Central Archaeological Library_asi_new Delhi
Kavyamala Part Xiv
Front matter
KAVYAMĀLĀ.
A collection of old and rare Sanskrit Kāvyas,
Nātakas, Champūs, Bhānas, Prahasanas,
Chhandas, Alañkāras &c.
Part XIV.
8392
EDITED BY
PANDIT DURGĀPRASĀDA
AND
KĀSĪNĀTH PANDURANG PARAB.
Nam
Second Revised Edition.
saa
PUBLISHED BY
PĀNDURANG JAWAJĪ,
PROPRIETOR NIRNAYA SĀGAR' PRESS,
BOMBAY
102
1938.
8912032
CENTRAL ARCHAEOLOGIGAL
LIBRARY, NEW DEL.
No.....3..7.7..
eta ........28.-2-5
al No....... S......
ка
# # #
[All rights reserved by the publisher.]
Publisher:-Pandurang Jawaji, Nirnaya Sagar Press,
Printer:-Ramchandra Yesu Shedge, 126-28, Kolbhat Street, Bombay.
॥श्रीः॥ काव्यमाला नाम नानाविधप्राचीनकाव्यनाटकचम्पूभाणप्रहसन- छन्दोलंकारादिसाहित्यग्रन्थानां संग्रहः । चतुर्दशो गुच्छकः। जयपुरमहाराजाश्रितेन पण्डितब्रजलालसूनुना पण्डित- दुर्गाप्रसादेन, मुम्बापुरवासिना परबोपाल- पाण्डुरङ्गात्मजकाशिनाथशर्मणा च संशोधितः। द्वितीयं संस्करणम् । मुम्बय्यां पाण्डुरङ्ग जावजी इत्येतैः, खीये निर्णयसागराख्यमुद्रणयन्त्रालये मुद्रयित्वा प्राकाश्यं नीतः। शाकः १८६०, ख्रिस्ताब्दः १९३८.
अनुक्रमणिका।
१
....
२२
४५
....
....
६७
....
१. कहणमहाकविकृतमर्धनारीश्वरस्तोत्रम्
२. लल्लादीक्षितविरचितमानन्दमन्दिरस्तोत्रम्
३. रामभद्रदीक्षितविरचितो विश्वगर्भस्तवः
४. इन्दुदूतम् ..
५. कृष्णानन्दकवीन्द्रविरचितं सुदर्शनचम्यूकाव्यम्
६. कुसुमदेवविरचितं दृष्टान्तकलिकाशतकम्
७. कामराजदीक्षितविरचिता शृङ्गारकलिकात्रिशती
८. हरिकृष्णभट्टविरचितं सीतास्वयंवरकाव्यम्
९. व्रजराजदीक्षितविरचितं षडतुवर्णनकाव्यम् 6000
१०. सामराजदीक्षितविरचिता शृङ्गारामृतलहरी
७७
....
9...
१२४
काव्यमाला। काश्मीरकमहाकविश्रीकरणकृतम् अर्धनारीश्वरस्तोत्रम् । भालं वहिशिखाङ्कितं दधदधिश्रोत्रं वहन्संभृत- क्रीडत्कुण्डलि जृम्भितं जलधिजच्छायाच्छकण्ठच्छविः । वक्षो बिभ्रदहीनकञ्चकचितं बद्धांगनाघस्य को मागः पुंगवलक्ष्मणोऽस्तु यशसे वामोऽथवा दक्षिणः ॥१॥ वामें साञ्जनमक्षि दक्षिणदिशि श्यामायमानो गल: पाणौ तिष्ठति दर्पणोऽत्र मुकुटेऽमुत्र स्थितश्चन्द्रमाः। तन्मातेयमयं पितेति सुचिरात्सप्रत्यभिज्ञं शनै- यस्योत्सङ्गमगाद्नुहो भवतु वः प्रीत्यै स गौरीश्वरः ॥२॥ मुश्चेभाजिनमस्य कुम्भकुहरे मुक्ताः कुचायोचिताः कि भालज्वलनेन कज्जलमतः कार्य तवाक्षणोः कृते । संघाने वपुर्धयोभगवतोरित्थं निषेधेऽप्यह: कर्तव्ये प्रिययोत्तरानुसरणोद्युक्तो हरः पातु वः ॥ ३ ॥ विहितमजगोशृजाग्राभ्यां धनुघटितं तथा नरकरटिनोर्दैवार्धाभ्यां गणं प्रतिगृह्णतः । १. सुप्रसिद्धोऽयं कविवरः खिखद्वादशशताब्द्यामेन अन्य प्रणिनिनाय. अधिक त्वेतद्विषये Dr.M.A.STAIN, PR, D., महाशयवरविरचितराजत- रङ्गिणीभूमिकातोऽक्सेयम्..
काव्यमाला।
द्विविधरचनावाल्लभ्यानां निधेरुचिता विभो-
जयति लटभापुंभागाभ्यां शरीरविनिर्मितिः ॥ ४ ॥
नेदं पर्णसमीरणाशनतपोमाहात्म्यमुक्षोरगौ
पश्यैतावत एव संप्रति कृतौ तन्मात्रवृत्ती बहिः ।
प्रेम्णैवार्थमिदं चराचरगुरोः प्राप्तेयमात्मस्तुती-
रित्थं देववधूमुखाच्छ्रुतिसुखाः शृण्वत्यपर्णावतात् ॥ ५ ॥
काप्येतेषु रुचिः कचेषु फणिनां पुत्कोकिलस्येव ते
गोभिः कण्ठतटस्य हृष्यति पुरो दृक्पश्य चक्षुःश्रुतेः ।
संधानेऽभिनवे मिथो भगवतोर्जिह्वा पृथक्स्पर्धिनी
भिन्नार्थी सदृशाक्षरामपि वदन्त्येवं गिरं पातु वः ॥ ६ ॥
दातुं वाञ्छति दक्षिणेऽपि नयने वामः करः कजलं
भौजंगं च मुजेऽङ्गदं घटयितुं वामेऽपि वामेतरः ।
इत्थं खं खमशिक्षितं भगवतोरचं वपुः पश्यतोः
साधारस्मितलाञ्छितं दिशतु वो वक्र मनोवाञ्छितम् ॥७॥
गाढालिङ्गन मङ्गलं भवतु ते खस्त्यस्तु वश्वाटवः
किं ब्रूमः प्रियया विलासकलह श्रद्धेय एवासि न ।
इत्युक्ते निबिडप्रवासचकितैर्याबद्गुणैः स्थीयते
संघट्टः शिवयोः स तावदधिकस्पष्टः शिवायास्तु वः ॥८॥
तदर्धनारीश्वरमूर्धरत्नमर्ध विधोरस्तु समृद्धये वः ।
यदद्रिकन्यावदनातिरिक्तद्वितीयभागभ्रममातनोति ॥ ९ ॥
तद्वीतव्यतिरेकमद्रितनयादेहेन मिश्रीभव-
विष्पत्यूहमिह व्यपोहतु वपुः स्थाणोरभद्राणि वः ।
वेण्या भोगिवधूशरीरकुटिलश्यामत्विषा वेष्टिता
जूटाहेरपि यत्र भाति दयितामूर्येव पृक्ता तनुः ॥ १० ॥
अर्धनारीश्वरस्तोत्रम् ।
प्रौढाः कञ्चुकिनो जरदुषवरः कुञ्जस्तुषारद्युति-
नित्याप्तोऽपि बहिष्कृतः परिकरः सोऽयं समस्तोऽप्यहो।
अर्धाद्यद्वसतीकृताद्भगवता चारित्रचर्याविदा
सा भिद्यादुरितं चराचरगुरोरन्तःपुरं पार्वती ॥ ११ ॥
लीलोद्यानवनश्मशानगमने खेच्छापराधीनयोः
सम्यक्साम्वरतादिगम्बरदशासव्रीडनिर्जीडयोः ।
पर्याप्तातुलरामणीयकमहाश्रीभैरवाकारयोः
क्षेमं वः शिवयोः समासमदृशोर्दिश्यादचिन्त्यं वपुः ॥१२॥
चूडेन्दोरिव रोचिषा मुकुलितं वातायनाभं श्रियः
पानार्थ परिषेवितं मधुकराकारैः कुमाराननैः ।
औन्नत्यादधिवास्य वक्रपवनणोपयोगीकृतं
कस्योरोजसरोजमस्ति न मनस्तोषाय गौरीशयोः ॥ १३ ॥
अर्थ स्निग्धविमुग्धमिद्धहुतभुग्दिग्धं तथाध जग-
त्पायादीश्वरयोस्तदक्षि तिलकस्थानस्थितं वीक्ष्य यत् ।
क्रीडाकर्मणि कार्मुकं करतले कर्तु किरीटेन्दुना
सोत्सेकश्च निरुत्सुकश्च युगपद्देवः स्मरो जायते ॥ १४ ॥
व्याला वायुभुजस्तृणेढि च तृणान्युक्षा बुभुक्षातुरो
निष्कौपीनपटः कुटुम्बभरणो किं त्वस्मि चिन्ताकुलः ।
दौर्गत्यादिति पिण्डमेकमकरोगौरीशरूपेण यो
यश्चाभीष्टफलप्रदस्त्रिजगतः कमैचिदस्मै नमः ॥ १५ ॥
ज्याघोषैर्बधिरीकरोति ककुभो बाहू मुहुः पश्यति
खस्य खेन विकत्थते रचयति प्रोच्चैस्तरां तर्जनीम् ।
यस्मिन्केवलमेव केलिरभसाज्जातेऽर्धनारीश्वरे
वीरंमन्यतया स मन्मथभटो वातूलितस्तं स्तुमः ॥ १६ ॥
प्रशारण काव्यमाला। वपुःखण्डे खण्डः प्रतिवसति शैलेन्द्रदुहितुः शिखण्डे खण्डेन्दुः खयमपि विभुः खण्डपरशुः । तथापि प्रत्यग्रं शरणमुपयातं प्रति विमो- रखण्डो व्यापारो जगति करुणाया विजयते ॥ १७ ॥ प्रेमा वपुषों विलोक्य मिलितं देव्या समं खामिनो मौलौ यस्य निशापतिर्नगसुतावेणीनिशामिश्रितः । आस्ते खाम्यनुवर्तनार्थमिव तत्कृत्वा वपुः खण्डितं देयादद्वयभावनां स भगवान्देवोऽर्धनारीश्वरः ।। १८ ॥ इति महाकविश्रीकहणप्रणीतमर्धनारीश्वरस्तोत्रम् । श्रीकवीन्द्रबहादुरश्रीलंल्लादीक्षितविरचितम् आनन्दमन्दिरस्तोत्रम् । वृन्दारकावलिकिरीटमणिप्रकाश- नीराजिताङ्गियुगला कमलायताक्षी। शोणाम्बरावृततनुर्निजभव्यभूमिः श्रीसंकटाद्य विकटावतु संकटान्नः ॥ १ ॥ संदर्शनागतलसल्ललनाजनाली- पूजासभाजनविभासितभव्यमूर्तिः । तत्पादपनवसतां विदुषां नतानां श्रीसंकटा भगवती भविकाय भूयात् ॥ २ ॥ १. अये श्रीललादीक्षितः १८५९ वैक्रमे ( १८० ख्रिस्ताब्दे) स्तोत्रमिदं रचितवानिति चरमश्लोकोऽवगम्यते. अस्य च स्तोत्रस्यैकमेवैकादशप- आत्मक पुस्तकामुमकन्याम्
आनन्दमन्दिरखोत्रम् ।
त्वत्पादपद्मविनतस्य न तस्य कस्य
संकष्टसंतपनमस्तमियात्समस्तम् ।
पूर्षेन्दुसुन्दरतराधितचन्द्रिकायां
कां यान्ति हन्त गतिमाशु न वा तमांसि ॥३॥
देवि त्वदीयपदपङ्कजसेवकानां
का नाम संभवभवोद्भटतापमीः स्यात् ।
किं चात्र चित्रमधिकं सरति स्मृतेऽपि
तापस्तु तद्धृदि यदा नितरां विलमम् ॥ ४ ॥
देवि त्वदीयवरकार्यविधानरिक्तः
सिक्तः स किं न सुधया खडशा भवत्या ।
बालेऽपि मय्यविनयेऽपि नवेऽपि मातः
किं ते पुनः समुचिता न दयादृष्टिः ॥ ५॥
त्वद्भक्तिभावविभवेऽप्यभवं न भव्यः
श्रीभूतभूपभविकाद्भुतभागधेये ।
बालोऽपि बालविषणोऽपि च बालिशोऽपि
नो संकटेऽद्य विकटे किमयं दयाईः ॥ ६ ॥
त्वच्छक्तिरेव कवने मनने मतीनां
स्त्रीणां घने निधुवनेऽप्यवने वनेऽपि ।
सैवासि मां किल विलोक्य दीनदीनं
हीनं धियेन्दुसदृशा खडशा चकोरम् ॥ ७॥
प्रातर्नटन्नलिनकान्तिनवाननानां
पूजासभाजिततनूततिरङ्गनानाम्
शोणाम्बरा सुरपतेर्दिगिव प्रकामं
कामं तनोतु निभृतं मम संकटा सा॥८॥
काव्यमाला।
नानावतारचरितैर्भुवि भक्तकार्य
धुर्य मुदा कृतवती भवती भवानी ।
मां बालकं निजनवस्नुषया विधाय
मातर्वियोगिनमिदं तव किं नु योग्यम् ॥ ९॥
श्रीसंकटे भगवति स्फुटसंकटान्नः
त्वं पाहि पाहि परिपाहि भवानि पाहि ।
वन्द्यैः कवीन्द्रतिलकैः किल कीर्त्यते ते
रात्रिंदिवं यदिह नाम तु संकटनी ॥ १०॥
बद्धाञ्जलिस्त्वदुपकण्ठमकुण्ठकण्ठ-
मुत्कण्ठितस्तु कथयामि महाप्रमादी।
बालस्तवैव च वधूश्च जनी तवैव .
सङ्गेन ते कथमये हृदयं दयाम् ॥ ११ ॥
लोकेऽपि चेन्नु तनयस्तनुते प्रमादा-
द्यद्यन्यथा विरहिणं स्नुषया न माता ।
त्वं तत्कथं वितनुषे सुषया वियोगं
योगं च मामतिदये कथयात्र मातः ॥ १२ ॥
ते संकटेऽद्य विकटे निकटे भवानि
बालास्तवैव विलसन्ति तवैव वध्वः ।
ताँल्लालयस्यथ न मां किमहं दृशोस्ते
रम्यः पुरः समभवं न भवन्महागाः ।। १३ ।।
नित्यास्यथो विभुरसीश्वरभागधेये
चञ्चच्चराचरचरित्रविचित्रभित्तिः ।
तस्मान्ममापि हृदये सदये स्थितार्सि
। : मातर्मयीह कुपितासि रयाक यामि ॥ १४ ॥
आनन्दमन्दिरस्तोत्रम् ।
दीनान्सदा दितिसुतान्सितदन्ति हन्त
हन्तुं मुदादितिसुताः प्रभवन्ति शक्ताः ।
शुम्भादिकेष्वतिरलेषु विजृम्भितेषु
कोऽन्यो विनात्र भवती प्रभवेच्छरण्यः ॥ १५॥
भूपेषु भूतिविभवं भवभागधेये
त्वं विभ्रती भविकमद्भुतमातनोषि ।
दीनेषु हीनसदृशेषु च मादृशेषु
स्निग्धा सुधांशुसदृशं न दृशं तनोषि ॥ १६ ॥
इन्दिन्दिरप्रचलसुन्दरवन्दनन्द-
दिन्दीवरालिसदृशा खदृशाप्यमन्दम् ।
त्वं मां विलोकय पुरंदरवन्दनीये
कोऽन्यः प्रनन्दयति चन्द्रमृते चकोरम् ॥ १७ ॥
उत्ङ्गरिङ्गदुरुगाङ्गतरङ्गसङ्ग-
भङ्गीविभासिततनुः सदनगदस्त्री।
काशीविलासवलिता हरतां मदन्तः-
संतापसंततिमियं नितरां समन्तात् ॥ १८ ॥
कान्ताजनार्पितहिरण्यजकुम्भधारा-
साराभिषेकिततनुर्वितनुद्विषः स्त्री।
कर्पूरपूरसरदर्चिसमर्चिताङ्गी
भङ्गीकरोतु मदभव्यभरं भवानी ॥ १९ ॥
वृन्दारकेन्द्रकरचञ्चलचामराली-
चश्चञ्चलच्चिकुरचारुचरित्रचित्रा।
लोकेशकेशवलसच्छयचन्द्रवृन्द-
नीराजिता नगसुता महितां मुदे स्यात् ॥ २० ॥
काव्यमाला।
वृन्दारकालिमुकुटालिमिलन्मसार-
माणिक्यमञ्जुमधुपाश्चितपादपद्मा ।
पद्मालया करगचामरवीज्यमाना
मानाय मे भवतु सा गिरिजासमाना ॥ २१ ॥
नायाति ते हृदि दया सदयेऽपि मात-
रद्यापि मे मनसि तत्कुतुकं चकास्ति ।
आलोक्य रोदनपरं तनयं न कस्याः
खान्ते समुल्लसति सान्द्रदया नु मातुः ॥ २२ ॥
मातर्भवानि शुभवाणि भवानि नम्रः
कम्रस्त्वदजिनलिनाञ्चितचञ्चरीकः ।
चञ्चच्चराचरविचित्रचरित्रचारु-
चूडेव लोकयसि मां न विलोलम्भिः ॥ २३ ॥
आलोक्य रोदनपरं तनयं नवं खं
का वा भवेन्न जननी जनिताकपालिः ।
दृष्ट्वापि मामपि रुदन्तमनन्तमन्तः-
कान्ताकृपापि न कथं समुदेति मातः ॥ २४ ॥
सिद्धेश्वरि त्रिभुवनेश्वरि सिद्धसंघ-
संपूज्यपादकमले कमलायताक्षि ।
अन्वर्थतां कृतवती भवती भवानी
सर्वेषु ते मयि कुतो व्यभिचारचारः ॥ २५ ॥
अद्धा स्मृतं यदिह सिद्धसुधीन्द्रसंधैः
सिद्धिं दधाति बहुधा बहुधाम धाम ।
गन्धर्वधुर्यविबुधोद्धरसाधु सिद्धिं
सिद्धेश्वरीपट्युगं ध्रुवमादधातु ॥ २६ ॥
आनन्दमन्दिरस्तोत्रम् ।
वन्दारुवन्द्यसुरवृन्दकिरीटकोटि-
श्रीमन्मसारमणि मञ्जमिलन्मिलिन्दम् ।
सान्द्राङ्गुलीचलदलं नगनन्दिनी श्री-
पादारविन्दमिह नन्दयतादमन्द्रम् ॥ २७ ॥
आनन्दसुन्दर पुरंदर बिन्दुकृन्द-
संदेह दोलितसुवर्णनवर्णनीयम् ।
मन्दान्प्रनन्दयतु बालमृणालवाद्य-
त्किंजल्कपुञ्जजनिमञ्जुलमञ्जुकुञ्जम् ॥ २८ ॥
शाणावलीढितमनोहरहीरकामा-
सद्भासुरं गिरिभुवो विभवौघमन्यम् ।
सद्भानुभानुनिकरयुतिदामवाम
कामं करोतु निभृतं मम जानुयुग्मम् ॥ २९॥
संतापसंततिनिरन्तरतान्तिशान्ति-
कान्तं प्रकामकदलीकुलकोमलं च ।
श्रीकण्ठकेलिकलनाभवनं भवान्या
जङ्घायुगं जरयतु ज्वरमुज्वलं मे ॥ ३०॥
यस्य प्रकाममहिमानममन्दमान-
मालोक्य काञ्चनगिरिर्जडतामयासीत् ।
शैलावलीन्द्रजनुषो निभुतं नितम्ब-
भारः स मे भवतु भव्यतराय भूयः ॥ ३१ ॥
योऽभून्महामतिमतां सदसद्विकल्प-
कल्पः प्रकामरसनावलनाभिरामः ।
श्रीकण्ठमुष्टिधरणैकविलासशाली
भव्याय में भवतु भूधरभूवः ॥ ३२ ॥
१०
काव्यमाला।
यमिन्सुवर्णविलसद्रवमञ्जुलाने
वेणीसुमेघु जयमन्त्रलिपिविभाति ।
गाङ्गेयगौरतरकेतककान्तिकान्तः
कष्टागिरीन्द्रजनुषोऽवतु पृष्ठभागः ॥ ३३ ॥
अद्धा धराधरधुरंधरधोरणीन्द्र-
सज्जन्मनो निजजनोज्वलभाग्यभाजः ।
रम्भानवोदितदलद्वयसुन्दराभ
पार्श्वद्वयं दलयतान्मम दीर्घदुःखम् ॥ ३४ ॥
अङ्गाङ्गसङ्गिसुषमाच्छतरङ्गिणीज-
रिङ्गत्तरङ्गविभवद्धमिभावभूता।
भूताधिपस्य सुदृशो निभृतं गभीर-
नाभीनिभा भवतु मे भविकाय भूयः ॥ ३५ ॥
लावण्यपूर्णजलनाभि सुवापिकोद्य-
च्छैवालबालशुभमञ्जरिकेव मञ्जुः ।
सत्कञ्जगुञ्जदलिमञ्जुललोचनाया
लोमावली कलयतात्कुशलं शिवायाः ॥ ३६ ।।
जेतुं शिवं स्तननगेषु तपस्यतो या
निःश्रेणिकेत्र मदनस्य विभाति हैमी ।
सोपानपङ्किरिव नाभिसरोवरस्य
शैलोद्भुवो वलयतात्रिवलीविलासम् ।। ३७ ॥
वीक्ष्य प्रकामसुषमामसमां ययोः श्री-
वक्षोजयोहिमगिरीन्द्रजनेर्जनन्याः ।
धूलि गजा दधति कुम्भयुगेऽतिदीना
हीणा मनागपि तमोहातां तमान्तौ ॥ ३८ ॥
आनन्दमन्दिरस्तोत्रम् । हेमप्रभौ विमलबालमृणालनाल- लीलाहरौ सुरुचिरौ गिरिराजजन्याः । सत्कान्तिकान्तमणिकङ्कणपृश्निपूर्णी पाणी शिरीषमृदुलौ तनुतां मुदं नः ॥ ३९ ॥ श्रीकण्ठकण्ठपटलप्रकटां कपाली- शालीनतोद्मवती गिरिराजपुत्र्याः । लीलातता भुजलता तनुतां विलासं लेखेव काञ्चनभवा निकषोपलस्था ॥ ४०॥ वर्णाभवर्णशुभशङ्खवरेण्यशोभो लोभोल्लसहिरिशबाहुविलासशाली । लेखात्रयेण ललितः शिखरीन्द्रपुत्र्याः कण्ठः स कुण्ठयतु तापमकुण्ठनादः ॥ ४१ ।। रम्भानवोदितलसद्दलमध्यसुप्त- व्यालीव मञ्जुलविलासकला शिवायाः । सद्यक्षकर्दमविमर्दमनोभिरामा वेणी सुवर्णसुषमा महिता मुदे स्यात् ॥ ४२ ॥ यत्साम्यमाप्तुमतुलं सुतपस्तपन्ति सन्मानसे सरसिजानि नतानि तानि । ऐन्द्री दिगङ्गणविजृम्भितभानुभानु- भाखद्भवानि वदनं सदनं मुदां नः ॥ ४३ ॥ व्योमाङ्गणभ्रमणविभ्रमसंभृताङ्गः प्राप्यापि पर्वणि शशी स यदीयसाम्यम् । पश्यन्यदीयसुषमामसमा क्षिणोति तत्स्याद्भवानि वदनं सदनं मुदां नः ।। ४४ ॥ :::
काव्यमाला।
खेदाम्बुसंकुलविलोलकपोलपालि
शालिनमद्धमरकालि विलासवल्गत्
तुन्देन्दुबिम्बगतलम्बि भुजंगमञ्ज
तत्स्याद्भवानि वदनं सदनं मुदां नः ॥ ४५ ॥
सत्कर्णभूषणसुवर्णमिलन्मसार-
माणिक्यमञ्जुलमयूखविभाभिरामम् ।
खर्णाद्रिकीर्णमनि पृश्निवरेण्यवर्ण
तत्स्याद्भवानि वदनं सदनं मुदां नः ॥ ४६॥
नासासु मौक्तिकमयूखसमूहसान्द्रं
निस्तन्द्रचन्द्रकलितं वसुमेरुशृङ्गम् ।
कस्तूरिकाङ्कितमिव स्फुरदिन्दुबिम्ब
तत्स्याद्भवानि वदनं सदनं मुदां नः ॥ ४७ ॥
पञ्चेषु पञ्चविशिखेषु विभावभूता
लीलालसत्तिलसुमाच्छरमाभिरामा ।
मुक्तावलीवलितमञ्जुलमण्डना सा
नासा विनाशयतु तापमगेन्द्रजायाः ॥ ४८ ॥
वैधेयधुर्यधिषणा निगदन्ति साम्यं
सद्वन्धुजीवकुसुमे न हि यस्य तस्य ।
तत्स्यात्सुधारसभरं यदि सोऽपि तुल्यः
कल्याणमाकलयतादधरः शिवायाः ॥ १९ ॥
सद्विद्रुमद्रुमदलद्ववदामवामा
निस्तन्द्रचन्द्रकरसान्दुरमामिसमाः ।
वज्रव्रजोज्ज्वलतालाः शशिमौलिकान्ता
द्वन्तांशवो विदलयस्तु ममां दुखम् ॥ ५० ॥
आनन्दमन्दिरस्तोत्रम् ।
विद्यां चतुर्दशतयी चतुरां चतस्त्र-
श्वश्चद्विचित्रनिगमान्रुचिरान्दधाना ।
कल्पद्रुमोदितलसद्दलमञ्जुला सा
लास्यं गिसं कलयतादसना शिवायाः ॥ ५१ ॥
भाखद्विभाकरविभाभरभासुराभं
भीमामुखं समभवद्भवभाप्रभावैः ।
भ्राजत्तदाशु तदलोकि भवेन दत्ता-
गुष्ठं तदति चिबुकं तनुताच्छिवं नः ।। ५२ ॥
सत्कर्णभूषणमणिप्रविकीर्णवर्ण-
श्रेणीसुवर्णकिरणालिवरेण्यवर्णा ।
श्रीमन्मधूकसुषमा गरिमाभिरामा
कालीकमोलपटली तनुताच्छिवं नः ॥ ५३ ।।
कास्फुरचपलखञ्जनयुग्ममञ्जु
गुञ्जन्मिलिन्दमिलदं रुजमञ्जुलं यत् ।
श्रीमन्मसारमणिकान्तिनितान्तकान्तं
काली सदीक्षणयुगं तनुताच्छिवं नः ॥५४॥
जानीमहे मदनदाहविधौ धनुर्य-
तद्भवशेषमभवचदिदं किमत्र ।
दुर्गाभ्रुवोर्जनिमुपेत्य जगज्जयाय
जागर्ति तद्भुकुटियुग्ममिदं मुदे स्यात् ॥ ५५ ॥
राहोर्भयादिव धृतार्धतनुः सितांशुः
शीतांशुशेखररमालिकतामयासीत् ।
तत्रापि यन्मृगमदच्छलतो विभाति
सोऽङ्कः शिवा तदलिकं तनुताच्छिवं नः ॥ ५६॥
काव्यमाला।
सत्कुण्डलपचलमण्डलमण्डितांशु-
प्रोद्दण्डखण्डशुभताण्डवमण्डिगण्डौ ।
व? सुवर्णगणकीर्णवरेण्यवर्णी
कर्णी गिरीन्द्रजनुजस्तनुतां मुई नः ॥ ५५ ॥
सिन्दूरपूरपरिपूरितमध्यभागा
श्रीमन्मसारधरणी वसुपद्मरागा।
सद्भानुभानुनिभृता तिमिरच्छटेव
सीमन्तसंततिरगे द्रजनर्मुदे स्यात् ॥ ५८ ॥
नानाच्छरत्ननिकरद्युतिदाम वाम
श्रीहीरकालिसुषमागरिमाभिरामम् ।
मुक्तावलीवलितमैन्द्रधनुः प्रकामं
कामं गिरीन्द्रजनुषः कुरुतात्किरीटम् ॥ ५९ ।।
वाङ्गवर्णवरवर्णनवर्ण्यमाना
नानाकवीन्द्रकविताकुललाल्यमाना ।
नन्दन्निलिम्पललनाततिवन्धमाना
मानाय मे भवतु शैलसुता समाना ॥ ६० ॥
यस्य प्रभाववशतः कवयामि यामि
यद्यत्करोमि कलयामि भजामि नौमि ।
त्वच्छत्स्यनावृतमनाश्चलितुं न शक्तः
शोणं महामहिमशालिमहो नमामि ॥ ६१ ।।
वन्दे सुरासुरकिरीटमणिप्रदीप-
नीराजिताभिकमलां हिमशैलबालाम् ।
लक्ष्मीवचो भगवतीकरकेकिपुच्छ-
खच्छोच्छलच्चटुलचामरवीज्यमानाम् ॥ ६२ ॥
आनन्दमन्दिरस्तोत्रम् ।
१५
कुन्देन्दुसुन्दरमुंखी करवृन्दसान्द्र-
निस्त द्रचन्द्रचयचन्दनचर्चिताङ्गीम् ।
स्वच्छन्दनन्दनवनीसुमम माला-
मन्देदिरामिह नुमो नगनन्दिनी ताम् ॥ ६३ ॥
ये नाम नाम निगदन्ति नगेन्द्रकन्ये
मन्ये भवन्ति भुवनेषु भवानि धन्याः ।
नन्दत्कवी कविताकलनैरमन्द-
मानन्दयामि भवतीं न कुतः कृपाहः ॥ ६४ ॥
शोणाम्बरारुणमणिप्रविकीर्णवर्ण-
श्रेणीवितीर्णकिरणा शरणाशरण्या ।
चीणागुणानणुगणकणपाणिपूर्णा-
पर्णा सुवर्णकरणा शरणाय मे स्यात् ॥ ६५ ॥
पीयूषपूरपरिपूरितहैमकुम्भ-
धाराभिषेकसुषमागरिमाभिरामा ।
रामा शिरोमहितमण्डनदीप्तिवामा-
कामारिवामवदनास्तु वितीर्णकामा ॥ ६६ ॥
ऐन्द्री दिगङ्गणविजृम्भितमण्डितांशु-
मार्तण्डमण्डलमयूखरमाभिरामा ।
स्यादृद्धिसिद्धिकरचञ्चलचामरौघै-
रान्दोलिता नगसुता महिता मुदे नः ॥ ६७ ॥
वातालिलोललहरीकुललाल्यमान-
जम्बालजालविलसन्नलिनाच्छनेत्राम् ।
चित्राम्बरां जनविचित्रचरित्रचित्रां
वन्दे पवित्रचरितां गुरुगोत्रपुत्रीम् ॥ ६८ ॥
काव्यमाला।
केकिकामकलकण्ठविकुण्ठकण्ठां
.
श्रीहाटकाङ्कघटितां तरतुङ्गतुङ्ग-
शृङ्गस्थितां नगमुतां महितां नमामि ॥ ६९ ॥
बालाकुलाकलितचञ्चलचामराली-
वातोमिदोलनचला चलवालबाला
लीलाकुलाललितबालमृगाङ्कमौलि-
बालामला कलयताद्विपुलं विलासम् ॥ ७० ॥
भालाङ्कुशाभयवरासिसुशक्तिमुद्रा-
पाशाजकार्मुकमनोरमबाहुमालान् ।
मालाकिताच्छचरणां शरणान्तराय-
च्छेदान्वितां नगसुतां कलये विशालाम् ॥ ७१ ॥
क्षुभ्यद्विपक्षवरपक्षसुकक्षलक्ष-
सद्भक्षणक्षणविलक्षणदक्षकक्षा ।
पक्षाश्रितखजनरक्षणदक्षिणा सा
दाक्षायणी क्षपयतान्मदपक्षपक्षम् ॥ ७२ ॥
झंझंझझंझझझझं कृतिमञ्जुगुञ्ज-
न्मञ्जीरपुञ्जमृदुसिञ्जितमञ्जुलामिः ।
थंथंथथंथथथथं थथथथ्यमित्वं
सत्ताललालनकालाकलनाकुलाभिः ॥ ७३ ॥
तुंतुणुंतुणतुणमिति नादवयं-
वीणागुणानुरणनान्वितसढुंजामिः ।
रम्भादिमी रचितताण्डवमण्डिताच्छो-
द्दण्डाणासुखममाय ममारत्वपूर्णा ॥ ७४ ॥
आनन्दमन्दिरस्तोत्रम् । १७ मे कादम्बिनीचपलमण्डलमण्डिताभा- मैन्द्रीदिगङ्गणमणिद्युमणिप्रभाभाम् । तुन्देन्दुसुन्दरकरोत्करभासुराभां संभावयामि भविकाय शुभां भवानीम् ॥ ७५ ॥ मुक्ताच्छगुच्छविषदच्छविहारतारा- गौरांशुकांशुनिचयाञ्चितचन्द्रिकारात् । सद्वत्रचन्द्रसुषमा शशिमौलिवामा राकेव सा तिरयतान्मम तीव्रतापम् ।। ७६ ॥ केशालिशैवलचया सुषमाम्बुपीना मीनाच्छमञ्जुनयना स्तनचक्रवाका । अम्भोजभव्यवदना सरसामला दूरीकरोत्वगसुंता सरसी सुतापम् ।। ७७ ॥ तुङ्गाङ्गभङ्गिनि मतङ्गवरे निषण्णा शोणाम्बरा रचितकुङ्कुमपङ्करागा। संध्येव नीलजलंदोपरि राजमाना मानाय मे भवतु शैलसुतासमाना ॥ ७८ ॥ रिङ्गत्तुरङ्गगतिभङ्गितरङ्गिताङ्गी पार्श्वस्थितप्रथमचामरवीज्यमाना । बन्दीन्द्रवृन्दजयनादनिभाभिरामा रामा हरस्य वितनोतु तनोर्मुदं नः ॥ ७९ ॥ श्रीमत्सुवर्णशिबिकोपरि राजमाना नाकस्थपाणिचटुचामरवीज्यमाना । मातङ्गदुन्दुभिधुधंकृतिबन्धुरश्रीः सश्रीकमाकलयतादिह मां मृडानी ।। ८० ।। २ चतुर्दशगु०
१८
काव्यमाला।
माद्यन्मृगेन्द्रमहिता स न राजमाने
रम्यामरीमुकुटसन्मणिनन्द्यमाने ।
नन्दत्कवीन्द्रकविताभरभासमाने
श्रीविन्ध्यवासिनि कुरुष्व शिवं समाने ॥ ८१ ॥
देवि प्रतापंतपने तपति त्वदीये
व्यर्थ व्यधायि रविरेष विदग्धधात्रा।
मत्वेत्यहो नवनवं प्रतिमासमर्क
कुर्वन्ननेन विजिते मनुते शठं खम् ॥ ८२ ॥
मातुः सुधांशुधवला तव कीर्तिहंसी
याता सरीरुहजनेः सदने समाना।
तेनापि मूर्ध्नि विधृता धनमानदानं
तच्चित्रचित्रमधिकं हृदि भासते नः ॥ ८३ ॥
दैत्येन्द्रवृन्ददलनं निजदक्षरक्षा-
पक्षाश्रितं किल विलक्षणकान्तिकान्तम् ।
शैलावलीन्द्रजनुषः शरणानुकूलं
शूलं मम क्षपयतात्कलुषगुमूलम् ॥ ८४ ॥
कल्पान्तकोपिशिवकायकषायकान्ति-
श्चण्डांशुचण्डकरमण्डलतीक्ष्णधारः ।
कात्यायनीकरकुटीरसरीसृपेन्द्रः
कौक्षेयकः क्षपयताम्मदपक्षलक्षम् ॥ ८५ ॥
शत्रूच्चमात्रगुरुगोत्रविचित्रगोत्र-
चित्रासनकचतुरा रुचिरा च पर्वा ।
शर्वाम्बुजातनयना करसंनिविष्टा
कष्टान्गदा दलयतान्मम संनिकृष्टान् ॥ ८६ ॥
आनन्दमन्दिरस्तोत्रम् ।
टांकारतारनिनदेन पलायिताभू-
दैत्येन्द्रवृन्दपृतना दलनापि यस्य ।
चण्डांशुचण्डकिरणोत्कटकाण्डखण्डं
कोदण्डमाक्षपयतादघमण्डलं मे ॥ ८७ ॥
श्रीमत्सुवर्णघटितोद्भटसौधमुग्ध-
वातायनागतमरुञ्चयलोलचोलाम् ।
तुङ्गामरैर्मृदुमृदङ्गनिनादभनि-
नीराजितां नगसुतां महितां नमामि ॥ ८८ ॥
पीयूषपूरपरिपूरितसत्तडाग-
कल्लोललोलकमलोल्लसितामुदाराम् ।
हारावलीवृततर्नु शुभशारदेन्दु-
गौरां परां सुरुचिरां प्रणमामि ताराम् ॥ ८९ ॥
सौवर्णसौधवलभीगृहराजमानां
नानामरी विधृतचामरवीज्यमानाम् ।
कर्पूरपूरपरिपूरितपात्रवर्ति-
नीराजितां नगसुतां महितां नमामि ॥ ९ ॥
खर्णादिरम्यशिखरोपरिसंस्थितां तां
नम्रामरीमुकुटसन्मणिकान्तिकान्ताम् ।
मन्दारदामकलितां ललितां नितान्तं
कान्तां शिवस्य मुदितां महितां नमामि ॥ ९१ ॥
कल्पद्रुमोल्लसितमूलबिराजमाना
तत्स्यन्दमानमकरन्दकदम्बसान्द्रा ।
निर्यत्य रागचयपिञ्जरिताङ्गभङ्गी
भङ्गीकरोतु कलुष नगनन्दिनी सा ॥ ९२ ॥
काव्यमाला।
कैलासशैलशिखरोपरिशातकुम्भ-
सिंहासनस्थितिमती चलचामरालीम् ।
लोकेशकेशवशिवप्रणुतामशेष-
लोकालिमूललतिकां प्रकृतिं नमामि ॥ ९३ ॥
यन्मायया वृतमिदं भुवनं विभाति
न स्यन्दितुं किमपि नावृतमेव शक्तम् ।
लोकेशकेशवशिवाः प्रभवः स्फुरन्ति
युन्माययैव किल तां प्रणमामि मायाम् ॥ ९४ ॥
विश्वं स विष्णुरखिलं जनयत्यमन्द-
मानन्दयत्यखिलमम्बुजभूः स मोदात् ।
अन्ते हरः स किल संहरतेऽखिलं त-
धन्माययापरिमितां प्रकृतिं नुमस्ताम् ॥ ९५ ॥
सर्व चराचरमिदं भुवनं विभुर्या
व्याप्य स्थितासि ललिता महितामिता त्वम् ।
वाचामगोचरतमा विषयः कथं स्या-
स्तन्मे गिरां चपलतां जननि क्षमख ॥ ९६ ॥
या मायया जगदिदं प्रकृतियशेष-
मुत्पाद्य पालयति संक्षिपति प्रकामम् ।
सा मे कथं नु वचसामिह गोचरा स्या-
मातः क्षमख चपलत्वमिदं शिशोर्मे ॥ ९७ ॥
ब्रह्माण्डखण्डभवनानि लसन्ति यस्यां
तोयेषु बुद्बुदकुलानिव चञ्चलानि ।
सा मे कथं नु वचसां विषयः पराः स्या-
स्तन्मे क्षमस्व गदितं तनयस्य मातः ॥ ९८॥
आनन्दमन्दिरस्तोत्रम् । यजृम्भते यदिह भाति विभाति रामं तत्तत्परीतमिह भाति तवैव शक्त्या । तस्मान्मृडानि रचिता वचनस्त्वदीयै- मातस्तव स्तुतिरियं कृपया गृहाण ।। ९९ ।। अद्धा व्यधायि बहुधा विगताघिबाधा राधा त्वया कुतुकिता न च धारणा मे । किं ते कुतूहलमभूत्प्रकटादकोप- शुम्भादिदम्भदलने सुररक्षणे च ॥ १०० ॥ आनन्दमन्दिरमिदं स्तवनं मृडान्या मोदात्कृतं किल कवीन्द्रबहादुरेण । भक्त्या पठेत्प्रतिदिनं सुकृती मुदा यः सायुज्यमद्विजनुषः शुभमामुयात्सः ।। १०१॥ आनन्दमन्दिरमिदं स्तवनं भवान्याः खानन्दतोऽरचि कवीन्द्रबहादुरेण । लल्लाख्यदीक्षितवरेण सुधीश्वरेण बान्धोकरेण चतुरेण मनोहरेण ॥ १०२ ॥ अङ्कपश्चाष्टचन्द्रेऽन्दे मास्याषाढे कुजे तथा । षष्ठीदिने शुक्लपक्षे कवीन्द्रेण कृता नुतिः ॥ १०३ ॥ इति श्रीचिरंतनमोर्वणीकरोपनामकियत्कालाकलितबान्धोकरोपनामकाशी- स्थमहाराष्ट्रभारद्वाजगोत्रपण्डितेन्द्रकवीन्द्रश्रीमच्छ्रीशंकरदीक्षित पौत्रपवित्र- विचित्रचरित्रचित्रितश्रीमच्छ्रीलक्ष्मणदीक्षितपुत्र श्रीकवीन्द्रबहादुर- लल्लादीक्षितविरचितमानन्दमन्दिरस्तवनं संपूर्णतासरणिमफाणीत् ।
२२ काव्यमाला। श्रीमद्रामभद्रदीक्षितविरचितो विश्वगर्भस्तवः। जानकीजानिस्तोत्रमित्यपरनामकः ।) वेघोविष्णुमहेशवासवमरुद्वयर्कचन्द्रादयो यस्याज्ञां परिपालयन्ति चिरसा देवा नमोवाकिनः । सत्यानन्दचिदुज्ज्वलप्रकृतये सर्वाधिपत्यस्पृशे तसै प्राञ्जलिरसि दाशरथये श्रीजानकीजानये ॥ १ ॥ यं सर्वाण्यनुभान्ति भान्तमखिलं यद्भाभिरुद्धासते जाग्रत्वमसुषुसिषु स्फुरति यः साक्षी चिदात्मा परः । ज्ञात्वा व्यसनं तरन्ति जगदित्यास्ते यदज्ञानत- तस्मै प्राञ्जलिरलि दाशरथये श्रीजानकीजानये ॥२॥ दृष्टे यत्र परावरे च हृदयग्रन्थिः वयं भिद्यते छिद्यन्ते चिरवासनापरिणताः सर्वे पुनः संशयाः । क्षीयन्ते खलु तत्क्षणं तनुभृतः सर्वाणि कर्माणि वा तस्मै प्राञ्जलिरसि दाशरथये श्रीजानकीजानये ॥ ३ ॥ येनालम्ब्य चतुर्मुखी नवजपापुष्पारुणां राजसी मूर्ति कामपि सृज्यते महदहंकारादिचित्रं जगत् । यं १. पुस्तकचतुष्काबारेण लिखितोऽयमच विश्वगमस्तवः. तत्र पुस्तकत्रय मसन्मातुलस महाराजापुराग्रहास्वास्तव्यस्य श्रीमतो नागस्वाभ्यार्यस्य ग्रन्थ- लिप्या तालपत्रे लिखितम्. तुरीयं तु कवेर्वासमूमेः लिरुकालूरारूयस्थलादस्म- त्तातपादैः संपादितं प्रेषितं चातक तालपत्रलिखित ग्रन्थाक्षरैः' इति श्री. कुप्पूखामी शास्त्री तौरनिवासी.
