Donar

Shriikushhnd-avilaasakaavyamu

Sukumaara Kavi · 2005/08/26

PDF Proofread

Front matter

Sri Krishna Vilasa Kavya
OF
Sukumara Kavi
VITIT THE COMMENTARY VILASINI
OF RAMAPANI VADA.
SARGASIIV.
PUBLISHED BY
Subrahmanya Vadhyar,
Book-seller and Publisher,
KALPATHI - PALGHAT.
Edition)
(Price 1 Re.

No text on this page.

DOVTED TO
"OTARY
DONATED TO
TTO CENTRAL LIBRARY

No text on this page.

No text on this page.

No text on this page.

Sri Krishna Vilasa Kavya
OF
Sukumara Kavi
WITH THE COMMENTARY VILASINI:OF RAMAPANI VADA.
SARGAS I-IV
Third Edition.
REVISED AND EDITED BY
Pandit Ki S. Sanapathi Sastri,
Nyaya Siromani.
PUBLISHED BY
R. Subrahmanya Vadhyar,
Bo&ik Seller and Publisher,
KALPATHI-PALGHAT.
PRINTERS,
THE MANGALODAYAM POWER PRESS,
TRICHOR.
1928.

A REFORMED SERIES OF SANSKRIT READERS.
6-
By Pandit K. L. V. Sastri
Mahopadhyaua Siromani & Proficient in
Indo-European Philolooy.
• संस्कृतबालादर्शः
0...-4_0
संस्कृतप्रथमादर्शः (सचित्र)
संस्कृतद्वितीयादर्शः (सचित्र) 0.8.20
सस्कृततृतीयादर्श: (साचत्र:)
0.10.0
Fxtract opinion of the above from the Mysort
Maha Raja's Sanskrit College Magazine:-
महोपाध्यायशिरोमणिपदसमलकृतैः ब्र: K. L
व्यासरायशास्त्रिभिः बालकानामनायासेन संस्कृतभाषायां प्रवे.
शसिध्यर्थ विरचितौ संस्कृत बालादर्श प्रथमादर्शा भिधानी
प्रन्थविशेषावामूलाग्रं परिशीलितो । '....सर्वसाधारण्येन लो.
कन्यवहारविषयभूतानां पदार्थानां स्वरूपनिरूपकै: प्रश्नोत्तरवा-
क्यैः इतरवाक्यविशेषैश्च गुम्भितः अयं प्रन्थः सर्वानपि गीर्वा-
णभाषाध्ययनकुतुहालन: अनायासेन तद्विशेषपरिचयवतः लेख.
नभाषणादिष्वतिसमर्थाश्च करोति । ....अस्य महिमा केवलं अनु-
भवैकशरणैरेव नितंतुं शक्यः । अतः अस्य प्रन्थ म्यैवाध्ययने प्रवृ.
त्ता: सर्वेपि यथारुचि भाषाज्ञानादिकमनायासेन संपाद्य सन्तो-
पातिशयमवाप्नुयुरिति सुदृढं प्रतीम:-
• These books are approved by the Madras &
Mysore Text Book Committees and are very freely
used as Text Books throughout the Country,
..
..

॥ श्रीः॥
सुकुमारकविविरचितम्
श्रीकृष्णविलासकाव्यम्॥
गमपाणिवादविरचितया विलासिन्याख्यया
व्याख्यया समेतम् ॥
न्यायाशरोमणिबिरुदमाजा
पण्डित के. एस्. गणपतिशास्त्रिणा
परिष्कृत्य संशोधितम् ।।
तृतीयं संस्करणम ॥
पालक्काट-कल्पात्ति
श्रीगीर्वाणवाणीपुस्तकशालाधिपतिना
आर. सुब्रह्मण्योपाध्यायन
प्रकाशितम् ॥
१९२८

Sabdamanjari. शब्दमञ्जरी ॥
(अव्यय, समासमकरण, धातुमालिकासहिता ।)
Approved by the Madras
& Mysore Text Book Committees
By Pandit P. S. ANANTHA NARAYANA SASTRI.
This is a new and exhaustive book of its
kind planned on up-to-date lines and containing
declensions of all models and peculiar words,
numerals, conjugations of verbs illustrating the
most important points ctc. The portions dealing
with indeclinables are very instructive and with or
compounds are dealt with in an original manner.
Very useful Footnotes are also given.
Neatly got up on good puper: Price: 0-5-0.
Do Glazed Edition: Price: (1-0-0.
Extract opinion of the above from the Mysore
Mala Raja's Sanskrit College Magazine...
पण्डितवरैः P.s. अनन्तनारायणशास्त्रिभिर्विरचिताड
सौ शब्दमञ्जरी क्रमश: सामान्य कष्टतरकष्टतमशब्दरूपाभ्या-
सविषये बालकानामतीवानुकूल्यं परिपोषयति । अस्यां चाधो-
भागे प्रायशस्सर्वत्रोपपादिता व्याकरणांशादिविशेषविषयाः
आधुनिकानां गीर्वाणभाषाभ्यासकुतुकिनां विद्यार्थिनामतीवा मा.
हाय्यकारिण उत्साहजनकाश्च । व्याख्याताश्चास्या अन्त्यभागे
तिङिन्तसमासप्रकरणादिकाः तत्तदं शेषु विद्यार्थिनां सुसुखं तत्त.
ज्ञानादिकमुत्पादयन्ति येन च भाषान्तरीयतादृशविषया अपि
सुविशदमनायासेन तर्विज्ञेया भवन्ति । तस्मादेवं सौख्यावादन.
पुरस्सरं भाषाज्ञानोपयोगिनीयं शब्दमरी गीर्वाणभाषाध्येत.
भिस्सादरं यद्यभ्यस्यते ते सर्वपि समधिगत मनोरथास्संपद्यन्त
इतीयं सर्वविश्वसनीया॥

॥ श्रीरस्तु ॥ ॥ श्रीकृष्णाय नमः ॥ ॥श्री कृष्णविलासकाव्यम्॥ ॥ विलासिन्या समेतम् ॥ :) ॥ प्रथमः सर्गः॥ आस्त श्रियः सद्म सुमेरुनामा समस्तकल्याणनिधिगिरीन्द्रः। तिष्ठन्निदं विश्वमनुप्रविश्य खेनात्मना विष्णुरिवोजितेन ॥ १ ॥ गुरुणा भूसुरेन्द्रेण कल्पितं क्षेत्रमुत्तमम् । अध्यासानं नमस्कुर्वे सर्वेशं चन्द्रशेखरम् । श्रीनारायणगुरुवरकरुणापात्रेण पाणिवादेन । श्रीकृष्णविलासस्य क्रियते टीका विलासिनी नाम । 'मुकुमारकवेर्वाचां विलास: कृष्णगोचरः । सकमारपदार्थश्रीः शेमुषी मे विशोधयेत् । अथ कविः आदौ तावत् अखिल भुवनाधिष्टानभुतमाश्चरं वस्तुवेनाभ्युपग- स्छन् 'आशीर्नमास्क्रया वस्तुनिर्देशो वाऽपि तन्मुख मिति वचनात् वस्तु निर्दिश- ति अस्तीत्यादिना । प्रारम्भे तावत् अस्तिपदग्रहणं मङ्गलार्थम् । नित्यस्य श्री कृष्णविलासकाव्ये सव्याख्याने .. त्पदवाच्यस्य ब्रह्मणः सद्भावात् । अनन्तरं श्रीपदश्च वाचां प्रपञ्चसिध्यर्थम् । प्र. पञ्च तुभूताया: भगवत्याः मायायाः स्मरणसम्भवेन तदनुग्रहलाभात् । श्रियः शोभायाः सम निवासस्थान सुमेरुनामा मेरुरिति प्रसिद्धः समस्तानां कल्याणानां कल्पवृक्षकामधेनुप्रमुखमङ्गलपदार्थानां निध: निधानं । अथवा ---कल्याणशब्दवाच्या. नां सुवर्णानां निधानं गिरीन्द्रः पर्वतश्रेष्टः अस्ति आत्मानं विभति। विष्णु: विश्वव्यापी हरि: स्वेन आत्मीयेन जितेन बलवता आत्मना शरीरेण इदं दृश्यमानं विश्वं भुवनं अनुप्रविश्य लक्षणयाऽधिष्ठाय तिष्टान्नव प्रकाशं वर्तमान इव । श्रियः सद्म अव लक्ष्मीनिवासत्व प्रतिभाताति उत्प्रेक्षयम् । विश्वव्यापित्वलक्षणमहिना विष्णो: अप्रत्यक्षत्वेऽपि प्रत्यक्षतया पर्वतरूपेणावस्थानस्य सम्भावनात् । 'मम्भावना स्या- दुत्प्रेक्षा वस्तुहेतुफलात्मन'ति लक्षणान स्वरूपोवक्षा । अथवा उपमालङ्कार एव । तथा हि -इदं विश्वमनुप्रविश्यति ब्रह्माण्ड कटाहान्तर्भूतं वैकुण्ठ लोक - मकले नाम- नाधितिष्ठन् विष्णुरिवेत्युपमानस्य उपमावाच कस्य च समस्तानां नरपियंगात्मकप्रप. श्वानां कल्याणनिधिः शुभावहनिधानमिति श्रियः लक्ष्म्याः सति च श्लेषक्शात सा धारणधर्मस्य च चतुर्णा उपमानोपमावाचकसाधारण धर्मोपमेयीनां उपादाना न पूर्णोपमेयमित्यपि व्याख्येयम । 'उपमा यत्र दृश्यलक्ष्मीसति द्वयोरि ति लक्षणात् ॥ मिथस्तिरोभावविलोकनाभ्यां सङ्क्रीडमानाविव पार्श्वेषु यस्याशु परिभ्रमन्तौ चन्द्रांशुमन्तौ नयतो दिनानि ॥ २ ॥ मिथ इति ॥ चन्द्रांशुमन्तौ चन्द्रसूर्यो यस्य सुमेरोः पार्श्वेषु पन्तेषु आशु शानं परिभ्रमन्तौ परितः सञ्चरन्तौ । दिनानीति रातीणामभ्युपलक्षण । रात्रिदिव सानित्यर्थः । नयतः गमयतः । अत्र उपमामाह -मिथोऽन्योन्यं तिरोभावोऽन्तर्धानं विलोकन अन्विष्य दर्शनं ताभ्यां साधनाभ्यां संक्रीडमानौ सम्यन्विहरतो 'क्रीडोऽनुसम्परिभ्यश्वे'त्यान्मनेपदम् । शानच् । द्वौ बालकावर्भकाविवेति । अत्रापि उपमादीनां चतुणी उपादानात् पूणोंपमैव ।। ॥२॥ बालकौ द्वौ। - 4 प्रथमः सर्गः॥ - उच्चैश्शिखः काञ्चनगौरवर्णः तमो निगृह्णन्महसा निजेन । दीपस्त्रयाणामिव विष्टपानां यो भाति पर्यन्तचरत्पतङ्गः ॥ ३ ॥ । उच्चैः उन्नताान शिखा शिखराणि यस्य । दीपपक्षे उन्नता ज्वाला यस्येति । काञ्चनेन मुखवणेन हेतुना गौरः पीत: वर्ण: यस्य । पीतो गोरो हरिद्राभः' इत्यमरः । अन्यत्र काञ्चनमिव गौर इति । निजेन आत्मायेन पहसा तेजसा महत्वेनेति यावत् । तमः अज्ञानं दुरितमिति यावत् । निगृह णन् स्वप्रदेशान्तभूते स्वर्ग आधिरोपयन् जनानां दृष्कृतं निराकुन्नित्यर्थः । अन्यत्र अन्धकार प्रशमयन्निति । पर्यन्ते परितस्सञ्चरन् पतङ्गः सूर्यो यस्य । अन्यत्र पतङ्गा शलभाः । पतङ्गः पक्षिसूर्य योरित्यमरः । यः सुमेरुः त्रयाणां विष्टपानां भुवनानां दीप इव भाति दाप्यतु । उत्प्रेक्षालङ्कार एव ॥ यस्याः पतित्वे विहिताभिलाषः करोति तीवाणि तपांसि लोकः । बिभर्ति रानाकरमेखलां ता- मङ्कन पुत्रीमिव यो धरित्रीम् ॥ ४ ॥ यस्या इति ॥ लोको जनः । 'लोकस्तु भुवने जन' इत्यमरः । यस्याः धारच्या पतिको भर्तृत्वे विषये विहिताभिलाषः कृताग्रहसन् तीवाणि उग्राणि तपांसि करोति अहं भूपतिर्भूपाममिति तपस्यतीत्यर्थः । तां तादृशी रत्नाकरा: समुद्रा एव मेखला काची यस्याः । तथाभूतां धरित्री भुवं पुत्री आत्म नामिव अङ्केन सानुप्रदेशेन । अन्यत्र ऊरप्रदेशेन । य: मेरुः बिभर्ति वहति । यदाश्रया धरित्रीति भावः ॥

श्रीकृष्णविलासकाव्ये सव्याख्याने
--
महान्ति दानानि मखानुदग्रान्
पराश्चि पानाशनयोस्तपांसि ।
शरीरिणः शान्तमलैर्मनोभिः
कुर्वन्ति यच्छृङ्गनिवासकामाः ॥ ५ ॥
महान्तीति ॥ यच्छृङ्गेषु यस्य शिखरेषु स्वर्गप्रदेशप्रित्यर्थः । निवासे
कामो येषां तथा भूताः सन्तः शरीरिणः दोहनः शान्तमलैः विगतदुरितैः मनोभिः
उपलक्षिता: महान्ति प्रभृतानि दानानि गोभूहिरण्यादीनि उदग्रान् उत्कृष्टान्
मखान् यज्ञान् पानस्य अशनस्य च पराश्चि पराङमुखानि भोग्यवर्जितानीत्यर्थः ।
तपांसि च कुर्वन्ति अनुतिष्ठन्ति ॥
सुरा युगान्तेषु सह प्रियाभिः
निषेदिवांमो यदधित्यकासु।
उदन्वतामैक्यमुपागतानां
पश्यन्ति कल्लोलशतप्रचारान् ॥ ६ ॥
सुराः इति ॥ सुरा: देवा: युगान्तेषु प्र - यसमयेषु प्रियाभिस्सह यस्य
मेरोः अधित्यकासु ऊर्ध्वप्रदेशेषु 'भूमिव॑माधत्य के 'त्यमरः । निधेदिवास: निषण्णा:
सन्तः ऐक्यं एकीमावं उपागतानां प्राप्तानां उदन्वतां उद्धीनां कल्लो शतस्य तर-
इसमूहस्य प्रचारान् सञ्चारान् पश्यान्त प्रलयकालेऽप्यपरिक्षयोऽयमिति भावः ॥ ६ ॥
पुष्पाणि शय्या. सुरपादपानां
क्रीडागृहाः काश्चनगहराणि ।
भवन्ति च स्वर्गविलासिनीनां
रत्नांकुरा यत्र रतिप्रदीपाः ॥ ७ ॥

प्रथमः सर्गः॥ पुष्पाणीति ॥ स्वर्गविलासिनीनां अप्सरसा मुरपादपानां पारिजातादीनां पुष्पाणि शय्याः तल्पानि भवान्त काञ्चनमयानि गहराणि गुहातलााने क्रीडा गृहा: क्रीडागृहाः । रत्नांकुरा: रत्नरश्मयश्च रत्याः प्रदीपाः दीपिकाः भवन्तीति वाक्यत्रयेऽपि । रतिशब्दप्रयोगात् भर्तृसहितानामिति गम्यते ॥ स्वर्गीकस: स्वर्णमहीषु पीताः श्वेतत्विषो रूप्यमयीषु भूषु । नीलाश्च नीलोपलमेदिनीषु ज्ञातुं मिथो यत्र न शक्नुवन्ति ॥ ८॥ स्वर्गीकस इति ॥ यत्र मेरी स्वौकसः देवाः स्वर्णमहीषु कनकभूमेिषु पीता: स्वर्णप्रभासंक्रान्त शरीरत्वान् सर्वेधो पतिवर्णा:मन्तः मिय: अन्योन्यं ज्ञातु न अक्नुवन्ति न शक्ता भवाने । सर्वेषां सावर्ष्यात परस्परदुर्जेया इत्यर्थः । एवं उत्तरवाक्यद्वयमपि । रू'यमयीषु रजनात्मकासु भृषु श्वेतात्वषः शुभ्रवर्णाःसन्तः, नीलोपलमादेनीपु इन्छ नीलस्थलीषु नीलाः कृष्णवर्णाःसन्तश्चेति । दरीगृहोत्सङ्गगोनूरोः कशाभिघातध्वनिभिः सकम्पाः । सैद्यः प्रियानुज्झितमानदोषाः सुराङ्गना यत्र परिष्वजन्ते ॥ ९ ॥ दरीति ॥ यत्र मेरौ सराङ्गना: देवस्त्रियः दरी गुहा सैव गृह तस्य उत्सो समीपभागे गति: गमनं यस्य तस्य नूरोः अरुणस्य कशया प्रतोदेन यः अभिघात: प्रहारः तस्य ध्वनिभिः शब्दैः हेतुभिः सकम्पाः.कम्पसहिताः त्रस्ताभिः वेपथुयुना इत्यर्थः । सद्यः तत्क्षणमेव उज्झित: त्यक्तः मान एवं दोषी याभिः तथा .

श्री कृष्णविलासकाव्ये सव्याख्याने
सम्न्यः प्रियान् वल्लभान सापराधानपीत्यर्थः । परिष्वजन्ते परिरभन्ते । अनेन
गिरेः अत्युन्नतत्वं दर्शितम् ॥
नेतुं त्रपानम्रमुखीरनीशाः
स्फुटानि यत्स्वर्णगुहान्तराणि ।
सिद्धाः प्रयत्नेन विना नवोढाः
नयन्ति नीलोपलगहराणि ॥ १० ॥
नेतुमिति ॥ त्रपया लज्जया नम्र मुखीः अवनतमुखी नवोढा: नूतनप-
रिणीताः स्त्रीरिति शेषः । स्फुटानि प्रकाशानि यस्य स्वर्णमयानि गुहान्तराणि
गुहान्तर्भागान् नेतुं प्रापयितुं अनीशा: सिद्धा: नीले.पलगहराणि नीलरत्नकन्दरााण ।
नीलमणीनां अन्धकारसादृश्यात् अप्रकाशानीति भावः । प्रयत्नेन विना अश्या तमेव
नयन्ति प्रापयन्ति । बलवदनेनानुगृह्यन्ते सिद्धा इति भावः ॥
यत्रोद्यतानां कुसुमापचाये
कान्तासु कल्पद्रुमवाटिकासु।
विभान्ति सुत्रामविलासिनीनां
पदानि लाक्षारसपाटलानि ॥ ११ ॥
यत्रेति ॥ यत्र मेरो कान्तासु मनोहरासु कल्पद्रुमाणां वारिकासु उद्यानेषु
कुसुमापचाये पुष्पोचये 'हस्तादाने चेरस्तेय' इति ण्यन्तात् अध: स्थितानामेव हस्तेन
पुष्पापचयो युज्यते । अत एव तस्मिन् तासां पदचिह्नसम्भव इत्यवग-तव्यम् ।
उद्यतानां उद्युकानां सुवामविलासिनीनां इन्द्रपुरस्त्रीणां लाबारसेन अलक्तकरसेन
पाटलानि अरुणानि पदानि पदन्यासस्थलानि विभान्ति विशेषेण शोभन्ते ॥ ११ ॥

प्रथमः सर्गः ॥१२॥ पयोदमार्गव्यतिलधिनीषु हंसा:शिरःपुष्करणीषु यस्य । वर्षागमेऽप्यश्रुतमेघनादाः न कुर्वते मानसदीर्घयाताम् ॥ १२ ॥ पयोदेति ॥ पयोदमाग मेघमार्ग व्यतिलयितुं अतिक्रमितुं शील आसामिति तादृशीषु यस्य मेरो: शिर:पुष्करणीषु अग्रभागसरसीषु विद्यमाना हंसाः वर्षारम्भे अश्रुत: अनाकर्णितः मेघनादः स्तनितं यैः तथाः सन्तः । अनेन अग्र- भागात् अत्यन्ताधस्थानत्वं मेघमार्गस्येत्युक्तम् । मानसं सर: प्रति दर्षियात्र दीर्घा- ध्वगमनं न कुर्वते । स्तनितश्रवणमेव तेषां गमनहेतुः । तदभावात् गमनाभाव इति भावः ॥ छन्नेषु यस्मिन् कनकोज्ज्वलाभि- रामूलचूडं नवमञ्जरीभिः। गन्धेन विज्ञाय पतन्ति भृङ्गाः शृङ्गान्तरारग्वधपादपेषु ॥ १३ ॥ छन्नेविति ॥ कनकोचलाभिः सुवर्णवर्णाभिः नवमञ्जरीभिः नूतनपुष्प- स्तबकैः आमूलचूडं मूलत अरभ्य चूडावधि छन्नेषु आवृतेषु यस्मिन् गिरी विद्यमान शृङ्गान्तरेषु शिखरावकाशेषु ये आरग्वधपादपाः शम्याकवृक्षाः ‘आरग्वधे राजश्व शम्याकचतुरंगुला इत्यमरः । तेषु विषयेषु भृङ्गाः गन्धेन सौरभ्येण चिर्न विज्ञाय विदित्वा पतान्ति अभिगच्छन्ति । सुवर्णसवर्णत्वात् सुवर्णमये तत्र चक्षुरिन्द्रियेण अवगन्तुमशक्यत्वादिति भावः ॥ मन्दाकिनी यच्छिखरे वहन्ती कुल्यापथाभ्यन्तरसंप्रविष्टा ।

श्री कृष्णविलासकाव्ये सव्याख्याने . बालेव तद्रक्षणसंप्रवृत्ता दिनेदिने सिञ्चति पुष्पवाटीम् ॥ १४ ॥ मन्दाकिनीति ॥ यच्छिखरे यस्य शृवे वहन्ती प्रवाहेण गच्छन्ती कुल्या- पथेन कृत्रिमसरिन्मार्गेण 'कुल्याऽल्पा कृत्रिमा सरि दित्यमरः । अभ्यन्तरमन्तभागं सम्यक प्रविष्टा सती मन्दाकिनी वियद्गङ्गा तक्षणे तस्याः पुष्पवाव्याः पालने विषये सम्प्रवृत्ता प्रवर्त्तमाना बालेव बालकन्यकानां एव पुष्पवाटीसेचनाधिकारः स्रस्तांसा- वतिमानलोहिततला वित्यादिप्रयोगात् । दिने दिने प्रतिदिनं पुष्पवाटी कुमुमोद्यानं सिञ्चति जलेनाभ्युश्चति ॥ ॥ १४॥ श्रियाऽभिरामः शरणं सुराणा- मलङ्घनीयो महता महिम्ना। विराजमानो वनमालया च यः शार्ङ्गधन्वानमर्नुप्रयाति ॥ १५ ॥ श्रियति । श्रिया शोभगा लक्ष्या च अभिरामः मनोहरः । सुराणां शरणं अवस्थानं रक्षिता च । 'शरणं गृहक्षित्रो रित्यमरः । महता उत्कृष्टेन महिम्ना पृथुत्वन माहात्म्येन अलङ्घनीयः अनतिक्रमणीयः अनभिभवनीयश्च वनमालया वनसमूहेन वनस्रजा च विराजमान: शोभमानः विना पक्षीन्द्रेण राजमा- नश्च यः सुमेरुः शाईधन्वान विष्णुं अनुपयाति अनुगच्छति । तत्सदृशो भवतीत्यर्थः श्लेषालङ्कारः॥ पुरा पुराणां त्रितयं दिधक्षो- रुमापते: कार्मुकतां प्रपन्नः। मध्येन वज्रांकुशमत्स्यचिह्न योऽद्यापि तन्मुष्टिपदं दधाति ॥ १६ ॥ .. .

प्रथमः सर्गः ॥ पुरोति ॥ पुरा पूर्व पुराणां त्रिपुरदानवानां त्रितयं दिधक्षोः दग्युमिच्छो उमापतेः ईश्वरस्य कार्मुकतां चापत्वं प्रपन्नः प्राप्तः मेरुः मध्येन भागेन अद्यापि अधुनापि वज्रांकुशमत्स्यरूपं चिई लाञ्छनं यस्य तादृशं तस्य उमापतेः मुष्टिपदं मुष्टिग्रहणस्थानं बिभर्ति वहति ॥ शृङ्गाग्रभाजां सुरसुन्दरीणां मुखानि पश्यन्नमलानि चन्द्रः। निगृहितुं नूनमुरःकलङ्क ह्रियेव यत्सानुपथेन याति ॥ १७ ॥ ति ॥ शृङ्गस्य शिखरस्य अयं भजन्तीति तादृशीनां सुरसुन्दरीणां अप्सरसा अमलानि निर्दोषाणि मुखानि पश्यन् चन्द्रः हिया लज्ञयेवेति हेतूत्प्रेक्षा । उरःकलई मध्यविहं निगृहितुं छादयितुं नूनमिति फलोत्प्रेक्षा । मां तावदिमा माद्राचारति तद्दर्शन परिहर्तुं नूनमित्यर्थः । यस्य मेरोः सानुपथेन कटकाध्वना याति गच्छति फलोत्प्रेक्षा चेयम् । अहेती हेतुत्वेन कल्पनं हेतृत्प्रेक्षा । अफले फलस्वेन कल्पनं फलोत्प्रेक्षा । हियेवेति हेतूत्प्रेक्षा । निगृहितुं नूनं स्वातिशायिनः अद्रेः स्वभावतः सानुपथेन सञ्चारस्य कलङ्कनिगृहनफलकतया नूनभिति फलोत्प्रेक्षा । तयोयोरपि सङ्कर ॥ ॥ १७ ॥ मनोभिराम शिखरे तदीये सहोपविष्टं सुरसिद्धसंधैः। अवोचदागत्य कृतप्रणामा कदाचिदुर्वी कमलाधिवासम् ॥ १८ ॥ अथ गिरिवर्णनमुपसंहृत्य कथापथमवतारयति - मनोभिराम इति ॥ मनोभिराम मनोहरे तस्य मेरोः सम्बन्धिनि शिखरे सत्यलोकाख्यशृङ्गे सुरसिद्धानां

१०
श्री कृष्णविलास काव्य सव्याख्याने
सधैः समूहैः सहोपविष्टं कमलाधिवासं ब्रह्माणं उवीं भामेदेवी कदाचित् आगत्य
उपगम्य कृतप्रणामा कृतनमस्कारा सती अवोचत् उक्तवती ।
पुमानिवाहं भवतः पुरस्तात्
ब्रवीमि किञ्चित् प्रतिपद्य धैर्यम् ।
पीडा मदीया परमत्र हेतु-
निर्लज्जता नन्वखिलोपहास्या ॥ १९ ॥
तमेवोक्तिप्रकारमाह - पुमानिति ॥ अहं भवतः पुरस्तात् अग्रभागे
पुमानिव पुरुष इव धैर्य धीरता प्रतिपद्य अवलम्ब्य किञ्चित् ब्रवीमि किमपि कार्य
अवबोधयामि । अत्र एवं कथने मदीया मत्सम्बन्धिनी पीड़ा शोकः परं केवलं
हेतुः कारणम् । निर्लज्जता लज्जाराहेतलं अखिलाना जनानां उपहास्या प-
रिहसितुं योग्या नन्वित्यवधारणे । योग्यवेत्यर्थः । तथापि पीडावशात् अवीमीति
भावः ॥
सृष्टास्त्वया दत्तवराश्च दैत्या
भारेण मां संप्रति पीडयन्ति ।
बले प्रमाणे च भवन्ति येषां
नैवोपमानं कुलभूभृतोऽपि ॥ २० ॥
का तव पीडेति चेत् तत्राह - सृष्टा इति ॥ लया सृष्टाः निर्मिताः द.
तवराश्च प्रतिपादितावश्यत्वादिवराश्च दैत्याः दानवाः सम्प्रति भारेण हेतुना मां पाड-
यन्ति व्यथयन्ति । कस्तादृशो भार इति चेदुच्यते:- येषां दैत्यानां बले सारवत्त्वे
प्रमाणे पृथुत्वीनत्यादिसंस्थाने विषये कुलभूभृतोऽपि कुलपर्वता अपि नैवोपमानं
सादृश्यं न भवन्ति । उपमानशब्दस्य उपमितिक्रियापरत्वात् एकवचनं क्रियाया
एकत्वात् ॥
॥२०॥

प्रथमः सर्गः ॥
स्वविक्रमोन्मूलितराजकाना
जयैषिणामद्यः परस्परेण ।
तेषां रणक्षोणिषु सिंहनादैः
निर्घातघोरैर्गिरयः स्फुटन्ति ॥ २१ ॥
स्वविक्रमेति ॥ स्वविक्रमेण आत्मपर क्रमेण उन्मूलितानि राजकानि रा.
जसमूहाः यैः तादृशानां अद्य अस्मिन् काले परस्परेण अन्योन्यं जौषिणां जेतुमि-
च्छतां तेषां दैल्यानां रणक्षोणिषु युद्धमृमिषु निर्यातधेरैः स्तनितभयङ्करैः सिंहनादैः
गिरयः पर्वताः स्फुटन्ति विशीर्यन्ति । तिलशो विदीर्णा भवन्तीत्यर्थः ॥ २१ ॥
मुहुर्बलादुन्नमयत्यहीन्द्रे
मदारभुमं फणचक्रवालम् ।
मम प्रकम्पावलिताब्धिशैला
दिग्दन्तिनो हन्त कदर्थयन्ति ॥ २२ ॥
महुरिति ॥ अहीन्द्रे शेष मद्भारेण भुमं वक्रीभूतं फणानां चक्रवालं फण.
समूह मुहुः पुनःपुनः बलात् प्रयत्नेन उन्नमयति उत्तानीकुति चलिताः कम्पिताः
अब्धयः समुद्राः शैलाः पर्वताश्च यैः तादृशा मम प्रकम्पाः चलनानि दिग्दन्तिनः
दिग्गजान् कदर्थयन्ति पीडयन्ति । हन्तोते खेदे ।
आशामुखेषु भ्रमतामजस्रं
तेषां चमूभिः परिसर्पिणीभिः ।
तिरोहितां भानुमतो मयूखाः
न कापि मां संप्रति संस्पृशंन्ति ॥२३॥
॥ २२ ॥

१२ श्री कृष्णविलासकाव्ये सव्याख्याने आशेति ॥ भानुमतः सूर्यस्य मयूखाः रश्मयः अजस्रं अनिशं आशामुखेषु दिङमुखेषु भ्रमतां साक्षरतां तेषां दैत्यानां परिसर्पिणीभिः व्यापनशीलाभिः चमृभिः तिरोहितां आच्छादितां मां सम्प्रति इदानीं क्वापि क्वचिदपि प्रदेशे न संस्पृशान्त । सूर्यकिरणसम्पर्काभावादशुचिरस्मीति भावः ॥ ॥२३ ॥ ॥ २४॥ सन्नास्मि दैतेयभरेण साह फणीश्वरस्सीदति मरेण । तारार्थन्निजकपरस्य धिक्तामवस्थां कमठेश्वरस्य ॥ २४ ॥ सन्नति ॥ सा ताहगवस्था अहं दैतेयानां भरेण हेतुना सन्नास्मि लान्ता भवामि । मद्भरेण मत्सम्बन्धिना भारेण फणीश्वर. अनन्तः सीदति ताम्यति । तस्य फणीश्वरस्य भारेण शीर्यन् शकलीभवन् निजः आत्मनः कर्परः पृष्ठास्थि यस्य तस्य कमठेश्वरस्य आदिकूर्मस्य तां तादृशी अवस्था धिक् धिकरोमि । भारत्रयसमुद्रहन - कान्ततरस्य अवस्था किमुच्यत इति भावः ।। भारावसीदत्फणमण्डलस्य फणीश्वरस्योपरि दुःस्थिताऽहम् । आसन्नपातास्मि तटीव नद्याः प्रवाहवेगेन विलुप्तमूला ॥ २५ ॥ भारोते ।। भारेण अवसीदत् ताम्यत् फणानां मण्डलं समूहः यस्य तस्य फणीश्वरस्य शेषस्य उपारे दुास्थता दुःखेन स्थिता अहं नद्याः प्रवाहत्य वेगेन हेतुना विलुप्तमूला विशीर्णमूल भागा तटीव तामिव आसन्नः प्राप्तकालः पातः यस्याः तादशी अस्मि भवामि ॥

प्रथमः सर्गः ।
१३
निवेदिता देव मया दशेय-
मनुक्तिदोषो मयि नोपपाद्यः ।
निवेद्यते रक्ष्यजनेन दुःखं
ततः परस्तात् प्रभवः प्रमाणम् ॥ २६ ॥
निवेदितेति ॥ हे देव मया इयं ईदृशी दशा अवस्था निवेदिता विज्ञा.
पिता । अनुक् या अकथनेन यः दोष. सः मयि नोपपाद्यः उपपादयितुं न शक्यः ।
रक्ष्येण रक्षणीयेन जनन दुःखं आत्मशोकः निवेद्यते विज्ञाप्यते । ततः परस्तान
निवेदनादुपार प्रभवः प्रमाणं प्रमातार दुःखापनोदोपायस्य कार इत्यर्थः ॥ २६ ॥
इत्युक्तवत्यामुचितं पृथिव्यां
चिन्ताबलेन स्तिमितो मुहूर्तम् ।
मुखानि पश्यन्नमृताशनानां
देवः प्रजानां पतिरित्युवाच ॥ २७ ।।
अथ धरित्रीवचनमुपसंहरति - इतीति ॥ इति एवं प्रकार उचितं योग्यं
यथा भवति तथा पृथिव्यां उनपत्यां कथितवत्यां सत्यां प्रजानां पतिः देवः ब्रह्मा
महत अल्पकालं चिन्ताबलेन किं कर्तव्यताविचाराशक्या स्तिामत. निश्चटरमन
अमृताशनानां देवानां मुखागि पश्यन् किममी व्यवस्यन्तीत्यभिप्रायेण अवलोकयन्
इति वक्ष्यमाणप्रकारेण उवाच उक्तवान् ॥
नासत्यमेतद्यवोचदुर्वी
स्वकर्मणम्साधु फलं मयाऽऽप्तम् ।
॥ २७॥

१४
श्री कृष्णविलासकाव्ये सव्याख्याने
11 २८ ॥
महर्धिता मामवमत्य दैत्या
बलादुपनन्ति जगन्ति यत्ते ॥ २८ ॥
उक्तिप्रकारमाह- नासत्यमिति ।। उर्वी भूमिदेवी यत् अवोचत् यत्
उक्तवती एतद्वचनं असत्यं न भवति सत्यमेवेत्यर्थः ।, स्वकर्मणः आत्मना कृतस्य
फलं साधु मया आप्तं अनुभूतम् । तत् किमित्यत आह -- यत् यस्मात् कारणात्
मर्द्धिताः मया वरप्रदानेन उपबृंहिता दैत्याः मां अवमत्य अवज्ञाय बलात्कारेण
जगन्ति लोकान् उपनन्ति नारायान्त । अतः मम अविमृश्यकारितायाः फलमेवेति
भावः ॥
अतीतकार्यानुशयेन किं स्या-
दशेषविद्वजनगर्हितेन ।
सुराः समुन्मूलनमाशु तेषां
कर्तुं यतध्वं जगतां हिताय ॥ २९ ॥
अतीतेति ॥ अशेषैः समस्तैः विद्वजनैः विद्वद्गैः गर्हितेन निन्दितेन
अतीतस्य अवसितस्य कार्यस्य अनुशयेन पश्चात्तापेन किं स्यात् किं फल भवेत् न
किमपीत्यर्थः । हे सुराः यूयं जगतां लोकानां हिताय हितं कर्तुं तेषां दैत्यानां
समुन्मूलनं मूलच्छेदं आशु कर्नु यतध्वं प्रयत्नं कुरुत । भवद्भिः प्रयत्न कृते
तत्सेत्स्यत्यं वेत्यभिप्रायः ॥
सद्यस्समुत्तिष्ठत चिन्तयालं
चिन्ता हि कार्यप्रतिबन्धहेतुः।
यामः पृथिव्या सह तत यत्र
नारायणो दानवकालरात्रिः ॥ ३० ॥

प्रथमः सर्गः ॥
..
सद्य इति ॥ यूयं सद्यः इदानीमेव समुत्तिष्ठत उत्थानं कुरुत । चिन्तया
अलं चिन्तया प्रयोजनं नास्तीत्यर्थः । चिन्ता कार्यस्य कर्तव्यस्य वस्तुनः प्रतिबन्धस्य
प्रत्यूहस्य हेतुः कारणं हि तस्मात् दानवानां दैत्यानां कालराविः मरणदिवसपू-
वरात्रिः मरणहेतुरित्यर्थः । नारायणः यत्र यस्मिन् प्रदेशे वसतीति शेषः । तत्र
तस्मिन् प्रदेशे पृथिव्या भूम्या सह यामः गच्छामः । पृथिव्या सह यानन्तु तस्या
एव इदानी कार्यप्रसिद्धयावश्यकत्वात् ॥
अस्त्वेवमित्यादरपूर्वमेव
स स्वीकृतोक्तिस्सुरसिद्धसंधैः।
सरोजजन्मा सह तैः प्रतस्थ
विहायसा विश्वपतेस्सकाशम् ॥ ३१ ॥
अस्विति ॥ एवमस्तु यथा भवतोक्तं तथा भवतु इत्यादरपूर्वमेव पुरस्कृ-
तादरमेव सुरसिद्धानां संधैः स्वीकृता अङ्गीकृता उक्तिः वचन यस्य सः तादृशः
सरोजजन्मा ब्रह्मा तैः संधैस्सह विहायता गगनमार्गेण विश्वपतेः विष्णोः सकाशं
समीपं प्रतस्थे प्रस्थितवान् ॥
एलापरिष्वङ्गलसत्तमालं
वेलाधिरूढस्खलदुर्मिमालम् ।
ददर्श धाता मनसोऽनुकूलं
पयःपयोधेरचिरेण
कूलम् । ३२ ॥
एलेति ॥ धाता ब्रह्मा अचिरेण श्णेन एलानां एलालतानां परिवरुण
आश्लेषेण लसन्तः शोभमानाः तापिन्छवृशाः यत्र । वेलायां तटप्रदेशे अधिरूढाः
स्खलन्त्यश्च ऊर्मिमाला तरङ्गपङ्क्तयः यत्र । तादृशं ममसोऽनुकूलं मनोरथस्य
सदृशम् । यथा मनसा कल्पितं तथैवेत्यर्थः । पयःपयोधेः क्षीराब्धेः कूलं रोधःस्थलं
दर्दश दृष्टवान् ॥
॥३२॥

