Scl

Sri Malinivijaya Varttikam

Pandut_madhusudan_kaul_shastri

PDF Proofread

Front matter

No text on this page.

LA DERANA MENT JAMMU Kashmir Series of Texts and Studies. No. XXXI. SRI MALINIVIJAYA VÂR VARTTIKAM OF ABHINAVA GUPTA Edited with notes by PANDIT MADHUSUDAN KAUL SHASTRI. M. A., M.O.L. Superintendent Research Department, JAMMU AND KASHMIR STATE, SRINAGAR. Published under the authority of the Gocerument of His Highness Lieut, -General Maharaja SIR PRATAP SINGH SAHIB BAHADUR G.C.S.I., G.C.I.E., K.G.C.B.E-, LL.D., Maharaja of Jammu and Kashmir State- & SINHSY ASI ISIN IR 02 Tous lice ZIVE Srinagar : PRINTED AT THE "KASHMIR PRATAP STEAM PRESS, 1094

श्रीसामानन्दनाथप्रभृतिगुरुवरादिष्टसन्नीतिमार्गों
लब्ध्वा यत्रैव सम्यक्पटिमनि घटनामीश्वराद्वैतवादः।
कश्मीरेभ्यः प्रसृत्य प्रकटपरिमलो रञ्जयन्सर्वदेश्यान्
देशेऽन्यसिन्नदृष्टो घुसृणविसरवत्सवन्द्यत्वमाप ॥१॥
तरत तरसा संसाराब्धि विधत्त परे पदे
पदमविचलं नित्यालोकप्रमोदसुनिभेरे ।
विमृशत शिवादिष्टाद्वैतावबोधसुधारसं
प्रसभविलसत्सद्युक्त्यान्तःसमुत्लवदायिनम् ॥ २ ॥

VHeaawWS 30 काश्मीर-संस्कृतग्रन्थावलिः। ग्रन्थाङ्कः ३१ श्रीमालिनीविजयवार्तिकम् श्रीमन्महामाहेश्वराचार्याभिनवगुप्तपादविरचितम् । श्रीभारतधर्ममार्तण्ड-कश्मीरमहाराज- श्रीप्रतापसिंहवर-प्रतिष्ठापिते प्रत्नविद्याप्रकाश (रिसर्च ) कार्यालये तदध्यक्ष-पण्डिन-मधुसूदनकौल-शास्त्रिणा उहिष्टकार्यालयस्थेतरपण्डितसहायन संगृह्य, संशोधन-पर्यायाङ्कन-विवरणादिसंस्करणोत्तरं पाश्चात्यविद्वत्परिपममताधुनिकसुगमशुद्धरीत्युपन्यासादिसंस्कारः परिष्कृत्य श्रीनगरे "कश्मीर प्रताप स्टीम प्रेस" मुद्रणालये मुद्रापयित्वा प्रकाश्यमुपनीतम् DEPARTMENT EARCH asy MIR POETRY 3HI 03 VIS संवत् १९७७ स्रस्ताब्दः १६२१ काश्मीर-श्रीनगर (अस्य ग्रन्थस्य सर्व प्रकाशन-मुद्रापणाद्यधिकाराः प्रोक्तमहाराजवर्यैः स्वायत्तीकृताः सन्ति)

ALL RIGHTS RESERVED.
FINTEL Z1 P. VISHI NATIL & SOXS FUTBOLLIERB ANII 'I'IIKTOR
"KASHITE L'RAT.UP TEAM T'KEN' SRINAIAR
PUTIISITE) !!Y THE RESEARYL DEPARTMENT, J. & K. STATE
SRINAGAR

MALINIVIJAYOTTARAVARTTIKAM. PREFACE Malinivijayottaravarttikam or Malini. varttikam is a gloss on Malinivijayottara, one of the foremost works probably on the Purvimnàya or the Eastern School of the Tantras in the Advaita system of Kashmir Saivaism. It has been composed by Malamilcswara Abhinavagupta-áchàrya at the request of his two favourite disciples namely Karned and Nhundra. The whole work has been thrown into tivo parts or Kandis, the first part being devoted to the subject matter dealt with in the first seventeen chapters in the above Tantra and the latter throwing light on the remaining portion. The Tarttikam in question has got an inseparable connection with the above Tantra and is an indispensable guide in the field of Tantric Literature. Two manuscripts, as detailed below, have been made use of in preparation of the present edition of this book ;- (a). This Ms. belongs to the manuscript section of the SRL PRATAP SINGH PUBLIC Malinivijayottara Yantram most probably belongs to the PURV- AMNAYA as several anthorities refer to it as PURTA-SASTRA. of Tantraloka Com. IX - PP. 50; also S. Sutra Vimar. Page 20, I Unne., Swacch. X Com; also Tantraloka Text 15, 35 16.

LIBRARY. This is one of the oldest Jss. in the stock. Its leaves are torn out here and there and number 250. Tlie character in which the Ms. is written is oli Surarle. Kashmiri paper of old of old type, one-half Foclscap in size, has been used in the 13. On an average, a page contains 13 lines with sixteen letters in each. The first 11 leaves of the Ils. seem to have been restored recently. The Ms. is complete with a few slips of pen. It does not bear any date. The colophon at the end of the book runs thus-(प्रवरपुर नामधेये पुरे पूर्व काश्मीरि- कोऽभिनवगुप्तः । मालिन्यादिमवाक्ये वार्तिकमेतद्रचयति स्म । श्रीमालिनीश्लोकवार्तिकमाचार्याभिनवगुप्तविरचितं समाप्तम् ।) “ The Krsmirian dihinarii Gupta, while living in the Eastern quarter of the city of Prararascne, viz., SRINAGAR, composed this gloss or Tárttikam on the first stanza of the Màlinirijayottaralantru. Thus ends the Målini-slokarúrttikar composed by Achèrya Abhinava Guptu." (6), This Als. is on new Kasbmiri paper. There is no mention of the date when the copy of the Ms. was made. It is complete and is written out in Sáradá character with a few mistakes here and there. It belongs to late PANDIT RAMADEVA BHATTARAKA son of * जयन्ति जगदानन्दविपक्षक्षपणक्षमाः। परमेशमुखोद्भूतज्ञानचन्द्रमरीचयः॥ 1st Verse M.V, Tantra Malinivarttikaw, page 2) i.es

PANDIT SUKADEVA of Srinagar, kashmir, who
lived the life of a Saiva teacher to the last day
of his life.
In conclusion, I have to acknowledge my
obligations to the Sanskrit and English stall or
the Department, who have spered 1309 pains in
the way of correcting, collating 301. in sortir
places,deciphering the Mss. used in preparing this
edition which I hope will be useful not only ts)
the general Hindu public but also to the persons
wishing to avail themselves of the help thost
this book can contribute to their study in the
Advaita Saiva Philosophy of Kashmir.
With these few prefatory remarks I leave
the work to the indulgent judgment of the
reader.
Dated Srinagar,
MadiuSUDAN Kt.
the 7th Dec. 1920

No text on this page.

अथ
श्रीमालिनीविजयवार्तिकम्
श्रीमदाचार्याभिनवगुप्तपादविरचितम् ।
प्रथमः काण्ड:
विमलकलाश्रयाभिनवसृष्टिमहा जननी
भरिततनुश्च पश्चमुखगुप्तरुचिर्जनकः ।
तदुभययामलस्फुरितभावविसर्गमयं
हृदयमनुत्तरामृतकुलं मम संस्फुरतात् ॥ १ ॥
यदीयबोधकिरणैरुल्लसद्भिः समन्ततः ।
विकासिहृदयाम्भोजा वयं स जयताद्गुरुः ॥ २ ॥
साभिमर्शपडर्धार्थपञ्चस्रोतःसमुज्ज्वलान् ।
यः पादान्मह्यमभॊधान्दौंर्गत्यदलनव्रतान् ॥ ३ ॥
श्रीमत्सुमतिसंशुद्धसद्धनजनदक्षिणः।
शंभुनाथः प्रसन्नो मे भूयाद्वाक्पुष्पतोषितः॥४॥
गुरुभ्योऽपि गरीयांसं युक्तं श्रीचुखलाभिधम् ।
वन्दे यत्कृतसंस्कारः स्थितोऽस्मि गलितग्रहः॥५॥
ततो गुरुतरः श्रीमान्भूतिराजो महामतिः।
जयताद्भक्तजनतासमुद्धरणसाहसः॥६॥
श्रीसोमानन्दसंबोधश्रीमदुत्पलनिःसृताः।
जयन्ति संविदामोदसंदर्भा दिक्प्रसर्पिणः ॥७॥

२
मालिनीवार्तिकम्
तदृष्टिसंसृतिच्छेदिप्रत्यभिज्ञोपदेशिनः ।
श्रीमल्लक्ष्मणगुप्तस्य गुरोविजयते वचः ॥ ८ ॥
अप्यसंख्यनवास्वादचमत्कारैकदुर्मदा ।
पेनानुत्तरसंभोगतृप्ता मे मतिपट्पदी ॥ ६ ॥
नदेकमयतामाप्य स्वात्मन्येव तथा स्थिता !
तदस्याः प्रोन्मिपन्त्येव विविधा नादसंपदः ॥ १० ॥
मच्छिप्यकर्णमन्द्राभ्यामार्थतोऽहं पुनः पुनः !
वाक्याथ कथये श्रीमन्मालियां यत्कचित्वचित् ॥ ११ ॥
औचित्येनेतरत्यागाद्वाच्यवाचकयोमिथः ।
वर्तनावर्त एतस्सिन्साधु शास्त्रं च वार्तिकम् ।। १२ ॥
येऽहर्निशं प्रकाशन्ते सर्वस्य च न गोचरे ।
नुमोऽभिनवगुप्तांस्ताशिवचन्द्रांशुसंचयान् ॥ १३ ॥
जयन्ति जगदानन्दविपक्षक्षपणक्षमाः।
परमेशमुखोतज्ञानचन्द्रमरीचयः॥ १४ ॥
अनियन्त्रितसद्भावाद्भावाभेदैकभागिनः ।
यत्याग्जातं महाज्ञानं तद्रश्मिभरभैरवम् ॥ १५ ॥
ततस्तादृक्स्वमायीयहेयोपादेयवर्जितम् ।
विततीभावनाचित्ररश्मितामात्रभेदितम् ॥ १६ ॥
अभिमर्शस्वभावं तदृदयं परमेशितुः ।
तत्रापि शक्त्या सततं स्वात्ममय्या महेश्वरः ॥ १७ ॥
यदा संघट्टमासाद्य समापत्तिं परां व्रजेत् ।
तदास्य परमं वक्त्रं विसर्गप्रसरास्पदम् ॥ १८ ॥

अभिनवगुप्तविरचितम् 'अनुत्तरविकासोद्यजगदानन्दसुन्दरम् । भाविवत्ताविभागेन बीजं सर्वस्य यस्थितम् ॥ १६ ॥ इत्स्पन्ददृक्परासारनिर्नामोादि तन्मतम् । एतत्परं त्रिकं पूर्व सर्वशक्त्यविभागवत् ॥ २० ।। अत्र भावसमुल्लासशङ्कासंकोचविच्युतिः । स्वानन्दलीनतामात्रमात्रिच्छाकर्मक्तयम् ॥ २१ ॥ तथा च गुरवः शैवदृष्टावित्थं न्यरूपयन् । * स यदास्ते चिदाह्लादमात्रानुभवतल्लयः ॥ २२ ॥ शिवैक्याख्यातिरूपभ्रान्तिमयसंसारावस्था यावन्नोन्मिपति ताव- दपि तावत्येवोक्तरूपशिवता, तथा च शक्तिपंचकमपि तदानीमेकरूपमपि व्यवहारापेक्षया कार्यसंभवादस्त्येव, तथा हि परापरावस्थायां योऽहमि- ति सहजप्रत्यवमर्शात्मा प्रकाशः स एव परानपेक्षः पूर्णत्वादानन्दरूपो निवृतचिन्मयः स्थित एव सैव स्वतन्त्रता मुख्या शिवता, तदुक्तं चिदाहादेति । पूर्णचिदानन्दमात्रेऽनुभवः प्रकाशनं न तु बाह्ये, तत एव तत्रैव लयो यस्य स तथानेन निर्वृतचित्कथिता । इच्छाज्ञान क्रियास्तु भिन्न विषयाद्यपेक्षया स्फुटीभवन्ति । परावस्था- यां पुनः पूर्णोऽहमित्येव स्वस्वभावः प्रकाशते तावत्प्रकाशत्वात्, तदेव ज्ञानं संरम्भरूपत्वात्सैव क्रिया तत्स्वभावत्वेन तदभ्युपग- मादिच्छापि स्थितैवेत्याह तदिच्छा तावतीति तावञ्च स्वरूपं कि- येति योज्यम् । अथ वा तावज्ज्ञानमिति-तावच्छब्दः क्रियायां स्त्री- लिङ्गः परिणमनीयः, द्वितीयस्त्वन्ते तावच्छब्दः क्रमार्थः परापराधव- स्थापेक्षः, अत एव भिन्नविषयाभावेऽप्यभ्युपगमप्रकाशसंरम्भाणां स- चंदा प्रकाशमयत्वेनाविचलनादिच्छांदिव्यवहारयोग्यतैवेत्युक्तं सुस्- मेति सुसूचमत्वमेषितन्याद्यभावेन विभागापरिकल्पनात्, अत शकिसामरस्यं पूर्णचिन्मात्रप्रकाशतात्मत्वाच्चिदाह्लादपरत्वं चोक्तम् सैव च निर्विभागता परावस्था यदेवमास्ते परस्तदेत्युक्ता ॥ (शि. १० श्लो०४ ) १ सूचममिति पाठः। एवं माबिनीवार्तिकम् तदिच्छा तावती ज्ञानं तावत्तावक्रिया हि सा । सुसूक्ष्मशक्तित्रितयसामरस्येन वर्तते ॥ २३ ॥ चिद्रूपाहादपरमस्तदाभिन्नो भवेदिति । ननु चेदृशि विश्वात्मभूते संकोचवर्जनात् ।। २४ ॥ विकल्पकल्पनामूलाः कथं शास्त्रादिसंपदः । उच्यते सर्व एवायं बोधः संवित्मभामयः ॥ २५॥ प्रकाशरूपतायोगाच्चिदामर्शवनात्मकः । तत्रामर्शस्वभावोऽयं यः प्रकाशः प्रकाशते ॥ २६ ॥ स एव किन्न शास्त्रीयः किमन्यैर्युक्तिडम्वरैः । परवाग्देवताविद्धस्तत्रासौ केवलं भवेत् ॥ २७ ॥ न तु लौकिकमायीयवर्णपुञ्जविचित्रितः । * उक्तं श्रीप्रत्यभिज्ञायामात्मसंस्थस्य भासनम् ॥ २८ ॥ अस्त्येव न विना तस्मादिच्छामर्शः प्रवर्तते । स्वभावमवभासस्य विमर्श विदुरन्यथा ॥ २६ ॥ प्रकाशोऽर्थोपरक्तोऽपि तुल्यो रत्नादिकैरिति ।। किं च यत्किञ्च नामात्र चिच्चमत्कारगोचरः ॥३०॥ हादनामादिविषयस्तदासौ भवति स्फुटः । तद्विमर्शान्तरालम्बसमुच्छलनयोगतः ॥ ३१ ॥ पश्चात्सुस्फुटतामेति तथा च गुरुरुचिवान् । * अत्र वृनिः-चिदात्मनश्वेश्वरस्यात्मनोवाभेदेनार्थेष्वपि प्रकाशोऽस्त्य- म्यया प्रतिभासमानार्थे कविषयो निर्मातृतामयो विमर्श इच्छारूपो न स्थात् ॥ (प्र.भि०अ० श्रा०५ श्लो० १. + अन वृत्ति:-प्रकाशस्य मुख्य प्रारमा प्रत्यवमर्शस्तं विनार्थमेदि- ताकारस्यास्य स्वच्छतामात्रं न स्वजाड्यं चमत्कृतेरभावात् ॥ (मर मि. प्रभा लो. ) ) अभिनवगुप्तविरचितम् यथा स्वसंविदा सिद्धं सुखादि व्यवतिष्ठते ॥ ३२ । न हि व्यवस्थासमये वेद्यते तत्स्वसंविदा । तथावश्योपगन्तव्यः स्वसंवित्साधनादिति ? ।। ३३ ॥ एवमत्रापि पश्चाद्यज्ज्ञानाद्युल्लासवमनि । सर्वाभेदमयी भूमिर्यावदामृश्यतां व्रजेत् ।। ३४ ॥ तावचदुचितोदारविमशांशस्फुटत्वतः । ताडक्स एव शास्त्रत्वं प्राग्विसर्गः प्रपद्यते ॥ ३५ ॥ एतदेव तु युक्तं स्यात्तथा ह्यनुपधौ परे । शास्त्रार्थेऽपि समाचारलेशः कोऽपि विभाव्यते ॥३६ ॥ स नूनं स्फुटताधामभाविज्ञानादिशक्तिमान् ! उपरागात्ततस्तत्तद्वैचित्र्यपरिहितः ॥ ३७ ॥ यथा मुखस्य तब्यक्तिस्थानेऽप्सु मुकुरे मणौ। खङ्गे चञ्चलसद्वृत्तसूक्ष्मदीर्घादिका स्थितिः ॥ ३८ ॥ तदित्थं परमे रूपे प्रोद्भूता ज्ञानसंपदः । अनवच्छिन्नहृदयबीजात्मत्रयसुन्दराः ॥३६॥ यदा तूच्छलदाकारस्वतरङ्गान्तरात्मकान् । विसिमक्षति भावौधान्भैरवः शक्तिबृंहितः॥४०॥ तदा ता एव विज्ञानसंपदस्तदुपाधिोम् । ईषत्क्रियासमाचारयत्रणां संश्रिता इव ।। ४१ ।। परितस्तत्तरौघसात्मतां समुपाश्रिते । तथापि जगदानन्दसुन्दरे बोधभैरवे ॥४२॥ भावनिर्भरतामात्रसंतृप्ते शक्तिशालिनि । पूर्णिया निजशक्त्यैव न्यकृते शक्तिमत्पदे ॥४३॥ शास्त्रत्वप्रागिति पाठ: ! २ उपाधिजान् इति पाठः । ३ धमात्मतेति पाठः । ४ पूजयति पाठः।

मालिनीवार्तिकम् नागेव विमशात्मा ज्ञानधारा विजृम्भते । यम्यां भागोपदेशेन कोऽपि ह्लादः प्रवर्तते ॥ ४४ ॥ बदीयसंविदाचारचर्याविनम्भभावितः । भोगतातोऽपि धन्यानां निःश्रेयसपदायते ॥ ४५ ॥ यत्राच्यते स्वशक्त्यादिक्षोभसंरम्भनिर्भरा ! देवस्य यागप्रियता विशेषान्मातृमध्यतः ॥ ४६ ॥ ऐश्वर्यशक्त्युनेकेण लन्धेश्वरपदामिधः । देवो विज्ञानमहिमा प्रोद्भूतोऽयं प्रपञ्चितः ॥ ४७ ॥ अत्राप्यनन्तभावांशसंयोजनवियोजने । प्रग्दशाभेदसंधानादसंख्यत्वमुपाश्रिते ॥ ४८ ॥ तदुपाधिवशादेव संविज्ञानपदोज्झिती । तायन्ते विविधाः शास्त्रक्रियाज्ञानविभूतयः ॥ ४६ ॥ मुख्यस्त्वेष प्रपञ्चोऽयं पञ्चात्मत्वेन चर्चितः । तथा च वक्ष्यते * तत्वमभिन्नमपि पञ्चधा ॥ ५० ॥ सव्यापाराधिपत्वेन तद्धीनप्रेरकत्वतः । इच्छानिवृत्तेः स्वच्छत्वादित्याद्यैर्वाक्यसंचयैः ॥५१॥ नन्वेतावति सन्दर्भ देशकालकलाकृताः । * शिवस्य सव्यापारत्वेन क्रियाशाक्तप्रधाना जागरा, अधिपत्वेन स्व- स्वातन्त्र्यादसाधारणतत्तत्सृष्टिमयो ज्ञानशक्तिप्रधानः स्वमः, ज्ञानक्रि. याभ्यां होनेनौदासीन्यप्रच्यावास्मना प्रेरकत्वेनेच्छाप्रधानं सौषुप्तम् , ए- पणीयपूर्णतया तन्निवृत्त्याप्यानन्दशक्तिप्रधानं तुर्यम्, निरानन्दतया सर्व- सर्वात्मकपरिपूर्णस्वस्वरूपविश्रान्ते: चिच्छक्तिप्रधान तुर्यातीतमिति पञ्चावस्थात्मकमित्यर्थः ॥ १ पदोज्झित इति पाठः।

अभिनवगुप्तविरचितम् भेदा न संभवन्त्येव बाढमोमिति वच्महे ।। ५२ ॥ न ह्यत्र कालतत्त्वस्य नाममात्रं विभाव्यते । वैभव्यपि महाकाली शक्तिर्नात्र विजृम्भते ॥ ५३ ॥ ताभिन्ने स्वसंपूर्णे तदा पश्चात्पुनर्यदा । परतश्चेति को न्वेष वाचोयुक्तिपरिग्रहः ॥५४॥ अत्र ब्रूमः सत्यमेव वस्तुतस्तु स्फुटात्मनि । जृम्भिते तत्त्वसर्गेऽपि कालेऽप्युन्मिपितात्मनि ।। ५५ ।। वोधस्य नैव सन्त्येताः पूर्वापरविकल्पनाः । कालो विशेषणत्वेन यस्माद्भवति भेदकः ॥ ५६ ॥ विशेषणं च तत्प्रोक्तं समशीर्षिकयैव यत् । भेदेन वेद्यतामेति यथा नीलं सरोरुहम् ॥ ५७ ॥ न च बोधस्य वेद्यत्वं कदाचिदुपपद्यते । वेद्यत्वं भासमानत्वं तत्प्रकाशप्रसादतः ॥ ५८ ॥ प्रकाशः स सबोधश्च स चरोधान्तरस्थितः । प्रकाशानियमान्नूनमनवस्था प्रवर्तते ॥ ५६ ॥ अत एव विमूढा ये बोधमप्रथमानकम् । अर्थप्रथात्मकं ब्रूयुः स्ववचोवञ्चितास्तु ते ॥६० ॥ तस्मात्कालो न बोधस्य भेदकत्वाय कल्पते । नापि वैद्यस्य कालोऽसौ भेदकीभवितुं क्षमः ॥६१॥ विश्वं हि बोधाभिन्नं तदतथात्वे न भासते । प्रकाशन समाविष्टश्चित्रं भावः प्रकाशते ॥ ६२ ॥ १ परतश्चैतिकोन्मेष इति पाठः। २ कालोऽपीति पाठः। ३ शनिमयादिति पाठः।

मालिनीवार्तिकम् .. विश्वप्रकाश एवं स्यात्सर्वस्यैव मदाननः । सति प्रकाशे बोधाख्ये स प्रकाशत्वमश्नुते ॥ ६३ ॥ अप्रकाशोऽपि भावश्चत्प्रकाशात्मा स वेद्यते ! अप्रकाशस्त्वमौ भाव इत्यत्र शरणं तमः ॥ ६४ ॥ यश्चाप्रकाशो भावात्मा प्रकाशात्मा स चेत्कृतः । नूनं म भावो नष्टः स्यात्स्वांप्रकाशत्वविच्युतेः ॥६५॥ नातदृपं प्रकाशं च कर्तुं विधिरपि क्षमः । ननु तावदिदंभावः प्रकाशे सति भासते ॥ ६६ ॥ अस्त्वतदव किंत्वित्थमप्रकाशः प्रकाशताम् । भावस्य चाप्रकाशत्वे प्रकाशीभाविते सति ॥ ६७ ।। नैवं प्रकाशितो भाव इति वस्तुस्थितिर्भवेत् । तदलं व्यतिरिक्तेन प्रकाशेन शिवस्तथा ॥६॥ तस्मात्प्रकाश एवासौ गीतो यः परमः शिवः। म एवाचिन्त्यमहिमा सातव्योद्दामघूर्णितः ॥६६॥ प्रकाशते तथा तैस्तैः स्वभावरच्युतस्थितिः । नात्र सर्वत्र सर्वज्ञभावः कश्चन शङ्कयते ॥ ७० ॥ अहं चैत्रो घटं वेमि न पटं वेद तं द्वयम् । नायं वेत्ति पटः सोऽहं जाने घटपटाविति ।। ७१ ॥ वेदिष्यामि न वा पूर्वमजाननैव वा कचित् । क्रमेण वेनि युगपवाभ्यामुभयवर्जितम् ॥ ७२ ॥ सर्व वेशि न किंचिच्च जाने नैवास्मि कश्चन । भावात्मा ननु नैवाहमहं सर्व च सर्वदा ।। ७३ ।। मर्वमस्म्यहमवेकः किं सर्वमितरद्भवेत् । १ स्वप्रकाशेसि पाठः ।।

अभिनवगुप्तविरचितम् इत्यादिरेक एवायं प्रकाशः प्रविजृम्भते ॥ ७४ ॥ नन्वेको यद्यसः कश्चित्प्रकाशो न तदा परः। कथं भवेदहो मूढः कथं व्युत्पाद्यतामयम् ।। ७५ ॥ एकः प्रकाशः स्वातन्त्र्याचित्ररूपः प्रकाशते । वस्तुतश्च न चित्रोऽसौ नाचित्रो भेददूपणात् ।। ७६ ॥ घटप्रकाशे वस्त्रस्य प्रकाशो यदि संभवेत् । नासौ घटप्रकाशः स्याद्विप्रकाशो बसौ भवेत् ।। ७७ ।। सोऽपि चास्त्येव नो नास्ति तदिदं तत्पचोदितम् । घटात्मना प्रकाशोऽस्य माभूदित्यवतिष्ठते ।। ७८ ॥ तच्चायुक्तं प्रकाशस्य बोधवात्स्वात्मजृम्भणम् । लक्षणं यदि तत्कोऽयं वृथा वाग्जालडम्बरः ॥ ७६ ।। परिच्छिन्नप्रकाशत्वं जडस्य किल लक्षणम् । जडाद्विलक्षणो वोधो यतो न परिमीयते ॥ ८०॥ तस्मादर्कस्य सद्भावे सिद्ध कः खलु वालिशः। ब्रूयात्कथमयं खांशुशुभ्रिताशेपभूरिति ।। ८१ ॥ तस्मात्सिद्धे प्रकाशस्मिन्याः प्रकाशविकल्पनाः । तस्मात्ताः सर्वसंभुक्तयोपिचारित्रपालनाः ॥ ८२॥ असिद्धौ च प्रकाशस्य कोऽहं किं लं तमोऽपि किम् । न किंचिदपि वा किं स्यात्तूष्णी स्यादपि वा कथम् ॥८३॥ तस्मात्प्रकाशतादात्म्यलब्धभैरवभागिनाम् । भावानामपि कालोऽयं न किंचित्कर्तुमर्हति ।। ८४ ॥ हन्त तर्हि कथंकारं तदेत्यादिवचःक्रमः । श्रूयतामुक्तमप्येतत्पुनर्निर्भज्य भएयते ।। ८५ ॥ यः प्रकाशः स एवायं प्रतिभाति तथा तथा।

मालिनीवातिकम नैव चान्यस कस्यापि स तु भात्येव केवलम् ॥ ८६ ।। स एव परमादारः सर्वस्यैवावभासकः । स्वतन्त्र इति तस्येच्छा शक्तिः स्वातन्त्र्यसंजिता ।। ८७ ॥ स च स्वात्मनि विश्रान्तस्तदन्याभावयोगतः। स्वात्मविश्रान्तिरबैया देवस्यानन्द उच्यते ॥ ८८ । स्वातन्त्र्यमहिमा वास्य स्वरूपादपृथकिस्थतिः । स्वप्रकाश निजे धान्नि भासयंदावविधमान् ॥ ८६ ॥ भासना च क्रियाशक्तिरिति शास्त्रेषु कथ्यते । यया विचित्रतत्त्वादिकलना प्रविभज्यते ।। ६० ।। भासनानवमात च कथं नाम प्रकल्पते । तदस्यान्तःस्थितं भानं ज्ञानशक्तिरहं स्मृता ।। ११॥ एतावदस्य देवस्य यदूपं वात्ममात्रतः । स उन्मेप इति प्रोक्तः पञ्चशक्तिस्ततो विभुः॥ १२ ॥ त्रिशक्तिरकशक्तिर्वा देवो वा केवलः स्थितः । शक्तिरेवाथ देवी सा सा च शास्त्रे निरूप्यते ।। ६३ ।। वक्ष्यते च जगद्धातुः कथितेत्यादितः परम् । सैका सत्यनेकत्वं वै गच्छतीति महेशिना ॥ ६४॥ स चायं निर्भरानन्दविश्रान्तिस्वात्मसुस्थितः । सोदर्यैः शब्दसंदभैर्भाष्यते भैरवादिभिः ॥ ६५ !! सविधं दृरगं वापि यद्यप्यस्य न वस्तुतः । शब्दजातं भवेत्किचिदन्यदप्यथ या प्रभोः॥ १६ ॥ तथा च भासयत्येव देव एष तथा तथा । १ शक्तिस्वातन्त्र्येति पाठः।

आभनवगुप्तांवरींचतम् ततस्तदनुसारेण सर्वोऽयं कल्पनाक्रमः ॥ १७ ॥ न च तत्कल्पनामात्रं तथात्वेऽप्यथ का क्षितिः । लथा संकल्पतां देवो यद्वा कल्पयतां तथा ॥१८॥ एवं चैप प्रकाशात्मा सप्तत्रिंशात्मकात्परः । वैचित्र्यभासनां कुर्वन्कालं भासयति प्रभुः ॥ ६ ॥ वैचित्र्यभासनवेयं कालशक्तिरूदाहृतः । ततोऽवभासमानतत्कालशक्त्यनुरोधतः ।। १०० ।। आस्मकीनात्तदेत्यादिपरागः प्रवर्तते । न चासौ तत्र नास्त्येव तत्र यन्नास्ति तत्कुतः॥१०१॥ अन्यत्र तन्यतां नाम तत्प्रकाशवशं हितम् । नन्वेवमपरे तत्त्वजाले शुद्धतरस्थितौ ॥ १०२ ।। शुद्धाशुद्धपदे वापि विद्यादौ तत्त्वमण्डले । शुद्धभैरवसद्भावादविशेषो भविष्यति ॥ १०३ ॥ नरीनृत्यामहे हन्त यत्नाद्याख्येयमेव नः । आयुष्मतो यदृदये स्वयं विपरिवर्तते ॥ १०४॥ शुद्धाशुद्धविभेदो हि परमार्थकथासु नो । म तु तत्कृत एवास्ते मूढानां धियि निश्चलः ॥१०५॥ ननु शुद्धतरखाख्यो यदि भेदो न वास्तवः । च्याचिकीर्षितमेवैतच्छास्त्रं विवदते ततः ॥ १०६ ॥ अशुद्धवं हि तत्त्वानां दीक्षया शोधनं ततः। इत्यादि बहुधा भेदप्रधानात्र यतः स्थितिः ।। १०७ ।। उच्यते नाद्वयेऽमुष्मिन्द्वैतं नास्त्येव सर्वथा । उक्तं हि भेदवन्ध्येऽपि विभौ भेदावभासनम् ।।१०८॥ १ देवयद्वेति पाठः।

मालिनीवातिकम् तदेव खलु संसारो मायाविद्यादिभिः पदैः। बन्ध इत्युच्यते तत्र रूढाः संसारिणो मताः ॥ १०६ ॥ तचिन्तानुसृतरेपां शुद्धाशुद्धादि निश्चयः । किं च शास्त्रमिदं सम्यग्भगवद्योगदेशकम् ॥ ११० ॥ भगवद्योगमतं निर्द्वन्द्वं च प्रचलते । तस्योपदेश इत्थं स्याद्यदि यावद्विभेदवत् ॥ १११॥ संभाव्यत तनिर्भक्त्या निर्भज्यव निरूप्यते। अद्वैतभैरव विभौ यत्प्रवेशोपवेशयोः ॥ ११२ ॥ आभ्यासिकी स्थितिनास्ति तो हि भेदैकजीविती । अतः संभाव्यनिखिलद्वैतशङ्काव्यपोहने ॥ ११३ ॥ गुरूणां च शिशूनां च यत्नः सर्वैविजृम्भते । अतो द्वैतमिहाशयाशङ्कय सर्व प्रतन्यते ॥११४ ॥ तद्यावद्गति संभाव्य न तु तत्राप्युदास्यते । तथा हि यदि नामृष्टं द्वैतं तकमेव सत् ।। ११५ ।। चिद्रह्म तदलं तत्त्वसंख्याकल्पननिर्णयः। पञ्चविंशतिता कस्मात्तत्त्वानां तनिरूप्यते ॥ ११६ ॥ तस्मावतस्य भेदात्मस्थितेर्यावद्गतिग्रहम् । कृला यस्तत्प्रतिक्षेपस्तेन निःशङ्कता भवेत् ॥ ११७ ॥ एतदेव च विज्ञाने निर्भिद्यैवोपदेशनम् । यथासंभवितवज्रएक्षाणां यद्विदारणम् ॥ ११८ ॥ तथा हि श्रीमता स्तोत्रे भट्टनारायणेन तत् । 'नमस्ते भवसंभ्रान्तभ्रान्तिमुद्भाव्य भिन्दते ॥ ११ ॥ १ गन्ध इति पारः।

भिनवगुप्तविरचितम् ज्ञानानन्दं च निर्द्वन्द्वं देव वृत्ता विवृण्वते ।* निर्द्वन्द्वमिति नितं प्रकटीक्रियते पदम् ॥ १२० ॥ उद्भाव्यन्ते भ्रमाश्चेति चकारोवाद्भुतावहः । इह चाद्वैतमेवेति पुरतः प्रतनिष्यते ॥ १२१ ।। अध्वशुवादिकं द्वैतेऽनुपपत्तीति वक्ष्यते । अभेदेन विना नैतन्ननु भेदं विनापि किम् ।। १२२ ॥ सत्यं किंतु द्वये तत्त्वे भेदोऽपि न न युज्यते । इदं हि तत्पराद्वैतं भेदत्यागग्रहौ न यत् ॥ १२३ ॥ भेदे तु विश्वभावानां स्वस्वभावव्यवस्थितेः । अभेद इति शब्दोऽयं मन्ये भेदयते रसान् ॥ १२४ ॥ तदलं प्रकृतं निरूप्यते परमेशः किल भेदकल्पनाम् । प्रकटीकुरुते यथा तथा ननु कालोऽपि विजृम्भते तथा ॥ १२५ ॥ न तथापि च याति भिन्नतां परमार्थेन कदाचिदेव सः। युगपत्स हि संविदात्मकः ६३ हे देव स्वतन्त्रचेष्टित, भवे संसारे ये संभ्रान्ता:त्वन्मायाशक्तिवशात् व्यामूढाः, तत एव च भेदासक्तत्वात्कर्मनिष्टास्तेपा पूर्वकक्ष्यायां तो तां भेदभ्रान्तिमुद्भाव्य सिद्धान्तकक्ष्यायां भिन्दते ध्वंसकाय, तथा ज्ञानानन्द परमाद्वयरूपं विज्ञानमानन्दमयं वृत्वा प्रथमं रहस्य त्वात् अयोग्यान्प्रति आच्छाद्य, पश्चात् योग्यान्प्रति विवृण्वते स्फुटीकुर्वते, तुभ्यं नमः । एवं च यत्पूर्वपक्षतया कर्मकाण्डस्वरूपं भगवता हेयत्वेन दर्शितं, तदेव मुद्ध- रुपादेयत्वेन अभ्युपगम्य, ज्ञानकाण्डस्थार्थवादत्वमुच्यते । अथवा भग. वैतव सृष्ट्यादिकृत्यचतुष्टयरक्षायै ते तादृशाश्वासवन्तो व्यामोहिताः स्थापिताः।। (स्त. चि. ७३ श्लो०॥) - मालिनीबार्तिकम् स्वातन्त्र्याबहुधा प्रकाशते ।। १२६ ॥ क्रमकालविवर्जनाशयं युगपच्छन्दमिमं प्रयुञ्जते । नन्वित्यमेकघनभावविमर्शसारे संवेदने यदहमेप करोमि चित्रः । जानामि वा तदपरेऽपि न मैत्रचत्र- प्राया विदध्यस्थवापि कथं न विद्युः ॥ १२७ ।। अहो मायाग्रन्थिनिविडतम एपोज भवता- मिदं हि प्रब्रूमः स्वपरमिह नास्त्येकमभिदम् । अहं बेबीयेपा घटतनुविशेषप्रकटता प्रथाश्चित्राकाराः परमहसि भान्तीति कथितम् ।।१२८ ॥ तस्मार्ट वेयहमित्यमुत्र भेदो न कश्चिन्ननु मे घटोऽयम् । भातीति भेदप्रतिभानमस्ति नेतन्न तस्यैप शिवस्तथायम् ॥ १२६ ।। अत एव द्वैपायनमुख्यास्तेषु स्वशास्त्रदेशेषु । ममकारमेव मृत्यु खण्डनदायित्वतः माहुः ।। १३० ।। तदेवं कालकलनोपाधिजातोपरागजाः। तदेत्यादि प्रतायन्ते परतत्त्वेऽपि संविदः ॥ १३१ ॥ तत्र पूर्णकरूपत्वात्सर्व सर्वत्र चापि तत् । अन्यथा खण्डनायोगान्न पूर्णा पूर्णता भवेत् ॥ १३२ ॥ ततः पूर्णतया सर्वसहभैरवधामनि । पश्चात्मकोऽयं शास्त्रार्थः शांभवः शक्त्यणुस्थितिम्।।१३३॥ १ महाभैरवेति पाठः।

