Lbs National Academy Of Administration
Meghadhutam Of Kalidas (1930)
Front matter
AL SANS 891.22
KAL
PRESS
CROSITOCTORSCINCom
मी
125803 श्री राष्ट्रीय प्रशासन अकादमी
LOONAA
Academy of Administration
मसूरी
MUSSOORIE
पुस्तकालय
LIBRARY
125603
अवाप्ति संख्या
Accession No.
वर्ग संख्या 41San
Class No.
891.22
पुस्तक संख्या
Book AD. KAL. कालिदा
ROCTORRRRRRRRRRRCCCCXREPCHAR
COM
No text on this page.
THE
MEGHADUTA
OF
KALIDASA
WITH THE COMMENTARY ( SANJIVINI )
OF
MALLINATHA.
EDITED)
WITII SANSKRIT NOTES BUXVARTHA-BODIIKA
DY
Shri Kanaka Lal Thakkur.
Third Edition.
PUBLISUED BY
Master Khelari Lal
“PROPRIETOR, AF TIE SANSKRIT Book DEPOT"
BENARES.
1930.
Prices Annas.
| All rights reserved by the publisher. I ॥ श्रीः ॥ महाकविश्रीकालिदासविरचितं मेघदूतम् मल्लिनाथकृतसञ्जीविनीसमेतम् । आरामण्डलान्तर्गत-संझौलीग्रामस्थ- हरगौरी-संस्कृत-विद्यालय-प्रधानाध्यापकेन पं० श्रीकनकलालठक्कुरेण भावार्थबोधिकानाम-टिप्पण्या समलङ्कृत्य संशोधितम् । (तृतीयं संस्करणम् ।) मास्टर-खेलाडीलाल-महोदयेन श्रीसीतारामाख्यमुद्रणयन्त्रालये मुद्रयित्वा प्रकाशितम् । शाके १८५२ सन् १९३० ई. मूल्यमष्टावाणकाः।
मका Hama विदितमेव भवतां तत्रभवतां यत् कविकुलशिरोमणिः श्रीकालि. दासः काव्येषु प्रधान ग्रन्थत्रयं रघुवंश-कुमारसम्भव-मेघदृतनामधेयं प्रणिनाय । नेषु मेवदूतनामधेयं काव्यमयुक्तकवेः रचनावैचिन्यात् कीदृशं कवित्वनि प्रथयतीन्यत्र काव्यमेव प्रमाणम् । तस्य मल्लिनाथ- कृतटीकापि ग्रन्थस्थातिगाम्भीर्यमुद्भावयति नच्च काव्यं सव्याख्या मपि साधारणधियां भावार्थग्रहणेऽनुपकारीति सम्यगालोच्य मया बाबू-श्रीवैजनाथप्रसादयादव-प्रेरितेन "भावार्थबोधिका" टिप्पणी निरमायि । एतस्याः सौष्टवाऽसौष्टवयोः परीक्षणं निरीक्षणा- देव भविष्यतीत्यलं पल्लवितेन- नाम - श्रीकनकलालठक्कुरस्य ।
मेघदृत-महाकाव्यम् संजीविन्या समेतम् पूर्वमेघः। मातापितृभ्यां जगतो नमो वामाजानये । सद्यो दक्षिणहक्पातसंकुचद्वामदृष्टये ।। अन्तरायतिमिरोपशान्तये शान्तपावनमचिन्त्यवैभवम् । तन्नरं वपुषि कुञ्जरं मुखे मन्महे किमपि तुन्दिलं महः ।। शरणं करवाणि कामदं ते चरणं वाणि चराचरोपजीव्यम् । करुणामसृणैः कटाक्षपातैः कुरु मामम्ब कृतार्थसार्थवाहम् ।। इहान्वयमुखेनैव सर्व व्याख्यायते मया । नामूलं लिख्यते किंचिन्नानपेक्षितमुच्यते ॥ "आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्" इति शास्त्रात्काव्यादौ वस्तुनिर्देशात्कथां प्रस्तौति- कश्चित्कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्तः शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः। यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु स्निग्धच्छायातरुषु वसति रामगिर्याश्रमेषु ॥ १ ॥ - १. स्वाधिकारप्रमत्तः। (.) स्वामिसेवाऽपराधासन यावद्वर्ष शतः प्रियाविरही कश्चिद्यक्षश्चित्र- कूटामेषु वसनासीदिति भावः ।
२ मेघदूतम् । कश्चिदिति । स्वाधिकारात्स्वनियोगात्प्रमत्तोऽनवहितः ॥ "प्रमादो- ऽनवधानता" इत्यमरः । जुगुप्साविरामप्रमादार्थानामुपसंख्यानम् इत्यपादानत्वम् । तस्मात्पञ्चमी ।। अत एवापराधाद्धेतोः। कान्ताविरहेण गुरुणा दुर्भरेण । दुस्तरेणेत्यर्थः ।। " गुरुस्तु गीप्पतौ श्रेष्ठे गुरौ पितरि दुर्भरे” इति शब्दार्णवे ।। वर्षभोग्येण संवत्सरभोग्येण ॥ 'कालाध्वनो- रत्यन्तसंयोगे” इति द्वितीया । “अत्यन्तसंयोगे च" इति समासः । "कुमति च" इति णत्वम् । भर्तुः स्वामिनः शापेन । अस्तंगमितो महिमा सामर्थ्य यस्य सोऽस्तंगमितमहिमा ॥ अस्तमिति मकारान्तमव्ययम् ।। तस्य "द्वितीया-” इति योगविभागात्समास: । कश्चिदनिर्दिष्टनामा यक्षो देवयोनिविशेषः ।। " विद्याधराप्सरोयक्षरक्षोगन्धर्वकिन्नराः । पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः" इत्यमरः ॥ जनकतनयायाः सीतायाः स्नानैरवगाहनै: पुण्यानि पवित्राण्युदकानि येपु तेषु । पावनेप्रित्यर्थः ।। छायाप्रधानास्तरवश्छायातरवः ।। शाकपार्थिवादित्वात्समासः । स्निग्धाः सान्द्राश्छायातरवो नमेस्वृक्षा येषु तेषु । वसतियोग्येग्वित्यर्थः ॥ "स्निग्धं तु मसृणे सान्द्रे” इति “छायावृक्षो नमः स्यात्” इति च शब्दार्णवे ।। रामगिरेश्चित्रकूटस्याश्रमेषु वसतिम् ॥ “वहिवस्यतिभ्यश्च" इत्यौणादि. कोऽतिप्रत्ययः ।। चक्रे कृतवान् ।। अत्र रसो विप्रलम्भाख्यः शृङ्गारः । तत्राप्युन्मादावस्था । अत एवैकवानवस्थानं सूचितमाश्रमेष्विति बहुवच. नेन ।। सीतां प्रति रामस्य हनुमत्संदेशं मनसि निधाय मेघसंदेशं कविः कृतवानित्याहुः । अत्र काव्ये सर्वत्र मन्दाक्रान्तावृत्तम् । तदुक्तम्- 'मन्दाक्रान्ता जलधिपडगम्भी नतो ताद्गुरू चेत्” इति ॥ तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः स कामी नीत्वा मासात्कनकवलयभ्रंशरिक्तप्रकोप्टः । आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसार्नु वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥ २ ॥ तस्मिन्निति ॥ तस्मिन्नद्रौ चित्रकूटाद्रौ । अबलाविप्रयुक्तः कान्ता- विरही । कनकस्य वलयः कटकम् । "कटकं वलयोऽस्त्रियाम्" इत्य- (२) तत्राश्रमे वसनसौ कामी यक्षो मासाष्टके व्यतीते भाषाढप्रथमदिने मेघमपश्यदिति भावः ।
३ पूर्वमेघ । मरः ॥ तस्य भ्रंशेन पातेन रिक्तः शून्यः प्रकोष्ठः कूपराधः प्रदेशो यस्य स तथोक्तः ।। "कक्षान्तरे प्रकोष्ठः स्यात्प्रकोष्ठः कूर्परादधः" इति शाश्वतः ॥ विरहदुःखात्कृश इत्यर्थः । कामी कामुकः स यक्षः। कतिचिन्मासान् । अष्टो मासानित्यर्थः । “शेषान्मासान्गमय चतुरः” इति वक्ष्यमाणत्वात् ।। नीत्वा यापयित्वा । आपाढानक्षत्रेण युक्ता पौर्णमास्यापाढी ॥ "नक्षत्रेण युक्तः कालः" इत्यण । “टिड्डाणञ्-' इत्यादिना डीप ।। सापाठ्यस्मि- पौर्णमासीत्यापाढो मासः ।। "सास्मिन्पौर्णमासीति संज्ञायाम्" इत्यण् ।। तस्य प्रथमदिवसे आश्लिष्टसानुमाक्रान्तकूटम । वप्रक्रीडा उत्खात केलयः ।। "उत्खातकेलि: शृङ्गाद्यैर्वप्रक्रीडा निगद्यते” इति शब्दार्णवे ।। तासु परि- णतस्तिर्यग्दन्तप्रहार: ।। "तिर्यग्दन्तप्रहारम्तु गजः परिणतो मतः" इति हलायुधः । स चासौ गजश्च तमिव प्रेक्षणीयं दर्शनीयं मेघं ददर्श ॥ गज- प्रेक्षणीयमित्यत्रेवलोपाल्लुरोपमा । केचित् "आषाढस्य प्रथमदिवसे" इत्यत्र "प्रत्यासन्ने नभसि' इति वक्ष्यमाणनभोमासप्रत्यासत्त्यर्थं "प्रथम- दिवसे” इति पार्ट कल्पयन्ति तदसंगतम् । प्रथमातिरके कारणाभावात् । नभोमासस्य प्रत्यासत्त्यर्थमित्युक्तमिति चेन्न । प्रत्यासत्तिमात्रस्य मास- प्रत्यासत्त्यैव प्रथमदिवससस्याप्युपपत्तेः । अत्यन्तप्रत्यासत्तेपयोगाभावेना- विवक्षितत्वात् । विवक्षितत्वे वा म्वपक्षेऽपि प्रथमदिवसातिक्रमण मेघ- दर्शनकल्पनायां प्रमाणाभावेन तदसम्भवात् । प्रत्युतास्मत्पक्ष एव कुशल- सन्देशस्य भाव्यनर्थप्रतीकारार्थस्य पुरत एवानुमानमुक्तं भवतीत्युपयोग सिद्धिः । ननून्मत्तस्य नायं विवेक इति चेन्न। उन्मत्तस्य नानर्थस्य प्रती- कागर्थ प्रवृत्तिरपीति संदेश एव मा भूत् । तथा च काव्यारम्भ एवा- प्रसिद्धः स्यादित्यहो मूलच्छेदी पाण्डित्यप्रकर्षः ॥ कथं तर्हि "शापान्तो में भुजगशयनादुत्थिते शाङ्गपाणौ” इत्यादिना भगवत्प्रबोधावधिकस्य शापस्य मासचतुष्टयावशिष्टस्योक्तिः, दशदिवसाधिक्यादिति चेत्-स्वपक्षे- ऽपि कथं सा, विंशतिदिवसैन्यूनत्वादिति सन्तोष्टव्यम् । तस्मादोषद्वैषम्य- मविवक्षितमिति सुष्ठूक्तं "प्रथमदिवसे" इति । तस्य स्थित्वा कथमपि पुरः कौतुकाधानहेतो- रन्तर्वाष्पश्चिरमनुचरो राजराजस्यं दथ्यो । . ६. केतकाधान ।
इत्यमरः। मेघदूतम्। मेघालोके भवति सुखिनोऽप्यन्यथावृत्ति चेतः कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे ॥ ३॥ तस्येति ॥ राजानो यक्षाः ॥ "राजा प्रभौ नृपे चन्द्रे यक्षे क्षत्रिय शक्रयोः" इति विश्वः । राज्ञां राजा राजराजः कुबेरः ॥ राजराजो धनाधिपः राजाहः सखिभ्यष्टच्” इति टच्प्रत्ययः ।। तस्यानुचरो यक्षः । अन्तर्बाप्पो धीरोदात्तत्वादन्तःस्तम्भिताश्रुः सन् । कौतुकाधानहेतोरभिलाषोत्पादकारणस्य ॥ "कौतुकं चाभिलाषं स्यादुत्सवे नमहर्षयोः” इति विश्वः॥ तस्य मेघस्य पुरोऽप्रे कथमपि ॥ गरीयसा प्रयत्नेनेत्यर्थः॥ ज्ञानहेतुविवक्षायामप्यादि कथमव्ययम् । कथमादि तथाप्यन्तं यत्नगौरवबाढयोः” इत्युज्वलः ॥ स्थित्वा चिरं दध्यो चिन्त- यामास । “ध्यै चिन्तायाम्" इति धातोलिट् ॥ मनोविकारोपशमनपय- न्तमिति शेषः ॥ विकारहेतुमाह-मेघालोक इति ॥ मेघालोके मेघदर्शने सति सुखिनोऽपि प्रियादिजनसंगतस्यापि चेतश्चित्तमन्यथाभूता वृत्तिा- पारो यस्य तदन्यथावृत्ति भवति । विकृतिमापद्यत इत्यर्थः। कण्ठाश्लेष- प्रणयिनि कण्ठालिङ्गनार्थिनि जने । दूरे संस्था स्थितिर्यस्य तस्मिन्दूरसंस्थे सति किं पुनः ! विरहिणः किमुत वक्तव्यमित्यर्थः । विरहिणां मेघसंदर्श- नमुद्दीपनं भवतीति भावः ।। अर्थान्तरन्यासोऽलङ्कारः । तदुक्तं दण्डिना "ज्ञेयः सोऽर्थान्तरन्यासो वस्तु प्रस्तुत्य किञ्चन । तत्साधनसमर्थस्य न्यासो योऽन्यस्य वस्तुनः" इति ॥ अथ समाहितान्तःकरणः सन्कि कृतवानित्यत आह- प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थी जीमूतेन स्वकुशलमयीं हारयिष्यन्प्रवृत्तिम् । स प्रत्यग्रैः कुटजकुसुमैः कल्पितार्घाय तस्मै प्रीतः प्रोतिप्रमुखवचनं स्वागतं व्याजहार ॥४॥ १. लम्बनाम् ; लम्बनार्थम्. २. संप्रत्यः । (३) मेघदर्शनाप्रियजनसङ्गतस्यापि चेतोविकारसम्भवात्तद्विरहिणस्तु सुतरां तत्सम्भवादसौ यक्षो मेघाने तिष्ठन् चिरं व्यचिन्तयदिति भावः । (४) मेघद्वारा प्रियाम्प्रति निजकुशलवृत्तं प्रापयिष्यबसौ यक्षो गिरिमल्लिका- कुसुमैस्तमभ्यर्च्य प्राब्रवीदिति भावः ।
" " पूर्वमेधः । प्रत्यासन्न इति ॥ स यक्षः। यश्चिरं दध्यो स इत्यर्थः ॥ नभसि श्रावणे ॥ "नमः खं श्रावणो नभाः" इत्यमरः ॥ प्रप्यासन्न आषाढस्या- नन्तरं संनिकृष्टे । प्राप्ते सतीत्यर्थः । दयिताजीवितालम्बनार्थी सन् । वर्षाकालस्य विरहदुःखजनकत्वात् "उत्पन्नानर्थप्रतीकारादनर्थोत्पत्तिप्रति- बन्ध एव वरम्” इति न्यायेन प्रागेव प्रियाप्राणधारणोपायं चिकीर्षुरि- त्यर्थः । जीवनस्योदकस्य मूतः पटबन्धो वस्त्रबन्धो जीमूतः ॥ पृषोदरा- दित्वात्साधुः । “भूतः स्यात्पटबन्धेऽपि" इति रुद्रः ॥ तेन जीमूतेन जल- धरेण प्रयोज्येन स्वकुशलमयी स्वक्षेमप्रधानां प्रवृत्ति वार्ताम् ॥ "वार्ता प्रवृत्तिवृत्तान्तः इत्यमरः ॥ हारयिष्यन्प्रापयिष्यन् । " लुट् शेषे च इति चकाराक्रियार्थक्रियायपदाल्लूटप्रत्ययः । जीवनार्थ कर्म जीवनप्रदेनैव कर्तव्यमिति भावः ॥ "हक्रोरन्यतरस्याम्" इति कर्मसंज्ञाया विकल्पात्पक्ष कर्तरि तृतीया ॥ प्रत्यप्रैरभिनवैः कुटजकुसुमैगिरिमल्लिकाभिः ।। "कुटजो गिरिमल्लिका" इति हलायुधः ॥ कल्पितार्थाय कल्पितोऽनुष्ठितोऽर्थः पूजा- विधिर्यस्मै तस्मै ।। "मूल्ये पूजाविधावर्षः" इत्यमरः तस्मै जीमूताय ।। क्रियाग्रहणमपि कर्तव्यम्" इति सम्प्रदानत्वाचतुर्थी ॥ प्रीतिप्रमुखानि प्रीतिपूर्वकाणि वचनानि यस्मिन्कर्मणि तत्प्रीतिप्रमुखवचनं यथा तथा । शोभनमागतं स्वागतं स्वागतवचनं प्रीतः सन्व्याजहार । कुशलागमनं पप्रच्छेत्यर्थः ॥ नाथेन त्वत्र " प्रत्यासन्ने मनसि इति साधीयान्पाठः कल्पितः । प्रत्यासन्ने प्रकृतिमापन्ने सतीत्यर्थः। यस्तु तेनैव पूर्वपाठवि- रोधः प्रदर्शितः सोऽस्माभिः "आषाढस्य प्रथमदिवसे" इत्येतत्पाठविकल्प- समाधानेनैव समाधाय परिहतः ।। ननु चेतनसाध्यमर्थ कथमचेतनेन कारयितुं प्रवृत्त इत्यपेक्षायां कविः समाधत्ते- धूमज्योतिः सलिलमरुतां संनिपातः क मेघः सन्देशार्थाः क पटुकरणैः प्राणिभिः प्रापणीयाः । इत्यौत्सुक्यादपरिगणयन्गुह्यकस्तं ययाचे कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु ॥ ५ ॥ १. अत्र 'संप्रदानत्वारकुशलप्रानो नाभिमुखीचकारेत्यर्थः' इति पाठान्तरम् । २. प्रणय। (५) कामिना चेतनाचेतनभेदानवगमादसौ यशो मेघमयाचतेति भावः ।
मेघदृतम् । धूमेति ॥ धूमश्च ज्योतिश्र सलिलं च मरुद्वायुश्च तेषां संनिपातः संघातो मेघः क । अचेतनत्वात्संदेशानहैं इत्यर्थः । पटुकरणैः समर्थेन्द्रि- : ॥ " करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि " इत्यमरः ॥ प्राणिभिश्चे- तनैः ।। "प्राणी तु चेतनो जन्मी' इत्यमरः ।। प्रापणीयाः प्रापयितव्याः संदिश्यन्त इति संदेशास्त एवार्थाः क्व । इत्येवमौत्सुक्यादिष्टार्थोद्युक्तत्वात् ।। 'इष्टार्थोद्युक्त उत्सुकः इत्यमरः ॥ अपरिगण यन्नविचारयन्गुह्यको यक्षस्तं मधं ययाचे याचितवान् ।। "याच याञ्चायाम" || तथा हि- कामार्ता मदनातुराश्चेतनाश्चाचेतनाश्च तेपु विपये प्रकृतिकृपणाः स्वभाव- दीनाः। कामान्धानां युक्तायुक्तविवेकशून्यत्वादचेतनयाञ्चा न विरुध्यत इत्यर्थः। अत्र मंघ-संदेशयोर्विरूपयोर्घटनाद्विषमालङ्कारः। तदुक्तम- "विरुद्धकार्यस्योत्पत्तिर्यत्रानर्थस्य वा भवेन् । विरूपघटना चासौ विपमा- लंकृतिस्विधा ।।" इति । सा चार्थान्तरन्यासानुप्राणिता तत्समर्थकत्वेनैव चतुर्थपादे तस्योपन्यासात् ।। सम्प्रति याचाप्रकारमाह- जातं वंशे भुवनविदिते पुष्करावर्तकानां जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः । तेनार्थित्वं त्वयि विधिवशाददरवन्धुर्गतोऽहं याञ्चामोघा वरमधिगुणे नाधमे लन्धकामा ॥६॥ जातमिति ॥ हे मंघ, त्वां भुवनपु विदिते ।। "निष्ठा" इति भूताथ क्तः । “मतिबुद्धि-” इत्यादिना वर्तमानार्थत्वे तु 'क्तस्य च वर्तमान" इति भुवनशब्दस्य पठ्यन्ततानियमात्समासो न स्यात् । 'क्तेन च पूजा- याम्” इति निषेधात् ॥ पुस्कराश्चावर्तकाश्च केचिन्मेघानां श्रेष्ठास्तेषां वंशे जातम् । महाकुलप्रसूतमित्यर्थ । कामरूपमिच्छाधीनविग्रहम् । दुगादिसंचारक्षममित्यर्थः। मघोन इन्द्रस्य प्रकृतिपुरुषं प्रधानपुरुषं जानामि । तेन महाकुलप्रसूतत्वादिगुणयोगित्वेन हेतुना विधिवशार्दैवायत्तत्वात् ।। "विधिविधान दैवे च” इत्यमरः ।। "वशमायत्ते वशमिच्छाप्रभुत्वयोः" १. बन्ध्या। (६) हे मेघ ! भाग्यवशास्प्रियावियुक्तोऽई व कुलीनं विज्ञाय याचितुमुप. स्थितोऽस्मीति भावः ।
- " पूर्वमेघः। इति विश्वः ॥ दूर बन्धुर्यत्य स दूरबन्धुर्वियुक्तभार्योऽहं त्वय्यर्थित्वं गतः । ननु याचकस्य याञ्चायां याच्यगुणोत्कर्षः कुत्रोपयुज्यत इत्याशङ्कथ- देवाद्याञ्चाभङ्गेऽपि लाघवदोपाभाव एवोपयोग इत्याह-याञ्चेति॥तथा हि- अधिगुणेऽधिकगुणे पुंसि विषये याञ्चा मोघा निष्फलापि वरमीषत्प्रियम्। दातुर्गुणाढ्यत्वात्प्रियत्वं याञ्चावैफल्यादीपत्प्रियत्वमिति मावः ॥ अधमे निर्गणे याञ्चा लब्धकामापि सफलापि न वरम् । ईषत्प्रियमपि न भव- तीत्यर्थः ।। “देवावृते वरः श्रेप्ठे त्रिपु क्लीबं मनाविप्रये" इत्यमरः ।। अर्थान्तरन्यासानुप्राणितः प्रेयोऽलङ्कारः । तदुक्तं दण्डिना-"प्रेयः प्रियतराख्यानम्” इति ॥ एतदाद्यपादत्रये चतुर्थपादस्थेनार्थान्तरन्यासे- नोपजीवितमिति सुव्यक्तमेतत् ।। संतप्तानां त्वमसि शरणं तत्पयोद प्रियायाः सन्देशं मे हर धनपतिक्रोधविश्लेषितस्य ! गन्तव्या ते वसतिरलका नाम यक्षेश्वराणां बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहा ॥ ७ ॥ संतप्तानामिति ॥ हे पयोद ! त्वं संतप्तानामातपेन वा प्रवासविरहेण वा संज्वरितानाम् ॥ "संताप: संज्वरः समौ” इत्यमरः ॥ शरणं पयो- दानेनातपखिन्नानां प्रोषितानां स्वस्थानप्रेरणया च रक्षकोऽसि ॥ "शरणं गृहरक्षित्रोः" इत्यमरः ॥ तत्तस्मात्कारणाद्धनपतेः कुबेरस्य क्रोधेन विश्ले- पितस्य प्रियया वियोजितस्य मे मम संदेशं वार्ता प्रियाया हर । प्रियां प्रति नयेत्यर्थः । सम्बन्धसामान्ये षष्ठी ॥ संदेशहरणेनावयोः सन्तापं नुदत्यर्थः ।। कुत्र स्थाने सा स्थिता तत्स्थानस्य वा किं व्यावर्तकं तत्राह- गन्तव्येति ।। बहिर्भवं बाह्यम् ॥ “बहिवपञ्चजनेभ्यश्च" इति यन बाह्य उद्याने स्थितस्य हरस्य शिरसि या चन्द्रिका तया धौतानि निर्म- लानि हाणि धनिकभवनानि यस्यां सा तथोक्ता ।। "हादि धनिनां वासः" इत्यमरः । अनेन व्यावर्तकमुक्तम् अलका नामालकेति प्रसिद्धा यक्षेश्वराणां वसतिः स्थानं ते तव गन्तव्या। त्वया गन्तव्येत्यर्थः ।। "कृत्यानां कर्तरि वा" इति षष्ठी ॥ ॥ १. धनपतेः । ७) हे मेघ ! सन्तप्तजनरक्षको भवान् विरहिणो मे सन्देशमलकायां प्रिया. प्रति नयत्पिति भावः ।
- मेघदूतम् । मदथ प्रस्थितस्य ते पथिकाङ्गनाजनासनमानुषङ्गिकं फलमित्याह- त्वामारूढं पवनपदवीमुद्गृहीतालकान्ताः प्रेक्षिष्यन्ते पथिकवनिताः प्रत्ययादाश्वसन्त्यः । कः संनद्धे विरहविधुरां त्वय्युपेक्षेत जायां न स्यादन्योऽप्यहमिव जनो यः पराधीनवृत्तिः॥८॥ त्वमिति ॥ पवनपदवीमाकाशमारूढं त्वाम् पन्थानं गच्छन्ति ते पथिकाः ।। "पथः कन्" इति कन्प्रत्ययः । तेषां वनिताः प्रोषितभर्तृ- काः । प्रत्ययात्प्रियागमनविश्वासात् ॥ “प्रत्ययोऽधीनशपथज्ञानविश्वास- हेतुः" इत्यमरः ॥ आश्वसन्त्यो विश्वसिताः ॥ श्वसधातोः शत्रन्तात् "उगितश्च" इति डीप् ॥ तथोद्गृहीतालकान्ता दृष्टिप्रसारार्थमुन्नमय्य धृतालकायाः सत्यः प्रेक्षिष्यन्ते। अत्युत्कण्ठतया द्रक्ष्यन्तीत्यर्थः । मदा- गमनेन पथिकाः कथमागमिष्यन्तीत्यत्राह-तथाहि । त्वयि संनद्धे व्यापृते सति विरहेण विधुरां विवशां जायां क उपेक्षेत । न कोऽपीत्यर्थः । अन्योऽपि मद्व्यतिरिक्तोऽपि यो जनोऽहमिव पराधीनवृत्तिः परायत्तजीवन- को न स्यात् । स्वतन्त्रस्तु न कोऽप्युपेक्षतेति भावः ॥ अवार्थान्तरन्यासोऽ लङ्कारः । तदुक्तम्- "कार्यकारणसामान्यविशेषाणां परस्परम् । समर्थन यत्र सोऽर्थान्तरन्यास उदाहृतः ॥” इति लक्षणात् ।। निमित्तान्यपि ते शुभानि दृश्यन्त इत्याह- मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वां वामश्चार्य नदति मधुरं चातकस्ते सगन्धः । गर्भाधानक्षणपरिचयान्नूनमाषदमालाः सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः ॥६॥ मन्दं मन्दमिति ॥ अनुकूलः पवनो वायुस्त्वां मन्दं मन्दम् । अति- मन्दमिर्थः ॥ अत्र कथंचिद्वीप्सायामेव द्विरुक्तिनिर्वाहा ॥ "प्रकारे गुणवचनस्य" इत्येतदाश्रयणे तु कर्मधारयवद्भावे सुब्लुकि मन्दमन्दमिति १. तोयगृपः ते सगर्वः २. श्रमपरिचयम् स्थिरपरिचयम् ३ प्रेक्षिष्यन्ते । (९) अनुकूलवायुनोदनादिशुभशकुनमवेत्य गच्छन्तं भवन्तं विषति वक- पंक्तयो द्रक्ष्यन्तीति भावः ।
पूर्वमेघः । स्यात् । तदेवाह वामनः-"मन्दमन्दमित्यत्र प्रकारार्थे द्विर्भावः" इति ॥ यथा सदृशम् । भाविफलानुरूपमित्यर्थः ॥ "यथा सादृश्ययोग्यत्ववीप्सा- स्वार्थानतिक्रमे" इति यादवः ॥ नुदति प्रेरयति । अयं सगन्धः सगर्वः संबन्धीति केचित् ॥ "गन्धो गन्धक आमोदे लेशे संबन्धगर्वयोः" इत्यु- भयत्रापि विश्वः ॥ ते तव वामो वामभागस्थः । “वामस्तु वक्रे रम्ये स्या- त्सव्ये वामगतेऽपि च" इति शब्दार्णवे। चातकः पक्षिविशेषश्च मधुरं श्राव्यं नदति व्याहरति ॥ इदं निमित्तद्वयं वर्तते । वर्तिष्यते चापरं निमि- त्तमित्याह-गर्भेति ॥ गर्भः कुक्षिस्थो जन्तुः "गर्भोऽपकारकं ह्यग्नौ सुखे पनसकण्टके । कुक्षौ कुक्षिस्थजन्तौ च" इति यादवः ॥ तस्याधानमुत्पादनं तदेव क्षण उत्सवः । सुखहेतुत्वादिति भावः ॥ “निर्व्यापारस्थितौ काल- विशेषोत्सवयोः क्षणः इत्यमरः ॥ तस्मिन्परिचयादभ्यासाद्धेतोः खे व्योम्नि । आबद्धमालाः। गर्भाधानसुखार्थ त्वत्समीपे बद्धपक्तय इत्यर्थः ॥उक्तं च कर्णोदये "गर्भ बलाका दधतेऽभ्रयोगान्नाके निबद्धा- वलयः समन्तात्" इति ॥ बलाका बलाकाङ्गनाः नयनसुभगं दृष्टिप्रियं भवन्तं नूनं सत्यं सेविष्यन्ते ॥ अनुकूलमारुतचातकशब्दितबलाकादर्श- नानां शुभसूचकत्वं शकुनशाखदृष्टं तद्विस्तरभयानालेखि ॥ न च तस्या नाशाद्वतस्खलनाद्वा निरर्थकस्त्वत्प्रयास इत्याह- तां चावश्यं दिवसगणनातत्परामेकपत्नी- मव्यापनामविहतगतिर्द्रक्ष्यसि भ्रातृजायाम् । प्राशाबन्धः कुसुमसदृशं प्रायशो ह्यङ्गनानां सद्यःपाति प्रणयि हृदयं विप्रयोगे रुणद्धि ॥१०॥ तां चेति ॥ हे मेघ ! दिवसानामवशिष्टदिनानां गणनायां संख्याने तत्परामासक्ताम् ॥ “ तत्परे प्रसितासक्तो इत्यमरः॥ अत एवाव्याप- नाममृताम् । शापावसाने मदागमनप्रत्याशया जीवन्तीमित्यर्थः। एकः पतिर्यस्याः सैकपत्नी ताम् । पतिव्रतामित्यर्थः ॥ "नित्यं सपत्न्यादिषु" इति लोप नकारश्च ॥ भ्रातुर्मे जायां भ्रातृजायाम् । मातृवनिःशङ्क दर्श- नीयामित्याशयः । तां मत्प्रियामविहतगतिरविच्छिन्नगतिः सन्नवश्यं - (१०) हे मेष ! भवानलकामेव वियोगे प्राणत्यागोरसुकामपि मत्पत्नीमाया जीवन्ती द्रक्ष्यतीति भावः ।
मेघदृतम्। द्रक्ष्यसि चालोकयिष्यस एव ॥ तथा हि। आशातितृष्णा "आशा दिगतितृष्णयोः” इति यादवः ॥ बध्यतेऽनेनेति बन्धो बन्धनम् । वृन्तमिति यावत् । श्राशैव बन्ध आशाबन्धः कर्ता ॥ प्रणयि प्रेमयुक्तम् । अत एव कुसुमसदृशम् । सुकुमारमित्यर्थः । अत एव विप्रयोगे विरहे सद्यःपाति मद्योभ्रंशनशीलमङ्गनानां हृदयं जीवितम् । "हृदयं जीवित चित्ते वक्ष- स्याकूतहृद्ययोः" इति शब्दाणवे । प्रायशः प्रायेण । कणद्धि प्रतिबध्नाति ।। अर्थान्तरन्यासः ॥ सम्प्रति सहायसम्पत्तिश्चास्तीत्याह- कर्तुं यच्च प्रभवति महीमुच्छिलीन्ध्रामवन्ध्यां तच्छ्रुत्वा तं श्रवणसुभगं गर्जितं मानसोकाः। आकैलासाद्विसकिसलयच्छेदपाथेयवन्तः संपत्स्यन्ते नभसि भवतो राजहंसाःसहायाः॥११॥ कर्तुमिति ॥ यद्गर्जितं कर्तृ महीमुच्छिलीन्ध्रामुद्भूतकन्दलिकाम् ॥ "कन्दल्यां च शिलीन्ध्रा स्यात्” इति शब्दार्णवे ॥ अत एवावन्ध्यां स. फलां कर्तु प्रभवति शक्नोति । शिलीन्ध्राणां भाविसस्यसम्पत्तिसूचकत्वा- दिति भावः । तदुक्तं निमित्तनिदाने “कालाभ्रयोगादुदिताः शिलीन्ध्राः सम्पन्नसस्यां कथयन्ति धात्रीम्" इति ॥ तच्छ्रवणसुभगं श्रोत्रसुखम् । लोकस्येति शेषः । ते तव गर्जितं श्रुत्वा मानसोका मानसे सरस्युन्मनसः । उत्सुका इति यावत् ।। "उत्क उन्मनाः” इति निपातात्साधु ॥ कालान्तरे मानसस्य हिमदुष्टत्वाद्धिमस्य च हंसानां रोगहेतुत्वादन्यत्र गता हंसाः पुनर्वर्षासु मानसमेव गच्छन्तीति प्रसिद्धिः ॥ विसकिसलयानां मृणाला. प्राणां छेदैः शकलैः पाथेयवन्तः । पथि साधु पाथेयं पथि भोज्यम् । "पथ्यतिथिवसतिस्वपतेर्डम् । तद्वन्तः। मृणालकन्दशकलसम्बन्धवन्त इत्यर्थः । राजहंसा हंसविशेपाः ॥ "राजहंसास्तु ते चञ्चुचरणैर्लो हितैः सिताः" इत्यमरः ॥ नभसि व्योम्नि भवतस्तव आ कैलासाकैलासपर्य- न्तम् ॥ पदद्वयं चैतत् ॥ सहायाः सयात्राः ॥ “सहायस्तु सयात्रः स्यात्" इति शब्दार्णवे ॥ सम्पत्स्यन्ते भविष्यन्ति ॥ १. अग्छिलीन्ध्रातपत्राम् । (११) हे मेघ ! मत्सन्देशमादाय गच्छतस्तव गर्जितमाकर्ण्य मानसं गच्छन्तो राजहंसा: सहगामिनो भविष्यतीति भावः । ।
