Scl
The Yatra Prabhanda
Front matter
No text on this page.
KAVYAMĀLĀ. 90.
THE
YĀTRĀ PRABANDHA
OF
SAMARAPUNGAVA DĪKSITA
EDITED BY
PANDITA KEDĀRANATHA
SON OF
MAHĀMAHOPADHYAYA PANDIT DURGAPRASĀDA
Second Edition.
PUBLISHED
BY
PĀNDURANG JAWAJI,
PROPRIETOR OF THE NIRNAYA SĀGAR' PRESS,
BOMBA Y.
1936.
Price 1 Rupee.
[All rights reserved by the publisher.]
Publisher: Pandurang Jawaji, Nirnaya Sagar Press,
Printer:-Ramchandra Yesu Shedge, S26-28, Kolbhat Street, Bombay.
काव्यमाला ९०. समरपुंगवदीक्षितविरचितो यात्राप्रबन्धः। जयपुरमहाराजाश्रितेन महामहोपाध्यायपण्डितश्रीदुर्गाप्रसाद- तनयेन पण्डितकेदारनाथेन च संशोधितः । द्वितीयावृत्तिः। सच मुम्बय्यां पाण्डुरङ्ग जावजी इत्येतैः खीये निर्णयसागराख्यमुद्रणालये मुद्रयित्वा प्रकाशितः । शकान्दाः १८५८, सनाब्दाः १९३६. मूल्यं १ रूप्यकः।
अस्य प्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा निर्णयसागरमुद्रायन्त्रालयाधिपते- "रेवाधिकारः ।)
समरपुंगवदीक्षितः, तदीयो यात्राप्रबन्धश्च । - अतिरात्रयज्वा वाधूलकुलजलधिकौस्तुभः कनकाठपाठबिरुदाङ्कः श्रीसमरपुंगवदीक्षितनामायं कविः षोडश्याः खिस्तशताब्द्या (१५७४ खिस्ताब्दात् परम् ) अन्ते दक्षिणदेशे बटवनाभिधाननाम्नि नगरे श्रीवेङ्कटेशादनन्तम्मायां जन्म लेभे इति तदीये यात्राप्रबन्धे लिखितया ग्रन्थनायकजननकालिकया ग्रहस्थित्या, द्वितीयाश्वासे 'सौभागिनेयः स तदा शोभायै श्रुतिसंपदाम् । असेवत शिवाकल्पकल्पमप्पय्यदीक्षि- तम् ॥' इत्यादिना कृतेन तदात्व एव वर्तमानस्य सुप्रसिद्धस्य विद्वद्वरे- ण्यस्य श्रीरङ्गराजाध्वरेस्तनूद्भवस्य चित्रमीमांसाधनेकनिबन्धरचयितुः श्रीमदप्पयदीक्षितस्य वर्णनेन च सुस्पष्टमभ्युपगम्यते । सा ग्रहस्थितियथा- 'अथाध्युषितकेसरिण्यहिमभासि मेष गते कलावति तुलाधरोदयमुपेयुषि खामिनि । खतुङ्गजुषि वाक्पतौ मकरभाजि मित्रात्मजे शुभैकजनने दिने सुतमसूत शातोदरी ॥ सिंहिकातनुभुवा सह योगः सांप्रतं मृगपतेरजनीति । स्पर्धमान इव पुत्रमुदारं प्रत्यपद्यत स पूरुषसिंहः ॥ इति । श्रीमदप्पयदीक्षितस्य समुद्भवसमयस्तु संस्कृतचन्द्रिकायाः षष्ठे खण्डे तदीयजीवनचरितोपन्यासेऽस्मप्रियसुहृत्प्रवरैः श्रीमद्भिविद्यावाचस्पतिभिः श्रीमदप्पाशास्त्रिभिर्बहुभिः प्रमाणैः श्रीमद्दीक्षितवंशोद्भवैः श्रीवैद्यनाथशा- त्रिभिः प्रेषितैस्तत्स्थितिसूचकश्लोकैश्च १५५४ खिम्ताव्दो निर्णीत ६ एव । उपरितना ग्रहस्थितिरप्पयदीक्षितजन्मनो विंशतेर्वर्षेभ्यः परमासी- दिति नातिरोहितं ग्रहस्थितिविदाम् । एतावता पर्यवसितं यत्किल कवि- रयं १५७४ खिस्ताब्दात्परं बभूवेति । कवरस्य अनन्ताम्मा श्रीवेङ्कटेशश्च पितरौ । द्राविडजातीय एवायं भवेदिति तदीयबिरुदावल्या तन्नाम्ना चानुमीयते । ग्रन्थोऽयं समरपुंगवदीक्षितेन खस्य ज्येष्ठभ्रातुस्तीर्थयात्रामधिकृत्य विरचित इति दक्षिणेषु तीर्थयात्राप्रबन्धनाम्नाप्यस्य प्रसिद्धिः । ग्रन्थस्यास्य पुस्तकमेकमध्यर्धसप्तमाश्वासपर्यन्तं खर्गवासिभिः श्री- काशीनाथपरबमहोदयैः प्रेषितम् । अध्यर्धस्वप्तमाश्वासात् समाप्तिपर्यन्तं मदपुरस्थराजकीयपुस्तकालयात् श्रीमतां रावबहादुरपदविभूषितानां श्रीरङ्गाचार्यमहोदयानामनुज्ञया श्रीवरदाचार्यमहोदयैः प्रेषितमिति तयोः कृतज्ञाः स्मः । शेमुषीदोषादक्षरयोजकदोषाद्वा यदत्र स्खलितं. स्यात्त- रक्षाम्यं श्रीमद्भिरिति शम् । केदारनाथशर्मा काव्यमालासंपादकः। Vom यात्राप्रबन्धस्य विषयक्रमः। प्रथम आश्वासे (पृ.१-१९ पृ.) मङ्गलाचरणादिकम् , वटवनाभिधानाया राजधान्या वर्णनम् , तत्रत्य धर्मशि- वयोगिनः खस्रा सह प्रन्थकर्तृजनकस्य श्रीवेङ्कटेशस्य परिणयः । तस्याः पुत्रप्रा- प्यर्थ शिवाराधनम् , विमुक्तिकासारस्नानम् , सूर्यस्तुतिः, कात्यायनीदर्शनम् , कात्यायनीस्तुतिः, द्विपास्यदर्शनम् , द्विपास्यस्तुतिः, नन्दिकेश्वरस्तुतिः, शिव. स्तुतिः, गौरीस्तुतिश्च । तत्प्रसादात् गर्भधारणं चेत्येते विषयाः । द्वितीय आश्वासे (पृ. २०-३२ पृ.) पुत्रोत्पत्तिः, पुत्रस्य विद्याभ्यासादिकम् , पाणिग्रहणम् , सोदर्याभ्यां समरपुं. वगसूर्यनारायणाभ्यां सह श्रीमदप्पयदीक्षितसविधे विद्याभ्यासश्चेत्येते विषयाः। तृतीय आश्वासे (पृ. ३२-५७ पृ.) वसन्तवर्णनम् , तीर्थयात्रार्थ प्रस्थानम् , प्रथमं काञ्चोपुरीगमनम् , काची पु- रीवर्णनम् , एकामेश्वरवर्णनम् , एकानेश्वरस्तुतिः, कामाक्षीस्तुतिः, विष्णुदर्श. नम् , विष्णुस्तुतिश्वेत्येते विषयाः । चतुर्थ आश्वासे (पृ.५७-७६ पृ.) सूर्योदयवर्णनम् , उद्यानवर्णनम् , सूर्यास्तमनवर्णनम् , चन्द्रोदयवर्णनम् , प्रसङ्गवशाडूतीप्रेषणम् , संभोगवर्णनम् , चेयेते विषयाः । पञ्चम आश्वासे (पृ.७६-९३ पृ.) कावेरीवर्णनम् , सेतुवर्णनम् , सेतुस्तुतिः, गन्धमादनपर्वतीयशिवस्तुतिः, पाण्ड्यदेशगमनम् , तत्र हालास्यपुरे. मीनाक्षीस्तुतिः, शिवस्तुतिः, ग्रन्थनायकस्य द्वितीय उद्वाहश्चेत्येते विषयाः।
८ षष्ठ आश्वासे (पृ. ९४-१२४ पृ.) ग्रीष्मवर्णनम्, गयातीर्थगमनोपक्रमः, मध्येमार्ग स्वामिकार्तिकस्तुतिः, माकन- पावलोकनम्, वेङ्कटेशदर्शनम्, कालहस्तिपतिशिवस्तुतिः अम्बिकास्तुतिः, श्रीपर्व- तगमनम्, अहोबलपतिदर्शनम्, पुनश्चण्डीस्तुतिश्चेत्येते विषयाः । सप्तम आश्वासे (पृ. १२४-१४४ पृ.) गोकर्णगमनम्, कतिपयनदीवर्णनम्, तदनुषक्तकतिपयपुर्यादिवर्णनम्, मधुरा- पुरीस्थमुकुन्दस्तुतिः, गङ्गास्तुतिश्चेत्येते विषयाः। अष्टम आश्वासे (पृ. १४४-१६३ पृ.) केदारेश्वरदर्शनम्, बदर्याश्रम विलोकनम्, कामरूपकामाक्षीस्तुतिः, कपिलाश्र- मदर्शनम्, नीलगिरिगमनम्, तत्र जगन्नाथस्तुतिः, ततो गयाक्षेत्रगमनम्, ततश्च विविधतीर्थावगाहनानन्तरं विन्ध्येश्वरीस्तुतिः, प्रयागे स्रोतखिनीत्रिकसमागम- स्तुतिः, साकेतगमनम्, तत्र रामभद्रस्तुतिश्चयेते विषयाः । नवम आश्वासे (पृ. १६३-१७६ पृ.) वाराणसीगमनम्, वाराणसीस्तुतिः, विश्वेशस्तुतिः, ईश्वरीस्तुतिः, ग्रन्थसमाप्ति- श्वेत्येते विषयाः।
काव्यमाला।
श्रीसमरपुंगवदीक्षितविरचितो
यात्राप्रबन्धः ।
प्रथम आश्वासः।
श्रियं स पुष्णातु वृषध्वजो मे जिगीषतो यस्य पुरानुपूर्वीम् ।
चक्रीभवद्भूधरचापसङ्गी बाणोऽपि चक्री भवति स जैत्रः ॥ १॥
पौलोम्यर्पितपादुका चरणयोः पाणिस्फुरद्वेत्रया
भारत्या पुरतो निवारितजना पद्माकरालम्बिनी।
प्रक्रान्तस्तुतिरदिराजतनया प्राचीनवाचां गणै-
रायान्ती पतिमन्दिरं निजगृहादन्तर्मम द्योतताम् ॥ २ ॥
वामस्तनवलदाननमन्यकुचादानतरलहस्ताग्रम् ।
आत्मजमवलोकयतोः शिवयोरेकः स्मिताङ्कुरो जयति ॥ ३ ॥
विरलीभवद्विलोकनतरलीकृतगोपभीरुचैतन्यम् ।
करलीलया मुखार्पितमुरलीवादनपरं महः सेवे ॥ ४ ॥
आनन्दायास्तु कालिन्दी पुरः स्तान्मे सरखती।
निडुतां जहुतनया रंहसा राशिमंहसाम् ॥ ५॥
काञ्चीमुखानि परमावधिकाशिकानि
पुण्यस्थलानि कतिचित्क्षितिभूषणानि ।
चारूणि योजयितुमंग्रजसत्कथायां
कुर्वे मतिं गुणतताविव मौक्तिकानि ॥६॥
२
काव्यमाला।
देशिकस्य कृपया हि देहिनामापतन्ति पुरुषार्थसंपदः ।
तत्कथारसनिमज्जनं विना मत्कृतेरनघता कथं भवेत् ॥ ७ ॥
कल्याणनिधिमाचार्यकटाक्ष किमिति स्तुमः ।
ईश्वराणां प्रसादोऽपि यस्यावसरमीक्षते ॥ ८॥
कालिदासकविमुख्यभारतीपारणाकृतिन एव पण्डिताः ।
भाषिते मम भजेयुरादरं खादुसेविन इवाम्लवस्तुनि ॥९॥
फाणिताञ्चितपयःसहोदरे गद्यपद्यमयकाव्यगुम्फने ।
चापलं किमपि मे रसज्ञया खानुरूपमनयानुभूयते ॥ १० ॥
पद्येषु बाहुल्यमिह प्रबन्धे मितानि गद्यानि तु तावतापि ।
अस्येव लक्ष्मानुगमो रसज्ञैर्विच्छित्तिभेदाः परमीक्षणीयाः ॥ ११ ॥
महाकविसरखती मधुरकाव्यनिर्वर्तने
प्रसन्नपदलिप्सया परमुखानि नापेक्षते ।
अलंकृतिविधौ मणेरधिगमाय किं गाहते
भुवं त्रिदशधाम वा भुजगराजसीमन्तिनी ।। १२ ॥
अस्ति समस्तविध्यण्डरञ्जनोच्चण्डताण्डवोदश्चितचरणकंजनखमयूख-
शशाङ्कोदयसंकोचितभद्रकालीमुखनालीकस्य भ्रमणाटोपपर्यस्त्रजटाजूट-
गमस्तिझाटघटनामेडिततडि पुञ्जपिञ्जरिम्णो डामरडमरुडात्कारप्रतिरवपू-
रितामरालयस्य भ्रमरालकानुरागसृमरापाङ्गभृङ्गाखादितवदनारविन्दसौन्द-
यमकरन्दस्य चिरंतननर्तकशिखामणेरानर्तकभूमिरभूमिरापदामनेकलो-
काशयविभक्तरागाभिनिवेशविलासिनीकुचपीठमर्दकपीठमर्दकविटविदू-
पकजनावटवनाभिधाना राजधानी ।
यस्यां वचःखादिमभिक्षुरिक्षुर्यानप्रशंसाकृत एव हंसाः ।
वन्दी मुखस्सन्दुरणूदरीणामिन्दीवरश्रीनयनांशुबन्दी ॥ १३ ॥
यात्राप्रबन्धः । ३ तत्र जयति विचित्रतरचरित्रातिशयसपत्राकृतात्रिमुखतपोधनानुभा- वःस्वभावविमलमनीषादर्शदर्शनीयषड्दर्शनीरहस्यः प्रशस्यतरप्रादेशन- यशोदेशिकान्तेवसदरविन्देशसुतमन्दारजलदचिन्तामणिः शैवागमजैवा- तृकोदयशैवालिनीपतिनैष्ठिकाचारप्रतिष्ठापनगरिष्ठापदानो मन्मथविजय- कर्मण्यपर इव पिनाकी धर्मशिवयोगी.। व्यत्यासं व्याससूनोर्विनिमयममराचार्यवर्यस्य वीप्सां पाराशर्यस्य मैत्रावरुणिगुणनिकां धर्मसूनोविभाषाम् । प्रत्यादेशं दधीचेः सनकपरिणति नामभेदं मृकण्डो- स्तण्डोः पर्यायमत्रेयमकमिह सुधीधुर्यमाहुर्यमार्याः ॥ १४ ॥ कलानिधेरस्य विघोरिव श्रीः कापि वसा काञ्चनपेशलाङ्गी । श्रीवेङ्कटेशव्यपदेशभाजो वरस्य जाया हृदयंगमासीत् ॥ १५॥ अस्याः किल रमणीमणेरपरगृहिणीसमाजदुरवापा गुणकलापास्तरु- णिमारम्भ एव जजृम्भिरे । तस्याश्चमणे विलम्बनमभूत्तन्व्या न दीनावने तारल्यं दृशि नेन्द्रियेषु तनुता मध्ये न नित्योत्सवे । वामत्वं ब्रुवि न प्रियानुसरणव्यापारलीलाविधौ काठिन्यं च कुचेन चेतसि कचे नाभाषणे वक्रिमा ॥१६॥ एनां भरद्वाजकुलैकभूषामनन्तमाख्यामधिगम्य योषाम् । वाधूलवंशप्रभवोऽनुरूपां सुधीमणिः सोऽयमवाप शोभाम् ॥१७॥ निरतिशयानुकूल्यनिष्ठागरिष्ठयोररुन्धतीवसिष्ठयोरिव परस्परानुभूति- सुभगभावबन्धमेदुरमनुपलम्भसरणिगोचरविप्रलम्भरसोदयमलघुविसम्भ- भरनिवारितरहस्यार्थनिगृहनमनिवेदितोपपादितहिताहितविधिप्रतिकार- मखिलगृहमेधिपरिषदननुकरणीयसांगत्यमनयोरजायतानुकूलदांपत्यम् ।
४
काव्यमाला।
नारीललाग्नश्चरितैरुदारैर्दूरीकृतवर्गसुखाभिलाषः ।
प्रज्ञाधिभूरेष पिनाकपाणेराज्ञा धिया कर्म समाचचार ॥१८॥
एष पुनरशेषधर्माचरणकर्मणि साचिव्यमाचरन्त्या नितान्तमसितेक्ष-
पया प्रतिक्षणमापादितमनःसभाजनः सदनवर्तनमेव सकलपुरुषार्थमव-
धारयन्कदापि न वाराणसीप्रभृतिसेवासु भावमाबबन्ध ।
सेयमविमुक्तरूपा श्रीपर्वतनिर्विशेषवक्षोजा ।
पुष्करमुखी न कस्यै बभूव कान्तस्य कामनासिद्धयै ॥ १९ ॥
तस्य च सुमेघसः प्रबोधतरङ्गिणीपतिकुरङ्गलाञ्छने वाञ्छितवरप्रदान-
संतानशाखिनि मन्दाकिनीतरङ्गमालतीदामशेखरे सागरमेखलाशताङ्ग-
संचारकारिणि वारिधरमेचकांशुवास्तव्यकन्धरे सिन्धुरधूर्वहाजिननियूं-
ढचेलकर्मणि सहधर्मिणीविवर्तभेदशरीराधमनोहरे वनेरुहमवादिशस्त-
चरितस्तोमशालिनि केलीविटावलेपनिर्वापणनिरीक्षणे सरीसृपाभरणधा-
रिणि वरीयसि महसि गरीयसी भक्तिरभूत् ।
वेधःशौरी मुकुटचरणौ वीक्षितुं यस्य नालं
प्राप्तो युद्धे यदुपकरणीभावमेष प्रपञ्चः ।
यस्मिन्विश्वाधिक इति पदं याति विश्रान्तिमुद्रां
कण्ठेकालः स खलु भुवने कस्य न स्यादुपास्यः ॥२०॥
मानं यस्य निवेदिताक्षिकमलो माहानुभाव्ये पुमा-
न्दातृत्वे वपुरर्धलाभसुखिता दाक्षायणी साक्षिणी ।
त्रातो दण्डधरान्मृकण्डतनुमष्टा दयागौरवे
सेव्यश्चन्द्रशिखामणिः स हि कृतश्रेयोभिलाषैर्जनैः ॥२१॥
संप्रदायसुगमं निगमानां तं प्रपद्य तरुणेन्दुकिरीटम् ।
देवतान्तरगिरापि दरिद्रां भावयन्स जगती प्रजहर्ष ॥ २२ ॥
यात्राप्रबन्धः। 'तस्य च सदनान्तरे हृदन्तरालविहरदीशानमुकुटभूषामणीकृतसोद- र्यप्रीतिपरवशेव सरसिजालया चिरमुवास । कुमारिकावलोकनकुतूहल- समागतः कलशतरङ्गिणीपतिरिव तदीयशृङ्गिणीनां परिणाहमेदुरेषु पर- मूधःप्रकरेषु विरेजे पयोतिरेकः । तस्य तपखिजनभागधेयस्य दयावि- घेयमतेरधिनिकेतनमत्यादरोपनीतमभिजातगुणकरम्बितव्यञ्जनपरम्परा- ञ्चितमतिबहुलहैयंगवीनधारानुषङ्गसुरमिलं करनखंपचस्पर्शकमनीयमाव- संभृतममृतरसातिशायिमाधुरी विशेषसंपन्नमनैषमस्त्यशाल्यमवनीमख- भुजो बुभुजिरे। भूसुरेषु गृहे तस्य भुञ्जानेषु न केवलम् । असंख्यानमभूत्तेषामवस्थानदिनेष्वपि ॥ २३ ॥ महीसुरातिथ्यमहोत्सवेषु समेधमाने श्रमगौरवेऽपि । प्रभातपद्मप्रतिमं प्रियाया मुखं स पश्यन्मुमुदे मनीषी ॥२४॥ ऋतुभिरिहान्नदानविभवैरपि कन्दलितै- स्नुदिवसोऽवक्लप्तविबुधावलितृप्तिविधेः । न खलु निकाममस्य हुतशेषमभूदमृतं विघसपदाभिधेयमपि भोजनशेषमहो ॥ २५॥ उपासनामुक्तिरकृत्रिमेव प्रसूय कांचित्प्रथमं कुमारीम् । पुत्रोदये प्रत्ययजन्मनीव कुटुम्बिनी तस्य विलम्बते म॥२६॥ अथ कदाचिदपरिणतमणिसमूहामिव रोहणमहीधस्तटीम्, अज- नितपटीरसालामिव मलयशैलमेखलाम्, अपरिफुल्लरूचिरपल्लवामिव सुरविपिनवल्लरीम्, अनङ्कुरितपतङ्गकिरणजालामिव प्रभातवेलाम्, अन- धिगतकनकारविन्दामिव मन्दाकिनीम्, अनासादितसुधांशुबिम्बाभिव जम्मारिककुभम् , अनवलप्तभाव्यनिर्वर्तनामिव यजनभावनाम् , अवि- ६ काव्यमाला। भातव्यङ्ग्यामिव काव्यभङ्गीम् , अघटितसुखप्रकाशामिव ब्रह्मविद्याम्, अनासादितसमीरसारथिमेव वितानवेदिम् , अनुपनततनयजननामसि- तनयनामवेक्ष्य हृदयसरणिधृतव्यथः परिणीरिदमभाणीत् । आह्वादावहमञ्जनं नयनयोरङ्गे सुधालेपनं धैर्य चेतसि खेदनामनि गदे तत्तादृशं भेषजम् । क्रीडापोतमिह प्रसूतिजलधौ गेहे प्रकाशोदयं पुण्यैरायतलोचने परिणतैः पुत्रं लभन्ते जनाः ॥ २७ ॥ उरोरुहादुद्गमितैः पयोभिरापूर्य केल्या निजमास्यगर्भम् । फूत्कृत्य मातुर्वदने हसन्तं तनूभवं पश्यति कोऽपि धन्यः ॥२८॥ सप्तद्वीपवसुंधराधिपतिना संक्रन्दनेनाथवा पाथोजातभवेन कैटभजिता पश्यन्निटालेन वा। पुंसा केनचिदन्तरेण भुवने पुत्राभिधानं धनं शक्या किं द्रविणान्तरैर्निरसितुं सा संपदि न्यूनता ॥ २९ ॥ किं बहुना। वाधूलवाचंयमशैलवर्यात्संभूय संतानलता प्रवृद्धा । नवाङ्कुरोद्भेदविलम्बिनीयं न सांप्रतं मे हृदयं धिनोति ॥ ३० ॥ श्रीसनाथमपि मे निकेतनं बालकेन रहितं न भासते । कंसशासनभुजान्तरं यथा कौस्तुमेन मणिना विनाकृतम् ॥३१ ।। रङ्गवल्लिरचनादि भवत्या प्रस्तुतं किमपि पाणितलेन । अन्यथा विरचयन्पृथुको मे हा कदा भवतु लोचनलेह्यः ॥ ३२ ॥ अथवा हरिणाक्षि चिन्तया कृतयैतहि कृतं दुरन्तया । विभुरेव विधास्यति प्रियं मदिराक्षीमयवामविग्रहः ॥ ३३ ॥ अद्यप्रभृति समाराध्यतां कुमारावतरणाय वटवनीनिकेतनो भगवा- न्वृतमकेतनः।
यात्राप्रबन्धः।
मृकण्डुनाम्ने मुनिपुंगवाय दीर्घायुषं दत्तवतस्तनूजम् ।
सपर्यया यस्य रमाकुटुम्बी साम्बेन लेभे सह शम्बरारिम् ॥३४॥
इति प्रियतमादेशमिन्दीवरविलोचना।
निशम्य परिजग्राह नियमाचरणक्रियाम् ॥ ३५ ॥
तथा हि । अहरहरियमवगाहनाय निर्गत्य निवासभवनादवनीवि-
लासमुकुरशेमुषीगोचरमरविन्दकरनिष्यन्दमानमकरन्दसलिलदानमन्दी-
कृतभसलपान्थकुलपरिश्रान्तिगौरवं सरसबिसभङ्गभोजनसभाजितविशद-
द्विजपरिषदनुवेलपरिशीलितं तरलतरपवनकीर्णतामरसपरागपालिकाने-
डितमज्जनागतनागरमत्तकाशिनीकुचकलशकुङ्कुमाङ्गरागमम्भोजसौधबि-
म्बोकलालसकलशजलधिकन्यकाजघनमेखलाकलापकलकलानुसारिसार-
सनिनादमेदुरम् , अन्तरङ्गमिव तरङ्गिणीपतेः, प्राणसहायमिव मानसस्य,
सोदर्यमिव पृथूदकस्य, पृथक्करणभेदमिव पुष्करस्य, विलास विशेषमिव
प्रभासस्य, बिम्बान्तरमिव पम्पायाः, सगन्धमिव स्यमन्तपञ्चकस्य, साम-
न्तमिव बिन्दुसरसः, दुरन्तदुरितधोरणीनिवारणनिपुणशीकरासारमास-
साद विमुक्तिकासारम् ।
व्यालेन्द्रनिर्धार्यगभीरभावो विभाव्यते यः परिणाहशाली ।
त्रासादगस्त्यप्रभवात्कुतोऽपि तरङ्गमालीव निलीनमूर्तिः ॥ ३६ ॥
पयोमृणालीप्रमुखेन वर्तनं वितन्वती भूतिविलेपनिर्मला ।
अनेहसो यापनकर्म यत्र सा तनोति हंसावनिरात्मचिन्तया ॥३७॥
अस्तातपं क्षितिरुहेरधिगम्य तीरं
यस्याध्वनीनसुदृशो दिनयौवनेषु ।
कान्तोपनीतमधिपत्रपुटं नलिन्या
कहारकैरवसुगन्धि पयः पिबन्ति ॥ ३८ ॥
काव्यमाला। अथ तथात्वभवैरघसंहतिग्रहनिवारणयन्त्रगणैरिव । उपनतावृतिरूमिकदम्बकैरकृत तत्र निमज्जनमङ्गना ॥ ३९॥ कल्लोलगतिमिरुल्लोलमम्बुजनिकुरुम्बमपहाय समुच्चरन्ती षट्चरण- पङ्किरखिलजनपावनजलावगाहनसुकृतभयपलायमाना कुमारोदयविधात- दुरक्षरावलिरिव मृगेक्षणायास्तत्क्षणमलक्ष्यत । कृतेऽपि कैवल्यसरोवगाहे पश्चादभूद्वन्धविधिर्ममेति । पयःकणव्याजविमुक्तबाष्पां स्नातोत्थिता सा कबरी बभार ॥ ४०॥ अनन्तरं सा हरिचन्दनायैरक समभ्यर्च्य तटे सरस्याः । धरातलस्थापितजानुहस्ता स्तुत्यानया स्यूतमुखी ववन्दे ॥४१॥ त्रय्यात्मा त्रिगुणमयस्त्रिमूर्तिरूपः सृष्टिस्थित्यवधिकरो जगत्रयस्य । कालेषु त्रिषु विधिकल्पितोपचारस्तापानां सृजतु शमं रविस्त्रयाणाम् ॥ ४२ यत्सत्ताव्यपगमयोरिहाखिलार्थप्रत्यक्षीकृतिपटिमा पटुत्वलाभः । भक्त्या मत्परिकलितेयमस्तु तस्यै देवाय त्रिभुवनचक्षुषे नमस्या ॥४३॥ घसान्ते घनतिमिरोदयापदेशादाकाशे निपतति सत्यवाप्तमोहान् । काल्ये तत्करनिकरैरुदस्यलोकान्भावन्तं भजत पुनः प्रबोधयन्तम् ॥ ४४ नैराश्यादसुषु निजप्रवासरूढादालेढुं कमलकरोदरार्पितानि । व्याधूय भ्रमरविषाणि यः करात्रैः प्रत्यूषे रमयति पद्मिनीस्तमीडे ॥ १५॥ मारत्या धृतिमुषि भासि केऽपि लीनाः श्रीनीविद्रुहि महसीतरे निममाः। सक्तोऽयं जन इह तेजसि त्रिवेदीसीमन्तारुणमणिमण्डनायमाने॥४६॥ आलीमिरवनीदेवकेलीसहचरी ततः । कालीनिकेतनं भक्तिव्यालीढहृदया ययौं ॥ १७ ॥ तत्र च नृशंसतरकंसहृदन्तरालसंताडनपाटलीकृतपदारविन्दा मधु- कैटभतमिसहारिविधुपाटवविशेषदानविशदपक्षविभावरी सैरिभदानवा- यात्राप्रबन्धः । ९ वलेपसरसिजावसादतुषारधारां शुम्भनिशुम्भदनुजकुम्भिनीधरविभेदनद- म्भोलिकेलिकां निरवधिभुजप्रतापदीपशलभीकृतरक्तबीजपुरोगमदैत्याव- लिमलोकतकात्यायनीम् । निद्रा हरेरमरशक्तिनिकायमूर्ति- रङ्गादगेन्द्रजनुषः कृतसन्निधाना । दुर्गेति पद्मनिलयेति सरखतीति शब्दैरनन्यविषयैरनुभूयते या ॥ १८॥ प्रणिपत्य भगवतीं परमाणुमध्यमेयमित्यवादीत् । 'अविमृश्यकारिणी हरिणीदृशां प्रकृतिः' इति निरपवाद एष निखिलजनवादः । विश्वत्रयाशयविमोहनताण्डवेन केलीसखेन कृतविग्रहया भवत्या । विघ्ने विभाविनि तदात्वविकारजन्ये प्रस्तावि... महो बत साहसेन ॥ १९ ॥ महिषदनुजेन्द्रमस्तकनृत्तभवा देवि निपुणता किं ते । नटनायकेन साकं नाट्यविधाने ततान वैयात्यम् ॥ ५० ।। अनन्तरमियमहरन्तविहरमाणखण्डपरशुताण्डवावलोकनसमयसमञ्ज- सादरोद्धाटयोर्मुञ्चिकेशकार्कोटयोराविष्कृतनमस्कृतिरदसीयसंप्रदायपर म्परान्तेवासिनमनघचरितानुबन्धमासिनं धर्मशिवदेशिकामिधानमखिल- निर्ममजनप्रधानं प्राणसीत् । पन्नग इव भयम" भक्तिं भगवानिवेश्वरः साक्षात् । स्त्रीणां पितेव विनयं दर्शनमात्रेण यः स्मरविजेता ॥५१॥ तदनु तदनुमदगजगतिरवनिसुरयुवतिरियमचलपतिदुहितृसखभव- नमुखसदनविहितरतिमक्नतपरिषदभिलषितफलविवरणसुरविपिनतस्मु- ........
१०
काव्यमाला।
रुकरटतटगलितमदलहरिपरिमलमिलदलिनिकरमुखरमतिविमलवमथुस-
मुदयकपटनटदुडुपटलविहितगगनपथमिभवदनमभजत ।
क्रीडाविधौ यः कलधौतशैले रन्ध्राणि दन्ताहतिभिस्तनोति ।
पौरस्त्यविश्लेशितसंधिबन्धदाव्य शङ्कनिव दातुकामः ॥ ५२ ।।
द्विस्त्रेधा क्रमम्भोरुहपरिहसनारम्भलोलं प्रवाल.
वीलानिर्माणलीलाचतुरमपि करांस्त्रिश्चतुर्धा वहन्ती ।
उत्तुङ्गे पश्चिमाङ्गे मरकतसुषमागर्हिणो बर्हिणस्य
क्रीडामाङ्ग्रेडयन्ती ततिरिह महसां कापि भेजे कृशाझ्या॥५३॥
तदनु सुतनुरियं परिजनकरापवर्जितभाजनसलिलकृतचरणनिर्णेजना
निटिललोचनभवनकक्ष्यान्तरमुपेत्य दाक्षायणी यवाधिरोहणविधिपूततर-
मतितुङ्गशृङ्गभासुरमपरमिव रजतभूधरं महोक्षाधिराजमद्राक्षीत् ।
यदीयनासाविवरोपरूढप्रौढानिलावर्तजुषो भजन्ते ।
वातूलवेगाकुलतूलरीति सेवागतब्रह्मविमानहंसाः ॥ ५४॥
क्लृप्तानतिर्गिरिशशाकरयोरथाग्रे
भक्त्या प्रदक्षिणपरिक्रमणानि सापि ।
सा तन्वती तनयसंभवकारणानि
विद्योतते स सुकृतानि विचिन्वतीव ॥ ५५ ॥
अथाभिधानान्तरमन्तकारेरन्तःपुरद्वारि कृताधिकारम् ।
नाथं गणानां सुयशा सनाथं ननाम सा नन्दिनमानताङ्गी॥५६॥
अजोऽहमीशोऽहमहं मुरारिविज्ञापनीयो विभवे त्वयेति ।
याच्यावचो यंप्रति देवतानामुदेति सेवार्थमुपागतानाम् ॥ ५७ ॥
यात्राप्रबन्धः। अथ तदानीम् उर्ध्या न्यस्यापसव्यं चरणसरसिज सव्यमुक्षिप्य कुर्व- पाणिं तस्योपरिष्टात्परिकलिततिरोबाहुविक्षेपशालि । त्वद्गङ्गातरङ्गं तरलतरजटाजूटरिजन्मृगाई प्राम्यद्भूषाभुजंगं पयसिरुहदृशादर्शि नृत्यन्नटेशः ॥ ५८॥ दृष्ट्वा च तमष्टमूर्तिमादराविष्टमतिरवनतशिरःस्पृष्टभूतला हरिणशा- वदृष्टिरभितुष्टाव। पञ्चायुधालम्बनवामभागं पायादिदं वस्तु भवाभिधानम् । वस्त्रे यदीये बलशासनाद्या दिवौकसश्चित्रदशामयन्ते ॥ ५९॥ सोऽयं मदीयाशयरङ्गमध्ये सायंनटस्ताण्डवमातनोतु । पदारविन्दाभरणे यदीये दधाति नीलोपलतां मुरारिः ॥ ६० ॥ ....शीकरकणैरा न चेजित्वर- स्फीतालीकहगर्चिषा कथमसौ चान्द्री कला जीविता । लत्ताहक्षफणीन्द्रपक्ष्मलविषज्वालावलिं वा भवा- न्सोढा किं शिव कालकूटकलनापाण्डित्यमालम्ब्यते॥६१ ॥ अस्याङ्गिरम्भोजममुष्य बन्धुं समुद्यतं चण्डकरं च जित्वा । तन्नन्दनं दण्डधरं जघान व्यथावहो विक्रमिणा विरोधः॥१२॥ चेतः कदाचिदपि मुश्च न मुञ्जकेश- कार्कोटकब्रतिमनःकमलोदयार्कम् । चञ्चन्नखांशुशशिमुद्रितभद्रकाली- वाम्बुजं वटवनेशितुरङ्गिपद्मम् ।। ६३ ।। अनन्तरमसौ निरन्तरपरिष्क्रियमाणपश्यदलीकवामपाचा कलधौत-
१
काव्यमाला।
१२
भूधरावलम्विनीमिव कादम्बिनीमगराजनन्दनामभिवन्ध वसुंधरासुरचको-
रलोचना वाचमेवमवोचत ।
निखिलचराचरपटलीनिर्माणमहेन्द्रजालशीलस्य ।
चण्डि शशिखण्डमौलेर्भवतीं शिखिपिञ्छमालिकां मन्ये ॥६॥
छायेव चण्डधान्ना ज्योत्स्वाकलिकासुधाकरेणेव ।
मणिना प्रभेव मातीव्यसि मिलितादरेन्दुचूडेन ॥६५॥
तीव्रतपःस्फारदिने गतया पार्श्वस्थिति गिरीशस्य ।
हरकोपातपपीडा चित्तभुवः कालिके त्वया जहे ॥६६॥
प्रेङ्खदपाङ्गितबाणा वेल्लद्भवल्लिकार्मुकोपेता।
सेनेव चित्तयोनेरहृत विभोरङ्गमम्बिके भवती ॥ ६७॥
शिखरितनये भवत्या वीकृतमविचार्य पशुपतेरर्धम् ।
शिरसि तदूढसपत्नीचरणाहतिरम्ब न खलु सहनीया ॥,६८॥
दुरक्षराणि द्रुहिणार्पितानि संमार्जयन्तीव सरोरुहाक्षी ।
भूतिं तदा पूजकलोकदत्ता हस्तेन फाले खयमाततान ॥ ६९॥
आबद्धखेलनमथो निगमाटवीषु
रूपश्रिया हिमरुचेरपि लोभनीयम् ।
रहोनिवारितरतीशगजावलेप
सिंहोदरी शिवमसेवत देवसिंहम् ॥ ७० ॥
समाचरितनमस्या मनस्येवमकरोत्सा
गङ्गानीरतरङ्गहारिशिरसे गेहीकृतच्छन्दसे
संध्यानर्तनसाक्षिलेखसदसे सत्यां नटच्चेतसे ।
तवाहम्गरलान्धसे निटिलहम्दग्धानजातेधसे
सिदश्रेमिशिखाहताविरजले सेयं ननिस्तेजसे ॥ ७१ ॥
यात्राप्रबन्धः।
अथ कमपि सा जटालं हीरच्छायालमिन्दुचूडालम् ।
श्रितवटमूलमविद्याजृम्भणमूर्छालभेषजं भेजे ॥ ७२ ॥
नानाशाखाविवृतमहिमा नाटितश्रान्तहर्षो
मौनालम्बी प्रविततजटामण्डलोदारपार्श्वः ।
न्यग्रोधोऽयं विलसति वियन्निम्नगासनिमूर्धा
प्रत्यासत्तेरिव पशुपतेः प्राप्य सारूप्यलक्ष्मीम् ॥७३॥
विश्वोन्मेषप्रभृतिरचनां व्यापरीतं धुरीणै-
राधैर्विद्यागुरुभिरभितो भूषितान्तेवसद्भिः ।
धन्यामाशामभिमुखतया तन्वती कुम्भयोने-
रीशस्याव्यादिह वटतले भद्रपीठासिका माम् ॥ ७४॥
अध्यासीना वटतरुतलं हासदिग्धारुणोष्ठी
शार्दूलस्य त्वचमधिकटि श्लाघनीयां वसाना ।
बद्धणाङ्का शिरसि दधती पाणिना बोधमुद्रा
कण्ठे श्यामा जयति करुणा कापि पश्यन्निटाला ॥७५॥
अङ्कस्थायाः किमपि वलता हैमवत्याः कुचाग्रे
व्याचक्षाणं मदननिगमान्वामहस्ताम्बुजेन ।
अन्येनार्थानकृतकगिरामञ्चता बोधमुद्रा-
मेक्षे साक्षादखिलजगतामीशमाद्यं गुरूणाम् ॥ ७६ ॥
साक्षात्कृत्य श्रवणमननोपासनाभिर्भवन्तं
द्रक्ष्यन्त्यन्यत्किमिह यमिनस्तावकीनोपदेशः।
चिन्तारूढां शिव तव चिदानन्दसत्तादिरूपा-
माकाशाख्यामखिलजननीमद्रिजामन्तरेण ॥ ७७ ॥
Ow
४
काव्यमाला।
मोहातीतस्त्वमिह भगवन्मूर्तिमास्थाय तां तां
वेलालचिव्यवहृतिरतो मूढवन्नानटीषि ।
आत्मत्राणं भवजलनिधेरात्मनैव प्रणेतुं
वाटे मूले वससि यदियं भाति ते कापि लीला ॥ ७८॥
दूरीकर्तुं प्रभवति तवोपासनैव प्रजाना-
मेनोराशीनिति पशुपते वक्ति वाणी पुराणी ।
ध्वस्ताहंयुद्रुहिणवदनस्त्वं वटदोरधस्ता-
दातः किंवा सृजसि भगवन्नीहशीमात्मचिन्ताम् ॥ ७९॥
शान्तेरेकं सदनममृतासारशीतं प्रकृत्या
हन्तेदानीं भवति भवतो रूपमालोकनीयम् ।
ब्रह्माण्डानां प्रसभकवलीकारकाले तु तस्मि-
न्द्रष्टुं दृष्ट्या त्रिनयन भवानेव शक्तो भवन्तम् ॥ ८० ॥
बिम्बोष्ठीनामिव बहुविधाकूतपारिप्लवाना-
मात्मायत्तीकरणघुटिकापतिमाम्नायवाचाम् ।
पाणेरस्य प्रसवकलिकां पल्लवस्य स्मरारे
स्तौमि ज्योतीरसमणिकृतां तावकीमक्षमालाम् ॥ ८१॥
पाणिच्छायाततिभिररुणा स्फाटिकीनाक्षमाला
बीजश्रेणी परिणतिमती दाडिमस्येयमास्ते ।
चिन्मुद्रैषा शिव तव समादाय तत्रैकमेकं
हस्तोपान्तस्थितशुकमुखेष्वर्पयन्तीव भाति ॥ ८२ ॥
प्रज्ञावल्लीपरिणतिकृते भक्तिबीजव्रजानां
पुष्यन्तीव व्रतिजनमनोभूमिषु न्यासलीलाम् ।
अर्थान्दातुं समभिलषितानाददानेव मा. ..
भावत्कीयं त्रिभुवनगुरो भासते बोधमुद्रा ॥ ८३ ॥
यात्राप्रबन्धः।
पाठीनाङ्कप्रमथनविधिप्रेष्ठ गीर्वाणमध्ये
सद्योजातं सकलनिगमाः संगिरन्ते भवन्तम् ।
सत्यप्येवं कथमिव पुनः साधवस्त्वामजातं
निश्चित्यैकं निरवधिभवक्लेशभीत्या भजन्ते ॥ ८४ ॥
दारान्बन्धूनपि तनुभुवस्तावकीनैर्वचोभिः
सन्तस्त्यक्त्वा सकलमपरावृत्तयः क्वापि यान्ति ।
कृत्वा कण्ठे गरलमलघुव्याहृतोदारसूक्तै-
विन्दन्त्येते न खलु भवतो विप्रलम्भं पुरारे ॥ ८५ ॥
विश्वस्य वेषविवृताममितां विरक्तिं
पार्श्व तपखिजनता भजते गुरोस्ते ।
त्वं दक्षिणाभिमुखतामुपदेशकाले
• पुष्णासि चेत्पुररिपो किमियं विधत्ताम् ॥ ८६ ॥
विलसति वटाले व्यञ्जितज्ञानमुद्रा-
मतिशयरमणायामासिकामादधाना ।
अनिशमुपदिशन्ती योगिनामागमार्था-
न्दरहिमकरचूडा देवता सावतान्माम् ॥ ८७ ।।
ओमित्यक्षरलक्ष्यमैन्दवकलामाबिप्रतं मौलिना
नद्या कल्पितशेखरं मरकतच्छायां दधानं गले ।
क्लींकारार्थविदं शिलीमुखपदन्यस्तारविन्देक्षणं
वासःस्थानकृताजिनं यतिमनःसौधस्थमीशं भजे ॥ ८८ ॥
कमपि जटालंकरणं मुक्तेर्वटमूलमणितटालंकरणम् ।
श्रयत महासमयानां जनकं निगमागमेतिहासमयानाम् ॥ ८९ ॥
१६
काव्यमाला।
नियतवचा रुद्राक्षस्रगलंकरणो गुणास्तचारुद्राक्षः ।
आर्तसमाजपवटभागवतु गुरुय॑स्य हिमसमा जपवटभा ॥ ९० ॥
महती काचिन्मुद्रा करगतरुद्राक्षमालिकाचिन्मुद्रा ।
निगमादिव्याख्यानस्वातन्त्र्यवती पुनातु दिव्याख्या नः ॥ ९१ ।।
पुररिपवे भसितेन स्फुरता लिप्ताय वासवेभसितेन ।
घटजन्माशास्याय क्रियतां प्रणतिर्महत्तराशास्याय ॥ ९२ ॥
शान्त्या परमो दान्तः स गुरुर्जगतां चकास्ति परमोदान्तः ।
शाम्यति तापः स्मारं सारं चरतां यमर्दितापस्मारम् ॥ ९३ ॥
अञ्चितहासाननया रक्षन्त्या जातजनिजिहासाननया ।
अस्मि भृशं पावन्या धन्या कृपया जटास्तशम्पावन्या ॥ ९४ ।।
पावनपादपरागः फलघटनधृताक्षकल्पपादपरागः ।
इह महसामतिरेकः क्रीडति हृतनम्रतापसामतिरेकः ॥ ९५ ।।
स्मरभेदि प्रकटाक्षस्रगुपेतकरः प्रसाददप्रकटाक्षः ।
जगदधिकं पाति शयस्थायि सुधागुण्डिकोऽनुकम्पातिशयः॥९॥
जननरुजातापघनश्रेणिशरण्यः सुधाभिजातापनः ।
खदते मायातीतः शिव एव वरोरुचित्तमायातीतः ।। ९७॥
एष महीयानवतात्रिपुरं जिग्ये यतो महीयानवता ।
यस्य च पञ्चाक्षरतस्तरति भयं विषयसप्रपञ्चाक्षरतः ॥ ९८ ॥
मिलदुमया देवतया जितमधिकसहक्कथालया देवतया ।
सृजति च सेवनमस्या धुसदामखिलापि धृतरसेव नमस्या ॥९९॥
इति संभावयामास नुतिगुम्फामृतैरियम् ।
दक्षिणाभिमुखं दीनरक्षणे रसिकं महः ॥ १०॥
यात्राप्रबन्धः। चण्डेशमानस्य ततस्तदने चकार तन्वी करतालशब्दान् । विवासयन्तीव वृषाङ्कभक्तिशालिनुहो दुष्कृतपक्षिसङ्घान् ॥ १०१॥ सा मण्डपे शैलभुवो मुहूर्तमतिष्ठदीशानमनुस्मरन्ती । पुरारिसंसेवनपुण्यभारैरासादितैः स्पन्दितुमक्षमेव ॥ १०२ ॥ तदनु मदनाभियातिसदनादधिगम्य निजनिकेतनमनुमेयमध्यमा सकलभूतसमुदायामोदसमर्पणकोविदमतिमात्रविशदगोत्रैकमण्डनमकु- ण्ठतरवृषप्रचारमात्मनेतरमपरमिव ताराधिपशेखरमाराधयामास । इत्यादिनियमवातविध्याहितमहोत्सवा । दिनानि कतिचित्साध्वी निनाय निमिषं यथा ॥ १०३॥ अथ कदाचिदखिलजनतापातिरेकसमापादनदुरितपरिणतेरिव परि- क्षीणतामुपेयुषि वासरायुषि, नवकुसुमसंभृतकमलिनीपरिरम्भजन्मनो दु- प्रकृतस्येव निष्कृति विधातुमाचरति चरमसिन्धुसलिलावगाहनमरविन्दि- नीपतौ, रविपतनवेगदूरापसृतनीरवाराकरोदरकुरुविन्दकिरणसंदोह इव वरुणहरिदन्तरालमुपरुन्धति संध्यारागे, संध्यानलकीलचुम्बितव्योमाटवी- धूम इव धरणीमण्डलमवकुण्ठयति तिमिरषण्डभावितेजःप्ररोहपटल इव समुन्मीलति दीपिकाजाले, नदनकेलीविहितोद्यमरजनीनर्तकविमुक्तपु- प्पाञ्जलिनिकर इव गगनमञ्चति तारकापुले, सकलदिक्चक्रवालसमाक्र- मशीलतमिस्रकोपादिव पाटलवपुषि विजृम्भमाणे विभावरीकुटुम्बिनीब- हुलान्धकारपरिपन्थिविजयवीततन्द्रस्य चन्द्रमसो यशवन्द इव भुवनमा- नन्दयति मरीचिकन्दले, प्रयातैकयामायां त्रियामायामासादितनिद्रारसा- नुभूतौ परिणेतरि तदीयपदसदेश एव पतिदेवतेयमाशयनिवेशितप- श्यदलीकचरणा सुष्वाप । या०प्र०२
काव्यमाला।
द्विगुणीकृतदोलतोपधाना. तरुणी स्थण्डिल एव सा शयाना ।
निजनेतरि निद्रयोपगूढे विदधानेव रुषं तदा व्यलासीत् ॥ १०४॥
ततस्त्रियामासमये तरुण्याः पुण्येन साकं परिपाकभाजि ।
अगेन्द्रकन्यापरिणीरमुष्याः खम्मे खयं लोचनगोचरोऽभूत् ॥ १०५॥
उच्चावचानां जगतामुपरि स्थितिमानपि ।
भद्रासनवरं किंचिदध्यासीनः सहोमया ॥ १०६ ॥
मौलिमन्विच्छतो वक्रान्मरालस्य परिच्युतम् ।
मृणालवलयं तत्र मृगाङ्कच्छमना वहन्.॥ १०७ ॥
संबिभ्रदलिके किंचिच्चञ्चदग्निशिखाङ्कुरम् ।
वतंसेन्दुसुधालोभवलजिह्वमिवेक्षणम् ॥ १०८ ॥
कात्यायनीमुखाम्भोजनेत्रोत्पलविकासिकैः ।
आलोकैः प्रकटीकुर्वन्नक्ष्णोरकेंन्दुरूपताम् ॥ १०९ ॥
सहजक्ष्वेलसौहार्दादधिगत्य गलान्तरम् ।
निःसरन्तीमिव सुधां दधानः मितचन्द्रिकाम् ॥ ११० ॥
केलीपरवशां मूर्ध्नि गङ्गामसहमानया ।
कण्ठे गाढमिव श्लिष्टः कलिन्दगिरिकन्यया ॥ १११॥
कस्तूरिकाभिरालिप्य कंधरामितराजके ।
परागैरिव कापूरैः परिक्कृप्तानुलेपनः ॥ ११२ ॥
मनोवागपरिच्छेद्यमहिनि खस्य तादृशे ।
विश्वविसम्भणायेव तन्वन्परशुधारणम् ।। ११३ ॥
द्वीपिचर्माम्बरालोकत्रासेन मुकुटीविधोः ।
निष्क्रान्तमिव सारनमुद्रीवं धारयन्करे ॥ ११ ॥
आगतं गिरिजोत्सङ्गादके कृत्वा. षडाननम् ।
कराकृष्टजटाजूटखण्डेन्दुमुपलालयन् ॥ ११५॥
यात्राप्रबन्धः। विततार विभूषणाहिमौलेर्मणिमादाय मृडस्तदा नतागौ । सुरनाथदिशे सुमेरुपादिहरारम्भ इवारविन्दबन्धुम् ॥ ११६ ॥ तादात्विकीभिः प्रमदातिरेकतरङ्गिणीवीचिपरम्पराभिः। नीतेव कुत्रापि सुमध्यमाया निद्रा सहैव क्षपया व्यरंसीत् ॥ ११७ ॥ तथा हि। भूषामणिं दत्तवतः पुरारेश्चूडामणौ खार्पणशङ्कयेव । शनैर्गलत्यम्बरतो जहास प्राचीदिशा पाण्डुरिमापदेशात् ॥ ११८॥ घनकज्जलकर्दमापदेशान्मलिना मन्दिरदीपवर्तिरासीत् । प्रमथाधिपति विहाय देवं प्रतिभेव श्रितदेवतान्तराणाम् ॥ ११९ ॥ दिशि सांध्यरागमपदिश्य हरेः समये समेधयति वह्निशिखाम् । भयसंवृताः प्रतिदिशं सपदि व्यघटन्त संतमसगन्धगजाः ॥ १२० ॥ अभ्यस्य ताराकपटाक्षराणां पति विहायःफलकाधिरूढाम् । वर्णान्तरन्यासकृते ममार्ज कालाभिधानः किल कोऽपि बालः १२१॥ क्षणदायां प्रयातायामपि तस्या मृगीदृशः । सा दिनारम्भवेलैव क्षणदा समवर्तत ॥ १२२ ॥ अनन्तरमरविन्दलोचना सरयमुत्थाय समाचरिततीर्थाभिषेचनविधि- रपर्णासखवितीर्णमणिसदृक्षतामिव परीक्षितुं प्रभातसमयवणिजा विभा- वितमम्बरमणिं प्रणिपत्य कृतकर्तव्यकलापा खापावसरविलोकितशोभ- नोदन्तभाषणैः प्राणबन्धुमानन्दयामास । प्रासादमासेदुषि नीलकन्धरे दुरन्तसंतापभिदाधुरंधरे । दधार गर्ने तनयं धरेव सा करीरमत्युन्नतवंशवृद्धये ॥ १२३ ।। इति श्रीसमरपुंगवस्य कृतौ यात्राप्रबन्धचम्पूकाव्ये प्रथम आश्वासः ।
२. काव्यमाला। द्वितीय आश्वासः। दिनेषु यातेषु ततोऽमितेषु पचेलिमे तादृशि भागधाये । वामालका व्यक्तमुवाह गर्भ निधानमम्मोनिधिमेखलेव ॥ १ ॥ सा कृशाङ्गी शरीरेण शरकाण्डविपाण्डुना । अत्यशेत दिशं प्राचीमत्यासन्नविधूदयाम् ॥ २ ॥ आह्वादकारिण्यखिलप्रजानां जैवातृके जग्मुषि गर्भसीमाम् । प्रत्यग्रलोध्रप्रसवाभिराममवाप सा रूपमपश्चिमेव ॥ ३ ॥ उदरे किमप्यमृतमुत्पलेक्षणा तपसार्जितं तनयनाम बिभ्रती। भतिसौहितीमधिगतेव भोजने बिभरांबभूव विगतादरं मनः ॥ ४ ॥ धृत्वान्ववायाभरणा खगर्भे दधौ न सा प्रागिव मण्डनानि । आसक्तिरर्थेषु शरीरभाजां विशिष्टवस्त्वन्तरलम्भनान्ता ॥५॥ हन्त मध्यमपरिष्करणाह वंशरतवरभूषितमासीत् । इत्यसोढवदिवाजनि तस्याः श्यामिकाञ्चितमुख स्तनयुग्मम् ॥ ६॥ कुलाङ्कुरादर्शनखेदजन्मा वामभुवो वऋविवर्णभावः । गर्भोदयामोदभुवः प्रसादादीतो नु भेजे कुचभूधरापम् ॥ ७ ॥ साधयिन्खेदमिथ्यात्वमर्दयन्मध्यशून्यताम् । अर्भको गर्भगस्तस्या निर्ममे संमदाद्वयम् ॥ ८॥ काय जहौ गर्भगते कुमारे वलसमस्या इति किं विचित्रम् । समृद्धिमाधातुमकिंचनेषु संतानशाखीव स हि प्रवीणः ॥ ९ ॥ अल्पानामपि च महत्त्वमाशु दातुं सर्वेषां प्रकटयितुं च सूक्ष्ममर्थम् । निष्णातं पृथुकमवोचदस्य योगात्तन्मध्योधृतमहिमप्रकाशभावः॥१०॥ १. 'माशा' इति पाठः.