आभनवगुप्तांवरचितम् न्यक्कृत्यैपा परा देवी स्वात्मन्युरोच्य वर्तते । इत्थं स विसिसृनुः सन् भावान्विस्त्रष्टुतापदात् ।। १३४ ॥ पूर्वमुच्छलितानन्दघनामभजत स्थितिम् । विस्रष्टुतापदे खेप विसर्गीवेशभागपि ॥ १३५ ॥ रिक्तीभविष्यन्नानन्दघनया पूर्णया चिता । तावदानन्दशक्त्यंशविसर्गावेशनिर्भरः ॥ १३६ ॥ वर्तमानस्वशक्त्योधपूर्णश्चाभूद्भविष्यति । रिक्तशक्तिरिति त्र्यात्मचित्रसंवेदनात्मकः॥१३७ ।। तदासौ देवदेवः स्याद्विस्रष्टरि पदे स्फुटम् । ननु कि वर्तमानांशे संस्तो भूतभविष्यती ॥ १३८ ।। किं नाम भवता ज्ञातं ते स्वतत्रेऽपि केचन। वर्तमानावधैर्भूतं भविष्यच्च विभज्यते ॥ १३६ ।। यच्च यत्र न विश्रान्तं तद्विभज्येत वै कुतः । कथं चावधिभावः स्याद्वर्तमानस्य ते प्रति ॥ १४० ।। तयोरवधिमत्वं वा तत्प्रत्यपि कथं भवेत् । विश्वस्य विश्वमवधिस्तद्वद्वा जायते न किम् ॥ १४१॥ तस्माद्भूतं भविष्यञ्च वर्तमानाख्यसंविदि । रूढमेवेति तत्रैव यदि विश्रान्तिमावहेत् ।। ११२ ॥ यदि चात्रैव निखिलकल्पनारश्मिमण्डलम् । अविस्फार्य क्षणं तिष्ठेत् संनिरुद्धनिजस्थितिः ॥ १४३ ।। तनिजामृतविस्फारचमत्कारैकचर्वणाम् । लभते परमानन्दसुधासन्दोहवाहिनीम् ॥ १४४ ॥ तथा हि सूर्यरश्म्योधपूर्णः स्याञ्चन्द्रमा यदा । तदा सूर्यकरान्भूयो यावन विसिसृक्षति ॥ १४५ ।।

मालिनीवार्तिकम् तावत्म्वमण्डलाभोगे क्षणं विश्रान्तिसुस्थितः । अन्तःस्थविश्वदेवांशतर्पणापात्रमुच्यते ॥ १४६ ॥ एवं भावप्रकाशाकमरीचिनिचयाञ्चित । स्वबोधचन्द्रमहामि वर्तमाने हृदन्तरे॥ १४७ ॥ विश्रान्तोऽन्तःस्थितोदारचित्सुधासारसुन्दरे। अन्तःस्थस्वामृतापूरो वम्यने न बहिर्यतः ॥१४८॥ तत एवान्तरेवासी घूर्णमानः समुच्छलन् । स्वान्तःस्थदेवनाचक्रतपणाहंविदात्मकः ॥१४६ ॥ जायते यावदुद्दाम्येत्तावत्स्वकरणक्रमः । निरुद्ध रश्मिपटले विभवाभावयोगतः ॥ १५०॥ न भूतं न भविष्यच वर्तमानाद्विभज्यते। अविभागस्तयोर्यावत्तावत्का वर्तमानता ॥ १५१ ॥ भूतभाविस्वभावाभ्यां सा हि याति विभागिताम् । तदस्मिन्संविदवधौ विश्रम्य तुटिमात्रकम् ॥ १५२ कालग्रासपरो योगी जायते खेचरः क्षणात् । उक्तं हि भावाभासो यः कालः स कलनात्मकः ॥ १५३ ।। स्वसंचिद्रश्मिसंस्फारो भावाभावः स नापरः । तस्मात्स्वरश्मिसंरोधद्वाररुद्धाध्वमण्डलः ॥ १५४ ॥ कालग्रासकरसिको जायते खेचरः स्वयम् । तदुक्तं परमेशेन तत्रे श्रीडामराभिधे ॥ १५५ ॥ निरुवा रश्मिचक्रं स्वं पीखामृतमनुत्तमम् । कालोभयापरिच्छिन्ने वर्तमान सुखी भवेत् ॥ १५६ ॥ रोधोऽपि नाम नैतस्मिन्संकोचपरिवर्जिते । १ सविवधौ इति पाठः।

अभिनवगुप्तविरचितम् तदभावान्न विस्फारो ग्रासतृप्ती तथात्र के॥ १५७ ॥ कि तकनीत्या संरोधस्फारग्रासादि भासते। न तथाभासनाचान्यवस्तु विश्वत्र किंचन ॥ १५८ ॥ इत्यलं खेचरीचक्रगोष्ठ्यालापेन भूयसा । को वाभिनवगुप्तेऽस्मिन्योगः संवेदनक्रमे ॥ १५६ ॥ प्रकृतं ब्रूमहे देवीत्रिसृष्टाश्चित्रसंविदः । यावत्तावत्तदुर्बोध स्रोतो यद्भेदवर्जितम् ।। १६० ।। सौरभर्गशिखादीनि ततः शास्त्राणि तेनिरे । उक्तं भर्गशिखायां च देवेन परमेष्ठिना ॥ १६१ ॥ ऊर्ध्वस्रोतोद्भवं ज्ञानमिदं तत्परमं प्रिये । परमध्वनिनोसंविद्रूपाभिधायिना ॥ १६२ ।। ईशानवतनिर्यातात्सिद्धान्ता दमादिशत् । अत्रापि पूर्वभेदांशव्यामिश्रीभावचित्रिताः ॥ १६३॥ विज्ञानसंपदस्तांस्तांस्तन्वते शास्त्रविभ्रमान् । इह यावतु मुख्येयं पडात्मा शास्त्रसन्ततिः ।। १६४ ।। एतत्पूर्वार्धभागीनि त्रिकशास्त्राणि यानि तु । पडर्धसंज्ञया तानि गुरुभि पितान्यलम् ।। १६५ ॥ न तु गूढरहस्यत्वादेवैष वचनक्रमः । एवं हि द्वादशामित्याद्यपि न किं भवेत् ।। १६६ ॥ अत्र शक्तित्रयं मुख्यं संपूर्णस्थिति कल्पते । अनन्योन्योपरोधेन पूर्ण पूर्णचिदात्मकम् ॥ १६७ ॥ ततः परं तु त्रितयं कस्यांचिद्गुणताजुपि । अन्यसां गुणताभाजि यामलं परिभाष्यते ॥ १६८ ॥ पश्चाद्विसृष्टेप्यौंधे तद्वैचित्र्योपाधियोगतः ।

re भाखिनीवार्तिकम् पृथग्भाववियोगासु खात्मशक्तिषु पञ्चसु ॥ १६६ ।। चित्स्पन्देच्छाविदाकर्मरूपासु खौचितीवशात् । पञ्चब्रह्माङसुभगात्स्फुरद्भावांशबोधजम् ॥ १७० ॥ रूपं शास्त्रात्मतां प्राप्तं पञ्चधैव विजृम्भते । तथा हि प्रागनन्तान्तस्थितभावौधजृम्भणम् ॥ १७१ ।। यावत्करोति भगवांस्तावदीशमुखस्थितिः । अन्तःस्थाया अभिन्नायाः क्रियाशक्तेर्विजृम्भणे ॥१७२।। क्रमादुन्मिषिते तावानेष स्फारः प्रतायते । क्रियाशक्तेः स्फुटः स्फारः मायात्वं प्रतिपद्यते ॥१७३ ।। मायातत्त्वस्वरूपे हि शिवेशानीति वक्ष्यते । शुद्धाशुद्धतराशुद्धविश्वनिर्माणकारिणः ॥ १७४ ॥ पञ्चमन्त्रतनोः शंभोनिर्मेयाशुद्धसंगतिः । अस्त्येव पूर्वकोट्यां हि सर्वमेव व्यवस्थितम् ॥ १७५ ।। तथाहि स्वगृहात्कापि यियासोः प्रथमक्षणे । यावकिचन कर्तव्यं यच्च तन्मध्यवृत्ति तु ॥१७६ ॥ तुटिपातेऽपि सर्वज्ञसर्वकर्तृत्वलब्धृता । तत एव विशेषांशनिष्कम्पकुशलात्मनाम् ॥ १७७ ॥ तथा हि जात्यखड्गामधारासंस्पर्शसंमिता । स्फुरत्त्वसमकालं धीविशेषांशाप्रकर्षति ॥ १७ ॥ रत्नतत्त्वस्फुटप्रज्ञो विद्युत्तत्कालदर्शितान् । तांस्तान्विशेषांश्चिनुते रत्नानां भूयसामपि ॥ १७६ ॥ अनेकस्वरसंभारस्पर्शलाघवयोजिते । वीणायामेकविस्तारे वैचित्र्यं वेत्ति तन्मयः ॥१८० ॥ , प्रतिपरस्यते इति पाठः।

अभिनवगुप्तविरचितम् निविडाभ्यासधाराबविश्रान्तश्रवणेन्द्रियः । वेत्त्येव तत्स्वरांशान्तः श्रुत्यूनाधिकतामपि ॥ १८१ ॥ आस्तामभेदवादेमिन्नयलेनैव सिद्धति । एतद्यत्र विभातेऽपि भेदे वास्तवमद्वयम् ॥१८२॥ भेदैकजीविते शास्त्रे यावदेतत्स्थितं स्फुटम् । तथा हि पतञ्जलिना पादे वैभूतनामनि ॥१८३ ।। न्यरूप्यत प्रातिभावा सर्वमत्र मयापि च । प्रातिभे प्रथमोन्मेपे संविद्रूपिण्यखण्डिते ॥१८४ ॥ स्थितः सर्वस्फुरत्तात्मा सर्वसिद्धिफलोदयः। एवं जगति निर्मेये निर्मित्सास्वीकृतं बलात् ॥ १८५ ॥ अशुद्धमपि तवनानावैचित्र्ययोग्यपि । सामान्याकाररूपेण दलं भेदात्मसुन्दरम् ।। १८६ ॥ आस्ते प्रोन्मिषितं सैषा भेदाभेदात्मिका स्थितिः। अत एव हि सादाख्ये ज्ञानशक्तिस्वरूपिणि ॥ १८७ ।। अशुद्धलेशकालुष्यात्परापरतया स्थितिः। तेनेशभुक्तादेतसादप्पूर्वपदभागिनः॥१८८ ॥ मायाप्रकटनौत्सुक्यात्तत्संस्कारजुषस्तथा । बहुक्रियासमारम्भमयं विविधमन्त्रणम् ॥१८६ ।। प्रादुर्भूतमहाज्ञानसन्ततेश्च शिवप्रदम् । स हि तत्रापरो भावः परभावनिमीलितः ॥ १०॥ न तु रूढिमुपागच्छेदशुद्धावविधाविव । तेन वैष्णवबौद्धादिशासनान्तरनिष्ठिताः ॥ १६१॥ . स्फुरतास्मेति पाठः । २ स हि तवापर इति पाठः । ३ तथा निमीलन इति पाठः।

मालिनीवार्तिकम् यथा सम्यन मुच्यन्ते न तथा शैवसंस्कृताः। अतिमार्गक्रमकुलत्रिकस्रोतोन्तरादिषु ॥ १६२॥ परमेशानशास्त्रे तु ये सम्यग्दीक्षिता नराः । तेषां नयापवर्गस्य लाभे भेदोऽस्ति कश्चन ॥ १६३ ॥ न चैतदतिरिक्तोऽपि मोक्षोपायोऽस्ति कश्चन | केवलं काप्यनायासा जीवन्मुक्तिक्रमेण च ॥ १६४ ॥ शीघ्रमेव परा सिद्धियथास्मदर्शनेष्विति ! कापि तत्त्वावलीयोगपरिपाटीक्रमाचिरात् ।। १६५ ।। तैस्तैः क्रियाकलापैश्च लभ्यते परमं फलम् । अत एवास्ति संहारदृशां कौलिक्यपीह दृक् ॥१६६ ।। यथोक्तं कालपादादौ दीक्षयेच्छपचानिति । चिदुन्मेषादिकाः पञ्च याः पूर्व प्रागभेदतः ॥ १६७।। प्रोक्ताः परस्मिच्चिन्नाथे भैरवे समवायतः । ता एव भावोपाध्यंशलब्धभेदविभाविताः॥१८॥ भेदांशमेव पुष्णन्ति प्रागभेदजुषोऽप्यलम् । तथा ह्योदनसंभोगो यो देहस्योपचायकः ॥ १६६ ।। कफसंचयपातेन स देहस्यापचायकः । ननु देवस्य विश्वात्मभेदेऽपि स्वापरिच्युतेः ॥२०० ।। विकारिष्वेव योग्यानामुपाधीनां गतिः कुतः। नदुपाधिवशा दो भैरवे भावसंभवात् ॥२०१॥ इति नामन्मनोभूमामुपारोदुमिहार्हति । तूष्णीं विकारिणो भावाः सन्तीति हतिसाहसम् ॥ २०२ ।। देवः स एव विश्वात्मा तथारूपेण भासते अनुपाधेरभिन्नस्य भिन्नं नोपाधिभासनमः ।। २०३॥

अभिनवगुप्तविरचितम् नन्वित्थं तदसत्यं स्यात्कथं सत्यं तदेव हि । तथावभासनादन्यत्क किं सत्यं निरूप्यताम् ॥ २०४॥ नन्वेवं स्वप्नसंसारः किं सत्यं किंवसौ किल । अभीष्टार्थक्रियावन्ध्योऽसत्यो व्यवहृतः परम् ।। २०५ ॥ एतच्चाग्रे प्रपञ्चेन युक्तियुक्तं निरूप्यते । तस्मादुन्मेषशक्तिर्या पूर्वमासीदभेदिनी ॥२०६ ॥ भावोन्मेषस्वरूपासौ याता तत्पुरुषस्थितिम् । यदभिन्नं तदग्राह्यं यच्चाग्राहकमीश्वरम् ।। २०७ ॥ अधुना तत्स्थितं ग्राह्यं भेदात्तद्ग्राहक भिदः । पुरुषाख्यं ततः प्रोक्तं सृष्टेः प्रारम्भयोगतः ॥ २०८ ।। सुस्फुटप्रत्यभिज्ञानान्मुख्यं वक्त्रं च भण्यते । अत एवात्र विसरभावस्थितिविघातकम् ॥ २०६ ।। नानारुग्ग्रहसंघातविषादि परिचर्च्यते । अनेकयुक्तिदलितव्याधिसंशान्तसुस्थिताः ।। २१० ॥ अत्र सुस्फुटतां यान्ति भावा भेदैकवृत्तयः । भावत्वमेव यत्सर्व तंत्विदं पूर्व मुखम् ॥ २११ ॥ सर्वतश्च गुणोत्कर्षादीशानस्योर्ध्ववक्त्रता । दिकालकलनाशून्ये न तु दिग्भेदकल्पनाः ॥ २१२ ॥ यो हि यस्माद्गुणोत्कृष्ट इति चोो भविष्यति । ततो भावान्यदा सम्यगिच्छतीच्छाविभूतितः ॥ २१३ ।। तदेच्छायां समारूढाः सा चेच्छा चैव निर्मला । येन * तन्मयतायोगात्संविदैक्यं स्पृशन्त्यमी ॥ २१४ ॥ १यत इति पाठः । २ तत्तेदमिति पाठः। ३ वक्त्रगेति पाठः । *निर्मलेच्छामयतायोगान् ।

मालिनीवार्तिकम् किंतूपाध्युपरक्वेच्छासंछादनतिरोहिताः । ते तदानीं स्थिता भावा देवस्तु स्वैषणास्थितः ।। २१५ ॥ पराचीनितसंवित्तिवको न च परां स्थितिम् । पूर्णामध्युपितस्तेन सुषुप्त इव भासते ॥ २१६ ॥ असुप्तश्च प्रबुद्धत्वात्तस्य स्वापो निमीलनम् । नद्यस्ति परमार्थेन भैरवानन्दसंविदः ॥ २१७ ॥ तस्मिन्परप्रकाशे हि निमीलत्वमुपागते । प्रलयात्तन्निमीलत्त्वमितिर्वा कुत्र भासताम् ॥ २१८॥ अनाभातं च नो वस्तु व्योमसमगवाक्षवत् । सोऽपि वा कल्पिताकारश्चित्प्रकाशे प्रकाशते ॥ २१६ ।। तदमीलित एवायं निमीलन्निव तिष्ठति । प्रभूणामविकल्प्या हि शक्तिर्दुर्घटकारिणाम् ॥ २२० ।। इदं सुखेन घटते दुःखेन घटते त्विदम् । इत्याभासनवैचित्र्ये स्वतत्रो हि स एव नः ॥ २२१ ॥ तदेव तस्य स्वातन्त्र्यं शक्ति नियतिनामिका । यया रुद्धः पशुर्जातु स्वातन्त्र्यं नैव विन्दति ॥ २२२ ॥ तदपेक्षावलात्प्रोक्ता पत्यौ दुर्घटकारिता । नहि विश्वात्मनः किंचित्सुघटं वाथ दुर्घटम् ।। २२३ ।। किं मुहुर्मुहुरेतेन सकुन्ननु निरूपितम् । हन्ताविस्मृतिशीलं त्वां प्रत्येतत्स्यादपार्थकम् ॥ २२४ ॥ एकमुद्दिश्य किंत्वेतत्संरम्भो न विराजते । किं ह्येकाङ्कुरसंपत्त्यै प्रावृषेण्याः पयोमुचः ॥ २२५ ॥ १ पराचीनिति इति पाठः। २ प्रलयास्तति पाठः। नियति म यस्याः सा । ३ स्वाभ्येयवेति पाठः ।

अभिनवगुप्तावराचतम् मर्मस्थानमिदं चात्र व्युत्पाद्यो हि जनः स च । च्याप्तो हृद्भुवि कौघकृष्टायां सौकुमार्यतः ॥ २२६ ।। मायावीजोत्थितानन्तविकल्पाकुरकन्दलैः । भेदाभिमानजनितवाचनौचित्यसेवितैः ॥ २२७ ॥ यावद्विद्यामहादाववालयैषा पुनः पुनः । नालब्धा तावदस्यैतद्वैतं रोहेत्पुनः पुनः ॥ २२८ ॥ वीक्ष्णयत्नकुठारौधैः सद्विद्यावह्निदीपितैः । निर्भिन्नो देहविटपी पुनर्नैव प्ररोहति ॥ २२६ ।। एवं देवे सुषुप्तांशमध्यासीनाः स्थिता अपि । असद्देशीयतां यान्ति भावाः श्वभ्रकपित्थवत् ॥ २३० ।। अत्र तादृशमेवं स्वं ज्ञानं वैराग्यनिर्भरम् । निरुपाख्यं निरालम्ब व्यजृम्भत विरागतः ।। २३१ ॥ कपालमालाभरणाः श्मशानपदवासिनः । अस्मात्पराङ्मुखीभूता भूतसंघातगोचरात् ।। २३२ ॥ भोग्यं जुगुप्सावधि सर्वमेव भोक्ता ह्यहं कः किल देह एषः । चर्मास्थिमात्रं न च सारमत्र लेशांशभागेऽपि कदाचिदस्ति ॥ २३३ ।। इत्थमभ्यस्यमानास्ते परां वैराग्यसंपदम् । प्रतिक्षणमुपारुह्य निमीलन्ति तदाहतम् (१) ।। २३४ । किमेतदिति धावन्ति दुःखेऽपीन्द्रियवृत्तयः । एतदेवमिति प्रायो विरज्यन्ते सुखादपि ॥ २३५ ।। १ व्याप्ता इति पाठः । २ ज्वालयेमाः इति पाठः । ३ दास्येतद्वैतमिति पाठः । ४ सवियेति पाठः। ५ देवविटपीति पाठः ।

मालिनीवार्तिकम् . दृष्टानुश्रविकाऑषवैतृष्ण्ये वशताधियः । तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यमित्यपि ॥ २३६ ॥ नन्वकाण्डेऽपि पृच्छामः किंचिद्यदि न कुप्यते । किमकाण्डभेदकाण्डभेदकाण्डघटावधौ (१) ॥ २३७ ॥ तर्हि संविदियं शुद्धा स्वभावादेव चेत्कथम् । अशुचिभ्योऽपि भोगेभ्यो रसात्स्पृहयतेतमाम् ।। २३८ ॥ नन्वविस्मृतिशीलत्वाभिमानः काधुना गतः । अलं वा बुद्धथुपालब्धैरुतमप्येतदुच्यते ॥ २३६ ।। स्वभावादेव संवित्तिः प्रकाशपरमार्थिका । विश्वावभासयोगेन भातीति हि विपञ्चितम् ।। २४० ।। अतश्च संविदो देव्या विश्वस्मिन्भावमण्डले । स्वात्मन्यत्रोच्छलत्वं किं खण्डनादायि जायते ॥ २४१ ॥ यदापि परमेशानशक्त्या भेदोऽवमास्यते । तदापि संविद्भावेषु धावतीति विविच्यते ॥ २४२.।। यथा लोष्ठड्दज्वालाश्वासकुम्भवियस्थितिः। धराम्बुधिमहातेजःसमीरानन्तखात्मताम् ॥ २४३ ॥ यात्येव मितिरूपेयं संवित्स्वोच्छलितकमात् । संविद्रुयसजातीयान्भावानेवानुधावति ॥२४४ ॥ न्यरूप्यत तथा चैतत्केनापि परमशिना। निम्नं तडागपानीयं कः प्रवर्तयितुं नमः ॥ २४५ ।। परिपूर्णे पुनस्तस्मिन्प्रवाहाः सर्वतोमुखाः । ननु कि कांश्चिदेवेत्यं सैषा स्वनियतेर्वलात् ।। २४६.।। १ न सा स्पृहयत इति पाठः । २ तथेति पाठः । ३ शितीति पाठः।

अभिनवगुप्तविरचितम् इत्थं धावति तचास्मा रागतत्वात्मकं वपुः । तत्रापि च तथा रागाभास एव स धार्यताम् ॥ २४७ ॥ चिदात्मनि तु रागस्तु कोऽप्यन्यारूपणात्मकः । नन्वित्थं चेत्कथं नाम सा कुत्रापि विरज्यते ॥ २४८॥ हन्त प्रकृत एवायं वादः संगतिमागतः। यदा हि चितिरवैषा सर्वथा संकुचत्स्थितिः ।। २४६ ।। क्रमेण भोग्योपायेभ्यो भोग्येभ्यो देहतो भुजः। भोगाद्भोक्तुस्तथा शून्यमहाप्रलयभागिव ।। २५० ।। जागते रुद्ररूपैषा दशा सांहारिकी यतः। सद्योजातश्च यद्रुद्रः पुरुषश्वेश्वरात्मकः ।। २५१॥ श्रीमान्सदाशिवो देव ईशानथेति गीयते । विष्णुर्वामः कजोऽयोर इति चैतद्भविष्यति ॥ २५२ ।। अन्तःस्थसर्वशक्तित्वेनैकैकस्यापि बृंहणात् । ब्रह्माण्येतानि कथ्यन्ते बृहत्वाद्विश्वबृंहणात् ॥ २५३ ॥ तदन्यशत्युनेकांशे ह्यत एव विवक्षिते । प्रत्येकमस्ति ब्रह्मादिहेतुपञ्चकयोगिता ॥ २५४ ॥ सैव शास्त्रेषु भेदेन तेषु तेषु प्रतन्यते । अतश्च सद्योजातेऽस्मिन्मुख्या रौद्रदशा स्थिता ॥ ५५ ॥ सा च संकोचरूपापि चिद्विकासे भविष्यति । यल्लीनौ ब्रह्मविष्णशौ तेनाधः कुरुते बलात् ।। २५६ ।। वस्त्वभावमयीत्यादिदशा रुद्राधिदेवता । भिन्नप्रमेयेति श्रीमदुत्पलेन न्यरूप्यत ।। २५७।। . भोगभ्य इति पाठः । २ भिन्नप्रमेयेत्यायं धनान्तं किंतु कदाचित्कें। प्रम इत्यादि तच्छीमदिति पाठः।

मालिनीवार्तिकन् जातोऽपि भेदतन्माने संकोचं यदुपागतः। ततो रतिनिर्मालेले भोक्सभोग्यानिह स्कुटम् ॥ २५८ ॥ अजातनिव तद्विश्वरत्र सबोचभागते । सद्योजातपदं तेन शू यसंवेदजालकम् ॥२५६ ॥ ततः शून्यपदस्यान्तर्यावत्स च विवितति । देवस्तावत्स्वयं बोधे विश्वं प्रोच्छलति स्थितम् ॥२६० ।। जानाति सेयं नाथस्य ज्ञानशक्तिर्विकासिनी । तयोर्विकासिचिद्धानि लीनत्वमुपपादितम् । २६१ ॥ संविदः शून्यरूपाया विकासो विश्वभेव तत् । तथा हि घनसौपुतविश्रान्तिवशनिर्भरः ।। २६२॥ तांस्तान्गृहापणाद्यशान्वेत्ति स्वप्नपदाभिधान् । अत एव न सा सृष्टिः स्थितिरेव तु सा तथा ॥ २६३ ।। पूर्वसृष्टेषु भावेषु तद्धि विज्ञानमात्रकम् । तथा च जाग्रतो रूपात्स्वनो भेदेन जायते ॥२६४ ॥ किंतु जाग्रत्पदादीनां प्रत्येकं बहुभेदता । निर्णेष्यते ततो युक्तं सृष्टिरूपेण भासनम् ॥ २६५ ॥ अतो निजविवोधेन तान्भावान्व्याप्नुवन्विभुः। एतैस्त्याजयते तां स्वामौदासीन्यदशां विभुः ॥ २६६ ॥ ज्ञानशक्तेरियं जुम्मा तज्ज्ञानस्थितिभाविनः । भावाः प्रयान्ति पूर्णत्वं विकासिनिजतेजसः ॥२६७ ॥ परमः खलु संकोचः सद्योजातपदे भवेत् । यदेपां स्वस्वरूपस्य निष्ठा नैव स जायते ।। २६८ ॥ विना संविदुपारोहं संधासंधा जडोजडः। १वत इति पाठः ।

अभिनवगुप्तविरचितम् अनीलं नीलमित्यादिव्यवस्था कल्पता कयम् ।। २६६ ॥ यदुवाचोत्पलगुरुयथा सदसतां तथा। जडाजडानां न स्वात्मविशेष इति निश्चितम् ।। २७० ॥ तस्माद्बोधभरोल्लासविसृष्टस्वपरस्थितिः। चिदनुप्राणनां विश्वग्वमन्नानन्दसुन्दराम् ॥ २७१ ।। चिदेकवपुषा विश्व स्वीचिकीपंश्चिदात्मनि । स्वबोधशक्तित्रमनात्स देवो वाम उच्यते ॥ २७२ ॥ स्वबोधरापुद्रेकेण यद्यप्येष प्रयच्छति । भावानां स्ववपुस्तादृक्तथापि परमार्थतः ॥ २७३ ।। स्वीकर्तुमिच्छन्संहारमेषां कल्पयते भिदः। अतो भेदोव्यवस्थामा वामोऽसौ परमेश्वरः ॥ २७४ ॥ अत्र सौभाग्यनिःष्यन्दि ताहग्ज्ञानं प्रतायते । सौभाग्यं सोच्यते तेषां भिन्नानां स्वीक्रियैव या॥२७५ ॥ भाषानां च विचित्राणां भोगाङ्गानां स्वशक्तिः । स्वकौतुककलालोकादुच्छलन्त्येव या चितिः ॥ २७६ ॥ सैव स्वभावरागेण विश्वं रञ्जयते यतः। व्यक्तो हि रजयेद्विश्वं व्यक्तिधात्य स्वरूपतः ॥२७७॥ यैव गोच्छलितावस्था स्वीकारेच्छाभरोदयः। तद्रश्मिसारसर्वस्वे नणं तिष्ठत्यनन्यधीः ॥२७८ ॥ किं नाकर्षति कि नैष न भावयति योगवित् ॥ तत एवोच्यते शास्त्रे नारको रञ्जयेदिति ॥ २७६ ।। तथा कामस्थं काममध्यस्थं कामाकुशपुटीकृतम् । + असत्रिवि पाठ। २ मंदव्यांत पाठ. शांपत इति पाठः मालिनीवार्तिकम् कामेन साधयेतागकामं कामेषु योजयेत् ॥२८० ॥ कामं स्वीकर्तुमिच्छैच तदाच्छादनयोगतः। विश्वं साधयते कामी कामतत्वमिदं यतः ।। २८१॥ तथा हि परमे स्वात्मन्यध्यास्य स्थैर्यमञ्जसा । तदुच्छलितसंबोधकलासंचादनक्रमात् ॥ २८२ ॥ विश्वं कामाङ्कुशाधीनं किंकरत्वेन भासते । अध्यात्मसिद्धया युक्त्या त्वनयव निजोदये ॥ २८३ ॥ प्राणपुर्यटकं देह व्याप्य विश्वं प्रकर्षति । तत्त्वस कामतत्त्वस्य प्रकटीक्रियया यतः ॥ २८४॥ सिद्धचक्रेष्विदं गोप्यं किं वा न प्रकटीकृतम् । शून्यानन्दात्प्रमृत्यैव बोधःप्रोच्छलितात्मकः ॥२५॥ वर्तमानो निजाः शक्तीपिकास्यैव प्रवर्तते । यत्रास परिविक्षास्ति यतश्च प्रावृतद्विभुः ॥ २८६ ॥ सर्वाः शक्तीरसौ भास्तास्स्वात्मन्युरेच्य वर्तते । ततश्चिदात्मको देवो न्यग्भूत इव भासते ॥ २८७ ।। उद्भूतास्तु विमान्त्येताः प्रोन्मेवेच्छाँधिदिक्रियाः अतश्चतुष्कयुक्तोऽसौ यद्यपि प्रतिभासते ॥ २८८ ॥ तथापि शक्तिगणना वस्तुतोऽस्य भवेत्कुतः। अत्रैव भावभेदांशनिर्मूलनकला यतः॥२८६ ॥ स्थितस्ततः समाचारो लोकातिकान्तगोचरः । अनन्तशक्तिवैचि यादत्राप्युश्चाटनादयः॥२६० ॥ संहारलीलाभूयिष्ठा अपि तास्ताः क्रियाः स्थिताः। तदित्थं ज्ञानशक्त्यन्ते भावानां वपुषि स्थिते ॥ २६१ ।। , दोष,इति पार प्रविविस्सेति पाठः।।विधीति पाठः ।

आभनवगुप्तविचितम् क्रियाशक्तिरथान्त्यैव तान्संहरति सादरम । यदा सूक्ष्मतमा शक्तिरुन्मेषाख्या पुरावधौ ॥ २६२ ॥ स्रष्टव्यभावस्थौल्येन स्थूलाकारेव भासते । तथैवैपा क्रियाशक्तिर्यस्यां भावा निमेषिताः ॥२६३ स्वस्वरूपस्थितिः कापि पूर्णैव प्रविजृम्भते । नन्वस्त्येव क्रिया यस्यां भेदः प्रत्यवभासते ॥ २६४॥ अवं सर्वा क्रिया भेदं प्रत्युत प्राग्व्यपोहति । तथा हि भेदभूमौ ये काठज्वलनतण्डुलाः ॥२६५ ॥ त एव पाकाविष्टत्वे भेदं प्रोज्झन्ति सादरम् । यदि भिन्नस्वरूपास्ते पाक्यं तत्कथं भवेत् ॥ २६६ ॥ भिन्नं स्वरूपमड़ानां नहि युक्त्योपपद्यते । ननु पाकेन कश्चित्स यत्तन्नानास्वरूपकम् ।। २६७॥ ज्वलनक्लेन्ददाहादि तत्पाक इति शब्द्यते । भिन्ना एव क्रियाः सर्वाः फलमेकं प्रति स्थिताः॥२८॥ पाक इत्युच्यते नान्या क्रिया नामास्ति काचन । एतदेव कथं बंदय एकं फलमभीप्सितम् ॥२६६ ॥ कथं संपादयेयुस्ताः पूर्वोक्ता एव हेतुतः। ननु लोचनदीपार्थमनस्कारैरपि स्फुटम् ॥ ३०० ।। जन्यते ज्ञानमेकं तत्तथैवात्र भविष्यति । सोऽयं कर्दमसंमर्दमलिनीभूतविग्रहः ॥३०१॥ मरौ मरीचिकाम्भोभिः लानेच्छुरभिधावति । भिन्न स्वरूपाधयेकमस्ति वस्त्विति संभवः ॥३०२॥ तहि कारणभेदेन न भेदः पारमार्थिकः । , रोषिवा इति पाउः। २ बाह्य इति पाठः।। रवस्कारैरिति पाल শান্তিশীকানিক্ষন अथ मिन्नस्वरूपं तदेकं चेत्युपगन्यते ॥३०३ ॥ स्वभावभेदो भदायेत्येतत्त्यक्तं व्रतं भवेत् । नन्वित्वं सा क्रिया माभूदेका काष्ठादि कारकम् ॥ ३०४ ॥ फलं जनयतामेवमप्यस्तु नहि नः क्षितिः। क्रिया हि नाम नासाकमन्या शक्तिस्त्वसौ यतः ॥३०॥ शक्तिश्च फलभित्क्तृप्या भावात्मैव विभेदतः। सा च शनिविभोरेव स च विश्वात्मविग्रहः ॥३०६॥ फलकारकभेटेन न भिन्नः परमार्थतः । स्वात्मन्यभिन्नेऽपि विभोरेवं भेदावभासनात् ।। ३०७ ।। क्रियाशक्तिरिति प्रोक्ता यया कर्ता महेश्वरः। ननु यत्पशवः कुर्युः कथं तदुपपद्यताम् ॥ ३०८ ॥ ते हि भेदैकजीवत्वाकुर्युर्मेदवती क्रियाम् । अलमेतेन पशवः कथं कुर्युर्यदि स्फुटम् ॥३०६ ।। स एव स्ववचश्छिन्नो वादो वन्ध्यासुतादिवत् । नहि कुम्भकृतः कापि कदाचित्कर्तृता भवेत् ॥३१० ॥ यदि नासौ महेशाख्यात्कर्तुरव्यतिरेकमा । यद्येवं तत्कुलालेन पटोऽपि क्रियते न किम् ॥ ३११ ।। ननु किंस्वित्कुलालेन कुम्भोऽपि क्रियते ततः । ईशस्य विश्वकर्तृत्वे किं पटेऽपि न कर्तृता ॥ ३१२ ।। नन्वेवं सति नो कर्ता कोऽप्यन्य इति कर्मणाम् । शुभाशुभानां स्वफलं कर्तुं के प्रति हेतुता ।। ३१३ ।। एवमेवैतदायुष्मंस्तथाह्येवं विजानताम् । न किंचन फलं कापि शुभाशुभसमुद्भवम् ॥३१४ ॥ हेतमिति पाठः!