विश्वगर्भस्तवः । २३ तिर्यग्देवमनुष्यनाकनरकग्रावाब्धिमेघादिभि- स्तस्सै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ४ ॥ तार्येण प्रणतः फणीन्द्रशयनः श्रीभूमिनीडान्वितो वैकुण्ठे निवसन्नवाम्बुदरुचिर्यः शुद्धसत्त्वात्मिकः । शङ्ख चक्रमसिं गदामपि वहन्विश्वत्रयं त्रायते तस्मै प्राञ्जलिरस्सि दाशरथये श्रीजानकीजानये ॥ ५॥ संवर्तव्यतिषङ्गमङ्गुरकृपां चण्डाट्टहासस्फुर- द्विध्यण्डां निटिलाक्षिपावकशिखानिर्दग्धविश्वत्रयाम् । शूलोद्भासिकरां पुरा वहति यः शुभ्रां तनुं तामसी तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ६॥ शक्राय ज्वलनाय धर्मपतये रक्षोधिपायाम्भसा- मीशाय श्वसनाय शर्बसखये रुद्राय धात्र्यै दिवे । अर्यम्णे शशिने हराय हरये स्रष्ट्रे परब्रह्मणे तस्मै प्राञ्जलिरस्सि दाशरथये श्रीजानकीजानये ॥ ७ ॥ सूर्याचन्द्रमसोमहीन्दुसुतयोर्देवासुराचार्ययो- श्छायानन्दनसिंहिकातनययोर्मूल् च केत्वात्मना । मेषादिष्वक्तीर्य राशिषु नृणां प्राप्याणि यः प्रापये- तसै प्राञ्जलिरमि दाशरथये श्रीजानकीजानये ॥ ८ ॥ सालग्रामशिलासु चण्डकिरणे हृत्पुण्डरीके नृणा- माविर्भूय यथोचितं दिशति यः खेष्टं फलं भावितः । सत्तामात्रतया स्थितोऽपि सकलेप्वर्थेष्वमेयाकृति- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ९ ॥ गाढोनद्धजटाय पङ्कजहशे कालाम्बुवाहत्विषे सव्यासव्यकरात्तचापविशिखायांसस्फुरत्तूणये ।
२४ काव्यमाला। भ्रात्रा च प्रियया च संभवदलंकाराय पार्श्वद्वये तस्मै प्राञ्जलिरस्सि दाशरथये श्रीजानकीजानये ॥१०॥ नोपासे कमलासनं न कलये नव्येन्दुचूडामणि नालोके नमुचिद्विषं न गणये देवानथान्यानपि । मौलौ केवलमार्यदेशिकपदाम्भोजद्वयं भावयं- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ११ ॥ नामान्यष्टशतं च यस्य भगवानाचष्ट पत्न्यै शिवो धाता यच्चरितं मृकण्डतनयादद्यापि शृण्वन्स्थितः । आ बालादवकर्ण्यते भुवि कृता वाल्मीकिना यत्कथा तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ १२ ॥ मन्त्राग्रेडनमेव न प्रथमतो यन्त्रार्चने का कथा शङ्कवास्ति न दैवतैक्यमनने चर्या ममैतादृशी । किं कुर्यामलसः परंतु करुणामव्याजमातन्वते तस्सै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ १३ ॥ नाधीतं विधिवन्न वा गुरुकुलावासादि चीण व्रतं श्रौतस्मातविधिष्वनाचरणमाचारो निषिद्धेष्वपि । धर्मापेतधनेन जीवनमिति प्राप्तान्यघान्युज्झितुं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ १४ ॥ संमूर्च्छत्कफरुद्धमार्गविलुठत्प्राणाभिघातत्रुट- न्नाडीविश्लथसंधिबन्धसुदृढारब्धाखिलाङ्गव्यथैः । द्रक्ष्यन्ते यमकिंकरा नृभिरिति श्रुत्वा तदप्राप्तये तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ १५ ॥ शक्तः किं भिषगेष भेषजमिदं सिद्ध्येत्किमेषा रुजा किं वार्येत पुरेव किंन्वहमपि स्यामित्युदारस्पृहः ।
विश्वगर्भस्तवः । २५ अप्राप्यैव मनोरथं निपतति प्राणीति निर्वेदत- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये॥ १६ ॥ सायं प्रातरहर्निशेति समये गच्छत्यनालोचिते प्रत्यासीदति जीवितावधिदिने काले कटाक्षोन्मुखे । किं धैर्य व कुतूहलं तनुभृतामित्यन्तरालोचयं- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥१७॥ नेक्षन्ते गतिमायुषः स्वमुदरं पुष्णन्ति जाल्माः परं लोके पाणिपदं प्रसार्य रदनानुद्धाट्य मुञ्चन्त्यसून् । कस्तेषां पशुभिर्विशेष इति मा भूवं तथेति स्वयं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ १८ ॥ आसन्ने पतने तनोः क दयिता व भ्रातरः क्वात्मजाः क स्निग्धाः क महीपतिः क गुरवस्तापं तदापोहितुम् । तावद्योऽवतरन्हृदि क्षपयितुं शक्नोति सर्वा शुचं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ १९ ॥ कत्यत्रामृषत क्षितौ कति मरिप्यन्ति म्रियन्ते कती- त्यालोच्यैवमिवात्मनोऽपि वपुषः पाते शुचं भाविनीम् । उद्वेगेन गरीयसा तरलितः खामिन्दयखेत्यहं तस्मै प्राञ्जलिरस्सि दाशरथये श्रीजानकीजानये ॥ २० ॥ कत्यार्याः कति पण्डिताः कति महीपालाः कति श्रोत्रियाः कत्याचारजुषः क्षितौ कवलिताः कालेन घोरात्मना । संप्रत्येष गतः व विस्मरति किं भीतोऽस्मि तस्मादत- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ २१ ॥ भो गृह्णीत विनयत प्रहरत क्लिनीत मा मुञ्चत द्वेधा दारयतेति घोरवचनैर्भूभङ्गमीमाननैः । ।
काव्यमाला। मा भूवं यमकिंकरैः कृतभयो देहान्त इत्याशया तस्मै प्राञ्जलिरसि दाशरथये श्रीजानकीजानये ॥ २२ ॥ पन्थाः शर्करिलः प्रतप्तसिकतस्तीक्ष्णोन्मिषत्कण्टको वियत्सूचिनिभास्यदंशमशकः कुप्यद्दशत्कुक्कुरः। यस्यास्तां नगरी यमस्य मनुजैर्गम्यां निशम्याकुल- स्तमै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ २३ ॥ नान्नं नाम्बु न वाहनं न वसु न च्छाया न शीतानिलो यस्मिन्नास्ति धनातपोष्णसिकतोदन्याशनाध्याकुले । तं प्रेतेशपुरीपथं प्रविशतां बाधामलब्धुं नृणां तसै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ २४ ॥ याता येन जडाः प्रसन्नमतयो लुब्धा वदान्या भटा राजानः पिशुनाः परोपकृतयो मूकास्तथा वाग्मिनः । गन्तव्यं नियमेन तं यमपुरीमार्ग सरन्साध्वसा- तस्मै प्राञ्जलिरसि दाशरथये श्रीजानकीजानये ॥ २५ ॥ यत्रास्ते मलमूत्रपूयरुधिरप्राया विगार्दु नदी पर्यः शयितुं हुताशनमयस्तप्तायसस्त्रीसखः । कस्तामिच्छतु चेतसापि नगरी याम्यामतस्तद्भिया तमै प्राञ्जलिरसि दाशरथये श्रीजानकीजानये ॥ २६ ॥ नीतानां नरकं नृणां यमभट्टीमर्गृहीत्वा दृढं हा कि पापमकारि हा न विषहे हा नन्ति हा का गतिः । इत्यान्दितघोरमन्तकपुरं में मास्तु पाहीत्यहं तस्मै प्राञ्जलिरस्सि दाशरथये श्रीजानकीजानये ॥ २७ ॥ दृष्टेष्वन्तककिंकरेषु दलति त्रासेन हृन्ममणि प्राणे निष्कमणोन्मुखे कथयिता को में तदानीं दशाम् ।
विश्वगर्भस्तवः । विज्ञाय स्वयमेव तावदभयं देहीति याचन्नहं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ २८ ॥ यावन्मे न स दुर्दशाविमनसः कर्णान्तमाक्रामति क्रूरः कालकरालकासरगलव्यालोलघण्टाध्वनिः । तावत्तूर्णमुपेत्य पाहि कृपयेत्यथैव विज्ञापयं- स्तस्मै प्राञ्जलिरस्सि दाशरथये श्रीजानकीजानये ॥ २९ ॥ मूर्धानं मुसलैस्तुदन्ति नयने विध्यन्ति सूचीशतैः सिञ्चन्ति द्रुतसीसकं श्रवणयोश्छिन्दन्ति ख स्तनुम् । मानां यमकिंकरा इति भियः का वा कथा मे यत- स्तस्मै प्राञ्जलिरस्सि दाशरथये श्रीजानकीजानये ॥ ३० ॥ आशाधीशजिदाशरेन्द्रजयिनं रामं श्रितानां पुरो धूमोारमणस्य किं भटगणो धूनोतु गुर्वीर्गदाः । तेन स्यामहमाश्रितो रघुपतिं लोकेशमित्युल्लिखं- स्तस्मै प्राञ्जलिरसि दाशरथये श्रीजानकीजानये ॥ ३१ ॥ कुर्वेऽहं सकृदेव च प्रपदनं याचे तवास्मीति च श्रीमानद्य घटेत दातुमभयं मे सर्वभूतादिति । पर्यालोच्य कथंचिदप्यनुगुणींकृत्यातिलोलं मन- स्तस्सै प्राञ्जलिरस्सि दाशरथये श्रीजानकीजानये ॥ ३२ ॥ पर्याकृष्य परस्त्रियाः परधनादप्यन्तरङ्गं चलं पारुप्याद्विनिवृत्य वाचमनृतादन्यापवादादपि । ध्यातुं स्तोतुमलं भवन्ति कतिचिद्भूमावहं केवलं तस्मै प्राञ्जलिरस्सि दाशरथये श्रीजानकीजानये ॥ ३३ ॥ १. धूमोरिमणस्य यमस्य. यमस्य स्त्री धूमोर्णा.
काव्यमाला।
यावच्चित्तमघाद्विकृप्य सुकृते यत्नेन निक्षिप्यते
तावत्तिष्ठदिवान धावति पुनस्तस्मिन्गते केवलम् ।
एवं दुर्वशमेव संप्रति वशीकर्तुं प्रयस्यन्निदं
तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ३४ ॥
आत्मा श्रेयसि वर्तितोऽपि विषयानेवानुयाति द्रुतं
यत्कीशश्चतुरन्तयाननिहितोऽप्यारोहति क्षमारुहान् ।
निग्राह्यं यदनुग्रहेण तमिमं शंसन्ति सन्तोऽधुना
तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ३५ ।।
सुप्तं जागरितं स्थितं प्रचलितं भुक्तं तथोपोषितं
किं वक्ष्यामि यदात्मने हितमिहामुत्रापि तन्न स्मृतम् ।
हा हा किं करवाणि सांप्रतमिति त्यक्त्वा शुचं नन्दितुं
तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ३६ ॥
आजन्माहमिदं दिनावधि गता सा सा दशा वनव-
त्पश्यामो यदि तत्र तत्र मनसा श्रेयो न किंचित्कृतम् ।
किं वा भावि तथाविधस्य भवतु त्रस्यन्नितो वा परं
तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ३७॥
श्रोतुं प्रातुमवेक्षितुं रसयितुं स्प्रष्टुं च कौतूहला-
दर्थेष्विन्द्रियपञ्चकं तत इतो मामेकमाकर्षति ।
दीनो दीनदयालवे तदधुना पाहीत्युदस्यन्भुजौ
तस्मै प्राञ्जलिरस्सि दाशरथये श्रीजानकीजानये ॥ ३८ ॥
कस्मादस्तु वशे मनो यदरिभिः कामादिभिः कृष्यते
जीयन्ते कथमिन्द्रियाणि विषयानन्दप्रवृत्तानि मे ।
प्राच्या वासनया ययैवमभवत्तामेव भङ्ख बला-
तस्मै प्राञ्जलिरस्सि दाशरथये श्रीजानकीजानये ॥ ३९ ॥
विश्वगर्भस्तवः ।
२९
कामेन भ्रमति क्रुधा वितपते लोभेन संक्षिप्यते
मोहेनान्ध्यमुपैति माद्यति मदेनेपत्यकाण्डे परान् ।
मात्सर्येण च मामकं हृदयमित्यस्यैव संशुद्धये
तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ४० ॥
धम्मिल्लः शिखिबहभाररुचिरः पूर्णेन्दुकान्तं मुखं
वृत्तोत्तुङ्गधनौ स्तनौ कृशतरो मध्यो नितम्बः पृथुः ।
इत्यासक्तमिदं वधूषु हृदयं मा भूदिति प्रार्थयं-
स्तस्मै प्राञ्जलिरस्सि दाशरथये श्रीजानकीजानये ॥४१॥
के भृत्याः क इवात्मजाः प्रणयिनी का नाम के भ्रातरः
कौ मातापितरौ च के च गुरवः क्रुद्धस्य पुंसः पुरः ।
तत्क्रोधो न भवेद्यथा मम तथा कार्या दयेति ब्रुवं-
स्तस्मै प्राञ्जलिरसि दाशरथये श्रीजानकीजानये ॥ ४२ ॥
अग्राह्यं वसु गृह्यते प्रभुरसंसेव्यश्च संसेव्यते
प्राणाश्चेदपि यान्ति यान्त्यतिथये नान्नं पुनीयते ।
कुक्षिः खोऽपि न पुष्यते यदुदयाल्लोभं तमेवोज्झितुं
तस्मै प्राञ्जलिरस्सि दाशरथये श्रीजानकीजानये ॥ ४३ ॥
भार्येत्यामिषभस्त्रिका सुत इति प्राक्खाधमर्णागतं
पिण्डं मांसमय खपूर्वसुकृतध्वंसं तथार्था इति ।
विद्याद्येन त चात्मतत्त्वमथ तं मोहं जिहासन्नहं
तस्मै प्राञ्जलिरमि दाशरथये श्रीजानकीजानये ॥ ४४ ॥
आचारेण च विद्यया च विभवैश्चान्नप्रदानेन च
स्फीतैर्बन्धुजनैश्च किंच यशसा को मेऽस्ति भूमौ समः ।
इत्याकस्मिकमुज्झितुं निखिलमप्युत्सेकमभ्युत्सुक-
स्तस्मै प्राञ्जलिरस्सि दाशरथये श्रीजानकीजानये ॥ १५ ॥
३० काव्यमाला। दातारं कृपणोऽयमित्यकुटिलं जिह्मोऽयमित्युन्नतं नीचोऽसाविति सर्वशास्त्रकुशलं प्रज्ञाजडोऽसाविति । इत्थं यो मुखरीकरोति मनुजांस्तं मत्सरं पोज्झितुं तस्मै प्राञ्जलिरमि दाशरथये श्रीजानकीजानये ॥ ४६॥ एतत्कृत्यमिदं त्वकृत्यमिति मे तावान्विवेकः कुतः कामक्रोधविमोहलोभमदमात्सर्योपरुद्धे हृदि । तेनाधानि समाचरन्नपि गति प्राप्तुं समीचीमहं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ४७ ॥ दिक्पालेषु दिवस्पतिप्रभृतिषु खाकारभेदेषु यो भूत्वा दण्डधरो ददाति जगतां खखानुरूपं फलम् । पापं नाशय मेऽथवा दिश दिवं पापात्मनोऽपीत्यहं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ४८ ॥ उद्यानोपवनाटवीहदसरोवापीतडागापगा- कूपाराचलनीवृदम्बुदतडिन्नक्षत्रताराग्रहैः । आकीर्ण कृमिकीटपक्षिपशुभिः पश्यन्मृषेदं जग- तस्मै प्राञ्जलिरस्सि दाशरथये श्रीजानकीजानये ॥ ४९ ॥ मातुर्गर्भजुषस्ततो निपततो जातस्य सर्वेष्वपि व्यापारेष्वपटोर्वयस्युपचिते तत्तत्प्रियाकाङ्गिणः । रुग्णस्यान्तगतस्य या व्यसनिता मर्त्यस्य तामुज्झितुं तस्सै प्राञ्जलिरमि दाशरथये श्रीजानकीजानये ॥ ५० ॥ विष्मूत्रामिषरक्तभाजि जठरे मातुर्यदालोचितं जातो दैवतपूजया जनिमृतिक्लेशं विजयामिति । 12. रणस्य व्यथितस्येत्यर्थः विश्वगर्भस्तवः । ३१ हा तद्विस्मृतवानपि प्रहितधीः पुण्येन केनाप्यहं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ५१ ॥ स्थूलोऽहं प्रथमं कृशोऽहमधुनेत्येवं शरीरे भव- नात्मप्रत्यय एष शास्त्रविवृते भेदेऽपि देहात्मनोः । मामुन्मुञ्चति नेति संप्रति तमुन्मुञ्चयमित्युत्सुक- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ५२ ॥ न स्थूलो न कृशस्तथा न पुरुषो न स्त्री न षण्वस्तथा नो बालो न युवा न चापि देशमीत्यात्मा यथा ज्ञास्यते । कर्तव्या करुणा तथा रघुवरेत्यभ्यर्थनायनित- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ५३ ॥ चेतः कर्म करोति गर्हितमसौ कर्तृत्वमेतद्गतं निक्षिप्यात्मनि मानवो जडमति के कृतं तत्फलम् । भोक्तृत्वानुदयाय नाहमधुना कर्तेति बोर्बु तत- स्तसै प्राञ्जलिरस्सि दाशरथये श्रीजानकीजानये ॥ ५४ ॥ वश्यो जाङ्गलिकस्य वानर इव खात्मापि यस्य स्थितः कस्तं शास्ति स तिष्ठतु व्रजतु वा निद्रातु जागर्तु वा । मां दुर्निग्रहमानसं शुभपथेऽवस्थाप्य शाधीत्यहं तस्मै प्राञ्जलिरस्सि दाशरथये श्रीजानकीजानये ॥ ५५ ॥ पूर्वे यत्र जना ययुः क्षितितले निक्षिप्य देहान्निजां- स्तद्गन्तव्यमवश्यमन्तकपुरं खेनेति धीरस्ति चेत् । कः कर्म प्रतिषिद्धमाचरतु सा नास्तीति तल्लिप्सया तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥५६॥ १. दशमी वृद्धः २. जाङ्गलिको विषवैद्यः ३२ काव्यमाला। कार्ये कार्यमिह त्वया पितृपते साहाय्यमार्य प्रभो मा भूवन्मम शोधनाय विधिभिः क्लेशा भटानां तव । आत्मानं परिवापयेयमिति यत्सर्वेश्वरायाधुना तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ५७ ॥ सप्ताष्टैः कवलैः सुपूरमुदरं प्रादेशमात्रं. वह- न्विष्वग्भ्राम्यति विश्वगर्भ इव यो वित्तार्जनाकावया । सोऽहं संप्रति देशिकस्य कृपया मोहं त्यजन्मुक्तये तस्मै प्राञ्जलिरस्सि दाशरथये श्रीजानकीजानये ॥ ५८ ॥ नद्यामस्ति विशुद्धमम्बु विपिने नानादलान्यासते सन्त्यत्री च करौ च किं न सुकरो देवस्य पूजाविधिः । प्राप्या तेन भवाब्धितीगिरलसस्तत्राप्यहं श्रेयसे तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ५९ ॥ एकं नालंमिदं किमुन्नतपदप्राप्त्यै मम प्रायशो यज्जातोऽस्मि सतां कुले रघुपतौ भक्त्या विशुद्धात्मनाम् । दुग्धस्योपरि शर्करामिव फलं प्राप्तुं ततोऽप्युत्तमं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ६० ॥ देहोऽयं पतितेति बान्धवजनोऽप्याक्रन्दितेति क्रिया सा सोचं चलितेति वर्षशतमप्यतीपरस्तादिति । नाहं वेद्मि न किं तु नित्यवदिदं जानन्निवापि स्थित- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ६१ ॥ १. इह कार्य प्राञ्जलित्वकरणे साहाय्यं कार्यमित्यर्थः. २, 'पतिता' इत्यादि भविष्यति लुटू. ३.'व्याक्रन्दिता' इति च पाठभेदो दृश्यते. ४. ऐता' इति आपूर्व इण् गतौ धातुः. ५. 'नाहं वेद न' इति पुस्तकान्तरे, विश्वगर्भस्तवः। काका मेचकिता बका धवलिताः पारावता धूनिताः कीराः श्यामलिताः पयो मधुरितं निम्बद्रबस्तिक्तितः । तिन्तिण्याः फलमम्लितं च भुवने येनाखिलेशात्मने तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ १२ ॥ कर्णद्रोणरणप्ररूढयशसः पार्थस्य कृष्णे गते तन्नारीजनतस्करैः परिभवो येनाधिको लम्भितः । कर्तोत्कर्षनिकर्षयोस्तनुभृतां कालोऽप्यसौ यन्मय- स्तस्मै प्राञ्जलिरसि दाशरथये श्रीजानकीजानये ॥ ६३ ॥ तत्काले निदधाति वारि मधुरं यो नालिकेरोदरे सृष्ट्वा द१रमश्मगर्भकुहरे वृत्तिं विधत्ते च यः । नीरक्षीरविवेचने च पटुतां हंसस्य पुष्णाति य- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ६४ ॥ वातः शोषयितुं पयः सपयितुं वह्निः प्रदग्धुं पयो- वाहो वर्षितुमुप्णदीधितिरभिव्यङ्कु पटुर्भाव्यते । शक्त्यावेशवशेन यस्य जगतामीशस्य विश्वात्मने तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ६५ ॥ तिष्ठत्यप्सु मही त्रिविष्टपमनालम्बेऽम्बरे नाम्बुधि- मर्यादामतिलङ्घते न सवितोदेति प्रतीचीमुखात् । स्यन्दन्ते सलिलानि धूमवपुषो मेघाच्च यस्येच्छया तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥६६॥ सृष्ट्वा यस्त्रिदिवं नृणां सुखमयं धर्म च तस्याप्तये दुःखैकायतनं विधाय नरकं तस्याप्तये चाप्यघम् । यः पश्यन्द्विविधान्नरान्फलयुगं भोक्तृन्परिक्रीडते तस्सै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ६७ ॥ ३ चतुर्दशगु० काव्यमाला। आयुष्यं तरलं हिमाम्बुकणिकां दूर्वादलायच्युता- मन्वेत्येव तनुः पुनः कमलिनीपत्रोदबिन्दूपमा । संपत्तिश्च तडिल्लतेव चटुलेत्यालोच्य शान्तीच्छया तस्मै प्राञ्जलिरस्सि दाशरथये श्रीजानकीजानये ॥ ६८॥ शश्वत्कर्म चरन्भवन्भव भवेत्येवं नियख म्रिय- खेत्येवं म्रियमाण एष निरयान्हा भुक्ष्व भुझ्वेति च । भुञ्जानो व्यसनं प्रयाति विपुलं तन्मां दयखेत्यहं तस्मै प्राञ्जलिरस्सि दाशरथये श्रीजानकीजानये ॥ ६९॥ यन्मित्रावरजौ निशाचरपतेीतुः स्वसुश्च श्रवो- नासच्छेदकृतौ दिगीशजयिनो नाथं श्रितांस्तं नरान् । नेक्षन्ते यमकिंकरा इति विदस्तस्याश्रयाकाङ्क्षया तसै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ७० ॥ यत्पातादशुचिर्महीति जनने खात्वा निधायानलं नीत्वा वत्समितः पुनन्ति मनुजा मेध्यं कथं तद्वपुः । कुर्वस्तस्य परिग्रहो मम पुनर्मा भूदिति प्रार्थनां तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ७१ ॥ यावन्तोपगतेषु जन्मसु पुरा देहाच्युतास्तावतां बुद्ध्या संकलने तु वेनि कुणपच्छन्नां समस्तां महीम् । एवं भावितनूगणग्रहणजं क्लेशं जिहासन्नहं तस्मै प्राञ्जलिरसि दाशरथये श्रीजानकीजानये ॥ ७२ ॥ 1. 'आयुष्यं तरला' इत्येकस्मिन्पुस्तके, विश्वगर्भस्तवः। संयोज्यास्थिचयं जुगुप्सितमिमं बवा सिरामिर्मियो लिप्वामृपिशितैस्त्वचा पिदधता धात्रा शरीरं कृतम् । एतस्मिन्नतिकुत्सिते चिरमहंकारं स्थितं प्रोज्झितुं तस्मै प्राञ्जलिरस्सि दाशरथये श्रीजानकीजानये ॥७३॥ अन्तःस्थं वपुषो यदस्ति पिहितं तन्न त्वचा चेन्मुहु- दण्डेन श्वशृगालकङ्कबलिभुक्सङ्घ नरो वारयेत् । इत्याधाय मतिं वपुष्यहमिति ज्ञानं लुनीहीत्यहं तस्मै प्राञ्जलिरसि दाशरथये श्रीजानकीजानये ॥ ७॥ बाल्यं तद्गतमेव यत्र मनसो मौग्ध्यं तथा यापितं तारुण्यं च वृथा न यत्र विषया भुक्ता न चीर्ण तपः । प्राप्तं वार्धकमक्रियाहमधुना कुर्या किमन्यत्पुन- स्तस्मै प्राञ्जलिरस्सि दाशरथये श्रीजानकीजानये ।। ७५ ॥ मौलिस्त्वत्प्रणतिं करोतु शृणुतां कर्णो त्वदीयां कयां वाणी स्तौतु भवद्गुणान्करयुगं त्वामर्चतु प्रत्यहम् । पादौ स्तां च भवत्प्रदक्षिणगती कुर्वन्निति प्रार्थनां तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ७६ ॥ पापानिन्धधनप्रतिग्रहकृतादन्यखचौर्योत्थिता- द्विपाद्याहतिसंभवात्परवधूगात्रामिम द्तात् । १. "लिप्सासक्पिशितैः' इति पुस्तकान्तरे. लिप्सा प्लीहेत्यर्थः' इति च तत्र पुस्तके लिखितम्. पुस्तकद्वये 'लिप्सासू-' इति वर्तते. अर्थश्च पूर्ववद, तृतीये तु 'लित्वासपिशितैः' इति. २. तथा च भागवते-'वाणी गुणानुकथने श्रवणं कथायां हस्तौ च कर्मसु मनस्तव पादयोनः। स्मृत्यां चिरस्तव निवासक मत्प्रणामे दृष्टिः सदां दर्शनेऽस्तु भवत्तनूनाम् ॥ इति.
३६ काव्यमाला। अन्यत्संभवि यत्ततश्च करयोर्मोक्षाभिलाषादत- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ७७ ॥ केशाः काशनिभाः सिराविषमितं गात्रं गतिर्विक्लवा चक्षुःश्रोत्रमपाटवं युवतयो नेच्छन्ति चञ्चामिव । अस्त्वेवं विषयस्पृहा तु न गलत्यद्धति तद्धानये तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ७८ ॥ बाधिर्येऽपि यया नरः पटुनटीगानानि शुश्रूषते सत्यान्ध्येऽपि दिदृक्षते मृगदृशां तारुण्यलक्ष्मीमपि । शान्तावर्पितधीरहं क्षपयितुं तां तामसी वासनां तस्सै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ७९ ॥ दारापत्यसनाभिगोधनगृहग्रामोपवन्यापगा- कूपाराचलमेषचन्द्रदिनकृत्तारादि दृश्यं जगत् । न द्रष्टुं क्षणमुज्झितां तनुमिति ज्ञात्वा भयान्मृत्युत- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ८० ॥ आरूढं चतुरन्तयानमवनीपालार्पितं किं ततो भृत्याः सन्ति च किं ततो बहु तथा लब्धं धनं किं ततः। मर्तव्ये सति मानवस्य तदहं मृत्योर्भयान्निर्भरा- तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ८१ ॥ अस्त्यन्नं शुभमस्ति शीतजलमप्यस्ति प्रदाता जनः शक्या च क्षुदुदन्यया सह निराकर्तु शरीरे स्थिते। । त्यक्तेऽप्यत्र तयोः शमाय सुकृते धीः स्यान्ममेतीच्छया तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ८२ ॥ तैलाभ्यङ्गशुभान्नमोजनदुकूलाच्छादनामोदव- द्वगन्धालेपनपुष्पधारणतरुण्यालिङ्गनायैः सुखैः ।
विश्वगर्भस्तवः। ३४ राजाप्युज्झति पोषितं वपुरिति ज्ञात्वा तनूमस्थिरां तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ८३ ॥ धर्मेणोद्धटमारुतेन पयसो वृष्ट्या हिमेनर्तुषु क्लिश्यन्तेऽह्नि बुभुक्षया निशि तथा खापेन कामेन च । माः खल्विति मर्त्यता मम पुनर्मा भूदितीच्छन्नहं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ८४ ॥ कोऽहं प्राग्जननातनूपतनतः पश्चाद्भवेयं कथं कः प्राप्नोतु दिवं च्यवेत नरके को वेति चिन्तां विना। आयुक्तः सततं निजोदरभृतावप्यात्मनः श्रेयसे तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ८५ ॥ शास्त्राण्यप्यधिगत्य मत्सरभृतः कुत्सां मिथः कुर्वते वाञ्छन्तोऽन्यवधूर्वसन्ति विषयव्यावृत्तचित्ता इव । इत्थं चेत्सुधियोऽपि का मम कथा तदुर्गुणग्लानये तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ८६ ।। शुश्रूषा न पितुर्न मातुरपि नो गोब्राह्मणेष्वादरो नाचार्ये न गुरौ न च स्थविरके विस्रम्भलेशोऽपि वा। येषां तेऽपि नरास्तरन्ति निरयं यत्र प्रपत्तिं गता- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ८७ ॥ खं गर्भे दधती न या सुखमगान्मासान्दशापि प्रसू- या स्तन्यार्पणदुग्धपायनमुखैर्यत्नैरपासीच्चिरम् । यत्तस्यै हितमेतदप्यकृतमित्यस्य क्षयायांहस- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ८८॥ सस्नेहं सदयं समस्कुरुत मां यो जातकर्मादिभि- ापारैः पितुरस्य किं कृतमभूत्पथ्यं परत्रोचितम् .... " १८ काव्यमाला। एतेनापि यदस्ति पातकमिदं दूरीचिकीर्षन्नहं तसै प्राञ्जलिरसि दाशरथये श्रीजानकीजानये ॥ ८९ ॥ इष्टं वार्य वितीयः घासकवलानिष्टानदत्त्वा दृढं रज्वाबद्ध्य शिरोधरां च निखिलं दुग्ध्वाः पयश्चूषताम् । यो दोषोऽस्ति गवां नृणां स न भवेदस्साकमित्युत्सुक- स्तस्सै प्राञ्जलिरसि दाशरथये श्रीजानकीजानये ॥ ९०॥ यान्सर्वा अपि देवता इति जगत्याह श्रुतिः सूरयो येषामनिरजोभिरझिसलिलान्याहुः पवित्राणि च । भक्तिस्तेषु मम द्विजेषु भवतादित्याशिषा प्रेषित- तस्मै प्राञ्जलिरसि दाशरथये श्रीजानकीजानये ॥ ९१ ॥ यस्याचार्यकमस्ति यस्य गरिमा विद्याविशेषग्रहे साक्षादीश्वर एष इत्यविशयानोपासितव्यः स किम् । प्राप्तव्योऽयमुपासितव्य इति च प्रत्युद्भवं कासया तसै प्राञ्जलिरसि दाशरथये श्रीजानकीजानये ॥ ९२ ॥ प्रत्युत्थानमथाभिवादनमुमे यत्रागते निर्यतां प्राणानां पुनरागमाय विदितं यूनां न यत्कोटिभिः । एको यस्तदवैति वृद्धमनिशं तं विश्वसानीत्यहं तस्मै प्राञ्जलिरसि दाशरथये श्रीजानकीजानये ॥ ९३ ॥ वेश्यावर्तिनि च खभर्तरि शुभाचाराहमसीति त- द्वार्या वेति यथा तथेन्द्रियगणेऽप्यनिषिद्धान्गते । १. भाविषा इच्छवेत्यर्थः मधिरजोभिः सहेत्यर्थः. २. 'इत्यविशया' इलेव सत्रयेऽपित इस विद्या इलेवास्तके, ३. प्रत्युद्धवं प्रतिजननम्.
विश्वगर्भस्तवः। । बुद्धिः खं विमलं न वेत्तु मम किं त्वेनां पुनीहीत्यह तस्मै प्राञ्जलिरस्सि दाशरथये श्रीजानकीजानये ॥ ९४ ॥ मत्वा साधुरसाविति स्त्रियमपि ज्ञात्वा तदीयां सती स्त्रीपुंसानपि तगृहे सुचरितानिश्चित्य धूर्तानपि । भुक्त्वान्नान्यपि दाम्भिकस्य भवने प्राप्तान्यघान्युज्झितुं तस्मै प्राञ्जलिरस्सि दाशरथये श्रीजानकीजानये ॥ ९५ । वापीकूपतडागकर्मणि तथैवारोपणे भूरुहा- मन्धो-गो-वसु-वाससां वितरणे यज्ञक्रतूनां विधौ । मानां हृदयं प्रवर्तयति यत्पादाजसंसेवनं तसै. प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ९६ ॥ प्राज्ञादप्यधिको जडः सुकृतिनोऽप्युत्कर्षवान्पातकी पुत्रोऽईजनकादपि स्तुतिपदं बालश्च वृद्धादपि । येनार्थेन स यत्पदाम्बुजसकृद्ध्यानेन लभ्या नृणां तस्सै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ९ ॥ मल्लीदामसुगन्धिचारुचिकुरा माद्यच्चकोरीदृशः पीनोत्तुङ्गपयोधराः पिकवधूसुस्निग्धकर्णखराः । हेमाजयः स्मरगर्विता युवतयो लभ्या यमभ्यर्चतां तस्सै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ९८ ।। यत्रानन्दमयं यदाप्य न पुनर्मर्त्यः समावर्तते यत्र ब्रह्ममहेन्द्रचन्द्रशकलोत्तंसा निसाभृतः । तद्विष्णोः परमं पदं नियतया लभ्येत यस्यार्चया तस्सै प्राञ्जलिरस्सि दाशरथये श्रीजानकीजानये ॥ ९९ ॥ १. अन्धःशब्दः सकारान्तोऽन्नवाची, 80 काव्यमाला। अप्राज्ञेप्वपि पण्डिता इति पुरो यः श्लाघया प्राम्यतो यस्मिन्विद्वदविद्वदन्तरमतिर्नास्त्येव दातुः प्रभोः । प्रज्ञानामतिदुःसहं कलिमहं तं जेतुमेवाञ्जसा तसै प्राञ्जलिरसि दाशरथये श्रीजानकीजानये ॥ १०॥ आपद्मासनमाखमध्वरविधेरैषामनह कुलं येषामर्हमभूच्च तुल्यमुभये ते यद्गृहीतैर्द्विजैः । याज्यन्ते किमिमं ब्रुवे कलिमतस्तस्य प्रहारेच्छया तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥१०१॥ किं त्वं मे नियतां ददासि न भृति यः सम्यगध्याप्यसे निर्णीतां भृतिमर्पये न भवते नाध्यापयस्येव यः । इत्थं यो गुरुशिष्ययोः कलहकृज्जेतुं कटुं तं कलिं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ १०२॥ ऊढा नालमिति प्रजासु जनिताखप्युद्वहन्तीतरां i... . नालं सेति च गूढमन्यगृहिणीं गृह्णन्ति भोक्तुं नराः । इत्युद्दीपयतः कलेः स्मरमपि प्राप्तुं जुगुप्सामहं तस्सै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये॥१०३ ॥ दौख्यं साधुषु साधुतामपि तथा दुष्टेषु मूढेष्वपि प्राज्ञत्वं बत मूढतामपि पुनः प्रांज्ञेषु यः शंसति । राज्ञोऽग्रे पिशुनः कलौ स नरकी मा भूवमित्युत्सुक- स्वस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ १०४॥ संमुह्यन्मनसो मम प्रतिदिनं संभावितानां पुनः पापानामपनोदनाय सुवचे यस्यैव नाग्नि स्थिते । १.'प्रजा तु जनपुत्रयोः' इति वैजयन्ती.
विश्वगर्भस्तवः । मीतिः का परलोकतस्तनुभृतां पीडाकरात्पापिनां तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ १०५ ॥ रामेत्युच्चरितव्यमक्षरयुगं तच्चापि भत्त्या सकृ- प्राप्या तेन विमुक्तिरेव यदि तज्जानात्यपि ग्लायसि । किं वक्ष्ये सुखमाख देवि रसने स्निग्धौ मम स्तः करौ तस्मै प्राञ्जलिरमि दाशरथये श्रीजानकीजानये ॥१०६॥ सन्तः पातकतूलचण्डपवनं शंसन्ति यत्कीर्तनं यत्काश्यामुपदिश्य विश्वपतिना मुक्तिर्नृणां दीयते । यच्च श्रीशसहस्रनामसदृशं यन्नाम तनिश्चितं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ १०७॥ सत्यानन्दचिदात्मवस्तुनि रमन्तेऽस्मिन्यतो योगिन- स्तस्मादाम इतीदमेव हि परं ब्रह्माभिधत्ते पदम् । इत्येवं विवृणोति यौगिकतया यन्नाम विद्वज्जन- स्तस्सै प्राञ्जलिरमि दाशरथये श्रीजानकीजानये ॥१०८॥ अध्यारुह्य कवित्वचूतविटपं वाल्मीकिपुंस्कोकिलो जल्पन्नाम यदीयमद्भुतसुधामाधुर्यधुर्याक्षरम् । शृण्वन्तं जनमाशु संघटयति श्रेयःसमृद्धिस्त्रिया तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ १०९॥ यस्त्रय्यन्तविचारणैकसुलभो यः सर्वलोकेश्वरो यस्मिन्नायतते स राक्षसपतिक्षुभ्यज्जगद्रक्षणम् । २. श्रेयः १. निग्धौ' इत्यत्र 'वश्याविति वा' इति पुस्तकत्रयेऽपि दृश्यते. समृद्धिरेव स्त्री युवतिः तया इत्यर्थः, १२ काव्यमाला। यश्चास्मत्कुलदेवता निरुपमा यस्यैव दीने दया तस्मै प्राञ्जलिरसि दाशरथये श्रीजानकीजानये.॥ ११० ॥ कस्माञ्चित्प्रथमोपकारमुदितात्कल्याणशीलान्मुने- य॑च्यासोच्चरिते निशम्य गुणयन्पुण्ये यदाख्याक्षरे । कृत्स्नेऽवेऽपि गतेऽजनि द्विजकुले कश्चिकिरातः पुरा तस्मै प्राञ्जलिरस्सि दाशरथये श्रीजानकीजानये ।। १११॥ नित्या न क्रतवः कृता न नितरामर्थास्तथोपार्जिता भुक्ता न प्रमदा यथोचितरसं का नाम मोक्षे स्पृहा । इत्थं जन्म निरर्थकं परिणमन्नेतुं कथंचित्फलं तसै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ११२ ।। कौमारे विहृतं वृथा न किमपि ज्ञातं मदाद्यौवने दौर्बल्यैकपदे किमस्ति सुकरं प्राप्ते पुनर्वार्धके । आयुश्च सवति क्रमादिति विदन्दैवादहं सांप्रतं तस्सै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ११३ ॥ पूर्वेधुर्यमपश्यमद्य तु न तं पश्यामि यद्भूतले कालस्यैष न किं कठोरमनसः क्रूरो विहारक्रमः । इत्थं हन्त विनश्वरेषु मनुजेष्वन्यत्करिष्यामि किं तसै प्राञ्जलिरस्सि दाशरथये श्रीजानकीजानये ॥ ११४ ।। कायो अश्यति कस्यचित्तु तमनुक्रन्दन्त्यहो बान्धवा- स्तेषामप्यहह क्षणैः कतिपयैर्घश्यन्ति काया न किम् । १. तथा च भर्तृहरिः-'नारीपीनपयोधरोरुयुगली स्वप्रेऽपि नालिक्षिता खर्गद्वारकवाटपाटनपर्धर्मोऽपि नोपार्जितः' इति.
विश्वगर्भस्तवः।
काले खेलति कः स्थिरोऽस्तु भुवने दिष्ट्याहमेतद्विदं-
स्तसै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ११५॥
यां पश्यन्त्यतिसुन्दरीमनशने तामेव शोच्याकृति
भूतेन प्रसने दुरीक्षवपुषं रोगे जुगुप्साकृतिम् ।
भीमाङ्गी मरणे नरा इति विदन्दारेषणां निन्दितां
तस्मै प्राञ्जलिरस्सि दाशरथये श्रीजानकीजानये ॥ ११६ ॥
कस्या धर्मपरा मतिर्भवतु का साध्वी प्रसूतां प्रजां
तस्या वा तनुरस्तु लक्षणवती काले कलौ दारुणे।
तद्दारेषु वृथा परिग्रहरुचिर्यत्तत्फलप्राप्तये
तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ११७ ॥
पुत्रश्चेजनितः स जीवति न वा जीवन्स कामो न वा
कामो वंशकरो न वा स इति यन्मज्जन्ति चिन्तार्णवे ।
मां यत्तनयैषणा तत इयं व्यर्थेति मत्याप्तये
तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥११८ ॥
विध्युक्तेन पथा कथापि न नृणां वित्तार्जनस्याधुना
यद्विपा अपि धर्ममार्गविमुखा नैवाचरन्त्याश्रमान ।
राजानश्च धनेप्सवोऽस्तविधयस्त्यक्तुं तदर्थेषणां
तस्मै प्राञ्जलिरसि दाशरथये श्रीजानकीजानये ॥ ११९ ।।
राजद्वारि निविश्य राजपुरुषानाश्रित्य रात्रिंदिवं
शास्त्रेषु प्रकटय्य पाटवमपि प्राप्ते धनेऽप्यंहसा ।
दायादैरुपभुज्यते तदपि न त्वंहो विरक्तुं तत-
खसै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥१२॥
काव्यमाला। कृच्छाचेद्धनमर्जितं जनयति ज्ञातिष्वसूयां परां दृष्टिं राजसु दण्डने वधकरं चोरेषु चौर्योद्यमम् । गुर्वीमार्जितवत्सु भीतिमसुखां हातुं तदर्थस्पृहां तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ १२१ ।। खामित्राम जगत्पते निरुपमत्रय्यन्तवेद्य प्रभो त्वत्प्रीतिं कुरुतामयं विरचितो मे विश्वगर्भस्तवः । एतेन स्तुवतां नृणामभिमतं देहीति याचन्नहं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ १२२ ॥ तस्मै प्राञ्जलिरस्मि सर्वजगतां नाथाय पाथोनिधि- त्वङ्गत्तुङ्गतरङ्गभङ्गुरशरोदन्याय धन्यात्मने । पौलस्त्यश्रुतिमण्डलीलटहतालुण्टाकघण्टाकन- कोदण्डाटनये विनम्रमुनये श्रीजानकीजानये ॥ १२३ ॥ दिव्या लब्ध्वापि कल्पद्रुममपचिनुते तस्य पत्राणि भोक्तुं लब्धायाः कामधेनोरपहरति सकृद्भुक्तभूमार्जनाय । संप्राप्त हन्त चिन्तामणिमपि खनति व्रीहिविध्वंसहेतो- मूढोऽयं याचते यः किमपि फलमिह प्रीतमीशं रघूणाम् १२४ हुंकुर्वद्भिरुदञ्चितभ्रुकुटिभिर्मृत्योर्मेटैस्तर्जितं देवेन प्रहितस्य दाशरथिना मां त्रातुमाधावतः । आरोहेदपि किं मम श्रुतिपथं प्राणप्रयाणक्षणे दिकोणेषु विसृत्वरो हनुमतो लालघण्टारवः ॥ १२५॥ इति विवमर्भस्तवः समाप्तः । १. 'ना तदर्थस्पृहाम्" इति पुस्तकत्रये वर्तते; 'हातुं तदर्थस्पृहाम्' इति इन्दुदूतम् । इन्दुदूतम् । खस्ति श्रीणां भवनमवनीकान्तपतिप्रणभ्यं प्रौढप्रीत्या परमपुरुष पार्श्वनाथं प्रणम्य । श्रीपूज्यानां गुरुगुणवतामिन्दुदूतं प्रभूतो- दन्तं लेखं लिखति विनयो लेखलेखानतानाम् ॥१॥ यत्र व्योमव्यतिगशिखरेष्वहतां मन्दिरेषु मूर्तीजैनीनयनसुभगाश्चन्द्रशालानिविष्टाः । दर्श दर्श विनयविनतोऽधो विमानावतार- क्लेशं नासादयति निकरो हृद्यविद्याधराणाम् ॥ २ ॥ यत्रोत्सर्पच्छिकरकिरणैः शोभयन्नप्रदेश साक्षालक्ष्मीवसतिरनिशं राजते राजलोकः । मेर्वारूढत्रिदशनगरस्पर्धयेवाधिरूढं शैलागण्यं कनकनिकपस्निग्धर्म पञ्चकूटम् ॥ ३॥ यत्रेभ्यानां भवनततयः काश्चिदद्रेतटाग्रं प्राप्ताः काश्चित्पुनरनुपदं सन्ति तासामधस्तात् । काश्चिद्भूमावपि भृशवलत्केतवः कान्तिहप्ता निर्जेतुं द्यामिव रुचिमदापस्थिता निर्व्यवस्थम् ॥ ४ ॥ यत्र क्रीडोपवनपदवीक्रीडतां नागराणां विष्वक्तूर्यत्रिकपरिचयप्रीतिमाविष्करोति । नृत्यत्केकिप्रकरसुभगा मञ्जुगुञ्जहिरेफा वातोद्भूतद्रुमदलततिध्वानवादित्रहृया ॥ ५ ॥ १. एतद्वन्थकर्तुर्नाम ग्रन्थदर्शनेन तु स्फुटं नोपलभ्यते. पुस्तकमप्यस्याट- पत्रात्मकमेकं प्रायोऽशुद्धमुपलब्धम्.