यात्राप्रबन्धः।
२१
वामभ्रुवो मध्यवलित्रयाभ्यां किं व्यत्ययेन खगुणौ दधाते ।
आद्यं यदनाजनि दर्शनीयं परं तु वीक्षापदवीमहासीत् ॥११॥
विद्यानिधाने सविधं विभूषयति तादृशे ।
अतिहर्षादिव जहाँ नामिरस्या गभीरताम् ॥ १२ ॥
भक्तिमात्मनि विधास्यतः शिशोः पालनाय परमभ्रगङ्गया ।
स्थापितेव यमुना तदन्तिके रोमराजिरकुचन्मृगीदृशः ॥१३॥
विरलाभरणं विपाण्डवक्र त्रिवलीमङ्गदरिद्रमध्यभागम् ।
मलिनीकृतचूचुकं मृगाक्ष्या वपुरासेचनकं बभूव भर्तुः ॥ १४ ॥
जठरविहरमाणमाणवगुणानुसारिः परमाणुमध्यमाया बभूवुरध्य-
चसायाः।
व्याहर्तुं मृदुलाक्षरामपि गिरं वैक्लव्यमुद्रावती
साटोपं विवरीतुमैहत वधूः सर्वाणि शास्त्राण्यपि ।
रूढाशक्तिभरापि चत्वरगतिक्रीडासु वाराणसी-
पूर्वाणि स्पृहयांचकार चरितुं पुण्यानि तीर्थान्यहो ॥ १५॥
पाणिर्बभारं किमपि प्रसवापचाये
ग्लानिं द्वितीयकुसुमग्रहणेऽपि यस्याः ।
सा बिल्वपत्रनिकरैः खकरोपनीतै-
रीशानपूजनमियेष मुहुर्विधातुम् ॥ १६ ॥
किमङ्गरागेषु परिष्क्रियासु वा तवेष्टमालीति धवेन सा रहः ।
कृतानुयोगा निजगाद कातितौ विभूतिरुद्राक्षमणी विलासिनी॥१७॥
प्रियमभिलषितोपहारशीलं निजहृदये निसरामधत्त साध्वी।
उदरविहरदर्भकोपलम्भव्यतिकरलोभवशादिव प्रविष्टम् ॥१८॥
२२ काव्यमाला।.. अथाध्युषितकेसरिण्यहिमभासि मेष गते. .:: कलावति तुलाधरोदयमुपेयुषि खामिनि । खतुङ्गजुषि वाक्पतौ मकरभाजि मित्रात्मजे ।। शुभैकजनने दिने सुतमसूत शातोदरी ॥ १९ ॥ सिंहिकातनुभुवा सह योगः सांप्रतं मृगपतेरजनीति । स्पर्धमान इव पुत्रमुदारं प्रत्यपद्यत सं. पूरुषसिंहः ॥ २० ॥. तस्योदये दातुरवाप लामं बुधो न तत्पुष्यति विस्मयं नः । खयं कुजन्मापि धनाधिनाथो भूत्वा स रामामधिगम्य रेमे ॥ २१॥ विशङ्कय पृथुकात्ततो निजनिकारमास्तां तदा कविः खभवने हरि शरणमेतु तेजोनिधिः । अजाश्रयणतत्परो भवतु स द्विजाधीश्वरः कुलीरसदनान्तरं कथमसौ जगाहे गुरुः ॥२२॥ निजहृदयकण्टकायमानकुमतमण्डलीसमुद्धरणनिपुणविद्वदवतरणा- मोदसमासादितप्रसादशालिनीनामाशाविलासिनीनां मुखसरोजनिःसृतो निश्वासविसर इव सहजतुषारसौरभासारतुन्दिलो मन्दमन्दमस्पन्दत गन्धवाहः । अथारविन्दोपममायताक्षं सुताननं सुन्दरमीक्षमाणा । तपांसि सर्वाणि तदात्वहर्षे प्रसूरपर्याप्ततमानि मेने ॥ २३ ॥ क्षणमीक्षणमुद्रणां तदानीं न विमुञ्चन्नयमको व्यलासीत् । निजसूविविलम्बखेदिताया वदनं मातुरवेक्षितुं विलक्षः ।। २४ ॥ सुकुमारपाटलकर निजोदरादुदितं वितीर्णजनलोचनोत्सवम् । अरुणं तमामुवि पजेक्षणा दधती पुरंदरदिशेव सा बभौ ॥ २५ ॥ .
यात्राप्रबन्धः।
निहिताः पुरतो निविष्टदीपाः शुभयष्टीरपदिश्य सूतिगेहे ।
अभजन्फणिनो नु रत्नचूडा हरभूषाहिमणेरमुं विवर्तम् ॥ २६ ॥
अथ तदानीमङ्कुरित इव मङ्गलावेदनकुतूहलमन्थरेतरपुरंट्रिकुलसं-
जल्पितैः, पल्लवित इव नानाविधदानविस्तारैः, कोरकित इव विविध-
जयोगविभाजकसैद्धान्तिकलोकसूक्तावलिमिः, फलित इव द्विजाशीर्व.
चोभिर्विशेषैरशेषमपि बन्धुजनमानन्दमनयत तनयोत्सवः ।
गुरुरादरादथ कुमारमैक्षत प्रमथाधिनाथमिव बालताजुषम् ।
रुरुटङ्कसंवहनरूढवासनाकृतमुष्टिबन्धविलसत्कराम्बुजम् ॥ २७ ॥
प्रागेव कण्ठनिनदैः श्रवणाभिरामै-
रावेदितामथ विलोचनलोभनीयैः ।
आमेडितामवयवैरथ भाग्यवत्तां
निर्धार्य तस्य जनको नितरां ननन्द ॥२८॥
स क्षोणीविबुधो मन्त्रै रक्षोनिरसनक्षमैः ।
पूतजन्मभृतस्तस्य जातकर्मविधि व्यधात् ॥ २९ ।।
असौ पुनरवनीसुरकुमारको मुहुः समाराधयिष्यति मामिति हृष्य-
न्मना इवं . दमुना हविर्ग्रहणकर्मणि तत्क्षणं प्रदक्षिणावर्तशिखः
प्रणनत ।
तस्य वाधूलसंतानतपःसमुदयाकृतेः ।
धर्माभिधानकरणापितृभ्यां दर्शितौचिती ॥ ३० ॥
नयनायुधनर्मगेहमेतत्परिपाल्यं भवतीति शाङ्गिणेव ।
वहति म निवेदितं स धीरो हृदि पञ्चायुधभीषणं मनोज्ञम् ॥ ३१ ॥
अमृतं नभःसरित एव सूनवे दिशति म सा धृतमुरोजकुम्भयोः ।
स विहाय वारि सकलं कथं भवेत्परंथा तदेकभजने कृतादरः ॥ ३२॥
काव्यमाला। साधुसंघटितमुष्टिबन्धनं प्रत्यहाञ्चितपयोव्रतक्रियम् । आत्मसूनुमसकृत्प्रसूर्मुदा पश्यति स शिशुभावदीक्षितम् ॥ ३३ ॥ कलिना मलिनीकृतां पदाभ्यामवनी स्पष्टुमवेक्षितुं च दृष्ट्या । घृणया मुहुरुद्यताशिरासीदपि चोत्तानशयः स पूतजन्मा ॥ ३४ ॥ कुत्रापि धामनि कुलार्दिसुतासनाथे दृष्टिं मुहुस्तरलतारहितां निधातुम् । अभ्यस्यतेव पटुताममुना व्यलोकि निष्पन्दपक्ष्मनयनेन निशि प्रदीपः ॥ ३५॥ मातृवल्लिकुचमञ्जरीभृतां माकरन्दलहरी धयंधयम् । पाणिपङ्कजवनीषु योषितां खेलनं व्यषित बालषट्पदः ॥ ३६ ॥ जनकः कृतजानुयानकेलिं तनयं वीक्ष्य तमादरोत्तरङ्गः । चतुरश्चरणान्निधाय धान्यां विहरन्तं वृषमेव मन्वते स्म ॥ ३७॥ जानुद्वयीचमणक्रमेषु रत्नस्थलीलक्षितमात्मबिम्बम् । हस्तेन संताडयति स सोऽयमात्मीयसाम्यासह एव बुद्ध्या ॥ ३८॥ पञ्चषाण्यथ पदानि निधातुं प्रस्खलच्चरणपल्लवमेषः । पारि]भन्नपरमस्फुटनीयद्वर्णवल्गुतरमप्यभिधातुम् ॥ ३९ ॥ अजनि खुरलीकेलिस्तीर्थाभिधावनकर्मणि त्रिचतुरपदन्यासक्रीडैव तस्य गृहाङ्गणे । फणितिरभवन्नान्दी स्पष्टेतराक्षार] मञ्जुला विबुधहृदयग्राहिव्याहारनाटकनिर्मितौ ॥१०॥ तन्वीपयोधरपयःकणिका निपत्य तखामिलयजलधेर्मुखशुचिकायाम् ।
यात्राप्रबन्धः।
२५
मुग्धद्विजाङ्कुरततिव्यपदेशशालि-
मुक्तात्मना परिणति किल बिभ्रते स्म ॥४१॥
तस्यालकप्रकरकुण्डलपद्मराग-
मन्दसितद्युतिभिरुन्मिषितां त्रिवेणीम् ।
पित्रोरजसमविगाह्य मनोविषादं
तत्याज संसृतिपथभ्रमणोपजातम् ॥ ४२ ॥
अयं पुनरवनिनिलिम्पशावकः शुभसमयनियूंढचूडामङ्गलो निरङ्कु-
शविहारकेलिनिर्माणतरलमानसं समानवयःसनाथमाणवमनःसभाजनं
खेलनापहृतगृहोपकरणायासितवामालकाजनं वचनसीम्नातिलचितकुतू-
इलं कौमारमभजत ।
सध्रीचीनकुमारकैरभिवृतश्छात्रायमाणैः स्वयं
शास्त्रव्याकरणाभिनीतिमकरोदारोपिताचार्यकः ।
काशीति त्रिदशापगेति कलयन्विश्वेश इत्यप्यसौ
केल्यामाकलयति स्म पांसुषु पुरीं शैवालिनीदेवताम् ॥४३॥
क्रीडां विधाय पृथुकैर्गृहमापतन्तं
क्लान्तं क्षमातलरजोभरदूषिताङ्गम् ।
आरोप्य वक्षसि कुमारममुं करेण
खिन्नं तदीयवदनं जननी ममार्ज ।। ४४ ॥
हरस्तुतीनां गुरुकीर्तितानामनूक्तिभिः प्रीणितया जनन्या ।
प्रदिष्टमिष्टं लभते स्म बालः सहैव गण्डस्थलचुम्बनेन ॥ १५॥
कुशाग्रबोधो गुरुणा ततः सकृत्प्रकाशितां वर्णपरम्परामसौ।
मनोऽप्यनाविष्कृतमस्य किंचिन्महीसुराग्रेसरसूनुरग्रहीत् ॥ १६ ॥
पुनःपुनभूमितले स बालो वर्णावलीविन्यसनं व्यतानीत् ।
विधाय शके बहुधा परीक्षां पञ्चाक्षरीसंग्रहणं प्रणेतुम् ॥ १७ ॥
२६
काव्यमाला।
अन्वितानि शुभस्पर्शेरन्तरूष्माञ्चितान्यपि ।
व्यञ्जनानि बटोर्जिह्वा सखरं समसेवत ॥ १८ ॥
तदनु निटिलेक्षणाभिधामुपदेक्ष्यमाणमन्त्राधिदेवतामिव विभावयितुं
कुबेरदिशामासेदुषि वासराधिपतौ भूसुरापत्यमिदमध्यापयितुमिव कला-
कलापमहाय संगृह्णति द्विजाधिराजे निजापचितिमागामिनीमिव परिग्र-
हीतुमाविष्कृतप्रकाशातिरेकेषु कविगुरुपुरोगेषु समागते च शिवताति-
दिने जनक एष कृपानिधिरेनमुपानयत ।
स निर्मलात्मा गुरुणा समाहितं त्रयीनिदानं तदवाप्य वाङ्मयम् ।
अशोभंत खैरमभीशुमालिना शशीव संचारितमंशुमण्डलम् ।। ४९॥
स यज्ञसूत्रच्छलतस्त्रयीमधान्मुखस्फुरन्मात्रसमावृतक्षमाम् ।
पराभिचारप्रतिपादनाविलां मृषेतरोक्तिं च मृगत्वचो मिषात् ॥ ५० ॥
तत्तादृशीं गामिव तातदत्तां पातुं नियन्तुं च स बालवर्णी ।
पाणौ दधाति स्म पलाशदण्डं मौञ्जीं कटीसीमनि मेखलां च ॥५१॥
शशिपाण्डरेण समिदग्निभस्सना विहितास्त्रिपुण्ड्रविततीरयं प्रति ।
प्रथमागमे गिरिशभक्तिसंपदो रचिता इवाप(ह)रत रङ्गवल्लिकाः ॥५२॥
कल्लोलिताद्भजनकर्मविलम्बनेन
कोपादिव प्रकटगुम्फितशोणभावे ।
संप्रीणयन्निव मुहुश्चरणारविन्दे
पित्रोरवन्दत कृती प्रवदन्निजाख्याम् ॥ ५३ ॥
उपसंग्रहणच्छलादसौ युगलेनात्मकरारविन्दयोः ।
खकृते बहुतीर्थचारिणी किमु पित्रोः समवाहयत्पदे ॥ ५४ ॥
द्राधिष्ठमायुस्तनये निधातुं प्रकाममिच्छाभरितेन पित्रा.।
अस्य प्लुतालंकृतिमौलि नाम. प्रायुज्यत प्रत्यभिवादनेषु ॥ ५५ ॥
यात्राप्रबन्धः।
..
समाश्रितखाभिसरोजनावं कुमारमेनं गुरुकर्णधारः ।
प्राचीनवाणीकुहनापयोधेः पारं मितैरेव दिनैरनैषीत् ॥ ५६ ॥
वाक्यैर्विवृण्वती भावं वल्गुखरपदक्रमैः ।
कण्ठमेतस्य सुदृढं कान्तेव श्रुतिरग्रहीत् ॥ ५७ ॥
अपि च अस्य निपुणदेशिकोपदेशसलिलविमलीकृतमतिरहिराजव-
चनकुटजाटवीनवजीमूतमालिकां साहित्यवाहिनीपतिशीतद्युति कौमा-
रिलवचोरसालकुसुमाकरश्रियं निगमान्तकुमुदिनीधवदिवसान्तसमयल.
क्ष्मीमक्षचरणपक्षराजीवतापनरोचिश्छटां प्रौढिमाढौकत ।
कविवाचस्पतिबुधाः कलयापि न तत्समाः ।
मूढता मुहुरेतेषामापतत्यनियन्त्रणा ॥ ५८ ॥
निःसीमपश्यन्निटिलानुभावप्रकाशनं प्रत्युपकारयन्ती ।
खशीलिनः संततमस्य मोदं वेदादिविद्याविततिय॑तानीत् ॥ ५९॥
अस्य पुनरभ्यस्यतः कलां गुरुतर्कनिवासजनुषमुरुतरक्लेशमसहमान
इव शनैः शनैरपसरति शैशवे सकलकलाधिकारसहकारिबालतापनोद-
परिणतं क्रोधमपनेतुकाम इव कामरिपुचरणपरिचरणोपकरणानां करणा-
नामतिनिपुणिमानमुपपादयन्नवतरुणिमा वपुरसोढंकुसुमायुधमसेवत ।
खभजनोचितवस्तुविवेचनं समभिलष्य किमस्य विलोचने ।
श्रवणयोरवकर्णितशास्त्रयोः सविधभूमिमभूषयतामुभे ॥ ६० ॥
कलितस्पृहमेव कालकण्ठस्थितिपर्याप्ततमावकाशभावे ।
अदसीयहृदन्तरालमासीत्परिणाहातिशयप्रणीतशोभम् ॥ ६१ ॥
बालोऽयमाजानुविलम्बिबाहुरालोकि लोकैरतिरूपशाली ।
आराधनैः प्रीणनमात्मशत्रोः कर्तुं क्षितौ काम इवावतीर्णः ॥६२॥
२८
काव्यमाला।
तदनु द्विजकन्याया धन्यायाः सहशैर्गुणैः ।
संतानसंपदे तेन पाणिमग्राहयत्पिता ।। ६३ ।।
पार्श्वभूषा भवानीव पझेव हृदयंगमा ।
सरखतीव सा मुख्या भर्तुरासीत्पतिव्रता ॥ ६४ ॥
अजायत तयाक्रान्तममुष्य हृदयं तथा ।
यथान्तरं न विन्देरनीषदप्यन्ययोषितः ॥६५॥
शुभलक्षणशोभिन्या भावनापरिशुद्धया ।
पुरंध्या सोऽरुचद्वेदः पूर्वमीमांसया यथा ॥ ६६ ॥
अहो महीसुरभुवो महाभागस्य भागधेयपरिपाकः, यदेष मदनगज.
राजमदभेषजे रजोभरविजृम्भमाणमातरिश्वनि विषयमृगतृष्णिकाजलवि.
भावनोष्णसमये तमोविकारसंपादननिशावतारसंपदि कुपथावगाहघटन-
हरिमोहगौरवे पटुतरविवेकिशाखिपाटनविधानहस्तिनि तत्ताशि वयसि
वर्तमानोऽपि भगवति मृगाङ्कशेखरे समनोनदीललामनि सुदतीमयार्ध-
विग्रहे महती भक्तिरजनि ।
चन्द्रमसि चन्दनतरौ सुहगाश्लेषे सुधांशुभूषे च ।
नियति न कस्य चेतः कठोरसंतापकन्दलीहरणे ॥ ६७ ॥
अनूढभसितो मझेरशीलितषडक्षरः ।
अपूजितपुरारातिरमुक्त न कदाप्यसौ ॥ ६८ ॥
आगामिनामगजवैरिमेघे हृदम्बरालम्बिनि हर्षवृष्यै ।
पौषैकहेतुं पुलकाङ्कुराणामभूषयद्वात्रमसौ विभूत्या ॥ ६९ ॥
नदी महोक्षं शिशिरांशुरेखां वाताशनेन्द्रं यजनं च भूतैः ।
वान्छन्स पञ्चाक्षरमन्त्रलक्ष्यादाचष्ट तद्वाचि पदादिवर्णान् ।। ७०॥
शंभोरजसं जलगन्धपुष्पैराप्लावनालेपनमण्डनानि ।
आत्मीयतापत्रितयापनीति विधातुकामः स कथं व्यतानीत् ॥७१॥
यात्राप्रबन्धः। २९. अन्नमर्पितमगात्मजापतेरस्तुतं प्रतिनिलिम्पभोजनम् । अद्भुतं तदनिवेदितं त्वभूदोदनोऽयममुनैव सेवितः ॥ ७२ ॥ सरिद्वतंसस्य जलाभिषेको बालेन्दुमौलेः प्रसवोपहारः । स्यात्किं मुदे तस्य कृते मयेति समादि(धि)दम्भादकरोत्स चिन्ताम् ७३ भक्तेषु प्रमथपतेः पदार्चनायां पर्याप्तं बलिसुतमेष मन्यते स्म । पौलोमीपरिवृढमुत्सवावलोके व्यालेन्दु विविधगुणप्रशंसनेषु ॥ ७४ ॥ चेतोनिविष्टस्य सितांशुमौलेः परिच्युतं मौलिपदात्वगर्ने । प्रालेयधामानमदच्छ(श्छ)लेन प्रासूत धन्या भवनं कु(क)लानाम् ॥७५॥ अनिशं गिरिशातिवादशीलं परमेष्ठी किममुं प्रणेतुकामः । अपदिश्य घटीभवादिसर्गान्पठिमाभ्यासविधि परं वितेने ॥ ७६ ॥ किमेष नन्दी शिवधर्मवक्ता किं वा कुमारः श्रितनीलकण्ठः। आहो मुरारिः कृतदृष्टिरीशे पार्थोऽथवा पाशुपताभिमानी ॥ ७७ ॥ एवमुत्प्रेक्ष्यत जनैरेधमानकुतूहलैः । बाल एव परां कोटिं शिवभक्तेः श्रयन्नयम् ॥ ७८ ॥ अपि सकलार्थविदोऽभूदर्थत्रयमेव चिन्तनीयं मनसि । मोहोच्चाटनमूलिका तनुभृतां मुक्त्यङ्गना कारणा दूती भाग्यवतामधर्मकलमस्तोमावसादस्थली । लीलाताण्डवशालिका पशुपतेर्लक्ष्मीमणीपेटिका कस्मिञ्जन्मनि लोचनातिथिदशां गाहेत वाराणसी ॥ ७९ ॥ कैवल्यामृतकन्दलीं वसुमतीकान्ताप्रसूनस मौलिक्षौमपटी हरस्य हिमवन्मातशुण्डालताम् । खर्गारोहणमार्गमौक्तिकशिलासोपानपारम्परी भाग्यैरभ्यधिका जना भगवतीं पश्यन्ति भागीरथीम् ॥ ८०।।
काव्यमाला.
सुखनिधिमपहृत्य मायया खयमतिसंनिहितोऽप्यलक्षितः ।
सुकृतिभिरधिकाशि गृह्यते श्रुतिकथितः स हि तस्कराग्रणीः ॥ ८१ ॥
अकथयच्च सच्छात्रान् ।
तीर्थावगाहस्थितिकल्पनायामा विधौ वा यदि वोऽभिलाषः।
नदीषु गङ्गीं नगरीषु काशी देवेषु विश्वेश्वरमाश्रयध्वम् ॥ ८२ ॥
जिज्ञासवे श्रुतिशिरोनिकरान्प्रवक्तु-
मादौ यदक्षरमुपाददते महान्तः ।
श्रोत्रे तदेव विनिवेद्य जनान्भवाब्धे.
रुत्तारयन्तमुपधावत विश्वबन्धुम् ॥ ८३ ॥
अधिकाशि देशिकानामवतंसमणिं तमेव सेवध्वम् ।
यो रहसि किंचिदक्षरमुपदिश्य जनान्करोति सर्वज्ञान् ॥८॥
अथ भक्तिवशादमुष्य काशी प्रति यातुं स्पृहयालुचेतसोऽपि ।
अमवजनकाशिपद्मसेवानियमातिक्रमभीतिरन्तरायः ॥ ८५ ॥
असौ पुनरात्मपितरावेव महीधरापत्यकुसुमास्त्रशसिनौ तदधिवास,
वसुमतीमेव सुरस्रवन्तीमनुचिन्तयन्यथोदितसमयविधेयनियतकार्यपरा-
यणमनाः सूर्यनारायणसमरपुंगवाभिधानाभ्यामसमानविनयधुर्याभ्यां सो-
दर्याभ्यामश्रान्तरचितचरणारविन्दपरिचरणो निरवधिस्नेहपरिवाही जन-
कविहिताभिलषितकर्मा सहधर्मिणीप्रणीतसमधिकानुरोधविधिरतिमहा-
न्तमन्वभूदानन्दम् ।
सौभागिनेयः सं तदा शोभायै श्रुतिसंपदाम् ।
असेवत शिवाकल्पकल्पमप्पय्यदीक्षितम् ॥ .८६ ।।
पुस्तककरा बुधावलिररुचव्याख्याकृतः पुरों यस्य ।
पटुवाङ्मुखप्रवाहप्लवनावष्टंब्धपोतफलकेव ॥ ८७॥
यात्राप्रबन्धः। ३१ निन्दति मकरन्दरसं न्यक्कुरुते शर्करां पयो जयति । मोचामदमाचामति वाचामधिपस्य वैखरी यस्य ॥ ८॥ यन्मुखविगलद्वाङ्मुखसुरपुरतटिनीजडीकृता विदुषाम् । फणितिर्दन्तपटाभ्यामजीघटदाढमात्मसंवरणम् ॥ ८९ ॥ वादिमतपुण्ड्वाटीनिष्पीडननर्मयुक्तियन्त्रेण । भुवि यः सृजनजृम्भयदवदातं ख्यातिफाणितवातम् ॥ ९० ॥ यस्य च मनीषिणामग्रगण्यस्य शिबिकाप्रसीमनि वैतालिकवदननिः- मृता सरखती शश्वदेवमश्रौषम् । दुरभ्यस्तविद्यालवेनापि केचिदुरन्तामहन्तामयन्तां कृतं तैः। प्रशस्ते कवित्वे समस्तेऽपि शास्त्रे भवत्यप्पयज्वावतंसात्कृती कः ॥११॥ 'रे रे मुञ्चत धावनानि विमताः सेवध्वमविद्वयी- मप्पय्याध्वरिणो घटेत भवतामेनत्प्रसादस्तदा । तुष्यन्त्यक्षिगतेष्वपि प्रपतनात्सन्तः समृद्धागसः काकस्यानतिकारिणो हि दयते किं नो रघूणां प्रभुः ॥ ९२॥ यश्च सकलविपश्चिदावलिंधुरंधरो वसुंधरोल्लङ्घनजङ्घालशोभापिचण्डि- लैयशोमण्डलैरजगर्हदभिनवकेतकबहम्, अवनीवलयानन्दसंदायकवि- लासकैर्गुणविलासैरजिहिपदम्भोजदुर्हदम्, तिवेलकलितसपर्यापरिचर्या- भिप्रीणदगराजकन्यकाप्रणयिनम्, अचलगुहाविहरदिभरिपुगर्जितोर्जित- प्रणादैवोदविनोदैरततक्षदहितविबुधदाक्ष्यम्, अनवरतायातयाचकप्रियं- करणैर्वितरणैरचकम्पदशेषदातृयशःस्तम्भम्, अशिपथेरुहसेवाहेवाकम- ण्डलितान्पण्डितानललङ्घदागमसागरसागरसंघम्, अनवद्यविद्याविशेष- भूषणमञ्जूषया मनीषयाचचर्वदमरगुरुगर्वम्,
काव्यमाला।
यस्याजस्रमुदित्वरेण हविषाक्रान्ते दिशामन्तरे
तस्तम्भे कुमुदस्सयेन चकृशे ताराधिपच्छायया ।
सस्रंसे शरकाण्डपाण्डुरतया मम्ले मरालश्रिया
बभ्रंशे बिसकान्तिभिर्विजगले डिण्डीरखण्डांशुभिः ॥ ९३ ॥
यत्कीर्तिप्रकरद्विपस्य विहृतिस्थानं जगन्मण्डलं
घण्टे चण्डमयूखशीतकिरणावालानमद्रीश्वरः ।
कक्ष्या व्योमतरङ्गिणी वमथवस्तारागणाः सप्तधा
निर्मुक्ता मदवारिनिर्झरपरीवाहाः पयोराशयः ॥ ९४ ॥
कर्णः श्रीचिन्नबोम्मक्षितिपतिरभितो लम्भयशातकुम्भ-
स्तोमं हेमाभिषेकप्रणयनसमये यस्य मूर्ति प्रशस्याम् ।
रेजे श्रीरङ्गराजाध्वरिवरकलशाम्भोधिलब्धप्रसूते-
विद्याकल्पद्रुमस्य स्खयमिव कलयञ्जातरूपालवालम् ॥ १५ ॥
नीलकण्ठमतनिर्वहणोत्काढुक्तिवृष्टिमुपलभ्य तदनात् ।
ईशयोग्यमयमाशयभूमौ बोधशालिभरमेधयति स्म ॥ ९६ ॥
अहो विबुधवर्गाय सकलाः सकला अपि ।
दिशन्ननिशमेताभिर्द्विजाधिपतिरैधत ॥ ९७ ।।
इति श्रीसमरपुंगवस्य कृतौ चम्पूकाव्ये द्वितीय आश्वासः।
तृतीय आश्वासः।
शक्तिमस्याभिरूपस्य सकलागमशोधने ।
पट्रीयसीमिवामृष्यन्प्रादुरास मधुस्तदा ॥१॥
मध्येवनं भूरिदिनोपजातमौनव्रतानां कलकण्ठयूनाम् ।
समग्रवाग्वैभवसंप्रदायसंसिद्धिहेतुः समयो जजृम्मे ॥ २ ॥
यात्राप्रबन्धः। दिनान्यभूवन्नवशीधुनापि विना जनानां मदसाधनानि । कंदर्पबाहाविजयाङ्कगीतसंदर्भनिष्णातशिलीमुखानि ॥ ३ ॥ मधौ मिलत्संपदि क्लुप्तभावा सीदद्वितिं शिशिरं धरित्री । शनैः शनैर्यद्विजही वधूनां साधारणीनां प्रकृतिः किलेदम् ।। ४। वियन्महोदन्वति दक्षिणाशाव्यापारमाजस्तरणेनिवृत्तिम् । तदात्ववातानुगुणां ततान सांयात्रिकः किं समयाभिधानः ॥ ५ ॥ शीना जडिम्नः शिशिरेण दत्तामात्माकृतेः संकुचितामवस्थाम् । दिनानुपूर्वी त्यजति म जाते सुखैकहेतौ सुभगे वसन्ते ॥ ६ ॥ खीकर्तुमुर्वी शिशिरर्तुभूपे विजृम्भमाणे भृशविस्तृताभिः । गते तु तस्मिन्क्षणदाभिधाभिर्निमीलितं नीलपटीकुटीभिः ॥ ७ ॥ प्रादुर्भवन्ती बहिरब्जिनीनां संवर्तिकासंहतिराबभासे । नीहारवर्षात्ययनिर्णयाय प्रसारिता पाणिपरम्परेव ॥ ८ ॥ मनो वशीकुर्वति माधवेन व्यक्तीकृते कोकिलवंशनादे । वल्ली मुधा बल्लवसुन्दरीणां पटैरिवाश्यत पाण्डुपर्णैः ॥ ९॥ तपोनभखत्प्रभवेन क्लृप्तां त्रासेन नीहारसमावृतिं वा । वसन्तविश्लेषवलक्षपातां जहौ जरत्पत्रमिषेण वल्ली ॥ १० ॥ समं पुराणच्छदनैर्लतानामणूदरीणामतिधैर्यभारम् । बालानिले मुष्णति पल्लवेषु बभूव चित्तेषु च रागबन्धः ॥ ११ ॥ समीरणं चापलक्लृप्तपाण्डुपर्णाशुकाकर्षणपारवश्यम् । वल्ली वलत्पल्लवपाणिनेव निवारयन्ती नितरां चकाशे ॥ १२ ॥ आरामसीमामधिजग्मुषे नु दातुं वसन्ताय गणैस्तरूणाम् । प्रवालकौसुम्भपटोपहारसनाथशाखाप्रकरैर्बभूवे ॥ १३ ॥ या० प्र०३
काव्यमाला।
पर्यायतः पाटलमञ्जरीषु चरन्त्यलीनां पटली चकाशे ।
तत्तन्मधुखादिमतारतम्यविवेचनायै विहितोद्यमेव ॥ १४ ॥
अनङ्गबाणावलिरध्वनीनवान्तेषु शोकज्वलनाकुलेषु ।
निपातजातं किल नीलिमानं निलीनलोलम्बनिभावभार ॥ १५॥
माकन्दवाटीषु मधुव्रतानां कुलं वितेने कलकूजितानि ।
पिकावलेरश्चितपञ्चमायास्तानार्पणायेव धृताभिलाषम् ॥ १६ ॥
गलन्मरन्दप्रमदाश्रु गीतमाकर्णयन्कौकिलमानशाखी ।
शाखाञ्चलेनानिलचञ्चलेन श्लाघाचलन्मौलिरिव व्यलासीत् ॥ १७ ॥
क्रोशन्तमिन्दिन्दिरघोषलक्ष्यात्पिकारवालोलितया प्रसाद्य ।
समीरपोतं सहकारवाटी धन्या मधुस्तन्यरसैरपुष्णात् ॥ १८ ॥
सकिङ्किणीकः कलचञ्चरीकैः प्रसूनधूलीपरिधूसराङ्गः।
अङ्कानुपारुह्य दिगङ्गनानां बालानिलः साधु बबन्ध लीलाम् ॥ १९॥
वने वने वल्गुगिरां पिकानां कलखनाकर्णनकौतुकं वा ।
परागपालीषु परिप्रमो वा मरुद्विहारेऽजनि मान्धहेतुः ॥ २०॥,
पिकद्विजं च स्पृहणीयवाचं मत्तद्विरेफं च मधुः पुपोष ।
सतो गुणानप्यसतोऽपि दोषाञ्जात्या विहीनो न विवेक्तुमीष्टे ॥ २१ ॥
वसन्तलक्ष्म्या वनकेलिभाजो लाक्षारसाः पदपङ्कयो वा।
छिन्नस्य वा किंशुककैतवेन शीतस्य रेजुः सरसैकदेशाः॥ २२ ।।
पान्यप्रियालस्य भरैकहेतोरपि प्रियालस्य गुणानभिज्ञाः ।
उत्तानचित्ता भृशमुत्पलाक्ष्यो गानैर्विकासं घटयांबभूवुः ॥ २३ ।।
दृष्ट्या वधूनां तिलकद्रुमस्य खच्छन्दमासीत्सुमनोविलासः ।
सचेतनानां किमु शम्बरारिशरावलीजर्जरिताशयानाम् ॥ २४ ॥
यात्राप्रबन्धः।
४
निश्वासवातेन नितम्बिनीनामुद्भावितोपस्कृति सिन्दुवारम् ।
अलंचकार श्रवणं यदासां कृतज्ञभावानुगुणः किलेदम् ॥ २५ ॥
सनर्महासाङ्कुरचन्द्रिकाणामणूदरीणामनुकुर्वतेव ।
नमेरुणाभूयत सस्मितेन जनस्य चित्तेन तु विस्मितेन ।। २६ ॥
खस्मिन्वधूमिः सुदृढोपगूढे विटान्प्रहर्तुं विहिताभ्यसूयान् ।
अस्त्रावनि नूनमनन्यजाय कदम्बकं कौरवकं व्यतानीत् ॥ २७ ॥
कङ्केलिसालः कमलेक्षणानामङ्केः प्रणीताभिहतेर्निपीताः ।
वमन्प्रवालान्व्यपदिश्य लाक्षां स्पष्टं वितेने निजपादपत्वम् ॥ २८ ॥
तत्तादृशं भाजनमङ्गनानां हस्ताम्बुजस्पर्शनगौरवस्य ।
तत्पादघातैकपदं प्रसूनस्तरं जहासेव रसालसालः ॥ २९ ।।
अलिद्विजैरादरणीयनादव्याजेन क्लुप्तस्मरवेदपाठैः ।
मन्ये न वन्या मदिरानुषङ्गकलकिता गन्धफली सिषेवे ॥ ३० ॥
मधुश्रियः काञ्चनकर्णिकेव मनोभुवो हैममिवातपत्रम् ।
आलोकि लोकैरबलाजनोक्तिकार्यमितालंकृति कर्णिकारम् ॥ ३१ ॥
नीलालकावनिपीतशेषहालारसापादितहासशाली।
मदोदयभ्रान्तमधुव्रताक्षः शाखी जनस्याजनि कामपालः ॥ ३२ ॥
सेतुं प्रति प्रतिष्ठासा शिष्टसूनोरथोदिता ।
काशीगतिकलाधीतैरादौ प्रणवतामधात् ॥ ३३ ॥
ग्रहैरशेषैः कलितानुकूल्ये लमे पितृभ्यां रचिताभ्यनुज्ञः ।
मान्यैः कृतखस्त्ययनो मनीषी प्रातिष्ठत प्रेक्षितसन्निमित्तः ॥ ३४ ॥
तमनु प्रस्थिता धन्या तादृशप्रेमशालिनी ।
व्यद्योतत मनोवृत्तिः पित्रोरिव सहायिता ॥ ३५॥
काव्यमाला।
कथाभिधानः सुहृदामुदारैरसंभृताध्वंश्रमसंपदेषः ।
आवासमद्वैतरसालनेतुराकल्पमुळः पुरमभ्ययासीत् ॥ ३६ ।।
अथ तस्य नयनपथमासीदति शुनासीरवसतिरपि भूषितमहीतला,
समधिगतदक्षिणपथापि सर्वोत्तरस्वभावा, पावनतरानुभावापि पल्लवेषु कृ-
तस्थितिः, अयोध्यापि भोगवती, विशालापि मथुरा, महोदयापि द्वार-
वती, वाराणसीव वरणोपवेष्टिता, वखोकसारेव धनदोपशोभिनी, वार-
वधूटिकेव वशीकृतधूर्तावतंसा, कंसारिमूर्तिरिव कमलाकरोपगूढा, रू-
पकपरम्परेव रुचिरविधिविराजिता, संगीतविद्येव सारङ्गनाटिकावती,
पार्थसमृद्धिरिव पाञ्चालिकाञ्चिता काञ्चीपुरी ।
स्पर्धा विधाय प्रभुणा गिरीणां संवर्धमानो दिवि यत्र सालः ।
विचिन्त्य विन्ध्याचलशासिशक्तिं तिष्ठन्निवाभाति मियार्धमार्गे ॥३७॥
आनन्दामृतनिधिमर्धचन्द्रमुद्रं भोगेन स्फुटमभिवेष्ट्य सालनाम्ना ।
पूर्वार्धं भुजगपतेरिव स्थितस्य प्रोत्तुङ्गं विलसति गोपुरं यदीयम् ३८
यद्गोपुरं निशि समुच्छ्रितशृङ्गसीम-
विश्रान्तशीतकिरणच्छुरितं दधाति ।
पद्मासनस्फटिकपात्रपतज्जलौघ-
संप्लाव्यमानकमलासचिवाशिलीलाम् ॥ ३९ ॥
महीयसा गोपुरमन्दरेण प्रमथ्य सिन्धुं परिखाभिधानम् ।
आसादितस्येव नवामृतस्य तृप्यन्ति यत्र स्थितिमादधानाः ॥ १०॥
प्रतप्तजाम्बूनदपेशलाभिः पराजिता यत्प्रमदातनूभिः ।
सौदामिनी साध्वसपारवश्यादश्रान्ततारल्यमहो जिहीते ॥ ११ ॥
कुचाञ्चले लोचनकोणभागे कचान्धकारेऽपि च, कामिनीनाम् ।
जागर्ति यत्राहितसंनिधानापिनाकिनो भीतमना मनोभूः ॥ ४२ ॥
यात्राप्रवन्धः।
my
शश्वत्प्रतोलीसरणीषु कामं परम्परा भ्राम्यति यत्र यूनाम् ।
शातोदरीलोकदरावलोकसंमोहनास्त्राहतिविह्वलेव ॥ ४३ ॥
प्रविश्यतां विपश्चितामपश्चिमोऽयमाश्चर्यवीतमतिरेतदवादीत्-
'अशेषजननयनयोग्यममुष्याः किमपि सौभाग्यम्, यदवलोकनलोलुपत-
या भृशमनेकपशैलराजशिखरमरविन्दलोचनोऽपि भगवान्प्रतिदिवसम-
धिवसति।
वाणीसहचरस्यास्य वाजिमेधाध्वरक्षितौ ।
गोपुरावलिकूटेन भाति यूपपरम्परा ॥ ४४ ॥
अस्याः प्रभावेण जनस्य वाणी मन्दापि घाटीमधिगन्तुमीष्टे ।
विधेः प्रिधेयोदाहरणं किलात्र सा मन्थरा वेगवती भवन्ती.॥ ४५ ॥
प्रसार्य नानाविधपण्यजातं प्रातः क्षपायामुपसंहरन्ति ।
इयं पुरारेरनुयाति लीलां प्रपञ्चसर्गप्रलयैकशीलाम् ॥ ४६ ।।
शरीरिणोऽस्या मणिसालगर्भप्रवेशनिष्क्रान्तिशतापदेशात् ।
विवोढुमहाय विमुक्तिकन्यामाकृष्य जन्मान्यनुभुञ्जते किम् ॥ ४७ ।।
कल्याणसंतानतरुं कयापि श्लिष्टं जगन्मङ्गलकल्पवल्लया ।
आसीनमस्या वरणालंवाले फलार्थिनः केऽपि भजन्ति धन्याः' ४८
तत्पूर्वतीर्थयानोऽपि तत्र भूसुरंनन्दनः ।
समवर्तत नियूंढसर्वतीर्थावगाहनः ॥ ४९ ॥
अथ वेदशिरोनिष्ठानपि तीर्थतटीजुषः ।
अनङ्गीकृतकन्दर्पानपि सत्याञ्चितेक्षणान् ॥ ५० ॥
अपि माधुकरी वृत्तिमञ्चतो भ्रमवर्जितान् ।
अपि निःसामकारुण्यानक्षनिग्रहनिर्दयान् ॥ ५१ ॥
शाम्यद्विषयसंचारानपि प्रव्रजनाश्रयान् ।
राजहंससमारब्धसेवानप्यजडाशयान् ॥ ५२ ॥
३८ काव्यमाला। रुषमंहसि विद्यासु लोभमात्मनि रागिताम् । अज्ञत्वमन्यनिन्दासु यतोऽपि जितषड्रिपून् ॥ ५३ ॥ शर्वरीसमयारम्भानिव संभृततारकान् । भीमसेनभुजाटोपानिव दण्डितकीचकान् ॥ ५४ ॥ अनल्पभसितालेपविलसद्विग्रहाञ्छुचीन् । प्रावृप्रशमिताटाट्यान्वरहंसधुरंधरान् ॥ ५५ ॥ असमुत्तम्भितप्रांशूनधौतविमलात्मनः । अखातगम्भीरतरानहिमाक्रान्तशीतलान् ॥ ५६ ॥ कदम्बमुकुलाकारैः कण्टकैरुपशोभितान् । "तेरिव ॥ ५७ ॥ तत्र कुत्रचन स्थास्तूनवनीपावनाकृतीन । कर्मन्दिनः प्रणम्यैष गाहते स्म महोन्नतिम् ॥ ५८॥ मृतकल्याणगुणानपि परकनकरुचित्यजोऽपि सर्वज्ञान् । अपिना ....."भवानपि महोराशीन् ॥५९॥ शैवालापसमग्रान्भ्रमरहितान्प्रकृतिसमधुराजीवान् । विमलान्तरङ्गवार्तान्प्राप्तानिव पुण्यकासारान् ॥ ६ ॥ उन्मत्तपत्रपुष्पैरुत्पादितविभ्रमादनङ्गरिपोः । आदातुमीहमानानावृतमानन्दमिव च सर्वखम् ॥ ६१ ॥ सकलागममधुदिवसा-श्रीकण्ठासक्तकंसवैरिभुजान् । नवभूतिश्रीदगृहान्पुरुषानभजत्परत्र सुधीः ॥ ६२ ॥ आर्यसेवी स निध्यातुमगादेकाम्रनायकम् । वर्धते सुकृतश्रद्धावार्धकं वरिवस्यताम् ॥ ६३ ॥ ततः क्रमेण समतिक्रम्य कतिचिदेष कक्ष्यान्तराणि साक्षादकृत ।
यात्राप्रबन्धः। , कृतकेतरादरः खयंवरवल्लभ इति श्रुतिपल्लवाधराभिः, अगदंकार इति भवरुजातङ्कवाहिमिः, आहितुण्डिक इति कालकुण्डलिना, वाडवशि- खीति वार महार्णवेन, कूटपाकल इति कुसुमेषुदन्तिना, पुरंदरा- युधमिति जलंधराचलेन, करुणापयोधिरिति शरणाभिलाषिभिः, एक- खभावमपि बहुधा विभावितम् , आत्मविवर्तजगदम्यागारिकम् , अखि- लविध्यण्डमण्डलीखण्डनवैतण्डिकम् , अतिकरालकाकोलमुष्टिंधयबन्ध- कविलासिनीकपोलमकरिकाभरणपश्यतोहरम् , अहरवधिनटनविभ्रमा- लंकर्मीणम् , अद्भुतगरिमकार्मणविविधकेलिनिर्माणम् , चलतनयानय- नपरमानन्दनाडिंधमरूपधेयम् , आपीडपदनिवेशितसगरकुलभागधेयम् , असहायरसालतरविहारिणम् , आरग्वधमालभारिणं त्रिपुरवैरिणम् विध्यादिविहितान्वेषं निध्याय महसां निधिम् । अद्रिकन्याकुचाभोगमुद्रितं मोदते स सः ॥ ६४ ॥ अभिवन्द्य तमखिलभुवनवन्दनीयचरणारविन्दमकृत्रिमवचःप्रशस्ता- पदानमस्तौषीत् । हेन्त च्छन्दःपारिजाताग्रभाजो माघन्मायामाक्षिकोत्सारपूर्वम् । यस्याखादं कर्तुमार्या यतन्ते माध्वीकं तद्भाति माकन्दमूले ।। ६५ ॥ त्रसदद्रिसुतादृढोपगृहप्रमदाद्वैतपदाधिकारदात्रीम् । वलयाङ्क निधेहि मूर्ध्नि कम्पां धृतया किं फलमभ्रगङ्गया ते ॥ ६६ ।। व्यर्थः पिधातुमजिनादिविरागचिह्नः स्त्रीवश्यतां त्रिपुरशासन ते श्रमोऽयम् । गात्रं तवैव कमनीयकुचाङ्कमस्या विख्यापने विजयडिण्डिमतां दधाति ॥ ६७ ॥ सत्यं जितोऽसि मदनेन यतः सकम्पं काञ्चीपदे कलयसि स्थितिमङ्गजारे।
४०
काव्यमाला।
साहाय्यनिर्वहणसस्पृहकामकोटिः
शक्तिः किलैकसहकारवतोऽभिषङ्गे ॥ ६८ ॥
संपत्त्यै समिदुच्चयस्य परशुं भद्रं भरानीतये
पाकाय ज्वलनं जलाय तटिनी पत्रोपक्लुप्त्यै वटम् ।
माकन्दं च फलाय मन्मथरिपो संगृह्णति त्वय्यमू-
कामाक्ष्या विकलेतरः परिकरो नित्यान्नविश्राणने ॥ ६९ ।।
भावना मे महादेव"
नौस्तम्भलग्ना काकीव नान्यत्र लभते गतिम् ॥ ७० ॥
अपि च।
भगवति शंभावनया शिवया सह शीलिते भृशं भावनया ।
तदधिगमोदस्तस्य क्लेशात्पुंसो भवेत्प्रमोदस्तस्य ॥ ७१ ॥
..."देव्या पारेकम्पं क्ष"या दयास्पदे व्यापारे ।
परिचितमधिकाञ्चितया पश्यदलीकं भजेयमधिकाञ्चि तया ॥७२॥
वरमेकरसालपतिः श्रुतिरमुमेव स्फुटाधिकरसा लपति ।
वपुरसमा तारमतेः खीकृत्यामुष्य विश्वमाता रमते ॥ ७३ ।।
सुरभिरमाकन्दस्य स्फूर्जति मूले निविश्य माकन्दस्य ।
प्रमथेशो भाति शये भृतमृगपरशुर्जिताजशोभातिशये ॥ ७४ ।।
नाथशरीरं भायान्नगभुवि मृदितं नटत्परीरम्भायाम् ।
भीत्या कम्पारयतः प्लावयितुं भुवनगोलकं पारयतः ॥ ७५ ॥
परिचितवेदान्तानां प्रणिहितमनसामुमाधवे दान्तानाम् ।
अलघुभकाटव्यसनं विरचयतां केन्द्रवेशवाटव्यसनम् ॥ ७६ ।।
दक्षसभावस्कन्दे पटुरवतु शिवो, निरूढभावः स्कन्दे ।
स्त्री कृतकरणीयस्य स्मृतिभवचेतोविशल्यकरणी यस्य ॥ ७७ ॥
यात्राप्रबन्धः
४१
तमुपासे वासवतः परममरादपि च सारसे वासवतः ।
अस्त्रितसारसनाभिं कमपि करासक्तकृष्णसारसनाभिम् ॥ ७८ ॥
अतिरेकं दर्पस्य क्षपितवदक्ष्णा निजेन कन्दर्पस्य ।
प्रशमितसन्नमदेनः स्मरत ज्योतिर्हृदावसन्नमदेन ॥ ७९ ॥
पृथुकटकैलासस्य प्रसवसुगन्धैः पतिः स कैलासस्य ।
भाति भवानीकान्तस्त्रिपुरान्धकमुख्यदानवानीकान्तः ।। ८० ॥
पटुरनुसायं नटने समतां सिंहस्य रंहसा यन्नटने ।
मा भजमानं दयतां पशुपतिरातङ्कभाजमानन्दयताम् ॥ ८१ ।।
सरसिजधामादिशते पदजुषि विद्यां पृथग्विधामादिशते ।
विभवे विप्रसवाय प्रणतिरियं ध्वस्तविधिजविप्रसवाय ॥ ८२ ॥
अधिफणिहारमरालः पतिरवतु कृपासरोविहारमरालः ।
अघतटिनीरच्छा यं प्लवमेत्य तरन्ति गाङ्गनीरच्छायम् ॥ ८३ ।।
वलदहिदाम वसानं त्वचमीडे देवगुहृदामवसानम् ।
जगदतिसंधामाद्यन्नलिनशरप्लोषलालसं धामाद्यम् ॥ ८४ ॥
पुरजेता मम नाथो रणदमितविपक्षराजमानसमुदयम् ।
॥ ८५ ॥
मतिभृङ्गि महेशाजिसारसं दोहलालसे ।
आश्रयानन्दमाध्वीकसारसंदोहलालसे ॥ ८६ ॥
शंभोरवतु मामेकसहकारतलासिका ।
ऋते गिरिभुवं तेन सह का रतलासिका ॥ ८७ ।।
सोऽव्यावहन्सुरोसमकरन्दरसं पदे ।
दिशन्नरिं ध्वजारूढमकरं दरसंपदे ॥२८॥
वेदविदध्वान्तस्य व्यतिकरमबलादिसौहृदध्वान्तस्य ।
प्रमदाम्भोजहितेन. प्रत्ययरविणाम्बिकाविभो जहि तेन ॥ ८९ ॥
काव्यमाला। तं भजे बुभुजे येन तरसा गरलं धनम् । यत्परैः सुकरं भद्रेतरसागरलङ्घनम् ॥ ९० ॥ राजतेजा गरादी नः सविता नयशोधनः । राजते जागरादीनः सवितानयशोधनः ॥ ९१ ॥ उषितः समया रसालसालं स्वमुपासीदति या रसालसालम् । गिरिजां मुहुराहिताकपालीप्रणयः स्तौति गिरा हितां कपाली ॥९२॥ अद्वितीयाममूलासिकालालसं नृत्तलीलारसोल्लासिकालालसम् । मामकी दुर्मनोभावनागाहतेः श्रीगिरीशं भिया भावना गाहते ॥१३॥ अमितविभव सर्वदैव तेषु त्रिजगति ते भव सर्वदैवतेषु । नतिरतिरसभावितायमानैः स्फुटमिह धीरसभावितायमानैः ॥ ९४ ॥ फणाभृति तवेश दोर्णवपटीरसालासिका- रते नटति कम्पितार्णवपटी रसा लासिका। सती प्रणयसंपदा समधिकामनङ्गाहतेः स्मरान्तक तवान्तरं समधिकामनं गाहते ॥ ९५ ॥ इह खलु तामरसाक्षीमयवामतनो त्वमानतामरसाक्षी । इयमनुकम्पालय ते नतिरीश नमस्यतोऽधिकं पालयते ॥ ९६ ॥ गिरिश गभीरं हस्तस्फुरदायुधमत्र केऽपि भीरंहस्तः। सविधिकरोटीकं ते वपुः स्मरन्तो जगद्गुरो टीकन्ते ॥ ९७ ॥ लघु फलमाशासानश्वरतु जनो नेदमाप्तुमाशा सा नः । त्वयि शशिकोटीरमणे भक्ति याचेम कामकोटीरमणे ॥ ९८॥ प्रतिदिवसं सारस्य प्रकटितविपरीतस्थितेः संसारस्य(:) । इह सपदि व्याहारः शिव इति हरतेऽधर्मस्तदिव्याहारः ॥ ९९ ॥ अमित रसारम्भणतः श्राव्यं शिवनाम वेदसारं भणतः ।
यात्राप्रबन्धः। स्यान्मम कालापनयः स तु किल कल्याणसाधकालापनयः ॥१०॥ अविहितकृदकाण्डे दण्डितोऽभून्मनोभू- रकरुणममुनेति स्पर्धमानेव गौरी । खकुचवलयमुद्राशालि गात्रं पुरारे- रकृत मदनजैत्रस्तम्भमेकाम्रमूले ॥ १०१॥ प्रणयकलहशान्त्यै पादमूले विनम्रा- दभिचलति कपर्दादभ्रगङ्गातरङ्गे । पुनरुपगतकम्पापूरमोहेन देव्या दृढतरमुपगूढं ध्यायतैकामनाथम् ॥ १०२ ॥ कुवलयदामकोमलवधूमयवामतनौ भवतु भवे भवे मम भवेऽतिभवेऽभिरतिः । न तु भवने धने परिजने मदनेभमद- प्रदचरितासु तासु वनितासु सुतादिषु वा ॥ १०३ ॥ काञ्चीनगर्यामालोक्य कामकोटेः किमुन्नतिम् । रुद्रकोटिमधिष्ठाय रोचते मदनान्तकः ॥ १०४ ॥ इति स्तुवन्हिमकरमौलिसंनिधेर्जगत्प्रसूचरणसमीपमभ्यगात् । अलियथा नवहरिचन्दनान्तिकादुदञ्चितध्वनिरुपकल्पवल्लिकाम् १०५ अपिचैकभागमधिजग्मुषी विभोरतितृष्णयेव परभागमाश्रिता । स्तनयोर्मनोजवसतामुपेयुषी परदेवता पथि सुधी दृशोरभूत् १०६ असौ पुनरसदृशप्रतिपत्तिमेदुरः प्रणिपत्य मातरमवाङ्मनसगोचरगु- णामाचिकुरचरणारविन्दमनुसंदधानो विसृमरानन्दवी चिरिदमवोचत । सर्वात्मना स्तवे तव जननि जगत्यां न मादृशो निपुणः । निवहोऽपि नित्यवाचां भागत्यागेन भणति यद्पम् ॥ १०७ ।।
४४ काव्यमाला। शम्वरवैरिकृपाणी शैलतनूजे तवासिता वेणी । उन्मदयौवनकुञ्जरशुण्डालतिका शुभाय मे भूयात् ॥ १०८ ॥ जननि तव मौलिचन्द्रो भिन्द्यान्मम बहलमान्तरं तिमिरम् । वेणीविधुंतुदेन ग्रस्तमिवार्धं न दृश्यते यस्य ॥ १०९ ॥ कान्तिविशेषाधीति कलयितुमन्ते वसन्नपि शशाङ्कः । वहति न ते वदनरुचिं भवति हि भाग्यानुसारिणी सिद्धिः ॥११०॥ वदनश्रियो विधात्रा विधृतस्य विधुच्छलातपत्रस्य । मृगमदतिलकमिषेण च्छायावलयं चकास्ति तव फाले ॥ १११ ।। उत्तेजितः किमुत्पलबाणो मदनेन भालशाणेऽस्मिन् । भाति यदियं भवानि त्वद्भूरूपेण तद्रजोरेखा ॥ ११२ ॥ अधिकमसितोत्पलादपि धरणीधरपुत्रि तावकं नयनम् । कर्णाश्रयेण कान्तिमदाद्यं यत्तदतिपीडनेन परम् ॥ ११३ ॥ विषयमरुमार्गसीमाविभ्रमसंजातसंज्वरानस्मान् । अम्ब कृपारसपूरैरभिषिञ्चापाङ्गसारणीमुक्तैः ॥ ११४ ॥ निध्याय किं भवत्या नासाचाम्पेयमन्तरालगतम् । नयनमधुव्रतमिथुनं न कदापि मिथः समागमं भजते ॥ ११५ ॥ कान्तिसुधया करम्वितमाननचषकं तवाधिवासयितुम् । नासामणिच्छलेन न्यस्तं किमु मल्लिकामुकुलम् ॥ ११६ ॥ विरसा विद्रुमवल्ली तुल्या न भवेत्त्वदोष्ठबिम्बेन । यदमृतसेवनलोभादीशो धत्ते बहूनि वक्त्राणि ॥ ११७ ॥ अवतु तव स्मितकलिका शिखरिकुलाधीशकन्यके मातः । प्रणयकलहप्रसक्तिषु यदवधिरीशस्य भवति चाटूक्तिः ॥ ११८ ॥ सरघोपचितरसे वा सारे वा कालकूटसोदर्ये । मधुरिमधियं विमुञ्चति गिरिशः प्रस्तौषि यदि गिरमपणे ॥ ११९ ॥ .