पूर्वमेघः। आपृच्छस्व प्रियसखममुं तुङ्गमालिङ्गय शैलं वन्यैः पुंसां रघुपतिपदैरङ्कितं मेग्वलासु । काले काले भवति भवतो यस्य संयोगमेत्य स्नेहव्यक्तिश्विरविरहजं मुञ्चतो वाष्पमुष्णम् ॥१२॥ आपृच्छस्वेति ॥ प्रियं सखायं प्रियसखम् ॥ "राजाहः सखिभ्यष्टच्" इति टच समासान्तः ॥ तुङ्गमुन्नतं पुसां वन्दौनराराधनीय रघुपतिपदै रामपादन्यासमेखलासु कटकेषु ।। अथ मेखला । श्रोणिस्थानेऽद्रिक- टके कटिबन्धेभवन्धन" इति यादवः ॥ अङ्कितं चिह्नितम । इत्थं सखि- त्वान्महत्त्वात्पवित्रत्वाच्च सम्भावनाईम । अमुं शैलं चित्रकूटाद्रिमालिङ्गयाट- च्छस्व साधो यामीत्यामन्त्रणेन सभाजय ।। "आमन्त्रण नभाजने । आप्र. च्छन्नम” इत्यमरः ॥ “आडि नुप्रच्छयोरुपसंख्यानम्" इत्यात्मनेपदम् ।। सखित्वं निर्वाहयति-काल इति ।। काले काले प्रतिप्राइट कानम् । सुह- समागमकालश्च कालशव्देनोच्यते ॥ वीपलायां द्विभक्तिः । भवतः संयोग संपर्कमेत्य चिरविरहजमुष्णं बाप्पमृमाणं नेत्रजलं च ॥ "बाप्पो नेत्रज- लोष्मणोः” इति विश्वः ।। मुञ्चतो यस्य शैलस्य स्नेहव्यक्ति प्रेमाविर्भावो भवति । स्निग्धानां हि चिरविरहसंगतानां वाष्पपातो भवतीति भाव. ॥ संप्रति तस्य मार्ग कथयति- मार्ग तावच्छणु कथयतस्त्वत्प्रयाणानुरूपं संदेशं मे तनु जलद श्रोष्यसि श्रोत्रपेयम् । खिन्नः खिन्नः शिखरिपु पदं न्यस्य गंतासि यत्र क्षीणः क्षोणः परिलघु पय:स्रोतसां चोपभुज्य ॥१३॥ मिति ॥ हे जलद ! तावदिदानी कथयतः । मत्त इति शेषः । त्वत्प्रयाणस्यानुरूपमनुकूलं मार्गमध्वानम् ॥ "मार्गो मृगपदे मासि सौम्य- तेऽन्वपणेऽध्वनि" इति यादवः ।। शृणु । तदनु मार्गश्रवणानन्तरं श्रोत्रा- - १ त्वत्प्रयाणानुकूलम् २ उग्युज्य । (१२) हे मेघ ! यात्राकाले मित्रभूतं चित्रकूटगिरि गच्छाम ति ब्रहीति भाव । (१३) वे मेव ! येन पथा गमिष्यसि तमनुकूलं पन्थानमादावाकर्ण्य तता सन्देशमोकर्णयेति भावः । ૨ मेघदूतम् । भ्यां पेयं पानाहम । अतितृष्णया श्रोतव्यमित्यर्थः ॥ पंयग्रहणात्संदशस्या- मृतसाम्यं गम्यतं ॥ मे संदेशं वाचि कम ॥ “संदेशवाग्वाचिकं स्यात्" इत्यमरः ॥ श्रोष्यति । यत्र मार्गे खिन्नः खिन्नोऽभीक्ष्णं क्षीणबलः सन । "नित्यवीप्सयोः" इति नित्यार्थे द्विर्भाव ॥ शिखरिपु पर्वतेषु पर्द न्यस्य निक्षिप्य । पुनर्बललाभाथै कचिद्विश्रभ्यत्यर्थः । क्षणः क्षीणोऽभीक्ष्णं कृशा- ङ्गः सन् ॥ अत्रापि कृदन्तत्वात्पूववद्विभक्तिः । स्रोतसां परिलघु गुरुत्व- दोषरहितम् । उपलास्का ननखेदित्वात्पथ्यमित्यर्थ ॥ तथा च वाग्भट:- "उपलास्फालनक्षपावच्छेदै. खेदितांदकाः । हिमवन्मलयाद्भताः पथ्या नद्यो भवन्त्यमू. ॥” इति । पयः पानीयमुपभुज्य शरीरपोपणार्थमभ्यवहृत्य च गन्तास गमिप्यसि ।। गमलृट् ।। अद्रेः शृङ्गं हरति पवनः किस्विदित्युन्मुग्वाभि- दृष्टोत्साहश्चकितचकितं मुग्धसिद्धाङ्गनाभिः । स्थानादस्मात्सरसनिचुलामुत्पतीदरमुग्वः ग्वं दिङ नागानां पथि परिहरन्स्थूलहस्तावलेपान्॥१४॥ अद्रेरिति ।। पवना वायुग्नेश्चित्रछूटस्य शृङ्गं हरति किंस्वित् । किंस्वि- च्छब्दो विकल्पवितर्थािदिपु पठितः ।। इति शङ्कयोन्मुखीभिरुन्नतमुखी- भिः ॥ "म्वाङ्गाचोपसर्जनादसंयोगोपधान्” इति ङीप् ॥ मुग्धाभिर्मूढा- भिः ॥ "मुग्ध सुन्दग्मूढयोः” इत्यमरः । सिद्धानां देवयो नविशेषाणा- मङ्गनाभिश्च कतचकितं चकितप्रकारं यथा तथा।। 'प्रकारं गुणवचनस्य'इति द्विर्भावः ॥ दृष्टोत्साहो दृष्टांद्योगः सन् ।' सरसा आर्द्रा निचुलाः स्थल. वेतसा यस्मिस्तस्मात् ॥ “वानीरे कविभेदे स्यानिचुलः स्थलवेतसे" इति शब्दार्णवे ।। अस्मात्स्थानादाश्रमात्पथि नभोमार्गे दिङ्नागानां दिग्गजानां स्थूला ये हस्ताः करास्तेपामवलेपानाक्षेपान्परिहग्न ॥ "हस्ता नक्षत्रभेदे स्यात्करेभकर योरपि” इति । 'अवलेपस्तु गर्वे स्यात्क्षेपणे दूषणेऽपि च" इति च विश्व ॥ उदङमुग्वः सन । अलकाया उदीच्यत्वादित्याशयः ॥खमा- काशमुत्पताद्गच्छ ।। अत्रेदमप्यर्थान्तरं ध्वनयति रसिको निचुलो नाम वहति २ दृष्टोच्छ्रायः. ३ भवलहान्. (१४) वायुकर्तृकचित्रकूटभंगाहरणशंकयोर्ध्वमुखीभिः सिद्धाजनाभिरवलोकित- स्त्वमित: स्थानादुत्तराभिमुखोभूयोडीयतामाकाश इति भावः ।
पूर्वमेघः । १३ महाकविः कालिदासस्य सहाध्यायी परापादितानां कालिदासप्रबन्धदूष- णानां परिहर्ता यस्मिन्स्थाने तस्मात्स्थानादुदङ्मुखो निषित्वादुन्नतमुखः सन्पथि सारस्वतमार्गे दिङ्नागानाम् ॥ पूजायां बहुवचनम् ॥ दिङ्नागा- चार्यस्य कालिदासप्रतिपक्षस्य हस्तावलेपान्हस्तविन्यासपूर्वकाणि दूषणानि परिहरन् ॥ "अवले पस्तु गर्वे स्याललेपने दूषणेऽपि च" इति विश्वः ।। अनेरद्रिकल्पस्य दिङनागाचार्यस्य" शृङ्ग प्राधान्यम् ॥ "शृङ्गं प्राधान्य- सान्वोश्च" इत्यमरः ॥ हरति किंस्विदिति हेतुना सिद्धैः सारस्वतसिद्धैर्महा कविभिरङ्गनाभिश्च दृष्टोत्साहः सन्खमुत्पतोच्चैर्भवेति स्वप्रबन्धमात्मानं वा प्रति कवेरुक्तिरिति ॥ "संसर्गतो दोषगुणा मवन्तीत्येतन्मृषा येन जलाशयेऽपि। स्थित्वानूकूलं निचुरश्चलन्तमात्मानमारक्षति सिन्धुवेगान्।' इत्येतच्छलोकनिर्माणात्तस्य कवेनिचुलसंज्ञेत्याहुः ।। रत्नच्छायाव्यतिकर इव प्रेक्ष्यमेतत्पुरस्ता- द्वल्मीकाग्रात्प्रभवति धनुःखण्डमाग्वण्डलस्य । येन श्यामं वपुरतितरां कान्तिमापत्स्यते ते बढेणेव स्फुरितर्माचना गोपवेषस्य विष्णोः ॥१५॥ रत्नेति ।। रत्नच्छायानां पद्मरागादिमणिप्रभाणां व्यतिकरो मिश्र- णमिव प्रेक्ष्यं दर्शनीयमाखण्डलस्येन्द्रस्यैतद्धनुःखण्डम् ॥ एतिदिति हस्तेन निर्देशो विवक्षितः ॥ पुरस्तादने वल्मीकामाद्वामलूर विवरात् ।। “वामलू- रश्च नाकुश्च वल्मोकं पुनपुंसकम्" इत्यमरः ॥ प्रभवत्याविर्भवति । येन धनुःखण्डेन ते तव श्यामं वपुः । स्फुरितरुचिनोज्ज्वलकान्तिना बहेण पिच्छेन ।। "पिच्छबर्हे नपुंसके'' इत्यमरः ॥ गोपवेषस्य विष्णोर्गोपालस्य कृष्णस्य श्यामं वपुरिव । अतितरां कान्तिं शोभामापत्स्यते प्राप्स्यते । त्वय्यायत्तं कृषिफलमिति भ्र विलासानभिज्ञैः प्रीतिस्निग्धर्जनपदवधूलोचनः पोयमानः । सद्यः सीरोत्कषणसुरभि क्षेत्रमारुह्य मालं किंचित्पश्चाद्ब्रज लघुगतिर्भूय एवोत्तरेण ॥१६॥ १ भालप्स्यते. २ भ्रविकारानभिः. ३ प्रवलय गतिम् ४ किंचिदेव. (१५) गोपवेषधारिणः कृष्णस्य मयूरपिच्छेन श्यामं वपुरिव तवापि ताश वपुरेतेन शक्रधनुःखण्डेन शोभियत इति भावः । (१६) कृषिफलसाधकत्वबुत्या पल्लीयोषिगिरीक्षितस्त्वं मालागिराव- भिवृष्य तत उत्तरेण पथा गच्छेति भावः ।
इत्यमरः ।। मेघदूतम्। त्वयोति ॥ कृषेईलकर्मणः फलं सस्यं त्वयि ॥ अधिकरणविवक्षा- यां सप्तमी । आयत्तमधीनम् ॥ "अधीनो निघ्न आयत्त इति हेतोः प्रीत्या स्निग्धैः । अकृत्रिमप्रेमा रित्यर्थः । भ्रूविलासानां भ्रूवि- काराणामनभिज्ञः। पामरत्वादिति शेषः । जनपदवधूनां पल्लीयोषितां लोचनै पीयमानः सादरं वीक्ष्यमाणः सन । मालं मालाख्यं क्षेत्रं शैलप्रा- यमुन्नतस्थलम् ॥ "मालमुन्नतभूतलम्" इत्युत्पलमालायाम् ॥ सद्यस्त- कालमेव सीरैहलैरुत्कपणेन कषणेन सुरभि घ्राणतर्पणं यथा तथारुह्य ! तत्राभिवृष्येत्यर्थ ॥ 'सुरभिर्घाणतर्पण.” इत्यमरः ॥ किंचित्पश्चाल्लघु- गतिस्तत्र निर्वृष्टत्वाक्षिप्रगमनः सन् ॥ "लघु क्षिप्रमरं द्रुतम्” इत्यमरः ।। भूयः पुनरप्युत्तरेणैवोत्तरमार्गेणैव व्रज गच्छ ॥ तृतीयाविधाने "प्रकृत्या- दिभ्य उपसंख्यानम्" इति तृतीया ॥ यथा कश्चिद्बहुवल्लभः पतिः कुत्र- चित्क्षेत्रे गूढं विहृत्य ।। "क्षेत्रं शरीरे केदारे मिद्धस्थानकलत्रयोः': इति विश्वः ॥ दाक्षिण्यभङ्गभयान्नीचमार्गरण निऽर्गत्य पुनः सर्वाध्यक्ष इव संच- रति तद्वदिति ध्वनिः ॥ त्वामासारप्रशमितवनोपप्लवं साधु मूर्ना वक्ष्यत्यध्वश्रमपरिगतं सानुमानाम्रकूटः । न क्षुद्रोऽपि प्रथमसुकृतापेक्षया संश्रयाय प्राप्त मित्रे भवति विनुग्वः किं पुनर्यस्तथोच्चैः॥१७॥ त्वामिति ॥ आम्राउचूताः कृटेपु शिखरेपु यस्य स आम्रकूटो नाम सानुमान्पर्वतः ॥ "आम्रचूतो रसालोऽसौ" । "कूटाऽस्त्री शिखरं शृङ्गम्” इति चामरः । आसारो धारावृष्टिः ॥ "धारासंपात आसारः" इत्यमरः।। तेन प्रशमितो वनोपप्लवो दावाग्निर्येन तम् । कृतोपकार मित्यर्थः । अध्वश्रमेण परिगतं व्याप्तं त्वां साधु सम्यमूर्ना वक्ष्यति वोढा ॥ वहे- लृट । तथाहि । क्षुद्रः कृपणोऽपि । 'क्षुद्रो दरिद्र कृपणे नृशंस" इति याद- वः। संश्रयाय संश्रयणाय मित्रे सहृदि । “अथ मित्रंसखा सुहृत्" इत्यमरः।। आगते सति । प्रथमसुकृतापेक्षया पूर्वोपकारपर्यालोचनया विमखो न भवति यस्तथा तेन प्रकारेणोच्चैरुन्नतः स आम्रकूटः किं पुनर्विमुखो न (१७) हे मेघ ! आम्रकूटनामा गिरिस्त्वां मित्रं पथि श्रान्त विज्ञाय सस्क- शिष्यतीति भावः।
पूर्वमेघः । भवतीति किमु वक्तव्यमित्यर्थः । एतेन प्रथमावसर्थ सौख्यलाभात्ते कार्यसिद्धिरस्तीति सूचितम् । तदुक्तं निमित्तनिदाने-"प्रथमावसथे यस्य सौख्यं तम्याखिलेऽध्वनि। शिवं भवति यात्रायामन्यथा त्वशुभं ब्रुवम ॥ इति ॥ छन्नोपान्तः परिणतफलद्योतिभिः काननाने- स्त्वय्यारूढे शिखरमचलः स्निग्धवेणीसवर्ण । नूनं यास्यत्यमरमिथुनप्रेक्षण यामवस्था मध्ये श्यामः स्तन इव भुवः शेषविस्तारपाण्डुः॥१८॥ छन्नेति ॥ हे मेघ, परिणतः परिपक्वैः फलोतन्त इति तथोक्तैः । आषाढे वनचूताः फलन्ति पच्यन्ते च मेघवातेनेत्याशयः। काननाम्रर्वन- बूतैश्छन्नोपान्त आवृतपावोऽचल आम्रकूटाद्रिः स्निग्धवेणीसवर्णे मसू- णकेशबन्धच्छाये । श्यामवर्ण इत्यर्थः ॥” “वेणी तु केशबन्धे जलस्रुतौ" इति यादवः ॥ त्वयि शिखरं शृङ्गमारूढे सति ॥ “यस्य च भावन भावलक्षणम्” इति सप्तमी ॥ मध्ये श्यामः शेष मध्यादन्यत्र विस्तारे परितः पाण्डुर्हरिणः ॥ "हरिणः पाण्डुरः पाण्डुः” इत्यमरः ॥ भुवः रतन इव । अमरमिथुनानाम् । खेचराणामिति भावः । प्रेक्षणीयां दाश नीयामवस्थां नूनं यास्यति । मिथुनग्रहणं कामिनामेव स्तनत्वेनोत्तप्रे- संभवतीति कृतम् । यथा परिश्रान्तः कश्चित्कामी कामिनीनां कुचकलशे विश्रान्तः सन्स्वपिति तद्वद्भवानपि भुवो नायिकायाः स्तन इति ध्वनिः ॥ २ १८-१९ श्लोकयोमध्ये क्वचित्प्रक्षिप्तोऽयं दृश्यते- अध्वक्लान्तं प्रतिमुखगतं सानुमानाम्रकूट स्तुंगेन त्वां जलद शिरसा वक्ष्यति श्लाध्यमानः । आसारेण स्वमपि पामयेस्तस्य नैदाघमग्निं सद्भावाः फलति न चिरेणोपकारो महस्सु ॥” इति । (१ अध्वश्रान्तम्. २ चित्रकूटः, ३ श्लाघमानः, ४ सत्काराः. ) (१८) हे मेघ । एष भाम्रकूटः शिखरे त्वयाऽधिष्ठितः सन् पृथ्वीस्तन इव खेचरयुगलदर्शनीयावस्थामाप्स्यतीति भावः ।
मेघदृतम् । स्थित्वा तस्मिन्वनचरवधूभुक्तकुञ्ज मुहूर्त तो योत्सर्गद्रुततरगतिस्तत्परं वम तीर्णः । रेवां द्रक्ष्यस्युपलविषमे विन्ध्यपादे विशीर्णा भक्तिच्छेदैरिव विरचितां भूतिमंगे गजस्य ॥१६॥ स्थित्वेति ।। हे मेघ, वने चरन्ति ते वनचराः ॥ "तत्पुरुषे कृति बहुलम्” इति बहुलग्रहणाद् लुग्भवति ॥ तेषां वधूभिर्भुक्ताः कुजा लता- गुहा यत्र तस्मिन ॥ “निकुञ्जकुजौ वा क्लीबे लतादिपिहितोदरे" इत्यमरः ॥ तत्र ते नयनविनोदोऽस्तीत्यर्थः । तस्मिन्नाम्रकूट मुहूर्तमल्प- कालम। न तु चिरं, स्वकार्यविरोधादिति भावः ॥ “मूहूर्तमल्पकाले स्याद्धटिकाद्वितीयेऽपि च” इति शब्दार्णवे ॥ स्थित्वा विश्रम्य । तोयोत्स- र्गेण "वामासार-" इत्युक्तवर्पणेन द्रुततरगतिर्लाघवाद्धेतोरनिक्षिप्रगमनः सन् । तस्मादाम्रकूटात्परमनन्तरं तत्परं वर्त्म मार्ग तीर्णोऽतिक्रान्तः । उपलैः पापाणैर्विषमे विन्ध्यास्याद्र: पादे प्रत्यन्तपर्वते ॥ पादाः प्रत्यन्त- पर्वताः इत्यमरः ॥ विशीर्णा समन्ततो विसृमराम् ॥ एतेन कस्याश्चि- त्कामुक्याः प्रियतमचरणपातोऽपि ध्वन्यते ।। रेवां नर्मदाम ॥ "रेवा तु नर्मदा सोमोद्भवा मेकलकन्यका" इत्यमरः ॥ गजस्याने शरीरे भक्तयो रचनाः रेखा इति यावत् ॥ "भक्तिनिपेवणे भाग रचनायाम" इति शब्दार्णवे ॥ तासां छेदैर्भङ्गिभिर्भाभिर्विरचितां भूतिं शृङ्गारमिव भसित- मिव वा ॥ "भूतिर्मातङ्गशृङ्गारे जातो भस्मनि संपदि" इति विश्वः ! द्रक्ष्यसि । अयमपि महांस्ते नयनकौतुकलाभ इति भावः ।। नस्यास्तितर्वनगजमदैर्वासितं वान्तवृष्टि- जम्बूकुञ्जप्रतिहतरयं तोयमादाय गच्छेः । अन्त:सारं घन तुलयितुं नानिलः शक्ष्यति त्वां रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय ॥२०।। १ तायोत्सर्गात्. २ लघुतरगतिः. ३ खण्ड. (१९) हे मेघ ! भाम्रकटगिरिकुजे क्षणं विश्रम्य तत्राभिवृष्य च ततो पथि विन्ध्याद्रिसविधे रेवानाम्नी नदी द्रक्ष्यसीति भावः । (२०) हे मेघ ! कृतवर्पस्त्वं रेवानदीजलं पीत्वा गच्छ स्वयि जलं पिबति सति वायुना विघातो न स्यादन्यथा स्यादिति भावः । गच्छन् पूर्वमेघः । तस्या इति ॥ हे मेघ, वान्तवृष्टिमढ़ीर्णवर्षः सन् । कृतवमनश्च व्यज्यते । तिक्तैः सुगन्धिभिस्तिक्तरसवद्भिश्च । “तिक्तो रसे सुगन्धौ च" इति विश्वः ॥ वन गजमदैर्वामितं सुरभितं भावितं च । “हिमवद्विन्ध्य- मलया गजानां प्रभवाः' इति विन्ध्यस्य गजप्रभवत्वादिति भावः । जम्बू- कुजैः प्रतिहतरयं प्रतिबद्धवेगम् ! सुखपेयमित्यर्थः । अनेन लघुत्वं कषाय- भावना च व्यज्यते । तस्या रेवायास्तोयमादाय गच्छेब्रज । हे घन मेघ, अन्तः सारो बलं यस्य तं त्वामनिल आकाशवायुः, शरीरस्थश्च गम्यते । तुलयितुं न शक्ष्यति शक्तो न भविष्यति । तथाहि । रिक्तोऽन्तःसार- शून्य सर्वोऽपि लघुर्भवप्ति । प्रकम्प्यो भवतीत्यर्थः । पूर्णता सारवत्ता गौरवायाप्रकम्प्यत्वाय भवनीत्यर्थः ॥ अयमत्र ध्वनिः - आदौ वम- नशोधितस्य पुंसः पश्चाच्छलेप्मशोपणाय लघुतिक्तकपायाम्बुपानाल्लब्धव- लस्य वातप्रकम्पो न स्यादिति । तथाह वाग्भट:-"कपायाश्चाहिमास्तस्य विशुद्धौ श्लेष्मणा हिताः । किमु तिक्तकपाया वा ये निसर्गात्कफापहाः ।। कृतशुद्धः क्रमात्पीतपेयादेः पथ्यभोजिनः । वातादिभिर्न बाधा स्यादिन्द्रि- येरिव योगिनः ।। इति । नीपं दृष्ट्वा हरितकपिशं केसरैरर्धरू?- राविर्भूतप्रथममुकुलाः कन्दलीश्चानुकच्छम् । जरध्वारण्येस्वधिकसुरभि गन्धमाघ्राय चोयाः सारङ्गास्ते जललवमुचः सूचयिष्यन्ति मार्गम् ॥२१॥ नीपमिति ॥ सारङ्गा मतङ्गजा: कुरङ्गा भृङ्गा वा ॥ सारङ्गश्चात के भृङ्गे कुरङ्गे च मतङ्गजे" इति विश्वः ॥ अर्धरूलै रेकदेशोद्गतैः केसरैः किजल्कैहरितं पालाशवर्ण कपिशं कृष्णपीतं च ॥ पालाशो हरितो हरिन्” इति । "श्यावः स्यात्कपिशो धूम्रधूमलौ कृष्णलोहिते” इति चामरः ॥ श्यामवर्णमिति यावत् ॥ "वर्णो वर्णेन" इति समासः ॥ नीपं स्थलकदम्बकुमुमम् ॥ अथ स्थलकदम्बके । नीपः स्यात्पुलके " इति शब्दार्णवे । दृष्ट्वा संप्रेक्ष्य । विदित्वेति यावत् । तथा कच्छेष्वनूपेष्वनु- " १ नवजलमुचः, ( २१ ) हे मेघ ! मृगा वृष्टि कार्ययो पकुसुम-भूकन्दलीमुकुल योदर्शनोत्तर भक्षणाद्वनभूमिगन्धग्रहणाच्च तव मार्गमनुमापयिष्यन्तीति भावः ।
- मेघदूतम् । कच्छम् ॥ “ अव्ययं विभक्ति-" इत्यादिना विभक्त्यर्थेऽव्ययीभावः ।। "जलप्रायमनूपं स्यात्पुंसि कच्छस्तथाविधः" इत्यमरः ॥ आविर्भूताः प्रथमा. प्रथमोत्पन्ना मुकुला यासां ताः कन्दलीभूमिकदलीः ॥ "द्रोण- पर्णी स्निग्धकन्दा कन्दली भूकदल्यपि" इति शब्दार्णवे ॥ जग्ध्वा भक्ष यित्वा ।। "अदो जग्धिः-" इति जग्ध्यादेशः ॥ अरण्येष्वधिकसुरभि मतिघ्राणतर्पणम ॥ " दग्धारण्येपु” इति पाठे “ दग्धम " इत्यधिक- विशेषणम् ॥ अर्थवशात्कन्दलीश्च दृष्ट्वेत्यन्वयो द्रष्टव्यः ॥ उर्व्या भूमे- गन्धमाघ्राय जललवमुचो मेघस्य ते तव मार्ग सूचयिष्यन्त्यनुमापयि- प्यन्ति । यत्र यत्र वृष्टिकार्य कन्दलीमुकुलनीपकुसुमादिकं दृश्यते तत्र तत्र त्वया वृष्टमित्यनुमीयत इति भावः ॥ प्रक्षिप्तमपि व्याख्यायते- अम्भोविन्दुग्रहणच तुरांश्चातकान्वीक्षमाणाः श्रेणीभूताः परिगणनया निर्दिशन्तो बलाकाः । त्वामासाद्य स्तनितसमये मानयिष्यन्ति सिद्धाः सो कम्पानि प्रियसहचरीसंभ्रमालिङ्गितानि ॥ अम्भ इति ॥ अम्भोविन्दूनां वर्षोदबिन्दूनां ग्रहणे । “सर्वसहापति- तमम्बु न चातकस्य हितम्” इति शास्त्राद्भूस्पृष्टोदकस्य तेषां रोगहेतुत्वाद- न्तराल एव स्वीकारे चतुगंश्चातकान्वीक्षमाणाः कौतुकात्पश्यन्तः श्रेणी- भूता बद्धपंक्तीः ॥ अभूततद्भावे विः ।। बलाका बकपतीः परिगणन- यैका द्वे तिन इति संख्यानेन निर्दिशन्तो हस्तेन दर्शयन्तः सिद्धाः स्तनि- तसमये त्वर्जितकाले सोत्कम्पान्युत्कम्पपूर्वकाणि प्रियसहचरीणां संभ्र. मेणालिङ्गितान्यासाद्य । स्वयंग्रहणाश्लेषसुखमनुभूयेत्यर्थः । त्वां मानयिष्य- न्ति । त्वन्निमित्तत्वात्सुखलाभस्येति भावः ।। उत्पश्यामि द्रुतमपि सखे मत्प्रियार्थ यियासोः कालक्षेपं ककुभसुरभौ पर्वते पर्वते ते । शुक्लापाङ्गः संजलनयनैः स्वागतीकृत्य केकाः प्रत्युद्यातः कथमपि भवान्गन्तुमाशु व्यवस्येत् ॥२२॥ , रमसान् २ सोत्कण्ठानि ३ सनयनजलै :. ४ प्रत्युद्घातः. (२२) हे मेघ ! मित्र ! मस्सन्देशमादाय गच्छतस्ते प्रतिपर्वतं विलम्बमुत्प. श्यामि ततश्च मयूरस्य वाणीमाकर्ण्य तेन प्रत्युद्गतो भवान् केनापि प्रकारेण गन्तु. मुयुम्जीतेति भावः!
२६ पूर्वमेघः । उत्पश्यामीति ॥ हे सखे ! मेघ ! मत्प्रियाथै यथा तथा द्रुतं क्षिप्रम् ।। "लघु क्षिप्रमरं द्रुतम्” इत्यमरः ।। यियासोर्यातुमिच्छोरपि ।। यातेः सन्न न्तादुप्रत्ययः । ते तब ककुभैः कुट नकुसुमैः सुग्भौ सुगन्धिनि ॥ “ककुभः कुटजेऽर्जुने” इति शब्दावे ।। पर्वते पर्वते प्रतिपर्वतम् । वीप्मायां द्विरु क्तिः।। कालक्षेपं कालविलम्बम् ।। "क्षेगे विलम्बे निन्दायाम्" इति विश्वः।। उत्पश्याम्युत्प्रेक्षे ॥ विलम्बहेतु दर्शयन्नाशुगमनं प्रार्थयते- शुक्लति ।। सज- लानि सानन्दवाणि नयनानि येषां तैः शुक्लापाङ्गैर्मयूरैः ।। "मयूरो बहिणो बही शुक्लापाङ्गः शिखावल:" इति यादवः ॥ केकाः स्तवाणीः ।। “केका वाणी मयूरम्यइत्यमरः।। स्वागतीकृत्य स्वागतवचनीकृत्य प्रत्युद्यातः प्रत्युद्गतः । मयूरवाणीकृतातिथ्य इत्यर्थः ।। भवान्कथमपि यथाकथंचिदा गन्तुं व्यवम्येदुद्यजीत ॥ प्रार्थने लिङ ।। "शेपे प्रथमः" इति प्रथमपुरुषः। शेषश्चायं भवच्छब्दो युष्मदस्मच्छन्दव्यतिरेकात् ।। "स्वागतीकृत्य केकाः" इत्यत्र के कास्वारोप्यमाणस्य स्वागतवचनस्य प्रकृतप्रत्युद्गमनोपयोगा- त्परिणामालंकारः । तदुक्तमलंकारसर्वस्वे-'आरोप्यमाणस्य प्रकृतोपयो- गित्वे परिणामः” इति ।। पाण्डुच्छायोपवनवृतयः केतकैः सृचिभिन्न- नीडारम्भगृहबलिभुजामाकुलग्रामचैत्याः। त्वय्यासन्ने परिणतफलश्यामजम्बूवनान्ताः संपत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः ॥२३॥ पाण्डिवति ।। हे ! मेघ ! त्वय्यामन्ने संनिकृष्टे सति दशार्णा नाम जन- पदाः सूचिभिन्नैः सूचिषु मुकुलाग्रेषु भिन्नैविकसितैः ॥ “केतकी मुकुलाग्रेषु सूचिः स्यात्” इति शब्दाणवे ।। कंतकैः केतकीकुसुमैः पाण्डुच्छाया हरितवर्णा उपवनानां वृतयः कण्टकशाखावरणा येषु ते तथोक्ताः ॥ "प्रा- कारो वरणः सालः प्राचीरं प्रान्ततो वृतिः" इत्यमरः ॥ तथा गृहबलि- भुजां काकादिग्रामपक्षिणां नीडारम्भैः कुलायनिर्माणः “कुलायो नीड- मस्त्रियाम्" इत्यमरः ॥ चित्याया इमानि चैत्यानि रथ्यावृक्षाः ॥ "चैत्य- १ नीडारम्भे. २ परिणतिफल, फलपरिणति. (२३) हे मेघ ! स्वयि सत्यासन्ने मानसम्प्रति हंसानां गमनाइशार्णदेश हंसविरहिता भविष्यन्तीति भावः ।।
मेघदूतम् । मायतने बुद्धवन्द्य चोद्देशपादपे" इति विश्वः ॥ श्राकुलानि संकीर्णानि प्रामेषु चैत्यानि येपु ते तथोक्ताः । तथा परिणतैः पक्कैः फलैः श्यामानि यानि जम्बूवनानि तैरन्ता रम्याः ॥ "मृताववसिते रम्ये समाप्तावन्त इष्य- ते" इति शब्दार्णवे ॥ तथा कतिपयेष्वेव दिनेषु स्थायिनो हंसा येपुते तथोक्ता एवंविधाः संपत्स्यन्ते भविष्यन्ति ॥ “ पोटायुवतिस्तोककतिपय-'" इत्यादिना कतिपयशब्दस्योत्तरपदत्वेऽपि न तच्छन्दस्योत्तरत्वमस्त्यस्य शाखस्य प्रायिकत्वात ॥ तेषां दिनुप्रथितविदिशालक्षणां राजधानी गत्वा सद्यः इलमविकलं कामुकत्वस्य लब्धा । तोरोपान्तस्तनितसुभगं पारयसि स्वादु यस्मा- सभ्रभङ्गं मुग्वमिव पयो वेत्रवत्याश्चलोमि ॥२४॥ तेपामिति ॥ दिक्षु प्रथितं प्रसिद्धं विदिशति लक्षणं नामधेयं यस्या- स्ताम || "लक्षण नानि चिह्न च" इति विश्वः ।। तपां दशानां संब- धिनीम् । धीयन्तेऽस्याभिति धानी ॥ 'करणाधिकरणयोश्च” इति ल्युट् । राज्ञां धानी राजधानी ॥ "कृद्योगलक्षणा पष्ठी समस्यत” इति वक्तव्या- समासः ॥ तांप्रधाननगरीम् ॥ "प्रधाननगरी राज्ञां गजधानीति कथ्यत" इति शब्दार्णवे ॥ गत्वा प्राप्य सद्यः कामुकत्वस्य विलासितायाः ॥'वि- लासी कामुकः कामी स्त्री परो रतिलम्पट:" इति शब्दार्णवे ॥ अविकलं समयं फलं प्रयोजनं लब्धा लप्स्यते । त्वयेति शेपः ॥ कर्मणि लुट । कुतः । यस्मात्कारणात्स्वादु मधुरम चला ऊर्मयो यस्य तच्चलोमि तरङ्गितं वेत्रवत्या नाम नद्याः पयः सभ्रूभङ्ग भृकुटियुक्तम् । दशनपीडयेति भावः । मुखमिवाधरमिवेत्यर्थः । तीरोपान्ते तटप्रान्ते यत्स्तनितं गर्जितं तन सुभगं यथा तथा । स्तनितशब्देन भणितमपि व्यपदिश्यते । "ऊर्ध्वमुच्चलितक- ण्ठनासिकं हुङ कृतं स्तनितमल्पघोपवत्" इति लक्षणात् ।। पास्यसि ।। पिबतेलंट ॥ “कामिनामधरास्वादः सुरतदतिरिच्यते” इति भावः ॥ . १ अतिमहत् २ लब्ध्वा ३ स्वादुयुक्तम् ( २४.) हे मेघ! दशाणदेशसंबंधिनी विदिशानामराजधानी गत्वा तत्रत्यवे. अवतीनद्याः पयो दशनपीडया नायिकाधरमिव पीत्वा दुतं कामिनः फलं प्राप्यसीति भावः।
२१ । पूर्वमेघः । नीचैराख्यं गिरिनधिवसेस्तत्र विश्रामहेतो. स्त्वत्संपर्कात्पुलकितमिव प्रौढपुष्पैः कदम्बैः । यः पण्यस्त्रीरतिपरिमलोद्गारिभि गराणा- मुद्दामानि प्रथयति शिलावेश्मभियौवनानि ॥ २५ ॥ नीचैरिति ।। हे मेघ ! तत्र विदिशासमीपे । विश्रामो विश्रमः खेदा- पनयः ॥ भावार्थ घञ्प्रत्ययः । तम्य हेतोः । विश्रामार्थमित्यर्थः। 'पष्टी हेतुप्रयोगे” इति षष्ठी ।। विश्रामेत्यत्र "नोदात्तोपदेशस्य मान्तस्यानाचमेः" इति पाणिनीये वृद्धिप्रतिपेधेऽपि “ विश्रामो वा” इति चन्द्रव्याकरण विकल्पन वृद्धिविधानानृपसिद्धिः ॥ प्रौढपुष्पैः प्रबुद्धकुसुमैः कदम्बैप- वृक्षस्त्वत्संपर्कात्तव सङ्गात् । पुलका अस्य जाता: पुलकितमिव संजात- पुल कमिव स्थितम् ।। तारकादित्वादितच्प्रत्ययः ॥ नीचैरित्याख्या यस्य तं नीचैराख्यं गिरिमधिवसेः ॥ गिरौ वसरित्यर्थः ॥ उपान्वध्याङव- स: ” इति कर्मत्वम् ॥ यो नीचैगिरिः । पण्याः क्रेयाः स्त्रियः पण्यत्रियो वेश्याः ॥ "वारस्त्री गणिका वेश्या पण्यस्त्री रूपाविनी" इति शब्दार्णवे ॥ तासां रतिपु यः परिमलो गन्धविशेषः ॥ "विमत्थे परिमलो गन्धे जनमोहरे” इत्यमरः । तमुगिन्त्याविष्कुर्वन्तीति तथोक्तानि तैः । शिलावेश्मभिः कन्दरै गराणां पौगणामुद्दामान्युत्कटानि यौवनानि प्रथयति प्रकटयति ॥ उत्कटयौवनाः कचिदनुरक्ता वारांगना विश्रम्भ- विहाराकांक्षिण्यो मात्रादिभयानिशीथममये कंचन विविक्तं देशमाश्रित्य रमन्ते । तच्चात्र बहुलमस्तीति प्रसिद्धिः अत्रोद्गारशब्दो गौणार्थत्वान्न जुगुप्सावहः । प्रत्युत काव्यस्यानिशोभाकर एव । तदुक्तं दण्डिना- निष्ठयनोद्गीर्णवान्तादि गौणवृत्तिव्यपाश्रयम् । अतिसुन्दरमन्यत्र ग्राम्य- कक्षा विगाहते ॥” इति ।। विश्रान्तः सन्ब्रज वननदीतीरजातानि सिञ्च- न्नुद्यानानां नवजलकणै थिकाजालकानि । नव; नग. (२५) हे मेध ! क्वचित्पु स्यनुरका युवत्यो वारांगनाः चिरविहाराकक्षिया मात्रादिभिया यत्र गिरी रमन्ते तत्र नीचैर्नामगिरी विश्रामं कुर्या इति भावः ।