१ श्री कृष्णविलासकाव्ये सख्याने ददर्श च क्षीरमयं समुद्र कैलासशृङ्गोन्नतफेनकूटम् । पुण्यं पयःकेलिसमुत्सुकाना श्रियस्सखीनामवगाहनेन ॥ ३३ ॥ ददशेति ॥ कैलासशृङ्गाणीव उन्नताः उत्तुङ्गाः फेनकुटाः डिण्डीरापिण्डा यस्मिन् । पयःकोलः जलक्रीडा। तत्र समुत्सुकानां सश्रद्धानां श्रियः लक्ष्म्याः सखीनां बयस्यानां अवगाहनेन अवम जनेन हेतुना पुण्यं सुकृतकारि शीरमयं दुग्यस्वरूपं समुद्रं ददर्श च दृष्टवांश्च । स इति कर्मानुषच्यते ॥ आनन्दयामास दिवौकसस्ता- नाघ्रातशेषो मुनिमण्डलेन । प्रकामपुण्यः पवनोपनीती वैकुण्ठवक्षस्तुलसीसुगन्धः ॥ ३४ । आनन्देति ॥ मुनिमण्डलेन नारदादिभक्तजनसमूहेन आघातस्य प्राणे- न्द्रियानुभूतस्य शेषः । अनेन अपरिमितत्वं व्यज्यते । प्रकामं अतिशयेन पुण्यः पुण्यहेतुः । पवनेन वायुना उपनीतः समीपं प्रापितः वैकुण्ठस्य विष्णोः वक्षस्तुल. स्याः उर:स्थितायास्तुलसीस्रजः सुगन्धः सौरभ्यं तान् तथा तत्रागतान दिवौकसः देवान् आनन्दयामास आहलादयाञ्चकार । अहो महाभागधेयाः खल्वमी इति कवरभिप्रायः ॥ ॥ ३४॥ गन्धानुसारेण विसृष्टनेत्र- हिरण्यगर्भप्रमुखरमल प्रथमः सर्गः । १७ .. ॥ ३५।। नवार्ककल्पं ददृशे मुरारे- वक्षस्थलीकौस्तुभरत्नधाम ॥ ३५ ॥ गन्धेति ॥ गन्धानुसारेण सौरभमनुसृत्य विसृष्टनेत्रैः प्रेरितलोचनैः हिर- ण्यगर्भप्रमुवैः ब्रह्मादिभिः अमत्यैः देवैः नपार्ककल्यं बालसूर्यसदृशं मुरारे: विष्णोः वक्षस्थल्यां यत्कौस्तुभरत्नं तस्य धाम ददृशे दृष्टम् ॥ अपहृताशेषमनोविकारं दिविस्पृशा तूर्यरवेण मिश्रम् । 'आकर्ण्य वैकुण्ठविलासिनीनां गीतध्वनि हर्षमयासिषुस्ते ॥ ३६ ॥ अपद्धतेति ।। ते अमाः अपहृतः तिरोहितः अशेषः सर्वः मनोविकारः चित्तविकृति: येन तादृशं दिविस्पृशा स्वर्गलोकस्पर्शिना तूर्याणां वाद्यावशेषाणां खेण शब्दन मिश्रं सम्मिलित बैकुण्ठ विष्णु लोके याः विलासिन्यः सुन्दर्यः तासां गीतध्वनि गानध्वनि आकर्ण्य श्रुत्वा हर्ष अयासिघुः प्राप्ताः ।। आसक्तिमालक्ष्य विनीतवेषाः स्वमौलिविन्यस्तकराःसुरास्ते । आलोकयामासुरशेषनाथं सविग्रहं पुण्यमिव प्रजानाम् ॥ ३७ ॥ आसक्तिमिति ।। ते सुराः आसक्ति सामीप्यम् . । विष्णोरिति शेषः । आलक्ष्य ज्ञात्वा विनीतवेषाः विनयोचिताकृतयः स्वमौःलेषु निजमस्तकेषु विन्यस्त- कराः निक्षिप्तमुकुलितपाणयः । इदमेव हि विनीतवेषत्वम् । अशेषनाथं भुवनपति श्री कृष्णविलासकाव्ये सव्याख्याने आलोकयामाः ददृशुः । प्रजानां जगद्वासिजनानां सविग्रह शरीरं पुण्यमिवेति । पुण्यस्य शरीरयोगाभावऽपि तथात्वेन सम्भावनादत्रोत्प्रेक्षा ॥ ।। ३७ ॥ प्रवृद्धहेमाभरणप्रकाशं तमालनीलं जलधौ शयानम् । तटिल्लताढ्यं पयसोऽतिपाना- दनीशमुद्गन्तुमिवाम्बुवाहम् ॥ ३८ ॥ इतोऽष्टभिःश्लोकैः कलापकन्यायेन विष्णु वर्णयति - प्रवृद्धेति ॥ प्रवृद्धः प्रकर्षेण उद्रिक्त: हे माभरणानां स्वर्णालङ्काराणां प्रकाशः यस्मिन् तादृशम् । तमा- लवत् तापिन्छमिव नीलं श्यामलं जलधौ श्रीराधौ शयानम् । अत्रोपमामाह - पयसः जलस्य शीरस्य वा अतिपानाद्धेतोः उद्गन्तुं उत्थाय उपरि गन्तुं अनीश अ- समर्थ तटिलतया विद्युल्लतया आब्ध श्रेयम् । अयश्च हमाभरणप्रकाशस्य प्रतिबिम्बः । अम्बुवाहं मेघमिव । तादृश तं तुष्टुवुरिति वक्ष्यमाणेनान्वयः ।। ॥ ३८ ॥ तरङ्गवातेन पयःपयोधे- रापूर्यमाणं करपाञ्चजन्यम् । वामेन तिर्यग्वलता सलीलं सम्भावयन्तं मुहुरीक्षणेन ॥ ३९ ॥ तरगति ॥ पयःपयोः दुग्धाब्धेः तरङ्गवातेन वीचीसमीरणेन आपूर्यमाणं आध्मायमान कस्थितं पाचजन्यं तिर्यक तिरश्रीनं वलता सञ्चरता वामेन ईक्षणन मुहुः पुनःपुनः सलील सविलासं सम्भावयन्तं मानयन्तमित्यर्थः ।। प्रतिक्षणं प्रेमविशेषजाभिः सम्भावनाभिः कमलासनायाः । ( ।।३९ ॥

प्रथमः सर्गः ॥ १९ : ।। ४० ॥ पुराऽऽत्मना कल्पितमम्बुराशेः प्रमाजयन्तं मथनावमानम् ॥ ४० ॥ प्रतिक्षणमिति । प्रतिक्षणं क्षणे क्षण प्रेमावेशेषात् प्रणयातिशयात जाताभिः कमलासनायाः श्रियः सम्भावनाभिः सम्यगालोकनानुग्रहैः करणभूतैः पूर्व आत्मना स्वेन कल्पितं उपपादितं अम्बुराशेः कुग्धाब्धेः मयनमेव अवमानः अवज्ञा तं प्रमा- जयन्तं प्रलोपयन्तम्। शमयन्ताम यर्थः । पितार कृत: अवमानः पुत्रीसम्माननेन प्रलुप्तः भवदेवेत्यभिप्रायः ।। पर्यायतः पाणिधृतं सरोजं विन्यस्यविन्यस्य दृशोः पदव्याम् । निद्रां प्रबोधञ्च मुहुनयन्ती पद्मासनां सस्मितमीक्षमाणम् ॥ ४१ ॥ पर्यायत इयि ॥ पाणिधृां करतलस्थितं सरोज दृशो पदव्यां भर्तृर्नेत्रयोः मागें पर्यायतः क्रमेण विन्यस्य विन्यस्य पुनःपुनर्विधाय निद्रां मुकुलीभावं प्रबोधं विकासश्च मुहुः अनेकवारं नयन्तीम् । तदृशोः चन्द्रसूर्यात्मकत्वात् पद्मस्य उन्मीलनं निमीलनश्चेति भावः । तादृशी पद्मासनां श्रियं सास्मतं यथा तथा ईक्षमाणं पश्यन्तम् ॥ ॥ ४१ ॥ स्वच्छस्वदेहप्रतिबिम्बितेन फणाश्मजालेन फणीश्वरस्य । भास्वत्फलस्तोमनिरन्तरस्य वहन्तमाभा वटपादपस्य ॥ ४२ ॥ स्वच्छेति ॥ स्वच्छ निर्मले स्वदेहे निजशरीरे प्रतिबिम्बितेन फणीश्वरस्य अनन्तस्य फणाश्मजालंन फणरत्नसमहेन हेतुना भास्वता दीप्यमानेन फलस्तोमेन श्री कृष्णविलासकाव्ये सव्याख्याने ॥ ४२ ॥ पक्कफलसमूहेन निरन्तरस्य पूर्णस्य वटपादपस्य न्यग्रोधद्रुमस्य आमां वहन्तं अरुण. मणिनिकरप्रतिबिम्बित शरीरतया पाटलफलजालनिरन्तरवटपादपसादृश्यं भगवतः । वर्णितमिति उपमालङ्कारः ॥ अजस्रमासीनरथाङ्गशंख- मतिप्रसन्नं कमलाधिवासम् । सन्तापविच्छेदकरं प्रजानां ह्रदं महीयांसमिवाभिगम्यम् ॥ ४३ . अजस्रामिति ॥ अजस्रं अनवरतं आतीनौ आसन्नवर्तिनी रथाङ्गशंखौ सुदर्शनपाञ्चजन्यौ । हूदपक्षे रथाङ्गाश्च कवाकाः शम्बाश्वासीना इति । अति प्रसन्नं अ. त्यर्थप्रसादम् । अन्यत्र स्वच्छ न लम् । कमलाया लक्ष्म्या आधवानं आस्पदम् । अन्यत्र कमलानाम् । प्रजानां जनानां सन्नायस्य दु खस्य । अन्यत्र शरीरतापस्य विच्छेदकरं विनाश करम् अभिगम्यं अभिगामिक गुगसम्पन्नम् । अन्यत्र अवगाह्यम् । महीयांसं महान्तं इदं अगाधजलस्थानमिव । तमियनुषङ्गः । श्लिष्टोपमालङ्कारः ।। वक्तुं मिथो राहुविचेष्टितानि कर्णहयाभ्यर्णमुपेयिवांसी अलब्धकालाविव भानुचन्द्रौ रथाङ्गशंखौ दधतं कराभ्याम् ॥ ४ ॥ वक्नुमिति ॥ कराभ्यां रथाङ्ग शंखी सुदर्शनपाञ्चजन्यो दधत धारयन्तम् । तत्रोत्पेक्षते । राहोः विचेष्टितानि स्वग्रसनरूपव्यापारान् मिथः रहसि वक्तुं निवेद- यितुं कर्णद्वयस्य अभ्यणे समीप उपेयिवासी उपगतौ राहशिरश्छेदी खवयमिति तस्मै निवेदयितु उपागतावित्यर्थः ।। तत् कस्मात् नोक्तवन्तावित्यत्राह- अलब्ध.

प्रथमः सर्गः ॥ २१ ॥४४॥ कालौ अप्राप्तावसरौ भक्तजननिरन्तरपार्श्वत्वादलब्धरहस्काविति भावः । तादृशी भानुचन्द्रौ सूर्याचन्द्रमसाविव । तेजोमयत्वाच्चक्रस्य सूर्गसाट्यम् । धावल्या छावस्य चन्द्रमादृश्यम् । कर्णाभ्यर्णावस्थान चोत्शाह तुरित्यवगन्तव्यम् ।। द्वारस्थसेनापतिचोदितेन निवारिताः कंचुकिमण्डलेन । सुराः प्रमोदस्खलितैर्वचोनिः स्थित्वैव ते व्योमनि तुष्टुवुन्तम् ॥ ४५ ॥ द्वारेति ॥ द्वारस्थेन सेनापतिना चोदिते र नियुक्तेन कञ्चकिमण्डलेन वेत्रिसमूहेन निवारिताः रुद्व वेशाः ते. सुराः व्योमन्येव आका॥ एव स्थित्वा प्रमोदेन हर्षेण हे तुना स्वालतैः भ्रष्टयान वर्णस्वरैः वचामे वाग्भिः तं तथावर्णित स्वरूपं तुष्टुवुः स्तुतैव-तः॥ नमः परस्मै पुरुषाय तुभ्यं गिरां धियामप्यपथि स्थिताय । अस्मान् पुनस्त्रातुमुदनमोहान् कृपाबलात् कल्पितविग्रहाय ॥ ४६ ॥ अथ स्तुतिप्रकारमाह - नम इति ।। गिरां वाचां धियां मनोवृत्तीनामपि अपथि स्थिताय अविषयभूताय परस्मै परमात्मने पुरुषाय तुभ्यं नमः नमस्का- रोऽस्त्विति शेषः । नन्वेव निम्कलस्य कथं दर्शनसम्भव इति चेदवाह - अस्मा. निति । उदग्रमोहान् मुहुर्मुहुः प्राप्तवाचत्यान् अस्मान् वातुं रक्षितुं कृपाबलात् कारुण्यशक्त्या कल्पितविग्रहाय गृहीतसकलस्वरूपाय । इदानीमपि वातव्यकोटि- मवगाढा वयमि याशयः ।। ।। ४६ ॥

श्री कृष्णविलासकाव्ये सव्याख्याने ॥ ४७ ॥ भागीरथी पादकुशेशयात्ते विनिर्गता विश्वमिदं पुनीते । कस्त्वां पुनर्भावयतो जनस्य शुद्धिं परिच्छेत्तुमलं मनीषी ॥ ४७॥ भागीरथीति ।। भागीरथी गङ्गा ते तव पादकुशेशयात् पादाब्जात् विनिर्गता विगलिता सती इदं विश्वं लोकं पुनीते पवित्रयति । त्वां भावयतः भजनः जनस्य शुद्धि पावनतां परिच्छेनं इयदिति परिमातुं कः पुनर्मनी विद्वान् अलं पर्याप्तः । न कोऽपि शक्ती भवतीत्यर्थः ।। अनन्तशक्तेरपविक्रियस्य तिस्रस्त्रिलोकीश्वर शक्तयस्ते। वितन्वते स्थावरजङ्गमाना- मुत्पादनक्षेमविलोपनानि ॥ ४८ ॥ अनन्तेति ॥ हे त्रिलोकीश्वर त्रैलोक्यनाथ अनन्ता अनवसाना शक्तिः ऐश्वर्य यस्य तस्य अपविक्रियस्य विकाररहितस्य अखण्डब्रह्मण इत्यर्थः । ते तव तिम्रश्शक्तयः रजस्सत्वतमोरूपाः करण शक्तयः स्थावराणां पर्वतादितृणपर्यन्तानां ज. जमानां ब्रह्मादिपिपीलिकापर्यन्तानाच भावानां उत्पादनं साष्टे. श्वेमः रक्षा विलोपन संहारः तानि वितन्वते विस्तारयन्ति । तथा चोक्तं-'रजस्सृजति भूतानि सत्वं तु परिरक्षति । तमस्संहरतीमानि त्रीण्यपीश्वरशक्तयः' इति । कटाक्षमात्रेण भवांबुराशेः पारं परं प्रापयितुस्त्रिलोकीम् । ४८ ॥

प्रथमः सर्गः ॥ २३ ॥ ४९ ॥ क सकृन्नमस्या परमातरस्ते यत्नानुरूपं हि फलं क्रियाणाम् ॥ ४९।। कटाक्षेति ॥ त्रिलोकीं त्रैलोक्यम् । तत्रस्था जना लक्ष्यन्ते । त्रैलो- क्यवासिन इत्यर्थः । कटानमात्रेण केवलकटाक्षेणैव नत्वपरसाधनेन । भवांपुराशेः संसारान्धेः पर पारं अपारकूलं प्रापरितुः गमयितुः ते तव आतरः तरणकर्मणो वेत- नम् । ‘आतरस्तरपण्यंस्या'दित्यमरः । परं केवलं सकृत् एकवार नमस्या नमः स्कारः । ततोऽन्यत्किमपि ने यर्थः । उतार्थमर्थान्तरन्यासन समययति-क्रियाणां व्यापाराणां फलं यत्नानुरूपं यत्नस्य सदृशम् । हीति प्रसिद्धौ । अत्र तत्र प्रयासोऽ.. एव । अतोल्पमेव दीयत इति भावः ॥ त्वं ज्योतिरापस्त्वमसि मुवी वं व्योम वैश्वानरसारथिस्त्वम् । वं जीववर्गः परमस्वमात्मा यन्नासि किं नाम जगत्पते तत् ॥ ५० ॥ त्वमिति ॥ ज्योतिः अमिः, आपः, जलं, उीं भूः, व्योम आकाशः, वैश्वानरसारथिः वायुः, जीववर्गः जीवावच्छिन्नशरीरसंघः, परमः आत्मा परमात्म- स्वरूपः, एतत्सर्वं त्वमेवासीयर्थः । हे जगत्पते यन्नासि यदस्तु वं न भवसि तद्वस्तु किं नाम किमपि नास्तीत्यर्थः ॥ नवाभ्रवर्ण नलिनायताक्षं पीताम्बरं हारकिरीटिनं त्वाम् । वयं तु सेवेमहि वीक्षमाणाः सायुज्यमन्विच्छति कः सुखार्थी ॥५१॥ - ॥ ५०॥ ।

श्री कृष्णविलासकाव्ये सव्याख्याने नवेति ॥ नवाभ्रवणे नूतनधनच्छायम् । नलिनायताक्षं पद्माविशाल नेत्रम् । पीतवर्ण अम्बरं वासः यस्य तादृशम् । हारः मुक्तागुणः किरीटश्च यस्यास्तीति हार- किरीटिनम् । त्वां वयं तु वीक्षमाणाः एव पश्यन्तः सन्तः सेवेमाह । प्रार्थनायां लिम् । एवमेव सर्वदा प्रत्यक्षवीक्षण भाग्यमानः भवमे यर्थः । सुखं अायतुं शी- लमस्यास्तीति सुखार्थी। कः पुमान् सायुज्यं सहयोगः सयुक्तस्य भावः सायुज्यम् । परब्रह्मणि लयः । तत् अन्विच्छति मार्गयति । सुवेच्छः कोऽपि न तादेच्छेदि यर्थः । ब्रह्मणि लीनल्य ईदृशं अत्यन्तमनोहरं भवद्वपुः अवलोकायतुं अशक्यत्वादिति भावः ॥ अलं न निर्देष्टुमियत्तया त्वा- मशेषनाथ श्रुतिरग्रिमापि । स एव साक्षात् क्रियसे पुनस्त्व. महो जितं नः सुकृतैरनल्पैः.! ५२ ॥ अलमिति ।। हे अशेषनाथ अग्रिमा प्रधानभूता श्रुतिः उपनिषत् साऽपि त्वां इयत्त्या ईग्भूत इति निर्देष्टुं निगदितुं नालं न पर्याप्ता । स एव तादृश एव व पुनः साक्षात् क्रियसे । अस्माभिरिति शेषः । अहो नः अस्माकं अनल्पैः अपरिमितैः सुकृतैः पुण्यैः जितं सर्वस्मादुपरि वर्तितम् ॥ ।। ५२॥ तृणाय मत्वा निखिलानि शान्ि पदानि वैधेयमनोहराणि । आवृत्तिशून्यं परमं पदं ते वाञ्छन्ति वैराग्यधना महान्तः ॥५३ ।। तृणायेति ॥ है शानि वैराग्यं सर्वत्र विरागः । स एव धनं येष ते । महान्त. महाजना । मुमुश्चवः वैधेयमनोराणि वैधेयानां मूर्खाणां प्रथमः सर्गः ॥ २५ ॥ ५४॥ मनोहराणि मनोज्ञानि । मूर्खवैधेयवालिशा' इत्यमरः । निखिलानि समस्तानि पदानि तृणाय तृणमिति मत्वा आवृत्तिशून्यं पुनरावृत्तिरहितम् । अत एव. परमं अत्युत्कृष्टं ते पदं वैकुण्ठाख्यं स्थानं वाञ्छन्ति प्राप्तुमिच्छन्ति । तादृशं पदं प्राप्ता- नां अस्माकं सुकृतैः जितमिति किमुच्यत इति भावः ॥ इति स्तुतो देवगणेन देवो दयानिधिदानवकालरात्रिः। न्यषीददुत्थाय भरावभुमे भुजङ्गतल्पे भुवनैकनाथः ॥५४॥ इतीति ॥ इति एवंप्रकारं देवगणेन स्तुतः दयानिधिः दानवानां कालरा- त्रि: भुवनानां. एकनाथः देवः उत्थाय भरेण हेतुना अवभुग्ने नमिते भुजङ्गमये तल्पे पर्य के न्यषीदत् निषण्णः ॥ विष्वक्स वैकुण्ठविलासिनीना सलीलमान्दोळितचामराणाम् । निवारयन्नग्रकरारविन्दैः कोलाहलं काञ्चनकङ्कणोत्थम् ॥ ५५ ॥ विश्वगिति ॥.स: देवः विष्वक् परितः सलील लीलया सह आन्दोळि. तानि धूतानि चामराणि वालव्यजनानि याभिः तादृशीनां वैकुण्ठविलासिनीनां का- बनकणेभ्यः कनकवलयेभ्यः उन्) उद्भुत कोलाहलं कलकलशब्दं अग्रकरारविन्दैः करसरोजाप्रैः निवारयन् निषेधयन् । इदं वचनं प्रस्तावद्योतकम् ॥ प्रसादवत्या कमलासनादीन् सुरानशेषाननुगृह्य दृष्ट्या ।

२६ श्री कृष्णविलासकाठये सव्याख्याने उवाच वाच दशनां समेधयन् दुग्धमयं पयोधिम् ॥ ५६ ॥ प्रसादवत्येति ॥ कमलामनादीन ब्रह्मपुरस्सरान् अशेषान् सुरान् प्रसादव- त्या प्रत्भया दृष्ट्या कटाक्षपातेन अनुगृह्य अनुगृहणन् दशनांशुपूरै दन्त यभाप्रवाहै: दुग्धमयं क्षीरस्वरूपं पयोधि समेधयन् वर्षयन् । दसनांशुदुग्धयोः सावादिति भावः। वाचं वक्ष्यमाणप्रकारां उवाच उक्तवानिति भावः ।। अधिज्यकोदण्डधरो निषङ्गी सन्नाहवान् पाणिधृतैकबाणः। अयं समाजो भवतां द्विषयों भयं समावेदयति स्फुटं मे ।। ५७ ॥ अधिज्येति ॥ अधिज्यकोदण्डधरः आरोपितचापधारी निषङ्गी तूणीरवान् पाणौ धृतः एकः बाणः शरः येन सः । सन्नाहवार सन्नद्धः अयं दृश्यमानः भव- तां युष्माकं समाज: समूहः द्विषद्भयः शत्रुभ्य सकाशान् भय स्फुट यथा तथा मे मह्यं निवेदयति विज्ञापयति । वाचं विनैव अवगमयतीत्यर्थः अलं विलम्बेन दिवौकसस्त- निवेद्यतामद्य कुतो भयं वः। अयं करो दुष्टवधोत्सुकं मे सुदर्शनं न क्षमते निरोडुम् ॥ ५८ ॥ अलमिति ॥ हे दिवौकस' देवाः विलम्बेन कालपेण अलम । अद्य अस्मिन् काले वः युष्याकं कुतः करमाशनात् भयं जातमिति शेषः। तत् प्रथमः सर्गः ॥ निवेद्यतां विज्ञाप्यताम् । निवेदनमात्रमेवात्र कालशेप इति भावः । अयं मे करः दुष्टानां वधे उत्सुक उद्युक्त सुदर्शन चक्र निराद्धं वारयितुं न शमते न शक्नोति । शत्रुशब्दश्रवणात् पूर्वमेवेदं प्रवर्तत इति भावः ।। इत्यूचिवांसं परमं पुमांसं नत्वा शिरोभिर्बहुशस्सुरास्ते । आरूढहर्षातिशयास्वमर्थ- मारभिरे वक्तुम शेषमेव ॥ ५९॥ इतीति । ते सुराः इत्यचिवांसं एवं उनवन्तं परमं पुमांसं बहुशः पुनः पुनः शिरोभि. नत्वा आरूढहर्षातिशयाः वर्धितप्रमोदप्रकर्षास्सन्तः स्वमर्थ आत्मका- ये अशेष्मेन वक्तुं निवेदयितुं आर भैरे प्रवृ..: ॥ निवार्य सर्वानपि वक्तुकामान् सेनापतिस्तानमरान् करेण । सविभ्रमप्रेरितया पुरस्थं दृष्ट्या सरोजासनमाजुहाव ॥ ६ ॥ निवाति । सेनापतिः विष्वक्सेनः सर्वानपि क्रमेण वक्तुकामान् विव. क्षमाणान तान् तत्रागतान् अमरान करण करसंज्ञग निवार्य निषिभ्य सर्वैः सहो- क्त्या अस्पष्टतादोषरस्यादित्याशयेन पुरस्थं पुरोभागवर्तिनं सरोजासनं ब्रह्माणं सवि भ्रमं सविलासं यथा तथा प्रेरितया प्रवर्तितया दृष्ट्या हक्संज्ञया आजुहाव आनीत- वान् । अस्मिन् वक्तुं प्रवृत्ते सति अपरे स्वयमंव निशमयेयुरिति भावः ॥६० ॥ अथागतस्तेन करे गृहीत्वा. नीतः प्रभोरन्तिकमब्जयोनिः । , २८ श्री कृष्णविलासकाव्ये सव्याख्याने वक्तुं नियुक्तस्स कृतप्रणामः विज्ञापयामास विनीतवेषः ॥ ६१.॥ अथेति ॥ अथ आह्वानानन्तरं आगतः सः अब्जयोनिः सरोजासनः तेन सेनापतिना करे गृहीत्वा प्रभोः विष्णोः अन्तिकं समीपं नीतः प्रापितः वक्तुं नियु. तः प्रेरितश्च सन् विनीतवेष: विनयोचिताकारः कृतप्रणामः विज्ञापयामास निवेद- याचकार ।। वयं बया दत्तविभूतयोऽपि मोहातिरेकादभिमन्यमानाः। कृच्छ्रे पुनस्त्वां शरणं वजन्तः हा निस्त्रपाणां प्रथमे भवामः ॥ ६२ ॥ विज्ञापनप्रकारमाह - वयामिति ॥ त्वया भवता दत्तविभूतयः प्रतिपादि- तसम्पदोऽपि वयं मोहातिरेकात् मोहस्य अतिशयाद्धेतोः अभिमन्यमानाः अहंकु- र्वाणासन्तः पुनः कृच्छे सङ्कटागमे-वां शरणं राशेतारं व्रजन्तः प्राप्नुवन्तः हा कष्टं नित्रपाणां निर्ल जानां प्रथमे पुरस्सराः भवामः । इदानी कृच्छ्रागमादेव अयमा. रम्भ इति तात्पर्यम् ॥ अपारदुःखार्णवपोतपात्री त्वया कृपामुहहताऽतिगुर्वीम् । कृतघ्नताजन्मभुवाममीषा- मस्माकमर्थं न किमन्वभावि ॥ ६३ ॥ अपारेति ॥ अपारस्य अनवधेः दुःखरूपस्य अर्णवस्य पोतपात्री नावम् । तस्य हरणानुकूलत्वात् तथारूपिणी तादृशीं आतीं अतियरीयसी कृपां उद्वहता ।। ६२ ॥ ॥

प्रथमः सर्गः॥ २९ , .. त्वया कृतघ्नतायाः उपकृतेरस्मरणस्य जन्मभुवां उत्पत्तिस्थानानां अमीषाय अत्र दृश्यमानानां अस्माकं अर्थे प्रयोजने विषये किं नान्वभावि कीदृशं दुःखं नानुभूतम् । बहनुभूतमेवेत्यर्थः॥ ॥ ६३ - मनखिलोकस्य विगर्हणीये प्रतिग्रहे वर्जयता जुगुप्साम् । पुरा पुरस्ताबलिदानवस्य प्रसारितो नाग्रकरस्वया किम् ॥ ६४ ॥ मनस्वीति ॥ मनस्विनः स्थिरचित्तस्य लोकस्य जनस्य विगर्हणीये नि. न्दनीये प्रतिग्रहे दानस्वीकारे जुगुप्सां घृणां वर्जयता त्यजता त्वया पुरा पूर्व बलि. दानवस्य महाबलेः पुरस्तात् अग्रतः अग्रकरः कराग्रं प्रसारितः विस्तारितः न किम् । प्रसारित एवेयर्थः । 'तृणाल्लघुतरस्तूलः तूलादपि च याचकः । वायुना किन नीतोऽसौ याचायष्यति मामिती'त्यादिवचनात् अतिगईणीयं अर्थित्वमिति भावः॥ दैत्याधिराजेन हिरण्यनाम्ना पर्याकुलं त्रातुमशेषलोकम् । इदं तु दिव्यं परिहत्य रूपं न व किमासीनरतिर्यगात्मा ॥६५॥ अस्तु याच्आलाघवं, ततोऽपि विषमः विकृतवेषस्वीकार इत्याह-दैत्ये. ति ॥ हिरण्यनाम्ना हिरण्यकशिपुना दैत्यानामधिराजेन चक्रवर्तिना हेतुना पर्याकुलं विवशं अशेषलोकं समस्तजगत् त्रातुं राशतुं इदं एवं दृश्यमानं दिव्यं अमानुषं अ. खिलजनमनोभिराममित्याभप्रायः ।"तुशब्दो विशेषद्योतकः । रूपं सकाविप्र- ३० श्री कृष्णविलासकाव्ये सध्याख्याने परिहत्य त्यक्त्वा वं नरतिर्यगात्मा नृसिंहरूप: किं नासीः । यद्यपि मिश्ररूपताs तदर्पहा तथाऽपि साङ्गीकृताऽस्माकमर्थ इति महान् प्रयासः कृत इत्याशयः ।। खविक्रमाक्रान्तसुरासुरस्य रक्षःपतेर्निग्रहणादरेण । भूखा सुतः पङ्क्तिरैथस्य राज्ञः तां तामवस्थां न किमन्वभूस्त्वम् ॥६६॥ स्वेति ॥ स्वविक्रमेण आत्मपराक्रमेण आक्रान्ताः अभिभूताः सुराश्चासुर श्व येन तस्य रक्षःपतेः रावणस्य निग्रहणे निधने आदरेण तात्पर्येण हेतुना परक्ति- रथस्य राज्ञः दशरथस्य नरेन्द्रस्य सुतः श्रीरामभद्रः भूत्वा त्वं तां तां सीताविरहबा. लिवधसमुद्रबन्धादिकां अपरिमितां अवस्थां न किमन्वभूः । अन्वभूरेवेत्यर्थः ॥ ६६ ॥ अनेकधा पालयितारमेवं संप्रत्यपि त्वां शरणं प्रपन्नाः । सन्तापहारी ननु चातकानां भूयोऽपि भूयोऽपि पयोद एव ॥ ६७ ॥ किं बहुनेत्याह-अनेकधेति ॥ एवं उक्त कारेण अनेकधा बहुधा पाल: यितारं त्रातारं त्वां सम्प्रत्यपि इदानीमपि शरणं प्रपन्नाः रक्षितारं मत्वागता वय- मिति शेषः । चातकानां स्तोककपक्षिणां भूयोऽपि भूयोऽपि पुनःपुनरपि सन्तापहा- री पिपासादुःखलोपी पयोदः मेघ एव नान्यः । नन्विात प्रश्ने । एवमेव न किं जानासि । अतोऽन्यः कोऽप्याश्रयणीयः नास्तीति भावः ॥ विश्वं विदन्नप्यविदन्निव त्वं नाथानुयुझे भयहेतुमस्मान् । 0 प्रथमः सर्गः ॥ अनुग्रहस्यैतदपि प्रभुणां प्राय:प्रकारान्तरमाश्रितेषु ॥ ६८ ॥ विश्वमिति ॥ हे नाथ विश्वं सबै विदन् जानन्नपि अविदन अजानानिव अस्मान भयहेतुं भीतिकारणं त्वं अनुयुडशे पृच्छसि । 'दुह्याच्' इत्यादिना पृच्छे. रर्थग्रहणात् द्विकर्मकत्वम् ।। कथमिव अज्ञवत् भवान् नेदमित्याह - एतदा५ एवं. विधं प्रश्नवाक्यमपि प्रायः प्रभूणां आश्रितेषु विषये अनुग्रहस्य प्रकारान्तरं अन्यप्र. कारः । अतोऽयमनुग्रह एवेत्यर्थः ॥ ॥ ६८ ॥ तपोभिरुग्रैर्भगवन् सुराणा- मवध्यभावं दनुजाः प्रपन्नाः। पातालमुवींञ्च विजित्य दर्पा- दुपक्रमन्ते दिवमद्य जेतुम् ॥ ६९॥ तपोभिरिति ॥ हे भगवन् दनुजा: उप्रैः धेरैः तपोभिः सुराणां देवानां अवध्यत्वं प्रपन्नास्सन्तः पातालं उर्वीच विजित्य विशेषेण जित्वा दर्पात् अवलेपाढे. तोः अद्य अस्मिन् काले दिवं स्वर्गलोकं जेतुं उपक्रमन्ते प्रारभन्ते ॥ ६९ ॥ न जातु शून्यः कुलिशेन पाणि- वक्षो न मुक्तं मणिकङ्कटेन। शक्रस्य दैत्यागतिशङ्किनोऽस्य 'नासजितस्तिष्ठति वारणेन्द्रः॥ ७० ॥ नेति ॥ दैत्यानां आगतिं आगमनं शङ्कितुं शीलमस्पेति तथाभूतस्य श- क्रस्य इन्द्रस्य पाणिः जातु कदाचिदपि कुलिशेन वज्रेण शून्यः विरहितः न भव. ति । वक्षः उरस्थल मणिमयेन करटेन वर्मणा न मुक्तं नोज्झितम् । वारणेन्द्रः श्री कृष्णविलासकाव्ये सव्याख्याने - . ऐरावतः असज्जितः असन्नद्धीकृतः न तिष्ठति । शृंखलाकुथादिपरिहीनो न ति. छतीत्यर्थः ॥ दण्डं यमात्पाशमपामधीशा- गदा कुबेरात्कुलिशं मघोनः! आदातुकामः प्रहिणोति दूतान् कंसरस्वदोर्विक्रमनिर्जिताशः ॥ ७१ ॥ सामान्येनोक्त्वा विशिष्य विज्ञापयति- दण्डमिति ॥ स्वस्य दोर्विक्रमे- ण भुजप्रतापेन निर्जिता; अतितरां अभिभूता आशा दिश: येन । तादृशः कंसः यमात् दण्डं, अपामधीशात वरुणात् पाशं, कुबेरात् धनदात् गदां, मघोनः इन्द्रान कुलिशश्च, इत्येतानि आदातुकामः आहर्तुमिच्छन् दूतान् प्रहिणोति प्रचोदयति । मया सह योद्धं असमर्थानां आयुधेन किं प्रयोजनमित्यभिप्रायेणेति भावः ॥ ७१ ।। रणे विनिर्जित्य बलं सुराणां पराक्रमेणाप्रतिमेन वीरः। भोजेश्वरः क्रीडति सावरोधो मूलेपु सम्प्रत्यमरद्रुमाणाम् ॥ ७२ ।। रण इति । वीरः उत्साहशाली भोजेश्वरः कंस. रणे युद्धे सुराणां बलं सैन्यं अप्रतिमेन अतुलेन पराक्रमण विनिर्जित्य अभिभूय सम्प्रति इदानीं सावरोध- स्सन् अमरदुमाणां पारिजातादीनां मूलेषु अधोवाटिकास क्रीडति विहरति ।। ७२ ॥ धनुर्धराध्यासितवप्रशीर्षा द्वाःपालनव्यग्रसमायोधा।

प्रथमः सर्गः ॥ १३ .. - . प्रवीरनिर्भसितकान्दिशीका स्थातुं न जानाति पुरी सुराणाम् ॥७३॥ धनुर्धरेति ॥ सुराणां पुरी अमरावती धनुधेरैः धानुकैः अध्यासितानि अधिष्ठितानि वप्रशीर्षाणि प्राकाराप्राणि यस्याः । द्वाःपालने द्वाररक्षणे व्यग्राः च्या- पृताः समस्ताः निश्शेषाः योधाः योद्धारः यस्याः । प्रवीरैः महावीरैः नित्सिताः परिहसिताः कान्दिशीकाः भयपलायिताः । 'कान्दिशीको भयद्रुत' इत्यमरः । ता- दृशा जनाः यस्याः । तथा सत्यपि स्थातुं न जानाति नोपायं पश्यति । अस्या- र्थस्य सिद्धये पुरीशब्देन तद्रासिनो जना लक्ष्यन्ते । धनुधरेत्यादिविशेषणविशिष्टायां पुर्या स्थितः जन इति यावत् ॥ ॥ ७३ । हाहेति विक्रोशदनाथमेत- द्विश्वं जगत्पीडयतः प्रकामम् । बया विनाऽन्यस्त्रिषु विष्टपेषु न कर्तुमीष्टे नरकस्य भङ्गम् ॥ ७४ ॥ इति । अनाथं रक्षितरहितं अत एव हाहति विक्रोशत् आक्रन्दत् एतत् विश्वं सर्व जगत् लोकं प्रकामं अत्यर्थं पीडयतः व्यथयतः नरकस्य नरकासुरस्य भङ्ग नाशं कर्तुं त्रिषु विष्टपेषु भुवनत्रये त्वया विना भवन्तं वयित्वा अन्यः जनः नेष्टे न शक्नोति ॥ प्रलंबकेशिप्रमुखास्तथाऽन्ये परस्सहस्रं परियन्ति दैत्याः। निर्घातकल्पैनिजसिंहनादै- विदारयन्तो वियदाहवेषु ॥ ७५॥ ॥ ७४ । 6

३४
श्री कृष्णविलासकाव्ये सव्याख्याने
प्रलम्बेति । प्रलम्बकेशिप्रमुखाः तदाद्याः परस् 'हस्रं सहस्राधिकसंख्याः ।
'परश्शतादीनामुपसंख्यान 'मिति सिद्धोऽयं शब्दः । तथा अन्ये तद्व्यतिरिक्तान दैत्या
निर्घातकल्पैः स्तनितसदृशैः निजैः आत्मीयैः सिंहनादैः वियत आकाशं विदारयन्तः
भिन्दन्तः आहवेषु युद्धेषु परियन्ति परितो गच्छन्ति । युद्धाय सर्वतस्सश्चरन्तीत्यर्थः ॥
षट्सूनवः सन्ति हिरण्यनाम्नो
दैत्यस्य पातालतलाधिवासैः ।
तैन: क्रियन्ते दुरितानि यानि
वक्तुं न शक्यानि मुकुन्द तानि॥ ७६ ॥
घडिति ।। हिरण्यनाम्नः दैत्यस्य दानवस्य सूनवः पुत्राःषसन्ति । पाता.
लतले अधिवासः येषां तैः हिरण्यसूनुभिः नः अस्माकं सम्बन्धे यानि दुरितानि
दुश्चेष्टितानि क्रियन्ते हे मुकुन्द, तानि वक्तुं ईदृशानीति निवेदयितुं न शक्यानि
भवन्ति ॥
॥ ७६ ।
तेषां महीध्रप्रतिमाकृतीनां
भारं मही सोढुमसावशक्ता।
अस्मान पुरस्कृत्य भवत्सकाशं
प्राप्ता निजक्लेशनिवेदनाय ॥ ७७ ॥
तेषामिति ॥ महीध्रप्रतिमाः पर्वततुल्याः आकृतयः शरीरसंस्थानानि ये.
षां तेषां इह प्रस्तुतानां भारं सोई अशक्ता असमर्था असौ मही भूमिदेवी निजक्ले.
शस्य आत्मदुःखस्य निवेदनाय तुभ्यं विज्ञापयितुं अस्मान पुरस्कृत्य अग्रे कुर्वाणा
स्त्रीत्वेन स्वयं आगन्तुं अशक्यत्वादिति भावः । भवत्सकाशं भवतस्समीपं प्राप्ता
आगता॥
॥ ७७॥

प्रथमः सर्गः ।।
३५
तदेतदावेदनमस्मदीयं
श्रुला प्रमाणं प्रभुरित्युदीर्य
विधिय॑रंसीद्विहितप्रणामः
स चापि गंभीरमुवाच देवः ॥ ७८ ॥
तदिति ॥ तस्मात् कारणात् अस्मदीयं अस्मत्सम्बन्धि एतत् आवेदनं
विज्ञापनं श्रुत्वा आकर्ण्य प्रभुः स्वामी प्रमाणं प्रमातृभुतः । आकर्णनस्य प्रमात्मा.
वस्य च एककर्तृत्वात् अत्र उक्तो न दोषः । इत्येवंप्रकारं उदीर्य उक्त्वा विहितप्र.
णामः कृताञ्जलिस्सन् विधिः ब्रह्मा व्यरंसीत् विस्तवचनोऽभूत् । सः देवः महावि-
ष्णुरपि च गम्भीरं पुष्कलार्थ यथा तथा उवाच उक्तवान् ।।
अलं विषादेन दिवौकसो वः
समीहितं हस्तगतं मनुध्वम् ।
व्रतं हि मे केवलमेतदेव
संरक्षणं यच्छरणागतानाम् ॥ ७९ ॥
अलमिति ॥ हे दिवौकसः देवा विषादेन दुःखेन अलं इतःपरं न विधा-
दः कार्य इत्यर्थः । व युष्माकं समाहितं शत्रुनिग्रहाभिलाषं हस्तगतं करस्थं सिद्ध.
मेवेत्यर्थः । . मनुध्वं अवबोधत । शरणागतानां रक्षानिमित्तमागतानां जनानां संर.
क्षणं सम्यक् पालनमिति यत् केवलं एतदेव मे व्रतं दीक्षापरिग्रहः । हि यस्मादर्थे ।
तस्मात् उक्तमतं विषादेनेत्यर्थः ॥
मामर्थयन्ते वसुदेवपत्न्यौ
पत्नी च नन्दस्य सुतं गुणाढ्यम् ।
॥ ७९ ॥