अभिनवगुप्तविधितम् इत्थं ये तु न जानन्ति भुञ्जते तेऽविपश्चितः । तदेव कर्मसंज्ञं तु मलमज्ञानमूलकम् ॥ ३१५ ॥ एतदेवानुमन्यैव केचित्संवित्तिमात्रकम् । संमन्यन्ते द्यकर्तारं कर्तृत्वानुपपत्तितः ।। ३१६ ॥ चित्स्वरूपाधिकं ह्यस्य यत्तत्कर्तृत्वमुच्यते । तज्जाड्यमर्पयेदसै चिदाधिक्यप्रसङ्गतः ॥ ३१७ ।। प्रकृतेः कर्तृता पुंसि ननु नामोपचर्यते । एतन्यायपथापेतैर्वृथा जेगीयते गृहं ॥३१८ ॥ उपचारो हि नो वस्तुतथात्वं प्रतिपद्यते । व्यपदेशः परं तादृग्वस्तुशून्योऽस्तु तावता ॥ ३१६ ।। नोपचारिकवह्नित्वव्यपदेशेऽपि मानवः । हिमानीशीकरासारिवानोत्थशिशिरापहः ॥ ३२०॥ द्रष्टुः पुंसश्च न द्रष्ट्री प्रकृतिः परिगीयते । न चान्योऽस्ति वैराकोऽतः कर्तृभावोपचारकः ॥ ३२१ ।। किं च प्रयोजनं तस्य कर्तृत्वव्यवहारजम् । व्यपदेशस्तु नावस्तु परिवर्तयितुं क्षमः ।। ३२२ ।। येऽप्यात्मानं न्यायविदः कर्तारं समुपागमन् । तेऽपि प्रश्नमिमं तावदस्माकं प्रतिभार्पितम् ॥ ३२३ ।। किं यादृग्लोकसंसिद्धकर्तृत्वं कर्मयोगतः । स्पन्दात्म तद्विभौ स्पन्दहीने समुपपद्यते ।। ३२४ ॥ ननु ज्ञानं चिकीर्षा च यत्नश्चेति गुणत्रयम् । समवैति यदत्रास्य तत्कर्मत्वमुदाहृतम् ।। ३२५ ॥ इत्थं बालमतीनां धीविप्रलभ्येत वञ्चकैः । , कार्मेति पाठः । २ अनुमत्यैवेति पाठः। जात्यमिति पाठः।परकेसरिति पाठ।

मालिनीवार्तिकम् दारका अपि वा विझुन संवेदनवर्जितम् ॥ ३२६ ॥ तत्र ज्ञानं न कर्तृत्वं सर्वत्रास्त्येव तद्यतः। इच्छायनावपि प्रायः संस्तः सर्वस्य सर्वतः ।। ३२७ ।। यु.न्मकारो गृहाभावपरितापितचेतनः । जाननिच्छन्सयन्नोऽपि किं कुर्यानात्मनो गृहम् ॥ ३२८ ॥ ननु कर्तुं न जानाति ततः कर्तुं न चेच्छति । तस्माकर्तुं न यतते तगृहं कुरुतां कथम् ।। ३२६ ॥ कतुमिन्येव यद्यं ज्ञानादीनां विशेषणम् । करोतस्तत्र कोऽर्थः स्याद्यदि सस्पन्दता किल ॥ ३३० ।। तदासौ स्पन्दितुं वेत्ति प्रेप्सतीति भवेद्वचः । तच स्वात्मगतं नास्य स्पन्दितं वैभवोद्भवात् ।। ३३१ ।। अन्यदस्पन्दितं ज्ञानं सर्वस्यापि च संभवेत् । ज्ञानेच्छायत्नवत्वं च करणं तय भाषितम् ।। ३३२ ॥ आत्मनः कर्तुमित्यस्य ततोऽर्थप्रविवेचने । जानातीच्छन्ययतो ज्ञातुं यतितुमेपितुम् ॥ ३३३ ।। प्रत्येकमिति योऽर्थः स कर्तुं वेत्तीति शब्दितः । चिकीर्पितृवं चैतत्स्यान्न कर्तृत्वं पुनर्भवेत् ।। ३३४ ।। तथात्वे मानसैः साम्यं भवेद्वाकायकर्मणाम् । वाकायकर्मभिर्वास्य कथं कर्तवमापतेत् ।। ३३५॥ मानसान्यपि कर्माणि कथं तस्येति गीयताम् । सद्गुणत्रयसद्भावे मनोवाकायसंभुवाम् ।। ३३६ ।। कर्मणां संचितेरेष कर्मभागीति चेन्ननु । उपचारोऽयमेवं स्यात्स चावस्त्विति वर्णितम् ।। ३३७ ।। . मतिर । हि इति पर।

अभिनवगुप्तविरचितम् कि चात्मगमहत्त्वादिद्रव्यान्तगुणसंनिधौ । तानि सन्तीति किं सोऽपि कर्तृत्वायतनो भवेत् ।। ३३८ ।। न चास्त्वित्युपगन्तव्यं मुक्तावपि हि तद्भवेत् । अन्यात्मगुणमांनिध्ये समश्चैष विधिर्यतः ।। ३३३ ।। आत्मस्वतः प्रवर्तेरन्कृतनाशाकृतागमाः । किं चेश्वरेण सर्वत्र बुद्धिमत्ताध्यपेक्षिणि ॥३४० ॥ संनिवेशाधिके कार्ये निमित्तत्वं कृतं यदि । स्वैः स्वैश्च समवायान्यकारणांशैः प्रपूरिते ॥ ३४१ ॥ कमशं कुम्भकारादेः प्रोतुं भवतु हेतुता। नहि सोऽस्त्वंशलेशोऽपि सर्वकर्तरि यं प्रति ॥ ३४२.।। न ज्ञानेच्छायत्नमस्ति कर्तृत्वं नान्यदित्यपि । तस्मानान्यस्व कर्तृत्वं कदाचिदपि संभवेत् ॥ ३४३॥ ईश्वरादीश्वरस्यपि स्वातन्त्र्यं कर्तृतां विदुः । तदित्थं परमेशानां भेदेऽभेदेऽपि वात्मनाम् ॥ ३४४ ।। प्रभवन्ति न कर्माणि बन्धनाय स्वभावतः । तस्मादिदममुष्मात्स्यात्कर्मणो वाशुभं शुभम् ।। ३४५।। तर्दश्चर्यममुध्यैव विहितं परमेशितुः । निर्णीतमेतदन्यत्र मयैव विततं यतः ।। ३४६ ॥ तदलं प्रकृतं ब्रूमः क्रियाशक्तिरियं परा । अघोरत्वेन देवस्य तत एव प्रकीर्तिता ।। ३४७॥ दातिण्यमत एवास्या भावानां शिवसंश्रये । यतोञ्जसैव मार्गोऽयं या क्रिया च न सात्मिका ॥३४८॥ १ प्यमुक्ताविति पाठः । २ प्रैतुमिति पाठः । ३ कस्मादिति पाउ: 1.४ शुभाशुभमिति पाठ।

मालिनीवातिकम्
ननु नात्र स्थिताः केचिद्भावा ये शिवताश्रितौ ।
कर्तारः सत्यमित्थं तु बोध्यमानोऽववारयेत् ।। ३४६ ।।
देशकालक्रियाकारकल्पनापथवर्जितः ।
देवदेवस्तथैवास्य शक्तिः सा विश्वरूपिणी ।। ३५० ॥
तद्विश्वमपि कालादिकलङ्काङ्ककलोज्झितम् ।
भैरवाभेदवर्तिनम् ।। ३५१ ।।
तत्स्वातन्त्र्यात्स्वतत्रं तत्स्वात्मनि पोच्छलस्थितम् ।
यतो भाति ततोऽप्यस्तशिवावेशबहिष्कृति ॥ ३५२ ।।
श्रत एव परा सेयं दक्षिणाघोररूपिणी ।
यद्वक्ष्यते जन्तुचक्रे शिवधामफलप्रदाः॥३५३ ।।
पराः प्रकथितास्तज्ज्ञैरघोराः शिवशक्तयः ।
अन्यत्रापि क्रियाशक्तिः शिवस्य पशुवर्तिनी ।। ३५४ ।।
बन्धयित्री स्वमार्गस्था ज्ञाता सिद्ध्युपपादिनी ।
अकारादिहकारान्तः प्रसरो यः प्रगीयते ॥ ३५५ ।।
स एव विन्दुनिलयादस्वरत्वमुपाश्रितः ।
क्रियाशक्तिविजृम्भेयं समस्ता वर्णमालिका ॥ ३५६ ।।
क्रोडीकारेणाहमितिपरामर्शस्वरूपिणी ।
तिष्ठत्येव ततः पूर्णपराहंकारसस्फुरः ।। ३५७ ॥
अनन्तादिविरिश्चान्तपशुसंघातघस्मरः ।
निजोदरदरीनीतचराचरजगद्वजः ।। ३५८ ॥
स्वचैतन्यविमर्शान्तर्ग्रस्तपुद्गलसंचयः।
यावदुल्लसितस्तावत्क्रियाशक्तिस्वरूपतः॥३५६ ।।
, कृती इति पाठः।

अभिनवगुप्तविरचितम् असंविज्ञाननिःसंख्यवैचित्रीचर्चितस्थितेः। अनन्तकार्यशान्त्यादिसौम्यरौद्रभिदात्मनः ॥ ३६० ।। अपि स्वग्रासमाहात्म्यप्रकटीकृतसुस्थितेः। औचित्याद्विविधाकारा अपि भैरवतेजसः ॥ ३६१ ॥ रिक्तपूर्णोभयभावा पुनरावृत्तिचित्रिताः । शाक्तस्वरूपविश्वाख्यस्वांशग्रासकलम्पटाः ॥३६२ ।। लोककालचिरारूढभावोन्मूलनभाविताः । शक्कयो निजविस्फाराद्राश्मिपुजं निजं निजंम् ।। ३६३ ।। प्रसारयन्त्यः संकल्पसत्यभावसमाश्रयात् । स्वोचितान्येव लोकोत्थवामाचारबहिष्कृतेः ।। ३६४ ।। घटयन्त्येव शास्त्राणि यातानि परिपूर्णताम् । यादृक्प्रथमसंभूते लोकातिक्रान्तिगोचरे ।। ३६५ ।। समाचारः स एवात्र त्रस्तभेददशे भवेत् । पूर्णेयं परमेशस्य महासृष्टिरिह स्थिता ॥ ३६६ ।। यस्यां संहारसृष्ट्यंशा विश्वे ते मध्यवर्तिनः। सा चाद्या सृष्टिरित्येव नैव वक्तुं भवेत्क्षमा ॥३६७ ।। अदेशकाले तत्त्वे हि कथमाद्यादिसंभवः । जाग्रदशेयं सा मुख्या प्रोन्मेषपदभागिनी ॥३६८ ॥ ब्रह्मेष निजशक्त्यंशसंवोधकमलासनः। ता एताः सौशिवापात्प्रभृति ब्राममन्ततः ॥ ३६६ ।। रूपं कृत्वा विजृम्भन्ते संविन्नाथस्य शक्तयः । एतावानेव देवोऽयमिति यद्यपि शक्यते ॥ ३७० ॥ १ भयभवा इति पाठः। २ पुअनिभं निभमिति पाठः। ३ वक्त्रमिति प्राठः । एतावदेवेति पाठः ।

मालिनीवर्तिकम् न वक्तुमप्रमेयत्वाचिद्रूपस्य महेशितुः । प्रबोधपञ्चदशिकामध्ये तादृङ्मया स्फुटम् ॥ ३७१ ।। उक्तं मितप्रकाशत्वं जडस्य किल लक्षणम् । जडाद्विलक्षणो बोधो यतो न परिमीयते ॥३७२।। तथापि स्वयमेतादृग्देवो मानविवर्जितः। निजस्वातन्त्र्ययोगेन कृत्वात्मानं चराचरम् ॥ ३७३ ॥ * ईशतत्पुरुषाजातरुद्भूतैरुदुभूषुभिः । एकः षड्भिरेकेन त्रिकेणं यात्मकत्रिभिः॥३७४॥ जायते शिवभेदानां दशानां विविधा स्थितिः। अत एव विचित्राभ्यः संवियो मिश्रतावशात् ।। ३७५ ॥ चित्राण्यत्र शिवाख्येऽपि भेदज्ञानानि तेनिरे । यदा त्रयाणां वक्ताणां वामदक्षिणसंगतिः॥३७६ ॥ तदा प्रत्येकशक्तित्वं भविष्यद्भवदुद्भवैः । परमां त्रित्वे रुद्रभेदस्तेनाष्टादशधा स्थितः ।। ३७७ ॥ एकैकं पञ्चतं च वक्तं यस्मात्प्रगीयते । दशाष्टादशभिन्नस्य ततो भैदैरसंख्यता ॥ ३७८ ॥ पूर्वोदितयथास्वस्वज्ञानकर्मविचित्रिताः। निणीयन्ते यतस्तेषु तेन नापुनरुक्तता ॥३७६ ॥ तथा हि-प्रथममीशानतत्पुरुषसद्योजातैरेकैकस्योबुभूषुभिः स- निर्भेदत्रयमुनासितम् उद्भूतैश्चैत्यकैकभेदाः षट् त्रिभिरप्येभिः संभूयो- झासित एको भेद:. ईशतत्पुरुषौ ईशसद्योजातौ सद्योजाततत्पुरुषाविति व्यात्मना संभूयापि एभिस्तिभिर्भेदत्रयं समुल्लासितम् ॥ १ एकैकैरिति पाठः । २ नाध्यात्मेति पाठः। ३ शशिभेदानामिति पाठः। १ वक्त्रं यस्मात्प्रगीयते । दशाष्टादशेति पाठः।

अभिनवगुप्तविरचितम् अन्यान्य एव बोधो हि समाचारः क्रियाक्रमः। तत्र तत्र तथा प्रोक्तः सर्वस्तु शिवधामगः ॥३८०॥ यथा जलकणाः सर्वे विश्राम्यन्ति महाम्बुधौ । तथा ज्ञानक्रियाः सर्वाः संवित्सिन्धौ महेश्वरे ॥३८१॥ मितमपि जलं भूमौ सूर्यांशुभिः किल पीयते तदपि च पुनर्वृष्टिद्वारैः प्रयाति महार्णवम् जगति निखिलं ज्ञानं कर्म स्फुटं किमपि स्वयं किमपि च परैः पारम्पर्याच्छिवार्णसि मज्जति ॥३८२॥ यच्चान्ते दक्षिणे हार्द लिंग हृत्परमं मतम् । तदप्यन्तः कृताशेषसृष्टभावसुनिर्भरम् ॥ ३८३॥ भेदभावकमायीयतेजोंशासनाच्च तत् । सर्वसंहारकत्वेन कृष्णं तिमिररूपधृत् ॥ ३८४ ॥ विज्ञानशास्त्रे कथितमत एव महेशिना । लीनं मूर्ध्नि वियत्सर्वमित्यादितिमिरं विभोः ॥३८५॥ एवमेव दुर्निशायां कृष्णपक्षागमे चिरम् । भावयेद्भरवं रूपं भावयद्भिर्दुराभिदम् ॥३८६ ।। उक्तं च यत्र स्वर्दुःखं तमो वा द्वयसंवृते । नाविद्याकर्मसंबन्धः पारतन्त्र्यादिदर्शनात् ॥ ३८७॥ तदत्र तिमिराकारे भैरवीये वपुष्यलम् । अन्तर्लीनतया भाति यावद्वक्तचतुष्टयम् ॥३८८ ॥ उद्भूषु तथोद्भूतं तिरोधित्सु तिरोहितम् । इत्थं युगपदेवैतद्भिदा षोडशकात्मकम् ॥ ३७६ ॥ दक्षे वैसर्गिके हार्दै स्वतत्रे च शिवे विशत् । , सष्टिभावेति पाठ १ तत. इति पाठ मालिनीवार्तिकम् अष्टाष्टकात्मकं शास्त्रं युगपद्भरवाभिधम् ॥ ६६० ।। इत्थं तत्रं रुद्रशिवभैरवाख्यं स्थित त्रिधा । वस्तुतो हि त्रिधैवेयं ज्ञानसत्ता विजृम्भते ।। ३६१॥ भेदेन भेदाभेदेन तथा चाभेदसन्धिना । तथा च मुख्याः शाम्भव्यस्तित्र इच्छादिशक्तयः॥३६२ ॥ तत्रैव तु प्रपञ्चेन पञ्चशक्त्यादियोजनम् । इत्थं मध्ये विभिन्न तत्त्रिकमेव परं तथा ।। ३६३ ।। शास्त्रमस्मद्गुरुगृहे संप्रदायक्रमात्स्थितम् । अत एव हि नैकव्याद्वामदक्षिणशास्त्रयोः ॥ ३६४ ॥ धारा प्रान्तधराप्रान्ते कौलिकी प्रविजृम्भते । ततोऽपि संहताशेषभावोपाधिसुनिर्भरः॥३६५ ।। भैरवः परमार्थोद्यद्रवहितवृत्तिकः । ईशानवामदक्षासु तासु शक्तित्रयं क्रमात् ॥ ३६६॥ परादिशक्तित्रितयं क्रोडीकृत्यावतिष्ठते । तद्विभावयति भेदविभागं तत्स्फुटखकृदयोक्नमनन्तम् । संग्रसिष्णु परमेश्वररूपं : वस्तुतस्त्रिशिर एव निराहुः ।। ३६७॥ ऊर्ध्ववामतदन्यानि तत्राणि च कुलानि च । रूढान्यमुष्य धारायां भेदसंकोचहानये ॥३६८।। परप्रकाशविषयस्त्रिकार्थस्वैधमांस्थितः। स एष परमेशेन ज्ञानचन्द्राख्ययोदितः ।। ३६६ ।। स एष सर्वः शास्त्रार्थः परवाग्वृत्तिसंश्रितः । अमुल्लसिततद्वाच्यवाचकादिविभक्तिकः॥४००॥ १ पूर्णेनेति पाठः। २ तथा तथेति पाठ:1 ३ शकिक इति पाठः।

अभिनवगुप्तांवचितम् पश्चात्तु ज्ञानशक्त्यंशप्राधान्यस्फुरितात्मनि । क्रियाशक्तिसुसूक्ष्मायां सादात्यैश्वर्यसंपदि ॥४०१।। पश्यन्तीमध्यमाधाग्नि सञ्जल्पोल्लेखयोगतः । पदवाक्यस्वरूपेण वर्तते वर्णरूपिणा ॥४०२ खच्छन्दशास्त्रे तेनोक्तं स्वयं देवः सदाशिवः । पूर्वोत्तरपदैर्वाक्यैस्तत्रं योजितवानिति ॥ ४०३ ॥ तथा च तत्रैवोक्तं तत्सुशिवावरणेऽध्वनि । सुशिवावरणं पूर्व तत्र ज्ञेयः सदाशिवः ।।४०४॥ शिवदशकसंयुक्तो रुद्राष्टादशकान्वितः । अधिकारो हीशतत्त्वे तजिघृक्षा तु सौशिवे ॥ ४०५ ॥ वरणे विन्दुतो भोगनाम्नि विभवतो विभोः। भैरवाख्यस्य बोधस्य शक्तितत्वे परं त्रयम् ॥ ४०६॥ स्थितिस्तस्मादीश्वरोर्वे सदाशिवपदादधः। सुशिवावरणेनोक्ता श्रीमत्स्वच्छन्दशासने ॥ ४०७ ।। तदनन्तरमेतासु शिवरुद्रभिदास्वलम् । मायीयाध्वनि क्लुप्तासु शिवैरुतः शिवाभिधः॥४०८ ॥ भेदो रुद्रैश्च रुद्राख्य इति प्राप्तो विचित्रताम् । ततः प्रोद्यक्रियासारप्रोल्लासात्क्रमशः स्फुटम् ॥ ४०६ ॥ सर्वगोचरमायीयश्रुतवैखर्युपाश्रिताः। वर्णवाक्यपदात्मानः शास्त्रार्था.लोकगोचराः ॥ ४१० ॥ समाश्रित्य प्रवर्तन्ते तांस्तांस्तत्रावतारकान् । तेन प्रथमतो यावन्मायीयां वैखरी दरीम् ।। ४११ ॥ मायीयवर्णसंदृब्धः शास्त्रार्थो नायमागतः। अन्तः सारविबोधैकपस्वाङ्मयवर्णकः॥४१२ ॥ १ धानीति पाठ-1२ भिद इति पाठः। ३ भोगेति पाठः॥

मालिनीवातिकम् अकृत्रिमपरावेशमूलसंस्कारसंस्कृतः! शास्त्रार्थो लौकिकान्तोऽस्ति सप्तत्रिंशे परे विभौ ॥ ४१३ ।। तत्रासतां हि भावानां कापि नास्त्येव सत्यता । ... खामिन्यविनयाक्रान्तप्रकृतौ विनयः कुतः॥४१४ ॥ तस्मात्समस्तशास्त्रार्थः परतत्त्वात्मना स्थितः। अतो वेदादयोऽप्येते मायीयाः शासनांशवः ॥ ४१५ ।। स्फुरन्ति भैरवादित्यप्रभावादेव नान्यतः । नहि संविद्विमर्शात्स्यादन्यत्वाप्येव कारणम् ॥ ४१६ ॥ संविनान्यस्य संवित्स्यात्संविदेव तथा यतः। कार्य च कारणं चेति तथात्व उपचर्यते ॥ ४१७॥ परिणामे हि भावस्य क्रमाद्विततधर्मणः । अाधन्तयोः संविदेव रूपत्वेनावभासते ॥ ४१८॥ संविच्च कालकलनां सहेत यदि तत्स्फुटम् । भुञ्जीमहि निशातासिच्छिन्ना व्योमांशशर्कराः ॥ ४१६ ।। अतः समग्रशास्त्राणि संविद्रूपापरिच्युतेः । संविदः स्वप्रकाशवात्स्वप्रकाशानि वस्तुतः॥४२०॥ न च वाच्यं पृथग्जातु वाचकाधवतिष्ठते । स्वातन्त्र्यादभिधातैव भाविवाच्यतया यतः॥४२१ ।। कदाचिद्वाचकांशस्तु स्वरूपग्रस्तवाच्यकः। निर्मासते कदाचित्तु सामान्योल्लासवाचकः ॥४२२ ॥ जातुचित्रिकटानन्तविशेषणविशेषितः । स्फुटस्वरूपवाच्यांशसमुद्रेकेण भासते ॥ ४२३ ॥ तेनार्थपरता जातु स्वरूपपरता तथा । १ त्रिंशपरे इति पाठः ॥ २ अत्यताप्येवमिाते पाठः । ३ नास्त्यस्येति पाठः। ४ धर्मिण इति पास।

अभिनवगुप्तचिचितम् चुभुत्सितार्थता कापि कचिद्रसमयी दशा ॥ ४२४॥ शब्दानां लक्ष्यते चित्रा संविद्रूपानपायतः। संविद्विचित्रकचनैः कचतीति किमद्भुतम् ॥ ४२५॥ इत्थं शिवात्मकविमर्शपदादभिन्नः शब्दः स्फुटखत इह स्वपरप्रकाशः। मानं तदेव चितिसारविमर्शमात्र- मन्यत्पुनस्तदुपचारवशात्तथा हि ॥ ४२६ ॥ स्वप्रकाशात्मिका येयं संवित्तिः पारमार्थिकी। वत्स्वसंवेदनं प्रोक्तं यतो विश्वव्यवस्थितिः॥४२७ ॥ सा चैषा न विमर्शात्मस्वरूपमतिवर्तते । विमर्शोऽस्याः परो भोगः पूर्णः पश्यन्त्युदाहृता ।। ४२८॥ परापरा सैव देवी मानमित्यवधार्यताम् । यत्रापरांशगं मेयं तादात्म्यायवतिष्ठते ॥ ४२६ ॥ नहि भिन्नेन मानेन मेयस्य स्याद्वयवस्थितिः । नहि हंसस्य शुक्लत्वे काकः श्वेतत्वमर्हति ॥ ४३० ।। एतदेव तथा चाह गुरुः शंकरनन्दनः । नमानत्वात्ततोऽन्यत्वान बाधादस्थितेः स्थितिः॥४३१॥ प्रकाशनाविनाभूतैः सत्तायां नियतात्मभिः । धमै वो बहिर्भावान भावः सिद्धिमृच्छति ॥ ४३२॥ तेन संविचिकात्मैव मातृमानप्रमेयता । गृहती स्वप्रकाशत्वं स्वभावादेव भासते ॥ ४३३ ॥ सा चान्तःस्थितमधात्मशब्दनामर्शसुन्दरा । अनपेचान्यविरहात्प्रमाणं स्वत एव हि ॥ ४३४ ॥ १ स्फुटस्वत इति पाठः।

मालिनीवार्तिकम् तस्या एव विचित्राणि नामानि बहुभाङ्गिभिः । वत्प्रसादोत्थितान्येव वादिनः पर्यचीक्लुपन् ॥ ४३५ ॥ तथा च चक्षुराद्यक्षमण्डलीटङ्कनिष्ठितम् । प्रत्यक्षमिति यद्गीतं तत्तावत्प्रविविच्यते ॥ ४३६ ॥ संवित्तिव्यतिरेकेण. यद्यक्षाणां व्यवस्थितिः । न स्यादर्थप्रमाणैक्यं तर्हि बाह्यघटादिवत् ॥ ४३७ ॥ नन्वात्मनश्चक्षुरादि करणं न घटादिकम् । तस्मात्तेनैव भावानां मानं न तु घटादिभिः ॥४३८॥ व्यापकाभिमतस्यास्य संयोगे चाविशेषिणः। भौतिकत्वाविशेषेण घटाद्यैश्चक्षुरादिना ॥ ४३६ ॥ आत्मनः करणाकाङ्क्षापूरणं नियतं कुतः । विशिष्ट एव संयोगः करणत्वे निबन्धनम् ॥ ४४० ॥ विशेषः कर्मभिस्तैस्तैर्धर्माधर्मगिरोदितैः । तदेतद्युक्तिसद्भावप्रतिभाविकलात्मकः ॥ ४४१ ॥ ब्रुवन्वञ्चयते मुग्धान्पलायनपरायणः । यच्चाशेषाक्षसंयोगिव्यापकात्मवशोत्थिताम् ॥ ४४२ ॥ युगपज्ज्ञप्तिमाच्छेत्तुं मनो नाम निगद्यते । तत्रापि ब्रूमहे पूर्व मनसात्मैव युज्यते ॥ ४४३ ॥ तत्राप्यात्ममनोयोगं कः कुर्यादिति चर्च्यताम् । व्यापकत्वादसौ स्याचेत्सर्वैरेव मनो व्रजेत् ॥ ४४४ ॥ एकस्य जाते संयोगे सर्वः सर्वज्ञतामियात् । यदि स्वान्तमधिष्ठान चक्षुराधमपेक्षते ॥ ४४५ ॥ तेनाधिष्ठानमर्थानां तावतोऽक्षांशवम॑नः । विशिष्टेनेति पाठः ।

अभिनवगुप्तविरचितम् अक्षाधिष्ठितसूक्ष्मांशभागसंपर्कभासितः ॥ ४४६ ॥ वाह्यस्यार्थस्य कुण्डादेरणुरेकोऽवभासताम् । अथापि मानसाधिष्टा जाता चेदक्षगोचरे ॥४४७॥ तदेतस्य स्वविषये शक्कतैवोपजायते । तर्हि सूक्ष्मतमच्छिद्रनिस्मृता नेत्ररश्मयः ।।४४८ ॥ विश्ववर्तिनि भावौधे न प्रमां कुर्वते कुतः । योग्यदेशस्थितान्भावान्गृतेऽक्षाणि नन्वलम् ॥ ४४६ ।। योग्यतैव हि देशस्य कीदृशीति विचार्यताम् । यत्रस्थस्य भवेद्वित्तिः स देशो योग्य उच्यते ॥ ४५० ।। कुत्रस्थस्य भवेद्वितिरिति किं वा न दर्श्यते । तदमी तार्किकम्मन्या युत्युपन्यासवर्जिताः ॥ ४५१॥ पूर्वमेव कथं तूष्णीं नातिष्ठन्कि विकत्थनैः । आत्मनश्चाभिसंधानवन्ध्यस्यैव बलादयम् ।। ४५२ ॥ मनोक्षजालसंयोगो भवेतिक नासमञ्जसः । अभिसंधिरथैतस्य विषयं प्रति जायते ॥ ४५३ ।। अज्ञाते कोऽभिसंधिः स्याज्ज्ञाते कोऽर्थोऽक्षसंयुजा । प्रज्ञाते स्मर्यमाणे चेदभिसंधातृभावितः ॥ ४५४ ।। अन्यदेवाभिसंधातुः प्रयलोऽन्यत्र जायते । मनोयुक्तात्मसंबद्धचक्षुराद्यक्षसंश्रिताः ॥ ४५५ ॥ विषयाः सविधीभूतनेत्राद्युल्लङ्घनक्रमात् । आत्मन्येव कथङ्कारं प्रमातृत्वं प्रतन्वताम् ॥ ४५६ ॥ ननु ज्ञानकृतो मातृभावो विज्ञानमात्मनि । समवैति ततोऽन्यस्य कथं मातृत्वशङ्कनम् ॥ ४५७ ॥ विज्ञातमिति पाठः।

मालिनीवार्तिकम् एतदेव वयं ब्रूमो ज्ञानं तत्रैव वै कुतः । भयात्स्वपक्षपातान्धस्तदेवोत्तरमभ्यधात् ॥ ४५८ ।। यथेन्द्रियात्मसंयोगे मनः कारणमुच्यते । तथैवात्ममनोयोगे कारणान्तरमुच्यताम् ॥ ४५६ ।। तथात्वे चानवस्थैव मूलक्षतिकरी चे सा । अथ स्वान्तात्मसंयोगो ध्रुव एवाभ्युपेयते ॥ ४६० ।। ज्ञातारः स्युः सदा सुप्तमत्तमूर्षितदुर्भगाः । न चैतद्भवतां ज्ञानमभीष्टं शाक्यशिष्यवत् ॥ ४६१ ॥ तस्मात्प्रत्यक्षता नाम कथमिन्द्रियगोचरात् । अथ प्रत्येकमेतेषां परीक्षेयं प्रतन्यते ॥ ४६२ ॥ तत्राणु नित्यं सर्वार्थ वेगवल्लघुभौतिकम् । मनस्तचापि नैवेह युक्तिसिद्धत्वमश्नुते ॥ ४६३ ।। अणु चेच्छीघ्रसंचारि मनो यद्विषयान्मुहुः । स्पृशेत्तदैव देहस्य भवेच्छवशरीरता ॥ ४६४ ॥ देहस्थेऽपि मनोयोगे तत्रैव ज्ञानयोगतः। एकाणुमात्रं जीवः स्याच्छिष्टं स्याद्धटकुड्यवत् ॥ ४६५ ॥ अथ स्वान्तेन योगश्चेज्जातः काप्यात्मगोचरे । तद्विभोरात्मनो ज्ञानं समवायीति माता ॥ ४६६ ॥ जातेति सर्वदेहस्थं जीवनं किं न सिध्यति । एनयैव न किं युक्त्या घटादेर्जीवनं भवेत् ॥ ४६७ ।। विभावात्मनि जातं हि ज्ञानं तत्रैकदेशतः । देहमात्र पुनः स्वान्ते भवेत्सावयवा स्थितिः ॥४६८.॥ विभुत्वे मानसस्य स्याद्युगपत्सर्ववेदनम् । नित्ये च मनसि ज्ञानं सर्वदैव भवेत्ततः ॥.४६६ ॥ तयेति पाठः।

अभिनवगुप्तविरचितम् मोक्षावस्थापि विज्ञानयोगिन्येवोपजायते । मुक्तौ चात्ममनोयोगो नास्तीत्येतन्महाद्भुतम् ॥४७० ॥ किं हि व्यापकता मोक्षे स्वात्मनो विनिरुद्यते । अभौतिकं चेत्सर्वार्थ कथङ्कारं मनो भवेत् ॥ ४७१ ॥ विशिष्टविषयव्यक्तिकौशलादेव चक्षुषः । तैजसत्वमभीष्टं हि तन्मनो भौतिकं न किम् ॥ ४७२ ॥ सर्वार्थत्वे च मनसः किमन्यैरक्षडम्बरैः । ननु बाह्येऽस्य विषये प्रागस्त्यक्षोपयोगिता ।। ४७३ ।। तथा हीन्द्रियसंदृष्टे पाश्चात्या मनसः स्थितिः अत्रोच्यते यथैव प्रागिन्द्रियेण न गृह्यते ॥ ४७४ ॥ तचेत्स्वलक्षणं पश्चादनुयत्रिति का कथा । अथ सामान्यमानं तद्गृहीतं प्राक्कदिन्द्रियैः ॥ ४७५ ॥ व्यक्तिनिष्ठं तदानीं च मनसा व्यक्तिनिश्चयः । नास्तीति मनसा कस्मात्सामान्यग्रहणं भवेत् ॥ ४७६ ॥ विना व्यक्तिग्रहेणैव सामान्यग्रहणं य[कुतः । सामान्यग्रहणे चास्य सर्वार्थत्वं निरुध्यते ॥ ४७७ ॥ विशेषग्रहवन्ध्यस्य सर्वशब्दविलोपतः । आशुगामित्वमेतस्य यच्चोक्तं तत्र वस्तुनि ॥ ४७८ ॥ पुरःस्थिते स्वहस्तादौ किंचिदूरगते घटे । अतिदूरे च मेर्वादौ कथं तुल्यैव गन्तृता ॥ ४७६ ॥ आशुसंचारिणां यस्मात्कापि पूर्वकतेजसाम् (?) । सविधासविधत्वेन विशेषः प्रविभाव्यते ॥ ४८० ॥ कथं चाभौतिक सूक्ष्मं गृहीयात्पर्वतादिकम् । अभिव्यक्ति समानस्य समानेन विधीयते ॥ ४८१॥ न निरुध्यत इति पाठः। २ इन्द्रियमिति पाठः ।

मालिनीवार्तिकम् नन्वस्तु प्राकृती बुद्धिस्ततोऽहंकृत्ततो मनः । इत्थमप्यणुता नैव मनसः संप्रसिद्धति ॥ ४८२ ॥ व्यापकत्वेन पूर्वोक्तदूषणानि स्थितान्यलम् । इत्थं मनो न युक्त्यशर्मानसावर्जनाय नः ॥ ४८३ ॥ याडम्वाद्यन्तरिष्टं द्वैतव्यामृढदृष्टिभिः । चिदात्मनः प्रकाशस्य तथाभासनभागिनी ॥४८४ ॥ या शक्तिस्तन्मनस्त्वस्तु स्वस्वातन्त्र्योपकल्पितम् । यत्र श्रोत्रं नभस्तत्र सर्वशब्दश्रुतिर्भवेत् ॥ ४८५ ॥ चक्षुराद्यैश्च सर्वत्र निर्विवन्धं यतो नमः । धर्माधमैर्विवन्धश्च युक्त्युपन्यासवैकली ।। ४८६ ॥ बाधिर्यादि कथं च स्यात्कथं वा तचिकित्सनम् । बन्धाश्रयविधातेन तदनुग्रहतस्तथा ॥ ४८७ ॥ अक्षं स्वावयवेष्वेव 'समवायिनः । विशेषेण नमो नैव काप्याश्रितमिति स्थितिः॥४८८ ।। "साकं मावेन वर्तते । तदनुग्रहधाताभ्यामपि विक्रियतां ततः ॥ ४८६ ॥ यदनुग्रहतस्तस्यानुग्रहः स तदाश्रयः । इतीयं स्ववचःक्तृप्तिर्निःसारैव विभाँति नः ॥ ४६० ॥ आश्रयद्वारकोऽक्षाणामनुग्रह इति स्फुटम् । अभिधत्स्व क एतेषामाश्रयोऽस्त्विति चोदिते ॥४६१ ॥ यंदनुग्रहयोगोऽस्य स एवाश्रय इत्ययम् । न्यायोज्योन्यसमालम्बी चक्रकं नातिवर्तते ॥ ४६२॥. वायुप्रकृति यच्चोक्तं स्पर्शनं तद्विविच्यते । भासकेति पाठः।२ केवनीति पाठः। ३ विभागिन इति पाठः।। योगस्वेति पाठः। संयोगिता तु" अभिनवगुप्तावरांचतम् वायोवेगवती तावदनिरुद्धा स्थितिः स्थिता ॥ ४६३॥ देहंदेशे ततः स्पर्शः न कुड्य इति कः क्रमः । चक्षुर्थ तैजसं तेजः प्रसृतं बाह्यगोचरे ॥ ४६४ ॥ अर्थाचूपप्रधानांश्च वेत्तीत्येतनिरूप्यते । अदृश्यं यदि तत्तेजः प्रेर्यते मनसा कथम् ॥ ४६५ ॥ प्रेरणं नविज्ञानं कदाचिदुपपद्यते । इन्द्रियेण न च ज्ञातं कदाचिचाक्षुषं महः ॥ ४६६ ॥ न चापीन्द्रियविज्ञाते स्वतत्रं भवतां मनः। अप्रेरितं च तत्पश्येत्सर्वतः सर्वथा सदा ॥ ४६७ ॥ आसमञ्जस्यमेव स्यात्प्रवृत्तौ वा निवर्तने । किंच गोलकसंस्थानं तावच यदि तन्महः ॥४६८॥ तावतस्तद्गतस्यैव ग्रहः स्यामान्यतः कचित् । तथैतद्विपरीतं तु गोलकेऽपि निमीलिते ॥ ४६॥ उन्मीलिते वा सर्वत्र वस्तुनि ग्रहणं भवेत् । उन्मीलिते चचुषि च प्रसृते रश्मिमण्डले ॥५००॥ तस्यास्ति न पटखेव संवृतिर्नेत्रमीलने । ततो निमीलिताक्षस्य वस्तुदृष्टिर्न किं भवेत् ॥ ५०१ ॥ घने चातपमध्येऽस्ति विनिमीलितचक्षुषः । चित्रतेजोवेभानं तत्पीडिताक्षयुगस्य च ॥ ५०२॥ योगिनां बिन्दुदृग्ध्वान्ते कथं तद्वा भविष्यति । भवेदुन्मीलितेऽप्यक्षिण न वस्तुग्रहणं कचित् ॥ ५०३ ॥ मनोधिष्ठानयोगेन परमाएवाधिकप्रथा। दीपापेक्षा च यामुष्य सापि किं न विवाध्यते ॥ ५०४ ।। १ देहदेहे इति पाठः । २ स्वतैजसमिति पाठः । ३ नहि विज्ञासमिति पाठः। ४ बतानामिति पाठः ।

मालिनीवार्सिकम्
दीपप्रकाशः स्वान्तात्मनेत्रार्थेषूपकारकः ।
न प्रत्येक मनोवृत्तेः संस्कारस्तेन चेद्भवेत् ॥ ५०५॥
दीपे संकल्प्यमाने साद्रात्रौ रूपपरिग्रहः ।
आत्मनः संस्क्रिया चेत्स्यात्तस्य सर्वगतत्वतः॥ ५०६ ॥
सर्वदा रूपसंवित्स्यात्संयोगः संस्क्रिया यतः ।
अमूर्तस्यापि नित्यस्य कोऽन्यः संस्कार उच्यते ॥ ५०७॥
नेत्रोपकारश्चेत्तर्हि नेत्रदेशस्थितेऽर्चिषि ।
तेजोमध्यगतं रूपं न भासेत कदाचन ॥ ५०८॥
ननु तद्वद्यदेशेऽसौ नायनः किरणवजः ।
हन्त तत्रैव विज्ञानमात्मदेशे न किं भवेत् ॥ ५०६ ॥
तत्रैवात्मा विभुत्वेन तत्रैव करणं यतः।
तसाद्भोगाश्रयो देहो जीवनिति वृथोक्तयः॥ ५१०॥
नायनानां मयूखानां गन्तृत्वेऽवसिते सति ।
अनावृतेऽरण्यमार्गे स्वहस्तात्प्रभृति स्फुटम् ॥ ५११॥
अर्कचन्द्रादिसंदृष्टिः कथं नामोपजायताम् ।
शीघ्रत्वेऽपि यतः प्रोक्तभेदो दूराविदूरगः ॥ ५१२ ॥
दीपनेत्रावभासाभ्यां छन्ने तस्मिन्कथं मतिः।
शुद्ध एव भवेद्भावे ताभ्यां व्यामलताजुषि ॥ ५१३ ॥
अन्धत्वं तचिकित्सा च न युक्ताश्रयदूषणा।
रसना च जलात्मा चेत्तजलं मुतिमद्यतः॥ ५१४ ॥
ततः स्थैर्य कथं तस्य का च नानारसप्रथा ।
तस्यैकरसतायोगे तस्या नैकरसस्थितेः॥५१५ ॥
न स्यादेकरसज्ञप्तिर्यथा पित्तभरे सति ।
तिक्का रसनवृत्तिों माधुर्य विदितुं क्षमा ॥ ५१६॥