२२ : मेघदूतम् । गण्डस्वेदापनयनरुजाक्लान्तकात्पलानां छायादानात्क्षणपरिचितः पुष्पलावीमुखानाम् ॥२६॥ विश्रान्त इति ।। विश्रान्तः संस्तत्र नीचैगिरौ विनीताध्वश्रमः सन् । अथ विश्रान्तेरनन्तरम् । वनऽरण्ये या नद्यस्तासां तारेषु जातानि स्वयं- महानि अकृत्रिमाणीत्यर्थः ।। नदनदि इति पाठे “पुमान्स्त्रिया" इत्येकशेषो दुवारः। तेपामुदानानामारामाणां संबन्धीनि यूथिकाजालकानि मागधीकुसुममुकुलानि ।। " अथ मागधी । गणिका यूथिका" इत्यमरः॥ "कोरकजालककलिकाकुडमलमुकुलानि तुल्यानि"इति हलायुधः॥नव जल- कणैः सिञ्चन्नार्दीकुर्वन । अत्र सिञ्चतेरार्दी करणार्थत्वाबद्रव्यस्य करण स्वम् । यत्र तु क्षरणमर्थस्तत्र द्रवद्रव्यस्य कर्मत्वम् यथा 'रेतः सिक्त्वा कुमारीषु" । "सुखैनिपिञ्चन्तमिवामृतं त्वचि" इत्येवमादि ।। एवं किरती- यादीनामपि "रज: किरति मारुतः । “अवाकिरन्वयोवृद्धास्त लाजैः पौरयोपितः” इत्यादिष्वर्थभेदाश्रयणेन रजोलाजादीनां कर्मत्व करणत्वे गम- यितव्ये ॥ तथा गण्डयोः कपोलयोः स्वेदस्यापनयनेन प्रमार्जनेन या रजा पीडा॥ भिदादित्वादङ प्रत्ययः । तया क्लान्तानि म्लानानि कर्णोत्पलानि येषां तेपां तथोक्तानाम् । पुष्पाणि लुनन्तीति पुष्पलाव्यःपुष्पावचायिकाः खियः ।। "कर्मण्यण" । "टिड्डाणा-" इत्यादिना डीप । तासां मुखानि । छायाया अनातपस्य दानात् । कान्तिदानं च ध्वन्यते ।। 'छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः” इत्यमरः ॥ कामुकदर्शनात्कामिनीनां मुखविकासो भवतीति भावः । क्षणपरिचितः क्षणं संसृष्टः सन् । न तु चिरम् । गच्छ । वक्रः पन्था यदपि भवतः प्रस्थितस्योत्तराशां सौधोत्सङ्गप्रणयविमुखो मा स्म भूरुज्जयिन्याः । विद्युद्दानस्फुरितचकितैस्तत्र पौराङ्गनानां लोलापाङ्गैर्यदि न रमसे लोचनैर्वञ्चितोऽसि ॥२७॥ । १च २ स्फुरण. (२६) हे मेघ ! तत्र मीचैगिती विम्योपवनपुष्पाणि सिन्चन् पुष्पचापिका- मुखोपरि छायादानात्ताभिवीक्षितः सन् गच्छेति भावः । (२७) हे मेव । उत्तरदिशां गच्छनस्ते यद्यप्युज्जयिनीगमने मार्गव्यत्ययस्त. थापि तत्रत्याङ्गनालोचनसौन्दर्यविलोकनाय गच्छेति भावः ।
पूर्वमेघः । वक्र इति ॥ उत्तराशामुदीची दिशं प्रति प्रस्थितस्य भवतः पन्था उज्जयिनीमार्गो वक्रा यदपि । दूरो यद्यपीत्यर्थः । विन्ध्यादुत्तरवाहिन्या निर्विन्ध्यायाः प्राग्भागे कियत्यपि दूरे स्थिताज्जयिनी। उत्तरपथस्तु निर्वि- ध्यायाः पश्चिम इति वक्रत्वम् । तथाप्युज्जयिन्या विशालनगरस्य । "विशालोज्जयिनी समा" इत्युत्पलः । सौधानामुत्सङ्गेपूपरिभागेषु प्रणय परिचयः ।। प्रणयः स्यात्सरिचये याञ्चायां सौहृदेऽपि च" इति यादवः । तस्य विमुखः पगङ्मुखो मा स्म भूः । न भवेत्यर्थः । 'स्मोत्तरे लङ् च" इति चकागदाशीग्र्थे लुङ् । 'न माङ योग" इत्यडागमप्रतिषेधः ।। तत्रोज्जयिन्यां विद्यद्दाम्ना विद्युल्लतानां स्फुरितभ्यः स्फुरणेभ्यश्चकितैर्लो- लापाङ्गैश्चञ्चल कटाक्ष पौराङ्गनानां लोचनैन रमस यदि तर्हि त्वं वञ्चित प्रतारितोऽसि । जन्मवैफल्य भवेदित्यर्थ ॥ संप्रत्युज्जयिनी गच्छतस्तस्य मध्ये मार्ग निर्विन्ध्यासंवन्धमाह- वोचिक्षोभस्तनितविहगणिकाञ्चीगुणायाः संमर्पन्त्याः स्वलितसुभगं दर्शितावर्तनाभेः । निर्विन व्यायाः पथि भव रसाभ्यन्तरः सन्निपत्य स्त्रोणामाद्यप्रणयवचनं विभ्रमो हि प्रियेषु ॥२८ । वीचीति ।। हे सखे, पथ्युज्जयिनीपथे वी चिक्षोभेण तरङ्गचलनेन स्तनितानां मुम्बराणाम् ॥ कर्तरि क्तः ॥ विहगानां श्रेणिः पंक्तिरेव काञ्ची गुणां यस्यास्तस्या स्खलितनोस्खलनन मदस्खलितेन च सुभगं यथा तथा संसर्पन्त्याः प्रवहन्त्याः गच्छन्त्याश्च । तथा दर्शितः प्रकटित आवर्ती उम्भमां भ्रम एव नाभिर्यया ॥ "स्वादावतॊ ऽम्भसा भ्रमः” इत्यमरः ।। निष्क्रान्ता विन्ध्या नाम नदी । “निरादयः कान्ताद्यर्थ पचम्या" इति समासः । "द्विगुप्राप्तापन्नालम् -' इत्यादिना परवल्लिङ्गताप्रतिषेधः ।। तस्या नद्याः संनिपत्य संगत्य । रसो जलमभ्यन्तरे यस्य सः । अन्यत्र रसेन शृङ्गारणाभ्यन्तरोऽन्तरङ्गो भव । सर्वथा तस्या रसमनुभवेत्यर्थः । "शृङ्गारादौ छले वीर्ये सुवणे विषशुक्रयोः । तिक्तादावमृते चैव निर्यासे १ क्वणित. २ रशाभ्यन्तरम् ३ प्रणयि. (२८) हे मेघ ! उज्जयिनीपथे विद्यमाननिर्पिन्ध्यानद्या जलं पीत्वा गच्छेरित्यर्थः।
२४ -- मेघदृतम् । पारद धनौ ।। आस्वादे च रसं प्राहुः" इति शब्दार्णवे ॥ ननु तत्प्रार्थनाम: न्तरेण कथं तत्रानुभवो युज्यतेत्यत आह स्त्रीणामिति ॥ स्त्रीणां प्रियेषु विषय विभ्रमो विलास एवायं प्रणयव वनं प्रार्थनावाक्यं हि । स्त्रीणामेष स्वभावा यद्विलासैव रागप्रकाशनम् । न तु कण्ठत इति भावः ॥ विभ्र- मश्चात्र नाभिसन्दर्शनादिरुक्त एव । निर्विन्ध्याया विरहावस्था वर्णयंस्तन्निराकरणं प्रार्थयते वेणीभूनप्रतनुसलिलाऽमा बतीतस्य सिन्धुः पाण्डुच्छाया तटरुहतम्भ्रंशिभिर्जीर्णपणः । सौभाग्यं ते सुभगं विरहावस्थया व्यञ्जयन्ती काय येन त्यजति विधिना स त्वयैवोपपाद्य ॥६॥ वर्णाति ॥ अवेणी वेणीभूतं वेण्याकारं प्रतनु स्तोकं च सलिलं यस्याः सा तथोक्ता । अन्यत्र वेणीभूत केशपाशेति च ध्वन्यते । रुह- न्तीति रुहाः इगुपधलक्षणः कप्रत्ययः । तटयां रुहा ये तरवस्तेभ्यो भ्रश्यन्तीति तथोक्तैः जीर्णपणः शुष्कपत्रैः पाण्डुच्छाया पाण्डुवर्णा । अत एव हे सुभग विहारवस्थया पूर्वोक्तप्रकारया करणेन ॥ अतीत. स्यैतावन्त कालमतीत्य गतस्य प्रापितम्यत्यर्थः । ते तव सौभाग्यं सुभग- त्वम् ।। "हृद्भगसिन्ध्वन्ते पूर्वपदस्य च" इत्युभयपदवृद्धिः ।। व्यजयन्ती प्रकाशयन्ती । स खलु सुभगो यमङ्गना: कामयन्त इति भावः । असो पूर्वोक्ता सिन्धु दी निर्विन्ध्या ।। 'स्त्री नद्यां ना नदे सिन्धुदेशभेदेऽम्वुधौ गजे” इति वैजयन्ती ॥ येन विधिना व्यापारेण कार्य त्यजति स विधि. स्त्वयैवोपपाद्यः कर्तव्य इत्यर्थः स च विधिरेकत्र वृष्टिरन्यत्र संभोगस्तद. भावनिबन्धनत्वात्काश्यस्येति भावः ॥ इयं पञ्चमी मदनावस्था। तदुक्तं रतिरहस्ये - "नयनप्रीतिः प्रथमं चित्तासङ्गस्ततोऽथ संकल्पः । निद्राच्छे- दस्तनुता विषयनिवृत्तिनपानाशः ।। उन्मादो मूळ मृतिरित्येताः स्मरदशा दशैव स्युः ॥” इति ॥ “तामतीतस्य” इति पाठमाश्रित्य सिन्धुर्नाम नद्यन्तरमिति व्याख्यातम् । किंतु सिन्धु म कश्चिन्नदः काश्मीरदेशेऽस्ति । नदी तु कुत्रापि नास्तीत्यपेक्ष्यमित्याचक्षते ॥ । १ सलिलाम् २ सा तु, ताम् ३ सिन्धुम् ४ शीर्ण ५ अशुभग ६ व्यञ्जयन्तीम् २५ पूर्वमेघः । प्राप्यावन्तीनुदयनकथाकोविदग्रामवृद्धा- पूर्वोद्दिष्टामनुसर पुरीं श्रीविशालां विशालाम् । स्वल्पीभूते सुचरितफले स्वर्गिणां गां गतानां शेषैः पुण्यैह तमिव दिवः कान्तिमत्वण्डमेकम्॥३०॥ प्राप्येति । विदन्तीति विदाः ॥ इगुपधलक्षणः कः ओकसो वेद्यस्थानस्य विदा कोविदाः ।। ओकाग्लुप्ते पृपोदगदित्वात्साधुः ।। उदय- नस्य वत्सराजस्य कथानां वासवदत्ताहरणायद्भुतोपाख्यानानां कोविदा- म्तत्त्वज्ञा ग्रामपु ये वृद्धास्ते मन्ति येषु तानवन्तींस्तन्नामजनपदान्प्राप्य तत्र पूर्वोद्दिष्टां पूर्वोक्तां "सौधोत्सङ्गप्रणयविमु । मा स्म भूरुज्जयिन्याः" इत्युक्ता श्रीविशाला संपत्तिमतीम् ।। "शोभामंपत्तिपद्मासु लक्ष्मीः श्रीरिव दृश्यते” इति शाश्वतः ॥ विशालां पुरीमुज्जयिनीमनुसर ब्रज ॥ कथमिव स्थिताम् । सुचरितफले पुण्यफलं स्वर्गोपभोगलक्षणे स्वल्पीभूते । अत्य- ल्पावशिष्टे सतीत्यर्थः । गां भूमिं गतानाम् ॥ “गोरिला कुम्भिनी क्षमा" इत्यमरः ॥ पुनरपि भूलोकगतानामित्यर्थः । स्वर्गिणां स्वर्गवतां जनानां शेषैर्भुक्तशिष्टैः पुण्यैः सुकृतैर्हतमानीतम् । स्वर्गार्थानुष्ठित कर्मशेषाणां स्वर्ग- दानावश्यंभावादिति भाव । कान्तिरस्यास्ती ति कान्तिमदुज्ज्वलम् । सारभूनामत्यर्थः । एकं भुक्तादन्यत् ॥ “एके मुख्यान्यकेवलाः " इत्यमरः ॥ दिवः स्वर्गस्य खण्डमिव स्थितामित्युत्प्रेक्षा । एतेनातिक्रान्त- सकलभूलोकनगरसौभाग्यसारत्वमुज्जयिन्या व्यज्यते ॥ दीर्थी कुर्वन्पटु मदकलं कूजितं सारसानां प्रत्युषेषु स्फुटितकमलामोदमैत्रीकषायः । यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः शिपावातः प्रियतम इव प्रार्थनाचाटुकारः ॥३१॥ दीर्घाकुर्वन्निति ॥ यत्र विशालायां प्रत्यूषेष्वहर्मुखेषु ॥ "प्रत्यूषो- १ भवन्तीम् २ ज्ञान. (३०) हे मेघ ! भवन्तीनामजनपदम्प्राप्य तत्र स्थितामुज्जयिनी गच्छेति भावः। (३१) हे मेघ ! यत्र विशालायां प्रभाते कमलसौरभयुक्तः शिप्रावात: प्रिय- तम इव स्त्रीणां सुरतग्लानि हरति तां विशाला बजेति भावः ।
२६ ॥ मेघदूतम् । ऽहर्मुखं कल्यम्" इत्यमरः ।। पटु प्रस्फुटम् । मदकलं मदेनाव्यक्तमधुरम् ।। "ध्वनौ तु मधुरास्फुटे। कलः” इत्यमरः । सारसानां पक्षिविशेषाणाम् ।। "सारसा मैथुनी कामी गोनर्दः पुष्कराह्वयः" इति यादवः ॥ यद्वा मार- सानां हंसानाम् ॥ चक्राङ्गः माग्सो हमः” इति शब्दार्णवे ।। कूजितं मतं दा(कुर्वन् । विस्तारयन्नित्यर्थः । यावद्वातं शब्दावृत्तेरिति भावः । एतेन प्रियतमः स्वचाटुगक्यानुसारिक्रीडापक्षिकूजितमविच्छिन्नीकुर्वन्निति च गम्यते । स्फुटितानां विकसितानां कमलानामामोदन परिमलेन सह या मैत्री संसर्गस्तन कपायः सुरभिः ॥ “रागद्रव्ये कपायोऽस्रो निर्यासे सौरभे रसे” इति यादवः ।। अन्यत्र विमर्दगन्ध त्यर्थः ॥ "विमदत्थेि परिमलो गन्धे जनमनोहरे। आमोदः सोऽतिनिहारी" इत्यमरः ।। अङ्गानुकूलो गात्रमुखस्पर्शः । अन्यत्र गाढालिगनदत्तगात्रसंवाहन इत्यर्थः । भव- भूतिना चोक्तम अशिथिलपरिरम्भैर्दनसंवाहनानि " इति ॥ संवा- ह्यन्ते च सुरतश्रान्ता: प्रियैयुवतयः। एतस्कविरेव वक्ष्यति-"संभोगान्ते मम समुचितो हातसंवाहनानाम्" इति ।। शिप्रा नाम काचित्तत्रत्या नदी तस्या वातः शिप्रावातः । शिगग्रहणं शैत्यद्योतनार्थम् ।। प्रार्थना सुग्तस्य बाञ्चा तत्र चाटु करोतीति तथोक्तः। पुनः सुरतार्थ प्रियवचनप्रयाक्त- त्यर्थ. ॥ कर्मण्यम्प्रत्ययः ॥ प्रियतमा वल्लभ इव स्त्राणां सुरतग्लानि संभो. गखेदं हरति नुदति । चाटूक्तिभिर्विस्मृतपूर्वतिखेदाः स्त्रियः प्रियतमप्रार्थ- नां सफलयन्तीति भावः ।। 'प्रार्थनाचाटुकारः' इत्यत्र "खण्डितनायि: कानुनीता" इति व्याख्यान सुरतग्लानिहरणं न संभवति । तस्याः पूर्व सुरनाभावात्पश्चात्तनसुरतर नानिहरणं तु नदानान्तनको पशमनार्थचाटुवचन- साध्यमित्युत्प्रे वोचिता विवेकिनाम "ज्ञातऽन्यासङ्गविकृते खण्डिता- कपायिता" इति दशरूपके । इतः परं प्रक्षिप्तमपि इलोकत्रयं व्याख्यायते हारांस्तारांस्तरलगुटि कान्कोटिशः शङ्खशुक्तोः शप्पश्यामान्मर कतमणीनुन्मयूखप्ररोहान । दृष्ट्वा तस्यां विपरिणरचितान्विद्रुमाणां च भङ्गा- न्संलक्ष्यन्त सलिलनिधयस्तायमात्रावशेषाः ।। हारानिति ॥ यस्यां विशालायां कोटिशो विपणिषु पण्यवीथिकासु ।। "विपणिः पण्याथिका" इत्यमरः ॥ रचिनान्प्रसारितान् ।। इदं विशे- पणं यथालिङ्गं सर्वत्र संबध्यते । तारन्छुद्धान् ।। "तारो मुक्तादिसंशुद्धौ - पूर्वमेघः । तरणे शुद्धमौक्तिके” इति विश्वः ॥ तरलगुटिकान्मध्यमणीभूतमहारत्नान् ।। "तरलो हारमध्यगः” इत्यमरः ॥ "पिण्डे मणौ महारत्ने गुटिका बद्धपा. रदे" इति शब्दार्णवे । हारान्मुक्तावलीः । तथा कोटिशः शवांश्च शुक्तीश्च मुक्तास्फोटांश्च ।। "मुक्तास्फोट: स्त्रियां शुक्तिः शङ्खः स्यात्कम्बुरस्त्रियाम्" इत्यमरः ।। शष्पं बालतृणं तद्वच्छयामान ।। "शष्पं बालतृणं घासो यवसं तृणमर्जुनम्" इत्यमरः ॥ उन्मयूखप्ररोहानुद्गतरम्याङ्कुरान्मरकतमणी- न्गारुडरत्नानि । तथा विद्रुमाणां भङ्गान्प्रवालखण्डांश्च दृष्ट्वा सलिलनिधयः समुद्रास्तोयमात्रमवशेषो येषां ते तादृशाः संलक्ष्यन्ते । तथानुमीयन्त इत्यर्थः । रत्नाकरादप्यतिरिच्यते रत्नसंपद्भिरिति भावः ।। प्रद्योतस्य प्रियदुहितरं वत्सराजोऽत्र जहे हैमं तालद्रुमवनमभूदत्र तस्यैव राज्ञः । अत्रोद्भ्रान्तः किल नलगिरिः स्तम्भमुत्पाट्य दर्पा- दित्यागन्तुनमयति जनो यत्र बन्धूनभिज्ञः ॥ प्रद्योतस्येति ॥ अत्र प्रदेशे वत्सराजो वत्सदेशाधीश्वर उदयनः । प्रद्योतस्य नामोज्जयिनीनायकस्य राज्ञः प्रियदुहितरं वासवदत्तांजढे जहार । अत्र स्थले तस्यैव राज्ञः प्रद्योतस्य हैमं सौवर्ण तालद्रुमवनमभूत् । अत्र नलगिरिर्नामेन्द्रदत्तस्तदीयो गजो दर्पान्मदात्स्तम्मामालानमुत्पाट्योद्धृत्यो- भ्रान्त उत्पत्य भ्रमां कृतवान् । इतीत्थंभूताभिः कथाभिरित्यर्थः । अभिज्ञः पूर्वोक्तकथाभिज्ञः कोविदो जन आगन्तून्देशान्तरादागतान् ।। औरणादिकस्तुन्प्रत्ययः ॥ बन्धून्यत्र विशालायां रमयति विनोदयति ॥ अत्र भाविकालंकारः । तदुक्तम्- "अतीतानागते यत्र प्रक्षत्यत्वेन लक्षिते। अत्यदुतार्थकथनाद्भाविक तदुदाहृतम् ॥" इति ॥ पनश्यामा दिनकरयस्पपिनो यत्र वाहाः। शैलोदप्रास्त्वमिव करिणो वृष्टिमन्तः प्रभेदात् । योधामण्यः प्रतिदशमुखं संयुगे तस्थिवांसः प्रत्यादिष्टाभरणरुचयश्चन्द्रहासत्रणाकैः ॥ पत्रेति ॥ हे जलद, यत्र विशालायां वाहा हयाः पत्रश्यामाः पला- शवर्णा अत एव दिनकरहयस्पर्धिनो वर्णतो वेगतश्च सूर्याश्वल्पास्तथा शैलोदयाः शैलवदुन्नताः करिणः प्रभेदान्मदरावाद्धेतोस्त्वामिव वृष्टिमन्तः। ! अग्रं नयन्तीत्यप्रण्यः ॥"सत्सूद्विष-"इत्यादिना क्विप् ॥ "अपग्रामाभ्यां ३ २८ मेघदूतम् । नयतेः" इति वक्तव्याण्णत्वम् ॥ योधानामग्रण्यो भटश्रेष्ठाः संयुगे युद्धे प्रतिदशमुखमभिरावणं तस्थिवांसः स्थितवन्तः। अत एव चन्द्रहासस्य रावणासव्रणानि क्षतान्येवाकाश्चिह्नानि तैः ॥ "चन्द्रहासो रावणासाव- सिमात्रेऽपि च क्वचित्" इति शाश्वतः । प्रत्यादिष्टाभरणरुचयः प्रति- पिद्धभूपणकान्ताः । शस्त्रप्रहारा एव वीराणां भूषणमिति भावः ॥ अत्रापि भाविकालंकारः।। जालोद्गीणैरुपचितवपुः केशसंस्कारधूपै- बन्धुप्रीत्या भवनशिखिभिर्दत्तनृत्योपहारः। हयेष्वस्याः कुसुमसुरभिष्वध्वखेदं नयेथा लक्ष्मी पश्यंल्ललितवनितापादरागांकितेषु ॥३॥ जालोद्गीणैरिति ।। जालोद्गीर्णैर्गवाक्षमार्गनिर्गतैः ॥ “जालं गवाक्ष आनाये जालके कपटे गणे” इति यादवः ॥ केशसंस्कारधूपैः । वनि- ताकेशवासनाथर्गन्धद्रव्यधूपैरित्यर्थः ॥ अत्र संस्कारधूपयोस्तादर्थेऽपि यूपदार्वादिवत्प्रकृतिविकारत्वाभावादश्वघासादिवत्षष्ठीसमासो न चतुर्थी समासः ॥ उपचितवपुः परिपुष्टशरीरः। बन्धौ बन्धुरिति वा प्रीत्या भवनशिखिभिर्गृहमयूरैर्दत्तो नृत्यमेवोपहार उपायनं यस्मै स तथोक्तः । "उपायनमुपग्राह्यमुपहारस्तथोपदा" इत्यमरः ॥ कुसुमैः सुरभिष सुग न्धिपु ॥ ललितवनिताः सुन्दरस्त्रियः ॥ "ललितं त्रिपु सुन्दरम्" इति शब्दार्णवे ॥ तासां पादरागेण लाक्षारसेनाङ्कितेपु चिह्नितेषु हापु धनि कभवनेष्वस्या उज्जयिन्या लक्ष्मी पश्यन्नध्वनाऽध्वगमनेन खेदं क्लेशं नयेथा अपनय॥३२॥ भर्तुः कण्ठच्छविरिति गणैः सादरं वीक्ष्यमाणः पुण्यं यायास्त्रिभुवनगुरोर्धाम चण्डीश्वरस्य । धूतोद्यानं कुवलयरजोगन्धिभिर्गन्धवत्या- स्तोयक्रीडानिरंतयुवतिस्नानतिक्तर्मरुद्भिः ॥३३॥ १ धूमै. २ नृत्तोपचारः. ३ भघखिन्नान्तरात्मा. ४ मुक्त्वा खेदम्, त्यक्त्व खेदम्; रात्रि नीस्वा. ५ दृश्यमानः. ६ चण्डेश्वरस्थ. ७ विरत. (३२) हे मेघ ! तत्र विशालायां हर्येषु लक्ष्मी पश्यन् मार्गश्रममपन येति भावः । (३३) हे मेघ ! तत्र विशालायामतिपवित्रं महाकालस्थानं गच्छेरिति भारः पूर्वमेघः । २६ भर्तुरिति ॥ भर्तुः स्वामिनो नीलकण्ठस्य भगवतः कण्ठस्येव छविर्य- स्यासौ कण्ठच्छविरिति हेतोर्गणैः प्रमथैः ॥ “गणस्तु गणनायां स्याद्ग- णेशे प्रमथे चये” इति शब्दार्णवे ॥ सादरं यथा तथा वीक्ष्यमाणः सन् । प्रियवस्तुसादृश्यादतिप्रियत्वं भवेदिति भावः । त्रयाणां भुवनानां समा हारस्त्रिभुवनम् ॥ "तद्धितार्थ-' इत्यादिना समासः ॥ तस्य गुरोस्ौला- क्यनाथस्य चण्डीश्वरस्य कात्यायनीवल्लभस्य पुण्यं पावन धाम महाका- लाख्यं स्थानं याया गच्छ ॥ विध्यर्थे लिङ । श्रेयस्करत्वात्सर्वथा यातव्य- मिति भावः ॥ उक्तं च स्कान्दे-"आकाशे तारकं लिङ्गं पाताले हाटकेश्वरम् । मर्त्यलोके महाकालं दृष्ट्वा काममवाप्नुयात् ॥” इति ॥ न केवलं मुक्तिस्थानमिदं किन्तु विलासस्थानमपीत्याह-धूतेति ॥ कुवलय- रजोगन्धिभिरुत्पलपरागगन्धवद्भिस्तोयक्रीडासु निरतानामासक्तानां युव- तीनां स्नानं स्नानीयं चन्दनादि ॥ करणे ल्युट् ॥ “स्नानीयेऽभिपवे स्नानम्” इति यादवः ॥ तेन तिक्तैः सुरभिभिः ॥ “कटुतिक्तकषायास्तु सौरभे च प्रकर्तिताः” इति हलायुधः ॥ सौगन्ध्यातिशयाथ विशेपण- द्वयम् । गन्धवत्या नाम नद्यास्तत्रत्याया मरुद्भिर्मारुतैछूतोद्यानं कम्पिता- क्रीडमिति धाम्नो विशेपणम् ।। अप्यन्यस्मिञ्जलधर महाकालमासाद्य काले स्थातव्यं ते नयनविपयं यावदत्येति भानुः। कुर्वन्संध्याबलिपटहतां शूलिनः श्लाघनीया- मामन्द्राणां फलमविकलं लप्स्यसे गर्जितानाम्॥३४॥ अपीति ।। युग्मम् ।। हे जलधर, महाकालं नाम पूर्वोक्तं चण्डीश्वर- स्थानमन्यस्मिन्सन्ध्यातिरिक्तेऽपि काल आसाद्य प्राप्य ते तव स्थातव्यम् । त्वया स्थातव्यमित्यर्थः ।।“कृत्यानां कर्तरि वा" इति षष्ठी ॥ यावद्यावता कालेन भानुः सूर्यो नयनविषयं दृष्टिपथमत्येत्यतिक्रामति । अस्तमय- कालपर्यन्तं स्थातव्यमित्यर्थः ॥ यावदित्येतदवधारणार्थे । “यावत्तावञ्च साकल्येऽवधौ मानेऽवधारणे" इत्यमरः ॥ किमर्थमत आह-कुर्वनिति ॥ श्लाघनीयां प्रशस्यां शूलिनः शिवस्य सन्ध्यायां बलिः पूजा तत्र पटहतां १ अभ्येति. २ भामंत्राणाम् ; आमाणाम. (३४) हे मेव ! तत्र विशालायां सायन्तनपूजावसरे गम्भीरगर्जनद्वारा महा- कालपूजापटहकार्य सम्पाद्य उक्तकार्यसम्पादनरूरफलंचाऽनुभूय गच्छेरिति भावः।
३० मेघदूतम् । कुर्वन्संपादयन्नामन्द्राणामीषद्गम्भीराणां गर्जितानामविकलमखण्डं फलं लप्स्यसे प्राप्स्यसि ॥ लभेः कर्तरि लुट् ॥ महाकालनाथबलिपटहत्वेन विनियोगात्ते गर्जितसाफल्यं स्यादित्यर्थः ।। पादन्यासः क्वणितरशनास्तत्र लीलावधूत- रत्नच्छायाखचितवलिभिश्चामरैः क्लान्तहस्ता। वेश्यास्त्वत्तो नखपदसुखान्प्राप्य वर्षाग्रविन्दू- नामोक्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान्कटाक्षान्॥३॥ पादन्यासैरिति ॥ सन्ध्याकाले ॥ पादन्यासैश्चरणनिक्षेपैर्नृत्याङ्गैः करिणताः शब्दायमाना रशना यासां तास्तथोक्ताः ॥ कणतेरकर्मकत्वात "गत्यर्थाकर्मक-" इत्यादिना कर्तरि क्तः ॥ लीलया विलासेनावधूतैः कम्पितैः रत्नानां कङ्कणमणीनां छायया कान्त्या खचिता रूषिता वलय. श्चामरदण्डा येषां तैः ॥ “बलिश्चामरदण्डे च जराविश्लथचर्मणि" इति विश्वः ॥चामरैर्बालव्यजनैः क्लान्तहस्ताः ॥ एतेन देशिकं नृत्यं सूचितम् । तदुक्तं नृत्यसर्वस्वे-"खड्गकन्दुकवस्त्रादिदण्डिकाचामरसजः। वीणां च वृत्वा यत्कुर्युर्नत्यं तहेशिकं भवेत् ॥” इति ॥ वेश्या महाकालनाथमुपेत्य नृत्यन्त्यो गणिकास्त्वत्तो नखपदेषु नखक्षतेषु सुखान्सुखकरान । “सुख. हेतौ सुखे सुखम्" इति शब्दार्णवे ॥ वर्षस्याप्रबिन्दून्प्रथमबिन्दून्प्राप्य त्वयि मधुकरश्रेणिदीर्दान्कटाक्षानपाङ्गानामोक्ष्यन्ते । “परैरुपकृताः सन्तः सद्यः प्रत्युपकुर्वते” इति भावः । कामिनीदर्शनीयत्वलक्षणं शिवोपासना- फलं सद्यो लफ्यस इति ध्वनिः ॥ पश्चादुच्चैर्भुजतरुवनं मण्डलेनाभिलीनः सान्ध्यं तेजः प्रतिनवजपापुष्परक्तं दधानः। नृत्यारम्भे हर पशुपतेरा नागाजिनेच्छा शान्तोदेगस्तिमितनयनं दृष्टभक्तिर्भवान्या ॥३६॥ , पदन्यास. २ रचित. ३ कान्त. ४ नस्तारम्भे. (१५)हे मेघ ! संध्याकाले महाकालदर्शनार्थमागतानां वारांगनानां दर्शनात्मकं शिवोपासनाफलं ते भविष्यतीति भावः । (३६) हे मेघ ! तत्र शिवताण्डवकाले सान्ध्यमरणं तेजो दधत् त्वं गजधर्म विलोकनात् जातं भवानीसाध्वसमपमयेति भावः ।
३ पूर्वमेघः। पश्चादिति ॥ पश्चात्संध्यावल्यनन्तरं पशुपतेः शिवस्य नृत्यारम्भे ताण्डवप्रारम्भे प्रतिनवजपापुष्परक्तं प्रत्यप्रजपाकुसुमारुणं सन्ध्यायां भवं सान्भ्यं तेजो दधानः । उच्चैरुन्नतं भुजा एव तरवस्तेषां वनं मण्डलेन मण्डलाकारेणाभिलीनोऽभिव्याप्तः सन् । कतरिक्तः।।भवान्या भवपन्या।। "इन्द्रवरुणभवशवरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणामानुक्" इति ङीष् । आनुगागमश्च ॥ शान्त उद्वेगो गजाजिनदर्शनभयं ययोस्ते अत एव स्तिमिते निश्चले नयने यस्मिन्कर्मणि तत्तथोक्तम् ॥ "उद्वेगस्त्वरिते क्लेशे भये मन्थरगामिनि" इति शब्दार्णवे ॥ भक्तिः पूज्येष्वनुरागः ।। भावार्थे क्तिन्प्रत्ययः ॥ दृष्टा भक्तिर्यस्य स दृष्टभक्तिः सन् । पशुपतेरा शोणिताद्रं यन्नागाजिनं गजचर्म | "अजिनं चर्म कृत्तिः स्त्री" इत्यमरः । तत्रेच्छां हर निवर्तय । त्वमेव तत्स्थाने भवेत्यर्थः । गजा- सुरमर्दनानन्तरं भगवान्महादेवस्तदीयमाजिनं भुजमण्डलेन बिभ्रत्ता- एडवं चकारेति प्रसिद्धिः ।। दृष्टभक्तिरिति कथं रूपसिद्धिः । दृष्टशब्दस्य "स्त्रियाः पुंवत्" इत्यादिना पुंवद्भावस्य दुर्घटत्वादपूरणोप्रियादिष्विति निषेधात् । भक्तिशब्दस्य प्रियादिषु पाठादिति । तदेतच्चोयं दृढभक्तिरिति शब्दमाश्रित्य प्रतिविहितं गणव्याख्याने दृढं भक्तिरस्येति नपुंसकं पूर्वप- दम् । अदाय॑निवृत्तिपरत्वे दृढ़शब्दाल्लिङ्गविशेषस्यानुपकारित्वात्स्त्रीत्व- मविवक्षितमिति ॥ भोजराजस्तु-"भक्तौ च कर्मसाधनायामित्यनेन सूत्रेण भज्यते सेव्यत इति कर्मार्थत्वे भवानीभक्तिरित्यादि भवति । भाव- साधनायां तु स्थिरभक्तिर्भवान्यामित्यादि भवति" इत्याह । तदेतत्सर्व सम्यग्विवेचितं रघुवंशसंजीविन्यां "दृढभक्तिरिति ज्येष्ठे" इत्यत्र । तस्मा- दुष्टभक्तिरित्यत्रापि मतभेदेन पूर्वपदस्य स्त्रीत्वेन नपुंसकत्वेन च रूपसिद्धि- रस्तीति स्थितम् ॥ इत्थं महाकालनाथस्य सेवाप्रकारमभिधाय पुनरपि नगरसंचारप्र- कारमाह- गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं रुद्धालोके नरपतिपथे सूचिभेचैस्तमोभिः । रात्री.