२६ श्री कृष्णविलासकाव्ये सव्याख्याने -- ." अंशद्वयेन व्रतकर्शिताङ्गी- स्तिस्रोऽपि ताः पुत्रवतीविधास्ये॥ ८ ॥ अन्यच्च प्रयोजनमस्तीत्याह-मामिति ॥ वसुदेवस्य आनकदुन्दुभे: प. ल्यौ रोहिणीदेवक्यौ नन्दस्य नन्दगोपस्य पत्नी यशोदा च मां गुणाब्धं गुणैर्वरिष्ठ सुत पुत्र अर्थयन्ते याचन्ते । व्रतेन ममाराधन रूपेण तपसा कर्शिताकीः विशोषित- शरीराः ताः तिस्रोऽपि अंशदयेन कलाद्वितयेन पुतवतीः सत्पुत्रयुक्ताः विधास्ये कल्पयिष्ये । विधानफलस्य कर्तृगामित्वात् आत्मनेपदम्। कर्तृगामित्वञ्च दुष्टनिन- इकार्यस्य आत्मनिष्ठत्वम ॥ इयश्च लोकत्रितयस्य माता मायाभिधाना मम शक्तिरगया। कार्याणि वः कान्यपि कर्तुकामा जनिष्यते जन्मविना शशून्या ॥ ८१॥ इयमिति ॥ लोकात्रितयस्य माता सवित्री मायाभिधाना मम अग्र्या प्र. धानभूता शक्तिः इयश्च मया सहसा दृश्यमानेत्यर्थः । जन्मविनाशाभ्यां जननमर- णाभ्यां शून्या राहताऽपीत्यर्थात् । व: युष्माकं कान्यपि इदानीं अनिर्देश्यानि फलेन ज्ञातव्यानीति भावः। कार्याणि प्रयोजनानि कर्नु उपपादायतुं उन्या भुवि जनि. प्यते प्रादुर्भविष्यति ॥ तद्च्छत वर्गमपेतखेदाः न कालहानिः परिशङ्कनीया अनेन शाङ्गेण शपे शरैः सघो मनश्शल्यमपाकरिष्ये ।। ८२ ॥

प्रथम: सर्गः॥ तदिति ॥ तन् तस्माद्धेतोः अपेतखदा. त्यक्तशोकासन्तः यूयं स्वर्ग स्व. स्थानं गच्छत । कालहानिः विलम्ब न पारशङ्कनीयः । सा न भविष्यतीत्यर्थः । अथ प्रतिजानीते-अनेन मत्करस्थितेन शाङ्गेण धनुषा शपे शपथं काम । वः युष्माकं मनसि शल्यं दुःखं सद्यः क्षणादेव शरैः बाणः अपाकरिष्ये समुद्धत्य दूरीक रिष्ये । शल्योद्धरणसाधनत्वाभिप्रायेण शेरेरित्युक्तम् । शरैश्शनिहन्मि इति यावत् ॥ इति तममरलोकं सान्त्वयित्वा स देवः सपदि नवघनाभः पद्मनाभस्तिरोभृत् । स च विहितनमस्यस्तस्य वाचं प्रशंसन् निजपदमभिपेदे हर्षपर्याकुलात्मा ॥ ८३ ॥ इति सुकुमारकृतौ कृष्णविलासकाव्ये प्रथमस्मर्गः । इतीति ॥ इति एवं प्रकारं तं तथा तलागतं अमरलोकं देवसमूहं सान्त्व. वित्वा सामोपायेन आवर्य नवधनस्य नूतनमेघस्येव आभा यस्य तादृशः पद्मनाभः देवः सपदि तिरोभून अन्तर्हितः । स च अमरलोकश्च हर्षेण सन्तोषण पाकुला- ता विवशमनश्शरीरवृत्तिः विहितनमस्यः कृतप्रणामः तस्य पद्मनाभस्य वाच अल विषादेनेत्यादिवचनं प्रशंसन् स्तुवन् निजं आत्मीयं पदं स्वर्गलोक अभिपेदे प्राप्त. वानिति सकलं अवदातं मङ्गलम् ॥ इति रामपाणिवादविरचितायां विलासिन्याख्यायां श्रीकृष्णविलासव्याख्यायां ॥ प्रथमस्सर्गः ॥

।। श्रीरस्तु ।। ॥ द्वितीयः सर्गः ॥ अथैकदा पुत्रफलानि सम्यक् व्रतानि बाह्योपवने चरन्ताम् । रथेन कंसो वसुदेवयुक्तः स्वसारमालोकयितुं जगाम ॥ १.। अथ भगवत्प्रतिज्ञातं अर्थ अवतारयितुं अस्य अधिकरणभूतं प्रकरणं उप- न्यस्यति - अथेत्यादिना ॥ अथ अमरान् प्रति भगवत्प्रसादस्यानन्तरं एकदा एक. स्मिन् दिने वसुदेवेन युक्तः सहितः कंसः पुत्रफलानि पुत्रजननं फलं प्रयोजनं येषां तादृशानि व्रतानि नियमान् बाह्योपवने बाह्योद्याने सम्यक साधु चरन्तीं समनुति- ष्टन्तीम् । चरतिरत्रानुष्ठाने वर्तते । स्वसारं देवकी आलोकयितुं द्रष्टुं रथेन साध- नेन जगाम गतवान् ॥ ॥ १ । स्फुरत्प्रभापल्लविताङ्गयष्टिं कथञ्चिदृढस्तनमञ्जरीकाम् । तत्रालकैषट्पदिनीमजानात स तां लतामध्यगतां चिरेण ॥२॥ स्फुरदिति ॥ सः कसः तत्र वाह्योपवने स्फुरन्त्या प्रकाशमानया प्रभया काम्या पविता मातपल्लवा अश्याष्टः प्रशस्तशरीरं यस्याः । कथञ्चित् प्रयोग भूता उटी स्तनायव जी स्तषया यया त दशीम् । अलकैः पूर्ण हुन्तलः पा.

द्वितीयः सर्गः ॥ दिनी घट्पदवती तां देवकी लनानां मध्यगतां मध्यवर्तिनी अत एव चिरेण कि. चिन् कालविलम्बेन प्रयलेनेत्यर्थः । अजानात् विदितवान् । पल्लवमबर्यादिलता. धर्माणां अत्रापि सादृश्येन सम्भावितत्वादिति भावः ।। सा सन्नताङ्गी नियमावसाने ज्येष्ठाय तस्मै विदधे नमस्याम् । स चाशिषा तामनुगृह्य साध्वी भोजेश्वरो वाक्यमिदं बभाषे ॥३॥ सनि ॥ सन्नताही सुदती सा देवकी नियमस्य अवसाने समाप्तौ ज्येष्ठाय अग्रजाय तस्मै कंसाय नमस्यां नमस्कृति विदये कृतवती । सः कप्तश्च सार्च आचारवती तां आशिषाऽनुगृह्य भोजानामीश्वरः अनंन अन्यानपेक्षस्वेच्छाभिधानत्वं दर्शितम् । इदं वक्ष्यमाणं वाक्यं बभाषे भाषितवान् । अद्यापि बालाऽसि सुताननेकान् प्रसोष्यसे के व्रतयातनाभिः। पश्याधुना पल्लवसूतिकाले किं कल्पते चूतलता फलाय ॥ ४ ॥ अद्यापीति ॥ अद्यापि इदानीमपि त्वं बालाऽप्ति बाल्यं नातिवर्तसे । अ. तोऽनेकान् बहून सुतान् प्रसोध्यसे जनायप्यसि । व्रतरूपाभः यातनाभिः वंदना- भिः किं प्रयोजनं पश्य जानीहि । अधुना चूतलता पछ्वानां सूतेः उद्गमस्य काले फलाय फलमुद्भावयितुं कि कल्पते किमर्हति । तत्र न समर्था भवतीत्यर्थः ।। कृशाऽसि कामं विरम प्रयासा-- न्मनोभिरामानुपभुक्ष्व भोगान् ।

श्री कृष्णविलासकाव्ये सव्याख्याने अङ्गानि ते सन्नतगात्रि दुःख मृणालकल्पानि कथं सहेरन् ॥ ५॥ कृशेति ॥ त्वं काम अत्यर्थ कृशा दुर्बलाऽसि । प्रयासात् नियमप्रयत्लात् विरम निवर्तस्व । मनोभिरामान भोगान् सुख साधनानि उपभुश्च अनुभव । हे सन्नतगात्रि दौर्बल्यात् अवनतशरीरे मृणालकल्पानि बिसलतामृदुनि ते अङ्गानि अब- यवाः दुःखं नियमक्लेशं कथं सहेरन् न सहिष्यन्त इत्यर्थः ।। तामेवमुक्त्वा स तु साभ्यनुज्ञां रथं समगोप्य सहैव पत्या। प्रयातुकामः पुरमन्तरिक्षे शुश्राव वाचं शतधारकल्पाम् ॥ ६ ॥ तामिति ॥ सः कंसस्तु एवंप्रकारं उक्सा साभ्यनुज्ञा सानुवादां तां देव- की पत्या भी सहैव रथं समारोप्य पुरं राजधानी प्रति प्रयातुकामः गन्तुमिच्छन् अन्तरिक्षे व्योम्नि शतधारकल्पां प्रायेण वज्रतुल्यां वाचं शुश्राव श्रुतवान् ॥ ६ ॥ त्वदन्तिकस्था सहजाशमीयं प्रसोष्यते पुत्रमयं कृशानुम् । मरुत्समिद्धः स तु दुर्निवारः त्वां भस्मसात्कंस करिष्यतीति ॥ ७ ॥ तामेव वाचमाह - त्वदिति ॥ हे कंस त्वदन्तिकस्था तव समीप- स्थितेयं सहजा सहजैव शमी वहिद्रुमः शमीवृक्षाद्धि कृशानुरुत्पद्यत इति प्र. सिध्या शपीत्वारोपणम् । पुत्रमयं पुत्र स्वरूपं कृशानुं अमिं । प्रसोण्यते द्वितीयः सर्गः ॥ जनयिष्यति । दुर्निवारः निवारयितुमशक्यः सः कृशानुस्तु मस्ता वायुना देवेन वा समिद्धः वद्धितस्सन खां भस्मसात्कारेष्यति कात्नन भस्मसान्नेष्यतीत्येवं शु. श्रावेति सम्बन्धः॥ निशम्य ततवचो निकामं कंसः स रोषागमदुनिरीक्ष्यः । कृपां परित्यज्य कृपाणपाणिः स्वसुर्वधाय स्वयमुद्यतोऽभूत् ॥ ८॥ निशम्येति ॥ सः कंसः तद्भूतवचोऽशरीरवचनं निशम्य निकाम अत्यथै रोपागमेन कोपप्राच्या दुनिरीक्ष्यः दुःखदृश्यस्सन् कृपां दयां परित्यज्य कृपाणपाणि: खड्गपाणि. स्वय आत्मनैव स्वसुः भागिन्याः वधाय निग्रहाय उद्यतः उद्युनोऽभूत् ॥ नृशंसकृत्ये नितरां प्रवृत्त- मुदग्रकोपस्फुरिताधरोष्ठम् । प्रसादयन्नानकदुन्दुभिस्त- मुवाच धीमानुपपत्तियुक्तम् ॥९॥ नसेति ॥ धीमान बुद्धिमान आनकदुन्दुभिः वसुदेवः नृशंसकृत्ये पाप- कर्मणि नितरां अधिक प्रवृत्तं उद्युक्तं उदण प्रवृद्धेन कोपेन हेतुना स्फुरितौ कम्पि. तौ अधरोष्ठौ यस्य तं कसं प्रसादयत् प्रसादयितुं व्यवस्यन् उपपत्त्या युक्त्या युनं यथा भवति तथा उवाच उक्तवान् । अलं तवानेन वधोयमेन खया विधेयो नृपते विमर्शः। ॥९॥ 6 श्री कृष्णविलासकाव्ये सध्याख्याने किमेष नाश्रावि विचारशून्यं वजन्त्यनर्था इति साधुवादः ॥ १० ॥ अलामिति ॥ हे नृपते तब अनेन अत्र दृश्यमानेन वधोद्यमेन निग्रहो- साहेन अलं कृतम् । त्वया विमर्शः विचारः विधेयः कर्तव्यः । विचारशून्य अवि. वेकिनं अनर्थाः आपदः व्रजन्तीति साधूनां सजनानां वादः । तथा च - ' सहसा विदधीत न क्रियामविवेकः परमापदां पदमिति । एषः नाश्रावि किं न श्रुतः किम् ।। भयेन युद्धेषु पुरन्दरादीन् सुरान् पराचस्त्रपया विमुञ्चन् । महीश्वर स्त्रीवधपातकेऽस्मिन् कथं तवोपक्रमते कृपाणः ॥ ११ ॥ भयेनेति ॥ हे महीश्वर युद्धेषु भयेन भीत्या पराचः पराङ्मुखान् पुरन्द- रादीन इन्द्रादिसुरान् त्रपया विमुक्तकेश विमुख निरायुध मित्यादिवचनश्रवणात् वि. मुखवधे लज्जया विमुश्चन् त्यजन् तव कृपाणः खड्गः अस्मिन् स्त्रीवधपातके स्वीहत्या. दुरिते विषये कथं उपक्रमते आरभते ॥ अनेन किं वा तव जीवितेन यद्रक्षणं स्यात्सहजावधेन । गुणेन केनापि हि लब्धनाना- मपि स्वनाशादयशो गरीयः ॥ १२ ॥ अनेनेति ॥ सहजायाः स्वसु. बधेन यस्य रक्षणं स्यात् सम्भवेत् तव अनेन एवंविधेन जीवितेन किं फलम् । केनापि गुणेन वीर्यशौर्यविद्याविनयवित्त- बरवादिषु अन्यतमेनापि लन्धनानां प्राप्तयशसा अनानां स्वनाशात् आत्मनाशादपि द्वितीयः सर्गः ॥ ४३ अयशः दुष्कीर्तिः गरीयः गुरुतरम् । वरं आत्मनाशः न तु यशोनाश इत्यर्थः । हि प्रसिद्धौ । किं पुनः समप्रगुणसम्पन्नस्य भवत इति भावः ॥ ॥१२॥ प्रपद्यमानस्य सदाऽभिवृद्धि दिवानिशं प्रीणयतश्च लोकान् । भवयशश्रन्द्रमसोऽस्य मा भू- नव: कलंको भगिनीवधेन ॥ १३ ॥ प्रपद्यमानस्येति ॥ सदा सर्वदा अभिवृद्धिं वर्धमानतां प्रपद्यमानस्य प्रा- प्नुवतः । अयं अन्यः चन्द्रमसा व्यतिरेकः । तस्य सदावृध्यभावात् । एवं उत्त. रविशेषणेऽपि दिवानिशं अहर्निशं लोकं प्राणयत: प्रमोदयतम अस्य भवत: यश. स एव चन्द्रमसः चन्द्रस्य भागनीवधेन हेतुना नवः कलङ्कोऽपवादः । 'कल. के शापवादयो रित्यमरः । मा भूत न भवतु ॥ स्वसुर्वधेनास्य भवेदकीर्तिः तेन त्यजेयुस्सुहृदोऽपि भीताः । इत्येव नूनं भुजनिर्जितैस्तैः सुरैः प्रयुक्तस्सुमहानुपायः ॥ १४ ॥ स्वसुरिति ॥ अस्य कंसस्य स्वसंर्वधन हेतुना अकीर्तिः अयशः भवेत् ! हृदाऽपि अस्य बन्धवोऽपि भीतास्सन्तः एनं केस त्यजेयुः उपेक्षेरन् । इति एवं कार निश्चित्येत्यर्थः । भुजनिर्जिौः त्वद्भुजबलपराजितैः तैः सुरैः प्रयुक्तः उपपा. दिसः सुमहान् अतिमहतरः एष: उपायः स्वजयोपायः नून ध्रुवम् ॥ कालेन तद्ब्रक्ष्यसि यन्मदुक्तं मा भूत्तमस्मिन् विषयेऽपि शङ्का । .. - श्री कृष्णविलासकाध्ये सव्याख्याने ॥ तथाऽपि चेतस्तव शङ्कते चेत् आकर्ण्यतां तपिरः प्रकारः ॥१५॥ कालेनेति ॥ मदुनं मयोक्त यत् तत् त्वं कालेन कैरिदिनैः द्रक्ष्यसि । तव अस्मिन् विषये अर्थेऽपि शङ्का एवं वा न वेति शङ्का माभूत् । एवमेवेत्यर्थः । तथाऽपि तव चेतः मनः शरते शङ्कां न परित्वमति चेत् तर्हि अपरः अन्यः प्रकारः आकर्ण्यता श्रूयताम सर्वाण्यपत्यानि वशे तवाह जातानि जातानि समर्पयिष्ये । तन्निग्रहं वा तदनुग्रहं वा विचिन्त्य कर्तासि दशानुरूपम् ॥ १६ ॥ सः कीदृश इति चेदवाह- सर्वाणीति । जानानि जातानि उद्भूतमा- त्राणि सर्वाणि अपत्यानि पुत्रान् तव वशे तवाधीने अहं समय-ये प्रदास्यामि । तन्निग्रहं तेषां वधं वा तेषां अनुग्रहं वा विचिन्त्य विचार्य दशानुरूपं अवस्थासदृशं यथा तथा कर्तासि करिष्यसि । किं बुद्धिमान्येन निजेन तस्य किं भागधेयेन वराङ्गनायाः । बलेन किंवा भवितव्यतायाः तथेति जग्राह वचस्तदीयम् ॥१७॥ किमिति ॥ स: कंसः तदीयं वसुदेवसम्बन्धि वचः वचनं तथेति एवमिति जग्राह गृहीतवान् । अत्र कविः कारणं कल्पयंति- तस्य कंसस्य निजेन आत्मीयन ३ः मान्छन मन्दतया कि मन्दपवित्वादेत्यर्थः । वराङ्गन याः उसम- .

द्वितीयः सर्गः॥ ४५ खियाः तस्याः देवक्याः भागधेयेन भाग्येन किम् । भवितव्यतायाः अवश्यम्भाविनः देवस्य बलेन किम् । सर्वथाऽनेन गृहीतभेवेत्यर्थः ॥ वधप्रवृत्तो वसुदेवमन्त्र- प्रभावसंस्तम्भितघोरकर्मा। निवृत्य निस्त्रिंशमहाभुजङ्गो महीभृतः कोशबिलं विवेश ॥ १८ ॥ वधेति ॥ निस्त्रिंशः खः । स एव महासर्पः । वधे देवकीनिग्रहे प्रवृत्तः आरब्धोऽपि वसुदेवमन्तस्य वचनरूपमन्त्रोच्चारणस्य प्रभावेन संस्तम्भित निवारित घोरं कर्म क्रूरव्यापारः यस्य तथा । स निवृत्त्य विमुखीभूय महीभृतः कमस्य पर्वत. स्येति च । कोशमेव विलं गुहां प्रविवेश प्रविष्टवान् ॥ सत्या नु सा स्यादशरीरिणी वाक सत्यं किमतहसुदेववाक्यम् । वितर्कयन्नेवमुदस्तकेतुं पुरीं प्रपेदे मणितोरणाढ्याम् ॥ १९ ॥ सत्येति ॥ सा तदानीं श्रुता अशरीरिणी वाक आकाशवाणी सत्या पर. मार्था स्यान्तुं । एतत् वसुदेववाक्यं अप यानि समपीयध्ये इत्येवं रूपं सत्यं किम् । एव वितर्कयन् विकल्पयन् सः उदस्ता: उच्छिनाः केतवो यस्यां तां मणिमयेन तोरणेन बहिरेण । तोरणोऽस्त्री बहिदार नित्यमरः । आब्यां श्रेष्ठां पुरी प्रपेदे प्राप्तवान् ।। आलोकनैौलिषु भूपतीनां आसजयन्ननलिबन्धनानि ।

४ श्री कृष्णविलासकाव्ये सव्याख्याने स वैमनस्येन मुखस्थितेन भयावहः खं भवनं जगाम ॥२०॥ आलोकनैरिति । मुखस्थितेन मुखेन प्रकाशितेन वैमनस्येन दुःखेन भयावहः द्रष्टुणां भीतिमृत्पादयन् स: कंतः आलोकनैः भूपतीनां राज्ञां मौलिधु मकु. टाग्रेषु अअलिबन्धानि आमञ्जयन् आकलयन कुर्वनियर्थः । स्वं आत्मीयं भवनं -- जगाम गतवान ॥ ॥२०॥ ॥ २१ ॥ विशङ्कमानः स गृहोपकण्ठे तौ सद्मनि क्वापि विधाय गुप्तौ । पराक्रमाक्रान्तसमस्तलोक: पुरेवं भोगानयमन्वभुङ्क्त ॥ २१ ॥ विशङ्कमान इति ॥ अयं कंसः विशङ्कभावः शङ्कायुक्तः ती देवकीवसुदेवी गृहस्य उपकण्ठे समीपे क्वापि समान क्वचिन् गृहे गुप्तौ रमिती नियमितावित्यर्थः । विधाय कृत्वा पराक्रमेण आभभूतसवलेाकस्सन् पुरव यथापुरं भोगान् सुखसाधना. नि अन्वमुक्त अनुभूतवान् ॥ माया हरेस्साऽथ हिरण्यपुत्रान् यान्देवकीगर्भगतानकार्षीत् । भोजेश्वरः सत्वरमेत्य भीत्या तान् जातमात्रानवधीत् क्रमेण ॥ २२ ॥ मायेति ॥ अथ तदनन्तरं हरेः विष्णो माया योगनिद्रा सा यान् हिरण्य- पुत्रान् देवकीगर्भगतान प्रवेशितान् अकार्षीत् । जातमावान् परं जातानेव जननस- मय एवेत्यर्थः । तान् भांजेश्वरः कंसः भीत्या हेतुना सत्वरं एत्य अकुण्ठं गत्ला क्रमेष अवधीत् निहतवान् ।।

द्वितीयः सर्गः ।। जगद्विभूत्यै परमस्य पुंसः यो देवकीगर्भमविक्षदशः । आकृष्य तस्मान्मुरवैरिमाया तं रोहिणीगर्भगतं चकार ॥ २३ ॥ जगदिति ॥ परमस्य पुंसः हरेः योऽशो भागः जगतां विभूत्य सम्पद देवक्या गर्भमविक्षन प्रपेदे । मुरवैरिणः माया तस्मान् देवकीगीत् अ.कृष्य त अंशं रोहिण्या गर्भगतं चकार कृतवती ॥ चकास सप्तच्छदपाण्डरण सुतेन सा गर्भतिरोहितेन । वलाहकान्तर्हितशीतभानोः दिशो दशां वृत्रजितः प्रपन्ना ॥ २४ ॥ चकासति ।। सा रोहिणी सप्तच्छदवत पाण्डरेण धवलेन गर्भेण तिरोहितेन आच्छादितेन मुतेन हेतुना वलाहकैः मेघे: अन्तर्हितशीतभानोः तिरोहितचन्द्रायाः वृवाजतः दिशः पूर्वाशायाः दशां अवस्थां प्रपन्ना सती चकास दीप्यते स्म ॥२४॥ ततः समाहलादनमक्षिणानां असूत पुत्रं शरदन्दुिकल्पम्। प्रकर्षमापन्नुदयेन यस्य सद्यः समुद्रा इव सत्ववन्तः॥ २५ ॥ तत इति ॥ ततोऽनन्तरं सा ईक्षणानां दृशां समाइलादनं आनन्दकरं शर- दिनुकल्पं शरश्चन्द्रसहशे पुत्र अस्त प्रसूतवती । यस्य पुत्रस्य उदगेन जननेन इन्दुमक्षे

श्री कृष्णविलासकाम्ये सव्याख्याने
आविर्भावेन सत्ववन्तः प्राणिनः । ‘सत्वं प्राण गुणेऽपि चेति. वचनात् । समुद्रा
इव सद्यः तत्क्षणं सन्तोषं समुद्रपक्षे वृद्धि आपन प्राप्ताः ॥
पत्युः समादिष्टमिदं विधाय
शेषं चिकीर्षुः सुरकार्यमार्या ।
चराचराणां जगतां सवित्री
सा श्रद्दधे जन्मभुवं यशोदाम् ॥ २६ ॥
पत्युरिति ।। चराचराणां स्थावरजङ्गमानां जगतां सवित्री सेयमार्या माया
पत्युः समादिष्टं समादेशं भावे क्तः । विधाय कृत्वा शेष अवशिष्टं सुराणांकार्य चि.
कीर्षुः कर्तुमिच्छुः यशोदां जन्मभुवं आत्मन: जन्मभूमि श्रद्दये निश्चितवती ॥ २६ ॥
अथ प्रजानामभिवृद्धिकामो
देवो दयायाः किल जन्मभूमिः ।
वजन्मने जन्मविनाशहेतुः
प्राप्यः सतां प्रापस देवकी ताम् ॥ २७॥
अथेति ॥ अथ अनन्तरं दयायाः कृपाया: जन्मभूमिः उत्पत्तिस्थानं कि-
लेति प्रसिद्धी । देवः दिवु क्रीडेत्यादिना कीडाद्यार्थयुक्तः सः विष्णुः प्रजानां लो-
कवासिना अभिवादेकामः अभ्युदयपिछन् जन्मविनाशयोः हेतुः सतां सज्जनानां
प्राप्योऽभिगम्यः स्वजन्मने आत्मनननाय तां देवी प्राप प्राप्तवान् ।
कृशावलमा कुचयोर्गरिम्पा
सा देवकी सन्नतगात्रयष्टिः ।
॥२७॥

द्वितीयः सर्गः ॥ ॥ २८॥ जगत्त्रयीपुण्यकृतावलम्बा बभार गर्भण जगन्निवासम् ॥ २८ ॥ कृशेति ॥ कुचयोः गरिम्णा गुरुत्वेन सघता अवनता गातयष्टिः शरीर यस्याः । कृशावलमा कृशमध्या । सा देवकी जगत्त्रयीपुण्येन लोकत्रयवासिनां सुकृतेन कर्तृणा कृतावलम्बा कृताश्रया सती गर्मेण जगन्निवास बभार धृतवती । तादृशोऽवलम्बो न चेत् कथमेनं विभृयादिति भावः ॥ अन्तर्दधाना सरसीरुहावं खेनावतारेण भुवं पुनाना । सा देवकी सा च कवेरकन्या मिथोऽदधातामुपमानभावम् ॥ २९ ॥ अन्तरिति ॥ सरसीरुहा विष्णुं अन्तरुदरे दधाना वहन्ती अन्यत्र रग- नाथ मध्यभागे दधानेत्यर्थः । स्वन आत्मीयेन अवतारेण भुवि जननेन भुवं पुनाना पावयन्ती अन्यत्र प्रवाहात्मनाऽऽविर्भावेन । सा तथा प्रसिद्धा देवकी सा कवेरकन्या कावेरी च मिथः अन्योन्यं उपमानभावं औपभ्यं अदधातां धृतवत्यो । देवक्याः कावेर्युपमानं कावेर्या देवकी चेत्यर्थः ।। अलं निवासाय न यस्य विश्वं मुमुदे मुकुन्दः। परोपकारप्रभवं हि दुःखं पुंसः सुखायैव महत्तरस्य ॥ ३० ।। अलमिति ॥ यस्य मुकुन्दस्य निवासाय वस्तुं विश्वं ब्रह्माण्डकटाहः नालं न पर्याप्तम् । विश्वस्य तदुदरैकदेशपात्रगोचरत्वादिति भावः । सः मुकुन्दः गर्भ वसन् देवक्युदरे तिष्ठनपि मुमुदे जहर्ष । अर्थान्तरन्यासमाह- महत्तास्य लोको. ॥ २९॥ वसन् स गर्भ 7 भी कृष्णविलासकाव्य सध्याख्यान तरस्य पुंसः पुरुषस्य परोपकारात् भवतीति तादृशं दुःखं कृच्छ्रस्थितिः सुखाय सन्तोषायैव भवति । हि यस्मात् तस्मात् इतीदमुपपन्नमेवेत्यर्थः ॥ ॥३०॥ बहिः स्फुरन्त्या करपाञ्चजन्य- विषेव विष्णोरुइरस्थितस्य । अधत्त तस्यास्तपनीयवर्णा मधूकपुष्पच्छविमङ्गयष्टिः ॥ ३१ ॥ बहिरित ॥ तस्याः देवक्याः तपनीयवर्णा सुवर्णच्छविः अयष्टिः मधू- कपुष्यस्य मधुद्रुमकुसुपस्य 'मधुके तु गुडपुष्पमधुद्रुमा वित्यमरः । छविं शोभा पाण्डुच्छविमित्यर्थः । अधत्त दधार । अत्रोत्प्रेक्षते - उदरस्थितस्य विष्णोः बहि- र्भागे स्फुरन्त्या प्रकाशमानया करगतस्य पाश्चजन्यस्य विषा प्रभयेवेति । तस्याः पाण्डुवर्णत्वं उत्प्रेशाबीजम् ॥ बभार हारं कुचयोन तन्ती न पादयोनूपुरमामुमोच । दधौ मणि भारभिया न मौलौ तदेव कैवल्यमभूषयत्ताम् ॥ ३२ ॥ बभारेति ।। तन्वी देवकी भारात मिया भयेन हेतुना कुचयोः हारं मु. तागुणं न बभार न धृतवती । पादयोः नूपुरं मञ्जीरं नामुमोच न बबन्ध । मौलौ शिरसि मणिं चूडारलञ्च न दधौ न धारयामास । तत् कैवल्यमेव निरलङ्कारत्वमेव तां देवकी अभूयपत् अलञ्चकार । तदुक्तं अलङ्कारनिराकरणे कर्पूरमार्यो दुःखायिजे सा मुहुरिजे इसङ्कारा एव' इति ॥ दृश: प्रयत्नेन दधौ तिरश्ची- रुवाच मन्दं निभृतं. जहास । (0 द्वितीयः सर्गः ॥ ५९ ॥ ३३॥ शनैर्ययौ दत्तकरा सखीभिः भृशं निशश्वास च तावदेव ॥ ३३ ॥ दृश इति । सा देवकी दृशः कटाक्षान् प्रयत्नेन प्रयासेन तिरश्वीः दधौ तिर्यग्वर्तिनी: प्रहितवती । वामतः दक्षिणतश्चेत्यर्थः । मन्दं उवाच उक्तवती । निभृतं निश्शब्दं जहास हसितवती । सखीभिः दत्तकरा कृतहस्तावलम्बा शनैः ययौ सञ्चचार । तावता तावन्मात्रप्रयासनैव भृशं अत्यर्थ निशश्वास निश्वासं कृतवती । गर्भावसादोऽतिमहानिति भावः ॥ सहैव हर्षेण सुधाशनानां सहैव पुण्येन वसुन्धरायाः । भयेन भोजाधिपतेश्च देवः सहैव गर्भे ववृधे मुकुन्दः ॥ ३४ ॥ सहेति ॥ सुधाशनानां देवानां हर्षेण सहैव वसुन्धरायाः भूमेः पुण्येन तद्वासिनां सुकृतेन सहैव भोजाधिपतेः कंसस्य भयेन च सहैव देवः मुकुन्दः गर्भ देवकीजठरे ववृधे वृद्धिमगात् । हर्षादयोऽप्यासनित्यर्थः ॥ शिरोभिरूढेन वनस्पतीनां कलोपहारेण निवेदितदिः । गावृट् समासादितसूतिकालां तां देवकी द्रष्टुमिवाजगाम ॥ ३५ ॥ अथ वर्ष वर्ण -ति -- शिरोभिरिति ॥ प्रावट वर्षकालः वनस्पतीनां वृक्षाणां शिरोभिः शाखाप्रैःऊढेन धृतेन फलोपहारेण फलरूपेण प्राभृतेन निवेदिताद: जापितमम्पत सती आजगाम प्राप्ता । अत्रोत्प्रेचते - समासादितः सम्यक प्राप्त

५२
श्री कृष्णविलासकाव्ये सव्याख्याने
•.
सूतिकालः प्रसवसमयः यस्याः तां देवकी द्रष्टुमिवेनि । समृद्धिवती स्त्री तावन् आसन
प्रसवां स्वामिनी प्राभृतेन उपजुषते । तादृशलोकव्यवहारः इह उत्प्रेक्ष्यते ।। ३५ ।।
अथैकदेशा
इव वारिराशेः
उच्चैः पुरोमारुतविप्रकीर्णाः ।
वृतास्तटीविद्रुमवल्लरीभिः
विरेजिरे व्योमनि वारिवाहाः ॥ ३६ ॥
भथेति ॥ उच्चैः ऊर्य प्रसृतैः पुरोमानैः पौरस्त्यवातैः विप्रकीर्णाः
विक्षिप्ता वारिवाहाः मेघाः व्योमनि अम्बरे विरोजरे शुशुभिरे । अत्रोत्प्रेक्षते-
तारिद्भिरेव विद्रुमवल्लरीभिः प्रवाळलताभिः वृताः रोजेरे शुशुभिरे । बारिराशेः
समुद्रस्य एकदेशाः एकभागाः इवात । पुरो मारुतप्रेरण अस्याप्युपरिगमनहेतुः ।।
वलाहकबातभवैस्तमोभिः
दिनेषु दुर्बोधपुरःस्थितेषु ।
न कश्चिदासीदभिसारिकाणां
विद्युत्प्रकाशेन विनाऽन्तरायः ॥ ३७ ॥
बलाहकेति ॥ वलाहकबातभवैः मेघवृन्दोमुतैः तमोभिः दुर्बोधं वोदु.
मशक्यं पुरस्स्थितमपि वस्तु येषु तेषु । दिनेषु दिवसेषु आभसारिकाणां कान्त
अभिसृत्वरीणां स्त्रीणाम् । 'कान्तार्थिनी तु या याति सङ्कतं सामसारिक'त्यमरः ।
विद्युत्प्रकाशेन विना विद्युत्प्रकाशं वर्जयित्वा कश्चित् अन्तरायः विनः नासीत् ।
विद्युत्प्रकाशाहने अन्यः प्रत्यूहः नेत्यर्थः ॥
पयोदभस्त्रान्तरनिर्गतेन
झात्कारिणा चण्डसमीरणेन ।
॥ ३७॥

द्वितीय. सर्गः।
वियोगिनां चेतसि मेधकालः
सन्धुक्षयामास मनोभवाग्निम् ॥ ३८ ॥
पयोदेति ॥ मेघकाल: प्रावृट्कालः वियोगिनां विरहिणां चेतसि यः
मनोभवामिः कामानिः तं पयोदानामेव भत्राणाम । भला चर्मनिर्मितमनिसन्धु-
धणसाधनम् । अन्तरात् विवरात निर्गतेन निस्सृतेन झात्कारिणा झादिति
शब्दवता चण्डसमारणेन चण्डानिलेन सन्धुपयामास वलयामास ॥ ३८ ॥
स्मरेण लोकत्रितयेश्वरेण
सम्भाविताज्जीवितनिर्विशेषम् ।
ऋतोर्वसन्ताजलदागमस्थ
जहार जातिनिखिलं निकर्षम् ॥ ३९ ॥
स्मरेणेति ॥ जलागमस्य मेघकालस्य लोकत्रितयस्य ईश्वरेण ।
तस्य तदधीनत्वात् । स्मरेण जीवितनिर्विशेषं जीवितसदृशं सम्भावितात् सम्यक
बहुमतात् वसन्तात् सुरभिसमयात् सकाशात् निकषै निर्गमभावम् । वसन्तात्
अश्विः तदितरर्तव इति न्यक रस्य विषयभूतत्वात् जात अवमानं सर्व जातिः
माळतीलता जहार शमयाश्चकार
निखिलपुराभिपुषोत्तंसमृता जाति:
तत्कालजन्ये अतिप्राकृट्काले अधिक बहुमानपात्रं अभूदित्यर्थः । जातिमहत्त्वमेव
इतरगुणेभ्यः गरीयस्तरमिति च ध्वन्यते ॥
बलाद् गृहीता इव वैतसीभिः
शाखाभिरारूढमदा इवोच्चैः ।
परिस्खलन्त्यो निखिलास्तटिन्यः
जग्मुर्जवादुइटफेनहासाः ॥ ४० ॥

श्री कृष्णविलासकाव्ये सव्याख्याने , ॥४०॥ बलादिति । निखिला: तटिन्यः नद्य वैतसीभिः वेतससम्बन्धिनीभिः शाखाभिः विटपैः बलात् हठात् गृहीता अपि आरूढमदा इव आत्तगन्धा इव उच्चैः भृशं स्खलन्त्यः ग्रहणसम्भ्रमात् भूमिषु स्खालेतपादचारं गच्छन्त्य इवेत्यर्थः । उद्भटः उद्विक्त: फेन एव हास: यासां ताः । तथा सद्य: जवान शीघ्र जग्मुः प्रसृताः । अत्र अनभिमतैः भटैः बलात् गृहीतानां तान् अवधूय पलायमानानां समाधिः उदारसौरभ्यवशीकृतानां अन्वीयमानः पठलैरलीनाम् । अकल्पयत् केतकमातरिश्वा मनोभवस्यापि मनोविकारम ॥४१॥ उदारेति ॥ उदारेण उत्कृष्टेन सौरभ्येण वशीकृतानां अधीरता नीतानां अलीनां भृक्षाणां पटलैः समूहै : अन्वीयमानः अनुगम्यमानः केतकस- म्बन्धी मातरिश्रा पवन: मनोभवस्य मन्मथस्यापि मनसः विकारं अकल्पयन् चकार । किं पुनः अन्येषामिति भावः ॥ अत्यम्बुपानप्रभवस्य कर्तु- मन्तर्जडिम्नः प्रतिसंविधानम् । पपुस्तिरस्कारपदेन सेघाः मयूखमालामरविन्दबन्धोः ॥ ४२ ॥ अतीति ॥ मेघाः अत्यम्बुपानप्रभवस्य अतिशयेन जलपानात् उद्भू- तस्य अन्तर्जडिम्नः अन्तर्जाव्यस्य प्रतिसविधानं प्रतिक्रियां कर्नु अरविन्दवतो. सूर्यस्य मयूखमालां रश्मिपालां तिरस्कारपदेन विरस्कार इति व्याजेन पपुः पिन स्म । तिरस्कारः निहवं तद्वाचकशब्देन पानमेवोच्यत इत्यर्थः । तदानी सकि णाः कापि नादृश्यन्त इति तात्पर्यम् ॥ ४१ ॥ ॥