काव्यमाला। श्यामं यस्मिन्नुपलरचितं दन्तिनं मत्वरूपं पुंरूपाभ्यामुपरि कलितं वीक्ष्य शङ्केऽद्रिशृङ्गे । उत्तीर्यैतत्पुरमनुपमं स्वर्गलोकादिहेन्द्रो- द्राक्षील्लोकैरिति विरचितं चिह्नमेतच्चकास्ति ॥ ६॥ स्वास्नुः शुण्डायुध इव मदात्कुण्डलीकृत्य दन्तौ कृत्वोत्तानावुपलरचितो यत्र हस्त्यदिशृङ्गे । खर्ग जेतुं नभसि रभसादारुरुक्षोरमुष्य द्रङ्गस्येव स्फुटयति महावीरनासीरभावम् ॥ ७ ॥ तस्मिन्योधाभिधपुरवरे श्रीमदाचार्यपादा- देशान्मासांश्चतुर उषितो यो विनीतो विनेयः । साधुः सैष प्रहरविगमे भाद्रराकारजन्या प्राचीशैलोपरि परिगतं शीतरश्मिं ददर्श ॥ ८॥ दृष्ट्वा चैनं स पुरमगुरुध्यानसंधानलीन- खान्तःकान्तं तमिति रजनेः खागतं व्याजहार । सद्यः साक्षाद्गुरुपदयुगं नन्तुमुत्कण्ठितोऽपि द्रागेतेन स्थितिपरवशो वन्दनां प्रापयिष्यन् ॥ ९॥ दिष्ट्या दृष्टः सुहृदुडुपतेऽस्माभिरद्यातिथिस्त्वं पीयूषोधैर्धशमुपचरन्प्राणिनामीक्षणानि । पुण्यैः प्राच्यैः फलितमतुलैरस्मदीयैरुपेया- बापुण्यानां नयनविषयं यस्त्रियः मर्यमाणः ॥ १० ॥ देहे गेहे कुशलमतुलं वर्तते कचिदिन्दो नीरोगाजी सुभग गृहिणी रोहिणी तेऽस्त्यभीष्टा । १. 'झपुर्याम् इति हेमचन्द्र इन्दुदूतम् । अन्याः सर्वा अपि सकुशला दक्षजाः सन्ति पन्यः पश्चार्चिः शं कलयति हृदानन्दनो नन्दनस्ते ॥ ११॥ यद्वायं ते स्फुटमनुचितो वार्तवार्तानुयोग- स्त्वय्यायत्तां जगति सकले जानतो मे सुखाप्तिम् । मन्तव्योऽयं तदपि सरसः स्नेहसाराञ्चितत्वा- स्वादीयः स्यात्कदशनमपि स्नेहधारोपसिक्तम् ॥ १२ ॥ काहो शीतोपगतमतनु प्राक्तनाध विदेह- क्षेत्रे कायं चरमभरतक्षेत्रयाम्यार्धभागः । मार्गोऽतीतः कथमयमियान्कोमलैः खच्छपादैः प्रौढप्रौढैः शिखरिशिखरैर्दन्तुरीभूतदेशः ॥ १३ ॥ मार्गश्रान्तः क्षणमिह सुखं तिष्ठ विश्रामहेतो- रुत्तुङ्गेऽसिशिखरिशिखरे दत्तपादावलम्बः । हृद्यः पद्माभिधवरसरः संभवस्त्वां समीरः सर्पन्नुच्चैः सुखयतु सखे केतकीगन्धबन्धुः ॥ १४ ॥ नत्वा सीमंधरजिनपतिं प्राप्तपुण्यप्रकर्षों भूयो नन्तुं त्रिभुवनगुरु बाहुदेवं सहर्षः । मार्गे तीर्थप्रणतिविगलत्पापपङ्कः खमौला- वर्हच्चैत्याञ्चित इति जगद्वन्ध वन्दामहे त्वाम् ॥ १५ ॥ खिन्नां तीव्रातपपरिचयात्तोयदस्तोयवृष्ट्या सिञ्चन्यद्वत्सुखयति कृर्षि शोषकालोपपन्नः । प्रीति तद्वप्रियसख मम प्रापिता चित्तवृत्ति ..:तोत्पत्तौ रहसि भवता गच्छता बन्धुना द्राक् ॥१६॥ शान्ति नीते श्रम इति ततश्चेतसि खास्थ्यमाते दत्वा कर्णाववहितमनाः श्रोष्यसि प्रार्थनां मे।
१८ काव्यमाला । न श्रान्तानां सुखयति कथा निग्धवर्गोदितापि खथे चित्ते प्रणयमधुरा बुद्धयो युद्भवन्ति ॥ १७ ॥ श्रुत्वा याच्यां मम हिमरुचे न प्रमादो विधेयो नो वावज्ञाभ्यधिकविभवोन्मत्तचित्तेन कार्या । प्रेमालापैश्चतुरवनितानिर्मितैर्विस्मृति न प्राण्याः प्रायः प्रथितयशसः प्रार्थनाभङ्गभीताः॥ १८ ॥ प्रातस्तातस्तव गुणनिधिः पश्य रत्नाकरोऽसौ वर्षे वर्षे नवजलधरप्रापितैरम्बुपूरैः । विश्वं विश्वं तरुणतपनोद्दामतापाभितप्तं सेकंसेकं सुखयति सदाभीष्टविश्वोपकारः ॥ १९ ॥ किं नु मस्तव जनयितुस्तस्य दानप्रियत्वं यो देवानां सततममृतैः कल्पयामास वृत्तिम् । अश्वं चोच्चैःश्रवसमसमं नागमैरावतं च दत्वेन्द्रस्य त्रिभुवनपतेः पूरयामास वाञ्छाम् ॥ २० ॥ कन्यां दत्त्वा जगति विदितां यौतके कौतुकी च योऽदान्मोदाधुगपदमलं कौस्तुभं पाञ्चजन्यम् । एवं विधभरमतितमां प्रीणयामास लोभा- धन्नाद्यापि श्वशुरवसति संत्यजत्युत्तमोऽपि ॥ २१ ॥ जीयासुस्ते जगति विदिता भ्रातरः पञ्च चञ्च- न्माहास्यास्ते वितरणभटाः पारिजातद्रुमाद्याः । द्राक्संकल्पोपनतसकलाभीप्सिता अप्यभीष्टं याचन्ते यान्विनयविनता नाकिनो वासवाद्याः ॥ २२ ॥ मूर्ख प्राज्ञीयति च कुतनुं कामरूपीयति द्रा- दीनं शरीयति च कुटिलं प्राञ्जलीयत्यवश्यम् ।
इन्दुदूतम् । क्रूर शान्तीयति गतकलं सत्कलीयत्यजत्रं लोकं सोऽयं जयति निखिलस्त्वद्भगिन्यः प्रभावः ।। २३॥ याते श्यामा सुभग दयिता वर्धयत्युग्रलक्ष्मी पवं पर्ण तुल्यसि यया विप्रयुक्तस्त्वमिन्दो। सापि श्रान्तं भुवनमखिलं खखकर्मश्रमेण निद्रादानात्सुखयति सदाभीष्टविश्वोपकारा ॥ २४ ॥ पीयूषार्द्रस्त्वमपि किरणैर्जङ्गमस्थावराख्यं भूतग्रामं सुखयसि सुतं संस्पृशन्द्रापितेव । क्रूरैः शूरप्रकटितकरौनिर्भरं क्लिष्टलोकां विष्वग्निर्वापयसि वसुधां सत्यमेवासि राजा ॥ २५ ॥ एवं विश्वोपकृतिकुशलः कः कुटुम्बे न तेऽस्ति प्रायः सद्भिः प्रथितचरितैस्त्वाशैर्वर्णनीये। यद्वा रत्नाकर इति यशः प्राप युप्माभिरेवा- म्भोधिर्वप्नुर्भवति महिमोदारसत्त्वैस्तनूजैः ॥ २६ ॥ तस्माइन्धो जलधितनय प्रार्थनां मे समर्थ व्यर्थीकर्तुं न खलु कथमप्यर्हसि प्रौढवंश्य। येनोत्कृष्टं जगति विदितं याचमानस्य जन्तो- र्याच्याभङ्गे भवति लघुता नैव सात् ित्वमुष्य ॥ २७ ॥ नाशक्यं ते मुवनवलये मित्र पश्यामि किंचि- तेजःपुझेरनतिजरठैरक्रमाक्रान्तविश्व । पादान्मूर्ध्नि त्रिपुरजयिनः कौतुकेनोपधाया- हाय मेरीकृतततजगद्व्यापि शौर्यप्रतापः ॥ २८ ॥ कामं क्षामाकृतिमपि जगद्यज्जयन्तं न कोऽपि छेत्तुं शक्तस्तदिह भवतो मातुलस्यानुभावात् । ४ चतुर्दशगु.
५० काव्यमाला। गोपालोऽपि त्रिभुवनमिदं क्रान्तवान्यत्रिपद्या तत्राप्येतत्प्रभवति तव श्यालकस्यैव तेजः ।। २९ ॥ या चाञ्चल्याद्भुवि विजयते विद्युतो नीचसङ्गा- सिन्धुरन्धंकरणगुणतो श्यामलां धूमलेखाम् । सापि आतुर्भवति भवतो माननीयानुभावा- द्विश्वे दोषान्गणयति जनो को हि राज्ञो भगिन्याः ॥३०॥ गन्तव्यस्ते तपनतनयातीरकोटीरमिन्दो सूर्यद्रङ्गो गुरुपदयुगस्पर्शसंप्राप्तरङ्गः । गत्वा तत्र त्रिभुवनजनध्येयपादारविन्दो द्रष्टव्यः श्रीतपगणपतिर्भाग्यसंभारलभ्यः ॥ ३१ ॥ मार्ग तस्य प्रचुरकदलीकाननैः कान्तदेशं स्थाने स्थाने जलधिदयितासंततिध्वस्तखेदम् । आकान्तःकरणविषये(?) स्त्वापयोक्तं मयेन्दो- ऽभीष्टं स्थानं व्रजति हि जनः प्राञ्जलेनाध्वना द्राक् ॥३२॥ शैलादस्मादुपसर पथा दाक्षिणात्येन बन्धो गन्धोद्रेकोल्लसितकुसुमस्तम्भितेन्दिन्दिरेषु । स्थाने स्थाने सरससरसः काननेष्वंशुपूरै- मोदं संपादय कुमुदिनीफुल्लपुष्पेक्षणानाम् ॥ ३३ ॥ तुङ्गे तिष्ठ क्षणमुडुपते त्वं सुवर्णाचलस्य क्रीडावापी. सवनसरसारुतैः शान्ततापः । तत्रत्यानां सकलदिवसक्षुद्यथापीडितानां सौहित्यं त्वत्किरणकवलैः स्ताच्चकोराङ्गनानाम् ॥ ३४ ॥ तस्मिशैलेऽन्तिमजिनवरा वामवामेयदेव- प्रासादौ यौ तरुणकिरणैः संगरं निर्मिमाते ।
13354 इन्दुदूतम् । मध्यस्थः सन्सुघटितरुची तौ कुरु प्रायशो य- प्रोत्तुङ्गानां भवति महतैवापनेयो विरोधः ॥ ३५ ॥ तत्र क्रीडोपवनसरसीखच्छनीरान्तरेषु स्नात्वा खैरं प्रतिकृतिमिषान्नव्यधौतांशुकः सन् । ज्योत्स्नाजालैः स्वपय मधुरैर्वीरवामेयदेवौ कर्पूराच्छैस्तदनु च करैरर्जयाभ्यर्च्य पुण्यम् ॥ ३६॥ तस्याधस्तानगरमपरः खर्ग एवास्ति यस्य प्रौढेभ्यानां भवननिकरैर्ध्वस्तमाना विमाना । काप्येकान्ते कृतवसतयः सज्जलज्जाभिभूता भूमीपीठावतरणविधौ पङ्गुतामाश्रयन्ति ॥ ३७ ॥ यद्यप्याशु म्लपितनयना हस्तविन्यस्तवत्रा दूयन्ते चेत्किरणनिकरैर्निर्भरं विप्रयुक्ताः । विघ्नो (2) यद्यभिसृतिकृतिकृतां योषितां च त्वदीयै- र्योत्स्नाजालैस्तिमिरनिकरैर्दूरनिर्वासिते स्यात् ॥ ३८ ॥ न प्रस्थेयं तदपि भवता वीक्ष्य दक्षेक्षणीयं द्रङ्गं शृङ्गारितकुवलयं चित्रसंपूर्णमेनम् । विष्वन्दत्त्वा नयनयुगलं सम्यगालोकनीयं पश्चात्तापस्तुदति हृदयं दर्शनीये ह्यदृष्टे ॥ ३९॥ तस्माज्जालंधरपुरबरादुत्पतशीघ्रगामी श्रीरोहिण्याः परिसरमथ प्राप्स्यसि त्वं निमेषात् । स्थित्वा तत्र क्षणमियमपि प्रेक्षणीया समन्ता- नान्तःशल्यं स भवति सतां सार्थको यो विलम्बः ॥४०॥ तस्यां चैकं सुखमुडपते धार्मिकाणां महीयो यच्चैत्यानां शुचिरुचिमतामस्ति पतिव्यवस्था । 8307 काव्यमाला। तन्मध्यस्थे न भवति पथि प्रस्थितानां प्रयासो दूरादेव प्रणतशिरसां देवदेवप्रणामे ॥ ४१ ॥ तेनैवाथ त्वमपि विचरिष्यत्यवश्यं पथेन्दो श्रद्धाशाली स्फुटमुभयतश्चैत्यमालाञ्चितेन । नाम नामं जिनभगवतामाकृतीश्चैत्यसंस्थाः पश्यन्नेकान्तरमवहितः सुष्टु सव्यापसव्यम् ॥ ४२ ॥ एकं चैतद्वचनममलं मामकीनं न चित्ता- दुत्तार्य स्वीकृतनिजसुहृत्कार्यसिद्धे निदानम् । पण्यस्त्रीणामिह हि नगरे संनिवेशो गरीया- नास्ते तस्माद्धृतिमतिहरादूरमेवाभिगच्छेः ॥ ४३ ॥ काचिन्नाग्याः श्रयति समतां भोगिलोकोपगूढा हनी काचित्कलयति कलां तत्र किंपाकवल्याः । काचिद्गर्ता तुलयति युवभ्रंशहेतुः पणस्त्री काचिद्वान्ध्यप्रथननिपुणा याति वात्यासखीत्वम् ॥ ४४ ॥ काचित्तीक्ष्णैर्नयनविशिखैमर्म यूनां भिनत्ति नालापैर्हरति हृदयं काचिदाकूतहृद्यैः । काचित्साचिस्मितविकसितैर्मोहयत्यल्पबुद्धी- धैर्य काचित्पटुकुचतटोद्धातनैलुंण्टति द्राक् ॥ ४५ ॥ तस्मादासां युवजनपृषद्वागुराणामवश्यं दूराज्यागो भवति हि नृणां श्रेयसेऽमुत्र चात्र । तत्राप्यङ्गीकृतनिजसुहृदयाहृतेस्त्वादृशस्य व्यासङ्गो नोचित इति हितं द्विस्त्रिरेतद्वदामि ॥ ४६॥ तस्याः पुर्या भवति पुरतो नातिदूरेऽम्बुदाद्रि- ईष्टन्योऽसौ तरुपरिवृतोदभ्रमभंकषानः ।
इन्दुदूतम् । नादैगीतैरिव जनमनांस्याहरन्कीचकानां गन्धर्वाणामिव नवमरुच्चालनाद्भूर्णमानैः ॥ ४७ ॥ शृङ्गेऽमुप्योन्नतिभृति सरस्तीरभूमिप्ररूढा- न्दूर्वाङ्करान्किल कवलयिष्यत्यसौ ते कुरङ्गः । भूयः कालक्षुदुदयकृशश्चारणीयोऽयमिन्दो सामथम्भोभरतॄणततेर्दुर्लभाखेटतोऽस्य ॥ १८ ॥ कूजद्भिर्ये श्रुतिसुखकरा कोकिलैमल्लिकाना- मामोदैश्च प्रसृमरतरैः प्राणिनो मोदयन्ति । उद्गच्छद्भिर्नवनवतृणैर्वय(?)वैडूर्यबद्ध- क्षोणीपीठा इव विदधते शं निकुञ्जा द्रुमाणाम् ॥ ४९ ॥ तेषूच्चैर्मा स्म भवदभितः खर्वधूप्रस्तुतैस्तै- वीणानादैरपहृतमना दूरकृष्टो मृगस्ते । मा भूत्खेदस्तदनु च तदन्वेषणे वा विलम्बो गन्तुं त्यक्त्वाश्रितमणुमपि त्वादृशा नोत्सहन्ते ॥ ५० ॥ तस्मात्स्वस्मान्नयनविषयान्नायमत्यन्तदूरं गन्तुं सह्यो नवघनतृणास्वादविक्षिप्तचेताः । यन्निर्ममा अपि करिवरा अर्बुदाद्रेः कुडङ्गे- ध्वप्राणाः स्युर्बहलविदपिष्वन्यजन्तोः कथा का ॥ ५१ ॥ (त्रिभिर्विशेषकम्) यद्यप्येतद्धनवनगतं नान्धकारं करास्ते हन्युर्मा भूत्तदपि हि भवान्खे मृदुत्वे विषण्णः । येषूष्णांशोरपि ....... कराः कुण्ठतामाश्रयन्ते- ऽनङ्गक्रीडासदसि दिविषत्पुंश्चलीनां दिवापि ॥ ५२ ।।
काव्यमाला।
चैत्ये ॥ ५३॥
तत्र श्रीमान्विमलवसतौ भाति नामेयदेव-
सेवायातत्रिदशनिकरः पूर्णपादोपकण्ठः ।
नेमिखामी दिशति च शिवान्यानतानां निविष्टः
साक्षादिन्द्रालय इव
वरे
वस्तुपालस्य
रूप्यखच्छोपलदलमयौ चित्रदोत्कीर्णचित्रौ
चञ्चच्चन्द्रोदयचयचितौ कल्पितानीलशिल्पौ।
जीयास्तां तौ विमलनृपतेर्वस्तुपालस्य चोच्चौ
प्रासादौ तौ स्थिरतरयशोरूपदेहाविव द्वौ ॥ ५४ ॥
एषा भूमिर्विमल विभुना ब्राह्मणेभ्यो गृहीता
चैत्यं कर्तुं रिपुसुरजिता रूप्यमास्तीर्य विष्वक् ।
ऐतिहानि त्वमिति जरतां कुर्वतां मित्रगोष्ठी
तत्र श्रोष्यस्यनुसृतभवञ्चन्द्रिकाणां मुखेभ्यः ॥ ५५ ॥
द्रष्टव्यः स्यादयमपि सखे भीमसाधोर्विहार-
स्वार्तीयीकस्त्रिदशसदनस्फानिगर्वापहश्रीः ।
एवं चैतत्रिभुवनमतिक्रम्य शोभाविशेषैः
प्रासादानामिह समुदितं प्रीतिगोष्टये त्रिकं किम् ॥ ५६ ॥
आस्ते चैत्यं खरतरकृतं नातिदूरे यदेषां
तत्रोत्तुङ्गश्चतसृषु दिशाखहतो वन्दमानः।
साक्षादृष्टं समवसरणं यद्विदेहावनीषु
तत्संस्कारोदयसहकृतं संस्मरिष्यस्यवश्यम् ॥ ५७ ॥
अन्ये चात्रामृतकरहरिद्वाससां ये विहारा
द्रष्टव्यास्ते न खलु भवता तत्र वन्द्या जिनार्चा ।
दिग्वेलानां कटुकमतिनां (2) द्रव्यलिङ्गस्पृशां य-
आईडिम्ब सुविहितमुनेर्वासयोगं विनाय॑म् ॥ ५८ ॥
इन्दुदूतम् ।
किंचिहरे भवति च ततस्तत्र दुर्गोऽचलाख्यो
मौलौ तस्मिन्विलसति चतुर्दारमुत्तुङ्गचैत्यम् ।
यादृक्तत्रोच्छ्रितमनुपमवर्णरीरीविमिश्रं
न क्ष्मापीठे क्वचिदधिगतं तादृगर्चाचतुष्कम् ।। ५९ ॥
नीचैः किंचिद्भवति च ततः कान्तमर्हन्निशान्तं
श्रान्तं तारादिव नवरुचां गन्तुमूर्ष
दुर्गस्याधोऽप्यथ जिनगृहं श्रीकुमारक्षितीन्दो-
वन्देथास्तेप्वनुपममते भावतः श्रीजिनार्चा ॥ ६० ॥
अस्त्येषोऽद्रिः"मुपचितो भूरिदिव्यौषधीभि-
स्तस्मादस्योपरि किर रसं चन्द्रिकाणां विशिष्य ।
एताः पुष्टिं दधतु च रयादौषधीश""तेऽङ्ग-
स्पर्शास्त्रीणां परममुदितं यौवनं भर्तृसङ्गः ॥ ६१ ॥
शैलेऽस्त्यस्मिन्प्रतिपदमहो लौकिकी तीर्थराजी
मिथ्यादृष्टिक्षितिपतिनतिप्राप्तमिथ्यानुभावाम् ।
न द्रष्टव्या सुभग भवता कौतुकादप्यसौ य-
न्मालिन्यं स्यात्तदभिगमनाच्छुद्धसम्यक्त्वरत्ने । ६२ ॥
इत्थं स्थित्वा स्थिरतरधियां लोकनीयोऽर्बुदाद्रि-
रस्या दृष्टा जगति हि जनो गण्यते गर्भ एव ।
दृष्ट्वा चैनं व्रज गजपते सत्वरैः पादपातै-
नालस्यं स्यादुपकृतिकृतां त्वादृशां झुत्तमानाम् ॥ ६३ ।।
ग्राम्यामस्माद्ब्रज नगवरान्मारवीनां नवीनां
श्रीखण्डार्चा वपुषि रचयंश्चन्द्रिकाणां तरङ्गैः ।
सिद्धद्रङ्गे क्षणमथ सरखत्युपेते विलम्ब्य
राजद्रङ्ग भुवनविदितं यास्यसि त्वं निमेषात् ॥ ६४ ॥
काव्यमाला।
तत्रालोक्य स्वपतितनयं राजतेजोऽभिरामं
दर्भाकरच्छलपुलकिता त्वामुपस्थास्यतेऽसौ ।
आमूलाग्रं तरलिततनुवर्तीचिहस्तैरुदस्तै-
इरादालिङ्गितुमिव रसात्साश्रमत्यब्धिकान्ता ॥ ६५ ॥
एषा क्वापि प्रचुरतरभैः काननैः कनकूला
क्वापि क्रीडयुवतिनिकरैरप्सरःसेवितेव ।
सद्वेषेव वचन विततैरम्बरैधौतमुक्तै-
मुक्ताशुत्यावलिरुचितरैः क्वाप्यलंकारितेव ॥ ६६ ॥
प्रीणात्येषाखिल..."रजनान्सत्पयःपानदाना-
दुत्सङ्गस्थान्रमयति च तान्केलिलीलाविलोलान् ।
दूरादालिङ्गति च विततैर्वीचिहस्तैः पुनीते
पूतान्नास्याः कथमभिहिता(?)नेयगादानगर्याः ॥ ६७ ॥
नद्याश्वास्याः सुचिरमुभयोः कूलयोः संनिविष्टा-
श्वकाहानां हृदयदयिताश्वाश्रुभिः क्लिननेत्राः ।
पादैर्मा स्मारतिमुपनयैर्विप्रयुक्ताः प्रसधैः
कण्ठप्राणा नहि विरहिणः कृच्छ्रमीषत्सहन्ते ॥ ६८ ॥
आरूढानां भवनवलभी गौर्जरीणां त्वदीक्षा
फुल्लाक्षीणां प्रियतमकरन्यस्तहस्तोत्पलानाम् ।
पश्यन्तीनां नगरमभितोऽलंकृतं चन्द्रिकाभि-
बन्धो निर्वापय निजकरैः सुष्ठु दृक्कैरवाणि ॥ ६९ ॥
क्रीडाहयं प्रियसहचरीप्रेरणाभिः प्रविष्टाः
शय्योत्सङ्गं प्रणयचटुमिः प्रेयसा प्रापिताश्च ।
वीडोद्रेकाहमणिमुपाहत्य कर्णोत्पलेन
कान्तोपान्ते तमसि कथमप्यासते या विमुग्धाः॥ ७० ॥
इन्दुदूतम् ।
--
मा कार्षीस्त्वं तरुणकिरणैर्जालमार्गप्रविष्टै-
स्तासां कान्तप्रसभहृतसच्चीवराणां प्रकाशम् ।
किं कुर्युः संवरितुमनलं भूष्णवस्तारत्वदंशू-
न्मौग्ध्यादेवानवगतधवाक्ष्यब्जसंवृत्युपायाः ॥७१॥ (युम्मम्)
तत्राट्टानां ततिषु निहिता भूरिरत्नप्रकारा-
स्तारास्ताराधवं तव करैः सुष्टु संयोगमेत्य ।
प्राप्तोल्लासा इव नवरुचो दर्शनीया भविष्य-
न्युल्लासं हि प्रथयति चिराद्वन्धुवाहानुषङ्गः ॥ ७२ ॥
लक्ष्मीस्तत्रारमति सततं भूरि कोटिध्वजानां
गेहे गेहे बहुविधधनैः तृप्तनानाखरूपा ।
दृष्ट्वा चैनां सुभग भगिनीं त्यक्तचाञ्चल्यदोषां
चिन्तातीतं नियतमतुलं प्राप्स्यसि त्वं प्रमोदम् ॥ ७३ ॥
एकैकोऽस्य ध्रुवमुडुपते पाटकोऽन्यैः पुराणां
वृन्दैस्तुल्यो जनपदसमान्येव शाखापुराणि ।
"मैकैकं पृथुतरमुरुग्रामतुल्यं तदस्य
माहात्म्यं कः कथयितुमलं प्राप्तवाग्वैभवोऽपि ॥ ७४ ॥
मुक्तापुञ्जान्प्रतिपदरून्रत्नराशीन्प्रवाला-
कैराशङ्खान्मृगमदसरान्वीक्ष्य भूयो वरांश्च ।
मा ज्ञासीस्त्वं स्वपितुरुदधेर्हन्त सर्वखमात्त-
द्रङ्गो ह्येष प्रकृतिगुणतो ज्येष्ठरत्नाकरोऽस्ति ॥ ७५ ॥
अस्य व्यक्त्या निशमनमहो वर्षलक्षानुपाति
सामान्येनामृतकर ततश्चैकदेशो विलोक्यः ।
तस्मिन्दृष्टे निखिलमपि तदृष्टमेवावधेयं
सर्व दृष्टं वदति हि जनो वर्णिकादर्शनेन ॥ ७६ ॥
काव्यमाला। रत्नज्योतिः कनकरजतज्योतिरट्टावलीषु स्त्रीसाङ्गाभरणतरुणज्योतिरत्र प्रदोषे । दीपश्रेणीप्रकटितपटुज्योतिरिन्दोस्त्वदीय- ज्योतियोंगे भवतु विविधज्योतिषां संनिपातः ॥ ७७ ॥ तत्र प्रत्यापणमनुगृहं दीपकानां कदम्बे स्तोकं पौराणिक इव निशि व्यञ्जयत्यर्थजातम् । गत्वा प्रामाणिक इव महान्व्यञ्जयन्सर्वतोऽर्थ वैलक्ष्यं तं तरलितकरः प्रापयिष्यत्यवश्यम् ॥ ७८ ।। तस्मानाच्छमनककुभिः प्रस्थितस्यान्तरा ते वर्गाकारं नगरमपरं लाटदेशस्य पुण्ड्रम् । दर्श दर्श मनसि परमप्रीतिरापत्स्यते य- नानालक्ष्मीरुचिरवपुषां तत्र वासो जनानाम् ॥ ७९ ॥ लङ्काशङ्कां मनसि दधती तोयराशौ ममज्जा- तीते दृग्भ्यो वसति च पदे हन्त वखोकसारा । पातालं प्राविशदपमदा सापि भोगावती मां दृष्ट्वा स्म्यामनुपमतमां वाटपद्रीमभिख्याम् ॥ ८०॥ मध्येऽस्त्यत्र प्रचुरसुख(ष)मो मण्डपोऽत्यन्ततुङ्ग- स्तत्र स्थित्वा चतसृषु दिशाखीक्षणीयं त्वयेन्दो । द्रष्टासि द्राक्श्रियमनुपमामस्य विष्वक्पुरस्य रम्यं ह्येतच्छुचिरुचिचतुरचैत्यानुकारम् ॥ ८१ ॥ अत्यासन्नं भूगुपुरमितो यास्यसि प्रौढदुर्गा दुर्गन्धाशोज्झितमतिसुरैर्भूरि पौरैः परीतम् । भूपीठे मत्सदृशमपरं वर्तते वा न वेति द्रष्टुं रङ्गान्तरमिव समारूढमुच्चप्रदेशम् ॥ ८२ ।।
इन्दुदूतम् ।
तस्योपान्ते सुखयति नदी नर्मदा नर्मदोर्मि-
स्तोमै रोमोगममतिहिमैः कुर्वती नौस्थितानाम् ।
क्रीडद्गन्धद्विपमदरसोद्दामगन्धिप्रवाहा
चञ्चत्क्रीडावनघनतटा नाव्यनीरा गभीरा ॥ ८३ ॥
आलोक्य द्राग्भुवनममृतैस्तर्पयन्तं भवन्तं
तातं भ्रातर्भवतु मुदिता नर्मदा ते तनूजा ।
प्राप्तोल्लासो भवतु च भवानप्यपेत्य क्षणेन
संसारे यजनितजनकप्रेमबन्धो गरीयान् ॥ ८४ ॥
तत्र स्थित्वा भृगुपुरमहावप्रवातायनाग्रे
दृष्ट्वा हृष्टो निजतनुभुवो धावनोद्वल्गनानि ।
गच्छेः स्वच्छे तरणिनगरोपान्तभूमिप्रदेशे
श्रीश्रीपूज्यक्रमविहरणध्वस्तपापप्रवेशे ॥ ८५ ॥
खर्जूरीणां विपिनपटलीतुङ्गतालद्रुमाणां
तत्र श्रेणिस्तपनतनयातीरभूमिप्ररूढा ।
मन्दं मन्दं प्रसृमरमरुत्कम्पितां मौलिकम्पैः
श्लाघामन्तः सृजति नगरस्यास्य लोकान्तरस्य ।। ८६ ।।
पोतश्रेणीपरिचयमिषात्तीरवेल्लद्विमाना
मज्जवृन्दारकवरवधूर्नागरैर्नागरीभिः ।
खादुखच्छस्फटिकरुचिराम्भोभरैरुत्तरङ्गा
तापी तत्र श्रयति तटिनी खर्गगङ्गानुकारम् ॥ ८७ ॥
एनां संगच्छति जलनिधिः प्रत्यहं द्विस्त्रिरस्याः
सौभाग्येनातिशयगुरुणा कार्मणेनेव वश्यः ।
अश्रच्छन्नस्त्वमपि भवितास्येतयोर्योगकाले
पित्रोः पश्यन्क इह सुरतं लज्जते नेजडोऽपि ॥ ८८ ॥
६०
काव्यमाला।
तत्र श्रीमत्तपगणपतेः सद्विहारानिलोमि-
प्लुष्टातङ्कां फलदलसुमस्फातिसंपन्नवृक्षाम् ।
इष्टानेहः परिगतघनोद्भासि भूयिष्ठसस्यां
द्रक्ष्यस्यर्हत्समवसरणापास्तदोषामिव माम् ॥ ८९ ॥
नम्रीभूताः प्रतिपदमहो लुम्बिवृन्दैः फलानां
वर्णैर्योषा इव धनवतां सन्ति कम्राः कदल्यः ।
स्निग्धच्छायैर्मधुरफलदैर्मण्डपै!स्तनीनां
गेहैामा इव सुमनसां तत्र कान्ता वनान्ताः ॥ ९० ॥
दीप्ताः पुष्पैरविरलदला मण्डली चम्पकानां
तत्रोद्याने तुलयति फलैर्लक्षिता पल्लवैश्च ।
नागश्रेणीममसृणसृणिं हेमघण्टावलीढां
उद्यानानां नगरमभितः संततिर्भाति नाना-
वृक्षलक्षैर्विविधसुमनःसंवितानां लतानाम् ।
क्रीडद्दम्पत्युचितकदलीमन्दिरैर्बालकानां
गेहैः क्रीडाभवनसरसी दीर्घिकावापिकाभिः ॥ ९२ ॥
पोतान्पोतानिव जलनिधेः कुक्षिनिक्षिप्तनाना-
वस्तुस्तोमांश्चतुर भविता पश्यतस्ते विलम्बः ।
जाग्रज्जैत्रध्वजपरिगताञ्जङ्गमद्रङ्गतुल्या-
पश्यन्नेतान्न भवति जनः कोऽत्र विक्षिप्तचेताः॥ ९३ ॥
दुर्गो भोज्ज्वलवपुरिहोत्कन्धरश्चन्द्रशाला-
दम्भात्सौधच्छदिरुपचितो मौक्तिकच्छत्रशाली ।
नानायन्त्रपहरणधरो युद्धसज्जोगशस्त्रः
क्षत्रस्यैष श्रयति सुखिनां धैर्यगर्वोडुरस्य ॥ ९४ ॥
इन्दुदूतम्।
गोपीनाम्नः किमिह सरसो वर्णयामो महत्त्वं
यत्क्षीराब्धेः कलयति कला मथ्यमानस्य नो चेत् ।
आस्ते कुक्षौ किमिह निहिता मेरुरद्यापि किं वा
वीचिक्षोभो मथनजनितत्रासतोऽत्रागतस्य ॥ ९५ ॥
नीलच्छायां वचिदविरलैर्नागवल्लीदलौघैः
शुभ्रच्छायं वचन कुसुमैर्विस्मृतैर्विक्रयाय ।
पिङ्गे चङ्गैरतिपरिणतैः कुत्रचिच्चेक्षुदण्डै-
नानावण पुरमिदमिति द्योतते सर्वदापि ॥ ९६ ॥
पोतोत्तीर्णाम्बुधिपरतटोद्धाविनो वस्तुवृन्दा-
न्द्राक्संख्यातुं क इह गणनाकोविदोऽपि क्षमेत ।
इष्टे मातुं क इव .. रजःस्वर्णमाणिक्यपुञ्जा-
न्गुञ्जानेमारुणतररुचीश्चाङ्क्रान्विद्रुमाणाम् ॥ ९७ ॥
रूप्यस्वर्णप्रकरघटनप्रोत्थितैष्टङ्कशाला-
गर्भोद्भूतप्रतिरवशतैस्तारतारैष्टकारैः ।
नात्र कापि प्रभवितुमलं दुष्टदौर्गत्यभूतः
पूतः क्षौदे ह्युपशमविधौ मन्त्रसारष्टकारः ॥ ९८ ॥
यत्र श्राद्धास्ततसुमनसो विश्वमान्या वदान्याः
संख्यातीता अमितविभवाः प्रौढशाखाः प्रशाखाः ।
कुत्राप्याद्याद्य(१)रकजनिताः संस्थिताः कल्पवृक्षाः
प्रादुर्भूतास्तपगणपतिप्रौढपुण्यानुभावात् ॥ ९९ ॥
शिल्पिप्रष्टै रचितविविधानेकविज्ञानहृद्यं
हिङ्गुरुवाद्यैः कनकखचितैर्वर्णकैर्वर्णनीयम् ।
दत्तानन्दं सहिदयहृदां वृन्दमहदहाणां
चित्रश्चित्रं क इह न जनो वीक्ष्य चित्रीयतेऽन्तः ॥१०॥
६२
काव्यमाला।
मध्ये गोपीपुरमिह महाश्रावकोपाश्रयोऽस्ति
कैलासाद्रिप्रतिभट इव प्रौढलक्ष्मीनिधानम् ।
अन्तर्वार्हतमतगुरुपौढतेजोभिरुद्य-
ज्योतिर्मध्यस्थितमघवता ताविषेणोपमेयः ॥ १०१ ॥
भित्तौ भित्तौ स्फटिकसरुचौ कुट्टिमे कुट्टिमे च
संक्रामस्त्वं सुभग भविता स्यात्तलक्षखरूपः ।
युक्तं चैतत्तरणिनगरोपाश्रयस्यान्यथाश्री-
टुं शक्या न खलु वपुषैकेन युष्मादृशापि ॥ १०२ ।।
तस्य द्वाराङ्गणभुवि भवान्स्थैर्यमालम्ब्य पश्य-
न्साक्षाद्देवानिव नृजनुषो द्रक्ष्यति श्राद्धलोकान् ।
हस्त्यारूढानथ रथगतान्सादिनश्चार्थपौ.... (?)-
प्यर्थाश्रोतुं रसिकहृदयाशीघ्रमाटीकमानान् ॥ १०३ ॥
माद्यद्भरिद्विपमदरसाश्वीयलालानिपात-
क्लिन्नां खिन्नामिव घनजनवातसंमदखेदात् ।
द्वारं खस्याङ्गणभुवमतिप्रेजितेस्तोरणानां
स्नेहादाश्वासयति मरुतां प्रेरणेनेव शश्वत् ।। १०४ ।।
मध्ये तस्याः श्रमणवसतेर्मण्डपो यः क्षणस्य
सोऽयं कान्त्यानुहरति सतां तां सुधा मघोनः ।
मुक्ता चन्द्रोदयपरिचितस्वर्णमाणिक्यभूषा-
श्रेणीदीप्तो विविधरचनाराजितस्तम्भशोभी ॥ १०५॥
मध्ये सिंहासनमनुपमं तस्य शक्रासनामं
चेतश्चैतत्सखयति सतां हृद्यपद्यानुकारम् ।
सालंकारं सुघटितमहासंघिबन्धं सुवर्ण
... 'स्वच्छच्छायं सुललितचतुःपादसंपन्नशोभम् ॥ १०६ ॥
इन्दुदूतम् । दीप्रोपान्तः खसशरुचा पादपीठेन नम्र- क्ष्माभृच्छ्रेणीमुकुटघटनाकोमलीभूतधाम्ना । पतयोडूनामिव गुणयुजा मौक्तिकस्वस्तिकेन व्योम्रो लक्ष्मी किल निदधतोपेन्द्रपादाञ्चितेन १०७(युग्मम्) तत्रासीनं परिणततपस्तेजसा पीनमन्तः- शुक्लध्यानोद्भवनवमहोझ्योतितात्मस्वरूपम् । साक्षात्तीर्थकरमिव जगज्जन्तुजीवातुभूतं मूर्त्या शान्ताद्भुतमधुरया दत्तभव्यप्रमोदम् ।। १०८ ॥ अभ्यस्तानां गुरुमुखकजादागमानां निधानं साक्षादाद्यं गणधरमिवानेकलब्धिप्रधानम् । ज्ञानालोकप्रकटितजगत्तत्त्वदत्तावधानं ध्यानं धयं हृदि निदधतं सिद्धिशय्योपधानम् ॥ १०९।। आकर्षन्तं कठिणतपसां लीलया सिद्धिराज्यं स्वर्गादीनां सुखमनुपमं मन्यमानं तृणाय । आ"माम्लाद्यतिपृथुतपः कार्यतः श्वेतकान्ति सम्यग्लिप्तं किल धवलया लेश्ययान्तर्बहि... ।। ११० ॥ 'फुल्लाम्भोजश्वसितमसिति श्मश्रुकूर्चाङ्कुरोद्या- नाबिभ्राणं सितमुखपटीं चाननाम्भोजहंसीम् । हस्ताम्भोजे दधतममलां वैद्रुमीमक्षमालां रागं प्राप्तामिव गुरुगुणै—र्णमानां च चित्रे ॥ १११ ॥ अङ्के धर्मध्वजमुरुमहः शोभमानं दधानं श्रेयोलक्ष्म्या प्रहितमिव सस्नेहया पुण्डरीकम् । प्रायः पद्मासनपरिचितं राजहंसोपसेव्यं खाध्यायेनानुगतवदनं ब्रह्म सब्रह्मरूपम् ।। ११२ ॥
काव्यमाला।
कर्णोपान्ते पलितकपटात्सुष्टु विज्ञप्यमानं
स्थानभ्रंशव्यथितजरसैकान्तमेकान्तकान्तम् ।
खामिल्लोकानजरममरं स्थानकं प्राप्तुमर्ह-
न्कुर्वन्भूमौ विहरसि मया स्थीयतां क्वाधुनेति ॥ ११३ ॥
स्फूर्जद्भाग्यान्कतिचन दृशा स्निग्धयालोकयन्तं
कांश्चिच्चेषत्स्मितकलनया स्वायतीन्प्रीणयन्तम् ।
पूर्वोपात्तास्खलितसुकृतश्रेणिसौभाग्यभाजः
कांश्चिन्मौलौ करघटनया लब्धसिद्धीन्सृजन्तम् ॥ ११४ ॥
आशीर्दम्भान्नमदसुमतां हस्तविस्तारणेन
हस्तन्यस्ताविव निजवशौ धर्मलाभौ ददानम् ।
कल्याणानां निधिमिव महावारपारं महिम्ना-
माचाराणां भवनमवनावाकरं सक्रियाणाम् ॥ ११५॥
अर्हद्धर्म तनुभृतमिवास्तोकलोकोपकृत्यै
कैवल्यं वा विदितभुवनं पुंखरूपोपपन्नम् ।
प्रत्यक्षं वा सुकृतनिचयं शासनस्याहतस्य
मूलं निःश्रेयसपदतरोजङ्गमं कल्पवृक्षम् ॥ ११६ ॥
कष्टनातं नतसुमनसां जापमौनप्रयुक्तै-
नन्तं मन्त्रैरिव पटुतरैर्हारिहुंकारनादैः ।
सम्यग्नामस्मरणशमिताशेषपापोपतापं
लक्षोष्णांशुपतिभटजगद्व्यापि तेजःप्रतापम् ॥ ११७ ॥
धैर्येणातिप्रथितयशसा स्वर्णशैलं जयन्तं
गां तीर्थेनातिशयगुरुणाम्भोनिधिं लज्जयन्तम् ।
सौन्दर्येणाप्रतिममहसा मन्मथं तर्जयन्तं
। चारित्राद्यैः सुविहितगुणैर्विश्वमावर्जयन्तम् ॥ ११८ ॥
इन्दुदूतम् । u- मौनध्यानाद्यमलविधिनाराषिताचार्यमन्त्र सेव्यं देवरुपपदगतैर्ब्रह्मचर्यानुरक्तैः । जनप्राणिप्रकरविविधप्रार्थनाकामकुम्भ दान्तं शान्तं मृदुमपमदं निःस्पृहं वीतदम्भम् ॥ ११९ ॥ विद्यावद्भिः सुभगतनुभिश्चारुचारित्रवर्यैः श्रीगुर्वाज्ञाविनयनिपुणैः सेवितं साधुवर्यैः । श्रद्धालूनां पृथुपरिषदि प्रौढधाम्ना निषण्णं त्रायस्त्रिंशैरिव परिगतं संपदीन्द्रं सुराणाम् ॥ १२०॥ वन्देथाः श्रीतपगणपतिं सार्वमैदंयुगीनं पीतं पुण्यप्रभवमुदधेर्नन्दनत्वं लभेथाः । प्राच्यैः पुण्यैः फलितमतुलैस्तावकीनैः सुलब्ध- जन्मैतत्ते नभसि च गति विनीते कृतार्था ।। १२१ ।। चतुर्दशभिः कुलकम्) अद्यानर्थैर्गलितमकलैः पापशकैविलीनं क्षीणं दोषैर्गलितमशिवैर्दुष्टकष्टैः प्रणष्टम् । रुग्णं रोगैzतमनुशयैर्विप्रयोगैर्विनष्टं सर्वातङ्कोपशमनिपुणं द्रक्ष्यसि श्रीगुरुं यत् ॥ १२२ ॥ पुण्यादस्मादृशमुपचिताकिंवदन्तीकलङ्क- स्यैषा यास्यत्यमृतकर मो निष्कलङ्कं भवन्तम् । मन्येऽवश्यं शतगुणघृणि सत्वरं वीक्षिताहे सर्वाभीष्टं फलति न चिराद्दर्शनं हीदृशानाम् ॥ १२३ ॥ हयातोर्मुखरमुरजैर्गायनानां च गीतै- यन्तीनां गुरुगुणगुणांश्चारवैः श्राविकाणाम् । ५ चतुर्दशगु०
काव्यमाला।
खाध्यायैश्च श्रमणकृतिनां तकंचर्चाविचारैः
शब्दाद्वैते भवति भवता स्थैर्यमानम्य तत्र ॥ १२४ ॥
विज्ञप्तिनों यद्दपि भवता दुष्करानाप्तपुंसा
पार्श्वे किं चामरहिमकराः पाठकास्त सगोत्राः ।
संवीक्ष्यैवावसरमुचितं तत्र वाच्यं तथापि
नेतारो हि ध्रुवमवसरे प्रेक्षिणि प्रीतचित्ताः ॥ १२५ ॥
स्थित्वा तस्माद्विजनसमये श्रीगुरोः पादप-
स्पृष्ट्वा स्वच्छभिकरकरार्वज्ञ विज्ञप्यमेवम् ।
शिप्योऽणीयान्विनयविजयो द्वादशावर्तभाजा
विज्ञप्ति व्याहरति महता वन्दनेनाभिवन्धम् ॥ १२६ ॥
यच्छ्रीपूज्यक्रमयुगमिलादुर्गमध्ये नतोऽहं
प्रागासं नोपकृतिमिव तद्विस्मरामि क्षणार्धम् ।
श्रीतातानां यदुरुकृपया भाषणं मर्यमाणं
सर्वाङ्गीणं सपदि पुलकोद्भेदमाविष्करोति ॥ १२७ ।।
तुष्यत्युल्लासयति करणान्युल्लसन्त्येव भूयो
भूयो गच्छत्युपगुरुपदं गाढमुत्कण्ठते च ।
बाप्पक्लिन्न सृजति नयने गद्दान्कण्ठनादा-
नेतच्चेतः प्रणयरसतश्चेष्टते नैकथामे ॥ १२८ ॥
निद्रादोषो जगति विदितो जागरश्वाप्रमादः
संप्रत्येतन्मम तु हृदये वैपरीत्येन भाति ।
निद्रां याते गुणमनुगुणं दर्शनं वो ददानां
जागर्या च प्रगुणमगुणं तत्र विघ्नं सृजन्तीम् ॥ १२९ ॥
सुदर्शनचम्यूकाव्यम् । जागर्यायां जपति रसना युष्मदाख्यां यथा मे निद्रायामप्युपहितमनास्त्वेन शश्वत्तथैव । तस्मात्संप्रत्यहनिशि""वा जागरानिद्रयोमें भेदं लोका अपि पटुधियो जानते नापरीक्ष्यम् ॥ १३०॥ शङ्कातमलिनमगुणैरुसृजन्पूर्वपक्ष सिद्धान्त सद्विभव भवदाराधनं संश्रितोऽस्मि । संभाव्यस्तत्परमगुरुभिः स्निग्धया प्रेमदृष्ट्या येनात्यर्थं फलितसकलप्रार्थितोऽर्थों भवेयम् ॥ १३१ ।। इति श्रीमेघदूतच्छायाकाव्यमिन्दुदूताभित्र काव्यं समाप्तम् । श्रीकृष्णानन्दकवीन्द्रविरचितं सुदर्शनचम्पूकाव्यम् । शं नारायणपदाम्भोजमकरन्दमधुव्रतः । कृष्णानन्दः करोत्येनां चम्यूं सर्वमनोरमाम् ॥ १॥ शास्त्रं स्मृति च साहित्यं कृष्णानन्देन धीमता । अधीत्य क्रियते चम्पू: पूरयतु सर्वतः ।।-२ ॥ दंष्ट्रादुष्टकरालकालियशिरोभङ्गप्रसङ्गोच्छल- द्रक्तव्यक्तजलौघपूर्णयमुनाकूलप्रवाहोत्सवः । स्फूर्जदुर्जयकंसकेशिमथनो राधामुखेन्दूदये जीवञ्जीवसमः करोतु कुशलं श्रीकृष्णदेवः प्रभुः॥ ३ ॥ १. 'वेदाकाशमुनीन्दु(१७०४)संमितशके-' इति ग्रन्थान्तिमपद्यतो वैक्रमे शरदि १८३९(-A. D. 1783) श्रावण शुक्ल दशमीगुरुवासरे इमं अन्थं रचि तवाञ्छ्रीकृष्णानन्दकवीन्द्र इत्यवगम्यते.