३२ मेघदूतम् । सौदामन्या कनकनिकषस्निग्धया दर्शयोर्वी तोयोत्सर्गस्तनितंमुखरो मा स्म भूर्विक्लबास्ताः ॥३७॥ गच्छन्तीनामिति ॥ तत्रोज्जयिन्यां नक्तं रात्रौ रमणवसतिं प्रियभ- वनं प्रति गच्छन्तीनां योषिताम् । अभिसारिकाणामित्यर्थः । सूचिभि- भैयैः । अतिसान्द्ररित्यर्थः । तमोभी रुद्धालोके निरुद्धदृष्टिप्रसारे नरपति. पथे राजमार्गे कनकस्य निकषो निकष्यत इति व्युत्पत्त्या निकष उपलग- तरेखा तस्येव स्निग्धं तेजो यस्यास्तया ।। "स्निग्धं तु ममृणं सान्द्र रम्ये क्लीबे च तेजसि" इति शब्दार्णवे ॥ सुदाम्नाद्रिणकदिक्सौदामनी विद्युत "तेनैकदिक्” इत्याप्रत्ययः ॥ तयोर्वी मार्ग दर्शय । किंच तोयोत्सर्ग- स्तनिताभ्यां वृष्टिगर्जिताभ्यां मुखरः शब्दायमानो मा स्म भूः । कुतः । ता योषितो विक्लवा भीरवः। ततो वृष्टिगजिते न कार्ये इत्यर्थः ॥ नात्र नोयोत्सर्गसहितं स्तनितमिति विग्रहः । विशिष्टस्येव केवलस्तनितस्याप्यनि तृत्वात् । न च द्वन्द्वपक्षेऽल्पाच्तरपूर्वनिपातशास्त्रविरोधः "लक्षणहेत्वोः क्रियायाः” इति सूत्र एव विपरीतनिर्देशेन पूर्वनिपातशास्त्रस्यानित्यत्वज्ञा- पनादिति ॥ तां कस्यांचिदुभवनवलभी सुप्तपारावतायां नीत्वा रात्रि चिरविलसनात्खिन्नविद्युत्कलनः । दृष्टे सूर्ये पुनरपि भवान्वाहयेदवशेष मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः ॥३८॥ तामिति ॥ चिरं विलसनात्स्फुरणाखिन्नं विद्युदेव कलत्रं यस्य स भवान्सुप्ताः पारावताः कलरवा यस्यां तस्याम् ॥ विविक्तायामित्यर्थः ॥ "पारावतः कलरवः कपोतः" इत्यमरः ॥जनसंचारस्तत्राऽसंभावित एवेति भावः । कस्यांचिद्भवनवलभौ । गृहाच्छादनोपरिभाग इत्यर्थः ॥ "श्रान्छा- दनं स्याद्वलभी गृहाणाम्" इति हलायुधः ॥ तां रात्रिं नीत्वा सूर्ये दृष्टे १ छायया. २ विमुख. ३ च. (३७) हे मेघ ! उज्जयिन्या निशि गरछन्तीरभिसारिका विद्युता मार्ग प्रद. र्शय न च तासां वृष्टिगर्जिताभ्यां भयमुत्पादयेति भावः । (३८) हे मेघ ! सुहृत्कार्यसाधकस्त्वं तत्र विशालायां रात्रिं यापयित्वा प्रात- गच्छरिति भावः ।
क्यप्" इति पूर्वमेघः । सती । उदिते सतीत्यर्थः । पुनरप्यध्वशेपं वाहयेत् । तथाहि सुहृदां मित्रा- णामभ्युपेतार्थस्याङ्गीकृतार्थस्य प्रयोजनस्य कृत्या क्रिया यैस्ते । अभ्युपेत- सुहृदर्था इत्यर्थः ॥ सापेक्षत्वेऽपि गमकत्वात्समासः ॥ "कृत्या क्रियादेव- तयोः कार्ये स्त्री कुपिते त्रिषु” इति यादवः ॥ "कृञः श च" इति चका. रात्क्यप ॥ न मन्दायन्ते खलु न मन्दा भवन्ति हि । न विलम्बन्त इत्यर्थः ।। "लोहितादिडाभ्यः क्यष् । “वा क्यषः” इत्यात्मनेपदम् ।। तस्मिन्काले नयनसलिलं योषितां खण्डितानां शान्ति नेयं प्रणयिभिरतो वम भानोस्त्यजाशु । प्रालेयास्त्रं कमलवदनात्सोऽपि हतुं नलिन्याः प्रत्यावृत्तस्त्वयि कररुधि स्यादनल्पाभ्यसूयः ॥३६॥ तस्मिन्निति ॥ तस्मिन्कालं पूर्वोक्ते सूर्योदयकाले प्रणयिभिः प्रिय तमैः खण्डितानां योपितां नायिकाविशेषाणाम् ॥ "ज्ञातऽन्यासङ्गविकृते- खण्डितेाकपायिता" इति दशरूपके || नयनसलिलं शान्ति नेयं नेत- व्यम ॥ नयतिद्विकर्मकः। अतो हेतो नोवांशु शीघ्रं त्यज । तस्यावरको मा भूरित्यर्थः । विपक्षेऽनिष्टमाचप्टे-सोऽपि भानुः । नलान्यम्बुजानि यस्याः सन्तीति नलिनी पद्मिनी ॥ "तृणेऽम्बुजे नलं ना तु राज्ञि नाले तु न स्त्रियाम्" इति शब्दार्णवे ॥ तस्या: स्वकान्तायाः कमलं स्वकुसुममेव वदनं तस्मात्प्रालेयं हिममेवासमश्रु हतु शमयितुं प्रत्यावृत्तः प्रत्यागतः । नलिन्याश्च भर्तुर्भानोर्देशान्तरे नलिन्यन्तरगमनात्खण्डितत्वमित्याशयः । ततस्त्वयि । करानंशून्रुणद्धीति कररुत् । क्विम् । तस्मिन्कररुधि सति । हस्तरोधिनि सतीति च गम्यते ॥ "बलिहस्तांशवः कराः" इत्यमरः अनल्पाभ्यसूयोऽधिकविद्वेषः स्यात् । प्रायेणेच्छाविशेषविघाताद्वेषो रोष- विशेषश्च कामिनां भवतीति भावः । किंच "आत्मानं चाकमीशानं विष्णु वा द्वेष्टि यो जनः । श्रेयांसि तस्य नश्यन्ति रौरवं च भवेद्बुवम् ॥" इति निषेधात्कार्यहानिर्भविष्यतीति ध्वनिः ॥ गम्भीरायाः पयसि सरितश्चेतसीव प्रसन्ने छायात्मापि प्रकृतिसुभगो लफ्यते ते प्रवेशम् । १ नयनात्. (३९) हे मेघ ! सूर्योदयकाले खण्डितनायिकाश्रुदूरीकरणावसरत्वात् कमलिनीत गररूपाश्रुविमोचनाय प्रवृत्तस्य भानोर्मार्ग सज नोचेस मयि क्रुद्धः स्यादिति भावः। • ३४ मेघदूतम्। तस्मादस्याः कुमुदविशदान्यहसि त्वं न धैर्या- न्मोघीकर्तुं चटुलशफरोद्वर्तनप्रेक्षितानि ॥४०॥ गम्भीराया इति । गम्भीरा नाम सरित् ॥ उदात्तनायिका च ध्वन्य- ते॥ तस्याः प्रसन्नेऽनुरक्तत्वाद्दोषरहिते चेतसीव प्रसन्नेऽतिनिर्मले पयसि । प्रकृत्या स्वभावेनैव सुभगः सुन्दरः ॥ "सुन्दरेऽधिकभाग्ये च दुर्दिनेतर. वासरे । तुरीयांशे श्रीमति च सुभगः" इति शब्दार्णवे ॥ ते तव छाया चासावात्मा च । सोऽपि प्रतिबिम्बशरीरं च प्रवेशं लप्स्यते । अपिशब्दा- त्प्रवेशमनिच्छोरपीति भावः । तस्माच्छायाद्वारापि प्रवेशावश्यंभावित्वादस्या गम्भीरायाः । कुमुदवद्विशदानि धवलानि चटुलानि शीघ्राणि शफराणां मीनानामुद्वर्तनान्युल्लुण्ठनान्येव प्रेक्षितान्यवलोकनानि ॥ "त्रिषु स्याञ्चटुलं शीघ्रम्" इति विश्वः ॥ एतावदेव गम्भीराया अनुरागलिङ्गम् । धैर्याद्धा- टात् । वैयात्यादिति यावत् । मोघीकर्तु विफलीकर्तुं नार्हसि । नानु- रक्ता विपलब्धव्येत्यर्थः ।। धूर्तलक्षणं तु-"क्लिश्नाति नित्यं गमितां कामि- नीमिति सुन्दरः । उपैत्यरक्तां यत्नेन रक्तां धूर्तो विमुञ्चति ॥” इति । तस्याः किंचित्करधृतमिव प्राप्तवानीरशाखं नीत्वा नीलं सलिलवसनं मुक्तरोधोनितम्बम् । प्रस्थानं ते कथमपि सखे लम्बमानस्य सावि ज्ञातास्वादो विवृतजघनां को विहातुं समर्थः॥४१॥ तस्या इति ॥ हे सखे, प्राप्ता वानीरशाखा वेतसशाखा येन तत्तथोक्त- मत एव किञ्चिदीपत्करधृतं हस्तावलम्बितमिव स्थितम् मुक्तस्त्यक्तो रोध स्तटमेव नितम्बः कटियेन तत्तथोक्तम् ॥ “नितम्बः पश्रिमे श्रोणिभागेड द्रिकटके कटौ" इति यादवः ॥ नीलं कृष्णवर्ण तस्या गम्भीरायाः सलि. लमेव वसनं नीत्वाऽपनीय ॥ प्रस्थानसमये प्रेयसीवसनग्रहणं विरहतापवि- तस्या: २ हृत्वा ३ पुलिनजघनाम् । (४०) हे मेघ ! गम्भीरानामनदीजले छायाद्वारा प्रविष्टं स्वामीक्षितुमुत्सुकशफ- रोणाल्लुण्ठनात्मकावलोकनवैफल्यं विधातुं नाहसीति भावः । (४१) हे मेध ! यथा प्रवासी कश्चित्कामी प्रस्थानकाले विरहतापशान्तये नायिकावसनमवलम्व्य गच्छति तथा भवानपि गम्भीरानदीतोयमादाय प्रस्थास्थत इति भावः।
पूर्वमेघः । नोदनार्थमिति प्रसिद्धम् ॥ लम्बमानस्य पीतसलिलभराल्लम्बमानस्य । अन्यत्र जघनारूढस्य । ते तव प्रस्थानं प्रयाणं कथमपि कृच्छ्रेण भावि ॥ कृच्छ्रत्वे हेतुमाह-ज्ञातेति ॥ ज्ञातास्वादोऽनुभूतरसः कः पुमान्विवृतं प्रकटी- कृतं जघनं कटिस्तत्पूर्वभागो वा यस्यास्ताम् "जघनं स्यात्कटौ पूर्वश्रोणिभा. गापरांशयोः" इति यादवः ॥ विहातुं त्यक्तुं समर्थः । न कोऽपोत्यर्थः । त्वनिष्यन्दोच्छवसितवसुधागन्धसंपर्करम्यः स्रोतोरन्ध्रध्वनितसुभगं दन्तिभिः पीयमानः । नोचैर्वास्यत्युपजिगमिषोर्दैवपूर्व गिरि ते शीतो वायुः परिणमयिता काननोदुम्बराणाम्॥४२॥ त्वदिति ॥ त्वनिष्यन्देन तव वृष्टयोच्छ्रसिताया उपबृंहिताया वसुधाया भूमर्गन्धस्य संपर्केण रम्यः । सुरभिरित्यर्थः ॥ सोतः शब्दे- नेन्द्रियवाचिना तद्विशेषो घ्राणं लक्ष्यते ॥ "सोतोऽम्बुवेगेन्द्रिययोः" इत्यमरः ॥ सोतोरन्ध्रषु नासाग्रकुहरेषु यद्ध्वनितं शब्दस्तेन सुभगं यथा तथा दन्तिभिर्गजैः पीयमानः । वसुधागन्धलोभादाघ्रायमाण इत्यर्थः । अनेन मान्द्यमुच्यते । काननेषु वनेपू दुम्बराणां जन्तुफलानाम् "उदुम्बरो जन्तुफलो यज्ञाङ्गो हेमदुग्धकः' इत्यमरः ।। परिणमयिता परिपाकयिता ।। "मितां ह्रस्वः” इति हस्वः ॥ शीतो वायुः । देवपूर्व देवशब्दपूर्व गिरिम् । देवगिरिमित्यर्थः । उपजिगमिषोरुपगन्तुमिच्छोः ॥ गमेः सन्नन्तादुप्रत्य- यः॥ ते तव नीचैः शनैर्वास्यति । त्वां बीजयिष्यतीत्यर्थः ॥ सम्बन्धमात्र- विवक्षायां षष्ठी । “देवपूर्व गिरिम्" इत्यत्र देव पूर्वत्वं गिरिशब्दस्य न तु संज्ञिनस्तदर्थस्येति संज्ञायाः संज्ञित्वाभावादवाच्यवचनं दोषमाहुरालंका- रिकाः । तदुक्तमेकावल्याम् – “यदवाच्यस्य वचनमवाच्यवचनं हि तत्" इति ।। समाधानं तु देवशब्दविशेषितेन गिरिशब्देन शब्दपरेण मेघोपग- मनयोग्यो देवगिरिलक्ष्यत इति कथंचित्संपाद्यम् ।। तत्र स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा पुष्पासारैः स्नपयतु भवान्व्योमगङ्गाजला: १ पुण्यः (०२) हे मेघ ! शीतो वायुर्देवगिरि जिगमिपुं स्वां शनैजियिष्यतीति भावः ।
३६ मेघदूतम् । रक्षाहेतोनवशशिभृता वासवीनां चमूना- मत्यादित्यं हुतवहमुखे संभृतं तद्धि तेजः ॥ ४३ ॥ तत्रेति ॥ तत्र देवगिरौ नियता वसतिर्यस्य तम् । नित्यसंनिहितमि त्यर्थः ।। पुरा किल तारकाख्यासुरविजयसंतुष्टः सुरप्रार्थनावशाद्भगवान्भव नीनन्दनः स्कन्दो नित्यमहमिह सह शिवाभ्यां वसामीत्युक्त्वा तत्र वस तीति प्रसिद्धिः ॥ स्कन्दं कुमारं स्वामिनम् । पुष्पाणां मेघः पुष्पमेघः पुष्पमेघीकृतात्मा कामरूपत्वात्पुष्पवर्षकमेघीकृतविग्रहः सन्व्योमगङ्गाज लाः । पुष्पासारैः पुष्पसंपातैः ॥ "धारासंपात आसारः” इत्यमरः । भवान्स्वयमेव स्नपयत्वभिपिञ्चतु । स्वयंपूजाया उत्तमत्वादिति भावः।। तथ च शंभुरहस्ये- "स्वयं यजति चेद्देवमुत्तमा सोदारात्मजैः । मध्यमा या यजे भृत्यैरधमा याजनक्रिया ॥” इति । स्कन्दस्य पूज्यत्वसमर्थनेनार्थेनान्तर न्यस्यति-रक्षेति । तत् भगवान् स्कन्द इत्यर्थः । विधेयप्राधान्यान्नपुंस कनिर्देशः ॥ वासवस्यति वासव्यः ।। "तस्यदम" इत्यण ॥ तासां वास बीनामैन्द्रीणां चमूनां सेनानां रक्षातो रक्षायायाःकारणेन । रक्षार्थमित्यर्थः "पष्ठी हेतुप्रयोगे” इति षष्ठी ।। नवशशिभृता भगवता चन्द्रशेखरेण । वहतीति वहः ॥ पचायच् ॥ हुतस्य वहो हुतवहो वन्हिस्तस्य मुखे संभृतं संचितम् । आदित्यमतिकान्तमत्यादित्यम् ॥ "अत्यादयः क्रान्ताद्यथे द्वितीयया” इति समासः ॥ तेजो हि साक्षाद्भगवतो हरस्यैव मूर्त्यन्तर मित्यर्थः । अतः पूज्यमिति भावः । मुखग्रहणं तु शुद्धत्वसूचनार्थम् । तदुक्तं शंभुरहस्ये-"गवां पश्चाद्विजस्याज्रिर्यो गिनां हृत्कवेर्वचः । पर शुचितमं विद्यान्मुखं स्त्रीवन्हिवाजिनाम ॥” इति ।। ज्योतिर्लेखावलयि गलितं यस्य बहं भवानी पुत्रप्रेम्णा कुवलयदलप्रापि कणे करोति । धौतापाङ्गं हरशशिरुचा पावकेस्तं मयूर पश्चादद्रिग्रहणगुरुभिर्गर्जितैनर्तयेथाः ॥४४॥ २ १ वसूनाम २ प्रीत्या. ३ पद. ४ आप्याययः. (४३) हे मेघ ! देवसेनारक्षणार्थमग्नी शिवेन निहितं तेजोरूपं तत्र स्थितं स्कन्दं पुष्पधाराभिः स्वयमभिसिञ्चेति भावः । 17 मेघ । पजनोस Searमयां गम्भीगर्जनेय इति भावः।
पूर्वमेघः। ज्योतिरिति ॥ ज्योतिषस्तेजसो लेखा राजयस्तासां वलयं मण्ड- यस्यास्तीति तथोक्तम् गलितं भ्रष्टम् । न तु लोल्यात्स्वयं छिन्नमिति भावः । यस्य मयूरस्य बह पिच्छम् । "पिच्छबर्हे नपुंसके” इत्यमरः ।। भवानी गौरी । पुत्रप्रेम्णा पुत्रस्नेहेन कुवलयस्य दलं पत्रं तत्प्रापि तद्योगि यथा तथा कर्णे करोति । दलेन सह धारयतीत्यर्थः । यद्वा कुवलयस्य दलप्रापि दलभाजि दलाह करें करोति ॥ क्विबन्तात्सप्तमी ।। दलं परि- हृत्य तत्स्थाने बह धत्त इत्यर्थः ॥ नाथस्तु "कुवलयदलक्षेपि” इति पाठमनुसृत्य "क्षेपो निन्दापसारणं वा" इति व्याख्यातवान् ॥ हरशशि- रुचा हरशिरश्चन्द्रिकया धौतापाझं स्वतोऽपि शौक्ल्यादतिधवलितनत्रान्तम "अपाङ्गो नेत्रयारन्तौ” इत्यमरः ॥ पावकस्याग्नरपत्यं पावकि: स्कन्दः ॥ "अत इञ्" इति इत्र ॥ यस्य तं पूर्वोक्तं मयूरं पश्चात्पुष्पा. भिपेचनानन्तरमगुर्देवगिरेः कर्तुः ॥ ग्रहणेन गुहासंक्रमणेन गुरुभिः । प्रतिध्वानमहद्भिरित्यर्थः । गर्जितैर्नर्तयेथा नृत्यं कारय । मार्दङ्गिकभावेन भगवन्तं कुमारमुपास्स्वेति भावः ।। "नर्तयथाः” इत्यत्र "अणावकर्म- काच्चित्तवत्कर्तृकात्' इत्यात्मनेपदापवादः । “निगरणचलनार्थेभ्यश्च" इति परस्मैपदं न भवति तस्य "न पादम्याङयमाङ्यसपरिमुहरुचिनृतिवदवसः" इति प्रतिपेधात्॥ अाराध्यैनं शरवणभवं देवमुल्लकितावा सिद्धद्वन्द्वैर्जलकणभयादोणिभिर्मुक्तमार्गः । व्यालम्बेथाः सुरभितनयालम्भजां मानयिष्यन् स्रोतोमूर्त्या भुवि परिणता रन्तिदेवस्य कीर्तिम् ॥४॥ आराध्येति ॥ एनं पूर्वोक्तं शरा बाणतृणानि || "शरो बाणे बाण- तृणे” इति शब्दार्णवे ॥ तेषां वनं शरवणम् ॥ "प्रनिरन्तःशर-" इत्यादिना णत्वम् ॥ तत्र भवो जन्म यस्य तं शरवणभवम् ॥ "अवर्यो बहुव्रीहिय॑धिकरणो जन्माद्युत्तरपदः" इति वामनः । अवोऽगति- कत्वादाश्रयणीय इत्यर्थः । देवं स्कन्दम् ।। "शरजन्मा षडाननः" इत्य- मरः ॥ आराध्योपास्य वीणिभिर्वीणावद्भिः ॥ ब्रोह्यादित्वादिनिः॥ . १ दत्त मार्गः, दत्तवा. (४५) हे मेघ ! स्कन्दमाराध्य चर्मण्वती नदी सरकारयिष्यन् गच्छेरिति भावः ।
३८ मेघदूतम् । सिद्धद्वन्द्वैः सिद्धमिथुनैः। भगवन्तं स्कन्दमुपवीणयितुमागतैरिति भावः । जलेकणमयात् । जलसेकस्य वीणाकणनप्रतिबन्धकत्वादिति भावः । मुक्तमार्गस्त्यक्तवा सन्नुल्लविताध्वा । कियन्तमध्वानं गत इत्यर्थः । सुरभितनयानां गवामालम्भेन संज्ञपनेन जायत इति तथोक्ताम् । भुवि लोके सोतोमूर्त्या प्रवाहरूपेण परिणतां रूपविशेषमापन्नां रन्तिदेवस्य दशपुरपतेमहाराजस्य कीर्तिम् । चर्मण्वत्याख्यां नदीमित्यर्थः। मान- यिष्यन्सत्कारयिष्यन्व्यालम्बेथाः । पालम्ब्यावतरेरित्यर्थः । पुरा किल राज्ञो रन्तिदेवस्य गवालम्भेष्वेकत्र संभृताद्रक्तनिष्यन्दाचर्मराशेः काचिन्नदी सस्यन्दे । सा चर्मण्वतीत्याख्यायत इति ।। त्वय्यादातुं जलमवनते शाङ्गिणो वर्णचौरे तस्याः सिन्धोः पृथुमपि तनुं दूरभावात्प्रवाहम् । प्रेक्षिष्यन्ते गगनगतयो नूनमावऱ्या दृष्टी- रेकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम्॥४६॥ त्वयीति । शाङ्गिणः कृष्णस्य वर्णस्य कान्तेश्चौरे वर्णचौरे । तत्तुः ल्यवर्ण इत्यर्थः। त्वयि जलमादातुमवनते सति पृथुमपि दूरत्वात्तनुं सूक्ष्मतया प्रतीयमानं तस्याः सिन्धोश्चर्मण्वत्याख्यायाः प्रवाहम् । गगने गतिर्येषां ते गगनगतयः खेचराः सिद्धगन्धर्वादयः ॥ अयमपि बहुव्रीहिः पूर्ववज्जन्माद्युत्तरपदेषु द्रष्टव्यः ।। नूनं सत्यं दृष्टोरावय॑ नियम्यैकमेक- यष्टिकं स्थूलो महान्मध्यो मध्यमणीभूत इन्द्रनीलो यस्य तं भुवो भूमेर्मु- क्तागुणं मुक्ताहारमिव प्रेक्षिष्यन्ते ॥ अत्रात्यन्तनोलमेघसंगतस्य प्रवाहस्य भूकण्ठमुक्तागुणवेनोत्प्रेक्षणादुत्प्रेवेयमितीवशब्देन व्यज्यते । निरुक्त- कारस्तु “तत्र तत्रोपमा यत्र इवशब्दस्य दर्शनम्" इतीवशब्ददर्शनाद- त्राप्युपमैवेति बभ्राम ॥ तामुत्तीर्य व्रज परिचितभ्रलताविभ्रमाणां पचमोत्क्षेपादुपरि विलसत्कृष्णशारप्रभाणाम्। (४६) हे मेघ ! तव चर्मण्वतीजलादानकाले खेचरास्तत्प्रवाहं भूगतं मध्येन्द्र- नीलं मुकागणमिव द्रक्ष्यतीति भावः ।
३६ पूर्वमेघः । कुन्दक्षेपानुगमधुकरश्रीमुषामात्मबिम्ब पात्रीकुर्वन्दशपुरवधूनेत्रकौतूहलानाम् ॥४७॥ तामिति ॥ तां चर्मण्वतीमुत्तीर्य ध्रुवो लता इव भ्रूलताः । उपमि. तसमासः ॥ तासां विभ्रमा विलासाः परिचिताः क्लुप्ता येषु तेषां पक्ष्माणि नेत्रलोमानि ॥ "पक्ष्म सूत्रे च सूक्ष्मांशे किजल्के नेत्रलोमनि" इति विश्वः ॥ तेषामुत्क्षेपादुन्नमनाद्धेतोः । कृष्णाश्च ताः शाराश्च कृष्ण- शाग नीलशवलाः । “वर्णो वर्णेन" इति समासः ॥ "कृष्णरक्तसिताः साराः" इदि यादवः ॥ ततश्च शारशब्दादेव सिद्धे काष्ण्ये पुनः कृष्ण- पदोपादानं कार्यप्राधान्यार्थम् । रक्तत्वं तु न विवक्षितमुपमानानुसारा- त्तस्य स्वाभाविकस्य स्त्रीनेत्रेषु सामुद्रिकविरोधादितरस्याप्रसङ्गात् । कचि. द्भावकथनं तूपपत्तिविषयम् ॥ उपरि विलसन्त्यः कृष्णसाराः प्रभा येषां । तेशम् । कुन्दादि माध्यकुसुमानि ॥ "माध्यं कुन्दम्" इत्यमरः ।। तेषां क्षेप इतस्ततश्चलनं तस्यानुगा अनुसारिणो ये भधुकरास्तेषां श्रियं मुष्णन्तीति तथोक्तानाम् । क्षिप्यमाणकुन्दानुविधायिमधुकरकल्पानामि- त्यर्थः । दशपुरं रन्तिदेवस्य नगरं तम्य वध्वः स्त्रियः ।। "वधूर्जाया स्नुषा स्त्री च" इत्यमरः ॥ तासां नेत्रकौतूहलानां नेत्राभिलापाणाम् । साभि. लाषदृष्टीनामित्यर्थः । आत्मबिम्बं स्वमूर्ति पात्रीकुर्वन्ब्रज गच्छ ।। ब्रह्मावर्त जनपदमर्थ च्छायया गाहमानः क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद्भजेथाः। राजन्यानां सितशरशतैयंत्र गाण्डीवधन्वा धारापातस्त्वमिव कमलान्यभ्यवर्षन्मुखानि ॥४॥ ब्रह्मावर्तमिति ॥ अथानन्तरं ब्रह्मावतै नाम जनपदं देशम् ॥ अत्र मनु:-"सरस्वतीदृषद्वत्योर्देवनद्योर्यदन्तरम् । तं देवनिर्मितं देशं ब्रह्मा- वर्त प्रचक्षते ॥” इति ॥ छाययाऽनातपमण्डलेन गाहमानः प्रविशन्न तु स्वरूपेण । “पीठक्षेत्राश्रमादीनि परिवृत्यान्यतो व्रजेत्" इति वचनात् । 'युषाम्. २ अधः; अदुः. ३ अभ्यपिञ्चत्. १४७) हे मेघ ! चर्मण्वती नदीमुखीर्य रन्तिदेवनगरवासिस्त्रीवर्गान् स्वमूर्ति दर्शयन् गच्छेति भावः। (५८) हे मेघ ! ब्रह्मावर्तनामदेशं छायया प्रविशन् कुरुक्षेत्रं ब्रजेति भावः ।
। . ४० मेघदूतम् । क्षत्रप्रधनपिशुनम् । अद्यापि शिरःकपालादिमत्तया कुरुपाण्डवयुद्धसूचक- मित्यर्थः । "युद्धमायोधनं जन्यं प्रधनं प्रविदारणम्” इत्यमरः । तत्प्र- सिद्धं कुरूणामिदं कौरवं क्षेत्रं भजेथाः। कुरुक्षेत्रं व्रजेत्यर्थः । यत्र कुरु- क्षेत्रे गाण्ड्यस्यास्तीति गाण्डीवं धनुर्विशेषः ॥ “गाण्ड्यजगात्संज्ञायाम्" इति मत्वर्थीयो वप्रत्ययः ॥ “कपिध्वजस्य गाण्डीवगाण्डिवौ पुनपुंसको" इत्यमरः ॥ तद्धनुर्यस्य स गाण्डीवधन्वाऽर्जुनः ।। "वा संज्ञायाम्" इत्य- नङादेशः ॥ सितशरशतैनिशितबाणसहनै राजन्यानां राज्ञां मुखानि धाराणामुदकधाराणां पातैः कमलानि त्वमिवाभ्यवर्षदभिमुखं घृष्टवान् । शरवर्पण शिरांसि चिच्छेदेत्यर्थः ।। हित्वा हालामभिमतरसां रेवतीलोचनाङ्कां बन्धुप्रीत्या समरविमुखो लाङ्गली याः सिषेवे । कृत्वा तासामंभिगममपां सौम्य सारस्वतीना. मन्तः शुद्धस्त्वमपि भविता वर्णमात्रेण कृष्णः ॥४६॥ हित्वेति ॥ बन्धुप्रीत्या कुरुपाण्डवस्नेहेन ।। न तु भयेन । समरवि. मुखो युद्धनिःस्पृहः । लाङ्गलमस्यास्तीति लागली हलधरः । अभिमतर- सामभीष्टस्वादां तथा रेवत्याः स्वप्रियाया लोचने एवाङ्कः प्रतिबिम्बितत्वा- चिह्न यस्यास्तां हालां सुराम् । “सुरा हलिप्रिया हाला" इत्यमरः ।। "अभिप्रयुक्तं देशभाषापदमित्यत्र सूत्रे हालेति देशभाषापदमप्यतीव कविप्रयोगात्साधु" इत्युदाजहार वामनः ॥ हित्वा त्यक्त्वा । दुस्त्यजाम- पीति भावः । याः सारस्वतीरपः सिषेवे । हे सौम्य सुभग, त्वं तासां सरस्वत्या नद्या इमाः सारस्वत्यस्तासामभिगम सेवां कृत्वान्तोऽन्तरात्मनि शुद्धो निर्मलो निर्दोपो भविता ॥ "ण्वुल्तृचौ" इति तृच् ॥ अपि सद्य एव पूतो भविष्यसीत्यर्थः ॥ “वर्तमानसामीप्ये वर्तमानवद्वा” इति वर्त- मानप्रत्ययः ॥ वर्णमात्रेण वर्णेनैव कृष्णः श्यामः । न तु पापेनेत्यर्थः । अन्तःशुद्धिरेव संपाद्या न तु बाह्या । बहिःशुद्धोऽपि सूतवधप्रायश्चित्तार्थ सारस्वतसलिलसेवी तत्र भगवान्बलभद्र एव निदर्शनम् । अतो भवतापि सरस्वती सर्वथा सेवितव्येति भावः । १ भूस्खा; कृत्वा, छित्वा. २ अधिगमम् । (४९) हे मेघ ! बलरामः सुरापरित्यज्य यस्या: सरस्वतीसरितो जलमसेवत तस्या जलम्पीत्वा त्वमपि सद्यः पूतो भविष्यसीति भावः । ।
पूर्वमेघः। तस्माद्गच्छेरनुकनखलं शैलराजावतीर्णा जन्होः कन्यां सगरतनयस्वर्गसोपानपङि क्तम् । गौरीवक्त्रभ्र कुटिरचनां या विहस्येव फेनैः शंभोः केशग्रहणमकरोदिंदुलग्नोर्मिहस्ता ॥ ५० ॥ तस्मादिति ॥ तस्मात्कुरुक्षेत्रात्कनखलस्याद्रेः समीपेऽनुकनखलम् ।। "अनुयत्समया” इत्यव्ययीभावः ॥ शैलराजाद्धिमवतोऽवतीर्णा मगर. तनयानां स्वर्गसोपानपङिक्तम् । स्वर्गप्राप्तिसाधनभूतामित्यर्थः । जहोर्नाम राज्ञः कन्यां जाह्नवी गच्छेगच्छ ॥ विध्यर्थे लि। या जाह्नवी गौर्या बक्रे या भ्रुकुटिरचना सापल्यरोषाद्धृभङ्गकरणं तां फेनैर्विहस्यावहस्येव । धावल्याफेनानां हासत्वेनोत्प्रेक्षा । इन्दौ शिरोमाणिक्यभूते लग्ना ऊर्मय एव हस्ता यस्याः सेन्दुलग्नोमिहस्ता सती शंभोः केशग्रहणमकरोत् । यथा काचित्प्रौढा नायिका संपत्नीमसहमाना स्ववाल्लभ्यं प्रकटयन्ती स्वभ- तारं सह शिरोरत्नेन केशेष्वाकर्पति तद्वदिति भावः । इदं च पुरा किल भगीरथप्रार्थनया भगवतीं गगनपथात्पतन्ती गङ्गां गङ्गाधरो जटाजूटेन जग्राहेति कथामुपजीव्योक्तम् ।। तस्याः पातुं सुरगज इव व्योम्नि पश्चार्द्धलम्बी त्वं चेदच्छस्फटिकविशदं तर्कयेस्तिर्यगम्भः । संसर्पन्त्या सपदि भवतः स्रोतसि च्छाययाऽसौं स्थादस्थानोपंगतयमुनासङ्गमेवाभिरामा ॥५१॥ तस्या इति ॥ सुरगज इव कश्चिदिग्गज इव व्योनि पश्चादध पश्चा- र्धम् । पश्चिमार्थमित्यर्थः ।। पृषोदरादित्वात्साधुः ॥ तेन लम्बत इति पश्चा- र्धलम्बी सन्पश्चार्धभागेन व्योम्नि स्थित्वा । पूर्वार्धेन जलोन्मुख इत्यर्थः । अच्छस्फटिकविशदं निर्मलस्फटिकावदातं तस्या गङ्गाया अम्भस्तिय- क्तिरश्चीनं यथा तथा पातुं त्वं तर्कविचारयेश्चेत् । सपदि स्रोतसि १ एव; उच्च. २ पूर्वार्धलम्बी. ३ संतर्यस्या. ४ सा. ५ उपमत. ६ संगमेन. (५०) हे मेघ ! कुरुक्षेत्रात् कनखलाद्रिनिकटवर्तिनी गंगा ब्रजेति भावः । (५१) हे मेघ ! गंगाया जलं पातुं त्वयि लम्बमाने सति स्वच्छायाऽऽवृता सा यमुनासंगतेव शोमिष्यत इति भावः ।
४२ मेघदूतम् । प्रवाहे संसर्पन्त्या संक्रामत्या भवतश्छायया प्रतिबिम्बेनासौ गङ्गा अस्थाने प्रयागादन्यत्रोपगतः प्राप्तो यमुनासंगमो यया सा तथाभूतवा- भिरामा स्यात् ॥ प्रासीनानां सुरभितशिलं नाभिगन्धर्मगाणां तस्या एव प्रभवमचलं प्राप्य गौरं तुषारैः । वक्ष्यस्यध्वश्रमविनयने तस्य शृङ्गे निषण्णः शोभां शुभ्रत्रियनवृषोत्खातपङ्कोपमेयाम् ॥५२॥ आसीनानामिति ॥ आसीनानामुपविष्टानां मृगाणां कस्तूरिकामृगा- णाम । अन्यथा नाभिगन्धानुपपत्तेः ॥ नाभिगन्धैः कस्तूरीगन्धैस्तेषां तदुद्भवत्वात् । अत एव मृगनाभिसंज्ञा च ॥ "मृगनाभिमृगमदः कस्तूरी च" इत्यमरः ॥ अथ वा नाभयः कस्तूर्यः ॥ "नाभिः प्रधाने कस्तूरीमदे च क्वचिदीरितः” इति विश्वः ॥ तासां गन्धैः सुरभिताः सुरभीकृताः शिला यस्य तं तस्या गङ्गाया एवं प्रभवत्यस्मादिति प्रभवः कारणम । तुषारैगौरं सितम् । “अवदातः सितो गौरः" इत्यमरः ॥ अचलं प्राप्य । विनीयतेऽनेनेति विनयनम् ॥ करणे ल्युट् । अध्वश्रमस्य विनयनेऽपनो. दके तस्य हिमाद्रेः शृङ्गे निपएणः सन् । शुनो यस्त्रिनयनस्य त्र्यम्बकस्य वृषो वृपभः ।। "सुकृतं वृपभे वृपः” इत्यमरः ॥ तेनोत्खातेन विदारितेन पङ्केन सहोपमेयामुपमातुमर्हा शोभां वक्ष्यसि वोढासि । वहतेलृट् ।। "त्रिनयन-" इत्यत्र “पूर्वपदात्संज्ञायामगः” इति णत्वं न भवति "क्षुभ्नादिषु च" इति निषेधात् ॥ तस्याः प्रभवमित्यादिना हिमाद्रौ मेघस्य वैवाहिको गृहविहारो ध्वन्यते ।। त चेढायौ सरति सरलस्कन्धसंघद्दजन्मा बाधेतोल्काक्षपितचमरीबालभारो वाग्निः । अर्हस्येनं शमयितुमलं वारिधारासहस्र- रापन्नार्तिप्रशमनफलाः संपदो ह्युत्तमानाम् ॥५३॥ शुभ्राम् रम्याम्. (५२) हे मेघ ! मार्गस्खेदापनोदनाय शुभ्रं हिमादिशिखरमुपविष्टस्वमुत्खात. पङ्को हरवृषभ इव शोभिव्यस इति भावः । (५३) हे मेघ ! बनवायुवदितेन वनाग्निना हिमाद्रौ बाधिते सति तं धारा- सम्पतिः शमयेति भावः ।
पूर्वमेघः । तमिति ।। वायौ वनवाते सरति वाति सति सरलानां देवदारुगुमाणां स्कन्धाः प्रदेशविशेषाः ॥ "अस्त्री प्रकाण्डः स्कन्धः स्यान्मूलाच्छाखाव- धेस्तरोः" इत्यमरः ॥ तेषां संघट्टनेन संघर्षणेन जन्म यस्य स तथोक्तः ।। जन्मोत्तरपदत्वायधिकरणोऽपि बहुव्रीहिः साधुरित्युक्तम् ।। उल्काभिः स्फुलिङ्गैः क्षपिता निर्दग्धाश्चमरीणां वालभाराः केशसमूहा येन । दव एवाग्निर्दवाग्निवनवहिः ॥ "वने च वनवहौ च दवो दाव इतीष्यते” इति यादवः ॥ तं हिमाद्रिं बाधेत चेत्पीडयद्यदि । एनं दवाग्नि वारिधारास- हस्रः शमयितुमर्हसि ॥ युक्तं चैतदित्याह-उत्तमानां महतां संपदः समृद्धय आपन्नानामार्तानामातिप्रशमनमापन्निवारणमेव फलं प्रयोजनं यासां तास्तथोक्ता हि। अतो हिमाचलस्य दावानलस्त्वया शमयितव्य इति भावः ॥ ये संरम्भोत्पतनरभसाः स्वागभंगाय तस्मि- न्मुक्तावानं सपदि शरभा लवयेयुभवन्तम् । तान्कुर्वीथास्तुमुलकरकावृष्टिपातावकीर्णान् के वा न स्युः परिभवपदं निष्फलारम्भयत्नाः॥५४॥ य इति ॥ तस्मिन्हिमाद्रौ संरम्भः कोपः ॥ "संरम्भः संक्रमे कोपे" इति शब्दार्णवे ॥ तेनोत्पतन उत्प्लवने रभसो वेगो येषां ते तथोक्ताः ।। "रभसो वेगहर्षयोः” इत्यमरः ॥ ये शरभा अष्टापदमृगविशेषाः ॥ "श. रभः शलभे चाष्टापदे प्रोक्तो मृगान्तरे" इति विश्वः ॥ मुक्तोऽन्वा शर- भोत्प्लवनमार्गो येन तं भवन्तं सपदि स्वाङ्गभङ्गाय लङ्घयेयुः संभावनायां लिङ ॥ भवतोऽतिदूरत्वात्स्वाङ्गभङ्गातिरिक्तं फलं नास्ति लधनस्येत्यर्थः ताशरभांस्तुमुलाः संकुलाः करका वर्षोपलाः ॥ "वर्षोपलस्तु करका" इत्यमरः ।। तासां वृष्टिस्तस्याः पातेनावकीर्णान्विक्षिप्तान्कुर्वीथाः कुरुष्व ।। विध्यर्थे लिङ ॥ क्षुद्रोऽप्यधिक्षिपन्प्रतिपक्षः सद्यः प्रतिक्षेप्तव्य इति भावः । तथाहि । आरभ्यन्त इत्यारम्भाः कर्माणि तेषु यत्न उद्योगः स निष्फलो येषां स्वां मुक्तध्वनिमसहनाः. २ कायभंगाय. ५ दर्पोत्सेकादुपरि. ४ लंघयिष्य. न्त्यलंध्यम्. ५ हासा. (५४) हे मेघ ! हिमाद्रौ शरभाः (भष्टापदमृगविशेषाः) पदि भवन्तं संघ- चितुमुधुजीरन् तहि तान करकावर्षणद्वारा पीडयेति भावः ।
मेघदृतम् । तथोक्ताः । निष्फलकर्मोपक्रमा इत्यर्थः । अतः के वा परिभवपद तिरस्कार पदं न स्युन भवन्ति । सर्व एव भवन्तीत्यर्थः । यदत्र “धनोपलस्तु करके" इति यादववचनात्करशब्दम्य नियनपुंलिङ्गताभिप्रायेण "करकाणां वृष्टिः" इति केपांचिद्वयाख्यानं तदन्य नानुमन्यन्ते । “वर्षोपलस्तु करका" इत्यम- रवचनव्याख्यान क्षीरस्वामिना "कमण्डलो च करकः सुगते च विनायकः इति नानार्थे पुंस्यपि वक्ष्यतीति वदतोभयलिङ्गताप्रकाशनात् । यादवस्य तु पुंलिङ्गताविधाने तात्पर्य न तु स्रोलिङ्गतानिषेध इति न तद्विरोधाऽपि । "करकस्तु करके स्याद्दाडिमे च कमण्डलौ। पक्षिभेदे करे चापि करका च घनोपले" इति विश्वप्रकाशवचन तूभयलिङ्गता व्यक्तैवेति न कुत्रापि विरोधवार्ता । अत एव रुद्रः -- "वर्षोपलस्तु करका करकोऽपि च दृश्यते” इति ।। तत्र व्यक्तं दृषदि चरणमासमर्धेन्दुमौले शश्वत्सिदैरुपचितबलि भक्तिनम्रः परीयाः । यस्मिन्दृष्ट करणविगमावमुदधूतपापाः मंकल्पन्ते स्थिरगणपदप्राप्तये श्रद्दधानाः ।।५।। तत्रेति ॥ तत्र हिमाद्रौ दृषदि कस्यांचिच्छिलायां व्यक्तं प्रकटं शश्व- सदा सिद्धैर्यो गिभिः ॥ “सिद्धिनिष्पत्तियोगयोः" इति विश्वः ॥ उपचित. बलिं रचितपूजाविधिम् ॥ “बलि: पूजोपहारयोः” इति यादवः ॥ अर्थ- श्वासाविन्दुश्चेत्यर्धेन्दुः ॥ "अर्धः खण्डे समेंऽशके” इति विश्वः ॥ स मौलो यस्य तस्येश्वरस्य चरणन्यासं पादविन्यासम् । भक्तिः पूज्येष्वनुरागस्तया नम्रः सन्परीयाः प्रदक्षिणं कुरु ॥ परिपूर्वादिणो लिङ ॥ यस्मिन्पादन्यासे दृष्टे सत्युद्धूतपापा निरस्तकल्मषाः सन्तः श्रद्दधाना विश्वसन्तः पुरुषाः । श्रद्धा विश्वासः । आस्तिक्यबुद्धिरिति यावत् ॥ "श्रदन्तरोरुपसर्गवद्वृत्ति- वक्तव्या" इति श्रुत्पूर्वाधातेः शानच ॥ करणस्य क्षेत्रस्य विगमादूर्व देहत्यागानन्तरम् ।। “करणं साधकतम क्षेत्रगानेन्द्रियेषु च" इत्यमरः ।। स्थिरं शाश्वतं गणानां प्रमथानां पदं स्थानम् ।। "गणाः प्रमथसंख्यौघाः" १ उपहृत; उपहित. २ दूरम् ३ कल्पिज्यन्ते; करूपन्तेऽस्य. • (१५) हे मेघ ! हिमाद्री यस्य शिवपदन्यासस्य दर्शनाजनाः मुक्तिभाजो भवन्ति तं शिवपदन्यासं प्रदक्षिणं कृर्विति भावः ।
पूर्वमेघः। इति वैजयन्ती ॥ तस्य प्राप्तये संकल्पन्ते समर्था भवन्ति ॥ क्लुपेः पर्याप्ति- वचनस्यालमर्थत्वात्तद्योगे “नमःस्वस्ति-" इत्यादिना चतुर्थी ॥ "अल- मिति पर्याप्त्यर्थग्रहणम्" इति भाष्यकारः । “अव्यक्तं व्यजयामास शिव- श्रीचरण द्वयम् ॥ हिमाद्रौ शांभवादीनां सिद्धये सर्वकर्मणाम् ॥ दृष्ट्वा श्री- चरणन्यासं साधकः स्थितये तनुम् । इच्छाधीनशरीरो हि विचरञ्च जग- स्त्रयम्" ॥ इति शंभुरहस्ये ॥ शब्दायन्ते मधुरमनिलैः कीचकाः पूर्यमाणाः संसक्ताभिस्त्रिपुरविजयो गीयते किंनरीभिः । निर्हादस्ते मुरज इव चेत्कन्दरेषु ध्वनिः स्या- त्संगीतार्थो ननु पशुपतेस्तत्र भावी समग्रः ॥५६॥ शब्दायन्त इति ॥ हे मेघ, अनिलैः पूर्यमाणाः कोचका वेणुविशेषाः "वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्घताः” इत्यमरः । “कीचको दैत्यभेदे स्याच्छुष्कवंशे दुमान्तरे" इति विश्वः ॥ मधुरं श्रुतिसुखं यथा तथा शब्दायन्ते शब्दं कुर्वन्ति । स्वनन्तीत्यर्थः ॥ "शब्दवैरकलहाभ्र- कण्वमेघेभ्यः करणे" इत्यादिना क्यङ ।। अनेन वंशवाद्यसंपत्तिरुक्ता । संसक्ताभिः संयुक्ताभिवंशवाद्यानुषक्ताभिर्वा ॥ "संरक्ताः" इति पाठे संर- क्तकण्ठीभिरित्यर्थः ॥ किंनरीभिः किंनरस्त्रीभिः । त्रयाणां पुराणां समाहार- खिपुरम् ॥ 'तद्धितार्थोत्तरपद-इति समासः ॥ पात्रादित्वानपुंसकत्वम् ।। तस्य विजयो गीयते । कन्दरेषु दरीषु । “दरी तु कन्दरो वास्त्री" इत्य- मरः । ते तव निर्हादो मुरजे वाद्यभेदे ध्वनिरिव । मुरजध्वनिरिवेत्यर्थः । स्याच्चेहि तत्र चरणसमीपे पशुपतेनित्यसंनिहितस्य शिवस्य संगीतम् ।। "तौर्यत्रिकं तु संगीतं न्यायारम्भे प्रसिद्धके ॥ तूर्याणां त्रितये च" इति शब्दार्णवे ॥ तदेवार्थः संगीतार्थः संगीतवस्तु ॥ "अर्थोऽभिधेयरैवस्तुत्र- योजननिवृत्तिषु" इत्यमरः ॥ समग्रः संपूर्ण भावी ननु भविष्यति खलु ।। "भविष्यति गम्यादयः" इति भविष्यदर्थे णिनिः ।। क १ निर्यादी. २ कन्दरासु. ३ समस्त:. (५६) हे मेघ ! वायुपरितकी चकमधुरशब्देस्सह किंनरीभिः शिवो गीयते तव गम्भीरशन्दे जाते तु संगीतं सम्पूर्ण भविष्यतीति भावः ।
४६ मेघदूतम् । प्रालयाद्ररुपतटमतिक्रम्य तांस्ताविशेषा- हंसदारं भृगुपतियशोवर्म यत्क्रौञ्चरन्ध्रम् । तेनोदीची दिशमनुसरेस्तिर्यगायामशोभि श्यामः पादो बलिनियमनाभ्युद्यतस्येव विष्णोः॥५७।। प्रालेयेति ।। प्रालेयानेहिमाद्ररुपतटं तटसमीपे ।। "अव्ययं विभक्ति-" इत्यादिना समीपार्थेऽव्ययीभावः ॥ तांस्तान् ॥ वीप्सायां द्विरुक्तिः । विशेषान्द्रष्टव्यार्थान् ॥ "विशेषोऽवयवे द्रव्ये द्रष्टव्योत्तमवस्तुनि” इति शब्दार्णवे ॥ अतिक्रम्यानुसरेर्गच्छेरित्यनागतेन संबन्धः ॥ हंसानां द्वार हंसद्वारम् ।। मानसप्रस्थायिनो हंसाः क्रौञ्चरन्ध्रेण सञ्चरन्त इत्यागमः ।। भृगुपतेर्जामदग्न्यस्य यशोवर्म। यशःप्रवृत्तिकारणमित्यर्थः । यत्क्रौञ्च- स्याद्रे रन्ध्रमस्ति तेन क्रौञ्चबिलेन बलेर्दै त्यस्य नियमने बन्धनेऽभ्युद्यतस्य प्रवृत्तस्य विष्णोापकस्य त्रिविक्रमस्य श्यामः कृष्णवर्णः पाद इव तिर्य- गायामेन क्षिप्रप्रवेशनार्थ तिरश्चीनदैध्येण शोभत इति तथाविधः सन्नुदो- चीमुत्तरां दिशमनुसरेरनुगच्छ । पुरा किल भगवता देवाद्धर्जटेधनुरुप- निपदमधीयानेन भृगुनन्दनेन स्कन्दस्य क्रौञ्चशिखरिणमतिनिशिंत. विशिखमुखेन हेलया मृत्पिण्डभेदं भित्त्वा तत एव क्रौञ्चक्रोडादेव सद्यः समुज्जृम्भिते कस्मिन्नपि यशःक्षीरनिधौ निखिलमपि जगजालमाप्लावित- मिति कथा श्रूयते ॥ गत्वा चोर्ध्व दशमुखभुजोच्छ्वासितप्रस्थसंधेः कैलासस्य त्रिदशवनितादर्पणस्यातिथिः स्याः। शृङ्गोच्छायः कुमुदविशदैो वितत्य स्थितः खं राशीभूतः प्रतिदिन मिव त्र्यम्बकस्यादृहासः ॥२८॥ गत्वेति ॥ क्रौञ्चबिलनिर्गमनानन्तरमूर्ध्वं च गत्वा दशमुखस्य राव- रणस्य भुजैर्बाहुभिरुच्छासिता विश्लेषिताः प्रस्थानां सानूनां संधयो यस्य १ उपक्रम्य. १ दर्शनस्य. ३ तुङ्गोच्छ्रायैः. ४ कुसुम. ५ प्रतिदिशम्. (५७) हे मेघ ! हिमाद्रितटवर्तिद्रष्टव्यार्थान् वीक्ष्य क्राशगिरिविलेनोत्तरां दिशमनुगच्छेरिति भावः। (५८) हे मेघ ! त्व शिवाहासस्येवि स्थ तस्यकैलासस्यातिथिर्भवेति भावः !