द्वितीयः सर्गः ॥
५५
रराज खजूंरफलप्रकाश
नवं पयः काननपल्वलेषु ।
पयोदवृन्दैः परिपीय मुक्तं
प्रभाकरस्येव मरीचिजालम् । ४३ ॥
रराजति ॥ कानने यानि पखलानि अल्पसरांसि । 'वेशन्तः पल्व.
लचाल्पसर' इत्यमरः । तेषु ख—रस्य फलमिव प्रकाशः यस्य । पाटलवर्ण-
मित्यर्थः । तादृशं नूतनं पयः जलं रराज शुशुभे । अनात्प्रेक्षते - पयोदाना
वृन्दैः परिपीय पीत्या पुनः मुनं प्रभाकरस्य अर्कस्य । अर्थात् बालारय ।
मरीचिजालं रश्मिकदम्बमिवेति ॥
महीभृतां मूईसु दत्तपाद
विलोक्य मित्रं विहतप्रतापम् ।
मग्ने जले मर्तुमिवारविन्दे
मधुव्रताश्चक्रुशुरन्तरिक्षे ॥४४॥
महीभृतामिति ॥ महीभृतां पर्वतानां राज्ञामिति च स्फुरति । मुसु
इत्तपादं निहितकिरणं निक्षिप्तचरणश्च मित्रं सूर्य मुहृदश्च विहतप्रतापं विगतोष्माण
वेगतपसक्रमश्च विलोक्य मर्तुमिव शरीरं त्यक्तुमिव अरनिन्द पने जले पयसि
पग्मे अन्तर्हिते सति मधुव्रताः भृङ्गाः अन्तरिसे वियति स्थित्वात शेषः । चुकुशुः
शङ्कारं चक्रुः । अत्र राज्ञः विपनिमालोक्य मर्तुकाम तदुपजीविनि कस्मिंश्रित्
दुपजीविनामाक्रन्दः समासेनोच्यत इति समासोक्तिः ॥
निषेव्य हंसा मधुरैर्वचोभिः
पद्माकर लब्धसमीहितार्थाः
.
॥४४ ॥

श्री कृष्णविलासकाव्ये सब्यास्थाने
सद्यो ययुस्तस्य विपत्तिकाले
जलाशयानां प्रकृतिः किलषा ॥ ४५ ॥
निषेव्येति ॥ हंसाः मधुरै. मनोहरैः वचोभिः नादैः पनाकर निषेव्य
आहत्य लब्धसमीहितार्थाः प्राप्तवान्छितकार्यार्थाः । निसांकुरभोजनादिनेत्यर्थः ।
तस्य पाकरस्य विपत्तिकाले सलिलविमानसमये सद्यः तत्क्षणमेव ययुः मानसं
सरः प्रति गताः । जलाशयानां मन्दबुद्धीनां प्रकृतिः स्वभावो ह्येषा किल ईदृशीति
प्रसिद्धम् । दुर्जना एवं स्वार्थसाधकं जनं आपदि त्यजन्तीत्यर्थः । वस्तुतस्तु
जलमाशयमाश्रयो येषां इति जलपविणां प्रकृतिः एषा । स्वानुभवश्वे ततो
यान्तीति भावः ॥
प्ररूढसस्याः फलमूलशाकैः
निरन्तराः स्वादुनवोदकाढ्याः ।
पल्लीजुषां चेतसि पामराणां
धृति परामादधिरे बनान्ताः
॥ ४६॥
प्ररूंढेति ॥ प्ररूढानि कर्षणबीजावापाद्यनपेक्षं स्वयमेव संरूढानि
सस्यानि ब्रीहिश्यामाकादीनि येषु । फलैः मूलैः शिग्रुपलवादिपवव्यञ्जनपदार्थेश्व
निरन्तराः पूर्णा' । स्वादुभिः नवोदकैः नूतनजलैः आन्याः समृद्धाः वनान्ता:
वनप्रदशाः पलीजषां कुटीवासिनां पामराणां फिरातनीचजातीनां परां अत्यर्थे धृति
आदधिरे चक्रुः ॥
समुन्मिषन्ती गिरिमल्लिकानां.
प्रसूनराजिः सुतरां विरेजे ।
मुक्त्वा नभो मेघविमर्दभीत्या
नक्षत्रमालेव गता परिवीम् ॥ १७ ॥

द्वितीयः सर्गः॥ .. समुन्मिषन्तीति । गिरिमल्लिकानां कुटजानाम् । 'कुटजो गिरिमालिके'त्य. मरः । समुन्मिषन्ती सम्यग्विकसन्ती प्रसूनराजि: कुसुमपङक्तिः सुतरां भृशं विरेजे शुशुभे । अतोत्प्रेक्षा-मेघानां विमर्दात् सम्बन्धात् भीत्या भयेन नभः आकाशं मुक्त्वा त्यक्त्वा धरित्रीं गता भुवं प्राप्ता नक्षत्राणां माला राजिरिवेति ॥ ४७ ॥ धारालजीमूतकृतान्धकारे तस्मिन्नपर्यन्तजडिम्नि काले। अलक्ष्यमाणः क्वचिदंशुमाली दिवाऽप्युवासेव तनूनपाति ॥ ४८ ॥ धारालेति । धारालैः धारावद्भिः जीमूतैः मेधैः कृतोऽन्धकारो यस्मिन् तस्मिन् अपर्यन्तोनवधिः जाडमा जाड्यं यस्मिन् तादृशे काले क्वचित् कुत्रापि अ- लक्ष्यमाणः न लक्ष्यमाणः हेतुगर्भविशेषणम् । अलक्ष्यमाणत्वादित्यर्थः । अंशुमाली सूर्यः दिवाऽपि दिवसेऽपि तनूनपात्यनौ उवास स्थितवानिव । रात्री अमौ अवस्था नं प्रसिद्धमेव । तथा च रघुवंशे -'दिनान्ते निहितं तेजस्सवित्रेव हुताशन' इति । अत्र तु न केवलं तेजोनिधानं अपि तु स्वयमेव सूर्यः दिवानिशं अमौ तिष्ठतीवे. त्युत्प्रेक्षा॥ इति प्रवृत्ते समये घनानां मासे नभस्ये निशि मध्यमायाम् । मणे शुभाख्यायिनि च ग्रहाणां देवक्युवाह प्रसवाभिमुख्यम् ॥ ४९ ॥ इतीति ॥ इत्युक्तप्रकारेण धनानां समये प्रावृषि प्रवृत्ते प्राप्ते सति नभस्ये प्रौष्ठमदे मासे मध्यमायां निशि अर्धरात्रे महाणां गणे सूर्यादीनां समूहे शुभं आख्या- ५८ श्री कृष्णविलासकाव्ये सव्याख्याने ॥४९ ॥ . तुं आविश्कर्तुं शीलं येषां इति तथाभूते च देवकी प्रसवे आभिमुख्यं आसनकालत्वं उताह धृतवती॥ हरत्सु बाह्यं भुवनस्य तापं प्रावृटुप्रसूतेषु वलाहकेषु । असूत तस्यान्तरतापशान्स कृष्णांबुवाहं कृपयेव देवी हररिस्वति ॥ प्रावृषा प्रसूतेषु जानतेषु बलाहकेषु मंधेषु भुवनस्य पायं बहिर्गत तापं सन्तापं हरत्सु अपनयत्सु सत्सु देवी देवकी कृष्णमेवांबुवाहं असूत अजनयत् । अत्रोत्प्रेक्षा- तस्य भुवनस्य अन्तरे अन्तर्भाग मनास उद्भूतस्य तापस्य दुःखस्य शान्त्यै शमनार्थ कृपया कारुण्येन हेतुना असूतेवात दिशः प्रसेदुः सह निम्नगाभिः जहर्ष लोकेन सहाम्बुराशिः। जाते मुकुन्दे मुमुचुश्च सद्यः भयेन देवा:सह पुष्पवृष्टिम् ॥ ५१ ॥ दिश इति । मुकुन्दे जाते प्रादुर्भते सति दिशः निम्नगाभिः नदीभिस्सह प्रसेदुः प्रसन्ना । निम्नगानां प्रसन्नत्वं शुचिजलत्वम् । लोकेन जनेन सहांबुराशिः जहर्ष हृष्टः । अम्बुराशेः हर्षः वृष्टिः । देवाः सद्यः तरक्षणं भयेन भीत्या कंसादि- भ्यस्त्रासेन सह पुष्पवृष्टिं मुमुचुः मुक्तवन्तः । भयमपि त्यनवन्त इत्यर्थः ॥ ५१ ॥ मनोभिरामेण मधुव्रतानां नादेन शंसन्निव दिष्टवृद्धिम् । . ..

द्वितीयः सर्गः॥ ५९ - चचार वायुःसुमनोंऽशुकानि सम्प्राप्य सम्प्राप्य महीरुहेभ्यः ॥ ५२ ॥ मन इति ॥ वायुः मनोभिरामेण मनोहरेण मधुव्रतानां भृक्षाणां नादेन झङ्काररवेण दिष्टवृद्धिं देवक्याः पुत्रसम्भवेन दिव्या वर्द्धस्वेति । शंसन्निति हेतौ शतप्रत्ययः । शसनाद्धेतोरिवेत्यर्थः । महीरुहेभ्यः वृक्षेभ्यः सकाशात् सुमनसः पु- प्पाण्येव अंशुकानि सम्प्राप्य सम्प्राप्य लब्ध्वा वृश्चेभ्यः पूर्णपत्रमाहत्येवेत्यर्थः । च- चार मन्दमवीजयत् ॥ व्यजृम्भत प्रस्फुटशखनाद: तारेण गीतध्वानना विमिश्रः । ससरनुवानः ककुभां मुखानि दिवौकसां मङ्गलतूर्यघोषः व्यजृम्भतेति। दिवौकसां देवानां मङ्गलार्थः यः तूर्याणां दुन्दुभीनां घोषः रखः सः प्रस्फुटशङखनादः प्रव्यक्तशङ्खध्वनिः तारेण उच्चेन गीतवानना गानर, वेण विमिश्रः संकुलः ककुभां दिशां मुखानि सम्यगश्नुवान: प्राप्नुवन् सन् व्यजम्भत व्यवृधत् ॥ त्रपामपास्यन् विनयं विलुम्पन् नीति निगृह्णन् भयमाशु भञ्जन् । शरीरिणामच्युतजन्मजन्मा मोदो जजृम्भे मदनिर्विशेषः ।। ५४ ॥ त्रपेति । शरीरिणां सुरनरादिप्राणिनां अच्युतस्य जन्मनः जननात् जन्म समुद्भवः यस्य तादृशः भगवदवतारहेतोः उद्भूत इत्यर्थः । मोद- हर्षः मदेन म. द्यपानमदन निर्विशेषः सदृशः जजम्भे जम्भितः । तत्सादृश्यमेव चतुर्भिः विशे- .

६०
श्री कृष्णविलासकाव्ये सव्याख्याने
पणैः उपपादयति-त्रपां लजां अपास्यन् त्यजन् विनयं अन्तश्शमं विलुम्पन् वि.
रिन्दन् नीतिं नयं निगृह्णन् निर्मूलयन् भयं भीतिं आशु भजन निराकुन्निति ।
सर्वत्र हेतौ शता। त्रपात्यागात् । उभयत्र समानः ॥
आषाढिनं पाणिमुदस्य दूरं
ब्रह्मर्षिलोकः पतदुत्तरीयः ।
ननर्त पर्याकुलपादचारः
प्रहस्यमानः सुरसुन्दरीभिः
तदेव प्रपञ्चयति -आषाढिनमिति ॥ ब्रह्मर्षीणां वसिष्ठादीनां लोकः
समूहः आषाढः दण्डः तद्वन्तं 'पालाशो दण्ड आषाढ' इत्यमरः । 'पाणिं दूरं उच्चैः
उदस्य उक्षिप्य पतदुत्तरीयः प्रभ्रश्यदुपरिवत्रः पर्याकुलपादचारः परिस्स्वलितपदवि.
न्यासः तालादिविकृतत्वान् अक्रमनिक्षिप्तपादः अत एव सुरसुन्दरीभिः अप्सरीभिः
प्रहस्यमानः तथा सन् ननर्त वृत्तं चकार ।
शृङ्गोज्झितैः कुंकुमशरिपूरैः
अन्योन्यमभ्युक्षणतत्पराणाम् ।
प्रमोदजन्मा दिवि सम्बभूव
कोलाहल: कोऽपि सुधाशनानाम् ॥
शृङ्गेति ॥ शृङ्गैः उज्झितैः उत्क्षिप्तैः कुंकुममिश्रितैः वारपरैः जलसमृहै:
अन्योन्यं इतरेतरं अभ्युचणे मार्जने तत्पराणां प्रवृत्तानां सुधाशनानां इन्द्रादिदेवानां
दिवि स्वर्ग प्रमोदात् हर्षात् जन्म उद्भवः यस्य तादृशः कोऽयानूर्वचनीयः कोला.
हलः उत्सव इति यावत् । सम्बभूव सम्भूतः ।।
पितुंश्च पुत्राः पितरश्च पुत्रान्
गुरूंश्च शिष्या गुरवश्व शिष्यान् ।
..

द्वितीयः सर्गः।। ६१ पतींश्च दाराः पतयश्च दारान् प्रमोदमत्ताः सिषिचुः पयोभिः ॥ ५७ ॥ पितृनिति ॥ अस्मिन् श्लोके तु पुत्रादयः पित्रादीन् प्रमोदेन मत्ताः मदं प्रापिता:सन्तः पयोभिः सिषिचुः सेचितवन्तः ।। असिञ्चदम्भोरुहयोनिरिन्द्र तं पङ्कजावासमसिञ्चदिन्द्रः। असिञ्चतां द्वौ विबुधानशेषान् सर्वे सुरास्तौ च बलादसिञ्चन् ॥ ५८ ॥ असिञ्चदिति ॥ अम्भोरहयोनिः ब्रह्मा इन्द्रं आमञ्चन् जलेनाम्युचितवान् । स च एनामिति वक्तव्यासत्यादि प्रपश्चार्थम् । परजावासं तं पङ्कने स्थितमेव । अतोऽभ्युक्षणेऽवस्थितेऽपि ब्रह्मणः दुस्थितत्वं सूचितम् । तौ ब्रह्मेन्द्रौ अशेषान् स- वान विबुधान् असिञ्चतां सिक्तवन्तौ । ते चैताविति सिद्धे सर्वत्र प्रपश्चार्थम् । आस्मिन् पूर्वश्लोके हर्षातिशयादेव गुरुशिष्यत्वस्वामिभृत्यत्वादि सर्व विस्मृतमिति व्यज्यते ॥ मिथः पयोभिरिसषिचुर्विनेदुः ववल्गुरुच्चिक्षिपुरम्बराणि । अन्योन्यमसेन सुदूरमुहुः मत्ता इव स्वर्गसदो वभूवुः ॥ ५९ ॥ मिथ इति ॥ स्वर्गे सन्तीति स्वर्गसदः देवाः मत्ताः शीवा इव बभूवुः । मदभावमेवाह ---.पयोभिः मिथः अन्योन्यं सिषिचुः सिक्तवन्तः । विनेदुः नाद चक्रुः । ववल्गुः जहर्षुः । हृष्टाः अम्बराणि वसनानि उञ्चित्रिपुः ऊर्व अत्यथै वि. प्तवन्तः । अन्योन्यं असेन स्कन्धेम सुदूरमुहुः दीर्घमध्वानं धृत्वा संचेकरित्यर्थः ॥ .. -- ६२ श्री कृष्णविलासकाव्ये सव्याख्याने त्रिलोकनाथोदयसम्भवेन मोदेन पर्याकुलमानसानाम् । गीते च नृत्ते च सुराङ्गनानां बभूव ताळस्खलितं न दोषः। ६० ॥ वित्रलोकनाथेति । त्रिलोकनाथस्य विष्णोः उदयात् उद्भवात् सम्भवः उत्पत्तिः यस्य तादृशेन मोदेन हर्षेण हेतुना पर्याकुलं परवशं मानसं यासां सुराग- नानां गीते गाने नृत्ते नर्तने च तालस्य स्खलितं भ्रंशः दोषः न बभूव दोष वेन नाभूत् ॥ ।। ६०॥ शृङ्गोदकास्फालनरक्तनेत्राः विच्छिन्नहाराश्च्युतकर्णभूषाः। प्रहाससीध्वनिभिर्वचोभिः समालपन्तो विबुधा विजद्दुः ॥ ६१" शृङ्गति ॥ शृङ्गोद कै. यदारफालनं प्रहारः तेन हेतुना रक्ते नेत्रे येषां ते । विच्छिन्नाः हाराः मौक्तिकस्रजः येषाम् । च्युतकर्णभूषाः गलितकर्णाभरणा: विबुधाः देवाः प्रहासेन उच्चहासेन सीदन्तः क्षीणशनित्वात् अस्पष्टाः ध्वनयः येषां तैः व. चोभिः समालपन्तः सम्भाषमाणासन्तः विजहुः क्रीडितवन्तः ॥ जाते हरौ दैत्यविमर्दनेन विश्वम्भराभारमपाचिकीर्षों मुनेः प्रहर्षः कलहप्रियस्य जगत्प्रहर्षश्च समाक्भुताम् ।। ६२॥

द्वितीयः सर्गः॥
:
६३
३
जात इति ॥ दैत्यानां अमराणां विमर्दनेन विमथनेन कारणेन विश्वम्भ-
राया: भूमेः भारं अपाचिकीर्षों निराकर्तुमिच्छौ हरौ विष्णौ जाते अवतीणे सति
कलहप्रियस्य मुनेः नारदस्य प्रहर्षः प्रमोद जगतां जगत्त्रयवासिनां प्रहर्षश्च समौ
तुल्यावभूताम् । अत कारणदृष्ट्या नारदस्य कार्यदृष्ट्या जगतश्च प्रहर्ष इति द्रष्टव्यम् ।।
इति प्रहर्षाकुलितैमनोभिः
विशृङ्खलं क्रीडति देहिवर्गे।
कंसः सभृत्यः प्रतिपद्य मूछी
निद्राभिधानां न किमप्यबोधि ॥ ६३ ॥
इतीति ॥ इति एवंप्रकारेण देहिनां वर्गे गणे प्रहर्षेण आकुलितैः परवशी-
कृतैः मनोभिः विशृङ्खलं अविघ्नं यथा तथा क्रीडति सति सभृत्यः भूत्यैरसहितः
कंसः निद्रेत्यभिधानं यस्यास्सा तां मूी मोहं प्रतिपद्य प्राप्य किमपि नाबाधि
न बोधितवान् ।
श्यामं चतुर्बाहुमुदारहारं
किरीटिनं कुण्डलदीप्तगण्डम् ।
पिताऽपि माता च विलोक्य पुत्रं
आनन्दमग्नौ विवशावभृताम् ॥ ६४ ॥
श्याममिति ॥ पिता वसुदेवश्च माता देवकी च श्याम श्यामलवणे चतु.
बाहुं चतुर्भुजं उदारहारं उत्कृष्टमुक्तागुणालंकृतं किरीटिनं कुण्डलाभ्यां मकरकुण्ड.
लाभ्यां दीप्तौ गण्डौ कपोलौ यस्य तादृशं पुत्र कुमार विलोक्य आनन्दे हर्षाम्बुधौ
ममौ विवशौ अस्वस्थावभूताम् । भगवदर्शनेन आनन्दपरवशौ बभूवतुः ॥४॥

श्री कृष्णविलासकाव्ये सव्याख्याने . नियम्य हर्षोदयपारवश्यं तं देवकीजानिरुवाच वाचम् । प्रसीद भीतोऽहमतीव कंसात् इदं तु रूपं प्रतिसंहरेति ॥६५॥ नियम्यति । देवकी जाया यस्य देवकीजानि. वसुदेवः होंदयेन प्रमो. दोद्भवेन यत् पारवश्यं परवशता तत् नियम्य निगृह्य भगवन्तं प्रति हे भगवन् प्र- सीद प्रसादं कुरु । अहं कसात् मकाशात् अतीव अत्यर्थ भीतः त्रस्तः भवामीति शेषः । इदं दृश्यमान रूपं विष्णुस्वरूपं प्रतिसंहर परित्यज । इति एवंप्रकारं वाचं उवाच उत्तवान् । तत्प्रेरितस्तल्पगतं कराभ्यां तमाददे कल्पितबालभावम् । तयोः शयानः करयोः स तस्य प्रकाममप्रीयत पद्मनाभः तदिति ॥ कल्पितबालभावं प्राप्तकिशोरभावं तल्पगतं पर्यवशायिनं विष्णु तत्प्रेरितः तेन विष्णुना प्रेरितः नियुक्तः सः वसुदेवः कराम्यां आदते. गृहीतवान् । पद्मनामः वैकुण्ठः तस्य वसुदेवस्य तयोः तागुच्चावकाशयोः करयोः करतलयोः शयान: प्रकाम आधिक अप्रीयत प्रीतो बभूत । पूर्व अतिविशालशेषशयने शयानस्य विश्वम्भरस्य तथा संकुचितस्थानशयनमपि प्रीतिकरमित्याचार्यमेतदिति ॥६६॥ अशेत यः प्राग्वटपत्रमध्ये लोकानशेषानुदरें दधानः ।

द्वितीयः सर्गः॥
६५
विना तपोभिः किमु तस्य सिध्येत
तत्पाणियुग्मे शयनं मुरारेः ॥ ६७ ॥
अथ वसुदेवस्य भाग्यातिशयं प्रशंसन्नाह --- अशेतेति ॥ यः मुरारिः प्राक्
पूर्व प्रलयकाले अषान् लोकान सर्वभूवनानि उदरे दधान' धारयन् वटपत्रस्य
न्यग्रोधपत्रस्य मये अशेत शयितवान् । तस्य मुरारः तत्पाणियुग्मे तस्य वसुदेवस्य
शयनं कर्म तपोभिः विना जन्मान्तरकृतः बहुभिः तपोभिः विना सिध्येत् किम
कथं सिध्यति । तपसा विना न सि येदित्यर्थः ॥
॥६७॥
तमालनीलेन तमोभरेण
निपीडिताशावलये निशीथे ।
आदाय पङ्केहलोचनं तं
सद्यः स निर्गत्य गृहात् प्रतस्थे ॥ ६८ ॥
तमालेति ॥ स: वसुदेवः तमालवन् तापिन्छवत् नीलेन तमोभरेण
तमस्सगृहेन निपीडितः निरुद्धः आशावलयः दिक्चक्रं यस्मिन् तस्मिन् निशीथे
अर्द्धरात्रे पडूहलोचनं विशाललांचनत्वात् मनोभिरामं तं कृष्णं आदाय गृहीत्वा
सद्यः तत्क्षणं गृहात् निर्गत्य भवनादबहिः अवतीर्य प्रतस्थे प्रस्थितवान् ॥ ६८ ॥
निवार्य वर्षोदकमात्मनैव
प्रकाश्य मार्ग फणरत्नभामा ।
उपायमुक्त्वा वसुदेवकर्णे
शेषंसिषेवे बहुधैव विष्णुम् ॥६५॥

श्री कृष्णविलासकाव्ये सव्याख्याने निवार्येति ॥ शेषः अनन्तः वर्षोदकं वर्षजलं आत्मना स्वशरीरेणैव निवार्य निरुध्य फणरलानां भासा दीप्त्या मार्ग प्रकाश्य वसुदेवस्य कर्णे उपायं एवं कर्तव्यमिति कार्यशरीरमुक्त्वा । अतिरहस्यत्वात् कर्णे कथनमिति द्रष्टव्यम् । बहुधा बहुप्रकारेण विष्णु सिवे सेवितवान् वर्षवारणमार्गप्रदर्शनोपायकथनादि सर्व विष्णुसेवनमित्याशयः॥ पुरात् स निर्गत्य पुमांसमाचं वहन् वहन्तीं यमुनामपश्यत् । कूलङ्कषौघाऽपि कलिन्दकन्या तदीयगुल्फद्वयसोदकाऽभूत् ॥ ७० ॥ पुरादिति ॥ आद्यं पुमांसं वहन् धारयन् सः वसुदेवः पुरात् निर्गल्य निर्णय वहन्ती प्रवहन्ती यमुना कालिन्दी अपश्यन् दृष्ट्वान् । कालन्दकन्या कुलपौधाऽपि तीरातिक्रान्तप्रवाहाऽपि तदीय गुल्फद्यसोदका वसुदेवगुल्फप्रमाणमु- दकं यस्याः तथाऽभूत् ॥ उत्तीर्य तां तत्तटसंश्रितानां दातुं करं वार्षिकमागतानाम् । बजौकसां नन्दपुरोगमानां प्रीतो निवेशं सहसा विवेश ॥.७१ ।। उत्तीर्येति ॥ तां यमुनां उत्तीर्य उलथ्य सः वसुदेवः वार्षिक वर्षे भवं करं बलिं दातुं कसायापयितुं आगतानां मधुरापुरं प्रत्यागच्छतां तस्याः यमुनाया: तट आश्रितानां सम्यक् पटकुटीबन्धेन आस्थितानां नन्दः पुरोगमः प्रधानभूतः येषां तेषां व्रजौकसां घोषवासिनां निवेशं स्कन्धावारं प्रीतः सन्तुष्टस्सन् सहसा विवेश प्रविष्टवान् ॥ ८ ॥ ७१ ॥ ८ द्वितीयः सर्गः ॥ ६७ ॥ ७२ ॥ प्रविश्य जानन्निव नन्दगोप- निवेशनं सुप्तशरीरिवर्गम् । सुतां प्रसूय प्रतिपन्ननिद्रा ददर्श तद्धर्मवधूं यशोदाम् ॥ ७२ ॥ प्रविश्येति ॥ सः वसुदेवः सुप्तः निद्रां प्राप्तः शरीरिवर्गः देहिसमूहः यस्मिन् तत् । नन्दगोपस्य निवेशनं निलयं जानन्निव तत्र परिचित इव प्रविश्य दैवात् अन्वेषणं विनवासाद्येत्यर्थः । सुतां प्रसूय प्रतिपन्ननिद्रा प्राप्तनिद्रा तस्य नन्दगोपस्य धर्मवधू धर्मपत्नी यशोदां ददर्श दृष्टवान् ॥ तं शाययित्वा शयने तदीये •. कन्यां समादाय निपत्य गच्छन् । शुश्राव पुत्रोदयहर्षमूलं कोलाहलं गोपवधूजनानाम् ॥ ७३ । तमिति ॥ सः वसुदेवः तदीये तस्याः यशोदायाः सम्बन्धिान शयने तल्पे तं बालं शाययित्वा शयितं कृत्वा कन्यां यशोदापुत्री आदाय गृहीत्वा निपत्य गच्छन् सन् पुत्रोदयेन पुत्रजननेन यः हर्षः तन्मूलं तद्धतुकं गोपवधूजनानां कोला- हलं आनन्दकलकल शुश्राव भुतवान् ॥ करेण कन्यां मनसा च पुत्रं वहन मुहूर्तेन विलय मार्गम् । विशङ्कमाविश्य गृहं गृहिण्याः निधाय बालां शयने स तस्थौ ॥ ७४ ।।

६८ श्री कृष्णविलासकाव्ये सव्याख्याने ॥ ७४ ॥ करणेति ॥ स. वसुदेवः करेण कन्यां पुत्री मनसा पुत्रश्च वहन् पुत्रमेव चिन्तयन्नित्यर्थः । मुहूर्तेन वेगेन मार्ग विलय अतिक्रम्य गृहिण्याः देवक्याः गृहं विशङ्ख आविश्य प्रविश्य रात्रावेत तत्रागमनं शङ्काभावहेतुः । बालां कन्या शयने पत्नीतल्पे निधाय स्थापयित्वा तस्थौ स्थितवान् । सा चञ्चरीकखनसन्निन नादेन लोकस्य मनो हरन्ती । रुरोद किञ्चिद्विवृतेन बाला स्फुटत्पयोजाकृतिना मुखेन ॥ ७५ ॥ संति ॥ बाला कन्या चवरीकस्य भृङ्गस्य स्वनेन नादेन सन्निभेन सदृर्शन लादेन करणन लोकस्य जनस्य मनोहरन्ती हृदयमाकर्षन्ती सती किनिदि- वृतन अत एव स्फुटत्पयोजाकृतिना विकसत्पङ्कजाकारेण मुखेन सरोद रुदितवती ।। आकर्ण्य बालध्वनिमस्तनिद्राः प्रधाव्य रक्षापुरुषा जवेन । प्रबोध्य यत्नेन पतिं पृथिव्याः शशंसुरस्मै भगिनी प्रसूताम् ॥ ७६ ।। आकण्येति ॥ बालध्वनि शिशुक्रन्दितं आकर्ण्य अस्तनिद्राः विगतनिद्राः रक्षापुरुषाः रक्षार्थनियुक्ताः भटा जवेन शिव प्रधाव्य पृथिव्या. पतिं कसं यत्नेन कथञ्चित् प्रबोध्य प्रबोधं गमायित्वा अस्मै कंसाय भगिनी देवहीं प्रस्तां प्राप्तप्रसवां शशंसुः न्यवेदयत् । सद्य: समागत्य स तत्र दृष्ट्वा बालाममर्षेण विमर्शशून्यः।

द्वितीयः सर्गः । ६९ ॥ ७७॥ वत्रा निषिद्धोऽपि वधाभिलाषी जग्राह तस्याश्चरणौ कराभ्याम् ॥ ७७ ॥ सद्य इति ।। सः कंसः सद्यः ,ण समागत्य तत्र सूतिकागृहे बालों कन्यां दृष्ट्वा अमण कोपन हेतुना विमर्श शून्यः निर्विचारस्सम् स्वस्रा भागन्या निषिद्धोऽपि काय व.र मनां मा वरिति वारितोऽपि वधाभिलाषी निग्रहेछुस्सन् कराभ्यां तस्याः बालायाः चरणौ जग्राह गृहीतवान् । उदस्य दूरं तरसा करेण चिक्षेप तां दुर्मतिरश्मपृष्ठे । महीमयातैव दिवि स्थिता सा जज्वाल धाम्ना जगतां सवित्री ॥ ७८ ॥ उदस्यति ॥ दुर्मतिः दुर्बुद्धिः स. कंसः तो कयां करेण दूर अत्यर्थ उदस्य उरिक्ष य अश्मपृष्ठ शिलोपरि चिक्षेप क्षिप्तवान् । जगतां सवित्री लोकमाता सा माया महीं भूमि अगाव अप्राप्तव दिवि व्याम्नि स्थिता सती धाम्ना स्वरूपेण जवाल दीप्ता बभूव । ततः करैस्तामरसप्रकाशैः सा मन्दमान्दोलितशस्त्रजाला। विलोक्य तं विह्वलचित्तवृत्ति जगाद वाचं जगदेकमाता ॥ ७९ ॥ तत इति ॥ ततः अनन्तरं जगतां एकमाता मुख्यजननी सा माया तामरसप्रकाशः पद्मसदृशैः करैः मन्दं यथा तथा आन्दोलितं आधृतं शस्त्रजालं ७० श्री कृष्णविलासकाव्ये सव्याख्याने शूलासिशरचापाद्यायुधसमूहः यथा सा तथा सती विह्वलचित्तवृत्ति विवशहृदयं तं कंसं विलोक्य वाचं वक्ष्यमाणप्रकारां जगाद उक्तवती ॥ ॥ ७९ ॥ त्वमग्रहीमच्चरणौ रुषाऽपि प्रायः फलं तस्य न हन्मि यत्त्वाम् । जातः पृथिव्यां तव जाल्म हन्ता सद्यो हितं चिन्तय साधयामि ॥ ८०॥ स्वमिति ॥ हे जाल्म असमीक्ष्य कारिन् । 'जाल्मोऽसमीक्ष्यकारी स्या- दित्यमरः । अविवेकीत्यर्थः । रुषा रोषेण हेतुनाऽपि त्वं मञ्चरणौ मम पादौ अग्रहीः गृहीतवानसि । त्वं मत्पादग्रहणस्य फलं प्राप्तः प्राप्तवाननु किं फलमितिचेच्छृणु । यद्यस्मात् मत्पादावलम्बनाद्धतोः त्वां न हन्मि न हनिष्यामि । वर्तमानसामीप्यात् वर्तमानवनिर्देशः । तत्फलमिति भावः । तत्तशतोऽहमिति नाश्वासकाल इत्याह- तव हन्ता हिंसकः पृथिव्यां भूमौ क्वचित् जातः उद्भुतः । सद्यः इदानीमेव पथ्यं यत् तत् चिन्तय विचारय । अहं साधयामि गच्छामि ॥ इति नृपमभिधाय ज्योतिषा कुर्वती सा तटिदिव नयनानि प्राणिनामाकुलानि । सुरयुवतिभिरुच्चैर्गीयमानापदाना . सुरपदमभिपेदे पाटिताभ्रा जवेन.॥८१॥ इतीति ॥ इति एवंप्रकारं नृपं कंसं अभिधाय एक्त्वा सा कायायनी ज्योतिषा तेजसा तटिदिव विद्युदिव प्राणिनां देहिनां नयनानि लोचनानि आकुला- नि अस्वस्थानि कुर्वती सुरयुवतीभिः अप्सरोभिः उच्चैः तारनादैः गीयमानं अपदानं पराक्रमः यस्याः तादृशी जवेन पाटेताम्रा विगलितमेघपंक्तिस्सती सुरपदं स्वर्गलोके अभिपेदे आभिमुख्येन गतवतीत्यर्थः । ।। ८१ ॥ ..

द्वितीयः सर्गः ॥ श्रुत्वा तस्याः श्रवणपरुषां वाचमन्तार्वषण्णः पुत्रापायव्यथितमनसं सान्त्वयित्वा वसारम् । पझ्यामेव स्वभवनमथ प्राप्य कृच्छादनैषीत् कंसश्चिन्ताकुलितहृदयो जाग्रदेव त्रियामाम् ॥ इति सुकुमारकृतो कृष्णविलासकाव्ये द्वितीयः सर्गः ॥ श्रुश्चेति । तस्या: काायन्याः श्रवणयोः परुषां असह्यां वाचं 'जातः पृथिव्यां तव जाम हन्ते'त्येवरूपां वाचं श्रुत्वा अन्तः मनसि विषण्णः विषादयुक्तः फसः पुत्राणां अपायेन विनाशेन व्यथितं पीडितं मनः यस्याः तां भागेनी सान्त्व- यित्वा सामगिरा आश्वास्य अथ अनन्तरं पद्भ्यामेव पादसञ्चारेणैव न तु वाहना- दिना स्वभवनं आत्मीयभवनं प्राप्य चिन्तया आत्मनि विचारेण आकुलितं अवशी- कृतं हृदयं यस्य तथाभृतस्सन् जाग्रदेव जाग्रदवस्थ एव त्रियामां रात्रि कृच्छाद प्रयत्नेन अनैषीत् नीतवान् ॥ ।। ७२ ॥ इति श्रीरामपाणिवादविरचितायां विलासिन्याख्यायां कृष्णविलासव्याख्यायां ॥ द्वितीयः सर्गः ॥

|| श्रीरस्तु । ॥ अथ तृतीयः सर्गः ॥ प्रातः प्रलम्बप्रमुखानमात्यान् सर्वान् समाहूय स भोजराजः। सविभ्रमप्रोरतदृष्टिदत्ते स्थाने निषण्णानवदद्विनीतः ॥ १ ॥ अथ अट्टावतारन्यायेन कसोपक्रममेव कविरूपन्यस्यति प्रातरित्यादिना -- प्रातः प्रभातसमय एव । अनेन प्रस्तुतस्य त्वरोक्ता । सः तथा विषण्णहृदयः भोजराजः कंसः प्रलम्बप्रमुखान् प्रलम्बारिष्टकशिधेनु कादीन अमात्यान् सचिवान सर्वान् समस्तान । न तु दिवान् अनेन कार्यगुरुत्वं दर्शितम् । समाहृय सम्यक् बहुमानपूर्वकमाहूय सविभ्रमं सविलासं यथा तथा प्रेरितया प्रवर्तितया दृष्ट्या दत्ते कल्पित स्थान प्रदेशे निषण्णान् प्राधान्यानुरूपमुपविष्टान् । तानिति शेष. । वि. नीतः विनयसम्पन्नस्सन् अवदत् उक्तवान् । सन्दिह्य मोहाद्वसुदेववाक्यं मया प्रमाणीकृतभूतवाचा । हता नृशंसेन सुता भगिन्याः तेनाविलं मे हृदयं यशोऽपि ॥२॥ तमयोक्तिप्रकारमाह- सन्दिधेति ॥ प्रमाणीकृता कारणत्वनाङ्गीकृत. भूतयाक अशरीरवाणी येन तेन नृशंसेन पापेन लोकापवादविषयभूतेनेति यावत् । ॥

.तृतीयः सर्गः - उत्प्लुत्य सा व्योम्नि मया वसुदेवस्य वाक्यं “अलं तवानेन वधोद्यमेने'ति, 'सर्वाण्यपत्यानी' त्यन्तर्भूतां वाणी मोहात् अज्ञानात् सन्दिह्य भगिन्यास्सुताः षट् हताः हिंसि- ता। तेन हेतुना अविश्वस्य मे हृदयं मनः यशः कीर्तिरपि आविलं कलुषम् । उभयमपि अप्रकाशमभूदित्यर्थः ॥ जातां पुनः काञ्चन काञ्चनाभां सुतां गतायुनिशि हन्तुमैच्छम् । जवादतिष्ठत शस्त्रोत्कटा दर्शितदिव्यरूपा ॥ ३ ॥ जातामिति । पुनः जातां पटपुत्रानधनादुत्पन्नां काञ्चनाभां काञ्चनप्रभा काञ्चन ईदृशीति वक्तुमशक्यां महाप्रभावामिति यावत् । मुतां स्वसुः पुत्रीं गतायु- रह आसन्नमृत्युत्वादैवेत्यर्थः । गतायामिति पाठे गतायां अतीतायां निशि रात्रौ ह. न्तुमैच्छं प्रारब्धवानभूवमित्यर्थः । सा दर्शितदिव्यरूपा प्रकाशितदिव्याकृतिः उत्प्लु त्य मत्करात् मंशिस्वा उद्गम्य शस्त्रैः नानारूपैः आयुधैः उत्कटा भीषणा जवात् त्रि- प्र व्योनि गगने अतिष्ठन् स्थितवती ।। नियम्य सा मातुल इत्यमर्ष प्रसेदुषी मामवदच्च बाला । अरिमहीयानजनिष्ट भुमौ तवोचितं सम्प्रति चिन्तयेति ॥४॥ नियम्येति ।। सा अत्र प्रस्तुता बाला मातुल इति मातृसहोदर इति कृ. त्वा अमर्ष कोपं नियम्य निगृह्य प्रसेदुषी प्रसन्ना सती मां अवदञ्च उक्तवती च । भूमौ तव महीयान् उत्कृष्टः अरिः शत्रुः अजनिष्ट जातः । सम्प्रति इदानीं उचित योग्यं यत् तत् चिन्तय विचारयेत्यवददिति सम्बन्धः ॥

श्री कृष्णविलासकाव्ये सध्याख्याने व्याहृत्य मां द्यां प्रति देवनारी- गणेतायामिति सेवितायाम् । देव्यामहं दुश्चरितं स्वमेव स्मरन् विनिद्रो रजनीमनैषम् ॥५॥ व्याहत्येति ॥ इति एवंप्रकारं मां प्रति व्याहृत्य उक्त्वा देवनारीगणैः अप्सरोगणैः सेवितायां तस्यां देव्यां द्यां स्वर्ग प्रति गतायां सत्यां अहं स्वं मत्सम्ब- न्धि दुश्चरितं दुर्व्यापार भगिनीपुत्रवधरूपमकृत्यमित्यर्थः । स्मरन् चिन्तयमेव वि- निद्रः निद्रारहितः रजनी रात्रिशेषं अनपं अनयम् । युद्धेषु देवाः पुरुहूतमुख्याः भना मया स्थातुमशक्नुवन्तः। अश्वान् परित्यज्य विमुच्य नागान मुक्त्वा च शस्त्राणि दिशो द्रवन्ति । युद्धेष्वति ।। युद्धेषु सङ्ग्रामेषु मया भमाः पराजिताः पुरुहूतमुख्या इन्द्रा- दय- देवाः स्थातुं स्वस्थाने वर्तितुं अशक्नुवन्तः असमर्थास्सन्तः अश्वान् परित्यज्य उपेक्ष्य नागान् गजान् विमुच्य त्यक्त्वा शस्त्राणि आयुधानि च मुक्त्वा उज्झित्वा दिशः देशान्तराणि प्रति द्रवन्ति धावन्ति । इदानीमपि तथा दृश्यन्त इति वर्त- माननिर्देशः ।। तदेषु नैकोऽपि भुवं गतो मे शक्नोति कर्तु प्रतिकूलभावम् । महीयसः किं घटते परागः समीरणस्याभिमुर्ख प्रसक्तुम् । ७ ॥