यात्राप्रबन्धः। ४५ वितता भवत्कपोले विलसति ताटङ्कमौक्तिकच्छाया । अधिकतया श्रुतिगलिता हरचरितकथासुधारसझरीव ॥ १२० ॥ न नमय वदनसुधाकरममृतं निपतिष्यतीति सव्याजम् । गिरिशेन केलिकलहे मुहुरुन्नमितं नुमो भवञ्चिबुकम् ॥ १२१ ।। त्वत्कण्ठदत्तभङ्गः शङ्खो भीत्या समेत्य हरिदीशम् । ' भजते ततोऽपि भङ्गान्कापि न शर्मास्ति कुटिलहृदयानाम् ।। १२२ ॥ कण्ठसमुदञ्चितं तव कलरुतमपहृत्य सांप्रतं गिरिजे । प्रकटयति जनसमक्षं प्रायो हस्ताग्रताडिता वीणा ॥ १२३ ॥ नखरसुमनोलसत्करकिसलयमम्ब तव भुजलतायुगलम् । आलिङ्गति सहकारं निटिलहगभिधानमिति किलोपयिकम् ॥ १२ ॥ आन्क्षुिधा पदाम्बुजसतानमान्समीक्ष्य वात्सल्यात् । धृतया स्तन्यसमृद्ध्या भवति किमम्ब तव पीनता कुचयोः ॥ १२५ ॥ मुखचन्द्रामृतलहरी मुक्तादामच्छलात्क्षरन्ती ते । कुचगिरिमृगमदकलिला नाभिसरो विशति रोमराजिमिषात् ।। १२६॥ ज्यारोपणाय मध्ये धनुषो निहितस्य मारवीरेण । अटनीनिपीडनोदितमवटं त्वन्नाभिरिति वदन्ति जनाः ॥ १२७ . उच्छ्रायशालिनोभरमुरसिजयोः सोढुमप्रवीणतया । ताम्यति तवावलग्नं सह्या न ह्यन्यसंपदल्पानाम् ।। १२८ ।। वसतो वृषाङ्कभीत्या भवदीयश्रोणिपर्वतनितम्बे । रशनामिषेण रक्षावरणो मदनस्य वर्तते मातः ॥.१२९ ॥ मन्ये त्वदूरकाण्डौ. मन्मथतारुण्यवारणेन्द्रकरौ । कथमिह घटतेऽपरवा कदलीस्तम्भाभिषङ्गलम्पटता ॥ १३०॥ समरव्यतिकरसमये पश्चाद्भवतो. भृशं निषङ्गस्य ।
४६ काव्यमाला। दर्पहरणेन तावज्जङ्घाकाण्डस्य जननि का श्लाघा ॥ १३१ ॥ संपल्लवास्त्वद ः सक्ता वल्लीषु किसलयव्याजात् । यत्पल्लवा इतीदं नाम्नो नामैकदेशतो ग्रहणम् ॥ १३२ ॥ प्रकृतिकठोरपदावलिरेषा नुतिरेव मत्समारब्धा । भवति भवदङ्घिपल्लवशोणिमहेतुरिति शोभते वादः ॥ १३३ ।। जननि त्वदनिचङ्क्रमलीलालेशापहारसंदेहात् । प्रायेण निगलबन्धं नरपतयः कारयन्ति नागानाम् ॥ १३४ ॥ श्रुतिशतशिरोविहारश्रमपरिखिन्नेव चरणरेणुस्ते । सुरवरशेखरसुमनोमकरन्दस्यन्दगाहनं तनुते ॥ १३५ ॥ असितकचमायतेक्षणमुल्लसितसितमुदारकुचभारम् । घनजघनमरुणचरणं कलये कामाक्षि तावकं. रूपम् ॥ १३६ ॥ सुधामजनविधायिनोऽपि सपदि समुदेति सौहिती न पुनरम्बागुण- कदम्बामृतझरीनिषेवणधुरीणमानसस्य । पुनरपि भूसुरधुरंधरस्तदनुब- धिनीमेव भारतीमभिधातुमारभत । कस्सिन्मुहूर्ते करपल्लवेन तवाददे काञ्चनदर्विकेयम् । यस्य प्रसादादयमिन्दुमौलिरैश्वर्यमव्याहतमम्ब भुते ॥ १३७ ।। धामास्य कैलासगिरिः करस्थो हेमाचलस्त्वं दयितान्नपूर्णा । धत्ते हरो भिक्षुकतां तथापि लुब्धः समागच्छति केन तृप्तिम् १३८ गिरीशहेरम्बकुमारवाहग्रस्तावशिष्टैरचलेन्द्रकन्ये । धान्यैरपि प्रस्थमितैः कथं वा जगत्रयीपोषणमातनोषि ॥ १३९ ।। कम्पामपास्य अथितोद्मानां चञ्चपुटग्रस्तबिसाङ्कुराणाम् । उद्दीवमोघेन मरालिकानामाकर्ण्यमानाभरणखनानि ॥ १४०॥ मृदुप्रकृत्योर्मणिनिर्मितायां पदाजयोरर्पितयोः पदव्याम् ।
यात्राप्रबन्धः।
४७
तद्विम्बदम्भादयमानधात्रीप्रारब्धपद्मास्तरणक्रियाणि ॥ १४१ ॥
कुचामृताखादकुतूहलेन हस्तावकृष्टांशुकपल्लवाभ्याम् ।
अभीष्टवस्त्वन्तरदानपूर्वमाख्यातसान्त्वानि कुमारकाभ्याम् ॥ १४२ ॥
अनुद्रवच्छेकमृगीनिवृत्त्यै वितन्वतो हुंकृतिमाननेन्दोः ।
साचीकृतप्रेजितवेणिकास्तश्वासानिलाकृष्टमधुव्रतानि ॥ १४३ ॥
मध्याय मन्देतरकम्पशालिपयोधरद्वन्द्वभरार्दिताय ।
अनार्यशङ्काकुलितेन भी प्रतिक्षणं प्रार्थितमङ्गलानि ॥ १४४ ।।
अचिन्त्यमानस्फटिकाङ्गणोर्वीपुष्पोपहारस्खलनव्यथानि ।
वेगोपयातानुचरीप्रणीतवेणीगलन्माल्यनिबन्धनानि ॥ १४५ ॥
अभीक्ष्णमक्ष्णोः श्रवणारविन्दपरागपर्याकुलभावभाजोः ।
प्रसादनाय प्रणयोत्तरङ्ग पिनाकिना दत्तमुखानिलानि ॥ १४६ ॥
अद्वैतचूतप्रसेवासवेषु पदे पदे प्रस्तुतमज़नाभिः ।
कम्पातरङ्गानिलकन्दलीभिराचान्तधर्माम्बुकणावलीनि ॥ १४७ ।।
अजस्रमभ्यागतमण्डलाय प्रत्यग्रमन्नं प्रतिपादयन्त्याः ।
आ मण्डपादा च महानसात्ते कामाक्षि नः पान्तु गतागतानि १४८
किं च।
मध्ये नीपवनस्य प्रचलद्गीर्वाणतरुवनीपवनस्य ।
शीलितमोहनगानां जननी भज भञ्जनाय मोहनगानाम् ॥ ११९ ।।
पुरहरगिरिजातरसा चेतसि येषां चकास्ति गिरिजा तरसा ।
अतिसरसं पद्यं ते रचयन्ति यशांसि तेषु संपद्यन्ते ॥ १५० ॥
इयमुपनीताम्रतरावभिके सत्ता जपावनी ताम्रतरा ।
मामिह पाकं पायाचियतविधि तन्वती कृपा कम्पायाम् ॥ १५१ ॥
४८ काव्यमाला। बहुशो भाविता नासाशिखरन्यस्तलोचनैः । बहुशोभाविताना सा भवानी परिपातु नः ॥ १५२ ॥ घनसारसगन्धेन वदनेन स्मितेन च । घनसारसगन्धेन ललितां ललितां भजे ॥ १५३ ।। अपत्यमगराजस्य भजमानसभाजनम् । चन्द्रशेखरचाटूनां भज मानस भाजनम् ॥ १५४ ॥ कलत्रमैशं हग्भासा सन्नतामरसं सदा । सेवे श्रितं पदोपान्तसंनतामरसंसदा ॥ १५५ ॥ त्रातोऽस्मि देव्या बन्धूककलिकोपमदेहया । गङ्गाधरे कृतप्रेम कलिकोपमदेहया ॥ १५६ ॥ जनन्या गिरिशोगाढोत्कलिकालसमानया । वयं धन्या वतंसेन्दुकलिकालसमानया ॥ १५७ ॥ अम्बा तपोवनीभूतकम्पाकान्तारमालिका । सेव्या शिवस्मृतौ वीतकम्पा कान्ता रमालिका ॥ १५८ ।। शिवा स्पृहावती कम्पावाहिनीपवनालये । भासते सुमनोभारवाहिनीपवनालये ॥ १५९ ॥ काशते वलयाङ्कस्य कमनी यतमानसा । कान्तिसौभाग्यशीलैः किं कमनीयतमा न सा ॥ १६० ॥ समरच्छिन्नदैतेयसारवद्विपदन्तया । देव्या जितं कृतोपास्तिसारवद्विपदन्तया ॥ १६१ ।। अत्र गौर्या सदारब्धयागवासरसार्थया । भूयते गीयते. लोके या गवा सरसार्थया ॥ १६२ ॥ भजतः स्युरिमां विद्यां काञ्चीदा मोदराशयः । साधु जानाति यान्मातः काञ्चीदामोदराशयः ॥ १६३ ।।
यात्राप्रबन्धः। ४९ घत्ते मुदा श्रियं गौरी तामसीमदमन्थरा । अस्याश्च प्रकृतिदूरे तामसी मदमन्थरा ॥ १६४ ॥ कलयामीन्दुकलया भूषितां तटभूषिताम् । कम्पायाः सोर्मि कम्पाया देवतां शश्वदेव ताम् ॥ १६५ ॥ कुन्दराजन्नवरदा वरदानविशारदा । शारदाविनुता पातु तापातुरमिमं शिवा ॥ १६६ ॥ जननी जननीतीनां गिरिजा गिरि जाग्रती। महता महताटोपं तनुतां तनुतां शुचः ॥ १६७ ॥ रमणीयतमा शंभुरमणीयमुपासिता । कम्पातीरं गता नाधेः कं पातीरंमदाधिकात् ॥ १६८ ॥ घरा घरार्तिकृत्पयोधराधरास्तपल्लवा । परा परापनीतितत्परा पराकरोत्यघम् ॥ १६९ ॥ अमेयविभवे भवे सहृदया दयाघनमना मनाक्सभजने । जने धृतसुमा समाधिसुगमागमालिमहिता हितास्ति जननी ॥ १७०॥ रयशालिकुचा लिकुचापजये वचसैव सुधा वसुधाधरभूः । कलसारसना रसना भुवि मे तनुतां नटनं नटनर्मसखी ॥ १७१ ॥ मुदितामुदितारुणबिम्बनिभामगजामगजानुविधेयगतिम् । अधिकाञ्चि वनाभवने भवने रतिभाजमिहाकलये कलये ।। १७२ ।। महितया हितया जगतां त्रयीपथिकपालिकपालिजुषा मयि । करुणयारुणया क्रियतां नमत्सुरगवीक्षणवीक्षणनाटिका ॥ १७३ ॥ आर्तिभागशनदानवासनाशालिनी जनितदानवासना । ताशी जयति तापसी मया सेविता कृतिरतापसीमया ॥ १७४ ॥ या.प्र.४
काव्यमाला।
श्रये महस्तरुणिमसंपदा मनाङ्मदारुणं दृशि वशिनामदारुणम् ।
तनुप्रभाततिपरिभूतनिर्दलज्जपावनं विनतसमाजपावनम् ॥ १७५ ॥
शिवयागमेषु लसमानवार्तया निजशीलवागलसमानवार्तया ।
खगुणोदयत्सकलमावलीलया जगती कृतारिकलभावलीलया १७६
सेवन्ते नतिमिह हारमालिकायै शर्वस्य स्तनधृतहारमालिकायै ।
तारल्यप्रकटिततादृशान्तरङ्गा वागीशादिमवनिता दृशां तरङ्गाः १७७
हितोपसंपन्नवनीपकानना वितापसंपन्नवनीपकानना ।
श्रिता भवानी तरसा लसन्निधौ सदा भवानीतरसालसंनिधौ १७८
अव्याजनिर्मलतरैर्नखरांशुपूरैः कम्पानदीप्रमदभिन्नगजेशयानाम् ।
कीकरोति मनसा भवतीमिदं मे कं पानदीप्रमदभिन्नगजे शयानाम् १७९
सहेतिमस्तच्छविपल्लवेषु शयेषु लूनाच्छविपल्लवेषु ।
त्वामम्ब सिन्दूरविभासमानां ध्यायन्ति मध्येरवि भासमानाम् १८०
सति स्मरहरन्यस्तायतमानसभावने ।
पाहि मामजहत्सेवायतमानसभावने ॥ १८१ ॥
अम्ब यस्य भवल्लास्यकलनादरसंभवः।
स वेद तव संगीतकलनादरसं भवः ॥ १८२ ।।
अधिमस्तकमेशेन सह सारसमध्यगाम् ।
अम्बिके भवतीं पश्यन्सहसा रसमध्यगाम् ॥ १८३ ॥
त्वत्कृपा भुवने पुंसां कामाक्षि करसाधिका ।
त्वां विनानन्दलहरी का माक्षिकरसाधिका ॥ १८४ ॥
करोषि देवि दानस्ते करवैभवनाटनम् ।
कदा ते किंकरीभूय करवै भवनाटनम् ॥ १८५ ॥
यात्राप्रबन्धः।
नाके वलन्ते नादान्तमनसः परमेश्वरि ।
ना केवलं ते नादान्तदीपिकायास्तु चिन्तकः ॥ १८६ ॥
भगवति कामाक्षि पतिप्रणयिनि भजते श्रियं न कामाक्षिपति ।
तव हि कटाक्षतरङ्गः करुणोमिनटीविशङ्कटाक्षतरङ्गः ॥ १८७ ॥
स्थितिमधिकं पारम्ये कलयसि मातः स्थले च कम्पारम्ये ।
सिध्यति तव पदवीक्षणतः सिध्यति पुंसामजादिपदवी क्षणतः १८८
जगदुदयस्थेमहतीः कर्तुं काञ्चीपुरालयस्थे महतीः ।
अतुलं चारित्रेऽधा रूपं निगमान्तसौधचारि त्रेधा ॥ १८९ ॥
द्विषति पुरामारभसे रुषमधिमौलि धृतजलधिरामारभसे ।
त्वमिव परा का रमिता तस्य शिवे दक्षिणेतराकारमिता ॥ १९० ॥
इह पिबतः स्तन्यं ते कस्य न वाचः सुधाभृतस्तन्यन्ते ।
अम्ब तदाशु भवत्या प्रदीयतामस्य सर्वदा शुभवत्या ॥ १९१ ।।
शुभमनसा कमनेन धुपतिसुताया गुहेन साकमनेन ।
स्तनरसदायजुषो मे समयं गमय स्तुते सदा यजुषोमे ॥ १९२ ।।
कार्या देवि चिकित्सा कुक्षिरुजः का दयापदे विचिकित्सा ।
स्तन्यरसायनमस्ते तमसि प्रदिशाशिसारसाय नमस्ते ॥ १९३ ॥
चिदुदधिराकारजने त्रिभुवनमातः कृतस्मराकारजने ।
दव नुतिवाचा रचये प्रपदनमजहत्प्रियोत्सवाचारचये ॥ १९४ ॥
अञ्चितशंकरवाणि त्वत्पदसेवां दिवानिशं करवाणि ।
मम न गिराजनि योगं वद वचनं ते वदन्ति राजनियोगम् १९५
श्रितपतिमानसदेशे शश्वत्काञ्चयां भवद्विमानसदेशे।
भवतु शिवा सानुमति स्निग्धे तव देवि मन्निवासानुमतिः ॥ १९६ ॥
५२ काव्यमाला। इति विनिहितबुद्धिरीश्वरायां भवनमिवाद्रिपतेरसावयासीत् । निजहृदयनिरूढकामकोटे रुचिततरा वरदोपकण्ठयात्रा ॥ १९७ ॥ पार्श्वयुग्मगता यस्य प्रसूते गोपुरद्वयी । अन्तरस्थितशैलेभबन्धनस्तम्भविभ्रमम् ॥ १९८ ।। कथं मनोविस्मयकारि तद्भवेदनन्तरं तत्र यदग्रणीः सताम् । समाहितानन्तसरोवगाहनः स पुण्यकोट्या लभते स संनिधिम् १९९ अथ सुमतिरयमधिरूढशिखरिकूटभागमवलोकयति स विस्मयवि- धायि विनयगौरवावर्जिताभिरापगावेगसङ्गिवेतसविडम्बिनीभिरुत्तमाङ्गप- रंपराभिरन्योन्यनमनकर्माणि निर्मिमाणैरापाण्डरोर्ध्वपुण्ड्रमरीचिनिबिडश- रीरतया श्वेतद्वीपविहरणोचितं परिणतिविशेषमिव गाहमानैः सत्वसमृ- द्धिमन्तरमान्तीं बहिरिव विभावयद्भिरतिवेलबोधजलधिपूरावगाहमिलित- मिव बहलफेनपटलमाबिभ्राणैरधिकण्ठमाशये च नलिनाक्षगुणमण्डितैः सारसविहंगमैरिव समाचर्यमाणलक्ष्मणाभिमतैः कमलाकरैरिव कमनीय- जलजचकाङ्गशालिमिरम्बरकुटुम्बिभिरिव प्रकटामृताभिलाषैरञ्जलिसनाथ- मौलिभिरस्तोकविसृमरस्तवैः परमभागवतसूरिभिराबध्यमानसेवानुवृत्तिमु- भयपार्थस्थितपरिजनकरावलम्बितैरनवरतविजृम्भमाणपतनोत्पतनकर्मभि- रलघुनिर्मलांशुडामरैश्चामरैः स्खकरुणारससुधापयोधिवीचिनिचयैरिव समा- चरितविजनोपचारमनधिगतवेपथुभिरपनिमेषचापलमात्मीयरूपसंपदमनु- भवद्भिरिव दीपिकाप्ररोहैरवभासितभूषणप्रपञ्चं काञ्चीमध्यमण्डलमाखण्ड- लनीलमिव लक्ष्यमाणमेकेन पाणिना वारणविरोधियादोनिषूदनाय पत्या- हमविनियुक्तेति कन्दलितादिव मन्दाक्षभरादघोमुखी कौमोदकीमवष्ट- भ्य तिष्ठन्तमिदमेव मदावलभयविदारणमित्यभयमुद्रानुबन्धिना करान्त- रेण सुदर्शनमिव प्रदर्शयन्तं शुण्डालवरनिवेदितं पुण्डरीकमुकुलमिव
यात्राप्रबन्धः।
समञ्चितं पाञ्चजन्यमापाटलाङ्गुलीदलशोभावगुण्ठितमचिरखण्डितग्राहरु-
धिराङ्गमिव रथाङ्गमपि हस्तारविन्दयुगलेन संदधानमध्युषितनिकषमध्या-
मपि कनकरेखामलंकृतगगनाङ्गणामपि तरुणारुणकिरणधोरणीमम्बुदकृ-
तावलम्बामपि शम्पालतामधिक्षिपन्त्या वक्षोनिविष्टया लक्ष्म्या समाश्लि-
ष्टवपुषमभिनवबन्धूकरोचिषि दन्तवाससि चन्द्रिकाशकलपेशलं स्वीकृ-
तवपैकदेशमिव हसितलेशमुद्वहन्तं पुन्नागमपि भुवनमण्डलीतिलकं पूत-
चारित्रमपि भुजङ्गभोगभुजं हरिमपि प्रथमानकरिहार्दगरिमाणमसमान-
महिमशेवधि निरवधिविभूतिमनिमेषपतिम् ।
अङ्गत्विषामञ्जनमेचकानां व्याजेन विस्तारयति स्फुटं यः ।
कठोरवक्षःस्थलकेलिभाजो लक्ष्म्या नवेन्दीवरपत्रशय्याम् ॥ २०० ॥
वेदाकरा नीलमणेस्त्रिलोकीविभूषणानामपि भूषणस्य ।
अलंक्रिया यस्य किरीटमुख्यैरनुग्रहः केवलमेव तेषाम् ॥ २०१॥
आपादचूडाभरणेषु लक्ष्मीराभाति यस्य प्रतिबिम्बिताङ्गी ।
आक्रम्य हृन्मध्यमपूर्णकामा समश्नुवानेव तनुं समस्ताम् ॥ २०२ ।।
यद्भूषणेषु हरिनीलमलीमसेव
मुक्ताफलाम्भसि निमज्जति प्रमायाः।
शोणोपलातपमुपैति जडीकृतेव
तप्तेव याति हरिदश्मतमालवीथीम् ॥ २०३ ॥
यत्कौस्तुभप्रतिभटोपलसंग्रहेच्छु-
रुद्धृत्य पूर्वजलधेर्मणिमम्बरस्य ।
नक्तंदिवस्फुरणहीनममुं विचिन्त्य
वेधा निरस्यति मुहुश्वरमाम्बुराशौ ॥ २० ॥
काव्यमाला।
खबिम्बमन्तर्मणिराजमीक्ष्य जायान्तराशङ्किहृदः प्रियायाः ।
क्षणं समुद्यत्किलिकिञ्चितानां यः पात्रतामेति दृगञ्चलानाम् ॥ २०५॥
उद्दामबाहुभरमुद्धृतकण्टकस्य
यस्योपधाय सुखसुप्तिजुषस्त्रिलोक्याः ।
क्षौमोत्तरीयमिव निःश्वसितप्रणुन्न-
मास्ते महश्चटुलमङ्गदमौक्तिकानाम् ॥ २०६ ।।
यस्य वरदस्य हस्तो रहस्तो हृतपराग्रहस्तोमः ।
कटकं बिभर्ति मानोत्कटकञ्जमुखीविनोदसंघटकम् ॥ २०७ ॥
शावककृष्टिपुरोगतिजगदभयत्यागदृष्टकौशलयोः ।
सव्यापसव्यकरयोर्घटते मणिकङ्कणार्पणं यस्य ॥ २०८ ।।
अन्तर्बहिरपि शुचयः कटकजुषो यस्य वृत्तकमनीयाः ।
हृदतपरखरूपा मुक्तामणयो विभान्ति मुनय इव ॥ २०९॥
कटककुरुविन्दकान्तिस्थगितामणिदाममण्डलाद्यस्य ।
करपल्लवः क्षणार्ध हारग्रहणाय हन्त संदिग्धे ॥ २१० ॥
सरसि विहृत्य वधूभिः संतरतो यस्य निर्जरेभस्य ।
कटकहरिन्मणिकान्तिः सृजति कराकृष्टकमलिनीशङ्काम् ॥ २११ ॥
मध्येरणं कटकमौक्तिकधामगौरो
यन्नन्दकः परिपतनरिकन्धरासु ।
वैमानिकायतहशां वरणागतानां
सूते वराप्तिसुरद्रुममाल्यशङ्काम् ॥ २१२ ॥
रणे बलाकृष्टसुरारिलक्ष्मीवेणीव सा दीव्यति यत्कृपाणी।
तद्वान्तजातीकुसुमानुकारं तन्वन्ति यत्कङ्कणमौक्तिकानि ॥२१३॥
यात्राप्रबन्धः।
५५
यदिव्याभरणोच्चयस्य महिमश्लाघाविधाने तथा
हर्षात्कम्पयते फणादशशतीमाशीविषग्रामणीः ।
पर्यस्येत यथा धृतश्विरमदः प्रत्युप्तरत्नाकुर-
प्रौढालोकनिरर्थकीकृतमणीवृन्दातिभारश्रमः ॥ २१४ ।।
तदनु दनुशासनाय विनयोपहृतमौल्यानतिरसौ कल्याणिनेयः कौतु-
कविकसितेक्षणो नवनवाक्षराणि कतिचिदेवमस्राक्षीत् ।
काचिन्नीला भासा करुणा विकस द्रुमावनीलाभा सा ।
कृतरचनाम्नायततेः स्थितये लोकस्य वरदनाम्ना यतते ॥ २१५ ॥
स्फुरदपदानवलोऽपः सिन्धोरवगाह्य क्लुप्तदानवलोपः।
नितरामायामी नः श्रियमनवद्यां तनोतु मायामीनः ॥ २१६ ॥
अरिजलजगदाधारं दूरं वचसामशेषजगदाधारम् ।
खीकृतकच्छपदेहं सेवेऽहं (तं) कृताभिकच्छपदेहम् ॥ २१७ ॥
बाहुषु सुरसालाभः प्रलयजलान्तःप्रणीतसुरसालामः ।
किटिरुरुनासावंशः पूर्णो भावः परस्य नासावंशः ॥ २१८ ॥
अघमभितापं चास्यन्नमतां वक्रेण भाखता पञ्चास्यम् ।
सृजदरिवक्षो दमितं भजत महस्तदसृगभिनवक्षोदमितम् ॥ २१९ ॥
निजपदराजीवेन न्यकृतदैतेयशेखराजीवेन ।
कलितमहामहिमानः कल्पयतां शर्म धनमहा महिमा नः ॥ २२० ।।
विरचितपरशुभरणया त्रिसप्तवारावनीपरशुभरणया ।
संहृतकृतवीर्यजया श्रीपतिकलया भवाम कृतवीर्यजयाः ॥ २२१ ॥
पशुपतिचापलतायाः पाटयिता जयति पदमचापलतायाः ।
यः किल साकेतपतिः खयमटवीमाप पितरि साके तपति ॥ २२२॥
काव्यमाला। आहतहालाहलया हतमुष्टिकमुख्यदुष्टहालाहलया। श्रयत हरिज्यायस्या श्रेयःकलया सशस्तिरिज्या यस्याः ॥ २२३ ।। धाम्नो वंशस्तस्य प्रकाशतां बिभ्रदारवं शस्तस्य । अतिसुकुमारमयन्तं मधुमयतां गोपसतितमा रमयन्तम् ॥ २२४ ॥ मुरली वादयमाना मोदं पशुपालनोत्सवादयमाना । सदृशी तापिच्छेन स्फुरति कृपा शिरसि भूषिता पिञ्छेन ॥ २२५॥ हरिममिजातोदन्तं वन्दे कृतबाणबहुभुजातोदं तम् । वक्षसि परमा यस्य क्रीडति लक्ष्मीरपोढपरमायस्य ॥ २२६ ॥ अधिगतकल्यन्तेषु म्लेच्छेषु सृजत्सु वृषमकल्यं तेषु नटितभुजातरवारि ज्योतिरुपासे भयोपजातरवारि ॥ २२७ ॥ सार्थयन्वरदाभिख्यां साधून्पुष्यत्ययं वरैः । सत्यव्रताधिका ॥२२८॥ क्रन्दति करुणमिमेन्द्रे व वैनतेयः क्व वैनतेय इति । उक्त्या सह फणिशयनादुच्चलतस्ते स पातु संरम्भः ॥ २२९ ॥ श्रीचाटुवाणीश्रवणान्तरेऽपि गर्जेव भेजे करिणः श्रुतिं ते । आपन्नरक्षाध्वरदीक्षितानां पुंसां न भोगाभिनिवेशयोगः ॥ २३०॥ . मधुपानुबन्धमनिशं मदान्धतां रसनाविपर्यसनमप्यचिन्तयन् । अंतिभक्तिमेव करिणस्त्वमग्रहीर्गुणता खलु गुणो महीयसाम् २३१ रमेश कारुण्यरसाम्बुराशेः समुज्जिहानो भवतः सवेगम् । चक्रारुणो नक्रतमिस्रहारी बमार पद्मिन्यनुकूलभावम् ॥ २३२॥ . भवत्सायुज्यलाभेऽपि भवादतिशयान्तरम् । भजते स न वेतण्डो भवन्मुक्तैकसंश्रयः ॥ २३३ ॥ ...
यात्राप्रबन्धः।
यस्ते कटाक्षविधिरातिमिते गजेन्द्र
यश्चास्य पीडनविधायिनि शिंशुमारे ।
तत्तादृशोर्वरदराज तयोरिदानी-
माद्यं निधेहि मयि मद्वृजिने द्वितीयम् ॥ २३४ ॥
अजाश्वमेधाध्वरकल्पशाखिनः पचेलिमं तत्फलमच्युताकृति ।
अहो बताभिष्टुवतोऽपि सौहिती मनीषिणां मौलिमणेरवर्धत ॥ २३५ ।।
इति समरपुंगवस्य कृतौ चम्पूकाव्ये तृतीय आश्वासः ।
चतुर्थ आश्वासः।
अन्तर्वाणिरसौ गेहमरुणस्तु नभोन्तरम् ।
तौ विष्णुपदसंसेवातत्परौ लब्धुमैच्छताम् ॥१॥
तथा हि । तरलतत्कान्तिसंपद्विडम्बितजाम्बूनदकुम्भमम्भोजसचिव-
बिम्बमम्बरसौषशिखरमालम्बत ।
मुक्तारुचो मूर्धनि हर्म्यकेतोरासक्तमम्भोरुहबन्धुबिम्बम् ।
तस्याः पुरोऽराजत दण्डशालि हिरण्मयच्छत्रमिवाबभासे ॥२॥
प्रादुर्भूतं प्राग्दिशा विप्रयोगादाविप्राणो हन्त संतापभारम् ।
काले तस्मिन्कामुकः पद्मिनीनामन्यैर्भेजे दुर्निरीक्ष्यामवस्थाम् ॥ ३ ॥
भूत्वा मृदुः पुरा पश्चात्तीव्रो राति दिनेश्वरः ।
प्रायो वसुसमृद्धानां प्रकृतिः किल भिद्यते ॥ ४ ॥
अपहत्य कुलान्यभीशुमाली जगन्धंकरणानि शार्वराणाम् ।
प्रकटी क्रियमाणभीमभावः प्रतिपेदे परदुःसहं प्रतापम् ॥ ५ ॥
विभज्य विश्वंभरया नदीभिराशागणैरप्यनुभूयमानः ।
जज्ञे वियत्प्रान्तरयानजन्मा तापातिरेकस्तरणेरसह्यः ॥ ६ ॥
काव्यमाला। उपगच्छति येन साकमुच्चैरुदया(द्रौ) जगदुष्णधाग्नि तस्मिन् । अखिलात्मनि तापमश्नुवाने तदभूत्तप्तमिहास्ति किं विचित्रम् ॥ ७ ॥ अहह ततिरशेषदेहभाजामपि पुरतः स्थितिमीक्षितुं तदानीम् । अभजत भृशमक्षमामवस्थां त्रिभुवनचक्षुषि दर्शितप्रकोपे ॥ ८॥ निरतिशयतापनिर्वापणायेव कमलकुवलयकहारविपिनानि किमपि यरिममर्श तरणिकरनिकरः। किमुत बहुदूरसरणिसंचरणारचितसंज्वरघनाः पञ्चजनाः। तत्क्षणं च नगरमक्षान्तमिहिरसंतापतया सेव्यमानकदलीगृहा- न्तरमभिनन्द्यमानशशिकान्तमणिवेदिकमधिरुह्यमाणसरसकुसुमास्तरणम- भ्यस्यमानकर्पूरालेपनमारभ्यमाणधारागृहासिकमासाद्यमानकासारखेलन- मुद्भाव्यमानगन्धोदकयन्त्रशीकरासारमुद्भूयमानलामन्जकव्यजनमुपयुज्य- माननवनालिकेरसलिलपरिचीयमानपाटीरपङ्कमेदुरवधूटीकुचाचलमजा- यत। कुचमण्डलमालिलिङ्ग कण्ठं जगृहे वक्रसरोरुहं चुचुम्वे । स्पृशति म नितम्बमारुरोह प्रमदानां जघनं श्रमाम्बुपूरः ॥ ९॥ तालवृन्तपवनादभिकानामुत्तरीयमरुदनमुखीनाम् । प्रीतयेऽजनि ततोऽपि विसर्पविक्रसीमनि तदास्यसमीरः ॥ १० ॥ पयोधरोत्सारितकञ्चुकानां प्रासादवातायनसेविनीनाम् । स्त्रीणां जहार श्रममजगन्धी सशीकरो वेगवतीसमीरः॥ ११ ॥ वीचीकणैः पौरविलासिनीनां व्यत्यस्तवक्रश्रमवारिलेशः । खसौरभक्रीतशिरोजगन्धः क्षीरापगागन्धवहश्वचार ॥ १२ ॥ प्रतिसौधगवाक्षलक्षितप्रमदावशता पुरी बभौ । मिहिरज्वरवारणोदयन्मृगलक्ष्मावलिभूषितेव सा ॥ १३ ॥ १ पीतच्छवितृणविशेषः। - यात्राप्रबन्धः। तदनु निर्गस्य सरोजनेत्रसदनादतनुशासनसमाराधनाय नवकुसुमनि- चयमवचिचीपुरयमवतरति स्म विविधतरुकोटरकोडपरिक्रीडमानचिकोडं पतनदलितनालिकेरफलपरिग्रहव्याशावकपरिषदाबध्यमाननियुद्धकोला- हलं विटपितलनिषण्णविटजनोत्सङ्गनिद्राणपुष्पलावीपरिष्कृतं दिवसकर- भीतशीतलतानिरातङ्कवसतिं गजतुरङ्गसंदोहमन्दुरां चारुतरवीरुन्नटिनी- निवहनर्तनानर्तमहीं प्रमदोपगूढमिव मन्मथारूढहृदयं बहिरिद्धकण्ठकं च विन्ध्यमिव नमेरुविरचितामोदं व्याप्तनभस्थलं च पथिकशरीरमिव प्रियालोपहृतशोभं प्रत्यग्रलोध्रपाण्डरं च पतिंवरापरिगृहीतमिव भासुरम- घुकमालिकाभूषितं प्रथमानमङ्गलं च राशिमण्डलमिव मन्दारमण्डितपुष्प- वदलंकृतं च सर्लोकराज्यमिव सहस्राक्षसमन्वितं संभावितरम्भाविलास च पार्थिवसदनमिव पृथुलसालवलयितं कोशपरिपूरितं च दैत्यारिरूपमिव भद्रश्रियाश्चितं धात्रीनिषेवितं च सज्जनशीलमिव समधिकद्विजपक्षपातमा- श्रितसंतापहरं च वल्लकीवाद्यमिव रुचिरप्रवालशोभितमभिरूप्यककुभं च फणिराजशयनमिव कृष्णलाभासितं सदाभोगसहितं च गणिकासनाथ- मपिं विमलखभावमविरतजपानुबन्धमपि बहुतरारिष्टं जातिविशिष्टमपि नकुलचरितान्वितं सरलोदितच्छायमपि कुरबकसमग्रं सुकवीरशोभास्प- दमपि साध्वसहगन्तरं प्रकटितस्पर्शनमपि नवनीपकाभिराममुत्फुल्लचिरि- बिल्वमुल्लासहरितमल्लिकमुन्निद्रपुन्नागमुन्मुद्रणातिमुक्तमुद्भिन्नकर्णिकारमु- न्मेषशोभिकेसरमुज्जृम्भमाणचम्पकमुद्विकासवासन्तिकमभिजातहसित. केतकमारब्धविदलनारग्वधमतितन्त्रमुचुकुन्दमावन्तविकचमाकन्दमाक- लितजागराशोकमवबोधशालिनवमालिक निखिलजननयननिर्मागफलमु- न्मीलयता तारतम्यातिशयेन खाण्डवमपि निकर्षताण्डवस्य वृन्दावनमपि मन्दाक्षसंपदो नन्दनमपि भूरिनिन्दनविधेरशोकवनिकामपि निराकरण-
६०
काव्यमाला।
कर्मणो मधुवनमपि पृथुघृणावतरणस्य चैत्ररथमपि महात्रासपरिणतेः
पात्रीकुर्वाणमलिपटलजेगीयमानसरसर्तुसाधिमास्पदं परभृतकदम्बपापठ्य-
मानपञ्चशरविरुदप्रपञ्चं शुकशारिकानिकरजोघुष्यमाणपुराणपुरुषहृद्याव-
दानमुद्यानम् ।
पिकनिनदमयीं नयन्प्रियोक्तिं प्रसवरसप्रमदाश्रुबिन्दुवर्षी ।
उपवनपवनस्तदाभिधावन्परिरभते स तमानतं सगन्धः ॥ १४ ॥
तत्र पुनरत्रभवानशेषसुमनोविकासहेतुरसौ वसन्त इव समन्ततो
विटपिवाटीषु पर्यटन्भवितव्यशिवपदाम्बुजसंपर्कबहुमानसंमदादिव विस्स-
यमानमभिजातकुसुममाददानो जयविशिखसंग्रहणशीलमकराङ्कविलास-
भूयिष्ठतनुरिदमाचष्ट।
मधुव्रतक्षोदसहं प्रदीयः सदोपभोगेऽपि ससौरभीकम् ।
पुप्पं प्रसूते भुवि कस्तरूणामग्रेसरं केसरमन्तरेण ॥ १५ ॥
संदृष्टा किमु कापि हानिरियता चाम्पेयलोलम्बयो.
रस्राक्षीन्न परस्परं यदुभयोरम्भोजभूः सौहृदम् ।
क्ष्मापालैरुपलाल्यते न शिरसा किं चाम्पकः कोरको
भृङ्गः किं कमलाकरेषु न मुहुः प्राप्नोति लीलासिकाम् ॥ १६ ॥
ललिता त्वं "लतावलीषु जाते सुकुमारः समयेषु माधवोऽपि ।
प्रणयद्यदि संगतिं भवत्या स भवेत्सर्वगुणाकरस्तदानीम् ॥ १७ ॥
हे कर्णिकार मुहुरीश्वरवल्लभत्वं
संतप्तहेमसमता च तवेति हृद्यम् ।
आमोदभारमलिमानसलोभनीय-
माविष्करोषि न यदत्र परं व्यथा मे.॥.१८॥
यात्राप्रबन्धः।
भजतश्चपलोदये विकासं रजसा दूषयति खसेविनोऽपि ।
प्रमथेशपदार्चने निषेधो भवतः केतक युक्तमेव मन्ये ॥ १९ ॥
कर्पूरस्य पदे चिताग्निभसितं क्षौमस्य नागत्वचं
प्रासादस्य परेतभूमिमुरगं प्रत्यग्रमुक्तावलेः ।
दिव्याहारभरस्य किंच गरलं देवेन संतन्वता
स्थाने काञ्चन पारिजातकुसुम स्थाने भवद्धारणम् ॥ २० ॥
प्रमथाधिपार्चनायै बिल्व भवत्पत्रभङ्गरचनैव ।
मूलमनघेन पुंसा मुक्तिवधूपत्रभङ्गरचनायाम् ॥ २१ ॥
श्रीखण्डसालजगतीविदितानुभाव
तत्ताशी सहनतां तव किं वदामः ।
कामं यतः कठिनदारणदार्यमाण-
देहोऽपि गन्धनिवहेन जनान्धिनोषि ॥ २२ ॥
पौष्पैः कल्पयसे रसैर्मधुलिहां वृन्दस्य संतपणं
छायासंपदमातनोषि जनतासंतापनिर्वापिकाम् ।
पुष्णासि खयमङ्कुरैः शुभगिरां पुंस्कोकिलानां कुलं
धान्यामत्र तवैव चूतविटपिन्धन्या महाभ्युन्नतिः ॥ २३ ॥
उद्यानादथ मज्जनाय सुमना मध्याह्नहृद्येतर-
च्छायानायकसंज्वरप्रशमनोपायादुपायात्सरः ।
पाथोजावलिशीधुहृष्टमधुपत्रातप्रणादक्रिया-
संगीतोत्तरनृत्तकौशलमिल भृङ्गालि रङ्गस्थलम् ॥ २४ ॥
अधिगत्य च कासारमयमित्यभाषत ।
नीरजानि जलनीलिकामरैः साकमेव सततं बकैः सह ।
मण्डलीमपि च मानसौकसां पुष्यति स्फुटमसौ जलाशयः ॥ २५ ॥
काव्यमाला।
ग्राहाजिनीकण्टकपङ्कराशीनन्तर्दुरन्तानपि संदधानः ।
बहिर्गतैरम्बुजराजहंसैर्बध्नाति विस्रम्भमयं तटाकः ॥ २६ ॥
हे पद्माकर मा विषीद जगतीचेतःप्रियंभावुको
धत्ते यत्त्वयि चन्द्रमा विमुखतां तस्यैव तल्लाघवम् ।
सौहित्यप्रतिपादने तव पुनः शक्ताः परिष्कुर्वते
पृथ्वीमध्यममी पराकृततमोदर्पा रवे नवः ॥ २७ ॥
अनन्तरमसावनियन्त्रणस्नेहपरवशानुचरो निजकरविलुलितोदकमवगा-
एकमलाकरमवचितसरोजपरिष्कृताग्रहस्तः समुत्तीर्य वारितो निषेवित-
दिवसबन्धुरयमवनिसुरधुरंधरो मन्दिराय मन्दमन्दमस्पन्दत ।
गत्वोपकार्यां कलितेशपूजः स भुक्तवान्भूसुरभुक्तशेषम् ।
ब्रह्मोद्यपाठं प्रतिपद्यते स्म सुचर्ययाः समयं नयन्ते ॥ २८ ॥
तथा हि।
एष दुहृदनुरोधहेतुकं भेदमात्मपतिना समं गतः ।
आपदामहह भाजनीभवन्पूरुषो भजति भूयसी व्यथाम् ॥ २९ ॥
ईशवासरमणेरदर्शनादेधमानघनमोहशार्वरः ।
संनिकृष्टमपि शश्वदात्मनो हर्षशेवधिमसौ न पश्यति ॥ ३० ॥
बोधचन्द्रमसि पूर्णविग्रहे मोहराहुमुषिताकृतौ सति ।
स्नानदानयजनादिकान्यसौ मोचनावधि मुदानुतिष्ठति ॥ ३१॥
आ रसातलतलादयं विधोरा च वासभवनाद्गतागतैः ।
खिद्यमानहृदयो गवेषते स्फारविश्रमसुखास्पदं पदम् ॥ ३२ ॥
आधिवीचिमदनादिसंसृतिव्याधिभेषजविशेषवेदिनम् ।
शर्मदं शरणमेयुषामयं ब्रह्मनिष्ठमिषजं प्रपद्यते ॥ ३३ ॥
यात्राप्रबन्धः ।
देशिकोक्तिदृढकुञ्चिकाकृते गाढविभ्रमकवाटपाटने ।
आगमान्तवसुमन्दिरान्तरादर्थमिष्टमनघोऽयमृच्छति ॥ ३४ ॥
पण्डितः पटुविचारशस्त्रिकाव्यस्तकोशमयवल्कसंहतेः ।
सारमाकलयते जगद्धनक्षमारुहाकिमपि नित्यनिर्मलम् ॥ ३५ ॥
मानतर्कमयवारिधारया क्षालितेषु गगनादिपांसुषु ।
अन्तरङ्गफलकान्तरे सुधीरीशताद्रविणमीक्षते निजम् ।। ३६ ॥
पारदुर्विधसुखप्रकाशके तत्त्वबोधतनयोदये सति ।
अस्य कर्मकरणाधिकारिता नानटीति न कदाचिदप्यहो ॥ ३७॥
विश्वकण्टकिफलं विशुद्धया वेदनच्छुरिकया विदारयन् ।
आन्तरं रसममुष्य निर्ममः सर्वथा निरुपम समश्नुते ॥ ३८ ॥
विप्रयोगसमये स्वमायया विक्रियाशतमुपैति पूरुषः ।
हन्त मुक्तिरमणीमवाप्य तामेष निर्विकृतिरेव तिष्ठति ॥ ३९ ॥
मुक्तिसंगतिमहोत्सवो मुनेरीहशोऽयमिति केन वर्ण्यते ।
चेतसा सह यतो निवर्तते श्रेणिरागमशिरोगिरामपि ॥ ४०॥
अपि च ।
चित्तेन वृत्त्या विषयेण संगान्मातृप्रमामयदशां प्रपन्नः ।
आत्मैक एवं प्रतिभासते चेदतः किमन्तर्मुखतास्ति भिन्ना ॥ ११॥
निःसन्धिबन्धं निगमान्तवाचः परप्रतीचोरभिदां वदन्ति ।
सा च खरूपानतिरेकिणी चेदहंप्रतीतेरपरो न योगः ॥ १२ ॥
अजादिकीटान्तमनर्थजातमध्यस्तमेवात्मनि बोधरूपे ।
स एव चेदस्ति भवेन्निवृत्तिरतः परं किं पुनरस्ति साध्यम् ॥ ४३ ॥
इतीदृशीमागमदेशिकाभ्यामधीयमानामवबोधनावम् ।
द्रढीयसीमेत्य तपोभिरेकः पारं परं याति भवाम्बुराशेः ॥ १४ ॥
काव्यमाला। किं च। विना मृडप्रपतनं विगमो न हि जन्मनाम् । भाखतो दर्शनमृते प्रशमस्तमसामिव ॥ ४५ ॥ आधिक्यमसाजगतोऽधिगन्तुं विश्वाधिकोक्तेविषयं प्रपद्ये । कालग्रहग्राहभयापनुत्त्यै कृतान्तशिक्षाकृतिनं प्रपद्ये ॥ ४६॥ शृङ्गारभूजृम्भणवारणाय प्रसूनकोदण्डरिपुं प्रपद्ये । विनेतुमाति विषयाध्वजन्यां वद्रुमाधोवसतिं प्रपद्ये ॥४७॥ मोहातिरेकरमयमोषणाय पादार्दितापस्मरणं प्रपद्ये । कर्माटवीपाटनकौतुकेन पाणौ विराजत्परशुं प्रपद्ये ॥ ४८॥ विशुद्धविज्ञानविकासहेतोः प्रबोधमुद्राभरितं प्रपद्ये । तापत्रयाटोपसमापनाय प्रालेयधामाभरणं प्रपद्ये ॥४९॥ वैमल्यसंपादनवाञ्छयाहं मन्दाकिनीमाल्यधरं प्रपद्ये । प्रसादलाभं परमीहमानो मुग्धस्मितोल्लासिमुखं प्रपद्ये ॥ ५० ॥ व्यथामशेषां व्यपनेतुकामो नाम्ना मृडं नाथमहं प्रपद्ये । ॥ ५१ ॥ सर्वज्ञतासारभृतं प्रपद्ये निःसीमसौहित्यनिधिं प्रपद्ये । अनादिबोधायतनं प्रपद्ये खतन्त्रतायाः सदनं प्रपद्ये ॥ ५२ ॥ हरं प्रपद्येऽहमलुप्तशक्तिममेयसामर्थ्यमहं प्रपद्ये । शिवं प्रपद्ये जनकं विधातुरीशं हृषीकेशगुरुं प्रपद्ये ॥ ५३ ॥ इति प्रपत्तिमीशस्य तन्वते तत्त्वदर्शिनः । तत्क्रतुन्यायरसिकास्तत्तादृशफलाप्तये ॥ ५४ ॥ तनु तदनुवर्णितशास्त्रसमाकर्णनादिव विरक्तभावमापाद्यमानः कमपि शमप्रकर्षमुपदर्शयन्नरुणसारथिरवततार चरमगिरिशिखरम् । .