६८
काव्यमाला।
अपि च।
द्राग्द्वारस्थितदन्तिदन्तमुसलोत्पाटप्रतिष्ठोल्लस-
त्पौरस्त्रीपरिवेषपूरितमहाकीर्तिर्यशोदात्मजः ।
गोपीवृन्ददृगन्तपीवरमहापीयूषधाराशत-
स्नानक्लिन्नकलेवरः कलयतां कल्याणमव्याहतम् ॥ ४ ॥
अत्र लोकाः पृच्छन्ति-
कस्यैष क्रियते चम्पूर्महीपालशिरोमणेः ।
गद्यपद्यमयी लोके श्रुतिचित्तसुखप्रदा ॥ ५॥
अस्ति समस्तमहीमण्डलाखण्डलप्राययादववंशावतंसमहाराजाधि-
राजविराजितराजधानीविभूषितगढजयशलमेरो नाम देशः । स च
प्रथितवरसरोभिः सेवितः सर्वकालं
विविधविटपिवाटीवृन्दविद्योतितश्रीः ।
कृषिभिरुचितकाले सर्वलोकोपकारी
गढजयशलमेरो देशरत्नं विभाति ॥ ६॥
तत्रानेकनगरग्रामप्राकारपरिखाप्रासादप्रतोलिकाप्रकारैरभिमण्डितान्त-
मण्डलबर्हिर्मण्डलोद्देशः । गजगलदविरलमदजलचलत्सेककुशलमुस-
लाकारधारासंपातनिष्पातसंपादिताशेषभूकषाणाङ्गनाजनप्रवर्तमानमहाम-
होत्सवाभिरामकामदेवोद्दामसजलजलदागमप्रतीतिप्रयोजकः । तत्रापि
महापवित्रमतिसुप्रसिद्ध भाटीकुलम् ।
समस्तलोकेष्वतिसुप्रसिद्धं समस्तराजन्यगणस्तुतं च ।
भाटीकुलं सर्वगुणानुपेतं वर्णाश्रमाचारपरायणं च ॥ ७ ॥
भूमण्डले कुण्डलतामुपैति यदोः कुलं चन्द्रकलाविशुद्धम् ।
तत्रापि भाटीकुलमप्रमेयं समस्तभूमावतिशोभमानम् ॥ ८॥
सुदर्शनचम्पूकाव्यम् । भाटीकुलावतंसो दुर्जनशालो महीपालः । आसीत्प्रसिद्धजन्मा शंकरवर्मा सुतस्तस्य ॥ ९ ॥ एतस्याजनि राजनीतिदयितः सर्वार्थचिन्तामणिः सर्वश्लाघ्यगुणः प्रतापतपनः प्रोत्तप्तसप्तार्णवः । प्रत्याशापरिपूरकः प्रतिदिनं कारुण्यवारांनिधिः श्रीमद्वीरसुदर्शनो नृपवरो जीयात्सहस्र समाः ॥ १०॥ अपरं च। स्फूर्जहुर्जनशाल एष विनयी दाता महीमण्डले भाटीवंशसमुद्भवोऽतिविदितः श्रीशंकरोऽस्यात्मजः। लोकानामुपकारकेण सुचिरं धात्रा धरामण्डले वीरो धीरसुदर्शनोऽतिकरुणो राजा कृतोऽयं कृती ॥११॥ कुमार इव धूर्जटेः सुरपतेर्जयन्तो यथा पठत्यनुदिनं गुरोनिखिलबालविद्यां मुदा । सुदर्शनमहीपते पतिचक्रचूडामणे- यशस्करणसुन्दरो जयति बालवृन्दारकः ॥ १२ ॥ वेदव्याकरणादिशास्त्रकवितालंकारसाङ्गागम- व्याख्यानस्फुरदिन्दुसुन्दरयशोवृन्देन देवात्मना । विश्वव्यापककामराजगुरुणा सोऽयं मुदा दीक्षितो वीरो भूपसुदर्शनो यदुकुले भूमण्डलाखण्डलः ॥ १३॥ सुदर्शनो महाराजो विभाति क्षितिमण्डले । यथा शोभाकरश्चन्द्रो जगदानन्ददायकः ॥ १४ ॥ तस्यैषा क्रियते चम्पू: सुदर्शनमहीपतेः । दानसंमानसंपद्भिः सर्वेषां सुखदायकः ॥ १५ ॥ ।
काव्यमाला। अतिप्रचण्डदोर्दण्डकलितासिदण्डखण्डीकृतारातिचक्रसीमन्तिनीस- मुत्सारितशिरोवर्तिसिन्दूरधाराभरणसमस्तारुणीकृतदिग्वलयवर्तिबहुकालो- पचीयमानविरहव्यथाकुलितचारुचक्रवाकमिथुनमिलनोच्छासविश्वाससं- भावकः सुदर्शनो नाम राजा विराजते मध्याह्नमार्तण्डमण्डलोपमप्रच- ण्डप्रद्योतविद्योतिताशेषदिगन्तरमहाप्रसिद्धमानसादिसरोवरालंकारप्रदोष- मुद्रितसरोरुहोदरवर्तिमकरन्दलुब्धमधुपश्रेणीबन्धमोक्षणाकालप्रचारझा- कारोद्गीतयशोराजहंसः। स एष नृपभैरवः समरसीम्नि दुर्वारणः समस्तधरणीपतिप्रथितलब्धयुद्धोत्सवः । यदीयरिपुनागरीनयनवारिसंपादित- प्रसन्नसरसीरसी चरति कीर्तिहसीगणः ॥ १६ ॥ प्रचण्डचण्डांशुसमप्रभावः पुरा न भूतो न च कोऽपि भावी । सुदर्शनो नाम महाबलोऽसौ यदोः कुले राजकुलावतंसः ॥१७॥ सुदर्शनयशोगानं कस्य कस्य न रोचते । कृष्णानन्दसमुत्पन्नं किं पुनर्ब्रजमण्डले ॥ १८ ॥ तस्यायं क्रमः- वारंवारमुदारवारणघटासंघट्टसंभाविता- रातिक्ष्मापतिवीरधीरजलधिप्रव्यक्तरक्तं पयः । पीत्वा वर्षति वैरिवारिजमुखीनेत्राम्बुयुष्मद्यशो- मुक्ताः पुष्यति राजराज किमसिः किं खातिधाराधरः॥१९॥ श्रीमद्वीरसुदर्शनाद्य मृगयारम्भं विमुञ्चाङ्कतः सातई हरिणः पते द्विजपतेर्भूयाद्रनर्थो महान् ।
सुदर्शनचम्पूकाव्यम् ।
किं च त्वं चतुरोऽसि निलयशःकर्पूरपूरश्रिया
साम्यं सौम्य समागमिष्यति सदा निर्दोषदोषाकरः॥२०॥
सुदर्शनमहाराजे दानाय समुपागते
नृत्यन्ति गुणिनां गेहे कविता वनिता इव ॥ २१ ॥
सुदर्शनमहाराजे महादानं प्रकुर्वति ।
नृत्यन्यपि च गायन्ति दिक्षु भिक्षुकयोषितः ॥ २२ ॥
गृहं यदीयं स्फटिकाभिरामं संपूर्णकाम वृषभध्वजस्य ।
सेवा समासाद्य गुरोः प्रसादाच्छ्रीकामराजस्य महान्न तस्य ॥२३॥
कवित्वशक्तिमधुरा च वाणी भाषासु गीर्वाणवचोमये च ।
यस्यास्ति भूवौ स धनी कुलीनः स पण्डितः सर्वगुणानुपेतः॥२४॥
साहित्यविद्यानिपुणः सदैव शास्त्रेषु सिद्धान्तसमस्तवेत्ता ।
ज्ञाता विशेष कवितारसस्य दाता चिरं जीवतु सत्कवीनाम् ॥२५॥
एतस्य द्वे भार्ये । दास्यश्च संजीवनी च ।
शुश्रूषणाय प्रतिपन्नभावा मनोरथज्ञा भुवि सुप्रसन्ना ।
पत्युः पदाम्भोरुहलुब्धभृङ्गी संगीतविद्यानिपुणस्य तस्य ॥२६॥
पद्मेव कृष्णस्य, वृषध्वजस्य गौरीव गौरी, मकरध्वजस्य ।
रतीव, शक्रस्य शचीव, भूमौ सातोमरी वीरमुदर्शनस्य ॥२७॥
सुवर्णदानेन समस्तकालं सातोमरी पीतमयं करोति ।
महीतलं राजतपुञ्जदानैः शुक्लं कदाचित्कुरुते समन्तात् ॥ २८ ॥
सोही च-
माणिक्यमुक्ताफलगुम्फितेन हारेण तस्या हृदयस्थितेन ।
नक्षत्रताराग्रहमण्डलानि विनिर्जितान्येव निर्जेर्मयूखैः ॥ २९ ॥
काव्यमाला
सुवर्णपात्रेण करस्थितेन सुवृत्तमुक्ताफलपूरितेन ।
नित्यान्वितं विप्रवरार्पितेन सोही यशश्चन्द्रमसं विभाति ॥ ३०॥
संजीवनी च-
गन्धर्वकन्या भुवि चित्रलेखा लोकोपकाराय कृतावतारा।
संजीवनीमूर्तिमिषादशेषसौन्दर्यचातुर्यनिवासभूमिः ॥ ३१ ॥
विराजते सर्वगुणानुपेता संजीवनी कल्पलतेव भूमौ ।
कदापि यं पश्यति दूरतोऽपि तस्यापरिश्लिप्यति हेमवृष्टिः ।। ३२॥
अधीतवेदस्तु सुदर्शनोऽसौ बाल्ये धनुर्वेदपरस्ततोऽभूत् ।
महाबलः पञ्चशराभिरामो दिने दिने यौवनमाततान ॥ ३३ ॥
गान्धर्वविद्यासु महाप्रवीणो वीणामृदङ्गादिषु तालदक्षः ।
तथापि नित्यं नृपतिर्गणिभ्यो ददाति भूरि द्रविणं महेच्छः॥३४॥
मल्लैरनेकैः कृतमुष्टियुद्धपहारसंहारविचेष्टितैश्च ।
खड्गप्रहारोत्पतनप्रकारं गुरोः सकाशादधिगम्य सद्यः ॥ ३५ ॥
शरैरनेकैनिजवैरिवंशं विपाटयामास युवा सहासम् ।
अन्थिप्रहारैः सकलं निरीक्ष्य लक्षीकृतं चारुविशालवक्षाः ॥ ३६॥
वीणारसं केवलमेष एवं जानाति विख्यातविलासहासः ।
ume
यत्सभायां वाराङ्गनाः-
संगीतविद्यानिपुणाः सदैव नृत्यन्ति गायन्ति सुवर्णवर्णाः ।
वाराङ्गनाश्चन्दनकुङ्कुमाढ्याः सुभाषितं कामकलाप्रवीणाः ॥ ३८ ॥
प्रफुल्लपढेरुहपत्रनेत्रा मृदङ्गवाद्यादिभिरभ्युपेताः ।
यदक्षिपातेन मनो मुनीनां सद्यो नवं चञ्चलतामुपैति ॥ ३९ ॥
सुदर्शनचम्पूकाव्यम् ।
ता एव गायन्ति विलासवत्यः स्वभावतः कोकिलकण्ठनादैः ।
पदप्रहारैरिव कामदेवं विबोधयामासुरधीतविद्याः ॥ ४०॥
एतादृशी यद्यथ दृश्यते न संश्रूयते किं तु विदूरतोऽपि ।
नेत्रं नभोमण्डलमेव नैव जातं यदा किं चरितं विधातुः ॥ ४१ ॥
ब्राह्म मुहूर्ते किल सावधानो गुरोः पदाम्भोरुहचिन्तनाय ।
सरोरुहाक्षोऽतिविनीतनिद्रो मनो ददौ पूर्णमनोरथश्रीः ॥ ४२ ॥
ततः परं स्मृत्यनुसारतोऽसौ धर्मार्थकामानतिदुर्लभांश्च ।
स चिन्तयामास वरप्रकारैः कुलोचितैः सर्वजनप्रतिष्ठैः ॥ ४३ ॥
ततः समुत्थाय महासुशीलः स्नानादिकं साङ्गमतो विधायं ।
शुक्लद्विवासाः कृतचन्दनादिक्रियानुलेपः कृतभूतशुद्धिः ॥ ४४ ॥
देवोपमो देवगृहं गतोऽसौ सुदर्शनो नाम नृपावतंसः ।
कालेयकाद्यैरतिसुप्रसिद्धैः सुगन्धिभिः पूजनमाचकार ॥ ४५ ॥
दशोपचारैः खलु षोडशेन पञ्चोपचारेण च पञ्चदेवान् ।
स पूजयित्वातिविशुद्धचेता नित्यं च कर्मापि तथाकरोत्सः
नित्यं च दानं कुरुते नृपोऽसौ सुवर्णरत्नादिकमप्रमेयम् ।
द्विजेभ्य एव प्रतिपादयित्वा योगालयं दिव्यमुपागतोऽसौ ॥ १७ ॥
दिव्यासनस्थोऽतिविशुद्धचित्तो वायुं समाकर्षति योगयुक्तः ।
शनैः शनैरुच्छ्रसितासनोऽसौ योगीश्वरो योगविशारदश्च ॥ १८ ॥
ततो लघूकृत्य वपुः स्वकीयमाकाशसंस्थं विधिवच्चकार ।
ततो गुरूकृत्य सुनिश्चलोऽसौ गुरोः प्रसादागिरिवञ्चकार ॥ ४९ ॥
एवंविधैर्योगवरैः प्रसिद्धैर्युवा यदूनां नयनाभिरामः ।
संसारसौख्याय गृहस्थितोऽपि योगीश्वरोऽसौ नृपतिर्विभाति ।। ५०॥
मुक्त्यथेर्मकः श्रुतिभिः प्रसिद्धः सर्वस्य शास्त्रस्य हि योगमाहुः ।
उक्तस्ततः सर्वगुणानुपेता जनाः समाश्रित्य तरन्ति पारम् ॥५१॥
काव्यमाला।
अहोऽनुकम्पा वसतो जगत्यां महीपतिवीरसुदर्शनोऽसौ ।
योगीश्वरोऽयं समधीतविद्यो ददाति वित्तं भुवि याचकेभ्यः ॥५२॥
यस्य सभायां पण्डिताः-
प्रमेयसिद्धान्तपदार्थवार्ता विचारयन्तः कथयन्ति सारम् ।
समस्तलोकेप्वतिदुर्लभं च ते पण्डिता यस्य गृहे वसन्ति ॥ ५३ ॥
कवयश्व-
सुधास्यन्दसंदोहसंदेहकारि क्वचित्काव्यमव्याक्षरं नर्तयन्ति ।
क्वचिद्गीतसंगीतविद्यानवद्याः क्वचिद्दण्डनीति विनीता वदन्ति ॥५४॥
क्वचिल्लोलरोलम्बमाताकुलाङ्गान्मतङ्गानहो देहि देहीति वाचः ।
क्वचिद्वाजिराजीरिति स्पष्टवाचां विवर्तुं मुदा सर्वदा नर्तयन्ति ॥५५॥
ज्योतिषिकाश्च-
भविष्यदर्थ सततं युवन्ति मध्येसभं वीरसुदर्शनस्य ।
ज्योतिर्विदः सर्वगुणानुपेताः खवृत्तिमन्तो नृपतेः प्रसादात् ॥५६॥
वैद्याश्च-
अधीतविद्या निपुणाः सदैव दृष्ट्या वदन्ति प्रतिपन्नरोगान् ।
निदानतो रोगपरीक्षया च चिकित्सया सर्वजनोपचारान् ॥ ५७ ॥
wwwmama
मल्लाश्च-
मनागनायासरसेन येन चूर्णीकृतः प्रस्तर एव सद्यः ।
स तादृशो मल्लवरः सभायां विराजते वीरसुदर्शनस्य ॥ ५८ ॥
नटाश्च-
संमोहयन्तो निजनर्तनेन समस्तलोकानपि पण्डितांश्च ।
नानाविधं वेषधरं वहन्ति रसेषु सर्वेषु विपश्चितश्च ॥ ५९ ॥
सुदर्शनचम्पूकाव्यम् । शैलूषकाश्च- वंशं समारोहति निर्विशङ्कमधः पतत्यूर्ध्वत एव सद्यः । तथैव तिष्ठत्यपि वंशमूले कुत्रापि नाघातकथाप्रसङ्गः ॥६० ॥ नटी च- तथा तथा गायति चन्द्रकान्तमुखं वहन्ती मधुरवरेण । यथा यथा श्रोत्रगतेन सद्यो मोहं समायान्ति नहर्षयोऽपि ॥ ११॥ बन्दिनश्च- प्रभातकाले सततं पठन्ति सत्काव्यमुच्चैःस्वरमाश्रिताश्च । सहन्दिनो वीरजनस्य चित्तं युद्धाय बद्धादरतां नयन्ति ॥ ६२ ॥ समस्तधरणीपालप्रसिद्धवरकार्मुकः । प्रतिष्ठापूरकः पूरैः पूरयन्निव सर्वतः ॥ ६३ ॥ एकदा स एव सुदर्शनो महाराजो मृगयाव्याजेन वैरिग्रामासन्नो बभूव । श्रीमद्वीरसुदर्शनं सुविदितं युद्धाय बद्धादरं मत्वा दारुणसानुमाश्रितवती व्यालोलचैलाञ्चला । नेत्रोत्पन्ननवीननीरकणिकाव्याजेन नम्रानना दत्ते वैरिविलासिनी प्रतिदिनं मुक्ताफलानां तुलाः ॥ ६४ ॥ ततोऽतिदूरं यमुनानिकुञ्जमाखेटकार्थ नृपतिः प्रतस्थे । विलासिनीभिर्वरसैनिकैश्च करेणुकारोहणतत्पराभिः ।। ६५ ।। मातङ्गमालोपरिसंस्थितेन ध्वजेन चामीकरचिह्नितेन । वाताभिघातैरतिसुन्दरेण स शोभमानो मृगयां जगाम ॥ ६६ ।। इतस्ततो हस्तिकराभिधातनिपातसंजातमहाध्वनीनाम् । मार्गस्थितानां विबुधद्रुमाणां पतिक्रमः केवलमारराज ॥ ६७ ।।
काव्यमाला।
गलन्मदाः केचिदमी मतङ्गा विदूरतः सैनिकतः प्रयान्ति ।
दन्ताहतानेकविशालवृक्षशाखासमालंकृतभूमिभागाः ॥ ६८ ॥
गच्छन्ति गर्जन्ति सहस्रशोऽस्य धावन्ति सर्वत्र विना विचारम् ।
दन्तैः समुत्पाट्य तरं समग्रं शुण्डाभिघाताहतमेघमालाः ॥ ६९ ॥
महागजाः प्रौढकृतप्रहारा विशृङ्खला भीमतरा बभूवुः ।
धूलीभिरासादितभूषणाङ्गा दन्ताभिघाताहतपर्वताश्च ॥ ७० ॥
महीभुजो वीरसुदर्शनस्य समस्तराजन्यपवित्रकीर्तेः ।
सर्वाणि कार्याणि समस्तकालं विशोभमानानि गुरोः प्रसादात् ॥७१॥
लक्षं हया यस्य गृहे वसन्ति कथं स वाच्यो लघुभिर्वचोभिः ।
कशाभिघातो न कदापि तेषामङ्गे गिरेर्लङ्घनशङ्कयैव ॥ ७२ ॥
विराजते चञ्चलवाजिराजी सुवर्णमाला मणिभूषिताश्च ।
विशुद्धहेमासनपृष्ठलमवलूप्रचारोच्छ्रितकन्धराश्च ॥ ७३ ॥
महाजवा हखविशुद्धकर्णा मृगानुगाः पक्षधरा इवोाम् ।
वाहा विशिष्टाः कृतचारुचेष्टाः सदश्ववाहैरभिशिक्षिताश्च ॥ ७४ ॥
नृत्यन्ति धावन्ति मनोरथज्ञाः समीरणा एव हि मूर्तिमन्तः ।
वराश्ववाहोर्ध्वकृतोरुबाहुसंभावनालचितकन्दराश्च ॥ ७५ ॥
हयं समारुह्य नृपाधिराजः सुदर्शनोऽयं नकुलावतारः ।
गतागतानेकविधप्रकारविचारसंभारमथाकरोत्सः ॥ ७६ ॥
मृगाननेकान्मृगयासु हत्वा शस्त्रेण चास्त्रेण करस्थितेन ।
स हापयत्येव करस्थितेन श्येनादिना पक्षिवराणि भूयः ॥ ७७ ॥
पुनः प्रतस्थे मृगयानुबन्धी स बन्धुवगैरवाजिसंस्थैः ।
पदातिवगैर्गणनातिरिक्तैरितस्ततः शीघ्रतरप्रयाणैः ॥ ७८ ॥
शार्दूलसंघान्ददृशेऽथ भूप उपत्यकायां यदुवंशवीरः ।
ततो विशङ्कः पुरुषावतंसो जातप्रहर्षः कृतसंनिधानः ॥ ७९ ॥
दृष्टान्तकलिकाशतकम् । दृष्टास्त्वनेका महिषास्तदानीं शृङ्गप्रहाराहतवृक्षसंघाः । सुदर्शनेनाप्रतिमेन तेन महामतङ्गोपमखड्गिनश्च ॥ ८० ॥ तीक्ष्णेन खड्गेन करस्थितेन शरेण चामीकरभूपितेन । सुव्यक्तहासेन विना प्रयासं यथैव दृष्टा निहतास्तथैव ॥ ८१ ॥ यस्तु दुःशासनोऽपि न परस्त्रीवस्त्रापहारकः, यस्तु कृपाचार्योऽपि कृत- राजसेवः, यस्तु कुमारोऽपि न पाण्मातुरः, यस्तु युधिष्ठिरोऽपि न कौन्तेयः, यस्तु धनंजयोऽपि न सोदरापहन्ता, यस्तु भीमसेनोऽप्यकृतान्याययुद्धः, यस्तु पावकोऽपि नाश्रयासः, यस्तु धर्मराजोऽपि नान्तकः, यस्तु प्रचेता अपि न पाशी, यस्तु पुण्यजनोऽपि न दनुजः, यस्तु जगत्प्राणोऽपि नाती- न्द्रियः, यस्तु धनदोऽपि न कुबेरः, यस्तु सकलार्थप्रदोऽपि न दिग- म्बरः, यस्तु प्राचीदिक्पतिरपि न गोत्रभित् , यस्तु गणपतिरपि नैकदन्तः, वेदाकाशमुनीन्दु (१७०४) संमितशके मासे तथा श्रावणे पक्षे वै धवले तिथौ दशमिते वारे गुरौ शोभने । कृष्णानन्दकवीन्द्रनिर्मितमहाचम्पूरियं पूर्यतां कामं वीरसुदर्शनस्य नृपतेर्विश्वस्य विद्याजुषः ॥ इति श्रीकृष्णानन्दकवीन्द्रविरचिता सुदर्शनचम्पू: समाप्ता । श्रीकुसुमदेवविरचितं दृष्टान्तकलिकाशतकम्। शिवस्मरणमेवैकं संसारान्तकनाशनम् । घनौघो घोरदावाग्निनिर्वापणपटुर्भवेत् ॥ १ ॥ १. अयं अन्य एतावानेव संप्राप्तोऽस्यामिः.
काव्यमाला।
साधुरेव प्रवीणः स्यात्सद्गुणामृतवर्णने ।
नवचूताङ्कुरास्वादकुशलः कोकिलः किल ॥२॥
दुर्जनो दूषयत्येव सतां गुणगणं क्षणात् ।
मलिनीकुरुते धूमः सर्वथा विमलाम्बरम् ॥ ३ ॥
यथा दोषो विभात्यस्य जनस्य न तथा गुणः ।
प्रायः कलङ्क एवे दोः प्रस्फुटो न प्रसन्नता ॥ ४ ॥
विवेक एव व्यसनं पुंसां क्षपयितुं क्षमः ।
अपतु समर्थोऽसौ रविरेव निशातमः ॥ ५ ॥
प्रायः सन्त्युपदेशारे धीमन्तो न जडाशयाः ।
तिलाः कुसुमसागन्ध्यवाहिनो न यवाः क्वचित् ॥ ६॥
चिन्त्यते नय एवादावमन्दं समुपेप्सुभिः ।
विनम्य पूर्व सिंहोऽपि हन्ति हस्तिनमोजसा ॥ ७ ॥
संस्थितस्य गुणोत्कर्षः प्रायः प्रस्फुरति स्फुटम् ।
दग्धस्यागरुखण्डस्य स्फारीभवति सौरभम् ॥ ८॥
मनखिहृदयं धत्ते रोषेणैव प्रसन्नताम् ।
भस्मना ज्वलदङ्गारः प्रसादं लभतेतराम् ॥ ९॥
उत्तमः क्लेशविक्षोभ क्षमः सोढु नहीतरः ।
मणिरेव महाशाणघर्षणं न तु मृत्कणः ॥ १० ॥
खजातीयं विना वैरी न जय्यः स्यात्कदाचन ।
विना वज्रमणिं मुक्तामणिर्भेद्यः कथं भवेत् ॥ ११ ॥
सज्जना एवं साधूनां प्रथयन्ति गुणोत्करम् ।
पुष्पाणां सौरभं प्रायस्तनुते दिक्षु मारुतः ॥ १२ ॥
उपकतु यथा खल्पः समर्थो न तथा महान् ।
प्रायः कूपस्तृषां हन्ति सततं न तु वारिधिः ॥ १३ ॥
दृष्टान्तकलिकाशतकम् ।
सति शीले गुणा भान्ति पुंसां शौर्यादयो यथा ।
यौवने सदलंकाराः शोभां बिभ्रति सुभ्रवः ॥ १४ ॥
जडः प्रभवति प्रायो दुःख विभ्रति साधवः ।
शीतांशावुदिते पद्म संकोचं याति वारिणि ॥ १५ ॥
गुणेन स्पृहणीयः स्यान्न रूपेण युतो नरः ।
सौगन्थ्यहीनं नादेयं पुष्पं कान्तमपि क्वचित् ॥ १६ ॥
कश्चित्कस्यचिदेव स्यात्सुहृद्विश्रम्भभाजनम् ।
पद्मं विकासयत्यकः संकोचयति कैरवम् ॥ १७ ॥
ईश्वराः पिशुनाशश्वत्पुष्णन्तीति किमद्भुतम् ।
प्रायो निधय एवाहीन्द्विजिह्वान्दधतेतराम् ॥ १८ ॥
संपद्यास्ते परैः साकं विपदि खजनैर्जडः ।
जृम्भतेऽम्भोरुहं भृङ्गैः शुष्यत्युदकशैवलैः ॥ १९ ॥
नीचाचमानमलिनां यो भुङ्क्ते संपदं पुमान् ।
लशुनाक्तां स कर्पूरचर्चा वितनुते तनौ ॥ २० ॥
व्यसनानन्तरं सौख्यं हल्पमप्यधिकं भवेत् ।
काषायरसमाखाद्य खाद्वतीवाम्बु विद्यते ॥ २१ ॥
गुणानामन्तरं प्रायस्तज्ज्ञो जानाति नेतरः ।
मालतीमल्लिकामोदं घ्राणं वेत्ति न लोचनम् ॥ २२ ।।
प्रभूतवयसः पुंसो धियः पाकः प्रवर्तते ।
जीर्णस्य चन्दनतरोरामोद उपजायते ॥ २३ ॥
कामाय स्पृह्यत्यात्मा संयतोऽपि मनीषिणः ।
वीथीनियमितोऽप्युक्षा शष्पमासाद्य धावति ॥ २४ ॥
धनागमेऽधिकं पुंसां लोभमभ्येति मानसम्
निदाघकाले प्रालेयः प्रायः शैत्यं वहत्यलम् ॥ २५ ॥
काव्यमाला।
सहजोऽपि गुणः पुंसां साधुवादेन वर्धते ।
कामं सुरसलेपेन कान्ति वहति काञ्चनम् ॥ २६ ॥
निन्दां यः कुरुते साधोस्तथा खं दूषयत्यसौ ।
खे भूतिं यः क्षिपेदुच्चैमूनि तस्यैव सा पतेत् ।। २७ ।।
खभावं नैव मुञ्चन्ति सन्तः संसर्गतोऽसताम् ।
न त्यजन्ति रुतं मङ्गु काकसंपर्कतः पिकाः ॥ २८ ॥
संपत्तौ कर्कशं चित्तं खलस्यापदि कोमलम् ।
शीतलं कठिनं प्रायस्तप्तं मृदु भवत्ययः ॥ २९ ।।
प्रायः प्रकुप्यतितरां प्रीत्यैव प्रखरो जनः ।
नयनं स्नेहसंपर्कात्कालुष्यं समुपैत्यलम् ॥ ३०॥
शुभं वाप्यशुभं कर्म फलकालमपेक्षते ।
शरद्येव फलत्याशु शालिन सुरभौ क्वचित् ॥ ३१ ॥
भोगेच्छा नोपभोगेन भोगिनां जातु शाम्यति ।
लवणेनान्तरालेन तृष्णा प्रत्युपजायते ॥ ३२ ॥
दुर्लभोऽप्युत्तमः प्रायः खजातीयेन लभ्यते ।
कर्णकोटरगं वारि वारिणैवावकृष्यते ॥ ३३ ॥
जन्तोनिरुपभोगस्य दृश्यते भुवि रूक्षिता।
वाताशिनो द्विजिह्वत्वं विहितं पश्य वेधसा ॥ ३४ ॥
ऊर्जितं सज्जनं दृष्ट्वा द्वेष्टि नीचः पुनः पुनः ।
कवलीकुरुते खस्थं विधुं दिवि विधुंतुदः ॥ ३५ ॥
न लभन्ते विनोद्योगं जन्तवः संपदां पदम् ।
सुराः क्षीरोदविक्षोभमनुभूयामृतं पपुः ॥ ३६ ॥
संयतं कोमलं चित्तं साधोरापदि कर्कशम् ।
सुकुमारं मधौ पत्रं तरोः स्यात्कठिनं शुचौ ॥ ३७ ॥
८१ दृष्टान्तकलिकाशतकम् । आकरः कारणं जन्तोःर्जन्यस्य न जायते । कालकूटः सुधासिन्धोः प्राणिनां प्राणहारकः ॥ ३८ ॥ गुणदोषाववाप्येते पुंसां संशीलना धैः । लेभे पीयूषगरले मन्थनादम्बुधेः सुरैः ॥ ३९ ॥ खभावं न जहात्येव साधुरापगतोऽपि सन् । कर्पूरं पावकस्पृष्टं सौरभ लभतेतराम् ॥ ४० ॥ न व्याप्तिरेषा गुणिनो गुणवाञ्जायते ध्रुवम् । चन्दनोऽनलसंदग्धो न भस्म सुरभि कचित् ॥४१॥ अप्यापत्समयः साधोः प्रयाति श्लाघनीयताम् । विधोर्विधुतुदास्कन्दविपत्कालोऽपि सुन्दरः ॥ १२ ॥ विना परीक्षा नो तस्त्वं प्रसिद्धं जायते सतः । खधर्मबन्धानो शुद्धिर्जायते कर्षणं बिना ॥ १३ ॥ प्राप्य वित्तं जडास्तूर्ण निवृति यान्ति नान्यथा । तोयमासाद्य गर्जन्ति न रिकाः स्तनयित्नवः ॥ १४ ॥ कार्यापेक्षो जनः प्रायः श्रीतिमाविष्करोत्यलम् । लोभार्थी शौण्डिकः शष्पैर्मेष पुष्णाति पेशलैः ॥ ४५ ॥ दुर्जनो जीयते युक्त्या निग्रहेण न धीमता । निपात्यते महावृक्षस्तत्समीपक्षितिक्षयात् ॥ १६ ॥ सुखदुःखे समे स्यातां जन्तूनां कैशहेतुके । मार्क स्थितानां केशानां भवेतां खेहछेदने ॥ ४७ ॥ दुष्टदुर्जनदौरात्म्यैः सजने रज्यते जनः । आरुडा पर्वतं पान्थः सानौ निवृतिमल्यालम् ॥ १८ ॥ खभावसुन्दरं वस्तु न संस्कारमयेक्षते । मुक्तारलस्य शाणाश्मघर्षणं नोपयुज्यते ॥ १९ ॥ ६ चतुर्दशगु०
म
८२
काव्यमाला।
शोभते विदुषां मध्ये नैव निर्गुणमानसः ।
अन्तरे तमसां दीपः शोभते नातेजसाम् ॥ ५० ॥
युक्त्या परोक्षं बाधेत विपक्षक्षपणक्षमः ।
शोषयत्यचिरेणैव प्रान्तरस्थमलं पयः ॥ ५१ ॥
दुर्गदेशं प्रविष्टो हि शूरोऽभ्येति पराभवम् ।
गाढपङ्कनिमग्नाङ्गो मातङ्गोऽप्यवसीदति ॥ ५२ ॥
नयेनाङ्कुरितं शौर्य जयाय न तु केवलम् ।
अन्ययुक्तं विषं भुक्तं पथ्यं स्यादन्यथा मृतिः ।। ५३ ॥
मृदुभिर्बहुभिः शूरः पुंभिरेको न बाध्यते ।
कपोतपोतकैरेकः श्येनो जातु न बाध्यते ॥ ५४ ॥
येनात्मा पप्यतां नीतः स एवान्विष्यते जनैः ।
हस्ती हेमसहस्रेण क्रीयते न मृगाधिपः ॥ ५ ॥
गुणो गुणान्तरापेक्षी खरूपख्यातिहेतवे ।
खभावबाल्यं लावण्यं तारुण्येन मनोहरम् ॥ ५६ ।।
सुलभं वस्तु सर्वस्य न यात्यादरणीयताम् ।
खदारपरिहारेण परदारार्थिनो जनाः ॥ ५७ ।।
विकृतं निजमात्मानं वस्त्रैः संस्कुरुते जडः ।
परेभ्यः स्वशरीरस्य के वा भूषां वितन्वते ॥ ५८ ॥
क्षणक्षयिणि सापाये भोगे रजन्ति नोत्तमाः ।
संत्यज्याम्भोजकिञ्जल्कं न प्रार्थयति शैवलम् ॥ ५९॥
असंभवगुणस्तुत्या जायते खात्मनस्त्रपा ।
कर्णिकार सुगन्धीति वदन्केनोपहस्यते ॥ ६० ॥
धनाशया खलीकारः कस्य नाम न जायते ।
दूरादामिषलोमेन बध्यत्ने खेचरः खयः ॥ ६१ ॥
दृष्टान्तकलिकाशतकम् ।
तटस्थैः स्थापिताश्वेतो विशन्ति गुणिनां गुणाः ।
उत्कोचितानां पद्मानां गन्धो वायुभिराहृतः ॥ ६२ ॥
निजाशयवदाभाति पुंसां चित्ते पराशयः ।
प्रतिमा मुखचन्द्राभे कृपाणे याति दीर्घताम् ॥ ६३ ॥
अधमं बाधते भूयो दुःखवेगो न तूत्तमम् ।
पादद्वयं व्रजत्याशु शीतस्पर्शो न चक्षुषी ॥ ६४ ॥
गुणवान्सुचिरस्थायी न देवोऽप्यभिजायते ।
तिष्ठत्येकां निशां चन्द्रः श्रीमान्संपूर्णमण्डलः ॥ ६५ ॥
यत एवागतो दोषस्तत एव निवर्तते।
अमिदग्धस्य विस्फोटशान्तिः स्यादमिना ध्रुवम् ॥ ६६ ॥
खधियो निश्चयो नास्ति यस्य संभ्रमते खयम् ।
प्रवातवालपत्रस्थः पटस्तत्र निदर्शनम् ॥ ६७ ॥
कथाप्रबन्धे वन्ध्येऽपि कश्चिदेवानुरञ्जते ।
प्रायश्वासादयत्यन्तः श्वसन्निसकैकसम्(१) ॥ ६८ ॥
बुद्धिमत्ताभिमानः को भवेत्प्रज्ञोपजीविनाम् ।
अन्यदीयैरलंकारैर्नाहंकारो विभूषणे ॥ ६९ ॥
उत्तमोऽप्यधमस्य स्याद्याच्ञानम्रकरः कचित् ।
कौस्तुभादीनि रत्नानि ययाचे हरिरम्बुधिम् ॥ ७० ॥
प्रयत्ने समके केचिदेव स्युः फलभागिनः ।
क्षीरोदमथनाद्देवैरमृतं प्रापि नासुरैः ॥ ७१ ॥
गुणैः पूजा भवेत्युंसां नैकस्माज्जायते कुलात् ।
चूडारनं शशी शंभीर्यानमुच्चैःश्रवा हरेः ॥ ७२ ॥
भोगः परोपतापेन पुंसां दुःखाय न स्थिरः ।
पानमप्यसृजः क्षिप्रं खपीडायै जलौकसाम् ॥ ७३ ॥
नोपभोगपरागकोऽपि संचिनुते चिरम् ।
आखवः किमलकारानामन्याहत्य कुर्वते ।। ७४ ॥
विवर्णवचनैर्मन्युगूढोऽप्यन्तः प्रकाशते ।
इन्धनान्तरसंवैध ज्वलत्यग्निः पयःकौः ॥ ७५ ॥
निकटस्थं गरीयांसमपि लोको न मन्यते।
पवित्रामपि यम्मान नमस्यन्ति जाहवीम् ।। ७६ ॥
खजनः खात्मवाजम्युक्तेि गुणवान्परैः ।
गोपगोपवदनावि हरिदेवैर्जगल्पतिः ॥ ७७ ॥
उत्तमस्तोषमायाति तदङ्गः पोष्यते यदि।
वृक्षः प्रसीदति प्रायः पादाभ्यन न खवम् ॥ ७८॥
सर्वत्र गुणवानेव चारित प्रथिते नरे।
मणिमूर्षि गले बाही पादपीठेऽपि शोभते ॥ ७९ ॥
उत्तम सुचिरं नैक विषदोऽी भवन्त्वलम् ।
राहुपासनसंस्ताक्षम्यो विच्छादयेद्रिधुम् ॥ ८ ॥
प्रायः खभावं मुन्ति सन्तः संसर्गलोऽसताए ।
चण्डाश्चण्डातपात्पादा हिमांशोस्मृनसृजः ॥ ८१ ॥
तुल्यं परोपत्तापित्यं क्रुद्धयोः साधुनीचयोः ।
न दाहे ज्वललार्भेदश्चन्दनेन्धनयोः कचित् ।। ८२ ॥
न भाति वाञ्छा वैजात्ये न देवा भान्ति वादिनि ।
अञ्जनं दूषणं बक्के भूषमं किल लोचने ॥ ८३ ।।
दुर्भगः स्यात्मकृत्वा यो विभूत्यापि स सदृशः।
गोमः श्रीनिवासोऽस्ति न तथाति मनोहरुम् ॥ ८४ ॥
गुणानर्चन्ति जन्तूनां न जाति केवलां क्वचित् ।
स्फाटिके राजने मन काकिण्याणि न गृह्यते ॥ ८५ ॥
दृष्टान्तकलिकाशतकम् । आगच्छदुत्सवो भाति यथैव न तथा गतः । हिमांशोरुदयः सायं चकास्ति न तथोषसि ॥८६॥ मनखिनो न मान्यन्ते परतः प्राप्य जीवनम् । बलिभुग्भ्यो न काकेभ्यः स्पृहयन्ति हि कोकिलाः ॥ ८७ ॥ संतोषक्षतये पुंसामाकस्सिकधनागमः । सरसां सेतुभेदाय वर्षोंधः सूचनस्थितः ।। ८८ ॥ जीयते भूगतोऽप्यात्मा कालेनात्मापि स्वर्गतः। भवेत्स्मशानमुद्यानमुद्यानं च स्मशानभम् ॥ ८९ ॥ उच्चशेखरगं वस्तु शुभं स्यात्सुखकारणम् । उपशामयते बाधं यथैवामृतसंस्कृतम् ॥ ९॥ संतुष्यत्युत्तमः स्तुत्या धनेन महताधमः । प्रसीदन्ति जपैर्देवा बलिभिर्भूतविग्रहाः ॥ ९१ ॥ खजातीयविधाताय माहात्म्यं दृश्यते नृणाम् । श्येनो विहङ्गमानेव हिनस्ति न भुजङ्गमान् ॥ ९२ ॥ गुरुं प्रयोजनोदेशादर्चयन्ति न भक्तितः । दुग्धदात्रीति गौ हे पोष्यते न तु धर्मतः ॥ ९३ ॥ महतां तादृशं तेजो यत्र शाम्यन्त्यनौजसः । अस्तं यान्ति प्रकाशेन तारका हि विवस्वतः ॥ ९४ ॥ दाता दानस्यान्तरा स्थापृथिव्यां गेहे गेहे याचकानां समूहाः । चिन्तारत्नस्यास्ति सत्वे विवादो मार्गे मार्गे रेणवः सन्त्यसंख्याः ॥१५॥ चारुता अपवशेन पदार्थे धैर्येण तदनु वादिगुणत्वाव(।)। वेणुगो भवति मञ्जरसो.""यन्त्रगो हि सुखदः कृतशब्दः() ॥९॥ नराः संस्काराहा जगति किल केचित्सुकृतिनः समानायां जात्यामपि बयसि सत्यां परिषयः ।
८६ काव्यमाला। अयं दृष्टान्तोऽत्र स्फुटकरणतोऽप्यभ्यसनतः शुकः श्लोकान्वक्तुं प्रभवति न काकः क्वचिदपि ॥ ९७ ॥ धनमपि परदत्तं दुःखमौचित्यभाजां भवति हदि तदेवानन्दकारीतरेषाम् । मलयजरसबिन्दुर्वर्धते न प्रसन्नं नयति च रसवाहादेवमत्यन्तमत्र ॥ ९८ ।। कालक्रमेण परिणामवशादनव्या भावा भवन्ति खलु पूर्वमतीव तुच्छाः । मुक्तामणिर्जलदतोयकणोऽप्यणीया- संपद्यते च चिरकीचकरन्ध्रमध्ये ॥ ९९ ।। इयं कुसुमदेवेन कविनैकेन निर्मिता । दृष्टान्तकलिका नाम जृम्भतां कविमानसे ॥ १०० ॥ इति श्रीकुसुमदेवविरचितं दृष्टान्तकलिकाशतकं समाप्तम् । श्रीकामराजदीक्षितविरचिता शृङ्गारकलिकात्रिशती। लक्ष्मीविहृतविलासावलोकितानन्दितखान्तः । पश्यति गुरौ विधातरि लज्जानतकन्धरो हरिर्जयति ॥ १॥ प्रतिपादयति समुद्रे लक्ष्मीमन्तःपटे धृते गुरुबुधाभ्याम् । तद्वदनदर्शनोत्कः प्रपदालम्बी हरिर्जयति ॥ २ ॥ १. श्रीकामराजदीक्षितोऽयमक्षरगुम्फार्यात्रिशत्योः कर्तुः श्रीसामराजदीक्षितस्या सुत आसीत् । कामराजदीक्षितकृतौ द्वावेव ग्रन्थावुपलभ्यते (१) शृङ्गारकलिका- त्रिशतीनामको मुक्तकग्रन्थः, (२) काव्येन्दुप्रकाशाख्योऽलंकारप्रन्थश्चेति.
शृङ्गारकलिकात्रिशती।
देवः स पातु दितिजनिनायकनिधनैधिताधिकक्रोधः ।
लक्ष्मीवदनसुधाकरदर्शनसंजातसौम्यसद्भावः ॥ ३ ॥
योगान्तरं न योगे सत्येकस्मिन्भवति शशिशीर्षे ।
कृतपद्मासनरचने जयति(तरां) स्तब्धचरणार्या(?) ॥ ४ ॥
नामीकमलनिवासश्चतुर्मुखश्चिन्तया मुग्धः ।
पुरुषायिते रमायाः संमीलितलोचनो विधिर्जयति ॥ ५॥
क्षीराम्बुधौ मुकुन्दं स्थितं समालोक्य शेषशय्यायाम् ।
तद्दक्षिणाक्षिमीलनलग्नकरा सा जयति लक्ष्मीः ॥ ६॥
लक्ष्मीपाणिच्छन्ने दक्षिणनयने मुरारातेः ।
आनन्दितः कुटुम्बी जयति विधि भिवास्तव्यः ॥ ७ ॥
लक्ष्मीमुखमालोकति भगवति सेा वचोदेवी ।
ननु वदनान्निजवीणाकणनमिषाजयति हुंकृति ददती ॥ ८ ॥
वाल्मीकप्रभृतीनां चरणयुगं संततं हृदि भजामि ।
यद्वशतः पदबन्धे सामर्थ्य जायतेऽस्मदादीनाम् ॥ ९ ॥
हृदि भावयामि सततं तातं श्रीसामराजमहम् ।
यत्कृतमक्षरगुम्फ कवयः कण्ठेषु हारमिव दधते ॥ १० ॥
संपादितसुरसार्थव्यञ्जनपदबन्धदृष्टसद्भावम् ।
वाचस्पतिमिव काव्यं विबुधाः पश्यन्तु विनयमुखाः ॥ ११ ॥
उद्धृतदोषा सगुणा युक्तैकावलिमुखैरलंकारैः ।
सरसा सुवृत्तवर्णा कविता वनितेव मानसं हरति ॥ १२ ॥
सुजनः करोतु हृदये कृतिमेतां ब्राह्मणो यथा वेदम् ।
यदि दुर्जनोऽन्त्यज इव त्यजति तदा कैव हानिरस्माकम् ॥ १३ ।।
मुग्धामिव युवलोकाः सरसां शृङ्गारकलिकाख्याम् ।
कमलकलिकामिवालय एनां रसयन्तु रसिकजनाः ॥ १४ ॥
८८ काव्यमाला। श्रीसामराजजन्मा तनुते श्रीकामराजकविः । मुक्तककाव्यं विदुषां प्रीत्यै शृङ्गारकलिकाख्यम् ॥ १५ ॥ असमशरबाणवेधव्यथिताङ्गी मीननयना सा । स्मृतदयितसंगमसुखश्लथनीवी जीवितं धत्ते ॥ १६ ॥ अपयास्यति पञ्चशरः षष्ठेऽहनि किं करिष्यति ममाथम् । इत्यालम्बितधैर्या मर्यादा नातिचक्राम ।। १७ ॥ अवधिं विधाय तरसा दिनपञ्चकमञ्चितं सुभ्रूः । पिकनिकरश्रुतपञ्चमशब्दा पञ्चत्वमायेदे ॥ १८ ॥ अक्षयूते विरचितसुरतपणे प्रेयसि प्रसभम् । आलोक्य सखीवदनं साचिमुखी प्राहसद्वाला ॥ १९ ॥ अतिकठिनं कृष्णमुखं स्तनयुगलं भाति जलजाक्ष्याः । शृङ्गारपूर्णकलशद्वयमिव मदनस्य मुद्राङ्कम् ॥ २० ॥ अतिशयितप्रीतिजुषोरकलितचिवकं नताधरं यूनोः । श्रुतशब्दमात्रमहृताधररागं चुम्बनं जयति ।। २१ ॥ अवतार्य भूषणचयं यावत्वातुं समेति हरिणाक्षी। तावत्क्षुतवति मयि सा पुनर्दधौ नासिकाभरणम् ॥ २२ ॥ आगामिनि बुधवारे भविता सखि मङ्गलो वारः । श्रुत्वा चकितेऽन्यजने खयमादित सा कदम्बसौभाग्यम् ॥ २३ ॥ आश्लेषलालसे सति दयिते बाहू रसात्प्रसारयति । नैजाङ्गुलित्रयमियं नतानना दर्शयामास ॥ २४ ॥ १. कामराजदीक्षितसुतेन व्रजराजदीक्षितेन रचिता, (१) रसिकरजनम्, (२) वलमाख्या नाटिका, (३) झारशतकम्, (४) षड्तुवर्णन चैति अन्यचतु- Esta (The odor Aufrechts Catalogus catalogorum).