४७ - पूर्वमेघः। तस्य । एतेन नयनकौतुकसद्भाव उक्तः ॥ त्रिर्दश परिमाणमेषामस्तीति 'त्रिदशाः ।। "संख्ययाव्यया इत्यादिना बहुव्रीहिः । “बहुव्रीहोः संख्येये डच्-" इत्यादिना समासान्तो डजिति क्षीरस्वामी ॥ त्रिदशानां देवानां वनितास्तासां दर्पणस्य ॥ कैलासस्य स्फटिकत्वाद्रजतत्वाद्वा बिम्बवाहित्वे- नेदमुक्तम् ॥ कैलासस्यातिथि: स्याः। यः कैलासः कुमुदविशदैनिर्मलैः शृङ्गाणामुच्छ्रायैरोन्नत्यैः खमाकाशं वितत्य व्याप्य प्रतिदिनं दिने दिने राशीभूतस्त्र्यम्बकस्य त्रिलोचनस्याट्टहासोऽतिहास इव स्थितः ॥ "अट्टा- वतिशमक्षौमौ” इति यादवः ॥ धावल्याद्धासत्वेनोत्प्रेक्षा । हासादीनां धावल्य कविसमयसिद्धम् ॥ उत्पश्यामि त्वयि तटगते स्निग्धभिन्नाञ्जनाभे सद्यः कृत्तद्विरदशनच्छेदगौरस्य तस्य । शोभामद्रः स्तिमितनयनप्रेक्षणीयां भवित्री- मंसन्यस्ते सति हलभृतो मेचके वाससीव ॥५६॥ उत्पश्यामीति । स्निग्धं ममृणं भिन्नं मर्दितं च यदजनं कज्जलं तस्याभेवाभा यस्य तस्मिंस्त्वयि तटगते सानुगते सति सद्यः कृत्तस्य छिन्नस्य द्विरददशनस्य गजदन्तस्य छेदवद्गौरस्य धवलस्य तस्याद्रः कैलासस्य मेचके श्यामले । “कृष्णे नीलासितश्यामकालश्यामलमेचकाः" इत्यमरः।।वाससि वाऽसन्यस्ते सति हलभृतो बलभद्रस्येव स्तिमिताभ्यां नयनाभ्यां प्रेक्षणीयां शोभां भवित्री भाविनीमुत्पश्यामि । शोभा भविष्यतीति तर्कयामीत्यर्थः ॥ श्रौती पूर्णोपमालंकारः । हित्वा तस्मिन्भुजगवलयं शंभुना दत्तहस्ता क्रीडाशैले यदि च विचरेत्पादचारेण गौरी । भङ्गीभत्त्या विरचितवपुः स्तम्भितान्तर्जलौघः सोपानत्वं कुरु मणितटारोहणायाग्रयायी ॥६॥ १ लीलामस्तिमिर. २ नीलम. ३ विहरेत्. कुरु मुखपदारोहणायाप्रयायी; ब्रज पदसुखस्पर्शमारोहणेषु. (५९) हे मेघ ! स्कन्धस्थितत्यामवस्त्रो बलराम इव भवदाक्रान्तरंगः कैलासः शोभियत इति भावः। (१०) हे मेघ ! कैलासे शिवहस्तमवलम्य विचरन्त्यां गौर्या मणितटारोहणार्थ सोपानो भवेति भावः।
४८ मेघदूतम् । हित्वेति ॥ तस्मिन्क्रीडाशैले कैलासे ॥ "कैलासः कनकाद्रिश्च मन्दरो गन्धमादनः । क्रीडाथै निर्मिताः शंभोर्देवैः क्रीडादयोऽभवन्" इति शंभुरहस्य ।। शंभुना शिवेन भुजग एव वलयः कङ्कणं हित्वा गौर्या भीमत्वात्त्यक्त्वा दत्तहस्ता सती गौरी पादचारेण विचरेद्यदि तप्रयायी पुरोगतस्तथा स्तम्भितो धनीभावं प्रापितोऽन्तर्जलस्यौघः प्रवाहो यस्य स तथाभूतः । भङ्गीनां पर्वणां भक्त्या रचनया विरचितवपुः कल्पितशरीरः सन् मणीनां तटं मणितटं तस्यारोहणाय सोपानत्वं कुरु । सोपानभाव भजेत्यर्थः ॥ तत्रावश्यं वलयकुलिशोहनोद्गोर्णतोयं नेष्यन्ति त्वां सुरयुवतयो यन्त्रधारागृहत्वम् । ताभ्यो मोक्षस्तव यदि सखे धर्मलब्धस्य न स्या- क्रीडालोलाः श्रवणपरुषगर्जितैर्भाययेस्ताः ॥६१॥ तत्रेति ॥ तत्र कैलासेऽवश्यं सर्वथा सुरयुवतयो वलयकुलिशानि कङ्कणकोटयः ॥ शतकोटिवाचिना कुलिशशब्देन कोटिमात्रं लक्ष्यते ॥ तैम- द्धट्टनानि प्रहारास्तैरुद्गीर्णमुत्सृष्टं तोयं येन तं त्वां यन्त्रेषु धारा यन्त्र धारास्तासां गृहत्वं कृत्रिमधारागृहत्वं नेष्यन्ति प्रापयिष्यन्ति ॥ हे सखे मित्र, धर्मे निदाघे लब्धस्य ॥ धर्मलब्धत्वं चास्य देवभूमिषु सर्वदा सर्वर्तुसमाहारात्प्राथमिकमेघत्वाद्वा । यथोक्तम्-"आषाढस्य प्रथम-" इति । तव ताभ्यः सुरयुवतिभ्यो मोक्षो न स्याद्यदि तदा क्रीडालोलाः क्रीडासक्ताः प्रमत्ता इत्यर्थः । ताः सुरयुवतीः श्रवणपरुषैः कर्णकटुभिर्ग- जितैः करणैर्भाययेस्त्रासयेः । अत्र हेतुभयाभावादात्मनेपदं षुगागमश्च न । हेमाम्भोजप्रसवि सलिलं मानसस्याददानः कुर्वन्कामं क्षणमुखपटप्रीतिमैरावतस्य । । जनितसविलोद्गारमन्तःप्रवेशम्. २ शर्व. ३ कामात्. ४ ऐरावणस्य. (११) हे मेध ! तत्र कैलासे सुरयुवतिवलयप्रहारपीडितस्त्वं ताः कठोरगर्जन- स्वासयेति भावः ।
पूर्वमेघः। धुन्वन्कल्पद्रुमकिसलयान्यंशुकानीव वात- नानाचेष्टेजलद ललितैर्निर्विशेस्तं नगेन्द्रम् ॥६२॥ हेमेति । हे जलद, हेमाम्भोजानां प्रसवि जनकम् ॥ "जिदक्षि-" इत्यादिननिप्रत्ययः ॥ मानसस्य सरसः सलिलमाददानः। पिबन्नित्यर्थः । तथैरावतस्येन्द्रगजस्य । कामचारित्वाद्वा शिवसेवार्थमिन्द्रागमनाद्वा ममा. गतस्येति भावः । क्षणे जलादानकाले मुखे पटेन या प्रीतिस्तां कुर्वन् ।। तथा कल्पद्रुमाणां किसलयानि पल्लवभूतान्यंशुकानि सूक्ष्मवस्त्राणीव ।। "अंशुकं वस्त्रमात्रे स्यात्परिधानोत्तरीययोः । सूक्ष्मवस्त्रे नातिदीप्तौ" इति शब्दार्णवे । वातैर्मेघवातैर्धन्वन् । नाना बहुविधाश्चेष्टास्तोयपानादयो येषु तैललितैः क्रीडितैः ॥ "ना भावभेदे स्त्रीनृत्ये ललितं त्रिषु सुन्दरे । अस्त्रियां प्रमदागारे क्रीडिते जातपल्लबे" इति शब्दार्णवे ॥ तं नगेन्द्र कैलासं कामं यथेष्टं निर्विशेः समुपभुक्ष्व ।। “निर्वेशो भृतिभोगयोः" इत्यमरः । यथेच्छविहारो मित्रगृहेषु मैत्र्याः फलम् । सहजमित्रं च ते कैलासः । मेघपर्वतयोरब्धिचन्द्रयोः शिखिजीमूतयोः समीराग्न्योर्मित्रता स्वयमेति भावः ।। तस्योत्सने प्रणयिन इव स्रस्तगंगादुकूला न त्वं दृष्ट्वा न पुनरलकां ज्ञास्यसे कामचारिन् । या वः काले वहति सलिलोद्गारमुच्चैविमाना मुक्ताजालग्रथितमलकं कामिनीवाभ्रवृन्दम् ॥६३।। तस्येति । प्रणयिनः प्रियतमस्येव तस्य कैलासस्योत्सङ्ग ऊर्बभागे कटौ च || "उत्सङ्गो मुक्तसंयोगे सक्थिन्यूलतलेऽपि च” इति मालतीमाला- याम् ॥ गङ्गा दुकूलं शुभ्रवस्त्रमिवेत्युपमितसमासः ॥ “दुकूलं सूक्ष्मवतो १ धुन्वन्वातैः सजलवृषतः (नयनैः) कामवृक्षांशुकानि च्छायाभिमस्फटिकविशदं निविशेः पर्वतं तम्. २ उच्चैविमानः (६२) हे मेघ ! मानसमलं पिवन ऐरावतप्रीति जनयन् मेघवातद्वारा सुर- तरुपत्राणि कम्पयन् कैलासं समुपभुक्ष्वेति भावः । (६३) हे मेघ ! प्रियतमकोडे स्थितां कामिनीमिव कैलासोद वभागस्थिता. मलकापुरी ध्रुवं ज्ञास्यख इति भावः ।
५० मेघदूतम् । स्यादुत्तरीये सितांशुके” इति शब्दार्णवे ॥ अन्यत्र तु गङ्ग व दुकूलम् । तत्रस्तं यस्यास्तां तथोक्तामलका कुवेरनगरौं दृष्ट्वा । कामिनीमिवेति शेषः। हे कामचारिन्, त्वं पुनस्त्वं तु न ज्ञास्यस इति न किं तु ज्ञास्यस एवेत्य- ॥ कामचारिणस्ते पूर्वमपि बहुकृत्वो दर्शनसंभवादज्ञानमसंभावित- मेवेति निश्चयार्थ नद्धयप्रयोगः । तदुक्तम्- "स्मृतिनिश्चयसिद्धयर्थेषु नद्वयप्रयोगः" इति ॥ उच्चैरुन्नतानि विमानानि सप्तभूमिकभवनानि यस्यां सा ।। "विमानोऽस्त्री देवयाने सप्तभूमौ च सद्मनि” इति यादवः ।। मेघसंवाहनस्थानसूचनार्थमिदं विशेषणम् ॥ अन्यत्र विमाना निष्कोपा याऽलका । वो युष्माकं काले । मेघकाल इत्यर्थ. ।। कालस्य सर्वमेघसाधा. रण्याद्व इति बहुवचनम् ।। सलिमुद्रितीति सलिलोद्गारम् । स्रवत्सलि- लधारमित्यर्थः ।। अभ्रवृन्दं मेघकदम्बकं कामिनी स्त्री मुक्ताजालैमौक्तिक- सरैर्ग्रथितं प्रत्युप्तम् ।। "पुंश्रल्यां मौक्तिके मुक्ता" इति यादवः ॥ अलक- मिव चूर्णकुन्तलानीव । जातावेकवचनम् ॥ "अलकाश्चूर्णकुन्तला." इत्यमरः ।। वहति बिभर्ति ।। अत्र कैलासस्यानुकूलनायकत्वमलकायाश्च स्वाधीनपतिकाख्यनायिकात्वं ध्वन्यते । “एकायत्तोऽनुकूलः स्यात्" इति च "प्रियोपलालिता नित्यं स्वाधीनपतिका मता" इति च लक्षयन्ति । उदाहरन्ति च - "लालयनलकप्रान्तान्रचयपत्रमञ्जरीन् । एकां विनोद. यन् कान्तां छायावदनुवर्तते ॥” इति ।। इति श्रीमहामहोपाध्यायमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया व्याख्यया समेतो महाकविश्रीकालिदासविरचिते मेघदूत काव्ये पूर्वमेघः समाप्तः ।
उत्तरमेघः। ५१ उत्तरमेघः विद्युत्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः संगीताय प्रहतमुरजाः स्निग्धगम्भीरघोषम् । अन्तस्तोयं मणिमयभुवस्तुंगम_लिहायाः प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषैः ॥१॥ विद्युत्वन्तमिति ।। यत्रालकायां ललिता रम्या वनिताः स्त्रियो येषु ते । सह चित्रैर्वर्तन्त इति सचित्राः "आलेख्याश्चर्ययोश्चित्रम्" इत्यमरः ।। "तेन सहेति तुल्ययोगे” इति बहुव्रीहिः । “बोपसर्जनस्य” इति सहश- ब्दस्य समासः॥ संगीताय तौर्यत्रिकाय प्रहतमुरजास्ताडितमृदङ्गाः॥"मुरजा तु मृदङ्ग स्याडकामुरजयोरपि" इति शब्दाणवे ॥ मणिमया मणिविकारा भुवो येष । अभ्रं लिहन्तीत्यभ्रंलिहान्यभ्रंकषाणि || "वहाभ्रेलिहः” इति खशप्रत्ययः । “अरुषि-" इत्यादिना मुमागमः ॥ अग्राणि शिखराणि येषां ते तथोक्ताः । अतितुङ्गा इत्यर्थः प्रासादा देवगृहाणि ॥ "प्रासादो देवभूभुजाम्" इत्यमरः ॥ विद्युतोऽस्य सन्तीति विद्युत्वन्तम् । सेन्द्रचाप- मिन्द्रचापवन्तम् । स्निग्धः श्राव्यो गम्भीरो घोषो गर्जितं यस्य तम् । अन्तरन्तर्गतं तोयं यस्य तम् । तुङ्गमुन्नतं त्वां तैस्तैर्विशेषैललितवनितत्वा- दिधर्मस्तुलयितुं समीकर्तुमलं पर्याप्ताः । “अलं भूषणपर्याप्तिशक्तिवारण- वाचकम्" इत्यमरः । अत्रोपमानोपमेयभूतमेघप्रासादधर्माणां विद्युद्धनिता- दीनां यथासंख्यमन्योन्यसादृश्यान्मेघप्रासादयोः साम्यसिद्धिरिति बिम्बप्र- तिविम्बभावेनेयं पूर्णोपमा। वस्तुतो भिन्नयोः परस्परसादृश्यादभिन्नयो- रुपमानोपमेयधर्म योः पृथगुपादानाद्विम्बप्रतिबिम्बभावः ।। संप्रति सर्वदा सर्वतुसंपत्तिमाह- हस्ते लीलाकमलमलके बालकुन्दानुविद्धं नीता लोध्रप्रसवरजसा पाण्डतामानंने श्रीः । । कुन्दानुवेधः. २ भाननश्री:, (1) मेघ! अलकायां प्रासादा ललितवनितत्वादिस्वो तुलपितुं समर्था भविष्यतीति भावः ।
५२ मेघदूतम् । चूडापाशे नवकुरबकं चारु कर्णे शिरीषं सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम् ॥२॥ हस्त इति ।। यत्रालकायां वधूनां स्त्रीणां हस्ते लीलार्थ कमलं लीला- कमलम् ॥ शरल्लिङ्गमेतत् । तदुक्तम्-"सरत् पङ्कजलक्षणा" इति ।। अलके कुन्तले ॥ जातावेकवचनम् ।। अलकेष्वित्यर्थः। बालकुन्दैः प्रत्य- प्रमाध्यकुसुमैरनुविद्धम् । अनुवेधो ग्रन्थनम् ॥ नपुंसके भावे क्तः ॥ यद्यपि कुन्दानां शैशिरत्वमस्ति "माध्यं कुन्दम्" इत्यभिधानात्तथापि हेमन्ते प्रादुर्भावः शिशिरे प्रौढत्वमिति व्यवस्थाभेदेन हेमन्तकार्यत्व- मित्याशयेन बालेति विशेषणम। "अलकम्” इति प्रथमान्तपाठे सप्तमी प्रक्रमभङ्गः स्यात् । नाथस्तु नियतपुंलिङ्गताहानिश्चेति दोषान्तरमाह । तदसत् । “स्वभाववक्राण्यलकानि तासाम्” । “निर्धूतान्यलकानि पाटितमुरः कृत्स्नोऽधरः खण्डितः” इत्यादिपु प्रयोगेषु नपुंसकलिङ्गतादर्श- नात् ।। आनने मुखे लोध्रप्रसवानां लोध्रपुष्पाणां शैशिराणां रजसा परा- गेण । “प्रसवस्तु फले पुष्पे वृक्षाणां गर्भमोचन" इति विश्वः ॥ पाण्डुता नीता श्रीः शोभा ।। चूडापाशे केशपाशे नवकुरवकं वासन्तः पुष्पविशेषः । कणे चारु पेशलं शिरीषं प्रैष्मः पुष्पविशेषः । सीमन्ते मस्तककेश- वीभ्याम् ॥ “सीमन्तमस्त्रियां मस्तकेशवीथ्यामुदाहृतम्” इति शब्दार्णवे ॥ तवोपगमः । मेघागम इत्यर्थः । तत्र जातं त्वदुपगमजम् । वार्षिकमित्यर्थः । नीपं कदम्बकुसुमम् । सर्वत्रास्तीति शेषः ।। अस्तिर्भवन्तीपरः प्रथम- पुरुषेऽप्रयुज्यमानोऽप्यस्तीति न्यायात् । इत्थं कमलकुन्दादि तत्तत्कार्य- समाहाराभिधानादर्थात्सर्वर्तुसमाहारसिद्धिः । कारणं विना कार्यस्या- सिद्धेरिति भावः ॥ यत्रोन्मत्तभ्रमरमुखराः पादपा नित्यपुष्पा हंसश्रेणीरचितरशना नित्यपद्मा नलिन्यः । केकोत्कण्ठा भवनाशिखिनो नित्यभास्वत्कलापा नित्यज्योत्स्नाः प्रतिहततमोवृत्तिरम्याः प्रदोषाः । । भपि. (२) हे मेघ ! यत्राऽलकायां स्त्रीणां हस्तादो कमलकुन्दादिसनावात्सर्वत समाहारज्ञानं जायते तामलको बजेति भावः ।
उत्तरमेघः । ५३ यत्रंति ॥ यत्रालकायां पादपा वृक्षा: नित्यानि पुष्पाणि येषां तं तथा नत्वृतुनियमादिति भावः । अत एवोन्मत्तैर्धमरैर्मुखराः शब्दायमानाः । नलिन्यः पद्मिन्यो नित्यानि पद्मानि यासां तास्तथा न तु हेमन्तवर्जित. मित्यर्थः। अत एव हंसश्रेणीभी रचितरशनाः। नित्यं हंसपरिवेष्टिता इत्यर्थः । भवनशिखिनः क्रीडामयूरा नित्यं भास्वन्तः कलापा बौणि येषां ते तथोक्ताः । न तु वर्षास्वेव । अत एव केकाभिरुत्कण्ठा उग्रीवाः । प्रदोषा रात्रयो नित्या ज्योत्स्ना येषां तं । न तु शुक्लपक्ष एव । अत एवं प्रतिहता तमसां वृत्तिाप्तिये॒पां तं च ते रम्याश्चेति तथोक्ताः । आनन्दोत्थं नयनसलिलं यत्र नान्यनिमित्तै- र्नान्यस्तापः कुसुमशरजादिष्टसंयोगसाध्यात् । नाप्यन्यस्मात्प्रणयकल हाद्विप्रयोगोपपत्ति- वित्तेशानां न च खलु वयो यौवनादन्यदस्ति ॥ आनन्देति ॥ चत्रालकायां वित्तेशानां यक्षाणाम् ॥ “वित्ताधिपः कुबेरः स्यात्प्रभो धनिकयक्षयोः” इति शब्दार्णवे ॥ श्रानन्दोत्थमानन्द जन्यमेव नयनसलिलम् । अन्यनिमित्तैः शोकादिभिन । इष्टसंयोगेन प्रिय- जनसमागमेन साध्यानिवर्तनीयात् । न त्वप्रतीकार्यादित्यर्थः । कुसुमशर- जान्मदनशरजादन्यस्तापो नास्ति । प्रणयकलहादन्यस्मात्कारणाद्विप्रयोगो. पपत्तिविरहप्राप्तिरपि नास्ति । किं च यौवनादन्यद्वयो वार्द्धकं नास्ति ।। श्लोकद्वयं प्रक्षिप्तम् ।। यस्यां यक्षाः सितमणिमयान्येत्य हर्म्यस्थलानि ज्योतिश्छायाकुसुमरचितान्युत्तमस्त्रीसहायाः। आसेवन्ते मधु रतिफलं कल्पवृक्षप्रसून स्वद्गम्भीरध्वनिषु शनकैः पुष्करेष्वाहतेषु ॥३॥ यस्यामिति ॥ यस्यामलकायां यक्षा देवयोनिविशेषा उत्तमस्त्रीस- हाया ललिताङ्गनासहचराः सन्तः सितमणिमयानि स्फटिकमणिमयानि चन्द्रकान्तमयानि वा । अत एव ज्योतिषां तारकाणां छायाः प्रतिबिम्बा- १ रसम्. १३) हे मेघ ! यत्रालकायर्या वीसहचरा यक्षा हम्यस्थलमारुह्य 'सुरतरूपन्न मचमासेवन्ते तो व्रजेति भावः ।
मेघदूतम् । न्येव कुसुमानि ते रचितानि परिष्कृतानि ॥ "ज्योतिस्ताराग्निभाज्वाला- रक्पुत्रार्थाध्वरात्मसु' इति वैजयन्ती ॥ एतेन पानभूमेरम्लानशोभत्व- मुक्तम् । हर्म्यस्थलान्येत्य प्राप्य । त्वद्गम्भीरध्वनिरिव ध्वनिर्येषां तेषु पुष्करेषु वाद्यभाण्डमुखेषु ॥ "पुष्करं करिहस्ताने वाद्यभाण्डमुखे जले" इत्यमरः ॥ शनकर्मन्दमाहतेषु सत्सु ॥ एतच्च नृत्यगीतयोरप्युपलक्षणम् ॥ कल्पवृक्षप्रसूतं कल्पवृक्षस्य कारितार्थप्रदत्वान्मध्वपि तत्र प्रसूतम् । रतिः फलं यस्य तद्रतिफलाख्यं मधु मद्यमासेवन्ते। आदृत्य पिबन्तीत्यर्थः ।। "तालक्षीरसितामृतामलगुडोन्मत्तास्थिकालाह्वयादाविन्द्रद्रुममोरटेक्षुकदली- गुल्मप्रसूनैर्युतम् । इत्थं चेन्मधुपुष्यभङ्ग-यपचितं पुष्पद्रुमूलावृतं काथेन स्मरदीपनं रतिफलाख्यं स्वादु शीतं मधु ॥” इति मदिराणवे ।। मन्दाकिन्याः संलिलशिशिरैः सेव्यमाना मरुद्भि- मन्दाराणामनुतटरुहां छायथा वारितोष्णाः । अन्वेष्टव्यः कनकमिकतामुष्टिनिक्षेपगूढः संक्रोडन्ते मणिभिरमरप्रार्थिता यत्र कन्याः ॥४॥ मन्दाकिन्या इति ॥ यत्राल कायाम नरैः प्रार्थिताः । सुन्दर्य इत्यर्थः । कन्या यक्षकुमार्यः । "कन्या कुमारिकानार्योः” इति विश्वः ॥ मन्दाकिन्या गङ्गायाः सलिलेन शिशिरैः शीतलैमरुद्भिः मेव्यमानाः सत्यः । तथानुतटं तटेष रोहन्तीत्यनुतटरहः ॥ किम् ॥ तेषां मन्दाराणां छाययानातपेन वारितोष्णाः शमितातपाः सत्यः कनकस्य सिकतासु मुष्टिभिनिक्षेपेण गूढः संवृतैरत एवान्वेष्टव्यमग्यैर्मणिभी रत्नैः संक्रीडन्ते । गुप्तमणिसंज्ञया देशिकक्रीडया सम्यक्क्रीडन्तीत्यर्थः।। "क्रीडोऽनुसंपरिभ्यश्च"इत्यात्मनेपदम्।। "रत्नादिभिर्वालुकादौ गुप्तैर्द्रष्टव्यकर्मभिः । कुमारीभिः कृता क्रोडा नाम्ना गुप्तमणिः स्मृता ॥ रासक्रीडा गूढमणिगुप्रचेलिस्तु लायनम् । पिच्छ- कन्दुकदण्डाद्यैः स्मृता दैशिककेलयः ॥” इति शब्दार्णवे ।। नीवीषन्धों च्वसितशिथिलं यत्र विम्बाधराणां सौ मंरागादनिभृतकरेष्वाक्षिपत्सु प्रियेषु । १ पयसि. २ उसन. ३ यक्षागनानाम्. ४ वासः कामात्. (४) हे मेघ ! यत्रालकायां सुरप्रार्थिता यक्षकन्या मणिभिः क्रीडन्ति तामलकामिति भावः।
उत्तरमेघः। ५४ अर्चिस्तुङ्गानभिमुखमपि प्राप्य रत्नप्रदीपा- न्हीमूढानां भवति विफलप्रेरणा चूर्णमुष्टिः॥५॥ नीवीति ।। यत्रालकायामनिभृतकरेषु चपलहस्तेपु प्रियेषु । नीवी वसनप्रन्थिः ॥ " नीवी परिपणे प्रन्थौ स्त्रीणां जघनवाससि" इति विश्वः ।। सैव बन्धो नीवीबन्धः ॥ चूतवृक्षवदपोनरुक्त्यम् ॥ तस्योच्छु- सितेन त्रुटितेन शिथिलं सोमं दुकूलं रागादक्षिपत्स्वाहरत्सु सत्सु हीमूढानां लज्जाविधुराणाम् । बिम्ब बिम्बिकाफलम् ॥ " बिम्बं फले बिम्बिकायाः प्रतिबिम्बे च मण्डले" इति विश्वः ॥ बिम्बमिवाधरो यासां तासां बिम्बाधराणां सोविशेषाणाम् ।। " विशेषाः कामिनीकान्ताभीरुबिम्बा- धराङ्गानाः इति शब्दार्णवे.।। चूर्णस्य कुक्कुमादेर्मुष्टिः । अर्चिभिर्मयूखै- स्तुङ्गान् “ अचिर्मयूखशिखयोः” इति विश्वः ॥ रत्नान्येव प्रदीपानभि- मुखं यथा तथा प्राप्यापि विफलप्रेरणा दीपनिर्वापणाक्षमत्वान्निष्फलक्षेपा भवति ।। अत्राङ्गनानां रत्नप्रदीपनिर्यापणप्रवृत्त्या मौग्ध्यं व्यज्यते ॥ नेत्रा नीताः सततगतिना यद्विमानानभूमी- रालेख्यानां नवजलकर्दोषमुत्पाद्य सद्यः । शङ्कास्पृष्टा इव जलमुचस्त्वाशा जालमार्ग- धूमोद्गारानुकृतिनिपुणा जर्जरा निष्पतन्ति ॥६॥ नेत्रेति ॥ हे मेघ, नेत्रा प्रेरकेण सततगतिना सदागतिना वायुना ॥ "मातरिश्वा सदागतिः" इत्यमरः !! यस्या अलकाया विमानानां सप्त- भूमिकभवनानामप्रभूमीरुपरिभूमिका नीताः प्रपिताः। त्वमिव दृश्यन्त इति त्वादृशाः । त्वत्सदृशा इत्यर्थः ॥ "त्यदादिषु दृशोऽनालोचने कञ्च" इति कम्प्रत्ययः । जलमुचो मेघाः। आलेख्यानां सच्चित्राणाम् । “ चित्रं लिखितरूपाढ्यं स्यादालेख्यं तु यत्नतः" इति शध्दार्णवे ॥ नवजलकणे- र्दोष स्फोटनमुत्पाद्य सद्यः शङ्कास्पृष्टा इव सापराधत्वाद्भयाविष्टा इव ।। १ अभिमुखगतान्. २ ये. ३ स्वजलकणिका; सजलकणिका. ४ स्वादशो पत्र जाल:. ५ निपुणम्. (५) हे मेघ ! यत्रालकायां प्रियेण नींवीबन्धे श्रुटिते लजिताः खियोः रत्नदी. पनिर्वापणाऽक्षमा भवन्तीत्यर्थः । (६) अस्य भावार्थो मल्लिनाथब्याख्यामेव स्पष्ट इति नाऽभिहितः ।
मेघदृतम्। शङ्का वितर्कभययोः" इति शब्दार्णवे ॥ धूमोद्गारस्य धूमनिर्गमस्या- नुकृतावनुकरण निपुणाः कुशला जर्जरा विशीर्णाः सन्तो जालमागर्गवा परन्ध्रेनिष्पतन्ति निष्कामन्ति ॥ यथा कनचिदन्तःपुरसंचारवता दूतन गूढ़वृत्त्या रहस्यभूमि प्रापितास्तत्रैव स्त्रीणां व्यभिचारदोषमुत्पाद्य सद्यः साशङ्काः क्लुप्तवेपान्तरा जाराः क्षुद्रमार्गेनिष्कामन्ति तद्वदिति ध्वनिः । प्रकृतार्थे शङ्कास्पृष्टा इवेत्युत्प्रेक्षा ।। यन्त्र स्त्रीणां प्रियतमभुजालिंगनाच्छासिताना- मंगग्लानिं सुरतजनितां तन्तुजालावलम्बाः। त्वत्संरोधापगमविशदैश्चन्द्रपादैनिशीथे व्यालुम्पन्ति स्फुटजललवस्यन्दिनश्चन्द्रकान्ताः ॥७॥ यंत्रति ॥ यत्रालकायां निशीथेऽर्द्धरात्रं ॥ "अर्धरात्रनिशीथो द्वौ" इत्यमरः ।। त्वत्संरोधस्य मेघावरणस्यापगमेन विशदैनिर्मलैश्चन्द्रपादैश्चन्द्र- मरोचिभिः ।। “पादा रश्म्यचितुर्याशाः" इत्यमरः ।। स्फुटजललवस्यन्दिन उल्वणाम्बुकणस्राविणस्तन्तुजालाबलम्बा वितानलम्बिसूत्रपुञ्जधाराः । तद्गुणगुम्फिता इत्यर्थः । चन्द्रकान्ताश्चन्द्रकान्तमणयः । प्रियतमानां भुजैरालिङ्गनेपूच्च्छासितानां प्रशिथिलीकृतानाम् । श्रान्त्या जलसेकाय वा शिथिलिताङ्गानामिति यावत् । स्त्रीणां सुरतजनितामङ्गग्लानिं शरीरखे- दम् । अवयवानां ग्लानतामिति यावत् । व्यालुम्पन्त्यपनुदन्ति ।। अक्षय्यान्तर्भवननिधयः प्रत्यहं रक्तकण्ठ- रुद्गायद्भिर्धनपतियशः किंनरैर्यत्र सार्धम् । वैभ्राजाख्यं विबुधवनितावारमुख्यासहाया बद्धालापा बहिरुपवनं कामिनो निर्विशन्ति ॥८॥ अक्षय्येति ॥ यत्रालकायाम् । क्षेतुं शक्याः क्षय्याः ॥ "क्षय्यजय्यो १ भुगोच्छवासितालिङ्गितानाम्, २ प्रेरिताबन्द्रपादः, प्रेरितैश्चन्द्रपादैः, चोदिताश्चन्द्रपादः, ३ नव, (०) हे मेघ ! यत्रालकायां निशीथे चन्द्रकान्तमणयः सीणां सुरतश्रममपहर- न्ति तामिति भावः। (८) हे मेष ! यत्रालकायाः सुरवनितासहचराः कामिनो यः सहवैभ्राजनाम बाबोधानं प्रविशन्तीति भावः ।
उत्तरमेघः। ५७ . शक्यार्थे” इति निपातः । ततो नसमासः ।। भवनानामन्तरन्तर्भवनम् ॥ "अव्ययंबिभक्ति -” इत्यादिनाव्ययीभावः ॥. अक्षय्या अन्तर्भवने निधयो येषां ते तथोक्ताः ॥ यथेच्छाभोगसंभावनार्थमिदं विशेषणम् ।। विबुधवनिता अप्सरसस्ता एव वारमुख्या वेश्यास्ता एव सहाया येषां ते तथोक्ताः ॥ "वारस्त्री गणिका वेश्या रूपाजीवाथ सा जनैः। सत्कृता वारमुख्या स्यात्" इत्यमरः ॥ बद्धालापाः संभावितसंलापाः कामिनः कामुका प्रत्यहमहन्यहनि ॥ "अव्ययं विभक्ति-"इत्यादिना समासः ।। रक्तो मधुरः कण्ठः कण्ठध्वनिर्येषां ते तैः सुन्दरकण्ठध्वनिभिर्धनपतियशः कुवेरकीर्तिमुद्गायद्भिरुच्चैर्गायनशीलैः। देनगानस्य गान्धारग्रामत्वात्तारतरं गायद्भिरित्यर्थ ॥ किंनरैः सार्ध सह । विभ्राजस्येदं वैभ्राजम् वैभ्राजमि- त्याख्या यस्य तद्वैभ्राजाख्यम्॥"विभ्राजेन गणेन्द्रेण जातं वैभ्राजमाख्या" इति शंभुरहस्ये ॥ चैत्ररथस्य नामान्तरमेतत् । बहिरुपवनं बाह्योद्यानं निर्वि- शन्त्यनुभवन्ति ॥ गत्युत्कम्पादलकपतितैर्यत्र मन्दारपुष्पैः पत्रच्छेदैः कनककमलैः : कर्णविभ्रंशिभिश्च। मुक्ताजालैः स्तनपरिसराच्छन्नसूत्रैश्च हारै- नैंशो मार्गः सतुतुरुदये सुच्यते कामिनीनाम् ॥६॥ गतीति ॥ यत्रालकायां कामिनीनामभिसारिकाणाम् । निशि भवो नैशो मार्गः सवितुरुदये सति गत्या गमनेनोत्कम्पश्चलनं तस्माद्धेतोरल- केभ्यः पतितैर्मन्दारपुष्पैः सुरतरुकुसुमैः । तथा पत्राणां पत्रलतानां छेदैः खण्डैः । पतितैरिति शेषः । तथा कर्णेभ्यो विभ्रश्यन्तीति कर्णविभ्रंशोनि तैः कनकस्य कमलैः ॥ षष्ठथा विवक्षितार्थलाभे सति मयटा विग्रहेऽध्या- हारदोषः । एवमन्यत्राप्यनुसंधेयम् ॥ तथा मुक्ताजालैमौक्तिकसरैः । शिरोनिहितैरित्यर्थः । तथा स्तनयोः परिसरः प्रदेशस्तत्र छिन्नानि सूत्राणि १ गस्योस्कम्पात्. २ क्लसच्छेदैः. ३ नलिनैः ४ विस्त्रं सिभिः. ५ मुक्तालग्नः. ६ परिमल:. (९) यत्रालकायो मार्गच्युनमन्दारपुप्पादिचिन्हैरभिसारिकामार्गाऽनुमान भवतीति भावः ।