यात्राप्रबन्धः। अस्ताद्रिशृङ्गादतिमात्रतुङ्गादात्माधिनाथं पतयालुमब्धौ । द्रष्टुं नलिन्यो धृतभीतिमारा न्यमीलयन्नीरजलोचनानि ॥ ५५॥ नमस्तमालद्रुमपल्लवाभा नव्या बभौ सान्ध्यमयूखरेखा । अम्भोधिनिर्मजदभीशुमालिरथापकौसुम्भपताकिकेव ॥ ५६ ॥ दिवसकरविप्रयोगतनीयसीनामाशाविलासिनीनामसितजलदानुका- रिणी वेणिकाघोरणीव तमिस्रपतिरहश्यत । प्रतिवेश्म तमिस्रण बन्दीकृत्य नियन्त्रिताः । प्रभा इव पतंगस्य दीपरेखा दिदीपिरे ॥ ५७ ॥ सपदि गगनपथादपसरता वास(र)करेण सरमसानुसरणोद्भटतमःप्र- तिभटविलोपनाय विस्तारितानि परिष्करणमुक्ताफलानीव तारकापटला- नि ददृशिरे। तमिसकस्तूरिकयानुलिप्ता प्रदीपचाम्पेयकृतावतंसा । वाटी हरिद्वासकसज्जकानां बबन्ध चन्द्रीगमनप्रतीक्षाम् ॥ ५८ ।। अत्रान्तरे सिन्धुरवापदेशादानन्दयन्सर्वदिगन्तराणि । ध्वान्ताभ्यमित्रीणतुषारतेजः प्रयाणभेरिध्वनिराविरासीत् ॥ ५९ ॥ आगत्य संकोचभृतः सरोजादिन्दीवरं यावदलिस्ततोऽपि । मौनस्पृशो यातुमियेष तावदिन्दुस्तदुबोधकरो जजृम्मे ।। ६० ।। विगतसकलाशाविकासकर्मणि परिहृतविषयानुभावे संमीलितसरो- जचक्षुषि तेजः किमपि दीपाकारमन्तरनुसंदधाने कालकमन्दिनि पृथुः लतमःपटलमेदमुपपादयन्प्रबोध इव सुधाकरो भगवान्प्रादुरभूत् । द्यौरिन्दुनाधूतपुरस्तमिसा पश्चांच रितत्तिमिरा बमासे । हृतोत्तरीया हृदयेश्वरेण तन्वी नितम्बस्तिमिताम्बरेव ॥ ६१ ॥ संध्यारुणं प्रागथ सान्धकारं पश्चानमः प्लावितमिन्दुभासा । . या०प्र०५
काव्यमाला।
रेजे विराजत्क्रमजृम्भमाणरजस्तमःसत्त्वमिवान्तरङ्गम् ॥ ६२.॥
प्रह्लादने महसि तत्र सतिप्ररूढे
वाराकराम्बुलहरी ववृधे यथेष्टम् ।
चन्द्रोपलाः सरसतामधुरुत्पलानि
चक्रुः स्मितं किमुत यानि सचेतनानि ॥ ६३ ॥
न चेपुराणौ पुरुषौ नताङ्गीवशंवदोरःस्थलवामभागौ ।
तादात्विकं तावपि न क्षमेतां कामोद्यम का गणना परेषाम् ॥ ६४ ॥
काञ्चयां तदा कामकलाजनीति किमद्भुतं तत्र कृतान्तशत्रोः ।
तथा स्मरन्दग्धवतोऽपि देहे संदृश्यते शैलसुतास्तनाङ्कः ॥ ६५ ॥
तथाहि ।
विलासिनी काचन विप्रयुक्ता संतापिताङ्गी नवचन्द्रिकामिः ।
विगर्हणापूर्वमिदं विषण्णा जगाद चन्द्रसरगन्धवाहान् ॥ ६६ ॥
कोदण्डदण्डः कुरुनन्दनेन मुक्तो रुषा मूर्ध्नि शशाङ्कमौलेः ।
हिमधुते यत्त्वयि नापपात मदुष्कृतानां महिमा स एषः ॥ ६७ ॥
पान्थावलीभञ्जनसंचितेन दोषेण दोषाकरता तवेन्दो ।
आलोकिते त्वय्यत एव चक्रैराशास्यते चण्डकरावलोकः ॥ ६८॥
क्षपाकरवेल विभावये त्वां हालाहलादप्यतिमात्रघोरम् ।
स कण्ठ एव स्तिमितः सरारेरुपागमस्त्वं पुनरुत्तमाङ्गम् ॥ ६९ ॥
विग्धिक्त्रिलोकीजनगर्हणीयां चारित्रमुद्रां तव शम्बरारे ।
भवन्तमेकं परिहृत्य के वा धनुर्भूतः स्त्रीषुपराक्रमन्ते ॥ ७० ॥
मुग्धासु चेतोभव मादृशीषु मुहुर्भवान्यत्प्रकटीकरोति ।
ऋद्धे पुरद्रोहिणि पौरुषं तत्क वा विनिद्रातुमगाचदानीम् ॥ ७१ ।।
आखेटमध्वन्यवधूमृगेषु प्रपञ्चयन्पञ्चशरः किरातः ।
पिकालिगीतिप्रचुरो वसन्ते महीं मरुद्वागुरया निरुन्धे ॥ ७२ ॥
यात्राप्रबन्धः। संभ्राम्यदिन्दिन्दिरचक्रनेमिसीमन्तिताशेषदिगन्तसीमा । महीतलान्धंकरणः परागैर्मश्नाति पान्थानतनोः शताङ्गः ।। ७३ ।। तत्तादृशा दक्षिणतागुणेन विभावयन्विश्वसनीयभावम् । मरुन्नवोऽयं बत मादृशीषु प्रभञ्जनत्वं प्रकटीकरोति ॥ ७४ ।। मध्येनितम्बं मलयाचलस्य स्पृष्टो नु दावाग्निशिखाकलापैः । विषोर्मिलव्यालमुखच्युतो वा मन्दानिलः सौति ममाङ्गतापम् ॥ ७५ ॥ उष्णः खभावादनिलार्भकोऽयमुपाधितः शीतलतां दधाति । आलिङ्गनादस्य कथं घटेत पत्रावशोषः परथा लतानाम् ॥ ७६ ॥ उष्णच्छिदामुष्णनिषेवणेन भिषग्जनाः प्राहुरिति प्रतीताः । कुम्भीनसा घोरविषोष्णशान्त्यै पिबन्ति बालानिलमुग्रवीर्यम् ॥ ७७ ॥ हराक्षिकीलाभिहता रतीशप्राणानिला एव परं धरायाम् । पटीरशैलानिलकैतवेन पान्थावलीप्लोषकृतो वलन्ते ॥ ७८ ॥ खयं जगत्प्राणतया खधाम वियोगिनीविग्रहचक्रवालम् । नभखतो निर्दहतः कृशानुरवाप्तजन्माभवदाश्रयाशः ॥ ७९ ॥ शितो यतः शैत्यमतो बिभर्ति नवः समीरो न तु शीतभावात् । अस्यावलेहं सृजतामहीनां भिन्ना रसज्ञाः परमत्र मानम् ॥ ८० ॥ पटीरशैलेन्द्रफणाधरेभ्यो जनावलीजीवितमोषविद्याम् । अभ्यस्यता चेदमुना गृहीता निद्रापि नैष प्रसरेद्विषादः ॥ ८१ ॥ अयं भुजङ्गावलिपीतशेषः समीरपोतः खविकासहेतोः । वियोगिनीजीवितमारुतानामसंशयं संग्रहणं तनोति ॥ ८२ ॥ निरागसामध्वगसुन्दरीणामुद्वेगदानादुपजातरोषाः। खच्छन्दमन्तः श्वसनं निरुध्य मन्ये निगृहन्ति महानुभावाः ॥ ८३ ॥ जगत्रयोपद्रवशातनाय पीताम्बुराशिः प्रथमो मुनीनाम् । बालानिलाब्धि च पिबेदवेलं न चेदयं नागविलीढशेषः ।। ८४ ।।
काव्यमाला। अगस्त्यदिङ्मारुतमापतन्तं वृष्टेरवग्राहमुशन्ति वृद्धाः । अहो भवत्यस्य समागमेऽपि वियोगिनीलोचनवारिवृष्टिः ॥ ८५ ॥ और्व पयोधेरवलेपशान्त्यै समीरणस्यापि च सर्पजालम् । विधिर्विदध्यान्न यदीयमुर्वी कथं न जायेत कथावशेषा ॥ ८६ ॥ श्रीरामविश्लेषविषण्णसीताप्राणप्रतिष्ठापनवीततन्द्रः । स्त्रीणामसुग्रासपटोः समीरादतो हनूमान्कथमाविरासीत् ॥ ८७ ॥ विना जगत्प्राण भवन्तमेषा विश्वत्रयी न श्वसितुं क्षमेत । ईदृग्विधेऽपि त्वयि खेदहेतौ वियोगिनीभिर्वद किं विधेयम् ॥ ८८ ॥ धर्मच्युतस्योचितमाशुगस्य तीक्ष्णाकृतेर्देहिवधैकरस्यम् । आविःसुधर्माश्रयणस्य ते तु दाक्षिण्यधन्याशुग तद्विगेयम् ॥ ८९ ॥ भवन्तमाहुः प्रथमेशमूर्ति पदार्थशुद्धेः परमं च हेतुम् । सदागतिं चात्र समीर किं ते युक्तं वियुक्ता युवतीनिहन्तुम् ।। ९०॥ प्ररूढमन्तः पथिकाङ्गनानां वियोगशोकानलविस्फुलिङ्गम् । किं मञ्जरीगर्भरजःकरीषैः समीर संवर्धयतः फलं ते ॥ ९१ ॥ घृणा न ते दक्षिणगन्धवाह तवावतारे तरवोऽपि धान्याम् । वितन्वते व्यक्तशरीरकम्पाः प्रवालपाणिप्रविधूननानि ॥ ९२ ॥ त्वामश्नुतां वाचि तपोधनानामाशीविषाणामपि वक्रसीन्नि । विषाभिवृद्धिर्विदिता नभखन्नतो जगत्यामतिदारुणोऽसि ॥ ९३ ॥ सङ्के भृशं क्रोशति षट्पदानां कु(इ)रवाधायिषु कोकिलेषु । अपड्डुवानो धृतिमध्वगानां भवान्विविते पवमान बाल्यम् ॥ ९ ॥ आः क्रूरकर्मासि फणामृतोऽपि धरातलेऽस्मिन्स हि तीव्रदंशैः । प्राणानिलानापिबति प्रजानां भवान्पुनःस्पर्शनलीलयैव ॥ ९५॥ अये समीरानिशमध्वनीनवधूवधैः पातकमर्जितं ते ।
यात्राप्रबन्धः।
६९
वल्लीप्रवालव्यपदेशतप्तभल्लाप्रपातैरपि किं प्रशाम्येत् ॥९६ ॥
भृगुप्रपातं बहुतीर्थसेवां दिने दिने दीप्तशिखिप्रवेशम् ।
करोषि मन्द्रानिल कामतस्त्वं कुर्वन्मुहुः पान्थकुटुम्बहिंसाम् ॥९७ ॥
मान्द्रुकभूमे मलयाद्रिवात मासद्वयीमात्रमवस्थितिं ते ।
अचिन्तयन्हन्त कथं तनोषि पदे पदे स्त्रीवधपातकानि ॥ १८ ॥
प्राक्सेतुबन्धावसरे कपीन्द्ररुन्मूलितश्चेन्मलयः समूलम् ।
नृशंस मन्दानिल निर्दयं त्वां पश्यन्ति किं पान्थविलासवत्यः ॥ ९९ ॥
मन्दं समागत्य ममांशुकाप्रमालम्बसे स्वेदमपाकरोषि ।
अजौ पतस्याहितचापलस्त्वं पराङ्गनास्पर्शभयं न किं ते ॥ १०० ।।
मामञ्जनेति स्पृश मा समीर वियोगिनी व्यक्तमनञ्जनाहम् ।
कन्या नृपस्यान्यकरग्रहार्हाः स्पृष्ट्वा त्वया किं फलमाप्तमासीत् ॥ १०१॥
कृतावतारो, हृदि गन्धवाह कन्दर्पनाराचगवाक्षिते मे ।
प्राणान्गृहाणाशु यतो भवेयमभीकविश्लेषकथानभिज्ञा ॥ १०२ ।।
मय्येव संनद्यसि मन्दवात कान्ते मदीये करुणां दधासि ।
मृदासि चेन्मामिव निर्दयं तं स किं समायास्यति नान्तिकं मे ॥१०३।।
रणे शताङ्गस्य रयातिरेको जैत्रश्रियं चापभृतः प्रसूते ।
मन्दं रथं त्वामधिरुह्य मारो मन्ये महेशेन पराजितोऽभूत् ॥ १०॥
भवन्तमालम्ब्य रथीभवन्तं सखा रतेः शर्वजिगीषुरासीत् ।
प्राप्ते रणे तं प्रतिपाद्य तस्मै चक्रे त्वया खाशुगतानुरूपम् ॥ १०५॥
यदा रतीशं भगवानजैषीत्वदाप्रभृत्येव समीर भीत्या ।
दिवानिशं प्राम्यसि दिङ्मुखेषु तथापि ते शाम्यति नैष दर्पः ॥ १०६॥
आयासि शीघ्र हरिदन्तरेभ्यः शनैस्तु चण्डांशुभुवो दिगन्तात् ।
कामारिभीतिः खलु तत्र हेतुः सा चेन हन्याजगतीमकाण्डे ॥१०७॥
काव्यमाला।
मा मा मरुन्माणव वल्गनानि प्रकाममन्दप्रकृते विधेहि ।
पदे पदे त्वन्मदभञ्जनाय जाग्रत्यमी जातरुषो भुजङ्गाः ॥ १०८ ॥
तदनु मदनपीडां सोढुमक्षमतया तया हरिणशावेक्षणया प्रियतमाय
संप्रेषिता सखी समेत्य तमित्यभाषत
सन्त्येव कान्तेषु समश्नुवाना रागातिरेकं ललना जगत्याम् ।
नालोकितो न श्रुतिमागतो वा तस्या मृगाक्ष्यास्त्वयि भाववन्धः॥१०९॥
आखाद्य शश्वन्मधुनोऽपि हृयां गुणावलिं ते कुटिलायताक्षी ।
नितान्ततृप्ता नियतं सखीनामाहारवार्तामपि सा धुनीते ॥ ११० ॥
दूरीकृतस्त्वद्विरहार्तिभारादुदित्वरोरुश्वसितैरिवास्याः ।
इन्दीवराक्ष्या वदनारविन्दे संदृश्यते जातु न मन्दहासः ॥१११॥
मनोभुवो धूममयैरिवास्त्रैरुत्पादितादूष्मलबाष्पपूरात् ।
भीतेव तस्या भृशमायताक्ष्या निद्रा दृशोनॆव पदं निधत्ते ॥ ११२ ॥
पराङ्मुखी चन्दनपङ्कलेपवीटीक्रियामाल्यविभूषणेषु ।
बाला विधत्ते भवदोष्ठबिम्बसुधारसाखादकृते तपस्याम् ॥ ११३ ॥
दूतिकावर्धितखेहदीपितं मदनानलम् ।
कामी निर्वापयामास कान्ताश्लेषसुखामृतैः ॥ ११ ॥
आलीहितोक्तिनिकरादनु दूतिकाना-
माभाषणादनु मनोभवशासनाच्च ।
अम्लानमानकलिकामपरो विलासी
संप्रीणयन्प्रियतमामिदमाबभाषे ।। ११५ ॥
पाठीनकेतुपरदेवतया त्वया कि-
माज्ञापिते कबरिकारचनादिकृत्ये ।
शंसामुना परिजनेन समुल्ललचे
पङ्केरुहाक्षि तव केन बभूव कोपः ॥ ११६ ॥
यात्राप्रबन्धः। ७ १ यः शैशवात्प्रभृति पाणितले निवेश्य . संवर्धितोऽजनि मया दयिते स कीरः । आख्याति वाक्यमहितं त्वयि रोषवत्या- मित्यद्भुतं न विरुणद्धि यदात्मजोऽपि ॥ ११७ ॥ बाले मया न गणिता भवदाहतेन ये मीनकेतनसमीरकिशोरमुख्याः। आसीत्ततोऽपि मम भीतिरहो भवत्यां वैमुख्यभाजि विषमो विधिदुर्विपाकः ॥ ११८॥ मन्तुस्पृशो रचयितुं मम शिक्षणानि खातव्यमस्ति तव जीवितनायिकायाः । कन्दर्पगन्धवहकैरविणीविटानां का वा कृशाङ्गि मम निग्रहणे प्रसक्तिः ॥ ११९ ॥ आगःसमीक्षणकृतस्तव चेदमर्षः शोणाधरे. विरचय खयमेव शिक्षाम् । मां विप्रयोगिजनमारणवीततन्द्र- कन्दर्पपातकिकरे न समर्पयेथाः ॥ १२० ॥ पादारविन्दतलताडनबाहुयन्त्र- निक्षेपतुङ्गकुचदुर्गनिवेशितानाम् ।। कामं त्वया कनकगौरि समाहिताना- माँ भवामि मयि चेदपराधशङ्का ॥ १२१ ।। प्रारभ्य पञ्चषदिनानि तव प्रसाद- मभ्यर्थयन्नतिपतेरधिदेवतायाः । .
काव्यमाला॥ ध्यानाशनवजनजागरणादि कुर्वे प्रीतिर्न ते तदपि यत्स ममैव दोषः ॥ १२२ ।। शातोदरि भ्रुकुटिजैत्रधनुर्लताया भने कृतेऽपि सति कोपनया भवत्या । अश्रान्तमाशुगभरेण विचित्रकर्मा मर्माणि हन्त मम कृन्तति पञ्चबाणः ।। १२३ ॥ विश्वत्रयोदरभुवां विशिखबजानां शश्वव्ययं रचयतो मयि शम्बरारेः । नाणीयसा भुजमदेन नताङ्गि शङ्के वेणीलता विरहिता तव मालिकाभिः ॥ १२४ ।। क्रीडाचकोरशिशवोऽपि कृशाङ्गि नून- मेते परं वयमिव त्वयि सापराधाः। मन्दस्मितामृतमरीचिकरैरमीषां तृप्तिं यदा रचयसे न तृषातुराणाम् ॥ १२५॥ तत्तादृशैः कुरबकीभवनं तपोभिः प्राप्यं न मेरुपदवीमपि दूरभूताम् । हित्वा चकोरनयने भवतीमिदानी- मभ्यर्थये तिलकभावमशोकतां च ॥ १२६ ॥ प्राणेश्वरस्य पटुचाटुकृतः कुचाद्रि- कस्तूरिकाभिरनुलिप्य भुजान्तरालम् । वेलातिलचनचणप्रणयाभिरामा रामा ददौ रदपटी सुखवीटिकां च ॥ १२७ ।।
यात्राप्रबन्धः। शक्रकोपशकलावलीसहग्वीटिका"तिम"ला बभौ । चक्रतुः प्रकटरागमेदुरखखमानसनिवेशनं मिथः ॥ १२८ ॥ पाणिना प्रसवसङ्गिनीमलिश्रेणिकामिव निगृह्य वेणिकाम् । सुब्रुवो मुखसरोरुहासवं सेवते स समरादरो विटः ॥ १२९ ॥ पाटलोष्ठपरिचुम्बने दृढं मेलनामधिगता मिथस्तयोः । चारुताभरसमुद्गकश्रियं व्यानशे वदनमण्डलद्वयी ॥ १३०॥ आत्मनेतुरनुरागसंपदः श्लाघनं विदधतीव संमदात् । गाढपीडितरदच्छदामुना कामिनी व्यधित मौलिधूननम् ॥ १३१ ।। अन्वकारि पुलकैरणूदरीबाहुनद्धपरिणेतृसंवृतैः । निर्भरस्तननिपीडनोगता शम्बरारिशरशल्यमण्डली ॥ १३२ ॥ मय्यमुष्य नितरां पचेलिमं मा म सौहृदमितश्चलत्विति । खस्तनाग्रमणिकीलयोयुगं सा हृदि प्रियतमस्य संदधे ॥ १३३ ।। अस्पृशत्करयुगेन कामिनः पश्चिमाङ्गमुपगृहने वधूः । न्यस्तमस्य हृदि मत्कुचाञ्चलं निःसरे वमिहेति किं धिया ॥ १३ ॥ चित्तजार्चनचिरात्ययैनसो भञ्जनाय भृगुपातसाहसम् । कर्तुमेष किमु कामुको हठादध्यरुक्षदबलाकुचाचलम् ॥ १३५ ॥ या पुरा विरहिणी सराशुगैराप खेदमतिकोमलैरपि । सा बभूव वनितारताभटी()निर्दयप्रियविमर्दनक्षमा ॥ १३६ ॥ निर्विशङ्कनखसंनिवेशनः पाणिरोधरहितोष्ठचुम्बनः । खस्तिकोज्झितकुचोपगृहनः स्वैरलब्धरशनावमर्शनः ॥ १३७ ॥ विप्रलम्भविहितानुतापयोः संप्रहृष्टमनसोः समागमात् । तत्क्षणं तरुणयोस्तयोरमूल्लचिताशयपथो रतोत्सवः ॥ १३८ ॥ तदानीं च तरुणिममदानीतरभसमुत्सृत्य केलीतल्पतलादुद्वेलमेखला- डम्बरविभाव्यमानसंरम्भा निजनर्मसचिवस्य समरविशेषसंनाहमसहमा- काव्यमाला। नेव तमधो निपातयन्ती तव कितव दर्पातिरेकमुत्पाटयामीति तर्जय- न्तीव परिहृतार्जवगुणां भ्रूवल्लीमादधाना दशनदष्टाधरोष्ठपल्लवमाविष्क्रि- यमाणकण्ठग्रहणचण्डिमातिशया मानद, सपदि मारयामि भवन्तमिति सविकारमुदीरयन्ती श्रवणावतंसकुसुमपरिमलाकृष्टमधुकरकुलवाचाल- तया खबन्धुभिरिव दीयमानबन्धभेदोपदेशा साटोपविधीयमानचपेटा- भिगातमायतवितायमाननिःश्वासपवनपरिवीतमाहितनवपिष्टातपांसुमुष्टि- मिरपनीयमाननिरवधिस्वेदमतिनिशितनखरायुधवितीर्यमाणनानाविध- मर्मवेदमाश्चर्यगरिमनिश्चलविलोकनोद्रीवपरिसरगतप्रदीपजातं किमपि विपरीतमदनरणरतिमुररीचकार शातोदरी । तसिन्विलासी तनुभूनियुद्धे पराजयं प्राप्तमिवातिमात्रम् । हस्तारविन्देन नितम्बभारमास्फालयामास मृगेक्षणायाः ॥ १३९ ॥ संतुष्यता तादृशसाहसिक्यान्मीनध्वजेनेव कृता मृगाक्ष्याः । पर्यस्तधम्मिल्लपरिच्युतानां बभूव वृष्टिः प्रसवावलीनाम् ॥ १४० ॥ कुचौ कराभ्यां कुलशैलतुगौ जग्राह कान्तो जलजेक्षणायाः । प्रतायमानादनयोः प्रकम्पान्मध्यव्यथा मा भवतादितीव ॥. १४१ ॥ सा मेखलामङ्गलवाद्यघोषैः कण्ठोदयकाकुनिनादगीतैः । वक्षोजनृतैरपि वारिजाक्षी चित्तेशयं दैवतमारराध ॥ १४२ ॥ अस्या भृशं पौरुषमास्थितायाः प्रपेदिरे विक्लवतां प्रतीकाः । भीरोरनीका"""वसे प्रकामं शैथिल्यमङ्गानि खलु श्रयन्ते ॥ १४३ ॥ श्रान्ता पुनः सामिनिमीलिताक्षी कान्ता पपातोरसि कामुकस्य । क्रीडासमाबद्धवियातभावव्रीडादिवामुष्य तनुं विशन्ती ॥ १४४ ॥ संभोगान्ते किमपि सुमनश्चापनाधिमेन प्रत्युतायाः प्रियतमहृदि स्त्रीमणेः स्थैर्यसिद्धयै ।
यात्राप्रबन्धः। गाढोत्पीडावलयितकुचोद्वान्तकाश्मीरलक्ष्या- प्रायो रेजे बलवदभितो घट्टिता हेमरेखा ॥१४५॥ चुम्बनोदमितवीटिकापृषषितप्रियदृगुत्थिता वधूः । गात्रकामकरवालवल्लरीमाहवप्रकटितामथावृणोत् ॥ १४६ ॥ इति किल परमात्मनः सुखाब्धेविषयसमीरविसारितैस्तरङ्गैः। जगदिदमभिषिच्यमानमासीदमितभवज्वरवेदनानभिज्ञम् ॥ १४७ ।। वाधूलवंशधूर्वहस्तु वावदूको निर्वर्तितसांध्यकृत्यसंतानप्रस्तुतनियमा- दरप्रवाहनिर्मज्जदखिलविषयाभिलाषोऽपि मानसपथनीतमकरकेतुशा- सनः सुखमशेत । तदनु दिगङ्गनादृढसमालिङ्गनचन्द्रिकाङ्गरागः प्रकटक- लङ्ककैतवादतिचिरोपभोगपरिश्रान्तिगरिमविश्रान्ततनुलतां हृदन्तरेण विभावरी धानो दरनिमीलदानीलसरोजलोचनमारभ्यमाणनिद्रारसानु- भूतिरियमुत्पलिनीति तदुपगृहनविधायिनी करसंहतिमात्मनः शनैरुपसं- हरन्प्रचुरविहारखेदपरिम्लानमूर्तिरपराद्रिनिकेतशयनमजिहीत तुहिन- दीधितिः। गगनमणिसौधशिखरादमिसरति दिशं निशाकरे चरमाम् । प्राप कुलिशायुधाशा परिपाण्डदशां वियोगविवशेव ॥ १४८ ॥ शीर्णपाण्डुरिमजीर्णपलाशा रूढसांध्यरुचिपल्लवपतिः। पूर्वदिखततिरम्बरलक्ष्मीभूषणं तपनगुच्छमपुष्णात् ॥ १४९ ॥ आत्मनश्चिरमसंनिधिहेतोःकृतं किमपि वारिधिनेमेः । चिन्तयन्निव शनैरुपतस्थे लोकबन्धुरथ मध्यमलोकम् ॥ १५०॥ नभोमणिप्राङ्गणनर्मभाजस्ताराभिधाः केचन राजदाराः । आलोकमार्गादरविन्दबन्धोरपासरन्नध्युषितोदयाद्रेः ॥ १५१ ॥ दिशो दशानन्दयितुं विधाय तिरस्कृति ध्वान्ततिरस्करिण्याः।
काव्यमाला।
महात्मा महसां स राशिराकाशरणस्थलमाससाद ।। १५२ ।।
अर्कोदयात्प्रागधिगत्य बोधं प्राज्ञस्तु स प्रातरुपास्य संध्याम् ।
पिनाकिसेवां प्रणयन्ननैषीनिशात्रयं निस्तुलसत्ववृत्तिः ॥ १५३ ॥
इति समरपुङ्गवस्य कृतौ चम्पूकाव्ये चतुर्थ आश्वासः ।
पञ्चम आश्वासः ।
निष्काञ्चिरैक्षिष्ट स निम्नगां तां पयखिनी पाण्डरफेनजालाम् ।
सुपर्वधेनोः सुतवत्सलायाः स्तनान्तरात्सद्य इव प्रवृत्ताम् ॥ १॥
शैवालयालिस्तटसीम्नि यस्या निलीयते वीचिनिरस्यमाना।
क्लप्तावगाहेन गणेन नृणां प्रक्षालिता पातकधोरणीव ॥ २ ॥
सविलासविवर्तनेषु शश्वद्विवृतावर्तगभीरनाभिगर्तम् ।
दधती चलमीनदृष्टि गात्रं भजते रागवतीव या पयोधिम् ॥३॥
पार्श्वद्वयप्रभवसारणिकासहस्र-
निःसार्यमाणलहरीकतया नितान्तम् ।
आसादितापि कृशता विधाति यस्याः
सरसावलीकलनकीर्तिमुखेन शोभाम् ॥ ४ ॥
अघमर्षणमनसंततेरयमावर्तनमाचरन्सुधीः ।
अदसीयजलान्तरावसत्कलिमीत्येव कदर्थितश्चिरम् ॥ ५॥
सलिलैरखिले तस्याः कलिते नित्यकर्मणि ।
आदिष्टतपनो भासा प्रातिष्ठत स धार्मिकः ॥ ६॥
श्रीनन्दिशैलद्विपदानधारां हारावलीमर्णवमेखलायाः।
पुण्याम्बुपूरामथ भूसुरेन्द्रः पिनाकिनी प्रापदसौ प्रपन्नाम् ॥ ७ ॥
उरुभिस्तटकेतकैरुदन्वन्महिषी दीव्यति या मनोज्ञसूनैः ।
कलधौतपिधानखङ्गहस्तैरमिगुप्लेव महाभटैरभीक्ष्णम् ॥ ८॥
यात्राप्रबन्धः। अतिसंनिहितोच्छ्यावभङ्गे निपुणामाहितनीचतुङ्गभावाम् । अनुगच्छति या महीपतीनामनघां नीतिमदर्शितान्तरङ्गाम् ॥ ९॥ तत्र च पवित्रतरपाथसि प्रणीतमज्जनविधिरेष सज्जनशिरोमणिः स- रोगणविमुक्तसारणीपूरनिर्वय॑मानशालिनिचयसंवर्धनक्रियं कुशसमिदा- हृतिकुतूहलवशादग्रहारशतविनिर्गतैरवनिनिलिम्पमाणवककदम्बकैः स- संभ्रमविडम्ब्यमानसंप्लवनरंहसा शम्बरकुलेन मुहुरलंक्रियमाणजाङ्गलमही- भागमागमजलधिपारगधीरजनमेधाभिभूतचण्डीशकुण्डलमतिलङ्घय तु- ण्डीरमण्डलं पातालभुवनमिव फणिराजसमधिष्ठितं विपिनान्तरालमिव व्याघ्रपदलाञ्छितं कलशाब्धिहृदयमिव कैटभद्वेषिनिद्रागृहाञ्चितं विपुल- गिरिदुर्गमिव विमतभवभीतिसंज्वरचण्डरीतिहरमहिण्डत पुण्डरीकपुरम् । प्राकारपद्मे परिखासरस्यामुन्मेषवत्युज्वलशृङ्गपत्रे । यत्रामितानन्दमयं महान्तः शिलीमुखाः सीधुरसं पिबन्ति ॥ १० ॥ तत्र च धरणीसुराग्रणीरनर्गलश्रद्धासमाहिततीर्थावगाहनः सकौतुकमा- क्रान्तचि(वि)त्सभान्तरो यवनिकापनयनक्षणलक्ष्यमाणतेजःपुञ्जसंछादि- तदशदिशावकाशतया वारिदघटाविनिःसृतममृतकरसहस्रमपहसन्तं नि- पुणतरविनिहितेक्षणनिरूप्यमाणनिखिलपतीकतया मणिभवनमध्यदेश- प्रविष्टमिव दृश्यमानमरुणसुतशिक्षणविधावपवृत्तदाक्षिण्यमपि दक्षिणं चरणमधो निधाय तिष्ठन्तमाटोपगरिष्ठविक्षेपभाविनी त्रिभुवनविपत्तिम- मिशङ्कय सरयमुपसर्पता सव्यकरपल्लवेन कलितविनिवारणमिव किंचि- दाकुञ्चितमितरपदसरोजमुद्यम्य नृत्यन्तमेकहस्ततलविन्यस्तेन सरभस- परित्रान्तिसंदीप्तहेतिनापवमानसचिवेना..."रि(नि)विष्टदेहतया विलस- दष्टापदसालवेष्टितं कैलासशैलमिव भासमानमियदेव नर्तनलयानुगुण- मित्यन्यपाणिसंतन्यमानमतिलटहडमरुडात्कारकन्दलं परिच्छेदयतेव परं परशयसरसिजेन विरचिताभीतिमुदामिनीतिमादिनटमद्राक्षीत् ।
काव्यमाला। अवस्थिते मय्यपि गर्भदासे भागीरथी किं भवतैव धार्या । जगत्पते स्थापय तामिहेति मन्ये स नम्रीकृतमौलिरासीत् ॥ ११ ॥ आकर्णनव्रजनतीर्थवरावगाह- निर्माल्यगन्धनिवहग्रहणावलोकैः ।। अन्येन्द्रियावलिमवेक्ष्य भृशं कृतार्था- मस्तौदमुष्य मृडमक्षमयेव जिह्वा ॥ १२ ॥ संनिधौ मम समस्तदेहिनां नृत्तमेव निखिलार्थसाधकम् । तत्कलैवमिति किं नु दर्शयन्पुण्डरीकपुरनाथ नृत्यसि ॥ १३ ॥ नालीकसंभवमुखामरनायकानां सत्यादिलोकपतिभावसमृद्धिलाभम् । प्राञ्चस्त्वदेकपरतन्त्रमुदाहरन्ति तेषां पुनः किमभिलष्य तनोषि नाट्यम् ॥ १४ ॥ अमितद्रुहिणाण्डलीनामधिनेतुः खगताणिमादिभूतेः । घटते खलु कामुकस्य गौर्यास्तव संसन्नटताण्डवानुबन्धः ॥ १५ ॥ साक्षिणोऽपि जगतां तव शम्भो दर्शनाय विचरन्प्रतितीर्थम् । अङ्कगात्मजगवेषणशीलं हन्त लोकमनुयामि विमूढः ॥ १६ ॥ तावकीनपदतामरसार्चामावसांनमसकृद्विदधानः । श्रीसदाशिव कदा नु मुदाहं वासरान्क्षणमिव व्यपनेष्ये ॥ १७ ॥ असौ विद्यानिधेरस्य पार्श्वस्थितपतञ्जलेः। ह्रिया किमियती कृत्वा स्तुतिं तूष्णीकतामियात् ॥ १८॥ . अथ बुधपुङ्गवः सह्यगिरिशङ्कुसंदानितां बन्धरशनामिव सिन्धुराज- पटमण्डपस्य विधिवनचरप्रसारितां व्यापादनवागुरामिव पातकभरश्वाप- दपरंपरायाः सैकतनितम्बसङ्गिनी मेखलामिव जगतीमृगीहशो निरति- यात्राप्रबन्धः। शयसलिलकेलिनिरङ्कुशचोलीविशङ्कटवक्षोजजघनविक्षोभजातवेदनामिव प्रतिमुहुरूमिपवनापदेशेन विनिःश्वसन्ती बहुदूरगमनखेदालसामिव पदे पदे तरङ्गकरेण तटभूमिमवलम्बमानां कलिविजयकर्मविहितोद्यमस्य धर्मक्षमापतेः कटकसंनिवेशैरिव कलशाम्बुराशिकल्लोलपाण्डरैरमरनिके तनप्रासादमण्डलैरविरहिततीरदेशां लासिकामिव रभसविभावितभ्रमीस- हस्रशालिनी नारायणीमिव नवकुवलयश्यामलां कौमुदीमिव कुमुदवना- मोदनी वनमालिमूर्तिमिव वारिजसमञ्चितां पञ्चशरवैजयन्तीमिव पाठी- नपरिशोभितां विलासवतीमिव विधृतफेनधवलचारुचन्दनामगाहत क- वेरनन्दनाम् । स्पर्धावती बाढमिवामनद्या सहस्रधा चोलभुवि स्रवन्ती । समन्ततः संवसथानुपेत्य पुष्णाति पुत्रानिव या सवित्री ॥ १९ ॥ कदापि नैवात्र पदं करोतु दुर्भिक्षतादोषकथापि चेति । प्रवाहवाहापरिवेष्टनेन बध्नाति चोलक्षितिपालनं या ॥ २० ॥ रोधोवनीपिकरुतश्रवणैनिकामं सक्तेव या कचन संहृतलौल्यमास्ते । अन्यत्र तादृशविलम्बनजन्यमब्धे- राशङ्कय रोषमिव हन्त रयाप्रयाति ॥ २१ ॥ खयमनुतटि यस्याः खादु संगृह्य तोयं पृथुलफलघटीभिः प्रांशवो नालिकेराः। गगनमरुपदव्यां गच्छतो लेखपान्थां- : सत्यमाकारयन्ति ॥ २२ ॥ अनन्तरमयमवनिवृन्दारकमणिः प्रचुरफणिवल्लरीवेल्लितकमुकवन- श्चलदुरुदलहस्तैः १. कावेरी नदीम् ।
८० काव्यमाला। जालेषु चोलेषु विश्रुतं मायाघनतमिस्रमार्तण्डलभुवनमपि च्छायावनं साधारण्यपदवीविदूरमपि श्वेतारण्यं नारीव्यापारकमनीयसौधमपि गौ- रीमायूरं मुक्त्यार्जनरसिकमोदैकहेतुमपि मध्यार्जुनं जृम्भमाणहरिहराव- दानघोषमपि कुम्भघोणं संचरदनघशैवसंजवनमपि पञ्चनदं स्त्रीलाञ्छि- तदराङ्गनटननृत्तरङ्गमपि श्रीवाञ्छं विमलाशयपुरुषपरिषदाशास्यमपि कमलालयमधिगत्य, परिशीलयन्कियन्तमपि पन्थानमतिलय, कतिप- यदिनैरमलफेनपटलमासुरामपां श्रियमिव सरखतो वेलाचलस्तम्भयुगला- वलम्बिनं पाशमिव दाशरथिविख्यातिलासिकानाव्यस्य तिर्यगवष्टम्भय- ष्टिमिव तीव्रतरवातपरिभूतवार्घिमर्दनपटिमशालिनः कल्लोलकपटमल्लस्य वेत्रलतामिव जलधिवीचिनर्तकीनटनविद्योपदेशकारिणः समीरणदेशि- कस्य मध्यवंशमिव फणिराजमन्दिरसमावृतिकृतो नीरधिद्वन्द्वनीप्र(ध्र) द्वयस्य बन्धनदारुभेदमिव सलिलमयंशावकभृतो वीचिमर्मिडोलावि- शेषस्य विषमसमकरणविरचनाफलकमिव सगरकुलकीर्तिशालि. पोषिणो वारिधिकेदारवसुमतीभागस्य सुवेलगिरिकीलसुदृढप्रसंजितां दामनीमिव धरणीगवी कमठचरमाङ्गकलितविनिवेशनां वैतानवेदिमिव राक्षसाधिपविजयदीक्षानुबन्धिनो रामचन्द्रस्य तूलिकामिव त्रैलोक्यधा- मनि रामचरित्रचित्रलेखनपटोः सरसिजासनशिल्पिसार्वभौमस्य विधुतु- दमिव दशकन्धरयशश्चन्द्रमसो युगंधरमिव पुरनिषूदनस्यन्दनस्य काल- दण्डमिव घनकलुषमण्डलीनां नालमिव पौलस्त्यनगरारविन्दस्य वादन- कोणमिव वाराशिदुन्दुमेः स्थूणाप्रकाण्डमिव खरखण्डनप्रथापटमण्ड- पस्य दारणक्रकचमिव सरिदधिपदारुणो गुरुतरनावद्रोणीमिव वाहिनी- शखुरलीविहारस्य गाधभावाधिगमकाण्डमिव दशवदनशौण्डीर्यतटिनी- विलासिनः शिक्षाकशामिव सिन्धुपतिभङ्गसैन्धववातस्य नलसेतुमव- लोक्य कौतुकाक्रान्तमना वचनमिदमाचष्ट ।
यात्राप्रबन्धः। जनकतनयाधिनेतुर्जयहेतुर्यातुधानपतिजेतुः । सेतुस्त्रिभुवनकौतुकहेतुर्भवतां तनोतु कल्याणम् ॥ २३ ॥ दशमुखरघुवरयशसी तुलयितुमरविन्दजन्मना कृतयोः । सिंहलजम्बूद्वीपच्छलघटयोर्यष्टिरवतु वः सेतुः ॥ २४ ॥ रघुवरकीर्तिनटीमणिरङ्गगृहे जयति दीप्यमानस्य । आधारयष्टिमेतत्प्रतापदीपस्य सेतुमालम्बे ॥ २५ ॥ मामवतु रामसेतुर्मध्ये वाराकरस्य यो भाति । भूपैः पुरा खनद्भिः कियतीव स्थापिता क्षितिर्मितये ॥ २६ ॥ चलकङ्कणैः पयोनिधिशयने वेलावधूमिहस्तैर्यः । आस्फालितोरुभागः खपितीव चकास्ति सेतुराजोऽयम् ॥ २७ ॥ सेतुर्जयति यदाक्रमसंभ्रमलोलाः समुद्रकल्लोलाः । विश्वत्रयी विलङ्घनलाघवशिक्षारता इवाभान्ति ॥ २८॥ पुष्णातु सेतुः प्रचुरां मुदं वो महीसुवेलान्तरमानदण्डः । वृद्धस्य सिन्धोरतिवेपमानतरङ्गपाणेरवलम्बदण्डः ॥ २९ ॥ कृत्तांशुकां यद्धटनेन धात्रीं द्रष्टुं धृतापत्रप एव रामः । ततान तत्संवरणानुकूलं यशोदुकूलं प्रथते स सेतुः ॥ ३० ॥ सेतुः श्रियं पुष्यतु यद्भुजेन सुवेलमालम्बत भूतधात्री। पौलस्त्यकीर्तिप्रकराम्बुराशौ विहृत्य वेलामिव यातुकामा ॥ ३१ ॥ यद्व्याजदण्डेन नरेन्द्रवर्यनिवेशितेनेव कृतान्निरोधात् । अपारयन्धावितुमब्धिभोगी विवेष्टते तं विनतोऽस्मि सेतुम् ॥ ३२॥ डिण्डीरनिर्मोकधरः स मुष्यादघानिलान्सेतुफणाधरी नः । निशाचराधीश्वरकीर्तिदुग्धं यः पायितोऽभूत्प्रभुणा रघूणाम् ॥ ३३ ॥ न केवलं येन पुरा रखूणां नाथो ललचे लवणाम्बुराशिम् । सौसापहारोपचितापवादसिन्धुं च हन्यावृजिनं स सेतुः ॥ ३४ ॥ या० प्र०६ ८२ काव्यमाला हिनस्तु सेतुर्दुरितानि यस्मिन्मनोज्ञफेनांशुकमण्डलानि । आस्फाल्य वेलाद्रिशिलासु वीचिहस्तेन विस्तारयतीव वार्षिः ॥ ३५॥ भाखत्करानीतपयोदकुम्भसहस्रसंग्राह्यपयोभरस्य । उदन्वदन्धोरुपरिप्रदेशशिलामधीमो नलसेतुरेखाम् ॥ ३६॥ स्वपयन्पयसा यदम्बुराशिः परिलिम्पन्नवफेनचन्दनेन । मुहुरर्चयतीव रत्नसूनैस्तदुपासे हृदि रामसेतुलिङ्गम् ॥ ३७ ॥ मकरालयचेलमध्यभाजः परितो लक्षितफेनसत्तुराशेः । क्षितिचक्रघरट्टकस्य यष्टिं कलये कल्मषपेषणाय सेतुम् ॥ ३८॥ विनिवेश्य यदर्गलां पयोधौ नरकद्वारकवाटिकायमाने । क्षितिजापतिरीशलिङ्गमुद्रां विदधे शर्म ददातु वः स सेतुः ॥ ३९ ॥ रघुवीरपदावलीसमर्चारचनायेव पयोधिना वितीर्णैः। स्खलदुर्मिरयोदितैः स्फुलिङ्गैरिव रत्नैर्विलसन्मुदेऽस्तु सेतुः ॥ ४० ॥ लघयत्वघराशिमेष सेतुः श्रया दीव्यति यः सुवेलमूले । दृढदण्ड इवार्पितः समूलं परमुन्मूलयितुं पुलस्त्यसूनोः ॥ ११ ॥ नलसेतुमहं नतोऽस्मि सीतापतिकीर्तिप्रमदावलम्बनाईम् । वलदब्धिपटीवृतानदीव्यद्धरणीमण्डलतालवृन्तनालम् ॥ ४२ ॥ सुवेलशैलद्विरदेन माद्यता कृतः सलीलं क्षितिवाशितो(सिनो)परि । करोतु वः सेतुकरो भवार्णवप्ररोहदहोबिसिनीसमुद्धृतिम् ॥ ४३॥ नमामि सेतुं नटदुर्मिपाणिना तटे यदीये ततमौक्तिकावलिः । चकास्ति बन्धुः सरितां रघूद्वहप्रशस्तिवर्णप्रकरानिवार्पयन् ॥ ११ ॥ श्रयामि सेतुं चलदूमिकाञ्चलैर्विनिक्षिपन्यस्य तटे वराटिकाः । विराजते राक्षसराजविद्विषो गणं गुणानां गणयन्निवार्णवः ॥ ४५ ॥ परिचरितपुण्यपण्यावलीलामविपणिसरणिं पुरुहूतपुरकवाटसमुद्घाट- यात्राप्रबन्धः। नकुञ्चिकां राघवयशःक्षीरसागरमहाझषमर्णवनेमिवरवर्णिनीवेशिकामति- तुङ्गपदलिप्सुतनुभृदधिरोहिणीं दुरितसिन्धुसंतरणहेतुं सुकृततरणितोल- नारित्रं लकेशबाहुतेजकडङ्गरीयदूरीकरणयष्टिका जलधियुगलसीमावि- भागभित्तिं डिण्डीरवसनषण्डविन्यसनलिङ्गिनी प्रचेतोनिकेतनप्रासादमा- लिका दुर्ललितयातुधानसमाजधूमकेतुरामसेतुम् । वारिधिः समरवंशजन्मनां क्ष्माभुजाममितकीर्तिशेवधिः । यत्र दारुणि तिरश्चि लम्बते संपदे स नलसेतुरस्तु नः ॥ ४६॥ सेतुरेष परिपातु पातकव्यालसंहति विहङ्गपुङ्गवः । यस्य पार्श्वविततौ सरित्पती पुष्यतश्चटुलपक्षविभ्रमम् ॥ ४७ ।। पच्यमानपयसि स्फुटमौर्वज्वालया सरिदधीशकटाहे । आसिकाविधिकृतोऽवनिदा नालमञ्चत दृशा नलसेतुम् ॥ १८ ॥ जलधिचक्रसिषाद्वलयीकृते धनुषि देवरघूद्वहसंहितः । रचयतादघराक्षसमण्डलीजयमसौ नलसेतुशिलीमुखः ॥ ४९ ॥ इष्टं सेतुः सौति यद्रामबाणच्छिन्नाकारे वाहिनीसंनिवेशे। भ्राम्यद्वीचीबाहुबृन्दा कबन्धश्रेणी नृत्तं प्रोद्धतं संविधत्ते ॥ ५० ॥ यातायातायामतुङ्गैस्तरङ्गैदृश्यादृश्यो दृश्यतां रामसेतुः । वाताधूतं वार्घिचेलं यदूरौ भूयो भूयः स्थापयन्तीव धात्री ॥ ५१ ॥ मृत्लाकूट मेदिनीनामधेयं विन्यस्यान्तर्विश्वसृट्कुम्भकारः। प्रायश्चक्रं प्रेतयत्यब्धिरूपं यष्टया येन त्रायतामेष सेतुः ॥ ५२ ।। सेतुं वन्दे सिन्धुराजस्य गावः काषं काषं प्राणि यत्राङ्गकानि । चार चार जन्तुदुष्कर्मतृण्यां दोहं दोहं पुण्यदुग्धान्य(ट)न्ति ।। ५३ ॥ मध्येपाथोराशि पातालमूलादुन्ममस्य क्रीडयोर्वीमिषेण । भाति ग्रीवेवादिकूर्मस्य यो मां पापासक्तं पावयत्वेष सेतुः ।। ५४ ॥ - काव्यमाला। शीर्णाजकीकसभरं शिथिल्पवाल- वल्याबनालमवकीर्णवराटदन्तम् । भन्मोर्मिबाहु च पतद्भिरगैर्बभूव यनिर्मिती जलधिवर्म स सेतुरव्यात् ॥ ५५ ॥ कुण्ठीकृताशरकुलाधिपगर्वराशिः खण्डीकरोतु भवतां कलुषाणि सेतुः । भारासहिष्णुरिव यस्य पयोधिरङ्गं वीचीकरैर्विततशङ्खनखैः क्षिणोति ॥ ५६ ॥ अहाय सेतुरशिवानि विहन्तु यत्र सक्तेतरेतरतरङ्गमुखौ चकास्तः । वेलातिलङ्घनविधापणवन्धनाय श्लिष्यत्परस्परकराविव सिन्धुराजौ ॥ ५७ ॥ सेतुर्मुदे भवतु वो जलमम्बुराशे- वीरेण यत्करणकौतुकिना विभेजे। सीतावियोगशिखिरावणबाहुधानोः कर्तुं पृथक्प्रशमनाममिकासतेव ॥ ५८ ॥ विषं जगद्गुरोरदादयं पुरेति रुष्टयोः सुवेलगन्धमादनस्मराभियातिभृत्ययोः । निधाय मध्यसीमनि अमृद्गतोर्यदर्गलां विरोति वाहिनीपतिः श्रियै स सेतुरस्तु नः ॥ ५९॥ उदबद्धोषाभ्यामुदधिलहरीभ्यामुभयतः कृतासङ्गः सेतुः कवलयतु पापानि भवताम् । भृतक्षोणीकन्यापतिविजयनिःसाणयुगली- लसत्पार्श्वद्वन्द्वावलितकरिराजन्यवित्तिः । ६० ।।