अभिनवगुलविरीचतम् ननु पित्तगतं तैक्त्यं न त्वेवं रसनागतम् । तर्हि पित्तगुडौ तुल्यं रसनापथगामिनौ ।। ५१७ ।। इति स्यायुगपज्ञप्तिस्तिकमाधुर्यगोचरा। नीरसा रसना चेत्सा रसाभिव्यञ्जिका कुतः ॥ ५१८ ॥ स्वभावादिति चेदस्याः कोऽयमाम्भसताग्रहः । घ्राणं च पार्थिवं तस्य काठिन्यं किं न दृश्यते ॥ ५१६॥ ननु गन्धगुणोद्रेकि किं स गन्धो न भासते । नास्ति तत्रेन्द्रियव्यक्तगन्धवत्त्वे तथा प्रमा ।। ५२० ॥ निर्गन्धमपृथिव्यात्म मनो गन्धग्रहक्षमम् । अस्त्येव भवतां तेन नानुमा तादृशः क्षमा ॥ ५२१ ॥ तस्मादिन्द्रियसंघातो भौतिको नोपपद्यते । आहङ्कारिकतायां तु व्याप्तृत्वमविभिन्नता ॥ ५२२ ।। देहाश्रयविरोधश्च करणत्वेन चास्थितिः। वागादि यच्च कर्माक्षपञ्चकं तद्विविच्यताम् ।। ५२३ ।। आनाभेर्पर्धपर्यन्तं यः समीराभिघातजः। विशेषः कोऽपि वागात्मा स तागिह कथ्यते ।। ५२४ ।। तस्य कार्य भवेच्छब्दः कर्ता कोज विचार्यताम् । आत्मनो नैव कर्तृत्वं तथात्वेऽपि विभुत्वतः ॥ ५२५ ॥ मया प्रोचारिते शब्दे त्वं वक्ता किं न जायसे । प्रकृतावपि दोषोऽयं का कर्तृत्ववर्जिता ।। ५२६ ॥ करणस्य स्थितिर्नास्ति तुल्ये वागिन्द्रिये सति । कथं चास्फुटसुस्पष्टभावः शब्देषु जायते ॥ ५२७॥ कथं चोपांशुसंजल्पस्मृत्यादौ शब्दगा भिदा । प्रयत्नाचेत्प्रयत्नोऽपि यद्युत्पत्तिस्ततः कथम् ।। ५२८॥ १ तुर्यमिति पाठः । २ तस्या इति पाठः ।

मालिनीवार्तिकम् विशेषो जायते बन्यो नान्यगुणसंभवः । प्रयत्नमान्द्यामान्धाभ्यां येन प्रतिविधीयते ।। ५२६ ।। पाणीन्द्रियं चाददानं मुखाद्यग्रहणं कुतः। ग्रहणं च किमुच्येत स्वीकारो यदि संमतः ॥ ५३० ॥ अस्वस्य स्वस्थ करणं स्वीकार इति भएयते । स्वशब्दश्चात्मवाची चेत्तत्रात्मा प्रकृतिर्यदि ॥ ५३१ ।। तन्नास्त्यप्राकृतं किंचिदित्यस्खत्वं कथं किल । अहङ्कारोऽप्यथात्मा स्यान्नाहङ्कारी कृतिघंटे ॥ ५३२ ।। आत्मीयोऽयमनेनंतपणेनैव दृषितम् । अहङ्कारस्य संवन्धि सर्वमेव हि तत्स्वकम् ।। ५३३ ॥ आत्मनो व्यापकस्यास्ति न स्खं नावं च किंचन। एवं पादेन्द्रियस्यापि समोऽयं युक्तिविक्रमः ॥ ५३४ ॥ देशाद्देशान्तरप्राप्त्या गमनं च यदुच्यते । तत्त्यागरूपं स्वीकाराभावेनैव प्रसिद्धति ॥ ५३५ ॥ स्वीकारो पितश्चैष स्वीकारांशोऽपि यो गतौ । तस्य पाणीन्द्रियं युक्तं करणं नाजिनामकम् ॥ ५३६ ॥ इन्द्रियाणां हि सांकार्यमेवं कार्येषु जायते । अत एव महान्यायवेदिभिश्चरमे नये ॥ ५३७॥ प्रोक्तो गतिनिषेधाय भूयान्सद्वाक्यडम्बरः। गतं न गम्यते तावदगतं नैव गम्यते ॥ ५३८ ।। गतागतविनिर्मुक्तं नास्तीत्यादि स्वके नये । पायिन्द्रियं च न च्छिद्रमानं कोष्ठ्यमरुत्क्रमात् ॥ ५३६ ॥ उत्सर्गः किल सांकार्य तेन स्यादियती स्थितीः । उपस्थमिन्द्रियं यच्च तस्य कार्य निगद्यते ॥ ५४० ॥ , कोष्ठति पाठः।

अभिनवगुप्तांवरांचनम् आनन्दः स सुखात्मैव तर्हि दुःखेऽपि कथ्यते । इन्द्रियान्तरमेवात्र मोहेऽप्येवं निरुच्यताम् ।। ५४१ ॥ दृष्टे हादिनि वा स्पृष्ट प्रातप्याकर्णितपि वा। श्रानन्दो वेद्यते तत्र वाच्यभवेन्द्रियान्तरम् ॥ ५४२ ॥ यच्चाप्यानन्दसंज्ञातमिन्द्रियं तत्र वर्तनी। पायुवत्तन्न कर्माक्षपञ्चकं युक्तिमहति ।। ५४३ ।। कर्मबुध्यक्षजालस्य ममं चेज्ञप्तिसंभवः । तहि बुद्धक्षपक्षेऽपि कथं न युगपद्विदा ॥ ५४४ ॥ यदि चायोगपद्यं तच्चक्षुपा सत्यदर्शने । सूचममुक्ताफलादीनां प्रोम्भनं किं न शक्यते ॥ ५४५ ॥ निमीलिताक्षस्यादानगत्यादि न कथं भवेत् । भावेषु चक्षुपापाते यदि न स्पर्शनेन्द्रियम् ।। ५४६ ।। खशरीरं निश्चिनुयात्तत्कुड्यप्रतिमं भवेत् । किं चाक्षव्यतिरिक्तोऽसौ न देहो नाम लभ्यते ॥ ५४७॥ अक्षाणि करणानि स्युः स्पर्शात्मानि न वै कुतः । देहो नियामकश्चेत्स्यानाक्षवर्ज स कश्चन ॥ ५४८॥ अभौतिके च भावेऽपि कथं ग्रहणमिन्द्रियैः । तद्वदेव सुखादीनां किं वा न ग्रहणं भवेत् ॥ ५४६ ॥ संनिवेशश्च नो रूपं स्पर्शनापि तथा ग्रहात् । न स्पर्शो नेत्रगम्यत्वादनयोर्ग्रहणं कथम् ।। ५५० ।। स्पर्शेन चक्षुपा वा स्यादित्थं कर्मापि चर्च्यताम् । सामान्यसमवायादेस्तथावयविनः प्रथा ॥ ५५१॥ कथमिन्द्रियसंघातैररूपादि तथा हि तत् । यश्चादौ संनिकर्षोऽपि संयोगसमवायजः॥ ५५२ ॥ अप्रसङ्गातिप्रसङ्गकारी स परमार्थतः।

मालिनीवातिकम् प्रत्यक्षं समवायं च ये भावं प्रतिपेदिरे ॥ ५५३ ।। तेषामेतेन नेत्रेण संनिकर्षों हि को भवेत् । कपित्थरसरूपांशी संयुक्तसमवायतः ।। ५५४ ।। तुल्यावेवेति नेत्रेण रसः किंवा न गृह्यते । अभावश्चक्षुषा ग्राह्य इति वा भवतां कथम् ॥ ५५५ ॥ भावोऽवश्यतया सोऽस्तीत्येतदप्यपबाधितम् । समवायोऽपि भावो हि न चास्सिन्संनिकृष्टता ॥ ५५६ ।। अस्ति चाध्यक्षता तेन सर्व तदसमञ्जसम् । ननु सामान्ययोगेन भावत्वं तु विभाव्यते ।। ५५७ ।। पदार्थत्रयसंकारि समवाये च तत्कुतः । इन्त तर्हि न सामान्ये भावत्वं युक्तिमत्ततः ।। ५५८ ।। तत्रापि संनिकृष्टत्वघोषणाव्यसनेन किम् । सामान्यसमवायादेः संनिकर्ष विना ग्रहे ॥५५६ ।। विश्ववर्तिषु भावेषु किं वै स्थान तथा ग्रहः । ननु वस्तुस्वभावोऽयं नानुयोगं च सोर्हति ॥ ५६० ॥ नूनं तर्ककथा क्षीणा तदलं माननिश्चयैः। एवं नास्त्यनुमानस्य संबन्धिनियमग्रहः ।। ५६१॥ अन्वयव्यतिरेको च कथं तद्ब्रहणं विना। धूमाधूमवदयवहिव्यक्तयो निखिलाः कथम् ।। ५६२ ।। जन्मनापि च गृह्यन्तामन्वयादि तथा कुतः। ननु सामान्ययोगेन संबन्धग्रहणं भवेत् ॥ ५६३ ॥ एतद्वयं न जानीमस्तज्ज्ञापयितुमर्हसि । यत्र स्थाद्धृमसामान्यं वह्विसामान्यमत्र चेत् ।। ५६४ ॥ अत्रातिदेशमात्रेऽतिप्रसङ्गोऽस्य विभुत्वतः । । सत्कारि समवाये चेति पाठः । २ ग्रहन्तामन्वयाचतथेति पाठः।

अभिनवगुप्तविरचितम् व्यक्तौ देशे तु नो युक्तमधूमव्यक्तिगेऽनले ॥ ५६५ ।। धूमव्यक्तेः स्वभावोऽग्निरनेर्व्यत्यविनात्मता। एतदेव कुतो मानात्प्रत्यक्षाद्यदि तत्कथम् ।। ५६६ ॥ अन्यव्यक्तस्तथाभावनियमावगतिः कुतः । यच्च धूमत्वसामान्य नियामकमिहेष्यते ॥ ५६७ ।। तंत्र वशित्वसामान्यमविनाभावि वर्तते । नहि जात्यन्तराजातिविना नास्तीति युज्यते ।। ५६८ ।। गम्यते यदि तेनैतदविनामावलक्षणम् । अविनाभावगमने अन्योन्याश्रयतामितः॥ ५६३ ॥ धूमावदिखसामान्यप्रतीतिर्यदि चोद्भवेत् । सामान्यग्रहणे तर्हि न भवेद्यतत्यपेक्षणम् ।। ५७० ।। व्यक्तिभ्यो व्यतिरिक्ते च सामान्ये परिनिश्चिते । तासु तत्समवैतीति मुग्धश्रद्धाविजृम्भितम् ।। ५७१ ।। सामान्ये च पृथग्भूते तेन चार्थक्रियाकृते । न स्यात्प्रवृत्तिलॊकस्य स हि तत्प्रापणोत्सुकः ॥ ५७२ ।। अथ सामान्यमाक्षिप्तव्यक्तिक संप्रतीयते । सामान्य ज्ञातमाक्षेप्तुं व्यक्ति किं व्यग्रविग्रहम् ॥ ५७३ ॥ तमिन्ननु च तद्वृत्तं श्रद्धचामेतदेव कः। ननु प्रमाणसंसिद्धिभिदोर्जातिविशेषयोः ॥ ५७४ ।। भेदेन नास्ति ग्रहणं ततो वृत्तिः प्रकल्प्यते । सोऽयं मुग्धमतीन्वालान्प्रतार्य निरपत्रपः॥ ५७५ ।। विदग्धम्मन्यतामूढो विप्रलम्भयतेऽपि नः। तत्सत्यमुक्तं केनापि लोकवृत्तान्तदर्शिना ।। ५७६॥ येनापत्रपते साधुरसाधुस्तेन तुष्यति । १ तोति पाठः मालिनीचातिकम् भेदेन ग्रहणं नास्तीत्यत्र यद्हणं मतम् ।। ५७७ ।। या च प्रमाणसंसिद्धिभिदोरित्यत्र सा मता। तयोरन्योन्यवादन प्रतिज्ञैव विरुध्यते ॥ ५७८ ॥ यदि मानाद्विभिन्नौ तौ तद्भेदग्रहणं न किम् । भेदवेदि हि यन्मानं तदेव ग्रहणं भिदः ॥ ५७६ ॥ भेदेन नास्ति ग्रहणमित्युक्त नापि भेदगम् । प्रमाणमिति चोक्तं स्यात्तस्मान्नेत्थं सतत्त्वधीः ॥ ५८० ।। व्यक्त्यादिना च विज्ञानमस्ति शब्दानुमानयोः । तच सामान्यविषये भेदग्राहि न किं भवेत् ॥ ५८१॥ ननु यादृङ्मता जातिः प्रत्यक्षे ह्यवभासते। नेदृशी शब्दलिङ्गाभ्यां जनितप्रत्ययोदये ॥ ५८२ ॥ हन्त स्फुटास्फुटादीनां धर्माणां संभवो यदि । जातावस्ति गुणास्तर्हि सामान्येष्वप्यवस्थिताः ॥ ५८३ ॥ ननु ज्ञानं स्फुटान्यत्वभासि स्यादसदीदृशम् । ज्ञानं हि विपयाकारप्रकाशपरिनिष्ठितम् ॥ ५८४ ॥ अर्थोपरागजनितैः स्फुटाद्यैरुपचर्यते । नन्वस्य स्फुटताद्यस्तु स्वयं सूर्यमरीचिवत् ॥ ५८५ ॥ मैवं तेजोणवस्तैस्तैर्विसंभागैरजिसैः । सान्तरव्यन्तरीभूता विभ्रान्तध्यामलायितम् ।। ५८६ ॥ उत्पत्तिमात्ररचितभावाभावः प्रकाशते । गुणैर्निरंशे विज्ञाने नेटक्साम्यं सुसंगति ॥ ५८७॥ ज्ञानस्योत्पत्तिमात्रेण विषयो ह्यवभासते । अनुत्पत्तौ न वा भाति न तु तान्यथवा स्फुटम् ।। ५८८ ।। ननु शब्देऽनुमाने वा सामान्य भात्स्वरूपतः। १ चेदग्रहणमिति पाठः । २ भास्वरूपेति पाठः। n अभिनवगुप्ताभितम् व्यक्तिमाक्षिपतीत्येवं भेदेन ग्रहणं कुतः ॥ ५८६ ।। उच्यते भास्वरूपेण सामान्य व्यक्तिमाक्षिपेत् । व्यक्तिस्थतत्प्रतीतियां स एवाक्षेप उच्यते ।। ५६० ।। ततोऽध्यक्षेण सर्वासां धियां साम्यं न किं भवेत् । नन्वस्फुटैव सा व्यक्तिरेतदेव विविच्यताम् ॥ ५६१ ॥ स्फुटत्वमस्फुटत्वं च स्तो धर्मों यदि कावपि । अस्फुटव्यक्तिनिष्ठं तत्सामान्यमिति जायते ॥ ५६२ ॥ तथापि तादृशस्यास्य स्फुटमेव ग्रहः स्थितः । स्फुटव्यक्तिषु जातिश्च समवेता न संभवेत् ॥ ५६३ ॥ ननु यद्यक्तिमानं तनिष्ठं सामान्यमुच्यते । मात्रशब्दे वयं नार्थ विद्मोऽपि सुसमाहिताः ॥ ५६७॥ सापि हि व्यक्तिरेव स्यात्सामान्यं वा न वा द्वयम् । ननु व्यक्तः स्फुटत्वे क आक्षेपार्थो भवेदिह ।। ५९८ ॥ माभूत्कि खलु वस्त्वंशास्त्वदुक्त्यनुविधायिनः । अवस्थादेशकालादिदूषणं यच्च चर्चितम् ॥ ५६६ ।। अनुमानेत्र हरिणा तदप्यनुसरेद्बुधः । किं चाप्रयोजकीकर्तुं हेतुः सर्वोऽपि शक्यते ॥ ६०० ॥ धूमश्च स्यादनग्निश्चेत्येवं मूतौ ध्रुवो यथा । सर्वो वह्निप्रयुक्तो हि धूम इत्यत्र का प्रमा॥६०१॥ सामान्यद्वारताक्षिप्ता न चोपायान्तरस्थितिः। धूमः प्रयोजको वह्वेर्मूर्तावपि न किं भवेत् ।। ६०२ ॥ अनित्यत्वस्य नियमज्ञप्त्युत्पत्तिकृतौ न तु । अन्योन्याश्रयताज्ञानमनवस्था न चैव हि ॥६०३।। १ साद्यमिति पाठः । २ मूर्त इति पाठः । ३ भूर्ततापीति पाठः। * कृत इति पाठः।

मालिनीवार्तिकम् शाम्यतीति न युक्तत्थमनुमानप्रमाणता । तद्भेदवादिनां तावद्वे माने नैव संगते ॥ ६०४ ॥ शब्दादेस्त्वनुमानेन सुधीभिः परिनिश्चितम् । तस्मात्स्वसंविदेवैषा स्वप्रकाशतया स्थिता ॥ ६०५ ।। मात्मानप्रमेयादिप्रपञ्चैः सावभासते । समुल्लासः सिन्धोर्बहललहरीविभ्रममयः प्रकाशः शाशाङ्कः कुमुददलनिर्भेदसचिवः । परस्याः संवित्तेर्मितिविषयमाव्यतिकरै- विकासो यः सेयं जगति विविधा कल्पनकला ।६०६। तस्मात्प्रकाश एवायं चित्रशक्तिसुनिर्भरः। वयं विचित्ररूपेण भाति विश्वत्र विश्वतः ॥६०७॥ तदयं प्रस्फुटाभासो लोकरूपादिवर्त्मना । स्वशक्त्यंशाद्विकल्पाख्यात्प्रत्यक्षव्यपदेशभाक् ॥ ६०८।। तथाहि देवंदेवांशस्तत्समुन्मीलनं दृशः। प्राणस्पन्दस्तदैकाग्यं भावस्तद्धर्मसंचयः ॥ ६०६ ।। इत्यादि सर्वं यद्भाति तत्प्रत्यक्षमिति स्फुटम् । न त्वत्र कर्तृकर्माशकरणत्वादिना गतिः ॥६१० ॥ नन्वसावस्ति पाश्चात्ये वैकल्पिकपथे ततः। यतो देहघटाभासः स्फुटः पश्चात्तु सोऽस्फुटः ॥६११॥ स एव च्छन्नरूपस्तु शुद्धांशस्वात्मसंविदाम् । ततो देहघटाभासस्तत्राप्येषैव वर्तनी ॥६१२ ॥ यावत्सहस्रदेहौघभावकोट्यवभासनम् । तत्रापि च पुरा पश्चान्न तु तादृक्प्रथा यदि ॥६१३ ।। १ निवेदेति पाठः। ३ देहदेहांश इति पाठः ।

अभिनवगुप्तविरचितन् आमर्शपदवीं याति तत्स्फुटास्फुटचित्रितः। तावानसावेक एव स्वरूपप्रस्फुटात्मकः ॥६१४ ।। शिवप्रकाश आयाति विचित्रोऽयं न वस्तुतः। तत्रातद्रूपसंवेशाद्वैचित्र्यं परिचर्च्यते ॥ ६१५ ॥ शिवप्रकाशेऽतद्रूपप्रवेशस्तु न संगतः। यदि वा कथितन्यायवलात्कापि न चित्रता ॥६१६॥ किंतु चित्रतयाभासश्चित्रभावं प्रसूयते । एवं चैत्रोऽयमसाकं चित्रवद्भवन्नीदृशः॥६१७ ॥ मैत्रेण तन्मतेनालं दृष्टो मां भावदर्शिनम् । पश्यन्पश्यति यः सोयं समाधौ परिनिष्ठितः ॥६१८ ॥ प्राक्त्वेष जन्मकोटीषु तत्तत्तापायभुत वे। मोक्ष्यते ध्यानचर्याधैर्योऽप्यतेन पथागतः ॥ ६१६ ॥ सोऽप्यन्यो मोक्षभागीथमपर्यवसितोदयः। प्रकाश एक एवायं यश्चिरान विभिद्यते ॥६२० ॥ अत एव हि भेदोऽस्ति न कश्चिद्यो महेश्वरम् । अद्वयं संप्रंभिन्दीत प्रकाशानन्दसुन्दरम् ॥ ६२१॥ देशकालाकृतिज्ञानधर्मोपाध्यन्तरादयः। संमता भेदकत्वेन भान्ति चेत्सा विभा तथा ॥ ६२२ ॥ न चेद्विभैव सा तादृक्तदद्वैतमिदं स्फुटम् । भेद इत्येष शब्दस्तु केवलं प्रतिभोज्झितः॥६२३ ॥ अस्तु वा भेदकलना प्रतिभासंप्ररोहिणी । उतनीत्या तु तत्रैव सप्रतिष्ठा भविष्यति ॥ ६२४ ॥ अयं घटः पटश्चायं तावन्योन्यविभेदिनौ । १ चित्तवद्भावमीशमिति पाटः। २ संप्रभेदेतेति पाठः।

मालिनीवार्तिकम् प्रमानन्तरभिन्नौ च तौ मत्तोऽपि विभेदिनौ ॥ ६२५ ।। इति प्रकाश एकोऽयं तथामर्शस्वरूपकः। नन्वेवं पक्षपातोऽयमद्वैतं भवतां कथम् ।। ६२६॥ भेदोऽप्यस्तु स आहत्य किं नाम न विषयते । सेयं बधिरगोष्ठीषु गीतवाद्यपरोचना ॥ ६२७॥ नह्यद्वयं द्वयावेशबाधेनामाभिरुच्यते । त्वत्पदोपगमो ह्येष स्थाव्यं तद्धि सुस्फुटम् ॥ ६२८ ॥ इदं द्वैतमिदं नेति तदिदं च द्वयाद्वयम् । इति यत्र समं भाति तदद्वयमुदाहृतम् ॥ ६२६ ॥ नन्वित्थमस्तु भेदोऽपि न वयं शब्दकामुकाः । अस्त्वसो नहि नो हेयमादेयं वा यथात्र वः॥ ६३० ॥ सर्वानुग्राहकं पक्षमालिलम्विषसे यदि । परमाद्वयदृष्टिं तत्संश्रयेः शरणं महत् ॥६३१॥ एतदष्टादशे तत्त्वमधिकारे भविष्यति । यत्तदन्ते परप्राप्यं तदस्तु परमार्थतः ॥ ६३२ ॥ अत्र ये नहि विश्रान्तास्ते मितां संविदं श्रिताः। सर्वथैवापबाध्यन्ते जन्ममृत्यूत्थविभ्रमैः ॥ ६३३ ॥ तस्मात्स एक एवासौ प्रकाशः परमेश्वरः। प्रत्यक्षमिति तेनैव प्रकाशेनैव भासते ॥ ६३४ ॥ तत्र ता दृष्टयः सर्वा महानद्य इवार्णवे । विशन्त्यवश्यं नाविष्टाः प्रयान्ति कृतकृत्यताम् ॥६३५ ॥ तथा हि मानसामग्री रूपालोकमनोक्षजा। साकं मातृप्रमेयाभ्यां तद्वर्ज वाप्यनेकशः॥६३६ ॥ ज्ञातं च गमयेन्मानं न चाप्युज्झति मानताम् ।

अभिनवगुप्तविरचितम् प्रत्यक्षपादोत्प्रेक्ष्यमिदानीमुपपद्यते ॥ ६३७ ।। किं चानधिगतग्राहि मानं नवनवं यतः । भैरवेच्छावशादेतद्विश्वं भाति तथा तथा ॥ ६३८ ॥ वस्तु प्रदर्शयन्मानं प्रवृत्ति विदधत्स्फुटम् । प्रापयत्येव तद्वस्तु तथाभासनयोगतः॥६३६ ।। सदष्येकान्ततो नेदं नासचेत्यादिसंविदः । भान्त्येव परमार्थेन तदनेकान्तहक्स्फुटा ॥६४० । एको भावः सर्वभावस्वभावः सर्वे भावा एकभावस्वभावाः । अर्हद्वादः सोऽयमस्मत्सुदृष्टौ युक्तश्च श्रीसारशास्त्रेऽपि चोक्तः ॥ ६४१ ॥ इदं मानं मेयं तदिदमिति संख्यां कलयितुं स्वरूपं वा शक्तः क इव जगतीत्येतदपि सत् । मतं वाचां पत्युभगवति चिदानन्दसुभगे यतस्तूष्णीभावादपर इह कः किं प्रकुरुताम् ।। ६४२ ।। अहेतोर्भाने स्याद्यदि न तनुदिकालनियम- स्ततो हेतोरीडियम इति कस्यैष महिमा । स्वभावोऽयं हेतोरथ विवृतकण्ठं कथमसौं न भावस्यैवोक्तो यमयति परे केन हि परः ॥ ६४३ ॥ स्वभावाच्चात्मासौ परमशिव इत्यागमकथा निरुतो विश्वात्मा जगति निखिले जृम्भत इति । धरादेश्चानन्यो भवतु तदियं भूतचितिता स वन्थ्यो दिक्कालैर्जननमरणापायरहितः॥६४४॥ । तन्त्रे इति पाठः । २ वोक्तों इति पाठः ।

मालिनीवार्तिकम् तदस्यायं लोकस्तदनु परलोकोऽप्ययमिति ग्रहः कसावेतोः स्पृशति नहि तं कालकलना। ततः स्वातत्र्योउत्सुखरसपरानन्दमहिमा- भवद्भसीभूताखिलकलुषपाशौघसुभगः ॥ ६४५ ॥ सांख्यदृक्पुनरिहैव भूयसा चर्च्यते निखिलतत्त्वगोचरा। दृश्यते हि धरणीप्रभृत्यलं तच्च सूक्ष्मतमकारणोत्थितम् ॥ ६४६ ॥ तहीतिकरणोधतं पुन- बाह्यतः करणकं दशात्मकम् । आन्तरं त्रिविधमस्य कारणं सौख्यदुःखपरिमोहदर्पणः ॥ ६४७ ॥ तादृशं त्रिगुणमेव यद्भवे- तत्पुनर्जडतयाथ भेदतः। मूलकारणमपेक्षते परं सा निशेयमिह भोग्यमुच्यते। तच भोक्तृपरतत्रतामयं नो परस्परमुपैति भोक्तृताम् ।। ६४८ ॥ भोग्यभोक्तृवपुरेकमेव नो जाघटीति हि विरुद्धधर्मतः। वेन भोक्तृ चितिशक्तिमात्रक तच्चिदात्ममयतावशान्मनः ॥६४६ ॥ व्याप्त सर्वगतमीश्वरं कथं भोक्तृतां बजतु भेदसंगताम् ।

अभिनवगुप्तविरचितम् ६५ सेन तन्निजवशिखनिर्मितां संकुचस्थितिजुपं दशां श्रयेत् ॥ ६५० ।। अन्यकारणकलाद्यभावतः सोऽयमस्य सहजो मलः स्मृतः । स त्रिधा समवभाति तद्वशा- देष एव स पुमानुदाहृतः ।। ६५१ ॥ भोक्तृभावपरतत्रतावशा- नान्तरीयकतयास्य कञ्चकम् । भाति नैवमिति कालविकला- रागसन्नियतिनामधेयकम् ।। ६५२ ।। यद्यात्मैप पुनर्निरर्गलनिजस्वातन्त्र्यसंछादितं खं रूपं विवृणोत्यलं निजवलात्तच्छुद्धवित्संभवः । कर्व किल कार्यवर्गमखिलं बोधे निधाय स्खके पश्यन्नीश्वरतां बजेदहमिदं सर्व सदेत्युडुरः ॥ ६५३ ।। ज्ञातृवं हृदयान्तरस्फुरितदृग्दृष्ट्वा स्फुटाभासिनि ज्ञेये भेदतिरोधितां निजचितौ यस्मात्स संपश्यति । तेनास्येदमहंविदोः सरभसं भेदैक्यमाजग्मुषी सामानाधिकरण्यधीः प्रकटयेत्सादाशिवीं संस्थितिम् ।। ज्ञेयं कार्य सर्वमन्तर्विबोधे यावल्लीनं तावदुद्रिक्तवृत्तेः । बोधज्वालासंचयस्यान्तराले तत्प्रस्त्यानं खं वपुःप्रोज्झतीव ॥ ६५५॥ इदंभावः सोऽयं विगलितुमना नो विगलितो १ त्यजेदिति पाठः।

२ मालिनीवार्तिकम् भवेत्प्राकक्ष्यायामपि स समकान्तिस्तदधुना । अहंभागोद्रेके विधिरनवधिर्भावविसरे तदेषा शाक्ती भूरिपिरिति स्वसिद्धात्मनि परा ॥६५६।। ईहते गलितुमन्वतो गलेत्तत्र पूर्वपररूपसंगतेः। शाक्तभूमिरखिलेयमुच्यते चित्रचिन्निचयचर्चिता सती ६५७ तत्त्वे तत्त्वे स्वेच्छया देवदेवः सर्वां सर्वां भूमिमालम्बमानः। पूर्णकात्मा पूर्णविरस्वरूपः श्रीमानशास्त्रे भैरवोऽसौ निरुक्तः ।। ६५८ ॥ शक्तिपातगियं निरुच्यते मन्दमध्यपरतीबभेदतः। तत्परस्परभिदाभिरप्यलं या स्वरूपपरिदृष्टिरात्मनः॥६५६ ॥ ननु किं कदाचिदयमीश्वरो निजरूपं प्रकाशयति पूर्णचितिः किंवा कदाचिदथ संवृणुते निर्हेतुको हि नियमः किल कः उक्नमत्र किल पूर्वमनन्तं नान्यदस्ति नियमेषु निमित्तम् । लौकिकेष्वपि स एव महेश- श्चित्रचित्रपरिभासनशीलः ॥ ६६१ ॥ तत्वातन्त्र्यादधिकमधुना नोत्तरं बम्भणीमः संवित्सिन्धोः प्रथितलहरीहर्म्यधाराधिरूढिः। शान्तिस्तस्यास्तदनु तदयं बन्धनानापदिष्ट- स्तेनैवेत्थं परिगतरसो मोक्ष इत्युक्तरूपः ॥६६२ ॥ । नलितेति पाठः । २ रूद इति पाठः।

अभिनवगुप्तविर्गचतम् सदा कदाचिदधुना तदेत्यादि च संविदः । तत्वातव्यावभासीयकालकेलिविकल्पनाः ।। ६६३ ॥ न च कालकलाभिः स स्पृश्यते परमेश्वरः। नहि तासां स्वतन्त्रास्ति स्थितिस्तत्कल्पनां विना ॥६६४॥ तेन स्वसृष्टे भावांशे स्वरूपात्मन्यपि स्फुटम् । पारतन्त्र्यावभासोऽयं देवेनैवावभास्यते ।। ६६५ ॥ पारतन्त्र्यं कलयति स्वतन्त्रः परमेश्वरः । स्वातन्त्र्ये पारतन्त्र्ये च नान्यल्लक्षणमुच्यते ॥ ६६६ ॥ परिच्छिन्नप्रकाशो हि जडस्तेनात्र यः स्थितः । परिच्छेदक एषोऽपि परिच्छेद्यो यदि स्फुटम् ॥ ६६७ ॥ तदस्य रूपग्रहणे न प्रकाशः प्रकाशते । तथा हि बाह्यो भावांशः स्वयं नैष प्रकाशते ॥६६८॥ ज्ञानमर्थप्रकाशात्म तच्चानाभातमेव हि । तस्यापि समवाय्यात्मा नैव भाति स्वरूपतः ॥६६॥ तदीयकरणं नेत्रप्रभृत्यपि न भासते । आलोकादेश्च विज्ञानादृते नैवावभासनम् ॥ ६७०॥ ननु जातं यदि ज्ञानमर्थस्थासौ प्रकाशता । शक्तिधर्मो यदि प्राप्त सार्वत्यं विश्वमण्डले ॥६७१ ॥ अन्यदेवाथ तत्किंचित्प्रकाशत्वाभिशब्दितम् । तन्मेयमातृमानेषु नैव कुत्रापि संगतम् ॥ ६७२ ॥ ततश्चाप्रकटं विश्वं सर्वदैव भवेदिदम् । अप्रकाशस्य भावस्य यदि च स्यात्प्रकाशनम् ॥६७३ ।। तावतैवास्य हीयेत खरूपं परिहानितः । ज्ञानोत्पत्तिश्च भावस्य खरूपस्थस्य चेत्प्रथा ॥ ६७४ ॥ १ कारणमिति पाठः । २ अवस्येति पाठः । ३ स्वरूपस्य चेति पाठः ।

मालिनीवार्तिकम्
अविशिष्टे स्वरूपस्थभावे विश्वस्य सा न किम् ।
तस्मात्प्रकाशो विश्वस्य परिच्छेदकनिष्ठितः ॥ ६७५ ॥
तत्वातन्त्र्यावभासोत्थचित्राकारविभेदितः।
परिच्छेदक इत्थं चेत्परिच्छेद्यो भवेत्ततः ॥ ६७६ ॥
मूलक्षतिकरी सेयमनवस्था पतिष्यति ।
अतश्च सोऽपरिच्छिन्नः परिच्छेदक उच्यते ।। ६७७॥
अकाल्यस्तेन शास्त्रेषु तन्न कालस्य गोचरः।
तेनास्य वेद्यधर्मत्वं कालस्य परिभाषितम् ॥ ६७८ ॥
यदि कालश्च मातारं परिच्छिन्द्यात्ततो ध्रुवम् ।
मावलग्नैव कालस्य स्थितिनिर्वाहमिच्छति ।। ६७६ ॥
न च मात्रन्तरं किंचित्संभवेदनवस्थितेः।
तां हन्तुं वोपगम्योऽसौ माता कालकलोज्झितः॥६८०॥
य एव तु परिच्छेद्यो माता तल्लन एव चेत् ।
स कालो मातृमेयले तकस्य कथं तव ॥६८१॥
भेदवादे हि भवतां निष्ठिता मतिरीदृशी।
अभेदवादिनां नस्तु नैव काप्यस्ति खण्डना ॥ ६८२ ॥
विश्वं मामयं येषां माता विश्वमयस्तथा ।
तन्न कालकलाजालजम्बालैः परमेश्वरः ॥६-३॥
चितिशक्तिप्रकाशो हि मालिन्यमवलम्बते ।
अतस्तदा संवृतोऽसौ पश्चात्प्रकटरूपकः ॥६८४॥
इति तस्यैव जृम्भेयं तथालव्यपदेशिनी ।
कलनैवास्य सा काचित्स्वरूपामर्शनात्मिका ॥६८५॥
शिवयोगार्हमात्मानं यस्यामात्माभिमन्यते ।
गतो नियगोगेल तथात्मानं स मन्यते ॥६८६॥

अभिनवगुप्तविरचितम् शक्तिपातस्य तेनोक्ता नवधात्र व्यवस्थितिः। अन्यथा नेश्वरस्यास्ति रागो द्वेषोऽथ वा कचित् ॥ ६८७ ॥ येन काप्येष नियतां स्वां शक्ति पातयेद्विभुः । अनिमित्तस्तथा चायं शक्तिपातो महेशितुः ॥६८८॥ तेन रागक्षयात्कर्मसाम्यात्सुकृतगौरवात् । मलपाकात्सुहृद्योगाद्भक्तेर्भावाच सेवनात् ।। ६८६ ॥ अभ्यासाद्वासनोद्भेदात्संस्कारपरिपाकतः । मिथ्याज्ञानक्षयात्कर्मसंन्यासात्काम्यविच्युतेः ॥६६०॥ साम्याच्चित्तस्य सा शक्तिः पततीति यदुच्यते । तदसन्ननु तत्रापि निमित्तान्तरमार्गणात् ।। ६६१ ॥ अनवस्थातिप्रसङ्गसंभवाभावयोगतः । अन्योन्याश्रयनिःश्रेणिचक्रकाद्युपपाततः ॥६६२॥ असिंस्तु पक्षे सर्वेषां प्रवादानामपि स्थितिः। युक्ता सर्वसहे पक्षे न किंचित्किल दुष्यति ॥ ६६३ ।। युक्तिः सुधीभिः खयमेव तत्र शक्येत संयोजयितुं ततो न। पृथक्तया योजनमुक्तमत्र यद्न्थतो विस्तर एष मिथ्या ॥६६४ ॥ उपजग्मुरतोज्नपेक्षिणी शिवशक्तिं न च तां विना भवेत् । अपवर्गपदं यतो मुधा परशास्त्रेषु निमोक्षसंकथाः ॥ ६६५ ॥ शक्तिपातसमये विचारणं प्राप्तमीश न करोषि कर्हिचित् ।