शृङ्गारकलिकात्रिशती।
इयदेव मानिनीनां संमाननमानतानने भाति ।
यभूलिधूसरालककलिक एष ते प्रियः पुरतः ॥ २५ ॥
इङ्गितमेव मनोगतमस्याः स्फुटमातनोत्यभिप्रायम् ।
यदनिशमेषा बाला वातायनसंश्रिता भवति ॥ २६ ॥
ईप्सितमस्याः कः किल वेद यदेषालिमध्येऽध्वम् ।
रोषकषायितसालसनयना सहसा स्थिरीभूता॥ २७ ॥
ईदृशमेव तवेदं रूपं द्रष्टुं मदीयनयनयुगम् ।
धृतजन्म जन्मभाजां नवं नवं प्रीतिमावहति ॥ २८ ॥
ईश्वर एव जगत्यां शृङ्गाररसीयसारवेत्तास्ति ।
यः सर्वदार्धनारीभूतशरीरो वियोगभीत्येव ।। २९ ।।
उद्गतकुचां नवोढां वीक्ष्य तथा परिचचारार्थी
भर्तुः प्रसादमनिशं प्राप यथा सा त्रियामार्धम् ॥ ३० ॥
उन्नमितकर्णयुगलं किमु धावसि गानलोभेन ।
गन्धवहपूरितान्तरकीचकशब्दोऽयमुल्लसति ॥ ३१ ॥
उद्भिन्नस्तनमुकुलां प्रतिवेशिवधूं विलोक्य युषा ।
क्रीडति जम्बीरयुगं निजमधरं दशति साकूतम् ॥ ३२ ॥
ऊर्ध्वजुस्थितमर्धासनोपविनिबेशितैककरम् ।
ऊर्ध्वमुखमूर्धितैकतनमस्या लीलया दृषत्क्षेपः ॥ ३३ ॥
ऋद्धिं परस्य वीक्ष्य प्रतिवेश्मा मोदमावहति ।
सत्यपि विभवे गृहिणी भूषासु मनो न संपत्ते ॥ ३४ ॥
ऋजुरबला पतिमूचे मन्मातृगृहादयं प्राप्तः ।
उपचार्यतामितीत्थं गोपायत्यसमयागतं जारम् ॥ ३५॥
ऋक्षाणि मौक्तिकानि प्रसारितान्यङ्गणे नभसि ।
चन्द्रेण रागिणा किं पूर्वाशावारवनितायाः ॥ ३६॥
काव्यमाला।
ऋक्ष जनभयवशतो विज्ञाय सकम्बलं जारम् ।
परिषखजे कृशाङ्गी रुदतीमथ जहास हलिकजनः ॥ ३७॥
ऋतुमभिगम्य वसन्ते पालाशं दरविकासकुसुमाग्रम् ।
दर्शयति सस्मितास्या निभृतं कौमारजाराय ॥ ३८ ॥
एतावदेव गुरुजनसमक्षमिन्दीवराक्षी सा ।
निजगाद ग्रहणस्य स्वानं गृह एव दुःखिता तनयाम् ॥ ३९ ॥
एरण्डवीथिकान्तारं गतमीक्ष्य हलिककन्या ।
तृणकर्तनत्वरामिषरगिवने सा तदायासीत् ॥ ४० ॥
एतावतालमित्थं निगदन्ती खिन्नसर्वाङ्गी ।
अवनतमुखी दिनान्ते सखीजनं हासयति सुभ्रूः ॥ ४१ ॥
एतदिदं तत्कुसुमं गृहाण वरवर्णिनीत्युक्ता ।
यूना मिषेण नीता रभसात्कुञ्जोदरं सुतनुः ॥ ४२ ॥
एकक्रमात्प्रवृत्ता दूषणगणनाय तव सुभग सुभ्रूः ।
मयि मौनमञ्चति द्राग्गणनाभ्रंशे सलज्जहासाभूत् ॥ ४३ ॥
ऐक्षवरसं हि मधुरं वदन्ति केचित्परेऽमृतं तु परम् ।
अर्हति न षोडशीमपि कलामवाप्तुं प्रियाधरसुधायाः ॥ ४४ ॥
ऐन्दवमुदेतु बिम्ब निवृत्य यास्यामि नैजगृहम् ।
घनतरतमालवीथीपथेन संकेतमुपयामि ॥ ४५ ॥
ओमिति यत्प्रियदूती जगाद नतकन्धरं कुरङ्गाक्षी ।
प्रणवः स शीलखण्डननिगमारम्भस्य संकथितः ॥ ४६ ॥
ओंकारः स्मरकेलेः खाहाकारो वियोगदुःखानाम् ।
उपगृहनहुंकारस्तस्याः करकङ्कणक्वाणः ॥ १७ ॥
ओकसि पिपीलिकाभिः कृते वसत्यहिपतिः शीघ्रम् ।
किमसंभाव्यममुष्मिञ्जिह्मगतौ च द्विजिह्वे च ॥ १८ ॥
शृङ्गारकलिकात्रिशती।
९१
औपम्यरहितमेतद्वदनं कथमिन्दुसदृशमद्याभूत् ।
इत्यालप्य मृगाक्षी साक्षीभूतं निनिन्द कन्दर्पम् ॥ ४९ ॥
औत्सुक्यादुच्चलितं मानेन पुनः स्थिरीकृतं हृदयम् ।
प्रियसदनं प्रति गन्तुं स्थातुं दोलायितं तस्याः ॥ ५० ॥
औदनमन्यत्रैकं चषकं परिवेषयन्ती सा ।
प्राधुणिकस्य तु पात्रे विहसन्ती द्वितयमर्पयामास ॥ ५१ ।।
अञ्जनमलिनाधरपुटमवेक्ष्य दयितं कुरङ्गाक्षी ।
रोषकषायितनयना तत्संमुखमादधे मुकुरम् ॥ ५२ ।।
अङ्के निवेश्य करकृतं चषकं चुबुक उन्नते तस्याः ।
आकारयति गुरुजनमपि तत्र च हुंकृतिः समं जयति ॥ ५३ ॥
अम्बरमद्भुतमीदृशमेकं मम दीयतां सुभगे।
श्रुत्वेति स्तब्धतनुः स पुनः कार्य विसस्मार ॥ ५४ ॥
अन्तः प्रेमलचित्तां मुग्धामनुकूलयति मयि रसेन ।
श्रवणोत्पलसंसपी जातो मधुकृन्निसृष्टार्थः ॥ ५५ ॥
अः कमलजाकराजस्पर्शसमुद्भूतमनसिजो जयति ।
रत्युत्कण्ठाजागरविकसितनाभीसरोजन्मा ॥ ५६ ।।
कलिका मधुकरपति मदयत्यन्तस्थसौरभापि मालत्याः ।
रत्युत्सुकयोः खञ्जनयूनोः सनिधिर्धरा स्फुटीभवति ॥ ५७ ॥
कामप्रेतावेशग्रस्तः स खलु श्मशानवास्तव्यः ।
अर्धाङ्गे धृतदारो वन्दितचन्द्रः स्मरारिरपि ॥ ५८ ॥
कियदभिगोपयसि त्वं कितव परप्रणयिनीप्राण ।
कस्तूरिकापरिमलः कथमथ शक्यो वरीतुमयम् ।। ५९ ॥
कीर्तनसमये शौरर्वन्दत्सु जनेषु हरिदासम् ।
न चलति पदात्पदमपि पतिता तत्पादयोरार्या ॥ ६० ॥
९२ काव्यमाला॥ कुतुकं विलोकयिष्ये मिषतो दधिविक्रयस्याहम् । संभ्रमविस्मृतकञ्चकपरिधाना पुलककञ्चुकीं दधे ॥ ६१ ॥ कूर्पासकमाश्लेषे काञ्ची नीवीविमोक्षे च । याचितवती नयनयोश्चुम्बनसमये विमुग्धाभूत् ॥ ६२ ॥ केतकरजसा व्यापृतमभवद्यूनोः कपोलतलम् । पाण्डुरितमाननमभूचित्रं नलिनाभनयमायाः ॥ ६३ ॥ कैदारिकेत्र मार्गः किं वामे दक्षिणेऽथवेत्युक्ते । निकटोपवनाध्वानं प्रदर्श्व सा नम्रितास्यासीत् ॥ ६४ ॥ कोपकषायितनयना नयनाञ्चलसत्कृशानुन्ने । पादपतितेऽपि नीवीमाकर्षति सस्मिता सखीमैक्षत् ॥ ६५ ॥ कौतुकदर्शनलालसचित्तेन स्वगृहरक्षणे गुरुजनेन । विनियुक्तापि मृगाक्षी पुलकितवपुरास सा नितराम् ॥ ६६ ॥ कंदर्पाकुलचित्ता गुरुजनपुरतो नवोढा सा । लज्जामन्थरतारकमालोक्य पति निशश्वास ॥ ६७ ॥ कः किल कथ्यः कुतुकं नागेशस्तल्पितो येन । तल्पीकृतोऽद्य सोऽपि ब्रजनार्या मल्लिकाकुळे ॥ ६८ ॥ खर्जुरीरानयितुं नियोजिता बत गतेकाहम् । आरोहणावरोहणसमये मम खण्डितो देहः ॥ ६९ ॥ खाण्डवमधुरिमलुब्धो भाण्डपतद्धारयानुलिप्ताङ्गः । मार्जनमिषेण लमा धिक्कार्या सा विभीषयति लोकम् ॥ ७० ॥ विद्यतु मां गुरुलोकः कथमेनां वार्षिकी यात्राम् । त्यक्तुं समुत्सहेऽहं यत्र स्त्रीपुंससंमर्दः ॥ ७१ ॥ १. 'नयनान्तकृशानुनानुने' इति युकं प्रतिभाति.
शृङ्गारकलिकात्रिशती। खुरघातदलितपृथ्वीरजोभिरभितोऽम्बरे व्याप्ते । पशुभिः सायं यूनोः कयोश्चिदालिङ्गनं जयति ॥ ७२ ।। खेदाय मे भवति तद्गोपायसि यदम्बुजाक्षि महिमानम् । यावकपदाकिता ते कथयति भालस्थली सुकृतम् ॥ ७३ ॥ खञ्जननयने मानं मुञ्च बधान प्रिये प्रीतिम् । प्राप्तैव विजयदशमी यास्यन्ति न वासरा याताः ॥ ७४ ॥ गजमदसुगन्धिशाल्मलितकमालोक्य प्रगे व्याधी। पर्यचरसतिमधिक गुआभूषाकुरूपमपि ॥ ७५ ॥ गायत्रीजपपूतं मम मुखमुच्छिमातेने । प्रातरिति बदति दयिते हसत्सु लोकेषु नमितास्याभूत् ॥ ७६ ॥ गिरिकन्याशंकरयोससे प्रेम नमस्कुर्मः। यत्र कटाक्षक्षेपे अयति समं नित्यममिलापः ॥ ७७ ॥ गीष्पतिदारविहारी चन्द्रः स कलकतामाप्तः । स सितामहः खकन्यागामी तत्सत्य आभाणः ॥ ७८ ।। गुणपूणे किं मानवर्षाः प्रतियान्तु धर्मसमयेऽपि । सुरभिः शश्च शिशिहो हेमन्तो जायतां नित्यम् ॥ ७९ ॥ गूढव्यञ्जद्विनयप्रवृत्तमनगुलिकाकृतिस्तन्व्या । यदि मोहिता युद्धानः पूर्णकुचाने तु किं कर्ता ॥ ८ ॥ गेहक्रियासु गुरुजननियोजिता संभ्रमत्वरिता । वसनाञ्चलसंकरणव्याजेनादचयत्वाङ्गम् ।। ८१ ॥ गैरिकमण्डितगण्डः सखि यातु करी विधेहि दयाम् । विरचितपत्रमालिकुचे पुरतो मा याहि मा याहि ।। ८२ ॥ १. 'कृतौ तन्व्याः' इति युक्तम्, २. का वार्ता काव्यमाला। गोपस्त्रियः प्रदश्य स्तनयुगलं तन्तुजालकृतकञ्चुक्याः । कन्दुकमिममर्पय मे हरिणेत्युक्ते जहास नन्दवधूः ॥ ८३ ॥ गौरववशतो बालामधिकतरं पर्यचरदार्या । उद्भिन्नरोमलतिकाफलायितस्तनमुकुलयुग्माम् ॥ ८४ ॥ गङ्गातरङ्गशीतलपवनस्पर्शन मिन्नगात्राहम् । कथमुपयामि नमस्यापुष्पाहरणाय गुरुजननियुक्ता ॥ ८५॥ गः कार्तिकेयशङ्कातङ्कितहृदयोऽङ्कमारूढः । खवदनशुण्डादण्डाकलितशिवास्तन्युगो जयति ॥ ८६ ॥ घनतरघनाघनानामचिरद्युतिभीषिताखिलजनानाम् । आलोक्य यातृयुगलं सुखितैका दुःखितापरा चित्रम् ॥ ८७ ॥ घातुकमदनशराहतिजर्जरिताङ्गी विचेतनापि वधूः । आलीमुखनिसृतप्रियनामश्रवणेन सोज्जीवा ।। ८८ ॥ घुर्घरति वेत्रवत्यास्तीरोपवनेषु मण्डलकः । सखि वद कथमुपयास्ये सलिलाय नियोजयत्यार्या ॥ ८९ ॥ घूर्णितनयनो मधुना कुलाङ्गनाशीलखण्डनोयुक्तः । आलिङ्गति पर्यङ्कस्थितमार्जारी तदीयनखदूनोऽपि ॥ ९० ॥ घोषं नवजलदानां श्रुत्वा विरहाकुला तन्वी । निश्वासच्छलतो ननु पवनास्त्रं तत्र निक्षिपति ॥ ९१ ॥ घण्टाघोषं श्रुत्वा शिवगानश्रवणभक्तिमती । पतितं स्तनांशुकमपि न वेद तत्संमुखस्थापि ॥ ९२ ॥ ङाराधनामिसक्ता प्रतिदिनमेकाकिनी यान्ती । आर्याधिसायमनिशं खिन्नशरीरा समायाति ॥ ९३ ॥ १. विस्मृतवति' इति साधु, शृङ्गारकलिकात्रिशती। चरणानतदयितशिरःशिरोरुहग्रथितमञ्जीरा । ब्लघु मोचयन्त्यवनता गतमाना लक्षिता सहचरीमिः ॥ ९५ ॥ चामीकराङ्गकान्तिः कृतान्धकाराभिसारवेषापि । संस्मृतदयितसमागमजातस्तम्भा जनैतिा ॥ ९५ ॥ चिरपरदेशनिवृत्ते दयिते विरहातुरा तन्वी । उपसि स्मृतताम्बूला जहास चाहासयत्तमपि ॥ ९६ ।। चीनाचीवरपरिष्वक्तविभक्ताखिलावयवा । गरसमन्नेव नताङ्गी नाङ्गीकुरुते मनः कस्य ।। ९७ ।। चुम्बनमसकृयूनोर्गवाक्षनिर्विष्टवक्रयोर्जयति । प्रअविवेशतः प्ररूढे प्रेमलतायाः प्रसूनमिव ॥ ९८ ॥ चूर्णप्लुष्टरसज्ञः पद्माक्ष्याः प्रथमवीटिकादाने । उ उपहस्यते प्रभाते वचने वचने प्रजावत्या ॥ ९९ ।। चेतश्चञ्चलभावं मुञ्च बधानान्तरे धैर्यम् । पिकरवमन्मथडिण्डीघोषकरो याति मधुसमयः ॥ १० ॥ स रसिकानन्दनिकायां श्रीमत्कविकामराजरचितायाम् । इति शतकं परिपूर्ण प्रथमं शृङ्गारकलिकायाम् ॥ १ ॥ द्वितीय शतकम् । * भोक्तुं प्रतीक्षते त्वां द्विपास्य पञ्चाननः सदने । ३ श्रुत्वा धात्रीवचनं पलायितो गणपतिर्जयति ॥ १॥ = चैत्रे विगलितपत्रे कुल्ले परिलमबहुगुञ्जे । = आलीषु गण्डपालीलीना पुलकेषु मीनाक्ष्याः ॥ २ ॥ TA.'प्रविवेश तत्प्ररूढम्' इति युक्तम्.
।
चोरमुपागतमीक्ष्य ध्वान्ते शिश्लेष भीषमितुमेषा।
सोऽपि तदानन्दवंशाचौर्य कर्तु विसस्मार ॥ ३ ॥
चौहारपीठनिलयो धूर्तस्तपसि स्थितः कश्चित् ।
साकूतमानतमुखं सह समरोदीदरोदयकांचित् ॥ ४ ॥
चन्दनपङ्कजलार्दा वक्षसि निहिता जलाापि ।
शुप्यति तत्क्षणमस्याः किं कुर्मः कं प्रति ब्रूमः ॥ ५ ॥
चः खलु शीतप्रकृतिर्जगति स्थितिरीहशी प्रथिता।
कथमिव मथि तिग्मतरो भ्रमत्यहो पझिनीनामा ॥६॥
छत्रमिव ग्रामस्य प्ररोहनिभूतो व्यालोकि बदः ।
श्रुत्वेति वधूवचनं बभूव मलिनानना श्वश्रूः ॥ ७ ॥
छायामर्यमकरिणोत्तानितकमलस्य सखि पश्य ।
कोकमिथुनं निषीदति तपति खरे खरमयूखेऽस्मिन् ॥ ८॥
छिद्रवति वंशिके त्वं मधुरिपुमधुरामृतैस्तृप्ते ।
गायसि मधुखरं यत्कस्य न विदितासि लोकेऽस्मिन् ॥ ९ ॥
छुरितं लीलामिषतः प्रियस्य पैष्टातकं रजोऽक्षियुगे।
अभिनवरतविवशाझ्या श्लथनीवीबन्धया सुदृशा ॥ १० ॥
छेकमुखोद्गतसुश्रुतसमागतश्लोकसन्ततिस्तन्वी ।
पुरुषायिते कथमिति प्रश्नेनापाहरद्दयितशङ्काम् ॥ ११ ॥
छन्दः प्रपठति दयिते चतुष्पदीरूपमम्बुजाक्षी तम् ।
सहसितमवदन्मर्त्यः कथमिव सक्तश्चतुष्पद्याम् ॥ १२ ॥
जगति जयन्ति न रामाः कति वा प्रियदीयमानमणिभूषाः ।
मम तु मणिभूषणानामङ्गस्पर्श स हतिनैव ॥ १३ ॥
जारं गुर्जरगृहिणी विलोक्य कीटामिदंशनच्छलतः ।
प्रकटमकरोन्निजोरुद्वितयं सिचयं समास्फाल्य ॥ १४ ॥
शृङ्गारकलिकात्रिशती। जितमद्य मया दयित त्वदीयसौहार्दसंगत्या । धारयसि देहशोभा न विना मम दर्शनं कांचित् ॥ १५॥ जीवितमथ कथमिव सा दधातु भवता विना सुभग । भारायन्ते सुतनोर्वदने नयनोदबिन्दवः पतिताः ॥ १६ ॥ जुष्टं पवनैथुष्टं पिकालिभिर्वनमनोकहैः पुष्टम् । हृष्टं चित्तं कृष्टं पतता सूर्येण झिल्लिभिन्तुष्टम् ॥ १७ ॥ जूटीवन्धव्यापृतहरकरपरिकृष्टकेशायाः । किंचिन्मीलितनयनं सीत्कारो जयति गिरिजायाः ।। १८ ॥ जेमनसमये लड्डुकयुगलं परिवेषयन्ती सा । खकरेणादायैकं मर्दयता समुपहसितैव ॥ १९ ॥ जैत्रं तव वपुरस्त्रं यूनां विजयाय कृतमनङ्गेन । स्त्रीणां मृदङ्गीनां जयाय कुसुमेघवो विधृताः ॥ २० ॥ जोषं तिष्ठ तवैषा व्यलोकि शोभा परैव मया । निर्वर्तितेऽक्षिणी मे मा श्रुत्योर्निवृति धेहि ॥ २१ ॥ जङ्घाकरिकः प्रतिहृतदयितोऽप्यन्तः कृतार्थतामगमत् । उत्सुकसत्वरवनितास्खलितांशुकदृष्टवक्षोजः ॥ २२ ॥ झडिति समुपागतास्ते क्रीडनमपसारय त्वरितम् । उक्त्वेत्यसंवृततनुर्जगाम शिबिरं दुनोति तच्चेतः ॥ २३ ॥ झाङ्कारितनिजपक्षः पक्षी परितः परिश्रमति । अधिपल्वलमितरे पुनरम्भः पास्यन्ति पक्षिणस्तु कथम् ॥ २४ ॥ झिल्लीझांकृतिमुखरे मिल्लीवेषा निशावदने । पल्लीपतेस्तनूजा मल्लीकुलं गवेषयति ॥ २५ ॥ झुणुझुणितचरणकिङ्किणिजालं बालं समादाय । चुम्बति दयिते प्रेम्णा सखीं विलोक्याहसल्ललना ॥ २६ ॥ चतुर्दशगु० काव्यमाला। झंगडथोंततधिक्कटमुरजध्वनिनादिते भुवने । लोके कुतुकविलोकिनि सरागमालोकनं जयति यूनोः ॥ २७॥ झञ्झापवनोद्भूतासारविशीर्णाम्बुकणलेशाः । सीत्कुर्वन्ति तदीयेष्वङ्गेषु मनोजतप्तेषु ॥ २८ ॥ टिट्टिभकलकलमधिकं श्रुत्वा गुरुयन्त्रिता भवनकृत्ये । प्रददौ तक्रं सुतनुः पायसकरणाय याचिता दुग्धम् ॥ २९ ॥ टीकत एव तडागं प्रान्ते कोयष्टिकस्तरुणः । संभावयति पुनस्तं चटुना कोयष्टिकी न किंचिदपि ॥ ३०॥ टंकारः स्मरधनुषः फट्कारः शमदमादीनाम् । जयकारश्चित्तजनेर्भणितं जयति त्रपावत्याः॥ ३१ ॥ ठणिति यदैव वरोरोमया श्रुतो नूपुरस्य रवः । अवलोकितगुरुलोकः कांचिदवस्थामहं प्राप्तः ॥ ३२ ॥ ठंकृतिमभिसंश्रुत्य क्षीबाक्षी सा क्षपान्तघटिकायाः । नीलमणिवासगृहगा कथयति दयिताय मध्यरात्रमिति ॥ ३३ ॥ डमरुडमत्कारचमत्कृतं गणेशं विलोक्य चलमौलिम् । दोलितशुण्डादण्डं जयन्त्युमाप्रेमहसितानि ॥ ३४ ॥ डात्कृतिमीषितलोके प्रेतैः पितृकानने ह्यस्मिन् । नरमांसविक्रयागतपुंसो धैर्य विलोकयत ॥ ३५ ॥ डिण्डिमघोषः समभून्मनखिनीमानभङ्गाय । निशि रतवशयुवतीजनकाञ्चीकलकिङ्किणीकाणः ॥ ३६ ॥ हुलिमम्बुभङ्गिलोलां संस्थानविशेषशालिनी वीक्ष्य । अवहत्पलाण्डुखण्डप्रपाण्डुरां गण्डमण्डली सुतनुः ॥ ३७ ॥ डैण्डिमशब्दश्रवणस्तनितभ्रमभङ्गुरान्तरा तन्वी । चक्रे सखीनिराशा राशा वदनावलोकनोत्तरला ॥३८॥ Find
शृङ्गारकलिकात्रिशती।
९९
डोवीप्रभृतिरूपकविविधप्रतिरूपकाणि दृष्टानि ।
प्रतिरूपकं मयाद्य व्यलोकि लोकेऽद्भुतं सुभग ॥ ३९ ॥
डोडभशिशुं चरन्तं मृतशफरीविवृतवदनान्तः ।
दर्शयति प्रतिवेलं खेलन्ती दयितमम्बुनि हसन्ती ॥ ४० ॥
ढक्कारव इव रतिपतिविजयप्रास्थानिको जयति ।
प्रत्यूषे शतपत्रप्रसूनपतिस्फुटोन्नादः ॥ ४१ ॥
दुण्ढोत्सवे सुकेशी प्रियहृदि पैष्टातकं मुष्टिम् ।
अनुरागमान्तरस्थं प्रीत्येव समर्पयामास ॥ ४२ ॥
ढौकितवती स्तनाभ्यां देशवकाशं ममापसर परतः ।
निगदन्तीत्थं दयितं मनखिनी रात्रिपर्यन्ते ॥ ४३ ॥
तस्याः स्मरामि सारीद्यूतपणे निजपराजयैकफले ।
पुरुषायिते श्रमाम्भःपरिचितमुत्कम्पितोरुवपुः ॥ ४४ ॥
तारुण्यगुणगरिष्ठे निन्दति नाथे पराङ्गनासक्तम् ।
तारापति प्रदानतानना कमलनयनासीत् ॥ ४५ ॥
तिमिराभिसारिका सा नासापवनाहृतालिकुला ।
कैर्न विदिता वराङ्गी साङ्गीकृतमन्मथा विपिने ॥ ४६ ॥
तीरस्थितैणशावकनयना प्रतिबिम्बमम्बुनि प्रेक्ष्य ।
निकटनिषण्णः कश्चित्पुलकितगात्रो जहास नतवदनः ॥ ४७ ॥
तुलयन्त्यां वणिजोऽम्बुजनयनायां पण्यवस्तूनि ।
त्वरितागतोऽपि चित्रं पण्यग्रहणं विसस्मार ॥ १८ ॥
तूलपटीमपहाय खपिति सहस्येऽप्यनावृतशरीरः ।
अवलोकितनिजदयितानन्दपटानन्दितखान्तः ॥ ४९ ॥
ते पत्रिका प्रदिष्टा प्रिययेत्युक्त्वा निवेदिता पुंसाम् ।
श्रीकारमात्रसितामवलोक्य चिरं निशश्वास ॥ ५० ॥
१०० काव्यमाला। तैलङ्ग्यामनुरक्तस्त्वरितस्तन्वीविलोचनेषु युवा । तां निन्दतिस्स विहसन्विहसन्ती सा तमालिलिङ्ग भृशम् ॥५१॥ तोषपरिफुल्लनयना पुलकितकुचमण्डला बभूव वधूः । यात्रायै गुरुलोके गच्छति गृहरक्षणे निवेश्यैनाम् ॥ ५२ ॥ तौर्यत्रिकावलोके वलभीवातायनान्तस्था । सतनुमतनुं विदधती ह्यतनुं सतनुं ततान सा सुतनुः ।। ५३ ॥ तन्त्रीजित्वरकण्ठी कण्ठीरवमध्यमा रामा रामारामविहारे हारेण मनो न कस्य संहरति ॥ ५४ ॥ दलितकमलावलीनां परिमलमनिलाहृतं समाघ्राय । शीतातुरा तु तरुणी सविधे भर्तुर्निशश्वास ॥ ५५ ॥ दाहहताखिलगात्री त्रीनपि दिवसान्कथं जीवेत् । वेतण्डतुण्डसेवां वारं वारं कुरुध्वमविषादा ॥ ५६ ॥ दिवसे दिवसे पीनं कुचयुगमानीलवदनमेणाक्ष्याः । आलोक्य तुष्यति पतिः कर्णाभ्यर्णावतीर्णपलितश्रीः ॥ ५७ ॥ दीप्ते दीप्तैः किरणैश्चण्डमरीचेर्जगति सखि चित्रम् । पाथः प्रयाति हित्वा वापीशैवालवल्लरी ललिता ॥ ५८ ॥ दुःसहतरं वदन्ती सखीजने निजविरहजं दुःखम् । श्रुत्वा प्रियस्य शब्दं द्वारि कृशाङ्गी समुदतिष्ठत् ॥ ५९ ॥ दूरतरदेशगमनोद्युक्तं दयितं जगाद हरिणाक्षी । सायं यास्यति सदनं श्रुत्वेति स संनिवृत्तोऽभूत् ॥ ६० ॥ देवरकरकमलेरितशृङ्गच्युतसलिलधारया सेकः । उद्गतपुलकविनिहुयसाहाय्यं व्यतनुतारविन्दाक्ष्याः ॥ ६१ ।। देवमुपालभमाना जिगमिषति प्रियतमे गुरुजनोक्त्या । धृतसितवसना वसने यावकममिपातयामास ॥ ६२ ।।
शृङ्गारकलिकात्रिशती।
दो पल्लवद्वयेन च्छादयति प्रियतमे प्रियानयने ।
पृच्छन्ती केति सखीमुत्तरयामास पुलकैः सा ॥ ६३ ।।
दौर्वाससमिव शापं शकुन्तला दयितसंगमे प्राप ।
बाला गुरुजनयन्त्रणमकृतरजोदृष्टिशान्तिविधिः ।। ६४ ॥
दंदं मुहुर्वदन्ती निवेश्य वृद्धं पतिं सदने ।
पुलकितगात्री यवनी प्रययौ प्रतिवेशिना सह मदारम् ।। ६५ ।।
धनुषा कुसुममयेन स्मरस्त्रिलोकी विजेतुमसमर्थः ।
बाले कलयति भवतीं स स्तनगुलिकां धनुर्वल्लीम् ॥ ६६ ॥
घाने पिकाभिशिक्षितमक्षरयुगलं वदति बाले ।
बाले गुरुजनपुरतस्तव पतिमालोक्य हसिताहम् ॥ ६७ ॥.
धिड्यां चञ्चलहृदयामित्यात्मानं निनिन्द मदिराक्षी ।
आलोक्य मधुपरहितं कुञ्ज कुसुमाकरे काले ॥ ६८ ॥
धीरा विलासरभसा तस्याः प्रतिवेशिभिरकारि ।
सापि तथैवास सदा नमः सतीधर्मदैवाय ॥ ६९ ॥
धुन्वन्त्यां निजवसनं धूलीभिषूसरं तन्व्याम् ।
प्राप्तं मम लोलाभ्यां जनुषः साफल्यमक्षिभ्याम् ॥ ७० ॥
धूसरितं धूलीभिः शरीरमेतत्क्षतं च गोक्षुरकैः ।
भग्ना वलयाली मे तदपि विधेयो नियोग आर्यायाः ॥ ७१ ॥
धेनूनां धेनुभ्यः पुरोधसे शतमदान्न धेनूनाम् ।
सारं भासारम्भा सुरकरमस्याः स्म पश्यति स सारम्भः ॥ ७२ ॥
धैर्येण सखीवचनात्कृतमाना सा निनाय निशाम् ।
श्रुत्वाथ कुक्कुटरुतं प्रतिबोध्यालिङ्गितवती माम् ॥ ७३ ॥
घोरणिरलकालीनां तस्याः प्रियनिर्वृति चकारादौ।
तदनु विलोलनमुच्चैस्तदनु कथा तदनु रतिविलासः ॥ ७४ ॥
१०२
काव्यमाला।
धौताञ्जनाश्रुवदने वद नेयासौं त्वया कियती ।
रात्रिः शृणु चरणायुधकूजितशरणा समापतिता ॥ ७५ ॥
धंधनपरस्तपस्वी मुग्धामालोक्य लुलितमौलिः ।
कर्णेजपवत्कर्णे जपं (च)कारान्यलोकस्य ॥ ७६ ॥
नवरङ्गपिहितगात्री पात्रीभूता युवप्रीतेः ।
नयनानन्दविधात्री रात्रीरेताः करोतु मे सफलाः ॥ ७७ ॥
नावि जनैः पूर्णायामारोढुं योपितमशक्ताम् ।
आरोहितुं प्रवृत्तो लेभे नौवाहिकस्तदाश्लेषम् ॥ ७८ ॥
निधिमिव जघनं तस्या रोमालीचिह्नितं नवोढायाः ।
नाभीमुद्रामुद्रितमालोक्यानन्दितस्थितस्तूष्णीम् ॥ ७९ ॥
नीवीबन्धे नीवी दयिते परिमोक्तुमसमर्थे ।
बाला जहास निभृतं तथा यथाहासयत्वसखीः ॥ ८० ॥
नुन्नं प्रिययात्मानं पृथुना वृक्षोरुहेकेण ।
यात्राजनसंमर्दनरथ्यावदने युवा कृतिनमिव मेने ॥ ८१ ॥
नूतनमानन्दपटं प्रथमं सदने जनैाप्ते ।
प्रकटयति गोपयत्यपि गोपवधूर्विपरिवर्तितोरुयुगा ॥ ८२ ।।
नेय इतोऽयं बालो रोदनशीलः कृतककृतरोषम् ।
आह स सखी_ला नतानना प्रियतमे चिरायाते ॥ ८३ ॥
नैशे तमसि मृगाक्षी लक्ष्यीकृत्य प्रियाभिसृतिम् ।
चलिताधिदेहलि पदं दोलारूढं मुहुर्मुहुरकार्षीत् ।। ८४ ॥
नोल्लङ्घयति गुरूणां वचनं प्रतिवासरं तदाज्ञप्ता ।
शूकक्षतापि केतककुसुमान्यानयति पूजायै ॥ ८५ ॥
नौ संगमो विधाता स्वप्नेष्वप्यसहनो न संतनुते ।
उज्जागरतः खमो प्रश्यति हा दैवबलवत्ता ॥ ८६ ॥
शृङ्गारकलिकात्रिशती १०३ नन्दकुमारं यमुनातीरोपगतं विलोक्य कापि ययौ । कलशाकलनच्छलतः प्रकटितवक्षोजतटभुजामूला ॥ ८७ ॥ पतिमभिनववार्तागतमलोक्य मिषेण कीटदंशस्य । चैलाञ्चलमास्फाल्य प्रदीपनिर्वापणं चक्रे ॥ ८८ ॥ पादयुगप्रक्षालनसमयेऽस्मिन्राष्ट्र इत्युक्त्वा । रचिताधिकृतापत्या सुतनुस्तनुदक्षिणादाने ॥ ८९ ।। पिच्छलतरेऽम्बुपातैः कथमुपयास्यामि वापिकातीरे । इति कृतकरोषवचना गुर्वाज्ञप्ता ययौ मुदिता ॥ ९० ।। पीवानमीक्ष्य तरुणं प्रत्यानयनेऽस्य रचितबहुयोगा। नतवदना म प्रातर्दैवे दोषं निवेशयति ॥ ९१ ॥ पुरतः पदं निधातुं सलिलान्तर्बिभ्यती सुतनुम् । कृत्वा करे पुरोधाः संस्नापयितुं चमच्चकारान्तः ॥ ९२ ॥ पूजितमानमति विगो(?)खामिनमङ्गनाजने भक्त्या । प्रत्युत्थापनसमये प्रति पदमासामसौ मुमुदे ॥ ९३ ।। पेटीगृहीतुकामे दस्यौ प्राप्ते प्रतीक्षन्त्याम् । दयितायां मौनवतोस्तयोरभून्मन्मथो दूतः ।। ९४ ॥ पैतृकविधिप्रवृत्तः करेण पिण्डं समादाय । साकूतहासमैक्षद्दयितावदनं युवा कश्चित् ॥ ९५ ॥ पोत्रिणि तटाकतीरे प्ररूढमुस्ताक्षतिप्रवणे । पाशं सितालिमध्ये करञ्जकुञ्जस्य सौभाग्यम् ।। ९६ ॥ पौगण्डवं व्यतीता पल्लीपतिकन्यकोद्याने । प्रतिवेशसारिणीजलमलापयन्नैजसारिण्याम् ॥ ९७ ॥ पण्डितवधूर्विचित्रं पराङ्गनारङ्गरञ्जितमनाः । भर्तरि दिवमुपयाते चितानलान्तः प्रजज्वाल || ९८ ॥
काव्यमाला।
फलितापि सखे ललिता द्राक्षालतिका मनो विनोदयति ।
परिपाकाधिकसरसा प्रतिपदपरिदृश्यमानबहुबन्धा ॥ ९९ ॥
फाणितपरिवेषणमिषक्शतस्तरुणं वधूर्विलोकयति ।
सोऽप्यलमिति तां द्वावपि पूर्ण द्रोणं न जानीतः ॥ १०० ॥
रसिकानन्दनिकायां श्रीमत्कविकामराजरचितायाम् ।
शतकं द्वितीयमेतत्पूर्ण शृङ्गारकलिकायाम् ॥ १॥
तृतीयं शतकम् ।
जयति स कामः कामं कमनीयतरः कलाकलितः ।
येन किल जन्मतः प्राग्भविष्यता मोहितौ पितरौ ॥१॥
फुल्लमतल्लीमल्लीवल्लीकुञ्जो निलीनालिः ।
आलोकितो मया किल बालो नालोचितो यशोदायाः ॥ २॥
फूत्कुर्वती प्रियस्य खहतसरोरुहरजःप्लुते नेत्रे ।
मिथ्यानिमीलिताक्ष्णा तूर्णं समचुम्वि मानिनी तेन ॥ ३ ॥
फेरुवदनानलशिखाप्रभाविभावितपथा निशीथिन्याम् ।
पञ्चशरैकसहायाभिसरति धन्यानुरागार्दा ॥ ४ ॥
फैरवशब्दं श्रुत्वाभिसारिकागमनदुन्दुभिध्वानम् ।
कृतकनिमीलितनयना पत्युनयने विलोकयति ॥ ५ ॥
बहुना किमिहोक्तेन प्रतियास्ये नैव नागरिङ्गवनम् ।
कतिभिर्नवोपभोक्तुं तत्र बलान्नागरिङ्गयुगम् ॥ ६ ॥
बाहू प्रसार्य दयिते याचत्याश्लेषमादरतः।
सरजसमरन्दतुन्दिलमम्भोजं दर्शयामास ॥ ७ ॥
बिम्बीफलेऽधरपदं कुर्वति दैवे चकोराक्षी ।
अस्ताचलदिनकरयोः सहासलोकान्तरं सुचिरम् ॥ ८ ॥
शृङ्गारकलिकात्रिशती।
१०५
बीजं कामः कन्दो जघनं नाभिस्तथा वालम् ।
कुचमुकुलमुकुलितोऽस्या रोमालीभूरुहो जयति ॥ ९ ॥
बुध एव सवितृसंनिधिवसतिस्त्यक्तोगतिः सततम् ।
अप्राप्तोऽप्युदयं यः कुशलं सकलस्य चिन्तयति ॥ १० ॥
बन्धयसि केशपाशं तथैव यूनां मनांसि नयनानि ।
चित्रायतस्य युक्तौ भवति न वा मुक्तिरेतेषाम् ॥ ११ ॥
भसितोद्धूलितदेहो दिगम्बरः कृत्तिमाञ्जटिलः ।
सोऽपि तिलतण्डुले यदि निरतः सकलैः किमपराद्धम् ॥ १२ ॥
भावं विज्ञातुमना मानिन्यास्तिर्यगालोक्य ।
द्वारोपान्ते विहसति वदत्यकाण्डे पुलकिताङ्गः ॥ १३ ॥
भित्तौ यूनि विरूढां तिलपुष्पी दातुमायाते ।
सा निजपार्शविरूढामलुनात्तिलपुष्पिका सकलाम् ॥ १४ ॥
भीरु तवायं को वा दुराग्रहो गुरुजनप्रश्ने ।
तावत्समयो यास्यति भिषजस्त्वदर्शनावशेषस्य ॥ १५ ॥
भुवनाधिनाथ भवता भवतापहरं किमाचरितम् ।
विरतिः श्लोकपदादौ प्रतिभाति न मानसान्तमॆ ॥ १६॥
भूषणपरिग्रहार्थ पेटी सविधे समादधाना सा ।
हसितामालोक्य सखीं तां च यथावस्थितामकरोत् ॥ १७ ॥
भेषजमुपागतवति चिकित्सके दातुमबलायाः ।
वीक्षति नाडी लोको वैद्यान्तरमाजुहावाशु ॥ १८ ॥
भैमीभामाकररुहलालितपरिसंकुचच्चरणाः ।
स जयति कृष्णः सस्मितबदनस्ताभ्यां सहासमुपदृष्टः ॥ १९ ॥
भोगिनमालोक्य करे शम्भोरपसारितकराजा ।
गिरिजा जयति करग्रहपरिचालितपाणिलेशेऽपि ॥ २० ॥
काव्यमाला।
भौकलिमाणसस्थं ददती भक्ष्याणि पृच्छती वार्ताम् ।
कनकमयपञ्जरान्तस्तत्क्षणमभिवेशयामास ॥ २१ ॥
भङ्गविभङ्गीलोलां गङ्गायां वीक्ष्य कलहंसीम् ।
हसं गवेषयन्ती पथिकः श्लथगात्रतामाप ॥ २२ ॥
मधुपः कुसुमं मालाकारिणि न जहाति ते लुब्धः ।
नापैति वारितोऽपि हि किङ्करवैधृष्टमधुपेऽस्मिन् ॥ २३ ॥
मालाकारिणि मालामेनां कण्ठे ममार्पय प्रीत्या ।
एषा भवति महार्घा परतन्त्रां मां विजानीहि ॥ २४ ॥
मितभाषिणि तनुमाने सुरसे धृतलाघवासि तनुमाने ।
कथमिव सुरतौ दास्यं कुरुते तन्वति मयि रतौदास्यम् ॥ २५ ॥
मीलतु कुमुदं चन्द्रः प्रयातु चास्ताचलं रविरुदेतु ।
प्रभवामि नाम्बुजाक्षी परिमोक्तुं निजभुजक्रोडात् ॥ २६ ॥
मुषितरदनक्षतादरमपहृतनखरक्षतं तन्व्याः ।
कूणितनेत्रप्रान्तं तस्याः स्मरचेष्टितं स्मराम्यनिशम् ॥ २७ ॥
मूकः केतकपत्रं मुग्धामालोक्य पाटयामास ।
सापि करस्थितमम्बुजमधोमुखं व्यतनुत प्रसभम् ॥ २८ ॥
मेषादीनां गणके कथयत्यायव्ययौ क्रमशः ।
पृष्टस्तृतीयभावं कया स जगाद समं भावम् ॥ २९ ॥
मैरेयघूर्णिताक्षिणि पृच्छत्यर्घ सहासमथ यूनि ।
अपहृतचेलाञ्चलया जगदे करकद्वयं गृहाणेति ॥ ३० ॥
मोचयति जीवितेशे पश्चान्मम कञ्चुकीबन्धम् ।
उच्छिन्नबन्धमूलः पुलकः समभूत्सखि ममाङ्गे ॥ ३१ ।।
मौहर्तिकेन कथिते प्रवासदिवसे स्वगेहपतेः ।
गमनागमने मित्तेरपाकरोतीष्टिकाः सुभूः ॥ ३२ ॥
शृङ्गारकलिकात्रिशती। १०७ मण्डनभूतं बालं मातृकुलादागता सुतनुः । कृतकृतकरोषतरला खापयति प्रतिपदं विलोकयति ॥ ३३ ॥ यजति निजगेहनाथे प्रातर्निद्राति मीलदक्षियुगा। पार्श्वस्थभित्तिसंरूढजारमुखमीक्ष्य हसिता सा ॥ ३४ ॥ यागं कुर्वति पत्यौ प्रवसति जारे समागते प्रष्टुम् । धूमच्छलगोपायितनयनजलं सा रुरोद चिरम् ॥ ३५ ॥ युगली रथाङ्गनाम्नोरमीमिलद्विकसिता कुमुदपतिः । वाच्यं किमत्र चित्रं नैवास्ति प्रेम्णि निर्बन्धः ॥ ३६॥ यूना कम्पितधैर्या खपतिं दृष्ट्वा पलितशीर्षम् । प्रतिवेशवधूस्नेहच्छलतः प्रच्छन्नकमकार्षीत् ॥ ३७ ॥ येनोपहासविषये वयसि न तत्कार्यमित्युक्ता । नियमव्रतापदेशाद्भूशयनाभ्यासमातनुते ॥ ३८ ॥ यैथितेयं वेणी सुगन्धतैलैः कचान्समीकृत्य । मम कृतसीत्कारायास्तान्येव नखानि तां विमोक्षन्तु ॥ ३९ ॥ योजनमात्रं चलितं पान्थं सुकुमारमिन्दुमुखमीक्ष्य । दर्शयति बलात्वगृहं वास्तृततल्पं कमावसथ्याग्र्या ॥ ४० ॥ यौवनगर्वितमध्वगमात्मावसथं निनीषन्त्योः । विरचितवनकराङ्गुलि जयतितरामावसथ्ययोः कलहः ॥ ४१ ॥ यत्रपदाङ्गुष्ठयुगप्रहितो न पदात्पदं करी चलति । अभिसारिकाकुचद्वयदर्शनसंजातवारणाशङ्कः ॥ ४२ ॥ यः प्रतिपदं सखीभिः शिक्षावशतो न्यधायि हृदयेऽन्तः । उपपतिरिव सोऽपि गतो मानः प्रियदर्शनावसरे ॥ ४३ ॥ रत्नस्तम्मे खीयां प्रतिमामालोक्य रोषकलुषाक्षी । खान्तर्जनसमयोद्वेल्लत्करकमला वीक्ष्य तां जहास वधूः ।। ४४ ॥