यात्राप्रबन्धः।
दक्षाः संगतलोकपातकविधौ ताटस्थ्यभाजो नृणां
चेतोमीतिविधायका मलिनतां संबिभ्रतो भूयसीम् ।
तुङ्गाः पातकराशयस्तनुभृतां भृ(भ)ङ्गा इवाम्भोनिधेः
सङ्गाद्यस्य विनिर्दलन्ति शतधा तस्मै नमः सेतवे ॥६१ ॥
श्रीमद्दामयशोदुकूलकलनावेने नतिं मौलिना
कुर्मों गर्हितकर्मदग्धजनताजीवातवे सेतवे।
शश्वद्यत्र विजृम्भतो रघुपतेः ख्यातिप्रतापाङ्कुरा-
व्यक्तान्मौक्तिकपद्मरागमिषतः सिञ्चन्निवाम्भोनिधिः॥ ६२॥
मध्येवारिधि काञ्चनाचलमिलन्मध्या मही दृश्यते
पुंसां नौरिव कापि पुण्यपटली वाणिज्यलाभार्थिनाम् ।
लङ्का तन्निकटस्थितेव तरणिर्लध्वी तयोरन्तरे
सेतुः पाश इव स्फुरन्वितरतु श्रेयांसि भूयांसि.वः ॥ १३ ॥
वलमानवीचिकरलीलया मिथः,
पृथुकम्बुकन्दुकमिह प्रहिण्वतोः ।
निहितेव यः स्फुरति यष्टिरन्तरे
सरिदीशयोः स नलसेतुरीक्ष्यताम् ॥ ६४ ॥
लङ्काभिव्याप्तिघाटीचटुलरघुवरोद्दामदोर्धाममार्ग-
त्रैलोक्यप्रासजाग्रद्दशवदनयशोरोधविष्कम्भकाण्डः ।
सेतुर्वः संतनोतु श्रियमुभयनदीबान्धवोपान्तलीला-
लोलकल्लोलमल्लद्विपयुगलसमीकाभेटीमध्यभित्तिः ॥ ६५
श्रीमत्कूर्मोरगेन्द्रक्षितिवलयमयैरादिमध्यान्तभागै-
राबद्धे मूर्तिमम्भोनिधिवसनसमावेष्टयमानां दधाने ।
पीठे यद्गोमुखाढ्ये कनकधरणिभृलिङ्गमाभाति तुङ्गं
पायादमानपायात्सुकृतनरपते त्रकेतुः स सेतुः ॥६६॥
८६
काव्यमाला।
गेहे।
धर्मकोटेस्तदा तस्य धर्मकोटिमभीप्सतः।
कथमात्माश्रयोऽप्यासीत्कार्ये न प्रतिबन्धकः ॥ ६७ ॥
अयं पुनरधिरूढगन्धमादनं रतिबन्धुशासनमभिवन्ध नुतिबन्धमौख-
रीमविन्दत।
नलसेतुबन्धतटकेलिशालिने नतिरस्तु शैलतनयाविलासिने ।
सृजतीव यन्मकुटसिन्धुरब्धिना सहनर्मसंलपनमूर्मिनिःखनैः ॥ ६८ ॥
यो वारिराशेरुदरात्तरङ्गमहोरगान्मौलिभृदोषधीशः।
आकृष्य भूयस्त्यजतीव सोऽयमास्तां मनस्यादिविषापहारी ॥ ६९ ॥
यस्याट्टहासेन्दुरुचा पयोब्धिलीलां दधाने लवणाम्बुराशौ ।
निद्राणनारायणनर्म धत्ते सेतुः स मां पुंगवकेतुरव्यात् ॥ ७० ॥
रमतां हृदि रामनाथदेवो वितता वारि"
श्रियमञ्चति सेतुबन्धरेखा शयितोर्वीधरचापनिर्विशेषा ।। ७१ ॥
चण्डैः प्रगृह्य चलवीचिकरैर्नराणां
पापावलिं पृथुषु सेतुशिलातलेषु ।
यच्छासनेन परिपातयतीव सिन्धुः
सोऽयं ममास्तु हृदि सोमकलावतंसः ॥ ७२ ॥
व्याकीर्णविद्रुमजटावलयं विमुक्त-
फेनाट्टहासमवधूर्णितवीचिहस्तम् ।
संध्यासु यस्य नटनानुकृति समुद्रो
निर्माति शर्म वितनोतु स नीलकण्ठः ॥ ७३ ॥
आयात पातककृतो भवतामघानि
! संक्षालयानि सहसेति यदग्रभागे।
अम्भोधिरात्मभवसेतु विलङ्घनेन
सत्यापयन्निव चकास्ति मृडं तमीडे॥७४.॥
यात्राप्रबन्धः । रामेश्वरो विजयते ललदुर्मिहस्त- पर्यस्तशुक्तिपटलीकपटेन यसै। चूडामणीकृतसुधांशुकलान्तराणि विश्राणयन्निव विभाति तरङ्गमाली ॥ ७५ ।। पादावनम्रजनपङ्कपरंपराणां संक्षालनामिव समुद्रजलैर्विधातुम् । श्रीरामसेतुतटसीमनि वासलीला- मामेडयन्घटयतां मुदमद्रिधन्वा ॥ ७६ ॥ मुक्ताविद्रुमपद्मरागपटलीमुख्योपदामन्तिके न्यस्यन्नेत्य सृजन्निव प्रणयिनीनिर्मोचनाभ्यर्थनाम् । भूयो याति मुखे वहञ्जलनिधिर्भङ्ग किलापाकृतो येन प्रत्यहमेधते स भगवानेणाङ्कचूडामणिः ॥ ७७ ॥ जानकीकरसमूढवालुकामूर्तये मुषितराघवार्तये । रामनाथ इति नामशालिने शूलिने नटनशीलिने नमः ।। ७८॥ तदनु पण्डिताखण्डलः पाण्ड्यधरणीमण्डनायमानमुरुतरश्रीलास्यमु- खरमुपगम्य हालास्यनगरमगणेयगुणविशेषामशेषभुवनमातरमपि सवि- त्रीकृतमलयध्वजधरित्रीशवल्लभामपरयुवतिदुर्लभाभिरङ्गजनृपालपुंगवश- क्तिभिरिव वक्षोजवृद्धिभिस्तिसृभिरुपशोभमानयौवनारम्भां विपुलसंरम्भ- विहितनिखिलदिग्विजययात्रावसरनेत्रातिथीभवत्रिपुरविरोधिसनिधिति- रोहिततृतीयपयोधरभरां संपदि मीनाक्षीमध्यक्षयन्प्रणिपातपूर्वमयममि- जातपथविहारिणी वाणीमभाणीत् । हरमिव समाख्यातुं चित्ताय जाग्रतमनतो रचयति कुचे तार्तीयीके भुजान्तरमजनम् ।
८८ काव्यमाला। सपदि विनतो लज्जासङ्गात्तदीयगवेषण- प्रवण इव नः पायान्मीनाक्षि ते मुखचन्द्रमाः ॥ ७९ ॥ स्तनशिखरिणोः स्पर्धामुत्पाद्य तावकयोः पुरा कुलमहिधरो दृष्ट्वा तस्थौ तृतीयकुचात्मना । अधिगतवतोः पश्चादैक्यं तयोः सविधादसौ निजपरिभवं प्रायो निर्धार्य देवि तिरोदधे ॥ ८०॥ तव गिरिसुते वक्षोजेषु त्रिषु सरशासिनो नयनसरसीजातैनीतेषु सत्सु भक्तताम् । दहनघटनत्रासाल्लिल्ये तृतीयपयोधरः समकुचददश्चिन्ता.न्धादलीकविलोचनम् ॥ ८१ ॥ पुरहरकरामर्शत्रासेन भूधरनायक- स्तव कुचयुगोपान्ते प्राप्य स्तनान्तरभूमिकाम् । भगवति तिरोभूतः क्वापि प्रतिक्षणभाविनी- महह पुनराशङ्केशानस्य हस्तविमर्शनाम् ॥ ८२ ॥ भवति विमुखे धैर्ये पाणौ विमुञ्चति कार्मुकं सुरमिलशरेऽप्याजौ खीकुर्वति प्रतिकूलताम् । परमवसरं लब्ध्वा पृथ्वीधरेन्द्रशरासनो जननि भवतीमाविर्लज्जा करे जगृहे हरः॥ ८३ ।। इति सुमतिरयमभिदधानो विगलितोपमानसंकथां रूपसंपदमखिल- जगदम्बिकाया विभावयन्पुनरिदमभाषत- अम्ब कदम्बवनान्तरमन्दिरसंजातकेलिसंचारे। भूरि पुरवैरिलीलासाक्षिणि मीनाक्षि देहि वाग्देवीम् ॥ ८१ ।। आचिकुरचरणपल्लवमनवद्यानां शिवे तवाङ्गानाम् । -
यात्राप्रबन्धः।
८९
उपमां वदञ्जघन्यैरुपमानैः क इव नापराधी स्यात् ॥ ८५॥
तदपि भवदीयचिन्तासुकृतानि "लब्धुमिच्छन्त्या।
भक्त्या समाहितः परमयमारम्भः सविनि सहनीयः ॥ ८६ ॥
विक्षिप्तदक्षिणेतरकरपल्लवमन्यपाणिधृतकीरम् ।
किमपि करुणापयोधेरधिदैवतमाविरस्तु मम चित्ते ॥ ८७ ॥
कुलगिरिकुमारिके तव कुन्तलपरिमुषितसंपदो मेघाः।
क्रन्दन्मि नूनमेते क्षितिभृत्पादेषु क्लृप्तनिष्यन्दाः ।। ८८ ॥
जडमपि दोषाकरमपिसमधिककौटिल्यमपि सुधासूतिम् ।
शिरसा वहसि यदेषा जननि कलापक्षपातशैली ते ॥ ८९ ॥
आपाटलाधरच्छविबालारुणकिरणपरिचयाल्कि वा।
अनिशविकखरमास्ते पार्वति भवदीयवदनतामरसम् ॥ ९०॥
कमलभवन्मुखभेदे कलयेदीशोऽपि देवि मीमांसाम् ।
एकत्र षट्पदावलिरितरत्र झूलता न चेदृष्टा ॥ ९१ ।।
शशलक्ष्मणो विशिष्टं शफराक्षि मुखं तवेति मे धिषणा ।
यदिह विशेषकमिन्दोरसुलभममितैस्तपोभिरप्यास्ते ॥ ९२ ।।
तव जननि लोचनद्वयमाभाति मदारुणीकृतोपान्तम् ।
निजगतिनिरोधकारिणि कर्णयुगे किंचिदाचरोषमिव ॥ ९३ ॥
शर्वाणि ते कटाक्षः शक्तिं जगृहे नु कालकूटस्य ।
गलकलितोऽपि स विकृति न दिशति नाथं यदेष मोहयति ।। ९४ ॥
श्यामापि विमलशीलां संततलोलापि संभृतस्थैर्याम् ।
गौरि कुटिलापि ऋज्वी तनुते श्रियमानतेषु तव दृष्टिः ॥ ९५ ॥
तावकहसितविडम्बनसंभृतगाढागसां विधो साम् ।
संभाव्यते चकोरीचञ्चूसंदंशकोटिमिश्छेदम् ॥ ९६ ॥
९० काव्यमाला। दशनकिरणप्ररोहस्तन्त्रीममृतैरिवाभिषिञ्चन्ती। श्लाघाचलितशिरस्कं गायति शश्वद्यशांसि कामारेः ॥ ९७ ॥ भवदीयकण्ठनालीपरिवादिन्यामलीकदृक्कान्ते । तन्त्रीगु" .."र्दधत माङ्गल्यहेमसूत्राणि ॥ ९८ ॥ हालाहलानलाकुलहरगलसंतापकन्दलीहरणात् । ब्रूमो भुजद्वयीं तव तनुरुचियमुनातरङ्गयुगलीति ॥ ९९ ॥ कलयामि............."ननि श्यामो यदंशुसंदोहः । मूर्च्छति कपोलमूले मङ्गलदूर्वावतंसमतिदायी ॥ १०० ॥ परिणतदाडिमबीजभ्रमचुम्बितपद्मरागमणिमुद्रम् । विभ्रमशुकमालोक्य स्मेरमुखी त्वां भजामि मीनाक्षि ॥ १०१ ।। आनन्दपारवश्यादपि विस्मृतमन्तरान्तरा गेयम् । हैमवति यद्विरा पुनरनुसंधत्से स मां शुकः पायात् ।। ११२ ॥ अङ्गुलिभिरम्ब तत्रीताडनसमये तव स्फुरन्तीभिः । संगीतविभवसंभृतपल्लवनिवहेव भासते वीणा ॥ १०३ ॥ माभूदयं विलीनो गीतिरसेनेति किं नु मीनाक्षि । कुचगिरिमलाबुरुद्धं कुरुषे वीणाविनोदवेलायाम् ॥ १०४ ॥ मध्येगानसुधाम्बुधिमज्जनममिशङ्कय किं नु वा धन्ये । वीणावादनकेलिषु कलयसि कुचयोरलाबुविन्यासम् ॥ १०५ ॥ त्वं वल्लकी च देवि द्वे सख्यौ कृतपरस्पराश्लेषे । चारुखने भवत्यौ सृजत इवान्योन्यकेलिसंलापम् ॥ १०६ ॥ स्फीते महाप्रवाहे. मज्जनलीलाकृतः स्मरेभस्य । उत्पतिताविव कुम्भावुरसिजमारौ तवावभासेते ॥ १०७ ।। तव तरुणि मानमानी कोऽपि न रोमालिरस्य मणियष्टिः।
यात्राप्रबन्धः । ९१ न कुचौ करण्डयुग्मं मौक्तिकमाला न कन्दुकश्रेणिः ॥ १०८॥ शिशुतां विजित्य मध्यमसीन्नि निखातो नवेन तरुणिम्ना । रोमलतिकात्मना तव राजति जम्भारिमणिजयस्तम्भः ॥ १०९ ॥ कुचगिरिचरद्भवाशयकरिपातनजातकौतुको मदनः । तावकगभीरनाभीदम्भादम्ब ध्रुवं चकार विलम् ॥ ११०॥ कुचयुगलभारपीडा कुरुते तनुतां तवावलमस्य । अविवेकिनः समुन्नतिरन्तिकभाजां विषादनायैव ॥ १११ ॥ त्रिवलीमयेन यौवनदर्वीकरवेष्टनेन किमपणे । भवदीयतनुपटीव्रततीमध्यो विगाहते तनुताम् ॥ ११२ ॥ कथमतितरां कठोरैः करहिशिरःकदलिकाण्डतूणीरैः। जननि जघनोरुजङ्गं तुलयन्ति धुतोपमानसङ्ख ते ॥ ११३ ।। भवमहिषि तव पदाभ्यामिदमधरीकृतमिति ध्रुवं वेधाः । कलयति कमलमधस्तात्सर्वे कुर्वन्ति सत्समाचरितम् ॥ ११४ ॥ नखरनिकरच्छलोदितनपुरहीरोपलप्रतिच्छायाः। अङ्गुलिदलापदेशाद्भान्ति भवचरणकिरणनिष्यन्दाः ॥ ११५ ॥ कमलकलहोद्यमो वा हिमगिरिहेलाविधानवाञ्छा वा । यमिहृदयवारिजस्थितिकलना वा तव पदं करोत्यरुणम् ॥ ११६ ॥ हंसास्त्वया मदालसविनमगत्या विभीषितखान्ताः। मातः पयोदमाला प्रेक्ष्य भवच्छङ्कया पलायन्ते ॥ ११७ ॥ निर्माय निर्मले तव केवलशृङ्गारकन्दलैरङ्गम् । उडुराजखण्डमौलेरुपदीकुरुते स्म किं मनोजन्मा.॥११८ ॥ श्रुतिश्रमविनोदिभिः शुकरवैरभिव्यक्तया पुरारिगुणसंपदा पुलकितैकगण्डस्थलम् ।
९२ काव्यमाला। कदम्बविपिनान्तरे कलितसंनिधानं चिरा- न्महः किमपि दृश्यते मरकतोपलश्यामलम् ॥ ११९ ।। अनन्तरमुपसृत्य सुन्दरेशमारचितसंनतिरिदममन्यत्- अभीष्टसिद्धयै हरिणाङ्कशेखरं विनौमि हालास्यपुरीविहारिणम् । विभोश्चतुःषष्टिविलासकारिणः कियन्मदीयावनकेलिकौशलम् ॥१२०॥ जरद्वारोहणशीलिना त्वया कदर्थ्यते हन्त नरे(गे)न्द्रकन्यका । हयावलीविक्रयिणस्तवेश किं तुरङ्गमः कोऽपि बभूव दुर्लभः ॥१२१॥ गिरिश पाणिषु माधुरयोषितां वलयभूषणमर्पयता त्वया । शफरदृक्करपल्लवसंपदा कथय तेषु कलापि किमीक्षिता ॥ १२२ ॥ उत्कूलसिन्धूदकरोधहेतुमृत्क्षेपकर्मावसरे विनम्रात् । संसेत गङ्गा यदि मस्तकाचे का वा दशा स्यान्मधुरानगर्याः ॥ १२३ ॥ उरसिरुहत्रयरूपामुपहृत्य तव त्रिवर्गसंपत्तिम् । अजनि शफरेक्षणा खयमानन्दघनापवर्गसंसिद्धिः ॥ १२४ ।। अथ निर्गत्य मधुरापुरादधिगत्य च कवेरजां समरमृगयादलितदनु- जसारङ्गयूथमपि श्रीरङ्गनाथं परिकल्पितपूजापुण्यततिमपि गजारण्यपति चिरमुपास्य निःसृतः सहचरलोकमवलोक्य वाक्यमिदमाख्यातवानवनी- सुरशाकरः। कलशार्णवान्तरङ्गं कावेरीसङ्गि मन्महे रङ्गम् । यदिह घनपीनतुङ्गे पुरुषो निद्राति भोगिपर्यके ॥ १२५ ॥ चारुकवेरजाझरसमीरणपारणया पोषपने शयान भुजगेशमहाशयने । श्रीमहिलामनोज जलदामलधामनिधे त्वं गुरु मङ्गलं मम तरङ्गय रङ्गपते ॥ १२६ ।।
यात्राप्रबन्धः। ९३ हृद्यमरुद्धृधाहृदयवर्तनसक्तमते प्रौढगजाटवीनटनपाटवरूढरुचे। संभृतसंपदा विहितकम्बुविडम्बनया साधय बोधय माशु मम चेतसि भूतपते ॥ १२ ॥ अज्ञातापचयक्रम द्विजवरैरास्वाद्यमाने रसे- ऽप्यर्ध वारिदनीलमर्धमुदयन्मार्तण्डबिम्बारुणम् । मूले सह्यकुमारिकातटपरिष्कारस्य जम्बूतरो- रद्राक्षं फलमेकमीक्षणकृतामश्रान्ततृप्त्यावहम् ॥ १२८॥ संसारी स्यन्दनी वा जलधिरशनया लोचनी शेखरी वा नेत्रा नीलोत्पलानामुदधिपरिवृढेनालयी तूणवान्वा । पर्यत्री कङ्कणी वा फणिधरपतिना सह्यभूभृत्कुमारी- मध्यालंकारलीलावसतिरवतु मां देवतासार्वभौमः ॥ १२९ ।। वृद्धाचलाधिपमुपास्य ततो विपश्चि- दाराध्य शोणगिरिसङ्गिनमङ्गजारिम् । नत्वा विरिञ्चिपुरनायकमप्ययासी- न्यग्रोधकाननपुरीं निजवासभूमिम् ॥ १३० ॥ अनेकतीर्थाटनवैभवेन समापतन्तीं सशरीरबन्धाम् । कांचित्तपःसिद्धिमिवैष कन्यामन्यां महीयानथ पर्यणैषीत् ॥१३१॥ अनवगुणकलापैरन्यनारीदुरापै- रनुसृतनिजचित्तं हैमवत्योरिवेशः । द्वयमिदमनुरुम्धन्दक्षिणः सारसाक्ष्यो- रधित मुहुस्मान्तीमन्तरानन्दवृद्धिम् ॥ १३२ ।। इति समरपुंगवगकृतौ यात्राप्रबन्धचम्पूकाव्ये पञ्चम आश्वासः ॥
काव्यमाला। षष्ठ आश्वासः। ताभ्यामसौ धर्ममणूदरीभ्यां समाचरन्संशयगोचरेषु । निर्धारणाय श्रुतिनिर्विशेषं प्रमाणमासीत्परमङ्गभाजाम् ॥ १ ॥ तस्य तीर्थभजनोचितयात्रामादिशन्निव सुदीधितिकस्य । स्मेरपाटलपरीमलवीचीमोदितालिमुखरः समयोऽभूत् ॥ २ ॥ मल्लिकाकुसुममण्डलगौरो मारबाहुमदमान्धविधायी । दीप्तचण्डकरदीधितिरागात्कालकाल इव कश्चिदनेहाः ॥ ३ ॥ ग्रीष्मसंज्वरकृतामतिपीडामब्जिनीपतिरिवासहमानः । मेदुरामविरतं मिहिकाभिर्विश्रवःसुतदिशं विजगाहे ।। ४ ।। उत्क्षिपद्भिरटवीतरुकाण्डानुद्भटैरपरदिक्पवमानः । भमरहसि पतङ्गशताङ्गे द्राधिमानमलभन्त दिनानि ॥५॥ मेदुरे करसहस्रनिपीतैर्मेदिनीतलजलैरहिमांशौ। भारकुण्ठितजवै रथवाहैः प्रादुरास गरिमा दिवसानाम् ॥ ६ ॥ व्योनि दावशिखिधूमवितानासले खरमरीचिहयानाम् । मार्गमार्गणकृतातिविलम्बाद्दीर्घतां समजय(गम)न्दिवसानि ॥ ७ ॥ अस्फुरच्छिखरिगहरगर्भव्यापिहेतिरटवीहुतवाहः । उगतैरिव विशन्निजधूमरुद्भवं जलमुचामभिशङ्कय ॥ ८॥ भाविवैधुतलतापरिणत्यै बीजसंततिरिव प्रविकीर्णा । व्योमसीन्नि विपिनज्वलनानां विस्फुलिङ्गपटली विजजृम्भे ॥ ९ ॥ शोषितेष्विह जलेषु नितान्तं शेषलोकसलिलान्यपि पातुम् । दारुणैर्वसुमती करजालैारितेव तपनेन पफाल ॥ १० ॥ प्रस्थितेन मधुम्रासनृपेण प्रापिता वनमहीशिबिराणि । पावकावलिरिव प्रचकाशे पाटलीकुसुमकोरकपङ्किः ॥ ११ ॥ अंशुमालिकपिशाम्बरमध्ये व्यक्तिमाजि मधुवैरिणि काले ।
यात्राप्रबन्धः।-
अद्भुताय किमिदं यदमुष्मिन्नर्जुनस्य मुहुरास विकासः ॥ १२ ॥
माघवेन विहितोपचयानां मार्दवं किसलयप्रकराणाम् ।
आजहार शुचिराशु निधातुं किं शिरीषकुसुमस्तबकेषु ॥ १३ ॥
दारुणातपभिया स्तनसीमामाश्रितं शिशिरमम्बुरुहाक्ष्यः ।
सान्द्रचन्दनरसैः किमरक्षशस्यते हि शरणागतरक्षा ॥ १४ ॥
तालवृन्तमभितो हिमधारास्यन्दनिर्भरसिताभ्रवलक्षम् ।
नृत्यति म निकटे युवतीनामास्यदास्यकृदिवैन्दवबिम्बम् ॥ १५ ॥
अम्बुजव्यजनमब्जमुखीनामाश्रयन्नपि मुहुर्मरुदासाम् ।
धर्मवारिकणजालममुष्णात्का व्यवस्थितिकथा चपलेषु ॥ १६ ॥
पर्ययेण कृतपातमधोऽधो वापिकाजठरवारि विरेजे ।
चण्डभानुकरसंज्वरभीत्या गन्तुकाममिव गर्भमवन्याः ॥ १७ ॥
उन्नदअमरमुच्छ्रितपद्मं भासते स. पटलं नलिनीनाम् ।
साध्वसाकरमुदस्य सवित्रे शंसदात्मसरसामिव शोषम् ॥ १८ ॥
क्रीडितुं सरसि तीरगतानां वक्रराजिररुचद्वनितानाम् ।
सादरैव जलजेषु विधातुं सर्वसन्नहनसाहसकेलिम् ॥ १९ ॥
अम्बुगाहनकृतामबलानामभिपतिरपनूपुरनादा।
लक्ष्यते स सरसीरुहलक्ष्मीमोषणाय भृतमूकदशेव ॥ २० ॥
प्रक्रमे सलिलकलिकलाया नाभिदनमपि सारसमम्भः।
श्रोणिमिः पुनरुरोरुहदनं सुभ्रुवामजनि संभ्रमहेतुः ।। २१.॥
प्रापिते सरसि पद्ममुखीनां क्षोभमूरुकुचकुंम्भनितम्बैः। . ।
अब्जसंततिरधोमुखवीक्षा लजितेव लहरीषु मम(ज)जे ॥ २२ ॥
वीचिलोलमपहाय सरोजं वक्रसीमनिं पतन्नपि वध्वाः ।...
षट्पदस्तदुपगृहनहृष्यचेतसा, सहचरेण शशंसे ॥ २३ ॥
काव्यमाला। अङ्गनाः कलिलमम्बु सरस्याः कुर्वते स कुचकुङ्कुमपकैः । रञ्जयन्ति विदुषामिव भावैराशयं किमु जलस्य मृगाक्ष्यः ॥ २४ ॥ पादयावकमुरोजपटीरं चक्षुरञ्जनमपि क्षपयन्तम् । वीक्ष्य रोषविवशा इव हस्तैस्ताडयन्ति वनिताः स्म तटाकम् ॥ २५ ॥ कान्तयन्त्रकरवारिभरेण प्लाविते सति पयोधरकुम्मे । हृद्तो मृगहशां मदनेभः खेदमातपकृतं विससर्ज ॥ २६ ॥ अक्षमा अपि विहर्तुमगाधे कामिनां करगृहीतवलमाः । बालिकाः प्रसृतपाणिपदाब्जं पाथसि प्लवननर्म वितेनुः ॥ २७ ॥ कैशिके सलिलसंगिनि तासां कान्तचित्तमजनिष्ट रसाईम् । शुष्यति प्रचितशोषणमस्त्रैराङ्गजैनियमिते च निबद्धम् ॥ २८ ॥ नीलकुन्तलनियन्त्रितमल्लीसूनकन्दुकभरा सुदृगाली । वारिदोदरवलद्विधुबिम्बामावलिं क्षणरुचामनुचके ॥ २९ ॥ अथैष पित्रोरमितैस्तपोभरैरुपेयुषोः खर्गमुपार्जितैः खयम् । गयाशिरःसीमनि कृत्यमास्तिकः खधर्म इत्याचरितुं समैहत ॥ ३० ॥ (सिन्धुकाशीतदधीश्वरेषु प्रारभ्य या बाल्यममुष्य भक्तिः । करावलम्बप्रतिपादनं सा गयाप्रयाणाभिरतेरतानीत् ॥ ३१ ॥ लये शुभे स निरगाद्रचितः सुरेन्द्र- संतर्पणः सहजनिर्मलशीलशाली। दुष्कर्मवर्मितजनागमदूषितानि. तीर्थानि पावयितुकाम इवाखिलानि ॥ ३२ ॥ बलिमोजिबकोटयोर्जवात्प्रतिपन्नाटनयोः प्रतिक्षणम् । किरणच्छलतोऽसितार्जुने किमभातां पुरतोऽस्य निमगे ॥ ३३ ॥ अनुपदमपश्यदयमपसव्यपार्श्वतः सहसा विनिःसृत धरणीतलादुपार यात्राप्रबन्धः। बाहुमध्यमादनतितुङ्गे नभसि विहितचङ्गमतया संनिकृष्टोदयामिष्ट- "मनक्षरमाचक्षाणमदक्षिणभागविटपिशाखाशिखरविरचितोपवेश- तया भजनीयदेशभाविनीमञ्चितामुन्नतिमभिव्यञ्जयन्तं कमपि खञ्जरी- टकखगम् । अम्बरे मण्डलभ्रान्तिमपदिश्य गरुत्मतः । तमागतवतस्त्रातुं हरेश्चक्रमदृश्यत ॥ ३४ ॥ उल्लीढमाणिक्यमरी चिकोर्मिहल्लीसशीलच्छवि हल्लकाद्रौ । वल्लीसखं धाम वशीन्द्रलोकहल्लीनमेकं मतिमाननंसीत् ॥ ३५॥ स्थितस्य मध्ये शिवयोविभाति वक्रावली यस्य समं तदास्यैः । बिम्बालिरिन्दोरिव भानुमालिस्पर्धाभृतद्वादशविग्रहस्य ॥ ३६ ॥ अभिवन्ध च तं भगवन्तमिदं नवनमतानीत् । गन्धश्रेणीसान्द्रकहारचूडं मन्दस्मेरोदारवक्रारविन्दम् । 'अन्तर्वाणिध्येयमानायगेयं वन्दस्वैन वाणि वल्लीसहायम् ॥ ३७ ।। दीनपालनमहाव्रतक्रतो दीक्षितेयमधिहल्लकाचलम् । वैनतेयतनयाधिरोहिणी वासना विहरते षडानना ॥ ३८ ॥ कालिकागिरिशयोगसाधितं गाढममिजठरे समाहितम् । गालितं पयसि सौरसैन्धवे काञ्चनीकृतशराटविं रुचा ॥ ३९ ॥ शीलितोपचयकृत्तिकापयःखीकृतिप्रकटितातिवैभवम् । व्यालिहामि मनसा भवामये मज्जतां किमपि पारदं रसम् ॥४०॥ इहेश्वरादेकमुखप्रवृत्चेरीषल्लभा ....रीरितार्थः। कहारशैलाधिपतिं कथं वा भजन्ति संदंशितबाहुमुख्यम् ॥ ११ ॥ कनीनिकांशुग्रथिताक्षमाला षडाननी भाति षडाननस्य । अम्भोरुहश्रेणिरिवासिताजदलस्रजा गाढतरं निबद्धाः ॥ ४२ ॥ या. प्र. ७
९८
काव्यमाला।
त्रिसंध्यमाविष्कृतरक्तसंध्यके धराधरेऽस्मिन्निदमन्यदद्भुतम् ।
यदेकनालोपरि शश्वदीक्ष्यते समग्रबोधाकलिता षडम्बुजी ॥ ४३ ।।
कलापिनीनां नटनान्तरेषु कपोल[डो]दोलायितकुण्डलानि ।
नालीकसंदोहनटन्मिलिन्दपालीकन छूपरिशोभितानि ॥ १४ ॥
कहारमानातुमिवेक्षणाभ्यां गाढावलीढश्रवणान्तिकानि ।
नेत्रद्वयीसीमनिबद्धसेतुनर्मस्पृशा नासिकयोज्ज्वलानि ।। ४५॥
न्यस्तस्य दृग्दोषनिवारणाय बिन्दोः सगन्धं तिलकं वहन्ति ।
प्रियाधरोष्ठामृतपारणायामुच्चैरहंपूर्विकया युतानि ॥ १६ ॥
उपासकेभ्यो युगपत्प्रणीतषड्दर्शिनीव्याकृतिसंभ्रमाणि ।
कहारसौरभ्यघने कपोले स्वैरं शिवाभ्यां कृतचुम्बनानि ॥ १७ ॥
रसाभिलाषेण रहः प्रियाभ्यां पर्यायपीताधरपल्लवानि ।
धन्यो जनः पश्यति तारकारेर्मुखानि मुग्धस्मितकन्दलानि ।। ४८॥
कुमारमीडे गुरुगर्वयोगादुपोढसंरम्भमुपेत्य यस्य ।
विलासहासेन भवान्विचेष्टः शक्रो जयस्तम्भ इवावतस्थे ॥ १९ ॥
अहरलङ्घयविधेयशतस्य वा निशि निषेवित्तपतलस्य वा।
उपनिषन्मुखवेद्यमुदेतु मे मनसि षण्मुखवारिरुहं महः ॥ ५० ॥
नीलावनीभृन्निमसौरिघाटीललायकोलाहललुप्तधैर्ये ।
काले सरामः करुणाभिरामविलोकनं तारकवैरिणं तम् ॥ ५१ ॥
वल्लीवारविन्दे मदकलमधुपक्रातसंपातरीत्या
तुल्यानां जृम्भणानामहमहमिकया गुम्भने दुर्निवारैः।
हृयामुद्भावयद्भिर्दिशि दिशि...""पतिमिन्दीवराणां
कल्याणं वः कटाक्षः कलयतु करुणाशालिमिः कार्तिकेयः॥५२॥
यात्राप्रबन्धः। .९९ स्तनंधयोऽपि शर्वाण्या दैत्यं दारितवानसौ । खतो धारयतः शक्तिं किं वयो गण्यते बुधैः । ५३ ॥ सर्वाममोपदेष्टापि शबरीमयमग्रहीत् । अस्य भिल्लाग्रणीसूनोस्थका किमनौचिती ॥ ५४॥ श्रयत भवानीतनयं शतमखरिपुजैत्रवैभवानीतनयम् । निरवधि कारुण्येन व्याप्तं हृदि वपुषि चाधिकारुण्येन ॥ ५५ ॥ सेनानीरजनि करश्रेणिपराभूतशोणनीरजनिकरः। परनलिनीरजनिकरः परमशिवानन्दबाष्पनीरजनिकरः॥ ५६ ॥ प्रशस्तलीलाविभवोपनीतकुशस्थलीकूलझरीविशेषम् । कृपालतोपन्नमुपात्तवेधःकपालमाराधयदेष देवम् ॥ १७ ॥ इमं परीपाकमिहापराधादम्भोजयोनेरपि पश्यतेति । अदःकपालेन सुरालयेषु भिक्षामटन्यः प्रकटीचकार ॥ ५८ ॥ तदनु निःशकं भूधरोत्सङ्गसीनि शीलित......."मासादितरागसंप- दावेशतया शैलेशतनुभुवा सततमाकेशचरणमवलोकनीयरामणीयक नागेशमभिवन्ध नरपालमन्दिरद्वास्मासाथ दूरादेव नृपसदसि मागधकु- लनिगद्यमानमभिजातपातमार्यमिश्रः सहर्षमश्रौषीत् । वर्धवामितसार सारसविधेयालोकलोकत्रयी- गेयप्रौढिविशेषशेषनिभवा पुण्यपुण्याकृते । संग्रामाङ्गणधीर धीरत सतां कोदण्डदण्डक्षत- प्रत्यर्थिसायसङ्गसंगतमहीरामाक माकप्रभो ॥ ५९॥ घनजयकृता दानेनानेकदिक्कटलङ्घन स्यदनिरतया कीर्त्या नीत्या निरस्तकलङ्कया ।
. काव्यमाला। सरसकलया चात्रेः संतानरत्नचिरन्तना- ननघचरितानाजळ्गीयसे क्षितिनायकान् ॥ ६० ॥ जनितनलिनीशङ्कावेशे हरिन्मणिकुट्टिमे शशधरकलामुद्यद्विम्बां निशासु समंततः ।। बिसधिषणया केलीहंसाः स्पृशन्ति मुखाञ्चलैः प्रतिबुधगृहं यत्तन्माकप्रभो तव. वैभवम् ॥ ६१ ॥ श्रीमन्माकक्षितिधर भवत्कीर्तिशैल्षयोषा मेरुस्तम्भे भ्रमणनटनप्रक्रियां संविधत्ते। तस्यास्तादृग्विलसितजुषो रत्नताटङ्कभूषा- युग्मं तिग्मच्छविरिति शशीत्यम्बरे वम्भ्रमीति ॥ ६२ ॥ चक्राणां विदधाति सोऽतिकदनं तेषां शरण्यस्त्वयं राजा विष्णुपदाक्रमं वितनुते सोऽयं तु तस्यार्चकः । आस्ते सोऽहिमयैकभाजनमयं तस्यानभिज्ञस्त्विति त्यक्त्वा तं परिकर्ममौक्तिकमिषात्त्वामेव ताराः श्रिताः॥१३॥ तव माकविभो धराधिपैरवलेपादकृताभिवन्दनैः । इह दिव्यपि. चानुभूयते बहुशस्त्रीपरिरम्भसंम्रमः ।। ६४ ॥ पार्श्ववर्तिजनताप्रतिबिम्बव्याजतो विमतराजसमाजम् । सङ्गरे कवलितं किल धत्ते साल्व माक तव पाणिकृपाणः॥६५॥ वमथुनिकरेण वसुधां सिञ्चति माकनृप तव गजश्रेणी आत्मपदाहतिलीलानिर्मितमूर्छानिवारणायैव ॥ ६६ ॥ श्रीमाकक्षितिपालशेखर भवद्वेतण्डकर्णानिलो नेष्यत्याशु कुतोऽपि तूलपटलीरीत्या हरिद्वारणान् । .
यात्राप्रबन्धः। १०१ १ *- आलोच्यैवमचञ्चलस्थितिकृते तेषां किमम्भोजभूः । क्षोणीमण्डलमारमेव सततं कुम्भस्थलीषु न्यधात् ॥ ६७ ॥ घाटीहेलासु घोटीसुरपुटदलितक्षुण्णरेणूपगूढ़- र्दानैर्जम्बालितासु त्रिदशकरटिनां गण्डभित्तिस्थलीषु । लग्ना नीलारविन्दच्छदरुचिरलिनां धोरणी कज्जलेन । व्यालिप्ता जैत्रवर्णावलिरिव भवतो भासते माकभूप ॥ ६८॥ अध्यासीना समन्तात्क्षितिभरणकृतामावलिः सिन्धुराणां । वारश्रान्तलोलश्रवणपुटमहातालवृन्तोपजातैः । काष्ठानामन्तराले किमपि विसरतस्त्वत्प्रतापानलस्य प्रायः संधुक्षणानि प्रणयति नितरां माकराज क्षितीन्द्र ॥६९॥ विपक्षलक्ष्मीः क्रियते त्वया महीवराहवन्दी प्रमदासमञ्जसा । रिपुं चं माकेन्द्र करोषि किंकरं वराहवं दीप्रमदासमञ्जसा ॥७॥ प्रकल्पते त्वत्करवालयष्टी रविप्रभावारिजयापनाय । न हिं प्रवर्तेत कदापि लोके रविप्रभा वारिजयापनाय ॥ ७१ ॥ इह महिमा कनकपटः पटुघटित'ठा साल्वमाक नकपटः । विहरति मानवलोके विलसत्कारुण्यवी चिमानवलोके ॥ ७२ ॥ पापनृकण्ठीरवतः प्रथितादुदितं दिशासु कण्ठीरवतः । एत्य धरा माकेशं हृष्यति हटकृष्टवैरिरामाकेशम् ॥ ७३ ॥ वारिजनाभी राजति सोऽयं कृतस्तवारिजनाभीः । जहिहि स्कन्धावारे वसतिं तरसा दिगन्तिकं धावारे ॥ ७४ ॥ हेमाकल्प क्षमाकण्ठकहरपटिमा कल्यरामाकटाक्ष- स्तोमाकाषः सुमाकर्कशभणितिललामा कथं वर्ण्यतेऽसौ । P ...
१०२ काव्यमाला। क्ष्माकर्पूरभ्रमाकल्पनलटहयशःप्रौढिमा कर्मरूढ- स्थेमा कारुण्यसीमा कनदनघगुणो माकराजक्षितीन्द्रः ॥७॥ अनन्तरमयमवनिभृदन्तिकादभिमुखमापतद्भिरागच्छत सरयमा- शिषो वदत भूपतेः श्रीमदवलोकनकुतूहली नृपतिरयमास्त इति निवे- दयद्भिरावसरिकपुरुषैरावेद्यमानसरणिरवगाथ धरणीशमन्दिरमतिलङ्घय कतिचिदपि कक्ष्या(क्षा)न्तराणि कविबुधबन्धुसचिवमित्रसामन्तमण्डली- शोभिनि काञ्चनास्थानमण्डपे मणिमयचतुस्तम्भमध्यमवितर्दिकायामति- मृदुलतूलमालिकामांसलममृतफेनपटलीविनिर्मलमादिपुरुषमिव शेषमास्त- रणविशेषमध्यासीनं वारविलासिनीकरकमलडो(दो)लायमानचामरद्वित- यभासुरपार्श्वभागतया कलशजलधियुगलीकल्लोलयुगला. "रुल्लसन्तमर- विन्दिनीबन्धुमपह(स)न्तं कौसुम्भपटखण्डपरिकलितमालतीप्रसवशा- लिना मौलिंबन्धेन संध्यामयूखसंवलिततारकमम्बरतलैकदेशं विडम्बय- न्तमस्तोककुङ्कुमस्थासकपिशङ्गमरीचितरङ्गितां मूर्तिमावृण्वता कण्ठाभर- णमुक्ताफलदीप्तिवृन्देन मन्दाकिनीपूरपतनगौरवपुषं सुमेरुमवधीरयन्तं पीतवसनपरिपीतकटिप्रदेशतया पुष्करजालसंवृतनितम्बभूमिमुदयक्ष्मा- भृतमधिक्षिपन्तं कलकल्पशाखिनः किसलयान्तरालकन्दलितेन कुसुम- कोरकेणेव कुरुविन्दमध्यवर्तिना कुलिशोपलेन परिशोभमानमहं वीरक- ङ्कणं मणिबन्धसीमनि महनीयमुद्वहन्तं मकरध्वजमिव मार्गणोपदार्शत- सौमनस्यं पाकशासनमिव प्रतिरोधिबलविभेदनं पुरवैरिमित्रमिव समस्ता- भिलषितपूरणधुरीणसंनिधानं द्वितीयहरमिवातृतीयलोचनमन्यमिव शत- मन्युमितरमिव वदान्यपादपमपरमिव कुसुमाकरमत्रिकुलपवित्रीकरणकु- शलचरित्रसंपदं कोमाम्बागर्भकुञ्जगृहसंचारकेलिपञ्चाननं पापजगतीपति- प्राचीनसुकृतपरिपाकं माकनरलोकनायकमवलोकयन्मनस्येवमकरोत् ।
यात्राप्रबन्धः। १०३ यो भोगिप्रवरोऽप्यजिह्मचरितः श्रीशोऽपि हृष्यवृषो भाखानप्यरिदुःसहः कुवलयाधीशोऽप्यदोषाकरः । सर्वज्ञोऽप्यनलीकदृष्टिरचलोऽप्यक्षीणपक्षावलिः सोऽयं माकन्यो विचित्रमहिमा स्वैरं विजेजीयते ॥ ७६ ॥ तदनु संमदादुत्थाय पार्थिववरिष्ठेन समुचितासन्नविष्टरे समुपवेशि- तोऽयमतिविचक्षणो दक्षिणमुद्यम्य हस्तं नृपकुलमणेरस्य नमदखिलसा- मन्तभूपतेराशिषं प्रायुत । कल्याणाकर माकराज भवते कारुण्यसंशीलना- द्रौद्ररेष जनार्दनो वितरतादालोकनैः संपदम् । पारावारसुतासनाथमभितो बाहान्तरान्तःपुरं दोष्णां यस्य चतुष्टयी चिरधृतैः पातीव दिव्यायुधैः ॥ ७७ ॥ लक्ष्मीनित्यविहारकैटभरिपो चक्रावलीरञ्जन- च्छायावल्लभ कीर्तिवृद्धिकलनाधाराधराभ्यागम । दोषापोषणपूर्णचन्द्र सुमनोविस्फूर्तिपुष्पाकर श्रीव(मोन्साल्वकुमार माक भवतः श्रेयांसि संप्रार्थये ॥७८॥ सकलभवद्गुणसङ्घश्लाघाचातुर्यविवृतिकलनायाम् । जगति फणिराज एकः शिष्यत इत्येव शेषतां धत्ते ॥ ७९ ॥ पारं भवद्गुणोघानां वाणी व्रजतु मे कथम् । अपर्याप्तस्थितिर्येषामपि ब्रह्माण्डमण्डलः ॥ ८० ॥ तदपास्य भवद्गुणावलीस्तवधाटीरुचिमेतदद्य नः। पृथिवीश भृशं निवेदने प्रकृतार्थस्य मनः प्रवर्तते ॥ ८१ ॥ स्थितिगुप्तिमलब्धसंगतिं क्षितिपालाधिगमे फलं विदुः । मनुजेशधुरीण मादृशामुचितं तेन तवोपसर्पणम् ॥ ८२॥ ..
काव्यमाला।
भुवि ते तु बुधैरवस्थितैरनवाप्तं न किमप्यवेक्षते ।
अपहाय पुरा कृताधिकं सुकृतं दुष्कृतशोधनक्षमम् ॥ ८३ ॥
तदिमां मनुजादिबन्धुतां तव पार्श्वे विनिवेश्य सांप्रतम् ।
अविमुक्तमुपासितुं व(रै)रविमुक्तं वयमाद्रियामहे ॥ ८४ ॥
परिपाहि मदीयबान्धवान्विषये ते विहितस्थितीनिति ।
कथनं खलु सिद्धसाधनं क्षितिसंत्राणकृतस्तवान्तिके ॥ ८५॥
इति तममिलपन्तं हृष्टचेता नरेन्द्रो
मृतमुदमुपचारैः प्राहिणोदत्युदारैः ।
पथि खलु विदधानो भावबन्धं विशुद्धे-
बलवदिह सपर्याभाजनं कस्य न स्यात् ।। ८६ ॥
अथ विनिर्गत्य निःशङ्कदुर्गभुवो निखिलदुर्गतजनवर्गतरोरनर्गल-
शौर्यविस्मारितभार्गवस्य भर्गतनूभवस्येव दुर्गाप्रसादलब्धविविधामिल-
षितवर्गस्य भोगिवरनिराकृतिपटुविवेकशालिनो माकराजमहीपाकशास-
नस्य सुजनतातिरेकमनुचिन्त्य मुहुर्मुहुर्मुदमनुसंदधानस्तदवलम्बिभिरेव
वचनगुम्भनरनुचरसमाजमपि सभाजयन्सरोजलोचन इव सहचरीद्वयेन
कियदूरमिव गत्वा स लब्धवर्णः सुवर्णमुखरी निर्वर्णयन्निदमवर्णयत ।
इयं खलु
हुंकृत्य भृङ्गनिनदैरुपगृह्य वीची-
हस्तैः शिशूनिव जनानदसीयपङ्कम् ।
प्रक्षाल्य हंसरसितैः परिसान्त्वयन्ती
मोदं प्रसूरिव मुहुर्मुहुरातनोति ॥ ८७ ॥
उत्तरेण सरिदुत्तमामिमां तुङ्गशृङ्गदलितद्युसिन्धुना ।
चक्षुषोरुपदया चिराय नो. भूयते भुजगराजभूभृता ॥ ८८ ॥
यात्राप्रबन्धः। अत्र कुञ्जगृहासीनकेलिकाराङ्कलालिताः । विष्णोः कर्माणि गायन्ति विद्याधरमृगीदृशः॥ ८९ ॥ अहो वृषधरमहीपतेरमुष्य महिमा । पपनीतैरिह सत्प्रसूनैः कुणिः सजो गुम्भनमातनोति । अम्मोजनाभस्य कथामवाचा प्रस्तूयमानां बधिरः शृणोति ॥९०॥ अथ तदानीं पद्मासमायमाने मणिमुरसि वहन्कौस्तुभं वास्तुभूमि- र्भासामासारदानोन्मुखघनसुषमागर्वनिर्वापिकानाम् । स्तुत्यः श्रुत्यावलीभिर्नियमधनजनखान्तकान्तारलीला- कुम्भी कुम्भीनसानेरधितटममुनालोकि लोकैकनेता ॥ ९१ ॥ असौ पुनरुरसा विशङ्कटेन विधृतवनमालिकं वेङ्कचे(टे)शमभिवन्ध निर्मलमनाः सपरितोषमिदमभाषत । साधूनां हृदयान्तरालसरणौ पुष्णन्परिष्कारतां कुक्षेः सीमनि दर्शनीयविभवां कुर्वञ्जगन्मण्डलीम् । आख्यामञ्जनभूभृतो निजतनुच्छाया"रं त्वर्थय- न्कोऽप्यास्ते मणिरिन्दिराकुचतटीशाणोपलोत्तेजितः ॥ ९२ ।। अब्जेन्दीवरयोरनङ्गशरयोरुतेजिते यदृशौ मञ्चो यस्य समस्तशब्दकुहनामाणिक्यशाणोपलः । यन्नाभीसरणिश्च सूक्तिजननीश्वश्रूपदस्थायिनी पायान्मां हृदयंगमस्मरकलातत्वं तदेतन्महः ॥ ९३ ॥ अञ्जनाचल..... • सर्वैरपि जनैरयम् । तटे गुहतटाकस्य मुकुन्दो मुहुरीक्ष्यते ॥ ९४.॥ .