To an मालिनीवार्तिकम् श्रीमदुत्पलगुरुयरूपयत् तत्र तत्र निजशास्त्र ईदृशम् ॥ ६६६ ॥ तस्यैव हि प्रसादेन भक्तिरुत्पद्यते नृणाम् । यया यान्ति परां सिद्धिं तद्भावगतमानसाः ।। ६६७॥ इत्थं पुराणशास्त्रादौ शक्तिः सा पारमेश्वरी । निरपेक्षव कथिता सापेक्षखे ह्यनीशता ॥ ६६८ ॥ केवलं भेदवादान्ध्यस्थगितालसदृष्टिभिः । दुःसमर्थत्वमेतस्या नियमेन कचित्स्थितेः ॥ ६६६ ॥ पर्यालाच्यानिशं कर्ममलसाम्यप्रपाकतः । इत्यादिहेतुजालेषु वृथात्मा परिखेद्यते ॥ ७०० ॥ तत्तेषां नोपकाराय कुशकाशावलम्बनम् । तस्मात्स एव तादृक्षस्वस्वातन्त्र्योपबृंहितः ॥७०१ ॥ तदा तथा तथेत्यादिवैचित्र्येणावभासते । तदित्थं सर्वदृष्टीनामत्रैव परमेश्वरे ॥ ७०२॥ अनुप्रवेश इत्यन्यैरलं वा युक्तिडम्बरैः । तदित्थं देवदेवेन स्वस्वरूपमिहोदितम् ॥ ७०३ ॥ प्रत्यक्षं तत्र तन्मानं सर्वमानधुरोडुरम् । एकमेवेदृशं मानमिति केचित्प्रपेदिरे ॥७०४॥ धूमादग्निरिति आयस्तस्यैवैतद्विजृम्भितम् । यथा घटस्य पूर्वाशदृष्टैकपरिनिष्ठितः ॥७०५ ।। माता स्फुटास्फुटाकारतावदावलेहिनीम् । स्फुटामेव मतिं मला प्रत्यक्षवं प्रपद्यते ॥७०६॥ न चानुमानमन्त्यांशे संविदेकैव सा यतः। धूमाध्यक्षप्रतीत्यन्तर्निविष्टाग्निप्रथा तथा ॥७०७॥ एकैव तावदांशलेहिनी जायते मतिः ।

अभिनवसुतविरचितम् तावत्यंशे स्फुटाकारा प्रत्यक्षमिति भाष्यताम् ।। ७०८ ।। यथा रत्नादिवैचित्र्यं तथा संस्कारसंस्थितेः । नेत्रात्ममानसालोकविषयादिषु संविदि ।। ७०६॥ प्रत्यक्षमेव संवित्तौ स्फुटत्वेनावभासते। तथा तथाविधव्याप्तिधामसंस्कारसंस्थितः ।। ७१० ॥ अन्ते तथैव सा वित्तिधूमाग्न्याकाररूपिणी । यथा च दृढसंस्काराः सोल्लेखाः सपदि स्वयम् ।। ७११ ।। रत्नादितत्त्वं पश्यन्ति विघ्नान्तरतिरोधितः । तथा बुभुक्षितात्मानः शीघ्रमेवातिनिश्चितम् ॥ ७१२॥ अन्नादि गृह्णते भोक्तुं व्याप्त्यायव्यवधानतः । तेन प्रत्युक्तमेव स्याद्यदाहुः परिकल्पनम् ॥ ७१३ ॥ अभ्यस्तेष्वविनाभावस्वभावव्याप्तिसंविदः। किं हि तत्कल्पनाव्याप्तिवित्तरिति न मन्महे ॥ ७१४ ॥ आशूत्पत्तिवशादस्या न खल्वस्त्युपलक्षणम् । अनुमीयत एवं सा तदेव परिकल्पनम् ।। ७१५ ।। अहो स्वपक्षपातान्धाः स्वमप्युपगतं मुहुः । श्रमी विस्मर्तुमारब्धास्तार्किकम्मन्यबुद्धयः ॥ ७१६ ॥ क्षणापवर्गिणी बुद्धिः सर्वैव हि भवन्मता । उत्पत्तिमात्रयोगेन विषयस्यावभासिका ॥ ७१७ ॥ न क्षणाचापरं किंचिदाशुभाविखमुच्यते । तत्सर्वमाशुभाव्येव विज्ञानमिति तत्त्वतः ।। ७१८ ।। सर्वत्र भावजातेषु भवेदनुपलक्षणम् । अथाविच्छिन्नदृष्टीनां द्राधीयःकालगोचरम् ॥ ७१६ ।। ज्ञानं तेनापि तीर्थो जन्ममात्रेण भास्यते । ॥

मालिनीवार्तिकम् यच्चोत्पत्तिवशादेव विषयस्फुटतात्मकम् ॥ ७२० ॥ तस्य शीघ्रतरस्थास्नुभावो भेदावहः कथम् । यत्तत्किल ग्रहापेक्षं स्वप्रकाशमथापि सत् ।। ७२१॥ अन्यत्रोपायतां याति विद्युद्दीपादिवत्तथा । तत्रैव चिरशीघ्रस्थभावो भेदाय भासते ॥ ७२२ ॥ न च काप्यनुमानेषु व्याप्त्यादर्ग्रहणं भवेत् । पुनः पुनः स्फुटीभावं याति येनोपलक्ष्यते ॥ ७२३ ॥ किं च क्रमिकधूमादिज्ञानमालात्मनि स्फुटम् । उदितापि कथं कुर्यादेकभावावभासनम् ॥ ७२४ ॥ अथान्त्यमनुसंधानज्ञानमेवं करिष्यति । तदपि प्राक्स्थसंवित्तिसमं भिन्नं कथं तथा ॥ ७२५ ॥ तेन प्राक्तनविज्ञानमालामन्वास्यते यदि। तदसन्नहि संधानं नष्टायामुपपद्यते ॥ ७२६॥ अथ स्मरणमेवेह संधानं संविदां भवेत् । तदप्यनुभवाभावे कथं नाम भविष्यति ॥ ७२७ ॥ न च ज्ञानेष्वनुभवो युज्यते संविदः कचित् । युगपज्ज्ञानयुगलं नास्तीति हि भवन्मतम् ॥७२८ ॥ ज्ञानज्ञेयात्मता दृष्टा युगपत्स्थितताजुषोः । न तु पूर्वापराकारसमुत्पन्नविरोधिनोः ॥७२६ ॥ तस्मायाप्त्यनुसारावभासपूर्वापि या मतिः। तत्राप्यक्रममेवेदं प्रत्यक्षमानवेदनम् ॥ ७३०॥ यथा झटिति सौषुप्तप्रबुद्धः प्रोन्मिषदृशिः। प्रत्यक्षमिति भावांशध्यामलखनिवृत्तये ॥ ७३१॥ नेत्रसंमार्जनादीनि विदधन्नाभिमन्यते । . अत्रैवेति पाठः । २ अभियामिति पाठः ।

अभिनवगुप्तविरचितम्
६
भावाननुमिनोमीति तथैवात्रापि बुद्धताम् ॥७३२ ॥
यथा च धनसौषुप्तमोहाव्युत्थितदर्शनः ।
स्वात्मानमथ तत्स्थानं विसरत्येव तत्क्षणम् ॥ ७३३ ॥
अथ प्रयत्नसंभारप्रबुद्धविमलखदृक् ।
सोहमस्मीति मन्वानः संवित्तः परमार्थतः ॥ ७३४ ॥
तत्र सर्वत्र नाथोऽयं भैरवश्चित्स्वरूपकः ।
खातन्त्र्यात्स्वं वपुर्यावद्हते विवृणोति च ॥ ७३५ ।।
तावदज्ञानमेतस्य विज्ञानं चोपजायते ।
तच्च स्फुटतया सर्वप्रत्यक्षमिति मन्यताम् ॥ ७३६ ॥
घटशब्दे श्रुते या च पृथुवुनोदरादिधीः ।
तत्रापि खलु संकेतस्मरणादि तथाविधम् ॥ ७३७ ॥
यथा रत्नपरीक्षायां स्वां संवित्तिं स्फुटात्मिकाम् ।
संविदन्तरसंघातस्तिष्ठति प्रतिबोधयन् ।। ७३८ ॥
ततः प्रबुद्धचरमस्फुटसंवित्तियोगतः।
रत्नतत्त्वं विभात्यत्र नोपयोगोऽन्यसंविदाम् ॥ ७३६ ॥
ताः परं तत्प्रबोधाय कारणत्वं वितेनिरे।
तस्यैवाभासयोगे हि न तासामुपयोगिता ॥ ७४० ॥
बालवैकटिकज्ञानदृष्टान्तादीदृशात्स्वयम् ।
शाब्देऽपि खलु विज्ञाने स्फुटवैका प्रकाशधीः॥ ७४१॥
अतस्तथाविधे शब्दे श्रुते यत्समनन्तरम् ।
अर्थावभासने सेयमियती मतिरीदृशी ॥७४२॥
अर्थः स तावांस्तत्रास्ते घटपूर्वापरांशवत् ।
नन्वसौ घट एकः स्यादवयव्यात्मकस्तथा ॥७४३॥
न तु शब्दार्थयोरैक्यं तत्कथं साम्यमीदृशम् ।
अहो भेदग्रहाभ्यासतिमिराबिललोचनः ॥७४४ ॥

७० मालिनीवार्तिकम् सद्युक्त्यञ्चनयोगेऽपि न दृष्टिं विमलां गतः । अभिन्नो भगवानप भैरवो भोग्यभोक्तृताम् ।। ७४५ ।। आत्मन्येवानुसंधाय सर्वदा पूर्णविग्रहः । इति प्रसाधिते पूर्व कः प्रश्नस्यास्य संभवः ॥७४६॥ तदेवमुपमानादावपि मानान्तर स्फुटम् । संवित्प्रत्यक्षरूपैव सर्वत्र प्रतिभासते ॥ ७४७॥ अन्धोऽपि स्पर्शशब्दास्तत्तद्रुपं विलोकयन् स्फुटतामेव तां तावत्संवेत्ति स तथाविधाम् ।। ७४८ !! एवं जातिजडा रूपस्पशाचैरभिमन्वते । स्फुटमेव हि भावांशं तेषां नाज्ञातधीः कचित् ।। ७४६ ॥ इयं लावण्यसरसी तारुण्योद्यानकन्दली। इति तुष्यति जात्यन्धस्तदङ्गपरिमर्शनात् ।। ७५० ।। अहो नु सदलङ्कारं गायतीति जडो जनः । गातुर्मुखं विलोक्यैव तावता परितुष्यति ॥ ७५१!! इति प्रत्यक्षमेवैकं निःसपत्नं विजृम्भते । तदस्य फलचिन्तादि कर्तुं प्रस्तूयते मनाक् ।। ७५२ ।। तदेव खलु विज्ञानं परिमर्शरसात्मकम् । तस्माद्भेदकथा नैव फलं प्रति सुसंगता ॥ ७५३ ॥ हानादिधीः फलं वास्तु तस्या अप्यथ भासनात् । यदि वा स्वप्रकाशैव संवित्तिः पारमार्थिकी ।। ७५४ ।। तदेव पर्यन्तफलं सर्वत्रैव सुनिश्चितम् । हादादिकं फलं मुख्यं यत्सर्वत्रेह गीयते ॥ ७५५ ॥ तत्स्वसंविदि विश्रान्तिमभ्येति भरितात्मनि। १ नग्न इति पाठः। २ तस्मादपीति पाठः।

भभिनवगुप्तबिचितम् तदेवमिदमध्यक्ष सर्वतः प्रविजृम्भते ।। ७५६ ।। एतदभ्यासनिष्ठस्य केव सिद्धिर्न जायते । ब्रह्मादिभाषितश्रीतप्रौन्मुख्येन कलादिकात् ।। ७५७ ॥ दूराच्छवणविज्ञानमचिरात्संप्रवर्तते । मनोदृष्टेऽपि भावांशे स्फुटवृत्युदयो ह्यलम् ॥ ७५८ ।। खविमर्शवलाकान्ते किं चित्रं यदि जायते । स्पन्दशास्त्रे तथा चोक्तं सावधानेऽपि चेतसि ।। ७५६ ।। भूयः स्फुटतरो भातीत्यलं बहुलविस्तरैः। इत्थं प्रत्यक्षमेवेदं विश्वं यत्परमेशितुः ॥ ७६० ॥ तत्ततोऽप्यविभिन्नस्य मातृवर्गस्य तत्तथा । न च प्रतीतिसांकर्य तथा भासनयोगतः ।। ७६१ ॥ प्रत्यक्षेऽपि समे साम्यं नो घटाघटसंविदोः। इत्थं प्रत्यक्षमेवेदं निःसपनं विजृम्भते ।। ७६२ ॥ ततो न भिद्यते चार्थः प्रत्यक्षाद्वैतमीदृशम् । इदं सन्धानकलिकापरिनिष्ठितबुद्धिना ॥ ७६३ ॥ आचार्यनरसिंहेन प्रत्यक्षाद्वयमुच्यते । अनुमानप्रमाणवं विश्वसिन्कैश्चिदुच्यते ॥ ७६४ ॥ तथा हि देवः सर्वज्ञो निर्विकल्पस्वभावकः । स चाध्यक्षस्वभावोऽपि नायाति व्यवहार्यताम् ॥ ७६५ ॥ अविकल्प विकल्पात्मा व्यवहारः कथं किल । विकल्पेन च सर्वोऽयं व्यवहारोऽवतन्यते ॥ ७६६ ॥ स एव चानुमानं स्यात्तस्यैताः परिकल्पनाः । पक्षतद्धमतद्याप्तितत्प्रतीत्यादयोऽखिलाः ॥७६७ ॥ वस्तुतस्बेक एवासौ प्रत्ययः पारमार्थिकः ।

मालिनीवार्तिकम् नन्वध्यक्षपियोगे स्यादनुमानं कथं यतः॥७६८ ॥ तत्प्रत्यक्षपरिच्छिन्नप्रतिवन्धनिवन्धनम् । सत्यं किंतु य एकोऽसौ देवः सर्वज्ञतास्पदम् ॥ ७६६ ॥ तदावेशवशादेषा व्याप्तिर्बोधेऽवकल्पते । अन्यथा वह्निधूमादि तदभावादिवेदनम् ॥ ७७० ।। अन्वयव्यतिरेकात्म न स्यायुगशतैरपि । अत एव हि मुख्यस्य मानस सदृशखतः ।। ७७१॥ अनुमानमिति प्रोक्तं व्यवहारप्रवर्तनम् । तदेवमेते मातारः सर्वत्रेश्वरसंविदम् ।। ७७२ ॥ उपजीवितुमायान्ति मातृभावं न चान्यथा । अज्ञो हि जन्तुवर्गोऽयं कथं तदनिवेशतः ॥ ७७३ ॥ ज्ञस्वरूपलमानोति तद्विना मातृता कुतः । तस्मात्संविदि योगोऽस्य स च नानेन दुर्लभः ॥ ७७४ ।। वस्तुतो हि न कश्चित्स संविन्नाथो ह्यसौ तथा। तदेवपक्षमीशानप्रत्यक्षाक्षिप्तवृत्तिकम् ॥ ७७५ ॥ सापेक्षं परतत्रे च पाशवं मानमुच्यते । अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः ॥७७६ ॥ ईश्वरप्रेरितो यातीत्यत एव मुनिर्जगौ। एचमीश्वरसापेक्षानुमानैकप्रमाणता ।। ७७७ ।। निर्णीता लोलटाख्येन गुरुणा लोकसंमता। अन्यस्तदृह्य एवाह सत्यं वाध्यक्षसंविदः॥७७८ ॥ व्यवहारेऽस्ति मानखमनुमा तु कथं प्रमा। सुलभव्यभिचारायामनुमायां विनिश्चितः॥७७६ ॥ विशंश्रमीतु को नाम परीक्षकतया स्थितः । वेशनमिति पाठः । १ उपजीवन्त इति पाठः। ३ नेति पाठः।

अभिनवगुप्तावेगतम् अन्वया व्यतिरकश्च यः सपक्षतरस्थितिः ॥ ७८० ॥ आदिदृष्टस्तदावे नो विनिश्चयविधायिनी । यस्तु तस्मादपास्येत पक्षधर्मादिदूषणात् [णम् ॥ ७८१ ॥ वर्चस्ककूट शुद्धि ते कुयुः पांसुकणोच्चयः । नमात्संशय एवायं प्रवृत्त्यतया स्थितः ।। ७८२ ।। स एव भेदाभासित्वान्मायेति परिभाष्यते । मायैव च पशूनां स्यान्मानं मायाचिदात्मकम् ॥ ७८३ ॥ तर्को वाप्येकपक्षांशस्थितिसंभावनात्मकः । अर्थानर्थवलीयस्वात्प्रवृत्ती त्य] वा निवृत्तये ॥ ७८४ ॥ प्रभविष्णुः स एवेति किमन्यानडम्बरैः। प्रमाता शिव एवैको यस्येदं स्वाङ्गमीदृशम् ।। ७८५ ॥ मेयवेन समाभाति सर्वतो निश्चयात्मकम् । अन्यः पुनः पशुः सर्वः संशयध्वान्तमध्यगः॥ ७८६ ॥ सौदामनीश्रुतिप्रायसंवित्समनुरञ्जितः । पक्षद्वितयसत्यान्यभावान्यतमनिश्चयम् ।। ७८७ ॥ विन्दान एव लभते नात्र रूढिं कथञ्चन । तदेवं तर्कतः सर्वो ब्यवहार इति स्थितम् ।। ७८८ ॥ अशुद्धा सैव विद्येयमिति मानं विधीयताम् । अशुद्धिरियती तस्या यद्वस्वननुसारिता ॥ ७८६ ।। अन्ये बनर्थिनो नास्ति प्रवृत्तिरिति निश्चिताः । अर्थिवमेव सचित्रमित्येवं पर्यचूचुदन् ।। ७६० ॥ रागस्य मानतामित्थं माहुरन्यात्मवेदिनः। अन्ये बाहुः संशयोऽपि न नामानिश्चिते गजे ।। ७६१ ॥ १ पृष्ट इति पट:। २ इति पायः ।

मालिनीवातिकम्
शक्कले सति जायेत रागो वापि प्रवृत्तये ।
ततः स्वां कर्तृतामीपदालोच्य जनताः सदा ।। ७६२ ।।
प्रवर्तन्त इतीत्थं स्यात्कलाया एव जृम्भितम् ।
तेनार्थः स तथा वास्तु मा वामूत्स्वात्मनस्तया ॥ ७६३ ।।
मन्वानः कर्तृतामेप सर्वत्रैव प्रवर्तते ।
अन्ये खाहुरनादिर्यो व्यवहारः क्रियात्मकः ॥ ७६४ ॥
नियतिः सेव विश्वस्य प्रवर्तकतया स्थिता।
स एव चागमो नाम वृद्धव्यवहृतिक्रमः ॥ ७६५ ॥
ततः समग्र एवायं धर्मादिपरिनिश्चयः ।
न प्रत्यक्षान्नानुमानाद्भूयसा विप्रलम्भकम् ।। ७६६ ॥
मतिरभ्येति विश्वासं परीक्षाफ्नशालिनाम् ।
अन्नं नुधं शमयते तृपं वारीति बालकाः ॥ ७६७ ॥
अन्यतः परिनिश्चित्य तथावानतिशङ्किनः ।
अन्यदाक्षादिकेऽप्यर्थे तत एवाद्यमानतः ॥ ७६८॥
लभन्ते निश्चयं सम्यगागमाख्यात्परीक्षकाः।
तथा च मुनिराहेदं पुण्यं पापमिति द्वये ॥ ७६६ ।।
शास्त्रप्रयोजनं स्वल्पं नागमस्य प्रयोजनम् ।
आगमो हि न नामैष पुस्तकग्रन्थसंचयः ॥ ८०० ॥
केवलं प्रथिताभिख्योऽनादिर्वेदादिकः किल ।
किं तु प्रसिद्धिरेवासौ सा च शब्दस्वरूपिणी ॥८०१॥
या सर्वदर्शनेष्वेव न जालायात्यपोह्यताम् ।
छागश्चत्यो जटा भस भिक्षा दण्डः कमण्डलुः ॥८०२॥
जालं तप्तशिला श्मश्रुकेशलोमविलुञ्चनम्
अग्निरेधा इष्टकोपचयनं गृहमेधिताः ॥८०३॥

अभिनवगुप्तावचनन् इत्यादिसर्वशब्दानां प्रसिद्धिग्रक्रमाइते । कोऽभ्युपायोऽर्थतः क्लुप्ततदन्यार्थावबोधयोः ।। ८०४ ॥ इत्थमागम एवायं प्रमाणमिति धीधनः। उक्तं सत्यैव वागशी प्रसिद्धिविगानतः ॥ ८०५॥ प्रसिद्ध आगमा लोके युक्तिमानथवेतरः । विद्यायामप्यविद्यायांप्रमाणमिति तत्स्थितम् ।। ८०६।। प्रामाण्यं नियतः श्रीमद्भूतजान्तनिवासिनाम् । अन्ये बाहुर्विशेषोऽयं कालो नामाभिवर्तते । ८०७॥ स्फुटभावस्वभावोऽसौ वर्तमानोऽभिवर्तते । वृत्तस्फुटखभावांशस्तदा वस्फुटतामयः ।।८०८॥ भूतः कारणक्लृप्त्या तु भाव्यसो परिकल्प्यते । स चायं न स्वतत्रोऽस्ति कश्चिदन्योन्यसंश्रयात् ।। ८०६ ! अनवस्थानतो रूपपरावृत्त्यवलोकनात् । इयत्तारूढ्यभावाच्च मातृमेयोभयाश्रयात् ॥ १० ॥ निरुपाधिकतद्रूपप्रतिभानवियोगतः । एकानेकध्रुवानित्यस्वरूपानुपपत्तितः ॥८११ ॥ एकस्यैकोपधेरैक्यात्तिरोध(?)रुपधेरपि । क्रियायाः स्वगते भेदे कालस्यानुपयोगतः ॥८१२।। तत्कृतेऽन्योन्यसंश्रिल्यान्यकृतेऽप्यनवस्थितेः । औपाधिकभिदावृत्तेरसत्यवादवास्तवात् ।। ८१३ ॥ कार्यस्खानुपपत्तिखादेकस्यानुपयोगतः । चितश्च स्फुटतादत्तवर्तमानसदावतः ।। ८१४ ॥ भूतभाविलयात्तस्माद्वर्तमानलयादपि । चिन्नाथ एव देवोऽसौ कालमाभासयत्यलम् ८१५॥ १ निरुध्यते इति पाटः।

मालिनीवार्तिकम् तदस्य कालाभासाख्या चित्स्वरूपस्य संमृतिः । खंभाव[स्वाभाम]गर्भा भावेषु भावाभावमयी स्वके ।।८१६।। रूपे स्थितिः प्रमातृत्वसमुल्लासोऽभिधीयते । इदं न यदहं चाहं यन्नेदमिदमप्यदः ॥८१७॥ यन्नेदमिति चित्रेयमभाव[माभास] स्यैव मानता । परा प्रमातृता यासौ शुद्धा तस्यां पृथस्थिति ॥ १८ ॥ न मानमस्तीत्यत्रांशे किं तया प्रविविक्तया। यस्तु सांसारिको मातृभावः सर्वोऽयमीदृशः ॥१६॥ तत्राभाव[स]स्य मानलं स च कालप्रसादतः । तथा हि परिपूर्णोऽसौ सर्वसवात्मरूपकृत् ।। ८२० ।। क माता क च वा मानं क च मेयोऽवतिष्ठताम् । मात्रादीनां हि सत्यवे न स्वादापेक्षिकी स्थितिः॥२१॥ मैयादेव च मात्रादेर्भावो जातु प्रकल्पते । अन्योन्यरूपस्याला लाभे वा तदयोगतः ॥ २२ ॥ सर्वत्रातिप्रसाच्च सर्वज्ञवादियोगतः । युगपञ्चाप्यनुल्लासात्तच्चस्यानुपकारिणाम् ॥ ८२३॥ अन्यमेयादिजनिते मातृवादा तदन्यतः । तद्भावस्याप्यनुत्पन्नसमत्वेनैव संस्थितेः ॥ ८२४॥ तसात्पूर्णश्चिदात्मासौ शिवः स्वांशं विखण्डयन् । नाहमित्यादिभेदांश इदमप्यवकल्पयेत् ॥ ८२५ ॥ तदन्यसर्वपूर्णखमहमात्मनि तावति । ततोऽन्यतोऽपि संहर्ता जायते नाहमित्यपि ॥ २६ ॥ उभौ ताविदमंशौ चाप्यपोहति परस्परम् । बुद्धिस्थमिदमंशं स्वं स्वाहमंशे तिरोदधत् ॥ ८२७॥ साभावेति पाठः : २ मयाइन चांत प.तः ।

अभिनवगुप्तावर्गवतम् आस्ते न द्रावयत्येनं वस्त्रास्तघटादिवत् । तदेवं बुद्धिसंस्थात्तु समयाग्रथितादयो ।। ८२८॥ इदमन्तरसंघातादहमंशव्यपोहिनः । अहमंशादिदन्ताघव्यपोहादहमन्तरात् ।। ८२६ ।। व्यपाहात्स्वाहमोऽन्यान्याहव्यपोहस्य भासनम् । पड्देवताः शून्यरूपा यदाश्रित्य प्रवर्तते ।।८३०॥ तदेवेदमिति ज्ञानं विकल्प इति गीयते । स कालः कल्यते येन विश्वं निजकलोदयात् ।। ८३१ ॥ तदत्रांशे य एपोस्ति भासांशः स्वप्रकाशकः। भावरूपतया सोऽयं सर्वानुप्राणनात्मकः ॥३२॥ न मातासौ न वा मानं न च मेयं निरुच्यते । यस्वसौ शून्यतायोगादभावो रुद्रदेवतः॥३३॥ स एव मानतामेति यद्योगान्मातृभावि [व] तः। मानाच्च न पृथयमित्येवमुपपादितम् ।। ८३४ ॥ इत्थं कालस्य मानलं प्रतिपेदेव केश्चन । ये श्रीमद्भवतीत्याख्यगुरुपादोपसेविनः ।।८३५ ।। तदित्थं पुंसि चिद्धर्मविभवामोदशालिनि । मातृत्वदायि यत्प्रोक्तं षटू कञ्चकसंज्ञितम् ॥ ८३६ ।। तदेकैकस्य मानवं केचन प्रतिपेदिरे । अन्ये खेकस्य सर्वान्यसचिवस्येति मन्यते ॥ ३७॥ अन्ये कदापि कस्यापि कथंचित्कचनेत्यपि । अन्ये द्वयोर्द्वयोरन्ये त्रिकद्वयनियोगतः॥८३८ ।। अन्योन्यानुग्रहादन्ये बोधनान्योन्यतोऽपरे । अन्ये तु गुणसाम्यात्मप्रकृतिमेव मानताम् ॥ ८३६ ॥ मुख्यखेन विदुः सुप्तमत्तमादिदर्शनात् ।

मालिनीवार्तिकम् म यत्रैव प्रमातायं यतः सुप्त इव स्थितः ।। ८४० ।। सवास्य मातृता मानमययोरप्रवेदनात् । अन्योन्यमविकार्यवान्प्रसुप्तेऽपि तथाविधे ॥८४१ ।। केवलं प्रकृतिः सेयं जानामीत्यभिमन्यते । तत्र मुख्यं तु तन्मानं यत्पुंसवानुदर्शनम् ।। ८४२ ॥ तच्च शुद्धं निर्विकारं सदसद्रूपतोज्झितम् । इत्थं केऽप्यभिमन्यन्ते सांख्यकञ्चकमंश्रयात् ।। ८४३ ।। वय्याभिधानस्य गुरोगृहे ज्ञानोपजीविनः । अन्ये धीभूमिमेवाहुद्देष्टदृश्योपरागिणीम् ।। ८४४ ।। प्रमाणं पारमर्षयाः केचित्तद्वृत्तिसंचयम् । धर्मादिकाष्टसंख्यातं धर्मजातं परे विदुः ॥८४५ ॥ अन्येऽहंकारमेवाहुः केचिद्धियमयो मनः । केचित्रितयमेवेदं समं सर्वत्र मन्वते ॥ ८४६ ॥ अन्ये दशानामेकैकमिन्द्रियाणां प्रपेदिरे । केचित्समस्तान्येतानि सर्वत्राकूतवृत्तितः ।। ८४७॥ अन्धस्यापि हि तत्किचिद्रूपायतनमस्ति यत् । विकारमेकश्रोत्रस्पृगक्षान्तरसमस्थिति ॥ ८४८ ॥ प्रभात प्रविलीनाभ्रनभोमण्डलमण्डितम् । इत्याकये परां तुष्टिं यात्यन्धो हैमने दिने ॥ ८४६ ।। यद्यप्यनुमिमीतेऽसौ शीतवारणजं सुखम् । तथाप्यस्य स्वसंवित्तिर्न रूपानवभासिनी ॥ ५० ॥ अन्ये तन्मात्ररूपाणां मानत्वं प्रतिपेदिरे । चक्रश्मिस्त्वसंस्पर्श इत्यादिविधियोगतः ॥ ८५१ ।। अदृश्यवं चतुरादेरत एवोपपद्यते । १ मातृमेययोग्यवेशनादिति पाद: ।

अभिनवगुप्तांवरचितम् योगिनः प्रत्यदृश्यखं जातुचिन्नोपपद्यते ॥ ८५२ ।। अन्ये तु स्थूलभूतानां ज्योतिपां माननां जगुः । मेयस्यापि प्रमाणत्वमपरे प्रतिपदिर !! ८५३ ।। यतो भवति मातृवं तत्प्रमाणमिति स्थितिः । नद्धटाद्यश्च यत्तस्मात्तेऽपि मानमिति स्मृताः ॥८५४ । लोकिको व्यपदेशश्च नैव वस्वनुसारतः। स हीच्छामात्रक्लृप्तत्वात्प्रायेणेचौपचारिकः ।। ८५५ ॥ कथं जानासि भोः सोऽहं जानामीति च चोदितः। घटेनानन दृष्टन जानामीत्यभिभापते ॥ ८५६ ॥ तस्मान्मयेऽपि मानवं नहि नाम न लौकिकम् । अभेदवादे मूलस्थे विरोधोऽपि न दूपणम् ।। ८५७ ॥ ये तु प्रमाणमाहुस्तत्सामग्री तैरपि स्फुटम् । अर्थादर्मानताभीष्टा सा सोऽप्यन्यथा कुतः ।। ८५८ ॥ अन्ये तु सर्वस्यैवेयत्तात्तभेदस्य मानताम् । ऋमोदितां हि सर्वत्र कचिच्चाप्यक्रमोदिताम् ।। ८५६ ॥ कचित्क्रमाक्रमग्रासपरिपूर्णत्वबन्धुराम् । मन्वते तन्मतं तावद्दिङ्मात्रेणोपदर्श्यते ॥ ८६०॥ प्रथमं मेययोगेन झटिति प्रतिभासिना । अन्यार्थदृश्यभिप्रायप्रच्छन्नेनैव सर्वतः॥८६१ ॥ मातृवं चरमं तत्र चक्षुषः प्रविजृम्भणम् । ततो मनोऽहंधीवर्गविजृम्भान्तःसमुज्ज्वलम् ॥ ८६२ ॥ ततः पौनाभिसंशुद्धसंविदुल्लासशालिता। ततः कालकलारागयत्यविद्यानिशाः क्रमात् ।। ८६३ ॥ अन्यथा वा समं वापि द्वन्द्वयोगेन वा त्रिशः। १ पूर्णिपूर्णेति पाठः।

मालिनीवातिकम् सर्वशी या चतुष्पञ्चयोगेनाप्याणवे पदे ॥ ८६४ ॥ अभावकततासङ्गसिद्धितर्काख्यसंशयाः । नत्रापि ननु जायन्ते तत्तत्क्रमविचित्रिताः ॥ ८६५ ।। तत्पृष्ठे चाविकल्पासो शुद्धैश्वर्यावभासिका। विद्या प्रमाणतामेति पर्यन्तप्रमितिस्थितौ ॥ ८६६ ।। ततः सदाशिवोदारज्ञानेच्छाशक्तिसंश्रये । स माता पूर्णतामेति शक्त्यन्ताध्वसुनिवृतः ॥ ८६७ ॥ इत्थं पूर्ण प्रमातृवं यतः समवभासते । तदन्यतमभागांशतिरोधानवियोगजाः॥ ८६८ ॥ संविदः स्फुटतान्यखभेदानिःसंख्यतां गताः। अत एव ह्यजानानैः शिवशास्त्रोदितां स्थितिम् ॥८६६ ।। स्फुटास्फुटादिसंवित्सु स्मृत्यस्मृत्यादिगोचरे। सौषुप्तादिषु शीघ्रत्वे युक्त्यामाद्यसंभवात् ।। ८७० ॥ मनोवधानं संस्कारो धर्माद्यदृष्टकल्पनम् । इत्येते हि स्फुटं शब्दानात्र कोऽर्थस्तत्रि"मा॥८७१॥(?) ऊर्बोलतत्त्ववातस्य मानले च निरूपिते । अधराधरतत्त्वांशो मेयतामवलम्बते ।। ८७२ ॥ न चात्रास्ति क्रमः कश्चिद्यवधाने हि संभवात् । नहि विद्या न बौद्धी तामालोचयति संविदम् ।। ८७३ ॥ विद्या विवेक्ती प्रोक्ता हि बुद्धिपृष्ठसमाश्रिता । प्रकाशात्मवपुर्वाह्यमक्षमालोचनात्मकम् ।। ८७४ ।। संकल्पार्थ मनः प्राहुरभिमत्रीमहङ्कृतिम् । निश्चेत्री च धियं तत्र विद्यां चापि विवेचिकाम् ।। ८७५ ।। तत्रैव रञ्जक राग कलां शक्तखदर्शिनीम् । , तदन्यमतति पाठः।

अभिनवगुप्तविरचितम्
कालं व्यवच्छित्कारं नियति च नियामिकाम् ॥ ८७६ ॥
आमृशन्तीमन्यमातृसाधारण्यावभामिकाम् ।
ग्राह्यमण्डलतदाहिनानारूपावमर्शिनीम् ।। ८७७ ।।
मायां पूर्णसंभोगप्रच्युनिक्षोभकारिणीम् ।
मद्विद्यां पूर्णविश्रान्तिदायिनी सुशिवात्मिकाम् ।। ८७८ ॥
ज्ञाननिर्भरभावांशस्वरूपपरिमर्शिकाम् ।
इच्छाशक्तिं प्रमात्रंशपूर्णभावात्रभामिकाम् ।। ८७६ ॥
प्राश्रित्य परिपूर्णोऽयं मातृभावो विजृम्भते ।
प्रकाशालोचने पूर्व संकल्पाभिमते तनः ॥ ८८० ||
निश्चयानुदृशौ पश्चाद्विवेकासाङ्गिनाद्वयम् ।
कर्तृतास्थाव्यवच्छेदः साधारण्यावभासनम् ॥ ८८१॥
नानाविमाप्रक्षोभपूर्णमेवप्रवदनम् ।
पूर्णमातृत्वसंवित्तिभैरवीभाव एव च ।। ८८२ ॥
इत्थं पोडशधा मेयमयं यावत्प्रकाशयेत् ।
तावद्विज्ञानचन्द्रोऽसौ प्रोक्तो बष्टकलास्थितिः ॥ ८८३॥
अनुत्तरा स्थितिः पूर्वमानन्देच्छेशनान्यतः ।
उदयश्चोनतावेश इति षटुं व्यवस्थितम् ।। ८८४ ॥
अनुत्तरात्समारभ्य ज्ञानशक्त्यन्तमीदृशम् ।
इच्छैव तु क्रियाशक्तिमीशनेन समास्थिता ।।५।।
प्रकाशस्थितिलेशांशं गृह्मनी पएठनां गता ।
इच्छादि यच्च तत्पूर्वानुत्तग़नन्दसंगतेः ॥८६॥
तदादिश्लेपयोगेन संध्यक्षरचतुष्टयम् ।
ततः स्वरूपसंवित्तिलाभाद्विन्द्वादिका स्थितिः॥८८७॥
ततः समग्रसंदर्भभरिताकाररूपिणि ।
विसर्गः किल शाक्तोऽसौं विक्षेप इनि यः स्मृतः ॥ ८८८॥