१०८
काव्यमाला।
राजपथे विक्रेतुं कन्दुकयुगलं च लोहसर्प च।
आगतयोरथ यूनोमिथो जयत्यर्धनियमोक्तिः ॥ ४५ ॥
रिक्तोदपात्रकरतलमास मृगाक्षी सरित्तीरे ।
गुञ्जदलिपुञ्जमञ्जुलवङ्गुलजाले लताकुङ्गे ॥ ४६ ॥
रीतिमयभूषणापि हि चलति वधूः सा निमीलिताक्षियुगा।
गर्मभरमन्थराङ्गी पुरः सपत्न्याः सकांस्यभूषायाः ॥ ४७ ॥
रुतमाकर्ण्य पिकानां का नाम न संभवेदुत्का ।
कथमुपनयाम्यनिद्रां चन्द्रांशुविभावितां रात्रीम् ॥ ४८ ॥
रूपभरगर्वशीला बाला वैवाहिके समये।
नन्दति निजभवनजनेऽञ्जनबिन्दुः खालिके व्यतनोत् ॥ ४९ ॥
रेणुपरिधूसरालकचरमतनुः स्फोटितखवलयालिः ।
भग्नकलशा रुदन्ती बाला शनकैर्गृहमयासीत् ॥ ५० ॥
रैवतकभूपरिसरे भैमीभामायुतः कृष्णः ।
व्यत्ययमकरोद्विनिमयमनयोज्येष्ठाकनिष्ठिकाभावे ॥ ५१ ॥
रोमलतिकालवाले पपौ रसं नयनखञ्जनद्वन्द्वम् ।
अतितृप्तिभावमाप्तं रसमाखादयति नान्यमिदम् ॥ ५२ ।।
रौरवचर्मावृतया योगिरतासक्तया तमसि ।
आलिङ्ग्य भीषितः पतिरुपागतो मन्दमेणाक्ष्या ॥ ५३ ॥
रङ्गाजीववधूटीपरिपाटी को नु विन्देत ।
सममेव युवजनानां मनांसि वासांसि रञ्जयति ॥ ५४ ॥
लज्जानताननायाः परिणयने भर्तृसंमुखीनायाः ।
ऊर्वीकृततारायास्तदाननालोकनं जयति ॥ ५५ ॥
लाक्षारञ्जितचरणा चरणायुधकूजितं श्रुत्वा ।
प्रक्षालयति स्वीयौ चरणौ सलिलैरहो दृष्टा ॥ ५६ ॥
शृङ्गारकलिकात्रिशती।
१०९
लिखति स्म मदनलेखं कमलदले नखरलेखन्या ।
पञ्चेषुरेष षष्ठं कथमकरोदिन्द्रियं क्षुब्धम् ॥ ५७ ॥
लीलादृषदुत्क्षेपोत्तरलितताराम्बुजाक्षी सा ।
खसखीमध्यनिविष्टा वलभी तव पश्यति प्रसभम् ॥ ५८ ।।
ललितालका वरोरूः समागते नैजगृहनाथे ।
अर्धोन्मीलितनयनं देवरमभिवीजयामास ॥ ५९॥
लूनामपि तिलवाटी विलोक्य हलिकाङ्गना परितः ।
न बभार दुःखमन्तद्रष्टव्या कोशशणवाटी ।। ६० ॥
लेखसमर्पणसमये क्रोधाविष्टे धराधिपतौ ।
राज्ञी जगाद कथमिव हन्तव्योऽयं मदीयकायस्थः ॥ ६१ ॥
लैङ्गिकमवापिता सा सख्या विरहाकुला बाला ।
नतिमिषतस्तमवादीदधुना शरणागताहमिति ॥ ६२ ॥
लोलनयनस्य पुंसः सविधेऽन्यजनस्य हृतवती चित्तम् ।
चैलाञ्चलसंयमनव्याजादभिदर्शितैककुचा ॥ ६३ ॥
लौहित्यं स्फटिकान्तः संक्रान्तं कौसुमं प्रदर्शयतः ।
सत्रासमन्यमेनं नतानना दर्शयामास ॥ ६४ ॥
चलिता प्रवसति दयिते द्वारोपान्तेषु गुन्द्रसलिलेन ।
अभिषिञ्चति साकूतं शंसन्ती त्वरितपरिवृत्तिम् ।। ६५ ॥
लवितुमसमर्थोऽयं दाक्षिण्यं वितथदत्तयन्त्रायाः ।
बहु मानयति कक्ति तद्यातृप्रेमयन्त्रितो मत्री ॥ ६६ ॥
वारं वारं सुतनुारमुपागत्य वीक्षतेऽश्रुमुखी ।
नो यास्यतीति प्रथमप्रस्थितकान्तस्य साध्वानम् ॥ ६७ ॥
विधिवन्नैजपुरोहितपूजायां चरणसंस्पर्श ।
वनितायाः करयुगलप्रखदेनाभवत्पाद्यम् ॥ ६८ ॥
काव्यमाला।
वीरुन्निकुञ्जभवनं कोटरपारावतालिहुङ्कारैः ।
सुरतप्रवृत्यूनोरनुकुरुते मणितमिव सततम् ॥ ६९ ॥
वेत्रं सहासदेवरकरोद्धृतं वीक्ष्य जलजाक्ष्याः ।
वेणीदण्डाहतिततिसंक्रमितः पृष्ठतोऽपि च स्नेहः ॥ ७० ॥
वैशसमात्मप्रेम्णोविलोक्य सा नावददूतीम् ।
सरमपवर्तिततारकमालिख्य चिरं निदाघतप्त(भुवि)भूमौ ॥ ७१ ॥
वौषट् प्रातर्मन्नं कोऽन्तर्युक्त्वा स्थिते तूष्णीम् ।
अध्वर्युर्न जुहोति द्यावाभूम्यन्तरं पश्यन् ॥ ७२ ॥
वञ्चनचतुरः कुतुकी यतमानो वेदिकामध्ये।
विष्णुक्रमणं बहुशस्तनोति मन्त्रं विना चित्रम् ॥ ७३ ॥
शयने निद्रापगमात्ताम्यन्मनसोः खगौरवव्रतयोः ।
कृकवाकुरुतं श्रुत्वा जयतितरां किमपि तद्यूनोः ॥ ७४ ॥
शातमृगराजनखरत्रुट्यत्करिकुम्भमुक्तमुक्ताभिः ।
अध्वानमीक्ष्य कीर्ण मोदं खेदं दधौ समं बाला ॥ ७५ ॥
शिव शिव शिबिरं त्यक्त्वा किं करवै सखि बहिर्गतो दयितः।
साकूतं च सहासं मया समाकुञ्चिते देहे ॥ ७६ ॥
शीतोपचारनिकरं शिशिरे सहतेऽम्बुजाक्षी सा ।
सोऽपि तदीयकुचद्वयसंस्पर्शात्खेदमावहति ॥ ७७ ॥
शुद्धं दिनं पतिगृहं प्रेषयितुं पितरि पृच्छति द्विजं कन्याम् ।
आकर्ण्य संमुखीनं शुक्र सा मोदमाधत्ते ॥ ७८ ।।
शूलं दत्त्वा स्कन्धे पुनरित्थमिति प्रतर्पितो जगदे ।
अद्यापि न मम हृदयादपयान्ति तदीयनयनान्ताः ॥ ७९ ॥
शेवधिमिवाधिगम्य प्रियाकुचद्वन्द्वमथ मनसि ।
कुर्वन्मनोरथशतं जज्ञे कर्तव्यतामूढः ॥ ८० ॥
शृङ्गारकलिकात्रिशती। शैशवजारमुपागतमसुको मम मातृभगिनीजः । इति सखजे गुरूणां पुरतो निर्व्याजमेणाक्षी ॥ ८१ ॥ शोधयति लिखति पुस्तकमभिके पठति प्रिया रात्रौ । दीपोझ्योतनमिषतस्तैले रक्षां निवेदयति ।। ८२ ॥ षाकौशिकं शरीरं शिष्याय गुरौ प्रकाशयति । साकूतहसितवदना जगाद काचिद्वरं किमङ्गेषु ॥ ८३ ॥ शुण्डादण्डाकृष्टे ग्रामासन्ने वटे भने । मातङ्गजेन पङ्कजनयना नयनाम्बु तत्याज ॥ ८४ ॥ षोडशसहस्रवनिताः समं स रमयन्हरिदेवः । कष्टं पुराणपुरुषः पुरुषैरितरैः प्रतिस्पर्ध्यः ॥ ८५॥ षण्ढोऽपि काममाविष्कुर्वन्नारोपितं स्मरावेशम् । खेदयति कामिनीमथ किमद्भुतं सखि मयि विधत्से ।। ८६ ।। सरसीसलिलान्तर्गतमधोमुखं सस्मिताननं तरुणम् । तीरस्थिता विलोक्य खाङ्गे पुलकानवीवहराला ॥ ८७ ॥ सा निजसखीषु बहुशो रचितप्रियवाचिकानुकृतिः । सहसागतं विलोक्य प्रियमबला सस्मितास्यासीत् ॥ ८८ ।। सिद्धि नैजां स्त्रीषु प्रथयितुमुपघट्टमर्ककन्यायाः । वृक्षाधिरोहसंस्थां कुतुकी कश्चित्प्रदर्शयति ॥ ८९ ॥ सीतां लक्ष्मणचरितं प्रजावतीं नित्यशोऽभिगायन्तीम् । दृष्ट्वा श्रावयति परं तारा सुग्रीवचरितानि ॥ ९० ॥ सुषमा परावलोकि प्राप्तं जनुषः फलं ममाक्षिभ्याम् । अकुसुमफलोद्भवानां का नु मदन्या स्थली लोके ।। ९१ ॥
११२ काव्यमाला। सूरिणि कथयति धर्म परदारांश्चिन्तयेन्नेति । आकर्ण्य चञ्चलाक्षी साचिमुखी प्राहसत्सुमुखी ॥ ९२ ॥ सेकेनातनुः सा दैवान्नववार्षिकाभ्ररचितेन । प्रस्खेदपुलककम्पा नायर्यायै गोपयामास ॥ ९३ ॥ सैरभवाहनमद्य खप्नेऽहमपश्यमिति पतिवचः श्रुत्वा । प्रथमं मुदितापि भृशं रुरोद परमङ्गना काचित् ।। ९४ ॥ सोमानिभं नखरक्षतं नवं प्रतिनिशं स्न(र)ते दयितम् । किमिदमिति दर्शयन्ती विहसन्ती खेदयति हलिकयोषा ॥९५॥ सौरतखेदात्सुप्तं विहसन्ती कापि संजगाद पतिम् । आवां मिथःसहायौ कुर्वः प्रविभज्य कार्यमर्धार्धम् ॥ ९६ ॥ संतत्यभाववशतः खिन्ने परिपृच्छति द्विजं दयिते । नेजमनपायिवन्ध्याभावं श्रुत्वा मुमोद मदिराक्षी॥ ९७ ॥ हलिकाङ्गनान्धतमसाऽभिसारिणी निकटदेवकुले । हस्तेन परामृशती बुभुजे पान्थेन दृष्टचाषेण ॥ ९८ ॥ हासपरिपाटलाधरमाकूणितनेत्रमुल्लसद्गुण्डम् । अलमिति यन्मदिराक्षी जगाद तत्कृन्तति हृदन्तः॥ ९९ ॥ हिमनिबिडाश्लिष्टतनु प्रपीडितोरोजमभिशयानम् । रतये नु मिथुनमसकृत्प्रबोधयति हैमनः पवनः ॥ १० ॥ रसिकानन्दनिकायां श्रीमत्कविकामराजरचितायाम् । शतकं तृतीयमेतत्पूर्ण शृङ्गारकलिकायाम् ॥ १ ॥ १ जह-मुमुदे ।
सीतास्वयंवरकाव्यम् । हरिकृष्णभट्टविरचितं सीतास्वयंवरकाव्यम्। श्रीराजराजोऽजनि यस्य गेहमाशिश्रियच्छीः श्रितचारुरूपा । सीताभिधाना जनको जनानां यथा सुतानामविता तथा सः ॥ १ ॥ युधिष्ठिरो भीमपराक्रमश्च जगत्रयेऽप्यर्जुनकीर्तिरासीत् । अलंकृताहीनकुलः कुलाब्जप्रकाशभानुः सहदेवतुल्यः ॥ २ ॥ तस्मिन्नरेन्द्रे मिथिलाधिनाथे स्वर्गस्पृहायां शिथिलादरोऽभूत् । न वासवस्य स्मरति स वीक्ष्य तं नन्दनं निन्दति नन्यवाटीः ॥ ३ ॥ शूली शिवोऽभूत्सगदोऽथ विष्णुः सरुभविस्तस्य सुतोऽथ मन्दः । उद्यानदेशः समभूत्सगुल्मः क्षयी शशी नैव जनस्तदामूत् ॥ ४ ॥ कथा पुराणे खलु पाण्डुपञ्चकस्याप्युदावर्तवती सवन्ती । अभूत्तदा सप्रदरोऽरिवर्गस्तस्मिन्धरां शासति धीरधीरे ॥५॥ तस्याभवच्छ्रीहिता हिताय चराचरस्याखिललोकवन्द्या । अयोनिजा चेतसि मन्यमाना निजेऽभिधानं चरितार्थमस्य ॥ ६ ॥ क्षणे क्षणे सेक्षणमीक्षकाणामपारलावण्यसुधासमुद्रे । निमजयन्ती नवयौवनेन प्रकाशितं रूपमवाप सीता ॥ ७ ॥ पुत्री पवित्रीकृतवंशगेहां देहान्तरङ्गश्रितपञ्चबाणाम् । प्रतयंतांगमशुद्धबुद्धिरहो विवाहे समयं स मेने ॥ ८ ॥ अचीकरत्कृप्तमनल्पशिल्पैः सुशिल्पिभिः स्वर्पतिशिल्पिकल्पैः । 'वसुंधरामण्डलमण्डनाभं सीताविवाहाय स मण्डपं तम् ॥९॥ मसारसस्फाटिकपद्मरागरागैः सुकिर्मीरितमध्यभागः । सुराङ्गनामज्जनजातरागं यो मण्डपेशोऽन्वगमत्प्रयागम् ॥ १०॥ ८ चतुर्दशगु०
काव्यमाला।
वाराङ्गनागीतिविधानुयादाः प्रवीणवीणारवरागमिश्राः ।
नृणां वितेनुः समृदङ्गनादा यच्छालभञ्जीकृतगानशङ्की ॥ ११ ॥
वातोर्मिभिर्दोलितसत्पताकाश्रेणिः समेतागरुधूमवल्लया।
यत्रोपरिष्टाच्छितयामुनौघमन्दाकिनीजां श्रियमन्वकार्षीत् ॥ १२ ॥
सोपानमातृरुपरि प्रयातो जनो विहर्ता यदधित्यकासु ।
कनीतदृम्वृत्तिरुपत्यकासु गजावलीः कूर्मकुलानि मेने ॥ १३ ॥
यत्कुट्टिमाट्टालविटङ्कवासैः कलापिभिर्दुन्दुभिमन्द्रनादः ।
अमानि धीरध्वनिरम्बुदानामकालकेकीकृतलोकचित्रैः ॥ १४ ॥
अभ्रंलिहाग्रस्थसुरेन्द्रनीलप्रभावितानन्दजलाशया यत् ।
नानामणिकृप्तमहेन्द्रचापं पाथोऽपि दात्यूहकुलं ययाचे ॥ १५ ॥
प्रतप्तजाम्बूनदजालमुक्तैर्मुक्तागणैर्यत्र सुधासवर्णैः ।
सुमेरुशृङ्गागतगौरगङ्गाप्रवाहलक्ष्मीरुररीकृताभूत् ॥ १६ ॥
यद्भित्तिभागे लिखितस्य खिनेरनङ्गलेखस्य सुवर्णवर्णैः ।
चमत्कृतावाचनचातुरीमी रोमाञ्चकस्याञ्चति चञ्चलाक्षी ॥ १७ ॥
पुरंदराशाचितमित्तिनद्धैः स्फुटजपापाटलपद्मरागैः ।
सूरोदयानन्दमनायि यत्र मुहुर्निशीथेऽपि च कोकलोकः ॥ १८ ॥
वर्षास्वपि स्वर्णपिनद्धरनयद्दीर्घिकानीरनिवासहृष्टाः ।
मृणालिनीबीजभुजो मराला न मानसं मानसमप्यनेषुः ॥ १९॥
यच्चन्द्रशालाश्रितगायकानां स्थानप्रदानोत्सुकनायिकानाम् ।
गेयं विपञ्चीगुणरागपेयं मध्यंदिने साध्वधिनोदिनेशम् ॥ २० ॥
बालाननैः स्फाटिकजालमालास्फुटैः स्फुटत्तामरसाभिरामैः ।
मन्दाकिनीखर्णसरोजराजीशोभा भृशं यत्र समन्वभावि ॥ २१ ॥
सितोपलाबद्धतरासु यत्र स्त्रीणां स्फुटत्कोकनदोपमेषु ।
लाक्षारसक्षालितपादपद्मपदेषु पद्मीयति चञ्चरीकः ॥ २२ ॥
सीतास्वयंवरकाव्यम् । यदङ्गणे विद्रुमभूमिसंस्थास्तद्रागसंसृष्टवलक्षभावाः । अवाकिरंश्चचपुटेन कीरा मुक्ता मुहुर्दाडिमवीजबुद्ध्या ॥ २३ ॥ निधाय यत्राजगवं स चापमिति क्षितीशोऽथ पणं बमाण । यो भङ्ख्यतीमं भुजवीर्यशाली स जानकीजानिरपूर्वमाली ॥ २४ ॥ (कुलकम् ) दूता दिगन्तेषु जगुस्तदासामितीशकोदण्डकखण्डकृद्यः । तस्मै नृपो दित्सति देवतामां कन्यां विनिद्राम्बुरुहायताक्षीम् ॥२५॥ श्रुत्वा पणं पार्थिवपुङ्गवस्य निजं भुजावीर्यमखर्वगर्वाः । कन्यानिमित्तं बहु मन्यमाना दिग्भ्यः समाजग्मुरथो नरेन्द्राः ॥ २६ ॥ कलिङ्गवङ्गाङ्गतिलङ्गगौडपाञ्चालनेपालकमालवेशाः । सौवीरगन्धारकमत्स्यमदत्रिगर्तकानर्तविदर्भनाथाः ॥ २७ ॥ काम्बोजकर्णाटककामरूपकाश्मीरयुक्केरलकेकयानाम् । करूपसिन्धूत्कलसौभशाल्वपटच्चराणामधिपा युवानः ॥ २८ ॥ चीनान्ध्रलाटद्रविडाधिनाथा द्वीपाधिपास्तीर्णपयोधयोऽपि । रूपश्रिया न्यकृतपञ्चबाणाः प्रचण्डकोदण्डधरा धरेन्द्राः ॥ २९ ॥ प्रत्युज्जगामावनिपालचक्रं चक्राङ्कुशाम्भोरुहमत्स्यवज्रः । महार्हचिहरुपलक्षिताभ्यां पद्भ्यां नरेन्द्रोऽपचितिं चिकीर्षुः ॥ ३० ॥ विधाय तेषां विधिवन्नृपाणां यथाक्रमं शक्रपराक्रमाणाम् । अादिकं कृत्यमनशीलः प्रावेशयत्तान्निजराजधानीम् ॥ ३१ ॥ रम्येषु हर्येषु सुरेन्द्रसद्मकल्पेष्वनल्पाद्भुतचित्रवत्सु । वासाय तान्वासवतुल्यधामा समादिशच्छीजनको जनेशः ॥ ३२ ॥ आधोरणा विश्रमयांबभूवुर्बाधो रणानामिह यैर्विसोढः । मतङ्गजानां प्रवरान्नृपाणां मतं गजानामिह ये विदन्ति ॥ ३३ ॥८.
काव्यमाला।
रथोत्तमान्सारथयो यथा खं तथा पृथक्चक्रुरथो हरिभ्यः ।
भारोह एके विदधुर्विभारान्क्रमेलकान्मेलितभृत्यवर्गाः ॥ ३४ ॥
वैदेहसुदैरुपकल्पितं तद्धृतप्लुतं खादु चतुर्विधान्नम् ।
तिकोषणाम्लैलवणैः कषायै रसैलसव्यञ्जनवर्गसंस्थैः ॥३५ ।।
सर्वे तथा भूमिभुजोऽप्यभुञ्जन्हैमेष्वमत्रेषु सभृत्यवर्गाः ।
वीक्ष्यामरा यहहु मेनिरे खात्सुधाधिपत्वाद्वसुधाधिपत्वम् ॥ ३६ ॥
शुभे तिथावृक्षगुणोपपन्ने लग्ने तथा दीनबलेशहीने।
रङ्गे महामण्डनमण्डिताङ्गं राजा महाराजकमाजुहाव ॥ ३७ ॥
रजान्तरं लोकवरं वरास्ते समं समासेदुरदीनसत्त्वाः ।
आकर्णितेनाद्भुतवर्णनेन गुणेन कृष्टा इव कन्यकायाः ॥ ३८ ॥
मयेन या रत्नमयेन सृष्टा द्रव्येण नव्येन पृथासुतस्य ।
जिता सभा येन विराजितापि ते मण्डपे मण्डनतामवापुः ॥ ३९ ॥
ततो नभःस्तम्भितभासुरोचविमानवातायनलम्बिबिम्बैः ।
सीताविवाहागतपार्थिवानां वर्गीयवगैः समलोकि लोकः ॥ ४० ॥
देवा नृदेवा अपि पूर्वदेवा रक्षांसि यक्षाः प्रतिकर्मदक्षाः ।
नागाः सुपर्णा अपि हेमपर्णाः समाययू राजसुताविवाहे ॥ ४१ ॥
तस्मिन्समाजे न ममुर्न लोकास्तत्रानुमानं त्वहमेतदूहे ।
यद्दर्शितं खीयमुखे जनन्यै जगच्चरस्थावरमच्युतेन ॥ ४२ ॥
नृपः श्रिया निर्जितकामरामां श्यामां महीमण्डलमण्डनाभाम् ।
धात्रीकरालम्बितचारुमालां बालां समाजेऽथ समाजुहाव ॥ ४३ ।।
अहं निराधिन मृणालिनीव विना हरि स्यामिति तर्कयन्ती।
मुहुर्भयं किंचन चिन्तयन्ती दुःशासनाच्चेतसि रावणाच ॥ १४ ॥
सीतास्वयंवरकाव्यम् ।
पदे पदे निन्दितधार्तराष्ट्रा पराक्रम कर्तुमशक्नुवन्तः ।
वरा इतीमे हृदि मन्यमाना कृष्णेव सा संसदमाप सीता॥१५॥
(युग्मम्)
रराज तद्राजसभागता सा सुधासितानां सविधे ग्रहाणाम् ।
सुरासुरैः क्षुब्धसुदुग्धसिन्धोः पारश्रिता श्रीरिव चारुरूपा ।। ४६ ॥
जितो गतेनैव गजः सुराणां ध्रुवा धनुः कल्पलताङ्गयष्ट्या ।
तया कटाक्षैः किल कल्पवृक्षा जिता नृपाः कामदुघापि दृष्ट्या ॥ ४७ ॥
जितेन्दुवकं जितरम्भमूलं युगं तु कण्ठो जितकम्बुरस्याः ।
अङ्गैरियं निर्जितसर्वरत्नैः कृता विधात्रा बहुलप्रयत्नैः ॥ १८ ॥
अस्यां स्थितायां जनकात्मजायां लोकावलीमध्यमणिप्रभायाम् ।
रत्नार्थिभिर्दानवदेववृन्दैर्मुग्धैः स दुग्धाम्बुनिधिर्ममन्थे ॥ १९ ॥
न खञ्जनो विस्मयते निरीक्ष्यतस्या विशाल चपलं च चक्षुः ।
विलोक्य को धैर्यमुपैति लोके न खञ्जनो यस्य तुलामुपैति ।। ७० ॥
अस्या भ्रुवो ये धनुषः कटाक्षैः शरैः स्मरस्यापि जिता युवानः ।
तज्जेतुरीशस्य कथं धनुस्ते सज्यं विधातुं मनसापि शक्ता ॥ ५१ ॥
बिलोक्य तां लोकनमस्कृताङ्गीमनुष्टुवन्नप्सरसो रसोल्दैः ।
इत्थं वचोभिः सुमनस्तरूणामपूजयस्ताः सुमनोभिरेताम् ॥ ५२ ॥
राज्ञां तदालोकनलोलुपानां मनः परं दृष्टिषु संक्रमय्य ।
आसीस्थितानामतिविस्मितानां मनुष्यमावेऽप्यनिमेषवत्त्वम् ॥ ५३ ॥
विलोक्य तस्या वदनं सुधांशु कन्दर्पपाथोनिधिवृद्धिहेतुम् ।
विकाशमीयुर्भस( श)मुल्लसन्ति तेषां मनःकैरवकोरकाणि ॥ ५४॥
निपीय रूपं हदि सरसरुस्तद्विलोकनावामरनायके ते ।
तथार्जुनं तत्परिरम्भणाय स्तवाय शेषस्य सहस्रशीर्णः ॥ ५५ ॥
काव्यमाला।
सौवर्णसिंहासनसंस्थितानां सूरेन्दुवंशोद्भवपार्थिवानाम् ।
प्रकाशिते बन्दिजनैश्चरित्रे संचारिते चागरुचारुधूपे ॥ ५६ ॥
आहारि हैमाचलसानुगानां यदामराणां क्षितिपैरभिख्या ।
संबोध्य सीतां विबुधेज्यबुद्धी राज्ञः पुरोधा गिरमित्यवादीत् ॥ ५७ ॥
अभूतपूर्वे भवतीमदभ्रबलोल्लसद्भूमिभुजां समाजे ।
वैदेहिगङ्गाधरधन्वभळे दाता वरेण्याय वराय तातः ॥ ५८ ॥
इतीरयित्वा विरते द्विजेन्द्रे मृगेन्द्रवत्पर्वतशृङ्गतस्ते ।
निजासनेभ्यः सहसोदतिष्ठन्परामृशन्तः परिघोरुबाहून् ॥ ५९ ॥
लाभाय सुस्त्रैणशिरोमणिस्ते दर्पादहंपूर्विकया कयापि ।
घराधिपा गाङ्गतरङ्गराजचूडामणेश्चापसमीपमापुः ॥ ६० ॥
ते वीक्ष्य चापं गुरु शंकरस्य न शंकरं सज्जविधानकाले ।
भृशं कराभ्यामपनेतुमीशाश्चतुर्दिगीशा अपि नावनीशाः ॥ ६१ ॥
केचिद्भुजाभ्यां भुजगेन्द्रभोगमहेन्द्रमातङ्गकरोपमाभ्याम् ।
उन्नेतुकामा जगृहुस्तदैशं धनुः पुनश्चालयितुं न शेकुः ॥ १२ ॥
निःश्वासमिष्वासमवेत्य शैवं बालामबालाब्जमनोहरास्याम् ।
अखण्डितं भूमिभुजो व्यमुच्चस्ततस्त्वलब्ध्वा विधिविप्रलब्धाः ॥ ६३ ॥
हतौजसो निर्जितवैरिवर्ण निजान्भुजान्धिग्धिगिति ब्रुवन्तः ।
ततो नृपाः खानि निवेशनानि यथागतं जग्मुरवाङ्मुखास्ते ॥ ६४ ॥
अभमममिप्रतिमप्रभावैः कोदण्डमाखण्डलतुल्यवीर्यैः ।
निरीक्ष्य चिन्ताम्बुधिममचित्तो जगाद वाचं मिथिलाधिनाथः ॥ ६५॥
चापो न कृष्टः किल राजकस्य शर्वस्य सर्वस्य च गर्वहारी ।
केनापि नाटकिन चाप्यचालि निर्वीरमुर्वीतलमद्य जातम् ॥ ६६ ॥
न चक्षमे राक्षसलक्षनाथो गर्वस्य पाथोधिरहीनबाहुः ।
बाहूद्धृतस्थाणुधराधरेन्द्रस्तत्कैकसीसूनुरिदं वचोऽस्य ॥ ६७ ॥
सीतास्वयंवरकाव्यम् ।
सलीलमामीलितभीमचक्षुश्चक्षुःश्रवा वा सुकथाप्रसङ्गः ।
सावज्ञमज्ञाननिधिळसर्पत्साधिराजोरुधनुःसमीपम् ।। ६८॥
चापं स संचालयितुं न सेहे बलात्यये शंकरकिकरोऽपि ।
मृगेन्द्रतीमेन्द्रविदोविंदारैर्गोष्ठश्चतुर्धस्यपिवोऽपि गौः किम्() ॥ ६९॥
गतेषु भूपेषु निवेशनानि पुलस्त्यसूनावपि भन्नदपै ।
विषादिचित्ते जनके जनेशचिन्ताकुले चापि कुले निमेश्च ॥ ७० ॥
निमन्त्रितो मन्त्रविदां वरिष्ठो गाधेरथो सूनुरगाधबोधः ।
समाययौ सानुजरामयुक्तो नृपेण सार्पण च सोऽभ्यगामि ॥ ७१ ॥
सत्कृत्य सत्कृत्यविदर्चनाभिर्मुनिं ततो दाशरथी रथीशः ।
अमज्जदानन्दसुधासमुंद्रे भद्रं हि सत्संगमतः किमन्यत् ॥ ७२ ॥
तेषूपविष्टेष्वथ विष्टरेषु विशिष्टशिष्टाचरणे निविष्टः ।
अतिष्ठिपदृष्टिलवेन पृष्टे भृत्यान्नृपोऽनुष्ठितपाणियोगान् ॥ ७३ ॥
रथाङ्गशब्दैः प्रतिराजरथ्यं द्वेषाभिरञ्चद्गजबंहितैश्च ।
समाकुलं मङ्गलतूर्यघोषैः सुताननैषीत्पुरमुग्रधाम्नः ॥ ७४ ॥
प्रसादमालाञ्चदबालचन्द्रबिम्बाननां राघवरूपऋद्धिम् ।
प्रेम्णा पपुः पौरपुरन्ध्रिवर्गा हर्षोल्लसन्मञ्जुलम नेत्रैः ॥ ७५ ॥
मुनि तदानुव्रजतो नृपस्य प्रत्यम्भशोभाहुतचित्तवृत्ते ।
मुहुर्मुहुर्लोचनचञ्चरीको निपेततू राममुखारविन्दे ॥ ७६ ।।
पक्षोल्लसहस्रसहस्रनेत्रपुरोहितश्रीनिवहं वहन्तः ।
अशीतरुक्कौशिकवंशदीपाः प्रापुर्महामण्डपमण्डनत्वम् ॥ ७७ ॥
रामं निकामं नयनाभिरामं काम निपीय क्षणमीक्षणाभ्याम् ।
सीताघिसंधौ पतितापि धैर्ये चरीकरीति स तरीमनल्पाम् ॥ ७८ ॥
हैमासनाध्यासिषु तत्र तेषु पत्रेषु पद्मप्रभवैलभेषु ।
नृपो निधायाञ्जलिमाल्यमौलि मुनि बुभुत्सुस्तमिदं जगाद ॥ ७९ ॥
काव्यमाला।
कंदर्पदर्पापहदेहसंपत्कपाटवक्षा युगदीर्घबाहुः ।
अयं सुतो वंशमलंकरिष्णुः कलङ्कशाका(खा)रहितस्य कस्य ॥ ८० ॥
अधिष्ठितां लोकगुरुविलोक्य धियं तदीयां विनयं नयं च ।
राजानमाजानुविलम्बिबाहुं तं ज्ञापयिष्यन्नृषिरेतदाह ॥ ८१ ॥
अयं दयी दाशरथिः कुमारो वंशाङ्कुरः पङ्कजिनीप्रियस्य ।
यत्पादपद्मस्य परागसङ्गात्सुस्त्रीत्वमापाथ शिलाप्यहल्या ॥ ८२ ।।
मदध्वध्वंसनपक्षरक्षःकक्षानलस्ताडितताडकोऽयम् ।
सलक्ष्मणः पूर्णवलक्षपक्षेऽप्यलक्ष्मपक्ष्मेन्दुविलासहासः ॥ ८३ ॥
धराभरापायविधावतीन्द्रः सुहृत्समुद्रोल्लसनैकचन्द्रः ।
समग्रलावण्यसुधासमुद्रः प्रतीतनामा भुवि रामचन्द्रः ॥ ८४ ॥
(विशेषकम्)
प्रकाशिते तद्गुणसिन्धुबन्धौ श्रोतृश्रुतिप्रीतिसुधाविधाने ।
महर्षिणा हर्षणगद्दस्य धराधिपस्याजनि लोमहर्षः ॥ ८५ ॥
स आशिखं पादनखाददोषं निरूप्य रूपं जितमीनकेतोः ।
मेनेऽस्य योग्यां तनयां वरस्य समस्तयोषिल्कुलमौलिरत्नाम् ॥ ८६ ॥
तद्रूपपीयूषसुखानुभूतेः सुकर्कशं तर्कयतोऽस्य चापम् ।
बभूव भूपस्य स रामचन्द्रश्चकोरकोको(?)दितभावहेतुः ॥ ८७ ॥
निपीय रूपं नयनाभिरामं निशम्य वंशं तिलकं नृपाणाम् ।
कुमारमेनं च कुभारमारकल्पं राज्ञाभ्यधायि प्रति गाधिपुत्रम् ॥ ८८ ॥
इयं कथा सार्थवहा सुधामिर्ध्वरातिदूने रसने सितेव ।
विन पुत्रीपणतापि तेने माधुर्यमाधित्सति गाधिसूनोः ॥ ८९ ॥
अस्माकमसिन्हृदयाधितापे गतोऽस्ति दृग्गोचरतां कृपालो ।
भवान्मुनेऽवाहतापितानां काले कृषीणामिव वारिवाहः ॥ ९ ॥
सीतास्वयंवरकाव्यम् ।
AN
वितापमन्तःकरणं विधित्सुर्दित्सुः पुनर्जीवितमस्य विप्रः ।
ऊचे कृपादावितचित्तवृत्ताः पराधिभङ्गप्रयता हि सन्तः ॥ ९१ ।।
एतद्धनुर्भेत्स्यति रामचन्द्रो वृथा कृथा मा नृप तापमन्तः ।
विधेहि विश्वासमते मदुक्ते तदत्र तेऽहं प्रतिभूर्मवामि ॥ ९२ ॥
तमःसु दुर्गेष्विव काननेषु न चित्रभानोः स्खलति प्रभावः ।
चापेऽन्यभूपालयशःशशाङ्कखर्भानुकल्पेऽपि तथास्य शक्तिः ॥ ९३ ॥
तद्वाक्यपीयूषरसातिवर्षाहर्षाकुले राजनि जायमाने ।
मानेन कस्यारतुषारभूभृत्सुतां सुता सावनिचक्रमर्तुः ॥ ९४ ॥
मुनिर्मनाम्हासविलासभासं समादिदेशाथ जयेति रामम् ।
कोदण्डमालोकय लोकभीमं महीपतेः पूरय शूर. कामम् ॥ ९५ ॥
श्रुत्वा वचः कौशिकवंशकेतोश्चेतोहरं प्राञ्जलिरप्रतोऽस्यात् ।
जनस्य राज्ञो जनकस्य रामस्तथात्मनो वा जनकात्मजायाः ॥१६॥
तं प्रण्यपप्तद्गुरुमाहिताग्निं कर्तु धनुर्भञ्जनमञ्जनाभः ।
मुंगेन्द्रविक्रान्तगतिस्ततोऽसौ चण्डीशकोदण्डसमीपमागात् ॥ ९७ ॥
निरीक्ष्य तत्कार्मुकमुग्रतेजाः प्रगुप्तभोगीश्वरभोगभीमम् ।
भीमस्य मीमासुरभीतिकारि प्रदक्षिणं दक्षिणलक्षणोऽगात् ॥ ९८ ॥
ततो गृहीत्वैककरेण रामः कामप्रसूनेष्वसनं यथैव ।
द्रागाततज्यं मिषतामकार्षीत्सभासदामेतददीनसत्त्वः ॥ ९९ ॥
प्राजिष्णुजिष्णुस्तमचारुचापधनं विनिन्दन्स वपुःश्रिया तत् ।
चकर्ष हर्ष जनयञ्जनानां बभञ्ज भञ्जन्दशमौलिमानम् ॥ १० ॥
छन्ना नरेन्द्रनं विचालितं यद्भनं धनुस्तद्रधुनन्दनेन ।
कार्य सहस्रोसविधानयोग्यं विघीयते जातु न तारकाभिः ॥ १०१॥
किमत्र चित्रं त्रिपुरारिचापोऽमुना सलीलं शकलीकृतो यत् ।
मदान्धमातङ्गघटां परिष्ठः किं केसरी न प्रजरीहरीति ॥ १०२ ॥
१२२
काव्यमाला।
विलोक्य लोकेन जयेति तस्य सपर्यया सार्धमुदीर्यमाणे ।
सीता समारोफ्यदस्य कण्ठे कण्ठीरवाकुण्ठपराक्रमस्य ॥ १०३ ॥
जितप्रवालेन नखैस्तलेन करेण मालामवलम्ब्य माला ।
वर्षा ववर्षामरभूरुहाणां पुष्पाणि गन्धोन्मदषट्पदानि ॥ १०४ ॥
ववौ समीरः सुरसिन्धुनीरविकाशिपङ्केरुहरेणुगन्धिः ।
महोत्सवे तदिवि देवनुन्ना मन्द्रं मुहुर्दुन्दुभयो विनेदुः ॥ १०५ ॥
सभा जयन्ती च सभाजयन्ती तं राघवं माध(द)वती नुनाव ।
आकर्ण्य कर्णैः प्रणिधिप्रणीतं कठोरकोदण्डविघट्टनं तत् ॥ १०६ ॥
अभूत्स तापाय दशाननस्य सिन्धोर्यथा वाडवहव्यवाहः ।
अमानि मानापहरं नरेन्द्रविश्वस्य निःश्वस्य तदा महर्षेः ॥ १०७॥
रङ्गेऽमुमानीतवतोऽस्य विश्वामित्रत्वमत्र स्फुरतीति चित्ते ।
चकोरवत्प्रीतियुजि क्षितीशे तदात्मजायां च कुमुद्रतीवत् ॥ १०८ ॥
पयोधिवत्कौशिकवंशदीपे तमोपहोऽराजत रामचन्द्रः।
गुरुं गुरोश्चित्रशिखण्डिजस्य स्फूर्ति(ती)स्तिरस्कर्तुमपि क्षमं खम् ॥१०९॥
वक्तुं स वार्तामजनन्दनाय विदेहराजः प्रजिघाय तूर्णम् ।
सा केतुभिस्तोरणमण्डलैश्च साकेतपूर्भूरिविलोकनीया ॥ ११० ॥
विलोकितायाखिललोकसारा सारामकासारवती द्विजेन ।
गृहानिरीक्ष्याखिलसागराणां रत्नविचित्रानथ नागराणाम् ॥ १११ ॥
विप्रोऽविशद्वाजगृहं विशालं वियद्विभागाश्रितचन्द्रशालम् ॥
प्रस्कन्दितेन खरथाद्यथावत्सविष्टरैः स्वागतवाक्यपूर्वैः ॥ ११२ ॥
समर्हणैः पतिरथेन तेन सभाजितेनाशु सभाप्यभा(जि)।
घरातुरावाहि निवेद्य पूर्व विप्रः प्रणामं मिथिलाधिपस्य ॥ ११३ ॥
रामस्य तं विक्रममुग्रशक्तेर्व्यक्तेन वाक्येन जगाद भूयः ।
द्विजाधिपाद्वागमृतं निपीय पीयूषतः खादुरसं रसेन्द्रः ॥ ११४ ॥
सीतास्वयंवरकाव्यम् । १२३ समादिशत्सैन्यपतिं व्रजाशु प्रयाणघोषं खलु घोषयेति । प्रास्थानिके दुन्दुभिमन्द्रनादे समं समुज्जृम्भति दिक्षु मङ्ख ॥ ११५ ॥ (युग्मम् ) यथायथं क्षत्रियपुङ्गवास्ते संना भेजुर्वरवाहनानि । मतगजैः कज्जलशृङ्गितुङ्गैस्तुरङ्गमैनिर्जितवातवेगैः ॥ ११६ ॥ वरूथिभिर्दाशरथी रथैश्च सेनाजगामाद्भुतयोधजुष्टा । संगच्छमानं बहुमानपूर्वमभ्यागतः सभ्यतमं तमय॑म् ॥ ११७ ॥ उपानयत्वं पुरमानिनाय स मैथिलः कोशलदेशनाथम् । धराधिपौ वासववित्तपालसमौ समाज समये समेत्य ॥ ११८ ॥ कन्याकुमारोद्वहनोत्सवं तौ वितेनतुः खप्रभुतानुरूपम् । तां रामरामावरणे ह्यभिख्यामाख्यातुमीशः कथमेकजिह्वः ॥ ११९ ॥ शेषोऽप्यशेषाननयुग्मसंख्यै- तच्छतैर्वक्तुमनीश्वरः स्यात् । परापवादानृतदूषिताया गिरः पवित्रीकरणाय कृत्यम् ॥ १२० ॥ तितिक्षुभिः क्षाम्यमिदं कवीन्द्रैः शुकस्य मे यद्गरुडायितं स्यात् । अपारसंसारपयोधिपूरे निमज्जतां नैकजनुस्तनूनाम् ॥ १२१ ॥ पोतायितै रामगुणैरुदारैर्भूयात्कृतार्था मम भारतीयम् । त्वन्नाम रामाखिलकामधाम निष्कामनिःश्रेयसदं वदन्ति ।। १२२।। मा सन्तु तेषां यमयातनास्ता या इन्द्रवज्रादपि दुःसहाः स्युः । नयद्रवीभूतमभूतपूर्वमुदाहृदाविष्कृतशान्ति पुंसाम् ॥ १२३ ।। भवत्कथाकर्णनमाधुरीभिरुपेन्द्रवज्रादपि तत्कठोरम् । वर्णा भवद्वर्णनपूर्णकर्णाः संसारपाथोनिधिमुत्तरन्ति ॥ १२४ ॥ (युग्मम्) काव्यमाला। किमत्र चित्रं द्विजबाहुजाद्या गतिं लभन्तेऽप्युपजातयोऽन्ये । त्रिभिस्त्रिपद्याश्रितचारुवृत्तैः कृतं यथाबुद्धि मया बुधैस्तत् । विलोकनीयं रघुनन्दनस्य यतो यशो लोकगुरोर्गुरुत्वात् ॥ १२५ ।। श्रीधीरपीताम्बरनन्दनेन कृता सकृत्सत्कविवन्दनेन । हृत्सारिसारखतदिव्यधाम्ना काव्यं प्रणीतं हरिकृष्णनाम्ना ॥ १२६ ॥ श्यामा कामाभिरामा सविधगततडित्कामरामाभिरामा(म)- श्यामावामाक्षिदृष्टा सकलजनमनःप्रीतिकादम्बिनीव । विभ्राजद्भूरिभूषामणिकिरणहरीष्वासशोभा विवाहे जीयात्पुत्र्या धरित्र्याः सह बहलगुणस्रग्धरा राममूर्तिः ।। १२७ ॥ इति श्रीहरिकृष्णभट्टविरचितं जानकीवयंवरं काव्यं समाप्तम् । श्रीब्रजराजदीक्षितविरचितं षडतुवर्णनकाव्यम् । निजाधहृतशंकरं सकलदैत्यनाशंकर जगत्रितयशंकरं खजनचित्तनिःशंकरम् । ममाशु भजतः पुरं धृतवसुंधरान्तःपुरं करोतु निजतः पुरं पशुपतेः सदान्तःपुरम् ॥ १॥ श्रीसामराजगुरुनाथपदं विभाव्य श्रीसामराजपदपद्ममिलिन्दकोऽहम् । श्रीकामराजपितृपत्परिसेवनेन श्रीकामराजपृतनारचनां करोमि ॥ २ ॥ आज्ञया विबुधेशस्य पडतु()कृतसेनकः । शूलपाणिं शिवं जेतुं चचाल कुसुमायुधः ॥ ३ ॥ 'सर्वत्' इत्युचितः पाठः.