तृतीयः सर्गः॥ तदिति ।। तत् तस्माद्धेतो. एषु देवेषु मध्ये एकोऽपि भुवं गतः भूलोकं प्राप्तः मे प्रतिकूलभावं प्रतिपक्षत्वं कर्तुं न शक्नोति न समर्थो भवति । परागः भू. रेणुः महीयसोऽतिमहतः सभीरणस्य वायोः अभिमुखं यथा भवति तथा प्रसक्तुं, प्रा- तुं किं घटते किं चेष्टते । न शक्तो भवदित्यर्थः । अत्र देवपरागयोश्च प्राकरणि- कापाकरणिकयोः बिम्बप्रातविम्वभावात् दृष्टान्तोऽलङ्कारः । तदुक्तम् - 'चेद्वि-प्र तिबिम्बत्वं दृष्टान्तस्तदलकृति रिति ।। किमन्यदार्ताभ्यवपत्तिकामः सुरेषु सन्दर्शितपक्षपातः। अजायतोक्मसुरान्निहन्तुं स एव मन्ये सरसीरहाक्षः ॥८॥ किमिति ॥ स: ताटक्प्रभावः सरसीरुहाक्षः विष्णुरेव आर्तानां दुःखितानां अभ्यवपत्तौ अनग्रहे कामः अभिलाष यस्य सः । 'अभ्यवपत्तिानुग्रह' इत्यमरः । सुरेषु देवेषु सन्दर्शितः प्रकाशितः पचपातः स्नेहः येन तथाभूतस्सन् असुरान् निहन्तुं असुराने ग्रहार्थ उयो अजायत जात इति मन्ये । किमन्यत अन्यत् किमपि तदेवे. त्यर्थः । अयमेव हि देवीवचनेऽभिप्राय इति भावः ॥ सर्वे वयं दैत्यकुलप्रसूताः केनापि जाता भुवि कारणेन । स तेन सन्नह्यति जेतुमस्मान् उक्तोऽयमर्थः किल नारदेन ॥९॥ अस्तु स तावत् असुरान् निहन्तुं किमरमाकं ततो हानिरिति चेत् अ. प्राह - सर्व इति ॥ वयं अस्मदादयः सर्वे दैत्यकुले असुरकुले प्रसूताः उद्भूताः अमरा एवेत्यर्थः । केनापि अपरिज्ञेयेन कारणेन निर्मित्तेन भुवि जाताः ७६ श्री कृष्णविलासकाव्ये सव्याख्याने C । मानुषत्वेन वर्तामहे । तेन हेतुना स: विष्णुः अस्मान् जेतुं परिभवितुं सन्नधति उगुक्तः । कुतः भवतेदमधिगतमिति चत् अत्राह -अयं अर्थः । वयं असुरां- शस-भवा इत्येष वृत्तान्तः नारदेनोक्तः । किलेति प्रसिद्धौ । युष्मामः अवि- दितपूर्व इति भावः ॥ अतस्तदुच्छेदविधौ विनिद्राः यतध्वमयैव बलानुरूपम् । नखाग्रलाव्यस्तरुरङकुरात्मा परश्वधस्यापि ततोऽतिभूमिः १० ॥ तत् किं अस्माभिः कर्तव्यमिति चदत्राह – अतः इति । अतः अस्मात् कारणात् यूयं विनिद्राः जाग्रबुद्धयः तस्य विष्णोः उच्छेदविधौ उन्मूलनकर्मणि ब- लानुरूप शक्तिसदृशं अद्यैव इदानीमेव यत व प्रयत्नं कुरुत 1 प्रमाध्यामहे क्रमण किं त्वरयेति चेत् अत्र दृष्टान्तन स्वरयाते - नखति । तरु. वृक्ष. अंकुरात्मा अंकुरावस्थः नखाग्रेण लाव्यः छेत्तुं शक्यः । अथवा अवश्यं लाव्यः छेदनीय एवेत्यर्थः । ततः उपरि अंकुरावस्थायां उपेक्षितस्सन् परश्वधस्य निशित बृहत्कुठा- रस्यापि अतिभूमिः अतिक्रान्तविषयः स्यादिति शेषः ॥ यस्मिन् भवत्याश्रितवत्सलत्वं विप्रेषु यस्यास्ति विशेषसङ्गः । मनोहरं यश्च बिभर्ति रूपं वधं स बालोऽर्हति मत्सकाशात् ॥ ११ ॥ सः कुत्रास्ते । कथं वा ज्ञायत इाते चेदत्राह - यास्मन्निति ॥ यस्मिन् वाले आश्रितेषु जनेषु वत्सलत्वं वात्सल्यं भवति । यस्य विप्रेषु विशेषण अतिशयेन सङ्ग सक्तिः अस्ति । असाधारणी भक्तिरिति यावत् । यश्च मनोहरं द्रष्टुणां आन

तृतीयः सर्गः॥
न्दकरं रूपं बिभर्ति त्यो ह्येते विवंशसम्भवा इति भावः । तदुक्तम् -'विप्रेषु
भक्ती विधुरी दयालु. विद्यावशुद्रो विमला कान्तिः । विवेकशाली च विभाव्यते
यः स एव विष्णुर्भुवि मर्त्यरूप' इति । सः तादृशः बाल: मत्सकाशात् वधं अर्ह-
ति । भवाद्भः सः हन्तव्य इत्यर्थः ।
मखाश्च तत्प्रीतिकृतो निवार्याः
निवारणीयां श्रुतिरग्रिमाऽपि ।
तृणीकृताशेषजनप्रभावा
संस्तौति या तन्महिमानमेव ॥ १२ ॥
मखा इति ॥ भवद्भिः तस्य विष्णोः प्रीति कुतः प्रियङ्कराः मखाः यागाश्च
निवार्याः निहन्तव्याः । आग्रमा श्रुतिः उपनिषत् सा च निवारणीया निरोद्धव्या ।
किं अनया वारितयेति चेदत्राह -या श्रातः तृणीकृत: तृणवत् अनाहतः अशषस्य
विष्णुव्यतिरिक्तस्य जनस्य प्रभाव: उत्कर्षः यया तादृशी सता तस्य विष्णाः महि-
मानं महत्त्वमेव संस्तौति सस्यक् प्रशंसति । तस्यां अनिवारितायां तद्धिता वि-
प्णभक्तिः लोकस्य न विरमेदिति भावः ।।
गते विरामं गरुडध्वजेऽस्मिन्
मखेषु सर्वत्र निवारितेषु ।
सुरेषु सर्वेष्वपि दुर्बलेषु
हस्ते भविष्यत्यमरावती नः । १३ ।।
गत इति । अस्मिन् अस्मान् द्वेष्टुं अवतीर्णे गरुडध्वजे विष्णौ विराम
अवसानं गते सति सर्वत्र सर्वप्रदेशेषु मखेषु यज्ञेषु अथवा सर्वेषु नित्यनैमित्तिकेषु
कर्मसु निवारितेषु प्रतिषिद्धेषु सत्सु सर्वेषु रेषु देवेश्वरि दुलेषु श्रीणबलेषु । 'अन्न •
मेव हि शरीरिणां बलमिति वचनात् मखप्रणाशात् मघाशिन: पुन: न जीवेगुरिति
.
॥ १२ ॥

श्री कृष्णविलासकाव्ये सव्याख्याने C ॥ C भावः । अतः तेष्वपि बलहीनेषु सत्सु अमरावती नः अस्माकं हस्ते भविष्यति अधीना भविष्यतीत्यर्थः ॥ ॥ १३ ॥ इत्यूचुपस्तस्य पदोपकण्ठं नीराजयन्तो मकुटप्नभाभिः । अवादिषुर्विक्रमदर्पितास्ते कृताट्टहासध्वनिकम्पिताशाः ॥ १४ ॥ इतीति ॥ ते प्रलम्बप्रमुखाः इत्यूचूषः एवं उक्तवतः तस्य कंसस्य पदो. पकण्ठं चरणसमीपं मकुटानां किरीटानां प्रभाभिः नीराजयन्तः नीराजनविधिमिव कु. वन्तः । पदान्तिके प्रणमन्त इत्यर्थः । विक्रमेण स्वपराक्रमेण दर्पिताः सञ्जाताहङ्काराः अत एव कृतेन अट्टहासध्वनिना सिंहनादेन कम्पिताशा: चलितदिगन्तास्सन्तः अवा- दिषुः उनवन्तः ॥ ॥ १४ ॥ किं चिन्तया पार्थिव भुक्ष्व भोगान् अस्मासु जीवत्सु कुतो रिपुस्ते । कथं मयूखेषु परिस्फुरत्स सरोजबन्धोस्तमसाऽभिभूतिः ॥ १५ ॥ उक्तिप्रकारमाह-किमिति ॥ हे पार्थिव रानन् चिन्तयां किं प्रयोज- नम् । 'विचिन्तयन्दुश्चरितं मदीय'मित्यादि यदुक्तं भवता तथाविधदुश्चिन्ता न कर्त- व्येत्यर्थः । भोगान् इच्छानुरूपसुखसाधनानि भुञ्छ । कामचारानुज्ञायां लोट् । अस्मासु मन्त्रिप्रवरेषु सत्सु ते तव रिपुः शत्रुः कुतः कुत्र सम्भवति । अत्र दृष्टान्त. माइ-मएखेषु राश्मिषु परितः सर्वतः स्फुरत्सु प्रदीप्यमानेषु सत्सु सरोजबन्धोः सू. यस्य तमसा अन्धकारेण अभिभूतिः अमिभवः कथं भवति । तमःकर्तृकात्माप- . नयः कथं स्यादित्यर्थः तृतीयः सर्गः॥ ४९ अमातरिश्वानमहव्यवाह असूर्यशीतांशुमवज्रपाणिम् । अनच्युतेशानपितामहं च द्रष्टासि राजन्नचिरेण लोकम् ।। १६ ।। अमातरिश्वानमिति ॥ हे राजन् त्वं लोकं भुवनं अचिरेण चिप्रमेव मात. रिश्वा वायुः न विद्यते यत्रेति तादृशं द्रष्टासि द्रक्ष्यसि । एवं उत्तरत्रापि । अवि. द्यमानः हव्यवाहः अमिः यत्र । अविद्यमानौ सूर्यसीतांशू यत्र । भविद्यमानः वज्र. पाणिः इन्द्रः यत्र । अविद्यमानः अच्युतः विष्णुः ईशानः शिवः पितामहः ब्रह्मा यत्र, तथाविधं द्रष्टासि ॥ इत्यूचुषस्तानुचितोपचारैः सम्भाव्य कृत्येषु समादिदेश । स देवकीमानकदुन्दुनि च विमोचयामास च बन्धनस्थौ ॥ १७ ॥ इतीति ॥ स: कंसः इत्यूचूष एवं उक्तवत: तान् प्रलम्बादीन् उचितैः योग्य : उपचारैः अन्नपानाभरणादिसम्मानैः सम्भाव्य पूजयित्वा कृत्येषु जगध्वंसन- रूपकार्येषु समादिदेश सम्यक् नियुक्तवान् । बन्धनस्थौ बन्धने स्थितौ देवकी आनकदुन्दुभिश्च विमोचयामास विगतबन्धौ कृतवांश्च ॥ लब्ध्वा निधानं नं तथा दरिद्रो गति समासाद्य तथा न पयः तथा न चान्धो दृशमाप्य हृष्येत् यथाऽऽप्तपुत्रस्स जहर्ष नन्दः ॥ १८॥ ॥ - .

श्री कृष्णविलास काव्ये सव्याख्याने लब्ध्वेति ॥ आतपुत्रः प्राप्त तनयोत्पत्तिः सः नन्दः नन्दगोपः यथा येन प्रकारेग जहर्ष हृष्टवान् तथा तादृशप्रकारं दरिद्रः निर्द्धनः निधानं निक्षेपकुम्भ लब्ध्वाऽपि न हृष्यत् दृष्टो न भवत् । तथा पंगुः पदा खञ्जः गतिं स्वच्छन्द- गमनं समासाद्य प्राप्य न हृष्येत् । तथा अन्धा नष्टलोचनः दृशं दर्शनं अवाप्य लब्ध्वा न च हृष्येदिति । एषां यः हर्षः भवेत् ततोऽधिको नन्दस्य हर्ष: अमृदित्यर्थः ॥ तपने चरमाचलं प्रपन्ने तमसा च स्थगितेषु दिङ्मुखेषु । यमुनातटवासिनं तमूचे वसुदेवः प्रतिपद्य नन्दगोपम् ॥ १९ ॥ तपन इति । तपने सूर्ये चरमाचलं अस्ताचलं प्रपन्ने प्राप्ते सति तमसा अन्धकारेण दिङ्मुखेषु दिगन्तरेषु च स्थगिवेषु आच्छादितेषु सत्सु वसुदेव यमुनातटे वस्तुं शीलमस्येति तथाभूतं तनयोत्पत्तिप्रहृष्टं नन्दगोपं प्रतिपद्य प्राप्य बहु मान्य च । 'प्रतिपत्तिस्तु गौरवे । प्राप्ताविति वचनात् । उवाच उक्तवान् । व. सन्तमालिकावृत्तमिदम् । 'विषमे ससजा गुरू समे चेत् सभरा गौ च वसन्तमा. लिका स्यादिति लक्षणात् ॥ तपसा तव नन्दगोप मन्ये फलितं जन्मसहस्रसञ्चितेन । ऋणमन्त्यमपोहितुं त्वदीयं यदयं पुत्रनिधिः समाविरासीत् ॥ २० ॥ तपसेति ॥ हे नन्दगोप तव जन्मसहस्रेषु बहुषु जन्मान्तरेषु सश्चितेन समूहीकृतेन तपसा फलितं फलं दर्शितमिति अह मन्ये कल्पयामि । यत् यस्मात् कारणात् पुत्र एव निधिः निक्षेपः अन्त्य कणं पितृविषय तृतीयः सर्गः ॥ ८१ - सन्तत्या निष्क्रेतव्यं त्वदीयं तव ऋणं अपोहितु निराकर्तुं सम्यक् आविरासीद आविर्भूतः। लब्धनिक्षेपेण किं दुर्लभ ऋणमोचनामिति द्योत्यते ॥ इह खेलति पूतनेति कृत्या शिशुहत्यानिरता पुरोपकण्ठे । तदहर्निशमत्र रक्षणीयो नयनानन्दकरः सुतस्त्वयाऽयम् ॥२१॥ इहति ॥ इह अस्मिन् प्रदेशे पुरस्य उपकण्ठे समीपे शिशुहत्यायां बालवधे निरता तत्परा पूतनेति पूतनाख्या कृत्या पिशाची खेलति सलीलं सञ्चर- ति । शिशुमारणमेव अस्याः क्रीडेति भावः । तत् तस्मा द्धेतोः अत्र अस्मिन् समये त्वया नयनयोः आनन्दकरः र: अयं सुतः पुत्रः अहर्निशं अहान निशायाश्च रक्षणीयः रक्षितुमईः ॥ ॥ २१ ॥ अथवा किमिवास्यते त्वयाऽस्मिन् निजमुत्सृज्य पदं पुरोपकण्ठे। सविधे न वसन्ति बुद्धिमन्तः फणिनो वायुसखस्य भपतेश्व ॥ २२॥ अन्य। राजकुलसवारोऽप्यनुचित इत्याह अथवेति ॥ अथवेति पक्षान्तरद्योतकमव्ययम । त्वया निजं आत्मीयं पदं स्थान गोकुलं उत्सृज्य उपेक्ष्य अस्मिन पुरस्य उपकण्ठे राजधान्याः समीपे किमिव किमर्थम् । किमिवेत्ये कमव्ययम् । आस्यते स्थीयते तत् असांप्रतमित्याह- बुद्धिमन्तः मतिमन्तः विवेकिन इत्यर्थः। फणिनः सर्पस्य, वायुसखस्य अमेः भूपते. राज्ञश्च सविधे सन्निधौ न वसन्ति न वासं कुर्वन्ति । अपायस्य आतिसुल भत्वा- दिति भावः ॥ 11

भी कृष्णविलासकाव्ये सव्याख्याने
प्रतिवेदि निविष्टपूर्णकुम्भं
विलसत्तोरणमुज्ज्वलप्रदीपम् ।
ब्रज गोकुलमाकुलं प्रजाभिः
भवदीयागमनप्रहर्षिणीभिः ॥ २३ ॥
अस्मिन् समये तु विशेषतो न परित्याज्यं गोकुलमित्याह ---
प्रतिवेदीति ।। त्वं गोकुलं गोष्ठं व्रज गच्छ । प्राप्तकाले लोटू ।
तदागमने तव सम्भाव्यमानावशेषमाह विशेषणचतुष्टयेन- प्रतिवेदि वेदिषु निविष्ट-
पूर्णकुम्भ निहितकनकादिपूर्ण कलशं विलसत्तोरणं उच्छित-वजादिना शोभमानबहि-
रिम् । तोरणोऽत्री बहिर मित्यमरः। उबलन्तः प्रज्वलन्तः प्रदीपाः यस्मिन्
तथाभूतम् । भवदीयेन आगमनन हेतुना प्रहर्षिणाभिः प्राप्तहर्षशीलाभिः प्रजाभिः
गोपगोपीजनैः आकुलं सङ्कीर्णम् । भवत्प्राप्तावेवं भविष्यतीत्यर्थः ॥
शिशुरस्ति ममापि रौहिणेयः
भवदीये विषये विवईमानः ।
स च साधु निरीक्ष्य रक्षितव्यः
वपुषा केवलमावयोहि भेदः ॥ २४ ॥
शिशुरिति ॥ ममापि शिशुः बालः रौहिणेयः रोहिणीसुतः भवदीये विषये
देशे विवर्द्धमानोऽस्ति विद्यते । स च साधु सम्यक निरीक्ष्य निरीक्षणं इष्टदानेन
लालनम् । तत् कृत्वा राशितव्यः वातव्यः । त्वयेति शेषः । ननु त्वदीयः मया कथं
रक्षितव्यः इति चेत् अत्राह- आवयोः मम च तव च वपुषा शरीरेण केवलं परं
भेदः । मनस्तु एकमेवेत्यर्थः ॥
इत्युक्त्वा गतवति देवकीसहाये
सन्त्रस्तः कथमपि नीतरात्रिशेषः ।
॥ २४ ॥

तृतीयः सर्गः ॥ ॥२५॥ आरोहत्युदयमहीधरस्य शृङ्गं तिग्मांशी निजवसतिं प्रति प्रतस्थे । २५॥ इतीति ॥ इति एवंप्रकारं उक्त्वा देवकीसहाये वसुदेवे गतवति सन्त्रस्तः पूतनापतनशङ्कया भीतः कथमाप यत्नेन नीतः यापितः रात्रेः शेष: येन तादृशः सः नन्दगोपः तिग्मांशौ सूर्ये उदयमहीधरस्य उदयाद्रेः शृङ्गं आरोहति सति दिनारम्भ एवेत्यर्थः । निजवसतिं गोष्ठं प्रति प्रतस्थे प्रस्थितवान् । प्रहर्षिणी नाम वृत्तमिदम। 'नौौगस्त्रिदशयतिः प्रहर्षणीय मिति लक्षणात् ।। सचकितमृगमण्डलानि कुर्वन् शकटशतध्वनिभिर्वनान्तराणि । प्रमुदितमथ गोकुलं प्रपेदे दिशिदिशि मारुतधूतकेतुमालम् ॥ २६ ॥ सचकितेति ॥ शकटानां वाहनविशेषाणां शतस्य समूहस्य । अनेन बहुगो- पसंघसहितत्वं दर्शितम् । घानभि. शब्दैः बनान्तराणि विपिनावकाशान् सकि. तानि चकितन भयेन सहितानि मृगमण्डलानि वन्यसमूहाः येषु तादृशानि कुर्वन् ।। अथ अनन्तरं सः नन्दगोपः प्रमुदितं सन्तुष्टजनं दिशिदिशि सर्वासु दिक्षु मारुतेन मरुता धूतकेनुमालं कम्पितध्वजकदम्ब गोकुलं प्रपदे प्राप्तवान् । पुष्पितामा नाम वृत्तमिदम् । 'अयुजि न युगरेफतो यकारे युजि च नजौ जरगश्च पुष्पितामा' इति लक्षणम निजवसतिमभित्रपद्य तुष्टः किमपि न कर्म करोति गोपः । नवनलिनपलाशचारुनेत्रं वदनम निशमात्मजस्य पश्यन् ॥२७॥ ॥

श्री कृष्णविलासकाव्ये सध्याख्याने
॥ २७॥
निजेति ॥ नन्दगोषः निजवसतिं आत्मभवनं आभिप्रपद्य अभिगम्य
आत्मजस्य पुत्रस्य नवनलिनस्य नूतनरिकसितांजस्य पलाशे पत्रे इव चारुणी
सुन्दरे नेत्रे यस्मिन् तत् तादृशं वदनं मुखं अहर्निश दिवारातं पश्यन् तुष्टः दर्शना-
देतो' आंतप्रहृष्टस्सन् किमाप कर्म स्नानभोजनादिकमपि न करोति कर्तुं न शक्तो
भवति । तादृशानन्दसागरममत्वादिति भावः । अत्र कवेरपि भक्त्यतिशयन
आत्मनः तदानीन्तनत्वभावनया करोतीति वर्तमाननिर्देशः ॥
मुग्धभावमधुरेण रञ्जयन्
शैशवेन हृदयं व्रजौकसाम् ।
गाकुले स विजहार केशवः
क्षीरवारिनिधिमप्यचिन्तयन् ॥ २८ ॥
मुग्धेति ॥ स. केशवः हरिः मुग्धभावेन मोहन स्वभावेन हेतुना मधु-
रेण मनोहरेण शैशवेन बालभावेन व्रजीकसां गोष्ठवासेनां हृदयं रक्षयन् रागयुक्तं
कुर्वन् गोकुले विजहार क्रीडितवान् । श्रीरवारिनिधिं दुग्धाब्धिमपि अचिन्तयन्
अस्मरन् सन्नित्यनेन निजास्पदादपि गोकुले रमणीयत्वं द्योत्यते । रथोद्धता नाम
वृत्तीमदम् । रानराविह रथोद्धता लगा'विति लक्षणात् ॥
वदनं मधुसूदनः कराभ्यां
चरणांगुष्ठमुपानयत् पिपासुः ।
गलितेव ततः सुरस्रवन्ती
नखमुक्तामणिदीधितिच्छलेन ॥ २९ ॥
बदनामिति ॥. मधुसूदनः बालकृष्ण. कराभ्यां चरणस्य अंगुष्ठं पिपासुः
पातुमिच्छसिन् वदनं उपानयत् प्रापयामास । अयं हि उत्तानशयनस्य शिशः
--
॥ २८॥

सृतीयः सर्गः । ॥२९॥ स्वभावः । ततः चरणांगुष्ठ नखस्येव मुनामण: दोधितिच्छलंन रश्मियाजन सुरस. वन्ती गमा गलिता निपतितेवेत्युत्लेशा । नवपनुतिः । इवशब्दस्यापि श्रवणात् ॥ अमृतांशुरिवापरः प्रमोद नयनानां जनयन् स पद्मनाभः । भवनं भवनात करौ कराभ्यां वजयोषिद्भिरनीयताङ्कमङ्कात ॥ ३० ॥ अमृतांशुरिति ॥ अपरः अमृतांशुरिव चन्द्र इव नयनानां द्रष्टुजनलोच- नानां प्रमोदं ननयन् उत्पादयन् सः पद्मनाभः बालकृष्णः ब्रजयोषिद्भिः गोकुलस्त्री. भिः भवनात् भवनं अन्यगृहं कराभ्यां सकाशात् करौ अन्यकरौ अडात् उत्सङ्गात् अङ्क अन्यस्य उत्सङ्गं अनीयन प्रापितः ॥ अधः कदानिच्छकटस्य शायित: स्वकार्यपर्याकुलया यशोदया। स लीलया पादसरोरुहं शनैः उइश्चयानास सरोजलोचनः ॥ ३१ ॥ अब इति । कदाचे नामांश्चाई। वकार्ये गृहकृत्यादी पर्याकुलया तत्परया यशोदया शकटस्य वाहनावशेषस्य अधशायितः सरोजलोचनः कृष्णः पादप्तरोरुह एकपादाब्जे लीलया क्रीडया शनैः मन्दं उदश्चयामास । उद्गमया. मास । वंशस्थं नाम वृत्तमिदम् । जनौ तु वंशस्थमुदीरितं जरा विति लक्षणात् ॥ मधुभिदश्चरणांबुजताडितं शकटमाशु समुत्थितमम्बरे । ..

श्री कृष्णविलासकाव्ये सव्याख्याने विपरिवृत्य पपात महीतले पटुतरध्वनिपूरितदिङ्मुखम् ॥ ३२ ॥ मधुभिद इति ॥ मधुभिदः कृष्णस्य चरणांबुजेन ताडितं प्रहतं शकटं आशु वि अम्बरे गगने समुत्थितं समुत्पतितं सत् विपरिवृत्य ततोऽधोमुखं विनि- वृत्य महीतले भूतलपृष्ठे पटुतरेण उच्चतरेण धनिना शब्देन पूरितं दिङ्मुखं यथा भवति तथा पपात पतितम् । द्रुतविलम्बितं नाम वृत्तमिदम् । ' द्रुतविलम्बितमाह नमो भरा'विति लक्षणात् ॥ ॥ ३२ ॥ शकटपतनजन्म नन्दमुख्या: स्तनितमिव ध्वनितं निशम्य गोपाः । किमिदमिति भयेन तव जग्मुः वरितगतिच्यवमानकैशबन्धाः ॥ ३३ ॥ ८ शकटेति ॥ नन्दमुख्याः नन्दप्रधानाः गोपाः स्तनित गजितमिव शक. टस्य पतनात् जन्म जननं यस्य तथाविधं ध्वनित शब्दं निशम्य श्रुत्वा किमिदमिति एतत् किं भवेदिति भयेन भीत्या त्वरितया सातत्वरया गत्या गमनेन च्यवमानाः भ्रश्यन्तः केशबन्धाः चिकुरबन्धनानि येषां तथा सन्त- तत तस्मिन् प्रदेशे जग्मुः प्रापुः । यतः श्रुतश्शब्दः तं देशं प्राप्ता इत्यर्थः ॥ कुचकलशविलमपाणिपद्मा विगलितबन्धमनोज्ञकशपाशा । सपदि सह सखीभिरन्वधावत कलमणिनूपुरशिर्जिता यशोदा ॥ ३४ ॥ . 0 तृतीयः सर्गः ॥ कुचेति ॥ यशोदा कुचकलशयोः स्तनकुम्भयोः विलमे विषक्ते निहिते इत्यर्थः । पाणिपझे करांबुजे यस्याः विगलितबन्धः श्लथबन्धन: अतः मनोज्ञः अतिरमणीयः केशपाशः प्रशस्तकेशः यस्याः। कलं मधुरं मणिमययोः नूपुरयोः पादकटकयोः शिञ्जितं रणितं यस्याः तथा सती । सखीभिः सह सपदि नन्दादीन अन्वधावत् अन्वाद्रौत् ॥ ॥ ३४ ॥ कृतस्मितं क्वचिदपरिक्षतं सुतं विलोक्य तं प्रमुदितमानसं परम् । व्रजौकसां सविधनिवासिनां मुखात् विसिस्मिये विदिततदीयविक्रमा ॥ ३५ ॥ कृतेति । सेत्यतानुवर्तते। सा यशोदा क्वचित प्रदेशे अपरिक्षतं अक्षत- शरीरं कृतस्मितं तं तादृशं सुतं पुत्रं विलोक्य परं अत्यर्थे प्रमुदितमानसं सन्तुष्टह- दयं सविधनिवासिनां आन्तकवर्तिनां व्रजीकसां गोपानां मुखान् विदितः ज्ञातः तदीयः तस्य सुतस्य विक्रमः चरणेन शकटपाटवरूपा प्रवृत्तिः यथा तथा सती विसिस्मिये विस्मिताऽभूत् । · मिङ ईषद्धसने' इत्यस्मालिट् । आत्मनेपदम् । रुचिरा नाम वृत्तमिदम् । 'चतुग्रहैरिह रुचिरा जभस्मगा' इति लक्षणात् ॥ ३५ ॥ सुतशोणितमेव मन्यमाना चरणं तस्य निसर्गपाटलं तत् । उदमार्जयदंशुकाञ्चलेन द्रुतमागय पुनः पुनर्यशोदा ॥ ३६ ॥ घुतेति ॥ यशोदा तस्य सुतस्य निसर्गेण स्वभावेन पाटल अरुण तच्चरणं पादतलमेव मतशाणित गलितरक्तमिति मन्यमाना अवबुध्यमाना सती द्रुतं आगत्य सत्वरं उपेत्य अंशुकाञ्चलेन वस्त्राग्रेण पुनः पुनः भूगोभूयोऽपि उदमार्जयत् मार्जनं कृतवती । .

श्री कृष्णविलासकाव्ये सव्याख्याने ॥ ३७॥ तिलकं मधुविहिनो ललाटे रजसा गोमयजन्मना विधाय । उरसा परिरभ्य नन्दगोपः सुचिरं तस्य सुमङ्गलानि दध्यौ ।। ३७ ॥ तिलकापति ॥ नन्दगोपः मधुविद्विषः कृष्णस्य ललाटे फाले गोम- यात् जन्म यस्य तादृशेन रजसा गोमयपरागेण तिलकं विशेषकं विधाय कृत्वा इदं अमङ्गलनिवृत्यर्थम् । यदाहु..... - गोमयो लनं कुर्यात् अशुभस्य प्रशान्तय' इति । उरसा निजवक्षसा परिरभ्य तं आश्लिष्य तस्य सुमङ्गलानि शोभन कल्याणानि चिरं दीर्घकालं दध्यौ ध्यातवान् । शकटपातभातः सन्निहितः परं एवंविधाना मा भूव- निति कुलदैवतानि प्रार्थितवानित्यर्थः ॥ शकटं मधुसूदनस्य दृष्ट्वा चरणोदञ्चनविभ्रमेण भग्नम् । अथ वारिनिधेर्विवेश गर्भ स्वरथस्यापि विशङ्कय भङ्गमर्कः । ३८ अथ अस्तमनवर्णनमारभते-- शकटमिति ॥ अथ अनन्तरं अर्कः सूर्यः मधुसूदनस्य चरणोदश्चनेन पादोत्क्षेपरूपेण विभ्रमेण विलासेन भग्नं शकलितं शकटं दृष्ट्वा स्वरथस्य आत्मरथ- स्यापि मॉ विशङ्कथ वाहनभङ्गे प्रवृत्तोऽयं कृष्णः मद्रथमपि कदाचिन भक्ष्यतीति जातशत इव वारिनिधेः गर्भ विवेश प्रविष्टवान् । अत्र इवादिशब्दाभावात् गम्योत्प्रेक्षा॥ परितः स्फुरता नवेन सन्ध्या- महसा पल्लयपाटलेन लिप्ताः। । --

तृतीय सर्गः॥
८९
पतिता इव पावके विरेजुः
ककुभो दुस्सहभानुविप्रयोगात् ॥ ३९ ॥
परित इति ॥ परितः समन्तात् स्फुरता प्रकाशमानेन नवेन पल्लवं तरु-
किसलयमिव पाटलेन अरुणेन सन्ध्यायाः महसा तेजसा लिप्ता: स्पृष्टाः कुंकुमादि-
चर्चिता इवेत्यर्थः । ककुभः दिश: विरेजुः शुशुभिरे । अवोत्प्रेक्षते-दुस्सहः
सोढुं अशक्यः भानोः विप्रयोगः यासां तथाभूतत्वात् पावके पतिताः शरीरत्यागार्थ
अनिं प्रविष्टा इवेति । प्रियतमावरहे पतिव्रतानां इदं उचितमेवेति भावः ॥ ३९ ॥
क्षुभितश्विरमम्बरांबुराशिः
तपनस्यन्दनवाहनावगाहात् ।
स्फुरदुइटतारकापदेशात्
सहसाऽऽक्रीयंत फेनमण्डलेन ॥४॥
श्रुभित इति ॥ तपनस्यन्दनस्य सूर्यरथस्यैव वाहनस्य प्रवहणस्य अव-
गाहात् मञ्जनादेतोः अम्बरमेव अम्बुराशिः चिरं अत्यर्थं श्रुभितः चलितः सहसा
तत्क्षणमेव स्फुरन्तीनां शोभमानानां उद्भटानां प्रकाशिनां तारकाणां नववाणां अपदे.
शात् व्याजात् । तादृशं अपदेशं आश्रित्येति ल्यब्लोपे पश्चमी । फेनानां मण्ड.
लेन समूहेन आकीर्यत आकीर्णः व्याप्त इत्यर्थः । अन्धौ हि महतो यानपात्रस्य
मञ्चने फेनोमःसम्पद्यते ॥
अहिमरुचि रसातलं प्रविष्टे
भयचकितः स्वविनाशमाकलय्य ।
तत इव तरसोत्पतन्नसीमा
तिमिरभरः पृथिवीतलं प्रपेदे ॥४१॥
18
॥ ४० ॥

९२
श्री कृष्णविलासकाव्ये सव्याख्याने
सरसिरुहवने गतेऽपि निद्रा
कथमिव ते नयनांबुजे विनिद्रे ।
श्रुतिपरिचयशालिनो हि कर्म
स्वजननिषेवितमेव संश्रयन्ते ॥ ४६॥
समिमहोत ॥ हे सुत सरमिरुहाणां पद्यानां वने समूहे निद्रां गतेऽपि
मुकलिते मन्याप ते नयने एव अधुज कथमिव कुन. हतोः विनिद्रे निद्रारहिते वि-
कसिते एव वर्तेते इति शेषः । श्रुतिपरिचयेन शास्त्रशीलनेन । कर्णाभ्यर्णवि.
स्तीर्णतयेत्यपि च स्फुरति । शालिनः श्लाध्याः । 'शल श्लाघाया'मिति धातुः ।
स्वजननिषेवितं स्वीयजनानुष्ठितं कर्मैव आश्रयन्ते अङ्गीकुर्वन्ते । हि यस्मात् तस्मात्
स्वजातिषु पदमेषु सुप्तेषु तव नेत्रांम्बजाभ्यामपि स्वप्तुमुचितमिति भावः ॥ ४६ ।।
तवनिश्रवणजातकौतुका
बालजीवितविलोपविश्रुता।
आजगाम गगनेन पूतना
यातना तनुमतीव देहिनाम् ॥४७॥
तदिति ॥ बालजीवितानां शिशुप्राणानां विलोपेन विनाशनेन विश्रुता
प्रीसद्धा पूतना देहिनां प्राणभृतां यातना तीनवेदनैव तनुमती शरीरिणीव वर्तमाना
तद्वनिश्रवणेन तस्याः यशोदायाः बालस्वापनगानस्य श्रवणेन जातकौतुका । अत्र
केनचित् बालेन भाव्यं तदेनं हनिष्यामिति कुतूहलवतीत्यर्थः . . काशमार्गेण
आजगाम प्राप्ता॥
साऽवतीर्य नभसो निशाचरी
गूढमेव निषसाद कुत्रचित् ।
॥४७॥

तृतीयः सर्गः॥ ९३ ॥४८॥ सा च सुप्त इव वीक्षिते सुंत स्वापमाप सरसीरुहेक्षणा सेति ॥ सा निशाचरी रातिसञ्चारशीला पूतना नभसः अवतीर्य गग- नात् अवतीर्णा कुत्रचित् क्वापि प्रदेशे गूढमेव प्रच्छन्नैव यशोदायाः निद्रा प्रतीक्षमाणा निषसाद निषण्णा। सा यशोदा च सुते सुप्त इव वीक्षिते निद्रां प्राप्तः स्यादित्यवगने सति स्वापमाप निद्रां प्राप्तवती : सुतस्य स्वापस्तु पूतनावधप्रस्तावनारूप इत्यजानती सेयमिति कविः सान्तासमाह सरसीरहेक्षणेति । केवलमुन्दरीत्येवेति भावः ।। कृष्णमङ्कमधिरोप्य निर्दया दातुमारभत पूतना स्तनम् । यत्पयोधरमुखे मुखार्पणात आयुषा शिशुजनो वियुज्यते ॥ ४९ ॥ कृष्णमिति ॥ यत्पयोधरमुखे यस्याः पूतनायाः स्तनचूचुके मुखस्य अर्प- णात् निवेशाद्धेतो शिशुजनः आयुषा प्राणैः वियुज्यते वियुक्तो भवति । सा ताशी निर्दया निष्कृपा पूतना कृष्णं अङ्क उत्सत अधिराज्य स्तनं दातुं स्तन्यं पाययितुं आरभत आरब्धा॥ ॥ ४९ ॥ पाञ्चजन्यमिव पूतनास्तनं पाणिपल्लवयुगेन पीडयन ! झाननेन मधुशत्ररान्तरा- नाददे स तु ततः समीरणान् ॥ ५० ॥ पाश्चजन्यमिति ।। स तु कृष्णस्तु पाणिपवयोः पञ्चवतुल्ययोः पाण्योः युगेन पूतनायाः स्तनं पाश्चजन्यं आत्मनः शङ्खमिव पडियन् । गृहणन् । मधुश .