मेघदूतम् । येषां तैहारैश्च सूच्यते ज्ञाप्यते । मार्गपतितमन्दारकुसुमादिलिगरयमभि- सारिकारणां पन्था इत्यनुमीयत इत्यर्थः ।। मत्वा देवं धनपतिसवं यत्र साक्षावसंतं प्रायश्चापं न वहति भयान्मन्मथः षट्पदज्यम् । सभ्र भंगप्रहितनयनैः कामिलक्ष्येष्वमोघे- स्तस्यारम्भश्चतुरवनिताविभ्रमैरेव सिद्धः ॥१०॥ मत्वेति ।। यत्राल कार्या मन्मथः कामः । धनपतेः कुबेरस्य सखेति धनपतिसखः । “राजाहःसखिभ्यष्टच" ॥ तं देवं महादेवं साक्षाद्वसन्तं सखिस्नेहानिजरूपेण वर्तमानं मत्वा ज्ञात्वा भयाद्भालेक्षणभयात्षट्पदा एव ज्या मौर्वी यस्य तं चापं प्रायः प्राचुर्येण न वहति न बिभर्ति ।। कथं तर्हि तस्य कार्यसिद्धिरत आह-सभ्र भङ्गेति ॥ तस्य मन्मथस्यारम्भः कामि- जनविजयव्यापारः सभ्रूभङ्ग प्रहितानि प्रयुक्तानि नयनानि दृष्टयो येषु तस्तथोक्तः कामिन एव लक्ष्याणि तेष्वमोथैः । सफलप्रयोगैरित्यर्थः॥ मन्म- थचापोऽपि क्वचिदपि मोघः स्यादिति भावः ।। चतुगश्च ता वनिताश्च तासां विभमैविलासैरेव सिद्धो निष्पन्नः । यदनर्थकरं पाक्षिकफलं च तत्प्रयोगाद्वरं निश्चितसाधनप्रयोग इति भावः ।। "कचधार्य देहधार्य परिधेयं विलेपनम् । चतुर्धा भूषणं प्राहुः स्त्रीणां- मन्यच्चदैशिकम् ।। इति रसाकरे। तदेवैतदाह - वासश्चित्रं मधु नयनयोविभूमादेशदक्षं पुष्पोभेदं सह किसलयभूषणानां विकल्पान् । लाक्षारागं चरणकमलन्यासयोग्यं च यस्या- मेकः सूते सकलमबलामण्डनं कल्पवृक्षः ॥११॥ वास इति ॥ यस्यामल कायां चित्रं नानावर्ण वासो वसनम । परि- १ कामलक्षेषु. २ चटुल. (१०) हे मेघ ! यत्रालकायां कामोऽपि हरभीत्या भ्रमरमौर्वीकं चापं न वहति चतुरस्त्रीविलासरेव कार्य साधयतीति भावः । (११) हे मेघ ! यत्रालकायां विविधवर्णवसनादिसकलस्त्रीभूषणमेकः सुरतरुरेवोत्पादयतीति भावः । - - उत्तरमेघः। ५ यमण्डनमेतत् नयनयोविभ्रमाणामादेश उपदेशे दक्षम् । अनेन विभम- |रा मधुनो मण्डनत्वमनुसंधेयम् । तच्च मण्डनादिवहेहधार्येऽन्तर्भाव्यम्। धु मद्यम् । किसलयैः पल्लवैः सह पुष्पोद्धदम् । उभयं चेत्यर्थः ॥ इदं कचधार्यम् । भूषणानां विकल्पान्विशेषान् । देहधार्यमेतत् । तथा रणकमलयोन्यासस्य समर्पणस्य योग्यम् । रज्यतेऽनेनेति रागो रज- द्रव्यम् । लाक्षैव रागस्तं लाक्षारागं च ॥ चकारोऽङ्गरागादिविलेपन- ण्डनोपलक्षणार्थः ॥ सकलं सर्वम् । चतुर्विधमपीत्यर्थः । अबलामण्डनं षित्प्रसाधनजातमेकः कल्पवृक्ष एव सूते जनयति । न तु नानासाधन 'पादनप्रयास इत्यर्थः ।। इत्थमलकायां वर्णयित्वा तत्र स्वभवनस्याभिज्ञानमाह- तत्रागारं धनपतिगृहानुत्तरेणास्मदीयं दराल्लक्ष्यं सुरपतिधनुश्चारुणा तोरणेन । यस्योपान्ते कृतकतनयः कान्तया वर्धितो मे हस्तप्राप्यस्तबकनमितो बालमन्दारवृक्षः ॥१२॥ तत्रेति ॥ तत्रालकायां धनपतिगृहात्कुबेरगृहादुत्तरेणोत्तरस्मिन्नदूर- शे ॥ “एनबन्यतरस्यामदूरेऽपञ्चम्याः" इत्येनप्प्रत्ययः । “एनपा तीचा" इति द्वितीया ॥ 'गृहाः पुंसि च भूम्न्येव" इत्यमरः ॥ अथवा उत्तरेण" इति नैनप्प्रत्ययान्तं किंतु "तोरणेन" इत्यस्य विशेषणं तृती- न्तिम् ॥ धनपतिगृहादुत्तरस्यां दिशि यत्तोरणं बहिरं तेन लक्षित- नत्यर्थः ॥ अस्माकमिदमस्मदीयम् ॥ "वृद्धाच्छः” इति पक्षे छप्रत्ययः ॥ गारं गृहम । सुरपतिधनुश्वारुणा मणिमयत्वादभ्रंकषत्वाच्चेन्द्रचाप- न्दरेण तोरणेन बहिारेण दूराल्लक्ष्यं दृश्यम् । अनेनाभिज्ञानेन दूरत व ज्ञातुं शक्यमित्यर्थः ॥ अभिज्ञानान्तरमाह-यस्यागारस्योपान्ते कारान्तःपार्श्वदेशे मे मम कान्तया वर्धितः पोषितः कृतकतनयः कृत्रिम- तः । पुत्रत्वेनाभिमन्यमान इत्यर्थः ॥ हस्तेन प्राप्यैहस्तावचेयैः स्तवकै- १ अत्र. २ गृहात्. ३ तदमरधनुः. ४ उद्याने. ५ विनतः, ६ गृहादिति पन्च- न्तिपाठपक्षे. (१२) हे मेघ ! तत्रालकायां कुबेरभवनादुत्तरभागे मम गृहमस्ति बालकल्प हरपि तत्परिचायक इति भावः ।
६०. मेघदूतम् । गुच्छैनमितः ॥ "स्याद्गुच्छकन्तु स्तबकः" इत्यमरः ॥ बालो मन्दार- वृक्षः कल्पवृक्षोऽस्तीति शेपः ॥ इतः परं चतुर्भिः श्लोकैरभिज्ञानान्तरमाह- वापी चास्मिन्मरकतशिलाबद्धसोपानमार्गा हैमैश्छन्ना विकचकमलैः स्निग्धवैदूर्यनालैः । यस्यास्तोये कृतवसतयो मानसं संनिकृष्टं नाध्यास्यंति व्यपगतशुचस्त्वामपि प्रेक्ष्य हंसाः॥१३॥ वापीति ॥ अस्मिन्मदीयागारे मरकतशिलाभिर्बद्धः सोपानमार्गो यस्याः सा तथोक्ता । विदूरे भवा वैदूर्याः ।। "विदूरायः" इति व्यप्रत्ययः ॥ वैदूर्याणां विकारा वैदूर्याणि विकारार्थेणप्रत्ययः ॥ स्निग्धानि वैदूर्याणि नालानि येषां तैहे मैविकचकमलैश्छन्ना वापी च। अस्तीति शेषः ॥ यस्या वाप्यास्तोये कृतवसतयः कृतनिवामा हसास्त्वां मचं प्रेक्ष्यापि व्यपगतगुचो वर्षाकालेऽपि व्यपगतकलुपजलवादीतदुःखाः मन्तः संनिकृष्टं संनिहितम् । सुगममपीत्यर्थः । मानसं मानससरो नाध्या- स्यन्ति नोत्कण्ठया स्मरिष्यन्ति ॥ "श्राध्यानमुत्कण्ठापूर्वक स्मरणम इति का शिकायाम ।। तस्यास्तीरे रचितशिखरः पेशलैरिन्द्रनीलः क्रीडाशैलः कनककदलीवेटनप्रेक्षणीयः। मद्गेहिन्याः प्रिय इति सम्वे चेतसा कातरेण प्रेक्ष्योपान्तस्फुरिततडितं त्वांतमेव स्मरामि॥१४॥ तस्या इति ॥ तस्या वाप्यास्तीरे पेशलैश्चारुभिः ॥ "चारो दक्षे च पेशलः” इत्यमरः । इन्द्रनील रचितशिखरः । इन्द्रनीलमणिमय- १ विकचकुसुमैः, कमलमुकुलः, २ ध्यास्यन्ति; ध्यायन्ति. ३ यस्याः, ४ निचित, ५ वेष्टगः। (१३) हे मेव ! मदीयभवनस्थवाप्यो वसन्तो हंसास्त्वां वीक्ष्य मानसं न स्मरिष्यन्तोति भावः । (१४) हे मेघ । स्वभवनस्यवापीतटवर्ति क्रीडाशैलप्रान्ते स्थितं विद्युता शोभ- मानं वां वीक्ष्य तमेव शैलं स्मरामिति भाव: ।
उत्तरमेघः। तु शिखर इत्यर्थः । कनककदलीनां वेष्टनेन परिधानेन प्रेक्षणीयो दर्शनीयः क्रीडाशैलः । अस्तीति शेषः । हे सखे ! उपान्तेषु प्रान्तेपु स्फुरितास्तडितो- यस्य तत्तथोक्तम् । इदं विशेषणं कदलीसाम्यार्थमुक्तम् । इन्द्रनीलसाम्यं मेघस्य स्वाभाविकमित्यनेन म्यूच्यते । त्वां प्रेक्ष्य मद्गहिन्याः प्रिय इति हतोः । तस्य शैलस्य मद्गृहिणोप्रियत्वाद्धेतोरित्यर्थः । कातरेण भीतेन चेतसा । भयं चात्र सानन्दमेव । “वस्तूनामनुभूतानां तुल्यश्रवणदर्शनात् । अवणात्कीर्तनाद्वापि मानन्दा भीर्यथा भवेत् ॥” इति रसाकरे दर्शनात् । तमेव क्रीडाशैलमेव स्मरामि । एवकारो विषयान्तरव्यवच्छेदार्थः । सहशवस्त्वनुभवादिष्टार्थस्मृतिर्जायत इत्यर्थः । अत एवात्र स्मरणाख्योऽ लंकारः । तदुक्तम्- "सदृशानुभवादन्यस्मृतिः स्मरणमुच्यते” इति । निरुक्तकारस्तु "वां तमेव स्मरामि" इति योजयित्वा मधे शैलत्वारोपमा. चष्टे तदसंगतम् । अद्रयाकारारोपस्य पुरोवर्तिन्यनुभवात्मकत्वेन स्मर- तिशब्दप्रयोगानुपपत्तेः शैलत्वभावनास्मृतिरित्यपि नोपपद्यते । भावनायाः स्मृतित्वे प्रमाणाभावादनुभवायोगात्सादृश्योपन्यासस्य वैयर्थ्याच्च विस- दशऽपि शालग्रामे हरिभावनादर्शनादिति । रक्ताशोकलकिसलयः के खरश्चात्र कान्तः प्रत्यासन्नी कुरबकतर्माधवीमण्डपस्य । एकः सख्यास्तव सह मया वामपादाभिलाषी काङ्क्षन्त्यन्यो वदनमदिरां दोहदच्छद्मनास्याः॥१५॥ रक्तेति ।। अत्र क्रीडाशैले कुरबका एव वृतिरावरणं यस्य तस्य । मधौ वसन्ते भवा माधव्यस्तासां मण्डपस्तस्यातिमुक्तलतागृहस्य । "अतिमुक्तः पुण्डकः स्याद्वासन्ती माधवी लता" इत्यमरः प्रत्यासन्नी संनिकृष्टौ चलकिसलयश्चञ्चलपल्लवः । अनेन वृक्षस्य पादताडनेषु प्राञ्ज- लित्वं व्यज्यते । रक्ताशोकः । रक्तविशेषणं तस्य स्मरोद्दीपकत्वादुक्तम् । "प्रसूनकैरशोकस्तु श्वेतो रक्त इति द्विधा । बहुसिद्धिकरः श्वेतो रक्तोऽत्र म्मरवर्धनः।" इत्यशोककल्पे दर्शनात् । कान्तः कमनीयः केसरो बकु- १ तत्र, २ प्रत्यासनः । (१५) हे मेघ ! तन्त्र क्रीडाशैले रक्ताशोक-चकुलो मया सह तव सख्या: बामपादपदनमदिरयोरभिलाषिणी स्त इति भावः ।
६२ मेघदूतम् । लश्च । “अथ केसरे। बकुलो वजुलः" इत्यमरः । स्त इति शेषः । एकस्तयोरन्यतरः । प्राथमिकत्वादशोक इत्यर्थः । मया सह तव सख्याः। स्वप्रियाया इत्यर्थः । वामपादाभिलाषी । दोहदच्छद्मनेत्यत्रापि संबन्ध. नीयम् । स चाहं च । अभिलाषिणावित्यर्थः । अन्यः केसरः । दोहदं वृक्षादीनां प्रसवकारणं संस्कारद्रव्यम् । “तरुगुल्मलतादीनामकाले कुशलैः कृतम् । पुष्पाद्युत्पादक द्रव्यं दोहदं स्यात्तु तक्रिया ॥” इति शब्दार्णवे । तस्य छद्मना व्याजेन । "कपटोऽस्त्री व्याजदम्भोपधयश्छद्म कैतवे" इत्यमरः । अस्यास्तव सख्या वदनमदिरां गण्डूषमा काक्षति । मया सहेत्यत्रापि संबन्धनीयम् । अशोकबकुलयोः स्त्रीपादताडनगण्डूषमदिरे दोहदमिति प्रसिद्धिः ।। “स्त्रीणां स्पर्शानियङ्गुर्विकसति बकुलः सीधु- गण्डूषसेकात्पादाघातादशोकस्तिलककुरबको वीक्षणालिङ्गनाभ्याम्।मंदारो नर्मवाक्यात्पटुमृदुहसनाच्चम्पको वक्त्रवाताचूतो गीतान्नमेरुविकसति च पुरो नर्तनात्कर्णिकारः" ॥ तन्मध्ये च स्फटिकफलका काञ्चनी वासयष्टि- द्ले बद्धा मणिभिरनतिप्रौढवंशप्रकाशैः । तालैः शिजाबलयसुभगैर्नर्तितः कान्तया में यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृतः ॥१६॥ तन्मध्य इति । किं चेति चार्थः । तन्मध्ये तयोवृक्षयोर्मध्येऽन. तिप्रौढानामनतिकठोराणां वंशानां प्रकाश इव प्रकाशो येषां तैस्तरुण- वेणुसच्छायैर्मणिभिर्मरकतशिलाभिर्मूले बद्धा। कृतवेदिकेत्यर्थः । स्फ- टिकं स्फटिकमयं फलक पीठं यस्याः सा काञ्चनस्य विकारः काञ्चनी सौवर्णा वासयष्टिनिवासदण्डः अस्तीति शेपः । सिजा भूषणध्वनिः । "भूषणानां तु शिञ्जितम्" इत्यमरः । भिदादित्वादङ् । शिजि- धातुरयं तालव्यादिन तु दन्त्यादिः । शिक्षाप्रधानानि वलयानि तैः सुभगा रम्यास्तैस्तालैः करतलवाद में मम कान्तया नर्तितो वो युष्मा- कं सुहृत्सखा नीलकण्ठो मयूरः । "मयूरो बहिणो बहीं नीलकण्ठो- , तत्तन्मध्ये, २ नद्रा, ३ सिज्जत्, ४ नर्तितैः (१) हे मेव ! रक्ताशोक-वकुलयोर्मध्ये स्थितां सौवर्णयष्टिं प्रियया नर्तितो मयूरः सायमध्यास्त इत्यर्थः ।
उत्तरमेघः। ६३ मुजङ्गभुक्" इत्यमरः । दिवसविगमे सायंकाले यां यष्टिकामध्या- म्ते । यष्ट्यामास्त इत्यर्थः । “अधिशीस्थासां कर्म" इति कर्मत्वाद्- द्वितीया । "तत्रागारम्" इत्यारभ्य पञ्चसु श्लोकेषु समृद्धवस्तु- वर्णनादुदात्तालंकारः । तदुक्तम्-"तदुदात्तं भवेद्यत्र समृद्धं वस्तु वर्ण्यते” इति ॥ न चैषा स्वभावोक्ति विकं वा, तत्र यथास्थितवस्तु- वर्णनात् । अत्र तु "कविप्रतिभोत्थापितसंभाव्यमानैश्वर्यशालिवस्तुवर्ण- नादरोपितविषयत्वमिति ताभ्यामस्य भेदः" इत्यलंकारसर्वस्वकारः ।। एभिः साधो ! हृदयनिहितैलक्षणलक्षयेथा द्वारोपान्ते लिखितवपुषौ शङ्खपद्मौ च दृष्ट्वा । क्षामच्छायं भवनमधुना मद्वियोगेन नूनं सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम्॥१७॥ एभिरिति ॥ हे साधो निपुण ! “साधुः समर्थो निपुणो वा" इति काशिकायाम् । हृदयनिहितैः अविस्मृतरित्यर्थः ॥ एभिः पूर्वोक्तैर्ल- क्षणैस्तोरणादिभिरभिज्ञानारोपान्ते । एकवचनमविवक्षितम् । द्वार पार्श्वयोरित्यर्थः । लिखिते वपुषी श्राकृती ययोस्तो तथोक्तो शङ्खपद्मो नाम निधिवेशेपौ । “निधिर्ना शेवधिर्मेदाः पद्मशङ्खादयो निधेः" इत्यमरः । दृष्ट्वा च नूनं सत्यमधुनेदानीम् । “अधुना" इति निपातः। मद्वियो- गेन मम प्रवासेन क्षामच्छायं मन्दच्छायमुत्सवोपरमात्तीणकान्ति भवनं मद्गृहं लक्षयेथा निश्चिनुयाः, तथाहि । सूर्यापाये सति कमलं पद्म स्वामात्मीयामभिख्यां शोभाम् ॥ "अभिख्या नामशोभयोः" इत्यमरः । न पुष्यति नोपचिनोति खलु । सूर्यविरहितं पद्ममिव पतिविरहितं गृहं न शोभत इत्यर्थः ॥ निजगृहनिश्चयानन्तरं कृत्यमाह- गत्वा सद्यः कलभतनुतां शीघ्रसपातहेतोः क्रीडाशैले प्रथमकथिते रम्यसानी निषएणः। - १ लक्षणीयम्, २ मन्दच्छायम्, ३ तत्परित्राण । (७) हे मेघ ! सूर्य विना कमलमिव मां विना मदीयभवनं शोभाहीनमि- स्युकचिन्हैस्तज्ज्ञातव्यमिति भावः ।
पूर्वमेघः । अहस्यन्तर्भवनपतितां कर्तुमल्पाल्पभासं खद्योतालीविलसितनिभां विद्युदुन्मेषदृष्टिम् ॥१८॥ गत्वेति ॥ हे मेघ, शीघ्रसंपात एव हेतुस्तस्य, शीघ्रप्रवेशार्थमि- त्यर्थः । “पष्ठीहेतुप्रयोगे” इति पष्ठी ॥ "संपातः पतने वेगे प्रवेशे वेदसंविदे” इति शब्दार्णवे। सद्यः सपदि कलभस्य करिपोतस्य तनु- रिव तनुर्यस्य तस्य भावस्तामल्पशरीरतां गत्वा प्राप्य प्रथमकथित "तस्यास्ती" इत्यादिना पूर्वोद्दिष्टे रम्यसानौ। निषीदनयोग्य इत्यर्थः । क्रीडाशैले निषण्ण उपविष्टः सन् । अल्पाल्पा-प्रकारा भाः प्रकाशो- यस्यास्ताम् । “प्रकारे गुणवचनस्य" इति द्विरुक्तिः । खद्योतानामाली. तस्यां विलसितेन स्फुरितन निभा समानां विशुदुन्मेपो विद्युत्प्रकाशः सएव दृष्टिस्तां भवनस्यान्तरन्तर्भवनं तत्र पतितां प्रविष्टां कर्तुमर्हसि, यथा कश्चित्किंचिदन्विष्यन्कचिदुन्नत स्थित्वा शनैः शनैरतितरां द्राघीयसी दृष्टि- मिष्टदेशं पातयति तद्वदित्यर्थः ।। संप्रति दृष्टिपातफलस्याभिज्ञानं श्लोकद्वयेनाह- तन्वी श्यामा शिग्वरिदशना पकविम्बाधरोष्ठी मध्ये क्षामा चकितहरिणीप्रेक्षणा निम्ननाभिः । श्रोणीभारादलसगमना स्तोकनम्रा स्तनाभ्यां या तत्र स्याद्युवतिविषये मृष्टिरायेव धातुः ॥१६॥ तन्वीति ॥ तन्वी कृशाङ्गो, न तु पीवरी । "श्लक्ष्णं दभ्रं कृश तनु" इत्यमरः । “वोतोगुणवचनात्" इति डोप । श्यामा युवतिः । "श्यामा यौवनमध्यस्था" इत्युत्पलमालायाम् । शिखराण्येषां सन्तीति शिखरिणः कोटिमन्तः । "शिखरं शैलवृक्षारकक्षापुलककोटिषु" इति विश्वः । शिखरिणो दशना दन्ता यस्याः सा । एतेनास्या भाग्य- वत्त्वं पत्यायुष्करं च सूच्यते । तदुक्तं सामुद्रिके-“स्निग्धाः समान- १ अधरोष्ठी २ आस्ते. ३ एव । (१८) हे मेघ ! करिशावकतनुमिवाऽल्पशरीरं विधाय क्रीडाशैले समुपविष्ट- स्त्वं भवनमध्ये विद्यत्प्रकाशरूपदृष्टिं कर्तुमर्हसीति भावः । (१९) हे मेव ! तत्र भवने तन्वीत्यादिविशेषणविशिष्टा या स्त्री भवता श्येत सैव मम प्राणप्रिया बोध्येति भावः ।
उत्तरमेघः। ६५ रूपाः सुपङ्क्तयः शिखरिणः श्लिष्टाः । दन्ता भवन्ति यासां तासां पादे जगत्सर्वम् । ताम्बूलरसरक्तेऽपि स्फुटभासः समोदयाः। दन्ताः शिख- रणो यस्या दीर्घ जीवति तत्प्रियः ।" इति । पक्कं परिणतं विम्बं विम्बिकाफलमिवाधरोष्ठो यस्याः सा पकविम्बाधरोष्ठी । “शाकपा- र्थिवादित्वान्मध्यमपदलापी समासः" इति वामनः । “नासिकोदरोष्ठ-" इत्यादिना ङीष् । मध्ये क्षामा कृशोदरीत्यर्थः । चकितहरिण्याः प्रेक्षणानीव प्रेक्षणानि दृष्टयो यस्याः सा तथोक्ता । एतेनास्याः पद्मिनीत्वं व्यज्यते । तदुक्तं रतिरहस्ये । पद्मिनीलक्षणप्रस्तावे-"चकितमृगहशाभे प्रान्तरक्ते च नेत्रे” इति । निम्ननाभिर्गम्भीरनाभिः । अनेन नारीणां नाभिगाम्भी- यन्मिदनातिरेक इति कामसूत्रार्थः सूच्यते । श्रोणीभारादलसगमना मन्दगामिनी, न तु जघनदोपात् । स्तनाभ्यां स्तोकनम्र पदवनता, न तु वपुर्दापात् । युवतय एव विपयस्तस्मिन्युवतिविपये। युवतीरधिकृत्येत्यर्थः । धातुह्मण आद्या सृष्टेिः प्रथमशिल्पभिव स्थितेत्युत्प्रेक्षा । प्रथमनिर्मिता युवतिरियमवेत्यर्थः । प्रायेण शिल्पिना प्रथमनिर्माणे प्रयत्नातिशयवशा- च्छिल्पनिर्माणसौष्ठवं दृश्यत इत्याद्यविशेषणम् । तथा चास्मिन्प्रपञ्चे न कुत्राप्येवंविधं ग्मणी यं रमणीरत्नध्वस्तीति भावः । तदेवंभूना या स्त्री तत्रान्तर्भवन स्यात् । तत्र निवसेदित्यर्थः । तामित्युत्तरश्लोकेन संबन्धः ॥ तां जानीथाः परिमितकथां जीवितं में द्वितीयं दृरीभूते मयि सहचरे चक्रवाकीमिवैकाम् । गाढोत्कण्ठां गुरुषु दिवसेष्वेषु गच्छत्सु बालां जातांमध्ये शिशिरमथितां पद्मिनीवान्यरूपाम्॥२०॥ तामिति ॥ सहचरे सहचारिणि अनेन वियोगासहिष्णुत्वं व्यज्यते । मयि दूरीभूते दूरस्थिते सति सहचरे चक्रवाके दूरीभूते सति चक्त्रार्की चक्रवाकवधूमिव । “जातेरस्त्रीविषयादयोपधात्" इति ङीप्। परिमित- कथां परिमितवाचम् । एकामेकाकिनी स्थितां तामन्तर्भवनगतां मे द्वितीयं १ जानीया; (२) हे मेघ ! प्रियविरहितां चक्रवाकीमिव शिशिरकालपीडितां पद्मिनी मिव मया विरहिता प्रिया जानामीति भावः ।
मेघदूतम् । जीवितं जानीथाः । जीविततुल्यां मत्प्रेयसीमवगच्छेरित्यर्थः ॥ "तन्वी" इत्यादिपूर्वलक्षणैरिति शेषः । लक्षणानामन्यथाभावभ्रमाशङ्कयाह- गाढेति । गाढोत्कण्ठां प्रबलविरहवेदनाम् । “रागेवलब्धविषये वेदना महतो तु या। संशोषणी तु गात्राणां तामुत्कण्ठां विदुर्बुधाः ॥” इत्यभिधा. नात् । बाला गुरुषु विरहमहत्स्वेषु वर्तमानेषु दिवसेषु गच्छत्सु सत्सु शिशिरेण शिशिरकालेन मथितां पद्मिनी वा पद्मिनीमिव । "इववद्वाय. थाशब्दो” इति दण्डी, अन्यरूपां पूर्वविपरीताकारां जातां मन्ये । हिम- हतपद्मिनीव विरहेणान्याशी जातेति तर्कयामीत्यर्थः । एतावता नेयम- न्येति भ्रमितव्यमिति भावः । नूनं तस्याः प्रबलरुदितोच्छूननेत्रं प्रियाया- निःश्वासानामशिशिरतया भिन्नवर्णाधरोष्ठम् । हस्तंन्यस्तं मुखमसकलव्यक्ति लम्बालकत्वा- दिन्दोदैन्यं त्वदनुसरणक्लिष्टकान्तर्विभर्ति ॥२१॥ नूनमिति ॥ प्रबलरुदितेनोच्छ्रने उच्छवसिते नेत्रे यस्य तत् । उच्छू- नेति श्वयतेः कर्तरि क्त । "ओदितश्च” इति निष्ठानत्वम् "वचिस्वपि-" इत्यादिना संप्रसारणम् । 'संप्रसारणाच" इति पूर्वरूपत्वम् । "हल." इति दीर्घः। "छोः शूडनुनासिके च" इत्यूठादेश कृते रूपसिद्धिरिति वर्तमानसामीप्यप्रक्रिया प्रामादिकीत्युपेक्ष्या । तथा सति धातोरिकारस्य गत्यभावादूठादेशे च्छोरन्त्यत्वेन विशेषणाच्चेति ॥ एतेन विषादो- व्यज्यते । निश्वासानामशिशिरतयाऽन्तस्तापोष्णत्वेन भिन्नवर्णो विच्छायो. ऽधरोष्ठो यस्य तत् । हस्ते न्यस्तं हस्तन्यस्तम् । एतेन चिन्ता व्यज्यते । लम्बालकत्वात्संस्काराभावाल्लम्बमानकुन्तलत्वादसकलव्यक्त्यसंपूर्णाभिव्य क्ति तस्याः प्रियाया मुखं त्वदनुसरणेन त्वदुपरोधेन । मेघानुसरणेनेति यावत्। क्लिष्टकान्तेःक्षीणकान्तेरिन्दौदैन्यंशोच्यतां बिभर्ति । नूनमिति वितकें "नूनं तर्केऽर्थनिश्चये” इत्यमरः । पूर्ववत्तथापि न भ्रमितव्यमिति भावः" सर्वविरहिणीसाधारणानि लक्षणानि संभावनयोत्प्रेक्ष्याणीत्याह "आलोके" इत्यादिभित्रिभिः- १ बहूनाम्. २ हस्ते न्यस्तम्. ३ त्वदुपसरण, (२१) हे मेघ ! सम्प्रति मद्विरहिता प्रिया त्वदावरणक्षीणकान्तेरिन्दौदे दन्यं विभाति तर्कयामीति भावः ।
६७ । पूर्वमेघः। आलोके ते निपतति पुरा सा बलिव्याकुलो वा मत्सादृश्यं विरहंतनु वा भावगम्यं खिलन्ती। पृच्छन्ती वा मधुरवचना सारिकां पञ्जरस्थां कच्चिद्भर्तुः स्मरसि रसिके त्वं हि तस्य प्रियेति ॥२२॥ आलोकेति ।। हे मेघ ! सा मत्प्रिया । बलिषु नित्येषु प्रोषितागमना- थेषु च देवताराधानेषु व्याकुला व्यापृता वा। विरहेण तनु कृशं भावग- म्यम् । तत्काय॑स्यादृष्टचरत्वात्संप्रति संभावनयोत्प्रेक्ष्यमित्यर्थः। मत्सा- दृश्यं मदाकारसाम्यम् । मत्प्रतिकृतिमित्यर्थः। यद्यपि सादृश्यं नाम प्र. सिद्धवस्त्वन्तरगतमाकारसाम्यं तथापि प्रतिकृतित्वेन विवक्षितमितरथा ले- ख्यत्वासंभवात् । अक्षय्यकोशे "आलेख्येऽपि च सादृश्यम्" इत्यभिधा- नात् । लिखन्ती कचित्फलकादो विन्यस्यन्ती वा चित्रदर्शनस्य विरहि- णीविनोदोपायत्वादिति भावः । एतच्च कामशास्त्रसंवादेन सम्यग्विवे. चितमस्माभी रघुवंशसंजीविन्याम् “सादृश्यप्रतिकृतिदर्शनैः प्रियायाः" इत्यत्र । मधुरवचनां मजुभाषिणीम् । अत एव पजरस्थाम् । हिंस्रेभ्यः कृतसंरक्षणामित्यर्थः। सारिकां स्त्रीपक्षिविशेषाम् । हे रसिके ! भर्तुः स्वामिनः स्मरसि कच्चित् । “कच्चित्कामप्रवेदने' इत्यमरः। भर्तारं स्मरसि किमित्यर्थः । “अधीगर्थदयेशां कर्मणि" इति कर्मणि षष्ठी। स्मरणे कारणमाह-हि यस्मात्कारणात्त्वं तस्य भर्तुः । प्रीणातीति प्रिया।। "इगुपधज्ञाप्रीकिरः क" इति कप्रत्ययः ॥ अतः प्रेमास्पदत्वात्स्मर्तुमर्ह- सीति भावः । इत्येवं पृच्छन्ती वा ॥ वाशब्दो विकल्पे ॥ "उपमायां विकल्पे वा" इत्यमरः ॥ ते तवालोके दृष्टिपथे पुरा निपतति । सद्योनिप. तिष्यतीत्यर्थः ॥ "स्यात्प्रबन्धे पुरातीते निकटागामिके पुरा" इत्यमरः ।। "यावत्पुरानिपातयोर्लट्" इति लट् ॥ उत्सङ्गे वा मलिनवसने सौम्य ! निक्षिप्य वीणां मद्गोत्रात विरचितपदं गेयमुद्गातुकामा। १ पुरे. २ तनुना. ३ निभृते. (२२) हे मेघ ! सा मस्त्रिया देवाराधनादिकार्य कुर्वन्ती तव दृष्टिपथे सां. निपतिष्यतीति भावः।
६८ मेघदूतम् । तन्त्रीमाद्री नयनसलिलैः सारयित्वा कथंचि- भूयो भूयः स्वयमपि कृतां मूर्च्छनां विस्मरन्ती २३ उत्सङ्गेति ॥ हे सौम्य ! साधो ! मलिनवसन "प्रोषिते मलिना कृशा" इति शास्त्रादित्यर्थः उत्सङ्गे ऊरौ वीणां निक्षिप्य । मम गोत्रं नामाङ्कश्चिह्न यस्मिंस्तन्मद्गोत्राकं मन्नमा यथा तथा । “गोत्रं नाम्नि कुलेऽपि च" इत्यमरः ॥ विरचितानि पदानि यस्य तत्तथोक्तं गेयं गानाह प्रबन्धादि । “गीतम्" इति पाठे स एवार्थ: ।। उद्गातुमुच्चैर्गातुं कामो- यस्याः सा || "तुं काममनसोरपि" इति मकारलोपः ॥ देवयोनित्वा- द्गान्धारग्रामेण गातुकामेत्यर्थः । तदुक्तम्- "पड्जमध्यमनामानौ ग्रामो गायन्ति मानवाः । न तु गान्धारनामानं, स लभ्यो देवयोनिभिः ॥” इति तथा नयनसलिलैः प्रियतमस्मृतिजनितैर श्रुभिगदी तन्त्री कथंचिकृच्छण सारयित्वा । आद्रत्वापहरणाय करण प्रमृज्यान्यथा कणनासंभवादिति भावः । भूयो भूयः पुनः पुनः स्वयमात्मना कृतामपि । विस्मरणानहीं- मपीत्यर्थः । मूर्छनां स्वरारोहक्रमम् । "स्वराणां स्थापना: सान्ता मृर्छनाः मान रून हि" इति संगीतरत्नाकरे ॥ विस्मरन्ती वा । "आलोके ते निपतति" इति पूर्वेणान्वयः ॥ विस्मरणं चात्र दयितगुणस्मृतिजनित- मूर्छावशादेव ॥ तथा च रसरत्नाकरे-"वियोगायोगयोरिष्टगुणानां कीर्तनास्मृतेः । साक्षात्कारोऽथवा मूळ दशधा जायते तथा ॥” इति । मत्सादृश्यमित्यादिना मनःसङ्गानुवृत्तिः सूचिता ॥ शेषान्मासान्विरहदिवसस्थापितस्यावधेर्वा विन्यस्यन्ती भुवि गणनया देहलीदत्तपुष्पैः । मत्सङ्ग वा हृदयनिहितारम्भमास्वादयन्ती प्रायेणेते रमणविरहेष्वङ्गनानां विनोदाः ॥२४॥ १ तन्त्रीरा , २ गमन. ३ प्रस्थितस्य, ४ मुक्त ५ मत्संभोगम्. संभोगं वा; संयोगं वा. ६ विहिता. . भासादयन्तो. ८ विरहे हि. (२३) हे मेघ ! क्रोडे क्रीणां निधाय मनामाङ्कगीतं गातुमुत्सुका प्रिया स्दन्ती सती द्रक्ष्यते त्वयेति भावः । (२४) हे मेध ! गतावशिष्टमासान् भुवि गणयन्ती मनसि मत्संभोगरति. मास्वादयन्ती मप्रिया तवालोके निपतिष्यतीति भावः ।