१०६ काव्यमाला। अवतंसेन विदुषां प्रशशंसे ततोऽमुना । खामिपुष्करिणीतीरभूमिभूषामणिः ॥ ९५॥ अशिषभिन्नतटहाटकशैलशृङ्गरिजाद्रजोनिचयकुङ्कुमलिप्तगात्रः । घोणाहताम्बुनिधिदुन्दुभिघोषहृष्टः पायान्महीपरिणयाभिमुखो(वराहः)। अम्भोनिधेरलघुनिश्वसिताभिषङ्गाद्विभ्राम्यतो अमिविलोकनकैतवेन । पृथ्वीपुर प्रणयिनोचितभूपरीक्षां कुर्वन्निवादिमकिटिः कुरुतां मुदं नः।। (व्या)धूतदेहरभसव्यपसार्यमाणा- माशासु वारिलहरीमपदिश्य सिन्धोः । जीयात्सृजन्निजसमागमभाविपृथ्वी- ब्रीडापनोदनतिरस्करिणीं वराहः ॥ ९८ ॥ आद्यं नमामि..........."भजन्समुद्रो यद्रोमकोटिषु कुशग्रिहिमाम्बुरीतिम् । तत्कालसंगतधरापरिरम्भकर्म- धर्मोदबिन्दुविहृति घटयांबभूव ॥ ९९ ॥ "चोरदैत्य- मुस्ताक्षतिप्रभवमोदपरंपराभिः । भूदारतां प्रकटयन्पुरुषः पुराण- स्तत्तादृशीमिह तरङ्गयतु श्रियं वः ॥१०० ॥ कोलस्तनोतु कुशलानि चिरंतनो मे येन क्षितौ प्रथममीषदुदञ्चितायाम् । अस्या विषादविगमाच्छसितैरिवाब्धे- रहाय बुहुदकदम्बकमाविरासीत् ।। १९१ ।। अम्भोधि कूल" यात्राप्रबन्धः। आधारधुर्य जगदण्डकपालवन्ति पाथोमिषेण फणिमन्दिरमण्डपस्य । उर्वीशिलामुपरि निक्षिपता व्यतानि येनाम्बुमानमिव तेन वयं सनाथाः ॥ १०२ ॥ प्रान्तक्षरज्जलधिवारिभरामुदस्य- न्घोणाञ्चलेन धरणी कुहनावराहः । ताकृतिव्यतिकरश्रमवारणाय धारागृहान्तरमिवाधिगतः पुनातु ॥ १०३ ॥ मह्यं शुभानि विदधातु महावराहो दंष्ट्राहितेन विलसन्वलयेन धान्याः। संरक्षणादिव चराचरमण्डलीना- मासादितेन महतातपवारणेन ॥ १०४ ॥ अझं महीवरतनोरधिरोपिताया व्यापारयन्निजदृशा वदनारविन्दे । आद्यः पुमानभयमुद्रिकयादसीय- मस्यन्हठोद्धरणभीतिमिवावतान्नः ॥ १०५॥ भवाब्धिरूरुद्वयसो जनानां पदाजमेतद्भजतां ममेति । वक्तीव यः सक्थिनिवेशितेन वरप्रदेनापि कराम्बुजेन ॥ १०६॥ तदनु शेषाचलभूषामणेररविन्दलोचनस्य चरणारविन्दपरिचरणपु- ण्यपरिणतेरिव नयनसरणिमवगाहमानमन्तिकनिष्यन्दमानसिन्धुपवन- कन्दलयासतुन्दिलशिथिलबन्धस्य फणिराजपरिकर्मणः प्रतिक्षणदृढीकृतौ कृतदक्षिणं दक्षिणकैलासकटकतटसीमनि शिलावटमूलबद्धरतिं कालह- स्तिपतिमासेवमानो भूदेवानन्दनः सानन्दमिदमवादीत् ।
.१०८ काव्यमाला। अग्रे लूताग्रथितपटलीकल्पितच्छायमास्ते सिक्तं दन्तावलकरजलैरचितं भोगिरनैः। भिल्लाधीशोपहृतपिशितामोदवक्त्रारविन्दं भाग्यं पृथ्वीधरपतिसुता""योरादितत्वम् ॥ १०७ ।। पायादपायरहितं परिणम्रमुक्ता- दायादकायमतिवेलदयाविधेयम् । दूरे चिरंतनगिरां दुरितापहारि पारेसुवर्ण .."कटं महो नः ॥ १०८॥ ब्रह्मादयोऽपि भवदाप्तिकृते यतन्ते यत्नं विनापि ययुराटविकादयस्त्वाम् । आतः कृतान्तविजयिन्नतिचित्रशीलं त्वां मन्महे न सुलभं च न दुर्लभं च ॥१०९॥ प्रत्यग्रपुष्करपयःकलिताभिषेके नागे नटगुणततावपि लूतिकायाम् । प्रीतिस्तवास्तु भगवन्नभवत्कथं वा लुब्धद्विजिहविषयः प्रणयानुबन्धः ॥ ११० ॥ अन्योपचारविधिरस्तु महानणुर्वा भावत्कहर्षपदमान्तर एव भावः । गौरीश ते मणिगुणप्रतिपादनेन प्राप्तौ गतिं किल समां फणितन्तुवायौ ॥ १११ ।। त्वद्भावतोऽपि तुहिनांशुकिशोरमौले धन्या भृशं भवति तावकभक्ततैव :
यात्राप्रबन्धः। श्रीकालहस्तिपुरसीमनि यत्त्वयापि भक्ताग्रिमस्य जगृहे फणिनः खरूपम् ॥ ११२ ॥ निर्मोकपट्टसितमङ्गमसह्यवेगः क्ष्वेलानलो दुरवबोधतरं पदं च । सर्वं यतः सममहेर्भवतश्च शूलि- न्नन्योन्यरूपपरिवृत्तिरतः किमासीत् ॥ ११३ ॥ देव त्वया यदिह दक्षिणरौप्यशैले व्यालद्विपेन्द्रतनुरष्टविधा वितेने । तद्युक्तमेव कलये तव नीलकण्ठं पञ्चाननं च यदुशन्ति भवन्तमार्याः ॥ ११४ ॥ घोरखभावजटिलः क वनेचरेन्द्रः शान्तोपसेव्यसरणी सुगमा क मुक्तिः । अन्योन्यमेलनविधावनयोः प्रवीणा तत्तादृशी जयति देव तवानुकम्पा ॥ ११५ ।। प्रालेयभानुशकलादपि पादुकाया- माकाशसिन्धुसलिलादपि वक्रतोये । देवीमुखामृतरसादपि दष्टमांसे को वा गुणस्तव कुतूहलहेतुरासीत् ॥ ११६ ॥ हातुं पुलिन्दपतिरात्तकिरातभाव- मासीद्भवन्तमधिगम्य महाकिरातः । किं कालहस्तिनगरीश तदद्भुताय प्राग्वासना बलवती खलु देहभाजाम् ॥ ११७ ।।
काव्यमाला.. अजान्नरार्चन विधेरपि ते गरीयः पादारविन्दपरिपूजनमेव शम्भो । दत्वा मुखे दृशमगाद्विषमेक्षणत्वं मिल्लः पदे तु हरिराप्तसुदर्शनोऽभूत् ॥ ११८ ।। व्याधः समर्पयतु नाम विलीढशेष मांसं विवेकविरहेण मनोभवारे । अङ्गीकृतं कथमिदं भवताथवैत- संभाव्यते त्वयि वनेचरसार्वभौमे ॥ ११९ ।। पाणिग्रहव्यतिकरादुपरि प्रजाना- मुच्छिष्टसंकरमुशन्ति जना जगत्याम् । प्रागेव मुक्तिपरिणीतिविधेयं वा- मासीत्किमेष शबरागमसंप्रदायः ।। १२० ।। स्पृष्टं शिरः शबरपादुकयेति मन्ये तस्मिन्नमर्यंतटिनी बिभृषे तथापि । दष्टामिषग्रहणदर्शितचापलस्य नेहास्ति कापि तव निष्कृतिरन्तकारे ॥ १२१ ॥ गङ्गागाण्डिवचापयोर्मदभरक्षेपाय चूडापदे गण्डूषाम्बु च पादुका च शबरोत्तंसस्य बने त्वया । पद्माक्षस्सयभञ्जनाय हगपि प्रत्याददे कस्य वा दर्पापाकृतये महेश जगृहे दष्टावशिष्टामिषम् ।। १२२ ॥ त्वन्मस्तकाहितपदन्यसनादिदोष- संशोधकव्रतकृते शबरो बमार ।
यात्राप्रबन्धः।
१११
चर्माम्बरं कटितटे भसिताङ्गराग-
मङ्गे कपालमधिपाणि जटाश्च मौलौ ॥ १२३ ॥
सन्तु प्राणिवधैकतानमतयः शश्वन्मदान्धीकृता
जिह्मव्यापृतयोऽथवा जनिभृतः स्फारीभवद्भान्तयः।
मुक्तिस्तान्वृणुते खयं यदि कृपा मुग्धेन्दुचूडाल ते
तत्र व्याधगजाहिकीटपतयो दृष्टान्तकाष्ठापराः॥ १२४ ।।
यामि प्रीतिमहं परान्नभजनैरुच्छिष्टभोजी भवा-
न्मूहिं चरणौ स्पृशामि धनिनां त्वं पादुकाशेखरः ।
सेवेहं घनपापकर्दमनदीं त्वं वक्रतोयाप्लुतो
युक्ता किंनु मदीयदोषगणना श्रीकालहस्तीश ते ॥ १२५ ॥
सत्कर्माचरणात्मिकां प्रथमतः संपाद्य नान्दी ततः
प्रादुर्भाव्य समस्तभक्तिगरिमप्रस्तावनाकौशलम् ।
द्रागुत्सार्य तमःपटीमथ वृते दीपेन विद्यात्मना
चित्ते मे नटनं विधास्यसि कदा श्रीकालहस्तीश्वर ॥ १२६ ॥
गण्डूषाम्बुनिमज्जनाय यदभूगङ्गावतंसस्य ते
चूडालङ्कतिकल्पनाय विधृतज्योत्स्नावतः पादुका ।
तृप्त्यै भक्षितशेषमामिषमपि त्रैलोक्यकुक्षिभरे-
विद्याधीश मुदे तवास्तु तदियं वाणी लधिष्ठापि मे ॥ १२७ ॥
मिल्लागणीचरणपल्लवपादुकायै
सेयं क्रियासमभिहारवती नमस्या ।
वेधः करोटिविधुखण्डवियन्नदीनां
सेहे न या गिरिशशेखरताभिमानम् ॥ १२८ ॥
काव्यमाला। अस्त्येव यद्यवतरेन्मम दृष्टिमार्गे नैवास्ति चेन्न तटिनीभरणं घटेत । इत्थं विधेर्विमतिमीश किरीटलक्ष्म्या यस्याः स्मृतिहरति सावतु पादुका नः ॥ १२९ ।। त्रातं यया हरजटावनचारकेल्यां वेधःशिर प्रतिहतेः शबराशि पद्मम् । सा पादुका षडरिवर्गविनिर्जयाय संनह्यतां भवतु संप्रति नः शिरस्त्रम् ॥ १३० ॥ अपि च-- जगन्मण्डलीयं त्वयि खप्रकाशे नटन्ती रवेरंशुजाले नदीव । अविद्याविलासाकृतिविद्यया ते भव" .."भवत्यन्तकारे ॥१३१॥ मनोहारिशब्दादिभिर्व्यज्यमानानहं किंचिदालिह्य यस्यैव लेशान् । सुखत्वेन जानामि संसारपीडां र्तमानन्दवाराकरं त्वामुपासे ॥ १३२ ॥ "कणस्फूर्तिहेतुः सुखादिप्रपञ्चोऽपि सर्वप्रियत्वेन भाति । परप्रेमभारास्पदत्वेन ताहरप्रमोदाकृतिप्रत्यगर्थोऽसि शम्भो ।। १३३ ।। न कर्तासि नानाविधानां क्रियाणां प्रसक्तोऽपि नैतत्फलाखादनेषु । सदानन्दविज्ञानसान्द्रखभावो भवानेव सोऽहं भवामि स्मरारे ॥१३॥ यथा मातृवाक्येन राधेयभावं परित्यज्य कर्णः पृथासूनुरासीत् । तथा तत्त्वमस्यादिवाक्येन जैवं समुत्सृज्य रूपं त्वमेवाहमसि ॥१३५॥ भवन्तं वदन्त्येकमेवाद्वितीयं प्रणीतेतरालापसीमावचांसि । अतः साधयेदावयोर्भेदसत्तामयं कल्पितः किं नु संसारबन्धः॥१३॥ यथा शुक्तिकादेरिदंतानुविद्धं समारोपितं वस्तु सर्वं चकास्ति । तवानङ्गजेतस्तथा सत्तयेदं समालिङ्गितं दृश्यजातं विभाति ।। १३७ ।।
यात्राप्रबन्धः। गुणे कल्पिताया यथा कुण्डलिन्या जनत्रासकम्पादिसंपादकत्वम् । तथा संसृतेरीश नानाविधार्थक्रियासाधकत्वं त्वदारोपितायाः ॥१३८॥ त्रयीमौलिना देशिकस्यापि वाचा समावेदिता संगनिर्मुक्तता मे । न सा बाध्यते नाथ मिथ्याभिमत्या महारत्नदीपप्रभा वात्ययेव ॥१३९॥ असङ्गत्वधीरात्मनीयं मदीया हृदाधत्त कादिभावप्रतीत्या । सुधांशूपले शुद्धतासंविदस्मि जपोपाधिकारुण्यबुद्ध्यैव नैति ।। १४० ॥ सदा शुद्धबुद्धो विमुक्तखरूपस्त्वमेतादृशोऽहं च तांगमाभ्याम् । अभेदेऽपि सत्यावयोरन्तरात्मन्नहो मे सुखस्फूर्तिरल्पेयमास्ते ॥१४१॥ विरामेण सर्वेन्द्रियव्यावृ(पृ)तीनां सुषुप्तावपि क्षीणशोकोदयायाम् । सहाविद्यया संमदस्यानुभूतिः सकाकोलमाध्वीकसेवासमाना ॥१२॥ विसर्पन्महामोहवेगान्धकारे निरस्येह निःसारसंसारकूपे । भृशं क्लेशयित्वालमापन्नबन्धो शिव त्राहि मामीश कारुण्यसिन्धो॥१४३॥ दुरन्तव्यथाहेतुभूतस्य दुष्टव्रणस्येव शस्त्रेण वैद्यो दयालुः । हृदो दुःसहं ग्रन्थिमीशान मिन्दन्प्रबोधेन मे देहि मोदातिरेकम्॥१४४॥ वधूयुग्मवाताशनव्याघलूतानराधीशनत्कीरनागार्तिहारिन् । त्वं(?)मानयैनं जनिव्याधिपीडाविहस्तीकृतं कालहस्तीश देव ॥१४५॥ तुषारद्युते पवादं मया ते वितीर्णा कलामालिकेयम् ।। १४६ ।। एकदापि रचितेक्षणापणौ तौ तदैव भवताभिरक्षितौ । पार्वतीश पदयोस्तवानिशं दत्तदृष्टिमपि मामुपेक्षसे ।। १४७ ।। इत्यादि कीर्तयन्नयमत्यादरादुपेत्य धीराग्रिमो माराभियातिशरीराध- हारिणीमाराध्य मातरं शतपत्रमुकुलसच्छात्रताजुषौ मस्तकभुवि हस्तौ नि- थाय समस्तोपनिषदाँघसुरमिलामि श्रौषीत्। ............ या०प्र०८ काव्यमाला। विष्वद्रीचि मरीचिमद्रुचिभरे वीचीव वारां त्रयी लोकानां यदवेदनादुदयते यद्वेदनान्मीलति । सत्यानन्दसुधासमुद्रलहरी सा काचिदेका "सि त्वमेव परमा ज्ञानप्रसूनाम्बिके ॥ १४८ ।। नित्यानित्यविवेचनादिमजुषो नित्यैर्वचोगुम्भने- राप्तः स्वस्य तवापि चैक्यमुभयोरापाततो जानतः । कल्याणे तव हक्पथे निपततः कस्यापि पुण्यात्मनो जिज्ञासा त्वयि जायते भगवति ज्ञानप्रसूनाम्बिके ॥ १४९ ॥ विध्याद्यासु विधासु कापि भवतु श्रोतव्यवाक्ये विधा ..."कर्मविचारक""घटनया प्रत्यग्विचारस्य च । लिङ्गैः षड्भिरुपक्रमप्रभृतिभिर्वेदान्ततात्पर्यघी- राधेया त्वयि तद्विमर्शकलया ज्ञानप्रसूनाम्बिके ॥ १५० ॥ कार्योत्पत्त्यनुकूलवेदनतया का भवत्याः पुनः साक्षादेव निदानतां त्रिजगतीद्वारं तु मायापरम् । मृद्वत्तन्मसृणत्ववच्च कलशे सत्तामृतस्ते तत- स्तस्या जाड्यजुषश्च संगतिरिह ज्ञानप्रसूनाम्बिके ॥ १५१॥ कुम्भीजन्मनि कुम्भकार इव भूभव भूमिस्थितौ हेतुः किं जगतोऽन्य एव जननस्थन्नोरुपादानतः । इत्थं भ्रान्तिमुदित्वरीं शमयितुं लक्ष्माहुरेकं जग- जन्मादित्रयहेतुतां तव बुधा ज्ञानप्रसूनाम्बिके ॥ १५२ ॥ पीलूनां घणुकादिकार्यनिवहप्रारम्भकत्वं यथा नानारूपबडात्मना परिणतिर्यद्वत्प्रधानस्य वा ।
यात्राप्रबन्धः। ..... तद्वन्नियनिर्विकार" "स्ते तद्व्यासंभवा- यालस्य स्रगिवास्य कारणमसि ज्ञानप्रसूनाम्बिके ॥ १५३ ॥ देहान्तःकरणस्पृहासुखमुखे रज्जूरगाह्राधिम- प्रत्येकाध्यसने च जीववपुषा पुष्णास्युपादानताम् । आकाशाग्निसमीरवारिधरणीमुख्ये तु साधारणे रूपेणैव महेशितुस्त्रिजगती ज्ञानप्रसूनाम्बिके ॥ १५४ ॥ नित्यामस्तसमस्तभेदविसरां निःस्यन्दचित्कन्दली- मानन्दैकरसामगम्यसरणीमानायवाचामपि । मूर्ति जीवमहेश्वरौ विदधती मायावशेनात्मन- स्तद्वद्वानुगता विशुद्धचिदसि ज्ञानप्रसूनाम्बिके ॥ १५५ ॥ निष्प्रत्यूहमिषत्स्वरूपधिषणासंसिद्धसर्वज्ञता सर्वोत्पादयितृत्वसर्वभुवनाधिष्ठातृताग्रेसरैः । कल्याणैरुपशोभितां गुणगणैः कैवल्यलक्ष्मीमयीं दिव्यामीशदशामवाप्य जयसि ज्ञानप्रसूनाम्बिके ॥ १५६ ॥ मायाराहुविलीढबोधशशिना चक्षुर्मुखाक्षोदयं नानावृत्तिमुखावलोकनमिलात्किंचिज्ज्ञताशालिना। उन्मीलबहुशोकवेगगरिमोद्विग्नेन जीवात्मना बध्नासीव भवाब्धिमज्जनविधि ज्ञानप्रसूनाम्बिके । १५७ ।। छायावल्लभशीतभानुहुतभुनक्षत्रतारादयो भान्तीं त्वामनुभान्ति केवलचिदालोकातिरेकीकृते । चेतोवृत्तिपदार्थभेदकभवन्मातृप्रमामेयता- धुर्या भासयसि त्वमेव भुवनं ज्ञानप्रसूनाम्बिके ॥ १५८ ।।
काव्यमाला। - - ऐक्ये व्यक्तिमुपागते सति बहिश्चञ्चद्गाभावथ प्रेडवृत्तिवशेन साक्षिविषयावच्छिन्नचैतन्ययोः । प्रत्यग्बोधमयेन दीपमहसा संबन्धमाध्यासिकं प्राप्तेन प्रकटीकरोषि विषयाज्ञानप्रसूनाम्बिके ।। १५९ ।। सन्त्येवावरणादिशक्तिसहिता मूलपकृत्यंशका मूलाज्ञानपदाभिषेकविधिना संभाविताः सूरिभिः । बायैर्वृत्तिभिरीक्षणादिकरणोद्भतामिरेकैकश- स्तैरुद्यन्निखिलव्यवस्थितिरसि ज्ञानप्रसूनाम्बिके ॥ १६० ।। सामान्यग्रहणात्तदंशविषयाविद्यानिवृत्तावपि समुख्येतरभागसंवृतिविधाजाग्रत्तमोवस्थितेः । सग्वातंधयशुक्तिरौप्यमरुभूरिजन्मरीचापगा- पूर्वाध्यासशतानि संकल्यसि ज्ञानप्रसूनाम्बिके ॥ १६१ ॥ अस्पृष्टैर्भमवञ्चनादिकलयावच्छेदनिन्दापरैः संसर्गाविषयप्रमैकजनकैश्छन्दोगिरां मौलिभिः । दुष्टां प्राथमिकी दृगादिजनितां बुद्धिं भिदागोचरा- मस्यद्भिर्घटते तदद्वयमिति ज्ञानप्रसूनाम्बिके ॥ १६२ ॥ तत्त्वावेदनतश्चिरंतनगिरा प्रच्याविताध्यक्षधी- रज्ञानव्यतिरिक्तदोषमहिमाजन्यं प्रपद्यास्पदम् । नानाकार्यपरंपराखनुगतां सत्तां तवातन्वती व्यत्यस्तामिव बोभवीति सफला ज्ञानप्रसूनाम्बिके ॥ १६३ ॥ आदर्शाहतिसंनिवृत्तनयनव्यालिद्यमानं यथा कण्ठस्थं मुखमेव न प्रतिमुखं मिथ्या पदार्थान्तरम् ।
यात्राप्रबन्धः। चैतन्यप्रतिबिम्ब एव मुकुरे जीवोऽपि मायामये त्वद्रूपादतिरिच्यते न हि तथा ज्ञानप्रसूनाम्बिके ।। १६४ ॥ प्रक्षीणादिकथा समस्तजनिमप्रत्यक्षताशालिनी विक्षेपप्रतिरूपशक्तियुगलीविख्यापितप्रक्रिया । मन्दीभूतनिरुत्तिमार्गगमना मायाभिधा किंकरी किं ते दुर्घटमेव नो घटयति ज्ञानप्रसूनाम्बिके ।। १६५॥ खच्छन्दारुणबन्धुजीवसुमनोगुच्छाङ्कपालीवशा- दच्छायां तु यथा सुधाकरमणावध्यस्यते शोणता । संसारप्रवणखभावभरिताहंकारसान्निध्यतः शुद्धायामपि संसृतिस्त्वयि तथा ज्ञानप्रसूनाम्बिके ॥ १६६ ॥ दृष्टिं सृष्टिमुशन्ति केचिदपरे हुक्तुल्यकालां तु ता- मभ्रादिक्रमतस्त्वया प्रथमतः सृष्टस्य दृष्टिं परे। लोकानों मृगतृष्णिकाम्बुलहरीसाधारणं सर्वथा रूपं बोधनिवर्त्यमेव भवति ज्ञानप्रसूनाम्बिके ॥ १६७ ॥ जन्म श्रोत्रियसंततौ शुभतरे काले व्रतवीकृतिः साङ्गाम्नायसमागमो गुरुमुखादारग्रहः सत्कुलात् । निष्कामाचरणं च कर्मविततेर्निष्पद्यते कस्यचि- त्त्वज्ञानादरहेतुशुद्धि(द्ध)विधये ज्ञानप्रसूनाम्बिके ॥ १६८ ॥ वर्णी स्नातककाननस्थितिजुषां धर्मेश्च कर्मन्दिनां संन्यासैरपि कर्मभिः समुचितैः पादोद्भवादेरपि । निष्पन्ना निखिलाप्यपूर्वपटली वेगाद्विलम्बादपि स्वद्विद्याजननोपयोगमयति ज्ञानप्रसूनाम्बिके ।। १६९ ॥ १. निवृत्तीति भवेत.
काव्यमाला। आधानाहितसंस्क्रियोज्ज्वलतरे निष्पादिते पावके यागोऽपूर्वमिव वदेकविषयध्यानक्रियाशीलनात् । चित्तेनातिपचेलिमेन सहिता सा तत्त्वमस्यादिवा- क्त्वत्साक्षात्कृतिमादधाति विमलां ज्ञानप्रसूनाम्बिके ।। १७०॥ ग्रीवावस्थितमेव रत्नखचितं अवेयकं विस्मृते- रन्विच्छ(ष्य)न्पुरुषो यथाप्तवचनादाप्दैव तन्मोदते । अज्ञानस्थगितां सतीमपि तथा त्वद्रूपतामात्मनः प्राप्यैवागमतः प्रहृष्यति सुधीर्ज्ञानप्रसूनाम्बिके ।। १७१ ।। त्रय्यन्तश्रवणे तदर्थमनने तद्भावनायां च स- न्संप्राप्तादपरोक्षसंविदुडुपात्संसारपारं गतः । यावं..."श्वविमुक्ति खेलति भजन्बिम्वेशतां त्वन्मय- ब्रह्मानन्दरसानुभूतिललितां ज्ञानप्रसूनाम्बिके ।। १७२ ।। वस्तुन्याहितचित्तमौपनिषदे वैधेषु वा जाग्रतं नानाकर्मसु रक्षसीति यदयं नैसर्गिकस्ते गुणः । देहात्मभ्रमधूसरं जनमिमं त्यक्तात्मनीनक्रिय यद्युत्चारयसे यशस्तव तदा ज्ञानप्रसूनाम्बिके ।। १७३ ।। वृत्तान्तास्तसुधं दयैकरससंवृत्तान्तरङ्गं त्रयी- सिद्धान्तं स्फुटमात्मसंविदपृथक्सिद्धां तनूमाश्रितम् । अध्वान्तप्रणयानुबन्धिनि महत्यध्वान्तधानि स्थितं शुद्धान्तःकरणाञ्चितं पशुपतेः शुद्धान्तमन्तर्भजे ॥ १७४ ।। . १. यावद्विश्वेति भवेत.
यात्राप्रबन्धः। १५९ ... . अपि च । श्रीमन्त्रराजमणिपञ्जरकेलिशारि च्छन्दःशिखासदनमङ्गलदीपरेखे । नानागमोपवननाट्यकलामयूरि देवि त्रिलोकजननि त्रिपुरे नमस्ते ॥ १७५ ।। 'त्रयीपुरहरार्धभिदादिरूपे श्रीकामराजमनुशेखरवर्णभागैः। क्लृप्ताननस्तनजगत्प्रकृतिप्रतीके कल्याणि हैमवति कामकले नमस्ते ॥ १७६ ॥ आपाटलं कुटिलकुन्तलमायताक्षं शोणाघरच्छवि सुधाकरबिम्बवक्रम् । कुम्भस्तनं सृणिगुणाशुगचापहस्तं रूपं विधाय कृतलोकहिते नमस्ते ॥ १७७ ॥ मध्येपयोम्बुधि मरुद्रुमनीपधानो रत्नान्तरीपतिलकस्य ललामभूतम् । क्लृप्तं वदान्यमणिभिर्गृहसार्वभौम- मास्थाय शश्वदनुभूतरते नमस्ते ।। १७८ ॥ दीप्ताणिमादितनुदिः व्याप्तान्तरालमुवि विभ्रमशालिकायाम् । मञ्चाग्रणीभवदजादिसदाशिवान्त- पञ्चामरीधृतशिवाङ्कगते नमस्ते ।। १७९ ॥ १. वेदत्रयीति प्रतिभाति.
१२० काव्यमाला। प्राचीनसूक्तिरसदिग्दिवसाधिनाथ ...."लोचनदलेषु सरोरुहेषु । तत्तत्फलाहिततरङ्गितमानसाभि- राराधिते मतिमदावलि भिनमस्ते ॥ १८०॥ आनन्दबाष्पमकरन्दभृताक्षिपद्म- रंशेषु.. 'रपुनर्भवाय । अन्तर्महाकमलकाननमम्ब धन्यैः संभाव्यमानचरणाम्बुरुहे नमस्ते ॥ १८१ ॥ निद्राविधौ निरवधिक्षुधया घरादि पर्वावलीविलसितामतिलङ्घय पद्याम् । ली. ....."रभिषिक्तलोके शर्वाणि कुण्डलिनी चन्द्रकले नमस्ते ।। १८२ ।। गीर्देवताहरिवधूगिरिजादिशक्ति- साम्राज्यपीठनियतस्थितिजागरूके । शुद्धान्तसुन्दरि परस्य सुधांशुमौले ज्ञान" "जनयित्रि शिवे नमस्ते ॥ १८३ ॥ ततश्च विपश्चिदेष निर्गत्य दुर्गत्यरुणकरधोरणीसंत्रासगरिमांनुबन्धि- मिरन्तर्मुखजनैरनवरताक्रान्तगहरगृहान्तमहरवसान. 'नटन्महानट- पादतलाभिघातपरिपीडितशरीरतया भूरितरगैरिकपुञ्जपिञ्जरीभवदमित- निर्झरीकैतवेन परितो दरीमुखशतैः क्षतजलहरीरिव समु......"न्तं जलधरपरंपरापिहितशिखरनितम्बभागतया शाम्बरीसंच्छन्नमौलिचरणस्य पार्वतीपरिणेतुरनुकुर्वाणं निखिलसंसिद्धिनिर्वाहनैपुणी(ण्य)चर्वितसकल- कुलशैलगर्वततिमभजत श्रीपर्वतम् । ...
यात्राप्रबन्धः।
१२१
सरिद्वराः सप्त विधाय मध्ये विभेदनं यस्य विनिःसरन्त्यः ।
विपाटयामो वृजिनप्रपञ्चमेवं जनानामिति दर्शयन्ति ।। १८४ ॥
पाटलाञ्चितपदं शरीरिणां घोरतापहरदानकोविदम् ।
मल्लिकार्जुनमसोमन्मथं तत्र तं शुचिमसावसेवत ॥ १८५ ॥
यस्य सायमुरुनृत्तरंहसा पूर्णनं गुरुतरं समेयुषाम् ।
वासना.. तिकरादहर्निशं ज्योतिषां सुरपथे परिभ्रमः ॥ १८६ ।।
तदनु धरणीसुराधिपो भवनाशिनि तटप्रकटितरसन्निधानं(?) निधान-
मिव निखिलनियोगिनां व्यक्तिमिदालेशवञ्चितेऽपि वपुषि व्यञ्जित..
रुषमृगजातियुगसमवायमनपायशौर्यवडवानलहेतिशोषितद्नुजाधिराजभु-
जमहोजलनिधिमलोकयदहोबलपतिम् ।
सर्वान्तर्यामिभावे मम निगमशिरःसंप्रदायैकलक्ष्ये
दृष्टान्तस्तम्भगर्भो न परमिदमपीत्येव संदर्शनाय ।
हृन्मध्यं दानवेन्दोः सपदि विदलयन्पाणिजैः कूणिताप्रैः
प्रहादाह्लादकारी समहृत जगति स्फीतमत्याहितं यः॥१८॥
तद्नु पाशायुधप्रसाधितमाशावकाशमवगाहमानः प्रकटितसेवमान-
जनदुरितभङ्गमुद्रामधिगम्य तुङ्गभद्रां सुमतिरित्ययमवोचत ।
मातर्भवत्येव महावराहवक्रावतीर्णा न वसुंधरापि ।
त्वमेव कामं न हि तुङ्गभद्रा किंतु त्वया सापि कृतानुषङ्गा ॥१८८॥
मह्या नितम्बमिव गौरवमाननीय-
सह्याचलं समधिरुह्य सुधीरयासीत् ।
वेलागतं तदनु वीचिमतः प्रतीचो
लीलानिकेतमृषभध्वजवल्लभायाः ॥ १८९ ॥
१२२ काव्यमाला। लम्बालकान्तललितामलिके पटीर- जम्बालिकान्तधवलच्छविमङ्गकेषु । बिन्बारुणामधरभासि विनम्य धीमा- नम्बामथैष वचनैरधिनोन्मनोज्ञैः ॥ १९० ॥ हस्तैश्चतुर्भिरभयं वरमाचके संविनती त्रिनयना नवचम्पकाङ्गी । पीताम्बराञ्चितकटी नवचन्द्रखण्डा काचित्सरोजनिलया करुणाविरास्ते ॥ १९१ ॥ चण्डि प्रसाधयसि यत्प्रियवामभागं सौभाग्यचिह्नमिदमेव न किं भवत्याः । अध्यास्य किं मुहुरमुष्य किरीटसीमां सह्योऽथवा भवति नातिशयः सपत्याः ॥ १९२ ॥ दिकूलचुम्बिनि दृढं विमलखभावे मातर्भवन्मणिकिरीटमरीचिपूरे । अर्धेन्दुनावमधिरुह्य मदीयभावः खच्छन्दसंचरणकेलिविधि विधत्ताम् ॥ १९३ ।। कल्याणि ते मुखविधुस्मितकौमुदी च नेत्रारविन्दकरुणामधुनिझरी च । वक्षोजकुम्भगलितामृतवाहिनी च तन्वन्तु नस्विविधतापकलापशान्तिम् ॥ १९१ ।। चक्र नितम्बफलकेन तवाचगन्धं शङ्ख च कण्ठविजितं बिभृषे कराभ्याम् ।
यात्राप्रबन्धः। १२३ आर्या गुरोरिह लघोरथवा निकाम- मङ्गीकृतस्य परिपालनमाद्रियन्ते ॥ १९५ ॥ प्राप्यं जनेन परमं वरमेतदेव पादाम्बुजं परमितो न च किंचनेति । व्याकुर्वतोस्तव वराभयमुद्रिकाभ्यां सेयं युगाय करयोः शिरसा नमस्या ॥ १९६ ॥ अस्तोपमर्दलवमादियुगावतारे धृत्वोदरस्य तव सूतवतस्त्रिलोकीम् । मातः कथं कथमिवेह महानुभावाः सद्भाव एव सततं प्रथयन्ति चिन्ताम् ।। १९७ ॥ सन्मार्गरोधरसिके शमवत्प्रणीत- न्यकारभाजि नवमन्मथपत्रिभिन्ने । अक्षानुषङ्गमलिने हृदि मामकीने शर्वाणि विन्ध्य इव ते चरणौ निधेहि ॥ १९८ ।। मूकाम्बिके मुहुरपास्तजपस्य कामं रागस्पृशो रचितपल्लवसौहृदस्य । भक्तस्य मे पदयुगस्य भवेत्तवैव श्लाघ्या गतिः सकलहंसकुलैर्दुरापा ॥ १९९ ॥ साकारा सुखकन्दली पशुपतेरेका मनोहारिणी स्तोकालोकसुधाकृतस्मरवधूशोकाग्निनिर्वापणा । त्रैकाल्यप्रतिपत्तिदोहनविधौ या कामधेनुः सतां सा कारुण्यतरङ्गिणी मनसि मे मूकाम्बिका दृश्यते॥ २०॥ .
१२४ काव्यमाला। इति सपदि हिमाचलेन्द्रकन्यां पशुपतिनेत्रचकोरपौर्णमासीम् । समजनि भजतोऽस्य साधुमौलेरकृतकभक्तिसुधाम्बुधेः समृद्धिः ॥२०॥ इति समरपुंगवस्य कृतौ चम्पूकाव्ये षष्ठ आश्वासः। . अथ सप्तम आश्वासः। अथ मनीषिमणिरेष कुमुदिनीरमणकोरकापीडसेवादरादिव शैवलि- नीपतिना प्रतिमुहुरधिष्ठिताभ्यण गोकर्णमधिगम्य मन्मथपरिपन्थिमन्त्रक- साधकानधवैदिकजनानात्मीयनयनयोः पन्थानमुपनीय चिन्तामिमामता- नीत् । इह केचन शास्त्रवेदिनो भवदुःखमपरम्परादृशः । तदपायकृते जपक्रियामधिगोकर्णममी वितन्वते ॥ १॥ पारेपारावारमाविर्भवन्तं देवं मारामित्रमाराध्य धीरः । सोऽयं भूयो भक्तिपीयूषवर्षादात्तोत्कर्षा भारतीमित्यवादीत् ॥ २ ॥ अनुतटमनिशं महाबलो न यदि भवानिह नाथ तिष्ठति । जलधिरभिभवेदयं तदा जगदभिक्लप्तदिगन्तराक्रमः ॥ ३ ॥ अथवा लघुरेष सिन्धुरास्तां प्रतिविध्यण्डममी पितामहाद्याः । स्थितिमादधते धृतप्रकम्प्रास्तनुभूशासन शासने त्वदीये ॥ ४ ॥ सृजसि मरजेतरासिकामिह गोकर्णमिते निकेतने । दिशसि श्रयतां तु देहिनां कथमाभोगकरम्बितं पदम् ॥ ५॥ अयं खलु तदनु संख्यावदग्रणीरतिलङ्घय साधरणीधरमतिस्निह्यद- नुचरपटासमावृतो विविधनीवृदावलिमवगाहमानः प्रबलवाहिनीकुलानि पावनस्खलानि च पदे पदे निशामयन्कुशाञ्चलपरिहसनमतिरतिमात्रपे- शलांसूक्तिममिधातुमाद्रियत ।
यात्राप्रबन्धः॥
१२५
वरदापदाब्जमकरन्दकन्दली वरदापगामधिविगाह निर्मलाम् ।
अधुना.निजामवयवार्थदुर्विधामभिधां समञ्चति मलपहारिणी ॥ ६॥
वीचीहस्ता विपुलपुलिनश्रोणिरिन्दीवराक्षी
फेनोदारस्मितविलसिता बन्धुरावर्तनामिः ।
चक्रोरोजा सरसिजमुखी चारुहंसप्रचारा
पारावारप्रथमगृहिणी भासते कृष्णवेणी ॥ ७ ॥
महाबलेशमकुटीतटजाते तरङ्गिणि।
सकृष्णापि त्वया शश्वदकृष्णा हन्त मेदिनी ॥ ८॥
दोलायितं बालसमीरणेन वीचीदुकूलांशुकमुद्वहन्तीम् ।
पृथ्व्या खयं भीमरथीभवन्त्या पताकिकां भीमरथीमुपासे ॥ ९॥
पुरुषत्रयमौलिभागभूषामणिनीराजितमजुपादपीठाम् ।
तुलजापुरवासिनी तुरीयामवलम्बे जगदम्बिकां भवानीम् ॥१०॥
कञ्जराजिगलितैरनारतं पिञ्जराम्भसि नवीनकेसरैः ।
.पञ्जरासरिति क्लुप्तगाहनः किं जरायुवसतिं प्रपद्यते ॥ ११ ॥
नीलग्रीवजटा""विगलितां निर्माल्यमालामिव
ब्रह्मक्षोणिमृदुत्तमाङ्गविततां पृथ्वीपरिष्कारिणीम् ।
आत्मीयैरधिवासितं विदधतीमम्भोनिधानं रसै-
स्तामद्याहमगण्यपुण्यसुलभा द्रक्ष्यामि गोदावरीम् ॥ १२॥
पात्रगा पटुधियामिव संपत्कान्तसिन्धुरमिता करिणीव ।
गौरिवाञ्चितपयोघरभारा गौतमी हरति लोचनजाड्यम् ॥ १३ ॥
तापसाघदलनाय निर्गता गौतमी हरति कल्मषं नृणाम् ।
चातकार्तिशमनोद्यता जलैरभ्रपङ्किरभिषिञ्चति क्षमाम् ॥ १४ ॥
१२६
काव्यमाला।
त्रिनयनजटाराजद्राजक्षमारुहकोरक-
व्यतिकरधनामोदा गोदावरीलहरीभराः।
पशुवधमहाकालीनालीढगोतमपातक-
प्रशमकुशलारम्भाः संभावयन्ति वसुंधराम् ॥ १५ ॥
जगत्पतेरस्य जटाच्युतेति विधेहि गोदावरि मा विषादम् ।
सरोषगौरीचरणाहतीनामलम्भनादामुहि मोदमेव ॥ १६ ॥
खवेलान्तीलासुभगतरबालानिलवल-
तरङ्गालीतुङ्गातरलतरभृङ्गा तत इतः।
तटिन्यास्ते धन्या तरुणकमलिन्याकरतया
प्रणीता वैनीतावलिभिरभिवीता शतधृतेः ॥ १७ ॥
पवित्रामद्राक्षं बहलकमलामोदमधुरैः
समीरध्वन्यश्रममपनयन्ती नवनवैः ।
अतिप्रेम्णा भर्तुश्चरमजलधेरर्पितमुखीं
पयोष्णीमुष्णीषप्रतिमलहरीं विन्ध्यनृपतेः॥ १८ ॥
कलितापीडा कमलैर्महिता पीयूषमधुरतापीना ।
जनतापीतजलेयं मम तापं हरतु मलिनतापीडाम् ॥ १९ ।।
सुधांशुकन्या वदतां जनानां तापं च दूरे तनुतां पयोष्णी ।
कथं त्वमप्यम्ब कठोरधाम्नस्तनूभवे तापि तथाविधासि ॥ २० ॥
अक्ष्णोर्वपत्यमृतलहरीमाश्रमैस्तापसानां
नित्योदञ्चन्निगमपठनैरुल्लसत्तीरभागा ।
अश्मनातैरचलधनुषो लिङ्गभूतरभूतां
मज्जन्नानामनुजपटलीशर्मदा नर्मदा मे ॥ २१ ॥
यात्राप्रबन्धः।
१२७
पूजनीयविभवासु भूतले जाग्रतीषु शतशो नदीष्वपि ।
किं त्वयैव वितनोति केलिकामर्णवस्त्वमसि येन नर्मदा ॥ २२॥
कुचपरिणतिभाजः क्षोणिबिम्बाधराया
विगलितमिव.यस्मादुत्तरासङ्गचेलम् ।
नटयति मुदमम्मो नार्मदं शृङ्गसीमा-
मधिवसति महादेरस्य माहिष्मतीयम् ॥ २३ ॥
पुरी जयत्यर्जुनभूपतेरियं वहन्निमां विन्ध्यवसुंधराधरः ।
त्रिविष्टपालम्बतया धृतस्मयं नगाधिराजं न तृणाय मन्यते ॥ २४ ॥
माहिष्मतीमण्डनमार्तिहारि जनस्य दोस्तम्भसहस्ररम्यम् ।
सप्तार्णवीमुद्रितराज्यलक्ष्मीविलासगेहं किमपि सरामि ॥ २५ ॥
अवतारविशेषमजनाभेररुणोष्णीषमनल्पहेमभूषम् ।
कृतवीर्यतनूजवेषमीडे जगतीपालनकर्मनिर्निमेषम् ॥ २६ ॥
यदीयभुजमण्डले धरणिरेत्य लीलारति
विशङ्कटतरे""विसृजति स दौस्थ्यव्यथाम् ।
परीक्षणकषोपलः स दशकण्ठबाहूष्मणां
जगन्महितशासनो जयति कार्तवीर्यार्जुनः ॥ २७ ॥
रेवा यस्य परं दुरासदभुजासेतौ न माति स्म सा
तेजोवार्धिरपि क्षपाचरपतेस्त्रैलोक्यकूलंकषः ।
सप्तद्वीपनिखातयूपपुलकच्छन्नावनीविग्रहः
सोऽयं हैहयनायको विजयते शूरक्षितीशाग्रणीः ॥२८॥
काचिन्महाकालनिकेतनस्य पुरामराते वि राजधानी ।
श्रिया विशालां जनतामवन्ती चकास्त्यसावुज्जयिनी पुरीणाम् ॥ २९॥
१२८
काव्यमाला।
भूतिं देहि ब्रूहि नामानि शंभोराद्यं विद्यां लीलयेत्याचरन्ती ।
देव्या साकं ध्यायत ध्यायतेति ध्यायन्त्यस्यां दैवतं केऽपि धन्याः॥३०॥
अस्यां मरालीततिरद्रिकन्याकेलीगतिप्रार्थनसापराधा ।
निवारितान्तर्गमनेव नित्यमास्ते बहिः खेयरतिच्छलेन ।। ३१ ॥
क्रीडाजुषामत्र कृशोदरीणामारज्यमाना घुसृणाङ्गरागैः ।
सृपा जगत्पातकसंहतीनामुत्पातसन्ध्येव पुरः समिन्धे ॥ ३२ ॥
अस्यां निरस्ता दिवसान्तनृत्यत्पिनाकिपूजापटहप्रणादैः ।
निर्याति नृणामिव दुष्कृतालिः सौधेषु कालागरुधूमरेखा ॥ ३३ ॥
आरूढकर्मन्दिपथा इवास्यामाविर्भवज्झकृतितारनादाः ।
आरामवीथीष्वनुवल्लिगेहमटन्ति भृङ्गा मकरन्दभिक्षाम् ॥ ३४ ॥
खयं विशालाप्यवकाशहीना दुष्कर्मलेशस्य शरीरभाजाम् ।
उच्चैर्महाकालमुपाश्रितापि कदापि नैषाञ्चति काललक्ष्याम् ॥ ३५ ॥
स्थितं संनिधानेऽपि धीसूक्तिदूर निराकारमप्यर्धनारीशरीरम् ।
अधिष्ठानमप्यस्य विश्वस्य शश्वन्महाकालवास्तव्यमव्यान्महो नः॥३६॥
अस्याः सिन्धोरूमिहस्तावलम्बादेनःसिन्धोरेत्य पारं भवामि ।
निर्विन्ध्याया निर्मलाम्भःप्रवाहे निर्मज्याहं निर्गतः क्लेशविन्ध्यात् ॥३७॥
चर्मण्वत्याः साधु खण्डीकृतांहोमर्मण्यस्या मजतां वारिपूरे ।
कुम्भीपाकाद्धोरपीडाविपाकास्किं भीतिः स्यात्किचिदप्यङ्गभाजाम् ॥३८॥
इदं तावदिह दृश्यते मन्दाकिनीविहितमहितसांगत्यमलघुसलिलपू-
रसातत्यवितीर्णजलधिसौहित्यमशिशिरकरापत्यम् ।
क्षितिरोमलता कलिन्दभूभृत्करिकालायसशृङ्खला सवन्ती ।
भवतापपरीतमानसानां नवतापिच्छवनीयमाविरास्ते ॥ ३९ ॥
यात्राप्रबन्धः। १२९ वृषमौक्तिकसंहतेर्विधात्रा वणिजा भूविपणौ विसारितायाः । परभागकरी पटीव नीला प्रतिभाति धुमणेरियं कुमारी ॥ १० ॥ मिहिरांशुविलीनमेघमार्गद्रवनिष्यन्दततौ परं किलास्याम् । यमुनेति कलिन्दजेति सिन्धोरबलेति प्रथते नृणां विमोहः ॥४१॥ नतिरस्तु गभस्तिमालिसूनोनरकद्वारमहायसार्गलायै । जनसद्धतिनर्तकीमसारप्रतिसीराकृतये प्रकाममस्यै ॥ ४२ ॥ असितोत्पलमालिकामवन्या जनतापुण्यशिखावलाभ्रपतिम् । शिशिरामवगाह्य सिन्धुमेनां जनितापं विजहाति जीवलोकः ॥ १३ ॥ अनुवारमवाप्तवारिकेलेरसिताया मुरशासनस्य मूर्तेः । अयमाविशदंशुमालिकन्यामभिरामः किमु नीलिमातिरेकः ।। १४ ॥ अतिवेलरसोदयानुभावात्कलयन्ती निजकामुकाभिसारम् । असितावरणांशुकं किमेषा सहजश्यामलकच्छलेन धत्ते ॥ ४५ ॥ अभिषिञ्च कलिन्दकन्यके मामतिनीलच्छविनैव वारिणा ते । सहसा भवितास्मि तावताहं शरदिन्दीवरबान्धवावदातः ॥ ४६॥ दिशि वासमवाप्य दक्षिणस्यां सहजन्मा तव शास्ति पापशीलान् । भवती तु परिष्कृतोत्तराशा कृपया कल्मषमेव देहभाजाम् ॥ ४७ ॥ जननि त्वदवेक्षणं जनानां निरयश्रेण्यनवेक्षणे निदानम् । भवदम्भसि मज्जनं तु भद्रे पुनरुन्मज्जनकारणं भवाब्धेः ॥ १८ ॥ जननामयमेषजैः श्रुतीनां पटवासैस्तटरेणुभिर्भवत्याः । चरणाम्बुजवासितैर्मुरारेरनुलिप्तोऽपि भवामि नीरजस्कः ॥ १९ ॥ रविनन्दिनि नीलरत्नयोस्ते तटसीमाजनुषोस्तयोः किलैकम् । अभवत्परिकर्म विन्ध्यभूमेरपरं गोपवधूपयोधराणाम् ॥ ५० ॥ या०प्र०९
१३०
काव्यमाला।
हसितौषधमोहिताशयानामनुतीरं तव बल्लवाङ्गनानाम् ।
बहुशो हरति स्म नीविबन्धानतिसंधापटुरादिमः स चोरः ॥ ५१॥
तटमम्ब तवैनदेव शाङ्गी निजवंशीविनदामृतैरसिञ्चत् ।
अत एव पुरीयमत्र भान्ती मधुरेति व्यपदिश्यते जगत्याम् ॥ ५२ ॥
महतीषु पुरीषु काममेषा मधुरेत्यत्र किमाविरास शाङ्गी ।
अवतारमहोत्सवेन शौरेरथ चेयं मधुरा किमासु जज्ञे ॥ ५३ ॥
जनिकापथचक्रमालसानामलघुश्रान्तिकलापमङ्गभाजाम् ।
अमृतार्पणलीलया हरन्ती नगरीयं मधुरा भवेन्न केषाम् ॥ ५४ ॥
धरणीतिलकं तरी भवाब्धेः खनिरिन्द्रानुजगारुडोपलस्य ।
दिशति प्रमदं दृशोरियं मे रजनीशान्वयराजराजधानी ॥ ५५ ॥
यदुवंशयशोनिदानभूमिः शिशुता विभ्रमसाक्षिणी मुरारेः ।
नवमुक्तिवधूविवक्षुलोकप्रतिबोधाङ्कुरपालिकेयमास्ते ॥ ५६ ॥
अवकर्णयितुं यशो मुरारेरसकृत्पौरजनोपगीयमानम् ।
गलितावरणैरियं गवाक्षैः परिफुल्लश्रुतिसंपुटेव भाति ॥ ५७ ॥ .
यमुनालहरीसमीरधूतैरियमाभाति शतैस्तटाकिकानाम् ।
उपकण्ठमुपेयुषां जनानामघसंघातमिवापसारयन्ती ॥ ५८ ॥
निजभक्तिनिरूढमानसानां घनसंसारविषादखण्डनाय ।
अरविन्दविलोचनः किलास्यां परिजग्राह भवानुबन्धलीलाम् ॥ ५९ ॥
चिरकालघृतं हृदा जगत्याः किमपि प्रौढविषादकारि शल्यम् ।
भगवानिह कंसनामधेयं बलसंदंशिकया समुज्जहार ॥ ६० ॥
इह धन्यतमैरलोकि रेखासरसीजातरथाङ्गशङ्कुचिहा ।
अनुवीथि पदावली मुरारेरकुतोजन्मसरखतीविचेया ॥ ६१ ॥
यात्राप्रबन्धः। मनुजो नहि माहशो जगत्यामनुकम्पालवदुर्विधान्तरङ्गः । चिरशीलितमप्यधर्मजातं बहिरुत्सृज्य पुरीमिमां विशामि ॥ ६२ ॥ इत्यादिवचनरीतिमुखरिताननो हरितालनिभवसनभरितात्मकटितटं हरिनीलमणिभङ्गसंकाशरोचिषमवनतपरिषदतिहर्षविरचनाय समुद्यन्त- मिव कमपि तडित्वन्तमानकदुन्दुमेरात्मजमभिवन्ध संक्रन्दनमुकुन्दशा- तोदरीद्वन्द्वसंवादरूपमरविन्दलोचनस्तुतिकलापमभिरूपशेखरोऽयमेवम- करोत् ।। विधाय केलिं वियदापगायां यान्त्योस्तटीमिन्द्रमुकुन्दपत्योः । पटीविपर्यासवशेन जज्ञे प्रगल्भवादप्रतिवादभङ्गी ।। ६३ ।। पटे सुरेन्द्रप्रमदैकधायें कुतोऽन्यथा मुह्यसि गोपभीरो। तवैव मोहो दयितं मुरारेरशेषवन्द्यादधिकं वदन्त्याः ॥ ६४ ॥ मृगाक्षि शौरेमहिमातिरेकमाख्याति राज्यानधिकार एव । बलेस्त्रिलोकीमपहृत्य बाले गोत्रारये दत्तवतः क राज्यम् ॥ ६५ ।। ज्यायोबलात्साधयतोऽनुजस्य कार्याणि मुग्धे वद कः प्रकर्षः । त्राणं गवां तन्वति मत्सहाये दृष्टं बलं दुर्ललिते मघोनः ॥ ६६ ।। गोपालबाले कुलिशायुधेन कृपा व्यधायीति किमेष दोषः । ममानुकम्पा क नु मातृगर्भ दम्भोलिना दारयतो बलारेः ॥ ६७ ॥ दिवौकसां दानवजातिमात्रे स्पर्धा निसर्गप्रभवा हि सत्ये । पौलोमि तर्हि त्वयि पाकशासी वैरानुबन्धान कुतो विधत्ते ॥ ६८ ॥ नारीवधं नर्मसखस्तवैव शतक्रतुः संविदधीत किं वा । अकार्यमप्याचरणीयमेव वितन्वता विश्वकुटुम्बरक्षाम् ॥ ६९ ॥ खकुक्षिपूर्त्य कृतचोरवृत्तेर्दूरे जगत्राणधुरंधरत्वम् । पुंसः खकीयोदरपोषणं च तस्य त्रिलोकीपरिपोषहेतुः ॥ ७० ॥ ..
१३२ काव्यमाला। माङ्गनागर्भपुटीमितेऽस्मिन्करोषि मिथ्यागरिमाधिरोपम् । विश्वत्रयव्यापितनोरनेन का हानिरुन्मीलति कैटभारेः ॥ ७१ ॥ किं किं शुमे केशवशाम्बरीभिर्विमोहिता त्वं न समर्थयेथाः। भजन्तमुत्सृज्य जनं परेषु घाटी निबध्नाति तदीयमाया ।। ७२ ।। आनन्दामृतसर्वखमाशास्यममरैरपि । आभीरपतिगेहान्तमभिव्यक्तमुपास्महे ॥ ७३ ।। पयःपयोधौ बहुकाललीलया वितायमानादिव वासनाबलात् । हरिविहायानकदुन्दुमेहान्बजे सुधाढ्ये विहरन्स पातु नः ॥ ७ ॥ जवोपरि न्यस्य कृते जवेन संक्षालने संविहितां जनन्या । प्रदक्षिणाम्भःपरिषेकरक्षामन्तहसन्वीक्ष्य हरिः पुनातु ॥ ७५ ॥ स्तनं जनन्या धयतेव संमुखं प्रसारितः पातु करो बलिद्विषः । निशाचरीमम्ब निरीक्ष्य मारितां, प्रयाहि मा भीतिमितीव शंसितुम् ७६ वन्दे मुकुन्दं पदपल्लवाभ्यां वाचालमञ्जीरमनोहराभ्याम् । प्रहारलीलां मनसि प्रणेतुमभ्यस्तडो(दो)लाफलकाभिघातम् ॥ ७७.॥ जानुद्वयीचङ्कमणेषु धान्यां पाणिं निधायैकमुदस्तबाहुः । तमाहरिष्ये तरुमिन्द्रलोकादिहेति शंसन्निव शौरिरव्यात् ।। ७८ ॥ अपि त्रिलोकीममिमीत यस्त्रिधा समाहितैरजिसरोजविक्रमैः । स माधवो नः परिपातु संचरन्करौ समालम्ब्य पितुर्ग्रहाङ्गणे ॥ ७९ ॥ अमेयमप्यकृतकभारतीशतैरगोचरं यमिवरचेतसामपि । गृहाङ्गणे किमपि यशोदया गुणैरुलूखले कलितमुपास्महे महः ॥ ८०॥ आकुञ्य पादाम्बुजमेकमन्यदुत्क्षिप्य नृत्यन्तमुदप्रचूडम् । पाणिद्वयीपायसगव्यसारौ पश्यन्तमीडे पशुपालडिम्भम् ॥ ८१॥ .