श्री कृष्णविलासकाव्ये सव्याख्याने
रिति शत्रुषु निर्दयत्वं द्योत्यते । आननन आस्येन तत: तस्याः शरीरात् आन्त.
रान् समीरणान् प्राणवायन आददे आकृष्टवान् ।
॥ ५० ॥
विप्रकीर्णकचबालपल्लवा
भग्नबाहुविटपा निशाचरी।
सा पपात भुवि घोरनिरस्वना
मारुताहतमहीरुहोपमा
विप्रकोणेति ॥ विकीणी. विक्षिप्ताः कचाः शिरोरुहा एवं बालपल्लया
यस्याः । कचानां कपिलवर्णत्वात् पल्लवत्वेन रूपणम् । भने बाहू एव विटपौ
यस्यास्सा । निशाचरी पूतना घोरनिस्वना भीषणनादा सती भुवि मारुतेन आहत:
भजितः महीरुहः वृक्षः उपमा सादृश्यं यस्यास्सा पपात पतिता ।।
झटिति व्यपनीतगाढनिद्रो
महता तेन रवेण पूर्तनायाः।
प्रतिपत्तुमियाय तां प्रवृत्ति
सह गोपालगणेन नन्दगोपः ॥५२॥
झटितीति । पूतनायाः महता उच्चैस्तरेण तेन रवेण व्यपनीता व्यपगता
गाढनिद्रा यस्य सः नन्दगोपः सहगोपालगणेन गोपाल समूहेन सह तो प्रसिद्धां प्रवृ-
तिं वृत्तान्तं प्रतिपत्तुं ज्ञातुं झटिति शीघ्रं इयाय गतवान् ॥
तस्याः शरीरमधिरुह्य विचेतनायाः,
क्रीडन्तमम्बुरुहलोचनमीक्षमाणाः ।
तस्थुः समुन्मिषितविस्मयनिर्विकाराः
नासाधिरोपितकरांगुलयो मुहूर्तम्॥ ५३॥

तृतीयः सर्गः॥
९५
..
तस्या इति ॥ पूर्व श्लोके गोपालगणेन सह नन्दगोप इत्युक्तमेव समग्रम-
नुवर्तते । अतस्त इत्यध्याहार्य त नन्दगोपादयः विचेतनायाः पोताया:
तस्याः पूतनायाः शरीरं शवकलबरं आधेरुह्य उपरि शायित्वा क्रीडन्त करचरणचल.
नक्रीडां कुर्वन्तं अम्बुरुहलोचनं कृष्णं ईक्षमाणाः पश्यन्तः समुन्मिाषतन सम्यान्वक
सितेन विस्मयेन आश्चर्यरसेन निर्विकाराः निश्चलाः । नासां नासाग्रं अधिरोपिताः
तत्र निवेशिताः करांगुलयः तर्जन्यः पैः तथा सन्तः मुहूते क्षणं तस्थुः स्थितवन्तः ।
वसन्ततिलकं नाम वृत्तमिदम् ।
'उक्तं वसन्ततिलक नभजाजगीग' इति
लक्षणात् ।
।। ५३ ॥
नन्दः प्रमृज्य नयने मुहुरश्रपूर्णे
पुत्रं कृतान्तमुखनिर्गलितं निदध्यौ ।
दध्यौ च तस्य नितरामभिवृद्धिकामः
तवं परंस हृदयेन समाहितेन ॥ ५४ ॥
नन्द इति ॥ नन्दगोपः मुहुः पुनःपुनः अश्रुपूर्णे प्रमोदवाष्पावृते नयने
प्रमृज्य पुत्रं कृतान्तस्य अन्तकस्य मुखतः वक्त्रात् निर्गालतं निपातितमिव निदथ्यो
दृष्टवान् । मृतं जीवितं यावता प्रहर्षेण पश्यति तथा निध्यातवानित्यर्थः । तस्य
सुतस्य नितरां भृशं अभिवृद्धिकामः अभ्युदयं वान्छन् सनन्दः समाहितेन समाधि-
स्थेन हृदयेन तत्वं परं ब्रह्मस्वरूपं दध्यौ ध्यातवांश्च ।।
श्यामलः कमलपत्रलोचनो
नीलकुन्तलभरः शुचिस्मितः।
ध्यायतो मनसि तस्य सन्निधिं
पुत्र एव विदधे पुनःपुनः
॥५४॥

श्री कृष्णविलासकाव्ये सव्याख्याने श्यामल इति ॥ध्यायतः निष्कलं ब्रह्मध्यानं कुर्वतः तस्य नन्दस्य मनसि श्यामलः मेघश्यामवर्णः कमलपत्रलोचनः पद्मपत्रविशालेशण: नीलकुन्तल- भरः स्निग्धमेघकचभारः शुचिस्मितः शुभ्रमन्दहासः पुत्र एव स्वतनूजः श्रीकृष्ण एव सकलविग्रह एव पुनःपुन: सनिधि सविधान प्रत्यक्षवीक्षणविषयं विदधे कृतवान् ।। न क्षमं भवति पुत्रवासना- निस्तरं हृदयमच्युतस्मृतौ । इत्यशेषदुरितापहारिणीः अग्रजन्मभिरकारयत् क्रियाः ॥ ५६ ॥ न शममिति ॥ पुत्रवासनया पुत्रचिन्ताम्याससंस्कारण निस्तरं दृढतरं हृदयं अच्युतस्य परमात्मनः स्मृतौ स्मरणविषये न क्षमं भवति न शक्नोति । किं करोमीति भावः । किन्त्वन्यैः कारयाम्येवेति निश्चित्येत्यर्थः । अग्रजन्मभिः ब्रा. ह्मणैः प्रयोज्यकर्तृभिः अशेषदुरितापहारिणीः निखिलपापानि अपहर्तुं शीलमासामिति तादशीः क्रियाः शान्तिकपौष्टिकादिसत्कर्माणि कारयामास कर्तुं प्रयुक्तवान् ।। ५६ ॥ पूतनाचरितभावनाभवं दारुणं हृदयदारणं पितुः। श्रीपतिः शमयति स्म वैशसं क्रीडितेरखिललोकमोहनः पूतनेति ।। श्रीपतिः श्रीकृष्ण: पूतनायाः चरितस्य दुश्चेष्टितस्य भावनायाः पुनःपुनरनुसन्धानात् भवः उद्भवः यस्य । अतः दारुणं हृदयदारणं हृदयभेदन पितुः नन्दस्य वैशसं दुःखं अखिललोकस्य सर्वजनस्य मोहनैः मनोहरैः क्रीडतैः लीलामिः शमयति स्म शमं प्रापितवान् ।।

.तृतीयः सर्गः॥ ९७ स लोचने किञ्चिदुपान्तपूर्णिते निधाय मातुर्वदने शुचिस्मितः । पयोधरं पाणियुगावलम्बितं मनश्च तस्या मधुसूदनः पपौ ॥ ५८ ॥ स इति ॥ सः तथाविधक्रीडाशाली मधुसूदनः किश्चित् ईषत् उपान्तयोः अंचलयोः धूणिते सोचिते लोचने मातुः यशोदायाः वदने निधाय निक्षिप्य कृत. स्मितः विहितपन्दहासस्सन् पाणियुगेन अवलम्बितं घृतं पयोधरं स्तनं तस्याः मातुः मनश्च हृदयं च पपौ पीतवान् । तद्दर्शने मनोऽपि तदायत्तमासीदित्यर्थः ॥ ५८ ।। पाणिजानुपरिचंक्रमश्रम- खेदबिन्दुमधुरं मुखं वहन् । धूसरेण वपुषा जनार्दनः गोकुलं निखिलमन्वरञ्जयत् ॥ ५९ ।। पाणीति ॥ जनार्दनः पाणिभ्यां जानुभ्यां च परितश्चम्क्रमः सञ्चारः तद्धेतुकात् श्रमात् आयासात् सातैः स्वदविन्दुभिः धर्मजकणैः मधुरं सुन्दरं मुखं वहन् धूसरेण भूरजश्शबलवर्णेन वपुषा उपलशितः निखिलं निश्शेषं गोकुलं गोष्ठ. वासिजन अन्वरजयत् अनुरक्तमकरोत् । सर्वेषां आनन्दं कृतवानिति यावत् ॥५९॥ परिभ्रमन्तं भुवि पाणिजानुना गवामधस्तात् प्रविशन्तमेकदा । सुतं यशोदा गृहकृत्यतत्परा बबन्ध पाशेन बलादुलूखले ॥६॥. 18 - भी कृष्णपिलासकाम्ये सव्याख्याने ॥ परीति ॥ गृहकले देवाराधनदधिमन्थनादिव्यापारे तत्परा निरता यशोदा एकदा कदाचित् भुवि पाणिजार्नुना पाणिभ्यां जानुभ्यां च । प्राण्यत्वात् एकवद्भावः । परिभ्रमन्तं परितस्सश्चरन्तं गवां पशूनां अधस्ताद अधोभागं प्रवि. शन्तं मुंत कृष्णं बलात् मैनं गावः खुरपातेन कदाचित् परिभवेयुरिति तं अनिच्छन्त- मप्यादायेत्यर्थः । पाशेन उल्खले बबन्ध नियमितवती ॥ जनो हि यः कर्म करोति यादृशं स सर्वथा तादृशमश्नुते फलम् । बलिः पुराऽबध्यत येन दानवः स लोकनाथोऽपि तदाप बन्धनम् । ६१ ॥ जन इति ॥ यः जनः यादृशं कर्म करोति सः जनः सर्वथा सर्वप्रका- रेणापि तादृशं तदनुरूपं फलं अश्नुते लभते हि । प्रसिद्धमिदम् । तथा हि- पुरा पूर्व येन भगवता बलिः महाबलिन म दानवः असुरः अबध्यत बद्धोऽभूत् । सः लोकनाथः विश्वनाथस्सलपि बन्धनं आप प्राप्तवान् । यत् यस्मात् पूर्वकृतवलि. बन्धनस्य फलमेव इदानी उल्खले बन्धनं अनुभुतमित्यर्थः । सामान्येन विशेष- समर्थनरूपोऽर्थान्तरन्यासः ॥ निखिलमुवनमुक्तिदे मुरारौ भगवति गाढमुलूखले निबढे । परिशिथिलसमाधिराविरासीत् मनसि महामुनिमण्डलस्य हासः ॥६२॥ निखिलेति ॥ निखिलेभ्यः सर्वेभ्यः भुवनवासिभ्यः मुक्तिदे मोक्षप्रदे भगवति मुरारौ विष्णौ गाढं मशं उलूखले निकले नियमिते सति महामुनिमण्डलस्य तृतीयः सर्गः ॥ ९९ महत: महर्षिसमूहस्य मनसि परिशिथिलसमाधिगलितसमाधिवन्धः हासः स्मित आविरासीत् आविर्भूतः । बन्धमोरनबन्धोपि बन्धनापत्तिः विस्मयनीयेति कारणम् ।। निषीद लोलेति निबध्य सस्मितं चकार कार्याणि चकोरलोचना । अनादरेण भ्रमयन्नुलूखलं विनिर्ययौ विश्वपतिः खमन्दिरात ॥ ६३ ॥ निषीदेति ॥ चकोरलोचना सुन्दरी। किश्चित्कोपारुणलोचनेति भावः । लोल चपलस्वभाव निषीद एवं बस्तिछेति सस्मितं यथा तथा निवथ्य त नियम्य कार्याणि गृहप्रयोजनानि चकार कृतवती। स विश्वपतिः विष्णुः अनादरेण अना- स्थया । प्रयासं विनेत्यर्थः । उल्खलं अमयन् तिर्यक् सश्चारयन् स्वमन्दिराद् गृहोदरा विनियेयौ बहिर्निजंगाम ॥ उपेयिवांसौ ककुभद्रुमात्मतां महीयसा नारदशापतेजसा । अतिष्ठतामध्वनि कैटभद्विषः कुबेरपुत्रौ तरसैव रिङ्खतः ॥ ६४ ॥ उपेयिवांसाविति ॥ महीयसा गुरुतरेण नारदशापस्य नारदप्रयुक्तस्य निग्रहवचनस्य तेजसा प्रभावेन ककुभद्मोऽर्जुनतरुः । 'ककुभोऽर्जुन'इत्यमरः । तदात्मतां तत्स्वरूपतां उपेयिवांसौ प्राप्तौ । 'उपेयिवाननाश्वाननूचानश्चेति निपाति. तः। कुबेरपुत्रौचालकूबरमाणेग्रीवनामानौ धनदात्मजौ तरसा बलात्कारेणेव रिखतः सखलितपदं गतः कैटभद्विषः कृष्णस्य अध्वनि मार्गे आविष्ठतां स्थितौ ॥ ६४ ॥ स सन्निकृष्य स्थितयोः परस्परं महारुहोर्सध्यपथेन निःसरन् ।

श्री कृष्णविलासकाव्य सव्याख्याने ॥ गतेन तिर्यक्त्वमुलूखलेन तौ बभञ्ज दामोदरगन्धवारणः ॥ ६५ ॥ स इति ॥ सः तथा गच्छन् दामोदरः एव गन्धवारणः मत्तगजः । तरु- भञ्जनौचित्याद्वारणत्वेन निरूपणम् । परस्परं अन्योन्यं सन्निकृष्य सम्मिलितौ भूत्वा स्थितयोः महील्होः ककुभद्रुमयोः मध्यपथेन मध्यमार्गेण निस्सरन् निर्गच्छन् तिर्यक्त्वं तिरश्चीनतां गतेन प्राप्तन उलूखलेन करणन तो द्रुमौ बभा भगवान् ॥ ६५ ॥ प्रपद्य दिव्यं वपुरम्बरस्थिती विमुक्तशापौ धनदात्मजावुभौ । प्रणम्य भक्त्या पुरुषं पुरातनं मुदाऽन्वितौ जग्मतुरन्तिकं पितुः । ६६ ।। प्रपद्येति ॥ धनदात्मजौ उशै नलकूबरमणिप्रीवौ दिव्यं वपुः आत्मरूपं प्राप्य लब्ध्वा । अत्र हेतुमाह -. विमुक्तशापौ शापाद्विमुक्तौ सन्तौ अम्बरस्थिती गगनमुत्पत्य तत्र वर्तमानौं पुरातनं पुरुष कृष्णं भक्त्या प्रणम्य मुदाऽन्वितौ सन्तो- पयुक्तौ पितुः धनदस्य अन्तिकं समीपं जग्मतुः गतवन्तौ ॥ नन्दादयः सपदि गोकुलवासिनस्ते तहङ्गजन्म सुमहद्ध्वनितं निशम्य । अभ्येत्य भग्नपतितौ ककुभद्रुमौ तौ तत्राक्षतं च ददृशुः सरसीरुहाक्षम् । ६७॥ नन्दादय इति ॥ नन्दादयः नन्दगोपप्रभृतयः ते गोकुलवासिनः तयोः ककुभद्रुमयोः महात् जन्म यस्य तादृशं सुमहत् अतिप्रवृद्धं ध्वनित निशम्य आक- तृतीया सर्गः ॥ W सपदि शीघ्र अभ्येत्य पूर्व भनौ पश्चात् पतितौ तौ ककुभद्रुमौ तत्र तत्समीपे अक्षतं अव्रणशरीरं सरसीरहाक्षं कृष्ण च ददृशुः दृष्टवन्तः ॥ ॥ ६७ ॥ नन्दः समीक्ष्य दुरितानि बहूनि सद्यः दत्वा गवामयुतमात्मसुताभिवृद्ध्यै । संमन्व्य बन्धुभिरपास्य पदं तदाशु वृन्दावनं प्रति ययौ शकटैरसंख्यैः ।।६८॥ नन्द इति ॥ नन्दः बहाने वृक्षपतनपूतनापातादीनि दुरिताने अमला. नि समीक्ष्य सम्यग्विचार्य आत्मसुतस्य वपुत्रस्य अभिवृद्धथै अभ्युदयाथै सद्भवः ब्राह्मणेभ्यः गवां अयुतं दशसहस्रं दत्वा बन्धुभिः इष्टजनैः सह समय सम्माविमृश्य तत्पदं तावदवधि स्थितं गोष्ठस्थानं अपास्य त्यक्त्वा आशु शीघ्रं असंख्यैः अपरि- मितैः शकटैः वाहनावशेषैः वृन्दावनं प्रति ययौ यातः ॥ गत्वा स गोकुलपतिर्मनसोऽनुकूले कूले कलिन्ददुहितुर्निदधे पदानि । रेमे च तत्र पुरुहूतपदाभिरामे लीलायितानि तनयस्य निरीक्षमाणः॥६९ ॥ गनेति ।। अथ अनन्तरं गोकुलपातेः नन्दः गत्वा मनसोऽनुकूले मनो- रथसदृशे कलिन्ददुहितुः कालिन्द्याः कूले तीरस्थले पदानि वासस्थानानि विदधे विरचितवान् । पुरुहूतपदं इन्द्रलोकः तद्वत् अभिरामे मनोहरे तत्र तस्मिन् प्रदेशे तनयस्य आत्मजस्य लीलायितानि क्रीडितानि निरीक्षमाणः पश्यन् रेमे च विजहार च ॥

१०२ श्री कृष्णविलासकाव्ये सध्याख्याने दधिनिर्मथने निरुवमा सा नवनीतश्रपणे गवां च दोहे । सुतकेलिहतेक्षणा यशोदा क्षणकल्पानि निनाय वासराणि ॥ ७० ॥ दधीति ॥ सुतस्य केलिभिः लीलामिः हृते समारे ईक्षणे चक्षुषी यस्याः तादृशी मती यशोदा दनः निर्मथने विलोडने नवनीतस्य नवोदृतस्य घृतस्य श्रपणे पाके । 'पाक' इति धातुः । श्रपः मिच्चेति मित्वात् 'मिता हूस्व' इति इखः । श्रपणमत्र पाकः । गवां दोहे शोरदोहने च निरुद्यमा निरुद्योगा। अत्र सर्वत उदासीनेति यावत् । वासराणि दिनानि क्षणकल्पानि प्रायशः क्षणसदृशानि निनाय गमयामास ॥ अनुयाति जिघृक्षयेव नन्दे तरसा रिक्षणतत्परस्य विष्णोः । ललितालकवेल्लितानि रेजुः मुखमात्रेण मुहुर्निवर्तितानि ॥ ७१ ॥ अन्विति ॥ नन्दे जिघृक्षयेव गृहीतुमिच्छयेव अनुयाति अनुधावति सति तरसा द्रुततरं रिलणतत्परस्य गमनप्रवृत्तस्य विष्णोः बालकृष्णस्य ललितं सुन्दरं अलकानां चूर्णकुन्तलानां वेल्लनं चलनं येषु तादृशानि मुखमात्रेण केवलं मुखेनैव न तु शेषावयवेन । मुहुः भूयः निवर्तनानि पश्चात् वलनानि रेजुः शुशु- भिरे । गृहीतुं कियदन्तरमासन्न इति द्रष्टुकामस्य शिशोः मुखपरिवर्तनं अति. ॥७०॥ र्थिः ॥ ॥ ७१ ॥ अन्तरा विहतिमहित्थितैः अस्फुटाक्षरपदाभिरुक्तिभिः ।

तृतीयः सर्गः ॥ ।। ७२ ॥ भंगुरैश्च परिरम्भणोधमैः गोकुलं निखिलमन्वरञ्जयत् ॥ ७२ ॥ अन्तरेति ॥ सः बालकृष्णः अन्तरा मध्ये विहतिमद्भिः सञ्जातविक्षः उत्यितैः उत्थानच्यापारैः । उत्थातुमयुक्तस्य तत्र अशक्या निपतनैः विरमणैति यावत् । अस्फुटानि अव्यक्तानि अक्षराणि पदानि च यासु । यदा अस्फुटाराणि पदानि यास ताभिः उक्तिभिः वाग्भिः भगुरैः भाशीलैः परिरम्भणमाश्लेषः तदर्थ उद्यमैः उत्साहैश्च निखिलं निश्शेषं गोकुलं तद्वासिजनं अन्वरजयत् अनुरक्तं अकरोत् । पश्य मातुलमिति प्रदर्शितं यामिनीषु गगने यशोदया । आजुहाव ललितेन पाणिना शीतभानुमरविन्दलोचनः ॥ ७३ ॥ पश्येति ॥ यामिनीषु रातिषु यशोदया अयि सुत गगने मातुलं पश्येति प्रदार्शतं द्रष्टुं प्रयुक्तं शीतभानु चन्द्र अरविन्दलोचनः कृष्ण: ललितेन विलासवता। विलासश्चात्र आह्वानसंज्ञा। तद्वता पाणिना आजुहाव आह्वानं कृतवान् । शिशून् प्रति चन्द्रो मातुल इति व्यपदिश्यत इत्ययं लोकसंव्यवहार इति द्रष्टव्यम् ॥ ७३ ॥ आत्मन: प्रतिकृति विलोकयन् मातृहस्तमणिदर्पणोदरे । एहि मित्र किमिहेति कौतुकात व्याजहार शतपत्रलोचनः ।। ७४ ।। ॥

भी कृष्णविलासंकाव्ये सध्यास्याने ॥ ७४॥ आत्मन इति ॥ शतपत्रलोचनः कृष्णः मातुः हस्ते विद्यमानस्य मणिद- णस्य दलमुकुरस्य उदरेऽन्तर्भागे आत्मनः स्वस्थ प्रतिकृतिं प्रतिबिम्बं विलोकयन् श्यन् हे मित्र सखे एहि अत्र आगच्छ । किं इह अस्मिन् मुकुरादरे किमर्थ वर्तसे ति एवं कौतुकात् स्वसदृशरूपदर्शनकुतूहलात् व्यजहार अवदत् ।। गौरवं कथमियं सहेत मे मेदिनीति कृपयेव चिन्तयन् । माधव: पतनभीतिमुद्दहन् मन्दमेव निदधे पदावलिम् ॥ ७५ ।। गौरवमिति ॥ माधवः पतनभीतिं द्रुतसञ्चारे स्खलनं भवेदिति भयं उद्वहन पदावलि पादविन्यासपक्तिं मन्दमेव शनैश्शनैरेव निदधे निहितवान् । अत्रोत्प्रेक्षते-- इयं मेदिनी भूमिः मे गौरवं गुरुत्वं भारमित्यर्थः । कथं सहेत इति कृपया सहेतुना चिन्तयन्निवेति ॥ देवो निशासु हरिरङ्कगतो जनन्याः शृण्वन् कथा मधुमुचो महताऽऽदरेण । मन्दं तदीयकरपल्लवताडितोरुः सुष्वाप कुड्मलितलोचनपुण्डरीकः । ७६।। देव इति ॥ निशासु रातिषु जनन्याः अङ्कगत. मातुः उत्साशायी देवः हरिः मधुमुचः माध्वी मुंचन्तीः । मधुरा इति यावत् । 'कथाः रामा- यणादिचरितानि महताऽऽदरेण आस्तिक्येन शृण्वन् जननीमुखादित्यर्थः । तथा च प्रयुअते- 'रामो नाम बभूव हु तदबला सीतेति हुं तौ पितुः वाचा पचवटीवने विहरतस्तामाहरद्रावणः । निद्राथै जननीकथामिति हरेः हुका- तस्वतः सौमित्रे क धनुर्धनुर्धनुरिति व्यग्रा गिरः पान्तु वः' इति ।

तृतीयः सर्गः॥ १०५ . मन्दं शनैः तदीयेन जननीसम्बन्धिना करपल्लवेन ताडितौ ऊरू यस्य तथा कुड्म. लिते मुकुलिते लोचने एव पुण्डरीके यस्य तथा च सुष्वाप सुप्तवान् ॥ ७६ ॥ कौतुकेन पितुरप्रतो हरेः धावतः स्खलनमीक्षमाणया। मोदनिघ्नमनसा सलज्जया न स्थितं न चलितं यशोदया ॥ ७७ ।। कौतुकेनेति ॥ कौतुकेन क्रीडारसेन पितुः नन्दस्य अग्रे पुरोभागे धावत: द्रुतपदं गच्छतः हरेः स्खलनं अमार्गे पतन ईक्षमाणया पश्यन्त्या यशोदया मोदनि- नमनसा प्रमोदायत्तचेतसा झटिति तद्ग्रहणमुखानुभवाभिलाषिण्येति यावत् । अतः न स्थितं स्थातुं न पारितम् । सलज्जया भर्तृसन्निधानात् जातलज्जया ततः न चलि. तं उत्थातुमपि न पारितमित्यर्थः । मुखडिण्डिमवादिना परीतो मधुजित् कौतुकिना सुहृद्गणेन । अधिरोपितवारणेन्द्रभावः ललिताभिर्गतिभिर्गृहेषु रेमे ॥ ७८ ॥ मुखेति । मुखमेव डिण्डिमं जीरवाद्यं वादयितुं ध्यानयितुं शीलमस्येति तादृशेन कौतुकिना कुतूहलवता सुहृदणेन सवयस्कवालवृन्देन परीतः परिवृतः म- धुजित् कृष्णः अधिरोपितः अङ्गीकृतः वारणेन्द्रस्य गजेन्द्रस्य भावः स्वभावः येन तथा सन् ललिताभिः विलासयुक्ताभिः गतिभिः सचारभेदैः गृहेषु गोमन्दिरेषु रेमे क्रीडितवान् ॥ 14 ॥ ७७ ॥ ।। ७८ ॥

श्री कृष्णविलासकाव्ये सव्याख्याने
॥ ७९ ॥
अथाभिवृद्धि प्रतिपद्यमानो
दध्यादिषु प्रीतिमुवाह शौरिः।
तत्तत्प्रदानेन वशे विधातुं
आरेभिरे गोकुलयोषितस्तम् ॥ ७९ ॥
अथेति ॥ अथ अनन्तरं अभिवृद्धिं क्रमेण पुष्टिं प्रपद्यमान: गच्छन्
शौरिः कृष्णः दध्यादिषु दधिक्षीरनवनीतादिगव्यद्रव्येषु प्रीतिं उवाह सतृष्णोऽभूत् ।
गोकुलयोषितः गोप्यः तत्तत्प्रदानेन तत्तदिष्टवस्तुप्रतिपादनेन तं बालं वशे विधातुं
आत्माधीनं कर्तु आरेभिरे प्रवृत्ता: ॥
कुरुष्व नृत्तं नवनीतमूल्यं
कृष्णेति साभ्यर्थनमूचिषीणाम् ।
बजाङ्गनानां स पुरः सलील
उदञ्चयामास पदारविन्दम् ॥ ८॥
कुरुष्वेति ॥ हे कृष्ण नवनीतं मूल्यं वेतनं यस्य तादृशं नृत्तं कुरुष्व ।
तदेव नृत्तक्रियाफलमित्यात्मनेपदेन द्योत्यते । इति एवं प्रकार साम्यर्थनं याच्आपूर्व
उचिषीणां व्रजानानां गोपीनां पुरतः सः कृष्णः सलीलं पदमरविन्दमिव पदार-
विन्दं उदश्चयामास उत्क्षिप्तवान् ।।
तासां मनःप्रीतिविधानदक्षे
तथा क्षणं तस्थुषि शार्ङ्गपाणौ।
एकांघ्रिसंस्पर्शवियोगमातात
अधन्यमात्मानममन्यतोर्वी ॥ ८१ ॥

तृतीयः सर्गः।। तासामिति ॥ तासां गोपीनां प्रीतिविधाने सन्तोषोपपादने दक्षे विदग्धे शाहूपाणौ कृष्णे क्षणं अल्पकालं तथा तस्थुषि उत्क्षिप्तैकपाद एव स्थिते सति उर्वी भूमिः एकस्य अंग्रेः संस्पर्शन या वियोगः समातः तन्मात्रादेव आत्मानं अधन्यं पुण्यरहितं अमन्यत अवबुद्धवती॥ उदश्चितं तस्य विलोक्य पादं वेधाः पुनर्विक्रमशङ्किचेताः। कमण्डलुं पाणितलेन गृह्णन् अभ्युद्यतोऽभुदवनेजनाय ॥ ८२ ॥ उदाञ्चतमिति ॥ वेधाः ब्रह्मा तस्य पादं उदश्चितं उस्थितं विलोक्य पुन- रपि विक्रमं त्रिविक्रमप्रस्तावं विशङ्कितुं शील अस्येति तादृशचेतास्सन् पाणितलेन कमण्डलु कुण्डिकां गृह्णन् धारयन् अवनेजनाय चरणवाल नाय । 'विष्णोः पदा- म्बुजं दिव्यं विक्रमाय समुत्थितम् । शालयामास विधिवत् कुण्डीतोयेन पद्मभूरिति- वत् तदानीमपि तत्कालागमनशङ्कया तत्पदधावनाय अभ्युद्यतः उद्युक्तोऽभूदित्यर्थः ॥ नृत्तामृतं गोकुलयोषितस्तत कृष्णस्य नेत्राञ्जलिभिः पिबन्त्यः । प्रीतिप्रकर्षस्तिमितैर्मनोभिः आलेख्ययोषित्प्रतिमा बभूवुः॥ ८३ ॥ नृत्तेति ॥ कृष्णस्य तत् तादृशं नृत्तमेव अमृतं नैवैरेव अञ्जलिभिः पिब- नत्यः गोप्यः प्रीतिप्रकर्षण प्रमोदातिशयेन स्तिमितैः निश्चलैः मनोभिः उपलक्षिता- स्सत्यः आलेख्ययोषित्प्रतिमा: चित्रलिखितस्त्रीरूपतुल्याः बभूवुः ॥ ॥ ८३ ॥ विदुर्न तद्दर्शनपारवश्यात् दातुं कस्स्थं नवनीतमेका; ।

१०८ श्री कृष्णविलासकाव्ये सव्याख्याने ॥ ८४॥ वित्रस्य भूमौ पतितं तदन्या: न मेनिरे पाणिपयोरुहेभ्यः ॥ ८ ॥ विदुरिति ॥ एकाः काश्चन गोप्यः तस्य कृष्णस्य दर्शने यत् पारवश्यं तस्माद्धेतो: करस्थं नवनीतं तदर्पणाय करोद्धृतं नवोद्धतं घृतं दातुं तस्मै प्रतिपादयि. तुं न विदुः नाजानन् । अन्याः गोप्यः पाणिसरोरुहेभ्यः करेभ्यः सकाशात् विस्रस्य विदलनं कृत्वा भूमौ पतितं नवनीतं न मेनिरे नावाबुध्यन्त । अत्रापि दर्शनपार- वश्यमेव हेतुः ॥ अजस्रमेवं भवनेषु तासां बभ्राम कृष्णो नवनीतभिक्षाम् । पुरा किलान्यैरनिवर्तनीया निवर्तिता येन हरस्य भिक्षा ॥ ८५ ॥ अजस्रामिति ॥ पुस पूर्व अन्यैः विरिश्चपुरन्दरादिभिः अनिवर्तनीया नि- वर्तयितुं विरमयितुं अशक्या हरस्य परमेश्वरस्य भिक्षा भिक्षाटनं येन विष्णुना निव- तिता विरमिता तेनैव उपसंहारिता किलेति प्रसिद्धिः । 'पूरयित्वा हरिश्शंभोः श्रत- स्वांगुलिशोणितैः । कपालं त्याजयामास तेनैव स कपालिने ति श्रूयते । तादृशः सः कृष्णः एवं उक्तप्रकारेण अजस्रं अनवरतं तासां गोपिकानां भवनेषु नवनीत- भिक्षा नवनीतरूपां भिक्षाम् । आदायेति शेषः । बभ्राम सञ्चचार । अहो आश्व- .. मिति भावः ॥ धिग्याचनां चौर्यभवस्य भूया- नस्त्यंहसो निर्हरणाभ्युपायः। मलेति नूनं नवनीतचौर्ये मधोनिहन्ता मतिमाबबन्ध ! ८६ ॥ .

तृतीयः सर्गः ॥
१०९
-
।
धिगिति ॥ याचनां याश्चां धिक् । आतदैन्यास्पदमिति भावः । यदा.
हुः–'देहीत्युक्तेनर्जीवनाशो वरीया'निति । चौर्यभवस्य चौर्यात् जायमानस्य अं.
हसः दुरितस्य निर्हरणाय प्रशमनाय अभ्युपायः भूयान् बहुतरः आस्ति विद्यते ।
तथाचोक्तम् - 'अत्यागेनां धनं मुष्णन् ये ददाति तदर्थिने । तस्य मोषणजो दो-
षो दानधर्मेण शाम्यतीति । इति एवं मत्वा मधोः निहन्ता कृष्णः नवनीतस्य
चौथे मोषणे विषये मति आवबन्ध बुद्धिं दृढीकृतवान् । नूनं ध्रुवम् । लुन्धाभ्यः
गोपिकाभ्यः नवनीतं मुषित्वा तद्दोषनिर्हरणाय मार्जारेभ्योऽपि तत् प्रदास्यामीति
निश्चित्य एवं आरब्धवानयमिति अभिप्रायः ।
निर्वाप्य दीपं मुखमारुतेन
हैयङ्गवीनं निशि हर्तुमिच्छन् ।
कृष्णः कटीभूषणरत्नभासा
विहन्यमानो विषसाद भूयः ॥ ८७ ॥
निर्वाप्येति । निशि रात्रौ दीप मुखमारुतेन मुखानिलेन निर्वाप्य प्रशम-
व्य हैयङ्गवीन पूर्वेयुः दुग्धे पयसि संभृतं घृतम् । तत्तु 'हैयङ्गवीनं यद्ध्यो गोदाहोद्भवं
मृत'मित्यमरसिंह । हर्तुं चोरायतुं इच्छन् कृष्ण: कटीभूषणस्य काम्च्याः संबन्धि-
नः रत्नस्य भासा दीप्त्या विहन्यमानः विनं प्राप्तः भूयः पुन: विषसाद निरुद्योगः
स्थितः । दीपे निर्वापितेऽपि रत्नद्युतेः प्रकाशः दुर्निवार इति किंकर्तव्यतामूढः
स्थितवानित्यर्थः॥
"निपीडयन्नग्रपदेन पृथ्वी
उन्नम्य देहं भृशमूर्ध्वबाहुः।
पयोघटस्पर्शमनश्नुवानः
त्रिविक्रमोऽभूत्परिहासपात्रम् ॥ ८८ ॥
..
॥ ८७॥

११० श्री कृष्णविलासकाव्ये सन्याख्याने निपीडयानिति ॥ त्रिविक्रमः विष्णुः अग्रपदेन पादाग्रेण पृथ्वी निपीड. यन नितरां अवष्टम्भयन देहं भृशं अत्यर्थे उन्नम्य उत्तानीकृत्य ऊर्ध्वबाहुः प्रक्षिप्त बाहुः एवं कृतप्रयासः पयोघटस्य दुग्धकलशस्य स्पर्श अनश्नुवानः अलभमानस्सन् परिहासस्य पात्रं स्ववयस्यानां अपहासास्पदं अभूत् । त्रिविक्रम इति लोकत्रयव्या- प्तशरीरोऽपि अत्र कुण्ठोऽभूदित्याश्चर्यमिति भावः ॥ नियमितश्वसितो निभृतैः पदैः निशि कथञ्चन गर्भगृहं गतः । स तु भयादसमाप्तमनोरथः निववृते नवनीतहरो हरिः॥ ८९ ॥ नियमितेति ॥ सः हरिः निशि रात्रौ नियमितश्वसितः 'निरुद्धश्वासवातः निभृतैः निश्शब्दैः पदैः पादविन्यासै. कथश्चन यत्नेन गर्मगृहं अन्तर्भवनं गतः प्राप्त: नवनीतहरः नवनीतं मुष्णन् भयात् गोप्य आयास्यन्तीति भीत्या असमाप्त: असंपूर्णः मनोरथः नवनीतभक्षणाभिलाषः यस्य तथा सन्नेव निववृते गर्भगृहात् बहिः निर्गतः ॥ हतु हरेर्व्यवसितस्य धने निशीथे भूषारवश्रुतिभयात् ब्रजतोऽतिमन्दम् । अन्तहस्य नवनीतवतः प्रवेशात् प्रागेव हन्त पथि सारजनी क्भिाता ॥ ९ ॥ हर्तुमिति ॥ धने निविडे निशीथे अर्द्धरात्रे हर्तुम् । नवनीतमिति शेषः । व्यवसितस्य उद्युक्तस्य भूषारवस्य भूषणशिअितस्य श्रुतेः श्रवणात् यत् भयं गोप्य: श्रोष्यतीति भीतिः तस्माद्धेतोः अतिमन्दं शनैश्शनैः ब्रजतः गच्छतः । पदे पद. शतं विन्यस्य सञ्चरत इत्यर्थः । हरेः कृष्णस्य । नवनीत लस्त्यस्मिनिति नवनीत. 0 .

तृतीयः सर्गः ॥ वतः गृहस्य अन्तः प्रवेशात् अन्तः प्राप्तेः प्राक् पूर्व पथ्येव मार्ग एव सा रजनी यस्यामनेनेदं व्यवसितं सा रातिः विभाता प्रभातत्वं प्राप्ता । हन्तेति खेदे। 'हन्त खेदानुकम्पाया'मित्यमरः । कष्टं वृथा प्रयतितं भगवतेति कवेरनुकम्पा. यां वा॥ गोपीसमागमभिया च तृषा च गुळ पातुं च हातुमपि गोपगृहेष्वजानन् । आधारमादधिघटं च गतागतानि कुर्वन् सरोजनयन: श्रममेव लेभे ॥ ९१ ॥ गोपीति ॥ गोपीनां समागमात् आगमात् सकाशात् भिया भीत्या च गुर्ला तृषा तृष्णया च पातुं दधि विहातुं त्यक्तुमपि अजानन् अशक्नुवन् सरोज- नयनः कृष्णः गोपगृहेषु आदार द्वारावधि आदधिधर्ट दविघटावधि च गतागतानि गमनागमनं च कुर्वन् सन् श्रममेव आलस्यमेव लेभे । न तु दधि लब्धवान् ।। भित्तिषु प्रतिशरीरदर्शनात् शङ्कितः स नवनीतनिःस्पृहः । किश्चिदन्यदिव तत्र मार्गयन् निर्जगाम मणिमन्दिरोदरात ।. ९२ ॥ ॥ भित्तिष्विति ॥ सः कृष्णः भित्तिषु कुव्येषु । मणिमन्दिरस्य मणिम- येषु कुल्येष्वित्यर्थः । प्रतिशरीरस्य आत्मप्रतिबिम्बस्य दर्शनाद्धेतोः शक्तिः कश्चि- दिहास्तीति शङ्कावान् नवनीते निस्पृहः निराकांशः अन्यत् किश्चिद्वस्तु तत्र मार्गयन् अन्विच्छनिव मन्दिरस्य उदरात् निर्जगाम निष्क्रान्तः ॥ ।। ९२॥

श्री कृष्णविलासकाव्ये सल्याख्याने जिहीर्षुरन्तर्भवनेषु गोरसं दिनान्यनैषीत्तदुपायचिन्तया । स जागरूकश्च निनाय यामिनी मनोहराभिर्हरणप्नवृत्तिभिः ॥ ९३ ॥ जिहीर्षुरिति । सः कृष्णः अन्तर्भवनेषु भवनोदरेषु गोरसं गव्यं जिहीर्घः हर्तुमिच्छुः तस्य गोरसहरणस्य उपायचिन्तया । उपायो नाम प्राप्तिसाधनम् । त- द्विषयविचारेणेत्यर्थः । दिनानि दिवसानि अनैषीत् गमयामास । जागरूका विनि: द्रस्सन् मनोहराभिः मनसोऽनुकूलाभिः हरणप्रवृत्तिभिश्वोरणब्यापारैः यामिनीं रात्रि तां निनाय नीतवान् । दिवा मनसा रात्रौ क्रियया चेति गव्यचोरणैकतानत्वं दर्शितम् ।। दृष्टेऽपि तत्सविधसञ्चरणे स तत्र वक्तुं निमित्तमुचितं कृतनिश्चयः सन् । अभ्यर्ण एव निदधे दधिभाजनस्य लीलायितोपकरणानि निजानि शौरिः । ९४' दृष्ट इति ।। सः शौरिः दधिभाजनस्य दधिकुम्भस्य अभ्यणे समीप एवं निजानि अत्मीयानि लीलायितस्य क्रीडायाः उपकरणानि लोष्टाश्मखण्डदारुपुत्रिका- प्रभृतीनि साधनानि निदधे निहितवान् । तत्र निधानस्य प्रयोजनमाह -- दृष्टेऽपी- त्यादिना । तत्सविधे समीपे यत् सञ्चरणं सञ्चारः तस्मिन् दृष्टे येन केनापि अव- लोकिते सत्यपि तत्र उचितं युक्तं निमित्तं कारण लोष्टादिकं आदातुं आगतोऽस्मी- त्येवमादिप्रयोजनमित्यर्थः । वक्तुं कृतनिश्चयः कृतव्यवसायस्सन् एवं कृतवानित्यर्थः । वहन् गृहीतो नवनीतमच्युतो भयेन पारिप्लवनेत्रपङ्कजः।

• तृतीयः सर्गः ॥ ॥ ९५ ।। पदा लिखन् भूमिमवाङ्मुखस्थितो जहार चेतोऽपि च गोपयोषिताम् ॥९५॥ वहन्निति ॥ नवनीत वहन करे धारयन् । मुषितं नवनीतं हस्ते निधाय गच्छन्नित्यर्थः । गृहीतः गोपयोषिद्भिः क गच्छसि चोर? इति बलात् हस्ते गृहीत: अच्युतः कृष्णः भयेन हेतुना पारिप्लवे चश्चले नेते पङ्कजे इव यस्य तादृशः अवाङ्मुखः अधोमुखः अवचनमुखः इति वा । पदा पदाप्रेण भूमिं विलिखन् स्थितस्सन् गोपयोषितां गोपीनां चेतोऽपि हृदयमपि जहार हृतवान् । न केवलं नवनीतमेवेत्यर्थः ॥ शपे पितृभ्यामित ऊर्ध्वमेवं नाहं विधास्ये नवनीतचौर्यम् । विनिश्वसन्नित्यभिधाय कृष्णो जहार मातुश्च पितुश्च चेतः ॥ ९६ ॥ शप इति ॥ पितृभ्यां शपे पितरावुद्दिश्य शपथं करोमि । किं तदिति चेत् अत्राह- इत ऊर्ध्वं अस्मादिनादुपरि अहं एवं यथेतःपूर्व तहत् नवनीतस्य चौर्य मोषणं न विधास्ये न करिष्यामि इति एवंप्रकारं अभिधाय उक्त्वा विनिश्वसन दीर्घनिश्वासं कुर्वन कृष्णः मातुश्च पितुश्च चेतः जहार हृदयं आहृतवान् ॥ ९६ ॥ एहि सद्म तनयेति सादरं याचितोऽपि स मुहुर्यशोदया। आननेन नवनीतगन्धिना नाजगाम विहरनिवाच्युतः ॥ ९७ ॥ 16