मालिनीवार्तिक
विसर्गस्यैव विश्लेप इति ससदशी कला ।
कचिदष्टादशी सैव पुनःप्रक्षोभयोगतः ॥८८६ ॥
अनुत्तरस्याकारस्य परभैरवरूपिणः ।
अकुलस्य परा येयं कौलिकी शक्तिरुत्तमा ॥८६॥
स एवायं विसर्गस्तु तस्माज्जातमिदं जगत् ।
तस्य प्रक्षोभयोग्यत्वं प्रक्षोभकलनोदयः ॥८६१ ॥
प्रक्षोभपूर्णताभावात्तदकुलक्रमोनता ।
इति षट्स्वरूपात्मविमर्शान्दोलनोदितम् ॥ ८६२ ।।
अनुचरस्वभावत्वादाघस्यैव विजृम्भितम् ।
स एव भगवानन्तर्नित्यं प्रस्फुरदात्मकः ॥८६३ ।।
अन्तःस्थसर्वभावौषपूर्णमध्यमशक्तिकः ।
खेच्छाक्षोभस्वभावोद्यजगदानन्दसुन्दरः ।।८६४ ॥
नित्यं स्फुरति संपूर्णविसर्गरससुन्दरः ।
शिवशक्त्योः स संघट्टः स्नेह इत्यभिधीयते ॥ ८६५ ॥
अत्रैव पूर्णवेसर्गपदे लब्धं प्रवेशनम् ।
लेहनामन्थनेत्यादिसंप्रदायमुपासते ॥ ८६६ ।।
तथाहि मध्यमां नाडीमधिष्ठायाखिलं वपुः ।
प्राणयत्परमं तेजः प्रक्षुब्धमृतुमाल्य[मद्य]तः ॥८६७ ॥
विसृष्टिरूपता गच्छेद्यात्यानन्दचमक्रियाम् ।
अपूर्णा केवलं सा तु पूर्णा तु भगवन्मयी ॥८६८॥
तेन वैसर्गिकी शक्तिरेकैवेयं प्रजृम्भते ।
विसर्ग एव प्रक्षुब्धः प्रयत्नद्विगुणत्वतः ॥ ८६६ ॥
हकारो नाम विश्वेषां व्यञ्जनानां प्रसूतिकृत् ।
स एव च पुनर्बिन्दुयोगात्स्वामेव भूमिकाम् ॥६००॥

अभिनवगुप्तविरचितम् ३ अनुसरामाश्रयते सोऽहंभाव इहेष्यते । अत्रैवावर्णजः काख्यस्तदन्यश्च इवर्णजः ॥ १०१॥ तत एव हि रेफांशच्छायोपाधवर्णतः । टवर्गस्तत एवाथ घराच्छायोपधिक्रमात् ।। ६०२॥ तवर्गस्तत्परः पथादुवर्णाघरलाच वः । इवर्णवर्गाचोवर्णात्क्रमेणेत्यत एव हि ।। ६०३ ॥ अन्तःस्था इत्यशीताश्च इवहिप्रभेदशः । शपसानां समुद्भूतिः शुद्धोपाधिकलायुजः ।। १०४ ।। इच्छाया एव विश्वो हि प्रसवो बहुधा स्थितः । अत एव हि सस्थानभावो युक्तत्वमहति ।। ६०५॥ जीवस्यवयमाश्यानस्थितिर्योन्यात्मिका यतः । सैवानुत्तरदेवस्य शक्तिरत्र निरुच्यते ॥ ६०६॥ तत्रैवान्तःस्थतत्त्वानि परावाग्भूमिकाक्रमात् । अवर्गे शिवतत्त्वं तु कादो हान्ते शिवान्तकम् ॥१०७ ॥ इति संपुटयोगोऽयं त्रिंशकाओं निरूपितः । एवं पूर्णानवच्छिन्ना चिद्देवी स्याद्यदि स्फुटम् ।। १०८ ।। सर्वमस्यां भवेदेपा सर्वत्र च तथा भवेत् । यो मां पश्यति सर्वत्र सर्व च मयि पश्यति ।। १०६॥ तस्याहं न प्रणश्यामि स ममेत्यपि तन्मुनिः । अभाषतार्जुनाचार्यवचसा तत्र तत्र च ॥१०॥ संविदात्मा हि विच्छिन्नो यदि स्यात्सर्वभावतः । भाव एव भवेदेप स्वलक्षणघटादिवत् ।। ६११ ॥ अतश्च संवित्सवित्तहानरेषा प्रणश्यति । पलायते हि चित्सा चेधवचिच्छेदयिष्यते ।। ६१२ ॥ निजोत्तमाङच्छायेत्र स्वपदाक्रमणक्रमे ।

मालिनीवार्तिकम् यच्च सर्व मयि प्रोक्तं न पश्यति महाजनः ॥६१३।। स सर्वमध्यवर्तित्वान्मयि तावत्प्रतिष्ठितः । एवं प्रकाशानिष्ठत्वादस्यासत्समताजुपः ।। ६१४ ।। प्रणाश एवेति मुनिः प्रोवाचोभयवर्मना । एष वस्तुक्रमस्तावद्योऽयं संपुट उच्यते ॥ १५ ॥ तत एव समस्तावकलितासनसमनि । संविदाधेयतां प्राप्ता पुनराधारतां गता ॥ १६ ॥ उक्तं चानुत्तरे यागे पुनरेवासनं ततः । अत्र तु प्रविविक्षूणां ज्ञप्तिक्रमवशान्मुनिः ।। ६१७ ॥ ऊचिवान्भगवानेव विश्वं तन्नान्यथति यत् । अभिन्नसंवित्स्वातन्त्र्यं भासते भेदवमनि ॥ १८ ॥ उपदेश्योपदेष्तृत्वव्यवस्थेयं प्रतायते । स्वात्मैव हि गुरुर्देवः पर इत्यभिमन्यते ॥६२६ ॥ स्वोदीरितानि वाक्यानि परोक्तानीति मन्यते । प्रतिपाद्यं च यद्वस्तु येन च प्रतिपाद्यते ॥ २० ॥ तत्सर्वमात्मरूपं हि भेदनवाभिमन्यते । यथा स्वप्नपदावस्थामुपदेशपरम्पराम् ।। ६२१ ।। आकर्णयञ्जडो जन्तुरन्योक्तमभिमन्यते । तथैव जाग्रदर्भोऽयं व्यवहारः समस्तकः ।। 8२२ ॥ को भेदः स्वप्नजाग्रत्सु तर्हि स्यादिति चेत्पुनः । भणिष्यतेऽथ वा नाथे स्वतन्त्रे किन्न भाषितम् ।। ६२३ ।। एवं ज्ञप्तिक्रमेणैव भेदो विध्यनुवादयोः । सर्व देवोऽथ वा देवः सर्वमित्येकमेव हि ।। 8२४ ।। वस्तुतः कुम्भघटवद्विश्वं पर्यायमात्रकम् ।

अभिनव गुप्तविरचितम् वाच्य एपां त्वमवति तच्छीनारायणोऽभ्यधात् ।। ६२५ ॥ नन्यभेद कथंकारं क्लृप्तिर्विध्यनुवादयोः । यो दन्तुरः स चैत्रोऽयमिति दन्तुरमादितः ।। ६२६ ॥ अनूध चैत्र इत्यंशो यदि नाम विधीयते । तदन्तुरोऽन्यश्चञ्चैत्राचैत्रश्चान्यस्ततः कथम् ॥ ६२७ ।। घटश्चैत्र इतीक्षा न स्याट्टिध्यनुवादता । तस्माद्य एव चत्रोऽमा स दन्तुर इति स्थितिः ॥ १२८ ॥ वास्तवी ज्ञप्तिमात्रोत्थो विधिविध्यनुवादयोः । अज्ञातपर्यायपदस्थितीन्प्रति प्रयुज्यते पादप एप भूरुहः। कुम्भो घटश्चेति तथैव भण्यते महेश्वरः सर्वमिदं जगत्त्विति ॥ २६ ॥ इत्थं संपुटयोगेन परिपूर्णा हि या स्थितिः । यस्यां संहारसृष्ट्यंशशतान्यन्तःस्थितान्यपि ।। ६३० ।। तामेव भागशः केचिदुपासितुमनस्तया । एकादिद्विगुणत्वोत्थचतुःषड्वादशादिभिः ॥६३१॥ संविच्चक्रमयभैदैभिन्दते विविधैः क्रमैः । एका संचिद्विधा सैव दृक्रियात्मा त्रिधाथ सा।। ६३२ ।। प्रोन्मेषशक्तिसाचिव्याचतुर्धाप्यथ गीयते । चिच्छत्यानन्दरूढ्या तु पञ्चधासौ प्रभाष्यते ।। ६३३ ।। पोढा तु स्वरपदोक्तसंविचर्चाविचारणात् । यावद्द्वादशधा संवित्सृष्ट्यादौ तुल्यगोचरे ॥ ६३४ ॥ एकैकशस्त्र्यात्मकत्वात्त्रये वा चातुरात्म्यतः । सृष्टिं कलयते संवित्तत्राभ्येति च रक्तताम् ।। ६३५ ॥ स्थितिनाशं कलयते कापि शङ्कां प्रकल्पयेत् ।

मालिनीवातिकम् तां संहृत्य च भावांशं संहारात्स्वात्मनः पुनः ॥ ६३६ ।। संहत्रीत्वं चर्चयते तदन्तः पुण्यपापयोः । न द्रुतं न निरोधं वा स्वस्वातन्त्र्येण वाञ्छति ॥ ६३७ ॥ एवं वोधांशकरणमरीचीचक्रमात्मनि । ग्रसमाना संहरते प्रमाणांशस्थितानबीन् ॥६३८ ॥ ततः कल्पितमात्रंशं संहृत्याकल्पिते हृदि । तत्सर्वातीतमप्यन्तरनवच्छिन्नधामनि ॥ ६४६ ।। नयेत्तन्नयनद्वाराद्विश्वं यावत्तथा नयेत् । ततः सृष्टिं च कलयेदित्यादिक्रमयोगतः ॥ ६४० ॥ द्वादशारमिदं चक्रं सर्वदा परिवर्तते । यस्यैताः स्थूलमात्रत्वं मासराश्यादिसंपदः ॥६४१॥ अक्रमक्रमवशादिशस्त्रिशो भूरिशोऽथ विविधैः क्रमाक्रमैः । चक्रमेतदुदितं विजृम्भते मेयमानमितिमातृभक्षकम् ॥ ६४२ ।। एतच्चक्रगतानन्तकिरणारासमाश्रयात् । चक्रभेदो न संख्यातुं कदाचिदपि शक्यते ॥ ६४३ ॥ यथा हि वर्हिणः पत्रे सितपीतारुणादिकम् । प्रोन्मिपन्निमिषञ्चात्र भासतेऽप्यतथात्मकम् ॥ ६४४ ॥ तथानुन्मिषितालीनसूक्ष्मसंवित्सुनिर्भरः । चक्रेशो भाति निमिषत्प्रोन्मिषद्वृत्तिचित्रितः ।। ६४५॥ तत्कस्यापि निमेषेण कस्याप्युन्मेषयोगतः। एकारचक्रात्प्रभृति सहस्रारं विवर्तते ।। १४६ ॥ तदसंख्यानमथ वाप्यन्योन्याश्रितगर्भकम् ।

अभिनवगुप्तांवरचितम् : न वा तच्चक्रमथ किं व्योमवकं विजृम्भते ।। ६४७ ।। नदप्यनन्तसच्चक्रगर्भ वापि विभासते । अनन्तव्योमगर्भ वा महाव्योमैकमुच्यते ।। १४८ ॥ यथा व्योमकं कचति सितनीलारुणतया यथा चैते मेघाः पुनरथ तथा भान्ति बहुधा । तथा संवित्तत्वं कलनपरिसंख्याविरहितः स्वतन्त्र स्वाकारैः स्फुरति नच ते केचन ततः ॥६४६ ॥ इति तत्त्वमिदं न्यरूपय- न्मम नाथो हृदयस्थितः स्वयम् । प्रतिपय विचित्ररूपकं गुरुसंतानपरम्परायितम् ।। ६५० ।। तदमुत्र नये न ये प्ररूढ़ि प्रतिपत्तुं समतामुपाश्रयन्ते। ननु तत्प्रतिबोधनाय देवो विविधां मण्डलकल्पनामवोचत् ॥ ६५१ ॥ बालो यद्वद्रेखया वर्णजाते स्वैः संकेतैर्योज्यते तत्क्रमेण । तद्वन्मुद्रामण्डलैर्मवतन्त्रः पूणे स्वसिन्योज्यते धाम्न्यनः ॥ ६५२ ॥ अत्रापि किञ्चन विभाति तदिच्छयैव दूरं तथा सविधमाश्रिततारतम्यम् । अंशस्पृगप्यथ निरंशपदप्रतिष्ठ- मित्थं क्रियापटलगो बहुधैव भेदः ।। ६५३ ॥ इत्थं प्रमाणताभागि यत्तत्त्वं हि न्यरूप्यत । परापरा भगवती सेयं भाति तथा तथा ।। ६५४॥

मालिनीवातिकम् तदत्रैव परांशी यः स मात्रंशोऽपरः पुनः । मेयांश इति तत्पूर्वमेवास्माभिः प्रकाशितम् ॥ ६५५ ॥ मात्रंशोऽपि परे भागे बहुधा यत्थितस्ततः । परापरतयोद्रिक्तः परो मन्त्रेशरूपकः ॥ ६५६ ॥ उद्रिक्तापरभावस्तु मत्र इत्यभिधीयते । परापरस्तु यो माता समुद्रितपरापरः ॥६५७॥ स विज्ञानाकलः प्रोक्तः प्रबुद्धपरभावकः अपरोद्रेकयोगेन स एव प्रलयाकलः ॥ ६५८ ॥ अपरः किल यो माता सकलः स तु भाष्यते । परापरादिभेदेन तस्यापि बहुधा स्थितिः॥६५९ ।। विचार्यमाणा निःसंख्यान्मातृभेदांस्तनोत्यलम् । मुख्यत्वेन तु सप्तैव मातृभेदाः प्रकीर्तिताः ॥६६०॥ प्रमाणांशे पतन्त्येव तेषामेव स्वशक्तयः । व्यापारयोगितवैषा शक्तित्वमिति मन्महे ।। ६६१ ॥ यच्च व्याप्रियमाणत्वं करणत्वं तदेव हि । एवं च शक्तिमच्छक्तिभेदान्मातप्रमाणजाः ।। ६६२ ।। चतुर्दश स्वरूपं च प्रमेयमिति भाष्यते । माता मानं च मेयं च यत एकं प्रकीर्तितम् ॥ ६६३ ।। ततः पञ्चदशात्मैकमेकं प्रकृतिपश्चितम् । तत्राप्येकैकशो भेदे निजतत्त्वस्वरूपिणि ।। ६६४ ॥ संक्षेपविस्तरकृतं भेदानन्यं प्रतायते । पुनर्जलादिमूलान्तभेदसंकलनक्रमात् ।। ६६५ । भूयान्भेदप्रभेदोत्थो वैचित्र्यविसरोदयः । एवं धरातः प्रभृति प्रधान- तत्त्वान्तमुक्तं दशपञ्चधैव ।

आमनरगुप्तविरचितम् पुंसः कलान्तं सकलः स्वरूप- भूतो न माता न च मानरूपः ।। ६६६ ५६ वयोदशात्मत्वमतोत्र निष्ठितं निशि स्वरूपं तु भवेल्लयाकलः। मध्ये तु विज्ञानकलस्वरूपता विद्यापदे मत्रगतस्वरूपता ।। ६६७ ।। ऐशे मवेशवर्गस्थितिरथ सुशिवे धानि तन्नाथनिष्ठा पूर्व पूर्व च तत्र प्रकटयति निजां मातृमानव्यवस्थाम् । तेनानन्यप्रमाठ स्फुरति शिवपदं स्वप्रकाशं सदैकं मवेशेशानतस्तु त्रिशरमुनिनवव्यचसंख्याविभेदाः १६८ शक्तिश्च नो शक्तिमतो विभिन्ना तेनैति नो भेदमियं पृथक्त्वम् । अमातृतायां न च शक्तिस्ति तेन स्वरूप नहि शक्तियुक्तम् ॥६६६ ।। धरातत्त्वाविभेदेन यः प्रकाशः प्रकाशते । स एव शिवनाथोञ पृथिवी ब्रह्म तत्परम् ।। ६७०१॥ घरातत्त्वगताः सिद्धीर्वितरीतुं समुद्यतान् । प्रेरयन्ति शिवेच्छातो ये ते मत्रमहेश्वराः ।।६७१ । प्रेर्यमाणास्तु मवेशा मत्रास्तद्वाचकाः स्फुटम् । घरातत्त्वगतं योगमभ्यस्य शिवविद्यया ॥६७२ ।। न तु पाशवसांख्यीयवैष्णवादिद्वितादृशा । अप्राप्तध्रुवधामानो विज्ञानाकलताजुषः ॥ ९७३ ।। तावत्तत्वोपभोगेन ये कल्पान्ते लयं गताः । सौषुप्तावस्थितौ यद्वत्तेन प्रलयकेवलाः॥६७४ ।। सौषुप्ते तत्त्वलीनवं स्फुटमेव हि लक्ष्यते ।

मालिनीवानिकम्
अन्यथा नियतस्वप्नसंसृष्टिरियती कुतः।। ७५ ।।
सौषुप्तमपि चित्रं च स्वच्छास्वच्छादि भासते ।
अस्वाप्सं सुखमित्यादिस्मृतिवैचित्र्यदर्शनात् ।। ६७६ ।।
मायाकर्मसमुल्लाससंमिश्रितमलाविलाः ।
घराधिरोहिणो ज्ञयाः सकला इह पुद्गलाः ।। ६७७।।
अस्यैव सप्तकस्य स्वस्वव्यापारप्रकल्पने ।
प्रक्षोभो यस्तदेवोक्तं शक्तीनां सप्तकं ततः ॥६७ ।।
शिवोऽविच्युतचिपस्तिस्रस्तच्छक्कयस्तु याः ।
ताः स्वातन्त्र्यवशोपात्तग्रहीतग्राह्यरूपिकाः ॥ ६७६ ।।
ग्रहीतृभागोद्रेकेण ग्राह्यभागोच्छलत्वतः ।
सप्त सप्तेति यत्त्वेकं जडमात्रं नरात्मकम् ॥६८०
तत्वरूपं ततस्वधं प्रतितत्त्वं व्यवस्थितम् ।
किं चार्थे खलु निग्राह्ये तुटयः षोडश क्षणाः ।। १८१॥
सपादब्यङ्गुलावेशात्प्रत्येकं परिकल्पिताः ।
तत्राद्यः परमाद्वैतनिर्विभागरसात्मकः ॥ ६८२॥
अन्त्यस्तु ग्राह्यतादात्म्यान पृथक् प्रविभाव्यते ।
उपान्त्यस्तत्स्वरूपस्य ग्राहकः परिभाव्यते ॥ १३॥
श्राद्यं च सप्तकं तत्र निर्विकल्पकतां गतम् ।
क्रमोन्मिपद्विकल्पांशच्छायाच्छादनकोविदम् ॥ ९८४॥
तदेव शिवरूपं हि परशक्त्यात्मकं विदुः ।
द्वितीयं सप्तकं तत्र परापरपदात्मकम् ।। ९८५।।
विकल्प इति संगीतमिति भेदोऽवभास्यते ।
तदस्यां सूक्ष्मसंवित्तौ कलनाय समुद्यताः ॥ ६८६ ॥
संवेदयन्ते यद्रूपं तत्र किंवा विकत्थनः ।
क्रमात्तु भेदन्यूनत्वे तुटीनामपि यो मतः॥४८७॥

आभनवगुप्तांवर्गचतम् विकल्पस्य च निहासो निर्विकल्पोपलक्षणम् । यथा हि चिरदुःखातः पश्चादात्तसुखस्थितिः ।। ६८८ ॥ विसरत्येव नदुःखं मुखविश्रान्तिवर्मना । नथा गतविकल्पपि रूढाः संवेदने जनाः॥१८॥ विकल्पविश्रान्तिबलात्तां वृत्ति नाभिमन्वने । विकल्पनिहाँसवशेन यानि विकल्पबन्ध्या परमार्थसत्या। संवित्स्वरूपमकटत्वमित्थं तत्रावधाने यततां मुबुद्धिः ।।६६० ॥ ग्राह्यग्राहकसंवित्तौ संबन्धे सावधानता। इयं सा भएयते तत्र यथेष्टफलयोगतः ।।११॥ अत एव हि नद्भेदबाहुल्या वनान्यपि । विचित्रत्वं प्रयान्तीति न चातिकम इष्यते ।। ११२॥ मक्रमाक्रममेवदं कालस्य प्राक्प्रदूषणात् । दिशश्च परमार्थत्वं नैव युक्त्योपपद्यते ।। ६६३ ॥ पूर्वापरप्रतीति हि नैका सा कुरुते तथा । उपाधिभेदो नो वस्तु तत्कथं सा प्रकल्प्यताम् ।। ६६४.॥ यो हि यस्माद्गुणोत्कृष्ट इत्यतः परमेश्वरः । अभापत निजानन्दक्लप्तदिक्कालमण्डलः ॥ ६६५|| तदेवं तत्त्वरूपेऽस्मिन्विचित्रे प्रविविक्षताम् । उपायभेदात्त्रविष्यं समावेशेषु वर्णितम् ॥६६६ ॥ अनुपायः शांभवोऽसौ चिदुपायस्ततः परम् । जडोपायस्वाणवः स्यात्स चापि बहुधा मतः ॥६६७॥ अजडेऽपि जडाभासः पारमेश्वर्ययोगतः।

मालिनीवार्तिकम्
नाडीकरणबाह्यादेस्तेन संविदुपायता ।। ६६८ ॥
नत्राक्षवृत्तिमाश्रित्य वाह्याकारग्रहो हि यः।
तजाग्रत्स्फुटमासीनमनुबन्धि पुनः पुनः ॥ ६६६ ।।
आत्मसंकल्पनिर्माणं स्वप्नो जाग्रद्विपर्ययः।
लयाकलस्य यो भोगः लयकर्मवशान तु ॥१०००।
स्थिरो भवेनिशाभावात्सुप्तं सौख्याद्यवेदने।
ज्ञानाकलस्य मलतः केवलाद्भोगमात्रतः॥१००१॥
भेदवन्तः स्वतो भिन्नाश्चिकीर्घ्यन्ते जडाजडाः ।
तुर्ये तत्र स्थिता मन्त्रतन्नाथाधीश्वरास्त्रयः॥१००२ ।।
यावद्भरवबोधांशप्रवेशनसहिष्णवः ।
भावा विगलदात्मीयसाराः स्वयमभेदिनः ॥१००३।।
तुर्यातीतपदे संस्युरिति पञ्चदशात्मके ।
यस्य यद्यत्स्फुटं रूपं तज्जाग्रदिति मन्यताम् ॥ १००४।।
तदेवास्थिरमाभाति स्वरूपं स्वम ईदृशः।
अस्फुटं तु यदाभाति सुप्तं तत्तत्पुरोऽपि यत् ॥ १००५ ॥
त्रितयस्यानुसन्धिस्तु यद्वशादुपजायते ।
स्रक्सूत्रतुल्यं तत्तुर्यं सर्वभेदेषु गृह्यताम् ।। १००६ ॥
यत्त्वद्वैतभरोल्लासि द्राविताशेषभेदकम् ।
तुर्यातीतं तु तत्प्राहुरित्थं सर्वत्र योजयेत् ॥ १००७॥
लयाकले हि स्वं रूपं जाग्रत्तत्पूर्ववृत्ति तु ।
स्वप्नादीति क्रमं सर्व सर्वत्रानुसरेबुधः ॥ १००८ ॥
एकत्रापि प्रभौ पूर्णे चित्तुर्यातीतमुच्यते ।
आनन्दस्तुर्यमिच्छैव वीजभूमिः सुषुप्तता ॥१००६॥
ज्ञानं तु स्वप्नवृत्तित्वं क्रिया जाग्रदिति स्मृता।
अत्रैव योगभूम्युत्थाः संज्ञाः पिण्डस्थतादयः ॥१०१०॥

अभिनवगुप्तावरचितम् सर्वतोभद्रताद्यास्तु प्रसंख्याज्ञानिनिर्मिताः । एकैकत्र चतूरूपसद्भावाद्वितते ततः ।। १०११ ।। चतूरूपत्वमेकन त्रित्वं पश्चादकता। एकस्तु भैरवी नाथः प्रोल्लसद्विश्वरूपकः ।। १०१२ ॥ एकः शिवादिसकलपर्यन्तस्थितिसंगतः । सोऽयं समस्त एवाध्या भैरवाभेदवृत्तिमान् ।। १०१३ ॥ तत्स्वातन्त्र्यात्वतन्त्रत्वमश्नुवानोऽवभासते । सोऽयं मातृस्वरूपस्थो मन्त्राध्वेति विभाव्यते ॥ १०१४ ॥ प्रमारूपतया सोऽयं वर्णाध्वति निरुच्यते । प्रमाणरूपतामेत्य प्रयात्येष पदाध्वताम् ॥१०१५॥ प्रमाणरूपतावेशमपरित्यज्य मेयताम् । गच्छन्संकल्पनायोगात्कलाध्वा मातृसंगतः ।। १०१६ ।। शुद्धे प्रमेयतायोगे स तत्त्वावेति गृह्यताम् । तत्स्थौल्याधारतायोगाद्भुवनाध्वेति वर्णितः ॥१०१७ ॥ तथाहि चिद्विमर्शेन ग्रस्ता वाच्यदशा यदा । शिवज्ञानक्रियायत्तमननत्राणतत्परा ॥ १०१८ ॥ अशेषशक्तिपटलीलीलालाम्पढ्यपाटवात् । मन्त्राध्वा रभसेन द्राक्पागुद्भूतः शिवात्मकः ॥१०१६ ॥ उच्छलत्संविदामात्रपिनान्त्यास्वादयोगिनः । सर्वाभिधानसामर्थ्यादनियन्त्रितशक्तयः ।।१०२० ॥ सृष्टाः स्वात्मसहोत्थार्थधरापर्यन्तवृत्तयः। स्वात्मीये चिद्विलसिते तावतो.निजात्मनि ॥१०२१॥ आमृशन्तः प्रमारूपां सत्यां बिभ्रति संविदम् । बालास्तिर्यक्प्रमातारो येऽप्यसंकेतभागिनः॥ १०२२॥ तेऽप्यकृत्रिमसंस्कारमारामेनां स्वसंविदम् ।

मालिनीपातिकम्
भिन्नभिन्नामुपाश्रित्य यान्नि चित्रां प्रमात्ताम् ॥१०२३॥
अस्यामकृत्रिमानन्तवर्णसंविदि रूढताम् ।
संकेता यान्ति चेत्तेऽपि यान्त्यसंकेतवृत्तिताम् ॥१०२४॥
अनया तु विना सर्वे संकेता बहुशः कृताः ।
नैव चेतसि विश्रान्ति संकेतान्तरयोगतः ॥ १०२५ ।।
बजेयुरनवस्थानान्मूलक्षतिकरत्वतः ।
तत्रापि खलु संकेते बालो व्युत्पाद्यतां कुतः ॥ १०२६ ॥
तेनानन्तस्त्वमायीयो यो वर्णग्राम ईदृशः ।
स चिद्विमर्शसचिवः सदैव प्रविजृम्भते ॥ १०२७ ॥
तत एव च मावीया वर्णाः मूर्ति वितेनिरे ।
तेषां ते खल्वमायीया वीर्यमित्यवधार्यते ॥ १०२८ ।।
तथाहि परवाक्येषु श्रुतेष्वावृणुते निजा।
प्रमा यस्य जडो नासौ तत्रार्थे याति मातृताम् ।। १०२६ ॥
यस्य तु स्वप्रमा बोधे प्रविशेद्भेदगर्भगा।
मायीयवर्णपुले स्खे स प्रमातृत्वमृच्छति ॥ १.३० ।।
यथा यथा चाकृतकं तद्रूपमतिरिच्यते ।
तथा तथा चमत्कारतारतम्यं प्रकल्प्यते ॥१०३१॥
तदुद्रेकमहत्त्वे तु प्रतिभात्मनि निष्ठिताः ।
ध्रुवं कवित्ववक्तृत्वशालितां यान्ति सर्वतः।।.१०३२ ।।
अत एव हि वाक्सिद्धौ वर्णानां समुपास्यता.। ..
तेषामेव ततस्तेन गुप्ता गुप्तेन भाषिताः ॥ १०३३॥
ततो यावद्विभोः शश्वद्विश्रान्तियुगपदहून् ।
वर्णानुदृक्य भोगांशपरिपूरणसुस्थितान् ॥ १०३४ ॥
तावदेव पदाध्वासौ मेयभूमिमुपाश्रितः ।
संसारमृतसंकेतसद्धाते प्रथमाङ्कुरः ॥१०३५ ॥

आभनवगुप्तांवरीचनम्
एवं प्रमयता मातृभावो मानत्वमप्यय ।
पत्रिंशदात्मनस्तत्त्वकलापस्येति निश्चितम् ॥ १०३६ ॥
तत्र सर्व विभात्येतत्परमेशितरि ध्रुवे ।
प्रतिबिम्बस्वरूपेण न तु बाह्यतया यतः ॥ १०३७ ।।
चिद्योन्न्येव शिव तत्तदेहादिमतिरीदृशी।
भिन्ना संसारिणां भाति रजौ सपादिका यथा ॥१०३८॥
यतः प्राग्देहमरणसिद्धान्तः स्वप्नगोचरः।
देहान्तगदिमरणाकीदृग्वा देहसंभवः ॥ १०३६ ॥
स्वप्ने तु प्रतिभामात्रसामान्यप्रथनादलात् ।
विशेषाः प्रतिभासन्ते न भाव्यन्तेऽपि ते तथा।।१०४०॥
सालिग्रामोपलाः केचिचित्राकृतिहदो यथा ।
तथा मायादिभूम्यन्तलेखाचित्रहृदश्चितः ॥ १०४१॥
नगराणवशैलायास्तदिच्छानुविधायिनः ।
न स्वयं सदसद्रूपकारणाकारणात्मकाः ॥ १०४२ ॥
चिरमरूढे नियमे समुच्छेदात्प्रवर्तनात् ।
अरूढेऽपि स्वतन्त्रोऽयं स्थितश्वियोमभैरवः ॥१०४३ ॥
एकचिन्मात्रसंपूर्णभैरवाभेदभागिनि ।
एवमस्मीत्यनामर्शो भेदको भावमण्डले ॥ १०४४ ॥
सर्वप्रमाणे! सिद्धं स्वप्ने कर्वन्तरं यथा ।
स्वसंविदः स्वतन्त्रायास्तथा सर्गोऽपि वुध्यताम् ।।१०४५
चित्तचित्रपुरोधाने क्रीडन्नेवं हि वेत्ति यः।
अहमेव स्थितो भावैर्भूतश्चिन्मात्रकैरिति ॥ १०४६ ॥
एवं जातो मृतोऽसीति जन्ममृत्युविचित्रताः।
अजन्मन्यमृतौ भान्ति चित्तमित्तौ स्वकल्पिताः॥१०४७॥

मानिनाबातिकम् परहसंविदामात्रं परलोकहलोकता । किन्त्वकालकलासंविद्देशभेदेऽप्यभेदिनी ।। १०४८ ।। अभविष्यदयं सर्गो मूर्तश्चेन्न तु चिन्मयः। तदवेक्ष्यत तन्मध्यात्तनैकोऽपि धराधरः ॥ १०४६ ॥ भूततन्मात्रवर्गादेराधाराधेयचर्चने अन्ते संविन्मयी शक्तिः शिवरूपैव धारिणी॥१०५०॥ तस्मात्प्रतीतिरेखेत्थं की सा प्रतिभा शिवः । अत्र स्वात्मनि ते तेन शक्तिः साधारसंज्ञिता ॥१०५१ ॥ सांकल्पिकं निराधारमपि नैव पतत्यधः । स्वाधारशक्ती विश्रान्तेर्विश्वमित्यं विमृश्यताम् ॥१०५२॥ अस्या धनाहमित्यादिरूढेरेव घरादिता । यावदन्ते चिदस्मीति निर्वृत्ता भैरवात्मता ॥१०५३॥ मणाविन्द्रायुधे भास इव नीलादयः शिवे । परमार्थत एषां तु नोदयव्यययोगिता ।। १०५४ ॥ देशे कालेज वा सृष्टिरित्येतदसमञ्जसम् । चिदात्मनो हि देवस्य सृष्टिदिकालयोरपि ॥ १०५५ ॥ जागराभिमते सार्धहस्तत्रितयगोचरे। प्रहरे च पृथक्स्वप्नाश्चित्रादिकालमानिनः ॥ १०५६ ॥ अत एव क्षणं नाम न किञ्चिदपि मन्महे । क्रियाक्षणेऽपि ोकस्मिन्वयः सन्ति द्रुताः क्रियाः।१०५७ तेन ये भावसंकोचं तणान्तं प्रतिपेदिरे। ते नूनमनया नाल्या शून्यदृष्ट्यवलम्बिनः॥१०५८ ॥ तद्य एव सतो भावाशून्यीकतुं तथासतः । स्फुटीकतु स्वतन्त्रत्वादीशः स परमेश्वरः ॥ १०५६ ॥ १ अवयतेति पाटः। २घनति पाठः। ३ राम्येति पाठः।

अभिनवगुप्तविरचितम् in तदित्थं परमेशानो विश्वरूपः प्रगीयते । न तु भिन्नस्य कस्यापि धरादेरुपपन्नता ॥ १०६० ॥ उक्तं चैतत्पुरैवेति न भूयः प्रविविच्यते । बहुभिश्चापि बाह्यार्थदपणा प्रव्यरच्यत ॥ १०६१ ॥ नन्वित्थं जन्ममरणे कर्मणः फलयोगिता। कथं स्यात्किन्नु पूर्वोक्तं चित्स्वातन्त्र्यं सुविस्मृतम् ।१०६२। तथा हि चित्स्वतन्त्रेयं यथा भासयते तथा । सत्यं भात्यखिलाकारगर्भा सा चेति निश्चितम् ॥१०६३॥ इक्षौ प्रत्यणु माधुर्यं यथा सर्वात्मना तथा । प्रत्येकपरमाणो हि सर्वसृष्टिमयी स्थितिः ॥ १०६४॥ अज्ञाततत्त्वमूलास्तु विवदन्तेऽत्र ये बुधाः। नूनं निजमनोराज्यरक्षाय ते समुद्यताः ॥१०६५ ।। ग्राणे खे चिति बाह्ये वा कुत्रापीदमिति भ्रमः। अज्ञत्वात्तन्नियत्युत्थस्वातन्त्र्याभावजृम्भितः ॥ १०६६ ॥ अतः स्वसंविदामझे जन्मत्वेनेह भासते । पुरस्तात्तु न संवित्तिः स्वातन्त्र्योचितरूपिणी ॥ १०६७॥ प्राक्तनी संविदेवेह पूर्वकर्मेति भाष्यते । तत्संविद्वाधिका संचित्कर्मक्षयकरी ततः ॥१०६८॥ अकृतं च यथा स्वप्ने मया कृतमिति स्फुरेत् । फलदा दृश्यते सैव वार्ता जाग्रति कर्मणः ॥१०६६ ॥ तथा च प्राच्यकौंधफलसंप्लोषणात्मिका । यस्यैकाप्युत्तरोदेति संवित्स फलभाङ्गहि ॥१०७० ।। किं चान्यद्बहुसंवित्सुस्फुरत्वादयशो यशः । भूयःफलवदाकाशनद्यम्भःसिक्तबीजवत् ॥१०७१ ॥ एवमल्पफलं कर्म स्वल्पसंवेदने स्फुरत् ।

मालिनीवार्तिकम् अस्फुरनिष्फलं त्वेव न्यायः सोऽयं स्वसंविदाम् ॥१०७२।। तत्राप्यल्पत्वभूयस्त्वे संविदां ये प्रकल्पिते । ते कर्मकर्तुः संवित्तिरूढ्या तद्रूपभागिनी ॥ १०७३ ।। या च (यस्य) संवित्स्वयं तादृक्फलगर्भा न जायते । नाप्यन्यफलनिग्राहिमातृसंगतितस्तथा ॥१०७४ ।। फलवेदितुरन्यस्य प्रमातुरपि संविदि । अन्यप्रमातृसंकल्पाद्यावदन्ते स कोऽप्यलम् ॥ १०७५ ।। प्रबुद्धः सृष्टिरक्षायै स्थितिशक्तिविजृम्भकः । विदाः स्म संकोचयति फलालम्बनकल्पनाः ॥१०७६ ।। मत्स्यादमत्स्यदृष्ट्येयं सृष्टिरित्याशयेन ते । परोपकारं कर्तव्यमुपादिक्षन्पुरातनाः ॥१०७७ ।। एवं नामोपकारोऽयं मृतस्यापि प्रतन्यते । पिण्डदानादिना भूयो दीयते देहसंगमः ॥१०७८ ॥ वरं स्वात्मनि संक्लेशाः परं मा पीडयन्त्विति । इति कल्पितमेतस्य कृच्छादेस्तपसः फलम् ॥ १०७६ ।। लशुनादावभक्ष्यत्वमुक्तमाज्ञेयमीदशी । अकारणकमेवेति गृह्णन्तु किल जन्तवः ।। १०८० ॥ तदेवं हंसपक्ष्यादिभक्ष्याभक्ष्यत्वनिर्णये । युज्येत भिन्नबुद्धित्वमन्यथा न कथंचन ॥१०८१॥ एवं दृष्टेऽप्यदृष्टेऽथ कल्पितांशांशिकाक्रमात् । फलयोगः स एवाद्य रूढः संविद्भुवि स्थितः ॥१०८२ ॥ देहः पिण्डात्परे लोके नान्यथेति स्थितिः कृता । अन्योन्याननुषकत्वं जन्तूनां देहभृदिति ? ॥ १०८३॥ तत्सर्वशास्त्रपूगैश्च शङ्काशङ्कः प्ररोपितः । अज्ञचित्तधरारूढः फलपर्यन्ततांगतः ॥१०८४॥.