उत्तरमेघः। ६६ ॥ : - शेषानिति ।। अथवा विरहस्य दिवसस्तस्मात्स्थापितस्य तत आरभ्य निश्चितस्यावधेरन्तस्य शेषान्गतावशिष्टान्मासान्देहलीदत्ततुष्पैः ॥ देहली द्वारस्याधारदारु॥ गृहावग्रहणी देहली इत्यमरः ॥ तत्र दत्तानि राशीकृतत्वेन निहितानि यानि पुष्पाणि तैर्गणनया एको द्वावित्यादि- संख्यानेन भुवि भूतले विन्यस्यन्ती वा। पुष्पविन्यासैर्मासान्गणयन्ती वेत्यर्थः ॥ यद्वा हृदये निहितो मनसि संकल्पित आरम्भ उपक्रमो यस्य तम् । अथवा हृदयनिहिता आरम्भाश्चुम्बनादयो व्यापारा यस्मिस्तं मत्सङ्गं मत्संभोगरतिमास्वादयन्ती वा । : आलोक ते निपतति" इति पूर्वेण सम्बन्धः ॥ ननु कथमयं निश्चय इत्याशङ्कामर्थान्तरन्यसेन परिहरति । प्रायेण बाहुल्येनाङ्गनानां रमणविरहवेते पूर्वोक्ता विनोदाः कालयापनो- पायाः। एतेन संकल्पावस्थोक्ता तदुक्तम्-“संकल्पो नाथविषये मनोरथ उदाहृतः” इति ॥ त्रिभिः कुलकम् सव्यापारामहनि न तथा पीडयेन्मद्वियोगः शङ्क रात्री गुरुतरशुचं निर्विनोदां सखीं ते । मत्संदेशः सुखथितुमलं पश्य साध्वी निशीथे तामुन्निद्रामवनिशयनां सौधवातायनस्थः ॥२५॥ सव्यापारामिति ।। हे सखे ! अनि दिवसे सव्यापागं पूर्वोक्तवलि- चित्रलेखनादिव्यापारवती ते सखी स्वप्रियां मद्वियोगो मद्विरहस्तथा तेन प्रकारेण ॥ “प्रकारवचने थाल" इति थाल्प्रत्ययः ॥ न पीडयेत् । यथा रात्राविति शेषः ॥ किंतु रात्रौ निर्विनोदां निर्व्यापारां ते सखीं गुरुतरा शुग्यस्यास्तां गुरुतरशुचमतिदुर्भरदुःखां शङ्के तर्कयामि ॥ "शङ्का वित- भययोः" इति शब्दार्णवे ॥ अतो निशीथेऽर्धरात्र उन्निद्रामुत्सृष्टनिद्राम । अवनिरेव शयनं शय्या यस्यास्ताम् ॥ नियमार्थ स्थण्डिलशायिनीम् । साध्वीं पतिव्रताम् ॥ " साध्वी पतिव्रता" इत्यमरः ।। अतो नान्यथा शङ्कितव्यमिति भावः । तां त्वत्सखी मत्संदेशैर्मद्वार्ताभिरलं पर्याप्त सुखयितुमानन्दयितुं सौधवातायनस्थः सन्पश्य ॥ "सखी धात्री च १ खेदयेत्. २ विप्रयोगः. ३ शयनासन्न. सयनासन (२५) हे मेघ ! मद्वियोगः प्रियां दिवा तथा न बाधते. यथा रात्रावत: प्रासादगवाक्षवर्ती सन् मदुदन्तैस्तां सुखयितुमर्हसीति भावः ।
धिर्मानसी व्यथा " मेघदूतम् । पितरौ मित्रदूतशुकादयः । सुखयन्तीष्टकथनसुखोपायैर्वियोगिनीम् ॥ इति रत्नाकरे ॥ दूतश्चायं मेघ इति भावः ॥ अनेन जागरावस्थोक्ता ॥ पुनस्तामेव विशिनष्टि "आधिक्षामाम्” इत्यादिभिश्चतुर्भिः- प्राधिक्षामां विरहशयने संनिषण्णकपाश्चा प्राचीमूले तनुमिव कलामात्रशेषां हिमांशोः । नीता रात्रिः क्षण इव मया सार्धमिच्छारतैर्या तामेवोष्णैर्विरहमहतीमश्रुभिर्यापयन्तीम् ॥२६॥ आधिक्षामामिति ॥ प्राधिना मनोव्यथया क्षामां कृशाम् ॥ "पुंस्या- इत्यमरः ॥ क्षायतेः कर्तरि क्तः ॥ "क्षायो मः” इति निष्ठातकारस्य मकारः ।। विरहे शयनं तस्मिन्विरहशयने ॥ पल्लवादिरचित इत्यर्थः। संनिपण्णमकं पार्श्व यस्यास्ताम । अत एव प्राच्याः पूर्वस्या दिशो मूले उदयगिरिप्रान्त इत्यर्थः ॥ प्राचीग्रहणं क्षीणावस्थाद्योतना- र्थम् । मूलग्रहणं दृश्यतार्थम् ॥ कलामात्रं कलैव शेषो यस्यास्तां हिमां- शोस्तनुं मूर्तिमिव स्थिताम् । तथा या रात्रिर्मया सार्धमिच्छया कृतानि रतानि तैः ॥ शाकपार्थिवादित्वान्मध्य प्रपदलोपी समासः ॥ क्षण इव नीता यापिता तां तज्जातीयामेव रात्रि विरहेण महती महत्त्वेन प्रतीयमा- नामुष्णैरश्रुमिर्यापयन्तीम् । यातेय॑न्ताच्छतृप्रत्ययः । “अर्तिही-" इत्या- २५-२६ श्लोकयामध्ये प्रक्षिप्ताविमौ दश्यते "स्निग्धा: सख्यः कथमपि दिवा तां न मोक्ष्यन्ति तन्वी- मेकप्रख्या भवति हि जगत्यङ्गानानां प्रवृत्तिः । सत्वं रात्री जलद शवनासमवातायनस्थः कान्तां सुप्त सति परिजने वीतनिद्रामुपेयाः॥ भन्वेष्टव्यामवनिशयने संनिकी कपाश्वा तत्पर्य (न्त) प्रगलितल (न) वैश्छिमहारैरिवाः । भूयो भूयः कठिन विषमा सादयन्ती कपोला. दामोक्तव्यामयमितनखेनैवेणी कोण ॥ संनिर्माणक. २ क्षणम्. ३ जनितैः. (२६) हे मेघ ! मया सह सुखेन. मया विरहिता दुःखेन रात्रि यापयन्ती प्रियां पूर्ववत् मुखपितुमर्हसीति भावः ।
उत्तरमेघः । ७१.. दिना पुगागमः ।। स एव कालः सुखिनामल्पः प्रतीयते । दुःखिना तु, विपरीत इति भावः । एतेन कार्यावस्थोक्ता ।। पादानिन्दोरमृतशिशिराजालमार्गप्रविष्टा- न्पूर्वप्रीत्या गतमभिमुखं संनिवृत्तं तथैव । चतुः खेदात्सलिलगुरुभिः पक्ष्मभिश्छादयन्ती साभ्रेऽहीव स्थलकलिनी न प्रवुद्धां न सुप्ताम् ।।२७।। पादानिति ॥ जालमार्गप्रविष्टानावाक्षविवरगतानमृतशिशिरानिन्दोः पादारश्मीन्पूर्वप्रीत्या पूर्वस्नेहेन । पूर्ववदानन्दकरा भविष्यन्तीति बुद्धयोति भावः । अभिमुखं यथा तथा गतं तथैव संनिवृत्तं यथागतं तथैव प्रति- निवृत्तम् । तदा तेषामतीवदुःसहत्वादिति भावः। चक्षुर्दृष्टिं खेदात्स- लिलगुरुभिरश्रुदुर्भरैः पक्ष्मभिश्छादयन्तीम् । अत एव साभ्रे दुर्दिनेऽह्नि दिवसे न प्रबुद्धां मेवावरणादविकसितां न सुप्रामहरित्यमुकुलिताम् ।। उभयत्रापि नञर्थस्य नशब्दस्य सुप्सुपेति समासः ॥ स्थलकमलिनीमिव स्थिता । एतेन विषयद्वेषाख्या पठी दशा सूचिता ।। निःश्वासेनाधरकिसलयक्लेशिना विक्षिपन्ती शुद्धस्नानात्परुषमलकं नूनमागण्डलम्बम् । मत्संभोगः कथंमुपनयेत्स्वप्नजोऽपीति निद्रा- माकाङ्क्षन्ती नयनसलिलोत्पीडरुद्धावकाशाम्॥२८॥ निःश्वासेति ॥ शुद्धस्नानात्तैलादिरहितस्नानात्परुपं कठिनस्पर्श नून- मागण्डलम्बम् ।। सुप्सुपेति समासः ॥ अलकं चूर्णकुन्तलान् ॥ जाता- वेकवचनम् ।। अधरकिसलयं क्लेशयति क्लिश्नातीति वा तेन तथोक्तेन । चयोनेत्यर्थः ॥ क्लिश्यतेय॑न्ताक्लिनातेरण्यन्ताद्वा ताच्छील्ये णिनिः ।। १ सजला, २ विश्वासेन, ३ लम्बि, ४ संयोगः ५ कथमपि भवेत् ; क्ष- मपि भवेत् । (२७) हे मेघ ! यथा मेघावृते दिने स्थलकमलिनी न विकति न संकुचति तथैव मद्विहिता प्रिया ज्ञेयेति भावः । (२८) हे मेघ ! निश्श्वासद्वारा चूर्णकुन्तलं चालयन्ती स्वप्नावस्थाजन्यसंभो- गस्याप्याकांक्षया निद्रामभिलषन्तीं पियां सुखयितुं पश्येति भावः ।
७२ . मेघदूतम् । निःश्वासेन विक्षिपन्तीं चालयन्तीम् । तथा स्वप्नजोऽपि स्वप्नावस्थाजन्यो- ऽपि । साक्षात्संभोगासंभवादिति भावः । मत्संभोगः कथं केनापि प्रकारेणोपनयेदागच्छेत् । इत्याशयेनेति शेषः । इति नैवोक्तार्थत्वादप्रयोगः। "प्रयोगे चापौनरुक्त्यम्' इत्यालंकारिकाः ॥ प्राथनायां लिङ् ॥ नयनस. लिलोत्पीडेनाश्रुप्रवृत्त्या रुद्धावकाशामाक्रान्तस्थानाम् । दुर्लभामित्यर्थः । निद्रामाकाङक्षन्तीम् । स्नेहातुरत्वादिति भावः ॥ अत्राश्रुविसर्जनेन लजा- भ्यागो व्यज्यते ॥ श्राद्ये बद्धा विरहदिवसे या शिखा दाम हित्वा शापस्यान्ते विगलितशुचा नां मयोद्वेष्टनीयां स्पर्शक्लिष्टामयमितनखेनासकृत्सारयन्ती गण्डाभोगात्कठिनविषमामेकवेणीं करेण ॥२६॥ आद्य इति ॥ आये विरहदिवले दाम मालां हित्वा त्यक्त्वा या शिखा बद्धा ग्रथिता शापस्यान्ते विगलितशुचा वीतशोकेन मयोद्वे. प्टनीयां मोचनीयां स्पर्शक्लिष्टाम् । स्पर्श सनि मूलकेशेषु सव्यथामि- त्यर्थः । कठिना च सा विषमा निम्नोन्नता च ताम् । खञ्जकुब्जादि- वदन्यतरम्य प्राधान्यविवक्षया “विशणं विशेष्येण चहुलम्" इति समासः ॥ एकवेणीमेकीभूतवेणीम् ॥ "पूर्वकाल-" इत्यादिना तत्पुरुषः तां शिखाम् । अयमिता अतितोपान्ता नखा यस्याः तेन करेण गण्डाभोगाकपालविस्तारादसकृन्मुहुर्मुहुः सारयन्तीमपसारय- न्तीम् । “तां पश्य" इति पूर्वेण संबन्धः । असकृत्सारणाञ्चित्तविभ्र. मदशा सूचिता ॥ सा संन्यस्ताभरणमबला पेशंलं धारयन्ती शय्योत्सङ्गे निहितमसकृदुःखदुःखेन गात्रम् । १ या, २ द्वेष्टनीया, उन्मोचनीया, ३ अपमित, ४ विषमात्, ५ पेलवम् ; कोमलम् . (२९) हे मेघ ! आयविरहदिवशमारभ्य विरहान्तदिवसं यावदसंस्कृतामेक- वेणीमेकरेण कपोलप्रदेशान्मुहुर्मुहुरपसारयन्तीं मस्त्रियां सुखयितुं पश्येत्यर्थः ।
उत्तरमेघ ७३ . वामप्यत्रं नवजलमयं मोचयिष्यत्यवश्यं प्रायः सा भवति करुणावृत्तिरान्तिरात्मा ॥३०॥ सेति ॥ अबला दुर्वला संन्यम्ताभरणं कृशत्त्वात्परित्यक्ताभरणम- सकृदनकशो दुःखदुःखेन दुःखप्रकारेण ।। "प्रकारे गुणवचनस्य' इति द्विर्भावः ।। शय्योत्सङ्गे निहितं पेशलं मृदुलं गात्रं शरीरं धारयन्ती वहन्नी ॥ अनेनात्यन्ताशक्त्या मूळवास्था सूच्यते ॥ सा त्व- सखी त्वामपि नवजल मयं नवाम्बुरूपमस्र वाप्पमवश्यं सर्वथा मोच- यिष्यति ॥ "द्विकर्मसु पचादीनामुपसंख्यानम्' इति मुचेः पचादित्वाद्- द्विकर्मकत्वम ॥ तथा हि । प्रायः प्रायेणार्टान्तरात्मा मृदुहृदयः । मेघस्तु द्रवान्तःशरीरः सर्वतः करुणा करुणामयी वृत्तिरन्तः करणवृत्तिर्यस्य स करुणावृत्तिर्भवति । हि यस्मात् । अस्मिन्नवसरे सर्वथा त्वया शीघ्र गन्तव्यमनन्तरदशापरिहारायति संदर्भाभिप्रायः ॥ ननु किमिदमादिमां चक्षुःप्रीतिमुपेक्ष्यावस्थान्तराण्येव तत्रभवान्कविराहतवान् । उच्यते- "संभोगो विप्रलम्भश्च द्विधा शृङ्गार उच्यते । संयुक्तयोस्तु संभोगो विप्रलम्भो वियुक्तयोः ।। पूर्वानुरागमानाख्यप्रवासकरुणात्मना । विप्रल- म्भश्चतुर्धात्र प्रवासम्तत्र च त्रिधा ।। कार्यतः संभ्रमाच्छापादस्मिन्काव्ये तु शापजः । प्रागसंगतबानोः सति पूर्वानुरञ्जने ॥ चक्षुःप्रीत्यादयो- ऽवस्था दश स्युस्तत्क्रमो यथा । इङ्मनः सङ्गसंकल्पा जागरः कृशता रतिः।। होत्यागोन्मादमूर्ध्वान्ता इत्यनङ्गदशा दश । पूर्वसंगतयोरेव प्रवास इति कारणान् ॥ न तत्रापूर्ववच्चक्षुः प्रीतिरुत्पत्तुमर्हति । सत्सङ्गस्य तु सिद्धस्या प्यविच्छेदोऽत्र वर्ण्यते ॥ अन्यथा पूर्ववद्वाच्या इति तावद्व्यवस्थितेः । वैयादादिमां हित्वा वैरस्यादन्तिमां तथा ॥ हृत्सङ्गादिरिहाचष्ट कवि- रष्टाविति स्थितिः ॥ मत्सादृश्यं लिखन्तीति पद्येऽस्मिन्प्रतिपादिता । चक्षुःप्रीतिरिति प्रोक्तं निरुत्तरकृताननम् । चक्षुःप्रीतिर्भवेच्चित्रेवदृष्टचर- दर्शनात् । यथा मालविकारूपमग्निमित्रस्य पश्यतः । प्रोषितानां च भर्तृणां क दृष्टादृष्टपूर्वता ॥ अथ तत्रापि संदेहे स्वकलत्राणि पृच्छतु । किं भर्तृ- १ मश्रुम्, २ जललव; जलकम । (३०) हे मेघ ! सकलान्तरात्मनों कारुण्यात् (हेतोः) वियोगादाभरणादिक परित्यजन्ती मत्सखी भवन्तमपि नवाम्बुरूपं वाष्पं मोचयिष्यस्येवेति भाक।
मेघदूतम् । प्रत्यभिज्ञा स्यार्तिकं वैदेशिकभावना ॥ प्रवासादागते स्वस्मिन्नित्यलं कल- हैर्वृथा ॥” इति ॥ नन्वीहशी दशामापन्नेति कथं त्वया निश्चितमत आह- जाने सख्यास्तव मयि मनः संभृतस्नेहमस्मा- दित्थंभूतां प्रथमविरहे तामहं तर्कयामि । वाचालं मां न खलु सुभगंमन्यभावः करोति प्रत्यक्षं ते निखिलमचिराद्भातरुक्तं मया यत् ॥३१॥ जान इति ॥ हे मेघ, तव सख्या मनो मयि संभृतस्नेहं संचिता- नुरागं जाने । अस्मात्स्नेहज्ञानकारणात्प्रथमविरहे । प्रथमग्रहणं दुःखा- तिशयद्योतनार्थम् । तां त्वत्सखीमित्थंभूतां पूर्वोक्तावस्थामापन्नां तर्कयामि ननु सुभगमानिनामेप स्वभावो यदात्मनि स्त्रीणामनुगगप्रकटनं तत्राह- वाचालमिति ।। सुभगमात्मानं मन्यत इति सुभगंमन्यः ॥ "आत्ममाने खश्च" इति खश्प्रत्ययः । “अरुपिद-" इत्यादिना मुमागमः ॥ तस्य भावः सुभगंमन्यभावः सुभगमानित्वं मां वाचालं बहुभाषिणं न करोति खलु । सौन्दर्याभिमानितां न प्रकटयामीत्यर्थः ॥ "स्याज्जल्पाकस्तु वाचालो वाचाटो बहुगवाक्" इत्यमरः ।। "आलजाटचौ बहुभाषिणि" इत्यालच्प्रत्ययः ।। किंतु हे भ्रातः मयोक्तं यत् "आधिक्षामाम्" इत्यादि तनिखिलं सर्वमचिराच्छीघ्रमेव ते तव प्रत्यक्षम् । भविष्यतीति शेषः ।। मद्धापाङ्गप्रसरमलकैरञ्जनस्नेहशून्यं प्रत्यादेशादपि च मधुनो विस्मृतभ्रूविलासम् । त्वय्यासन्ने नयनमुपरिस्पन्दि शङ्के मृगाच्या मीनक्षोभाचलकुवलयश्रीतुलामेष्यतीति ॥३॥ १ सुभगं मन्युभावम्. २. सकलम्. ३ क्षोभाकुल. (३१) हे मेघ ! मयि लीनेऽपि प्रियाचित्ते तां वियोगादतिदुःखितां जाने- ऽन्यथा कुतो न मां बहुभाषिणं कुर्यादिति भावः । (३२) हे मेघ ! मद्वियोगादकृतशरीरसंस्काराया भपि प्रियाया नेत्रे त्वद्विलोकने मीनगतिचलितकमलशोभातुल्यतामेग्यत इति भावः ।
उत्तरमेघः। - नेन स्नेहः स्नग्ध्यं तेन शून्यम् । स्निग्धाजनरहितमित्यर्थः । अपि च किंच मधुनो मद्यस्य प्रत्यादेशानिराकरणात् । परित्यागादित्यर्थः ॥ "प्रत्यादेशो निराकृतिः' इत्यमरः ॥ विस्मृतो भ्रूविलासो धूमङ्गो येन तत् । नयनस्य रुद्धापाङ्गप्रसरत्वादिकं बिरहसमुत्पन्नमिति भावः । त्वय्या- सन्न सति । स्वकुशलवाशिंसिनीति शेपः । उपर्युव॑भागे स्पन्दते स्फुर- तीत्युपरिस्पन्दि । तथा च निमित्तनिदाने-"स्पन्दान्मूनि च्छत्रलाभं ललाटे पट्टमंशुकम् । इष्टप्राप्तिं दृशोरूर्वमपाङ्गे हानिमादिशेत् ॥” इति ।। मृगाक्ष्यास्त्वत्सख्यानयनम् । वाममिति शेषः । वामभागस्तु नारीणां पुंसां श्रेष्ठस्तु दक्षिणः । दाने देवादिपूजायां स्पन्देऽलंकरणेपि च ॥" इति स्त्रीणां वामभागप्राशस्त्यात् मीनक्षोभान्मीनचलनाचलस्य कुवलयस्य श्रियाः शोभायास्तुलां सादृश्यमध्यतीति शङ्के तर्कयामि ॥ (तुल्याथै रतुला. पमाभ्यां तृतीया ) इति कृद्योग तृतीया (१) ॥ वामश्चास्याः कररुहपदैर्मुच्यमानो मदीय- मुक्काजालं चिरंपरिचितं त्याजितो दैवगत्या। संभोगान्ते मम समुचितो हस्तसंवाहनानां यात्यत्रुः सरसकदलीस्तम्भगौरश्चलत्वम् ॥३॥ वाम इति । मदीयैः करमहपदैर्नखपदैः ॥ “पुनर्भवः कररुहो नखा- ऽस्त्री नखरोऽस्त्रियाम्' इत्यमरः ॥ मुच्यमानः परिहीयमाणः । नखा- ङ्करहित इत्यर्थः । ऊर्वोर्नखपदास्पदत्वं तु रतिरहस्ये-“कण्ठकुक्षिकुच- पाश्वभुजोरःश्रोणिसक्थिषु नखास्पदमाहुः" इति ॥ चिरपरिचितं चिरा- भ्यस्तं मुक्ताजालं मौक्तिकमरमयं कटिभूषणं दैवगत्या देववशेन त्याजितः । संप्रति नखपदोष्माभावेन शीतोपचारस्य तस्य वैयादिति भावः ।। त्यजतेर यन्ताकर्मकर्तरि क्तः । “द्विकर्मसु पचादीनां चोपसंख्यानमिष्यते" इति पचादित्वाद्विकर्मकत्वम् ॥ संभोगान्ते मम हस्तसंवाहनानां इस्तेन मर्दनानाम् ।। "संवाहनं मर्दनं स्यात्" इत्यमरः ॥ समुचितो योग्यः ॥ सरसो रसाः परिपक्को न शुष्कश्च स एव विवक्षितः । तत्रैव पाण्डि- १ वा. २ चिरविरचितम्; नवपरिचितम्. ३ संवाहनस्य. ४ कनक. (३३) हे मेघ ! मन्नखाङ्करहितः प्रियाया वाम अरु: स्यन्दनं यास्य- बीति भावः। ६ मेघदूतम् । मसंभवात् । स चासो कदलीस्तम्भश्च स इव गौरः पाण्डुरः ॥ “गौरः करीरे सिद्धार्थे शुक्ले पीतेऽरुणेऽपि च" इति मालतीमालायाम् ॥ अस्याः प्रियाया वाम ऊरुश्चललं स्पन्दनं यास्यति प्राप्स्यते ॥ "ऊरोः स्पन्दादतिं विद्यार्वोः प्राप्तिं सुवाससः" इति निमित्तनिदाने ॥ तस्मिन्काले जलद यदि सा लब्धनिद्रासुखा स्या- दस्वास्येमा स्तनितविमुखो याममात्रं संहस्व । माभूदस्याः प्रणयिनि मयि स्वपलब्धे कथंचि- त्सद्यःकएठच्युतभुजलताग्रन्थि गाढ़ोपगूढम् ॥३४॥ तस्मिन्निति ॥ हे जलद, तस्मिन्काले त्वदुपसर्पणकाले सा मत्प्रिया लब्धं निद्रासुखं यया तादृशी स्याद्यदि स्याचेत् । एनां निद्राणामन्वास्य । पश्चादासित्वेत्यर्थः ॥ उपसर्गवशात्सकर्मकत्वम् ॥ स्तनितविमुखो गर्जित- पराङ्मुखो निःशब्दः सन् । अन्यथा निद्राभङ्गः स्यादिति भावः । याम- मात्र प्रहरमात्रम् "द्वौ यामप्रहरौ समौ'' इत्यमरः। सहस्व प्रतीक्षस्व ॥ प्रार्थनायां लोट ॥ शक्तयोरेकवारसुरतस्य यामावधिकत्वात्स्वप्नेऽपि तथा भवितव्यमित्यभिप्रायः । तथा च रतिसर्वस्वे-“एकवारावधिर्यामो रतस्य परमो मतः। चण्डशक्तिमतो यूनोद्भुतक्रमवर्तिनोः ॥” इति ।। यामसहनस्य प्रयोजनमाह-मा भूदिति ॥ अस्याः प्रियायाः प्रणयिनि प्रयसि मयि कथंचित्कृच्छ्रेण स्वप्नलब्धे सति गाढ़ालिङ्गनम् ॥ नपुंसके भावे क्तः ॥ सद्यस्तत्क्षणं कण्ठाच्च्युतः सस्तो भुजलतयोग्रन्थिन्धो यस्य तन्मा भून्मास्तु । कथंचिल्लब्धस्यालिङ्गनस्य सद्यो विघातो मा भूदित्यर्थः न चात्र निद्रोक्तिः "तामुन्निद्राम्" इति पूर्वोक्तन निन्द्राच्छेदेन विरुध्यते, पुनः सप्तम्याद्यवस्थासु पाक्षिकनिद्रासंभवात् । तथा च रसरत्नाकरे "आसक्ती रोदनं निद्रानिर्लज्जानर्थवाग्भ्रमः । सप्तमादिषु जायन्ते दशा- भेदेषु वासुके ॥” इति ।। तामुत्थाप्य स्वजलकणिकाशीतलेनानिलेन प्रत्याश्वस्तां सममभिनवैर्जालकैर्मालतीनाम् । ' भन्वासीनः; तत्रासीनः.२ सहेथाः. (३४, हे मेघ ! स्वदुपसर्पणक्षणे निद्वितायाः प्रियाया नद्राविधातो यथा न भवेत्तथा त्वया विधेयमिति भावः । - उत्तरमेघः । विद्युद्गर्भः स्तिमितनयनां त्वत्सनाथे गवाक्षे वक्तुं धोरः स्तनितवचनैर्मानिनी प्रक्रमेथाः ॥३५॥ तामिति ॥ तां प्रियां स्वस्य जलकणिकाभिर्जलबिन्दुभिः शीतले- नानिलेनोत्थाप्य प्रबोध्य । एतेन तस्याः प्रभुत्वाद्व्यजनानिलसमाधि- य॑ज्यते । यथाह भोजराजः- "मृदुभिर्मर्दनैः पादे शीतलैय॑जनैः स्तनौ । श्रुतौ च मधुरैर्गीतनिद्रातो बोधयेत्प्रभुम्” इति ॥ अभिनवै- नूतनैमालतीनां जालकैः समं जातीमुकुलैः सह ॥ "सुमना मालतो जातिः" इति । "साकं सत्रा समं सह" इति । "क्षारको जालक कीबे कलिका कोरकः पुमान्" इति चामरः । प्रत्याश्वस्तां मुस्थि- ताम । अन्यच्च पुनरुच्छृसिताम् । श्वसेः कर्तरि क्तः । “उगितश्च" इति चकारादित्प्रतिषेधः (?) । ऐतनास्याः कुसुमसौकुमार्य गम्यते । त्वत्सनाथे त्वत्सहिते । “सनाथं प्रभुमित्याहुः सहित चित्ततापिनि" इति शब्दार्णव । गवाक्षे स्तिमितनयनां कोऽसाविति विस्मयान्निश्चलनेत्रां मानिनी मनस्वि- नीम् । जनानौचित्यासहिष्णुमित्यर्थः। विद्युद्गर्भोऽन्तःस्थो यस्य स विद्यु. द्गर्भः। अन्तर्लीनविद्युत्क इत्यर्थः । “गर्भोऽपवरकेऽन्तःस्थे गर्भोऽग्नौ कुक्षिणोऽर्भके” इति शब्दाणवे। दृष्टिप्रतिबातेन वक्तुर्मुखावलोकनप्रति- बन्धकत्वान्न विद्युता द्योतितव्यमिति भावः । धीरो धैर्यविशिष्टश्च सन् । अन्यथा शीलवादिनैतदनाश्वासनप्रसङ्गादिति भावः । स्तनितवचनः स्तनि- तान्येव वचनानि तैर्वक्तुं प्रक्रमेथा उपक्रमस्व ॥ विध्यर्थे लिङ् ।। "प्रोपाभ्यां समर्थाभ्याम्" इत्यात्मनेपदम् ।। संप्रति दूतस्य श्रोतृजनाभिमुखीकरणचातुरीमुपदिशति- भतुर्मित्रं प्रियमविधवे विद्धि मामम्बुवाह तत्संदेशैहदयनिहितैरागतं त्वत्समीपम् । - , विद्युत्कार; विद्युन्नेत्र, २ निहित. ३ धीरध्वनित; धीरस्त नेत. ४ वचनः, ५ तस्संदेशान्मनसि निहितात्; वसंदेशान्ननसि निहितात; तत्संदेशाद् इय- निहितात् । (३५) हे मेघ ! शीतलवायुना प्रियां प्रबोध्य स्वदधिष्टितगवाक्षे स्थिराट चाम्प्रति गर्जितरूपवाग्भिवक्तुं प्रारभेया इति भावः । --- पूवमघः । यो वृन्दानि त्वरयति पथि श्राभ्यतां प्रोषितानां मन्द्रस्निग्धैर्ध्वनिभिरबलावेणिमोक्षोत्सुकानि ॥३६॥ भर्तुरिति ॥ विधवा गतभर्तृका न भवतीत्यविधवा सभर्तृका । हे अविधवे । अनेन भर्तृजीवनसूचनादनिष्टाशङ्का वारयति । मा भर्नु । स्तव पत्युः प्रियं मित्रं प्रियसुहृदम् । तत्रापि हृदयनिहितैर्मनसि स्था- पितैस्तत्संदेशैस्तस्य भर्तुः संदेशैस्त्वत्समीपमागतम् । भर्तुः संदशकथना- यंमागतमित्यर्थः । अम्बुवाहं मेघं विद्धि जानीहि ॥ न केवल महं बार्ता- हरः किंतु घटकोऽपीत्याशयेनाह । योऽम्बुवाहो मंघो मन्द्रस्निग्धे स्निग्धगम्भीरैर्ध्वनिभिजितैः करणैः अबलानां स्त्राणां वेणयस्तासा मोक्षे मांचने उत्सुकानि पथि श्राम्यतां श्रान्तिमापन्नानां प्रोपितानां ग्रवासिनाम । पान्थानामित्यर्थः । वृन्दानि सांस्त्वरयति । पान्याप- कारिणो में किमु वक्तव्यं सुहृदुपकारित्वमिति भावः ।। भर्तृसख्यादिज्ञापनस्य फलमाह- इत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा त्वामुत्करटोच्चसितहृदया वीक्ष्य संभाव्य चैवम् । श्रोष्यत्यस्मात्परमवहिता सौम्य सीमन्तिनीनां कान्तोदन्तः सुहृदुपनतः संगमात्किंचिदनः ॥३७॥ इतीति । इत्येवमाख्याते सति पवनतनयं हनूमन्तं मैथिलीव सी- तेव सा मत्प्रिया । उन्मुख्युत्कण्ठ्यौत्सुक्येनोच्छवसितहृदया विकसित- चित्ता सती त्वां वीक्ष्य संभाव्य सत्कृत्य च । अस्माद्भर्तृमैत्रीज्ञापनात्परं सर्व श्रोतव्यम । अवहिताऽप्रमत्ता सती श्रोष्यत्येव । अत्र सीताहनुम- दुपाख्यानादस्याः पातिव्रत्यं मेघस्य दूतगुणसंपत्तिश्च व्यज्यते । तदगुणास्तु साकरे-"ब्रह्मचारी बली धीरो मायावी मानवर्जितः । धीमानुदारी निःशङ्को बक्ता दूतः स्त्रियां भवेत् ॥” इति ॥ ननु वार्तामात्रश्रवणादस्याः १ मन्त्र; सान्द्र. २ संभाष्य, ३ एव. ४ उपगतः. (३६) हे मेघ ! त्वया प्रियाम्प्रतीत्थं वाच्यम्, हे मानिनि ! मां पत्युमित्रं विद्धि तत्संदेशमादाय स्वदन्तिकमागतोऽस्मीति भावः । (३७) हे मेव! मसख्यभिधानमार्णयन्ती प्रिया मारुतं जानकीव त्वां वीक्ष्य सत्कृत्य च सन्देशं श्रोष्यतीयर्थः ।
उत्तरमेघः । - को लाभ इत्याशङ्कयार्थान्तरमुमन्यस्यति-हे सौम्य साधो, सीमन्तीनीनां बधूनाम ॥ " नारी सीमन्तिनी वधूः' इत्यमरः ॥ सुहृदा सुहृन्मुखेनो- पनतः प्रातः सन् । सुहृत्पदं विप्रलम्भशङ्कानिवारणार्थम । कान्तस्योदन्तो वार्ता कान्तोदन्तः ॥ "वार्ता प्रवृत्तिवृत्तान्त उदन्तः स्यात्" इत्यमरः ।। संगमात्कान्तसंपर्कात्किचिदून ईपदूनस्तद्वदेवानन्दकारीत्यर्थः ।। संप्रति संदिशति- नामायुष्मन्मम च वचनादात्मनश्चोपकर्तुं यादेवं तव सहचरो रामगिर्याश्रमस्थः। अव्यापन्नः कुशलमबले पृच्छति त्यां वियुक्तः पूर्वाभाष्यं सुलभविपदां प्राणिनामेतदेव ॥३८॥ तामिति ।। हे आयुष्मन् । प्रशंसायां मतुप । परोपकारलाध्यजी वि- तेत्यर्थः ॥ मम वचनं प्रार्थनावचनं तस्माचात्मनः स्वस्योपकर्तुं च परोप- कारेणात्मानं कृतार्थयितुमित्यर्थः ।। उपकारक्रियां प्रति कर्मत्वेऽपि तस्यो- पकरोतीत्यादिवत्संवन्धमात्रविवक्षायामात्मन इति पष्ठी न विरुध्यते । यथाह भारविः-“सा लक्ष्मीरूपकुरुते यया परेपाम्" इति । तथा ओहर्पश्च-“साधूनामुपकतु लक्ष्मी द्रष्टुं विहायसा गन्तुम् । न कुतूहलि कस्य मनश्चरितं च महात्मानां श्रोतुम् ।।'' इति । तथा च 'क्वचित्क्वचित् द्वितीयादर्शनात्सर्वस्य तथा' इति नायव उनमनाथवचनमेव ॥ तां प्रियामेवं ब्रूयात् । भवानिति शेषः । किमित्याह । हे अवले, तव सहचरो भर्ता रामगिरेश्रित्रकूटस्याश्रमेषु तिष्ठतीति गमगिर्याश्रमस्थः सन्नव्यापन्नः । न मृत इत्यर्थः । अमरणे हेतुमाह--वियुक्तो वियोगं प्राप्तो दुःखी संस्त्वां कुशलं पृच्छति ॥ दुह्यादित्वात्पृच्छतेर्द्वि कर्मकत्वम् तथाहि । सुलभविपदा- मयत्नसिद्धिविपत्तीनां प्राणिनामेतदेव कुशलमेव पूर्वाभाष्यमेतदेव प्रथम- मवश्यं प्रष्टव्यम् “कृत्याश्च" इत्यावश्यकार्थे ण्यत्प्रत्ययः ।। १ आयुष्मान्. २ वायाः. ३ एकम्. ४ वियुक्ताम्; नियुक्तः. ५ पूर्वाश्वास्यं सुलभविपदा प्राणिनामेतदेव भूतानां हि क्षयिषु करणेष्वाधमाश्वास्यमेतत्. (३८) हे मेघ ! रामगिर्याश्रमस्थस्तव स्वामी निरामयस्त्वां कुशलं पृच्छ- तीत्येवं तां या इति भावः।