भी कृष्णविलासकाव्ये सध्याख्याने
एहीति ॥ सः अच्युतः हे तनय सम एहि गृहं आगच्छ इति एवं.
प्रकार यशोदया सादरं आदरसहितं यथा तथा मुहुः बहुशः याचितः अर्थितोऽपि
नवनीतगन्धिना नवनीतसुगन्धः अस्मिन्नस्तीति तादृशेन आननेन मुखेन उपल.
चितः नाजगाम नागतवान् । नवनीतगन्धेन एषा मां नवनीतचोरमनुमास्यतीति
मत्वेति यावत् । विहरन् क्रीडनिव । हेत्वर्थकशता । विहरणरूपं हेतुमाविश्येत्यर्थः ॥
हृतं नवं मे नवनीतमालयात
हृतं घृतं मे दधि मे हृतं निशि ।
इति प्रभाते वचनानि योषितां
उवाह शृण्वन् न मुखे स विक्रियाम् ॥
हृतमिति ॥ निशि रात्रौ मे आलयात् नवनीतं नवोदधृतं सर्पिः ।
'सर्पिर्नवनीतं नवोद्धृत'मित्यमरः । नवमिति विशेषणं तु गोबलीवर्दन्यायेन द्रष्ट-
व्यम् । हृतं चोरितम् । मे घृतं मे दवि हृतम् । इति एवंप्रकारं प्रभाते प्रातः
योषितां गोपीनां वचनानि शृण्वन् सः कृष्णः मुखे विक्रियां विकारं न उवाह न
धृतवान् । अन्येन कृते किं ममेत्यभिनीय तूष्णी स्थितवानित्यर्थः ।
पुत्रं कुलस्य भुवनस्य च रक्षितारं
अभ्यर्थितोऽपि भगवानरविन्दनाभः ।
बां मे ददौ विधिवशात् भुवनैकचोर-
मित्याह कोपमभिनीय सुतं यशोदा ॥१९॥
पुत्रमिति ॥ कुलस्य प्रदेशस्य भुवनस्य लोकस्य च रक्षितार त्रातारं
पुत्र अभ्यर्थितः गाचितस्सन् भगवान अरविन्दनाभः महाविष्णुः विधिबलात् विधि-
शक्त्या भुवने एकचौरे प्रधानतस्करं त्वां मे ददौ दत्तवान् । भुवनस्य रचितार
अभ्यर्थित: भुवनस्य मोटारं दत्तवान् । ददाविति दानक्रियायाः स्वस्य परोक्षतयो.
॥ ९८॥

मृतीया सर्गः ॥
११५
॥९९ ॥
॥ १०॥
क्लेखः । इति एवंप्रकारं यशोदा कोपं अभिनीय नाटयित्वा । न तु वास्तवकोपेन ।
सुतं आह उक्तवती । आहेत्यव्ययम् ॥.
स सान्त्वनेन प्रतिपादनेन
'भेदेन तीब्रेण च तर्जनेन ।
निबद्धय पृष्टोऽपि मुहुर्जनन्या
नाङ्गीकरोति स्म हरिः स्वचौर्यम् ॥१०॥
स इति । सः हरिः जनन्या यशोदया सान्त्वनेन साना प्रतिपादनेन
दानेन भेदेन भेदोपायेन तीत्रेण क्रूरेण तर्जनेन भर्त्सनरूपेण दण्डेन च । चतुर्भिः
उपायरित्यर्थः । मुहुः बहुशः निबद्ध्य निष्कृत्य पृष्टः अनुयुक्तोऽपि स्वस्य आत्मनः
चौर्य स्वकर्तृकं मोषणं नाङ्गीकरोति स्म नाङ्गीकृतवान् ॥
संरक्षणाय जगतामवतीर्य पृथ्व्यां
गोपालसद्मसु हरत्यखिलं मुकुन्दः ।
इत्थं निशम्य परिहासवचः सुराणां
अन्तर्जहास भगवानरविन्दनाभः ॥११॥
संरक्षणायेति ॥ जगतां लोकानां संरक्षणं वाणं कर्तुं पृथ्व्या भूमौ
अवतीर्य अवंतीणस्सन् मुकुन्द: गोपालानां सद्मसु भवनेषु अखिलं समस्तं वस्तु
हरति मुष्णाति । इत्थं एवंविधं सुराणां परिहासवचः प्रहसनवचनं निशम्य श्रुत्वा
भगवान् अवन्दन्धभ- अन्तर्मनसि जहास स्मितवान् । युक्तमिदम् मदेशोद्भवस्य
यतः संहारोपि मस्क्रीडितमेवेति सम्भावनं हासहेतुः ।।
कृष्णस्य केलिसमरेक्षणकौतुकेन
गोपीषु मुक्तभवनासु बहिः स्थितासु ।
॥ १.१॥

श्री कृष्णविलासकाव्ये सव्यास्याने मितेः पराजित इव दुतमेत्य गेहं बध्वा कवाटमहरनवनीतमन्तः ॥ १०२॥ कृष्णस्येति ॥ कृष्णस्य केलिसमरं बालकैः सह क्रीडायुद्धम् । तस्य ईक्षणे कौतुकेन औत्सुक्येन हेतुना गोपीषु मुक्तभवनासु त्यक्तगृहासु बहि: बाह्या- हूणे स्थितासु सतीषु कृष्णः मित्रैः सुहृद्भिः पराजित इव भङ्गं प्रापित इव द्रुतं शीघ्र गेहं गृहोदरं एत्य प्रविश्य कवाट बध्वा । अन्यथा अमी इह आगत्य मां प्रहरिष्य. न्तीति भयेनेति भावः । नवनीतं अहरत् । हत्वा भक्षितवानिति यावत् ।।१०२॥ त्रिभुवनमहनीयैरभ्युपायैरसङ्ख्यैः निखिलमिति स मुष्णन् गोकुलं नन्दसूनुः । अरमत सवयोभिस्तत्र गोपालपुत्रैः अपर इव शशाङ्गःप्राणिनां प्रीतिहेतुः ॥१०३॥ इति सुकुमारकृतौ कृष्णविलासकाव्ये ॥ तृतीयः सर्गः ॥ त्रिभुवनेति ॥ त्रिभुवनेन भुयनत्रयवासिजनेन महनीयैः पूजनीयैः असङ्ख्यैः अपरिमेयैः अभ्युपायैः इति एवंप्रकारं गोकुलं गोष्ठं निखिलं वस्तु मुष्णन् । 'अकथितश्चेति मुष्णातेः द्विकर्मकत्वम् । गोकुलादित्यर्थः । स: नन्दसूनुः तत्र गोकुले सवयोभिः तुल्यवयस्कैः गोपालपुत्रैः सहेत्यर्थः । अरमत क्रीडितवान् । अपर: अन्यः शशाङ्क: चन्द्रः इव प्राणिनां शरीराणां प्रीतिहेतुः प्रमोदकारणमिति सकलं अविकलं मङ्गलम् । मालिनी नाम वृत्तमिदम् । 'नोनामो यश्च यश्चेति मालिनी गजवाजिभि रित ॥ १॥ १०३ ॥ इति श्रीरामपाणिवादविरचितायां विलासिन्याख्यायां श्रीकृष्णविलासव्याख्यायां ॥ तृतीयः सर्गः ॥

॥ श्रीरस्तु । ॥ अथ चतुर्थः सर्गः ॥ स रोहिणीसूनुनिबद्धरागः सतां शरण्यस्तमसोऽपहर्ता । मनोहरो बाल इवौषधीशो दिनेदिने पोषमियाय शौरिः ॥ १॥ स इति ॥ तादृशक्रीडापरशौरिः वासुदेवः रोहिणीसूनौ बलभद्रे बुधे च निबद्धरागः नितरामारूढः स्नेहो यस्य । सतां सज्जनानां शरण्यः शरणाईः । तमसः अज्ञानस्य तिमिरस्य च अपहर्ता निरासकः मनोहर: बालः ओषधीश: चन्द्र इव दिनेदिने प्रतिदिन पोषमियाय वृद्धि प्राप्तवान् । श्लेषानुगृहीत उपमा- त्यक्त्वा हरिः स्तैन्यकृतापवादं तच्छैशवं प्राप्य दशान्तरं सः। मन्ये तदंहःपरिमार्जनाय गवां परित्राणसमुद्यतोऽभूत् ॥ २॥ त्यक्त्वेति । सः हरिः स्तैन्येन चौर्येण कृतं उत्पादितमपवादं अति त्य क्त्वा तत्तादर्श शैशर्व दशान्तर अवस्थाविशेषं प्राप्य गवां परित्राणे पालने समुद्यत: उद्युक्तः अभूत् । तदंह इत्यत्र तच्छन्देन तैन्यं परमृश्यते । तैन्येन यदहो दुरित सातं तस्य परिमार्जनाय तत् प्रमाटुंमिति मन्ये अहं समर्थयामि । यदाहुः- 'गवां शुश्रूषणात् पापं सर्वमपि विनश्यतीति ॥ - श्री कृष्णविलासकाम्ये सव्याख्याने पुत्र तथोद्योगिनि नन्दगोपो गोपालपुत्राननुनीय सर्वान् । त्रातुस्त्रयाणामपि विष्टपानां संरक्षणे तस्य समादिदेश ॥ ३ ।। पुत्र इति ॥ पुत्र तथोद्योगिनि तथा गोताणकृतोत्साहे सति नन्दगोप: विष्टपानां भुवनानां त्रयाणापपि त्रातुः रचितुः तस्य पुत्रस्य संरक्षणे सम्यक्पालने विषये सर्वान् गोपालपुत्रान् अनुनीय अनुसरणपूर्वकं समादिदेश नियुक्तवान् ॥३॥ मात्रा कृतवस्त्ययनः प्रभाते पित्रा परिष्वज्य चिरं विसृष्टः । सहैव रामेण समग्रहर्षः विनिययौ विश्वपतिर्वनाय ॥४॥ मात्रेति ॥ विश्वपतिः कृष्णः प्रभाते प्रातःकाले मात्रा जनन्या कृत- स्वस्ययनः कृताशीर्वादः पित्रा जनकेन चिरं परिष्वज्य दीर्घकालमालिङ्गय विसृष्टः अनुमतगमनः समग्रहर्षः सम्पूर्णमोदस्सन रामेण सहैव वनाय वनं गन्तुं विनिर्ययौ प्रस्थितवान् ॥ स प्रातराशी व्यतिषक्तपाणिः यष्टिं वहन्नंसविषक्तशृङ्गः! विमुच्यतां गौरिति सम्भ्रमेण गच्छन् प्रतिद्वारमवोचदुच्चैः ॥ ५॥. 0 चतुर्थः सर्गः ॥ ११९ स इति ॥ सः कृष्णः प्रातराशितुं शीलमस्येति तथा । व्यतिषक्तपाणिः शालितकरतलः यष्टिं वहन् वेत्रदण्डमुद्हन् अंसविषक्तशृङ्गः स्कन्वदेशार्पितवाद्य - विशेष द्वारं प्रति गच्छन् सम्भ्रमेण त्वरया गौर्विमुच्यताम् । जातावेकवचनम् । गावो विमुक्तबन्धाः क्रियन्तामित्यर्थः । इति एवंप्रकार उच्चैरवोचत् उक्तवान् ॥ ५ ॥ निशम्य तस्य ध्वनिमूर्ध्वकर्णाः विलूनपाशा भृशमुत्सुकिन्यः। वत्सानपि स्वाननपेक्ष्य गावः ससंभ्रम निर्ययुरालयेभ्यः ॥६॥ निशम्येति ॥ गावः तस्य विश्वपतेः ध्वनि शब्दं निशम्य आकर्ण्य ऊर्ध्वकर्णाः विलूनपाशाः छिमपाशाः भृशं अत्यर्थ उत्सुकिन्यः औत्सुक्यशालिन्यः स्वात्मीयान् वत्सान् तर्णकानपि अनपेक्ष्य अविचार्य ससम्भ्रमं सत्वरं आलयेभ्यः निवासस्थानेभ्यः निर्ययुः निर्गताः ॥ गत्वा पुरस्ताद्गजराजगामी गोष्ठं गरिष्ठो गुणमण्डलेन । अपूरयन्मित्रगणागमार्थ पित्रोरभीष्टेन सहैव शृङ्गम् ॥ ७ ॥ गत्वेति ॥ गजराजः गजश्रेष्ठ इव गन्तुं शीलमस्येति तथा गुणानां वीर्यविनयगाम्भीर्यादीनां मण्डलेन समूहन गरिष्ठः गरीयान् पुरस्तात् पूर्वमेव गोष्ठं गोस्थानं गत्वा मित्रगणानां सुहासंघानां आगमार्थ आगमप्रयोजनं पितोः जननी- जनकयोः अभीष्टेन आभमतेन सहैव श अपूरयत् । शन्दितवान् । अभीष्टपधे वद्धितवान् ॥

१२० श्री कृष्णविलासकाव्ये सत्याख्याने . ॥ ८॥ नभस्पृशा कर्णपनं गतेन तेनैव संज्ञागवलखनेन । आदाय तत्तत्परिबर्हजातं सद्यो गृहेभ्यः सुहृदो निरीयुः ॥८॥ नभ इति ॥ सुहृदः वयस्याः नभः आकाशं स्पृशतीति तादृशेन कर्णपथं श्रोत्रमार्ग गतेन प्राप्तेन तेन संज्ञागवलस्य संज्ञार्थत्य शृङ्गस्य स्वनेन नादेनैव हेतुना तत्तत् अनेकप्रकार परिवर्हजातं पदार्थजालं आदाय गृहीत्वा सद्यः तत्क्षणमेव गृहेभ्यः निरीयुः निर्गताः ॥ गवां खुरन्याससमुद्भवेन विषाणसघट्टनजन्मना च। प्रसर्पता दिक्षु महास्वनेन घोषः क्षणं घोषमयो बभूव ॥९॥ गवामिति ॥ गवां खुरन्यासात् खुरविक्षेपणात समुद्भव. यस्य तदिशेन विषाणानां शृङ्गाणां सघटनात् मिथः समाघातात् जन्म यस्य तादृशेन दिक्षु प्रर्पता व्याप्नुवता महता स्वनेन शब्देन क्षणं अल्पकालं घोषः गोप्नं घोषमय: शब्दमयः बभूव सञ्जातः ॥ प्रधावनैरुत्प्लुतिभिः सुदूरं मिथो बलातग्राहविमोचनैश्च । समागतैस्तत्र समं सुहृद्धिः बहुप्रकारं विजहार शौरिः ॥१०॥ प्रधावनैरिति ॥ तत्र गोष्ठे समागतैः सम्प्राप्तैः सुहृद्भिः वयस्यैः समं चतुर्थः सर्गः ॥ १२१ . ॥ रिः कृष्णः प्रधावनैः पलायनैः सुदूरं उच्चै तरां उत्प्लुतिभिः उत्पतनैः मिषः अ. न्योन्यं बलामाहै। बलेन ग्रहणैः विमोचनैः पुनस्त्यजनैश्च बहुप्रकारं अनेकविधं विजहार क्रीडितवान् ॥ परेण हर्षेण पुराणपुंस: संकीडमानस्य समं सुहृतिः। पवित्रयामास पदाम्बुजोत्थिता करीषधूलिः ककुभां मुखानि ।। मुखानि ॥ ११ ॥ परेणेति ॥ सुहृद्भिः समं परेण उत्कृष्टेन हर्षेण प्रमोदेन हेतुना संक्रीडमा- नस्य विहरतः पुराणरय पुसः कृष्णस्य पदाम्बुजात् उत्थिता करीषस्य धूलिः शुष्क- गोमयस्य रेणुः । गोविड् गोमयमास्त्रेयाम् । तत्तु शुष्कं करीषं स्या'दित्यमरः । ककुभां मुखानि दिङ्मुखानि पवित्र यामास पवित्रााण चकार ।। महर्षयस्तत्र महानुभावाः गृहीतरूपान्तरदुन्निरूपाः । भवाग्निसन्तापहरे ममज्जु: पदोत्थिते तस्य परागपूरे ॥ १२ ॥ महर्षय इति ॥ महानुभावाः महाप्रभावाः तत्र महर्षयः तवत्याः मुनयः भवामिसन्तापहरे संसाररूपस्य अनेः सकाशात् यः सन्तापः तं हरति शमयतीति तादृशे तस्य कृष्णस्य पदाभ्यां उस्थिते उद्भूते परागपूरे पांसुसञ्चये ममज्जः ममाः। अत एवं गृहीतेन स्वीकृतेन रूपान्तरेण अन्येन रूपेण पांसुपारवृतत्वात यथापूर्व अ. वस्थितेनेत्यर्थः । दुर्निरूपाः दुःखेन द्रष्टुमशक्याः । इदमेव अमीषाश्च महानुभा. वत्वमिति द्रष्टव्यम् ॥ 18 ..

१२२
श्री कृष्णविलासकाध्ये सव्याख्याने
प्रहर्षमालोकयतां जनानां
क्रीडाभिरापाद्य मनोहराभिः ।
उत्थापयामास स चित्कृतेन
गोष्ठे हरिगोसमजं शयानम् ॥ १३ ॥
प्रहर्षमिति ॥ सः हरिः कृष्णः आलोकयतां पश्यतां जनानां मनोहराभिः
क्रीडाभिः विहारैः प्रहर्ष प्रमोदं आपाद्य विधाय गोष्ठे शयानं गवां समजं समूहम् ।
समुदोरजःपचाण्वि'त्यच् । चित्कृतेन शब्दावशेषेण उत्थापयामास उत्थानं अका.
रयत् ॥
॥ १३ ॥
तस्मिन् गवां पालनकौतुकेन
वनाय निर्गच्छति दैत्यशत्रौ।
ययुः प्रियाख्यानचिकीर्षयेव
दिवाकृतो दिग्वलयं मयूखाः ॥ १४ ॥
तस्मिन्निति ॥ तस्मिन् दैत्यशता कृष्णे गवां पालने कौतुकेन कुतू लेन
वनाय निर्गच्छति प्रस्थिते सति दिवाकृतः सूर्यस्य मएखाः रश्मयः दिग्वलयं दिक्चक्र
ययुः प्राप्ताः । अत्रोत्प्रेक्षते-प्रियाख्यानं प्रियनिवेदनं तत्कर्तुं इच्छयेवेति ।
युगमात्रोद्गतस्य सूर्यस्य किरणानां दिक्षु प्रसरस्य प्रियाख्यानफलकतया उत्प्रेक्षणाद
फलोत्प्रेक्षेयम् ॥
कूलद्रुमाणां कुसुमानि धून्वन्
कर्षन् पयश्शीकरमण्डलानि ।
कृष्णं कृतानेकविहाराखिन्नं
यान्तं सिषेवे यमुनासमीरः ॥ १५ ॥
॥१४॥

चतुर्थः सर्गः॥ १२३ कूलेति ॥ यमुनासमीरः यमुनातरङ्गानुसारी मारतः कूलद्रुमाणां तीर. वृक्षाणां कुसुमानि धन्वन् कम्पयन् पयश्शीकराणां जलकणानां मण्डलानि निकरान् कर्षन् आकृष्य आनयन् कृतेन अनेकेन बहुना विहारेण क्रीडितेन हेतुना खिन्न श्रान्तं यान्तं कृष्णं सिषेवे आनुकूल्येन सेवितवान् ।। ॥ १५॥ परस्य पुंसः पदपङ्कजाभ्यां प्रवेक्ष्यतो गोकुलपालनाय । चकार नीहारहरैर्मयूखैः प्रवेशयोग्यानि वनानि भानुः ॥ १६ ॥ परस्येति । भानुः सूर्यः गोकुलस्य गोवृन्दस्य पालनाय तत् कर्तुं पद- पङ्कजाभ्यां पादप्रचालनेनैव प्रवेश्यतः प्रवेष्टुं प्रक्रान्तस्य परस्य पुंसः कृष्णस्य नोहा- रहरैः शैत्यप्रशान्तिकरैः मयूखैः वनानि प्रवेशस्य योग्यानि समुचितानि चकार कृतवान् । ॥ १६ ॥ प्रेम्णा परित्यक्तुमशक्नुवन्तं बद्धाञ्जलिं बन्धुजनं निवार्य । ॥ रामं पुरस्कृत्य समित्रवर्गः विवेश विष्णुर्विपिनान्तराणि ॥ १७ ॥ प्रेम्णेति ॥ विष्णुः प्रेम्णा नेहेन हेतुना परित्यक्तुं अशक्नु वन्त अपारयन्तं बद्धामलिं अअलि कुर्वन्तं बन्धुजनं गोष्ठवासिनं गोपगोपीजनं नि- वार्य निवर्त्य शमं पुरस्कृत्य अप्रतः कृत्वा मित्रवर्गः सवयोभिः गोपकुमारैः सह वर्तत इति समित्रवर्गः सन् विपिनान्तराणि विपिनप्रदेशान् विवेश प्रविष्टवान् ॥१७॥ अरण्यभूमीरवगाहमानं तमातपक्लान्तमवेक्षमाणः।

१२४
श्री कृष्णविलासकाम्ये सव्याख्याने
.
पक्षातपत्रेण परिस्तृतेन
वियत्यसेविष्ट विहङ्गराजः
॥ १८॥
अरण्येति ॥ अरण्यभूमी. वनप्रदेशान् अवगाहमानं प्रविशन्तं तं विj
आतपेन सूर्यकिरणेन क्लान्तं अवसनं अवेक्षमाणः पश्यन् विहङ्गराजः गरुत्मान् वियति
अम्बरे परिस्तुतेन विस्तारितेन पञ्ण गरुतैव आतपत्रेण छत्रेण असे विष्ट सेवितवान्।
मा गच्छ गङ्गे यमुने क यासि
किं तत्र गोदावरि धावसीति ।
न्यषेधि तत्तद्यपदेशपूर्व
मार्गच्युतं गोकुलमच्युतेन
मेति । अच्युतेन कृष्णेन मार्गच्युतं मार्गभ्रष्टं अपमार्गेण यातमित्यर्थः ।
गोकुलं गोसमूहं तत्तव्यपदेशपूर्व तत्तनामपुरस्सरं सङ्केतितेन नाम्ना शब्दापयित्वा त-
भाग्नैव हे गौं १ मा गच्छ गन्तुं नाहसि । यमुने ? क यासि कुत्र गच्छसि ?
गोदावीर ? यत्र धावसि यं देशं उद्दिश्य पलायसे, तत्र किं प्रयोजनं ? इति एवं.
प्रकार न्यषेधि निवारितम् ॥
प्ररूढसुस्निग्धतृणांकुरासु
छायागुमश्यामलितान्तरासु
गवां कुलं तत्सलभोदकासु
प्रचारयामास वनस्थली
प्ररूदेति । सः कृष्णः प्ररूढाः प्रोद्भिन्नाः सुस्निग्धाः सुतरां स्निग्धाः
तृणांकुराः तृणप्ररोहा: यासु । छायासाहताः द्रुमाः छागाद्रुमाः तैः श्यामलितं मेच.
कितं अन्तरं अवकाश यामाम सुलभं सुखायं उदकं य.सु तादशी वनस्थलीषु
तत्तादशं गवां कुलं प्रचारयामास सञ्चारितवान् ।।
.
२०॥
॥ २०॥

चतुर्थः सर्गः ॥
१२५
त
.
साटोपमान्दोलितलम्बसानाः
गावश्वरन्यो वलमानवालाः।
त्रुट्यत्तॄणस्तोमचटत्कृतिन्यः
चक्रुः प्रियं चेतसि चक्रपाणेः ॥ २१ .
साटोपमिति । साटोपं साहकार आन्दोलिताः चलिताः लम्बाः विल.
म्बिताः सानाः गलकम्बलानि यासाम् । 'साना तु गलकम्बल' इत्यमरः । वल.
मानवालाः तिर्यकम्पितलांगूला त्रुट्यता चर्वणेषु छेदं गच्छता तृणस्स्तोमेन तृणसश्चये.
न हेतुना चटत्कृतिन्यः चटदितिशब्दवत्यः चरन्त्यः तृणान् भक्षयन्त्यः । 'चरगति-
भक्षणयो रिति धातुः गावः चक्रपाणेः श्रीकृष्णस्य चेतसि मनसि प्रियं प्रीतिं चक्रुः
कृतवत्यः ।
हरिन्मणिश्यामरुचीनि तत्र
स्वैरं चरन्तीषु तृणानि गोषु ।
शौरिः स्वयं भुक्त इवाप तृप्ति
तृप्यन्त्युदाराः परतर्पणेन ॥२२॥
हरिदिति ॥ तत्र वने गोषु हरिन्मणयः नीलग्नानीव श्यामरुचीनि
श्यामलवर्णानि तृणानि स्वैरं स्वच्छन्दं यथा तथा चरन्तीषु भश्यन्तीषु सतीषु शौरिः
कृष्णः स्वय मुक्त इव आत्मना त्यक्तवानिव । भुक्तमस्यास्तीति अर्शआद्यचू ।
तृप्ति प्राति आप प्राप्तवान् साखतोऽभादत्यर्थः तथाहि- उदाराः महान्तः परस्य
तर्पणेन प्रीणनेन हेतुना तृप्वन्ति तृप्त। भवन्ति ॥
सर्वासु कण्डूयनलिप्सयोच्चैः
उन्नम्य कण्ठं दधतीष गोष।
॥ २२ ॥

१२६
भी कृष्णविलासकाव्य सव्याख्यान
बालो हरि हुसहस्रशून्यं
जन्मात्मनो निष्फलमेव मेने २३ ॥
सर्वास्विति ॥ सर्वासु गोषु कण्डूयनं गात्रनिकर्षणं लधुमिच्छया कण्ठं
उच्चः उन्नम्य अतितरं उद्गमय्य दधतीषु धारयन्तीषु सतीषु बालः हरिः आत्मनः
स्वस्य जन्म जननं बाहुसहस्रेण शून्यं रहितं निष्फलमेव निष्प्रयोजनमेवेति मेने
कल्पितवान् । बहूनां गवां कण्डूयनं बाहुद्रयेन कथं करोमीति चिन्तयेति भावः ॥
परिभ्रमगोकुलमुग्रको
समुच्चलडूलिरटद्विषाणम्।
स युद्धमुक्ष्णां मदनिर्भराणां
प्रविश्य मध्यं शमयाश्चकार ॥ २४ ॥
परीति । सः हरिः मदनिर्भराणां अतिमानमत्तानां उक्ष्णां वृषभाणां
परिभ्रमन्ति परितः विवशं सञ्चरन्ति गोकुलानि यत्र । तथा उग्रकोपं अतिप्रवृद्ध.
कोर्ष समुच्चयलि समुदतभूमिरजस्क रटद्विषाणं चटदिति शब्दायमान युद्ध
द्वन्द्रयुद्ध मध्यं प्रविश्य शमयाचकार प्रशमं नीतवान् ।
शाखाकरात्रैरवलम्ब्य पृथ्वी
निषेदुषः पुष्पफलावनम्रान् ।
तत्र दुमान सादरमीक्षमाणः
जगाम तृप्ति न कदाऽपि शौरिः ॥२५॥
शाखेति ।। शौरिः कृष्णः तत्र वने शाखाभिः विटपैरेव करानैः
पृथ्वीटवलम्ब्य आनित्य निषेदुषः निषण्णान पुष्पैः फलैश्च अवनम्रान् नमनशीलान्
॥ २४ ॥

चतुर्थः सर्गः ॥ १२० ठुमान् व्रशान् सादरं साभिप्रायं ईक्षमाणः पश्यन् कदाप कदाचिदपि तृप्ति अलं. भावं न जगाम न प्राप्तवान् । अत्र समृद्धानां दानशीलत्वात् परोपकारिणां महतां समाधिः साभिप्रायदर्शने हेतुः ॥ अलक्ष्यमूलान्यतिविप्रकर्षात घोषानुमेयस्खलितोदकानि । उत्तुङ्गरोधस्तरुमण्डलानि निम्नानि दृष्ट्वा नितरां स रेमे ॥ २६ ॥ अलक्ष्येति । स शौरिः अतिविप्रकर्षात् अत्यन्तदूरस्थत्वात् अलक्ष्यमूलानि द्रष्टुमशक्यमुलतलानि घोषेण वीचिवेगेन अनुमेयस्खलितानि अनुमातुं शक्यसञ्च- हनानि उदकानि येषु उत्तुङ्गानि उन्नतानि रोधस्तरूणां तीवृक्षाणां मण्डलानि समूहः येषां तादृशानि निम्नानि अगाधान् जलाशयान दृष्ट्वा नितरां अतिशयेन रेमे प्रीत. वान् । अतापि पूर्ववत् सम्भृतधनस्य समाधिः प्रीतिहेतुः ।। C . अतुच्छगुच्छस्तनभारनम्राः लताः प्रवालाधरलोभनीयाः। स तत्र वीक्ष्य भ्रमरालकाया: तामस्मरत्तामरसाधिवासाम् ॥२७॥ अतुच्छेति । सः शौरिः तत्र वने अतुच्छानां पृथूनां गुच्छानां स्वबका- नामेव स्तनानां भारेण नम्राः समनशीलाः प्रवालरेवाधरैरधरोष्ठैः लोमनायाः रम्याः भ्रमरैमधुकरैरेवालकै चूर्णकुन्तलैः आब्याः श्रेष्ठाः लताः बालवचरी वीक्ष्य दृष्ट्या तां तथाभूतां तामरसाधिवासां पद्मालयां अस्मरत् स्मृतवान् । स्मरणालङ्कारः । सदशवस्त्वन्तराभवः सम्भतत्वात् १२८ श्री कृष्णविलासकाव्ये सव्याख्याने ॥ २८ । समुत्सुकं सागरकन्यकायां आकष्टुमन्तःकरणं मुरारेः। सर्वस्य वेत्ता सरसां स वाचं सङ्कर्षण: सादरमित्युवाच ॥ २८॥ समुत्सुकमिति ॥ सर्वस्य वस्तुनः वेत्ता ज्ञाता सङ्कर्षण: बलदेवः मुरारे कृष्णस्य सागरकन्यायां लक्ष्म्यां समुत्सुकं सदृशवस्तुदर्शनात् साभिलाषं अन्तःकरणं मनः आक्रष्टुं आक्षेप्तुं सरसां रसवती वाच सादरं इति लक्ष्यमाणप्रकारण उवाच उक्तवान् । अन्तस्समीरभ्रमणप्रसङ्गात उदीर्णनादेन गुहामुखेन । भूयः प्रयुङ्क्ते पृथिवीधरस्ते गोवर्धनः स्वागतमेष शोरे ॥ २९ ॥ अन्तरिति ॥ हे शौरे ? एषः परिदृश्यमानः गोवर्धनो नाम पृथिवीधरः पर्वतः अन्तः अन्तर्भागे समारभ्रमणस्य वायुसञ्चारस्य प्रसङ्गात् प्रवृत्ते हेंतोः उदीर्णना- देन उद्तशब्देन गुहाया रन्ध्रेणैव मुखविवरण भूयः भूयशः ते स्वागत मुखागमनप्रश्न प्रयुक्ते करोति । निशम्य गोवर्धननिर्झराणां धीरध्वनि कृष्ण शिखण्डिनोऽमी । मुदा बदालोकनजातयेव नृत्यन्ति चक्रीकृतबहभाराः ॥३०॥ निशम्येति ॥ हे कृष्ण ? अभी शिखण्डिनः मयूराः गोवर्द्धनस्य नि- राणा वारिप्रवाहाणाम् । वारिप्रवाहो निईरों झर' इत्यमरः ? ॥ २९॥ . . । धीर चतुर्थः सर्गः।। १२९ गम्भीरवं निशम्य चक्रीकृतबहभाराः वलयितापिन्छनालास्सन्तः नृत्यन्ति नृत्यं कुर्वन्ति । त्वदालोकनात् तव दर्शनात सकाशात् जातया उद्गतया• मुदा सन्तोषेणेवेत्युत्प्रेक्षा ॥ ॥३०॥ पादाविमौ सञ्चरणाय नालं अत्रेति मत्वा मृगयूथमेतत् । खलोचनांशुस्तबकापदेशात नीलोत्पलै मिमिवास्तृणाति ॥ ३१ ॥ पादाविति ॥ एतत् मृगयूथं मृगगणः इमौ पादौ । तवेत्यर्थः । अत्र वने सञ्चरणाय सञ्चारं कर्तुं नालं न शक्ताविति मत्वा अवबुध्य स्वेषां आत्मीयानां लोचनानां अशुस्तंबकस्य स्तबकाकारस्य अशो: अपदेशात् व्याजात् नीलोत्पलै: कुवलयैः भूमिं आस्तृणाति आच्छादयतीव । मृदुत्वसिद्धये पुष्पास्तरणं करोती- वेत्युत्प्रेक्षा ॥ विकीर्य विष्वग्विपिनद्रुमाणां मधूनि पुष्पस्तबकच्युतानि । अर्काशुतप्तामनिलो धरित्री सञ्चारयोग्यां भवतो विधत्ते ॥ ३२ ॥ विकीर्येति ॥ अनिलः वायुः अशुभिः सूर्यरश्मिभिः तप्तां ऊष्माणं गमितां धरित्री भूमि विपिनQमाणां वनवृक्षाणां पुष्पस्तबकेभ्यः च्युतानि निपतितानि मधूनि विष्वक् परितः विक्षिप्य प्रोक्षणं कृत्वेत्यर्थः । भवंतः तव सञ्चारयोग्यां गमनक्षमा विधत्ते करोति । इवादेरभावात् इयं च गम्योत्प्रेक्षा । ॥३२॥ 17

१३०
श्री कृष्णविलासकाव्ये सध्याख्याने
1.
न भीतिरन्तन शोश्चलवं
नास्था तृणे नोत्सुकताऽपि शाबे ।
रूपेण दामोदर मोहितास्ते
तिष्ठन्त्यमी काष्ठकृता इवैणाः । ३३ ।।
नेति ॥ हे दामोदर? ते तव रूपेण सौन्दर्येण मोहिताः विवशीकृताः
अमी एणाः हरिणाः काष्ठैः दारुभिः कृता: निर्मिता इव तिष्ठन्ति । तत्र हेतुमाह
चतुर्भिः वाक्यैः । अन्तः मनसि भीतिः भयं न दृश्यते । दृशः चक्षुषोः चलत्वं
चलभावः नास्ति । तृणे यवसभक्षणे आस्था आदरः नास्ति । शाबे शिशौ च
उत्सुकता सश्रद्धत्वमपि नास्ति । अतो हि कृत्रिमसादृश्यम् ॥
तेनेति सन्दर्शितमग्रजेन
मनोहरं तत्तदवेक्षमाणः।
गाश्वारयन् शावलिनीषु भूषु
रेमे रमाया रमणः प्रकामम् । ३४ ॥
तेनेति ॥ इति एवंप्रकारं तेन अग्रजेन रामेण सन्दर्शितं सम्यक् दर्शितं
मनोहरं व्रत्तत् तादृशं वस्तु अवेश्माणः पश्यन् रमायाः रमणः कृष्णः शावलिनीषु
हरिततृणयुक्तासु भूषु गाः चारयन् प्रकामं अत्यर्थे रेमे क्रीडितवान् ।
तं तत्र दृष्ट्वा महनीयरूपं
शौरि शबर्यश्चरितार्थनेत्राः ।
फलोपहारैरुपसृत्य वन्यैः
अवादिषुः प्रश्रयशोभि वाक्यम् ॥ ३५ ॥
॥३४॥

चतुर्थः सर्गः ॥ १३१ - तमिति ॥ तत्र वने शबर्यः व्याधास्त्रियः महनीयरूपं पूजनीयसौन्दर्ययुक्त शौरिं दृष्ट्वा चरितार्थनेवाः कृतार्थलोचनाः नेत्रफलं प्राप्ताः इत्यर्थः । वन्यैः वाजातैः फलैरेव उपहारैः उपपदार्थैरसह उपसृत्य समीपं प्राप्य प्रश्रयेण विनयेन शोभितुं शीलमस्येति तादृशं वाक्यं अवादिषुः उक्तवत्यः ॥ ॥ ३५॥ इतः पदं नः शरपातमात्रं यायाः सहानेन सुहृद्णेन । अत्रागमिष्यन्ति किरातपुत्राः गवाममूषां परिपालनाय । ३६॥ इत इति ॥ इतः अस्मात् प्रदेशात् शरपातमात्र शरपतनमात्रान्तरं न: अस्माकं पदं स्थानं त्वं अनेन सुहृद्णेन मित्रवृन्देन सह यायाः प्राप्नुहि । आमन्त्रणे लोट । किं कारणमिति चेत् उच्यते अमूषां गवां परिपालनाय ताणार्थ अत्र किरातपुत्राः पनेचरकुमाराः आगमिष्यन्ति । ॥ ३६॥ व्याधाहतैारणकुम्भगर्भात मुक्ताफलैरामलकाभिरामैः । प्रसाधनं त्वां भुवनत्रयस्य प्रसाधयिष्यन्ति किरातकन्याः ।। ३७ ॥ व्याधेति ॥ केवलं इदमेव वन्यं अन्यच्च प्रयोजनं भविष्यतीत्याहुः । किरातकन्याः शबरकन्याः वारणस्य गजस्य कुम्भस्य मस्तकस्य गर्भाव अन्तर्भागात सकाशात् व्याधैः शरैरेव आहृतैः आनीतैः आमलकानि धात्रीफलानि तैरिव अभिरामैः सुन्दरैः तत्प्रमाणैरिति यावत् । मुक्ताफलैः मौक्तिकैः भुवनत्रयस्य त्रैलोक्य- स्य प्रसाधनं अलङ्कारभूनमपि वा प्रसाधयिष्यन्ति अलङ्करिष्यन्ति ।

१३२ भी कृष्णविलासकाव्ये सव्याख्याने ८ कन्याऽस्ति काचिच्छबरेश्वरस्य या नः कुलानामधिदेवतेव। तां सर्वथा दास्यति ते स राजा महान्त्यनर्घाणि च यौतकानि ॥ ३८ ॥ अपिचान्यदप्यस्तीत्याहुः कन्येति ॥ शबरेश्वरस्य किरातराजस्य कन्या काचिदस्ति । सा कीडशीति चेदुच्यते- या कन्या नः अस्माकं शबराणां कुलानां अधिदेवतेव मूर्तिमतीव भवति । तादृशं अस्याः सौन्दर्यमिति भावः । सः राजा किराताधिपतिः सर्वथा सर्वप्रकारेणापि ते तुभ्यं तां कन्यां दास्यति । महान्ति प्रभूतानि अनर्घाणि मूल्यातिरिक्तानि यौत कानि स्त्रीधनानि च दास्यति । तदेनां परिगृणीष्वेत्यभिप्रायः ॥ ॥ ३८ ॥ इत्यूचिषीणां शबराङ्गनानां अत्यादरं चेतसि वीक्षमाणः । कृष्णः कृपानिघ्नमना: स वाचं इत्याह लज्जामृदुना वनेन ॥ ३९ ॥ 'इतीति ॥ इति एवं ऊचिषीणां उक्तवतीनां शबराङ्गनानां अत्यादर चेतसि वीवमाणः मनसि पश्यन् अवधारयनित्यर्थः । कृपाया दयाया निघ्नं आयतं मनः यस्य स तथोक्तः सः कृष्णः लज्जया मृदुना स्वनेन इति वक्ष्यमाण- प्रकारेण वाचं आह उक्तवान् । पित्रोरनुज्ञामधिगम्य भद्राः समीहितं वः सकलं विधास्ये । 0 चतुर्थः सर्गः ॥ ॥ ॥४०॥ मयि स्थिते तिष्ठति गोकुलं तत् गच्छामि मा भूत विषादवत्यः ॥ ४० ॥ पित्रोरिति ॥ हे भद्राः शोभनाः ? पित्रो: मातुः पितुश्च अनुज्ञां अधि- गम्य लब्ध्वा वः युष्माकं समाहित अभिप्राय सकलं सर्वमपि विवास्ये करिष्यामि । किश्च अन्यदप्यस्ति । मयि स्थिते सति गोकुलं गोपसमूहोऽपि तिष्ठति न गच्छति । तत् तस्माद्धेतोः अहं गच्छापि । यूयं विषादवत्यः विषण्णाः मा भूत । विषादः न कर्तव्य इत्यर्थः ॥ गते पुलिन्दीरिति सान्त्वयित्वा तदिष्टभङ्गव्याथते मुकुन्दे । फलापचायादिषु निस्पृहास्ताः शनैर्ययुः पक्कणमेव खिन्नाः ॥४१॥ गत इति ॥ इति एवंप्रकारं पुलिन्दी शबरीः सान्त्वयित्वा अनुसरणवाचा अनुज्ञाप्य तदिष्टभङ्गेन तासां पुलिन्दिनीनामभिप्रायनिराकरणेन व्यथिते किश्चित् दुःखिते मुकुन्दे गते सति ताः पुलिन्धः खिन्ना खेदयुक्ताः फलानामपचायादिषु आदिशब्देन कन्दखननाद्यपि गृह्यते । निस्पृहाः निराकांक्षारसत्यः शनैः मन्दमन्द पकणमेव स्वालयमेव ययुः गताः । पक्कणश्शबरालय' इत्यमरः ॥४१॥ विहत्य गर्भेषु लतागृहाणां निपीय वारीणि च पल्बलानाम् । फलानि चास्वाद्य महीरुहाणां वनानि धन्यानि चकार शौरिः॥ ४२ ॥ विहत्येति ॥ शौरिः लतागृहाणां वही कुआनां गर्भेषु अन्तर्भागेषु वि. हत्य क्रीडित्वा पल्वलानां अल्पसरसां पल्वलचाल्पसर' इत्यमरः । वाणि - १३४ श्री कृष्णविलासकाम्ये सुव्याख्याने C जलानि निपीय च पीत्वा च महीरुहाणां चूतादिवृक्षाणां फलानि चास्वाद्य भुक्त्वा वनाति धन्यानि भाग्यवन्ति चकार कृतवान् । स्वसम्पदो भगवदनुभुक्तत्वात सप्रयोजना इति भावः ॥ 1॥४२॥ अथाधिरूढे गगनस्य मध्यं दिवाकरे दुस्सहभानुजाले । धर्माकुलं गोकुलमीक्षमाणः हलायुधः प्राह रथाङ्गपाणिम् ॥ ४३ ॥ अथेति ॥ अथ अनन्तरं दुस्सहं सोदुमशक्यं भानुजालं रश्मिसमूहो यस्य तादृशे दिवाकरे गगनस्य अम्बरस्य मध्यं अधिरूढे अधिगते सति गोकुलं गोगणं धर्मेण अष्मिकालन हेतुना आकुलं विवशं ईश्वमाणः पश्यन् हलायुधः रामः रथाङ्गपाणिं कृष्णं प्राह उक्तवान् । आहेति तिङन्तप्रतिरूपमव्ययम् । अतः कालवयेऽपि प्रयोज्यम् ॥ किश्चित्परिम्लानलताप्रवालः तृणांकुरभ्रान्तकुरङ्गयूथः । अह्नः परित्यक्तजनप्रचारः प्रवर्तते मध्यम एष भागः ॥४४॥ किंचिदिति ॥ किश्चित् अल्पं परिम्लानाः शोषिताः लतानां प्रवाला: किसलयाः यस्मिन् । तृणानामङ्करेषु भ्रान्तानि दुर्लभवादन्विष्य सन्तरन्तीत्यर्थः । कुरङ्गयूथानि मृगकुलानि यास्मन् ' तृष्णाकुलभ्रान्तकुरल्यूथः' इति वा पाठः। तत तृष्णया आकुलं भ्रान्तं चेति विग्रहः । परित्यक्तः जनानां प्रचारः सञ्चारः यस्मिन् । ताशः दिवसस्य मध्यम भाग: अंशः एष प्रवर्तते । मध्याहस्सम्पृक्तः इत्यर्थः ।। .