अभिनवगुप्तविरचितम् अस्ति मे पिण्डदोऽद्याहं पिण्डदानक्रमात्तथा । प्राप्नोभ्यवयवाभोगं पूर्णदेहोऽस्मि सुस्थितः ॥ १०८५ ॥ अदृष्टक्रियया पुत्रशिष्यस्वात्मादिक्लप्तया । स्वर्गभागहमत्यन्तमात्तसंभोगसुस्थितः ॥ १०८६ ॥ नास्ति मे पिण्डदः कश्चित्स्वयं चास्म्यतिदुष्कृती। न मे त्रातास्ति कुत्रापि पतामि नरकार्णवे ॥१०८७॥ भविष्यति मम त्राता कापि काले कथंचनं । इत्यादिः संविदा स्फारस्तथैव फलति स्वयम् ॥१८॥ तस्यास्तु पिण्डकादिर्माभूदथ यथा स्फुरेत् । स तावत्तत्फलं भुते वसंकल्पेन कल्पितम् ॥१०८६ ॥ शङ्कावज्रप्रलेपान्तर्दृढबद्धां त्विमा मतिम् । भैरवानल एवैकः समूलं प्लुष्यति क्षणात् ॥ १०६० ।। अशेषचित्रचिंद्गर्भसंसारस्वप्नसमनः । सोषकः शिव एवाहमित्युल्लासी हुताशनः ॥ १०६१॥ तन्मूढः कर्मसंवित्तिचित्रीभूतचितिस्तथा । संकल्पमेव संसारं विचित्रमभिमन्यते ॥ १०॥२॥ अत एव मृतो वालो वासनान्तरवर्जितः। शिशुरेव भवेत्सुप्तदृढसंसारवासनः॥१०६३॥ "तान्यौ तथा (१)। यावद्यौवनमभ्येति पुनस्तद्वासनाक्रमात् ॥ १०६४ ॥ संस्कारसंविदा तास्ताः संसृतीरभिमन्यते । कश्चिजडत्वसंस्काराज्जडीभूतोऽपि खानिलैः ॥ १०६५ ॥ सह भूजलयोगेन याति पुष्पफलात्मताम् । भक्षितो वीर्यरूपेण पुनरायाति गर्भताम् ॥ १०६६ ।। १ सद्गति पाठः ।

मालिनीवातिकम्
यावत्पुनः पुनश्चित्रान्संसारानभिमन्यते ।
एकत्रैव स्वसंस्कारवासनावासितः शिवः ॥१०६७।।
भुले स्वर्नरकाद्यांस्तु भोगान्स्वातन्त्र्यकल्पितान् ।
कचिद्भूमिमयी कापि जलात्मा कापि मिश्रिता ॥१०६८।।
एवं भुवनमय्येषा संविद्भाति स्वरूपतः।
धियते यत्र तत्रैव स्वसंस्कारात्सुखादिकम् ॥ १०६६ ॥
वेत्त्यन्येन न दृश्यस्तु स त्वन्यान्वेद चान्यथा ।
न देशः परमार्थेन न च कालोऽस्ति कश्चन ।। ११००।।
भेदवादे हि गगनदेशात्सर्वैकदेशता ।
उपाधेरेव देशाद्भिद्देशस्याप्युपधेभिदा ॥ ११०१॥
इत्यन्योन्यसमाश्रित्या देशभेदो न कश्चन ।
स्वरूपभेद एवातो भेदकत्वे सुसंगतः ॥११०२॥
स च नास्ति प्रकाशकस्वरूपेष्विति साधितम् ।
एनयैव परामर्शदृशा ये परिवर्जिताः॥११०३।।
ते शङ्काकारिशास्त्रौघशङ्कितास्तन्मयीकृताः ।
स्वस्वग्ननिर्मितानन्तजडजन्तुविकल्पितैः ॥ ११०४ ॥
शास्त्रामासैर्वृथा शङ्कां ग्राह्यन्ते बोधवर्जिताः।
यथा प्रबुद्धते संविनिभृतापि चिरं स्थिता ॥ ११०५॥
तथापि फलतीत्येवं प्रायश्चित्तादिकल्पितैः।
एवमामासनानात्वस्वातन्त्र्यैश्वर्यशालिना ॥११०६॥
क्लुप्तं यदेव तत्तस्य याति तन्वादिरूपताम् ।
विपर्ययामासयोगे शीताद्याभासदूषिते ॥ ११०७॥
नाड्यादावथ संकोचस्फोटघातादिपीडिते।
देहभस्वामहायत्रवातचक्रेऽन्यथागते ॥ ११०८॥

अभिनवगुप्तविरचितम् । यस्मिन्यात्यधिकारे वा जाते प्राग्वासनाक्रमात् ॥ ११०६ ।। तत्रैव कल्पयद्भोग परलोकाभिधानकम् । पाषाणतां वा वेत्त्येष पुनर्वा प्रतिबुध्यते ॥ १११०॥ परोऽयं लोक इति च रूढ्यास्य परलोकिता। स्वर्गमोक्षादि यस्यह यथारूढं च चेतसि ।। ११११ ॥ तथैवास्य बहिर्भाति ततस्तत्रापि चित्रता। वन्धो मोक्षः सुखं स्वर्गो दुःखंजडमयी स्थितिः॥१११२।। संविदेव स्वतत्रेत्थं शिवरूपा विराजते । भूयोऽवयवयुक्तस्य यथा तावत्यहस्थितिः ॥ १११३ ॥ तथा विश्वात्मके रूपे भैरवस्याप्यहंस्थितिः । शिशुः शून्येऽपि वेतालं वेत्ति सत्यार्थकारिणम् ॥ १११४ । ध्येयपूज्यादिवैचित्र्यमित्थमर्थक्रियाकरम् । मूर्तो भिन्नः समाहूतो हिला भोगान्निजान्क्षणात्॥१११५॥ देव एतीति वातैषा वचनेष्वेव शोभते । अमूर्वादिस्वरूपत्वं सर्वमेतत्तु युज्यते ॥ १११६ ।। आत्मैव हि तथाभूतस्तथा भात्येव भेदतः। एवं स्वभाव एवैष संविदो यः स एव तु !॥ १११७॥ भेदग्रस्ततया कार्मों मलः शास्त्रे निरूप्यते । दीक्षादिकर्मयोगे तु न मलत्वं प्रतायते ॥ १११८ ॥ स हि भेदमयाशेषसंसारदहनव्रतः। दीक्षा च वस्तुतस्तादृक्सत्यसंवित्स्वरूपिणी ॥ १११६ ॥ एवं यो वेद तत्त्वेनेत्युक्तं चानुत्तरे नये । एवं विज्ञानयोगे हि शमिते भेदगोचरे ॥ ११२० ॥ आत्मैव शिव एवैकः को बन्धः का च मुक्तता। , स्वयमिति पाठः।

मालिनीवार्तिकम् एतद्दीक्षामहासंचित्प्रवेशाय तु भएयते ॥११२१ ॥ क्रियास्वभावदीक्षासौ कर्मादिमलहानये। स्वभावक्लृप्तनियतिबलाक्षिप्तेषु कर्मसु ॥ ११२२ ॥ भोगोऽस्य युगपद्यस्माक्रियते मत्रशक्तितः । तथा हि प्राणगा देशकलाकालाध्वनिश्चयाः ॥ ११२३ ॥ जातयोऽस्य प्रतायन्ते धरण्यादिशिवान्ततः । तत्रैव जन्मसंभोगाधिकारलयभाजनम् ॥ ११२४ ॥ विधायोत्कृष्यते तस्मादन्यत्र च विधीयते । इत्थं गुरोनिश्चितसंविदात्म- रूढेश्च शिष्यस्य परस्परेण । निष्कर्मचेतोरचितैव दीक्षा प्राकर्मशक्तीरखिला रुणद्धि ॥ ११२५ ।। तत्रापि तण्डुलतिलाज्यचरुप्रबन्ध इत्यादि शैवनियतिप्रतिभारक्लुप्तम् । तावत्यपि स्फुटपदे न निशाप्रपञ्चो निर्मूलतामुपगतोऽपि विभेदवृत्तेः ॥ ११२६ ॥ भेदेऽपि किंवेष पुनर्भविष्य- संसारकारिसुकृतादिविधातहेतुः । शुद्धस्ततस्तदत एव हि तत्त्वजालं शुद्धतरस्थितितया निखिलं द्विधैव ॥ ११२७॥ शुद्धं त्रिशक्तिखचितं ननु यामलं च भात्येव तेन बहुधैष कृतः क्रियायाः। व्यापारकल्पनवशानियतिप्रपञ्च: स्वल्पेतरखकृततादृशभोगयोगः ॥ ११२८ ।। मुद्रामण्डलसंघातः समत्रतत्रचर्चितः।

अभिनवगुप्तविरचितम्
यत्र योगादिकं सर्व फलदानाय कल्पते ।। ११२६ ।।
निर्वृतिफलसंप्राप्तिकाभासंकोचसुस्थिताः ।
अनवच्छिन्नतामेव फलखेनात्र मन्यते ॥ ११३० ।
नानन्तानवच्छंदे कापि यागादिकल्पना ।
अनवच्छिन्नवाञ्छा
॥ ११३१॥
'तत्सर्वोत्तीर्णदृष्टयः।
तथापि विदिते ह्यर्थे परमाद्वयसुन्दरे ।। ११३२ ॥
संवित्स्वभावस्वातन्त्र्यात्केपांचित्फलकामता।
तान्येवोद्दिश्य तत्सर्व पूरणाय धरादितः ॥ ११३३ ॥
शिवान्तं बहुधा भेदैर्धारणाग्रन्थ उच्यते ।
इह हि नान्यनयेष्विव किञ्चन
स्फुरितमस्ति न यत्किल सत्यतः ।
तदिह सत्यपदे स्थितिभागिनां
किमिव हेयपदे निपतिष्यति !! ११३४ ॥
इत्थं सप्तदशाधिकारचरमं तत्वं यदाभासते
तम्भिणीतमनुत्तरं शिवपदं संप्राप्तिकामान्प्रति ।
एतत्सर्वमिहोदितं च जगदानन्दे विपक्षात्मक
भेदप्राणतया यतोव निखिलोऽप्येष प्रपञ्चः स्थितः ।।
॥ ११३५॥
इति श्रीमन्महामाहेश्वराचायंवर्याभिनवगुप्तपादविरचिते
श्रीमालिनीविजयोत्तरवार्तिके
प्रथमःकाएडः॥१॥

अथ द्वितीयः काण्डः एवं महेश्वरो देवो विश्वात्मलेन संस्थितः । क्रमिकज्ञानयोगाभ्यां धारणाभिरुपास्यते ॥ १ ॥ तत्वक्रमं गतद्वैतमलमायादिजालकम् । अष्टादशे तत्पटले तत्त्वं सम्यग्विभाव्यते ॥२॥ प्राणायामादिकं यत्र हेयमित्येव वर्ण्यते । नहि तस्य परां वित्तिं प्रति काचिदुपायता ॥३॥ अन्तः संविदि यनिरूढमभितस्तत्प्राणधीविग्रहे संचार्येत कथं तथेति घटतामभ्यासयोगक्रमः । ये त्वभ्यासपथेन संविदमिमां संस्कर्तुमभ्युद्यता- ते किं कुंत्र कुतः कथं विदधतामित्यत्र संदिद्महे ॥४॥ अभ्यासो हि पुनः पुनरर्थः सोऽपि च दिक्कालप्रतिभेदात् । आभासेतरयोगसमुत्थो देहमनःप्राणाक्षपथे स्यात् ।। ५ ॥ प्रकाशैकयने रूपे भैरवीये विविक्षवः । सद्विभातविज्ञानविश्रान्त्यैव सुसंस्थिताः॥६॥ अत्रैवातः परं प्रोक्तमङ्गं सर्वोपकारि यत् । धारणा अपि तद्द्वारे निश्चिते स्युस्तथात्मिकाः॥७॥ नन्वप्रतिष्ठे कस्तर्के समाश्वासः प्रकल्प्यताम् । १ कुत्र कथं नुवेति पाठः । २ तद्द्वारनिश्चित इति पाठः ।

अभिनवगुप्तविरचितम् किंवा न भवतां तागप्रतिष्ठाहतं वचः॥८॥ तथा ह्यागम एवं प्रमाणमिति निश्चितः। तद्विरुद्धागमत्रात मति निश्चीयतां कथम् ।।६।। महाजनप्रसिद्धिस्तु तत्र प्रामाण्यकारणम् । अप्रतिष्ठा तद्विरुद्धमहाजनमुसंभवात् ॥ १० ॥ प्रत्यक्षमपि रुच्यादौ दृष्टबाधकसंविदम् । उत्तरोत्तरविज्ञानानवस्थाभाजनं ननु ॥ ११ ॥ स्वसंविदपि तत्रैव बाधित कथितं [ति कथं] किल । व्यवहारमयं कुर्याद्भेदसन्धानपण्डितः ॥ १२ ॥ अस्माकं त्वप्रतिष्ठानं न कदाचित्कचिद्भवेत् । येषां सर्वत्र संपूर्णः परो भैरवसागरः ।। १३ ॥ विशेपतस्तु तकस तान्प्रत्येवाप्रतिष्टता । ये तर्कार्णवतारात्तपरमामृतसंविदः ॥ १४ ॥ तथा हि सर्वे ताशा अनामृष्टस्वसंविदः । सर्वत्र पर्यन्तफलं न शिवं प्रतिपेदिरे ॥ १५ ॥ अभेदसारः सर्वो हि शास्त्रार्थस्तत्प्रपत्तये । यस्तत्रोद्भावितो भेदस्तत्र मूढधियो रताः ॥ १६ ॥ तर्कश्च भेदवांदांशयुक्तिच्छेदकपण्डितः। नन्वभेदेऽपि तर्कस्य काचिदस्युपयोगिता ॥ १७ ॥ परमाद्वयदृष्टौ च सोऽपि नैव न संगतः। अत एव पराद्वैतं यद्विश्वानुग्रहात्मकम् ॥ १८ ॥ तस्योपायं परं ब्रूते हृदयं स्पन्दनात्मकम् । हृदये बोधमयो यः स्वविमर्शः पूर्णचिच्चमत्कारः। १ तेषामिति पाठः । २ हृदये इति पाठः । ३ मये इति पाठः ।

मालिनीवार्तिकम् युगपद्रागिति हठतो लीनीकृतविश्वतःस्फुरणः ॥ १६ ॥ भौवग्रहायचरम- दशाद्वयोल्लासिनिर्वृतिसुपूर्णः। जगदानन्दमयोऽसौ सामान्यस्पन्द इत्युक्तः ॥ २० ॥ स्फुरणं हृदयस्य यत्किल प्रकटं विश्वमिदं विसर्गधाम्नः । सदिति प्रतिभाति यावता त्रिकशक्तौ विशतीह तावता ॥ २१ ॥ तदिदं हृदयं निरुच्यते परमं भैरवसंविदामृतम् । इषिदृक्कृतिशक्तिशूलगं परमे धाम्नि विसृज्यते ततः ॥ २२ ॥ परमे भगवत्परात्मनि स्फुरितं विश्वमिदं चिदात्मकम् । शक्तित्रयशूलगं ततः शाम्भवभूमिविसर्गिवर्मना ॥ २३ ॥ तदथो सदिति प्रगीयते तदिदं पूर्णमिहाहमात्मकम् । हृदयं शिवशक्तिसंगम- स्फुरणात्मैव सदावभासते ॥ २४ ॥ इह सृष्टिलयस्थितिक्रमाः १ हठ एव स इति पाठः । २ मलिनीकृत इति पाठः। ३ बालग्रहेति पाटः।

अभिनवगुप्तविरचितम् शतशो वापि सहस्रकोटिशः । प्रविभान्ति सदातनात्मना हरविष्णवम्बुजहेतुसंचिताः ।। २५ ।। इह तु पुरोक्तायुक्तिकलापाद्यः प्रविशत्सद्यो नाशक्तः । तं प्रति शाक्नोपायपथेने प्रकटीक्रियते हृदयस्पन्दः ॥२६॥ त्रिशूलपान्तगप्राणप्रेरणावाप्तहृत्पथः । तदन्तर्वतिचिच्चन्द्रकलाविश्रान्तितत्परः ॥ २७ ॥ झटित्येवाथ तद्भूमित्यागेन प्रोज्भय ता दशाः । निरानन्दादिकाः पञ्चभूर्तमध्यव्यवस्थिताः ॥ २८ ॥ त्यजेत्पूर्वा परां कामेत्सम्यग्विश्रान्तितत्परः । यतो निजानन्दमयी भूमिः शान्तपदानुगा ॥२६॥ निरानन्दपरानन्दौ पुरुषाजातसंगतौ । अभेदभिन्नभोग्यौघजनितानन्दजृम्भणात् ॥ ३० ॥ महानन्दस्थितिः कापि वामाचारा चिदुल्लसेत् । भैरवीयमहाधाग्नि स्वीकृताशेषसंविदि ॥ ३१ ॥ महानन्दश्चिदानन्दीभूय भूयः प्रवर्तते । अमिंस्तु स्वीकृताशेषदक्षवामोर्ध्वगत्रिके ॥ ३२ ॥ त्रिके सर्वात्मना द्वैताद्वैतसंग्रहणात्मनि । अभिन्ना वाथ भिन्ना वा भिन्नाभिन्ना अथापि वा ॥ ३३ ॥ भावा निजादिकानन्ददशापञ्चकयोजिताः । जायन्ते जगदानन्दसमुद्दामदशाजुषः ॥ ३४ ॥ निजानन्दः प्रमात्रंशमात्रनिष्ठनिबन्धनः । शून्यतामात्रविश्रान्तेर्निरानन्दात्मिका स्थितिः ॥ ३५ ॥ प्रमेयपदविश्रान्तेः परानन्दोऽप्युदेत्यलम् । १ क्रमेणेति पाठः। २ घ्यरमध्येति पाठः । ३ सदुलसेदिति पाठः ।

मालिनीवार्तिकन् अनन्तमेयसंघट्टपूर्णे मेये तु सर्वतः ॥ ३६ ।। प्रमाणाचर्वणायोगान्महानन्द इति स्थितिः । समस्तमानमेयोधकलनाग्रासकोविदः ॥३७॥ बदा विश्रान्तिमभ्येति निरुपाधिसुनिर्भराम् । लदा खलु चिदानन्दो यो जडानुपबृंहितः ॥६८॥ न च यत्र स्थितिः कापि विभक्का जडरूपिणी । यत्र कोऽपि व्यवच्छेदो नास्ति यद्विश्वतः स्फुरत् ॥ ३६ ।। यदनाहृतसंवित्ति परमामृतहितम् । तदेव जगदानन्दधामास्माकं गुरुर्जगौ ॥४०॥ यत्रास्ति भावनादीनां न मुख्या काफि संगतिः । तत्र विश्रान्तिराधेया हृदयोच्चारयोगतः॥४१ ।। या तत्र सम्यग्विश्रान्तिस्तत्पराद्वैतमुच्यते । प्राणदण्डप्रयोगेन पूर्वापरसमीकृतेः ॥ ४२ ।। चतुष्किकाम्बुजालम्बिलम्बिकासौधसिक्तभूः । बन्धमोक्षविभागेन नरादैन्यत्र योगिना ॥ ४३ ॥ अनुत्तरस्वभावेन वाग्व्यापाराभिवर्तिना । चिद्विमर्शपराहकृत्प्रलयोल्लासयोगिना ॥ ४४ ।। उद्योगवशरिक्तेन सवादशकलात्मना । सूर्येणाभासिते भावे पूरिते परिचर्चिते ॥ ४५ ॥ तद्रासमन्थरवशाः षोडशाख्यकलाजुषा । प्रविष्टेन विवोधागौ सम्यग्विसृजता कलाः ॥ ४६ ॥ चतस्रो जीवनीः प्राप्त विसर्गाविकृतस्थितेः । अन्तःकृतानन्ततत्त्वकादिक्षान्तेन सर्वतः॥४७॥ १ प्रमाता सर्वमेयेति पाठः। २ समुच्छेद इति पाठः। ३ नरादत्र नेति पाठः। ४ सर्गविकृतेति पाठः।

अभिनवगुप्तविरचितम् भावानां भावतासारविमर्शाभावहृयुजा । बहिःप्रसवसद्योगिकुलनेत्र्यधिशायिना ॥ ४ ॥ रुद्रयामलभावेन नित्यं या निष्ठितैव ताम् । चित्प्राणगुणदेहान्तशक्तिसोपानमालिकाम् ।।४६ ।। विसर्गेण विसृज्याथ स्पन्दनोदरवर्तिना । विसर्गभूमिमाश्लिष्य मत्स्योदरदशाजुपम् ॥ ५० ॥ सर्वसर्वगतां सर्वजीवनी परमां कलाम् । त्रिशूलभुवमाक्रम्य नाडीत्रितयसंगताम् ।। ५१ ॥ विकस्वरां संकुचितां क्रमेणैकात्म्यमाश्रिताम् । भृकुटीविन्दुनादान्तशक्तिसोपानमालिकाम् ।। ५२ ।। रासभीवडवास्रावससंकोचविकासिकाम् । मुहुर्मुहुर्लीयमानसृष्टभावौघनिर्भराम् ॥ ५३॥ एकीकृतमहामूलशूलवैसर्गिकास्पदाम् । समग्रभावभरणभैरवीयहृदाश्रिताम् ॥ ५४॥ सर्वापूरणहेवाकसमर्जितपराभिधाम् । आद्यन्तरहितामेनां विश्वप्रवणशालिनीम् ॥ ५५॥ हृद्धोधाकाशचिञ्चन्द्रचन्द्रिका त्रितयेशिकाम् । देवीं प्राप्य न किं नाम लभते लम्भयत्यपि ॥५६॥ तदत्र भावनादेहगतोपायैः परे सति । यदैष प्रविविक्षुः स्याद्योगी तावत्प्रकम्पते ॥ ५७॥ पूर्वजन्मशताभ्यस्तदेहतादात्म्यनिश्चयः। जलपांसुवदेकत्वं मन्वानश्चिच्छरीरयोः ॥ ५८ ॥ भेदाख्यमायारहिते परिपूर्णचिदात्मनि । प्रविशेपथमं यावत्स्वबलाक्रमणक्रमात् ॥ ५६ ।। १ म भिश्चति पाठः।

मालिनीवातकम् भवेदद्या निद्रा]स्य सा देहावेशशैथिल्यदायिनी । कम्प्ररूपेव यावन्नो रूढिर्जाता परात्मनि ॥ ६ ॥ एतदव्यक्तलिङ तन्नरशक्तिशिवात्मकम् । यत्र विश्वमिदं लीनं यदन्तःस्थं च गम्यते ॥ ६१॥ किं चाध्वजातमेतद्देहस्थतयप पूर्वनिर्णीतम् । तस्योन्मेपवशेन स्फुटतां या यात्]समावेशः ॥ ६२ ॥ चित्तत्वस्य विशेषस्पन्ददशाशालिनश्चिदानन्दः । शाक्तसमुल्लासभरादन्तःकृतमत्रवीर्यपरासारः ॥१३॥ नरशक्तिमयमिदं तब्यक्ताव्यक्तं भवेल्लिङ्गम् । सिद्धिफलप्रसवरसप्रसूनमिति कथ्यते शास्त्रे ॥६४ ॥ व्यक्तलिङ्गं तदुक्तं तु यत्केवलनरात्मकम् । एकस्य स्पन्दनस्येयं त्रिधा भेदव्यवस्थितिः॥६५॥ एतल्लिङ्गज्ञानप्रवियुक्तहदा वृथैव हि भजन्ते । बाह्यस्थलिङ्गपूजां प्रयासमात्रं फलाय नहि तत्स्यात् ॥६६॥ ययनमात्मलिङ्गाख्यं नररूपसमाश्रयि । देहाभेदमये बाह्ये विश्वमिन्भरिते सति ॥६७॥ समुदेति महानन्दभूमौ लीनस्य योगिनः । तेनाद्य लिङ्गमभ्येति संमुखीनत्वमञ्जसा ॥ ६८ ॥ अत्र लिङ्गे सदा तिष्ठेत्पूजाविश्रान्तितत्परः । यद्योगिनीनां हृदयं परमानन्दमन्दिरम् ॥६६॥ पूर्वोक्तबीजयोन्यशविसर्गानन्दमन्दिराः। यत्र कामपि तादात्म्यसंपत्तिं चिन्वते बुधाः॥ ७० ॥ यत्र प्रयासविरहात्सर्वोऽसौ देवतागणः । आनन्दपूर्णे धाम्न्यास्ते नित्योदितचिदात्मकः ॥७१ ॥ १ यः समावेश इति पाठः ।

अभिनवगुणविरचितम् यत्तद्भरवनाथस्य संकोचेतरभासनम् । अविद्यमानसंकोचविकासस्यापि भासते ॥ ७२ ॥ यत्तत्समाप्तिसंघट्टसमुत्थानन्दधारया । अवसिक्तमिदं विश्वमपोज्झति पुराणताम् ॥ ७३ ।। तत्र प्रवेशने यत्नः कार्यत्वेन प्रयासकृत् । यतः सदोदितो भानुः किं दीपेन विचार्यते ॥ ७४ ॥ यदि स्वात्मास्थितो योगी शिवचित्स्पन्दभूमिगः । यदि वा बाह्यभावाचविशेषस्पन्दसंश्रितः ॥ ७५ ॥ सर्वथा शिवशक्त्यात्मत्रिकरूढेरविच्युतः । योगी जायेत निःशेषयोगिनीकुलनन्दनः ।। ७६ ॥ घटाभावेऽपि सामान्यस्पन्दाभासमयी स्थितिम् । परभैरवमुद्रां तामन्तर्लक्षवहिदृशम् ।। ७७ ।। यदाश्रयति शैवी सा परा देवी ततः पुनः । स्वातन्त्र्यहेलानिये तत्तदर्थक्रियामये ॥ ७ ॥ भावोघे सोत्सुकौन्मुख्यविमर्शरसयोगतः । विशेषस्पन्दसद्भूमि शक्ति संस्पृश्य वर्तते ।। ७६ ॥ एतेनाधिष्ठिता धाम्ना स्वमत्रास्तत्प्रकाशने । यान्ति स्वातन्त्र्ययोगित्वं विचित्रास्वपि सिद्धिषु ॥८॥ हानादानतिरस्कारवृत्तौ रूढिमुपागतः । सर्वभासनयोगेन भासमानं चिदात्मना ॥१॥ अभेदवृत्तितः पश्यन्दृश्यं चितिचमत्कृतेः । अर्थक्रियार्थितादैन्यकारितां कातरां स्थितिम् ॥ ८२ ।। विहाय यावदासीत तावच्छांभवभूमिकाम् । भैरवीमाविशत्येव परां भूमिमयत्नतः ।।८३॥ १ लीलांत पाउः । १ जनितामिति पाठः।

मालिनीवार्तिकम् एतदाविष्टसंवित्ति सर्वमेव निरीक्ष्यते । प्रकाशरूपताक्रान्तं चैतन्यं हि प्रकाशते ॥४॥ न चाप्रकाशं प्राकाश्ययोगादेति प्रकाशताम् । इति विस्तरतः पूर्व प्रकाशितमिदं यतः ॥ ८५ ॥ महासाहससंयोगविलीनाखिलवृत्तिकः । पुञ्जीभूतस्वरश्म्योपनिर्भरीभूतमानसः ॥८६॥ अकिंचिञ्चिन्तकः स्पष्टदृष्टभेदोज्झितस्थितिः । यावदासीत तावत्तु पूर्वोक्ता एव भूमयः ।।८७॥ सांमुख्यं यान्ति संसारसमदाहकहेतवः । यश्च दिव्योऽक्षसंघातो भेदरूढितिरोहितः ॥८॥ स्वातन्त्र्यपोषकक्रीडामात्रोपकरणात्मकः । यदा निमीलनावन्ध्यस्तिष्ठत्येक क्षणं तदा ॥८६॥ तवारोदितसंवोधमहाज्वालाविलापितम् । विश्वमभ्येति परमानन्दसागरशायिताम् ॥१०॥ तद्रसापानविश्रान्तः संविध्वीः प्रतर्पयन् । अचिरादेति मरणजन्मत्रासविहीनताम् ।। ६१ ॥ आश्यानभावं हि गता स्वसंवि- देहेन्द्रियज्ञेयमयत्वमाप्ता। युक्त्या तु सौ प्राप्तविलीनभावात् संविद्धनं स्वं वपुरेव याति ॥ १२ ॥ युक्त्या ययैव बाद्यार्थविवशीकृतचेतसाम् । व्युत्थितिर्जायते सैव भैरवानन्दसंविदः ॥३३॥ तयैव योगिनीवक्तसंप्रदायक्रमाप्तया । विधूतकल्मषावेशा तिष्ठते चिन्मयी स्थितिः॥१४॥ १ संप्राप्तेति पाठः। २ तन्मयीति पाठः।

अभिनवगुप्तविरचिनम् यतमीषद्यदा योगी विकासयति संविदः । सर्वा इन्द्रियनाड्यन्तश्चक्राक्रमणसंश्रयाः ॥६५॥ तदा विकासं ग्राह्यार्थभेदाभावमयं हठात् । ग्रयान्ति चिदुन्मुखत्वान्नीलपीतादिभेदवान् ।। ६६ ॥ ग्राह्यग्राहकसंबन्धभेदः सपदि भिद्यते । योगिनीवक्तसंरूढसंप्रदायक्रमाप्तया ॥ १७ ॥ सद्योऽनुभवदायिन्या मुद्रया मुद्रिताखिलः । सर्वाधिष्ठातृचिद्रूपसाक्षाद्भरवतन्द्रितः ।। ६८ ॥ स योगी विस्मयाविष्टो लभते स्वात्मसंविदम् । तत्तदृश्योदयापाययोगेऽप्यनपयस्थिति ॥ ६६ ५। तडागवर्तिनिम्नाम्वु तन्नान्यत्र प्रवर्तते । प्रयत्नेनापि तन्मात्रपूरणाय यदतमम् ॥ १०० ॥ यदा त्वन्तःपदद्वारसार(तद्वारिधारा)संपूरितं रसात् । भवेद्भवेयुस्तत्पूर्णाः प्रवाहाः सर्वतोमुखाः ॥ १०१ । एवं स्वोल्लासरभसाच्चैतन्यं प्रोन्मिपत्स्वयम् । अविभागेन भावांशान्स्वात्माभेदेन भासयन् ॥ १०२ ।। शी[मी लनाविषयीभावं श्रयेद्यदि मुहूर्तकम् । मायाविगलनाद्भूमिभैरवीया विराजते ॥ १०३ ॥ वैकल्पिको ह्यवच्छेदः पश्चाद्यां दर्शयेद्भिदाम् । सैव माया स्वतत्रस्य भेददृष्टिप्रकाशिनी ॥ १०४ ॥ उन्मेषमात्ररूढस्य सा निर्मूला न संभवेत् । इत्थं किं बहुनोक्तेन नयेऽनुत्तरनामनि ।। १०५ ॥ वस्तुतोऽस्ति न कस्यापि योगाङ्गस्याभ्युपायता । स्वरूपं ह्यस्य नीरूपमवच्छेदविवर्जनात् ॥ १०६ ।। १ चेदिति पाठः। २ पाश्रात्यामिति पाठः । ३ भदशक्तीति पाठः ।

मालिनीवार्तिकम् उपायोऽप्यनुपायोऽस्यायागवृत्तिनिरोधतः । रेचनापूरणैरेपा रहिता तनुवातनौः ॥ १०७ ॥ तारयत्येवमात्मानं भेदसागरगोचरात् । निमञ्जमानमप्येतन्मनो वैषयिके रसे ॥ १०८ ॥ नान्तरार्द्रत्वमभ्येति निश्छिद्रं तुम्बकं यथा । स्वं पन्थानं हयस्येव मनसो ये निरुन्धते ।। १०६ ।। तेषां तत्खण्डनायोगाद्धावत्युन्मार्गकोटिभिः । किंस्विदेतदिति प्रायो दुःखेऽप्युत्कण्ठते मनः ॥ ११० ॥ सुखादपि विरज्येत ज्ञानादेतदिदं [त्विति । तथाहि गुरुरादिचदहुधा स्वकशासने ॥ १११ ॥ अनादरविरक्त्यैव गलन्तीन्द्रियवृत्तयः । यावत्तु विनियम्यन्ते तावत्तावद्विकुर्वते ॥ ११२ ॥ प्रत्याहारोऽपि नामायं योऽक्षजाले प्रवर्त्यते । बन्धस्यारूढवृत्तेस्तद्वज्रलेपेन बन्धनम् ॥ ११३ ॥ अर्थेषु तद्भोगविधौ तदुत्थे दुःखे सुखे वा गलिताभिशङ्कम् । अनाविशन्तोऽपि निमग्नचित्ता जानन्ति वृत्तिक्षयसौख्यमन्तः ॥ ११४ ॥ सत्येवात्मनि चित्स्वभावमहसि स्वान्ते तथोपनियां तस्मै कुर्वति तत्प्रचारचतुरे सत्यक्षवर्गेऽपि च । सत्स्वर्थेषु रसादिषु स्फुटतरं यतेंदवन्ध्योदयं योगी तिष्ठति पूर्णरश्मिखचितस्तत्तत्त्वमादीयताम् ११५ अविवेक एव परमिह संसार इति प्रवादमात्रमिदम् । अविवेक एव हि परं निःश्रेयसलाभसोपानम् ॥ ११६ ॥ १ तनोरिति पाठः।

अभिनवगुप्तविरचित त्यजावधानानि ननु क नाम धत्सेऽवधानं विचिनु स्वयं तत् । पूर्णेऽवधानं नहि नाम युक्तं नापूर्णमभ्येति च सत्यभावम् ॥ ११७ ।। यत्रैवानन्दयोगः कचन ननु भवेत्तत्र पूर्णः स्वभावो ते वेति तत्र प्रशमपदमियाद्यद्ययं भेदमोहः । तज्ज्ञाने जाग्रदादावपि निखिलपद चिन्महाचक्रनाथा योगी जायेत नानाव्यवहृतपथगोऽप्युल्लसन्मत्रवीर्यः ११८ यथा हि कूपं प्रचिकीर्षुरेव प्राप्ते जले याति कृतिखमेकः । कश्चित्पुनर्हस्तगतादि[वारि] मात्रा- दित्थं परप्राप्तिविधिर्विचित्रः ॥ ११६ ॥ अनुपायमिदं तस्मादुपायोपेययोगतः । भेदबन्धाद्विमुच्येत कथं वेतरथा जनः ॥ १२० ॥ अनुपायेऽपि चैतसिन्किचित्सांवन्ध्यवृत्तितः । उपायस्योपदेशोऽयं शास्त्रेज बहुधा कृतः ॥ १२१ ॥ यथा लिप्यक्षरैर्बालाः सत्ये वर्णात्मनि स्फुटम् । प्रवेश्यन्ते तथा मूढास्तैस्तैरौपयिकैः क्रमात् ॥ १२२ ॥ तदर्थमेव चाद्वैते परतत्त्वेऽपि सादरम् । पूजाध्यानादि शास्त्रेऽस्मिन्नुचितं किंचिदुच्यते ॥ १२३ ॥ यत्किचिन्मानसाहादि यत्र कापीन्द्रियस्थितौ । योज्यते बोधसब्रह्मधाम्नि ब्रह्मविलात्मनि ॥ १२४ ॥ आत्मानुसारिसद्भावसमावेशदशाश्रयात् । तत्तत्परकुलेशानशक्तिचक्रार्चनाक्रमे ॥ १२५ ॥ १ वर्मनि चेति पाठः ।

मालिनीवार्तिकम् : प्रयात्येवाप्रयत्नेन करणखं स्वभावतः । कृत्वाधारधरां चमत्कृतिरसप्रोक्षाक्षणक्षालिताम् आत्तैर्मानसतः स्वभावकुसुमैः स्वामोदसंदोहिभिः । आनन्दामृतनिर्भरस्वहृदयानार्षपात्रक्रमा- चांदेव्या सह देहदेवसदने देवार्चयेऽहर्निशम् १२६ एवं यत्र कचित्तिष्ठेत्स्वविमर्शस्वभावतः । तत्र शक्तित्रयावेशस्त्रिधा तावत्प्रकाशते ॥ १२७ ॥ नवधा भासमानस्य प्रोक्तद्वादशचक्रतः । विश्रान्तिरेकक्षणगा साष्टोत्तरशतस्थितिः ॥ १२८ ।। एकैव शतसंख्या च सा स्थितिः प्रविभाव्यते । इत्थं यत्किचनैतस्य वचनं योगिनो भवेत् ॥ १२६ ॥ तदेव जपयोगाय जायतेऽनुत्तरे पथि । अन्तरिन्धनसद्भावमनपेक्ष्यैव नित्यशः ॥ १३०॥ यो ज्वलत्यखिलाक्षौघप्रस्ताग्रशिखाशतः । तत्रैव सर्वभावानां प्रवेशश्चेद्विमृश्यते ॥ १३१ ।। नूनं झटिति संप्लुष्टस्थूलरूपतया हठात् । यान्ति बोधमहाज्वालाप्रकाशैक्यं स्वरूपतः ॥ १३२ ॥ स ऍष परमो होमो भैरवीयक्रमे मतः । निजबोधजठरहुतभुजि भावाः सम्यक्समर्पिता युक्त्या । जहति भेदविभागं निजशक्या तं समिन्धते यस्मात् १३३ यदेव स्वेच्छया सृष्टिस्वाभाव्यवशतः पुरः। निर्मिमीतेऽक्षविषयं तध्यानायाकल्पते ॥ १३४ ॥ निराकार हि चिद्धानि विश्वाकृतिमये सति । १ नन्देति पाठः। २ घीर्घ्यपात्रेति पाठः। ३ माननेति पाठः। ४ एवेति पाठः।

