४ २२० १५. तोदर। २ स. अपि ।
२२८ गताः॥ महामुनिश्रीव्यासमणीत- [१ पातालणे- अथ कुम्भकर्णो महागदामादाय सर्व निष्पाद्य वानराननेकशी भक्षयित्वा रामोत्तमा गद- पाऽहन् । २२३ अथ रामो निशितबाणशतेन तमहन्ममार कुम्भकर्णः ।। २२४ अय विभीषणेन रावणादेः श्राद्धादिकं कारयित्वा शिवालयं तनाना कारयित्वा तमेव महाराज्ये विभीषणमभिषिच्य सीतामनिप्रवेशशुद्धामुमामहेश्वराभ्यां नमयित्वा पुरहरेण दत्ता- खिलमृतबलायुष्यः सुपुष्पकमारुह्य जलधिमुत्तीर्य पारावारतटे सेनां समवस्थाप्य शिवप्रतिष्ठां तत्र कृत्वा मुनिभिर्देवैरभ्यचितोऽयोध्यामगमत् ।। २२५ अथ भरतादिसमुपेतो नागरैर्वसिष्ठेन मुनिभिश्वाभ्यर्चितः स्वगृहमगमत् ।। २२६ आत्मनाऽऽगतानिन्द्रादिदेवानांसनादिनाऽभ्यर्च्य वानरान्संपूज्य मुक्तजटोऽभिषिक्तो राज्ये।। रावणवधहर्षिता देवा राममूचुः॥ त्वयाऽऽत्मराज्ये स्थापिता वयं नः सर्वदा परिपालय त्वमादिनारायणो देवो निखिलदुष्ट- निग्रहार्यमवतीर्णो रावणं सबान्धवं हत्वा लोकत्रयरक्षकोऽसि श्रिया सह सुखी भवेत्युदीर्य स्वर्ग २२९ अथायोध्यावासिनो रामं महर्षिता ऊचुः॥ २३० हत्वा शन्समायातो दृष्ट्वा(दिल्या) प्राप्तोऽसि वै शिवमादिष्ट्या त्वं राजसे राम दिष्ट्या पालयसे मजाः त्वया यज्ञाः करिष्यन्ते त्वया धर्मो विवर्धते । इति पौरवचः श्रुत्वा रामो राजीवलोचनः ॥४७ वनादिभिरयो सर्वानागरान्समपूजयत् । मुनिसनीनुवाच धर्मात्मा पूजयित्वाऽखिलैर्जनैः॥ ४८ कचित्तपः समृदं वा(वः) कश्चिद्यज्ञः स्वनुष्ठितः । कश्चित्स्वदारनिरताः कचिदीशोऽभिपूज्यते कश्चित्समजसो भार्याः कश्चित्सर्वे सुखोत्तरम् ॥ मुनय ऊचुः- त्वयि राजनि काकुत्स्थ सर्व स्वस्थं तपस्विनाम् । गच्छामहे पदमितः किंवा त्वं मन्यसे नृप५० श्रीराम उवाच- यस्य विप्राः प्रसीदन्ति तस्य शंभुः प्रसीदति । यस्य प्रसीदतीशानस्तस्य भद्रं भविष्यति ॥ ५? तत्कृत्वा भोजनमिह गन्तुमर्हा अनन्तरम् । तथेत्युक्त्वा मुनिगणाः कृत्वा भोजनमुत्तमम् ॥ ५२ अभिवर्ध्य तमाशीहिष्टाः स्व स्वं पदं ययुः । रामोऽपि परमप्रीतः सभार्यश्च सहानुजः ॥ ५३ भकण्टकं स कृतवानराज्यं सर्वजनप्रियः । भृणोत्येतदुपाख्यानं यः कश्चिदपि पातकी ।। सर्वपापविनिर्मुक्तः परं ब्रह्माधिगच्छति । न दुर्गतिर्भवेसस्य यश्चेदं स्मरते नरः। मथापि कीर्तयेत्तस्य खेवमेतदुदीरितम् ।। इति श्रीमहापुराणे पाने पातालबाजे शिवराघवसंवादे पुगकल्पीयरामायणकथनं नाम द्वादशाविकशततमोऽध्यायः ॥ ११२॥ आदितः श्लोकानां समष्ट्याः-१९३६३ ... ना।२१. विशम् । च. बैदृशम् । . विशम् ।
११३ त्रयोदशाधिकशततमोऽध्यायः ] पद्मपुराणम् । भर त्रयोदशाधिकशततमोऽध्यायः । २ ८ ९ १२ १३ १४ सूत उवाच- भारद्वाजगृहे भुक्त्वा रामचन्द्रः प्रसनधीः । मुनीन्द्रविष्णुसहितो वानरसिमन्वितः ॥ मेघच्छचे तथाऽऽकाशे मन्दं चरति मारुते । तद्नाभ्यन्तरे कापि मुदेवगृहमुत्तमम् ।। अष्टापदस्तम्भयुतं हेमपट्टिककल्पितम् । मणिमौक्तिकसंयुक्तं राजतैः कलशैर्युतम् ।। पटीरचन्द्रकस्तूरीकुमैः सुरभीकृतम् । कर्दमै लकयुतं शकलोपरिसंवृति ॥ चन्द्रज्योत्लागर्म सूर्यानिरीक्ष्या(?)मध्यभित्तिकम् । गृहान्तर्भूतलं कृत्स्नं चन्द्रपुष्परसोक्षितम् ॥५ दिगुदीची तथा कृत्स्ना भित्तिकल्पनवर्जिता । स्तम्भे स्तम्भे चित्रकारीस्वपादीपरिकल्पितम् । तहस्ताङ्गणं तस्य स्फटिकोपरिकल्पितम् । गृहागणाधिकच्छायः पारिजातमहीरुहः । कृत्स्नमातिकं तत्र निषिडं कदलीवनम् । कदलीवनसंयुक्तं केतकीवनसंवृतम् ।। मयूरनादबहुलं मजकूजन्मधुव्रतम् । पारावतगणध्वानं नानोपवनशोभितम् ।। प्रासादशतसंबाधं मत्तकोकिलनादितम् । शाखालम्बमहारत्नशोभितानेकपादपम् ।। किमरीवनितागीतनादपूरितदिसुखम् । अनेकारामसुभगं गौतमीतटमुत्तमम् ॥ भारद्वाजगृहं पुण्यमनन्तगुणसेवितम् । रतिकंदर्पसंकाशदासीदासशतान्वितम् ।। नानोपकरणोपेतं भारद्वाजगृहं शुभम् । तस्य चान्तर्गतः सौपस्तत्रान्तर्गृहवाटिकाः ।। अष्टौ तन्मध्यतो के गृहं परमशोधनम् । चतुर्दिभु महादेवगृहमासादशोभितम् ।। प्रतिदेवगृहं श्यामातौर्यत्रिकसुशोभितम् । स्वर्गस्थितवरस्त्रीणां विश्रामायैव कल्पितम् ।। १५ भारद्वाजगृहादामो निर्गत्याशेषसंयुतः । तस्यैव च महागेहं वनमध्यगतं त्वगात् ।। १६ तदन्तराच्छादितकम्बलं तदा पृथक्स्थवस्त्रासनसंयुतं च । सिंहासनं मध्यगत तथैकं मुन्यासनानेकगतं विवेश ।। पौराणिकस्यानुपमासनान्तरं भूपालहर्यक्षवरासनं च । पौराणिकं पूर्वमयोपवेश्य ततो वसिष्ठं मुनिपुङ्गवा(वां)श्च ।। १८ नारायणं भूमियतीन्कपश्चि नीचासनं च स्वयमाससाद । मेघावृतं व्योम दिशः प्रसन्नाः सशिष्यमुर्वीतलमुप्तबीजम् ।। १९ तदाणं नोष्णमहो न शीतलं संतानपुष्पं दम(मद)पुष्पगन्धि । शंभु विलोक्याथ वचो बभाषे रामः कयां कीर्तय शंकरस्य । दप्तिर्न जाता मुनिवर्य शृण्वतो माहेशमाख्यानमघौघनाशनम् । चकार किंवा ननु गौतमाश्रमे महेश्वरो देवगणाधिसंवृतः ॥ शिव उवाच- महाविपश्चीमवलम्य निष्ठितः स वायुसूनुः शिवमन्वपृच्छत । न्यायाजितैरेव हि पूजने विभोः कीडग्भवेश्चानयजैः फल बद ।। २२ चौरयो कि फलमपितार्पणे उपाहतद्रव्यसमर्पणेन । एकैकशो मे भगवन्वदेश प्रश्नोत्तरं किं कथयाऽऽशु शंभो ॥ १५. सुरन । २ म. प्र. ते सक।३८. न्तगण । १७ २० ७४८ ३० महामुनिश्रीव्यासमणीतं- [४ पातालखण्डे- अथेश्वरो वानरमावभाषे वदामि सर्व तव ध्यानतः शृणु । न्यायाजितैः पूज्य सदाशिवं त्वज संपाप चैश्वर्यमिदं हि गौतमः ॥ पुरा द्विजो मङ्कणमूनुराकथः सुशोभनामाप सती द्विजात्मजाम् । दरिद्र एकः करुणासमन्वितः षष्ठाहभोजी पितृवार्जितश्च ॥ २५ उपोष्य पश्चाहमथापि भोक्तुं प्रवृत्त एवाथ समापतधतिः । यतिबभाषे मधुरं तदा कयं मासोपवासी तव भोक्तुमागतः ॥ २६ तिष्ठामि भुंक्षे(भोक्ष्ये) यदि वाऽस्ति ते मुने न वै बुभुक्षाऽन्यगृहाद्विभोक्तुम् २७ आकथ उवाच- न मे भुजिः पञ्चदिनं द्विजेन्द्र षष्ठे दिने मे भुजिरागतश्च । तदा मया कार्यमचिन्तनीयं प्रक्षालयाम्येहि तवाय पादौ ॥ २८ ओमित्यथ क्षालितपादयुग्मः स भोजनं कर्तुमियेष योगी । रम्भादलांशे बुभुजे तदनं विपाच्य संपादितमाज्ययुक्तम् ॥ २९ वन्यैः सुसंयुक्तमथाऽऽदरेण न किंचिदुच्छेषितमन्नमस्य । अथाऽऽकयो वीक्ष्य मुनि सुतुष्टं तुतोष भार्यासहितस्तपस्वी ॥ गतोऽथ भुक्त्वाऽपि यतिः स चाऽऽकथः सुतुष्टचित्तोऽथ जपं चकार । कपोतवृत्तिं स चकार पत्न्या तपोवितानाय स सज्जनो मुनिः ।। पीठेऽथ कृत्वा तमुमापतिं शिवं लिङ्ग समाराध्य समन्वितं गणैः । लिङ्ग निधायाथ निरीक्षमाणो ददर्श चाज्ञातकशाकृति द्विजम् ॥ ३२ दिगम्बरं पादविहीनमेतं काणं कुणिं कर्णविहीनक प्रभुम् । सामोनिरन्तं बहुशास्त्रपारगं गृहं समायान्तमयो ददर्श ।। अथाऽऽकथो भार्या सुशोभनामिदमुवाचायं हि विकृतवेषो ब्राह्मणः समायाति । अर्ध देय- मेतस्मै भोजनं रक्षार्धमन्नं चास्मिमपि दिने गते षष्ठेऽहि भोजनाभावात्तव जीवितं न तिष्ठतीति मम प्रतीयते किं तु त्वं मन्यसे वद ॥ सा शोभनोवाचाऽऽयुर्ललाटे लिखितं नान्तरा नश्यति ॥ आकथ आह यथा बदायुषोऽपि यक्ष(दक्ष)स्य वीरभद्रेण च्छि शिरोऽजनात्मनः किमुत मनु- ष्याणां पापात्मनामिति । तदेनं परिहत्य त्वया भुज्यते यदि त्वेतस्मै मयाऽमं दीयते तवेच्छानु सारतो मम कर्तव्यम् ।। भार्या प्राह कथमहं भोक्ष्ये त्वय्यमुक्त मया कि पूर्व भुक्तमिदमपरं शुणु ॥ अन्नं हि पाणिनां प्राणाः प्रत्यक्षं सर्वदेहिनाम् । तस्मादनपदो यस्तु माणदः स निगयते॥ ३४ अन्नाद्भूतानि जायन्ते वर्धन्ते तानि वै यतः । तस्मादबाधिक किंचिपास्य दानं महाफलम् ३५ अश्वत्थचलपत्रामलीनतोयद्रवास्तिके । जीविते न हि यो दयालस्य जन्म निरर्यकम् ॥ परलोकसहायो हि धर्मो भार्या न बान्धवाः। भार्या वा पितरौ पुत्रा यावदायुन बान्धवाः॥३७ संपट्टयः सुहृदिह इहामुत्र हितं स्थितम् । धर्म धर्मभृतां श्रेष्ठ भुक्ते चाबे किमावयोः ।। इति भाविचः श्रुत्वा आकयः करुणानिधिः । अविश्वस्तिमेवास्मै दत्तवानममूर्जितम् ॥ ३९ २ ३ ३६ ३८ ७४९ ॥ ११३ त्रयोदशाधिकशततमोऽध्यायः ] पद्मपुराणम् । अयं स शंकरो देवो नानाकरणमागतः । इति निश्चित्य मनसा तस्याहं पापनाशनम् ॥ आजानु पादं प्रक्षाल्य पराजयमतः परम् । गुल्फ च तदधस्तस्य प्रक्षाल्याऽऽचमयविजम् ४१ अथाऽऽकथोऽपि पत्संधिं गृहाङ्गणमुपानयत् । उन्मुच्य पादसंधि स निषसादार्पितासने ॥ ४२ समभ्यया॑ऽऽकथः सम्यग्भोजयामास तं मुनिम् । एतस्मिअन्तरे कश्चिदुन्मत्तो गृहमागतः ॥ ४३ पादसंधिमथाऽऽदाय गृहबाथमपानयत् । अथादहच्च तद्नेहं दंपती चाप्यताडयत् अशक्तस्ताडितो विप्रो दह्यमानं गृहं तदा । विवेश देवमीशानमादातुं तूर्णमेव वा ।। ४५ अथाऽऽदाय महेशानं दग्धपूजं द्विजोत्तमः। निर्गत्य च ततो दृष्ट्वा मुखसंतापमेव च ॥ दग्धपूजां तिरस्कृत्य वीक्ष्य दग्धाङ्गमप्युत । भार्यामुवाच धर्मात्मा यथा पूजा महेशितुः ।। तथा मम समस्ताङ्गं कर्तव्यमविशतितम् ॥ व्य उवाच- पश्चादपि कृता पूजा सफला ते भविष्यति । यथाऽन्यद्रव्यदहने तादृशं दीयते जनैः ॥ पूजाया दहने तद्वत्पूजाऽस्य क्रियतामिति ॥ आकथ उवाच- चौर्येणाप्यजितैव्यैः पूजया न हितं भवेत् । न चान्यायार्जितर्विष शंभोः पूजा शुभप्रदा ॥ ५० इत्युक्त्वा चाऽऽकथस्तूर्ण स्वाऊं दग्धुमुपाक्रमत् । दग्धं लिङ्गं तदोन्मत्तो गृहीत्वाऽन्तर्दधे क्षणात् ।। अथ व्यङ्गो हरो भूत्वा वारयामास चाऽऽकथम् । किमर्थं खिद्यते विम वरदोऽहं वरं वृणु ॥ आकयोऽपि विभोः पादभक्तिं वत्रे मुनिश्वलाम् ।। सूत उवाच- एतां श्रुत्वा कथां रामः प्रहृष्टो मुनिभिर्वृतः । भारद्वाजं नमस्कृत्य प्रयाणाज्ञामयाचत ॥ अयो भारद्वाजमुनिः प्रसनं शंभुं वसिष्ठं मुनिपुंगवं च। नारायणं चर्षिगणांश्च नत्वा व्यस यत्तेऽपि ययुः प्रणम्य ॥ ४८ ४९ ५२ नैमिषीया ऊचुः- - गत्वाऽयोध्या महातेजाः समस्तमुनिसंयुतः । किं चकार ततो रामः स च शंभुर्महायशाः ॥५५ सूत उवाच- कौसल्यामासिकश्रादमपरेऽहनि राघवः । विचिकीर्षुर्दिजवरानृषिकल्पानकल्पयत् ॥ शंभुं समस्ततत्त्वहं नारदं रोमशं भृगुम् । विश्वामित्रमयो राम एकभक्तवती ततः ॥ भूमौ सुखास्तृतायां च सुष्वापाव्याकुलेन्द्रियः । परेधुरथ संप्राप्ते प्रातः स्नात्वा विधानवित्॥५८ अब शाकादिकं शुदं जनैरेव त्वकारयत् । नानानानि विचित्राणि चोष्यायानि तथैव चे ५९ च(व)टकादर्दीस्तया भक्ष्यानष्टात्रिंशदकल्पयत् । पायसं षड्विधं चैव पकशाकशतद्वयम् ॥ ६० अपकमिश्रकाणां च शतश्यमकल्पयत् । कालशाकादिकं शाकं फलानि विविधानि च ॥ मूलानि चैव कन्दानि पल्कलानि च राघवः । कारयित्वा नदीं गत्वा सहभ्रातृपुरोहितः ॥ ६२ शरयूससिस मात्वा हुत्वाऽमींस्त्वागतान्दिजान् । उक्त्वा तु स्वागतं तांस्तु कृतदेवार्चनो नृपः।। माणानायम्य संकल्प्य क्षणं चैव प्रदत्तवान् । रोमशं नारदं रामे वैश्वदेवे न्यमवयत् ॥ ६४ शंभुं भृगु कौशिकं च माहस्थाने न्यमन्त्रयत् । गोमयेन ततः कृत्वा मण्डलं पूज्य चाहतः ॥ ६५ १२. प्र. यमुपा' । २ छ. ट. इ. प. च ॥ ५९॥ भ्रष्टका । ३ अ. अ. गौतमेन ।