सर्ग:
-
कुलानि वीक्षख विहङ्गमानां
पक्षान्तरस्थापितशाबकानि ।
कठोरमेनं गमयन्ति कालं
नीडेषु निद्रालसलोचनानि ॥ ४५ ॥
कुलानीति ॥ पश्योरन्तरे अन्तर्भागे स्थापिताः शाबकाः शिशवो यैः
निद्रया अलसानि जडीभूतानि लोचनानि येषां तानि । कठोरं क्रूरं एनं कालं
मध्याहकालं नीडेषु कुलायेषु गमयान्ति यापयन्ति विहङ्गमानां पक्षिणां कुलानि त्वं
वाक्षस्व पश्य ॥
प्रायः कठोरातपपीडयेव
छायाः परित्यक्तबहिर्विकाराः ।।
आलोकयाध्वन्यजनेन साई
अध्यासते मूलमनोकहानाम् ॥ ४६॥
प्राय इति ॥ अनोकहानां वृक्षाणां छायाः अनातपाः प्रायः बाहुल्येन
कठोरातपपीडया क्रूरतरस्वभावया व्यथयेव परित्यक्तः उपेक्षितः बहिर्विकारः बहि-
र्भागेषु क्रीडा यैः अध्वन्यजनेन पान्थलोकेन सार्दै मूलं अनोकहानां अधोभागमेव
केवलं अध्यासते अधिवसन्ति । आलोकय पश्य ॥
करैरैसरियमंशुमाली
तपन्महामुग्र इव क्षितीशः।
आशंसितापत्प्रसरः प्रजाभिः
धत्ते दशामद्य विगर्हणीयाम् ॥ १७ ॥
करैरिति ।। उग्रः तीक्ष्णः क्षितीशः राजेव असधैः सोढुमशक्यैः करैः
रश्मिभिः बलिभिश्च महीं भूमि भूवासिजनं च तपन् दहन् दण्डयंश्च अंशमाली
॥ ४६ ॥

श्री कृष्णविलासकाव्ये सब्यास्याने सूर्यः अद्य अयं प्रजाभिः जनैः आशंसितापत्प्रसरः प्रार्थितास्तमनप्राप्तिः प्रार्थित- विनाशप्रवृत्तिध विगर्हणीयां निन्द्यां दशां जवस्थां धत्ते धारयति । तीक्ष्णदण्डान्म- हीभर्तुरुद्विजन्ते शरीरिण' इति वचनानुसारेणोपमानस्वीकारः ।। ॥४७॥ विहत्य कान्तारमहीषु वेगात ब्रजन्नप: पुष्करिणीषु पातुम् । मार्गे करीन्द्रः करशीकरण प्रियामसावुक्षति तापखिन्नाम् ॥ ४८ ॥ विहत्येति ॥ असौ करीन्द्रो गजश्रेष्ठः कान्तारमहीषु वनभूमिषु विहृत्य । क्रीडित्वा पुष्करिणीषु कमलसरस्सु अपः जलं पातुं वेगात् ब्रजन् गच्छन् मार्गे तापखिन्नां आतपत्रान्तां प्रियां करिणी करशीकरण पुष्कराग्रजलेन उपति सिञ्चति ।। तप्तानि भासा तपनस्य हंसाः विहाय वारीणि नखंपचानि । पत्रेषु विन्यस्य पदानि मन्दं पद्माकरे सम्प्रति पर्यटन्ति ॥४९॥ तप्तानीति ॥ सम्प्रति इदानी इंसाः तपनस्य भासा सूर्यस्य तेजसा तप्तानि उष्णीकृतानि नखंपचानि नखमूलावाधिदाहदानि वाराणि जलानि विहाय त्यक्त्वा पद्माकरे पद्मतटाके । ‘पद्माकरस्तटाकोऽस्त्री' इत्यमरः । - पत्रेषु पद्मदलेषु पदानि विन्यस्य मन्दं शनैः पर्यटन्ति परितः सञ्चरन्ति ।। निगूढमीनग्रहणाभिसन्धि कृच्छ्रेण मुक्त्वा कपटासिका स्वाम् । अमी बकोटास्तपनांशुतापात् तटीनिकुञ्ज तरसा विशन्ति ॥५॥ ॥ ४९॥ .

चतुर्थः सर्गः ॥ १३७ निगढेति ॥ अमी बकोटाः बकपक्षिणः स्वां आत्मीयां स्वजातिसमवेतां निगूढां नितरां गोपितः मीनानां मत्स्यानां ग्रहणे स्वीकारे अभिसन्धिः तात्पर्य यस्यां तादशी कपटासिका व्याजेन स्थितिं कृच्छ्रेण यत्नेन मुक्त्वा त्यक्त्वा तपनांशुतापात् सूर्योशुसन्तापाद्धेतो. तटीनिकुझं तौरलतागृह तरसा क्षिप्रं प्रविशन्ति अन्तर्गच्छन्ति । तदेहि यामस्तरुषण्डमेतत् धर्माकुलं गोकुलमानयामः। अत्रैव विश्रम्य मुहूर्तमात्रं भूयोऽपि गावः प्रचरन्त्वरण्ये ॥ ५१ ॥ तदिति । तत् तस्माद्धेतोः त्वमेह्यागच्छ । वयं यामः गच्छामः । किमर्थमिति चेदत्राह-धर्माकुलं ग्रीष्मेणाकुलं सन्तप्तं गोकुलं गोसमूह एतन् दृश्यमान तरुषण्डं वृक्षकदम्बकमानयामः । गावः अत्रैव अस्मिंस्तरुषण्डमूले मुहूर्तमानं द्विघटिकामात्र विश्रम्य श्रममपनीय भूयोऽपि पुनरपि अरण्ये प्रचरन्तु सश्चरन्तु। इतीरितं तत्समयानुरूपं वाक्यं समाकर्ण्य हलायुधस्य । आर्यो यथाज्ञापयतीति कृष्णः राममुक्त्वा तरुषण्डमाप ॥५२॥ तं इतीति ॥ समयानुरूपं कालोचितं इति एवंप्रकारं हलायुधस्य ईरितं कथितं वाक्यं समाकर्ण्य कृष्णः यदाज्ञापयत्यार्यः तथाऽस्त्विति शेषः । इति तं राम. मुक्त्वा तरूणां पण्ड दम्बकं आप प्राप्तवान् ॥ 110 १३८ श्री कृष्णविलासकाव्ये सध्याख्याने अलब्धमार्ताण्डकरप्रवेशं आरामकल्पं तरुषण्डमेत्य । आनेतुकामः स गवां कुलं तत् आसञ्जयामास मुखेन वेणुम् ॥ ५३ ॥ अलन्धेति ॥ स कृष्णः अलब्धः अप्राप्तः मार्ताण्डकराणां सूर्यरश्मीनां प्रवेशो येन तादृशं आरामकल्पं उद्यानतुल्यं तरुषण्डं एत्य प्राप्य तत् गवां कुलं आनेतुकामः आगमयितुमिच्छन् वेणुं मुरली मुखेन आसञ्जयामास योजयाञ्चकार । सलीलमीषत्परिपृक्तपादं सविभ्रमोदश्चितसव्यनेत्रम् । कृष्णस्य वंशार्पितपाटलोष्ठं वीक्ष्य स्थिति विस्मयमाप लोकः ॥ ५४॥ .सलीलमिति ॥ लोकः द्रष्टजनः कृष्णस्य सलील लीलया सह किञ्चित्प- रिपृक्तपादं व्यत्यस्तांधिं सविभ्रमं सविलासं यथा तथा उदश्चितमुन्नामित सव्यनेत्रं वामनयनं यत्र । सव्यशन्दो वामपर्यायः । तथाच श्रीरामायणे-दक्षिणो दक्षिणं बाहुं रामस्सत्यपराक्रमः। चिच्छेद च कबन्धस्य सव्यं वीरस्तु लक्ष्मणः'इति। वंशे की अर्पितः न्यस्तः पाटल: अरुणः ओष्ठो यत्र । तादृशी स्थितिमवस्थान वीक्ष्य दृष्ट्वा विस्मयमाश्चर्यमाप प्राप्तवान् ॥ तत्र स्थितं तामरसायताक्षं तापिञ्छवर्ण शिखिपिञ्छचुडम् !

चतुर्थः सर्गः ॥
१३९
तमेव पश्यन्ननिमेषतायाः
फलं प्रपेदे सुरसिद्धसङ्घः ॥५५॥
तत्रेति । तत्र तरुषण्डे स्थितं तामरसायताशं पद्मदर्घिनेत्रं तापिञ्छस्य
तमालद्रुमस्येव वर्णो यस्य तादृशं शिखिपिञ्छचूडं मयूरबह युक्ता चूडा शिखा यस्य
तादृशं च तं कृष्णमेव पश्यन् सुरसिद्धानां संघ: समूहः अनिमेषतायाः दृशोः
निमेषाभावस्य फलं प्रयोजनं प्रपेदे लेभे
ततस्त्रिभङ्गया विवरेषु वेणोः
व्यापारयन्नङ्गुलिपल्लवानि ।
जगत्त्रयांमोहविधानदक्षं
उत्थापयामास स नादमुच्चैः ॥ ५६ ॥
तत इति ॥ त्रयाणां भङ्गानां समाहारः त्रिभङ्गी । तयोपलशितः ।
तदुक्तम् -- जानुश्रोण्योगले चापि तत्र स्यादनुवक्रता । सा त्रिभङ्गीति विज्ञेया
स्थितिरिति । तथा स्थितः सः कृष्णः वेणोः वंशस्य विवरेषु रन्ध्रेषु अलिप-
क्लवानि पल्लचतुल्या अङ्गुली: व्यापारयन् प्रवर्तयन् जगतां त्रय्याः त्रैलोक्यस्य
मोहविधाने आनन्दमूर्योत्पादने दशं निपुणं उच्चैर्नादं उच्चस्वरं उत्थापयामास उद्ग-
मयाश्चकार ॥
॥५६॥
अथोत्थितानन्दनिमीलिताक्ष्य :
विलूमदूर्वाकुरलाञ्छितास्याः।
गावस्तभ्याशमुपेत्य तस्थुः .
निस्पन्ददेहा निभृतैः श्रवोभिः ॥ ५५ ॥

श्री कृष्णविलासकाव्ये सव्याख्याने .. .. । ५७ ॥ अथेति ॥ अथ वेणुनादश्रवणानन्तरं गावः उत्थितेन उद्भतेन आनन्देन हेतुना निमीलिताक्ष्यः मुकुलितनेवाः विल्नैः छिन्नैः दुर्वाकुरैः लान्छितास्याः सचिहमुख्यः तस्य कृष्णस्य अभ्याशं सपोपं उपेत्य प्राप्य निष्पन्ददेहा निश्चलशरीरा: निभृतैः स्थिरैः श्रवोभिः कर्णैः उपलक्षिताः तस्थुः स्थिताः ।। नैसर्गिकं वैरमपत्यसङ्गः तृष्णा बुभुक्षा कुसुमायुधश्च । तहेणुनादश्रुतितत्पराणां नालं विधातुं विकृातें तिरश्वाम् ॥ ५८ ॥ नैसर्गिकमिति ॥ नैसर्गिक स्वभावतः जातं वैरं परस्परद्वेषः अपत्यैः पुत्र. सङ्गः स्नेहबन्धः तृष्णा पिपासा बुभुक्षा क्षुत् कुसुमायुधः कामश्च एते भावाः तस्य कृष्णस्य वेणुनादस्य श्रुतौ श्रवणे तत्पराणां सश्रद्धानां तिरश्नां पशुपसिमृगादीनां विकृति चित्तविकारं विधातुं उत्पादयितुं नालं न पर्याप्ता बभूवुः । तस्मिन् मनोहारिणि चक्रपाणेः वनान्तरे मूर्छति वंशनादे। विधीयमानं परिहत्य कर्म सर्वेऽपि सत्वा लिखिता इवासन् ॥ ५९॥ तस्मिन्निति ॥ चक्रपाणेः कृष्णस्य तस्मिन् तादृशे मनोहारिणि मनो हर्तुं शीलवति वंशनादे वेणुस्वने वनान्तरे वनप्रदेशे मूर्छते वर्द्धमाने सति सर्वे सत्वाः वनजन्तवोऽपि विधीयमानं क्रियमाणं कर्म चेष्टितं परिहत्य विहाय लिखिताः चित्रार्पिता इव आसन् बभूवुः ॥

चतुर्थः सर्गः ॥ १४१ " प्रवृत्तमात्रौ वनपद्मिनीषु दातुं गृहीतुं च मृणालभङ्गम् । चक्राहयस्तद्गृहमेधिनी च प्रसार्य चञ्चू परमासिषाताम् ॥६० ॥ तब्यापारमेव प्रपश्चयति -प्रवृत्तेति ॥ वनपद्मिनीषु कान्तारसरसीप चक्राह्वयः चक्रवाक: तस्य गृहमेधिनी भार्या च मृणालभङ्गं बिसच्छेदं दातुं प्रियायै समर्पयितुं गृहीतुं प्रियायाः आदातुं च प्रवृत्तमात्रौ केवलं आरब्धावेव चञ्चू बोटियुग्मं प्रसार्य विवृतं कृत्वा परं केवलं आसिषातां आसीनौ ॥ उपाविशन्नुज्झितचापलानि खजानुविन्यस्तकराननानि । निष्पन्ददृष्टीनि वनगुमाणां शाखासु शाखामृगमण्डलानि ॥ ६१ ॥ उपाविशन्निति । शाखामृगमण्डलानि वानरकुलानि वनद्रुमाणां वनवृ. क्षाणां शाखासु विटपेषु उज्झितं त्यक्तं चापलं अतइत” प्लवनादिचापल्यं यैः स्वजा. नुनोः आत्मजानुयुग्मस्य उपरि विन्यस्तौ निहितौ करौ तदुपरि आननश्च यैः निष्पन्दा निश्चला दृष्टयः येषां तथा सन्ति उपाविशन् उपविशान्ति स्म । ६१ । पड्यामवष्टभ्य महीमुभाभ्यां सद्यस्समुत्तंभितपूर्वकायः।

श्री कृष्णविलासकाव्ये साख्याने C सिंहः करीन्द्राक्रमणे प्रवृत्तः तस्थौ तथा कृत्रिमसिंहकल्पः ॥ ६२ ॥ पद्भयामिति । उभाभ्यां पद्भयां पदाभ्यां महीं अवष्टम्य अवलम्ब्य सद्य तत्क्षणमेव समुत्तंभितपूर्वकायः सम्यक् - उन्नमितोत्तमानस्सन् करीन्द्राक्रमणे गजेन्द्रस्य हनने प्रवृत्तः उद्युक्तः सिंहः तथा तदवस्थ एव कृत्रिमसिंहकल्पः दावा- दिविरचितसिंहसदृशः तस्थौ स्थितः । भगवदशनादश्रवणाहृतचित्तत्वात् अस्य शरीरे निर्विकारत्वमिति द्रष्टव्यम् ।। । ६२ । सिद्धा: कलत्राणि लतागृहेषु समुद्यताः पाययितुं मधूनि । करहयोदश्चितरत्नपात्राः निषेदुरालेख्यमिव प्रपन्नाः ॥६३ ॥ सिद्धा इति ॥ लतागृहेषु वर्तमानाः सिद्धाः कलत्राणि भार्याः मधृनि पाययितुं समुद्यताः उद्युक्ताः करद्वये उदश्चितं उद्धृत रत्नपात्रं मणिचषकं यैः तादृशा एव निषेदुः स्थिताः आलेख्यं चित्रं प्रपन्ना इव चित्रलिखिता इवेत्यर्थः । ६३ ।। तद्वंशनालाञ्च्युतमच्युतस्य गेयामृतं साधु निषेव्य वृक्षाः । चिरं जराजर्झरितलचोऽपि. बाला इवासन्नवपल्लवाढ्याः ॥६४ ॥ तदिति ।। वृक्षाः चिरं दीर्घकालं जरमा वार्धक्येन जसरितत्वचः जीर्ण- चर्माणोऽपि अच्युतस्य वंशनालात् वेणुविवरात् च्युतं गलितं तत् गेयं गानमेव चतुर्थः सर्गः॥ १४३ अमृतं साधु सम्यक् निषेव्य आस्वाद्य श्रोत्रेन्द्रियेणैव अनुभूयेत्यर्थः। नवैः नूतनैः पल्लवैः किसलयैः आन्याः पुष्टाः बाला इव, आसन् अभवन् । नादेन वेणोविवशीकृतानां विद्याधराणां गलिताः करेभ्यः । गतिर्भवास्माकमपीति नूनं वीणा निपेतुर्मधुविद्विषोऽने ॥६५॥ नादेनेति ॥ वेणोः नादेन विवशीकृतानां विधुरीकृतानां विद्याधराणां करेभ्यः स्वकरात् गलिताः पतिता. वीणा: मधुविद्विषः कृष्णस्य अग्रे पुरोभागे निपेतुः पतिताः । वं अस्माकमपि गतिः शरणं भवति मत्वा नूनं निश्चय इति उत्प्रेक्षा ॥ स्ववेणुनादेन स जीवलोकं इत्थं परानन्दमयं विधाय। प्रभुय॑रसीदमराश्च सर्वे सुप्तोत्थितानां स्थितिमन्वभूवन् ॥ ६६ ॥ स्वैति । सः प्रभुः श्रीकृष्णः इत्थं एवंप्रकारं स्वस्य वेणोः नादेन जीवलोक प्राणिसमूहं परानन्दमयं अत्यन्तानन्दमयं विधाय कृत्वा व्यरंसीत् वेणुना- दात् विरतोऽभूत् । सर्वे अमराः देवाश्च सुप्तोत्थितानां स्थिति अवस्था अन्वभूवन् अनुभूतवन्तः ॥ प्रत्यागते चेतसि ते विदित्वा प्रभ्रश्य हस्तात्पतिता विपञ्चीः।

१४४
श्री कृष्णविलांसकाव्य सव्याख्याने
पुनर्न चक्रुः प्रतिपन्नलज्जाः
विद्याधरास्तद्ग्रहणाभिलाषम् ॥ ६७ ॥
प्रत्यागत इति ॥ ते विद्याधराः चेतास प्रत्यागते वैवश्यादपगमे यथा
स्थानस्तिथे सति हस्तान् प्रभ्रश्य भ्रंशं प्राप्य पतिताः विपश्चीः वीणाः । 'विपश्ची
सा तु तन्त्रीभिः सप्तभिः परिवादिनी' इत्यमरः । विदित्वा ज्ञात्वा प्रतिपन्नलज्जाः
प्राप्तवीडास्सन्तः पुन: तस्याः विपञ्च्याः ग्रहणे स्वीकारे अभिलाषं वाञ्छां न चक्रुः
न कृतवन्तः
मधुव्रतानां ध्वनिभिर्मनोज्ञैः
वाचालयन्ती वलयं दिशानाम् ।
प्रसनवृष्टिः सुरसिद्धमुक्ता
पपात मौलौ परमस्य पुंसः
मध्विति । मधुव्रतानां भ्रमराणां मनोज्ञैः ध्वनिभिः झङ्कारैः दिशान
आशानाम् । दिशेल्यावन्तः । 'आपञ्चैव हलन्तानां यथा वाचा दिशा निशा
इति वचनात् । वलयं मण्डलं वाचालयन्ती मुखरयन्ती सुरैः सिद्धैश्च मुक्ता विसृष्टा
प्रसूनवृष्टिः पुष्पवर्ष परमस्य पुंसः कृष्णस्य मौलौ मूर्भि पपात पतिता ॥ ६८ ॥
अवर्षि केनायमदृष्टपूर्वः
प्रसूनराशिस्तव मूर्धनीति ।
पृष्टो विहस्याह विभुः सहायान्
ज्ञानं भवद्योऽपिं कथं ममेति ॥ ६९ ॥

चतुर्थः सर्गः ॥ १४५ अवर्षीति ॥ अदृष्टपूर्व पूर्व अदृष्टः अयं प्रसूनराशि: पुष्पसमूहः केन' जनेन तव मूर्द्धनि अवर्षि विकीर्ण इति पृष्टः । सहायैरित्यर्थात् । विभुः कृष्णः विहस्य हसित्वा सहायान सह आगतान् गोपान् आह उक्तवान् । किमिति चेत् आह- मम भवद्भयोऽपि ज्ञानं युष्मज्ञानादप्यधिकं ज्ञानं कथम् । भवेदिति शेषः । भवन्तः यत् जानन्ति तदेव अहमपि जानामि न तदतिरिक्त किश्चिदपि ज्ञातुं प्रभवामीति भावः । मयाऽपि पुष्पवर्षस्य कारणं न ज्ञातमिति उक्तं भवति । विषयतां याति विवस्वदंशौ विश्रान्तमुत्थाप्य गवां स पुञ्जम् । भूयस्तृणाश्यामलभूतलेषु प्रारब्ध सञ्चारयितुं वनेषु ॥ ७० ॥ विषह्यतामिति ॥ विवस्वतः सूर्यस्य अशौ किरणे । जातावेकवचनम् । विषह्यतां सोढुं शक्यतां याति गच्छति सति सः कृष्णः विश्रान्तं गतश्रमं गवां पुलं समूहं उत्थाप्य शयनात उत्थितं कारयित्वा भूयः पुनः तृणैः आश्यामलं सर्वतः श्यामवर्ण भूतलं यत्र तादृशेषु वनेषु सञ्चारयितुं प्रारब्ध प्रक्रान्तवान् । ततः परिक्षीणसहस्रभानोः अशाम्यदूष्मा दिवसस्य तीव्रः । यथा विनाशे धनसञ्चयस्य महावलेपो धनिनो जनस्य ॥७१॥ तत इति ॥ ततः अनन्तरं परिक्षीणः प्रशान्तरश्मिः सहस्रभानु: यस्मिन् तस्य दिवसस्य तीवः क्रूरः कृष्मा अशान्यत् शान्तोऽभवत् । अत्र उपमामाह- धनि नः धनवतः जनस्य धनसचयस्य द्रविणराशेः विनाशे श्रये सति महावलेपः ॥ ७० ॥ 19 * श्री कृष्णविलासकाव्ये सन्याख्याने ॥ ७२ ॥ महान् अहङ्कारः यथा शाम्यति तददिति । 'विनाशो लन्धस्य व्यथयतितरां नत्वनुदय' इत्याहुः ॥ ॥ ७१ ॥ प्रभाकरे पाटलभासि दूरं दिशं प्रतीचीमवगाहमाने । आलोक्य राम: परिणाममहो दामोदरं सादरमित्युवाच ॥७२॥ प्रभाकर इति ॥ पाटलभासि अरुणतेजसि प्रभाकरे सूर्ये प्रतीची दिशं पश्चिमां आशा दूरं अत्यर्थ अवगाहमाने प्राप्नुवति सति रामः बलदेवः अहः परिणाम दिवसस्य अवसानं आलोक्य दामोदरं कृष्णं प्रति सादरं आदरेण सह इति वक्ष्यमाणप्रकारेण उवाच उक्तवान् ॥ आविर्भवन्मन्दमरुत्प्रचारा शान्तातपा निर्वृतसर्वसला । विरामवेला दिवसस्य शौरे प्रवर्तते पश्य मनोभिरामा ॥ ७३ ॥ आविर्भवदिति ॥ हे शौरे ? आविर्भवन् उद्भवन् मन्दमरुतः मन्दानिल. स्य प्रचारः सञ्चारः यस्याम् ।' शान्तः शमं प्राप्तः आतपः यस्याम् । निर्वृतानि निर्वाणं मुखं प्राप्तानि सर्वसत्त्वानि निश्शेषजन्तवः यस्याम् । तादृशी मनोभिरामा दिवसस्य विरामवेला परिणतिसमयः प्रवर्तते । पश्य अवलोकय ॥ ॥ ७३ ॥ शिरोमिरूढन्धनशाकमूलाः खयथ्यमुच्चैःस्वरमाह्वयन्तः ।

चतुर्थः सर्गः ॥
वनेचरा वीक्ष्य विराममह्नः
समारभन्ते सहसैव गन्तुम् ॥ ७४ ॥
शिरोभिरिते ॥ वने चराः किराताः अहः विरामं दिवसावसानं वीक्ष्य
अवगम्य शिरोमिः ऊढानि धृतानि झ्धनानि काष्ठानि शाकमूलानि च शत्रकन्दा-
दिभक्ष्याणि यैः । स्वयूथे भवं स्वयूथ्यं जनं उच्चैःस्वरं उच्चनादं यथा तथा आह्वयन्तः
सन्तः सहसैव तरसैव गन्तुं स्वस्वपकण प्राप्तुं समारभन्ते प्रक्रमन्ते ॥ ४ ॥
शतं शतं व्योमनि बद्धमाला:
शात्कारवाचालविलोलपक्षाः ।
व्रजन्ति लक्षीकृतवासवृक्षाः
मनोजवाः पश्य पतत्रिणोऽमी ॥७५ ॥
शतमिति ॥ अमी पतत्रिणः पक्षिण: व्योमनि आकाशे शतशतं प्रायशः
शतसंख्यारूपं बद्धमाला: प्रथितपङ्क्तयः शात्कारेण शब्दविशेषेण वाचाला: मुखराः
विलोलाः चश्चलाः पक्षाः गरुतः येषां तथा सन्त: लक्षीकृतवासवृक्षाः विषयीकृत-
कुलायशाखिन: मनोजवाः मनसः सदृशवेगाः व्रजन्ति गच्छन्ति । पश्य अवलो-
कग । अमूनिति शेषः ॥
॥ ७५॥
भुवः परागे बहुशो लुठित्वा
प्रविश्य नीडं कलविङ्कयूथम् ।
धिनोत्यपत्यानि बुभुक्षितानि
ग्रासेन चञ्चूपुटसचितेन ॥७॥

१४८
श्री कृष्णविलासकान्ये सव्याख्याने
भुव इति ॥ कलविकानां चटकानाम् । 'चटकः कलविङ्कःस्या'दित्यमरः ।
यूथं समूहः भुवः परागे महीरजसि बहुशः अनेकवार लुठित्वा लुठनं परिवर्तन
तत्कृत्वा नोडं कुलायं प्रविश्य बुभुक्षितानि क्षुधितानि अपत्यानि शिशून् चञ्चूपुट-
सश्चितेन तुण्डान्तरसम्पादितेन ग्रासेन भोज्यवस्तुना घिनोति प्रीणयति ॥ ७६ ॥
तदेहि शौरे तपनव्यपायात
प्रागेव याम: पदमस्मदीयम् ।
इयं क्षिति: श्वभ्रतटेन पश्चात्
दुरसञ्चरा लुब्धकनिर्मितेन ॥ ७७ ॥
.
तदिति ॥ हे शौरे ? इयं शितिः वनभूमिः लुब्धकैः किरातैः निर्मितेन
विरचितेन श्वभ्रतटेन उत्खातकन्दरतया निम्नकृतस्थानेन । — गावटी मुवि श्वन'
इत्यमरः । पश्चात् सूर्यास्तमयात् परं दुस्सचरा दुःखेन गन्तव्या स्यात् । तत्
तस्मात् कारणात् एहि आगच्छ । तपनस्य सूर्यस्य व्यपायात् अस्तमयात् प्राक
पूर्वमेव अस्मदीयं पदं गोकुलं यामः गच्छामः ॥
श्रुत्वेति रामस्य गिरं मुरारिः
अस्त्वेवमित्यादरपूर्वमुक्त्वा ।
सह प्रतस्थे स च मित्रवर्गः
प्रचण्डशृङ्गध्वनिपूरिताशैः ॥ ७८ ॥
॥ सः मुरारिः कृष्णः इति एवंप्रकारं रामस्य गिरं वाचं श्रुत्वा
एवमस्तु तथाऽस्त्विति आदरपूर्व उक्त्वा आभिधाय प्रचण्टेन उत्कटेन शृङ्गवनिना
पूरिताशैः च्यापितदिव्यण्डलैः मित्रवर्गः सुहृद्णैः सह प्रतस्थे च प्रस्थितश्च ॥ ७८ ॥

सर्गः ॥ १४९ सहप्रयाणाय कृतत्वराणां ऊधोभराडूरविलम्बिनीनाम् । स तत्रतत्र प्रतिपाल्य तस्थौ प्रीतो गवामागमनं मुकुन्दः ॥ ७९ ॥ सहेति ॥ स: मुकुन्दः सहप्रयाणाय सममेव गन्तुं कृतत्वराणां विहित. उम्भ्रमाणामपि ऊधसः आपीनस्य भरात् गौरवाद्धेतोः दूरं अत्यर्थ विलम्बिनीनां पन्दीभूतानां गवां आगमनं आगति तत्र तत्र स्थाने प्रतिपाल्य प्रतीक्ष्य प्रीतः सन्तु- !: सन् तासु दयालुत्वं प्रीतिहेतुः । तस्थौ स्थितवान् ॥ समावृतो गोपजनेन नन्दः गोपाङ्गनाभिश्च वृता यशोदा। अतिष्ठतामध्वनि लोचनाभ्यां पुत्रागतिप्रेक्षणसस्पृहाभ्याम् ॥ ८ ॥ समावृत इति ॥ गोपजनेन समावृतः परिवृतः नन्दः गोपाङ्गनाभिः गोपीभिः वृता यशोदा च पुवागतिप्रेक्षणं पुतागमनविलोकनं तव सस्पृहाभ्यां सतृष्णाभ्यां लोचनाम्यां उपलक्षितौ अध्वनि पुत्रागमनमागें अतिष्ठतां स्थितवन्तौ ॥ चकार कर्णेषु तयोः प्रमोदं दामोदरापूरितशृङ्गनादः । दिवि प्रसर्पन्नथ पांसुपूरः नेत्रेषु पीयूषमिवाभ्यवर्षत ॥ ८१ ॥ .

१५० श्री कृष्णविलासकाव्ये व्याख्याने . चकारेति ॥ तयोः यशोदानन्दयोः दामोदरेण कृष्णेन आपुरितस्य आध्मातस्य शास्य नादः शब्दः कर्णेषु प्रमोदं चकार । अथ अनन्तरं पांसुपरः परागसमूहः नेत्रेषु पीयूषं अमृतं अम्पवर्षदिव । अमृतवर्षसमं मुखं अकरोदित्यर्थः । दिवि गगने प्रसर्पद व्याप्नुवनिति उभयत्र विशेषणम् ॥ । तौ धूसराङ्गौ रजसा कुमारी गत्वा स नन्दः परिरभ्य गाढम् । आत्मानमानन्दसमुद्रमनं नालं समुडर्तुमभून्मुहूर्तम् ॥ ८२ ॥ ताविति ॥ सः नन्दः रजसा गोधूल्या धूसराङ्गौ शमलवर्णशरीरी कुमारी रामकृष्णौ गत्वा प्राप्य गादं परिरम्य आलिभ्य आनन्द एव समुद्रे मन अवगाद आत्मानं आत्मशरीरं मुहूर्त अल्पकालं समुद्धत वोढुं नालं अभूत् न पर्याप्तोऽभूत् । उत्पत्य धावहिरदस्तशस्त्रैः वेलारवक्षोभितदिग्विभागैः। आभीरवीरैःस वृतः प्रपेदे वजं समाकर्णिततूर्यघोषम् ॥ ८३ ॥ उत्पत्येति । सः नन्दः उत्पत्य उत्पतनं कृत्वा धावद्भिः शोचं गच्छद्भिः उदस्तशः उद्धतायुधैः श्वेलारवेण नादविशेषेण धोभितदिग्विभागैःचालित- चतुर्थः सर्गः ॥ दिगन्तरैः आभीरवीरैः गोपवीरैः वृतः सहित: समाकर्णितः सम्यक् श्रुतः तूर्यघोषः दुन्दुभिध्वनिः यस्मात् तादृशं ब्रज घोषं प्रपेदे प्राप्तवान् ।। चाटूक्तिभिः पार्श्वचरानशेषान् विसृज्य गोंपान् सहितः स मित्रैः। विवेश कृष्णो भवनं दिनान्ते समुज्ज्वलन्मङ्गलदीपिकाभिः ॥ ८४ ॥ - चाटक्तिभिरिति ॥ सः कृष्णः चाटूक्तिभिः श्लाघापूर्वकवाग्भिः अशेषान् पार्श्वचरान् भुत्लान् गोपान विसृज्य गमयित्वा मित्रैः वयस्यैः सहितः दिनान्ते सायं मालदीपिकाभिः समुज्वलत् दीप्तं भवनं विवेश प्रविष्टवान् ॥ ॥ ८४॥ कामं दिवा कर्णपथं गतेन नीताः प्रियं वेणुरवेण विष्णोः । प्रतिप्रियं चक्रुरमुष्य सायं गावः पयोदोहननिस्वनेन ॥ ८५ ॥ काममिात ॥. दिवा दिवसे कामं अत्य] कर्णपथं श्रोत्रमार्ग गतेन प्राप्तेन विष्णोः वेगुरवेण वंशनादेन प्रियं प्रीतिं नीता: प्रापिताः गावः साफ सन्ध्यायां पयोदोहनस्य धीरप्रपूरणस्य निस्वनेन शब्देन अमुष्य विष्णोः प्रतिप्रिय प्रतिकाररूपं प्रमोद चक्रुः कृतवत्यः ॥

१५२ श्री कृष्णविलासकाव्ये सव्याख्याने अनुदिनमिति कुर्वन् पालनं गोकुलस्य क्षणमिव दिवसानि क्रीडया यापयन् सः । अखिलमपि धरित्रीभारमभ्युद्धरिष्यन् अरमत सह शौरिस्तत्र सङ्कर्षणेन ॥८६॥ इति सुकुमारकृतौ कृष्णविलासकाव्ये ॥ चतुर्थः सर्गः ॥ अनुदिनमिति ॥ इति एवंप्रकारं अनुदिनं दिनेदिने गोकुलस्य मोसमू- हस्य पालनं त्राणं कुर्वन् दिवसानि क्रीडया विहारेण सावित क्षणकालमिव यापयन् गमयन धरित्र्याः भूमेः भारं अखिलं निश्शेषमपि अयुदरिष्यन् अभितः उद्धत क्षपयितुं उपक्रममाणस्सन् सः शौरि श्रीकृष्णः तत्र व सङ्कर्षणेन बलभद्रेण सह अरमत क्रीडितवान् । जगतां भारापनोदेन परमानन्दं जनयिष्यन् तत्र नन्दगृहे भगवान् अरविन्दनाभः सुखं अवसत् ।। देवक्या धनसन्ततेरिव जवादाविर्भवन् गर्भतः सन्तन्वन्नभिवर्द्धनच जगतामम्भोनिधीनामिव । आपीतद्युतिरङ्गनाजनदृशां चक्रैश्चकोरिख श्रीमानिन्दुरिवेन्दिरासहचरो बालश्चिरं पातु वः ॥ इति श्रीरामपाणिवादविरचितायां विलासिन्याख्याथों श्रीकृष्णविलासव्याख्यायां चतुर्थः सर्गः समाप्तः ॥

No text on this page.

DONATED TO TTO CENTRAL LIBRARY

No text on this page.

No text on this page.

No text on this page.

BOOKS!
JUST PUB
A History of Vedic Litera
वैदिकसाहित्यचरित्रम्
(In Sanskrit)
With a Foreword By
Mabamabopadhyay& Dr. Ganganatha
Vice-chancellor Allahobad University
This is the first Book of its kind in San
sopra
Ordinary Edition:
Library Edition:
2 4
3 12
PRASNA MARGA- With Explanatory foc
प्रश्नमार्गः ferqografoga:
This is a very rare book which is tri
name-a fod sath to the Prasna and Jata)
of Astrology, and the best book of its kij
exists at present.
Ordinary Edition
90
Library Edition:
4 0
R. Subrahmanya Vadhyar,
Book-Seller & Publisher
KALPATHI-PALGH11

Shriikushhnd-avilaasakaavyamu

Author
Sukumaara Kavi
Title
Shriikushhnd-avilaasakaavyamu
File name
Shriikushhnd-avilaasakaavyamu
Text
OCR done
Citation
1928
Published
2005/08/26
Publisher
R . Subrahmanya Vadhyar , Palghat .
Language
Sanskrit
Pages
166
Library
Donar
Classification
Poetry. Poems. Verse
Keywords
R . Subrahmanya Vadhyar
DLI number
495950
Barcode
2990100073022.00
Scanning centre
S.V. Digital Library, Tirupati
Digital publisher
Digital Library Of India
VMLT id
tvbAcO2igIu
Download PDF

Shriikushhnd-avilaasakaavyamu