मेघदूतम् । अंगेनांगं प्रतनु तनुना गाढततन तप्तं सास्रणाश्रुद्रुतमविरतोत्कण्ठमुत्कण्ठितेन । उष्णोलासं समधिकतरोच्चासिना दूरवर्ती संकल्पै स्तैर्विशति विधिना वैरिणा रुद्धमार्गः ॥३६॥ अङ्गेनेति ॥ किं च । दूरवर्ती दूरस्थः । न चागन्तुं शक्यत इत्याह । वैरिणा बिरोधिना विधिना दैवेन रुद्धमार्गः प्रतिबद्धवा स ते सहचरः तनुना कृशेन गाढतप्तेनात्यन्तसंतप्तेन सासण साश्रुणा । उत्कण्ठा वेदनास्यजातोत्कण्ठितस्तेनोत्कण्ठितेन ॥ “तदस्य संजातम्-" इत्यादिन तच्प्रत्ययः उत्कण्ठतेर्वा कर्तरिक्तः।समधिकतरमधिकमुच्छासितीति समधि कतरोच्छ्रासि तेन ॥ दीर्घनिःश्वासिनेत्यर्थः ॥ ताच्छील्ये णिनिः ॥ अङ्गेन स्वशरीरेण प्रतनु कृशं तप्तं वियोगदुःखेन संतप्तमश्रुद्रुतमश्रुक्लिन्नम् ॥ अश्रु नेत्राम्बु । " रोदनं चासमश्र च" इत्यमरः । अविरतोत्कण्ठमविच्छिन्नवेद- नमुष्णोच्छ्रासं तीब्रनिःस्वासम् । “तिग्मं तीव्र खरं तीक्ष्णं चण्डमुणं समं स्मृतम्” इति हलायुधः ॥ अङ्गं त्वदीयं शरीरं तैः स्वसंबेद्यैः संकल्पै- मनोरथै विशति एकीभवतीत्यर्थः । अत्र समरागित्वद्योतनाय नायकेन नायिकायाः समानावस्थत्वमुक्तम् ॥ संप्रति स्वावस्थानिवेदनाय प्रस्तौति- शब्दाख्येयं यदपि किल ते यः सखीनां पुरस्ता- कणे लोलः कथयितुमभूदाननस्पर्शलोभात् । सोऽतिक्रांतः श्रवणविषयं लोचनाभ्यामदृष्ट- स्त्वामुत्कण्ठाविरंचितपदं मन्मुखेनेदमाह ॥४०॥ शब्दाख्येयमिति ॥ हे अबले, यस्ते प्रियः सखीनां पुरस्तादन १ सुतनु तनु च. २ वम्. ३ दीर्घोछासम्. ४ ते. ५ तत्सखीनाम्. ६ भगात् ७ लोचनानाम. ८ अदृश्यः, भगम्य: ९ विरहित १० संमुखेन. (३९) है मेघ ! देवादूरवर्ती तव स्वामी साम्प्रतमनादिकार्यादिभिस्त्वस्तुल्य एखास्तीति बूया इति जावः । (४०) हे मानिनि ! यस्ते पतिस्त्वदधरपानेच्छया शब्दवाच्यमपि कर्ण वक्तु । प्रत्सुक भासीत स मम्मुखेनेदमाहेति भावः ।
उत्तरमेघ आननस्पर्श त्वन्मुखसंपर्के लोभागार्ध्यात्। अधरपानलोभादित्यर्थः । शब्दाख्येयं शब्देन रवेणाख्येमुच्चैर्वाच्यमपि यत्तत् । बचनमपीति शेषः । कर्णे कथयितुं लोलो लालसोऽभूत्किल ॥ "लोलुपो लोलुभो लोलो लालसो लम्पटोऽपि च" इति यादवः ॥ श्रवणविषयं कर्णप- थमतिकान्तः तथा लोचनाभ्यामदृष्टः । अतिदूरत्वाद्रष्टुं श्रोतुं च न शक्य इति भावः । स ते प्रियः । त्वामुत्कण्ठया विरचितानि पदानि सुप्तिङन्त- शब्दा वाक्यानि वा यस्य तत्तथोक्तम् । “पदं शब्दे च वाक्ये च" इति विश्वः ॥ इदं बक्ष्यमाणं "श्यामास्वङ्गम्" इत्यादिकं मन्मुखेन स एव बूत इत्यर्थः ॥ - सादृश्यप्रतिस्वप्नदशनतदङ्गस्पाख्यानि चत्वारि विरहिणां विनोद- स्थानानि । तथा चोक्तं गुणरताकायाम-"वियोगावस्थासु प्रियजन- सदृक्षानुभवनं ततश्चित्र कर्म स्वपनसमये दर्शनमपि । तदङ्गस्पृष्टानामुपन- तवतां दर्शनमपि प्रतीकारोऽनङ्गव्यथितसनसां कोऽपि गदितः” इति । तत्र सदृशबस्तुदर्शनमाह- श्यामास्वङ्ग चकितहरिणीप्रेक्षणे दृष्टिपातं वक्त्रच्छायां शशिनि शिखिना बहभारेषु केशान् उत्पश्यामि प्रतनुषु नदीवीथिषु भ्रूविलासा- न्हतैकस्मिन्क्वचिदपि न ते चण्डि सादृश्यमस्ति ॥४१॥ श्यामास्विति ॥ श्यामासु प्रियङगुलतासु ॥ "श्यामा तु महिलाव्हया। लता गोवन्दनी गुन्द्रा प्रियङगुः फलिनी फली" इत्यमरः ॥ अङ्ग शरीर- मुत्पश्यापि । सौकुमार्या दिसाम्यादङ्गमिति तर्कयामीत्यर्थः । तथा चकि- तहरिणीनां प्रेक्षणे ते दृष्टिपातं शशिनि चन्द्रे वक्त्रछायां मुखकान्ति तथा शिखिना बहिणां बहभारेषु बहसमूहेषु केशान् । प्रतनुष स्वल्पार नदीनां वीचिषु ॥ अत्र वीचीनां विशेषणोपादानेनानुक्तगुणग्रहो दोषः । भ्रूसाम्यनिर्वाहाय महत्वदोषनिराकरणार्थत्वात्तस्येति । तदुक्तं रसरत्नाकरे- 'ध्वन्युत्पादे गुणोत्कर्षे भोगोक्तौ दोषवारणे। विशेषणादिदोषस्य नास्त्य- प्रेक्षिते. २ दृष्टिपातान्. ३ वस्त्रच्छायम्; गण्डच्छायम्. ४ एकस्थम् ५भीरु. (४१) हे मानिनि । प्रत्येकस्मिन् श्यामादावनादेदर्शनेऽपि कुत्राप्येकस्मिन् सारश्यस्याऽभावारखेदो जायत इति भावः । ।
- : मेघदूतम्। नुक्तगुणग्रहः ॥ इति ॥ भ्रूविलासान् “भ्रूपताकाः' इति पाठे ध्रुवः पताका इवेत्युपमितसमासः ॥ उत्पश्यामीति सर्वत्र संबध्यते । तथापि नास्ति मनोनिवृतिरित्याशयेनाह-हन्तेति ॥ हन्त विषादे ॥ "हन्त हऽनुकम्पायां वाक्यारम्भविषादयोः इत्यमरः । हे चण्डि कोपने ।। "चण्डस्त्वत्यन्तकोपनः" इत्यमरः । गौरादित्वात् डोष ॥ उपमानकथन- मात्रेण न कोपितव्यमिति भावः । क्वचिदपि कस्मिन्नप्येकस्मिन्वस्तुनि ते तव सादृश्यं नास्ति । अतो न निणोमीत्यर्थः । अनेनास्याः सौन्दर्य- मनुपममिति व्यज्यते ।। संप्रति प्रतिकृतिदर्शनमाह- त्वामालिख्य प्रणयकुपितां धातुरागैः शिलाया- मात्मानं ते चरणपतितं यावदिच्छामि कतुम् । अस्रस्तावन्मुहुरुपचिटिरालुप्यते में करस्तस्मिन्नपि न सहते संगम नौ कृतान्तः ॥४२॥ स्वामिति ॥ हे प्रिय, प्रणयेन प्रेमातिशयन कुपितां कुपितावस्था- युक्तां त्वाम् । त्वत्प्रतिकृतिमित्यर्थः । धातवो गैरिकादयः ॥ “धातुर्वा- तादिशब्दादिगैरिकादिध्वजादिषु” इति यादवः ।। त एव रागा रञ्जकद्र- व्याणि ॥ "चित्रादिरञ्जकद्रव्ये लाक्षादौ प्रणयेच्छयाः। सारङ्गादौ च रागः स्यादारुण्ये रजने पुमान्' इति शब्दार्णवे ।। तैधातुरागैः । शिलायां शिलापट्ट आलिख्य निर्मायात्मानं माम। मत्प्रतिकृतिमित्यर्थः । ते तव । चित्रगताया इत्यर्थः । चरणपतितं कर्तु तथा लेखितु यावदिच्छामि तावदिच्छासमकालं मुहुरुपचितैः प्रवृद्धैरसरश्रुभिः कर्तृभिः।। “अस्रमणि ४२-४३ श्लोयोर्मध्ये क्षेपकोऽयं दृश्यते- "धारासिकस्थलसुरभिणस्त्वन्मुखस्यास्य बाले दूरीभूतं प्रतनुमपि मां पन्चबाणः क्षिणोति । धर्मान्तेऽस्मिन्विगणय कथं वासराणि बजेयु- दिक्संसक्तप्रविततघनव्यस्तसूर्यातपानि ॥" (४२) हे प्रिये ! प्रणयकालिकी त्वत्प्रतिकृति विलिख्याऽत्मनस्तव चरणपत- नकालेऽक्षणोरश्रुव्याप्तत्वाईवमेवावयोः सङ्गमविघातकं मन्य इति भावः ।
उत्तरमेघः। घातुकः "नृशंसो शोणिते" इति विश्वः मे दृष्टिरालुप्यते । आबियत इत्यर्थः ततो दृष्टिप्रतिब- न्धनाल्लेखन प्रतिबध्यत इति भावः । किं बहुना करो धातुक करः” इत्यमरः ॥ कृतान्तो दैवम ॥ कृतान्तो यमसिद्धान्तदैवाकुश- लकर्मसु” इत्यमरः ॥ तस्मिन्नपि चित्रेऽपि ॥ नावावयोः ॥ युष्मद- मदाः षष्ठीचतुर्थीद्वितीयास्थयोर्वानावौ” इति नावादेशः ॥ संगम सह- वासं न सहते । संगमलेखनमप्यावयोरसहमानं देवमावयोः सङ्गं न सहत इति किमु वक्तव्यय मित्यपिशब्दार्थः । अधुना स्वप्नदर्शनमाह मामाकामप्रणिहितिभुज निर्दयाश्लेषहेतो- लब्धायास्ते कथमपि मया स्वासंदर्शनेषु । पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां मुक्तास्थूलास्तरुकिसलथेष्वश्रुलेशाः पतन्ति ॥४३॥ मामिति ।। सुतस्य विज्ञानं स्वप्नः ॥ ‘स्वप्नः सुप्तस्य विज्ञानम्" इति विश्वः ॥ संदर्शनं संचित् । “दर्शनं समये शास्त्रे दृष्टौ स्वप्नेऽक्षिण संविदि ॥” इति शब्दार्णवे ॥ स्वप्नसंदर्शनानि स्वप्नज्ञानानि ॥ चूतवृक्षा. दिवत्सामान्यविशेषभावेन सहप्रयोगः ॥ तेषु मया कथमिति महता प्रयत्नेन लब्धाया गृहीतायाः । दृष्टाया इति यावत ।। ते तव निर्दयाश्लेपो गाढालिङ्गनं स एव हेतुस्तस्य । निर्दयाउलेपार्थमित्यर्थः ॥ “षष्ठीहेतुप्रयोगे" इति षष्ठी ॥ आकाशे निर्विपये प्रणिहितभुजं प्रसारितबाहुं मां पश्यन्तीनां स्थलीदेवतानां मुक्ता मौक्तिकानीव स्थूला अश्रुलेशा बाप्पबिन्दबस्तरकिसलयेषु अनेन चेलाञ्चलेनाश्रुधारणसमाधिर्ध्व- न्यते । बहुशो न पतन्तीति न किंतु पतन्त्येवेत्यर्थः । निश्चये नद्धय- प्रयोगः । तथा चाधिकारसूत्रम-"स्मृतिनिश्चयसिद्धार्थेष नन्दप्रयोगः सिद्धः" इति । "महात्मगुरुदेवानाभश्रुपात: क्षितौ यदि । दे.भ्रंशो महदुःखं मरणं च भवेद्ध्वम् ॥” इति क्षितौ देवताश्रुपातनिषेधद- र्शनाद्यतस्य मरणाभावसूचनार्थ तरुकिशलयेपु पतन्तीत्युत्तम् ।। १ निशि. (४३) हे प्रिये ! स्वमे दष्टी स्वामालिङ्गितुं प्रसारितवाहुमपि विफलप्रयासं- मां वोक्ष्य वनदेवता भपि रुदन्तीति भावः ।
मेघदूतम् । इदानीं तदङ्गस्पृष्टवस्तुदर्शनमाह- भित्त्वा सद्यः किसलयपुटान्देवदारुदुमाणां ये तत्क्षीरसुतिसुरभयो दक्षिणेन प्रवृत्ताः । प्रालिङ्गयन्ते गुणवति मया ते तुषाराद्रिवाताः पूर्व स्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति ॥४४॥ भित्त्वेति ।। देवदारुद्रुमाणां किसलयपुटान्पल्लवपुटान्सद्यो भित्त्वा । तत्क्षीरस्रुतिसुरभयस्तेषां देवदारुद्रमाणां क्षीरश्रुतिभिः क्षीरनिष्यन्दै. सुरभयः सुगन्धयः। तुषाराद्रिजातत्वे लिङ्गमिदम् । ये वाता दक्षिणेन दक्षिणमार्गेण ॥ तृतीयाविधाने प्रकृत्यादिभ्य उपसंख्यानात्तृतीया समेन यातीतिवत् । तत्रापि करणत्वस्य प्रतीयमानत्वात् “कर्ते कर- णयोरेव तृतीया" इति भाष्यकारः ॥ प्रवृत्ताश्चलिताः हे गुणवति सौशील्यसौकुमार्याद्रिगुणसंपन्ने, ते तुषाराद्रिवाताः पूर्व प्रागेभिर्वातै- सवाङ्ग स्पृष्टं भवेद्यदि किलेति संभावितमेतदिति बुद्धयत्यर्थः ॥ "वार्तासंभाव्ययोः किल' इत्यमरः ॥ मयालिङ्गयन्त आश्लिष्यते ॥ अत्र वायूनां स्पृश्यत्वेऽप्यमूर्तत्वेनालिङ्गनायोगादालिङ्गयन्त इत्यभिधानं यक्षस्योन्मत्तत्वात्प्रलपितमित्यदोप इति वदनिरुक्तकारः स्वयमेवोन्मत्त- प्रलापीत्युपेक्षणोय.॥ संक्षिप्येत क्षण इव कथं दीर्घयामा त्रियामा सर्वावस्थास्वहरपि कथं मन्दमन्दातपं स्यात् । इत्थं चेतश्चटुलनयने दुर्लभप्रार्थनं मे गाढोष्माभिः कृतमसरणं त्वंद्वियोगव्यथाभिः॥४॥ संक्षिप्यतेति ॥ दीर्घा यामाः प्रहरा यस्यां सा दीर्घयामा । विर- हवेदनया तथा प्रतीयमानेत्यर्थः त्रियामा रात्रिः ॥ "श्राद्यन्तयो- रधयामयोदिनव्यवहारान्त्रियामा ।" इति क्षीरस्वामी ॥ क्षण इव कर्थ १ एतत्. २ संक्षिप्यैवम्. ३ क्षणम्. ४ मया. ५ तद्वियोग. (४४) हे गुणवति ! देवदारपत्रक्षीरसुगन्धयुक्ता दक्षिणवायवस्त्वदास्पर्शवत्व- पिया मयाऽऽलिजयन्त इति भावः । (७५) हे चम्चलाक्षि ! रात्रेदर्दीर्घयामस्वादहश्च तीव्रातपत्वादित्यं मदीयं चेतस्त्वद्वियोगव्याभिराकुलीकृतमिति भावः ।
उत्तर मेघः। E केन प्रकारेण संक्षिप्येत लघूक्रियेत । अहरपि सर्वावस्थासु । सवका- लेवित्यर्थः। मन्दमन्दो मन्दप्रकारः ॥ "प्रकारे गुणवचनस्य” इति द्विरुक्तिः । “कर्मधारयवदुत्तरेषु' इति कर्मधारयवद्भावात्सुपा लुक ।। मन्दमन्दातपमत्यल्पसंतापं कथं स्यात् । न स्यादेव । हे चटुलनयने चञ्च- लाक्षि, इत्थमनेन प्रकारेण दुर्लभप्रार्थनमप्राप्यमनोरथं मे मम चेतो गाढो- माभिरतितीव्राभिस्त्वद्वियोगव्यथाभिरशरणमनाथं कृतम ।। न च मदीयदुर्दशाश्रवणाभेतव्यमित्याह- नन्वात्मानं वहु विगणयन्नात्मनैवावलम्बे तत्कल्याणि त्वमपि नितरां मा गमः कातरत्वम् । कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥४६॥ नन्विति ॥ नन्वित्यामन्त्रणे ॥ "प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु" इत्यमरः ॥ ननु प्रिये, बहु विगणयशापान्ते सत्येवमेवं करि- प्यामीत्यावर्तयन्नात्मानमात्मनैव स्वेनैव ॥ "प्रकृत्यादिभ्य उपसंख्यानम्" इति तृतीया ॥ अवलम्बे धारयामि । यथाकथंचिज्जीवामीत्यर्थः । तत्त- स्मात्कारणात् । हे कल्याणि सुभगे त्वत्सौभाग्येनैव जीवामीति भावः ।। "बह्वादिभ्यश्च" इति ङीष् ॥ त्वमपि नितरामत्यन्तं कातरत्वं भीरुत्वं मा गमः मा गच्छ ॥ “न मायोगे” इत्यडागमाभावः । तादृक्सुखिनोराव- योरीशि दुःखे कथं न बिभेमीत्याशङ्कयाह-कस्येति ॥ कस्य जनस्या- त्यन्तं नियतं सुखमुपनतं प्राप्तमेकान्ततो नियमेन दुःखं वोपनतम् । किं तु दशावस्था चक्रस्य रथाङ्गस्य नेमिस्तदन्तः ॥ "चक्रं रथाङ्ग तस्यान्ते नेमिः स्त्री स्यात्प्रधिः पुमान्" इत्यमरः ॥ तस्याः क्रमेण परिपाट्या ।। "क्रमः शक्तौ परीपाट्याम्" इति विश्वः ॥ नीचैरध उपरि च गच्छति प्रवर्तते । एवं जन्तोः सुखदुःखे पर्यावर्तेते इत्यर्थः ।। नतु; इति. २ न. ३ सुतराम्. ४ उपगतम्. (५६) हे कल्याणि! चक्रवत्परिवर्तनास्कस्याप्येकान्ततः सुखदु खयोरसवात् सङ्गमाशया यथाऽहं धैर्यवान् तथैव त्वमपि धैर्यवती भवेति भावः ।
- मेघदूतम् । न च निरवधिकमेतद्दुःखमित्याह- शापान्तो मे भुजगशयनादुत्थिते शाङ्गपाणी शेषान्मासान्गमय चतुरो लोचने मीलयित्वा । पश्चादावां विरहगुणितं तं तमात्माभिलाषं निर्वेच्यावः परिणतशरचन्द्रिकासु क्षपासु ॥४७॥ शापान्त इति ॥ शाङ्ग पाणौ यस्य स तस्मिशाङ्गपाणौ विष्णौ ।। "सप्तमीविशेषणे-" इत्यादिना बहुव्रीहिः । “प्रहरणार्थेभ्यः परे निष्ठास प्रम्यौ भवतः” इति वक्तव्यात्पाणिशब्दस्योत्तरनिपातः ॥ भुजगः शेष एव शयनं तस्मादुत्थितं सति मे शापान्तः शापावसानम् । भविष्यतीति शेपः । शेपानवशिष्टांश्चतुरो मासान् । मेघदर्शनप्रभृति हरिबोधनदिना- न्तमित्यर्थः । दशदिवसाधिक्यं त्वत्र न विवक्षितमित्युक्तमेव । लोचने मीलयित्वा निमील्य गमय । धैर्येणातिवाहयेत्यर्थः । पश्चादनन्तरं वं चाहं चावाम् ।। "त्यदादीनि संनित्यम्" इत्येकशेपः ॥ "त्यदादीनां मिथा द्वन्द्वे यत्परं तच्छिप्यत" इत्यस्मदः शेषः ॥ विरहे गुणितमेवमेवं करिष्यामीति मनस्यावर्तितम् । तं तय ।। वीप्सायां द्विरुक्तिः ॥ आत्म- नारावयारभिलापं मनोरथम् । परिणताः शरञ्चन्द्रिका यासां तासु क्षपासु रात्रिपु निवेश्यावो भोक्ष्यावहे ॥ विशतलृट ।। "निवेशो भृतिभोगयोः" इत्यमरः । अत्र कैश्चित् “नभानभस्योरेव वार्षिकत्वात्कथमापाढादिच- तुष्टयस्य वार्षिकत्वमुक्तमिति चादयित्व त्रयपक्षाश्रयणादविरोधः” इति पर्यहारि तत्सर्वमसंगतम् । अत्र गतशेषाश्चत्वारो मासा इत्युक्तं कविना न तु ते वार्पिका इति । तस्मादनुत्तोपालम्भ एव । यच्च नाथेनोक्तम् "कथमाषाढादिचतुष्टयात्परं शरत्कालः” इति, तत्राप्याकार्तिकसमाप्ते: शरत्कालानुवृत्तेः परिणतशरञ्चन्द्रिकास्वित्युक्तम् । न तु तदैव शरत्न दु. र्भाव उक्त इत्यविरोध एव ।। १ मासानेतान् ; मासानन्यान. २ गणितम् ; जनितम्. (४७) हे प्रिये ! विष्णोरुत्थाने सति शापान्तो भविष्यति अतोऽवशिष्टमास. चतुष्टयं कथमपि यापय पश्रादावयोमनोऽभिलषित कार्य सेत्स्यतीति भावः ।
- मे पूर्वमेघः । संप्रति तस्या मेघवञ्चकत्वशङ्कानिरासायातिगूढमभिधेयमुपदिशति- भूयश्चाहं त्वमपि शयने कण्ठलग्ना पुरा निद्रा गत्वा किमपि रुदती सस्वनं विप्रवुद्धा । सान्तींसं कथितमसकृत्पृच्छतश्च त्वया मे दृष्टः स्वप्ने कितव रमयन्कामपि त्वं मयेति ॥४॥ भूय इति ॥ हे अवले, भूयः पुनरप्याह । त्वद्भर्ता मन्मुखेनेति शेषः । मेघवचनमेतत् । किमित्यत आह-पुरा पूर्वम् । पुराशब्दश्विरा- तीत ॥ "स्यात्प्रबन्धे चिरातीत निकटागामिक पुरा" इत्यमरः ।। शयने में कण्ठलमापि त्वम् । गले बद्धस्य कथमपि गमनं न संभवेदिति भावः । निद्रां गत्वा किमपि । केन वा निमित्तेनेत्यर्थः सस्वनं सशब्दम् । उच्चैरि. त्यर्थः । रुदती सती विप्रबुद्धा । आसीरिति शेपः । असकृद्वहुशः पृच्छतः । रोदनहेतुमिति शेपः । म मम हे कितव, त्वं कामपि रमयन्मया स्वप्ने दृष्ट इति त्वया सान्तहासं समन्दहासं यथा तथा कथितं चेति । त्वद्भर्ना भूयश्चाहेति योजना ॥ एतस्मान्मां कुशलिनमभिज्ञानदानादिदित्वा मा कोलीनाचकितनयने मय्यविश्वासिनी भूः। स्नेहानाहुः किमपि विरहे ध्वंसिनस्ते त्वभोगा दिष्टे वस्तुन्युपचितरसा प्रेमराशीभवन्ति ॥४६॥ एतस्मादिति ॥ एतस्मात्पूर्वोक्तात् । अभिज्ञायतेऽनेनेत्यभिज्ञानं लक्षणं तस्य दानात्प्रापणान्मां कुशलिनं क्षेमवन्तं विदित्वा ज्ञात्वा । हे चकितनयने, कुले जनसमूहे भवात्कौलीनाल्लोकप्रवादात् । एता- वता कालेन परासुनॊ चेदागच्छतीति जनप्रवादादित्यर्थः ॥ "स्या- . १ अपि. २ भसि. ३ सत्वरम्. सत्स्वरम्. ४ भसित. ५ विरहाहासिनः; विरहन्यापदः, ६ ह्यभोग्याः, ७ दृष्टे. (४८) हे प्रिये ! पुरैकशयने सुप्तानि स्वप्ने किमपि वीक्ष्योत्थाय च कामपि स्वप्ने मया दृष्टोऽसीत्युक्तवतीत्यर्थः । (४९) हे चकितनयने ! प्रेषितसन्देशरूपाभिज्ञानान्मा सकुशलं विज्ञाय मय्य. विश्वस्ता माभूः निरहेऽपि भोगाभावास्नेहो बद्धत एवेति भावः। स्त्रियं रमयन् मेघदूतम् । स्कौलीनं लोकवादे युद्ध पश्वहिपक्षिणाम" इत्यमरः ॥ मयि विषये- ऽविश्वासिनो मरणशङ्कनो मा भून भव ॥ भवतेर्लुङ् । 'न माङयो- गे" इत्यडागमप्रतिषेधः ॥ न च दीर्घकालविप्रकर्षापूर्वस्नेहनिवृत्ति- राशङक्येत्याह-स्नेहानिति । किमपि किंचिनिमित्तम् । न विद्यत इति शेषः । स्नेहान्प्रीतिविरहे सत्यन्योन्यविप्रकर्षे सति ध्वंसिनो विनश्व- रानाहुः । तत्तथा न भवतीत्यभिप्राय: किंतु ते स्नेहा अभोगाद्विरहे भोगाभावाद्धेतोः । प्रसज्यप्रतिषेधेऽपि नभ्समास इप्यते ॥ इष्टे व- स्तुनि विषये । उपचितो रस: स्वादो येपु त उपचितरसाः सन्तः । प्रवृ. द्धतृष्णा इत्यर्थः ॥ "रसो गन्धरसे स्वादे तिक्तादो विपरागयोः" इति विश्वः ॥ प्रेमराशीभवन्ति । वियोगासहिष्णुत्वमापद्यन्त इत्यर्थः ।। स्नेहप्रे- म्णोरवस्थाभेदानेदः। तदुक्तम्-"आलोकनाभिलाषौ रागस्नेही ततः प्रेमा । रतिशृङ्गारौ योगे वियोगता विप्रलम्भश्च ॥” इति । तदेव स्फुटी. कृतं रसाकरे- "प्रेक्षा दिदृक्षा रम्येपु तचिन्ता त्वभिलापकः । गगस्तत्स- ङ्गबुद्धिः स्यात्स्नेहस्तत्त्रवणक्रिया । तद्वियोगासहं प्रेम रतिस्तत्सहवर्तनम् । शृङ्गारस्तत्समं क्रीडा संयोगः सप्तधा क्रमात् ॥” इति ।। इथं स्वकुशलं संदिश्य तत्कुशलसंदेशानयनमिदानी याचते आश्वास्यैवं प्रथमविरहोदनशोकां सखी ते शैलादीशु त्रिनयनवृषोत्खातकूटानिवृत्तः । साभिज्ञानप्रहितकुशलैस्तद्धचोभिर्ममापि प्रात: कुन्दप्रसवशिथिलं जीवितं धारयेथाः ॥५०॥ आश्वास्येति ॥ प्रथमविरहेणोदनशोकां तीव्रदुःखां ते सखीमेवं पूर्वोक्तरीत्याश्वास्योपजीव्य त्रिनयनस्य त्र्यम्बकस्य वृषेण वृषभेणो- खाता अवदारिताः कूटाः शिखराणि यस्य तस्मात् ॥ "कूटोऽस्त्री शिखरं शृङ्गम्" इत्यमरः ॥ शैलात्कैलासादाशु निवृत्तः सन्प्रत्यावृत्तः सन्सामि- ज्ञानं सलक्षणं यथा तथा प्रहितं प्रेषितं कुशलं येषु तैस्तस्यास्त्वत्सख्या १ एनाम्. २ विरहादुप्रशोकाम्. विरहेणादशोकाम्. ३ मे; स्वाम्. ४ भस्मात्. ५ साभिज्ञानम्. ६ स्वदचोभिः, (५०) हे मेव ! विरहातिमरितां प्रियामुपजीव्य कैलासानिवृत्तस्त्वं तस्सो- शवाग्भिमं जीवनं स्थापयेति भावः । - उत्तरमेघः। ह - " चचोमिर्ममापि प्रातः कुन्दप्रसवमिव शिथिलं दुर्बलं जीवितं धारयेथाः स्थापय ।। प्रार्थनायां लिङ् ॥ संप्रति मेघस्य प्रार्थनाङ्गीकारं प्रश्नपूर्वकं कल्पयति- कञ्चित्सौम्य व्यवसितमिदं बन्धुकृत्यं त्वया मे प्रत्यादेशान्न खलु भवतो धीरतां कल्पयामि । निःशब्दोऽपि प्रदिशसि जलं याचितश्चातकेभ्यः प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियैव ॥५१॥ कच्चिदिति ॥ हे सौम्य, साधो, इदं मे बन्धुकृत्यं बन्धुकार्यम् ॥ देवदत्तस्य गुरुकुलमितिवत्प्रयोगः ॥ व्यवसितं कच्चित्करिष्यामोति निश्चितं किम् ।। "कच्चिकामप्रवेदने" इत्यमरः ॥ अभिप्रायज्ञापनं कामप्रवेदनम्।। न च ते तूष्णीभावादनङ्गीकारं शङ्के यतस्ते स एवोचित इत्याह-प्रत्या- देशात् "करिप्यामि” इति प्रतिवचनात् ।। "उक्तिराभाषणं वाक्यमादेशो वचनं वचः" इति शब्दार्णवे ।। भवतस्तव धोरतां गम्भीरत्वं न कल्पयामि न समर्थये खलु । तहिं कथमङ्गीकारज्ञानं तत्राह-याचितः सन्निः- शब्दोऽपि निजितोऽपि । अप्रतिजानानोऽपीत्यर्थः । चातकेभ्यो जलं प्रदिशसि ददासि । युक्तं चैतदित्याह-हि यस्मात्सतां सत्पुरुषाणां प्रणयिषु याचकेपु विषय ईप्सितार्थक्रियेवापेक्षितार्थसंपादनमेव प्रत्युक्तं प्रतिवचनम् । क्रिया केवलमुत्तरमित्यर्थः ॥ "गर्जति शरदि न वर्षति वर्षति वर्षासु निःस्वनो मेघः । नोवो वदति न कुरुते न वदति सुजनः करोत्येव ॥” इति भावः ॥ संप्रति स्वापराधसमाधानपूर्वकं स्वकार्यस्यावश्यं करणं प्रार्थयमातो मेघ विसृजति एतत्कृत्वा प्रियंमनुक्षितप्रार्थनावर्तिनो मे सौहार्दाद्वा विधुर इति वा.मय्यनुक्रोशबुद्धया। १ प्रत्याख्यानात्, प्रत्याख्यातुम, प्रत्याक्यानम् २ तकयामि. ३ याचितम्. १ प्रियमनुचितं प्रार्थनादारमनः, प्रियसमुचितं प्रार्थनाहात्मनः; प्रियसमुचित प्रार्थनं चेतसः; प्रियमनाचत प्रार्थनावत्मनः, प्रियसमुचित प्रार्थित चेतसः. (५१) हे मेव ! यथा याचितो मेघो निश्शमोऽपि चातभ्यो जलं ददाति याप्रार्थितोऽपि त्वं तूप्णासापन्नो ममामोष्टका करिष्यनीति भाव । - ६० मेघदूतम् । इष्टान्देशाञ्जलद विचर प्रावृषा संभृतश्री- मा भूदेवं क्षणमपि च ते विद्युता विप्रयोगः ॥५२।। एतदिति ॥ हे जलद, सौहार्दात्सुहृद्भावात् ॥ "हृद्भगसिन्ध्यन्ते पूर्वपदस्य च” इत्युभयपवृद्धिः । विधुरो वियुक्त इति हेतोर्वा ।। "विधुरं तु प्रविश्लेये" इत्यमरः ।। मयि विषयेऽनुक्रोशबुद्धया करुणा- वुद्ध्या वा अनुचिता तवाननुरूपा या प्रार्थना प्रियां प्रति "संदेशं में हर” इत्येवंरूपा तत्र वर्तिनो निर्बन्धपरस्य में ममैतत्संदेशहरणरूपं प्रियं कृत्वा संपाद्य प्रावृपा वर्षाभिः "स्त्रियां प्रावृट् स्त्रियां भूम्नि वर्पाः' इत्यमरः ॥ संभृतश्रीरुपचितशोभः सन । इष्टान्स्वाभिलपितान्देशान्वि- चर । यथेष्टदेशेषु विहरेत्यर्थः । “देशकालाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्म- णाम्” इति वचनात्कर्मत्वम् ।। एवं मद्वरक्षणमपि स्वल्पकालमपि तव विद्युता । कलत्रेणेति शेषः । विप्रयोगो विरहो मा भून्मास्तु ।। माङोत्या. शिपि लुङ् । “अन्ते काव्यस्य नित्यत्वात्कुर्यादाशिपमुत्तमाम् ॥ सर्वत्र व्याप्यते विद्वान्नायकेच्छानुरूपिणीम् ।।" इति सारस्वतालंकारे दर्शनाका व्यान्ते नायकेच्छानुरूपोऽयमाशीर्वादः प्रयुक्त इत्यनुसंधेयम् । इति श्रीमहामहोपाध्यायमल्लिनाथसूरिविरचितथा संजीविनीसमाख्यया व्याख्यया समेतो महाकविश्रीकालिदासविरचिते मेघदूतकाव्य उत्तरमेघः समाप्तः। 125603 १. क्वचिदपि न, (५२) हे मेघ ! मदीयकार्यसम्पाद्य वर्षोपचितसोमः सन् यथेष्टदेशेषु विहर ममेव तवाऽपि विद्युत्कलत्रवियोगो मा भूदिति भावः ।
No text on this page.
मान बहादुर शास्त्री र राष्ट्रीय प्रशासन अकादमी, पुस्तकालय
L.B.S. Vational Academy of Administration, Library
मसूरी
MUSSOORIE
गह पुस्तक निम्नांकित तारीख तक वापिस करनी है।
This book is to be returned on the date last stamped
दिनांक
दिनांक
उधारकर्ता
की संख्या
Borrower's
No.
उधारकर्ता
को संख्या
Borrower's
No.
Date
Datc
GLSANS891.22
KAL
125803
LBONAA
Sono 891.22 अवाप्ति सं० कालिदा 4543 ACC. No...... वर्ग सं. पुस्तक सं. Class No........ Book No.......... लेखक Author... शीर्षक मेघदूतम् । Title....... कालिदास... .... निर्गम दिनांक उधारकर्ता की सं. हस्ताक्षर Date of Issue Horrower's No. Signature San LIBRARY 4543 89)-221AL LLAL BAHADUR SHASTRI National Academy of Administration MUSSOORIE कालिदा Accession No. 125603 1. Books are issued for 15 days only but may have to be recalled earlier if urgently required. 2. An over-due charge of 25 Paise per day per volume will be charged. 3. Books may be renewed on request, at the discretion of the Librarian. 4. Periodicals, Rare and Reference books may not be issued and may be consulted only in the Library. 5. Books lost, defaced or injured in any way shall have to be ed or its double price shall be paid by the borrower. ............. Alon2mnvino