अभिनवगुप्तविरचितम् फलार्थिनां काचिदेव ध्येयत्वेनाकृतिः स्थिता ।। १३५ ।। यथा भेदसंपूर्णे भावेऽप्युदकमाहरन् । अन्याकृत्यपहानेन घटमर्थयते रसात् ।। १३६ ।। तथैव परमेशाननियतिप्रविजृम्भणात् । काचिदेवाकृतिः कांचित्सूते फलविकल्पनाम् ॥ १३७ ॥ यस्तु संपूर्णचिद्वृत्तिन फलं नाम वाञ्छति । तस्य विश्वाकृति ध्यानं सर्वदैव विजृम्भते ॥ १३८ ॥ कुलयोगिन उद्रिक्तभैरवीयरसासवात् । घूर्णमानस्य यः कश्चित्कोऽप्युदेति यथा तथा ॥ १३६ ।। शरीरगः समावेशो मोदनद्रावणात्मकः । सा स्वीकृतजगन्मुद्रा मुद्रा नैरुत्तरे मते ॥ १४० ॥ एष योगविधिः कोऽपि कस्यापि हृदि वर्तते । यस्य प्रसीदेचिच्चक्रं द्रागपश्चिमजन्मनः ॥१४१॥ लोकेनालोक्यमानोऽपि देहवन्धविधौ स्थितः। अभ्येति योगे रूढेन क्षणात्कामपि संविदम् ॥ १४२॥? अत्रैव त्वसत्पूर्वार्याचार्याणां धिपणा भृशम् । अभ्यमस्त भवाभोगविभ्रमाणामसंनिधिम् ।। १४३॥ वेदसांख्यभवेद्वादन्यायसौगतलौकिकैः। पञ्चरात्रक्रियाशास्त्रसिद्धान्तादिभिरप्यलम् ॥१४४ ॥ उचितोचितविज्ञानक्रियांशपरिभावकैः । सर्वैः स्वप्रक्रियारूढेस्तैस्तैरौचित्ययोगतः ॥१४५ ।। यत्र बीजसमावापखननादिक्रियाक्रमः। अकारि शांभवानेकशाखाभिर्योऽतिविस्तृतः ॥ १४६॥ तस्य चिद्भरवतरोः फलमेतदनुत्तरम् ।

मालिनीवार्तिकम् आश्रमस्थितचर्याधैर्जटाजालाञ्जनान्तकैः ॥ १४७॥ कृतैरप्यकृतैर्वापि यत्र नो लभ्यते भिदौ । तत्रैव योगे विश्रान्ति कुर्वतां भवडम्बरः ॥ १४८ ॥ हिमानीव महाग्रीष्मे स्वयमेव प्रलीयते । अलं हि चळमाणेऽस्मिन्सरसे संविदासवे ॥ १४६ ॥ निस्सरन्ति महोल्लासाः संख्या येषु न विद्यते । तेषां च प्रकटीकाराः कृताः प्रागेव विस्तरात् ॥ १५० ॥ अत्राभिनवगुप्ते तु तत्त्वे केऽप्येव निश्चिताः । केतकीकुसुमसौरभे भृशं भृङ्ग एव रसिको न मक्षिका। भैरवीयपरमाद्वयार्चने कोऽपि रज्यति नभेदमोहितः ॥१५१ ।। नात्र रूढस्य कार्या स्याच्छुद्धिः काचन कुत्रचित् । अशुद्धं हि जगत्येव भैरवात्मनि किं भवेत् ॥ १५२ ।। अशुद्धेऽपि च भूतौधे केन शुद्धिः प्रतायताम् । अनवस्था भवेदित्थं व्यर्थान्योन्याश्रितिस्तथा ॥ १५३॥ अशुद्धस्य तिरोधाने शुद्धं नाम प्रलीयते । प्रतियोगिकृतं तद्धि न स्वभावेन नीलवत् ॥१५४ ॥ अत एव न कश्चिदाग्रहो विषयाणां ग्रहणेऽप्यपोहने । परभैरवसंविदात्मनः स्वयमेवोच्छलिता हि भोक्तृता ॥१५५ ॥ सर्वमत्र विहितं यतोऽमुना वर्त्मना सकलमेव युज्यते । , चर्वाचैरिति पाठः। २मिधेति पाठः।

अभिनवगुप्तविरचितम् मार्गमेवमपहस्त्य किंचन कापि नैव ननु याति युक्तताम् ।। १५६ ॥ तथाहि दीक्षा नामेयं या मलानां निकर्तनी। सा भेदवादिनां पक्षे कथं नामोपपद्यते ॥१५७ ॥ तथाहि यो मलो नाम स कथं चित्स्वभावकम् । आत्मानमावृणीते क विभोरावरणक्रिया ॥ १५८ ॥ न च प्रकाशस्तमसा जातु संवियते यतः। प्रकाशोदय एवायं ध्वान्तध्वंसक्रियात्मकः ॥ १५६ ॥ किं चावरणमुक्तं हि रश्म्यादेर्गतिधर्मिणः । प्रतीघातात्मकं तत्कि विभोरगतिधर्मिणः॥१६० ॥ अपि वा ज्ञेयतामात्रतिरोधैव [धानं] हि संवृतः। पटादिना घटादेः स्यान्न स्वरूपान्यथास्थितिः॥१६१ न चात्मानश्चिदात्मत्वाज्ज्ञेयत्वमधिशेरते । तदावरणमेषां तु शब्देष्वपि न शोभते ॥ १६२ ॥ नन्वीश्वरस्य ते ज्ञेया अणवः कथमीदृशम् । चिदात्मकं हि न ज्ञेयं चिदात्मत्वतिरोहितेः ॥१६३ ॥ संविज्ञेयेति शब्दोऽयं वन्ध्या मे जननीत्यदः । वाक्यं सरयतीव स्वं स्वात्मसब्रह्मचारि यत् ॥ १६४॥ किंचेश्वरस्य सार्वज्यं तावता प्रतिहन्यते । आवृतान्वेत्ति नाणून्यन्न त्वेषां काचन क्षतिः ॥ १६५ ॥ नन्वनावरणे नीले ज्ञातुरावरणे सति । न दर्शनं तथा बाँधा न सर्वज्ञो मलावृतः ॥ १६६ ॥ मैवं तत्र हि ग्रश्मीन्गच्छतः प्रतिहन्ति तत् । पटॉदि न तु विज्ञातुरस्त्यावरणसंभवः ॥ १६७ ॥ १ एतेषामिति पाठः । २ विज्ञेयेति पाठः । ३ तथावाणुरिति पाठः। ४ पटादिवन्नेति पाठः।

१२० मालिनीवातिकम् मलचाव्यापको व्याप्तुरावारक इति स्फुटम् । घटेऽपि व्योम्नि संदध्यादशून्यत्वं स्वरूपतः॥१६८ ।। आत्मनवाधिकार्यत्वान्मलः किंचित्करो न चेत् । कथमावरणायैष शक्तो ननु च भोः किमु ॥ १६६ ॥ मलसद्भावमानं हि तस्यावरणमुच्यते । मलेन सद्वितीयोऽणुरावृतः परिभाष्यते ॥ १७० ।। हन्तानेन नयेनैष शिवमुक्तात्मनामपि । स्थितमावरणं सत्यं मलसद्भावमात्रतः ।। १७१।। किंचावृतो मलेनात्मा मलमेव न वेत्ति किम् । तदसंवेदने तस्य किं मलान्तरमुच्यते ॥ १७२ ।। नन्वतः किं मलं वेत्तुं तर्हि विद्याकले विना । सर्वज्ञत्वं भवेत्तच्च मलं विदितमेव सत् ॥ १७३ ॥ जहात्वात्माभ्युपायैस्तैस्तैर्विचित्रैः प्रकल्पितैः। किंचावरणमेतेन यस्यात्मनि भवेत्ततः ॥ १७४ ।। घटादौ ज्ञातृकर्तृत्वे कथमस्य भविष्यतः। ननु विद्याकले किंचिज्ञत्वकर्तृत्वदे स्मृते ॥ १७५ ।। इत्थं विमूढमतयो वञ्च्यन्ते न तु पण्डिताः। जडस्वभावा मायैषा तत्सतिश्च कलादिकः॥१७६ ।। अचिदात्मा कथंकारं चिदभिव्यञ्जनक्षमः। अभिव्यक्ता च चिद्विभ्वी किंचित्वादिविशेषणैः ॥१७७॥ विशेष्यतां कथं नाम सांशवस्तूचितं हि तत् । ननु देवः कलाविद्याकरणो व्यञ्जयेचितम् ॥ १७८ ॥ व्यनक्तु सर्वतो हन्त नास्याशक्तिरथाग्रहः । १ एवेति पाठः। २ वेत्तुमिति पाठः।

अभिनवगुप्तविरचितम् मले सदातने चास्य कथं मुक्तिभविष्यति ॥ १७६ ॥ रौद्री रोद्री] शक्तिर्मलस्यास्ति सा च कापि निवर्तते । कापि प्रवर्तते चेति धिगिदं मृढभाषितम् ।। १८० ।। जडानां कोऽनुमंधिः स्यात्तं विनतत्कथं भवेत् । अथ तत्रापि देवस्य हेतुताभ्युपगम्यते ॥ १८१॥ कि निमित्तमसो देवस्तां शक्ति संप्रवनयेत् । प्रवर्तितां वा किं नाम तां निवर्तयते पुनः ॥ १८२ ॥ स्वातन्त्र्यादिति चेत्पूर्ण तदेवाश्रीयते न किम् । मलस्य ध्वान्तरूपस्य न च पाकोऽस्ति कश्चन ।। १८३॥ स ह्यन्यतादानयोगाद्धन्त्यमुष्य ध्रुवात्मताम् । एनेन मलसंवन्धादीश्वरेच्छाप्रचोदितः ॥ १८४ ॥ भोगलोभकथाविष्टः पशुः सृष्ट्यानुगृह्यते । इति यद्भण्यते मूलहतं तजनितं ततः ॥ १८५॥ स्वात्मपच्छादनक्रीडामात्रमेव मलं विदुः । स्वतन्त्रो हि विभुः किंचित्किं न स्वात्मनि भासयेत् ॥१८६॥ यच्च कर्मापि नामेष्टं तत्तावत्प्रविचार्यताम् । तथाहि कर्मसंवन्धे स्थितेऽपि कथमीदृशः ॥ १८७ ॥ महाप्रलय उच्येत महासृष्टिश्च वा कथम् । नन्वीश्वरेच्छया तत्र कर्मायाति निरुद्धताम् ।। १८८ ॥ कौंदासीन्ययोगेन कर्मान्तरमपेक्षताम् । ईश्वरोऽथ नवा पूर्वपक्षे संभव एव च ॥ १८६॥ नसंभवे स कुत्रांशे चैश्वर्यमधिगच्छतु । कर्मतः सर्वमेवेदं स्यात्सृष्टिप्रलयादिकम् ॥ १६० ।। अथ कर्मानपेक्षो वा कर्मणां रोधनं ततः ।

मालिनीवातिकम्
सदा निरुद्धान्येवेशः कर्माणि कुरुतां विभुः॥ १६१ }
ननु तेषां स्वभावोऽयं यद्भोगप्रसवात्मता ।
कथं स्वभाव एष म्याद्यः परोपाधितां गतः॥ ११२॥
अनपेक्षो हि भावानां स्वभावः कर्मणां ततः ।
ईशेषणानपेक्षाणां यद्रूपं तत्स्वकं वपुः ॥ १६३ ॥
किं च प्रलयलीनानि कर्माणि स्थितिभाज्यपि ।
कि प्रबोधयते देवः किं नु [स]ष्टैर्हि तैः कृतम् ॥१६४॥
मलपाकाय चेत्सोऽपि सुदूरमपसास्तिः ।
किं चात्मा विभुरेवैष स किं नाम करोति हि ॥ १६५ ॥
इति पूर्व विचारश्च विस्तरेण प्रपञ्चितः।
मृदण्डचक्रसूत्रेषु धीमान्कर्तेश्वरः स्थितः ॥ १६६ ॥
कुम्भकारस्य कर्तृत्वं कुत्रांशे न्ववतिष्ठताम् ।
अकृष्टपच्यबीजेषु प्ररोहप्रसवादिके ।। १६७ ॥
पूर्व करोतु हेतुत्वं न सस्पेष्विति को नयः ।
इदं दुष्कृतमेतच्च सुकृतं फलभेदतः ॥ १६८॥
इति यत्प्रविभक्कं किं तत्रास्येच्छैव जृम्भते ।
खतन्त्रो यद्यसौ कस्मात्परपीडाकरी निजाम् ॥ १६६ ।।
इच्छां गृह्णाति यो नित्यं करुणारसनिर्भरः।
ननु स्वभावात्तत्तादृक्कातः फलदायकम् ।।२०० ॥
प्रायश्चित्तादिकरणाच्छाम्येच्चेति विचारयन् ।
देवस्तथैव तनुते शास्त्रं चित्रोपदेशकम् ॥ २०१॥
शैवं खभाव एतादृकर्मणामिति को नयः।
बीजमङ्कुरसंसूतिखभावमिति मादृशः ॥२०२॥
पूर्ववृद्धव्यवहृतेर्विज्ञातुं प्रभविष्णवः ।
ईश्वरस्तु निजेच्छातो विना न हि कदाचन ॥२०३॥

अभिनवगुप्तविरचितम् अवलोकितवान्कर्मफलवैचित्र्यचातुरीम् । तस्माद्देवः सर्वकर्ता यदि स्या- कारः स्युर्मात्मवर्गाः कथंचित् । नोकारस्तेऽपि चेत्कर्मवन्ध्या- नुदिश्यनान्सर्वकर्ता न देवः । २०४ ।। इत्थं च भेददृष्ट्येदं कर्म नाम न मु[युक्तिमत् एतावानत्र संघोपो व्यासोऽन्यत्र तु दर्शितः ॥ २०५।। संवेदनात्मको देव एकस्तस्मात्स्वतः खलु । सर्वकर्ता स वैचित्र्यात्कर्मयोगीति भएयवे ।। २०६ ॥ माया च नाम विश्वस्य या कारणमिति स्थिता। सा धरण्यन्ततत्त्वांशगर्मा नित्या यदि स्फुटम् ।। २०७॥ अलयो न कदाचित्यान्ननु स व्यक्तिभावतः। व्यक्किं नाम न जानीमो विज्ञानं ग्राह्यता यतः।।२०८।। तदीश्वरपरज्ञानग्राह्यतास्ति सदावनी । तस्यामविद्यमानायामीश्वरः कारणं कुतः ।।२०६।। स्फुटं प्रकुरुते कुम्भं तद्वदीशे भविष्यति। मैवमन्तबहीरूपकरणप्रविभेदतः ॥ २१० ॥ स्फुटास्फुटादिविज्ञानं युक्तं कुम्भकृति स्फुटम् । ईश्वरस्य स्फुटोदारपूर्वविज्ञानशालिनः ॥२११ ।। को न ज्ञातो भवेद्भागो यत्रापि व्यक्यपेक्षिता। सत्कार्यवादिना देशे कारणेऽपि स्फुट स्थितम् ।। २१२ ।। विश्वमित्यपि मायायां स्फुटं स्वादसमञ्जसम् । व्यापकाश्च शिवात्मानस्तत्वैः साकं परस्परम् ॥ २१३ ।। कथं च नाम विद्यन्तां व्यापकत्वतिरोहितेः। १ व्यक्त्यभावेति पाठः।

५२४ मालिनीवार्तिकम् विकासः परमो व्याप्तिः संविदो भेद उच्यते ॥ २१४ ॥ मायीयं कञ्चकनातं तथा करणसंचयः । विचारितः पूर्वमेव कार्यवर्गश्च चर्चितः॥ २१५ ॥ यावच्छिवपदाध्यासवन्ध्यं विश्वं न विस्फुरेत् । तत्स्वातन्त्र्यकथामात्रमेतदित्यवधार्यताम् ॥ २१६ ॥ एवं मलायभावे हि का दीक्षा को हि दीक्षकः । दीक्षापात्रं च को वा स्यादिति किंचिन युज्यते॥२१७ ।। शिष्येऽध्वन्यनले कुम्भे मण्डले झुक्करादिके । समस्तावकृतो न्यासः कथं वाप्युपपद्यताम् ॥ २१८ ॥ नहि तावन्त एव स्युर्ननु संकल्पनावशात् । शोध्यशोधकभावोऽयं सर्व एवोदितो ननु ॥ २१६ ॥ कल्पितं चेत्फलेत्सत्यं मनोराज्यार्जितश्रियः । जयन्ति नाकसाम्राज्यलाभविश्रान्तियोगतः ॥ २२० । किं नाम वलवद्रूपसंकल्पपथवर्तिनः । फलन्ति न तथा भावा ध्यानादिविषनाशवत् ॥ २२१ ॥ संकल्पदायमित्येव ध्यानं संशयरूषितम् । ध्यानं च न फलेदेव स्वयं पक्षद्वयाग्रहात् ॥ २२२ ॥ हन्त संकल्पनायोगाद्यदि जायेत तत्फलम् । किमसंविन्मयान्भावान्बाह्यान्कांश्चिदभीप्ससि ॥ २२३ ॥ संकल्पेनैव संस्कारः कुण्डाग्निगुरुशिष्यगः । स एव च फलाभासी तत्संविदवशिष्यते ॥ २२४ ॥ संविदश्च स्वतन्त्रायास्तथारूपावभासनम् । दीक्षेति किल मन्तव्यं मुच्यन्ते जन्तवो यया ॥ २२५ ॥ अत एव तिलाज्यादेः स्वरूपे ग्रहणे मितौ । क्रमो वा नियमो नेह कश्चिच्छास्त्रे निरूपितः ॥ २२६ ।।

१२५ अभिनवगुप्ताविरचितम् ननु मन्त्रेषु किं नाम नियमः सर्ववर्णभाक् । रूपं परं हि कथितं दीक्षापि न तथा कथम् ॥ २२७ ॥ एवमेवाणंदाहस्य यद्भावान्संमतं हितम् ? । किं तु तावति ये रूढिं न प्राप्तास्तान्प्रति ध्रुवम् ॥२२८॥ मान्त्रोऽयं नियमः प्रोक्त उपयोगं च गच्छति । प्रतिवुद्धा हि ते मन्त्रा विमर्शपथवर्तिनः ॥ २२६ ॥ स्वतन्त्रस्यैव चिद्धाम्नः स्वातन्त्र्यात्कर्तृतामयाः । मया [न्त्रा] विशन्त्येवाचार्य तं तादात्म्यनियोगतः ॥२३॥ खतन्त्रीकुर्वते यान्ति करणान्यपि कर्तृताम् । इत्थं दीक्षादिविधये येऽप्यन्ये विधयो मताः ॥ २३१ ।। किं नाम कुर्वतां कृत्यं निषेधं खपि वा कथम् । तेऽप्यत्रैवोपपद्यन्ते तत्सर्व विहितं विह ॥ २३२ ॥ सर्व चैतदमुत्रैव प्रतिषिद्धं यतः स्फुटम् । प्रतिषेधे दर्शितेऽस्य किं चाद्वैतपथाश्रितः ।। २३३ ॥ प्रतिषेधोऽपि विहितः सोऽपि च प्रतिपिध्यते । इत्यं स्वसंविदम्भोधिः स्वात्मनि प्रोच्छलत्ययम् ॥२३४॥ इत्थं च विश्वमेवेदं जगदानन्दसुन्दरम् । तद्विपदं च भेदांशमित्थं क्षपयतेतराम् ॥२३५ ॥ परमेशमुखोद्भूतज्ञानचन्द्रस्य सर्वतः । तावता स्वप्रभाभारभाखराः सुमरीचयः ॥२३६ ॥ शिवचन्द्रांशुसंघातपातमात्रविलापितः । समस्तभावशीतांशु(नांश)कालकूटो रसायते ॥ २३७ ॥ तत्रानिशं निमजन्तस्तद्रसापानघूर्णिताः। तद्रसीभूय तिष्ठामः शुद्धास्तापत्रयोज्झिताः ॥ २३८ ।।

१२६
मालिनीवार्तिकम्
परमेशमुखं तु शक्तिरुक्ता
भवतीच्छा ननु सोद्भवं गता ।
प्रतिपद्यत ईश्वरादिभिन्न-
स्थितिविज्ञानशशाङ्कशक्तिवृत्तम् ।। २३६ ॥
शशिनः किल तस्य सर्वतो यः
परिपूर्णः प्रस्तो मरीचिपुञ्जः।
इयमेव हि सा क्रियात्मिकोक्ता
परमेशस्य जगन्मयी स्वशक्तिः ॥२४०॥
तदिदं त्रिकशक्तिनिर्भरं
परमं भैरवमेव जृम्भते ।
नतु तद्यतिरेकि संभवेत्
स्वविजृम्भा विजयोऽस्य कीर्तितः ॥ २४१ ॥
तत एव जगज्जयन्त्यमी
स्फुटमर्थः प्रकटोऽपि युज्यते नः ।
बहुवाचकयोग ईदृशं तत्
परिपूर्णत्वममुष्य वाक्यभेदम् ॥ २४२ ॥
इत्येक एव श्लोकोऽयं चिदात्मा भैरवः स्वयम् ।
समस्तभावसंदर्भनिर्भरो व्याकृतः स्फुटम् ॥ २४३ ।।
संसारगरनाशाय दाया(ताा)धिष्ठितदृष्टयः ।
विश्व[ष]मेवोपयुञ्जानाः प्राप्नुवन्त्यामृती स्थितिम् ॥२४४॥
इति दर्शितमेतावत्स्वप्रकाशस्वसंविदा ।
सिद्धं तद्यतिरेकेण न किंचिदेव कल्पते ॥ २४५॥
यावत्स्वसंविद्विश्रान्तं यत्तावत्तत्सदेव हि ।
कालान्तरव्यपेक्षे हि सत्यवं स्यान्न कुत्रचित् ॥ २४६ ॥

अभिनवगुप्तविरचितम् संविदः कालयोगश्च विस्तरेण निवारितः । तत्स्वसंविद्यथा देशं वितरेद्वर्तते तथा ॥२४७ ॥ तथा संविद्यक्षमये य्यां] निकषाश्मनि रोपितम् । न यत्तत्संशयायैव शास्त्रेऽप्युक्तमवस्तु तत् ॥ २४८ ॥ स्वसंविदनुपारोहि प्रलापान विशिष्यते । तच्छास्त्रं प्रक्रिया सा च यत्संविदि विवर्तते ॥ २४६ ॥ हृदयाजगतो जाताः सर्वस्यैते क्षयोदयाः। स्वप्नस्येव सुषुप्ताख्यात्स्वसंविच्छास्त्रचर्चिताः ॥२५० ॥ रूपालोकमनस्कारसामग्री संहतिः स्थितिः । सृष्टिनिमेषोन्मेषौ च सतां संकोचकल्पनम् ।। २५१ ॥ इत्यादिका मातृमेयमानरूपा स्थितिः सदा। स्वसंविदः सुपूर्णायाः प्रपञ्चरचना स्वयम् ॥ २५२ ॥ सर्वसर्वात्मदिग्देशकालाकारा स्वयं हि सा। सत्यमिथ्यात्वनिर्णीतिस्तत एव हि जायते ॥ २५३ ॥ आचार्योत्पलदेवोऽपि तदेतदुपदिष्टवान् । बहिः सदसदात्मापि स्वसंविदि मदीयदृक् ॥ २५४ ॥ पश्यत्विति स्वतन्त्रस्य नियतिः सेन्द्रियाभिधा । सैव रूढा शिवादा च क्रिमः स्वां संविदं श्रिता ॥ २५५ ।। तदेव देवे संसारः स शिवः परमेश्वरः । तत्र विश्रान्तिमापन्नो मुक्त इत्यभिधीयते ॥ २५६ ॥ एतत्प्रसादाजीवन्ति ब्रह्माद्याः स्थावरान्तकाः । अविलुप्ता सदा सेयं संवित्तिरिति गृह्यताम् ॥ २५७ ।। विभान्त्यपि हि सा देवी न तया रहितं कचित् । १ सर्व सर्वेति पाठः।

१२८ मालिनीवार्तिकम् आत्मानं साधयेत्कापि कापि दूपयते कचित् ॥ २५८ ॥ अन्यथैव स्थापयते न च याति विकारिताम् । साधनादूषणान्यत्ववन्ध्यापि परमेश्वरी ।। २५६ ।। भासते च तथालेन तत्स्वतन्त्रा स्फुटा हि सा । श्रीमान्महेश्वरो देवः पूर्वेपामपि यो गुरुः ॥२६० ॥ स एतदेव प्रोवाच लोकानुग्रहहेतुतः । मूढाः किं निःसारे वायसविरटितकल्पे तिष्ठथ वचसि वृथैवं स्वां संविदमावय॑ । संविद्देवतयैव यदादिष्टं निकटेऽप्यथ सर्व आद्रियमाणास्तत्तद्देशे जीवन्मुक्ता भवन्ति ॥२६१॥ तदत्र नीतो संवित्तिरेवासो गुरुरुच्यते । गिरत्येव यतो विश्वं सृष्टिसंहतियोगतः ॥ २६२ ॥ तदत्र मुख्या या रूढिः संवन्धः पर उच्यते । एनया यद्यदादिष्टं ज्ञानं सांसिद्धिकं तु तत् ॥२६३ ॥ यत्रासद्गुरुवर्गस्य स्थिता नित्यव्यवस्थितिः । त्रयम्बकादिसंतानभेदो यसात्प्रवर्तते ॥ २६४ ॥ यत्रोक्तं पूर्वमज्ञानतादात्म्यं नश्यतीत्यपि । स्वसंविदस्तु वैचित्र्यं गृह्णत्या भात्ययं ततः ॥ २६५ अन्तरालमहदिव्यादिव्यादिः शास्त्रसंगमः। तत्ववन्निजबार्गशून्गुरोरात्मविनिर्मितान् ।। २६६ ॥(2) .... प्राधान्यं प्रकटं स्वसंविदः। गुरुतः किल शास्त्रतः स्वतः नायानीति पारः।३ यदनादिष्टमिति पाठः।

अभिनवगुप्तावरचितम् तदयं मुख्यतया कृतः श्रमः ॥ २६७ ॥ शास्त्रवृत्तिपरतन्त्रितो गुरुः स्वात्मसंविदि च तत्प्रतिष्ठितम् ! तेन सर्वमिदमात्मसंविदा सिद्धिमेति नहि जाखसह्यताम् ।। २६८ ॥ एतच्छास्त्रं प्रयत्नेन चर्च्यतां हे मुमुक्षवः । मा वृथैवायुरायस्तमन्यशास्त्रेषु नीयताम् ।। २६६ ॥ अभेददृष्टिा काचिद्भेददृष्टिरथापि वा । सात्रैवायाति निर्वाहं तेनैतत्प्रविचार्यताम् ॥ २७० ।। स्वप्नकालपरिज्ञातवी 'यथा तथा। एतच्छास्त्रसमभ्यासप्रबुद्धहृदयः सदा ।। २७१ ॥ स्वसंविदेव तच्छास्त्रं सा चापेक्षाविवर्जिता। तथा यद्यभिधीयेत स्वतः प्रामाण्यमुच्यताम् ॥ २७२ ।। शासनं शासितव्यं च शासकं चेति यत्किल । तत्तत्राकालकलितं स्वातन्त्र्याद्वैतसुन्दरम् ।। २७३ ।। तामवस्थितिमात्मीयां गर्मीकृत्यानपायिनीम् । श्रीकण्ठनाथः प्रोवाच श्रीमत्किरणशासने ।। २७४ ।। सर्वमेतत्प्रवृत्त्यर्थ श्रोतृणां तु विभेदतः । अर्थभेदात्तु भेदोऽयमुपचारात्प्रकल्प्यते ॥ २७५ ।। फलभेदो न कल्प्योत्र कल्प्यश्चेदयथायथम् । दशकाष्टादशाष्टाष्टभेदभिन्नमिदं विभोः ॥ २७६ ॥ शिवसद्भावलामैकफलं तल्लाभप्रोत्सुके । अधिकारिण्यणौ जातिकुलवर्णाद्यनादरात् ।। २७७ ।। एयोरिति पाठः।

१३२ मालिनीवार्तिकम् अन्यसंस्कारमूर्बोचं गृहीत्वाप्यनुतिष्ठति ॥ ३०१ ॥ वैष्णवाद्येव तद्यस्य प्रत्यवायो महत्तरः । नन्वद्वयपदेऽमुष्मिन्केयं मुख्या प्रकल्पना ॥ ३०२ ॥ किं ब्रूषे स्वयमेव त्वं भेदोपहतवृत्तिकः । एतदेव परं द्वैतं भवानेव हि संश्रितः ॥ ३०३ ॥ यदहं वैष्णवो भूष्णुः शैवे किं नाधिकारवान् । तत्स्वयं भेदमूढस्वं भेदे च नियतेर्बलात् ॥ ३०४ ॥ ततस्तैः प्रत्यवायः स्याद्योग इत्युपपादितम् । किं च तादात्म्ययोगेन देवता पूज्यते ततः ॥ ३०५ ॥ विष्णुतादात्म्यमापन्नः कथं रुद्रं प्रपूजयेत् । गीतासु च ततो गीतं यो यच्छद्धः स एव सः॥३०६ ॥ तादात्म्यभावना योगाः फलं मत्राः स्व" दद्युस्तद्भावितात्मातः फलकामस्य सिद्धिदः॥३०७ ।। मोक्षकामस्य तच्छास्त्रमोक्षलिप्सोरपि स्फुटम् । तद्दोषभावनाकान्तः क्षमस्तावति योजने ॥३०८ ॥ मुख्यस्तावदयं कल्पो यो यत्रैव प्रतिष्ठितः । नित्य तादात्म्यमापन्नः स तत्राधिकृतस्विति ॥ ३०६॥ अत एव ततो ग्राह्यं ज्ञानमित्यभिधीयते । स हि तादात्म्यमापनस्तद्भावनविधिकमात् ॥ ३१० ॥ शिष्यस्तंदैव शास्त्रं तु गृह्णन्पूर्वापरक्रमात् । कथं स्वबुद्ध्या संधत्तां तावद्यत्तेन संहितम् ॥ ३११ ।। यस्तु संधातुमीहेत स साक्षात्परमेश्वरः । तस्य किं वा गुरुः कुर्यात्सोऽन्येषां गुरुरुच्यते ॥ ३१२ ॥ १ अनुसंस्करमिति पाठः। २ तत्रैवेति पाठः।

अभिनवगुप्तविरचितम् नान्यतो वेदविण्यश्चेत्यत एव हि मन्वते । तस्मात्तादात्म्यमापन्नो गुरुरित्यभिधीयते ॥ ३१३ ।। स च यावति यत्रैव तत्र तावति नान्यथा । ननु वैष्णवशास्त्रार्थस्तत्कालं शिवभावनात् ।। ३१४ ।। तादात्म्यं गुरुतां हन्त पूर्णधीः प्रलपत्ययम् । रामरावणनाव्येषु नह्येता नटभूमिकाः ॥ ३१५ ॥ नेपथ्यादिपरावृत्त्या येनान्यवं प्रपद्यते । वैष्णवो विष्णुरेवाहं तदासो वेति चर्चयन् ।। ३१६ ॥ इदानीं न तथास्मीति किमेतत्सुसमञ्जसम् । अत्र ह्येकतमा संविन्मिथ्याज्ञानसमश्नुते ॥३१७॥ ययों स एव पतितः शिष्यो वा पतितो भवेत् । तस्मान्मुख्यो ह्ययं कल्पः प्रतिशास्त्रं गुरुर्गुरुः ॥ ३१८॥ उक्तं स्वतत्रशास्त्रेषु नासौ सिद्धिफलप्रदः । अन्यशास्त्ररतो यः स्यात्तच्छास्त्रनिरतोऽपि वा ।। ३१६ ॥ लोकेऽपि यावदीदृतः प्रवादोज्योतिरादिके । विष्णोर्भागवता मगाश्च सवितुः शांभोर्जटाभसिनो मातॄणामथ मातृमण्डलविदो विप्रास्वथ ब्रह्मणः । शाक्याः सत्त्वहितस्य बुद्धवपुषो नग्नास्तथैवाहतो यो यैर्देव उपास्यते स्वविधिना तैस्तस्य कार्या क्रिया। अत एवाधिकज्ञानशाली संनिहितो यदि । देशे तत्र भवेन्नाना नाधिकारस्य भाजनम् ।। ३२१ ॥ यस्वस्मिन्पूर्णसंबोधे रूढी वास्तवशासने । १ तत्रैवेति पाठः । २ त्यलमिति पाठः। ३ प्रवर्तते इति पाठः । ४. यथेति पाठः । ६ रूटेरिति पाठः।.

मालिनीवार्तिकम् उत्तरोत्तररूढ्यर्थ शिशोः करणमानसम् ॥(?) ३२२ ॥ फलसंपत्तये वापि भावांशवशशालिनः । अनुग्रहं स वै कुर्यात्पूर्णखावृत्तितः ॥ ३२३ ॥ नन्वद्वये किमचं स्थान किंचिद्भेदमोहिताः । भवन्तस्वधरावस्था भेद एवाधरो यतः ॥ ३२४ ॥ तस्माये केचनान्ये स्युः पशुशासनवर्तिनः । वैष्णवाः सौगताः श्रौतास्तथा श्रुत्यन्तवादिनः ॥३२५ ॥ इत्यादयो नाधिकृता जातुचित्पतिशासने । उक्तवान्यत्र शास्त्रेष्वप्यधिकारिविवेचने ॥ ३२६ ॥ यो वैष्णवो मनुं दद्याच्छैवं मूढमतिः शिशोः । तं पापं वञ्चकं मखा शिशुयाय्यं समाचरेत् ॥ ३२७ ॥ इहाप्युक्तं मोक्षदः स्यात्स्वभ्यस्तज्ञानवानिति । अभ्यस्तं च परं ज्ञानं यतो नास्त्येव विच्युतिः ॥ ३२८ ॥ परमाद्वयविज्ञानान खल्वप्यस्ति विच्युतिः । स्वात्मपक्षस्थिताशेषज्ञाननिर्भरवृत्तिकः ॥ ३२६ ॥ कथं को वा कुतो वापि च्यवतां तिष्ठतु क वा। इत्थं य एष शास्त्रार्थः स्थितः शक्तिप्रभावतः ॥३३०॥ अन्तःकृताशेषतत्त्ववर्णादिपरनिर्भरः । सर्वाभिधो भैरवात्मा सोऽयमेव स्वरूपभाक् ॥ ३३१ ॥ शास्त्रेऽसिन्परमेशेन ज्ञानचन्द्राख्यया कृतः ॥ तद्याख्यातमिदं प्रसन्नगहनं वाक्यं मया स्वागम- प्रामाण्यप्रतिपादनक्रमवशात्तत्तत्प्रसङ्गादपि । अत्रारूढधियां प्रमाणमहिमा विश्वाद्वयोद्दामितो भातीति स्वयमेव सत्यहृदया ज्ञास्यन्ति किं श्लापितः।।

अभिनवगुप्तविरचितम्
ये सम्यक्प्रविचारिणो ननु शिवाः कस्तान्प्रति प्रोद्यमः
किं तैर्ये प्रविमर्शदूरशिखरारोहक्रमे पङ्गवः ।
पाषाणायितवृत्तयः पुनरमी ये शास्त्रवन्ध्या नराः
संरम्भः प्रलयाम्बुधेरिव ततः स्वात्मन्ययं घूर्णते॥
संशाम्य स्वयमात्मनि त्यज जवाञ्चालाजटाडम्बरान्
भोः कल्पानल दाह्यमस्ति भवतो नाद्यापि किञ्चिद्यतः।
खत्रोल्लासबिघूर्णनाघनघुरोरस्फुलिङ्गाशते-
विश्वं व्याप्य विलीनतांगतमिदं द्राक्त्वत्प्रकाशात्मकम् ॥
अवरपुरनामधेये पुरे पूर्वे काश्मीरिकोऽभिनवगुप्तः ।
मालिन्यादिमवाक्ये वार्तिकमेतद्रचयति स्म ।। ३३५ ।।
इति श्रीमन्महामाहेश्वराचार्यवाभिनवगुप्तपादविरचिते
श्रीमालिनीविजयोत्तरश्लोकवार्तिक
द्वितीयः काण्डः ॥
शुभाय बोभवीतु ॥
श्रीमत्प्रतापभूभर्तुराज्ञया प्रीतये सताम् ।
मधुसूदनकौलेन संपायेदं प्रकाशितम् ॥

श्रयं प्रन्थः
'पंडित विश्वनाथ एंड सन्स
फोटांग्राफर्स प्रोप्राइटर्स इत्यादि'
इत्येतैः स्वकीये
'कश्मीर प्रताप स्टीम प्रेस श्रीनगर
इत्याख्याख्याते
मुद्रणायत्रे सम्मुद्रितः

No text on this page.

No text on this page.

No text on this page.

Sri Malinivijaya Varttikam

Author
Pandut_madhusudan_kaul_shastri
Other authors
Ccl
Title
Sri Malinivijaya Varttikam
File name
Sri Malinivijaya Varttikam
Text
OCR done
Citation
1921
Publisher
Sir_pratapsingh_sahib_bahadur
Language
Sanskrit
Pages
146
Library
Scl
DLI number
326942
Barcode
2020010008040.00
Scanning centre
City Central Library, Hyderabad
Digital publisher
PAR Informatics, Hyderabad
VMLT id
uDLF8ziledx
Download PDF

Sri Malinivijaya Varttikam