षड्तुवर्णनकाव्यम् । सौरभ्यसौरभितसौरभमञ्जरीषु भृङ्गावली विजयते विजयाय यूनाम् । श्रीमन्महामदनभूमिपतेः सदैव संलग्मतीक्ष्णतरबाणधनुर्लतेव ॥ ४ ॥ भृङ्गाङ्गनालिनिवहैर्मधुपानलुब्धैः संवेष्टितानि परितो नवकिंशुकानि । किं कालकूटरसलेपनलेपिता हि चन्द्रेषवः सरनृपस्य वने विभान्ति ॥ ५॥ मलयजनितवृक्षोद्भूतबालप्रवाल- प्रकरसुरभिवाहैर्गन्धवाहैः समन्तात् । तरलतरलचञ्चत्पल्लवा भाति रम्भा- सरणिरिह पताकालीव कामस्य राज्ञः॥ ६ ॥ नूनं वियोगिजनवैरिचमूजयाय निर्गच्छतः कुपितकामनराधिपस्य । उच्चैरसालकलिकामधुपानमत्त- पुस्कोकिलध्वनिमिषेण ररास ढक्का ।। ७ ॥ प्रसूनधनुरुद्वहन्कुसुमपञ्चबाणांस्तथा विनिर्जितजगत्रयः कृतसहायपुष्पाकरः । त्वमीदृश इति स्मरक्षितिपतेः क्षितौ कूजितैः स्तुवन्ति पिकवन्दिनस्तुहि तुहीति जानीमहे ॥ ८॥ अग्रे समागतवियोगिचमूसमूहा- न्गुञ्जामिषात्कलकलेन निवारयन्तः ।
१२६ काव्यमाला। अग्रस्थपत्तय इवालिगणाः प्रयान्ति श्रीमन्महामदनभूमिपतेर्वनेषु ॥ ९॥ इति वसन्तवर्णनम् । भृङ्गाङ्गनारवमिषाद्वनदेवताभिः संवादितानि कुसुमानि सुपाटलानाम् । ग्रीष्मस्य कामपृतनाजनराष्ट्रिकस्य शृङ्गाणि भान्ति पुरतो विपिनेषु मन्ये ॥ १० ॥ भृङ्गाङ्गनारवमिवाद्वनदेवताभि- ३जास्यवायुपरिपूरणवादितानि । श्रीकामभूपपुरतो विपिनेषु मन्ये सूर्याणि मल्लिकुसुमानि शुचौ विभान्ति ॥ ११ ॥ तीराधिरूढलतिकात्रजमण्डपासु फुल्लारविन्दमधुगन्धमनोहरासु । अग्रेगताधिकपरिश्रमजातखेदाः केचिजनाश्च सरसीषु गता विमङ्गुम् ॥ १२ ॥ अथ नवधनपत्रालीविचित्रं मनोज्ञ मधुरतरपयोभिर्वक्रपर्यन्तपूर्णम् । कुचयुगलमपश्यद्यत्प्रपापालिकानां शकुनकलशयुग्मं दूरतः कामभूपः॥ १३ ।। पक्कामसंभृतिकृतच्छदपञ्चशाख(ख-) युग्माञ्जलिं नवरसालवनीमपश्यत् । SAGEMA षडतुवर्णनकाव्यम् । १२७ मध्येपथं नु वलिताम्बसरक्षकस्य(?) द्वैतीयकं शकुनमेतदनङ्गभूपः ॥ १४ ॥ इति ग्रीष्मवर्णनम् । असितकमलनीलश्चञ्चलाशृङ्खलोऽसौ विशदतरबलाकालम्बिनक्षत्रमालः । मदजलमपि मुञ्चन्केकिनादाप्तघण्टो द्विरद इव पयोदः शम्बरारेविभाति ॥ १५ ॥ चपलकनकविद्युबल्गया शोभितास्यः सुरपधनुविचित्रीभूतपल्यायनश्च । समयधृतबलाकापतिवल्गाच्छरज्जु- स्तुरंग इव पयोदः शम्बरारेविभाति ॥ १६ ॥ नीलाच्छाम्बरचञ्चलाञ्चललसत्सौवर्णचीनाञ्चल- प्रादुर्भूतपयोधरा समयसद्वंशाप्रसंरोहिणी । नानावर्णसुरेन्द्रकार्मुकमहादण्डं दधाना पुरः श्रीमत्कामनृपस्य सादरमियं वर्षानटी नृत्यति ॥१७॥ विद्युत्सुवर्णकृततन्तुनिबद्धमान- देवाधिपायुधधृतातुलवंशदण्डा । आसारगुच्छरुचिरां धनवादिकाढ्या- मारुह्य याति नु वियच्छिबिकामनङ्गः ॥ १८ ॥ अनिलकलितचक्रः श्याममेघाश्वयुक्तः सतततरलविद्युद्वैजयन्त्याभिरामः । १. 'वनितां वनरक्षकस्य' इति भवेत्. मालिनीमित्यर्थः. उ. ७ इत्युणादिसूत्रेणोकारान्तोऽपि धनुःशब्दः..' २. 'भूभृशीत' १२८ काव्यमाला। स्तनितधृतविलान्तःकालसूताधिरूढो रथ इव च विहायः शम्बरारेविभाति ॥ १९ ॥ इति वर्षावर्णनम् । नक्षत्रमौक्तिकगणालिवृतः समन्ता- द्रोदोऽन्तरालपृथुदण्डविराजमानः । ऊर्ध्व शरत्समयमानवसंधृतोऽयं कामातपत्रमिव भाति कलाधिराजः ॥२०॥ श्वेतोत्पलप्रकरगन्धवहेन गन्ध- वाहेन पार्थनिकटस्थितमानवेन । आन्दोलितं विशदनूतनकाशपुष्पं कामस्य चामरमिवावनतं विभाति ॥ २१ ॥ मदक्षयवशादिवावगलिताच्छपुच्छब्रज कृतोच्चतरकंधरारुचिरनालिकाधिष्ठितम् । धनान्तशरदन्तरासमयमानवप्रोद्धृतं चकार शिखिनं विधिर्मदनधूम्रयन्नं नु किम् ॥ २२ ॥ जवजितमरुदालीशारदखच्छमेध- प्रकरतुरगरूढा भ्रूकटाक्षात्तशस्त्राः । अमरनगरनार्यः प्रौढयुद्धाश्ववारा इव मदननृपस्यायान्ति पार्श्वे च पश्चात् ।। २३ ।। पृष्ठारोहितवस्त्रसमनिकरश्रीराजवेषोचित- वच्छानेकतदायुधोज्ज्वलपरीधानांशुकग्रन्थयः । संध्यारागकडारशारदपयोवाहव्रजाः पृष्ठतः श्रीमत्कामनृपस्य यान्ति करभाः किं सत्वरं वेगिनः ॥२४॥ इति शरद्वर्णनम् ।
- षड्तुवर्णनकाव्यम् । १२९ अग्रे तदात्वगतवाजितदश्ववार- पाश्चात्यसादिगणवाजिखुरोद्धताशु । रोदोन्तरालमधिकृत्य विसर्पमाणा धूलिच्छटेव परितः शुशुभे हिमानी ॥ २५ ॥ युद्धं गणाधिपतिनापि शिवेन कर्तु- मासाद्य शीतगिरिदुर्गमनङ्गभूपः । आज्ञप्तवानथ निजान्परिचारकाग्र्या- न्सेनानिवेशनविधि त्वरितं विधातुम् ॥ २६ ॥ संध्याविचित्रविविधाधिकवर्णशोभि कीरालिनद्धरसनं तुहिनं विभाति । रोदोन्तरालमधिकृत्य दिगन्तसंस्थं किं चीवरावरणमेतदनङ्गराजः ॥ २७ ॥ अस्तोदयादिशिखरोज्वलकीलनद्ध- सूर्येन्दुसान्द्रतररश्मिसुरश्मिनद्धम् । तारावलीसमशुकालिविराजमान- कामाम्बरालयमिवाम्बरमद्य भाति ॥ २८ ॥ वायोर्निवारकदिगष्टकपर्वताच्छ- संस्थापिताश्मकलशं तुहिनतुपूषा । सूर्यास्तकालजनितं प्रसृतं तुषारं किं चन्द्रिकास्तरणमेतदनङ्गराजः ॥ २९॥ इति हेमन्तवर्णनम् । कर्तुं निर्जरसुन्दरीभिरमलान्कर्णावतंसान्क्षणा- दुद्वांतानि सरोरुहाणि शिशिरे जानीमहे कानिचित् । ९ चतुर्दशगु० काव्यमाला। पानीयं सरसीषु पातुमथ तन्मकुं गतैः कानिचि- च्छ्रीमत्कामनृपस्य हस्तिनिवहैरुन्मूलितानीव किम् ॥ ३० ॥ धनुस्तीक्ष्णान्बाणान्स्थितमपि निधाय स्खपुरतो गणानामीशं तं कुसुमविशिखो ज्याखतिबलात् । इतीवेयं चित्रं सकलंकुसुमोत्फुल्लनमिषा- द्धसन्ती कुन्दानां विपिनसरणिति शिशिरे ॥ ३१ ॥ अचपलतरभृङ्गाक्रान्तमध्यस्थभागं नरगस(?)नवपुष्पं भाति संमोहनाय । किमु नवरजताब्यस्थालिकास्थैणनाभी- घुसृणजगुटिकेयं स्थापिता मन्मथाग्रे ॥ ३२ ॥ कुन्दप्रसूनकलिकाशरपञ्चकस्य तत्फुल्लपुष्पभरकार्मुकमाविधाय । श्रीमन्मनोजनृपतिर्हि मनो हरस्य लक्षीचकार गिरिजाभिरतं नु कर्तुम् ॥ ३३ ॥ तद्वाणविद्धहृदयः सदयं विलोक्य पार्श्वस्थशैलतनयाननचारुपद्मम् । हृष्टान्तरः स हि बभूव तथा यथाशु खार्धाङ्गभागसुहृदं किल तां चकार ॥ ३४ ॥ कुर्वते च नमस्तस्मै मन्मथाय सुराधिपः । ततः प्रासादमानीय पारितोषिकमादिशत् ॥ ३५॥ तत्पारितोषिकमसौ शिरसाभिवन्ध सद्यो गृहीतविबुधाधिपसंमताज्ञः।
शृङ्गारामृतलहरी । गत्वा खकीयसदनं रतिमाविलोक्य हृष्टान्तरः समभवत्स मनोजभूपः ॥ ३६॥ इति शिशिरवर्णनम् । इति श्रीवान्धवकोपनामकश्रीकामराजदीक्षितात्मजश्रीब्रजराज- दीक्षितविरचितं षड्तुवर्णनकाव्यं समाप्तम् । श्रीसामराजदीक्षितविरचिता शृङ्गारामृतलहरी। सिन्धुसुताकुचकुङ्कुमपाटलवक्षःस्थलं किमपि उपवीणितं च निगमैः सटाजटालं महः कलये ॥ १ ॥ नरहरिविन्दुपुरंदरजनुषा विदुषाथ सामराजेन । शृङ्गारामृतलहरी विरच्यते रसिकजीवातुः ॥ २॥ तत्र तावद्रसो विचार्यते। स्थायिभावो रसः। ननु स्थायित्वव्यपदेशतया रसस्य नैरन्तर्यापत्तिः । मैवम् । विरु- द्धाविरुद्धभावानभिभाव्यतया स्थायित्वव्यपदेशो, न तु नित्यतया । उक्तं च भरतेन- 'विरुद्धा अविरुद्धा वा यं तिरोधातुमक्षमाः । आनन्दाङ्कुरबीजोऽसौ भावः स्थायिपदास्पदम् ॥ केचित्तु स्थायिवृत्तिरूपः सूक्ष्मोऽन्तःकरणपरिणामविशेषोऽन्तःकर- शात्मा धर्मधर्मिणोरभेदादित्याहुः । वस्तुतस्तु-आनन्दरूपप्रका- शमानं स्थायिभावावच्छिन्नं चैतन्यं रसः । स्थायिभावा- वच्छिन्नपदेन चित्स्वरूपं ब्रह्मैव 'रसो वै सः, रसं ह्येवायं लब्ध्वानन्दी ३ काव्यमाला। भवति' इति श्रुतेः । आनन्दप्रकाशत्वं तु भग्नावरणत्वमिति बोध्यम् । तेनावरणसत्त्वे न रसोद्बोधः । आवरणं त्वज्ञानमेव । विषयान्तरास- क्तिरिति यावत् । अत एवोक्तं 'चळमाणतैकप्राण' इति । तथा च पानकरसन्यासेन 'मुहुर्मुहुश्चर्व्यमाणो ब्रह्मानन्दाखाद इव प्रादुर्भवन्नलौ- किकचमत्कारी भग्नावरणतया स्वप्रकाशरूपो रस आविर्भवति । चर्वणा चानन्दाभिव्यक्तिः ॥ ननु कथं विषयान्तरव्यासक्तावपि न सेति चेत् । न । विभावादिज्ञानाभावात् । अत एवोक्तम्-'विभावादिजीवितावधिः' इति । भावयति वासयति ( इति ) भावो वासना तेन विगलितवास- नेषु न रसप्रसङ्गः । ननु चिदानन्दोबोधः कथमन्तःकरणवृत्तिविशेषः स्थायिभावाभिव्यक्तावेवेति चेत् । न । इदमवधेयम् । वेदान्तमते ज्ञानत्वा- वच्छिन्न आत्मभाननैयत्यात् काव्येऽपि 'विभावादिभिर्व्यक्तः स्थायी । तस्थामभिव्यक्कावन्तःकरणवृत्तिरूपायामात्मापि चैतन्यानन्दस्वरूपो भा- सते । आत्ममनोयोगरूपात्मभानसामग्रीसत्त्वात् । तथा च पर्यवसित- मेवान्तःकरणवृत्तिविशेषस्थायिभावाभिव्यक्तावानन्दरसोबोध इति । तत्र च विभावादिसंभेदोऽप्यावश्यकः । उक्तं च भरतेन । 'खादः काव्यार्थसंभेदो ब्रह्मानन्दसमुद्भवः' इति । काव्यार्थो विभावादिः, संभेदो ज्ञानम् । उक्तं च 'विभावानुभावव्य- भिचारिसंयोगाद्रसनिष्पत्तिः' इति । तथा चालम्बनोदीपनभेदाद्विभावो द्विविधः । तत्रालम्बनानि ललनादीनि, उद्दीपनान्युद्यानादीनि, अनु- भावाः कटाक्षादयः, व्यभिचारिणो निर्वेदादयः । अत्र केचित् 'सर- लेनैव कृशोदरि विलोचनेनास्ति हस्तगा जगती । क्रूरारालेन पुनः कठिने किं कासे यूनाम्' इत्यादौ कटाक्षादीनामुद्दीपनत्वप्रतीतेः कथ- शृङ्गारामृतलहरी । १३३ मनुभावरूपतेति चेत्, नायिकानिष्ठकटाक्षस्य नायिकानिष्ठरसेऽनुभाव- कतया नायकनिष्ठरसे तु तस्योदीपनत्वेऽपि नानुपपत्तिलेशोऽपि । रसत्वं च रसो रस इत्यनुभवसाक्षिको जातिविशेषः । स्तम्भादिकारणताव- च्छेदकतया रसत्वजातिसिद्धिरित्यन्ये । आदिपदाद्भरतोक्ताः खेदरोमा- चप्रमुखा अवगन्तव्याः । 'स्तम्भः खेदोऽथ रोमाञ्चः खरभङ्गोऽथ वेपथुः । वैवर्ण्यमश्रुप्रलय इत्यष्टौ सात्त्विका मताः ॥' इति । ते यथा- - 'रोमाञ्चः कुचयोः खरच्युतिरथो वाचां प्रपञ्चे पदे स्तम्भः खेदपरम्परापरिचिता गण्डस्थली सुभ्रवः । वैवर्ण्य वदनेऽश्रु लोचनयुगे बिम्बाधरे वेपथु- मालिन्यं हृदये तदद्य विषयः प्रायो हरिनॆत्रयोः ॥' तत्प्रत्येकोदाहरणे वेपथुस्तम्भौ यथा-- 'यूयं यात पदं न याति पुरतः प्रादुर्भवत्कम्पया वक्षोजद्वयभारखिन्नतरयाक्रान्तं भृशं जक्या । आवासोऽप्यतिदूर एव शनकैर्यास्येऽहमित्येकया तस्थे सस्मितमाकलय्य तरुणं कुञ्जोदरे बालया ।' 'शृङ्गारवीरकरुणारौद्रहास्यभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ।। केचित्तु 'नासीः खेलनरागि पीतवसने बद्धादरं शैशवे नाभूश्चन्द्रमुखीसुखं गिरिधरे रजि क्षणं यौवने ।
काव्यमाला। HOOD नादास्तान्तिमदजनाभचरणे बुद्धिं परं वार्द्धके चेतश्चिन्तय चक्रपाणिचरणावन्तेऽपि खेदं जहि ॥' इत्यादिप्रतिपाद्यो निर्वेदस्थायिकः शान्तोऽपि नवमो रस इति प्राहुः। प्रपञ्चस्तु प्रकृतेऽनुपयुक्तत्वादुपेक्ष्यः । तत्र शृङ्गारत्वं तु रतिप्रकर्षे सति रसत्वसाक्षायाप्यजातिमत्त्वम् सत्यन्तकृत्यं स्पष्टम् । विशेष्यदलं च भाव- संकरेऽतिव्याप्तिवारणाय । निरुक्तिस्तु । 'शृङ्गं हि मन्मथोद्भेदस्तदागमनहेतुकः । पुरुषप्रमदाभूमिः शृङ्गार इति गीयते ॥' स च संभोगविप्रलम्भभेदाद्विधा । संभोगलक्षणं तु विप्रलम्भभि- नत्वे सति रतिप्रकर्षत्वम् । खरूपमुक्तं कारिकाकृता- 'अनुरक्तौ निषेवेते यत्रान्योन्यं विलासिनौ । दर्शनस्पर्शनाद्यैश्च संभोगोऽयमुदाहृतः ॥' तत्र दर्शनं त्रिविधम् साक्षाच्चित्रखममेदात् । साक्षादर्शनं यथा- 'विसस्तनीविविशदीकृतरोमराणि राजीवलोचनयुगं परिमीलयन्तीम् । बाहू मुहुर्वलितकंधरमुत्क्षिपन्ती शातोदरीं त्यजति न क्षणमक्षि मेऽद्य ॥' स्पर्शनं निधुवनं यथा- 'न्युजीभूतः कनकशिखरी हादिनी बद्धमूला खेलत्येषा वियति विसृजत्येष ताराकदम्बम् । भूयः खिन्नं गिलति तमसां वृन्दमिन्दं सरोज चुम्बत्येनं कुसुमधनुषः सृष्टिरन्यापि धन्या ।' रतिप्रकर्षे सति इष्टानातिविप्रलम्भः ।
शृङ्गारामृतलहरी।
१३५
तदुक्तम्-
'भावो यदा रतिर्नाम प्रकर्षमधिगच्छति
नाधिगच्छति चाभीष्टं विप्रलम्भस्तदोच्यते ॥'
'संभोगेऽतिव्याप्तिवारणाय विशेष्यदलं, सत्यन्तं च करुणेऽतिव्या-
प्तिवारणाय । वस्तुतस्तु सत्यन्तपदादानेऽपि प्राप्तियोग्यत्वस्याभीष्टविशे-
षणात् 'आशाबन्धः श्लथीभूतश्चिन्तादिव्यभिचारकः । विरहाकरुणाभीष्ट'
इत्युक्ते करुणेऽभीष्टस्य प्राप्तियोग्यत्वाभावान्न करुणेऽतिव्याप्तिः । सच
अभिलाषविरहेणूंप्रवासशापहेतुकः पञ्चधा । तत्र यूनोरन्योन्यप्राप्तीच्छा
अमिलापः।
यथा-
।
'दरविकसितपुण्डरीकपर्षन्निबिडविडम्बनदक्षमक्षि तस्याः ।
अलसवलितमुल्लसत्प्रमोदं कथमपि मन्मथमन्थरं मयि स्यात् ॥'
देशैक्येऽपि गुर्वादिपारतत्र्यान्निरोधो विरहः । तज्जो यथा-
'केनापि त्वयि कारणेन सुतनोर्नोपागते देहली-
मद्यासीद्यदकाण्ड एव चरितं तस्याः किमाचक्ष्महे ।
पाटीरैर्गरलायितं सुमनसां वृन्दैः स्फुलिङ्गायितं
चन्द्रेणापि दिवाकरायितमहो हारैर्भुजङ्गायितम् ॥'
यूनोः प्रेमानुबन्धाद्विनाकारणं कोप ईर्ष्या स च मानः ।
'अस्तस्रस्तो गगनसरसीसारसः शीतरश्मि-
तारा हारा अपि विगलिताः कण्ठतो यामवत्याः।
जज्ञे चैतन्नमुचिरिपुदिक्चुम्बि मार्तण्डबिम्ब
मानग्रन्थिस्तदपि यतते त्वां न मोक्तुं कृशाङ्गि ॥'
काव्यमाला। प्रवासो देशान्तरस्थितिस्तद्धेतुको यथा- 'चैत्रे नेत्रे वितरति रुजं कन्दली भूरुहाणां सूचीवेधं श्रवसि तनुते काकली कोकिलानाम् । सेप्य कार्य दिशति विशिखैः पञ्चभिः पुष्पधन्वा तन्व्यास्तापं सृजति बिसिनीपत्रपर्यङ्कशय्या ।।' शापो मुन्यादिकोपस्तद्धेतुको यथा कालिदासस्य--'त्वामालि- ख्येत्यादि । तत्र शृङ्गारस्य प्रथमगणितत्वात्तदालम्बनभूतत्वान्नायका निरूप्यन्ते। ननु शृङ्गारस्य कथं प्राथमिकत्वमिति चेत् न । 'शृङ्गारवीरकरुण' इत्यादि भरतोक्तेरिति गृहाण । न च तेनोक्तं कथमस्य तत्त्वं वैपरीत्ये किं नियामकमिति वाच्यम् । निखिलादिभूतस्य तत्रभगवतो विष्णोर- स्याधिदैवतत्वात् । ननु तदालम्बनभूतत्वं तु नायिकानामपि; तत्कुत एतेषामादावभिधानमिति चेत् न । सूचीकटाहन्यायेन तेषां प्रथमनि- रूपणेऽपि न क्षतिः । ते तु त्रिविधाः पत्युपपतिवैशिकमेदात् । तत्र विधिवत्पाणिग्राहित्वे सति प्रेमवान्पतिः । सत्यन्तकृत्यं स्पष्टम् । विधिवत्पाणिग्राहिणि परमहिलासक्ते चोपपतावतिव्याप्तिनि- रासाय विशेष्यदलम् । अनारतपरदारविहारी उपपतिः। बहुलवेश्योपभोगनिरतो वैशिकः। क्रमेणोदाहरणानि- 'चण्डं चण्डगभस्ते मा किर किरणं समीर चर मन्दम् । गन्तुं हतकेन मया समं कृशाङ्गी समीहते विपिनम् ॥' 'मुषितरदपदं नकारशोमि श्लथकुसुमाकुलकुन्तलं नितान्तम् । प्रणयंभयविलोललोचनान्तं पुरसुदृशां परिचुम्बनं समीहे ॥'
शृङ्गारामृतलहरी । १३७ HOURS ...... 'मन्दाक्षावरणव्ययप्रकटितप्रेमप्रपञ्चं मदा- पूर्णल्लोचनमुन्मदस्तनतटं साटोपहासं मुहुः । आशासे स्फुटहावभावमधुरं हालाविलासस्फुर- द्वाक्यं वारमृगीदृशां प्रतिदिनं रम्यं परीरम्भणम् ॥' तेतु प्रत्येकमनुकूलशठधृष्टदक्षिणभेदाच्चतुर्धा । परंतु पत्यावनुकूल- स्योपपतौ शठत्वस्य वैशिके शठत्वादीनां नैयत्यमितरेषां गौणता। तत्र नायिकानुरक्तो नायक अनुकूलः । यथा-- तनवै नलिनीदलैः समीर रचये निचयेन पल्लवानां हिमकल्पं तव किं कृशाङ्गि तल्पम् ॥ कामिनीविषयककपटपटुः शठः । यथा- 'एतत्ते हृदि लक्ष्म सुन्दरि भृशं सामुद्रिकं दृश्यते श्रेयोऽह्नाय किमप्यनेन भविता वामाक्षि संलक्ष्यते । धूर्तः पाणितलेन पङ्कजदृशो वक्षःस्थलीमामृशन् साकूतं मुषितस्मितं कुचतटीमामर्दयंस्तुष्यति ॥' तर्जनेऽपि प्रश्रयवान्धृष्टः । तदुक्तम्- 'कृतागा अपि निःशङ्कस्तर्जितोऽपि न लज्जितः । भूयः प्रश्रयवानेति धृष्टः स परिकीर्तितः ॥' यथा--- 'निषिद्धोऽसौ वाग्भिर्गरलकलुषाभिः सखि मुहु- र्मुहुर्दृष्टः कोपारुणतरलया हन्त कुदृशा । पराचीभूतायाः शिथिलयति बन्धं मम पुन- विविक्तं कञ्चक्याः किमथ करवै धृष्टतरुणैः(णः) ॥'
MORE १३८ काव्यमाला। सकलमहिलासमरागो दक्षिणः । तदुक्तम्- 'सर्वासां नायिकानां यः समरागः स दक्षिणः । यथा- 'एकां चुम्बत्येकां श्लिप्यत्यपरां प्रसाधयत्यन्याम् । रमयति समानरागो रासरसे गोपिकारमणः ॥' चतुरमानिनोः शठ एवान्तर्भावः । तत्र वचनचेष्टाव्यङ्ग्यवृत्तिभेदा- दाद्यो द्विधा । वचनव्यङ्ग्यवृत्तान्तो यथा- 'अटवीमटवी निशासु यान्त्यास्तटवीचीलुलितां कलिन्दसूनोः । तव सुन्दरि संगचारिणा वा भवितव्यं सुकृतेन कस्य पुंसः ॥' द्वितीयो यथा- 'वितन्वाने रदपदं नवे माकन्दपल्लवे । कान्ते हरिणशावाक्षी निनिन्द करमालिनम् ॥' मानी यथा- 'अपसर मम न स्पृशेः शरीरं प्रणयरुषा ननु भाषिते मयैतत् । शिवशिव शिबिरं विहाय यातः कथयत किं करवाणि जीवितेशः ।।' एते चोत्तममध्यमाधमभेदात्रिधा । यत्तूत्तमत्वादयो भेदा वैशिक- स्यैव नेतरयोरित्याहुः । तन्न मनोहरम् । उत्तमत्वादिकं तु विजातीय- चेष्टानिबन्धनम् । तस्याश्च सर्वसाधारणत्वमपि वक्तुं युक्तम् । न च चेष्टायां वैजात्यविशेषणे गौरवमिति वाच्यम् । तस्य प्रामाणिकत्वादि- त्यनवद्यम् । तत्र कोपशीलायामपि प्रियायामनुराग्युत्तमः । कोपशीलायां प्रियायां दूरत एव मनोभावग्राही मध्यमः। कामकेलिषु कृपाहीनोऽधमः । तत्राद्यो यथा- 'शोणः कोणस्तव नयनयोर्वाक्प्रपञ्चः समुद्रो भीमा भ्रूस्ते तदपि तनुषे तापमापसरूपम् । a ।
शृङ्गारामृतलहरी । १३९ भूयो भूयाः सखि मम तनो हुदा तापशान्त्यै प्रीत्यै तेऽहं सुमुखि रचये मौक्तिकी हारयष्टिम् ॥' मध्यमो यथा- 'यद्यपि मुषितविलासं वदनं नयनं च शोणमलसाक्ष्याः । मकरी कुचयोः कबरीधूपः सायं विलोक्यते तदपि ॥" अधमो यथा- 'शिरीषसुकुमारां मां कृत्याकृत्यमजानतः । नलिनी कुञ्जरस्येव कथं पातयसे करे ॥' एते च त्रयः प्रोषिता भवन्ति । पतिः प्रोषितो यथा- 'दोलायितश्रवणकुण्डलयुग्मबन्ध- गण्डस्थलीललितकुन्तलघर्मबिन्दोः । हारालिवेल्लितशताभिहतोदरायाः किंचित्स्मरामि मृगशावकलोचनायाः । उपपतिः प्रोषितो यथा-- 'लीलाभिरुल्लिखति जातु मयि स्तनाङ्क- मम्भोजसुन्दरमुखी सनिषेधभीतिः । हन्ताद्य तत्स्सरति दग्धमनः सहास- कोपत्रुट कुटि यज्जलजैर्जघान ॥ वैशिकः प्रोषितो यथा- 'मदिरामधुरामोदाधरपानरसालसाम् । कदा मदागमोत्तुङ्गस्तनी लप्स्येऽहमङ्गनाम् ॥ अनभिज्ञो नायको नायकाभास एव ।
काव्यमाला। स यथा- 'साकृतस्मितगण्डशोभि मुदितप्रेमप्रपञ्चं मुहुः शून्ये सद्मनि पद्मपत्रसुदृशा भूयो दृशाभीक्षितः । खैरं चोल्लिखितो नखैः शरसखैर्देवस्य चेतोभुवो मातः किं करवै न वेत्ति नृपशुस्तैस्तैरनङ्गेङ्गितैः ॥' केचित्त्वनुकूलस्यापि विक्रमादेर्दाक्षिण्यदर्शनाद्दक्षिणत्वेनापि स्थितस्य कृष्णादेः शठत्वदर्शनादानुकूल्यादयोऽवस्था एव न स्वभाव इत्याहुः । नैतत् । अन्यसंभोगचिह्नितत्वादिधर्माणां योषितामुद्भावने रसाभासापत्ते- दुर्वारत्वान्न नायकेष्वष्टविधभेदाक्षेपः । अनुकूलत्वादिना नायकभेदा- द्विशेष इति । यत्तु प्रच्छन्नप्रकाशभेदादेतेषां द्वैविध्यमूचुस्तदेतदानुकू- ख्यमन्यत्र प्रच्छन्नमिति संगमनीयम् । एते च दिव्यादिव्यदिव्यादि- व्यभेदात्रिविधाः । दिव्याः शंकरादयः, अदिव्या अर्जुनादयः, दि- व्यादिव्याः कृष्णादयः । तेषां च नर्मसचिवा विटचेटविदूषकाद्या ज्ञेयाः । उक्तं च- 'शृङ्गारेऽस्य सहाया विटचेटविदूषकाद्याः स्युः । भक्ता नर्मसु निपुणाः कुपितवधूमानभञ्जनाः शुद्धाः ।' इति । यद्यप्येतेन पीठमर्दः शृङ्गारे सचिवः कुपितवधूप्रसाधकश्चेत्युक्तं कैश्चित् । तत्परास्तम् । तथापि प्राचां लेखानुरोधाद्वर्ण्यते । आदिपदा- न्मालाकारताम्बूलिकादयः । तत्र कुपितस्त्रीप्रसाधकः पीठमर्दः । काम- तन्त्रकलाकोविदो विटः । यूनोः संधानकरश्चेटः । विकृतवचनाद्यैर्हास्य- कारी विदूषकः । मालाकारताम्बूलिको प्रसिद्धौ । क्रमेणोदाहरणानि- 'जहिहि सुतनु मौनमस्तु मुद्रा ननु कलकण्ठकुटुम्बिनीमुखेषु । अयमपि लभतां विलोचनान्तःस्रवदमृतद्रवनिर्मराभिषेकम् ॥ - NOR शृङ्गारामृतलहरी। 'धीरे धीरं वहति सुतनो मारुतो दाक्षिणात्य. श्चापं धुन्वत्यलिकुलरुतैर्युकृतैः पुष्पधन्वा । डिण्डीघोषं रचयति पिकः शोधयन्मानिनीनां चेतः स्थास्नुः क्षणमपि कथं मानसे मानबन्धः ॥' 'शून्ये सुपर्वसद्मनि मेलितयोर्वीक्ष्य वदनमथ यूनोः । यातं कुसुमानयनच्छलेन सहसा सहचरेण ॥' 'सद्यः शारदशर्वरीश्वरमुखीमानीय तल्पान्तिकं तैस्तैर्मन्मथचेष्टितैनरपतिर्यावन्निनीषुः क्षपाम् । अब्रह्मण्यमिति श्रुते स चकितं कौक्षेयहस्तोऽभ्यगा- किं किं वेत्ति विदूषकेण भणितं वाञ्छाम्यहं मोदकान् ।' अथ नायकोपाचरणवृत्तयः। 'तद्व्यापारात्मिका वृत्तिश्चतुर्धा परिकीर्तिता । कौशिक्यारभटी चैव भारती सात्वती तथा ॥' तत्र कौशिकीखरूपं तु गीतनृत्यविलासाद्यैर्मूदुः शृङ्गारचेष्टितैः' । करणे तृतीया। तथा च मृदुपदेन संबन्धाच्छृङ्गाराप्रधानेत्यर्थोऽवगम्यते । तृतीया चोपलक्षणम् । तथा च शृङ्गारचेष्टितोपलक्षितेत्यर्थ इति के- चित् । तन्न । उपलक्षितस्य व्यर्थत्वात् । सा च 'नर्मतः स्फुञ्जतः स्फोटतद्ग|श्चतुरङ्गिका' । चतुर्विधेत्यर्थः । तत्र स्फुञ्जो नर्मस्फुञ्जः एव- मग्रेऽपि । विदग्धक्रीडननर्मप्रियोपच्छन्दनार्थकम् । प्रियावशीकरणफ- लकमित्यर्थः। तत्रिधा । शुद्धसशृङ्गारसभयसहास्यभेदात् । क्रमेणो- दाहरणानि- । १. 'धूनोति' इति भवेत् ।
१४२ काव्यमाला। 'करवाणि वरोरु यत्नतो मृगनाभीतिलकं तवालिके । उदयं क्षितिमण्डले यथा मिहिकांशोर्मनुते जनः क्षणम् ॥' 'मकरीमिषेण तस्याः कपोलफलकेऽलिखन्मुखं नैजम् । अभिदर्शयंश्च मुकुरं जहास शनकैयुवा कश्चित् ।।' 'पातुं षट्पदतरुणस्त्वदधरमम्भोजलोचने भ्रमति । इति भीता मुहुरबला सहासमालिङ्गयत्कान्तम् ।। तत्र शुद्धस्य भेदाभावात्सशृङ्गारस्य भेदमाह-आत्मोपक्षेपसंभोग- मानैः शृङ्गार्यपि त्रिधा । शृङ्गारि(रं) शृङ्गारहास्यमित्यर्थः । स्वानुराग- मात्रनिवेदकं, संभोगेच्छानिवेदकं, माननिवेदकं चेति त्रिधा । 'नर्मस्फुञ्जः सुखारम्भो भयतो नवसंगमे । नर्मस्फोटः खभावानां सूचकोऽल्परसोत्सवैः ॥' 'छिन्ननेत्रपरीवारि नर्मगर्भोऽर्थहेतवे । अझैः सहास्यनिहाँस्यैरेभिरेषा त्रिकौशिकी ॥' नर्मभेदाः सहास्या इतरे निर्हास्या इत्यर्थः । एतैरङ्गैरुपलक्षिता कौ- शिकीति भावः । एतदुदाहारणानि काव्यनाटकादिषु वेदितव्यानि । इह प्रपञ्चभयान्नोदाहृतानि । इति कौशिकी । सात्वत्यादीनां तु वीराधुपयोगित्वान्नेह वर्णनमुचितमिति ता उपेक्षिताः। अथ शृङ्गारस्योभयनिष्ठत्वे नायिकाप्रपञ्चो रच्यते । तल्लक्षणं तु कामवत्त्वम् । न च मुग्धायामव्याप्तिः । भीतेः सुरतप्रातिकूल्येऽपि का- मसत्त्वात् । एतेन अज्ञातयौवनां मुग्धाभेदं वदतो भानुकरस्य लेखः परास्तः । कामासत्त्वेऽनायिकत्वापत्या कामसत्त्वेऽज्ञातयौवनात्वव्याघा- तादुभयतःपाशारज्जोर्दुर्वास्त्वात् । वस्तुतस्तु कामिमनोवृत्तिविहाराश्र- - शृङ्गारामृतलहरी । १४३ यित्वमिति लक्षणे न दोषगन्ध इति सुस्थम् । सा तु त्रिधा । स्वीया, परकीया, सामान्यवनिता चेति । तत्र पतिभिन्नाननुरक्ता खीया । यत्तु शीलादिमत्त्वमेव लक्षणमातन्वते । तन्न । बोधानुबन्धि खीयाया अधीरत्वानापत्तेः । अस्याः पतिपरिचर्यापरपुरुषानिरीक्षणा- दयश्चेष्टाः। यथा- 'यातायातकुतूहले नयनयोः सीमानमातन्वता नेत्रान्तं मधुरस्मितेऽधरतलं वाचि प्रियस्य श्रुतिम् । चित्तस्यापि गतागतेषु विधिना कान्तप्रतीकावली मन्दाक्षप्रसरे कुलाम्बुजदृशां नाकारि सीमा कुतः ॥' सा त्रिविधा । मुग्धा, मध्या, प्रगल्भा चेति । स्वीयाया एवं त्रैवि- ध्यदर्शनात्परकीयासामान्यवनिते न मुग्धे, किंतूभयविधे एवेति सूचि- तम् । अदश्च संजाघटीति गुणानुरागाद्रव्यलोभाद्वा न भवति मुग्धाया [न च वयःकामाया] अन्यत्रानुरागः । न च शकुन्तलादीनां विवा- हात्प्राक् परकीयाणामप्यनुरागदर्शनात्तत्रापि मुग्धात्वस्वीकार आवश्यक इति वाच्यम् । शकुन्तलादीनामुदितयौवनानां मध्यात्वमेव न तु मुग्धात्वम् , सुयोगं विनातिकालेन तस्यापगमात् । तत्र प्रथममवतीर्ण- नवयौवना मुग्धा । सा च ज्ञातयौवनाज्ञातयौवनभेदाविधा । एषैव नवो- ढेत्युच्यते । विश्रब्धनवोढा तु मध्यैवेत्येके । मुग्धाया आद्यावस्था न- वोढा दरविश्रब्धा मुग्धैव विश्रब्धनवोढेत्यन्ये । अस्याश्च रतिवामत्वको- पमृदुत्वादयश्चेष्टाः क्रमेणोदाहरणानि । यथा- 'रोमालीवेभ(त्र)धारी प्रथममथ वयो मङ्गलाशंसि कुम्भ- द्वन्द्वं वक्षोजरूपं मदननरपतेर्हन्त जैत्रस्य यातम् । ।
काव्यमाला। अद्य श्वो वा सुकेश्याः खयमपि च पदं मीनकेतुः शरीरे कर्तेत्युत्प्रेक्ष्य भूयो भयचकितमितः शैशवं गन्तुमीहे(मैच्छत्) ।' अपि च- 'दृष्टिः शान्तमपाङ्गमेत्य नितरामारात्परावर्तते द्वित्राण्येव पदानि हन्त तरलं मन्दं पुनर्गच्छति । यूनां धैर्यपयोनिधेश्वुलुकने कुम्भोद्भवा काप्यसौ खल्पैरेव दिनैर्दशा वरतनोरन्या वरीवर्तते ॥' 'वृद्धिं याति नितम्बो जठरं तनुतामुपैति किं करवै । उद्धृनं मम हृदयं देहि किमप्यौषधं मातः ॥' (परि)पश्यति हृदि भूयो जीवातुं प्राणनाथस्य । कुचयुग्ममम्बुजाक्षी निधिमिव लब्धं दरिद्रजनः ॥' 'हस्ते धुता(न)ञ्चयति प्रतीकान्पृष्टा कथंचिन्न ददाति वाचः । मन्दाक्षभीतिप्रचुरा नताङ्गी नाङ्गीकरोति प्रियचेष्टितानि ॥' 'विश्वासभीतिचञ्चलमञ्चलमक्ष्णः प्रिये तनोत्येकम् । अपरं लीलाललितं कृत्रिमपुत्रे मृगीनयना ॥' समानलज्ज्जामदना मध्या। सा चोद्यतयौवना । तस्याश्च धैर्ये वक्रोक्तिरधैर्ये परुषवागित्यादयश्चेष्टाः । यथा-- 'कामः प्रेरयति प्रिये प्रणयिनी दृष्टिं परं पक्ष्मलां ब्रीडां वारयति ब्रजत्यथ वचः कामाज्ञया वल्लभम् । लज्जाखण्डितमेति तन्न वदनात्कन्दर्पमन्दाक्षयो- वैषम्ये सति रङ्कुशावकदृशोर्दोलायतीवान्तरम् ॥' पतिमात्रानुरक्ता सती विविधकलाकलापकोविदा प्रगल्भा । सत्यन्तं शृङ्गारामृतलहरी। सामान्यवनितायामतिव्याप्तिनिरासाय विशेष्यदलदानान्न मध्यायामति- व्याप्तिः । अस्याश्च रतिप्रीतिरानन्दात्संमोहः । आद्या यथा- 'कृत्वा कामं सुरतमहोत्साहं तं प्रेयांसं सा जिगमिषुमारात्प्रातः । बाला भूयो वलयितबाहुक्रोडे धृत्वाखाप्सीन्मुकुलितनेत्रा जोषम् ॥' द्वितीया यथा- 'रचितविविधकाकूक्तिप्रचारे पुरस्ता- प्रणयिनि सखि धन्या मानभाजः पुरन्ध्यः । स्पृशति मम तु नीवीं नैव जाने खमस्मि- न च मनसिजकेलि न प्रियं किं करोमि ॥' मुग्धाया अत्यन्तं मानासत्त्वेन लज्जाप्राधान्येन च वक्रोत्यादेरसंभ- वात्प्रत्येकमवस्थायां मध्याप्रगल्भे त्रिविधे। धीराधीराधीराधीरा चेति । व्यङ्ग्यकोपप्रकाशा धीरा । अव्यङ्ग्यकोपप्रकाशाधीरा । व्यङ्ग्याव्यङ्ग्य- कोपप्रकाशा धीराधीरा । मध्याधीरायास्तु कोषस्य वक्रोक्तिय॑ञ्जिका । अधीरायाः परुषवाक् । धीराधीरायाश्च वचनरुदिते कोपस्य प्रकाशके । प्रौढाधीराया रतौदास्यम् । अधीरायास्तर्जनताडनादि । धीराधीरायास्तु तदुभयं कोपस्य व्यञ्जकमिति दिक् । घीरादिभेदाः खीयाया एव न परकीयाया इति प्राचीनाः । न च धीरादिभेदानां माननियतत्वात्पर- कीयावपि तत्संभवात्संभव इति वाच्यम् । गुणानुरागद्रव्यलोभा- दनुरक्तयोः परकीयासामान्यवनितयोर्मानासंभवान्न धीरादिभेदास्तयोः । जातस्यापि मानस्य प्रणयनाशकत्वेन दुःसाध्यत्वाद्रसाभासोऽनुभवसिद्ध एवेति संप्रदायविदः । १० चतुर्दशगु० काव्यमाला। मध्या धीरा यथा-- 'परिचितभिष(क्तत्त) कुकृत्य स्यालं मधौ मदनाशुगे- मुपति सुदृशां मानं वासन्तिकापरिमोदिते । दयित भवतः क्षुण्णाङ्गस्यापि केतककण्टकै- भ्रमणमुचितं श्वासोत्कम्पाधरस्य वनालिषु ॥' मध्याधीरा यथा- 'दग्ध्वा नयने भूयः कुलटायाः कितव नखराकैः । विकटैरटितैर्विट किं निर्दय हृदयं ममादसि ॥' मध्या धीराधीरा यथा- 'कान्त भाग्यवतां वक्षो यक्षकर्दममर्दितम् । इत्युदीर्य दधौ बाला दृशं बाष्पतरङ्गिणीम् ॥' प्रौढा धीरा यथा- 'नोरीकरोषि नयनाञ्चलतोऽपि तल्प- मद्यास्ति ते मुषितहास्यमिहास्यपद्मम् । नैनं भुजिष्यमुररीकुरुषे कृशाङ्गि वाचापि साचिमुखि कोपविधिः क एषः ॥' प्रौढाधीरा यथा- 'समीक्ष्य लाक्षारसभाविताङ्ग कर्णान्तविश्रान्तविलोचना माम् । अभर्त्सयच्चञ्चलतारकेण महाश्मरश्मिच्छरिणा करेण ।' प्रौढा धीराधीरा यथा- 'मयि काकुवाचि सुदती समुल्लसत्सितशोभिगण्डयुगलाभवत्क्षणम् । अथ तल्पभाजि नवविद्रुमस्रवत्तटिनीसरोजसदृशं दृशं दधौ ।' एते च धीरादिषड़ेदा ज्येष्ठाकनिष्ठाभेदाद्विधा । परिणीतत्वे सति शृङ्गारामृतलहरी । । भर्तुरधिकस्नेहा ज्येष्ठा । परिणीतत्वे सति भर्तुन्यूननेहा कनिष्ठा । अन्ये तु मुग्धाया नेमौ भेदाविति जल्पन्ति । तन्न मन्यामहे । ज्येष्ठत्वक- निष्ठत्वे च नायकाधिकन्यूनस्नेहनिबन्धने; ते च न मुग्धायामिति वक्तु- मशक्यत्वात् । ननूपक्रमोपसंहारविरोधः । उक्तयुक्त्या मुग्धायां मानस्य खण्डितत्वेन धीरत्वाद्यसंभवात् , एतेषामेव च षण्णां ज्येष्ठत्वादिभेदभे- धत्वान्न तस्यां तत्संभवः । न च ज्येष्ठत्वादिकं न धीरादिनियतं किंतु भर्तृप्रतियोगिकाधिकन्यूनस्नेहनिबन्धनमित्युक्तमिति वाच्यम् । एते च पडिति लेखनवैयर्थ्यापत्तरिति चेत् । न । धीरत्वादिक्रमवस्था स्वभावो वा । नान्त्यः । माननियतत्वानापत्तेः, मुग्धायां तत्संभवापत्तेश्च । आद्य इष्टापत्तेः । न च ज्येष्ठात्वकनिष्ठात्वयोरवस्थाने एकस्या एव तत्तत्कालोपा- धित्वेन तत्तच्चेष्टाश्रयत्वेन च तन्निमित्तीभूतभर्तृनिष्ठक्रियाजन्यत्वेन च खण्डितात्वविप्रलब्धात्वकलहान्तरि[ता]त्वादीनि यथा तथा एकस्या एवं ज्येष्ठत्वकनिष्ठत्वापत्तिरिति वाच्यम् । ज्येष्ठत्वादेस्तथात्वस्य भर्तृप्रतियो- गिकाधिकन्यूनस्नेहनिबन्धनत्वेनेष्टत्वात् । न चैवमेते च षडिति लेख- नवैयर्थ्यमिति वाच्यम् ; धीरादिषट्वस्याविवक्षितत्वात् । यद्वा चकारो भिन्नक्रमस्तेनैते धीरादि षट् मुग्धाभेदाश्चेति । तथा च जृम्भते मुग्धा- यामपि ज्येष्ठात्वकनिष्ठात्वविलसितमिति संक्षेपः । इतरे तु उक्तभेदानां प्रच्छन्नप्रकाशभेदाद्वैविध्यमूचिरे । तन्न सुन्दरम् । प्रच्छन्नखीयेत्यादि- वाक्यस्य दुर्बलत्वात् , धीरादिषु धीरत्वादिभेदातिरेकेण प्रच्छन्नत्वादि- भेदासंभवाच्च । क्रमेणोदाहरणानि यथा- 'एकत्र स्थितयोस्तयोः कलयतोः क्रीडां सरोजस्थयोः(1) खैरं खैरमुपेत्य कोऽपि तरुणो लीलावतामग्रणीः । । १. 'सरोजस्थले' इति स्यातू.
१४८ काव्यमाला। एकस्या वदने निधाय वसनं हेलामिषात्सादरं धन्यां चुम्बति शारदेन्दुवदनामन्यां मुहुर्नागरः ॥' 'अङ्गाङ्गानि ममासि शारदनिशानाथानने किं रुषा त्वं मे कण्ठचरा सुधाधरतले प्राणाः क्रुधा किं मुधा । इत्थं मन्मथकेलिकौलभवनेनाहूय कंसारिणा नीते कोपकषायिते प्रियतमे स्मित्वा प्रमोदास्पदम् ॥' 'मेदिन्यां निपतितमङ्गनामथैका प्राणेशोऽवचितुमयोजयत्प्रसूनम् । चूडाग्रस्थितकुसुमोच्चिचीषुमन्या- मालम्बन्वलयितबाहुरालिलिङ्ग ॥ गूढपरपुरुषानुरागा परकीया। गूढपददानान्न वेश्याया- मतिव्याप्तिः । सा द्विधा परोढा कन्यका च । परकीयात्वं पराधीनत्वम्। तेन न कन्यायामव्याप्तिः, तस्याश्च पित्रधीनत्वात् । ननु दमयन्त्यादेः पुरा परकीयात्वे पुनश्च खीयात्वे खीया परकीयेति भेदवैषम्यापत्तिरिति चेत् । न । प्रधानापकर्षेण काव्यनाटकादौ प्रधानरसे परोढानिबन्ध- नत्वस्यानुचितत्वात् । तदुक्तम्-'नान्योढाङ्गिरसे कचित् । न ह्येत- द्भेदकथनवैयर्थ्यमिति वाच्यम् । 'कामकलाशिक्षायै स्वरक्षायै चारोहति मदने यायात्परयोषितम् ।' इति कामशास्त्रानुरोधेन तद्वर्णनसंभवा- दिति संक्षेपः। परोढा यथा- 'अद्याकारि विलोचनातिथिरसौ दामोदरः सुन्दर- -स्तिग्मद्योतिसुतातटे विरचयन्वंशीखनं मोहनम् । १. अपीति युक्तं प्रतिमाति.