यात्राप्रबन्धः।
कराम्बुजस्तम्भितकिङ्किणीरवं पदे पदे कल्पितपार्थवीक्षणम् ।
शनैःशनैराकलिताभिचङ्गमं विनौमि शौरेजगव्यमोषणम् ॥ ८२ ॥
विज्ञातुमामोदवशेन मोषं गव्यस्य गोपाङ्गनया कयापि ।
निजाननेन्दोनिकटोपनीतं जिघ्रन्मुकुन्दो वदनं स जीयात् ।। ८३ ॥
गृहे मदीये कियदद्य गव्यमहारि शंसेति कयापि पृष्टे ।
पयोधरौ पाणियुगेन तस्याः स्पृष्ट्वेयदस्तीति भणन्विटोऽव्यात् ।। ८४ ।।
कलशीनिहितं पयः कथं वा परिपीतं भवतेति राघयोक्ते ।
अधरामृतपारणाममुष्या विदधानं विभुमेवमित्युपासे ॥ ८५ ॥
हैयङ्गवीनहरणाकुलघोषयोषि-
दाक्रोशनाटितरुषः पुरतो जनन्याः ।
व्यत्यस्तपाणिविधृतश्रवणानि चित्ते
'नाथस्य केलिनमनोन्नमनानि भान्ति ॥ ८६ ॥
लताङ्गि मह्यं रचयाञ्जलिं पटीमहं दिशामीत्यवकर्ण्य भाषितम् ।
कृतेऽञ्जलावेककरेण राधया शिरो विधुन्वशिशुरस्तु संपदे ।। ८७ ॥
रक्षाकरं मङ्गलमारचय्य संप्रेषितः सानुनयं जनन्या ।
कस्तूरिकाक्लप्ततमालपत्रो नासाञ्चलेनापि मणि दधानः ॥ ८८ ॥
काञ्चीगुणोदारकटिप्रदेशो मायूरबोंज्वलमौलिबन्धः ।
वहन्करे वेत्रविषाणवंशान्पाथेयशिक्याकलितांसभागः ॥ ८९ ।।
पवित्रयन्नझिपयोरुहाभ्यामाभीरपल्लीभवनाङ्गणानि ।
बहिर्नयन्पीतनिबद्धशावं कुलं गवां गोष्ठगृहान्तरेभ्यः ।। ९० ॥
भ्रूलीलया कांचिदपाङ्गितेन परां दरस्मेरमुखश्रियान्याम् ।
कर्तुं रहः केलिकलां वनान्ते समाहृयन्घोषसरोरुहाक्षीम् ॥ ९१ ॥
काव्यमाला। पित्रा कियङ्करमिवानुगम्य वात्सल्यनिनेन विसृज्यमानः । वनाय शृङ्गिण्यवनाय चायो विद्योततां चेतसि पूरुषो मे ॥ १२ ॥ किरीटसंदानितकेकिपिञ्छं वशीकृताभीरवधूप्रपञ्चम् । कदम्बगुच्छाहितकर्णपूरं कुर्वे हृदन्तः कुहनाकिशोरम् ॥ ९३ ।। हेलावलद्रीवमितत्रिभङ्गीवकाम्बुजव्यापृतवंशनालम् । व्यत्यासविन्यस्तपदं पुरस्तादास्तामवस्थानमनङ्गशौरेः ॥ ९४ ॥ वंशीमुपासे वसुदेवसूनोरारज्यमानामधरांशुपूरैः । शृङ्गारगीतामृतसेचनेन रोहत्सवालामिव लोभनीयाम् ॥ ९५ ।। वंशीसुधां वर्णय वाणि शौरेराखादितामर्कसुतामरालैः । गलन्मृणालीकवलच्छलेन तृप्तेस्तदुद्गारमिवादधानः ॥ ९६ ॥ आप्लावयेयुरपि नः श्रवसी कदाचि- स्कंसाभियातिकलहंसवरामृतानि । प्रादुर्भवत्किसलयच्छलतः प्रसार्य जिह्वां महीरुहकुलैरपि सेवितानि ॥ ९७ ॥ अनुभवेयमहं किमु जातुचिन्मुरभिदो मुरलीनिनदामृतम् । किसलयाञ्जलिशालिमुखाञ्जलैः किमपि सेवितमन्यभृतैर्द्विजैः ॥ ९८॥ आपाटलान्यङ्गुलिपल्लवानि व्यापारयन्तं विवरेषु वेणोः। नादामृतैनन्दगवीकुलानां मोदान्सृजन्तं कलये मुकुन्दम् ॥ ९९ ॥ खुराहतिक्षुण्णभुवां पशूनां परागजालैः परिधूसराङ्गे । मुह्यद्दिगन्ते मुरलीनिनादैः स्निह्यत्यनन्ते. मम शेमुषीयम् ॥ १० ॥ दृढानि गोपीधृतिबन्धनानि हठादपाकुर्वति हासलेशैः। अनीदृशे मे मतिरागमान्तवनीचरे वैणविकावतंसे ॥१०१ ॥ .
यात्राप्रबन्धः। बिम्बाधरं बन्धुरमन्दहासं लम्बालकासङ्गिललाटदेशम् । विरामकालेऽपि न विस्मरामि मुखं रणद्वेणुसखं मुरारेः॥ १०२ ॥ हसितस्पृशि हारिकण्ठनाले परमानन्दसर प्ररूढमूले । अधरच्छविकेसराभिरस्मे श्रुतिसौरभ्यनिधौ शुचां विरामे ॥ १०३ ।। व्रजयोषिदपाङ्गभङ्गवीते मकरन्दायितमञ्जुवेणुनादे । परिलक्षितशृङ्गिणीपरागे रदमुक्तारमणीयगर्भमागे ॥ १०४ ॥ अमितप्रणयावगाहिनीभ्यां रचिताघ्राणविधौ रमावनीभ्याम् । कुरु मानसराजहंसलीलां कुहनागोपमुखाम्बुजे विशालाम् ॥ १०५ ॥ वनादिनान्ते व्रजमाव्रजन्तमभङ्गशृङ्गारवपूरिताशम् । श्रवःकदम्बस्तबकेन साकं मनागिवाम्लानमुखारविन्दम् ॥ १०६ ॥ वराङ्गनादन्तपटप्रतीति सरोषराधासमुदीक्षितेन । बिम्बोष्ठमध्ये भृशपाटलिम्ना विन्यस्तवंशीजनुषा विभान्तम् ॥ १०७ ॥ वृन्दावने प्रीणितया कयापि संभावितं सप्रणयावलोकैः । संकेतभूवञ्चितया तु गोप्या संताडितं दारुणदृष्टिपातैः ॥ १०८ ॥ भ्रूक्षेपमन्दस्मितहक्तरङ्गैः : पुष्णन्तमन्तः सरमङ्गनानाम् । आभीरवृद्धाननुकम्पयारालापभेदैरनुमोदयन्तम् ॥ १०९ ॥ नन्देन क्लुप्ताभिगमेन गाढमालिङ्गय दोर्ध्यामभिगम्यमानम् । आविःस्तनक्षीरमिलिन्दभाजा यशोदया सादरमीक्ष्यमाणम् ॥ ११०॥ श्वोभाविगोसंचरणप्रदेशान्संकेतयन्तं सवयोजनानाम् । अग्रेचलद्गोकुलमम्बुजाक्षमालम्बतां बालकमाशयो मे ॥ १११ ॥ गोवर्धनव्यञ्जितकौशलेन गोवर्धनच्छत्रमुदस्य दोष्णा । गोपायिताभीरकुलाय वर्षाद्वोपायितायास्तु स ते प्रणामः ।। ११२ ॥
काव्यमाला।
ऋजूकुर्वन्नपि हरिस्त्रिवक्रामसृजन्पुनः ।
हगन्तकचभारेषु त्रिषु वक्रां धिनोति नः ॥ ११३ ॥
भवभीतिपराकृतेरुपायं शृणु चेतः श्रुतिमौलिसंप्रदायम् ।
परिशीलय भावनां मुरारेः कुरु दारादिकुतूहलानि दूरे ॥ ११ ॥
प्रसूरियमसौ पिता मम सुतो नताङ्गीति किं
विमोहमरुगाहनव्यतिकरेण वा ताम्यसि ।
यदूद्वहवधूटिकाजठरशुक्तिमुक्तामणौ
मनो भज विनोदनं मधुविदारके दारके ॥ ११५॥
अशौरिकुलपावनानकृतनन्दगोपालका-
नकालियविमर्दनानकरनीतगोवर्धनान् ।
अकंसमदभञ्जनानकलितावनीरञ्जना-
नबाणभुजदारकानलमुपास्य वृन्दारकान् ।। ११६ ॥
अल्नवृषभासुरैरशिखिपिच्छकाभासुरै-
रगव्यरसलालसैरपटुरासलीलारसैः ।
अगोभरणदीक्षितैरकमलानुवादीक्षितै-
रभृङ्गसचिवालकैरलमशाम्बरीबालकैः ॥ ११७ ॥
कृष्णस्य वृन्दावनकन्दरान्तराभीरदाराभिरतेः कथामिः ।
अलं विमुक्त्यै कृतमर्चनायामायासभोरैरमरान्तराणाम् ॥ ११८ ॥
वनमालिवशीकृताशयानां पदविन्यासपवित्रितो वधूनाम् ।
यमुनातटरेणुरेव पुंसामलमंहो विनिहन्तुमङ्गसङ्गी ॥ ११९ ॥
परःसहस्राणि परस्य धान्नः सन्त्येव रूपाणि जगद्विभूत्यै ।
मृग्यो मृषा गोपविलासवीर्यलावण्यसौरभ्यलवोऽपि तेषु ॥ १२० ॥
यात्राप्रबन्धः। पशुपैरपि बाह्यदृष्टिशीलैर्ददृशे दृश्यरथाङ्गङ्खशचिहा । अधिनन्दनिवासमागमान्तैरपि मृग्या पदपक्तिरजनाभः ॥ १२१ ॥ उरुभक्तिसुधारसोर्मिलानामपनेतुं जनिखेदमङ्गभाजाम् । खयमाहतसंभवानुबन्धे महनीये रमतां मनो मुकुन्दे ॥ १२२ ॥ किंच-वन्दे महः किंचन वंशनालीशृङ्गाङ्कुशाजिह्मगचापहस्तम् । गुञ्जारुणं वापि ततोऽपि नीलं बर्दावलीवालमृगाङ्कचूडम् ॥ १२३ ॥ शृङ्गाटमध्ये कृतसंनिधाना मुखारविन्दे मुरली दधाना । ममास्तु चित्ते महनीयशीला विद्या मुरद्वेषिविचित्रलीला ॥ १२४ ॥ इदं मदंशद्वयमेवमेव कृतव्यतीहारमजायतेति । विभावयन्ती विनिमाय पादौ विद्या परा वेणुमती समिन्धे ॥१२५॥ कुहचिज्जयकुञ्जरप्रचारं परतो भावितराजहंसयानम् । कटिसीमनि वाससी वसानं कनकाद्भासिकुसुम्भरागशोणम् ।। १२६ ।। हृदि कौस्तुभमेकतो दधानं परतस्तुङ्गपयोधरोपरुद्धम् । गिरिधारणकर्कशैकपाणिं कुसुमादप्यतिकोमलान्यहस्तम् ॥ १२७ ॥ हरिणाधिपकोकिलावलेपान्क्षपयन्तं निजकण्ठनादभङ्गया । क्वचिदुज्ज्वलकुण्डलाभिरामं पटुताटङ्कपरिष्कृतं कुतोऽपि ॥ १२८ ॥ विनतार्तिहरं विलोचनाभ्यां कमलेन्दीवरगर्वमोचनाभ्याम् । धृतचित्रकहक्सरोरुहा(भ्यां) निटिले निर्जितबालचन्द्रभासि ॥ १२९॥ प्रियकस्तबकासितोत्पलाभ्यां प्रतिपन्नश्रवणावतंसकृत्यम् । शिरसा शिखिनः शिखण्डमालां शशिखण्डं च सहैव लालयन्तम् १३० वलमिन्मणिबन्धजीवशोभं धृतपाशाङ्कुशपुष्पबाणचापम् । मुरलीवरमूर्च्छनासु शश्वन्महनीयासु निबद्धमौलिकम्पम् ॥ १३१ ।।
१३८
काव्यमाला।
गिरिशागृहान्तरे विहारान्कलयन्तं नवकल्पशाखिमूले ।
परितः परिवारदेवतानां प्रकरणाहितसेवनानुबन्धम् ॥ १३२ ।।
इतरेतरयोगमेयुषाभ्यामतिहृयन्मकरन्दशर्कराभ्याम् ।
कृतिनः खलु केऽपि भावयन्ते भवशान्त्यै परसंविदोरभेदम् ।। १३३ ॥
रुचिराद्धतरूपसंविधानं परमानन्दसुधापयोनिधानम् ।
उषितं पथि योगिनां विधेये तदहं धाम विचिन्त्य तत्र लीये ॥ १३४ ।।
पुण्यस्थानाग्रगण्यादथ यदुनगरादेष तस्मान्मनीषी
स्थाण्वीशाख्यं धरण्यामभजत किमपि क्षेत्रमुच्चैः पवित्रम् ।
सद्यः संसिद्धिहेतुं समधिकतपसां पुष्करं दुष्कराणां
सोमावासं प्रभासं सुगतियुवतिसंचारिकां द्वारकां च ॥ १३५॥
अथ द्रुताभीष्टकरीं शतद्वं पाशापहन्त्री भजतो विपाशाम् ।
घरावतीर्णा धरणीधरेन्द्रादिरावती चैष निषेवते स्म ॥ १३६ ।।
साभोगां चन्द्रभागां जगदखिलमिदं पावयन्ती च सिन्धुं
सेवित्वाथो निवृत्तः परिचितधनदारामगन्धाद्दिगन्तात् ।
प्रौढं जालन्ध्रपीठाभिधमनधपदन्यासधन्यं भवान्या
हृद्यं प्रापद्यतासौ हिमवति किमपि स्थानमानन्दशाली ॥ १३७ ।।
असौ पुनरनेकतटिनीसरोवनीनगरप्रदेशेषु विरचितम्रमणोऽपि पर-
मपावनपयःपूरनिष्यन्दिनीं शृङ्गिणीमिव पुंगवकिशोरकस्त्रिदशतरङ्गिणी
निशामयन्किमपि चिन्तातिशयसंदानिताशयो व्याहर्तुमिति गिरं
प्रावर्तत ।
इक्ष्वाकुसंतानयशःपताकां मुक्तामणिं तां मुनिकण्ठशुक्तेः ।
दुर्वर्ण्यकक्ष्यामवनीवशायां निर्वर्णयिष्यामि कदा सवन्तीम् ॥ १३८ ॥
यात्राप्रबन्धः।
१३९
विद्याम्बुजश्रेणिविभातवेलां मायातमश्चन्द्रमरीचिवीचीम् ।
मुक्तालतां मुक्तिविलासवत्या भागीरथीं चेतसि भावयामि ॥ १३९ ॥
गङ्गामुपांसे गगनापदेशकासारकेलीकलहंसपतिम् ।
खयंवरासक्तिसमेतमुक्तिवधूकराम्भोजमधूकमालाम् ॥ १४० ॥
किरीटिकोदण्डकृतप्रहारत्रणोत्बणीभावविशङ्कयेव ।
यामोषधीशेन समं महेशो दधाति मौलौ तटिनी नुमस्ताम् ॥ १४१॥
भागीरथी सावतु या गिरीशजटाटवीपर्यटनोपजातात् ।
आशाभ्रमान्मार्गमजानतीव भगीरथस्यन्दनमन्वयासीत् ॥ १४२ ॥
क्रीडापराधशमनाय नतस्य शंभो-
चूडापदे विहरणं समवेक्ष्य यस्याः ।
कोपातिरेकमयते कुलशैलकन्या
सा पावनी दिशतु संमदमभ्रगङ्गा ।। १४३ ॥
अम्बरगालितमासीद्ब्रह्माण्डघटे बलिद्विषा यस्मात् ।
तस्मादतीव पूतं जज्ञे किल सौरसैन्धवं सलिलम् ॥ १४४ ॥
द्युसिन्धुरुा दुरितानि हन्तुमाढौकते वीवधगूढरूपा ।
प्रकाशसंचारविधौ भयेन कुतोऽपि धावेयुरितीव बुद्ध्या ॥ १४५ ॥
समुद्धृता वीवधसंपुटीषु भागीरथी भाग्यवतां जनानाम् ।
आरोहणं मूर्धनि संविधातुं प्रायो विधत्ते पदमसभागे ॥ १४६ ॥
गङ्गा निजं वारि विगाहमानाशरीरिणः कालहरीकरोति ।
सुधांशुमौलेः खमदापहस्य गर्वापहाराय कृतोद्यमेव ॥ १४७ ॥
विष्टपत्रयतमःपरिपाटीखण्डनाय कलितावतरापि ।
अभ्रसिन्धुरखिलानपि लोकानन्धकारयति हन्त किमेतत् ॥ १४८ ॥
काव्यमाला।
निमज्ज्य गङ्गाम्भसि निःसरञ्जनः पयोदनीलपतिमागतं गलम् ।
विलोक्य जम्बालविलेपशङ्कया करोति भूयोऽपि च गाढमजनम् १४९
मातेति पूर्व महयन्विधत्ते सुरापगायां सुकृती विगाहम् ।
कान्तेति पश्चात्कलयन्नसौ तां कोटीरकोटौ कुरुते विचित्रम् ॥ १५० ॥
मेराम्भोरुहशीधुसारलहरीनिष्यन्दमुष्टिंधयो
रोघोदेशविकासिकैतकरजोविस्तारकुक्षिभरिः ।
वीचीनतितराजहंसवनितासंगीतसर्वकषो
मानां हरति श्रमं सुकृतिनां मन्दाकिनीमारुतः ॥ १५१ ।।
कदा तरङ्गे गगनापगाया निमज्य गाढं निवसामि तावत् ।
प्रविश्य यावत्प्रतिहृत्प्रतीकं समूलमुन्मूलयते स तापान् ॥ १५२ ।।
अयि नगराजनन्दिनि घनसुकृतसारकन्दलनिष्यन्दिनि परतत्त्ववि-
ज्ञानपाथोनिधानकौमुदि भगवति भागीरथि,
निम्नगासु न ते तुल्या नीचेषु न च मे समः ।
मयि प्रपातनं मातर्विधातुं किं विलम्बसे ॥ १५३ ॥
अनन्तरमन्तर्वाणिरयमतिदुरन्तभवखेदसंतानभीषितः पिपासित इव
पीयूषकन्दली परिशुष्यदमेयसस्यसमूह इव प्रत्यावर्षधारां प्रतिभटानु-
द्रुत इव प्रबलत[मा]मित्रवाहिनीं जिह्मगविषाभिभूत इव जीवातुमूलिकां
कल्लोलिनीरमणलहरीविषक्त इव कामपि महातरि तीवनदीपूरनीयमान
इव तीरभूमि धर्माभितप्त इव कर्पूररसनिझरी निर्धनलोक इव निक्षेपसं-
तति जगतीधराधीशशिखरान्तरादधिहरिद्वारमापतन्तीममृताशनसरितमु-
पलभ्य निर्भरानन्दसंभ्रान्तमानसो मौनमहासीत् ।
पयः प्रकृतिशृङ्गिण्या ब्रह्माण्डोधसि संभृतम् ।
जगदर्भकजीवातु गनेति परिगीयते ॥ १५४ ॥
यात्राप्रबन्धः।
विध्यादेशकरी सेयं विविधप्रत्ययावहा ।
आगमैरञ्चिता भाति शब्दविद्येव जाह्नवी ॥ १५५॥
उद्दिधीर्षुः सगरजानसौ खर्गादवातरत् ।
गणयन्ति न हि क्लेशं पराबैंकपरायणाः ॥ १५६ ।।
गिरिशस्य पुरा केशान्परिगृह्योर्मिपाणिना ।
पादावलम्बिनी पश्चादासीज्जाड्यादसौ नदी ॥ १५७ ॥
ईशमुक्ता गिरिदरीरियमाप पदे पदे ।
भगीरथस्य तन्वाना भावं भूयस्तपोविधौ ॥ १५८ ॥
परं नापूरि जाह्नव्या भगीरथमनोरथः।
पारावारोऽपि निःसीमपरिणाहविभूषितः ॥ १५९ ॥
त्रिविक्रमपदोद्भूता त्रिलोकीमियमानशे ।
कारणस्यानुकुरुते कार्य हि गुणसंपदा ॥ १६० ।।
अनन्तपथगाप्येषा हन्त त्रिपथगामिनी ।
भगवत्पादजातापि शुक्ला वर्णेन शोभते ।। १६१ ॥
नदी नवसुधाधारा वसुधावासवत्यपि ।
प्रतिकूलप्रवृत्तेयमनुकूलापि देहिनाम् ।। १६२ ।।
गङ्गोरगी गिरीशस्य जटाकन्दरनिःसृता ।
विषोदना वितनुते पापमण्डूकपारणाम् ॥ १६३ ॥
आस्ते किमावृता गाङ्गे दाहशक्तिरिहाम्भसि ।
निर्दह्यते यतो नृणामस्य सङ्गादघाटवी ।। १६४ ।
आपगाया जगत्यस्याः कोऽपि शीतलतागुणः ।
पातकानि प्रकम्पन्ते यस्या नामश्रवादपि ॥ १६५॥
१४२ काव्यमाला। ननु त्रिपथगावारि समस्ताम्भोविलक्षणम् । सिक्तः कूलाङ्कुरो येन कल्पते मूलतृप्तये ॥ १६६ ॥ कोऽपि निर्जरवाहिन्या गुणासङ्गी शरोत्करः। चलञ्जवेन तनुते षडरिच्छेदनं नृणाम् ॥ १६७ ॥ अनादिमलसंघातहरणैकपटीयसीम् । अभ्रगङ्गामपि नदीमन्यामपि गृणन्त्यहो ॥ १६८॥ विध्यण्डपुटनिष्पन्नो वियद्गङ्गामयो रसः । अजरामरणां सिद्धिमाधत्ते सेवितो नृणाम् ॥ १६९ ।। शिरांसि भजतामाशु सिन्धुरेषाधिरोहति । विवरीतुं प्रवृत्तेव विश्वमूर्धन्यतां निजाम् ॥ १७० ।। अस्यामिहावतीर्णायामाविरास्ते भवाद्भयम् । कालमन्मथयोः शश्वत्कदाचिन्न शरीरिणाम् ॥ १७१ ।। विमुक्तिविश्राणनधुर्यभावबोधाय बद्धा भुवनान्तराले । काशीपतेः क्षौमपताकिकेव लेखस्रवन्त्या लहरी समिन्धे ॥ १७२ ॥ इयं प्रसन्ना हृदये जले च तीरे प्रवाहेऽपि च दीपहंसा । अभीष्टदाने गमनेऽपि शश्वदपास्तमान्द्या तटिनी चकास्ति ॥ १७३ ।। आपन्नसत्त्वेव वियन्नदीयमाविर्भवत्केतकबर्हशोभा । वीचीकरालम्बितपार्श्वभित्तिविजृम्भमाणश्वसनं प्रयाति ॥ १७४ ॥ कूलद्विजा कुन्दसगन्धमूर्तिः खादुस्तुषारा सुरभिः सरोजैः । इयं प्रसूतेः फलमिन्द्रियाणां मन्दाकिनी पुष्यति मामकानाम्॥१७५॥ तद्नु भुवनोपतापदमनोपचितरंहंसि सुमनोनदीजले कलितावगा- हनो बुधजनोत्तंसमणिरतिमनोहरं वचनोपहारमतनोत् । ८ यात्राप्रबन्धः। त्रिमार्गगे वाङ्मनसातिदूरः स कोऽपि जागर्ति तव प्रकर्षः। यदन्यतीर्थातिशयप्रसङ्गे विश्राम्यति त्वय्युपमानभावः ॥ १७६ ॥ दानाय मुक्तेघृतकङ्कणायां मयि स्थितायामपि केऽपि माः । क्लिश्यन्ति चेतः श्रुतिचिन्तयेति क्लुप्ताट्टहासेव विपाण्डरासि ॥ १७७ ।। ब्रह्माण्डरन्ध्रात्पतनं सुमेरौ नानानगेन्द्राभिहतीश्च गुर्वीः । अचिन्तयित्वा भुवमागतासि पातुं सुतानम्ब भवाब्धिममान् ॥ १७८॥ हिमाचलं प्राप्य जटाकलापादीशस्य नेत्रानलतापितेव । प्रपद्यसे मजदनेकलोकभवानिकीलाकुलितेव सिन्धुम् ॥ १७९॥ अम्ब त्वया भेषजमत्यपूर्वमशिक्षि कस्मादिदमसिन्धो । भवज्वरं यद्विषमं प्रकृत्या शीताम्बुसेकेन नृणां क्षिणोषि ॥ १८० ।। ब्रह्मन्हरे हर भवादवतेति देही 'जल्पन्निमज्जति जले तव जह्वकन्ये । निर्माहि पाहि निजहीति निदेशमेषां तन्वन्नुदञ्चति क एष तवानुभावः ॥ १८१ ॥ गगनतटिनि तावकं गरिम्णा सलिलमशेषजलातिशायि मन्ये । न विसृजति निमज्जतां नराणामिदमधिरुह्य सकृद्यतः शिरांसि ॥१८२।। भरणे निजवह्मणोऽपि खिन्ना भवती जाहवि देहिनो भजन्ते । किमिदं निदधाति मूर्ध्नि तेषामहहाशेषजगत्कुटुम्बभारम् ॥ १८३ ॥ त्रिदिवस्रवन्ति भवदम्बुमाधुरी सकलातिशायिविभवेति मन्महे । अवलिय जातुचिदिदं यतो जना विमुखीभवन्ति जननीकुचामृते १८४ अयि तावकं चरितमद्भुतोदयं सुरभीकरोति सुरलोकनिम्नगे। पदमुन्नतं भजनसङ्गिनो जनान्नयसे यतः खयमधोनिपातिनी ॥ १८५।।
१४४
काव्यमाला।
चेलं चर्म निकेतनं पितृवनं पात्रं शिरो लेपन
भस्मालंकृतिरस्थिजालमनुगा वेतालपारम्परी ।
भिक्षापर्यटनं च वर्तनमहो नृणां भवत्सेविनां
मातब्रूहि कथं त्वदीयभजनं कुर्वे सुपर्वापगे ॥ १८६ ॥
आकण्ठं सलिले निमज्ज्य पुलिनाभोगोपधाने शिरः
कृत्वा शैलसुतापते सुररिपो गङ्गाधरेत्यालपन् ।
गृह्णन्कर्णपुटे शिवेन कृपया प्रव्याहृतं तारकं
तीरे जाह्रवि तावके तनुपरित्यागं विधास्ये कदा ॥ १८७ ॥
त्वद्रोधोमुवि भूस्त्वदम्बुनि जलं त्वत्फेनभासि प्रभा
त्वद्वीचीपवने मरुत्त्वदुदकावर्ताम्बरे चाम्बरम् ।
इत्थं देवि मदीयदेहजननी भूतावली लीयतां
त्वत्संबन्धिनि जहुनन्दिनि महत्येषा मम प्रार्थना ॥ १८८ ॥
इति स्तुत्वा नभःसिन्धुमेष धीमानमोदत ।
मनसा फलिताशेषमनोरथसमृद्धिना ॥ १८९॥
इति समरपुंगवकृतौ यात्राप्रबन्धचम्पूकाव्ये सप्तम आश्वासः ।
अष्टम आवासः।
पत्या प्रकाश्यमानं क्षेत्राणामयमुपास्य केदारम् ।
सकलमहितं फलानि खकुलत्राणक्षमाणि लभते स्म ॥१॥
उच्चैर्महागिरिविहारमुपेत्य धीमा-
नीहारसंवृतिनिवृत्तिदिनावतारे ।
पाहण्यदादिपुरुषं बदरीवनान्तः
पश्यन्करोदरमिषद्वदराविशेषम् ॥ २॥
यात्राप्रबन्धः। तदनु कारुण्यलवनवविकृतकामरूपां कामरूपान्तराहिंतकामपीठ- स्थिति कामपि परदेवतामाराध्य नरदेवदुनयनाटिकाविभावनपाटवानुव- तिमिरालापविस्तारैरस्तौषीत् । त्वब्रूलीलानुसारित्रिपुरहरणदृकिङ्कराधोक्षजाज्ञा- निर्वोढ ब्रह्मचिन्तासमुपनतजगद्धोरणीकोणभाजः। उाः कापि प्रदेशे कतिपयविषयाधीशतामेत्य मत्ता न त्वामञ्चन्ति भूपाः समयविषमतां किं ब्रवीम्यद्रिकन्ये ॥ ३ ॥ नत्वा पृच्छामि किंचिद्भगवति भवती वाच्यमेतत्कुतश्चि- त्पुण्यात्पट्टाभिषेकव्यतिकरसमयप्राप्तिमात्रेण राज्ञाम् । सौजन्यं क प्रयायात्क मतिरुपरमेक व्रजेत्साधुवादः सौलभ्यं कापसप्त्व पुनरपसरेदातुरेष्वाभावः ॥ ४ ॥ भूजाने जय जीव कोऽत्र पुरतः शब्दायते वार्यता- मायुष्मन्नहमेव कोऽसि कथय त्वं वा त्वदीयाश्रितः । आस्तां तद्भवदीयनाम किमहं डित्थस्तथा वा तदि- त्यभ्यस्तानपि खेदयन्ति गिरिजे भूपा भवद्वञ्चितान् ॥ ५॥ आयाहि प्रातरेहि ह्यलमनवसरो याहि मे देहि सद्यः खर्णान्येतत्पिधेहि प्रतिभुवमथवा ब्रूहि नो चेदपेहि । इत्येवं द्रष्टुकामा नरपतिहतकानेतदासन्नभृत्यै- रायास्यन्ते नितान्तं जननि तव पदद्रोहिणो देहभाजः॥६॥ ह्यः शर्वर्यां समज्याविघटनसमये हे बुधा युष्मदर्थं राज्ञेऽवोचाम किंचिद्रहसि स च तदा प्रीतचेता इवास्त । इत्थं वागीशसार्थानयि जननि भवद्वश्चितान्वञ्चयन्तो मन्दाः कुर्वन्ति केचित्पितृपतिनगरीमार्गपाथेयबन्धम् ॥ ७ ॥ या०प्र० १०
१४६
काव्यमाला।
आकास्माकमभ्यागमनमवनिभृहित्रिकक्ष्यान्तराणि
प्रोल्लङ्घयाभ्येस नीत्वा बहुमतिमतनोदर्धपीठीजुषां नः।
इत्थं मिथ्यावचोभिः पटव इव जना वञ्चयन्ति प्रपञ्चं
केचिजानन्ति नैते भवदुपजनितानम्बिके विप्रलम्भान् ॥ ८ ॥
अद्य प्रातः सभायामखिलनृपतिषु प्रेक्षमाणेषु पीठा-
दुत्थायासत्करायादवनिभूदुपदामग्रहीत्पाणिनेति ।
एताहक्त्वेन जात्वप्यवनिपतिम[वि]ज्ञातवन्तोऽपि केचि-
द्राजाभिज्ञा इवाज्ञास्त्वयि सति विमुखेष्वेन्द्रनालं सृजन्ति ॥९॥
नीहाराहार्यकन्ये तव पदकमलध्यानमुद्राविधान-
रत्यर्थ वर्तयन्ते जनुषि सफलतां केऽपि धन्या धरण्याम् ।
अद्राक्षीदीपदस्मान्नृपतिरधिगतप्रीतिरयेति साथ
मन्वाना जन्म यान्ति प्रतिमुहुरितरे निर्वृति दुर्विवेकाः॥१०॥
मातदैतेयवैरिप्रमुखसुरवरैः शश्वदध्यासितायां
भावत्कागारबाह्याङ्गणभुवि वसतिप्राप्त्युपायं विहाय ।
हा हा मोहाद्यतन्ते जगति तनुभृतो नैकनिष्ठयूतवीटी-
जम्बालैर्दूषितायां नरपतिभवनद्वारि कर्तुं विहारम् ॥ ११ ॥
धिक्कारः सौविदल्लैश्चिरविततबहिर्वेदिकावासकाय
याच्दैन्यानुरोधः करितुरगकुलेष्वाकुला पर्यटाट्या ।
निर्हेतुर्दण्डपातो भृशसुलभरुषा मेदिनीनायकेने-
त्येवंरूपेण मातः परिणमति नृणां त्वत्पदाब्जापराधः ॥१२॥
त्वत्पादाम्भोजपूजाविरचनविमुखीभावदोषावतीर्ण-
क्षोणीभृत्सेवनानां पुरुषपरिषदामदिराजन्यकन्ये ।
नाहारो नैव निद्रा न सुखरसिकता नार्चना देवतानां
राजद्वारोपकण्ठेष्वपि तु तत इतः पर्यटाय्यैव कृत्यम् ॥ १३ ॥
यात्राप्रबन्धः।
त्रैलोक्यश्लाघनीये धरणिधरकुलोत्तंसवंशे प्रसूतिः
शुद्धान्तैश्वर्यभाक्त्वं त्रिभुवनभरणोल्लासिनश्चन्द्रमौलेः ।
लोकानां मातृता चेत्यखिलमपि शिवे हृद्यमेतद्भवत्या
भूपद्वारासिकायै पुनरपि तु सतां सृष्टिरेकैव कष्टा ॥ १४ ॥
आवासं दुर्गुणानां कमपि नृहतकं भूपतित्वेन सृष्ट्वा
तद्रोहद्वारि याच्नामहह रचयितुं यद्विनिर्मासि धीरान् ।
सोऽयं सर्गखभावः किमु तव जननि ब्रूहि किं विभ्रमो वा
नैर्घण्यं वा किमाहो किमुत दृढतरद्वेषिता वा बुधेषु ॥ १५ ॥
तस्याः को वा निषेधं सृजति गिलति चेदावृत्तिः सस्यजालं
मर्यादालचिनी चेजलनिधिलहरी को नु वा तां निरुन्ध्यात् ।
किं च त्वं शैलकन्ये कुटिलनृपगृहद्वारवेदीविहार-
क्लेशोदन्यावदान्या भवसि यदि सतां कस्तव स्यान्नियन्ता॥१६॥
भूभृत्सेवाविधानं बुधजनविततेः शास्त्रदृष्टेः पिधानं
दुष्कृत्येषु प्रधानं दुरितमिषविषोन्मेषपाथोनिधानम् ।
ब्राह्मण्यस्यावसानं प्रसरदपयशोवल्लयुपनप्रदान
सत्यखापोपधानं सति किमु बहुना त्वय्युपेक्षानिदानम् ॥१७॥
भुक्ते प्राचीनवित्ते गरिमजुषि ऋणे भिक्षुतायां धृतायां
संमाने हीयमाने नृपसदसि बहिररोघेऽपि जाते।
कोऽयं मायानुभावस्तव सति विलसत्यर्थलाभातिलोभा-
द्धावं धावं बुधानां ततिरटति मुधा राजधान्यामधन्या ॥१८॥
विन्यस्ताञ्जलिना प्रणम्य शिरसा याचे दया चेद्बुधा-
नास्थानीनरकान्तरे क्षितिभुजां कामाक्षि मा मा क्षिप ।
यद्यस्मिन्क्षिपसि व्यपेतकरुणालेशा तदा शालिका-
द्वाराध्यासनदुर्दशां वितर नो गुर्वी दुरुर्वीपतेः ॥ १९ ॥
१४८
काव्यमाला।
नैतत्स्वर्गतिसाधनं न च कुलाचार(रो) न चाज्ञा गुरो-
राम्नायैर्विहितं च कर्म यदिदं भूपाधमोपासनम् ।
प्राग्जन्मन्यचलात्मजे कृतभवत्पादापराधा वयं
पातं केवलमात्मनः खयमहो कर्तुं प्रवर्तामहे ॥२०॥
मूर्ती पर्यटने कृतेऽपि करुणामुद्रा न चेतावकी
‘न प्राप्येत नरैर्गुवाकफलमप्यन्तपुंणावादितम् ।
जानन्नप्यमुमर्थमर्थपटलीसंपादनाकाङ्क्षया
हा धिक्कष्टमनुद्रवामि धरणीपालाधमानम्बिके ॥ २१ ॥
त्वचिन्तां कलयामि चेत[दधुना] प्रत्यूहजाग्रन्मनः-
क्षोभोत्पादनचञ्चुरौदरशिखिज्वाला समुज्जृम्भते ।
तच्छान्त्यै नृपतीन्भजामि यदि तध्यानात्त्वदीयस्मृति-
नैवोदेति किमाचरामि कथय प्रालेयशैलात्मजे ॥ २२ ॥
प्राचीनक्षेत्रमात्रान्न लगति किल मे स्फारसंसारभारः
कृत्वा भूभर्तृसेवां धरणिरभिनवोपार्जनीया मयेति ।
चिन्तासंदानितान्तःकरणसरणिभिर्घस्मरैरमदायै-
रन्वारब्धा भवत्यां पुरहरदयिते देवि साक्षादुपेक्षा ॥ २३ ॥
उत्थानं प्रातरुवीपरिवृढभवनद्वारदेशाभिधानं
निध्यानं भूमिबन्धोः पुनरुपगमनं वासशालां प्रतीति ।
एतैर्व्यापारजातैरचलपतिसुते नित्यमावर्त्यमान-
रनिद्वन्द्वं भवत्या मुहुरहह वयं घस्सरा विस्मरामः ॥ २४ ॥
ग्रामं वा ग्रामटी वा मितभुवमथवा हाटकं वा पटं वा
यः कोऽप्यस्माकमेतत्किमिह न वितरेदेकिकां वा वसटीम् ।
इत्यम्ब त्वय्युपेक्षाविरचनदुरितप्राप्तदारिद्यमुद्रा-
कातर्याः पर्यटाट्यां नगरभुवि वयं बह्वधर्माय कुर्मः ॥२५॥
यात्राप्रबन्धः। . अन्तःशुद्धान्तमास्ते नृपतिरविरतं नैव निध्याति दैवा- निर्गच्छन्तं कदाचित्तिरयति तरसा खेटकूटैर्भटौघः । वक्ता वा नामदर्थे खयमपि गमनं दुष्करं द्वार्यथापि त्वद्रोहादद्रिकन्ये वयमवनिपतिं द्रष्टुकामाश्चरामः ॥ २६ ॥ विद्यागोष्ठीषु राज्ञो नहि रुचिकणिकाप्यस्त्युदास्ते प्रधानो विद्वेष्टि खाधिकारक्षतिचकितमनाः सोऽप्यमेधाः पुरोधाः । अन्यस्त्वज्ञातविद्वज्जनसरणिरथाप्यम्व ते शाम्बरीमिः पश्चात्संचोद्यमानाः सुधिय इति वयं राजधान्यां भ्रमामः ॥२७॥ संनह्यत्सौविदल्लाधमवदनसमालोकनाय प्रसर्प- ठूलीषु द्वारवेदीशिखरसरणिषु प्रत्यहाध्यासनाय । याच्यावाणीनिबद्धक्रमरसरसनाधारणायापि चास्मा- निष्कारुण्यं सृजन्त्यास्तव गिरितनये किं फलं लब्धमासीत् २८ कर्णो मध्याह्नदीनः समयमनुसरत्यम्वुदः खर्गमात्रे सन्तानस्त्यागशाली वयमपि तु मुहुः सर्वतो दानशौण्डाः । इत्युर्वीपालगर्वप्रलपितगरलज्वालजालानि पातुं कर्णाभ्यां किं नु सृष्टा वयमवनिधराधीशकन्ये भवत्या ॥२९॥ कुम्भीपाकादिनानाविधनिरयकुलेष्वातलं संनिमज्जा- व्यापारे नास्ति भारः सरसिरुहभुवो यावदायुर्विरामम् । क्ष्मापालद्वारि किंतु क्षणमपि वसतिः शक्यते नैव कर्तु तस्मादसद्विपक्षं जनमपि न कदाप्यम्ब तस्यां निधेहि ॥३०॥ आस्थानी गाहनीया नृपनिकटजुषो रञ्जनीया मनुष्या भूपालः सेवनीयः स च बहुलधनैरापनीयो मयेति ।
काव्यमाला।
चिन्तां संत्यज्य सोऽहं तव पदनलिनोपासनामात्रकृत्यः
प्रेसद्भावः कदा वा वद जननफलान्यम्ब संपादयिष्ये ॥३१॥
यास्यामो राजधानी कथमपि नृपतेरन्तिकं तत्र को वा
नेष्यत्यस्मानकस्मात्प्रचुरधनभरैः प्रीणनामन्तरेण ।
दृष्टे वा राज्ञि कृष्टां चिरवसतिमृते नाञ्जसा वाञ्छिताप्ति-
स्तस्मादक्लेशलभ्यां द्रुतफलजननीमद्रिजां न त्यजामः ॥ ३२॥
लक्ष्यीकुर्वे किमुर्वीसहचरहतकानम्बिके तावकाढौ
जाप्रत्यश्रान्तमन्तःकरणभुवि ममाभीष्टविश्राणनाय ।
त्वद्धृत्यद्वाःस्थवीटीचिपिटकपटसंवाहकक्रीतदासी-
दासेयप्रेष्यचेटीसुतजनसहशाः किं नु ते राजकीटाः ॥३३॥
कामाक्षि त्वत्कटाक्षव्यतिकरकलिकामोदसाम्राज्यलक्ष्मी-
पर्याप्तवान्तवृत्तेनहि मम गणनागोचरे ते नरेन्द्राः ।
सेवाहेवाकमाजां तव जननि जगत्यब्जभूर्वा हरिर्वा
ध्यक्षो वा लक्ष्यकोटौ विलसितुमनलं केऽपि मूढा नृकीटाः ३४
सध्यानकावधानप्रणयनसुलभानन्दलीढान्तरात्मा
नाहं भूपानुपासे पुरहरसुतनो संपदे किंपचानान् ।
पुंसां चिन्तालतामिहदि तव चरणोपन्नतामद्रिकन्ये
नाबध्यन्ते कतीभाः कति कति तुरगा गेहबाह्याङ्गणेषु ॥३५॥
कुर्वन्तु खैरमुां कतिचन समयक्षेपणं भूपगेह-
द्वारावस्थानधारापरिचयरचनोदीतरागा वराकाः ।
त्वद्ध्यानारम्भलब्धोदयनिरतिशयानन्दनिष्यन्दसिन्धो-
रन्तःखच्छन्दचारैर्जननि वयममी कालजालं नयामः ॥ ३६ ॥
यात्राप्रबन्धः।
निह्यद्भूपालदत्तद्विरदवरघटामांसलस्निग्धमुग्ध-
स्कन्धाभोगाधिरोहक्रमसृमरतमख्यातिसंप्राप्तितोऽपि ।
देवि त्वद्धृत्यशालारजकवशजुषामन्वये रासभाना-
मुद्भूयामेयभारोद्वहनमतितरां युक्तमित्येव मन्ये ॥ ३७ ।।
साकं भूनायकेन प्रचुरमणिभरोड्डामरं सामरस्या-
दध्यारुह्यासनाधं युगपदभिमुखीभूय संलापतोऽपि ।
न्यञ्चद्गात्रं निषेधप्रसृतकरतलं निर्भरोत्कम्पमम्ब
त्वद्वद्वाःस्थवेत्रप्रहरणसमयत्रासदैन्यं परं नः ॥ ३८ ॥
आन्दोली चतुरन्तयानतुरगश्वेतातपत्रद्विप-
प्रायां संपदमावहेति गिरिजे न त्वां कदाप्यर्थये ।
याचे केवलमेतदेव बहुधा त्वत्पादपङ्केरुह-
द्वन्द्वाराधनचातुरीगुणनिकासाम्राज्यसिंहासनम् ॥ ३९ ॥
तदनु तुहिनजगतीधरादवतीर्य स पुनरार्यमिश्रो निजवचःसुतिधौ-
ततत्त्वावबोधकर्दमनिकरस्य सगरसुताहुतिहुताशनीकृतप्रबलरुषः कपिल-
मुनेराश्रमपदमुपाश्रयत ।
अभिषिच्य भसितराशीन्पुरहरनिर्माल्यसलिलपूरेण ।
निरवापयत्पितॄणां भगीरथो यत्र निरयबाधामिम् ॥ १० ॥
अह्राय पत्युरहामपहाय सतामसूयितवतीव ।
श्लिष्यति सुस्त्रवन्ती नर्मसखं यत्र नवनवोर्मिकरैः ॥ ११ ॥
तत्र च जलधिमध्यक्षयन्निदमवादीत् ।
भागीरथीतिप्रथिताभिधानां कांचित्कुमारीमुपनीय गौरीम् ।
अस्मै वरायातिसृजन्पितॄणां चक्रे मुदं चण्डकरान्वयेन्दुः ॥ ४२ ॥
अहस्करापत्यसस्वतीभ्यामभ्यर्णमादाय विमुच्यमाना ।
अमुं नवोढेव""ख द्युसिन्धुराबद्धभङ्गा पतिमभ्युपैति ॥ १३ ॥
१५२ काव्यमाला। वारं वारं प्रौढवातानुषङ्गाद्वेगेनायं वेपते वीचिमाली । कुम्भीयोनेः कुक्षिवास्तव्यमग्निं ध्यायं ध्यायं त्रासमृच्छन्निवोचैः॥१४॥ मन्थानशैलमथितोऽपि घटीभवेन अस्तोऽपि दाशरथिना कृतबन्धनोऽपि । उद्दामबाडबहुताशनपौडितोऽपि गम्भीरतां न हि कदाचिदयं जहाति ॥ १५ ॥ अथ नीलाद्रिमासाद्य कृती स कृतवन्दनः । अस्तौदित्थं जगन्नाथमघनिर्माथकर्मणे ॥ ४६ ॥ चरितं तव प्रथीयः शक्यं मितया न मे गिरा स्तोतुम् । नासामणिर्न भवितुमर्हति मानाधिकं रत्नम् ॥ ४७ ॥ अतिलघुनापि च वचसा मधुमथन तव प्रणौमि महिमानम् । तुभ्यं त्रिभुवनवपुषे तुल्यं कथमर्प्यते माल्यम् ॥ १८ ॥ मम यन्मनुष्यजन्मनि भवत्संपर्यापराङ्मुखीभवनम् । स""नवनीतनिर्गमसमये मन्थानगुणभङ्गः ॥ १९ ॥ अन्यार्थमपि भवन्तं परिचरता प्राप्यते गतिः पुंसा । आमोदमेणनाभेराजिघ्रति किं न पणितापि ॥ ५० ॥ भवतः प्रपद्यमानश्चरणौ पदवीं समश्नुते परमाम् । को गन्धगजाधिरूढः क्षुद्रं प्रतिपद्यते द्वारम् ॥ ५१ ॥ प्रकृतिजयिनस्त्वदनेः पातकराशिरपि किमु भवेल्लक्ष्यम् । अस्त्रमरविन्दयोनेश्चटकोपरि किं नु संधेयम् ॥ ५२ ॥ ईषल्लभा मनीषिभिरीहितसंपत्प्रसादविषयैस्ते । हैयङ्गवीनसङ्ख ह्यादधतो न खलु घृतचिन्ता ॥ ५३ ॥ १. 'हेयङ्गवीननिर्गमसमये' इत्युचितमिति प्रतिभाति.