७४ ७७ ७९ महामुनिश्रीव्यासप्रणीतं- [४ पातालखणे- पादप्रक्षालनं चक्रे सीतादत्तोदकेन च । आचामयित्वा तान्विमान्गृहं गन्तुमयोचतः॥ अभ्यागतः समायातः स्थविरो विकृताकृतिः । कुशः संप्रचलगायो वेपितारविशिरास्तथा॥६७ लम्बमानत्वगुत्कर्षच्छासकासादिपीडितः । दूषिकाक्लिनगण्डम लालासंपृक्तकूर्चकः ।। ६८ उवाच रामं राजानमहमेको द्विजः स्थितः । ममापि भोजनं देयं स्थविरस्य कशस्य च ॥ १९ रामोऽपि तद्वचः भुत्वा लक्ष्मणं वाक्यमुक्तवान् । पादौ प्रक्षालयास्य त्वमहमभ्यर्चये द्विजम्॥७० अभ्यागतोऽपि वचनमाह राममथाऽऽकुलम् । त्वया प्रक्षालिते पादे मम भोजममिष्यते ॥ ७१ मत्तोऽधिका विजाः किं ते येन मामवमन्यसे । श्रादधर्म न जानीये महर्षिगणसेवितम् ॥ ७२ ममावमानतः सर्वविमाणामवमाननम् । श्राद्धं विहन्यते चापि नरकं च गमिष्यसि ॥ ७३ अथ रामः स्वयं विप्रपादौ प्राक्षालयत्तदा । आचामयित्वा तं विषं गृहं मावेशयत्ततः ॥ आचान्तश्च स्वयं रामो विष्टरं दत्तवानथ । आसीनेषु च विप्रेषु प्राणवायुं निरुध्य च ॥ ७५ खकर्मकरणानुशा लब्ध्वाऽथ सतिलं जलम् । अपहतति मन्त्रेण द्वारदेशे विचि(नि)क्षिपेत् ॥ ७६ उदीरतामिति तथा पितृपात्रस्थले क्षिपेत् । गायत्र्या चाक्षतजलं देवपात्रस्थले क्षिपेत् । पाकजातं तयाऽभ्युक्ष्य मन्त्रमेतदु(मुदीरयेत् ॥ श्रादभूमि गांध्यात्वाध्यात्वा देवं जनार्दनम् । वस्वादींश्च पितॄन्ध्यात्वा ततः श्रादं प्रवृत्त(वर्त)य विश्वेदेवार्चनं कुर्यायवैर्वा तण्डुलैरय । मूलाप्रयोजितौ दी गृहीत्वा साक्षतावथ ।। भूस्पृष्टदक्षजानुस्तु द्विजहस्ते जलार्पणम् । पुरूरवार्द्रवाणां वै देवानामिदमासनम् ॥ इति दत्त्वाऽऽसनं तेषां श्राददः प्रार्थयेक्षणम् ॥ अर्घ कृत्वा ततः पश्चादुत्तराप्रकुशेष्वय । न्युन्जं पात्रं ततः कृत्वा कुशग्रन्थिमथोपरि ॥ उत्तानं तु ततः कृत्वा जलैरभ्युक्ष्य रौक्मकैः । पवित्रान्तहिते पात्रे शं नो देव्या जलं क्षिपेत् ८३ वैश्वदेव्याऽखिल कर्म यावत्तद्विधिचोदितम् । यवोऽसि धान्यराजो वा इति पाने तिपेयवान्८४ मधुमिश्रास्तु करकान्गन्धपुष्पैस्ततो ददेव । द्विज तेऽस्त्वप इत्युक्त्वा त्वस्त्वर्घोत्तरतस्ततः ॥ ८५ आवाहयिष्ये तान्देवानिति पृष्ट्वा तदुत्तरम् । विश्वेदेवास इत्युक्त्वा विप्रमूर्ध्नि कुशान्तिपेत्।। ८६ विश्वेदेवाः शृणुतेममागच्छन्त्विति संजपेत् । समागतो निषण्णोऽत्य(थ) सदर्भ पात्रमाहरेत्।।८७ दक्षिणे चरणे क्षिप्त्वा मुख्यपात्रोदकं ततः । विषस्य दक्षिणे हस्ते मागग्रेऽथ पवित्रके । या दिव्या इति मत्रेण निक्षिपेत्पात्रवारि तत् । इदं भो अर्घ(य)मित्युक्त्वा सस्त्व!(?) तरतस्ततः पात्रे धृत्वाऽर्घ(य)तोयं च तत्पात्र स्थापयेत्कचित् । अथ दया करे तोयं यवैरेतानथार्चये अर्चतपार्चत इति पृष्ट्वा चोसरतस्ततः । पादादिमूर्धपर्यन्तमभ्यर्य जलदस्ततः ॥ गन्धद्वारेति मन्त्रेण तयेत्युक्तोत्तरस्ततः । पितृणामर्चनं कुर्यादेवमेवापसव्यकम् ॥ ९२ उपवीतं द्विज(जे) कृत्वा कुशान्भनास्तिलान्वितान् । वामजानु भूमिगतं कृत्वा दयाचदासनम् ९१ दक्षिणाभिमुखो भूत्वा क्षणप्रश्नमयो वदेव । दक्षिणाग्रेषु दर्भेषु न्युज पात्रत्रयं न्यसेत् ॥ ९४ त्रिकुशग्रन्थिसंयुक्तमुत्तानमय कल्पयेत् । ततः संमोक्ष्य पात्रेषु सपवित्रतिलेषु च ॥ ९५ शं नो देव्या जलं लिप्त्वा तिलोऽसीति तिलान्तिपेत् । गन्धपुष्पमयो दवा स्त्रधार्थ इति पृच्छति दत्तोत्तरोऽस्त्वप इति पितृनावाहयेचतः । तिलपुष्पकुस्तिष्ठन्कल्पितार्घ करे देवत् ।। उशन्तस्त्वेति मन्त्रेण निरपर्योदकमर्पयेत् । अर्चनं तु तदा तेषामपसम्यं तु पूर्ववत् ।। १. सर्व वि।२. सि धनरा। ३. म. दत् । ८१ ८२ ८८ ९८ ११३ त्रयोदशाधिकशततमोऽध्यायः ] पचपुराणम् । प्रक्षाल्य भाजनं स्वर्ण देवानां परिकल्पयेत् । पितॄणां राजतं कुर्यायथासंभवमेव वा ॥ तदभावे तु कास्य स्यादनन्याशितमुत्तमम् । पात्राणि तदभावे स्युः पालाशानि न मध्यमम् १० रम्भाणि चूतपत्राणि जम्'नागकानि च । पराकान्यथ चाम्पानि मधूककुट नान्यपि ॥ १०१ मातुलास्य पत्राणि श्रादे देयानि वै नृभिः । दामनमथाऽऽदाय कराभ्यामाज्यमेव च १०२ प्रवेषणं ततः पृच्छेत्याचीनावीतवान्दुिजम् । करिष्येऽनौ करणमिति कुरुष्वेति तदुत्तरम् ॥१०३ परिविष्योपवीती स्वादमियार्य समाहरेत् । हुनेत्सोमाय पितृमते स्वधा नम इतीरयन् ॥ १०४ यमायातिरसे पितृमते स्वधा नम इति । द्वितीयामाहुति हुत्वा चाभिघायर्याक्षतं ततः ॥ अपये कम्यवाहनाय स्वधा नमस्ततः परम् । हुत्वाऽपसव्यं कृत्वा तु परिविष्य दिजान्बजेत् ॥ मैलणेन ततोऽभीक्ष्णं पातयेत्पिपात्रके । पिण्डपात्रमतः शेषं दर्वीप्रक्षालनं ततः ॥ १०७ मेक्षणस्यामिनिक्षेपं ततः पात्राण्युपस्तरेत् । पात्रदक्षिणभागे तु दद्यादभमनन्तरम् ॥ १०८ भक्ष्याणि भोज्यशाकानि सर्वाण्येव स दत्तवान् । अयातिथिमहारदो वीक्षमाणस्ततस्ततः १०९ उवाच राघवं शान्तं शीघ्रमेव नमस्कुरु । बुभुक्षा वर्ततेऽस्माकं भोक्ष्येऽहं वा तवाऽऽनया ॥११० रामो वभाषे वचनं विलम्बय क्षणं मुने । देवताः पितरो मञ्जु नमस्यन्तेऽधुना मया ॥ १११ इत्युक्त्वा राघवः पादाद पात्रगतं तदा । माक्सौम्याग्रान्कुशान्दैवे प्रतीचीदक्षिणायकान् ११२ पित्रे(ज्ये) पवित्रे ये दर्भा यवानथ तिलानपि । अन्नपदानं कुर्वन्ति पृथिवी इति मत्रतः ॥११३ इदं विष्णुरिति स्पृष्टमङ्गुष्ठेन द्विजस्य तु । देवेभ्यः प्रथमं दद्याद्ये देवा इति वै पठन् । पितॄणां च ततो दद्यादद्यादतिथये ततः । देवताभ्य इतिमुखानुश्चार्याऽऽपोशनं ददेत् ॥ ११५ विपित्वा तु गायत्रीमुपवीती पुरोमुखः । प्राचीनावीतवान्बूयान्मधुत्रयमतः परम् ॥ ११६ भुञ्जध्यमिति तानुक्त्वा भुञ्जानेषु द्विजातिषु । रक्षानमनपठनं भक्ष्यभोज्यादि दापयन् ॥ ११७ एतमिमन्तरे विमो योऽतिथिस्तदिदं तथा । कृतवान्महदाश्चर्य तद्वदामि समासतः ॥ ११८ पात्रस्थितमशेष च प्रासेनैकेन चाग्रसत् । प्राणाहुतीनां पर्याप्तं दीयतामिति चाब्रवीत् ॥ ११९ एतावदातुमसक्तः कथं श्रादकियोधतः । ममैकस्य प्रदाने त्वमशक्तो राम किं वृथा ॥ बहूनां भोजनं दातुमुधुक्तो राम किं वृथा। सहस्रा(सा) कृतकर्माणि न समाप्तिं प्रयान्ति च १२१ त्वया कृतमशेषाणां नालं प्राणाहुतिर्मम । कयं मे दीयते भुक्तिः कथमेषां तथा वद ॥ रामस्तमब्रवीदीरो भुरुरूव त्वं हि यथासुखम् । इत्युदीर्य निरीक्ष्यास्य कर्म तत्परमाद्भुतम् १२३ अथ शंभु समाय माह त्वं परिवेषय । त्वं पिता पार्वती माता शिवा देवीति मे मतिः ॥१२४ अनपूर्णेश्वरी देवी भवान्येवेति मे मतिः। सा शांभवी वचः प्राह तत्पर्याप्तं ददाम्यहम् ॥ १२५ अयोमा कांस्यमादाय भिस्सापूर्णमलंकृतम् । स्वर्णदा समादाय पायसं गन्धकान्तिम १२६ अस्यालयमिदं भूयादिति मादातु पायसम् । द्विजस्य दक्षिणे हस्ते साऽददात्सत्कृतं मुदा।।१२७ स शिरः कम्पमानस्तु ऊर्ध्वरष्टिरयाभवत् । प्रसारितकरश्वाऽऽसीगृहत्विा पायसं करे ॥ दीपा पापस स्वादु मुटु पकमिदं तु किम् । शंभुपत्नी वभाषे तं करे भुक्ष्व ततो ददे॥१२९ अभक्षयचतो विषः पुनः करतले स्थितम् । तदक्षयमय प्रात्वा पासारयदथेतरम् ॥ तस्मिन्करतले देवी पायस दत्तवत्युत । अन्येषामपि विप्राणां पकासय्यमदात्सती ॥ अथ पाणिपगत विज्ञायालय्यपायसम् । (स)ष्टा करान्तरमयो मासारयत स द्विजः ॥ १३२ ११.म. मोजने । १. प्रोक्षणेन । ३ म. ज्यकामानि । ४ ख. छ. इ. बीद्धीगे। ५ स. करं। १२० १२२ १३० १३१ ७५२ महामुनिश्रीव्यासप्रणीतं- [ ४ पाताललण्डन उवाचा प्रदातव्यं ससूपघृतमुत्तमम् । शिवा देवी तथा प्रादादक्षयं शंभुवल्लभा । यद्यत्मादात्तदा साध्वी सर्वमेव तदक्षयम् । करान्तरमथो सृष्टं परिपूर्ण पुनः पुनः ॥ एवं करसहस्रं तु कृत्वा स विरराम ह । उवाच वचनं विप्रो देहि गण्डूषवारि मे ॥ तर्पितोऽस्मि त्वया भद्रे न रामेण न सीतया ॥ शंभुरुवाच रामेण सीतया दत्तं मया दत्तं हि यत्र च । इतः परं हि किं देयं पूर्ण वा त्वं वदस्व मे १३ द्विज उवाच- तृप्तोऽस्मि न च मे देयमधिकं च करस्थितम् । विद्वग्नतः करगतं न पपात कथंचन ॥ निषण्णो हि चिरं दध्यौ कथं मे केवलः करः । भुक्त्यै कृतमिदं सर्व नान्यस्मै कर्मणे मम॥१३॥ तस्मादन्यकृतेरेतत्सर्व रिक्तं भविष्यति । इति निश्चित्य मनसा लिप्ताकोऽतिथिराभवत् ॥ १३६ पश्यत्सु सर्वदेवेषु तदद्भुतमिवाभवत् । तृप्तानय द्विजाज्ञात्वा राघवः परमार्थवित् ।। दर्वीकरोऽथ तृप्ताः स्थ इति पृष्ट्वा यथाविधि । तृप्ता स्म इति विप्रेन्द्रा विकीर्यानं समन्त्रकम् १४ पात्रस्य याम्याभिमुखः संनिधौ पिण्डमर्पयेत् । गण्डूपमपि विप्राणां तत्रैव परिकल्पयेत् ॥ १४ उच्छिष्टपर्णपात्रेषु ते गण्डूषमकुर्वत । गृहान्तरे च ते विमा विविशुस्त्वतिथिं विना ।। आहातिथिर्बहिः कार्य मयाऽऽचमनं विद्यते । उत्यातुं नैव शक्नोमि करं मे देहि राघव ॥ अथ रामः करं पादानोत्थितस्तु द्विजोत्तमः । हनुमानथ चाप्यस्य दत्तवान्बलवत्करम् ॥ इतरेण गृहीत्वा तु करेण द्विजपुंगवम् । आचकर्ष कपीन्द्रस्तु द्विजः साक्रोशमुक्तवान् । द्विज उवाच- छिद्यते मे करो व्यक्तमुत्थापय ततोऽन्यतः । लाङ्लेन सपीठं तमावृत्याऽऽमस्तकं बलात्॥१४॥ अथाधावत्ततः पृथ्वी द्विजस्तु न चचाल ह । अथ वानरवीरस्तु पद्भया चकुन्त तां महीम् ।।. पादौ विन्यस्य सुदृढौ द्विजमूर्धानमाक्षिपत् । विशीर्णमभवद्वेश्म द्विजाः सर्वे बहिस्तथा ॥ १५ सहद्धद्विजः सोऽथ हनूमान्बहिरभ्यगात् । पीठे च स्थापयामास ब्राह्मणं स्थविरं कृशम् । द्विजाय जलमादाय जाम्बवान्मृन्मये घटे । आह स्वच्छ जलं विप्र त्वयाऽऽदेयं सभाजनम्र सीता प्रक्षालयेद लक्ष्मणो जलदो भवेत् । जाम्बवानाह तं रामं ब्राह्मणोक्तमशेषतः ॥ ३५ द्विजप्रक्षालने रामो व्यादिदेशानुजं प्रियाम् । सौमित्रिर्जलमादाय द्विजाक्षालने तथा ॥ १५ पाक्षालयद(त्व)शेषाङ्गं प्रतिमामिव भूभुजः । अथ रामोपदेशेन चक्रतुस्तौ तथैव च ।। अथातिथिः स्वगण्डूषं सीतावक्त्रे व्यमुश्चत । सालंकाराऽभिर्व्याप्ता प्राक्षालयदयो सती १५५ श्लेष्मलालासुप्रचुरं मुखं विप्रस्य सा सती । प्रममा पुनः क्षाल्य नासाश्लेष्माणमत्यजत् १५६ *आचामयित्वा सौमित्रिरुत्तिष्ठेत्यब्रवीद्विजम् । द्विजो न शक्यमित्याह हनुमानप्यथाऽऽगतः ॥ अतिथिः माह तं विमः पीडितोऽहं हनूमता । गृहीत्वोदरता पूर्व व्यथितो वानरेण च ॥ १५ जाम्बवानय तं पाह लोमा मम वै मृदु । मयाऽयो ध्रियसे विष न च पीडा भविष्यति॥१५६ इत्युक्त्वा जाम्बवान्विमं दोामालम्म्य चोदरन्। द्विजमान्तमथाऽऽदाय स्थापयामास तं मुनिम् अथ रामो द्विजेन्द्राणां प्रदक्षिणमवर्तत । दत्तासीरपि विप्रेन्द्रर्दत्वा ताम्बूलमग्रतः ॥ * ल्यवमाव आर्षः । १. म विशुरुत्व। - ११३ त्रयोदशाधिकशततमोऽध्यायः ] पमपुराणम् । ७५३ पादावलम्बद्रामो भ्रातृभिः सह चाब्रवीत् । अयि सीतेऽतिथेरस्य त्वया न क्षालितं वपुः१६२ जवायुगतिथेरस्य करं चास्य मलान्वितम् । सम्यक्मक्षालय मुखं द्विजो न सहते मलम् ॥ तथा प्रक्षालितं सम्यगिदानी निर्गतं पुनः ।। सीतोवाच- राम उवाच- पुनः प्रक्षालय मलं दोषः स्यादन्यथा मम । अथ सीता तथा कृत्वा तूष्णीमेव बभूव ह ॥१६४ आह रामं च सीतां च द्विजः परमकार्यवान्। पादौ यौ मम राजेन्द्र तौ सीताऽऽलम्बयेदिति १६५ भवान्करौ च भरतो मम वीजं प्रयच्छतु । लक्ष्मणः केशनिचयप्रसाधनकरो भवेत् । शत्रुघ्नः श्लेष्मनिर्मुक्तं स्ववस्त्रेण करोतु माम् ।। १६६ सूत उवाच- अथ ते चक्रुरतिथेरशेषमुदितं तथा । तथाऽऽपुर्विस्मयं विपा नरवानरराक्षसाः ।। १६७ शिवा देवी च शंभुश्च सभूभामुदक्षताम् । मनसा चाप्यभाषेतामतिथिः शंभुरेव च ॥ १६८ अतिथिश्च प्रसन्नोऽभूच्छङ्खचक्रगदाधरः । पीताम्बरसमस्ताङ्गभूषितोऽतीव दीतिमान् ॥ १६९ यः पुराऽऽराधितः शंभुः प्रसनोऽभूत्रिलोचनः । शुद्धस्फटिकसंकाशः सर्वाभरणभूषितः ॥ १७० कोटिसूर्यप्रतीकाशः किरीटी करुणानिधिः। आलम्ब्य चक्रिणः पाणिमतिष्ठत सदाशिवः॥ १७१ रामः परमधर्मात्मा पुलकाश्चितविग्रहः । दण्डवनिपपातोळमानन्दप्लावितेक्षणः ॥ १७२ अनमन्भ्रातरस्तस्य दण्डवतले स्थिताः । शिव उत्थाप्य काकुत्स्थमालिङ्गथाऽऽघ्राय मस्तकम् ॥ उवाच मधुरं वाक्यं रामं राजीवलोचनम् ॥ १७४ शिव उवाच- वरं वृणु प्रसमोऽस्मि ब्रह्मादेरपि दुर्लभम् । तवादेयं न मे किंचिवृणु त्वं न चिराय वै ॥ १७५ श्रीराम उवाच- न याच्यं मे जगमाय भूराज्यं मम सांप्रतम् । स्वर्गश्च कर्मभिः प्राप्तो भक्तिस्त्वत्पाददर्शनात् १७६ आरोग्यं मे पश्य भुञ्जे सा सीता योषितां वरा। वशीकृताः सर्वनृपाः प्रजा धर्मसमन्विताः१७७ हर्ष एव ममाऽऽपन्नस्त्वदागमनतोऽच्युत । तथाऽपि वरये किंचिद्भक्तिरस्तु स्थिरा त्वयि॥ १७८ तथा मम गृहे देव त्रिवर्ष तिष्ठ हे प्रभो । ध्रुवन्समस्तधर्माश्च रूपेणानेन शंकर ॥ १७९ शिव उवाच- एवमस्तु तथा राम सर्व ते संभविष्यति । अथाऽऽह चक्री राजानं रामं राजीवलोचनम् १८० विष्णुरुवाच- वरं वृणु महाभाग प्रसस्रोऽहं यपिच्छास । श्रीराम आह वचनं मम प्रार्थ्यं न चास्ति हि १८१ यत्माप्यं शंभुतः माप्तमन्यत्सर्वमुदीरितम् । किंचैक वरये विष्णो प्रसन्नः सर्वदा भव ।। १८२ अथ सीतां हरिः माह मसमोऽहं तवाधुना । वरं वृणु प्रयच्छामि तथा सीताऽब्रवीदिदम्॥१८३ सीतोवाच- चरो वृतः पुरा भा न चान्यो मे वरो वरः । यदि कामं प्रयच्छेया मनश्च परपूरुषात् ॥ १८४ सनिवृत्तप(संच)भवता नम)मस्तेऽस्तु दिन भो। अथ ते मुनयः सर्वे प्रणेमुर्देवतोत्तमौ ॥ १८५ - ते १. प. 'तो मुक्ति।
महामुनिश्रीव्यासमणीत- [४ पातालखण्टे- अथासौ राघवं प्राह भुक्ष्व त्वं बन्धुभिः सह । एकान्तमन्दिरे चाहं देव्या सह वसामि ते १८६ विष्णुः समस्तकरणः समुद्रतनयान्वितः । एकस्मिन्मन्दिरे राम तिष्ठता लोलुपो हि सः॥ १८७ अथ शुद्धमहागारे पीठाढ्ये बहुभाजने । अग्रे वसिष्ठो भगवानुपविष्टस्तयोर्मुनिः ॥ १०८ अपरे ऋषयः सर्वे यथावृद्धा(दं) नृपास्तथा । तेषामभिमुखो रामो भ्रातृभिः सहितो नृपः१४९ तरुणे समभागे च ह्यासने तानवेशयत् । हनुमत्पमुखान्भृत्यानाह रामोऽनुसान्त्वयन् ॥ श्रीराम उवाच- भवन्तः परितिष्ठन्तु पश्चाद्धञ्जत नान्यथा । तथेति पददुः सर्वे पादार्याननुपूर्वशः ।। भूभुनश्चापि ते सर्वे ये रामस्योपसेविनः । तेषां दत्त्वाऽथ ताम्बूलं कपीन्द्रादीनभोजयत् ॥१९२ भुक्तवत्सु समस्तेषु रामो राजीवलोचनः । दीनान्धकृपणादीनां पशुपक्षिमृगस्य च ॥ दत्त्वा हि भोजनं संध्या वन्दितुं हि समारभत् । संध्याजपादिकं कृत्वा नत्वा तेषां नृपस्ततः ।। सिंहासनगतो रामः पौरजानपदादिभिः । सेव्यमानः सभास्थानगतो रेजे स राघवः॥ १९५ सर्वदेवपरीवारो यथा देवः शचीपतिः । राजकार्यमशेषं च कृतवान्भ्रातृभिः सह ॥ नाम्ना चैकैकशः सर्वान्विससर्ज स राघवः । भ्रातृन्विसर्जयामास वानरादींस्तथाऽपरान्॥१९७ अथ रामं महातेजा वसिष्ठो वाक्यमुक्तवान् ।। १९८ वसिष्ठ उवाच- तव पातहि यत्कार्य न च विस्मर राघव ।। १९९ आस्ते शंभुर्जगन्नाथो भगवानम्बिकापतिः । स्मर्तव्यो वन्दनीयश्च भगवानथ यत्नतः ॥ २०० तयेत्युक्त्वा गुरुं राजा नत्वा तं च व्यसर्जयत् । स्वयं च भार्यामभजद्देवदेवं विचिन्तयन्॥२०१ ऋषय ऊचुः- प्रातः समुत्थाय गुरो रामो मतिमतां वरः । किं चकार तदाख्याहि श्रोतुं कौतूहलं हि नः २०२ सूत उवाच- शंभुं विलोक्याथ ततो बभाषे रामः कयां कीर्तय शंकरस्य । तृप्तिर्न जाता मुनिवर्य शृण्वतो महेशमाहात्म्यमघौघनाशनम् ॥ शंभुरुवाच- अथ प्रश्नशेषस्योत्तरमीशभाषितं ते कीर्तयिष्यामि । अन्यायार्जितद्रव्यैरीश्वरं य उपासते ते व्यथा जायन्ते ॥ तद्यथा कश्चिद्रूपको नाम राक्षसोऽन्यायार्जितेन द्रव्येण शंकरमाराध्य तेनैव द्रव्येण घण्टामीन रमीतये कृतवान् । बस्य पुत्रः संपातिरिति ख्यातश्चौर्याजितैः शंकर पूजयामास ॥ तावुभावकस्मिन्दिवसे ममरतुः॥ गतौ शिवलोकं वीरभद्रेण भाषितौ च भो रूपकान्यायाजितद्रव्येण पूजा कृता घण्टादिकं च तेन भावेन व्यका भूत्वा चोरगणो भविष्यसि ॥ शिवपदवचनायक्त (क्त)नामाश्रवणाच्यो तस्य खनेन ध्वस्त भवति नो दर्शनमेतावदेव स्वयेश्वरपूजा सम्यकृताऽतो भक्तिश्च भविष्यति वीरभद्रस्त्वनशनं नाम गणं कचिद्विचरन्तमित्या म. वा परो गुणो । ३ ४ 4 - ९ १०. २०७. ११३ त्रयोदशाधिकशततमोऽध्यायः ] पद्मपुराणम् । दिदेश ॥ तौ च तयाभूतौ शिवलोके तिष्ठतः ॥ शंभुरुवाच- अयोपहतद्रव्यपूजाकयां हनुमते महेशभाषितां कथयिष्यामि । शृणु राघष प्रमथानां चरितम् एकैकस्य कर्मविपाक कथयिष्यामि ॥ उपहताङ्गणव्याख्या क्रियतामिति हनुमत्पृष्टः शिव उवाच ।। तदुपहतद्रव्यं ज्ञानतो य ईश्वरेऽर्पयिष्यति । एतदुक्तं ज्ञानिनोऽतः शृणु ।। एष सर्वानखेदिलः सर्वकालं सर्वाङ्गस्वेदिलः स्वेदाईवसनः स्वेदसंपादिताल्पप्रवाहशरीरो नासाग्रनिपतितस्वेदविन्दुः स्पर्शायोग्यो दृश्यते स पुरा स्वेदकरणेश्वरार्चनं कृतवान् । १२. अप्रेतिहास कीर्तयिष्यामि ॥ १३ चेकितानिरिति ख्यातो ब्रामणः कर्षकोऽभवत् । स नित्यं कृषिमुत्पाद्य प्रातः स्नात्वा च नित्यशः मध्याहकाले संपाप्ते (स)जपन्ब्राह्मणस्त्वसौ । अन्नमानय मे क्षिमिति भार्यामभाषत ॥ २०५ तयाऽऽनीते च दानानि(न चामेन) वेगेन शिवपूजनम् । कृतवानर्कसंतप्तः स्वेदिलः सर्वदैव तु॥ गन्धपुष्पाक्षताद्यैश्च स्वेदबिन्दुसमन्वितैः । अथ सायंदिने प्राप्ते क्षालिताङ्गसुशोभनः ॥ पूजयामास देवेशं कालसंभवसाधनैः । ममाराथ महाबुद्धिः शिवलोकं गतश्च सः ॥ २०८ वीरभद्रेण चाप्युक्तो भव त्वं स्वेदिलो गणः । स्वेदस्पृष्टपदार्थेश्च पुरा शंभुः प्रपूजितः । नित्यं स्वेदसमायुक्तस्तेन स्वेदिगणो भव ॥ २०९ शंभुरुषाच- वीरेणाथ समादिष्टः प्राप्तो राम गणः स्वयम् ॥ २१० अM घण्टामुखं पश्यायं पुरा वैश्यो विभावसो ना(सुर्ना)म धार्मिको महादानकर्ता नित्यं ब्राह्म- णभोजनं कारयित्वा कृतानुष्ठानः प्रातःकाले शिवं नमस्कृत्य कुसुमैः संपूज्य किंचित्पदेश गोमयेनोपलिप्य पनादिकं रचयित्वा देवाय समर्पोपहतघण्टानादं कृतवान् ।। राम उवाच- कथमुपहतघण्टा ॥ १५ शंभुरुवाच- आसीत्पुरा बलः कश्चित्सोम इत्यभिविश्रुतः । तस्य पुत्रश्च मन्दाख्यो दशवर्षवया अभूत् ॥२११ स चामिपककुल्माषान्घण्टायां प्राक्षिपन्नृप । तानभक्षयदाशेषं तेन चोपहताऽभवत् ॥ २१२ पहीतुमय तं वैश्यं यतमानोऽब्रवीदिदम् । अथ वैश्यः स्वयं तत्र निश्चित्य द्रव्यशोधनम् ॥२१३ शैकिके कृतवाल्लोके व्यवहारपदश्च ताम् । एतेन पापयोगेन गणो घण्टामुखोऽभवत् ॥ २१४ राम उवाच- व्यादेविशुदा सा कयं पापस्य कारणम् । सम्यगुक्तं द्रव्यशुद्ध्यै कयं न द्रव्यशोधिनी ॥२१५ शंभुरुवाच- 'न लौकिकव्यवहतौ तव भक्तो भविष्यति । स याति च शिवस्थानं वक्ता चापि तथा भवेत् ॥ + पूर्वापरसंगतेरभावादत्र किंचित्रुटितमिति प्रतिभाति । १२. तुमुत्थितं । २ स. 'शुद्धौ क । १४ WYN 3HICALCUTIA ७५६ महामुनिश्रीव्यासपणीतं पयपुराणम् । [५ पातालखण्डम सूत उवाच- यश्च वक्ति कथामेतां स तेन सदृशो भुवि । गुखामुखतमं विमाः शिवज्ञानप्रदं भवेत् ॥ एतद्वः कथितं विमाः पुण्यायुष्यतमं महत् । य इदं शृणुयाद्भक्त्या शिवलोके महीयते ॥ २१॥ पुराणवक्त्रे दातव्यं वसं गोहेमभूषणम् । भूमिः सस्यफलोपेता देया शक्त्यनुसारतः॥ २९ शिवराघवसंवादं सर्वाघौघनिकृन्तनम् । यः पठेच्घृणुयादापि स याति परमं पदम् ॥ २ इति श्रीमहापुराणे पाने पातालखण्डे शिवराघवसंवाद उपरिभागे राममोक्षो नाम त्रयोदशोत्तरशततमोऽध्यायः ॥११॥ इति श्रीमहामुनिव्यासपणीते महापुराणे पाये चतुर्थ पातालखण्ड समाप्तम् ॥ ४॥ आदितः श्लोकानां समष्यवाः-१९५९७ अध्यायानामादितः समबहाः-२६४ 6.5.89 RAd.m. ११.४...1.5.821 4. R. NO..4.4 PHTEOF ARIBHE LIESGARY PRATI
No text on this page.
No text on this page.
No text on this page.
No text on this page.
No text on this page.