शृङ्गारामृतलहरी।
तेनानङ्गतरङ्गितानि निभृतं कुञ्जोदरे वीरुधा-
मीहे किं करवाणि हा परवशां वृत्ति विधाता व्यधात् ।।
कन्या यथा-
'तपस्या कस्यासीत्परिणतवती कस्य भगवा-
ननङ्गः संतुष्टः सुकृतविटपी कस्य फलितः।
इयं यस्मै वत्सा[प्रस्ता]रितकमललोलालिसदृशा
दृशा भूयो भूयः स्पृहयति धरित्रीशतनया ॥
गुप्ताविदग्धालक्षितामुदिताकुलटानुशयानानां परकीयायामेवान्ती-
वः । गुप्ता द्विविधा । वृत्तसुरतगोपना वर्तिष्यमाणसुरतगोपना चेति ।
वृत्तसुरतगोपनत्ववर्तिष्यमाणसुरतगोपनत्वयोधर्मयोरेकत्वासंभवान्न त्रै-
विध्यम् ।
गुप्ता यथा-
'निन्दन्तु प्रतिवेशिनो मम जनाः श्वश्रूश्चिरं क्रुध्यता
नाहं भानुसुतातटे सखि पुनर्यास्ये बतैकाकिनी ।
बन्धूकप्रसवप्रकाममधुरच्छाये मदीयाधरे
भ्रामंधाममसौ न कृष्णमधुपः कां कां व्यधाद्वा विधाम् ॥'
द्वितीया यथा-
'शैवलपिच्छिलहषदं मामेव प्रेषयत्यसौ वापीम् ।
भङ्ख्यति मे वलयाली प्रतिवेशिनि साक्षिणी भूयाः ॥'
विदग्धा द्विविधा-क्रियाविदग्धा वाग्विदग्धा चेति ।
क्रियाविदग्धा यथा-
'जिगमिषति प्राधुणिके द्वित्राः स्थित्वा कथंचिदिह रात्रीः ।
मार्जारमस्य मार्गे मुमोच निभृतं कुरनाक्षी
१५०
काव्यमाला।
वाग्विदग्धा यथा-
'प्रसरति बहु झञ्झामारुतश्चारु तोयं
कलयति जलवाहः पान्थ किं प्राह गत्यै ।
गमय गतसमीरे निर्गताम्भःप्रचारे
रुचिरतरमगारे ध्वान्तमिश्रां तमिश्रा ना]म् ॥'
लक्षिता यथा-
'निहोतु जहुतनया तटकुञ्जवृत्तं
वृत्तान्तमम्बुजमुखी निभृतं सखीषु ।
त्रासार्ततोषपरिवर्तितचित्तवृत्ति-
रस्यास्तनोति विशदानि विचेष्टितानि ।'
मुदिता यथा-
'याता याता जनकभवनं श्रीपतेरुत्सवार्थी
प्राणिग्राही क्वचिदपि गतो देवरः क्वाप्युपेतः ।
श्रुत्वा सुभ्रूः परिजनमुखादेतदजायताक्षी
रोमाञ्चानां कुचचकलशयोः कञ्चुकं संचकार ॥
कुलटा यथा-
'नाकार्षीः कुलटाजनस्य मदनक्रीडासु दन्तावला-
नुन्मत्तांस्तु तुरङ्गमानपि कथं हा हन्त नैवाकरोः ।
त्रैलोक्यस्थितपूरुषानपि ममाभाग्येन नाचीकरः
किं धातः करवाणि कस्य कथये व्यर्था जनिर्मेऽजनि ।'
वर्तमानस्थानविघटनेन भाविस्थानाशङ्कया स्वानाधिष्ठितस्थानस्य
भर्तुरधिष्ठानेनानुशयाना भवति ।
१. 'भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम्' इति कोषः.
शृङ्गारामृतलहरी । प्रत्येकमुदाहृतयो यथा- 'नीते हालिकसाथैश्चरमावस्थां शनैश्च शणवाटे । जाता पलाण्डुपाण्डुस्तस्या गण्डस्थली सुतनोः ॥" 'गोदावरीतटनिविष्टविलोलनेत्रे खेदैरलं कलय नाथगृहे निवासम् । तत्रापि पत्रचयचर्चितवल्लिवेलं वेश्मानि सन्ति न कृशोदरि वा कियन्ति ।' 'उड्डीनकारण्डवचक्रवाककोलाहलाकर्णनतः कृशाङ्याः । मार्तण्डरश्मिग्लपितेन्दुबिम्बशोभाममुप्या वदनं बभार ।' वस्तुतस्तुस्त्वेते भेदाः परकीयाया एव; न खीयाया इत्यप्रयोजक- मेव; अविशेषात् । निमित्ताभावस्य शपथानिर्णेयत्वं तु कुलटात्वं निमि- ताभावादेव न भवतीति दिक्() । वि(तमात्रो)त्तोपाधिकसकलपु- रुषानुरागा सामान्यवनिता । वित्तमात्रोपाधिरिति तु संपातपाती लेखः । वसन्तसेनाकामकन्दलादेवित्तमात्रोपाधि विनाप्यनुरागदर्शनात् । तथा च क्वचिद्वित्तोपाधिको रागः क्वचिच्च कामुकत्वादिति दोषः । तदु- क्तम्-'वित्तमात्रं समालोक्य सा रागं दर्शयेद्वहिः' । तथा-'एषापि मदनायत्ता कापि स्यादनुरागिणी' इति । अग्निमित्रेऽनुरक्तायामैरावत्यां नाव्याप्तिशङ्कापि; वित्तोपाधेः सत्वात् । वस्तुतस्तु प्रकटसकलपुरुषानु- रागित्वमेव लक्षणम् । वित्तोपाधिककामित्वादिकं तु खरूपकथनम् । अतएव न कुलटायाः सामान्यवनितायामन्तर्भावः । एतेन वेश्याया रसालम्बनाभावतया शृङ्गारा(ना)लम्बनत्वेन नायिका निरूप्यते सा त्रिविधेति भानुकरः प्रत्युक्त इत्युच्छृङ्खललेखः परास्तस्तस्यासत्वेऽनायि- काव्यमाला। कत्वापत्तेः । न चेष्टापत्तिः; कामिमनोवृत्तिविहाराश्रयित्वस्य लक्षणस्य सत्वात् , नायिकात्वेन महाकविभिर्व्यपदिश्यमानत्वाच्च । सा यथा- 'एकं चुम्बितुमीहते पुरवधूर(न्या)न्यं] समालिङ्गितुं (केचि) कंचिन्मजयति प्रसह्य मदनक्रीडासुधावीचिषु । साकूतस्मितशोभिगण्डमपरं भूयः समुद्रीक्षते कं कं नाम नरं न रञ्जयति वा चामीकरालिप्सया ॥' एता अन्यसंभोगदुःखिता वक्रोक्तिगर्विता मानवत्यश्चेति तिस्रो भवन्ति । प्रेमगर्वितायाः वक्रोक्तिगर्वितायामन्तर्भावान्न चतुर्विधत्वम् । अन्यसंभोगदुःखितत्ववक्रोक्तिगर्वितत्वयोर्धर्मयोः सर्वत्र संभवः । पर- कीयासामान्यवनितयोरुक्तयुक्त्या मानासंभवान्मान[वत् त्वं खीयाया एवेति तत्त्वदर्शिनः । अन्यसंभोगदुःखिता यथा- 'यातायास्तव केतकीवनपथाद्भिन्ना तनुः कण्टकैः प्रायो नीचतरस्य माननविधावामृष्टरागोऽधरः । उत्कीर्णः कबरीभरोऽस्य पदयोर्मोलौ ल मुहुर्लोलनात् खेदं नो द्वाह तिष्ठ नागमदसौ चेन्मा व्यलीकं गमः ।।" वक्रोक्तिगर्विता द्विधा-सौन्दर्यगर्विता प्रेमगर्विता च आद्या यथा- 'अङ्गदरचनां प्रमदाः समदाः कुर्वन्तु रमणतोषाय । अपसारितनेपथ्यां जीवातुं मां प्रियो मनुते ॥' द्वितीया यथा- 'अन्यास्ताः सखि योषितः सहचरं लावण्यलीलाग्रहाः सेवामिः प्रचुराभिरुन्मिपदुख्नेमाणमातन्वते ।
शृङ्गारामृतलहरी । १५३ अस्माकं तु समीरणं वितनुते चेलाञ्चलैरादरा- द्वीटीमाननपङ्कजे विसृजति प्राणेश्वरः किं क्रिये ॥ मानवती यथा । प्रियापराधसूचिका चेष्टा मानः । स च लघु- मध्यो गुरुश्चेति त्रिधा । तत्र पराङ्गनादर्शनजन्मा भूषणदानाद्यपनेयो लघुः । गोत्रस्खलनादिजन्मा शपथादिकष्टापनेयो मध्यमः । परस्त्रीसंग- अजन्मा चरणपातादिकष्टतरापनेयो गुरुः । असाध्यस्तु रसाभासः । लघुर्यथा- 'पश्यत्यन्यकुटुम्बिनीं प्रियतमे रोषैरलं सुव्रते मल्लीकाननचारिषट्पदयुवा शक्यो निरोढुं कुतः । स्यात्ते गण्डतटेऽथ कण्टकचिते खेदाम्बुमिः पिच्छ[च्छि]ले स्थातुं सुन्दरि वेपिनि स्तनतटे शक्यो नु मानः कथम् ॥ मध्यो यथा- 'लीलाविलासमधुराक्षि मया द्वितीया कामालसेन तव साध्वभिधा व्यधायि । चेदन्यथाद्भुतपयोधरशातकुम्भ- शम्बूकृशोदरि भृशं समुपस्पृशेयम् ।। गुरुयथा- 'वक्षो वीक्ष्य ममैणशावकशा कस्तूरिकाचर्चितं यावद्यावकशोणकोणकलुषे कोपात्कृते लोचने । तावन्नैजकिरीटकोटिविलसद्रलाङ्कुरोसर्मया पादद्वन्द्वपयोजयोर्वरतनोः कृतैव नीराजना ॥' रसाभासो यथा- 'दत्ताभ्यामरणानि नुत्तमनिर्धर्माम्बु तालोस्थित रेणुस्त्वत्पदयोः सरोजवदने समार्जितो मूर्घजैः काव्यमाला। लब्धा, । INR काकूक्तिप्रवणेन च प्रणयिना स्वागः प्रमाणीकृतं एतेनापि न याति हन्त कियता मानस्तवापैप्यति ॥' एताश्च सर्वा अपि प्रत्येकमवस्थाभिरष्टविधाः--वासकसज्जा, विप्र- खण्डिता, उत्का, कलहान्तरिता, अभिसारिका, स्वाधीनपतिका, प्रोषितपतिका चेति । मुग्धाया लज्जाप्राधान्यान्मानाभावाच नैते भेदा इति कश्चित् । वस्तुतस्तु खण्डितात्वप्रयो(जिक)[जकं] परभोगचिह्नित- प्रियागमनमतो मुग्धायामपि तत्संभवः । इतरेषां तु सख्यादिप्रकरण- कृतचेष्टादिना संभव इति । तत्र प्रियागमनावसरे आत्मानं मण्डयति रतिसामग्री च सज्जीकरोति सा वासकसज्जा । तदुक्तम्-'मुदा वास- कसज्जा वं मण्डयत्येष्यति प्रिये ।' एतेन योगसत्त्वात् लक्षणसत्त्वा- चागमिष्यत्पतिकाप्यत्रैवान्तर्भवतीत्यपि सूचितम् । खीया बासकसज्जा यथा- 'अमाजि शयनस्थली सह तया प्रतीकैनिजै- रधूपि भवनं क्रमाच्चिकुरधोरणीभिः सह । अगुम्फि बहुलावली सह मनोरथैरुद्तै- रबन्धि वलभीगृहे सह विलोचनैस्तोरणम् ।।' परकीया वासकसज्जा यथा- 'शुश्रूषाभिरकारि लोचनयुगं निद्रातिथि प्रेयसो- नीताः कजलकेतवोऽपि चरमावस्थां कथंचित्तया । उन्मीलन्नवकाकलीकलकलैः संकेतयन्त्या मुहुः प्रेयांस्तल्पतले सरोरुहदृशा भूयः परामृश्यते ॥ सामान्यवनिता वासकसज्जा यथा- 'यास्यति दास्यति कुचयोरेकामेकावली दयितः । इति तौ वारवधूटी कस्तूरीभिः परिष्कुरुते ॥'
शृङ्गारामृतलहरी।
१५५
-
HOOTAGR
mom
संकेतनिकेतने कपटवचनादिना वञ्चिता विप्रलब्धा ।
खीया विप्रलब्धा यथा-
'वयस्यावाक्यविश्वासादेत्य कुञ्ज कृशोदरी ।
दधौ शून्यतरां दृष्टिमवीक्ष्य रतिदीक्षितम् ॥'
परकीया विप्रलब्धा यथा-
'अवमत्य गुरून्सखीरपृष्ट्वा हतदूतीवचनेन काननेऽगाम् ।
नयनातिथितामियाय नाथो वत नाथः करवाणि किं विधातः ॥
सामान्यवनिता विप्रलब्धा यथा-
'इह सुन्दरि तावदास्यतां विपुलं यावदुपानये वसु ।
इति केनचिदापणाङ्गना कितवेन प्रसभेन वञ्चिता ॥'
अन्यसंभोगचिह्निते प्रेयसीग्रॅकुला खण्डिता ।
खीया खण्डिता यथा-
'अभिदर्शयितुं निजामभिख्यां परिधायांशुकमागतोऽसि तस्याः ।
श्रवसी परिनिर्वृते पुरा मे नयनद्वन्द्वमदोऽपि निर्ववार ।'
परकीया खण्डिता यथा-
'रात्रिजागरविघूर्णितेक्षणं वीक्ष्य कान्तमरविन्दलोचना ।
उद्दभार बत लोकशङ्कया बाष्पनिर्झरमतन्त्रपक्ष्मणा ।।'
सामान्यवनिता खण्डिता यथा-
'अन्यस्यै द्रविणमदाः कथं मदर्थे
नीतं तद्विगुणमुपाहरेति भूयः ।
बाष्पाम्बुस्नुतनयनापणाङ्गनासौ
कान्तस्य द्रुतमुरसो जहार हारम् ॥'
-
काव्यमाला।
-
autoDNA
भर्तुरनागमने कारणं चिन्तयन्ती संतापव्याकुला उत्का ।
स्वीया उत्का यथा-
'सुचारु वान्यासु सुलोचनासु प्रसह्य नीतो दयितो नु ताभिः ।
अनागमं चेतसि चिन्तयन्ती प्राणेश्वरस्येन्दुमुखीति तस्थौ ।'
परकीया उत्का यथा-
'आगच्छन्विनिवारितः प्रियतमः किंवा वयस्यैजनै-
रानेतुं न गता किमु प्रियसखी दग्धो नु पुष्पायुधः ।
प्रेयःकोकिलकाकलीकलकलप्रोढुद्धमीनध्वजे
नायातः परिणीतवामनयनादाक्षिण्यकः किं वने ।'
सामान्यवनिता उत्का यथा-
'नायातः किममू विलोक्य मदनव्यापारदीक्षागुरु-
हन्ताभ्यामफलीकृतोऽद्य विपुलद्रव्योपलब्ध्युद्यमः ।
उक्कैतत्पतितं पयोधरयुगं वाराङ्गना कञ्चुकी-
बन्धादुन्नमितुं तनोति विपुलद्रव्यागमोत्कण्ठिता ॥'
चाटुप्रवणं प्रणयिनमवमत्य परितापवती कलहान्तरिता ।
खीया कलहान्तरिता यथा-
'मम मन्दभाग्यवशतो विचारणा-
मवधीरणासु दयितस्य नाकरोः ।
अयि दग्धचित्त तनुषेऽतिवेदन
परिदेवनं किमिति हन्त संप्रति ।'
प्परकीया कलहान्तरिता यथा-
'नाकारि कर्णपथमालिजनस्य शिक्षा
न क्षालितो गुरुवचोभिरपि वपन्थाः ।
शृङ्गारामृतलहरी।
१५७
व्रीडाविडम्बनमकार्षममुष्य हेतोः
सोऽयं मया हतधिया कलहान्निरस्तः ॥'
सामान्यवनिता कलहान्तरिता यथा-
'केलिष्वपि प्रणयतो मयि मानवत्यां
रत्नैरकारि किल दुर्दिनमेव येन ।
तस्मिन्मया प्रियतमे कलहं सृजन्त्या
हा वञ्चितं हतधिया निजभागधेयम् ॥'
कामार्ता सती खयमभिसरति पतिमभिसारयति वा साभिसारिका ।
खीयाभिसारिका यथा-
'नीलं चोलमुपाकृतं जलधरध्वान्तैर्जटालेऽम्बरे
शम्पासंपतने चिराय दधिरे कृप्तानि गात्राण्यपि ।
अधिः स्थापित एव शिञ्जितभिया पाथोदसंगर्जिते
कष्टं पौर्वसमीरणेन विदधे व्यक्तोदयश्चन्द्रमाः ।।'
परकीयाभिसारिका यथा-
'फणिफणमणिरश्मिदर्शिताध्वा कृततिमिरोचितवेषमम्बुजाक्षी ।
परभयपरिमन्थरं निशासु स्तनभरभङ्गुरमध्यमेति कान्तम् ।'
सामान्यवनिताभिसारिका यथा-
'चलच्चोलंदोलन्मणिखचितताटङ्कयुगलं
चलन्नेत्रं पत्रावलिललितगण्डस्थलमलम् ।
रणद्भूषं पुष्यद्विपुलवसुलोभं सुमदनं
द्रुतं केलीकुझं व्रजति कृतिनो वारवनिता ॥'
ज्योत्स्नाभिसारिका यथा-
'सान्द्रां चन्द्रे विसृजति निजां चन्द्रिका सर्वगन्त्री
तन्वाने च त्रिभुवनतले मुग्धदुग्धाब्धिलक्ष्मीम् ।
२५८
काव्यमाला।
कृत्वा भूषामुचितविषयैर्वल्लभं का यियासु-
मल्लीमाल्यैर्वितरति भृशं केशपाशं सुकेशी ॥'
दिवाभिसारिका यथा-
'- -ते मुदिरेधी-रि प्रसर्पति वैद्युते(?)
वनभुवि मिलत्पङ्काङ्कायां जने गतिमन्थरे ।
स्तिमितवसनं यूनोरग्रे मिषादभिसर्पतोः
प्रसरति परीरम्भारम्भः सकण्टकगण्डयोः ॥'
प्रियाभिसारणादभिसारिका यथा-
'येनावगच्छति न मे लघुतां तनोति
कारुण्यमेति च पुरा रभसेन कान्तः ।
दूति प्रपञ्चचतुरासि तथा विधेयं
प्रेमोपहासविषयं न यथा प्रयाति ॥'
नैतदन्तर्भावः । अभिसारिकात्वं न प्रियाभिसरणेनेत्यपि कश्चित् ।
अनारताज्ञाकरप्रिया स्वाधीनपतिका ।
खीया स्वाधीनपतिका यथा-
'तनवै बहुशो निषेधवाचः करवै यद्यपि नीविरोधनानि ।
मनुते नयनाधिदेवतां मां तदपि प्राणसमः कुतो नु हेतोः ॥'
परकीया खाधीनपतिका यथा-
'तामरसोदरनयनाः सन्त्येव हि बहुमताः खीयाः ।
छायेव मां न मुञ्चति दृष्टिदयितस्य किमिह न निदानम् ॥'
सामान्यवनिता खाधीनपतिका यथा-
'कति कति न कुरङ्गीलोचनाः सन्ति यासां
दिशति वचनमङ्गी कामसङ्गीतलीलाम् ।
शृङ्गारामृतलहरी । १५९ वितरति मम वित्तं मन्मथोन्मत्तचित्तं तदपि सखि समानं वल्लभः किं निदानम् ॥ कार्यतो दूरदेशस्थिते प्रेयसि संतापव्याकुला प्रोषितपतिका । दूर इत्युपलक्षणम् । कार्यत इतिपदस्य नायिकाज्ञातकार्यादित्यर्थेनोत्काविप्रल- ब्धयोनातिव्याप्तिः । खीया प्रोषितपतिका यथा- 'हलाहलाकारि पटीरमद्य हाला विलासं तनुते कृशानोः । कथं नु कारीषकृपीटयोनेस्तुल्याम्तुषारांशुकरा भवन्ति ॥' परकीया प्रोषितपतिका यथा- 'सद्यः पाटलतामिया शशिमुखी गृह्णाति वीटी न वा श्रीखण्डैस्तनुते तनोर्वरतनुः सा पाण्डुतानिह्नवम् । बाप्पं मुञ्चति कर्णकेतकरजःपातच्छलान्नेत्रयो- रानन्दाभिनयेन गोपयति च द्रागुद्गतं गद्गदम् ॥' सामान्यवनिता प्रोषितपतिका यथा- 'इभ्यस्तादृग्वल्लभश्चेदिह स्यात्किं किं द्रव्यं हा मया नार्जितं स्यात् । स्मारं सारं बाप्पधारामुदारां हाहाकारं वारनारी बभार ।' ननु 'प्रस्थानं वलयैः कृतम्' इत्यादि महाकविप्रयोगानुसारेण प्रवत्स्यत्पतिका नवमी नायिका भवितुमर्हतीति चेन्नैवम् । योजनशतं योजनादिकमिवाल्पमुत्प्रेक्षितं, विप्रलम्भजनकत्वेन सजातीयभेदमव- गणय्य खतन्त्रेच्छेन महर्षिणा ऐक्यविवक्षणात् । तदुक्तम्-'प्रवत्स्यत्प- तिकाप्यत्रैवान्तर्भवति तत्त्वतः' इति । किंच प्रवासो नाम खावच्छिन्न- देशविभागोत्तरदेशसंयोगानुकूलं कर्म, नतूत्तरदेशसंयोग एव । मार्ग गच्छत उत्तरदेशसंयोगाभावेऽपि प्रवासित्वानाकल्पनापत्तेः । तथा च ma
काव्यमाला।
तादृशकर्मणः प्रवत्स्यत्यपि सत्वाद्युक्त एव प्रोषितेऽन्तर्भावः । किंच
प्रवत्स्यत्पतिकायाः पृथगवस्थाभेदस्वीकारे नायिकायाश्चतुश्चत्वारिंशदधि-
कशतभेदापत्तिः। नचेष्टापत्तिः । अष्टाविंशत्यधिकशतभेदशंसिनः प्राचां-
लेखस्य वैफल्यापत्तेः । अदोपि प्राचां संपातायातसांकर्यभेदादधिकभेद.
दर्शनात् मुग्धापरकीययोर्यथायथावस्थायोगेन न्यूनभेददर्शनाच्च । एतेन
प्रवत्स्यत्पतिकामवस्थान्तरं वदतोऽष्टाविंशत्यधिकशतभेदांश्च शंसतः
कस्यापि लेखः परास्तः । प्रवत्स्यत्पतिका यथा-
'गन्तुं निश्चितचेतसि प्रियतमे नोऽजृम्भि नेत्राम्बुभि-
बलाया न समुच्छ्रितं बहुतरं वाच्यं प्रपञ्चैरपि ।
दृष्ट्या कातरया रयाद्धनयुतामाकाशवीथीमथो
वीक्ष्य प्राणसमान्तरा तु गमनव्यापारतो वारितम् ॥
यथा वा-
SUNDAND
'शृण्वञ्छृण्वन्कोकिलालापलीलाः पश्यन्पश्यन्किशुकभ्रान्तभृङ्गान् ।
पञ्चप्राणैर्मामकीनैः सुहृद्भिः क्रीडन्भूयो नाथ याया विदेशम् ॥'
अहितेऽपि प्रेयसि हितकारिण्युत्तमा यथा-
'शोणं नारचि लोचनं न च मनागूचे कठोरं वचो
याते मय्यरविन्दसुन्दरदृशा तल्पान्तिकं सागसि ।
श्रीखण्डद्वसेकशीतलतरश्चक्रे जलार्दो मरु-
त्सृक्कप्रान्तसुधासवर्णहसितैः प्रेमावलक्षीकृतः ॥'
हिताहितकारिणि प्रियतमे हिताहितकारिणी मध्यमा यथा-
'पर्यतपर्यन्तमुपेयुषि द्राक्प्राणेश्वरे सागसि शोणभाजः ।
मया पदान्तस्पृशि पुण्डरीकस्पर्धिष्णावोऽस्मिन्दधिरे हमन्ताः ॥'
शृङ्गारामृतलहरी। हितकारिण्यपि प्रियतमे अहितकारिण्यधमा । एषैवाकारणकोपना चण्डीत्यभिधीयते । यथा- 'नान्यां पश्यति यो हि चित्तकुमुदस्यानन्दसंदोहदां त्वामिन्दीवरसुन्दराक्षि मनुते पीयूषरश्मेः कलाम् । तस्मिंल्लोचनमार्गमागतवति प्रेयस्यनागस्यपि व्यर्थ विद्रुमभङ्गभनिसदृशा क्रूरे दृशा क्रुध्यसि ।' प्रत्येकमासां त्रयो भेदा ग्रन्थविस्तरभयानोदाहृता ग्रन्थान्तरादु- नेयाः । आसां साहित्यः सखी दूती चटी चेति । दास्यादीनाम- वान्तर्भावः । वयं दूत्यास्तु नायिकात्वेन सहायत्वाभावात् वाग्विदग्धा- यामन्तर्भाव इत्यपरे । तत्र पार्थचारित्वे सति विश्वासकारिणी सखी। तस्याश्च मण्डनशिक्षोपालम्भपरिहासादीनि कर्माणि । मण्डनं यथा- 'निसर्गनीलोत्पलकान्तिहार बिडम्बये कज्जलतः किमक्षि । इत्थं सखी मण्डनतः पराची साचीकृतास्या सुमुखी न्यविक्षत् ।। शिक्षा यथा- 'यासि विकर्तनसूनोस्तटमुवि वंशीखनं श्रोतुम् । किंतु सरन्ति सरहो वनिताघरपानलोलुपा मधुपाः ॥ उपालम्भो यथा- 'तव सुभग सहस्र सन्ति पक्रेरुहाक्ष्यः प्रणयतरलचेतास्त्वं ततो नापराधः मितसहचरतिर्यग्भ्रूविभङ्गप्रणाली दिशति सहचरीणां पञ्चतां पङ्कजाक्ष्याः ॥' परिहासो यथा- 'आर्यावर्तस्तव हृदि मुक्ताहारः स्थितोऽस्त्ययं मुक्तौ । हिमविन्ध्यशैलयोरिव कुचयोरन्तः करेण वा कस्य ।' ११चतुदेशगु० १६२ काव्यमाला। सख्याः परिहासवप्रियाया अपि परिहासो यथा- 'निजोरसि प्रेयसि सस्मितेऽस्मिन्हस्तं पुरस्तन्वति पङ्कजाक्ष्याः । संबद्धमुश्याथ तयापि नूनं सहासमङ्गुष्ठनटोऽभ्यनर्ति ॥' प्रियापरिहासवत् प्रियस्यापि परिहासः । स यथा- 'धन्येन चामीकरशङ्करोऽयमभ्यर्चितः सुन्दरि किंशुकेन । इति खदत्तं नखलक्ष्म कान्ते स्तुवत्यसावानमिताननासीत् ॥' दूत्यव्यापारपारङ्गमा दूती। साच पत्रहरत्वसंदेशहरत्वनिसृष्टार्थत्वधर्में- स्त्रिधा । निसृष्टार्थत्वलक्षणमुक्तं भरतेन-'स्त्रियः पुंसोऽथ वा ज्ञात्वा- नुरागं खमनीषया । साधयेत्कार्यशेषं या निसृष्टार्थेति तां विदुः ॥' तस्यास्तु विरहावस्थानिवेदनं संघट्टनं चेति कर्म । उपालम्भोऽपि दूती- कर्मेत्येके । तस्य विरहावस्थाकथनेऽन्तर्भाव इत्यन्ये । तत्र विरह- कथनं यथा- 'त्वद्विश्लेषे मृगाई पिकरजितकुहूभाषितैर्भीषयन्ती मूर्छत्येवाजपत्रप्रतिभटनयना हन्त तेषां रुतेषु । किं ब्रूमोऽकाण्ड एव प्रलपति दयित प्राणनाथेति भूयो जिहेति व्यस्तवाचः सुभग समुदितां तां तनुस्थामवस्थाम् ॥' संघट्टनं यथा- 'क्रीडामपाकुरु तिरस्कुरु भीतिमारा- दाराधये मनसिजं मदनालसाक्षि । कुञ्जोदरे दरचलन्मरुति प्रतीक्षा दामोदरस्तव तनूदार संतनोति ॥ अथासामलंकाराः। 'यौवने सत्त्वजाः स्त्रीणामलंकारा देशाष्ट च । . भावो हासश्च हेला च त्रयस्तत्र शरीरजाः ॥
- शृङ्गारामृतलहरी । शोभा कान्तिश्च दीप्तिश्च माधुर्य च प्रगल्भता । औदार्य धैर्यमित्येते सप्त भावाः खभावजाः ॥ लीलाविलासो विच्छित्तिविभ्रमः किलकिञ्चितम् । मोट्टायितं कुट्टमितं विव्योको ललितं तथा ॥ विहृतं चेति विज्ञेया दश हावाः शरीरजाः ॥ तल्लक्षणानि- 'निर्विकारात्मकात्सत्त्वाद्भावस्तत्राद्यविक्रिया । आद्यविक्रियेषत्कटाक्षादिः । अल्पालापः स शृङ्गारो हावोऽक्षिभूविकासकृत् ॥ भूविकासकृदितिपदान्नातिविकारः पूर्वस्मिन्निति सूचितम् । 'स एव हेलासु व्यक्तः शृङ्गाररससूचकः ।' स एव हाव एव । तत्र 'रूपयौवनलालित्यभोगांधैरङ्गभूषणम् ।' 'अकुङ्कुममकेसरं ललितमण्डनं तन्नृणा- मचन्दनमचन्द्रकं हृदयशैत्यसंदोहदम् । वयः किमपि मान्मथं विजयशस्त्रमत्यद्भुतं विना कनकमजदं वरतनोस्तनौ जृम्भते ।' 'शोभा प्रोक्ता सैव कान्तिर्मन्मथाप्यायितद्युतिः' । मदनविस्तारिता युतिरित्यर्थः । यथा- 'त्रिभुवनमानसहंसी युवनयनचकोरपौर्णमासीयम् ।..... कस्य न वा कुसुमेषोर्नटशालयं हरति मानसं बोला ।' कान्तिरेयातिविस्तीर्णा दीप्तिरित्यभिधीयते ।. लावण्यस्यात्रैवान्त- काव्यमाला। BIHAR र्भावः । नच माधुर्यमप्यत्रैवान्तर्भवतीति वाच्यम् । प्राचां लेखेषु भिन्न- तया परिगणितत्वात् । वस्तुतस्तु अल्पभेदाच्छोभादीप्तिकान्तिमाधुर्या- णामैक्यमेव । -नामानुरोधाल्लिख्यते । दीप्तिः यथा- 'परिपाकः सुकृतानां यूनां चेतोवशीकरणमन्त्रः । त्रिभुवननयनाकर्षणमस्या दीप्तिः समुल्लसति ॥ सर्वावस्थाविशेषेषु माधुर्य रमणीयता यथा- 'सा मण्डनं विनैव स्रवति वरोरूर्वयस्य लावण्यम् । जातु सितापि सुधायास्तनोति किं वा रसोत्कर्षम् ॥' निःसाध्वसत्वं प्रागल्भ्यं यथा- 'आलिङ्गनैरुरसिजप्रथिमादिभिर्दाग भ्रूभङ्गभङ्गुरविलोचनवेल्लितैश्च । सस्नेरहासलपनैर्लपनैर्भुजिष्य- मातन्वते हृदयवल्लभमिन्दुमुख्यः ॥' औदार्य विनयः । स यथा- 'न परुषाक्षरमुल्लपितं पुनर्भुकुटियुग्ममकारि न भङ्गुरम् । मयि कृतागसि केवलमेतया विनतया भुवि संदधिरे दृशः ॥' मुक्तात्मश्लाघना धैर्य मनोवृत्तिरचञ्चला । यथा- 'दहतु दहतु सद्यः शर्वरीशः शरीरं वितरतु रुजमारान्मानसे मीनकेतुः । कथय कथमथाहं हन्त तस्यानुरागा- कुलमहह कलङ्कक्लान्तमेतत्करोमि ॥' अथ हावाः । तत्र लीला- 'अझैवेषैरलंकारैः प्रेमनिर्वचनैरपि । श्रीतिप्रयोजितैलीलां प्रियस्थानुकृति विदुः ॥'
शृङ्गारामृतलहरी। प्रीतिप्रयोजितैरित्यनेन परिहासानुकरणे नातिव्याप्तिः । यथा- 'वेणीबन्धकपर्दमौक्तिकलताखोककल्लोलिनी सिन्दूरस्फुटभालनेत्रहुतभुक्श्रीकण्ठभस्माञ्चिता । पातु व्यालवती मृणालवलयैर्वैडूर्यकण्ठाङ्गद- व्यावल्गद्रुचिनीलकण्ठसुषमा गौरी गिरीशाकृतिः ॥' अथ विलासः । तत्त्वं चेष्टदर्शनसमानकाली ने]न्द्रियविकारविशे- षवत्त्वम् । तदुक्तम्- यानस्थानासनादीनां मुखनेत्रादिकर्मणाम् । विशेषेषु विकारः स्यादिष्टसंदर्शनादिना ॥ यथा- 'सदसि सहचरीणामुल्लसत्पाणिवीणा सकलरसधुरीणा गातुमारब्धुमैच्छत् । मयि गतवति तत्र प्रोल्लसत्पद्मपत्र- प्रतिभटपटुनेत्रप्रेकितान्याविरासन् ॥ यथा वा- भाषणभूषणगमनैरनुकुरुते मे सखीषु सा याता। याति मयि तत्र तावह्वभूव तेष्वेव किमपि वैजात्यम् ।। अथ विच्छित्तिः तत्त्वं स्वल्पीयसा भूषणेन शोभातिशयपोषकत्वम् । तदुक्तम्- 'स्तोकाप्याकल्परचना विच्छित्तिः कान्तिपोषकृत् । इति ।
काव्यमाला यथा- EDIA 'सितं धौतं वासो वपुषि नयने कज्जलविधि- नवा वीटी वक्के चरणयुगलेऽलक्तकरसः । कपोले पत्राली वनहरिणपारिप्लवदृशां न भूषा पोषाय स्मरणंजनुषः किं प्रभवति ॥' अथ विभ्रमः । तत्त्वं व्युक्रमकल्पिताकल्पादिमत्त्वम् । तदुक्तम्- 'अस्थाने भूषणादीनां विन्यासो विभ्रमः स्मृतः ।' यथा- 'याते त्वय्यरविन्दसुन्दरदृशा भालेऽञ्जनं श्रोत्रयो- लाक्षारजनमेणनाभिरचना बिम्बाधरे चारचि । काञ्ची किंच गलेऽथ मौक्तिकलताहारो नितम्बे पदे केयूरं कचघोरणीधिषणया बद्धश्च चेलाञ्चलः ॥' अथ किलकिश्चितम् । तत्त्वं भावास्कन्दितधर्मवत्त्वम् । न च भाव- संकरेऽतिव्याप्तिः, तत्र भावानामनैयत्यात् । प्रकृते तु 'क्रोधाशुभीति- हर्षादेः संकरः किलिकिञ्चितम्' इत्यभिहितत्वान्नियमः । अविशेषाद- नयोः पर्यायतेत्यपि कश्चित् । क्रोधादिचतुष्टयवृत्तिहावत्वसाक्षाव्याप्य- जातिमत्त्वमित्यवगतिः । तथा च न दोषगन्धोऽपि । यथा- 'अरुणतरललोचनं सुकेश्याः स्रवदुरुबाष्पपयःप्रसन्नगण्डम् । अकलितविशदखभावहृद्यं सरमधुरं किमपि स्मरामि तस्याः ॥' अथ मोडायितम् । तदुक्तम्--- 'सद्भावभाविते चित्ते ललनस्य कथादिषु । मोडायितमिति प्राहुः कर्णकण्ड्यनादिकम् ॥'
शृङ्गारामृतलहरी। । यथा- 'तव सुभग गुणानां वर्णनाकर्णनायां कलयति कमलाक्षी कर्णकण्डूयनानि । अथ कथमपि कुञ्चल्लोचनं जृम्भमाणा रचयति भुजवल्लीवेल्लितैस्तोरणानि ॥' अथ कुट्टमितम् । तत्त्वं च कामचेष्टादौ निषेधपूर्वकशिरःकम्पादि- शालित्वम् । तदुक्तम्- आनन्दान्तं कुट्टमितं कुप्येत्केशाधरग्रहे ।' इति । यथा- 'सकचग्रहमजलोचनायाः कुचकूले नखरं ददत्यभीष्टे । न न मेति रुजेव मन्दमन्दं सशिरःकम्पमुदीरितं मुखेन ।' अथ विव्वोकः । तत्त्वं च गर्वातिशयादवधीरितामीष्टत्वम् । चण्ड- कोपेऽतिव्याप्तिवारणाय गर्वेति । तदुक्तम्- विव्वोकस्त्वतिगर्वेण वस्तुनीष्टेऽप्यनादरः ।' यथा- 'अवलेपलेपलोलितलोचनवृत्तिश्चिराय मञ्चेतः । कृन्तत्यभीष्टवस्तुन्यवहेला कापि पद्मशः ।।' • अथ ललितम् । तत्त्वं च सौकुमार्यव्यञ्जकचेष्टावत्त्वम् । तदुक्तम्- 'सुकुमारतयाङ्गानां विन्यासो ललितं स्मृतम् ॥' यथा- 'मनो यूनां मा मूद्दलितमिति पादान्तरचरं किमु क्षोणीपृष्ठे रचयति पदं कोमलतया । भुज मल्लीवल्लीकुसुमचयनेऽपि श्रमवशं कुरङ्गाक्षी कण्ठप्रणयिनमभीष्टस्य कुरुते ॥'
१६८ काव्यमाला। । अथ विहृतम् । तत्त्वं चासदृशचेष्टावत्त्वम् । तदुक्तम्- 'वक्तव्यकालेऽनुक्तं यद्रीडया विहृतं हि तत् ।' यथा- 'दूरायातेन मया वार्ता वार्तानुशंसिनी पृष्टा । नाचष्ट किं तु विदधे जलप्लुते लोचने सुमुखी ॥' यथावा- 'न वृणोषि सुरानमूशिवादीन्न च दैत्यान्कतरस्तवास्ति चित्ते । गुरुणेति मुहुनिरुध्य पृष्टे विहृतं सागरजन्मनोऽवतान्नः ॥' एषां खातव्येणैव रसोपकारकत्वं न पारतन्त्र्येणेति वामनमतम् । तत्तु वामनमेव । तथाहि । किं नाम खातन्त्र्यम् । रसप्रकृतिकत्वमुत व्यभि- चारित्वम् । नाद्यः । तेषां स्थायिभावभूतायां रतावनन्तर्भावात् । किंच व्यभिचारित्वं रसान्तरसंचरणशालित्वम् । तच्चैषां शृङ्गारोपयोगितया- नुपपन्नम् , सामानाधिकरण्येन तदुपयोगित्वमिति परमार्थः । तत्त्वं च जातिविशेष इत्येके । जात्यभाव इत्यपरे । परे तु हावत्वभावत्वमख- ण्डोपाधिरित्यङ्गीचक्रुः । लीलादिवृत्तिसंयोगोपाधिधर्मवत्त्वमिति रहस्यम् । अथ विप्रलम्भे दशावस्था भवन्ति । ताश्चाभिलाषचिन्तास्मृतिगु. णकीर्तनोद्वेगप्रलापोन्मादव्याधिजडतानिधनानि । तत्र सङ्गेच्छामिला- षः । यथा- 'खञ्जनगञ्जननयना नयनैर्भूयश्च चर्करीति तव । नीराजनं शरीरे तथापि तस्याः सरीसरीति रतिः ॥' दर्शनप्रकारकजिज्ञासा चिन्ता । यथा- 'गतागतैः सेह मया प्रतोली सेव्या सुधासूतिसरोरुहाक्षी। सचन्द्रसारङ्गमदं प्रवाहं कुर्वीत वातायनवीक्षितेन ।' EMA
शृङ्गारामृतलहरी ।
Sure
प्रियाचेष्टाबद्धसंस्कारजन्यं ज्ञानं स्मृतिः । यथा-
'एकेन पुष्पकबरी कबरी करेण
नीवी श्लथां तदितरेण च धारयन्तीम् ।
वक्षोजसीनि नखरक्षतमीक्षमाणां
सीत्कारशोभिवदनां ललनां स्मरामि ॥'
चिरकालिकप्रियप्रशंसाप्रतिपादनं गुणकीर्तनम् । यथा-
'गुम्फः कार्तिककृत्तिकापरिवृढस्यन्दत्सुधासंनिभो
वाचां किंच मिलन्मिलिन्दपटलीहासक्षमे चक्षुषीं ।
सा वैसारिणकेतनस्य विलसल्लीलाविलासालयो
जात्यवर्णसुवर्णकान्तिरतुलन्यासास्ति तस्यास्तनुः ।।
विरहकालीना हेयताबुद्धिरुद्वेगः । यथा-
'सिक्ता मुहुश्चन्दनवारिणा द्रागान्दोलिता धीरतरं जलार्दा ।
शय्यादलानामपि कन्दलीनां तापाय हा पातकमिन्दुमुख्याः ॥'
मनोविकृतिजन्यप्रियाश्रयकर्तव्यव्यवहारः प्रलापः । यथा-
"किं वदिष्यति मामिन्दीवरसुन्दरलोचना ।
किं करिष्यति कुन्दाग्रसुदती दर्शनान्नु मे ॥
विरहकालीनमनोवृत्तिजन्यप्रियाश्रितवितथव्यापार उन्मादः । स चः
कायिको वाचनिकश्चेति द्विविधः । आयो यथा-
'आशासु कोऽपि तरुणो भ्रमवीक्षितायाः
कृत्वा सरोरुहदृशो मुहुरङ्कपालीम् ।
संमार्जयन्नलिककोमलधर्मबिन्दू-
नुत्कण्टकः कलयति स मनोजलीलयम्॥
." १५० काव्यमाला। MEAN - द्वितीयो यथा- शीतांशो वदनाति वरतनोस्त्वं हर्तुमाकाङ्क्षसे त्वं पारीन्द्र विलमकान्तिपटलीमेण त्वमक्ष्णोः श्रियम् । बद्धो वाञ्जलिरेष पेशलमिदं नैवास्ति युष्मादृशां तद्यूयं ब्रजत प्रयात विषयं नो मार्गणानां मम ॥' विरहजनितशरीरतान्तिर्व्याधिः । यथा- 'आधिस्तनोति सुतनोस्तनुतानवानि व्याधिर्दिशत्यविरतं विषमामवस्थाम् । नो तादृशानि दुरितानि पुराकृतानि धन्वी पुरः सरति यत्कुसुमायुधोपि ॥' अपिच- 'नापैति या नागरचित्रपन्था () गुडूचिकाक्षौद्रभवौषधेन । नासत्यतामेत्य नवीनयोगैर्हरे हराम्भोजदृशस्त्वमार्तिम् ॥' विरहजन्यकायचेष्टाविरहो जडता । यथा- 'यादव यादव किं वा ब्रूमः सुदृशो बतावस्थाम् । उच्चरिते तव नामनि जीवति सुदतीतिजानीमः ॥' निधनस्य विरहादमङ्गलत्वाच्च न तद्वर्ण्यम् । आलम्बनविभावानुक्त्वा प्रसङ्गादुद्दीपनविभावा निरूप्यन्ते । ये रसमुद्दीप्य विभावयन्ति त उद्दीपनविभावाः । तेषां च रसं प्रत्युद्दीपनत्वेन कारणत्वम् । ते च ऋतुचन्द्रमलयानिलाद्या वेद्याः। ऋतुषु वसन्तो यथा- 'गुञ्जविरेफमधुरे कलकण्ठकण्ठ- १. पीयूषपानचतुरे कुसुमाकरेऽसिन् ।
शृकारामृतलहरी ।
खेलत्ययं युवजनेषु नितान्तरक्तो
मन्दं मृगाक्षि मृगयां मुदितो मनोभूः ॥'
ग्रीष्मो यथा-
'शिरीषसंसर्गसुगन्धिशीतसमीरणेऽस्सिन्सुभगावगाहे ।
सिते पटीरे इव पङ्किलाङ्के पयोधरे पद्मदृशां मनोभूः ॥
वर्षा यथा-
'सौदामिनीकनकदामविभूषिताङ्गी
कादम्बिनी गजघटेव मनोजराजः ।
आसारपातविशदीकृतदानपूरा-
न...... कस्य मनसो मुदमादधाति ।'
शरद्यथा-
'यातं सज्जनचित्तवद्विमलतामम्भः प्रसन्नं नमः
कालुप्यं गुरुशिक्षयेव न मनागम्भोधराः संदधुः ।
चेतांसीव सरांसि हंसललितान्यासन्भृशं योगिनां
जातं किं विशदं न वेति विशति स्त्रीणां मनो मन्मथः ॥'
हेमन्तो यथा-
'इसति दिवसो मानैः साकं सरोरुहचक्षुषां
व्रजति रजनी वृद्धि प्रेमप्रपञ्चरसैः सह ।
भवति च रुचिः सार्ध चित्ते चकोरचमूचयैः
खपिति तरुणैश्चेतोजन्मा समं कुचभूमिषु ।'
शिशिरो यथा-
'व्रणयन्नधरं प्रकम्पयंस्तनुमङ्गं च सृजन्सकण्टकम् ।
असहन्कुचपत्रवल्लरी शिशिरः पद्मदृशां प्रियागमः॥
काव्यमाला। BREAM चन्द्रो यथा- प्राचीभालविशेषकं सुचषकं दिक्सुन्दरीणामिदं क्रीडाकन्दुकमिन्दुलोकसुदृशां काश्मीरपत्राङ्कितम् । मानोन्मूलनकार्मणं रतिपतेः कालार्भकक्रीडनं यामिन्याः करभोरु पश्य पुरतः सौभाग्यमुज्जृम्भते ॥ मलयानिलो यथा- 'भृङ्गश्रेणीकृपाणीसरसिरुहवनीधूलिमिधुसराङ्गः पम्पासंपातकम्पस्खलितगतिरलं माधवीमल्लिकासु । मन्दं मन्दं विसर्पन्मलयगिरिदरीगहरेभ्यो दुकूलं कर्षन्कर्णाटकान्ताकुचकलशगतं वाति मत्तः समीरः ॥' अनुभावा व्यभिचारिभावाश्च ग्रन्थान्तरेषूह्याः । इह ग्रन्थगौरवान्न लिखिताः। इति श्रीमत्कविल्कुलतिलकनरहरिवित्कुलोत्तंसश्रीसामराजदीक्षित- विरचिता शारामृतलहरी समाप्ता। y