यात्राप्रबन्धः। १५३ करुणागुणपरिणाहः कंसारे तव निसर्गसंसिद्धः । आधीयते न केनचिदमृतरसौघस्य माधुर्यम् ॥ ५४॥ अनुपदमतिलङ्घय जनपदशतानि विबुधारण्यः स पुण्यस्थलीषु शस्तं गयाक्षेत्रमयासीत् । . दृश्यते तटिनी यस्मिन्नद्भुताकारशालिनी । अपि फल्गुः खयं पुंसामफल्गुफलदायिनी ॥ ५५ ॥ अधिमौलि गयामरद्विषो बिवुधैर्यत्र कृते पदार्पणे । भुवनत्रयमस्तके पुनः पितरो हन्त पदं वितन्वते ॥ ५६ ॥ कटितटिघटिततटिन्निभांशुकं रमाधवं छविजितमारमाधवम् । जगत्रयी प्रणमति यत्र मौलिना गदाधरं किसलयभं गदाधरम् ॥ ५७ ॥ तत्र च विहितकर्तव्यकलापोऽयमभिरूपो विनिर्गत्य ततः समग्रगु- णसंभृतेन कुटुम्बिनीयुगेन विविधतीर्थसमूहमवगाहमानो विमानितदि- विषदाहारसंपदं व्याहारमुदजृम्भयत । अहस्करेऽप्यलघुतमिस्रतस्करे कुमुद्वतीं समधिगता कुमुद्वतीम् । पवित्रितक्षितिरियमत्र चक्षुषी पुनः पुनारमयति मे पुनःपुना ।। ५८!! संध्याटवीचारविवृद्धमूर्तिः कुर्वन्मुहुः कूलविहङ्गलीलाम् । खैरं प्रणर्दनिह शोणभद्रो गवामसौ गच्छति संनिवेशम् ॥ ५९ ॥ शर्वाणीचरणसरोजवान्तलाक्षाजम्बालभ्रमजनिहेतुधातुशाली । विन्ध्याद्रिर्वितरति मे नितम्बसीमाविस्तारस्थगितदिगन्तरः प्रहर्षम् ६० अध्यास्ते रुचिरममुष्य शृङ्गमेका सा काचित्रिभुवनसंज्वरापहन्त्री । निर्व्याजप्रणिहितनीलकण्ठहर्षा वर्षन्ती कमपि रसं बलाहकाली ॥६१॥ कल्याली हृतमधुकैटभावलेपा लोकान्धंकरणलुलायदर्पहन्त्री । चामुण्डा शकलितरक्तबीजदम्भा शुम्भत्री जयति निशुम्भसूदनीयम् ६२ १५४ काव्यमाला। विश्वस्मादपि धरणीधरेन्द्रकन्ये विन्ध्योऽयं निरवधिभागधेयशाली । आक्रान्ताखिलभुवनापि यस्य नाम्ना विख्याता परमसि विन्ध्यवासिनीति-॥ ६३ ॥ देवि त्वत्पदरुचिदर्शितातिरागा तुङ्गेषु द्रुमविटपेषु लम्बमानाः । शैलेऽस्मिन्सततमवाङ्मुखत्वभाजो दृश्यन्ते धृतनियमा इव प्रवालाः॥६४॥ कुब्जत्वं दधदपि कुम्भयोनिभत्त्या विन्ध्याद्रिविबुधनिवासतोऽपि तुङ्गः। संचारं सदयगिरीशपाणिपद्मस्पृष्टाभ्यामिह वितनोषि यत्पदाभ्याम् ६५ मच्चित्ते....... महिषासुरोत्तमाङ्गे विन्ध्यादेरधिशिखरं च विश्वमातः । निःशकं निहितपदाब्जया भवत्या काठिन्यं क नु वद काममन्वभावि ६६ वेलायां विषमकृतान्तवाहघण्टासरावश्रवणसमाहितव्यथायाम् । मञ्जीरकणितमनोहरं पुरस्तादास्तां नश्चरणसरोजमम्बिकायाः ॥ ६७॥ पारीन्द्राः परिभवमापिता निकामं मध्येन सरहरवल्लभे भवत्याः । तत्तादृक्तिमिरतरङ्गितासु मन्ये बध्नन्ती(न्ति)स्थितिमिह""भ्यतो गुहासु ॥ ६८ ॥ उत्तुङ्गा बलवदुदारकान्तिभाजो वर्तन्तां शतमिह वारणेन्द्रकुम्भाः। सोढारस्तव कुचभारवत्किमेते पञ्चास्यप्रसभविमर्दसंभ्रमाणाम् ॥ ६९ ॥ शर्वाणि स्तनभरसंपदा परं ते विन्ध्याद्रिविगलिततुङ्गतावलेपः । त्रीले(डे) न क्षितिमभजविजस्तु भेजे प्रख्यातिं शिव शिव भाग्यरीतिरेषा संत्रातुं जनमिह सर्वहिंसकेभ्यो वात्सल्याद्वहसि वरायुधानि हस्तैः । हन्तैतद्भगवति साहसं यतोऽमी रज्यन्ते नवसुमनोजिघृक्षयापि ॥ ७१॥ चन्द्रस्ते वदनमिषेण शैलकन्ये विन्ध्याद्रौ वसति विधुतुदैकभीत्या ।
यात्राप्रबन्धः।
१५५
पर्यन्तभ्रमणमिष(षा)चरक्षुवीक्षावित्रासव्यतिकरविद्रवत्कुरङ्गः ।। ७२ ।।
त्वबिम्बाधरतुलना शिवे तदानीं प्रादुष्यादिह सहकारपल्लवेषु ।
धात्रा चेन्मकरन्दसारधारानिष्यन्दः कुसुमवदेषु निर्मितः स्यात् ७३
खच्छन्दं विलसतु चन्द्रिकाङ्कुराणामुद्भेदः किमपि सुधारसोद्मश्च ।
वक्रेन्दौ तव वरवर्णिनि सरारेराश्चर्या न किमिह सूतिरम्बुजानाम् ७४
अस्याद्रेरनुवनमध्यमम्बुजातैर्वेतण्डव्रजकरदण्डपातभीतैः ।
सारङ्गैरपि चकितैर्वनेचरेभ्यः सर्वखं निहितमिव खकं त्वदक्ष्णोः ७५
फुल्लासु क्षितिरुहपुष्पमञ्जरीषु भ्राम्यन्ती ततिरिह भाति षट्पदानाम् ।
पृथ्वीभृत्प्रियतनये विलोकयन्त्याः कान्तारश्रियमिव ते कटाक्षमाला ७६
पाठीनध्वजपरिपन्थिकायमायाकैलासक्षितिधरकालमेघपते ।
मातस्ते हतजनिमार्गपर्यटाट्या निष्टप्ते मयि निपतत्वपाङ्गधारा ॥७७॥
त्वामभ्रच्छविमिह वीक्ष्य नीलकण्ठास्तुष्यन्तः सपदि वितन्वते कलापान्।
त्वत्केशद्युतिविसरापहारशङ्का निर्माष्टुं निपुणमिव प्रदर्शयन्तः ॥ ७८ ॥
उद्भिन्नस्मितलवमुल्लसत्कपोलं लोलाक्षिध्रुवमतिलोभनीयनासम् ।
बिम्बोष्ठं भृतमणिकुण्डलाभिरामं वक्र ते जननि वयं न विसरामः ७९
विनिर्गतानविहितपुण्यदुर्लभत्रिमार्गगासलिलविगाहनाय नः ।
पदे पदे बहलविपत्तिशङ्कया विषीदतः सुखयतु विन्ध्यवासिनी ८०
अपि च।
रक्षति दुर्गा यन्तं विपदः खगुणान्कृपामृदुर्गायन्तम् ।
समहृत कासरदनुजं तमपि च या सुम्भमन्तिकासरदनुजम् ॥ ८१॥
देवी सा मे दुरितं क्षपयतु कृपया हरिखसा मेदुरितम् ।
शक्तिषु परमा नन्दं जनकं किल या निनाय परमानन्दम् ॥ ८२ ।।
शुचमिह नोपलभन्ते वपुः सरन्तो वलार्दनोपलभं ते ।
स्थितमनिदानवलक्षे हर्यक्षे चण्डि लूनदानवलक्षे ॥ ८३ ॥
१५६ काव्यमाला। अपि च । स्कन्धादवप्लुत्य हरेः सलीलमाक्रम्य पद्ध्यामवनीललायौ । संघित्सया चापगुणैर्निषङ्गादुदर्चिषं मार्गणमुत्क्षिपन्तीम् ॥ ८४ ॥ प्रहारकेलिस्पृहया रथाङ्गनेमिग्रहव्यग्रनिजाग्रहस्ताम् । तिर्यमुखीं पाणिधृताञ्चलस्य कम्बोः समुद्घोषणकर्महेतोः ।। ८५ ॥ उदस्तहस्तोपहितत्रिशूलनिर्भिद्यमानं निजपश्चिमाङ्गात् । निर्गच्छतो निर्जरशात्रवस्य चर्मासिपाणेः शिरसश्छिदायै ॥ ८६ ॥ आलम्ब्य केशानवधूय खेटं पाणावधिक्षिप्तकृपाणवल्लीम् । दरोच्छ्रसन्मध्यमदृष्टिरिङ्खदग्निस्फुलिङ्गावलिभीषणास्याम् ॥ ८७ ।। विश्वत्रयापद्विनिवारणाय संनाहमेवं समरे दधानाम् । किरीटचन्द्रांशुकृताभिषेकामम्बामहं भावनयावलम्बे ॥ ८८ ॥ तमसामर्दिनि विधृतमसाधिषं तमसा जाह्नवीपूरं तमसा विगाहते। निर्जेतुं दुरितावली सति कलौ निःसीमवीर्योदयां देवो मेलयति स यत्र सुदृढं तिस्रो महावाहिनीः । श्रेयानेष निरीक्ष्यते स शिबिराभोगः प्रयागाभिधो धीराः खैरमिह प्रयान्ति पदवीं देहत्यजं शाश्वतीम् ॥ ८९ ।। देहिनामिह तटस्थितिस्पृशां पुण्यमात्मजमिमाः पुनः पुनः । स्फारविस्मयकृते परस्परं संगताः प्रसुवते सरिद्वराः ॥९० ॥ अन्योन्यमायामिभिरूमिहस्तैरास्कन्दकर्मण्यनयोः सपत्योः । साक्ष्यं न साधीय इतीह सा किं सरखती संवृतमूर्तिरास्ते ॥ ९१ ।। जाह्नवीरविसुतारजतायःशृङ्खलायुगलसंदृतमेनम् । क्रीडितुं स हि विमुक्तियुवत्या केलिमञ्चमयमञ्चति लोकः ॥ ९२॥ यियासतामत्र निम्रज्य नाकं हित्वा तनुं मुक्तिमभीप्सतां च । वैवखतीविष्णुपदीमिषेण वेदोपदिष्टाध्वयुगं चकास्ति ॥ ९३ ।।
यात्राप्रबन्धः। १५७ निर्वापितानामिह विष्णुपद्या नृवर्गकान्तारभवानलानाम् । विसृत्वरी धूमपरम्परेव विराजते चण्डमरीचिकन्या ॥ ९४ ॥ सहजमलिनं विद्यावर्त्म खभावमलीमसा विधिपदविका चित्रः पन्था विमिश्रितयोस्तयोः । इति पृथगवस्थित्या संमेलनेन च देहिना- मिह विवृणुतो नानामार्गान्युसिन्धुकलिन्दजे ॥ ९५ ॥ निर्माति धर्मांशुसुताभुजङ्गया निर्मोकशङ्कामिह गाङ्गमम्भः । यां वीक्ष्य लोकाः समवर्तिलोकयात्राकथामप्यवधीरयन्ति ॥ ९६ ॥ अनेकदेशोन्मिषदद्मसिन्धुप्रवाहखण्डामिव भानुकन्याम् । पश्याम्यविद्यामिव तत्र तत्र प्रभिद्यमानां विषयप्रकाशैः ॥ ९७ ।। उन्नेतुमुढेलभवाब्धिमग्नान्कृतोद्यमाभ्यां कृपया शिवाभ्याम् । प्रसार्यमाणाविव बाहुकाण्डौ पश्यामि नद्योरनयोः प्रवाहो ॥ ९८ ॥ वेगाविद्धसरोजकुङ्मलकुचं विक्षिप्तवीचीभुजं फुल्लेन्दीवरदृष्टि बुद्बुदनिमाविर्भूतरोमोद्गमम् । त्रुट्यत्फेनविपाण्डकञ्चकमुभे दूरात्समभ्यागते गाढालिङ्गनमत्र हन्त तनुतो गङ्गाकलिन्दात्मजे ।। ९९ ॥ क्वापि प्रस्तुतदोर्मुधे इव मिथो वीचीभरैराहतै- रेतैरात्तजयश्रियाविव कुतोऽप्यन्योन्यक्लुप्ताक्रमैः । विद्राणे इव साध्वसेन कुहचिद्व्यक्तापसारत्वरै- स्तन्वाते सरितौ विडम्बनमुमे तत्तादृशानां नृणाम् ॥१०० ॥ कालिन्दीसुरनिम्नगे विलसतः कालावदाते ययो- रंशूनामिव संतती तनुभृतामन्तस्तमिस्रापहे । पुण्यैरद्य पुराकृतैर्वयममी तत्तादृशौ तावुभौ वेणीमाधवशूलटङ्कगिरिशौ वीक्षामहे चक्षुषा ॥ १०१ ।।
१५८ काव्यमाला। वामे भागे वरतनुमयं शूलटकेशमीडे संध्यानृत्तभ्रमणरचनासङ्गिनो यस्य कण्ठात् । स्रस्तां मुक्तास्रजमिव महाकृष्णसञ्चितार्धा- मग्रे पश्याम्यमरतटिनीमर्ककन्योपगूढाम् ॥ १०२ ॥ भुवनत्रयपारवर्ति पुंसामधिगन्तुं पदमाहितस्पृहाणाम् । अनुभूतचरादिविप्रयागादयनं नेह परं भुवि प्रयागात् ॥ १०३ ।। इत्यालपन्नयमुत्तीर्य सुरधुनीमनीदृशसंपत्तिपेशलान्कोसलानवलोकय- ननघगुणपरिभूतधनद्पुरुहूतपुरमजिहीत साकेतम् । विमलां प्रकृति विवृण्वती सततं भावितसर्वमङ्गला । यदलंकरणाय कल्पते हिमवन्मानससंभवा नदी ॥ १०४ ॥ परिसरयूपकण्ठमलघूत्तरवेदितटी परिसरयूपकण्ठपरिबद्धचषालशता । प्रदिशति यत्र कौतुकमशीतकराभिजन- प्रभवजनाधिनाथहयमेघवितानमही ॥ १०५॥ तत्र स रामभद्रं प्रणिपत्य नुतिमित्यतानीत् । कल्पयत्यवनिकर्णजन्मनो वङ्महि श्रवणहर्षवैभवम् । संभवे जनकमोदसंपदामात्मजोक्तिरयते निदानताम् ॥ १०६ ॥ सूनुनैव सुवचं प्रचेतसो वस्तु वर्णयितुमाद्रियामहे । राघवैकसुगमे रणाङ्गणे व्यापृतं किल वलीमुखैरपि ॥ १०७ ।। हन्त सत्यपि रघूद्वहे गिरा प्रस्तुवन्ति कवयः परानपि । यस्य वक्तमपदानमेव या प्रादुरास भुवि पद्यरूपिणी ॥ १०८ ॥ तद्विना दशरथावनीसुहृन्मानिनीजठरशुक्तिमौक्तिकम् । वावदूकजनवाङ्मुखस्य किं विद्यते भुवि विभूषणान्तरम् ॥१०९॥ .
यात्राप्रबन्धः।
संयमिप्रवरसाधितस्य किं पायसस्य परिपाकवैभवात् ।
माधुरीमधिगतो महीयसी राघवो रमयते ममाशयम् ॥ ११० ॥
दत्तया दिविकृतत्रिशङ्कुना निर्ममो निखिलशस्त्रविद्यया ।
आधिशङ्कुभरमापयन्द्विषामाशयेषु रघुनायकोऽवतात् ॥ १११ ।।
पादरेणुपरमाणुयोगतः सिद्ध्यता युवतिसृष्टिकर्मणा ।
साधयन्नपि मतं मुनेः कथं जानकीपतिरतर्कमार्गगः ॥ ११२ ।।
कुर्वतो दृढगुणप्रकृष्टतामात्मनो दशरथाङ्गजन्मनः ।
गौरवं न सहते स्म कार्मुकं कामशासनकरोपलालितम् ॥ ११३ ।।
धर्मनिर्मथनकर्मठं हठात्कल्पयन्नपि करातिपीडनम् ।
मेदिनीहृदयहारिभिर्गुणैर्मेदुरो जयति मैथिलीपतिः ॥ ११४ ॥
प्रक्रम रचयतः प्रनर्तितुं विक्रमस्य किल विघ्नशान्तये ।
ऐशचापतृणभङ्गमाचरन्नेष दाशरथिरेव सेव्यताम् ॥ ११५॥
दोःप्रतापशिखिनः समिन्धने दोहलीव निजबाहुलीलया।
काकपक्षधर एव कार्मुकं पाटयन्पशुपतेः स वर्ण्यताम् ॥ ११६ ॥
आप भङ्गमवनीसुताभुवः पूर्वमेव पुरवैरिकार्मुकम् ।
अर्कवंशसुकृतैरयं पुनः कीर्तिमानवतु केलिमानुषः ॥ ११७ ॥
हन्तुमुद्यमवतो निशाचरानट्टहास इव रामतेजसः ।
पूरयन्दश दिशः पुनातु वो भैरवः शिवधनुर्मिंदारवः ।। ११८ ॥
मैथिलीहृदयमञ्चशायिनः सौखशायनिकशेखरः प्रभोः ।
पातु वो रघुवतंसदोलताभज्यमानभवचापनिखनः ॥ ११९॥
आत्मवैरिधनुरार्तिनानटद्वीरचोदितविदेहजार्पिताम् ।
दृक्तरङ्गवरणोत्पलस्रजं धारयन्नवतु वो रघूद्वहः ।। १२० ।।
जातरूपफलके शनैः शनैरङ्गसंगतिभियापसृत्वरीम् ।
मन्दमन्दमपदेशपूर्वकं मैथिलीमनुसरन्स पातु वः ॥ १२१ ॥
१६० काव्यमाला। . वार्धिनेमिजनुषो वधूमणेराशये शयकुशेशयेऽपि च । कौतुकस्य कलयन्निबन्धनं नन्दनो दशरथस्य पातु नः ॥ १२२ ॥ मैथिलीपरिणयोत्सवे मुखं मन्दहासमधुराधरं विभोः । धर्मवारिकणहृयमस्तु मे [मङ्गलाय] शुभिकाविभूषितम् ॥ १२३ ॥ आश्रमप्रसृमरे शनैर्जवादाहितापसरणे कथंचन । संगते सदसि मङ्गलाय मे जानकीरघुवतंसयो वौ ॥ १२४ ॥ मैथिलीमनुकुलावतंसयोः पुष्णती पुलकजालमङ्गके । शोभनस्तुतिमया शुभाय मे कल्पतां सुहगलूलुकाकपि ()॥१२५॥ भाविनि त्रिदशवैरिभञ्जने साध्वि मे कुरु सहायतामिति । याचमान इव जानकीकरं पाणिना परिमृशन्मुदेऽस्तु सः॥१२६॥ चम्पवल्लिकरपीडने रुषः शान्तये किमुपलाधिरोहणे (१)। जानकीपदसरोजमामृशन्पाणिना रघुपतिः प्रसीदतात् ॥ १२७ ।। हन्त दृश्यमपरं मदागमः शंसति ध्रुवमितीर्ण्ययेव सः। तत्प्रदर्शनविधौ धराभुवि मन्दवर्षवचनो धिनोतु माम् ॥ १२८ ॥ मैथिलेन्द्रमहिलाभिरेकतः स्थापितौ सदृशतादिदृक्षया । "माहितस्थितौ चिन्तयामि जगदादिदम्पती ॥ १२९ ॥ मैथिलीसहचरं मनः सखे सर्वदैव तदवेहि दैवतम् । घोरजन्मकुहनापयोनिधेस्तारकं तव तनुप्रतारकम् ॥ १३० ॥ सन्तनामहं वीशसम्मतपरं (8) देवता विगणयामि नैव ताः । राममेकमभिरामवैभवाराममाशरविराममाश्रये ॥ १३१ ॥ तमालच्छायालः सततमनुकूलस्तनुभृतां वचः केली (8) विशगतमधूलीमधुरिमा । ............
यात्राप्रबन्धः। जगन्नेता सीतापतिरहितजेता गुणगणैः स नाथो हृत्साधो जनुषि रघुनाथो विजयताम् ॥ १३२॥ मणिगणपरिणद्धे मण्डले पुष्पकान्तः- सुरतरुतलभनि स्वर्णपीठे निषण्णौ। विसरमुपहसन्तौ विद्युदम्भोदभासां मनसि मम रमेतां मैथिलीरामचन्द्रौ ॥ १३३ ।। सकृदेव शरीरिणः प्रपन्नान्भवदीयाः स्म इति प्रजल्पतोऽपि । परिपातुमभीतिलम्भनेन प्रतिपन्नव्रतमस्ति दैवतं नः ॥ १३४ ॥ अपि च। तमुपास्महे तपोधनमहिमार्जितपायसार्थपरिपाकम् । पङ्किरथपार्थिवेन्दोरन्तिमऋणभागमोचनं द्रविणम् ॥ १३५ ॥ भक्तिपरितोषिताशयकं कालिके कलितोपदेशविभवेन ()। त्रिजगदरिष्टविदारणदीक्षादृढबद्धर(ल)क्ष्यतां यातम् ॥ १३६ ॥ सुस्तं तस्य सुकेतं प्रभदनतनुमेदिनीप्रतप्तस्य (१) । आशरकुलाशनोद्यमभाजः(ज) प्रा(बा)णाहुतीकृतसुबाहुम् ॥१३७॥ अपि भ[ग]वदनिरजसा संहितचिरलुप्तनियेमिसंसारम् । परिणीतधरणितनयं पशुपतिचापाधिरोपणपणेन ॥ १३८ ॥ दैत्यमिदो धनुषा सममात्तभूगुप्रवरशक्तिसर्वखम् । त्रातारं वसुधाया अन्ते सह सीतयाऽनुभूतसुखम् ॥ १३९ ॥ जगति परिग्रहयोग्या न खलु श्वश्रूरिति प्रतीत्येव । धरणिमनपेक्ष्य साकं तत्सुतयाध्युषितचित्रकूटतटम् ॥ १४०॥ १. भगवतः खस्येति व्याख्येयम्. २. नियमोऽस्यास्तीति नियमी मुनिः. पत्र गौतमस्तस्य संसारोऽहल्येति बोध्यम्. ३. श्वश्रूः पृथिवी. या. प्र. ११ १६२ काव्यमाला। खवशमुपेयुषि विभवे विमुखस्य भातुरर्पितेन करे। चरणत्राणेन चिरं कारितवन्तं क्षमापरित्राणम् ॥ १४१ ।।. आत्मीयादपि चास्त्रादतिरभसभृतो जवातिरेकेण । विसरितामिदैत्य(१)व्यञ्जितकरुणं कृतागसि खगेऽपि ॥ १४२ ॥ ना(सा)कमवगाहमानं जनकापत्येन दण्डकारण्यम् । चेतस्तपोधनानां शीतलमम्बश्च""दायाः (१) ॥ १४३ ॥ सेतुमिवारिमिवाब्धे(?)श्छेदितवन्तं निशाचरीनासाम् । प्राग्(ह)तविराधपदविं चारितरक्षश्चतुर्दशसहस्रम् ॥ १४४ ॥ उन्मीलितखरदूषणमुया रिपुयशस्तिरोधानाय । चिरकालविरहसीदन्मातृसदेशोपनीतमारीचम् ॥ १४५ ॥ सदयोदयं सपक्षे पत्रिणि दशकण्ठयानपक्षेऽपि । हनुमन्मुखेन संहितसुग्रीवं खप"भाजकबन्धे (2) ॥ १४६ ।। सालान्सप्तमहीदा(घा)न्फणिपतिभवने च पत्रिणैकेन । दारितवन्तं तरसा सव्यरविसम्भसम्पदं साकम् ॥ १४७ ॥ विमतश्वापदमृगयाविधिशीलतया विधाय निजमूर्तिम् । दत्तहतिमर्मनन्दनदीपकमृगवञ्चितात्मने हरये(?) ॥ १४८ ॥ हरिणपदाना हरिणप्रतिपादिव दूरतः प्रयातायै । मणिमणि(गण)मुद्रां प्रेषितवन्तं प्रेयसीमिव वयस्याम् ॥१४९॥ (1) प्रस्स(स)मरमहः पुरेहे()सुदृशश्चूडामणौ समीरभुवा । संप्रापितेऽपि संनिधिमाचितमोहान्धकारसंदोहम् ॥ १५० ॥ भुज(भव)जलधिकर्णधारं भजतादे(मे)नं कियान्भवाब्धिरिति । सरुषा विभीषणेन प्रतिपत्तिकृतानिपाथोधिम् ॥ १५१ ॥ १. विसापितादितेयमिति संभवति. २. सत्वरेति प्रतिभाति,
यात्राप्रबन्धः।
दयया हृदयमरातेरनु राज्याभिषेकसलिलेन ।
प्लावितवन्तम(न्तं ह्याधिकं प्लवगभटानां च हर्षबाष्पेण ॥ १५२ ।।
सेतुपथेन जितवति सुग्रीवभटे तटं सुवेलस्य ।
अवधि जगति कृन्दं तान् प्रापितवन्तं प्रतापयशसी खे(?) ॥१५३।।
अखिलजगदन्तरङ्ग
आत्मन इवाश्रमस्थितमहिरवन्तं धनुर्मुणस्यापि ॥ १५४ ॥ (8)
छादितसकलदिगन्तैः कपिभिः पुर एव कलितरोद(घ)स्य ।
निजतेजस इव तापानिर्याताय द्विषे प्रपदिष्टवधम् ॥ १५५ ॥६)
हुतवहक (के)(नि)प(प)तितां
खकीयचारित्रशुद्धि(द्ध)विस्रता(म्भा)म् ।
अधिरोप्य पुष्पकं पुनरायान्तं स न (सहैव) साकेतम् ॥ १५६ ॥
प्रकृतिविरचिताभिषेकपाथः प्रमुदित........
सकलभुवनमाद्य(१) शासनाङ्कामधिगतमखण्डितां समृद्धिम् ॥१५॥
इति श्रीवाधूलकुलतिलकस्यातिरानयाजिनः समरपुङ्गव-
दीक्षितस्य कृतौ यात्राप्रबन्धेऽष्टमाश्वासः ।
अथ नवमाश्वासः ॥
....
............
निजभाववचः क्रियाभिः।
संभिद्य यत्र सुमनः सरिता रमन्ते
सागे(के) [तके] च (१) सरयूरपि गोमती च ॥ १ ॥
नेदीयसीमतिचिराय निजैस्तपोभि-
राणसी प्रति ततो वल........
क्षेत्सान्तराज्यततिरेकमिव सह(8)
खेन व्यदायि जगतीतलपर्यवाख्याः() ॥ २ ॥
१६४ काव्यमाला। प्रदक्षिणप्रक्रमजन्मनोाः क्लेशेन काशीमुपतिष्ठतीति । कृपावती प्रक्कममस्य गङ्गा वातेन वीचीजनुषा व्यनैषीत् ॥ ३ ॥ अनन्तरमवनीसुरधुरंधरेण गच्छता पथि खच्छन्दमानन्दनिजभरेण (१) ......."भ्यधायि । आः कथमग्रत एव हयखुरक्षुण्णमेदिनी- क्षोदमेदखिभावमासेदुषि समुदये दिशामनुकूलपवनदोलायिताञ्चलैः ..""शतशः शताङ्गपीता कावेरीव समावेद्यमानसरणिः परिषदियमालक्ष्यते । अद्य खलु माघचतुर्दशीवासरे वाराणसीनगरवास्तव्यस्य शर्वरीरमणचूडा- मणेः समाराधनाय भक्तिपरवतीयं प्रस्थितवती । अहो पुनरमुष्य वास. रविशेषस्य वैभवातिशयः। जनयति शिवरात्रिव्रतसंकल्पो विश्वसृष्टिसंकल्पम् । जागरणं चार्याणां सकलजगद्धारभरणजागरणम् ॥ ४ ॥ आश्रितगिरिशपाधैरपनीतनिसेषवर्तनायातैः । पदरि()समाक्रमचकितैश्चतुरैरतिवाह्यते शिवरात्रिः ॥५॥ अवाप्नुमिच्छा यदि वामहर्निशं प्रजाग्रतोः पङ्कजयोः सगन्धताम् । विधीयतामस्तनिमेषमुद्रणं दृशौ युवाभ्यां शिवरात्रिजागरः(रे) ॥६॥ अनिमेषता जनानामनिमेषत्वाय भवतु शिवरात्रौ । इह पुनरभक्तभावो हेतुः कथमीश भक्तभावस्य ।। ७ ।। शिवरात्र्युपविधेः शीलं यामि 'यतकृतीनाम् । शिवजगत्कदम्बककरोषि तृप्तये" "नालम् ॥ ८॥ (5) .."औषवस्त्यमविशातरात्रिः "हसा हसन् जनः। अत्र सिध्यति यतोतिरामणौ कालकूटगरलेन हारिणा ।। ९ ॥ (8) ये स्थाणुतां गिरिशयोग्यदला(लो)पहारै- बिल्वद्रुमस्य शिवरात्रिदिने दिशन्ति ।
यात्राप्रबन्धः। १६५ संसारिणामुदयते [ भविकं हि ] तेषा- मात्मीयकर्मफलमत्र न को नु भुते ॥ १० ॥ अहो मम पचेलिमानां प्राचीनतपसामनुभावो यदमिन्नहनि विस्म- यातिरेकमुपहरिष्यति मदीयं चक्षुषोरसदृशप्रभावसाधीयसी वाराणसी। अभ्यर्थ्य जम्भरिपुणापि वितीर्यमाणं सर्गानिकाममपि गणाय मत्पतीक्ष्णान् । अस्मत्पिवृन्नियतमद्य निजाग्रहस्तं न्यस्तार्ण्यपात्रमुफ्यास्यति नाभिजन्मा ॥ ११ ॥ (१) कथमिवैतस्य कथयामि महिमानमानन्दकाननस्य । कैलासशैलादपिकामशत्रोश्चेतोविनोदोपचयप्रदात्री। काशी भवाशीविषवैनतेय(सत्) पाटिका पाटयते तमांसि ॥१२॥६) बिभर्ति चन्द्रः शशमित्यकीर्ति कुले निरूढामपनेतुकामः । वाराणसीजाङ्गलवर्मचारी प्रायेण चन्द्र बिभृते शशोऽपि ॥ १३ ॥ अधिकाशि तरक्षुरामिषस्पृहया संहरति""वलिमृगम् । 'अजिनग्रहणाय राहोर्हरिणश्चायममुं मृगादनम्(1)। काश्यामुमाकामुकराजधान्यामैश्वर्यलोमेन कृतासिकानाम् । कैश्चिदिनैरेव वयस्यकोटौ संख्येयतामेति घनं शिवोऽपि ॥ १४ ॥ अखण्डमैश्वर्यमपेक्षमाणाः कथं नु काशी पुरुषा भजन्ति । भवन्ति यस्यां बहुसंपदोऽपि भिक्षाकमध्ये प्रथमं गणेयाः॥ १५ ॥ यातुं कुत्र सखे व्यवस्यसि(ति) महाम्या(भवाना)नन्दवन्यन्तरे मा गाः केन.ततो गतस्य न मया दृष्टं परावर्तनम् । कस्मात्तत्र समेयुषां वसुभृतां वादिपूर्वस्थिति कोऽप्युत्सार्य बलात्प्रयच्छति निजं रूपं किराताग्रणीः ।। १६ ॥
काव्यमाला। अविद्यायां द्वेषं चिरपरिचितायां घटयते निरुन्धे तत्सूनोरपि च मनसो लालनविधिम् । न कामक्रोधादीनपि तु सहते तस्य तनया- नहो पुंसः काश्यामभिनवजनिः प्रेमगरिमा ॥ १७ ॥ अहो भाग्यं काशीवसतिरसिकानां तनुभृतां यतो भोगानेते चिरमिह समाखाद्य विविधान् । अलभ्यां ब्रह्मादेरपि समधिकानन्दभरिता भजन्ते देहान्ते परमशिवसायुज्यपदवीम् ॥ १८ ॥ पुरा भोगत्यागः श्रवणमथ वेदान्तवचसा- मथोबोधः पश्चादमृतमिति शैलीसुलभता । यदर्चामाहात्म्यात्सकृदुपगता निग्रहवता- मलं मुक्त्यै काशीपुरभुवि निवासः क्षणमपि ॥ १९ ॥ आहितनरकावज्ञान् विमुक्तरमाविलासपरितुष्टीन् । उच्चैः स्थापितगोत्रानुपास्यते(सहे) चेतसा महापुरुषान् ॥ २० ॥ वरणो(णों)ज्ज्वलम(प्र)सिद्धां करिमुखजलपाति(लि)तां पुरी पुरुषाः । भैरवदुर्गाधिष्ठितमध्यामध्यासते खरक्षायै ॥ २१ ।। वसतिरविहता परस्य पुंसो भवति तपोभरवैभवेन काश्याम् जगदवनपरायणस्य शंभोः स्फुरति कृपालहरीव यत्र गङ्गा ॥ २२ ॥ [वाराणसी ] वासविदामविघ्नां दिशन्तु देवा मम भैरवाद्याः । दिने दिने सादरमानतीनां शतं शतं प्राभृतयानि तेषाम् ।। २३ ॥ निरूपप्लवनिर्मलखभावं परमानन्दघनं प्रबोधसान्द्रम् । गिरिजागिरिजापयोः खरूपं परिपश्यन्त्यधिकाशि भाम्यभाजः ॥२४॥ आरूढशार्करमपावन्नहनि)माश्लिष्टपार्श्वमुमया हरिणाचूडम् । मनाप्रमूर्तिरुदके मणिकर्णिकायाः पुण्यैः कदा पुरत एक विलोकयिष्ये२५ यात्राप्रबन्धः। अस्तीति निर्धार्यमकृत्रिमोक्त्या निरञ्जनरेव निरीक्षणीयम् । आश्चर्यमानन्दनिधि कदा वा द्रक्ष्यामि तीरे मणिकर्णिकायाः॥२६॥ भो भो मन्मथलोभमत्सरमदव्यामोहरोषाः सुखं युष्माभिः क्षपितानि भूरिदिवसान्यस्मासु क्लुप्तासिकैः । देशानद्य यथामनीषितमितो याता न जानीमहे यास्यामो भवतामगम्यविषयामेतर्हि वाराणसीम् ॥ २७ ॥ तदनु धरित्रीसुधाशनपवित्रीक्रियमाणसमाश्रितजीववर्गमपवर्गफलप्र- दानकल्पलतोद्यानमविमुक्तमवलोकयन्नतिनाकसुखभरतरङ्गितो गिरं कृतनवीनमाध्वीकदूषणां साध्वीमिमामभाषत । वाराणसि त्रिपुरवैरिकरारविन्दा- देकं त्वया विधिशिरो हृतमामनन्ति । आसेदुषे सविधमङ्गभृते कदा वा वेधःकरोटिविततां प्रवदानि मालाम् ॥ २८ ॥ () इदं खलु त्रैलोक्यमहनीयमभ्यर्णवितृणा(?)मधिकर्णपुटं वर्णयतः प्रणवमपर्णासहायस्य वक्तेन्दुविगलितैर्विद्यासुधार......"विव विहि- तपरिपूरणं निलं भवतापनिर्वापणक्षममालक्ष्यते परमपावनतीर्थसमुद- याग्रेसरं च कृतं सरः" अतिकलिलनायिन्यामा नाकमा च रसातला- दिह भरपरीवाहैर्दैवादियं पुरतो मया । उरुविमलताहेतुः पाथः प्रसन्नमुपेयुषी { : निखिलजगतीमान्या संवर्ण्यते मणिकर्णिका ॥ २९ ॥ (8) खयमासु सुदर्शनं खनित्रं खननेऽस्मुरशाखिलैव कर्ता)। अभिपूर्तिविधायितभ्रयांभस्त्रिदयं () तावदगोचरे नुतीनाम् ॥ ३०॥ -- काव्यमाला। परस्य पुंसः प्रसृताधिराजादारान्मदीयं मुहुरापतन्ति । आश्लिष्यती मामवमूर्मिहस्तैः सर्वस्य रम्यः सहजः सयोगः ॥३१॥ कैवल्यमानक्षमतैकराज्यवैराज्यमूलानवधार्य दोषान् । गडानया क्लुप्तविभेदलेशं मेधावती हेलनमादधाति ॥ ३२ ॥ नियतं बिभर्ति निटिलेक्षणायिता- मपसार्य मूर्तिमगजेव जाह्नवी । अत एव भागमदसीयमेककं मणिकर्णिका किमपि मण्डयत्यसौ ॥ ३३ ॥ कल्लोलमन्दपवनैर्गगनोपगीय- मासेवते जनमिमां(वा)ति(न्ति)मयाव(न)काले । भूरिश्रवापनयपूर्यममुष्य मूर्ध्नि निक्षिप्यमुद्यमवतीव निजाम्बुभारम् ॥ ३४ ॥६) उदयिता() किलेन्द्रियोपघाते विषमे जीवितविप्रयोगकाले । इह दैवतमेकमाविरास्ते जलदश्यामलकंधर(रो)जनानाम् ॥ ३५ ॥ अत्रासून्विजहाति सः शिव शिवेत्याकर्ण्य कण्ठध्वनौ देवीं भूषयितुं गृहीतमनघं धृत्वैव सारं करे । आदावष्यतिसंभ्रमेण भगवानर्धेन्दुचूडामणिः सर्पादेय(व)विमुक्तिवामहगलंकारं विधास्यन्निव ॥ ३६ ॥ ओंकारमन्त्र(त्र)विपरीतमुपैतु पाणि- मालम्ब्य शैलजनुषो मुहुरद्रिधन्वा । पाशावमोचनकरी परमोत्त(क्त)विद्या सैषी(प)ति किं प्रकटनाय शरीरभाजाम् ॥ ३७ ॥६) तीरेऽस्याः स्थिरशयनस्पृशां जनानां नचाहगू विषभजने ततो द्रुमाणाम् ।
यात्राप्रबन्धः।
१६९
आनन्दद्रविणभरापणो विबद्धः
पार्वत्याः पतिरधमर्णलोकशैलीम् ॥ ३८ ॥ (१)
श्रमातुराणां चिरकालबन्धादत्रामृताखादकृते पशूनाम् ।
तेषामधीशो दयमानचेताः पाशापनीत(ति) प्रसभं विधत्ते ॥ ३९ ॥
प्रेतद्रथाभीशुभरापदेशादत्रोपदेशावसरे महेशः।
कुतर्कघोषाविलमङ्गभाजां कर्णान्तरं लक्षयतीव तोयैः ॥ ४० ॥
त्रयीरहस्यं विचितं तपोधनैरनेकवर्णास्पदमेकमक्षरम् ।
शरीरिणामत्र शशाङ्कशेखरो व्यनक्त(क्ति)प(पु)र्यामपि वेद्यमप्युभे(१)४१
अस्तं कलानामिह षोडशानामादाय दोषाकरमण्डलस्य ।
सतारकस्फूर्तिरहो समग्रमस्यामृतं पुण्यति कालकालः ॥ १२ ॥
जन्तुः शृणोतीह वृषाङ्कवादोंकारमुत्तम्बितपश्चिमाम्भः ।
वामाकृते राशिवधूभवन्त्याः प्रकाशनेमि हृदि वाति लज्जाम् ()॥४३॥
भगवदरञ्जतोरन्तः अन्तः प्रणवाम्यतं (1)
खमुखशशिनः सारं शूली विसारयतीह सः।
"लिह्यमानमिव स्थितम् ॥ ४४ ।।
विद्याविक्षतिसंभ्रमेण मुकुटाद्विश्वेश्वरोऽपि स्थिता-
मादत्ते मुहुरैन्दवीमिह कलामाधातुकामः पथि ।
कांचिन्मौक्तिककुञ्चिकामिव नवां सद्यः प्रसन्नेप्सित-
स्फीतामोदनिदानकोशभवन द्वारार्गलोदाटिकाम् ॥ १५॥
चूडाशशिक्षुतविषक्तसुधैकलेश-
व्याजादिह प्रण[य]दानविधौ पिनाकी ।
मध्येललाटफलकं मनुजस्य दृष्टिं
कर्तुं पुरा किमपि कल्पयतीव चिह्नम् ॥ ४६॥
१७० काव्यमाला। इह पतिरखिलानामेकहस्तेऽवरुन्धन् समयसुरभिपाय(१)शङ्कया ब्रह्मरन्ध्रम् । परिकलयतु मत्तः पाणिनान्येन जन्तोः श्रवणमपि च गृह्णन्स्यन्दयत्युक्तिसारम् ॥ ४७ ॥ तारकार्धविवृतं तनुभाजां कुर्वतः कुमुदिनीविटमौलेः । श्लाघते चतुरतामिव चञ्चन् दक्षिणेतरवपुःस्तनकुम्भः ॥ ४८ ॥ वपुरर्पयतीव विश्वभर्ने जनता जीवितमोचनच्छलेन । प्रणवाक्षर(वर्णना)पदेशादुररीकारमिवातनोति सोऽपि ॥ ४९ ॥ प्रणवमयमेव तिलकं प्रियामुखे लिखति वासनातिशयात् । अनुसंधातुमिवेशामनुनेष्यन्नहह करुणविवशतां नीतः ॥ ५० ॥ त्वरितमभितो धावं धावं कृपातिशयात्प्रभो- रतिसुकृतिनां कर्णेष्वोंकारमत्र विवृण्वतः । अनभिबलपतः स जयतितरां शश्वन्निःश्रेयसार्पणविभ्रमः ॥ ५१ ॥ असौ पुनरत्र निर्वर्तितावगाहविधिरतिवादितार्घनिदाघसंज्वरो निर- ञ्जनहृदयसङ्घनिःशङ्कविहृतिमन्दिरं चिरंतनसुन्दरीसीमन्तसरणिमौक्तिकं समस्तजगन्नमस्क्रियासंकेतशालिकान्तारमङ्गजानुरागसागरहरिणाङ्कपरि- णताननं घुमणिमरीचिकोच्चयदुर्जयतमोनिषूदनमनतिकषायचेतसामह- श्यगतिं पश्यतिम विश्वपतिम् । पुरत्रयी येन पुरा व्यधायि मन्दारमाला भवता रणेन । मन्दाकिनी यापि च मौलिभागे मन्दारमाला भवतारणेन ।। ५२ ।। निध्याय च निटिललोचनबद्धानतिरिदमवोचत । खर्धनी प्रकृतितो जलाकृतिः कालिकाश्रितकुटुम्बघातिका । धूर्जटे त्वममि धूतशेखरो हा तथामि कथमाश्रमन्तिः कः ॥ ५३ ॥ .......
यात्राप्रबन्धः। विश्वेश्वरत्वं निखिलेश्वराणामाब्रह्मकीटं फलमेकरूपम् । सर्वेश्वरः प्राणिषु तुल्यवृत्तेः कथं नु सेवां तव कल्पयामः ॥ ५४॥ लोके महान् लुब्ध इति प्रवादो मुदा न ते मुग्ध शशाङ्कमौले । यतः समीपे तव याचकानां प्राणप्रहाणावधिरिष्टलाभः ॥ ५५ ॥ किं तस्य ते वच्मि गिरीन्द्रकन्याकान्तस्य कर्णे जनुतोऽनुभावम् । यस्यैकदेशे निहितेऽपि या(मा भवन्ति दारप्रमुख पराञ्चः ॥ ५६ ॥ मानिकेषु महितो भवान् यतो देहिनस्त्वदुपदेशवैभवात् । हालहालमपि पातुमीशते नेतुमा भरणतामहीनपि ॥ ५७ ॥ अन्या माध्यमपीतदेहपतनत्रास.."घापालिता देहेष्वेकपरिक्षयेऽपि भवतां त्राताऽस्मि देहाष्टकम् । त्रय्यन्ता इह संक्षिता दधत इत्यर्घ जगत्प्राणिनां व्यक्तं वक्तुमिव प्रकाशिततनुं काश्यां भवं तं नमः ॥ ५८॥ सान्द्रानन्दपयोधिवर्धकविधुं संसारविन्ध्याटवी- दावाग्निं सनकादितापसमनोधामप्रदीपाङ्कुरम् । वेदान्तोपवनान्तरालसततव्यापारकेलीशुकं काशीकल्पलताफलं भज मनः कात्यायनीकामुकम् ॥ ५९॥ कान्तया सह शुभालकान्तया मूर्तयेव कृपयैकमूर्तये । सर्वदाय नतिरस्तु सर्वदा नाकिनेत्रमणये पिनाकिने ॥ ६०॥ सेवित्वा चिरमचलात्मजासनाथं विश्वेशं विसृमरसंपदान्तरङ्गम् । धन्योऽयं तदनु शनैःशनैरयासी- दावासं त्रिभुवनमातुरन्नदाच्याः ।। ६१ ॥ कृतावनतिरम्बायै सतामयतु(म)पश्चिमः । अपारकरुणामेनामुपातिष्ठत सूक्तिभिः ।। ६२ ॥..
काव्यमाला।
इष्टातिथिं कृतकलामनसौरभेयी
मृष्टान्नहारमृगनाभिमुखैरुदाराम् ।
सेवाकृतं मयि गृहं श्रियमावहन्ति
सौवानना पशुपतेरिह संनिधत्ताम् ॥ ६३ ॥
दशिरावौ कृतकङ्कणाभ्यां संबिभ्रती पाणिसरोरुहाभ्याम् ।
पट्टांशुकं पाटलमुद्वहन्ती काचित्पुरस्तात् [करुणा] ममास्ताम् ॥ ६४ ॥
त्वमन्नपूर्णापि कृशासि मध्ये श्यामासि संफुल्लजपाभिरामा ।
छन्दोवनस्थाप्यवनप्रसक्ता वन्दारुमन्दारलताप्यपर्णा ॥ ६५ ॥
निरस्तवेलानियम विमुक्तचिरन्तनागन्तुजनव्यवस्थम् ।
व्यसेपवेधः कृमिमेदचिन्त(१)मगात्मजे नौमि तवान्नदानम् ॥ ६६ ॥
अपोभिरष्टादशभेदशालिरसैरिह त्वामतिरञ्जयित्रीम् ।
न स्तोतुमीष्टे नलिनासहो(नौ)ऽपि वाचं रसैर्वासयिता तदर्थैः ॥ ६७ ॥
आर्ये मुहुः केवलमर्थमन्नैः पुष्णासि वाचं न पुनः कदापि ।
भवत्खरूपप्रतिपादने किमतः प्रयातीयमशक्तिमत्ताम् ॥ ६८॥
प्राचीनवाचापि परं दुरापां त्वामीडितुं यत्त्वरते रसज्ञा ।
निदानमसिन्भवदीयद-निवेशदिव्यानरसाभिलाषः ॥ ६९॥
न स्तौति क्लृप्तान्नमयादिपोषा
संबिभ्रतः स्वीयशरीरमात्रं जनस्य का वा जगति प्रशंसा ॥ ७० ॥
त्वामोषधिप्रस्थपतेस्तनूजां प्राचीनभिक्षाकपरिप्लवाक्षीम् ।
अकिंचनाग्रेसरमध्यगेयां वयं कथं विश्वसिमोऽन्नदात्रीम् ।। ७१ ॥
न विद्यते पाकसमुद्यमस्ते नैकत्र (वा) भोक्तृजना मिलन्ति ।
जगत्रयीतृप्तिकरं तथापि चित्रीयते देवि तवान्नदानम् ॥ ७२ ॥
केलीकृते श्रीरिव सारसं वा वाणीव पाणौ मणिवल्लकीं वा ।
दधासि चेदम्ब विध्य दुर्वी कथं त्रिलोकी कुशलं लभेत ॥ ७३ ॥
यात्राप्रबन्धः। १७३ वैषम्यशाली वलते जनेषु पदाजयोः शारदयोः प्रसादः। हिताशनैरेधयितुं त्रिलोकी दघे तु (2) जागर्तु तवाम्बिकायाः ॥ ७ ॥ अवस्थिता भर्तुरमुक्तपार्श्वमातातिथीनामवनं च भोज्यैः । भवानि कर्तुं यदतिश्वीणा गुणः किलायं कुलपालिकानाम् ॥ ७५ ॥ आर्तिस्पृशामम्ब सुखासु(नुभूते(ति)रापादि नानाखिलदेहभाजाम् । आहारदाने नियमस्तवायमर्थे परेषामनघाय तत्ते ॥ ७६ ॥ अशेषलोकावनमम्ब भोज्यैः कर्तव्यमित्येव करोषि बुद्ध्या । तामालिदो (४) दासजनाभिपोषमावश्यकं प्राहुरधीश्वराणाम् ।। ७७ ।। खाध प्रियं सर्वमितीरयन्ती मृषेतरा वागपि सा मृषैव । आदिश्य किं पुष्यसि विश्वमन्ते खमम्ब संप्राप्तसमस्तकामा ॥ ७८ ॥ कार्या न किं कान्तपदाजसेवा नास्ति श्रमः कापि न किंकरीति । अङ्गानि धन्ये स्मयमङ्गभाजां दर्वीमसंत्यज्य धृतां दधासि ।। ७९ ।। त्वमेव दीर्दधतः क्षुधार्तान्पुष्णासि भूयस्यपि दासलोके । खपुत्ररक्षाविषये सवित्री परत्र न प्रत्ययमादधाति ॥ ८० ॥ संतर्पयस्यम्ब सदान्नदानैरागन्तुलोकानपि पार(ल)यन्ती । आद्यस्य भिक्षोरनपायि नित्यं जानानि धिनार्तिजनप्रयासान् ()॥ ८१॥ भैक्ष्याय मातः प्रतिवीथि काश्यामितस्ततो यान्तमतिक्षुधा माम् । आहूय वत्सेत्यनुवेलमन्नैर्विधेहि सौहित्यविशेषमाजम् ॥ ८२ ।। दा प्रपञ्चे तव रक्ष्यमाणे विहाय चिन्तां रमते वृषाङ्कः । सधर्मिणी चेच्चरितानुरोधात्कुटुम्बिनः शर्म कुतस्ततोऽपि ॥ ८३ ।। प्रपञ्चमन्नैः परिपोषयन्त्यामायें भवत्याममृतांशुमौलेः । भिक्षाटनं प्राभवजृम्भितेषु क्रीडाविभेदेषु गणेयमासीत् ॥ ८४ ॥ आतु(मात)र्भवप्रार्थनदैवमिन्दोरग्लान्तक्लुप्ताश्रयणस्य काय॑म् । क्षेप्तुं भिवोर्भिक्षुकृतां च मातः क्षमेतरा त्वं कथमन्नपूर्णा ॥ ८५ ।। (१)
१७४
काव्यमाला।
अज्ञातमन्यैरमितान्नदानादैश्वर्यमैशं भवती न्यनः (व्यनक्ति)।
प्रकाशभावं प्रमदामुखेन प्रयाति गुप्तोऽसि(पि)भृशं किलार्थः ॥८६॥
आस्तां नि........"श्मशानं वस्तां त्वचं वा विभु(वपु)रस्य भूतिम् ।
कथं विधत्तामखिलं किलेदं सत्यन्नपूर्णे तव संविधाने ॥ ८७ ॥
ईर्ष्या किमाशाय गिरं वितीर्य गणे सुराणां.........तौघे । (१)
दिवानिशं देवि सुधान्नवृष्ट्या धिनोषि यत्रीण्यपि विष्टपानि ॥ ८८ ।।
जगन्मुखारोपणकृत्कपालं पतिर्दधावित्ययशः प्रमाष्टुंम् ।
किमम्ब गृह्णासि करेण दर्वी प्रतिक्षणं विश्वजनप्रतीक्ष्याम् ॥ ८९॥
त्रैलोक्यकुक्षिभरिणा हरेण ताभ्यां च लम्बोदरषण्मुखाभ्याम् ।
अधिष्ठिते धाम्नि तवान्नभूमा जयत्ययं देवि जनार्तिहारी ॥ ९० ॥
तवास्पदं दातुमरुद्भवीना(!)माक्रान्तमुद्यानममयंसालैः ।
वेश्माभिचिन्तामणिभिः प्रणीतं विश्राणनेनास्य किमम्ब भारः॥९१ ।।
सर्वातिथि(थी)स्त्वं खलु सर्वकालं. निश्चिन्तमन्नानि दिशस्यपणे ।
न तत्र हेवन्तरमन्तरेण न्यग्रोधमालोग्रजपं प्रियं ते ॥ ९२ ।।
मातर्विशालाक्षि महार्हचेलस्रगङ्गरागप्रभृतौ खभूतिम् ।
सदोपयुङ्क्ते यदि शैलधन्वा कथं तदा ते घटतेऽन्नदानम् ॥ ९३ ।।
त्रैलोक्यसतर्पणदानजन्मा दूरे गिरां त्वत्सुकृतातिरेकः ।
आस्ते कपर्दी यदनुग्रहेण वेधोमुखामर्त्यविरामसाक्षी ॥ ९४ ॥
स्रष्टुं प्रतिष्ठापयितुं जगन्ति हतु तिरस्कर्तुमनुग्रहीतुम् ।
पितामहाद्याः प्रभवन्ति यत्ते सवित्रि दर्वी विभवः स एषः ॥ ९५ ॥
समाप्य नाथे सवनं द्वितीयमारब्धदीनागमनप्रतीक्षे ।
नवीनमन्नं नगजे भवत्या प्रदीयतां प्राधुणिकाय मह्यम् ॥ ९६ ॥
अपास्य पाण्मातुरमर्धपीतवक्षोजमम्यागतवत्सले त्वम् ।
आगत्य वेगादमृतौदनं मे पिनाकपाणिप्रमदे प्रदेहि ॥ ९७ ॥
यात्राप्रबन्धः। आनर्घमाणीकृशरापमध्यादातेन (2) कार्तस्वरदर्विकायाम् । भैक्षण. दाक्षायणि पावनेन मनोरथं पूरय मामकीनम् ॥ ९८ ॥ संतन्वतेव खमणीकलम्पटे..."धूपदेशात्कृशतानुयोगात् । हस्तेन कात्यायनि हन्त कामं विश्राणय श्रान्तिविनोदनं मे ॥ ९९ ॥ हैयङ्गवीनस्तुतिशालिहस्तनखपचं नव्यसितानमार्घम् । करस्फुरत्काञ्चनभाजनाते भवानि दिव्यं दिश पायसान्नम् ॥ १०० ।। दृशोऽनुकम्पारसदीर्घिकाया नीलारविन्दैरिव निर्जहानैः (१) । अपाङ्गपातैरनुगृह्य मातरामोदयान्नैरिममन्नपूर्णे ॥ १०१ ॥ श्रान्तः क्षुधा सायमहर्मुखे वात्यन्नं दिश द्वारमुपैमि यावत् । शिञ्जानमञ्जीरपदं समेत्य प्रयच्छ मे पार्वति तावदन्नम् ॥ १०२ ।। आविष्कृतप्रार्थनमप्यकाले वीतक्षुधं मां गिरिजे विधेहि । प्रतीक्षते किं पृथुको जनन्याः स्तन्यामृतासारसमृद्धिवेलाम् ॥ १०३ ॥ अवश्यकर्तव्यतयानुवेलं महान्ति कर्माणि सदा दिशन्ति । पर्याप्तमम्ब प्रतिपादयान्नं कर्तुं न किंचित्क्षमते बुभुक्षुः ॥ १०४ ।। नित्यानदे मे निजमूर्तिभारमचिन्तयित्वाशनमर्पयेथाः । आदाय दर्वी कचिदासिकायै जगजनन्याः समयः कुतस्ते ॥ १०५॥ दूरे क्षिपन्ती गुणदोषचिन्तामिष्टाशनैरेधय मामनव्यम् । निजे तनूजे किल निर्गुणेऽपि व्यनक्ति वात्सल्यभरं सवित्री ॥१०६॥ अन्नार्थिनं मां यदि चे नोषि कृपापराची गणये किमन्यत् । ॥ १०७॥ दर्वीपायसभाजने कलयता युग्मेन हस्ताजयो- रप्रत्यूहविभावितत्रिजगतीभिक्षाकनेत्रोत्सवां । वाचालाभरणं महानसगृहादन्नोपहारेच्छया निर्यान्ती परदेवता मम मुहुश्चिन्तापथं गाहताम् ॥ १०८॥ ..........
काव्यमाला। स्तन्याखादकृते निरुध्य पुरतः संतन्वते प्रार्थना सेनान्ये सति पूर्वकायमसकृत् स्थित्या दिशन्ती स्तनौ । अस्तखेदपयःकणां(णा)प्रणयिनो हस्तेन वक्रादुमा(मा) सृष्टान्नार्पणमर्थिनां विदधती(ती)मेधा महा(या)लम्ब(म्ब्योते॥१०९ मेरमेरमलीकचित्रकपरामर्शी श्रमाम्बोलवं दिव्यास्ते व्यजनानिलाद्धरचलोत्तंसं दधाना मुखम् (१) । चेतो मे न जहातु सा भगवती कृत्वातिथेयीं कृपा- माशी राशि]परा गिरीशवसतिं प्रत्याव्रजन्ती जनैः ॥ ११० ॥ दृढभक्तितरङ्गितक्रमामथ मश्यन्नधिकालि देवताः । अविगाढपरं मनोगिरामधितानन्दममन्दमास्तिकः ॥ १११ ।। आर्यश्चक्रसरोवगाहनियमैरश्रान्तयात्राक्रमै- रस्माकं द्विजनौहितीविरचनैरावश्यकैरथ्वरैः । विद्याव्याकरणैश्च शिष्यसदसे विश्वेशमाराधयन् वाधूलान्वयमौलिरावसदसौ वाराणसीमृद्धिमान् ॥ ११२ ।। प्रालेयाद्रिसुतासहायभजनप्रेमानुबन्धस्पृशे विद्याशीलविनीत" ......पो विश्राणनासङ्गिने । स्त्रैणपराङ्मुखाय'""करुणामूर्ति "संबिभ्रते मूर्धा संनतिमग्रजाय मंहते मोदान्मुहुः कुर्महे ॥ ११३ ॥ इति श्रीवाधूलकुलजलधिकौस्तुभस्यातिरात्रयाजिनः साहित्यगुरोः कनकाठपाठबिरुदा- इस्य वेङ्कटेशसुमतिसहधर्मिणीमण्यनन्तम्मागर्भशुक्तिमुक्तामणेः समरपुङ्गवदीक्षितस्य कृतौ चम्पूकाव्ये यात्राप्रबन्धे परिपूर्तिशोभितविलासो नाम नवम आश्वासः ॥ वीतस्पृहाय विरजस्तमसे समस्तशास्त्र [श्रुतिस्मृतिविदे समदर्शनाय । सिद्धाशिषे भगवदङ्गिसमस्तभक्तिसान्द्रप्रसन्नमनसे सदसे नमोऽस्तु ।। समाप्तोऽयं ग्रन्थः। ......
No text on this page.
No text on this page.
No text on this page.